Bharti Bhawan Library Allahabad

Vyutpattiwad

Jaydev Mishra

PDF Proofread

Front matter

महामहोपाध्याय-पण्डितराज-जयदेव शम्ममिश्राः (जीवनकालः १६११-८३ वैक्रमाब्द) ॥ श्रीगणेशाय नमः ॥ अथ व्युत्पत्तिवादः शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया श्रीदुर्गामाधवगणेशाः पान्त गदाधरं श्रीगिरिजां गणेशं प्रणम्य विश्वेश्वरपादपद्मम् । शिष्यप्रियश्रीजयदेवमिश्रो व्युत्पत्तिवादस्य तनोति टीकाम् ॥ १ ॥ सन्त्यस्य टीका विविधास्तथाऽपि परिश्रमो निष्फलतां न यायात् । द्राक्षाफले सत्यपि कि रसझर्नास्वाद्यते हृद्यरसो रसालः ॥२॥ घटादिपदात् पटादिविषयकशाब्दबोधवारणाय तत्पदजन्यतद्विषयक शाब्दबोधं प्रति तत्पदजन्यतद्विषयकोपस्थितिः कारणं वाच्यम् । घटपदात् पटोपस्थितेरभावान्न तद्विषयकशाब्दबोधः। घटपदादेः समवायसम्बन्धेन सम्बन्ध्याकाशविषयकोपस्थितिबलादाकाशविषयकशाब्दबोधवारणाय तत्- पदजन्यशाब्दबोधे तत्पदनिष्ठवृत्तिज्ञानाधीनतद्विषयकोपस्थितिः कारणम् । अाकाशोपस्थितेवृत्तिज्ञानजन्यत्वाभावान्न शाब्दबोधजनकत्वम् । नीलो घट इत्यादावभेदादेवटादिपदनिष्ठवृत्तिज्ञानाधीनोपस्थित्यभावेन शाब्दबोधस्य च सत्त्वेन व्यभिचार: स्यादित्यभेदादावपि घटादिपदस्य शक्तिरुपेयतेऽन्वि नाभिधानवादिभिः । तथा चाभेदादेः पदार्थद्वयसंसर्गस्यापि वृत्तिज्ञानाधी- नोपस्थितेस्सत्वान्न व्यभिचारः । परन्वेतादृशकार्यकारणभावेऽपि घटादि- पदात् घटविशेष्यकघटत्वप्रकारकस्येव घटप्रकारकघटत्वविशेष्यकशाब्दबो- ।

। २ व्युत्पत्तिवादः [ कारके धस्यापि बाधकामावादापत्त्या तत्पदजन्यतत्प्रकारकतद्विशेष्यकशाब्दबोधं प्रति तत्सदनिष्ठवृत्तिज्ञानाधीनतत्प्रकारकतद्विशेष्यकोपस्थिति: कारणं वाच्यं, तथा च घटादिपदात् घटप्रकारकघटत्वविशेष्यकोपस्थितेरभावान्न तादृशशाब्दबोधापत्तिः । इत्थञ्च पदार्थद्वयसंसर्गनिष्ठशाब्दवोघीयविषयता किञ्चिनिष्ठप्रकारतानिरूपितविशेष्यतानात्मकतया तादृशसंसर्गस्य वृत्ति- ज्ञानाधीनोपस्थित्यभावेऽपि व्यभिचाराप्रसक्त्या तत्र पदानां वृत्तिकल्पनम- युक्तमेवेति नैयायिकाः । परन्त्वेतेषां मते पदार्थद्वयसंसर्गभाननियामका- भावेन सर्वत्रावाधितसकलसंसर्गभानसम्भवेन नीलो घट इत्यादावभेदादेरिव स्वस्वामिभावादेरपि भानापत्तिरिति शङ्कानिराशाय स्वमते नियामकमुच्यते- शाब्दबोधे चेत्यादिना | चशब्दस्त्वर्थे संसर्गपदानन्तरं स बोध्यः । एकपदार्थ इत्यत्रानुयोगिता संप्तम्यर्थः । तत्र वृत्तित्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः । तस्याश्च निरूपकत्वसम्बन्धेन संसर्गपदार्थेऽन्वयः । अपरपदार्थस्य वृत्तित्व- सम्बन्धेन षष्ठ्यर्थप्रतियोगित्वे तस्य च निरूपकत्वसम्बन्धन संसर्गपदार्थे- ऽन्वयः। शाब्दबोध इत्यत्र निरूपितत्वं सप्तम्यर्थः । तेनैव सम्बन्धेन शाब्द- बोधस्य भासधात्वर्थविषयतायामन्वयः । तस्यामेव निरूपितत्वसम्बन्धेन सं- सामव्दार्थाऽऽकाङ्क्षान्वयितृतीयार्थपयोज्यत्वस्य स्वरूपसम्बन्धेना- न्वयः । तस्याश्चाख्यातार्थाश्रयत्वे निरूपितत्वेन तस्य च संसर्गपदार्थे स्वरू- पेणान्वयः । तथा चैकपदार्थनिष्ठानुयोगितानिरूपकोऽपर सदार्थ नष्ठप्रति- योगितानिरूपकः संसर्गः शाब्दबोधनिरूपिता आकाङ्क्षानिरूपितप्रयोज्यत्व- विशिष्टा या विषयता तन्निरूपिताश्रयत्वविशिष्ट इति संसग नुख्यविशेष्यको बोधः । शाब्दबोधे एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गभासिका समभिव्याहाररूपाऽऽकाङ्क्षैव न तु प्रकारविशेष्ययोरिव शक्तिरिति पर्यव- सितोऽर्थः । उद्दश्यतावच्छेदकव्यापकत्वं नियमेन विधेये भासते । तेनैकप- दार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वमाकाङ्क्षाप्रयोज्यशा- ब्द बोधीयविषयताश्रयत्वे लभ्यते । तेनाकाङ्क्षामन्तरा कुत्रापि शाब्दबोध एकपदार्थेऽपरपदार्थस्य संसर्गो न भासते । पश्वादिपदजन्यशाब्दबोधे लाङ्ग- प्रथमा] जयाऽलङ्कृतः ? लानुयोगिकलोमप्रतियोगिकसंसर्गस्य शक्तिभास्यस्याकाङ्क्षाप्रयोज्यशाब्द- बोधीयविषयताश्रयत्वाभावेन निरुक्तव्यापकत्वानुपपत्तिस्स्यादत एकपदार्थे- अरपदार्थस्येत्यनयोस्संसर्गविशेषणत्वम् । न चानुमितौ प्रत्यक्षे च भूतलं घटवदित्यादौ भूतलानुयोगिकघटप्रतियोगिकसंयोगादौ तादृशसंसर्गत्वरूपोद्दे- श्यतावच्छेदकस्य सत्त्वेऽपि विधेयभूतस्य निरुक्तविषयताश्रयत्वस्याभावेन व्यापकत्वानुपपत्तिस्तदवस्थैवेति वाच्यम् । एकपदार्थानुयोगिकापरपदार्थ- प्रतियोगिकसंसर्गवृत्ति संसर्गत ख्यशाब्दबोधीयविषयतामुद्दिश्याकाङ्क्षाप्रयो- ज्यत्वस्यैव विधानेनानुपपत्त्यभावात् । न च निरुक्तविषयतायास्तेन रूपेणा- भानात् कथं तेन रूपेणोद्देश्यतेति चेत्-न । उद्देश्यताविधेयतयोर्विशेष्यता- प्रकारतानात्मकतयोद्देश्यत्वे उद्देश्यतावच्छेदकरूपेण भासमानत्वस्या- तन्त्रत्वात् । अथैकपदार्थ इत्यत्रत्यैकत्वस्यापरपदार्थ इत्यत्रत्यापरपदार्थस्य च कुत्रा- न्वयः-पदे पदार्थे वा ? नाद्यः । तथा सत्येकं यत्पदन्तदर्थानुयोगिकोऽपरं यत्पदन्तदर्थप्रतियोगिकस्संसर्ग इति बोधः । तत्रापरत्वं भेदः । स च यद्येक- पदत्वावच्छिन्नप्रतियोगिताकस्तदाऽप्रसिद्धिरेकपदत्वस्य पदमात्रवृत्तित्वात् । योकपदनिष्ठप्रतियोगिताकस्ताव्यावत्तंकत्वं द्वित्वादिनैकपदनिष्ठप्रति. योगिताकभेदस्य स्वस्मिन्नपि सत्त्वात् । न च पदविशिष्टः संसर्ग श्राकाङ्क्षा- भास्यः । वैशिष्टयं स्वार्थानुयोगिकत्वं स्वनिष्ठप्रतियोगिताकभेदवत् यत्पद- न्तदर्थप्रतियोगिकत्वमित्युभयसम्बन्धेन । तत्र भेदस्तद्व्यक्तित्वावच्छिन्नप्रति- योगिताक इति ग्रन्थकृतस्तात्पर्यमिति वाच्यम् । घटपदपशुपदादिस्थले घटत्वादिसंसर्गस्य व्यवच्छेदेऽपि एवपदस्थले दोषात् । तत्र हि नान्ययोग- व्यवच्छेदत्वावच्छिन्ननिरूपिता शक्तिरन्ययोगव्यवच्छेदाप्रसिद्धः । किन्तु अन्ययोगे व्यवच्छेदे च खण्डशः शक्तिः । व्यवच्छेदे अन्ययोगस्य स्वनिष्ठ- प्रतियोगिताकत्वरूपः संसर्ग आकाङ्क्षाभास्यः । तत्र पदान्तरस्याभावेन तत्संसर्गस्यासंग्रहापत्तिः। नात्यः। तत्पक्षे यद्यपि आद्यपक्षोक्तदोषद्वय- वारणाय पदार्थविशिष्टः संसर्ग इत्यत्रैव तात्पर्य वक्तुशक्यते। वैशिष्ट्यञ्च व्युत्पत्तिवादः [कारके स्वानुयोगिकत्वस्वेतरार्थप्रतियोगिकत्वोभयसम्बन्धेन । एवस्थले पदार्थय- रन्ययोगव्यवच्छेदयो देन दोषाभावस्तथापि अभेदान्वयस्थले नीलो घट इत्यादौ प्रतियोगिन एवानुयोगित्वेन दोषादिति चेत्-अत्रोच्यते । धर्मविशिष्टः संसर्गः संसर्गमदिया भासते । वैशिष्ट्य स्वावच्छिन्नानुयोगितानिरूप- कत्वस्वेतरधर्मावच्छिन्नप्रतियोगितानिरूपकत्वोमयसम्बन्धेन । एवशब्द- स्थले च व्यवच्छेदत्वधर्मान्ययोगत्वधर्मावादाय समन्वयः । नन्वेवमपि पशुपदे लागूलत्वमादाय लोमप्रातेयोगिकसंसर्गेऽपि शक्तिभास्ये धर्मा- विशिष्टसंसर्गत्वरूपोद्देश्यतावच्छेदकस्य सत्त्वेऽप्याकाङ्क्षाभास्यत्वरूपविधे- यस्याभावेनोद्दश्यतावच्छेदकव्यापकत्वंस्याकाद्धाभास्यत्वरूपे भङ्गापत्तिः । राशो राजा राजराज इत्यादौ वाक्ये समासे स्वस्वामिभावरूपसंसर्गस्य राजत्वे राजत्वभेदाभावेनाकाङ्नाभास्यत्वानापत्तिश्च । समवायेनाभावो नास्तीत्यादौ नत्रर्थाभावेऽभावपदार्थप्रतियोगिकस्य स्वनिष्ठप्रतियोगिताकत्व- स्याभावत्वप्रतियोगिकस्य स्वावच्छिन्न प्रतियोगिताकत्वस्य च संसर्गस्याकाङ्- क्षाभास्यत्वानापत्तिश्च प्रतियोगितावच्छेदकस्याभावत्वस्यानुयोगितावच्छेद- काभास्यत्वभिन्नत्वाभावादभावत्वनिष्ठप्रतियोगितायाश्च निरवच्छिन्नत्वादिति चेत्-न । उपस्थितीयविशेष्यताविशिष्टः संसर्ग इत्यर्थनादोषात् । वैशि- पृयञ्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्वनिरूपितत्वाभाववदुपस्थितीयविष- यताप्रयोज्यप्रकारतानिरूपकत्वोभयसम्बन्धेन । घटपश्वादिस्थले च समवाय. सम्बन्धीयप्रकारताविशेष्यताप्रयोजकयोरुपस्थितीयघटत्वघटनिष्ठयोः प्रकार- ताविशेष्यतयोर्लाङ्गुलनिष्ठविशेष्यतालोमनिष्ठप्रकारताप्रयोजकयोरुपस्थि- तोयलाङ्गेललोमनिष्ठविशेष्यतयोश्च निरूप्यनिरूपकभावात् । राज्ञो राजे- त्यादौ समवायेनाभावो नास्तीत्यादावपि प्रतियोग्यनुयोगिवाचकविभिन्न राज- पदजन्योपस्थितीयराजनिष्ठविषयतयोरभावनपदजन्योरस्थितीयाभावनिष्ठ- विषयतयोश्च शाब्दबोधीयप्रकारताविशेष्यताप्रयोजकयं रभिन्नतया निरूप्य- निरूपकाभावविरहात् । न च अभावत्वप्रतियोगिकस्वावच्छिन्नप्रतियोगि- ताकत्वसंसर्गस्यासंग्रह एव । अभावपदजन्योपस्थितीयाभावत्वनिष्ठविषय- प्रथमा ] जयाऽलङ्कृतः ताया नञ्पदजन्योपस्थितीयाभावनिष्ठविषयतानिरूपिताभावत्वनिष्ठविषय- ताभेदे मानाभावेनाभावनिष्ठविषयतानिरूपितत्वादिति वाच्यम् । अभाव- स्यैव स्ववृत्त्यभावत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धन नअर्थाभावेऽन्वयात् । स्वप्रयोजक वृत्तिज्ञानीयविषयत्वानिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थि- तीयविषयताप्रयोज्यप्रकारतानिरूपकत्वसम्बन्धस्य द्वितीयसम्बन्धस्थाने निवेशनीयत्वाच्च । अभावपदनिष्ठवृत्तिज्ञानीयविषयताया नपदनिष्ठ- वृत्तिज्ञानीयविषयताया निरूप्यनिरूपकभावविरहेणासङमहासम्भवात् । न च समवायस्यैकत्वेन घट इत्यादौ विभक्त्यर्थैकत्वप्रतियोगिकाकाङ्क्षामा- स्यसमवायादभिन्नस्य घटत्वप्रतियोगिकसमवायस्य वृत्तिभास्यस्य संग्रहा- पत्तिः । एकत्वप्रतियोगिकसमवायस्योपस्थितीयविषयताविशिष्टत्वे घटत्व- प्रतियोगिकस्य तस्य न तत्त्वमित्यस्य वक्तुमशक्यत्वादिति वाच्यम् । सम- वास्यैकत्वे एकत्वप्रतियोगिकसमवाय आकाङ्क्षाभास्यो घटत्वप्रतियोगिकः समवायो नाकाङ्क्षाभास्य इत्यस्यापि वक्तुमशक्यतयेष्टत्वस्यैवाङ्गीकरणी- यत्वात् । न च घटत्वनिष्ठप्रकारतानिरूपिता समवायनिष्ठा संसर्गता श्राकाङ्क्षाप्रयोज्येति व्यवहारापत्तिः, तस्या घटपदनिष्ठवृत्तिप्रयोज्यत्वस्यैव सत्वेनेष्टापत्तेरयोगात् । निरुक्तोपस्थितीयविषयताविशिष्टसंसर्गनिष्ठसं- सर्गताया एवाकाङ्क्षाप्रयोज्यत्वादिति वाच्यम्, उपस्थितीयविषयता- विशिष्टा संसर्गता आकाङ्क्षाप्रयोज्येत्यत्रैव तात्पर्यात् । वैशिष्टय स्वप्रयो- ज्यविशेष्यतानिरूपितत्वस्वप्रयोजकवृत्तिशानीयविषयत्वानिरूपितवृत्तिज्ञानी- यविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपितत्वोमयसम्बन्धे- न । समवायैकत्वेऽपि संसर्गतयो देनाकाङ्क्षाप्रयोज्यत्वाप्रयोज्यत्वयो- रुपपत्तरिति दिक्। वृत्तिज्ञानीयविषयत्वाप्रयोज्या संसर्गता आकाङ्क्षाप्रयोज्या । उपस्थि- तीयविषयत्वाप्रयोज्या शाब्दबोधीया संसर्गता आकाङ्क्षाप्रयोज्येत्याद्यपि वक्तुं शक्यत इति केचित् । तन्न । नीलो घट इत्यादिवाक्यजन्यशानविषयों- ऽभेदो वृत्तिभास्य श्राकाङ्क्षाभास्यो वेति संशये नैयायिकेनाकाङ्क्षाभास्य ६ व्युत्पत्तिवादः [ कारके भासते। स च क्वचिदभेदः । कचिच्च तदतिरिक्त एवाधाराधेयप्रति- इत्युच्यते । मीमांस केन वृत्तिभास्य इत्युच्यते । तस्मिन् समये वृत्तिभास्व. त्वस्य वृत्त्यभास्यत्वस्य वा निश्चयाभावेन वृत्त्यभास्यत्वादेराकाङ्क्षाभास्य- त्वोद्देश्यतावच्छेदके प्रवेशानहत्वात् । घटो नास्तीति नेत्यत्र घटसत्ताभावा- भावः प्रतीयते । नद्यनिष्ठवृत्तिज्ञानयोः समानाकारकतया तदीयविषयत- योरभावद्वयोपस्थितिद्वयविषयताप्रयोजकतया नअर्थाभावत्वनिष्ठप्रकारता- प्रयोजकोपस्थितीयविषयताप्रयोजकवृत्तिज्ञानीयविषयताया अपरनञर्थाभाव- निष्ठविशेष्यताप्रयोजकोपस्थितिविषयताप्रयोजकवृत्तिज्ञानीयविषय तानिरूपि- तत्वाभावविरहेण स्वावच्छिन्न प्रतियोगिताकत्वसंसर्गस्यासंग्रहस्तु नापाद्यः । तत्र घटसत्ताभावत्वस्यैवावच्छिन्नप्रतियोगितयाऽन्वयेन तन्निष्ठप्रकारताप्रयो- जकत्वस्य परम्परया घटनिष्ठवृत्तिज्ञानीयविषयताया अपि सत्त्वेन तस्या- श्चाभावनिष्ठविशेष्यताप्रयोजकवृत्तिज्ञान.यविषयतानिरूपितत्वविरहेणापत्त्य- भावादिति दिक् । स च संसर्गः क इति जिज्ञासायामाह क्वचिदभेद इत्यादि । आधार'- धेय इत्यादेः प्रत्येक भावेत्यत्रान्वयेन आधाराधेयभावः प्रतियोग्यनुयोगि- भावो विषयविषयिभाव इत्यर्थः । यद्यपि न्यायसिद्धान्ते प्राधाराधेयभाव इत्यादेः समुदितस्य न सम्बन्धता क्वचिदस्ति तथापि वैयाकरणम् तेनास्य ग्रन्थस्य सत्त्वान्ना संगतिः । तन्मते 'सम्बन्धो हि सम्बन्धिभ्यां भिन्नः, द्विष्ठ' इत्यादिभाष्यात् प्रतियोग्यनुयोगिनिष्ठस्यैव आधारतानिरूपिताधेयतेत्यादि क्रमेण समुदायस्य सम्बन्धत्वात् । भूतले घटः, घटो नास्ति, घटज्ञानमि- त्यादौ क्रमेण तेषां सम्बन्धानां प्रतीतिः । न च न्यायमतेनैव आधारत्व- माधेयत्वं प्रतियोगित्वमनुयोगित्वं विषयत्वं विषयित्वं सम्बन्ध इत्यर्थसम्भ- वेनायं ग्रन्थोऽस्तु स्वरूपसम्बन्धनाधारे निरूपकत्वसम्बन्धेनाधये सत्त्वेना- धारत्वादेरपि द्विष्ठत्वस्योपपादनसम्भवादिति वाच्यं, अनुयोगिनिष्ठस्यैव सम्ब- न्धत्वेनाधेयत्वानुयोगित्वविषयित्वानां सम्बन्धत्वेऽप्याघारत्वप्रतियोगित्वta प्रथमा जयाऽनड्कृतः योग्यनुयोगिविषयविषयिभावादिः। अभेदश्च प्रातिपदिकार्थे स्वस- मानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव विषयत्वानां संसर्गतया क्वचिदप्यभानात् । यद्यपि द्विष्ठत्वाभावेनाभेदस्य वैयार र गमते सम्बन्धत्वाभावस्तथापि विशिष्टबुद्धित्वहेतुकानुमितिसिद्धस्य नीलो घट इत्यादौ नीलविशिष्टघटबुद्धौ सम्बन्धावगाहित्वस्यान्यथाऽनु- पपत्त्या तस्य सम्बन्धत्वं कल्प्यते नैयायिकैरिति भावः । दुरधिगमेऽस्मन् शास्त्रे शिष्यस्य झटिति प्रवेशायाभेदस्य सूचीकटा- हन्यायेनोद्देशक्रमेण च संसर्गतया भानस्थलं तावदाह-प्रातिपदिकार्थे इत्यादि । अनुयोगित्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन, तस्य चाभेदे निरूपकत्वसम्बन्धेनान्वयः। उपस्थापितस्येत्यत्र वृत्तित्वसम्बन्धेन प्रकृत्यान्वितषष्ट्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेन तत्रैवाभेदे- ऽन्वयः । तथा च प्रातिपदिकार्थनिष्ठानुयोगितानिरूपकः स्वसमान विभक्ति- कस्वाव्यवहितपूर्वान्यतरपदोपस्थाप्यार्थनिष्ठप्रतियोगितानिरूपकाभेद आ- काङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थः । अननुगमवारणाय प्रातिपदिकवि- शिष्टोऽभेद आकाङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थ इति वक्तव्यम् । वै- शिष्टयञ्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्वविशिष्टपदप्रयोज्यप्रकारतानि- रूपकत्वोभयसम्बन्धन । तत्र वैशिष्ट्यं स्वप्रकृतिकविभक्ति सजातीयविभक्ति- प्रकृतित्वस्वाव्यवहितपूर्ववृत्तित्वान्यतरसम्बन्धेन । नीलो घट इत्यादौ घट- रूपप्रातिपदिकविशिष्टो भेदः । तत्र घटरूपप्रातिपदिकस्य नीलेऽन्यतरघटक श्राद्यः सम्बन्धः । नीलघट इत्यादौ समासे च घटस्य नोले द्वितीयः सः। अत्र नाभेदत्वावच्छेदेन प्रातिपदिकविशिष्टाकाङ्क्षाप्रयोज्यसंसर्गतावत्त्वं विधी- यते । अत्र प्रातिपदिकवैशिष्टयं पूर्वोक्तसम्बन्धेनैव संसर्गतायां बोध्यम् । तथा सत्यभेदत्वव्यापकत्वं तादृशसंसर्गतारूपविधेये प्रतीयेत । तच्च न सम्भवति। स्तोकं पचतीत्यादिक्रियाविशेषणस्थले व्यभिचारात् । किन्तु प्रातिपदिक- प्रयोज्यविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतात्वावच्छेदेन प्रातिपदिकविशिष्ट- व्युत्पत्तिवादः [कारके संसर्गमर्यादया भासते यथा नीलो घटोनीलघटमानयेत्यादौ घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य । नीलस्य घट इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् । स्वसमानविभ- पदप्रयोज्यप्रकारतानिरूपितत्वविशिष्टमाकाङ्क्षाप्रयोज्यत्वं विधीयते । प्राति- पदिकवैशिष्टय पूर्ववत् । निरूपितत्ववैशिष्ट्यं सामानाधिकरण्येन । न च क्रियाविशेषणस्थलीयाभेदसंसर्गताया असंग्रह इति वाच्यम् । इष्टापत्तेः । तत्र नियामकान्तरस्यैव वक्ष्यमाणत्वात् । न चाईपिप्पलीत्यादिपूर्वपदार्थ- प्रधानसमासे व्यभिचारस्तत्रैकदेशिसमासस्य प्रत्याख्याने न पूर्वपदार्थार्धानु- योगिकपिप्पलीरूपोत्तरपदार्थप्रतियोगिकाभेदस्य संसर्गमर्यादया भासमान- त्वादिति वाच्यं, अन्यतरसम्बन्धस्थाने स्वाव्यवहितोत्तरत्वस्य पूर्वोक्तसम्ब- न्धद्वयसहितस्यान्यतमत्वेन प्रवेशनीयत्वात् । पिप्पल्यादिपदस्यैव पिप्पल्य- ‘दौ लक्षणा । पूर्वपदञ्च तत्रैव तात्पर्यग्राहकमित्यस्य वक्ष्यमाणत्वेनाभे- दस्याकाक्षामास्यत्वाभावाच्च । नतु विरुद्ध विभक्निमदिति । विरुद्धत्वञ्च स्वप्रकृतिकविभक्त्यपेक्षया बोध्यम् । तत्वञ्च तादृशविभक्तिनिष्ठो यः प्रथमात्वाद्यन्यतमस्तदभाव- वत्त्वम् । यथा नीलस्य घट इत्यादौ घटप्रकृतिकसुविभक्तिनिष्ठः प्रथमा- वाद्यन्यतमः प्रथमात्वन्तदभाववत्त्वं नीलप्रकृतिकङस्विभक्तौ । तत्र हेतुमाह-नालस्य घट इत्यादौ नील घटाभेदान्वयबोधस्य सर्वानु- भवविरुदत्वादिति । प्रयोज्यत्वं सप्तम्यर्थः । तस्य स्वप्रकारकत्वसम्बन्धेनानु- भवेऽन्वयः । अनुभवविरुद्धत्वञ्चानुभवविषयत्वाभावरूपम् । तथा च नील- घटाभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्वप्रकारको यः सर्वानुभवस्तद्विषयत्वाभावादित्यर्थः । नीलघटाभेदान्वयबोधो नीलस्य घट इत्यादिवाक्यप्रयोज्य इत्याकारकानुभवाभावादिति भावः । प्रातिपदिक वैशिष्टयनियामकसम्बन्धघटकस्वसमानविभक्तिकत्वं किमित्याशङ्कायामाह । ।

६ प्रथमा] जयाऽलङ्कृतः क्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तुसमानानुपूर्वीकत्वं साजा- -स्वसमानविभक्तिकत्वाचेति । विभक्तिविभाजति स्वनिष्ठो यो विभक्तिविभाजकः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वमित्यर्थः । ननु किमिदं विभक्तिविभाजकत्वम् ? न तावद्विभक्तित्वविशिष्टत्वं स्वव्याप्यत्वस्वव्याप्याव्याप्यत्वोभयसम्बन्धेन । विभक्तित्वव्याप्यसुप्त्वव्या- प्यत्वेन प्रथमात्वादेविभक्तिविभाजकत्वानापत्तेः। न च विभक्तित्वव्याप्य- त्वमेव विभक्तिविभाजकत्वमिति प्रथमात्वादौ नाव्याप्तिरिति वाच्यं, सुत्वादीनामपि विभक्तित्वव्याप्यत्वेन तत्त्वापत्तेः । न चेष्टापत्तिः । श्राकाश- स्वादावपि तथा सति पदार्थविभाजकत्वस्यैष्टव्यतया 'आकाशत्वञ्च न पदार्थविभाजकोपाधि रिति मुक्तावलीप्रत्यक्षखण्डोक्तग्रन्थस्यासङ्गत्यापत्तेः। नन्वत्र विभक्तिपदं सुप्परम् । तथा च सुब्विभाजकधर्मेणेत्यर्थः । सुब्बि- भाजकत्वञ्च सुप्त्वव्याप्यत्वे सति सुप्त्वव्याप्याव्याप्यत्वमिति न प्रथमात्वादा- वव्याप्तिरिति चेत्-न । सुप्त्वव्याप्यसर्वनामस्थानत्वव्याप्यत्वेन तस्या दुर्वा- रत्वात् । न च नपुंसकप्रकृतिकस्वादौ सर्वनामस्थानत्वाभाववति प्रथमात्वस्य सत्त्वेन तदव्याप्यत्वाददोष इति वाच्यं, टादिसुप्पय॑न्तस्थितेन सुप्त्वव्या- प्येनाऽऽप्त्वेन व्याप्यत्वात् तृतीयात्वादावव्याप्तेर्वारत्वात् । अत्रोच्यते-सुप्त्वविशिष्टत्वं सुविभाजकत्वम् । वैशिष्ट्यञ्च स्वव्या- प्प्यत्वस्वव्याप्याव्याप्यत्वोभयसम्बन्धेन । द्वितीयसम्बन्धघटके स्वव्याप्ये स्व- व्याप्यविशिष्टभिन्नत्वमपि देयम् । तत्र वैशिष्ट्यं स्वसामानाधिकरण्यस्वा- भावसामानाधिकरण्योभयसम्बन्धन । प्रथमात्वादौ सुप्त्वस्य स्वव्याप्यत्वं स्वव्याप्यविशिष्टभिन्नं यत्स्वव्याप्यन्तदव्याप्यत्वमप्यस्तीति लक्षणसमन्वयः। प्राप्त्वं तु तृतीयात्वविशिष्टमेव । उदासीने घटत्वादावतिव्याप्तिवारणाय प्रथमः सम्बन्धः । न च स्वस्यापि स्वव्याप्यत्वेन सुप्त्वेऽतिव्याप्तिः। श्राद्य- १० व्युत्पत्तिवादः [ कारके सम्बन्धस्थाने स्वभिन्नत्वस्वव्याप्यत्वोभयसम्बन्धेन स्वविशिष्टत्वनिवेशनात्। सुत्वादावतिव्याप्तिवारणाय द्वितीयः सम्बन्धः। सुप्त्वव्याप्यं यदाप्त्वन्त- द्वयाप्यत्वेन तृतीयात्वादावव्याप्त्यापत्या द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्याप्यविशिष्टभिन्नत्वं निवेशितम्। प्राप्त्वे सुप्त्वव्याप्यतृतीयात्वादिवि- शिष्टत्वमेव न तु तद्विशिष्टभिन्नत्वम् । यत प्राप्त्वस्य तृतीयात्वसामानाधि- करण्यं टादिकमादाय तदभावसामानाधिकरण्यं प्रभृतिमादाय तेनाप्त्व- व्याप्यत्वेऽपि निरुक्ताव्याप्यत्वेन तृतीयात्वादावव्याप्त्यभावः । न च सुत्वादौ सुप्त्वव्याप्यप्रथमात्वादिव्याप्यत्वादेवातिव्याप्तिभङ्गो वाच्यः। स च न सम्भवति । प्रथमात्वादेहि सुत्रौ एतदन्यतरत्वादिकं सुप्त्वव्याप्यन्तद्विशिष्ट- त्वमेव । न तु तद्भिन्नत्वमिति वाच्यं, स्वव्याप्यविशिष्टभिन्नत्वस्थाने स्व- विशिष्टविशिष्टभिन्नत्वस्य निवेशनात् । तत्र चरमवैशिष्टयं पूर्वोत्तमेव आद्यञ्च स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन । तथा च निरुक्ता- न्यतरत्वमादाय नोक्तदोषः। तस्य सुप्त्वव्याप्यत्वेऽपि सुप्त्वव्याप्येन सुत्वेन घटितत्वात् । न चैवमपि सु अम् एतदन्यतरत्वे अतिव्याप्तिः। तत्र सुप्त्व- व्याप्यत्वसुप्त्वव्याप्याव्याप्यत्वयोः सत्त्वादिति वाच्यं, स्वव्याप्यावटितत्व- स्यापि तृतीयस्य सुप्त्ववैशिष्टयघटकस्य स्वीकारेण तादृशान्यतरत्वादेः सुप्त्वव्याप्यसुत्वादिघटितत्वेनातिव्याप्त्यभावात्। तथा च सुप्त्वविशिष्टोधर्मः सुविभाजकः । वैशिष्टयञ्च स्वविशिष्टत्वस्वविशिष्टाव्याप्यत्वस्वव्याप्या- घटितत्वैतत्त्रितयसम्बन्धन । आद्य स्वव्याप्यत्वस्वभिन्नत्वोभयसम्बन्धेन वैशिष्टयम् । द्वितीये स्वव्याप्यत्वस्वविशिष्टविशिष्टभिन्नत्वोमयसम्बन्धेन वैशिष्टयम् । तत्राद्यवैशिष्टय स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन । द्वितीयवैशिष्टयं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्ब- न्धेन । सर्वेषां विशेषणानां फलानि पूर्वमुक्तानि । नन्वेवं सति विभक्तिविभाजक:प्रथमात्वादिक एव । तथा च प्रथमात्वा- दिकथनं व्यर्थमेवेति चेत्-न। पर्य्यवसितस्यैव स्पष्टतया कथनात् । स्ववृत्तिर्यः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वं स्ववृत्तियः सुपविभाजकस्तद्वत्त्वं वा साजा- । प्रथमा जयाऽलङ्कृतः ११ त्यमिति कथनेऽपि क्षत्यभावः । सुप्त्वविशिष्टसंख्यावत्वं सुब्विभाजकत्वम् । संख्यायां सुप्त्ववैशिष्टय स्वव्यापकत्वस्वव्याप्यवृत्तित्वस्वाव्याप्यावृत्तित्वस्व- व्याप्यविशिष्टभिन्नत्वैतच्चतुष्टयसम्बन्धेन । व्याप्यतावच्छेदकः स्वरूप- सम्बन्धो व्यापकतावच्छेदकश्च स्वाश्रयाश्रयत्वसम्बन्धः । सा च सङ्ख्या प्रथमात्वादिषु सप्तसु वर्तमाना सप्तत्वसंख्या तद्वत्त्वं प्रथमात्वादिषु सप्तसु । यत्र यत्र स्वरूपसम्बन्धेन सुप्त्वन्तत्र तत्र स्वाश्रयाश्रयत्वसम्बन्धेन प्रथमा- त्वादिनिष्ठं सप्तत्वमिति व्याप्तिः। तस्याञ्च सङ्ख्यायां सुप्त्वस्य व्याप- कत्वं तस्य व्याप्थं प्रथमात्वादि तद्वृत्तित्वं तस्याव्याप्यं घटत्वादि तदवृत्तित्वं, तस्य व्याप्यं प्रथमात्वादि तद्वशिष्टयन्नास्ति । ततो वैशिष्टयं स्ववृत्तित्वस्वे- तरस्वसमानाधिकरणवृत्तित्वोभयसम्बन्धेन । तत्राद्यसम्बन्धसत्त्वेऽपि द्वितीयो नास्तीति तद्विशिष्टभिन्नत्वं सङ्ख्यायामिति लक्षणसमन्वयः। प्रथमात्वा- दिगतषट्त्वनिरासाय स्वव्यापकत्वम् । सुत्वसहितप्रथमात्वादिगताष्टत्ववा- रणाय स्वव्याप्यविशिष्टभिन्नत्वम्बध्यमित्यपि केचित् । न तु समानानु पूर्वीकत्वमिनि । तथा सति हि स्वप्रकृतिकविभक्ति- समानानुपूर्वी कविभक्तिकेनेत्यर्थस्स्यात् । तथा च वेदाः प्रमाणमित्यादौ दोषः । स्वसमानानुपूर्वीकत्वञ्च स्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेद- कधर्मावच्छिन्नाघटितत्वस्वघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मा- वच्छिन्नाघटितत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तितावत्वोभयसम्बन्धेन स्वविशिष्टत्वं यथा घटसमानानुपूर्वीको घटस्तत्र स्वं घटस्तद्घटको धकारो घशब्दः टशब्दः टकारोऽकारश्च । तदवृत्तिः श्रावणप्रत्यक्षविषयतावच्छेदको धर्मः पत्वादिस्तदवच्छिन्नपकाराद्यघटितत्वं घटशब्दे । स्वस्मिन् घटशब्दे द्वितीयो घटशब्दः पूर्वोक्तसम्बन्धेन वर्त्तत इति तत्सम्बन्धावच्छिन्नस्वनि- रूपितवृत्तितावत्वमप्यस्तीति लक्षणसमन्वयः । घटशब्दे नीलघटसमुदाय- समानानुपूर्वीकत्ववारणाय द्वितीयः सम्बन्धः। तत्र समुदाये हि तेन सम्बन्धन घटशब्दस्यावर्त्तनात्तत्समुदायनिरूपिततत्सम्बन्धावच्छिन्नबृ त्ततावत्वस्य घट- शब्देऽभावः । ताललता सररसेत्यादीनाञ्च न समानानुपूर्वीकत्वम् । ताल- -- व्युत्पत्तिवादः [कारके त्यम् । वेदाः प्रमाणं शतं ब्राह्मणा इत्यादावन्वयबोधानुपपत्तेः । ननु 'विंशत्याद्याः सदैकत्वे' इत्यनुशासनात् शतं ब्राह्मणा इत्यादेः साधुत्वेपि वेदाः प्रमाणमित्यादयः कथं प्रयोगाः, विशेष्य- शब्दघटकावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदको धर्मोलशब्दोत्तरतकारत्वन्त- दवच्छिन्नलतशब्दघटितत्वस्यैव लताशब्दे, सरशब्दघटकावृत्तिस्तादृशो धर्मो रशब्दोत्तरसकारत्वन्तदवच्छिन्नरसशब्दघटितत्वस्यैव रसशब्दे सत्त्वादिति दिक् । बोधानुपपत्तरिति । तृतीयान्तसुन्दाभ्यां समभिव्याहृतचतुव॑न्त- घटाभ्यामित्यतोऽपि समानानुपूर्वीकत्वसत्त्वादभेदान्वयबंधापत्तश्चेत्यपि बोध्यम् । सिद्धान्ते तु प्रथमात्वादिना साजात्यविरहान्न दोषः । ननु नीलो घटा इत्यादावभेदान्वयवारणाय तत्र समानवचनत्वस्य प्रयोजकतया वेदाः प्रमाणमित्यतो बोधस्यैवाभाव इति तदनुरोधोऽसङ्गत इत्याह-नन्विति । सदैव इति । सदैकवचनान्ता इत्यर्थः । प्रसति बाक इति । नियतवचनत्वानुशिष्टभिन्नविशेष्यविशेषणवाचकपदयोस्समानवचन- त्वमभेदान्वयप्रयोजकमित्यर्थः । समानलिङ्गकत्वञ्च स्ववृत्तिपुंल्लिङ्गत्वस्त्री- लिङ्गत्वनपुंसकलिङ्गत्वान्यतमधर्मवत्त्वम् । पुंल्लिङ्गत्वादिकञ्च पुंस्त्वस्त्री- त्वनपुंसकत्वबोधकत्वमेव । पुंस्त्वादिकञ्च प्राण्यप्राणिसाधारणं सत्त्वादि- गुणानामुपचयापचयसाम्यरूपं, प्राणिवृत्ति च लिङ्गयोनितदभावरूपम् । तत्र गुणदोषावप्रकृतत्वाद्विस्तरभयाच्च न विचाय॑ते । इति हेतुस्तदुद्भव इति । 'शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्ष- णात्। काव्यशशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे' इति मम्मटकारिका । शक्तिः संस्कारविशेषः, लाककाव्यशास्त्राद्यवेक्षणजन्या निपुणता व्युत्पत्ति- विशेषः, यः काव्यं करोति जानाति च तदुपदेशेन काव्यकरणयोजनादौ पौनःपुन्येन प्रवृत्तिरभ्यासः, इति त्रयः समुदिता हेतुरिति तस्या अर्थः । है प्रथमा जयाऽलङ्कृतः विशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनिय- मात् । अन्यथा घटा नील इत्यादेरपि साधुताप्रसङ्गात् । समान- लिङ्गकस्थले तथा नियमोपगमेन वेदाः प्रमाणमित्यादेः साधुत्वोप- पादनेऽपि 'इति हेतुस्तदुद्भवे' इति कारिकाया इति 'त्रयः समुदिता हेतु'रिति काव्यप्रकाशव्याख्याया असंगतिर्दोरैव । एवमसमान- लिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदा- नन्तरं प्रयोक्तुमुचितमिति 'प्रत्यक्षानुमानोपमानशब्दा प्रमाणानि' पितरो देवता इत्यादेरनुपपत्तिः । मैवम् । यत्र विशेष्यवाचकपदो- यत्र विशेष्यवाचकेत्यादि । यत्रेति । वाक्य इति शेषः। घटकत्वं सप्तम्यर्थः पदेऽन्वेति । वाचकेति।बोधकेत्यर्थः। तेन लाक्षणिकविशेष्यपदस्य नासङ्ग्रहः। उत्तर श्वञ्चोत्तरत्वेनानुसन्धीयमानत्वम् । तेन दध्यादिविशेष्यबोधकपदोत्तर- विभक्तेरसत्त्वेऽपि न दोषस्तदनुसन्धानस्य सत्त्वात् । विभक्तिपदानुपादाने विशेष्यवाचकपदोत्तरयत्किञ्चित्पदतात्पर्येत्येव कथने सुन्दरं दधि बहवो गुणा इत्यादौ सौन्दर्य एकत्वविवक्षायां विशेष्यवाचकदधिपदोत्तरबहुपद- तात्पर्य्यविषयबहुत्वविरुद्धकत्वस्य विवक्षिततया समानवचनत्वानुपपत्तिर्विभ- क्तिनिवेशे तत्तात्पर्य विषयैकत्वसंख्याविरुद्धत्वासम्भवान दोष इति तु न युक्तमुक्तग्रन्थेन तादृशाविवक्षितत्वे समानवचनत्वव्याप्यत्वस्यैव लाभेन व्याप्यविरहस्य व्यापकाभावापादकत्वासम्भवात् । अयोगे.लके धूमाभावेऽपि वह्नयभावादर्शनात् किन्तु विभक्तिपदं स्पष्टार्थमेव । प्रमाणं वेदशाखा एकत्वं प्रमेयमित्यादौ विशेष्यवाचकपदाव्यवहितोत्तरत्वनिवेशेनैवान्यत्रावश्यकेन' निर्वाहात् विभक्तितापर्यविषयेत्यस्य विभक्तिजन्यबोधविषयत्वेनेच्छाविषये- त्यर्थः । यथाश्रुते तु वेदाः प्रमाणमित्यादावपि प्रमाणपदोत्तरविभक्तिजन्य- बोधविषवत्वेनेच्छाविषयोभूतैकत्वे वेदपदोत्तरजस्पदजन्यबोधविषयो बहुत्वं १४ न्युत्पत्तिवादः [कारके त्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र । घटादिपदोत्तरसुपदजन्यबोधविषय एकत्वञ्च भवत्विति समूहालम्बनात्म- कतात्पर्य्यस्यापि विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यत्वात्तद्विषयैकत्वसं- ख्याविरुद्धत्वाभावेन विशेष्यवाचकपदोत्तरविभक्तितात्पर्य्यविषयसंख्याविरु- द्धसंख्याविवक्षितत्वाभावसत्त्वेन समानवचनत्वापत्तिः । इदानीन्तु एकत्वस्य वेदपदोत्तरजस्पदजन्यबोधविषयत्वेनेच्छाविषयत्वाभावान्न दोषः । संख्या- विरुद्धत्वञ्च संख्या सामानाधिकरण्यं तादृशतात्पर्यविषयतावच्छेदक- संख्यात्वव्याप्यधर्मावच्छिन्नभिन्नत्वं वा। अविवक्षितत्वमिति । विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्व- मित्यर्थः । तस्यस्य तद्वाक्ये इत्यर्थः । सप्तम्यर्थघटकत्वस्य विशेष्यविशेषण- पदयोरन्वयः । तथा च यद्वाक्यर्घटकविशेष्यबोधकपदोत्तरविभक्तिजन्य बोध- विषयत्वेनेच्छीयविशेष्यतावच्छेदकसंख्यात्वव्याप्यजात्यवच्छिन्नभिन्नसंख्याया विशेषणबोधकपदोत्तरविभक्त्याऽविवक्षितत्वं तद्वाक्यघटकविशेष्यविशेषणप दयोस्समानवचनत्वमित्यर्थः । समानवचनत्वञ्च स्त्रोत्तरविभक्तिवृत्त्येक वचनत्वद्विवचनत्वबहुवचनत्वान्यतमधर्मवद्विभक्तिकत्वम् । न चैवं सुन्दरो घटमित्यादावपि समानवचनत्वसत्त्वादभेदान्वयापत्तिरिति वाच्यम् । समान- विभक्तिकत्वस्यापि प्रयोजकत्वात् । समानानुपूर्वीकत्वस्यैव वा समानवचन- त्वरूपत्वात् । घटो द्रव्यमित्यादौ च स्थानिवृत्त्यानुपूर्वीमादाय समा नवचन- त्वोपपादनसम्भवात् । तात्सां निवेशे विभक्त्यथसंख्याविरुद्धत्याद्यर्थे कुत्र- चिज्जस्विभक्तेरप्येकत्वादौ लक्षणयैकत्वमपि वेदपदत्तरजस्विभक्त्यर्थः । तद्विरुद्धायाः प्रमाणपदोत्तरविभक्त्यर्थसंख्याया अभावेन विशिष्टामावस्य -सत्वेन समानवचनत्वापत्तिः । ननु विशेषणवाचकपदोत्तरविभक्त्या यत्र संख्याया अविवक्षा तत्र समानवचनत्वमित्येतावतैव निर्वाहे विरुद्धान्तनिवेशस्य किम्प्रयोजनमिति प्रथमा] जयाऽलङ्कृतः १५ विशेष्यविशेषणपदयोः समानवचनकत्वनियमः । अत एव पुरूर- । चेत्-अत्रोच्यते । यद् वेदत्वे एकत्वविवक्षयैकवचनान्तविशेष्यवाचकवेद- घटितं प्रमाणत्वे एकत्वविवक्षयैकवचनान्तविशेषणवाचकप्रमाणपदघटितं वेदः प्रमाणमिति वाक्यं तत्र समानवचनत्वानुपपत्तिः विशेषणवाचकपदो- त्तरविभक्त्या संख्याया विवक्षितत्वात् । विरुद्धान्तनिवेशे विशिष्टाभावस्य सत्त्वेनानुपपत्त्यभावः। ननु यत्र विशेष्यवाचकेत्यादिग्रन्थेनाविवक्षितत्वस्य समानवचनत्वव्या- प्यताया एव लाभेन विवक्षास्थले समानवचनत्वसत्त्वे क्षत्यभाव इति चेत्- इदमत्र बोध्यम् । नीलो घटा इत्यतोऽभेदान्वयवारणायाभेदान्वये विशेष्य- वाचकपदसमानवचनत्वं विशेषणवाचकपदवृत्तिप्रयोजकम् । विशेषणपदो- त्तरविभक्त्यर्थसंख्याविवक्षास्थले वदाः प्रमाणमित्यादौ व्यभिचारवारणा- याविवक्षास्थलीयाभेदान्वये समानवचनत्वं प्रयोजकमिति वक्तव्यम् । तथा च प्रमाणत्वगतैकत्वतात्पर्यकस्वन्तप्रमाणपदघटितात् प्रमाणं वेदेति वाक्यादभेदान्वयवारणाय संख्याविवक्षास्थलीयाभेदान्वये विशेष्यवाचकप- दोत्तरवचनविभिन्नवचनकविशेषणवाचकपदत्वं प्रयोजकमित्यपि वक्तव्यम् । ततश्चोक्ते वेदः प्रमाणमितिस्थले व्यभिचारवारणाय संख्यायां विरुद्धान्तं निवेशनीयम् । एवं विभज्य कथने ग्रन्थविस्तरस्स्यादतो विशेष्यवाचकप- दोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याया विशेषणवाचकपदोत्तर- विभक्त्या अविवक्षा यत्र तत्र समानवचनत्वमित्येवोक्तमिति । केचित्तु स्तोकं पचत इत्यादौ विशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्समानवचनत्वापत्तिः, विरुद्धान्तनिवेशे तु विशेष्य- वाचकपचधातुपदाव्यवहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यसंख्या- विरुद्धादिविवक्षापर्यन्ताप्रसिद्धया तदभावस्याप्यप्रसिद्धत्वेन समानवचन- स्वाभाव इति विरुद्धान्तनिवेशस्य फलमित्याहुः । तन्न । स्तोकमत्त इत्यादौ १६ व्युत्पत्तिवादः [ कारके विशेष्यवाचकाद्धातोरव्यवहितोत्ताविभक्तस्सत्त्वेन विवक्षितत्वाभावपर्यन्त- स्य प्रसिद्ध्या समानवचनत्वापत्तविरुद्धान्तनिवेशेऽपि सत्त्वेन तदर्थ प्रालि- पदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या संख्याया अविवक्षा तत्र समानवचनत्वमित्यस्यैव वाच्यतया विरुद्धान्तनिवे- शस्य फलाभावात् । न च मास्तु विरुद्धान्तनिवेशस्येदं फलन्तथापि पचतीति पक् कर्तरि क्विप् । ततो द्विवचने स्तोकं पचावित्यादौ प्रातिपदिकपदप्रयो- ज्यविशेष्यतायाः सत्त्वेन समानवचनत्वापत्तिर्दुर्वारा । विरुद्धान्तनिवेशेऽपि इयमापत्तिरस्त्येव । न च विरुद्धान्तनिवेशे विशेष्यविशिष्टाया विभक्ते- निवेशः । वैशिष्टयञ्च स्वनिष्ठसंख्याबोधकत्वस्वबोधकपदाव्यवहितोत्तरत्वो- भयसम्बन्धेन । स्तोकंपचावित्यादौ क्विबर्थनिष्ठसंख्याबोधकत्वेन स्तोकविशे- व्यपाकनिष्ठसंख्याबोधकत्वाभावेन विशेष्यविशिष्टविभक्तेरप्रसिद्ध्या अवि- वक्षितत्वपर्यन्तस्याप्यप्रसिद्ध्या समानवचनत्वानापत्तिरिति वाच्यम् । भावक्विबन्ते स्तोकं सम्पदावित्यादौ विशेष्यभूतसम्पत्तिविशिष्टत्वस्यैव विभक्तेः सत्त्वेनापत्तेर्वारत्वादिति वाच्यम् । क्विपोऽनुसन्धानं विना शाब्दबोधानुदयेन तत्प्रकृतिभूतधातुप्रयोज्यैव विशेष्यता न विबन्तरूपप्रा- तिपदिकपदप्रयोज्या न वा विशेष्यभूतक्रियाविशिष्टत्वं विभक्तेर्विशेष्यबोध- कधात्वव्यवहितोत्तरत्वस्यानुसन्धीयमानक्विपा व्यवहितत्वेन विभक्तर्बाधात्। अव्यवहितोत्तरत्वं हि स्वोत्तरत्वेनानुसन्धी यमानोत्तरत्वेनाननुसन्धीयमानत्व- स्वोत्तरत्वेनानुसन्धी यमानत्वोभयसम्बन्धेन स्वविशिष्टत्वमेवेति पक्षद्वयेऽपि दोषाभावात् । अत्रोच्यते । दारविशेषणवाचकं सुन्दरादिपदमपि बहुवचनान्तमेव साधु सुन्दरा दारा इति न तु सुन्दरो दारा इति । तत्र दारपदोसरविभक्तचा संख्याया अविवक्षितत्वेन विशेष्यवाचकपदाव्यवहितोत्तरविभक्तितात्पर्य्य- विषयीभूतसख्येत्याद्यविवक्षितत्वपर्यन्तस्याप्रसिद्ध्या समानवचनवनिय- मानापत्त्या सुन्दरो दारा इत्यस्यापि साधुतापत्तिरिति-मैवम् । स्वाव्यवहि- तोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्ध संख्याविषयकबोधजनकत्वेन तात्प- BAHRAIN प्रथमा] जयाऽलङ्क्तः य॑विषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्न प्रतियोगिताकस्वाभाववत्वसम्बन्धे- न स्वविशिष्टं विशेषणवाचकं पदं स्वसमानवचनमिति नियमस्वीकारेण दोषाभावात् । उक्तसम्बन्धस्यान्यत्र प्रसिद्धया तत्सम्बन्धावच्छिन्नप्रति- योगिताकाभाववत्त्वरूपसम्बन्धस्य विशेष्यवाचकदारपदप्रतियोगिकस्य विशे- षणवाचकसुन्दरपदे सत्त्वेन समानवचनवनियमात् । न च भेदान्वयस्थले विशेषण वाचकराजादिपदोत्तरविभक्त्या संख्याया. अविवक्षणे राज्ञः पुरुषा इत्यादौ समानव चनवनियमापत्तिरिति वाच्यं, स्वप्रयोज्यविशेष्यतानिरू- पिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वरूपद्वितीयसम्बन्धस्या पि वैशि- ष्टयनियामकतया प्रवेशनीयत्वेनादोषात् । राजपदस्याभेदसम्बन्धावच्छिन्न- प्रकारताप्रयोजकत्वाभावात् । न चैवमपि स्तोकं पचावित्यादौ धातोर्वे- शिष्टयं स्तोकपदेऽस्ति। क्विपोनुसन्धानेन प्रतियोगितावच्छेदकसम्बन्धस्या- भावात्ततश्च समानवचनत्वापत्तिस्तदवस्थेति वाच्यम् । स्वाव्यवहितोत्तर- विभक्तिवृत्तिधर्मवद्विभक्तिकत्वरूपतृतीयसम्बन्धस्यापि वैशिष्टयघटकत्वेन प्रवेशात् । प्रकृते क्विपोनुसन्धानेन तद्वयवधानात् तृतीयसम्बन्धस्याभा. वेनादोषात् । नन्वेवं मैथिली दारा इत्यादौ दारपदोत्तरविभक्त्यर्थसंख्याया अविव- क्षया प्रतियोगितावच्छेदकसम्बन्धाभावेनाभावरूपसम्बन्धसहितसम्बन्धत्र- यस्य सत्त्वेन मैथिलीपदत्य दारपदविशिष्टत्वात्समानवचनत्वनियमापत्तिरिति चेत्-न । मैथिली पदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वेन स्वोत्तरविभक्तिता- त्पर्यविषयसंख्याविरुद्धत्वसम्बत्वावच्छिन्नप्रतियोगिताकस्वाभाववसंख्या- विवक्षाविषयविभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावस्य नि- वेशनादोषात् । न च दारपदस्य विशेषणवाचकत्वे समानवचनत्वापत्तिस्त- दुत्तरविभक्त्या संख्याया अविवक्षितत्वादिति वाच्यं, उक्तसम्बन्धत्रयेण विशेष्यवाचकपदविशिष्टं नियतवचनातिरिक्तं पदं विशेष्यबोधकपदसमान- वचनमिति स्वीकारात् । नियतवचनत्वञ्च एकवचनत्वद्विवचनत्वबहुवचन- त्वान्यतमधर्मव्याप्यविषयताप्रयोजकत्वम् । व्याप्यतावच्छेदकसम्बन्धश्च २ [ कारके व्युत्पत्तिवादः प्रयोजकत्वरूपः। व्यापकतावच्छेदकश्च स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धः । प्रकृते दारत्वरूपानुपूव्यवच्छिन्न प्रयोजकतानिरूपितप्रयोज्यतावती स्त्रीत्वा- वच्छिन्ना विषयता बहुवचनत्वरूपधर्मव्याप्या । यत्र यत्र प्रयोजकत्वसम्बन्धन स्त्रीत्वावच्छिन्ना दारत्वरूपाऽऽनुपूर्व्यवच्छिन्नप्रयोजकतानिरूस्तिप्रयोज्यता- वती विषयता तत्र तत्र स्वाश्रयाव्यवहितपूर्वत्वसम्बन्धेन बहुवचनत्वमिति व्याप्तेः सत्वात् । तत्प्रयोजकत्वञ्च दारपदे इति तस्य नियतवचनत्वान समानवचनत्यम् । नन्वेवमेकत्वबोधकत्वेनाविवक्षिता जात्येकत्वबोधकत्वेन विवक्षिता वा या विभक्तिस्तदन्तविशेष्यवाचकपदघटितस्य द्वौ पुरुषः त्रयः पुरुषः इति वाक्यस्यापि साधुवापत्तिः । द्विशब्दत्रिशब्दयोनियतवचनत्वेन समानवच- नत्वनियमाप्रसस्तेरिति चेत्-अत्रोच्यते । स्वविशिष्टं पदं स्वसमा नवचनम् । वैशिष्टयञ्च स्वप्रयोज्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताप्र- योजकत्वस्वाव्यवहितोत्तरविभक्ति वृत्तिप्रत्ययत्ववद्वि भक्तिप्रकृतित्वस्वाव्यव- हितोत्तरविभक्तितात्पर्य्यविषयसंख्याविरुद्धसंख्याबोधकत्वतात्पर्यविषयविभ- क्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्वस्वोत्तरविभक्तिवाच्य- संख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिधर्मावच्छिन्नबोधकत्वतात्पर्यवि- षयत्वस्वोत्तरविभक्तिसमानानुपूर्वीकविभक्ति प्रकृतित्वप्रकारकसम्भावनाप्रयो - ज्यसाधुत्वप्रकारकसम्भावना विषयत्वाभाववत्त्वाभयसम्बन्धावच्छिन्न प्रतियो गिताकस्वाभाववत्त्वैतच्चतुष्टयसम्बन्धेन । मैथिली द्वारा इत्यादौ दास्पदं प्रकारताप्रयोजकम् । तत्र विशेष्यवाचकमैथिलीपदविशिष्टत्वं नास्ति । यत श्राद्यसम्बन्धत्रयसत्त्वेऽपि चतुर्थसम्बन्धो नास्ति । यतोऽभावप्रतियोगिताव- च्छेदकसम्बन्धद्वयमेवास्ति । तथा हि विशेष्यवाचकमैथिलीपदोत्तरविभक्ति- स्सुस्तद्वाच्यैकत्वसंख्यावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगिभूतो धर्मो दारवन्तस्य प्रत्येकपर्याप्तत्वात् तदवच्छिन्नबोधकत्वेन तात्पर्य्यविषयत्वं दारपदे । एवं स्वोत्तरा विभक्तिः सुस्तत्समानानुपूर्वीकसुविभक्तिप्रकृतित्व- प्रकारकसम्भावनाप्रयोज्या यद्ययं दारशब्दः सुविभक्तिप्रकृतिस्स्यात्तदा MASTRA प्रथमा] जयाऽलङ्कृतः १६ साधुः स्यादिति सम्भावना । सा च नास्तीतितादृशसम्भावनाविषयत्वाभा- ववत्वसम्बन्धश्च दारपदेऽस्तीति न समानवचनत्वापत्तिः । द्वौ पुरुषस्त्रयः पुरुष इत्यादयश्च न प्रयोगास्तत्रोक्तचतुष्टयसम्बन्धन विशेषणवाचकद्वया- दिपदे पुरुषपदवैशिष्टयसत्त्वेन समानवचनत्वनियमाक्रान्तत्वाच्चतुर्थ- सम्बन्धघटकीभूतप्रतियोगितावच्छेदकप्रथमसम्बन्धस्य तत्राभावेन चतुर्थ- सम्बन्धस्यापि सत्त्वात् । तथा हि पुरुषपदोत्तरसुविभक्तिवाच्यै कत्वावच्छि- न्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्य द्वित्वादौ बाधेन तद्घटितः सम्बन्धो नास्तीति सर्वमुपपन्नम् । न च पुष्पवन्तौ देव इत्यस्यानिस्तारः । पुष्पवन्त- पदवाच्यतावच्छेदकस्य सूर्य्यत्वादेरेकत्व वच्छिन्नानुयोगिताकपर्याप्तिपति- योगित्वेन दारपदसमानत्वादिति वाच्यं, तादृशपर्याप्तिप्रतियोगिधर्मविशि- ष्टत्वस्य निवेशनीयत्वात् । वैशिष्टय स्वावच्छिन्नबोधकत्वेन तात्पर्य्यविष- यत्वस्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावती या शक्यता तन्निरूपि- तशक्ततावत्योभयसम्बन्धेन पुष्पदन्तपदशक्यतायाश्च सूर्यचन्द्रत्वत्वोभय- पर्याप्तत्वात् । स्वप्रयोज्येत्यादिनिवेशात् स्तोकं सुन्दरौ पचा वित्यादौ न दोषः। द्वितीयसम्बन्धनिवेशात् स्तोकं पचावित्यादौ न दोषः । तृतीयस्य निवेशेन सुन्दरा दारा इत्यादौ दोषाभावः । चतुर्थस्य निवेशेन मैथिली दारा इत्यादावदोषः । तत्रापि प्रथमस्य प्रतियोगितावच्छेदकस्य निवेशेन द्वौ पुरुष इत्यादौ न दोषः। द्वितीयस्य प्रतियोगितावच्छेदकस्य निवेशेन निलौ घट इति प्रयोगाभावः। ननु शतं ब्राह्मणा इत्यादी समानवचनत्वापत्तिरुक्तचतुष्टयसम्बन्धेन शतपदस्य विशेष्यवाचकब्राह्मणपदविशिष्टत्वात् । न च विशेषणवाचक- शतपदोत्तरविभक्त्यैकत्वस्य विवक्षितत्वान्न दोष इति वाच्यं, एकत्वाविव- क्षायां शतानि ब्राह्मणा इति प्रयोगापत्तेर्दुरित्वात् । न चैकत्वाविवक्षा- यान्तादृशप्रयोगस्येष्टत्वमेवेति वाच्यं, 'विंशत्याद्याः सदैकत्व' इत्याद्यनुशा- सनेनैकवचनान्तानामेव विंशत्यादिशब्दानां साधुत्वबोधनात् इति चेत्-प्रत्रो- च्यते । विंशत्यादिपदोत्तरविभक्त्या प्रकृत्यर्थतावच्छेदकगतैव संख्या प्रती- व्युत्पत्तिवादः [ कारके २० वोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्व विशिष्टयोः पुरूरवोमाद्रवःप्र- भृत्योर्विशेषणतया विवक्षितत्वात्तद्वाचकस्य द्विवचनान्तता । वेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तथा बहुत्वविरुद्धमेकत्वं यते । तथा च विंशतित्वादीनामेकत्वादेकवचनान्ता एव विंशत्यादिशब्दा- स्साधवः । अत्रैव विंशत्याद्या इत्यनुशासनतात्वयंमत एव विंशतित्व- शतत्वादौ द्वित्वादिसत्वे द्वे विंशती त्रोणि शतानीत्योदयः प्रयोगा उपपन्नाः। तदनुशासनेन विंशत्यादिशब्दाना मेकवचनान्तानामेव साधुत्वबोधने तु तेषामसाधुत्वापत्तेः । तस्मादेकत्वाविवक्षायामेकशतेऽपि शतानि ब्राह्मणा इत्याद्या इष्यन्त एवेति तत्त्वम् । विशेषणवाचकपदे विंशत्यादिसंख्यावा- चकातिरिक्तत्वस्य निवेशो वा बोध्यः । नन्वेवं 'मैथिली तस्य दारा' इतिवत् साधुत्वेन प्रतीतस्य रुक्मिणी- सत्यभामे कृष्णस्य दारा इत्यस्य साधुत्वानापत्तेः । विशेष्यवाचकरुक्मिणी- सत्यभामपदोत्तरविभक्तिवाच्यद्वित्वसंख्याया दारत्वप्रतियोगिकपर्याप्त्यनुयो- गितानवच्छेदकत्वात् । त्रयः पुरुष इत्यादेरिव तस्य समानवचनत्वनियमा- क्रान्तत्वादिति चेत्-अत्रोच्यते। वाच्यत्वघटितसम्बन्धस्थाने स्वोत्तरवि- भक्तिवाच्यसंख्याविशिष्टधर्मावच्छिन्नबोधकत्वस्य निवेशः । वैशिष्ट्यञ्च स्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वस्वन्यूनसंख्यावच्छिन्नानुयोगि- ताकपर्याप्तिप्रतियोगित्वान्यतरसम्बन्धेन । तथा च नापत्तिरत्वस्य द्वित्वन्यूनसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वादिति दिक् । द्विस्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योरिति । पुरूरवःपदं पुरूरवो- घटितसमुदायपरम् । माद्रवःपदं तद्घटितसमुदायपरम् । विशेषणवाचक- पदोत्तरविभक्त्या द्वित्वं विवक्षितमिति समानवचनत्वाभावः । वेदाः प्रमाणमित्यादी समानवचनत्वाभावमुपपादयति-वेदाः प्रमाणमित्यत्र चेति। एकरवं विवक्षितमिति । नन्वेकत्वं प्रकृत्यर्थे प्रमाणे बाधितन्तस्य बहुत्वादि- प्रथमा] जयाऽलङ्कृतः विवक्षितं तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्द- प्रमाकरणत्वं च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायो- ग्यता । न च पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोधः संपन्नो त्यत आह-तच्चेति । एकत्वञ्चेत्यर्थः । शब्दत्वावच्छिन्नेति । अवच्छेदकस्य शब्दत्वस्यैकत्वात्तदवच्छिन्नस्य करणत्वस्याप्येकत्वेन तत्र तस्याबाधात् । ननु शाब्दप्रमाकरणत्वमित्यस्य शाब्दत्वविशिष्टप्रमात्वावच्छिन्नकार्यतानि- रूपितकारणत्वमित्यर्थो न सम्भवति । शब्दत्वावच्छिन्न कारणतानिरूपित- कार्यताया भ्रमात्मकशाब्दबोधसाधारणतया तदपेक्षया शाब्दप्रमात्वस्य न्यूनवृत्तित्वेन तादृशकार्य्यतावच्छेदकत्वासम्भवात् । प्रमात्वस्य च वस्तु- सद्भावाधीनतया शब्दजन्यतावच्छेदकत्वे मानाभावाच्च स्वजन्यकार्ये स्व- प्रयोज्यस्यैव स्वजन्यतावच्छेदकत्वौचित्यात् । नापि शाब्दप्रमा निष्ठकार्यता- निरूपितेत्याद्यर्थः। सा च कार्यता शाब्दत्वावच्छिन्नैव स्यात्तस्या भ्रमप्रमासा- धारण येन वह्निना सिञ्चतीतिवाक्यजन्यभ्रमात्मकज्ञानेऽपि सत्त्वेन तन्नि- रूपितकारणतावति वह्निना सिञ्चतीतिवाक्येऽपि प्रमाणमिति व्यवहारा- पत्तेरिति चेत्-अत्रोच्यते । शाब्दत्वावच्छिन्न कार्यतायाः शब्दत्वावच्छिन्न- कारणतानिरूपिताया भ्रमप्रमासाधारण्येऽपि प्रमावृत्तित्वविशिष्टायास्तस्याः प्रमा यामेव स्थितिरितिवत्तनिरूपित कारणताया अपि प्रमाजनकवाक्ये एव स्थितिरिति मन्यते । तथा च शब्द प्रमाकरणत्वमित्यस्य शाब्दत्वावच्छिन्न- प्रमावृत्तित्व विशिष्ट कार्यतानिरूपितकारण त्वमित्यर्थः । तथा च न भ्रम- जनके वह्निना सिञ्चतीति वाक्ये प्रमाणत्वव्यवहार इति दिक । न च पदार्थः पदार्थेनेति । पदार्थः पदार्थेनान्वेति न पदार्थंकदेशेनेति- व्युत्पत्तेः स्वरूपम् । प्रकृते प्रमितिकरणत्वस्य प्रमाणपदार्थैकदेशतया तत्रै- कत्वान्बयासम्भवो व्युत्पत्तिविरोधादिति भावः । एतस्या व्युत्पत्तेरङ्गीकारा- देव घटत्वेऽभेदेन नित्यान्वयतात्पर्य्यकस्य नित्यो घट इति वाक्यस्य नापत्तिः । ।

२२ व्युत्पत्तिवादः [ कारके घटत्वस्य पदार्थकदेशत्वे न तत्र नित्यान्वयस्य प्रकृतव्युत्पत्तिविरुद्धत्वात् । नन्वन्वयितावच्छेदकरूपेणोपस्थितपदार्थे एव पदार्थान्वयात् । स्वरूपत एव घटपदोपस्थिते घटत्वादावन्वयासम्भवेन नापत्तिरिति चेत्-न । जातित्व- विशिष्टजातिमत्तात्पर्य्यकतच्छन्दघटितस्य जातित्वावच्छिन्नेऽभेदेन नित्यान्व- यबोधकस्य नित्यः स इति वाक्यस्य प्रामाण्यापत्तेः। अथैतद्व्युत्पत्तिमूलभूतः कार्यकारणभावोऽपे विचार्यते । किञ्चिनिष्ठप्रकारतानिरूपितविशेष्य- तासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन पदजन्य प. स्थितिः कारणम् । घटत्वादौ विशेष्यतासम्बन्धेन वटपदजन्योपस्थिरेरभावेन तत्र पदार्थान्तरान्वयाभावः । न च नित्यः स इत्यादौ जाताबुपस्थिती य- विशेष्यतायाः सत्त्वेन नित्यान्वयो दुरि इति वाच्यं, मुख्यविशेष्यताया एव कारणतावच्छेदकत्वाभ्युपगमात् । तस्यञ्च जातित्वनिष्ठप्रकारतानि- रूपितायामाश्रयनिष्ठविशेष्यतानिरूपित्प्रकारतासामानाधिकरण्येन प्रका. रवासमानाधिकरणविशेष्यतात्वरूपमुख्यत्वासम्भवात् । न च घटाद वपि घटवदर्थकतत्पदजन्योपस्थिती यप्रकारतायाः सत्त्वेन मुख्यविशेष्यतयोपस्थि- त्यभावेन नीलादेरन्वयानापत्त्या नीलो घट इत्यस्याप्यप्रमाणत्वापत्तिरिति वाच्यं, स्वनिरूपितत्वस्वनिरूपित्तप्रकारत्वासामानाधिकरण्योभयसम्बन्धेन स्वविशिष्टविशेष्यतासम्बन्धेनोस्थिति: कारणमित्यभ्युपगमेन पदान्तरज्न्यो- पस्थित्यन्तरीयप्रकारतायाः सत्त्वेऽप्यापत्तिविरहात् स्वमुपस्थितिः । अथैव- मपि घटवान् तत्पदशक्यो घटो घटपदशक्य इति ज्ञानद्वयाधीनसमूहालम्बनो- पस्थितिजन्यो नीलो घट इति बोधो न स्यात् । घटनिष्ठयोस्त दीयप्रकारता- विशेष्यतयोस्सत्त्वेन मुख्य विशेष्यतयोपस्थितेर्घटेऽसत्त्वात् । अत्रेच्यते । स्व- प्रयोज्यविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति स्वजन्य पस्थितिः स्वविशिष्टविशेष्यतासम्बन्धेन कारणम् । विशेष्यतायां वैशिष्टय स्वजन्य- त.वच्छेदकत्वस्वजन्यतावच्छेदकप्रकारत्वासामानाधिकरण्योभयसम्बन्धेनेति न दोषः । न च लाङ्गुले पशुपदप्रयोज्या या तत्पदप्रयोज्यलोमनिष्ठप्रकार- तानिरूपितविशेष्यता तद्रूपसम्बन्धेन शाब्दबोधो न स्यात् । पर पदजन्यो- प्रथमा] जय जङ्क्तः २३ स्थितेरुक्तसम्बन्धनाभावादिति वाच्यम् । कार्यतावच्छेदकीभूतविशे- ध्यतायां स्वेतरपदप्रयोज्यप्रकारतानिरूपितत्वस्यापि निवेशेनादोषात् । तस्याश्च पशुपदप्रयोज्ययैव लोमनिष्ठप्रकारतया निरूपितत्वात् । नन्वेवं देवदत्तस्य गुरुरित्यादौ गुरुत्वे गुरुपदप्रयोज्योपस्थितीया गुरुत्वत्वनिष्ठप्रका- रतानिरूपिताविशेष्यता यद्यप्यस्ति परन्तु तस्यां गुरुनिष्ठविशेष्यतानिरू- पितप्रकारतासामानाधिकरण्यस्यैव सत्त्वेन गुरुत्वे निरूपितत्वसम्बन्धेनेष्टस्य देवदत्तान्वयस्थानापत्तिरिति चेत्-न । कारणतावच्छेदकीभूतविशेष्यतायां नित्यसाकाङ्क्षावृत्तित्वस्य निवेशनीयत्वात् । गुरुत्वादिकञ्च नित्यसाका- तम् । तत्वञ्च स्वानिरूपकाकाङ्क्षाव्याप्यज्ञानविषयत्वम् । स्वञ्च गुरु- स्वादिकम् । ततश्च प्रकृतशाब्दबोधीयविशेष्यताया गुरुत्वनिष्ठायाः प्रकृत- कार्यतानवच्छेदकत्वान्नापत्तिः । नन्वेवमपि अगुरुपदार्थस्याभेदेन गुरुत्व- पदार्थेऽन्वयतात्पर्येण गुरुरगुरुरित्यापद्येत । नित्यसाकाङ्क्षतया गुरुत्वनिष्ठा- या अापाद्यमानशाब्दबोधोयविषयतायाः कार्यतावच्छेदकसंसर्गत्वाभावा- दिति चेत्-न । प्रकारतानिरूपितत्वस्थाने प्रकारताविशिष्टत्वस्य निवेश- नीयत्वात् । वैशिष्ट्यञ्च स्वनिरूपितत्वस्वाश्रयनिरूपितत्वाभाववत्ति- त्वोभयसम्बन्धेन देवदत्तस्य गुरुरित्यादौ देवदत्तनिष्ठप्रकारतायाः स्वनिरू- पितत्वेऽपि स्वाश्रयदेवदत्तनिरूपितगुरुत्ववृत्तित्वस्यैव विशेष्यतायां सत्त्वेन वैशिष्ट्याभावेनागुरुपदार्थनिष्ठप्रकास्तायाः स्वाश्रयागुरु निरूपितत्वाभावव- द्गुरुत्ववृत्तित्वस्वनिरूपितत्वोभयसम्बन्धेन गुरुत्वनिष्ठविशेष्यतायां वैशि- ष्ट्यस्य सत्त्वेन च नोभयत्र दोषः । प्रकृत्या चारित्यादौ चारुत्वे चारुपदार्थ- विशेषणीभूते प्रकृतेरभेदेन संसर्गेणान्वयः कथम् । तत्र निरुक्तसम्बन्धेनोप- स्थितेरभावादिति चेत् अत्रोच्यते । प्रकृत्यादिगणनिष्पन्नतृतीयार्थाभेदस्य प्रकारतयैव भानम् । ततश्च संसर्गघटकप्रकारतायां विभक्त्यप्रयोज्यत्वं निवेश्यते । प्रकृतेऽभेदनिष्ठप्रकारतायां विभक्तिप्रयोज्यत्वस्यैव सत्त्वेन कार्य- तावच्छेदकसंसर्गाभावाददोषोऽत एव सम्पन्नो व्रीहिरित्यादौ ब्री हौ बहुत्व- रूपसम्पत्तिविशिष्ट एकत्वान्वयस्य बाधेन व्रीहित्वे विभक्त्यर्थंकत्वस्यान्वयेऽपि व्युत्पत्तिवादः [ कारके ब्रोहिरित्यनेकब्रोहितात्पर्य केप्येकवचनदर्शनेन ताहराव्युत्पत्तिसङ्को- चस्यावश्यकत्वात् । यदि च स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्व सम्ब- न्धेन प्रकृत्यर्थं एवैकत्वान्वयः, व्रहित्वज तेः स्वरूपत एव व्रीह्या- दिपदशक्यतावच्छेदकतय ऽन्वयितावच्छेदक रूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपीदृश्येव गतिः। यत्तु संपन्नो व्रीहिरित्यादावेकवचनोपस्थितानि नानैकत्वानि प्रत्येकं नानाव्रीहिष्वन्वीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वमा- नोपगमो निरर्थक इति । तदसत् । यतः स्वसजातीयनिष्ठभेदप्रति- व्यभिचाराभावः । एकत्वनिष्ठप्रकारनाया विभक्तिप्रयोज्यत्वात् । एवञ्च वेदाः प्रमाणमित्यादौ प्रमाकरण त्वे एकत्वान्वयोऽप्युपपद्यते । समानधर्मा- वच्छिन्नविशेष्यताकनिश्चयस्यैव विरोधिज्ञानप्रतिबन्धकतया तस्यैव प्रवृत्ति- निवृत्तिप्रयोजकतया निरवच्छिन्नविशेष्यताकेतरपदार्थप्रकारकशाब्दबोधस्या- नुपयोगेनानभ्युपगमात् स्वरूपत उपस्थिते व हित्वे एकत्वान्वयो न सम्भव- तीत्य आह--यदि चेत्यादि । स्वाश्रय प्रकृत्यर्थतावच्छेदकवत्वेति । स्वमेक- त्वन्तदाश्रयः प्रकृत्यर्थतावच्छेदकं व्रीहित्वं तद्वत्त्वं ब्रहौ सम्बन्धः। अन्वयित्तावच्छेदकरूपेणेति । ननु प्रकृतान्वयिता एकत्वनिष्ठ प्रकार- तानिरूपिता विशेष्यतैव । तदवच्छेदकञ्च न किमपि व हित्वत्वस्थानुरस्थि- तत्वादन्यस्य कस्य चिदसम्भवात् प्रकृतान्वयितावच्छेदकरूपमप्रसिद्धमिति चेदन्वयितावच्छेदकतया सम्भावितं यद्रूपं ब्रीहित्वत्वन्तद्र पेणेत्यर्थेनापसि- यभावात् । प्रकृतेऽपीति । वेदाः प्रमाणमित्यत्रापीत्यर्थः । ईदृश्येवेति स्वाश्रयप्रमितिकरणत्ववत्त्वसम्बन्धन प्रमाण एवैकत्वान्वय इत्यर्थः । तथा च न तदर्थ व्युत्पत्तिसंकोच इति भावः । स्वस जातीयनिष्ठेत्यादि । यत्रैकत्वान्वयो विवक्षितस्तत्र स्वसजातीय- रहितत्वमेवैकत्वं विभिक्तिप्रतिपाद्यम् । खमत्र घटादिः । ननु यत्र सजातीयो । -- २५ प्रथमा] जयाऽजकृतः योगितानवच्छेदकैकत्वरूपसजातीय द्वितीयरहितत्वमेकवचनार्थःन त्वेकत्वमात्रम् । तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात् । अनु- पयोगाच्च । अत एव पशुना यजेत इत्यादौ पशुनिष्ठतादृशैक् त्वस्य विवक्षितत्वादनेकपशुकरणकयागान्नादृष्टसिद्धिः। साजात्यं च म्वस- मभिव्याहृतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण । अतोऽत्र घटोऽस्तीत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वा- द्वितीयोऽस्ति तत्राप्यपरस्मिन् घटादौ तद्वितीयाभावरूपं रहितत्वं वर्तत एवान्यस्य रहितत्वस्य वर्णयितुमशक्यत्वादित्यतः स्वयमेव परिष्करोति- स्वप्नजातीयनिष्ठेत्यादिना। स्वसजातीयत्वं स्ववृत्तिधर्मवत्वम् । तत्र स्वं घटादिस्तद्वत्तिधर्मः क इति जिज्ञासायामाह-साजात्यञ्चेति । स्वसमभि- स्याहतपदार्थेत्यादि । स्वं यदर्थं एकत्वं वयते तदेकवचनं स्वादिः । तत्स- मभिव्याहृतन्तद्घटितवाक्यघटक पदमत्र घटोऽस्तीत्यादौ-कनेत्यादि । तदर्थ एतद्देशविद्यमानत्वादिस्तत्संसर्गः स्वरूपादिः। प्रकृत्यर्थतावच्छेदकञ्च घट- स्वादिः । तथा चात्र घटोऽस्तीत्यादौ स्वथैकत्वं घटे प्रतीयते तच्चैकत्वं घटे किमित्याकाङ्क्षायां घटवृत्तयो ये धर्माः सुप्रकृत्यर्थतावच्छेदकं घटत्वं सुसमभिव्याहृतपदार्थेतद्देश विद्यमानत्वादिस्वरूपादिसंसर्गाश्च तद्वत्त्वम् । यदि तस्मिन् देशे द्वित यो घटोऽस्ति तदा तत्र तनिष्ठो भेद एतद्घटगतैकत्ववान्ने- त्याकारकस्तत्प्रतियोगितावच्छेदकमेव तदेव त्वम् । यदि तत्र द्वितीयो नास्ति तदा स्वयमेव स्वसजाती यस्तनिष्ठस्तद्गतैकत्ववान्नेत्याकारको भेदो नास्ति। किन्तु देशांन्तरीयघटादि निष्ठैकत्ववान्ने त्याकारक एव तत्प्रतियोगितानव- च्छेदकमेतद्देशस्थघटगतमेकत्वमिति तदेकवचनप्रतिपाद्यमिति निष्कर्षः । ननु य दैतद्देशे एको घटो ब्राह्मणस्यापरश्च शूद्रस्य तदाऽत्र ब्राह्मणस्य घटोऽस्तीति प्रयोगो न स्यादेतद्घटवृत्तियः प्रकृत्यर्थतावच्छेदकघटत्वं सुसम- भिव्याहृतपदार्थत देश विद्यमानत्वसंसर्गश्च तद्वत्त्वमपरस्मिन् शूद्रघटे तन्निष्ठ- भेदप्रतियोगितावच्छेदकत्वमेव ब्र गए घटगतैकत्व इत्येकवचनप्रयोगोऽसंगत २६ व्युत्पत्तिवादः [कारके इति चेत्-न । यावत्स्वसमभिव्याहृतपदार्थसंसर्गस्य विवक्षितत्वात् । प्रकृते ब्राह्मणस्य घटे ब्राह्मणसंसर्गोऽस्ति स शूदघटे नास्तीत्यदोषः । न च स्वस्वा- मिभावस्यासत्वेऽपि कालिकादिसंसर्गोऽस्त्येवेति वाच्यं, शाब्दबोधविषयसंस- र्गस्यैव विवक्षितत्वेन कालिकादिसम्बन्धसत्ताया अकिञ्चित्करत्वात् । न च कस्मिंश्चिच्छाब्दबोधे कालिकादेरपि विषयत्वसम्भवात्तस्य च प्रकृते सत्त्वा- दोष एवेति वाच्यं, प्रकृत शाब्दबोधविषयताया एवापेक्षितत्वात् । कालिक- सम्बन्धेन देवदत्तविशिष्टो यज्ञदत्तः अत्र घटोऽस्तीतिवाक्यद्वयजन्यसमूहा- लम्बनबोधमादाय तस्या अपि तत्र सम्भवादिति चेत् । स्ववृत्तयो यावन्तः सुसमभिव्याहृतपदार्थसंसर्गास्तेषां सर्वेषां सत्ताया अपेक्षितत्वात् । प्रकृते कालिका देना॑ह्मणसंसर्गस्य शूद्रघटे सत्त्वेऽपि स्वस्वामिभावरूपस्यैतद्घटे वर्त्त- मानस्य ब्राह्मणसम्बन्धस्य शूद्रघटेऽसत्त्वेन यावत्संसर्गाभावेनादोषः । पशुना यजेतेत्यनेनै त्वविशिष्टपशुकरण के यागे इष्टजनकत्वं बोध्यते । तत्र पशुसजातीयो द्वितीयो नास्ति किन्तु स्वयमेव स्वसजातीयस्तन्निष्ठभेदप्रति. योगितानवच्छेदकत्वं तद्गतैकत्वेऽस्तीति समन्वयः । पशुद्वयकरणकयागे च नानया श्रुत्याऽदृष्ट जनकत्वं बोध्यते तत्रैकत्वविशिष्टपशुकरणकयागत्व. रूप.द्देश्यतावच्छेदकानाक्रान्तावात् । तद्यागी यद्वितीयपशोरपरपशुसजातीय- स्य सत्त्वेन एकत्वविशिष्टपशोरभावात् । ननु सर्वस्यैकत्वविशिष्टपशुकर- णकयागस्यानयाऽदृष्ट जनकत्वबोधनाय सर्वस्तादृशो याग एतद्यधातुरूप- पदार्थः । तत्संसर्गस्य पशुत्वरूपप्रकृत्यर्थतावच्छेदकस्य च यागान्तरीयपशौ सत्त्वात्स एव एतद्यागीयपशुसजातीयस्तद्रहितत्वमेतत्पशौ नास्तोति कथमे- कत्वविशिष्टपशुकरणको यागः प्रसिद्ध इति चेत् - न । एतत्पशुवृत्तिरेतद्या- गव्यक्तिसंसर्गस्स च यागान्तरीयसंसर्गवति पशौ नास्तीति तस्यैतत्सजातीय- स्वाभावात् । एवं नरेण नरो यजेतेत्यादावपि करणभूतनरसजातीयत्वं कतृ भूतनरे तत्सजातीयत्वन्तस्मिन् वा नरे नास्ति करणभूतनरे यागस्य करणत्वं संसर्गस्य च कर्तरि नरे नास्ति । तस्मिन् नरे यागस्य कर्तृत्वं संसर्ग- स्स च करणभूते तस्मिन् नास्तीत्यतः स्ववृत्तिसंसर्गवत्त्वस्यान्यत्राभावात् किन्तु २७ प्रथमा] जयाऽलङ्कतः स्वयमेव स्वसजातीयन्तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तद्गतैकत्वे सत्त्वेनोभयत्रैकवचनोपपत्तिः न च बहब्र मणकत्त कशयनाधिकरणस्थानता- त्पर्येणात्र ब्राह्मणः शेते इत्यापद्येत । कत्त भेदेन शयन क्रियाया भेदादेक- ब्राह्मण्वृत्तियः शयनक्रियाव्यक्तिसम्बन्धः स ब्राह्मणान्तरे नास्तीति स्व- सजातीयत्वं स्वस्मिन्नेव तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वम्य तदेकत्वे सत्त्वादिति वाच्यं, पदार्थसंसर्गित्वमित्यत्रत्यपदार्थपदेन पदार्थतावच्छेदकस्य ग्रहणेनादोषात् । तथा च ब्राह्मणे यः शयनत्वरूम्पदार्थतावच्छेदकस्य सम्बधः स्वावच्छिन्ननिरूपितकत्र्तृत्वरूपस्तस्यैव ब्राह्मणान्तरे सत्त्वेनैतद्ब्राह्म- रणसजातीयो द्वितीयो ब्राह्मणस्तरहितत्वाभावेनैकवचनोपपत्त्यभावात् । अथैवं सति पशुना यजेतेत्यत्र दोष एव । तत्राप्येतत्वशुनिष्ठो यो यागत्वरूपपदार्थतावच्छेदकसम्बन्धः स्वावच्छिन्ननिरूपित करणत्वरूपस्त- स्यैव यागान्तरीयपशावपि सत्त्वेन तस्याप्येतत्पशुसजातीयत्वेन तद्राहि- तत्वाभावादिति चेत्-सत्यम् । अत्र यज्धातो-गत्वोपलक्षिततत्तद्वयक्ति- त्वावच्छिन्ने लक्षणा । ततश्चैतद्यागीयपशौ यो यजपदार्थतावच्छेदकतद्वन्य- क्तित्वसम्बन्धस्तस्य यागान्तरीयपशावभावात् तत्र हि भिन्नतद्वन्यक्ति- त्वस्य स्वावच्छिन्न करणत्वसम्बन्ध इति यागान्तरी यपशोरेतत्पशुसाजात्या- भावेन दोषानवकाशात् । केचित्तु पदार्थपदं पदजन्योपस्थितिमुख्य विशेष्यपरमेव । यज्धातुर्या- गत्वावच्छिन्नपर एव । बह ब्राह्मणकत्तू कशयनस्थले अत्र ब्राह्मण: शेते इतीच्यते एव । न चैवं सति बहुघटसत्त्वदशायामत्र घटोऽस्तीति वाक्यन्तु जात्येकत्वादेव समर्थनीयमिति ग्रन्थासङ्गतिर्बहुब्राह्मणकत्तू कशयनदशाया- मत्र ब्राह्मणः शेते इत्यस्येवास्यापि व्यक्त्यैकत्वपरतयाऽपि साधुत्वोपपादन- सम्भवादिति वाच्यं, अत्र घटोऽस्त त्यादौ घटत्वावच्छिन्नाधेयताया एवास- धात्वर्थसत्तारूपतया तस्या एकत्वेनात्र ब्राह्मणःशेते इत्यतो वैलक्षण्यसम्भवा- दित्याहुः । स्वविशिष्टमेकत्वमेकवचनार्थः। वैशिष्टयञ्च स्वाभाववत्त्व- सम्बन्धेन । प्रतियोगितावच्छेदकसम्बन्धश्च स्वविशिष्टावच्छेदकतावत्त्व- ।

२८ व्युत्पत्तिवादः [कारके प्रसिद्धावपि न क्षतिः। एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितान- चच्छेदकैकत्वस्यैव तत्र बोधादिति तस्य च प्रसिद्धत्वात्। एतद्देशे बहु- रूपः । तत्र वैशिष्ट्य स्वप्रयोज्यप्रकारतावच्छेदकतया विवक्षितसंसर्गा- वच्छिन्नत्वस्वविशिष्टनिष्ठभेदप्रतियोगितानिरूपितत्वोभयसम्बन्धन । तत्र वैशिष्टय स्वप्रकृत्यर्थतावच्छेदकधर्मवत्त्वस्वविशिष्टसमुदायत्वावच्छिन्ना- धेयतानिरूपिताधिकरणतावत्योभयसम्बन्धेन । समुदायत्वे वैशिष्टय स्वप्र- कृत्यर्थनिष्ठाधिकरणतानिरूपिताधेयतावच्छेदकत्वस्वसमभिव्याहृतपदार्थसं- सर्गवृत्तित्वस्वसमभिव्याहृतपदार्थसंसर्गतरावृत्तित्वस्वसमभिव्याहृतपदार्थसंस- गवृत्त्यभावाप्रतियोगित्वैतच्चतुष्टयसम्बन्धेनेति तत्त्वम् । संसर्गश्च स्वप्रयोज्य- शाब्दबोधी यविषयतया साक्षात्परम्परया निरूपितविषयताश्रयो ग्राह्यस्तेन प्रकृतशाब्दबोधाविषयसंसर्गमादाय नातिप्रसङ्गः । बहुविशेषणानां फलान्यु- क्तान्येवावशिष्टमुच्यते । सम्पन्नो व्रीहिरित्यादौ व्रहित्वगतैकत्वे सजातीय- ब्रीहिनिष्ठो यो ब्रीहित्वगतैकत्ववान्नेत्याकारको भेदस्तत्प्रतियोगितावच्छेद- कत्वस्यैव सत्त्वेन कथन्तदेकवचनार्थ इति शङ्कावारणायावच्छेदकतायां स्वप्रयोज्यप्रकारतावच्छेद के.त्यादिनिवेशितम् । प्रकृतभेदीयप्रतियं गिता- वच्छेदकतायास्समवायसम्बन्धावच्छिन्नत्वेन स्वप्रये ज्यप्रकारताच्छेदकः स्वा- श्रयाश्रयत्वरूपस्तदवच्छिन्नत्वाभावात् । तत्र हि स्वार्थंकत्वस्य स्वाश्रया- श्रयत्वसम्बन्धनैव बीहावन्वयेनापत्त्यभावः । स्वाश्रयाश्रयत्वसम्बन्धेन ब्र हित्वगतैकत्वविशिष्टभेदस्य च से हावभावादिति दिक् । स्वसमभिव्या- हृतेत्यत्र स्वमेकवचनम् । साजात्यनियामकतया प्रकृत्यर्थतावच्छेदकधर्ममात्रस्य ग्रहणे दोषमाह- मोऽत्र घटोऽस्तीत्यादाविति । अतः स्वसमभिव्याहृतपदार्थसंसर्गित्व- निवेशादित्यर्थः । अन्यथा घटमात्रस्य सजातीयत्वादिति भावः । समभि- व्याहृतेत्यादिनिवेशलभ्य माह-एतद्दे श विद्यमानेत्यादि तादृशवाक्येति । अत्र ।

जयाऽलङ्कृतः २६ प्रथमा ] घटसत्त्वदशायां तादृशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः। यत्त एकत्वाविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्व- दर्शनात्संख्याया अविवक्षणेऽपि संपन्नो ब्रीहिरित्यादावेकवचनो- पपत्तरलं जात्येकत्वपरतया तत्र समर्थनेनेति तदप्यकिञ्चित्करम् । भावाख्यातस्थले गत्यन्तरविरहेण विभक्तनिरर्थकत्वोपगमात् । तत्र च सार्थकत्वोपगमसम्भवे तत्परित्यागस्यानुचितत्वात् । सति तात्पर्ये तद्बोधस्यानुभविकत्वाच्चेति । एवं 'त्रयः समुदिता हेतु रित्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरंतार- शसमुदायत्वान्वितमेकत्वमेकवचनार्थः । अत एव शक्त्यादीनां घटोऽस्तीतिवाक्येत्यर्थः। एवं त्रयः समुदिता हेतुरित्यत्र हेतुपदमित्यादि । हेतुपदस्य प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्न लक्षणा कार्योत्पत्तिरिति तु पर्यावसितार्थकथनन्न तु लक्ष्यतावच्छेदककुक्षौ तस्य प्रवेशस्तदुद्भव इत्य- नेनैव कार्योत्पत्तीत्यस्य लाभात् । प्रयोजकता च शक्तिनिपुणताऽभ्या- सात्म के समुदाये काव्योत्पत्तिसमानाधिकरणाभावाप्रतियोगित्वरूपा । अत एव शवयादीनामिति। शक्तिनिपुणताऽभ्यासा इतिपदोपस्थिताः हेतुपदाच्च प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्न उपस्थितस्तस्याभेदसम्बन्धेनेत्यर्थश- क्त्यादावन्वयस्तदर्थंकदेशे समुदायत्वे स्वथैकत्वस्यान्वयस्तदुद्भवे इत्यस्य काव्योत्पत्तीत्यर्थस्तस्याश्च प्रयोजकतायां सप्तम्यर्थनिरूपितत्वसम्बन्धेना-- न्वयः। तथा च काव्योत्पत्तिनिरूपितप्रयोजकतावच्छेदकैकत्वविशिष्टसमुदा- यत्वावविच्छन्न भिन्नाः शक्तिनिपुणताभ्यासा इति इतिहेतुस्तदुद्भव इति वाक्यात् त्रयः समुदिता हेतुरिति वाक्याच्च बोधः । समुदिता इति विवरण- वाक्यघटकपदं हेतुपदस्योक्तार्थलाक्षणिकत्वं बोधयति । एवं च यथा दाह प्रति तृणस्यारणेश्च मणेश्च स्वातन्त्र्येण कारणत्वं नैकसहायेनापरस्य तथैव काव्योत्पत्तौ शक्त्यादीनां प्रत्येक कारणत्वमित्येव कुतो न काव्य-- ३० व्युत्पत्तिव दः [ कारके त्रयाणां तृणार णिमणिन्यायेन हेतुत्वशङ्का निरासः। तथा सत्येषामे- कैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्ति तयपर्याप्त- समुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकस मुदायत्वाश्रयत्वानुपपत्तेः। एवं जात्याकृतिव्यक्तयःपदाथ इत्यत्र त्रितयनिष्टस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र प्रकाशतात्य॑मिति शङ्काया अनवकाशः। उक्तवाक्यार्थविरोधात् । प्रत्येकमन्यासहायेन कारणत्वे एकस्यापि शक्त्यादेः सत्त्वे कायोत्पत्ते- रावश्यकतया प्रत्येक प्रयोजकतापर्याप्तिर्वक्तव्या। तथा च त्रितयपा- प्तसमुदायत्वस्यातिप्रसक्तत्वेन तदनवच्छेदकतया तदवच्छेदकसमुदायत्वघ- टितोक्तवाक्यार्थविरोधः स्पष्ट एव । ननु हेतुपदं शक्यार्थपरमेव कुतो न ग्रन्थकृत्तात्पर्यविषयोभूतन्तथा सति तृणारणिमणिन्यायेन हेतुताप्रसज्येतेति तु नाशङ्कनीयम् । दण्डादीनां घटं प्रतीवान्वयव्यतिरेकाभ्यामेव निर्णयसम्भव दिति चेत्-न । हेतो - नात्वात् शक्तित्वाद्यवच्छेदकभेदेन हेतुताया अपि नानात्वाच्च । स्वर्थंकत्व- स्यान्वयासम्भवेनाविवक्षाया एव वक्तव्यतया त्रयः समुदिता हेतुरित्यत्रास- मानवचनत्वानुपपत्तरिति दिक् । त्रितयनिष्ठस्येत्यादि । घटादिपदनिरूपिता शक्तिघंटत्वादिजातिसमवा- यादिसम्बन्धघटादिव्यक्तिनिष्ठा एकैवेति । तत्र'ति । तत्रैवैकत्वान्वय इति पदार्थे जात्यादावेकत्वबाधेऽपि न क्षतिः । न च घटादिपदशक्तिः का या जातिसम्बन्धव्यक्तिषु एका स्यात् । किञ्च पदशक्तिरित्यस्य कोऽर्थः ? पदनिरूपिता पदनिष्ठा वा शक्तिः । शक्तेरीश्वरेच्छारूपत्वे ईश्वरनिष्ठायां तस्यां पदनिरूपितत्वनिष्ठत्वयोर्बाधात् जात्यादिनिष्ठत्वस्य बाधाच्चेति वाच्यम् । पदजन्यबोधविषयता शक्तिः । पदशक्तिरित्यस्य पदसम्बन्धिनी शक्तिरित्यर्थः । सम्बन्धश्च स्वजन्यवोधनिरूपितत्वरूपः । सा च निरुक्त- प्रथमा] जयाऽलङ्कृतः विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्य कवचनान्ततोपप- त्तिः। प्रत्यक्षानुमाने त्या दिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेद- कस्य प्रत्यक्षानुमानादिनिष्ठत्यैकताया बाधितत्वेनाविवक्षितत्वात्प्र- माणपदस्य बहुवचनान्ततेति । एवं पितरो देवता इत्यत्रापि पितृपिता- विषयतारूपा शक्तिः स्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितेश्व- रीयेच्छीयविशेष्यतावत्वसम्बन्धेन व्यक्तौ वर्तते स्वनिष्ठविशेष्यतानि- रूपितावच्छिन्नत्वसम्बन्धावच्छिन्नप्रकारतावत्त्वसम्बन्धेन जातौ वर्त्तते स्व- निष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकसंसर्गघटकावच्छेद कतावच्छेदकत्व- सम्बन्धन समवायादौ वर्तत इति त्रितयनिष्ठत्वमपि तस्या उपपद्यते । एतेने- श्वरेच्छायाः शक्तित्वे ईश्वरेच्छायाः समूहालम्बनात्मिकाया एकस्या एव सत्वेन शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानापत्तेः । तद्विषयताया- स्तत्त्वे बोधादेरपि घटादिपदशक्यत्वापत्तस्तस्यापि तदिच्छाविषयत्वात्तादृश- विषयतानामेकत्त्वाभावाच्छक्तावप्येकत्वाभाव इत्यादिवदन्तोऽपास्ताः। प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्येत्यादि । प्रत्यक्षप्रमाऽनुमान- प्रमादीनां भिन्नत्वात् । तत्तत्करणतानाञ्च प्रत्यक्षादिनिष्ठानां प्रत्यक्षत्वानु- मानत्वाद्यवच्छेदकभेदेन भिन्नत्वादिति भावः । तनु प्रमेत्यनुगतप्रतीत्यनुरोधेन प्रमात्वस्यैकस्यावश्याभ्युपगन्तव्यत्वेन तत्रैवैकत्वान्वयाय विभक्त्यर्थैकत्व विवक्षाऽस्त्विति चेत्-न । प्रवृत्तिनिमित्त- तदाश्रयान्यतरान्वितैकत्वबोधं प्रत्येव प्रकृतिप्रत्यानुपूर्वीरूपस्याकाङ्क्षात्वा- भ्युपगमेन प्रमात्वान्वितैकत्वबोधं प्रति प्रमाणमित्यस्य निराकाङ्क्षत्वेन तादृशबोधासम्भवेनैकत्वस्याविवक्षितत्वात् । पितरो देवता इत्यत्र त्यागो- द्देश्यत्वमेव । देवतात्वञ्च पितृत्वपितामहत्वाद्यवच्छेदकभेदाद्भिन्नमिति न कुत्राप्येकत्वान्वययोग्यतेत्येकत्वस्याविवक्षया समानवचनत्वम् । पितृभ्यः स्वधेतिव्यवहारस्तु न प्रामाणिक इति भावः ।

व्युत्पत्तिवादः [ कारके महत्त्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । उद्देश्यतावच्छे- दकभेदेनैव उद्देश्यताभेदात् । तत्र एकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक् । स्वप्रकृतिकत्वं च स्वाव्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वम् । तेन दधि सुन्दर मित्यादौ विशेष्यपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। तत्र विभक्तेरनुसन्धानं विना शाब्दबोधानुपगमात् । एवं तादृशविभक्तिसजातीयविभक्ति- कत्वमपि तथा विधविभक्त्यव्यवहितपूर्ववर्तितया प्रतिसन्धीयमान- त्वम् । तेन इदं दधीत्यादौ विशेषणपदानन्तरं विभक्तरसत्त्वेऽपि न क्षतिः। अथ नीलस्य घट इत्यादावपि पदार्थोपस्थित्यादिकारणस- मवधानसंभवात् कथन्न नीलघटाद्योरभेदान्वयबोधः । सामग्र्या कार्यजनने उक्तनियमभङ्गप्रसङ्गरूपबाधकस्याकिञ्चित्करत्वादिति चेत् तथाविधान्वयबोधौपयिकाकाङ्क्षाविरहात्। तथा हि तादृशा- न्वयबोधेप्रथमाविभक्त्यन्तघटादिपदसम भिव्याहृतप्रथमान्तनोलादि- S - - ननु 'विंशत्याद्या' इत्यादि तु प्रसङ्गादागतम् । प्रकृतन्तु स्वप्रकृतिकवि. भक्तिसजातीयेत्यादौ स्वप्रकृतिकत्वन्तदाह-स्वप्रकृतिकस्वञ्चति । प्रति- सन्घीयमानत्वं ज्ञायमानत्वमित्यर्थः । तालेति । स्वप्रकृति केत्यर्थः तथाविधेति । स्वप्रकृतिकविभक्तिसजातीयेत्यर्थः । उक्तनियमभङ्गति- समानविभक्तिकपदोपस्थापितयोरेवाभेदान्वय इति नियमेत्यर्थः । तथा- विधेति । अभेदान्वयेत्यर्थः । बोधौपयिकेति । बोधजनकेत्यर्थः । सा चाका- क्षा कीदृशीत्याकाङ्क्षायामाह तथा हीति । तादृशान्वयबोध इति। अभेद- सम्बन्धावच्छिन्ननीलत्वाद्यवच्छिन्नप्रकारतानिरूपितघटत्वाद्यवच्छिन्नविशेष्य- ताकशाब्दबोध इत्यर्थः। प्रथमा विभक्त्यन्तेत्यादि । इदन्तु वस्तुस्थिति- मात्रन्न तु प्रथमात्वविभक्तित्वादिभिर्विभक्तेराकाङ्क्षाशरीरे प्रवेशः, उक्त- धर्माज्ञानेऽपि घट इत्यादेरानुपूर्वीप्रकारेणैवाकाङ्क्षायां प्रवेशः। तथा च । । ।

३ ३ - प्रथमा ] जयाऽलङ्कृतः नोलो घटो घटो नील इत्याद्यानुपूर्व्यवच्छिन्नविषयतानिरूपकज्ञानस्यैव शाब्दबोधजनकत्वम् । यत्रापि नीलश्चैत्रस्य घट इत्यादिवाक्यं प्रयुज्यते तत्रापि तथानुपूर्वीमद्वाक्यं कल्पयित्वैव शाब्दबोधः करणीयः। अत एवासत्ति- रप्युपपद्यते । अन्यथा नीलोपस्थितिघटोपस्थित्योश्चैत्रोपस्थित्या व्यवधाना- व्यवधानघटितायास्तस्या अभावेन शाब्दबोधानापत्तिः। नीलघट इत्यादि- समासस्थले नीलो घट इति समुदायगतानुपूर्त्या अभावेन व्यासस्थलीया- काङ्क्षाया अभावेन शाब्दबोधानापत्त्या तत्स्थलीयानुपूर्वीज्ञानस्यापि पृथक कारणत्वं वाच्यम् । एवमेव नीलौ घटौ, नीला घटा, नोलं घटं, नीलान् घटानित्यादिसमुदायगतानुपूर्वीज्ञानानामपि तत्तदानुपूर्वीप्रकारकत्वेनैव कार- गत्वं वक्तव्यमेकरूपेण कारणताया वक्तुमशक्यत्वात् । ननु नीलघटः,नीलघटौ,नीलघटा इत्यादिविभक्त्यन्तसमुदायपर्याप्ता- नुपूर्वीणां कारण तावच्छेदकत्वे समासस्थलेऽपि विभक्तीनां सप्तत्वेन तदन्त- निष्ठानुपूर्वीणामपि सप्तानां कारणतावच्छेदकत्वापेक्षया नीलघटत्वरूपा- नुपूर्वीप्रकारकज्ञानत्वेनैव सप्तानां कारणत्वे लाघवात्तथैव वक्तुं युक्तमत एव मूलेऽपि नीलपदाव्यवहितोत्तरघटपदत्वं घटपदाव्यवहितपूर्वनीलप- दत्वमित्येवाकाङ्क्षासप्तविभक्त्यन्तनीलघटसमासस्थले उक्तमिति चेत्- सत्यम् । तस्यापि विभक्त्यन्तानुपूर्वीणां प्रवेश एव तात्पर्य्य कथमन्यथा निर्विभक्तिकनीलघटेतिसमुदायात् शाब्दबोधाभावः । यथाश्रुतग्रन्थरीत्या नीलपदाव्यवहितोत्तरघटपदत्वादेस्तत्र सत्त्वेन शाब्दबोधापत्तेदुर्वारत्वात् । ननु कीदृशस्तत्र शाब्दबोध श्रापाद्यते। न तावन्नीलत्वावच्छिन्नप्रकारता- निरूपितघटत्वावच्छिन्नविशेष्यताक इति वक्तुं शक्यते । तादृशशाब्दबोधस्या- प्रसिद्धस्तत्कारण रूपापादकस्याप्यप्रसिद्धः । न च नीलो घट इत्यादौ नीलघट इत्यादौ च ताशाशाब्दबोधप्रसिद्धिरिति वाच्यं, तत्रैकत्वस्यापि विशेषणतया भानेन तन्नियामकविभिक्तिपद जन्यैकत्वोपस्थितिघटपदाव्यवहितोत्तरसुपद- स्वरूपानुपूर्वीज्ञानादेरपि कारणत्वेन तदभावेनापत्त्यभावादिति चेत्-अत्रो. च्यते । नीलो घटो नोलघट इत्यादावेकत्वत्वावच्छिन्नविषयताघटितशाब्द- - । my व्युत्पत्तिवादः [ कारके पदत्वमेवासमस्तनीलघटपदाद्याकाङ्क्षा । समासस्थले च घटपदा- द्यव्यवहितपूर्ववर्तिनीलादिपदत्वं नीलादिपदाव्यवहितोत्तरवर्तिघ- टादिपदत्व वा आकाङ्क्षा । उक्तस्थले च तादृश्या एकस्या अप्या- । बोधत्वावच्छिन्नकार्यतानिरूपितकारण ताया एवैकत्वोपस्थित्यादेः सत्त्वे- नैकत्वत्वावांच्छन्नविषयत्वाघटितनीलत्वावच्छिन्नप्रकार तानिरूपितघटत्वाव - च्छिन्नविशेष्यताकशान्दत्वावच्छिन्नकाऱ्यांपादने एकत्वोपस्थितेरनपेक्षणेमा- पत्तिसंभवः। न चापाद्यतावच्छेदकधर्मस्य निरुतशाब्दबोधे अधिक प्रविष्टन्न तु तद्धानिरितिरोत्या सत्त्वेऽपि तद्धविच्छिन्नकार्यतानिरूपितकारणताया: कुत्राप्यभावेनापादकासम्भव एवेति वाच्यम् । नीलपदाव्यवहितोत्तरघटपद- त्वरूपमूलोक्ताकादाया एव तत्कारणीभूतायास्तत्रापादकत्वसम्भवादिति बाच्यम् । श्रापाद्यतावच्छेदकधर्म प्रत्येकत्वादिविषयताघटितनीलत्वा- वच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वादेर्व्याप्यता- या व्यापकधर्मावच्छिन्ने कार्य जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादक- सामग्र्या अपेक्षिततया तस्याश्च घटपदाव्यवहितोत्तरसुपदत्वरूपानुपूर्वीरूपा- काङ्क्षाज्ञानादिघटिततया निर्विभक्तिकनीलघटेतिसमुदायादौ तदभावेना- पत्त्यभाव इति दिक् । एवञ्च यादृशयादृशानुपूर्व्यवच्छिन्ने यादृशयादृशानु- पूर्व्यवच्छिन्नसमभिव्याहृतत्वज्ञानाद्यादृशः शाब्दबोधो जायते तादृशतादृशा- नुपूर्व्यवच्छिन्नविषयतानिरूपिततादृशानुपूर्व्यवच्छिन्नसमभिव्या हृतत्वविषय- तानिरूपकज्ञानं तादृशशाब्दबंधे कारणमिति निष्कर्षः । उक्तस्थल्ने चेति । नीलस्य घट इत्यादिस्थले चेत्यर्थः । तादृश्या: इति । प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वादिरूपाया इत्यर्थः । ननु प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघट पदत्वरूपाकाङ्क्षाज्ञाना- नीलो घट इति वाक्याज्जायमानाभेदान्वयबोधे द्वितीयान्तनीलपदसमभि- व्याहृतद्वितीयान्तघटपदत्वादिरूपाकाङ्क्षाया अभावात् तादृशाकाक्षा- ।

प्रथमा] जयाऽलङ्कृतः काङ्क्षाया विरहानापत्तिः । कार्यतावच्छेदककोटावव्यवहितोत्त- रत्वनिवेशान्नोक्ताकाङ्क्षाज्ञानयोः परस्परबोधे व्यभिचारः । ज्ञानान्नीलं घटमित्यादिवाक्याज्जायमानेऽभेदान्वयबोधे च प्रथमान्तनीलेत्या- दिरूपाकाङ्क्षाया अभावात् 'तत्सत्त्वे तत्सत्ता तदभावे तदभाव' इत्यन्वय- व्यतिरेकनिबन्धनकार्यकारणभावासम्भव इत्यत आह-कार्यतावच्छे इक- कोटा वित्यादि । तथा च प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्व- रूपाकाङ्क्षाशानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वाबच्छिन्न- प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथ- मान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणं, द्वि- तीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितों- त्तरजायमानाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वाव- च्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति द्वितीयान्तनीलपदसमभिव्या- हृत द्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्यादिक्रमेण यावदाका- क्षाशानं कार्यकारणभावः। तथा च व्यभिचाराभावः । एकस्मिन्नेव हि कार्ये नानाकारणसद्भावे तदुदय इति भावः । ननु यत्र देवदत्तस्य प्रथमान्तनीलपदसमभिव्याहृतेत्याद्याकाङ्क्षाज्ञानं जातन्तव्यवहितोत्तरक्षणे एव यज्ञदत्तस्य पूर्वक्षणोत्पन्न द्वितीयान्तनीलपद- समभिव्याहृतेत्याद्याकाङ्क्षाज्ञानात्तादृशाभेदान्वयबोधस्तत्र तादृशबोधे प्रथ- मान्तनीलेत्याद्याकाङ्क्षाज्ञानकायंतावच्छेदकाक्रान्तिसत्त्वेन तादृशबोधाधि- करणे यज्ञदत्ते तदाकाङ्क्षाशानाभावेन व्यभिचारोऽस्त्येवेति चेत्-मैवम् । अव्यवहितोत्तरत्वं विहाय स्वाव्यवहितोत्तरत्वस्वाधिकरणदेशवृत्तित्वोभयस- म्बन्धेन ज्ञानस्य वैशिष्टयं बोधे निवेश्य तादृशबोधे द्वितीयसम्बन्धविरहेन तत्कार्यतावच्छेदकानाक्रान्ततयाऽऽपत्तेारणसम्भवात् । न चोक्तोभयसम्ब- न्धेन स्वविशिष्टत्वमेव कार्यतावच्छेदकमस्तु । तथा सति कार्य्यतावच्छेदक- व्युत्पत्तिवादः [ कारके कोटावित्युक्तिसूचितस्याभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपि- तघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वे कार्यतावच्छेदकत्वस्य वैयर्थ्य- मिति वाच्यम् । चैत्रे प्रथमक्षणे प्रथमान्तेत्यादि किमप्याकाङ्क्षाज्ञानं जातम् । तदुत्तरक्षणे चैत्रमैत्रोभयत्र यज्ञदत्तीयापेक्षाबुद्धया द्वित्वसंख्योत्सना । तत्र संख्यायां निरुक्ताकाङ्क्षाज्ञानवैशिष्टयरूपकार्य्यतावच्छेदकाक्रान्तिसत्त्वेन तस्थाश्च तादृशाकाङ्क्षाज्ञानशून्ये मैत्रेऽप्युत्पत्त्या व्यभिचारप्रसक्तर्वारणाया- भेदसम्बन्धावच्छिन्नेत्यादिप्रवेशावश्यकत्वात् । न च तावताऽपि स्वविशिष्ट- शाब्दबुद्धित्वमेव कार्यतावच्छेदकमस्तु । विषयताविशेषनिवेशो व्यर्थ एव । तदाकाङ्क्षाशानोत्तरे अन्यादृशेऽपि जायमाने शाब्दबोधे तदाकाङ्क्षाज्ञानस्य कारणत्वे इष्टापत्तेरिति वाच्यम् । यत्र नीलो घटः घटवद्भूतलमिति समूहा- लम्बनमाकाङ्क्षाशानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं तत्र घटवद्- भूतलमिति बोधो जायते न तु नीलाभिन्नो घट इति बोधः । तत्र प्रथमान्त- नीलपदोत्तरप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानोत्तरत्वविशिष्टशाब्दबोधरूपं कायं घटवदिति बोधः । कारण चाप्रामाण्यज्ञानानास्कन्दितप्रथमान्त- नीलपदसमभिव्याहृतप्रथमान्तषटपदरूपाकाङ्क्षाज्ञानं नास्तीति व्यभिचार- प्रसक्त्या तद्वारणायाभेदसम्बन्धावच्छिन्न नीलत्वावच्छिन्नप्रकारतानिरूपित- घटत्वावच्छिन्नविशेष्यताकत्वं शाब्दबोधे विशेषणं देयम् । तथा च तत्र कार्यकारणयोई योरप्यभावान्न दोषः । न च कारणतावच्छेदककोटावप्रा- माण्यज्ञानानास्कन्दितत्वनिवेशाभावमात्रेण व्यभिचारवारणसम्भवान्न विषयप्रवेशो युक्त इति याच्यम् । अप्रामाण्यज्ञानास्कन्दितात् नीलो घट इत्याकाङ्क्षाज्ञानादभेदान्वयवारणाय कारण कोटावप्रामाण्यज्ञानानास्कन्दि- तत्त्वनिवेशस्यावश्यकत्वात् । ननु क्व एतस्योपयोग:१ न तावत् प्रथमक्षणे नीलो घट इत्याकाङ्क्षाज्ञानं तत इदं ज्ञानमप्रमाण मिति ज्ञानं ततः शाब्दबोधो मा भूदित्यर्थमन्यथा आका- ङ्क्षाज्ञानस्य सत्त्वाच्छाब्दबोधापत्तिरिति युक्तम् । तत्र बोधस्याभावे स्ववि- -शिष्टशाब्दबुद्धित्वावच्छिन्नरूपकार्यस्याप्यभावेनादोषात् । तत्र बोधस्य प्रथमा] जयाउलङ्कृतः सत्त्वे तु कारणस्यावि सत्त्वेनादोषादिति चेत्-न। यत्र प्रथमक्षणे भाविज्ञानम- प्रमेति ज्ञानं, द्विती यक्षणे नीलो घट इत्याकाङ्क्षाशानं, तृती यक्षणे आद्यस्य भाविज्ञानमप्रमेत्यप्रामाण्यज्ञानस्य नाशेनाप्रामाण्यज्ञानानास्कन्दितस्य नीलो घट इत्याकाङ्क्षा ज्ञानस्य सद्भावात् , चतुर्थक्षणे नीलो घट इति बोधो भवति। कार्योत्पत्तिप्राक्क्षणे कारणस्य सत्त्वात् तृतीयक्षणे च बोधो न भवति । तत्प्राक् द्वितीयक्षणेऽप्रामाण्यज्ञानास्कन्दितस्यैवाकाङ्क्षाज्ञानस्य सत्त्वेन तदनास्कन्दि- तस्य तस्यासत्वात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशाभावे द्वितीयक्षणे श्राकाङ्क्षाज्ञानस्य सत्त्वात् स्वविशिष्टःशाब्दबोधः। स एव चतुर्थक्षणस्थस्तस्य तृतीयक्षणे आपत्तिप्रसङ्गादप्रामाण्यज्ञानानास्कन्दितत्वनिवेश इति बोध्यम् । न च बोधे शाब्दत्वविशेषणं व्यर्थमिति वाच्यम् । नीलो घट इत्याकाङ्क्षाज्ञाने अप्रामाण्यज्ञानास्कन्दिते अनुमितिसामग्र्याञ्च सत्यां नीलो घट इत्यनु- मितिर्जायते । तत्राप्रामाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानरूपकारणाभावे प्रथ- मान्तनीलपदसमभिव्याहतप्रथमान्तघटपदवरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरा- भेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकबोधस्यसत्त्वे न व्यभिचारापत्तः। शाब्दत्वनिवेशे च शाब्दबोधाभावेनादोषात् । न च का- यंदलेऽप्याकाङ्क्षाज्ञानेऽप्रामाण्यज्ञानानास्कन्दितत्वनिवेशेनैवोक्तस्थलद्वये व्यभिचाराप्रसक्त्या विषयताविशेषस्य शाब्दत्वस्य च निवेशो व्यर्थ एव । किं च विषयत्वादिनिवेशेऽपि अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशः कार्यदले आवश्यकः। अन्यथा नीलो घटः श्यामो घटः इति समूहालम्बनात्मका- काङ्क्षाशानं नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितं यत्र तत्र बोधो भवति कार्यतावच्छेदकाक्रान्तोऽप्रामाण्यज्ञानानास्कन्दितं नीलो घट इत्याकाङ्क्षा- ज्ञानञ्च नास्तीति व्यभिचारः स्यात् । अप्रामाण्यज्ञानानास्कन्दितत्वनिवेशे च कार्यकारणयोरभावेनादोष इति वाच्यम् । अप्रामाण्यज्ञानेऽप्यप्रामाण्यज्ञाना- नास्कन्दितत्वं निवेश्यन्तत्राप्यप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यम् । एवं तत्र तत्रत्यविश्रामः । एवं नीलपदासमभिव्याहते घटे नीलपदसमभिव्या हृतत्व- ज्ञानरूपाप्रामाण्यज्ञानं नीलत्वाभाववति नीलत्वज्ञानरूपमप्रामाण्यज्ञानमित्या- ।

३८ व्युत्पत्तिवादः [ कारके दि सर्वेषां ज्ञानानामनास्कन्दितत्वनिवेशापेक्षया विषयत्वादिनिवेशे एव लाघवम् । एवमप्रामाण्यज्ञानानां तत्तद्रूपेणैव निवेशनीयतयोक्तसमूहालम्ब- नस्थलीयाप्रामाण्यज्ञानव्यक्तेरनास्कन्दितत्वस्य कारणतावच्छेदके अनि- वेशेनैव दोषवारणसम्भवात् । किञ्च प्रवृत्तिं प्रतीष्टसाधनत्वज्ञानं कारणम् । इष्टञ्च अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वाव- च्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वावच्छिन्नन्तदवच्छिन्नसाधनत्वस्य नीलो घट इति वाक्येऽग्रहे नीलो घट इति वाक्ये प्रवृत्तिन स्यादतो विषयतादेः साध्यतावच्छेदके प्रवेश आवश्यक इत्यपि बोध्यम् । ननु कार्यतावच्छेदककोटौ कारणाव्यवहितोत्तरत्वनिवेशेन नाना- कार्यकारणभावकल्पनापेक्षयाऽन्यतमत्वेनैवाकाङ्क्षाज्ञानानां कारणत्वं परि- कल्प्यैक एव कार्यकारणभावोऽस्त्विति चेत्-अत्रोच्यते । अन्यतमत्वं प्रकृते प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगि- कभेदविशिष्टद्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ- क्षाज्ञानप्रतियोगिकभेदरित्येवं क्रमेण सकलाकाङ्क्षाशानभेदं निवेश्य तद्वद्भि- नत्वमेव । तत्र विनिगमनाविरहेणैतदाकाङ्क्षाज्ञानभेदविशिष्टत्वेनापराका- ताज्ञानभेदस्यापराकाङ्क्षाज्ञानभेदविशिष्टत्वेनैतदाकाङ्क्षाज्ञानभेदस्येत्ये. वंक्रमेण प्रवेशे कारणताबाहुल्यम् । गुरुधर्मस्य कारणतावच्छेदकता चेति मूलोक्तप्रकारत्यागे बीजाभावः । एवं भेदविशिष्टस्य जगतो भेदप्रतियोगितया प्रवेशेनातितरां गौरवम् । न च भेद विशिष्टस्य जगतो भेदविशिष्टत्वेनैक- रूपेणैव प्रवेशो न तु तत्तद्रूपेणेति न गौरवं जगत्प्रवेशप्रयुक्तमिति वाच्यम्। जगति सर्वत्र भेदविशिष्टत्वावच्छिन्नायाः कारणतावच्छेदकतायाः सम्बन्ध- कल्पनेन गौरवस्य स्पष्टत्वात् नान्यतमत्वेन कारणत्वम् । न च तत्तदाकाङ्क्षा- ज्ञानानां यावन्तो भेदास्तद्गतसमुदायत्वावच्छिन्नप्रतियोगिताकाभावस्यैवान्य- तमत्वरूपतया वैशिष्टयस्याप्रवेशेन न कारणतावच्छेदकस्य नानात्वं विनि- गमनाविरहप्रयुक्तम् । न वा जगत्प्रवेशप्रयुक्तं गौरवं जगतोऽप्रवेशादिति वाच्यम् । यतो भेदगतसमुदायत्वस्यापेक्ष बुद्धि विशेषविषयत्वरूपतयाऽपेक्षा- PIPICHPANE प्रथमा ] जयाऽलङ्कृतः ३६ बुद्धीनाञ्च नानात्वेन विनिगमनाविरहेण सर्वबुद्धिविषयत्वरूपाणां समुदा- यत्वानां प्रवेशेन कारणताबाहुल्यम् । अवच्छेदकगौरवञ्च तदवस्थमेव । न च तावदाकाङ्क्षाज्ञाननिष्ठमेकमखण्डोपाधिरूपं जातिरूपम्बाऽन्यतमत्वं मत्वा तदवच्छेदेन कारणत्वकल्पने एकमेव कारणत्वं लघुधर्मावच्छिन्नञ्चेति वाच्यं, यतः समानविषयकशाब्दबोधं प्रति प्रत्यक्षसामग्रथाःप्रतिबन्धकतया तदभावोऽप्याकाङ्क्षाशानजन्यशाब्दबोधे सहकारीति तादृशप्रत्यक्षसामग्रयां सत्यामाकाङ्क्षाज्ञानादिकरणकलापान शाब्दबोधः । तत्रैव शाब्दबोधो जाय- तामितीच्छायां सत्यामिष्टस्य शाब्दबोधस्योपपत्तये प्रत्यक्षसामग्रन्यां शाब्दे- च्छाविरहविशिष्टत्वमपि देयम् । तथा च शाब्देच्छाविरहविशिष्टा प्रत्यक्ष- सामग्री नास्ति । विशेषणाभावप्रत्युक्तस्य विशिष्टाभावस्य सत्वादुपपन्नः शाब्दबोधः । तथा यत्र नीलो घट इत्याकाङ्क्षाज्ञानं समानविषयकप्रत्यक्ष- सामग्री द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञान- जन्यः शाब्दबोधो जायतामितीच्छा तत्र शाब्दबोधो न जायते । शाब्दबोधे- नोत्पन्नेन यस्या इच्छाया विषयसिद्धिस्तस्या एव ह्य त्तेजकत्वात् । तत्र तत्त- द्रूपेणाकाक्षाज्ञानस्य कारणत्वे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघट- पदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरजायमानाभेदसम्बन्धावच्छिन्न नीलत्वाव- च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपाकाक्षाज्ञानज यशाब्दे - च्छाविरहविशिष्टाभेदसम्बन्धावच्छिन्ननोलत्वावच्छिन्नप्रकारतानिरूपितघट- स्वावच्छिन्नविशेष्यताकप्रत्यक्षसामग्री विरहविशिष्टं प्रथमान्तनीलपदसमभि- व्याहृतप्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमिति कार्यकारणभावश- रीरे निष्पन्नेऽन्यादृशाकाङ्क्षाशाने अन्यादृशाकाङ्क्षाज्ञानाधीनशाब्देच्छायाः सत्त्वेऽपि प्रतिबन्धिकायां समानविषयकप्रत्यक्षसामग्रन्यां सत्यां न बोधः । अन्य- तमत्वेन प्रवेशे तु अन्यतमाकाङ्क्षाशानमन्यतमाकाङ्क्षाज्ञानांधीनशान्देच्छा- विरहविशिष्ट समानविषयक प्रत्यक्षसामग्री विरह विशिष्टमभेदसम्बन्धावच्छिन्न- नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति [ कारके व्युत्पत्तिवादः कारणमिति कार्यकारणशरीरे सत्यां समानविषयकप्रत्यक्षसामग्रयां कस्मा- चिदन्यतमाकाङ्क्षाज्ञानात् क स्यामप्यन्यतमाकाङ्क्षाशानाधीनशाब्देच्छायां शाब्दापत्तिरतो नान्यतमत्वेन कारणत्वसम्भवः । अथाव्यवहितोत्तरत्वनिवेशे नीलस्य घट इत्यादौ शाब्दापत्तिारैव । स्वोत्तरजायमानाभेदसम्बन्धा- वच्छिन्न प्रकारताकशाब्दबोधं प्रत्येव प्रथमान्तनोलपदसमभिव्याहृतप्रथमान्त- घटपदत्वादिरूपाकाङ्क्षाज्ञानस्य कारणत्वेनापाद्यमानशाब्दबोधस्य तत्तदा- काङ्क्षाज्ञानानुत्तरत्वेन तत्तकार्यतावच्छेदकैरनाक्रान्तत्वेन तत्तत्कारण विर- हस्याकिञ्चित्करत्वात् । न चाभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारता- निरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधस्याप्रसिद्धत्वादेव नापत्तिः । नीलो घट इत्यादौ तत्तदाकाङ्क्षाज्ञानोत्तरत्वविशिष्टाभेदबोधस्य सत्त्वेऽपि शुद्धनीलत्वावच्छिन्नाभेदबुद्धस्तत्राभावेन न तत्र प्रसिद्धिरिति वाच्यम् । समान्यस्य विशेषे एव सत्वेनापाद्यमानतावच्छेदकधर्मस्याभेदसम्बन्धावच्छिन्न- नीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्न विशेष्यताकशाब्दबुद्धित्वस्य तत्रैव प्रसिद्धः । न च तर्हि तच्छाब्दबोधकारणीभूताकाङ्क्षाज्ञ नाभावादेव नापत्तिरिति वाच्यम् । श्रापाद्यमानतावच्छेदकधर्मस्य तत्तदाकाङ्क्षाज्ञान- कार्य्यतानवच्छेदकत्वमित्यस्योक्तत्वात् । अत्रोच्यते-सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधर्मावच्छिन्न- कार्बोत्पादकसामग्रन्या अपेक्षा । यथा शुक्लपटत्वावच्छिन्नं प्रति शुक्लतन्तोः, कृष्णपटत्वावच्छिन्नं प्रति कृष्ण तन्तोः कारणत्वे निर्णीते पटत्वावच्छिन्न- कार्यस्य तत्तच्छुक्लकृष्णतन्तूनामेवा पेक्षा न तु कारणान्तरस्य । एवं सति सामान्यनीलवावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितघटत्वावच्छि- नविशेष्यताकशाब्दबुद्धित्वावच्छिन्ने विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तर - त्वविशिष्टतादृशधर्मावच्छिन्नकार्योत्पादकसामग्रयास्तत्तदाकाङ्क्षाज्ञानादि- घटिताया अपेक्षणात् । प्रकृते नीलस्य घट इत्यादौ तासां तत्तदाकाङ्क्षाज्ञान- घटितानां सामग्रीणां कस्या अप्यभावेन नापत्तिः । ननु कारणकूट एव सामग्री । तथा च सामान्यधर्मावच्छिन्ने कार्ये प्रथमा] जयाऽलङ्कृतः जननीये विशेषधर्मावच्छिन्नस्य कार्यस्व कारणसमुदाय अपेक्ष्यत इत्येव फलति । तच्च न युक्तम् । नोलो घट इत्यादौ सामान्यधर्मावच्छिन्नका- य॑स्य सत्त्वेऽपि विशेषतत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरविशिष्टतादृशधर्मा- वच्छिन्नकारणकूटस्य सकलतत्तदाकाङ्क्षाज्ञानघटितस्याभावेन कुत्राप्यभेद- बोधानापत्तरिति चेत्-न । विशेषधावच्छिन्नकार्योत्पत्तिप्रयोजकतावच्छे- दकसमुदायत्वावच्छिन्नस्यापेक्षेति कथनेनादोषात् । एकैकाकाङ्क्षाज्ञानघ--- टितसमुदायत्वस्यैव तथात्वेन तदवच्छिन्नस्य नीलो घट इत्यादौ सर्वत्र सत्त्वात् अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्याननुगतत्वेऽपि कार्योत्प- त्तिप्रयोजकतावच्छेदकत्वेनानुगमसम्भवात् । अभेदसम्बन्धेन नीलविशिष्ट- घटत्वावच्छिन्नशाब्दबोधं प्रति तादृशशाब्दबुद्धित्वव्याप्यधर्मावच्छिन्नका- यंतानिरूपितकारणतावदाकाङ्क्षाज्ञानं कारण मिति प्रकृतापत्तिवारणाया- ङ्गीक्रियत इति नापत्तिरिति परे । अत्र केचित् विशेष्यवाचकपदे प्रथमान्तत्वादिकम निवेश्यैव प्रथमान्त-- नीलपदसमभिव्याहृतघटपदत्वरूपाकाङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबु. द्धित्वावच्छिन्नं प्रति प्रथमान्त नीलपदसमभिव्याहृतप्रथमान्तघटपदत्वरूपा- काङ्क्षाज्ञानं कारणम् । एवं द्वितीयान्तनीलपदसमभिव्याहृतघटपदत्वरूपा- काङ्क्षाज्ञानाव्यवहितोत्तरतादृशशाब्दबोधं प्रति द्वितीयान्तनीलपदसमभि- व्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानं कारणमित्येवं क्रमेण कार्य- कारणभावे नीलस्य घट इत्यादावापाद्यमानशाब्दस्य षष्ठयन्तनीलपदसम- भिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्य कार्यात वच्छेदकषष्ठयन्त-.. नीलपदसमभिव्याहृतघटपदाव्यवहितोत्तरतादृशशाब्दबुद्धित्वाक्रान्ततया ता- दृशाकाङ्क्षाज्ञानाभावेन नापत्तिरित्याहुः । तन्न । नीलस्य घट: नीलो घट इति समूहालम्बनात्मकाकाङ्क्षाज्ञानादि- ष्टस्य नीलघंटाभेदान्वयस्थानापत्तेस्तस्य स्वकीयकार्यतावच्छेदकाक्रान्तत्वेन षष्ठयन्तनोलपदसमभिव्याहृतषष्ठयन्तघटपदत्वरूपाकाङ्क्षाज्ञानस्याभावात् । परे तु अव्यवहितोत्तरत्वा दिघटितान् प्रथमान्तत्वादिघटितान् कार्य- ૪૨ व्युत्पत्तिवादः [कारके यत्तु समासव्याससाधारणं विशेषणपदस्य विशेष्यवाचकप- दाप्रकृतिकविभक्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव ताह- शान्वयबोधौपयिकाकाङ्क्षा विशेष्यवाचकपदनिष्ठविशेषणवाचक-. पदाप्रकृतिकविभक्यप्रकृतित्वं च न तथा नील घटमानयेत्यादावसंभ- वादिति-तदसत् । विशेष्यवाचकपदाप्रकृतिकत्वस्य तादृशपदानुत्त- रत्वस्य तदुत्तरत्वेनाप्रतिसन्धीयमानत्वरूपस्य वानीलो घट इत्यादौ कारणभावान् षटसंख्याकान् विधाय तत्तदाकाङ्क्षाज्ञानानुत्तरतादृशशाब्द- बुद्धित्वावच्छिन्नं प्रति सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्त बटपदत्वरू- पाकाङ्क्षाज्ञानस्य कारणत्वमित्यभ्युपगमेन नीलस्य घट इत्यादौ श्रापाद्य- मानस्यानुत्तरत्वादिघटितकार्य्यतावच्छेदकाक्रान्तत्वेन तत्कारणभावेनाप त्यभावादित्याहुः । तदपि न | नीलो धटः नीलस्य घट इति समूहालम्बनाकाङ्क्षाज्ञानात् -नीलो घट इत्यंशेऽप्रामाण्यज्ञानास्कन्दितात् नीलघटाभेदान्वयबोधापत्तेस्ताह- शापाद्यमानस्य तत्तदाकाङ्क्षाज्ञानानुत्तरत्वादिघटितकार्य्यतावच्छेदकधर्मा- नाक्रान्ततया सप्तम्यन्तत्वघटितकारणविरहस्याकिञ्चित्करत्वादिति दिक् । नानाकाङ्क्षाज्ञानानां कारणत्वापेक्षया लाघवादेकस्यैवाकाङ्क्षाज्ञानस्य कारणत्वमस्त्विति नानेककार्यकारणभावो नाप्यव्यवहितोत्तरत्वादिनि- वेश इत्याइ-यस्वित्यादिना । ननु विशेष्यवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेषणवाचकपदे विशेषणवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं विशेष्यवाचकपदे । अनयोरेव विनिगमनाविरहेण कारणत्वापत्तावनेककारसत्वं कारणाव्यवहितोत्तरत्वनि- वेशऽप्यावश्यक एवेत्यत आह-विशेष्यवाचकेत्यादि । सत्त्वादिति । प्रत्यु- च्चारणं शब्दस्य भेदेन नीलपदोत्तरत्वादिविशिष्ट विभक्तेर्घटपदोत्तरस्वादि- विभक्तिभिन्नत्वमिति भावः ।

प्रथमा] जयाऽलङ्कृतः ४३ नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्न- तया सत्त्वात् । अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजक- धर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेत्तर्हि विभक्तित्वा- विभक्तीनां भेदेऽपि तन्निष्ठप्रथमात्वादीनामभेदात्तद्घटितस्यैवाका- क्षात्वमुच्यते-प्रथेत्यादिना । विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभा- जकेत्यादि । नीलो घटः नीलघट इत्यादौ विशेष्यवाचकं पदं घटपदं तदुत्तरा सुविभक्तिः तदवृत्तिविभक्तिविभाजको द्वितीयात्वादिधर्मस्तद्वत्यो द्विती- यादिविभक्तयस्तद्राहित्यस्योभयत्र नीलादौ सत्त्वेन साकाङ्क्षत्वमुपपन्नम् । अथ विशेष्यवाचकं चटपदन्तदुत्तरत्वं सर्वासां विभक्तीनां घटं घटेन घटाये- त्यादौ तन्निरूपितवृत्तित्वस्यैव सर्वेषां विभाजकद्वित यात्वादीनां सत्त्वेन विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्माप्रसिद्धिः । विशेष्यवाच- कपदोत्तरयत्किञ्चि द्विभक्त्यवृत्तित्वनिवेश नीलो घट इत्यादावपि नाकाङ्क्षा स्यात् । प्रथमात्वस्यापि नीलं घटमित्यादौ विशष्यवाचकघटपदोत्तरद्विती- याविभक्त्यवृत्तित्वेन तद्वत्सुविभक्तिप्रकृतित्वस्यैव नीलपदे सत्वात् । विशेष्य- वाचकपदस्य घटपदत्वादि ना प्रवेशेऽप्युक्तदोषद्वयस्यानिस्तार एव । तद्- व्यक्तित्वादिना प्रवेशे तूक्तदोषद्वयनिस्तारेऽपि नीलो घट इत्या द्यानुपूर्वी- मद्वाक्येऽपि प्रत्युच्चारणं घटशब्दस्य भेदेन तत्तद्व्यक्तिप्रवेशेनाकाङ्क्षाया अप्यानन्त्यापत्त्या 'वृश्चिकभियां पलायमानस्य तरतुमुखे निपात एवेति चेत्-न । उक्तस्थले नोलपदे घटपदवत्वमेवाकाक्षेति स्वीकारात् । घटप- दवत्ता च स्वाभाववत्त्वसम्बन्धेन । अभावश्च स्वोत्तरावृत्तिविभक्तिविभाज- कधर्मवद्विभक्तिप्रकृतित्वसम्बन्धावच्छिन्नप्रतियोगिताकः। तथा च नाप्रसि- द्धिन वाऽननुगमः। यद्घटपदवत्त्वं विवक्षितन्तद्धटपदव्यक्तयुत्तरविभक्तरेव सम्बन्धघटकतया प्रवेशेन व्यक्त्यन्त रघटपदमादाय दोषदानस्यासंभवात् । विभक्तित्वादिकमजाजत इति । येन विभक्तित्वं न ज्ञायते तस्यापि व्युत्पत्तिवादः [कारके दिकमजानतः पुरुषस्य ताशधर्मज्ञानासंभवाच्छाब्दबोधा- नुपपत्तिः । नीलो घट इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां ताशबोधस्यानुदयात् । नीलस्य घट इत्यादावपि षष्ठयादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्वरूपतो विरुद्धविभ- नीलो घट इत्यादितः शाब्दबोधो भवति । विभक्तित्वघटिताया आकाङ्- क्षायाः स्वकारे विभक्तित्वज्ञानाभावेन तद्घटिताकाङ्क्षाया अपि ज्ञाना- भावेन तस्य तद्वाक्याच्छाब्दबोधो न स्यादित्यर्थः । न च स्वोत्तरावृत्तिधर्म- वदित्यायेवोच्यतां विभक्तिविभाजकत्वन्न निवेश्यतां तथा च विभक्तित्व- ज्ञानमन्तराऽपि शाब्दबोधः स्यादिति वाच्यं, नीलो घट इत्यादौ नीलपदो- त्तर विभक्तिगततव्यक्तित्वस्य घटपदोत्तरविभक्त्यवृत्तित्वेनाकाङ्क्षाना- पत्तेः । 'ननु विशेष्यवाचकपदोत्तरावृत्तिश्रावण प्रत्यक्षविषयतावच्छेदकधर्मेत्या- येवास्तु तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वानोक्तदोषः । स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्योभयसम्बन्धेन मेद विशिष्ट एव धर्मों निवेश्यताम्वा । तव्यक्तित्वञ्च भेदविशिष्टभिन्नमेवेति चेत्-उच्यते । नीलो घटः न लघट इतिवाक्यगतश्रावणप्रत्यक्षविषयतावच्छेदकधर्मातिरि- क्तस्य तद्वाक्यगतधर्मस्य शाब्दबोधात् प्रागज्ञानेऽपि शाब्दबोधस्येष्टस्या- नापत्तेः । नीलो घट इत्यत्र घटपदोत्तरविसर्गावृत्तरोत्वस्य नीलपदोत्तर- विभक्तिवृत्तित्वेन निराकाङ्क्षत्वापत्तेश्च । एतदर्थमेव विभक्तित्वादिकेत्य- त्रादिपदोपादानमिति दिक् । नन्वाकाङ्क्षैव कारणं न तज्ज्ञानमिति विभक्तित्वादिधर्माज्ञानेऽपि तस्या बस्तुतः सत्त्वेनानुपपत्त्यभाव इत्यत श्राह-घट इत्यादावपीत्यादि। स्वरूपत इति । वस्तुसत इत्यर्थः । अज्ञातस्यापीति यावत् । विरुद्धविभक्ति- गहित्यस्येति । निरुक्ताकाङ्क्षाया इत्यर्थः ।

प्रथमा ] जयाऽलङ्कृतः क्तिराहित्यस्याप्रयोजकत्वात् । अथ नीलो घटः मीलघट इत्यादि- द्विविधबोधसाधारणं स्वोत्तरसुपदाभिन्नपदानुत्तरत्वविशिष्टस्वोत्तर- त्वादिरूपस्वाव्यवहितोत्तरत्वसम्बन्धेन नीलादिपदवत्स्वन्नघटादि- पदत्वमेव तथास्त्विति चेत्-न । नीलघटरूपमित्यादिवाक्यसाधा- रण्यानुरोधेनान्यदृश्या अपि श्राकाङ्क्षायाः समासस्थले उपग- न्तव्यतया उपदर्शितसमासव्याससाधारणानुगताकाङ्क्षानुसर- स्वोत्तरसुपदभिन्नपदानुत्तरत्वेत्यादि । अयं भावः । नीलो घटः नील- घट उभयत्र स्वोत्तरत्वस्वोत्तरसुपदभिन्नपदानुत्तरत्वोभयसम्बन्धेन नीलपद- विशिष्टस्वन्तघटपदत्वमेवाकाङ्क्षाऽस्तु । स्वन्तनीलपदसमभिध्याहृतस्वन्त- घटपदत्वं नीलपदाव्यवहितोत्तरघटपदत्वमित्याकाङ्क्षाहयोपगमो निरर्थक इति । नीलघटरूपमिति । अत्र कर्मधारयपूर्वपदकषष्ठीतत्पुरुषः । षष्ठी- तत्पुरुषोत्तरपदककर्मधारयो वा । श्राद्ये नीलस्य घटान्वयित्वे एकदेशान्व- यापत्तिः । समासे वृत्त्यभावेन घटस्य घटी ये लक्षणां विधाय रूपे अभेदान्व- यस्यैव वक्तव्यत्वात् । द्वितीये रूपस्यैव विशेष्यवाचकपदत्वन्न घटरूपसमु- दायस्य तत्र बृत्त्यभावात् । तथा च नीलोत्तरसुभिन्नपदं घटपदन्तदुत्तरत्वस्यैव रूपपदे सत्त्वेनानाकाङ्क्षत्वापत्तेस्तदर्थमन्यादृश्या अप्याकाक्षाया वक्तव्य- स्वेन कार्यकारणभावबाहुल्यादुक्तस्थलद्वये एकाकाक्षायास्सद्भावस्याकि- ञ्चित्करत्वात् । इदमुपलक्षणम् । नीलो घटौ नीला घटाः इत्यादि सर्व- विभक्त्यन्तवाक्यानां नीलघटौ नीलघटा इत्यादिसमासानाञ्चैकविधाका- ताया वक्तुमशक्यत्वात् । सर्वत्र दोषस्य सत्त्वात् स्वोत्तरसुप्पदभिन्नपदा- नुत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाकाङ्: क्षायां तात्पर्यकल्पने उक्तस्थलेषु दोषाभावेऽपि नीलस्य घटः नीलो घट इत्यादीनामपि साकाङ्क्षत्वापत्तेस्तस्मात् स्वोत्तरसुपः सुत्वादिनैव प्रवेश्य स्वोत्तरसुपदभिन्नपदानुत्तरत्वस्वोत्तरत्वोभयसम्बन्धेन नीलपद विशिष्टस्वन्त- ४६ व्युत्पत्तिवादः णस्याप्रयोजकत्वादिति । अथ नीलं घटमानयेत्यादौ नीलादेघ- टादावन्वयोपगमे नीलादिपदोत्तर विभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति चेत्-न कुत्रापि । विभक्तिपदं साधुत्वार्थमेव प्रयुज्यते । अभेद एव वा विशेषण विभक्तरर्थः । अभेदस्य संसर्गमर्यादया भानं तु समासस्थल एव । तत्र लुप्त विभक्त्यनुसंधानं विनापि शाब्दबुद्धेरा- घट पदत्वमितिरीत्या नानाविधाया एव तस्या वक्तव्यत्वात् । घटो नील: नीलोऽस्ति घट इत्यादावपि भिन्नेवाकाङ्क्षा । नीलं घटमानयेत्यत्र नीलघटयोरभेदान्वयबोधे शाब्दत्वस्य सर्वांनु- भवसिद्धतया न नीलान्वितकर्मत्वस्यानयनक्रियायामन्वयः । घटेऽन्वितस्य नीलस्य कर्मत्वेऽप्यन्वये द्विधा भानप्रसङ्गात् प्रकृत्यान्वितस्यैव प्रत्ययार्थस्य भननियमात् । नीलानन्वितकर्मत्वस्य क्रियायामन्वयासम्भवात् । नाऽपि नीले कर्मत्वस्यान्वयः, कारकाणां क्रियायामन्वयनियमात् । प्रकृत्यर्थं प्रति प्रत्ययार्थस्य विशेष्यत्वनियमाच्च । नोलान्वितकर्मत्वस्य च क्रियायामन्वयः नीलघटयोरभेदभानं मानसं नीलनिष्ठ कर्मतानिरूपकमानयनं घटश्च नीला- भिन्न इत्यपि न । अभेदांशेऽनुभवसिद्धस्य शाब्दत्वस्यापलपितुमशक्यत्वात्। इत्थञ्च कर्मत्वस्य कुत्रान्वय इति प्रश्नः । न कुनापीति । कर्मत्वस्य न भानम् । अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वरूपाकाङ्क्षासम्पादकतयैव साधुत्वार्थत्वम् । तदर्थस्याभाने निरर्थकत्वमेवेत्यत आह-अभेद एवेति । ननु तह्य भेदस्य प्रातिपदिकार्थे संसर्गतया भानमिति पूर्वग्रंथविरोधोऽत अाह- समासस्थल इति । ननु समासेऽपि विभक्तेरनुसन्धानेन तदर्थ एवाभेद इत्यत आह-तत्र लुप्त विभक्तीत्यादि । अभेदस्य च भेदाभावोऽर्थस्तदर्थंकदेशभेदे नीलस्य स्वनिष्ठप्रतियोगिताकत्बसम्बन्धेनान्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयः । तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदप्रतियोगिकाभाव- Forangtances प्रथमा ] जयाऽलङ्कृतः नुभविकत्वादित्यपि वदन्ति । अथैतन्मते अभेदो यदि भेदत्वाव- च्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि च भेदप्रतियोगिकोऽभावस्तदा । । विशिष्टो घट इत्यर्थः । एतन्मत इति । अभेदस्य विभक्त्यर्थत्वमत इत्यर्थः तदाऽप्रसिद्धिरिति । यस्य कस्य चिभेदस्य सर्वत्रैव सत्त्वादभावस्य प्रतियोगितावच्छेदकावच्छिन्नेन सह विरोधात् भेदत्वावच्छिन्नप्रतियोगिता- काभावाप्रसिद्धिरित्यर्थः। ननु तादृशाभावस्याप्रसिद्धत्वे तत्प्रसिद्धरप्यप्रसिद्धत्वे तत्प्रसिद्धयभावो- ऽप्यप्रसिद्ध इति तदाऽप्रसिद्धिरित्यस्य कोऽर्थः १ अत्रोच्यते । स्यादयं दोषो यदि अप्रसिद्धयेकदेशप्रसिद्धौ भेदत्वावच्छिन्नाभावान्वयः स्यात् । स एव न किन्तु घटादौ भेदस्य भेदे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धस्यात्य- न्ताभावेऽप्रसिद्धिरित्यर्थः । भेदनिष्ठप्रकारतादौ प्रसिद्धस्य भेदत्वावच्छि- नत्वस्यात्यन्ताभावीयप्रतियोगितायामप्रसिद्धिरित्यर्थो वेति बोद्धयम् । ननु भेदत्वेन घटाभावस्य संय्योगेन भेदाभावस्य भेदघटोभयाभावस्य च भेदत्वावच्छिन्न प्रतियोगिताकतया तेषाञ्च प्रसिद्धतया कथं भेदत्वावच्छिन्न-- प्रतियोगिताकोऽभावोऽप्रसिद्ध इति चेत्-नाभेदनिष्ठस्वरूपसम्बन्धावच्छिन्न- भेदत्वपर्याप्तावच्छेदकतानिरूपितावच्छेद्यतावत्प्रतियोगिताकोऽभावोप्रसिद्ध इति तात्पर्यात् । श्राद्ये प्रतियोगितायां भेदनिष्ठत्वाभावात् , द्वितीये तस्यां स्वरूपसम्बन्धावच्छिन्नत्वाभाव त् , तृतीये तस्यां भेदत्वपर्याप्तावच्छेदकता- निरूपितावच्छेद्यताया अभावात् , तेषामभावानां प्रकृताभावपदेनाग्रहणात्। ननु भेदत्वेन भेदबटौ न स्त इति प्रतीतिविषयीभूतोऽभावस्तादृशः प्रतियोगिताया भेदवृत्तित्वात् । एवं स्वरूपसंय्योगोभयसम्बन्धेन भेदत्वेन भेदाभावोऽपे तथा प्रतियोगितायाः स्वरूपसम्बन्धावच्छिन्नत्वात् । किञ्च भेदबटोभयाभावीयप्रतियोगितावच्छेदकतापि प्रत्येकघटत्वादिपर्याप्तव न तु भेदत्वघटत्वादित्रितयपर्याप्ता मानाभावात् । घटो नास्ति भेदो नास्तीति व्युत्पत्तिवादः [ कारके प्रतीतिविषयीभूतप्रतियोगितावच्छेदकतायाः घटत्वादिप्रत्येकपर्याप्ताया एवो- भयाभावीयप्रतियोगितानिरूपितत्वेनापि भानसम्भवात् तस्य च प्रसिद्धत्वादिति चेत्-न। उभयादिपर्याप्ताया एकस्या अभावे घटसत्त्वे घटो नास्ति भेदो नास्तीति समूहालम्बनप्रतीतिन्नं भवति । घटभेदी न स्त इति प्रतीतिश्च भवत्यतो निरुक्तसमूहालम्बनप्रतीतिविषयाभावविलक्षणोयमुभयाभावो वैल- क्षण्यञ्चैतदेव यदुभयाभावीयप्रतियोगितावच्छेदकतायाः घटत्वाद्युभयपर्या- तत्वमित्यदोषात् । भेदत्वविशिष्टाभावस्यैव विवक्षितत्वात् । वैशिष्टयञ्च स्वपर्याप्तावच्छेदकत निरूपितावच्छेद्यतावत्स्वरूपसम्बन्धपातावच्छेदक- तानिरूपितावच्छेद्यतावत्प्रतियोगिताकत्वस्वपर्याप्तावच्छेदकतानिरूपिताव- च्छेद्यतावनिरूपकतानिरूपितनिरूप्यतावत्त्वोभयसम्बन्धेन । भेदत्वेन भेद- घटोभयाभावीवप्रतिय गितावच्छेदकताया भेदत्वपर्याप्तत्वेऽपि तदभावी यनि- रूपकतावच्छेदकताया भेदत्वापऱ्यांतत्वात् । द्वितीयेऽभावे च संसर्गतात्मक- प्रतियोगितावच्छेदकतायाः स्वरूपसंय्योगोभयपातत्वेन स्वरूपसम्बन्धा- पर्याप्तत्वात् । ननु घटत्वभेदत्वोभयत्वत्रितयपर्याप्ताप्यवच्छेदकता भेदत्वेऽपि पर्या- प्तैव न ह्यवयवापर्याप्तस्य समुदाये पर्याप्तिरस्तीत्युक्तस्तथा चोभया- भावीयापि प्रतियोगिता भेदत्वपर्याप्तावच्छेदकताका निरूपकतावच्छेदकता- ऽप्युक्तरीत्या भेदत्वपर्याप्तति कथमुभयाभावस्याग्रहणमिति चेत्-न। त्रि- तयपर्याप्तायास्तस्याः प्रत्येकपर्याप्तत्वेऽपि पर्याप्तिरेकैव तदनुयोगिता- वच्छेदकन्त्रितयगतन्त्रित्वमेव समनियतत्वात् न तु भेदत्वगतमेकत्वन्तस्यानु- योगितापेक्षयान्यूनवृत्तित्वात् । तथा च भेदत्त्वगतैकत्वविशिष्टोऽभाव एवा- प्रसिद्धत्वेन विवक्षित इत्यदोषात् ।वैशिष्टयञ्च स्वावच्छिन्नानुयोगिताकपा- प्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावनिरूपकताकत्वस्वावच्छिन्नानु - योगिताकपर्याप्तिप्रतिय ग्यवच्छेदकतानिरूपितावच्छेद्यतावती या स्वरूप- सम्बन्धत्वगतैकत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपि- -तावच्छेद्यतावती प्रतियोगिता तन्निरूपकत्वोभयसम्बन्धेनोमयाभावी यप्रति.

४६ प्रथमा] जयाऽलङ्कृतः योगिता च न भेदत्वगतैकत्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रतियोगि- भूतावच्छेदकताकाऽपि तु नित्वावच्छिन्नानुयोगितानिरूपकपर्याप्तिप्रति- योगिभूतावच्छेदकताकेति तस्य प्रसिद्ध त्वेऽपि विविक्षताभावस्थाप्रसिद्ध- त्वात् । ननु द्वित्वादिकं यथा द्वित्वत्वादिनैव व्यासज्यवृत्ति न तु वस्तुत्वादिनापि तथोभयाभावस्व प्रतियोगितावच्छेदकतानिरूपकतावच्छेदकता प्रतियोगि- तानिरूपितसंसर्गतात्मकावच्छेदकता चावच्छेदकतात्वेनैव व्यासज्यवृत्तिन तु वस्तुत्वादिनाऽपि । तथा च वस्तुत्वावच्छिन्नप्रकृतावच्छेदकतानिष्ठप्रति. योगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकं भेदत्वगतैकत्वमेव वस्तुत्वाव- च्छिन्ना या निरूपकतावच्छेदकतानिष्ठप्रतियोगिता तन्निरूपकपर्याप्त्यनु- योगितावच्छेदकमपि भेदत्वगतमेकत्वं तथा वस्तुत्वावच्छिन्ना या प्रतियोगि- ता निरूपितसंसर्गतात्मकावच्छेदकतानिष्ठाप्रतियोगिता तन्निरूपकपर्याप्त्यनु- योगितावच्छेदकमपि स्वरूपसम्बन्धत्वगतमेकत्वम् । तथा च भेदत्वगतैकत्व- विशिष्टाभावोऽपि स एवोभयाभावो वस्तुत्वावच्छिन्नप्रतियोगितामादायेति स एव दोष इति चेत्-न । स्वनिरूपितप्रतियोगितावच्छेदकतात्वावच्छिन्नप्र- तियोगितानिरूपकपर्याप्त्यनुयोगितावच्छेदकत्वस्वनिरूपकतावच्छेदकतात्वा- वच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसम्बन्धेन भेदत्व- गतैकत्ववृत्तिर्योऽभावस्तस्यैवाभिप्रेतत्वेनादोषात् । वस्तुत्वावच्छिन्न प्रतियोगि- तायाः संसर्गाघटकत्वात् । संसर्गघटकाभावीयप्रतियोगिता च स्वनिरूपित- संसर्गतात्मकावच्छेदकतात्वा वच्छिन्नप्रतियोगितानिरूपकपर्याप्त्यनुयोगिता- वच्छेदकत्व सम्बन्धेन स्वरूपसम्बन्धत्वगतैकत्ववृत्तिरेवेति न स्वरूपसंयोगो- भयसम्बन्धेन भेदाभावमादायापि दोषः । ननु भेदत्वघटत्वोभयत्वैतत्त्रितयगताप्यवच्छेदकताभेदत्क्वृत्तित्वविशि- ष्टावच्छेदकतात्वेन भेदत्व एव सकलब्राह्मणवृत्त्यपि ब्राह्मणत्वं चैत्रवृत्तित्वेन चैत्र एवेतिवत्तथा चावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयो- गितावच्छेदकमपि भेदत्वगतैकत्वमेवेति स दोषस्तवस्थ एव । यद्यपि ५० न्युत्पत्तिवादः [कारके भेदत्वबृत्तित्वावच्छेदकतात्वोभयधर्मावच्छिन्ना पर्याप्ती वा प्रतियोगिता नावच्छेदकतात्वावच्छिन्ना तथापि पूर्वोक्तरीत्योभयपर्याप्ताया अपि प्रति- योगितावच्छेदकतायाः अवच्छेदकतात्वपर्याप्तत्वमक्षतमेवेत्यवच्छेदकतात्व- पातावच्छेदकतानिरूपितावच्छेद्यतावत्वेन प्रतियोगितायाः प्रवेशेऽपि दोषा- नुद्धार एव । न च स्वनिरूपितावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपा- स्थनुयोगितावच्छेदकत्वसंबन्धेनावच्छेदकतात्वगतैकत्ववृत्तिप्रतियोगितानि- रूपकपर्याप्तेरेव प्रवेशान्न दोष इति वाच्यम् । उक्तरीत्योभयवृत्त्यप्यवच्छे- दकताऽवच्छेदकतात्ववृत्तित्वेनावच्छेदकतात्व एव । तत्रापि किञ्चिन्निवेशे पुनरपि पूर्वोक्तरीत्या दोष इत्यनवस्थापात इति चेत् -अत्रीच्यते । भेदत्व- वृत्तित्वविशिष्टावच्छेदकतावद्भेदत्वमिति प्रतीताववच्छेदकतानिष्ठाधेयता भेदत्ववृत्तित्वावच्छिन्नैव नावच्छेदकतात्वावच्छिन्ना नापि भेदत्ववृत्तित्वा- वच्छेदकतात्वोभयधर्मावच्छिन्ना मानाभावात् । तथा च स्वनिरूपितावच्छे- दकतात्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणतावच्छे- दकत्वसम्बन्धेन भेदत्ववृत्तिप्रतियोगितानिरूपकाभाव एवाप्रसिद्धत्वेन विव- क्षितः । प्रकृताधेयताया भेदत्ववृत्तित्वावच्छिन्नत्वेनावच्छेदकतात्वावच्छिन्न- स्वाभावान्न दोषः । न च भेदत्ववृत्तिमत् भेदत्वं भेदत्ववृत्त्यवच्छेदकतावत् भेदत्वमनयोः प्रतीत्योर्मेंदत्ववृत्तित्वावच्छिन्नाया एवाघयताया विषयत्वे वैल- क्षण्यानुपपत्तिरिति वाच्यम् । एकत्रावच्छेदकतात्वस्य प्रकारत्वमपरत्र नेत्येत- द्वैलक्षश्यस्यैव सत्त्वात्। विस्तरस्त्वस्मद्विरचितायां शास्त्रार्थरत्नावल्यां विज- "यायाञ्च द्रष्टव्यः । यदि च भेदप्रतियोगिकोऽभाव इति । तथा च यस्य कस्य चिद्भदस्य सत्त्वेऽपि यस्य कस्य चिद्भदस्य तद्वयक्तित्वेनाभावसद्भावात् नाप्रसिद्धिरिति भावः । नीलो घट इत्यादौ नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धन विभक्त्यर्थभेदाभावैकदेशे भेदेऽन्वयोऽभावस्य च स्वरूपसम्बन्धेन घटेऽन्व- यस्तथा च नीलनिष्ठप्रतियोगितानिरूपकभेदनिष्ठप्रतियोगितानिरूपकाभाव- विशिष्टो घट इति बोधः ।

प्रथमा] जयाऽलङ्कृतः नीलं जलमित्यादिवाक्यस्यापि प्रामाण्यापत्तिः । जले द्वित्वादिना ननु नीलप्रतियोगिकभेदस्यैव जले सत्त्वेन तस्य तद्वयक्तित्वेनाप्यभावो जले नास्तीति कथं नीलं जलमित्यस्य प्रामाण्यमित्यत ग्राह-द्वित्वादिनेति। भेदघटोभयं नास्ति पृथिवीवृत्तित्वविशिष्टभेदो नास्तीति प्रतीति विषयीभूतस्य द्वित्वावच्छिन्न प्रतियोगिताकस्य पृथिवीवृत्तित्वभेदत्वोभयधर्मावच्छिन्नप्रति- योगिताकस्य च नीलभेदप्रतियोगिकस्याभावस्य जले सत्त्वेन प्रामाण्यं स्या- दित्यर्थः। यदि च भैदत्वनिष्ठप्रतियोगितावच्छेदकताकोऽभावस्तथाऽपि स एव दोषः। उक्ताभावस्यापि भेदत्वनिष्ठप्रतियोगितावच्छेदकताकत्वात् । यदि च भेदत्वपर्याप्तप्रतियोगितावच्छेदकताकोऽभावो विवक्षितः प्रकृताभा- वीयप्रतियोगितावच्छेदकतापर्याप्तिश्च न भेदत्वे तदाऽप्रसिद्ध एवेत्युक्तम्। ननु प्रतियोगिव्यधिकरणोऽभावो गृह्यते निरुक्ताभावौ च प्रतियोगि- भूतभेदसमानाधिकरणमेवेति न दोष इति चेत् -न । सर्वस्यैव पदार्थस्य प्रतियोगितया प्रतियोगिव्यधिकरणामावस्याप्रसिद्धः। स्वप्रतियोगिव्यधि- करण इत्युक्तावननुगमः । ननु व्यासज्यवृत्तिधर्मानवच्छिन्नभेदनिष्ठप्रतियोगितानिरूपकोऽभावो गृह्यते निरुक्ताभावस्य • व्यासज्यवृत्तिद्वित्वावच्छिन्नप्रतियोगिताकत्वादिति चेत्-न । तथाऽपि पृथिवीवृत्तित्वविशिष्टनीलभेदाभावं घटत्वेन न लभेदा- भावं संयोगेन नीलभेदाभावञ्चादाय नोल जलमित्यस्य प्रामाण्यापत्तर- वारणात् । यदि च स्वप्रतियोगिसामानाधिकरण्यस्वतादात्म्यैतदुभयसम्ब- न्धेनाभावविशिष्टभिन्नोऽभावः स्वनिरूपकत्वस्वाश्रय सामानाधिकरण्योभय- सम्बन्धेन प्रतियोगिताविशिष्टान्यो वाऽभावो गृह्यते। उक्ताभावाश्च नैतादृशा इति न दोषो नाप्य ननु गमो न वाऽप्रसिद्ध इत्युच्यते । तदा पुनरप्यभावविशिष्ट- घटोभयभेदं प्रतियोगिताविशिष्टघटोभयभेदञ्चादाय निरुक्ताभावानामपि ग्रहमासम्भवेन दोष एवेति चेत्-अत्रोच्यते । अभावविशिष्टत्वप्रतियोगिता विशिष्टत्वपर्याप्त प्रतियोगितावच्छेदकताकभेदस्य ग्रहणेनोभयभेदस्य निरस- - व्युत्पत्तिवादः ५२ [ कारके नीलभेदाद्यभावस्य सत्त्वात्। नीलभेदत्वावच्छिन्नाभावस्य विभक्- त्यर्थत्वे नीलादिपदार्थानन्वयप्रसङ्गः। न च भेदप्रतियोगिकाभाव एव नेन न दोष इति चेत्-इदमत्रावधेयम् । नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपस्तथा च नीलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रतियो- गिताविशिष्टान्यो नीलभेदाभावोऽप्रसिद्ध एव । किञ्चानोलघटभेदो नील- गुणस्वरूपो नीलगुणस्य च नानात्वात् । यत् किञ्चिन्नीलगुणवत्यपि घटे यत्किञ्चिन्नीलगुणात्मकस्यानीलबेटभेदस्य योऽभावस्तस्य सत्त्वेन नीलो घटोऽनील इत्यापछतेति । ननु नीलो घट इत्यादौ नीलभेदत्वावच्छिन्नप्रतियोगिताकाभाव एव विभक्त यर्थोऽस्तु । नीलभेदत्वपर्याप्तावच्छेदकतायाः प्रवेशेन नोभयाभाव- मादाय नीलं जलमित्यस्य प्रामाण्यं नीलस्य प्रतियोगितावच्छेदके प्रवेशेन नाप्रसिद्धिरपि । न च पीतो घट इत्यादौ पीतभेदत्वावच्छिन्न पतियोगिता- काभावस्यैव विभक्त्यर्थत्वं वक्तव्यम् । तथा च शक्यतावच्छेदकानन्त्येन शक्त्यनन्तताप्रसंग इति वाच्यम् । स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षि- तधर्मावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावत्वस्यैकस्यैव शक्यताक्च्छेदकत्वेनानन्त्याप्रसङ्गात् नीलादिपदसमभिव्याहाराच्च । नील- त्वाद्यवच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थों लभ्यते । पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतत्वावच्छिन्न- प्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थ इत्याह- नीलभेदत्वावच्छिन्नाभावस्येत्यादि । नीलादिपदार्थानन्वय इति । नीलरूपप्रकृत्यर्थस्थ विभक्त्यर्थंकदेशे नीले अभेदेन नान्वयः । प्रकारतावच्छेदकभेदस्य विशेष्यतावच्छेदकेऽभावात् । नापि नीलभेदे स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । उद्देश्यतावच्छेद के नीले प्रथमा नयाऽलङ्कृतः विभक्त्यर्थः। नीलपदसमभिव्याहारान्नीलभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षा नियम्य- त्वान्नीलभेदत्वावच्छिन्नप्रतियोगितान्तर्भावेण वृत्तिं विना भेदर- पपदार्थतावच्छेदकस्याभावे ताहशसम्बन्धेन भानासम्भवात्। मैव- म् । भेदोऽभावश्च विशेषणविभक्तरर्थः। विशिष्ट लाभस्त्वाकाङ्क्षा- । विधेयभूतनीलभेदाभावात् । तयोर्भेदस्य शाब्दबोधे हेतुत्वात् । अन्यथा घटो घटत्ववानिति प्रतीत्यापत्तेः। अत एव नीलभेदत्वावच्छिन्नाभावेऽपि वृत्तित्व- सम्बन्धेनान्वयोऽपि न । न च भेदप्रतियोगिकाभाव एव विभक्त यर्थः । भेदे च नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयः। नीलपदसमभिव्याहार- रूपाकाङ्क्षावलाच्च भेदस्य पदार्थैक देशस्य स्वनिष्ठनीलभेदत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च नीलभेदत्वावच्छिन्नाभावस्य नाप्रसिद्धिः । अवच्छेदकप्रवेशाच्च नोभयाभावमादाय नीलं जल मित्यस्य प्रामाण्यं पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतभेदत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेनान्वय इति सर्वमुपपन्नम् । पदार्थद्वय तंर्गभानस्य वेत्यादि । एकपदार्थेऽपरपदार्थस्यैव संसर्गस्या- काङ्क्षाभास्यत्वनियमात् भेदरूपपदार्थै देशस्याभावरूपपदार्थैकदेशे नील- भेदत्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्य नीलपदसमभिव्याहाररूपाकाङ्क्षा- भास्यत्वासम्भवात् । नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भानाय विभक्त यर्थतावच्छेदककोटावेव प्रवेशः कर्त्तव्यः । तथा च पूर्वोक्त ऽनन्वय एवेति भावः । मैवमिति । भेदप्रतियोगिकाभावरूपविशिष्टस्य विभक्तयर्थत्वे एव भेदादेः पदार्थैकदेशत्वं स्यात्तदेव नेत्याह-भेदोऽभावश्चेति । तथा चोभयोः पदार्थत्वात् प्रकृत्यर्थस्य नीलादेर्भेदपदार्थे न लत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनान्वयः । भेदस्य चाभावपदार्थे स्वनिष्ठनीलभेदत्वाव- च्छिन्न प्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिन्याहाररूपाकाङ्क्षा- बलादित्याह-विशिष्टताभरिस्वति । नीलभेदत्वावच्छिन्न प्रतियोगिता- ૫૨ [कारके व्युत्पत्तिवादः नीलभेदाद्यभावस्य सत्त्वात्। नीलभेदत्वावच्छिन्नाभावस्य विभक्- त्यर्थत्वे नीलादिपदार्थानन्वयप्रसङ्गः। न च भेदप्रतियोगिकाभाव एव नेन न दोष इति चेत् इदमत्रावधेयम् । नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपस्तथा च नोलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रतियो- गिताविशिष्टान्यो नीलभेदाभावोऽप्रसिद्ध एव । किञ्चानोलघटभेदो नील- गुणस्वरूपो नीलगुणस्य च नानात्वात् । यत् किञ्चिन्नीलगुणवत्यपि घटे यत्किञ्चिन्नीलगुणात्मकस्यानीलघटभेदस्य योऽभावस्तस्य सत्त्वेन नीलो घटोऽनील इत्यापछतेति । ननु नीलो घट इत्यादी नीलभेदत्वावच्छिन्नप्रतियोगिताकाभाव एव विभक्त यर्थोऽस्तु । नीलभेदत्वपऱ्यांप्तावच्छेदकतायाः प्रवेशेन नोभयाभाव- मादाय नीलं जलमित्यस्य प्रामाण्यं नीलस्य प्रतियोगितावच्छेदके प्रवेशेन नाप्रसिद्धिरपि । न च पीतो घट इत्यादौ पीतभेदत्वावच्छिन्नपतियोगिता- काभावस्यैव विभक्त्यर्थत्वं वक्तव्यम् । तथा च शक्यतावच्छेदकानन्त्येन शक्त्यनन्तताप्रसंग इति वाच्यम् । स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षि- तधर्मावच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावत्वस्यैकस्यैव शक्यताक्च्छेदकत्वेनानन्त्याप्रसङ्गात् नीलादिपदसमभिव्याहाराच्च । नील- त्वाद्यवच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिता काभावो विभक्त्यर्थों लभ्यते । पीतो घट इत्यादौ च पीतपदसमभिव्याहारात् पीतत्वावच्छिन्न- प्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकाभावो विभक्त्यर्थ इत्याह- नीलभेदत्वावच्छिन्नाभावस्येत्यादि । नीलादिपदार्थानन्वय इति । नीलरूपप्रकृत्यर्थस्थ विभक्त्यर्थंकदेशे नीले अभेदेन नान्वयः । प्रकारतावच्छेदकभेदस्य विशेष्यतावच्छेदकेऽभावात् । नापि नीलमैदे स्वप्रतियोगिकत्वसम्बन्धनान्वयः । उद्देश्यताबच्छेद के नीले प्रथमा ] नयाऽलङ्कृतः ५३ विभक्त्यर्थः। नीलपदसमभिव्याहारान्नील भेदत्वावच्छिंन्नाभावः प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्क्षा नियम्य- त्वान्नीलभेदत्वावच्छिन्नप्रतियोगितान्तर्भावेण वृत्तिं विना भेदरू- पपदार्थतावच्छेदकस्याभावे ताशसम्बन्धेन भानासम्भवात्। मैव- म् । भेदोऽभावश्च विशेषणविभक्तरर्थः । विशिष्टलाभस्त्वाकाङ्क्षा- । विधेयभूतनीलभेदाभावात् । तयोर्भेदस्य शाब्दबोधे हेतुत्वात् । अन्यथा घटो घटत्ववानिति प्रतीत्यापत्तेः। अत एव नीलभेदत्वावच्छिन्नाभावेऽपि वृत्तित्व- सम्बन्धेनान्वयोऽपि न । न च भेदप्रतियोगिकाभाव एव विभक्त्यर्थः । भेदे च नीलस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेनान्वयः। नीलपदसमभिव्याहार- रूपाकाङ्क्षावलाच भेदस्य पदार्थैक देशस्य स्वनिष्ठनीलभेदत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च नीलभेदत्वावच्छिन्नाभावस्य नाप्रसिद्धिः । अवच्छेदकप्रवेशाच्च नोभयाभावमादाय नीलं जलमित्यस्य प्रामाण्यं पीतो घट इत्यादौ चीतपदसमभिव्याहारात् पीतभेदत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेनान्वय इति सर्वसुपपन्नम् । पदार्थद्वय पर्गभानस्य वेत्यादि । एकपदार्थेऽपरपदार्थस्यैव संसर्गस्या- काङ्क्षाभास्यत्वनियमात् भेदरूपपदार्थै देशस्याभावरूपपदार्थंकदेशे नील- भेदत्वावच्छिन्नप्रतियोगिताकत्वसंसर्गस्य नीलपदसमभिव्याहाररूप काङ्क्षा- भास्यत्वासम्भवात् । नीलभेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भानाय विभक्त यर्थतावच्छेदककोटावेव प्रवेशः कर्तव्यः । तथा च पूर्वोक्त ऽनन्वय एवेति भावः । मैमिति । भेदप्रतियोगिकाभावरूपविशिष्टस्य विभक्तवर्थत्वे एव भेदादेः पदार्थैकदेशत्वं स्यात्तदेव नेत्याह-भेदोऽभावश्चेति । तथा चोभयोः पदार्थत्वात् प्रकृत्यर्थस्य नीलादेभेदपदार्थे न लत्वावच्छिन्नप्रति- योगिताकत्वसम्बन्धेनान्वयः । भेदस्य चाभावपदार्थे स्वनिष्ठनीलभेदत्वाव- च्छिन्न प्रतियोगिताकत्वसम्बन्धेनान्वयः । नीलपदसमभिव्याहाररूपाकाङ्क्षा- बलादित्याह-विशिष्ट लाभस्त्विति । नीलभेदत्वावच्छिन्न प्रतियोगिता- ५४ व्युत्पत्तिवादः [ कारके दिवशात् । एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इत्यपि निरस्तम् । न च विशेषणविभक्तरभेदार्थकत्वमते नीलं घट इत्यादावप्यभेदान्वयबोधापत्तिर्धान्येन धनवा नित्यादौ तृतीयया अभेदबोधनात् अभेदप्रकारकबोधे विरुद्धविभक्तिराहित्यस्यानपे- क्षणादिति वाच्यम् । द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तवि- काभावलाभस्त्वित्यर्थः । इत्यपि निरस्तमिति । भेदस्य विभक्तिजन्योपस्थि- तीयमुख्यविशेष्यताश्रयत्वरूपपदार्थतया पदार्थैकदेशत्वाभावान्न कदेशान्वय इति भावः। विशेषणविभक्तेरभेदार्थकत्वमते इति । अनेन ग्रन्थेनाभेदसंसर्गक- बोधाभ्युपगमे नायं दोष इति लभ्यतेऽन्यथा विशेषण विभक्तरभेदार्थकत्वेति- विशेषोक्तरसङ्गत्यापत्तेस्तन्नोपपद्यते । संसर्गतामते धान्येन धनव नित्या- दावप्यभेदसंसर्गकबोध एव वक्तव्यस्तथा च संसर्गतया भाने समानविभक्ति- कत्वस्यानियामकत्वात् तन्मतेऽपि नीलं घट इत्यादावापत्तिसम्भवाद्विशेषण- विभक्तरभेदार्थकत्व इत्यसङ्गतमेवेति चेत्-न। संसर्गतया भाने स्तोकं पचतीत्यादेरिव धान्येन धनवानित्याकाङ्क्षा या नियामकत्वेऽपि नीलं घट इत्याकाङ्क्षाया अनियामकत्वेन दोषाभावात् । प्रकारतामते एव दोषस्य सत्त्वेन विशेषोक्तेरावश्यकत्वात् । नीलं घट इत्यादाक्प्यभेदान्वयबोधाप- तिरिति । नीलप्रतियोगिकभेदाभावविशिष्टो घट इति बेधापत्तिरित्यर्थः । नन्बभेदप्रकारकबोधेऽपि समानविभक्तिकत्वरूपविरुद्ध विभक्तिराहित्यस्यापे- क्षणान्नापत्तिरित्यत आह--धान्येनेत्यादि । द्वितीयादिनेति । प्रथमार्थाभे- दप्रकारकबोधे प्रथमान्तविशेष्यवाचकपदसमभिव्या हारः कारणमित्यादि- रीत्या कार्यकारणभाव इति भावः । नन्वादिपदेन सर्वासां विभक्तीनां ग्रहणे धान्येन धनवानित्यादाव- भेदान्वयबोधानापत्तिः । तृतीयातिरिक्तानां तासां ग्रहणे तृतीयार्थाभेद-. प्रकारकबोधे तृतीयान्तविशेष्यवाचकपदसमभिहारस्यान पेक्षणात् । नीलेन प्रथमा] जयाऽजकृतः शेष्यवाचकपदसम भिव्याहारस्य प्रयोजकत्वमित्युपगमात् । अथ प्रमेयो घट इत्यादी प्रमेयत्वावच्छिन्नप्रतियोगिताकंभेदाप्रसिद्धथा घट इत्यत्राप्यभेदबोधापत्तिः । न च धान्येन धनवानितिवन्नीलेन घट इत्य- पीष्यत एवेति वाच्यं, 'प्रकृत्यादिभ्य उपसंख्यान'मितिवार्तिकेतरस्याभेदे तृतीयाविधायकशास्त्रस्याभावात् । तच्च वार्तिकं सर्वविभवत्यपवादभूतमत एव प्रकृत्या चारुः, गोत्रेण गायः, समेनैति, विषमेनैतीत्यादौ प्रकृतेश्चारुः, प्रकृतिश्चारुः, गोत्रो गार्ग्यः, सममेति, विषममेतीत्यादयो न प्रयोगाः । तथा च यत्र तृतीयातिरिक्ता विभक्तिन प्रामाणिकी तत्रैव 'प्रकृत्यादिभ्य' इति वार्तिकं प्रवर्त्तत इति निश्चीयते । अत्र च नीलो घट इति प्रयोगे प्रथमायाः प्रामाणिकत्वं सर्वैरवगम्यते तस्मान्न प्रकृत्यादिपदेन नीलादीनां ग्रहणमिति नीलेन घट इति प्रयोगो न प्रामाणिकः । इदानीं नीलेन घट इत्यस्यापि बोध- जनकत्वेन प्रामाणिकत्वापत्तिरिति चेत्-न। 'प्रकृत्यादिभ्य उपसंख्यान'मिति- वार्तिकविहिततृतीयातिरिक्ततृतीयार्थाभेदप्रकारकबोधे तृतीयान्तविशेष्य- वाचकपदसमभिहारः कारणमिति कार्यकारणभावकल्पनेन नीलेन घट इत्यादावापत्त्यभावात् । अथ प्रमेयो घट इति । विभक्त्यर्थे भेदे प्रकृत्यर्थस्य प्रमेयत्वावच्छिन्न- प्रतियोगिताकत्वसम्बन्धेन भेदस्य च प्रमेयत्वावच्छिन्नप्रतियोगिता कभेदत्वा- वच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः कार्य्यः । स च न सम्भवति । भेदस्य हि प्रतियोगितावच्छेदकेन सह विरोधात् सर्वत्र प्रमेयत्वस्य सत्त्वेन प्र- मेयत्वावच्छिन्न प्रतियोगिताकभेदाप्रसिद्धिरित्याह-प्रमेयत्वाच्छिन्नप्रतियो गिताकदाप्रसिद्ध्येति । कम्बुग्रीवा दिमति कम्बुग्रीवादिमत्वं घटत्वञ्च वर्तते । कम्बुग्रीवादिमति या भेदीया प्रतियोगिता तदवच्छेदक लाघवात् घटत्वमेवेत्येवं रीत्या लघुधर्मसमनियतगुरुधर्मस्य प्रतियोगितानवच्छेद- कत्वं तथा च कम्बुग्रीवादिमत्वावच्छिन्नप्रतियोगिताकभेदाप्रसिद्धया कम्बु- ५६ व्युत्पत्तिवादः [कारके लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोमितानवच्छेदकत्वे कम्बु- ग्रीवादिमान् घट इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियो- गिताकभेदाप्रसिद्धथा विशेषण विभक्तरभेदार्थकत्वासम्भवः । एवं नीलपटादिपरमीलादिपदघटितस्य नीलो घट इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः । नीलस्वादिना पटादेर्भेदाभावस्य नीलघटादौ सत्त्वात् । एतेन विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वादिकमेव विशेषणविभक्त्यर्थः, नीलत्वादेर्नीलत्वावच्छिन्नभेदाभावरूपतया- ऽभेदार्थकत्वप्रवादोपपत्तिरित्यपि निरस्तम्। नीलत्वादी नीलत्वादि- मत: स्ववृत्तित्वसम्बन्धेनान्वये आकाङ्क्षाविरहाच्च । यथा हि तद्विशिष्ट अधिकरणे आश्रयतया तदन्वयोऽनुभवविरुद्धः तथा तद्धर्मे आधेयतया तद्धर्मवदन्वयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निराकाङ्क्षता । न चैवं संसमतामतेऽप्यनिस्तारः । ग्रीवादिमान् घट इत्यादिबोधानुपपत्तिरित्याह-लघुधर्मसमनियतेत्यादि । प्रामाण्यापत्तिरिति । नील पटगतनीलत्वं नीलगुण एव। स च नीलघट- गतनीलगुणाद्भिन्न एव । तथा च नीलत्वावच्छिन्ननीलपटनिष्ठप्रतियोगिताक- भेदाभावो नील स्टनिष्ठनीलगुणस्वरूपस्तस्य घटेऽसत्त्वेन कथं नीलपटपर- नीलपदघटितनीलो घट इति वाक्यस्य प्रामाण्यापत्तिरिति न वाच्यम् । पटरूपद्रव्यपरद्रव्यपदघटितस्य द्रव्यं घट इति वाक्यस्योपलक्षणीयत्वात् नीलत्वावच्छिन्नाधेयतानिरूपिताधिकरणत्वस्यैव नीलत्वपदेन ग्रहणाद्वा तस्याधिकरणत्वस्य चैश्यात् । एतेनेति । तृतीयदोषस्य सत्त्वेनेत्यर्थः । नील- स्वादौ नीलस्वादिमत इति । अत एव नीलस्य नीलत्वमित्यादावन्वयबोधो न । तद्विशिष्टे अधिकरण इति । नीलो नीलत्ववानित्यादाविति बोध्यम् । अत्त एवेति । कर्म गच्छती त्यादिवाक्यात् कर्मत्वविशिष्टस्य प्रकृत्यर्थस्य वृत्तित्व- सम्बन्धन द्वितीयार्थकर्मत्वे अन्वयबोधाभावादिति भावः। न चैवं संसर्गता- ।

प्रथमा] नयाऽलङ्कृतः नीलो घट इत्यादौ स्ववृत्तिनीलत्वादेः संसनतास्वीकारे उक्तस्थले प्रामाण्यापत्ते रित्वादिति वाच्यम् । स्ववृत्तिनीलत्वादे, स्वस्मि- न व सम्बन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसम्ब- न्धताविरहेण तादृशातिप्रसङ्गाभावात् । वस्तुतस्तु तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादि- प्रकारेण भासमानानां तत्तव्यक्तीनां स्वस्मिन् सम्बन्धतया भासते इति न काप्यनुपपत्तिः । सम्बन्धता च तस्य भेदप्रतियोगिताकाभा- । । । मतेऽप्यनिस्तार इति । तन्मतेऽपि प्रामाण्यापत्तिरूपदेषानुद्धार एवेत्यर्थः । तदेवोपपादयति-नीलो घट इत्यादिना । उक्तस्थल इति । नीलपटपर- नील पदघटितनीलो घट इत्यादा वित्यर्थः। संसर्गतामतेऽपि नील भेदाभावरूप- नीलत्वस्यैव संसर्गता नीलत्वस्य च नीलपट इव नीलघटेऽपि सत्वादुक्त- दोषस्तदवस्थ एवेति भावः । स्ववृत्तिनीलत्वादेः स्वस्मिन्न व सम्बन्धतोप- गमेनेति । उक्तस्थले च पटवृतित्वविशिष्टन लत्वमेव संसर्गः। तच्च पटे एव न घटे इति ने क्तदोष इति भावः । तत्तव्यत्तित्वावच्छिन्नभेदाभाव एवेति । तथा च नीलपटपरनील पदघटितस्य नोलो घट इति वाक्यस्य न प्रामाण्या- पत्तिः। पटग ततद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदस्यैव घटे सत्त्वेन तदभाव- रूपसम्बन्धस्य तत्राभावात् । भेदप्रतियोगिकाभावत्वेनेति । ननु भेदत्वा- वच्छिन्नप्रतियोगिताकाभावत्वेन न संसर्गता तद्धर्मस्याप्रसिद्धत्वात् । भेद- निष्ठप्रतियोगिताकाभावत्वस्थ प्रसिद्धत्वेऽपि तस्य तद्वयक्तिभेद नटोभया- भावेऽपि सत्त्वेन तस्यापि संसर्गत्वापत्तौ तस्य चोभयाभावस्य घटेऽपि सम्वेनो- तवाक्यस्य प्रामाण्यं दुर्वारमेवेति तद्वयक्तिभेदत्वावच्छिन्न प्रतियोगिताकत्वे- नैव संसर्गताया वक्तव्यतया कथमत्रांशे औदासिन्यमिति चेत्-न । भेद- प्रतियोगिकाभावत्वेन सामान्यरूपेणापि तद्वयक्तित्वावच्छिन्न प्रतियोगिताक- भेदत्वावच्छिन्नप्रतियोगिताकाभावत्यैवोभयाभावभिन्नस्य संसर्गत्योपगमात् ।

व्युत्पत्तिवादः [ कारके वत्वेन तत्तद्व्यक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्य देतत् । न चैवं विशेषणविभक्तरभेदार्थकत्वमतेऽपि तत्तव्यक्तित्वावच्छिन्ना- भेद एव विभक्त्यर्थों वक्तव्य इति वाच्यम् । तथा सत्यपूर्वव्य- क्तिनिष्ठतत्तद्व्यक्तित्वस्य कथंचिदपि भानासम्भवेन तदवच्छि- नभेदाभावे शक्तिग्रहासम्भवेनापूर्वव्यक्तीनामभेदान्वयबोधानुपप- तेः । संसर्गज्ञानस्य विशिष्टबुद्धावहेतुत्वेनानुपस्थितस्यापि संसर्गतया भानसम्भवेन संसर्गतामतेऽनुपपत्त्यभावात्। न च विभक्त यर्थेऽपि भेदे अतिप्रसक्तधर्मस्यापि विषयतात्मकसंसर्गताया अवच्छेदकत्वात् । अन्य- देतदिति । अतिप्रसक्तेन भेदप्रतियोगिकाभावत्वेन बनतिप्रसक्तेन तद्वयक्ति- त्वावच्छिन्नप्रतियोगिकाभावत्वेन वा अस्तु संसर्गता परन्तु सा प्रदर्शि- तविशेषाभावनिष्ठैवेति कस्मिन्नपि पक्षे दोषाभावेन यथेच्छसि तथास्त्विति भावः । तथा सतीति । तस्य विभक्त्यर्थत्वे सतीत्यर्थः। अपूर्वव्यक्तिनिष्ठेति । तद्वयक्तित्वभेदेन तद्घटितस्य धर्मस्यापि भिन्नत्वेन तत्तत्सकलधर्मावच्छिन्ने विभक्तेः शक्तिस्वीकारे श्यामः पुत्रो भवितेत्यादौ भाविपुत्रगततद्वयक्तित्वघटितधर्मे विभक्तेर्व्यवहाराभावेन तद्ध- विच्छिन्ने विभक्तिशक्तेर्ग्रहाभावेन बोधानापत्तेरिति भावः। न च संसर्गतया- ऽप्यनुपस्थितस्य तस्य कथं भानमत एव संसर्गेऽपि मीमांसकैः शक्तिः स्वी- क्रियत इति वाच्यम् । मीमांसकमतं निराकृत्यानुपस्थितस्यापि पदार्थ: य- संसर्गस्य संसर्गमर्यादया भानस्य नैयायिकैव्यवस्थापि तत्त्वात् । संसर्गतामतेऽनुपपत्त्यभावादिति । न च शाब्दबोधे संसर्गमर्यादया अनुपस्थितस्य तस्य भानेऽपि नीलो घट इति वाक्यं तद्वयक्तित्वावच्छिन्न- प्रतियोगिताकभेदाभावसम्बन्धावच्छिन्ननीलनिष्ठप्रकारताकबोधेच्छयोच्चरि- तमित्याकारकतात्पर्यज्ञानस्य नीलो घट इति वाक्यजन्यशाब्दबोध कारणत्व वक्तव्यम् । तात्पर्य्यज्ञाने च अवच्छिन्नत्वांशे प्रकारतयैव तस्य भानेन तद्- ५६ प्रथमा ] जयाऽलङ्क्तः तत्तव्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन नौलत्वादिना तत्तव्यक्तीनामन्वयः । तादृशभेदानामपि तत्तव्यक्तिभेदत्वाव- च्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वय उपयते। तावतैव तत्तव्यक्तित्वावच्छिन्नाभेदलाभ इति न किंचिदनुपपन्नमिति वाच्यम् । विशेषणतावच्छेदकावच्छिन्नाया एवं प्रतियोगिताया घटिततात्पर्यशाने तज्ज्ञानस्य हेतुत्वेन तस्यानुपस्थितौ तात्पर्यज्ञानासम्भवेन शाब्दबोधानुपपत्तिरेवेति वाच्यम् । न च नीलो घट इति बोधनेच्छयच्चरि- तमिदं वाक्यमित्याकारकस्य तात्पर्यज्ञानस्य संसर्गतयैव संसर्गावगाहिनः कारण त्वमस्तु तथा चानुपस्थितस्यापि तद्वयक्तित्वस्य संसर्गघटकतया भाने न बाधकमिति वाच्यम् । अपूर्ववाक्यार्थस्थले शाब्दबोधात् प्राक् तादृश- वाक्यार्थीप्रसिद्धस्तात्पर्यग्रहे ज्ञान विशेषणतया वाक्यार्थस्य भानासम्भवा- दिति वाच्यम् । स्वनिरूपितसांसर्गिक विषयतानिरूपितघटादिनिष्ठविषयता- कत्वसम्बन्धन नीलनिष्ठप्रकारताविशिष्टज्ञानजनकत्वेनोचरितमित्याकार- कतात्पर्यज्ञानस्य कारणत्वेनापूर्ववाक्यार्थस्थलेऽपि तादृशज्ञानसम्भवेन तद्वयक्तित्वोपस्थितेग्नपेक्षणादिति ध्येयम् । न च विभक्तयर्थेऽपि भेद इति । अयं भावः। अभेदस्य विभक्त्यर्थत्वेऽपि दोषाभावः। तथा हि भेदोऽभावश्च विशकलित एव विभक्त यर्थोऽस्तु नीलादे- श्च तद्वयक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयः । भेदस्य च तद्वयक्तिभेदत्व वच्छिन्न प्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । तथा च तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावो लभ्य- त इति न पूर्वोक्तदोषावसरः । तद्वयक्तित्वस्य संसर्गघटकतयैव भानेनानु- पस्थितत्वेऽपि क्षत्यभावात् । विशेषण तावच्छेदकावच्छिन्नाया इति । प्रति-- योगिविशेषणतया भासमानधर्मावच्छिन्नप्रतियोगिताया एव प्रतियोगिनो- ऽभावे संसर्गतया भानं भवतीत्यर्थः । तथा च नीलत्वेन भासमाननीलादे दे ६० व्युत्पत्तिवादः [कारके अभावे प्रतियोगिनः सम्बन्धतया भानात् । अन्यथा विशिष्टवै- शिष्ट्यबुद्धित्वानुपपत्तिः। प्रतियोगिविशेषिताभावज्ञानं च विशिष्ट- वैशिष्ट्यबोधमर्यादान्नातिशेत इति दर्शनात्केवलं विशेष्ये विशे- षणमिति रीत्या न कश्चिदभ्युपैतीति चेत्-सत्यम् । अभेदस्तादात्म्यम् । तच्च स्ववृत्त्यसाधारणो धर्मः। असाधा- रण्यं च एकमात्रवृत्तित्वम् । तच्च स्वसामानाधिकरण्यस्वप्रति- नीलत्वावच्छिन्नप्रतियोगिताया एव संसर्गत्वं न तु तद्वयक्तित्वावच्छिन्नप्रति- योगिताया इत्यर्थः। विशिष्टवैशिष्टयबुद्धित्वानुपपत्तिरिति । विशेषणविशेषणतावच्छेदको- भयप्रतियोगि कसम्बन्धद्वयावगाहिबुद्धित्वं विशिष्टवैशिष्टयबुद्धित्वम् । तथा च नीलो घट इत्यादौ विभक्त यर्थभेदे नीलस्य स्वप्रतियोगिकत्वं नीलत्वस्य च स्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग एव स्यादित्यर्थः । अन्यथा घटसत्त्वेऽपि घटाभाववत्ताबुद्धिप्रसङ्गात् । द्वित्वावच्छिन्नप्रतियोगिताकस्यान्यतद्वयक्तित्वा- वच्छिन्नप्रतियोगिताकस्य च घटाभावस्य घटसत्त्वेऽपि सत्त्वात् । प्रतियोगि- विशेषिताभावेति । प्रतियोगिना विशेषितो योऽभावस्तज्ज्ञानं घटाभावः घटो नास्तीत्याकारकज्ञानमित्यर्थः । नातिशेन इतीति । निरुक्त विशिष्ट बैशिष्टय- बुद्धित्वं न जहातीत्यर्थः । केवलं विशेष्ये विशेषणभितीति ! अभावे विशेष्ये प्रतियोगितया घटो विशेषणं घटे च समवायेन घटत्वं विशेषणमितिरीत्ये- त्यर्थः । प्रतियोगितायां प्रतिय गिविशेषणधर्मावच्छिन्नत्वं विहायेति यावत्। एकमात्रवृत्तित्वमिति । तच्चैकवृत्तित्वे सति एकेतरावृत्तित्वरूपमिति यथाश्रुतन्तु न युक्तम् । एकत्वस्य केवलान्वयित्वेन एकेतरत्वस्याप्रसिद्धया तस्याप्रसिद्धत्वात् । स्वसामानाधिकरण्येति । स्वं भेदः यथा घटे योऽन्यघट- व्यक्तर्भेदः स स्वं तत्सामानाधिकरण्यं तत्प्रतियोगिवृत्तित्वञ्च घटत्वे इति ६१: प्रथमा] जयाऽलङ्कृतः योगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत्तदम्य त्वमित्येकमात्रवृ- तिधर्म एव विशेषणविभक्तरर्थः। वृत्तिश्च तत्र प्रकृत्यर्थस्य संस- भेदविशिष्टमेव घटत्वमेवमेवोभयवृत्तिः सर्वोऽपि धम्मों भेदविशिष्टस्तद- न्यत्वं तद्वयक्तित्वे एव । यथा प्रतियोगिभूतघटव्यक्तिमततद्वयक्तित्वे तादृश- भेदप्रतियोगिवृत्तित्वेऽपि तद्भदसामानाधिकरण्यन्नास्ति । अनुयोगिघटगत- तद्वयत्तित्वे च तद्भेदसामानाधिकरण्येऽपि प्रतियोगिबृत्तित्वन्नास्तीति भेद- विशिष्टभिन्नत्वं बोध्यम् । अथ प्रतियोगिभूतघटगततद्वयक्तित्वस्याप्यनु- योगिनि कालिकसम्बन्धेन सत्त्वात् । अनुयोगिघटगततव्यक्तित्वस्य तेन सम्बन्धेन प्रतियोगिनि सत्त्वात्तद्वयक्तित्वमपि भेदविशिष्टमेव । स्वरूप- सम्बन्धावच्छिन्नवृत्तिताया निवेशे समवायेन वृत्तित्ववतां घटत्वादीनामपि भेदविशिष्टान्यत्वापत्त्या भिन्न नील घटपरनीलपदघटितस्य नीलो घट इत्या- देरपि प्रामाण्यापत्तेः। कालिकान्यसम्बन्धावच्छिन्नवृत्तिताया निवेश घटगत- तव्यक्तित्वविषयकज्ञानप्रतियोगिको यो घटे भेदस्तद्विशिष्टत्वमेव घटगत-- तद्वयक्तित्वे तस्य स्वरूपसम्बन्धेन अनुयोगिनि घटे विषयितासम्बन्धेन प्रतियोगिनि ज्ञानेऽपि सत्त्वात् । न च तस्य सम्बन्धस्य वृत्तित्वानियामकत्वं ज्ञाने घट इति प्रतीतेरिति भेदविशिष्टान्यत्वाप्रसिद्धिरिति चेत्-अत्रोच्यते। भेदविशिष्टान्यघटकवृत्तित्वस्य स्वरूपसम्बन्धावच्छिन्नस्यैव ग्रहणमिति का- लिकसम्बन्धमादाय नाप्रसिद्धिर्नामि घटत्वादेरपि भेद विशिष्टान्यत्वेन विभिन्न- घटपरस्य नीलो घट इति वाक्यस्य प्रामाण्यापत्तिः। भेदविशिष्टान्त्वे विभक्त्यर्थे स्वरूपसम्बन्धावच्छिन्ना धेयत्वस्यैव प्रकृत्यर्थसंसर्गतया भानोपगमाद्घठत्वा- दिरूपभेदविशिष्टान्यस्य विभक्त्यर्थत्वेऽपि निरुताधेयत्वसम्बन्थेन प्रकृत्यर्था- न्वयस्य तत्र बाधेन तदादायापत्त्यसम्भवात् । न च घटे यः पटत्वाभावस्तत्र यो घटभेदः स अभावात्मक एव अभावाधिकरणकाभावस्याधिकरणात्मकत्वा- भ्युपगमात् । तथा च घटगततद्वयक्तित्वे घटभेदप्रतियोगिवृत्तित्वस्य तद्भ- व्युत्पत्तिवादः [ कारके गमर्यादया भासते । तादृशधर्मस्तत्तव्यक्तित्वादिरूप एव । दात्मकाधिकरणीभूताभावसामानाधिकरण्यस्य च सत्त्वेन तद्वयक्तित्वस्या- पि भेदविशिष्टत्वमेव । एवं स्वस्मिन्नपि पूर्वक्षणवृत्तित्वविशिष्ट स्वभेदस्य सत्त्वेन तद्भ दविशिष्टत्वमपि तद्वयक्तित्वे इति भेदविशिष्टान्यत्वमप्रसिद्ध- मेवेति वाच्यम् । स्वात्मकत्वस्वपर्याप्तावच्छेदकताकप्रतियोगितानिरूपकता- वच्छेदकभेदत्वावच्छिन्नाधेयतानिरूषिताधिकरण ताश्रयवृत्तित्वाभेदसंबन्धेन घमविशिष्टान्यत्वस्यैव विवक्षितत्वात् । अभावाधिकरणकभेदस्याभावात्म- कत्वेऽपि तन्निष्ठाभावत्वावच्छिन्नाधेयतानिरूपितैवाधिकरणता घटे न तु घटगततद्वयक्तित्वावच्छिन्नप्रतियोगितानिरूपकतावच्छेदकीभूतभेदत्वा- वच्छिन्नाधेयता निरूपिताधिकरणतेति नाधरीत्या दोषः । नाप्यन्त्यरीत्या दोषस्तत्र पूर्वक्षणवृत्तित्वविशिष्टतद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदमा- दायैव दोषो वाच्यः । स न सम्भवति । पूर्वक्षणा देरपि प्रतियोगितावच्छेद- ककुक्षौ प्रवेशेन तद्वयक्तित्वपर्याप्तावच्छेदकताया अभावात् । नापि तद्- व्यक्तिपटोभयन्न सा व्यक्तिरित्युभयभेदमादायापि दोषस्तत्र प्रतियोगिताव- च्छेदकतायास्तद्वयक्तित्वपर्याप्तत्वाभावात् । अत्र पर्याप्तिनिवेशप्रकार- स्सर्वोऽप्यनुसन्ध्येयः। न च भेदस्तादात्म्यसम्बन्धविच्छिन्न प्रतियोगिताकाभावः। तादात्म्यञ्च भेदविशिष्टान्यत्वमित्यन्योन्याश्रय इति वाच्यम् । स्वप्रतियोगिसामानाधि- करण्यस्वसामानाधिकरस्योभयसम्बन्धेनाभावविशिष्टान्यत्वस्य विवक्षित- त्वात् । तद्वयक्तित्वभावमादाय लक्षणसमन्वयः । न चाभावत्वमपि द्रव्यादि- षटकान्योन्याभाववत्वमेव । अन्योन्याभावश्च तादात्म्यसम्बन्धावच्छि- न्नप्रतियोगिताकाभाव इति तदवस्थ एवान्योन्याश्रय इति वाच्यम् । अभावत्वस्याखण्डोपाधिरूपत्वात् । नाप्यन्यत्वमादायान्योन्याश्रयः भेदत्व- -स्याप्यखरडोपाधित्वादिति दिक् । ताराधर्मस्तत्तद्व्यक्तित्वादिरूप एवेति । तादृशो भेदविशिष्टान्यः नीलो प्रथमा] जयाऽलङ्कृतः अपूर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्यज्ञातुमशक्यत्वेऽप्येकमात्र- वृत्तिधर्मवादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेऽप्येतादृशानुगताभेदस्यैव तथात्वमुचितम् । तत्तव्य- क्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न नील घट इत्यादौ तद्वयक्तित्वं विभक्त्यर्थः। तस्मिन् स्वरूपसम्बन्धावच्छिन्नाधेयता- सम्बन्धेन नीलरूपप्रकृत्यर्थस्यान्वयः । तस्य च स्वरूपसम्बन्धेन घटेऽन्वयः। तथा च नील वृत्तितद्वत्यक्तित्ववान् घट इत्यन्वयबोधः । सुन्दरः पुत्रो भविष्य- तीत्यत्र पुत्रगततद्वयक्तित्वे व्यवहारस्यादर्शनेन तत्र विभक्तेः शक्तिग्रहाभावेन कथन्तस्य शाब्दबोधविषयतेत्यत पाह -अपूर्वव्यक्तिनिष्ठेत्यादि । विशि- ज्येति । स्वरूपतस्ताहशतव्यक्तित्वस्येत्यर्थः । एकमात्रवृत्तिधम्मस्वादिनेति। भेदविशिष्टान्यत्वधर्मेणेत्यर्थः । सामान्यप्रत्यासत्तीति । सामान्यधर्मरूपा चक्षुषोऽपूर्वतद्वयक्तित्वे प्रत्यासत्तिः सन्निकर्ष इत्यर्थः । चक्षुस्सन्निकृष्टे तद्व्यक्तित्वे यदिदं भेदविशिष्टान्यदिति ज्ञानं तत्प्रकारीभूतभेदविशिष्टान्य- स्त्रम् । सकलतद्वयक्तित्व इति चक्षुषः स्वजन्यज्ञानप्रकारीभूतभेदविशिष्टा- न्यत्वरूपधर्मवत्वस्यापूर्वतद्वयक्तित्वे सन्निकर्षात्। भेदविशिष्टान्यत्वेन ज्ञाय. माने सकलतद्वन्यक्तित्वे विभक्तेः शक्ति ग्रहात् अपूर्वस्यापि शाब्दबोधविषयता- पत्तिरिति बोध्यम् । एतादृशानुगतामेदस्यैवेति । भेदविशिष्टान्यस्यैवेत्यर्थः। तथात्वनिति । संसर्गतात्वमित्यर्थः । विशिष्य तथात्वे इति । तद्वयक्तित्वा- वच्छिन्नप्रतियोगिताकभेदाभावत्वेन संसर्गत्वे इत्यर्थः । घटो न नील इत्यादीति । अयं भावः । नीलो घट इत्यत्र यदि तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गस्तहि नीलो न घट इत्यत्रापि तद्वयक्तित्वावच्छिन्न प्रतियोगिताकभेदाभावसम्बन्धा- वच्छिन्नप्रतियोगिताकनीलाभाव एव घटे ना बोध्येत । न तु तत्र तादात्म्यं विभक्त्यर्थः । नीलस्य बृत्तित्वसम्बन्धेन तादात्म्येऽन्वयं कृत्वा नीलवृत्तिता- । ।

६४ व्युत्पत्तिवादः [ कारके इत्यादिवाक्यजन्यबोधे 'प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमा- विति न्यायेन तादृशाननुगतसम्बन्धावच्छिन्नप्रतियोगिताकाननु- गताभावा एव भासेरन् न तु नीलवृत्तिरेकोऽभावः, तथा सति यत्किचित्तादृशाभावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादि- वाक्यस्य प्रामाण्यं स्यात् । इइन्तु बोध्यम् । विशेषणविभक्तरभेदार्थकत्वे घटो न नील इत्यादौ नया नीलाद्यभेदाभाव एव प्रत्याययिष्यते न तु नीलादि- भेदः । याहशसमभिव्याहारस्थले येन सम्बन्धेन यत्र धर्मिणि येन रूपेण यद्वत्त्वं नबसत्त्वे प्रतीयते तादृशस्थले नबा तद्धर्मिणि ताह- शसम्बन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावबोधस्य व्युत्पत्तिसिद्धत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः । दात्म्याभाववान् घट इत्याकारको बोधो नमोऽसत्त्वे येन सम्बन्धेन येन रूपेण यद्वत्ता यत्र यादृशसमभिव्या हारात्प्रतीयते सादृशसमभिव्याहारेण नवटितेन तत्सम्बन्धावच्छिन्नतद्धविच्छिन्न प्रतियोगिताकाभाव एव तत्र प्रतीयते । इत्यर्थ के प्रतियोग्यभावान्बथो तुल्ययोगक्षेमा' वित्यभियुक्तवचनात् । तथा च तद्वयक्तित्वभेदेन तद्वयक्तित्वघटितसम्बन्धस्यापि भेदात् । तत्तत्सम्बन्धा- वच्छिन्नप्रतियोगिताकामावस्यापि भेदेन नीलेऽपि घटे स्वेतरनीलगततद्वन्य- क्तित्वघटितोक्त सम्बन्धस्याभावेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभाव- स्य तत्सम्बन्धस्य व्यधिकरणतया तत्सम्बन्धावच्छिन्नप्रतियोगिताकस्वात्मक- नीलाभावस्य च सत्त्वेन न नील इति प्रयोगापत्तिः। तादात्म्यत्वेन संसर्गत्वे स्वकीयसंयोगेन वह्निमति अन्यदीयसंयोगस्याभावेऽपि संयोगेन वह्निर्नास्तीति यथा न भवति तथा तादात्म्येन नीलो नेति न प्रयोग इति । न च तत्तद्वयक्ति- त्वावच्छिन्नप्रतियोगिताकभेदकूटत्वावच्छिन्नप्रतियोगिताकस्यैकस्यैवाभावस्य संसर्गत्वेन न संसर्गभेदात्तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावभेद इति न नीलेऽपि न नील इति प्रयोगापत्तिः । न च कूटत्वमपेक्षाबुद्धिविषयत्वमेव।

प्रथमा ] जयाऽजङ्क्तः ६५ एवं च नमो भेदबोधकत्वं न कुत्रापि संभवति । अनीलं घटमानये- त्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नीलभिन्नपर- तया नबो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । । तच्चापेक्षावुद्धिभेदेन भिन्नं तदवच्छिन्नप्रतियोगिकाभावोऽपि भिन्न एवेति न संसर्गस्यै क्यमिति वाच्यम् । तत्तत्कूटत्वावच्छिन्नाभावस्य समनियतत्वेन समनियताभावस्य चैक्येन संसर्गभेदाभावात् । संसर्गतावच्छेदकीभूततादृशा- भावत्वस्य तद्व्यक्तित्वभेदभिन्नतया तदवच्छिन्नसंसर्गताभिन्नैव स्यादिति न, स्वरूपत एव तादृशाभावस्य संसर्गत्वोपगमात् । संसर्गघटकतद्व्यक्तित्वा- देरनुपस्थितत्वेऽपि न क्षतिरनुपस्थितस्यापि संसर्गत या भानस्वो कारादिति वाच्यम् । बहुषु घटेषु बहुनीलतादात्म्यसत्त्वे बहुघटघटकद्वित्रघटेषु स्वा- नात्मकबहुनीलान्तर्गतद्विवनी लतात्पर्येण नीला घटा इत्यापत्तरित्यलम् । इदन्तु वाध्यमित्या देरयमाशयः। यदि नीलो घट इत्यादौ विशेष- गविभक्तेस्तादात्म्यमर्थस्तर्हि स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकतादा- त्म्याभाव एव नोलो न घट इत्यादौ ना बोद्धयेत । प्रतियोग्यभावान्व- यौ तुल्ययोगक्षेमाविति व्युत्पत्तेः । तथा च तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकाभावरूपभेदबोधकत्वं नञः सकललोकप्रसिद्ध मुच्छिन्नं स्यादिति बोध्यम् । तद्भदतत्तादात्म्याभावयोरैक्येऽपि भेदत्वेन भेदबोधकत्वं न स्या- दिति तात्तर्यम् । न च अनीलं घटमानयेत्यादौ तादात्म्यार्थकविभक्त्यभावेन नो नीलमे- दबोधकत्वमेवेति भेदबोधकत्वन्नोच्छिन्नमित्यत आह-अनीलं घटमानयेत्यादि । घटेन सह सामानाधिकरण्यान्वयानुरोधेनानीलपदस्य नीलभिन्नार्थकत्वं बक्तव्यन्तदर्थञ्च नत्रों भेदवति लक्षणा वक्तव्या । ततश्च भेदमुख्यविशेष- कोपस्थितिजनकत्वमुच्छिन्नमेवेति बोध्यम् । अभेदस्य प्रकारत्वे सम्भवत्यपि ५ [ कारके व्युत्पत्तिवादः इदं तु तत्त्वम् । असमस्तनीलो घट इत्यादिस्थलेऽभेदस्य संस- गतोपगमेऽपि गौरवविरहात् तत्र विशेषण विभक्तवृत्तिकल्पनमनुचि- । संसर्गतयैव भानमुचितमित्याह-इदन्तु तत्त्वमित्यादिना। विशेषणविभक्ते- वृत्तिकल्पनमिति । संसर्गताभिन्नत निष्ठविषयताकशाब्दबोधे वृत्तिज्ञानाधी- नतद्विषयकोपस्थितेर्हेतुतयाऽभेदस्य प्रकारतया भानोपगमे विशेषणविभक्त- स्तत्र वृत्तिकल्पनमावश्यकन्तदेव गौरवं संसर्गतया तु श्राकाङ्क्षयैव भानोप- पत्तौ संसर्गतामते तत्र वृत्तिकल्पनं नास्तीति लाघवमिति बोध्यम् । न च संसर्गतामते अभेदसंसर्गकशाब्दबोधस्य नीलस्य घट इत्यादिवाक्यादभा- वायाभेदसंसर्गकशाब्दबोधे प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदत्व- रूपाकाङ्क्षाज्ञानस्य कारणत्वं वाच्यम् । प्रकारतामते च ताशकार्यकारण- भावानभ्युपगमेन संसर्गतामते तादृशाकार्यकारणभावो मन्मते वृत्तिकल्प- नमित्युभयोः साम्येन कथं वृत्तिकल्पनमनुचितमिति वाच्यम् । विरुद्ध विभ- क्त्यन्तघटितात् नीलस्य घट इत्यादिवाक्यादभेदप्रकारकबोधवारणाय अभे- दप्रकारकबोधवादिनाऽपि तादृशाकाङ्क्षाज्ञानस्य कारणत्वाभ्युपगमेन तदंशे साम्यात् वृत्तिकल्पनस्य गौरवेणानुचितत्वध्रौव्यात्। न च संसर्गतावा- दिनामपि यत्राभेदे विभक्तेश्शक्तिभ्रमो लक्षणाग्रहो वा तत्राभेदप्रकारक एव बोधस्तैरभ्युपेयः। तथा चान्यत्राभेदसंसर्गकोऽत्राभेदप्रकारको द्विविधो बोध इष्टस्तेषां तादृशोभय बोधस्य नीलस्य घट इत्यादिवाक्याद्वारणाय तत्तद्बोधे आकाङ्क्षाज्ञानस्य कारणत्वे कार्यकारणभावद्वयम् । प्रकारता- वादे चाभेदसंसर्गबोधस्याभावेन अभेदप्रकारक एक एव बोध इत्या-' काङ्क्षाज्ञानस्याभेदप्रकारकबोधस्य च एक एव कार्यकारणभाव इति तदेशे लाघवेन: वृत्तिकल्पनमनाधिक्येन नानुचितम् । किञ्च संसर्गता- वादिमते उक्तयोविविधबोधयोर्योग्यताज्ञानमपि भिन्न भिन्नमभेदसंसर्गक- बोधे अभेदसंसर्गकनीलप्रकारकम् । अभेदप्रकारकबोधे अभेदनिष्टस्वरूप- प्रथमा] जयाऽलङ्कृतः तम् । न च यत्राभेदे विशेषण विभक्तेः शक्तिभ्रमः स्वारसिकलक्षणा- ग्रहो वा तत्र सर्पमत एवाभेदप्रकारकबोधस्य नीलो घट इत्यादिवा- क्यादुत्पत्त्या तादृशसमभिव्याहार ज्ञानस्य द्विविधनोधे हेतुताद्वयं कल्पनीयम्, अभेदस्य संसर्गतावादिनेति गौरवम् । एवं तादृशसम- भिव्याहारज्ञानघटितसामण्या भिन्नयोग्यताज्ञानघटितत्वेन द्वविध्य- मिति भिन्नविषयकप्रत्यज्ञादिकं प्रति तादृशशाब्दसामग्रीप्रतिबन्ध- कताया अप्याधिक्यामिति वाच्यम् । अभेदस्य संसर्गतावादिनोक्त- सम्बन्धावच्छिन्नप्रकारताकम् । तथा च तद्धटितसामग्रथापि भिन्ना । तयोश्च भिन्न विषयकप्रत्यक्षम्प्रति प्रतिबन्धकताद्वयम् । प्रकारतामते च एक एवा- भेदप्रकारको बोधः। योग्यताज्ञानमप्ये कमेवाभेदप्रकारकम् । तद्घटिता एकैव सामग्री । तस्या भिन्नविषयकप्रत्यक्षं प्रति एकैव प्रतिबन्धकतेति प्रतिबध्य- प्रतिबन्धकभावेऽपि लाघवाद त्तिकल्पनं नानुचितमित्याह-ज च यत्रोत्या- दिना वाच्यमित्यन्तेन । यदि च नीलो घट: श्यामो घट इति वाक्यद्वय- जन्यैकाकारकबोधोदयेनाकाङ्क्षाज्ञानस्य दैविध्येन च परस्परजन्यबोधे व्यभिचारवारणाय कार्यतावच्छेदककोटौ कारणानन्तर्यनिवेशस्यावश्यक- त्वेन तदेव जन्यतावच्छेदकमस्तु । विषयतानिवेशश्च मास्तु । स्वोत्तर- शाब्दबोधे नीलो घट इत्याकाङ्क्षाज्ञानं कारणं स्वोत्तरशाब्दबोधे श्याम घट इत्याकाङ्क्षाज्ञानं कारणमितिरीत्यैव कार्यकारणभावो वक्तव्य इति बोधस्य दैविध्येऽपि एक एव कार्यकारणभावः । संसर्गतामतेऽपि अत एव भेदान्वयप्रकरणे पायस्थले व्यभिचारवारणायानयैव रीत्या विषयतामनि- वेश्य एक एव कार्यकारणभावः स्वीकृत इति मन्यसे । तथाऽपि प्रतिबन्ध- कताद्वयं संसर्गतावादिमतेऽवश्यमित्याह-एवमिति । वस्तुतस्तु विषय विशे- षविषयकशाब्दबोधे आकाङ्क्षाज्ञानस्य कारणत्वाभावे विषय विशेषविष- यकशाब्दबोधार्थिनो वाक्यविशेषोच्चारणे एव प्रवृत्तिरिति नियमानुपपत्त्या कार्यतावच्छेदककोटौ विषयतानिवेश आवश्यक एवेति बोध्यम् । उक्त- ६८ व्युत्पत्तवादः [करके । स्थलेऽपि तत्संसर्गकबोधस्यैवोपगमादिति दिक् । स्तोकं पचति मृदु पचतीत्यादौ विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि स्तोकमृद्वादे- र्धात्वर्थपाकादावभेदान्वयोऽपिव्युत्पत्तिसिद्धः,तदनुरोधेन च द्विती- यान्तपधातुपदयोः समभिव्याहारस्याप्यभेदान्वयबोधौपयिका- काङक्षात्वमुपगम्यते क्रियाविशेषणस्थले च न द्वितीयातिरिक्तवि- भक्तिरुत्पद्यते, क्रियाविशेषणानां कर्मत्वमित्यनुशासनेन तत्र कर्म- । । । स्यलेऽपीति । शक्तिभ्रमलक्षणाग्रहस्थलेऽपीत्यर्थः । तत्संसर्गकेति । अभेद- संसर्गकेत्यर्थः । तथा च न कार्यकारणभावद्वयमिति बोध्यम् । न च विभ- क्तिनिष्ठवृत्तिज्ञानाधीनोपस्थितीयसंसर्गताभिन्न विषयतायाः शाब्दबोधीयप्र. कारताविशेष्यतान्यतरविषयताप्रयोजिकायाः सत्त्वे कस्यचिदिच्छामात्रेण विभक्त्यर्थस्य संसर्गतया भानन्नोचितमिति वाच्यम् । शाब्दबोधे तात्पर्य- ज्ञानस्याऽपि कारणतया तत्संसर्गकबोधस्यैवानादितात्पर्य्यकल्पनात् । वस्तु- तस्तु अभेदप्रकारकबोघस्यैव मेदान्वयप्रारणे सिद्धान्तयिष्यमाणत्वेन प्रकृत- ग्रन्थस्य धूलीप्रक्षेपमात्रत्वात् । द्वितीयान्तपदधातुपदय रिति । अभेदान्वय- बोधे द्वितीयान्तस्तोकादिपदसमभिव्याहृतपचत्यादिपदत्वरूपाकाङ्क्षाज्ञानं कारसामेवं रीत्या कार्यकारणभावो वक्तव्यः । इदमुपलक्षणम् । यादृशयाश- समभिव्याहारादभेदान्वय इष्यते तादृशतादृशसमभिव्याहारस्य कारणत्वं वक्तव्यम् । यथा वेदाः प्रमाणं सोमेन बजेदित्यादौ । क्रियाविशेषणाना- मिति । न च स्तोक पचतीत्यादौ धात्वर्थफलस्य व्यपदेशिवद्भावेन फला- श्रयत्वात् । तादात्म्यफलतावच्छेदकसम्बन्धान्यतरसम्बन्धेन फलाश्रयस्य करित्यनेन कर्मत्वमिति स्वीकारेणैवोपपत्तावपूर्वस्यातिदेशवचनस्य स्वी. कारो व्यर्थः । स्तोर्क तिष्ठतोत्यादौ फलस्यापि धात्वर्थत्वोपगमेन न दोषः। न च तर्हि सकर्मकत्वापातः । स्वार्थफलजनकव्यापारवाचकत्वस्यैव सक- मकत्वादिति वाच्यम् । स्वार्थफलव्यधिकरणब्यापारवाचकत्वं तत् । स्था- प्रथमा] जयाऽलङ्कृतः ६६ स्वातिदेशात् । न चैव स्तोकः पाक इत्यादावपि द्वितीयाप्रसङ्गस्त- त्रापि स्तोकादेः क्रियायामेव विशेषणत्वात्। भावकृतां प्रयोगसा- धुत्वमात्रार्थकतया धातुनैव तत्र पाकादिप्रतिपादनादिति वाच्यम्। क्रियापदस्य तत्र सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात् । स्तो ना धात्वर्थयोः फलव्यापारयोस्सामानाधिकरण्यादिति वाच्यम् । गौरवात् स्तोकः पच्यत इति स्तोकरूपे कर्मणि लकारापत्तेश्च । वस्तुतस्तु वचन- कल्पनगौरवापेक्षया निरुक्तगौरवस्याल्पत्वम् । लः कर्मणीत्यत्र कत्तृ साह- चर्येण धात्वर्थे भेदान्वयिनि कर्मण्येव लकारो विधीयत इति स्तोकादिकर्मणि लकारापत्तिरपि कर्मत्वातिदेशेऽपि लकारापत्तिवारणस्य प्रकारान्तरेणा- शक्यत्वाच्चेति वैयाकरणमतमेव युक्तम् । क्रियापदस्थेत्यादि । पाक इत्यत्र भावानुशिष्टघञो निरर्थकत्वेन पाकक्रियायास्सार्थकप्रत्ययान्त घातूपस्थाप्यत्वाभावान्न स्तोकः पाक इत्यादी स्तोकस्य कर्मत्वम् । ननु शक्तिमत्वञ्चत्सार्थकत्वं तर्हि करणाधिकरणयोः रागो रङ्ग इत्यादौ घना बोधेन घञ्त्वेन करणाधिकरणनिरूपितशक्तताया "आवश्यकत्वेन घमात्रस्य शक्तिमत्वे न निरर्थकघञोऽप्रसिद्धिः। न चाकर्तरि च कारके संज्ञायामित्यनुशासने संज्ञायामित्युक्त्या संज्ञास्थघञ एव शक्ति- मत्वन्नासंज्ञास्थस्य पाक इत्यादाविति वाच्यम् । भावे घञ् इत्यनुशासनेन घमात्रस्य भावनिरूपितशक्तिमत्वस्य बोधनात् । संज्ञायामित्यस्य को लाभो लब्ध इत्याद्यनुरोधन प्रायिकत्वाच्च । न चाबोधकस्य पाकशब्द- घटकघञो बोधकत्वेन भगवदिच्छा विषयत्वे भगवदिच्छाया अविसम्वा- दित्वानापत्त्या घञमात्रस्य भावबोधकत्वबोधकस्य भावे घञ् इत्यस्याप्रा- माण्यापत्त्या चाबोधकपाकशब्दघटकघभिन्नस्यैव घस्रो भगवदिच्छायां भावे घञ् इति सूत्रे च प्रवेशान्न तत्रत्यघञः शक्तिमत्वरूपसार्थकत्वमिति वाच्यम् । तथा सति स्तोकं स्थीयत इत्यादौ वर्तमानत्वाविवक्षास्थले य व्युत्पत्तिवादः [कारके स्थीयत इत्यादौ आख्यातस्यापि वर्तमानत्वार्थकतया सार्थकत्वात्। न च वर्तमानत्वाद्यविवक्षायां द्वितीयानुपपत्तिरिति वाच्यम् । । आख्यातस्तस्यापि विसम्वादित्वभयेन वर्तमानबोधकत्वेनाख्यातविषयक- भगवदिच्छायां लटो वर्तमानबोधकत्वबोधके वर्तमाने लडिति सूत्रे चाप्रा- माण्यभयेनाप्रवेशस्यावश्यकत्वेन शक्तिमत्वरूपसार्थकत्वस्याभावेन क्रिया- विशेषणे कर्मत्वानापत्तिरिति चेत्-मैवम् । एतदभिप्रायेणैवार्थबोधस्वरूप- योग्यताप्रयोजकाकाङ्क्षाशालित्वरूपसार्थकत्वस्य वक्ष्यमाणत्वात् बोधस्व- रूपयोग्यतारूषार्थबोधकताया आकाङ्क्षाविवक्षाद्यभावस्थलेऽपि सत्त्वेन भग- वदिच्छायाः सूत्रस्य च विसम्बादित्वाप्रामाण्ययोरप्रसक्तेः । वर्तमानत्व- प्रकारकस्थितिविशेष्यकबोधं प्रति स्थाधातूत्तरवाख्यातत्वरूपाकाङ्क्षा- ज्ञानं कारणं तादृश्याश्चाकाङ्क्षाया वर्तमानत्वविवक्षास्थल इवाविवक्षा- स्थलेऽपि सत्त्वे नोभयत्राख्यातस्य सार्थकत्वात् । क्रियाविशेषणस्य कर्म- त्वोपपत्तिः । पाक इत्यादौ च घनर्थनिष्ठविषयतानिरूपितधात्वर्थनिष्ठ- विषयताकबोधस्याभावेन तादृशबोधप्रयोजकाकाङ्क्षाया अप्यभावेनार्थव- त्वविरहान्न तत्र कर्मत्वम् । न च तादृशार्थबोधप्रयोजकाकाङ्क्षा या अमा- वेऽपि एकत्वनिष्ठविषयतानिरूपितपाकत्वावच्छिन्नविषयता निरूपकबोध- प्रयोजिका पचपदोत्तरवपदोत्तरसुपदत्वरूपाऽऽकाङ्क्षा तच्छालित्वरूपसा- र्थकत्वं घंञो वर्तेत एवेति वाच्यम् । स्वार्थनिष्ठविषयतानिरूपितप्रकृत्यर्थ- निष्ठविषयताप्रयोजकाकाङ्क्षाशालत्वमेव प्रत्यये सार्थकत्वमित्यस्य स्वी- कारात् । स्वं सार्थकत्वेन विवक्षितः प्रत्ययः प्रकृते घअर्थविषयकबोधस्यैव पाकग्दादभावेन निरुक्तसार्थकत्वस्याभावादिति दिक् । ननु स्तोकं स्थीयत इत्यादिभावाख्यातस्थलेऽपि कर्तृ कर्मभावाब- धकत्वेनाख्यातस्य सार्थकत्वाभावात् । कथं स्तोकस्य कर्मत्वमित्यत आह- वत मानार्थकतयेत्यादि । कर्ताद्यबोधकत्वेऽपि वर्तमानकालबोधकत्वेनैव सार्थ- प्रथमा] जयाऽलङ्कृतः वर्तमानत्वादिविवक्षास्थल इव अर्थबोधस्वरूपयोग्यताप्रयोजिका- काङ्क्षाशालित्वेनैव तदविवक्षास्थलेऽपि भावाख्यातस्यार्थवत्त्वात्। केचित्त धातोरिव घबन्तस्यापि पाकादौशक्तिरुपेयते। अन्यथा सुब्विभक्त्यर्थसंख्याकर्मत्वादीनां तत्र पाकादावन्वयार्नुपपत्तेः । प्रकृत्यान्वितस्वार्थबोधकत्व प्रत्ययानामिति व्युत्पत्तेर्धातूनां च कत्वोपपत्तिरिति भावः । ननु वर्तमानकालस्याप्यविवक्षास्थलेऽबोधात् कथं तत्र कर्मत्वमित्यत आह-वत मानत्वादिविवक्षास्थल इवेत्यादि । विव- क्षाया अभावेन बोधाभावेऽपि बोधप्रयोजकाकाङ्क्षाशालित्वेन सार्थकत्वोप- पत्तिरिति भावः । अन्यथेति । घान्तपाकादिशब्दे शक्त्यभाव इत्यर्थः। कर्मत्वादीनामित्यत्र षष्ठयाः पाकादावित्यत्र सप्तम्याश्च विषयतैवार्थ- स्तथा संख्याकर्मत्वनिष्ठविषयतानिरूपितपाकनिष्ठविषयतानिरूपकबोधा- नुपपत्तिरित्यर्थः । न तु प्रतियोगित्वं षष्ठयर्थोऽनुयोगित्वं सप्तम्यर्थः । पाकं पश्येत्यादौ कर्मत्वप्रतियोगिकानुयोगिकशाब्दबोधस्यानुदयात् । धातूनाञ्च सुविभक्त्यप्रकृत्तित्वादिति । पाक इत्यत्र घअन्तस्यैव सुब्विभक्तिप्रकृति- त्वादिति भावः। सुप्पदं पाकोऽस्तीत्यत्रत्यतिङोऽप्युपलक्षणम् । तदर्थस्यापि प्रथमाविभक्तिप्रकृत्यर्थे एवान्वयात् । तत्प्रकृतित्वञ्च तनिष्ठविधेयता- निरूपितोद्देश्यताश्रयत्वम् । प्रकृत्यर्थत्वञ्च न प्रकृतिनिष्ठवृत्तिनिरूपकत्वं कृदन्तपाठकपाठकादिरूपा या सुब्विभक्ति प्रकृतिस्तत्र वृत्तिविरहेण प्रकृत्य- प्रिसिद्धस्तद्घटकप्रत्ययनिष्ठवृत्तिमादाय समन्वये तु धातुनिष्ठवृत्तिनिरू- पकधात्वर्थेऽपि प्रकृत्यर्थत्वापत्तेश्च । किन्तु प्रकृतिविशिष्ट वृत्तिनिरूपकत्व- मेव तत् । वैशिष्ट व्यञ्च स्वपर्याप्तत्वस्वचरमावयवपर्याप्तत्वान्यतरसम्ब- न्धेन । पाचकादिघटकधातुनिष्ठवृत्तौ वैशिष्टयविरहान्न दोषः । क्विबन्तस्थले प्रातिपदिकसंज्ञासमये क्विपोऽप्यनुसन्धानेन क्विवन्ते एवोद्देश्यतायास्सत्त्वेन तस्यैव प्रकृतित्वेन धातुनिष्ठवृत्तेस्तत्पर्याप्तत्वाभावेन न धात्वर्थस्य सुम्प्र- ७२ व्युत्पत्तिवादः [कारके सुब्विभक्त्यप्रकृतित्वात् प्रकृत्येकदेशार्थेऽपि प्रत्ययान्वयोपगमे पचन्तं पश्यतीत्यादितः पचमानं पश्यतीत्यादितश्च पाकादौ द्वितीया धर्थकर्मत्वाद्यन्वयबोधप्रसङ्गात् । एकत्र विशेषणतयोपस्थितस्या- कृत्यर्थत्वम् । न च घञन्तपाकादिशब्द इव कृदन्तपाचका दिशब्देऽपि वृत्तिः किन्नोपेयते, कर्तरि कृदितिशास्त्रातिक्रमस्तु भावे घञ् इति शास्त्राति- क्रमेण तुल्य इति वाच्यम् । पचतीत्याद्यर्थ पचादिधातौ शक्तेः क्लृप्ततया पाचक इत्यत्र एबुलमात्रे एव शक्तिकल्पनयोपपत्तौ अनन्तपाचकपाठकादि. वृत्त्यानुपूर्व्यवच्छिन्ने शक्तिकल्पनायां गौरवात्, कर्तरि कृदित्यनुशासनविरो- धाच्च । घनन्तपाकादिशब्दे च भावे धात्वर्थे एव घञो विधानेन भावस्य च धातुत एव लाभादनन्यलभ्यस्यैव शब्दार्थत्वमिति न्यायविरोधात्, धात्व- तिरिक्तशाब्दानुभवविरोधाच्च । शास्त्रस्यापूर्वशक्तिग्रहे तात्पर्याभावात्। घञि शक्त्यभावेऽपि शास्त्रविरोधाभावात् । ननु प्रकृत्यान्वितस्वार्थबोध- कत्वम्प्रत्ययानामिति नियमेन प्रकृत्यर्थपदेन प्रकृत्येकदेशार्थोऽपि गृह्यत इति पाक इत्यादौ धात्वर्थेऽप्यन्वयेन नियमानुपपत्तिरित्याह-प्रकन्येकदेशार्थेऽपी- त्यादि । सिद्धान्ते धात्वर्थस्य सुपप्रकृत्यर्थत्वाभावेन दोषाभावात् । एकत्र विशेषणतयोपस्थितस्येत्यादि । पचन्तं पश्यति पचमानं पश्यतीत्यादौ लडर्थ- विशेषणतयोपस्थितस्य पाकस्यान्यत्र विभक्त्यर्थकर्मत्वादौ विशेषणतयान्वयो न स्यादिति न प्रकृत्येक देशान्वये दोष इति भावः । यथा घटो जाति- रित्यादौ घटविशेषणतयोपस्थितस्य घटत्वस्य जातावभेदेन नान्वयः । नन्विदं न युक्तम् । पचतृपचमानेति कृदन्ते शक्तिविरहेण न शत्राद्यर्थ- कतृ विशेषणतया प्रकृत्यर्थपाकस्योपस्थितिः। किन्तु विशेष्यतयैव पाकस्यो- पस्थितिरिति न तस्य कर्मत्वादावन्वये व्युत्पत्तिविरोधः । घटो जातिरित्यादौ तु घटत्वविशिष्टे घटे शक्तिसद्भावाद्युक्तमेव घटत्वविशेषणतयोपस्थिति- रिति चेत्-न । विशेषणतयेत्यत्र विशेषणता शाब्दबोधीयप्रकारता तृतीयार्थः ७३ प्रथमा] जयाऽलङ्कृतः न्यत्र विशेषणत्वेनान्वयस्याव्युत्पन्नतया तत्र प्रत्ययार्थविशेषणपाका- देर्न कमत्वे विशेषणतयान्वय इति चेत्-तथापि पाकादिविशेषण- तया सुबर्थसंख्याया अन्वयसम्भवात् । यत्र पाककर्तादेर्द्वित्वा दिकं बाधितं पाकादेश्च तदबाधितं तत्र पचन्तौ पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुर्वारत्वात् । धातूपस्थाप्यार्थे सुबर्थान्वयबोधं प्रति तत्तद्धातूत्तरप्रत्ययमिककिंचिदर्थपरत्वज्ञा- नस्य प्रतिबन्धकतामुपगम्यैतादृशातिप्रसङ्गवारणे च गौरवात् ।। एवं शोभनं पचनमित्यादौ धातुमात्र ण पाकाद्युपस्थितौ च तत्र प्रयोजकत्वम् । तस्योपस्थितस्येत्यस्यार्थे उपस्थितिविषयत्वेऽन्वयस्तथा चैक- निष्ठविशेष्यतानिरूपितरकारताप्रयोजकोपस्थिति विषयत्ववतोऽन्यनिष्ठविशे- ष्यतानिरूपितप्रकारताश्रयत्वनेत्यर्थः। तथा च शत्राद्यर्थनिष्ठविशेष्यता- निरूपितप्रकारताप्रयोजकोपस्थितिविषयत्ववतः पाकस्य विभक्त्यर्थकर्मत्व- निष्ठविशेष्यतानिरूपितशाब्दबोधीयप्रकारताश्रयत्वन्न स्यादिति तात्पर्यम् । सकृदुच्चरितस्सकृदेवार्थम्बोधयतोति न्यायादिति भावः । उभयत्रान्वयबोधे श्राकाङ्क्षाविरहाच्च । धर्मिपारतन्त्र्येण परं घटो नास्तीत्यादावभावे तथा- विधस्य घटत्वस्यान्वयः । तत्र तादृशान्वयवोधप्रयोजकाकाङ्क्षायाः कल्प- नात् । तथाऽपीति । विशेषणतयान्यत्रान्वयस्याव्युत्पन्नतया दोषाभावे ऽपी- त्यर्थः। तत्रान्यस्यान्वये बाधकाभावाद्दोषमाह-पाकादिविशेषणतयेत्यादि । धातूपस्थाप्येत्यादि । राजद्वयसम्बन्ध्येकपुरुषतात्पर्येण राजपदार्थे द्वित्वान्वये राजपुरुषाविति प्रयोगापत्तिस्तु न तत्पदार्थधाम्मिकसुबर्थान्वये तत्पदार्थान्वि- तार्थबोधकतव्यवहितोत्तरसुपभिन्नपदधम्मिकार्थपरत्वज्ञानम्प्रतिबन्धकमित्य- स्य कल्पनात् । घटपटावित्यादिद्वन्दुस्थले द्वन्द्वघटकसर्वपदार्थे संख्यान्वय- सिद्धये तत्पदार्थान्वितार्थबोधकत्वम्पदे विशेषणम् । अर्द्धपिप्पल्यावित्यादौ ।

[ कारके ७४ व्युत्पत्तिवादः शोभनाद्यभेदान्वयबोधानुपपत्तिः विशेषण विभक्तिसजातीयविभ- क्तिप्रकृत्यनुपस्थाप्यत्वात् । प्रकृत्येकदेशसाधारणताहशविभक्तिप्र- कृतित्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधा- न्वयबोधापत्तेः । कस्यचित्प्रतिबन्धकता कल्पयित्वा तद्वारणे च गौरवात् । न चैवमुपकुम्भार्द्धपिप्पल्यादिरूपपूर्वपदार्थप्रधानसमा- सपदात्कुम्भसमीपपिप्पल्यर्द्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिका- न्तरार्थाभेदान्वयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तरविभक्तथ- प्रकृतित्वादिति वाच्यम् । तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपढ़ा- नामेव कुम्भसमीपपिप्पल्य‘दौ लक्षणायाः पूर्वपदस्य तात्पर्यग्रह- मात्रोपयोगितायाश्च स्वीकारात् । वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपार्द्धादौ प्रत्य- यार्थान्वयबोधे ताशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरी- भावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे स. मानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोश्च समभिव्याहारो- प्याकाङ्क्षा । तथा सत्यतिप्रसङ्गविरहात् । धात्वर्थपाकादौ प्रत्य- यार्थान्वयबोधे प्रादिपदिकान्तरार्थाभेदान्वयबोधे च ल्युड्यना- पूर्वपदार्थप्रधानसमासे पूर्वपदार्थे संख्यान्वयानुपपत्तिस्तु न तत्रोत्तरपदस्यैव विशिष्टार्थे लक्षणायाः पूर्वपदस्य तात्पर्य्यग्राहकत्वस्य च कल्पनात् । वस्तु- तस्त्वित्यादिकल्पे पूर्वपदार्थप्रधानसमासघटक भिन्नत्वस्यापि पदे निवेशनी- यत्वाच्च । एवमित्यस्य भावानु शिष्टल्युडन्तसमुदाये शक्त्यकल्पन इत्यर्थः । कस्यचित्पतिबन्धकताल्पयित्वेति । घात्वर्थे शोभनाद्यभेदान्वयबोधे धातू- त्तरवर्ति प्रत्ययम्मिकार्थपरत्वज्ञानस्य प्रतिबन्धकत्वमित्यर्थः । न चैवं शोभनम्पचतीत्यादौ पाके शोभनान्वयानापत्तिरिति वाच्यम् । द्वितीयान्त- भिन्नपदप्रतिपाद्यशोभनेत्यादि निवेशात् । न चैवमिति। प्रकृत्येक देशार्थे विभ- प्रथमा] जयाऽलङ्कतः द्यन्तसमुदायप्रत्यययोरव्यवहित पूर्वापरीभावस्य समानविभक्ति- कयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षा- त्वोपगमे दर्शिताधिकरणाथकल्युट्प्रत्यय स्थलीयातिप्रसङ्गस्य दु. रुद्धरतया न तत्सम्भवः । अथ घबन्तसमुदायस्य पाकाद्यर्थक- त्वे घबन्तसमुदायस्य संयोगविभागत्वादिविशिष्टावाचकत्वं व्यु- त्पाद्य संयोगविभागादिपदानां नैमित्तिकसंज्ञात्वनिराकरणं दी-- धितिकृतां विरुद्धमिति चेत्का क्षतिः । न हि कस्य चिद्ग्रन्थ- कृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादौ तात्पर्य तत्र तद्विशेषणवाचकपदाद्वितीयैव यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र ताशपदं तथा विध- कृदन्तसमुदायसमानावभक्तिकमेव । तदुक्तं कातन्त्रपरिशिष्टकृता- "कथं स्तोकः पाकः कृदन्तविशेषणत्वात् । धात्वर्थंकाधिकरण्ये तु क्त्यर्थानन्वये शोभनाद्यभेदान्वये चेत्यर्थः। नैमित्तिक पज्ञात्वनिराकरणमिति । जात्यवच्छिन्ननिरूपितशक्तिमती संज्ञा नैमित्तिकसंज्ञति तद्भावः । विरुद्ध- मिति । तत्र शक्तेः स्वीकारादिति भावः । एवञ्चेति । घान्तपाकादि- शब्दस्यापि पूर्वोक्तयुक्त्या पाकादौ शक्ते सिद्धौ इत्यर्थः । यत्र धातमात्रस्यैव पाकादावित्यादि । न च धातुमात्रस्य पाकादौ तात्पर्ये सुबर्थसंख्याकर्मत्वा- देरन्वयापत्तिः। पाकस्य प्रकृत्यर्थत्वाभावात् । घअन्तस्य पाकादो तात्पर्ये विभक्त्यर्थान्वयोपपत्तावपि द्वितीयान्तत्वानुपपत्तिरुभयोस्तत्र तात्पर्येऽन्वय- बोधानुपपत्तिरिति वाच्यम् । । यत्र धातुमात्रस्यैव पाकादौ तात्यय्य तत्र विभक्त्यर्थस्याविवक्ष वात एव द्वितीयान्तपदसमभिव्याहारे प्रथमान्त एव पाकशब्दः । यत्र विभक्त्यर्थस्य विवक्षा तत्र घअन्तस्यैव पाकादौ तात्पर्यम् । तत्र घान्तसमानविभक्तिकमेव स्त.कादिपदमिति व्यवस्था । धास्वथै काधि- करण्ये स्विति । धातुजन्यबोधविषयत्वेन तात्पय्येविषयीभूतक्रियाविशेषणानां व्युत्पत्तिवादः [कारके स्तोकमोदनस्य पाक इति स्यादेवेति वदन्ति । तदर्थकपदोत्तर- विभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थ- कर्मत्वं घअन्तसमुदायजन्यबोधविषयत्वेन तात्पर्याविषयीभूत क्रियाविशेषण- वाचकपदानां घान्तसमानवचनत्वमिति सिद्धान्तः । तदर्थकपदोत्तरविभक्त्येति । नीलो घटावित्यादौ नीलपदोत्तरविभ- क्त्या न द्वित्वं नीले प्रतीयते । नीलेऽभेदसम्बन्धावच्छिन्नप्रकारता भिन्न- विषयताया असत्त्वात् । घटपदोत्तरविभक्त्या तु घटे द्वित्वम्प्रतीयत एव घटेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नायाः घटत्वावच्छिन्नविशेष्यतायास्स- त्वात् । राज्ञः पुरुषः नीलस्येदमित्यादौ राज्ञि नीले च राजपदोत्तरविभक्त्या नीलपदोत्तरविभक्त्या च संख्या प्रतीयते तत्यप्रकारताया अभेदसम्बन्धा- वच्छिन्नत्वाभावात् । ननु नीलो घट इत्यादौ नीलघटयोरभेदात् अभेदसम्बन्धा- वच्छिन्नप्रकारताभिन्नघटत्वावच्छिन्नविशेष्यताया नीलनिष्ठत्वात् । किंञ्च नीलत्वनिष्ठप्रकारतानिरूपितायास्तादृश्या अपि नीले सत्त्वात् कथन्न नीले नीलपदोत्तरसंख्या प्रतीयते। किञ्च नीलो घटः नीलस्य रूपमिति वाक्यद्वयजन्यसमूहालम्बनबोधे नोलपदोत्तरसुविभक्त्या नीले संख्याप्रत्य- यस्स्यात् । तत्र भेदसम्वन्धावच्छिन्नप्रकारताया अपि सत्त्वादिति चेत्- अत्रोच्यते । तद्धर्मावच्छिन्नबोधकतत्सदोत्तरविभक्तिप्रयोज्यसंख्यानिष्ठप्रका- रतानिरूपिततद्धविच्छिन्नतन्निष्ठविशेष्यताकशाब्दबोधे तद्धर्मावच्छिन्नबो- धकतत्पदप्रयोज्याभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयतानिरूपकशाब्द सामग्रीप्रयोजिकेत्युच्यते । नीलनिष्ठाया अपि घटत्वावच्छिन्नविशेष्यताया नील त्वावच्छिन्नत्वविरहात् । नीलत्वनिष्ठप्रकारतानिरूपिताया अपि तन्नि- ष्ठविशेष्यताया नीलत्वावच्छिन्नत्वविरहात् । समूहालम्बनस्थले षष्ठ्यन्तप- दप्रयोन्यायास्तस्याः प्रथमान्तनील पदप्रयोज्यत्वा भावानोक्तस्थलद्वये दोषः। वेदाः प्रमाणं, सम्पन्नो व्रीहिरित्यादौ प्रमाणत्वे व्रीहित्वे च विशेषणवाचकप- ७७ प्रथमा] ज्याऽलङ्कृतः विषयताशालिशाब्दबोधसामग्री अपेक्षिता । तादृशश्च बोधस्तदर्थ- विशेष्यकस्तदनिरूपितभेदान्वयविषयकश्च नीलो घटावित्यादौच विशेष्यवाचकपढ़ोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते । एवं च क्रियाविशेषणवाचकपदोत्तरविभक्या अबाधितयोरपि द्वित्व- बहुत्वयोः प्रत्यायनासम्भवात्ताशपदोत्तरमौत्सर्गिकमेकवचनमेव भावाख्यातस्थलवदित्यवधेयम्। अभदान्वयबोधश्च विरूपोपस्थित- दोत्तरविभक्त्या जायमाने संख्याबोध निरुक्त कार्यतावच्छेदकानाक्रान्ततया निरुक्तकारण विरहेऽपि न क्षतिः । यदि च स्वाश्रयाश्रयत्वसम्बन्धेन प्रमा- णत्वावच्छिन्ने ब्रीहित्वावच्छिन्ने एव संख्यान्वयस्सिद्धान्तस्तहिं कार्यता- वच्छेदककोटौ प्रकारतायाम्पर्याप्तिसम्बन्धावच्छिन्नत्वं तत्र व्यभिचार- वारणाय निवेश्यम् । तादृशश्चेति । अभेदसम्बन्धावच्छिन्नप्रकारताभिन्न- तन्निष्ठविषयतानिरूपकः पूर्वोक्त इति बोध्यम् । द्वित्वादिकम्प्रत्याय्यत इति । तद्बोधप्रयोजकनिरुक्तकारणसत्त्वात् । न तु विशेषणवाचकपदोत्तरं विभक्त्या तद्बोधप्रयोजकनिरुक्तकारणाभावात् । एवञ्चति । निरुक्त कार्यकारणभावस्यावश्यकत्वे चेत्यर्थः। प्रत्यायना- सम्भवादिति । निरुक्तकारण विरहादिति भावः । श्रौत्पर्गिकमेकवचन मिति । संख्याबोधासम्भवेन प्रयोगसाधुत्वस्य तेनाप्युपपत्ते रिति भावः । भावाख्या- तस्थल वदिति । तत्र यथा साधुत्वमात्रार्थमेवाख्यातैकवचनप्रयोगस्तद्वत्- क्रियाविशेषणवाचकपदोत्तरमपीत्यर्थः । वैयाकरणास्तु 'फलव्यापारयोर्धातुरिति भूषणोक्तदिशा धातुमात्रस्य फलविशिष्टव्यापारे शक्तिः। न च सर्वेषां धातूनां तर्हि फलवाचकत्वेन सक- मकत्वापत्तिरिति वाच्यम् । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वं फलसमानाधिकरणब्यापारवाचकत्वमकर्मकत्वमिति स्वीकारेणादोषात् । तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन फलाश्रयस्य कर्तुरित्यनेन कर्मत्व- -- ७८ व्युत्पत्तिवादः [ कारके योरेवेति व्युत्पत्तिः घटो घटः, दण्डवान दण्डवान्, पाकं पचतीत्यादी घटत्वदण्डवत्वपाकत्वाद्यवच्छिन्ने तत्तद्रूपावच्छिन्नस्य तथाविधान्वय- तथा च स्तोक पचतीत्यादौ विक्लित्यादेस्तादात्म्येन फलाश्रयत्वेन कर्म- त्वात्तत्राभेदेन विशेषणवाचकस्तोकादिपदाद्वितीया तत्कलि तमेव क्रिया- विशेषणानाकर्मत्वम् । तत्र क्रियापदं क्रियते इति व्युत्पत्त्या फलपरम् । न च कर्तुरिति कर्मत्वे तद्रूपे कर्मणि लकारापत्त्या स्तोकः पच्यत इत्या- पत्तिरिति वाच्यम् । कतृ साहचर्याकर्मणो भेदेन धात्वान्वितस्यैव लका- रादिप्रत्ययविधायकशास्त्रे ग्रहणेनादोषात् । अत एव स्तोकं पाक इत्यादौ षष्ठ्यपि न । न च 'मन्दम्वहति पवन' इत्यादौ व्यापारेऽभेदान्वयिमन्दस्य कर्मत्वानापच्या अपूर्वमेव कर्मत्वबोधकम्वचनं क्रियापदञ्च धात्वर्थमात्र- परमिति वाच्यम् । व्यापारे मन्दतायां तजन्यफलस्यापि मन्दत्वसत्त्वात्त- त्रापि फले एव मन्दान्वयात् । न च कर्मपदस्यान्यतरसम्बन्धघटितोक्तार्थ- कत्वे कर्मणि द्वितीयेत्यस्य गुर्वर्थबोधकत्वापत्तिः। विभक्तिशक्यतावच्छे- दके गौरवापत्तिश्चेति वाच्यम् । कर्मत्वशक्तिमत्त्वेनैव कर्मपदशक्य- त्वादिति वदन्ति । पूर्वमभेदान्वये प्रातिपदिकार्थे स्वसमानविभक्तिकेनेत्यादिनियममुक्त्वा तत्प्रयोजिकां प्रथमान्तनीलादिपदसमभिव्याहतप्रथमान्तघटपंदत्वादिरूपा- माकाङ्क्षाञ्चोक्त्वेदानीमपरस्तत्र नियम उच्यते-भेदान्वयबोधश्चेत्या- दिना। विरूपोपस्थितयोरेवेति। ननु एकव्यक्तरेवाभेदान्वयात् द्विवचनमनुप- पन्नमिति चेत्-न । विरूपाभ्यां विभिन्नरूपाभ्यामुपस्थितो याभ्यां तौ विरूपो- पस्थितौ तयोर्विरूपोपस्थितयोरित्यर्थः। इदञ्चाध्याहृतस्य पदयोरित्यस्य विशेषणम् । तत्रत्यषष्ठ्यर्थजन्यत्वस्य बोधेऽन्वयः। तथा च भिन्नरूपेणो- पस्थापकपदजन्य एवाभेदान्वयबोध इति नियमाकार इति पदे द्वित्वा- न्वयेनानुपपत्त्यभावात् । न चैवं नीलो घटः घटो घट इति वाक्यद्वय- प्रथमा जयाऽलङ्कृतः बोधानुयात् । अथ तत्प्रयोजकसमान विभक्तिकत्वादेः सत्त्वात्कर्थ न तादृशान्वयबोधः? अत्राहुः । यादृशं फलं कचित्प्रसिद्धथति ताशस्यैवापत्तिः स- म्भवति क्लृप्तसामग्रीबलात् । यादृशं च सर्वथैवाप्रसिद्धं तादृशस्य चापादकाप्रसिद्धरापत्तिरशक्यैवेति घटत्वाद्यवच्छिन्नविशेष्यताका- भेदसंसर्गकघटत्वाद्यवच्छिन्नप्रकारकशाब्दबोधस्थ क्वचिदप्यनु- दयात्कथं तदापत्तिः । अथ घटो नीलघटः दण्डवान् रक्तदण्डवा- जन्योऽपि घटत्वावच्छिन्नप्रकारताविशेष्यतानिरूपिताभेदनिष्ठसंसर्गतानिरू- पकस्समूहालम्बनात्मको बोधो नियमाक्रान्तत्वेन साधुस्स्यादिति वाच्यम् । भावे क्तः त्रिरूपे विभिन्नप्रकारिके ये उपस्थिते उपस्थिती इत्यर्थस्तत्प्रयोज्या या प्रकारताविशेष्यतारूपा विषयता तन्निरूपक एव योऽभेदस्तद्विषयकबोध इत्यर्थः । उपस्थितेः प्रयोज्यत्वसम्बन्धेन षष्ठ्यर्थविषयतायामन्वयस्तस्य निरूपकत्वसम्बन्धेनाभेदेऽन्वयः। उपस्थितिविषयताविशिष्टवाभेदनिष्ठा शा- ब्द बोधी या संसर्गता । वैशिष्ट्यञ्च स्वावच्छेदकधर्मेतरधर्मावच्छिन्न- विषयताप्रयोज्यविशेष्यतानिरूपितत्वस्वप्रयोज्यप्रकारतानिरूपितत्वोभयसम्ब- न्धन निरुक्तसमूहालम्बनीयाभेदनिष्ठाया निरुक्तसंसर्गताभिन्नत्वेन तद्बोधस्य नियमाक्रान्तत्वेनासाधुत्वात् । तत्प्रयोजकेति । अभेदान्वयबोधप्रयोजकेत्यर्थो न तु समानधर्मा- वच्छिन्नप्रकारताविशेष्यताकाभेदान्वयप्रयोजकेत्यर्थः । तादृशबोधस्या- प्रसिद्धत्वेन तत्प्रयोजकस्याप्यप्रसिद्धः । यादृश' फलमिति । यद्धविच्छिन्न फलमित्यर्थः । तादृशस्यैवेति । तद्धर्मावच्छिन्नस्यैवेत्यर्थः। क्वचिदप्यनु- दयादिति । तथा च तद्धावच्छिन्नकार्यतानिरूपिताकारणताश्रयस्या- प्रसिद्धथा नापत्तिसम्भवः। कतिपयकारणाधिकरणे कार्याभावप्रयोजक- जिज्ञासाया एवापत्तिपदार्थत्वात् । घटो नीलघट इत्यादि । अत्र नीलत्वा- । ।

व्युत्पत्तिवादः [ कारके नित्यादौ तादृशशाब्दबोधस्य प्रसिद्धिः । विधेयकोटावधिकाव- गाहिनः शाब्दबोधस्य नवीनैः स्वीकारादिति चेतहि घटायंशे विशेषणतावच्छेदकविधया नीलादिभाननियामकनीलाद्युपस्थि- देरधिकस्य भानेऽपि घटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशे- ध्यतानिरूपकशाब्दबुद्धित्वस्य सत्त्वात्तदवच्छिन्नकार्यकारणस्य घटत्वा- वच्छिन्नीपस्थितेः प्रथमान्तघट पदसमभिव्याहृतप्रथमान्तघटपदस्वरूपाकाङ्- क्षायास्तात्पर्यस्य च घटो घट इत्यत्रापि सत्त्वादिति भावः। विधेयकोटावधिकाबगाहिन इति। विधेयघटकतयाऽखिमद्देश्यं तदित- रञ्चावगाहिन इत्यर्थः । उद्देश्यस्य प्रथमावगतत्वेन तस्यापूर्वबोध्यत्वरूप- विधेयत्वासम्भवेन विधयतयोद्देश्यावगाही शाब्दबोधो न सम्भवतीति प्राचा- मभिमतम् । घटत्वेनावगतेऽपि घटो न लघटो न वेति सन्देहस्य सर्वानुभवसिद्धतया नीलघटार्थिनस्तत्र प्रवृत्तिन्न स्यादिति तादृशप्रवृत्तिसिद्धयर्थ प्रकृतसन्देहोच्छे- दाय घटो नील बट इति बोधोऽवश्यमभ्युपेयः । तथा च अगत्या कस्यचिदं- शस्यापूर्वत्वे तद्विशिष्टः पूर्वमवगतोऽप्यपूर्व एवेति वक्तव्य एवेत्युद्देश्यस्या- पूर्वधर्मविशिष्टस्य विधेयतयाऽवगाहो बोधे स्वीकरणीय एवेति नधानाभि- प्रायः । तथा च नीलघटो घट इत्यादौ घटत्वावच्छिन्नप्रकारतानिरूपित- घटत्वावच्छिन्नविशेष्यताकः शाब्दबोधः प्रसिद्धः । तस्य घटत्वाद्युपस्थित्या- दिकारणमपि प्रसिद्धन्तस्य घटो घट इत्यादावपि सत्त्वेन तादृशो बोधः स्यादिति भावः । विशेषणतावच्छेदकविधयेत्यादि । अयम्भावः । तस्य बोधस्य यथा घटत्वोपस्थित्या दिः कारणं तथा नीलाद्युपस्थितिर पि कारणम्। कारणकूटस्यैव च कार्योत्पादकत्वेन घटोपस्थितेस्सत्त्वेऽनि नोलोपस्थित्या- देरसत्त्वान्नापत्तिरिति दिक् । नन्विदं न युक्तम् । प्रसिद्ध व्यक्तस्तु नापत्तिस्सम्भवति । तस्या अन्यत्रो- त्पत्त्यसम्भवात् । अपि तु प्रसिद्धो यो धर्मस्तदवच्छिन्न कार्यतानिरूपित- प्रथमा ] जयाऽजङ्क्तः तितात्पर्यज्ञानविशेषादिघटितैव सामग्रो घटत्वावच्छिन्नविशेष्य- कनीलघटत्वाचवच्छिन्नाभेदान्वयबोधप्रयोजिका तदभावादेव घटो घट इत्यादिषु न तादृशशाब्दबोधापत्तिरिति केचित् -तन्न । द्रव्यत्वादौ धर्मितावच्छेदकतासंसर्गेण प्रसिद्धस्य शुद्धघटत्वाद्य- वज्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात् । न च तत्रापादकाभावः, तात्पर्यज्ञानविशेषादिघटिताया धर्मिताव- कारणताश्रयबलात् तद्धर्मावनिकाय्यस्यापत्तिर्भवति । तथा च घटत्वाव- च्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशान्दबुद्धित्वावच्छिन्न' प्रति कारणता नीलोपस्थित्यामंभिचारेण न सम्भवति । अपि तु प्रथमान्त- घटपदसमभिव्याहतप्रथमान्तघटपदत्वादिरूपाकाङ्क्षाशानादेरेव तबलात् । घटो घट इत्यादौ तादृशधर्मावच्छिन्न कार्यागादनेऽकारणीभूताया नीलाधु- पस्थितेविरहस्याकिञ्चित्करत्वादिति चेत्-अत्रोच्यते । सामान्यस्य निर्वि- शेषस्याभावेन सामान्यधर्मावच्छिन्ने कार्ये जननीये विशेषधविच्छिन्न- कार्योत्पादकसामग्र्या अपेक्षितत्वमित्यस्य वक्तव्यतया घटत्वावच्छिन्न- प्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपकशाब्दबुद्धित्वरूपसामान्यध विच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छि- नविशेष्यताशालिशाब्दबुद्धित्वरूपविशेषधावच्छिन्न कार्योत्लादिकाया नो- लाद्युपस्थितिघटितसामग्या अपेक्षितत्वेन नीलाद्युपस्थितेरवश्यापेक्षणी- यत्वान्नानुपपत्तिः । किञ्च शुद्धघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वा- वच्छिन्न विशेष्यताकशाब्दबोधस्याभाव एवापि तु नीलघटत्वाद्यवच्छिन्नप्र- कारताकनिरूपितघटत्वावच्छिन्नविशेष्यताक एवेति न शुद्धघटत्वावच्छिन्न- प्रकारताकनिरुक्तशाब्दबुद्धित्वावच्छिन्नं प्रति कस्यापि कारणता किन्तु नीलघटत्वाद्यवच्छिन्नप्रकारताकनिरुक्तधर्मावच्छिन्नं प्रत्येव । तथा च घटत्वावच्छिन्नप्रकारताघटितोक्तधर्मावच्छिन्नसत्त्वं नीलघटत्वावच्छिन्न- ६ [कारके ८२ व्युत्पत्तिवादः च्छेदकतया द्रव्यत्वादौ तदुत्पाद नियामकसामथ्या एवापादक- त्वात्। न च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबो- धोत्पत्तिप्रयोजिका द्रव्यपदजन्यद्रव्यत्वाद्यवच्छिन्नविशेष्यकोपस्थि- तितदवच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्येव । धर्मि- तावच्छेदकतायास्तत्कार्यतावच्छेदकताविरहेऽपि द्रव्यत्वादिनि- ष्ठायास्तत्कार्यतावच्छेदकधर्मघटकत्वात् ताशसामथ्याश्चात्मनि- ष्ठप्रत्यासत्त्या द्रव्यत्वाद्यवच्छिन्नविशेष्यकघटत्वाद्यवच्छिन्नाद्य- भेदबुद्धित्वरूपस्वीयकार्यतावच्छेदकावच्छिन्नोत्पत्तेरेव व्याप्यत- । प्रकारताकनिरुका कार्य प्रति या नीलाद्युपस्थितिघटिता सामग्री तत्प्रयोज्य- मेव वक्तव्यम् । तईि नो लाद्युपस्थित्यभावे तत्सत्वस्य न प्रसङ्गः । दव्य त्वादावित्यादि । अयं भावः । द्रव्यं घट इत्यादौ यो द्रव्यत्वावच्छिन्न- विशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताक: शाब्दबोधः सोऽभेदसम्बन्धा- वच्छिन्नवटवावच्छिन्नप्रकारताकः धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे प्रसिद्धश्च । तादृशस्याभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधस्य धम्मिता- वच्छेदकतासम्बन्धेन घटो घट इत्यादौ घटत्वे आपत्तिस्सम्भवति । आपाद- कोऽपि द्रव्यं घट इत्यादौ द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधो- त्पादकं यदभेदसम्बन्वावच्छिन्नघटत्वावच्छिन्नप्रकारताकं योग्यताशानं घटत्वा- वच्छिन्न प्रकारताकबोधजननेच्छयोच्चरितत्वरूपतात्पर्य्यज्ञानं घटत्वावच्छि- न्नोपस्थितिरित्येतत्समुदायो यो धम्मितावच्छेदकतासम्बन्धेन द्र व्यत्वेऽभेद- सम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकशाब्दबोधोत्पादकः स एवेति । अत्र शङ्कते । द्रव्यत्वे निरुक्तसम्बन्धेन निरुक्तशाब्दबोधोत्पादिका द्र- व्यत्वावच्छिन्नविशेष्यताकाभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयो- -ग्यताज्ञानं द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविशेष्यताकोपस्थित्यादिघटितैव सामग्री अन्यथा अन्यधर्मावच्छिन्नविशेष्यताकयोग्यताज्ञानादिनाऽन्यधर्मा- प्रथमा] जयाऽलङ्कृतः ८३ वच्छिन्नविशेष्यकशाब्दबोधापत्तेः। तथा च तदभावान्न घटो घट इत्यादौ घटत्वे तादृशो बोध इत्याशयः । ननु द्रव्यत्वावच्छिन्नविशेष्यकनिरुक्त- योग्यताज्ञानादिघटिता सामग्री आत्मनिष्ठप्रत्यासत्या कारणीभूता तस्याः कार्यतावच्छेदकस्समवाय एव न तु धर्मिमतावच्छेदकस्तहि तेन सम्बन्धेन तस्थाः कथं द्रव्यत्वे कार्योलादकत्वमिति चेत्-अत्रोच्यते । अात्मनिष्ठ- प्रत्यासत्त्या कारणीभूताया द्रव्यत्वावच्छिन्नविशेष्यताकोपस्थितितदवच्छिन्न- विशेष्यकघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानादिघटितायास्सामग्र्याः का- यंतावच्छेदकं घटत्वावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताक- शाब्दबुद्धित्वम् । तद्बटकत्वञ्च द्रव्यत्ववृत्तिम्मितावच्छेदकतायास्तथा च धम्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायमानाभेदसम्बन्धावच्छिन्नघटत्वा- वच्छिन्नप्रकारताकशाब्दबुद्धित्वं निरुक्तकार्यतावच्छेदकसमनियतं समनियत- धर्मावच्छिन्ने कार्ये जननीये समनियतधर्मावच्छिन्नकार्योत्लादकसामन्या अपेक्षा । अत एव कालादौ कालिकादिसम्बन्धेन जायमानशाब्दबोधं प्रति कालिकादिसम्बन्धेन काले जायमानशाब्दबुद्धित्वस्य समनियतं समवाये- नात्मनि जायमानशाब्दबुद्धित्वं तद्धविच्छिन्नत्य करणीभूता या प्रात्म- निष्ठोपस्थित्यादिघटिता सामग्री सैवापेक्ष्यते न तु काले सामग्यन्तरापेक्षा । श्रतो धर्मितावच्छेदकताया कार्यतावच्छेदकसम्बन्धताविरहेऽपि तेन सम्ब- न्धेन कार्योत्तत्तावुअस्थित्यादिघटिताया अपेक्षेति युक्तमेव । ननु यथा अात्मनि विद्यमाना द्रव्यत्वावच्छिन्नोपस्थित्यादिघटिता सामग्री स्वोयकार्य्यतानवच्छेदकेनापि धर्मिमतावच्छेदकतासम्बन्धेन द्रव्यत्वे शाब्दबोधं जनयति तथैव घटस्वेऽपि तेन सम्बन्धेनाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्न प्रकारताकशाब्दबोध कथन्नोत्सादयतीति चेत्-न । द्रव्यत्वे विद्यमानधम्मितावच्छेदकताया एव तदीयकार्यतावच्छेदकधर्मघटकत्वं न तु घटत्वे विद्यमानायास्तस्या इति घटत्वे तेन सम्बन्धेन जायमानघट प्रकारका- भेदबुद्धित्वस्य तदीयकार्यतावच्छेदकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धि- स्वसमनियतत्वाभावात् ।

[कारके व्युत्पत्तिवादः या घटत्वादौ धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेद- बोधापादकत्वं न सम्भवतीति वाच्यम् । योग्यताज्ञानस्य धर्मि- तावच्छेदकं निवेश्य त देनानन्तकारणताकल्पनमपेक्ष्य लाघ- वाद्धर्मिता वच्छेदकतासम्बन्धेन शाब्दबुद्धौ तादृशसम्बन्धेन ध- मितावच्छेदकमनिवेश्य हेतुताकल्पनस्यैव युक्तत्वात्। घटत्वादिध- ननु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धि त्वमेव द्रव्यत्वावच्छिन्नो पस्थित्यादिघटितसामग्र्याः कार्यतावच्छेदकं कुतो न तथा सति घटत्व- निष्ठाया अपि धम्मितावच्छेदकतायाः स्वीयकार्यतावच्छेदकधर्मघटकत्वं भविष्यतीति चेत्-न । यद्धविच्छिन्न प्रति यस्याः सामग्र्या व्याप्यत्वं स एव धर्मस्तत्सामग्र्याः कार्यतावच्छेदकमिति नियमात् द्रव्यत्वावच्छिन्नवि- शेष्यताकशाब्दबुद्धित्वावच्छिन्न प्रत्येव द्रव्यत्वावच्छिन्नोपस्थिन्यादिघटितायाः सामग्र्या व्याप्यत्वन्न तु घटत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रतीतितादृशशाब्दबुद्धित्वस्य तादृशसामग्रो कार्यतावच्छेदकत्वासम्भवात् । तथा च घटत्वे आपादकाभावान्नापत्तिरिति स्थितम् । इदानों गौरवेणात्म- निष्ठप्रत्यासत्त्या कार्यकारणभावं विहाय लाघवाद्धम्मितावच्छेदकमनिवेश्य विषयनिष्ठप्रत्यासत्या कार्यकारणभावमङ्गोकृत्यापत्तिं स्थापयति- योग्यताज्ञानस्य धम्मितावच्छेदकं निवेश्येत्यादिना । समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्य- ताकशाब्दबुद्धित्वावच्छिन्नं प्रति समवायसम्बन्धेन घटत्वावच्छिन्नाभेदसम्ब- न्धावच्छिन्नप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यताकयोग्यताज्ञानं कार- णमित्यात्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे धम्मितावच्छेदकभेदेन केवलweb- तत्सम्बन्धावच्छिन्नतद्धविच्छिन्नप्रकारतानिरूपितेति शेषः । तेन घटे द्रव्यमिति योग्यताशानात् पटप्रकारकशाब्दबोधस्य नापत्तिरिति दिक् ।

८५ प्रथमा ] जयाऽलङ्कृतः मितावच्छेदकघटत्वाद्यवच्छिन्नप्रकारताकयोग्यताज्ञानबलादेवघट- त्वादौ धर्मितावच्छेदकतासम्बन्धेन तदापत्तेः । न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्त्या हे- तुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्स्य पदादनुपस्थितत्वेऽपि द्रव्यत्वादौ ताशप्रत्यासत्त्या प्रत्यासन्नयोग्यताज्ञानात्तत्र ताशप्रत्यासत्त्या शाब्दबोधापत्तिः । आत्मनिष्ठप्रत्यासत्त्या हेतुभूतां द्रव्यत्वादचवच्छि- नोपस्थितिमन्तरेणापि ताशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशा- घटत्वावच्छिन्नप्रकारताकशाब्दबोधे कार्यकारणभावानन्त्यमिति गौरवम् । धम्मितावच्छेदकतासम्बन्धेन अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारता- कशाब्दबुद्धित्वावच्छिन्नं प्रति धमितावच्छेदकतासम्बन्धेनाभेदसम्बधावच्छि- नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानं कारणमिति धम्मितावच्छेदक- निष्ठप्रत्यासत्या कार्यकारणभावे अभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्न- प्रकारताकशाब्दबोधमात्रस्य निरुक्तकार्यतावच्छेदकाक्रान्ततया अभेद- सम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानमात्रस्य निरुस्तकारण- तावच्छेदकाक्रान्ततया च निरुक्ते नै कविधकार्यकारणभावेनैव निर्वाह इति लाघवम् । ततश्च घटत्वे धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्नप्रकारताकयोग्यताज्ञानबलाद्र्व्यत्व इवाभेदसम्बन्धावच्छिन्न- घटत्वावच्छिन्नप्रकारताकशाब्दबोधापत्तिः । अथ प्रमेयपदजन्यप्रमेयत्वा- वच्छिन्नोपस्थितिदशायां द्रव्यत्वावच्छिन्नोपस्थितिमन्तरेणापि धम्मितावच्छे- दकतासम्बन्धप्रमेयत्वे घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकयोग्य- ताज्ञानबलात् धम्मितावच्छेदकतासम्बन्धेन अभेदसम्बन्धावच्छिन्नघटत्वा- वच्छिन्न प्रकारताकशाब्दबोधोघटः प्रमेय इत्यादौ यथा भवति तथा द्रव्यपदाद् द्रव्यत्वावच्छिन्नोपस्थित्यभावे उक्तसम्बन्धेनोक्तयोग्याताज्ञानबलात् घटो द्रव्यमिति शाब्दबोधापत्तिरित्याह-न च योग्यताज्ञानस्येत्यादिना ॥तथा च ८६ व्युत्पत्तिवादः [कारके यांप्रमेयत्वादौ धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य फलज- नकत्वात्ताहशद्रव्यत्वाचवच्छिन्नोपस्थिविरहस्याकिञ्चित्करत्वादि- ति वाच्यम् । समानप्रकारता प्रत्यासत्त्या पदार्थोपस्थितेः शाब्दबोधे हेतुत्वोपगमात् । येन सम्बन्धेन यद्धर्मावच्छिन्नकार्य प्रति येन सम्बन्धेन यद्धर्मावच्छिन्नकार्यस्य व्यापकता तेन स- विषयनिष्ठप्रत्यासच्या कार्यकारणभावो न वक्तव्य इति भावः । विषय- निष्ठप्रत्यासत्या कार्यकारणभाववादी समाधत्ते-समानप्रकारतेत्यादिना । प्रकारतासम्बन्धेन शाब्दबोध प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभावः । न च धर्मिमतावच्छेदकतायाः प्रकारताया:प्रकारता- नात्मकतया तेन सम्बन्धेन शाब्दबोधे तावतापे किमायातमित्याह-येन सम्बन्धेन यद्धम्मावच्छिन्नकार्य प्रतीत्यादि । तथा च धम्मितावच्छेदकता- सम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेन शाब्दबोधस्य व्यापकत्वात् । तत्सामग्याः प्रकारतासम्बन्धेनोपस्थितिघटिताया धर्मितावच्छेदकतासम्ब- न्धेन शाब्दबोवेऽपेक्षणात्तदभावेन नानुपस्थितिदशायां धम्मितावच्छेदकता- सम्बन्धेन शाब्दबोधः । न च सुन्दरो घटो नील इत्यादौ सुन्दररूपपदार्थे प्रकारतासम्बन्धेनोपस्थित्यभावात् कथं धमितावच्छेदकतासम्बन्धेन शाब्द- बोध इति वाच्यम् । निरवच्छिन्नमितावच्छेदकतासम्बन्धेन शाब्दबोधे एव तत्सामग्र्या अपेक्षणात् । प्रकृते च सुन्दरत्वावच्छिन्नायास्तस्यास्सत्वात् । अत्रेदं विचार्यते । धम्मितावच्छेदकतासम्बन्धेनाभेदसम्बन्धावच्छिन्न- । प्रकारतावच्छेदकस्यैक्यात्प्रकारतयोरप्यैक्यमित्याह-समानप्रकारते- ति । सावच्छिन्नविषयतानामवच्छेदकभेदादेव भेदः निरवच्छिन्नविषयताना- न्तु आश्रयभेदाद्भदः । ज्ञानभेदात्त नैव विषयता भिद्यते । येनोपस्थिती- यशाब्दबोधीये भिद्यतामिति विमर्शः ।

प्रथमा] जयाऽलङ्कृतः म्बन्धेन तद्धर्मावच्छिन्नकार्योत्पादकसामय्या अपि तेन सम्ब- न्धेन तद्धर्मावच्छिन्नकार्योत्पत्तावपेक्षिततया प्रकारतासम्बन्धेन द्रव्यत्वादौ द्रव्यपदजन्यपदार्थोपस्थित्यसत्त्वे तत्र तद्धर्मितावच्छे. घटत्वावच्छिन्नप्रकारताकशाब्दबुद्धित्वावच्छिन्नं धमितावच्छेदकतासम्बन्धे- नाभेदसम्बन्धावच्छिन्न वटत्वावच्छिन्न प्रकारताकयोग्यताज्ञानं कारणमिति विषयनिष्ठप्रत्यासच्या कार्यकारणभावे अन्यसमवेतयोग्यताज्ञानादन्य- समवेतशाब्दबोधापत्तिवारणाय तत्पुरुषोयनिरुक्तशाब्दबोधे तत्पुरुषोय- निरुक्तयोग्यताज्ञानं कारणमित्यस्य वक्तव्यतया पुरुषभेदेन कार्यकारण- भावानन्न्यं विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावेऽपि तुल्यमित्यात्मनिष्ठ- प्रत्यासत्या कार्यकारणभावोपेक्षायां मानमिति चेत्-न । सुन्दरी घटः सुन्दरः पुरुष इत्यादिशाब्दबोधं प्रति घटत्वाद्यचेतनधर्माणामनन्तानां पुरुषत्वादिचेतनधर्माणामनन्तानां निवेशेन कारणत्वे यावान् कार्यकारण- भावस्ततोऽर्द्ध एव पुरुषभेदभिन्नः कार्यकारणभावो विषयनिष्ठप्रत्यासत्येति लाघवात् । न च द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेन द्रव्यपदजन्योपस्थितेश्च सत्त्वात् घटस्य द्रव्यमित्यादा- वपि द्रव्यत्वे धम्मितावच्छेदकतासम्बन्धेन घटाभेदान्वयापत्तिः। न च प्रथमा- न्तघटपदसमभिव्याहृतप्रथमान्तद्रव्यपदत्वादिरूपाकाङ्क्षाज्ञानविरहान्नापत्ति- रिति वाच्यम् । घटः प्रमेय इत्यादौ तादृशाकाङ्क्षाशानाभावेऽपि धम्मिता- वच्छेदकताप्रकारतासम्बन्धाभ्यां प्रमेयत्वे योग्यताज्ञानोपस्थितिभ्यां धमिता- वच्छेदकतासम्बन्धेन घटाभेदान्वयोत्सत्या तादृशाकाक्षाज्ञानविरहस्य धम्मि- तावच्छेदकतासम्बन्धेन शाब्दबोधोत्पत्तावकिञ्चित्करत्वादिति वाच्यम् । आकाङ्क्षाशानीयमात्मनिष्ठप्रत्यासत्त्या कार्य्यतावच्छेदकं यत् द्रव्यत्वा- वच्छिन्नविशेष्यताकशाब्दबुद्धित्व तहटकत्वस्य द्रव्यत्वनिष्ठाया धम्मिता- वच्छेदकतायास्सत्वेन द्रव्यत्ववृत्तिम्मितावच्छेदकतासम्बन्धेन जायमान- व्युत्तत्तिवादः [ कारके दकतासम्बन्धेन शाब्दबोधापत्तेरयोगात् । न च यत्र प्रमेय- स्वाधवच्छिन्नविशेष्यकवृत्तिज्ञानजन्यप्रमेयत्वाद्यवच्छिन्नविशेष्यको पस्थितावेव उद्बोधकान्तरात् द्रव्यत्वाद्यवच्छिन्नस्य भानं तत्र द्रव्यत्वाद्यवच्छिन्नविषयकशाब्दापत्तिवारणाय तद्धर्मावच्छिन्न- विषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यकवृत्तिज्ञानजन्यत- द्धर्मप्रकारकोपस्थितित्वेनैव पदार्थोपस्थिते तुता वाच्या । तथा च प्रकारविशेषनिवेशस्यावश्यकत्वे विषय निष्ठप्रत्यासत्त्या हेतुताकल्पन" शाब्दबुद्धित्वं द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वसमनियतन्ततश्च सम- नियतधर्मावच्छिन्ने कार्ये जननी ये समनियतधर्मावच्छिन्नकार्योत्पादक- सामग्र्याः पूर्वोक्तरीत्या अपेक्षिततया द्रव्यत्वे धर्मिमतावच्छेदकतासम्बन्धेन शाब्दबोधं द्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधकारणाभूतनिरुक्ताका- ताज्ञानस्यापेक्षिततया तदभावेनापत्त्यभावात्। न चैवं रोत्या आपत्तिवारणे अनुपस्थितिदशायामप्यनयैव रीत्या वारणसम्भवात् । समानप्रकारता- प्रत्यासत्योपस्थिते: कार णत्वाश्रयणं ग्रन्थकृतामसङ्गतमिति वाच्यम् । श्रात्म- निष्ठप्रत्यासत्या पदार्थोपस्थितेः कारणत्वापेक्षया विषयनिष्ठप्रत्यासत्त्या कारणत्वे लाघवात् । लघुभूतोपायेनापत्तिवारणसम्भवे गुरुभूतमार्गानु- सरणस्यायुक्तत्वात् । विषयनिष्ठप्रत्यासत्या आकाङ्क्षाज्ञानस्य कारणत्वन्न सम्भवति । इत्यात्मनिष्ठप्रत्यासत्या कार्यकारणभावः । उपस्थितेश्च सम्भवतीति तथैवाश्रितः । प्रकारतासम्बन्धेनोपस्थितेः कारणत्वे दोषमाह- न च यत्र प्रमेयत्वाद्यवच्छिन्नविशेष्यकवृत्तिज्ञानेत्यादिना । उद्बोधकान्तरात् द्रव्ये चक्षःसन्निकर्षादेरित्यर्थः। हेतुताकल्पनमयुक्तमिति । अनन्तप्रकारों- भूतद्रव्यत्वादीनां कार्य्यतावच्छेदके कारणतावच्छेदके च प्रवेशेन यद्यप्यात्म- निष्ठप्रत्यासत्या कार्यकारणभावे साम्यमेव तथाऽपि तत्पुरुषोयत्वनिवेशेन गौरवादित्यर्थः ।

८६ प्रथमा] जयाऽलङ्कृतः मयुक्तम् । तथा सति पुरुषभेदेन कार्यकारणभावबाहुल्यप्रसङ्ग इति वाच्यम् । स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यताव- च्छेदकताविशिष्ट प्रकारतासम्बन्धेनोपस्थिते तुतां स्वीकृत्य तादृशा- दोषवारणोपायमाह-स्वजनकज्ञानीयेत्यादिना । स्वमुपस्थितिस्तज्ज- नकं ज्ञानं प्रमेयः । प्रमेयपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेच्छीय- विशेष्यतावानित्याकारकन्तदोया वृत्तिनिष्ठा प्रकारता विशेष्यतानिष्ठा तन्नि- रूपिता विशेष्यता प्रमेये तदवच्छेदकता प्रमेयत्वे सामानाधिकरण्येन तद्वै. शिष्टयं प्रमेयत्वनिष्ठायामेवोपस्थितीयप्रकारतायां न तूद्वोधकान्तराद्भा- समानद्रव्यत्वनिष्ठायान्तस्यामिति न तदानीं द्रव्यत्बे शाब्दबोधः प्रकारता- सम्बन्धेन, तत्र निरुक्तप्रकारतासम्बन्धेनोपस्थितेरभावादिति भावः । न च प्रमेयत्वादिप्रकारकोपस्थितिजनकानिवृत्तिज्ञानानि प्रमेयः प्रमेयपदजन्यबोध- विषयत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यतावान् । स्वजन्यबोधविषयत्व- निष्ठप्रकारतानिरूपितेच्छीयविशेष्यतासम्बन्धेन प्रमेयः प्रमेयपदवान् । प्रमेय- पदं प्रमेयत्वावच्छिन्न विषयताकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयवि- शेष्यतावत् । स्वविषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितेच्छीयविशेष्यता- सम्बन्धेन प्रमेयपदं प्रमेयविशिष्टमित्या कारकम् । एवं वृत्तित्वस्यानुगतानति- प्रसत्तस्य दुर्वचतया शक्तित्वेन लक्षणास्वेन शक्तिलक्षणयोः पृथक् प्रवेश श्रावश्यकस्तथा च प्रमेयःपटपदशक्यसम्बन्धीत्याकारकं स्वशक्यसम्बन्धित्व- सम्बन्धन प्रमेयः पटपदवान् इत्याकारकं प्रमेयसम्बन्धि शक्तं घटपदं स्वसम्ब- ‘न्धिशक्तत्वसम्बन्धन पटपदं प्रमेयविशिष्टमित्याकारकञ्च । तेषु आद्यज्ञान- जन्योपस्थितीयप्रकारता या प्रमेयत्वनिष्ठा तत्र तदुपस्थितिजनकज्ञानीय- निरुक्तविशेष्यतारूपवृत्तिनिष्ठप्रकारतानिरूपितप्रमेयनिष्ठाविशेष्यतावच्छेद- कता वैशिष्टयसत्त्वेऽपि ज्ञानान्तरजन्योपस्थितीयप्रमेयत्वनिष्ठप्रकारतायां निरुक्तावच्छेदकतासामानाधिकरण्यविरहात् तत्तज्ज्ञानजन्योपस्थितिदशायां ६० व्युत्पतिवादः [ कारके शाब्दबोधानापत्तिः। तथा च प्रकारतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञा- नीयशक्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजनकज्ञानीयश- क्तिसम्बन्धावच्छिन्नपदनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता स्वजन- कशानीयपदनिष्ठविशेष्यतानिरूपितजनकत्वनिष्ठेच्छीयप्रकारतानिरूपितबो- धनिष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकत्वनिरूपितावच्छेदकताव- च्छेदकता स्वजनकज्ञानी यशक्तिसम्बन्धविच्छिन्नमदनिष्ठविशेष्यतानिरूपित- प्रकारतावच्छेदकता स्वजनकज्ञानीयलक्षणानिष्ठप्रकारतानिरूपितविशेष्य- तावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्नपदप्रकारता निरूपित- विशेष्यतावच्छेदकता स्वजनकज्ञानीयलक्षणासम्बन्धावच्छिन्ना पदनिष्ठवि- शेष्यतानिरूपिता या प्रकारता तदवच्छेदकता स्वजनकज्ञानीयपदनिष्ठवि- शेष्यतानिरूपितशक्तत्वनिष्ठप्रकारतानिरूपितसम्बन्धिनिष्ठावच्छेदकतानिरू- पितावच्छेदकतावच्छेदकतानां सामानाधिकरण्यं प्रकारतायां पृथक् पृथक निवेश्योपस्थितीन कारणत्वं पृथगेव वक्तव्यम् । तथा च परस्परजन्यबोधे व्यभिचारवारणाय कार्यतावच्छेदककोटौ तत्तदुपस्थित्यानन्तर्य निवेश- नीयम् । तथा च कस्यापि कार्यतावच्छेदकस्य धर्मितावच्छेदकतासम्बन्धेन घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबुद्धित्वं प्रति व्यापकताया अंभावेन धम्मितावच्छेदकतासम्बन्धेन तद्धर्माविच्छिन्नकार्ये तत्तद्धर्माव- च्छिन्नकार्योत्पादकसामग्र्या अनपेक्षणादनुपस्थितिदशायां द्रव्यत्वे निरुक्तस- म्बन्धन निरुक्तशाब्दबोधापत्तितादवस्थ्यमेवेति चेत्-अत्रोच्यते । प्रकारता- सम्बन्धन शाब्दबुद्धित्वं प्रति तत्तदानन्तर्यंघटिततत्तद्धर्मस्य व्याप्यतया व्यापकधावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादक- सामग्र्या अपेक्षणात् । प्रकारतासम्बन्धेन शाब्दबोधे तादृशोपस्थितीनामपेक्षा धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधे च व्यापकसामग्री विधया तादृशो- पस्थितीनामपेक्षेति नानुगस्थितिदशायां धर्मिमतावच्छेदकतासम्बन्धेन शाब्दबोधोपपत्तिरिति दिक् । न च विशेष्यतावच्छेदकतामात्रस्योपस्थितिनिष्ठकारणतावच्छेदकसं- प्रथमा] जयाऽलकृतः सर्गतोपगमेऽप्युबोधकान्तरादुपस्थितद्रव्यत्वे शाब्दापत्तिवारणसम्भवे प्रका- रतापय॑न्तानुधावनं व्यर्थमिति वाच्यम् । द्रव्यं द्रव्यपदशक्यं प्रमेयः प्रमेय- पदशक्य इति समूहालम्बनवृत्तिज्ञानात्प्रमेयत्वावच्छिन्न मात्रोपस्थितो द्रव्य- त्वेऽपि विशेष्यतावच्छेदकतासम्बन्धेनोपस्थितेस्सवाच्छाब्दापत्तेर्वारणाय प्रकारतापर्य्यन्तस्यादरादुबोधकान्तरादुपस्थितद्रव्यत्वनिष्ठप्रकारतायां का- लिकसम्बन्धन प्रमेयत्वनिष्ठनिरुक्तविशेष्यतावच्छेदकतावैशिष्टयमादायो- क्तदोषतादवस्थ्यमिति सामानाधिकरण्यसम्बन्धन वैशिष्टयं बोध्यम्। घटो घटपदशक्य इति वृत्तिज्ञानाद्वटत्वावच्छिन्नोपस्थिताबुद्बोधकान्तरात्प्रमेय. त्वावच्छिन्नस्य भाने प्रमेयत्वावच्छिन्नप्रकारतायां निरुक्तविशेष्यतावच्छे- दकतावैशिष्टयसत्वात् प्रमेयत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय स्वा- नवच्छेदकधर्मानच्छिन्नत्वस्यापि वैशिष्टयघटकत्व बोध्यम् । प्रकृते चा- वच्छेदकतानवच्छेदकप्रमेयत्वावच्छिन्नत्तस्यैव प्रमेयत्वावच्छिन्नप्रकारतायां सत्त्वेनादोषः । प्रमेयवान् प्रमेयपदशक्य इति वृत्तिानात्प्रमेयत्वावच्छिन्न- प्रकारताकोपस्थिताबुद्बोधकान्तराद्घटत्वावच्छिन्नस्य भाने निरवच्छिन्नघट- त्वनिष्ठप्रकारतायां वृत्तिज्ञानीयमितानिरूपित प्रमेयत्वावच्छिन्नावच्छेदक-- तावैशिष्टयसत्त्वानिरवच्छिन्नवटत्वनिष्ठ प्रकारताकश व्द बोधारत्या स्वान- वच्छेदकधर्मानच्छिन्नत्वसम्बन्धावच्छिन्नस्वनिरूपितवृत्तित्वक्त्वमपि वैशि- ष्टये निवेश्यम् । प्रकृते घटत्वनिष्ठनिरवच्छिन्न प्रकारतायां स्वानवच्छेदक- धनिवच्छिन्नत्वसम्बन्धावच्छिन्ना प्रमेत्वावच्छिन्नवृत्तिज्ञानीयधम्मिता- वच्छेदकतानिरूपिता या वृत्तिता तस्या असत्त्वाददोषः । कालिकसम्बन्धेन द्रव्यत्त्वविशिष्टो द्रव्यपदशक्य इति वृत्तिज्ञानजन्यकालिकसम्बन्धावच्छिन्न- द्रव्यत्वनिष्ठप्रकारताकोपस्थितौ समवायसम्बन्धेन घटत्वविशिष्टघटस्यद्बोध- कान्तराद्भाने घटत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतायां धर्मितावच्छे- दकतावैशिष्टयस्योक्तसम्बन्धत्रयेण सत्त्वात् समवायसम्बन्धावच्छिन्नघटत्व- प्रकारकशाब्दबोधवारणाय स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्यापि चतुर्थ- सम्बन्धस्य वैशिष्टये प्रवेशः।

६२ व्युत्पत्तिवादः [कारके वस्तुतस्तु उद्बोधकवशादुपस्थितीयप्रकारतासूक्तासूक्तवृत्तिज्ञानीयध- र्मिमतावच्छेदकताप्रयोज्यत्वविरहात् स्वप्रयोज्यत्वमात्रं वैशिष्टयनियामक वक्तव्यं तेनैवोक्तदोषाणां निरासः । किञ्च द्रव्यं द्रव्यपदशक्य घटो घटपद- शक्य इति समूहालम्बनं वृत्तिज्ञानं द्रव्यपदशक्यमित्यंशे अप्रामाण्यज्ञाना- स्कन्दितं ततो घटत्वावच्छिन्नोपस्थितावुद्बोधकान्तराद्र्व्यत्वावच्छिन्नस्य भाने द्रव्यत्वनिष्ठसमवायसम्बन्धाबच्छिन्न निरवच्छिन्न प्रकारतायामुक्तचतु- टयसम्बन्धेनोरस्थितिजनकसमूहालम्बनात्मकवृत्ति ज्ञानीयघर्मिमतावच्छेदक- ताया वैशिष्टयसत्त्वेन द्रव्यत्वप्रकारकशान्दबोधवारणं प्रयोज्यत्वनिवेशाधी- नमेवेति दिक् । ननु घटत्वादिप्रकारकोरस्थितिजनकशक्तिज्ञानानि नानाविधानि । तथा हि घटो घटपदशक्यत्ववान् शक्तिसम्बन्धेन घटो घटपदविशिष्टः इत्याकारको शक्तिनिष्ठप्रकारताकशक्तिनिष्ठसंसर्गताको घटत्वनिष्ठवि- शेष्यतावच्छेदकताको घटशक्तं घटपदं शक्तिसम्बन्धन घटविशिष्टं घटपद- मित्याकारको शक्तिनिष्ठप्रकारताकशक्तिसंसर्गकघटत्वरूपानुपूर्व्यवच्छिन्न- विशेष्यताकौ च । तत्राद्यज्ञान जन्योपस्थितीयघटत्वनिष्ठप्रकारता तु उपस्थि- तिजनक ज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्य तानिरूपितघटत्वनिष्ठाव- च्छेदकताविशिष्टाऽस्ति । इतरेषु ज्ञानेष्वाद्यज्ञानोया वृत्तिनिष्ठा संसर्गता- ऽस्ति । न तु प्रकारताऽग्रेमज्ञानोयविशेष्यतावच्छेदकताघटत्वरूपानुपूर्वीनिष्ठा तद्वैशिष्टव्यमुपस्थितीयघटस्वनिष्ठप्रकारतायां नास्तीत्यन्तिमज्ञानत्रयजन्यो- पस्थितयः स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता- विशिष्ट प्रकारतासम्बन्धेन घटत्वे न सन्त ति तत्र प्रकारतासम्बन्धन शाब्दबोधानापत्तिः । निरुक्तावच्छेदकतानां घटत्वनिष्ठानां स्वजन- कज्ञानीयवृत्तिनिष्ठविषयतया परमर या निरूपितत्वेनानुगमय्य तद्वि- शिष्टप्रकारताया उपस्थितिकारणतावच्छेदकसम्बन्धत्वे घटो घटपदशक्य इति वृत्तिज्ञानजन्यघटत्वप्रकारकोपस्थितावुद्बोधकान्तराद्घटत्वरूपानुपूर्व्यव- च्छिन्नादेर्भाने आनुपूर्वीनिष्ठप्रकारताया अपि निरुक्तविषयतया विशिष्ट- प्रथमा ] जयाऽलङ्क्तः त्वेन तादृशप्रकारतासम्बन्धेन घटत्वरूपानुपूर्ध्या तादृशसमूहा लम्बनोपस्थिते- स्सत्वेन तत्र शाब्दबोधापत्तिरतो घटत्वनिष्ठावच्छेदकतानां विशिष्य स्वज- नकज्ञानीयवृत्तिनिष्ठप्रकारतानिरू पितविशेष्यतावच्छेदकतात्वेन स्वजनक- ज्ञानीयवृत्तिनिष्ठसंसर्गतानिरूपितप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वेन स्वजनकज्ञानीयशक्तत्वनिष्ठप्रकारतानिरूपितावच्छेदकतावच्छेदकतात्वेन स्व- जनकज्ञानीयशक्तत्वसंसर्गनिष्ठसंसर्गतानिरूपितप्रकारतावच्छेदकतात्वेन प्र- वेश्य तत्तदवच्छेदकता विशिष्ट प्रकारतात्मकेनासम्बन्धेनोपस्थितोनां पृथक पृथक् कारण त्वे परस्परजन्यबोधे परस्परव्यभिचारवारणाय स्वजनकज्ञानीय- वृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकारतासम्बन्धेनो- पस्थित्यव्यवहितोत्तरं प्रकारतासम्बन्धेन शाब्दबंध प्रति स्वजनक ज्ञानीय- वृत्तिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्ट प्रकारतासम्बन्धेन- पस्थितिः कारणाम्। एवं क्रमेण चत्वारः काय्यकारणभावाः स्युः। एवं वृत्तित्व- स्यानुगतानतिप्रसक्तस्य दुर्वचतया समान विषयकशाब्दबोधं प्रति प्रत्यक्ष- सामग्र्याः प्रतिबन्धकतया समानविषयकप्रत्यक्षसामग्र्यभावोऽपि शाब्दसाम- ग्र्यां प्रवेश्यः । शाब्देच्छायां समानविषयकप्रत्यक्षसामग्री सत्त्वेऽपशाब्द- बोधोत्पत्त्या शाब्देच्छाविरह विशिष्ट प्रत्यक्षसामध्यभावः शाब्दसामग्र्या प्रवे. शनीयः। तथा च शक्तिशानाधीनः शाब्दबोधो जायतामितिच्छासत्त्वे प्रत्यक्ष- सामग्रोसत्वे लक्षणाज्ञानाधीनोपस्थि तिघटितशाब्दसामग्रीसत्वे शाब्दबोध- वारणाय शक्तिज्ञानाधीनोपस्थितिजन्यशाब्देच्छाविरहविशिष्टप्रत्यक्षसाम- ग्रयभावविशिष्टा शक्तिज्ञानाधोनोपस्थितिः कारणं लक्षणाशानाधीनोप- स्थितिजन्यशाब्देच्छाविरहविशिष्ट प्रत्यक्षसामग्रयभावविशिष्टा लक्षणाज्ञा- नाधीनोपस्थिति: कारणमित्येव शक्तित्वेन लक्षणात्वेन शक्तिलक्षणे प्रवेश्य कार्यकारणभावो वक्तव्य इति शक्तिलक्षणान्यतरत्वेनापि तयोरनुगमा- सम्भवेन घटः पटपदशक्यसम्बन्धो, घटः स्वशक्यसम्बन्धित्वरूपलक्षणात्मक- सम्बन्धेन पटपदविशिष्टः, घटसम्बन्धिशक्तं पटपदं, स्वसम्बन्धिशक्तत्व- सम्बन्धन घटविशिष्टं पटपदमिति चतुर्विधलक्षणाशानाधीनोपस्थितीनाम- व्युत्पत्तिवादः [ कारके पत्तेारणात् । न च पदार्थेऽपि प्रकारतासम्बन्धेन शाब्दबोधो- त्पत्त्या तत्र निरुक्तप्रकारतासम्बन्धेन पदार्थोपस्थितेरभावात्प्रकार- प्ये करूपेण कारणत्वासम्भवात् पृथक् पृथक् कारणत्वमुक्त्वा परस्परजन्य- बोधे व्यभिचारवारणायाव्यवहितोत्तरत्वं कार्षतावच्छेदककोटी निवेश्य चत्वारः कार्यकारणभावाः स्युः । एवञ्चै कस्यापि. कार्य्यस्य धमितावच्छे- दकतासम्बन्धेन शाब्दबोधं प्रति व्यापकताया अभावेन धर्मिमतावच्छेदकता- सम्बन्धेन शाब्दबोधोत्पत्तौ तत्कारणीभूतोपस्थित्यनपेक्षणादनुपस्थितदशायां द्रव्यत्वादौ धर्मिमतावच्छेदकतासम्बन्धन योग्यताज्ञानबलात् धर्मिमतावच्छे- दकतासम्बन्धेन शाब्दबोधो दुर्वार एवेति चेत्-अत्रोच्यते । निरुक्तकार्य- तावच्छेदकधर्माणां प्रकारतासम्बन्धेन जायमानशाब्दबोधत्वव्याप्यतया व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधावच्छिन्नसामग्रन्या अपेक्ष- -गात् । श्रब्यवहितोत्तरत्वनिवेशे निरुक्तसम्बन्धेनोपस्थित्यनुत्तरं शुद्ध प्रका- रतासम्बन्धेनोद्बोधकवशादुपस्थितद्रव्यत्वे शाब्दबोधापत्तिवारणाय व्यापक- धर्मावच्छिन्ने कार्थे व्याप्यधर्मावच्छिन्न कार्यसामग्रया अपेक्षा वक्तव्या । तथा च तदन्तर्गता या विशिष्टप्रकारतासम्बन्धेनोपस्थितिस्तस्या अभावा- नापत्तिः । धम्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धन शाब्दबोधस्य व्यापकतया येन सम्बन्धेन यद्धा वच्छिन्नकार्य प्रति येन सम्बन्धेन यद्धविच्छिन्न कार्यस्य व्यापकतेत्यादिमूलोक्तरीत्या धर्मिता- वच्छेदकतासम्बन्धेन शाब्दबोधं प्रति व्यापकसामग्रयन्तर्गताया विशिष्ट प्रका- रतासम्बन्धेनोपस्थितेरपेक्षणान्नानुपस्थिति दशायां धम्मितावच्छेदकतासम्ब- न्धेन शाब्दबोधापत्तिरित । नीलो घट इत्यादौ नोले प्रकारतासम्बन्धेन शाब्दबोधो भवति प्रका- रतासम्बन्धेनोपस्थितिन्नास्तीति व्यभिचार इत्याह-न च पदार्थेऽपीत्यादि। प्रकारनिष्ठप्रत्यासत्येति । प्रकारतासम्बन्धेनेत्यर्थः। न च निरुक्तधम्मिता- ६५ प्रथमा ] जयाऽलङ्कृतः निष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुता व्यभिचारेण कल्पयितुमश- क्येति वाच्यम्। परामर्शकारणता विचारदर्शित दिशा व्यभिचारस्य वच्छेदकता विशिष्टविषयतैवोपस्थितिनिष्ठकारणतावच्छेदकरसम्बन्धोऽस्तु । वैशिष्टयञ्च स्वप्रयोज्यत्वस्वनिरूपितघम्मिताप्रयोज्यत्वैतदन्यतरसम्बन्धेन । ततश्च न व्यभिचार इति वाच्यम् । नीलो घट इत्यादी मुख्यविशेष्ये घटेऽपि ताशसम्बन्धेनोपस्थितेस्सत्त्वेन प्रकारतासम्बन्धेन शाब्दबोधाभावे नान्वय- व्यभिचारस्य तावतापि सत्त्वात् । विषयतामात्रस्थ कार्यतावच्छेदकत्वे तत्र विषयतासम्बन्धेन शाब्दबोधस्यापि सत्वान्न व्यभिचार इति तु न संसर्गे व्यतिरेक व्यभिचारापत्तेः। संसर्गताभिन्नविषयतायाः प्रवेशे सामान्यलक्षणा- नभ्युपगन्तृमते शक्तिग्रहाविषयस्यापूर्वव्यक्तेरपि योग्यताबलेन शाब्दबोधो- सत्या तत्र व्यभिचारापत्तेः। परामर्शकारणताविचारदर्शितेत्यादि । समवायसम्बन्धेन धूमहेतुकानु- मितौ समवायसम्बन्धन धूमहेतुकपरामर्शज्ञानस्यात्मनिष्ठप्रत्यासत्त्या कार- णत्वोपगमे पक्षतावच्छेदकानन्त्यात् कार्यकारणभावानन्त्यापत्त्या धम्मि- तावच्छेदकतासम्बन्धेन धूमहेतुह्नित्वावच्छिन्नप्रकारताकानुमितौ धर्मि- तावच्छेदकतासम्बन्धेन वह्निव्याप्यधूमत्वावच्छिन्नप्रकारताकपरामर्शज्ञानस्य लाघवात् धम्मितावच्छेदकनिष्ठ प्रत्यासत्या कारणत्वे स्वीकृते भाविज्ञानम- प्रमेत्यप्रामारयज्ञानानन्तरं वह्निव्यायधूमवान् पर्वत इति परामर्शस्ततो वह्निव्याप्यालोकवद्र्व्यमिति परामर्शः । तस्मिन् क्षणेऽप्रामाण्यज्ञानस्य नाशादप्रामाण्यज्ञानानास्कन्दितस्य परामर्शद्वयस्य सत्त्वेन तदनन्तरं समूहा- लम्बनात्मक पर्वतो वह्निमान् द्रव्यं वह्निमदित्याकारकमुभयलिङ्गकानु- मित्यात्मकं ज्ञानं जायते । तत्र कारणोभूतस्य वह्निव्याप्यधूमत्वावच्छिन्न- प्रकारताकपरामर्शस्य धर्मितावच्छेदकतासम्बन्धन द्रव्यत्वे विरहात् धूम- लिङ्गकानुमितेश्च सत्त्वादेवं कारणीभूतस्य वह्निव्याप्यालोकत्वावच्छिन्न- ६६ व्युत्पत्तिवादः [कारके वारणीयत्वादिति चेत्तर्हि तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन्नप्रका- रतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्यापि हेतुतायाः स्वीकरणीयतया घटो घट इत्यादि- प्रकारकपरामर्शज्ञानस्य धम्मितावच्छेदकतासम्बन्धेन पर्वतत्वे विरहाद्धम्मि- तावच्छेदकतासम्बन्धेनालोकहे तुकानुमितेश्व सत्त्वात्प्राप्तव्यभिचारवारणाय धम्मितावच्छेदकतासम्बन्धेन वाह्नव्याप्यधूमत्वा वच्छिन्नप्रकारताकपरामर्श- ज्ञानं स्वीयमितावच्छेदकताविशेष्टधम्मितावच्छेदकतासम्बन्धेन धूम- हेतुकवह्नित्वावच्छिन्नप्रकारताकानुमि तिं प्रति कारणमित्येवं रीत्या कार्य- कारणभावः कारणतावच्छेदकसम्बन्धस्य वैशिष्टयं कार्यतावच्छेदकसम्बन्धे निवेश्य स्वीकृतोऽस्ति । प्रकृते द्रव्यत्ववृत्त्यनुमिती यधम्मितावच्छेदकतायां धूमहेतुकपरामर्शायधर्मिमतावच्छेदकतावैष्टि यविरहात् पर्वतत्ववृत्त्यालोक- हेतुकानुमितीयधर्मिमतावच्छेदकतायामा लोकलिङ्गकपरामर्शीयधम्मितावच्छे- दकतावैशिष्टयविरहान्न व्यभिचारः । त व प्रकृतेऽपि स्वजनकज्ञानीय- वृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेद कताविशिष्ट प्रकारतासम्बन्धेनो- पस्थितिः स्वजनकज्ञानोयवृत्तिनिष्ठप्र कारतानिरूपितविशेष्यतावच्छेदकतावि- शिष्टस्वीयप्रकारताविशिष्ट प्रकारतासम्बन्धेन शाब्दबोधं प्रति कारण मित्येव कारणतावच्छेदकसम्बन्धवैशिष्टयं कार्य तावच्छेदकसम्बन्धे निवेश्य कार्य- कारणभावः स्वीक्रियते । नीलो घट इत्यादौ प्रकारे नीले या शाब्दबोधीया प्रकारता तत्र स्वजनकेत्यादिप्रकारतान्तकारण तावच्छेदकसम्बन्धवैशिष्टिय- विरहेण न व्यभिचार इत्या शयः। अक्षरार्थस्तु परामर्शकारणताया यो विचारस्तत्र दर्शिता या दिक् तया तद्रीत्या व्यभिचारो वारणीय इति । एतत्पर्य्यन्तग्रन्येनापत्ति दृढोकृत्य समाधत्ते-तद्धर्मावच्छिन्नाभेदसंस- विच्छिन्नेत्यादिना । प्रकारतावच्छेदकभेदो विशेष्यतावच्छेदके अभेदान्वये प्रथमा जयाऽलङ्कृतः ६७. स्थले न शाब्दबोधापत्तिः। स घट इत्यादिवाक्याज्जातित्वादिना घटत्वादिधर्मितावच्छेदककस्य स्वरूपतो घटत्वादिप्रकारतावच्छेद- ककस्य घटःस इत्यादिवाक्यात्स्वरूपतो घटत्वादिधम्मि तावच्छेद- ककस्य जातित्वादिविशिष्टघटत्वावच्छिन्नप्रकारताकस्य च शाब्द- बोधस्योपपत्तये विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे निरवच्छिन्नत्वेना विशेषणीये। घटो नोलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वेऽन्यत्र । । अपेक्ष्यत इति भावः । न शाब्दबोधापत्तिरिति । घटत्वे घटत्वभेदाभावा- दिति भावः । जातित्वादिनेति । स घट इत्यत्र जातिमान् तत्पदार्थस्तत्र जातिर्घटत्वं विशेष्यतावच्छेदकमवच्छेदकता जातित्वावच्छिन्नेति घटो घट इत्यनो विशेषः । घटस्स इत्यत्र जातिमान् तत्पदार्थस्तत्र प्रकारतावच्छेदक घटत्वं जातिः । प्रकारतावच्छेदकता च जातित्वावच्छिन्नेति पूर्वस्माद्विशेषः । उभयत्र शाब्दबोध इध्यते । स इदानीं न स्यात् प्रकारतावच्छेदकविशेष्यता- वच्छेदकयोरैक्यादिति भावः । विशेष्यत्वप्रकारत्वयोरवच्छेदकत्व इति । विशेष्यतावच्छेदकताप्रकारतावच्छेदकतानिरवच्छिन्ना कार्यतावच्छेदके प्रवे- श्या इति भावः । तथा च तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताकाभेदसम्य- न्धावच्छिन्नप्रकार तानिरूपित विशेष्य तानिरूपित निरवच्छिन्नावच्छेदकतासम्ब- न्धेन शाब्दबोधं प्रति तद्धर्मभेद: कारण मिति पर्यवसितम् । निरुक्त- प्रयोगद्वये जायमानशाब्दबोधो च न निरवच्छिन्नप्रकारतादिविशेष्यतावच्छे- दकताविशेष्यतावच्छेदकताकाविति न तत्र प्रभारतावच्छेदक विशेष्यतावच्छे- दकयोर्भेदापेक्षेति प्रकारतावच्छेदकविशेष्यतावच्छेदकयोर भेदेऽपि शाब्दबो- घोपपत्तिः। घटो नीलघट इत्याद्यन्वयबोधस्य प्रामाणिकत्वे अन्यत्र ति । तत्र हि घटत्वावच्छिन्नाभेदसम्बन्धावांच्छन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास- म्बन्धेन घटत्वे शाब्दबोधस्तत्र च घटत्वभेदाभावाद यभिचारः प्राप्तस्तद्वा- 8- [ कारके । E८ व्युत्पत्तिवादः रणार्थमन्यत्र दर्शिता पर्याप्तिनिवेशरूपा दिक् अाश्रयितव्येत्यर्थस्तथा च समपर्याप्तावच्छेदकताकाभेदसम्बन्धावच्छिन्न प्रकारतानिरूपितेत्यादिरूपः कार्यतावच्छेद कस्सम्बन्धः। प्रकृते च नीलघटत्वाभयपर्याप्ता अवच्छेदकता न घटत्वपर्याप्तेति घटत्वभेदाभावेऽपि न दोषः । ननु नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्न प्रकारतानिरूपितविशेष्य- तावच्छेदकतासम्बन्धेन शाब्दबोध यदि नीलभेदघटत्वभेदयोः कारणत्वं तर्हि विधेयकोटावधिकावगाहिनोऽपि घटो नील घट इति बोधस्यानापत्ति- घंटत्वे उतभेदद्वयत्यासत्त्वात् । यदि नीलघटत्वोभयभेदस्य तत्त्वं घटत्वे तस्य सत्वेन न दोषस्तहि तस्य केवलान्वयित्वेन समानोद्देश्यविधेयकस्य नीलघटो नीलघट इत्याकारकस्यापि शाब्दस्यापत्तिः। घटत्वे नीले वा विशेष्य- तावच्छेद के नीलघटत्वोभयभेदस्य सत्वादिति चेत्-न । तद्रूपावच्छिन्नानुयोगि- ताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्न- प्रकारतानिरूपित विशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनु- योगितावच्छेदकत्वसम्बन्धेन शाब्दबोध प्रति तद्भदस्य कारणत्वाङ्गीका- रात् घटो नीलघट इत्यादौ विधेयांशेऽधिकावगाहिनः शाब्दबोधस्य घटत्व- नीलोभयगतद्वित्वरूपावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोग्यवच्छेदकतानिरू पिताभेदसम्बन्धावच्छिन्न प्रकारतानिरूपितविशेष्यतावच्छेदकतात्वाव च्छन्न- प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे स- वेन तत्र घटत्वनीलोभयगतद्वित्वभेदस्यापि सत्वेनादोषात् । न चोभय- पर्याप्ताया अपि प्रकारतावच्छेदकताया वस्तुत्वेन घटत्वे व पाप्ति- स्तदनुयोगितावच्छेदकञ्च घटत्वगतैकत्वमेव । तथा च तदवच्छिन्नानुयोगिता- कपर्याप्तिप्रतियोग्यवच्छेदकतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्नप्र- कारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयो- गितावच्छेदकत्वसम्बन्धेन घटत्वगतैकत्वे शाब्दबोधस्तत्र घटत्वगतैकत्व- भेदाभावाद्वयभिचार एवेति वाच्यम् । स्वनिरूपितावच्छेदकतात्वावच्छिन्न- प्रति योगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तद्रूपवृत्त्यभेदसम्बन्धा- प्रथमा] जयाऽलङ्कृतः ६६ वच्छिन्न प्रकारताघटितसम्बन्धस्य विवक्षणात् तेन सम्बन्धेनोक्तप्रकारताया द्वित्व एव वृत्तः। ननु जातित्वावच्छिन्नघटत्वनिष्ठप्रकारतावच्छेदकताको यो घटस्स इ- त्यत्राभेदान्वयबोधस्तदीयप्रकारतावच्छेदकतावावच्छिन्न प्रतियोगिताकपा- प्त्यनुयोगितावच्छेदकं घटत्वगतमेकत्वमेव तद्भदस्य घटत्वगतैकत्वेऽभावाद- व्यभिचारः । न चावच्छेदकताया निरवच्छिन्नाया एव निवेशेन प्रकृते घटत्व- गतावच्छेदक ताया जातित्वावच्छिन्नत्वान्न दोष इति वाच्यम् । तर्हि नीलघ- टत्वावच्छिन्नप कारताया अपि निरवच्छिन्नावच्छेदकताया घटत्वे एव सत्त्वे न नीले ततश्व स्वनिरूपित निरवच्छिन्नावच्छेदकतावावच्छिन्नप्रतियोगिताकप- प्त्यिनुयोगितावच्छेदकत्वसम्बन्धेन घटत्वनीलोभयावच्छिन्नप्रकारताया अपि घटत्वगतै कत्ववृत्तित्वात् तद्भेदस्य घटत्वगतैकत्वेऽभावात् घटो नीलघट इति विधेयांशेऽधिकावगाहिशाब्दबोधो नस्यादिति चेत्-अत्रोच्यते । स्वनिरूपि. तनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेद- कत्वसम्बन्धेन स्वविशिष्टधविच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिभूताव- च्छेद कतानिरूपितावच्छेद्यतावदभेदसम्बन्धावच्छिन्न प्रकारतानिरूपितविशे. व्यतावच्छेद कतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्ब- न्धेन शाब्दबोधं प्रति स्वनिरूपितावच्छेदकतावच्छिन्नप्रतिय गिता कपर पर्याप्त्य- नुयोगितावच्छेदकरूपभेदः कारणम् । ततश्च विधेयांशेऽधिकावगाहिनो घटो नीलघट इति बोधस्य घटत्वगतैकत्वे नीलघटत्वोभयगतद्वित्वभेदस्य सत्वा- नानुपपत्तिः । न वा नोलघटो नीलघट इति बोधस्यापत्तिः । नीलघट- त्वोभयगतद्वित्वे नीलघटत्वोभयगतद्वित्वभेदाभावात् । ननूद्देश्यांशेऽधिकावगाहिनो नो लघटो घट इति बोधस्यापत्तिस्तत्र विशेष्यतावच्छेदकतावावच्छिन्न प्रतियोगिताकपाप्त्यनुयोगितावच्छेदके नी लघटत्वोभयगतद्वित्वे प्रकारतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्य- नुयोगितावच्छेदकघटत्वगतैकत्वभेदस्य सत्त्वादिति चेन्मैवम् । स्वनिरूपिता- भेदसम्बन्धावच्छिन्नविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति स्ववि- १०० व्युत्पत्तिवादः [कारके शिष्टो भेदः कारणम् । वैशिष्टयं स्वावच्छेदकतात्वावच्छिन्न प्रतियोगिताक- पर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नप्रतियोगिताकत्वस्वनिरूपितविशेष्य- तावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छि- नानुयोगिताकत्वोभयसम्बन्धेन । ततश्च घटत्वगतैकत्वावच्छेदेन नील- घटत्वोमयगतद्वित्वावच्छिन्न प्रतियोगिताकभेदस्य सत्त्वात् । नोलघटत्वोमय- गतद्वित्वावच्छेदेन नीलघटत्वोभयगतद्वित्वावच्छिन्नप्रतियोगिताकभेदस्य घट- स्वगतैकत्वावच्छिन्नप्रतियोगिताकभेदस्य चासत्त्वात् । विधेयांशेऽधिकावगा- हिनः शाब्दबोधस्योपपत्तिरुभयांशे समानावगाहिनः उद्देश्यांशे अधिकावगा- हिनश्च नीलघटो घट इत्यस्य नीलघटो नीलघट इत्यस्य चानापत्तिः । वस्तुतस्तु स घटः घटस्स इत्यनयोः पूर्वोक्तयोऽतित्वावच्छिन्नावच्छे- दकताकप्रकारताविशेष्यताकबोधयोरनुपपत्तिः । तत्रैकत्वावच्छेदेनैकत्वा- वच्छिन्नप्रतियोगिताकवटत्वभेदाभावात् । तदर्थ निरवच्छिन्नावच्छेदक- तायाः प्रवेशे विधेयांशेऽधि कावगाहिनोऽप्यनु पत्तिस्तत्र निरवच्छिन्नावच्छे- दकतावावच्छिन्न प्रतियोगिताकरर्याप्त्यनुयोगितावच्छेदकत्वस्य घटत्वगतै- कत्वे एव सत्त्वात् । इदमत्रावधेयम् । स्वनिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्न प्रति- योगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन किञ्चिनिष्ठाभेदसम्बन्धा- वच्छिन्नपकारतानिरूपितोक्तनिरवच्छिन्नावच्छेद कताघटितसम्बन्धेन किञ्चि- निष्ठविशेष्यता तदवच्छेदकतासम्बन्धः कार्यतावच्छेदको वक्तव्यः । कार- ण व पूर्वोक्त एव । ततश्च न दोष इति । यदि च प्रकारदलमेवोद्देश्य विशेष्यदल च विधेयं विधेयतोद्देश्यतयोः प्रकारताविशेष्यत्वनियतत्वासि- स्तिईि अधिकावगाहिविशेष्यकस्यापि शाब्दबोधस्येष्टव्यतया कार्यका- रणभावे प्रकारताविशेष्यतास्थाने विधेयतोद्देश्यते निवेशनीये । विधेयता- बच्छेदकतोद्देश्यतावच्छेदकते समानसम्बन्धावच्छिन्ने ग्राह्ये । तेन कालिक- सम्बन्धन घटत्वविशिष्टपरतच्छन्द्घटितात् स घट इति वाक्यान्न शाब्द- बोधापत्तिरिति दिक् । Bio- १०१ प्रथमा ] जयाऽलङ्कृतः दर्शितरीत्या सोऽप्युपपादनीयः । एवं स स इत्यादिवाक्याज्जाति- त्वाद्यवच्छिन्नधर्मितावच्छेदकताकतद्धर्मावच्छिन्नप्रकारतावच्छेद- कताकाभेदान्वयबोधस्य वारणाय तद्धर्मावच्छिन्नावच्छेकताक- प्रकारतानिरूपितधर्मितावच्छेदकतावच्छेदकत्वप्रत्यासत्त्या शा. ब्दबोधं प्रति तद्धर्मभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । एवं दण्डवान् दण्डवा नित्यादिवाक्याइण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छि- नावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितसंयोगत्वाद्यव- निरवच्छिन्नघटत्वादिनिष्ठावच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारता- कविशेष्यतानिरूपित निरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रत्येव घ- टत्वादिभेदस्य कारणत्वोक्तेर्जातित्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकाभेद- सम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितजातित्वावच्छिन्नघटत्व- निष्ठावच्छेदक ताकशाब्दबोधस्य प्राप्तामापत्ति परिहत्त माह-स स इत्यादि- वाक्यादिति । निरवच्छिन्न प्रकारतावच्छेदकत्वविशेष्यतावच्छेदकत्वकाभेदा- न्वयबोधे यथा प्रकारतावच्छेद कविशेष्यतावच्छेदकयोमदापेक्षा तथाऽवच्छि- नताशावच्छेदकताकाभेदान्वये प्रकारतावच्छेदकतावच्छेद कविशेष्यताव- च्छेदकतावच्छेदकयोर्भेदस्य कारगा त्वमिति भावः । एवमपि प्रकारतानिरू- पितसंयोगनिष्ठावच्छेदकतावच्छेदकदण्डस्य विशेष्यतावच्छेदकतावच्छेदक- दण्डाद्भदस्य सत्त्वेन दर इवान् दण्डवानिति वाक्यात्प्राप्तां शाब्दापत्ति परिहन्तुमाह-दण्डवान् दण्डवानित्यादि । प्रकारतावच्छेदकतावच्छेदक- तावच्छेद के विशेष्यतावच्छेदकतावच्छेदकतावच्छेदके भेदस्यापि हेतुत्वं बोध्यम् । प्रमेयत्वेन दण्डत्वस्यः यत्र प्रकारतावच्छेदकतावच्छेदकताव- च्छेदकत्वं तादृशः दाइत्वनिष्ठनिरवच्छिन्नस्य विशेष्यतानिरूपितसंय्यो- गत्वाच्छन्नावच्छेद कतानिरूपितदण्डनिष्ठावच्छेदका निरूपितदण्डत्वनिष्ठ- १०२ [ कारके व्युत्पत्तिवादः च्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धेन शा- ब्दबोधे दण्डत्वादिभेदस्यापि पृथक्कारणत्वं कल्पनीयम् । अव- च्छेदकतायां निरवच्छिन्नत्वनिवेशोऽपि पूर्ववबोध्यः । वस्तुतस्तु तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धम- भेदत्वेन हेतुता कल्प्यते लाघवात् । एवं च घटत्वाद्यवच्छिन्नप्र- कारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वाद्यन्यवृत्तिविषयतासम्बन्धेन ज्ञानत्वाद्यवच्छिन्नस्य व्याप- कतया घटत्वादौ तादृशविषयतासम्बन्धन ज्ञानत्वावच्छिन्नोत्पादक- सामनीविरहेण न तत्र तादृश विशेष्यतावच्छेदकतासम्बन्धे शाब्द- बोधापत्तिः। एव च घटवान् घटवानित्यादिवाक्यस्थलोयशाब्द बोधवारणानुरोधन धम्मितावच्छेदकतावच्छेदका दिनिष्ठप्रत्यास- . । स्यावच्छेदकत्वस्य निरूपकः शाब्दबोधः प्रमेयवद्वान् दण्डवानिति. वाक्यान्न स्याद्दण्डत्वे दण्डत्वभेदाभावादत आह-अवच्छेदकतायां निरवच्छि- नत्वमित्यादि । प्रथमावच्छेदकतायां चरमावच्छेदकतायाञ्चेत्यर्थः । अनेक कार्यकारणभावकल्पनायां गौरवादाह-वस्तुतस्त्विति । घटत्व- भिन्नवृत्तिविषयतासम्बन्धेन ज्ञानं घटत्वभिन्न एव भवति । तत्र घटत्त्रभेदो- ऽप्यस्तीति घटत्वभेदस्य तादृशसम्बन्धेन ज्ञानं प्रति कारण त्वं नानुपपन्नमेव पटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति पटवभेदः कारणम् । तच्च ज्ञानं घटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास. म्बन्धेन शाब्दबोधं प्रति व्यापकं यतो घटो द्रव्यमित्यादिवाक्याद्र्व्यत्वादौ घटत्वभिन्न एव स बोधो भवति तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं वर्त्तत एव । ततश्च व्याप्यकार्ये व्यापकस्य कारणमपेक्ष्यत इति नियमात तादृशशाब्दबोधे घटत्वभेदस्यापेक्षणान्न घटो घट इति वाक्याद्घटत्वे स बोधः । न च जातिमान् घट इति वाक्यात् घटत्वेऽपि जातित्वेन घटत्वनिष्ठा प्रथमा] जयाऽलङ्कृतः त्या करणत्वान्तरमपि न कल्प्यते । एवमुद्दश्यतावच्छेदकविधेय- थोरैक्येन एको द्वावित्यादिवाक्यादेकत्व द्वित्वाचवच्छिन्न एकत्व- द्वित्वादीनां भेदान्वयबोधानुदयात्, एकत्व द्वित्वत्वाद्यवच्छिन्नसम- वायादिसंसर्गावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितसमवा- यादिसंसर्गावच्छिन्नावच्छेदकतावच्छेदकत्वादि सम्बन्धेन शाब्दबु- धौ एकत्वत्वादिभेदस्य एवं कर्म गच्छतीत्यादौ च कर्मत्वत्वा- द्यवच्छिन्न आधेयतासम्बन्धेन तद्वतोऽन्वयबोधवारणाय कर्म- वच्छेदकताकाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतास- म्बन्धेन शाब्दबोधोत्पत्तनै घटत्वावच्छिन्नप्रकारताकोक्तशाब्दबोधो घटवा- न्यवृत्तिविषयतासम्बन्धेन ज्ञानव्याप्यमिति वाच्यम् । व्याप्यशरीरे निरवच्छि- च्छिन्नावच्छेदकतायाःप्रवेशे नादोषात्। एवं व्याप्यशरीरे घटत्वेतरधर्मान- वच्छिन्नत्वमपि प्रकारतायां देयं तेन नीलघटो घट इति वाक्याबटत्वे जाय- मान शाब्दबोध यघटत्वनिष्ठावच्छेदकतायां निरवच्छिन्नत्वेऽपि न क्षतिः । प्रकारतायां घटत्वेतरनीलत्वेनावच्छेदात् । एवमेव जातित्वावच्छिन्नावच्छे- दकताकप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन शाब्दबो- घः जातित्वाभिन्ने एव भवति । एवं दण्डत्वावच्छिन्नदण्डनिष्ठावच्छेदक- तानिरूपितसंय्योगनिष्ठावच्छेदकतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारतानि रूपितविशेष्यतावच्छेदकतावच्छेदकतावच्छेदकतासम्बन्धेन दण्डवभिन्ने एव.. शाब्दबोधो भवतीति तयोरपि व्यापके जातित्वान्यवृत्तिविषयतासम्बन्धेन दण्डत्वान्वयवृत्तिविषयतासम्बन्धेन वर्तमाने ज्ञाने इति तयोरपि शाब्दबोध- योर्जातित्वभेददण्डत्वभेदयोः कारणत्वात् जातित्वे दण्डत्वे च न तौ शाब्द- अनुमितिवारणाय धम्मितावच्छेदकतासम्बन्धेनानुमितौ विधेयभेद- स्येत्यधिकः पाठो प्राचीनहस्तलिखितपुस्तके | १०४ व्युत्पत्तिवाद: [ कारके त्वत्वाधवच्छिन्नावच्छेदकताकाधेयतासम्बन्धावच्छिन्नप्रकारतानि- रूपितधर्मितावच्छेदकसम्बन्धेन शाब्दबोधे कर्मत्वत्वादिभेदत्य घटोन घट इत्याद्यनुमितेः शाब्दबोधस्य च वारणाय घटत्वा- वच्छिन्नभेदप्रकारतानिरूपितम्मितावच्छेदकतासम्बन्धेनानुमितौ शाब्दबोधे च घटत्वादिभेदस्य हेतुत्वान्तरकल्पनमनादेयमेव । तद्ध- मभेदस्यकैककारणतयैव सकलातिप्रसङ्गवारणसंभवादिति कृतं पल्लवितेन। । बोधौ जातिमान् जातिमान् दण्डवान दण्ड वानिति वाक्य म्यामिति बोध्यम् । एवमेव एकः द्वौ घटो न घटः इत्यतोऽपि एकत्वावच्छिन्ने एकत्वस्य द्वित्वा- वच्छिन्ने द्वित्वस्य घटत्वावच्छिन्ने घटभेदस्य चान्वयविषय कावनुमिति- शाब्दबोधो न यतः एकत्वत्वावच्छिन्नप्रकार तानिरूपितविशेष्यतावच्छेद कतावच्छेदकतासम्बन्धन एवं द्वित्वत्वावच्छिन्न प्रकारताघटितोक्तसम्बन्धेन घटत्वावच्छिन्न प्रतियोगिता कभेदत्वावच्छिन्न प्रतियोगिताकाभावानुयोगिताव- च्छेदकतासम्बन्धेन शाब्दबोधोऽनुमि तिर्वा एकत्वत्वद्वत्वत्वघटत्वेभ्यो भिन्ने. वेव भवति । तयोरपि एकत्वत्वाद्यन्यवृत्तिविषयतामन्धेन ज्ञानं व्यापक- मिति तत्कारणस्यैकत्वा वादिभेदस्य तत्रापेक्षितत्वेन तदभावादेवैकत्वत्वा- दिषु तयोरभावोपरत्तावकत्वत्वादिभेदस्य पृथक् कारणत्वाकल्पनेन लाघ- वम् । न च नञोऽभावे येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता यद्वाक्येन प्रतीयते नघटितेन तेन वाक्येन तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगिताका- भावस्तद्धविच्छेदेन प्रत्य य्यत इति नियमात् घटो घट इति वाक्यात् स्वरूप सम्बन्धेन घटाभेदवत्ताया घटत्वावच्छेदेनाप्रतीतेस्तदवच्छेदेन घटा- भेदाभावप्रतीत्यप्रसक्तेः क.थं तत्कारणकल्पनं लाघवमिति वाच्यम् । येन सम्बन्धेन यद्धविच्छेदेन यद्वत्ता प्रीतौ साकाङ्क्ष यद्वाक्यं तेन वाक्येन नघटितेन तेन सम्बन्धेन तदवच्छेदेन तदभावः प्रत्याय्यत इत्येव नियमेन प्रथमा जयाऽलकृतः १०५ घटो घट इति वाक्यस्य तादृशोधाजनकत्वेऽपि तादृशबोधे साकाङ्क्षत्वेना- दोषात् । नीलघटत्वावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकार तानिरूपितविशेष्य- तावच्छेदकतासम्बन्धेन शाब्दबोधस्य जातित्वावच्छिन्नघटत्व निष्ठावच्छेदकता काभेदसम्बन्धावच्छिन्न प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धन शा- ब्दबोधस्य च नोलवटो घटः स घट इत्यादिव याद्वटत्वेऽप्युदयेन घट- त्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रत्यव्याप्यत्वेन तत्र घटत्वभेदानपेक्ष- णात्तयोस्तत्रोत्पत्तौ न बाधकमिति दिक् । न चोक्तबधौ यदि न व्याप्यौ तहि नीलघटो नोलघटः स स इति वाक्याम्यां घटत्वे तयोरापत्तिस्तत्र घट- स्वभेदानपेक्षणादिति वाच्यम् । नीलत्वानवच्छिन्नविशेष्यतानिरूपितजाति- त्वावच्छिन्नावच्छेदकतासम्बन्धेन नीलघटत्वावच्छिन्न प्रकारताकस्य जाति- त्वावच्छिन्नघटत्वनिष्ठावच्छेदकताकशाब्दबोधस्य च तत्रासम्भवात् विशेष्य- दले नीलत्वस्य जातित्वस्य चोपस्थित्या भानस्यावश्यकत्वात् । कथञ्चित्त- योरभाने शाब्दबोधस्येष्टत्वात् । न च नालघटो नल द्रव्यमित्यादौ द्रव्यत्वे प्रसिद्धस्य नीलवटलावच्छिन्न प्रकारतानिरूपितनोलत्वावच्छिन्नविशेष्यतानि- रूपितानवच्छिन्नावच्छेदकता सम्बन्धेन शाब्दबोधस्य घटत्वत्वेन घटत्वोप- स्थापकेन जातित्वेन घटत्वोपस्थापन च तत्पदेन घटिते स स इत्यादौ च प्रसिद्ध स्व शाब्दबोधस्य घटत्वे जातित्वे च नोलघटो नी लघट: स स इत्यादी शाब्दबोध पत्तिरिति वान्त्वं त योरप्युक्तज्ञानव्याप्यत्वेन तादृश भेदापेक्षणात्। न च कालिकसम्बन्धेन घटत्वविशिष्टे समवायसम्बन्धेन घटत्वविशिष्टस्या- भेदान्वयोऽनुभवसिद्धस्तत्र घटत्वनिष्ठनिरवच्छिन्नावच्छेद कताकाभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधस्य घट- त्वेऽपि सत्त्वान्न घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानव्यापकस्स बोध इति वाच्यं घटत्वनिष्ठनिरवच्छिन्नाक्छेदकता विशिष्टावच्छेदकतासम्बन्धेन शा- ब्दबोधस्य व्याप्यत्वात् । वैशिष्टयं स्वनिरूपितावच्छेद्यतावदभेदसम्बन्धा- वच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितत्वस्वा वच्छेदकसम्बन्धावच्छिन्न- स्वोभयसम्बन्धेन उद्देश्यस्य यत्र प्रकारता विधेयस्य विशेष्यता तत्र विशेष्यां- १०६ [ कारके व्युत्पतिवादः भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन क्स- चिन्निपातार्थेन च सममेव जायते न त्वन्येन । सत्यपि पदार्थोप. स्थितियोग्यताज्ञानादिरूपकारणकलापे राजा पुरुषः भूतलं घट इत्यादी पुरुषाशे राजभूतलादेः स्वत्वाधेयतासम्बन्धेन तण्डुलः पचति चैत्र: पच्यते इत्यादौ कर्मत्वकर्तृवादिसम्ब-धेन तण्डुल- चैत्रादौ पाकादेः स्वकर्मकत्वस्वकत करवा दिसम्बन्धेन पाकायंशे वा शेऽधिकावगाहिशाब्दबोवस्येष्टतया तत्र दोषवार गाय व्याप्यदले प्रकारता- विशेष्यतयोः स्थाने विधेयतोद्देश्यतयोः प्रवेशः कार्यः। अभेदान्वयविचारं समाप्य भेदान्वयविचारः प्रारभ्यते-भेदान्वय. बोधश्चेत्यादिना । भेदान्वयेत्यस्याभेदभिन्नसम्बन्धबोध इत्यर्थः । प्राति- पदिकार्थस्य धात्वर्थस्य च प्रत्ययार्थे निपातार्थे एवाभेदभिन्नसम्बन्धेनान्वय इत्यर्थः। प्रातिपदिकपदप्रयोज्यधातुपदप्रयोज्ययोरभेदातिरिक्तसम्बन्घावच्छि- नप्रकारतयोः प्रत्ययनिपातान्यतरपदप्रयोज्यविशेष्यतानिरूपतत्वनियम इति पर्यवसितोऽर्थः । नियमस्वीकारे हेतुमाह-राजा पुरुष इत्यादि । राजा पुरुष:भूतल घट इति वाक्यात् स्वत्वसम्बन्धेन राजविशिष्ट: पुरुषः प्राधयत्व- सम्बन्धेन भूतजविशिष्टो घट इति बोधाभावः । उक्तनियमे हेतुरिति भावः। प्रातिपदिकार्थस्य प्रातिपदिकार्थेऽभेदभिन्नसम्बन्धेनान्वये दोषमुक्त्वा धात्र- र्थस्य प्रातिपदिकस्य तेन सम्पन्धनान्वये दोष उच्यते । तण्डुलः पचतीत्यादि । न च तण्डुलगतकर्मत्वस्य चैत्रगतकत्र्तृत्वस्यानुक्तत्वात् तण्डुलपदचैत्रपदाद् द्वितीयातृत ययोरनुशामनादयं प्रयोगो न प्रसक्त इति वाच्यम् । प्रातिपदिकाथ प्रति कर्मत्वकत्तृत्त्रयोविशेष्यतयाऽन्वयबोधतात्पर्य एव कर्मणि द्वितीये- त्यादिना प्रातिपदिकात् द्वितीया देरनुश सनात् । प्रकृते च कर्मत्वकत्तु त्वयो- संसर्गतया भानस्य प्रातिपदिकार्थस्य धात्वर्थे भेदसम्बन्धेनान्वये दोष उच्यते। स्वकर्मकत्वेत्यादिना । विभक्त्यर्थमन्तराकृत्येति । उक्तनियमः साक्षात्स- १०७. प्रथमा] जयाऽलङ्कृत तण्डुलचैत्रादेरन्वयाबोधाग्निपातातिरिक्तप्रातिपदिकार्थयोः क्रिया- ताशप्रातिपदिकार्थयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वात् विभक्त्यर्थमन्तराकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपाता- तिरिक्तत्वादिविशेषणात् भूतले न घटः घटो न पट इत्यादौ घटा- देनजर्थाभावेन मुखं चन्द्र इवेत्याहो मुख चन्द्रादीनामिवार्थसादृश्या- दिना न कलङ्गं भक्षयेदित्यादौ नैयायिकमते नअपस्थाप्येन बलव- दनिष्टाननुबन्धित्व विशिष्टेष्टसाधनत्वादिरूपविध्यर्थाभावेन धात्वथ । म्बन्धविषयक एव । राज्ञः पुरुष इत्यादौ विभक्त्यर्थस्वत्वद्वारा राजरूपप्रातिप-.. दिकार्थस्य पुरुषरूपप्रातिपदिकार्थेऽन्वयस्येष्टत्वादिति भावः । निपानार्थे प्राति पदिकार्थान्वयस्थलमाह-भूतले न घट इत्यादि । नअर्थो भावे घटस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयस्तथा च घटाभावो भूतलवृत्तिरिति बोधः । यदि च प्रतियोग्यभावान्वय इति न्यायेन नजोऽसत्त्वे यत्र येन यद्वत्ता प्रतीयते यादृशवाक्येन तादृशवाक्येन नअघटितेन तत्र तेन तदभावस्यैव प्रत्यायना- दुक्तबोधो न युक्तः किन्तु भूतलवृत्तित्वाभाववान् घट इत्येव युक्तः । भूतले घट इत्यतो भूतलवृत्तित्ववान् घट इत्येत्र बोधात् तथाऽपि निपातार्थप्रातिप- दिकार्थयोरन्वयो जात एवेति बोध्यम् । घंटो न पट इत्यादाविति-नअर्थे भेदे घटस्य स्वप्रतियोगिकत्व सम्बन्धेन भेदस्य च पटे स्वरूप सम्बन्धेनान्वयः । मुखं चन्द्र इत्यादाविति । इवार्थसादृश्ये स्वप्रतियोगिकत्वसम्बन्धेन चन्द्रस्य मुखे स्वरूपसम्बन्धेन सादश्यान्वयः । निपातातिरिक्तत्वनिवेशाभावे नजि वयोरपि नामत्वात्तदर्थे तदर्थस्य वा भेदान्वयश्चन्द्रादेन स्यादिति भावः । न कला भक्षयेदित्या. दाविति । नञर्थोऽभावः तस्मिन् लिङर्थस्य बलवदनिष्टाननुबन्धित्व विशिष्टे- घटसाधनत्वरूपस्य स्वप्रतियोगिकत्वसम्बन्धेनान्वयेऽभावस्य च स्वरूपसम्बन्धन भक्षणेऽन्वयः । तथा च बलवदनिष्टाननुबन्धिस्वविशिष्टेष्टसाधनत्वप्रतियो- व्युत्पत्तिवादः [कारके भक्षणादेरनुयोगितया, गुरुमते तुविध्यर्था पूर्वाशे विशेषणतया- न्वितेननजुपस्थाप्याभावेन धात्वर्थभक्षणादेः प्रतियोगितयाऽन्वये- ऽपि न क्षतिः । राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्य- न्तार्थविशिष्टलाक्षणिकराजादि पदोपस्थाप्यराजसम्बन्ध्यादेरभेदान्व- । गिकाभावविशिष्टं कलजभक्षणमिति बोधः । बलवदनिष्टाननुबन्धित्वं बलवदनिष्टाजनकत्वम् । अत्र विशेषणस्य बलवदनिष्टाजनकत्वस्य विशेष्य- स्येष्टसाधनत्वस्य चाभावप्रयुक्तो विशिष्टाभावस्तेन बलवदनिष्ट जनकत्वं भक्षणे प्रतीयते । नैयायिकमते अत्र धात्वर्थे नपनामार्थस्यान्वयः । गुरुमते चेति । प्रभाकरमीमांसकमते भक्षणस्य स्वप्रतियोगिकत्व- सम्बन्धेन नअर्थाभावेऽन्वयो भावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थेऽपूर्वे अन्वयोऽपूर्वञ्च पुण्यं तथा च कल अभक्षणप्रतियोगिकाभा वप्रयोज्यमपूर्व- मिति बांधः । नैयायिकमते कलजभक्षणमनिष्टजनकं न तु तद्भक्षणाभाव: पुण्यजनकः । गुरुमते कलजमक्षणाभावजन्यं पुण्यं न तु कलञ्जभक्षणम- निष्टजन कमिति प्रतोयत इति भेदः। ननु तर्हि कलञ्जभक्षणे कस्मान प्रवत्तते गुरुमत इति चेत्-पुण्यप्रयोजकाभावप्रतियोगित्वरूपस्य पुण्यप्रतिबन्धकत्वस्य भक्षणे शब्दात्प्रतीतौ पुण्यकामस्य पुण्यप्रतिबन्धके कलज भक्षणे प्रवृत्त्य- नुपपत्तेः । समासस्थले विशेषण वाचकपदप्रकृतिकलुप्तविभक्ते नुसन्धानं विनैव शाब्दबोधोत्पत्त्या स्वत्वसम्बन्धेन गजरूपनामार्थस्यैव पुरुषरूपना- मार्थेऽन्वयो वाच्यः। स चोक्त नियमविरुद्ध इत्यत पाह-राजपुरुष इत्यादिसमासस्थले स्विति । तत्र राजादिपदस्य विशेषणवाचकस्य षष्ठ्यर्थ- स्वत्वादिविशिष्टे लक्षणा । तस्य चाभेदेनैव पुरुषाद्युत्तरपदार्थेऽन्वय ३।। नोक्तव्युत्पत्तिविरोधः । एतदेवाह-किन्त्वित्यादिना । ।

१०६ प्रथमा ] जयाऽलङ्कृतः यबोध एवेति न दोषः । एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रा- दिपदस्य चन्द्रादिसदृशलक्षणया मुखादौ चन्द्रादिसहशाभेदान्वय. बोध एव, न तु सादृश्यादिसम्बन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः। केचित्तु रूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशे न लक्षणा किंतु तत्र मुख्यार्थचन्द्रादेरेवाभेदभ्रमो मुखादौ । मुखं न चन्द्र इत्यादि विशेषदर्शनदशायां च न तत्र शाब्दोऽभेदप्रत्ययः अपि तु शब्दजन्यविशकलितपदार्थोपस्थितिमूलको मानस एवाहा-भेद- भ्रम इत्याहुः । । एवं मुखं चन्द्रः इति । अत्रापि चन्द्रपदार्थस्य मुखेऽभेदान्वयस्य बाधेन स्वप्रति योगिकसादृश्यवत्वस्य च भेदसम्बन्धत्वेन तेन सम्बन्धेनान्वये पूर्वोक्त- व्युत्पत्तिविरोधेन च चन्द्राद्युपमानवाचकपदस्य चन्द्रसदृशे लक्षणया चन्द्र- सदशाभिन्नं मुखं इति बोध इति न व्युत्पत्तिविरोधः । ननु रूपकस्थलेऽपि लक्षणया सादृश्यप्रतीतावुआमालङ्काराद्रूपकालङ्कार आलङ्कारिकसिद्धान्त- सिद्ध चमत्कारवैलक्षण्यन्नोरपद्येत । विषयवैलक्षण्यस्यैव चमत्कारवैलक्षण्य- प्रयोजकत्वादिति चेत्तदाह-केचित्रिवत्यादि । तथा च चन्द्राभिन्नं मुख- मित्यभेदान्वयबोध एवेति न व्यभिचारो न वा चमत्कार वैलक्षण्यानुपपत्ति- विषयवैलक्षण्यस्य सत्त्वात् । ननु बाघान्नाभेदश्चन्द्रादेर्मुखादाविति चेत्त- दाह-अभेदभ्रमो मुखादाविति । ननु मुखन्न चन्द्र इति विशेषदर्शने न भ्रमस्यापि सम्भव इति चेत्तदाह-न तव शाब्दोऽभेदभ्रम इति । समान- विभक्तिकमुख चन्द्रपदजन्योपस्थितिविषययोर्मुखचन्द्रयोानसोऽभेद भ्रमः । मानसञ्च ज्ञानं विरोधिज्ञानाप्रतिबद्धयमेवेति भावः । ननु मुखञ्चन्द्र इति वाक्यजन्यप्रतीतौ श्रुतोऽयमर्थश्चेतश्चमत्करोतीत्यनुभवः प्रामाणिकः । श्रुधा- तोश्च शाब्दबोध एवार्थस्तदनुरोधेन शाब्दाभेदप्रत्यय एव मुखञ्चन्द्र इति ११० व्युत्पत्तिवादः [कारके परे तु तादात्म्यातिरिक्त सम्बन्धेन नामार्थयो न्वयबोधः । तादात्म्यं च प्रकृते तद्वत्तिधर्मवत्त्वम् । एवं च नीलो घट इत्यादी स्ववृत्तिनोलत्वादिमत्त्वसम्बन्धेन घटायंशे नोलपदार्थस्येव मुखं चंद्र इत्यादौ स्ववृत्त्याह्नादकत्वादिमत्त्वसम्बन्धेन मुखादौ चन्द्रा देरन्व- यबोधः तादृशार्थान्वयबोधेऽपि समानविभक्तिकत्व तन्त्रमित्यतो नातिप्रसङ्ग इति वदन्ति । DO । वाक्यादभ्युपेयो न मानस इत्यत श्राह -परे विति । नामार्थयोन्नन्वियबोध इति । एतदुत्तरं नामार्थयोरभेदान्वयबोध इत्यस्यार्थ इति शेषः । एवञ्च मुखन्न चन्द्र इति विशेषदर्शनदशायामपि स्ववृत्त्यालादकत्ववत्वसम्ब- धेन चन्द्रविशिष्टं मुखमिति बोधोऽप्रतिबद्ध एवेति भावः । नातिप्रसङ्ग इति । नीलस्य घट इत्यादा विति शेष: । नन्वेवं चन्द्रो मुखं पद्म मुखमित्यादौ स्ववृत्तिधर्मवत्वसम्बन्धेन चन्द्रपद्मादेर्मुखादावन्वयोपगमे प्रतियोग्यभावा- न्वयौ तुल्ययोगक्षेमावित्यनुरोधेन न चन्द्रो न पद्म मुखमेवेदमित्यादौ तत्सम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राद्यभाव एव ना प्रतीयेत स च बाधित इति तत्र बोधो न स्यादतोऽसम्मतोऽयं पक्षी भट्टाचाय्यस्येति परे त्वित्यनेन सूचयति । स्वमते तु चन्द्रपदस्य चन्द्रसदृशे लक्षणैव । उपमातो रूप के चमत्कार- वैलक्षण्यन्तु यथा गङ्गातारे घोष इत्यतो न शैत्यपावनत्वातिशयप्रतीतिरपि तु गङ्गातोरलाक्षणिकगङ्गापदाद्गङ्गातोरबोधे एव शैत्यपावनत्वातिशय- प्रतीतिस्तथैवात्रापि विषयावैलक्षरयेऽपे कारणान्तरगम्यमे वेति सहृदय- मात्रगम्यमिति दिक् । परे त्विति-वस्तुतो न युक्तमिदमन्यथा घटवृत्तिद्रव्यत्वस्य घटेऽप्यबाधात् तेन सम्बन्धेन घटस्य पटेऽन्वयबलात् घटः पट इत्यपि प्रयोगापत्तिः । एवञ्च केचिदित्यादिमतमेव युक्तमिति गुरुचरणा: ।

प्रथमा जयाऽलाकृतः अथ राजा पुरुष इत्यादौ पदार्थोप स्थित्यादिमत्त्वेन कथन्नभेदा- न्वयबोधः, सामग्रथा कार्यजनने उक्तनियमभङ्गरूपायाः प्रयोजन- क्षतैर किंचित्कर त्वात, सामग्रीसत्त्वे अवश्यं कार्यमिति नियमात् । न च तत्र भेदान्वयबोधौपयिकाकाङ्क्षाविरहाच्छाब्दसामप्रथेवा- सिद्धति वाच्यम् । समभिव्याहार रूपाकाङ्क्षायास्तत्रापि सत्त्वात्। न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपि राजाढिपदार्थप्रकारकभेदान्व- यबोधे राजादिपदार्थप्रकारकराजादिपदाव्यवहितोत्तरङस्पदत्वा- दरूपानुपूर्वीविशेषरूपाया आकाङ्क्षाया अपि प्रयोजकत्वात् । तद. भावादेव न तत्र शाब्दसामग्रीति वाच्यम् । सम्बन्धादि विशेष्यक- । नियममून भूतं कार्यकारणभावं शङ्कासमाधानाभ्यामाह-अथ राजा पुरुष इत्यादाविति । ननु नामार्थयोरभेदान्वय एवेति नियमभङ्ग इति चेदाह-सामग्रया कार्येत्यादि । नियमः प्रयोजनं क्षतिहानिः । अकि- चित्करत्वात् कार्याबाधकत्वादित्यर्थः । सामग्रीसच्चे इत्यादि । सामग्रयाः कार्यव्य प्यत्वा दित्यर्थः । न च तत्र भेदान्वये बोधौपयिकाकाङ्क्षाविरहा- दिति।राज नं राजा राज्ञ राज्ञ इत्यादौ राजनिष्ठ कर्मत्वराजनिष्ठ करण- त्वाद'त्याकारकभेदान्वये राजानमित्याद्यानुपूर्वीज्ञानाकारणत्वाद्राजा पुरुष इत्यादौ तादृशानुपूर्वीरूपाकाङदा विरहान्न शाब्दसामग्र ति भावः । समभि. व्याहाररूपाकाङ्क्षाया इति । भेदान्वयबुद्धिं प्रत्यानुपूर्वीज्ञानानां परम्परा- व्यभिचरितत्वे नानाकारणत्वात् प्रकारविशेष्यवाचकपदयोस्समभिव्याहार- रूपाकाङ्क्षा शानस्यैव कारणत्वेन तस्य च राजा पुरुष इत्यत्रापि सत्त्वादिति भावः। न च तादृशाकाङ्क्षायास्तत्र सत्त्वेऽपीति । राजा कर्मत्वं राजा स्वत्व- मित्यादौ समभिव्याहाररूपाया श्राकाङ्क्षायास्सत्त्वेऽपि शाब्दबोधानुदयेन भेदान्वये अानुपूर्व्या अपि कारणत्वस्य वक्तव्यत्वेन राजपदाव्यवहितङस्- पदत्वादिरूपानुपूर्वीरूपाकाङ्क्षाया अभावान्न शाब्दबोध इति भावः। सम्बन्धा.

व्युत्पत्तिवादः [कारके राजादिप्रकारकान्वयबोध एव तादृशाकाङ्क्षाज्ञानस्य हेतुतया पुरु- षादौ राजादिपदार्थप्रकार कान्वयबोधोत्लत्ता तादृशाकाङ्क्षाज्ञानरू- पकारणविरहस्याकिंचित्करत्वात् । अत्र केचित् नामार्थप्रकारकभेदान्वयबोधं प्रति समान विशे- प्यताप्रत्यासत्त्या प्रत्ययजन्योपस्थितेहेतुत्वकल्पनात् नामार्थप्रकार- दिविशेष्यकेत्यादि । अानुपुर्वीरूपाकाक्षायाः कारणत्वस्यावश्यकत्वेऽपे भेदान्वयबुद्धित्वं न कार्यतावच्छेदकन्तथा सति कार्यतावच्छेदकस्यैक्याद्रा जपदाव्यवहितोत्तरङस्पदत्वराजपदाव्यवहितोत्तराम्पदत्वादिरूपानुपूर्वोशा- नानां नानात्वात्परस्परजन्यबोध व्यभिचारप्रसक्त्या तद्वारणार्थ राजनिष्ठ- भेदसम्बन्धावच्छिन्नप्रकारतानिरूरितस्वत्वनिष्ठविशेष्यता कशब्दोधं प्रति राजपदाव्यवहितोत्तरङस्पदत्वरूपानुपूर्वीरूपाकाङ्क्षाज्ञानं कारण मित्येवं क्रमेणैव विशेष्यतावच्छेदकं कायंतावच्छेदके निवेश्य तत्तदानुपूर्वीणां कारण त्वस्य वक्तव्यतया राजनिष्ठस्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितपुरुष- निष्ठविशेष्यताकशाब्दबोध प्रति कस्यचिदानुपूर्वीज्ञानस्य कारणत्वाकल्पना- त्तादृशबोधे श्रानुपूर्वीज्ञानविरहस्याकिञ्चित्करत्वादिति भावः । अत्र केचिदिति । राज्ञः राजानमित्यादौ निरूपितत्ववृत्तिसम्बन्धावच्छुि- नराजनिष्ठप्रकारतानिरूपितस्वत्वकर्मत्वादिनिष्ठविशेष्यताकशाब्दबुद्धित्वा वच्छिन्नं प्रति ङस्प्रत्ययजन्यस्वत्वोपस्थितिरम्प्रत्ययजन्यकम्मत्वोपस्थितिः कारणमित्यादिक्रमेण विशेष्यस्य कार्यकारणकोटौ निवेशेनात्मनिष्ठप्रत्या- सत्त्या कार्यकारणभावस्वीकारे गौरवात् । लायवेन विशेष्यतासम्बन्धन नामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारताकशाब्दबोधं प्रति विशेष्यतासम्ब- न्धेन प्रत्ययजन्योपस्थितिः कारणमित्येव विषयनिष्ठप्रत्यासत्या कार्यकारण- भावो वक्तव्यः। तथा च न राजा पुरुष इति वाक्यात् स्वत्वसम्बन्धावच्छिन्न- राजनिष्ठप्रकारतानिरूपितपुरुषनिष्ठविशेष्यताकः शाब्दबोधः विशेष्यता- प्रथमा ] जयाऽलङ्कृतः ११३ कभेदान्वयबोधे विशेष्यतया प्रत्ययार्थस्यैव भानं न तुनामार्थान्त- रस्य । तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरसत्त्वात् । न च सम्बन्धादेरपि नामार्थतया तत्प्रकारकान्वयबोधे पुरुषादिपदार्थस्य विशेष्यतयामानानुपपत्तिः, तत्तन्नामपदजन्यतत्तन्नामार्थप्रकारकशा- ब्दयोधत्वावच्छिन्न प्रति प्रत्ययजन्योपस्थितित्वेन हेतुत्वेऽपि राज- सम्बन्धः प्रमेयः राज्ञः पुरुष इत्येताहशवाक्यद्वयजन्यवाक्यार्थद्वया- न्वयबोधे पुरुषस्य राजसम्बन्धविशेष्यतया भानानुपपत्तिरिति वाच्यम् । प्रत्ययाधीनतत्तत्पदार्थोपस्थितयजन्यतत्तत्पदार्थप्रकारक- शाब्दत्वावच्छिन्न प्रत्येक प्रत्ययजन्योपस्थितेः समान विशेष्यताप्र- सम्बन्धन पुरुषे प्रत्ययजन्योपस्थितेरभावात् । न च सम्बन्धादेरपीति । अय- म्भावः । राज्ञः पुरुष इत्यादौ राजनिरूपितस्वत्वप्रकारकपुरुषविशेष्यक- शान्दबोधो न स्यात् । स्वत्वस्यापि सम्बन्धरूपनामार्थत्वं ततश्च तनिष्ठ- स्वरूपसम्बन्धावच्छिन्नप्रकारताको विशेष्यतासम्बन्धन पुरुषे शब्दबोधो न स्यात्तत्र विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावादिति । तत्तन्नामपद- जन्येत्यादि । यन्नामार्थनिष्ठप्रकारताकः शाब्दबोवस्तन्नामपदजन्यस्य शाब्द. बोधोऽपेक्षितः । प्रकृते सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि सम्बन्ध- रूपनामपदजन्यत्वाभावान्न तत्र बोधे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थि- तेरपेक्षा । राजसम्बन्ध:प्रमेयः राज्ञ:पुरुष इत्येतादृशवाक्यद्वयजन्येति-अयं यः समूहालम्बनात्मको वाक्यद्वयजन्यो बोधः सम्बन्धपदजन्यः सम्बन्धपदार्थ- स्वत्वप्रकारकश्चेति तत्र बोधे विशेष्यतया पुरुषस्य भानं न स्यात्तत्र प्रत्यय- पदजन्योपस्थितेरभावात् । प्रत्ययाधीनेति । तन्नामपदजन्यत्वं न देयं किन्तु प्रत्ययाधीनतदर्थोपस्थित्यजन्यो यस्तन्नामार्थप्रकारकः शाब्दबोधो विशेष्यता- सम्बन्धेन तदुत्पत्तौ विशेष्यतासम्बन्धेन प्रत्ययपदजन्योपस्थितिः कारणमुक्त- समूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्वनिष्ठप्रकारताकत्वेऽपि ङस्- व्युत्पत्तिवादः [कारके त्यासत्त्या हेतुत्वोपगमात् । अथैवमपि यत्र राजा पुरुष इत्यत्र पुरुषपदाधीनपुरुषोपस्थितौ प्रत्ययवशात्कश्चित्प्रत्ययार्थोऽपि विषयी- भूत: तत्र प्रत्ययजन्यतथाविधसमूहालम्बनोपस्थितेर्विशेष्यतासम्ब- न्धेन पुरुषेऽपि सत्त्वात्तस्य राजप्रकार कान्वयबोधेविशेष्यतया भाना- पत्तिर्दुर्वारैव। न च प्रत्ययजन्यतावच्छेदकीभूतविशेष्यतासम्बन्धे- नोपस्थिते हेतुवोपगमानानुपपत्तिः । तादृशसमूहालम्बनोपस्थिति- निरूपितपुरुषनिष्ठविशेष्यताया नाम्न एव जन्यतावच्छेदकत्वादिति वाच्यम् । ज्ञानभेदेन विशेष्यताभेदे मानाभावात् । एवं च यत्र प्रत्ययाधीनस्वत्वोपस्थितिजन्यत्वस्यैव सत्त्वेन कार्यतावच्छेदकानाक्रान्त. त्वान्न तत्र पुरुषभानानुपपत्तिः । कार्यतावच्छेदकं विचाय्यं कारणकोटिं विचारयति-अथैवमपीति । पुरुषेऽपि यत्र प्रत्ययजन्योपस्थितिविशेष्यतासम्बन्धेन वत्त ते तत्र राजा पुरुष इति वाक्यात् पुरुष भेदान्वयापत्तिः । पुरुषपदजन्यपुरुषोपस्थितौ प्रत्ययस्य कस्यचिच्छवणात्प्रत्ययार्थोऽपि विषयीभूतस्तादृर्शसमूहालम्बनो- पस्थितिय॑था पुरुषपदे जन्या तथा प्रत्ययपदजन्याऽपि तस्याश्च विशेष्यता- सम्बन्धेन पुरुषे सत्त्वात् । यद्यपि समूहालम्बनात्मिका योपस्थितिस्तस्यां प्रत्ययपदजन्यत्वं पुरुषपद जन्यत्वञ्च तथापि प्रत्ययपदजन्यतावच्छेदिका प्रत्ययार्थनिष्ठविषयतैव पुरुषपदजन्यतावच्छेदिका च पुरुषनिष्ठविषयतैव कारणतावच्छेदकसम्बन्धश्च न विशेष्यतामात्रमपि तु प्रत्ययपदजन्यता- वच्छेदकीभूतविशेष्यता । एवञ्च प्रत्ययपदजन्यतावच्छेदकविशेष्यतासम्बन्धेन प्रत्ययपदजन्या सा समूहालम्बनोपस्थितिः प्रत्ययार्थे एव न पुरुषार्थ इति न तत्र राजभेदान्वय इति भावः । नाम्न एव जन्यतावच्छेदकत्वादिति । समूहा- लम्बनोपस्थितीयपुरुषनिष्ठविषयतायाः पुरुषपदजन्यतावच्छेदकत्वमित्यर्थः । पुनरप्यापत्ति स्थापयति-ज्ञानदेन विशेष्यताभेद इति । अयं भावः- m प्रथमा] जयाऽजङ्क्तः ११५ कुत्रचित्प्रत्ययादेव लक्षणादिना पुरुषाद्युपस्थितिस्तत्र तादृशोपस्थि- तिनिरूपितप्रत्ययजन्यतावच्छेदकीभूतविशेष्यतातः पुरुषादिपदज- न्यपुरुषाद्युपस्थितिविशेष्यताया अभिन्नतया तावताप्युक्तातिप्रसङ्ग- वारणासम्भवादिति चेत्-न। स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारता- निरूपितविशेष्यताविशिष्टविशेष्यतासंबन्धेनैवापस्थितेर्हेतुतयोक्त- समूहालम्बनोपस्थितिनिरूपितपुरुषनिष्ठविशेष्यतायाश्च तादृशोप- स्थितिजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपित विशेष्यतासामाना- धिकरण्यविरहान्नातिप्रसङ्ग इति वदन्ति । तदसत्। प्रत्ययत्वस्यानुगतानतिप्रसक्तस्य दुचतया उक्त कार्य- कुत्रचित् लक्षणादिना प्रत्ययादेव पुरुषत्वावच्छिन्नापस्थितिस्तत्र प्रत्ययस्द- जन्यतावच्छेदकीभूता पुरुषत्वावच्छिन्ना विशेष्यता सा निरुक्तसमूहा लम्बनो. पस्थितीयपुरुषत्वावच्छिन्ना विशेष्यताऽवच्छेदकैक्यादेकैव तन्निरूपकोपस्थि- त्योर्भेदेऽपि विषयताभेदे मानाभावात् । ततश्व प्रत्ययपदजन्यतावच्छेदको- भूता पुरुषत्वावच्छिन्ना तेन सम्बन्धन प्रत्ययपदजन्यनिरुक्तसमूहालम्बनो- पस्थितेः पुरुषे सत्त्वाद्राजभेदान्वयारत्तिः। आपत्तिम्बारयति स्वजनकज्ञानीये. त्यादिना । स्वं समूहालम्ब नोरस्थितिस्तजनक वृत्तिज्ञानं वाच्यत्वसम्बन्धेन पुरुषः पुरुषपदवानिति ज्ञानं प्रत्ययार्थः । वाच्यत्वसम्बन्धन प्रत्ययवानित्या- कारकञ्च तज्ज्ञानायप्रत्ययवृत्तिपकारतानिरू पितविशेष्यता प्रत्ययार्थनिष्ठा तद्वैशिष्टयं सामानाधिकरण यसम्बन्धेन पुरुषनिष्ठविशेष्यतायामभावात् । स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यतावि शिष्टविशेष्यतासम्ब- न्धन पुरुषे प्रत्ययजन्यापस्थिति स्ताति न पुरुषे राजान्वय इति बोध्यम् । प्रत्ययत्वस्यानुगतानतिप्रसक्तस्येति। इदमग्रं स्पष्टम् । न च प्रत्ययत्वस्था- नुगतानतिप्रसक्तस्य ज्ञातुमशस्यत्वेऽपिवस्तुतो या प्रत्ययवृत्ति प्रकारता तन्निरू- व्युत्पत्तिवादः [कारके कारणाभावकल्पनाया असम्भवात् ।राजसम्बन्धः पुरुष इत्यादी सम्बन्धा दिपदे डस्पदत्वादिभ्रमदशायां सम्बन्धादि विशेष्यकरा- जादिपदार्थप्रकारकान्वयबोधानुपपत्तेः । राज्ञः पुरुष इत्यादौ ङस्पदादिषु सम्बन्धादि पदत्वभ्रमदशायां सम्बन्धांशे राजादि- पदार्थप्रकारकान्वयबोधापत्तेश्च । न च प्रत्ययत्वेन ज्ञातं यत्पदं तत्पदजन्योपस्थितेः कारणत्वादेतदोषद्वयस्य नावकाश इति वाच्यम् । राज्ञः पुरुष इत्यादौ षष्ठयादेः प्रत्ययत्वाद्यनुपस्थितिद पितविशेष्यतासम्बन्धनेत्येवमुच्यमाने दोषमाह-राजसम्बन्धः पुरुष इत्या- दि । सम्बन्धपदे ङस्त्वभ्रमेऽपि तद्वत्तिप्रकारतायां प्रत्ययवृत्तित्वविरहात् । ङस्पदादिषु सम्बन्धादिपदत्वभ्रमदशायामिति । तत्र वस्तुतः प्रत्ययवृत्ति- प्रकारतायास्सत्त्वादिति भावः । न च प्रत्ययत्वेन ज्ञातमिति । सम्बन्धपदे प्रत्ययत्वेन ज्ञाते तद्वत्तिप्रकार- तायाः प्रत्ययत्वेन ज्ञातवृत्तित्वात् । ङस्पदे सम्बन्धत्वेन ज्ञातेऽपि तद्वृत्ति- प्रकारताया: प्रत्ययत्वेन न ज्ञातवृत्तित्वाविरहादुक्तदोषद्वयाभाव इति बोध्यम् । प्रत्ययत्वाद्यनुपस्थितिदशायामिति । ङसादौ प्रत्ययत्वाज्ञानदशाया- मपि शाब्दबोधकस्येष्टस्य न स्यादिति बोध्यम् । न च प्रत्ययत्वव्याप्यधर्मेण १ राजसम्बन्ध इत्यादि । इदञ्चाभ्युपेत्योच्यते प्रत्ययत्वस्यानुगमेऽपि इदंदूषणद्वयं दुरुद्धरमेवेति भावः। वस्तुत इदंतुच्छमनुगतंभच्चेवेत् प्रत्ययत्वम् । वस्तुतो यः प्रत्ययः तद्वृत्तिर्या श्रानुपूर्वी तत्प्रकारेण ज्ञातं यत्तज्जन्योपस्थिते कारणत्वकल्यने यत्र तु सपदस्यैव सम्बन्धपदत्येन ज्ञानं तत्र प्रत्ययवृत्त्यानु- पूर्वीप्रकारेण ज्ञानाभावात् । यत्र च सम्बन्धपदस्य उस्त्वेन ज्ञानन्तत्र तेन रूपेण ज्ञानात् । अतिव्याप्त्यव्याप्योरभावात् प्रत्ययत्वेन ज्ञानस्य चानुप- योगात् । तस्मादननुगतत्वमेव दोषो युक्त इति ।

जयाऽलङकृतः प्रथमा] शायामपि आनुपूर्वीविशेषप्रकारकज्ञानाधीनतदर्थोपस्थितिसत्त्वे शाब्दबोधोत्पत्त्या प्रत्ययत्वप्रकारकज्ञाननिवेशासंभवात् । इदं पुनरत्र तत्त्वम् । राजा पुरुष इत्यादौ पुरुषादिविशेष्यक- राजादिप्रकारकभेदान्वयबोधस्याऽप्रसिद्धय व नापत्तिसंभवः। यत्र षष्ठयादि विभक्तरेव स्वारसिकलक्षणया शक्तिभ्रमेण वा पुरुषाधु- पस्थितिस्तत्र तद्विशेष्यकराजादिपदार्थप्रकारकभेदान्वयबोधःप्रसिद्ध एवेति चेत्तर्हि तादृशबोधे तथाविधप्रकृतिप्रत्ययानुपूर्वी विशेषरूपा- काङ्क्षाज्ञानसहकृततत्तद्विभक्तिजन्यपुरुषाशुपस्थितिघटितसामग्रथ एव तादृशबोधोत्तत्तिनियामकतया तदभावादेव न तदापत्तिः । अत एव स्वत्वादिसम्बन्धेन राजादिविशिष्टपुरुषादितात्पर्यकत- दादिपदघटितात् स सुन्दर इत्यादि वाक्यात्पुरुषादि विशेष्य कस्व- त्वादिसंसर्गकराजादिप्रकारकशाब्दबोधस्य च प्रसिद्धथा राजा पुरुषः सुन्दर इत्यादौ पदार्थोपस्थितियोग्यताज्ञानादिबलात्तादृश. शाब्दबोधापत्तिरित्यपि निरस्तम् । स सुन्दर इत्यादिवाक्याधीनशा- दबोधसामग्र्यास्तत्पदत्वाद्यवच्छिन्नविशेष्यकसुन्दरादिपदसमभि- व्याहारज्ञानसहकृततदादिपदजन्यताहशविशिष्टार्थीपस्थितियोग्य- ताज्ञानादिघटिततया तदभावादेवापत्त्यभावात् । अथैनाश- रीत्यापत्तिवारणे राज्ञः पुरुष इत्यादी स्वत्वादिसम्बन्धेन पुरुषादौ ज्ञात इत्युक्तौ न दोष इति वाच्यम् । वाद्यानुपूर्वी तितद्वयक्तित्वप्रकारेण ज्ञातेऽपि शाब्दबोधापत्तेः प्रत्ययत्वव्याप्यत्वयोरज्ञाने शाब्दबोधानापत्तेश्च । १ इत्थं काशी विश्वेश्वरसायुज्यलाभादे कादरा देनपूर्व यावत् जयां विरचयन्त एव सन्निपातज्वराभिभूताः पितृचरणाः फाल्गुनकृष्णदशम्यां वन्द्र नेत्रवसुरस्नभूमिते (१९८२) वैक्रमाब्देऽत्रैव निवृत्ताः ।

व्युत्पत्तिवादः [कारके राजाद्यन्वयबोधस्वीकारेऽपि क्षतिविरहादुक्तव्युत्पत्तिनियुक्तिका । विभक्तीनां सम्बन्धा दिवाचकत्वमपि नियुक्तिकम् । नीलोघट इत्यादी विशेषणवाचकपदसमभिव्याहृतविभक्तेरिव सर्वविभक्तीनां साधु- त्वमात्रार्थकत्वस्यैवोचितत्वात् । न हि तत्र तथाविधान्वयबोधो- पगमे तत्स्थलीयसामग्रीबलाद्राजा पुरुष इत्यादिष्वपि तथाविधा- न्वयबोधप्रसङ्गः संभवति । तत्स्थलीयसामग्याः षष्ठयन्तराज- पदत्वाद्यवच्छिन्नधर्मिकपुरुषादिपदसमभिव्याहार रूपाकाङ्क्षाज्ञान- घटिततया तावादेव तत्र तादृशसामय्या अभावात् । एवं च राजपुरुष इत्यादिसमासे राजादिपदस्य राजसम्बन्ध्यादौ लक्षणा- स्वीकारोऽपि व्यर्थः । तत्र भेदान्वयबोधस्वीकारेऽपि क्षतिविरहात्। न च तत्र भेदान्वयबोधाभ्युपगमे तत्स्थलीयसामग्रीवलाद्राजा पुरुष इत्यादावपि तादृशान्वयबोधापत्तिरिति वाच्यम् । तत्स्थलीयशा- ब्दबोधे राजादिपदाव्यवहितोत्तरपुरुषादिपदत्वरूपानुपूर्वीविशेष- ज्ञानस्य हेतुतयाऽसमासस्थले पुरुषादिपदस्य विभक्तया राजादि- पदव्यवहितत्वाचादृशानुपूर्वीविशेषज्ञानासंभवेन तत्र ताशबोध- सामग्र्या अप्रसिद्धः। न च प्रकृतिप्रत्यययोरानुपूर्वीविशेषरूपस्या- काङ्क्षात्वात्प्रातिपदिकद्वयाव्यवधानघटितोक्तानपूर्वीविशेषज्ञानस्य हेतुत्वमेव निष्प्रामाणिकमिति वाच्यम् । भवन्मतेऽपि राजपुरुष इत्यादौ यादृशसामग्रीबलाद्राजपदार्थ- राजसम्बन्धिपुरुषपदार्थयोरभेदान्वयबोधस्तादृशसामग्रीबलाद्राज्ञः पुरुषः इत्यादावपि राजादिपदस्य राजसम्बन्ध्यादौ लक्षणाग्रहसत्त्वे तादृशाभेदान्वयबोधप्रसङ्गवारणाय तथाविधानुपूर्वी विशेषज्ञानस्य समासजन्यबोधे हेतुताकल्पनस्यावश्यकत्वात् । अस्माभिर्भेदान्वयबोध एव तादृशानुपूर्वीविशेषज्ञानस्य हेतु- तायाः कल्पनीयत्वात् । न चोभयमत एव राजसम्बन्धिनि राज- पदस्य स्वारसिकलक्षणाग्रहेण राजपुरुष इत्यत्र राजसम्बन्धिपुरुष- जयाऽलङकृतः प्रथमा ] ११६ योरभेदान्वयबोधो भवति । इयांस्तु विशेषो यदस्मन्मतेऽसौ समासा षष्ठीतत्पुरुषो भवन्मते कर्मधारयः इति । एवं च पुरुषविशेष्य- काभेदसंसर्गकराजसम्बन्धिप्रकारकबोधे राजपदाव्यवहितोत्तरव- र्तिपुरुषपदत्वप्रकारकज्ञानत्वेन हेतुत्वमुभयवादिसिद्धमेव । भेदा- न्वयबोधे तादृशानुपूर्वीज्ञानहेतुताकल्पनमधिकमिति वाच्यम् । उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्दान्तर्घ- टितानुपूर्वीज्ञानजन्यत्तथाविधाभेदान्वयबोधे व्यभिचारवारणाय तादृशानुपूर्वीज्ञानानन्तर्यस्य कार्यतावच्छेदककोटाववश्यं निवेश- नीयतया तत्र विषयनिवेशे प्रयोजनाभावेन तादृशकार्यतावच्छेद- उक्ताभेदान्वयबोधे तथाविधानुपूर्वीज्ञानहेतुतायां पर्यायशब्देत्या- दीति। ननु विषयमनिवेश्य राजपुरुष इत्याद्याकांक्षाज्ञानाव्यवहितोत्तरजाय- मानशाब्दत्वावच्छिन्नं प्रति राजपुरुष इत्याद्याकांक्षाज्ञानस्य कारणत्वोपगमे राज्ञः पुरुष इत्यादौ राजपदस्य राजसम्बन्धिनि स्वारसिकलक्षणग्रहदशायाम- भेदसम्बन्धावच्छिन्नराजसम्बन्धित्वावच्छिन्नप्रकारतानिरूपित पुरुषत्वावच्छि- नविशेष्यताकस्य राजपुरुष इत्यादौ प्रसिद्धस्य तात्पर्य्यज्ञानादिघटितसामग्री- बलादापादने तद्धर्मावच्छिन्नकार्यानुत्पादकस्य राजपदाव्यवहितोत्तरत्ववि- शिष्टपुरुषपदत्वरूपाकाङ्क्षाशानाव्यवहितोत्तरजायमानशाब्दत्वावच्छिन्नका- ये प्रति कारणस्य राजपुरुष इत्याकारकाकाङ्क्षाज्ञानस्य विरहोऽकिञ्चित्कर इति तात्पर्य्यज्ञानोपस्थित्यादिघटितसामग्रीबलात्तादृशकाऱ्यांपत्तिदुर्वारा । न च तादृशकायं प्रति राजपुरुष इत्याकारकाकाङ्क्षाज्ञानोत्तरशाब्दत्वा-- षष्ठ्यर्थविशिष्टार्थलाक्षणिकपूर्वपदकसमासत्वमेव तत्त्वमिति भावः । २विभिन्नधर्मेण एकधम्मिबोधकपदघटितसमासत्वमेव तत्वमिति भावः । ३तत्रति-भेद विषयकत्वाभेदविषयकत्वनिवेशे शाब्दबोध इति भावः।

HAENDS १२० व्युत्पत्तिवादः [ कारके कस्यैव भेदान्वयबोधसाधारण्येनानुपूर्वीज्ञानस्य भेदान्वयबोधे हेतु- तायामनाधिक्यात् । एवं तण्डुलं पचतीत्यादावपि पाकादिरूपधा- त्वर्थे कमत्वादिसम्बन्धेन तण्डु लादेरन्वयबोधः स्वीकर्तुमुचितः । कर्मत्वस्य पाकाद्यशे प्रकारत्वे तत्र तत्र द्वितीयादेः शक्तिकल्पने ताशवाक्यजन्यशाब्दबोधे कर्मत्वादिसंसर्गस्याधिकस्य विषयता- कल्पने च गौरवात् । तण्डुलं पचतीत्यादिवाक्यजन्यशाब्दबोध- सामग्रोबलात्तण्डुलः पचतीत्यादावपि तथाविधांन्वयबोधापत्तिस्तु न संभवति । तादृशान्वयबोधे द्वितोयान्ततण्डुलपदत्वाद्यवच्छिन्न- धर्मिकपचतीत्यादिसमभिव्याहारज्ञानस्य हेतुतया तण्डुलः पचती- त्यादौ तादृशसामन्या अप्रसिद्धः। एव पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यशेऽन्वयबोधस्वीकार उचितः अन्य- थोक्तरीत्या गौरवात् । तत्र तादृशान्वयबोधस्वीकारे तत्स्थलीयसाम- श्रीबलात् पच्यते चैत्रः पाकश्चैत्र इत्यादौ तथाविधान्वयबोधापत्त. रप्युक्तरीत्या वारणसंभवादिति । मैवम्। राज्ञः पुरुष इत्यादौ षष्ठयादेः स्वत्वादिवाचकत्वमावश्य- कम् । अन्यथा पुरुषो न राज्ञ इत्यादौ पुरुषे राजस्वत्वाधभावबो- धानुपपत्तेः। न हितत्र स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजा- वच्छिन्नस्य कार्यस्य व्यापकता येन व्यापकसामग्रोविधया राजपुरुष इत्या- काङ्क्षाशानस्यापेक्षा तदापादने स्यात् । नृपपुरुष इत्यादावपि तादृशशाब्द. बोधस्य सत्त्वात् इति चेत्-उच्यते । यादृशान्यतमसमनैयत्यं यस्य कार्यस्य तादृशकार्योत्पत्तौ तादशान्यतमस्य सामग्रो अपेक्ष्यते । प्रकृते च राजपुरुषः नृपपुरुष इत्याद्याकाङ्क्षाघटितप्रदर्शितका-न्यतमसमनैयत्यस्यापाद्यमान- कार्ये सत्त्वात्तदुत्पत्तौ तदन्यतमस्य राजपुरुष इत्याद्याकाङ्क्षान्यतमस्या- पेक्षणात्तद्विरहान्नापत्तिरिति बोध्यम् । अत्रेदं बोध्यं-विषयनिवेशो युक्तः प्रथमा] जयाऽलङ्कृतः १२१ द्यभाव एवप्रतीयते नतुराजस्वत्वाद्यभाव इति संभवति। स्वत्वादि- संबन्धस्य वृत्त्यनियामकतया प्रतियोगितानवच्छेदकत्वेन तत्संबन्धा- वच्छिन्नप्रतियोगिताकाभावाप्रसिद्धः। अत एव स्वामित्वादिकं परि- त्यज्य स्वत्वादेःषष्ठ्यर्थत्वं नवीनाः स्वीकुर्वन्ति । स्वामित्वादेःषष्ठय- थत्वे तस्य निरूपकतासम्बन्धन धनांशेऽन्वयसम्भवेऽपि तादृशस- म्बन्धस्य वृत्त्य नियामकतया संसर्गाभावप्रतियोगितानवच्छेदकत्वेन तत्संबन्धावच्छिन्नाभावस्य नजा प्रत्यायनासम्भवात् । आश्रयतासं- बन्धाद्यवच्छिन्नाभावबोधस्यैतादृशसमभिव्याहारस्थलेऽभ्युपगमे चै- त्रादिसंबन्धिान धनेऽपि, आश्रयतासंबन्धावच्छिन्नप्रतियोगिताक- चैत्रवृत्तिस्वामित्वाभावसत्त्वान्नदं चैत्रस्येति प्रयोगापत्तिः। न च नसमभिव्याहारस्थलान्वयबोधानुरोधेन षष्ठयादेः स्वत्वादिवा- चकत्वेऽपि राज्ञः पुरुष इत्यादौ षष्ठ्याद्यर्थस्य संसर्गमर्यादया भानमु चितम् । तस्य प्रकारत्वोपगमे तत्सम्बन्धस्याधिकस्य भानकल्पने गौरवात् । नब्समभिव्याहारस्यैव तत्प्रकारकबोधनियामकत्वाभ्यु पगमेन सामग्रीबलात् तत्प्रकारकबोधस्य तदसमभिव्याहारस्थले - तृणारणिमणिन्यायस्थले परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वनिवेशे तृणाव्यवहितोत्तरवह्नित्वापेक्षया लाघवात्तृणाव्यवहितोत्तरप्रमेयत्वतदव्यव- हितोत्तरत्वादेः कार्यतावच्छेदकत्ववारणाय विशेषवर्मावच्छिन्नं प्रति कारण स्वसम्भवे सामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमवश्यं वक्तव्यम् । एवं स्थिते अभेदसम्बन्धावच्छिन्नराजसम्बन्धित्यावच्छिन्नप्रकारतानिरूपितपुरुषत्वा वच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यता कबुद्धित्वावच्छिन्नस्वे का- यंत्वे सम्भवति प्रदर्शितसामान्यधर्मावच्छिन्नं प्रत्यन्यथासिद्धत्वमिति स्यात् । तस्मादेतद्ग्रन्थ एतदपालोचनयैव बोद्धयः ।

१२२ व्युत्पत्तिवादः [ कारके संभवादिति वाच्यम् । एवं सति नब्पदं विना यादृशसममिव्याहा- रस्थले यत्र धर्मिणि येन सम्बन्धेन यस्य विशेषणतया भानं तत्र नब्समभिव्याहारस्थले तद्धर्मिणि तत्सम्बन्धावच्छिन्नप्रतियोगि- ताकतदभावः प्रतीयते इति सर्वजनसिद्धानुभवस्यापलापापत्तेः । एवं सर्वजनसिद्धानुभवस्यापलापापत्तेरिति । वस्तुतोऽत्र नैतत् व्युत्पत्ति- विषयता अन्यथा भूतले घट इत्यत्र घटे भूतलवृत्तित्ववता प्रतीयते । नञ- प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमावित्यनुभवार्थ प्रकाशयति-नज - पदं विनेत्यादिना । अस्य फलन्तु पचत्यपि चैत्रे न याचतीति प्रयोगवार- णम् । अन्यथा समवायसम्बन्धेन पाकानुकूलकृतिम्त्यपि चैत्रे संयोगेन पाकानुकूल कृत्यभावबोधनं सम्भवेत् । नन्वेवं भूतले घट इत्यादौ भूतलनि- रूपितवृत्तित्ववान् घट इत्यर्थात् नअपदं विनाएतादृशसमभिव्याहारस्थले घट- रूपर्मिणि स्वरूपसम्बन्धेन न वृत्तिताया विशेषणता तत्र नसमभिव्याहारे. स्वरूपसम्बन्धावच्छिन्नवृत्तित्वावच्छिन्नाभाव एव प्रतीयतां घटे कथं घटाभावो भूतलवृत्तिरिति प्रतीयते इति चेत्सत्यम् । नसमभिव्याहारे यद्धविच्छि- नयत्सम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वं सम्भवति तस्य नसमभिव्याहारे नर्थाभावनिष्ठविशेष्यतानिरूपित प्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्र- कारताप्रयोजकत्वेन यदि सञ्जिवृक्षितः तदा तत्सम्बन्धावच्छिन्नतद्धा- वच्छिन्न प्रतियोगितानिरूपकत्वसम्बन्धावच्छिन्नप्रकारताप्रयोजक एव भव- तीत्यर्थः । अत एव घटो न घट इत्यादौ शब्दानुमितिवारणार्थयत्नः सार्थकः। एवञ्च भूतलवृत्तिता न तादृशप्रकारताप्रयोजकत्वेनाभिमता यदि चेदभि- मता तदा नियमविषयता स्यात् । इत्थ सति प्रकृते यदि राजप्रतियोगिता- कोऽभावो बुबोधयिषितश्चेत्तदा नियमस्य विषयः स्यात् । बुबोधयिषितश्च राजस्वत्वप्रतियोगिताकाभाव इत्येवं नियमाविषये को दोष इत्यरुचेराह- प्रथमा] जयाऽलङ्कृतः १२३ राज्ञःपुरुष इत्यादिवाक्यजन्याप्रामाण्यज्ञानानास्कन्दितबोधदशायां समभिव्याहारे च नजाभावे घटस्य प्रतियोगितयान्वयः । भूतलवृत्तित्वस्य चाश्रयतया अन्वयस्तथा च घटाभावो भूतलवृत्तिरिति प्रतीयते । एवं घटो न घट इत्यत्र घटत्वावच्छेदेन घंटत्वावच्छिन्न प्रतियोगिताकाभावप्रकारकानु- मितिशाब्दयोरिणाय कारणान्तरं न कल्पनीयमिति फलत्वेनोपन्यस्तम् । तत्रापि नऽसमभिव्याहारे घटत्वावच्छेदेन तादात्म्येन घटवत्ताप्रतीतेर- भावात्तदवच्छेदेन तदभावस्य ना प्रत्यायथितुमशक्यतया तादृशानुमिति- शाब्दयोरप्रसङ्गात्तदुक्तिश्चासङ्गतैव स्यात् । तस्मात् यत्र धर्मे यत्सम्बन्धा- वच्छिन्नयद्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शा- ब्दत्वावच्छिन्न प्रति साकाङ्क्षं यद्वाक्यं तेन व क्येन नञ्चटितेन तद्धर्माव- च्छिन्नेतद्धविच्छिन्नप्रतियोगिताकाभावश्चेद्वोधनीयस्तदा तत्सम्बन्धावच्छि नप्रतियोगिताक एवाभावो बोध्यते। इत्येव प्रतियोग्यभावान्वयौतुल्ययोगक्षे- मावित्यस्यार्थः। प्रतियोगितायां तद्धविच्छिन्नत्वन्तु अभावावगाहिबोधस्य- विशिष्टवैशिष्ट्यावगाहित्वेन लभ्यते। तथा च घटो न घट इत्यादौ तादृश- बोधो न भवति तद्धर्मभेदस्य कारणत्वात्। परं तादृशबोधं प्रत्याकाङ्क्षा- ऽस्त्येवेति न दोषः। भूतले नघट इत्यत्र घटत्वावच्छेदेनाभावो बोधनीय एव नास्तीति न दोषः। एवं प्रकृतेऽपि यदि पुरुषत्वावच्छेदेन राजत्वावच्छिन्न:- भावबोधश्चेदभिप्रेतस्सदैवानेन नियमेन स्वत्वसम्बन्धावच्छिन्नप्रतियोगिता- कत्वमभावस्य स्यात्तदेव नेति इत एवारुचेराह-अप्रामाण्यज्ञानेत्यादि । राज्ञ: पुरुष इत्यादीति । अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्नस्व- त्वसंसर्गावच्छिन्नप्रकारताकपु रुषत्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्वावच्छिन्नं प्रति अप्रामाण्यज्ञानानास्कन्दितराजत्वावच्छिन्न स्वत्वसम्बन्वावच्छिन्न प्रतियो- गिताकाभावत्वावच्छिन्ना भावी यविशेषणतासम्बन्धावच्छिन्नाभावनिष्ठप्रका- १२४ [ कारके व्युत्पत्तिवादः पुरुषोन राज्ञ इत्यादिवाक्यादपि शाब्दबोधापत्तेः स्वत्वाभावबुद्धौ तेन सम्बन्धेन तद्वत्ताबुद्धिं प्रति तेन सम्बन्धेन तदभाववत्ताबुद्धिरेव प्रति- बन्धिका न तु तत्प्रतियोगिकतत्सम्बन्धाभाववत्तापीति तदभावव्याप्यवत्ता- मुद्रयाच तत्र तदभावव्याप्यत्वनिश्चये एव प्रतिबन्धकता । यस्य च व्याप्य- त्वनिश्चयो नास्ति तस्य च भवत्येव ज्ञानद्वयम् । इति राजस्वत्वाभावे स्वत्वेन राजाभावव्याप्यत्वनिश्वयाभावेऽपि राज्ञः पुरुष इत्यतो ज्ञानदशायां राज्ञो न पुरुष इति वाक्याबोधो नेष्यते । स च स्यादिति भावः । रतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकबुद्धि त्वेनैव प्रतिबन्धकता भवितु- महति । न तु तादृशबुद्धित्वावच्छिन्नं प्रति स्वरूपसंसर्गावच्छिन्नराजस्वत्वत्वा- वच्छिन्नप्रतियोगिताकाभावोयविशेषणतासम्बन्धावच्छिन्नाभावत्वावच्छिन्नप्र- कारतानिरूपितपुरुषत्वावच्छिन्न विशेष्यताबुद्धित्वेन प्रतिबन्धकता भवति मानाभावात्। ननु पुरुषो न राज्ञ इत्यादावपि स्वत्वादिसंसर्गावच्छिन्नाभावस्यैव प्रतीत्या प्रतिबन्धकता भवतु भवदभिलषिता इति चेत् वृत्तिनियामक- सम्बन्धस्य प्रतियोगितावच्छेदकत्वाभ्युपगमे वृत्त्य नियामकश्चाधारतानवच्छे दक इति यावत् । राज्ञः पुरुष इत्येतद्वा यजन्यशाब्दसामग्रीसमये राजस्वत्वा भाववान् पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिपत्यक्षः प्राप्तः। नहि राजस्वत्वाभाववान् पुरुषत्वप्रकारकनिश्चयस्य तादृशसामग्रीबाध- निश्चयत्वं तस्य बाधाभावात्। एवञ्च विशेष्यतावच्छेदकादिप्रकारक- निश्चयादिकारणकलापात् प्राप्तता शप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येतादृशशाब्दसामग्रन्याः प्रतिबन्धकताकल्पनेन भवतां गौरवम् । न च प्रकारतावादिमते तादृशप्रतिबन्धकताप्रयोजनं तस्य राजस्वत्ववान् पुरुष इत्येतदर्थकराज्ञः पुरुष इत्येतादृशशाब्दसामग्रीकाले राजस्वत्वाभाववान् प्रथमा] जयाऽलङ्कृतः १२५ स्वत्वसंसर्गकज्ञानस्य विरोधित्वे मानाभावात् । किञ्च वृत्त्यनियाम- वृत्त्यनियामकसम्बन्धस्याभावीयप्रतियोगितानवच्छेदकत्वादिति । अय. म्भावः। स्वत्वनिरूपकत्वादिनानासम्बन्धावच्छिन्नप्रतियोगिकाभावकल्पना यां गौरवमिति। न च स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावकल्पनायां भवता- मपि सत्त्वेनोभयोः साम्यमिति वाच्यम् । राजनिरूपितस्वत्वन्नास्तीत्यादौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकराजनिरूपितस्वत्वाभावकल्पनाया भव- तामप्यावश्यकत्वेन तदंशे साम्येन निरूपकत्वस्वत्वादिसम्बन्धावच्छिन्नाभाव- कल्पना भवतामधिकेति न वृत्त्यनियामकस्य प्रतियोगितावच्छेदकत्वमिति। यद्यपि स्वत्वसम्बन्धेन राजाभावस्य स्वरूपसम्बन्धेन राजनिरूपित- स्वत्वाभावस्य चैकदेशवृत्तितयाऽतिरिक्तपदार्थानिवेशान्न गौरवं समनियत- वस्तुन ऐक्यात् तथाऽपि तत्सम्बन्धात्रच्छिन्नपतियोगिताकल्पनायां गौरवस्य तदवस्थत्वात् तत्कल्पनया नि:फलत्वाच्च । किञ्च येनसम्बन्धेन यद्वत्ताबुद्धिः यत्र प्रवृत्तिप्रयोजिका भवति तत्सम्बन्धावच्छिन्नावच्छिन्नप्रतियोगिताकतद- भावस्य तदप्रवृत्युपयोगितया कल्पनमावश्यकं भवति । स्वत्वादिसम्बन्धेन तद्वत्ताबुद्धिस्तु न तत्र तत्प्रवृत्तिप्रयोजिकेति । तत्सम्बन्धेन तदभावस्य तत्र तद. प्रवृत्त्यनुपयोगितया तत्कल्पनन्नावश्यकमिति बोध्यम् । ननु वृत्त्यनियामकस्य प्रतियोगितानवच्छेदकत्वे अणुपरिमाणान्न घटः गुणन्न गच्छतीत्यादौ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाणुपरिमाणा. भाववज्जन्यत्ववान् घट इति वृत्तित्वसम्बन्धाप्रतियोगिताकगुणाभाववत्सं- पुरुषत्वादिविशेष्यतावच्छेदकनिश्चयाभावेन विशिष्टबुद्धौ विशेषणबुद्धः कार- रणत्वम् । विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति विशेष्यतावच्छेदकादिप्रकारक- निश्चयस्य कारणत्वात् । तदभावादेव एकसमये तदुभयोरसत्त्वान्न प्रतिबन्ध- कताप्रयोजनं न च संसर्गतावादिमतेऽप्येकविधप्रतिबध्यप्रतिबन्धकभावेनैव १२६ व्युत्पत्तिवादः [ कारके योगानुकूलव्यापारवानिति बोधद्वयोरनापत्तिरिति चेन्न । तत्राणुपरिमाण- स्याणुपरिमाणनिरूपितत्वे गुणस्य गुणवृत्तित्वे च लक्षणया स्वरूपसम्बन्धेना- गुपरिमाणनिरूपितत्वाभाववज्जन्यत्ववान् घट इति बोधस्य स्वरूपसम्बन्धेन गुणवृत्तित्वाभाववत्संयोगानुकूलव्यापारवानिति बोधस्य च वक्तुं शक्यत्वेना दोषात् । न चाणुपरिमाणान्न गगनमित्यादौ दोषः। जन्यत्ववत्वस्य गगनेऽसत्वादिति वाच्यम् । नअर्थाभावस्य द्विधाभानेनादोषात् । स्वरूपसम्ब- न्धावच्छिन्नप्रतियोगिताकाणुपरिमाणनिरूपितत्वाभाववज्जन्यवाभाववद्गग- नमिति बोधः । न च नर्थस्य द्विधा भानमेव गौरवमिति वा गुणो गुणन्न गच्छतीत्यादौ भवतामपि तथा कल्पनाया आवश्यकत्वात् । अन्यथा गुणवृ- त्तित्वाभाववत्सयोगानुकूलव्यापारवत्वस्य गुणेऽप्रसिद्धतया बोधानापत्तेः । गुणादीनां येन सम्बन्धेन यद्धर्मिणीति । नन्वेवं नियमो यदि स्यात्तर्हि संसर्ग- तावादिनां दोषः स्यात् तदेव न भूतले.न घट इत्यादौ तात्पर्यसत्वे घटनिष्ठ- प्रतियोगिताकाभावो भूतलवृत्तिरित्येवमपि बोधदर्शनादन्यथा नञोऽसत्त्वे भूतलवृत्तित्ववान् घट इत्यस्यैव प्रतीत्या नञः सत्त्वे भूतलवृत्तित्वाभाववान् इत्येवं रूपेणैव बोधः स्यान्न तु घटत्वावच्छिन्नप्रतियोगिताकाभावो भूतल- वृत्ति रेवमिति । किञ्च घटो न घट इत्यादौ तादात्म्यसम्बन्धावच्छिन्नघटत्वावच्छि- नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्नविशेष्यताकशाब्द- बोधवारणाय तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाभावत्वा- प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति प्रतियोगितावच्छेदकविशेष्यतावच्छेदकयोर्भेदः कारण मिति ग्रन्थकारेणैव निर्वाहः । तथा हि घटवद्भूत नमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति तादृश- शाब्दसामग्रयाः प्रतिबन्धकतायास्तवापि अवश्यं कथनीयत्वात् । एवञ्च विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्येताहशवाक्यजन्य- शाब्दसामग्री प्रतिबन्धिकेति चेन्न। शाब्दसामग्रां प्रत्यक्षप्रतिबन्धिका भवति ।

प्रथमा] जयाऽलङ्कृतः १२७ कसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि राज्ञः पुरुष इत्यादौ स्वोकृतमस्ति । निरुक्ननियमासत्त्वे तु तादात्म्यसम्बन्धेन घटे घटवत्ता नोऽसत्त्वे न प्रतीयते इति नञः सत्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगिताका- भावप्रकारकबोधो न स्यादेवेति तादृशशाब्दबोधवारणाय ग्रन्थकारप्रयासोऽपि व्यर्थतामेव व्रजेत्तस्मान्नमोऽसत्वे तत्सम्बन्धावच्छिन्नतद्धावच्छिन्नप्रकार- ताकशाब्दबोधं प्रति साकाङ्क्ष यद्वाक्यन्तेन नवटितेन तद्धर्मावच्छिन्नप्रति- योगिताकाभावश्चेबुबोधयिषतस्तहि तत्सम्बन्धावच्छिन्नप्रतियोगिताक एवे- त्येव नियमस्तथा च यत्र द्रव्यस्य घटपदेन ग्रहणन्तत्रतादात्म्यसम्बन्धावच्छि- नप्रकारताकद्रव्यत्वावच्छिन्नविशेष्यताकशाब्दबोधो घटो घट इत्यादिवाक्या- दपि भवतीति तादृशशाब्दबोधं प्रति साकाक्षेन नघटितेन वाक्ये घटत्वा- वच्छिन्न प्रतियोगिताकाभावोऽपि विवक्षित इति तादात्म्यसम्बन्धावच्छिन्न- प्रतियोगिताकस्तादृशाभावत्वावच्छिन्नप्रकारताकशाब्दबोधवारणाय ताह- शकार्यकारणभावोऽप्यावश्यकः । एवं नमोऽसत्त्वे स्वरूप सम्बन्धेन भूत- लवृत्तित्ववान् घट इति प्रतीयते । इति तादृशशाब्दबोधं प्रति साकाङ्क्षेन भूतले घट इति वाक्येन नवटितेन न भूतलवृत्तित्वावच्छिन्न प्रतियोगिता- काभावो विवक्षितः किन्तु घटत्वावच्छिन्नप्रतियोगिताक इति नियमाना- क्रान्ततया न तत्रापि शाब्दबोधानापत्तिरिति । एवञ्च स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति शाब्दबोधं प्रति साकाझेन नघटितेन राज्ञो न पुरुष इति वाक्येन राजत्वावच्छिन्नप्रतियोगिताकाभावो विवक्ष्यते । अपि तु राजस्वत्वत्वावच्छिन्न प्रतियोगिताक इति नियमानाक्रान्ततया न निय- मतो विरोध इत्यरुचेराह-राज्ञः पुरुष इत्यादि । तत्सम्बन्धावच्छिन्न- । यदि तु प्रत्यक्षेच्छाऽस्ति शाब्देच्छा च नास्ति तत्र प्रत्यक्षं भवति । यत्र चोभ- योरिच्छाऽस्ति तत्र शाब्दसामग्रो प्रतिबन्धिका भवतीति वस्तुस्थितिः।

व्युत्पत्तिवादः [कारके राजस्वत्वादेः प्रकारताभ्युपगमः समुचितः । अन्यथा ताहशस- मभिव्याहारज्ञानघटितशाब्दसामग्रोकाले राजस्वत्वाभाववान्पुरुषः सुन्दर इत्याकारकविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षवारणाय ताशसामग्याः प्रतिबन्धकताकल्पनाधिक्येन गौरवात् । तद्धविच्छिन्नप्रकारतानिरूपिततद्धविच्छिन्नविशेष्यताकशाब्दबुद्धित्वाव- च्छिन्नं प्रति तेन सम्बन्धेन तद्धर्मावच्छिन्न प्रतियोगिताकाभावत्वावच्छिन्न- प्रकारताकतद्धर्मावच्छिन्नविशेष्यताकबुद्धरेव प्रतिबन्धकत्वादिति भावः । यद्यपि राजभावव्याप्यवत्तामुद्रया राजस्वत्वाभाववान् पुरुष इति बुद्धरपि स्वत्वसम्बन्धन राजवान् पुरुष इति बुद्धिं प्रति प्रतिबन्धकत्वमस्त्येव तथाऽपि व्याप्यत्वाग्रहदशायामपि प्रतिबन्धकत्वमिष्टन्तन्न स्यादित्याशयेन ग्रन्थप्रवृ- त्तिरिति न ग्रन्थासङ्गतिः। शाब्देच्छाविरहविशिष्टप्रत्यक्षेच्छाविरहविशिष्टराश: पुरुष इत्येतादृशवाक्य- जन्यशाब्दसामग्रथा विभिन्न विषयकप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धकत्वेऽपि यत्र घटवद्भूतलमिति प्रत्यक्षेच्छाऽस्ति घटवन भूतजमिति प्रत्यक्षसामग्री चास्ति तत्रापि घटवन्न भूतलमिति प्रत्यक्षं स्यात् । शाब्दसामग्नयाः शाब्दे- च्छाविरहविशिष्टप्रत्यक्षेच्छावत्वेन तद्विरहाभावेनाप्रतिबन्धकत्वात् । एवञ्च घटवन्न भूतलमिति प्रत्यक्षो मे जायतामित्येतादृशेच्छाविरहविशिष्टराज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री वटवन्न भूतलमित्येतादृशप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति । इच्छाविषयतायाः प्रतिबन्धकतावच्छेदकत्वोपगमेन एकरूपेण वक्तुमशक्यत्वात् । न च प्रत्यक्षविशिष्टेच्छाविरहविशिष्टशाब्द- सामग्रयाः प्रतिबन्धकत्वम् । वैशिष्टयञ्च स्वविषयकत्वस्वसामग्रीसमान- कालिकत्वैतदुभयसम्बन्धेन । एवञ्चान्यादृशप्रत्यक्षसामग्रीसद्भावे अन्या- दृशप्रत्यक्षेच्छायाः प्रत्यक्षवैशिष्टयाभावात् न दोष इत्युक्त्यैकरूपेणोच्यता- प्रथमा ] जयाऽलकृतः १२६ अस्मन्मते तादृशसमभिव्याहारघटिवसामय्या राजस्वत्वा- भाववान् पुरुष इत्यादिबाधाभावघटिततया वत्सत्त्वे विशेष्यता- वच्छेदकादिप्रकारकनिश्चयरूपकारणविरहादेव तथाविधविशिष्ट- वैशिष्ट्यावगाहिप्रत्यक्षोत्पत्त्यसंभवेन वाशसामग्र्यास्तत्र प्रति- बन्धकत्वस्याकल्पनात् । अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया च न त्वन्मते निर्वाहः । अन्यत्रान्यविधप्रत्यक्षेच्छानामुत्तेजकवया न स्वन्मते निर्वाह इति । संसर्गतावादिमते इत्यर्थः । न च विभिन्न- विषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रया: प्रतिबन्धकत्वं घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति कल्पनमुभयो- रावश्य कमिति तादृशप्रतिबन्धकतामादायैव निर्वाहे किं गौरवमिति चेत्. सत्यम् । तथा सति समानविषयकप्रत्यक्षस्य यत्किञ्चिदपेक्षविभिन्नविषयकता- दृशसामग्रया अपि प्रतिबध्यत्वापत्तेः । एवञ्च नामोच्चारणपूर्वकं प्रतिबन्ध- कल्पनमावश्यकमिति तादृशविशिष्टबुद्धि प्रति प्रतिबन्धकत्वं भवतामधिक- मिति दिक् । स्वजन्य शाब्दबोधाविषयविषयकप्रत्यक्षत्वावच्छिन्नं प्रति राज्ञः पुरुष इत्यादिवाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वं घटवद्भूतलं पट- वद्भूतलमित्यादिनानाप्रत्यक्षत्वावच्छिन्नं प्रति अनुगतरीत्या प्रतिबन्धकत्व- कल्पनमस्माकं भवताञ्चावश्यकमे वेति राजनिरूपितस्वत्वाभाववान् पुरुषः सुन्दर इत्यादिप्रत्यक्षस्यापि प्रतिबद्धयतावच्छेदकाक्रान्ततया तादृशप्रतिबद्धच. प्रतिबन्धकभावेनैवेष्टसिद्धिरिति कथन्न निर्वाह इति वाच्यम् । यतो हि विभिन्न विषयकशाब्दसामग्रयाः प्रत्यक्षसामग्रथाश्च सत्वे प्रत्यक्षं जायता- मिति वक्तव्यम् । घटवद्भूतलमित्येतादृशप्रत्यक्षसामग्रीसद्भावे तादृशप्रत्यक्षे- च्छायाञ्च सत्यां पटवद्भूतलमित्येतादृशप्रत्यक्ष सामग्रयाश्चाक्स्थानम् । न तु तादृशप्रत्यक्षेच्छा चास्ति । तत्र घटवद्भूतलं पटवद्भूतलमित्येतादृशसमूहाल- ६ व्युत्पत्तिवादः [ कारके मितीच्छायाञ्च सत्यां प्रत्यक्षमेव भवति प्रत्यक्षं विना इच्छाविषयासिद्धः। उक्तानुगतरूपेण शाब्दसामग्रयाः प्रतिबन्धकताकल्पनायान्तु प्रत्यक्षं दुरु- पपादमेव स्यादिति घटवद्भूतल मित्यादिप्रत्यक्षेच्छाविरहविशिष्ट राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री घटवद्भूतलमित्यादिप्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिकेति विशिष्यव प्रतिबध्यप्रतिबन्धकभावः कल्पनीय इति राजनिरू- पितस्वत्वाभाववान् पुरुष इत्यादि प्रत्यक्षं प्रति प्रतिबन्धकताकल्पनं संसर्ग- तावादिनां गौरवमिति । यत्तु घटवद्भूतलमितिप्रत्यक्षेच्छा विरहविशिष्ट राज्ञः पुरुष इति वाक्य- जन्यशाब्दसामग्री विभिन्न विषयकप्रत्यक्षवावच्छिन्नं प्रति प्रतिबन्धिकेति अन्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकतामादाय निरुक्तप्रत्यक्षस्यापि प्रतिबध्य- त्वमिति तदपि न । पटवद्भूतलमित्यादिप्रत्यक्षसामग्री राज्ञः पुरुष इति शाब्दसामग्री च यत्रास्ति तत्र पटवद्भूतलमिति प्रत्यक्षं जायतामितीच्छायां प्रत्यक्षं जायते । इदानी हि घटबद्भूतलमित्यादिप्रत्यक्षेच्छाविरहविशिष्ट- राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाश्च सत्त्वेन प्रतिबन्धकसद्भावात् प्रत्यक्षत्वानापत्तेः । सामान्येन प्रत्यक्षेच्छाविरहविशिष्ट शाब्दसामग्रन्या पति- बन्धकत्वमित्यपि न वक्तुं शक्यते, यद्विषयकप्रत्यक्षसामग्री तदन्यविषयक- प्रत्यक्षेच्छायामगि प्रत्यक्षापत्तेरिति नान्यदीयप्रत्यक्षस्थलीयप्रतिबन्धकता- मादाय संसर्गतावादिना निर्वाह इति विशिष्य प्रतिबध्यप्रतिबन्धकभावकल्प- नायां गौरवमिति बोध्यम् । यदप्याहुः -स्वजन्यशाब्दबोधाविषयविषयकत्व- स्वसमानाधिकरणेच्छाविषयत्वाभाववत्त्वोभयसम्बन्धेन स्वविशिष्ट प्रत्यक्ष- त्वावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयः प्रतिबन्ध- कत्वमित्यनुगमसम्भवस्तथा च यत्र विभिन्नविषयकप्रत्यक्ष सामग्रो शाब्द- सामग्री चास्ति तत्र चासत्यां प्रत्यक्षेच्छायां शान्दबोध एव, न प्रत्यक्षं तस्य म्बनात्मकप्रत्यक्षन्न भवति । राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्रीकाले पट -, वद्भूतलमित्येताहराप्रत्यक्षस्य बाघात्। किन्तु घटवद्भूतलमित्येतादृशप्रत्यक्ष- प्रथमा] जयाऽलङ्कृतः निरुक्तसम्बन्धेन, शाब्दसामग्री विशिष्टत्वेन तं प्रति तस्याः प्रतिबन्धकत्वात्। यत्र च प्रत्यक्षेच्छा तत्र स्वसमानाधिकरणेच्छाविषयत्वमेव प्रत्यक्षस्येति न तत्र तं प्रति तादृशसामग्रयाः प्रतिबन्धकत्वमिति प्रत्यक्षमेव न शाब्दबो- घः। एवञ्च राजनिरूपितस्वत्वाभाववान् पुरुष इति प्रत्यक्षस्यापि निरु- क्तद्वयसम्बन्धेन शाब्दसामग्री विशिष्टत्वात् तम्प्रत्यापि शाब्दसामग्रन्या: प्रति- बन्धकत्वेन प्रत्यक्षवारणसम्भवान्न विशिष्य तादृशप्रत्यक्षम्प्रति शाब्द साम- प्रयाः प्रतिबन्धक त्वकल्पनमिति न संसर्गतावादिनामपि गौरवमिति तदपि न । यत्र निरुक्तशाब्दसामग्रो प्रत्यक्षसामग्री चास्ति चैत्रस्य मयि प्रत्यक्षं जायतामितीच्छास्ति तत्र चैत्रवृत्तीच्छाया अपि स्वाधिकरणकालवृत्तित्वेन शाब्दसामग्रीसमानाधिकरणतादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविष- यत्वाभाववत्वरूपसम्बन्धासंबटनात् सामग्री विशिष्टत्वाभावेन निरुक्तप्रति- वध्यप्रतिबन्ध कभावानाक्रान्ततया तादृशेच्छाया अप्युत्तेजकत्वापत्तेः । इष्ट- न्तु नोत्तेजकत्वं प्रत्यक्षेऽपि तस्येच्छाया विषयासिद्धः । भूतकालिकेच्छाया अप्युक्तरीत्या उत्तेजकत्वापत्तेश्च यद्यपि स्वाधिकरणकालवृत्तित्वस्वाधि- करणदेशवृत्तित्योभय सम्बन्धेन सामग्री विशिष्टत्वस्यैव स्वसमानाधिकरण- त्वेनादोषस्तथापि यत्र विभिन्न विषयकप्रत्यक्षसामग्रोशाब्दसामग्रीज्ञानञ्जा-- यतामितीच्छा चास्ति तत इच्छायाः प्रत्यक्षोत्तेजकत्वं नास्ति तं विनाऽपि विषयसिद्धः । इदानीञ्च सामग्रोविशिष्ट तादृशेच्छाविषयत्वमेव प्रत्यक्षस्येति इच्छाविषयत्वाभाववत्वाभावात् तादृशप्रत्यक्षम्प्रति प्रतिबन्धकत्वाभावात् प्रत्यक्षाच्या तादृशेच्छाया अप्युत्तेजकत्वापत्तेस्तादृशरीत्यानानुगमसम्भवः । न च स्वविशिष्टेच्छाविषयत्वाभाववत्वस्य स्थाने स्वविशिष्टे व्छानिरूपित- प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य निवेशेनादोषः । ज्ञानञ्जायतामिती- मेव भवति । तत्राधुना प्रत्यक्षेच्छाविरहविशिष्टाभावेन तादृशशाब्दसाम- प्रयाः प्रतिबन्धकत्वाभावात् पटवद्भूतलमित्येतादृशप्रत्यक्षमपि स्यात् । न च राज्ञः पुरुष इत्येतद्वाक्यजन्यशाब्दसामग्री स्ववृत्तिविरहप्रतियोगिनीच्छा- [ कारके १३२ व्युत्पत्तिवादः च्छीयज्ञानत्वावच्छिन्नविषयतायाः प्रत्यक्षे सत्त्वेऽपि प्रत्यक्षत्वावच्छिन्नविष- यता नास्तीति सम्बन्धघटनात् निरुक्तप्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसाम- प्रयाः प्रतिबन्धकत्वात् । नन्वेवमपि यत्र राशः पुरुष इत्यादिवाक्यजन्य- शाब्दसामग्रो घटवद्भूतलमित्यादिप्रत्यक्षसामग्री चास्ति तत्र शाब्देतरज्ञा- नञ्जायतामितीच्छायां प्रत्यक्षमेव जायत. इतीच्छाया उत्तेजकत्वात् । सा- म्प्रतञ्च शाब्दसामग्री विशिष्टेच्छानिरूपितशाब्देतरत्वावच्छिन्नैव विषयता न तु प्रत्यक्षत्वावच्छिन्नेति प्रत्यक्षत्वावच्छिन्नविषयत्वाभाववत्वस्य प्रत्यक्षे सत्त्वात् । तादृशप्रत्यक्षत्वावच्छिन्नं प्रत्यपि राज्ञः पुरुष इत्यादिवाक्यजन्य- शाब्दसामग्रयाः प्रतिबन्धकत्वापत्तिरिति चेत्-न । स्वजन्यशाब्दबोधावि- षयविषयकत्वस्वजन्यशाब्दबोधावृत्तित्व-स्वविशिष्टेच्छानिरूपितत्वोमयसम्ब- न्धेन स्वविशिष्टविषयत्वाभाववत्बोमयसम्बन्धन स्वविशिष्टप्रत्यक्षत्वाव- च्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनेन शाब्देतरज्ञानञ्जायता- मितीच्छीयविषयताया निरुतोभयसम्बन्धेन सामग्री विशिष्टत्वेन तादृश- विषयतावत्वस्यैव प्रत्यक्ष सत्त्वेन निरुक्ताभयसम्बन्धेन सामग्रीविशिष्टत्वा- भावात् तादृशप्रत्यक्षम्प्रत्यप्रतिबन्धकत्वेनादोषात् । न च यत्र शाब्दसामग्री प्रत्यक्षसामग्री च तत्र प्रत्यक्षाभावो जायतामितीच्छायामपि शाब्दबोध एव न प्रत्यक्षमिति सिद्धान्तः। स चेदानीमनुपपन्नस्तादृशेच्छीयप्रत्यक्षवृत्ति- विषयतायां राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रीजन्यशाब्दबोधवृत्तित्व- स्वविशिष्टेच्छानिरूपितत्वयोस्सत्त्वात् स्वविशिष्टत्वे न स्वविशिष्टविषयत्वा- भाववत्वरूपसंबन्धाघटनात् स्वविशिष्टत्वाभावात्तादृशप्रत्यक्षम्प्रति शाब्द- सामग्रन्याः प्रतिबन्धकत्वानापत्त्या प्रत्यक्षस्य दुर्गरत्वादिति वाच्यम् । स्वविशिष्टमुख्यविशेष्यत्वाभाववत्वस्य सम्बन्धत्वेनादोषात् । प्रकृतविषय- विशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रति प्रतिबन्धिको स्वविषयत्वस्वतमानकालीन- सामग्री निरूपकत्वैतदुभयसबन्धेनेति वाच्यम् । प्रत्यक्षस्य प्रतिबध्यत्वात् । च्छाविशिष्टतादृशप्रत्यक्षाभावात् । एवञ्च घटवद्भूतलमित्येतादृशप्रत्य- प्रथमा] जयाऽलकृतः ताया अभावनिष्ठविशेष्यतानिरूपित प्रकारतासामानाधिकरण्येन मुख्यत्वा- भावात् । नन्वेवमपि प्रतियोगितासम्बन्धेनाभावविशिष्टं प्रत्यक्षजायता- मितीच्छायांशाब्दसामग्रयाः प्रतिबन्धकवानापत्त्या प्रत्यक्षं दुर्वारमिति चेन्न । अभावनिष्ठविषयतानिरूपितप्रतियोगित्वनिष्ठविषयतानिरूपितत्वाभाववती या स्वविशिष्टाविषयता तद्भाववत्वस्यैव प्रवेशेनादोषात् । यत्तु अन्यस्य प्रत्यक्षसामग्री शाब्दसामग्री चास्ति अन्यस्य प्रत्यक्षञ्जायतामितीच्छा ताह- शेच्छीयविषयतायाः सामग्री विशिष्टत्वात् तदभावस्वत्वाभावात् प्रत्यक्ष प्रति प्रतिबन्धकत्वानापत्तिः । एवं मासादूर्व प्रत्यक्षञ्जायतामितीच्छाया- मपीति वदन्ति-तन्न युक्तम् । अन्यवृत्तित्वविशिष्टे मासोत्तरत्वविशिष्टे च प्रत्यक्षे तादृशविषयता च यस्य प्रत्यक्षसामग्री तदीयप्रत्यक्षस्य तत्कालिकस्य तादृशविषयत्वाभाववत्वमेवेति स्वविशिष्टत्वात् तादृशप्रत्यक्षप्रतिबन्धकत्व. सिद्धः । वस्तुतस्तु यत्र घटवद्भूतलमिति प्रत्यक्षसामग्रो अनुभितिसामग्री राज्ञः पुरुष इतिवाक्यजन्यशाब्दसामग्रो चास्ति शान्देतरज्ञानञ्जायतामिती- च्छायामनुमित्याऽपीच्छाया विषयसिद्धया इच्छाया अनुत्तेजकतया शाब्द- बोध एव, न प्रत्यक्षादिकं, तच्चेदानीमनुश्पन्नन्तादृशप्रत्यक्षस्य स्वविशिष्ट- विषयतावत्वेन सम्बन्धासंबटनात् तत्सत्यक्षम्प्रति प्रतिबन्धकत्वानापत्तरिति नानुगमसम्भवः। तथा च राजनिरूपितस्वत्वाभाववान पुरुषः सुन्दर इति प्रत्यक्षवावच्छिन्नम्प्रति राज्ञः पुरुष इति वाक्य जन्यशाब्दसामग्रन्थाः प्रतिबन्ध- कत्वकल्पनं संसर्गतावादिनां गौरवमिति सुधियो विभावयन्तु । प्रकारता- वादिनान्तु नेति मूल एवोपपादित मिति तत्रैव द्रष्टव्यम् । स्वोत्तरत्वसम्बन्धेन स्वसमानाधिकरणेच्छाविशिष्टान्यस्वजन्यशाब्दबोधविषयकप्रत्यक्षत्वावच्छि- नम्प्रति राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वमित्यनु- क्षत्वावच्छिन्नं प्रति स्वत्वसंसर्गावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपित- पुरुषत्वावच्छिन्नविशेष्यताकशाब्दसामग्रीत्वेनैव प्रतिबन्धकताकल्पनात् । एकः प्रतिवध्यप्रबन्धकभावः संसर्गातावादिमतेऽधिकं इत्यवधेयम् ।

१३४ व्युत्पत्तिवादः [कारके गतरीत्या प्रतिबध्यप्रतिबन्धकभावकल्पनायान्तु अन्यप्रत्यक्षस्थलीयप्रति- बन्धकतामादायैव निर्वाह इति मूलञ्चिन्त्यमेवेति तत्त्वम् । यत्तु स्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दर इति प्रत्यक्षत्वावच्छि- नम्प्रति शाब्दसामग्रन्थाः प्रतिबन्धकत्वकल्पनं प्रकारतावादिनामप्यावश्यक- मित्युभयं समानमेवेति-तन्न । तत्प्रतिदाने निरूपितत्वसम्वन्धेन राजाभाववत्स्वत्वं प्रमेयमित्यादि- प्रत्यक्षत्वावच्छिन्नम्प्रति शाब्दसामग्रथाः प्रतिबन्धकत्वकल्पनायाः संसर्गता- वादिनामावश्यकतयोपदर्शितविशिष्ट वैशिष्टयावगाहिप्रत्यक्षत्वावच्छिन्नम्प्रति प्रतिबन्धकत्वकल्पनाधिक्येन संसर्गतावादिनामेव गौरवात् । यदप्याहुः स्वत्वप्रकारकबोधोपगमे शाब्दसामग्रीकुक्षी निरूपितत्वसम्ब- न्धेन राजाभाववत्स्वत्वमिति बाधनिश्चयाभावस्य राजनिरूपितस्वत्वा- भाववान् पुरुष इति वाधनिश्चयाभावस्य च प्रवेशः संसर्गतावादिनां स्वत्व- -सम्बन्धेन राजाभाववान् पुरुष इत्येकबाधनिश्चयाभावस्यैवेति विभिन्नविषयक- प्रत्यक्षम्प्रति सामग्र या प्रतिबन्धकत्वे प्रतिबन्धकतावच्छेदककोटौ प्रत्यय- जन्यस्वत्वाद्यपस्थिते: उभयबाधनिश्चयाभावस्य च प्रकारतावादिनां प्रवेशः। संसर्गतावादिनां चैकवाधनिश्चयाभावस्यैवेति प्रकारतावादिनामेव गौरव- मिति-तदपि न । स्वत्वसम्बन्धेन राजाभावव्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावस्य प्रकारतावादिनांराजनिरूपितस्वत्वाभाववान् पुरुष इति बाधनिश्चयाभावप्रवेशेनैव गतार्थतया स्वत्वसम्बन्धेन राजाभाव- च्याप्यराजनिरूपितस्वत्वाभाववान् पुरुष इति निश्चयकाले शाब्दबोधा- नुपपत्त्या संसर्गतावादिनां च तदभावस्यापि गुरुधर्मकस्य निवेशनीयतया लाघवानवकाशात् । न च राजनिरूपितस्वत्वाभावव्याप्यस्वत्वसम्बन्धन ननु योग्यताज्ञानादिघटित शाब्दसामग्री शाब्दजननी भवति । जनकता च न तत्र समुदायत्वेन वक्तुं शक्या समुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्व- रूपत्वेन तादृशापेक्षाबुद्धिमन्तराऽपि कार्योत्पत्तरिष्टत्वात् । एवञ्च योग्य- । प्रथमा] जयाऽलङ्कृतः राजाभाववान् पुरुष इति निश्चयस्य व्याप्यवत्तानिश्चयमुद्रया प्रकारता- वादिनां मते प्रतिबंधकत्वेन तदभावस्यापि शाब्दसामग्रीकोटौ निवेशनीयतया गौरवम् । संसर्गतावादिनां स्वत्वसम्बन्धेन राजाभाववान् पुरुष इति बाध- निश्चयाभावनिवेशेनैवात्रापि निर्वाहादिति वाच्यम् । यतोहि व्यापकसामा- नाधिकरण्यं व्याप्तिः व्यापकत्वं च यस्य व्याप्यत्वं विवक्षितन्तत्समानाधि. करणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वन्तथा च स्वत्वसंसर्गकराज- प्रकारकपुरुषत्वावच्छिन्नविशेष्यकबुद्धौ स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताक- राजस्वत्वाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत्स्वत्व- सम्बन्धावच्छिन्न प्रतियोगिताकराजाभावत्वन्तद्वत्समानाधिकरणराजनिरूपि- तत्वाभावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयः प्रति- बन्धक इति तादृशनिश्च यत्वावच्छिन्नप्रतियोगिताकाभावः शाब्दसामग्रयां प्रवेशनीयः संसर्गतावादिनेति । विभिन्नविषयकप्रत्यक्षत्वावच्छिन्न प्रतिबध्यता- निरूपितप्रतिबन्धकतावच्छेदककोटौ राजस्वत्वाभावत्वरूपस्वत्वघटितगुरु- धर्मस्य द्विधा प्रवेशः । राजस्वत्वप्रकारकबुद्धौ तु स्वत्वसम्बन्धावच्छिन्नप्र- तियोगिताकराजाभावसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकराज- स्वत्वाभावत्ववत् समानाधिकरणस्वत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजा- भावत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयस्य प्रतिबन्ध- कत्वेन तदभावस्यैत्र शाब्दसामग्रन्यां प्रवेश इति विभिन्न विषयकप्रत्यक्षप्रति- बन्धकतावच्छेदककोटौ राजाभावत्वरूपलघुधर्मस्य द्विधा भानमिति महल. ताज्ञानादिविशिष्टाकाङ्क्षाज्ञानत्वेन कारणताऽऽकाङ्क्षाज्ञानादिविशिष्टयो- ग्यताज्ञानत्वेन वा कारणता । एवञ्च विनिगमनाविर हात् सामग्रीघटक- यावतामपि पायेण कारणतावच्छेदकत्वं सिद्धयति । एवं स्थिते प्रकारतावादिमते योग्यताज्ञानमेव द्विविधम् । निरूपि- तत्वसम्बन्धावच्छिन्नराजायभाववत्तानिश्चयरूपबाधाभावो योग्यतास्वरूप- संसर्गावच्छिन्नस्वत्वत्वाद्यवच्छिन्नस्वत्वाद्यभाववत्तानिश्चयरूपबाधाभावो यो- [कारके व्युत्पत्तिवादः लाघवं प्रकारतावादिनाम् । न च स्वत्वप्रकारकबुद्धौ निरूपितत्वसम्बन्धा- वच्छिन्नप्रतियोगिताकराजाभाववत् स्वत्वमित्यपि प्रतिबन्धकम् । एवं तद- भावव्याप्यवत्ता निश्चयमुद्रया निरूपितत्वसम्बन्धावच्छिन्नराजाभावव्याप्यरा- जनिरूपितत्वाभाववस्वत्वमिति तादृशाभावव्याप्यघटवत्स्वत्वम् । एवं ताह- शाभावव्याप्यपटवत् स्वत्वमित्याद्यनन्तानन्तज्ञानम्प्रतिबन्धकमिति सर्वेषाम- भावस्य शाब्दसामग्रयां प्रवेशः । एवं राजनिरूपितस्वत्वाभावव्याप्यस्वत्व- सम्बन्धन राजाभाववान् पुरुष इति तादृशाभावव्याप्यघटवान् पटवान् इत्याद्यनन्तानन्तज्ञानं प्रतिबन्धकमित्येतेषामप्यभावः शाब्दसामग्रयां प्रवेश- नीय इति द्विविधानन्तानन्तानामभावानां शाब्दसामग्रयां प्रवेश अावश्यकः प्रकारतावादिनामिति विभिन्नविषयकप्रत्यक्षप्रतिबन्धकतावच्छेदककोटौ स- वेषामेवानन्तानन्ताभावानां प्रवेशः । स्वत्वसंसर्गकबोधे च स्वत्वसम्बन्धेन राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः एवं तादृशाभावव्याप्यघटवान् पटवानित्येकविधभेवानन्तानन्तज्ञानं प्रतिबन्धकमित्येकविधानामेवानन्ता- नन्ताभावानां शाब्दसामग्रयां प्रवेशः, विभिन्न विषयकप्रत्यक्षप्रतिबन्धकता- वच्छेदककोटौ प्रवेशश्चेति लाघवेन प्रकारतावादिनां महद्गौरवम् । यद्यपि निरूपितत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यत्वावच्छिन्नप्रकार- ताकस्वत्वत्वावच्छिन्न विशेष्यताकनिश्चयाभावस्य स्वरूपसम्बन्धावच्छिन्न- प्रतियोगिताकराजस्वत्वाभावव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्न- विशेष्यताक निश्चयाभावस्य च प्रवेशेन सर्वेषामेवाभावानामनन्तानामनुगम- सम्भवेनोभयविधानामेव भावानां शाब्दसामग्रन्यां प्रवेशः प्रकारतावादिमते तथापि संसर्गमता पेक्ष्याऽत्य गुरुत्वम्। संसर्गतावादिनामपि स्वत्वसम्बन्ध- ग्यता एवं योग्यताया द्वैविध्यं ज्ञानस्य वैविध्यं सुतराम् । संसर्गतावा दिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयरूपबाघांभावयोग्यता ज्ञान- स्यैव कारणत्वेनेति एकं लाघवं किञ्च उपस्थिते कारणत्वात् । सा च प्रकार- तावादिमते राजपदजन्यराजत्वावच्छिन्ना डस्पदजन्यस्वत्वत्वावच्छिन्ना पुरुष- प्रथमा] जयाऽलङ्कृतः १३७ स्वावच्छिन्नप्रतियोगिताकराजाभावब्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वाव- च्छिन्नविशेष्यताकनिश्चयाभावप्रवेशेनैवोक्तानन्तानन्ताभावा नामनुगमसम्भ- वेन तन्मते एकविधाभावस्यैव प्रवेशः । वस्तुत एवमपि नानुगमसम्भवः । व्या- पकत्वस्य व्यापकसामानाधिकरण्यरूपतया सर्वेषां पदार्थानां प्रवेशस्यावश्य- करवेन गौरवस्य तदवस्थत्वात् । तस्माद्राजसुत्वप्रकारकशाब्दबुद्धित्वावच्छिन्न- प्रतिबध्यतानिरूपितप्रतिबन्धकताश्रयसामान्याभावत्वेन सर्वेषामेवाभावानां प्रवेशसम्भवादेकरूपेण सम्भवत्यनुगम इति विचारणीयम् । प्रकारतावादिमते चोक्तरीत्या द्विविधाभावस्येति लाघवानवकाशादिति वाच्यम् । यतो हि संसर्ग- तावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्वत्वं प्रमे- यम् । निरूपित त्वसम्बन्धेन राजाभावव्याप्यराज निरूपितत्वाभाववत्स्वत्वं प्रमेयम् । तादृशाभावव्याप्यघटवत्स्वत्वं प्रमेयम् । एवं तादृशाभावव्याप्यपट- वत्स्वत्वं प्रमेयम् । एवं राजस्वत्वाभावव्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुषः सुन्दरः ।राजस्वत्वाभावव्याप्यघटवान् पुरुषः सुन्दरः। एवन्ताहशा- भावव्याप्यपटवान् पुरुषः सुन्दर इत्यादि द्विविधानन्तानन्तविभिन्न विषयक. प्रत्यक्षज्ञानम्प्रति राज्ञः पुरुष एतद्वाक्यजन्यशाब्दसामग्रयाः प्रतिबन्धकत्वकल्प- नमावश्यकम् । प्रकारतावादिमते च उतानन्तानन्तप्रत्यक्षकारणीभूतस्य विशेष्यतावच्छेदकप्रकारकज्ञानस्य निरूपितत्वसम्बधेन राजाभावव्याप्यरा- जनिरूपितत्वाभाववत् स्वत्वमित्याद्यनन्तानन्तरूपस्य राजस्वत्वाभाव- व्याप्यस्वत्वसम्बन्धेन राजाभाववान् पुरुष इत्याद्यनन्तानन्तरूपस्य निरूपि- तत्वसम्बन्धावच्छिन्नप्रतियोगिताकनिश्चयरूपबाधघटिततया राजस्वत्वाभा- वव्याप्यत्वावच्छिन्नप्रकारताकपुरुषत्वावच्छिन्नविशेष्यताकनिश्चयरूपबाधघ- पदजन्यपुरुषत्वावच्छिन्नेति गौरवम् । संसर्गतावादिमते तु राजपदजन्य- राजत्वावच्छिन्ना पुरुषपदजन्यपुरुषत्वावच्छिन्ना चेति द्वितीयं लाघवम् । किं बहुना योग्यताशानोपस्थित्याकाङ्क्षारूपकारणस्य प्रकारतावादिमते कारणतावच्छेदकभेदात् षड्विधत्वे सामग्रथाश्च तादृशकारणविशिष्टरू- व्युत्पत्तिवादः [ कारके वाहशेच्छायामसत्यं चोपदर्शितविशिष्टवैशिष्टयबोधत्वप्रकारेच्छा- बलादुपदर्शिवविशिष्टवैशिष्टयबोधोपपत्तये अन्यादृशविषयताया एव प्रतिबध्यतावच्छेदकत्वोपगमावश्यकत्वात् । न च स्वत्वादेः प्रकारतामतेऽपि स्वत्वादिसम्बन्धावच्छिन्नप्रतियोगिताकराजाद्य- भावविशिष्टपुरुषादिवैशिष्टयबोधे तथाविधसामग्याः प्रतिबन्धक- ताधिक्येन गौरवम् । तत्संसर्गतामते वाहशसामग्र्याः स्वत्वादि- सम्बन्धावच्छिन्नप्रतियोगिताकराजाद्यभाववत्तानिश्चयाभावघटित- तया वत्सत्त्वे कारणविरहादेव तथाविधप्रत्यक्षवारणसंभवादिति टिततया तादृशबोधाभावघटितशाब्दसामग्रीकाले निरुक्तानन्तानन्तप्रत्यक्ष- कारणीभूतनिरुक्ततत्तद्रूपविशेष्यतावच्छेदकप्रकारकज्ञानस्याभावात् कारणा- भावादेव तादृशानन्तानन्तप्रत्यक्षानापत्त्या द्विविधतादृशानन्तानन्तप्रत्यक्षम्प्रति प्रतिबन्धकत्वकल्पनन्नावश्यकम्, किन्तु स्वत्वसम्बन्धेन राजाभावव्याप्यराज- स्वत्वाभाववान् पुरुषः सुन्दर एवं तादृशाभावव्याप्यघटवान् पुरुषः सुन्दरः पटवान् पुरुषः सुन्दर इत्यायेकविधानन्तानन्तप्रत्यक्षं प्रत्येवेति महल्लाघव- मित्याहुः। संसर्गतावादिनां च नैतत्प्रतिबन्धकत्वकल्पनमावश्यकमेतत्प्रत्यक्ष- कारणीभूतविशेष्यतावच्छेदकप्रकारक ज्ञानस्य स्वत्वसम्बन्धेन राजाभाव- व्याप्यराजस्वत्वाभाववान् पुरुष इत्यादिरूपस्य बाधनिश्चयघटिततया तादृशबाधाभावघटितशाब्दसामग्रीकाले कारणाभावादेव प्रत्यक्षासम्भवेन शाब्दसामग्रयाः प्रतिबन्धकत्वकल्पनाया अनावश्यकत्वादित्यपि बोध्यम् । पत्वात् तेषां गणनया विंशत्यधिकसप्तशतसंख्याककारणानि भविष्यन्ति । संसर्गतावादिमते तु चतुर्विशति कारणानि भवन्तीतिमहल्लाघवं किम्पुनः कारणान्तर विशिष्टेन तेन सह गणनयेत्येतदेव संसर्गतावादिमतमुपपादयति- न चेत्यादिना।

प्रथमा] जयाऽलङ्कृतः वाच्यम् । मन्मते वाशप्रत्यक्ष प्रति तथाविधसामग्र्याः प्रति- बन्धकवाधिक्येऽपि निरूपिवत्वादिसम्बन्धावच्छिन्नप्रतियोगि- ताकराजाद्यभावविशिष्ट स्वत्वादिवैशिष्टयबोधे तथाविधसामग्र्याः प्रतिबन्धकताऽकल्पनेन तदंशे साम्यात् । तथा च पूर्वोक्तराजस्व- त्वाभाववान् पुरुषः सुन्दर इत्यादिविशिष्टवैशिष्टयप्रत्यक्ष प्रति राज्ञः पुरुषः इत्यादिसामग्र्याः प्रतिबन्धकत्वकल्पनं संसर्गता- वादिनां मतेऽधिकमिति । न च स्वत्वादेः प्रकारवामते घटप्रत्य- क्षादिकं प्रति ताशसामग्रीप्रतिबन्धकतायां विभक्तिजन्यस्वत्वाधु- पस्थितिनिवेशाधिक्येन राजस्वत्वाभाववान्पुरुष इत्यादिबाधाद्य- भावनिवेशाधिक्येन च गौरवम् । अस्मन्मते तादृशोपस्थितितथा- विधबाधाभावादीनां बथाविधवाक्यजन्यशाब्दबोधं प्रत्यहेतुतया ताशवाक्यघटितसामग्रीप्रतिबन्धकतायां तेषामनिवेशादिति वाच्यम्। भवन्मतेऽपि स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाव- व्याप्यराजस्वत्वाभाववान्पुरुष इत्यादिनिश्चयस्य तदभावव्याप्यव- त्तानिश्चयमुद्रया ताशवाक्यजन्यशाब्दधीविरोधिवया तादृशनि- श्चयाभावस्य तथाविधसामग्रीप्रतिबन्धकतायां निवेशनस्याधिक्येन लाघवानवकाशात्। मन्मते राजस्वत्वाभाववान पुरुष इत्यादिबाधकामावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् । यत्तु राज्ञः संसर्गतावादिमतं खण्डयन् प्रकारतावादिमतमुपपादयति-भवन्म- तेऽपीत्यादिना । अस्यायं भावः। बाधाभावो योग्यताबाघश्च तद्वत्ताबुद्धिं प्रति तदभाववत्ता निश्चयःतदभावव्याप्यवत्तानिश्चयश्चेति प्रकारतावादिमते स्वरूपसम्बन्वावच्छिन्नराजनिरूपितस्वत्वत्वाद्यवच्छिन्नप्रकारतानिरूपितपुरुष- [कारके १४० व्युत्पत्तिवादः पुरुष इत्यादौ राजस्वत्ववान् पुरुष इत्याद्यन्वयबोधोपगमे राजकीय स्वत्वं राजस्वत्ववान् पुरुष इत्याकारकद्विविधानुमितेरेव तदतिरि- ताविषयकत्वेन वादृशानुमितिं प्रवि प्रत्येकं वाहशवाक्यघटितसा- मत्र्याः प्रविबन्धकत्वद्वयम् । अस्मन्मते २ च तादृशानुमित्योस्तथाविधवाक्यजन्याद्राजकीयः पुरुष इत्येताहशबोधादतिरिक्तविषयकतया तत्र ताशसामग्र्याः त्वावच्छिन्नविशेष्यताकबुद्धित्वावच्छिन्नं प्रति स्वरूपसम्बन्धावच्छिन्नराजनि- रूपितस्वत्वत्वाद्यवच्छिन्नप्रतियोगिताकाभाववत्तानिश्चयः। तादृशाभावव्या. प्यस्वत्वसंसर्गावच्छिन्नराजाद्यभाववत्तानिश्चयस्च बाधस्तदभावो योग्यता । एवञ्चार तदभावव्याप्यवत्तामुद्रया स्वत्वसंसर्गावच्छिन्नराजाद्यभावस्य 'अनुमितौ शाब्दसमानविषयकत्वं शाब्दीयविषयतानवच्छेदकधर्मा- वच्छिन्नविषयताया अनिरूपकत्वम् । वस्तुतस्तु शाब्दीयविषयतावच्छेदकता- त्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिता- कपर्याप्तिकावच्छेदकतानिरूपकविषयतानिरूपकत्वमिति । २ अस्मन्मतेऽपीति । अत्रदं तत्त्वं-समानविषयकानुमितित्वाव च्छिन्नं प्रति समानविषयक प्रत्यक्षसामग्रा प्रतिबन्विरेत्यत्र समानविषयकत्वस्य यद्यतिरिक्तविषयकत्वाभावत्वरूपत्वं चेत् तदा राज्ञः पुरुष इत्येतद्वाक्य- जन्यशाब्दसामग्रया: राजकीय स्वत्वं राजस्वत्ववान् पुरुष इत्याकारक- द्विविधानुमितेः प्रतिबन्धकता भवति समानविषयकत्वात् । यदि तु समानविषयकत्वं नाम अन्यूनानतिरिक्तविषयकत्वमित्युच्यते तदा न राजकीयं स्वत्वं इत्याकारिका न वा राजस्वत्ववान् पुरुष इत्याकारिका वा अनुमितिः प्रतिबन्धिका | अनुमितेः न्यूनविषयताकत्वात् । एवञ्च तादृशानुमितिद्वयं प्रकारतावादिमतेऽपि भवत्येवेति गम्यते गदाधरभट्टा. चाय्याभिप्रायों रमणीयो मया ।

प्रथमा जयाऽलङ्कृतः प्रतिबन्धकत्वकल्पनं नास्ति, तथाविधानुमितितथाविधशाब्दसा- मग्र्योश्च सत्त्योरनुमितेरेवोत्पत्तेः, अपि तु राजकीयः पुरुष इत्या- कारकस्वत्वसंसर्गकैकविधानुमितिं प्रत्येव तादृशसामग्र्याः प्रति- बन्धकत्वमेकं कल्पनीयमिति लाघवमिति । वदप्यकिंचित्करम् । भवन्मते यत्र यादृशानुमितिः स्वीक्रियते अस्मन्मतेऽपि तत्र तादृशानुमितेः स्वीकरणीयेत्यनुमिवौ शाब्दसामग्र्याः प्रतिबन्ध- कत्वसाम्यात्, उपदर्शिवस्थले भवद्भिरनुमितिः स्वीक्रियते अस्मा- भिरपि स्वीक्रियते, कुवः प्रतिबन्धकताद्वयकल्पनमिति भवतापि तादृशशाब्दं प्रति तादृशानुमितिद्वयसामग्रीद्वयस्य प्रतिप्रबन्धकताया वाच्यतया साम्याच्च । एवं राजपुरुष इत्यादिसमासवाक्यात्स्वत्व- संसर्गकशाब्दबोधस्वीकारेताहशशाब्दबोधसामग्र्याः स्वत्वसंसर्गेण राजविशिष्टपुरुषवात्पर्यज्ञानादिघटिताया भिन्नविषयकप्रत्यक्षादिक प्रति प्रतिबन्धकत्वाधिक्येन गौरवात् । तत्र राजसम्बन्धिप्रकार- काभेदान्वयबोधस्वीकार एवोचितः । न च भवन्मतेऽपि तादृशा- भेदान्वयबोधसामग्र्याः प्रतिबन्धकवाधिक्येन गौरवमिति वाच्यम्। राजसम्बन्धिनि स्वारसिकलक्षणाग्रहदशायामभेदसम्बन्धेन राज- सम्बन्धिविशिष्टपुरुषे तात्पर्यग्रहसत्त्वे भवन्मतेऽपि कर्मधारयत्वेना भिमतात्तथाविधसमासवाक्यात्तादृशशाब्दबोधस्वीकारस्यावश्यक- तया तादृशसामग्रीप्रतिबन्धकतया उभयमवसिद्धत्वात् । यत्तु दधि पश्य इत्यादौ लुप्त द्वितीयाविभक्तिस्मरणेन दधिकर्म- कदर्शनबोधवद्राजपुरुष इत्यादावपि लुप्तषष्ठीविभक्तिस्मरणेन राज- बाधत्वं स्थितम् । संसर्गतावादिमते तु स्वत्वसंसर्गावच्छिन्नराजाद्य- भावव्याप्यवत्तानिश्चयमुद्रया राजनिरूपितस्वत्वभावस्य बाधकत्वे स्वत्व- संसर्गेण राजाद्यभावापेक्षया राजनिरूपितस्वत्वाद्यभावस्य गौरवग्रस्तत्वं [ कारके व्युत्पत्तिवादः सम्बन्धप्रकारकभेदान्वयबोधनिर्वाहे राजसंबन्धिनि निरूढलक्षणां स्वीकृत्याभेदान्वयबोधोपगमो निरर्थकः । न च षष्ठीवत्पुरुषादिस्थ- लेऽपिलुप्तविभक्तिस्मरण एवचेदन्वयबोधस्तदाऋद्धस्य राजमातङ्गा इत्यादिप्रयोगापत्तिस्तत्र मातङ्गादौ राजादीनामन्वयबोधोपपत्तय राजादिपदोत्तरषष्ठ्यादि विभक्त्यनुसंधानस्यावश्यकत्वेन समान- विभक्तिकतया राजादौऋद्धादिपदार्थस्याभेदान्वयवोधसंभवादिति वाच्यम् । यवस्तत्र ऋद्धराजादीनामभेदान्वयबोधानुपपत्त्या नाभियुक्तानामप्रयोगः, अपि तु समासाघटकपदसापेक्षवया राजपदस्यासामर्थ्यातिदेशात्समासासाधुत्वेन । वत्सापेक्षत्वं च तदर्थान्वितस्वार्थपरत्वं,स्वार्थश्च स्वीयवृत्तिग्रहविशेष्यः । अव एव शरैः शातितपत्रोऽयं चैत्रस्य दासभार्येत्यादौ न समस्यमानशावित- दासपदादेः सापेक्षवा । तदर्थंकदेशशातनदासत्वादावेव शरकरण- कत्वचैत्रनिरूपितत्वादीनामन्वयात् । तदर्थान्वितेत्यत्राभेदान्वयो' वा निवेशनीय इति । तदसत् । स्वारसिकलक्षणाग्रहस्थलानुरोधेन' वाहशसमभिव्याहारज्ञानादेस्तथाविध बोधजनकवायाः क्लुप्त- त्वात्तत्र निरूढलक्षणास्वीकारे गौरवाभावात् । यत्र राजपदस्य १ तत्राधिकपदार्थप्रवेशात् । न च प्रकारतावादिमते कि लाघवं संसर्गतावादि- मते तु तदभाववत्तानिश्चयमुद्रायां लघीयानभावः । तत्र तु तदभावव्याप्यव- १ इदन्तु न युक्तम् । पुरुषपुत्रैकदेशपुरुषादौ राजादीनां स्वत्वसम्बन्धे- नान्वयतात्पर्ये राज्ञः पुरुषपुत्र इत्यस्य साधुतापत्तेः। २ यत्र राजपदस्य. राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयवादिसिद्धतयेति पाठभेदः । राजसम्बन्ध्यभिन्नपुरुषेत्यधिकः पाठः क्वचित् ।

१४३ प्रथमा] जयाऽजङ्क्तः राजसम्बन्धिनि स्वारसिकलक्षणाग्रहस्तत्र तादृशबोधस्योभयमव- सिद्धतया वाहशसमभित्र्याहारज्ञानस्य राजसम्बन्ध्यभिन्नपुरुष- बोधे कारणवायाः क्लुप्तत्वात् , तयैव निर्वाहेण सर्वत्र लुप्त- विभक्तिस्मरणकल्पने मानाभावात् । न च स्वारसिकलक्षणाग्रह- स्थले तत्र तादृशान्वयबोधस्योभयवादिसिद्धत्वेऽपि निरूढलक्षणा- मते सम्बन्धितात्पर्यस्यानादित्वकल्पनागौरवम् । अनादितात्पर्य- विषयीभूवार्थनिष्ठलक्षणाया एव निरूढलक्षणात्वादिति वाच्यम् । राजपुरुष इत्यादिवाक्यजन्यशाब्दबोधात्पूर्व नियमतो लुप्त विभक्ति- स्मरणकल्पनापेक्षया तात्पर्यस्यानादित्वकल्पनायां गौरवविरहा- दिति । न चैवं दधि पश्यतीत्यादावपि दध्यादिपदस्य दधिकर्म- कादौ लक्षणां स्वीकृत्य धात्वर्थेन समं तस्याभेदान्वयबोधोपपाद- नसम्भवात्तत्रापि लुप्तविभक्तिस्मरणकल्पनमनुचितमिति वाच्यम् । दध्यादिपदस्य दधिकर्मकादौ लक्षणाग्रहदशायामपि तस्य द्वितीये- तरविभक्त्यन्तत्वभ्रमदशायां दधिकर्मकः पश्यवि, दधिकर्मकेपण पश्यतीत्यादाविव उक्तस्थलेऽपि दधिकर्मकदर्शनान्वयबोधानुद- यात् । भवन्मते दधिकर्मकः पश्यतीत्यत्र दधि पश्यतीतिस्थलीय- दधिपदोत्तरपश्यतिपदत्वरूपाकाक्षाज्ञानादिघटितसामग्रीसत्त्वाद- धिकर्मकदर्शनान्वयस्य बोधापत्तेर्द्विवीयान्तदध्यादिपदत्वावच्छिन्न- धर्मिकतादृशधात्वादिसमभिव्याहारज्ञानस्य तादृशान्वयबोधे हेतु- ताया आवश्यकत्वात् । दधि पश्यतीत्यादौ लुप्तद्वितीयानुसंधान- स्यावश्यकत्वात् । राजसम्बन्धिपुरुषाद्यन्वयबोधे च राजपदाव्यव- त्तानिश्चयमुद्रायामिति चेत्-न व्याप्यत्वस्य स्वसमानाधिकरणात्यन्तामा- वीयप्रतियोगितानवच्छेदकधर्मवसामानाधिकरण्यरूपत्वात्। व्याप्यस्य द्वि- वारमानात् । व्याप्यगौरवे गौरवं स्पष्ट मेवेति चेत्-न । प्रकारतावादिमतेऽपि १४४ व्युत्पत्तिवादः [कारके हितोत्तरपुरुषादित्वप्रकारकज्ञानस्य हेतुवायाः स्वारसिकलक्षणाग्रह- स्थलानुरोधेनावश्यकल्पनीयवया राजपुरुष इत्यादौ राजादिपदस्य तृतीयाद्यन्तत्वभ्रमदशायां राजसम्बन्धिपुरुषाद्यन्वयबोधापत्त्यस- म्भवात् । तृतीयादिविभक्तथा व्यवधानात् । दधि पश्यतीत्यादौ दधिपदाव्यवहितोत्तरत्वप्रकारकधातुपदज्ञानस्य हेतुताया अक्लु- तत्वात् । पश्यवि दधि इव पश्यति चैत्रो दधि इत्यादावपि दधि- कर्मकदर्शनान्वयबोधात् तादृशज्ञानहेतुताया अशक्यकल्पनीय- त्वाचेति । तण्डुलं पचतीत्यादौ वण्डुलादिपदस्यैव वण्डुलादिक- मके लक्षणा विभक्तिस्तु साधुत्वार्था । एवं राज्ञः पुरुष इत्यादाव- पि राजादिपदस्य सम्बन्ध्यादौ लक्षणा विभक्तिः साधुत्वार्था । तत्तद्विभक्तयन्तसमभिव्याहारस्य तत्तल्लाक्षणिकार्थबोधनियामक- त्वान्नाविप्रसङ्गः। विभक्तेरेव प्रकृत्यर्थविशेषिवस्वार्थे लक्षणेति तु न सम्भवति । विभक्तेः कुत्रापि शक्तरक्लृप्ततया तत्र शक्यस- म्बन्धरूपलक्षणाया असम्भवात् । तण्डुलः प्रमेय इत्यादौ विभ- क्त्यर्थामिश्रितस्यैव प्रकृत्यर्थस्य भानात् । प्रकृविशक्तेः स्वार्थे क्लुप्तवया वत्र लक्षणासम्भवादिवि तु चिन्तनीयम् । राजादिपदस्य राजसम्बन्ध्यादौ शक्तत्वभ्रमदशामिव तदर्थलक्षणाग्रहदशायामपि राजसम्बन्धिनः पुरुष इत्यादाविव राजसम्बन्धिसम्बन्धीपुरुष इत्याद्यन्वयबोधस्य सर्वजनानामनुभवसिद्धत्वात् । पचति चैत्र इत्यादावपि कृविसम्बन्धेन पाकादेश्चैत्राद्यशे विशेषणत्वोपगमे चैत्रो न पचतीत्यादावन्वयबोधानुपपत्तिद्रष्टव्या कृतिसम्बन्धस्यापि तदभाववत्तामुद्रायां भावस्य गुरुभूतत्वमस्त्येव तदभावव्याप्यक्त्तामुद्रायामपि व्याप्याभावलाघवे द्विवारप्रवेशे लाघवोऽस्तु परन्तु तद्व्याप्यत्वलक्षणे व्यापकाभावप्रवेशे न तत्राप्येकाभावस्य गौरवात् । एवञ्चाभावद्वये लाघ.

प्रथमा ] जयाऽलकृतः वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नप्रतियोगिकाभावस्याप्रसि- द्धया तद्बोधनासम्भवात् । अथैवमपि चैत्रो जानातीत्यादौ चैत्राद्यंशे ज्ञानादेराश्रयता- सम्बन्धेनान्वयबोधोपगमे क्षतिविरहः । आश्रयतासम्बन्धस्या- भावप्रतियोगितावच्छेदकतया न जानातीत्यादौ आश्रयतासम्ब- न्धावच्छिन्नप्रतियोगिताकज्ञानाद्यभावस्यैव भानसम्भवात् । तथा च तत्राख्यावस्याश्रयत्वार्थकत्वं नियुक्तिकम् । न च धात्वर्थज्ञाना- देराश्रयतासम्बन्धेन चैत्रादिरूपप्रातिपदिकार्थे साक्षात्प्रकारकत्वोप- गमें ज्ञानं चैत्र इत्यादावपि वथान्वयबोधांपत्तिरिति वाच्यम् । तादृशान्वयबोधेाख्यातान्तधातुसमभिव्याहारज्ञानस्य हेतुत्वात्। भवन्मतेऽप्याश्रयदाप्रकारकबोधे वाहशसमभिव्याहारज्ञानस्य हेतु- ताया आवश्यकत्वात्। यत्तु पचति चैत्र इत्यादौ पाककृतिमांश्चैत्र इत्याकारकाख्यातार्थप्रकारकशाब्दबोधोत्पत्त्यातत्राख्यातजन्यकृत्यु. पस्थिते. तुत्वकल्पनमावश्यकम् । तथा च तत्तदर्थविशेषान्निवेश्या- त्मनिष्ठप्रत्यासत्त्या पदार्थोपस्थितेर्हेतुत्वकल्पने शक्यलक्ष्यसहस्रार्थ- भेदेनाख्यातजन्योपस्थितेःकारणताबाहुल्यमित्यर्थविशेषाननिवेश्य धात्वर्थप्रकारकान्वयत्रोधं प्रतिप्रत्ययजन्योपस्थितेःसमानविशेष्य- ताप्रत्यासत्यैव हेतुत्वमुपेयते । तथा च तादृशकारणबोधेन चैत्रा- वम् । द्वये च गौरवं प्रकारतावादिमतेऽप्यस्ति संसर्गतावादिमतेऽपे तदेवा- स्तीति. चेत्-न । राजनिरूपितस्वत्वाद्यभावसामानाधिकरण यात्यन्ताभावीयप्र- तियोगितावच्छेदकधर्मापेक्षया गुरुशरीरत्वात् तद्धाभावीयप्रतियोगिता- वच्छेदकधर्मस्य गौरवात् । गौरवं संसर्गतावादिमते स्फुटते । स्यादेतत् ज्ञानाश्रयत्वे लाक्षणिक ज्ञानपदघटितज्ञानं चैत्र इत्यादिवाक्ये । १० १४३ व्युत्पत्तिवादः [कारके देर्धात्वर्थज्ञानविशेष्यताया भानं न सम्भवति । यदि च धातुत्वप्र- त्ययत्वादीनामनुगवानां दुर्निर्वचवया नैतादृशानुगतकार्यकार- भावकल्पनं सम्भवतीति मन्यते तदापि तत्र ज्ञाधातोरेव पाकादौ लक्षणा तत्र जानातीत्यादिवाक्यात्पाककृत्यादिप्रकारकान्वय- बोधोत्पत्त्या ज्ञाधात्वर्थप्रकार कान्वयबोधे वदव्यवहितोत्तरविप्त्वा- दिप्रकारकज्ञानजन्योपस्थिते: समानविशेष्यत्वप्रत्यासत्त्या हेतुता- यास्तत्र कल्पनीयतया तादृशकारणबाधाच्चैत्रो जानातीत्यादौ चैत्रादेर्ज्ञानविशेष्यतया भानानुपपत्तिर्दुर्वारैवेति । तदप्यसत् । प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे व्यभिचारवारणाय तादृशो- पस्थितिवैशिष्ट्यस्य वादशोपस्थितिजन्यवावच्छेदककोटौ अवश्यं निवेशनीयतया तदनुत्तरशाब्दबोधे चैत्रादेर्शानादिविशेष्यतया भाने तादृशकारणबाधस्याकिश्चित्करत्वात्। तादृशानुपूर्वी घटकज्ञा- दिधातुजन्यज्ञानाद्युपस्थितिचैत्रादिरूपविशेष्योपस्थितियोग्यवाज्ञा- नादिघटिवसामग्र्या आश्रयतासंसगकशाब्दबोधजनने बाधकामा- वात् । न चैतन्मते आश्रयवासम्बन्धेन ज्ञानादिप्रकारकशाब्द- बोधे वाहशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् । आश्रयवा- सम्बन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात्सर्वनाम्नः सांकेतिकशब्दा- न्वराद्वा ताशसम्बन्धेन ज्ञानादिप्रकारकचैत्रादिविशेष्यकशाब्द- बोधस्य सर्वमव एव प्रसिद्धावपि तादृशशाब्दबोधे पदार्थान्तरभा- ननैयत्येन वन्मिश्रिवयोग्यताज्ञानस्य तत्र हेतुवाया आवश्यकत्वात्। ज्ञानादिविशिष्टचैत्रादिमात्रविषयकयोग्यताज्ञानस्य ज्ञानादिविशिष्ट- संसर्गतावादिमते प्रतियोगितावच्छेदकधर्मस्य गौरवेऽपि प्रकारतावादि- मतोपदर्शितमहद्गौरवस्य सत्वात् । अत्रेदं वक्तव्यम् । प्रथमं योग्यताशन. द्वैविध्येन गौरवं दत्तं तन्न संसर्गतावादिमतेऽपिराशः स्वत्वं इत्यादौ निरूपित- १४७ प्रथमा ] जयाऽलङ्कृतः चैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्लृप्तत्वादिति वाच्यम् । भवन्मतेऽपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात् । आश्रयतासंसगेक- ज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयवाघटिततत्प्रका- रकज्ञानकारणतावच्छेदकापेक्षया लघुशरीरवया आश्रयतायाः संसर्गतामवस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्या- हृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रय- ताप्रकारकशाब्दबोधस्योभयमतसिद्धतया तत्र तादृशयोग्यताज्ञान- हेतुत्वमुभयमतसिद्धमेवेति वाच्यम्। आश्रयतायाः संसर्गतावादिना त्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादिति चेत्-सत्यम् । एतदभिप्रायेणैव जानातीत्यादावाख्यातस्य निरर्थकता मणिकार ऊरीचकार। तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छवां दीधितिकाराणां पुनरेष आशयः । यत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिक- लक्षणाग्रहो वा तत्र चैत्राद्यशे धात्वर्थंकदेशस्य ज्ञानादेरन्वयानुप- पत्त्या स्वरूपसम्बन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वय- बोध एव तत्र मणिकृता स्वीकरणीयः। तथा च तत्र ज्ञानाश्रय- ताप्रकारकशाब्दबोधे वत्प्रकारकयोग्यताज्ञानहेतुतायाःक्लृप्तत्वादा- श्रयतासंसर्गकशाब्दबोधे तादृशयोग्यताज्ञानहेतुवाकल्पनमधिकमेव मणिकृन्मते । न च दीधिविकृन्मते ताशयोग्यताज्ञानहेतुत्वा- कल्पनलाघवेऽपि जानातीत्याद्यानुपूर्वीज्ञानघटितज्ञाधातुशक्ति- ज्ञानजन्यज्ञानोपस्थितिघटितशाब्दसामग्र्या भिन्नविषयकप्रत्यक्ष त्वसंसर्गावच्छिन्नराजाद्यभावरूप बाधाभावयोग्यतास्वीकारेण योग्यताज्ञानस्य द्वैविध्यात् तदंशे साम्यात् । यदप्युपस्थितौ गौरवं प्रदर्शितं तदपि न राज- व्युत्पत्तिवादः [ कारके प्रति प्रतिबन्धकतायां आख्यातजन्याश्रयत्वोपस्थितेनिवेशनस्या- धिक्याद्गौरवमिति वाच्यम् । भवन्मतेऽपि ज्ञानाश्रयत्वाभाववांश्चैत्रः सुन्दर इत्यादिविशिष्ट- वैशिष्टयावगाहिप्रत्यक्ष जानाति चैत्र इत्याद्यानुपूर्वीज्ञानघटितज्ञा- धातुजन्यज्ञानोपस्थितिघटितसामग्रया: प्रतिबन्धकताधिक्येन गौरवात्। मन्मते च ताहशसामग्रथा विरोधिज्ञानाश्रयत्वाभाववत्तानिश्च- याभावघटितवया तथाविधविशिष्टवैशिष्टयबोधसामग्र्यास्ताह- शशाब्दबोधसामग्र्या समं युगपदवस्थानासंभवेन तादृशप्रतिबन्ध: कत्वकल्पनाविरहादित्यधिकं दर्शिवदिशावसेयम् । अथैवं रीत्या भूवले न घट इत्यादौ घटादिपदस्य घटप्रति- योगिकादौ तदुत्तरसुविभक्तरेव वा प्रतियोगिवायां लक्षणामभ्यु- पेत्य तत्र घटप्रवियोगिकाभावो भूतलवृत्तिरित्याद्याकारकप्रतियो- गिताप्रकारकशाब्दबोधोपगम एव समुचितः । तथा सति तथा- विधसमभिव्याहारज्ञानघटिवसामग्र्या घटप्रतियोगिकत्वाभाव- वानभावः प्रमेय इत्यादिविशिष्टवैशिष्टयबोधं प्रति प्रतिबन्धकत्वा- कल्पने लाघवादित्युक्तनियमे निपातातिरिक्तत्वविशेषणवैयर्थ्य- मिति चेत्-न । भूवले न घट इत्यादौ घटाद्यभावे भूतलाद्यन्वितसप्त- म्यर्थाधेयत्वस्येव तात्पर्यवशाद्धटादौ सप्तम्यन्तार्थभूतलादिवृत्तित्वा- पुरप्रवेशन्यायेन राज्ञः पदजन्यराजनिरूपित स्वत्वत्वाद्यवच्छिन्नोपस्थितिरेका पुरुषपदजन्य पुरुषत्वावच्छिन्नोपस्थितिर्द्वितीया इत्येवमुपस्थितावपि साम्यम् । संसर्गतावादिमते उपदर्शितप्रतिवध्यप्रतिबन्धकभावकल्पनं व्याप्यलक्षणीय निश्चयघटिततयेति गूढार्थतत्त्वालोके ।

१४६ प्रथमा] जयाऽलङ्क्तः भावस्यान्वयबोधोऽप्यनुभवसिद्धः । अन्यथा तादृशवाक्यजन्यस्या- प्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घट इत्यादिवाक्यजन्य- घटादिविशेष्यकभूतलाद्याधेवत्वप्रकारकबोधविरोधितायाः सर्वानु- भवसिद्धाया अनुपपत्तेः । नब्पदं विना यत्र धर्मिणि यत्य विशे- षणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहार- स्थले नसत्त्वे तत्र धर्मिणि वदभावः प्रदीयते इत्यनुभवापलाप- प्रसङ्गाच्च । एवं च नञर्थाभावेऽनुयोगिवया घटाद्यन्वयबोधोप- पत्तये निपातातिरिक्तत्वविशेषणमावश्यकम् । एवं न पचति चैत्रः, चैत्रस्य न धनमित्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नबर्थस्य चैत्रधनादावन्वयबोधोपपत्तये घटो न पट इत्यादौ नबर्थघटादि- भेदस्यान्वयबोधोपपत्तये च तदावश्यकम् । न चोक्तस्थलेषु नञो-- ऽभाववल्लाक्षणिकतयाऽभाववता सममनुयोगिनामभेदान्वयबोध एव तत्रोपेयते इति वाच्यम् । तथा सति सर्वत्र भाववत एव नबर्थ-- वया मुख्यार्थपरनबो दुर्लभत्वापत्तेः अभावस्य भेदान्वयबोधो- पगमेऽपि कार्यकारणभावकल्पनाधिक्यविरहेणाभाववति लक्षणा नौचित्यात, अभाववतोऽभेदान्वयबोधोपगमे भूतले घट इत्यादि- वाक्यजन्यबोधे भूतले न घट इत्यादिवाक्यजन्यबोधस्याविरोधि- तापत्तेश्च लाघवात् स्वरूपसम्बन्धेन ग्राह्याभावप्रकारकनिश्चयस्यैव विशिष्टबुद्धिविरोधित्वान्न त्वभेदसंसर्गकग्राह्याभावाश्रयकारकनिश्च- यस्येति । नीलो घट इत्यादौ विशेषणविभक्तरभेदार्थकत्वमतेऽपि यद्यप्युक्तरीत्या लाघवं सम्भवति तथापि तत्रापि न नो विद्वेष इति दिक् । प्रतियोगितावच्छेदकगुरुधर्मस्य च स्वीकार इत्येतद्गौर बद्वयं सर्वथा अस्त्येवेत्यलं पल्लवितेन ।

[कारके व्युत्पत्तिवादः प्रत्ययाश्च विभक्तिकृत्तद्धितादिभेदेन नानाविधाः । विभक्तिञ्च सुप्तिङ्भेदेन द्विविधा । सुब्बिभक्तयः प्रथमाद्वितीयादयः सप्त । तत्र प्रथमार्थः प्रकृत्यर्थे विशेषणविधयान्वयिनी संख्यैव । अत एव यत्र विशेष्यवाचकसमानविभक्तिकपदं निपातपदं वा नास्ति तत्र प्रथमा- न्तार्थस्य विशेष्यभासकसामग्र्यभावादसौ मुख्यविशेष्यतयैव भासते। संख्यावाचकानां च एकवचनद्विवचनबहुवचनानामेकत्व. त्वद्वित्वत्वबहुत्वत्वावच्छिन्नेषुशक्तिः । शक्तता च सुत्व-औत्व-जस्- त्वादिना न तु म्वादितिबादिसाधारणैकवचनत्वादिना । एकवचन- त्वादेर्दवचत्वात् । न चैकत्वादिवाचकत्वं वत् । वाचकतायाः शक्त- तावच्छेदकत्वे आत्माश्रयात्। बोधकतारूपत्वे शक्तिभ्रमेण द्विवच- नादीनामपि एकत्वबोधकतया अविप्रसक्तत्वात् । न चैकवचनत्वा- दिकं जातिविशेषः सुप्त्वादिना सांकर्यात् । न च शक्तिसम्बन्धेन एकवचनादिपदवत्त्वं तत् । तादृशाज्ञानविरहदशायां च सुत्वादिना शक्तिभ्रमादेव शाब्दबोधः । एकवचनादिशब्दस्य पदद्वयात्मकतया तादृशसमुदायशक्तेरेवाप्रसिद्धिरिवि तु नाशङ्कनीयम् । एकं वक्ती- त्यादिव्युत्पत्त्या एकवचनादिशब्दस्य स्वादिबोधकत्वे एकादि- शब्देऽपि तादृशव्यवहारापत्तेः । एकवचनादिशब्दस्य स्वादौ रूढ़ि- स्वीकारस्यावश्यकत्वादिति वाच्यम् । ग्रन्थकारीयसङ्केतेनैवोपपत्तौ एकवचनादिपदे शक्तेरप्रामाणिकत्वात् । तान्येकवचनद्विवचने- त्यादिपाणिनिसूत्रस्य वदीयसङ्केतग्रहपरतयाप्युपपत्तेः । न हि यू स्त्र्याख्यौ नदीत्यनुशासन त् रुयाख्येदूदन्वादिशब्दे नद्यादिपदस्य शक्ति: सिद्धयति । किन्तु तदीयसङ्केत एव । अत एव नद्यादिसंज्ञा आधुनिकसंकेतशालित्वात्पारिभाषिक्येव न त्वौपाधिकी । अथैव- मपि पाणिनिसंकेतसम्बन्धेन तादृशपदवत्त्वमेव एकत्वादिशक्तवा- वच्छेदकमस्त्विति चेत्-न । तादृशसंकेतस्य केन रूपेण सम्बन्धता। संकेतत्वेनेवि चेत्तर्हि कस्यचित्पुंस एकवचनपदात् सुऔजसादि- जयाऽलङकृतः अन्यथा प्रथमा] र्बोद्धव्य इत्याकारकसङ्केतस्यापि सम्भवादतिप्रसक्तिर्दुर्वारैव । पाणिनिसङ्केतत्वेन वथेवि चेत्तर्हि व्याकरणप्रणेतुःपुरुषान्तरस्यापि वादशसङ्केवस्य सम्भवात् । तदीयसङ्केतसम्बन्धेन तत्पदवत्त्वस्य डित्थादिपदात्सुऔजसादिर्बोद्धव्य इत्याकारकपुरुषसंकेतसंबन्धेन डित्थादिपदवत्त्वस्य वा विनिगमनाविरहेण शक्ततावच्छेदकता- प्रसङ्गः । तथा चागत्या आनुपूर्वीविशेष एव शक्ततावच्छेदक इति । यत्तु संख्यापि प्रकृतेरर्थः। एकवचनादिकं च एकत्वाद्यर्थे तात्पर्यग्राहकमेव न चैवमेकप्रकृत्युपस्थाप्ययोरर्थयोः परस्परमन्वये आकाङ्क्षाविरहाद्घटादावेकत्वाद्यन्वयानुपपत्तिः । हर्यादिपदादुपस्थिवयोरश्वसूर्ययोराधाराधेयभावेनान्वयापत्तिः । घटादिपदस्य एकत्वादिविशिष्टस्य घटादौ च न शक्तिसम्भवः। घटरूपं पश्येत्यादौ संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति वाच्यम्। आकाङ्क्षावैचित्र्यादेकप्रकृत्युपस्थाप्ययोरपि घटैकत्वयोः परस्परमन्वयसम्भवात्। अत एव खण्डशक्त्यैवकाराद्युपस्थाप्ययो- रन्ययोगव्यवच्छेदाद्योः परस्परमन्वयबोधः । न चैवं कर्मत्वादिक- मपि प्रकृत्यर्थ एवास्तु, किं तत्र द्वितीयादिशक्त्येति वाच्यम् । नामार्थधात्वर्थयोः साक्षाद्भेदान्वयबोधस्याव्युत्पन्नतया कर्मत्वा- देर्नामार्थत्वे तेन समं धात्वर्थान्वयासम्भवात् । न च संख्यायाः प्रातिपदिकार्थत्वे सति तात्पर्यज्ञाने विनैव शक्तिभ्रमं लक्षणाग्रहं वा द्विवचनाद्यन्तपदादेकत्वादिबोधसम्भवात् । एकत्वादितात्पर्येण एकवचनान्तस्यैव द्विवचनान्तस्यापि पदस्य स्वारसिकप्रयोगापत्ति- रिति वाच्यम् । अनादितात्पर्यस्यैव स्वारसिकप्रयोगमूलत्वादेक- वचनाद्यन्तपदस्यैव एकत्वादावनादितात्पर्योपगमेनातिप्रसङ्गविर- हात् । द्वथेकयोर्द्विवचनैकवचने इत्याद्यनुशासनं च तादृशतात्पर्य- ग्राहकमेवेति वैयाकरणमवम्। तदसत् । अनन्तानां प्रकृत्यानुपूर्वीणां शक्ततावच्छेदकत्वापेक्षया अल्पतरविभक्त्याद्यानुपूर्वीणामेकत्वा- १५२ व्युत्पत्तिवादः [ कारके दिशक्ततावच्छेदकत्वस्यैवोचितत्वात् । न च प्रातिपदिकत्वमेव शक्ततावच्छेदकं न तु घटपदत्वादिकमिति न शक्त्यानन्त्यमिवि वाच्यम् । प्राविपदिकत्वस्य दुर्निर्वचत्वात् । तदज्ञानेऽपि एकत्वा- दिज्ञानस्यानुभविकत्वात् । पदत्वेन वर्णत्वेन वा शक्तत्वे विभक्तेरपि तद्वाचकतासिद्धिः । एकत्वादिशाब्दबोधात्पूर्व वर्णत्वाद्युपस्थिते- रप्यनावश्यकत्वाच्च । फलानुरोधेन वत्कल्पने च कल्पनागौरवात् । एवमानुपूर्वोभिन्नधर्मस्य वाचकतावच्छेदकत्वे घटपदं सुपदं च न संख्यावाचकमिति विपरीतनिश्चयकालेऽपि तादृशधर्मावच्छिन्नस्य वाचकताग्रहसम्भवादघट इत्यादौ संख्याया बोधापत्तिः । अथ विभक्तीनां संख्यार्थकतामते प्रकृतिविभक्त्योरेकवाक्य- वाविरहनिश्चयदशायां विभक्त्युपस्थाप्यैकत्वादेः प्रकृत्यर्थेऽन्वयबो- धवारणाय तयोः समभिव्याहारज्ञानस्य घटादिविशेष्यकैकत्वान्व- यबोधं प्रति कारणत्वमधिकं कल्पनीयम् ! एकपदोपस्थापितयोः घटैकत्वाद्योरन्वयबोधोपगमे च न समभिव्याहारज्ञानस्य वत्र हेतुता कल्प्यते इति लाघवात्, प्रकृत्याद्यानुपूर्वीणां संख्यावाच- कतावच्छेदकत्वमुपेयत इति चेत् न । आकाङ्क्षाविचारे समभि- व्याहाराकाङक्षाज्ञानस्य हेतुनाया निराकृतत्वात् । अथैवमपि विभक्तेः संख्यार्थकत्वे विनिगमनाविरहेण प्रकृतिधर्मिकस्य विभ- क्तिधर्मिकस्य च संख्याप्रकारकान्वयबोधपरत्वज्ञानस्य हेतुताकल्प- नीया। विभक्ते?तकत्वमते (अबोधकत्वमते?) तु विभक्तितात्पर्यविर- हेण प्रकृविधर्मिकमेव तात्पर्यज्ञानं तादृशान्वयधीहेतुरिवि लाघव- मिति चेत्-न । विभक्तेः संख्यावाचकताविरहेऽपि प्रकृतिविभक्तयो- रानुपूर्वीज्ञानस्य तादृशान्वयबोधहेतुताया निर्विभक्तिकादिपद्- ज्ञानादन्वयबोधवारणायावश्यकल्पनीयतयासंख्यावाचकप्रकृतेरिव तंदवाचकविभक्तेरपि संख्यान्वयबोधकत्वप्रकारकेच्छाविषयत्वरूप- । प्रथमा] जयाऽलङ्कृतः १५३ तादृशबोधपरत्वसंभवेन विभक्तिधर्मिकतज्ज्ञानहेतुनाया विनिगमना- विरहेणावश्यकत्वात् । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतस्तत्र लक्षणेवोचिता। शक्यलक्ष्ययोः परस्परमन्वयोपगमे क्षतिविरहात् । प्रथमाविभक्तेः कुत्रापि शक्तरक्लृप्ततया तस्याः शक्यसम्बन्धरूपा लक्षणा न संभवति । द्वितीयादेः कर्मत्वादौ शक्तत्वेऽपि ताशविभक्तस्तत्समभिव्याहृतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटप- दादिज्ञानजन्योपस्थिवित्वेनानन्वहेतुदाकल्पनामपेक्ष्य स्वादिपद- ज्ञानजन्यतदुपस्थितित्वेन कविपयहेतुताकल्पनायां लाघवात्कतिप- यशक्तिकल्पने गौरवमकिंचित्करम् । सामान्यतः पदवृत्तिज्ञानजन्य- तदुपस्थितित्वेनैककारणताकल्पनन्तु न सम्यक् । निर्विभक्तिककुम्भ- पदादित: संख्योपस्थितौ तदगृहीववृत्तिकधटादिपढ़े तत्तद्विभ- क्त्यन्तत्वज्ञानवतः पुंसो घटादौ संख्यकान्वयबोधप्रसङ्गात् । घटप- टादिज्ञानजन्यैकत्वाद्युपस्थितित्वेनैकत्वादिविषयकशाब्दबोधहेतुतां कल्पयित्वा विभक्तिघटादिपदानुपूर्वीज्ञानतादृशोपस्थित्योः परस्प- रसहकारेण फलजनकवाया अवश्याभ्युपेयत्वादिति वाच्यम् । घटादिपदत्यैकत्वादौ लक्षणाग्रहसत्त्वे घटः प्रमेय इत्यादिवाक्या- देकत्वं प्रमेयमित्याद्यन्वयबोधस्य सर्वसंमततया तदनुरोधेनैकत्वा- दिविषयकशाब्दबोधे घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुवायाः सर्वसंमतत्वात् । मैवम् । याशयादृशपदानां लक्षणया एकत्वादि- शब्दधीजनकत्वं नोभयवादिसिद्धं वाहशानन्तपदज्ञानजन्यैकत्वाधु- पस्थितीनां तच्छाब्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादि- नामधिकमिति तत्कल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाधु- पस्थितिहेतुताकल्पनमेव लाघवम् । एतेन संख्याविशेषावच्छिन्न- घटादिलक्षणया प्रकृतेरर्थः । न तु संख्याविभक्त्यर्थः । शाब्दबोधे विभक्तिजन्यसंख्योपस्थितिहेतुवाकल्पनाधिक्येन गौरवात्। घटादि- १५४ व्युत्पत्तिवादः [कारके पदस्यैकत्वादिविशिष्टघटादौ लक्षणाग्रहदशायां सर्वमत एव वजन्य- विशिष्टविषयकोपस्थित्या विशिष्टविषकशाब्दधीजननात्तथाविधो- पस्थितिहेतुनायाः सर्वानुमतत्वात् । पदान्तरासमभिव्याहृताद्घट इत्यादिपदादेकत्वादिविशिष्टघटादिशाब्दबोधस्त्वलीक एव । तद्विष- यकस्मरणस्य तत्रोपगमात् । तथा चोक्तं सर्वं हि वाक्यं क्रियया परिसमाप्यते इत्यपि निरस्तम् । यादृशपदानां लक्षणया एकत्वादि विशिष्टस्वार्थबोधहेतुत्वं नोभयवादिसिद्धं तादृशानन्तपदजन्य विशिष्टोपस्थितीनां शाब्दधीहेतुताकल्पनमपेक्ष्य विभक्तिजन्यसंख्यो- पस्थितीनामल्पानां तत्कल्पने लाघवात् । इदं पुनरिहावधेयम् । विभक्तेः संख्याबोधकत्वे समानविषय- कानुमित्यादिकं प्रवि शाब्दसामग्रीप्रतिबन्धकतायां या प्रातिपदिक- जन्या घटाद्यपस्थिविर्या च विभक्तिजन्या संख्योपस्थितिः प्रवेश्या तयोश्च मिथो विशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धक- ताबाहुल्यम् । प्रकृतेर्विशिष्टलाक्षणिकत्वे तु तदुभयस्थलीयविशिष्ट- विषयक पस्थितिरेकैव सामग्र्यामन्तर्भवति इति लाघवम् । न च विशिष्टविषयकोपस्थितेरपि एकत्वादिप्रकारतानिरूपितघटा- दिविशेष्यवाशालित्वेन घटादिविशेष्यतानिरूपितैकत्वादिविषयता (प्रकारता) शालित्वेन वा प्रवेश इति विनिगमनाविरहात्साम्यमिति वाच्यम् । भवन्मते योग्यताज्ञानघटोपस्थित्येकत्वोपस्थितीनां विसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रति- बन्धकभावषट्कम् । मन्मते तत्र योग्यताज्ञाने विशिष्टविषयको- 'पस्थितेः प्रत्येकं दर्शितोभयरूपेण वैशिष्टय निवेश्य तदुभयं प्रत्येक वाशरूपद्वयावच्छिन्नायामुपस्थितौ योग्यताज्ञानस्य वैशिष्टय निवेश्य द्वयमिवि तच्चतुष्टयमात्रमितिरीत्याऽस्माकमल्पबरतत्- कल्पने महल्लाघवम् । तादृशरीत्यैव च प्रणमतीत्यादौ प्रकर्षविशिष्ट- नविर्द्धातूनामेवार्थः । प्रादयो द्योतका एव न तु प्रकर्षादिवाचका - १५५ प्रथमा ]] जयाऽलङ्कृतः इति सर्वानुमतः पन्थाः परिष्कर्तुं शक्यते । अन्यथाऽनन्तधातु- जन्यप्रकर्षादिविशिष्टतत्तत्स्वार्थोपस्थितीनां शाब्दधीजनकतामपेक्ष्य कविपयोपसर्गाधीनप्रकर्षाद्युपस्थितीनां वज्जनकवाकल्पने लाघवात् । स्वादीनामिव प्रादीनामपि वाचकता निराबाधा सिद्धय तेति । संख्यायाश्च प्रकृत्यर्थे पर्याप्तिसम्बन्धेनैव विशेषणत्वं न तु सम- वायादिना। तथा सति एकव्यक्तिमात्रबोधपरादाकाशशब्दादापि द्विवचनबहुवचनाद्यापत्तेः । तत्तदर्थयोर्द्वित्वबहुत्वयोः समवायादिना आकाशाद्यन्वययोग्यत्वात् । न च पर्याप्तेः संसर्गत्वेऽपि तद्दोष- तादवस्थ्यमा घटाकाशादौ द्वित्वादेः पर्याप्तिसत्त्वे प्रत्येकमाकाशादौ तत्पर्याप्तिर्नास्तीति वक्तुमशक्यत्वात् । प्रत्येकस्योभयानविरि- क्तत्वादिति वाच्यम् उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव३ पर्याप्तिसम्बन्धेनापि विशेषण न तु समवायादिनैवेत्यन्वयः । तेन समवायावच्छिन्नपर्याप्तिसम्बन्धेनान्वय इत्यर्थः फलितः। श्रन्यथा रूप- वानाकाश इत्यादावपि पर्यातसम्बन्धेनान्वयबोधापत्ति: स्यादिति विवेकः । २उभयानतिरिक्तत्वादिति । उभयमनतिरिक्तं यस्मादिति व्युत्पत्तिः। उभयन्न तु प्रत्येकाद्भिन्नं किन्तु तत्स्वरूपमित्यर्थः । अन्यथा प्रत्येकमुभया- नतिरिक्तत्वप्रतिपादनं सर्वतो विरुद्धमेव प्रती येत । ननूभयस्य प्रत्येकाद- भिन्नत्वात् प्रत्येक वृत्तिधर्मवद्भवतूमयं प्रत्येकन्तूभयस्मादभिन्नत्वात् । कथं समुदायवृत्तिधर्मवानवयवो भविष्यतीति चेत्-सत्यम् । यदृत्तिभेदप्रतियोगि- तावच्छेदकधर्मशून्यो यश्च भवति स तद्वृत्तिधर्मवान् भवतीति नियमात् उभयस्मिन् प्रत्येकभेदास्वीकारात् । तद्वृत्तिभेदप्रतियोगितावच्छेदकधर्म- शून्यत्वात् प्रत्येक समुदायवृत्तिधर्मवत्त्वात् समुदायवृत्तिपर्याप्तेरवयवेऽपि निर्बाध एवेति भावः । समवायस्यैक्यादुद्देश्यतावच्छेदकव्याप्यत्वस्य तत्र बाधादाह-पर्या- प्तेरेवेति।

व्युत्पत्तिवादः [ कारके संसर्गतोपगमात् । आकाशत्वादिव्याप्यताया द्वित्वादिप्रर्याप्तावस- त्त्वेनातिप्रसङ्गविरहात् । वैशिष्ट्य १ च वैज्ञानिकं न तु वास्तवम् । तेन यत्र योग्यताभ्र- मजन्यः अत्राकाशावित्यादिवाक्यजन्यद्वित्वादिप्रकारका काशवोध स्तत्र विशिष्टसंसर्गाप्रसिद्धावपि न क्षतिः । द्वित्वादिपर्याप्तावन्यत्र- प्रसिद्धस्याकाशत्वादिव्याप्यत्वस्य भ्रान्तेस्तत्रोपगमात् । सम्बन्ध- तावच्छेदकांशे प्रकारवायांभ्रमस्य सर्वानुभवसिद्धत्वेऽपिव्याप्यत्वांशे भ्रमत्वस्यान्यत्रोपपादितत्वात् । न च प्रकृत्यर्थवावच्छेदक एव व्यापकतासम्बन्धेन द्वित्वान्वयधीः किं नोपेयते इति वाच्यम् । घटावित्यादौ घटत्वादीनां स्वरूपत एवोपस्थिततया तत्रोक्तान्वय- बोधस्यासम्भवात् । स्वव्यापकीभूतोद्देश्यवावच्छेदकवत्त्वरूप- परम्पराया एव प्रकृत्यर्थ द्वित्वादेः सम्बन्धतास्वीकारे च व्यापकता- रूपसम्बन्धतावच्छेदकांशे भ्रमत्वस्यावश्यकवया उद्देश्यवावेच्छे- दकव्याप्यत्वविशिष्टपर्याप्तः सम्बन्धतोपेक्षायां निर्बीजत्वात् । १वैशिष्टयमिति । तत्पदप्रयोज्यजायमानशाब्दबोधीया या पा- सिनिष्ठा सांसगिकी विशेष्यताख्या विषयता सा उद्देश्यतावच्छेदकव्या- प्यत्वनिष्ठविशेषणताख्य विषयतानिरूपिताऽपेक्षितेति भावः । एतेन भ्रान्त- पुरुषीयवैज्ञानिकवैशिष्टय मादायाभ्रान्तस्य : न शाब्दबोधापत्तिः जायमान- शाब्दबोधनिरूपितला पर्गिकी विषयतायातादृशविषयतानिरूपितत्वाभावा- दिति विमर्शः । २सम्बन्धतावच्छेदकांश इत्यादि । सम्बन्धतावच्छेदकांशस्य प्रकार- तयोपस्थितत्वाभावेऽपि तद्व्यापकीभूतविशेषणत्वेनोपस्थितेः अतद्वति तत्प्रकार करूपज्ञानस्याभावेऽपि तद्वति तद्विशेषणकशानस्य सत्वात् तस्यापि भ्र मत्वाङ्गीकारादिति भावः। एतच्च विषयतावादेऽप्युपपादितमिति ।

प्रथमा ] जयाऽलङ्क्तः १५७ अथात्र व्याप्तिापकसामानाधिकरण्यरूपैव वाच्या न तु वद्व- दन्यावृत्तित्वरूपा, केवलान्वयिधर्मस्य प्रकृत्यर्थतावच्छेदकता यत्र तत्राप्रसिद्धेः । एवं चोद्देश्यतावच्छेदकव्याप्सिविशिष्टपर्याप्त्यपेक्षया लघोः स्वव्यापकतादृशधर्मवत्त्वस्यैव संबन्धत्वमुचितमिति चेत्तर्हि आकाशो न द्वावित्यादिवाक्यजन्यशाब्दबोधदशायामपि आका- शावित्यादिवाक्याद्वित्वबोधापत्तिः । तथा हि आकाशो न द्वावि- त्यादिवो द्वित्वावच्छिन्नभेदः प्रतीयते । स च न स्वव्यापकाकाश- त्ववत्त्वादिसंबन्धावच्छिन्नप्रतियोगितावच्छेदकवाकः । तादृशस- म्बन्धेन द्वित्ववतोऽप्रसिद्धेः । अपि तु पर्याप्तिसम्बन्धावच्छिन्नप्रति- योगितावच्छेदकताक एव । तत्काले च पर्याप्तिसम्बन्धेन द्वित्व- विशिष्टबुद्धिरेव प्रतिबध्यते न तूक्तपरंपरासम्बन्धेन तद्विशिष्टबुद्धिर- पीवि । अथाकाशो न द्वावित्यादौ केवलपर्याप्तिसम्बन्धावच्छिन्न- प्रतियोगिवावच्छेदकताकभेदो यत्र नबा बोधयितुं न शक्यते । आकाशेऽप्युक्तयुक्तथा द्वित्वपर्याप्तेः सत्त्वेन तत्र तेन सम्बन्धेन तद्वद्भ दस्य वक्तुमशक्यत्वात् । आकाशत्वव्याप्यपर्याप्तिसम्बन्धावच्छिन्न- प्रतियोगितावच्छेदकवाकद्वित्वादिमझेदश्चाप्रसिद्ध एवेति चेत्-न । द्वित्वादिपर्याप्तरुभयादिवृत्तिधर्मेणैवावच्छेदात् । तदनवच्छेदकैक- मात्रवृत्तिधर्मावच्छेदेन तद्वद्भेदस्य तेन सम्बन्धेन द्वित्वादिम दस्य च तद्वति वृत्तौ बाधकाभावात् । न चैवं घटपटौ न द्वाविवि प्रयोग आपद्येत । घटपटयोरपि प्रत्येक द्वित्वावच्छिन्नभेदसत्त्वादिति वाच्यम्।द्विवचनाद्युपस्थापितद्वित्वावच्छेदेनैव द्वित्वावच्छिन्नभेदस्य- बाधेन वाशप्रयोगाभावोपपत्तेः। नबा व्यासज्यवृत्तिधर्मावच्छिन्न- प्रतियोगिताकभेदश्वोद्देश्यतावच्छेदकावच्छेदेनैव बोध्यत इति व्युत्पत्तेर्द्वित्वसामानाधिकरण्येन तदबाधस्याकिंचित्करत्वात् । न च घटत्वादेरतिप्रसक्ततया द्वित्वादिपर्याप्तेरनवच्छेदकत्वात्तदवच्छेदेन [ कारके व्युत्पत्तिवादः द्वित्ववद्भेदस्य भवतामप्यनुमतत्वात् प्रकृत्यर्थगतैकत्वाविवक्षायां' घटो न द्वावित्यादिप्रयोगापत्तिरिति वाच्यम् । वाशप्रयोगाभावे घटत्वादेर्द्वित्वपर्याप्तेरिव द्वित्वादिमभेदस्याप्यनुयोगितावच्छेदक- ताया अप्रामाणिकत्वात् प्रतियोगितावच्छेदकाताया भेदावच्छे. दकतानियतत्वासिद्धेः । अस्तु वातिप्रसक्तोऽपि घटत्वादित्विपर्याप्तेरवच्छेदकः घटा- वित्यादिप्रतोतिबलात् । वस्तुतस्तु घटत्वादेः प्रत्येक द्वित्वपर्याप्तय- नवच्छेदकत्वेऽपि द्वित्वपर्याप्तित्वावच्छिन्नानतिप्रसक्ततया वद- वच्छिन्नावच्छेदकत्वमव्याहतमेव । अथ पर्याप्तयाख्यविलक्षणसम्बन्ध एवाप्रामाणिकः वत्कथं तत्सम्बन्धता । आकाशो न द्वावितिप्रवीतिस्तु समवायसम्ब- न्धावच्छिन्न प्रतियोगितावच्छेदकबाकद्वित्वावच्छिन्नभेदविषयिकै- वास्ताम्। आकाशादौ द्वित्वसमवायसत्त्वेपिद्वित्वादेरेवोभयादिवृत्ति- धर्ममात्रावच्छिन्नत्वोपगमात्तदनवच्छेदकाकाशत्वाद्यवच्छेदेनसम- वायसम्बन्धेन तद्वतो भेदस्य वृत्तौ बाधकाभावादिति चेत्-न । १ एकत्वाविवक्षायामिति । एकत्वविवक्षायामाकाशो न द्वावितिवदिष्ट एवेति भावः। २ उद्देश्यतावच्छेदकावच्छिन्न पर्याप्तिसम्बन्धेनैवान्वयमुररीकृत्याह-प्रती- तिबलादिति । ३अव्याहतमेवेत्यादि । तत्सदप्रतिपाद्यघटाद्यान्वयिद्वित्वपर्यापत्यपेक्षाया घटत्वादेन्यूनवृत्तित्वाभावादाह-अव्याहतमिति । अन्यथा द्वित्वपर्याप्तित्वा- वच्छिन्नस्य पटादावपि सत्वेन घटादावपि सत्वेन घटत्वादेस्तदपेक्षया न्यूनवृत्तित्वात् । अन्यूनानतिप्रसकधर्मस्यैव प्रतियोगिता वच्छेदकतया व्याधरात्सलायमानहरिणस्य वागुरापातः स्यादिति दिक् ।

१५६ प्रथमा ] जयाऽलङ्क्तः आकाशावित्यादिवाक्यजन्यशाब्दबोधस्याप्रमात्वानुपपत्त्यैव ताह- शसम्बन्धसिद्धेः। तादृशबुद्धेः समवायविषयकत्वे प्रमात्वनिरा- करणस्य कर्तुमशक्यत्वात् । उद्देश्यतावच्छेदकव्याप्तिविशिष्टसम- वायस्य संसर्गतोपगमे घटावित्यादिवाक्यस्याप्यप्रमाणतापत्तिः । समवायस्यैक्येन घटादिनिष्ठस्य द्वित्वादिसमवायस्य पटादावपि सत्त्वे. न घटत्वाद्यव्याप्यत्वात् । न चोद्देश्यतावच्छेद कव्याप्यद्वित्वादिसम- वायत्वेनैव सम्बन्धतास्तु । द्वित्वादिसमवायस्य घटत्व द्यव्याप्य- त्वेपि द्वित्वादेस्तद्वयाप्यतया न घटावित्यादेरप्रमाणतेति वाच्यम् । एवं सति तथाविधद्वित्वादेरेव लाघवेन द्वित्वादिसम्बन्धनौचित्यात् । अथास्वेवमेव तावतापि पर्याप्तिसंबन्धस्य विलयादिति चेत्-न । द्वित्वादिस्वरूप यैव द्वित्वादिपर्याप्तितयाभिमता सिद्धेः । उक्तं च दीधितिकृता-'पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रती- तिसाक्षिक: स्वरूपसम्बन्धविशेष' इति । समवायत्य नानात्वमते च द्वित्वादिसमवाय एव तत्पर्याप्तिनं तु स्वरूपमतिरिक्तपदार्थों वेत्यन्यदेवत् । यत्तु आकाशं न वे इत्यादिप्रतीतिवदाकाशं न द्वित्ववदिवि प्रतीतेः प्रमात्वस्य वारणाय समवायेन द्वित्वादिमद्भेद आकाशत्वावच्छेदेन न स्वीकर्तव्यः। तथा च पर्याप्तेरविलक्षणत्वे आकाशं न द्वे इत्यादिप्रतीतेरप्यप्रमात्वापत्तिरिति-तन्न । आकाशं न द्वित्ववदिवि प्रतीतौ द्वित्वसमवायावच्छिन्नभेद एव विषयः मतुपा सम्बन्ध्युल्लेखात् । न तु द्वित्वाद्यवच्छिन्नभेदः । एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्तव्यः । न तु तत्संबन्धावच्छिन्नभेद इत्याकाशं न द्वे इवि प्रतीतेरप्रमात्वस्या- काशं न द्वित्ववदिवि प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति । अथोद्देश्यतावच्छेदकव्याप्यपर्याप्तेर्द्वित्वसम्बन्धत्वे धवखदिरौ छिनत्तीत्यादौ उद्देश्यतावच्छेदकीभूतधवत्वखदिरत्वव्याप्यं द्वित्वा- दिद्वयमेव प्रत्येवव्यम् नतुघवखदिरादिपर्याप्तद्वित्वादिकम् । तथा १६० व्युत्पत्तिवादः [कारके चैकैकधवखदिरादितात्पर्येण तथा प्रयोगानुपपत्तिरिति द्वित्वान्व- यितावच्छेदकमपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्ठं सा- हित्यं द्वन्द्वसमासार्थो वाच्यः । तथा च मीमांसकमतप्रवेश इति चेत्-न । यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता तत्रैवोद्देश्य- तावच्छेदकव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमः । यत्र धर्मद्वयादे- १ : १यकधर्मस्य द्वित्वाद्य श्यतावच्छेदकतेति । आकाशावित्या देरमामा- ण्याय उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता धवखदिरावित्यादेः प्रामा- एयाय नानाधर्मावच्छिन्नं द्देश्यताकद्वित्वाद्यन्वयबोधे शुद्धपातः संसर्गता उक्ता । एवं सति कालाकाशसमवायगतबहुत्व-तः कालाकाशेऽपि सत्त्वात्तत्र नानाधर्मस्यानुयोगितावच्छेदकत्वेन शुद्धपर्याप्तेः संसर्गतोपगमात् कालाकाश इत्यस्यापि प्रामाण्यं स्यात् । उभयधर्मावच्छिन्नोद्देश्यताकबहु- स्वान्वयबोधेऽपि उद्देश्यतावच्छेदकव्याप्यपर्याप्तः सम्बन्धतोपगमे घटाश्च पटाश्च घटपटा इत्यादेरप्रामाण्यापत्तेः। न च तद्वारणायोभयावृत्तिधर्मद्वया- वच्छिन्नोद्देश्य ताकेत्यादि युज्यते वक्तुम्। कालाकाशसमवाया इत्यादावपि उभयावृत्तिकालत्वाकाशत्वधर्मद्वयावच्छिन्नत्वं धर्मत्रयावच्छिन्नोद्देश्यतामा अक्षतमेवेति प्रामाण्यापत्तेरनिस्तारात् । उभयधर्ममात्रावच्छिन्नत्वनिवेशे निरुक्तस्थले दोषलेशाभावेऽपि घटपटमठगतबहुत्वपातेः घटपटे सत्त्वेन तस्मिन् बहुत्वान्वयतात्सर्येण घटपटा इत्यादीनांप्रामाण्यापत्तेरनिवार्यत्वात्। अत्र मैथिलाः उद्देश्यतावच्छेदकव्याप्यपर्याप्तः संसर्गता यत्रोद्देश्यता- वच्छेदकता पातिवृत्तिस्तत्रैव। यत्र च न पर्यातरुद्देश्यतावच्छेदकताधि- करणत्वंतत्र केवलपऱ्यांतरेव संसर्गता। वृत्तित्वं च स्वनिरूपकोद्देश्यतावच्छे- दकताक्षयवदन्यवृत्तित्वसम्बन्धेन । एञ्चाकाशावित्यत्र द्वित्वपर्याप्तरुद्दे- श्यतावच्छेदकतानिरूपकोद्देश्यता आकाशवृत्तिस्तदवच्छेदकताश्रयवदन्यो घ. स्टादिस्तवृत्तित्वेन विशेषपर्याप्तस्संसर्गतया नाभ्रांतस्य तद्वाक्याद्वित्वान्वय- १६१ प्रथमा] जयाऽलङ्कृतः स्वथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमात् विनैव साहित्यस्यान्वयितावच्छेदकता एकैकवात्पर्येण धवखदिरा- बोधः । एवं कालाकाशा इत्यादावपि बोध्यम् । धवखदिरावित्यादौ तु धर्मद्वया. वच्छिन्नाप्युद्देश्यता एकैवेति शक्तिवादे स्पष्टीकृतत्वात् घवत्वखदिरत्वनिष्ठा या निरुकावच्छेदकता तन्निरूपकोद्देश्यता चोभयवृत्तिरेकैव तदवच्छेदकता- श्रयवदन्यो न धवो न खदिरः किन्त्वेतदन्य एव। तवृत्तित्वाभावेन पर्याप्तेः केवलाया एव सम्बन्धतया नापत्तिः। उद्देश्यतावच्छेदकभेदादुद्देश्यता भिद्यत एवेत्याग्रहे तु स्वनिरूपकोद्देश्यतानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदक- ताश्रयवदन्यवृत्तित्वसम्बन्धेनावच्छेदकतायाः पर्याप्तौ वृत्तित्वं ज्ञयम् । एवञ्च विधेयताया ऐक्येन धवो न खदिरत्ववृत्त्यवच्छेदकतानिरूपकोद्देश्य- तानिरूपितविधेयतानिरूपितोद्देश्यतावच्छेदकताश्रयवानित्यादिप्रतोतेरभावा- नापत्तिलेश इत्याहुः। केचित्तु केवलपर्याप्त रेव संसर्गता आस्ताम् अाकाशावित्यादेनं प्रमा- त्वम्। तच्च तत्प्रकारकज्ञाने तदधिकरणतावच्छेदकव्यापिका या तन्निष्ठ- प्रकारतानिरूपिता विशेष्यता तच्छालित्वमेव । आकाशावित्यादौ द्वित्वनिष्ठ- प्रकारतानिरूपिता या आकाशनिष्ठा विशेष्यंता सा च स्त्राधिकरणतावच्छे- दकं यद्वित्वं तत्समानाधिकरणो यो घटवृत्तितादृशविशेष्यताभावस्तत्प्रति- योगितावच्छेदकधर्मवत्वेन न तद्व्यापिका इति तदवगाहिनो ज्ञानस्य न तत्त्वम् । द्वित्वादेरपेक्षाबुद्धिजन्यत्वेन अपेक्षाबुद्धय॑क्तिभेदेन भेदात् पदार्थ- द्वयेऽपि द्वित्वन्नानाविधमिति द्वित्वाधिकरणतावच्छेदकत्वं द्वित्वे नानुपपन्नम् । एवं कालाकाशा इत्यादेरपि। धवखदिरावित्यादौ तु द्वित्वस्य धवस्त्रदिरोभया- तिरिक्तावृत्तित्वेन तत्समानाधिकरणाभावो न विशेष्यताप्रतियोगिक इति तादृशाभावप्रतियोगितावच्छेदकताशून्यत्वेन विशेष्यताया व्यापकत्वेन तदव- गाहिनः प्रमात्वम् । विशेष्यतामेदेन धववृत्तिविशेष्यताभावः खदिरवृत्तिः ।

व्युत्पतिवादः [ कारके वित्यादिप्रयोगोपपत्तेः । न चैवमेकैकधवखदिरादितात्पर्येण धवौ खदिरावित्यादिप्रयोगापत्तिः। तादृशवाक्यद्वयविषयकसमूहालम्ब- नजन्यसमूहालम्बनशाब्दबोधस्य नानाधर्मावच्छिन्नोद्वेश्यताकतया शुद्धपोतरपि संसगेतयाऽवगाहनसंभवादिवि वाच्यम् । यत्र नाना- धर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारता तत्रैक खदिरगतविशेष्यताभावो धववृत्तिरिति न व्यापकत्वमिति तु नाशङ्कनीयम् । द्वित्वनिष्ठव्याप्यतानिरूपिता व्यापकता च द्वित्वनिष्ठप्रकारतानिरूपित- विशेष्यतात्वावच्छिन्नाया विवक्षितत्वात् । न द्वित्वनिष्ठप्रकारतानिरूपित विशेष्यतात्वावच्छिन्नप्रतियोगिताकाभावो घववृत्तिः खदिरवृत्तित्याहुः। उच्छृङखलास्तु उद्देश्यतावदग्यावृत्तित्ववत् पर्याप्तेरेव सर्वत्र संसर्गता स्वीकृत्याव्याप्त्यतिव्याप्ती परिहरन्ति । उद्देश्यतावच्छेदकत्वावच्छिन्नत्वोप- लक्षितनिष्ठव्यापकतानिरूपितव्याप्यतावत्याः पर्याप्तसंसर्गतेत्यपि केचित् । कालाकाशा इति प्रयोगवारणाय स्वविशिष्टा पर्याप्तिः स्वसंसर्गतया भासते सर्वत्रैकरूपेणैवोच्यते । वैशिष्टयं च स्वप्रतियोगिकत्वस्वविशिष्ट- धर्मसामानाधिकरण्योभयसम्बन्धेन । घमें वैशिष्ट ञ्च स्वीयोद्देश्यता- वच्छेदकत्वेन तात्पर्य्यविषयत्वस्वाभाववत्वोमयसम्बन्धेन । अभावी यप्रति- योगितावच्छेदकश्च स्वविशिष्टाभावप्रतियोगित्वरूपस्सम्बन्धः । अभावे वैशिष्टयञ्च स्वाधिकरणवृत्तित्वस्वीयोद्देश्यतावच्छेदकत्वावच्छिन्नप्रतियोगि- ताकत्वोभयसम्बन्धेन समन्वयः स्वयं ऊहनीयः । यद्वा स्वविशिष्टा वा पर्याप्तिः सा उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टा सती संसर्गतया भासते । अन्या तु शुद्धव । वैशिष्टयञ्च स्वतादात्म्यस्वा- योद्देश्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकीभू तसं ख्याधिकसंख्याप्रतियोगिकत्वोभयसम्बन्धेन समन्वय ऊहनीय इति दिक् । प्राप्तिविचारेऽन्ततो गत्वा नानाधविच्छिन्नविशेष्यचानिरूपितद्वि- SHA थमा]] जयाऽलङ्कृतः १६३ शुद्धायाः पर्याप्तः समवायस्य वा संसर्गवया भानात् । धवौ खदि. रावित्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे विशेष्यताभेदेन शुद्ध पाते- वादिनिष्ठकप्रकारता यत्रास्ति तत्र द्वित्वादिपर्याप्ते: शुद्धाया एव संसर्गता यत्र च द्वित्वादिनिष्ठ प्रकारतानिरूपितविशेष्यतावच्छेदकता एकस्मिन् धर्मे तिष्ठति तत्रोद्देश्यतावच्छेदकव्याप्यत्वविशिष्टद्वित्वादिपर्याप्तः संसर्ग- तेति व्यवस्थाप्य धवखदिरावाकाशावित्यादीनां प्रामाण्याप्रामाण्ये उपपादित वान् । तत्रायमाक्षेपः-कालाकाशवटादिगतबहुत्वपर्याप्तः कालाकाशेऽपि भवदुक्तयुक्त्या सत्वात् तत्र च नानान्वयितावच्छेदकस्य सत्वेन रेव ससगतया धवखदिरावित्यादिवत् कालाकाशा इति प्रयोगस्यापि प्रामा- एयापत्तिः । एवं धवखदिरपलाशाप्रत्येकगतप्रत्येक द्वित्वबोधेन तात्पर्येण धवखदिरपलाशार्काविति प्रयोग प्रापद्येतेति-तन्न। अस्तु उद्देश्यतावच्छेदक व्याप्तिविशिष्टपर्याप्तेरेव संसर्गताऽविशेषेण । व्याप्यत्वं च व्यापकसामानाधि कारमेव । व्यापकत्वं च व्याप्यसामानाधिकरण्यात्यन्ताभावप्रतियोगितानव- च्छेदकत्वम् । एवञ्च प्रकृते द्वित्वादिपर्याप्तिसमानाधिकरणो योऽभावःस च स्वान्वयितावच्छेदकत्वेन तात्र्याश्रयविशेष्यत'श्रयव्यधिकरणो विवक्षित इति प्रकृते कालाकाशगतबहत्वपर्याप्तिसमानाधिकरणो यो घटवृत्तिः काल- त्वाभावः स च बहुत्वपर्याप्त्यनुयोगितावच्छेदकत्वेन तात्पर्यविशेष्यीभूतं यत् कालत्वमा काशत्वञ्च तद्व्यधिकरण इति तत्प्रतियोगितावच्छेदकधर्म- वत्वमेव कालत्वादानामिति न तस्य व्यापकत्वमिति कृत्वा पर्याप्तेापक- सामानाधिकरण्याभावेनादोषात् । धवखदिरावित्यादावरि द्वित्वपर्याप्ति- समानाधिकरणो योऽभावस्स च न घवत्वखदिरत्वाद्यभावोऽपे तु घटत्वाद्य- भाव इति तत्पतियोगितावच्छेदकधर्मबद्धवत्वादिसामानाधिकरण्यस्य पर्या. सेः सत्त्वेनाव्यातिविरहात् । ननु घवखदिरगतद्वित्वपर्याप्तिसमानाधिकरणो यः स्वान्वयितावच्छेदकत्वेन तासीयविशेष्यघवत्वादिव्यधिकरणोऽभावस्त- व्युत्पत्तिवादः [कारके प्रकारताभेदेन चोद्देश्यतावच्छेदकधवत्वादिव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमेन एकैकधवखदिरादितात्पर्येण तथा प्रयोगासम्भ- स्याप्रसिद्धतयाऽव्याप्तिर्दुर्वारेति चेत्-न । समानाधिकरणो योऽभावःस च स्ववि- शिष्टो ग्राह्य इत्यदोषात् । तत्र वैशिष्ट्यं स्वतादात्म्यस्वाभावक्त्वोभयाभ्याम् । तत्राभावीयप्रतियोगितावच्छेदकः सम्बन्धः स्वप्रतियोगिद्वित्वान्वयिताव- च्छेदकत्वेन तात्पर्यविषयीभूतधर्मववृत्तित्वरूपः । तथा च द्वित्वपर्याप्ति- समानाधिकरणो यः धवखदिरादिवृत्तिघटत्वाद्यभावस्तस्य स्वतादात्म्य- मस्ति स्वप्रतियोगिघटत्वादि तस्य निरुक्ततात्पर्थविशेष्यत्वाभावः यच्च तादृशविशेष्यतावत् न स प्रतियोगि इति तद्ववृत्तित्वसम्बन्धावच्छिन्नप्रति- योगिताकस्वाभावस्य सत्त्वेन स्वविशिष्टतत्प्रतियोगितानवच्छेदकवत्वं धव- स्वादावव्याहतम् । तादृशसम्बन्धस्यान्यत्र प्रसिद्धत्वान्नाप्रसिद्धत्वशङ्का काला- काशा इत्यादयोऽपि न घटे नियुक्ताभावस्तत्प्रतियोगितावच्छेदकमेव कालत्वा- देय॑तः न चैवं सति पुनरपि धवखदिरावित्यादावव्याप्तिः । तथा हि खदिर- वृत्तियों घवत्वाभावस्तस्य द्वित्वसामानाधिकरण्यमस्ति स्ववैशिष्ट्यं चाम्ति स्वप्रतियोगिनिरुक्तविशेष्यताशयधवत्ववद्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगि- ताक स्वाभावस्य स्वतादात्म्यस्यापि सत्त्वात् तत्प्रतियोगितावच्छेदकवद्ध- वववत्वसामानाधिकरण्यमेव पर्याप्तरिति वाच्यम् । स्वाभाववनिरुक्तविशे- प्यताश्रयधवत्वादिसमानाधिकरणपर्याप्तेरेव संसर्गतयाभिमतत्वात्। श्रमा- वीयप्रतियोगितावच्छेदकसंसर्गश्च स्वविशिष्टाभावप्रतियोगितावच्छेदकवत्व- रूपः। अभावे वैशिष्ट्यञ्च स्वसामानाधिकरण्यस्वान्वयितावच्छेदकत्वेन तात्पर्य्यविशेष्यीभूतधम्मसामानाधिकरण्यसम्बन्धाभ्याम् । एवञ्च धवादि- वृत्तिरभावो न स्वविशिष्टः धवत्वादेस्सत्त्वात् न वा घटादिवृत्तिरभावः स्व- सामानाधिकरण्यासत्त्वात् इति न स्वविशिष्टाभावप्रतियोगितावच्छेद- कत्ववत्वं धवत्वादेरिति तेन सम्बन्धेन स्वाभावस्य तत्र सत्त्वाल्लक्षणसमन्वयः प्रथमा] जयांऽलङ्कृतः वात् ।धवखदिरावित्यादिसमासोत्तरद्विवचनेन धवत्वखदिरत्वा- द्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव सम्बन्धस्य तु आकाशत्वादौ प्रसिद्धिः। कालाकाशा इत्यादीनां तु न साधुता- तत्र स्वविशिष्टाभावकालत्वप्रतियोगिको घटवृत्तिस्तत्प्रतियोगितावच्छेदकवत्व- स्यैव कालत्वादौ सत्वात् । अथ वा स्वविशिष्टा या विशेष्यता तद्वत्सामानाधि- करण्यमेव पर्याप्तस्संसर्गता नियामकतयाभिमताम् । विशेष्यतायां स्वान्वयि- तावच्छेदकत्वप्रकारकतात्पर्यनिरूपितत्वस्वसमानाधिकरणात्यन्ताभावप्रति- योगितानवच्छेदकताकत्वसम्बन्धाभ्याम् । वैशिष्टय द्वित्वपर्याप्त्यनुयोगिता- वच्छेदकत्वप्रकारकतात्पर्यविशेष्यन्नास्तीत्याकारकाभावो न घंवे खदिरे वा सम्भवति तादृशविशेष्यधवत्वादेस्सत्त्वात् । घटादौ सम्भवत्यपि न प्रकृतार्थोप- योगी पाप्तिसामानाधिकरण्यस्यासत्वादिति न स्वसमानाधिकरणाभाव- प्रतियोगितावच्छेदकतावती विशेष्यतेति तद्वत्सामाना धकरण यस्य पर्याप्ती सत्त्वाल्लक्षणसमन्वयः । कालाकाशा इत्यादयो. न साधकः । तादृशाभावस्य घटे सत्त्वेन तादृशाभावप्रतियोगितावच्छेदिकैव तादृशो विशेष्यता इति तद्वत्सामानाधिकरण्येन लक्षणसमन्वयाभावात् । अथवा नोद्देश्यतावच्छेदक- व्याप्यत्वमपेक्षितमपि तु उद्देश्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदक- संख्याव्याप्यत्वं तत्र व्यापकतावच्छेदकसंसर्गश्च स्वाश्रयधर्मवत्वरूपः । धव- खदिरावित्यादावुद्देश्यतावच्छेदकतापर्याप्तिद्धवत्वखदिरत्वोभयस्मिन् तदनु- योगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वस्य पर्याप्तौ सत्त्वाल्लक्षण- समन्वयः। कालाकाशाश्च न प्रयोगः । तत्रोद्देश्यतावच्छेदकतापर्याप्त्यनु- योगितावच्छेदिका संख्या द्वित्वं तद्व्याप्यत्वं न बहुत्वपर्याप्तेः स्वाश्रयवत्व- सम्बन्धेन तद्वतोऽन्यघटवृत्तित्वादिति सुगमः पन्थाः। अथ वा यथा भवद्भिः कुत्रचिच्छुद्धपर्याप्तेः संसर्गता कुत्रचित् विशेषपर्याप्तेः संसर्गता इत्युच्यते तद्वदस्माभिर्यत्रान्वयितावच्छेदकमेक तत्रव्यापकसामानाधिकरण्यमेव 1 [कारके १६६ व्युत्पत्तिवादः जन्यते । तादृशवाक्यजन्यबोधस्य समूहालम्बनानात्मकतया विशेष्यवाभेदेन प्रकारताभेदाभावात्। यथा हि समूहालम्बनानात्म केखड्गी चैत्रःकुण्डलीत्याकारकनानाविशेषणकैकविशेष्यकज्ञानेनान प्रकारवानिरूपितैकाविशेष्यता तथावथाविधे धवखदिरावित्याद्या- कारके नानाविशेष्यकैकविशेषणकज्ञाने विशेष्यताभेदेऽप्यभिन्नैव द्वित्वाप्रिकारता अन्यथा समूहालम्बनतस्वद्वैलक्षण्यानुपपत्तेः । समासघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तेश्च । तत्प्रयोज विषयेतया साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजय कत्वस्यैव तदेकवाक्यवापदार्थत्वात् ।न चैतादृशैकवाक्यताविरहेऽपि क्षतिविरहः । तथा सति समासस्यैवानुपपत्तेः । अयमेव पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ राजपुरुषपदादीनां समासवारणाय समर्थपदानामेव समासानुशासनात् । सामर्थ्यस्य च निरुक्तैक- वाक्यतारूपत्वात् । जलपृथिव्योः स्नेहगन्धावित्यादिवोऽपि न जले स्नेहः पृथिव्यां गन्ध इत्याकारकसमूहालम्बनबोधः । किन्तु वद्विल क्षणो द्वित्वादिनिष्ठैकप्रकारतानिरूपितजलत्वपृथिवीत्वाद्यवच्छिन्न . व्याप्तिः, यत्र नानाधर्मेष्नुयोगितावच्छेदकता तत्र तद्वदन्यावृत्तित्वरूपैवोति । उच्यते-केवलान्वयिशब्दस्तु न केनापि शब्देन द्वन्द्वसम्भवः, सर्वत्र- कर्मधारययोग्यत्वात् इति न क्वाप्यव्याप्त्यतिव्याप्तीत्यलमतिविस्तरेण अपरे तु पर्याप्तिविशिष्टायाः पर्याप्तेस्तम्बन्धता । वैशिष्टयं स्वता दात्म्यस्वविशिष्टाभावाधिकरणवृत्तित्वोभयसम्बन्धन । प्रभावे वैशिष्टयश्च स्वानुयोगितावच्छेदकत्वेन तात्पर्याविषयीभूतधर्मप्रतियोगिकत्वप्रदर्शित- चर्मासामानाधिकरण्योभयसम्बन्धेनाव्याप्यतिव्याप्तीति प्राहुः। अत्र सर्वतो 'लघुवचनरचनावलम्बि :स्वविशिष्टप्रतियोगितानवच्छेदकधर्मवत्सामाना- धिकरण्यविशिष्टपर्याप्तेरेव संसगताम्वदन्ति । स्वस्थ वैशिष्ट्यञ्च स्वसमा- PASCHIMIRRIERTAINMENT प्रथमा ] जयाऽलङ्कृतः विशेष्यवात्मकप्रकारताद्वयनिरूपिताधेयत्वप्रकारतानिरूपितं यद्ध- मितावच्छेदकद्वित्वादिनिष्ठकप्रकारवानिरूपकं स्नेहत्वगन्धत्वाद्य- वच्छिन्नविशेष्यताद्वयं तद्वानिति । अवो न कुत्राप्येकवाक्यताभङ्गः। चैत्रो मैत्रश्च गच्छव इत्यादावाख्यावार्थद्वित्वादिप्रकारेण भासमाने चैत्रमैत्रोभयादौ गमनाश्रयत्वाद्यन्वयेन निरुक्तकवाक्यतासंभवेऽपि समासविधेर्विभाषाधिकारीयत्वादसमासः । तत्र विशेष्यवाभेद- भिन्नद्वित्वनिष्ठप्रकारताद्वयप्रतियोगी समूहालम्बनात्मकबोध इति ततु न सम्यक् । तथा सत्युक्तरीक्त्या एकैकचैत्रमैत्रादितात्पर्येण थाप्रयोगानुपपत्तेः । आख्यातोपस्थापिवद्वित्वादिकं चोभ- नाधिकरणात्यन्ताभावीयविवक्षितस्वानुयोगितावच्छेदकतात्वावच्छिन्नत्वोभ- यसंसर्गेणेति ऊहनीयम् । द्वित्वन्तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदक- व गृह्यते । साजात्यं च पूर्ववत् इति न द्वितीयशङ्काया अवकाशः । तत्र हि धवो द्वित्ववत्खदिरो नेतिभेदीयप्रतियोगितावच्छेदकमेव खदिरगतं द्वित्वमेव क्रमेण किमपि द्वित्वन तद्रूपम् । धवखदिरावित्यादौ द्वित्वस्यैक्येन भेदस्य प्रतियोगितावच्छेदकेन विरोधात् । न खदिरे तद्वित्ववद्धबभेदो नापि धवे तभेद इति नाव्याप्तिः। न चैवं खदिरो न धवखदिरोभयमिति प्रतीतेमा- भिषिक्ततया तत्रापि भेदीयप्रतियोगितावच्छेदकमेव द्वित्वमिति वाच्यम् । भेदे प्रतियोग्यवृत्तित्वस्य निवेशनीयत्वात् । यदि च प्रतियोग्यवृत्तित्वम- प्रसिद्ध प्रतियोग्यवृत्तित्वस्य वृत्तिमदवृत्तित्वादित्युच्यते तदा स्वसजातीय- विशिष्टभेदप्रतियोगितानवच्छेदकमेव द्वित्वं द्विवचनार्थमिति बोध्यम् । साजात्यं पूर्ववत् । भेदे वैशिष्टयं च स्ववृत्तित्वस्ववृत्तिधर्मावच्छिन्नप्रतियोगि- ताकत्वा भावत्वोभयसम्बन्धेन । तथा चोभयभेदस्य स्ववृत्तित्वेऽपि स्ववृत्तिय- द्वित्वं तदवच्छिन्नप्रतियोगिताकत्वेन तस्याग्रहणान्न दोषः । उक्तरीत्येति (उक्तयुक्त्येति वा पाठः) एकैकघवखदिरादितात्पर्ये ग धवौ खदिरावितिप्रयोगवारणाय नानाधम्मावच्छिन्नविशेष्यतानिरूपितद्वित्व- व्युत्पत्तिवादः [कारके यत्वादिरूपान्वयितावच्छेदकावच्छिन्न एवान्वेतीति व्युत्पत्तिः । तेनोक्तप्रयोगदर्शनात् क्रियापदस्य विशेष्यवाचकपदसमानवचन-- कत्वानियमेऽपि घटद्वयादितात्पर्येण घटस्विष्ठत इत्यादयो न प्रयोगाः । एकवचनान्तक्रियापदं च तादृशविशेष्यवाचकपदप्रयोग एव साधुः । अतो घटास्तिष्ठतीत्यादयो न प्रयोगाः । अथैकघटादि- व्यक्तरेतद्देशवृत्तिवादशायामत्र घटौ स्तः घटाः सन्तीति कथं न प्रयोगाः। घटादौ घटत्वादिव्याप्तिविशिष्टपर्याप्तिसम्बन्धेन द्वित्वादेः स्वरूपादिसम्बन्धेन तद्देशवृत्तित्वाश्रयत्वादेश्च सत्त्वात्। न च द्वित्वे- नोपस्थिवयोर्द्वयोरेव व्यक्तयोरेवं बहुत्वेनोपस्थितासु बहुषु व्यक्तिषु विधेयान्वयात् व्यक्त्यन्तरेष्वेत्तद्देशवृत्तित्वाश्रयत्वादिबाधान्न तादृश प्रयोगइति वाच्यम्। व्यक्त्यन्तरेऽयोग्यवयावादृशविधेयानवगाहिन एकघटे तद्वगाहिनो बोधस्योत्पत्तौ बाधकाभावात् । तथा तात्पर्येण तथा प्रयोगस्य दुर्वारत्वात् । न च व्यासज्यवृत्तिधर्मो यत्रान्वयिवावच्छेदकस्तत्र यावत्सु अन्वयितावच्छेदकस्य पर्याप्ति- स्ताववामेव पदार्थान्तरेणान्वय इति व्युत्पत्तिस्तन्निर्वाहाय च वादृशधर्मावच्छिन्ने इतरान्वयबोधजनकसामग्र्या उभयादिविषय- कपदार्थान्तरान्वयबुद्धित्वमेव जन्यतावच्छेदकंवक्तव्यमिति द्वित्वा- निष्ठनानाप्रकारतादशायामुद्देश्यतावच्छेदकव्याप्यपर्याप्तेरेव संसर्गतोक्त्या अंत्रापि शुद्धपर्याप्तिभानन्न स्यादिति भावः । 'चैत्रो मैत्रश्चेत्यादौ चार्थोभयत्वावच्छिन्ने एव द्वित्वान्वय इति भावः २ द्वित्वादिविशिष्टवि शेष्यता निरूपितैतद्देशवृत्तित्वनिष्ठप्रकारताकबोधं प्रत्येव अत्र पदसमभिव्याहृतद्वितीयान्तादिपदत्वरूपाकाङ्क्षाशानस्य कार- गात्वमिति भावः ।

२६४ प्रथमा] जयाऽलङ्कतः दिनैकघटादिमात्रविषयकैतद्देशवृत्तित्वाद्यन्वयबोधो न सम्भवतीति न तादृशबोधतात्पर्येण वाशप्रयोगापत्तिरिति वाच्यम् । योग्यता- भ्रमेणाकाशावत्र स्त इत्यादिवाक्याद्वित्वादिनैकव्यक्तिमात्रंविष- यकपदार्थान्तरान्वयबोधात्तादृशव्युत्पत्तेस्तन्निर्वाहककार्यकारणभा- वस्य च कल्पनासम्भवात्। यत्तु द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धा वुद्देश्यतावच्छेदकव्याप- कता नियमतो विधेयसंसर्गे भासते इति व्युत्पत्तिः यत्र चोहे- श्यवावच्छेदकविशिष्टाधिकरणाप्रसिद्ध्या तद्व यापकत्वमप्रसिद्ध तत्रापि खण्डशः प्रसिद्धानां तत्तद्घटकपदार्थानां विशेष्यविशेषण- भावापन्नानां भानसंभवान्न पीतशङ्खावत्रेत्यादौ ताशयुत्पत्तिमङ्गः एवं चैकघटादिव्यक्तिमात्राधिकरणपरस्यात्र घटौ स्त इत्यादिवाक्य- स्याप्रामाण्यं सुघट मेवोद्दे श्यतावच्छेदकीभूतघटमात्रवृत्तिद्वित्वव्या- पकतायास्तादृशवाक्यप्रतिपाद्याया विधेयसंसर्गे बाधादिति । तदपि तुच्छम् । अत्र' घटौ स्व इत्यादौ द्वित्वसमानाधिकरण- भावप्रतियोगितानवच्छेदकत्वस्य द्वित्ववद्धटनिष्ठाभावप्रतियोगि- वानवच्छेदकत्वस्य च तदधिकरणावृत्तिघटादि निष्ठाभावप्रतियोगि- तावच्छेदकीभूते तत्तद्विधेयसंसर्गतावच्छेदके बाधाद्वटद्वयाधिकर णपरताहशवाक्यस्याप्रामाण्यापत्तेः। तत्तद्वित्वसमानाधिकरणा भावप्रतियोगितानवच्छेदकत्वस्य तत्तद्विधेयसंसगीशे भानोपगमस्तु न सम्भवति । वत्तद्वित्वत्वेनानुपस्थितेः । न च तवच्छिन्नस्य संसर्गतया भाने तेन रूपेणोपस्थिति पेक्ष्येति वाच्यम् । तत्संसर्गा- । 'अत्रेति । ननु विधेयसंसर्गे यत्किञ्चित् द्वित्वव्यापकत्वं घटनिष्ठ- द्वित्वव्यापकत्वम्वा विवक्षितमिति विकल्प्य . यत्वितिमतं दूषयति- अत्र घटौ स्त इत्यादिना:

१७० व्युत्पत्तिवादः [ कारके वच्छिन्नवत्प्रकारतानिरूपिवतत्तद्विशेष्यताशालिशाब्दबोधपरमित्या- कारकतात्पर्यज्ञाने संसर्गस्य विशेषणतया तद्भाननिहाय संसर्ग- घटकोपस्थितेरपि शाब्दबोधात्प्रागावश्यकत्वात् प्रकृतसंसर्गेण एक- पदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्यार्थविषयक- तया प्रागसम्भवेनोपदर्शिततात्पर्यज्ञानस्यैव शाब्दधीहेतुत्वोपग- मात् । एवं वाक्याथवटकसंसरगयाननुगमेनात्र घटौ स्त इत्यादौ वाक्यभेदप्रसंगाच्च। अत्रोच्यते । व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यता कशाब्दबुद्धौ स्वव्याप्यवादृशधर्मवत्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः । व्याप्यत्वं च तद्वदन्यावृत्तित्वम् । व्यतिरेकिविधेयस्थले तादृशधर्मवत्वं चोद्देश्यतावच्छेदकताघटकसम्बन्धेन बोध्यम् । अत्र घटौ स्व इत्यादी एतद्देशवर्तमानत्वादिरूपविधेयस्य तद्वदन्यावृत्ति- स्वरूपव्याप्तिमच्चैवद्देशस्यैकघटादिव्यत्तिमात्राधिकरणत्वे घटपटा- दिनिष्टद्वित्वमेव घटत्वव्याप्तपर्याप्तिरूपोदेश्यतावच्छेद कवाघटक- प्रकृतसंसर्गेणैकपदार्थविशिष्टापरपदार्थबोधपरत्वज्ञानस्य प्रकृतवाक्या- थेत्यादि । वस्तुत इदन्न सम्यक् । विशिष्टवाक्यार्थस्य विशिष्टवाक्यप्रतिपाद्य- त्वेन शाब्दबोधात् प्राक् ज्ञानासंभवेऽपि तद्वित्वसमानाधिकरणात्यन्ताभा- वप्रतियोगितानवच्छेदकस्वरूपादिसम्बन्धेनैतद्देशवृत्तित्वविशिष्टबोधपरमेतत् वाक्यम । एव घटविषयकबोधपरमित्यादेविशिष्टवाक्याप्रतिपाद्यत्वेन तत : प्रागपि सम्भवात् । ननु कथन्न तदा तस्य संसर्गतोपेयेति चेत्-न । प्रतियोग्य भावान्वयौ तुल्ययोगक्षेमाविति स्मरणात् । संसर्गभेदेन तत्तदभावा एव भासे. रन् । तथा सति अभेदान्वयप्रकरणो करोल्याऽत्र घटौ न सा इति वाक्य जन्य- प्रमात्मकबोधदशायामपि अत्र घटौ स्त इत्यतोऽभ्रांतस्यापि बोधापत्तरिति । २घटपटादीति । एतद्देशस्य एकघटव्यक्ति-एकपटब्यक्तिमात्राधि करणत्वे ।

प्रथमा] जयाऽलङ्कृतः सम्बन्धावच्छिन्नं वद्वत्वं च घटादौ बाधितमिति न तादृशवा- क्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्वे च घटत्वा- दिव्याप्यं द्वित्वमेव वथेति घटत्वादिव्याप्यपर्याप्तिसम्ब- न्धेन तद्वत्त्वं घटादावबाधितमिति वादृशवाक्यस्य प्रामाण्यं निर्व- हति । केवलान्वयि विधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्व मेव संसर्गघटकम् । केवलान्वयिनि वाहशव्यापकवाया अक्षत- त्वात् । न तु तत्तद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदो- षावकाशः । घटावानयति चैत्र इत्यादौ चैत्रकर्तृकानयनकर्मत्वादि. व्याप्यद्वित्वादिमन्निष्ठनिरूपकताकाधेयत्वादिसम्बन्धेन कर्मत्वादौ- घटादेरन्बयोऽव्युत्पन्नः । तेन चैत्रादेः एकघटादिव्यक्तिमात्रानयन- कतृत्वे न तादृशप्रयोगः। द्वित्वादिमत्त्वं च प्रकारतावच्छेदकी- भूतघटत्वादिव्याप्यपर्याप्तिसम्बन्धेन बोध्यम् । तेन चैत्रस्य पटादि- हितैकघटादिव्यक्त्यानयनकतत्वेऽपि न तादृशप्रयोगः । एव- मन्यत्राप्यूहनीयम् । २यत्रानेकवृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते वत्रोप- दर्शितरीत्योभयादिनैव समं पदार्थान्तरस्यान्वयः। यत्र त्वेकमात्र- त्तिधर्मस्तथा तत्रैकेनापि व्युत्पत्तिभेदावलम्बनात्कार्यकारणभाव- वैचित्र्योपगमाञ्च सर्व समञ्जसमित्यपि वदन्ति अथ घटादिव्यक्तिभेदेनानयनकर्मता भिन्नैवेति प्रतिसन्दधा- 'केवलान्वयीति । इदन्तु काकदन्तविचारवत् केवलान्वयिनः सर्व त्तत्वात्। २घटावानयतीत्यत्रैव प्रकारांतरमाह-योति । अत्रानेकवृत्तिघटत्वा द्वित्वान्वयितावच्छेदकतया भासते । ३एकमाणेति । अाकाशावत्र स्त इत्यादावाकाशादिरूप धर्मः ।

१७२ व्युत्पत्तिवादः [ कारके नस्य पंसो घटावानयतीत्ति वाक्याच्छाब्दबोधानुपपत्तिः । तस्य कर्मतात्वावच्छेदेनाधेयतासंसर्गावच्छिन्न प्रतियोगिताकस्य द्वित्वा- द्यवच्छिन्नघटाद्यभावस्य निश्चयसम्भवात्। तस्य द्वित्वादिना ताह- शसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत्-न । उभयत्वाद्यव- च्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयवासंसर्गावगा- हिज्ञानमेव प्रतिबध्नाति न तु केवलं. विशेष्ये विशेषणमिति रीत्या जायमानमुभयत्वादिविशिष्टज्ञानम् । अतो विशेषदर्शिनां तादृश- वाक्याहोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपितत्वावगाहि भ्रमात्मकज्ञानं न भवत्वेव । अपि तु वदंशे तदनवगाहिप्रमात्मकं ज्ञानमित्युभयत्वावच्छिन्ननिरूपिवाधेयत्वं चोभयादिवृत्तावेकस्मि- धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तादृशाधेयत्वाव- गाहिज्ञानस्य भ्रमत्वमित्यवधेयम् । संख्याश्च प्रकृत्यर्थतावच्छेदकगताः कचित्प्रतीयन्ते । यथा संपन्नौ ब्रोहियवावित्यादौ । एतत्तत्त्वं प्रागेवाभिहितम् । विरुद्ध- संख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्य संख्या प्रक- त्यर्थतावच्छेदकसंख्यायामेवान्वेति । यथा शतमेकं द्वे शते त्रीणि शतानीत्यत्र शतत्वादौ एकत्वद्वित्वबहुत्यानामन्वयः । अत एव च एकशतद्विशतादितात्पर्येण न शतानीति प्रयोगः । तत्र प्रकृत्यर्थस्य शतस्य बहूत्वाधन्वययोग्यत्वेऽपि प्रकृत्यर्थवावच्छेदकशतत्वांशे बहुत्वाद्यन्वय एव बहुवचनस्य साकांक्षत्वात् । तत्र योग्यतावि- रहात् । न चैकशतेऽपि नानापुरुषीयापेक्षाबुद्धिजन्यनानाशवत्वस- म्भवादेकशतनिष्ठशतत्वेऽपि बहुत्वान्वययोग्यताऽक्षतैवेति वाच्यम् - परस्परसमानाधिकरणद्वयावृत्तिबहुत्वस्यैव शतादिपदोत्तरबहुवच' नार्थत्वात् । तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ बाधात्। अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः । परस्परसमानाधिकर- णद्वयावृत्तिपर्याप्तिरेवाकाङ्क्षानिरूपका सम्बन्धः।

प्रथमा] जयाउलङ्कृतः यत्तु द्वे शते त्रीणि शवानील्यादौ संख्यैव शवादिशब्दार्थः, न तु संख्येयं, संख्येयस्य वदर्थत्वे "विंशत्याद्याः सदैकत्वे सर्वाः 'संख्ये- यसंख्ययोः । संख्यार्थे द्वित्वबहुत्वे" इत्यनुशासनविरोधात् द्विव- चनादिसाधुवानुपपत्तेः । गवां शतानीत्यादौ षष्ठ्यर्थान्वयानुपप- तेश्च । न चाभेदःषष्ठ्यर्थः । तथा सवि ब्राह्मणा दश इत्यत्र ब्राह्मणान दशेत्यपि स्यात् । अस्माकं चादशेभ्यः२ संख्याः संख्येये वर्तन्ते । अतः परं संख्याने संख्येये चेत्यनुशासनादशादिशब्दानां शवादि- शब्दवत्संख्यानार्थकत्वाभावाद्दशत्वादिसंख्यायाः पदार्थवावच्छेद- कत्वेन वत्र षष्ठ्यर्थसम्बन्धान्वयासम्भवेन.न तथा प्रयोग इति । वदसत् । गवां शतं शतानीत्यादौ संख्यायाः प्राधान्येन शता- दिशब्दवाच्यत्वे गवां शतं दद्यादित्यादौ शवादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः । गवांशतं शुक्ल- मित्यादौ संख्यायां शुक्लाद्यभेदान्वययोग्यताविरहात्तदनुपपत्तिश्च । तस्मादशादिशब्दा इव विंशविशतसहस्रादिशब्दा अपि संख्या- वच्छिन्नवाचका एव । न तु धर्मिविशेषणतांनापन्नसंख्यावाचकाः । १विंशत्याद्याः सदैकत्वे सर्वा इति । विंशत्याद्याः सर्वाः संख्यावाचक- शब्दाः संख्येयसंख्ययोर्वर्तन्ते । 'संख्यार्थे द्वित्वबहुत्वे स्तस्तासु चानरतेः स्त्रिय, इत्युत्तरार्द्ध संख्यारूपेऽर्थे द्व त्रीणि शतानीति द्विबहुत्वे भवतः इत्युक्तेरवशिष्ट- संख्येयार्थकत्वे विंशत्याद्याः सर्वाः संख्याशब्दा एकत्वे वर्तन्ते इत्यर्थों लभ्यते । तथा च संख्येयार्थकत्वे एकवचनमेव साध्विति दिक् । २अादशेभ्यः (आदशतो वा पाठः) इति । एकादारभ्याष्टादशपर्यन्ताः संख्यावाचकाः शब्दाः संख्येयेवर्तन्ते । संख्येये ह्यादश त्रिष्वित्यनुशासनात् । अतः परा विंशत्यादिशब्दाः संख्याने संख्येये चेत्यर्थः । विंशति ब्राह्मणा इति संख्येये ब्राह्मणानां विशतिरित्यादि संस्थाने इति ।

[ कारके १७४ व्युत्पत्तिवादः स्वाथैकदेशेऽपि संख्यायां स्वप्रकृति कविभक्त्यर्थसंख्यान्वयसाका- तयाऽन्यप्रकृतिकषष्ठ्यर्थसम्बन्धान्वयसाकाङ्क्षतया च तेषां संख्यानार्थकताप्रवादः, न तु दशादिशब्दानां तथात्वं दशादि- ब्राह्मणवात्पर्येण ब्राह्मणानां दशेत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः । संख्यार्थे द्विबहुत्वे स्त" इत्यनुशासनमप्युक्तार्थे दर्शितव्युत्पत्तिग्राहकमित्यवध्येयम्। एकद्विबहुशब्दोत्तरैकवचाद्विन चनबहुवचनानि च न संख्याबोधकानि । उद्देश्यतावच्छेदकविधेययो- रैक्येनैकत्वादिविशिष्टे एकत्वाद्यन्वये आकाङक्षाविरहादिति वदुत्तरं प्रथमा विभक्तिः प्रयोगसाधुतामात्राय नित्यबहुवचनान्ते- भ्योऽबादिशब्देभ्यः परं प्रथमाबहुवचनमपि कचिनिरर्थकमेव । यत्रैकव्यक्तिमात्रतात्पर्येण तादृशशब्दः प्रयुज्यते वत्र बहुत्वान्वये योग्यताविरहात् । यत्तु तद्गतगुणादिसाधारणबहुत्वस्य तत्रान्वय इति-तन्न शोभनम् । प्रकृत्यर्थतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेनैवानेकवृत्ति- संख्यान्वयस्य व्युत्पन्नतया तादृशसम्बन्धेन तथाविधबहुत्वान्वय- योग्यताविरहात्। अन्यथोदासीनघटपटादिसाधारणबहुत्वस्याप्य- न्वयसम्भवेन वद्गवगुणादिसाधारणबहुत्वानुधावनस्याकिञ्चित्कर- त्वात् । अथ तत्राजहत्स्वार्थलक्षणया गुणादिसाधारणधर्मा- वच्छिन्न एव प्रकृत्यर्थ इति चेत्तर्हि बहुत्वेन भासमानेषु गुणादि- ष्वपि पदार्थान्तरान्वयः स्यात् । तथा चापो द्रव्याणि दारा अत्र गृहे सन्वीत्यादिवाक्यानामप्रमाणवापत्तिः । गुणादिषु द्रव्याभेदे गृहवृत्तितादेर्बाधात् मुख्यार्थमात्रपरतादृशशब्दानां बहुवचनान्त- तानुपपत्तेश्चेति न किंचिदेतत् । अबादिपदार्थे एकत्वद्वित्वान्वय- योग्यतासत्त्वेऽप्यसाधुत्वादेव तदुत्तरमेकवचनद्विवचने न प्रयुज्येते इवि ध्येयम्।

प्रथमा ] जयाऽलङ्कृतः १७५ आख्यातैकवचनस्य संख्याथकत्वे विवदन्ते निष्कर्षानुसारिणः । घटोऽस्तीत्यादी सुबेकवचनादेव संख्याबोधकत्वसम्भवात् । चैत्रेण दृष्टो घट इत्यादिस्थलानुरोधेन तस्य तद्बोधकताया आवश्य- कत्वात् । न चैकवचनत्वेनानुगतेनैकत्वशक्तत्वात्तिङकवचनस्याप्ये- कत्ववाचकत्वमक्षवमिति वाच्यम् । एकवचनत्वस्यैकत्वशक्तता- बच्छेदकतायाः प्रागेव निराकृवत्वात् । अन्तु 'वा तेन रूपेण विङकवचनस्याप्येकत्वे शक्तिस्तथापि तज्जन्यैकत्वोपस्थिते: शाब्द- बोधोपयोगित्वे मानाभावः । न हि सामान्यत एकवचनज्ञानजन्यै- कत्वोपस्थितित्वेन वच्छाब्दबोधहेतुता सम्भवति । तथा सत्ये- कत्वेऽगृहीतसुपदवृत्तिकस्य पुंसः सुपदप्रकृतिघटादिपदोपस्थाप्य- घटादौ पटादिपदोत्तरामादिपदोपस्थाप्यैकत्वाद्यन्वयबोधप्रसङ्गः,. किंतु सुपदत्वादिप्रकारकज्ञानजन्यतदुपस्थितित्वादिनैव। तथा सवि घटादिपदोत्तरसुपदत्वादिरूपानुपूर्वीविशेषरूपाङ क्षाज्ञानघटिवायां घटादावेकत्वान्वयबोधस्य सामग्र्यां सुपदत्वादिप्रकार कधीजन्यो- पस्थितेरन्तर्भावात्ताहशापत्तेरनवकाशात् । एवं च निवादिसमभि- ब्याहारप्रकारकज्ञानजन्योपस्थितित्वेन तच्छाब्दबोधहेतुत्वे माना- भाव इति । यत्तु तिबादेः संख्यानभिधायकत्वे चैत्र: पचति तण्डुलं चैत्रेण पच्यते तण्डुल इत्यादौ कर्तृकर्मवाचकपदात्ततीयाद्वितीय- योरापत्तिः कर्तृकर्मगतसंख्याया अनभिधाने कर्तृकरणयोस्तृतीये ति "कर्मणि द्वितीये"तिसूत्राभ्यां वयोरनुशासनात् । नैयायिकमते लकारस्य कर्तृकर्मावाचकतया तदनभिधानस्य द्वितीयातृतीयानियामकत्वासम्भव त् । न च कादिगतसंख्यान- भिधानमेव कथं कादिवाचकपदोत्तरतृतीयादिनियामकं, चैत्रेण. पच्यते वण्डुल इत्यादिस्थलेऽपि लकारस्य चैत्रादिगतसंख्या- भिधायकत्वत्वादेकत्वादिना एकत्वादिसामान्यस्यैवैकवचनाद्यभिधे- यत्वादिति वाच्यम्। यतस्तद्गवसंख्यानभिधायकत्वं प्रकृते न ba व्युत्पत्तिवादः [ कारके तद्गतसंख्यानिष्ठवृत्त्यनिरूपकत्वमपि तु तद्विशेष्यकसंख्याप्रकार- कशाब्दबोधाननुकूलत्वमेव । वथा च कादिविशेष्यकसंख्यान्वय- बोधाजनकलकारादिसमभिव्याहृतकादिवाचकपदात् तृतीयादयो भवन्तीत्यत्र तदनुशासनतात्पर्यम् । चैत्रेण पच्यते तण्डुल इत्यादौ चैत्रादिविशेष्यकं संख्यान्वयवोधकत्वं नाख्यातस्य । आख्यावार्थ- भावनाया यत्रान्वयस्तद्विशेष्यकसंख्यान्वयबोधस्यैवाख्यातेन जन- नात्तादृशभावनान्वयबोधे विशेष्यश्च प्रथमान्तपदोपस्थाप्य एव । चैत्रः पचति तण्डुलमित्यादौ देवादेः साक्षादेव भावनावि- शेष्यत्वम् । चैत्रेण पच्यते तण्डुल इत्यादौ तु परम्परया चैत्रा- दिनिष्ठभावनाजन्यपाकजन्यफलशाली तण्डुल इत्याकारकबोधस्यैव तत्रोदयात् । तस्मात्तिबादेरपि संख्याबोधकत्वमावश्यकमिति-वन्न विचारसहम् । तथा हि कादिनिष्ठसंख्यान्वयबोधाननुकूलत्वं यदि वाशबोधफलोपधायकज्ञानविषयत्वाभाववत्त्वं तदा याह- शतिबादिज्ञानेन सहकार्यन्तरविरहात्ताहशबोधो न जनितस्तद्योगे तृतीयाद्यापत्तेः। यदि च वादृशबोधस्वरूपयोग्यज्ञानविषयत्वा- भावस्तदा यगादिसमभिव्याहृतात्मनेपदादिज्ञानस्यापि तादृशंबो- 'धस्वरूपयोग्यत्वात्तत्स्वरूपयोग्यज्ञानाविषयतिबाख्यावस्यैवाप्रसिद्धेः अथ कादिविशेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपि- वज़नकतावच्छेदकविषयित्वानिरूपकत्वमेव तादृशबोधाननुकूल- त्वम् । चैत्रः पचतीत्यादिवाक्यघटकतिबादिविषयिता चैत्रादिवि- शेष्यकसंख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपिवजनकतांवच्छे- दिका. तादृशान्वयबुद्धित्वावच्छिन्नं प्रति चैत्रादिपदसमभिव्या- हृततिबादिपदज्ञानत्वेनाकांक्षाज्ञानस्य हेतुत्वात् । चैत्रेण पच्यते तण्डुल इत्यादिवाक्यघटकवयादिपदविषयिता च न ताशी । चैत्रादिपदसमभिव्याहृवतादृशपदज्ञानत्वेन तादृशान्वयबुद्धित्वा- वच्छिन्नं प्रत्यहेतुत्वात् । न च चैत्रः पचते इत्यादौ चैत्रविशेष्य- । प्रथमा] जयाऽलङ्कृतः काख्याताथसंख्यान्वयबोधोत्पत्त्या चैत्रादिपदसमभिव्याहृततया- दिपदज्ञानत्वेनापि तादृशान्वयबुद्धित्वावच्छिन्नहेतुताऽक्षतैवेति चैत्रणपच्यते इत्यादि वाक्यघटकीभूततयादिपदविषयितापि ताह- श्येवेति वाच्यम्। चैत्रेण पचते चैत्रः पच्यते इत्यादिवाक्याच्चैत्रा- दिविशेष्यकस्य भावनायाः संख्यायाश्चान्वयबोधस्यानुदयात्। तद्विशेष्यकतदुभयान्वयबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतश- बादि विकरणोत्तरतत्तदाख्यातपद्ज्ञानत्वेन हेतुत्वाच्चैत्रण पच्यते तण्डुल इत्यादिवाक्यघटकतयादीनां तादृशसमभिव्याहारादिशू- न्यतया तद्विषयिताया अताहशत्वात् । चैत्र: पक्ष्यते इत्यादितस्त- एडुलः पक्ष्यत इत्यादितश्चैत्रतण्डुलादिविशेष्यकसंख्यान्वयबोधो- पत्त्या चैत्रः पक्ष्यते तण्डुल इत्यत्रोभयविशेष्यकसंख्यान्वयबोधौ- पयिकसमभिव्याहारज्ञानविषयितायाः तयादिपदे सत्त्वेन कt- कर्मणोतृतीयाद्वितीययोरप्रसक्तावपि न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते । कर्तरि साक्षात् कर्मणि च दर्शितपरंपरया युगपद्भावना- विशेषणकान्वयबोधजनकताया आख्यातस्याव्युत्पन्नतया तादृश- वाक्यादुमय विशेषणकान्वयबोधासम्भवात् । न चाकाङ्क्षायोग्य- तादिज्ञानसत्त्वात्कथन तादृशान्वयबोध इति वाच्यम् । अगत्या एकविधान्वयबोधेऽन्यविधान्वयबोधसामग्र्यास्तद्घटकतात्पर्यज्ञा- नस्य वा प्रतिबन्धकत्वोपगमात् । न च चत्रेण तण्डुलः पक्ष्यते चैत्रस्तण्डुलं पक्ष्यते इत्यादिवाक्यद्वय विषयकसमूहालम्बनदशा- यामपि उभयविधान्वयबोधानुपपत्तिरिति वाच्यम् । तादृशैक- विधान्वयबोधे' तादृशान्यविधान्वयबोधपरत्वेनागृह्यमारणतथावि- 'तादृशैकधिधान्वयबोध इति । तद्विशेष्य कसंख्यान्वयबोधे अन्य विशेष्य- कसंख्यान्वयबोधपरत्वप्रकारकतात्पर्यायविशेष्यतानवच्छेकदधविच्छिन्न- धर्मिताकत द्विशेष्यकतादृशान्वयबोधपरज्ञानं कारणमिति । १२ १७८ व्युत्पत्तिवादः [कारके घाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानस्य हेतुतया चैत्रः पक्ष्यते तण्डुल इत्यादिवाक्याताशद्विविधान्वयबोधवारणस्य दर्शितवा क्यद्वयात्तदुपपादनस्य शक्यत्वात्। न च निरुक्तसंख्यानभिधानस्य तृतीयाद्वितीयानियामकत्वे चैत्रण स्वं दृश्यते, चैत्रः त्वं पश्यतीत्यादौ तृतीयाद्वितीययोर नुपपत्तिः। कादिविशेष्यकसंख्याप्रकारकान्वय- बोधौपयिकाकाङ्क्षाज्ञानीयविषयत्वानिरूपकत्वस्य तत्राख्यातेऽस- त्त्वादिति वाच्यम् । कादिपर यत्पदाख्यातपढ़योः समभिव्याहारः संख्यान्वयबोधत्वावच्छिन्नप्रयोजकविषयित्वानि रूपकस्तत्पदोत्तरं तृतीयाविभक्तिरित्येवं नियमोपगमेन प्रथमस्थले चैत्रपरत्वपदाख्या- तपदयोर्द्वितीये च तत्परचैत्राख्यातपढ़योः समभिव्याहारस्यैव तद्विशेष्यकसंख्यान्वयबोधप्रयोजकतया क्रमेण चैत्रपदस्वपदाभ्यां तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति चेत्-न । अनभिहित इत्य- धिकारे कर्तृकरणयोस्तृतीयेत्याधनुशासनस्य किं प्रयोजनमिति वक्तव्यम् । चैत्रः पचति तण्डुलः पच्यते इत्यादौ चैत्रतण्डुलपदाभ्यां द्वितीयातृतीययोरप्रयोग इति चेत्-तत्कि मणिमन्त्रादिन्यायेन तादृशानुशासनस्य तथाविधप्रयोगविरोधिता येन तदभावस्तत्प्र- युक्तः स्यात् । न चैवं सम्भवति पचति पच्यते इत्यादि क्रियायोगे कत कर्मवाचकपदानन्तरं तृतीयाद्वितीययोरसाधुत्वस्य तत्कतृत्व- तत्कर्मकत्वादिबोधौपयिकाकाङ्क्षादिरहितत्वादिरूपस्य प्रतिपत्तिः प्रयोजनं तस्येति चेत्तहि उक्तनियमपरतयापि न ततस्तल्लाभः । प्रथमान्तचैत्रतण्डुलपदतत्तदाख्यातपदयोः समभिव्याहारस्यैव चैत्रतण्डुलादिविशेष्यकतत्तदाख्याताथेसंख्यान्वयबोधप्रयोजकतया चैत्रण पचति तण्डुलं पच्यते इत्यादिवाक्यघटकतृतीयान्तद्विती- यान्तचैत्रतण्डुलादिपदतिबादिपदयोः समभिव्याहारस्यातथात्वेन तद्घटकतृतीयाद्वितीययोः साधुत्वस्योक्तनियमाव्यवच्छेद्यत्वात् । तस्मान्मुख्यभाक्तसाधारणकर्तृत्वकर्मत्वयोः क कर्मवाचकपदसम- जयाऽलङ्कृतः १७६ प्रथमा] भिव्याहृतलकृत्तद्धितसमासैरनभिधानमेव तृतीयाद्वितीयादि- नियामकं शिरोमणिभिरत्र व निर्भरमभिहितः । लादीनां तदनभिधायकत्वं च न तद वाचकत्वं तनिष्ठवृत्त्य नि- रूपकत्वं वा । आख्यातसामान्यस्यापि(आत्मनेपदस्यापि?)आख्या- तत्वेनतेत्वादिना वा कर्तृत्वादिनिष्ठशक्तिल क्षणानिरूपकत्वात्।कत- त्वानभिधायकाख्यातस्यैवाप्रसिद्धः तच्छाब्दबोधौपयिकाकाङ्क्षाशू- न्यत्वमेव तत् । चेत्रण पच्यते तण्डुल इत्यादावाख्यातस्य कतृ त्वा- दिवाचकत्वेऽपि तच्छाब्दबोधौपयिकाकाङ्क्षाराहित्यं तत्राक्षतमेव। चैत्रादिपदोत्तरतृतीययैव कतृत्वबोधनसम्भवात् । तत्र तादृशाका- ताया अकल्पनात् इत्यपि न । चैत्रेण पक्ष्यते इत्यादौ तृतीयानुप- पत्तेः। पक्ष्यते चैत्र इत्यादितश्चैत्रादौ पाककृतेः केवलात्पक्ष्यत इत्या- दितश्च मुख्य विशेष्यतया तस्य बोधनात्तादृशाख्यातधात्वोरानुपूर्वी- विशेषाकाक्षायाः कृतिबोधीपयिकत्वात् । न च समभिव्याहार- रूपाकाङ्क्षव विवक्षणीया। प्रकृते तु प्रकृतिप्रत्यययोरानुपूर्वीरुपा- काङ्क्षा न तु समभिव्याहार इति नोक्तानुपपत्तिरिति वाच्यम्। तथा सति चैत्रण पचतीत्यादावपि तृतीयायाः साधुतापत्तेः । ताह- शचैत्रपदाख्यातपदयोः समभिव्याहारस्य कृतिबोधानौपयिकत्वात् चैत्रेण विजेष्यते मैत्र इत्यादौ तृतीयानुपपत्तेश्च विजेष्यते मैत्र इत्या- दितो मैत्रादिकृतिबोधात्तादृशाख्यातमैत्रपदयोः समभिव्याहारस्य कृतिबोधौपयिकत्वात् । किंतु तत्तात्पर्यशून्यत्वमेव । तथा च चैत्रेण पक्ष्यत इत्यादावाख्यातस्य कत्र्तृत्वादितात्पर्यकत्वे तृतीया असा- धुरेव । तथा च चैत्रेण पचतीत्यादा वाख्यातस्यार्थाविवक्षायां तृतीयायाः साधुत्वेऽपि परस्मैपदस्यासाधुत्वान्न तादृशः प्रयोगः। । 'वृत्तीति । वृत्तिपदेन लक्षणाया अपि ग्रहणात्पूर्वतो वैलक्षण्यं बोध्यम् ।

१८० व्युत्पत्तिवादः [ कारके परस्मैपदस्यासाधुत्वं च धात्वर्थविशेष्यस्य प्रत्वयेनाविवक्षणे भावकर्मणोरिति सूत्रेणात्मनेपदनियमात्। श्राख्यातार्थविवक्षायां न चैत्रेण पचते इत्यादिप्रयोगः, शबा दिविकरणस्यासाधुत्वात् । कत त्वतात्पर्यकसार्वधातुकप्रयोग एव तत्साधुत्वात्। कर्तृत्वकर्म- त्वोभयतात्पर्येण मैत्रः पक्ष्यते तण्डुल इत्यादयस्तु न प्रयोगाः । तदेकतरबोधेऽन्यपरत्वेनागृह्यमाणाख्यातधर्मिकप्रकृतान्वयबोधपर- स्वज्ञानस्य हेतुत्वात् । चैत्रेण पक्ष्यते तण्डुल इत्यादो कर्तृत्वादावा- ख्यातस्य तात्पर्यग्रहे कर्मत्वाद्यन्वयबोधोऽपि न भवत्येव । अथ पक्कानि भुङ्क्त चैत्रः, ओदनः पक्त्वा भुज्यते इत्यादौ कृतां क्रमेण कत कर्मत्वानभिधानाच्चैत्रपदीदनपदाद्युत्तरं तृतीयाद्वितीये कथन्न स्याताम् । न च कृतानभिधानेऽपि आख्यातेन तदभिधानान्नानाभि- हितत्वं समभिव्याहृतपदाभिहितत्वसामान्याभावस्यैवानभिहितप- देन विवक्षणात् । समभिव्याहृते तिकरणाच्च चैत्रेण गम्यते ग्राम- स्तं मैत्रो गच्छतीत्यादौ न तृतीयाद्वितीययोरनुपपत्तिः । गच्छति गम्यत इत्याद्याख्यातस्य तत्तत्पदासमभिव्याहृतत्वादिति वाच्यम्। तथा सति भुञ्जानेन चैत्रेण पच्यते ओदनो भोक्तव्यमोदनं पचती- त्यादौ तृतीयाद्वितीययोरनुपपत्तिः । कृता कतृत्वकर्मत्वयोरभिधा- नात्। कृता तत्र भोजनकत्वतत्कर्मत्वयोरभिधानेऽपि पाककत्वं तत्कर्मत्वं वान भिहितमेवेति चेत्तर्हि प्रकृतेऽपि तदनभिहितमेव । न च प्रधान क्रियानिरूपिततत्तत्कतृत्वाद्यनभिधाने तृतीयादेःसाधु १ सममिव्याहृतेति । सममिव्याहृतत्वञ्चैकवाक्यघटकत्वमिति । २न चेति । पक्वानि भुङ्क्त चैत्रः अोदनः पक्त्वा भुज्यत इत्यादौ पाककर्तृत्वपाककर्मत्वयोरनभिधानात्तद्बोधिके द्वितीयातृतीये कथन्न स्या- तामित्याशङ्कायाः समाधानमाह-न चेत्यादिना ।

प्रथमा] जयाऽलङ्कृतः तेति । तदुक्तम् । प्रधानशत्तथमिधाने गुण शक्ति र भिहितवत्प्रकाशते इति शक्तिः कर्तृत्वादिकमिति वाच्यम् । तथापि चैत्रेण दृश्यमानं घट मैत्रः पश्यतीत्यादौ ज्ञानभेदेन विषयताया भेदाभावात्। चैत्र- दर्शनमैत्रदर्शनोभयनिरूपितविषयत्वरूप कर्मतायाः कृताभिधाना- द्वितीयानुपपत्तिरिति चेत्-न । तत्तत्प्रातिपदिकार्थविशेषणत्वमा- त्रेण कर्तृत्वकर्मत्वाद्यविवक्षाया एव तदनभिधानपदार्थत्वात् । तत्त- प्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादिविवक्षया द्वितीया- विभक्तः साधुत्वमित्यर्थे तात्पर्यस्य पर्यवसितत्वात् । शेषमाख्याता- र्थविचारावसरे विवेचयिष्यत इत्यलमत्राधिक्येन । आखयातद्विवचनबहुवचनयोस्तु संखयाबोधकत्वमावश्यकम्। चैत्रो मैत्रश्च गच्छतः चैत्रो मैत्रो देवदत्तश्च गच्छन्तीत्यादौ “चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला। मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम्" इत्यादौ च द्वित्वबहुत्वबोधकसुपोऽभावात्। न च तत्र सुबेकवचनस्यैव द्वित्वब- हुत्वादौ लक्षणास्त्विति वाच्यम्। आनुशासनिकातिरिक्तार्थे सुब्वि- भक्तलक्षणाया अनभ्युपगमात् । अन्यथा चैत्रो मैत्रश्च गच्छत इत्यादाविव छन्दसि लक्षणयैव स्वादिना द्वित्वादिबोधनसम्भ- वात् । औजसादिरूपादेशस्मृतिद्वारा द्वित्वादिबोधनिर्वाहाय छन्दसि सुपांसुलुगित्यादिसूत्रेण औजसादिस्थाने स्वाद्यादेशविधानस्य वैय- र्थ्यात् । चैत्रादिपदोत्तरैकवचनस्य द्वित्वादि लाक्षणिकत्वे तदप्रकृत्य- र्थमैत्रादिसाधारण द्वित्वादिबोधस्योक्तव्युत्पत्तिविरोधेनानुपपत्तेश्च । द्वित्वाद्याख्यातार्थसङ्खथान्वयबोधे च स्वसमानविशेष्यकतदर्थभाव- 'गच्चन्तीत्यादाविति । एतादृशप्रयोगस्य प्रामाणिकत्वं दर्शयति-चन्द्र कल इत्यादिना श्रीहर्षश्लोलेन ।

[ कारके व्युत्पत्तिवादः नान्वयबुद्धिसामग्री अपेक्षिता । भावनाया बाधादिग्रहकाले तत्र तात्पर्यग्रहादिशून्यकाले चोक्तस्थले द्वित्वान्वयाबोधात् । भावनाया अविशष्ये धात्वर्थादौ सङ्घयान्वयाबोधाच्च तादृशसामग्याः सङ्खयान्वयबुद्धित्वावच्छिन्नं प्रति स्वातन्त्र्येण हेतुता। तद- कल्पनेऽपि आख्यातजन्यसंख्योपस्थितियोग्यताज्ञानविशेषादिघ- टितसामग्र्या भावनानवगाहिसंखथान्वयबोधस्य कदाप्यजन- नात् । संख्यान्वयबोधसाधारणभावनान्वयबोधत्वावच्छिन्नहेतू- नामपि तादृशसामग्रीघटकत्वेनानुपपत्त्यभावात् । न च तादृश- कारणानां भावनान्वय बुद्धित्वं संखथान्वयबुद्धित्वं वा जन्यता- वच्छेदकमुपेयते इत्यत्र विनिगमनाविरहः । सङ्खथामविषयी- कृत्यापि भावनान्वयबोधस्यानुभवसिद्धत्वात् । द्वितीये जन्यता- वच्छेदकत्वासम्भव इति दिक् । 'स्वातन्त्र्येणेति । किन्तु व्यापकसामग्री विधेयेति शेषः । संख्यान्वयबुद्धि- त्वव्यापकत्वाद्भावनान्वयबुद्धि त्वस्येतिभावः। तदेवोपपाय त्यग्रिमग्रन्थेनेति। २तादृशझारणानामिति । भावनान्वयकारणानामित्यर्थः । ३जन्यतावच्छेदकत्वासम्भव इति । संख्यान्वयबुद्धित्वस्य न्यूनवृत्तित्वा- दिति भावः । ४प्रथमाविवरणसमाप्तौ दिगिति प्रतीकमुपादाय श्रीमद्गुरुचरणा: । दिगिति । दिगर्थस्तु सन्तीत्यध्याहारस्त्रयः काला इत्यत्र वक्तुं शक्य एव । न च त्रयाणां कालानां युगपद्वर्त्तमानत्वानन्वयो वर्तमाने लडित्यादौ वर्त- मानत्वादेः प्रयोगकालिकस्यैव ग्रहणादन्यथा अतिप्रसङ्गापत्तिरिति वाच्यम्। सन्तीत्यत्र लड्डुपात्तवर्तमानत्वस्याविवक्षितत्वात् । प्रत्ययोपात्तवर्तमानत्वं हि न सर्वत्र विवक्षितं भवति । अत एव ग्रामं गमिष्यति ग्राममगमदित्यादौ ग्राम देः कर्मत्वं सिद्धयति । अन्यथेप्सिततमत्वविरहात्तदनापत्तिः । ईप्सित- । KHARGONE द्वितीया ] जयाऽलङ्कृतः १८३ अथ गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः कथं द्वित्व- बहुत्वबोधकता संख्यागुणत्वेन गुणादौ बाधात् । न च तत्र स्वाश्रयसमवेतत्वादिसम्बन्धेन द्रव्यगतं द्वित्वादिकमेव भासते इति वाच्यम्। एकव्यक्तावपि ताशसम्बन्धेन द्वित्वादेः परिसमानतथा एकमात्रतात्पर्येणापि द्विवचनाद्यापत्तिरिति चेत्-अपेक्षाबुद्धिविष- यत्वमेव तदुत्तर द्विवचनादिना बोध्यते। तच्चैकमात्रवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकस्थले प्रकृत्यर्थतावच्छेदकव्याप्यत्वविशिष्टप- र्याप्तिसम्बन्धन प्रकृत्यर्थेऽन्वेति । अन्यत्र तु शुद्धपर्याप्ति सम्बन्धे- नेति न द्वन्द्वादिस्थलोक्त दोष इति विदुषां परामर्शः। इति व्युत्पत्तिवादे प्रथमाविवरणम् । अथ द्वितीयाविवरणम् 'कर्मणि द्वितीये'त्यनुशासनात्कर्मत्वं द्वितीयार्थः । तत्र कमपदस्य धर्ममात्रपरत्वात् । सप्तम्या वाचकतार्थकत्वात् । कर्मणश्च न पदे हि मतिबुद्धीतिसूत्रेण वर्तमाने क्तः । अत एव कर्तुरिति षष्ठो सङ्गच्छते । अन्यथा न लोकेति निषेधापत्तेः। न च निष्ठेतिसामान्यसूत्रविरहितोऽयं क्तः षष्ठो तु शेषत्वविवक्षयेति वाच्यम् । एवमपि ग्रामं गच्छति गमिष्यतीत्यत्र कर्मत्वानापत्तेरनुद्धारात् । निष्ठेतिसूत्रेऽपि भूते इत्यधिकारात् । वर्तमा- नत्वविवक्षायां ज्ञापकन्तु भूते इत्यधिकारे कर्मणि हन इति णिनिविधायक तच्च सामान्यापेक्षकं तच्च लडुपात्तमपि वर्तमानत्वं क्वचिदविवक्षितं तेन प्रकृतेऽप्यदोषात् । अत एव मौद्गश्चर्भवतीत्यनेन सार्वकालिकयागीय- चरनियमः संगच्छते इति दिगिति ब्रूमः । इति महामहोपाध्यायसन्मिश्रजयदेवशर्मविरचितायां व्युत्पत्तिवादजयायां प्रथमाविवरणम् ।

१८४ व्युत्पत्तिवादः [ कारके तथात्वम्। कर्मणि नामार्थस्य प्रामादेरभेदान्वयसम्भवेऽपि धात्वर्थ- गमनादिना तदन्वयासम्भवात् गौरवाच । कर्मत्वं च क्रियाजन्य- फलशालित्वम् । तत्र च क्रिया धातुत एव लभ्यते। जन्यजनकमावस्य च विनैव पदार्थत्वं संसर्गमर्यादया भानं सम्भवतीतिफलमात्र'३ कर्मप्रत्ययार्थः । न च संयोगविभागरूपफलमपि धातुलभ्यमेव । गमित्यजिप्रभृतीनां तदवच्छिन्नस्पन्दादिरूपव्यापारवाचकत्वादिति वाच्यम् । व्यापारमात्रस्य धात्वर्थत्वात् । फलविशेषान्वयबोधे च धातुविशेषजन्यव्यापारोपस्थितेहेतुतया ग्रामं त्यजतीत्यादौ च धात्वर्थस्पन्दे ग्रामनिष्ठविभागजनकत्वमेव प्रामं गच्छतीत्यादौ च धात्वर्थस्पन्दे ग्राम निष्ठसंयोगजनकत्वमेव प्रतीयते न तु विपरीतम्। आमं गच्छतीत्यादिवच्च ग्रामं स्पन्दते इत्यादयोन प्रयोगाः। द्वितीया- देर्गम्याग्रुपस्थापितस्पन्दादावेव फलान्वयबोधकत्वात् । स्पन्दि- प्रभृत्युपस्थापिते तस्मिन् द्वितीयादिना फलान्वयबोधजनना- सम्भवात् । न हि येन केन चिदुपस्थापितयोरेवार्थयोः परस्पर- मन्वयः प्रतीयते । तथा सति घटकर्मत्वादिपदोपस्थापितयोरपि घटकर्मवाद्योः परस्परमन्वयबोधप्रसङ्गात् । कृनादिसमानार्थकय- तधातूपस्थाप्ययले विषयितार्थंकद्वितीयान्वयसंभवेन घटं करो- तीतिवद् घटं यतते इत्यादिप्रयोगप्रसङ्गाच्च। अपि तु ययोर्याह- १ अन्वयासम्भवादिति । ग्रामवृत्तिसंयोगानुकूलत्वसम्बन्धेन कर्मणः संयोगावच्छिन्नव्यापारेऽन्वयस्त हि गौरवात्संयोगस्य द्विधा भानादिति । २स्वाश्रयबलजनकत्वसम्बन्धेन यथाकथञ्चित्तत्सम्भवादाइ-गौरचा- दिति । ३श्राश्रयत्वस्यापि संसर्गमादयैव भानसम्भवादाइ-फलमत्रामिति । 'गूढार्थतत्वालोके 'न तु सन्दी' स्यादिपाठः।

द्वितीया] जयाऽलङ्कृतः शान्वयबोघे आकाङ्क्षा तदुपस्थापितयोरेव तादृशान्वयबोधः । आकाङ्क्षा च द्वितीयादेर्गम्यादिना कृबादिना च कल्प्यते न तु तत्समानार्थकेनापि स्पन्दियतिप्रभृतिनेति। न चाकांक्षात्र सम- भिव्याहारः। स च गम्यादिनेव स्पन्दादिनापि समान एवेति वाच्यम्। यतो द्वितीयादेर्गम्यादिसमभिव्याहारस्यैव फलबला- दन्वय बोधौपयिकत्वमुपगम्यते न तु स्पन्दिप्रभृतिसमभिव्याहा- रस्येति न तस्याकाङ्क्षात्वमन्वयबोधौपयिकसमभिव्याहारस्यैव तथात्वात् । अत एव समानार्थकत्वेऽपि गम्यादेरिव न स्पन्दादेरपि सकर्मकत्वव्यवहारः। फलान्वितव्यापारबोधकधातुत्वस्यैव तन्नि- यामकत्वात्। अथ धातोर्व्यापारमात्रवाचित्वे त्यजति गच्छति त्यागो ग- मनमित्यादिवाक्यादविलक्षणबोधप्रसङ्गः। न च शक्तिभ्रमाद्य- जन्ययोस्तादृशवाक्यजन्यबोधयोर वैलक्षण्यं कश्चिदभ्युपैति । तथा सति त्यागादितात्पर्येण गमनादिपदं व्युत्पन्ना अपि प्रयुञ्जीरन् । न च तत्र फल विशेषावच्छिन्नव्यापारे लक्षणा स्वीक्रियते इति विलक्षणबोधोपपत्तिरिति वाच्यम् । लक्षणया विलक्षणबोधजनने- ऽपि शक्तयाऽविलक्षणबोधजननसम्भवेन दर्शितातिप्रसङ्गस्य दुर्वार- त्वात् । न च गम्यादिशक्तिज्ञानजन्यार्थोपस्थित्या फलाविषय- बोधस्य कुत्राप्यजननात् तादृशोपस्थितिघटितसामग्रीशरीरे फल- विशेषबोधकसामग्री निवेश्यते। तथा च त्यागगमनादिपदयोः शक्तथा नाविलक्षणबोधजनकतेति वाच्यम् । त्यजिगम्योरेकार्थ- वाचकतारूपपर्यायतां विपर्यस्यतो गमनादिपदात्त्यागादि पदजन्य- बोधसमानाकारकबोधस्य सर्वानुभव सिद्धतया गम्यादिशक्ति- ज्ञानात्फलाविषयकबोधस्यापि पदजन्यबोधनियामकताया वक्तुम- शक्यत्वात् । तथा चाभ्रान्तस्यापि भवन्मते ततोऽविलक्षणबोध- सम्भवेन एकविधबोधतात्पर्येण व्युत्पन्नानां ताशप्रयोगप्रसङ्गो १८६ व्युत्पत्तिवादः [ कारके दुर्वार इति चेत्-मैवम् । कर्मप्रत्ययासमभिव्याहृतत्यागगमनादि- पदस्य तत्तत्फलावच्छिन्नव्यापारेऽनादितात्पर्य कल्प्यते न तु केवल- व्यापारे । अनादितात्पर्यमेव च स्वारसिकप्रयोगनियामकमिति एकार्थतात्पर्येण प्रामाणिकानां स्वारसिकोनत्यागगमनादिप्रयोगः। एवं त्य जिगमिप्रभृतिसमभिव्याहृतकर्मप्रत्ययस्यापि फल विशेष एव नियतं तादृशं तात्पमिति न विभागादितात्पर्येण ग्रामं गच्छती- स्या दिप्रयोगः । तदर्थबोधकत्वमात्रंतु न तदर्थतात्पर्येण स्वारसिक- प्रयोगनियामकम् । तथासति शक्तिभ्रमादिना घटपदस्यापि पटादि- बोधकतया पटेऽपि घटादिपदप्रयोगापत्तिः । नापि शत्त्या बोधकरवं तथा । निरूढलक्षणयापि स्वारसिकपदप्रयोगात् । शक्तिभ्रमं लक्षणाबानं चान्तरेण गम्यादेविभागादिरूपफलविशेषितस्पन्दा- दिबोधकत्वाभावनियमोऽसिद्ध एवेति तात्पर्यभ्रमसहकृतशक्ति- प्रमया तादृशबोधजननेऽपि न क्षतिः । विना लक्षणाग्रहं भ्रमा- नधीनतादृशबोधो गभिप्रभृतितो न सम्भवतीत्येव नियमः । स च तात्पर्यभ्रमेणैव निर्वहतीति विभागाद्यर्थे पूर्वपूर्वेषामनादितात्पर्य- भ्रमवतो वक्तुः स्वकीयतात्पर्येण ग्रामं गच्छतीत्यादिप्रयोगो यत्र तच्छ्रोतुस्तात्पर्यभ्रमासम्भवेऽपि वक्तृतात्पर्यानादित्वभ्रम एवं प्रयोगसंपादनद्वारा तदर्थशाब्दबोधप्रयोजक इति न तादृशनियम- क्षतिरिति प्राचीनपथपरिष्कारप्रकारः । नव्यास्तु संयोगादिरूपफल विशेषावच्छिन्नस्पन्दो गम्याद्यर्थः। तद्धात्वर्थतावच्छेदकफलशालित्वमेव तद्धातुकर्मत्वम् । नातो गम्यादिकर्मत्वस्य पूर्वदेशादौ प्रसङ्गः । न वा स्पन्देः सकर्मकत्वम् । तत्र फलस्य धात्वर्थतानवच्छेदकत्वात् । एवं च धातोरेव फल- विशेषलाभात् फलान्वयिनी वृत्तिरेव द्वितीयार्थः । न च कर्मणि द्वितीयेत्यनुशासनविरोधः । तस्य कर्मणि फलनिष्ठाधेयत्वान्वयिनि प्रकृतितात्पर्ये तदुत्तरं द्वितीयेत्यर्थकत्वात् । न चैवं तस्य द्वितीया ] जयाऽलङ्कृतः १८७ शक्तिग्राहकत्वानुपपत्तिः। अनादितात्पर्यग्रहसंपादकत्वेन परंपरया शक्तिग्राहकत्वसम्भवात् । न च फलस्य पदार्थंकदेशतया तत्र द्विती- यार्थवृत्तेरन्वयासम्भवः। व्युत्पत्तिवैचित्र्येण प्रकृते एकदेशान्वय- स्वीकारात् । अथ गमनं न स्पन्द इत्यादितो धात्वर्थतावच्छेदक- फले स्पन्दभेदान्वयबोधसम्भवेन तत्रतादृशप्रयोगस्य वारणाय फल विशेष्यकान्वयबोधे तद्विशेष्यकवृत्तिज्ञानजन्यफलोपस्थिति- त्वेन हेतुत्वकल्पनस्यावश्यकत्वात् तादृशकारणबाधेन धात्वर्थता- वच्छेद कफले द्वितीयार्थान्वयासम्भवः । न च यादृशपदसमभिव्याहारज्ञानात् फल विशेष्यकस्पन्द- भेदान्वयबोधः प्रसिद्धः 'तादृशपदज्ञानजन्यफलाधुपस्थितिघटित- सामग्रथास्तादृशान्वयबोधोत्पादप्रयोजिकाया असत्त्वेनोक्तस्थले तदापत्त्यसम्भव इति वाच्यम्। यत्र गमनादिपदादेव लक्षणया शक्तिभ्रमेण वा स्वातन्त्र्येण फलोपस्थितिस्तत्र फल विशेष्यकस्पन्द- भेदान्वयबोधप्रसिद्धया गमनपदसमभिव्याहारतजन्य फलोपस्थि- तिघटित सामग्रथा फलविशेष्यकस्पन्दत्वाद्यवच्छिन्नभेदान्वयबोध- प्रयोजकताया आवश्यकत्वात् । तद्बलेन शक्तिप्रमाधीनबोधेऽपि फलांशे स्पन्दभेदादिभानप्रसङ्गः। एवं च फलव्यापारयोः पृथक्- शक्तिस्वीकारपक्षेऽपि न निस्तारः। तथात्वेऽपि हि गमनं न स्पन्द इत्यादौ फले शक्तिप्रमया स्पन्दभेदान्वयबोधसम्भवेन ताशप्रयो- गापत्तेर्दुरित्वादिति चेत्-न । तद्विशेष्यकवृत्तिज्ञानजन्यतदुपस्थिति- जन्यतावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वनिवेशन- मावश्यकम् । विशिष्य तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेरेकैक- तादृशपदसमभिव्याहारज्ञानेत्यधिकः पाठः क्वचित्पुस्तकेऽत्र । पृथकशक्तीति । खण्डशक्तिरित्यर्थः । ।

व्युत्पत्तिवादः कारके विधबोधे नानाहेतुतायाव्यवस्थापितत्वात्। एकपदाधीनतद्विषयक- वृत्तिज्ञानजन्यशाब्दबोधे पदान्तरवृत्तिज्ञानजन्यतदुपस्थितेयंभि- चारस्य प्रकारान्तरेण वारणासम्भवात् । एवं च धात्वर्थतावच्छेद- कफले द्वितीयार्थान्वयबोधेऽपि क्षतिविरहः। तत्रैतादृशकारणस्य व्यभिचाराप्रसक्तेरिति वदन्ति । अत्रेदं चिन्त्यते । व्यापारमात्रस्य धात्वर्थतायामपि सर्वा- नुपपत्तीनामुद्धृतत्वात् फलावच्छिन्नव्यापारस्य गुरुतया तथात्व- मनुचितम् । अथ फले द्वितीयादेः शक्तचन्तरकल्पनामपेक्ष्य धातो- विशिष्ट शक्तिकल्पनमेवोचितम् । न च भवन्मतेऽप्याधेयत्वे द्विती- यादेः शक्त्यन्तरस्य कल्पनीयत्वात्तदंशे साम्यमितिवाच्यम् । ग्राममध्यास्ते ग्राममधिशेते प्रामं संयुनक्तीत्यादौ द्वितीयायाः सर्वमता एवाधेयत्वबोधकतया द्वितीयादेः फलवाचकत्वमतेऽपि आधेयत्व- वाचकताया आवश्यकत्वात् । न च द्वितीयायाः संयोगादिवाचक- त्वमते आधेयत्वे तस्या लक्षणैव न तु शक्तिरिति वाच्यम्। आधेयतात्वस्याखण्डतया संयोगत्वादिसमशरीरत्वात् संयोगत्वा- द्यच्छिन्न तदवच्छिन्ने वा शक्तिः कल्प्यत इत्यत्र विनिगमकास- म्भवात् । अस्तु वा ममाप्याधेयत्वे लक्षणैव शक्तिस्तु संख्यायामेव। यदि च द्वितीयादेः फलबोधकतामते फलेऽपि तम्या लक्षणैव न तु शक्तिः। शक्तिस्तु संख्यायामेव संयोगविभागादिरूपकप्रत्येकफलापे- क्षया संख्यायां तत्प्रयोगप्राचुर्यस्य विनिगमकत्वादित्युच्यते तथापि तन्मते धातुजन्यशुद्धव्यापारोपस्थितेः शाब्दबोधहेतुताकल्पनम- धिकम् । द्वितीयाद्यसमभिव्याहारस्थलानुरोधेन फल विशेषाव- १ द्वितीयादेरित्यादिग्रन्थस्थाने 'तत्र शक्तिकल्लनस्योभयसाम्यादि'त्येव पाठः कचिद्धस्तलिखितपुस्तके ।

द्वितीया] जयाऽलङ्कृतः च्छिन्नध्यापारे धातोर्लक्षणया भवतामप्यावश्यकत्वाद्धातुजन्य- ताशव्यापारोपस्थितिहेतुताया उभयसिद्धत्वात् । यदि च स्पन्दत इत्यादित इव शक्तिभ्रमाद्गच्छतीत्यादितोऽपि शुद्धव्यापारबोध आनुभविक इति मन्यते तथाति तन्मते शाब्दबुद्धौ द्वितीयादि- जन्यफलोपस्थितेः कारणतायाः कल्पनाधिक्यं तज्जन्याधेयत्वोप- स्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधेन उभयमत एवावश्यक- त्वादिति चेत्-अस्तु तन्मते ताशकारणताया आधिक्यम् । नव्यमते तु ग्राम गच्छतीत्यादिवाक्यज्ञानघटितशाब्दसा- मग्या समानविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकार- तानिरूपितव्यापार विशेष्यताशालित्वेन धातुजन्योपस्थितेनिवेश- नीयतया तस्यास्ताहशविशेष्यताशालित्वेन व्यापारविशेष्यतानि- रूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामग्रीप्रतिबन्धकताधिक्यमवच्छेदक्रगौरवं च । प्राचीनमते द्वितीयाजन्यफलोपस्थितेः सामग्र्यन्तनिवेशस्तु नव्यमत सिद्धतज्जन्याधेयत्वोपस्थितिनिवेशस्थलीय एवेति। नव्य- मते ताशस्थले शाब्दबोधस्याधिकविषयकतया तात्पर्यज्ञानादिक- मप्यधिकविषयकमेव शाब्दधीहेतुर्भविष्यति,प्रतिबन्धक सामग्र्या- मप्यन्तर्भविष्यतीति च गौरवम्। अथ फलस्य द्वितीयार्थत्वे भूमि गच्छति न महीरुहमित्यादौ महीरवृत्तिसंयोगादेर्जनकतासम्ब- न्धावच्छिन्नाभाव एव नबर्थो वाच्यः । स च वृत्त्यनियामकसम्ब- न्धस्याभावप्रतियोगितानवच्छेदकतया अप्रसिद्धः । नव्यमते तु द्वितीयार्थस्याधेयत्वस्य फलनिष्ठोऽभाव एव तथेति नानुपपत्तिः । न च भूमिकर्मकगमनकर्तादौ महीरुहकर्मकगमन- कत त्वाधभावःप्रतीयते इति वाच्यम् । कर्तृवाचकपदासमभि- ज्याहारस्थले तदसम्भवात् । न च तत्राप्याख्यातार्थान्वयबोधानु- रोधेन कर्तृवाचकपदाध्याहारस्यावश्यकतया अध्याहृतपदोपस्था- १६० व्युत्पत्तिवादः [कारके प्याकर्तर्येव तादृशाभावो नबा बोधयिष्यत इति वाच्यम् । आख्या- तार्थविशेष्यकस्याप्यन्वयबोधस्य सम्भवेनाध्याहारस्यानावश्यक- त्वाद्भूमेर्गमनं न महीरुहस्येत्यादो द्वितीयासमानाथषष्ठ्यर्था- भावबोधकतया आवश्यकत्वाच्च । न हित त्राप्याश्रयतासम्बन्धा- वच्छिन्नप्रतियोगिताकगमनाभावः प्रतीयत इति सम्यक् । अ- नुयोग्यनुपस्थितेनबोऽनुयोगिविनिर्मोंकेनाभावबोधकताथा अ- व्युत्पन्नत्वादिति चेत्-न। वृत्त्य नियामकसम्बन्धस्याभावप्रतियो- गितावच्छेदकतवे दोषः कः। अथ जनकतादिसम्बन्धावच्छि- नप्रतियोगिताकसंयोगाद्यभावस्यातिरिक्तस्य कल्पने गौरवमिति- चेत्-न । तादृशाभावस्य संयोगजनकत्वायभावसमनियतत्वेन तत्स्व रूपत्वात्तस्य चोभयवादिसिद्धत्वादतिरिक्तप्रतियोगिताकल्पने गौर- वमिति चेत्-अस्त्वेतद्गौरवम् । उपदर्शितबहुविधलाघवेन ईश- गौरवस्याकिंचित्करत्वात्। अथ फलस्य द्वितीयार्थत्वे वृत्त्यनि- यामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वेऽपि द्रव्यं गच्छ- ति न गुणमित्यादौ गुणादिनिष्ठस्य संयोगादिरूपफलस्याप्रसि- द्धया नबर्थान्वयबोधानुपपत्तिरिति चेत्-न । तत्राधेयतासम्बन्धाव- च्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावस्यैव द्वितीयाथै फले नबा बो- धनोपगमात् । गुणो न गुणं गच्छतीत्यादिवाक्यस्योभयमत एवाप्रमाणता । अस्तु वा तत्राभावस्य द्विधा भानोपगमेन गुणाभा- ववत्फलानुकूलस्पन्दाश्रयत्वाभाववान् गुण इत्याकारकव्यापारस्य एवान्वयबोधः । 'परे तुवृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदक- - परे स्विति । वस्तुतो न युक्तमिदम् । वृत्त्यनियामकसम्बन्धस्याभाव- प्रतियोगितावच्छेदकत्वमभ्युपगच्छतामपि प्राचान्न निर्वाहः । यतस्तैरपि द्वितीया ] जयाऽलङ्कृतः १६१ त्वे नव्यमतेऽपि द्रव्यं गच्छति नाभावमित्यादौ गतिविरहः। तथा हि समवायसम्बन्धावच्छिन्नाधेयतैव द्वितीयार्थो वाच्यः । अन्यथा कालिकादिसम्बन्धावच्छिन्नग्रामादिवृत्तिसंयोगादिकमा- दायातिप्रसङ्गात् । तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यप्र- सिद्धथा तदभावबोधासम्भवः । निरूपितत्वसम्बन्धस्य च वृ- त्य नियामकतया समवायसम्बन्धावच्छिन्नाधेयतायां तत्सम्बन्धा- वच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभावबोधो न सम्भवत्येवेत्याहु- रिति । अत्रोच्यते । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता- वच्छेदकत्वे आधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलाव- च्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवै- चित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यतिप्र- सङ्गस्य प्रागुपदर्शितप्रकारेण वारणसम्भवात् । न चैतत्कल्पे लाघवानवकाशाः। फले स्वतन्त्रशक्तथकल्पने सामग्रीप्रतिबन्धक- तायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरिति उभयनिवेशस्थाने (उभयोपस्थित्यपेक्षयेति वा पाठः) धातुजन्य- विशिष्ट विषयकोपस्थितेरेकस्या निवेशेन लाघवात् । वस्तुतस्तु शाब्दबुद्धेर धिकविषयत्वे राज्ञः पुरुष इत्यादी स्वत्वादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघ- वस्य दर्शितत्वात् । द्वितीयादेराधेयत्वमर्थः, फलावच्छिन्नव्या- द्वितीयार्थे प्रकृत्यर्थस्य कालिकादिसम्बन्धमादतप्रसङ्गोपेत्यभावायाया सम- वायसम्बन्धावच्छिन्नाघेयत्वस्यैव संसर्गत्वेनाभ्युपगन्तव्यतया तेन सम्बन्धेन चाभावरूपप्रकृत्यर्थस्याप्रसिद्भन्या तत्सम्बन्धावच्छिन्न प्रतियोगिताकतदभावो बोधयितुं न शक्य इति । 'फलावच्छिन्नव्यापारविषयकोपस्थितेरित्यर्थः ।

व्युत्पत्तिवादः [ कारके पारश्च धातोरित्येव युक्तम् । कर्माख्यातस्य फलमर्थः । अन्यथा प्रामो गम्यते इत्यादी ग्रामादेव्यापारजन्यफलाश्रयत्वरूपकर्मत्व- प्रतीत्यनुपपत्तेः । याहशविशेष्यविशेषणभावापन्नयोः पदवाच्यता ताश विशेषणविशेष्यभावापन्नयोरेव शाब्दबोधे भानसम्भवात् न तु तविपरीतविशेषणविशेष्यभावापन्नयोः। यत्तु फले धातोः पृथक् शक्त्युपगमात् व्युत्पत्तिवैचित्र्येण काख्यातसमभिव्या- हारस्थले व्यापारविशेषणतया भासमानस्य फलस्य कर्माख्यात- स्थले तद्विशेष्यतया भानमिति तन्न । पृथक् शक्तिस्वीकारे शाब्द- "सामग्रथाः प्रतिबन्धकतायां विशष्टविषयकोपस्थितिस्थले उपस्थि- तिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयुजिप्रभृतिसमानार्थकता- भ्रमवतामिव विशेषदर्शिनामपि गमनं न स्पन्द इत्यादिवाक्या- संयोगादौ स्पन्दभेदान्वयबोधापत्तेईर्शिताया दुर्वारत्वाच्च । संयो- गादि विशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वय- बोधसामग्रथा अक्षतत्वात् । तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्वि- शेषणकबोधतात्पर्यज्ञानस्य तादृशान्वयबोधे प्रतिबन्धकताकल्पने गौरवादिति फलस्य द्विधा भानं चेदनुभव विरुद्धं तदा पुनरनाय- त्या फलव्यापारयोः खण्डशक्तिद्वयमेव धातोः स्वीकरणीयम् । आख्यातस्याश्रयत्वमेव तत्रार्थः। अधिकमग्रे वक्ष्यते । अथ द्वितीयाया आधेयतार्थकत्वे व्यापारे तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः । नहि गृहे पचतीत्यादि- वद्गृहं पचतीति कश्चित्प्रयुङ्क्ते । मैवम् । धात्वर्थतावच्छेदकफलांशे आधेयत्वान्वय एव ताशद्वितीयायाः साकाङ्क्त्वकल्पनाव्या- पारे तदुपस्थापिताधेयत्वान्वयासम्भवात् । सप्तम्यधीनाधेयत्वोप- स्थितिसप्तमीसमभिव्याहारज्ञानघटिताया एव सामग्रथास्तादृशान्व- यबोधे नियामकत्वात् । द्वितीयासप्तम्योः समानार्थकत्वेऽपिव्युत्पत्ति भेदज्ञापनायैव पृथक् पृथक् सूत्रेण तयोविधानात् । अथाधः संयोगा- १ गमिजन्यफलोपस्थितिर्गमिजन्यव्यापारोपस्थितिश्चेत्येवमादि ।

द्वितीया ] जयाऽजकृतः वच्छिन्नस्पन्दस्य ,पतधात्वर्थत्वात् धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयतात्पर्येण भूमि पततीति प्रयोगापत्तिः । न च द्वितीयोपस्थापिताधेयत्वप्रकारकफलविशेष्यकान्वयवोधे गम्यादि जन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामध्येव प्रयोजिका, न तु पतधातुजन्यतदुपस्थितिघटिता सामग्रीति नातिप्रसङ्ग इति वाच्यम् । पतधातुनैव यत्र संयोगावच्छिन्न गमनं लक्षणादिनो- पस्थापितं तत्र संयोगे द्वितीयार्थाधेयत्वान्वयात् । अत्राहुः । धातुजन्यशुद्धसंयोगावच्छिन्नस्पन्दोपस्थितेः शाब्द- बोधकारणतायामवच्छेदकघटकसंयोगविषयतायामधिकरणानव- च्छिन्नत्वं विशेषणं देयम् । तथा च ताहशविषयताशालिसंयोगा- वच्छिन्नोपस्थित्यादिघटितसामण्या एव संयोगविशेष्यकद्वितीयो- पस्थाप्याधेयत्वान्वयबोधप्रयोजकत्वोपगमान्नातिप्रसङ्गः। न चैव- मपि फलावच्छिन्नव्यापारबोधकतया पते: सकर्मकत्वव्यवहारा- पत्तिर्दुर्वा रैवेति वाच्यम् । आश्रयानवच्छिन्नफलावच्छिन्नव्यापार- बोधकत्वस्यैव ताशव्यवहार नियामकत्वात् । उत्तर देशानवच्छि- नसंयोगः फलं गम्यर्थतावच्छेदकमिति नानुपपत्तिः। अत एवाग्नि- संयोगावच्छिन्नक्रियानुकूलव्यापारस्य जुहोत्यर्थतया धात्वर्थता- वच्छेदकसंयोगाश्रयस्याप्यग्ने तत्कमता । आश्रयानवच्छिन्नाव- च्छेदकताश्रयफलवत्त्वविरहात् । संयोगनिष्ठाया धात्वर्थतावच्छे- दकताया आश्रयेणाग्निनाऽवच्छिन्नत्वात् । न चाग्निविशेषितसं- योगस्य धात्वथतावच्छेदकफलत्वेऽग्नो घृतं जुहोतीत्यत्रानन्वयप्र- सङ्गः उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् । तत्र संयोगनिष्ठायामुद्देश्यतायां वढेराधेयतासंसर्गेणावच्छेदकतया सप्त- म्यर्थस्याग्निवृत्तित्वस्य च विधेयतया उद्देश्यतावच्छेदकविधेययो- रैक्यानवकाशात् वस्तुतस्तु तत्र वढेरनन्वयेऽपि न क्षतिः । व्युत्पन्नानां ताह- शप्रयोगस्याप्रामाणिकत्वात्। संस्कृते वह्नौ जुहुयादित्यादिस्थले १३ १६४ [कार के व्युत्सत्तिवादः च विधेयांशेऽधिकावगाहनानास्त्येवानुपपत्तिः । घृतादेश्वाश्रयान- वच्छिन्नधात्वर्थतावच्छेदकतावक्रियारूपफलाश्रयत्वात् कर्मत्वो- पपत्तिः । यत्तु धात्वर्थतावच्छेदकत्वं धातुवृत्तिग्रह विशेष्यांशे सा- क्षात्प्रकारत्वं तञ्च क्रियायामेव न संयोगांशेऽपीति नाग्नेर्जुहोति कर्मतापत्तिरिति । तदसत् । अजां ग्रामं नयतीत्यादौ संयोगा- वच्छिन्नक्रियानुकूलव्यापारादिरूपे धात्वर्थे संयोगादेः साक्षाद- प्रकारतया तदाश्रयीभूतग्रामादेः कर्मत्वानुपपत्त्या नीवहादेवि- कर्मकत्वव्याघातात्। अथ तत्र ग्रामादेः प्रधानकर्मत्वं नास्त्येवा- पि तु गौणकर्मत्वमेव । अत एव तादृशकर्मत्वमाख्यातेन नाभि- धीयते "प्रधानकमण्याख्येये लादीनाहुर्द्विकर्मणामि" त्यनुशास- नादिति। अजां ग्रामो नीयते इत्यादिको न प्रयोग इति चेत्तर्हि तत्र ग्रामादेरिवानापि धात्वर्थतावच्छेदकतावच्छेदकफलशालि- त्वेन गौणकर्मत्वापत्त्या वह्निं घृतं जुहोतीति प्रयोगापत्तिर्दुर्वारैवेति । अस्म-मते चाश्रायानवच्छिन्नमंयोगविषताशालिधातुजन्यो- पस्थितिघटितसामच्या एव संयोगे द्वितीयार्थान्वयबोध- प्रयोजकतया नैतादृशप्रयोगापत्तिरिति । यत्तुअधःसंयोगावच्छिन्न- स्पन्दो न पतत्यर्थः, अपि तु गुरुत्वजन्यतावच्छेदकजातिविशेषा- वच्छिन्न एवात एव फलावच्छिन्नव्यापाराबोधकत्वान्न सकर्मक- त्वमिति-तन्न । फलस्य धात्वर्था घटकत्वे स्पन्द एव सप्तम्यर्थान्वय- स्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलाद्यवृत्तितया भूतले पततीति प्रयोगानु पपत्तिः । पर्णादिगतस्पन्दस्य परम्परया भूतला- दिवृत्तित्वमिति चेत्तर्हि वृक्षात्पततीतिवत् वृक्षे पततीत्यपि स्यात् । अस्मन्मते चान्यत्र व्यापारे सप्तम्यर्थान्वयेऽपि अत्र व्युत्पत्तिवैचि- व्याधः संयोगरूपधात्वर्थतावच्छेदक एव तदन्वयबोध इत्यदोषः। अन्ये तु भूम्यादेः कर्मत्वविवक्षायां भूमि पततीति प्रयोग इष्ट प्रथमा] जयाऽलङ्कृतः एव । अत एव द्वितीयाश्रितेत्यादिसूनेण नरकं पतित इत्यादिस्थले द्वितीयासमासविधानमुपपद्यते । धात्वर्थतावच्छेदकतावच्छेदके फले द्वितीयार्थान्वय एवाश्रयानवच्छिन्नफलोपस्थितेरपेक्षा अप्रिं जुहोतीतिप्रयोगवारणाय कल्प्यत इत्याहुः । तदपि न शोभनम् । तथा सति भूम्यादिपदोत्तरं कदा चित्सप्तमी कदा चिद्वितीयेत्यत्र नियामकाभावप्रसङ्गात् । व्यापा- रांशे आधेयत्व विवक्षायां सप्तमी फलांशे तद्विवक्षायां द्वितीये- त्यस्योक्तयुक्तथा फलांश एव सप्तम्यर्थान्वयस्यावश्यं स्वीकरणीय- तया वक्तुमशक्यत्वादिति ब्राह्मणाय धनं ददातीत्यादौ स्वस्व- त्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा धात्वर्थः । तादृशस्वत्वरूप- धात्वर्थतावच्छेदकफल एव द्वितीयार्थान्वयः । उपेक्षायाम- तिप्रसङ्गवारणाय परस्वत्वनिवेशः । दानं च न संप्रदानस्वत्व- 'जनकमपि तु तत्स्वीकार एवेति मते तु स्वस्वत्वध्वंसानुकूलप- रस्वत्वप्रकारिकेच्छैव ददात्यर्थः । तत्र स्वस्वत्वध्वंसरूपफलाश्रय- त्वाद्धनस्य कर्मता ।धनं प्रतिगृहातीत्यादौ स्वस्वत्वजनकेच्छारूप: स्वीकार विशेषो धात्वर्थः । स्वस्वत्वरूपफले च द्वितीयार्थाधेयत्वा- न्वयः । तण्डुलं पचतीत्यादौ रूपादिपरावृत्तिजनकतेजःसंयोगो धात्वर्थः । रूपादिपरावृत्तिरूपफले च तण्डुलादिवृत्तित्वान्वयः । ओदनं पचतीत्यादौ अोदनादिपदस्य तन्निष्पादकतण्डुलादौ लक्षणा । अवय विनि पाकानभ्युपगमे च तण्डुलं पचतीत्यादौ तण्डु- । १नकं पतित इत्यादि । स्वमते तु नरकपतित इति सप्तमीसमासेन साधनोयं द्वितीयाघटितस्त्वसाधुरेव । अकर्मकधातुरित्यादि द्वितीयायां मासं पतितो मासपतित इत्यादौ सूत्रावकाशोऽवगन्तव्यः । • २ प्रायविनीति । पीलुपाकवादिनो वैशेषिकाः पिण्डपाक (पिठरपाक १६६ व्युत्पत्तिवादः [कारके । लादिपदस्य तदारम्भकपरमाणुषु लक्षणा । ओदनं भुक्ते इत्यादी गलाधोनयनं धात्वर्थः । स च गलाधःसंयोगावच्छिन्नक्रियानुकू- लव्यापारः । तादृशक्रियारूपफल एव ओदनादिवृत्तित्वान्वयः । उक्तयुक्त्या गलाधोदेशस्य न कर्मत्वम् । एवमन्यसकर्मकधातूना- मप्यर्थाः स्वयमूह्याः। गां दोग्धि पय इत्यादौ द्विकर्मकधातुसमभिव्याहृतगवादि- पदोत्तरद्वितोया क्रियाजन्यफलशालित्वादन्यदेव कर्मत्व बोध- यति । कारकाधिकारीयेणाकथितं चेति सूत्रेणापादानत्वादिभि- नधातुप्रतिपाद्यान्वयिधर्मान्तरावच्छिन्नस्यापि२ कर्मसंज्ञाभिधा- नात् । गवां पयो दोग्धोत्यादौ धातुप्रतिपाद्यान्वयिगवादिसंबन्धो न विवक्षितः अपि तु क्षीराद्यन्वयी स इति कर्मत्वाविवक्षया द्वितीयानवकाशः, किन्तु शैषिकी षष्ठ्येवेति । अत्र धातुप्रतिपा- द्यत्वं तदर्थतावच्छेदककोटिप्रविष्टसाधारणम् । गां दोग्धीत्यादौ धात्वर्थतावच्छेदककोटिप्रविष्ट एव द्वितीयार्थान्वयात् । तथा हि हरणानुकूलव्यापारो दुहेरर्थः। द्वितीयार्थश्च जनकत्वसंबन्धेन क्षरणान्वयी विभागः। विभागे चाधेयतया प्रकृत्यर्थगवादेरन्वयः। एवंचधात्वर्थतावच्छेदकक्षरणरूपफले प्रधानकर्मक्षौरान्वितद्विती- यार्थवृत्त्यन्वय इति गानिष्ठविभागानुकूलपयोनिष्ठक्षरणानुकूलव्या- पारकर्ता मैत्र इति गां पयो दोग्धि मैत्र इति वाक्याधीनो बोधः। इत्यप्युच्यते) वादिनो नैयायिकाः। पोलुः परमाणुः। वैशेषिकमतमनुश्रित्यो- च्यते-अवयविन्यादि । उक्तयुक्त येति । आश्रयानवच्छिन्नधात्वर्थतावच्छेदकताशालिफलाश्र- यत्वस्यैव कर्मत्वनियामकत्वादिति भावः । २धर्मान्तरावच्छिन्नस्येति । धर्मान्तराश्रयस्येत्यर्थः ।

१६७ द्वितीया जयाऽलङ्कृतः न च विभागोपादानत्वमेवेति तद्विवक्षायां द्वितीयानवकाश इति वाच्यम् । धातुवृत्तिग्रहविशेष्यान्वयिनो विभागस्यैवापादानत्व- रूपत्वात् । वृक्षात्पर्णं पततीत्यादौ स्पन्दरूपवृत्तिग्रहविशेष्यांशे एव पञ्चम्यर्थविभागान्वयात्। वस्तुतो विभागावच्छिन्नक्षरणानुकूलो व्यापारो दुह्यर्थः । गोपदोत्तरद्वितीयार्थश्च विभागान्वयिनी वृत्तिरेव । न चैवंधात्वर्थ- तावच्छेदकफलशालित्वरूपं कर्मत्वमेवात्रापि प्रतीयते इति नाक- थितं चेत्यस्य विषय इति वाच्यम् । धात्वर्थतावच्छेदकत्वस्य धातु- वृत्तिग्रहविशेष्यांशे साक्षाद्विशेषणत्वरूपत्वात् । यत्र चक्षरणानुकूल- व्यापारमात्रंधात्वर्थतया विवक्षितं क्षरणान्वयि विभागस्य विभक्त्य- थतया तत्रापादानत्वबोधिका पञ्चमी। एतेन कदाचिद्रां दोन्धि पयः, कदाचिच्च गोः पयो दोग्धि इत्यत्र नानियमः । अथ वा गोभ्यो दोग्धि पय इत्यत्रापि विभागो धात्वर्थतावच्छेदककोटि- प्रविष्ट एव वृक्षाद्विभजते इत्यत्रेवावधित्वरूपापादानत्वविवक्षायां पञ्चमी, आश्रयत्वविवक्षायां च द्वितीया। अवधित्वं चाश्रयत्वा- दन्य एव स्वरूपसंबन्धविशेषः । अत्र क्षरणान्वयिनः परसमवेत- स्वस्य द्वितीयार्थत्वात् पयोनिष्टक्षरणस्य पयोनिष्ठविभागजनकत्वेऽपि न पयः पयो दोग्धीति प्रयोगः। परत्वं च विभागान्वयिताव- च्छेदकावच्छिन्नापेक्षया बोध्यम् । दुह्यते गौः क्षीरमित्यादौ क्षरण- जन्यविभागाश्रयत्वरूपं गवादिनिष्ठमप्रधानकर्मत्वमाख्यातार्थः । 'अप्रधाने दुहादीना'मित्यनुशासनात्। क्षीरवृत्तित्वस्य धात्वर्थक्षरण एवान्वयः। आख्यातार्थक्षरणे च धात्वर्थव्यापारान्वयः। तथा च विभागावच्छिन्नक्षीरनिष्ठक्षरणानुकूलव्यापारजन्यक्षरणजन्यविभा. गाश्रयो गौरित्याकारको बोधः । अथ वा विभागक्षरणव्यापारेषु विशकलितेषु धातोः शक्तित्रयं विशिष्टलाभोऽन्वयबलात् । कर्मा- ख्यातस्थले चाकाङ्क्षावैचित्र्येण तेषां विशेष्य विशेषणभाववैपरी-. ।

१६८ १ व्युत्पत्तिवादः [ कारके त्यात् ।ब्यापारजन्यक्षरणजन्यविभागपर्यन्तस्य धातुत एव लाभः। आश्रयत्वमेवाख्यातार्थः । एवं च क्षरणविभागयोन द्विधा भानम् । गौणकर्मासमभिव्याहृते दुह्यन्ते क्षीराणीत्यादौ आत्मनेपदेन केवलेन धातुसहितेन वा विभागावच्छिन्नक्षरणाश्रयत्वरूपप्रधान- कर्मत्वस्यबोध नेऽपि एकदाउभयविधकर्मत्वबोधनस्याव्युत्पन्नत्वात् दुह्यन्ते क्षीराणि गौरित्यादयो न प्रयोगाः । पौरवं गांयाचते विप्र इत्यादौ स्वोद्देश्यकदानेच्छा याचतेरथः। प्रधानकर्मगवाद्यन्वितद्वितीयार्थः विषयत्वे धात्वर्थतावच्छेदकदाने- ऽन्वेति । सविषयकदानादिरूपविषयोपहितेच्छाबोधकधातुथले इच्छाविषयविषयत्वमेव प्रधानकमत्वम् । अत एव घटो जि- ज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । अथैवं यद्वस्तुवि- षयकं दानमप्रसिद्धं तद्वस्तुरूपकर्मसमभिव्याहृतधातुघटितवचसः का गतिरिति चेत् या गतिर्गगनं दिदृक्षते इत्यादिकस्य भ्रान्त- पुरुषीयगमनादिप्रकारकदर्शनेच्छाबोधकवाक्यस्य गगनविषयक- त्वप्रकारकदर्शनेच्छाबोधस्तत्रति चेदिहापि गोविषयिता प्रका- रतानिरूपितस्वत्वेच्छानिष्ठविषयताशालीच्छाबोधस्तद्वाक्यग्य वि- शेषदर्शितमात्रविषयताऽपि समेति विवेचनीयं चेदमने। पौरवपदो- चर द्वितीयायास्तु वृत्तिरेवार्थः। तस्याश्च दानेऽन्वयः। पौरवस्य तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम् । न चैवमिच्छाविशेषरूप- दानाश्रयत्वं कर्तृत्वमेवेति वाच्यम् । धातुजन्यप्रतिपत्तिविशेष्यीभूत- । श्रव्युत्पन्नत्वादिति। सकृदुच्चरितःशब्दः सकृदेवार्थ गमयतीतिनियमात् । गोविषयितेति । स्वस्वत्वध्वंसानुकूलपरस्वत्वप्रकारिका पौरववृत्तीच्छा एतद्गोनिष्ठविषयतानिरूपिका भवत्वित्याकारिकैवेच्छा तत्र धात्वर्थ इति बोध्यम् ।

१६६. - द्वितीया ] जय ऽलङ्कृतः दानाश्रयत्वस्यैव तत्कर्तृत्वरूपत्वात् । अत्र च दानस्य तादृशप्रति- पत्ताविच्छारूपधात्वर्थे विशेषणत्वात् । चैत्रेण पौरवो गां याच्यते इत्यादावप्युक्तक्रमेण चैत्रवृत्तीच्छाविषयगोकर्मकदानाश्रयः पौरव इत्यन्वयबोधो बोध्यः । यद्यपि निरुक्तयाच्नाभिक्षा चेति दुहिया- चिरुधिप्रच्छिभिक्षिचिनामित्यत्रार्थपरभिक्ष्युपादनेनैव चरितार्थ- तया२ याचेरुपादानमनर्थकं तथापि याचमानः शिवं सुरानित्यादौ याचतेर्न निरुक्तभिक्षार्थकतेति तदुपादानम् । तत्र हिव्यापारजन्य- त्वप्रकारिकेच्छाधात्वर्थः इच्छायां प्रधानकर्मकल्याणान्वितद्विती- यार्थविषयिताया अन्वयः । व्यापारे च सुरान्वितवृत्तित्वस्य द्वितीयार्थस्यान्वयः। तथा च सुरवृत्तिव्यापारजन्यत्वप्रकारक- कल्याणेच्छाश्रय इत्यर्थः। गां वरुणद्धीत्यादौ देशान्तर सञ्चार- विरोधिव्यापारो धात्वर्थः। सञ्चारविरोधित्वं च सञ्चारानुत्पाद- प्रयोजकत्वम् । अनुत्पादे प्रधानकर्मणो वृत्तित्वान्वयः। देशविशेषण- भेदे च व्रजमिति द्वितीयान्तार्थव्रजप्रतियोगिकत्वान्वयः । रुध्यते गां व्रज इत्यादावन्वयबोधः स्वयमूहनीयः । गुरु धर्म पृच्छतीत्यादौ जिज्ञासाबोधकव्यापारो धात्वर्थः । दानाश्रय इति। विशिष्टशक्तिवादे चैत्रवृत्तिविशिष्टेच्छाविषयदाना- श्रयः पौरव इति बोधः। २चरितार्थतया । सिद्धतयेत्यर्थः। ३व्रजप्रतियागिकस्वान्वय इति । गोबृत्तिर्यो व्रजप्रतियोगिकभेद विशिष्ट- देशाधिकरणकसंचारोत्पत्त्यभावस्तदनुकूलव्यापारवानिति बोधः । ४ स्वयमूहनीय इति । अभावप्रतियोगिगोभूदुत्पत्तिमत्सञ्चाराधिकदेश- विशेषणभेदप्रतियोगिकत्वं प्रत्ययार्थस्तदैकदेशेऽभावे धात्वर्थमुख्य विशेष्य- व्यापारस्य जन्यत्वेनान्वयः । खण्डशक्तिवादे प्रदर्शितरीत्यैव बोधः ।

२०० व्युत्पत्तिवादः [ कारके बोधे गुरुवृत्तित्वस्य जिज्ञासायां धर्मविषयकत्वस्यान्वयः । शिष्यं धर्म व ते इत्यत्र ज्ञानानुकूलशब्दप्रयोगो धात्वर्थः । ज्ञाने धर्मवि- षयस्वस्य शिष्यवृत्तित्वस्याप्यन्वय इति तन्न चारुतरम्।तथा सति यत्र जिज्ञासाविषयकचैत्रज्ञानेच्छया प्रश्नस्तादृशशब्दाञ्चसामग्रीबलेन मैत्रस्यापि पृच्छकजिज्ञासाज्ञानन्तत्र मैत्रं पृच्छतीति प्रयोगस्य, एवं यत्र चैत्रज्ञानेच्छया ब्रूते दैववश । मैत्रस्यापि ज्ञानं तत्र मैत्रं ब्रूते इति प्रयोगस्य चापत्तेः । साक्षाद्धात्वर्थविशेषणज्ञानरूपफलाश्रयतया तत्र गुर्वादीनां प्रधानकर्मतया अप्रधाने दुहादोनामित्यनुशासन- विरोधेन पृच्छते गुरुर्धर्म-“स पृष्टस्तेन कस्त्व भोः' शिष्य उच्यते 'धर्म'मित्यादिस्थले च ल कादिना तत्कर्मत्वाभिधानानुपपत्तेश्च । परं तु जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः पृच्छतेरर्थः । ज्ञाने गुरुवृत्तित्वस्यान्वयः। शब्दे चधर्मविषयकत्वस्यान्वयः। शब्दस्य च विषयता व्यापारानुबन्धिनी ज्ञानस्य परम्परया शब्दरूपधात्वर्थ- विशेषणत्वात् । तदाश्रयीभूतगुरोर्गौणकर्मता। धर्मस्य च धात्वर्थ- विषयता प्रधानकर्मता। 'बेबश्च ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दोऽर्थः। ज्ञानेशिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः। अजां ग्राम नयतीत्यादौ ग्राम भार वहतीत्यादौ च उत्तरदेशसंयोगावच्छिन्न- क्रियानुकूलव्यापाररूपं प्रापणं धातोरर्थः। तत्र क्रियारूपे फले अजा- भारादिवृत्तित्वान्वयः।संयोगरूपफले च प्रामादिवृत्तित्वस्यान्वयाः 'तथा च गुरुवृत्ति यजिजज्ञासाज्ञानं त दुद्देश्यिका या कृतिस्तदधीनो यो धर्मविषयकः शब्दस्तत्प्रयोक्तरिति बोधः । इत्यस्मपितृचरणहस्त- लिखितपुस्तकतोऽत्राधिकः पाठः। २तघ्रत्यादि अन्वयरित्यन्तस्य स्थाने 'उत्तरसंयोगे ग्रामस्य गौणकर्मणः क्रिया यांचाजादिप्रधानकर्मणः' इति हस्तलिखितपुस्तकपाठः ।

द्वितीया ] जयाऽलङ्क्तः २०१ तथा च ग्रामवृत्तिसंयोगजनकाजादिवृत्तिक्रियानुकूलव्यापारानुकू- लकृतिमानित्यन्वयबोध: । अजा ग्रामं नीयते उह्यते भारोग्राम चैत्रेण इत्यादावुत्तरसंयोगावच्छिन्नक्रियारूपं फलं कर्माख्यातार्थस्तत्र च धात्वर्थस्य तादृशव्यापारस्य जन्यतासम्बन्धेन तस्य चाश्रयता- सम्बन्धेन अजाभारादिरूपप्रधानकर्मण्यन्वयः । प्रामादिवृत्तित्वा- न्वयस्तु संयोगे एव । एवं च चेत्रकृतिजन्यो यः संयोगावच्छिन्न- क्रियानुकूलव्यापारस्तजन्यग्रामवृत्तिसंयोगानुकूल कर्मवानजादिरि- त्यन्वयबोधः । न च कारकविभक्त्यर्थस्य धात्वर्थ एवान्वयनिय- मात्प्रत्ययोपस्थाप्यसंयागे कथं प्रामादिवृत्तित्वान्वय इति वाच्यम्। भूतले घट इत्यादौ घटादिपदा थेप्यधिकरणसप्तम्यर्थान्वयात्ताश- नियमासिद्धेः । अस्तु वा धात्वथतावच्छेदकतावच्छेदकतया भासमाने संयोग एव तदन्वयः। फलव्यापारयोः पृथक्शक्तिमते चाश्रयत्वमेवात्मनेपदार्थः। संयोगावच्छिन्नक्रियारूपधात्वर्थ एव १'वृक्ष पुष्पं चिनोतीत्यादौ विभागानुकूलहरणं चिनोतेरर्थः । हरण- चोद्देश्यीभूतपात्रसंयोगानुकुलक्रियानुकूलव्यापारः। विभागानुकूलत्वं क्रिया- विशेषणं परम्परया धात्वर्थतावच्छेदकविभागस्याश्रयतया वृक्षादौ गौण- कर्मता । अतः पुष्पाणि वृक्षश्चो यत इत्यादी वृक्षा दिपदस्य प्रथमान्तता साक्षाद्धात्वर्थतावच्छेदिकायाः पुरुषव्यापाराधोनाक्रियाया आश्रयतया पुष्पादेः प्रधानकर्मता । यत्रानुपयुक्तपत्रादीनां वृक्षादिभ्योऽपनयनमेवोद्देश्य न तु तेषां पात्रसंयोगस्तत्र पत्राणि चिनोतीत्याद्यप्रयोगात् पात्रसंयोगे उद्देश्यत्वं विशेषणं यद्यपि शिष्यं धर्मम्नुशास्तं त्यादौ ब्रुअर्थज्ञानानुकूलव्यापार एव शास्त्यर्थः तथाऽप्युपदेशरूपज्ञापनविशेष एव तदर्थ इति दुहादिगणे पृथगुपा- दानमुपदेशश्च कर्त्तव्यताज्ञापनमित्यादिकं स्वयमूहनीयम्' । इत्यस्मत्पिता- महभ्रातृचरणहस्तलिखित पुस्तकधृतोऽत्राधिकः पाठः ।

२०२ व्युत्पत्तिवादः [ कारके व्यापाररूपधात्वर्थविशेष्यतया आश्रयत्वविशेषणतया चान्वेति । तदेकदेशे संयोग एव ग्रामादिवृत्तित्वान्वयः। चैत्रीयकृतिजन्यव्या- पारजन्यग्रामवृत्तिसंयोगानुकूलक्रियाश्रयवानजादि रित्याकारको बोधः । ज्ञानानुकूलशब्दश्च द्रव्यं निरूपयतीत्यादौ धातोरर्थः । तादृशविशिष्टकार्थस्य एकदेशे ज्ञानांशे आधेयत्वान्वयबोधे च न द्वितीयायाः साकाङ्क्षता स्वीक्रियते अपितु विषयतया अन्वयबोध एवेति शिष्यं द्रव्यं निरूपयतीत्या दिन प्रयोगः । यत्तु धात्वर्थो ज्ञानमेव तदनुकूलव्यापारश्च णिजथं इति-तद्- सत् । धातोश्चुराद्यन्तर्गततया स्वार्थ एव णिचो विधानात् । अन्यथा निरूपयतीत्यस्य ज्ञापयतीत्यादिसमशीलतया शिष्यं ज्ञापयतीत्यादिवच्छिष्यं निरूपयतीति प्रयोगस्य दुर्वारत्वात्। अजां प्रामं यापयति शिष्यं शास्त्रं ज्ञापयति ब्राह्मणमन्नं भोजयति यजमानं मन्त्रं पाठयति घटंजनयति नाशयतीत्यादौ णि चप्रत्यय- प्रकृतिभूतधात्वर्थक वाचकाजादिपदोत्तर द्वितीयायाः मुख्यभाक्त- साधारण कर्तृत्वमेवार्थः । गतिबुद्धीत्यादिसूत्रण कर्तुः कर्मसंज्ञा- विधानात् । गतिज्ञानोत्पत्त्यादिनिरूपितं कर्तृत्वं चाश्रयत्वमेव गलाधःसंयोगानुकूल क्रियानुकूलव्यापाररूपभोजनं कण्ठताल्वाद्य- भिघातरूपपाठनिरूपितं च तदनुकूलकृतिमत्त्वं नाशनिरूपितं च प्रतियोगित्वम् । तस्य च निरूपकतासम्बन्धेन धात्वर्थेऽन्वयः । नव्यमते' च यत्राश्रयत्वं कतृत्वंतत्राधेयत्वं द्वितीयार्थः। यत्रानु- 'नन्वजां ग्रामं यापयतीत्यादौ नरूपकत्वसम्बन्धावच्छिन्नप्रतियोगि- ताकाजादिवृत्तितादृशकर्तृत्वाभाववान् यो ग्रामनिष्ठसंयोगानुकूलो व्यापा- रस्तदनुकूलव्यापारवान देवदत्त इत्येवं क्रमेणैव बोधो वक्तव्यः । स च न सम्भवति निरूपकत्वस्य वृत्त्यनियामकतया तदवच्छिन्न प्रतियोगिताका- भावस्य वक्तुमशक्यत्वादित्यरुचेराह-नव्यमते इति ।

द्वितीया ] जयाऽलङ्क्तः २०३ कूलकृतिमत्त्वं तत्र कृतिजन्यत्वं यत्र प्रतियोगित्वं तत्रानुयोगित्वं तेषां चाश्रयतासंबन्धेनैव धात्वर्थेऽन्वयः । गत्यर्थादिभ्योऽन्यत्र च णिचप्रत्ययप्रकृतिधात्वर्थकर्तृवाचकपदात् न द्वितीया. तादृशकर्तुः कर्मतातिदेशाविषयत्वात् । तेन पाचयत्योदनं सहायेनेत्यादय एव प्रयोगाः न तु पाचयत्योदनं सहायमित्यादयः । के चित्तु पाकादिकतः पाकादिकर्मत्वविर हेऽपि ण्यन्तसमुदा- यस्यापि धातुत्वेन तत्कर्मतया सहायादेः पाचयत्योदनं सहायमित्या- दयः प्रयोगा अपि साधवः। अत एवा जिग्रहत्तं जनको धनुस्तदि- त्यादयो भट्टिप्रयोगाः। गतिबुद्धीत्यादिसूत्रं च नियमपरतयागत्यर्थ- धातुयोगे कर्त प्रत्ययासाधुत्वज्ञापकम् तेन पाचयत्योदनं सहायेने- त्यादिवत् अजया प्रामं यापयतीत्यादयो न प्रयोग इत्याहुः । एषामयमाशयः। हेतुमति चेत्यनुशासनात् णिजों हेतुक त्वम् । तच्च स्वतन्त्रक प्रेरणा अन्यनिष्ठक त्वनिर्वाहकव्यापाररूपा। कतत्वं कचित्प्रयत्नः क्वचिदाश्रयत्वादिकं, यादृशधातूत्तराख्यातेन यादृशकर्तृत्वं बोध्यते तदुत्तर णिचप्रत्ययेन तादृशकर्तृत्वनिर्वाहक- व्यापारो बोध्यते । अत एव पाचयतीत्यादौ पाकादिकृति निर्वाहकः, ज्ञापयतीत्यादौ ज्ञानाश्रयत्व निर्वाहकः, नाशयतीत्यादी नाशप्रति- योगित्व निर्वाहको व्यापारः प्रतीयते। निर्वाहकत्वं च स्वरूपसंब. न्धविशेषः । न तु जनकत्वम् । अतो न नाशयतीत्यादावुपपत्तिः। एवं च ण्यन्तधातुप्रतिपाद्यतावच्छेदकं फलं कर्तृत्वमेव निर्वाह्यस्यैव फलत्वात् । तदाश्रयतया स्वतन्त्रस्य कर्तुः कर्मता, तादृशफलविशे- षणतया स्वतन्त्रक वृत्तित्वविवक्षायां पाचयत्योदनं सहायमित्या- दयः प्रयोगाः। यदा तु पाकादिविशेषणतया सहायादिकतृत्वं विवक्षितं तदा पाच यत्योदनं सहायेनेत्यादयः । अथ यत्र चैत्रमैत्रीभयकर्तृक एक एव पाकस्तत्र चैत्रमात्र प्रयो- जयति यज्ञदत्तो मैत्रेणान्न पाचयतीति प्रयोगापत्तिरिति । तत्रापि -- ।

२०४ [ कारके व्युत्पत्तिवादः एयर्थकृतावेव तृतीयान्तार्थमैत्रादिवृत्तित्वस्यान्वयो वाच्यः। एवं च मैत्रं पाचयतीत्यादिवाक्यजन्यबोधावैलक्षण्याद् द्वितीयातृतीययो- स्तात्पर्यभेदेन व्यवस्थाया न संगतिरिति चेत्-न । अगत्या तत्र पाकादि विशेषणकृतेः पारतन्त्र्येण व्यापार विशेषणीभूतणिजथंकू- तावभेदान्वयमुपगम्योक्तातिप्रसङ्गस्य वारणीयत्वात् । पदार्थैकदेशे कृतौ पाकादेरिव कृतेरप्यन्वयो व्युत्पत्तिवैचित्र्यात् । वस्तुतः कर्तृत्वं व्यापारश्च पृथगेव णिजर्थः। विशिष्टलाभोऽन्वयबलात्। केचित्तु अनुकूलव्यापार एव णिजर्थः तदन्वयिनी गमनभाजन- क्रियैव धात्वर्थतावच्छेदकं फलं तत्संबन्धिनस्तादृशक्रियाकर्तुर्यन्त कर्मता | तादृशक्रियासंबन्धश्चाश्रयत्वकृतिमत्त्वान्यतरो ग्राह्यः। अतो गमनादिसंबन्धिकालादो नातिप्रसङ्ग इत्याहुः । अत्र च ताशकर्मतावाचकपदात् कदा चिद् द्वितीया कदाचि- तृतीया इत्यत्र नियामकाभावः । तादृशपदोत्तरयोस्तयोस्तुल्यार्थ- कतया विवक्षाभेदरूपनियामकाभावादिति तु चिन्तनीयम् । अजा ग्रामं याप्यते चैत्रेणेत्यादौ चैत्रकर्तृ कव्यापारनिर्वाह्य यद्ग्रामवृत्ति- संयोगानुकूल क्रियाकत त्वं तदाश्रयोऽजा इति बोधः । तत्र संयोगा- वच्छिन्नक्रिया धातुलभ्या, संयोगे ग्राममित्यादि द्वितीयान्तार्थप्रामा- दिवृत्तित्वान्यबलात् प्रामादिवृत्तिसंयोगावच्छिन्न क्रिया लभ्यते ताश्या णिजयंकत त्वेऽन्वयः। कर्माख्यातादिसम भिव्याहार- नियन्त्रितव्युत्पत्तिबलाच तादृशक्रियान्वितकर्तुत्वं तृतीयान्तार्थ- चैत्रादिक त्वविशेषितव्यापाररूपापरणिजथै निर्वाह्यत्वसंबन्धेन विशेषितम्। अजादिरूपकर्मीभूतक विशेषणोभवदाख्याताश्रयत्वे विशेषणतया भासते। तु गतिबुद्धीत्यादिसूत्रस्य संज्ञाविधायकत्वं वर्णयन्ति तेषामयमाशयः । व्यापार एव णिजथः। तत्र धात्वर्थक्रियायाः ये । द्वितीया ] जयाऽलङ्कृतः स्वकर्तृत्वनिर्वाहकत्वं संसर्गः। अतो न कर्तुः कर्मत्वं सूत्रान्तरप्राप्तम्। याप्यते ग्राममजा इत्यादौ स्वनिर्वाह्यकत तानिरूपकत्वसंबन्धेन अजादौ विशेषणतया भासते। तादृशव्यापारे तृतीयान्तार्थस्य चैत्रादिकर्तृत्वस्य धात्वर्थंकदेशे संयोगादिफले च द्वितीयान्तार्थस्य प्रामवृत्तित्वस्य विशेषणतया भानंण्यन्तोत्तराख्यातस्यापि कर्तृत्व- मेवाः । तत्र च तस्य वृत्तिः क्लुप्तव । तच्च उक्तस्य धात्वर्थस्य विशेष्यतया प्रथमान्तपदार्थस्य च विशेषणतया भासते । न च यक्समभिव्याहृताख्यातोपस्थाप्यकत्र्तृत्वस्यान्वयबाधोपगमे गम्यते चैत्र इत्यतोऽपि गमनकर्ता चैत्र इत्यन्वयबोधः स्यादिति वाच्यम् । एयन्तोत्तरयक्समभिव्याहृताख्यातस्यैव कत्तु त्वान्वयबोधनियाम- कत्वात् । अथैवमजा याप्यते इत्यादौ कतृत्वस्याख्यातबोध्यत्वे कर्तरि शबित्यपवादविषयतया यकोऽसाधुताएत्तिः । न च यादृश- धातूत्तरं यत्सार्वधातुकं विहितं तादृशधात्वर्थनिरूपितकर्तृत्वस्य तेन विवक्षायामेव कर्तरि शबित्यादेःशबादि विधायकत्वात्, प्रकृते एयन्तसमुदायस्य उत्तरमेवाख्यातं तेन तदर्थनिरूपितकर्तृत्वं चन बोध्यते, अपि तु ण्यर्थविशेषितधात्वान्वितकत्तु त्वमेवेतिन ताह- शापवादविषयतेति वाच्यम् । कर्माख्यातस्थले विशेष्यविशेषणमा- ववैपरीत्येन व्यापार विशेषितक्रियाया अपि ण्यन्तधात्वर्थत्वात् । मैवम् । लकारसामान्यवृत्त्या यत्र कर्तत्वं प्रतीयते तत्रैव कर्तरि शबित्यस्य विधायकता। अत्र कर्मत्वसमशीले कर्तृत्वे आत्मनेपद- -- १ अतो न यत्तु: कर्मत्वं सूत्रान्तरप्राप्त मिति । जन्यत्वेन प्रतीयमान- रूपफलाश्रयत्वाभावादित्यर्थः । २लकारसामान्यवृत्त्येति । लत्वावच्छिन्नशक्ततानिरूपितशक्यताश्रय- तया यत्र कर्तृत्वं प्रतीयते इत्यर्थः ।

२०६ [ कारकै व्युत्पत्तिवादः त्वेन शक्तिः। वस्तुतः फलव्यापारयोः पृथधात्वर्थतामते गच्छ. तीत्यादाविवगम्यते इत्यादावपि लकारेणाश्रयत्वरूपक त्वाभिधाने यग अनुपपन्न इति,परस्मैपद समभिव्याहृतधातुना यादृशविशिष्टो. ऽर्थः प्रत्याय्यते, तादृशविशिष्टार्थान्वितकर्तृत्वाभिधानमेव शब्वि- षयः । एवं च प्रकृतेऽपि नानुपपत्तिरिति ध्येयम् । ग्रामो याप्य- ते, अर्थो बोध्यते, इत्यादौ भावना विशेष्यतया ग्रामादेर्भानेऽपि गमनादिकत्तु: कर्मत्वविवक्षायां तस्यैवाख्यातार्थविशेष्यतया बोधोऽव्युत्पन्नः। 'एयन्ते कर्तुश्च कर्मण' इत्यनुशासनादतोऽजां ग्रामो याप्यते शिष्यमर्थो दोध्यते इत्यादयो न प्रयोगाः। ग्रामो याप्यते, अर्थो बोध्यते इत्यादौ फलं विषयित्वादिरूपं च मुख्यभा- क्तसाधारणं कर्मत्वमेवाख्यातार्थः । फलव्यापारयोः पृथधा- स्वर्थतामते आश्रयत्वमेवाख्यातार्थः। धात्वर्थव्यापारविशेष्यतया तादृशाश्रयत्वविशेषणतया च धात्वर्थफलस्य भानेऽपि, एयर्थ- व्यापारस्य जन्यतासम्बन्धेनैव धात्वर्थक्रियाज्ञानादि विशेषणत्वं पूर्ववदेव । अजां ग्रामो याप्यते इत्यादिकस्तु न प्रयोगः, द्विती- यया कर्मत्वबोधने धात्वर्थव्यापार विशेष्यतया एयर्थबोधसाम- ग्न्याः प्रयोजकत्वात् । यगादिसमभिव्याहृतस्थले च धात्वर्थ- । १परस्मैपदेति । ननु यादशधातोनित्यात्मनेपदविधानात्परस्मैपदसमभि- व्याहारोऽप्रसिद्धिस्तत्र का गतिरिति चेत्तर्हि यानुकूल्यत्वेनाप्रतोयमानधात्व- र्थनिरूपितकतृत्वविवक्षैव शनिमित्तमिति ध्येयम् । २भावनेति । भावनाप्रत्ययार्थमात्रम् । ३शिष्यमर्थो बोध्यत इति । वस्तुतोऽयमसाधुरेव बुद्धिभक्षार्थयोः शब्द- कर्मकाणानिजेच्छयेत्युक्तेः ।

२०७ । द्वितीया] जयाऽलङ्कृतः विशेषणतयेव एयर्थस्य बोधात् , 'एयन्तधातो: सकर्मकत्वे त- दुत्तरभावाख्यातस्य भावे चाकमेकेभ्य' इत्यनुशासनेनासाधुत्वाच्च नताशप्रयोगः। ग्राम याप्यते इति भावाख्याते प्रयोगस्त्विष्ट एव । ण्यन्तकर्मासमभिव्याहारादेकदा कतृत्वकर्मत्ववोधकताया आख्या. तस्याव्युत्पन्नतया अजाग्रामो याप्यते इत्यादयोन प्रयोगाः। एवं तण्डुलः सहायेन पाच्यते चैत्रेणेत्यादौ धात्वर्थे सहायादिकर्तृत्वस्य तद्विशेषणण्यर्थव्यापारे च चैत्रादिकत्वस्य तृतीयान्तार्थस्य बोधः । शेष पूर्ववदिति दिक् । ग्रामंगच्छतीतिवत्स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्व- मपि द्वितीयार्थ इष्यते । तस्य च धात्वर्थेऽन्वयः। परत्वे चैकदेशेऽपि आकाङ्क्षावैचित्र्यात् । प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः । एवं च ग्रामं गच्छति चैत्र इत्यादौ ग्रामभिन्नसमवेता ग्रामनिष्ठसंयोगजनिका या क्रिया तदाश्रयतावांश्चैत्र इत्यन्वयबोधः । स्वनिष्ठसंयोगजनक- क्रियायां स्वभिन्नसमवेतत्वस्य बाधास्वमात्मानं गच्छतीति न प्रयोगः । यत्र चोभयकर्मभ्यां मल्लयोः संयोगस्तत्र मल्लान्तरसमवे- तक्रियायाःस्वनिष्टसंयोगजनिकायाः स्वभिन्नसमवेतत्वेऽपि ताश- क्रियाश्रयतायाः स्वस्मिन् बाधात् मल्लः स्वं गच्छतीति न प्रयोगः । न च स्वनिष्ठसंयोगजनकस्वसमवेतक्रियायां स्वभिन्नसमवेतत्वस्या-, एयन्तधातोरिति । नन्वभावाख्यातस्थले एयर्थस्य धात्वर्थविशेष्यतया भानसम्भवात्तत्रैवास्तु अजां ग्रामो याप्यत इत्यत अाह-एयन्तधा- तोरित्यादिना । २स्वमिनसमवेतत्वस्येति । स्वनिष्ठसंयोगजनकत्वे परसमवेतत्वे च खण्डशो द्वितीयायाः शक्तिः। तत्र च यत्किञ्चिदंशपरित्यागेऽपि बोधस्यानु- भविकत्वादिति भावः ।

२०८ व्युत्पत्तिवादः [ कारके योग्यतया तदभानेप्यबाधितं स्वनिष्टसंयोगजनकत्वं विषयीकृत्य शाब्दबोधसम्भवात् । तदर्थमात्रतात्पर्येण स्वं गच्छतीति प्रयोगो दुर्वार एवेति वाच्यम्। परसमवेतत्वाविषयकस्य द्वितीयाधीनफलज- नकत्वबोधस्य कुत्राप्यनभ्युपगमेन तादृशबोधे तद्भासकसामग्या अप्यपेक्षणीयत्वात् । अथ स्वस्यापि द्वित्वावच्छिन्नस्वभेदवत्त्वात् स्वंगच्छतीति प्रयोगस्य दुर्वारतया द्वितीयाप्रकृत्यर्थस्य प्रकृत्यर्थता- वच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैव भेदेऽन्वयो बोध्यः। तथा च चैत्रो द्रव्यं गच्छति, मल्लो मल्ल गच्छतीत्यादिवाक्यस्या- प्रमाणतापत्तिः। चैत्रमल्लादिनिष्ठक्रियायां प्रकृत्यर्थतावच्छेदकी- भूतद्रव्यत्वमल्लत्वाद्यवच्छिन्नभिन्नासमवेतत्वात्। तत्तद्व्यक्तित्वा- नुपस्थितावपि शाब्दबोधोदयेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगि- तासम्बन्धेनान्वयोपगमासम्भवात् । उक्तयुत्तया सम्बन्धघटको- पस्थितेरपि शाब्दबोधेऽपेक्षितत्वात् । एकधर्मावच्छिन्नप्रतियोगि- ताया अन्यधर्मावच्छिन्न संसर्गत्वे मानाभावाच प्रतियोगिविशेषि- ताभावबुद्धेर्विशिष्टवैशिष्ट्यावगाहित्वनियमात् अन्वयितानवच्छेद- कावच्छिन्नप्रतियोगितायाःसम्बन्धत्वासम्भवाचेति चेत्तर्हि क्रिया- न्वयिभेदप्रतियोगितावच्छेदकत्वमेव द्वितीयार्थोऽस्तु । भेदे प्रक- त्यथेस्याधेयतासम्बन्धेनान्वय इति न का चिदनुपपत्तिः । न चैवमपि विहगो भूमि प्रयातीतिवद्विहगो विहगं गच्छतीति प्रयोगो दुर्वारः। विहगनिष्ठभूमिसंयोगजनकतरिक्रयाया विहगान्तरनिष्ठभेदप्रति- योगितावच्छेदकतया विहगनिष्ठभेदप्रतियोगितावच्छेदकविहग- वृत्तिसंयोगजनक क्रियाश्रयत्वस्याबाधितत्वादिति वाच्यम्। विहगो १अन्यधमावच्छिन्नति । तथा च तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया मल्लत्वाद्यवच्छिन्नप्रतियोगिकसंसर्गत्वन्न सम्भवतीति भावः ।

२०६ द्वितोया] जयाऽलङ्कृतः विहगं गच्छतीत्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायो जनकत्वस्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वोभयस- म्बन्धेनान्वयोपगमात्, विहगनिष्ठक्रियायास्तद्विहगनिष्ठसंयोगजन- कत्वेन तज्जनकतासम्बन्धेन तत्संयोगवत्वेऽपि विहगवृत्तित्व विशि- ष्टतत्संयोगाश्रयतद्विगनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावानो- क्तोभयसम्बन्धेन विशिष्टसंयोगवत्त्वमित्यनतिप्रसङ्गात् । एवं सति परसमवेतत्वं सम्बन्धवटकमेव न तु द्वितीयार्थ इति चेत्-का क्षतिः । विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावच्छिन्नभेदसामा- नाधिकरण्योभयसंबन्धेन क्रियायाः संयोगेऽन्वया इध्यते तत्तत्- क्रियावच्छिन्नभेदवति भूम्यादावेव तादृशभेदसामानाधिकरण्य- सम्बन्धेन तत्तक्रिया विशिष्टसंयोगादिमत्त्वोपगमात्, तत्र तरिक्रया-. श्रयविहगे तद्बाधेन नातिप्रसङ्ग इति ध्येयम् । ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृत द्वितीया-- याः प्राचीनमते निरूपकतासंबन्धेन धात्वर्थान्वयि विषयत्वमर्थः । तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । वृत्त्य नियामकसंबन्धस्या- भावप्रतियोगितानवच्छेदकतया घटं जानाति पटं नेत्यादावनुप- पत्तेस्तत्र विषयित्वार्थकत्वमेव नवीना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन तम्य च धात्वर्थ आश्रयतासंबन्धे. नान्वयः । घटादि निष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । विषयित्वादौ च द्वितीयाया लक्षणैव न तु शक्तिरिति सांप्रदायिकाः । वस्तुतस्तु विषयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्य- पेक्षयाचागुरुतया किंधर्मावच्छिन्ने शक्तिः कल्प्यते इत्यत्र विनिगमकं दुलभम् । एकस्मिन् प्रयोगे भूयस्त्वमप्यशक्यनिर्णयमिति तत्रापि शक्तिः सिद्धयतीत्यवधेयम् । चैत्रण ज्ञायते घट इत्यादौ कर्माख्या- तस्थले आख्यातेन घटादौ धात्वर्थनिरूपितविषयत्वं बोध्यते। चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिसमभिव्याहृतद्वितीयाया लौकि- १४ [ कारके २१० व्युत्पत्तिवादः कविषयित्वं, तादृशकर्माख्यातस्य लौकिक विषयत्वमर्थः । उपनीत- -सौरभादिविषयकसुरभिचन्दनमित्याकारकचाक्षषादिदशायां सौरभ पश्यतीति, सौरभं दृश्यते इत्याद्यप्रयोगात्। अथैव पुष्पं जिघ्रतीत्या- दिप्रयोगानुपपत्तिः ।घ्राणजप्रत्यक्षस्य पुष्पाद्यंशे लौकिकत्वविरहात्। तादृशधातुयोगे विषयित्वादिसामान्यस्य कर्मप्रत्ययार्थत्वे गन्धसा- क्षात्कारे उपनयमर्यादयाकाशादिभाने आकाशं जिघ्रतीति प्रयोग- प्रसंगेन तत्रापि लौकिकविषयिताया एव कर्मप्रत्ययार्थतयोपगन्त- व्यत्वादिति चेत्-न।घ्राधातोहिं गन्धलौकिक' प्रत्यक्षत्वं शक्यताव- च्छेदकं, नागन्धोपादाने इत्यनुशासनात् । तत्समभिव्याहृतद्विती- यायाश्चाधेयत्वमेवार्थस्तस्य च व्युत्पत्तिवैचित्र्येण गन्धादिरूपधा- स्वथैकदेशेनान्वयः। एवं च पुष्पं जिघ्रतीत्यादितः पुष्पवृत्तिगन्धलौ- किकप्रत्यक्षाश्रयतावानित्याकारक एव शाब्दबोधोन तु पुष्पनिरू- पितलौकिकविषयिताशालिप्रत्यक्षाश्रय इत्याकारक इति नानुप- पत्तिः । न चैव सविषयार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमभङ्गप्रसङ्ग इति वाच्यम् विषयानवच्छिन्न- तादृशवस्त्वभिधायकधातुसमभिव्याहृतकर्मप्रत्ययस्यैव तदर्थकत्व- नियमात् । अस्य च गन्धात्मकविषयावच्छिन्नप्रत्यक्षवाचकतया तादृशनियमस्याबाधितत्वात्। न च घ्राधातुसमभिव्याहृतद्वितीयाया गन्धान्विताधेयत्वार्थकत्वे आमोदमुपजिघ्रतीत्यादेरनुपपत्तिः । गन्धविशेषरूपामोदपदार्थाधेयत्वस्य गन्धे बाधादिति वाच्यम् । विषयावच्छिन्नप्रत्यक्षार्थकघ्राधातुसमभिव्याहृतद्वितीयाया आधेयतार्थकत्व नियमात् । तत्र विषयानवच्छिन्नस्यैव प्रत्यक्षविशे- षस्य लक्षणया धात्वर्थतोपगमेन विषयिताया एव तदर्थत्वात् । । एव । १गन्धलौकिकेति। गन्धनिरूपितलौकिकविषयितावत्प्रत्यक्षत्वमित्यर्थः । २त्रा गन्धोपादान इति । अन्यथा 'घ्रा घ्राणे' इत्येव वदेदिति ।

द्वितीया ] जयाऽलङ्कृतः २११ वस्तुतस्तु पुष्पं जिघ्रतीत्यादावाधेयत्वीयसांसर्गिकविषयिता'. निरूपितप्रकारितैव द्वितीयार्थस्तस्याच गन्धनिरूपितलौकिकवि- षयिताशालिप्रत्यक्षात्मकधात्वर्थंकदेशे विषयितायां निरूपितत्व- संबन्धेनान्वयः। तेन इदानीन्तनपुष्पे गन्ध इत्यादिप्रत्ययस्याधेय- तासंसर्गेण कालादिप्रकारकत्वेऽपि ताशप्रत्यक्षदशायां न कालं जिवतीत्यादिप्रयोगः । तादृशज्ञानीयगन्धादि विषयितायां कालादि- प्रकारितानिरूपितत्वविरहात् । अत एव "तदाननं मृत्सुरभि क्षिती- श्वरो रहः समानाय न तृप्तिमाययौ २ । “आघ्रातवान् गन्धवह सुगन्धमि"त्यादौ च उपाधिनिष्ठ गन्धग्रहतात्पर्येणैव जिवतेः प्रयो- गात् । तादृशगन्धे च आननगन्धवहादिवृत्तित्वस्य बाधेऽपि न क्षतिः । तादृशगन्धस्याननाद्यवृत्तित्वेऽपि अानने गन्ध इत्याकारक- बोधोयगन्धविषयिताया आननादिप्रकारितानिरूपितत्वेन वाक्या- वाधात् । वाय्वानीतचम्पकगन्धस्य यत्र वाय्वादिवृत्तित्वेनैव ग्रहः तत्र चम्पकं जिघ्रतीत्यादिप्रयोगो नेष्यत एव । यत्तु आधेयता- मात्र द्वितीयार्थः न तु समवायावच्छिन्नत्वविशेषितमाधेयत्वं तथा च मुखादिसंसृष्टमृत्तिकादिगन्धे परंपरासंबन्धेन मुखादिवृत्ति- त्वस्य सत्त्वान्न तादृशस्थलेऽनुपपत्तिरिति-तदसत् । तथा सति कालं जिघ्रतीति प्रयोगस्य दुर्वारत्वात् । पुष्पमाघ्रायते इत्यादौ च निरुक्तप्रकारत्वमाख्यातार्थः। आश्रयतासंबन्धेन पुष्पाद्यन्विते तस्मिन् धात्वर्थप्रत्यक्षस्य निरूपितत्वसंबन्धेन तद्विशेषणतापन्न- । १ विषयितेति । याहशप्रकारताविशेष्यतयोनिरूप्यनिरूपकमावस्तनिरू- पितविशेष्यिताप्रकारितयोरपीति भावः । २तदाननं सेवितमृत्तिकालवं नृपः समाघ्राय न तृप्तिमाययावित्य- स्मपितृचरण हस्तलिखितपुस्तकधृतः पाठोऽत्र दृश्यते ।

-- २१२ व्युत्पत्तिवादः [कारके गन्धविषयतायाश्च ताशसंबन्धेनान्वयः । एकर्मिविशेषणतयो- पस्थितस्य स्वातन्त्र्येणान्यविशेषणतयान्वयबुद्धेरेवाव्युत्पन्नत्वात् । अत्र च प्रत्यक्षपारतन्त्र्येणैव गन्धविषयिताया आख्यातार्थेऽन्वयेन व्युत्पत्तिविरोधविरहात् । अस्तु वा गन्धः लौकिकविषयिता- प्रत्यत्तं च विशकलितमेव धातोरर्थः । काख्यातादिसमभिव्याहारे गन्धविषयितायाः प्रत्यक्षविशेषणतया कर्माख्यातसमभिव्याहा- रस्थले च प्रत्यक्ष विशेष्यतयेति न कश्चिद्दोषः । जिव्रत्यर्थगन्ध- विषयितानिरूपितनिरुक्तप्रकारितानिरूपकत्वमेवर पुष्पादिनिष्ठं जिव्रतिकर्मत्वमिति दिक् । अथ दृश्यादिसमभिव्याहृतद्वितीयाया लौकिकविषयितार्थकत्वे सौरमं न पश्यतीत्यादौ सौरभादिनिरूपितलौकिकविर्षायताशालि- चाक्षुषाद्यप्रसिद्ध या आकाशं न पश्यतीत्यादौ चाकाशादिनिरूपित- लौकिकविषयिताया एवाप्रसिद्धथा तादृशविषयिताशालिचाक्षषा- श्रयत्वाद्यभावरूपवाक्यार्थाप्रसिद्धिः । न च सौरभ न पश्यतीत्यादी सौरभादिनिरूपितलौकिकविषयित्वाभावः चाक्षुषादौ प्रतीयत इति वाच्यम् । एवमप्याकाशं न पश्यतीत्यादावप्रतीकारात् । न च लौकिकविषयितायां निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकाका- शाभावः प्रतीयत इति वाच्यम् । वृत्त्यनियामकसंबन्धस्य संसर्गा- भावप्रतियोगितानवच्छेदकतया ताशाभावप्रसिद्धः। एतेन निरूप- कतासंबन्धेन चाक्षुषादिनिष्ठलौकिकविषयिताया अभावस्त त्राका- शादौ प्रतीयत इत्यपि निरस्तम् । अन्वयबोधस्य प्रथमान्तार्थमुख्य- १ अन्वय इति । अन्यथा गन्धविषयिताशालिप्रत्यक्षनिरूपितप्रकारतायाः कालादावपि सम्भवेन काल आनायत इत्यस्यापि प्रामाण्यापत्तिरिति भावः । २निरुक्तप्रकारितानिरूपकत्वमेवेति । प्रकारताश्रयत्वमित्यर्थः ।

द्वितीया 1 जयाऽलङ्कृतः विशेष्यकतायाः सर्वानुभवसिद्धाया भङ्गप्रसङ्गाच्च चाक्षुषादिनिष्ठ- लौकिकविषयितात्वावच्छिन्नस्य पदाद्वाक्याच्चानुपस्थितत्वात्तदभाव- स्याकाशादौ भानासम्भवाच्च । भावान्वयबोधे च लौकिकविषयिता- प्रकारेण चाक्षुषादेर्भानात् । अभावान्वयबोधे चाक्षुषप्रकारेण तस्या भानमयुक्तम्। अस्तु वा वृत्त्यनियामकोऽपि संबन्धोऽभावप्रतियोगि- तावच्छेदकस्य तथापि निरूपितत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विषयिताविशेषनिष्ठाकाशाद्यभावस्य भानोपगमो न संभवति । तथा सति आकाशं पश्यति चैत्र इत्याकारकवाक्यजन्यबोधद- शायां आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधप्रसङ्गात्। श्राकाशं पश्यति मैत्र इत्यादिभ्रमदशायां आकाशं न पश्यति चैत्र इत्यादिवाक्याच्छाब्दबोधस्य दुरपन्हवतया लौकिकविषयिता- त्वासामानाधिकरण्येनैव ताशाभावबोधकं तद्वाक्यमुपगन्तव्यम्। ताशबोधश्च लौकिकविषयितात्वसामानाधिकरण्यमात्र णाकाशा- दिनिरूपितत्वाभावावगाहिदर्शितयोग्यताज्ञानाप्रतिबध्य एव । न च चैत्रीयचाक्षुषादिवृत्तिलौकिकविषयितात्वावच्छेदेनैव ताशाभावो दर्शितवाक्येन प्रत्याय्यते इति चैत्रीयचाक्षुषादिनिष्ठलौकिकविषयि- तायां आकाशीयत्वाद्यवगाही चैत्र श्राकाशं पश्यतीति वाक्यजन्य- बोध:प्रतिबध्नात्येव तादृश वाक्यजन्यधियमिति वाच्यम् । तादृश- विषयितात्वेन विषयिताया अनुपस्थितेस्तदवच्छेदेनाभावप्रत्याय- नासंभवात् चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधे चैत्रांशे दर्शनाश्रयत्वं विशेषणं दर्शनांशे लौकिकवियिताविशेषणमितिरी- त्यैव पदार्थानां भानात् चैत्रोयचाक्षुषादिनिष्ठलौकिकविषयितात्व 'तादृशेति । चैत्रीयचाक्षुषादिवृत्तिलौकिकविषयितायामाकाशोयत्वाभा- वावगाहिशानमित्यर्थः।

२१४ व्युत्पत्तिवादः [ कारके नाकाशादिधर्मितावच्छेदकं किन्तु शुद्धलौकिकविषयितात्वमेवेति । तस्य' शुद्धलौकिकविषयितात्वावच्छेदेनाकाशाद्यभावावगाहि ज्ञानं प्रत्येव प्रतिबन्धकतया निरुक्तधर्मावच्छेदेनाकाशाद्यभावावगाहि- ज्ञानस्य तदप्रतिबध्यत्वाच्च । एतेन तत्राकाशादिपदस्याकाशा- दिनिरूपितत्वार्थकतां द्वितीयायाः खण्डशो निरूपितत्वलौकिकवि- षयितात्वोभयार्थकतां वा स्वीकृत्य लौकिकविषयितायां आश्रय- तासंबन्धावच्छिन्नप्रतियोगिताकतदभावबोधोपगमेनापि न नि- स्तारः२ । घट आकाशं न पश्यतीत्यादौ नितरामेवागतिः । यत्तु नबर्थस्य द्वधा भानोपगमेन आकाशाद्यनिरूपितलौकिक विष- यिताशालिचाक्षुषाश्रयत्वाभाववान् घट इत्याकारकस्तत्रान्वय बोध इति । तदपि न । तथा सति चैत्रो घटं न पश्यति मैत्र आकाशं न पश्यतीत्यादिवाक्यजन्यशाब्दबोधादविलक्षणबोधस्य सर्वानुभव. सिद्धस्य तादृशवाक्याइनुपपत्तेः । न हि तत्रापि तादृश एव शाब्द- बोधः । तथा सति चेत्रो यदा घटादिकं न पश्यत्यापितु पटादिकमेव तदा घटाद्यनिरूपिततल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभावस्य तत्र बाधात् चैत्रो घटं न पश्यतीति प्रयोगानुपपत्तेः । यदा च भाव- मात्रं पश्यति तदा भावानिरूपितलौकिकविषयिताशालिचाक्षुषाश्रय- त्वाभावसत्त्वात् भावं न पश्यति चैत्र इत्यादिप्रयोगापत्तेः । एवमा- काशं न पश्यति घट इत्यादौ आकाशाद्यनिरूपितलौकिकविषयि- ताशालिचाक्षुषाश्रयत्वाभावस्य वाक्यार्थत्वे यदाऽऽकाशाद्यतिरिक्तप- तस्येति । आकाशं पश्यतीतिवाक्यजन्यबोधस्येत्यर्थः । २न निस्तार इति । अत्र कल्पेऽप्याश्रयत्वसम्बन्धावच्छिन्न प्रतियोगि- तकाभावो विषयितायां विषयित्वावच्छेदेन तत्सामानाधिकरण्येन वा बुबो- धयिषितः बोधनन्तु केनापि रूपेणाशक्यं प्रदर्शितप्रतिबन्धप्रतिबध्यभावानुप- पत्तिरूपदोषग्रस्तत्वादिति भावः ।

२१५ द्वितीया ] जयाऽलङकृतः दार्थविषयकचाक्षुषाश्रयताभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितला- किकविषयिताशालि चाक्षुषाश्रयत्वनिश्चयरूपप्रतिबंधकसत्त्वेन ताह- शवाक्यजन्यशाब्दबोधानुपपत्तिः । यथा चैत्रो घटं पश्यतीत्यादिनि- श्वयदशायां पटं न पश्यति चैत्र इत्यादिवाक्यजन्यशाब्दबो धोत्पा- दोऽनुभवसिद्धः तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्या दिवाक्यजन्यबोधोत्पादोऽपीति न तत्रष्टापत्तिः संभवति । यच्चालौ- किकविषयिताशून्य चाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्वघटादि- वृत्तित्वोभयाभाव एव आकाशं न पश्यतीतिवाक्या प्रतीयते उप- नीताकाशादिविषयकचाक्षुषे आकाशादिविषयकत्वचैत्रादिवृत्तित्वो भयसत्त्वेन चैत्र आकाशं न पश्यतीत्यादिप्रयोगानुपपत्तेः। घटादौ तादृशचाक्षुषाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यतीतिवा- क्याच्छाब्दबोधानुपपत्तिश्चेत्यलौकिकविषयिताशून्यत्वेन चाक्षुषा- दिकं विशेषितम् आकाशादिविषयकचाक्ष षाअपनीतभानस्यापीत- रांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यम् । अतो लौकिक- विशेषणमुपेक्षितम्। अत्रालौकिकविषयिताशून्यचाक्षषत्वाद्यवच्छि- नस्य घटं न पश्यतीत्यादौ शत्तथा धात्वर्थ त्वासम्भवेऽपि प्रकृते तस्यैव लक्ष्यतया धात्वर्थत्वमुपेयते, विषयितासामान्यमेव तत्र द्वितीयाथः, निरूपकत्वमपि लक्षणया तदर्थः। आश्रयत्व द्वित्व- निरूपकत्व चाख्यातार्थः। आश्रयत्वे व्युत्पत्तिवैचित्र्यात्प्रथमा- न्तपदाथ घटादेस्तन्निरूपकत्वे विशेषणतयाऽन्वयः। ताशनिरूप- कत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वा- न्वयः। द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नबर्थाभावे तस्य चान्वयितावच्छेदकनिरुक्तधर्मावच्छेदेन धात्व- र्थेऽन्वयः । तादृशधात्वर्थश्च प्रकृते मुख्य विशेष्यतयैव भासते । अथ वा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्याप- कतासंबन्धेन धात्वर्थस्य तादृशोभयाभावेऽन्वयः । तस्य चाख्या- व्युत्पत्तिवादः [ कारके तार्थनिरूपकत्वे तस्य च प्रथमान्तपदार्थे घटादौ घटादेः प्रतियोगितावच्छेदकघटकतया ताशाभावनिरूपकत्वात् । एवं चान्वयबोधस्य प्रथमान्तपदार्थ मुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न सम्यक् । घटादिविषयकचाक्षुषादेः कालि- का दिसंवन्धेन घटादिवृत्तितया घटो घटं न पश्यतीति प्रयोगानुप- पत्तेः । आकाशादि विषयकत्वावच्छिन्ने चाक्षषे कालिकादिसंबन्धेन घटादिवृत्तित्व निश्चयदशायां घट आकाशं न पश्यतीतिवाक्याच्छा- ब्दबोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्वाकाशादिविषयकत्वो- भयाभावस्यैव स्वीकरणीयतया अभाव आकाशं न पश्यतीत्यादौ अभावसमवेतत्वाप्रसिद्धथा वाक्यार्थाप्रसिद्धरित्वात्। चैत्रादेर- तीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेषे चैत्रो घट न पश्यतीतिप्रयोगाद्वर्त्तमानताहशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभा- नस्य प्रतियोगिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभा- नस्य वा स्वीकरणीयतया यदा यत् किंचिदंशेऽलौकिकमेव घटादि- चाक्षुष तस्य वर्तते तदा चैत्रो घटं न पश्यतीत्यादिप्रयोगापत्तेदुर्वा- रत्वाच्च । वर्तमानालौकिकवियिताशून्यचाक्षषत्वाद्यवच्छेदेन चैत्र- वृत्तित्वघटविषयकत्वोभयाभावसत्त्वात्। समानेन्द्रियत-जन्य पन - 'प्रथमान्तार्थमुख्यविशेष्यत्वस्यापि नानुपपत्तिरिति हस्तलिखित- पुस्तकपाठः। २समानेन्द्रियेति । ननु घटविषयकचाक्षुषे किञ्चिदंशेऽलौकिकत्वेन यद्य- पि अलौकिकविषयिताशून्यत्वन्नास्ति परन्तु तत्रैव घटनिरूपितलौकिक- विषयिताशालित्वावच्छेदेनाजौकिकविषयिताशून्यत्वमस्त्येव । मूलावच्छेदेन कपिसंयोगसत्वेऽप्यग्रावच्छेदेन तदभाववदिति अलौकिकवि थताशून्यत्वा- वच्छेदेन चाक्षषे घरविषयकत्वचैत्रवृत्तित्वोभयसत्त्वेनोभयाभावस्य बाधान्ना- पत्तिरित्यत श्राह-समानेति ।

द्वितीया ] जयाऽलङ्कृतः भानादौ लौकिकप्रत्यक्षसामच्या विरोधित्वस्य निष्प्रामाणिकत'. याऽलौकिकवियितानियामकोपनायकज्ञानादिसमवहिततल्लौकि कसन्निकर्षात्, घटादिनिरूपितलौकिकालौकिकोभय विषयिताशा- लिवत्तमानचाक्षुषादेरप्युत्पत्त्या तादृशचाक्षुषादिदशायामुक्तप्रयो. गापत्तः । आकाशादिनिरूपितालौकिकविषयिताशालिवर्तमानचा- क्षुषाद्यंशे घटादिवृत्तित्वश्य आकाशीयत्वादिना लौकिकविषयिता- याश्च भ्रमदशायां घट आकाशं न पश्यतीत्यादिवाक्याच्छाब्दबो- धापत्तेर्दार त्वाचा घटादिनिरूपितालौकिक विषयिताशून्यचाक्षुष- स्वाद्यवच्छेदेन घटादि विषयित्वघटितोभयाभावभानोपगमेप्यनि- स्तारात् एतेनाख्यातार्थवर्तमानत्वाद्यवच्छिन्नसमयावच्छिन्नाश्रय- त्वाद्यवच्छिन्ने आकाशादिविषयकप्रतियोगिकत्वलौकिकान्यविष- यिताशून्यचाक्षुषप्रतियोगिकत्वघटाद्यनुयोगिकत्वैतत्रितयत्वाव. च्छिन्नाभावो भासतेऽतोऽभाव आकाशं न पश्यतीत्यादौ नानुप- पत्तिः । तत्र विषयितावत्प्रतियोगित्वं द्वितीयार्थः। निरुक्तचाक्ष- षप्रतियोगिकत्वं त्रित्वं च धातोरर्थः। घटाद्यनुयोगित्वं च प्रथमान्तार्थ इत्यपि निरस्तमिति चेत् अगत्या घट आकाशं न पश्यतीत्यादिवाक्यानामप्रामाण्यमुपगन्तव्यनिति । इति प्रथमखण्डम् निःप्रामाणिक्तयेति । विषयतासम्बन्धेनोपनीतभानं प्रति विषयता- सम्बन्धेन प्रत्यक्षसामग्रन्याः प्रतिबन्धकतया नैकस्मिन् पदार्थ लौकिकालौ- किकोभयविषयत्वस्य सम्भव इति शङ्कां समादधाति-निःप्रामाणिकतये- त्यादिना ।

व्युत्पत्तिवादः [कारके अनुमित्यर्थकधातुयोगे विधेयत्वं विधेयित्वं वा द्वितीयार्थः । तेन वह्नयादिपक्षकानुमितिपरस्य वह्निमनुमिनोमीत्यादिवाक्यस्य न प्रामाण्यम् । यदि च वह्निसाध्यकपर्वतपक्षकानुमितिपरस्य वह्निमत्त्वेन पर्वतमनुमिनोमीत्यादिवाक्यस्यापि प्रामाण्यमनुमन्यते तदा तादृशधातुयोगे उद्देश्यत्वमुद्देश्यित्व वा द्वितीयार्थः । तस्य च तृतीयान्तोपस्थाप्यसाध्यविधेयकत्वेन विशिष्टेऽन्वयः । अतो वह्निमत्त्वेनेत्याद्यसमभिव्याहारेण तत्र पर्वतमनुमिनोमील्यादयो न प्रयोगाः । विधेयत्वाद्यर्थे तृतीयानुशासनविरहात् । तृतीयान्तेन वह्नथादिविधेयकत्वकथमुपस्थापनोय मिति न शङ्कथम् । वैशिष्ट्य- रूपार्थे तृतीयानुशासनसत्त्वात् विधेयतादेरपि वैशिष्ट्यरूपत्वात्। अत एव रजतत्वेन शुक्तिं जानातीत्यादौ ज्ञाने रजतत्वादिप्रकारक- १ विधेयित्वम्वेति । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेद- कत्वमभिप्रेत्याह स्वमते-विधेयित्वम्वेत्यादिना । २विशिष्टेऽन्वय इति । द्वितीयार्थोद्देश्यित्वप्रकारकानुमितिविशेष्यक- बोधे तृतीयान्तपदोपस्थाप्यसाध्यविधेयतानिरूपत्वप्रकारकानुमितिविशेष्य- कबोधजनकसामग्रीकारणमिति भावः । नन्वेवं कायकारणभावस्वीकारेऽपे बह्निमत्त्वेन पर्वतमनुमिनोमीति समूहालम्बनवाक्यात् पर्वतनिरूपितद्वितीयार्थोद्देश्यित्वप्रकारकानुमित्यादि- विशेष्यकबधापत्तिनिरुक्तकारणसद्भावादिति चेन्न । द्वितीयार्थीद्देश्यित्वप्र- कारकानुमितिविशेष्यकबोधे तृतीयान्तार्थसाध्यविधेयतानिरूपकत्वप्रकारका- नुमितिविशेष्यकबोधजनकत्वेन तासर्यविषयीभूतधातुधर्मिकद्वितीयान्तार्थो- द्देश्यित्वप्रकारकानुमितिविशेष्यकबोधजनकत्वप्रकारकतात्पर्यज्ञानस्य कारण- त्वाभ्युपगमात् । तृतीया नुशासनसत्त्वादिति । इत्थंभूतलक्षणे इति । ४ अत एवेति । तृतीयाया वैशिष्टयार्थकत्वादेवेत्यर्थः ।

। द्वितीया जयाऽलङ्कृतः २१६ त्वस्य घटत्वेन वह्निर्नास्तीत्यादौ सौंदडमते अभावे घटत्वावच्छिन्न- प्रतियोगिताकत्वस्य तृतीयान्ततो बोधः। तृतीयान्तार्थरजतत्वादि- प्रकारकत्वद्वितीयान्तार्थशुक्तथादि विषयकत्वयोः२ विशिष्टवैशिष्टय- बोधमर्यादयाऽवच्छेद्यावच्छेदकभावभानम् । रजतत्वेन शुक्तिं जानातीत्यादौ नियतं केवलमेकत्र द्वय मितिरीत्या तदुभयबोधस्य तत्राव्युत्पन्नत्वात् । अत इमे शुक्तिरजते इत्यादिप्रमापरस्य ताह- शवाक्यस्य न प्रामाण्यम् । घटत्वाद्यवच्छिन्न प्रतियोगिताकवह्न- यभावादिनिष्ठेन वह्नयादि निरूपितानुयोगिताविशेषरूपवह्नयाद्य- भावत्वेन तदभावनिष्ठघटत्वाद्यवच्छिन्नप्रतियोगिताकत्वस्यावच्छे- द्यावच्छेदकभावः स्वीक्रियते। घटत्वेन वह्निर्नास्तीत्यादौ च तबोधस्योक्तरीत्या वश्यकत्वमिति घटत्वावच्छिन्नवह्नयाद्यभाव १ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभाववादिनोऽन्यथाख्याति- मतं निराक रुपाध्यायोपनामकस्य सोन्दल, सुन्दल, सौन्दलादिविविधना- मधेयस्य मते इति भावः। २विषयकस्वयोरित्यादि। याहशविषयतयोः परस्परनिरूप्यनिरूपकभा- वस्तादृशविषयतानिरूपकत्वयोरवच्छेद्यावच्छेद कभावोऽभ्युपेयते । ३घटस्वाद्यवच्छिन्नेत्यादि । यद्धर्मावच्छिन्नयन्निष्ठप्रतियोगिता भव. ति तद्धर्मावच्छिन्नप्रतियोगितानिरूपकत्वतन्निरूपितानुयोगितयोरेवावच्छेद्या- वच्छेदकभावः। ४उक्तीत्येति। बघि टोभयन्नास्तीतिवाक्यजन्यबोधतात्पर्येण घटत्वेन वहिर्नास्तीति वाक्यस्य प्रामाण्यवारणाय तथाकल्पनस्यावश्यकत्वादिति भावः। ५ अावश्यकत्वमिति । अन्यथा वह्निघटोभयन्नास्त त्यादिप्रतीतिविष- यस्याप्यभावस्य वह्निनिरूपितानुयोगिकत्वस्य घटत्वावच्छिन्नप्रतियोगिता- कत्वस्य च सत्त्वेन तद्बोधतात्पर्येणापि घटत्वेन वह्निर्नास्तीति प्रयोगापत्तिः।

२२० व्युत्पत्तिवादः [कारके स्य वह्नित्वावच्छिन्नघटाद्यभावसमनियतत्वेन तदभिन्नतया तत्र घटत्वाद्यवच्छिन्नप्रतियोगिताकत्वघटाद्यभावत्वसत्त्वेऽपि तादृशा- भावारस्य घटत्वेन घटो नास्ति, वह्नित्वेन वह्निर्नास्तीत्यादि- वाक्यस्य न प्रामाण्यम् । उक्तस्थले च तृतीयान्ताद्यर्थस्य द्वितीया- न्ताद्यर्थेऽवच्छेद्यावच्छेदकभावसम्बन्धेनान्वय इत्यपि कश्चित् । तन्न। विभक्त थर्थे विभक्तथर्थान्वयस्याव्युत्पन्नत्वात् । न चरज- तत्वेने ज्ञायते इत्यादी आख्यातार्थविषयतायां तृतीयार्थप्रकार- ताया निरूपितत्वसंबन्धेनान्वयानोक्तव्युत्पत्तिकल्पनमिति वाच्यम् । तत्रापि रजतत्वादिप्रकारकत्व विशिष्टधात्वर्थ ज्ञाननिरूपितत्वस्या- ख्यातार्थे भानस्वीकारेणैवातिप्रसङ्गभङ्गात् । न च तस्मात्पचति । ययः परस्पर निरूप्यनिरूपकभावस्तयोरेवावच्छेद्यावच्छेदकभावनियमा- दिति भावः । उन स्थल इति । रजतत्वेन शुक्ति जानातीत्यादावित्यर्थः तृतायान्नाद्यथस्येति । तृतायान्तार्थप्रकारतायाः स्वनिरूपकत्वसम्बन्धन ज्ञानेऽन्वयः स्वावच्छेदकत्वसम्बन्धन द्वितीयार्थविषयतायामित्याशयः । ३रजतस्वेने दमित्यादि । रजतत्वप्रकारकतानिरूपितज्ञानीयविशेष्यताव- दिदमिति बोधः । ४विशिष्टधास्वर्थेति । ननु रजतत्वादिप्रकारकज्ञाननिरूपितत्वस्यैवा- ख्यातार्थेऽन्वय'ऽस्तु किं विशिष्टधात्वर्थेत्यादिनिवेशनेति चेन्न । इमे शुक्ति- रजते इति वाक्यजन्यबोधपरकरजतत्वेन शुक्तिं जानातीतिवाक्यस्योक्तरीत्या प्रामाण्यापत्तिवारणाय तस्यावश्यकत्वात् ताशप्रकारतानिरूपकत्वविशिष्ट- ज्ञाननिरूपितत्वताहराप्रकारतानिरूपितविशेष्यतायामेवेति न दोषः । ५ तस्मात् पचतीत्यादि । तद्धेतुका पाकक्रिया तद्धेतुकं चैत्रनिरूपि- तस्वत्वमिति बोधः।

द्वितीया ] जयाऽलतः २२१ तस्माच्चैत्रस्येत्यादौ विभक्तथर्थे कृतिसंबन्धादौ हेतुविभक्तयर्थान्वय- दर्शनान्नास्त्युक्ताव्युत्पत्तिरिति वाच्यम् । हेतुविभक्तयतिरिक्त- विभक्तयर्थस्याविभक्त थर्थेऽनन्वनियमात् न च रजतत्वेनेदं जाना- तीत्यादौ तृतीयायाः कारकविभक्तित्वाभावान्न तदर्थस्य क्रियायामन्व- यसंभव इत्यगत्या द्वितीयाथे एव तदन्वय उपगन्तव्य इति वाच्यम् । मणिकारमते तस्माज्जानातीत्यादौ ज्ञानादिरूपधात्वर्थ एव हेतुविभक्तथर्थस्य तस्मात् स्थोयते इत्यादौ च सर्वसम्मत एव धात्वथ स्थित्यादौ तस्यान्वयेन षष्ठ्यर्थसंबन्धस्यापि "गुरुविप्रतप- स्विदुगतानां प्रतिकुर्वीत भिषक् स्वभेषजैरि"त्यादौ धात्वर्थेऽन्वयेन कर्मासमभिव्याहृते रजतत्वेन आनातोत्यादौ धात्वर्थे तृतीयार्थी- न्वयस्यावश्यकत्वेन कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियाया- मनन्वय इत्य नियमात् । एवं घटत्वेन वह्निन स्तोत्यादौ प्रथमार्थो नानुयोगित्वम् । प्रथमायाः संख्यातिरिक्तविभक्तथर्थाबोधकत्व- नियमात् । अतो नर्थाभावे संबन्ध एव तत् । तत्र च न तृतीयार्थान्वयसंभवः । मम तु अनुयोगितासंबन्धेन वह्नयादिविशिष्टाभावे तृतीयान्ता- थंघटत्वावच्छिन्नप्रतियोगिताकत्ववैशिष्ट्यभानाद्विशिष्टवैशिष्ट्य- । १मणिकारमते इति । तन्मते श्राश्रयतारूषार्थकत्वस्याख्याते निराकरणात् आश्रयतायां नान्वयसम्भवः । २जानातीति तन्मते शानार्थकधातुसमभिव्याहृताख्यातस्य निरर्थकत्वस्योपपादितत्वात् अन्यत्रान्वयासम्भवादिति भावः। ३अत्र प्रथमार्थस्याभावात् विभक्त्यर्थान्व यस्वीकारे पूर्वप्रयोगे निर्वाह- सम्भवेऽप्यत्रानिर्वाहादनिच्छतापि मद्रीतेरेवानुसतव्यतया अर्द्धजरतीयः स्यादित्येतदुच्यते-एवमिति ।

२२२ व्युत्पत्तिवादः [ कारके । बोधमर्यादया वह्नयाद्यनुयोगिकत्वस्थलीयस्यानु योगितया संबद्धव- ह्रथादेस्तादृशप्रतियोगिताकत्वेनावच्छेद्यावच्छेद कभावभानोपगमेन सामञ्जस्यात्। अनुयोगिताया नञर्थतावच्छेदकत्वे तत्रैव वह्नयादे प्रतियोगिनोऽन्वयः। अतस्तत्र तृतीयान्तार्थ घटत्वावच्छिन्नप्रति- योगिताया निरूरकत्वेनान्वयं स्वीकृत्याति प्रसङ्गवारणं सम्यकप्रति- भाति । रङ्गेऽभेदेन रजतारोपस्थले रङ्गरजतेन जानातीत्यप्रयोगात्। तादात्म्य भिन्नसंबन्धावच्छिन्नप्रकारितैव तृतीयार्थः । तत्र च रङ्गं रजतं जानातीति प्रयोगात्तादात्म्यसम्बन्धावच्छिन्नप्रकारताकत्वं कर्मत्वानुशिष्टद्वितीयादेरेवार्थः । तस्य च ताशप्रकारवाचिपदसमा- नविभक्तिकपदोपस्थाप्य विशेष्यता विशिष्टायामेव ज्ञानरूपक्रियाया- मन्वयः । तेन भेदारोपस्थले रङ्गे रजतत्वं जानातीतिवदभेदारोपस्थले रङ्गे रजतं जानातीति न प्रयोगः । उक्तस्थले च रङ्गरजताद्योः समानविभक्तिकपदोपस्थाप्ययोरभेदान्वयेसाकाङ्क्षस्वेऽपि नायोग्य तया तादृशान्वयः। एवं सति रङ्गरजतादिपदयोः सामानाधिकर- एयानुपपत्तिरिति चेत्-का क्षतिः । न चैवं रजतगतैकत्वबहुत्वाविव' क्षायां रङ्गानि रजतं जानातीति प्रयोगस्य स्त्रियं पांसुलान् जानातीति प्रयोगस्य च प्रसङ्गः। सामानाधिकरण्यस्यैव समानवचनलिङ्गकत्व- नियतत्वादिति वाच्यम् । समानाधिकरणयोरिव यत्पदार्थविशेष्य- कत्व विशिष्टेऽभेदसंबन्धावच्छिन्नयत्पदार्थ प्रकारकत्वस्यान्वयस्त- योरपि समान लिङ्गवचनत्वनियमात् । यज्ञपतिमतानुयायिनस्शुरनं रजतं जानातीत्यादौ सामानाधि- करण्यानुरोधात्र रजतादिपदस्य रजताभेदज्ञानविषये लक्षणा । अत एव भ्रान्तिज्ञविशेषदर्शिना प्रयुक्तस्य लाहितवहिं जानातीत्यादिवा- क्यस्यापि प्रामाण्यनिर्वाहः । न ह्यसमासस्थल इव लोहितवह्न था- द्योरभेदाविवक्षाज्ञानांशे लोहितादेः स्वातन्त्र्येणान्वयो वा सम्भवति कर्मधारयस्य साधुतानुपपत्तेः। लोहितपदोत्तरं प्रकारताबोधक- द्वितीया] जयाऽजङ्क्तः २२३ विभक्तरभावात् । धात्वर्थे साक्षान्नामार्थस्य भेदान्वयेऽव्युत्पत्तेः। द्वन्द्वस्थलवत्कर्मधारयोत्तरविभक्तेः पूर्वपदप्रकृतिकत्वाभावात् तस्याः पूर्वपदार्थान्वितप्रकारताबोधकत्वायोगात्न चद्वन्द्वसमास एवासों अल्पाचो वह्निपदस्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुल्लिङ्ग- ताया इतरेतरपक्षे च एकवचनस्यानुपपत्तेः । एतन्मते शुक्लो वह्निरित्यादिप्रमायां लोहिताभेदारोपविषयवह्निविषयकत्वेऽपि वहिर्लोहिता जपेतिसमूहालम्बनप्रमाया लोहिताभेदावगाहिस्व- विषयवह्निविषयकत्वेऽपि च तद्दशायां लोहितवहिं लोहितं वह्नि वा जानातीति न प्रयोगः । तादृशपदोपस्थाप्य विषयताया धर्मिपा- रतन्त्र्येण द्वितीया विषयतायामभेदसम्बन्धेन विशेषणताया नियमोपगमात् । अथ वा लोहिताभेदविषयतानिरूपितविषयता- पन्नस्य वह्नयादेानान्वयिविषयितानिरूपकत्वं भासते । समूहा- लम्बनादौ च ताशविषयतानापन्नस्यैव विषयितानिरूपकत्वमिति नातिप्रसङ्गः । विषयतापन्नत्य निरूपकत्वमित्यस्य च विषय- तावच्छिन्न निरूपकत्व मित्यर्थः। एतच्च विलक्षण विषयितानिरूपक- तावच्छेदकत्वमविषयस्यापि विषयत्वस्योपेयते, रक्तदण्डवानित्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपितवि- शेष्यत्वेन दण्डादिप्रकारताया अवच्छेद्यावच्छेदकभाववदित्याहुः न च द्वन्द्वसमास एवेति। वस्तुतो द्वन्द्वप्राप्तिरेव न एकधर्मावच्छिन्ने एकसम्बन्धेनान्वितानामेव द्वन्द्वविधानात्प्रकृते प्रकारिताविशेध्यितोभयसम्ब- न्धेनोभयोरन्वितत्वात् । २अथेति। अभेदसम्बन्वावच्छिन्न लोहितनिष्ठप्रकारतानिरूपितविशेष्य तावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावद्विषयिताशालिज्ञानवानयमिति बोध एव लोहितवहिं जानातीतिवाक्याज्जायते इति भावः ।

२२४ व्युत्पत्तिवादः [कारके तन्न शोभनम् । उक्तरीत्या विनैव लक्षणामुपपत्तौ तस्या न न्याय्यत्वात् । 'अथोक्तस्थले आरोप्यारोपविषयबोधकपदयो - न्वितार्थकत्वे कर्मप्रत्ययस्थले लोहितो वह्निर्ज्ञायते इत्यादौ विशेष्य- भेदाद्वाक्यभेदापत्तिः । न च लोहिताभेदज्ञान विषयो वह्निरित्येव शाब्दधीरुपगम्यते न तुज्ञाने प्रकारो लोहितो विशेष्यश्च वह्निरिति समूहालम्बनं, तथा सति शुक्ला वह्निर्लोहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शितविशिष्टवैशिष्टयबोधस्वीकारे लोहितादि- प्रकारकत्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवह्नयादौ बाधितत्वेन तादृशप्रयोगापत्तिविरहादिति वाच्यम् । तत्र लोहितादिपदोत्तर- प्रकारतार्थ कद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभाना- संभवात्। नामार्थधात्वर्थयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारितायाः संसर्गतया भानासंभवादिति चेत्-न । यथा हि-घटो नीलो भवति, वृक्षो नौका भवति, काष्टं भस्म भवतीत्यादौ धात्वर्थेऽसाधारण- धर्मरूपे भावे व्युत्पत्तिवैचित्र येण नौलनौकाभस्मादेः साक्षादेवा- न्वयः, प्रथमाया अन्तराभासमानार्थकत्वाभावात्, नौकादिपदस्य स्वारम्भकावयवारब्धार्थलाक्षणिकतया प्रकृतिविकृत्योभदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः, तथा धात्वर्थे प्रकृतेऽपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपग- मात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पञ्च नौका भवतीत्यादौ वस्तुतो लोहितवहिं जानातीतिवाक्यमप्रमाणमितिध्येयमित्यधिकः पाठो हस्तलिखितपुस्तकेऽत्र दृश्यते । २शाब्दधीरिति । लोहितनिष्ठाभेदसम्बन्धावच्छिन्नप्रकारतानिरूपकज्ञा- नीयविषयताश्रयो वह्निरित्येवं रूप इति भावः ।

२२५ द्वितीया ] जयाऽलङ्कृतः प्रकृतिभूतवृक्षादेविशेष्यतया भावनान्वयित्वात्, तद्गतसंख्या- बोधकतया प्रकृतिवाचकपदसमानवचनत्वमाख्यातस्य तथा एको द्वौ ज्ञायते इत्याधुभयार्थाभेदारोपस्थलीयवाक्ये एकादिपदार्थस्या- रोपविशेष्यस्याख्यातार्थविशेष्यतयान्वयविशेष्यतया तत्पदसमान- वचनत्वमाख्यातस्य। न चैवं 'श्रमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम्' इत्यत्र कथमारोपविशेष्यवाचकपदविरुद्धवचन- त्वममानीतिक्रियापदस्येति वाच्यम्, तत्रायशाद्वयस्य वास्तवत्वं न चिकुरभागद्वयस्य राज्ञा रोप्यत्वेन कवेरुत्प्रेक्षितत्वात् । आख्या- तार्थविशेष्यतान्वय विशेष्यत्वेनायशोयुगस्यैव विवक्षितत्वात् । इच्छा- र्थकधातुस्थले मुख्य विशेष्यत्वरूपं कमत्वं द्वितीयार्थः। अतो वृष्टिसाध्यं सुखं भवत्वित्यादीच्छास्थले सुखमिच्छतीत्यादिवद्वृष्टि- मिच्छतीत्यायो न प्रयोगाः । अथ अहं सुखी स्यामित्यादीच्छायाः सुखादिविशेषणकतया तत्र सुखमिच्छत्तीत्यादिप्रयोगानुपपत्ति- रिति चेत्-न । मम सुखं भवस्वित्यादिसुखविशेष्यकेच्छाया एव कदा चित्सुखादि विशिष्टात्मबोधकशब्देन विषयाभिलापात् । स्व- कृत्यधीनसिद्धिकत्वरूपस्वकृति साध्यत्वप्रकार कपाकविशेष्यकेच्छायाः इव पाक कृत्या साधयानीति पाकसिद्धयनुकूलकृत्यभिन्नव्यापार- विशिष्टात्मबोधकशब्देन विषयाभिलापवत् । यदि चोद्देश्यसुखा- देविशेषणतयाऽपि कचिद्भानमानुभाविकतदोद्देश्या दिव्यवहारनि- यामकः कचित्किचिद्विशेषण साधारणो विषयता विशेषोऽभ्युपेयः । अनुमितौ विशेष्यतया काचित्कभानविषय साध्यनिष्ठविधेयताख्य- भानविषयेति । पर्वते वह्नि.रेत्यनुमाने हि साध्यस्य वहर्विशेष्यत्वं, वह्निमान् पर्वत इत्यत्र च प्रकारत्वमिति भावः ।

२२६ व्युत्पत्तिवादः [कारके विषयतावत् । स एव च सुख मिच्छतीत्यादौ द्वितीयार्थः । ग्राममिच्छतीत्यादौ प्रामादिपदं प्रामस्वत्वादिपरम् । अत एव च सिद्धस्य ग्रामादेर्मुख्य विशेष्यताया उपदर्शितविलक्षणविषयताया वा विरहेऽपि न क्षतिः। प्रामादेः सिद्धत्वेऽपि स्वस्वत्वाद्यसिद्धोपरक्तस्य इच्छायां प्राधान्येन कचिद्भानं विशिष्टस्यासिद्धत्वात् । तत्रैव च ग्राममिच्छतीत्यादिप्रयोग इत्यपि वदन्ति । पाकं चिकीप तीत्यादौ द्वितीयाया विशेष्यतारूपकर्मत्वार्थकतया कृतिप्रकारकपाकविशेष्यकेच्छा प्रतीयते। सा च पाक कृत्या साधयानीतीच्छा । अथ वा सनो धात्वर्थविशेष्यकेच्छा वाचि- त्वात्कृतिविशेष्यकेच्छा चिकोर्षापदार्थः । सा च पाककृतिर्भवत्वि- तीच्छैव । प्रवर्तिका च सा भवतु मा वेत्यन्यदेतत् । पाकादेश्व कृतिकर्मत्वमेव द्वितीयया प्रत्याय्यते, न विच्छाया विषयत्वरूपं कर्मत्वम् । गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यादिप्रयोगापत्तेः। युक्तं चैतत् । सनो धात्वर्थप्रकार केच्छावाचित्वे ओदनभोजनेच्छा- दशायामोदनं बुभुक्षते इति प्रयोगो न स्यात् । तत्र भोजनस्याप्रकार- त्वात् । न च कमता सम्बन्धेन भोजनप्रकारिका यदा ओदन- विशेष्यिकेच्छा तदैवैतादृशप्रयोगः । सा चेच्छा भोजनधर्मिकेष्ट- साधनताज्ञानाद्धोजनविशिष्टौदनमिकेष्टसाधनताज्ञानाद्वा। ओद- नत्य सिद्धतादशायामपि विशिष्टधर्मिकेष्टसाधनताज्ञानाद्विशिष्ट- धर्मिकासिद्धत्वज्ञानसहिताद्विशिष्टेच्छासम्भवात्। यत्र भोजनसिद्ध- तादशायां भोजनोत्तरकालीनगमनत्वादिप्रकारिका भुक्तौदनजन्य- पुष्टित्वादिप्रकारिका वाइच्छातत्र बुभुक्षत इति प्रयोगस्य न प्रसङ्गः। मुख्यविशेष्यविशेषणता पन्नकर्मत्वांशेइच्छाप्रकारतायाएव सन्प्र- । 'मुख्यविशेष्यविशेषणतेति। मुख्यविशेष्यविशेषणतापन्नकमत्वनिष्ठविशे- व्यतानिरूपितेच्छाप्रकारतैव सन्प्रकृत्यर्थनिष्ठतया भासत इति भावः।

२२७ । द्वितीया ] जयाऽलङ्कृतः कृत्यर्थे भानोपगमादिति वाच्यम् । भोजनं भवत्वित्यादिभोजनवि- शेष्यकेच्छादशायामपि बुभुक्षते इति प्रयोगस्य सर्वसिद्धत्वेन धात्वर्थविशेष्य केच्छाबोधकतायाः सन्प्रत्ययस्यावश्यमुपेयत्वात् । न च द्वयी व्युत्पत्तिरेवोपयते । एकव्युत्पत्त्यैव निर्वाहे व्युत्पत्ति- द्वयकल्पने गौरवात् । अत एव च स्थित्या दिगोचरेच्छाया गृहा- दिविशेष्यकत्वस्योक्तरीत्या सम्भवेऽपि गृहं तिष्ठासतीत्यादयो न प्रयोगाः। भोजन प्रकारकौदनविशेष्यकेच्छाविशेषदशायां बुभुक्षत इति प्रयोगसत्त्वेन उद्देश्यताख्यविषयताया एव धात्वर्थे भानोपगमेन तस्य निर्वाहात् । न च धात्वर्थविशेष्यकेच्छायाः सन्प्रत्ययार्थत्वे पाकं चिकीर्षति प्रोदनं बुभुक्षते इत्यादी पाकौढ़ना- देद्वितीयया कृतिभोजनादिकर्मत्वप्रत्यायनसंभवेऽपि पाकश्चिकीय॑ते ओदनो बुभुक्ष्यते इत्यादौ कर्माख्यातेन तत्प्रत्यायनासंभवः । तत्प्र- कृतिभूतसन्नन्तधात्वर्थकृतिभोजनेच्छाकर्मत्वस्यैव तत्प्रत्ययेन बोध्य- त्वात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । इच्छाविष- यत्वविशेषितकृतिभोजनादेश्व प्रकृत्याऽप्रतिपादनादिति वाच्यम् । कर्तृप्रत्ययस्थले सन्प्रत्ययार्थेच्छाया धात्वर्थविशेष्यतया भानेऽपि कर्मप्रत्ययस्थले तस्या३ धात्वर्थविशेषणतया भागोपगमात् । १गृहमित्यादि । तन्मते इच्छीयमुख्यविशेष्यताश्रयत्वमेव कर्मत्वं तच्च गृहेऽप्यस्तो तितादृशप्रयोगापत्तिरिति भावः । धात्वर्थविशेष्य केच्छा सन्नर्थ इति वदतान्तु नेयमापत्तिः कृतिकर्मस्वरूपद्वितीयार्थस्य तत्र बाधादिति । २भोजनेत्यादि । कर्मतासम्बन्धेन भोजनविशिष्टमोदनं भवत्विति भावः। ३तस्या इति । स्वनिरूपितविषयत्ववत्वसम्बन्धेनेति भावः ।

२२८ व्युत्पत्तिवादः [कारके चिकीयंते पाक इत्यादौ इच्छाविशेषितकृत्यादेरेव सन्नन्तेन प्रतिपादनात्, ताशकृत्यादिकमताया आत्मनेपदादिना प्रत्यायन- संभवात्। श्राख्यातायुपस्थितवर्तमानत्वादेश्च कृत्यादि विषयकेच्छा यत्र प्रकृत्यर्थः यत्र वा इच्छा विषयकृतिस्तत्रोभय त्रैवेच्छायाम- न्वयः । प्रकृत्यर्थंकदेशेऽपि नीलतरो घट इत्यादिस्थले नीलरूपादौ तरबाद्यर्थातिशयान्वयानुरोधात् । न चैवं कर्मप्रत्ययस्थलेऽपि कृति- विशेषितैवेच्छा सना प्रत्याय्यतां विशेषणीभवन्ती कृतिरेव कर्म- त्वेनान्वीयतां भवन्मते विशेणीभूतेच्छायां वर्तमानत्वाद्यपराख्या- तार्थान्वयवदिति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति प्रथमान्तार्थविशेषणकर्मत्वे इच्छा- यां विशेषणतयोपस्थितस्य धात्वर्थस्य विशेषणतयान्वयायोगात्। विशेष्यतया चान्वयस्याप्रसक्तत्वात् धात्वर्थविशेषणतया इच्छा- भानेपि तस्या वर्तमानत्वादिविशेष्यतयैव भानेनोक्तव्युत्पत्ति- विरोधविरहात्। एवं धात्वर्थस्येतरविशेषणतयोपस्थितस्य स्वातंत्र्येण कर्मताविशेषणत्वमयुक्तमेव । प्रकृत्यर्थस्यैकदेशेऽपि प्रकृत्यर्थान्तर्गत. । 'कृतिविशेष्यतयैवेच्छेति हस्तलिखितपुस्तकपाठः । २ अन्वीयतामिति । नन्वेवमाख्यातस्य प्रकृत्यर्थंकदेशान्वितकर्मत्वबोध- कत्वेन प्रकृत्यान्वितस्वार्थबोधकत्वमेव प्रत्ययानामिति नियमानुपपत्तिरत पाह-भवन्मते इत्यादि । ३प्रकृत्यर्थस्येत्याद्यारभ्य स्वातन्त्र्येण भासमाने इत्यन्तस्य स्थानेऽस्म- पितृव्यचरणमधुसूदनशमंमिश्राणां मते वक्ष्यमाणरीत्या पाठो युक्तः। तथा हि-नीलतरो घट इत्यादौ प्रकृत्यर्थेकदेशे प्रत्ययार्थान्वयदर्शनेऽपि प्रत्ययार्थे प्रकृत्यर्थंकदेशस्यान्वयादर्शनात् न स्वातन्त्र्येण भासमाने कर्मत्वरूपप्रत्ययार्थे प्रकृत्यर्थैकदेशस्य एकत्र विशेषणस्य कृत्यादेरन्वयः।

२२६ द्वितीया जयाऽलङ्कृतः तया भासमाने एव प्रत्ययार्थान्वयदर्शनात्, न तु स्वातन्त्र्येण भासमाने इच्छारूपविशेष्यपारतन्त्र्येण कर्मत्वान्वयोऽपि इच्छायां कर्मत्वानन्वयेन दुर्घटः । विशेष्यान्वयिन्येव विशेषणस्य पारतन्त्र्ये- णान्वयस्य विशिष्टान्वय स्थले व्युत्पत्तिसिद्धत्वात् न तु विशेष्याना- न्वयिनि । अथास्तु विषयतारूपकर्मत्वे चिकीष्यते पाक इत्यादा- विच्छायास्तत्पारतन्त्र्येण कृतेश्चान्वयः । एवञ्च कृतिविषयकेच्छा- विषयत्वावच्छिन्नकृतिविषयताश्रयः पाक इत्यन्वयबोधः । उभयत्रै व पाकादेविषयत्वात् । स्थित्यादिकर्मत्वाप्रसिद्ध्या गृहं तिष्ठास्यते इत्यादेरप्रसङ्गादिति चेत् । ओदनो बुभुक्ष्यते इत्यादी का गतिः तत्रेच्छाकर्मताया विषयतारूपत्वात् भोजनादिकर्मतायाश्च तदन्य- स्वात्। विशेष्यीभवदिच्छान्वयिनि कर्मत्वे भोजनाद्यन्वयायोग्यत्वेन तद्विशिष्टान्वयासंभवात्। वस्तुतः पाकश्चिकीर्घात इत्यत्राप्यगति- रेव । कृतिविशेषणतया पाकनिष्ठच्छाविषयतायाः कृत्यविशेषणतया तनिष्ठकृतिविषयताभिन्नतया इच्छान्वयिनो विषयत्वरूपकर्मत्वस्य कृत्यन्वयायोग्यत्वात्। यदि च विशेष्यान्वायव्यक्तावेव तत्पारतन्त्र्येण: विशेषणान्वय इति नियमः अपि तु तदन्वयितावच्छेदकावच्छिन्न एवेति । तथा च विषयतात्वावच्छिन्नस्योभयान्वययोग्यतया न प्रकृतेऽन्वयानुपपत्तिः। अत एवारुणयेत्यादावारुण्यनिरूपितसाध्यताया गोनिरूपित- साध्यताभिन्नत्वेऽपि न तृतीयार्थे विशिष्टान्वयानुपपत्तिः । तत्र - 'कृतिविशेषणतयेति । कृतिनिष्ठविशेष्यता निरूपित विशेषणतारूपपाक- निष्ठेच्छाविषयतायाः कृतिनिष्ठविशेष्यतानिरू पितविशेषणताभिन्ना या कृतिनिरूपिता पाकनिष्ठा विषयता तद्भिन्नतयेत्यर्थः । अरुणयेति-अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातोतिवाक्ये।

२३० व्युत्पत्तिवादः [ कारके परम्परया विशेष्यान्वयिसोमक्रयव्यक्तः परम्परया विशेषणान्वयि- व्यक्त्यभेदवत् प्रकृतेऽपि परम्परयोभयान्वयिकर्मव्यत्त्यभेदोऽक्षत एवेत्युच्यते तदा भोजनकृतिर्भवतु पाकश्च भवतु इति समूहालम्ब- नेच्छामादाय पाकश्चिकीयते इति प्रयोगस्य कालान्तरीयकृति- विषयतामादाय दुरितैव । विषयितासम्बन्धेनेच्छाविशेषणीभू- तकृतिव्यक्तिकर्मत्वान्वयस्यैव तदिच्छान्वयिनि कर्मण्यन्वया- नायमतिप्रसङ्ग इति चेत्तथापि तदिच्छाकाले पाक इदानीं न चिकोयते इति प्रयोगानुपपत्तिः । अन्वयितावच्छेदककृति- विषयतात्वकृतिगोचरवर्तमानेच्छाविषयतात्वावच्छिन्नाभावयोस्तद पाकेऽसम्भवात् । न च वर्तमानकालावच्छिन्नकृतिविषयतात्वा- वच्छिन्नाभाव एव तत्र प्रतीयते, स च पाकेऽबाधित इति वाच्यम्। यद्यतीतेच्छाधीनपाककृतिर पि तत्र वर्त्तते तदा तादृशाभावस्यापि तत्र बाधात् पाककृतीच्छायामसत्यामुक्तेच्छासत्त्वेऽपि च तथा प्रयोगात् कृत्यसत्त्वेऽपि पाक कृतीच्छासत्त्वे तथा प्रयोगविरहात् कृतिविषयत्वाभावमात्रबोधस्य तत्राभ्युपगमासंभवाञ्चेति । कर्मप्रत्य- यस्थले इच्छाधात्वर्थविशेषणमेव । इदन्तु तत्त्वम् । कर्मप्रत्ययस्थलेऽपि धात्वर्थविशेषितैवेच्छा सन्प्रत्ययेन प्रत्याय्यते। तत्कर्मत्वमेव कमाख्यातार्थः। तच्च धात्वर्थ- कर्मतया तद्विषयत्वम्। प्रोदनकर्मक भोजनं भवतु. पाकविषयकक- तिर्भवतु इत्यादीच्छायां च पाकभोजनादीनां तथेच्छाविषयतया तत्कर्मत्वमक्षतम् । गृहस्थितीच्छायां गृहादेः स्थित्याधारत्वादिनैव विषयत्वमिति न गृहादेस्तिष्ठासादिकर्मत्वम् । अत एव यदोदन- १ श्रोदनकर्मकेत्यादि।धात्वर्थकर्मत्वनिष्ठविषयता नरूपितचैत्रवृत्तीच्छी- यविषयतावान् पाकादिरिति बोधः ।

। द्वितीया ] जयाऽलङ्क्तः व्यक्तिकर्मकभोजनमप्रसिद्धम् । अथ च भोजनकर्मतया तदिष्टं तत्रायमोदनोबुभुक्ष्यत इत्यादेर्दर्शनादि विषयत्वेन गगनादिगोचरे- च्छास्थले च गगनं दिक्षते इत्यादेश्च प्रयोगस्य नानुपपत्तिः । न वा अोदनादिरूपकर्ममात्रोपरागेण यत्र भोजनादीच्छा दैववशेन च तद्भोजनादिकं विषादिकर्मकमपि तत्र विष"बुभुक्ष्यते इत्यादयः प्रयोगाः । कर्तृप्रत्ययस्थले च तादृश विषयतारूपं कर्मत्वमेव इच्छा- विशेषणतया भासते न तु धात्वर्थकर्मत्वं धात्वर्थविशेषणतया । तत् पदार्थकर्मत्व विशिष्टभोजनादि निरूपितविषयिताया नियमत इ. च्छायां भानोपगमेनोक्तस्थले विष बुभुक्षते चैत्र इत्यादिप्रयोग- बारणेऽपि गगनं दिक्षते चैत्र इत्यादिप्रयोगस्य दुरुपपादत्वात् । इदन्तु बोध्यम् । सन्प्रतिपाद्येच्छायां धात्वर्थकृतिभोजनादेः केवल विशेष्यतासम्बन्धेन न विशेषणत्वम् । तथा सति परकर्तृककृ- तिभोजनादिगोचरेच्छावति अयं चिकीष ति बुभुक्षत इति प्रयोगप्र- सङ्गात्, किन्तु विशेष्यितासमानक कत्वोमयसम्बन्धेनैव उक्तातिप्र- सङ्गवारणाय इच्छासमानकर्तृकत्वेऽपि सन्प्रत्ययवाच्यतां स्वीकृत्य 'तादृशेत्यादि । धात्वर्थकर्मत्वनिष्ठविषयतानिरूपितेच्छीयविषयता- रूपमेवेत्यर्थः । तथावबोधः भोजनादिकर्मत्वनिष्ठ विषयतानिरूपितेच्छीय अोदनादिनिष्ठविषय तानिरूपितविषयितावदिच्छावानिति । २तदिति । द्वितीयाप्रकृत्यर्थः । ३दुरुपपादत्वादिति । अत्र गगनवृत्तिकर्मतानिरूपकदर्शनाप्रसिद्धेरिति भावः। ४ अपीति । अपिशब्दादिच्छायामपीत्यर्थः । तथा च पाकादिनिष्ठ- कर्मत्वनिरूपिका या इच्छासमानकर्तृककृत्यादिविशेष्यिका इच्छा तद्वानिति बोध इत्युक्तस्थले न दोष इति भावः ।

२३२ व्युत्पत्तिवादः [ कारके क्रियायां तदन्वयो न साधीयान् । इच्छान्तर' समानकर्तृकत्वमादाय दर्शितस्थलेऽतिप्रसङ्गतावस्थ्यात्। स्वसमानकर्तृकत्वस्य वाच्यत्वे तत्तदिच्छारूपस्वपदार्थानामननुगमेन व्युत्पत्त्यनुपपत्तिः। न च स- मानकर्तृकत्वस्य सम्बन्धत्वोपगमे तत्र शक्तिप्राहकानुशासनविरोधः। यतो धातोः कर्मणः समानकर्तृकादिच्छायां वेतिसन्प्रत्ययविधायक- सूत्रं सनः समानकर्तृकत्वार्थकतां न प्रतिपादयति । तस्य हीच्छा- कर्मत्वेन तत्समानकतकत्वेन च स्वार्थपराद्धातोरिच्छारूपार्थे सन्प्रत्ययो भवतीत्येवार्थः । इच्छाधात्वर्थयोः संसर्गतया समान- कर्तृकत्वविवक्षायामपि समानकर्तृकत्वोपरक्तार्थपरत्वं धातोनिर्वह- तीति इच्छामात्रे शक्तिग्राहकं तत्सूत्रमिति। सुबन्तोत्तरेच्छार्थ- विहितक्यच्काम्यजन्तस्य धातोरिच्छार्थकतया सन्प्रत्ययान्ता- विशेषेऽपि सन्नन्तधातुवन्न सकर्मकता। तदन्तर्गतप्रातिपदिकस्यैव कर्मबोधकतयेच्छायाः कर्माकाङ्क्षा विरहात् । न च पुत्रीयति पुत्रकाम्यतीत्यादौ क्यजादिप्रकृत्यर्थपुत्रादेः क्रियात्वाभावेनाकमकत्वेऽपि आत्मनःपाकमिच्छति पाकीयतीत्याद प्रकृत्यर्थपाकादेः सकर्मकतया सन्नन्तसमुदायवत् क्यजन्तपाकादि- समुदायस्य सकर्मकताया दुरितया तण्डुलं पाकीयतीत्यादिप्रयोगा- पत्तिरिति वाच्यम् । कृधातुसमानार्थकयतेरिव सन्नन्तसमानार्थ- कस्य क्यजन्तादेरपि कर्मबोधकसुप्साकाङ्क्षत्वानुपगमेन तथा- । इच्छान्तरेति । अयम्भावः । यदा चैत्रस्यौदनभोजनो भवत्वितीच्छा मैत्रवृत्तिरस्ति चैत्रस्य पाककृतिर्भवत्वितीच्छाऽस्ति तदा चैत्रवृत्तेरिच्छा- समानकत्तृ कत्वमप्यबाधितमेव इति मैत्रो बुभुक्षति इत्यादिप्रयोगो दुर्वार एवेति । २वाच्यत्वे इति । सन् प्रत्ययवाच्यत्वेइत्यर्थः ।

प्रथमा] जयाऽलङ्कृतः प्रयोगाप्रसङ्गात् कृदन्तकमत्वविवक्षायांतु षष्ठ या बाधाद् द्वितीयाया अप्रसक्तेश्च । न च धात्ववयवकृद्योगे कर्तृकर्मणोःकृतीत्यस्य द्वितीया. बाधकत्वे कसकर्मकवधमाचष्टे कसंघातयतीत्यत्र द्वितीया न स्यात् । कंसस्याख्यानकर्मत्वायोगेन वधकर्मतयैव तदुत्तरं द्वितीयासमर्थना- दिति वाच्यम् । कृदन्तोत्तरं यत्राख्यातार्थे णिच् तत्र प्रकृतिवच्च कारकमित्यनेन कृदन्तकारकस्य एयन्त तत्प्रकृतिप्रतिपाद्यक्रियाकार- कतुल्यत्वातिदेशात राजानं गमयति सूर्यमुद्गमयतीत्यादौ ण्यन्त- धातुयोगे यथा प्रकृत्यर्थक्रियाकर्त्तः कर्मत्वं तथा कृदन्तोत्तरणिच- प्रत्यययोगेऽपीत्याख्येयगत्युद्गत्यादिकर्तुः कर्मतया तदुत्तरं द्वितीयेति । एयन्तधातुयोगे यथा प्रकृतेः कर्मणो द्वितीयान्तता तथा णिच्प्रत्ययान्तकृदन्तकर्मणोऽपीति लाभात् कृदन्तकर्मणः कंसादै द्वितीयान्ततोपपत्तिः । तथाविवक्षायां तण्डुलस्य पाकीयतीति प्रयोग इध्यत एव । कारकविभक्तयर्थस्य वृत्त्येकदेशेनाप्यन्वयत्य व्युत्पन्नत्वात् । सम्बन्धविवक्षायां च न तथा प्रयोगः । वस्तुतः मंबन्ध विवक्षायामपि तथा प्रयोग इष्यत एव । न च तत्र वृत्त्येकदेशेन षष्ठ यर्थान्वये प्रतियोगिपदादन्य द्य दन्यत्कारकाद- पीतिव्युपत्तिविरोध इति वाच्यम् । तादृशव्युत्पत्तेरभेदान्वयस्थल एव स्वीकारात् । वृत्त्येकदेशेन भेदान्वये बाधकाभावात् । अत एव ऋद्धस्य राजमातङ्गा इत्यादिप्रयोगो नेष्यते । इष्यते च पितुः स्वर्ग- 'एयन्तेति । यथा कसं घातयत त्यादौ कृतप्रकृतिण्यन्त हननिरूपित- कर्मकत्वं कंसस्यास्तीति कृदन्तनिरूपितकर्मत्वमपि तस्यैवे'त भावः । २तथेति । धात्ववयवपाकादिकृदन्तार्थान्वयविवक्षायामित्यर्थः । अन्यदित्यादि । तस्य वृत्त्येकदेशेनान्वयो न भवतीत्यर्थः । *पितुरित्यादि । पितृसम्बन्धिसुखकाम इत्यर्थः । ।

२३४ व्युत्पत्तिवादः [ कारके काम इत्यादिग्रयोगः। न च कारकपदप्रतियोगिपदयोर्भेदनिवेश'. नमफलमिति वाच्यम् । तन्निवेशस्य दृष्टान्तविधयोक्तत्वात् । यथा प्रतियोगिपदार्थस्य कुत्रापि अभेदान्वयो न भवति तथा वृत्त्येकदेशे नान्यपदार्थस्येत्यर्थे तात्पर्यादिति ध्येयम् । अभेदविवक्षायां पण्डितं पुत्रीय ति प्रवीरं पुत्रकाम्यतीत्यादि- प्रयोगाभाववत् परपुत्रादिगोचरेच्छावति पुंसि पुत्रीयतीत्यादयो न प्रयोगाः । सुप आत्मनः क्य जित्यादिना इच्छाकत सम्बन्धि यदि- च्छाकर्म तद्बोधकसुबन्तात् क्यचकाम्यचोविधानात् । संबन्धित्वं चसम्बन्धित्वेन भातत्वम् । अन्यथा यस्येच्छाकर्तुः पुत्रोऽप्रसिद्धस्त- स्यापि स्वीयत्वेन पुत्रेच्छादशायां पुत्रीयतीत्यादिप्रयोगस्य सर्वसिद्ध- स्यानुपपत्तेः । उक्तस्थले पुत्रीयतीत्यादिवाक्यस्य प्रामाण्यवार- णाय च क्यजाद्यर्थेच्छायां पुत्रादेर्विषयित्वमात्रं न सम्बन्धः किन्तु स्वांशे भासमानसंबन्धस्य प्रतियोगितया यो विषयस्ताह- शपुरुषवृत्तित्वसहितमभ्युपेयम् । संबन्धस्य क्यजाधवाच्यत्वेऽप्यु- क्तसम्बन्धेनैवेच्छायां सुबन्तार्थस्यान्वय इति व्युत्पत्तिप्रदर्शनायैव सूत्रे आत्मन इत्युपात्तम् । आत्मन इति षष्ठयर्थसम्बन्धश्च न धातोः कमण इत्यादि सूत्रानुवृत्तायामिच्छायामन्वेति, अव्यावर्त्तकत्वादु- तार्थलाभाप्रयोजकत्वाच्च, अपि तु सुप इत्यर्थे सुबन्तादित्यत्र स' निवेशनमिति । तयोरभेदान्वयबोधौ वृत्त्येकदेशेनादर्शनादिति भावः । २ उक्तसम्बन्धेनैवेत्यादि । स्वनिष्ठकर्मतानिरूपकत्वस्वानुयोगिकभासमा- नसम्बन्धप्रतियोगिवृत्तित्त्वोभयसम्बन्धेनैवेत्यर्थः । सुबन्तार्थस्य पुत्रादेरि- त्यर्थः । अन्वय इत्यस्येच्छायामिति शेषः । ३इत्यर्थे इति । इत्यर्थभूते इत्यर्थः । ४स इति । सम्बन्ध इत्यर्थः ।

२३५ द्वितीया] जयाऽलङ्कृतः चेच्छाकर्तुः सम्बन्धितयेच्छाविषयार्थकत्वम् । एवं च इच्छाकर्मणः सुबन्तादिच्छाकर्त्तरिच्छायामिति वृत्तावपाच्छाकर्तुः सुबन्ता- दित्येव योजना कार्या। यथाश्रुते दर्शितानुपपत्तेरिति ध्येयम् । भृत्यं पुत्रीयतीत्यादावाचारार्थविहितक्यजन्तस्य सकर्मकत्वं युज्यत एव। तथा हि--तमिवाचरतीत्यर्थे उपमानवाचिनः क्यच विहितः । तमिवाचरतीत्यस्य तत्तुल्यं जानातीत्यर्थः । आचारपदस्य व्यवहारमूलज्ञानपरत्वात्। तुल्यतया ज्ञानं च क्यजर्थः । तच्च सकर्मकमेव । तत्र तुल्यत्वे प्रतियोगितया पुत्रादेरन्वयः पुत्रादि- परमेव वा गोण्या पुत्रादितुल्यपरम् । ज्ञानमात्रं क्यजर्थस्तत्र च स्वाभेदावगाहित्वसम्बन्धेन पुत्रादितुल्यस्यान्वयः । न चैवं पुत्रा- दिपदमुपमेयार्थकमेव न तूपमानार्थकमिति कथमुपमानादाचार इत्यनेन तदुत्तरंक्यचो विधानं सङ्गच्छत इति वाच्यम् । पुत्रादिप पदस्य तुल्यार्थकत्वेऽपि तुल्यत्वप्रतियोगितयोपमानपुत्राद्यर्थकत्वात्- अत एव तस्य कर्मवाचकत्वं पुत्रादितुल्यस्याचार कर्मत्वात् सम्यगु । पद्यते । पूर्वमते उपमानपदस्य कर्मवाचकत्वं आचारकर्मविशेषण.. तुल्यताप्रतियोगिबोधकत्वरूपं बोध्यम् । वस्तुतः पुत्रमिवाचरतीत्यस्य पुत्रं यथा व्यवहरति तथा व्यवहरतीत्येवार्थः। व्यवहारश्च प्रतिपा- ल्यत्वादिना ज्ञानं प्रतिपालनादिरूपोव्यापारोवा। एवं च पुत्रीयती- त्यस्य पुत्रकर्मकव्यवहारतुल्यव्यवहारकर्तेत्यर्थः । मुखचन्द्रादेर्यथा स्वजन्याह्नादस्य तुल्यतयोपमानोपमेयभावस्तथा पुत्रभृत्ययोरपि स्वकर्मकव्यवहारतुल्यतया स इति पुत्रपदस्योपमानवाचिता । आचारनिष्टसादृश्यप्रतियोग्याचारकर्मवाचिताच आचारसहशाचार एव क्यचोऽर्थः। प्रथमाचारे कर्मतासंबन्धेन पुत्रादेरन्वयः । अमा- द्यन्तात् क्यच्प्रत्यय विधानेऽपि धात्ववयवतया लुप्तस्यामादेनियमे- नानुपस्थितेः कर्मत्वस्य सम्बन्धतया भानमुपेयते । यथा राजपुरुष इत्यादिसमासरूपप्रातिपदिकावयवतया लुप्त षष्ठ धादिप्रतिसंधाना- २३६ व्युत्पत्तिवादः [ कारके नियमाद्विभक्त्यन्तार्थविशिष्टे पूर्वपदलक्षणोपेयते। द्वितीये आचारे भृत्यस्य कर्मतया क्यजन्तस्य सकर्मकत्वमिति कुव्यां प्रासादीयती- त्यादावाधार रूपोपमानवाचि सप्तम्यन्तोत्तर विहितक्यजन्तस्य न सकर्मकता। तत्र च प्रासादाधिकरणकाचारतुल्याचारः क्यजन्तार्थः । स चावस्थानरूप एवेत्यकर्मक इति कुट्यास्तत्राधिकरणतया ततः सप्तम्येव । श्रवस्थानयोः साम्यं चैकजातीयसुखजनकत्वादिना अ- विशेषज्ञानविषयत्वेन वा । हंस इवाचरति हंसायते हंसतीत्यादावु- पमानवाचिकर्तृवाचकपदोत्तर विहितक्यङन्त क्विबन्तधातुरप्यकर्मक- स्तत्र हंसादिकर्तृकाचारतुल्याचारस्य गमनादिरूपस्य क्यङन्ताद्य- र्थत्वेऽपि गम्यादिप्रतिपाद्यतावच्छेदकसं योगादिरूपफलानवच्छिन्न- स्यैव तदर्थत्वोपगमात् । शब्द ज्ञानादिरूपसविषयकव्यापारात्मक- स्याचारस्य क्वचित्तदर्थत्वेऽपि विषयरूपकर्मावरुद्धस्यैव तस्य तदर्थ- त्वोपगमात् । कर्मावरुद्धस्य च कर्मान्वय निराकाङ्क्षवादित्यादिक स्वयमूह्यम् । कृत्यर्थकधातुयोग इष्टसाधन स्वादिज्ञानविशेष्यताप्रयो- ज्यसाध्यताख्यविषयताविशेष एवकर्मत्वं द्वितीयादेरर्थः, न तु विष- यतामात्रम् । यत्र घटं करोतीति प्रयुज्यते तत्र कपालं करोति जला- हरणं करोतीत्या यप्रयोगात् । अथ काशान् कटं करोति काष्ठं भस्म करोतीत्यत्र काशकाष्टादिपदोत्तरद्वितीयानुपपत्तिः। तत्र कृतिनिरूपि. तोक्तविषयताविरहादिति चेदुपादानीय विलक्षणविषयतापि द्विती- यार्थः। सा च द्वितीयान्तरोपस्थाप्य साध्यीयविषयताविशिष्टायामेव कृतावन्वेति । अतः कटादिरूपकर्मान्तरासमभिव्याहारेण काशान् करोतीत्यादयो न प्रयोगाः । अथैवपि काष्टं भस्म करोति दुग्धं स इव जानाति स इव पठतोत्यादो । २कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकत्वमिति भावः ।

। द्वितीया] जयाऽलङ्कृतः २३७ दधि करोतीत्यादौ काष्ठदुग्धादेः कर्मत्वानुपपत्तिः। तस्य भस्मदध्या- धुपादानताविरहात् । काष्ठदुग्धादिनाशानन्तरमेव तदारम्भकपरमा- णुभिर्भस्मध्याद्यारम्भादुत्पत्त्याश्रयस्यैवोपादानत्वात्। विभिन्नका- लीनयोश्चाधाराधेयभावविरहात् कारणस्यैवोपादानत्वमिति निय- माञ्च । न च परिणामवाद विद्व षिणां नैयायिकानां काष्ठादेर्भस्मादि- रूपद्रव्यान्तरकारणत्वमपि तु प्रतिबन्धकत्वमेव । द्रव्यवति द्रव्या- न्तरानुत्पत्तेरिति चेन्न । कर्म हि त्रिविध भवति-प्राप्यं प्रकृतिविकृती च । तत्र प्राप्यं कर्म क्रियाजन्यफलशालि गम्यादीमा दि, ज्ञाना- देविषयश्च क्रियानिष्पाद्यं यत्तद्विकृतिरूपम् । यथा पाकादेरोदनादि यथा वा कृतेर्माल्यादि कटादि च । प्रथमे तण्डुलादिरूपं पूर्वद्रव्यं विनाश्यौदनादेनिवर्तनम्। द्वितीये पुष्पादिरूपंपूर्वद्रव्यमविनाश्यैव संदर्भादिरूपविशेषणनिष्पादनेन विशिष्टस्य माल्यादेनिर्वर्तनम् । तृतीये च काशादिरूपपूर्वधर्मिणमविनाश्य तत्रैव कटादिरूपधर्मि- निष्पादनं क्रियया। ईदृशं च तत्र कर्म प्रकृतेरसमभिव्याहारस्थलेऽपि निवर्यमुच्यते । तण्डुलानोदनं पचति, कुसुमानि स्रजं करोति, काशान् कटं करोतीत्यादौ प्रकृतिसमभिव्याहारस्थलेऽपि निर्वत्यते निष्पाद्यते यदिति व्युत्पत्त्या, यद्यप्योदनादेरपि निर्वय॑तास्ति तथापि तव्यावृत्तमेव पारिभाषिकं निर्वय॑त्वम् । तदुक्तमभियुक्तैः- "सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रियते तस्य निर्वय॑त्वं प्रचक्षत" इति । यस्य विकृतिकर्मणो नाश्रियते न प्रयुज्यत इत्यर्थः । एवं च तत्र तत्रौदनादेर्विकार्यकर्मण्येवान्तर्भावः। तदुक्तम्- "क्रियाकृतविशेषाणां सिद्धिर्यत्र न दृश्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते । । ।

२३८ व्युत्पत्तिवादः [कारके यदसज्जायते पूर्व जन्मना यत्प्रकाश्यते । तन्निवयं विकार्य तु कर्म द्वधा व्यवस्थितम् ।। प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठा दिभस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवदिति ॥ अत्र' प्रकृतिरपि ग्राह्या । अन्यथा काष्ठसुवर्णादेस्तुरीयतापत्तेः। विकार्यपदेनैकव्युत्पत्त्या प्रकृतिविकृत्युभयाबोधनेऽपि उभयसाधा- रणरूपावच्छिन्नपारिभाषिकमेव विकार्यपदम् । प्रकृतिरूपं कम च क्रियया वस्त्वन्तर निष्पत्तये पूर्वभावविशिष्टस्य यस्यासत्त्वरूपो विकारो निर्वाह्यते तद्यथा पाकादेः तण्डुलादिकृतेश्च पुष्पकाशादि। तत्र प्रथमस्थले तण्डुलादिरूपर्मिनाशादेव पूर्वभाव विशिष्ट तदसत्त्वमोदनादिरूपकर्मान्तर निष्पादकम् । इतरत्र धर्मिणः काश- कुसुमादेः सत्त्वेऽपि कटसंदर्भादिविरहरूपपूर्वभावासत्त्वेन तद्विशिष्ट- स्यासत्त्वं कटसंदर्भादिनिष्पादकक्रियातो निर्वहति । एव च तण्डुलानोदनं पचतीत्यादौ प्रकृतिकर्मोत्तर द्वितीयाया नाशकत्व- मर्थस्तण्डुलाद्यन्वितं नाशकत्वं च पाकेऽन्वेति । विकृति कर्मोत्तर- द्वितीयायाश्च उत्पादकत्वमथैः । अोदनाद्यन्वितस्य तस्य नाशकत्व- विशिष्टे पाकेऽन्वयः। नाशे चोत्पत्तेः प्रयोजकत्वमुद्देश्यतावच्छेदक- विधेयभावमहिम्ना नियमतो भासते । अत: पाकस्य तण्डुलाद्या- रम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशे- नान्यथासिद्धतया प्रयोजकत्वबाधेन संयोगमोदनं पचतीति न प्रयोगः। । अति । विकार्यकर्मणीत्यर्थः । २ पूर्वभावविशिष्टस्येति । तण्डुलत्वादिविशिष्टस्येत्यर्थः । ३अतः पाकस्येत्यादि । ततश्च तण्डुलनाशप्रयोज्या या प्रोदनोत्पत्ति- स्तत्प्रयोजकः पाक इति बोधः ।

द्वितीया] जयाऽलङ्क्तः २३६ वस्तुतस्तु निर्वयं कर्मासमभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशद्वारा नाशकत्वमेव द्वितोयार्थो वक्तव्य इति कृतं प्रयोज्यप्रयोजकमावबोधेन । तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकोत्तर द्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तर द्वितीयया च विषयता- विशेष उत्पादकत्व वा मिलितं वा कृतौबोध्यते ।काशान् कटं करोति कुसुमानि मौक्तिकानि वा स्रजं करोतीत्यादौ काशादिपदोत्तर- द्वितीयाकृतौ विषयता विशेषमेवबोधयति।काशाधुच्छेदकतायास्तत्र बाधात् । कट मित्यादौ द्वितीयार्थः पूर्ववत् । नगादिपदार्थविन्यास- विशेषविशिष्टकुसुमादेर्न कुसुमाग्रुपादानककृतिविषयता अपि तु विन्यासादिरूपविशेषणस्यैव तस्यैव कृत्यधीनोत्पत्तिरिति स्त्रज- मित्यादि द्वितीयान्तस्य विशिष्ट सत्व निर्वाहकत्वमर्थः। विशेषणोत्पाद, कस्यापि स्वरूपसंबन्धविशेषरूपं विशिष्ट सत्त्वनिर्वाहकत्वमक्षतमेव । अग्निः श्यामं रक्तं करोतीत्यादावचेतनकत कव्यापारबोधकतया तत्सम भिव्याहृतश्यामादिपदोत्तर द्वितीयाया अपि नोपादानताख्य- विलक्षणविषयतार्थकत्वसम्भवः अपि तु ताशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्त्वनिर्वाहकतारूपंविशिष्टोच्छेदकत्वं तादृश- व्यापारे प्रत्याय्यते । घटं रक्तं करोतीत्यादावपि घटादिपदस्या- रक्तत्व विशिष्ट घटादि लाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं प्रतीयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेव प्रत्याय्यते । अतः काष्ठानि भस्मराशि: क्रियन्ते इत्यादावाख्यातार्थ- । निर्वयकर्मेति । तण्डुलम्पचतीत्यादौ प्रयोज्यस्याभावेन नाशप्रयोज्य- त्वस्यापि ताशस्थले भानासम्भवेन तद्वत्संयोगं पचतीत्याद्यापत्तिरिति भावः । २विषयतेति । उपादानताख्येति यावत् ।

२४० व्युत्पत्तिवादः [कारके विशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य, न तु निर्वयं- भस्मादिरूपविकारवाचकपदसमानवचनता। अथैवं निर्वय॑कर्मवाचकपदात्प्रथमा न स्यादपि तु द्वितीयैव। तत्कर्मताया लकारेणानभिधानात्। यत्तु उभयकर्मत्वमेव लकारेणा- भिधीयते, प्रधानाप्रधानकर्मसमभिव्याहृतनीवहाद्दुिहादिरूपद्वि- कर्मकोत्तरकर्मप्रत्ययस्यैव कर्मद्वयानभिधायकत्वनियमात्, प्रकृते च कर्मद्वयस्यैव तुल्यत्वात्, विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्या- तस्य तत्समानवचनत्व नियमः, "गृह्णाति वाचक: संख्यां प्रकृते- विकृतेन ही"त्यनुशासन सिद्धप्रकृतिविकृतिसमभिव्याहृतलकारीय विकार संख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियाप- दस्यैकवचनान्तता, तदान्वितसङ्ख्याबोधकस्यैवाख्यातस्य तत्पद- समानवधनत्यनियमात्, न तुतद्विशेषणक स्वार्थकर्मत्वादिबोधजन- काख्यातमात्रस्येति-तदसत् । विकार विकारिणोद्वयोराख्यातार्थ- विशेष्यत्वे वाक्यभेदापत्तेः । घटपटौ स्तः, घटपटौ दृश्येत इत्यादौ विशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधाभानान्न वाक्य- भेदः। अत्र च न ताशविशेष्यतावच्छेदकभानमस्ति येन तत्रवात्रा- प्येकवाक्यतानिर्वाहः । न चागत्येष्यत एवात्र वाक्यभेद् इति वाच्यम् । तथा सत्येकवाक्यार्थपरस्य काष्ठं क्रियते भस्म क्रियते इत्येतादृशप्रयोगस्यापत्तेः । काष्ठं भस्म क्रियत इति वाक्यजबोधस्य काष्ठविकृतिस्मान्य विकृतिर्वेति संशयनिवर्तकत्वानुपपत्तेश्च । काष्ठ- भस्मनोः प्रकृतिविकारभावाभानात् । अस्मन्मते च काष्ठोच्छेदकत्वरूपकाष्ठकर्मकत्वभस्म निर्वत- । वाचकरिति । श्राख्यातरिति । २'तद्विशेष्यक' इति पाठो हस्तलिखितपुस्तके ।

द्वितीया ] जयाऽलङ्कृतः कत्वरूपतत्कर्मकत्वयोरेकविशिष्टेऽपरान्वये एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भस्मनि लाभ- संभवादिति चेत्-सत्यम्। भस्म क्रियत इत्यादौ भस्मादिनिर्वय॑कर्म- ताया लकारेणानभिधानेऽपि तत्कर्मतायाधात्वर्थे संसर्गवया भानोप- गमेन तादृशकर्मोत्तरं प्रथमायाःसाधुवा। प्रातिपदिकार्थविशेष्यतया कर्मत्वादिविवक्षायामेव द्वितीयादिविभक्तेः साधुत्वात् । यथाऽर्यो नम इत्यादौ नमः पदार्थत्यागेऽादिकर्मत्वबोधेऽपि अादिपदा- प्रथमैव । निपातार्थे त्यागे कर्मतासम्बन्धेनैव नामार्थस्यान्वयात्। एवं भूतले न घट इत्यादावपि सम्बन्धस्याभावे संसर्गवया भानात् षष्ठाविषयेऽपि प्रथमा । न च धात्वर्थे नामार्थस्य साक्षा- दन्वयोऽव्युत्पन्न इति प्रकृतेः कर्मवायाः संसर्गवया भानं न सम्भव- तीति वाच्यम्। घटो नीलो भवति, काष्ठं भस्म भवतीत्यादौ भवना- दिक्रियायां नीलादेः कर्तृवासम्बन्धेन साक्षादन्वयवदत्रापि व्युत्पत्ति- वैचित्र्येण कर्मत्वान्तरविशेषणतापन्नक्रियायामपरकर्मणः कर्मवा- सम्बन्धेन साक्षादन्वयोपगमात् । न चैवमपि कर्मत्वस्य प्रकृत्यर्थ- विशेष्यत्वेन विवक्षया काष्ठं भस्मराशिं क्रियत इत्यादिप्रयोगापत्तिः। कमत्वान्तरविशेषणतानापन्न क्रियायामेव द्वितीयया कर्मत्वं बोध्यत इतिव्युत्पत्तिकल्पने गौर्दुह्यते क्षीरमजा नीयते ग्राममित्यादौ दोहन- नयनादिक्रियायां क्षीरनामादिकर्मकत्वानन्वयप्रसङ्ग इति वाच्यम्। प्रकृतिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तेः। यथोक्तातिप्रसङ्ग- वारणाय दर्शिता व्युत्पत्तिः कल्प्यते तथा कर्तृत्वविशेषणवया आभासमानाया क्रियायां तृतीयार्थकर्तृत्वान्वय इत्यपि व्युत्पत्तिः कल्प्या। अन्यथा प्रकृत्यर्थविशेष्यतया कर्तृत्वविवक्षया काष्ठं भस्मना भववीवि प्रयागस्य दुर्वारत्वात् । उत्पत्तिप्रयोजकनाशप्रतियोगित्व- रूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः। आधेयत्वरूपं तत्कर्तृकत्वमेव सम्बन्धमर्यादया भासते । काष्ठेन भस्मना भूयव १६ । S २४२ व्युत्तत्तिवादः [ कारके इत्यादौ भस्माद्याधेयत्वमुत्पत्तौ काष्ठाद्याधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते। कर्तृत्वविशेषणतया भासमानस्य निरुक्तभवनस्यान्तर्गतायामेवोत्पत्तौ भस्मादेराधेयत्वंसम्बन्धतया भासत इति व्युत्पत्तेः, काष्ठेन भस्म भूयते इत्यादयो न प्रयोगाः। भावाख्यातस्य कर्तृत्वाबोधकत्वात्। कर्मत्वान्तरविशेषणतानापन्न- कृत्यादौ कर्मत्वस्य संसर्गवया भानमव्युत्पन्नमिति काष्ठं भस्म- राशिः करोतीत्यादयो न प्रयोगाः। अधिशीस्थासां कर्मेत्यादिना यत्राधारस्य कर्मसंज्ञा तत्रा- धारत्वमाधेयत्वं वा द्वितीयार्थः । स्थलीमधिशेत इत्यादौ तादृशार्थे द्वितीयायाः स्थल्या अधिशयितेत्यादौ कृत्प्रयोगे षष्ठयाश्चसाधुत्वार्थ- मेवाधारस्य कर्मसंज्ञाविधानात् । अथ कृत्रर्थव्यापाररूपक्रियान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थकसोपसर्ग- शीप्रभृतिधात्वर्थतावच्छेद कशयनादिरूपकफलाश्रयताऽऽधारस्य कर्मत्वोपपादनसम्भवात् तादृशसूत्राणां वैयर्थ्यमेव । अध्याद्युपसृष्ट- शीप्रभृवीनामेव च वादृशार्थे निरूढलक्षणा, न त्वनुपसृष्टानामवो "नस्थली शेत' इत्यादयःस्वारसिकप्रयोगा इति चेत्-न। धातोमुख्या- र्थपरत्वेऽपि दर्शितप्रयोगनिहाय भगवता पाणिनिमुनिना तादृश- सूत्रप्रणयनात् । तदप्रणीतवतां सर्ववर्मप्रभृतीनां मुख्यार्थपराणां स्थल्यामधिशेत इत्यादिप्रयोगाणां साधुताया दुर्वारत्वाच्च । कालाध्वदेशानामकर्मकक्रियायोगे कैश्चित्कर्मप्रत्ययार्थ वि- भाषया कर्मत्वमनुशिष्यते। अन्ये तु क्रियान्वरान्तर्भावेणोक्तरीत्या तत्र पाक्षिक कर्मप्रत्य- यमुपपादयन्तस्तन्नानुशासति । उक्तञ्चैवत्- १क्रियान्तरेति । व्याप्त्यनुकूलमध्ययनधात्वर्थ इति भावः ।

द्वितीया ] जयाऽलङ्कृतः २४३ "कालभावाध्वदेशानामन्तभूतक्रियान्तरैः । सर्वैरकर्मकैोगे कर्मत्वमुपजायते' इति । तन्मते च मासमधीते मासमास्ते योजनं धाववीत्यादाव भिव्या- प्त्यर्थे कालाध्वनोरत्यन्तसंयोग इत्यनेन द्वितीयाविधानं यद्यप्यन- र्थकं धात्वर्थेऽध्ययनस्थित्यादिविशेषणवयाऽभिव्यापनार्थकक्रियाया अन्तर्भावेण तत्कर्मवया वत्र द्वितीयोपपत्तेः। वाहशधात्वर्थे व्याप्त्थ- नन्तर्भावे मासमास्त इत्यादौ द्वितीयया तबोधनेऽपि आस्यते मास इत्यादौ मासादौ स्थित्यादिव्याप्यत्वलाभानिर्वाहात् तथाऽपि मासं रमणीया क्रोशं कुटिला नदीत्यादौ भवतीत्यस्यानध्याहारेऽपि द्वितीयायाः साधुवानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्र हि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रवीयते । न च तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तर्भविष्यति तत्कर्मतया द्वितीया च स्यात् । एवं मासमासितेत्यादावभिव्याप्तयन्तर्भावेण मासस्य कर्मत्वोपपादनेऽपि कृद्योगात् षष्ठेयव स्याद् न द्वितीये- त्यतोऽपि तत्सूत्रं सार्थकम् । अथ केयमभिव्याप्तिर्याऽत्यन्तसंयोग उच्यते । न तावदव्या- प्यवृत्तिः कालिकसम्बन्धः। कालिक कसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्य- कालानवच्छिन्नत्वं दिवसादिमात्रवृत्तिर्मासादिनिष्ठसम्बन्धो दिव- साद्यवच्छिन्न इति तत्र मासमास्त इवि न प्रयोगः। मासपदार्थश्चात्र त्रिंशदिनमात्रस्थायी कश्चिदखण्डः पदार्थः, न तु क्रियाप्रचयस्तथा सति दिनैकादिमात्रस्थायिनोऽपि सम्बन्धस्य कासु चित् क्रियासु व्याप्यवृत्तिवया तत्र तथा व्यवहारापत्तेरिति युक्तम् । चैत्रो मासं काश्यां तिष्ठतीत्यादौ काशीसंयोगस्य मासव्यापकस्यैकस्याभावेऽ- प्रामाण्यप्रसङ्गात् । संयोगव्यक्तीनां मासनिष्ठकालिकसम्बन्धस्या- वान्तरदिनाद्यात्मककालावच्छिन्नत्वात् । न च संयोगानां भेदेऽपि चैत्रीयसंयोगत्वाद्यवच्छिन्ननिरूपितकालिकसम्बन्धावच्छिन्नाधारता , / कारके व्युत्पत्तिवादः मासव्यापिकैकैव । सा च नावान्तरकालावच्छिन्नेति तत्र तदन- वच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिवि वाच्यम्।सामान्य- घटितविशेषधर्मावच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्न- ववा प्रत्ययोपपत्तेः । शुद्धसामान्यधर्मावच्छिन्ननिरूपिताधिकरणता- यामतिरिक्तायां मानाभावात् । यत्र त्रिंशदिनेषु कमपि कालमधीतं तत्र मासेऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधीव इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । उच्यते। अभिव्याप्तिर्यावदवयवसम्बन्धः। यत्समुदायो मासा- दिपदार्थस्त एव तदवयवाः । एवं च त्रिंशदिनानां मासपदार्थवया त्रिंशदिनेषु किञ्चित् किञ्चित्कालावच्छेदेनाध्ययनसम्बन्धेऽपि मास- मधीत इति प्रयोगोपपत्तिः ।। त्रिंशदिनसम्बन्धश्च दिनपर्याप्तत्रिं- शत्त्वव्यापकत्वम्। तादृशत्रिंशत्त्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाथापकत्वमानं द्वितीयार्थः । व्यापकत्वं च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगिता- वच्छेदकत्वमभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यर्थो मासा- दिराधेयतासम्बन्धेनान्वेति । मासादिनिष्टाभावप्रतियोगितावच्छेद- कत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः। तस्य चान्व. यितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटितपरम्परास- म्बन्धेनाध्ययनादावन्वयः। प्रथमाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशदिनेष्वेव च यत्राधीतं तत्र दिनावान्त- रदण्डादावध्ययनाभावेऽप्युक्तप्रयोगोपपत्तिः। मासपदं च त्रिंशद्दि- नपरमेव न तु वावत्कालस्थाय्यखडवस्त्वन्तरपरम् । एकदिनाध्य- यनस्थलेऽपि वादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावा- सत्त्वेन मासमधीत इति प्रयोगापत्तेः। मासघटकं च दिन सूर्योद- यावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं न तु क्रियादि- प्रचयः। तथा सत्येकैकक्रियादिव्यक्तरपि मासत्वादिकरणतया तत्र । द्वितीया] जयाऽलङ्कृतः २४५ प्रतियोगिव्यधिकरणाध्ययनाभावसत्त्वेन व्यापकत्वरूपद्वितीयार्थस्य वाधापत्तः। दिवसं स्वपितीत्यादौ च दिवसादिपदं सूर्योदयाव- धिसूर्योदयान्तरपर्यन्तक्षणकूटपरमेव । अतो नैकदण्डादिमात्र- स्वप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्व एकमासादि- व्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादि- व्यापकवाया अध्ययने बाधेन मासमधील इत्यादिप्रयोगानुपपत्तिः। न च मासपदेन यत्किञ्चित् त्रिंशदिनमात्रवृत्तिविशेषधर्मप्रकारेणा- नुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्वसम्बन्धेन मासपदार्थ- स्याभावेऽन्वयोपगमात् यत्किञ्चिन्मासनिष्ठाभावप्रतियोगितान- वच्छेदकत्वमन्वयितावच्छेदके लभ्यत इति न काप्यनुपपत्तिरिति वाच्यम् । तत्तन्मासमात्रवृत्तिधर्मविशेषाणां सम्बन्धघटकत्वेऽपि शाब्दबोधे संसर्गतात्पर्यज्ञानस्य हेतुवया संसर्गविशेषोपस्थितेरपे- क्षितत्वात् । सम्बन्धघटकतादृशधर्मान् विशिष्याविदुषः शाब्दबो- धानुदयप्रसङ्गात् । न चेष्टापत्तिरनुभवविरोधात्। अनागता दिमा- सवृत्तितादृशधर्माणां विशिष्यज्ञानसामग्रथा असर्वज्ञस्य दुर्लभत- याऽस्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदप्रस- ङ्गात् । न च तादशवाक्यार्थतात्पर्यमेव संसर्गतात्पर्यमुत्तज्ञाने च वाक्यार्थघटकःसम्बन्धः संसर्गमर्यादयैव भासत इति विशेषरूपेणा नुपस्थितस्यैवोक्तधर्मघटिवसम्बन्धस्य तात्पर्यज्ञाने बाधाभावबला- च्छाब्दबोधेच तात्पर्यज्ञानवलाद्भानमनपवादमेवेति वाच्यम्। एक- पदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्प यविषयकनिश्चयस्य प्राग्वाक्यार्थानिश्चये दुर्घटतया दुर्घटतया तस्य १ अनागतेति। मासमध्येष्यत इत्यादिप्रयोगाणामुच्छेदपसंग इत्यु- पपादयति ।

२४६ व्युत्पत्तिवादः [कारके N शाब्धीहेतुत्वे च योग्यवासंशयाच्छाब्दबोधानुपपत्तेविंशकलिततत्प- दार्थवत्तसंसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधी हेतु- वाया उपेयत्वात् । तत्र च ताहशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वा- दिति चेत्-सत्यम् । मासादिघटकताव दिनादिनिष्ठत्रिंशत्त्वादिरूप- मासत्वादिर्मासादिभेदेन नानैव। मासादिपदप्रवृत्तिनिमित्तपरमनुग- वरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेःशाब्दानुभवानिर्वाहाच्च। न च त्रिंशत्त्वादिक बुद्धिविशेषविषयत्वरूपं वाच्यम्। दिनादेव्यानात्मकत्वेन तत्र गुण- रूपसङ्गचाया असम्भवात् । द्रव्यात्मकत्वेऽपि ऋमिकेषु तेषु सङ्घयोत्पत्तेरसम्भवात् । तत्र बुद्धरनविप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् । जाविरूपस्य वस्य सङ्करप्रसङ्गानिरस्वत्वात्। तत्तदिवस- विषयकत्वरूपस्य वत्तदिनाद्यननुगमेनाननुगतत्वादिति वाच्यम् । ता- वत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसंभवात् । मीमांसकानु- यायिभिर गत्या सङ्घयायाः पदार्थान्वरत्वोपगमाच । सङ्खयादिरू- पनानादिनादिनिष्टानुगतत्रिंशत्त्वादेःसुवचत्वात् । एवं च मासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः। मासादिपदार्थवावच्छेदकदि- नपर्याप्तत्रिंशत्त्वादेर्धर्मिविशेषणतापन्नस्य द्वितीयार्थाधिकरणवायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसम्बन्धरू- पमवच्छेद्यत्वं संसर्गवया भासत इत्युपगमेन सामञ्जस्यात् । यत्कि- । अनुगतरूपेणेति । बुद्धिविशेषविषयत्वोपलक्षिततत्तत्रिंशत्त्वावच्छिन्न- शक्तिरिति भावः। मीमांसकानुयायिभिरिति । स्वमते तु त्रिंशस्वरूपसंख्यात्वव्याप्यधर्मा- वच्छिन्नजन्यता नेरूपितजनकतावच्छेदकीभूतविषयिताशालिवरूपानुगतान- तप्रसक्तधर्मेण तादृशबुद्धिविशेषस्यानुगमसम्भवान्नानुपपत्तिरिति भावः ।

२४७ न्यूनकालाध्ययनस्थले च द्वितीया जयाऽलङ्कृतः ञ्चिदेकमासं व्याप्य यत्राधीतं वत्राध्ययनाधारवानामवच्छेद्यता- वच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादिरूपोक्तधर्मावच्छिन्नानतिप्र- सक्तत्वेन ववृत्तित्रिंशत्त्वेनावच्छेदात् अतिप्रसक्ततया वाहशस्य मासत्वस्योक्तरूपावच्छिन्नाधारतानवच्छे दकत्वाच्चानविप्रसङ्गातिप्रसङ्गयोरनवकाशात्। मासादिपदप्रवृत्तिनि- मित्तधर्मे चैत्राध्ययनाधारताया व्याप्यत्वन्य शब्दादलाभेऽप्यर्थवस्त- ल्लाभादिति । द्वितीयाया अत्यन्तसंयोगार्थपरत्वमिति नानुशासन- विरोधः । न च भूतले घट: भूतलं घटवदित्यादिप्रत्ययबलादति- प्रसक्तोऽपि धर्म आधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम् । तादृशप्रत्ययेऽवच्छेदकत्वभानानुपगमात्। आधेयवाया अतिप्रसक्त- धर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्ति- शरीरे मिश्रादीनां स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशस्य व्यभि- चारिण्यतिव्याप्ता न ह्यविप्रसक्तमवच्छेदकमिति तत्स्थलीयचिन्ता- मणिफक्किकाविरोधेन चासंभवदुक्तिकतापत्तेः। आधारवाया अति- प्रसक्तधर्मावच्छेद्यत्वे यद्धत्वधिकरणत्वं साध्याधिकरणतावच्छेद- कमिति तल्लक्षणव्याख्यापक्षे स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यविव्याप्तयाऽदूषयित्वा विरुद्धदिक्कालावच्छिन्नवृत्ति- कस्येत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृवामनविरिक्तवृत्ति- स्वरूपावच्छेदकत्वविवक्षाया असङ्गत्यापत्तेः । अस्तु वाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिब- लादाधाराधेयभावावच्छेदकत्वम्। व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तद्- वच्छेदकत्वमप्रसक्तम्। क्षितिजलोभयं गंधवत् स्नेहगंधोभयं क्षिता- वित्याद्यप्रतीतेः । अथ वा द्वितीयाद्यर्थेऽध्ययनाधारत्वे दत्तन्मासादि- रूपप्रकृत्यर्थविशेषणतापन्नवत्तन्मासादिव्यक्तीनां व्यापकतासम्ब- न्धेन पारतन्त्र्येण विशेषणत्वमुपेयते । तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसम्बन्धेन व्युत्पत्तिवादः [कारके ष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोध. २४८ स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्त्वं, तादृशधमश्च चैत्रोऽधीत इत्यादौ चैत्रीयाध्ययनाद्याधारतात्वं विशेष्यैव सम्बन्धेऽन्वर्भावनी- यम् । मासान्तरनिष्ठतादृशाभावप्रतियोगितावच्छेदकत्वस्य तादृश- धर्मे सत्त्वेऽपि वत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानव- च्छेदकतादृशधर्म उक्तसम्बन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेद- स्तदाश्रयत्वमक्षतमेवेति यत्किञ्चिदेकमासादिमात्रव्यापकाध्ययना- दिस्थलेऽपि तादृशप्रयोगनिर्वाहः । प्रतिमासमधीव इत्यादौ प्रत्या- दिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्नि- Ear कतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः। अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपद विनापि. यत्किञ्चि- देकमासादिव्यापकवाबोधकत्व उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोवोत्यत्र एकपदवैयर्थ्यमिति चेत्-न । मासाधिककालव्यापकत्वे- ऽपि मासव्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावार- णायैकपदोपादानात् । तथा सति तस्य केवलार्थकतया मासमात्र- व्यापकतालाभात्ताशप्रयोजनोपपत्तेः। अत एव च यावज्जीवमग्नि- होत्रं जुहोतीतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलब्रीहिचरुरूपद्र- व्यस्य मासैकरूपकालस्य विधाने वाक्यभेदः स्यादिवि तादृशद्रव्य- कालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव वि- धायिका तादृशी अतिरिति सिद्धान्ते यावज्जीवकालान्तर्गवमासरू- पकालांशेऽप्यनुवादकतासंभवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैव वि- धानमुचितमिति पूर्वपक्षो निरस्तः । यावज्जीवमित्यादिश्रुत्या याद- ज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्च- रुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकवाया अलाभेन तस्यापि वि- धेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वार- स्वात् । अथ वादृशश्रुतेर्द्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रति- २४६ द्वितीया] जयाऽलङ्कृतः 'याद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः। विधेय- भेदस्य तावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधा- नात् । एवं च- 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ।' इत्यपि नियुक्तिकामति चेत्-न। यत्र विधेयांशे युगपदनेकधर्माण विशेषणतया भानंतत्र विधेयविशेषणभेदेऽपि विशिष्टनिष्ठविधेय- त्वाभेदेन वाक्यभेदविरहात् । अन्यथा भूतलं नीलघटवदित्या- दावपि नीलवद्धटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवा- द्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः। यद्यपि तत्रोपसच्चरकरणकहोमाधि- करणतात्वेन वाधिकारिविशेषकतवादशहोमाधिकरणवात्वेन वा मासैकव्यापकता मासन्यून कालहोतृकृतहोमाधिकरणतायामप्यन्या न्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव तत्तत्पुरुष- कर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाःश्रुतितात्पर्यविषयत्वे च विधेयानन्त्यं तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वया- वृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य वत्तत्पु- रुषकर्तृकवादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संस- विधया विवक्षितत्वान्न दोषः । तादृशाधिकरणवाद्वयावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरण- तावृत्तित्वोभयसम्बन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोथ्य-' म । मासमधीत इत्यादावपि चैत्रादिकर्तृकाध्ययनाधिकरणवात्वरू- पब्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः । अतो मासमधीयानो दृष्ट इत्य दौविशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्व- यबाधानुपपत्तिः। अन्यत्स्वयमूहनीयम् । दण्डं विना न घट उत्पद्यते, रासभं विनाऽपि घट उत्पद्यत व्युत्पत्तिवादः २५० [ कारके इत्यादौ विनापदार्थोऽभाववान् वत्पदसमभिव्याहृतद्वितीयाया अभा- वान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः । अभावववश्वोत्पत्तावाधार- त्वेनान्वयः । तथा च दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः । यद्यपि निपा- वार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि सम्भववि सार्थकत्वे विभक्तेर्निरर्थकत्वमनुचितमिवि द्वितीयायाः सार्थकत्वमुपेयते । भूतले न घटश्चन्द्र इव मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथ- मैव न साधुः स्यात् । प्राविपदिकार्थान्वयिनोऽन्यपदेनाभिधानस्थल एव प्राविपदिकार्थेत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगि- त्वादिः सम्बन्धविधयैव भासत इत्युपेयते । दण्डं विना न घटोत्पत्ति- रित्यादौ च विनान्तार्थे घटोत्पत्त्याद्यभावान्वयेऽनुयोगिविशेषण- दण्डाद्यभावस्य च तदनुयोगिवावच्छेदकत्वं भासते । द्रव्ये न गन्ध इत्यप्रयोगात् उपलक्षणीभूतधर्मावत्तिछन्ने न नबर्थाभावान्वय इति- व्युत्पत्तेरिति रासभं विना न घटोत्पत्तिरिति न प्रयोगः। अतिप्रस- क्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयोगितावच्छेदकताविर- हात् । अथ वा अभाव एव विनार्थः। दण्ड विना न घट इत्यादौ च विनान्तार्थस्याभावस्य नबर्थे घटादयभावे प्रयोज्यवासम्बन्धेनैवा- न्वयः । अत एव रासभं विना न घट इत्यादयो न प्रयोगाः । अव एव दण्डाद्यभाववति घटादेवृत्तावपि जायते इत्यस्याध्याहारं विनैव दण्ड विना न घट' इत्यादौ च विनार्थस्याभावस्य सामाना- धिकरण्यसम्बन्धेन घटादावन्वयः। दीधितिकृताप्यविनाभावो व्या- प्तिरित्यत्र साध्यं विना साध्याभाववति योऽभाव इति यद्वयाख्यातं S -१ १ इत्यत्र 'इति प्रयोगोपपत्तिः । रासभम्बिना घट इत्यादौ च विना- पदार्थस्याभावस्य सामानाधिकरण्यसम्बन्धेनैव घटादावन्वयः' इति हस्त- लिखितपुस्तकपाठः। अयमेव पाठः साधीयान् प्रतिभाति ।

२५१ द्वितीया]] जयाऽलङ्कृतः वत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरण निष्ठत्व- मेवोपात्तं न तु विनार्थत्वेनाधिकरणम् । अभावाधिकरणपर्यन्तस्य विनापदार्थत्वेऽपि सप्तम्याधेयत्वरूपापदार्थविवरणरूपताया आव- श्यकत्वात् । न च विनापदोत्तरलुप्तसप्तम्यर्थ एवाभाववतीति सप्तम्या विवृत इति वाच्यम् । निपातोत्तरविभक्तनिरर्थकत्वात् । अत एव सर्वत्र निपातोत्तरं साधुत्वार्थ प्रथमैवेति शाब्दिकाः । पृथिव्यामेव गन्ध इत्यादावेवकारप्रकृतिकसप्तम्या यदाधेयत्वबोधकत्वमङ्गीकृतं. दीधितिकृद्भिस्तत्रापि तेषां न निर्भरः। अस्तु वा तत्र प्रतियोगितया पृथिव्यन्यवृत्तित्वभानानुरोधेनैव- कारस्यान्यवृत्तित्वार्थकत्वं गौरव दुपेक्ष्य तत्राधेयत्ववाचकत्वेन क्लु- सायाः सप्तम्याः कल्पनम् । प्रकृते चाधेयत्वस्य संसर्गतयैवोपपत्तौ विनापदसाकाङ्क्षाधेयत्वार्थकसप्तमीकल्पनं दुष्कल्पनमेव । एवकार- स्थले चाभावरूप एवार्थेऽन्यरूपतदर्थान्तरस्याधेयतासम्बन्ध इति न सम्भवति । आधेयतादेस्तद्वत्येव सम्बन्धत्वात् न तु तदभावे । न च तत्राधेयत्वाभावो न प्रतीयते अपि तु तत्सम्बन्धावच्छिन्नप्रतियोगि- ताकपृथिव्यादयन्याभाव इत्युपेयम् । तादृशप्रतियोगिताकत्वमेवाभावे ऽन्यस्य सम्बन्धोऽस्त्विति वाच्यम् । आधेयतासम्बन्धस्य प्रतियोगिन आधारस्यानुयोगिन्याधेये वृत्त्यनियामकत्वेनाभावप्रतियोगितानव- च्छेदकत्वात् । चैत्रः पचतीत्यादौ कृत्यादिसम्बन्धस्यापदार्थ- त्वेऽपि पाककृतिमानित्यादौ मतुबादिपदेन विवरणात् उक्तस्थले सामानाधिकरण्यस्य पदेन विवरणमपि न विरोधमासादयति । विवरणीयार्थस्याप्यन्यलभ्यत्वेऽपदार्थतोपपत्तेरित्यलमसदावेशेन- विना वातं वृक्षः पतित इत्यादौ विनापदार्थस्याभावस्याश्रयतासम्ब- १निपातार्थत्वेऽपीति हस्तलिखितपुस्तकपाठः।

२५२ । व्युत्पत्तिवादः [कारके न्धेन वृक्षेऽन्वयाद्वाताभावविशिष्टो वृक्षः पवित इति शब्दतो लभ्यते। पतनेऽनुभवसिद्धौ वावजन्यत्वाभावलाभश्वार्थः, जन्य- तायाः पदानुपस्थाप्यत्वात् । तदभावस्य वस्य वृत्त्यनियामकसम्ब- न्धत्वात्तवच्छिन्नवाताभावस्य च शब्देन बोधयितुमशक्यत्वात्। पुत्रं विना गत इत्यादौ पुत्रादिपदं लक्षणया पुत्रगमनादिपरम् । विनापदबोध्यतदभावश्च समानकालीनत्वादिसम्बन्धेन गमनेऽ- न्वेति । समानकालीनत्वघटकं कालनिष्ठं स्वाधिकरणत्वमनव- च्छिन्नं बोध्यम् । अतो गमनादिकाले तदनधिकरणदेशावच्छेदेन गमनाद्यभावसत्त्वेऽपि नातिप्रसङ्गः। केचित्तु उक्तस्थलेऽसाहित्यमेव विनापदार्थः । तस्य च गम- नादिकर्तय॑न्वयः। असाहित्यं च स्वकर्तृकसमभिव्याहृवगमना- दिक्रियासमानकालीनवादशक्रियाकर्तृत्वरूपसाहित्याभावः। क्रिया- न्वयिस्वकर्तृकतादृशक्रियाकालीनत्वाभाव एव वा विनार्थः । कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः। विभक्तिः साधुत्वाथैव । अस्तु वा आधे- यत्वं द्वितीयार्थः। सप्तम्या आधेयत्वार्थकत्वेऽपि नात्र सप्तमीप्रसक्ति- स्तस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वात् । अतः शेषषष्ठीप्रसक्तथा तामेवोपपदविभक्तिर्द्वितीया वाधत इति सर्वा उप- पदविभक्तयः षष्ठयपवादिका इत्यस्याविरोध इति विनासमानार्थक- योऋ तेऽन्तरेणेति निपातयोरपि दर्शितैव रीतिः। एवं विनायुक्तत- तीयापञ्चमीस्थलेऽपि मर्यादाभिविध्यर्थकयावच्छब्दयोगेऽपि द्विती- या दृश्यते तत्र मर्यादार्थको यावच्छब्दः। 'प्रारभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्ववराजपुत्री मित्यादौ मर्यादासीमाकालरूपादेशरूपा च। कालनिष्ठं तत्कालनिष्ठस्वसमभिव्याहृतकाल'प्रागभावानधिकर- । स्वसमभिव्याहृतकालेति । स्वसमभिव्याहृतकाले त्यस्य स्वसमभिव्या- द्वितीया ] जयाऽलङ्कृतः २५३ पस्वप्रागभावाधिकरणस्वसजातीययावत्कालवृत्तिसमभिव्याहृव- क्रियानधिकरणत्वम् । एवं चोक्तस्थले यावच्छब्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठतादृशसीमात्वनिरूपकत्वं प्रत्याय्यते। वावतैवार्थतः शुक्लदशम्यांमर्यादात्वं लभ्यते । वन्निष्ठसीमात्वनिरूपकत्वं च तद- वृत्तित्वे सति कृष्णनवमीप्रागभावानधिकरणशुक्ल दशमीप्रागभावा- धिकरणविथिकूटव्यापकत्वम्। तावता षोड़शतिथ्यधिकरणकषोड़- शपूजारूपस्यैककर्मणो विधेयतया लाभः । व्याप्यकालसमुदायेसजा- तीयत्वविशेषणात्पूजाया उक्तविशेषणद्वयाक्रान्तदण्डादिसमुदाया- व्यापकत्वेऽपि न बाधः अन्वयितावच्छेदकरूपेण साजात्यस्य विव- क्षणादुक्तस्थले चतिथिमित्यस्याध्याहारेण दशमीपदार्थतावच्छेदकस्य तिथित्वघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिथित्व- भानात्तेन रूपेण दण्डादेर्दशमीसजातीयत्वाभावात् । तिथिश्चाखण्ड- कालविशेषरूपा, न तु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयरू- पा ।पूजायारतावक्रियावृत्तित्वासम्भवात्। अत्र च प्रागभाव एव यावत्पदार्थः। द्वितीयार्थः प्रतियोगित्वमनुयोगित्वं वा। तत्र व- त्प्रकृत्यर्थदशम्या अन्वयः । तावता दशमीप्रतियोगिकप्रागभाव- लाभः। तस्य स्वप्रतियोग्यवृत्तित्वविशिष्टव्यापकतासम्बन्धेन पूजा- रूपसमभिव्याहृतक्रियायामन्वयः । व्यापकत्वं च स्वाधिकरणति- थिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम् । स्वाधि- करणत्वं च स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदविशिष्ट- कालिकविशेषरमतासम्बन्धेन । एतेन कृष्णनवमीप्रागभावाधिकरण- प्रतियोगिकभेदस्याव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्ण- हृतपदप्रतिपाद्यकालेत्याद्यर्थः । तेनारभ्य तस्यामित्यादौ दशमीपदसमभिव्या- हृततच्छब्दप्रतिपाद्यनवम्या ग्रहणम् ।

व्युत्पत्तिवादः [कारके नवमीप्रागभावाधिकरणत्वमादाय नाप्रसिद्धिः। तथा सत्यपि तत्त- दशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावा- वच्छिन्नभेदवत्त्वसम्बन्धन तत्तत्प्रागभावाधिकरणत्वाक्षतेः। न चैव- मपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेदघटितसम्बन्धेना- व्यवहितपूर्वकृष्णनवमीपूर्वविथीनामपि तत्तदशमीप्रागभाववत्त्वा- त्तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम् । स्वा- वच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसम्बन्धेन स्वावच्छिन्नभे- दस्यैव प्रागभावसम्बन्धे निवेशनीयत्वात्। स्वाधिकरणनिष्ठाभाव- प्रतियोगिवानवच्छेदकत्वमपि तादृशावचछेदकत्वसम्बन्धेन स्वाव- च्छिन्नस्य भेदः । अतस्तादृशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किञ्चिदशमीप्रागभावाधिकरणनिष्ठाभावप्रतियोगितामादायासि- द्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वपदार्थस्य सम्बन्धमध्ये प्रवेश्यतयाननुगम इति निरस्तम् । देशरूपस्य सीमा च काशीत: कौशिकीं यावद् यातीत्यादौ वत्र कौशिक्यां गमनसीमात्वं प्रतीयते । तच्च काशीपूर्वकौशिकी- पश्चिमदेशव्यापकगमनानधिकरणत्वम् । यावत्पदेन च कौशिक्य- नधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्विवीयार्थोऽवधित्वमवधिमत्वं वा प्रतीचीत्वा- धन्वयि । निष्कर्षः पूर्ववत् स्वयमूहनीयः । अभिविध्यर्थो यावच्छब्दः कार्तिकमारभ्य चैत्रं यावच्छीतं भवतीत्यादौ काशीतः पाटलिपुत्रं यावदृष्टो देव इत्यादावभिविधि- स्वत्पर्यन्वाभिव्याप्तिः। एवं च प्रथमे कार्विकपूर्वकालोत्तरचैत्रोत्तर- कालपूर्वकालव्यापकत्वं चैत्रोत्तरकालाऽवृत्तित्वसहितं शीवभवने द्वितीये च काशीपश्चिमदेशपूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशब्याप- कत्वं पाटलिपुत्रपूर्वदेश वृत्तित्वसहितं वृष्टौ यावच्छब्देन प्रत्याय्यते।

२५५ द्वितीया] जयाऽलङ्क्तः विशेषः पूर्ववत् । यावच्छब्दसमानार्थकाशब्दस्थलेऽपि दर्शितैव रीतिरवसेया । तद्योगे च पञ्चमी साधुः । यज्ञमनु प्रावर्षदित्यादावनुशब्दाथः कारकत्वरूपं हेतुत्वम् । अनुलक्षणे इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्या- न्वयः । हेतुवायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः। जन्यत्वं वानुशव्दार्थः। तत्र निरूपिवत्वरूपद्वितीयाथस्य यज्ञान्वितस्या- न्वयः । जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः । अन्वर्जुनं योद्धार इत्यत्राप्रकर्षरूपं हीनत्वमनुशब्दार्थः । अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चापकर्षेऽन्वयः । अवधित्व- स्यापादानवारूपत्वेऽपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः । अस्मा- दयं दीर्घ इत्यादौ भवतीत्यस्याध्याहारेणैव पञ्चम्युपपादनात् । अतः षष्ठ्यपवादवानिर्वाहः। वृक्ष प्रति विद्योतते विद्युत्, मातरं प्रति साधुः, यो मां प्रति स्यात्, वृक्ष प्रति सिञ्चवीत्यादौ लक्षणेत्थं- भूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसंज्ञकप्रत्यादिशब्दः प्रथमे परि- चायकत्वरूपं लक्षणत्वं परिशेषत्वरूपं लक्ष्यत्वं वा कर्मप्रव- चनीयार्थः। वृक्षप्रकाशेन विद्युद्विद्योतनज्ञानावृक्षस्य परिचायकता । द्वितीयार्थश्चाधेयत्वं निरूपिवत्वं वा। द्वितीये साधुत्वं प्रियकारित्वं साधुत्वघटकप्रियान्वयी सम्बन्धः कर्मप्रवचनीयार्थः । सम्बन्धा- न्वयि प्रतियोगित्वं तन्निरूपकत्वं वा द्वितीयार्थः । तृवीये भागः स्वत्वाश्रयः प्रत्याद्यथः । तदन्वयी सम्बन्धो द्वितीयार्थः । इत्थं चास्मत्सम्बन्धी यो भागः स्यादिति बोधः । चतुर्थ कर्मण्येव द्वितीयार्थत्वबाध एव संज्ञाफलम् । प्रविश्व निरर्थकः । गृहे गृहे श्वा इत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रविशब्दस्य व्यापक तार्थकत्व उक्तार्थकत्वेन गृहे व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् । न च प्रतिशब्दस्यापि व्यापकतार्थकत्वं प्रतिदिनमधीव -- २५६ व्युत्पत्तिवादः [ कारके इत्यादौ क्लृप्तम् । द्विरुक्तेरपि वृक्षं वृक्षं सिञ्चतीत्यादौ क्लृप्तमिति प्रकृते संभेदेनान्यतरवैयर्थ्यमिति न्यायाद्रुयोरेव व्यापकताबोध- कत्वमवर्जनीयमिति वाचयम् । प्रतिमासमधीत इत्यादावव्ययीभावे हिप्रथमातिरिक्तविभक्तरसाधुत्वेन प्रविशब्देन मासान्वितव्यापकत्वं क्रियायां बोध्यते । विभक्तिः साधुत्वार्था । वृक्षं वृक्षं प्रति सिञ्चती- त्यत्र तु सेके द्वितीयाथैकर्मत्वावरुद्धप्रकृत्यर्थवृक्षविशेषितव्यापकवा बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्तिविरोधात् । कर्मत्वसम्बन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाच्च । तस्य सेककर्मत्वं आश्रयतासम्बन्धघटितव्यापकताप्रत्यायनमपिन युज्यते। प्रकृत्यर्थसुबर्थयोरन्तरा नअतिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वात्। नामूढस्येवरोत्पत्तेः। 'नानुपमृद्य प्रादुर्भावादित्यादौ नअर्थमात्रस्य पञ्चम्यर्थहेतुवाया विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेनान्वयात्। तस्मात्प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यवलाच्च सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गतयैव भासते । यदि च वृक्ष प्रति सिञ्चती- त्यादावुपसर्गस्य प्रतेर्वाचयो द्योत्यो वा कश्चिदन्योऽर्थस्तदास्तु स एवात्रापि तदर्थः । अत एव तस्येवास्यापि प्रतिशब्दस्य प्रयागो नानथकः। वस्तुवोऽनर्थकयोः कर्मप्रवचनीयाधिपरिशब्दयोः प्रयोगवत्ता- दृशप्रतेरपि प्रयोगस्य प्रयोजनान्तरानुपपत्तिश्चिन्त्या । प्रतेयंत्र व्यापकतार्थकत्वं तत्र प्रतिवृक्षं सिञ्चतीत्यव्ययीभावसमास एव नियतः । तदर्थकाव्ययस्याव्ययीभावसमासविधेर्विभाषाधिकारीय- ताविरहेण नित्यत्वादतो वीप्सया प्रतिवृक्षं सिञ्चतीविवढ्दं प्रति सिञ्चतीति न प्रयोगः। यत्रव्यापकत्वाथेकेनाव्ययेनाव्ययीभाव- समासरतदुत्तरं सर्वत्र प्रथमा विभक्तिरेव । न तूपकुम्भे गच्छती- विवत् प्रतिगृहेऽश्वा इत्यादिरपि प्रयोगः । उक्तयुक्तथा तत्र प्रतिना- २५७ तृतीया] जयाऽलङ्कृतः ऽश्वादौ गृहादिव्यापकताया बोधयितुमशक्यत्वात् । तदाधारता- दिरूपसप्तम्याद्यर्थे च समासपदार्थस्य गृहादिव्यापकत्वस्याश्रयता- सम्बन्धेन वदर्थस्य व्यापकरूपधर्मिणो वा भेदसम्बन्धेनान्वये मेयत्वे घट:घटवृत्तौ घट इत्यादिप्रयोगवारणाय कल्प्यायाः सप्तम्यर्थाधार- ताया आश्रयत्वसम्बन्धेनाभेदसम्बन्धेन वा प्रकृत्यर्थानन्वयव्युत्पत्ते- विरोधात्। उपकुम्भे निधेहि उपकुम्भादागतः उपकुम्भेन कृत इत्यादौ च विवक्षितस्याधारत्वापादानत्वकर्तृत्वादौ कुम्भसमीपादेराधेयता- सम्बन्धेनान्वयस्याधेयत्वादौ निरूपिवत्वसम्बन्धेन तदन्वयस्य वा बोधे न कश्चिद्व्युत्पत्तिविरोध इत्युपपद्यन्ते तथा प्रयोगा इति ध्येयम् । त्वां च मां चान्वरेत्यादावन्तरान्तरेण युक्त इति द्वितीयाया. निरूपितत्वमर्थः । तस्यान्तरापदार्थतावच्छेदकमध्यत्वेऽन्वयः । एव मन्यत्रापि तदर्थस्तूक्तदिशा स्वयं परिच्छेद्यः । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते ध्युत्पत्तिमा द्वितीयाविवरणम् । अथ तृतीयाविवरणम् कारकविभक्तितृतीयायाः क्रियान्वयि कर्तृत्व करणत्वं चार्थः कर्तृकरणयोस्तृतीयेत्यनुशासनात् । कर्तृत्वं च मुख्यं क्रियानुकूलक- तिरेव । सा च कळख्यातसमभिव्याहृते चैत्रः पचतीत्यादौ क्रिया- विशेष्यतयाख्यातेन प्रतिपाद्यते चैत्रेण पच्यते, शय्यते, इत्यादिकर्म- भावाख्यातस्थले च क्रियायां विशेषणवया तृवीयया सा प्रत्याय्यते। यत्तु तत्राख्यातार्थ एव कृतिः, तृतीयार्थश्चाधेयत्वम्, तस्य चाख्या- तार्थकृतिविशेषरणतयान्वयः, कृतेश्च क्रियाविशेषणतया वथा कृति- बोधने चात्मनेपदरूपस्थाख्यावस्य यगादिसमभिव्याहारज्ञानमपे- क्षितम्, पचति पचव इत्यादौ वथा कृत्यन्वयाबोधात्, चैत्रेण ज्ञायते १७ २५८ व्युत्पत्तिवादः [ कारके गम्यत इत्यादौ तृतीयायाआधेयतार्थत्वं क्लप्तमेवेति न तत्कल्पनम- धिकमिति-तन्न । चैत्रेण पक्कमित्यादौ तृतीयायाः कृत्यर्थकताया आवश्यकत्वात् । तत्र कृत्यर्थकाख्यातविरहेण कृतः कतृकर्मवाचक- त्वेन कृत्यर्थताविरहात्। यदि च कर्तृकृतः कृतावेव शक्तिर्न तु विशिष्टे ज्ञातेत्यादौ त्वाश्रयार्थकतायाः क्लप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभ- संभवादित्युच्यते तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव। उक्त- प्रत्ययस्य कचित्कर्तृवाचकत्वेऽपि चैत्रेण पाच्यः दुष्पचश्चैत्रेणौदनः चैत्रेणौदनस्य पाक इत्यादौ कृतां न कृतिबोधकत्वमिति तत्र कृति. बोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकमेव । एवं च चैत्रेण पच्यत इत्यादावपि तृतीययैव कृतिर्बोध्यते । तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यत एव निर्वाहे कृवावाधेयत्वस्य विशेषणवया भानो- पगमस्यानुचितत्वात् । तथा सति तत्संसर्गस्यापि विषयताकल्पना धिक्यात् तादृशवाक्यज्ञानघटिवशब्दसामग्र्यामधिकौपस्थितिनि- वेशने च गौरवात् । अथ वत्र कृतेस्तृतीयार्थतोपगमे चैत्रेण पच्यते न मैत्रेणेत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभावः पाकेऽन्वेतीत्युपेयम्। तस्याश्च समवायसंबन्धावच्छिन्नाभावो मैत्रकर्तृकपाकेऽपीत्यवि- प्रसङ्गः । जन्यतायाश्च वृत्त्यनियामकवया वत्संबन्धावच्छिन्नाभावः प्रसिद्धयत्येव न । मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदासमभिव्याहारस्थले दुर्घटा। आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । न च तथा सवि मैत्रचैत्रोभयकतृकपाकसत्त्वे चैत्रीयपाककृतौ मैत्रवृत्तित्वाभाव- सत्त्वात् मैत्रेण न पच्यत इति प्रयोगापत्तिरिति वाच्यम् । मैत्रेण नपच्यव इत्यवो वर्त्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तित्वा- भाववोधनादुक्तस्थले च तादृशकृतित्वसामानाधिकरण्येन मैत्रवृत्ति- त्वसत्त्वात्तादृशवाक्याप्रामाण्यात्। वर्तमानत्वस्य कृतिविशेषणवया च चैत्रेण पक्ष्यतेऽपच्यत न तु पच्यव इत्युपपद्यते । क्रियाविशेषस्य ।

२५६ तृतीया] जयाऽलङ्क्तः वथात्वात् । यदा मैत्रेणान्यत्क्रियते न तु पच्यते तदा मैत्रेण न पच्यत इति प्रयोगश्च । न चाख्यातेन कालस्य कृतिविशेषणतया बोध- नात्कालविशेषविशेषितकृतित्वस्यान्वयितावच्छेदकतया तदवचछे- देन नजाभावः शक्यो बोधयितुम् । न तु कालक्रियोभयविशेषितक- तित्वावचछेदेन कर्मप्रत्ययस्थले क्रियायाःकृतिविशेषणत्वाभावेन त- द्घटितधर्मस्यान्वयितावच्छेदकत्वाभावादिति वाच्यम्। क्रियावि- शेषघटितधर्मस्यान्वयितानवच्छेदकत्वेऽपि ववच्छिन्नत्वविशिष्ट- विशेषणताया अभावसंसर्गवया भानसंभवेन सामञ्जस्यात् । न चान्वयितावच्छेदकावच्छिन्नत्वमेव विशेषणसम्बन्धे भासव इति नियमः। तथा सति शरदि पुष्पन्ति सप्तच्छदा इत्यादौ सप्तच्छद- पुष्पोत्पत्तित्वादेः शरद्वृत्तित्वान्वयिवानवच्छेदकतया आख्यातान्त- प्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वावच्छेदेन च शरदृत्तित्वान्वये बाधादवच्छेदकावच्छेदेनान्वयानुपपत्तेरन्वयितावच्छेदकसामाना- धिकरण्यमात्रेण च तदन्वयोपगमे शरदि पुष्पन्ति सप्तच्छदाःशरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तेः । यदि च तत्र शरत्सं- बन्धः सप्तच्छदविशेषणवया भासते न पुनराख्यातार्थे धातुमात्रार्थे व पुष्पोत्पत्तौ। अत एव कारकविभक्तिरूपसप्तम्यनुपपत्त्या काल- रूपविशेषणपदोत्तरं स्वावन्न्येण सप्तमी सर्ववर्मणा सूत्रिता । एवं च क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वेन पुष्पोत्प- त्तिनिमित्तत्वरूपाख्यावार्थस्य विशिष्टान्वयानुरोधेन शरत्संबधेष्व- 'प्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातार्थत्वानुपगमेऽपि शीवलं सरोऽवगाढवतो निदाघदुःखं व्यपैवीत्यादाविवोदेश्यविधेयभावम- हिनोद्देश्यविशेषणशरत्संबन्धेन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयो- जकभावस्य संसर्गमर्यादया भानमिति चम्पकादिपुष्पोत्पत्तौ शरत्सं- बन्धनिमित्तकत्वाभावान्नोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छे- देनान्वय एवनोपेयत इत्युच्यते, वथापि तादृशनियमोनिष्प्रामाणिक २६० व्युत्पत्तिवादः [ कारके एव । न च तादृशनियमानुपगम इह भवने मैत्रेणैव पक्ष्यते तेमनमि- त्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात्पाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधा- संभवकथनं दीधितिकृतां विरुध्येत इति वाच्यम्, अवच्छेदका- वच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया भासमानमेव रूपं विशेषणे अवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभि- धानात् । विशेषणसंबन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्ट- बुद्धौ भासत इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् । न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन बिशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम् । घटो द्रव्यमित्यादौ घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूप- त एव भानादिति वाच्यम् । तादृशशाब्दबोधे द्रव्यत्वावच्छि- नस्यैवाभेदसंबन्धेन विशेषणत्वात् घटत्वादिविशिष्टे द्रव्यत्वादिवि- शेषण कतादृशप्रत्यक्षेऽवच्छेदकावच्छेदेन भानानुपगमे क्षतिविरहात्' तथा च मैत्रेण न पच्यत इत्यादौ पाककृवित्वस्यान्वयितानवच्छेद- कत्वेऽपि अर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गाशे भानं निर- बाधमेवेवि चेन्न । मैत्रेण न पक्क इत्यादौ कृतौ मैत्रादिवृत्तित्वाभाव. बोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादि- कृतिजन्यत्वाभाववोधस्योपगन्तव्यतया मैत्रेण न पच्यत इत्यादावपि तद्बोधोपगमेन सामञ्जस्यात् । न च यदा मैत्रः सुप्तस्तदा मैत्रेण पक्ष्यते न तु पच्यत इति प्रयोगानुपपत्तिः । मैत्रवृत्तिवर्तमानकृतेर- प्रसिद्ध था तादृशकृविजन्यत्वाभावप्रत्यायनासम्भवात् वर्तमानत्वा- विशेषिववदीयकृतिजन्यत्वाभावस्य बाधिवत्वादिवि वाच्यम् । आख्यातार्थवर्त्तमानत्वादेब्समभिव्याहारस्थलेऽभावांश एवान्व यस्य व्युत्पन्नत्वात् अन्यथा विनष्टघटं न पश्यतीत्यादौ वाहशघट- कर्मकवत्तमानदर्शनाद्यप्रसिद्धयाऽन्वयबोधानुपपत्तेः । प्रकृते च.

तृतीया] जयाऽलङ्कृतः २६१ मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतजन्यत्वा- भावस्यैव पाके प्रतीत्या सामञ्जस्यात्। पाकत्वाद्यावच्छेदेनैव मैत्रादि- कर्तृकत्वाभावबोधोपगमान्मैत्रादिकर्तृकपाकदशायामन्यकर्तृकपाके मैत्रादिकर्तृकत्वाभावसत्त्वेऽपिन पच्यते मैत्रेणेत्यादयो न प्रयोगाः। यत्र मैत्रेणोदनं पच्यते न तु तेमनं वत्र मैत्रेण न पच्यते तेमन- मित्यादिप्रयोगनिहाय तेमनपाकत्वाद्यवच्छेदेनैवाभावान्वयबोध उपगम्यते, न तु शुद्धपाकत्वाच्छेदेन, बाधिवत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोप- पादितमाधेयत्वस्य तृतीयार्थत्ववादिनैव । घटेननपच्यत इत्यादयः प्रयोगाःआकाशं न पश्यतीत्यादिप्रयोगसमानयोगक्षेमाः। अचेत- नकाष्ठस्थाल्यादेरापि कर्तृत्वविवक्षया काष्ठं पचतीत्यादिवत्काष्ठेन पच्यत इति प्रयोगात् । तत्र व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा। एवं चैत्रेण ज्ञायते, इष्यते, गम्यत इत्यादावाश्रयत्वरूपे कर्तृत्व आधेयत्वरूपे कतृमत्त्वे वा, नश्यते घटेनेत्यादौ प्रतियोगित्वरूपे कर्तृत्वेऽनुयोगित्वरूपे कर्तृमत्त्वे बा लक्षणा । कर्तृपदमपि व्यापारादिमत्यचेतनादौ भाक्तमेव । अचेवनादौ स्वरसतः कर्तृपदाप्रयोगात्। अत एव च कृबो यत्नवाच. कत्वम्। न च यत्नवत एव कर्तृपदार्थत्वे कर्तृकरणयोस्तृतीयेत्यादौ क- र्तृपदस्य मुख्यार्थत्यागे युक्तिविरहादचेतनकाष्ठादिवाचकपदयोगे कर्तृप्रत्ययानुपपत्तिरिति वाच्यम्, सूत्रस्थकरीपदानां स्वतन्त्र: कर्ते- तिसूत्रकृत्परिभाषितकर्तृपरत्वात् । अन्यथा तत्प्रणयनवैयर्थ्यप्र- सङ्गात् । स्वतन्त्रत्वं च कारकान्तरानधीनत्वे सति कारकत्वम् । पुरुषव्यापाराधीनक्रियानुकूलव्यारववामेव काष्ठादीनामन्यव्यापा- रानधीनक्रियानुकूलव्यापारवत्त्वरूपस्वातन्त्र्यस्य काष्ठं पचवीत्यादौ विवक्षया काष्ठादेः. कर्तृत्वम् । न च स्वातन्त्र्यविवक्षणेऽपि स्वातन्त्र्यस्य वास्तविकस्याभावात् वबोधकविभक्तीनामप्रामाण्यं २६२ व्युत्पत्तिबादः [कारके दुर्वारमेवेति वाच्यम् । समभिव्याहृतक्रियाकारकान्तरव्यापारान- धीनततक्रियानकूलव्यापारस्यैव तत् । क्रियावाचकपदसमभिव्याहृ- तविभक्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च चैत्रः काष्ठैः स्थाल्यां पचवीत्यादिस्थले चैत्रः स्थालीकाष्टानि पचतीवि प्रयोगा- पत्तिवारणम् । यत्र च चैत्रः पचवि काष्ठं पचवीत्यादौ समभिव्या- हृतकारकांतराप्रसिद्धिस्वत्रानधीनान्तविशेषणं न प्रतीयत एव । त- निर्वाहश्च तत्र लकारादेः स्वतंत्रशक्त्यन्तरकल्पनात् । विशिष्टविष- यकशक्त्या विशेषणाविषयकबोधाजननात् । न च मैत्रः चैत्रेण पा- चयतीत्यादौ हेतुकर्तसमभिव्याहारस्थले कर्तरि तृतीयानुपपत्तिः, क- र्तृव्यापारस्य समभिव्याहृतहेतुकर्तृव्यापाराधीनत्वादिति वाच्यम्। वत्र ण्यन्तप्रतिपाद्यपाचनादिक्रियायामेव हेतोः कारकतया स्वतंत्र- कर्तृव्यापारस्यपचादिक्रियाकारकव्यापारानधीनत्वात् । स्वतन्त्रं प्र- युञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत्पाकादावन्यथासिद्धत- या न कारणमिति पाकादिप्रयोजकव्यापारवत्त्वेऽपि तस्य तक्रिया- कारकत्वाभावात्। अत एव चैत्रो मैत्रोण पाचयतीत्यादौ चैत्रः पच- वीवि न प्रयोगः । न च पञ्चभिहलैः कर्षति गृहीत्यादौ भूमिलेखनरू- पकृष्यादि क्रियायां खतन्त्रकर्तृन् प्रयुञ्जानस्य गृहिणो व्यापारस्य दर्शितयुक्त्या लकारादिनाऽभिधानासंभव इति कर्षतीति न स्यात्कर्षय- तीवि च स्यादिति वाच्या, तत्र कृषेः प्रति विधानार्थत्वात् । उक्त च-'याजका यजन्तीदि यजिहविःप्रक्षेपार्थः । हलैः कृषवीति कृषिः प्रतिविधानार्थ' इति याजेर्दैवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृवया हविःप्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितम्। तत्र च ऋत्विजामेव स्वातन्त्र्यम् । होतेत्यत्रापि हविःप्रक्षेप एव हुधावोरर्थो न तु तादृशफलायच्छिन्नस्त्यागः । तथा सति ऋत्वि- जस्तत्र स्वतंत्रकर्तृताविरहेण होतृपदेन प्रविपादनासंभवात्। धात्व- थंतावच्छेदकफलकर्तृत्वमेव कर्तृप्रत्ययेन प्रतिपाद्यत इवि ऋत्विजि जयाऽलङ्क्तः तृतीया ] २६३ होतृव्यवहारो न यंष्टरि । अवः प्रतित्रहीतृव्यापारो न स्वत्वजन- कस्तथासति वत्र दातृव्यवहारापत्तेरिति तु जोमूतवाहनः । अथास्तु चैत्रेण मैत्रेण पाच्यत इत्यादी स्वतंत्रव्यापारस्य हेतुकर्तृव्यापारा- धीनत्वेऽपि दर्शितरीत्या वस्य स्वतंत्रकर्तृत्वनिर्वाहस्तथापि तद्वाचक- पदोत्तरं तृतीयानुपपत्तिः कर्तृत्वस्य णिचप्रत्ययेनाभिधानादिति चेन्न । कर्तृत्वनिर्वाहकत्वसंबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्या- पारस्य णिजर्थत्वेन स्वतंत्रकर्तृत्वस्य णिचानभिधानात् । कर्तृत्वरूप- फलावच्छिन्नस्य तादृशव्यापारस्य णिजर्थवाभतेऽपि आश्रयोप- परक्तस्यान्यतो भानानिर्वाहेण कर्तुरनभिवानात्तृतीयोपपत्तेः । आ- ख्यावस्य धर्म्यवाचकत्वेऽपि कृतिविशिष्टबोधकत्वरूपस्य कळभि- धानस्याक्षतत्वाच्चैत्रः पचतीत्यादौ न तृतीया । न चैवं मुख्यविशेष्य- वया कृतिविवक्षया चैत्रेण पचतीति स्यादिति वाच्यम् । आश्रया- तिरिक्तांशे विशेषणतया कृतिबोधनस्यैव कर्मभिधानरूपत्वात् । तथा तदभिधानं च लकृत्तद्धितसमासानामेव । अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् । यद्यपि स्वतन्त्रव्यापारमात्र एव तृतीयादेरनुशासनं तथापि लाघवात्कृतिरूप एव कर्तृत्वे तृती- यादेः शक्तिः। अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्याना- दितात्पर्यमात्रग्राहकत्वात् । लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्त्वेऽपि गौरवेण शक्त्यसिद्धेः । एवं च कर्तृत्वरूपकृतिबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयत इति वदन्तर्भावेण शक्तिकल्पने मानाभावः । व्यापारला- क्षणिकेन कर्तृप्रत्ययेन लक्षणया वदन्वर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि वादृशातिप्रसङ्गस्य दुर्वारत्वादिति घटो जायते, ओदनः सिद्धथती- त्यादौ सत्यकार्यविद्वेषिणांनैयायिकानां कारकत्वं कर्तृत्वं च घटा- देर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव । मुख्यं च क्रियाकर्तृत्वं क्रिया- २६४ व्युत्पत्तिवादः [ कारके नुकूलकृतिमात्रम् । एकक्रियाविषयककृतितो यत्र नान्तरीयकक्रिया- न्वरनिर्वाहस्तस्कृतिमतस्तक्रियाकर्तृत्वाभावात् । अत एव मत्तो भूतं, न तु मया कृतमिति व्यपदेश इति । तक्रियानुकूलत्वे सति तद्विषयककृतिस्तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपावन ब्राह्मण- वधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृविविषयत्वेऽ- पि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्यानभिसंहिवत्वात्तेन रूपेण- कृतिविषयत्वं न तादृशव्यापारस्येति ब्राह्मणवधत्वविशिष्टकर्तृत्वं न वादृशव्यापारकर्तुरिति न वस्य संपूर्णप्रायश्चित्तम् । अत एव संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिप्रायेण हिंसा- लक्षणे मणिकृतां मरणोदेशेनानुष्ठीयमानत्वादृष्टाद्वारकत्वविशेष- योरुपादनमिति मिश्राभिधानसङ्गतिः । मरणोद्देशेनानुष्ठीयमान- स्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात्तादृश- रूपेण कृतिविषयत्वमिति तादृशविशेषणस्य विशिष्टकर्तृतानिर्वाह- कत्वात्तद्विशेषरणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । वच्छून्यस्य चालक्ष्यत्वनियमात् । अथ मरणोद्देशेनानुष्ठितस्यापि यत्र खड्गाभि- घातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वधीविषयता न तु मरणानुकूल- त्वविशेषिततद्रूपेण वत्र न मरणानुकूलत्वविशिष्टविषयिणी कृति- रिवि वादशव्यापारकर्तन वधत्व विशिष्टकतत्वमिति कथमुक्त- विशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम्। यदि च मरणोद्देशेना- नुष्ठोयमानत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते तदा व्यापारे ताहशविशेषणस्य वत्कर्तरि विशिष्टकर्तृतानिर्वाह- कत्वेऽप्युक्तस्थले खड्गाभिघातादौ तादृशलक्षणाव्याप्तिारैव । तत्र संपूर्णप्रायश्चित्तस्य निर्विवादवया लक्ष्यताया आवश्यकत्वात्। न च विशेषणीभूतफलनिष्ठोद्देश्यवाख्यविषयतानिरूपकत्वे सति व्यापार- निष्टसाध्यवाख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्यु प्रदर्शितस्थलेऽनुकूलतासंबंधेन मरणवैशिष्टयस्य साध्यतारूपविषय पत्तेः । उपायांशे मरणस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत् / तृतीया] जयाऽलङ्कृतः २६५ तावच्छेदकताविरहेऽपि न विशिष्टकर्तृत्वानिर्वाह इति मरणोद्देशे- नानुष्ठीयमानत्वस्य मरणकामनाधीनकृतिविषयत्वरूपतैवेति वा- च्यम् । ब्राह्मणं न हन्यादित्यादौ धात्वर्थतावच्छेदकस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन कृतावन्वयसंभव एव निरुक्तविशिष्टकर्तृत्वस्य निषेधविधिविषयत्वसंभवात्, व्यापारविशेषणवयोपस्थितस्य कृत्यंशे विशेषणत्वस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापार- कर्तृत्वस्य तादृशनिषेधविषयत्वेऽपि न क्षतिः। अन्योद्देशन नाराच- क्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात्। परन्तु मरण- रूपप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयम्। तच्च मरणोद्देशेन तदनुकूलव्यापारे कर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भाव एवोप- पद्यत इति चेत् । एवमपि ब्राह्मणमरणकामनया यत्र न तन्मरणानु- कूलव्यापारानुष्ठानमपि तु फलान्तर कामनाधीनतन्मरणानुकूलव्या- पारत्वप्रकारकचिकोर्षया तदनुष्टितं तत्राव्याप्तिरेतन्मते दुर्वारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याचरणादलक्ष्यतोपगमासम्भवादिति मैवम् । यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यतादिधीस्तत्रैव यत्र व्यापारविशेषत्वेनैव तद्धीस्तत्रापि मरणरूपफलकामनाधीन- व्यापारविषयिणी कृतिमरणानुकूलत्वेन व्यापारमवगाहते । कृतेः कामनाविषयफलोपरागेणोपायविषयतोपगमात् । विशृङ्खलफलभा- नोपगमे यत्र तृप्तिकामनया भोजनं 'फलान्तर कामनया च गमनम- वगाहमाना समूहालम्बनकृतिस्तत्र तृप्तये गमनं करोतीति व्यवहारा- एवं च मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिवि विशेष- णावच्छिन्नविषयककृतिमत्त्वं विशिष्टकर्तृत्वमुभयस्थले निष्प्रत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषय- त्वरूपं लक्षणघटकमिति न काचिदनुपपत्तिः । यद्यप्यदृष्टद्वारा पाकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति वत्तक्रियाकर्तृत्व- २६६ व्युत्पत्तिवादः [कारके घटककृतिनिष्ठतदनुकूलत्व एवादृष्टाद्वारकत्वमपेक्षितं, न तु क्रियानि- ष्ठफलानुकूलत्वेतत्तत्रापेक्षिवमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टा- द्वारकत्वरूपमणिकारोक्तविशेषणस्य न कर्तृताघटकत्वं तथाप्य- नुष्ठीयमानत्वप्रविष्टकृतेरेवादृष्टाद्वारकमरणानुकूलत्वं विवक्षितम् । विशिष्टकर्तृत्वं चादृष्टाद्वारकत्वविशेषितमरणानुकूलत्वेन कृति- विशेषणेन घटितमिति मिश्राशयः। तथा चैवं पर्यवसितम्-हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव । न हिंस्यादि- स्यादौ फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेन हिनस्त्याद्यर्थस्यानिष्ट- विशेषसाधनत्वं प्रतीयते । श्येनस्य हिनस्त्याद्यर्थत्वेऽपि न तस्य वादृशकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम् । वत्कर्तुरदृष्टा- द्वारकानुकूलताघटितफलकर्तृत्वविरहेण विशिष्टाकर्तृत्वादिति ना- निष्टाविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्था- न्वयमतेऽपि श्येनविध्यर्थबाधः । वस्तुत: श्येनानुकूलकृतेमरण- प्रयोजकत्वमेव न तु मरणकारणत्वमन्यथासिद्धत्वात् । मरणोप- लक्षिवान्यकर्तृकखगाभिघातादिरूपवैरिवधं प्रत्येव हेतुताया वेदेन बोधिवत्वात् । क्रियाजन्यकार्ये तक्रियानुकूलकृविहेतुतानियमेऽपि खड्गाभिघावादावेव श्येनकृतेहेतुत्वात् तथा चानिष्टविशेषजनकता- वच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकूलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वमतो दृष्टाद्वारकत्वं न वत्र निवेशनीयम् । कारणत्वपर्य- न्तनिवेशलाभायैव वदुपादानम् । यदि च विशिष्टान्वयपरताया वेदे औत्सर्गिकपरत्वेन वधसाधनताबोधकश्रुत्या विशेषणाभूतमर- पसाधनवापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूलकृतेर्मरणसा- धनत्वमप्रामाणिकमेव । क्रियाजनककृतस्वज्जन्यजनकतानियम- स्याप्रामाणिकत्वात् । अथान्योदेशेन नाराचक्षेपकर्तुर्विशिष्टविषय- ककृतिमत्त्वघटितविशिष्टकर्तृताविरहेऽपि यथार्थवधजन्यपापप्राय- श्चित्तं तथा श्येनकर्तुर्विशिष्टाकर्तृत्वात्पापार्द्धस्यावश्यकत्वाद्वलवदनि- जयाऽलङ्कृतः तृतीया ]] २६७ ष्टाननुबन्धित्वबाधो दुर्वार एवेति चेन्न । अकामकृतेऽप्यर्द्धप्रायश्चि- तश्रवणेन मरणावच्छिन्नव्यापारस्य विषयवामनन्तर्भाव्यविशिष्ट- जनककृतिमत्त्वसंबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात्। तबलेन विशिष्टकर्त्तः श्येनकर्तुहिंसाजन्यपापानुत्पत्तेः। न च लाघवेन मरणो पलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये निवेश्यतामिति वा- च्यम् । श्रुत्यर्थबाधापादकलाघवस्याप्रयोजकत्वात्। वेदस्थले विशि- ष्टान्वयस्यौत्सर्गिकत्वेऽपि श्येनस्य मरणजनकत्वे विध्यर्थवांवप्रस- ङ्गन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया अपि सूपपाद- त्वात् । न च यदि खङ्गाभिघावजनकादृष्टव्यवहितस्य श्येनस्य मर- णेऽन्यथासिद्धत्वं तदा हन्तकृतिजन्यव्यापारोऽपि तत्रान्यथासिद्धः स्यात् । यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृति- रेवान्यथासिद्धति मरणकारणव्यापारकारणकृतिमत्त्वं न कस्या- पि हेतुः स्यादिति वाच्यम् । तण्डुलविक्लित्यादिरूपफलव्यवहित- स्यापि तुषादिप्रक्षेपस्य तत्करणदशायां पचवीत्यादिव्यवहारानुरो- धेन यथानन्यथासिद्धत्वे तथा खङ्गप्रक्षेपादिकरणदशायां हन्ताति- व्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमव- श्याभ्युपेयमिति सामञ्जस्यात् । तण्डुलक्रयणदशायां पचवीत्याद्य- भाववत् खड्गादिनिर्माणदशायां हन्तीत्यव्यवहारात्तद्वयापारो मर- णेऽन्यथासिद्धवया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणा- दिर्यत्र तत्र देवाद्रवादिमरणेऽपि न हिंसारूपस्तथा न व्याघ्रादिहि- सारूपोऽपि तत्करणदशायां हन्तीत्यप्रयोगात् । अतथात्वेऽपि तन्म- रणोद्देश्यकादृष्टद्वारकतन्मरणप्रयोजककृतिजन्य व्यापारस्यापि हिं- सावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चि- त्ताचरणमित्यवधेयम् । एवं च चैत्रः पचतीत्यादौ विषयवाघटितक-- र्तृत्वबोधनिर्वाहाय यथा कृतौ पाकादेरुपधायकत्वविषयित्वोभयसं- २६८ व्युत्पत्तिवादः [कारके वन्धनान्वयः, विषयितायाः संबन्धत्वेऽपि उपधायकत्वनिवेश आ- वश्यकः।पाकाद्यनिष्पत्तिस्थले पचति पश्यतीत्यादिप्रयोगस्य प्रामा- एयवारकत्वात्। तथा चैत्रेण पच्यत इत्यादावपि तृतीयार्थकृतेर्जन्य- त्वविषयित्वोभयसंबन्धेनान्वयो बोध्यः कृतिजन्यत्वस्य तृतीया- र्थत्वे जन्यत्वसंबन्धमध्य एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृ- तिविषयत्वमेव वा तृतीयार्थः। स्वनिरूपकजन्यत्वं विषयतायाःसं- बन्धमध्येऽन्तर्भावनीयम्। काष्ठेन पचतीत्यादौ करणत्वं तृतीयार्थः । तञ्च व्यापारवत्कारणत्वम् । व्यापारे कर्तृव्यापाराधीनत्वं निवेश- नीयम् । अन्यथा कर्तुंरपि करणतापत्त्या चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पचतीत्यादिप्रयोगापत्तः । न च कर्तुश्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानेऽपि कर्तुः कर- णत्वं दुर्वारमेवेवि वाच्यम् । स्वभिन्नत्वेन कर्तुविशेषणीयत्वात्। य- कैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण नि- पाद्यते तत्र चैत्रस्तुपैमैत्रः काष्टैः पचतीवि प्रसङ्गः समभिव्याहृतक- तृव्यापाराधोनत्वस्य वत्तत्करणव्यापारे भानमुपगम्य वारणीयः।न च समभिव्याहृतकर्वन्तर्भावेण तृतीयार्थत्वे कर्बसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगापत्तिरिवि वाच्यम् । तत्रावि हेवाविति सूत्रेण हेतुतामात्रार्थकतृतीयासंभवाद्धनेन कुलं विद्यया यश इत्या- दिवत् न हि तत्र करणे तृतीया क्रियायोगाभावात्। न चैवमुक्तस्थले चैत्रस्तुपेण पचतीवि प्रयोगस्य हेताविति सूत्रबलादापत्ताविष्टापत्ति विनोत्तराभावात्समभिव्याहृतकन्तर्भावस्य करणे स्वतन्त्रतृतीया- नुशासनस्यैव वा वैयर्थ्यमिति वाच्यम् । उक्तस्थले पाके तुषहेतुक- त्वाभावबाधेऽपि चैत्रस्तुषेण न पचति किन्तु दारुमैवेति प्रयोगोप- पत्तये समभिव्याहृवक न्तर्भावेण तृतीयायाः शक्तिकल्पनाया आ- वश्यकत्वात् । वग्राहकतयैव करणे तृतीयानुशासनस्यावश्यक- त्वात् । शरैःशातिवपत्रोयमित्यादौ तृवीयायाःकारकविभक्तित्व एव २६६ तृतीया] जयाऽलङ्कृतः तदर्थान्वितार्थकशातिवादिपदेन समासस्य साधुतानिर्वाहाच्च । न च तृतीयायाः समभिव्याहतकतर्भावेण करणत्वार्थत्वे वत्र स- मभिव्याहृतक-भावादकारकविभक्तित्वं करणे तृतीयानुशासनेऽपि दुर्वारमेवेति वाच्यम् । एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । वस्तुतः समभिव्याहतकर्तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च तृतीयायाःशक्तिद्वयम् । कर्चसमभिव्याहारस्थले व्यापारवत्कारण- त्वमानंप्रतीयते। कर्तृसमभिव्याहारस्थले च व्यापारे तयापाराधी- नत्वमपीति सामञ्जस्यम् । एवं हेत्वनुशिष्टतृतीयाया अकर्यणे पञ्च- मीत्यनेन बाधनात्करणत्वविवक्षायां धनवता ऋणेन बद्धोयमित्यत्र तृतीयाया उपपत्तये करणे तृतीयानुशासनस्यांवश्यकता । करणत्वं च फलोपधानरूपमेव करणताघटकम् । अन्यथा कुठारादिकरण- कच्छिदादौ दात्रादेरपि स्वरूपयोग्यतया करणत्वापत्तेः। लिङ्गज्ञानस्यानुमितिकरणतामते धूमेन वह्निमनुमिनोतोत्यादौ धूमादिपदं तज्ज्ञानपरम् । व्याप्तिविशिष्ट हेतुज्ञानस्य व्यापारस्तद्विशि- ष्टवैशिष्ट्यावगाही परामर्शः। स चात्ममनोयोगादिरूपानुमातृपुरुष- व्यापाराधीन इति तस्य निरुक्तकरणत्वमवाधितमेव । धूमादिलिङ्ग- कवह्नयनुमितौ यत्र लिङ्गान्तराद्घटादिभानं तत्र तेन घटमनुमिनो- मीति न प्रयोगः । अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदे- नैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भास- मानस्य करणत्वस्य निरूपकत्वभानोपगमात् । निरूपकत्वं तु कर- पतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः। नव्यमते तु करणतानिरूपकत्वस्यैव नबर्थाभावे प्रतियोगित्वेनान्वयात्तावत्पर्य- न्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । परे तु लिङ्गज्ञानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमा- दिपदं मुख्यार्थमेव हेवाविवि सूत्रेण वत्र तृतीया। हेतुत्वस्य कारण- तावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जन- २७० व्युत्पत्तिवादः [कारके कज्ञानविषयधूमादेश्वानुमितिकारणतावच्छेदकतया प्रयोजकत्वम- तवमेव । उक्तसमूहालम्बनस्थलेऽविप्रसङ्गश्च वह्निविधेयकानुमिवि- त्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः। वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यन्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च । तथा चानुमिति- विशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थ एव तृतीयार्थान्वय उपगम्यते। समूहालम्बनानुमितिनिष्ठवटादिविधेयकत्वस्य धूमाद्यप्रयोज्यवया नोक्तार्थाविप्रसङ्गः। धूमेन वह्निमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति । अपि तुनबर्थाभावप्रतियोग्यन्व- यिनि वह्नयादिविधेयकत्व एवातो यत्र धूमादिलिङ्गवह्नयनुमितौ घटादिरूपलिङ्गाधीनं द्रव्यत्वादिभानं वत्र धूमेन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः। समूहालम्बनरूपतादृशानुमितौ घटादि- रूपलिङ्गप्रयोज्यत्वाभावस्यासत्त्वेऽपि वह्नयादिविधेयकत्वे तदबा- धात्। न ह्यनुमिवावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्ग- प्रयोज्यत्वस्य वह्नयाविधेयकत्वावच्छेदेनाभावो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादि- लिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते । करण एव तृतीया तत्रेति मतं प्रत्युक्तम्। उक्तस्थलेऽनुमितौ नबर्थान्वययोग्यवाया अनुपपत्तेः। वह्नयादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतद- भावौ तृतीयान्ववत्समभिव्याहृतनब्भ्यां प्रत्याय्येत इत्यपि न सत् । कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात्। न चोक्तस्थले वह्नया- दिविधेयकत्वावच्छेदेन घटादिरूपलिङ्गज्ञानजन्यतावदनुमितिम- त्त्वाभावः पुरुषनिष्ठो नबा प्रत्याय्यते। तादृशानुमिविर्घटादौ वह्नया- दिलिङ्गत्वभ्रमदशायां प्रसिद्धेवि वाच्यम् । धूमेन वढेरनुमानमिदं नघटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः । पर्ववो धूमेन वह्निमानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञा- २७१ तृतीया] जयाऽलङ्कृतः नविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः । हेतु- शब्दो यद्यपि कारणपर्यायो न तु ज्ञापकपर्यायस्तथापि हेताविति- सूत्रस्थहेतुपदं न समभिव्याहृतनिरूपिवहेतुवामात्रपरमपि तु समभि- व्याहृततज्ज्ञानान्यतरनिरूपितहेतुतापरमेवेति समभिव्याहृतवह्नया- दिज्ञानहेतुज्ञानविषयधूमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गुणहेवौ पञ्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यवरनिरूपि- वहेतुवाविषयकमेवातो जाड्याबद्धो जांड्येन वेत्यत्र जाड्यहेतु- वावद्भूमावह्निमान् धूमेन वेत्यादौ धूमादेवह्नयादिज्ञानहेतुवा प्रवी- यते । हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न रूपादि- चतुर्विंशतिपरम् । धूमादिहेवौ तत्त्वासम्भवात् । न वत्र धूमादि- पदं तज्ज्ञानपर मेवेति वादृशगुणत्वमेव वह्नयादिहेतोरिति वाच्यम्। तत्र धूमादिज्ञानलाक्षणिकत्वेऽप्यज्ञानाबद्ध इत्यादावभावरूपब- न्धादिहेतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् । गगनादेरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाभावाद्यसंग्राहकम् । नापि द्रव्याश्रितत्वम् । सत्तावान गुणत्वा- दित्यादौ पञ्चम्यन्तस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः । किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रिवत्वम् । जाड्यादेः स्वप्रयोज्यब- न्धाश्रये धूमादेश्व स्वज्ञाप्यवह्नयाद्याश्रय आश्रितत्वाद्गुणत्वम्। हेतौ तद्विशेषणप्रयोजनं च पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मि- न्सत्त्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषयत्वम् । अतो वह्नयादेाप्यवाभ्रमेण धूमादिज्ञापकत्वसत्त्वेऽपि वह्निना वह्ना धूमवानयमित्यादयोन प्रयोगाः। प्रमात्वं च यावद्भ्रमभि- नत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्निरित्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्तातिप्रसङ्गः। द्रव्यत्वादेः प्रमेयत्वा- वच्छिन्नवह्नयादिज्ञापकत्वेऽपि विशिष्टद्रव्यत्वादिना वह्नित्वाधव- २७० व्युत्पत्तिवादः [ कारके कज्ञानविषयधूमादेश्वानुमितिकारणतावच्छेदकतया प्रयोजकत्वम- क्षवमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गश्च वह्निविधेयकानुमिति- त्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः। वस्तुतो जनकतावच्छेदकादिनिष्टप्रयोजकतानिरूपकत्वं कार्यम्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च । तथा चानुमिति- विशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थ एव तृतीयार्थान्वय उपगम्यते। समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यवया नोक्तार्थाविप्रसङ्गः। धूमेन वह्निमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति। अपि तुनअर्थाभावप्रतियोग्यन्व- यिनि वह्नथादिविधेयकत्व एवावो यत्र धूमादिलिङ्गवह्नयनुमितौ घटादिरूपलिङ्गाधीनं द्रव्यत्वादिभानं वत्र धूमेन वह्निमनुमिनोतिन घटेनेति प्रयोगोपपत्तिः। समूहालम्बनरूपतादृशानुमितौ घटादि- रूपलिङ्गप्रयोज्यत्वाभावस्यासत्त्वेऽपि वह्नयादिविधेयकत्वे तदबा- धात्। न ह्यनुमिवावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्ग- प्रयोज्यत्वस्य वह्नयाविधेयकत्वावच्छेदेनाभावो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादि- लिङ्गज्ञानकरणकत्वं तृतीयया प्रत्याय्यते । करण एव तृतीया तत्रेति मतं प्रत्युक्तम्। उक्तस्थलेऽनुमितौ नबर्थान्वययोग्यवाया अनुपपत्तेः। वह्नयादिविधेयकत्वे धूमादिज्ञानरूपकरणजन्यतावच्छेदकत्वतद- भावौ तृतीयान्तवत्समभिव्याहृतनबुभ्यांप्रत्याय्येत इत्यपि न सत् । कारकविभक्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात्। न चोक्तस्थले वह्नया- दिविधेयकत्वावच्छेदेन घटादिरूपलिङ्गज्ञानजन्यतावदनुमितिम- त्त्वाभावः पुरुषनिष्ठो नया प्रत्याय्यते। तादृशानुमिविर्घटादौ वह्नया- दिलिङ्गत्वभ्रमदशायां प्रसिद्धेवि वाच्यम् । धूमेन वढेरनुमानमिदं नघटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः । पर्ववो धूमेन वह्निमानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञा- - तृतीया] जयाऽलङ्कृतः नविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः । हेतु- शब्दो यद्यपि कारणपर्यायो न तु ज्ञापकपर्यायस्तथापि हेताविति- सूत्रस्थहेतुपदं न समभिव्याहृतनिरूपितहेतुवामात्रपरमपि तुसमभि- व्याहृततज्ज्ञानान्यतरनिरूपितहेतुतापरमेवेति समभिव्याहृतवह्नया- दिज्ञानहेतुज्ञानविषयधूमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते गुणहेवौ पञ्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यवरनिरूपि- वहेतुवाविषयकमेवातो जाड्याबद्धो नाड्येन वेत्यत्र जाड्यहेतु- वावद्भूमावह्निमान् धूमेन वेत्यादौ धूमादेवह्नयादिज्ञानहेतुता प्रवी- यते । हेतुत्वं च पूर्वोक्तं प्रयोजकत्वमेव । गुणपदं च न रूपादि- चतुर्विंशतिपरम् । धूमादिहेवी तत्त्वासम्भवात् । न वत्र धूमादि- पदं तज्ज्ञानपरमेवेति वाहशगुणत्वमेव वह्नयादिहेतोरिति वाच्यम् । तत्र धूमादिज्ञानलाक्षणिकत्वेऽप्यज्ञानाबद्ध इत्यादावभावरूपब- न्धादिहेतोस्तथात्वासंभवात् । नापि धर्ममात्रपरम् । गगनादेरपि कालिकसंबन्धेन धर्मतयाऽव्यावर्तकत्वात् । समवायादिना धर्मत्वं चाभावाद्यसंग्राहकम् । नापि द्रव्याश्रितत्वम् । सत्तावान् गुणत्वा- दित्यादौ पञ्चम्यन्वस्यालाक्षणिकत्वपक्षे पञ्चम्यनुपपत्तेः। किन्तु कार्यस्य ज्ञाप्यस्य वाश्रये आश्रितत्वम् । जाड्यादेः स्वप्रयोज्यब- न्धाश्रये धूमादेश्चस्वज्ञाप्यवह्नयाद्याश्रय आश्रितत्वाद्गुणत्वम्। हेतौ तद्विशेषणप्रयोजनं च पितुः पाण्डित्येन पुत्र आहूतो धूमस्य स्वस्मि- न्सत्वेन पर्वतो वह्निमानित्यादौ पञ्चमीवारणम् । ज्ञापकत्वं च तज्ज्ञानजनकप्रमाविषयत्वं ज्ञाप्यत्वमपि प्रमाजन्यज्ञानविषयत्वम् । अतो वह्नयााप्यनाभ्रमेण धूमादिज्ञापकत्वसत्त्वेऽपि वह्निना वह्नेर्वा धूमवानयमित्यादयो न प्रयोगाः। प्रमात्वं च यावद्भ्रमभि- नत्वरूपं विवक्षणीयम् । तेन धूमव्याप्यो वह्निरित्यादिज्ञानस्य वह्नित्वाद्यंशे प्रमात्वमादाय नोक्तातिप्रसङ्गः । द्रव्यत्वादेः प्रमेयत्वा- वच्छिन्नवह्नयादिज्ञापकत्वेऽपि विशिष्टद्रव्यत्वादिना वह्नित्वाद्यव- २७२ व्युत्पत्तिवादः [ कारकै च्छिन्नज्ञापकत्वेऽपि च पर्वतो वह्निमान् द्रव्यत्वाद् द्रव्यत्वेन वेत्या- दिन प्रयोगः। अन्वयितावच्छेदकवह्नित्वद्रव्यत्वादिना ज्ञाप्य- ज्ञापकभावस्य तृतीयादिना बोधनात् । तत्र तेन रूपेण ज्ञाप्यज्ञापक- भावविरहात् । एवं ज्ञाप्यवह्नयादिमत्त्वान्वयितावच्छेदकपर्वतत्वा- वच्छिन्नांशे ज्ञापकत्वं ज्ञाप्यत्वं वा प्रतीयत इत्यपि नियमः । तेन पर्वतो वह्निमान् महानसत्वान्महानसेन वेत्यादयो न प्रयोगाः । अत्रेदमवधेयम् । पर्वतो वह्निमान् धूमान्न द्रव्यत्वान्नापि महा- नसत्वादित्यादौनबवह्नयादौ द्रव्यत्वमहानसत्वादिज्ञाप्यत्वाभाव- बोधने बाधः। तत्र प्रमेयत्वादिना द्रव्यत्वादिज्ञाप्यत्वस्य महानसादौ महानसत्वादिज्ञानज्ञाप्यत्वस्य च सत्त्वात् वह्नित्वादिना द्रव्यत्वा- दिज्ञाप्यत्वस्य पर्वतादौ महानसत्वज्ञाप्यत्वस्य चाप्रसिद्धया नाभा- वप्रत्यायनसंभव इति ज्ञानप्रयोज्यत्वं ज्ञानजन्यतावच्छेदकत्वरूप समभिव्याहृवपर्वतादिविशेष्यतानिरूपितं विधेयत्वञ्च विशकलितं पञ्चम्यर्थः विशिष्टलाभोऽन्वयबलात् । एवं चोक्तस्थले नया विधेय- तायां द्रव्यत्वमहानसत्वादिज्ञानप्रयोज्यत्वाभावः प्रत्याय्यते । तत्प्र- योज्यत्वं च प्रमेयत्वाद्यवच्छिन्नविधेयतायां प्रसिद्धम् । न चैवं पर्वतो वह्निमान् न धूमादित्यादेरपि प्रसङ्गः। धूमत्वाद्यवच्छिन्नवषयक- ज्ञानाप्रयोज्यतत्तद्वह्नित्वाद्यबच्छिन्नविधेयताया वह्नयादावबाधिव- त्वादिति वाच्यम् । पर्वतादिविशेष्यवानिरूपितवह्नित्वावच्छिन्नवि- धेयतात्वावच्छेदेन विधेयवायां नबाऽभावान्वयबोधोपगमात् । यत्र वह्नित्वावच्छिन्नविधेयतात्वमन्वयितावच्छेदकं तत्रैव वदवच्छेदेने- वरान्वयः संभवति । अत्र च वह्नित्वावच्छिन्नत्वाविशेषितं विधेय- तात्वमेव तथेति कथं तदवच्छेदेनाभावान्वय इवि तु न शङ्कयम् । पञ्चम्याद्यर्थविधेयताया वह्नयादौ वह्नित्वाद्यवच्छेदेनान्वयोपगमा- चदवच्छेदेन तदन्वये चावच्छेदकतद्र पस्य तद्विशेषणांशे धर्मिपार- तन्त्र्येण प्रकारत्वात् । प्रकृते स्वरूपसंबन्धरूपवह्नित्वाद्यवच्छि- तृतीया 1 जयाऽलङ्कृतः २७३ नत्वेन सहितस्य विधेयवात्वस्यैवान्वयितावच्छेदकत्वात्। वह्नया- दिपदमेव तदवच्छिन्नविधेयवाशालिज्ञानपरम्। तदुत्तरमतुबादिप्र- त्ययो विशेष्यतारूपसंबन्धपर इति प्राचीनमते तु वह्नित्वाद्यवच्छि- न्नविधेयतात्वस्यान्वयितावच्छेदकत्वकमविवादमेव । विधेयनाया- स्तत्तत्संबन्धावच्छिन्नविधेयतात्वेन पञ्चम्याद्यर्थत्वं स्वीकरणीयम् । तेनायं जानाति आत्मत्वान्न द्रव्यत्वादित्यादौ विषयतासंबन्धाव- च्छिन्नायां प्रकृतविशेष्यतानिरूपिवज्ञानविधेयवायां द्रव्यत्वादिरूप- लिङ्गज्ञानप्रयोज्यत्वसत्त्वेऽपिनावच्छेदकावच्छे देनाभावान्वयायो- ग्यत्वम्। संबन्धविशेषावच्छिन्नविधेयतात्वरूपान्वयितावच्छेदका- वच्छेदेनाभाववत्त्वबोधात् । एवं ज्ञानप्रयोज्यत्वप्रविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्नप्रकारकत्वविशेषिवमर्थः। तेन समवायेन हेतु- त्वपरस्यायं वह्निमान् वद्रूपान्न तु धूमादिवि प्रयोगस्य नायोग्यता। वह्निविधेयतायां संयोगेन धूमप्रकारकज्ञानप्रयोज्यत्वसत्त्वेपि सम- वायसंबन्धावच्छिन्नतत्प्रकारताशालिज्ञानप्रयोज्यतात्वरूपान्वयिता- वच्छेदकावच्छिन्नाभावस्याबाधात्संबन्धविशेषघटिवधर्मस्यान्वयि- बावच्छेदकवा भाननियामकं तु वात्पर्यमेव वह्नयादिविधेयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्वेऽपि पर्वतो वह्निमान- भावादित्यादिर्न प्रयोगः। मुख्यविशेष्यतानिरूपितप्रकारताया एव. निवेशनीयत्वादिति दिक् । केन हेतुना कस्मै हेतव इत्यादौ विभक्ति- भिर्हेतुताविशिष्टे हेतुताबोधयितुमशक्या पौनरुक्त्यादिति न शङ्कयम्। हेतुशब्दस्य स्वरूपयोग्यपरत्वात् । विभक्तेः फलोपधानपरत्वात्। दण्डवान् रक्तदण्डवानितिवत् कार्यविशेषानुपरक्तहेतुताविशिष्ट कार्यविशेषोपरक्तहेतुताबोधेऽनाकाश्ताविरहाच्च । न चान्वयबोध संभवेऽपि हेतुशब्दप्रयोगवैययम्। फलोपधायकतालाभे स्वरूपयो- ग्यवाया अर्थाल्लाभसंभवादिति वाच्यम् । विभक्तेरन्यार्थवाया अप्यन्यत्र दृष्टत्वाद्धेतुतापर त्वनिश्चयार्थं तत्प्रयोगात् ।

२७४ व्युत्पत्तिवादः [ कारके सहार्थयोगेऽपि साहित्यप्रवियोगिवाचकपदात्तृतीया पुत्रेण सहागत इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृवपदोप- स्थाप्यक्रियासमानकालीनक्रियान्वयित्वम्, वदन्वयित्वं च समभि- व्याहृवक्रियाबोधकपदेन क्रियाया यादृशः सम्बन्ध साहित्यान्वयिनि प्रत्याय्यते तादृशवत्संबन्ध एवं, स च पुत्रेणेत्यादौ कर्तृत्वम् । दध्ना सहौदनो भुज्यव इत्यादौ कर्मत्वादिस्तृतीयार्थोऽपि स एव सम्बन्धः, तथा च पुत्रकर्तृकागमनसमानकालीनागमनकर्तृत्वदधिकर्मकभोज- नसमानकालीनभोजनकर्मत्वादिकं पुरुषौदनादौ वत्र तत्र प्रतीयत इत्युच्यते तदा सहशब्देनैव तत्तत्क्रियाकर्तृत्वबोधने क्रियापद- वैयर्थ्यम् । क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेय- योरभेदेन निराकाङ्क्षवयाऽसंभवाञ्च । न च तत्तक्रियासमानकाली- नत्वमात्रं सहशब्दार्थः । तस्य च क्रियापदोपस्थापितक्रियायामेवा. न्वय इति क्रियापदसहितसहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम् । एवं सवि पुत्रेण सहागत इत्यादौ सहशब्दार्थस्य क्रिया- पदार्थान्वयित्वेनान्यसापेक्षतया तेन सह पुत्रशब्दस्य समासासंभवेन सपुत्र इत्यादिप्रयोगानुपपत्तेः। न ह्यत्र समासे सहार्थस्य प्राधान्यम्। येनान्यसापेक्षत्वेऽपि समासो भवेत् किंतु बहुव्रीहित्वादन्यपदार्थ- प्राधान्यमेवेति चेन्न । समभिव्याहृतपदोपस्थाप्यक्रियाकाल एव सहशब्दार्थः तस्य क्रियान्वयिनि नामार्थ एवान्वयः। तादृशका- लविशिष्टे नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छि- नत्वं भासते। उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्ति- सिद्धत्वात्। अत: क्रियाद्वयसमानकालीनत्वलाभ इति।सामञ्जस्यात्। अथवा आगमनसमानकालीनागमनादिकमेव सहशब्दार्थः ।व- स्य कर्तृत्वादिसंबन्धेन पुरुषादावन्वयः। तादृशसंबन्धेन तद्विशिष्टेचा- गव आगच्छवीत्यादिपदोपस्याप्यागमनकर्तृत्वादीनामन्वये न व्युत्प. त्तिविरोधः। विधेयस्योद्देश्यताव छेदकप्रकाराभेदविरहात्। न च सह- २७५ तृतीया जयाऽलङ्कृतः शब्दार्थान्वयबलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारवयापि क्रियापदेन तत्प्रतिपादनमफलमिति तत्प्रयोगो व्यर्थ इति वाच्यम् । सममिव्याहृतपदेन तत्तक्रियाया अनुपस्थापने सहशब्देनाफि वत्तक्रियाघटितसाहित्यस्याशक्यस्य बोधनं न संभवतीवि क्रिया- पदप्रयोगस्यावश्यकत्वात्। सहशब्दार्थक्रियायाः कर्तृत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः। सहशब्दस्याधातुत्वात्, निपा- वत्वाच्च । न च 'प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेने'- त्यादौ शत्रुघ्नप्रसवलक्ष्मणप्रसवयोः समानकालीनत्वाभावात.. क्रियाद्वयसमानकालीनतायाः सहशब्दार्थत्वासंभव इति वाच्यम् । तत्रापि स्थूलकालघटितसमानकालीनत्वसत्त्वात् । न च कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तरि आगतोऽयं न पुत्रेण सहेति प्रयोगानुपपत्तिः। पुत्रागमनाधिकरणस्थूलकालवृत्त्यागमनक- तृत्वसत्त्वेनान्वयितावच्छेदकरूपावच्छिन्नप्रतियोगिताकसाहित्या- भावबाधादिति वाच्यम् । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थेऽ- न्तर्भावनीयत्वात् । एवं यत्र एककालेऽपि विभिन्नस्थले भुञ्जानमधि- कृत्य न सह भुङ्क्त इति प्रयुज्यते तत्रैकशालारूपभोजनाधारोऽपि सहशब्दार्थेऽन्तर्भावनीयः। अत एवा'लापाद्गात्रसंस्पर्शानिःश्वासा- त्सहभोजना'दित्यादिना पतितभोजनसमानकालीनभोजनमात्रस्य पापजनकत्वं न बोध्यते । एकपङ्क्तरपि विवक्षणात् । एवं 'याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतित कुर्वाणः पति- तेन न संशय' इत्यादावेकदैकपात्रभोजनस्यैव सद्यःपाचहेतुत्वं प्रत्याय्यते । तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । अथ नामार्थस्यैव सहार्थविशेष्यवयान्वयोपगमे पुत्रेण सह नागच्छत्य- यमित्यादौ सहशब्दार्थपुत्रसाहित्याभाव एवा पुरुषांशे नबा बोध्यत इत्युपगन्तव्यम्। वच्च नोपपद्यते । तथासत्याख्यातार्थोद्देश्यतावच्छेद- कतयैव नबर्थभानस्योपगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य ।

२७६ व्युत्पत्तिवादः [कारके तं प्रति प्राधान्येन भाननियमव्याघातात् । एवमनागच्छन्तमपि पुरुषमधिकृत्य तथा प्रयोगात्तत्रायोग्यताप्रसङ्गाञ्च । एतेन तत्र पर्युदासनवत्क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । न च वत्रागमनाभावकाल एव पुरुषान्वयी सहशब्दार्थः। तथा च पुत्रागम नाभावकालावच्छिन्नपुरुषे वत्तमानकालावच्छिन्न आगमनाभावः प्रतीयत इति न काचिदनुपपत्तिरिति वाच्यम् । यत्रास्य पुत्र आयाति न त्वयं तत्रापि तादृशप्रयोगात् । तत्र च पुत्रागमनकाला- वच्छिन्नस्यागमनकर्तृत्वाभावस्य सत्त्वेऽपि पुत्रागमनकालावच्छिन्न एव पुरुषे वर्तमानकालावच्छिन्नागमनाभावस्य सत्त्वेनायोग्यता- पातात्।मैवम्। सहशब्दार्थस्तत्तत्क्रियाकालःक्कचित्तत्तक्रियान्वयि- प्रथमान्वपदार्थेऽन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । सपुत्र आगच्छतीत्यस्य पुत्रेण सहागच्छति य इति विग्रहात् प्रथमान्ता- न्यपदार्थ एव पुत्रागमनकालान्वयो न तु क्रियायामिति न समा- सानुपपत्तिः । न वान्यपदार्थपुरुषालाभः । न चैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसो विग्रह वाक्येनापि प्रतिपादनाद्बहु- ब्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्येतेवि वाच्यम् । बहुव्री- हिमात्रस्य तथात्वानियमात् । प्रथमान्तानुपस्थाप्यान्यपदार्थबोधक- बहुव्रीहेरेव तत्त्वाभ्युपगमात्। अत्र चान्यपदार्थस्य प्रथमान्तोपस्था- प्यत्वात् । न च वृष्टे देवेगत इतिवत् प्रथमार्थे बहुव्रीहेर साधुत्वमिति वाच्यम् । अनेकमित्याद्यनुशिष्टबहुव्रीहावेव तन्नि यमात् । अत्र च सूत्रान्तरेण तद्विधानात् । अत एव तदारम्भोऽपि । पुत्रेण सह नागच्छतोत्यादौ च क्रियायामेव तादृशसहार्थान्वय इवि पुत्रागमन- कालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति सर्व सुस्थम्। भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपि गर्दभ्यां 'स है व दशभिः पुत्रै- रित्यादौ वत्तमानेत्यध्याहाराद्वर्त्तमानत्व क्रियामादायैव साहित इवि वदन्ति ।

तृतीया ] जयाऽलङ्कृतः इत्थंभूतलक्षण इत्यनेन लक्षणवाचिपदात्तृतीयाऽनुशिष्यते । ल- क्षणत्वं च व्यावर्तकत्वं तच्च विशेष्यतावच्छेदकसमानाधिकरणा- भावप्रतियोगित्वम् । तदाश्रयश्च धर्मो द्विविधो विशेषणमुपलक्षणं च । विद्यमान सह्यावर्तकं विशेषणम् । पुरुषादौ वर्तमानकाला- वच्छेदेन विद्यमानो दण्डादिः । अविद्यमानं व्यावर्तकमुपलक्षणम्। तापसादेः कालान्तरीणजहादिकम् । विशेषणस्य संबन्धो मतुबा- दिभिः प्रत्याय्यते। अस्तीत्यर्थे विहिवानां वर्तमानसंबन्धार्थकत्वात्। अतो जटाभिस्तापस इत्यादावविद्यमानजटादेः संबन्धविबक्षया मतुवाद्यनवकाशात् तृतीया । तथा च विद्यमानत्वस्याविद्यमानत्व- स्येवाप्यप्रत्यायनात् विशेषणवाचिपदादपि तृतीया । यथा ज्ञाय- मानत्वेन लिङ्गकरणमित्यादौ । अथ तत्र ज्ञायमानत्वादिवैशिष्टय तृतीयया लिङ्गादौ न प्रत्याय्यते अपि तु पदार्थैकदेशे करणत्वाद:- वेव । तदवच्छिन्नत्वमिति चेत्तथापि सा विशेषणतृतीयैव अनुशा- सनान्तराभावात्। वस्तुतो लिङ्गादौ ज्ञायमानत्वादिवैशिष्टयबोधने- ऽपि संबन्धविधया करणत्वज्ञायमानत्वाद्योरवच्छेद्यावच्छेदक- भावभानसंभवादेकदेशान्वय स्वीकारोऽनुचितः । न च संबन्धविधया करणत्व एकदेशेऽवच्छिन्नत्वभानेऽप्येकदेशान्वयध्रौव्यमिति वाच्य म् । करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भासमाने ज्ञायमानत्वावच्छिन्नत्वस्यावच्छेदकतया भानोपगमेनै कदेशान्वयं- विनाप्यवच्छेद्यावच्छेदकभावभानात् । अथ दण्डवानयमासीद्दण्डी गतवानित्यादौ दण्डस्यातीववया विशेषणत्वासंभवान्मतुबाद्यनुप- पत्तिरिति चेन्न। प्रकृतशब्दप्रयोगाधिकरणकाल वच्छिन्नस्येव विधेयान्तरसमभिव्याहारस्थले तदधिकरणकालावच्छिन्नस्य संब- न्धस्यापि मतुबादिना प्रत्यायनात् । तत्रातीवकालसत्त्वादिरूप- विधेयाधिकरणातीतादिकालावच्छिन्नसंबन्धस्पैव मतुबाद्यर्थत्वात्। अविद्यमानोऽपि दण्डादिर्धर्मान्तरसंबन्धसमानकालीनतया धर्मा- Puniaininitionaries २७८ [ कारके व्युत्पत्तिवादः न्वरान्वयिनि विशेषणम् । तत्प्रकारेण भासमाने धर्मान्तरान्वयबोधो विशिष्टवैशिष्ट्यबोध इत्युच्यते । न त्वसावन्वयिन्युपलक्षणम् ।न वा लादृशबोधस्तदुपलक्षितान्वयबोध इत्युच्यते । कचिद्विधेयान्तरसमा- नकालीनमपि विशेषणं वदन्वयितया तदन्वयिन्युपलक्षणमुच्यते । न्यथा रूपवान् रसवानित्यादौ रूपादिकं रसान्वयिनि । सास्नाधान् गोपदवाच्य इत्यादौ सास्नादिकं गवादिपदवाच्ये । कचिद्धर्मि- संबद्धधर्मान्तरसंबन्धितानवच्छेदकत्या धर्मान्तरसंबन्धिन्युपल- क्षणमतो दण्डपुरुषावित्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षित- पुरुषादिविषयको न तु विशिष्टविषयक इत्युच्यते। विशेष्यसंबन्धा. संबन्ध्यपि वत्संबन्धिवावच्छेदकतया वदवि विशेषणम् । अत एव संज्ञाविशिष्टसंश्यादिज्ञाने संज्ञादेविषयत्वमनङ्गीकुर्वतां प्राभाकराण प्राचीननैयायिकानां च मते तटस्थज्ञानविषयतयैव विषयतावच्छेद- कत्वात्संज्ञादेः प्रकारस्य ज्ञानविषयविशेषणत्वम् । अत एव द्वित्व- नाशकालीनायां द्वे द्रव्य इति बुद्धो न द्वित्वविषयकत्वमपि तु द्वित्व- विशिष्टविषयकत्वमेव, द्वित्वरूपविशेषणधीजन्यत्वादित्याचार्याः। एवमप्रतियोगित्वाविशेषेऽपि घटसामान्याभावादिप्रतियोगिनि घटत्वादिकं विशेषणं नीलादिकमुपलक्षणमित्युच्यते । कचिच्च विद्यमानमप्यतव्यावृत्तिन्यूनाधिकवृत्तितया तत्र न विशेषणमित्यु च्यते किंतूपलक्षणम् यथा । विद्यमानापि जटा तापस उपलक्षणं, न तूपलक्ष्यवावच्छेदकशमदमादिवद्विशेषणमित्यलम् । क्वचिदविशेषणस्यापि संबन्घो मत्वर्थीयेन बोध्यते घटोऽयं विनाशीत्यादिप्रयोगदर्शनादिति दीधितिकृवः । तदसत् । आव- श्यकार्थधातूत्तरणिनिप्रत्ययेनापि वत्र विनाशिपदव्युत्पत्तेरि ति ।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे तृतीयाविवरणम् ।

चतुर्थी ] जयाऽलङ्कृतः २७६ अथ चतुर्थीविवरणम् ब्राह्मणाय गां ददातीत्यादौ संप्रदानचतुर्थ्या ब्राह्मणादिसंप्र- दानकत्वं दानादौ बोध्यते । संप्रदानत्वं च मुख्यभाक्तसाधारण- क्रियाकर्मसंबन्धितया कत्रंभिप्रेतत्वम् । क्रियाकर्मत्वं क्रियाजन्यफल- शालित्वं वद्वतस्संबन्धस्तनिष्ठफलभागित्वमेव । तथा च क्रियाजन्य- फलभागिवया कर्तुरिच्छाविषयत्वं पर्यवसन्नम् । कर्मणा यमभिप्रै- तीत्यस्य कर्मणा यमभिसंबद्भुमिच्छतीति शाब्दिकैर्विवरणादुक्तस्थले त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागिवया दातुरिच्छाविषयोब्राह्मण इति वस्य संप्रदानत्वम् । अथ निरुक्तस्य संप्रदानत्वस्य कर्मत्वस्या- विशेषः । कर्तुरीप्सितेवि सूत्रण कर्तुः क्रियया व्याप्नुमिष्टस्य कर्म- संज्ञाविधानात् । क्रियाया व्याप्तुमिष्टत्वमपि हि क्रियाजन्यफल- भागितयेच्छाविषयत्वमेव । न च तथायुक्तमित्यनेन तद्भागिवया- उनभिप्रेवस्यापि तदाश्रयस्य वत्संज्ञाविधानात्। कर्मत्वं क्रियाजन्य- फलशालित्वमेव न त्विच्छागर्भम् । संप्रदानत्वं त्विच्छागर्भमतो भेदः। कर्मत्वस्येच्छाऽघटितत्वे सूत्रे वद्वैयापत्तेः । न च तदाश्रयत्वेनान- भिप्रेतस्यापि कर्मत्वेन तत्साधारणक्रियाजन्यफलशालिवयेष्टस्यापि प्रामादेः कर्मवोपपत्ताविच्छाघटिततत्सूत्रवैयर्थ्यमेवेति वाच्यम् । इच्छाघटितस्य निरुक्तरूपस्य यत्र बाधस्वत्र तादृशरूपमपि कर्म- प्रत्ययेन प्रतिपाद्यत इत्येतत्प्रतिपादनाय सूत्रद्वयप्रणयनात्। अत एव यत्रौदनस्य गलाधःसंयोगेच्छया यो व्यापारस्ततो विषादेरपि तत्संयोगस्तत्र विषादौ क्रियाजन्यफलशालिवाभावबाधेऽपि तेन रूपेणेच्छाविषयत्वाभावोऽबाधितस्वत्र विषमनेन न भुज्यत इति प्रयोगोपपत्तिः । इच्छाघटितकर्मत्ववात्पर्येण च देवाद्विषं भुज्यत इति प्रयोगस्यचोपपत्तिः । न च धात्वर्थवावच्छेदकफलशालित्वेनोद्देश्यत्वं कर्मत्वम् । तदनवच्छेदकफलशालित्वेनोद्देश्यत्वं संप्रदानत्वमिवि २८० व्युत्पत्तिवादः [कार के विशेषः स्वस्वत्वध्वंसावच्छिन्नत्याग एव ददात्यर्थो न तु परस्वत्व- फलावच्छिन्नोऽपीवि वाच्यम् । उपेक्षायामपि दादतेर्मुख्यार्थतापत्तेः। मैवम् । फलानयवयेष्टत्वमेव हि कर्मत्वम् । फलसंबन्धितयेष्टत्वं संप्रदानत्वम् । ब्राह्मणादिश्च न त्यागजन्यस्वत्वाश्रयतया दातुरिष्टो- ऽपि तु तन्निरूपकतयैवातो न वस्य कर्मवा । न चाश्रयत्वमपि संबन्धविशेष इति गवादेरपि संप्रदानत्वं दुर्वारम् । आश्रयत्वेनाभि प्रायस्थले कर्मसंज्ञया बाधादन्य एव हि संबन्धः संप्रदानताघटक इति यधुच्येत तदा वृक्षायोदकमासिञ्चति, पत्ये शेत इत्यादौ सेकजन्यजलसंयोगशयनजन्यप्रीत्याद्याश्रयवयाभिप्रेतस्य वृक्षपत्यादेः संप्रदानत्वानुपपत्तिरिति वाच्यम्। धात्वर्थतावच्छेदकफलाश्रयत्व- भिन्नफलसंबन्धस्य संप्रदानत्वशरीरे निवेशेन सामञ्जस्यात् । वृक्षा- योदकमासिञ्चवीत्यादौ द्रवद्रव्यक्रियानुकूलव्यापारोधात्वर्थः । सम्प्र- दानवानिर्वाहकसंयोगश्च न वादृशधात्वर्थतावच्छेदक इति वदा- श्रयत्वं निरुक्ताश्रयताभिन्नमेवेवि तत्प्रकारकाभिप्रायविषयवृक्षादेः संप्रदानतानिर्वाहात् । न च पत्ये शेत इत्यादौ धात्वर्थतावच्छेदक- फलाप्रसिद्धचा तदनुपपत्तिः । भेदप्रतियोगिप्रविष्टधात्वर्थतावच्छे- दके फलत्वानिवेशेन प्रसिद्धिसंभवात् । एवं च ब्राह्मणायेत्यादौ ब्रा- ह्मणनिरूपितत्वेनेच्छाविषयगोनिष्ठस्वत्वजनकत्यागकर्तेवि बोधः । निरूपितत्वेन कर्तुरिच्छाविषयत्वं द्वितीयान्वार्थगोवृत्तित्वान्वयि- धात्वर्थतावच्छेदकरवत्वान्वयिचतुर्थ्यर्थः । स्वत्वजनकत्यागश्च ददा- त्यर्थः। अत्र केचित् । ददातियोगे धात्वर्थतावच्छेदकस्वत्वनिरू- पकत्वमेव संप्रदानत्वं तदेव च मुख्यम् । तथा च वत्र निरूपितत्व- मात्रं चतुर्थ्यर्थो धात्वर्थवावच्छेदकस्वत्वेऽन्वेति। अत एव श्राद्धस्य पित्रपेक्षया यागत्वमेव दानत्वं तु ब्राह्मणापेक्षयेति शूलपाणिः । वत्र त्यज्यमानेऽर्थे पितृणां स्वत्वानुत्पत्त्या संप्रदानत्वासंभवात् स्वत्वभा- २८१ चतुर्थी] जयाऽलङ्क्तः गित्वेनोद्देश्यत्वं यदि संप्रदानत्वं स्यात्तदा पितृ णामपि तथात्वाक्षतेः, पित्रपेक्षयापि दानत्वं स्यात् । न हि श्राद्धे पितृणां स्वत्वभागित्वेन नोद्देश्यत्वम् । पितरे तत्तेऽन्नं स्वधेत्यादिश्राद्धरूपत्यागाभिलाषस्य स्व- धार्थे त्यागे चतुर्थ्याःस्वत्वभागित्वेन पित्रादेरुद्देश्यत्वबोधकत्वात्। स्वत्वभागित्वेनोद्देश्यस्यापि पित्रादेःस्वीकाराभावान्न स्वत्वं ब्राह्म- णानां तत्रानुद्देश्यत्वेऽपि स्वत्वं प्रतिपत्तितो जायते। अनुदेश्यत्वेऽपि च संप्रदानत्वमुपपादिवमेव । पितृणामिव ब्राह्मणानामपि च स्व- त्वभागित्वेनोद्देश्यत्वमप्यविरुद्धम् । धात्वर्थतानवच्छेदकफ्लभागि- वया यत्र संप्रदानत्वं वृक्षायोदकं सिञ्चति, पत्ये शेत इत्यादौ त. त्रोद्देश्यत्वांशनिवेश आवश्यकः। यत्रान्योदेशेन क्षिप्तजलस्य दैवाढ- क्षसंयोगोऽन्योद्देशेन शयनादितश्च पत्यादेः फलसंबन्धस्वत्र तथा प्रयोगविरहात्। अत एव तत्र चतुर्थ्यर्थः वृक्षादिनिष्ठतया कर्जभिप्रेत- तत्तत्फलं प्रति जनकत्वम् । वच्च सेकादि क्रियायामन्वेवि। भाक्तं च तत्र संप्रदानत्वम् । उद्देश्यत्वागर्भसंप्रदानत्व एव लाघवाच्छक्तरितरत्र लक्षणाया अभ्युपगमात् । वतृभ्यो हयादित्यादावनिधारितकर्तृक- संप्रदाने चतुर्थी । तत्त्वं च तत्रत्यागजन्यस्वत्वभागितयोद्देश्यत्वमेवा अथ जनान्तरस्य वृक्षादिनिष्ठजलसंयोगादिरिच्छाविषयोऽन्येन च जनेनान्योद्देशेना क्षप्तजलादेवृक्षादिसंयोगस्तत्रापि वृक्षायोदक- मासिञ्चवि जन इत्यादिप्रयोगापत्तिः । तत्तद्वयक्तित्वस्य पदेनानु- पस्थापनात् । तेन रूपेण विशेष्यभूतकर्तृव्यक्तीनामिच्छांशे भाना- संभवादुपस्थितजनत्वावच्छिन्नेच्छ विषयत्वस्य च वृक्षसंयोगादा- वबाधात् । एवं तदीयकालान्तरीणेच्छामादायाप्यतिप्रसङ्गतादव- स्थ्यमिति चेन्न । वृक्षादिनिष्ठत्वेनेच्छैव हि चतुर्थ्यन्तार्थः । तस्याश्च स्वविषयसंयोगादिजनकत्वस्वजन्यत्वोभयसंबन्धेन सेकादिक्रिया- यामन्वयः । उक्तस्थले च यक्रियाव्यक्तया जलसंयोगादिवृक्षादौ जन्यते तत्र कालान्तरीणपुरुषान्वरीणेच्छायाः स्वविषयसंयोगा- [कारके २८२ व्युत्पत्तिवादः दिजनकत्वसंबन्धसत्त्वेऽपि स्वजन्यत्वाभावानोभयसंबन्धेनेच्छा. वैशिष्टयमित्ययोग्यतैवेति वदन्ति । अत्रेदं बोध्यम् । उद्देश्यत्वागत्यागजन्यस्वत्वभागित्वस्य ददातिसंप्रदानतारूपत्वे मैत्रोद्देशेन यद्दत्तं तत्र वाहशदानेन दम्पत्योर्मध्यगं धनमित्यवस्वत्पत्न्या अपि स्वत्वस्य प्रामाणि- कतया संप्रदानत्वेन चैत्रपत्न्यै दत्तमिति व्यवहारापत्तेः । न च पत्युः स्वत्वमेव पत्नीस्वत्वं जनयति । न तु वत्सामग्रीति वाच्यम् । स्वत्ववति स्वत्वान्तरानुत्पत्तेः । तथा च सर्वत्रैवोद्देश्य- त्वान्वर्भावः । भवतु च पितृभ्यो दद्यादित्यत्रापि मुख्यमेव संप्रदा- नत्वं चतुर्थ्यर्थः । अस्तु वा स्वस्वत्वेच्छाधीनतत्कत्वमेव मुख्यदान- रूपक्रियासंप्रदानत्वं पितृत्वत्वाप्रसिद्धया न तेषां संप्रदानत्वं चतु- 'र्थ्यर्थो धात्वर्थतावच्छेदकस्वत्वान्वयि निरूपितत्वं स्वत्वस्य च स्वत्वध्वंसेच्छारूपे त्यागे जनकत्वस्वेच्छाधीनत्वोभयसंबन्धः । तल्लाभश्च विशिष्टस्य धातुशक्यतामते शक्तिलभ्य एव, तदन्वर्भा वेणैव शक्त्यभ्युपगमात् । फलव्यापारयोः पृथक् धात्वर्थतामते आकाङ्क्षाबलादेव वाशसंबन्धलाभः । पितृभ्यो दद्यादित्यत्र च 'धात्वर्थान्वर्गतस्वत्वे चतुर्थ्या पित्राद्यन्वयी निरूपितत्वरूपो मुख्यो- .ऽर्थों बाधितत्वान्न प्रत्याय्यते, निरूपिवत्वेनेच्छाविषयत्व- रूमो लक्ष्यार्थ एव । ददातिस्तु तत्र मुख्य एव, श्राद्धस्यापि ब्राह्मणापे- क्षयादानत्वात् । श्राद्धे ब्राह्मणस्य संप्रदानतानिहायास्ति चोद्देश्य- तापि ब्राह्मणस्येत्यादिकमभिदधानस्य शूलपाणेरपि संप्रदानत्व -शरीर उद्देश्यत्वांशपरित्यागे निर्भरोऽवगम्यते । कर्मणा यमभि- प्रेतीति प्रणयतो महर्षेः पाणिनेरपि संमतोऽयमर्थः। शत्रवे भयं ददातीत्यादौ जनयतीति भाक्तोऽर्थः। एव चोत्पादक- व्यापाररूपे धात्वर्थे भयरूपं कर्म तद्योगितयोद्देश्यत्वात् शवादेः संप्रदानत्वम् । अपितु चतुर्थी ] जयाऽलङ्कृतः । युद्धाय संनयत इत्यादी संनहनादिक्रियाजन्यफलासंबन्धाधु, द्धादेर्न संप्रदानतानिर्वाह इति नेयं संप्रदानचतुर्थी अपि त्वेन्धानाहतु ब्रजतोत्यर्थे एधेभ्यो ब्रजवीत्यत्रेव युद्धं कतु सोढुं वा संनाव इत्य- र्थविवक्षया क्रियार्थोपपदेति सूत्रान्तरेण तस्य च स्थानिनोऽश्रूयमा- रणस्य क्रियार्थोपपदस्य तुमुन्नन्तधातोः कर्मणि स्वार्थनिष्ठकर्मत्वे विवक्षिते स्वोत्तरं चतुर्थीत्यर्थः। तथा चाहरणकरणसंनहनााद्देश्य- कत्वं वादृशचतुर्थ्यर्थ इत्यवधेयम् । अथ यदग्नये च प्रजापतये च सायं जुहोतीत्यादावग्यादेरिव 'सर्वभूतेभ्य उत्सृष्टं मयैतज्जलमूर्जि- तमि'त्यादौ सर्वप्राणिनामिव पशुना रुद्रं यजत इत्यादावपि त्याग- विशेषरूपक्रियायां रुद्रादेरनिराकर्तृसंप्रदानवया चतुर्थी स्यादिति चेन्न। गौरविवप्रीतिहेतुक्रिया यज्यर्थः। तदर्थतावच्छेदकफलं प्रीति- स्तदाश्रयतया रुद्रस्य विवक्षितत्वात्कर्मसंज्ञकत्वेन द्वितीयैव नतु च- तुर्थी। त्यागात्मकतादृशक्रियायांनिरुक्तानिराकर्तृसंप्रदानत्वे सत्यपि तदविवक्षणात्। प्रीतिभागितयोद्देश्यत्वरूपसंप्रदानत्वविवक्षायां च रुद्राय यजत इत्यपि प्रयोगः । उभयविवक्षायां परत्वेन कर्मसंज्ञया बाधाद्वितीयैव । जुहोत्युत्सृजतीत्यादेः प्रीविरूपफलावच्छिन्नत्या- गाबोधकतया त्यागरूपक्रियाजन्यप्रीविभागिनो देवतादेस्तत्कर्मता- विरहान्नैव प्रजापतिं जुहोति भूतान्युत्सजतीत्यादयः प्रयोगाः । रजकस्य वस्त्रं ददातीत्यत्र ददातिन त्यागार्थकोऽपि तु परायत्ती- करणार्थको गौणः । तदायत्तीकरणं च प्रकृते तत्कर्तृकनिQजनेच्छा- प्रकाशको व्यापारः । तदेकदेशे कर्तृत्वे रजकस्य संबन्धविवक्षायां शैषिकी षष्ठी । हन्तुः पृष्ठं ददातीत्यत्र तत्वतृकताडनानुमिति- प्रकाशकव्यापार एवं ददात्यर्थः । तदेकदेशे कतत्वे हन्तुः संबन्ध- विवक्षायां षष्ठी । एवं संवाहकस्य चरणं ददातीत्यादावूहनीयम् । नारदाय रोचत कलह इत्यादौ रुच्यर्थानामित्यनुशासनेन प्रीति- जनकतारूपरुच्यर्थघटकप्रीविभागिनः संप्रदानसंज्ञा विहिता, तत्र ।

२८४ व्युत्पत्तिवादः [कारके चतुर्थ्यर्थ आश्रितत्वं प्रीवावन्वेति । तादृशक्रियाश्रयतया कलहादेः कर्तृता। । । पुष्पेभ्यः स्पृहयतीत्यत्र स्पृहाविषयपुष्पस्य स्पृहेरीप्सित इत्यनेन संप्रदानत्व चतुर्थी तदर्थो विषयित्वं तस्येच्छारूपक्रियायामन्वयः। पुत्राय क्रुध्यतीत्यत्र क्रुधदुहेत्यादिसूत्रेण कर्मणः संप्रदानसंज्ञा। तत्रापि चतुर्थ्यर्थो विषयित्वं कोपेऽन्वेति । क्रोधस्य द्वेषविशेषात्म- कतया भक्तिश्रद्धादिवत् ज्ञानविशेषरूपत्वेन वा सविषयकत्वात् । एवं शत्रवे द्रुह्यतीत्यादावपि तेनैव संप्रदानत्वं, द्रोहोऽपचिकीर्षा अहितेच्छेति यावत् । अहितभागिवयेच्छाविषयता तन्निरूपकत्वं चतुर्थ्यर्थ इच्छान्वयी,अहिवान्वय्याधेयत्वं वा। अत: कर्मणेत्यादि- सूत्रस्याविषयः । ईर्ष्या अक्षान्तिः । परोत्कर्षासहिष्णुता परोत्कर्ष- गोचरो द्वेष इति तद्विषयस्य परस्य तेनैव संप्रदानवा । असूया गुणिनि दोषाविष्करणम् । तद्विषयस्याप्यनेन संप्रदानता विषयवा- विशेषस्वत्र चतुथ्यर्थः । विप्राय शतं धारयतीत्यादौधारेरुत्तमर्ण इत्यनेन धनिकविप्रादेः संप्रदानवा । अथ कोऽयं धार्यर्थः ? न तावद्रव्यान्तरदानमङ्गीकृत्य परदत्तद्रव्यादानम् । तथा सत्यादानात्परतो धारयवीति प्रयोगा- : आदानस्यावर्त्तमानत्वात् । न चेष्टापत्तिराविशोधनं तथा प्रयोगात्। नापि तादृशादानध्वस:, अधमर्णस्य तदकर्तृत्वात् । न चा- दानमिच्छाविशेषस्तद्वतः पुंसस्तदाश्रयतया तत्कर्तृत्ववत्तद्ध्वंसाश्रय- तया तत्कतृत्वमप्यक्षवभिति वाच्यम् । एवमप्यादानध्वंसस्य परि- शोधनोत्तरमपि सत्त्वेन तदानीमपि धार यतीति प्रयोगापत्तः । न च परिशोधनप्रागभावविशिष्टो निरुक्तादानध्वंसस्तथा । ऋणीकृतद्र- व्यान्तरपरिशोधनप्रागभावदशायां परिशुद्धमृणमादाय धारयतीत्या- पत्तः।न चस्वप्रतियोगिनिर्वाहकाङ्गीकारविषय द्रव्यदानप्रागभाववि. शिष्टादानध्वंसस्वथा यहणं परिशोधितं तावद्रव्यं च पुनर्गृहीत्वा नुपपत्तेः चतुर्थी] जयाऽलङ्कृतः २८५ S पुनः परिशोधनीयं तदादाय धारयतीत्यापत्तेः । तदीयपरिशोधन- स्यापि स्वकर्तव्यवयापूर्वाभ्युपगमविषयत्वात्वत्प्रागभावस्य पूर्व- परिगृहीतशोधनोत्तरमपि सत्वात् । न च स्वप्रतियोग्यादाननिर्वाह- काभ्युपगमविषयीभूतं यद् द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरण- वृत्तित्वसंबन्धेन वद्विशिष्टान्यप्रागभावविशिष्टादानध्वंसस्तथा। उक्त- स्थले चोदीच्यपरिशोधनप्रागभावः प्रथमादानप्रयोजकाभ्युपगम- विषयपरिशोधनविशिष्टः । प्रथमपरिशोधनप्रागभावश्च प्रथमपरि- शोधनोत्तरं नास्त्येवेति नोक्तातिप्रसङ्ग इति वाच्यम् । एवमपि यस्य ऋणस्य परिशोधनमप्रसिद्धं वदादानपूर्वकालीनस्य तावद् द्रव्यं मया तुभ्यं देयमित्यभ्युपगमस्य तहत्तमर्णोद्देश्यकत्वेन स्वकर्तृकान्योद्देश्य. कवावद्रव्यदानमेव विषय इत्युपेयम् । तदुत्तमर्णोद्देश्यकतत्कर्तृक- तावद्रव्यदानस्याप्रसिद्धत्वात् । तथा चान्योद्देश्यकतावद्रव्यदा- नोत्तरं वदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावासत्त्वाद्वारय- तीति व्यवहारानुपपत्तिरिति चेत् । अत्राहुः-ऋणग्रहणेनाधमर्णानिष्ठः परिशोधननाश्योऽदृष्टवि- शेषो जन्यते । तेनैवादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकम् । वथा च द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्यादृष्टविशे. षवत्त्वमेव धारयतेरर्थ । वद्घटकदानान्वयि कर्तृत्वं वत्र चतुर्थ्यर्थः। न च ऋणाशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्य परिगणनात्। नतु ऋणादानम् । तस्य तथात्वे मानाभावादिति वाच्यम् । ऋणा- दानस्य दुरदृष्टविशेषजनकत्वेऽपि परिशोधनेन तस्य नाश इति बोधनायापरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपात कमध्ये परिगणनोपपत्तेः । ऋणमादायापरशोधकस्य नरकभागिवया ऋणादानस्यैव दुरदृष्टसाधनतायाः कल्पनीयत्वात् । गृहोतर्णपरिशोधनापेक्षया लघुत्वात्। अपरिशोधनस्य हेतुत्वे परि- शोधनपूर्वकालेऽप्यपरिशोधनसत्त्वे दुरदृष्टोत्पत्तेरावश्यकतया परि- २८६ व्युत्पत्तिवादः [ कारके । शोधनस्य तन्नाशकताया आवश्यकतयाऽस्माकं तत्कल्पनाधिक्य- विरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्त्वेन तबला- त्तदुत्तरमदृष्टवारणाय परिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्प- नीयतया भवन्मते गौरवाच्च। न च परिशोधनानुत्तरमरणमेवपाप- जनकं वाच्यं, तथा च नोक्तातिप्रसङ्ग इति वाच्यम् । गृहीतद्रव्य- मपरिशोध्यमरणस्थले तद्रव्यपरिशोधनाप्रसिद्ध्या तदनुत्तरत्वा- दिघटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यलम् । यूपाय दारु इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्यर्थे सूत्रान्तरेण । तादयं च स एवार्थः प्रयोजनमस्य तत्त्वम् । समभि- व्याहृतपदार्थे तादर्थ्यविवक्षायां तद्वाचकाञ्चतुर्थीवि वदर्थः। प्रयोज- नत्वं चात्र न जन्यत्वं, दुःखादेः पापादिजन्यतया दुःखाय पापमित्या- द्यापत्तेः । नापि जन्यवयेच्छाविषवत्वम्, स्वर्गादेः पुण्यादिजन्यत्वे- नेच्छाविषयत्वात् स्वर्गाय पुण्यमित्याद्यापत्तेः । तथा सति पक्तुं ब्रज- तीत्यर्थे पाकाय ब्रजतीति निर्वाहाय तुमर्थेविसूत्रप्रणयनवैयर्थ्यात् । पाकादेनिरुक्तव्रजनाद्यर्थवयैव तद्वाचकपदाच्चतुर्युपपत्तेः । अपि तु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलच्छाविषयत्वं वत्प्रयोजन- कत्वरूपवादर्थ्यं च वदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वं दारुणो यूपेच्छांधीनेच्छाविषयलक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुर्थ्यर्थः प्रममेच्छायां यूपादेः प्रकृत्यर्थस्य विषयवयाऽन्वयः । एवं रन्धनाय स्थालीत्यादावूह्यम् । वत्र तादृशव्यापारस्तण्डुलधार- णादिः । पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयवया न स्वर्गाय पुण्यमित्यादिप्रयोगो ब्रजनादे: पाकानुकूलव्यापाराना- श्रयवया न पाकाय व्रजतीत्यादावनेन चतुर्थीवि तुमर्थाच्चेत्यादि- सूत्रम् । तदर्थश्च तुमुन्नन्तयद्धातुना यादृशोऽर्थः प्रत्याय्यते समभि- व्याहृतक्रियाऽन्विवतदर्थपरात्तद्धातुघटितभावकृदन्वाच्चतुर्थीति पक्तुं २८७ चतुर्थी ] जयाऽलङ्कृतः ब्रजवीत्यत्र तुमुन्नन्तेन बजने पाकविषयेच्छाधीनेच्छाविषयत्वं बोध्यते । तुमुन्ण्वुलाविविसूत्रेण स मभिव्याहृतक्रियायां प्रकृत- क्रियासमानकर्तृकत्वसहितवदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षिवायां तुमुन्ण्वुलोविधानात् । एवत्सूत्रस्यापि स्वर्गाय पुण्य- मित्यादिन विषय इति सोऽसाधुरेव । एधानाहतुव्रजवीत्यर्थे एधेभ्यो व्रजतीत्यत्र एधस्य न व्रजनप्रयोजनत्वं सिद्धत्वात् । व्रजनस्य तदबु- कूलव्यापारानाश्रयत्वाच्चेति न तादर्थ्य इति सूत्रस्य प्रवृत्तिर्नापि तुम- र्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादितिवत्र क्रियाओं- पपदस्येति चतुर्थी । वदर्थश्च क्रियार्थोंपपदस्तुमुन्नन्तो यो धातुरप्रयु क्तस्तस्य यत्कर्म वत्प्रयोगं विना तदर्थकर्मवया यद्विवक्षित तद्वाचका- च्चतुर्थीति । तत्र चाहर्तु मिति तुमुन्नन्वार्थः समभिव्याहृतक्रिया- न्वयिस्वार्थकत्वान्वय्यहरणं, तादृशार्थकर्मवया एधस्य विवक्षित- त्वात्तत्र चतुर्थी। चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय व्रजवीत्यादौ पाकं कर्तुमित्यर्थविवज्ञायामनेनैव सूत्रेण चतु- थ्र्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मक- कृतिप्रयोजनकत्वं न बजनस्य विवक्षितमपि तु पाकेच्छाधीनेच्छा- विषयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सू- त्रम् । अश्वाय बास इत्यादावश्वपदस्याश्वभोजनपरतया तादयंच- तुर्येव । आहियत इत्यस्याध्याहारेणाव भोजयितुमाहृयत इत्य- र्थविवक्षया क्रियार्थोपपदेत्यादिसूत्रेण चतुर्युपपत्त्या अश्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राश्वपदस्य वद्रोजनपरता- यास्तादर्थ्यचतुर्थ्याश्चावश्यकता । अन्यथाऽऽहृत पदसापेक्षतया च- तुर्थीसमासानुपपत्तेः । न च तथापि समासानुपपत्तिः, रन्धनाय स्था- लीत्यादौ तद्वारणाय चतुर्थी तदर्थेविसूत्रेण समासे प्रकृतिविकारभा स्वय नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादानात् । नमःस्वस्त्या- ।

२८८ व्युत्पत्तिवादः [ कारके दिशब्दयोगेऽपि तदर्थविशेषणवाचकपदानमःस्वस्तीत्यनेन चतुर्थ्य- नुशिष्यते । नमःशब्दार्थस्त्यागो नमस्कारश्च एषोऽर्षः शिवाय नम इत्यादौ त्यागार्थकः । चतुर्थ्याच तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्वित्यादिफलेच्छाधीन- स्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं त्यागजनकेच्छायाः स्व- त्वभागितया विषयत्वम् । यदि च त्यागरूपेच्छैव स्वस्वत्वाभावमिवा न्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयो करोति न तु तज्ज- नकेच्छा तदा स्वत्वभागिवया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शि- वादेविग्रहवतोऽपि स्वीकाराभावात् तदाकारवया ध्यावमन्त्रस्य त्यागोदेश्यतामते सुवरां तदभावाच्च । त्यज्यमानोपचारादौ स्वत्वा- भावेऽपि तदीयत्वेन द्रव्ये स्वत्वावगाहिनीच्छा विसंवादरूपैव । द्रव्यनिष्टेऽन्यदीस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनि- रूपिवप्रसिद्धस्वत्वान्तरे वा बाधितं तत्तद्र्व्यसंबन्धमवगाहते । न च स्वत्वान्तररूपफलेच्छां विना स्वस्वत्वाभावगोचरेच्छैव न संभवतोतिशिवादिस्वत्वं त्यागस्यैव विषय इति पक्षोऽसंभव- दुक्तिक इति वाच्यम् । स्वस्वत्वाभावविषयकेच्छायाः पुण्यादि- रूपफलजनकत्वात्तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्या- दिफलकत्वात् । अन्यथा तत्स्वत्वस्यापीष्टाजनकतया स्वतोऽपु- रुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात् । तत्र च प्रथमकल्पे स्वस्वत्वप्रकारकेच्छा जन्यत्वं, ज- न्यवासंबन्धेन तादृशेच्छावत्वंवा चतुर्थ्यर्थः । तत्र प्रकृत्यथस्य शि- वादेविषयत विशेषसंबन्धेनान्वयः । द्विवायकल्पे च विषयिताविशेष एव चतुथ्यर्थः। तत्र च निरूपिवत्वसंबन्धेन शिवादेरन्वयः। नमःपदा 'थत्यागस्य च विषयवाविशेषसंबन्धेन द्रव्येऽन्वयः।। द्रव्यस्यैव ववि- शेष्यतया भासमानत्यागे विषयिताशेषसम्बन्धेनान्वयः । न च प्र थमान्तपदार्थस्य मुख्य विशेष्यतानियमः। भूवले न घट इत्यादो नि- २८६ । । चतुर्थी ] जयाऽलङ्कृतः पातार्थस्यापि मुख्यविशेष्यवया भानात्। शिवायोत्सृजतीत्यादाविव नाबानिराकर्तृसंप्रदानदास्य नमःपदार्थक्रियात्वाभावात् । नमःपदेन चस्वप्रयोक्तृपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते । अन्योच्च- रितनमःपदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोच्चरितनमःपदात् त्यागबोधेसति त्यागे त्यज्यमाने द्रव्ये चान्यदीयत्वसंशयानुदयात् । अत एव त्यागेतदीयत्वबोधनायाहं दद इत्यादिवदहन्नम इति न प्रयु- ज्यते । न वा परकीयत्वबोधनाय चैत्रो नम इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्वरीयतत्तद्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्य विशेषदर्शनदशायामप्याहर्यव- योपपद्यत इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्यैव पूजायां तादृशन- मापदघटितवाक्यस्य बाधितार्थत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । अ- स्मच्छब्दादिवत्स्वोच्चारणकर्तृत्वोपलक्षितपुरुषविशेषवाचकान्नम:- पदाद्विशेषरूपेण पुरुषभानम् । अशक्यस्य चैत्रत्वादेर्भानासंभवे त- स्यापि वाच्येऽन्तर्भावः स्वीकरणीयः । तदनुगमकं चोपलक्षणीभू- तमेककालीनोभयावृत्तिस्वोच्चारयितृशरीरवृत्तिजातित्वम् । स्वत्वान- नुगमेऽपि शक्तथैक्यं कथंचिदुपपादनीय, सर्वनामशत्तथैक्यवत्। उप- लक्षणरूपप्रविष्टमुच्चारणं वेदीयत्वेन विशेषणमतः पूजाभिन्नयाह च्छिकान्नत्यागबोधनायान्नं दीयत इतिवदन्नं नम इति न प्रयोगः। योग्यतासत्त्वेऽपि तत्र नमःपदप्रयोगस्य वेदाबोधितत्वेन तद्धटितत- त्पदशक्यपुरुषोपलक्षणरूपाप्रसिद्धयाऽवाचकत्वात् । अत एव यथा नीचप्रीतिहेतुक्रियास्थले पूजयवीत्यादिवारणाय पूजयतीत्यादिवाच्य- प्रीतौ गौरवितवृत्तित्वं, स्वसमभिव्याहृवपदार्थकर्तृपुरुषावधिकोत्क- र्षवद्वृत्तित्वरूपमुपलक्षणमुपेयते! उक्तस्थले च योग्यतासत्त्वेऽपि नीच- वृत्तिप्रीतेस्तत्त्वाभावेन तत्तात्पर्येण पूजयत्यादेनं प्रयोगः। तथा नीचो- द्देश्यकत्यागतात्पर्येण नमःपदाप्रयोगात्तदतिप्रसङ्गवारणाय गौरवि- वोद्देश्यकत्याग एव नमःपदशक्तिरित्यनादेयम्। गौरवितोद्देश्यकत्वस्य १६ २६० व्युत्पत्तिवादः [ कारके नम:पदार्थशरीरे निवेशेऽपि गौरवितोदेश्यकपूजातिरिक्तद्रव्यत्याग- बोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽप्यवश्यं निवेशनीयतया तत एव वदतिप्रसङ्गवारणात् । इन्द्राय स्वाहा तुभ्वं स्वधेत्यादौ अग्निप्रक्षेपोपहिवदेवोदेश्यकत्यागबोधकस्वाहापदपित्रुद्दे- श्यकत्यागबोधकस्वधापद्योरपि नमःपदवद्देशनादेशिवोच्चारणक- र्तृत्वोपलक्षितपुरुषीयत्यागवाचकता। अन्यथा पूर्ववदेवातिप्रसङ्गः। एवं च देवांद्देश्यकत्वादेरपि न वाच्यान्तर्भावः । अताहशत्यागतात्प- र्येण स्वाहादिप्रयोगस्य देशनादेशिवत्वविरहेणैवानतिप्रसङ्गात् । अत एव तान्त्रिकपूजायामाचमनीयादिदानेऽग्निप्रक्षेपोपहिनपित्रु- द्देश्य कत्वविरहेऽपि स्वाहास्वधाप्रयोगस्य नासमवेतार्थता । एवं च सति नमःस्वाहास्वधाशब्दानामेकस्थलेऽन्यप्रयोगस्य वेदबोधितत्वाभावे- नैवनातिप्रसङ्गः । नतिरूपो नमःपदार्थश्च स्वापकर्षबोधनानुकूलः स्वी- यव्यापारः। चतुर्थ्या चापकर्षान्वय्यवधित्वमवधिमत्त्वंवा प्रत्याय्यते । स्वमुच्चार यिता। तथा च चैत्राद्युच्चारिवान्नमोहरय इत्यादिशब्दाद्ध- यवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः। ना- रायणं नमस्कृत्येत्यादौ नमःशब्दयोगेऽपि न चतुर्थी। द्वितीयया कार- कविक्तित्वेन बलीयस्या बाधात्। अथात्र नारायणादेनमस्कारघ- टकापकर्षावधित्वमेव तच्च न कमत्वम्। कर्मत्वं च क्रियाजन्यफलशा- लित्वादिरूपमेव । तञ्चन तस्येति द्वितीयाया नायं विषयः। न चापक- घबोधरूपफ्लाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति वाच्यम् । एवं सति नारायणावधिकापकर्षबोधकदण्डवत्प्रणिपातादिजन्यवादृशा- पकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामद- शायां मनुष्य नमस्करोवीत्यादिप्रयोगापत्तिः । यदि चापकर्षावधि- त्वप्रकारकबोध.नुकूलव्यापारो नमस्कारस्तद्घटकबोधविशेष्यतया नारायणादेः कमत्वम् । कियाजन्यफलशालित्वरूपे कमत्वे च व्या- पारांशेऽनुकूलतासंवन्धेन विशेषरणीभूतं फलमेव विवक्षणीयम्। अन्न २६१ चतुर्थी ] जयाऽलङ्कृतः चानुकूलत्वमेव व्यापारांशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरु- पान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्म- त्वमुपपद्यते न तु नारायणं नमस्कृत्येत्यादौ, नमःपदार्थघटकज्ञानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषय- तायाश्च नमःपदार्थव्यापार एव सत्त्वात् । मैवम्। नमस्करोतीत्यादौ कृधातुनैव व्यापारबोधात् । अत्र च स्वापकर्षावधित्वप्रकारक- बोधविषयतामात्रं निपातार्थः । अत्र स्वं समभिव्याहृतः कर्ता। तथा च तादृशबोधविषयवाप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो वोधः । तादृशविषयताश्रयतया नारायणादेः कर्म- त्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्व- र्थतावच्छेदकत्वं नधातुशक्यतावच्छेदकत्वमपि तु व्यापाररूपार्थे- ऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यत्वम् । प्रकृते निपा- वार्थे धात्वर्थस्य साक्षादन्वये ताशबोधविषयत्वरूपस्य तदवच्छेद- कत्वमक्षतमेव । न चैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुर्वारं विभागादौ क्रियाजन्यत्वसत्त्वेऽपि निरुक्तधात्वर्थतावच्छेदकत्वाभावात्। नहि विभागादिर्गम्याद्यर्थे कथमपि विशेषणतया भासते । एवं च ना- रायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नाराय- णादिपदोत्तरं द्वितीया । वदान्वायफलोपस्थापकाभावेन वदर्थान- न्वयात् । नापि नारायणं फलं करोतीति प्रयोगापत्तिः। फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात् । धात्वर्थे साक्षाद्विशेषरणीभव- त्येव फले द्वितीयार्थाधेयत्वान्वयात् । अव एव 'पुरस्कृत्य शिखण्डि- नमित्यादावपि शिखण्ड्यादेः कृतिकर्मवा धात्वर्थव्यापारविशेषण- पुरःपदरूपनिपातार्थानदेशावस्थानरूपफलाश्रयत्वात् । नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थ- व्यापारविशेष्यतयैव भासते । तदन्वितामाश्रयत्वं कर्माख्यातादिना २६२ व्युत्पत्तिवादः [ कारके । प्रत्याय्यते। अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनिय- मभङ्ग इवि चेन्न । तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वेत्य- स्यैव साक्षादर्थत्वात् ! अन्यथा घटो दण्डाज्जायते न पारिमाण्ड- ल्यादित्यादौ कारकपञ्चम्या जन्याद्यन्वयिनि नबर्थाभावे प्रवियो- गितया स्वार्थप्रयोज्यत्वादिबोधनासंभवात् । पारिमाण्डल्यादिनि- रूपिवमपि प्रयोज्यत्वं विषयितया तवच्छिन्नजनकवाकज्ञानादौ प्रसिद्धम् । प्रयोज्यत्व विशिष्टोत्पत्तिरेव वा तत्र धात्वर्थः । तत्र पञ्च- म्यन्तार्थपारिमाण्डल्यनिरूपितत्वस्याभावो नबा बोध्यते । उक्त- रीत्या क्रियायोगे नमस्कार्यस्य कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया । केचित्तु नारायणं नमस्कृत्येत्यादौ नमःपदं नविकर्मपरम्। तथा च नारायणं नविकर्मीकृत्येत्यथविवक्षया घटं शुक्तं करोति शुक्ली- करोतीत्यादौ घटादेरिव नारायणादेः कृतिकमता। शिखण्डिनं पुर- स्कृत्येत्यादौ पुरःपदमनस्थितपरम् । एवं घटं साक्षात्करोतीत्या- दौ साक्षात्पदं प्रत्यक्षविषयपरम् । एवं दुःखमाविष्कारोतीत्यादा- वप्याविःपदं ज्ञानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीयानिर्वाह इत्याहुः । नमःपदस्य धर्मिबोधकत्वे हरिराविर्भवतीत्यादिव- नमो भवतीवि प्रयोगप्रसङ्गात् । तस्मान्नमस्करोतीत्याविष्करोति पुरस्करोति अलंकरोतीत्यादौ नमः प्रभृतयो निपाता धर्मवाच- का एव, लाघवात् । तत्तद्धर्माश्रयस्य दर्शितरीत्यैव कर्मतोपप- तेः । आविर्भवतीत्यादिप्रयोगानुरोधेन चाविरादिशब्दानां प्रक- टताश्रये धर्मिणि लक्षणोपेयते। शुक्लः पट इत्यादौ शुक्लादिशब्दा- नामिव । अस्तु वा तत्रापि प्रकटतादिरूपो धर्म एव तदर्थस्तस्यैव- धात्वर्थभावे धर्मरूपेऽभेदान्वयः। क्रियायां स्वार्थाभेदान्वये आवि- रादेरेवाकाङ्क्षा स्वीक्रियते न तु नमःपदादेरिवि न नारायणो नमो भवतीत्यादेः प्रसङ्गः । शुक्लोकरोवीत्यादौ चिवप्रत्ययान्तस्यापि शौ.

चतुर्थी ] जयाऽलङ्कृतः लयादिधर्म एवार्थः । अभूततद्भावे तदननुशासनात्। अभूवस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लथादिः । अथ वा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावःशौक्ल- यादिः, शुक्लोभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्य- न्तस्य च्विप्रत्ययवाच्यत्वे गौरवाच्छुक्तादिपदोपस्थाप्यपदार्थता- वच्छेदकशौक्लयाद्यन्वयि अभूवत्वं विप्रत्ययार्थोऽस्तु । शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव च्च्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदा- र्थतावच्छेदकेऽन्वयसंभवादिति वाच्यम् । मन्मतेऽपि शौक्लयादि- भावस्यैव च्विप्रत्ययार्थतोपगमेन गौरवानवकाशात् । पूर्वकाला- वच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थे प्र- कृत्यर्थस्य संबन्धवया भानोपगमात् । शौक्लयादावभूवत्वलाभेनैव जलपरमाणुःशुक्लोभवतीवि प्रयोगाप्रसङ्गात् । शौक्लयादेधर्मत्वेनैव वाच्यता न तुताद्र प्येणेति न शक्त्यानन्त्यम् । प्रकृत्यर्थतावच्छेद- कतत्तद्धर्मनिष्ठाधेयवाविशेषाणामेव संबन्धतया भानोपगमाद्धर्मा- न्वरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गः । प्रकृत्यर्थवावच्छेदकगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमते तु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौलत्याद्यभावस्य प्रागपि कचिद्विद्यमानतया तदभावान्वये योग्यतानुपपत्तिः । तत्तद्धर्मिण्य- विद्यमानत्वस्य च्च्यर्थत्वे शत्तथानन्त्यमितिपूर्वकालावच्छिन्नो- ऽभाव एवाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामाना- धिकरण्यसहितप्रतियोगित्वसंबन्धेनान्वयो वाच्यः। प्रकृत्यर्थे च ताशसंबन्धेनाभावविशिष्टस्य वैशिष्टयभानमुपयेम् । अन्यथाऽन्यत्र स्वाभावसमानाधिकरणस्याशौक्लयादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशुक्लोभवतीति प्रयोगः स्यात् । अत्राभावरूपप- दार्थान्तरविशिष्टप्रकृस्यतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या स्ववृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छि- २६४ व्युत्पत्तिवादः [कारके अप्रकृत्यर्थतावच्छेदकीयसंवन्धोन प्रत्याय्यते पदान्तरसमभिव्या- हाररूपाकाङ्क्षयापि प्रकृत्यर्थतावच्छेद कीयतादृशविशेषणसंवन्धा- बच्छिन्नसंबन्धाप्रत्यायनेन प्रकृत्यर्थतावच्छेदकीयसंबन्धे विप्र- त्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशेषणस्य प्रकृतिवृत्त्याऽभास- मानस्य भानासंभवादित्यनुपपत्तिः । अस्मन्मते तु भवत्यर्थे भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धेन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्य शौक्ल्यादेः सामाना- धिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यवया तेन संवन्धेनचाधिकरण- विशिष्टाशौक्ल्यादिना विशिष्टस्य भवत्यर्थस्यैवाख्याताद्यर्थे आश्रय- त्वे निरूपितत्वसंबन्धमानात् । तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाशौक्ल्याद्यभावाधिकरण एव सत्त्वेन नोक्तातिप्र- सङ्गः। अन्यत्त्वयमूह्यम् । स्वस्ति भवव इत्यादावाशीः स्वस्त्यर्थः। सा च परहितविषयकस्वेच्छा । स्वमुच्चारयिवा, हितान्वयी संबन्ध- श्चतुर्थ्यर्थः । एवं च भवदीयहितविषयिणी मदीयेच्छेवि बोधः । कल्याणाद्यर्थकोऽपि स्वस्तिशब्दः, 'स्वस्त्यस्तु मह्य' मित्यादौ । त- त्रापि चतुर्थ्यर्थः संबन्धः स्वस्त्यर्थान्वयीत्यलम् ।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे चतुर्थीविवरणम् । अथ पञ्चमीविवरणम् वृक्षात्पर्ण पततीत्यादौ पञ्चम्या प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रि- यापादानत्वं प्रत्याय्यते । अपादानत्वं च स्वनिष्ठभेदप्रतियोगिताव- च्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिवि- भागजनकस्वपतनाद्यपादानत्ववारणाय भूतान्तं क्रियाविशेषणम्।

२६५ पञ्चमी] जयाऽलङ्कृतः भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम् । भेदे विभागेच वृक्षादेः प्रकृत्यर्थस्याधेयवासंबन्धेनान्वयः। प्रतियोगिता- वच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धेन क्रिया- यामन्वेति । जनकतासंबन्धस्य प्रतियोगितानवच्छेदकवया नवा तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकत्वमेव पञ्चम्यर्थोऽस्तु प्रतियोगितावच्छेदक- त्वस्येव तस्याप्याश्रयवासंवन्धेन क्रियायामन्वयः। एवं च वृक्षनिष्ठ- भेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्या- द्याकारक उक्तस्थले बोधः । अथ पञ्चमीसमभिव्याहतनबोक्तयोः पञ्चम्यर्थयोयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा। नाद्यः पक्षः। पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्टपवने स्वनिष्ठभेदप्र- तियोगितावच्छेदकत्वाभावासत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभा- बासत्त्वेन वृक्षात्पतति न भूवलादित्यत्र पतने भूवलादिनिष्ठविभागा- दिजनकत्वाभावसत्त्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावा- सत्त्वेनायोग्यवापत्तेः। नापि द्वितीयः । वृक्षात्पर्ण पतति न पर्णा द- त्यत्र पत्रनिष्टपतने पत्रनिष्टविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेद- प्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगिवानवच्छेदकत्व- स्यापि वाधाद्योग्यवाया निर्वाहयितुमशक्यत्वादिति । अत्राहुः । विभागो जनकत्वं च पञ्चम्बर्थः । विभागे प्रकृत्यर्थ- स्यावधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टिस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः। जनकत्वं च फलो- पधानरूपं विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायां नब्सम- भिव्याहारस्थले च क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः । वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्ट- विभागोपधायकम् । पत्रादेः स्वावधिकत्वविशिष्टविभागानधि- करणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् । ।

२६६ [ कारके । व्युत्पत्तिवादः फलोपधावकत्वस्य सामानाधिकरण्यगर्भत्वान्नोक्तानुपपत्तिः । वृक्षाद्विभजते इत्यादावपि वृक्षावधिकत्वं विभागे प्रवीयते । तत्रापादानतायाः अवधिवारूपत्वाद् वृक्षाद्यवधिकत्वविशिष्ट- विभागनिरूपिवमेवाश्रयत्वमाख्यातेन बोध्यतेऽतो वृक्षः स्वस्मा- द्विभजव इति न प्रयोगः । यथा हि-स्वप्रतियोगिकत्वविशिष्ट- संयोगः स्वस्मिन्न वर्तते तथा स्वावधिकविभागस्य स्ववृत्तित्वेऽपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यविवादमेव । अवधित्वा- दिकं च स्वरूपसंबन्धविशेषः। यद्वा विभागोऽवधिकरणवा। प्रयो- जकत्वं च वृक्षात्पततीत्यादौ पञ्चम्यर्थः। विभागेऽवधित्वसंम्बन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरूपितत्वविशेषसंबन्धेनाधि- करणवायामन्वयः। पत्रादिकर्मणि च न तवधिकत्वविशिष्टवि- भागनिरूपितान्यमात्रनिष्ठाधिकरणवाप्रयोजकत्वम् । कारणस्यापि स्वाश्रयनिष्टकार्याधिकरणतामात्रप्रयोजकत्वादिवि सामञ्जस्यात् । अथ वृक्षात्पतति, वृक्षाद्विभजत इतिवत् वृक्षात्त्यजतीत्यादिर्न कथं प्रयोगः । पञ्चम्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रिया- रूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागरूपधात्वर्थतावच्छे- दकफलेऽन्वये बाधकाभावात्। न चविभागावच्छिन्नक्रियायांविभा- गान्वयोऽव्युत्पन्नः। उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम्। जनकतासबन्धेन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनक्क- त्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वा- वधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेहे- तुत्वोपगमात्तदभावन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यान्वय इति वाच्यम् । त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापार विभागयोः पञ्चम्यर्धान्वयात् त्यजधातुजन्यवत्तद र्थोपस्थितेरपि पञ्चम्यान्वयहेतुवाया अवश्यं वाच्यत्वात् । न च पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानव- .

पञ्चमी] जयाऽलङ्कृतः २६७. च्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वये च धातुजन्यविभा- गमुख्यविशेष्यकोपस्थिविहेतुरिति त्यजधातुजन्यविभागावच्छिन्न- व्यापारोपस्थितिविषयव्यापारविभागयोः पञ्चम्यर्थविभागजनक- त्वावधिमत्त्वान्वयासंभव इति वाच्यम् । फलव्यापारयोः पृथग्धा- त्वर्थतामते त्यजधावोरपि प्राधान्येन विभागस्य तदनवच्छिन्नस्प- न्दस्य चोपस्थित्या तदुपस्थितिविषयतादृशार्थयोरपि तत्तत्पञ्चम्य- र्थान्वयसंभवादिति चेन्न। फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात् । तयोः पृथग धात्वर्थवामते च फलविषय- कबोधं जनयतु धातुपदमित्येतादृशेच्छारूपा फलव्यापारयोरेकैव शक्तिः, पुष्पवन्वादिपदवत्। न तु फलविषयकं व्यापारविषयकं बो- धं जनयत्विति समूहालम्बनात्मकबोधनिष्टतत्तद्विषयकत्वावच्छिन्न- विभिन्न विषयवाशालिसंकेतरूपा । तथा सति नानार्थत्वाविशेषण कदाचित्फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् । तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्केतीयबोधनिष्टवि- षयत्वांशे विभागेवरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञान क्रियांशे विभागजनकत्वरूपपञ्चम्यान्वयबोधे च तादृशबोधनिष्ट- विषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयत इति त्यजयातोस्तादृशज्ञानमभ्रान्तस्यासंभवीत्यति- प्रसङ्गानवकाशात् । शक्तिद्वयादिवदर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात् । विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासानिर्वाहात् । यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनापरार्थबोधप्रसङ्गवदुक्त- रूपसङ्केतोपगमेऽपि पुष्पवन्तपदशक्त्यविशेषेण तव इव सकर्मक- धातुतोऽपि विशेषणविशेष्यभावानापन्नस्यैवान्वयबोधः स्यान्न तु तदापन्नाथद्वयविषयक इत्युच्येव वदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावाव- -२६८ [कारके । व्युत्पत्तिवादः गाहित्वमपि स्वीकरणीयम् । विशेषणविशेष्यभावेन भासमान- योरेव फलव्यापारयोर्विषयवाद्वयमवच्छेद्यावच्छेद कभावापन्नमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयवयोरवच्छे- द्यावच्छेदकभावो न भासते। अवस्वयोर्विशृङ्खलमेव भानमिति न काप्यनुपपत्तिः । यदि च वृक्षात्स्यन्दत इत्यादिन प्रयोगस्तदा सक- मकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनक- त्वबोधे विभागानवच्छिन्न फलावच्छिन्नव्यापारविषयकधातुशक्ति ज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थता- मते च संकेतीयबोधनिष्टविषयतांशे विभागविषयकत्वानवच्छि- नत्वकलान्तरविषयकत्वावच्छिन्न त्वोभयावगाहिज्ञानजन्योपस्थितिः कारणमभ्युपगन्तव्येत्यलमधिकेन। व्याघ्राद्विभेयि दम्युभ्यो रक्षतीत्यादौ भीत्रार्थानामित्यनेनापा- दानत्वम् ! भयं च परतोऽनिष्टसंभावना । त्राणं चानिष्टनिवृत्त्यनुकूलो व्यापारः । तदर्थकधातुयोगे तादृशानिष्टजनकमपादानसंज्ञमिति -सूत्रार्थः । एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वम् । वच्च निरुक्तधात्वर्थ- घटकानिष्टेऽन्वेति । अथ यस्य व्याघ्राधीनमनिष्टमप्रसिद्धमथ च व्याघ्रहतुकत्वेन मरणार्दिक संभावयति तत्पुरुषपरो व्याघ्रादयं विभेवीति कथं प्रयोगः प्रमाणम्। अनिष्टे व्याघ्राधीनत्वस्य बाधा- दिति चेत् भयार्थकधातुयोगे प्रयोज्यताप्रकारकत्वं पञ्चम्यर्थः । तच्चानिष्टसंभावनायामन्वेति प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषी- यानिष्ट बाधेऽपि अनिष्टसम्भावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः । एवं च शत्रुभ्रमेण मित्रादपि विभेतीत्यादिवाक्यस्यापि प्रामाण्यनिर्वाहः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावि- वमपादानमित्येकः सूत्रार्थः। अनिष्टविरहानुकूलव्यापाररूपत्राणा- र्थकधातुयागे तनिष्टप्रयोजकं तदित्यपरः । अनिष्टं दुःखमेव सर्वि- त्रानुगवम् । यज्जन्यं दुःखं कस्यापि न प्रसिद्धयति तादृशस्य प्यह- ।

पञ्चमी] २६६ । जयाऽलङ्कृतः कण्टकादेरपादानत्वं स्यादिति चेत्तर्हि तन्निष्टदुःखोपधायकव्यापार- विरहानुकूलव्यापारस्वदपादनकं स्वकर्मकं रक्षणमिवि वक्तव्यम् । घटाद्यचेवनकर्मकरक्षणं विनाशोपधायकव्यापार विरहगर्भ निर्वा- च्यम् । यवेभ्यो गां वारयति कूपादन्धं वारयवीत्यादौ वारणार्था- नामित्यतेनापादानत्वम् । वारणं क्रियाप्रतिषेधस्तदर्थकधातुयोगे- ईप्सितस्तत्तत्क्रियाजन्यफलभागितया तत्तक्रियाकर्तुरभिप्रेतऽपा- दानमिति सूत्रार्थः । क्रिया च भक्षणगमनादिरूपा । तात्पर्यव- शात्कचित्कस्याश्चित्प्रतिषेधो वारयवीत्यादिना बोध्यते । प्रतिषेधः कर्तृत्वाभावानुकूलव्यापारः। कतृत्वाभावरूपधात्वर्थवावच्छेदक- फलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेनेच्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते । इच्छा च भक्षणादिक्रियाकर्तृनिष्ठा तदर्थेऽन्तर्भावनीया । एवं चोक्तस्थले यवकूपादिनिष्टत्वेन गवान्धादीच्छाविषयो यो गलाधःसंयोगोत्तर- देशसंयोगादिर्गवादिनिष्टवत्तत्फलकव्यापारावशेषकर्तृत्वाभावानुकू लव्यापारानुकूलकृतिमानित्याकारको बोधः। अन्धादेर्यद्यपि कूपगम नत्वादिना नेच्छा तथाप्यभिमुखोपगमनत्वादिनाकूपगमनादेरिच्छ- वर्तत एवेति । वस्तुगत्या यः कूपादिदेशस्तद्गवत्वेन क्रिया- जन्यसंयोगस्य तदिच्छाविपयत्वमक्षतमेव । न च प्रकृवयवकूपा- दिनिष्टफलविशेषजनकत्वमेव पञ्चम्यर्थोऽस्तुकिमिच्छान्तर्भावेणेति वाच्यम् । यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिक-न तु स्वेच्छा वस्तत्र वद्भोजनविरोधिव्यापारकर्तरि चैत्रं विषाद्वारयतीति न प्रयोगोऽपि तु सविषाद्वारयतीत्यादिरेव । तत्र पूर्वप्रयोगवारणाय सूकृता ईप्सित इत्यनेन सन्प्रत्ययेनेच्छोपादानात् । अत एव यद्यवादिकं केनापि न भुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धय तद्यवाद्गां वारयवीत्यादिप्रयोगोपपत्तिः। एवं च तत्र भक्षणादौ वद्यवादिकर्म- ३०० व्युत्पत्तिवादः [ कारके कत्वगवादिकर्तृकत्वोभयाभावबोधाय केषां चित्प्रयासोऽनादेय एवेति । पण्डितात्पुराणं शृणोति, उपाध्यायाधीते, रामादधीतसं- देश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानवा। तत्र प्रकृत्य- थपण्डितादिकर्तृकोच्चारणाधीनत्वं पञ्चम्यर्थः। तस्य च श्रवणोच्चार- पार्थविशेषज्ञानादिक्रियायामन्वयः। मृत्पिण्डाद्घटो जायते इत्यादौ जनिकर्तःप्रकृतिरित्यनेनापादानत्वम्। तत्र प्रकृतित्वं न विकारित्वम्। प्रकृतिविकृविभावाभावेऽपि 'प्राकेकयीतो भरतस्ततोऽभूद्', 'वायो- र्जात' इत्यादौ पञ्चमीदर्शनात्। न हि सुतवपुषो मातापितृशरीरवि- कारत्वमपि तु तदीयशुक्रशोणिवादिविकृतित्वमेव। शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । न च तत्र हेतुपञ्चम्येवनापादानपञ्चमीवि वाच्यम्। गुणातिरिक्तहेतौ पञ्चम्य- नुशासनविरहात् । अन्यथा दुग्धादधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गाद्धनुर्जायत इत्यादावपि हेतुपञ्चम्यैवोपपत्तौ 'जनिकर्त- रित्यादिसूत्रस्यैव वैयापत्तेः । तस्मात्कारणत्वमेव प्रकृति- त्वम्। दण्डाद्घटोजायत इत्यादयोऽपि प्रयोगा इष्यन्त एव । अत- एवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी न च प्रकृविपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षा- भावादपादानपञ्चम्यनुपपत्तिर्हेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादि क्रियाध्याहारेण तत्र पञ्चम्या उप- पादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेना- पादानता । यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः । प्रथम- प्रकाश एव प्रभवत्यर्थः । पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रिया- यामन्वेति । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः। उपाध्याया- दन्तर्द्धत्ते छात्र इत्यादावन्तद्धौँ येनादर्शनमिच्छवीत्यपादानता। अन्तद्धिरन्तर्धानम् । स्वनिष्ठान्यकर्तृकदर्शनविषयताविरहोद्देश्यको व्यापारः । एवं च व्यापारानुकूलतयान्तर्धानघटको यत्कर्तृकदर्श- ।

पञ्चमी जयाऽलङ्कृतः ३०१ नविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः । उक्तस्थलीय- पञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपा- ध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापार- का छात्र इति तत्रान्वयबोधः । इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं वार इत्यादौ नापा- दानपञ्चमी, दैाद्यवधेरपादानत्वस्याननुशासनात् । ध्रुवमपाय इ- त्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यद- वधिभूतं तस्यापादानत्वं विधीयते न त्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा वदुपादानमर्थकं स्यात्। अथ तत्पदेन क्रिया- मात्रमुपलक्ष्यते। अस्मादी इत्यादौ च भवतीत्यध्याहार्यम्। दीर्घभवनं च दीर्घतैवेति क्रियायाःसावधित्वम्। आवश्यकश्च क्रियाध्याहार स्त- द्योगमन्तरेण कारकत्वास्यानिर्वाहात्। एवं बलाहकाद्विद्योतते विद्य- दित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण नि:सत्येत्यध्याहि- यते। अत एव नैतदपादानम् । निर्दिष्टविषयमपि तूपात्तविषयमिति वै याकरणाः। निर्दिष्टत्वमुच्चरितत्वम् । उपात्तत्वमध्याहृतत्वम् । विषयोऽ. वधित्वनिरूपकः । निःसरपंचविभाग एवेति उक्तस्थलेऽध्याहृतक्रिया- याःसावधिकत्वमिति चेत् । एवं सति वृक्षात्पवतीत्यादौ वृक्षादेरसं- ग्रहः। तत्रापिविभागक्रियाऽध्याहियत इति चेत्, तत्र निर्दिष्टविषय- प्रवादविरोधः । एवमस्माद्दीर्घ इत्यादावपि क्रियाध्याहारे तत्समता- शीले माथुराः सौन्नेभ्यः आढ्यतरा इत्यादावपि क्रियाया अध्या- हरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भा- वप्रसङ्ग इति तादृशापादानयोरविशेषापत्तिः । एवं च "उपात्त- विषयं किञ्चिन्निर्दिष्टिविषयं तथा । अपेक्षितक्रियं चेति विधापादा- नमुच्यते” इति शाब्दिकविभागविरोधः । अथापायपदेन क्रिया- सामान्य क्रियाजन्यविभागश्च विवक्षिवः। एवं चवृक्षात्पततीत्यादौ न विभागात्मकक्रियाध्याहार इवि वदपादानमपि निर्दिष्टविषयम् । ।

३०२ व्युत्पत्तिवादः [ कारके यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ वद- पादानमुपात्तविषयम् । यत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चापादानतानिर्वाहो यथा माथुराः सोध्नेभ्यः अस्मादीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत् । एवमप्ययमस्मात्तार इत्यादावगति- स्तत्र हि तारभवनं वारत्वं जातिः । जातेश्च न सावधिकत्वमिति कुतोऽपादानता । अन्यथाऽयमस्माद्रौरित्याद्यापत्तिः । न च जाते- रपि तारत्वस्यैवायमस्मात्तार इवि प्रतीतिबलाद्भवत्येव सावधिकत्व- मिति वाच्यम्। यदेव ह्येकापेक्ष तारत्वं वदेवान्यापेक्षया मन्दत्वं- समनियतजातिद्वयानभ्युपगमात् । समनियतत्व नभ्युपगमे जाति- सङ्करप्रसङ्गात् । तथा च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्ता- रस्तमपेक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य वारव्यवहार वत्तमपेक्ष्य स्वस्मिन्मन्द- व्यवहारोऽपि स्यात् । अथ वदपेक्षया वारव्यवहारस्तत्सजाती- यत्वे सवि साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बते- ऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारे- ऽपि भवतीति चेत्तर्हि अस्मात्तार इत्यत्र साजात्यसमानाधिकरण साक्षात्कारप्रतिबन्धकवावच्छेदकजाविरूपवारपदप्रवृत्तिनिमित्तघ- टकसाजात्ये साक्षात्कारे च पञ्चम्यान्वयो वाच्यः। तावतैव दर्शि- ताविप्रसङ्गवारणसंभवात् । साजात्यं वद्वृत्तिशब्दत्वजातिस्वस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादा- नत्वं तत्र पञ्चम्यथः । न च साजात्यघटकजाते: सावधिकत्वाभावे. ऽपि वृत्तः सावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयि- ताशालिज्ञानविषयिताच सावधिकैवेवितत्र पञ्चम्यान्वयेन साम- ञ्जस्यमिति वाच्यम् । यतो वृत्तेविषयितायाश्च स्वावारविषयप्रति- योगिकत्वमेव न तु वदवधिकत्वम् । वदवधिकत्वतत्प्रतियोगिकत्व- योर्वस्तुनोर्भेदात् । अन्यथा घटे वर्त्तते घटमवगाहत इत्यत्र घटाद्व- पञ्चमी ] जयाऽलङ्कृतः ३०३ तते घटादवगाहत इति प्रयोगस्य घटस्यापादानत्वेन दुर्वारत्वात् । अत एव प्रतियोगिताया अपादानत्वानात्मकवयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पञ्चमी सूत्रान्तरेणानुशिष्टा । प्रतियोगित्व- स्यापादानतारूपत्वे व यापत्तेः। अथान्यादिशब्दार्थभेदाः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्वरं प्रणिनायेति चेत् । तत्कि तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता । तस्मादत्र पञ्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिवि गुणो द्रव्याद्भिन्न इत्यादौ अन्यारादिवि सूत्रेणैव पञ्चमी । अन्यपदस्यान्यार्थकपर- त्वादिति बहवः । न चान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेत- रपदोपादनवैयर्थ्यम् । अन्येतरपदयोरेकस्यान्योयाभावविशिष्टा- र्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात् ! पृथग्विनेत्यादिसूत्रे पृथक्पदोपादानं वद्योगे वैकल्पिकतृतीयोप- पत्त्यथम् । वस्तुतस्वत्र पृथक्पदमसाहित्यार्थक, न तु गुणवदर्थ- कम् । चन्द्रात्पृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः । यत्तु अन्यादिपदं नान्योन्याभावाथकपदपरं, घट: पटो नेत्या- दावपि नबस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः । न चान्यपदभन्यो- न्याभावविशिष्टार्थपदपरम् । तस्यापि विशिष्टार्थवाचकत्वात् । नब्पदं च न तथा तदुपस्थितार्थस्य नामान्तरार्थे भेदान्वयसंभवेन तत्र धर्ममात्रवाचकत्वादिवि वाच्यम् । द्रव्याद्गुणस्य भेद इत्यादौ पञ्चमोनिहाय भेदार्थकपदस्यैवोपादेयत्वात् । अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याचार्यानुसारिमतं तन्न। अन्योन्या- भाववाचकपदस्य पञ्चम्यनुपयोगित्वे द्रव्यादन्यो गुण इत्यादौ पञ्चम्यनुपपत्तेः । गुणादौ पृथक्त्वरूपगुणासंभवेनान्योन्याभावस्यै.. वान्यपदार्थत्वात् । अन्योन्याभावार्थकपदस्य पञ्चमीप्रयोजकत्वे- वत्र निपावातिरिक्तविशेषणप्रवेशेनापि नब्योगे पञ्चमीवारण- संभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां - । ३०४ व्युत्पत्तिवादः [ कारके पञ्चमी नपदोपस्थापिवाभावस्य च प्रतियोगिवा न विभक्त्या बोध्यते । नबर्थे प्रतियोगितयैवाधेयत्वातिरिक्तविभक्त्यर्थान्वयस्य व्युत्पन्न त्वान्न चैत्रस्येत्यादौ पष्ठ्याद्यर्थस्य नबर्थप्रतियोगित्वादतो न वद्योगे पञ्चमी । अथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रे अन्यतरपदयोरेकवरोपादानवैययं दुर्वारमुक्तरीत्या सार्थकत्वा- संभवादिवि चेन्न । तन्मतेऽप्येकपदस्य प्राधान्येनान्योन्याभाववा- चकस्यापरपदस्य तद्विशिष्टवाचकस्य संग्राहकवया सार्थक्यात् । न च पटाद्भेद इत्यादौ क्रियायोगादपादानपञ्चम्येव। धातूपस्थाप्य- पदार्थप्रतियोगिताया अपादानतारूपत्वे घटे वर्तत इत्यादौ पञ्चमी प्रयोगस्य परत्वेनाधिकरणसप्तम्यादिना बाधदेवानवकाशात् । अभावीयविलक्षणप्रतियोगिताया एव वा तथात्वात् ।घटादन्यत्व- मित्यादौ चापादानत्वासंभवेऽप्यन्यपदयोगेनैव पञ्चमी। वत्रान्य- पदाद्विशेषणवया भासमानभेद एव पञ्चम्यान्वयोपगमात् । न तु भावप्रत्ययात्प्राधान्येन भासमाने तस्मिन् पदार्थैकदेशेऽपि ससंब- न्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिवि वाच्यम् । प्राधान्येन भावप्रत्ययाद्धासमानेऽप्यन्यत्वे घटपटादिप्रतियोगिक- त्वान्वयविवक्षया घटादन्यत्वमिति प्रयोगात्तन्निर्वाहायैवान्येतर- पदद्वयोपादानम् । अथ वा ध्रुवमपाये इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वमुभयानुगवरूपाभावादिवि पटाभेद इत्यादौ पञ्च- म्युपपत्तयेऽन्येतरपदोपादानम् । वस्तुतोऽन्येवरपदं स्वरूपपरमेव। अर्थपरत्वे घटादन्य इतिवद्घटादेक इति प्रयोगापत्तेः । यद्यकपद- स्यान्यत्वरूपेण नान्यार्थकताऽपि तु समभिव्याहतान्यत्वोपलक्षिते वस्तुनि बुद्धिविषयतावच्छेदकघटत्वादिनैव । चैत्र एकमानयति मैत्रश्चापरमित्यादौ घटत्वपटत्वादिनैवानयनकर्मवादिप्रतीतेन तु पटघटान्यत्वादिना । अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्या- हारात् । अन्यथा वद्योगे पञ्चम्या असाधुत्वेऽपि घटस्यैक इवि प्रति- ।

। पञ्चमी] जयाऽलङ्कृतः योगिनिषष्ठ्यापत्तेरित्युच्यते तदप्यन्यार्थकतदादिपदयोगे पञ्चमी- प्रयोगापत्त्यार्थग्रहणासंभव इति । तथा च पटाद्भिन्नं घटाद्भिद्यत इत्यादौ पञ्चमीनिर्वाहाय तत्रापादानत्वमेव कथं चिदुपपादनी- यम्। तथा हि-भिद्धातोर्नान्योन्याभावोऽर्थो घटाद्भिनत्ति पट इति प्रयोगापत्तेः। भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्च । कर्तरि यगात्म- नेपदासंभवात् । अदैवादिकाञ्च न श्यन्संभवः । परस्मैपदित्वाच्च । अकर्मकधातुयोगे कर्मकर्तृविवक्षाया अप्ययोगात् । कस्यचिदकर्म- कस्य योगेण्यर्थान्तर्भावेणैव कर्मकर्तृत्वस्योपपादनीयत्वात्। अन्यो- न्याभावस्याजन्यतया तदर्थकधावोय॑र्थान्वर्भावस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादी भिदेविदारणार्थकत्वेन सकर्मकतया कर्म- कर्तृत्वसंभवात् । अतोऽन्यत्वेन ज्ञापनं भिद्धातोरर्थः । ज्ञापनं ज्ञान- विषयताप्रयोजकव्याप्तिपक्षधर्मता । तदाश्रयोऽसाधारणधर्म एव भिदादिकर्तृकत्वाद्भदक उच्यते । अन्यत्वप्रकारकानुमितिविषयतारू पधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः। एवं च पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालिखनं केषां- चिदनवधानेन प्रतिज्ञास्थवह्नयादिपदं वह्नयादिज्ञानविषयतार्थ- कम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति. मणिकारादिमतानुसारेणैव केषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुनः क्रोशाल्लक्ष्यं विध्यति । अद्य भुक्त्वायं द्वयहाद्भोक्ता इत्यादौ सप्तमीपञ्चम्यौ कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वाकालयोः का- रकद्वयव्यवधायकतामभिधत्ते। तथा च स्वाधिष्टितदेशानन्तरक्रोशा- त्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुन इत्यादिप्रथमस्थले बोधः। समभिव्याहृतकधिष्ठितदेशानन्तयं विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः । स्वी- यैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्ति- २० व्युत्पत्तिवादः [कारके वैचित्र्यादेकपदस्य स्वीक्रियते।भोजनकृत्यधिकरणैतद्दिवसानन्तर- द्वथहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारकबोधश्चरमस्थले। कारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थवावच्छेदकस्यापि विवक्षितत्वात् । एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थाधिकरणका- लानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदपरक्रियानुकूलकृत्य- धिकरणकालानन्तर्यस्य बोधकत्वेऽपि पञ्चम्युपपत्तिः। कारकद्वय- मध्यवर्त्तिता चात्र कालस्य नोपपद्यते कर्तुरैक्यात् । अव एवोक्तम्- कर्तृशत्तयोर्मध्ये चैकः काल इति ।। इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे पञ्चमीविवरणम् । अथ षष्ठीविवरणम् सम्बन्धविवक्षायां कारकविभत्तयप्रसक्तेःशेषे षष्टीत्यनेन चैत्र- स्येदांमत्यादौ षष्ठी। चैत्रस्य द्रव्यमित्यादौ स्वत्वस्य, चैत्रस्य स्वं, घटस्य कारणं, चैत्रस्य हस्तः, इत्यादी निरूपित्तत्वावयवत्वादीनांस- म्बन्धत्वेनैव षष्ठ्यर्थतानतु विशिष्य शक्त्यानन्त्यप्रसङ्गात्। संयो- गादिसम्बन्धसत्त्वेऽपि चैत्रस्य नेदं वास इत्यादौ स्वत्वादिसम्बन्धवि- शेषबोधतात्पर्येण यत्रनयुज्यते वत्र विशेषरूपेण षष्ठया लक्ष- णैव। विभक्तौ न लक्षणेवि प्रवादस्यानुशासनासत्त्वे एक विभक्त्य- र्थेऽपरविभक्तेन लक्षणेत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी सम्बन्धत्वेनैव बोधयतीवि मिश्राः । इत्थमेव च सम्बन्धत्वेन कर्मत्वा- दिविवक्षया मातुः स्मृतमित्यादावधीगर्थत्यनुशासनस्य नियम- परवया साथक्योपपादनं वृत्तिकृतामुपपद्यते । सम्बन्धत्वविशिष्ट- सम्बन्धविवक्षायां शेषे षष्ठोत्यस्य षष्ठयविधायकत्वे तादृशानुशा- षष्ठी] जयाउलङ्कृतः सनस्य विधित्वमेव स्यात् । अत एव च "आम शूद्रस्य पक्वान्नं पक्क- मुच्छिष्टमुच्यत" इत्यत्र पक्वमित्यनुषज्यमानायाः षष्ठयाः सम्बन्ध- त्वेन कर्तृत्वमर्थः न तु स्वत्वम् । शूद्रकत कवृषोत्सर्गे चरुहोमानुप- पत्तेरिति नवीनस्मार्त्तानां मतमप्युपपद्यते । न च तत्र ऋद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अत एव "नाग्निस्तृप्यवि काष्ठानां न पुंसां वामलोचना" इत्यादौ करणत्वादेःसम्बन्धत्वेन विवक्षया षष्ठयु पपत्ति: । तृतीया- दिविधिविषयतया विशेषरूपेण करणत्वादिसम्बन्धविवक्षया षष्ठय नुपपत्तेः । अथ सम्बन्धत्वेन सम्बन्धस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड- इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोगः स्यात् । दण्डी पुरुषो रूपवान् घट इत्यादिवद्दण्डरूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषो दण्डो घटवद्र पमित्यादिः प्रयोगो दुर्वारः, तदत्रारतीत्यर्थ इव तदस्त्यर्थे मतुपो विधानात् । दण्डरूपादिपदोत्तरषष्ट्या चैत्रघटा- दिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत्- विशिष्य केषांचित्सम्बन्धानां षष्ट्यर्थतोपगमेऽपि घटस्य रूपमित्या- दिप्रयोगानुरोधेन समवेतत्वादेः षष्ठयर्थवाया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान् हस्तः,शाखाया वृक्षः, वृक्षवतोशाखेति कथं न प्रयु- ज्यते, पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरोनरेषु वा, अश्वगानां रथगामिनः शीघ्रतरा अध्वगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ वि- धीयेते । तदर्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य ताह- शविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रति- पादनंतद्धर्मावच्छिन्नार्थकपदात्षष्ठीसप्तम्याविति। प्रकृते च क्षत्रिय- त्वादिविशेषणविशिष्टे नरादौ वच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशे. षादिरूपविधेयसम्बन्धोऽभिमत इवि नरादिपदात्षष्ठी। नरेभ्यो रा- क्षसाः शूरतमा इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरा- ३०८ व्युत्पत्तिवादः [ कारके दिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणं राक्षसत्वा- दिविशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात्।नराणां क्षत्रियः शूरतम इत्यादी क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यन्या- वृत्तत्वबाधात् शून्यत्वान्तं व्या वृत्त्यवधेविशेषणम् । तद्धर्माश्रयय- किंचिद्वयावृत्तत्वविवक्षणे द्रव्येषु घटोगन्धवानित्यपि स्यात्।गन्धा- देयत्किचिद्व्यक्तिव्यावृत्तत्वात् । तादृशविशेषणशून्यसामान्य- व्यावृत्तत्वनिवेशे नराणां क्षत्रियः शूरतम इत्यादावेव तदसंभवः । शूरतमत्वादेः क्षत्रियत्वादिशून्यराक्षसाद्यव्यावृत्तत्वादतस्तद्धर्मा- वच्छिन्नति । अथ विधेये जात्यादिविशेषणशून्यसाधारणधर्माव- च्छिन्नान्वितंव्यावृत्तत्वंसाधारणधर्मावच्छिन्न वाचकपदोत्तरषष्ठ्या देरेवार्थो वाच्यः । तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नवृत्त- त्वस्यैव लाभः संभवति । न तु क्षत्रियत्वादिशून्यत्वविशेषितनरादि- व्यावृत्तत्वस्य प्रकृत्यर्थेनरादौतादृशविशेषणशून्यत्वबोधकाभावात्- नच षष्ठयाएव तदर्थः,शक्त्यानन्त्यप्रसङ्गात्। न च भेद एव षष्ट्यर्थः। तत्रच क्षत्रियादिपदार्थस्य प्रतियोगित्वेनान्वयात् क्षत्रियान्यनरादि- व्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम् । एवमपि संख्या- तिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमितिव्युत्पत्तिविरो- धापरिहारात् । नरेषु क्षत्रियाणामेव शौर्यमित्यादौ क्षत्रियादेवि- भत्तयर्थविशेषणतयोपस्थितस्य भेदे विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्षणया नरादिपदादेव क्षत्रियान्य- नरत्वादिविशेषरूपेणोपस्थितिरिति चेत् । अस्तु । व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः । व्यावृत्तत्वं तवृत्तित्वम् । शूरतमादि- पदोपस्थापितऽधर्मे तदन्वय इवि चेत्-न । पदार्थवावच्छेदकेन पदा- र्थान्तरानन्वयात् । पदार्थानां जाविमवि सत्तेत्यादौ जातिमदन्यप- दार्थवृत्तित्वसामान्याभावस्य सत्तादौ बाधितत्वात् । तादृशपदार्थ- समवेतत्वाद्यभावस्य चाप्रसिद्धावृत्तिबोधासंभवाच्च । एवं द्रव्येषु षष्ठी] जयाऽलङ्कृतः ३०६ कम्बुग्रीवादिमान घट इत्यादौ घटत्वादिधर्मस्यान्वयितावच्छेदक- रूपेणानुपस्थितत्वात्तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । अत्र केचित्-नराणां क्षत्रियः शूर इत्यादौ क्षत्रिय इव लक्षणया क्षत्रियान्योऽपि क्षत्रियपदार्थः। शूरपदत्यापि शूर इव तदन्योऽप्यर्थः। षष्ठयोंऽभेदः क्षत्रिये तदन्यस्मिश्चान्वेति । तथा च नराभिन्नः क्षत्रियःशूरो, नराभिन्न क्षत्रियान्योन शूर इत्यर्थः । नराणां क्षत्रियेषु शौर्यमित्यत्रापि क्षत्रियपदं प्रागवदुभयार्थकम् । शौर्यपदं च तत्तदत्य- न्ताभावार्थकम् । तथा च नराभिन्नक्षत्रिये शौर्य तदन्यस्मिस्तदभाव: इति बोधः । उद्देश्यविधेययोर्यादृशसम्बन्धो भावान्वयबोधे भासते तत्सम्बन्धावच्छिन्नविधेयाभावः उद्देश्यवाचकविधेयवाचकपदयो- य्यधिकरण्यस्थले विधेयपदलक्ष्यार्थः। तयोः सामानाधिकरण्यस्थले तु विधेयधर्मिभिन्न इवि सामान्यतो व्युत्पत्तिरित्याहुः-तन्न ।तथा- सति तस्मै पुरुषोत्तमाय नम इत्यत्र तत्पदार्थतदन्ययोरेव पुरुष- पदार्थाभेदविवक्षणे उत्तमपदेनासामर्थ्यात्समासाप्रसक्तर्न निर्धारण इति निषेधाश्रयणेन प्रकाशकृतां षष्ठीसमासखण्डनानौचित्य- प्रसङ्गात्। एवं नरेषु शूरस्य क्षत्रियस्येदं राज्यमित्यादौ शूरपदार्था- शूरान्वित क्षत्रियपदार्थक्षत्रियान्यस्य पष्टयर्थसम्बन्धादौ नान्वयः, किंतु शूरान्वयि क्षत्रियादेरन्वय इत्येतन्नोपपद्यते। श्वेतं सैन्धवंभुङ्क्त इत्यादौ कर्मवादिविशेषणतया लवणादिबुद्धौ मुख्यविशेष्यतया:- श्वादेरभानादेकपदोपस्थापितयो योस्तत्प्रकृतिकविभक्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतया भानस्याव्युत्पन्नत्वात्। एवं द्रव्येषु क्षितिपाथसी रसवती इत्यादौ क्षितिजलोभयत्वाद्यवच्छिन्न- भिन्न रसवदाद्यन्यत्वबोधोन संभवति । रसादिमत्यपि प्रत्येकमुम- यत्वावच्छिन्नभेदसत्त्वात्। नापि प्रत्येकभेदावच्छिन्ने तथैव बाधात्। नाप्येकभेदविशिष्टापरभेदावच्छिन्ने एकपदस्य वाहशभेदावच्छिन्न- लक्षकत्वे परपदार्थे रसवदाद्यन्यरूपविधेयानन्वयात् । द्वन्द्वघटकै- ३१० [कारके व्युत्पत्तिवादः कपदार्थमात्रे विधेयान्वयस्याव्युत्पन्नत्वात्। नापि पदाभ्यां लक्षणया तत्तद्भिन्नोपस्थितौ अभेदेनैकभिन्नान्विते अपरभिन्न वथापि पदार्थ- द्वये विधेयान्वयानुपपादनात् । द्वंद्वे समस्यमानपदार्थानां परस्प- रमनन्वयादित्यपि चिन्त्यम् । यत्तु नराणां शूरः क्षत्रिय इत्यादौशूरत्वान्वयी अभेदः षष्ठयर्थः नराभिन्नशूरत्वाद्यवच्छेदेन क्षत्रियाभेदाद्यन्वयः। एवं च क्षत्रियान्ये (?) नरेऽर्थतः शौर्यव्यवच्छेदलाभ इति-वदत्यन्तमसत् । नराणां क्षत्रिये शौर्यमित्यादौ क्षत्रियाणां कर्णः प्रचुरं ददातीत्यादौ चानिर्वाहात् । इदं तु तत्त्वम् । निर्धारणविभक्तावृत्तत्वमेवार्थः।व्यावृत्तत्वं चाभेदान्वयिविधेयसमभिव्याहारस्थलेऽन्योन्याभावप्रतियोगित्वम्। भेदान्वयिस्थले चात्यन्ताभावप्रतियोगित्वम् । तस्य च विधेयवा- वच्छेदकावच्छेदेनान्वयः। अतोन द्वित्वाद्यवच्छिन्नाभावमादाया- तिप्रसङ्गः । अभावे च प्रकृत्यर्थस्य नरादेः क्षत्रियत्वादिरूपोद्देश्यता- वच्छेदकावच्छिन्नभेदविशिष्टप्रकृत्यर्थतावच्छेदकनरत्वादिव्यापका- धिकरणतानिरूपिताधेयतासम्बन्धेनान्वयः।एतावतैव जात्यादिरू- पविशेषणशून्यप्रकृत्यर्थनरादिसामान्यव्यावृत्तेविंधेयधर्मे लाभः । द्रव्याणां क्षिविपाथसी रसवती इत्यादौ भेदद्वयादिविशिष्टद्र- व्यत्वादिव्यापकतैव सम्बन्धः । विधेयस्य शूरतमादेर्निर्धारण- विभक्तिप्रकृत्यर्थतावच्छेदकनरत्वादिविशिष्टतादात्म्यादिरेव सम्ब- न्धतया भासते । अतो नराणां राक्षसः शूर इत्यादे पत्तिः । अन्यत्स्वयमूह्यम् । इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे षष्ठीविवरणम् ।

सप्तमी] जयाऽलङ्कृतः अथ सप्तमीविवरणम् आधारसप्तम्या आधेयत्वमर्थः। तस्य क्रियायामन्वयः। आधा- राधेयभावश्च न संयोगादिरूपसंबन्धात्मकः । कुण्डादिसंयोगिनो बदरादेरपि कुण्डाधारताप्रसङ्गात् । अपि तु पदार्थान्तरमेव । सच संबन्धविशेषावच्छिन्नःसंयोगेनाधिकरणं समवायेनाधिकरणमि- त्यादिव्यवहारात्। अथ वोक्ताविप्रसङ्गभिया संयोगेनाधारत्वमेवा- तिरिक्तम् । समवायसंबन्धावच्छिन्नं च समवायादिरूपमेव । नच समवायस्य संबन्धत्वेन द्विष्ठतया रूपादेरपि पटाद्यधिकरणताप्रसङ्गः । तथा सति तुल्ययुक्तयधिकरणत्वस्यापि द्विष्ठतया वादशातिप्रसङ्गस्य दुर्वारत्वात्। यदि चाधारताया आधारेऽनुयोगित्वंसंबन्धः आधेये च प्रतियोगित्वमिति संबन्धवैलक्षण्यान्नातिप्रसङ्गः, आधारवानुयो- गिताया एवाधारव्यवहारप्रयोजकत्वादित्युच्यते, तदा समवायस्या- पितद्वैलक्षण्येनातिप्रसङ्गवारणादतिरिक्ताधारवायां मानाभावात्। स्पर्शाद्याधारवाय्वादेः रूपाद्याधारतावारणायाधेयभेदेनाधारत्व- मतिरिक्तमिवि न सत्। आधेयभेदभिन्नाधिकरणतानामतिरिक्तस- मवायस्य च कल्पनामपेक्ष्याऽऽधेयभेदेन समवायभेदस्यैवोपगन्तु- मुचितत्वात् । अथ संयोगेनाधिकरणत्वमपि संयोगरूपमस्तु कुण्ड- बदरादिसंयोगानां कुण्डादिकमनुयोगि न तु बदरादिकमिति नाविप्रसङ्गः। न चैवमपि कुण्डादेः कुण्डादिनिष्टसंयोगानुयोगि- वायाः कुण्डाधारतापत्तिः । तादृशसंयोगस्य कुण्डादिनिष्ठत्वेऽपि तत्प्रतियोगिकत्वानुपगमात्तत्प्रतियोगिकसंबन्धानुयोगिताया एव वदाधारव्यवहारप्रयोजकत्वात्। न चासौ संयोगो वदरादौ कुण्डवि- शिष्टबुद्धिप्रयोजकतयोभयानुयोगिक एक एवमुभयप्रतियोगिकोऽपी- ति वाच्यम्। आधेये संयोगेनाधिकरणविशिष्टबुद्धरप्रामाणिकत्वात कुण्डे बदरमित्यादिविशिष्टबुद्धौ संयोगप्रतियोगिवाया एव संबन्ध- व्युत्पत्तिवादः [कारके त्वात् । पटे रूपमित्यादौ समवायप्रतियोगितावत्। अन्यथा तादृश- विशिष्टबुद्धिबलाद्र पादावपि घटादिसमवायानुयोगिताप्रसङ्गादिवि चेत्-मा भूत्तत्संबन्धावच्छिन्नाधारत्वमप्यतिरिक्तम् । यत्तु तत्पतनप्रतिबन्धकसंयोगवत्त्वं वदाधारत्वं कुण्डादिपतन- प्रतिबन्धकसंयोगवत्त्वं च न बदरादौ, तत्संयोगसत्त्वेऽपि तस्य पतनादिति-वदसत् । यस्य पवनमप्रसिद्धं तदाधारत्वासंग्रहात् । स्वस्मिन्स्वपतनप्रतिबन्धकसंयोगसत्त्वेन स्वस्यापि स्वाधारताप्रस- ङ्गाच्च । स्वान्यत्वे सति स्वनिष्ठपवनानुत्पादकप्रयोजकसंयोगवत्त्वं तदिति चेत्-न । एतदनुपस्थितावप्यधिकरणव्यवहारादित्यलम् । अथाधारसप्तम्या आधेयतार्थकत्वे भूतले वर्त्तते घट इत्यादौधात्व- र्थस्य वृत्तेराधेयतारूपत्वेन तत्र भूतलाद्याधेयत्वाभावेनायोग्यताप्रस- ङ्ग इति चेत्-न । तत्र निरूपकत्वस्यैवाधारवारूपत्वेन निरूप्यत्वस्यैव सप्तम्यर्थत्वात्। भूवलादिनिरूप्यत्वस्य च घटादिनिष्ठवृत्तावबाधात् । अत एव 'इति हेतुस्तदुद्भव' इत्यादौ हेतौ हेतुतायां चोद्भवपदार्थोत्प- त्तिवृत्तित्वाभावेऽपि हेतुतायामुत्पत्तिनिरूपितत्वसत्त्वेन सप्तम्युप- पत्तिः। अथवा वृद्धातोरपि आधारत्वमेवार्थस्तन्निरूपकत्वमेव घटा- देस्तत्कर्तृत्वम् । एवं च तादृशधात्वर्थे भूतलाद्यधिकरणकत्वमेव सप्तम्यन्तेन बोध्यते । तत्र तदबाधात् । अथाधारसप्तम्या क्रियायां प्रकृत्यर्थाधिकरणकत्वं यदि बोध्यते तदा चैत्रे चैत्रो गच्छतीत्यादि प्रयोगापत्तिः । तत्र धात्वर्थस्य स्पन्दादेः कादिवृत्तित्वात् । भुवि गच्छतीत्यादिश्च न स्यात् । चैत्रनिष्ठक्रियाया भुवि बाधादिति चेत्-न । तत्र कर्तृघटितपरम्परासम्बन्धावच्छिन्नाधारवाया एव सप्त- म्यर्थत्वेन सर्वसामञ्जस्यात् । परम्परासम्बन्धस्यापि प्रवीतिबलेन कचिदाधारतानियामकत्वोपगमात् । अवच्छेद्यताविशेषोऽप्याधारसप्तम्यर्थः । यथा वीणायां शब्दः, कर्णे शब्दः, वृक्षाने कपिसंयोग इत्यादौ । एषु कारकतानिहाय । सप्तमी] जयाऽलङ्कृतः भवतीत्यध्याहारः। अथ वासप्तम्यधिकरणे चेवि चकारेणाकारका- धारवाचिनोऽपि सप्तमी। अत एव साध्यवद्भिन्नसाध्याभाववदवृत्ति- त्वमित्यत्र साध्यवद्भिन्ने यः साध्याभाव इति सप्तमीवत्पुरुषेण व्या- ख्यानं संगच्छते तत्रक्रियाध्याहारे सापेक्षवयाऽसामर्थ्येन समासा- नुपपत्तेः। चर्मणि द्वीपिनमित्यादौ निमित्तात्कर्मयोग इत्यनेन सप्तमीप्रकृ. त्यर्थचर्मादेहननादिक्रियानिमित्तत्वं बोधयति । निमित्तत्वं च न कारणत्वम् । चर्मादेहननादिक्रियाकारणत्वे मानाभावात्। पूर्ववर्ति- त्वेऽपि इच्छाकृत्यादिना अन्यथासिद्धत्वात्। अपि तु क्रियाजनिका या विनियोज्यत्वेनेच्छा वद्विषयत्वं स्वविषयकतादृशेच्छाधोनत्व- मेव। तत्रक्रियान्वयी सप्तम्यर्थः। तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थान्वयः। चर्मादेर्घात्यव्याघ्रादेः सम्बन्धश्च न सप्तम्यर्थः । अपि तु सप्तम्याः साधुत्वे स्वरूपसन्नपेक्षितः । गोषु दुह्यमानासुगव इत्यादौ यस्य च भावेनेत्यनेन गवादिपदा- त्सप्तमी तत्समानाधिकरणदुह्यमानादिपदाच्च नीलं घटमानयेत्यादौ नीलादिपदाद्वितीयावद्विशेषणपदस्य विशेष्यपदसमानविभक्ति- कत्वनियमात् । सप्तमोविधायकसूत्रे च भावपदं क्रियापरम् । तथा च यद्विशेषणकृदन्वार्थविशेषणवापन्नक्रियया क्रियान्वरस्य लक्षणं व्यावर्त्तनं तद्वाचकपदात्सप्तमीवि तदर्थः । उक्तस्थले गमना- दिक्रियादोहनादिसमानकालीनत्वादिपुरस्कारेण बोध्यतयाभिप्रेता। श्रवो व्यावर्त्तकविशेषणप्रविष्टवादशक्रियाया अपि व्यावर्तकतया तत्कर्माद्यभेदान्वयविशेष्यगवादिपदात्सप्तमी । अतस्तादृशसप्तम्या: समानकालीनत्वादिकमात्रमर्थः । तत्र दुह्याद्युपस्थापितदोहनादेनि- रूपकत्वेनान्वयादोहनसमानकालीनत्वादिकं गमनादौ लभ्यत इति न युक्तम् । दुह्याद्युपस्थापितक्रियायाः कृदर्थविशेषरणतयोपस्थिवाया: समानकालीनत्वादिविशेषणत्वासंभवात् । प्रकृत्यर्थगवादिनान- । ३१४ व्युत्पत्तिवादः [सम्बोवने न्वितस्य सप्तम्या बोधनासंभवाच्च । किन्तु समभिव्याहृतदोह- नादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं क्रियान्व- रे संबन्धः । तत्र वर्तमानार्थककृत्समभिव्याहारस्थले समानका- लीनत्वं दोग्धव्यासु गत इत्यादि भविष्यदर्थकृत्स्थले प्राक्कालीनत्वं दुग्धासु गत इत्यादावतीवार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतया भासते । पाथसि पीते तृषा शाम्यतीत्यादावतीवाथककृत्समभि- व्याहारात्कार्यकारणभावोऽपि संबन्धवया भासत इत्यादिकमूह- नीयम्।गुणान्यत्वे सति सत्त्वादित्यादौ सतीत्यनन्तरं सत इत्यध्या- हार्यमन्यथा लक्षणीयक्रियाभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तेः। वत्रचासधावोरर्थ आधारता गुणान्यत्वाद्याधारवायाश्च सत्ताधार- वायां तद्वन्निष्टत्वं संबन्धवया भासत इति चिन्तामणिकारोक्तसामा- नाधिकरण्यलाभनिर्वाहः । शयानेन चैत्रेण भुक्तमित्यादौ शयनभो- जनादिक्रिययोः समानकालीनत्वभानेऽपि तत्र लट्प्रत्ययेनैव सम- भिव्याहाराद्भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोध्यतेऽ- वो न सप्तमी । अन्यतस्तदनभिधान एव सप्तमीविधानात् । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे सप्तमीविवरणम् । अथ सम्बोधनविवरणम् चैत्र त्वया भुज्यवामित्यादौ संबोधने चेति प्रथमा संबोधनमे- वाह । तच्च वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा। प्रथमार्थ- वाहशेच्छाया विषयतासम्बन्धेन प्रकृत्यर्थविशेषणतया भानम्।अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यतामित्यादिवाक्याधीनस्य चैत्रा- प्रथमा जयाऽलङ्कृतः देर्वाक्यार्थबोधस्य भोजनादिप्रवृत्तेश्च निर्वाहात्।चैत्रेत्यादिप्रथमा- न्तपदप्रयोगोऽनर्थक इति चेत्-न। सम्बोध्यवानुमापकासाधारणाभि- मुख्यादिविरहे विशिष्यचैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाह- स्यैव तत्प्रयोजनत्वात्। चैत्रत्वाद्यवच्छिन्ने बोध्यत्वग्रहं विना संबो- ध्यतावच्छेदकत्वोपलक्षिवधर्मावच्छिन्नवाचकयुष्मत्पदस्य विशिष्य.. चैत्रत्वाद्यवच्छिन्ने शक्तेनिश्चेतुमशक्यत्वात्। न चैवमपि यत्रानन्व- रवाक्यं न युष्मच्छब्दघटितं चैत्रात्र घटोऽस्तीत्यादौ वत्र संबोधन- पदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवा- क्यार्थबोधार्थोच्चरितत्वरूपवात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशवात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्याच्चैत्रादेःशाब्दबोधा- संभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्य च लवणानयनादिबो- धायोच्चरिवात्सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तत्तद्वा- क्यार्थबोधवारणाय तदीयतदर्थबोधे तदीयतबोधार्थोच्चरितत्वरूप- तात्पर्यनिश्चयस्य हेतुवाया आवश्यकत्वात् । संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इवि नियमे संख्याभेदवत्संबोधनभे- दोऽपि निवेशनीयः। अतः संबोधनस्य प्रकृत्यर्थविशेषणवया भानेs- पिन क्षतिः। संबोधनस्य प्रकृत्यर्थविशेष्यतयैव वा भानमुपेयम्। व-- स्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनु- रोधात्सुबर्थकर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते न तूक्तनि- यमानुरोधेन । तथानियमे मानाभावात्। संबोधनविभक्तयन्त- प्रकृत्यर्थस्यान्यत्र विशेषणवयाऽन्वयात्संबोधनस्य विशेष्यतया भानं नियुक्तिकमिति कृतं विस्तरेण । इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते ब्युत्पत्तिवादे सम्बोधनविवरणम् ।

व्युत्पत्तिवादः [लिङ्गार्थे अथ लिङ्गार्थविवरणम् प्रातिपदिकप्रकृतिकाः स्त्रियामित्यनेन विहिताष्टाबादयः क्वचि- त्रत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति । अजा अश्वा शूद्रा श्यामा 'चपला ब्राह्मणो गौरी सुकेशी गर्भिणीत्यादौ । स्त्रीत्वं च योनिम- त्वम् । न च स्त्रीपरपदात्सातुत्वार्थष्टाबादिप्रत्ययो न तु स्त्रीत्वं तस्यार्थः । क्वचित् स्त्रीत्वबोधश्च स्त्रीप्रत्ययप्रकृतितात्पर्य विषयत्वरूप लिङ्गज एवेवि वाच्यम्। खट्वादौ व्यभिचारेण तादृशहेतोः स्त्रीत्वा- साधकत्वात् । प्राणित्वेन विशेषणेऽपि देवतादौ व्यभिचारात् । वस्तुवस्त्वजवत्यपि अजा नास्तीत्यादिप्रयोगात्स्त्रीत्वस्य नबो- न्वयितावच्छेदकतया भानमावश्यकम्। अन्यथा पुंसाधारणजाति- विशेषावच्छिन्नाभावस्य बाधेन वाहशप्रयोगस्य प्रामाण्यानुपपत्तेः। न च प्रातिपदिकार्थ एव स्त्रीत्वं वस्य च तदर्थ एव जात्यादिमति विशेषणत्वेनान्वयः । स्त्रीप्रत्ययास्तु द्योतका एव । अत एव- "स्वार्थो द्रव्यं च लिङ्ग च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रयः केषांचिदग्रिमा" ॥ इति शाब्दिकानां कारिकापि सङ्गच्छते । वत्र स्वार्थो जात्यादिरूपो -गवादिपदमुख्यार्थः। द्रव्यं गवादिरूपस्तद्धर्मी तन्मते औपचारिको गवादिपदार्थः। लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव । नात्र ब्राह्मणोऽपि तु ब्राह्मणीत्यादौ पुंस्त्वबोधकपदान्तराभावेन तद्बो- धानुपपत्तेः। ब्राह्मणादिपदाच्च जात्यादेव्यस्य च भानं नियतमेव। लिङ्गभानं तात्पर्ययोग्यताधीनं काचित्कम् । ब्राह्मणीत्यादौ पुंस्त्वाद्य- बोधादिवि वाच्यम् । उक्तयुक्त्या पंस्त्वस्य प्रातिपदिकार्थत्वेऽप्यन- न्तानांप्रातिपदिकपदानां स्त्रीत्वार्थकत्वे गौरवात्। लाघवेनाल्पीयसां स्त्रीप्रत्ययानां तदर्थकत्वकल्पनौचित्यात् । अत एव स्त्रीत्वसंग्रहाय प्रातिपदिकार्थेत्यादिसूत्रे लिङ्गग्रहणम् । अन्यथा प्रातिपदिकार्थ एव - - स्त्रीप्रत्ययाः] जयाऽलङ्कृतः ३१७. वदन्तर्भावेन पृथक् वदुपादानानुपपत्तेः । कचित्स्त्रीप्रत्ययः स्त्रियं भार्यात्वेन प्रकृत्यर्थविशेष्यतया बोधयति-आचार्याणी मानवी शूद्रीत्यादौ । भार्यात्वं संबन्धविशेषः । तत्रैव च निरूपकत्वेन प्रकृत्यर्थान्वयः। खट्वाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः ।। वत्र प्रकृत्यर्थे योनिमत्त्वरूपस्त्रीत्वस्यायोग्यवयाऽनन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव । तत्र परम्परासंबन्धे नार्थगततयाभासत इति श्रीपविदत्तोक्तं युक्तम् । यद्भाने मानाभावात्। यूस्व्याख्यावित्यत्र स्त्र्याख्यपदं स्त्रीलिङ्गशब्दपरं न तु स्त्रीत्वविशि- ष्टार्थकशब्दपरम्। तेनाटव्यादिशब्दानां स्त्रीत्वविशिष्टाबोधकत्वेऽपि न नदीसंज्ञानुपपत्तिः । अव एव स्त्रीभूप्रभृतीनां स्त्रीप्रत्ययान्तत्वा- भावेन स्त्रीत्वविशिष्टबोधकत्वेऽपि नदीसंज्ञाप्रसक्तथा नेयङवस्था- नाविति निषेधसंगतिः। न चैवं सेनान्ये स्त्रियै इत्यादावपि नदीसंज्ञा स्यात्। सेनान्यादिशब्दस्य वत्र विशेष्यनिन्नवया स्त्रीलिङ्गत्वादिवि वाच्यम् । प्रयोगानुसारेण विशेष्यसमभिव्याहारानधीनायाः स्त्री- लिङ्गवाया विवक्षणीयत्वादिति संक्षेपः ।। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे लिङ्गार्थविवरणम् । अथ तद्धितार्थविवरणम् तद्धिवप्रत्यया अपि नामप्रकृतिकाः कचित्प्रकृत्यर्थेन स्वाथै क- देशस्य क्वचिच्च तेन स्वार्थस्यान्वयबोधं जनयन्ति । तत्र गार्गिरित्य- त्रापत्यार्थविहिवतद्धितार्थस्यापत्यस्यैकदेशेजन्यत्वे निरूपकतयाप्रकृ.. त्यर्थगर्गाद्यन्वयः। गाय॑ इत्यादौ तद्धितार्थस्य गोत्रापत्यैकदेशपुत्रघ- टकजन्यत्वे तथा वदन्वयः।गाायण इत्यादौ तद्धितार्थस्य युवाप- ३१८ व्युत्पत्तिवादः [तद्धिते त्यस्यैकदेशे जन्यत्वे गार्ग्यस्य जीवति तुवंश्ये युवेतिपरिभाषितयुवा- र्थघटकजीवने च गर्गादेरन्वयस्तेन गर्गादिजीवनकालीनो गर्गगोत्रा- पत्यस्यापत्यमयमिवि बोधः । माञ्जिष्टं वास इत्यत्र तेन रक्तमित्य- थे वद्धितो विहितः । वत्संबन्धाधीनतदीयरूपारोपविषयत्वं तेन रक्तत्वम् । शङ्खः पीत इत्यारोपमादाय शङ्खादेरारोप्य पोतिमाद्याश्र- यहरितालादिरक्तत्वस्य वारणायाधीनान्तमारोपे विशेषणम् । पटा- देश्चतुरादिना रक्तत्वस्य वारणाय तदोयत्वं रूपविशेषणम् । अत्रच रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसंबन्धे प्रतियो- गितया रूपे चाश्रयतयाऽन्वयः । शूल्यमुख्यमित्यादौ तद्धितार्थसं- -स्कृतैकदेशे पाकादिरूपसंस्कारेशूलोखादेः प्रकृत्यर्थस्पाधिकरणत्वे- नान्वयः । पौषी रात्रिरित्यादौ नक्षत्रयुक्तकालार्थे चद्धिवः । कालस्य नक्षत्रयुक्तत्वं च वन्नक्षत्रशशिभोगाश्रयत्वं, वदैकदेशे शशिभोगे च कर्मवया तन्नक्षत्रान्वयः। पौषोमासः पौषो वर्ष इत्यादौ सास्मिन्नि- त्यनेन विहितस्य तद्धिवस्य पौर्णमासीघटितत्वावच्छिन्नोऽर्थः। पौर्ण- मास्यां प्रकृत्यर्थपौष्यादेरभेदेनान्वयः। पौषादिपदं च न केवलं यौगि. कम् । पौषः पक्ष इत्यादिव्यवहारविरहात्। अवो रूढमपि । अत एव -सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकं च मासनिष्ठशुक्लप्र- तिपदादिदर्शान्ततिथिसमुदायत्वं न तु त्रिंशत्तिथिरूपमासत्व- मात्रम् । यत्किंचित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासव्यवहारेऽ- पि चान्द्रसौरपौषादिबहिभूवपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गवतिथिषु पौषादिन्यवहारविरहात्। अथैवमपि सौरे पौषादिव्यवहारस्य निर्वि- वादतया धनुःस्थरविविशिष्टत्वमेव न कथं पौषादिपदशक्यतावच्छे- दकमुपेयत इति चेत्-न। सौरे पौषादौ पौष्यादिपूर्णिमाया अलाभे यो गरूढिलभ्यपौषपदार्थविलोपापत्तेः। न च तत्र रूढिमात्रमवलम्ब्येव पौषादिव्यवहारः सौरपौषादौ मुख्य इति वाच्यम् । वथा सति यो- गार्थव्युत्पादनवैयर्थ्यात् । अथ विलुप्यतां वर्षविशेषे पौषादिपद- पौषादिपदार्थः] जयाऽलङ्कृतः मुख्यार्थः का क्षतिः । वत्र लक्षणया सौरमासे पौषव्यवहारस्योप- गन्तव्यत्वात्। स्थलपद्मादौ पङ्कजव्यवहारवदिति चेत्तहि तत्र पोषा- दिपदमुख्यार्थमासनिमित्तकाब्दिकश्राद्धादिविलोपप्रसङ्गः। यथाश्रुत- शूलपाणिग्रन्थानुसारिणस्तु धनुरादिस्थरव्यारब्धशुक्ल प्रतिपदादि- दर्शान्तेषु धनुरादिस्थरविसमाप्यमकरादिस्थरविसंक्रांतिमन्मासा- भिन्नधनुरादिस्थरव्यधिकरणशुक्ल प्रतिपदादिदर्शान्तेषु वा पोषादि- पदस्य रूढत्वमेव स्वीकुर्वन्ति, न तु यौगिकत्वम् । “अन्त्योपान्त्यौ त्रिभौ ज्ञेया” विति वचनात् । पौषादिमासीयपौर्णमास्यां पुष्यादि- योगस्यानियमात् । न च योगानादरे लाघवात्तत्तद्राशिस्थरविवि- शिष्टकारूपसौरादिमास एव पौषादिपदशक्तिरुचितेति वाच्यम् । सा वैशाखस्यामावास्या या रोहिण्यासम्बध्येतेत् इत्यादिश्रुतिबला- च्चान्द्र एव वैशाखादिपदशक्तिसिद्धेः । वस्तुतो नक्षत्रेण युक्त: काल इत्यत्रनक्षत्रयोगयोग्यत्वमेव विवक्षिवम्। पुष्याद्ययुक्तायामपिपौषा- दिपूर्णिमायायां पौष्यादिव्यवहारात् । अन्यथा माध्यां यदि मघा नास्तीत्यादेरसगत्यापत्तेः पुष्यादियोगयोग्यवा च धनुरादिस्यर- व्यारब्धपक्षीयत्वं तद्र,पाक्रान्तपौर्णमासीघटिवत्वरूपयोगलभ्यता- वच्छेदकं नियतमेव पौषादेरिति नोक्तानुपपत्त्या यौगिकत्वनिराक- रणसंभवस्वत्पदानाम् । अथैवं निरुक्तरूपस्य पुष्याद्यघटितवया तेन रूपेण पूर्णिमाबोधकपौष्यादिशब्दानां यौगिकत्वप्रसक्तिरेव नास्ति पौषो रात्रिरित्यादौ पुष्यादियोग एव प्रतीयते न तु निरुक्तं योग्यत्वम् । मकरादिस्थरव्यारब्धकृष्णपक्षीगरात्र्यादावपि तथा व्यवहारादिति नक्षत्रेण युक्तः काल इत्यत्र योग एव विवक्षणीयो न तु योगयोग्यत्वमिति पौर्णमास्यां पौष्यादिपदस्य न यौगिकत्व- संभवश्चेद्भवतु पौष्यादिपदं निरुक्तरूपावच्छिन्नपूर्णिमारूढमेव पौ- पादिपदानां वद्योगपुरष्कारेण मासवाचकत्वे बाधकाभावाद्यौगिकत्वं कथं प्रत्याख्येयम्। न च सास्मिन्पौर्णमासीति सूत्रस्यास्मिन् पौष्या- ३२० व्युत्पत्तिवादः [तद्धिते दिपूर्णिमायोग्यतेत्यर्थविवक्षयाधनुरादिराशिस्थरव्यारब्धशुक्ल प्रति- पदादिदर्शान्ते तद्धितान्तसमुदायरूढिग्राहकतयोपपत्तौ योगरूढि- स्वीकारोऽनुचित इति वाच्यम् । केवलरूढिपक्षे समुदायशक्यताव- च्छेदकशरीरे आरब्धान्तविशेषणप्रक्षेपण गौरवात् । पौषतैषमाधा- दिनानापदानांगुरुधर्मावच्छिन्ने शक्तिकल्पनमपेक्ष्य सास्मिन्नित्यर्थे- ऽरण:प्रत्ययस्यैकशक्तिकल्पनाधिक्यस्योचितत्वात्। न च योगरूढिपक्षे पौषादिपदानां योगार्थरुढ्यर्थाभेदान्वयबोधजनकत्वकल्पनाधिक्येन गौरवमिति वाच्यम्। भवन्मतेऽपि तत्तदर्थे यौगिकरूढत्वभ्रमदशायां सवि च तत्तदर्थाभेदान्वयपरत्वग्रहे वधान्वयबोधस्य दुरपह्नववया वत्र तादृशबोधहेतुताकल्पनस्यावश्यकत्वादिति दिक् । वैष्णवी ऋक् ऐन्द्रं हविरित्यादौ देवतार्थविहिवतद्धिवस्य वद्देव- वाकत्वमर्थः। मन्त्रस्य वदेवताकत्वं तदुद्देश्यकत्यागकरणत्वेन वेद- बोधितत्वम् । अथ मन्त्रस्य त्यागकरणत्वं बाधिवमेव । विनापि मन्त्रमिच्छाविशेषरूपस्य वस्योत्पत्त्या व्यभिचारात् । इष्टसाधनता- ज्ञानघटिवक्लप्तसामग्र्या अन्यथासिद्धत्वाच्चेति मन्त्रस्य करणतां कथं वेदो बोधयेद् बोधयन्वा प्रमाणं भवेत् । सत्यम्। मन्त्रस्य त्यागकर- सत्वं त्यागाङ्गोच्चारणकत्वं न तु तज्जनकत्वमतो न दोषः । हविषस्व- देववाकत्वं च तदुद्देश्यकत्यागकर्मत्वम् । तत्त्यागोद्देश्यताया एव वद्दे- वतापदार्थत्वात्। न चैवंघृतादिसंप्रदानब्राह्मणस्य घृतादिदेवतात्वा- पत्तिः । उद्देश्यपदेन वेदबोधिवद्रव्यस्वामित्वप्रकारेण विषयताया एव विवक्षितत्वात् । संप्रदाने च स्वामित्वस्याबाधितत्वात्। न च त्यागोद्देश्यवायाञ्चतुर्थ्यापि बोधनात्तद्धिवचतुर्योर्देवतात्वबाधंकवा- यामविशेषात् । "तद्धितेन चतुर्थ्या वा मन्त्रलिङ्ग न वा पुनः । देवतासङ्गतिस्वत्र दुर्बलं तु परं परम्" इत्यनेन विरोध इति वाच्यम् । त्यागोद्देश्यवायां वेदमेयत्व- ।

तद्धित चतुर्योर्बलाबल०] जयाऽलङ्कृतः स्याधिकस्य निवेशनीयतया चतुर्थ्या तदंशाबोधनेन वस्योपाया- न्यवरबोध्यतया चतुर्थ्यधीनदेवतात्वबोधस्य विलम्बितया तद्धिता- पेक्षया चतुर्था जघन्यतोपपत्तेः । देववार्थविहिववद्धितेनैव देव- तात्वघटकवदंशस्यापि बोधनात् । अथ चतुर्थ्या वेदमेयत्वांशस्य साक्षादबोधनेऽपि त्यागोद्देश्यत्वस्य साक्षाद्वोधनेन पित्रादीनां साहित्यावच्छिन्नानां पितृभ्यो दद्यादिति चतुर्थ्यधीनत्यागोद्देश्य- ताबोधस्य पितरो देवता इति तद्धिवसमानार्थकदेवतापदाधीन- निरपेक्षत्यागोद्देश्यत्वबोधापेक्षयाऽविलम्बितत्वेन साहित्यावच्छि- नानां निरपेक्षाणां वा श्राद्धोद्देश्यत्वमित्यत्र चतुर्थ्यपेक्षया देव- तापदस्य बलवत्त्वरूपं शूलपाणिपर्यालोचितं विनिगमकं न संग- च्छत इति चेत्-न । पितृभ्यो दद्यादिति चतुर्थ्या साहित्यावच्छिन्नस्य त्यागोदेश्यताबोधे तत्र वेदसमानार्थकस्मृतिवाक्यजन्यत्वग्रहे सत्ये- वाप्रामाण्यशङ्कानुदयः। तादृशग्रहश्च विलम्बितः। देवतापदात्यागो- देश्यताबोधश्च तदुद्देश्यतांशे वेदबोधितत्वावगाही स्वस्मिन्नप्रामा- एयशङ्काव्युदासाय न ज्ञानान्तरमपेक्षते । स्वयैव स्वात्मकोद्देश्यता- बोधांशे व्यावर्त्तकवेदजन्यत्वावगाहनात् । अप्रामाण्यशङ्काकलंकि- तश्च बोधो जातोऽप्यकिंचित्कर इति देवतापदस्य झटिति निश्चीय- मानप्रामाण्यकबोधजनकवया बलवत्त्वेन विनिगमनाया उपपत्तेः एवं श्राद्धार्थावाहनप्रकाशकात् पिवर इत्यादिमंत्रबहुवचनोपस्थापि- तसाहित्यावच्छिन्नावाहनबोधेन साहित्यावच्छिन्नानां श्राद्धदेवता- त्वलाभेऽपि मन्त्रलिङ्गस्य विपक्षबाधकतर्कादिसापेक्षव्याप्तिनिश्चया- धीनवया सुतरां पितरो देवता इत्यतो दुर्बलतेवि बोध्यम् । का- पोतं राजतं जनतेत्यादौ समूहार्थविहितस्य पर्याप्तसमुदायत्वावच्छि- नोऽर्थः पर्याप्तौ प्रकृत्यर्थकपोतत्वाद्यनवच्छिन्नस्यान्वयः । कपोवशु- कसारिकादिपर्याप्तसमुदायत्वस्य पर्याप्तिश्च न न्यूनवृत्तिकपोतत्वा- दिनाऽवच्छिद्यते । अतो न तादृशसमुदाये कापोतादिव्यवहारः । २१ । ।

૨૨૨ व्युत्पत्तिवादः [आख्याते पर्याप्त्यवच्छेदकत्वे चान्यूनवृत्तित्वमेव च तन्त्रं न त्वनतिरिक्तवृ- त्तित्वमपि । अन्यथा आकाशत्वादेरिव घटत्वादेरपि द्वित्वादिपर्या- प्त्यवच्छेदकता न स्यात् । आकाशावितिवत् घटावित्यपि न स्यात्। इत्थं च कपोतमात्रवृत्तिशतत्वादिपर्याप्तावपि अतिरिक्तवृत्तिकपोत- स्वादेरवच्छेदकतानिर्वाहात्। कपोतशतादावपि कापोवादिव्यवहा- रोपपत्तिः। पर्याप्त्यतिप्रसक्तधर्मस्य तदनवच्छेदकत्वे गत्यन्तरं चिन्वनीयम्। इति महामहोपाध्यायगदाधरभट्टाचार्यविरचिते व्युत्पत्तिवादे तद्धितार्थविवरणम् । अथाख्याविवरणम् धातुप्रकृतिकाश्च लकारकृत्सन्यरिणच्प्रभृतयः प्रत्ययाः केचि- द्धात्वान्वितसाधकतमत्वं ब्रुवते । अर्थान्तरमनभिदधानाश्च के- चिदाकाङ्कक्षानिर्वाहकतथा प्रकृतिभिः स्वीयार्थबोधन एवोपकुर्वते। वत्र लडादिदशलकाराणां ल: कर्मणि च भावे चाकर्मकेभ्य इवि सूत्रेण कर्तृकर्मभावेष्वनुशिष्टानां कर्तृत्वसामान्यमर्थः । वावन्मात्रा- भिधानेनैव प्रथमान्तपदोपस्थाप्यविशेषणवया तदन्वयेन कृविवि- शिष्टस्य कर्तुर्बोधनिर्वाहात्। लकारस्य तद्बोधकतया न लःकर्मणीवि- सूत्रविरोधः,बोधकताया एव तत्र सप्तम्यर्थत्वात्, न तु वाचकतायाः। गौरवेण विशिष्टधर्मिणि शक्तेर्बाधात् । मैत्रः पचवीत्यादौ लकारे प्रथमान्तपदसामानाधिकरण्यप्रवादस्याभेदेन तदर्थान्वितस्वार्थबो- धपरत्वाभावेऽपि कथंचिदुपपादनसंभवात्। तृतीयायाः साधुतानि- यामकं लकारादिना कर्तुरनभिधानमपि कर्तृत्वविशिष्टाबोधनमेव, नतु विशिष्टशक्त्याऽबोधनपर्यन्तमवो विशिष्टस्य लकारावाच्यत्वेऽ- कतृत्वानभिधान०] जयाऽलङ्कृतः ३२३ पि चैत्रः पचवीत्यादौ न तृतीयापत्तिः । अन्वयवलेन विशिष्टबो- धात् । चैत्रः पक्तत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शक्त्यधीनविशिष्टबोधसाधारणबोधस्यैवानभिधानपदार्थप्रतियोगि- त्वात् । अथानभिहिते कर्तरि तृतीयेत्यनुशासनेऽपि सप्तम्यर्थो बो- धकत्वमेव । तथा च चैत्रेण पच्यत इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृ- त्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्टधर्मिबोधकत्व मिति सूत्रवि- रोधः । यदि च तत्र कादिपदं धर्मपरम् । तथा च समभिव्याहृत- लकाराद्यनभिहितं कर्तृत्वं तृतीयार्थ इति सूत्राथेः चैत्रेण पच्यत इ- त्यादौ कर्तृत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमि- त्युच्यते तदा तत्रानभिधानशब्दार्थो भवतैव वक्तव्यः । न तावदवा- चकत्वं तदर्थः। लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तिसंभवात् । कर्त्तरि यकाऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात् ! यगा- द्यनुत्तरत्वस्य कर्तृत्वशक्तवावच्छेदककोटावनिवेशात्। तत्र तन्निवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार इत्यादौ कर्मकर्तुः माषकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः। न च तत्र स्वयमेवेत्यस्या- ध्याहारेणाव्ययस्वयंपदोत्तरतृतीयया कर्तृत्वं बोध्यते न तुलकारेणेति वाच्यम् । स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् तत्र लकारेण कर्तृत्वाबोधने कर्मकर्तुः 'कर्मवत्कर्मणा तुल्यक्रिय' इत्यविदेशवैयापातात्। लकारस्य कर्मत्वबोधकतयैव यगात्मने- पदचिचिण्वद्भावरूपातिदेशकलनिर्वाहात् । न च कर्मकर्तरि ल- काराधीनकर्मत्वबोधस्याप्यावश्यकता । वस्तुगत्या कर्मकर्तुः कर्मत्वा- तिदेशे चैत्रः स्वं पश्यति स्वहन्तीत्यादावपि यगात्मनेपदादिप्रस- ङ्गात् । लकारेण कर्मत्वविवक्षायामेव कर्मत्वाविदेशस्य स्वीकरणी- यत्वात् । तथा च त्वन्मतेऽपि कर्मत्वाविदेशासंगतिरिति वाच्यम्। कर्मत्वविवक्षायामपि कर्तृत्वविवक्षणे कर्तृकर्मादिसंज्ञासमावेशविरो धेन परत्वाकर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनु- ३२४ व्युत्पत्तिवादः [आख्याते पपत्तेः । कर्तरि शबित्याद्यपवादविषयवया यकोऽप्यनिर्वाहादिति सार्थकत्वात् । न च कर्मत्वकर्तृत्वयोरुभयोस्तत्र बोधस्वीकारे तदेक- तरस्याख्यातार्थतयोद्देश्यतावच्छेदकवया भानासंभवत्समूहालम्बन- बोध एव स्वीकरणीय इति वाक्यभेदापत्तिरिति वाच्यम् । एकत्र द्वयमिति रीत्या तदुभयबोधस्य समूहालम्बनविलक्षणस्य स्वीकारा- त्। यदि च विधेयद्वयत्वज्ञानं समूहालम्बनात्मकमेव । अत एव विधे- यभेदे वाक्यभेद इतिमीमांसकसिद्धान्तोऽपीत्युच्यते, तदास्तुधातोरेव स्वकर्मकक्रियायां लक्षणा । कर्तृत्वसम्बन्धमध्य एंव वा स्वनिरूपकक्रि- याकर्मत्वस्याप्यन्तर्भाव इत्यलम् । एवमकर्मकत्वेऽपि प्रसूते गौः प्रासोष्ट गौः, नमते दण्डमूलमनंस्त दण्ड इत्यादौ ण्यर्थान्तर्भावेणैव कर्मकर्तृतानिर्वाहे "न दुहस्नुनमां यचिणा"विति यचिनिषेधोपपत्तिः। एवं चैत्रेण पक्ष्यत इत्यादौ कर्तृत्ववाचकताया दुरपह्नवत्वात् तृतीयानुपपत्तिः । चैत्रः पक्ष्यत इत्यादौलकारेण कर्तृत्वबोधनात्स्याल्लकारसाधारणरूपस्य तद्वाचकतावच्छेदकवाध्रौव्याच्च । नापि तदबोधकत्वं तदनभिधानं चैत्रेण पच्यत इति वाक्यजबोधे कर्तृत्वविषयके ताशवाक्य- घटकसकलपदानामेव जनकतया उद्घटकलकारस्यापि कर्तृत्व- बोधकताया वाङ्मात्रेणाप्रत्याख्येयत्वात् । कर्तृत्वविषयत्वाप्रयोज- कत्वं लादीनां तदनभिधायकत्वं चैत्रेण पच्यत इत्यादौ धात्वर्थ- विशेषणतया कर्तृत्वविषयता तृतीयाप्रयोज्यैव न त्वाख्यातप्रयोज्या। आख्यातस्याश्रयतासंबन्धावच्छिन्नकर्तृत्वप्रकारवाया एव कार्यता- वच्छेदकत्वादित्यपि न सम्यक् । पचतीत्यवान्तरवाक्यार्थबोधा- संग्राहकवया प्रकारताया एवाख्यातजन्यतावच्छेदकत्वासंभवात्। प्रथमान्तसमभिव्याहारज्ञानस्य योग्यताज्ञानादेर्वा जन्यवायामुक्त प्रकारताया अवच्छेदकत्वात् । यदि च प्रथमान्वपदसमभिव्याहृता- ख्यातपदजन्यतावच्छेदकतयैव धर्मिविषयतानिरूपितकर्तृत्वविषय- ३२५ कत्तृत्वानभिधान ] जयाऽलङ्कृतः वाया आख्यातप्रयोज्यत्वम् । कर्तृत्वविषयतासामान्यं च नाख्याव- पदज्ञानसामान्यजन्यवावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते, तदापि चैत्रेण पच्यते तण्डुल इत्यादिवाक्यार्थ- बोधस्य परस्परसमभिव्याहृवपदसमूहरूपवाक्यज्ञानहेतुकवया तद्वा- क्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यावप्रयो- ज्यत्वं दुर्वारमेवेति । मैवम् । अनभिहितेति कर्तरि तृतीयेत्यस्य कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते तृतीयेत्यर्थः । प्रातिप- दिकार्थविशेषणतयैव कर्तृत्वेऽविवक्षिते इति यावत् । अवधारण- परतया प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीयेति पर्यवसितम्। अतश्चैत्रः पचतीत्यादावाख्यातेन कर्तृत्वबोधनादुक्तार्था- नामप्रयोग इति न्यायात्ततीयापत्तिविरहात् । प्रातिपदिकार्थान्वयि- तया कर्तृत्वविवक्षायामित्येव सम्यक्किं विशेष्यतयान्वयित्वपर्यन्तनि- वेशनेनेति नाशङ्कयम् । संख्यातिरिक्तसुवर्थस्य प्रकृत्यर्थविशेष्यव. यैवान्वय इति व्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्याव- श्यं विवक्षणीयत्वाद्यथाश्रुतसूत्रार्थानुरोधेन कर्तरि लकारविभक्त्योः शक्तिवादिभिवैयाकरणैरपि प्रातिपदिकार्थविशेष्यतया कर्तरि विव- क्षिते तृतीयेत्येव सूत्रार्थो वाच्यः । अन्यथा चैत्रेण पच्यव इत्यादौ कर्तुरनभिधानस्योक्तक्रमेण दुर्वचतापत्तेरित्यलमधिकेन। अथांनभि- हित कर्त्तरितृतीयेत्यस्योक्तार्थकत्वे चैत्रादिकतकत्वविशेषितपाकादि. विवक्षया चैत्रेण पचतीत्यादिप्रयोगापत्तिः । न च परस्मैपदार्थकर्तृ- त्वान्वयिविशेष्यविरहान्न तथा प्रयोगः । विशेष्यतयापि कर्तृत्वबोध- सम्भवात्। चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तृकपाककर्ता मैत्र इत्य- न्वयतात्पर्येण चैत्रेण पचति मैत्र इति प्रयोगस्य दुरत्वाञ्च । न च कर्तृत्वातिरिक्त विशेषणतापन्नायां कर्तृत्वे वा विशेषणतानापन्नायां क्रियायामेव तृतीयार्थकर्तृत्वान्वयो व्युत्पन्न इति वाच्यम् । चैत्रेण पाचयवि मैत्र इत्यादौ ण्यर्थकर्तृत्वविशेषणतापन्ने पाकादौ चैत्रादि- ३२६ व्युत्पत्तिवादः [आख्याते कर्तृकत्वान्वयेन तादृशव्युत्पत्तेरसिद्धः। न च लकारार्थकर्तृत्वविशे- पणतानापन्नक्रियाविशेषणतया कर्तृत्वबोधकत्वं सुपां व्युत्पन्नमिति न कश्चिद्दोष इति वाच्यम् । उक्तस्थले चैत्रेण पक्वान् मैत्र इति प्रयोगापत्तेः। मैवम् । आश्रयाविरिक्ताविशेषणतापन्नकर्तृत्वविशेषण- तानापन्न क्रियायां तृतीयार्थकर्तृत्वान्वयव्युत्पत्तौ न किंचिद्बाधकम् । मैत्रेण पाचयतीत्यादौ कर्तृत्वनिर्वाहकव्यापारो खिजर्थः । तत्राश्रयातिरिक्त व्यापारेविशेषणं कर्तृत्वमिति तद्विशेषणतापन्न- क्रियायां तृतीयार्थकर्तृत्वविशेषणत्वे न किंचिद्बाधकम् । चैत्रेण पचति मैत्र इत्यादयश्च न प्रयोगाः । तत्राश्रय एव कृतेर्विशेषणतया तद्विशेषणतानापन्नक्रियायां तृतीयया कर्तृत्वबोधनासंभवात्। कृति- विशेष्यकबोधाभिप्रायेण चैत्रेण पचतीति वारणायाश्रयविशेषण- त्वमुपेक्ष्याश्रयातिरिक्ताविशेषणत्वं निवेशितम्। अनभिहिते कर्त्तरि तृतीयेत्यस्यापि निरुक्तक्रियाविशेषणतया प्रातिपदिकार्थान्वयि. कर्तृत्वविवक्षायां वदुत्तरं तृतीया भवतीत्येवार्थ इति दिक् । कर्तृत्वं च चैत्रः पचतीत्यादौ क्रियानुकूला कृतिरेव । तस्या एवानुकूलकृति- त्वेन कृतित्वेन वाऽऽख्याववाच्यता । रथो गच्छति, काष्ठं पचती- त्यादौ च क्रियानुकूलव्यापाररूपे कर्तृत्वे निरूढलक्षणा कृवित्वजाते प्रवृत्तिनिमित्तत्वे लाघवात् । मीमांसकास्तु व्यापारत्वेनैव शक्तिः। पचतीत्यादावपि तेनैव रूपेण बोधोपगमात् । एवं चाचेवनेऽपि प्रयोगो मुख्य एव । कृतित्वस्य लाववं चाकिंचित्करम् । यत्र लघुगुरुरूपाभ्यां बोधो निर्विवादस्तत्रैव लघुरूपावच्छिन्ने शक्त्युप- गमात् । प्रकृते च कृतित्वेन बोधस्य सविवादत्वात्, तथापि तदव- च्छिन्ने शक्त्युपगमे वत्रामुख्यार्थेऽनादितात्पर्यकल्पनायां गौरवात्। एवं बीजादिनाङ्कुरः कृत इत्यादौ विनापि यत्नं कृत्रः प्रयोगात्, तस्यापि व्यापारसामान्यार्थकता। अतः करोतिविवरणीयार्थकत्वेऽ पि नाख्यातस्य यत्नत्वावच्छिन्नवाचकता न वा किं करोति पचतीति ३२७ नैयायिकमतम्] जयाऽलङ्कृतः प्रश्नोत्तरयोः समानप्रकारकबोधजनकत्वानुरोधेन तथात्वम् । अत्र केचित् । पचतीविवाक्यजन्यबोधे सति यत्नत्वावच्छिन्ने व- र्तमानत्वसंशयानुदयात्तत्र यत्नत्वावच्छिन्ने वर्तमानत्वबोधकत्वसिद्धौ तदवच्छिन्ने शक्तिर्लाघवासिध्यति । न हि यत्नाविनाभूतक्रियाविशेष- लिङ्गकानुमानलभ्येन यत्नत्वावच्छिन्नेन समं वर्तमानत्वान्वयबोध- कत्वमाख्यातस्यार्थाध्याहारमतेऽपि संभवति, लडादिकृतवर्तमान- त्वान्वयबोधेलडादिसमभिव्याहृवधात्वन्यतरजन्यविशेष्योपस्थिते : कारणताया आवश्यकत्वात् । अन्यथानिराकाङ्क्षयत्नादिपदमात्रा- धनाद्युपस्थिवावपि.तत्र वर्तमानत्वादेलडादितो बोधप्रसङ्गात्। नचा- र्थाध्याहारवादिनां द्वारं पिधानं कृतिरित्यादिवो द्वारकर्मककृतेरिव पचति यत्न इत्यादितः पाकयत्नो वर्तमान इत्याद्याकारको वर्तमान- त्वादेर्बोध इष्ट एवेवि बाच्यम् । परस्पर साकाङ्क्षपदार्थद्वयान्व- याबोध एवाध्याहृतस्येव निराकाङ्क्षपदादुपस्थितस्यार्थस्य विषय- तायास्तैरुपगमात् । तत्रान्वयानुभावकसाकाङ्क्षपदसत्त्वात् । प्रकृते चान्वयबोधस्याऽऽकाङ्क्षानुपयोगिपदार्थान्वयविषयकत्वेन तेषामप्यसंमतत्वात् । तत्स्वीकारे निराकाङ्क्षस्याप्यनुभावकत्वस्वी- कारापत्तेः । शाब्दबोधे आकाङ्क्षानुपयोगप्रसङ्गाचेति तत्-न । वात्पर्यलिङ्ग न यत्नत्वावच्छिने वर्तमानत्वानुमितेरेवोपगमात् । तादृशवर्तमानत्वप्रतीतौ शाब्दत्वप्रतीतेः सविवादत्वादित्याहुः । अत्र नैयायिकाः। रथो गच्छतीत्यादावाश्रयत्वमेवाख्यातार्थों न तुव्यापारः। अन्यदीयगमनानुकूलनोदनादिविलक्षणव्यापारवति गच्छवीत्यप्रयोगात्। एवं च काष्ठं पचतीत्यादिप्रयोग एव व्यापार- शक्तिमाख्यातस्य साधयेद् यदि स्वारसिकः स्यात् । तदेव न नहि चैत्रः पचतीत्यादिप्रयोगेण काष्ठं पचतीत्यादिप्रयोगस्याविशेषः । एवमचेवने स्वरसतः कर्तृपदाप्रयोगात् कृषोऽपि यत्नत्वविशिष्टोऽर्थः एवं चैत्र एव पचति पाककर्त्तानत्वचेतनं काष्ठादीत्यादिप्रयोगाल्लका- ।

३२८ व्युत्पत्तिवादः [ाख्याते रस्य यत्नत्वविशिष्टार्थकताया आवश्यकत्वात् । लाघवात्तत्रैव शक्ति- ापारे लक्षणेति । न च यत्नत्वस्याख्यातावाच्यनिवृत्तिजीव- नयोनियनसाधारणतया लकारशक्यतावच्छेदकत्वासंभव इति वाच्यम् । निवृत्त्यादियत्नस्याख्यातवाच्यतोपगमे क्षतिविरहात् । निवृत्त्यादेः पाकानुकूलवाविरहेण तत्काले पचतीविप्रयोगापत्तिविर- हात्, इष्टसाधनताज्ञानजन्यतावच्छेदकप्रवृत्तित्वजातेरेवाख्यातप्रवृ- त्तिनिमित्तत्वोपगमाद्वा । अत एवेश्वरकृतेर्जन्यमानजनकत्वेऽपीश्वरः पचवि ईश्वरो भुङ्क्त इत्यादयो न प्रयोगाः । न चैवमीश्वरो वेदं वक्ति मथुरायां कृष्णो विहरतीत्यादिप्रयोगानुपत्तिः । अत्राख्यातस्य लक्ष्यार्थव्यापारबोधकतोपगमात्। ईश्वरकृतिसाधारणधर्मस्याख्या- तप्रवृत्तिनिमित्तत्वेऽपि तत्र व्यापारलक्षणाया आवश्यकत्वात् । त- था हि-आत्मा पचवि शरीर पचतीत्यादिस्वारसिकप्रयोगविरहादा- ख्यातार्थकृतेरुद्देश्यतावच्छेदकशरीरविशेषावच्छेदेन समवायेनान्व- यनियमः स्वीकरणीयः। चैत्रादिपदस्यशरीरविशेषविशिष्टात्मपर- वया चैत्रः पचतीत्यादौ शरीरविशेषात्मकोद्देश्यतावच्छेदकावच्छेदे- नात्मनि समवायेनान्वयसंभवात् । गौरः पचतीत्यादावपि गौरादि- पदस्य गौरशरीराद्यवच्छिन्नात्मनि आख्यातस्यैव वा व्यापार लक्षणोपगमात् । एवं चेश्वरकृतेः शरीरानवच्छिन्न त्वादुक्तस्थले कृतेस्तथान्वयासंभव इति व्यापारलक्षणा अावश्यकी । ईश्वरकृति- साधारणयत्नत्वावच्छिन्न एवाख्यातार्थः। असाधारणानुकूलत्वं यत्न क्रियायाः संबन्धतया भासते न त्वनुकूलतामात्रम् । असाधारणानु- कूलवाया एवाकाङ्क्षानिरूपकत्वोपगमादतोऽस्मदादिकर्तृकपाकादि- क्रियानुकूलकृतिमादाय नेश्वरः पचतीतिप्रयोगः । वेदवचनादौ च ईश्वरकृतेरेवासाधारणकारणत्वात् ईश्वरो वेदं वक्तीत्यादयः प्रयोगा इत्यपि केचित् । अथ कृतेराख्यातस्य कृषश्च वाच्यत्वे करोवीत्यादौ कृतेर्द्विधा श्राख्यातार्थ०] जयाऽलङ्कृतः ३२६ भानं स्यात् । धातुप्रत्यययोद्वयोः कृतिबोधत्वादिति चेत्-न । एको द्वावित्यादौ एकत्वद्वित्वादिबोधकप्रकृतिप्रत्ययोभयसत्त्वेऽप्येकधैवै कत्वादिधीवत्प्रकृतेऽपि बाधकाभावात् । तत्र विभक्तेः साधुत्वार्थ- कत्वेऽत्रापि तथात्वात् । अथ तर्हि करोति चैत्र इत्यादौ प्रातिपदि- कार्थे साक्षादेव कृत्यन्वयः स्यात् । स च नामार्थधात्वर्थयोर्भेदेन सानादन्वय स्याव्युपन्नत्वात् तथा न संभवतीति नामार्थधात्वर्थयोः साक्षादन्वयोपगमे कर्मतादिबोधकविभक्तरसत्त्वेऽपि तण्डुल: पचतीत्यादौ कर्मतादिसंबन्धेन तण्डुलादेः पाकादावन्वयसंभवेन तादृशवाक्यात्तण्डुलकर्मकपाकादिबोधापत्तेः। न च प्रातिपदिकार्थ- प्रकारक कक्रियान्वयबोध एवाव्युत्पन्नो न तु क्रियाप्रकारकप्रातिपदि- कार्थविशेष्यकबोधोऽपीति वाच्यम् । घटः करोतीस्यादित: कर्मता- संबन्धेन कृत्यादेः घटादावन्वयाभावात् क्रियाप्रकारकनामार्थविषय- कबोधस्याव्युत्पन्नत्वादिति चेत्-न । उक्तातिप्रसङ्गवारणाय धातोः कर्मतादिसंबन्धेन कियान्वयाबोधकत्वव्युत्पत्तरुपगमान्न त्वाश्रयता- संबन्धेन कृत्यादिरूपक्रियान्वयाबोधकत्वव्युत्पत्तेरित्यदोषात् । न च तादृशातिप्रसङ्गवारणाय धातुजन्यकृत्यादिप्रकारकान्वयबोधे प्रत्य- यजन्यविशेष्योपस्थितेहें तुता वाच्या । तादृशकारणाभावात् प्राति- पदिकार्थविशेष्यकबोधोपि न संभवतीति वाच्यम् । कर्मत्वादिसंबन्धेन कृत्यादिप्रकारकबोधस्याप्रसिद्वया सामग्रथकल्पनेनापादकाभावात् तादृशकारणताया अकल्पनात् । न च क्रियते चैत्र इत्यादौ कृतिप्र- कारकबोधवारणायैव उक्तकारणताकल्पनमावश्यकमिति वाच्यम्। सति तात्पर्ये इष्टत्वात् । कर्तृविशेष्यकान्वयबोधपरधातूत्तरयकोs- साधुत्वाच्च प्रामाणिकानां न तथा प्रयोगः। करणं चैत्र इत्यादौ चैत्रादौ धात्वर्थकृतेराश्रयतासंबन्धेनान्वयबोधवारणाय तादृश- कार्यकारणभावकल्पनमित्यपि न । तादृशबोधे आख्यातान्तधातुना समभिव्याहारज्ञानहेतुतयैवोक्तस्थले तादृशबोधवारणसंभवात्।

३३० व्युत्पत्तिवादः [ाख्याते दीधिविकृतस्तु गच्छति जानावि करोतीत्यादौ आख्यावस्या- श्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामार्थे क्रियायाः साक्षा- दन्वय इत्याहुः। तन्मते तद्यप्याश्रयत्वसम्बन्धस्याधिकस्य जानाति चैत्र इत्यादिवाक्यजन्यबोधविषयताकल्पनेन गौरवं तथापि यत्र धातोर्ज्ञानाश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा वत्र चैत्रादिविशेष्यको ज्ञानाश्रयत्वादिप्रकारको बोध आश्रयतायाः संसर्गतावादिनाम- प्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गज्ञानादिप्रकारकशाब्द- बोधस्तु दीधितिकारमते वचिदपि न प्रसिध्यतीति तादृश- शाब्दबोधे योग्यताज्ञानादेहे तुताकल्पनं तथाविधशाब्दबोधाङ्गीक- तुमणिकारस्य मते आवश्यकमिति गौरवम् । वस्तुतस्तु चैत्रेण ज्ञायते घट इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावतां चैत्रो जानाति घटमित्यादिकर्तृप्रत्य- यस्थले चथात्वं, परंतु विशेष्यविशेषणभाववैपरीत्यम्। एवं कर्म- प्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशेविशेष्यता कर्तृप्रत्यय- स्थले तन्निरूपकतायास्तदंशे प्रकारता इत्यनुभवस्य दुरपह्नव- त्वाभिप्रायेणाश्रयत्वस्याख्यावार्थवां दीधितिकार उररीचकार । चैत्रेण ज्ञायते इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् । चैत्रो जानातीत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तादृशानुभवविरोधात् । न च चैत्रेण ज्ञायव इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमिति वाच्यम् । तथा सति आत्मना ज्ञायते न घटेनेत्यादौ घटादिवृत्तित्वाभावबोधानुपपत्तेः। आधेय- त्वस्य तृतीयार्थतो विरहेण तृतीयान्वाद्घटादिवृत्तित्वरूपप्रतियोग्य- नुपस्थितेः । आधेयत्वसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्सम्बन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । ताह- शसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे ज्ञाने न घट इत्यादि- वाक्यजन्यप्रत्यये ज्ञानाद्यधिकरणकतादृशसंबन्धावच्छिन्नघटाद्य- कत्तत्वशक्ततावच्छदेक० ] जयाऽलङ्कृतः भावस्याप्यवगाहनसंभवाद्घटे ज्ञानं न वेत्यादिसंशयनिरासाय कदाचिज्ज्ञाने न घट इत्यादिकमपि प्रयुज्येव । अत एवानुकूल कृति- मत्त्वादिरूपकर्तृत्वादेरपि चैत्रः पचतीत्यादौ प्रकारता मणिकृतापि स्वीक्रियते न तु संसर्गता । न पचवीत्यादावन्वयबोधानिर्वाहात् । तादृशसंबन्धस्य वृत्त्यनियामकवया अभावप्रतियोगितानवच्छेदक- त्वेन तत्संबन्धावच्छिन्न क्रियाविरहप्रत्ययस्य तत्रोपगमासंभवात् । एवं चैत्रेण ज्ञायत इत्यादावाधेयत्वस्य तृतीयया अविवक्षण प्राति- पदिकार्थमात्रविवक्षया तद्विषयानुशिष्टप्रथमैव स्यात् । जानाति चैत्र इत्यादौ चाख्यातेन कर्तृत्वाविवक्षणे धात्वर्थरूपभावमात्रपरतया परस्मैपदस्य नादिविकरणस्य वा साधुवापत्तिः । भावकर्मणो- रित्यात्मनेपदविधायकानुशासनविषयत्वात् कर्तरीत्यधिकारीयक्रया दिभ्यः ना इत्यनुशासनाविषयत्वाञ्चेति । तत्राख्यातस्य कर्तृत्वा- बोधकतायुक्तिस्तु न साधीयसी इतराविशेषणतया क्रियाबोधपर- त्वरूपभावविवक्षायामात्मनेपदानुशासनविषयवोपगमादुक्तस्थले परस्मैपदसाधुतायास्तादृशभावविवक्षादिविरहस्य नाद्यनुशासन विषयत्वोपगमेन नादिविकरणस्य साधुतायाश्च निर्वाहसंभवात् । पचन पचतीत्यादाविवोदेश्यतावच्छेदकविधेयाभेदेन जानन जा- नातीत्यादेनिराकाङ्क्षतानिर्वाहायापि जानातीत्यादावाख्यातस्या- श्रयवार्थकतोपगम आवश्यकः । अन्यथा कृदन्तप्रतिपाद्यताव- च्छेदकस्य ज्ञानादिरूपविधेयभिन्नवया निराकाङ्क्षताविरहेण तथा प्रयोगापत्तेः । एतेन तत्राश्रयतायाः प्रकारतोपगमे जानाति चैत्र इत्यादिवाक्यज्ञानघटितशाब्दसामग्रथा भिन्नविषयप्रत्यक्षादिन- विबन्धकतायामाख्यातजन्याश्रयत्वोपस्थित्यादिरूपाधिककारणानां निवेशेगौरवेणाश्रयदायाः संसर्गत्वमेवोचितमित्यादि कमनुपादेयम्। नश्यतीत्यादौ प्रतियोगित्वरूपकर्तृत्वमाख्यातार्थस्तादृशसंबन्धस्या- भावप्रवियोगितानवच्छेदकत्वेन नश्यतीत्यादौ नाशप्रतियोगित्वाभा- ३३२ व्युत्पत्तिवादः [ आख्याते वबोधस्यैव स्वीकरणीयतया न संसर्गतासंभवः। अथाख्यातस्य कर्तृत्वशक्ततावच्छेदकं रूपं दुर्वचम् । न च तिङ्त्वं तथा वसादि- साधारणस्य तित्वस्य दुर्वचत्वात्। न च पाणिनीयसङ्केतसंबन्धेन तिङ्पदवत्त्वमेव विड्त्वं विबाद्यष्टादशसु तत्पदसंकेतग्राहकं च आदिरन्त्येनेति सूत्रमेव तत्संकेतमविदुषामनधीवपाणिनीयतंत्राणां तिप्त्वादिना शक्तिभ्रमादेव शाब्दवोध इति वाच्यम् । एवं सति घटादियाचकवटादिपदेष्वपि कस्यचिच्छब्दस्य पुरुषविशेषीयसंकेव संभवेन तुल्ययुक्तया वत्रापि तच्छब्दस्यैव शक्तवावच्छेदकतापत्त्या तिबादिषु पाणिनेस्तिपदसंकेतवत्तत्र शब्दान्तरसंकेतस्यापि अन्यपुरुषोयस्य संभवात् । वत्तच्छब्दानामपि प्रवृत्तिनिमित्तायाः सुवचत्वाद्विनिगमनानुपपत्तेः । अत्र केचित्-तिबादिस्थानिनो लकारस्य लत्वजातिपुर- स्कारेण कृतिवाचकवा । पचतीत्यादौ लकाराश्रवणेऽप्यादेशेन तिबादिना स्थानिनः स्मरणात्तत एवार्थोपस्थिविः । आदेशादेशि- भावमविदुषां तु विप्त्वादिना शाक्तिभ्रमादेवार्थोपस्थितिः । यत्र तिवादेर्लादेशत्वज्ञानं नास्ति श्रुतलकाराच्चार्थोपस्थितिस्तत्र पच- तीत्यादिवाक्याच्छाब्दबोधवारणाय पचतीत्याद्यानुपूर्वीज्ञानजन्य- बोधे तिबादेर्लादेशत्वज्ञानमपि हेतुः। न चोक्तस्थले धातुसाकाङ्क्षत्व- ज्ञाने भवत्येव शाब्दबोधस्तदसत्त्वे च कारणाभावादेव नापत्तिरिति वाच्यम् । पचतीत्यादौतिवादिना लकारस्योपस्थापनेऽपि तत्तद्धा- तुसाकाङ्क्षतया तत्स्मारकाभावेन शाब्दबोधानुपपत्तेः लकारे घातु- साकाङ्क्षत्वग्रहस्य शाब्दबोधहेतुत्वासंभवात् । न हि तत्तद्धातुसा- काङ्क्षत्वेन लस्तिबादिस्थानीयेन वद्र पावच्छिन्नमेव विबादिः स्मा- रयेत् अपितुलत्वेनैव तथात्वमिति । एवं वत्तद्धातुपदाव्यहितोत्तर- त्वरूपतत्साकाङ्क्षत्वेन येन पुंसा न लकारः श्रुतस्तस्य तेन रूपेण तत्तत्स्मरणासंभव इति ।

आत्मनेपद०] जयाऽलङ्कृतः अत्रे चिन्त्यते-लकारतिबाद्योरनतिप्रसक्तस्थान्यादेश- भावस्य दुर्वचत्वात्। तिबादिस्मारिवलकारस्य वाचकत्वं न विचार- सहम् । तिबादेरेव यत्र वाचकताग्रहस्तदनुरोधेन पचतीत्या- द्यानुपूर्वीज्ञानस्य विवादिजन्योपस्थिति सहकारेण शाब्दबोधो- पधायकताकल्पनस्यावश्यकतया लकारजन्योपस्थितिसह कृत- तादृशानुपूर्वीज्ञानविबादिधर्मिकलादेशत्वज्ञानघटितसामग्रथन्तरक- ल्पने गौरवेण लाघवात्तिबादेरेव ताद्रूप्येण शक्तिकल्पनाया उचित- त्वं चेत्याख्यावसामान्यस्य कर्तृत्व इव तद्विशेषस्यात्मनेपदस्य कर्मत्वे शक्तिर्न तु यथाश्रुताग्राहिवैयाकरणमव इव कर्मरूपधर्मिवाचकत्वं गौ- रवात्। प्रथमान्तपदार्थे कर्मत्वान्वयबलादेव कर्मता विशिष्टर्धामला भसंभवात्। न चात्मनेपदस्य शानच्प्रत्ययस्य धर्मिणि शक्तेः पच्य- मानमानयेत्यादौ पच्यमानादिनिष्ठानयनकर्मत्वाद्यनुरोधेनावश्यक- त्वात्तव एवोपपत्तौ आख्यावरूपात्मनेपदस्य धर्मवाचकत्वं नियुक्ति- कमिति वाच्यम् । तङ्शानच्साधारणस्यात्मनेपदत्वस्य शक्तताव- च्छेदकत्व एव तथोक्तिसंभवात्। तादृशात्मनेपदत्वस्य चागुणनिर्व- चनासंभवात्। पाणिन्यादिसंकेवसंबन्धेनात्मनेपदवत्त्वस्य शक्तवा- वच्छेदकताया उक्तरीत्याऽनवकाशात् । अवस्तादीनां तत्तद्र पेण शक्तिकल्पनस्यावश्यकतया लाघवात्कर्मत्व एव तत्कल्पनात् । कर्म- त्वं च त्यज्यते ग्रामो, गम्यते ग्राम, इत्यादौ धात्वर्थतावच्छेदकीभू- तसंयोगविभागादिरेव विशेष्यतया तिङ्वाच्यः । चैत्रेण गम्यते ग्रा- मः इत्यत्र तृतीयार्थस्तत्कर्तृकत्वरूपमाधेयत्वं तस्य धात्वर्थे संयोगा- त्मकफलावच्छिन्ने स्पन्दलक्षणे व्यापारे वस्य च जन्यत संबन्धे- नात्मनेपदार्थसंयोगरूपफले वस्य चाश्रयतासंबन्धेन प्रथमान्त- पदोपस्थाप्यग्रामेऽन्वय इति चैत्रवृत्तियः संयोगावच्छिन्नस्पन्द- स्वज्जन्य संयोगवान् ग्राम इत्याकारकः शाब्दबोधः। चैत्रेण त्यज्यते ग्राम इत्यत्र संयोगस्थाने विभागमन्तर्भाव्य बोध उपपाद- व्युत्पत्तिवादः [आख्याते नीयः । अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादे मादाविव चैत्रा- दावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्र इत्यपि स्यात्। न स्याच्च चैत्रेण न गम्यते, न त्यज्यते चैत्र, इत्यादोति चेत्- अत्र दीधितिकारप्रभृतयः फलमिव तत्र कियान्वथिपरसमवे- तत्वमपि कर्माख्याताथः । परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः। चैत्रे चैत्रान्य- समवेतक्रियाजन्यसंयोगादिमत्त्वस्यान्वयायोग्यत्वात्। तादृशसंयो- गाद्यभावस्य च तत्रान्वयोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः । तत्रेदं चिन्तयन्ति-प्रथमान्तपदोपस्थाप्यकर्मणोऽन्वयिताव- च्छेदकावच्छिन्नत्वाविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेऽपि चैत्रेऽपि चैत्रस्य द्वित्वादिनाभेदसंभवेन तत्समवेतकियायां परसम- वेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रति- योगिवया तत्र तद्भानस्वीकारे चैत्रेण द्रव्यं गम्यते इत्यादावनुप- पत्तिः, द्रव्यत्वावच्छिन्नभिन्नसमवेवत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, मन्देन गम्यते मन्द इत्यादौ मन्दस्य मन्दान्यमन्दपरत्वासंभवात्मन्दा- न्यसमवेतमन्दवृत्तिक्रियाया अप्रसिद्धयानुपपत्तितादवस्थ्यात् । अननुगतमन्दगततत्तद्वयक्तित्वोपस्थित्यनैयत्वात्। कर्तृव्यक्तिभिन्न- मन्दत्वेन लक्षणाग्रहस्य वाहशवाक्यजन्यधीपूर्वत्वस्य नियमतोऽसं- भवात् । न च फलविशेष्यव्यक्तीनां तत्तद्वयक्तित्वावच्छिन्नप्रतियो- गितासम्बन्धेन परत्वेऽन्वयात्संबन्धोपस्थितेश्वानपेक्षणान्नानुपपत्ति- रिति वाच्यम् । संसर्गतात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्द- बुद्धावपेक्षणीयत्वात् । वयक्तन्या तद्वयक्तिर्न गम्यते इत्यादावभाव- प्रतियोगिकोटिप्रविष्टतद्वयक्तित्वावच्छिन्नभिन्नसमवेतत्तद्वयक्तिसम- वेतक्रियाया अप्रसिद्धः। १ कर्माख्यातार्थः] जयाऽलङ्कृतः ये तु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासम्बन्धेन भेदे च स्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन क्रियाया अन्वयः भेदफल- योश्च कर्मण्याश्रयतासम्बन्धेनान्वयः, चैत्रसमवेतक्रियावच्छिन्न- भेदस्य चैत्रो नाश्रय इति तादृशक्रियाजन्यफलाश्रयत्वेऽपि तस्य चैत्रेण चैत्रो गम्यत इति न प्रयोगः, मन्दो मन्देन गम्यते इत्यादेरेकमन्दा- दिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य मन्दान्तरे सत्त्वा- नानुपपत्तिरिति ब्रुवते-वन्मतेऽपि चैत्रेण चैत्रो न गम्यते इत्यादेरनु- पपत्तिारैव । चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्त्वेऽपि तादृशक्रियाजन्यफलाभावस्य वाधात्। न च फलाभावोनबा न तत्र प्रत्याय्योऽपि तुभेदाभाव एव कर्मणीति वाच्यम् । यदाचैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः । तादृशभेदाभावस्य ग्रामे बाधात् । न च भेदस्य सामानाधिकरण्यसम्बन्धेन फलेS4:। तादृशसम्बन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफस्यव चाभावो नया कर्मणि प्रत्याय्यत इति न दोषः । विशिष्टाभाव- स्योभयत्र सत्त्वादिति वाच्यम् । एवमपि मन्देन यत्रापरमन्दो न गम्यतेऽपि तु ग्राभादिरेव तत्र प्रामादिगन्तरि मन्दे मन्दान्तरनिष्ठ- क्रियावच्छिन्नभेदसहितस्य स्वात्मकमन्दनिष्ठक्रियाजन्यग्रामादिसं- योगस्य सत्त्वेन विशिष्टाभावबाधान्मन्देत मन्दो न गम्यते इत्या- देरनुपपत्तिः । यदि फलमेव कर्माख्यावार्थस्तस्याश्रयत्वस्वानुकूल- क्रियावच्छिन्नभेदवत्त्वोभयसम्बन्धेन कर्मण्यन्वयः। नब्समभि- व्याहारे च तदुभयसम्बन्धावच्छिन्नक्रियाजन्यफलाभाव एव तत्रा- न्वयीत्युच्यते, तदापि यत्र चैत्रमैत्रयोरुभयकर्मजसंयोगस्वत्र चैत्र- निष्ठतादृशसंयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेद- वत्त्वोमयसम्बन्धेन सत्त्वाच्चैत्रेण चैत्रो न गम्यते इत्यस्यानुपपत्तेः। चैत्रेण चैत्रो गम्यते इत्यापत्तेश्च । अत्रोच्यते । भेदः फलं च कर्माख्यातार्थः । स्वावच्छिन्नप्रति- -- व्युत्पत्तिवादः [अख्याते योगिताकत्वसम्बन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामा- नाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसम्बन्धेन फलेड- न्वयः । विशिष्टफलस्य नब्समभिन्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यन्वयः । चैत्रमैत्रयोरुभयकर्मजसंयो- गस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्त्वेन विशिष्टफला- भावोऽक्षतः । यत्र मन्देन ग्रामो गम्यते न तु मन्दान्तरं तत्र मन्द- निष्ठग्रामसंयोगे मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकर- एयस्य तन्मन्दान्तर्भावेण सत्त्वेऽपि वादृशभेदप्रतियोगितावच्छे- दकमन्दान्तरनिष्ठक्रियाजन्यत्वस्यासत्त्वात्तद्वटितोभयसम्बन्धेन मन्दनिष्ठक्रियावच्छिन्नभेदविशिष्टस्य फलस्याभावो मन्देऽक्षत एवे- तिन कश्चिद्दोषः । कर्तृप्रत्ययस्थले चाधेयवया प्रकृत्यान्वितस्य फल- स्य भेदरूपापरार्थे सामानाधिकरण्यस्वजनकक्रियावच्छिन्नप्रतियो- गिताकत्वोभयसम्बन्धेनान्वयः तादृशभेदस्य च स्वप्रतियोगिताव- च्छेदकत्वसम्बन्धेन क्रियायाम् । यत्र चैत्रक्रियया ग्रामे न संयोगोऽपि त्वन्यत्र तत्र ग्रामं गच्छति चैत्र इवि प्रयोगवारणाय स्वजनकक्रियाव- च्छिन्नप्रतियोगिताकत्वस्य चैत्रोग्रामं गच्छतीत्यादौ चैत्रश्चैत्रं गच्छ- तीति प्रयोगवारणाय सामानाधिकरण्यस्य सम्बन्धमध्ये निवेशः। चरमस्थले चैत्रग्रामसंयोगस्य ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे सम्ब- न्धद्वयसत्त्वेपि चैत्रवृत्तित्वविशिष्टस्य तत्संयोगस्य तादृशभेदे सामा- नाधिकरण्यविरहाच्चैत्रक्रियायां तद्भदप्रतियोगिवावच्छेदकत्वसत्त्वेपि नातिप्रसङ्गः । चैत्रश्चैत्रं न गच्छतीत्यादौ च तादृशभेदान्वितक्रिया- कर्तृत्वाभाव एव चैत्रे प्रतीयते, नतु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगिवावच्छेदकत्वसम्बन्धावच्छिन्नाभावः। तादृशसम्बन्धस्य वृत्त्यनियामकत्वात्। यदि तात्पर्यविशेषवशात् क्रियानुयोगिकोऽप्य- भावः क्वचित्प्रतीयते इत्यनुभवसिद्धं वदा प्रतियोगितावच्छेदकत्वेऽपि द्वितीयाद्यर्थत्वमुपगम्य विशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय- सकर्मकार्य] जयाऽलङ्कृतः ३३७ -- एव तत्रोपगन्तव्य इति दिक्। फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । काख्यातस्थले फलं धात्वर्थव्यापार विशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्वयः। कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते तस्य विशेष्यतया आख्यातार्थ आश्रयत्वे वद्विशेष्यतया कर्मेति दीधितिकृतः । केचित्तु'संयोगादिरूपफलावच्छिन्नव्यापारबोधकानांगमिप्रभृ- वीनां कर्मप्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः,थातूनां च व्यापारमात्रवाचिता। धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभावसंबन्धेन साक्षाद न्वयासंभवात्फलाश्रयत्वस्य कर्मणि प्रकारतयाभानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्य भानकल्पनेनापि गौरवं फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । न च धातूनां व्यापारमात्रवा- चित्वे ग्रामं त्यजतीत्यादिवाऽपि ग्रामं गच्छवोत्यादिव इव संयोगा- दिरूपफलावच्छिन्नस्पन्दबोधापत्तिः । ग्रामस्त्यज्यते इत्यादितोऽपि ग्रामो गम्यव इत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति वाच्यम् । कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचित्वेऽपि तत्तत्फलबोधे धातुविशेषसमभिव्याहारज्ञानस्यापेक्षयातिप्रसङ्गविर- हात्। त्यजति गच्छवि स्पन्दते इत्यादौ कर्मासमभिव्याहृते बोध- वैलक्षण्यं च तत्तद्धातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमे- नोपपादनीयम्। फलान्वितस्वार्थव्यापारबोधकत्वं गम्यादेः स्वभावा धोनं तदभावात्स्यन्दिप्रभृतिष्वकर्मकत्वव्यवहार इत्याहु:-वन्न । यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेति भ्रमदशायां याति गच्छतीत्यादाविव त्यजति गच्छतीत्यादितोऽप्यविलक्षणबो- धोत्पत्त्या धातुविशेषसमभिव्याहारस्य फलविशेषबोधनियामकता- कल्पनासंभवात् । न च ग्रामं त्यजतीत्यादितः संयोगावच्छिन्नव्या- पारबोधस्तात्पर्यसत्त्वे इष्यत एव । त्वन्मतेऽपि तात्पर्यानुरोधेन लक्ष- २२ व्युत्पत्तिवाद: [पाख्याते गया तद्बोधोत्पत्तेरावश्यकत्वात् । परंतु तत्रविभागादिरूपफल एव फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफलप्रत्यायनेच्छया स्व- रसतो न तादृशप्रयोग इति वाच्यम् । विना शक्तिभ्रमं लक्षणाग्रह च ग्रामं त्यजतीत्यादिवः सत्यपि तात्पर्ये संयोगावच्छिन्नव्यापारा- प्रतीतेरानुभविकतयाधातो: फलविशेषवाचिताया आवश्यकत्वात्। ज्ञायते इष्यते क्रियते घट इत्यादौ विषयत्वरूपं कर्ममत्वं तङर्थः । न च कृतिविषयतायाः फलतत्साधनवदुपादानसाधारणवया यत्र घटः क्रियते इत्यादि प्रयुज्यते तत्र जलाहरणं कपालं क्रियव इत्यादिप्रयो- गस्यापत्तिरिति चेत् । कृत्यर्थकधातुसमभिव्याहृतकर्मप्रत्ययस्य चि- कीर्षाप्रयोज्यसाध्यताख्यविलक्षणविषयत्वमेवार्थः। उक्तस्थले च क- पालादौ कृतेस्तादृशविषयत्वाभावान्नोक्तप्रयोगप्रसङ्गः । काशाः कटं क्रियन्ते इत्यादौ साध्यताख्यविषयताश्रयकर्मान्तरसमभिव्याहृत- कर्मप्रत्ययेन व्यापार्यतारूपविषयवापि प्रत्याय्यते तदुपादानतया कृतिविषयकाशादौसाध्यतारूपकृतिविषयवाविरहेऽपि नताशप्रयो- गानुपपत्तिः। तादृशकर्मसमभिव्याहाररूपवत्प्रयोजकविरहात्काशाः क्रियन्ते इत्यादौ काशादौ व्यापार्यताबोधानुपपत्तेर्न तादृशप्रयोग इति काशाः कटाः क्रियन्ते इत्यादावपि विशेष्यभेदेन वाक्यार्थभेदा- कमद्वयवाचकपदयोः समभिव्याहारे व्यापार्यताबोधानुपपत्तिश्च । क्रियते इत्यत्र विषयतायाःकर्मप्रत्ययार्थत्वे पाकानुपधायककृतिमादाय पाकोऽकारीत्यादिप्रयोगापत्तिरित्यादिकन्तु दूषणनिराकृतमधस्ता- त्कर्तृकर्मत्ववत्कालविशेषेऽनुशिष्टा लडादयः कालविशेषमपि बोध- यन्ति। तत्रलट्प्रत्ययस्य वर्तमानकाले शक्तिः। पचतीत्यादौ कृत्या- दिरूपव्यापारबोधकप्रत्ययोपस्थाप्यकालस्तादृशव्यापार एवान्वेति न तु क्रियायाम् । यदा पुरुषो व्यापारशून्यस्तदधीनाग्निसंयोगादि- रूपः पच्यादेरर्थो विद्यते तदायं न पचतीति प्रयोगादयं पचतीत्युक्ते इदानीमयं पाकयत्नवान्न वेवि संशयनिवृत्तेः पूर्वापरीभावापन्नस्था- जयाऽलङ्कृतः ३३६ - । लटप्रत्ययाः] ल्यारोपणादिव्यापाराणां विशिष्य पच्याद्यर्थघटकत्वेन प्रत्येकवद्या- पारेषु कालान्वयबोधापेक्षया कृत्यादिरूपैकार्थे वदन्वयस्यैव लाघ- वेनोचितत्वाच्च । वर्तमानकालश्च तत्तच्छब्दप्रयोगाधिकरणकालरूप स्तत्तच्छब्दार्थः । अवो नैककालप्रयुक्तलडादितोऽपरलडादिप्रयोगा- धिकरणकालीनत्वस्य कृत्यादावन्वयः । स्वप्रयोगाधिकरणकालत्वेन स्ववाच्यत्वे स्वत्वाननुगमात् शक्तयानन्त्यम्। सामान्यतो व्युत्पत्ते?- घटतया पूर्वव्यक्तिबोधानुपपत्तिः सर्वनामविचारदर्शितरीत्या समा- धास्यते। विशिष्य वत्तत्कालत्वावच्छिन्नबोधस्यानुभवसिद्धतया सर्व- नामशक्तौ बुद्धिस्थत्वादिवच्छन्दप्रयोगाधिकरणत्वमुपलक्षणविधया व्यावर्तकं वाच्यम् । न च तत्कालस्यैवंसत्यवाच्यत्वे वज्ज्ञानाननुपप- त्तिरसमाधेयैवेति वाच्यम् ।शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्य- धर्मत्वेन तत्तत्कालत्वानामेवोपलक्षणीयत्वात्। अथ शब्दप्रयोगाधि- करणवृत्तिकालत्वव्याप्यधर्मो वर्षत्वादिकमपि कालद्वयावृत्तिधर्मत्व- निवेशेपि एतद्र पमासत्वादिव्यावर्त्तनमशक्यम् ।क्षणद्वयावृत्तिक्षण- वृत्तिधर्मत्वेन तव्यावर्त्तनेचाध्ययनाचनधिकरणेऽप्यध्ययनाद्यधिक- रणस्थूलकालान्तर्गतक्षणेऽसमाप्तारब्धाध्ययने पंसि चिन्तामणिम- यमधीत इत्यादिप्रयोगानुपपत्तिः। यदि च स्वप्रागभावानधिकरण- स्वाश्रयकर्तृकप्रकृतक्रियाप्रागभावाधिकरणशब्दप्रयोगाधिकरणकाल एव वर्तमानकाल आधेयतासंबन्धेन कृतावन्वेत्यतो नोक्तस्थले चिन्तामणिमयमधीत इत्यादिप्रयोगानुपपत्तिः। प्रारम्भावधिसमा- प्तिपर्यन्तस्य स्थूलकालस्यापि तथात्वेन शब्दप्रयोगाधिकरणादिरू- पान्तरालकालेऽध्ययनाद्यनुकूलकृतिविच्छेदेऽपि शब्दप्रयोगाधिकर- रणत्वोपलक्षिवतादृशस्थूलकालवृत्तित्वस्यापि तादृशक्रियानुकूलकृवा- वबाधेन योग्यतानिर्वाह इत्युच्यते, तदा येन समग्रचिन्तामणिम. धोत्य किंचित्कालोत्तरं पुनश्चिन्तामणिमध्येष्यते तत्रान्तरालदशाया- मप्ययं चिन्तामणिमधीव इति प्रयोगापत्तिः । यदि स्तुतिपाठादिवि- ३४० व्युत्पत्तिवादः [ अाख्याते प्त्युित्तरं च्छेददशायामपि प्रत्यहमयं स्तुतिं पठतीत्यादिवदुक्तस्थलेऽपि दर्शि- तप्रयोग इष्ट एवेत्युच्यते वदापि स्वपदेन विशिष्य तत्तत्कृतीनामुपा- दानेनाननुगमो दुरुधर एवेति चेन्न। शब्दप्रयोगाधिकरणवृत्तिकाल स्वव्याप्यधर्मत्वेनोपलक्षणेनानुगतीकृततत्क्षणदिनमासवर्षत्वाद्यव- च्छिन्न एव काले लटः शक्तिः । क्रियारम्भात्पूर्व कर्मसमाए चाधीते पचतीत्यादिप्रयोगवारणाय कृत्यादिरूपव्यापारे तादृश- कालस्य स्ववृत्तिप्रागभावाप्रवियोगित्वरववृत्तिध्वंसाप्रतियोगिप्रकृ- तक्रियाकर्तृनिष्ठत्वाभ्यां विशेषितेनाधेयवासंबन्धेनान्वयनियम उप- गन्तव्यः । वत्तक्रियारम्भपूर्वमपि तत्समाप्त्युत्तरमपि वा वर्तते यस्ततक्रियानुकूल कृत्यधिकरणकालस्तस्य दर्शितविशिष्टाधेयता- संबन्धरताशकृतौ बाधितोऽप्रसिद्धो वेवि न शब्दप्रयोगाधिकरण- तादृशकालमादाय दर्शितप्रयोगापत्तिः। सम्बन्धे स्वपदार्थस्य विशि घ्य निवेशेऽप्युपपत्तिश्चिन्त्या। न च क्रियानुकूल कृतिशून्यान्तराल- दशायां स्थूलकालमादाय पचवि अधीते इत्यादिवत्ताशकृत्यधि- करणक्षणेऽपि स्थूलकालावच्छिन्नाभावमादाय न पचति नाधीते इत्यादिप्रयोगः । तत्र नबो वर्तमानक्षणमात्रन्विततादृशक्रियानुकू- लकृत्यभावबोधकतानियमात्। उक्तरीत्या विशिष्यशब्दप्रयोगाधि- करणक्षणादिरूपकालस्यापि लट्प्रत्ययेन बोधनसंभवात् । नसम- भिव्याहारस्थलेऽपि प्रतियोगिन्येव कालान्वय इति तुन सत्। तत्तत्क्ष- रणवृत्तिपाकादिकृतेरभावस्यान्यक्षणावच्छेदेन तदानींतनस्थूलकाला- वच्छेदेन ताशकृतिमति सत्त्वेनोक्तातिप्रसङ्गस्य दुर्वारत्वात् । न च कालानवच्छिन्नाधारदासंबन्धेन नबर्थस्य पुरुषेऽन्वयान्नोक्ताति- प्रसङ्ग इति वाच्यम् । तादृशस्थूलकाले यत्रात्मनि पाकादिकृतिस्ता- दृशकालान्तर्गतताशकृत्यनधिकरणक्षणे न पचतीत्यादिप्रयोगोप- पत्तये तत्क्षणावच्छिन्नपाकादिकृत्यभावबोधस्यैव वत्र तत्र स्वीकर- पीयतया क्वचित्प्रतियोग्यप्रसिद्धदुर्वारत्वात्। व्यापाराबोधकेन च लुट्प्रत्ययः ] जयाऽलङ्कृतः लडादिप्रत्ययेन क्रियायामेव वर्तमानत्वान्वयो बोध्यते जानातीत्या- दौ न तु लडाश्रयत्वादौ ज्ञानाद्यसत्त्वेऽपि तदाश्रयत्वादिसंबन्धे सति जानातीत्यादिप्रयोगापत्तेः। ज्ञानादिविशिष्टे आश्रयत्वादौ का- लान्वयमुपगम्यातिप्रसंगवारणे विशेषणे ज्ञानादावपि तदन्वय- स्यावश्यकत्वे तस्यैव स्वीकारौचित्यात् । नश्यतीत्यादौ क्रियायां कालान्वयस्वीकारे विनष्टादावपि नश्यतीत्यादिप्रयोगः स्यादिति तत्रोत्पत्तेरपि लडाद्यर्थत्वमुपगम्य वनैव कालान्वयं दीधितिकृटुपजगाम । वस्तुतस्तु नाशत्वमुत्प- त्तिमदभावत्वम् । तथा च धातुप्रतिपाद्यतावच्छेदकोत्पत्तावेव कालान्वय इत्येव साधीयः । वर्तमानकालस्योत्पत्तिसंबन्धेन धात्वर्थेऽन्वय इत्यपि वदन्ति । लुट्प्रत्ययेन पक्ष्यतोत्यादौ प्रत्ययार्थकृतौ ज्ञास्यतीत्यादौ क्रिया- यो भविष्यत्त्वं प्रत्याय्यते । यद्यपि भुव उत्पत्त्यर्थकतया अनागतका- लोत्पत्तिकत्वं भविष्यच्छब्दार्थस्तथापि पक्ष्यतीत्यादी कृत्यादावना- गतत्वमात्रस्य प्रतीतिरुपेयते उत्पत्तिप्रतीतेनिष्फलत्वाद्भविष्यत्युत्प- स्यत इत्यादौ धातुनैव तादृशोत्पत्तिः प्रत्याय्यते, नश्यतीत्यादौ च दर्शिता गतिः। तथा च वर्तमानप्रागभावाप्रतियोगित्वं प्रतियोगि- तासंबन्धेनान्वयो वर्तमानप्रागभावो वा लुट्प्रत्ययार्थः। प्रागभावान- गोकारे वर्तमानकालघ्वंस एव तदर्थःध्वंसस्य कालोपाधित्वेन स्वस. मानकालपदार्थाधारवया अनागतकृतेर्वर्तमानकालध्वंसोत्पत्तिमत्त- या उत्पत्तिसंबन्धेन कृत्यादावन्वयः । अथ पचमानेऽप्युदीच्यपाका- नुकूलकृतिमादाय पक्ष्यतीत्यादिप्रयोगापत्तिः। पाकानुकूलकृवित्वाव- च्छेदेन चानागतत्वबोधस्वीकारोन संभवति। पूर्वपूर्वपाकानुकूलकृतौ तबाधात्पक्ष्यमाणेऽपि पक्ष्यतीति प्रयोगानुपपत्तेः । तत्तत्याकानुकू- लकृतित्वावच्छेदेनापि तदन्वयासंभवः तत्तत्पाकत्वेन पदादनुपस्थि- तेः । नापि यत्किचित्पाकानुकूलाद्यकृतित्वावच्छेदेन तदन्वयः। आ- ।

३४२ व्युत्पत्तिवादः श्राख्याते द्यत्वोपस्थापकपदाभावात्। तत्तद्वयक्तिमनन्वर्भाव्य दुर्वचत्वाच्चेति चेत्-न । प्रागभावस्य वर्तमानत्वं शब्दप्रयोगाधिकरणक्षणवृत्तित्व- म् , वर्तमानप्रागभावस्य प्रत्ययार्थत्वे वस्य स्वविशिष्टकालवृत्तिकृति- जन्यपाकाननुकूलत्वविशिष्टप्रतियोगितासंबन्धेन वर्तमानकालध्वं- सस्य तदर्थत्वे च स्वपूर्वकालीनकृविजन्यपाकाननुकूलत्वविशिष्टाधेय- त्वसंबन्धेन कृत्यंशेऽन्वयोपगमे उदीच्यकृवौ वर्त्तमानप्रागभावादेर्द- शितविशिष्टसंबन्धासत्त्वेनातिप्रसङ्गविरहात्। ध्वंसपूर्वत्वं च तदन- धिकरणत्वमेव । न चान्तरालिककृतिजन्यस्य पच्यर्थव्यापार स्य पूर्व व्यापारानुकूलकृत्यजन्यतया अान्तरालिककृतेः पूर्वकृतिजन्य- पाकाननुकूलत्वमक्षतमेवेति वस्या अपि निरुक्तविशिष्टसंबन्धेन व- र्तमानप्रागभावादिमत्त्वमक्षवमेवेति वाच्यम्। कृतिजन्यपाकेत्यत्र कृतिजन्यव्यापाराधीनफलानुकूलव्यापारस्य विवक्षितत्वात् । पक्तत्यादौ लुटोऽनद्यतनभविष्यत्त्वमर्थः। अनद्यतनभविष्यत्त्वं च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सदि शब्दप्रयोगकालीनप्राग। भावप्रतियोगित्वम्। शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा- केचित्तु भविष्यत्त्वमेव तस्यार्थः । क्रियायाः कृतेर्वा स्वरूपसदन- द्यतनत्वमेव तत्साधुतानियामकम् । असाधुत्वादेवाद्य पक्ष्यतीत्यादौ पत्तेति न प्रयोग इत्याहु:-तन्न । तथा सवि भविष्यत्वादिकमपि नाख्यातार्थः स्यात् । स्वरूपसद्भविष्यत्त्वादिकमेव लुडादिप्रत्ययस्य साधुतानियामकम् । असाधुत्वादेव पक्ष्यति पक्तेतिवत्पचतोत्यादौ पक्ष्यतीत्यादिप्रोगविरह इत्यस्यापि वक्तुं शक्यत्वात्। पचति पक्ष्य- तीत्यादेरविलक्षणबोधजनकत्वमनुभवविरुद्धमिति कालविशेषबोध आवश्यक इति चेत् तदा पत्ता पक्ष्यतीत्यादेरपि विलक्षणबोध- जनकत्वस्यानुभविकतया अनद्यतनत्वान्वयबोधोऽपि दुर्वारः। यदि च पक्ष्यतीत्यादिवाक्यजन्यबोधे सति भविष्यत्त्वादिसंशयानुदयाद्भ- विष्यत्त्वादेः शाब्दधीविषयत्वमावश्यकमित्युच्यते तदानद्यतनत्वबो- ।

EMINARAMMARUNITARAMINAMAHARAN लुट्प्रत्ययः] जयाऽलकृतः ३४३ धेऽपि ईदशीमेव युक्तिं गृहाण । एवं न पक्ष्यतीत्यादावभावे अनागत- कालावच्छिन्नत्वभानमावश्यकम् । अन्यथा पक्ष्यत्यपि वर्तमानव- तपाककृत्यभावमादाय न पक्ष्यतीत्यादिप्रयोगप्रसङ्गात् । न च पक्ष्य- त्यप्यनागतयत्किचित्कालावच्छेदेन वर्तमानमभावमादाय न पक्ष्य- तीवि प्रयोगो दुर्वार एवेवि वाच्यम्। अनागतकालावच्छिन्नत्वं हि तत्र वर्तमानक्षणध्वंसावच्छिन्नत्वम् । वादृशध्वंसनिष्ठाअवच्छेदक- ताऽनवच्छिन्ना ग्राह्या, अनागतकृतिमति च पुंसि तदभाववृत्तौ व- तमानक्षणध्वंसरूपः कालः प्रतियोगी वृत्तावप्यवच्छेदक इति वि- रोधभञ्जनाय तादृशकृत्यनवच्छेदकावान्तरकालावच्छिन्न एवाव- च्छेदक उपेय इति नोक्तातिप्रसङ्ग इत्युक्तयुक्त्या अनागतत्वस्य यथा लुडाद्यर्थत्वं वथाऽद्य पक्ष्यति न पत्तेत्यत्रानद्यतनकालावच्छिन्नत्व- स्थाभावेऽभाने श्वः पक्ष्यत्ययद्यतनानागतकालावच्छिन्नपाककृत्य- भावमादाय न पक्तेति प्रयोगप्रसङ्ग नलुटोऽनद्यतनार्थत्वमावश्यक- म् । अनागवानद्यवनकालावच्छिन्नत्वमपि उक्तरीत्यातिप्रसङ्गवार- णाय प्रकृवशब्दप्रयोगाधिकरणदिनध्वंसनिष्ठानवच्छिन्नावच्छेदक- ताकत्वरूपं ग्राह्यम् । अवच्छेद्यावच्छेदकभावश्च संबन्धविधया भा- सते ध्वस एव पदार्थ इत्यवधेयम् । अथ नब्समभिव्याहारस्थलेऽपि कृतावेव कालान्वयोऽस्तु । अनागवकृतिश्च महाप्रलयस्याप्रामाणिकतया सर्वत्रैव प्रसिद्धय- तीवि न प्रतियोग्यप्रसिद्भिः । अभावान्वयश्चात्मनि कालानव- च्छिन्नाश्रयतासंबन्धेनोपगम्यतामिति चेत्-न । यदुत्तरकाले चैत्रीयौदनपाकादिकमप्रसिद्धं तदानीं चैत्र ओदनं न पक्ष्यतीति प्रयोगानुपपत्तेः। अनागतचैत्रीयौदनकर्मकपाकानुकूलकृत्यप्रसिद्धया- तदभावप्रत्यायनासंभवात् । न चाभावे कालान्वयोपगमेपि यत्त- ण्डुलव्यक्त्यादिकर्मकपाक एवाप्रसिद्धस्वठ्यक्तयादिपरस्यैवत्तण्डुलं न पक्ष्यतीत्यादिवाक्यस्याप्रमाणत्वापत्तिः। प्रतियोग्यप्रसिद्धेर्दार- ।

३४४ व्युत्पत्तिवादः [ आख्याते त्वादिति तत्र पाके तद्व्यक्तिकर्मकत्वाभाव एव नया बोध्यत इति उपगन्तव्यम् । तथा चोक्तस्थलेपि तत्तत्पाके चैत्रीयौदनकर्मकत्वाभा- वबोधोपगमेनोपपत्तिरिति वाच्यम् । पाके तत्कर्मकत्वाभावबोधोप- गमे तादृशपाकानुकूलानागतकृतेः कर्तरि भानस्योपगन्तव्यतया तदुत्तरं कदाचिदपि येन न पक्ष्यते तादृशकर्तृसमभिव्याहृतदर्शित- वाक्यस्य प्रामाण्योपपादनासंभवात्। अगत्या तु यत्कर्मको यत्कर्तृकः पाकोऽप्रसिद्धस्तादृशकर्मकर्तृघटितार्थकनपदवद्वाक्यस्यायोग्यतो- पगम्यते। केचित्तु तत्रापि पाके तत्कर्मकत्वाभावस्य तादृशे च कर्तरि पाककृत्यभावस्य बोधमुपगम्य प्रामाण्यमुपपादयन्ति। तात्पर्यसत्त्वे एकेनापि नबाऽभावद्वयबोधनसंभवात्। न चैवं तण्डुलमात्रं पचति पक्ष्यवि वा चैत्रेऽपि तण्डुलमयं न पचति न पक्ष्यतीति प्रयोगः स्यात्। तत्तण्डुलाकर्मकपाकानुकूलवर्तमानादिकृत्यभावाबाधादिति वाच्यम् । यतः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकतृत्वाभाव बोधकत्वं नञः आकाशं न पचति घट इत्यादावपि न स्वीक्रियते तादृशबोधजनकताया अव्युत्पन्नत्वात् येनाक्तातिप्रसंगः स्यात् । किन्तु पाक आकाशाकर्मकः पाककृत्यभाववान घट इत्यादिसमूहा- लम्बनबोध एवोक्तस्थले च चैत्रे पाककर्तृत्वाभावबोधान्न प्रामा- ण्यप्रसंगः । अस्तु वा तत्राभावान्वितक्रियाकर्तृत्वाभावविषयकोs- समूहालम्बनरूप एव बोधस्तथापि न दर्शितातिप्रसंगः। तादृशबोधेऽ. न्वयितावच्छेदकावच्छेदेन प्रथमाभावभाननियमात्। पाकत्वाव- च्छेदेन च तण्डुलादिकर्मकत्वाभावान्वये योग्यताविरहात्। अन्ध आकाशं न पश्यतीत्यादावपीढशी गतिः । अथ यत्तण्डुलादिकर्मको यत्पुरुषकर्तृकः पाकोऽप्रसिद्धस्तत्पुरुषेऽन्यकर्म कपाककर्तृत्वस्य तण्डु- लादौ चान्यपुरुषपच्यमानत्वादेर्धमदशायां तण्डुलमयं न पक्ष्यती- त्यादिवाक्यस्य बोधकताया अनुभवसिद्धत्वेनापाकर्तुमशक्यत्वान्नो ३४५ लिट्प्रत्ययः] जयाऽलकृतः क्तप्रकारः साधीयान्। विरोधिनिश्चयसत्त्वेनवत्पुरुष पाककर्तृत्वसा- मान्याभावस्य पाकत्वावच्छेदेन तण्डुलकर्मकत्वाभावस्य च प्रती. त्यसंभवादिति चेत्-न । तत्र वाहशवाक्यस्य एकाभावावगाहिभ्र- मजनकत्वोपगमात् । न च सर्वत्रैव वदुपगमौचित्येन ग्रयासवैफ- ल्यमिति वाच्यम्। विशेषदर्शिभिरप्रतार कैरपि तथाविधवाक्यप्र- योगात् तस्य प्रसिद्धार्थकतासंपादनस्यावश्यकत्वात् । न च तत्तण्डु- लादिकर्मकत्वं तन्निष्ठविक्लित्तिजनकत्वं वदापि वा प्रसिद्धमिति कथं पाके तदभावप्रत्यय इति वाच्यम्। विक्लित्त्यादावेव तत्तद्वत्तित्वा- भावबोधोपगमात् । अपाक्षीदित्यादौ लुङोऽतीत कालोऽर्थः। तस्याप्याख्यावसामा- न्यार्थकृत्यादावन्वयः। तस्य च सम्बन्ध आधेयत्वम्। अथवा काल- विशेषणतयैवातीतत्वं लुङोऽर्थः । आश्रयतासम्बन्धेन च तस्य कृत्यादावन्वयः कालान्वर्भावस्य व्यर्थत्वात् । अतीतत्वं वर्तकाल- ध्वंसप्रतियोगित्वम् । वस्तुतो वर्तमानध्वंस एव लुङाद्यर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः। मध्यदशायामपाक्षीदित्या- दिप्रयोगवारणमुक्तरीत्या बोध्यम् । लङ्प्रत्ययस्यावीतत्ववदनद्यवनत्वमप्यर्थः। अद्य पचत्यपच- दित्यप्रयोगात् । 'अभून्नप' इत्यादावनद्यतनत्वसत्त्वेपि तदविव- क्षया न लप्रत्ययेन लुङबाधः । अतोप्यनद्यतनत्ववोधकत्वं लङ्- प्रत्ययस्यावश्यकम्। स्वरूपसदनद्यतनत्वस्य लङ्साधुवानियाम- कत्वेऽनद्यतनत्वस्य वस्तुसतोऽविवक्षामात्रेणोक्तस्थले लङ्वारणा- नुपपत्तेः । इदमप्यनद्यतनत्वं प्रकृतशब्दप्रयोगाधिकरणादिनावृत्ति- त्वम् । अथवा स्वातन्त्र्येणानद्यतनत्वं न लर्थः किंतु वाशदिना- द्यक्षणवृत्तिध्वंसप्रतियोगित्वरूपमनद्यवनातीतत्वं विशिष्टमेव । अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिटोऽर्थः। 'अध्यास्त सर्व- ।

व्युत्पत्तिवादः [अाख्याते तुसुखामयोध्या'मित्यादौ परोक्षत्वसत्त्वेपि परोक्षत्वाविवक्षया न लिट् । परोक्षत्वं वक्तु: साक्षात्काराविषयत्वम् । केचित्तु स्वभिन्नकर्तृकत्वमेव परोक्षत्वमत एव लिडुत्तमपुरुषा- संभवेनापरोक्षतायामपि लिटः साधुत्वे 'गलुत्तमो वेत्यादेापकत्व- मुपायकारोक्तं संगच्छते । अन्यथा निद्रादिदशायां स्वकर्तृकगमना- दिक्रियायाः स्वपरोक्षत्वसंभवेन ज्ञापकत्वासंगतेरित्याहुः । 'कलिङ्ग दृष्टोऽसि', 'नाहं कलिङ्गान जगामे'त्यादावत्यन्तापह्नव स्थले सूत्रान्तरेण क्रियाया अपरोक्षत्वेपि लिड्विधानात् तादृशज्ञाप- कबलेन 'व्यातेने किरणावली'मित्यत्र लिट: साधुत्वोपपादनमुपाय- कृतामयुक्तमेवेति बोध्यम् । अत्यन्तापह्नवश्चाबाधितपरोक्तविपरीत- बोधनाय वदुपपादकाभावप्रतिपादनेच्छा कलिङ्गाधिकरणकदर्शना- देरुपपादकं कलिङ्गगमनादिकं तेन विना तदसंभवात् । अत्यन्ताप- हवः स्वरूपसन्नेव लिट्साधुतानियामकः । लिङ्लोटोविधिरर्थः । परप्रवृत्तयर्थं तत्प्रोगात् । विधि:प्र.त- कज्ञानविषयो धर्मः । स च धर्मों न्यायनये कृतिसाध्यत्वं बलवदान- ष्टाननुबन्धित्वसहितमिष्टसाधनत्वं च । 'अोदनकामः पचेत्स्वर्गकामो यजेते'त्यादावोदनस्वर्गादिरूपं यत्फलं तत्साधनत्वं पाकयागादि- क्रियायां प्रतीयते। तादृशफलानां च तत्तद्र पेण लिङादिशक्यतावच्छे- दककोटि प्रवेशे शक्त्य नन्त्यं सर्वसाधारण्येन व्युत्पत्त्यनुदयेनापूर्व फलसाधनबोधानिर्वाहश्चैवीष्टत्वेन तेषामनुगमः । इष्टत्वं समभिव्या- हृतपदोपस्थापितकामनाविषयत्वम् । अत: 'स्वर्गकाम: पचेते'त्यादौ शक्तिभ्रमशून्यस्य नौदनादिसाधनत्वधीन वा तत्तात्पर्येण तथा प्रयोगः प्रामाणिकानाम् । इष्टत्वज्ञानस्याप्रवर्तकत्वेपि शक्यफलानुगमार्थ तस्य शक्यता । वस्तुवस्तु अशक्यस्यैव तस्य शक्यानुगमकवा सर्वनाम- स्थले बुद्धिस्थत्ववत्तेन रूपेण फलानां संकेतविषयतां विना शक्यै- क्यासंभवात् । वस्य संकेतविषयत्वोपगमेपि यथा न वस्य वाच्यता । ।

विधिप्रत्यय:] जयाऽलङ्कृतः ३४७ तथा प्रपञ्चितमन्यत्र । अत्र चेष्टत्वस्य शाव्दवोधेऽभानाद्विशिष्टेष्टता- वच्छेदकस्वर्गत्वादिप्रकारेण शाब्दबोधोत्पत्त्या विधिवाक्यात्प्रव- तकज्ञाननिर्वाहः। यत्तु इष्टत्वेन फलभानेपि स्वर्गकामादिपदैकदेशोपस्थितस्वर्ग- त्वावच्छिन्नस्य विध्यर्थै कदेशे इष्टेऽभेदान्वयात्प्रवर्तकज्ञाननिर्वाह इति तदपि न सत् । वृत्तिशब्दैकदेशे इतरानन्वयनियमात् । स्वर्गत्वादिप्रकारेण कामनाधीनप्रवृत्तौ स्वर्गत्वादिविशेपितफलसा- धनताज्ञानस्य हेतुतया अभेदेन स्वर्गादिविशेषितफलसाधनताज्ञा- नस्यानुपयोगित्वाच्च । अभेदेन स्वर्गादिप्रकारकस्वर्गादीष्टसाधनता- ज्ञानमपि स्वर्गवादिप्रकारकप्रवृत्तौ हेतुः । अत एव 'स्वर्गकामो यजेते'त्यादितः प्रवृत्तिरिति तु न युक्तम् । स्वर्गत्वप्रकारकका- मनाया अधिकारत्वानुपपत्तेः । अथेष्टत्वस्य शक्योपलक्षणत्वे तदंशा- भाननिर्वाहेऽपि स्वर्गत्वादेरशक्यस्य भानं न संभवति। अशक्यस्य भानोपगमेतिप्रसङ्गादिति चेत् । स्वर्गत्वाद्यवच्छिन्ने समभिव्याहृ- तकामनाविषयत्वज्ञानसहकृतस्य तादृशकामनाविषयतावच्छिन्नश- क्तिज्ञानस्य स्वर्गत्वादिप्रकारकशाब्दधीहेतुत्वोपगमेति प्रसङ्गानवका- शात् । वस्तुतस्तादशकामनाविषयतावच्छेदकत्वोपलक्षितस्वर्गवा- दिविशिष्टसाधनत्वे शक्तिस्वीकारात्सर्वसामञ्जस्यम्। न च स्वर्गत्वा- दिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्वं न संभवति । स्वर्गत्वादे- गङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदक- तया यागादौ स्वर्गत्वादिविशिष्टसाधनत्वबाधात् नहि जन्यतान- वच्छेदकधर्मो जनकत्वनिरूपके विशेषणमिति वाच्यम्। स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिन्ननिरूपितजनकताया यागादावबाधिताया:स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभ- वात् । घटत्वादिविशिष्टवाचकपदघटिताद् घटं द्रव्यत्वेनैव जाना- तीत्यादिवाक्यात् घटत्वाद्युपलक्षिवघटादिविशेष्यकत्वभानवत् ।

३४८ व्युत्पत्तिवादः [ाख्याते न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्र- कारकफलेच्छाधीनप्रवृत्त्यनिर्वाह इति शङ्कयम् । वह्नित्वादिप्रकार- केच्छातोपि तृणादिसमवधानेऽभ्रान्तप्रवृत्तेरानुभविकत्वात् । भूयः सुखार्थिनामपि भ्रमं विना क्रियाविशेषे प्रवृत्तेश्च तद्धर्मावच्छिन्नफ- लार्थिप्रवृत्तौ तद्धर्मप्रकारेण भासमानफलं प्रति साधनताज्ञानस्यैव प्रवर्तकत्वात् । स च धर्म: कार्यतावच्छेदकतया भासतां कार्याशे उपलक्षणतयैव वेत्यन्यदेवत् । न हि वह्नित्वादिकं तृणादिजन्यवाव- च्छेदकं व्यभिचारिसाधारणत्वात्। न वा भूयस्त्वादिकं कस्यचिज्ज- न्यतावच्छेदकमर्थवशसंपन्नत्वात्। एवं सति घटत्वावच्छिन्नफलार्थी तन्त्वादौ कथं न प्रवर्तते ? तन्त्वादेरपि घटत्वाद्युपलक्षितजन्यस- त्वादिविशिष्टनिरूपितद्रव्यत्वावच्छिन्नसाधनतावत्त्वादिति चेत्- फलानुपधाननिश्चयात्तस्य स्वातन्त्र्येण प्रवृत्तिप्रतिबन्धकत्वात् । फलोपधायकसाधनत्वस्य वा विधिप्रत्ययार्थतया घटकामस्वन्तुमुपा ददीतेत्यादिन प्रयोगः। न च तथापि स्वर्गत्वादेर्यागादिनिष्ठकारणताघटकव्यापकतानि रूपकतानवच्छेदकतया स्वर्गवावच्छिन्ननिरूपितव्यापकताघटित-- कारणत या बाधःस्वर्गादिनिष्ठकार्यतावच्छेदकवैजात्यस्य च कार- णताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननिरूपित- व्यापकताबोधासंभव इति स्वर्गकाम इत्य दो विध्यर्थबोधानुपपत्ति- दुर्वारैवेति वाच्यम्। स्वरूपसंवन्धरूपाया एव कारणताया विध्य- थत्वोपगमात्। अन्यथासिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्ति- तावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्गकारणत्वम् । नियतोत्तरवर्ति- वावच्छेदकश्च धर्मो विशिष्य उत्तरकालकल्प्यो जातिविशेष एव नियतोत्तरवर्तितावच्छेदकत्वेन सामान्यरूपेण शाब्दबुद्धौभासते। नियतोत्तरवर्तितावच्छेकत्वं च कारणतावच्छेदकत्वाभिमवधर्माव- च्छिन्नतद थापाराभावाधिकरणताविशिष्टोत्पत्तिक्षणावच्छिन्नाधिक ।

३४६ । स्वर्गकारणत्वम् ] जयाऽलङ्क्तः रणवानिरूपकतानवच्छेदकत्वम्। अधिकरणतावैशिष्टयं च स्वाव- च्छेदकक्षणाव्यवहितोत्तरक्षणावच्छिन्नस्वाश्रयनिष्टत्वसंवन्धेन। वस्तुत: स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्वितावच्छे- दकधर्मवत्त्वमेव स्वर्गकारणत्वम् । नियतपूर्ववर्विवावच्छेदकत्वं चाव्यवहितपूर्वकालावच्छिन्नवृत्तिकाभावघटिव दैशिकव्यापकवाया: स्वाश्रयत्वस्वाश्रयनिरूपितव्यापारवत्त्वान्यतरसम्बन्धेनावच्छेदक- त्वमेव । व्यापकत्वनिरूपकतावच्छेदकवैजात्यस्य विशिष्यानुपस्थि- वावपि स्वर्गधर्मत्वेन ज्ञानं संभवत्येव । व्यापकताघटकाभावप्रति- योगिवायां स्वरूपतोवच्छेदककोटिप्रविष्टाया अपि जातेापकता- भाने स्वर्गधर्मत्वादिना भाने न बाधकम् । स्वर्गधर्मत्वादेरुप- लक्षणतया भानात् । प्रतियोगितासंबन्धेन प्रतियोगिप्रकारकज्ञान एव प्रतियोगिकोटावुपलक्षणप्रकाराभाननियमात् । प्रकृते च कारणवाशरीरघटकाभावस्य प्रतियोगिताप्रकारेण भाननियमात् । अत एव स्वरूपतो वह्नित्वाद्यवच्छिन्नप्रतियोगिता- काभावस्य वह्नित्वाद्यवच्छिन्नव्यापकतावच्छेदकत्वोपलक्षितधर्माव- च्छिन्नाभावत्वेन लक्षणप्रवेशस्य संभवदुक्तिकता। इत्थमेव चेष्टतावच्छेदकधर्माणामुपलक्षणीभूतेनेष्टतावच्छेद- कत्वेन व्यापकताघटकाभावप्रतियोगिवावच्छेदककोट्यप्रविष्टेनापी. ष्टवावच्छेदकधर्माणां सर्वसाधारणशक्तिग्रहे भानमुपपद्यत इति । एतेन नियवोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वस्य विध्यर्थ- तामते यागादिमिकतादृशकारणताग्रहस्य प्रवृत्तिहेतुता वाच्या। तदपेक्षया च स्वर्गादिधर्मिकनियतोत्तरवर्तितावच्छेदकधर्मरूपया- गादिसाध्यवाज्ञानस्य प्रवृत्तिहेतुत्वे तादृशसाध्यताविशिष्टमात्रस्य विध्यर्थत्वे च लाघवम् । वाहशसाध्यवाया निरुक्तसाधनान्तर्गत्वा- दितीष्टसाधनत्वस्य विध्यर्थत्वं प्रवर्तकत्वं च व्याह्न्येत । एवं यत्र कारणवावच्छेदकधर्मोप्यनुपस्थितोविप्रसक्तेन न्यूनवृत्तिना वा ३५० व्युत्पत्तिवादः [ श्राख्याते धर्मेण कारणमुपलक्षितं वत्र शब्दात्कारणताग्रहानुपपत्तिश्चेति निरस्तम् । व्यापकवाघटितकारणतायाः साध्यवामपेक्ष्यागरीयस्या एवोक्तरीत्या प्रवर्तकत्वादिसंभवात्। तादृशसाधनताशरीरे व्याप- कतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात्तद्ग्रहे विशिष्य तदु- पस्थित्यनुपस्थित्यनुपयोगाचेति । केचित्तु विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठया- गादिजन्यतावच्छेदकसम्बन्धः । तथा च वैजात्यस्य सम्बन्धघट- कतयैव व्यापकताशरीरे निवेशान्नोपस्थित्यपेक्षा । न वा कारण- वाविघटकव्यभिचारावकाश इत्याहुः । वदसत् । विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंबन्धघटितव्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैज्ञात्यभेदेन शक्तिबाहुल्यप्रसङ्गात् । तादृशका- र्यसंबन्धघटितेष्टकारणतायाश्च प्रमाणान्तरेणाप्रत्यायितत्वात्। तत्र शक्तिग्रहानुपपत्त्या शाब्दबुद्धौ तद्भानानुपपत्तेश्च । न चेष्टतावच्छेदकत्वोपलक्षिवस्वर्गत्वावच्छिन्ने कारणताघट- काधिकरणादिपदार्थे च खण्डशः शक्तिरुपेया। आकाक्षावशा- च्चाधिकरणरूपविध्यर्थे विजातीयस्वर्गनिरूपिवसमवायस्य संब- भानात्तादृशकायसंबन्धघटिवकारणतायाः शाब्दबोधे भानमुपगन्तव्यं न तु तादृशसंबन्धान्तर्भावेण शक्तिरिति न काचिदनुपपत्तिरिति वाच्यम् । एवं सति संसर्गवात्पर्यज्ञानानु- रोधेन ताशसंसर्गोपस्थित्यपेक्षाया दुर्वारत्वात् । न च तत्संसर्गेण विशेषणविशिष्टविशेष्यपरत्वज्ञानमेव संसर्गभाननियामकम्। तत्रा- पिच संसर्गः संसर्ग एवनतु विशेषणमिति न ज्ञानापेक्षेति वाच्यम्। विशेषणविशिष्टविशेष्यस्य वाक्यार्थत्वेन पूर्वमनिश्चिततया तत्पर- त्वग्रहस्य शाब्दबोधात्पूर्वमसंभवात्। तत्तत्संबन्धविषयतानिरूपिव- विशेषणादिविषयताशालिबोधपरत्वज्ञानस्यैव हेतुतया वत्र संबन्ध- न्धतया यागसाध्यता] जयाऽलङ्कृतः स्य विशेषणतया तदुपस्थितेरावश्यकत्वात्। एवं विजातीयस्वर्गनि- रूपिवसमवायसंबन्धेन स्वर्गत्वावच्छेदेन जन्यतोपगमे 'श्वर्गत्वस्या- श्वमेधजन्यत्वसामानाधिकरण्यमात्रमेव हि शब्देनापि प्रतीयते न तु स्वर्गत्वस्य जन्यतावच्छेदकत्वमसामर्थ्यादसंभवाचेत्यादिमिश्र ग्र- न्थविरोधः । यत्त वैजात्यमेव कार्यवावच्छेदकं तच्च संबन्धविधयैव कारण- वाघटक कार्यवावच्छेदकधर्मविशिष्टनिरूपितकार्यतावच्छेदकसंव- न्धेन कार्यवन्निष्ठाभावाप्रतियोगित्वस्य कारणताशरीरे निवेश्यत्वा- दिति-तदप्यसत् । कार्यस्य कार्यतावच्छेदकरूपेणैव निवेशनीय- वया तदुपस्थित्यपेक्षाघ्रौव्यात् । न च संबन्धसंकोचे प्रमेयत्वेनैव कार्यप्रवेशः संभवतीति वाच्यम् । विजातीयस्वर्गवन्निष्ठाभावप्रति- योगितात्वस्यागुरोरवच्छेदकत्वसंभवे विजातीयस्वर्गीयसमवाय- संबन्धेन प्रमेयवन्निष्ठाभावप्रतियोगितात्वरूपगुरुधर्मावच्छिन्ना- भावाप्रसिद्धः। एतेन स्वर्गत्वमेव यागजन्यवावच्छेदकमवच्छेदकताघटकसम- वायसंबन्धसंकोचे न व्यभिचार इत्यपि निरस्तम् । तादृशसंबन्ध- विशेषणेष्टतावच्छेदकविशिष्टस्य प्रमाणान्तरावेद्यतया तत्र शक्तिनि- श्चयासंभवात्। न हि समभिव्याहृतफलबोधकपदोपस्थाप्यतावच्छे- दकत्वरूपोपलक्षणधर्मेण यथा स्वर्गवादीनां शक्तिग्रहे भानं तथोप- लक्षणीभूतवादशपदोपस्थाप्यतावच्छेदकसंबन्धत्वेन विजातीयस्व- निष्ठसमवायादेरपि वत्र भानसंभवः । स्वर्गपदाच्छुद्धसमवाये- नैव स्वर्गत्वविशिष्टस्योपस्थितौ विशिष्टसमवायेन स्वर्गत्वविशिष्टस्य स्वर्गपदार्थत्वोपगमे लक्षणाप्रसङ्गात् । शुद्धसमवायेन स्वर्गत्वविशि- ष्टविषयककामनावतोऽनधिकारप्रसङ्गात् । मीमांसकास्तु 'अहरहः संध्यामुपासीते'त्यादौ नित्यतया नि- मिश्रति । मुरारिमिश्रति यावत् । ।

३५२ व्युत्पत्तिवादः आख्याते ष्फले संध्योपासनादाविष्टसाधनत्वस्यायोग्यत्वेनान्वयासंभवान्नेष्ट- साधनत्वं लिङर्थः। अथ संध्यावन्दनादेरप्यर्थवादोपस्थापितब्रह्मलोकावाप्त्यादिफ- लसाधनत्वमव्याहतम् । यत्र नित्येऽर्थवादादपि न फलोपस्थितिस्त- त्रापि फलाभावनिश्चायकप्रमाणाभावाद्योग्यतासंशयसंभवेन फल- साधनत्वप्रत्ययो लिङादितः संभवत्येव। न च तद्बोधोनोपयोगी। निष्फलतया ज्ञाते चैत्यवन्दनादौ प्रवृत्तिवारणायेष्टसाधनताज्ञानस्य प्रवृत्तिहेतुवावश्यकत्वेन नित्यविधेः प्रवृत्तिनिर्वाहाय तस्य फलसाध- नताबोधकताया आवश्यकत्वादिति चेत्-न। "संध्यामुपासते ये च सततं संशितव्रता” इति श्रुवौ सततमिति श्रुतेः कदाचिद्यस्य संध्या- वन्दनादिबाधस्तेन स्वीयसंध्यावन्दने ब्रह्मलोकावाप्तिफलानुपधानस्य निश्चिततया अहरहः संध्यावन्दने ब्रह्मलोकावाप्तिसाधनताबोधनेऽपि तस्य संध्यावन्दने प्रवृत्त्यनिर्वाहात् । यत्र च नित्ये विशिष्यफल- बोधकोऽर्थवादादिर्नास्ति तत्र विधिप्रत्ययेन इष्टत्वेन फलसाधनता- बोधस्य जननेऽपि इच्छाविषयताऽवच्छेदकस्वर्गत्वादिरूपविशेष- धर्मप्रकारेण फलविषयकतत्साधनताबोधस्य निर्वाहेण प्रवृत्त्यनिर्वा- हात् । इष्टसाधनताज्ञानाघटिवकारणस्वोमात्मिकायाः संध्यावन्दना द्यभावगोचरनरकादिसाधनताज्ञानाधोनतद्गोचरद्वेषघटितसामग्या एव संध्यावन्दनादौ प्रवतकवाया उपगन्तव्यतया नित्यस्थले इष्ट- साधनताबोधस्यानुपयोगिताया दुरित्वात्। न च 'विश्वजिता यजे. ते'त्यत्र विशिष्टफलाश्रवणेऽपि यथा स्वर्गकामपदस्याध्याहारेण तत्समभिव्याहाराद् विशेषरूपावच्छिन्नस्वर्गसाधनताबोधस्तथा नित्यस्थलेऽपि विशेषधर्मप्रकारकस्वर्गसाधनबोधसंभवात् उक्तप्रवृ- त्तिसामग्रयन्तरकल्पनमयुक्तमिति वाच्यम् । बहुवित्तव्ययायाससा- ध्यविश्वजिद्यागेन तत्तद्ग्रामपश्वादिफलोद्देशेन प्रवृत्त्यनुपपत्तेः । तद्विधेः स्वर्गफलतात्पर्यनिश्चयात्संध्यावन्दनादौ चाल्पायाससाध्ये नित्यकर्मा जयाऽलङ्कृतः प्रामादि फलोद्देशेनापि प्रवृत्त्युपपत्तेः। तद्विधेः स्वर्गपरत्वनिश्चया- योगात् । स्वर्गादिफलकामनारहितैर्मुमुक्षुभिरपि संध्यावन्दनाद्या- चरणादुक्तप्रवृत्तिसामग्रीकल्पनस्यावश्यकत्वाच्च । तादृशसामग्री विना प्रायश्चित्तादाविष्टासाधने प्रवृत्त्यनिर्वाहाच्च । न च तत्रापि पापध्वंसेष्टसाधनताज्ञानात्प्रवृत्तिर्निवहति । सुख- दु:खाभावेतरगोचरेच्छायां इष्टसाधनताज्ञानस्य नियमतोऽपेक्षायां निष्कलपापध्वंसस्येष्टत्वासंभवान्। नरकसाधनगोचरद्वेषस्य तद्ध्वं सगोचरेच्छाजनकत्वोपगमेऽस्मत्समीहितायामिष्टसाधनत्वज्ञाना घटितप्रवृत्तिसामग्र्यामविवादात्। कृतिसाध्यताज्ञानसहितेच्छासा- मान्यसामग्रीतश्चिकीर्षोत्पत्तेनिष्फलेऽपि संध्यावन्दनादौ निर्वाहेण प्रवृत्त्युपपत्तेः । न च नरकानुत्पाद एव प्रायश्चित्तस्य संध्यावन्दना- देश्च फलमितीष्टसाधनताज्ञानघटितैव प्रवृत्तिमामग्री । नरकद्वेषववां- च तदनुत्पादे नियमत एवेच्छेति तेषां नित्यसंध्यावन्दनाद्यनुष्ठान- मुपपद्यते । अन्यैश्च तत्रानुष्ठीयते इति वाच्यम् । नरकानुत्पादस्य तत्त्रागभावात्मकस्य प्रतियोगिविकल्पग्रासेन फलत्वासंभवात् । अत्यन्ताभावस्य प्रतियोगिविरोधितया कदाचित्पापान्तरेण यस्य नरकदुःखं जनितं जनिष्यते वा तदात्मन्यसत्त्वान्नित्यत्वेन चोभयोः फलत्वासंभवात् । योगक्षेमसाधारणसाधनतायाश्च गुरुशरीरत्वेन प्रवृत्त्यनुपयोगित्वात् । यदपि 'मण्डली कुर्या'दित्यादिवाक्वप्रामाण्यवारणायेष्टसाध- नत्वस्य विध्यर्थत्वमावश्यकमिति तदपि न । मण्डलीकरणादि- जन्यतद्ध्वंसादिरूपफलेऽपि कदाचित्कस्यचिदिष्टसाधनताभ्रमेणे- च्छोत्पत्त्या मण्डलीकरणादावपोष्टसाधनत्वाबाधेनेष्टसाधनत्ववि- ध्यर्थतामतेऽपि तद्वाक्यप्रामाण्यत्यावश्यकतया इष्टापत्तेः। 'स्वर्ग- कामो मण्डली कुर्यादिति वाक्प्रजन्यबोधे च स्वर्गकामनाया म- एडलीकरणादिनिष्ठकर्तव्यत्वप्रप्रोजकत्वभानेन तदर्थबाधेन तद्वा- २३ व्युत्पत्तिवादः [पाख्याते क्याप्रामाण्योपपत्तेः । न चेष्टसाधनत्वस्य विधिप्रत्ययार्थत्वानुपगमे 'स्वर्गकामो यजेते त्यादिवाक्याद्यागादौ प्रवृत्त्यनुपपत्ति: । तत्राभा- वगोचरद्वेषघटितसामात्र्यसंभवात् यागाद्यभावस्य नरकादिरूपद्वि- ष्टसाधनत्वाभावात् इष्टसाधनत्वबोधकमानाभावेन तज्ज्ञानघटित- सामग्र्या अपि भवन्मते दुर्घटत्वादिति वाच्यम् । इष्टसाधनत्वस्य विध्यर्थताविरहेऽपि स्वर्गासाधनं न स्वर्गकामनाधीनकृतिसाध्याभि- तीतरबाधबलात्स्वर्गकामकृतिसाध्यतान्वयितावच्छेदकतया स्वर्ग- साधनत्वस्योक्तविधिजन्यबोधे भानाद्यागादाविष्टसाधनताज्ञानादेव प्रवृत्तिनिर्वाहात् । इत्थं च सन्ध्यावन्दनादौ तत्कालावच्छिन्नशौ- चादिकमेवाधिकारो न तु फलकामना पि । अत: फलकामनाशून्य- स्यापि शौचादिमतः सन्ध्यावन्दनाकरणं प्रत्यवायजनकम् । फल- कामनायारतत्राधिकार त्वे तच्छून्यस्यानधिका रितया तदुकरणं न प्रत्यवायमावहेत् । न च मुमुक्षापवादेन स्वर्गादिरूपफलकामनाया: कदाचिदसंभवेऽपि नरकाभावरूपफले नियमत एवेच्छा संभवतीति न शौचादिमतः सन्ध्यावन्दनाद्य करणस्य प्रत्यवायजनकत्वानुपप- त्तिरिति वाच्यम् । नरकाद्यनुपस्थित्यैव तदभावाज्ञानेन तदिच्छा- विरहोपपत्तेरित्याहुः। तदसत् । ध्वंसादेरत्यन्ताभावविरोधिताया निष्प्रमाणकतया नरकात्यन्ताभावस्यैव प्रायश्चित्तसंध्यावन्दनादिफलत्वसंभवादिष्ट- साधनवाज्ञानाद्यघटितप्रवृत्तिसामग्र्या असिद्धेः । करणान्तरकल्प- नापेक्षया गुरुशरीरक्षेमसाधनताज्ञानस्यैव सर्वत्र प्रवृत्तिहेतुतेति । दण्डाद्घट इत्यादिप्रतीतिबलात्स्वरूपसंबन्धविशेषरूपस्य क्षेमसा- धारणसाधनत्वस्योपगमे तच्छरीरगौरवस्याप्यभावाच्चेति । नित्य- स्थले शौचादिफलकामनयोरुभयोरधिकारत्वेऽपि प्रत्येकमेव तयोर- धिकारिता न तु मिलितयोरिति फलकामनाशून्यस्यापि शौचादिम- तोऽधिकारितया तस्यापि नित्याकरणं प्रत्यवायजनकम् । ।

इष्टसाधनत्वम् ] जयाऽलङ्कृतः अथ वा सन्ध्कावन्दनाकरणेन प्रत्यवायजननेऽधिकारैकदेश- शौचादिमत्त्वमेव सहकारि नतु फलकामनापि तदसत्त्वेपि प्रत्यवा- थोत्पत्तेः सर्वसिद्धत्वात्। एतेन संवलिताधिकारानुपगमे शौचादि- शून्यफलकामनावतो दैवान्नित्याकरणं प्रत्यवायं जनयेदिति निर- स्तम् । अत एव नित्यकाम्यजयन्तीव्रतादौ फलकामनाया अधिकार- त्वस्य सर्वसिद्धतया शौचादिमत: फलकामनारहितस्य तदकरणं प्रत्यवायं जनयतोति । अपरे तु 'चैत्यं न वन्देते'ति वाक्यप्रामाण्यानुरोधेनेष्टसाधन- त्वस्य विध्यर्थत्वमावश्यकम् । कृतिसाध्यत्वादिति चैत्यवन्दनादौ कृतिसाध्यत्वाद्यभावस्य नबा बोधने तद्वाक्यस्य प्रामाण्यापत्तः । कृतिसाध्यतायाश्च विधित्वं नियुक्तिकम् । तदनङ्गीकारेऽपि कृतेरा- ख्यातसामान्यार्थतया विधिप्रत्ययस्यापि तदर्थकतया पचेतेत्यादौ कृतेः पाकानुकूलत्वभानस्यावश्यकतयार्थापाकादावपि कृतिसाध्य- ताभानात् । कृतिसाध्यताया विधित्वेऽपि तत्तत्कालतत्तत्पुरुषविशे- षितकृतिसाध्यताविषयकप्त्य प्रवर्तकज्ञानस्य शाब्दबोधोत्तरमेव स्वाकरणीयतया विधवाक्यजशाब्दबोधतः साक्षात्प्रवृत्त्यनि- हात् । अस्तु वा साध्यतासंबन्धेनैवाख्यातसामान्यार्थकृतेः क्रियायां विधिप्रत्ययजन्यबोधे भानम् । प्रवर्तिका चिकीर्षापि साध्यतासंब- न्धेन कृतिप्रकारिका क्रियेच्छैव। न चलडादिस्थले आख्दातार्थकृतेः क्रियाविशेष्यतयैव भानमिति व्युत्पत्तेः क्लप्तत्वात्पचेतेत्यादौ न तस्याः क्रियाविशेषणतया भानसंभव इति वाच्यम् । व्युत्पत्तिवै- चित्र्येण तदुपपत्तेः । शक्त्यभेदेपि व्युत्पत्तिभेदे बाधकाभावात् । अत एव प्राचीनैराख्यातार्थस्यैव कृतेः कमप्रत्ययस्थले क्रियाविशेष- णतया भानमुपेयते । एवं क्वचित्पाकादाविव सर्वत्रैव यागपाकादेः लौकिकप्रमाणादेव कृतिसाध्यताबोधो निर्वहतोति वदन्ति ।

व्युत्पत्तिवादः [ाख्याते 'नकलञ्ज भक्षये दित्यादिनिषेधविधेः प्रामाण्यानुरोधतः बल- वदनिष्टाननुबन्धित्वस्य विध्यर्थे प्रवेश: । निषिद्धेऽपि कलञ्जभक्ष- रणादौ तृप्त्यादिरूपेष्टसाधनत्वसत्त्वेन तदभावस्य नबा बोधने प्रा- माण्यानुपपत्तेः । बलवदनिष्टाननुबन्धित्वस्य विधित्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि वत्तत्कर्मण्यवाधितो बोध्यत इति तत्त्रा- माण्योपपत्तिः। बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टामावस्यैव शाब्दबोधे भानम्। सोऽपि विशेषणा- भावो यतोऽबाधितः कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरमेव तल्लिङ्गकानुमानगम्यो बलवदनिष्टानुबन्धित्वरूपस्तदननुबन्धित्वा- भावः प्रवर्तकांमव निवर्त्तकमपि ज्ञानं श्रुतिवाक्यात्परम्परयैव न तु साक्षात् । एतन्मते च न तादृशाभावस्य शाब्दबोधे भानं पदार्थैकदेशतया इतरविशेषणतयोपस्थितत्वेन नबर्थविशेषणतयाऽनिष्टाननुबन्धि- त्वान्वयासंभवात् । वस्तुता विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न च बलवदनिष्टाननुबन्धित्वे इष्टसाधनत्वस्य विशेष्यत्वे विधि- वाक्यत: क्रियाविशेष्यकेष्टसाधनताज्ञानासंभवात् क्रियागोचरचि- कीर्षाद्यर्थं विधिवाक्यजशाब्दबोधोत्तरमिष्टसाधनत्व प्रकारकक्रिया- विशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वस्य विशेषणत्वे विनिगमकमिति वाच्यम्। क्रियायां बलवदनिष्टासाधनत्वज्ञानस्यापि तद्गोचरेच्छाहेतुत या बलवदनिष्टासाधनत्वस्येष्टसाधनत्वविशेषणत्वमते क्रियाविशेष्य- कतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया मवद्वये कल्पनासाम्यात् । यदि च बलवदनिष्टसाधनत्वज्ञानमेव द्वेषसामग्रोत्वेनेच्छाप्रतिबन्धक न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तस्य विशेष्यविशेषणभावे विनिगमकस्य संभवेऽपि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थवाच्येन ३५७. श्येनवाक्यार्थः] जयाऽनङ्क्त: तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येने केवलेष्टसा-- धनतावोधस्य चोपगम आवश्यकः । मणिकृतापि विशिष्टस्य वाच्यत्वे श्येने विध्यर्थबाधेन तत्र बल- वदनिष्टासाधनत्वस्याभानं लिखितम्। तदभानं विशिष्टशक्तिरक्षे न संभवति । विशिष्टशक्तविशेषणविनिर्मोकेण विशेष्यांशाभासक- त्वात् । तत्तद्धर्मप्रकारण पदाथविषयकशाब्दबोधे तत्तद्धमीशे शक्य- तावच्छेदकत्वपर्याप्त्यवगाहिज्ञानस्य हेतुत्वात् । अन्यथा विशिष्ट- स्वर्गादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलं सुखत्वादिप्रकारक- शाब्दबोधापत्तेः। यदि च केवलसुखत्वादिना स्वर्गादिरूपसुखबोधो लक्षणामन्तरेण स्वर्गादिपदादिध्यत एव, नेष्यते परं सुखान्तरबोध- स्तत्र शक्तिविरहादिति शक्यतावच्छेदकतापर्याप्त्यवगाहित्वमनु- पयोग.त्युच्यते तदापि बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधन- त्वस्य शक्यतायां श्येननिष्टवैरिवधसाधनत्वत्य बलवदनिष्टसाधन- त्वनियतत्वेन तदसाधनत्वविशिष्टत्वेन विधिप्रत्ययाव च्यतया सुतरा तत्र विध्यर्थत्वानिर्वाह एव । यत्तु श्येनस्यादृष्टाद्वारकत्वघटितहिंसालक्षणानाक्रान्ततया बल- वदुःखाजनकत्वमिति मतान्तरम्-तदसत् । तथा सति श्येने तात्विकप्रवृत्तिवारणाय बलवद्दुःखाप्रयोजकत्वज्ञानस्यैव प्रवृत्ति- हेतुताया उपगन्तव्यतया तत्यैव विध्यर्थताया आवश्यकत्वेन श्येने तद्बाधाच्छुतेरप्रामाण्यसङ्गताइव थ्यात् । श्येनस्व हिंसात्ववि- रहेऽपि अभिचारतया नरकजनकत्वस्य दुरत्वाच्च । यत्तु 'अभिचरनि त्यस्य वैरिवधगोचरप्रबलकामनाविशिष्टार्थ- वया तादृशकामनाविशिष्टस्यैव पुरुषस्य बलवद्वेषविषयाजनक- त्वरूपबलवदनिष्टाननुबन्धित्वघटकद्वेषानुदयात् तादृशकामनावि- शिष्टवृत्तिबलवद्वेषविषयाजनकत्वं श्रुतिवाक्यात् प्रत्येतव्यं, तच्च ३५८ व्युत्पत्तिवादः [ाख्याते श्येनेऽबाधितमेव वैरिवधे उत्कट रागवतस्तजन्यनरके बलवद्वेषा- नुत्पत्त्या वादृशनरकस्य वैरिवधोत्कटकामनाविशिष्टवृत्तिद्वेषाविष- यत्वात्। नोकदा एकत्रावर्त्तमानयोरेकतरमपरविशिष्टवृत्तीति मि- श्राणां मूलाभिप्रायवर्णनं-तदापि न, बलवद्वेषविषयदुःखजनकत्व- प्रतियोगिकाभावस्यातिप्रसक्ततया बलवद्वेषविषयदुःखजनकत्व- त्वावच्छिन्नाभावस्य वाच्यतास्वीकारे पुरुषविशेषीयबलवद्वेष- विषयदुःखजनकत्वाभावस्य प्रत्ययासंभवात् तादृशदुःखजनकत्वे अभावे च खण्डशक्तिस्वीकारे विशिष्टशक्तिस्वीकारपरित्यागात् । एवं यत्रोत्कट रागो यदा तत्रैव नोत्कटद्वेषस्तदा तज्जन्ये फले उत्कट- रागदशायां च तजन्यदुःखरूपफलान्तरे उत्कटद्वेषे न किंचिद्बाध- कमिति वैरिवधे उत्कटरागदशायां च श्येनजन्यनर के बलवद्वेषो दुरपवाद एव । अस्तु वा फलविशेषोत्कटरागघटिता उपायगोचरो- कटरागसामग्रो। तत्रैव तज्जन्यतया ज्ञाते सति फलान्तरेप्युत्कटद्वेष- विरोधिनी तथापि नरकवैरिवधयोरेकतरं प्रति श्येनस्य हेतुत्वाग्र- हदशायां तयोर्बलवद्वेषरागयोर्युगपत्संभव एव । यत्तु दीक्षाङ्गपशुघातस्य नरकासाधनतया ‘मा हिंस्यादित्यत्रा- वैधहिंसैव विवक्षितेति श्येनस्य नरकासाधनत्वोपपादनं, वदपि न। तावतापि अभिचारविधया तथात्वस्य दुर्वारत्वात् । अथ खण्डश- क्तिमवलम्व्यानिष्ट साधनत्वविनिर्मोकेण कचिद्विधिबोधोपगमे श्वेत- छागमालभेते त्यस्यादावपि तत्परित्यागसभवात् अविरोधेन 'मा हिंस्या'दित्यत्र श्रुत्यर्थसंकोचो न स्यादिति सांख्यमतमेव साधीय इति चेत्-त्यात्रेव अविरोधेऽपि 'ब्राह्मणेभ्यो दधि दीयतां तक्रं कौ- ण्डिन्याये'त्यत्रेव सामान्यविधेविशेषतरपरत्वं व्युत्पत्तिसिद्धमिति 'मा हिंस्या'दित्यत्र संकोचः। अथ वा कथंचिद्वाधकापनयसं- भवेनौत्सर्गिकार्थपरित्याग इति हिंसानिषेधसंकोचेनैवोपपत्तौ न विध्यर्थनिष्कर्षः] जयालङ्कृतः ३५६ 'श्वेत छागमालभेते त्यादौ विधिप्रत्ययस्य बलवदनिष्टासाधनत्वा- थपरित्याग इत्यर्थः । अथ यागपाकादिजन्यश्रमादावपि कदाचि- स्कस्य बलवद्वेषोदयात् यजेत पचेतेत्यादौ अप्रामाण्यप्रसङ्गो दुर्वारः। यत्तु बलवदनिष्टासाधनत्वं न लौकिक विध्यर्थः किं तु न कल- अमित्यादिश्रुतेः प्रामाण्योपपत्तये वैदिकलिङ्ग एव तदर्थकता तत्रापि बलवदनिष्टं नरकमेव ताद्र,प्येणार्थः । अत इष्टोत्पत्तिनान्त- रीयकश्रमादेः कदाचित् द्वेषविषयतया न यागादौ विध्यर्थबाध इति-तदपि न । 'शाकंन भुञ्जीते'त्यादिवैद्यकवाक्ये बल वदनिष्टाज- नकत्वनिषेधपरत्वं विना प्रामाण्यानुपपत्तेः। तत्रापि रोगाजनकत्व विध्यर्थस्तभावा नसा बोध्यत इति चेद्-'रिक्तायां न गच्छेत्', "पुष्ये नोबहे'दित्यादिज्योतिःशास्त्रवचनस्य 'नैकः पर्वतमारोहे दि- त्यादियाक्यस्य च का गतिः । तत्रापि विशिष्य तत्तदनिष्ठासाधन- त्वस्य विधिप्रत्ययार्थत्वे शत्तयानन्त्यप्रसङ्गो व्युत्पत्त्यनुपपत्तिश्च । अत्र वदन्ति-द्वषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्या- श्रयसाधनतात्वावच्छिन्नप्रतियोगिताकाभावकूटे तादृशाभावत्वेना- नुगते एकैव विधिप्रत्ययस्य शक्तिः। उपलक्षणीभूतद्वेषविषयताव- च्छेदकत्वं परित्यज्य नरकाद्यसाधनत्वं प्रतीयते । कुत्रचिन्नरकासा- धनत्वं कुत्रचिद्रोगासाधनत्वं प्रतीयत इत्यत्र तात्पर्यमेव नियामकम्। प्रतियागितायाः प्रकारतया भानात् प्रतियोगितावच्छेदकघटकन- रकत्वादौ द्वेषविषयतावच्छेदकत्वस्योपलक्षणतया शक्तिग्रहे भान- मविरुद्धम् । न च प्रमेयत्वादेरपि उपलक्षणतया भानमविरुद्धमिति प्रमे- यत्वादेरुपलक्षणतया नरकत्वाद्यनुगमकत्वं कथं न स्वीक्रियते विनि- गमकाभावादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविरहेण ।

व्युत्पत्तिवादः [आख्याते प्रमेयत्वादेः सुख त्वादिसाधारण्यं नोक्तरूपस्येत्यस्यैव विनिगम- कत्वात् । न च तात्पर्याभावात् सुखाद्यसाधनत्वबोधकत्वोपपत्तौ विध्यर्थत्वेऽपि क्षतिविरह इति वाच्यम् । तस्य विध्यर्थत्वेन तत्तात्प- येणाधुनिकानां न भुञ्जीतेत्यादिप्रयोगापत्तः ।। इति महामहोपाध्यायगदाधरभट्टाचार्यकृते व्युत्पत्तिवादे आख्यातविवरणं समाप्तम् । समाप्तश्चायं ग्रन्थः

Vyutpattiwad

Author
Jaydev Mishra
Title
Vyutpattiwad
File name
Vyutpattiwad
Text
OCR done
Citation
1953
Publisher
Null
Language
Sanskrit
Pages
365
Library
Bharti Bhawan Library Allahabad
Classification
Literature
DLI number
273951
Barcode
5990010894550.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
4h8DFPLXjKM
Download PDF

Vyutpattiwad