---
Surthothavam
Front matter
काव्यमाला. ७३. श्रीसोमेश्वरदेवविरचितं सुरथोत्सवम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाल- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् । UNIV LIBRARY C id मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १९०२ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः ।) मूल्यं १४ आणकाः । ??. SUBRAHMANYA VADH NOTELER REE:
No text on this page.
सोमेश्वरदेवः। NA अयं हि सुरथोत्सवमहाकाव्यकर्ता श्रीमान् सोमेश्वरदेवः कदा कतमं धराम- ण्डलं मण्डयामासेति मीमांसायामनेकग्रन्थपर्यालोचने प्रवृत्ते “अस्ति प्रशस्ताचरणप्रधानं स्थानं द्विजानां नगराभिधानम् । कर्तुं न शक्नोति कदापि यस्य त्रेतापवित्रस्य कलिः कलङ्कम् ॥ १ ॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात्कथं स्वाध्यायैकनिधेर्गतेश्रुतिवृतेनोर्वीतलेनापि वा। यत्सौधेषु विशुद्धिवर्जितवपुर्बालोऽपि नालोक्यते वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २ ॥ हृतनयनसुखैर्मखाग्निधूमैः श्रुतिकटुभिर्बटुवृन्दवेदपाठैः । कलिरकलितसंमदः प्रदत्ते न खलु पदं विदुषां गृहेषु यत्र ॥ ३ ॥ चञ्चत्पञ्चमखाग्निभन्नतमसि स्थाने त्रिनेत्रानल- ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये। श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः खर्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । आविर्भूतमभूतपूर्वचरितश्रेष्ठाद्वशिष्ठात्ततः सत्कर्मोद्धुरमॅध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् ॥ ५ ॥ येषामशेषाधिपतिः प्रसन्नः संनद्रपाणिः फणिकङ्कणेन । त एव संभूतिमिहाश्नुवन्ति [कुले] गुलेचा(वा)भिधया प्रसिद्ध ॥ ६ ॥ श्रीसोलशर्मा विमले कुलेऽत्र जन्म द्विजन्मप्रवरः प्रपेदे । यः स्वर्गिणः सोमरसेन यागे पितॄश्च पिण्डैरपृणत्प्रयागे ॥ ७ ॥ सोलः सलीलमवनीमवतामसौ वः सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः । POON L'ORARY ----- . १. आनन्दपुरम्. २. देवाः, मदिरा च.. ३. सर्पाः, वेदभ्रष्टाश्च. ४. भूदेवाः. ५. खामिने, सूर्याय च. ६. उलूकः, विश्वामित्रश्च. ७. यज्ञविद्याविदाम्. ८. ईश्वरः, ९. 'गुलेवा' इति स्थानाचारेण गोत्रस्यावटङ्कनाम प्रतीयते, परं च डॉक्टर्-रामकृष्ण- गोपाल-भाण्डारकर-महाशयैस्तु १८८३-८४ वर्षीया रिपोर्ट'पुस्तके 'गुलेचा' इत्येव पाठ आश्रितः. १०. अस्य मूलराजपुरोहितस्य सोलस्य सत्तासमयोऽपि मूलरा- जराज्यसमय एव. ११. पुरोहितः.
47 २ श्रीगुर्जरक्षितिभुजा किल मूलराज- देवेन दूरमुपरुध्य पुरो दधे यः ॥ ८॥ यथा प्रतिष्ठां महतीं वशिष्ठस्तिग्मांशुवंशे भगवानवाप । निजेन सौवस्तिकतागुणेन चौलुक्यभूपालकुले तथासौ ॥ ९ ॥ विधिवद्वाजपेयं यः कलिकालेऽप्यकल्पयत् । कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ॥ १० ॥ ऋग्वेदवेदी च कृतक्रतुश्च दत्तानदानश्च जितेन्द्रियश्च । तिरोहिते तत्र पुरोहितेन्द्रे तदङ्गजन्माजनि लल्लशर्मा ॥ ११ ॥ यः करोति स्म चामुण्डराजाख्यं नृपमाशिषा । हेतिप्रतापसंपन्नं हविषा च हविर्भुजम् ॥ १२ ॥ श्रीमुञ्जनामा तनुजस्तदीयः स्वयं स्वयंभूरिव भूतलेऽभूत् । ब्राह्मण्यलाभाय तथा हि सद्भिरभाजि "मौञ्जी रशनेव वृत्तिः ॥ १३ ॥ सद्वंशजातेन गुणान्वितेन शरासनेनेव पुरोहितेन । एतेन मेने भुवने न किंचिन्न दुर्लभं दुर्लभराजदेवः ॥ १४ ॥ संतापशान्ति जगतोऽपि सोमस्तनन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च सत्यां वभाजे द्विजराजतां यः ॥ १५ ॥ यस्याशीःप्रतिपादितोदययुजा श्रीभीमभूमीभुजां क्षीरक्षालितशालितण्डुलसितं साक्षात्कृतं तद्यशः । येनाशाक्रमणक्षमेण त इमे 'मूर्तिप्रभेदाः प्रेभो- भस्मोद्धूलनमन्तरेण धवलाः सर्वेऽपि निर्वर्तिताः ॥ १६ ॥ भित्त्वा भानु तत्र ताते प्रयाते पुत्रः श्रीमानामशर्मा बभूव । १. मूलराजराज्यसमय:-A. D. 937-997 इति Indian Antiquary Vol.XI.P.219. २. अस्य चामुण्डराजपुरोहितस्य लल्लशर्मणः सत्तासमय- श्चामुण्डराजराज्यसमय एव. ३. चामुण्डराजराज्यम्-A. D. 997-1010. ४ आयुधम् , दीप्तिश्च. ५ पौरुषम् , संतापश्च ६. अस्य दुर्लभराजपुरोहितस्य श्रीमुञ्जनान्नः सत्ताधारसमयस्तु दुर्लभराजराज्यसमय एव. ७. मौजी वृत्तिरिति मुञ्जवद्वर्तमानानां ब्राह्मण्यं भवतीत्यर्थः, एतेन मुञ्जस्य सदाचारवमुक्तं भवतीत्यर्थः. ८. दुर्लभराजराज्यम्-A. D. 1010-1022. ९. अस्य भीमराजपुरो- हितस्य सोमस्य जीवनसमयो भीमराजराज्यसमय एव. १०. विष्णुना, मृगेण च. ११. ब्राह्मण्यम् , चन्द्रवं च. १२. भीमराजराज्यम् -A. D. 1022-1064. १३. पृथिव्यादयोऽष्टौ. १४. शिवस्य. १५. अस्य श्रीकर्णराजपुरोहितस्य आमश- मणः स्थितिसमयः श्रीकर्णराजराज्यसमय एव.
३ कृत्वा सम्यक्सप्तसंस्थाः क्रतूनां क्रीता काम्रा येन सम्राडभिख्याम् ॥ १७ ॥ सदा यदाशीः परिपूर्णकर्णः श्रीकर्णनामा नृपतिः प्रकाण्डम् । वसुंधरामण्डलमर्णवान्तं वान्तारिनारीनयनाम्बु चक्रे ॥ १८ ॥ दानानि तानि सदनानि च तानि शंभो- रम्भोजराजिरुचिराणि सरांसि तानि । येनामुना मुनिजनानुकृताकृतानि वित्तैथुलुक्यकुलसंभवभूपदत्तैः ॥ १९ ॥ धाराधीशपुरोधसा निजनृपक्षोणीं विलोक्याखिला चौलुक्याकुलितां तदत्ययकृते कृत्या किलोत्पादिता । मन्त्रैर्यस्य तपस्यतः प्रतिहता तत्रैव तं मान्त्रिक सा संहृत्य तडिल्लता तरुमिव क्षिप्रं प्रयाता क्वचित् ॥ २० ॥ तस्मात्कुमारः सुकुमारमूर्तिर्मूर्तस्तपोराशिरिवोजगाम । स्वराजराज्योदयदायिनी वागुवास शक्तेरिव यस्य वक्रे ॥ २१ ॥ बद्धः सिन्धुवसुंधरापतिरतिप्रौढप्रतापोऽपि य- नीतः स्फीतबलोऽपि मालवपतिः कारां च दारान्वितः । दृप्तः सोऽपि संपादलक्षनृपतिः पादानतिं शिक्षितः श्रीसिद्धक्षितिपेन सैष विभवः सर्वोऽपि यस्याशिषाम् ॥ २२ ॥ कुशोपशोभितैर्यागैस्तडागैश्च परःशतैः । दृष्टं पूर्त च यश्चक्रे चक्रवर्तिपुरोहितः ॥ २३ ॥ ऋजुरोहितभृत्पुरोहितत्वस्पृहयेव त्रिदिवं गतस्य तस्य । तनुभूर्मनुभूपतिप्रणीतस्मृतिसर्वखमवाप सर्वदेवः ॥ २४ ॥ मध्वरेयंधित साधु सपर्यामध्वरेषु जयति स्म सुरेशम् । मानवानविदितापरयाच्ओ मानवानकृत चैष कृतार्थान् ॥ २५ ॥ अर्चिषामयनमीयुषि तत्र क्षत्रसत्तमनमस्करणीये । अध्यगामि विधिरामिगनाम्ना वैदिकस्तदनु तत्तनुजेन ॥ २६ ॥ १. अग्निष्टोमाद्याः २. वाजपेययाजीति. ३. श्रीकर्णराजराज्यम्-A. D. 1064-1094. ४. मालवाधीशयशोवर्मणः पुरोहितेन खदेशभूमी गुर्जरराज- श्रीसिद्धराजापरनामधेयजयसिंहदेवेन व्याकुलीकृतां वीक्ष्य तद्वधार्थमभिचारेण कृत्योत्पादिता, सा च आमशर्मणः पुरोधसः शान्तिमन्त्रैः प्रतिषिद्धा सती तमेव मालवाधीशपुरोहितं संहृत्य तिरोहितेति श्रूयते. ५. वशिष्ठपुत्रः ६. वोदत्तनामा. ७. यशोवर्मा. ८. आनलदेवः. ९. श्रीसिद्धराजापरपर्यायजयसिंहराज्यम्- A. D. 1094-1143. १०. जलम् , दर्भश्च, ११, बृहस्पतिः. १२ विष्णोः. १३. अ- चिर्मार्ग गतवति. १४. अग्निहोत्रादिः. .
सत्कर्मनिर्माणरतेरमुष्य ब्रीडानिदानं द्वयमेतदासीत् । खवर्णनाकर्णनमुत्तमेभ्यः संसारकारान्तरवस्थितिश्च ॥ २७ ॥ ज्येष्टः श्रेष्ठतमः समस्तविदुषां श्रीसर्वदेवालयः श्रेयः संपदपास्तदुस्तरतमाः श्रीमान्कुमारोऽनुजः । मुखोऽथ द्विजकुञ्जरस्तदनुजो न्यायाजडेनाहड- श्चतारस्तनयास्ततः समभवन्वेदा इव ब्रह्मणः ॥ २८ ॥ कुमारपालस्य चुलुक्यभर्तुरङ्गानि गङ्गासलिले निधाय । श्रीसर्वदेवेन गयाप्रयागविप्राः प्रदानेन कृताः कृतार्थाः ॥ २९ ॥ स्थाने स्थाने तडागानि शिवपूजा दिने दिने । विप्रे विप्रे च सत्कारः श्लाघा यस्य गृहे गृहे ॥ ३० ॥ रात्री गृहीतोष्णकरे कुमारः कुमारपालस्य सुतेन राज्ञा । कृतोपरोधोऽपि परं पुरोधाः प्रत्यग्रहीत्तस्य न रत्नराशिम् ॥ ३१॥ यः शौचसंयमपटुः कटुकेश्वराख्य- माराध्य भूधरसुताघटितार्धदेहम् । तां दारुणामपि रणाङ्गणजातघात- वातव्यथामजयपालनृपादपास्थत् ॥ ३२ ॥ विलोक्य दुष्कालवशेन लोकं कङ्कालशेष सविशेषशूकः । श्रीमूलराजं दलितारिराजमचीकरत्तत्केरमोचनं यः ॥ ३३ ॥ दुष्टारिकोटिकदनोत्कटराष्ट्रकूट- जुन्येन शल्यितरणाङ्गणकौङ्कणेन । सर्वप्रधानपुरुषाधिपतिः प्रताप- मल्लेन भूपतिममल्लिकया कृतो यः ॥ ३४ ॥ सेनानीर्विदधे कुमार इति यः शङ्के चुलुक्येन्दुना जित्वा सोऽथ जवादवार्यतरसः प्रत्यर्थिपृथ्वीपतीन् । Aawermetrnaketer १. अस्य सिद्धराजपुरोहितस्य सर्वदेवस्य जीवनसमयः सिद्धराजापरनाम- जयसिंहराज्यसमय एव. २. कुमारपालराज्यम्-A. D. 1143-1174. ३. अस्य कुमारपालपुरोहितस्य कुमारस्य सत्तासमयः कुमारपालराज्यसमय एव ४. अजयपालेन. ५. सामन्तसिंहयुद्धे हि श्रीअजयपालदेवः प्रहारपीडया मृत्यु- कोटिमायातः कुमारनाम्ना पुरोहितेन श्रीकटुकेश्वरमाराध्य पुनः स जीवितः. ६. अजयपालराज्यम्-A. D. 1174-1177. ७. शूकः श्लक्ष्णतीक्ष्णाग्रः शङ्कुः. ८. मूलराजराज्यम्-A. D. 1177-1179. श्रीअजयपालपुत्रश्रीमूलराजसकाशाद्दुष्कालपीडितानां प्रजानां तदानीं करमोचनं कारितवान्. १०. निहतकोङ्कणाधिपतिमल्लिकार्जुनेन. यः किल कुमारः ५ इष्टां तद्विषयर्धिमाशिषमिव प्रादात्पुरोधाः स्वयं तस्मै याज्यमहीभुजे निजचमूवीरव्रजैरेक्षतैः ॥ ३५ ॥ धाराधीशे विन्ध्यवर्मण्यवन्ध्यक्रोधाध्मातेऽप्याजिमुत्सृज्य याते । गोगस्थानं पत्तनं तस्य भङ्क्त्वा सौधस्थाने खानितो येन कूपः ॥ ३६ ॥ गृहीतं कुप्यता कुप्यं मालवेश्वरदेशतः । दत्तं पुनर्गयाश्राद्धे येनाकुप्यमकुप्यता ॥ ३७ ॥ जिला म्लेच्छपतेर्बलं तदतुलं राज्ञी सरःसंनिधौ खःसिन्धोः सलिलैर्विधाय विधिवत्प्रीतिं पितॄणामपि । दानी मोक्षमनुक्षतक्षितितले कृत्वाव्दमब्दबजे राजाथै रचयांचकार चतुरः स्वार्थ प्रजार्थं च यः ॥ ३८॥ यः कर्माणि च षड्गुणांश्च तनुते तद्भूर्भुवःस्वस्त्रयं कीर्तिर्यस्य च यश्च निर्मलरुचिर्नो जातुचिन्मुञ्चति । शास्त्राविष्कृतिरध्वरे च युधि च श्लाघ्योज्जिहीते यतः सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्मं च राज्यस्य च ॥ ३९ ॥ अरुन्धतीव कान्तास्य पत्युराज्ञामरुन्धती । अभूदभिधया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ ४० ॥ आदिमः प्रशममन्दिरं महादेव इत्यभिधया तदङ्गभूः । येन पाणिनिहितेन पङ्कजेनेव तुष्यति परं सरस्वती ॥ ४१ ॥ सोमेश्वरदेव इति क्षितिदेवस्यास्य बन्धुरनुजन्मा । अजनि कनिष्ठस्तस्य भ्राता ख्यातान्वयो विजयः ॥ ४२ ॥ तैस्त्रिभिः प्रथममध्यमोत्तमैः स्वे पदे च पुरुषैर्व्यवस्थितैः । शब्दशास्त्रमिव गोत्रमुच्चकैः सक्रिय समजनिष्ट विष्टपे ॥ ४३ ॥ सोमेश्वरदेवकवेरवेत्य लोकंपृणं गुणग्रामम् । हरिहरसुंभटप्रभृतिभिरभिहितमेवं कविप्रवरैः ॥ ४४ ॥ श्रीसोमेश्वरदेवस्य कवितुः सवितुश्च कौ । स तृणाभ्यवहारस्य निरासेऽपि रसप्रदा ॥ ४५ ॥ वाग्देवतावसन्तस्य कवेः श्रीसोमशर्मणः। धिनोति विबुधान्सूक्तिः साहित्याम्भोनिधेः सुधा ॥ ४६ ॥ १. वैरिदेशसमृद्धिम्. २. अव्रणाङ्कस्तण्डुलैः, अखण्डितैश्च. ३. अयं विन्ध्यवर्मा यशोवर्मणः पौत्रः. ४. अयं श्रीहर्षवंश्यो हरिहरो वीरधवलराजसमीपे नैषधपु- स्तकं प्रथमं वस्तुपालेऽमात्ये सत्यानयत्-इति हरिहरप्रबन्धे प्रबन्धकोशे स्फुटमुपलभ्यते. ५. एतत्कविरचितमेकं दूताङ्गदं नाम नाटकं वर्तते, तच्च 1891 A. D. समये काव्यमालायां मुद्रापितमस्माभिः. iny . तव वक्रं शतपत्रं सद्वर्णे सर्वशास्त्रसंपूर्णम् । अवतु निजं पुस्तकमिव सोमेश्वरदेववाग्देवी ॥ ४७ ॥ वसिष्टानिष्टायाः पदमिति जगत्यस्ति पटहः प्रकृष्टास्त्वेषामप्यजनिषत मुञ्जप्रभृतयः । कुले जातोऽप्येषां शतधृतिदुहित्रा पुनरयं खयं पुत्रीचक्रे नवकविगुणप्रीणितहृदा ॥ ४८ ॥ काव्येन नव्यपदपाकरसास्पदेन यामार्धमात्रघटितेन च नाटकेन । श्रीभीमभूमिपतिसंसदि सभ्यलोकमस्तोकसंमदवशंवदमादधे यः ॥ ४९ ॥ कवीन्द्रपदवीस्पृहामहह तेऽपि तन्वन्ति य- द्वचःक्रकचकर्कशं प्रथयति व्यथां कर्णयोः । कविः स विरल: पुनर्भुवि भवादृशो दृश्यते सुधाभिरभिषेचनं रचयतीव यः सूक्तिभिः ॥ ५० ॥ मन्ददछन्दनि कोऽपि कोऽपि विकल: सालंकृतिप्कृता- वर्थे कोऽपि वृथाश्रमो रसनिधावन्धः स कोऽप्यध्वनि । वक्रान्तविहरद्विरश्चितनयामजीरम खर- स्पर्धाबन्धुभिरेक एव कवते काव्यैः कुमारात्मजः ॥ ५१ ॥ वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवं श्रीप्रसादनमन्तरेण विरतं विश्वोपकारव्रतम् । दृष्ट्वा तव्यमत्र मन्त्रिमुकुटे श्रीवस्तुपाले कवि- स्तत्कीर्तितुतिकैतवादिति मुदामुगारमारब्धवान् ॥ ५२ ॥ प्राग्वाटान्वयवारिधौ विधुरिव श्रीचण्डपः प्रागभू- संभूतोऽद्भुतसत्यशौचसदनं चण्डप्रसादस्ततः । सोमस्तत्तनयो नयोज्ज्वलमतिस्तस्याश्वराजः सुतः पुतात्माथ तदङ्गभूः सुकृतभूः श्रीवस्तुपालोऽभवत् ॥ ५३ ॥ १. भीमदेवराज्यम्-1. D. 1179-1242. एतत्पुत्रत्रिभुवनपालराज्यं च-A. D. 1242-1244. २. अयं कुमारनन्दनो लक्ष्मीकुक्षिरत्नः सोमे- श्वरदेवकविः श्रीभीमदेवसभामलंचकार. ३. देवचन्द्रशिष्यो हेमचन्द्रः कु- मारपालराज्ये A. D. 1173 रूपात्मके वर्षे स्वर्गमगमत्. ४. अयं च प्रह्लादनः पण्डितसोमेश्वरदेवपितुः कुमारस्य गुरुः. तथा हि-Indian Antiquary Vol. XI. P. 021-22 मुद्रितप्रशस्तिः-'x x x संवत् १२१५ वर्षे वैशाख शु० १५ भौमे चौलुक्योद्धरणपरमभट्टारमहाराजाधिराजश्रीमद्भीमदेववर्ध- मानविजयिराज्ये xxx षड्दर्शनावलम्बनस्तम्भसकलकलाकोविदकुमारगुरुश्रीप्रहा- दनदेवे यौवराज्ये सति' इति.
उत्फुल्लमल्लीप्रतिमल्लकीर्तिः श्रीमल्लदेवोऽभवदग्रजन्मा ।
बभूव तस्यावरजश्च तेजःपालाभिधानः सचिवप्रधानम् ॥ ५४ ॥
श्रीवस्तुपालस्य चिरायुरस्तु दिशां प्रकाशं दिशते सदा यः ।
कर्पूरकिर्मीरितकेरलस्त्रीरदावदातद्युतिभिर्यशोभिः ॥ ५५ ॥
क्षीणे चक्षुषि भेषजं भगवती कालीश्वरी देहिनां
देहे चित्रविचित्रभाजि शरणं श्रीवैद्यनाथः प्रभुः ।
संसारज्वरजर्जरे हृदि सदा विष्णु विष्णु दे
दौर्गत्ये च जिघांसिते गतिरसौ श्रीवस्तुपालः पुनः ॥ ५६ ॥
न वदति परुषा रुषापि वाचः स्पृशति परस्य न मर्म नर्मणापि ।
विरमति मतिमानमान्यचन्द्रः वचन च नार्थिकदर्थितो विदानात् ॥ ५७ ॥
धनमनवरतक्षितीन्द्रसेवाश्रमसमवाप्तमयत्नतोऽपि दत्ते।
अपरमपि परोपकारकं यद्विमृशति वस्तु तदेव
वस्तुपालः ॥ ५८॥
सत्यं ब्रुवे भवतु मा क्षतिरत्र काचिद्भूखा खलप्रकृतिनापि मयातिमात्रम् ।
मन्त्री समे च विषमे च परीक्षितोऽसौ दृष्टं न दुष्टमिह किंचन सच्चरित्रे ॥ ५९ ॥
अयमनुदिनदानोत्कर्षितप्राणपर्ष-
त्परिचरितचरित्रः स्वस्तिमानस्तु मन्त्री ।
तुहिनकरसमानैर्यस्य कीर्तिप्रतानै-
रजनिषत रजन्यः प्राप्तराकाविपाकाः ॥ ६ ॥
लभन्ते लोकतः पापाः शापानन्ये नियोगिनः ।
अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥ ६१ ॥
त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया
प्रजानामानायः सपदि खलु येभ्यः प्रपतति ।
तदित्थं सुस्थानां चकितचकितं क्वापि वसतां
सतां संप्रत्येकः सचिवशिवतातिर्भुवि भवान् ॥ ६२ ॥
अर्थदानदलितार्थिदुःस्थितिं खां विना विनयनम्र संप्रति ।
मृज्यते जगति केनचित्सतां वस्तुपाल न कपालदुर्लिपिः ॥ ६३ ॥
गोमयरसानुलिप्ते कीर्तिसुधाधवलिते च भवनगृहे ।
श्रीवस्तुपाल भवतश्चकास्ति चित्रं चरित्रमिह ॥ ६४ ॥
पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता
गङ्गावीचिभिरर्चिता परिचिता दिग्दन्तिदन्तांशुभिः ।
कपूरैः परिशीलिता मलयजैरावर्जिता मण्डिता
डिण्डीरस्तबकैवकैरनुसृता मन्त्रीश कीर्तिस्तव ॥ ६५ ॥
८ । प्रवर्तमानेऽत्र कवित्वसत्रे सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमस्त सौवस्तिको गुर्जरनिर्जराणाम् ॥ ६६ ॥ कुमारपुत्रेण कुमारमातुः काव्यं तदेतज्जगदेकदेव्याः । श्रुतिस्मृतिव्याकृतियज्ञविद्याविशारदेन क्रियते स्म तेन ॥ ६७ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनानि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः ॥" इत्येतद्वन्थीयकविप्रशस्तिवर्णनात्मकपञ्चदशसर्गदर्शनतो गुर्जरेश्वरपुरोहितपदभूषि. तः श्रीसोमेश्वरदेवकविः श्रीमद्धितीयभीमदेवसभायां सभासद्गणं मण्डयामासेति प्रतीयते. श्रीमद्वितीयभीमदेवराज्यं च-A. D. 1179-1242 इति, किं च-सुरथोत्सवमहाकाव्यादत्र कीर्तिकौमुदीकाव्यस्य नरेन्द्रवर्णनात्मकद्वि- तीयस तु मूलराजादि-भीमदेवान्तं चौलुक्यवंशं वर्णयित्वापरशाखान्तरोद्गतम- र्णोराजादि-चीरधवलान्तं राजवंशवर्णनमधिकं खयमेव सोमेश्वरदेवो वर्णयामास. तथाहि- “अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः । अर्णोराजः स राजर्षिस्तन्नामर्षत विप्लवम् ॥ ६२ ॥ तत्पुत्रः प्रसरत्कीर्तिपताकाचुम्बिताम्बरः । श्रीलावण्यप्रसादोऽस्ति प्रासादः शौर्यसंपदः ॥ ६७ ॥ श्रीवीरधवलस्तस्य सूनुवीरशिरोमणिः । युद्धे जयश्रिया धन्वज्यारावैराजुहाव यः ॥ ७६ ॥” इति. अपि च-"श्रीहर्षवंशे हरिहरो गौडदेश्यः सिद्धसारखतः, स गुर्जरधरां प्रत्यचालीत् । अश्वशतद्वयम् , मानवानां शतपञ्चकम् , करभाः पञ्चाशत् , अनिवारमन्नदानं धवलक्ककतटग्राममागात् । राणश्रीवीरधवल-श्रीवस्तुपाल-श्रीसोमेश्वरदेवेभ्यः पृथक्पृयगाशीर्वादं प्रगल्भबटुहस्तेन प्राहेषीत् । श्रीवस्तुपालो जहर्ष । उत्थाय वढं सह नीत्वा श्रीवीरधवलाय पण्डितस्याशीर्वादमदीदृशत्. तद्गुणांश्चाववर्णत । राणके- नोकम्-'किमत्र युक्तम् ।' मन्याह-देव, विस्तरेण प्रातः पण्डितस्य प्रवेशोत्सवः क्रियते, विपुलं देयं दीयते।' राणकेनोक्तम्- दीयते।' राणकेनोक्तम्-'न्याय्यम् ।' ततो निवृत्तौ मन्त्रिराजैश्च बटुना तृतीय आशीर्वादः पण्डितसोमेश्वरदेवायादार्श । तत्कवितया तस्य मात्सर्यमदी- पिष्ट । स निश्वासमाधा[या]द्राक्षीत् । बटुमालापीत्- 'अपि न ।' गत उत्थाय बटुर्हरिह- रान्तिकम्. उक्तं राण[काय]'मन्त्रिणः सौमनस्यम् , सोमेश्वरदेवस्य दौर्मन- स्यम् ।' कुपितौ सोमेश्वरदेव-हरिहरौ । जातं प्रातः । राणकः समन्त्रिकः सचातु- वर्यः सर्वथा संमुखो गतः । मिलितो हरिहरस्तत्र वीरधवलं प्रति- १. कुमारनामकविदुषः पुत्रेण सोमेश्वरदेवेन. २. कुमारः स्कन्दस्तस्य मातुर्दुर्गायाः, मा 'शंभुर्मानससंनिधौ सुरधुनी मूर्ती दधानः स्थितः श्रीकान्तश्चरणस्थितामपि वहन्नेता निलीनोऽम्बुधौ । मनः पङ्करहे कमण्डलुगतामेनां दधन्नाभिभू- मन्ये वीर तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम् ॥ दृष्टस्तेन शरान्किरन्नभिमुखः क्षत्रक्षये भार्गवो दृष्टस्तेन निशाचरेश्वरवधव्यग्रो रघुग्रामणीः । दृष्टस्तेन जयद्रथप्रमथनान्निद्रः(१)सुभद्रापति- ईष्टो येन रणाङ्गणे सरभसश्चौलुक्यचूडामणिः ॥' बटुः पृष्टः पण्डितेन–'अत्र सदसि सोमेश्वरोऽस्ति न वा।' बटुराह–स क्रो- धान्नागतः।' पण्डितो ज्ञात्वास्मान्न जातः प्रवेशः। राणकेण दत्तं सौधधनकुप्यवसनप- रिजनतुरगादिचमत्कारकम् । अथ मन्त्रिगृहं गतोऽसौ । गुर्वी सभा । मत्र्यभ्युत्थानं चक्रे । ऊचे च- 'सुधा मधु मुधा शीधु मुधा सोऽपि सुधारसः । आस्वादितं मनोहारि यदि हारिहरं वचः ॥' पण्डित ऊचे-'देव, लघुभोजराजविचारचतुर्मुखसरखतीकण्ठाभरण, अवधारय । वयं पण्डिताः । अस्माकं माता भारती । सा च त्रिभुवनचारिणी । एकदा भारत्या सह महेन्द्रस्य सभामगमाम । तत्र च सुधर्मानाम इन्द्रः श्रीमान् ॥ कोट्यः सुराङ्गनाः सहस्राणि सामाजिकास्तथा। द्वादशार्का वसवोऽष्टौ विश्वेदेवास्त्रयोदश ।। षटत्रिंशत्तु' 'ताश्चैव षष्ठिराभा(?) स्थिरा अपि । षत्रिंशदधिका माहाराजिकाश्च शते उभे ॥ रुद्रा एकादशैकोनपञ्चाशद्वायवोऽपि च । चतुर्दश तु वैकुण्ठाः सुशर्माणः पुनर्दश । साध्याश्च द्वादशोत्पाद्याः प्रसिद्धा गणदेवताः ॥ वयं विस्मिताः स्थिताः । अहो तपःफलभोगः । अत्रान्तरे आगतस्तत्र कश्चन बुम्बा- वक्रः (2)- 'देव वर्नाथ कष्टं ननु क इह भवानन्दनोद्यानपाल: खेदस्तत्कोऽद्य केनाप्यहह हृत इतः काननात्कल्पवृक्षः । हु मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्या दृष्टोऽयमूळस्तिलकयति तलं वस्तुपालस्थलेन ॥' सु. २ १० एवं तत्रालापं श्रुत्वा विस्मितोऽहं भारत्या सह पञ्चमं कल्पद्रुमं त्वां द्रष्टुमागाम् । एवं सविस्तर काव्यं व्याख्याय स्थितः पण्डितः । मन्त्री यावत् 'किं ददामि' इति चिन्तयति, ताव- झोझीयवंश्यराणकभीमदेवेन जात्या वाहनोत्तीर्णाश्चतुर्विंशतिरश्वाः, एकं च दिव्यं पदकं प्राभूतमानीतम् । तदेव पण्डिताय सर्वे दत्तम् । तुष्टोऽसौ ‘पञ्चमः कल्पतरुर्भवसि' इत्युक्त्वा खोत्तारकमगात् । गतिस्थितिमतिज्ञः पण्डितो विलसति । गतेषु कतिपयेष्वहःसु मिलितायां महासभायां पुरःस्थे सोमेश्वरे राणकेन पण्डितहरिहर उक्तः–'पण्डित, अत्र पुरेऽस्माभिर्वीरनारायणाख्यः प्रासादः कारितोऽस्ति । तत्प्रशस्तिकाव्यान्यष्टोत्तरशतं सोमेश्वरदेवपार्धात्कारितम् । तत्र भवन्त इव दधतु । यथा शुद्धत्वे निश्चयो भवति । झानं महाल...."दृष्टी नाणकपरीक्षा यतः ।' हरिहरेणोक्तम्-'कथाप्यन्तां तानि ।' उत्तानि सोमेश्वरेण तानि । श्रुत्वा तानि हरिहर ऊचे-'देव, सुष्ठ काव्यानि । परिचितानि च नः । यतो मालवेषजयिनी गतैरस्माभिः सरस्वतीकण्ठाभरण- प्रासादगर्भगृहे पट्टिकायां श्रीभोजदेववर्णनाकाव्यान्यमून्युदध्रियन्त । यदि तु प्रत्ययो नास्ति, तदा परिपाट्या श्रूयन्ताम्' इत्युक्त्वा क्रमेणास्खलितान्यपाठीत् । खिन्नो राणकः । प्रीताः खलाः । व्यथिताः श्रीवस्तुपालाद्यः सजनाः । उत्थिता सभा । हत इव, मृत इब, स्तम्भित इव, जडित इव जातः सोमेश्वरः । गतः खगृहम् । हिया वदनं न दर्शयति गृहेऽपि, का कथा राजादिसदनगमनस्य । अथ श्रीसोमेश्वरः श्रीवस्तुपालमन्दिरं गत्वोवाच-'मन्त्रिन्, ममैवैतानि काव्यानि, नान्यथा । मम च शक्तिं जानासि । हरिहरस्त्वेवं मां व्यजूगुपत् । किमहं करोमि ।' मच्याह-'तमेव शरणं श्रय । यतः-'भजते विदेशमधिकेन जितस्तदनु प्रवेशमथ वा कुशल:' इति न्यायात् ।' पण्डितः 'तर्हि तत्र मां नय ।' तथा कृतं मश्रिणा । सोमेश्वरं बहिरासयित्वा मत्री खयं हरिहरान्तिकमगात् । बभाण च- 'पण्डितसोमेश्वरदेवस्तवान्तिकमागतोऽस्ति विज्ञीप्सुः ।' सहासो हरिहर आनाययत्व- समीपम् , चकाराभ्युत्थानालिङ्गनमहासनादिसत्कारम् । सोमेश्वरेणोक्तम्-'पण्डित, निस्तारय मामस्मात्परकाव्यहरणकलङ्कपङ्कात् । यतः- आगतस्य निजगेहमप्यरेौरवं विदधते महाधियः । सीनमात्मसदनं समीयुषो गीपतिळधित तुङ्गतां कवेः ॥' तुथे हरिहरः । भणति स्म-'मा म चिन्तां विधाः ।' पुनौरवमारोपयित्वा स्मित्वा ततो गतः स्वस्थानं मन्त्री सोमेश्वरश्च । प्रत्यूषे राणकसभान्तरे सोमेश्वर आइयितः। प्रस्तावनाचार'' 'यथा-'जयति परमेश्वरी भारती, यत्प्रसादादेवं मम शक्तिः।' श्रीवस्तुपालेनोक्तम्-'किं किम् ।' हरिहरः-'देव, मया कावेरीनदीतटे सारखतो मन्त्रः साधितः । होमकाले गीर्देवी प्रत्यक्षासीत् । 'वरं वृणीष्व' इत्याह स्म । मया जगदे- 'जगदेकमातर् , यदि तुष्टासि तदा एकदा भणितानां १०८ संख्यानामृचां षट्पदानां का- न्यानां वस्तुकानां धत्तानां दण्डकानां चावधारणे समर्थीभूयासम् ।' देव्याचष्ट-'तथास्तु ।' - ११ । - ततः प्रभृति यो यदाह १०८ तत्तढुवे । यथेदं सोमेश्वरदेवोपज्ञं काव्याष्टोत्तरशतम् ।' राणकेनोक्तम्-'प्रत्ययः कार्यताम् ।' हरिहरः-'कार्यताम् ।' भाणितानि अष्टोत्तर- शतानि तत्तच्छन्दसाम् । प्रतिभणितानि च हरिहरेण तानि । जातो निश्चयः । पण्डित- हरिहरवचने क्षुत्तृष्णातपःप्रभृतिचिन्तानपेक्षः स्थितो लोकः । राणकेश्वरेण बभाणे- 'तर्हि पण्डित, कथमेवं दूषितः सोमेश्वरः ।' हरिहरः प्राभाषत-'देव राणेन्द्र, पण्डिते मय्यवज्ञा दधे । तत्फलमिदं ददे । यतः- प्रियं वा विप्रियं वापि सविशेषं परार्पितान् । प्रत्यर्पयन्ति येनैव तेभ्यः साप्युवरा'...॥' राणकः प्राह-'तर्यस्त्वेवम् । परं मिथः सरखतीपुत्रयोः स्नेहो युक्तः ।' इत्युक्त्वा कण्ठग्रहणमकारयत् । स्थितो निष्कलङ्कः सोमेश्वरो वर्तते । नित्यमिष्टगोष्ठी हरिहरो नैषधकाव्यान्यवसरोचितानि पठति । श्रीवस्तुपालः प्रीयते-'अहो, श्रुतपूर्वाणि कुत्र- त्यान्यमूनि काव्यानि ।' एकदालापितो हरिहरः-'पण्डित, कोऽयं ग्रन्थः।' पण्डितो वदति-'नैषधं महाकाव्यम्।' 'कः कविः । श्रीहर्षः।' वस्तुपालेन गदितम्-'तदा- दर्श दर्शयत । तर्हि पण्डितो ब्रूते-'नान्यत्रायं ग्रन्थः । चतुरो यामानर्पयिष्यामि पुस्तिका- म् ।' अर्पिता पुस्तिका । रात्रौ सद्योलेखकनियोगिभिर्लेखिता नवीना पुस्तिका जीर्णरज्ज्वा- वृता वासन्यासेन धूसरीकृत्य मुक्ता । प्रातः पण्डिताय पुस्तिका दत्ता-'गृह्यतां तदिद खनैषधम् ।' गृहीता पण्डितेन पुस्तिका । मन्त्रिणा न्यगादि-'अस्माकं कोशेऽपि किलास्ति वेदशास्त्रम्, इति स्मरामः । विलोक्यतां कोशः । यावद्विलम्बेनेव कष्टानदीन- प्रति (?) यावच्छोध्यते, तावत् 'निपीय यस्य क्षितिरक्षिणः कथा-' इत्यादिनैषधमुद- घटिष्ट । दृष्ट्वा पण्डितहरिहरेणोचे–'मन्त्रिन् , तवैव मायेयम् । यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः । युक्तं वया दण्डिताः प्रतिपक्षाः । स्थापितानि जैन-वैष्णव-शैवशासनानि । उदश्चितः खामिवंशः; यस्यैवं प्रज्ञा प्रकाशते।' अत्रान्तरे वीरधवलप्रहितसैन्यचम्पितेन महाराष्ट्रप्रभुणा सपादकोटिप्रमितो दण्डः प्रहितः । श्रीवस्तुपालेन तद्धेम चतुर्दिग्यात्रिकेभ्योऽदापि विवेकात् । तदृष्ट्वा हरिहरो वर्णयति- 'आः साम्यं न सहेऽहमस्य किमपि क्रोडीकृतैकश्रिया यत्रोत्तानकरेण खर्वितनिजाकारोष्मणा शांङ्गिणा । येनैताः पुरुषोत्तमाधिकगुणोद्गारेण युद्धार्णवा- दाकृष्यैव तथा श्रियः सकलशाः कृत्वार्थिनामर्पिताः ॥' तदा वीरधवलस्य 'सपादकोटिकाञ्चनवर्षः' इति भट्टादिषु बिरुदं ख्यातिमायातम् । अथ हरिहरः सोमेश्वरं नन्तुं गतो देवपत्तनम् । तत्र पण्डितसोमेश्वरदेवस्य तद्दौर्जन्यं स्मृत्वा विषण्णकाव्यं भणितम्- -- १२ 'क यातु, कायातु, क वदतु, समं केन पठतु, क काव्यान्यव्याज रचयतु, सदः कस्य विशतु, । स्खलढ्यालयस्ते जगति न गतिः क्वापि कृतिना- मिति ज्ञात्वा तत्त्वं हरिहरविमूढो हरिहरः ॥ आरुक्षाम नृपप्रसादकणिकामुद्राक्ष्म लक्ष्मीलवा- किचिद्वाङ्मयमध्यग्री(गी)महि गुणैः कांश्चित्पराजेष्महि । इत्थं मोहमयीमकार्म कियती नानर्थकन्थां मनः खाधीनीकृतशुद्धबोधमधुना वाञ्छत्यमापगाम् ॥' इत्युक्त्वा धनार्ध दत्त्वा शेषार्धे गृहीला धवलककमध्ये भूत्वा राणकमन्त्रिणा आपृच्छ्य काशीं प्राप्य स्वार्थमसाधयदिति हरिहरः।" इति जैनराजशेखरसूरिविरचितप्रबन्धकोशान्तर्गतहरिहरप्रबन्धकथादर्शनतः, कीर्तिकौमुदीकथादर्शनतश्च वीरधवले राजनि वस्तुपालेऽमात्ये सति गुर्जरे- श्वरपुरोहितपदमण्डितः श्रीसोमेश्वरदेवः सभामण्डपमण्डन आसीदिति प्रतीयते । वीरधवलराज्यं च-A. D. 1219-1239 (?) इति. "अणहिल्लपत्तनासन्नं वाघटं नाम स्थानमास्ते चतुरशीतिमहास्थानानामन्यत- मत्(म्) । तत्र परपुरप्रवेशविद्यासंपन्नश्रीजीवदेवसूरिसंताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम प्रज्ञालचूडामणिः । स जिनदत्तसूरिभक्तात्कविराजा- दमरसिंहात्सिद्धसारखतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कौष्ठागारि- कस्य पद्मस्य विशालतमे सदनैकदेशे विजने एकविंशत्या वाग्ल()निद्राजयास(श)नज- यकषायजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं च चक्रे । एकविंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्युदिताञ्चन्द्रविम्बानिर्गत्य स्वरूपेणागत्यामरं भारतीकरकमण्डलु- जलमपीप्यत् , वरं च प्रादात्-'सिद्धकविर्भव । निःशेषनरपतिपूजागौरवितश्चैधि ।' इति वरं दत्त्वा गता भगवती । जातः कविपतिरमरः । रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली मुक्तावली च, कलाकलापाख्यं च शास्त्रं निबद्धम् , बालभारतं च । बालभारते च प्रभातवर्णने- 'दधिमथनविलोलल्लोलदृग्वेणिदम्भा- दयमदयमनङ्गो विश्वविश्वकजेता । भवपरिभवकोपत्यक्तबाणः कृपाण- श्रममिव दिवसादौ व्यक्तशक्तियनक्ति ॥' (आदिपर्व-स० ११ श्लो० ६) इत्यत्र वेण्याः कृपाणत्वेन वर्णनात् 'वेणीकृपाणोऽमरः' इति बिरुदं कविवृन्दाल- ब्धम् , दीपिकाकालिदासवत् , घण्टामाधववच्च । कविप्रसिद्धेश्च महाराष्ट्रादिनरेश्व- १३ राणां पूजा उपतस्थिरे । तदा वीसलदेवो राजा गुर्जराधिपतिर्धवलकके राज्यं प्रशास्ति । तेनामरकवेर्गुणग्रामः श्रुतः । ठकुरं वइजलं(?) प्रधानं प्रेष्य प्रातरादूतः कवीन्द्रः । आसनादिप्रतिपत्तिः कृता । सभा महती । अमरेण पठितम्- 'वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं निकारं मयि प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृह्याशया। श्रीमद्वीसलदेव देवरमणीवृन्दे त्वदायोधन- प्रेक्षाप्रक्षुभिते विमुञ्चति परीरम्भान्न रम्यां हरिः ॥ त्वत्प्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेक- क्रीडत्कीलालकुल्यावलिभिरलभत स्पदसा(?)कन्दमुर्वी । दम्भोलिस्तम्भभावद्भुजभुजग' द्भर्तुराभर्तुरेनां तेनायः(१)मूर्ध्नि रजातिततिमिषतः शोभते शोणभावः ॥' रञ्जिता सभा । प्रीणितः पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-'यूयं कवीन्द्राः श्रूयध्वे ।' अमरोऽभिधत्ते-'सत्यमेव यदि गवेषयति देव: ।' ततो नृपेण सोमेश्वरदेवे दृष्टिः संचारिता । ततः सोमेश्वरेण समस्यार्पिता । यथा- 'शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः।' अमरेण सद्यः समस्या पूरिता- 'कैषा भूषा शिरोक्ष्णां तव भुजगपते रेखयामास भूत्या द्यूते मन्मूर्ध्नि शंभुः सदशनवशता(९१०)नक्षपातान्विजित्य । गौरी त्वाना दृष्टिर्जितनखनवभू(१९२०)स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवतिरभुल्लोचनानामशीतिः ॥' (अत्र शिरोक्ष्णामिति शिरसा युक्तानामक्ष्णामिति मध्यमपदलोपी समासः कार्यः । द्वन्द्वे तु प्राण्यङ्गलादेकलं प्राप्नोति ।) ततो वामनस्थलीयकविसोमादित्येन समस्या दत्ता- 'धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ।' अमरेणोक्तम्- 'भवस्याभूद्भाले हिमकरकलाग्रे गिरिसुता- ललाटस्याश्लेषे हरिणमदपुण्डप्रतिकृतिः । कपर्दस्तत्प्रान्ते यदमरसरित्तत्र तदहो धनुष्कोटौ भृङ्गस्तदुपरि गिरिस्तत्र जलधिः ॥' ततः कृष्णनगरवास्तव्येन कमलादित्येन समस्या वितीर्णा- 'मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् ।' १. अयं टिप्पणिस्थः पाठो मूले केनचित्प्रक्षिप्तो भवेत्.
१४ भ्रमरेण पुरे- 'नटविपिनविहारोच्छृङ्खलं यत्र यादो- मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् । बत बक न कदाचितिं श्रुतोऽप्येष वार्धिः प्रतनुतिमिति तल्ले वापि गच्छ क्षणेन ॥' अथ वीसलनगरीयेण नानाकेंन समस्या विश्राणिता- 'गीतं न गायतितरां युवतिर्निशासु ।' अमरेण पूरिता- श्रुत्वा वनेमधुरतां सहसावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मागान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥' एक्मष्टोत्तरं शनं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो गज्ञाभिहितम्-'सलं कविसार्वभौमः श्रीअमरः । तत्र दिने संध्यावधि सभा निषण्या स्थिता । राजा लचितः सभ्यलोकोऽपि । रसावेशे हि कालोऽ गच्छन्नपि न लक्ष्यते । द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यानैः प्रमाणिका जिताः । तृतीयदिने राज्ञा पृष्टम् -'अम्माकं संप्रति का चिन्तास्ति' इति कथ्यताम् । अमरेण भणितम्-'देव, कथ दूर गता । स्वर्गे ऐरावणस्य दक्षिणकर्णे लुकिता।' भूपतिः खरग्वा(?)दमोदत । शिरो- ऽधुनोत् । निलं गमनागमन] जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति । एकदा नृपेण पृटम् -'भवतां कः कलागुरुः।' अमरेण गदितम्-'अमरसिंहः कविराजः' इति । राजाह-'तर्हि प्रातरानेयः ।' अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । नहा राजा सर्न श्रमयन्नास्ते । राज्ञा पृष्टम् -'अयं कविराजः ।' कविराजेन व्याजहे- 'ओम्' इति । राजाह –'तर्हि वद कालोचितं किंचित् ।' अमरसिंहः कवयति- 'त्वत्कृपाणविनिर्माणशेषद्रव्येण वेधसा । कृतः कृतान्तसर्पस्तु करोद्वर्तनवर्तिभिः ।। अच्छाच्छाभ्यधिकापणं किमपि यः पाणे: कृपाणे गुणः संचक्राम स यद्ददौ ग्रुपदवीं प्रत्यार्थिषु क्ष्मार्थिषु । तत्सङ्गान स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां पृष्टेषु खमपि प्रकाममुदितप्रोदामरोमोद्गमः ॥ कलयसि किमिह कृपाणं वीसल बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां न चैष लवयितुमसमर्थः ॥ देव त्रं मलयाचलोऽसि भवतः श्रीखण्डशाखी भुज- स्तत्र क्रीडति कजलाकृतिरसिद्धा(र्धा)राद्विजिह्वः फणी ।
१५ एष वागमनर्गलं रिपुतरस्कन्धेषु संवेष्टय- न्दीर्घ व्योमविशा(सा)रि निर्मलयंशोनिर्मोकमुन्मुञ्चति ॥' अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः । ग्रासो महान्प्रत्यष्ठा- पि। एकदा श्रीवीसलदेवेन भोजनान्ते तृणं करे धृत्वामरसिंहोऽभिदधे-'इदं तृणं सद्यो वर्णय । यदि रुचितभङ्ग्या वर्णयसि, तदा ग्रासद्वैगुण्यम् । अन्यथा सर्वग्रास- त्याजनम् ।' इत्युक्तिसमकालमेवाहतप्रतिभतया स ऊचे--- 'क्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रं क्षयीन्दुर्मुधा प्राहुस्तत्र सुधामियं तु दधतु जैत्रस्ते ? वलीलातृणे । पीयूषप्रसवो गवां यदशनाब्द(६)त्वा यदास्ये निजे देव त्वत्करवालकालमुखतो निर्याति जातिर्द्विषाम् ॥' ध्वनितो(?) भूपालः । ग्रासद्वैगुण्यं कृतम् । कालान्तरे अमरेण कौष्ठागारिपद्मान- न्दाख्यं शास्त्रं रचितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनम् ॥ इत्यमरचन्द्रकवि- प्रबन्धः ॥" इति जैनराजशेखरसूरिनिर्मितप्रबन्धकोषान्तर्गतामरचन्द्रकविप्रबन्धलेख- समालोचनतः श्रीसोमेश्वरदेवः श्रीवीसलदेवराजसभामण्डलं मण्डयामासेति निश्चीयते । वीसलदेवराज्यसमयस्तु-'स्वस्ति श्रीमद्विक्रमकालातीतसप्तदशाधिकत्रयोदशश- तिक(१३१७)संवत्सरे लौकिकज्येष्ठमासस्य कृष्णपक्षचतुर्थ्यां तिथौ गुरावयेह श्रीमदणहि- ल्लपाटके समस्तराजावलीविराजितपरमेश्वरपरमभट्टारक-उमापतिवरलब्धप्रसादप्रौढप्रता- पचौलुक्यकुलकमलिनीकलिकाविकासमार्तण्ड-सिङ्घणसैन्यसमुद्रसंशोषणवडवानल-मा- लवाधीशमानमर्दन-मेदपाटकदेशकलुषराज्यवल्लीकन्दोच्छेदनकुद्दालकल्प-कर्णाटराज- जलधितनयाखयंवरपुरुषोत्तम-भुजबलभीम-अभिनवसिद्धराज-अपरार्जुन-इत्यादिसकल- बिरुदावलीसमलंकृतमहाराजाधिराजश्रीमद्वीसलकल्याणविजयिराज्ये तदनुशासनावर्तिनि महामात्यश्रीनागडे श्रीश्रीकरणादिसमस्तमुद्राव्यापारान्परिपन्थयतीत्येवं काले प्रवर्तमानेऽस्यैव परमप्रभोः श्रीमहाराजस्य प्रसादपत्तलायां वर्द्धिपथके भुज्यमानमण्डल्यां जयश्रीनिर्भ- रालिङ्गितशरीरो महामण्डलेश्वरराणकश्रीसामन्तसिंहदेवो नगरपौरानन्यानपि सर्वा- नधिकृत्य सर्वेषां विदितं पत्रशासनं प्रयच्छति, यथा-यन्मया महादानोदकप्रक्षा- लितवामेतरकरतलेन परमधार्मिकेण पूना तीर्थपुण्योदकैः स्नात्वा शुक्लवाससी परि- धाय चराचरत्रिभुवनगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य संसारासारतां विचिन्त्य नलिनीदलगतजलवत्तरलतरं जीवितव्यमी(मैश्वर्यं चावगम्य ऐहिकं पारत्रिकं च फलम. ङ्गीकृत्य-' इति Dr. G. Bihler, Ph. D., L.L. D., C. I. E. महा- शयवरैः Indian Antiquary-Vol. VI. P. 210-12 प्रदर्शितदानपत्रतः श्रीमद्वीसलनरपतिराज्यं त्रयोदशख्रिस्तशतके निश्चीयते. तत्रापि A. D. 1243- १६ nbaca क 1, 21-2 वि० सं० १३००-१८) वीसलनरपते राज्यमिति Dr. G. Biolor, Ph. D.. L. L. D., C. I. E. महाशयसिद्धान्तः. डॉक्टर-रा- मकृष्ण-गोपाल-भाण्डारकरीय १८८३-८४तमवर्षीय रिपोर्ट'पुस्तके तु ३१८ पृष्ठे १. पृष्ट च, १३०२ (विक्रम) वर्षे वीसलदेवस्थाप्य वर्ष १८ राज्यं कृतम्' एव च श्रीमद्भीमदेवराज्यसमयम् A. D. 1179 आरभ्य श्रीमद्वीसलदेवरा- ज्यममय A. D. 1262 पर्यन्तं साधारणतया श्रीसोमेश्वरदेवस्य सत्ताप्रतीतिः. एतेन त्रयोदशास्त्रस्तशतकानेश्चितस्थितिर्गुजरेश्वरपुरोहितपदमण्डितः श्रीसोमे- श्वरदेवकनिर्भीमदेववीसलराजधानीमलंकुर्वाणस्त्रयोदशख्रिस्तशतके सुरथोत्सवं नाम महाकाव्य निर्मितवान् । अनेनैव कविवरेण सुरथोत्सव-कीर्तिकौमुदी-ग्रन्थद्वयातिरि- कम् अन्यप्रकाशटीका, काव्यादर्शः, रामशतकम् , इत्येतद्रन्थत्रयमपि निर्मितमिति Catalogies Catalogorum पुस्तके Dr. Theodor Aufrecht महा- - - नदेनस्य सुरथोत्सवनान्नो महाकाव्यस्य पुस्तकद्वयमस्माभिः संगृहीतम् । तत्र च- क-सहक स्वयांतमहामहोपाध्याय-पण्डितदुर्गाप्रसादसरखतीसदनस्थम् । ख-संज्ञक पुश्वपत्तनग्रन्धसंग्रहालयस्थम् । एव पुस्तकबाधारेण शोधितमुद्रितेऽप्यस्मिन्प्रन्थे यत्र कुहचनाशुद्धिरस्मदोषादक्षर- योजकदोषाहा स्थिता जाता वा भवेत्तत्सुहृदयहृदयाः संशोधयन्तु । यतः- गच्छतः स्खलनं वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ इति प्रार्थयत:- पण्डित-शिवदत्त-काशीनाथौ । -- स.र. काव्यमाला। श्रीसोमेश्वरदेवविरचितं सुरथोत्सवम् । प्रथमः सर्गः। श्रीकण्ठकान्तास्तु सतां सुखाय नखेन्दुकान्तिच्छरितो यदङ्गिः । हसन्निवाभाति महेन्द्रहेतिमखण्डितोद्दण्डलुलायलोमाम् ॥ १ ॥ स वः शिवायाश्चरणः श्रियेऽस्तु रक्ताक्षरक्तोक्षितमाहवे यम् । प्रक्षालयन्ति स्म समं नमन्तः प्रमोदबाष्पाम्बुभिरेव देवाः ॥ २ ॥ दन्तान्तरालप्रणयीनि युद्धाजिरेऽर्धजग्धान्यपि जङ्गलानि । कनिष्ठिकाग्रेण किलाकृषन्ती भद्राणि वः पुष्यतु भद्रकाली ॥ ३ ॥ मीनध्वजप्रज्वलनापराधात्पुरः पुराणां प्रणमत्यमित्रे । रतेर्मुखं स्मेरमुपाजिगाय(?) विलोकयन्ती गिरिजा मुदेऽस्तु ॥ ४ ॥ सा वः शिवायास्तु शिवा यदीयसाकूतदृक्पातगुरुं गिरीशः । नाद्यापि जीर्ण जरयत्युदीर्णमन्तर्विकुर्वाणमयुग्मबाणम् ॥ ५ ॥ सरखतीपाणिसरोजवीणा प्रीणातु सा वः सरसं रसन्ती । यतः सुतेव श्रवणामृतोमिर्जिह्वासु वासं कुरुते कवीनाम् ॥ ६ ॥ जगत्रयेऽपि त्रिजगत्सवित्री दधातु धातुर्दुहिता हितानि । यत्पादपद्मद्वयसेवयेव कवित्वमापद्यत मीन(?)हंसः ॥ ७ ॥ दुग्धादभिव्यक्तवपुः सुधायाः स्वसा च मिश्रा मधुनाशनेन । कृताधिवासा कमलैरितीव या लोभनीया जगतां स्तुमस्ताम् ॥ ८ ॥ १. जलपक्षित्वम् . २. दुग्धसमुद्रादुत्पन्ना; दुग्धोज्ज्वलवपुश्च. ३. विष्णुना; मधु- रभोजनेन च.
२ काव्यमाला । पुनर्भवक्लेशविनाशिनीनां पन्थाः श्रुतीनामुपतिष्ठते यम् । नतोऽस्मि हृल्लोचनगोचराय कस्मैचिदस्मै परमेश्वराय ॥ ९ ॥ श्रुतिस्रवन्तीनगनायकाय पितामहाय प्रणतोऽस्मि तस्मै । वाग्देव तां विष्टपमातरं यः सृष्ट्वापि मातामहतामवाप ॥ १० ॥ क्षमावतामाद्यतमाय तस्मै विश्वैकनाथाय नमस्करोमि । वक्रं च पादैरपि च स्पृशन्तं दोषाकरं यः शिरसा विभर्ति ॥ ११ ॥ स्मरद्विषः पातु शिरःसरिद्वः कृशं वपुर्यत्सविधे दधानः । दुःखेन सख्युः कुसुमायुधस्य तपस्यतीवोर्ध्वकरः सुधांशुः ॥ १२ ॥ उग्रः वयं गेहवती च चण्डी पुत्रोऽग्निभूः संनिहिता द्विजिह्वाः । एवंप्रकारोऽपि परं य एकः कल्याणहेतुर्जगतां स पातुः ॥ १३ ॥ वन्दे सदैकं शिवयोः शरीरं यद्वामभागे कुचकुम्भदम्भात् । अवाप्तमृत्युर्युधि लिङ्गरूपी वीरः स्वयंभूरुदभून्मनोभूः ॥ १४ ॥ धातायमेकः पततामिहेति मत्वेव पत्या पततां श्रितो यः । मुदे स देवोऽस्तु सदा मदान्धदैतेयदन्तीन्द्रहरिहरिवः ॥ १५ ॥ पादानदध्ने विदधत्पयोधौ कलिं स कोलः कुरुतान्मुदं वः । दंष्ट्राविलग्नामवनि विवेद यस्तत्कृताभिः स्तुतिघोषणाभिः ॥ १६ ॥ पुस्केसरी पातु स वः स्त्ववार्थमायःसु(१) यस्य त्रिदशेषु हर्षात् । गन्धोपलम्भेऽपि भयान्निवृत्तं शश्वन्मदेन द्विरदाननेन ॥ १७ ॥ स पातु गोवर्धनभारखिन्नयदङ्गसंवाहनकैतवेन । गोप्यो गुरूणां पुरतोऽप्यशङ्कमवापुराश्लेषसुखं स्मरार्ताः ॥ १८ ॥ राधास्तु सिद्धथै रतिविग्रहे या प्रत्तं प्रियेणाधरमित्यपास्थत् । प्रयच्छ तस्मै तव चक्रिणोऽपि प्रतिग्रहेऽसिन्रुचिरस्ति यस्याः ॥ १९॥ श्रियेऽस्तु रामस्तव यः पलाशसमित्समिद्धे निजशौर्यवह्नौ । दशास्यराज्यं सुरभीदमाज्यमिवासिजुह्वा जुहवांचकार ॥ २० ॥ १. ज्ञानगम्याय. २. इह संसारे पततामयं विष्णुरेको धाता धारक इत्यर्थः। ३. वराहः. ४. तैलिकप्रतिग्रहोऽतिनिन्दितः.
१ सर्गः सुरथोत्सवम् । वन्दे विदेहाधिपतेस्तनूजां यस्याः परित्यागकथाप्रथासु । सा रामभद्रस्य यशःप्रशास्तिविश्वप्रियाप्यप्रियतां प्रयाति ॥ २१ ॥ भग्नोग्रधन्वा जनकोपकारी रामोऽस्तु भर्ता न तु रावणो मे । या नित्यमित्यर्थयते स गौरी गुरुः कथं स्त्रीषु न मैथिली सा ॥२२॥ लम्बोदरस्येन्दुसहोदरश्रीदन्तोऽस्तु संतोषसमृद्धये वः । मदस्रवन्तीसविधस्थितो यः सितच्छदस्य च्छविमाच्छिनत्ति ॥ २३ ॥ विलोलयन्मौलिमनेकवेलमनेकपास्यः समुपास्यतां सः । यः प्रत्यहं स्वप्रणतिप्रियेभ्यः प्रदातुमाकारयतीव सिद्धिम् ॥ २४ ॥ तन्मण्डलं चण्डरुचेः शुचं वश्छिनत्तु दैत्यारिपुरप्रतोली । यत्राङ्कुरश्रेणिनिमा विभाति भासां ततिस्तोरणमालिकेव ॥ २५ ॥ भावेन वन्देऽहमशीतरमि दत्ते नवं देहमदेहिनां यः । कृत्वा तमोहानिमुपस्करोति यः शान्तमोहानि च दिङ्मुखानि ॥२६॥ वीरः स्मरो भीरुपरिच्छदोऽपि वन्द्यः स यस्मादपि भस्मिताङ्गात् । शङ्के शशाङ्काभरणः सशको दुर्गाश्रयं मुञ्चति नाधुनापि ॥ २७ ॥ ताभ्यस्तिसृभ्योऽपि नमः श्रुतिभ्यः श्रेयःसुता(?)न्यजनितान्दधाना । महामुनीनां किल मण्डलीयमालम्बते बालकपालकत्वम् ॥ २८ ॥ जयन्ति विश्वत्रयहेतवस्ते येषां बहूनां मुखमेकमेव । जयत्यसावप्यवितर्त्यमूर्तिरेकस्य भूयांसि मुखानि यस्य ॥ २९ ॥ मुख्यं मुनीनामिव तं कवीनां नमामि येनागमकोविदेन । स्वकाव्यदेवायतनेऽधिदेवी प्रतिष्ठिता राघवकीर्तिमूर्तिः ॥ ३० ॥ ऋचा रहस्य, यजुषां विवर्तः, सारं च साम्नां, धुरि बन्धुराणाम् । कृतिर्यदीया पृणति त्रिलोकीं तं सत्यवत्यास्तनयं स्तवीमि ॥ ३१ ॥ उपद्रुतद्रोणमपास्तसिन्धुराजं विराजत्पवनात्मजेन । सरामवृत्तं हरिवंशहारि रामायणं भारतवन्नतोऽस्मि ॥ ३२ ॥ यः प्राकृतोत्त्यैव महाकवीनामगौरवं देवगिरां चकार । बृहत्कथामस्य न मन्यते कः कवेर्गुणाव्यस्य बृहत्कथेति ॥ ३३ ॥ . १. हंसस्य. २. गजाननः.
काव्यमाला। सत्येन साहित्यरसेन सिद्धाः सत्यं सुबन्धुप्रमुखाः कवीन्द्राः । तथा ह्यदृश्येष्वपि येषु साक्षादाकर्ण्यते कर्णसुखा तदुक्तिः ॥ ३४ ॥ श्रीकालिदासस्य वचो विचार्य नैवान्यकाव्ये रमते मतिमें । किं पारिजातं परिहृत्य हन्त भृङ्गालिरानन्दति सिन्धुवारे ॥ ३५ ॥ शङ्के चिरान्माघमुरारिमुख्याः स्थास्यन्ति सुस्थाः सविध विधातुः । प्रवर्तिता यैर्निजवाग्विभूतिव्याजेन लोके मधुदुग्धकुल्याः ॥ ३६ ॥ सरस्वतीं शश्वदुपासते ये गृह्णन्ति नार्थानपि ये परेषाम् । वृत्ताश्च(?) वृत्तैर्यतिसेवितैयः किं मध्यमेभ्योऽप्यपरं कविभ्यः ॥ ३७॥ रसप्रधानैः कवितावितानैर्मान्या न मान्याः कवयो वयोभिः । तेजोविशेषान्मणयोऽहणीया भवन्ति न प्रस्तरवप्रथिना ॥ ३८ ॥ परस्य काव्यं खमिति ब्रुवाणो विज्ञायते यैरिह काव्यचौरः । विलोक्य माणिक्यमयोग्यहस्ते प्रत्येति को नाम यदेतदस्य ॥ ३९ ॥ काव्यं परोक्तैः क्रियते यदर्थैः कृतेन कस्तेन गुणोऽस्ति कर्तुः । यजीवतस्तस्य बहुश्रुतेभ्यः शङ्काविपन्नस्य न चात्र कीर्तिः ॥ ४० ॥ प्रणम्यतामस्खलितप्रवाहा सरस्वती सा कविपुङ्गवानाम् । अलब्धसंध्या(?) न खलु प्रवेष्टुं दुष्टैर्बकोटैरिव शक्यते या ॥ ४१ ॥ रसाश्रया वक्रतया च रम्या व्याकुर्वती काञ्चनकान्तिमुच्चैः । सूक्तिः कवेः कस्यचिदेव वक्रे विभाति दंष्ट्रेव किरीश्वरस्य ॥ ४२ ॥ किं सोऽपि काव्यस्वरसः प्रशस्यो यः पीयमानः श्रवणाञ्जलिभ्याम् । श्रोतुः प्रमोदाश्रुशिरःप्रकम्पैर्न दर्शयत्याशु वपुर्विकारम् ॥ ४३ ॥ जयन्ति ते सज्जनवारिवाहाः सर्वप्रमोदाय कृतोद्यमैर्यैः यवासकानामिव दुर्जनानां देहेषु दाहः परमुजिहीते ॥ ४४ ॥ खिन्नात्मनां निःश्वसितानिलेन दुःखानलेऽन्तवलितुं प्रवृत्ते । श्यामायमानानि मुखानि येषां धूमभ्रमं बिभ्रति ते नमस्याः ॥ ४५ ॥ अंगालिशालीनि समन्ततोऽपि च्छायामनूज्झन्ति मनोभिरामाम् । महात्मनामाननकाननानि न कस्य संतापभरं हरन्ति ॥ ४६ ॥ १. भगवतो वराहस्य. २. वृक्षाः.
१ सर्गः] सुरथोत्सवम् । ते केऽप्यभूवन्कृतिनः कृतार्थी कृत्वा भुवं यस्त्रिदिवं व्रजद्भिः । जाने जनानिष्टनिवारणाय स्वनामसंकीर्तनमत्र मुक्तम् ॥ ४७ ॥ इयं प्रवृत्तिर्महतां कुतस्त्या यदब्रुवन्तोऽप्युपकुर्वतेऽमी । विना प्रसूनानि फलप्रसूतिर्विलोकिता तैर्नु वनस्पतीनाम् ॥ ४८ ॥ चिरं परोक्ष(?)स्वनिजस्वभावाच्चलन्ति नैवोत्तमवंशजाताः । इतस्ततो वापि विधूयमानमङ्गेषु शैत्यं व्यजनं व्यनक्ति ॥ ४९ ॥ उपक्ष्यते यः खलमाक्षिपन्तं साधुर्मनोऽबुध्यत कारणं तत् । द्विजिहमेनं स यदेकजिह्वः प्रयुक्तिभिर्न क्रमते नियन्तुम् ॥ ५० ॥ क्षमामहंकारभरेण येषां पदानि चित्तानि च न स्पृशन्ति । तदेकसारैः कलहं कुलीनैः खलाश्चिकीर्षन्ति किमक्षमास्ते ॥ ५१ ॥ बभूव भूयस्त्वमसज्जनानां द्वित्रा धरित्र्यामपि हन्त सन्तः । पदे पदे सन्त्यथवा भुजङ्गाः कचित्तु संजीवनभेषजानि ॥ १२ ॥ अहो महामोहवतः खलस्य वियातता काचिदचिन्तनीया । अवर्णवादैकविशारदोऽसौ सर्वज्ञतामात्मनि मन्यते यत् ॥ १३ ॥ खलश्च खड्गश्च नहि स्वभावं जहाति कोशार्पणलालितोऽपि । यस्यातिमात्रं मलिनात्मकस्य परं द्विधा कुर्वत एव रागः ॥ १४ ॥ परक्षतक्षोदविनोदलीलाः खलाश्च काकाश्च यदृच्छयैव । पात्रेऽप्यपात्रेऽपि विगर्हणीयां वाचं च विष्टां च समुत्सृजन्ति ॥१५॥ हे चित्त चित्रैरिह विष्टपस्य दुश्चेष्टितैस्तैलिखितैः किमेतैः । यदन्यदोषेक्षणदक्षिणानां जिद्वैव वृत्तान्तपटः स्फुटोऽस्ति ॥ १६ ॥ वरं वराकः प्रकटापकारी गूढापकार्यप्रतिकार्य एव । दूरेण मुञ्चन्त्यनलं ज्वलन्तं च्छन्नं जनो वेत्ति तु दग्धपादः ॥ १७ ॥ शक्तोऽपि वक्तुं खलवत्कुलीनः परापवादान्न खलु व्यनक्ति । न ध्वाङ्मवत्तीक्ष्णतराननोऽपि कीरः करोत्यस्थिविघट्टनानि ॥ १८ ॥ न कस्य भीत्यै नृपतिप्रसादताम्बूलरक्ता रसना खलानाम् । अनन्तजन्तुक्षतनिःसृतासृक्कणारुणा सौनिककर्तरीव ॥ १९ ॥ १. 'उपेक्षते' इति स्यात्. २. 'जन' इति भवेत्. ३. क्षमैकसारैः. B -- काव्यमाला । स्वच्छस्वभावोऽपि भवत्यवश्यमन्यादृगन्यायिजनाश्रयेण । विषानुषङ्गेण हि जीवनीयं जीवापहाराय समुज्जिहीते ॥ ६० ॥ यः सर्वदा संसदि निर्मिमीते मर्मापिधानं जनतापहन्ता । स शस्यतामन्तरदुष्टभावः कुलोद्भवश्चाप्यकुलोद्भवश्च ॥ ६१ ॥ प्रायो वयं वेदविचारपारवश्येन काव्येन तथाभियुक्ताः । दुर्गेऽत्र मार्गे तदपि प्रवृत्ता नोपेक्षितव्याः कविभिः स्खलन्तः ॥ ६२॥ को वा करिष्यत्यपरः प्रबन्धमतिप्रबुद्धोऽप्यपशब्दशून्यम् । सर्गक्रमे सोऽपि कविर्यदाद्यः खलच्छलेन स्खलितान्यवाप ॥ ६३ ॥ चक्रे मया काव्यपरिश्रमोऽयं बहुश्रुतानामनुरञ्जनाय । न सूत्रमात्रार्थकथावबोधविदग्धताधःकृतवेधसां तु ॥ ६४ ॥ बभूव भूपः सुरथाभिधानश्चैत्रान्वये चैत्रसखोपमेयः । स्वनामसाम्याक्षमयेव युद्धे येनारिसैन्यं सुरथं न सेहे ॥ ६६ ॥ यं निर्विशेषात्स्म निषेवते श्रीरेकादशं श्रीदयितावतारम् । कीर्ण रजोभिः समराजिरोत्थैस्तुरङ्गमेधावभृथैश्च शुद्धम् ॥ ६६ ॥ निरन्धकारां कुरुते धरित्री काले रविवर्षति वारिदोऽपि । प्रवृत्तिरेतस्य सदातुदारु(?)निरन्तरायाभुवनावनाय ॥ ६७ ॥ धर्मक्षतेरेव भयं स्वभाववक्रप्रियः कार्मुकदण्ड एव । विपक्षलक्ष्मीग्रह एव लौल्यमदेयमासीद्यश एव यस्य ॥ १८ ॥ गच्छद्भिरिच्छाधिकमर्थदानैर्यस्याभिमानैकनिकेतनस्य । पश्चात्कृतः स्वीकृतिनिःस्वनानां दूरप्रयातोऽपि धनाभिलावः ॥ ६९ ॥ यत्कर्मकर्मोरगसूकरेन्द्राः कल्पद्रुचिन्तामणिकामगव्यः । संभूय कुर्वन्ति तदेक एव चक्रे महीचक्रशतक्रतुर्यः ॥ ७० ॥ यच्छन्नतुच्छं गजवाजिवृन्ददानं द्विजानामवहानवान्यः । भालस्थितां चन्दनपङ्कलेपच्छलेन दारिचलिपि लुलोप ॥ ७१ ॥ १. एतत्पद्यतः कथाया वर्णनारम्भः. २. चित्रागर्भजो यो बुधपुत्रः सप्तद्वीपाधि. पतिः सुरथपितामहो राजविशेषस्तस्य संततावित्यर्थः. ३. अनङ्गतुल्यः, - .
७
१ सर्गः]
सुरथोत्सवम् ।
विधाय साधूनधनान्विधाता जातानुतापः स बभूव सम्यक् ।
तेनात्र कल्पद्रुमकल्पमेनमेनस्तदुच्छेत्तुमिव व्यधत्त ॥ ७२ ॥
जडाः प्रजाः किं नु किमस्य कोऽपि प्रभोः प्रभावः सदृशं यदेताः ।
गुणानुषङ्गेण सितं यशश्च भुजद्वयं चासितमीडते स्म ॥ ७३ ॥
क्षीराम्बुराशेरिव भूरिसत्त्वादभूदितः कोऽपि यशःशशाङ्कः ।
यस्योदये स्वैरगतिविमुक्ता विरोधिनां कीर्तिभिरित्वरीभिः ॥ ७४ ॥
येषां यशोराशिरिह प्रशंसारसायनैर्यति नाधुनापि ।
तेषां गणे पार्थिवपुङ्गवानां यस्योपसंख्यानमकारि धीरैः ॥ ७९ ॥
येनार्जितं निर्जितवैरिणा तद्यशो यदन्तं व्रजदुर्वरायाः ।
आसीमपर्यन्तमिवानुगस्य(म्य) क्षीराम्बुराशि(शे)लते तरङ्गैः ॥ ७६ ॥
अज्ञा रसज्ञा मम देवि तस्मात्त्वमेव वाणि स्तुहि पाणिमस्य ।
यः पञ्चशाखोऽपि सहस्रशाखं दानश्रिया कल्पतरूं जिगाय ॥ ७७ ॥
वृषे निषण्णोऽपि हतारिकामोऽप्यन्यः पृथिव्यां परमेश्वरः सः ।
यदद्रिराजार्चितमझियुग्मं पुरानुरागश्च परश्चकासे ॥ ७८ ॥
आक्रम्य भूचक्रमशेषमेष तथा कथंचित्प्रभुतां प्रपेदे ।
मिथो यथैतेऽपि दिशामधीशा व्यवस्थिताः सीमि यदाज्ञयेव ॥ ७९॥
यद्वैरिणां काननशायिनां श्रीः संसर्यमाणा हृदयं ददाह ।
पार्श्वे लतासंस्तरसुप्तकान्तानिःश्वासवातप्रसरश्च पृष्ठम् ॥ ८० ॥
यतः क्रुधा भ्रूकुटिभुग्नभालात्पलायमानः प्रतिपक्षवर्गः।
क्रमागतां भूपतितामपास्य खिन्नां प्रियां भूपतितां तु दः ॥ ८१ ॥
अथैष सैन्यद्विपबृंहितेन निबंहिताशागजगजितेन ।
दिवस्पृथिव्योः प्रथयन्निनादा द्वैतं विजेतुं द्विषतः प्रतस्थे ॥ ८२ ॥
प्रसर्पतां तस्य तुरङ्गमाणां रेणुः करेणुद्युतिरुद्यतो यः ।
स एव लेभे क्लिशितारिदंशः प्रतापधूमध्वजधूमलीलाम् ॥ ८३ ॥
दूतैस्तदभ्यागमनप्रवृत्तौ निष्पादिता यामथ पार्थिवानाम् ।
खेदाम्भसा साध्वससंभवेन भग्नानि भालस्थलचन्दनानि ॥ ८४ ॥
८ काव्यमाला। J ' 1. प्रकुर्वतामाक्रमणं नृपाणां दर्पोल्बणानां फणिनामिवैषः । शिरांसि राजन्मणिमण्डनानि निस्त्रिंशदण्डेन नतिं निनाय ॥ ८५ ॥ सरोवराणीव विगाह्मवैरिराजन्यसैन्यानि लसद्रसानि । स पुण्डरीकाणि नृपप्रकाण्डमादत्त दन्तीव मदप्रदीप्तः ॥ ८६ ॥ प्रत्यर्थिदानोल्लसदङ्गराजपराजयद्योतितपाण्डुकीर्तिः । कृष्णं पुरस्कृत्य कृपाणदण्डं यहाहुराजौ विजयीबभूव ॥ ८७ ॥ तूणादुदस्ताद्धनुरन्वगच्छन्नितोऽपि याताः प्रतिपक्षवक्षः । पेतुः पृथिव्यामथ यस्य बाणाश्चिरं प्रतिष्ठा क्व नु निर्गुणानाम् ॥८६॥ उद्गच्छताविष्कृतपुष्करेण यस्यासिदण्डेन विकर्तनेन । सराजतेजःप्रसरा विरोधिसेना विनाशं रजनीव निन्ये ॥ ८९ ॥ चण्डस्वभावस्य चिकीर्षितं कः प्रभुनिषेद्धं यदसिस्तथा हि । न दानतः सत्स्वपि वारणेषु कोशानपेक्षी समितौ व्यरंसीत् ॥ ९ ॥ त्यक्तौ(क्त्वा) पुरः केऽपि नृपाः कृपाणममुं प्रणेमुः प्रणतानुकूलम् । अशक्तिभाजामियमेव मृत्युप्रतिक्रियाविष्कृतविक्रियेषु ॥ ९१ ॥ उपायनैजिमतङ्गजानां विजघ्नुरेके रणकेलिमस्य । स्थि(छि)त्वाङ्गुलीपर्व च कुर्वते स्म शेषाङ्गरक्षामपरे नरेन्द्राः ॥ ९२ ॥ यत्र यो मधिरूढवारणे वैरिणो रणभरात्पराङ्मुखाः । क्षत्रवृत्तिमपहाय कानने क्षेत्रवृत्तिमभजन्त जीवितुम् ॥ ९३ ॥ राजकृत्यमिदमित्यसौ कृती युद्धमूर्धनि नृपानपाय(त)यत् । संपदा पुनरनेकभुक्तया वेश्ययेव न वशी वशीकृतः ॥ ९४ ॥ वन्द्या कापि विदग्धतास्य नृपतेर्यस्मादथै (सौ) तद्भुज- द्वन्द्वेनैव चकार यत्किल हरिश्चक्रे चतुर्भिर्भुजैः । तद्वध्याः सुधियस्ततोऽपि यदमी युद्धोद्यतेऽत्र व्यधुः सर्वस्वैरपि दुष्करं निजपरित्राणं तृणैर्वक्रगैः ॥ ९५ ॥ बद्धाः केचन केंचन प्रणमिता दासीकृताः केचन क्षिप्ताः केचन केचन प्रशमिताश्चारोपिताः केचन । - .
२ सर्गः] सुरथोत्सवम् । भूपालाः करवाललालनकलासोत्साहबाहुद्वयी- दुःशीला अपि येन विश्वविजयव्यापारपारस्पृशा ॥ ९६ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये सुरथवर्णनो नाम प्रथमः सर्गः । द्वितीयः सर्गः। असंख्यसंख्यश्रमखिन्नसैन्यः सोऽयं नयर्विनिवारितोऽपि । विधिप्रणुन्नः प्रचचाल कोलाविध्वंसिनां ध्वंसधिया रिपूणाम् ॥ १ ॥ ते दुर्ग्रहास्तेन तरखिनापि ग्रहीतशैलाग्रभुवो बभूवुः । द्रुमाधिरूढेषु मनुष्यकेषु सिंहः सरोषोऽपि हि किं करोतु ॥ २ ॥ अथास्य लक्ष्मीमुपभोक्तुकामैरमात्यकैः कैश्चिदवंशजातैः । दत्तोपजापा रिपवो रजन्यामन्यायजन्यं सह तेन तेनुः ॥ ३ ॥ महाहवे तत्र महाभटेषु कूटप्रयुक्तिप्रतिसंहृतेषु । जवान्यवर्तन्त निवर्तयन्तः शेषां स्वसेनां पिशुनाः प्रभोस्ते ॥ ४ ॥ परैरवाप्तावसरैः स वीरो न खल्वसैन्योऽप्यवमन्यते स्म । ' स्पष्टुं कराग्रेण कृपीटयोनिः स्फुलिङ्गशेषोऽपि हि शक्यते किम् ॥५॥ मुमोच यावन्न च दोःसखोऽपि भूमि प्रतिज्ञामिव तां गृहीताम् । मातेव तावन्निजगोत्रदेवी खने समागत्य तमित्युवाच ॥ ६ ॥ एकोऽसि तत्संहर संपरायं प्रवीर मा पूरय वैरिकामान् । विधौ क्रुधा निम्नति निघृणे कः प्रति प्रहाराय समुज्जिहीते ॥ ७ ॥ तदर्थ(य)मेव त्वमलक्षितः सन्निमानि निर्वासय दुर्दिनानि । कालेन केनापि पुनः प्रतापी भविष्यसीति ब्रुवती तिरोऽभूत् ॥ ८॥ नृपोऽपि नातिप्रमनाः प्रभाते तां मन्यमानः कुलदेवताज्ञाम् । यथायथं मातृगृहाणि गन्तुं कथंचिदन्तःपुरमादिदेश ॥ ९ ॥ १. एतत्सारभूतं पद्यं तु 'खारोचिषेऽन्तरे पूर्व चैत्रवंशसमुद्भवः । सुरथो नाम राजा- सूत्समस्ते क्षितिमण्डले ॥' इति. २. कोला या सुरथराजधानी तां ये विध्वंसितुकामा- तेषाम्. २
१०
काव्यमाला।
--
न
--
M
अथात्मनस्तत्र तदीयमात्मबोधाय वित्तं परितापि भूयः ।
मिषेण शेषं च निषिध्य लोकमेको वनायाविदितः प्रतस्थे ॥ १ ० ॥
ततः श्रिया सद्मनि मुक्तयापि कान्तिच्छलेनैष निषेव्यमाणः ।
चित्ते सतामात्मगुणान्निधाय सत्रं ययौ सत्रसहस्रयाजी ॥ ११ ॥
द्रोहेण भर्तुः प्रतिगृह्य लक्ष्मी लब्धोत्सवास्ते सचिवा बभूवुः ।
तं नावजग्मुर्निजवंशनाशं नहीदृशं पश्यति तादृशां हकू ॥ १२ ॥
प्रवृत्तनृत्तासु लताङ्गनासु स्वनत्सु वातेन च कीचकेषु ।
तस्मिन्नुपेते नृपतौ वनं तदारब्धसंगीतमिवाबभासे ॥ १३ ॥
क तादृशं हन्त वराधिराज्यमरण्यवासः क्व च तादृशः सः ।
स्वप्नेऽपि यदुर्घटतामुपैति तदश्रमेणैव विधिविधत्ते ॥ १४ ॥
माद्यन्मयूरेषु वनान्तरेषु सलीलहंसेषु च सैकतेषु ।
मनोविनोदः कचनापि नास्य यूथादपेतस्य यथा द्वि[प]स्य ॥ १५ ॥
सायं तमिस्रोपचितं वनान्तमालोकयन्नश्रुविमिश्रकण्ठः ।
आध्यातसौधः कृतनीडसङ्गाम(न)सौ विहङ्गान्बहु मन्यते स्म ॥ १६ ॥
शय्या निकुञ्ज वसनं तरुत्वमित्रं मृगौघः फलमूलमन्नम् ।
वनेऽभवन्निविषयस्य तस्य मुनीश्वरस्येव महीश्वरस्य ॥ १७ ॥
विशन्वनादेष वनान्तराणि सान्द्रद्रुमश्रेणिनिरन्तराणि ।
भाति म भिन्नाञ्जनसंनिभानि घनादिवेन्दुर्घनमण्डलानि ॥ १८ ॥
अथाश्रम श्रान्तमनाः स नाथः क्षितेः क्षताधैर्मुनिभिर्महाघम् ।
ददर्श दर्शक्षणदासपक्षैः पवित्रितं होमहुताशधूमैः ॥ १९ ॥
गोसंगतिं नित्यमुपेस्त(त)वत्यः शुद्धाभिरिद्धा द्विजजातिभिश्च ।
यत्पर्णशालाः कमलासनस्य मुखाजसख्यं बिभरांबभूवुः ॥ २० ॥
निष्ठाप्रयोगेण गताः प्रतिष्ठां श्रद्धानुविद्धं विहिताग्निकार्याः ।
यत्रोजिहाना मुनयः परस्मैपदाय वैयाकरणा इवासन् ॥ २१ ।।
नीवारदानेन कुरङ्गकाणां सेकक्रियाभिर्वनवृक्षकाणाम् ।
यस्मिन्विवाहेन च माधवीनां हर्ष वहन्ति स महर्षिकन्याः ॥ २२ ॥
२ सर्गः]
सुरथोत्सवम् ।
सुवर्णलक्ष्मीललिताङ्गयष्टिः सरिद्वराम्भःपरिपूतपादः ।
श्यामद्युतिर्यत्र गणस्तरूणामुपेन्द्रमुद्रामुररीचकार ॥ २३ ॥
यत्र श्रुतीनां सततं श्रुतानि पदानि कीराः समुदीरयन्तः ।
दत्तोपदेशा इव तापसेन्द्रैः फलाशिनो विष्णुपदे विचेरुः ॥ २४ ॥
सूतिः श्रुतीनां रिपुरिन्द्रियाणां शुद्धेः समृद्धिः सदनं दयायाः ।
सरश्च संसारमरुस्थितानां तस्मिन्किलास्ति स्म मुनिः सुमेधाः ॥ २५ ॥
समित्कुशार्थं स कुशाग्रबुद्धिस्तपोवने तत्र कदाचिदञ्चन् ।
विलोकयामास विलोक्यमानं सातैम॒गैस्तं विधुरं धरेन्द्रम् ॥ २६ ॥
अदर्शि पूर्व प्रियदर्शनो यः स्तम्बरमस्तोममनोरमश्रीः ।
तमेकमालोक्य वने भ्रमन्तं ससंभ्रमान्तःकरणः स तस्थौ ॥ २७ ॥
तथा स्थितं वीक्ष्य तपस्विनाथं तेजोविशेषान्महनीयमूर्तिम् ।
राजा निजान्तःकरणप्रणुन्नः खमेष नाम प्रणयन्ननाम ॥ २८ ॥
उदस्तहस्तं मुनिमाशिषे तं नत्वा नृपेन्दुर्मुदितान्तरात्मा ।
आसेदुषीं वां श्रियमेष मेने सतां हि सङ्गः प्रतिभूर्विभूतेः ॥ २९ ॥
अथैनमानीय मुनिर्महीन्दुमुदीक्षणश्वापदमाश्रमं सः ।
चकार सत्कारमुदारबुद्धिर्मान्या महान्तश्युतसंपदोऽपि ॥ ३० ॥
पायेन पाद्यं प्रतिपादितार्घमर्येण चायं तमृषिर्महित्वा ।
विच्छायवक्राम्बुरुहं महेच्छः पप्रच्छ भूपं धृततुल्यखेदः ॥ ३१ ॥
नमन्नपश्रेणिशिरोमणीनां प्रभाभिरारुण्यमुपागतौ यौ।
पादौ किमेतौ तव हन्त धत्तस्तदेव दर्भाकुरकोटिरुग्णौ ॥ ३२ ॥
सेवागतैभरि निवारितैर्यदृष्टं न कष्टादपि भूमिपालैः ।
रजोभिरास्वादितघर्मतोयैः किमेतदासीत्कलुषं मुखं ते ॥ ३३ ॥
भूभारभुग्नस्य भुजङ्गभर्तुर्विश्रामविश्राणनविश्रुतो यः ।
विपद्वधूदत्तनखक्षताभैः स तेऽङ्कितोंऽसः किमु कण्टकात्रैः ॥ ३४ ॥
हृष्टैर्विसृष्टा समरे मरुद्भिः पपात यस्योपरि पुष्पवृष्टिः ।
किमेष मौलिर्मुकुटोचितस्ते चितस्तृणैर्भूतलतल्पलमैः ॥ ३५ ॥
काव्यमाला।
१२
नीलाइमलीलाह्य(म)भजत्सुवर्णे भुजे तव ज्याकिणकन्दली या ।
अङ्गेषु साधारणकाकि(लि)केषु विलोक्यते सा न पृथक्किमेतत्॥३६॥
इत्थं मुनीन्द्रेण मनोज्ञवाचा कृतानुयोगो युगदीर्घबाहुः ।
नृपस्त्रपाकुण्ठितकण्ठपीठः पूर्वानुभूतं निजगाद खेदम् ॥ ३७ ॥
श्रुत्वा नृपेन्दोर्विपदां निदानं राज्योत्सवं चास्य पुनर्विधित्सुः ।
समादधेऽसौ जनतोपतापसमापनैकव्यसना हि सन्तः ॥ ३८ ॥
साम्राज्यमेतस्य पुनः प्रदातुं सैव प्रभुः पर्वतराजपुत्री ।
ज्ञानादिति ज्ञाननिधिः स मत्वा वक्तुं ततः प्रक्रमते स्म तस्मै ॥३९॥
श्रेयोवियोगान्न हि खेदनीयं सर्वसहा हन्त यतो महान्तः ।
को नाम नास्यां विधिवागुरायां पपात मार्गन्नपि साधुमार्गम् ॥ ४०॥
अयो(गो)चरस्तस्य विधेः प्रचारो यः सजनानामथ दुर्जनानाम् ।
वर्णश्रिया संभृतमुत्तमाङ्गे खैरं विधत्ते मुकुटं कुटं वा ॥ ४१ ॥
न विक्रमं नाभिजनं न विद्यां न हृद्यतां नापि वयो न वृत्तम् ।
कृतप्रवृत्तिर्व्यसनाय पुंसामपेक्षते नैष विधिर्विपक्षः ॥ ४२ ॥
छिद्राणि साधुर्विदधाति नैव परप्रवेश्यानि भवन्ति यानि ।
केनाप्यसौ संव(च)रते कृतान्तश्छिद्रेण जानाति तदेव(ष) एव ॥४३॥
पुंसां यदासौ विरुणद्धि वेधास्तदा तुदत्येव यथा तथापि ।
तत्राप्यहो ये यममात्रमैत्रीशस्त्रार्पणं तस्य जिघांसतस्तत् ॥ ४४ ॥
शुभैकलभ्यामशुभेन लक्ष्मी ये केऽपि काङ्ग्रन्ति परीगृ(रिग्रहीतुम् ।
प्रकाशदृश्यां वनवर्तनी ते ध्वान्तेन निर्धारयितुं यतन्ते ॥ ४५ ॥
कामं कदाचित्कृतमेव वित्तं पुंसामसाधु खपुरस्क्रियाभिः ।
क्षुद्राभिरुन्मुद्रितमाश्रयान्तर्भवेन्न तन्मध्विव भद्रमन्ते ॥ ४६ ॥
अप्यल्पमादीनवमन्तरेण यः केवलं लोलतयैव मुक्तः।
शके तदकं पुनरप्युपैति जातानुतापेव समुत्सुका श्रीः ॥ ४७ ॥
प्रायः प्रशस्ताचरितेषु धाता धृतप्रकोपोऽपि मृदुत्वगर्भः ।
ग्रीष्मे यथा भीष्मरविप्रतापस्तथा घनच्छायपथद्रुमोऽपि ॥ ४८ ॥
२ सर्गः] सुरथोत्सवम् । १३ तद्भूपते भूतपतेः कलत्रं जगत्रयाम्बामविलम्बमानः । आराधयाराधकवत्सलासौ विधास्यते मङ्गलमञ्जसा ते ॥ ४९ ॥ या बीजमेकं जगतां गतान्यकृत्यैः कृता चेतसि योगिभिर्या । या देवतानामपि दैवतं च प्रभावमस्याः शृणु शर्वपत्न्याः ॥ ५० ॥ सन्त्येव सर्वत्र नृदेवदेवाः सेवानुरूपं फलमुत्सृजन्तः । परं परीष्या भजतामभीष्टमप्यल्पयानल्पमसौ प्रसौति ॥ ११ ॥ श्रवः प्रतिष्ठेऽपि हि तच्चरित्रे यं दुश्चरित्रास्तव दत्तवन्तः । दत्वा श्रियं सत्वधनोत्तमत्त्वत्तो ग्रहीष्यन्ति पुनस्तमाधिम् ॥ १२ ॥ तेनाथ नाथेन विशां विशेषात्कृताग्रहः प्राग्रहरो मुनीनाम् । उवाच देवीचरितं रदांशुखण्डैनिरस्यन्निव दुःखमस्य ॥ १३ ॥ सुन्दोपसुन्दप्रतिमावभूतामवन्ध्यकोपौ किल विन्ध्यशैले । दैत्येश्वरौ शुम्भनिशुम्भसंज्ञौ भुजावजेयाविव विक्रमस्य ॥ १४ ॥ तप्त्वा तपः पूर्वमपूर्वमेतौ प्रसादयामासतुरन्जयोनिम् । प्रीतेन तेनाप्यनयोर्वितीर्णमुदीर्णमाजौ मदबीजमोजः ॥ ५५ ॥ शुम्भः समासाद्य वरं विरञ्चेस्त्वष्टेव बिम्बं तुहिनेतरांशोः । प्रजेश्वरैरप्रतिकार्यमूळमुपप्लवं पप्लवयांचकार ॥ ५६ ॥ अत्याहिते हन्त नितम्बिनीनां गर्भश्रुतिः स्यादिति सत्यमेतत् । तथा हि रत्नानि मुमोच रत्नगर्भास्य विक्रामति वीरचक्रे ॥१७॥ विधूय सर्वामपि भूतधात्रीमुद्यद्रजोभूतिदुरीक्षणीयः । उत्पातवातोपममुत्पपात दैतस्ततो बाधितुमूर्ध्वलोकम् ॥ १८ ॥ उदीर्णमाकर्ण्य तमापतन्तमन्तःप्ररूढेन भयेन मूढः । प्रियासु गोत्रस्खलनापराधविलक्षवक्रेन्दुरभूदृभुक्षाः ॥ १९ ॥ आक्रम्यमाणा प्रसभोपभोगलोलेन खिड्गप्रतिमेन तेन । अगादवाग्गोचरमाकुलत्वं कुलाङ्गनेवामरराजधानी ॥६० ॥ दरेण दम्भोलिबलं विलय मघोनि जङ्घाबलमभ्युपेते । जहार हारीकृतबाष्पबिन्दूरिन्दीवराक्षीरसुरः सुराणाम् ॥ ६१ ॥ --- १४ काव्यमाला। समन्ततः संयमनीमनीकैर्मत्वा यदीयैर्विहितावरोधाम् । पत्या पितॄणां विषमस्थितेन वृथा विदभ्रे समवर्तिसंज्ञा ॥ ६२ ॥ पाशैः पुरा यः कृतवैरिनाशैरपामधीशः किल पाशवीरः । दैत्यादितः सोऽपि समीकसीनि पलायमानोऽजनि धीरपाशः ॥ ६३ ॥ यदस्त्रभीत्याधिपतौ निधीनां कैलासशैलाग्रनिकुञ्जभाजि । मुक्तालका प्रोषितभर्तृकेव न निवृति तज्जनता जगाम ॥ ६४ ॥ मा यक्ष इत्यक्षरयुग्ममस्तु मम प्रतीपं प्रतिदित्सतोऽस्मात् । एवं विदित्वेव धनाधिनाथो धनैरनैषीत्परितोषमेनम् ॥ १५ ॥ उत्सङ्गतः स्वप्रभवासु येन हृतासु हैमीषु लतासु तासु । मेरुर्मरुत्पातपतन्नमेरुपुष्पच्छलाबाष्पलवानमुञ्चत् ॥ ६६ ॥ आलानरज्जु निजकुञ्जराणां मायं करोन्मामिति शङ्कमानः । निगूढरत्नेषु शिरःसु शेषः शेषामिवाज्ञां वहति स्म यस्य ॥ १७ ॥ जगदिति दितिसंभवेन तेन प्रसभमभीतिमता जितं विचिन्त्य । सुरपतिरथ तत्प्रतिक्रियार्थ समममरैः सविधे विधेर्जगाम ॥ ६८ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये देव्याश्चरितनिवेदनो नाम द्वितीयः सर्गः । तृतीयः सर्गः। अथ ते मथितास्तेन दैतेयेनादितेः सुताः। पुरंदरं पुरस्कृत्य सद्म पद्मभुवोऽभ्ययुः ॥ १ ॥ सरागैरिव सारङ्गैः पीयमाना महर्षिभिः । उद्दिरन्तं गिरः खच्छा मेघमम्बुच्छटा इव ॥ २ ॥ बिभ्राणं पाणिपझेन बलक्षामक्षमालिकाम् । धार्यमाणं तयाप्यन्तः प्रीत्येव प्रतिबिम्बितम् ॥ ३॥ Licert-NEXTREAD
३ सर्गः]
सुरथोत्सवम् ।
१५
.
गलगङ्गाजलभ्रान्ति यानहंसस्य यच्छता ।
चामरेण सरस्वत्या वीज्यमानमनेकशः ॥ ४ ॥
जिताभिनवकौसुम्भैः शुभैर्वपुरभीषुभिः ।
प्रातस्तनस्य तन्वानं द्विर्भावमिव भास्वतः ॥६॥
प्रापितानि कृतार्थत्वं जाग्रता ज्ञानचक्षुषा ।
क्षिपन्तं च(दिक्षु चढूंषि नम्रामय(र)दिदृक्षया ॥ ६ ॥
विलोक्य तत्र सावित्रीप्रियं पिप्रियिरे सुराः ।
कस्य न स्फातिमायाति दृष्टिदृष्टे पितामहे ॥ ७ ॥
(षद्भिः कुलकम्)
हर्षाश्रुजलकल्लोलविलसत्पुलकाङ्करैः ।
स स्तुत्यः स्तोतुमारेभे रभसेन ऋभुजैः॥ ८॥
नमः समग्रवैचित्रीविधानोन्नेयशक्तये ।
शंभवेऽम्भोजतल्पाय संकल्पायातसिद्धये ॥ ९॥
श्रद्धया प्रेर्यमाणेयं वाणी मुक्ता(ग्धा) क्र(त्र)पावती ।
वचनातीत कान्तं ते माहात्म्यमभिलाषते ॥ १० ॥
तत्त्वस्यानवबोधेन नासंभावनया पुनः ।
असत्यमपि नः स्तोत्रं श्रुतिज्ञः श्रोतुमर्हसि ॥ ११ ॥
गिरां परिकरः सोऽयमास्साकः कोपयुज्यताम् ।
ओङ्कारेणापि यद्वाच्ये न गुणास्त्वयि यान्नुमः ॥ १२ ॥
समैव मूर्खतास्माकमपि विश्वविदा त्वया ।
यद्बोद्धं(टुं) त्वत्प्रभावान्तं न वयं न त्वमप्यलम् ॥ १३ ॥
एकः सृजसि पास्येक एकः संहरसि प्रजाः ।
अद्वितीयतयाक्लिष्टः किल त्वमवतिष्ठसे ॥ १४ ॥
धुमणिद्युतिना प्रादुर्भवता भवताद्भुतम् ।
सृष्टेरस्यादिमं स्रष्टः समाप्यततमां तमः ॥ १५ ॥
विद्याप्यविद्या नाकोऽपि नरको यदपेक्षया ।
मुनीन्द्रक्षुण्णवानं तं भवन्तं भवं विदुः ॥ १६ ॥
काव्यमाला।
चेतसश्चन्द्रमा जज्ञे जगच्चक्षुश्च चक्षुषः ।
प्राणतस्ते जगत्प्राणो मुखादग्निश्चतुर्मुख ॥ १७ ॥
चित्रीयते चरित्रेण तावकीनेन नैव कः ।
रजसैवं सुरश्रेष्ठ यहाल इव खेलसि ॥ १८ ॥
तल्कि यन्न त्वया चक्रे तकि येनासि नार्जितः ।
तकि यन्न ददासि त्वं तत्कि यत्र न विद्यसे ॥ १९ ॥
अद्य यो विद्यतेऽस्माकमानन्दस्त्वदवेक्षणात् ।
स नूनं मुनिसंवेद्य शतानन्देऽपि न त्वयि ॥ २० ॥
इति स्तुतिगिरः श्रुत्वा तेभ्यस्तामरसासनः ।
उवाच लोचनोत्क्षेपप्रत्यक्षीकृतविस्मयः ॥ २१ ॥
किमद्य यौगपद्येन यूयमाजग्म निर्जराः ।
निःश्वासधूमानुमितामितदुःखदवाग्मयः ॥ २२ ॥
विधातुमक्षमाणीव मन्दाक्षादीक्षणं मिथः ।
लक्ष्यन्ते शून्यलक्षाणि किमक्षीणि मरुत्वतः ॥ २३ ॥
अदम्भडिम्भसंरम्भकरम्भात्मभरे हरेः ।
किं शैलशूकरव्याधे व्याधामेध्यामला रुचिः ॥ २४ ॥
दुर्धराधरकम्पस्य कोपानलमनर्गलम् ।
किं विष्णोर्विवृणोतीदं हृदयं कौस्तुभच्छलात् ॥ २५ ॥
लुलाय लाञ्छनस्याय रिपुस्तोमतमोपहः ।
किं दिवा दीपवद्दण्डः खण्डितद्युतिरीक्ष्यते ॥ २६ ॥
महाविषाणां फणिनां कीनाशमहिषस्य च ।
पश्यामः श्यामलां कस्मादाकृति निकृतामिव ॥ २७ ॥
हेमदं फणिभिश्चित्रैरातपत्रमुपस्कृतम् ।
हे मदं यादसामीश किमद्य तनुते न ते ॥ २८ ॥
कुतः सुतः पुलस्त्यस्य वयस्यः परमेशितुः ।
विमानान्वित एवायमनासन्नेऽपि पुष्पके ॥ २९ ॥
३ सर्गः सुरथोत्सवम् । १७ विरोचनस्य रुक्कस्सादकस्मादवलोक्यते । भङ्गार्थेनैव निष्पन्ना न दीत्य(प्त्यर्थेन धातुना ॥ ३० ॥ औषधीनामधीशोऽपि किं शोकव्याधिबाधितः । मेघ करमरुन्मानमुकुरच्छविमाच्छिदत् ॥ ३१ ॥ किं कुरङ्गकुरङ्गस्य कुरङ्गोऽसौ श्वसन्मुहुः । विवृणोति कुतोऽप्युच्चैः पलायनपरिश्रमम् ॥ ३२ ॥ दूरादेतेषु शान्तालिवैतालिकवरेषु किम् । दिकुञ्जरकपोलेषु दुर्भिक्षं दानसंपदाम् ॥ ३३ ॥ शक्तिदण्डं वहन्वैरिप्राणभिक्षाविचक्षणः । प्रतापाग्नीन्धनं ब्रह्मचारी किं नाचरत्यसौ ॥ ३४ ॥ निकारमप्रतीकारं सुपर्वखिति कुर्वता । कृतान्तहन्तकाराय केनात्मा हन्त कल्पितः ॥ ३५ ॥ इति व्याहृत्य विश्रान्ते तत्र विश्वङ्कसूत्रिणि । गुरुगोत्रारिनेत्रान्तप्रेरितः प्रत्यवोचत ॥ ३६ ॥ वरेण वारितातङ्कः पङ्कजासन तेन ते । देवानेवं तिरस्कृत्य दैत्यः शुम्भो विजृम्भते ॥ ३७ ॥ .शतधा रञ्जितं येन रिपुच्छेदात्रिविष्टपम् । शतधारं जितं तेन तदरं प्रख(द)रैः खरैः ॥ ३८ ॥ स्वामे ग्रामभट्टोऽसि स्फुटामस्य व्यवस्थितिम् । तन्मां ब्रूहीति तेनाहमाक्षिप्तः क्षिप्तजिष्णुना ॥ ३९ ॥ कल्पानिपेषु दोलाभिर्लोलाभिः क्लुप्तकेलयः । मुदास्य दास्यो गायन्ति स्वर्जयोपार्जितं यशः ॥ ४० ॥ जिगाय नायकं वीनां नवीनां दधदुद्धतिम् । यदाजौ तज्जयत्ये(यादे)ष विद्वेषीति स्फुटोऽभवत् ॥ ४१ ॥ क्रियां कामप्यकुर्वाणः स तपस्वी सुदर्शनः । भवादिव दुरुच्छेदादैत्याद्वै कुण्ठतां गतः ॥ ४२ ॥ ३ काव्यमाला। दधे च माहिषेणैष बलेनोच्छूनतां गतः । अमुना यमुनाबन्धुभिषजेवातिलचितः ॥ ४३ ॥ तेन निष्करुणेनास्त्रैर्वरुणे सत्रणे कृते । अपाशस्तस्य नो पाणिरनुजीविजनोऽप्यभूत् ॥ ४४ ॥ प्रचेतःप्रेरिताः पाशास्तस्मिन्मोघा न केवलम् । उप्ताः सप्तर्षिभिस्तप्तैस्ते प्रतीपाक्षरा अपि ॥ ४५ ॥ वाति मन्दमनानन्दः समीरस्तस्य संसदि । स्वभावभीषणाकारभ्रूकृष्णभुजगीभयात् ॥ ४६ ॥ समित्या तेन धीरेण वादिनेव व्यधीयतः । असमर्थितपक्षोऽयं धनाध्यक्षो निरुत्तरः ॥ ४७ ॥ रुदैरुन्मुद्रितं तप्तैस्तेजः सूर्योपलैरिव । न किंचिदपचक्रेऽस्य तपतस्तरणेरिव ॥ ४८ ॥ सप्तजिह्वो द्विजिह्वेन तेनाजो विह्वलीकृतः । विजहौ सहसा तीक्ष्णां हेतिं स्वहितहेतवे ॥ ४९ ॥ रणाङ्गणेऽवगणितस्तेनायं गणनायकः । धातर्यदपराधानामपि त्वं गणनाय कः ॥ ५० ॥ अयं तेने तथा तेन निस्तेजास्तेजसां निधिः । यथा दिवापि चक्राद्वैः कथंचिदुपलक्ष्यते ॥ ११ ॥ अखण्डमण्डलायोऽसौ याति यामिकतां निशि । विष्णुस्तदवरोधेषु रोद्धं मानमलिम्लुचम् ॥ १२ ॥ सलीलं लायसं(सय)न्तोऽमी ऋतवो व्रततीः प्रियाः । कृतोद्यमास्तमु(दु)द्याने जायाजीवा इवाभवन् ॥ १३ ॥ कटकैद्धृतगन्धर्वैमत्वेवात्मसमोदयम् । उत्खातशृङ्गशृङ्गारं स चक्रे काञ्चनाचलम् ॥ १४ ॥ सोमाहुतीः पतन्तीनः सोत्तरा हरते हठात् । दुर्वार(त) इव वार्धाराश्चातकानां पिपासताम् ॥ ५५ ॥ :
* १९ ३. सर्गः] सुरथोत्सवम् । भुजगेन्द्रान्भुजस्तम्भसंसक्तजयकुञ्जरः। तुदत्याशीविषानेष दुराचारो गुरूनिव ॥ १६ ॥ वाडवाग्निच्छलादन्तर्दधाना दुःखपावकम् । दत्वा रत्नौघमुद्धोषैः स्तुवन्तीव तमब्धयः ॥ १७ ॥ अश्रुमिश्राणि नेत्राणि यः करोत्यरियोषिताम् । महाबलेन तेनायं धूतो धूम इवाग्निभूः ॥ १८ ॥ तेनैवमभिभूतानां गतिस्तात त्वमेव नः । दावपावकदूनानां तरूणामिव तोयदः ॥ १९ ॥ तवादेशाज्जगद्धर्तुर्ये पूर्व वन्द्यतां गताः । गृहीत्वाथै निरस्तास्ते लेखालेखा इवामुना ॥ ६० ॥ पूज्याः स्थानस्थिता एव दातुमर्थमपि क्षमाः । अवाच्याः स्मस्ततो भ्रष्टाः शब्दा वेदभवा इव ॥ ११ ॥ किं वा निवेद्यते वाचा मनसा ज्ञानिनस्तव । न हि दीपद्युता भानोर्भावाभोगः प्रकाश्यते ॥ १२ ॥ तस्मादस्माकमानन्दकन्दलीं कमलासन । शिरोबिन्दुवियुक्तेन शुम्भेनाङ्कुरितां कुरु ॥ ६३ ॥ इति श्रुतिकविः श्रुत्वा वचो वाचस्पतीरितम् । प्रत्युवाच प्रियां वाचं स वाचंयमसेवितः ॥ ६४ ॥ अलं क्लिशित्वा गीर्वाणास्त्राणाय प्रभुरस्ति वः । शैलराजात्मजा दैत्यव्याधिविध्वंसनौषधी ॥ ६५ ॥ पुरा दुराशयेनापि तप्त्वा तेनाद्भुतं तपः । प्रार्थितोऽस्मि स्थिरप्राणां भुवनत्रयभर्तृताम् ॥ ६६ ॥ आशुश्रुवे मया तस्मै स्त्रीकृतादन्यदत्ययात् । तदप्यङ्गीकृतं तेन गर्वबाधितबुद्धिना ॥ ६७ ॥ तदितः सत्वरं गत्वा गुहमातामहं गिरिम् । स्तुतप्रस्तुतकार्याय शंभोरम्भोजलोचनाम् ॥ ६८ ॥ १. शिरोरूपबिन्दुना हीनेन शुम्भेन दानवेनानुस्वारच्युतशुम्भेन शुभेन. २. शतधृतिः.
२० काव्यमाला। पूयिष्यति यौष्माकान्कामान्कामारिकामिनी । नैसर्गिकं हि वात्सल्यमपत्ये मातुरातुरे ॥ ६९ ।। उपसंगृह्णतामेतामपेताशेषविद्विषाम् । मुक्त्याधिवेत्स्यमानायाः पतित्वं भवति श्रियः ॥ ७० ॥ रुरुकासरघातिन्या तथा पञ्चाननस्त्रिया । कृता काननसंपत्तिः पुराप्यस्तभयज्वरा ॥ ७१ ॥ वाचा वृष्टयेव सिञ्चन्सुमनसामास्यानि सस्यानि वा बिभ्रन्ति ग्लानिमम्भोधर इवाम्भोजध्वजोऽन्तर्दधे । ते च प्राचीनवहिंप्रभृतयः प्रालेयपृथ्वीधरा- धारामाराद्भुमीशप्रणयिनीमुत्साहभाजोऽभवन् ॥ ७२ ॥ रिपुनृपनिलयं श्रियः श्रितायाः पुनराकर्षणमन्त्रवन्मनोज्ञम् । पतिरिति निगदन्नुमाचरित्रं नृपतेस्तस्य धृति न्यधत्त चित्ते ॥ ७३ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनानि महाकाव्ये विरञ्चिवर्णनो नाम तृतीयः सर्गः । चतुर्थः सर्गः। सितमरीचिरुचामिव संचयं हसितराशिमिव त्रिपुरद्रुहः । धनपतेर्यशसामिव मण्डलं समुदयं शरदम्बुमुचामिव ॥ १ ॥ क्कचन काञ्चनकेतककेतनं क्वचन बालतमालसमाकुलम् । वचन किन्नरगानमनोरमं वचन निर्झरपातपवित्रितम् ॥ २ ॥ तुहिनवाहि नवाश्मसमुच्चयं घनलतानलतालनिरन्तरम् । निरघसारघसारणिपिच्छिलं पुरुचमूरुचमूरुचिरश्रियम् ॥ ३ ॥ सबकशावकशाखिशतं प्रियासहितरोहितरोहितशम्बरम् । असमहंसमहं दधतं सरोरुहसमूढसमूढमदं सरः ॥ ४ ॥ १. इह लोके भुक्तिभाक्त्वं परलोके मुक्तिभाक्त्वं भवतीति भावः. २. दुर्गा तु रुरुमहिषदत्ययोः सिंही तु मृगमहिषयोर्घातिनी. ३. ब्रह्मवक्राणि वनानि च, ४.. एत. त्सर्गीयपद्यव्याख्यानं स्फुटरूपेण ग्रन्थसमात्यवसरे प्रदर्शयिष्यामः.
. । -- ४ सर्गः] सुरथोत्सवम् । २१ विशदतोयदतोयहतानलं सनिनदातिनदातिमनोहरम् । तगरसालरसालमृदुच्छदप्रसवराजिवराजिरकन्दरम् ॥५॥ चपलया कलितं कपिमालया चपलयालिरुतस्तुतसंपदम् । गजवता विपिनेन वृतं मनागजवतास्पदमारुतशालिना ॥ ६ ॥ सवनराजितमश्रमहासरः सवनराजितदेहयतिव्रजम् । परशुनासनरामनिषेवितं परशुभासनतीर्थपरंपरम् ॥ ७ ॥ पवनदेवनदेवनगस्फुरन्मधुकरालिकरालितपङ्कजम् । विविधवप्रधवप्रतिपादिताभिनवपुष्पवपुष्पव(ट)वेष्टितम् ॥ ८ ॥ शबरताडितमत्तमतङ्गजं शवरताखिलफेल(र)वभैरवम् । समरसीमगतोद्भुरकासरं समरसीकृतचित्ततपोधनम् ॥ ९ ॥ दिविषदो विषदोषजिदौषधीमधुरसानुरसानुगतद्रुमम् । तरुणवारणवारमदच्छटानधमगन्धमगं ददृशुस्ततः ॥ १० ॥ (दशभिः कुलकम्) नवनवाननवानरमण्डलीघटितरूपतरूपचितं नगम् । सुरविभू रविभूषितपङ्कजाकरसरोरसरोचितमभ्यगात् ॥ ११ ॥ तुहिनसानुमतः कमनीयतामवलुलोकयिषोः शिखरिद्विषः । किमपि मातलिना नगवर्णनं निजगदे जगदेकविभोः पुरः ॥ १२॥ अयमुदग्रतया गगनाङ्गणं पृथुतया पृथिवीवलयं विभो । तलविशालतया च रसातलं तिलकयत्यतुलः कुलभूभृताम् ॥ १३॥ रजतकाञ्चनरत्नमयस्थलीकिरणतोरणतोषितदिङ्मुखः । क्षितिधरानपरानवनीभृतां पतिरयं तिरयन्निव राजते ॥ १४ ॥ जपरता परतापमकुर्वती शमरतामरतारहिता न्वहम् इह वने हवनेद्धहुताशने यतिसभातिसभा जयतीश्वरम् ॥ १५ ॥ इह मनोभवतापभरच्छिदे हिमलयामलयाधिकसंसदि। निदधते कुमुदच्छदसंततीरुरसि ता रसिताः सुरयोषितः ॥ १६ ॥ इह सिते हसिते शिवया रुषामुपरमे परमेश्वरचाटुभिः । वशमिनं शमिनं न निनाय तं स मदनो मदनोदितमार्गणः ॥ १७ ॥ - ..
२२ काव्यमाला। season सरससारससारमवेक्ष्यतामिह वराहवराहवराजिते । सकपि कङ्कपिकं कपिलैवृषैर्वनमही न मही न महीयसी ॥ १८ ॥ भसितभासितभालतलः प्रभुर्भुजगराजगराश्रितकन्धरः । गिरिजयारिजयापितसंमदश्चिरमितो रमितो वृषभध्वजः ॥ १९ ॥ न हि परैर्गिरिभिः परिभूयते गजसमाजसमाजसमाश्रितः । क्षितिधरोऽयमनन्तमणिप्रभाप्रकटकङ्कटकं कटकं वहन् ॥ २० ॥ अजगरैर्जगरैरिव वेष्टितः कुरवकारवकाब्यसरस्तटः । सुखनिधेः खनिधेश्च सतामसौ घनहिमो न हि मोघविलोकनः २१ विपिनभूः शबरैरिह सेव्यते सकलभा सुरराजतरूपभाक् । मुदमिदं शिखरं च करोति मे सकलभासुरराजतरूपभाक् ॥२२॥ रुचिरया चिरयाचितसंगतरकृतकं कृतकम्पशरीरया । निजगृहे जगृहेऽत्र जगत्पतरेवलया वलयाहिधरः करः ॥ २३ ॥ विहरतीह मधूकवनेऽन्धकासुरभिदा नगजा सह सादरम् । शिशुजने बत ये घटयत्यसौ सुरभिदानगजा सहसा दरम् ॥२४॥ नमदनोकहशालिनि गहरे न मदनोपमितेन न किन्नरी । विहरते दयितेन समं गिराविह रतेषु रतिं दधती मुहुः ॥ २५ ॥ मुनिजना निजनाभिसरोरुहस्थितमनन्तमनङ्गपराङ्मुखम् । शुभवने भवनेऽत्र दिवौकसां परहिता रहिताघमुपासते ॥ २६ ॥ सुरमणे रमणेन महीयसा प्रविशता विशताधिगतं पयः । प्रमदया मदयापि तया जवादपरया परयात्र कृता सरित् ॥२७॥ भरमपारमपामिह मुञ्चता स्तनयता नयता च रजःशमम् । हरगलोपरयाहसमत्विषा मुमुदिरे मुदिरेण शिखण्डिनः ॥ २८ ॥ तटे तटेऽस्तीह मनोहरं वनं वने वने पल्लवशालिनो नगाः । नगे नगेऽनङ्गविधायिनः पिकाः पिके पिके सूचितपञ्चमं वचः २९ अरं भयादेति हरेरदृश्यतां सरम्भया काननमालया मृगः । अगानसौ किन्नरकामिनीजनः सगानसौख्यः फलितान्निषेवते ३० ४ सर्गः] सुरथोत्सवम् । २३ रमते वियतायमगः खचरान्नव तानवतानवतानवता । यतिपतिरियं च पुरो विरमद्गमना गमनागमनागमना ॥ ३१ ॥ इह सल्लकीदलचयानदता करिणां गणेन मधुरं नदता । बहुभिर्मदाम्बुभिरनूनदता क्रियते स्थलेऽपि सहसा नदता ॥ ३२ ॥ मारुताहतिमरुत्तरुपुष्पैः पाकपेशलरसैश्च फलौघैः । आदरादुपनयत्ययमद्रिः प्राभृतं त्रिभुवनैकविभोस्ते ॥ ३३ ॥ घनतुहिनविशोभिशृङ्गमुच्चैरुपरि विषण्णनवाम्बुवाहमेतत् । भजति भुजगराजभोगशय्यासुखशयितासुरवैरिणो विलासम् ॥ ३४ ॥ तालावलीमर्पितभोगतानां नभोगतानां निकटे तटीनाम् । भङ्गीगणो गच्छति वासवेह न वासवे हः सममात्मकान्तैः ॥ ३५ ॥ हरिणीयमुपैति तटीम॑गणे कुशला कुशला कुशला कुशलाः । तरुराजिरसौ मुदमातनुते मधुरा मधुरा मधुरा मधुरा ॥ ३६ ॥ पश्यैतदुत्तमसुमासबमत्तभृङ्गं शृङ्गं यतः प्रभवति स्म सुरस्रवन्ती । मातेव या सितकरांशुनिभैः पयोभिः प्रीताः प्रजाः सवितुरङ्कगताः करोति ॥ ३७ ॥ नदीयमानन्दमहो ममाद्य विकस्वरैर्व्याकुरुते सरोजैः । न दीयमानं दमहोममाद्यन्मना मुनिश्चैष जिघृक्षतेऽर्थम् ॥ ३८ ॥ तोयोत्सर्गात्पाण्डुरिमाणं प्रथयन्ती पाथोदानां पतिमदूरे विचरन्तीम् । पश्यत्यसिञ्जङ्गमशृङ्गावलिबुद्ध्या मुग्धः सिद्धस्त्रीनिवहो विस्मयमानः ॥ ३९ ॥ पर्वतपतिपताविह वल्गत्कुञ्जरकुञ्जरकुञ्जसमाजे । कासरसंततिरातनुतेऽसौ सङ्गरसंगरसङ्गबलाप्रैः ॥ ४० ॥ गीतानुरक्ताः सुमनःप्रसक्ता नक्तंदिवं चात्मभुवं भजन्तः । वसन्ति कान्ताखिह कन्दरासु विलासवन्तश्च मुमुक्षवश्च ।। ४१ ॥
--
काव्यमाला।
गन्धर्वीणां गीतिभिः पीतचित्तामणीश्रेणी वीक्ष्य दूर्वी नवां च ।
अत्र क्रीडाकाया शीतरश्मेरेणः शङ्के नेच्छति स्थातुमके ॥ ४२ ॥
अमुं जवनतः स मुञ्जवनतः प्रयाति शिखरान्मृगं मृगरिपुः ।
अरं कुरवकं सरङ्कुरवकंसमेत्य रमते मुदात्र मधुपः ॥ ४३ ॥
गाङ्गेयजुष्टैः कटकैः समन्तादाप्तोन्नतिर्दोणशकुन्यपेतैः ।
दुर्योधनीयत्ययमङ्गराजरुचिं दधानः कृतभारतश्रीः ॥ ४४ ॥
विपिनमिदं मुदमातनुते मे कपिशतरूषितमञ्जुलतालम् ।
इयमपि भूर्नवमञ्जरिमाला कपिशतरूषितमञ्जुलतालम् ॥ ४५ ॥
वैदूर्यगारुत्मतपद्मरागपरागशृङ्गारितशृङ्गराजः ।
असौ कुथेन प्रथितामभिख्यामधः करोत्यभ्रमुवल्लभस्य ॥ १६ ॥
नवीनाम्बुवाहद्युतीनां समालं समालं समालम्ब्य शृङ्गौघमत्र ।
ततिः षट्पदानां सदा वालसालालसालालसा लासमाविष्करोति ॥ ४७ ॥
सुवर्णशृङ्गाणि निजांशुदण्डैश्चण्डांशुपादप्रतिमरमुष्मिन् ।
दिनावसानेऽपि वियोगशङ्कां कोकाङ्गनानां गलहस्तयन्ति ॥ १८ ॥
कुर्वते केलिमत्र प्रियासङ्गता वानरा वानरा जीवना जीवनाः ।
वारिदेनोज्झता संह्रियन्ते पयः खेलता खे लतापल्लवा पल्लवाः ॥ ४९ ॥
अघ नोदकैः सुरवधूनिवहः सघनोदकैश्च रुचिरे शिखरैः ।
अमरालयादिह समेत्य गिरौ समरालया धुसरिता रमते ॥ ५० ॥
रूप्यस्थलीनामयमंशुजालैर्वलक्षिताशेषदिगन्तरालैः ।
कीर्तिप्रतानैरिव तायमानः पुनाति पङ्गिं धरणीधराणाम् ॥ ११ ॥
याति रतिं भ्रमरः स्फुरदन्तःकेसरके सरके सरकेऽस्मिन् ।
धर्मदिनेष्वपि साम्भसि शोषं तापनतापनतापनताली ॥ १२ ॥
शृङ्गेऽत्र तेपे परमं तपस्तदनङ्गदाहाभिभवाद्भवानी ।
जग्राह सा येन शरीरमर्धमर्धेन्दुमौलेः सकलं मनश्च ॥ १३ ॥
शशिबिम्बमिहापचयं नयते सकलङ्कमलं सकलं कमलम् ।
कुमुदं च पुरः कुरुते भ्रमरी वरलासहितं वरलासहितम् ॥ १४ ॥
४ सर्गः] सुरथोत्सवम् । २५ क्षमां दधानोऽपि न धर्षणीयः पूर्णोऽपि रतैरनवाप्य(प्त)भङ्गः । प्रालेयपादोऽप्यकलङ्कितश्रीरसावनन्तोऽपि न तु द्विजिह्वः ॥ ५५ ॥ न रैरतः कोऽप्यफलः प्रयाति नरैरतः सेवितसानुपतिः । नभोजनानामपि दुर्लभानि न भोजनान्यातनुते न चायम् ॥ १६ ॥ तुषारगौरेषु तटेषु सान्द्रचन्द्रप्रभाभिः पिहितान्तरेषु । वधूर्विदग्धापि धरेऽत्र शङ्के संकेतमार्ग निशि नाशु वेत्ति ॥ १७ ॥ विहाय सालाग्रकृतान्कुलायान्विहायसामालिरुपात्तपक्षा । विहायसा गच्छति तुङ्गसानाविहायसामाकरकोटिरम्ये ॥ ५८ ॥ वनस्य नानाद्रुममण्डनस्य किमस्य माहात्म्यमुदाहरामः। यस्मिन्नुमालोकनलोलदृष्टिः कटाक्षितश्चित्तभुवा भवोऽपि ॥ १९ ॥ शीताः समीराः प्रशमं पिपासां विनोदकैरत्र सतां नयन्ति । तेषां तदन्यत्र मनांसि श्रृङ्गैविनोदकैरत्रसतां नयन्ति ॥ ६० ॥ श्रुत्वा वनेऽस्मिन्मदनस्य दाहमुद्गीयमानं सुरसुन्दरीभिः । अद्यापि देवे निदधाति देवी प्रकोपगर्भाणि निभालनानि ॥ ११ ॥ तदेतदने नगरं नगेन्दोर्यदौषधिप्रस्थमिति प्रसिद्धम् । रत्नाभिरामे रमतेऽत्र लक्ष्मीर्वक्षःस्थले वा जलजन्मनाभः ॥ १२ ॥ ताः सन्ति दृश्याः सुदृशः पुरेऽस्मिन्यदर्शनोद्दीपितमन्मथानाम् । महामुनीनामपि कम्पमानात्कराद्वन्ति द्रुतमक्षमालाः ॥ ६३ ॥ यत्सुन्दरीणां समता कथं स्यात्पातालनारीभिरधःकृताभिः । भवेत्कथं वा त्रिदिवाङ्गनाभिर्याः संततं सन्ति विमानवत्यः ॥ ६४ ॥ जलक्रियाः सिद्धसरिजलेन कल्पद्रुमाणां कुसुमैः सुमार्थाः । भवन्ति यत्र ज्वलतां मणीनामुपैस्तमिस्रारहितास्तमिस्राः ॥ १५ ॥ सरः पुरः काञ्चनपद्ममेतदाभाति सन्मानसमानसाख्यम् । दृष्टं तपान्तेऽपि न पद्मिनीनाममङ्गलं यत्र वलक्षपक्षैः ॥ ६६ ॥ शैलेऽस्मिन्फलपुष्पपल्लवसमुल्लासः सदा शाखिनां पद्मिन्यः प्रतिपल्वलं च दधते हासं हिमावपि ।
।
काव्यमाला।
२६
गैत्यं शाश्वतमम्भसां भवति च स्वर्गाङ्गनानां गुहा-
गेहद्वारविहारिवारिदघटागर्जाभिरुज्जागरः ॥ १७ ॥
क्वचिदिह विहरन्तीर्वीक्षमाणस्य रामाः
प्रसरति रतिरन्तर्मोक्षमाकाङ्क्षतोऽपि ।
कचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं
भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ६८ ॥
तावलावण्यलक्ष्मीः कलयति मलयस्तावदाविष्करोति
क्रौञ्चश्चेतोहरत्वं हरधरणिधरस्तावदभ्येत्यभिख्याम् ।
तावद्गर्व सुपर्वक्षितिभृदपि दधात्युद्धतत्वं च विन्ध्य-
स्तावद्धत्ते धराणां पतिरतिरुचिरो दृश्यतेऽसौ न यावत् ॥१९॥
श्रियमिति शिखरान्तभ्रान्तजीमूतवृन्द-
ध्वनिजनितशिखण्डिस्त्रीमदाद(ड)म्बरेऽस्मिन् ।
नगरिपुरपि पश्यन्मिश्रितानामुदसै-
रमनुत चरितार्थ लोचनानां सहस्रम् ॥ ७० ॥
इति गुजरेश्वरपुरोहितश्रीसोमदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये
हिमालयवर्णनो नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः
नगेऽथ तम्मिन्नृतुचक्रमागमन्निषेवितुं निर्जरचक्रवर्तिनम् ।
फलप्रसूनैरुपपादितोपदाः सदा भजन्ते हि विभुं बुभूषवः ॥ १ ॥
अगस्त्यपस्त्याङ्गणवलिवेल्लिना नभखता दत्तकरावलम्बनः ।
अशीतसंतापनिवासवासरः स्मरैकमित्रं समयः समाययौ ॥ २ ॥
प्रतापकल्पे मलयाद्रिमारुते नृपानिवोच्चैर्नमयत्यनोकहान् ।
न कोऽपि कामस्य जगाम वामतामवामकर्णान्तमधिज्यधन्वनः ॥ ३॥
मरागदृष्टिर्मधुरं च पञ्चमं प्रपञ्चयन्ती सहकारहारिणा ।
भवेन्न मत्ता मधुना पिकी तथा यथा परेषामपि दाशुषी मदम् ॥ ४ ॥
५ सर्गः]
सुरथोत्सवम् ।
मुधा सुधांशुप्रमुखं जयोन्मुखः परिच्छदं पुष्यति पुष्पसायकः।
यदस्य योषिजनमानमाथिभिः पिकखरैरेव कृता कृतार्थता ॥ ५ ॥
यथा यथा नूतनचूतमञ्जरी गरीयसीमाप रसेन संपदम् ।
तथा तथा पान्थपयोजलोचनामनःसु माहात्म्यमियाय मन्मथः ॥ ६ ॥
हिमेन पछेषु कृतामपक्रियामवेक्ष्य कृत्वाथ महाबलं पुरः ।
हिमालयं जेतुमिवोत्तरां दिशं प्रति प्रतस्थे तुहिनेतरद्युतिः ॥ ७ ॥
वसन्तकालः किल वेदवेदिभिर्द्विजन्मनामग्निपरिग्रहे मतः ।
इतीव यज्वप्रभुरुज्ज्वलांशुकः प्रवासिकान्ताहृदयेऽग्निमादधे ॥ ८ ॥
सरःसु न स्मेरसरोजराजिषु प्रवालविभ्राजिषु काननेषु न ।
नवेषु नो वेश्मसु पान्थयोषितां ननन्द कन्दर्पकदर्थितं मनः ॥ ९ ॥
कटाक्षिता कैरपि चुम्बिता परैः कृतोपभोगा मधुपैश्च कैश्चन ।
मधुक्षरन्ती विरराज माधवी नवीनरूपा गणिकेव कामिभिः ॥ १० ॥
खयं समानीय जलानि यन्मया तवालवालप्रणयीनि चक्रिरे ।
अकार्यतानेन च पाणिपीडनं वरेण माकन्दमहीरुहेण यत् ॥ ११ ॥
तदेवमाजन्मसखित्वमावयोः प्रवृद्धमेतत्तु तवाद्य विस्मृतम् ।
यदीदृशीं मे सखि वीक्ष्य दुर्दशां त्वमुन्मदा गायसिभृङ्गनिःस्वनैः॥१२॥
इतीरिता वल्लभविप्रयुक्तया कयापि कान्तारमुपेत्य माधवी ।
भवत्युपालम्भपदं हि दुःखिनां तदर्तिसंविद्विमुखः सुहृजनः ॥ १३ ॥
(त्रिभिर्विशेषकम्)
मधोरधःकृत्य तर्जितं जवान्मनोभवामीप्सितया श्रितः श्रिया ।
विराजमानो वनमालयाप्यलं महीतलं मण्डयति स्म माधवः ॥ १४॥
पुरः स्थितं ज्येष्ठमवेक्ष्य किंशुकप्रसूनकौसुम्भकृतावगुण्ठना ।
वधूरिवाकुञ्चितकोकिलखना वसन्तलक्ष्मीरपसर्तुमुद्यता ॥ १५ ॥
मदप्रकर्ष मदनस्य मन्दयन्मधौ सहायेऽपि गृहीतकृत्तिकः ।
विषप्रपाणप्रवणः श्रितो वृष प्रकाशयामास खरांशुरुग्रताम् ॥ १६ ॥
निशाः कृशास्तीव्रतराश्च वासराः परागसंपर्कघनाः प्रभञ्जनाः ।
तनूभवत्तोयचया जलाशया प्रयाणकालं सुरभेर्बभाषिरे ॥ १७ ॥
२८ काव्यमाला। कचेषु गृह्णन्कुचकुम्भयो ठन्नितम्बबिम्बस्थितमम्बरं हरन् । तनूं च तन्वन्पुलकप्रसाधितां जलप्रवाहः सुदृशां प्रियोऽभवत् ॥ १८॥ दिवापराद्धं तुहिनेतरत्विषा मृगीदृशां यत्तपतातिकर्कशम् । निशाधिपेनैकपदेऽपि तन्निशामवाप्य लुप्तं किरतामृतच्छटाः ॥ १९ ॥ शिरीषपुष्पैरवसन्ति(तंसि)तश्रवा नवां वहन्पाटलिमल्लिकास्रजम् । वधूजनश्चन्दनचर्चितस्तनः शुचौ शुचं मङ्गु ममन्थ मान्मथीम् ॥ २० ॥ अथौचराहः प्रसभं प्रभञ्जनस्तपात्ययस्येव पताकिनीपतिः। प्रतापिनं धर्ममिभैरिवाम्बुदैः समूलमुन्मूलयितुं प्रचक्रमे ॥ २१ ॥ इरम्मदस्यारणिभिर्दिनाधिपक्षपाधिपप्रांशुरुचां निचोलकैः । कृषीवलानां कुलदैवतैः कृतं नभस्तलं दर्दुणमब्दमण्डलैः ॥ २२ ॥ न यावदम्भःप्रसरं वितेनिरे निरन्तरासारधराः पयोधराः । सितच्छदैस्तावदयोगकातरैस्तरङ्गिता बाष्पजलैः सरोजिनी ॥ २३ ॥ रजः पुरा मुद्रितमार्द्रता ततस्ततोऽथ पङ्कावसरोऽपि रोपितः । अनन्तरं वारितरङ्गिता कृता धनैर्घनासारधरैर्वसुंधरा ॥ २४ ॥ नगैर्दिगन्ते जलदैनभस्तले नवाङ्कुरैर्भूवलये च मेचके । विशालनीलोपलपञ्जरोदरस्थितं जनः खं मनुते स्म विस्मितः ॥ २५ ॥ कृतार्जुनामोदभरेण विभृता सदांगदावस्थितिहारिणी दशाम् । अधार्तराष्ट्रं भुवनं वितन्वता पयोदकालेन वृकोदरायितम् ॥ २६ ॥ असंशयं प्राक्तनवृष्टिबिन्दवः सुधांशुतीब्रांशुमरीचिनिर्मिताः । यदेककालं प्लवगाङ्गपुष्टये यवासकप्लुष्टिकृते च जज्ञिरे ॥ २७ ॥ मनोरमालापि कलापिसंकुलाः कुलायविश्रान्तपतत्रिपतयः । स्फुटद्भिराढ्याः कुटजैः प्रवासिनां सुदुर्गमाः काननभूमयोऽभुवन् ॥२८॥ घनाकुलायां कुलटाकुलैर्निशि प्रकाशयन्ती ककुभस्तडिल्लता । स्तुता दुरालोकपथावलोकनाजनाभिशङ्काभरतश्च भत्सिता ॥ २९ ॥ रराज जम्बूनिवहः सहस्रधा फलैः समृद्धः सविधे सरस्वतः । नमस्तलान्नीरभराभिकाया पयोदसंदोह इवावतीर्णवान् ॥ ३० ॥ १. अगेषु दावः, पक्षे गदायुधम्. २. जगत् , जलं च. ३. समुद्रस्य.
* ५ सर्गः] सुरथोत्सवम् । २९ दवाग्निदग्धैरपि रूढमङ्कुरैः पयोधरे दुर्धरमम्बु मुञ्चति । न खण्डितानां कथमप्युदश्वसद्वियोगवह्निज्वलितं मनः पुनः ॥ ३१ ॥ इदं रविर्नाम जगद्विलोचनं पिधीयमानं घनपक्ष्मपतिभिः । दवाग्निधूमैश्चपलाञ्चलैस्तथा कृतव्यथं वारि किल व्यमुञ्चत ॥ ३२ ॥ वियोगिनीभिर्यदरक्षि जीवितं कथंचिदप्युन्मदकेकिनिःखनात् । विकखराम्भोधरडम्बरेऽम्बरे तदुल्लषन्त्यापहृतं बलाकया ॥ ३३ ॥ सुधांशुधामोज्वलयाम्बरश्रिया चकासती चामलकाशचामरैः । विजृम्भिताम्भोरुहचारुलोचना नरेन्द्रनारीव शरब्यराजत ॥ ३४ ॥ समागतोऽयं समयः पितृप्रियस्तदत्र यात्रागमनं मतं सताम् । इतीव कृत्वा हृदि दक्षिणाशया स्फुटं बभूव प्रकटो घटोद्भवः ॥३५॥ सरोजिनीसङ्गसमुक्तचेतसां मनोरमामानसवासिनां स्वनाः। पदं दधत्याः शरदः शनैः शनैरशिश्रियन्नूपुरशिञ्जितश्रियम् ।। ३६ ॥ सुरारिशत्रुः शरदि प्रबोधतीत्यहो वचस्तथ्यमिदं मनीषिणाम् । तदक्षिणी चन्द्रदिवाकराविमौ विकासमाजग्मतुरन्यथा कथम् ॥३७॥ विमुच्य लक्ष्मीमिव विद्युतं शिरः सितं वहद्भिर्विषयेषु नीरसैः । पयोधरैर्विष्णुपदाभिवर्तिभिस्तपःप्रपन्नैरिव मौनिभिः स्थितम् ॥ ३८ ॥ जलं प्रसन्नं जलदा निवर्तिताः प्रवर्तिताश्चाध्वनि साधुसिन्धवः । 'गदाधरः खापपरः प्रबोधितः शरदिनैर्निर्मलतोचितं कृतम् ॥ ३९ ॥ गभीरगर्जा वृषभेषु नीलिमा नभस्तले विक्रमशालिन्नतिः । विभज्य निःक्षिप्तमिति स्वमम्बुदैध्रुवं विदित्वात्मदशामनीदृशीम् ॥४०॥ कुलं तदुत्तीर्णजलं तडित्वतां विलोक्य भेकप्रकरैः पलायितम् । विपक्षता च प्रथिता शिखण्डिभिर्विभूत्यभावे महतोऽपि कः सुहृत् ४१ प्रफुल्लकर्णोत्पलपातिषट्पदप्रियारवस्फारितचारिमर्षिभिः । मुदं ददुः कस्य न शालिपालिकाः स्मराग्निपूर्णाहुतिभिः सुगीतिभिः ॥४२॥ अलं धवित्वा यदपत्रपामहे तपत्वसौ तापयतु प्रजा रविः । कृता पयोदैस्तुहिनाच्च भाविनी विबाधतेऽन्तर्नहि यत्तिरस्क्रिया ॥४३॥ १. प्रतिग्रहाशया च. २. देशेषु, इन्द्रियार्थेषु च. ३. पक्षरहितत्वम् , शत्रुखं च. MAM ।
३० काव्यमाला। पयः प्रसत्तिर्नलिनीवनोद्गमः समं च मैत्री वरलाविलासिभिः । तटस्थपङ्कप्रसरापसारणं सरःसु चक्रे शरदा न किं तदा ॥ ४४ ॥ जलेषु शीतेषु मनागनादरो न रोचते किंचन चन्दनद्रवः । निषेव्यते यत्र तथा न कौमुदी मुदं ददाति म तदप्यसातुः ॥४५॥ यवाकुरैः कीरशरीरसोदरैर्निरन्तराः क्षेत्रवसुंधरा बभुः । तुषारसंभारभयेन मेचकैर्दुकूलकूटैः कृतवेष्टना इव ॥ ४६ ॥ वदन्तु ते हन्त नितम्बिनीकुचाः समुद्धतिं यैः शरणागताः प्रियाः । मृदुखभावादपि दुःसहादलं तुषारतश्च स्मरतश्च रक्षिताः ॥ ४७ ॥ सहसि ताण्डवितस्मरकेलिभिः सह सितांशुमुखीभिरभिक्षपम् । उपहसन्ति तुषारसमीरणानुपहसन्ति गताः स्म विलासिनः ॥ ४८ ॥ परमहिमघेनाम्बुभिः शुभंयुर्मुकुलितमांसलपुष्पदन्तकान्ति । अलभत शिखिवल्लभो नभस्यश्रियमलसश्रि सरोरुहः सहस्यः ॥ ४९ ॥ गर्भागारे शयनमनलः संनिधौ सन्नधूमः श्यामाश्लेषः स्मरपरवशो रक्तवस्त्रावृतिश्च । कर्पूरश्रीदनक्रमले कुङ्कमैरङ्गरागो भाग्यरेतद्भवति भविनां हन्त हेमन्तकाले ॥ ५० ॥ ऋतुरुज्जगाम जडिमैकभाजनं क्षममेतदत्र कमलोन्नतिर्न यत् । हृदयानि यस्तनुभृतां प्रकम्पय- न्सुमनःपदेषु निदधाति बोलकान् ॥ ११ ॥ द्रुततरमुपयाति भानुरस्तं गुरुषु निशासु निशापतिर्न भाति । स्फुटमिति कुलटाः सुखाभिसारादनुतुहिनतुममंसतापरर्तुम् ॥ १२ ॥ अपि लघूनलघूनिव वासरान्गमयता पथिकेन कथंचन । विरहतापहतापघनश्रिया शुचिसमः शिशिरर्तुरमन्यत ॥ ५३ ॥ १. यथा शरदि. २. हेमन्तः. ३. मार्गशीर्षे. ४. अङ्गारशकटिकासमीपे. ५. कठिनम् , मेघाश्च. चन्द्राकौं. ७. वह्निः, मयूरश्च. ८. पौषः. ९. शिशिरः. १०. पद्मानि, लक्ष्मीश्च. ११. पुष्पाणि, पण्डिताश्च. १२. अज्ञान , ह्रीवेराणि च. ६. ,
६ सर्गः]
सुरथोत्सवम् ।
आसाद्यते चिरगतेष्वपि या न साति-
निद्रावशादनभिशायिषु वल्लभेषु ।
लब्धावकाशतुहिनोद्भुषितस्तनीभि-
लेभे क्षणादधिनिशं हरिणेक्षणाभिः ॥ १४ ॥
अथ दन्तकुन्दपतनाद्विनश्वरं शिशिरं विभाव्य सुरभेव॒भूषतः ।
समयानुरूपवचनैः पिकैश्चरैः कृतपत्रबन्धमुपजेपिरे द्रुमाः ॥ ५५ ॥
लभन्ते सौभाग्यं किमपि हरिणाङ्कस्य किरणाः
पिकाः शब्दायन्ते खगतममृतस्यन्दि च तदा ।
चलत्यद्य श्वो वा पवनपृतना चन्दनगिरे-
रवामं कामस्य स्फुरति च शुभाशंसि नयनम् ॥ ५६ ॥
अर्घाम्भोभिर्वरुणनगरीवासिनां वासरेन्द्रे
पादोष्माणं शमयति वियद्वमखेदोपनीतम् ।
सर्वप्नां व्यवसितिमिति श्रेयसीं वीक्ष्य साक्षा-
सिद्धा मेने विबुधविभुना भाविनी कार्यसिद्धिः ॥ १७ ॥
इति गुर्जरेश्वरपुरोहितश्रीसोमेश्वरविरचिते सुरथोत्सवनाम्नि महाकाव्ये
सर्वर्तुवर्णनो नाम पञ्चमः सर्गः ।
षष्ठः सर्गः ।
कुङ्कुमाविलमिवाअलौ जलं कुर्वदर्जिहिषितः प्रचेतसः ।
अस्तशैलशिखरे खरद्युतेर्दियुते कमलकोमलं महः ॥ १ ॥
पद्मराग इव सान्द्रविद्रुमक्षोदसोदरमरीचिमण्डलः ।
चण्डरोचिरचकासयल्लसद्वैरिकं कटकमस्तभूभृतः ॥ २ ॥
उज्झती झटिति बाष्पनिर्झरं सार्धमर्धदलितैर्बिसाङ्कुरैः ।
चक्रवाकदयिता दृशं ददौ रागिणि प्रियतमे च पूष्णि च ॥ ३ ॥
वासरव्युपरमे शनैः शनैः संकुचत्करपलाशसंचयम् ।
रक्तचन्दनरसारुणं रवेर्बिम्बमम्बुजमिव व्यराजत ॥ ४ ॥
२ काव्यमाला। शर्वरीविरहिणां पतत्रिणां पुण्यराशिरिव वासरः शनैः । भास्वता सह ततान तानवं मित्रतुल्यगतयो हि निर्मलाः ॥ ५ ॥ एहि गेहिनि विधेहि मङ्गलं भानुमानयमुदेति नः प्रभुः । एवमाकुलतया प्रलापिनं वीक्ष्य चक्रमरुदत्तदङ्गना ॥ ६ ॥ पूष्णि कोष्णमहसि प्रपेदिरे पादपप्रतिवपूंषि विष्ण(प्ल)वम् । नीचवृत्तिरुपचीयते परं हा महीयसि विपद्वशं गते ॥ ७ ॥ गौरवं गिरिषु केषु नास्ति तत्केवलं सफलमस्तभूभृतः । यो ददाति दिवसात्यये पदं भास्करस्य तिमिरोत्करस्य च ॥ ८ ॥ नैव यावदवनीरुहोच्चयच्छायमायतमगच्छदेकताम् । होमहेतुरिह गार्हपत्यतस्तावदग्निरुदहारि साग्निकैः ॥९॥ अश्रितश्रि विरहय्य वारिज षट्पदः कुमुदमुन्मदं ययौ । तेऽन्य एव सुहृदः सदान्तिकं न त्यजन्ति विभवात्ययेऽपि ये ॥१०॥ संश्रितस्य शिशिरेतरत्विषः पश्चिमामथ दिशं दृशामिव । मन्दिमानमसमानमीयुषी पादसंततिरवाप शीतताम् ॥ ११ ॥ रेजुरर्ककिरणैर्जपारुणैः पिञ्जरा विरहिणः पतत्रिणः । निर्दयस्मरशिलीमुखार्दनादुच्छलद्बहलशोणिता इव ॥ १२ ॥ खात्पतन्तमपरे खगाः खगं वीक्ष्य बद्धमिव पाशपाणिना। व्याकुलाः प्रतिदिशं विचुक्रुशुः कः सजातिविपदा न दूयते ॥ १३ ॥ सुभ्रवः समयमायतीगवं वीक्ष्य वल्लभसमागमोत्सुकाः । निर्मलस्मरशराधिदेवतान्यञ्जनेन नयनान्यसज्जयन् ॥ १४ ॥ वत्सकोत्सुकतया गुरूधसां दुर्वहत्वमवधीर्य धेनवः । द्राकुटीविविशुरिष्टसंगमान्न श्रमेण विरमन्ति वत्सलाः ॥ १५ ॥ कामिनीभिरिव मेदिनीधरश्रेणिभिर्गुरुपयोधराग्रतः । हीयमानतपनातपच्छलात्पीतकञ्चुक इवोदमुच्यत ॥ १६ ॥ व्योम वीक्ष्य गलदर्कमण्डलं ध्वान्तगन्धि च वसुंधरातलम् । आश्रयन्नतिथयः सदाश्रयं विश्रमाय तरुष(ख)ण्डमण्डजाः॥ १७ ॥ १. पक्षिणः. २. सूर्यम्. ३. खल्पान्धकारम्, --
६ सर्गः]
---
---
सुरथोत्सवम् ।
पश्चिमाचलमहेमकुम्भतां भास्करे भजति शोणशोचिषि ।
गहरेषु विजहार मारजित्कण्ठकुण्ठनकृतोद्य तमः ॥ १८ ॥
याति याति पुनरस्ति चास्ति चेत्याकुलैरथ रथाङ्गनामभिः ।
वीक्ष्यमाणमनवेक्ष्यतामगाबिम्बमम्बरमणेः शनैः शनैः ॥ १९ ॥
सांप्रतं गतवसोरसांप्रतं वस्तुमत्र मम वस्तु दर्शितः।
चिन्तयंश्चिरमितीव दुर्मना देशमन्यमगमद्गभस्तिमान् ॥ २०॥
रागवन्तमपि हन्त वारुणी दिग्विहाय तिलकं विहायसः ।
चुम्बति स्म बलिनं तमश्चयं निविवेकहृदया हि योषितः ॥ २१ ॥
तत्वमान्तरमिवावलोकितुं मीलिताम्बुजविलोचना मनाक् ।
धातुचूर्णरुचिराम्बराः परिव्राजका इव चकासिरे दिशः ॥ २२ ॥
एकतोऽवतमसैमलीमसं रज्यमानमपरत्र संध्यया ।
पाकपाटलितकृष्णलाफलप्रेक्षणीयमभवन्नभः क्षणम् ॥ २३ ॥
उच्चकैश्चरमभूमिभृत्तटाद्गोपतौ पतति वार्धिमध्यतः।
उच्छलद्भिरिव शीकरैस्ततस्तारकैरलमकारि पुष्करम् ॥ २४ ॥
किं महीघरमहागुहागृहाद्भूरुहां किमुत कोटरोदरात् ।
उज्जगाम जगतीतलादथ क्रुद्धकोलकुलकश्मलं तमः ॥ २५ ॥
नित्यमुप्ल(ष्ण)महसा निरस्यते नित्यमन्धतमसं च धावति ।
आदिमस्य परमं किमुद्यम नित्रपत्वमितरस्य वा स्तुमः ॥ २६ ॥
रेजिरे प्रतिनिकेतनाजिरं दीपकाः फणिपुटामणिस्फुटाः ।
बाधितुं तिमिरमीरिता यता भास्करण किरणाङ्कुरा इव ॥ २७ ॥
अस्तमीयुषि दिनाधिनायके ध्वान्ततस्करतिरस्क्रियाकुलम् ।
रक्षितं जगदराजकं जवाबहिना विवृततीव्रहेतिना ॥ २८ ॥
अच्छधूमसममादितस्ततो नीलनीरदसमाजमांसलम् ।
दिक्करीशनिबिरीशमम्बरे डम्बरेण तदनूत्थितं तमः ॥ २९ ॥
अन्तरेण तरणिं विभावयन्भाविनीमिह महोमहर्षताम् ।
दीपकप्रकरकैतवेन तत्संग्रहं प्रतिगृहं व्यधाजनः ॥ ३० ॥
काव्यमाला। यनिधाय निजकन्दरोदरे रक्षितं क्षितिधरैरहस्करात् । तांस्तमस्तिरयति स सस्मयं न ह्यसन्नुपकृतेन गृह्यते ॥ ३१ ॥ भूरलिप्यत रसैरिवायसैयसैरिव निरन्तरा दिशः। सिंहिकासुतशतैरिवावृतं व्योम वल्गति तमिस्रमण्डले ॥ ३२ ॥ दीपकेयु दलितालिकालिकैनूनमन्धतमसैः कृतान्धता । तेन तेऽपि भवनेषु बम्भ्रमुर्गेहिनीकरतलावलम्बिनः ॥ ३३ ॥ मागधा इव दिवान्धपक्षिणस्तत्क्षणप्रकटितैः पटुखनैः । धुन्वतोऽन्धतमसस्य भूतलं तन्वतेऽस्य जयघोषणामिव ॥ ३४ ॥ दुस्तरे तमसि पुस्फुरे परं वायसारिभिरिवाभिसारिभिः । उद्गतिर्जगति जिह्मकर्मणां जायते न मलिनाश्रयं विना ॥ ३५ ॥ नीलशैलसमसंमिलत्तमस्काण्डकाण्डपटसंवृते पथि । कापि कामुकमियाय पुंश्चली निश्चलीकृतविराविनूपुरा ॥ ३६ ॥ अन्धकारनिकरेऽपि भीषणे वल्लभानभिसरन्नसाध्वसः । मीरुरित्यमजत क्षतान्वयं नाम तामरसलोचनाजनः ।। ३७ ॥ मिल्लतुल्यरुचिमिस्तमश्चयैः संचरद्भिरपवित्रितां दिवम् । प्रोक्षति म हिमदीधितिर्महःसीकरैस्तगरकोरकोत्तरैः ॥ ३८ ॥ केवला गवलसंनिभे नभस्युद्यती सितमरीचिदीधितिः । राजति स सुरराजकाष्ठया केशपद्धतिरिव प्रसाधिता ॥ ३९ ॥ पूर्वपर्वततिरोहितात्मनः शर्वरीशितुरभीषुभिर्बमे । पश्चिमं वय इवेयुषस्तमःपेटकस्य पलिताङ्कुरैरिव ॥ ४० ॥ केतकीवनसमानधामनि व्योनि तन्नवपलाशपेशला । शर्वरीवरयितुर्व्यरोचत खैरिणीनिवहवैरिणी रुचिः ॥ ४१ ॥ दत्तदक्षतनयागणक्षणं तत्क्षणं कुवलयेक्षणाजनः । रोहिणीरमणखण्डमण्डनं नीललोहितमपश्यदम्बरम् ॥ ४२ ॥ खण्डमण्डलमखण्डरोचिषः किंचिदुच्छलितलाञ्छनच्छवि । रोचते स्म रचिताञ्जनाक्षरं जैत्रपत्रमिव पुष्पपत्रिणः ॥ ४३ ॥ १. तारकाः, सतीच.
६ सर्गः] सुरथोत्सवम् । अम्बरे नवनिशाधिपोदयात्पोतकीदयितपिच्छसच्छवौ । कांदिशीकतिमिरेण वर्मना सत्वरं व्यचरदित्वरीजनः ॥ ४४ ॥ रत्नरुक्कनककान्ति गर्भिणीगण्डपाण्डु रजतोज्ज्वलं क्रमात् । भित्तमर्धमसमग्रमक्षतं लक्ष्यते स्म. वपुरेणलक्ष्मणः ॥ ४६॥ मुख्यमायुधमनन्यजन्मनो जन्मनः फलमखण्डितं दृशाम् । सागरस्य परमं रसायनं सोममण्डलममण्डयन्नभः ॥ ४६॥ कोमलैः कुमुदबान्धवः करैरन्धकारनिकरम्बमुद्धरन् । तद्भरेण गुरुणारुणच्छविर्मन्दमन्दमुदगादसंशयम् ॥ ४७ ॥ वल्लभे रजनिवल्लभे तमःस्तोममंशुकमिवाशु कर्षति । शर्वरीवनितया विवर्णया खिन्नमिन्दुदृषदम्बुदम्भतः ॥ ४८ ॥ पूरयन्मकरकेतुदौ«दं सौहृदं च कुमुदेषु दर्शयन् । उल्ललास कलितक्रमस्तमस्काण्डखण्डनमतान्तरं शशी ॥ १९ ॥ दिङ्मुखेषु ददती स्मितश्रियं पुष्णती तरुषु पुष्पसंपदम् । इन्दुदीधितिरदर्शयद्भुवि क्षीरनीरधितरङ्गसंगतिम् ॥ ५० ॥ मारमीश्वरललाटलोचनप्लुष्टमङ्कगतमकदम्भतः । जीवयन्निव विधुः सुधारसैराविरास तमसामसज्जनः ॥ ११ ॥ यामिनीयुवतिहारयष्टिभिश्चामरैर्मकरकेतुभूपतेः । : ऐन्दवैरलिकडम्बकश्मलं रश्मिभिर्नभसि भस्मितं तमः ॥ १२ ॥ अग्रपादपरिघट्टितैस्तमःकर्दमैरिव कलकिताकृतिः । अन्तरिक्षविपिनान्तरेऽचरत्तारकासुरभिशाकरः शशी ॥ १३ ॥ ताडयंस्तिमिरमंशुयष्टिभिविष्टपं च पुरतः प्रदर्शयन् । मीनकेतनमहीपतेः प्रतीहारतामनुजहार चन्द्रमाः ॥ १४ ॥ उत्सवेन सह वाहिनीपतेर्वैशसेन तमसः श्रिया निशः। संमदेन कुमुदस्य चात्मना पञ्चमः सितमरीचिरुद्यतः ॥१५॥ रश्मिषु प्रविततेषु पाशवत्पश्यता शशिपुरस्कृतं मृगम् । अध्वनीनहरिणान्प्रतिघ्नता मन्मथेन मृगया विनिर्ममे ॥ १६ ॥ १. मृगयायां ह्यन्यमृगविश्वासाय गृहपालितं मृग हस्ते धारयन्ति. १ काव्यमाला। दुग्धबिन्दुधवलैः सुधारुचः सौधजालगलितैरभीषुभिः । रेजिरेऽजिरविलासभूमयो मौक्तिकप्रकरदन्तुरा इव ॥ १७ ॥ आतपेन कटुना कटुत्विषः स्फीतपित्तपरितप्तलोचनैः । त्वक्षितेक्षुलतिकेव चन्द्रिका चय॑ते स्म मधुरा चकोरकैः ॥ १८ ॥ दन्तिदन्तमुसलेषु मांसलं राजहंसनिवहेष्वहंकृतम् । दुर्घरं दधति सोधपद्धतावुद्धतं व्यहरदैन्दवं महः ॥ १९ ॥ अप्युपेक्ष्य निजलक्ष्मकालिकामिन्दुना धवलितं धरातलम् । मन्वते नहि महान्तमुत्तमाः स्वापकारमपरोपकारतः ॥ ६० ॥ उर्वरा परिचितेव पारदैः शारदैरिव घनैर्घनं नमः । आचरत्यपरवर्णनिहवं जाह्नवीसहशि चन्द्रिकाद्रवे ॥ ६१ ॥ सर्वतोऽपि हरपर्वतोज्ज्वले शुद्धिमादधति चन्द्रिकाजले । शुभवेषविमवा बभुः स्त्रियो दुग्धसिन्धुजलदेवता इव ॥ ६२ ॥ कौमुदीकुमुदवृन्दसुन्दरां शर्वरीमथ विलोक्य सत्वरः । काकतुण्डमृगनाभिचन्दनैर्मण्डनानि विदधे वधूजनः ॥ ६३ ॥ हारदाम हृदि दन्तपत्रिका कर्णयोर्वपुषि चन्दनद्रवः । केशपाशममिफुल्लमल्लिका सुभ्रुवामभवदिन्दुदीधितिः ॥ १४ ॥ विद्रुमादपि निसर्गसुन्दरे दन्तवाससि विशालचक्षुषः । मण्डनैकरसया वयस्यया या च कः स्थितिरिति न्यधीयत ॥६५॥ आगते समिकतां सितद्युतौ द्यूतकारिभिरिवातिजित्वरैः । अक्षनिर्जितवतंसवारिजश्रीरगृह्यत नितम्बिनीमुखैः ॥ ६६ ॥ प्रेयसः प्रविशतो हृदालयं मङ्गलाय किल काचिदङ्गना । तोरणसजमिवाकरोत्कुचस्तम्भयोरुपरि हारवल्लरीम् ॥ १७ ॥ शोभते स्म मृगनाभिनिर्मिता सुभ्रुवामभिनवा ललाटिका । चूर्णकुन्तलकलापकालिका भ्रूलतांशुभिरिवैकतां गता ॥ ६८ ॥ मण्डनाय विदधे वधूदृशां साधु कज्जलरजः पयोजभूः । वर्तते श्रुतिपथं विलङ्घय यः कालिमैव किल तस्य युज्यते ॥ ६७ ॥ १. अगरः. २. नेत्राणि, पाशकाच, ६ सर्गः] सुरथोत्सवम् । मूलबद्धकुसुमा मृगीदृशां वेणिरेणमदरेणुरूषिता । राजति स्म रजतान्वितत्सरुः खड्गयष्टिरिव पुष्पधन्वनः ॥ ७० ॥ कामिनीकचकलापकालिमा ज्योत्स्नयापि न तयापचायितः । संसृजन्ति सुमनोभिरन्वहं ये श्रिया विरहिता न जातु ते ॥ ७१ ॥ काञ्चनाभरणरोचिरङ्कुरैराचितं रचितचम्पकभ्रमैः । चन्दनार्चितमपि व्यभावपुः कुङ्कुमाक्तमिव कुञ्चित वाम् ॥ ७२ ॥ यत्वभावसुभगं वधूवपुस्तद्विभूषणविभूतिभूषितम् । कामिनां स्मरशरक्षते हृदि क्षारभारमकिरत्तरामिव ॥ ७३ ॥ यन्न शुभ्रमहसापसारितं गर्भगेहतिमिरं मरीचिभिः । तद्वधूवदनदीप्तिदुःस्थितं धूपधूममिषतो गतं बहिः ॥ ७४ ॥ पीडितं हृदि रतीशरक्षसा वीक्ष्य लक्ष्मणमिवाङ्गनागणम् । आनिनाय वरमौषधं जवादाञ्जनेय इव दृतिकाजनः ॥ ७५ ॥ कामिनीनयनयोविलोलयोर्लोलुपेन मनसा नियुक्तयोः । वल्लभागमनमार्गमार्गणे विस्मृतेव सहजानवस्थितिः ॥ ७६ ॥ कामुकागमविकासिकामिनीगण्डमण्डलविशेषितश्रिया । शर्वरीवरकलङ्ककालिकानिर्मदा मृगमदेन निर्ममे ॥ ७७ ॥ पत्युपासनमनिष्टशान्तये योषितामिति यथातथं वचः । पश्य पश्य विरहे दहत्यसावङ्गभूरपि यदङ्गकानि मे ॥ ७८ ॥ तन्न तेन सह विग्रहं सहे याहि तत्र तमिहानय द्रुतम् । काचिदेवमुपदिश्य दूतिकां प्राहिणोत्र(प्र)णयिने मनस्विनी ॥ ७९ ॥ (युग्मम्) यां न मानभृतमालयोऽप्यलं नेतुमप्रियकरं प्रियं प्रति । तां सहेलमनयन्निशाकरो दुष्करं किमथवा कलावताम् ॥ ८ ॥ प्रेम मानशबलं विशिष्यते सोपदंशमिव कापिशायनम् । तत्कदापि दयिताय कुप्यतां नार्जवैकसुललाः(भाः) सखिप्रियाः॥ ८१॥ . १.चपलत्वम्.
काव्यमाला। काचिदित्यनृजुतां सखीजनैः शिक्षितापि दयितेऽभिवर्तिनि । तां निराकृत कृताङ्गवेपथुर्न स्मरः परवशः प्रवर्तते ॥ ८२ ॥ (युग्मम्) वीक्षितोऽस्मि पतितोऽपि पादयो तयेति भव मावमानितः । नापराधपरितापितं जवादेति शान्तिमनुरागवन्मनः ॥ ८३ ।। सापि सानुशयमानसा जवात्त्वां व्रजन्तमनुजग्मुषी परम् । श्रेणिभारपरिमन्दगामिनी संगता न भवता त्वरावता ॥ ८४ ॥ सा मृदुर्मदनबाणबाधिता बाध्यते च विधुनाधुनाधिकम् । तत्पुरंध्रिवधपातकाद्भयं चेत्तवास्ति तदुपेहि पाहि ताम् ॥ ८५ ॥ प्रेयसि प्रहितया वयस्यया कश्चिदित्यभिहितः कृती युवा । तामुपेत्य रभसादुपोषितः पारणामधरसीधुना व्यधात् ॥ ८६ ॥ (कुलकम्) नाथ वेद्मि विरहव्यथामतस्त्वां वदामि दयितां व्रजाशु ताम् । कुर्वतीं सुकृतमेतदेति यन्नातिरन्यजननेऽपि मामियम् ॥ ८७ ॥ कोऽपि कन्दलितमन्तु दुःखितः प्रेयसीमिति गभीरभाषिणीम् । आनमन्नथ तदश्रुनिर्झरस्नानघौतदुरितो मैतोऽभवत् ॥ ८ ॥ (युग्मम्) आगतेष्वभिमतेष्वथाङ्गनास्त्वङ्गदङ्गदमणिद्युतां गणैः । रञ्जयन्त्य इव रागिणोऽप्यमूनारमन्त रसनं परिश्रु(सु)तः ॥ ८९॥ बिम्बितादमृतदीप्तिबिम्बतः पङ्कजादपि निजावर्तिनः । मानिनीमुखमधिश्रि सीधुना जानतेव चषकान्निषेवितम् ॥ ९ ॥ चातुरी वचसि विभ्रमं दृशोर्मानसे मनसिजं च पुष्यति । हृष्यते स्म दयिते विचक्षणे स्त्रीगणेन न तु कापिशायने ॥ ९१ ॥ भ्रूशरासनमनोहरः पुरः पृष्ठतः कचकलापमुद्वहन् । मेदिवान्मदनमेदिनीपतेर्वीरवर्ग इव वाणिनीगणः ॥ ९२ ॥ १. 'मि' ख. २. व्यवहार्यः, ३. चलत्केयूरमणिकान्तीनाम्.
६ सर्गः] सुरथोत्सवम् । ३९ उत्थिते रतरणार्थिनि प्रिये स्त्रीनितम्बसुभटैर्मदोद्धतैः । सिंहनाद इव संभ्रमस्खलन्मेखलाकलकलच्छलात्कृतः ॥ ९३ ॥ वारितोऽपि करवारिजजैः सीधुगन्धि मुखमिन्दुमुखीनाम् । षट्पदः सपदि पातुमपप्तदुर्लभे हि रतिरेत्यतिरेकम् ॥ ९४ ॥ वीडनम्रमविदग्धवधूनामास्यमुन्नमयता मधुरौष्ठम् । आसवेन समयोचितकर्ता कामिनो मुमुदिरे सुहृदेव ॥ ९५ ॥ दीक्षितैरपि सदासवसेवाकोविदैर्युवभिरिष्टविलासैः । वल्लभाधरसुधारसपानात्स्वर्गजं सुखमिहैव गृहीतम् ॥ ९६ ॥ पूर्वकायमवधूतवतीनां कुण्डलैविगलितं वनितानाम् । नूपुरैर्मदभृतामवतस्थे कः सदाचरणवान्पततीह ॥ ९७ ॥ तापसाधनमसाध्यतया यं नौषधीपतिरपि प्रतिचक्रे । तं महान्तमपि मानवतीनां रोषरोगमरुजन्मधुवारः ॥ ९८ ॥ आलवाल इव बालमृगाक्षीमानसे मधुरसैरभिषिक्तः । उल्ललास ललितस्मितपुष्पः पुष्पचापशिखरी शतशाखः ॥ ९९ ॥ कामिनीषु नयनेन तिरश्चा व्यञ्जतीषु सुजनाय मनः स्वम् । उत्थितः कृतमिथः करसंज्ञं कार्यवानिव सुहृत्परिवारः ॥ १० ॥ पाणिना स्पृशति सागसि नाथे मन्थरं च रचितप्रसरं च । ताम्यति स्म हृदयं प्रमदानां मानमानसभुवोरैविभक्तम् ॥ १०१॥ कर्षति प्रसभमंशुकमीशस्तद्वधूरपि रुणद्धि सलज्जा । दीपकेन शलभोपनिपातान्नश्यता विनुनुदे सविनोदः ॥ १०२ ॥ वल्लभे दशति न प्रमदाभिर्मीलितार्धनयनाभिरबोधि । निर्दयोऽपि रदनाग्रविभेदश्चेतना व ननु लग्नभुजङ्गे ॥ १०३ ॥ न्यञ्चितं सहचरेण रताजौ लज्जयेव युवतेः कुचयुग्मम् । कृष्णतां मुखगतां दधदासीन्मुक्तमौक्तिकलतोज्वलकीर्ति ॥ १०४ ॥ विभ्रमद्भुजलता रतरङ्गे रङ्गदङ्गजगजान्दु()निनादैः । का च काचवलयावलिशब्दैराजुहाव हृदयं दयितास्य ॥ १०५ ॥ १. 'घातैः ख. २. 'वत्प' क. ३. साधारणम्. ...-.......-----. ............. - . ..
काव्यमाला। . संप्रयोगरभसात्पतताधः कामिनीकनककान्तिगुणेन । क्रन्द्यते स्म किल किङ्किणिकाभिः कः कलत्रविरहे नहि दुःखी ॥१०॥ निर्गते परिजने जघनेभ्यः प्रस्थितेषु वसनेषु वधूनाम् । मन्मथप्रथमकेलिजडानां लज्जितेव निरगादपि लज्जा ॥ १०७ ॥ अस्थितोद्धतरतोत्सवखेदखेदबिन्दुविगलत्तिलकानि । रेजुरेव वदनानि वधूनां शोभते हि मृदितोऽपि कृतार्थः ॥ १०८ ॥ पल्लवैरिव नवैर्नखचिह्नः सुभ्रुवां शुशुभिरे कुचकुम्भाः। यैर्बभूव भुवनत्रयजेतुर्मङ्गलं मनसिजक्षितिभर्तुः ॥ १०९ ॥ निर्विचारमघरोत्तरवर्ति व्याहतानुचरनायकभावम् । सोपचारमपि रागिजनेन न्याय्यमेव रतराज्यमकारि ॥ ११० ॥ एणाक्षीणां कान्तदन्तक्षतालंकारादोष्टाद्यावकैः साधु यातम् । खस्थानेऽन्यं वीक्ष्य बद्धप्रतिष्ठं कस्तत्रैव स्थातुमीहेत राँगी ॥ १११॥ संभोगप्रसरनिरस्तभूषणानां कान्तानां कुचकलशद्वये विहारे। नेत्रालीमसकलमीलितां दधानः सिद्धार्थैः पतिभिरिव स्थितिः प्रपेदे ॥ ११२ ॥ अथ क्रीडागारे चिरविरतपारापतरुते रतान्तक्रान्ताभिर्दयितहृदि सुप्तं युवतिभिः । वशे विश्वं कृत्वा रतिसहचरोऽपीश्वरशम- प्रमाथप्रख्यातं समहरत पौष्पं प्रहरणम् ॥ ११३ ॥ अभजत नभःपश्चाद्भागं विधुर्विधुरच्छवि- हरियहरित्याविः किंचिद्बभूव दिवाञ्चलः । कुवलयवनादुत्तिष्ठासुर्यियासुरथापरं सरसिजवनं श्रीर्मङ्गल्यं मुहूर्तमपैक्षत ॥ ११४ ॥ इति गुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये चन्द्रोदयवर्णनो नाम षष्ठः सर्गः । १. अविश्रान्त. २. 'सापि' क. ३. 'ल' ख. ४. रक्तवर्णः, मत्सरी च. ५. सुखेन, ध्यानेन च. ६. 'रवस्थि-ख. 15641 ७ सर्गः] सुरथोत्सवम् । सप्तमः सर्गः। पूर्वाचले च मिथुनानि रथाङ्गनाना- मानन्दयंश्च तिमिरं परिमन्दयंश्च । प्राभाकरः सरसयावकरक्तकान्ता- दन्तच्छदच्छविररोचत रोचिरोधः ॥ १॥ माध्वीकपानजमिवारुणजं दधाना रागं मुखे गलिततारकहारयष्टिः । भ्रश्यत्तमिस्रवसना हरिदिक्पुरंध्री तत्याज माल्यमिव चन्द्रमरीचिजालम् ॥ २॥ आविर्भबद्दशशतद्युतिपत्रपूगे तद्दारितोदयधराधरधातुवर्णे। प्राचीमुखे परिणतारुणि ताम्रताम्र- स्ताम्बूलसंभव इव स्फुरति स्म रागः ॥ ३ ॥ हन्तुं पुरः स्फुरति चण्डरुचौ प्रभात- रागच्छलेन कलयत्करवीरमालाम् । वध्यस्थलीमिव दिवं स्फुटतारकास्थि- कूटां तमःपटलमानयति स कालः ॥ ४ ॥ ध्वान्ते समुन्मिषति मेचकरोचिरासी- त्पीयूषरोचिषि वलक्षरुचिर्बभूव । दीप्तद्युतावरुणिमानमगच्छदुर्वी सर्वोऽपि हि व्यवहरत्युदितानुरूपम् ॥ ५ ॥ आकर्ण्य कुक्कुटरुतानि रतैकसख्या रात्रैः प्रयाणपटहत्वमुपेहि(यि)वांसि । प्रक्व(ह)प्रियप्रणयजर्जरितानि मान- विस्फूर्जितानि परितप्त(त्य)जुरजनेत्राः ॥ ६ ॥ १. वाहनसमूहे, नागवल्लीदलक्रमुके च. ६ काव्यमाला। 3 रङ्गत्तुरङ्गखुरखण्डितशक्रशैल- शृङ्गोत्थगैरिकपरागरुचारुणेन । देवेऽरविन्दविधुरोद्धरणैकबन्धौ बुद्धिस्थ एव विदधे तिमिरस्य लोपः ॥ ७ ॥ विध्वस्तदर्शननिमीलनकृत्तमित्र- मुत्सेधिताधिकरतद्युतिचित्रभानुम् । रात्रेर्दिनस्य च विकाशितकौशिकाश- मालोकते स्म समयं सममेव लोकः ॥ ८ ॥ दृष्ट्वा रथाङ्गमिथुनं गृहदीर्घिकायां संगच्छमानमनुभूतरसापि काचित् । कन्दर्पकेलिषु पुनर्नवतां गतेव नापृच्छमान(?)मपि कामिनमन्वमस्त ॥ ९ ॥ उन्मीलदम्बुजविलोचनलोल(भ)नीयं भाखड्युतिव्यतिकराधरितेन्दुकान्ति । कान्तामुखं दिनमुखं च विलोक्य यातुं स्थातुं च कश्चन शशाक न कामलोलः ॥ १० ॥ प्रातस्तनेन नवपङ्कजपुञ्जगन्ध- संबन्धबन्धुरतरेण समीरणेन । रत्यै रतिश्रम मन्नयनोऽप्युपाजे- कृत्य प्रकारमुददीप्यत कामिलोकः ॥ ११ ॥ नेत्राञ्जनं विलुलितं दलिता कपोल- पत्रावलिर्विधुरिताधररागमुद्रा। सुप्तं घनस्तनतटे च गृहीतकण्ठै- बाष्पाम्बुभिः प्रियतमैरिव खण्डितानाम् ॥ १२ ॥ १. विनाशिता नेत्रनिद्राकृद्रात्रिर्येन, पक्षे विधुना चन्द्रेण अस्तं प्रकाशसंकोचकृत्तमो यत्र. २. रविम्, वहिं च. ३. इन्द्रदिक् , उलूकवाञ्छा च. ४. दुर्बलं बलिनं कृत्वा.
७ सर्गः सुरथोत्सवम् । . अन्तर्वहन्मलिनतां तमसा बहिस्तु रागं श्रयन्किशलयैररुणांशुमित्रैः । पक्षिस्वनैः खल इवाचलवृक्षखण्ड- श्चण्डद्युतेरुदयतः स्तुतिमाततान ॥ १३ ॥ ज्योत्स्नाजलेन शनकैः शममृच्छतेव प्रत्यग्रकर्दमसमच्छवि जायमानम् । क्रान्तैकदेशमैहरीशितुरग्रपादै- योमाभूतलमिवोज्ज्वलतां प्रपेदे ॥ १४ ॥ विस्र(श्र)स्तहस्तमपटुश्रवणं विशीर्ण- तारं तथा शिथिलकृत्तिकमस्तशुक्रम् । श्यामोपलो(भो)गविमुखं भजति स्म भाव(ख)- त्युद्गच्छति स्थविरभावमिवान्तरिक्षम् ॥ १५ ॥ त्रिः पाणिना परिसमूह्य सहोदकेन देवं दधद्भिरधिमानसमिध्यमानम् । आत्तं चतुर्हविरधिश्रयणेन पूत- मग्न्याहितैर्तुतवहे जुहवांबभूवे ॥ १६ ॥ पीनस्तनेषु हृदयेषु मनस्विनीनां भाति स चन्दनरजो रजतावदातम् । उद्दामकामधुणजर्जरपजरास्थि- निर्यत्य(त्प)रागकणिकाकरणिं दधानम् ॥ १७ ॥ भिन्नाञ्जनाश्रुजलयोगगलत्कपोल- कस्तूरिकालवभवल्लिपिलाञ्छनानि । आवेदयन्नुषसि पुष्पशरोपनीतं दुःखं सखीषु शयनानि मनस्विनीनाम् ॥ १८ ॥ १. ध्वान्तेन, पापेन च. २. रवेः. ३. यथा कस्यचित्पादाग्रेण पीडितं नदीतटा- दावा भूतलमुज्ज्वलं भवति तथा सूर्यपादाक्रान्तनभोऽपि. ४. गृहीतम्.
काव्यमाला। १ पिङ्गाभिरुद्यदहिमांशुमहश्छटाभिः शोभा जटाभिरिव दर्शयदन्तरिक्षम् । बिभ्रन्निरस्तरुचि चन्द्रमिषात्कपालं कापालिकस्य करणिं कलयांचकार ॥ १९ ॥ कल्पान्तविप्लुतपयोदघटातिघोरा- कारान्धकारमहिषासुरहानिहर्षात् । देवर्षिभिर्विकसितास्यमुपास्यमाना चण्डीव चण्डकिरणस्य रुचिश्चकासे ॥ २० ॥ तीत्रैः शरैरिव करैः किरणाकरेण मत्वात्मजानि तिमिराणि तिरस्कृतानि । अस्तोकशोकविकलेव कलङ्कदम्भा- दके पपात रजनी रजनीश्वरस्य ॥ २१ ॥ व्यापारयत्यथ करांस्तुहिनेतरांशा- वाशाः सखीरिव सहासमुखीविलोक्य । न्यञ्चन्निशाकरनिभेन मुखं बभार ब्रीडाविनम्रमविदग्धवधूरिव द्यौः ॥ २२ ॥ पीत्वा तुषारकरपानकरवर्ति ज्योत्स्नाजलं सपदि पूर्वगिरेवनान्तात् । उच्चित्य तारककणान्गणशश्च कीर्णी- स्तारापथे प्रथयति स्म गतं पतङ्गः॥ २३ ॥ आलोकयन्नुदयमूर्धनि दीप्तिदृप्त- मुत्तप्तपारशवपिण्डमिवोष्णपादम् । दाहाभिशङ्कित इव खकरान्सुधांशु- राकुञ्चति म कुमुंदावलिकेलिकारान् ॥ २४ ॥ १. सूर्येण. २. 'व-' ख. ३. कर्पर. ४. 'ग' क. ५. 'क' क. ६. 'नि-'क, सुमा ख. * . .
७ सर्गः] P सुरथोत्सवम् । कान्ते सितत्विषि समीयुषि देशमन्यं दीनां दशां कुवलयावलिरुद्वहन्ती । हासं जहौ मधुकरैः सह न व्यहार्षी- न्नाप्यय॑मोदयमहोत्सवमालुलोके ॥ २५ ॥ लोकान्तरं रजनिकामिनि हन्त याते म्लानिं भजत्सु सुजनेष्विव दीपकेषु । नीहारनीरकणकैतवतोऽश्रुपात- मातन्वती रजनिरप्यनुगच्छति स्म ॥ २६ ॥ प्रत्यारागसुभगस्य गभस्तिभर्तु- रालिङ्गिताः करभरेण भृशं सरस्यः । निद्राणनीलनलिनच्छलमीलिताक्ष्यः स्मेराणि वारिजमिषेण मुखानि दध्रुः ॥ २७ ॥ आतन्वता जगति दीप्तिमधर्षणीया- माज्ञामिव द्युतिमताभिनवोदयेन । कारानुकारिकमलाकरकोशबन्धा- दुन्मोचितः सपदि पुष्पलिहां समूहः ॥ २८ ॥ दीपाङ्करैर्भनिकरैस्तुहिनांशुना च नांशोऽपि यस्य तिमिरस्य पराबभूवे । तेजखिभिः सममशेषमपीदमेतै- र्बालादपि द्युतिमतः कचनापि नष्टम् ॥ २९ ॥ बालेऽङ्कमापतति तिग्मकरे कराग्र- व्याकीर्णकूर्चकचकल्पतमिश्रतन्तौ। शर्मोदयादिव निमीलिततारकस्य तारापथस्य रुचिरा रुचिराविरासीत् ॥ ३० ॥ रक्षोधिराज्यमिव संतमसं सहस्र- संख्यैः करैर्जगदसौख्यकरं निकृत्य ।
४६ काव्यमाला। २ उस्रानुरञ्जितजनद्विजराजपात- हेतुळरोचत विकर्तनकार्तवीर्यः ॥ ३१ ॥ देशान्तरादशिशिरद्युतिमभ्युपेतं कान्तं विचिन्त्य रुचिराम्बरधारिणीभिः । अभ्युद्धृतावतमसप्रसरालकानि दिक्कामिनीभिरुपचस्करिरे मुखानि ॥ ३२ ॥ आलिङ्गितुं कमलिनीमिव मामलें- वारिच्छटामिव वियोगिविहङ्गमानाम् । आकाशनीरनिधिमध्यमिव प्रवेष्टुं प्रासारयत्करसहस्रमहःसृडुच्चैः ।। ३३ ॥ प्रातः प्रणीततपनोपलकुण्डवह्निः सोमं समग्रसुरपेयरसं निपीय । मूर्त्यन्तरं भगवतः परमेश्वरस्य यज्वेव गोत्रजमहर्षतिरुत्ससर्ज ॥ ३४ ॥ देवस्य दुर्ललितदैत्यनिकायकाय- च्छेदोच्छलद्बहलशोणितशोणितस्य । गोमण्डलेन रचितानि किरातकान्ता- केशच्छवीनि तिमिरोलपजालकानि ॥ ३५ ॥ दर्वीकरप्रकरमेचकमन्धकार- मुच्छिन्दता कृतगतिर्विनतासुतेन । चक्रप्रियः कनकभङ्गनिभाम्बरश्रीः पद्मोत्सवं प्रणमतां हरिराततान ॥ ३६ ॥ १. किरणाः, गौश्च. २. चन्द्रः, जमदग्निश्च. ३. 'राज-' ख. ४. 'श्रु-' ख. ७. चन्द्रम् , सोमवल्लीं च. ९. सूर्यस्य. १.. मन्देहा. ३. उदृत. ८. यजमान इव.
७ सर्गः] सुरथोत्सवम् । आविष्कृतापगतदोषपदार्थसाथै पादैरिव प्रविततं प्रहरैश्चतुर्भिः । सत्कान्ति काव्यमिव वासरमक्षतौज- श्चक्रे रविः कविरिव प्रथितप्रबोधः ॥ ३७ ॥ वैल्गद्भुवं विमलधिष्ण्यमनिन्दितांशु सोमाभिराममृषिमण्डलमण्डितं च । उज्जम्भमाणमृगशीर्षमशीतदीप्ति- दक्षाध्वरं हर इवाम्बरमन्वगच्छत् ॥ ३८ ॥ छायाच्छलेन महतां धरणीधराणां पृष्ठप्रदेशमवलम्ब्य निलीयमानः । अन्तर्दधे दुरवलोकमहो महोर्मि- संवर्तितात्तिमिरराशिरशीतरश्मेः ॥ ३९ ॥ सिन्दूरसुन्दरमशोभत रश्मिजालं जालागतं क्षितिभुजां भवनोदरेषु । अन्तर्निलीनतिमिरौघविघट्टनार्थ- माग्नेयमस्त्रमिव मुक्तमहस्करेण ॥ ४० ॥ किंचिन्मृदुत्वमथ मुञ्चति चण्डरश्मौ प्रालेयशैलदुहिता सहिता सखीभिः । पुष्पावचायकुतुकागणितोष्णपीडा क्रीडावनाय जनकानुमता जगाम ॥ ४१ ॥ आमुक्तमौक्तिककणाभरणा सखीषु क्षीराब्धिवीचिवलं दधती दुकूलम् । ज्योत्स्लीव रात्रिषु नदीषु नभोनदीव सा कामधेनुरिव धेनुषु राजति स्म ॥ ४२ ॥ मुक्तावली विलसति स्म हिमाद्रिपुत्र्याः सौन्दर्यनिर्दलितकम्बुनि कण्ठपीठे । १. मुनिभेदः, स्रुग्भेदश्च. २. 'मि' ख. .
काव्यमाला ।
...-
आलिङ्गनैकरसिकस्य हरस्य बाहु-
दण्डद्वयादवसिता भसितच्छटेव ॥ ४३ ॥
पार्श्वद्वयप्रणयिनं परिचारिवगै
सा लीलया वलितकन्धरमालपन्ती ।
दूरादराजत मुदा कुमुदावदात-
दन्तद्युतिद्विगुणितोभयचामरश्रीः ॥ ४४ ॥
मन्दाकिनीमिव सितातपवारणेन
तच्छायया च यमुनामिव दर्शयन्ती ।
सा कस्य नाम न मुदामुदयं तदात-
दन्तर्गता जनयति स्म सरस्वतीव ॥ ४५ ॥
माकन्दकन्दलितकान्ति मधूकमेध्यं
पुन्नागदत्तपरभागमशोकशोभि ।
उत्फुल्लमल्लिकममीलितमालतीक-
मुत्कम्पचम्पकममुद्रितपारिभद्रम् ॥ ४६ ॥
नीलातपत्रमवनेर्मकरध्वजस्य
विश्रामधाम मधुपां मकरन्दसत्रम् ।
विद्यामठं च कलकण्ठकुलस्य वल्ली-
वृन्दस्य लास्यसदनं वनमन्वगात्सा ॥ ४७ ॥
CS
(युग्मम्)
रोमाञ्चकञ्चकमथ प्रथयत्युदार-
मन्दारसौरभविभूतिहरे समीरे ।
तस्यास्तनौ स्तनभराधिगतश्रमाया-
मायासवारि विसरावसरो व्यरंसीत् ॥ ४८ ॥
संपाद्य पाद्यमिव पुष्परसैः क्षरद्धि-
राविष्कृतस्मितमिव व्रततिप्रसूनैः ।
लीलावनं वनजपत्रसगोत्रनेत्रां
तां स्वागतं पिकरवैरिव पर्यपृच्छत् ॥ ४९ ॥
७ सर्गः। सुरथोत्सवम् । ...tu.natahari May देव्यास्तुषारकरशेखरवल्लभायाः सौन्दर्यसंपदवलोकनविस्मितानाम् । अन्तनिलीनमधुपस्मितपुष्पदम्भा- नेत्रतजैविचकसे वनदेवतानाम् ॥ ५० ॥ साचीकृतैककुचकुम्भमुदञ्चदेक- दोःकन्दलं शिखरिणामवकृष्य शाखाः । तत्राथ चैत्ररथचारुणि चक्रिरेऽस्याः सख्याः प्रसूनकपरिग्रहमग्रहस्तैः ॥ ११ ॥ जग्राह सा हसितपद्मरुचा करेण स्तोकान्यशोककुसुमानि सपल्लवानि । पादेन तु प्रणुदती प्रचुराण्यकार्षी- दादानमुन्नतधियां बहु दातुमेव ॥ ५२ ।। मुक्त्वा मधूकमवधूय लवङ्गसङ्गं संत्यज्य वारिजवनीमपनीय नीपम् । जातीमतीत्य तगरं विगणय्य भृङ्गै- रङ्गीकृतं वदनसौरभमेव तस्याः ॥ १३ ॥ यस्याः श्रवःसविधवर्ति कृतं भवान्याः प्रच्छन्नलोचननिमीलनकौतुकेन । खं पाणिपङ्करुहयुग्ममथापराभि- स्तेनैव सा स्फुटममन्यत सावतंसा ॥ १४ ॥ तस्मिन्वनेऽभिनवलूनलताप्रसून- गन्धानुधावदलिदीर्घितदृग्विलासा । चिक्रीड नीडजसमाजसमुत्थितेन कोलाहलेन मुखरे शिखरीन्द्रपुत्री ॥ ५५ ॥ एवं विहृत्य वनसीमि सहाङ्गनाभिः सा निम्ननाभिरवलग्नविलग्नहस्ता । १. 'लालिवि-ख.
काव्यमाला। रगत्तरङ्गकृतदुष्कृतसङ्गभङ्गां गङ्गां जगाम जलकेलिकुतूहलेन ॥ १६ ॥ तां वीक्ष्य वीक्षणहतांहसमापतन्ती डिण्डीरपिण्डमिषतः स्मितमुद्वहन्ती । उत्कूजतां कलकलेन जलाण्डजानां भागीरथी सरभसेव मुदाबभासे ॥ १७ ॥ नीरस्थितेन सितपत्रिकुले कलेन फेनभ्रमं रुतशतेन परित्यजन्ती। निश्चिन्वती च सदृशत्विषि पुण्डरीक- खण्डं जले मधुकरैरुपरि भ्रमद्भिः ॥ १८ ॥ रत्नाङ्गुलीयकविकखरकान्तिसान्दै- रिन्द्रायुधं विदधती करजांशुजालैः । नानाप्रसूनपरिपूरितकेशपाश- भारादिवांसयुगमानतमुद्वहन्ती ॥ १९ ॥ प्रक्षालितः कलिमलो दलितार्थतृष्णा सिक्तश्च पुण्यशिखरी शमितो भवामिः । येनाम्भसा हरशिरःशिशिरप्रभैक- मित्रेण सा तदविशत्रिदशस्रवन्त्याः ॥ ६ ॥ (त्रिभिः कुलकम्) गौरीमुखेन्दुमवलोक्य ममाम्बुजानि मा संकुचन्तु सहसेति वितळ गङ्गा । तोयैस्तदुच्चकुचघट्टनयोच्छलद्भि- रन्तर्धये पटमिव प्रकटीचकार ॥ ६१ ॥ कर्पूरकुन्दकलिकाकलधौतशुरै- रनापगाजलभरैर्गलितेऽङ्गरागे । १. दर्शननिरस्तपापाम्. २. 'तीर-' ख. ३. चन्द्र.
७ सर्गः] सुरथोत्सवम् । मूर्ति विशेषविशदामवलोकयद्भि- रालीगणैः क्षणमलक्ष्यत सापरेव ॥ १२ ॥ गङ्गां विगाह्य चलिताचलचक्रवर्ति- पुत्री गृहाय विगृहीतहरोपशान्तिः । वृन्दारकैदितिसुतापहतप्रमोदै- रासाद्यते स्म तृषितैरिव तोयधारा ॥ ६३ ॥ म्लानैर्मुखैर्विकसितैश्च विलोचनाजै- दुःखं सुखं च मरुतः सममुद्गिरन्तः । (तस्याः प्रणम्य चरणौ शरणार्थिनस्ते स्तोत्राय धातृतनयामनयन्मनांसि ॥ ६४ ॥ तापत्रयप्रशमनामृतवापिकायै मोहान्धकारभरभर्त्सनदीपिकायै । त्रैलोक्यलोचनचकोरकचन्द्रिकायै तुभ्यं नमस्तुहिनपर्वतपुत्रिकायै ॥ १५ ॥ विश्वत्रयं विदधतः कमलासनस्य संरक्षतः क्षतशतक्रतुशात्रवस्य । उच्छिन्दतः सितमरीचिभृतश्च शक्ति- देवि त्वमेव सहकारितया स्थितासि ॥ १६ ॥ पश्यन्नपि क्षणसुखान्विषयांस्तदर्थ- मत्यर्थमन्ध इव धावति येन युक्तः । मुक्तस्तु मुक्तिपदवीमयमेति लोक- स्तत्कारणं किमपि हैमवति त्वमेव ॥ ६७ ॥ आक्रम्यते स महिषेण विषाणकोटी- दत्तक्षताकृत वृषामिभवेन या गौः। तस्य त्वया सपदि दुर्ललितस्य दत्त्वा- यादङ्ग(?)ले पुनरसौ गमिता पतिं खम् ॥ ६८ ॥ १. एतत्कोष्ठान्तर्गतपाठः क-पुस्तके त्रुटितः.
काव्यमाला। अस्माकमापदमयं दमयन्मुदे त्व- त्पादोऽस्तु... कमलादपि कोमलस्य । चक्रे क्षतिर्न च रणक्षतिदक्षिणेन तेनापि धूर्जटिकुटुम्बिनि कण्टकेन ॥ १९ ॥ शैलेन्द्रभूरपि भवस्य वनाभिरामा कालीति गौर्यपि बुधैरभिधीयसे च । दृप्तं मृगाधिपमथ कुरुषे शिवापि दत्से सतामभिमतं फलमप्यपर्णा ॥ ७० ॥ लक्ष्मीः पुंसां प्रसरति भवत्पादपद्मप्रसादा- देतत्पूजावच(?)नतिपरः स्वर्गिणां भर्गपत्नि । त्वत्पादे तु प्रबलमहिषोन्मूलनादत्र दत्त- श्रीकली का न भवति नुतिः कोऽथवा स्तोतुमीशः ॥७१॥ यन्मौलौ सितमातपत्रमभितो यच्चारुणी चामरे यद्बल्गन्ति गृहाङ्गणेषु गणशः शैलोन्नता दन्तिनः । हारः शारदचन्द्रसुन्दररुचिर्यत्कण्ठपीठे लुठ- त्येतत्ते चरणानते भगवति स्वल्पं फलं मन्महे ॥ ७२॥ यस्मान्नूनमनूनसाध्वसरसो देवस्त्रिशूलायुधः कैलासाग्रमशिश्रयजलनिधेमध्यं च चक्रायुधः । तेनास्मत्कमला बलादपहृता शुम्भेन शंभुप्रिये तत्प्रत्यर्पय तां जगत्यभिमतं मातैव दत्ते यतः ॥ ७३ ॥ इत्याकर्ण्य गिरः सुरैरभिहिताः शीतांशुमौलिप्रिया तत्कालोत्कलितप्रकोपकरुणागर्भ बभाषेऽथ तान् । चिन्तां मुश्चत पञ्चतामुपगतं जानीत दैत्यं च तं कः सत्यां मयि मायिकोऽपि भवतामत्याहिताय प्रभुः ।।७४ ॥ दैत्यं दावमिव प्रतापिनमपह्रोतुं कृताङ्गीकृतेः श्रुत्वा शब्दितमेवमद्रिदुहितुः पाथोदपतेरिवः । :
< सर्गः सुरथोत्सवम् । देवैः समदमुक्तलोचनपयःपूरैर्मयूरैरिव श्रोत्रप्रीतिकिरः परं जयगिरः केका इव व्याकृताः ॥ ७५ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनान्नि महाकाव्ये देवीदर्शनो नाम सप्तमः सर्गः । अष्टमः सर्गः। अथ हैमवती हिमाद्रिशृङ्गे विलसन्तीन्दुकलेव शर्वमौलौ । विबुधारिवधेच्छया विशेषादतनोदात्मतनोमनोरमत्वम् ॥ १ ॥ जितचम्पकसंपदा तदङ्गद्युतिवृन्देन विसर्पता समन्तात् । शुशुभे किल शैलराजमूर्धन्युदयच्चन्द्रपवित्रमातपत्रम् ॥ २ ॥ मणिपतिमिवोत्तमाङ्गसक्तामवदातद्युतिमिन्दुमौलिकान्ताम् । कलयन्नवनीभरं च बिभ्रन्नगराजोऽनुजहार नागराजम् ॥ ३ ॥ कुसुमास्त्रमहोत्सवैर्विलासैविहरन्ती हरवल्लभा सखीभिः । ददृशे कृत(श)मध्यमा क्षमायां चरता शुम्भचरेण चण्डनाना ॥ ४ ॥ अवलोक्य विलोकनीयकान्तिप्रकरद्योतितकन्दरोदरां ताम् । परमं परमेष्ठिनः शशंस प्रमदासर्गकलासु कौशलं सः ॥ ५ ॥ असुरप्रभवे निवेदयिष्यन्नबलारत्नमयत्नलभ्यमेतत् । जवनः पवनादपि स्पशोऽयं जगतां जन्मभुवं गिरिं जगाम ॥ ६ ॥ निवहेन ततं मतङ्गजानां ददता जङ्गमगण्डशैलशङ्काम् । स विलोकयति स शैलमुच्चैर्वलिबन्धोद्यदधोक्षजाङ्ग्रिबन्धुम् ॥ ७ ॥ मुनिमुद्रितवृद्धिरुद्यदुच्चैर्मणिसानुद्युतिमण्डलाङ्गुलीकः । उपरि स्फुरतः सहस्ररश्मेः कुरुते यः किल तर्जनामजस्रम् ॥८॥ भुवि यद्यपतिष्यदन्तरिक्षात्सुरसिन्धोरिव यामुनः प्रवाहः । परितः कृतकञ्चकस्तमालैस्तदकारिष्यत ते न संनिभोऽन्यः ॥ ९ ॥ (त्रिभिः कुलकम्) अथ तत्र पुरं पुरंदरारेः पुरुदर्पस्य ससर्प सोपसर्पः। वृजिनेन वृतं विशालकालायसवप्रव्यपदेशतः समन्तात् ॥ १० ॥ १. 'यः'खः
६४
काव्यमाला।
सदनं तदनन्तरं स्वभर्तुर्मणिकार्तखरभाखराजिरात्तम् ।
विशति स्म विशां विशेषवृत्तग्रहणाय प्रथितः स मन्त्रवेदी ॥ ११ ॥
कनकाभरणप्रभापिशङ्गं सजलाम्भोदसहोदराङ्गभारम् ।
विदितः स विलोकते स शुम्भं सदवं शृङ्गमिवाञ्जनाचलस्य ॥ १२ ॥
प्रणिधिः प्रणिपत्य दैत्यराजं तदनुज्ञामधिगम्य सम्यगुक्तिः ।
वसुधावलयस्य किंवदन्ती क्रमतः प्राक्रमत प्रवक्तुमेषः ॥ १३ ॥
असुराधिपते गतेषु दास्यं भवदातङ्कभरान्नराधिपेषु ।
पतिरित्यतिरिक्तविक्रमेण प्रतिपत्तिर्भुवि भुज्यते त्वयैव ॥ १४ ॥
भुवनोपरिवर्तिनामुनाभूदसिदण्डेन शिरःसु माभिघातः ।
मनसीति विशङ्कय नूनमुच्चैः क्षितिपास्त्वां समुपासते नमन्तः ॥ १५॥
जितदुश्यवनाद्दशाननादप्यधिकस्ते दनुज प्रजानुरागः ।
निजमौलिविकर्तनादयं यद्विदितस्त्वं परमौलिकर्तनात्तु ॥ १६ ॥
अपरैः प्रथिते कथाप्रबन्धादभिधाने तव भक्तवैरिमाने ।
शिरसि प्रणते दिगीश्वराणां गलितास्त्रा करयोर्द्वयी प्रयाति ॥ १७ ॥
भुवनप्रभुतामपेक्ष्यमाणैरथ च त्वामभियोक्तुमप्रगल्भे ।
स्वहिताय मतो दिशामधीशैः सदुपायस्त्वदनुप्रवेश एव ॥ १८ ॥
भवतः समराजिरेषु जेतुः शिरसि क्षेप्तुमभीप्सुभिः प्रसादम् ।
अमरैरनुवेलमाहृतानां कुसुमानां तनुता सुरद्रुमेऽपि ॥ १९॥
अपरं च मया व्यलोकि चित्रं शृणु देव त्वमनन्यमानसस्तत् ।
अवधानपरे नरे हि वक्तुः परभागं लभते मतेः प्ररोहः ॥ २० ॥
श्रवणप्रवणश्रुतिद्वयेन प्रभुणा तेन सकौतुकं प्रणुन्नः ।
परिणामविदाहि हृद्यमादौ विषवद्वाक्यमुपाददे स दूतः ॥ २१ ॥
हिमवानिति विश्रुतस्त्रिलोक्यां गिरिरास्ते गिरिशाट्टहासगौरः ।
उदगादिव यो दिवं दिधीर्षुः कमठेन्द्रे वसुधां निधाय शेषः ॥ २२ ॥
शिखरे शिखरीश्वरस्य तस्य प्रमदा काचन काञ्चनप्रभास्ति ।
हसितामृतबिन्दुमिर्दिशन्ती विषमेषोस्त्रिजगजयाभिषेकम् ॥ २३ ॥
. < सर्गः] सुरथोत्सवम् । मणिकुण्डलकान्तिमण्डलेन स्फुरता सप्रसरं समन्ततोऽपि । परिवेषपरीतशीतरश्मिश्रियमभ्यस्यति मुग्धमास्यमस्याः ॥ २४ ॥ विकचाम्बुजचारुलोचना या नवमुक्तालतिका चकास्ति कण्ठे । मुखशीतमयूखबिम्बग दिव पीयूषपृषत्क(त)तिः पतन्ती ॥ २५ ॥ मधुरखरहंसकाभिरामा घटितानेककटाक्षखञ्जरीटा। इयमात्मभुवः प्रबोधहेतुः शरदाकारवतीव भात्यतीव ॥ २६ ॥ वचसः स्थिरता दृशोश्चलत्वं कुचयोरुद्धततांसयोर्नतिश्च । उदरस्य दरिद्रता समृद्धिर्जघनस्य वचनापि नेगस्ति ॥ २७ ॥ स पिता सुकृती च सा सवित्री शुभपात्रं च ययोरियं प्रसूतिः । पुरुषं च तमेकमेव मन्ये मृदितानङ्गमदं यदङ्कगासौ ॥ २८ ॥ उदकीर्यत किं शशाङ्कबिम्बाच्चुलुकोचेयरुचिस्तनुस्तदीया । अथ सा मनसा व्यधायि धात्रा न करस्पर्शमलीमसं महस्तत् ॥ २९ ॥ सफलं यदि यौवनं चिकीर्षुर्महदैश्वर्यमिदं च जीवितव्यम् । तदेविस्तरमेव देव हस्ते कुरु लावण्यसरःसरोजिनी ताम् ॥ ३० ॥ चललोचनकृष्णसारचारु श्रुतिशालि द्विजराजिराजितं च । कुसुमायुधतापसाश्रमं तत्तव निर्वाणकृते तदङ्गमस्तु ॥ ३१ ॥ इति तद्वचद्धिगर्धितान्तःकरणं विष्टपकष्टकारणं तम् । मदनेन न केवलं नियत्याप्युपलब्धः समयश्चिरात्प्रहर्तुम् ॥ ३२ ॥ त्वरया सरदत्तया प्रयुक्तः प्रमदासक्तमनाः स नाकिवैरी । अनुकूलयितुं कुलाद्रिकन्यां पुनरन्यायसखं तमादिदेश ॥ ३३ ॥ कुसुमायुधकिंकरेण पत्या प्रहितः कर्मणि तत्र मित्रसाध्ये । मनसा मैंदमेदुरेण दूतस्तुहिनावासमसौ नगं जगाम ॥ ३४ ॥ पुरतः पुरमर्दनाङ्गनायाः प्रणतिं स प्रणिधिविधाय मूर्धा । निजनाथभुनप्रभावमाविष्कुरुते स्म प्रचुरानुरागबीजम् ॥ ३५ ॥ भुवनाधिपतीनतीत्य लक्ष्मीर्यमुपास्ते वपुषा गुणैश्च रम्यम् । १. ईश्वरम्. २. अविलम्बम्. ३. मोक्षः, सुखं च. ४. अहं क्षुद्रोऽपि महति कर्मणि पत्या नियुक्त इति गर्वः. भ -- ५१ काव्यमाला। म यदाह मदाननेन शुम्भः शृणु तदेवि विचिन्त्य चानुगच्छ ॥३६॥ (हृदयं हृतदर्पकं दधानाः क्षितिपाः शोषवतीं मुखश्रियं च । वरिता इव न श्रयन्ति शर्म क्वचिद""धति मे प्रतापधर्मे ॥ ३७ ॥ पुरतः परिमाव्य निष्कृपाणां रिपुराजन्यपरम्परावराकीम् । शसनव्यसनोऽपि निष्कृपाणां प्रदराणां गणमुत्सृजामि नाजौ ॥ ३८॥ मम दिग्विजये चलठ्ठलौघोधृतधूलीपटलैस्तमखिनी द्याम् । उपलभ्य निरूष्ममिनरेन्द्रैर्विहितान्या....."तपानि दूरे ॥ ३९ ॥ अवलेपभृतां तु भूपतीनां दृढसंपातशरावलीविलूनैः । मृधमूर्धनि मण्डयामि मुण्डैः क्षितिमेताममृतांशुमौलिमूर्तिम् ॥ ४० ॥ मदमत्सरमन्मथेषु मन्दं हृदयं योगिवदन्वहं वहन्तः । मरुतः पुरुषादितः प्रसन्ना द्रुतमेतेऽभिलषन्ति बन्धमोक्षम् ॥ ४१ ॥ समरे मम सिंहनादमुच्चैर्दरितद्वेषि गजव्रजं निशम्य । हरिणा हरिणायितं भयेन भ्रमता भूधरगह्वरान्तरेषु ॥ ४२ ॥ न निहन्मि यमं गृहीतदण्डं धनदे किंनरराजदूत्यनास्था । अरुणद्वरुणश्च मामकीनां दृढतां संयति ढौकितस्वपोतः॥ ४३ ॥ अवहेलितहेलितेजसं मां वरिवस्यन्ति विरोधवध्यचित्ताः । वसवः प्रसवैः सुरद्रुमोत्थैरबलानामुचिता हि पत्युपास्तिः ॥ ४४ ॥ बदुरः सुरपातितामदीयं कुलिशाद्याः स्पृशति म नास्त्रमाला । अधुना तदिदं कदर्थयन्ति स्मरबाणास्त्वयि तन्वि सानुरागम् ॥४५॥ मयि तिष्ठ... विद्रुमोपमोष्ठि द्रुमरत्नं गजरत्नमश्वरत्नम् । अपि त"......"त्परिगृहीतुं स्पृहयामि प्रमदासु) रत्नभूताम् ॥ ४६ ॥ मयि वीरवरे सति त्वमन्यं पुरुष नार्हसि बहकेशि गन्तुम् । त्रपुणि प्रणयं करोति कान्ते तपनीयं व्यपनीय सन्मणिः किम् ॥४७॥ प्रणतेन हृदा विधाय वेधाः समरूपं मकरध्वजं च मां च । अथ मन्मथमावयोर्मथित्वा निरमा निश्चितमेकशेषमेषः ॥ ४८॥ १. "तिष्ठ ख. २. एतत्कोष्टान्तर्गतः पाठः क-पुस्तके त्रुटितः.
है ८ सर्गः] सुरथोत्सवम् । मनुजैनियतात्ययैश्च देव्यास्त्रिदशैरग्निमुखैश्च चन्द्रमुख्याः। उरगैः श्रुतिवर्जितैश्च शूद्वैरिव युक्ता न रतिस्तवोत्तमायाः ॥ ४९ ॥ सह दुःसहपौरुषेण पत्या विहरन्ती हरिणेव पद्मवासा । मधुबन्धुषु विन्ध्यकाननेषु त्वमिमां निर्विश तन्वि काननद्धिम् ॥५०॥ तरसाहमजैषमेष पौलं भवती स्त्रैणमधश्चकार कान्त्या । तदिदं द्वयमावयोः समेतं समशत्तयोर्जगतोऽप्यजेयमस्तु ॥ ११ ॥ ममविक्रमभीतभर्तृकाणां नरदेवोरगदेवसुन्दरीणाम् । पतिजीवितभैक्ष्यमिच्छतीनां भव भद्रे भजनीयपादपद्मा ॥ १२ ॥ मयि चेन्न रुचिः प्रतापतीब्रे भज तन्मेऽवरजं शुभं निशुम्भम् । तरणौ तरुणे निरुद्धभावा सुखसेव्यं शशिनं कुमुद्वतीव ॥ ५३॥ इति तद्वचनं निशम्य देवी हृदि कोपं दधती बहिः प्रसत्तिम् । शुशुभे सुतरां शमीव धूमध्वजगर्भा नवपल्लवोदया च ॥ १४ ॥ अथ वागधिदेवताविपञ्चीरणितश्रीसहचारिणा स्वरेण । रजनीकरखण्डमण्डनस्य प्रमदा तं निजगाद सादरेव ॥ ५५॥ भवताभिहितं यदेतदात्मप्रभुविस्फूर्जितमङ्ग संगतं तत् । यभुक्षगजेन्द्र एव साक्षी विमदः शुम्भमदस्य दुर्मदत्वे ॥ १६ ॥ परमज्ञतया मया प्रतिज्ञा महती या विहितास्ति पूर्वमेव । शृणु तामपि सर्वथाष्यहेयां सुभटानामिव संपरायभूमिम् ॥ १७ ॥ रहितोऽपि गुणैः कपालवानप्यपरिज्ञातकुलोऽप्यसंश्रयोऽपि । स पतिर्मम विग्रहं मया यः सममाक्रान्तमृगेन्द्रया विधाता ॥ १८ ॥ तदियं क्रियते कथं प्रतिज्ञा वितथा निश्चितचित्तया कृता या। इदमेव महात्मनां हि चिह्न व्यभिचारो वचसां न यत्कदापि ॥ १९॥ तदुपैतु पतिः स दानवानामनुजो वा दनुजोत्तमस्य तस्य । समसङ्गरतो यमालयाय त्वरितं यातु च भूषिताङ्गभारः ॥ ६ ॥ १. अर्धनारीश्वरत्वायुक्तं शरीरम्. २. सङ्गे रतः; (पक्षे) संगरातू. ३. अयम् आलयाय; (पक्षे) यमालयाथ. ४. अलंकृत; (पक्षे) भूपतित.
काव्यमाला। - ४ वनितानुचितामिमां तदुक्ति श्रवणाभ्यां परिगृह्य दैत्यगृह्यः । निजगाद पुनः सहोपहासं हसितेन्दीवरपत्रदीर्घनेत्राम् ॥ ११ ॥ वदने रसनास्ति यद्यधीना यदि दण्डश्च न जल्पतामनल्पम् । सुघटानुगतं तथापि वाच्यः सुधियः श्रद्दधते हि युक्तवाचः ॥ १२ ॥ अमुनासि सखीजनेन मुग्धे कृतकप्रीतिपरेण शोचनीया । न निषेधति यो बलादपि त्वां प्रलपन्तीमुपपत्तिशून्यमेवम् ॥ ६३ ॥ कदलीदलकोमलाङ्गि दृप्यद्रिपुदन्तिप्रतिघातकर्कशेन । अबले बलिना भटेन भीरु प्रधनं तेन तवेति विस्मितोऽस्मि ॥ ६४ ॥ अमराः समराय नोत्सहन्ते सह येनाशनिदण्डचण्डदोष्णा । अपि तं वनिता .विरोद्भुमिच्छत्यसहायेति नमोऽस्तु मोह तुभ्यम् ॥११॥ अवलेपममुं विमुञ्च बाले बलतामंत्र तवानुरागि नेत्रम् । सफलास्तु ममार्थना विनाशं त्वयि देवोऽपि करोतु मावमानात्॥६६॥ अपरं परिभूतिकारणं तु प्रभविष्णोरपि भावयामि भर्तुः । यदयं भवती विभाव्य भव्यां भविता निश्चितमात्मनोऽप्यनीशः॥१७॥ वचनानपनेयनिश्चयां तां दितिजेन्द्रानुचरोऽवगम्य सम्यक् । गिरिमेष निमेषतोऽपि रेवापवितग्रावसमाजमाजगाम ॥ ६८ ॥ विषमेक्षणपक्ष्मलेक्षणायाः प्रमदावर्गविरुद्धमुद्धतत्वम् । तदुपागमनोत्सुकस्य पत्युः कथयामास समासतः स तस्य ॥ १९ ॥ कुँचरः स चरप्रजल्पितान्ते दितिजं तद्विजयक्षमं दिदृक्षुः । स्मरमत्सरयोः समर्पितात्मा भ्रमयामास दृशं सदस्युदीर्णाम् ॥ ७० ॥ असुरः सुरयेव संपदा किं विषयैर्वा विषसंनिभैर्विमूढः । अवलोकयति स नैव यस्माद्वनितावेषधरं पुरोऽपि मृत्युम् ॥ ७१ ॥ चपलप्रकृतिः प्रभूतरागा ध्रुवमालीमिव बिभ्रती च वक्राम् । दितिजे स्थितिमाप तस्य दृष्टिः कुलटेवासति धूम्रलोचनाख्ये ॥ ७२॥ १. दैत्यपक्षीयः, २. 'मित्र' क. ३. घटमानम्. ४. 'रा' ख. ५. शुम्भे. ६. मौर्याः, ५. कुटिलाशयः. म ९ सर्गः] सुरथोत्सवम् । ५९ अथ मन्दरमथ्यमानपाथोनिधिपाथोरवगौरवं गिलेन । तमयं ध्वनिना निनादिताद्रिविनयप्रार्थितवाचमित्युवाच ॥ ७३ ॥ अयि वीर शरीरवानसि त्वं मम विश्वकभुजो भुजप्रतापः । मदनज्वरशान्तये तदेतां दयितामौषधिमानयाचलेन्द्रात् ॥ ७४ ॥ मनुते प्रथमं न चेदुपायं पुरुदर्पाप्यचतुर्थमाश्रयेथाः । यदि कोऽपि करोति पक्षपातं तव जातं समरार्थिनः प्रियं तत् ॥७॥ तदनु खतनुव्ययेऽपि सज्जः प्रभुसंभावितया प्रवीरवृत्त्या । उदतिष्ठदसौ ससौष्ठवं तां द्रुतमानेतुमनाः पिनाकिपत्नीम् ॥ ७६ ॥ तरणेस्तिरयन्मरीचिजालं जलधीनामपि पङ्कयन्पयांसि । प्रसरत्तुरगोद्धृतैः परागैरगराजं स जवादवाप दैत्यः ॥ ७७ ॥ हरितः परितः प्रकाशयन्ती कनकाभेन निजांशुजालकेन । असुरः पुरवैरिवल्लभां तां शलभो वह्निशिखामिवाभ्यपप्तत् ॥ ७८ ॥ इति चायमुवाच वामनेत्रे करणीयद्वितयेऽत्र ते यदृच्छा। भवमाप्नुहि तोषिताद्धि पूर्व परिपूर्व दितिजादतोषिताद्वा ॥ ७९ ॥ अथ मोघवचाः कचावकृष्टिं कुपितः कर्तुमियेष यावदेषः । कृतहुंकृतया तयात्मकर्मार्जितमृत्युः क्रियते स्म भस्म तावत् ॥ ८ ॥ नीते तस्मिन्भमभावं भवान्या सैन्ये जन्यादाशु नष्टे वशिष्टे आदित्यानां दैत्यभीत्याकुलानां रक्षाहेतुः सैव रक्षा बभूव ॥ ८१ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनान्नि महाकाव्ये धूम्रलोचनवधो नामाष्टमः सर्गः। नवमः सर्गः । दैत्योदन्तेन तेनायं नायको नाकविद्विषाम् । दण्डेन कुण्डलीवाथ व्याचक्रे व्यथितः क्रुधा ॥ १ ॥ उजा कचावलिस्तस्य पक्ककाण्डनिभा व्यभात् । ज्वाला कोपानलस्येव भित्त्वा मूर्धानमुत्थिता ॥ २ ॥ १. भस्म, २. कोपादूर्वीभूता.
६० काव्यमाला । उदितवेदबिन्दूनि तदङ्गानि विरेजिरे । अङ्गीकृतजलानीव रोषाग्निप्लोषशङ्कया ॥ ३ ॥ दन्तैर्दयति मां सिप्रमसाविति ससाध्वसः । मन्ये मन्युमतस्तस्य स्फुरति म रदच्छदः ॥ ४ ॥ दारुणस्यारुणाख्यस्य दैत्यभर्तुः स्वभावतः । भृकुटीभीषणे भाले कोपः स्फुटमलक्ष्यत ॥ ५ ॥ शुम्भः सभानिषण्णानामविषण्णमदोष्मणाम् । विभागं व्यतरत्तेषां क्रुद्धः स्वस्याः श्रिया इव ॥ ६ ॥ ज्येष्ठं ज्येष्ठमिकोदीक्ष्य ज्वलन्तं निजतेजसा । वोढुमाषाढवत्तापं निशुम्भोऽन्वपुषद्रुषा ॥ ७ ॥ स कालकोसरारालशृङ्गसब्रह्मचारिणा । कोपाटोपार्पितेनासी भङ्गेनातिभीषणः ॥ ८ ॥ सङ्गराँसङ्गसंभूतां बिभ्रता रोमविक्रियाम् । वृषद्विषा बिडालेन बिडालेनेव चुक्रुधे ॥ ९ ॥ क्रुधा दुधाव मूर्धानं चरमं चामरासुरः । चकम्पे प्रथमं तस्माचकिताज्जगतां त्रयी ॥ १० ॥ कुपितः पाणिना जङ्घामाजघ्ने जाकिस्तथा । यथैषापि रुषेवाभूल्लोहिता लोहितादपि ॥ ११ ॥ रक्तबीजो जरद्गुञ्जाबीजरक्तो रुषाभवत् । चण्डमुण्डौ च साक्षेपमुण्डचण्डौ बभूवतुः ॥ १२ ॥ अगृहीत्वापि संनाहमसंनाहं कृतः क्रुधा । उत्तिष्ठन्पीठकः पीठात्कथंचिदपरैधृतः ॥ १३ ॥ अकृतारिपरित्राणं कृपाणं कम्पयन्करे । मूको मूकोऽपि कोपेन खं चख्यौ संख्यकाङ्गिणम् ॥ १४ ॥ १. 'वा' ख. ६.अम्लान. २. 'को' ख. ३. आसक्तिः ४. इन्द्रो, मूषकश्च. ५. दैत्येन.
E ९ सर्गः] सुरथोत्सवम् । याने विलम्बमानानामन्येषामथ मन्युना । चकार क्षारणां वाचा चुक्षुर(?)क्षुरतीक्ष्णया ॥ १५ ॥ रणप्रकरणारम्भे बिभ्राणं च प्ररोचनम् । दुर्मुखस्य सरोषस्य मुखमामुखतां ययौ ॥ १६ ॥ हिमाद्रिमुद्रितामाशां धेनुकः सासिधेनुकः । आलुलोके मुहुर्वह्निस्फुल्लिङ्गसदृशा दृशा ॥ १७ ॥ बाष्कलः कलहश्रद्धां दधानोऽपि मदोद्धतः । अरातिरवलेत्यासीद्विचिकित्समना मनाक् ॥ १८ ॥ रोषरक्तीकृतैर्दै त्यैर्दैत्यभर्तुरभात्समा । भूविन्ध्यभूधरस्येव गैरिकारुणितैरिभैः ॥ १९ ॥ नवाभ्रसंनिभः शुम्भः शातकुम्भविभूषितात् । सिंहासनादथोत्तस्थौ धूमो धूमध्वजादिव ॥ २० ॥ पीठादुत्तिष्ठतस्तस्य चरणेनानुचस्खले । अव्यापाराय धावन्ती प्रथमं स्खलिता मतिः ॥ २१ ॥ दुनिमित्तं निमित्तज्ञस्तद्विभाव्य विभोर्महत् । उवाच वचनं मन्त्री मयोऽथ समयोचितम् ॥ २२ ॥ पुनराचर वीरेन्द्र भद्रासनपरिग्रहम् । पूजितानि निमित्तानि पूजयन्ति हि तान्यपि ॥ २३ ॥ तं काञ्चनासनासीनमासन्नव्यसनं पुनः । शङ्कमानोऽपि निःशङ्कमवोचत्सचिवोत्तमः ॥ २४ ॥ सर्वविद्याविदो देव के वयं पुरतस्तव । तथापि त्वय्यसौ भक्तिर्वक्तुकामं करोति माम् ॥ २५ ॥ द्विपानिव नृपानुच्चैर्मदेनोन्मार्गगामिनः। दमयद्भिर्महामात्रैश्चित्रं यज्जीव्यते चिरात् ॥ २६ ॥ । १. रूपकभेदः. २. 'ना' क. ३. 'गतम्' ख. ३. 'गतम्' ख. ४. 'क' ख. ५. 'हो' ख. ६. स्त्रियं हन्मि न वा. ७, मन्त्रिभिः, हस्तिपकैश्च. ------ काव्यमाला। क्षन्तव्यं देव यद्वक्ष्ये यस्मादाप्तोदितं वचः । आदौ तप इव न्भि(क्लि)ष्टमिष्टमन्ते च जायते ॥ २७ ॥ याति स्थाने नियुक्तेन तिक्तेन मधुरेण वा । वचसा सचिवः ख्यातिमायुर्वेदीव जायुना ॥ २८ ॥ मैत्री मन्त्रिगिरां युक्ता सहकारफलैः सह । यत्रादौ तीव्रता किंचित्साधु माधुर्यमन्ततः ॥ २९ ॥ प्रियैकभाषिणः पूर्व जनात्पर्यन्ततापिनः । भेतव्यं क्षरतोऽप्यम्भश्चित्रा वारिधरा इव ॥ ३० ॥ देव त्वमेव शास्त्रेषु शस्त्रेषु च विचक्षणः । तदविज्ञाततत्त्वेऽर्थे सहसा किं प्रवर्तसे ॥ ३१ ॥ स एवाम्भोधिकल्लोललोलां छलयति श्रियम् । चतुरोऽपि चिकीर्षित्वा तिष्ठते मतिमत्सु यः ॥ ३२ ॥ केयं कस्याथ कस्माद्वा तिष्ठत्येकाकिनी गिरा। इति निर्धार्य कार्याय युक्तः कर्तुमुपक्रमः ॥ ३३ ॥ विधिवन्निर्मितैर्देवेकर्मभिर्मन्त्रपूर्वकैः। स्पष्टमिष्टफलं राजा यजमान इवाश्नुते ॥ ३४ ॥ स्त्रीनेपथ्यमपथ्यं नस्तदेतन्नूनमुत्थितम् । इति व्याकुलतायत्तं चित्तं व्याहरतीव मे ॥ ३५ ॥ स्त्रियोऽपि चित्रविन्यस्तादपि त्रस्यन्ति संगरात् । युयुत्सते सा तत्रापि त्वया तदिदमद्भुतम् ॥ ३६ ॥ विभो संरम्भमुत्सृज्य भवतापि विभाव्यताम् । गोपालो ननु भूपाल स्तूयते |विचारकः ॥ ३७ ॥ किं च वीर विरञ्चोऽपि वरविश्राणनक्षणे । उत्ससर्ज वधूवर्जमाजौ विजयितां तव ॥ ३८ ॥ १. वशीकरोति. २. संबोधनम् ; (पक्षे) देवतार्थ कर्मभिः, ३. अवीन् चारयति; (पक्षे) विचारहीनः.
९ सर्गः] सुरथोत्सवम् । इमां तामिव पश्यामि स्वामिन्नमितविक्रमाम् । भिन्दन्ति हृदयं हावैर्नहि प्रहरणैः स्त्रियः ॥ ३९ ॥ न भव्या भवतः सेयं कैविमार्गानुगामिनः । देव काव्य इव स्त्रैणे सतृणाव्यवहारिता ॥ ४०॥ असस्त्वं किं नु येनाजौ सोढा वज्रहढाहतिः । कौसुमैरपि कन्दर्पप्रंदरैर्दारितोऽसि यत् ॥ ४१ ॥ अद्य माद्यतु कन्दर्पः सदर्पः खर्गिणां पुरः । येन त्वमविधयोऽपि बलान्नीतो विधेयताम् ॥ ४२ ॥ ऐश्वर्ये वर्तमानानां कुर्वतां वा परं तपः । नृणां हि करणग्रामनिग्रहः सिद्धिकारणम् ॥ ४३ ॥ काम सापि त्वया जिप्पे(ग्ये) स्त्रीजयात्तव किं यशः। व्यतिरेकोऽथ को मत्वा मृत्युमाह्वयते वयम् ॥ ४४ ॥ नाधिकः शक्यते जेतुं न च नीचजये यशः। समेन युधि संदेहस्तस्मात्पुंसां क्षमा क्षमा ॥ ४५ ॥ तर्दुपस्थीयतामेषा द्वेषादाकृष्यतां मनः। शास्त्रदृक्फलमेतद्धि दृश्यते कृत्यवर्त्म यत् ॥ ४६ ॥ एतस्मादशुभारम्भान्निवर्तख प्रसीद मे । देव मा दर्शय द्वारं विधेश्छिद्रावलोकिनः ॥ ४७ ॥ दुराचरति यो गर्वात्फूत्कुर्वाणेषु बन्धुषु । हठान्निष्ठुरदण्डेन स दैवेन विनीयते ॥ ४८ ॥ बोधितोऽपि स तेनैति हितं नोऽबुध्यतात्मनः । पैङ्कभीतेव नाधत्ते पदं जाल्मे विवेकिता ॥ १९ ॥ वृथाकुर्वन्वचस्तस्य मुमूर्षुरिव भेषजम् । बभाषे भीषणाकारः सुधाहारविरोधिराट् ॥ ५० ॥ ... म १. या ब्रह्मणा निषिद्धापि. २. शुक्रः, कविता च. ३. अविवेकित्वम्. ४. न सः. ५. बाणैः. ६वं वा तया जीयसे. ७. आराध्यताम्. ८. पाप.
- -- ६४ काव्यमाला। सदृशं यत्सुहृद्वृत्तेर्बाहुश्रुत्यस्य यत्क्षमम् । साचिव्यस्योचितं यच्च तदूचे भवता वचः॥ ११ ॥ स वाग्मी व्याहरन्नर्थ पुरो दर्शयतीव यः । तन्मित्रं स्वयमापत्तिं पतन्तीं यः प्रतीच्छति ॥ १२ ॥ शास्त्रैः संस्क्रियते बुद्धिवृद्धैः साधूपदिश्यते । तदन्यदेव सौभाग्यं जयश्रीर्येन भुज्यते ॥ ५३॥ वेत्तु विद्याश्चतस्रोऽपि तानुपायांश्च तावतः । विक्रमेण विनैकेन नारिषु क्रमते मतिः ॥ १४ ॥ अतत्त्वज्ञोऽपि सत्वं चेदुद्धिनोति(च्छिनत्ति) द्विषां शिरः । रणे केसरिणः केन वद वैदुष्यमर्पितम् ॥ ५५ ॥ पौरुषोत्कर्षदृप्तानां व्यर्थी शास्त्रनियन्त्रणा । अकुण्ठजठराग्नीनामाहारनियमो हि कः ॥ १६ ॥ न दोषो मनुषे यन्मामपि जेयं स्त्रिया तया । तवात्र विगलड्डुद्धेवृद्धत्वमपराध्यति ॥ १७॥ भिन्नवानस्मि यः शक्रकुम्भिकुम्भद्वयीमपि । तस्य मे स्त्रीकुचद्वन्द्वं पिये किल भविष्यति ॥१८॥ इयं नः शङ्कनीया चेत्तदुपेया विशेषतः । स धीरः सति भीहेतौ निर्भीरस्यति यः परान् ॥ १९ ॥ साम यद्गीयते विप्रैर्दानं यच्च प्रसादतः । भेदनं चोरसः शत्रोर्जानेऽहं दण्डपण्डितः ॥१०॥ नाहमाहर्तुमिच्छामि कामातः कामिनीमिमाम् । अखामिकं हि भूखामी सर्वमादातुमर्हति ॥ ११ ॥ न मानी प्रत्यनीकाय नमयत्युन्नतं शिरः। वरमुक्मसिच्छिन्नं गच्छदप्येतदिच्छति ॥ १२ ॥ अरिः प्रणतिलब्धेन जीवितेनापि तेन किम् । मृत्युरप्युपलभ्योऽसौ योऽभ्येति छिन्दतां द्विषः ॥ ६३ ॥ १. शौर्य नाम. २. 'न्वे' क. ३. प्रशस्यः.
९ सर्गः] सुरथोत्सवम् । ६५ अक्षतस्त्वं क्षताशेन क्षेममेतद्भवादृशाम् । शूरैर्वागपि शौर्यघ्नी दुःसहा किं पुनः क्रिया ॥ ६४ ॥ संमतं सूत्रकाराणां कुर्वतां पैरशासनम् । ननु मानकजीवानां मात्रयापि हि लाघवम् ॥ १५ ॥ तामहं निहनान्येव सा मां समिति हन्तु वा । वीराणां हि शिरश्छेदान्नासाच्छेदोऽतिदुःसहः ॥ ६६ ॥ किं नातं तेन वीरेण रणान्तर्व्ययितात्मना । दुर्मुखानपि यः शत्रून्निजश्लाघामचीकरत् ॥ ६७ ॥ इत्युदस्य वचस्तस्य माल्यं मत्त इव द्विपः । उदस्थादयमास्थानादस्थानारब्धविग्रहः ॥ ६८॥ ततो गिरा जरद्धोभषणोद्धोषघोरया । सैन्यसनहनायाशु सैनिकानादिदेश सः ॥ १९ ॥ तदादेशेन देवानां चेलुरुच्छृङ्खलाः खलाः । कल्लोला इव कल्पान्तपवनेन पयोनिधेः ॥ ७० ॥ तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः । इति शुश्रुविरे विश्वगुद्भटाः सुभटोक्तयः ॥ ७१ ॥ भर्मकिर्मीरितैर्वीरा वर्मभिस्ते विरेजिरे । बालार्कातपसंपृक्ताः प्रचलन्त इवाचलाः ॥ ७२ ॥ स्त्रीति तस्यामनास्थातो जग्राह ग्राहितो परैः । शौर्योत्कण्टकितैरङ्गैः कङ्कटं विश्वकण्टकः ॥ ७३ ॥ मरुतां विपरीतोऽयं परीतः खड्गपाणिभिः । अन्वभूदिव जीवन्नप्यसिपत्रवनस्थितिम् ।। ७४ ॥ चिक्षेपे शुम्भपक्षीयैर्जयनं वाजिराजिषु । मूढ़ जयनं मावि व्यभावि पुनरात्मनः ॥ ७९ ॥ १. उत्कृष्टशास्त्रं, वैरिवघं च. २. ग्रन्थसंक्षेपः, तेजोहानिश्च. ३. पल्ली. ४. देववै. रिणा. ५. संनाहः. ६. पराजयः.
। काव्यमाला। कल्पिताः किल दैतेयैः कुञ्जराः संगराय ये। विधिना ते कृतान्ताय निर्विकल्पं तु कल्पिताः ॥ ७६ ॥ देवी यत्रास्ति मा तं गाः शैलमित्यलिनां रुतैः । मन्ये तं दोर्मदोन्मत्तं मातङ्गा अप्यवारयन् ।। ७७ ॥ चक्रिणां चक्रवालेन विशालेन सकेतुना । नभसा च बभूवेऽस्य संपरायं प्रयास्यतः ॥ ७८ ॥ वाहैर्विहितसंनाहैः सवरूथैरथैरथ । सज्जैर्गजैश्च संकीर्णा तत्सौधद्वारभूरभूत् ॥ ७९ ॥ वैयाघ्रं दानवव्याघ्रः स्यन्दनं सांपरायिकम् । आरुरोह जगद्रोहसाहंकृतिभिरायुधैः ॥ ८० ॥ प्रतापोद्धतयोयुद्ध मैतयोभूदिति ध्रुवम् । अन्तरे तस्य भानोश्च जातमातपवारणम् ॥ १॥ अप्रमाणबहुत्वेन श्रुतिबाधाविधायिना । निखाननिस्वनेनास्य नास्तिकत्वमवाप्यत ॥ १२ ॥ दिशो दुन्दुभिनादेन हास्तिकेन महीतलम् । उच्चैः सा रजसा व्योम व्यश्रुवानाचलच्चमूः ॥ ८३ ॥ शुम्भे प्रचलिते लोलत्पताकाकेशपाशया। रुरुदे दैत्यलक्ष्म्येव प्रयाणपटहवनैः ॥ ८४ ॥ चलद्वलत्समुद्भूतधूलीदण्डच्छलेन सः । चकितः किल शैलोऽपि तमेवमनुजग्मिवान् ॥ ८५ ॥ उद्दधेऽश्वखुरैस्तीत्रैस्तपोभिरिव भूरजः। पातितं मलिनैर्वृत्तैरिव दन्तिमदाम्बुभिः ॥ ८६ ॥ तेन भूतज्वरेणेव मुच्यमानः प्रतापिनः । शैलः सिखेद सैन्येभमदाम्भःसेकदम्भतः ॥ ८७ ॥ १. केतूदयोऽपि जातः. २. अपरिच्छेद्यं बहुत्वं यस्य; (पक्षे) न विद्यते प्रमाणबहुत्वं यस्सः नास्तिका हि 'प्रत्यक्षमेव प्रमाणम्' इति मन्वते. ३. दुन्दुभि. ४. 'लोल' ख.
१० सर्गः सुरथोत्सवम् । तत्कुम्भिकुम्भसंभूते कर्णतालानिलोद्भुते । दूरा(र)मुद्यति सिन्दूरे दिशां दाह इवाभवत् ॥ ८ ॥ वैमानिकनिकायेन पश्यतापि प्रयत्नतः। उपलेभे वलस्यान्तो नाग्रे नानु न पार्श्वतः ॥ ८९ ॥ तुषारदिग्बन्धनताङ्गमद्रेरुन्निद्रसिंहासु महागुहासु । नेदिष्टनाकारिवलानकानां ध्वानः प्रतिध्वानगुरुर्बभूव ॥ १० ॥ शनैः समासीदति दैत्यसैन्ये मयूरपिच्छातपवारणौधैः । धराधराधीश्वरपार्श्वजाता कान्तारपतिः पृथुतां प्रपेदे ॥ ९१ ॥ स्फुरत्तुरगमण्डलीखुरमुखाभिधातोच्छल- त्परागपटलच्छलादुपरिभूतभूमण्डपम् । बलं बलिनिवासवत्समणिनांगरौद्रं रवि- त्विषामविषयं जनो ददृशिवान्नगेन्द्रस्थितः ॥ १२ ॥ तस्याश्वीयखुरक्षतक्षितितलप्रेवत्परागच्छटा- विच्छायीकृतमण्डलच्छविरवि व्योमाग्रमालोकयन् । मध्याह्नेऽप्यभिसृत्य किन्नरवधूवर्गः सह खर्गिभिः कुसुमायुधस्य विदधे कल्पद्रुमाणामधः ॥ ९३ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये दैत्यप्रयाणको नाम नवमः सर्गः । कल्याणं दशमः सर्गः। ततस्तबलमालोक्य त्रैलोक्यमपि चुक्षुभे । युयुत्सयोत्सुका जज्ञे महेषमहिषी पुनः ॥ १ ॥ विकखरेण वक्रेण करणायुधकर्षिणा । हर्षामर्षाम(व)सौ व्याञ्जीदासीदत्याहवोत्सवे ॥२॥ निजेनांशुप्रतानेन प्रकाशं कुर्वती दिशाम् । पार्वती वृ(ड)ष्टिक(रु)ल्केव पपाताभिद्विषञ्चमूम् ॥ ३ ॥ ---"""""" १. 'तो' ख. २. हस्तिनः, सपश्च.
काव्यमाला। सर्वासामात्ममूर्तीनां सस्मार स्मरजित्प्रिया । आगतास्ताश्च तदेहादन्यतो वेति संदिहे ॥ ४ ॥ न नाम नाशकज्जेतुं दैत्यानेकापि किंतु सा । सुखं तदैच्छदाँच्छेत्तुं सर्वाभिरिव मूर्तिभिः ॥ ५ ॥ विभासमाना हंसेन लसत्तामरसद्युतिः । प्रातः संध्येव वैरञ्ची शक्तिर्व्यक्तिमुपागता ॥ ६ ॥ द्विरदाजिनसंव्याना द्विजराजावतंसिता । द्विजिहवलया देवी द्विधाकर्तुं द्विषोऽभ्यगात् ॥ ७ ॥ प्राप्ता राकेव वैशाखी चेञ्चच्चन्द्रकरोचिता । उल्लासो दानवार्तानां प्रावर्तत यदागमे ॥ ८ ॥ व्यक्तकस्तूरिकाकान्तिः शङ्खचक्राजशालिनी । कालिन्दीव बँलोत्कृष्टा दृष्टा देव्यथ वैष्णवी ॥९॥ वाराही राहुवक्रान्तर्निर्यदिन्दुकलामलाम् । क्षमाभारक्षमां दंष्ट्रां दधती द्रागदृश्यत ॥ १० ॥ नारसिंही समेता च तैरेव नखरैः खरैः । शौर्य साक्षादिव द्रष्टुं प्रविष्टा हृदि ये द्विषः ॥ ११ ॥ दानवारिपवित्रेण गजेन्द्रेण च जिष्णुना । ऐन्द्री रोहि(हरि)दिवायाता प्रकाशितरविग्रहा ॥ १२ ॥ नीलीरसैर्विलीप्तेव घटितेव घनोच्चयैः मिश्रितेव तमिस्रेण वृतेवायसवर्मणा ॥ १३ ॥ मातेव शितिपक्षस्य धूमस्येवाधिदेवता । छायेवाअनशैलस्य कालियाहेरिवाग्रजा ॥ १४ ॥ १. संदेहं करोमि. २. शत्रुवधरूपम्. ३. गृहीतुम्. ४. कार्तिकेयी वैशाखी पूर्णिमा च. ५. चवचन्द्रको मयूरः; (पक्षे) चञ्चच्चन्द्रकरैरुचिता. ६. दैत्यपीडितानाम् ; (पक्षे) वैशाख्यां हि दानानि दीयन्ते. ७. बलदेवेनोर्ध्वमाकृष्टा; (पक्षे) बलेनोत्कृष्टा. ८. हिरण्यकशिपोः. ९ मदजलसुन्दरेण; (पक्षे) दानवानामरिर्दानवारिः, पविर्वजं तेन त्रायते सः. वशीलेनैरावणोपलक्षिता; (पक्षे) ऐरावणेन जिष्णुनेन्द्रेणोपलक्षिता. ११. प्रकाशितरो दीप्तिमत्तरो विग्रहो यस्याः सा; (पक्षे) प्रकाशितमुदयं नीतो रविरेव ग्रहो यया. १०.ज- १० सर्गः] सुरथोत्सवम् । करस्थेन कपालेन लोलया च रसज्ञया । सबलाकां सविद्युत्कामभ्रालिमनुकुर्वती ॥ १५ ॥ महान्तमश्रुवानेन सर्वतोऽपि स्वमाश्रयम् । स्फुटाट्टहासशब्देन त्रासयन्ति जगत्रयम् ॥ १६ ॥ समाजगाम चामुण्डा मण्डिता मुण्डमालया। विस्फुरत्तारकव्यूहा कुहूरिव शरीरिणी ॥ १७ ॥ (पञ्चभिः कुलकम्) भेदैभिन्नापि भूयोऽपि एकैव ध्रुवमम्बिका । व्यक्तीनां हि बहुत्वेऽपि न जातिर्जायते पृथक् ॥ १८ ॥ केसराङ्कुरितस्कन्धो लोलल्लाङ्गूललाङ्गलः । व्यात्तवक्रगुहः सिंहो गुहमातुः पुरोऽभवत् ॥ १९ ॥ नूतनोन्नतिनानन्तनतेनानीतनीतिना । नितान्तं तेने तातेन तत्तनुतनुता नुता ॥ २० ॥ (ब्यक्षरः) तरङ्गैरिव रङ्गद्भिस्तुरङ्गैः फेनवन्मुखैः । आगच्छदिच्छयैवास्याः स कुतोऽपि बलाम्बुधिः ॥ २१ ॥ देव्याः संग्रामगामिन्या मन्ये मङ्गलकाम्यया । शुण्डाकुम्भशुभाग्रेऽभून्मत्ता मातङ्गसंततिः ॥ २२ ॥ चेतः किमेतदस्मत्तोऽप्यधिक वेगवत्तया । इति न्यञ्चन्मुखैर्वक्षो वीक्षमाणैरिवर्ण्यया ॥ २३ ॥ नभस्वान्केवलं वायुरेनिलास्त्वित्यहंयुभिः । नभो द्वाभ्यामिला द्वाभ्यां पद्भ्यां नूनमधिष्ठितैः ॥ २४ ॥ मनोज्ञपदविन्यासैः कवीनामुचितैश्च तैः । १. आकाशम्. २. अपूर्वोच्छ्रायेण. ३. ईश्वरनतेन श्वशुरखात्. ४. प्रकाशितन- येन. ५. प्रसिद्धन हिमवता. ६. तच्छरीरकायें स्तुतम्. ७. करः, मदिरा च. ८. कटौ, घटौ च. ९. गजाः, अन्त्यजाश्च. १०. नभ एव विद्यते यस्मिन्. ११. इलारहितः. १२. खलीनाम् , काव्यकर्तृणां च. ... -- काव्यमाला। सत्काव्यसदृशैरश्वैः सेनामुखमशोभत ॥ २५ ॥ (त्रिभिः कुलकम्) गन्धर्वैरिव गन्धर्वैः सुखं लीनैरलंकृता । सुमेरुभूरिवाभूत्सा ध्वजिनी देवताश्रिता ॥ २६ ॥ मान्त्रिकैरिव विक्रान्तः कृतास्त्रकवचक्रियैः । उपास्यते स्म विश्वेषामुपास्या परमेश्वरी ॥ २७ ॥ बभूवुर्भवकान्तायाः सध्वजाः स्यन्दनाः पुरः । यच्चक्रध्वनयश्चक्रुरध्वजाः केकिनां मुदम् ॥ २८ ॥ धृतशूलार्धचन्द्रं तत्सक्ष्वेडं नागसंगतम् । पार्वतीप्रीतये सैन्यं रौद्रं रि(व)पुरिवाभवत् ॥ २९ ॥ उदस्थादथ तत्सैन्यभेरीध्वनिरनिद्भुतः । प्रतिशब्दापदेशेन यः शैलैरनुमोदितः ॥ ३० ॥ गजेन्द्रभूषि(हि)तैर्वाजिन्हेषाभिर्भटभाषितैः । चक्रिसंक्रीडितैश्चाभूत्तत्रोच्चैः स्वरसंकरः ॥ ३१ ॥ सैन्यस्याहृयमानस्य ताम्रा(मा)नकरवैर्द्विषाम् । प्रतिवापं ददौ चापज्यानिर्घोषैरुमा च भूः ॥ ३२ ॥ प्रचलन्यामनीकाभ्यां ताभ्यामुत्थापितं मिथः । नियुद्धं विदधे व्योनि रुषेवास्तक्षमं रजः ॥ ३३ ॥ दुर्जये दानवानीके देव्यनीके च जित्वरे । भयं जयं च चेतांसि व्यभाषन्त नभःसदाम् ॥ ३४ ॥ सलीलं पश्यता राँगादागच्छन्ती द्विषञ्चमूम् । वीर्योदिक्तेन तेन द्राग्बलेनाभीकतादधे ॥ ३५ ॥ तस्य दानवसैन्यस्य भवानीमभिसर्पतः। प्रतिकूलानिलोद्भूता धूलिरेवाभवन्मुंखे ॥ ३६ ॥ १. मार्गजाः. २. सिंहनादम्, विषं च. ३. भयानकम्. ४. 'चमूः' क. ५. द्वेषात्, अनुरागाच. ६. शौयम्, शुक्रं च. ७. कार्यारम्भे, वक्रे च.
१० सर्गः] सुरथोत्सवम् । ७१ -- .... व्योम्नीव विपुले तस्मिन्सैन्ये शूरविराजिते । निजतेजोविशेषेण तद्बभौ मातृमण्डलम् ॥ ३७ ॥ आगखिन्यासुरेऽनीके समीपमुपसर्पति । सभ्रूभङ्गेव सेनाभूत्साधिज्यैः कार्मुकैः क्रुधा ॥ ३८ ॥ क्षत्तानपायि गृध्राणां पक्षरुपरिपातिनाम् । पुरंदररिपूणां सा विच्छायैवाभवच्चमूः ॥ ३९ ॥ केन्दलोद्गतिहेतुः सा चमूः प्रावृडिव द्विषाम् । संभिन्ना सेनया देव्याः शरदेवात्तबाणया ॥ ४० ॥ यानकण्ठीरवक्रोधादकुण्ठैः कण्ठगर्जितैः । दानवानीकनागानां न्यासिषेध मदश्रुतिम् ॥ ४१ ॥ देव्याः सर्वेऽपि ते वीराः परमे कोविदा रणे । 4वीरः करिणां सिंहः परमेको विदारणे ॥ ४२ ॥ स्फुरद्रजस्तमोभावे प्रसृते क्रोधदुर्धरे । पीड्यमानेषु धर्मेषु प्रावर्तत ततः कॅलिः ॥ ४३ ॥ संरम्भिणो रणारम्भे दृष्ट्वा व ददतो भटान् । दानेच्छैनियतं कोशः खङ्गैरप्युदसृज्यत ॥ ४४ ॥ कोशानित इवोज्झद्भिः कृपाणैः प्रत्ययैरिव । साधुप्रकृतिभिर्धारैः साधिता समरक्रिया ॥ ४५ ॥ परस्परं जिघांसूनां तैस्तैः शस्त्रैरुपस्कृतः । ऋत्विजामिव वीराणां सोऽभूत्संगरसंभवः ॥ ४६ ॥ त्यक्त्वा स्थितोऽत्र यः शैलेसमयोधबलो दयाम् । सोऽगात्कीर्ति कृतक्षत्रसमयो धवलोदयाम् ॥ ४७ ॥ १. नक्षत्रविशेषश्च. २. कलहाकुरश्च. ३. वृक्षविशेषश्चः ४. 'णः' ख. ५. युद्धम्, युगं च. ६. आत्मानम् , द्रव्यं च. ७. खण्डनम् ; वितरणं च. ८. मत्रविशेषैश्च. ९. इष्टि- विशेषः. स च मिथो विद्विष्टयोर्यजमानयोर्भवति. १०. निष्कम्पत्वाच्छैलसमं योधानां बलं यस्य. ११. न्याययोद्धा.
७२ काव्यमाला। रथारूढो रथारूढं पत्तिः पत्तिं गजो गजम् । तुरङ्गस्थस्तुरङ्गस्थं मिथः प्राहरताहवे ॥ ४८ ।। चतुर्विधायुधाघातैश्चतुरङ्गचमूवराः । दर्शयामासुरन्योन्यं कृतप्रतिकृतानि ते ॥ ४९ ॥ व्याकृतस्वौजसां नाम्नामिव शौण्डीर्यशालिनाम् । इतरेतरयोगेऽपि द्वन्द्वे तत्रैकैताभवत् ॥ ५० ॥ स वन्द्यः सादिसंदोहः संप्रहारप्रवृत्तये । उत्थातुमिच्छतो यस्य बालैः प्रथममुत्थितम् ॥ ११ ॥ तत्र तत्रसे शस्त्रघातातैरपि वाजिभिः । विकारो नहि जात्यानां विपद्यप्युपपद्यते ॥ ५२ ।। युद्धे जयः श्रियः सौधे पांशुपूरान्धकारिते । प्रहरद्दन्तिदन्तोत्थैः पावकैर्दीपकायितम् ॥ १३ ॥ कुम्भेभ्यः कुम्भिनां कुन्तक्षतेभ्यः क्षतजस्रुतिः। प्रससार ततोऽप्युच्चैर्मदवीचिः कपोलतः ॥ १४ ॥ चारणाक्षतभूरीभे भेरी भूतक्षणारवा । वादिता परमे ग्रासं संग्रामे पता दिवा ॥ ५५ ॥ (प्रतिलोमानुलोमार्थः) युद्धश्राद्धे पतन्मुण्डपिण्डे खण्डितखशिनि । कुथोपग्रथितास्तत्र विकराः करिणोऽभवन् ॥ १६ ॥ शरासारैस्तथा वृष्टं मेघौरिव महारथैः । यथा रक्तजला नद्यः सद्यस्तत्र प्रसुसुवुः ॥ १७ ॥ शान्ते रजसि रत्नौधैः सुप्रेक्षा समरक्षितिः । अभूदप्सरसां वीरवरलिप्सोत्कचेतसाम् ॥ १८ ॥ १. मुक्तामुक्तममुक्तं करमुक्तं यन्त्रमुक्तं च. २. स्वौजसामात्मबलानाम् ; (पक्षे) खौजसा प्रथमाविभक्तिवचनानाम्. ३. एकवचनम् , मिश्रत्वं च. ४. शिशुभिः, केशैश्च. ५. गजाहतबहुगजे. ६. भूतोत्सवकारी आरवो यस्याः.. ७. केनचिद्विनाशं रपता जल्पता न भवसीत्यादि रात्रौ युद्धाभावात्. ८. गण्डकाच. ९. कम्बलाः, दर्भाश्च. १०. शुण्ड- रहिताः, अन्नपुञ्जाश्च.
१० सर्गः] सुरथोत्सवम् । ७३ मार्गणैर्मार्गणा एव भग्मा न तु भटैर्भटाः । पताकाखेव नो तेषामाकम्पो मानसेष्वभूः ॥ ५९ ॥ (अतालव्यः) क्रोधान्धौ योद्भुमारब्धावात्मीयावेव कौचन । पुनः संप्रतिपन्नौ च खामिनामन्युदीरिते ॥ ६० ॥ कृपाणे पातिते पाणेः प्रतिमल्लेन मल्लवत् । दन्तैर्नियुध्यमानोऽभूदपरो वीरकुञ्जरः ॥ ६१ ॥ युद्धेऽभिधावतो भल्लभिन्नोरस्कस्य कस्यचित् । रक्तधारापतत्सैव रेखाद्या सुभटेष्वपि ॥ १२ ॥ परासुः परतो बन्धुनिर्यन्त्रैः पादयन्त्रणा । वीराणामन्तरायोऽभून्न रिपूनभिगच्छताम् ॥ ६३ ॥ द्वयोऽपि सेनयोस्तत्र कोऽपि नाम न सायुधः । विक्रमन्नपचक्राम कोपिना मनसा युधः ॥ ६४ ॥ अरिदारितपादोऽन्यो जानुभ्यां तमनुव्रजन् । नीचैरपि भवन्नुच्चैबभूव भुजशालिनाम् ॥ १५ ॥ संहृत्य संगरे शत्रु शस्त्रघातातुरः परः । अन्वगादिव तं जेतुमपि लोकान्तरे गतम् ॥ ६६ ॥ वीरस्यारिक्षुरप्रेण क्षितिं नीतेऽपि मूर्धनि । न शस्त्री पतिता हस्तादृकुटी न च भालतः ॥ ६७ ॥ कस्यचित्कवचं स्रस्तं व्यस्तायां च शरैस्त्वचि । शौर्यमन्तर्गतं व्यक्तमासीदत्रस्यतस्ततः ॥ ६८ ॥ प्रनृत्तेषु कबन्धेषु रणतूर्यरवैर्नवैः । साताः खड्गजलैर्वीराः सुरस्त्रीरुपयेमिरे ॥ ६९ ॥ असृक्कणकिरः कुम्भिमु(म)दामोदस्य दस्यवः । श्रान्तैः सिषेविरे वीरै रणाङ्गणसमीरणाः ॥ ७० ॥ १. 'तो' ख. २. 'मि' ख.
७४ काव्यमाला। AN त यावत्त्वं सलिलासारैर्जगज्जीवयसि प्रभो । तावदेषा धृतोत्कर्षा कर्मठा धर्मकर्मसु ॥ ७१ ॥ रङ्गादाममदागारं गात्रमाक्षक्षमात्रगाः । दा मासाररसामादामक्षरक्ष क्षर क्षमः ॥ ७२ ।। (सर्वतोभद्रम्) तोयधारामरातीषु भिन्नं मां प्रति संप्रति । इति चातकवत्कोऽपि ययाचेऽब्दमुदन्यया ॥ ७३ ॥ (त्रिभिः कुलकम्) कोकिलालककोलालिकुलकालाः किलाललुः । काकाः कङ्कालकीलालं कलाकलकुलाकुले ॥ ७४ ॥ (ब्यक्षरः) उत्तस्थाते विलोक्याथ तारुण्यं तद्रणश्रियः । देर्पकोपचितौ चण्डमुण्डावुपबुभुक्षया ॥ ७९ ॥ प्रजोपत्मावकावेतौ दुर्भिक्षमरकाविव । देवीसैन्योपघाताय प्रावर्तेतां कृतोद्यमौ ॥ ७६ ॥ द्वयेन स्फुरता तेन दैत्ययोर्जियोरिव । सैन्यस्य पन्नगस्येव मुखमासीद्भयंकरम् ॥ ७७ ॥ ततः शैलभुवो भालाकालायसमलीमसा । धूमेरेखेव रोषाग्नेरुदगात्काचिदङ्गना ॥ ७८ ॥ प्रवीणा युयुधे यत्र सा देवी रोपधारणे । तत्राभूजातमातङ्गसादे वीरोपधारणे ॥ ७९ ॥ १. कश्चित्प्रहारा” मेघं ययाचे हे मेघ, यावत्त्वं जलैर्जगज्जीवयसि तावदेषा गात्रमा अङ्गश्रीः कर्मठा। पुनः किम् । रङ्गे युद्धभूमौ आदाम्न उच्छृङ्खलस्याहंकारस्यागारं स्थानम् । पुनः किम् । अक्षाणीन्द्रियाणि क्षिण्वन्ति हिंसन्ति इत्यक्षक्षाः शस्त्रप्रहा- रास्तन्मात्रेणापि गच्छति विनश्यति । एवंविधापि तव प्रसादात्सर्वकार्यक्षमा भवतीत्यर्थः । हे मेघ, आसाररसां धारां मा दा मा स्म देहि। किं तु आदीयते इत्यादामखादुतां अक्षरक्ष न्यायपालकः । पुनः क्षमः समधीः । समर्थो हि याच्यत इत्यर्थः. २. 'सर्व' ख. ३. आददिरे. ४. अस्थिरुधिरम्. ५. गर्वक्रोधान्वितौ, कामसंयुक्तौ च.
१० सर्गः] सुरथोत्सवम् । सामगा जयभावेन राँकाभाशु रता महे । हेमतारशुभाकारा न वेभाय जगाम सा ॥ ८० ॥ (प्रतिलोमानुलोमश्लोकः) दैत्यौ सङ्गरकान्तारे वीरव्याघ्राश्रिते स्थितौ । निर्जघान घनोद्योता सा विद्युदिव पादपौ ॥ ८१ ॥ चण्डतुण्डभिदादक्षः कृतपुष्करसंगतिः । सदारामरुचिर्देव्याः खड्गः शुक इवाबभौ ॥ ८२ ॥ (अर्थचतुष्टयवाची) कल्पान्तवातकल्पेन रक्तबीजेन तत्क्षणात् । निष्पत्रा कर्तुमारेभे देवीसेना प्रतानिनी ॥ ८३ ॥ देवीमूर्तिषु सर्वासु पूर्व रक्तरुचिदृशः । स चिक्षेप सुतीक्ष्णान्तास्ततः सायकसंततीः ॥ ८४ ॥ दिशो दशापि निशितैरपिधाय शिलीमुखैः । स चचाल दुराचारो गिरिराजसुतामभि ॥ ८५ ॥ (असंयोगः) देव्या प्रत्यभियुक्तोऽसौ महेभासितयानया । नाराचैः प्रहरन्नाजिमहे भासितया नया ॥ ८६ ॥ देवता देवतारातिं तमङ्गैः संगता शुभैः । छेत्तुमुच्छेद्यमुद्येमुः संसारं श्रुतयो यथा ॥ ८७ ॥ १. सामगा प्रियंवदा, कोपेऽपि न परुषवादिनीत्यर्थः. २. जयभावेन जयाभिप्रा- येण, ३. राकाभा पूर्णमासीवद्भाति मुखचन्द्रेण. ४. प्रस्तावायुद्धोत्सवे. ५. सुवर्णर- जतोज्ज्वलमूर्तिः. ६. न वेभाय गजभक्षणाय. ८ खगपक्षे-चण्ड- दैत्यस्य तुण्डभिदायां दक्षः, पुष्करेण खड्गफलेन, रामरुचिः श्यामदीप्तिः । कीरपक्षे- चण्डेन तीक्ष्णेन तुण्डेन भिदायां दक्षः, सति शोभने चारामे रुचिर्यस्य । रावणमन्त्रि- पक्षे-चण्डं कोपनं मुखं यस्य, भिदायामुपजापे दक्षः स चासौ भिदा दक्षश्च, कृता हिंसिताः पुष्करसंगतयो मुनयो येन, स प्रसिद्धः, द्यति खण्डयति दा स चासौ रामरु- चिश्च, रावणपक्षीयत्वात् । वैष्णवपक्षे-चण्डतुण्डानां खलानां भिदाखदक्षः शमि- त्वात् , पुष्करेण तीर्थेन, रामे दाशरथौ रुचिरिच्छा यस्य, वैष्णवत्वात्. ९. अतिव्यथनम् , पत्ररहितत्वं च. १०. लता, विस्तारितवती च. ११. अवयवैः, शिक्षाकल्पादिभिश्च, २१ ७ सा देवी. .
७६ काव्यमाला। नादवन्तमहीरावा धावंधावमराक्षसा । भामहेलनतायासा माया सार ततागसम् ॥ ८८॥ (प्रातिलोम्येनार्थान्तर श्लोकः) संगता तरसा यामा सा यातानलहेमभा । साक्षरीमवधाबन्धा वाराही मतवन्दना ॥ ९ ॥ यानपञ्चाननोऽप्युच्चैर्मदेनाविदितव्यथम् । दैत्यभमभिदन्मूर्ध्नि निशितैर्नखराङ्कुशैः ॥ १० ॥ अजरोरगराजोरःकम्पिभिः सगणं शरैः । प्रजहार दुराकारः सोऽपि केसरिणं खरः ॥ ११ ॥ (गोमूत्रिकाबन्धः) । तथा प्रावृषि कीलालं दानवापघनैर्घनैः । वीरक्षेत्रे यथा तस्मिन्नुज्जग्मुरसुराङ्कुराः ॥ ९२ ॥ वीरक्षेत्रे तदुद्भूतैर्वहुधान्यैरुपस्कृते । सानन्दं व्यचरन्नेता माहेथ्य इव मातरः ॥ ९३ ॥ बहुजन्ने स देवीभिर्बहु तच्छोणितैः श्रुतम् । बहु युद्धं नृभिः स(स)ज्जैबहुभीतं च नाकिभिः ॥ ९४ ॥ रेरे रुरोरुरूरूरोररेररिरिराररौ । रैरी रीराररारीरारूरीरीरोऽरुरार रुक् ॥ ९५ ॥ (एकाक्षरः) १. दैत्यं रक्तबीजम्. २. ओ विष्णुहार ईश्वरस्तावप्यवतीति. ३. धावित्वा धावित्वा. १.न विद्यते राक्षसो भयदायी यस्याः सा. ५. भामस्य कोपस्य हेलोऽनादरस्तेन नतो गत आयासो यस्याः सा । कोपाभावादायासाभाव इत्यर्थः. ६. सा माया माया- रूपिणी, आर जगाम. ७. कृतापराधम्. ८. यातीति यामाः मनिन् प्रत्ययः। संग्रा- मगामिनीत्यर्थ:. ९. यातानलं वद्विशुद्धं यद्धेम सुवर्ण तद्वद्भा यस्याः. १०. कैवल्यर- हिता । मुक्तिदायिनीत्यर्थः. ११. आमवधे रोगध्वंसे आबन्ध आग्रहो यस्याः सा । तथा हि-रोगानशेषानपहंसि-' इति सप्तशती. १२. दैत्यमेवेभं हस्तिनम्... १३. देवो- मनुष्यकम्पिभिः. १४. 'ज्या' क, • सर्गः] सुरथोत्सवम् । अस्त्रघातानियं दैत्ये तदेनं वित्त पातिनम् । इत्याचचक्षिरेऽन्योन्यं रणे लब्धक्षणा गणाः ॥ ९.६ ॥ (युग्मम्) अथ व्यथयितुस्तस्य चामुण्डा रुधिरं पपौ । प्रभावमप्रयत्नेन व्याधेरिव महौषधी ॥ ९७ ॥ खसंभूतेषु दैत्येषु तेषु कर्मस्विव क्षणात् । परिक्षीणेषु निर्वाणं तस्य योगविदोऽभवत् ॥ ९८॥ सैन्यं तदिति पार्वत्याः परिताप्य भुजोष्मणा। विखण्डितशिराः शीघ्रं पपात दितिजो भुवि ॥ ९९ ॥ (गूढचतुर्थपादः) सहसा सैनिकैनष्टं देवारीणामदंशितैः । सुराः प्रापुश्च तद्धंसादेवारीणा मदं शितैः ॥ १० ॥ रक्तबीजवियुक्तायाः पताकिन्याः सुरद्विषाम् । यदभूदँङ्गभूः कम्पस्तदेतन्महदद्भुतम् ॥ १०१ ॥ अथावष्टम्भयन्नुच्चैर्वचःस्तम्भेन भङ्गिनीम् । तामेतामात्मनः सेनां निशुम्भो योद्भुमभ्यगात् ॥ १०२ ॥ चिराधिगतकालेन नीतः कालेन निश्चितम् । सोऽरण्यानीं यथा चण्डी चण्डकेसरिकेतनाम् ॥ १०३ ॥ (निरोष्ठयः) न तस्यां दैत्यदावस्य प्रातिभं प्रापि हेतिभिः । तत्रायं निश्चितो हेतुर्यत्सा प्रालेयशैलभूः ॥ १०४ ॥ ६. १: जानीत. २. कर्मक्षयान्मोक्षः. ३. मृत्युः, मोक्षश्च. ४. योगः संनहनोपायः, चित्त- वृत्तिनिरोधश्च, ५. अकवचैः. अखिन्ना:. ७. शरीरोत्थः, पुत्रश्च. ८. मृत्युना. ९. प्रागल्भ्यम्. १०. शस्त्रालादिभिः. ११. सुता, क्षितिश्च, न हिमभूमौ वहिज्वाला प्रभवति.
काव्यमाला। द्वन्द्वे बलानि सा भेजे द्वेधा भूतान्विता शुभे । बभूव वैधपातासा तालावगतधन्विमि(नि) ॥ १०५ ॥ (अर्धभ्रमः) असिपत्रं वहन्व्याप्तं पुष्कलैः पुष्कला(लका)ङ्कुरैः । मृत्युदूत इवादर्शि तेन शैलात्मजाभुजः ॥ १०६ ॥ ययुयायी ययौ योऽयं ततातातीत तात तम् । पापोपपापपापापि नुन्ना नानानना न न ॥ १०७ ॥ (एकाक्षरपादः) इति संतोषयामास पार्वतीविक्रमं वदन् । विकासिवदनेन्दुश्रीमॆनाको नगनायकम् ॥ १०८ ॥ (युग्मम्) तस्योद्दण्डस्य चामुण्डाखड्गदण्डविखण्डितम् । पपात मस्तकं भूमौ भौमलोहितलोचनम् ॥ १०९ ॥ नयैविना शितं नेत्रा सकलं वैरभावितैः । नयविनाशितं नेत्रा सकलम्बैरभावि तैः ॥ ११० ॥ (समुद्गकबन्धः) शयो यः स्त्रीस्थितस्तस्याः पुरतः प्रकृतेरिव । प्रापे किप्प्रत्ययेनेव तेन तूर्णमदर्शनम् ॥ १११ ॥ नष्टं दुष्टे हते दैत्यविभावसुरसेनया। सी स्थिता सानुगन्त्री तं विभावसुरसेन या ॥ ११२ ॥ महोदयाशौ चरतः सूर्याचन्द्रमसौ तदा । महोदयाशौचरतः समतुष्यदृषिव्रजः ॥ ११३ ॥ नागान्निरापत्परमं विकारं नागान्निरापत्परमं विकारम् । सहसनेत्रो रुरुचे हतेन सहस्रनेत्रोऽरुरुचेह तेन ॥ ११४ ॥ (संपुटयमकम्) १. युद्धे. २. भूतेषु प्राणिषु स्वरूपेऽन्विता, भूतैश्च पिशाचादिभिः. भात विनाशागमनस्वति क्षिपति, अमरवात् । किंभूते युद्धे । तालावगतधन्विनि तालाः सोना अवगनाः प्रसिद्धपराक्रमा धन्विनो योधा यत्र. ४. 'क्षरैः' ख. ३.व.
११ सर्गः] सुरथोत्सवम् । फेरुण्डैर्दशनविनाशिताश्वतुण्डैः काकोलैर्दलितमहेभमांसलोलैः । झोटिङ्गैर्घटितभटोत्कटोपलिङ्गै- र्वेतालैरपि मुमुदेऽत्र सान्त्रमालैः ॥ ११५ ॥ इति श्रीगुजरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये युद्धवर्णनो नाम दशमः सर्गः । : एकादशः सर्गः । वीक्ष्य विक्षतमिति खमनीकं नायकः स किल नाकिरिपूणाम् । कोपसंपदपसारितकामस्तामवि(घि)ज्यधनुरेत्य रुरोध ॥ १॥ वासरेश्वरकराङ्कुरकान्तेः काञ्चनस्य कवचस्य मिषेण । दानवः स वपुरन्तरमान्तं रोषरोहितयं वहति स्म ॥ २ ॥ उत्कटभृकुटिला(भा)लकरालं दारुणारुणविलोचनमेषः । आननं दधदधःकृतविश्वो नश्वरं न समरे कमकार्षीत् ॥ ३ ॥ सिंहनादमकरोदथ मन्थक्षुभ्यदब्धिरवदुःश्रवमेषः । निशम्य शमितामितदानस्रोतसं सुरगजैरुदवेजि ॥ ४ ॥ तस्य रोषरचिताशुगवृष्टेदृष्टिपातचकितैर्गगनाग्रात् । निर्जरैरगणितत्रपमाशु स्त्रीगणस्य पुरतोऽपि पलायि ॥ ५ ॥ कोपकम्पितरदच्छदमेष विक्षिपन्निषुततीरतितीक्ष्णाः । स्त्रीत्वमङ्गमृदुतां च तदीयां निघृणो गणयति स्म न किंचित् ॥ ६ ॥ पत्रिभिस्त्रिभुवनारिविमुक्तैर्न व्यथां हृदयमाप तथास्याः । तस्य पूरचितैरपराधैरिद्भकष्टमजनिष्ट यथा तत् ॥ ७ ॥ कार्मुकं सविशिखं सपताकं केतनं रथवरं च सरथ्यम् । सापि तापितजगत्रितयस्य द्रागदारयदरेः प्रंदरेण ॥ ८॥ एक एष बहवो वयमेताः संयतीह तदसांप्रतमेतत् । इत्यवेत्य गिरिराजसुताङ्गे मूर्तयः प्रविविशुद्धतमन्याः ॥९॥ १. कोपानलम्. २. प्रभूतखेदम्, ३. शस्त्रेण.
काव्यमाला। शक्तिपाणिजननीं प्रति शक्तिं यावदैत स हन्त विमोक्तुम् । तावदाशु निशितेषुभिरेषा तां द्विधा युधि चकार करस्थाम् ॥ १० ॥ युद्धबन्धुमसिदण्डमखण्डक्रोधबोधितमदोऽयमुदस्य । अभ्यधावदवधीरितकुन्तवातघातरुजमाजिमुखे ताम् ॥ ११ ॥ तम्य खण्डितमखण्डितशक्त्या सङ्गरे गिरिजया करवालम् । तीक्ष्णतां मलिनतां च दधानं मन्वते स्म हँदिव त्रिदिवस्थाः ॥ १२॥ तद्वधाय विधुतोद्धैतपक्षं चक्रमुत्क्षिपति स म विपक्षः। इन्दुमूर्तिरिव नावललम्बे तेन सा विघंटितप्रमदेन ॥ १३ ॥ सर्वमप्यथ वपुर्व्यथयन्ती विद्विषः परिगृहीतगदस्य । पञ्चसायकविरोधिपुरन्ध्रीपञ्चता स्वयमवाप समीपम् ॥ १४ ॥ मायिकोऽयमुमया सह मायामु(यु)द्धमुद्धततरः कुरुते स्म । मा किल स्वयमसाविति भूयस्तत्र शत्रुजनतः प्रजगल्भे ॥ १५ ॥ तां विधाय निजमूर्तिमदृश्यामक्षक्षः(तः) किल परः स बभूव । सर्वतोऽप्यविहतैरिह निघ्नन्नम्बिकाशरशतैः क्षत एव ॥ १६ ॥ कुञ्जरारिदयिता मृदुमूर्तिः कुञ्जराकृतिभृता दितिजेन । तंचकार समरं स जगाहे येन विस्मयमयः कठिनोऽपि ॥ १७ ॥ मा कुतः श्रयतु संयति भीतिं शत्रुतः कृतमृगाधिपरूपात् । दुर्दमें तमपि केसरिराजं या निरन्तरमधः कुरुते स्म ॥ १८ ॥ पौरुषं पुनरवाप्य स रूपं यूपतुल्यवपुषां भुजगानाम् ।. असमस्मरदथ स्मरजेतुस्तां विजेतुमबलामविलम्बात् ॥ १९ ॥ उल्लसद्भिरमितः कृतभूषं भीषणैर्भुजगराजसमाजैः । बिभ्रदप्रसरितं वसुमूर्तेर्मूर्तिरम्बरमिति स्फुटमासीत् ॥ २० ॥ २. अचिन्तयत्. ३. हृदयमिव खण्डितम्. ४. दलितारि. वर्ग. ५. आयुधविशेषम्, चक्रवाकं च. ६. गतहर्षेण, विगतकलत्रेण च. ७. सायुधस्य, ८. इन्द्रियेभ्यः परोऽगोचरो बभूव सः, अथ च यः किलाक्षतः स कय क्षतो भवतीति विरोधः, ९. अस्खलितैः. १०. 'त' ख. ११. अष्टमूर्तेः. . १.स्कन्दमातरम्. सरोगस च. . .
११ सर्गः] सुरथोत्सवम् । निन्दितयुगणिकागुरुवेणिश्रेणिभिः फणिगणैर्मणिमद्भिः । रोचते कवचिता स्म समन्तादम्बुदैः स्थिरतडिद्भिरिव द्यौः ॥ २१ ॥ निर्मितार्ककिरणप्रतिबन्धैरन्धकारितमहीन्द्रसहस्त्रैः । तत्फणामणिगणैः कृतदीपालोकमोक इव पुष्करमासीत् ॥ २२ ॥ कोटिभिर्विघटितः स्मरवैरीस्त्रीस्मृतागतपतङ्गपतीनाम् । अद्रवद्रुतमुपद्रुतलोकः काद्रवेयनिवहो वियदयात् ॥ २३ ॥ स्वर्गिवर्गहृदयाहितशङ्कः शङ्करप्रणयिनी प्रतिहन्तुम् । वारुणास्त्रमरिवारणशुण्डादण्डखण्डनपरः प्रणिदध्यौ ॥ २४ ॥ पर्वतैरिव युगान्तसमीरप्रेरितैरभिनभः प्रसरद्भिः । वारिवाहनिवहैर्नवहालाश्यामलैर्मलिनिताः ककुबन्ताः ॥ २५ ॥ उल्ल(ज्ज्व)लं कलयतः करवालं व्याकृतस्फुरितलम्पटशम्पः । कज्जलाचलनिभादसिताभः शुम्भतः स बिभिदे न घनौधः ॥ २६ ॥ गर्जितर्जितहरित्करिकर्णैश्चूर्णयद्भिरचलानपि तूर्णम् । तोयदैरदयवृष्टिविशिष्टैविष्टपत्रयमनीयत कष्टम् ॥ २७ ॥ वीक्ष्य तद्विलसितं जलदानां दानवेन्द्रविहितं हतभीतिः । सा चकार मुखमारुतपातैरायतैरपगतप्रसराँस्तान् ॥ २८ ॥ आजुहाव हतबुद्धिरयं यद्दर्शिताद्भुतमतङ्गजमस्त्रम् । तन्निराकृत तदासनसिंहो बृंहितप्रतिहतान्यतिनादम् ॥ २९ ॥ यद्यदेत्य कृतवानवदानं दानवस्तदफलं विदधे सा। साधनानि सुबहून्यपि हन्त व्यर्थतां दधति धातरि वक्रे ॥ ३० ॥ बाहुँयुद्धमयमुद्धतबाहुः कर्तुमारभत भूधरपुत्र्या । संपरायपटुता सुभटानां शस्त्रसैन्यविरहेऽपि हि सैव ॥ ३१ ॥ आपतन्तमियमुद्यतमुष्टिं बाहुना हृदि जघान भवानी । सोऽपि कन्दुकवदेत्य धरित्रीमुजगाम पुनरेव जवेन ॥ ३२ ॥ यद्विहाय धरणिं रणमेषा व्योमगेन सह तेन वितेने । तत्सरीसृपरिपुध्वजमातुर्विक्रमोऽपि गतवानतिभूमिम् ॥ ३३ ॥ १. 'द' ख. २. मयूरध्वजस्य कार्तिकेयस्य मातुः. ११ काव्यमाला। बीयुधः प्रथममेव विदीर्ण मानिनोऽस्य यदपत्रपयैव । तत्र पातितवती हृदि शूलं शूलपाणिरमणीयमणीयः ॥ ३४ ॥ निर्दयं हृदि हतो भुवि पश्चान्निर्गतासुरसुरः पतितोऽसौ । पुष्पवृष्टिरमरैस्नु विसृष्टा पार्वतीशिरसि पूर्वमपप्तत् ॥ ३५ ॥ संमदोद्गमलसद्दवाग्निर्नाकनायकपुरप्रमदाभिः । चिक्षिपे कुसुमजातमजातम्लानि बाष्पजलसीकरसेकात् ॥ ३६ ॥ दिव्यदुन्दुभिरवैरमराणामङ्गना विगलितागमनृत्यन् । विष्टपानि निखिलानि तु चित्तैः पार्वतीविहितसंमदमत्तैः ॥ ३७॥ उच्छृसत्कुचमुरो मुखमीषत्खेदबिन्दुविसरं च वहन्त्याः । पञ्चबाणहरणप्रणयिन्या व्यक्तिमाप समरश्रमलक्ष्मीः ॥ ३८ ॥ शस्त्रकर्म किमपि प्रथयन्त्या दुर्गया द्विषि हते व्यथकेऽस्मिन् । विष्टपत्रितयमुद्धतशल्यं कल्पतामिव जगाम जवेन ॥ ३९ ॥ स्वामिना विरहितं रहितं च बीडया परिचितं तु भियोच्चैः । जीवशेषमथ शेषेनिवासे वासवारिबलमाशु विवेश ॥ ४० ॥ त्रासितं सपदि तन्नगपुत्र्या भीरनीकमपसारयति स्म । स्वीकृते परिभवे हि भवेत्स्त्री केवलं बलवतोऽप्यवलम्बः ॥ ११ ॥ लोचनानि हृदयानि मुखानि प्रोल्लसन्ति दधतः प्रमदेन । नाकिनः प्रति पिनाकिकलत्रं सूत्रिताञ्जलि बलिं ददति स्म ॥ ४२ ॥ हर्षबाष्पनलबद्धगलत्वात्तच्चरित्रमुरु वक्तुमशक्ताः । केवलं पुलकपल्लवितानास्तां प्रणेमुरमराः समरान्ते ॥ ४३ ॥ सप्रसादवदना मदनारिप्रेयसी प्रणमतः पुरतस्तान् । राज्यसंपदि नियुज्य निजायां जायते स नयनानुपलभ्या ॥ ४४ ॥ रविरविप्लुतमण्डलमण्डितः सितकरः समदावसरस्तदा । मरुदरूक्षतरश्च हुताशनः कनकसंनिभरोचिररोचत ॥ ४५ ॥ अरिपरिभवक्लिष्टं स्पष्टं पुनः प्रमदामृत- दधदधरितत्रासोल्लासं मनः सुमनःप्रभुः । सोषणम्. २. पाताळे.
१२ सर्गः सुरथोत्सवम् । चिरविरहितानङ्गैरङ्गैर्जगत्रितयश्रिया झटिति घटिताश्लेषः शेष सुरौघमंतोषयत् ॥ ४६ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये शुम्भवधो नामैकादशः सर्गः । ... द्वादशः सर्गः। श्रुत्वैवं श्रवणसुखं मखारिपत्नीमाहात्म्यं मुनिमुखतः क्षितीन्दुरेषः । तत्पादौ परिचरितुं चकार चित्तं चिन्तापि स्फुरति शुभागमे शुभैव ॥ १॥ ताम्रौष्ठद्युतिशबलैः स्मितांशुलेशैः संस्कुर्वन्सकिशलयैः सुमैरिवाशाः । प्रोवाच प्रियवचनो मनोज्ञवाचं तं वाचंयममयतात्मनां नियन्ता ॥ २ ॥ संवृण्वन्नपि विपुलां विभूतिमन्तः कारुण्यं मयि नियतं विधिविधत्ते । दुर्यानं गहनमुपागतस्य यो मे त्वां मार्ग प्रियमिव दर्शयांचकार ॥ ३ ॥ मां गम्यां सुकृतशतैर्महीमिमां यः कर्मादिन् (?) दिवमपरामिवानिनाय । गन्ता त्वद्वचनरसायनेन जाने पीनत्वं मम पुनरेष पुण्यशेषः ॥ ४ ॥ पुत्रान्तःपुरविरहानलातुरं यन्न प्रीतिं वचन मनागपि प्रपेदे । मच्चेतस्तदिदमिमामेपास्यदति ननति त्वदधिगमप्रमोदमत्तम् ॥ ५ ॥ वात्सल्यं जनक इव स्वयं जनेऽस्मिन्पुष्णासि प्रकृतिरियं महीयसां हि । शुश्रूषे तदपि विधे (धिं वृ)षाङ्कजायापूजायाः कथय स नास्ति चेदवाच्यः६ इत्युक्ते नरपतिनाथ योगिनाथः सोऽयं तद्विनयविशेषितार्द्रभावः । दन्तांशुप्रसवपरिष्कृताग्रमार्गा बहामबहुपदामुवाच वाचम् ॥ ७ ॥ मा वादीरनुचितमेवमात्मवृत्तेः सद्वृत्ते त्वयि मम यत्किमस्त्यकथ्यम् । विद्यापि क्षितिप फलानुबन्धिनी नः स्थानोप्ता भवति भवादृशामिव श्रीः- दुर्दैवादजनि दशेयमीदृशी चेत्पात्रत्वं गतमियतैव तावकं किम् । जात्यानां न हि महिमापयाति पांसुव्यासङ्गव्यवहिततेजसां मणीनाम्॥९॥ ...- ... ३. वनं कष्टं च. १. निजनिजव्यापारसमर्पणेन. २. 'सत्कुर्वन् सकुसुमैः' ख. ४. हे तपोधन. ५. परिहरत्सत्.
काव्यमाला। पुष्यस्थे शशिनि सुपर्वपूज्यवारे पूर्णायामुपचितचन्द्रिके च पक्षे । व्याचख्यावुपनिषदं जगज्जनन्याः सम्राजे स मुनिरनन्यमानसाय ॥ १० ॥ मन्त्राणामसुलभवैभवैकसत्यं कारुण्यं श्रवणपथप्रवेशतोऽपि । आसन्न(न्ना मवसितिमात्मकृन्मखानां मन्वानं मुनिरयमन्वशान्नरेन्द्रम्॥११ एतस्याः क्षितिधरकाननस्रवन्त्याः कूलेऽस्मिन्नखिलतपोधनानुकूले । खोतांसि प्रकृतिचलानि संनियच्छन्नेतत्त्वं परिचरितुं त्वरस्व तत्त्वम्॥१२॥ न ध्यानाप्लवनजपोपवासजेन क्लेशेन क्षितिप तपः समापनीयम् । यत्कृत्येप्वपि विषयेष्वखिद्यमानैर्मान्यन्ते मुदितविपन्दि मङ्गलानि ॥ १३ ॥ आलम्बो महति निमजतामपाये भावानामविशदवर्तिनां प्रदीपः । सिद्धीनां सदनमिदं च दुर्लभानां किं वा तन्नृप तपसा न साध्यते यत् १४ एतेन त्वमघममोधकर्मणा खं भीत्सीष्टाश्चटुलमिदं मनो नियम्य । अक्षाणां विषयनिषेवणोल्बणानामेतद्धि प्रथयति पूर्वरङ्गमङ्ग ॥ १५ ॥ कोपीयान्दमयितुमान्तरानरातीन्कल्पन्ते कृतमतयः कथंचिदेव । मुश्चन्तं व्रतिषु विशेषतः पृषत्कान्पुष्पेषु यदि विरला विलक्षयन्ति ॥ १६ ॥ न व्रीडां गणयति मन्यते न पीडां नातकं वहति विलोकते न पङ्कम् । न फीति बहु मनुते न वेत्ति जाति न श्रेयः कलयति चित्तभूविधेयः १७ तद्धीरीकृततरणो रणोद्धराणां शत्रूणां सपदि पराभवं प्रदित्सुः । स(श)वाणीमभिलषितार्पणप्रवीणां प्रीणीयाः प्रणतपदां वदान्यदेवैः॥१८॥ आशास्यं फलमुपलब्धुमुजिहीथाः पन्थानः सुरथ शिवा भवन्तु तुल्य(भ्य)म् । प्रीत्यै नः प्रशमितकश्मलस्य चाशु व्यावृत्तिस्तव भवतादुपात्तसिद्धेः॥१९॥ इत्याचे वचनमनन्यचित्तवृत्तिः स्वीकुर्वन्नरपतिरानतेन मूर्धा । आपृच्छ्य प्रथमममुं मुनीनथान्यानुत्तस्थावभिमुखमाश्रमं स्रवन्त्याः ॥२०॥ मातृणामिव मुनियोषितां प्रणामप्रीतानां सविनयमाशिषः प्रयच्छन् । मौहेयीमभिमुखमायती महर्षेः प्रत्यक्षां श्रियमिव स व्यधादसव्ये ॥२१॥ १. 'राणां' ख. २. 'कल्मषाणाम् ख. ३. 'व' ख. ४. आपद्रहितानि. ५. 'पादीन्' ख. ८. धेनूम्. ९. 'क्ष' ख. ६. 'स्फा' ख. ७. 'ती' ख.
१२ सर्गः] सुरथोत्सवम् । आनन्दं न दवथुनाथ मारुतेन व्यस्ताम्भोरुहरजसा स राजहंसः । आरावैर्जलवयसामिवाह्वयन्त्या वाहिन्याः पुलिनमलंचकार चारु ॥ २२ ॥ उत्कूजत्कलकलहंससारसानां सारङ्गाकवलितकोमलाङ्कुराणाम् । सानन्दं सितसिकतावितानभाजामाभोगं पुलिनभुवां विलोकमानः ॥२३॥ आलोक्य द्युतिमतिशायिनी मुनीन्द्ररात्तेऽपि प्रसवफलाङ्कुरे तरूणाम् । पात्रेभ्यः प्रगुणितसंपदां कदापि श्रीमत्ता विरमति नेति मन्यमान्यः॥२४॥ अभ्यर्णद्रुमकुसुमाधिवासिताभिः शीताभिः शुचिभिरदूरसाभिरद्भिः । तामणःपतिदयितां वितीर्णभद्रामद्राक्षीदयमपनिद्रनीरजाक्षः ॥ २५ ॥ (त्रिभिः कुलकम्) स्थापत्यानिव पवनेन वेपमानापार्श्वस्थानतिवयसस्तरून्दधानाम् । तां दृष्ट्वा जलजमुखी समुद्रजायां जायां खामपि विमना मनाक्स दध्यौ२६ वल्गन्ति(न्ती)मुपरि मधुव्रतालिमन्तःक्रीडन्त्याः श्रिय इव वेणिमुद्दधानैः । खाभिख्यापहृतिरुषा सरोजखण्डैद्धेवागमदपरत्र नास्य दृष्टिः ॥ २७ ॥ क्षिप्ताम्भःकणमिषतो मुदश्रु मुञ्चन्नुत्कूजत्कुरररुतोक्तसान्त्ववादः । उन्मीलत्पुलकममुं सरित्समीरस्तीरस्थं सुहृदिव साधु पर्यरब्ध ॥ २८ ॥ संतोषस्मितमिव फेनमुद्दधाना सा सिन्धुर्नृपतिमुपागतं निरीक्ष्य । लाजानामिव निवहस्तटाहतोर्मिभ्रष्टाम्भःकणनिकरैस्तमभ्यवर्षत् ॥ २९ ॥ मुन्यर्घाञ्जलिकुसुमैः कृतावभासामासाद्य प्रवणतरस्तरङ्गिणी ताम् । सश्रद्धामधिकतरां तपस्यकार्षीदुत्कर्ष श्रयति मतिः सदाश्रयेण ॥ ३० ॥ आहूय क्षितिपतिरप्पतिं ततोऽस्मै दत्वार्धे निरघजलाक्षतप्रसूनैः । निस्नानः सरिति गुरूपदिष्टनिष्ठानिष्णातः स तपसि मानसं संसर्न ॥३१॥ प्रागौरथ स कुशैः कृतोपवेशः प्राश्यापश्चतुरतुषास्तुषारचारूः । आरेभे निभृतजपं खपन्निवार्धस्मेराभ्यां विपुलविलोचनाम्बुजाभ्याम् ॥ ३२ ॥ वन्यानामपि जनयन्नजस्रमन्तर्विश्रम्भं मुनिरिव शान्तवेष एषः । तेजोमिर्जगदतिवर्तिभिस्तुनाभूल्लोकानां जनवदयत्नवीक्षणीयः ॥ १३ ॥ १. 'लापैः ख. २. 'चकार' ख. : ... 1- ८६ काव्यमाला। स ध्यानस्तिमितमनाः स्थितः स्थिराङ्गं तुङ्गिना तुलितसुपर्वपर्वतेन । निष्कम्पध्वजवसनावनद्धपुण्यप्रासादश्रियमधिशिश्रियेऽधिकश्रीः ॥ ३४ ॥ बिभ्राणस्त्रिषवणजन्मनां जटानामाभोगं जलजरजःकणारुणं सः । बालार्कद्युतिकपिशाग्रपल्लवस्य प्रागल्भीमलभत सालपादपस्य ॥ ३५ ॥ एकाङ्क्रिप्रपदकृतास्पदस्य तस्य प्रत्यकै प्रहिल(त)विलोचनद्वयस्य । आम्भोजी करकमले चलाक्षमाला शारीरी जपनिपुणस्य तु स्थिरैव ॥३६॥ यत्पूर्व चिरचरितैस्तपोभिरापुर्माहात्म्यं मनसि महात्मनां मुनीनाम् । स स्वल्पैरपि दिवसैरिदं प्रपेदे दुष्प्रापं किमपि मनस्विनां हि नास्ति ॥ ३७॥ आत्मीयान्नियमकृशीकृतोऽपि सारादाचारादिव न खलु प्रचुच्युवे सः । उज्ज्वालज्वलनविलीनकश्मलानां हेम्नां किं भवति कदाचिदर्घपातः ॥ ३८ ॥ एकस्मिन्नुपरि तपत्युषqधेऽह थेऽन्यानथ चतुरः स्थितोऽन्तरेण । तानिद्धानपि तिरयन्निवात्मदीप्त्या दीप्तानामृतुमयमन्यगादिनानाम् ॥ ३९ ॥ आषाढे दृढतपनातपोग्रतापे निस्तापेऽपि च विचरत्पयोधरत्वात् । नोद्वेगं न च परितोषमेष चक्रे साम्यं हि प्रथममुशन्ति शान्तिचिह्नम् ॥ ४० ॥ निर्व्याजव्रतविजिघांसयेव गर्जत्पर्जन्यप्रथितसुरेन्द्रचापखण्डम् । आसा रा]नुपरि शरानिव क्षरन्तं हंसानां पिशुनमनेहसं स सेवें ॥ ४१ ॥ वल्गन्ती सजलबलाहके बलाका निष्क्वाणः स च शिखिनां वनान्तवर्ती । न क्षोभं हृदि विदधेऽस्य विक्रियायै नाविद्या विदुषि कदाचिदुजिहीते४२ कुर्वद्भिर्दिनरजनीकरप्रकाशव्यासेधं दवदहनानपह्नवानैः । अम्भोदैरुपरि परिक्षरद्भिरम्भस्तन्न(त्त)स्य व्रतजनितं जितं न तेजः ॥४३॥ यः पूर्व समजनि संमतः सितासु क्षिप्तेषुर्विषमशरः शरन्निशासु । सोपस्थित्तमथ तथैव वर्तमानं को न स्यादनवसरे स्फुरन्निकार्यः ॥ ४४ ॥ अङ्गानि ग्लपयति मारुते हिम? मत्र्येशः शिशिरतरैः सरित्तरङ्गैः । न खान दिवसमुखे मुमोच धीरो नारब्धं परिहरते हतोऽन्तरायैः ॥४५॥ १. इन्द्रियमाला जपमाला च. २. शरीरे भवा. ५.राज्यावस्थायाम्. ६. निराचकार. ३. 'प' ख. ४. 'हे' ख.
3 -- १२ सर्गः] सुरथोत्सवम् । ८७ मन्दानां तरुणिरुचामिवोपचारं कुर्वाणः परमशमार्जितैर्महोभिः । सेहानो हिमसिमि(शिशि)रान्सवारिणासौ वस्त्रेण व्यवहितविग्रहः सहस्ये ४६ क्रन्दन्तीः पतिविरहे रथाङ्गकान्ताश्चित्तेन ग्रथितकृपेण वीक्षमाणः । वाहिन्यांतुहिनतिरोहिताम्बुजायां निन्येऽसौ तुहिनतपास्तपस्यरात्रीः ॥४७॥ भूतानां नवफलिका पिकाङ्गनानामोङ्कारस्तंनुहिमडिम्बमिन्दुबिम्बम् । तान्येतान्यविहितचित्तविक्रियाणि व्याचक्रुर्नृपतिमुनेर्यतेन्द्रियत्वम् ॥ १८ ॥ यः खिन्नान्यपि हृदयानि दाक्षिणात्यैरुन्मादं गमयति मारुतैर्वसन्तः। तस्मिन्नप्यविकृत एष संहितेषु पुष्पेषु वितथमनोरथं चकार ॥ ४९ ॥ तप्तानामिव तपसाष्टमो बुभूषुर्भूयिष्ठः स नृपमुनिर्वियन्मुनीनाम् । निस्तन्द्रस्त्रिभुवनमातरं सरंस्तां वाताशी निरगमयबहून्यहानि ॥ ५० ॥ तद्विष्णोः पदमुपदीकृतं तपोभिस्तादृग्भिस्तृणवदयं ददर्श मानी । विद्विष्टैः कपटहृतां तु राज्यलक्ष्मी त्याज्यामप्ययतत सा ग्रहाग्रहीतुम् ॥५१ इत्युर्वीपतिमतिरिच्यमानमुच्चैरस्वच्छीकृतशतमन्युभिस्तपोभिः । शर्वाणी तमवजगाम नामराणां ज्ञानाख्यं वचन विहन्यते हि चक्षुः ।। ५२ चित्तेन प्रणिदधताथ विष्णुमाया मायास्त्रीमकृत कृतत्रिलोकमोहम् । तद्धैर्य तपसि परीक्षितुं परीक्षा नियूंढः परिवृढसत्कृतेहि वोढा ॥ ५३ ॥ दिक्चक्र सकलमपि प्रकाशयन्तीमङ्गानां रुचिभिरनङ्गमङ्गलानाम् । साश्चर्या गुणमहति वजेऽपि सर्गे तां दुर्गा प्रमदसगद्गदं जगाद ॥५४ ॥ सुश्रोणि श्रवणयुगोपयोग्यकीर्ति क्रान्ताशः सुरथ इति क्षितीन्दुरस्ति । सा यस्मिन्यमनियमैकसंनिवासे वासिष्ठी निवसति संप्रति प्रतिष्ठा ॥ ५५ ॥ साम्राज्यार्नुपमपराभवेन निष्ठानिष्ठानां पथि पथिकायमानमेनम् । भ्रूभौगैरहिभिरिव स्फुरद्भिर व्यग्राक्षि त्वरितमितो निवर्तय त्वम् ॥५६॥ धर्मकप्रवणतया तया यतीनां चित्तानि स्मरपरिहारकर्कशानि । सौन्दर्यापहृतहृदां हि सुन्दरीणां सिक्तानि मितसुधया मृदूभवन्ति ॥१७॥ २. अल्पहिमोपद्रवम्. ३. 'ह' ख. ४. 'स' ख. ५. सप्तर्षीणाम्. ६. खामिसत्कारस्य. ७. आत्मनिष्पादितायामपि स्त्रियाम्. ८. 'पगम' ख. ९. तप- खिनाम. १०. 'भङ्गै ख. -- .. ... १.प्रथमः, काव्यमाला। गुण्यन्ने गुरुवचनानि तावदन्तश्चेतांसि श्रुतिरपि संस्करोति तावत् । स्मेराम्भोरुहसदृशादृशा नियुक्तो नाधिज्यं धनुरतनुस्तनोति यावत् ॥ १८॥ ......"स मधुसखो मधुर्विधाता । न ह्येकः प्रभवति कर्मठोऽपि कर्म व्याकर्तुं किमपि विना प्रतिष्कशेन ॥ ५९ इनीरिता गिरिसुतया घनस्तनी मनीषिणामपि जनितस्मरज्वरा । तपोध(व)नं तमभिचचाल जालकोपलक्षितक्षितिरुहरक्षितातपम् ॥ १० ॥ समं सखीसचिवजनैः शनैरसौ स्वसौष्ठवोपहसितनाकनायिका । अशिश्रियजघनभरार्जितश्रमा तमाश्रमं सुभगमभङ्गया श्रिया ॥ ६१ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये सुरथतपोवर्णनो नाम द्वादशः सर्गः । त्रयोदशः सर्गः। अथ द्रुमारोपितपल्लवश्रीः श्रीकण्ठकान्तानुमतो वसन्तः । मित्रेण साकं मकरध्वजेन तपोधनानां वनमाजगाम ॥ १ ॥ उत्तस्थिवानाम्रवणस्थितानां कोलाहलः कोकिलकामिनीनाम् । यो भावमुद्भासितवान्विरुद्धं समादधानेष्वपि मानसेषु ॥ २ ॥ विलोलयन्पादपपल्लवानि मनांसि यूनामिव रागवन्ति । लुप्तस्मराज्ञेषु कृतोपदण्डः श्रीखण्डशैलादनिलश्चचाल ॥ ३ ॥ . बभूव तामिनवमञ्जरीमिश्चूतः मराकूतविधावधृष्यः । यास्तर्जयन्ति स्म समीरलोलाः प्रविष्टमाना न पुनर्भवाय ॥ ४ ॥ अथोष्णरश्मेः किरणैः कदुष्णैरजायत खेदजलोपलम्भः । माकन्दसेकश्रमपाटलेषु तपखिकन्यावदनाम्बुजेषु ॥ ५ ॥ माध्वीकधामानि मधुव्रतानां सहस्रधामोत्सववत्सलानि । धर्मोपलम्भात्सुभगीभवत्सु जजृम्भिते(रे) वारिषु वारिजानि ॥ ६ ॥ पठत्सु सूर्यामिव कोकिलेषु बालप्रवालाधरबन्धुराभिः । प्रतानिनीभिः सह पादपानां मधुः पुरोधा विदधे विवाहम् ॥ ७ ॥ १. पुष्पकलिका. २. कामान्तकम्. ३. ध्यानपरेषु. ४. कामाभिप्रायकथने. ५. सूर्योदये पानि विकसन्ति. ६. सूर्येण दृष्टं सूतं सूर्या, तद्धि पाणिग्रहे पठ्यते.
(९ १३ सर्गः] सुरथोत्सवम् । सौरभ्यलुभ्यन्मधुपीनिपीतपुष्पश्रियाशोभत हेमपुष्पः । प्रेस्थायकानामविलङ्घनीयं चकार चित्तासनशासनं यः ॥ ८ ॥ पलाशपुष्पेषुभिरेव देवः पुष्पेषुरध्वन्यजनं जघान । तल्लोहितेनेव तथा हि तेषु लौहित्यमत्यद्भुतमाविरासीत् ॥ ९ ॥ नवप्रसूनासवलालसानां कुलैरलीनां बकुलश्चकाशे । मनोरमे सत्यपि वृक्षवृन्दे यस्मिञ्जयाशा कुसुमायुधस्य ॥ १० ॥ द्रष्टान्यपुष्टसरदैवतस्य यस्य प्रवासिव्यसने नियोगः । श्रुत्वा कुइमन्त्रममुं मुहूर्त जगुर्न सामानि मुदा मुनीन्द्राः ॥ ११ ॥ यस्मिन्वसन्ते स्मितपुष्पजातौ सा जातिरस्मर्यत हन्त भृङ्गः । प्रायेण बन्धुः सुहृदामतीतश्चित्ते वसत्युत्सववासरेषु ॥ १२ ॥ विशेषितत्वात्कुसुमाकरेण वनं तदप्यन्यदिवावलोक्य । वेदान्तवेद्यान्यपि मानसानि चलन्ति यत्नान्मुनयो नियेमुः ॥ १३ ॥ तपोवने तत्र वनेचराणां तन्वरतिं रत्यवलम्बिनां सः । कङ्केलिभिः पल्लविताग्रसा(शा)खैरुच्छृङ्खलः पञ्चशरश्चचार ॥ १४ ॥ अथागमोपान्तकृतान्निकेतात्पुष्पावचायव्यपदेशिनी सा । समं सखीभिः प्रचचाल चारुविलोचना भूपविलोभनाय ॥ १५ ॥ यस्मिन्वने सिञ्जितनूपुरेण गतेन सा संचरते स तेन । तिरस्कृतावेकपदेऽपि येन यानस्वनौ हंसविलासिनीनाम् ॥ १६ ॥ तुङ्गस्तनीनामियमिद्धकान्तिध्ये सखीनामधिकं बला(भा)से । नवप्रसूनस्तबकाचितानां नवौषधीनां ज्वलनौषधीव ॥ १७ ॥ मुक्तामयं दाम निजांशुयोगान्नीलाश्मभिर्मिश्रमिवाश्रितेन । सा केशपाशेन भृशं बबन्ध यूनां मनांसीव विलोचनानि ॥ १८ ॥ अन्तःस्फुरत्केसरगन्धलुब्धैxिरेफवृन्दैरुपरि भ्रमद्भिः । चकार तस्याश्चिकुरोच्चयस्य निर्भर्त्सनानीव मुहुर्मनोभूः ॥ १९ ॥ १. नागरकेशरः, चम्पको वा. २. पथिकानाम् ३. ऋषिः. ४. कामो देवता. ५. मन्त्रा हि ऋषिदेवतनियोगनियुक्ता एव भवन्ति. ८, दृष्टयादिदोषपरिहारार्थ वस्त्रादिकं तदुपरि भ्राम्यते, तन्निर्भर्सनम. ६.'त' ख. १२ ....nungMAHARASHTRand ९० काव्यमाला। . कुम्भो(म्भौ) पुरस्तत्कुचयोन किंचित्पद्माकरस्तत्करपोष्यवर्गः । तदङ्गकान्तेः कनकं वराकं राकाशशी तद्वदनानुकल्पः ॥ २० ॥ भ्रूभङ्गसङ्गादिव वक्रिमाणमापुस्तदीयानि विलोकितानि । दः विशुद्धद्विजसंसृतापि नीरागता नाधरपल्लवेन ॥ २१ ॥ विसं यदि स्यात्किल कर्णलग्नविपक्षपङ्केरुहतस्तदा स्यात् । आत्मानमिन्दुः परिवेषवेषप्राकारगुप्तं रचयांचकार ॥ २२ ॥ कपोलयोः काप्यपरैव शोभा यत्कुम्भदासीद्विपदन्तदीप्तिः । सा वाचि काचित्कलता च तस्या यस्याः शिलं कोकिलकूजितानि२३ सुधांशुधामोज्वलदन्तदीप्तिलिप्तस्य तस्याः शुचिता स्मितस्य । समौक्तिकज्योतिषि ताम्रपर्णीडिण्डीरपिण्डेऽपि कदाचिदेव ॥ २४ ॥ रराज तस्यास्तनुरोमराजिस्तुङ्गस्तनस्तम्बनिबद्धमूला । गभीरनाभीकुहरप्रवेशकामेन कामेन ततेव रज्जुः ॥ २५ ॥ मन्ये महानन्दपदं तदेतन्नितम्बबिम्बं शशिबिम्बमुख्याः । यस्मिन्नवस्थाय तथा हि सुस्थैर्नेत्रैः पुनर्नाववृते नराणाम् ॥ २६ ॥ येन द्रुतं यानविवर्जितानां मतङ्गजानां जगृहे करश्रीः । मन्ये तदूरुद्वितयस्य तस्य न दुष्कराभूत्करभाभिभूतिः ॥ २७ ॥ मुनिप्रभावादतिरम्यभावान्फलप्रवासप्रसवानजस्रम् । संपादयद्भिस्तरुभिः समन्तादाकल्पितं कल्पतरूपमेयैः ॥ २८ ॥ अथ श्रुतश्रौतविधीनि तन्वन्मनांस्यनावृत्तिपदोत्सुकानि । ददर्श सा श्रीरिव दर्शनीया श्रेयस्करं मस्करिणां वनं तत् ॥ २९ ॥ (युग्मम्) मूर्तेर्विवतरिव भानुभासामुद्भासमानं मुनिभिर्महद्भिः । तत्राश्रमं सा सुतनिर्विशेषमृगं मृगाक्षी मृगयांचकार ॥ ३० ॥ अनोकहस्कन्धविलम्बितार्द्रवल्का सुगन्धैर्बलिपुष्पगन्धैः । तपस्विनां भूमिरभीतसत्त्वा जहार सा शान्ततयैव चेतः॥ ३१ ॥ 1. "विशङ्कमानः' ख. २. भूमिपतितं धान्यम्.
१३ सर्गः] .... सुरथोत्सवम् । मनः प्रविश्येव तदीप्सितज्ञा गिरां च पीयूषकिरां प्रयोकी । तामाश्रमालोकनलोलदृष्टिमिष्टा सखी काचिदवोचदेवम् ॥ ३२ ॥ गौराङ्गि सारङ्गकुलानि पश्य सुखोपविष्टान्युटजाङ्गणेषु । छायादुमाधस्थितिभिर्मुनीन्द्रैः स्नेहादिव व्यत्ययिताश्रयाणि ॥ ३३ ॥ एते पुरः सुन्दरि सुन्दराणि द्रुमाः सुमानि प्रसुवन्ति तानि । कृतोरुभावेऽपि भवत्सु येषु भृङ्गाङ्गना निर्गमयन्ति दौस्थ्यम् ॥ ३४ ॥ दुकूलिनो वल्कलिभिर्विमुक्ताहारैः सहारा बलिनः कृशाङ्गैः । शान्त्यैव लोकोत्तरया मुनीन्द्ररेभिर्विजीयन्त इव क्षितीन्द्राः ॥ ३५ ॥ पञ्चाग्निसेवा परितापशान्ति जाड्यव्ययं तीर्थजलावगाहाः । अरण्यवासश्च भयापहारं सारङ्गशावाक्षि करोत्यमीषाम् ॥ ३६ ॥ आद्याच्चतुर्थ पुरुषार्थमर्थकामावतिक्रम्य भजद्भिरेभिः । कर्माणि पैट्कर्मविगर्हितानि श्रुत्वैव मुक्तानि न चानुभूय ॥ ३७ ॥ निरीक्ष्यमाणास्तरुणार्कभासा मुहुः सहासं मुनिमण्डलेन । अमी शमीच्छायमुपेत्य पश्य क्रीडन्ति यज्ञाभिनयेन डिम्भाः ॥ ३८ ॥ इतश्च नेत्रे कुरु चारुनेत्रे मित्राय साधारणचापलत्वात् । अयं बटुर्यच्छति मर्कटाय पचेलिमान्यामलकीफलानि ॥ ३९ ॥ अन्तःसमारोपितपावकानां भासा लसन्त्येव विलासमानाः । ज्योतिर्विचिन्वन्ति मुमुक्षवोऽमी निमीलिताक्षं हृदि दीपदीप्तम् ॥४०॥ कुप्यन्ति तावद्विषतोऽपि नैते कुप्यन्ति चेत्तं सकलं दहन्ति । विलक्यते वारिधिभिर्न वेला विलङ्घयते चेत्परिभूयते भूः ॥ ४१ ॥ अनिष्ठुरालापिनि नैष्ठिकोऽयं समाश्रयत्याश्रममाद्यमेव । गुरोर्गृहीतं रहितं च दोषैर्मृषैव वक्तुं हितमीहते कः ॥ ४२ ॥ सैव क्रिया या विदधाति धर्म वचस्तदेव श्रुतिसंस्कृतं यत् । सेव्यः स एव स्वपदप्रदो यः स एव यस्तत्पदबुद्धिरत्र ॥ ४३ ॥ -- -- --- -- ...- -- -- ३. 'भा' ख. ४. पशुधातादिभिः. १. 'जाप' ख. २. ब्राह्मणनिन्दितानि. ५. 'मो'ख.
...MARE......" ९२ काव्यमाला। विलोक्य वातेन वितायमानां होमानिधूमावलिमन्तरिक्षे । नवाम्बुवाहभ्रमसंभ्रमेण शिखण्डिनस्ताण्डवमारभन्ते ॥ ४४ ॥ एषा नदी सुन्दरि नातिदूरे यस्याः समीरोऽयमुपैति शीतः । आधूतसौगन्धिकगन्धलोलै रोलम्बलोकैरनुगम्यमानः ॥ ४५ ॥ इति स्थितायामभिधाय तस्यां तरङ्गिणी तां प्रति सा प्रतस्थे । कारण्डवाडम्बरमण्डितायास्तीरेऽस्ति यस्याः स नृपस्तपस्यन् ॥ ४६ ॥ सविभ्रमं सा ददती पदव्यां पदानि पद्मध्वजलाञ्छनानि । हंसाङ्गनानां गतिभिर्जितानामीाकषायं हृदयं चकार ॥ ४७ ॥ तामापतन्तीमवलोक्य रम्यां जयं स्मरश्चेतसि निश्चिकाय । शंभूपमं भूपममुं तु पश्यन्नसौ सनिःश्वासमभूनिराशः ॥ ४८ ॥ खच्छखभावामविमुक्तसत्त्वामजस्रसङ्गीकृतहंससेवाम् । तामापगामाप तदायताक्षी साक्षान्मुनीनामिव चित्तवृत्तिम् ॥ ४९ ॥ सम्यक्समाधिप्रतिपादितस्तैस्तेजोभिरभ्युज्ज्वलयन्निवाशाः । ततस्तयालोक्यत चक्रवर्ती स्वानं विधित्सन्सरितः स तस्याः ॥५०॥ वक्षस्तटेन स्फुटदन्तिदन्तव्रणेन मूर्धा च जटाचितेन । प्रदर्शयन्नेकशरीरवासाद्रसौ विभिन्नाविव वीरशान्तौ ॥ ११ ॥ नित्यव्रतखानपिशङ्गिताभिर्जटाभिरुद्भासितमौलिभागः । कर्पूरचूर्णाभफटोल्लसेन तुल्योपमस्तक्षकपन्नगेन ॥ १२ ॥ असंनिधानेऽपि बलायुधानां क्षमः समर्था(प्रा)मिव जेतुमुर्वीम् । कृतार्थमरिव कर्तुमर्थिसाथै समर्थः श्रितवल्कलोऽपि ॥ १३ ॥ तरङ्गिणीतीरभुवि स्थितोऽपि तेजस्तरङ्गैर्विगतोपमानैः । ज्योतींषि तारापथसंचराणि व्यतीत्य तिष्ठन्नुपरीव तेषाम् ॥ १४ ॥ (कुलकम्) तं वीक्ष्य तीक्ष्णद्युतिदुर्निरीक्ष्यं तस्थे भयस्तम्भितया तयापि । भवत्यसत्कर्मणि वर्तमानमशङ्कितस्यापि हि शङ्कि चेतः॥ ५५ ॥ १. 'समीपवर्ती ख.
. १३ सर्गः] सुरथोत्सवम् । भूपस्य तस्याभिमुखं सखीभिर्बहित्रिमैः सा विजहार हावैः । हारीणि रूपादपि चारुरूपाद्वामभ्रुवां विभ्रमवल्गितानि ॥ ५६ ॥ अनङ्गसंजीवनमङ्गमस्यास्तत्रापि चित्राणि विभूषणानि । विलासवाजीकरणं वयश्च तक न यन्मानसमाचकर्ष ॥ १७ ॥ शाखाग्रतः पल्लवमुल्लसन्तं लुलाव साविष्कृतनिम्ननाभिः । पाणौ सवर्णविषि यः स्थितोऽपि न क्षिप्रमालक्ष्यत तत्सखीभिः॥१८॥ मुहुर्मुखाम्भोरुहभोगलोभाङ्गैः पुरः पातिभिराकुलेव । सभ्रूपताकानि विधूतहस्ता चिक्षेप सा दिक्षु निरीक्षितानि ॥ १९ ॥ बालं मरालं पुरतः प्रयान्तं ग्रहीतुकामा किल कौतुकेन । चचाल सा मेरमुखी समीरचलढुकूलाञ्चलदर्शितोरुः ॥ ६० ॥ वेणुस्वनाहूतमृगं मृदङ्गनिनादमत्तप्रचलाकिलोकम् । गानावमानाकुलकोकिलं च संगीतमङ्गीकृतमङ्गनाभिः ॥ ६ ॥ चेतोहरं चारुभिरङ्गहारैरङ्गद्युतिद्योतितरङ्गभूमिः । विलासिनी कापि विलासलास्यं श्रीनन्दनानन्दकरं चकार ॥ १२ ॥ रागो वसन्तः समयो वसन्तः क्रीडाश्च तासां मदनैकदूत्यः । उपेक्षितुं नैतदपेक्षतेऽन्यः शान्तात्मना तेन विना नृपेण ॥ १३ ॥ भूयः पुरोभूय विलासनाथ तं पार्थिवं यावदपश्यदेषा । तदेतदन्यायममृष्यतेव सैव प्रजन्ने मदनेन तावत् ॥ ६४ ॥ देव्या यदर्थ मदनो नियुक्तस्तस्मिन्न भूपे प्रबभूव किंचित् । बिभेद तामेव शरैर्वराकी न हीक्षते कोपपदं विलक्षः ॥ १५ ॥ वातावधूतैस्तटपादपानां पुष्पैः पतद्भिः सुभगे शरीरे । गन्तुं त(न) सान्यत्र शशाक मूतैरनङ्गबाणैरिव बाध्यमाना ॥१६॥ कर्णोत्पलं नावगलद्विवेद जग्रन्थ नार्धग्रथितां च मालाम् । सा केवलं चित्रगतेव तिर्यग्गतेन नेत्रेण नृपं निदध्यौ ॥१७॥ दृक्कोणयोः पाणिसरोजयोश्च मनस्यनङ्गज्वरजर्जरे च । तस्यास्तदालोकनलुब्धदृष्टेदृष्टः सखीभिः सम एव रागः ॥ १८ ॥ २. 'लोल' ख. १. 'प'ख.
. ......................Moriminatia काव्यमाला। सा लज्जया तं मदनोपतापमपारयन्ती गदितुं स्वसख्याम् । वपुस्तदके न्यधिताधितापं मनः पुनः पार्थिव एव तस्मिन् ॥ १९ ॥ तस्यास्तथा कामकृतामवस्थां मत्वाथ सापि प्रतिकर्तुमूचे । तन्मैत्रमप्रेरणया प्रवृत्तिः कष्टश्रितानां सुहृदां मुदे या ॥ ७० ॥ स्थानेऽनुरक्तासि न लज्जनीयमस्मिञ्जने मानसनिर्विशेषे । यतः सरो मानसमन्तरेण नान्यत्र केलिं कुरुते मराली ॥ ७१ ॥ अलं रुदित्वा मुखमुन्नयैतन्मा निःश्वसे धूसरिताधरोष्ठम् । मनोरथं तूर्णमवेहि पूर्ण मयि स्थितायां किमसाध्यमस्ति ॥ ७२ ॥ तावत्त्वमत्राम्बुजपत्रतल्पे संकल्पजन्मज्वरतप्तमङ्गम् । निधाय मोचां कुचयोविमुञ्च प्रियौषधं यावदिहानयामि ॥ ७३ ॥ तामेवमाश्वास्य जवाद्वयस्या तस्यान्तिकं भूमिपतेर्जगाम । उल्लङ्घय याञालघुतामलध्वीं को मानमन्विष्यति मित्रकार्ये ।। ७४ ॥ भूमीपतेरन्तिकमभ्युपेता महःसमूहैः पिहिताङ्गकान्तिः । साक्षान्न सालक्ष्यत तद्वयस्या 'चित्रेव चित्रद्युतिसंनिधाने ॥ ७५ ॥ तस्य प्रणम्यस्य कृतप्रणामा सप्रश्रयं प्रश्रयसंश्रयस्य । प्रभावसंभावितभीरभीतेरित्यब्रवीदब्रुवतः पुरः सा ॥ ७६ ॥ हे विज्ञ विज्ञापयितास्मि किंचित्त्वामुन्नतत्वादभियाचनीयम् । तदर्हसि क्षन्तुमसच्च सच्च स्वाभाविकी सत्सु यतस्तितिक्षा ॥ ७७ ॥ त्रपाकरं नापरमर्थितायाः साप्युन्नते चेत्सचिवे च कोऽर्थी । कूपेऽर्थ्यमाने यदधोमुखत्वमुत्कन्धरत्वं पुनरम्बुवाहे ॥ ७८ ॥ सखीयमेतद्वनमन्वगच्छन्महेच्छपुष्पाण्यवचेतुकामा । त्वद्दर्शनाच्चेतसि लममस्याः पुष्पेषुचापच्युतमाशु पुष्पम् ॥ ७९ ॥ यथा त्वमेकासमनास्तपस्वी निरीक्षसे तीक्ष्णमरीचिमेनम् । तथा तपस्तीक्ष्णमनन्यदृष्टिस्तपस्विनी सापि विलोकते त्वाम् ॥ ८ ॥ प्रयत्नतोऽपि प्रतिषिध्यमानं मानकमूल प्रतिषिद्धवृत्तिः । निधाय चित्तं त्वयि तप्यते सा साधावसाधाविव गोप्यमर्थम् ॥८१॥ १. 'स्म' ख. २. नक्षत्रम्. ३. सूर्यः. ४. हे मानिन्.
१३ सर्गः] सुरथोत्सवम् । -- सा दक्षिणादुद्विजते समीराद्वैरायते रश्मिषु शीतरश्मेः । श्रुत्वा वचः कोकिलकामिनीनामार्ता च वार्तान्तरमातनोति ॥ ८२ ।। नरेशवंशप्रभवोऽसि कश्चिन्नरेश्वरो नूनमनूनतेजाः । न लक्षणैरेभिरुपेतमेतद्वपुर्विधत्ते विधिरेवमेव ॥ ८३ ॥ न साधुरात्मस्तुतिरुन्नतानामपत्यमेषापि न चान्यपत्नी । तदुत्तमाचार परिग्रहीतुं तां रोहिणीमिन्दुरिवार्हसि त्वम् ॥ ८४ ॥ जानाति साप्येवमैलब्धमध्ये पदे तयादायि मनोनुरागः। परं वराकी रिपुणा स्मरेण कर्थितान्यत्किमियं करोतु ॥ ८५ ॥ उक्तान्यदन्यत्प्रतिवक्ति शून्या यात्यन्यतोऽन्यत्र गतिस्पृहापि । तथात्मयुक्तात्मतु(भु)वा यथासौ निर्वाति नोष्णेन न शीतलेन ॥८६॥ सकृत्स्वहृद्रोगमिमं सलज्जा शुष्कस्मितैः सा किल संवृणोति । कपोलपाण्डिग्नि परं न पश्यत्यपह्नवोपायमनङ्गचितॆ ॥ ८७ ।। निरस्य हारं हृदि चन्दनाम्भःप्रक्षिप्तमाक्षिप्तपयोजपत्रे । त्यक्तं तदप्युन्मदना निधातुमाकासति त्वत्करपल्लवं सा ॥ ८८|| तदेहि देहि प्रिय जीवितव्यमस्मासु किंवाञ्जलिरेष बद्धः । कल्पद्रुकल्पेषु भवादृशेषु निरर्थका नार्थिजनप्रवृत्तिः ॥ ८९ ॥ इत्येतदीयानि वचांसि वाचंयमेऽवजानत्यवनीश्वरेऽस्मिन् । न केवलं सा मुमुचे निराशा निःश्वासमस्त्रं मकरध्वजोऽपि ॥ ९ ॥ सख्यां नरेन्द्रेण निराकृतायां मायाङ्गनासौ सह सौविदल्लैः । अन्तर्दधेऽन्तर्दधती विषादं सौन्दर्यसंपद्यकृतक्रियायाम् ॥ ९१ ॥ विषमशरशरैरभिन्नवक्षःस्थलमलघुश्रियमुज्झितप्रसूनाः। नृपमथ विचकत्थिरेऽम्बरस्थाः प्रसरति हि प्रियता कृतावदाने ॥१२॥ इति श्रीसोमेश्वरदेवविरचितायां काव्यरत्नकरण्डिकायां सुरथोत्सवनान्यां मायाङ्गनावर्णनो नाम त्रयोदशः सर्गः । १. अविदिताभिप्राये. २. 'इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सव- नाम्नि महाकाव्ये मायाङ्गनावर्णनो नाम त्रयोदशः सर्गः।' इति पाठः ख-पुस्तके उपलभ्यते. क-पुस्तकलेखदर्शनेनानुमीयते, कदाचिदनेन कविवरेण 'काव्यरत्नकरण्डिकाख्योऽपि ग्रन्थो निर्मितो भवेदिति.
. ९६ काव्यमाला। चतुर्दशः सर्गः। अथ पार्थिवस्य तपसा महीयसा परमेश्वरप्रियतमा प्रसेदुषी । निजमूर्तिमूर्तिशमनीमदर्शयन्न सतां महत्सु विफलः परिश्रमः ॥ १ ॥ मुदितेन तेन मुनिना निवेदितं यदचिन्तयचिरमनन्यमानसः । पुरतः स्फुरन्निरुपमं महन्महस्तदवेक्ष्य स क्षितिपतिर्विसिस्सिये ॥२॥ भुवनैकमातरमवेहि वत्स मां मुदितामनेन महता व्रतेन ते । तदरं वरं वद यदर्थमर्थिता भवताहमित्यभिदधे तमद्रिभूः ॥ ३ ॥ ब्रुवतीमिनि क्षितिधरेश्वरात्मजां हृषितात्मनः प्रणमतः प्रजापतेः । व्यलगललाटफलके यदुर्वरारज एव राज्यतिलकं बभूव तत् ॥ ४ ॥ मुदितामरप्रहितपुष्पसंपदा सुरभीकृते शिरसि रोपिताञ्जलिः । प्रमदाश्रुसीकरकरम्बिताम्बकः स जगाद सादरमिमां मुदा स्थितिम् ॥५॥ जनिरद्य मेऽजनि शुभाशु भावितं तनुनाप्यनेन तपसां फलं महत् । अनिदर्शनेन तव दर्शनेन यन्महती मृडानि मयि योध्यतार्पिता ॥ ६ ॥ किमिदं विभातमविभावितारुणां निवामहं किममुनैव वर्मणा । गिरिजेऽरिजेतृ तव पादपङ्कजं यदमोघदर्शनमदर्शमग्रतः ॥ ७ ॥ तमिमं नमामि चरणं रणोत्सवे तव येन रोषत इवारुणत्विषा । प्रहतेः पुरैव रिपुरुद्यता द्रुतं नखदर्पणप्रेतिमितःस जंगूहे ॥ ८ ॥ हरिचक्रमक्रमत यत्र नाद्रिजित्पविना विनाशयितुमीश्वरो न यम् । अपि तस्य यः सपदि विद्विषोऽपिषच्चरणं प्रणौमि तव तं नतं सुरैः ॥ ९ ॥ मरुतामजसमशुभापहारिणौ चरणावुभौ प्रणमनीयतां गतौ । प्रथमस्तवैष महिषान्तकृद्धरेरपरो विरोचनतनूजबन्धनः ॥ १० ॥ अयमेव देवि भुवनत्रयेऽपि ते चरणः प्रियार्थकरणस्तथा हि यः । प्रणतः प्रसादसुखमिच्छता जगद्गुरुणापि केलिकलहे पिनाकिना ॥ ११ ॥ मधुकैटभौ विकटविक्रमौ यथा त्वममूमुहः प्रहरति त्रिविक्रमे । अधुनापि गाययति पङ्कजासनस्तव तद्यशस्तदुदरस्थिताः प्रजाः ॥ १२ ॥ १. सुमेधसा. २. देवीरूपम्. ३. राज्ञः. ४. मुक्तिमगमम् . ५. दृष्टवान् . ६. प्रहारात्. ७. महिष. ८. उद्गच्छता. ९. बिम्बितः. १०. 'ग्रसे' ख. ११. हिंसार्थकत्वात्कर्मणि पी. १२. 'तः' ख. १३. मोहितवती.
१४ सर्गः] सुरथोत्सवम् । ९७ सकलोऽपि केन महिमा हिमाद्रिजे परिमीयताममितवैभवस्तव । यदुदेति दैवतशरीरतः कदाप्यथ च त्वमेव विदधासि तान्यपि ॥ १३ ॥ उदितेन येन स बभूव भूधरः सुरधाम वामन इवोच्चकैरपि । महसा ततोऽपि महता हतासुरं तव तद्वपुर्विपुलमत्यशय्यत ॥ १४ ॥ खरहेतिभिर्नखरहेतिरप्यसावजितः परैर्जयति यानकेसरी । कुरुते स्म यः समरकृत्तचामरः स्थिरचामराममरराज्यसंपदम् ॥ १५ ॥ तदहं कृतं तव नमामि हुंकृतं किल कृन्तता समिति धूम्रलोचनम् । अरिदारणैकरुचिरेष निर्मितः सफलोऽपि येन विफैलो महानसिः ॥१६॥ अलिकायमातरलिकाय कोमलामलकावलिं कलयते नमस्तव (?) । द्रुतमाविरक्रियत चण्डमुण्डयोः प्रलयक्षये च युधि येन चण्डिका ॥ १७॥ रुधिरासवं रुधिरवीजसंभवं भवती भवानि समराजिरे पपौ । तदपापचायनविकासिचेतसाममृताशिनामुदलसन्मदः पुनः ॥ १८ ॥ दलिते त्वया दितिजचक्रवर्तिनि त्रिदिवश्रिया तदुपतप्तया श्रितः । प्रसरत्प्रमोदनयनाम्बुशीतलो जलयन्त्रवेश्मसदृशः सहस्रदृक् ॥ १९ ॥ पुरुषं चिराय परिचर्य दुर्लभं भवभीरुभिर्यदभिलप्यते पंदम् । सकृदानता च सुलभा च भाविनां वनितापि तद्वितरसि प्रसेदुषी ॥२०॥ कमला त्वमेव कमलानने यया परितुष्टया नरपतित्वमीयुषी (षि)। मनुजेऽपि देव इति सेवकवजैरभिधीयते न च न भाति तस्य तत् ॥ २१ ॥ भवतीमतीन्द्रियदृशः सरखतीं निगदन्ति देन्तिवदनोपपादिनि । यदनुग्रहात्कविगवीषु तद्वसत्यमृतं विषीभवति दुर्जनेषु यत् ॥ २२ ॥ शुभलक्षणात्तव निरीक्षणक्षणाकिमतः परं प्रियतरं यदर्थये । त्वदवश्यदेयमथ वा भवानि तत्त्वयि निर्भरा भवतु भक्तिरेव मे ॥ २३ ॥ दशनांशुभिर्दलितकुन्दसुन्दरैः सितमातपत्रमिव तस्य तन्वती । नृपतेः पुरस्त्रिपुरवैरिवल्लभाभिदधे प्रसादमधुराक्षरां गिरम् ॥ २४ ॥ १. तदपि तेजसो भवत्तेजसा जितम्, २. तीक्ष्णायुधैः. ३. हुंकारेणैव वैरिणो नष्टत्वात्. ४. ललाटाय. ५. शुम्भे. ६. परमात्मानम्. ७. मुक्तिम्. ८. देवाभिधानम्. ९. हे विनायकमातः. १०. सतां प्रियं दुर्जनानामप्रियम्. . १३ ९८ काव्यमाला। ܕܝܪ भज वत्स वत्सरसहस्रवर्तिनी निजराज्यसंपदमदभ्रविक्रमः । भक्तश्चिराय विरहातिमङ्गकैरनुपस्कृतानुपचितैर्व्यनक्ति या ॥ २५ ॥ जपमालिकां जहिहि बाहुनामुना रिपुनिग्रहाय कुरु कार्मुकग्रहम् । दधदुर्वरावलयमेककोऽपि यः किरिकच्छपोरगपतीनतीयिवान् ॥ २६ ॥ धृतिमादधातु धरणेद्विधाप्यसावसमापनीयविभवो भवद्भुजः । समरे करालकरवाललालनः कुरुते विरोधिहृदयानि यो द्विधा ॥ २७ ॥ भवतः कदाचिदपि संगराङ्गणे न पराभवः परभवो भविष्यति । अरुणात्तमिस्रमिव मङ्गु नश्यति त्वदनीकतोऽपि रिपुराजमण्डलम् ॥२८॥ न भयं भविष्यति कदाचिदीतिजं निजबन्धुभिर्नृप न विप्रयोक्ष्यसे । मुखरे च मङ्गलमृदङ्गनिःस्वनैर्न गदः पदं तव पुरे करिष्यति ॥ २९ ॥ रिपुनायिकानयनवारिसीकरप्रकरैरपास्तभुवनभ्रमश्रमम् । जगतां त्रयीमपि परिष्करिष्यते करिदन्तसंततिसितं यशस्तव ॥ ३० ॥ तनये नियुज्य निजराज्यसंपदं पदमारुरुक्षुरथ तार्थ्यलक्षणम् । जननान्तरे तरणिसंभवो भवान्भविता मनुर्मनुजवासवाष्टमः ॥ ३१ ॥ तमिति क्षितीशमभिषिच्य वाङ्मयैरमृतद्रवैः क्वचिदगादगात्मजा । गतिमागतिं च महतामवेक्षितुं न हि चार्मणे प्रभवतो निरीक्षणे ॥ ३२ ॥ फलितेऽथ सौनिजमनोरथद्रुमे न मदस्य भूपतिरभूद्वशंवदः । न महानपीतर इवोत्सवे सति स्मयमेति सीदति न चात्र सीदति ॥३३॥ सुरथः समर्थितसमीहितस्ततः शतमन्युरन्य इव तेजसा ज्वलन् । न्यवृतन्निवृत्तवृतिनं मुनिं प्रति प्रतिभूरभूत्प्रथममेव यः श्रियः ॥ ३४ ॥ नृपतिर्निजागमनदर्शनोत्सुकानभिधावतः सबहुमानमानमन् । ऋषिपुत्रकानवितथाशिषस्तया गिरिजाप्रसादकथयाभ्यनन्दयत् ॥ ३५ ॥ तरवोऽपि तत्र नवमञ्जरीमिषाद्दधतः प्रमोदपुलकोदयश्रियम् । कलकोकिलाकलकलच्छलाजयं जगुरागते नरपतौ कृतात्मनि ॥ ३६ ॥ १. राज्याइर्दहावयवैश्व. २. धारणं संतोषं च. ३. हे नरेन्द्र ४. उत्सवे. ५. निवर्तते स्म. ६. आश्रमे. ७. कृतकृत्ये. .
१४ सर्गः] सुरथोत्सवम् । ९९ कथितप्रियागमनपारितोषिकस्पृहयालुबालकनिवेदितागतिः । स विवेश वेश्मसु मुनेर्मनूपमः प्रमदप्ररूढपुलकेन वर्मणा ॥ ३७ ॥ तपसः प्रभावमवगच्छता सतां प्रकृते च कर्मणि नियोगनिश्चयम् । अनिवेदितोऽपि बुबुधे सुमेधसा मुनिवेधसा नृपतिसंपदागमः ॥ ३८ ॥ शिरसा रसास्पृशमुपेत्य संभ्रमान्नपमुन्निनाय मुनिरन्नतान्वयम् । प्रमदाश्रुपूर्णनयनाञ्जलिच्छलादयम॑र्धदानमनघस्य च व्यधात् ॥ ३९ ॥ श्रुतिशीतलेन मुखरागसूचितां वचसा विवृत्य कृतकृत्यतां निजाम् । शमिनः पुरः सुरथभूपतिः पुनर्विनयातिरेकरचिताञ्जलिर्जगौ ॥ ४० ॥ भगवंस्तवार्जवमगोचरं गिरां रसना न नाम भणितुं क्षमा मम । न च मौनिनं जनमिम तितिक्षते त्वदनुग्रहप्रहित एष संमदः ॥ ४१ ॥ भुवनैकसज्जन तवात्मनः स्तुतिर्न समीहितेऽतिविदतापि सा किमु । न मया तदेकरुचिना करिष्यते निजमिष्टमुज्झतिकृते परस्य कः ॥ ४२॥ तदसांप्रतं यदभिसंधिरीक्ष्यते भुवनोपकारकरणे भवादृशाम् । किमहस्करोऽयमपरोपरोधतस्तिमिराणि भीषणतराणि कृन्तति ॥ ४३ ॥ विनयं व्यनक्ति तनयोऽपि यत्र न त्रपते प्रियापि सुहृदोऽप्यपासते । दुरितोदये विदुर दुःखितात्मना भवतैव तत्र जनकायितं मम ॥ ४४ ॥ अजलं मम त्रिपथगावगाहनं तुरगाध्वरोऽयमजनि क्रियां विना । अचतुर्मुखं वपुरिवाश्रितः स्वयं कमलासनस्त्वमवलोकितोऽसि यत् ॥ ४६॥ तमिति ब्रुवन्तमवनीपतिं जवात्प्रतिजल्पति स्म पतिरल्पजल्पिनाम् । न परप्रयुक्तनिजवृत्तवर्णनश्रवणे चिरं प्रणयितापि सा(हि ता)दृशाम् ॥४६॥ अमुना नरेन्द्र वचनामृतेन ते वयमद्य शर्मशिखरेऽधिरोपिताः । धृतविद्युतामिव सतां यदुन्नतिर्महते महाय जगतोऽपि जायते ॥ १७ ॥ बहवोऽपि बोधयितुमीशतेऽधिकं मतिवैभवेन सुभगं भविष्णवः । चरितुं सुदुश्चरमिदं तपः पुनर्नृप नापरः प्रभवति त्वया विना ॥ ४८ ॥ १. नहि तपो निष्फलं भवति. २. कर्तुमारब्धे. ३. नहि महान्तः प्रारब्धकर्मफल- मनवाप्य निवर्तन्ते. ४. 'र्थ' ख. ५. मल्लक्षणम्. ६. अपि तु करिष्यत एव. ७. अ- भिप्रायः. ८. विपदागमे. ९. विद्वन्. १०. 'स्तु' ख. ११. मेघानाम्.
-- १०० काव्यमाला। अपरेण किंचिदुपकुर्वता कृतं मनुते गुणं सहजमप्यनुत्तमः । यदि दीप्तता न कनके निसर्गजा तदयस्यपि स्फुरतु वह्निशोधिते ॥ ४९ ॥ नरदेवमेवमभिधाय नायकः शमिनां पुनस्तदभिषेककाम्यया । प्रजिघाय तीर्थसलिलाय सत्वरं फुरदेणचर्मरुचिरान्बटून्बहून् ॥ ५० ॥ करुणानिधिः स वरुणाधिदेवतैरभिषेकमस्य विरचय्य सामभिः । हरवल्लभार्पितवरानुवर्तिनी व्यतरद्वधूमभिनवामिवाशिषम् ॥ ११ ॥ सचिवब्रुवरपकृतं पुरास्य यैः क्षयमाययुः समिति ते परस्परम् । विभवो न केवलमधर्मसंभवः सहसा विनश्यति विनाशयत्यपि ॥ १२ ॥ अपरैः पराक्रमरतं क्रमागतैरथ मन्त्रिभिस्तमवगन्तुमीरिताः । प्रतिपत्तनं प्रतिवनं प्रतिस्थलं प्रतिपर्वतं प्रणिधयः प्रतस्थिरे ॥ १३ ॥ अवगम्य सम्यगथ गूढपूरुषैः पुरुषोत्तमांशममुमाश्रमाश्रयम् । महती मुदं च पृतनां च बिभ्रतः सचिवाः प्रचेलुरविलम्बिताः पथि॥५४॥ पटुभिः प्रयाणपटहवनैः प्रभोरुपलम्भसंभवमिमं महं मुहुः । ककुभां वदन्त इव ते द्रुतं ययुः प्रमदाः कमुत्सुकमहो न कुर्वते ॥ ५५ ॥ अलघीयसामपि विलय भूभृतां कटकाननेकपघटामदोत्कटान् । तमगाधमब्धिमिव सा पतिं यती क्वचनापि न स्थितिमवाप वाहिनी ॥१६॥ अभिदधदपि हि प्रियं प्रियः स्यादिति तुरगोद्धृतधूलिजालदम्भात् । प्रथममुपययौ मही महीन्दोः प्रियसचिवागमनं गदिष्यतीव ॥ ६७ ॥ अभिवनमिभबृंहितानि शृण्वन्पणवरवैरुपबृंहितानि तानि । चटुलगुटजाङ्गणानुसारी हरिणगणः क्षणमुन्मनीवभूव ॥ १८ ॥ किमिदमिर्ह बभूव नैव यावद्धृदि नृपतेः स मुनेर्मनाग्भ्रमोऽपि । प्रणिधिभिरभिधीयते स्म तावजय जय देव तवागतं श्रियेति ॥ ५९॥ अनुनदि शिबिरं निवेश्य वंश्या वनविनिवारिततापनातपं तत् । प्रमदभरनिरस्तमार्गखेदाः प्रविविशुराश्रममाशु मन्त्रिणस्ते ॥ ६ ॥ १. महात्मा हि निजमपि गुणमपरेणोपकारमात्रकारिणा कृतं मन्यते. २. लोहे. ३. अमात्याधनः. ४. 'ति सविस्मयं स यावच्छ्रवणमुखामशृणोत्तुरङ्गह्वेषाम्' इत्येवं पाठः ख-पुस्तके उपलभ्यते, ५. 'शी' ख.
HE 1 १४ सर्गः] सुरथोत्सवम् । चिरपरिहृतकार्मुकश्रमत्वादपचितमेचकिमद्गुणाकिणेन । नरपतिरथ तं समं नमन्तं सचिवगणं समवीभवत्करेण ॥ ६१ ॥ नृपतिरयममी च मन्त्रिमुख्याः प्रमदसबाष्पदृशः परस्परेण । मुखकमलविलोकशर्म साक्षादुपनतमप्युपलेभिरे चिरेण ॥ ६२ ॥ कृतकुशलकथेषु पार्थिवोऽसौ प्रियसचिवेषु पुरस्कृतासनेषु । सरसिजवसतेरिव प्रभावं पितुरिव वत्सलतां यतेः शशंस ॥ १३ ॥ चरनिकरनिवेदितप्रवृत्ते पतिवरस्य चिरानुरागरम्यः । निजनिजपितृपत्तनातनीयान्युवतिजनोऽपि समाजगाम तत्र ॥ ६४ ॥ सललितमवलोकितः स ताभिर्निहितनवाञ्जनया दृशा कृशाभिः । नरपतिरुदितानुरागसिन्धुश्विरनिगृहीतमनङ्गमन्वगृह्णात् ॥ १५ ॥ शुचिभिरथ समर्पितं स्वराज्यं क्षितिपगुरुर्गुरुदक्षिणीचकार । ऋषिरपि वरिवस्यवैव तुष्टः प्रतिविततार सहाशिषा तदस्य ॥६६ ॥ अचकमत यदन्यदप्यभीष्टं नृपतिरपश्यदुपागतं तदने । विघटयति यथा विधिविरुद्धो घटयति चाशु तथा प्रियं प्रसन्नः॥६७॥ कुलपतिवसतेः सुदुस्त्यजाया रणरणकं हृदि भाविनं दधानः । पुरगमनसमुत्सुकोऽपि न द्राङ्मुनिमनुमानयितुं नृपः शशाक ॥ १८॥ क्षितियतिवरयोस्तयोर्भविष्यद्विरहतरङ्गितबाष्पबद्धवाचोः । चलितुमनुमतिं ययाच पूर्वोऽप्यदित परः शिरसैव लोलितेन ॥ ६९ ॥ प्रथममिममथापरान्महर्षीन्नयनयुगे हृदि चार्द्रतां दधानान् । अयमकृतभिदा प्रसादभक्त्या व्यधित च हव्यभुजो नमनसव्यान् ॥७०॥ संविति(?) न सुहृदः कुरङ्गशावानथ कथमप्यनुवर्तिनो निवर्त्य । ज्वलदनलनिभः शुभे मुहूर्ते सह सचिवैः प्रचचाल चक्रवर्ती ॥ ७१ ॥ तस्य प्रयाणपटहध्वनिभिर्गभीर- गर्जन्महागिरिगुहाविहितानुवादैः । १. स्थूलीभूतश्यामिकानि गुणाया ज्यायाः किणानि यत्र. २. ब्रह्मणः. ३. वि. रा:. ४. उपधाशुद्धैरमात्यैः. ५. उत्कण्ठाम्. ६. शिरःसंज्ञया. ७. प्रदक्षिणान. ८. 'सवियिन(?)सु' ख.
...................... Farat १०२ काव्यमाला। सप्तापि तित्रसिषवस्तरणेस्तुरङ्गा नीताः कथंचिदपि सारथिना स्थिरत्वम् ॥ ७२ ॥ रङ्गत्तुरङ्गमसमूहसमुद्धतेन भूपांशुना कलुषितप्रतिभूपकीर्तिः । द्वित्रैरहोभिरयमाकलयांचकार सेनागजान्निजपुरोपवनद्रुमेषु ॥ ७३ ॥ आरुह्य द्विरदमुदग्रमुग्ररोचिः प्राचीनाचलमिव दर्शितोदयश्रीः । प्राविक्षत्प्रकृतिपुरःसरः पुरेऽसौ पौराणां हृदि च तदागमप्रमोदः ॥७॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये राज्यलाभो नाम चतुर्दशः सर्गः । पञ्चदशः सर्गः। अस्ति प्रशस्ताचरणप्रधानं स्थानं द्विजानां नंगराभिधानम् । कर्तुं न शक्नोति कदापि यस्य त्रेतापवित्रस्य कलिः कलङ्कम् ॥ १ ॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात्कथं स्वाध्यायैकनिधे(?)र्गतश्रुतिवृतेनोर्वीतलेनापि वा । यत्सौघेषु विशुद्धिवर्जितवपुर्बालोऽपि नालोक्यते वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २॥ हृतनयनसुखैर्मखामिधूमैः श्रुतिकटुभिर्बटुवृन्दवेदपाठैः । कलिरकलितसंमदः प्रदत्ते न खलु पदं विदुषां गृहेषु यत्र ॥ ३ ॥ चञ्चत्पञ्चमखाग्निभग्नतमसि स्थाने त्रिनेत्रानल- ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये । श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः खासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । १. त्रसितुमिच्छवः. २. आनन्दपुरम्. ३. देवाः, मदिरा च. ४. सर्पाः वेदभ्रष्टाश्च. ५. भूदेवाः. ६. स्वामिने, सूर्याय च, ७. उलूकः, विश्वामित्रश्च.
१५ सर्गः] - ... सुरथोत्सवम् । १०३ आविर्भूतमभूतपूर्वचरितश्रेष्ठादशिष्ठात्ततः सत्कर्मोद्धरमध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् ॥ ५ ॥ येषामशेषाधिपतिः प्रसन्नः संनद्धपाणिः प्र(फ)णिकङ्कणेन । त एव संभूतिमिहाश्नुवन्ति [कुले] गुँलेचा(वा)भिधया प्रसिद्धे ॥६॥ श्रीसोलशर्मा विमले कुलेऽत्र जन्म द्विजन्मप्रवरः प्रपेदे । यः खर्गिणः सोमरसेन यागे पितॄश्च पिण्डैरपृणत्प्रयागे ॥ ७ ॥ सोलः सलीलमवनीमवतामसौ वः सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः । श्रीगुर्जरक्षितिभुजा किल मूलराज- देवेन दूरमुपरुध्य पुरो दधे यः ॥ ८ ॥ यथा प्रतिष्ठां महतीं वशिष्ठस्तिग्मांशुवंशे भगवानवाप । निजेन सौवस्तिकतागुणेन चौलुक्यभूपालकुले तथासौ ॥ ९ ॥ विधिवद्वाजपेयं यः कलिकालेऽप्यकल्पयत् । कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ॥ १० ॥ ऋग्वेदवेदी च श(कृ)तक्रतुश्च दत्तान्नदानश्च जितेन्द्रियश्च । तिरोहिते तत्र पुरोहितेन्द्रे तदङ्गजन्माजनि लल्लशर्मा ॥ ११ ॥ यः करोति म चामुण्डराजाख्यं नृपमाशिषा । हेतिप्रतापसंपन्नं हविषा च हविर्भुजम् ॥ १२ ॥ १. यज्ञविद्याविदाम्. २. ईश्वरः. ३. 'मुव' ख. 'गुलेवा' इति स्थानाचारेण गोत्रस्यावठङ्कनाम प्रतीयते, परं च डॉक्टर-रामकृष्ण-गोपाल-भाण्डारकर-महाश- यैस्तु १८८३-८४ वर्षीय रिपोर्ट'-पुस्तके 'गुलेचा' इत्येव पाठ आश्रितः. ५. अस्य मूलराजपुरोहितस्य सोलस्य सत्तासमयोऽपि मूलराजराज्यसमय एव. ६. पुरो- हितः. ७. अयं मूलराजमहाराजः वि० सं० ९९३-१०५३ वर्षेषु राज्यमकार्षीत् , इति Indian Antiquary Vol. XI. P. 219. ८. अस्य चामुण्डराज. पुरोहितस्य लल्लशर्मणः सत्तासमयश्च चामुण्डराजराज्यसमय एव. ९. चामु- ण्डराजराज्यम्-वि० सं० १०५३-१०६६. १०. आयुधम् , दीप्तिश्च. ११. पौरुषम् , संतापश्च. १० काव्यमाला। ८ १०४ श्रीमुञ्जनामा तनुजस्तदीयः खयं स्वयंभूरिव भूतलेऽभूत् । ब्राह्मण्यलाभाय तथा हि सद्भिरभाजि मौजी रशनेव वृत्तिः ॥ १३ ॥ सद्वंशजातेन गुणान्वितेन शरासनेनेव पुरोहितेन । एतेन मेने भुवने न किंचिन्न दुर्लभं दुर्लभराजदेवः ॥ १४ ॥ संतापशान्ति जगतोऽपि सोमस्तन्नन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च सत्यां बभाजे द्विजराजतां यः ॥ १५ ॥ यस्याशीःप्रतिपादितोदययुजा श्रीभीमभूमीभुजां क्षीरक्षालितशालितन्दु(ण्डोलसितं साक्षात्कृतं तद्यशः । येनाशाक्रमणक्षमेण त इमे मूर्तिप्रभेदाः प्रभो- भस्मोद्धूलनमन्तरेण धवलाः सर्वेऽपि निर्वतिताः ॥ १६ ॥ भित्वा भानुं तत्र ताते प्रयाते पुत्रः श्रीमानामशर्मा बभूव । कृत्वा सम्यक्सप्तसंस्थाः क्रतूनां क्रीता काम्रा येन सम्राडभिख्याम् ॥ १७ ॥ सदा यदाशीः परिपूर्णकर्णः 'श्रीकर्णनामा नृपतिः प्रकाण्डम् । वसुंधरामण्डलमर्णवान्तं वान्तारिनारीनयनाम्बु चक्रे ॥ १८ ॥ दानानि तानि सदनानि च तानि शंभो. रम्भोजराजिरुचिराणि सरांसि तानि । येनामुना मुनिजनानुकृताकृतानि वित्तैश्चुलुक्यकुलसंभवभूपदत्तैः ॥ १९ ॥ १. अस्य दुर्लभराजपुरोहितस्य श्रीमुञ्जनाम्नः सत्ताधारसमयस्तु दुर्लभराजरा. ज्यसमय एव. २. मौजी वृत्तिरिति मुआवद्वर्तमानानां ब्राह्मण्यं भवतीत्यर्थः. एतेन मुनस्य सदाचारत्वमुक्तं भवतीत्यर्थः, अथ च मौञ्जी मेखला शरमयी रशना ब्राह्मण्य- लाभाय सद्भिर्वध्यते. ३. दुर्लभराजराज्यम्-वि० सं० १०६६-१०७८. ४. अस्य भीमराजपुरोहितस्य सोमस्य जीवनसमयो भीमराजराज्यसमय एव. ५. विष्णुना, मृगेण च. ६. 'बभजे ख. ७. ब्राह्मण्यम्, चन्द्रत्वं च. ८. भीमराजराज्यम्-वि० सं. १०७८-११२०. ९. पृथिव्यादयोऽष्टौ. १०. शिवस्य. ११. अस्य श्रीकर्ण- राजपुरोहितस्यामशर्मणः स्थितिसमयः श्रीकर्णराजराज्यसमय एव. १२. अग्निष्टो. माया:. १३. वाजपेययाजीति. १४. श्रीकर्णराजराज्यम्-वि० सं० ११२०-११५०.
१५ सर्गः] सुरथोत्सवम् । १०५ धाराधीशपुरोधसा निजनृपक्षोणी विलोक्याखिला चौलुक्याकुलितां तदत्ययकृते कृत्या किलोत्पादिता । मन्त्रैर्यस्य तपस्यतः प्रतिहता तत्रैव तं मान्त्रिक सा संहृत्य तडिल्लता तरुमिव क्षिप्रं प्रयाता कचित् ॥ २० ॥ तस्मात्कुमारः सुकुमारमूर्तिमूर्तस्तपोराशिरिवोजगाम । खराजराज्योदयदायिनी वागुवास शक्तेरिव यस्य वक्रे ॥ २१ ॥ बद्धः सिन्धुवसुंधरापतिरतिप्रौढप्रतापोऽपि य- नीतः स्फीतबलोऽपि मालवपतिः कारां च दारान्वितः । दृप्तः सोऽपि संपादलक्षनृपतिः पादानतिं शिक्षितः श्रीसिद्धक्षितिपेन सैष विभवः सर्वोऽपि यस्याशिषाम् ॥ २२ ॥ कुंशोपशोभितैर्यागैस्तडागैश्च परःशतैः । दृष्टं पूर्तं च यश्चक्रे चक्रवर्तिपुरोहितः ॥ २३ ॥ ऋजुरोहितभृत्पुरोहितत्वस्पृहयेव त्रिदिवं गतस्य तस्य । तनुभूर्मनुभूपतिप्रणीतस्मृतिसर्वखमवाप सर्वदेवः ॥ २४ ॥ मध्वरेयंधित साधु सपर्यामध्वरेषु जयति स्म सुरेशम् । मानवानविदितापरयाच्जो मानवानकृत चैष कृतार्थान् ॥ २५ ॥ अर्चिषामयनमीयुषि तत्र क्षत्रसत्तमनमस्करणीये । अध्यगामि विधिरामिगनाम्ना वैदिकस्तदनु तत्तनुजेन ॥ २६ ॥ सत्कर्मनिर्माणरतेरमुष्य व्रीडानिदानं द्वयमेतदासीत् । ववर्णनाकर्णनमुत्तमेभ्यः संसारकारान्तरवस्थितिश्च ॥ २७ ॥ १. मालवाधिपतियशोवर्मणः पुरोहितेन स्वदेशभूमिं गुर्जरराजश्रीसिद्ध- राजापरनामधेयजयसिंहदेवेन व्याकुलीकृतां वीक्ष्य तद्वधार्थमभिचारेण कृत्यो- त्पादिता. सा च आमशर्मणः पुरोधसः शान्तिमन्त्रैः प्रतिषिद्धा सती तमेव माल- वाधीशपुरोहितं संहृत्य तिरोहितेति श्रूयते. २. शक्तिर्वशिष्टपुत्रः, ३. वोदत्तनामा. ४. यशोवर्मनामा. ५. आनलदेवः. ६. श्रीसिद्धराजापरपर्यायजयसिंहरा- ज्यम्-वि० सं० ११५०-११९९. ७. जलम् , दर्भश्च. ८. बृहस्पतिः. ९. विष्णोः. १०. अचिर्मार्ग गतवति. ११. अग्निहोत्रादिः. . १४ १०६ १ काव्यमाला । ज्येष्ठः श्रेष्ठतमः समस्तविदुषां श्रीसर्वदेवायः श्रेयः संपदपास्तदुस्तरतमाः श्रीमान्कुमारोऽनुजः । मुञ्जोऽथ द्विजकुञ्जरस्तदनुजो न्यायाजडेनाहड- श्चत्वारस्तनयास्ततः समभवन्वेदा इव ब्रह्मणः ॥ २८ ॥ कुमारपालस्य चुलुक्यभर्तुरङ्गानि गङ्गासलिले निधाय । श्रीसर्वदेवेन गयाप्रयागविप्राः प्रदानेन कृताः कृतार्थाः ॥ २९ ॥ स्थाने स्थाने तडागानि शिवपूजा दिने दिने । विप्रे विप्रे च सत्कारः श्लाघा यस्य गृहे गृहे ॥ ३० ॥ राहौ गृहीतोष्णकरे कुमारः कुमारपालस्य सैंतेन राज्ञा । कृतोपरोधोऽपि परं पुरोधाः प्रत्यग्रहीत्तस्य न रत्नराशिम् ॥ ३१ ॥ यः शौचसंयमपटुः कटुकेश्वराख्य- माराध्य भूधरसुताघटितार्धदेहम् । तां दारुणामपि रणाङ्गणजातघात- वातव्यथामजयपालनृपादपास्थत् ॥ ३२॥ विलोक्य दुष्कालवशेन लोकं कङ्कालशेषं सविशेषणूकः । श्रीमूलराजं दलितारिराजमचीकवृ(र)त्तकैरमोचनं यः ॥ ३३ ॥ दुष्टारिकोटिकदनोत्कटराष्ट्रकूट- कुल्येन शल्यितरणाङ्गणकौङ्कणेन । १. अस्य सिद्धराजपुरोहितस्य सर्वदेवस्य जीवनसमयः सिद्धराजापरनाम- जयसिंहराज्यसमय एव. २. कुमारपालराज्यम्-वि० सं० ११९९-१२३०. ३. अस्य कुमारपालपुरोहितस्य कुमारस्य सत्तासमयः कुमारपालराज्ये. ४. अ- जयपालेन. ५. सामन्तसिंहयुद्धे हि श्रीअजयपालदेवः प्रहारपीडया मृत्युको- टिमायातः कुमारनाम्ना पुरोहितेन श्रीकटुकेश्वरमाराध्य पुनः स जीवितः. ६. अज- यपालराज्यम्-वि० सं० १२३०-१२३३. ७. शूकः श्लक्ष्णतीक्ष्णानः शङ्कुः, ८. मूलराजराज्यम्-वि० सं० १२३३-१२३५. ९. यः किल कुमारः श्रीअज- यपालपुत्रश्रीमूलराजसकाशाद्दुष्कालपीडितानां प्रजानां तदानीं करमोचनं कारितवान्, १०. निहितकौणाधिपतिमल्लिकार्जुनेन.
१५ सर्गः] सुरथोत्सवम् । सर्वप्रधानपुरुषाधिपतिः प्रताप- मल्लेन भूपतिममल्लिकया कृतो यः ॥ ३४ ॥ सेनानीविदधे कुमार इति यः शके चुलुक्येन्दुना जित्वा सोऽथ जवादवार्यतरसः प्रत्यर्थिपृथ्वीपतीन् । इष्टां तद्विषधिमाशिषमिव प्रादात्पुरोधाः खयं तस्मै याज्यमहीभुजे निजचमूवीरवगैरेक्षतैः ॥ ३५ ॥ धाराधीशे विन्ध्यवर्मण्यवन्ध्यक्रोधाध्मातेऽप्याजिमुत्सृज्य याते । गोगस्थानं पत्तनं तस्य भङ्क्त्वा सौधस्थाने खानितो येन कूपः ॥ ३६ ॥ गृहीतं कुप्यता कुप्यं मालवेश्वरदेशतः । दत्तं पुनर्गयाश्राद्धे येनाकुप्यमकुप्यता ॥ ३७ ॥ जित्वा म्लेच्छपतेर्बलं तदतुलं राज्ञी सरःसंनिधौ खःसिन्धोः सलिलैविधाय विधिवत्प्रीतिं पितॄणामपि । दानी मोक्षमनुक्षतक्षितितले कृत्वाब्दमन्दबजे राजार्थ रचयांचकार चतुरः खार्थ प्रजाथै च यः ॥ ३८ ॥ यः कर्माणि च षड्गुणांश्च तनुते तद्भूर्भुवःस्खस्त्रयं कीर्तिर्यस्य च यश्च निर्मलरुचिों जातुचिन्मुञ्चति । शस्त्राविष्कृतिरध्वरे च युधि च श्लाघ्योजिहीते यतः सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्मं च राज्यस्य च ॥ ३९ ॥ अरुन्धतीव कान्तास्य पत्युराज्ञामरुन्धती। अभूदभिधया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ ४० ॥ आदिमः प्रशममन्दिरं महादेव इत्यभिधया तदङ्गभूः । येन पाणिनिहितेन पङ्कजेनेव तुष्यति परं सरखती ॥ ४१ ॥ सोमेश्वरदेव इति क्षितिदेवस्यास्य बन्धुरनुजन्मा । अजनि कनिष्ठस्तस्य भ्राता ख्यातान्वयो विजयः ॥ ४२ ॥ १. वैरिदेशसमृद्धिम्. २. अव्रणाङ्कस्तण्डुलैः, अखण्डितैश्च. ३. अयं विन्ध्यवर्मा यशो- वर्मणः पौत्रः. --- १० .. १०८ काव्यमाला। तैत्रिभिः प्रथममध्यमोत्तमैः वे पदे च पुरुषैर्व्यवस्थितैः । शब्दशास्त्रमिव गोत्रमुच्चकैः सक्रियं समजनिष्ट विष्टपे ॥ ४३ ॥ सोमेश्वरदेवकवेरवेत्य लोकंपृणं गुणग्रामम् । हरिहरसुभटप्रभृतिभिरभिहितमेवं कविप्रवरैः ॥ ४४ ॥ श्रीसोमेश्वरदेवस्य कवितुः सवितुश्च को । स तृणाभ्यवहारस्य निरासेऽपि रसप्रदा ॥ ४५ ॥ वाग्देवतावसन्तस्य कवेः श्रीसोमशर्मणः । धुनोति विबुधान्सूक्तिः साहित्याम्भोनिधेः सुधा ॥ ४६ ॥ तव वक्रं शतपत्रं सद्वर्ण सर्वशास्त्रसंपूर्णम् । अवतु निजं पुस्तकमिव सोमेश्वरदेववाग्देवी ॥ ४७ ॥ वसिष्ठानिष्ठायाः पदमिति जगत्यस्ति पटहः प्रकृष्टास्त्वेषामप्यजनिषत मुञ्जप्रभृतयः । कुले जातोऽप्येषां शतधृतिदुहित्रा पुनरयं खयं पुत्रीचक्रे नवकविगुणप्रीणितहृदा ॥ ४८ ॥ काव्येन नव्यपदपाकरसास्पदेन यामार्धमात्रघटितेन च नाटकेन । श्रीभीमभूमिपतिसंसदि सभ्यलोक- मस्तोकसंमदवशंवदमादधे यः ॥ ४९ ॥ कवीन्द्रपदवीस्पृहामहह तेऽपि तन्वन्ति य- द्वचःक्रकचकर्कशं प्रथयति व्यथां कर्णयोः । कविः स विरलः पुनर्भुवि भवादृशो दृश्यते सुधाभिरभिषेचनं रचयतीव यः सूक्तिभिः ॥ ५० ॥ १. अयं श्रीहर्षवंश्यो हरिहरो वीरधवलराजसमीपे नैषधपुस्तकं प्रथमं वस्तु- पालेऽमात्ये सत्यानयत्-इति हरिहरप्रबन्धे प्रबन्धकोशे स्फुटमुपलभ्यते. २. भीमदेवराज्यम्-वि० सं० १२३५-१२९८; एतत्पुत्रत्रिभुवनपालराज्यम्-वि० सं. १२९८-१३००.
सर्गः] सुरथोत्सवम् । १०९ मन्दश्छन्दसि कोऽपि कोऽपि विकलः सालंकृतिाकृता- वर्थे कोऽपि वृथाश्रमो रसनिधावन्धः स कोऽप्यध्वनि । वक्रान्तर्विहरद्विरश्चितनयामञ्जीरमखुखर- स्पर्धाबन्धुभिरेक एव कवते काव्यैः कुमारात्मजः ॥ ११ ॥ वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवं श्रीप्रह्लादनमन्तेरण विरतं विश्वोपकारव्रतम् । दृष्ट्वा तवयमत्र मन्त्रिमुकुटे श्रीवस्तुपाले कवि- स्तत्कीर्तिस्तुतिकैतवादिति मुदामुद्गारमारब्धवान् ॥ ५२ ॥ प्राग्वाटान्वयवारिधौ विधुरिव श्रीचण्डपः प्रागभू- संभूतोऽद्भुतसत्यशौचसदनं चण्डप्रसादस्ततः । सोमस्तत्तनयो नयोज्वलमतिस्तस्याश्वराजः सुतः पूतात्माथ तदङ्गभूः सुकृतभूः श्रीवस्तुपालोऽभवत् ॥ १३ ॥ उत्फुल्लमल्लीप्रतिमल्लकीर्तिः श्रीमल्लदेवोऽभवदअजन्मा । बभूव तस्यावरजश्व तेजःपालामिधानः सचिवप्रधानम् ॥ १४ ॥ श्रीवस्तुपालस्य चिरायुरस्तु दिशां प्रकाशं दिशते सदा यः । कर्पूरकिर्मीरितकेरलस्त्रीरदावदातद्युतिभिर्यशोभिः ॥ ५५ ॥ क्षीणे चक्षुषि भेषजं भगवती कालीश्वरी देहिनां देहे चित्रविचित्रभाजि शरणं श्रीवैद्यनाथः प्रभुः । संसारज्वरजर्जरे हृदि सदा विष्णु विष्णुर्मुदे दौर्गत्ये च जिघांसिते गतिरसौ श्रीवस्तुपालः पुनः ॥ १६ ॥ न वदति परुषा रुषापि वाचः स्पृशति परस्य न मर्म नर्मणापि । विरमति मतिमानमान्यचन्द्रः कनन च नार्थिकदर्थितो विदानात् ॥१७॥ १. अयं कुमारस्य पुत्रः सोमेश्वरदेवकविः श्रीभीमदेवसभायामासीत्. २. हे. मचन्द्रश्च कुमारपालराज्ये वि० सं० १२२९ वर्षे स्वर्गमगमत्. ३. अयं प्रह्ला- दनपण्डितः सोमेश्वरपितुः कुमारस्य गुरुः. ----
.
.
are
काव्यमाला।
धनमनवरतक्षितीन्द्रसेवाश्रमसमवाप्तमयत्नतोऽपि दत्ते ।
अपरमपि परोपकारकं यद्विमृशति वस्तु तदेव वस्तुपालः ॥ १८ ॥
सत्यं ब्रुवे भवतु मा क्षतिरत्र काचि-
द्भूत्वा खलप्रकृतिनापि मयातिमात्रम् ।
मन्त्री समे च विषमे च परीक्षितोऽसौ
दृष्टं न दुष्टमिह किंचन सच्चरित्रे ॥ १९ ॥
अयमनुदिनदानोत्कर्षितप्राणपर्ष-
परिचरितचरित्रः स्वस्तिमानस्तु मन्त्री ।
तुहिनकरसमानैर्यस्य कीर्तिप्रतानै-
रजनिषत रजन्यः प्राप्तराकाविपाकाः ॥ ६० ॥
लभन्ते लोकतः पापाः शापानन्ये नियोगिनः ।
अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥ ६१ ॥
त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया
प्रजानामानायः सपदि खलु येभ्यः प्रपतति ।
तदित्थं सुस्थानां चकितचकितं क्वापि वसतां
सतां संप्रत्येकः सचिवशिवताति(वि. भवान् ॥ १२ ॥
अर्थदानदलितार्थिदुःस्थिति त्वां विना विनयनम्र संप्रति ।
मृज्यते जगति केनचित्सतां वस्तुपाल न कपालदुर्लिपिः ॥ ६३॥
गोमयरसानुलिप्ते कीर्तिसुधाधवलिते च भवनगृहे ।
श्रीवस्तुपाल भवतश्चकास्ति चित्रं चरित्रमिह ॥ ६४ ॥
पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता
गङ्गावीचिभिरर्चिता परिचिता दिग्दन्तिदन्तांशुभिः ।
कर्पूरैः परिशीलिता मलयजैरावर्जिता मण्डिता
डिण्डीरस्तबकैर्बकैरनुसृता मन्त्रीश कीर्तिस्तव ॥ १५ ॥
प्रवर्तमानेऽत्र कवित्वसत्रे सत्कृत्य सत्पात्रममात्यमेवम् ।
कृतार्थमात्मानमसावमस्त सौवस्तिको गुर्जरनिर्जराणाम् ॥ ६६ ॥
१५ सर्गः] सुरथोत्सवम् । कुमारपुत्रेण कुमारमातुः काव्यं तदेतज्जगदेकदेव्याः । श्रुतिस्मृतिव्याकृतियज्ञविद्याविशारदेन क्रियते स तेन ॥ ६७ ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाम्नि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः । समाप्तं चेदं काव्यम्। १. कुमारनायकविदुषः पुत्रेण सोमेश्वरदेवेन. २. कुमारः स्कन्दस्तस्य मातु- र्दुर्गायाः.