Bharti Bhawan Liabrary, Allahabad
Niruttam(nagam Kandam)
Front matter
Wandar} ct w. pusslin
॥ श्रीगणेशाय नमः
गुरुमण्डल ग्रन्थमालायाः दशमम्पुष्पम्
निरुक्तम्
( नैगम काण्डम् )
-----8(6)8-
च
श्रीमन्महर्षियास्काचार्य प्रणीतम्
जम्बूमार्गाश्रमवासि-भगवद् दुर्गाचार्य विरचितया
ऋज्वख्य टीकया सहितम्
तृतीयो भागः
५, क्लाइव रो,
वैक्रमाब्दः
प्रथमं संस्करणम्
खस्ताब्दः
१९५२
२००६
No text on this page.
Gurumandal Series No X.
NIRUKTAM
( Naigamam Kandem)
BY
Maharshi Yaskacharya
WITH A
COMMENTARY BY
Bhagwat Durgacharya
Volume 111
FIRST EDITION 5000
5, Clive Row,
Calcutta.
Vikram Era.
2009
Christian Era.
1952
अवध किशोर सिंह द्वारा
गोपाल प्रिण्टिग वर्क्स
१६८।१. कार्नवालिस स्ट्रीट से
मुद्रित ।
॥ श्रीगणेशाय नमः ॥ अथ निरुक्त तृतीय भागस्य चतुर्थादि षष्ठाध्यायानां विषय सूची -:(०):- ema पृष्ठाङ्काः ३४१ " प्रकरणम् अथ चतुर्थाध्यायः प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः विषय (नैगमव्याख्या) (नैग० ४, १, १-६) (नैग० ४, १, १०-२७) (नैग०४, १, २८-४८) (नैग० ४, १,४६-६२) ३७० ४२७ अथ पञ्चमाध्यायः (नैगमव्याख्या) (नैग० ४,२,१-३३) (नैग० ४, २, ३४,४६) (नैग० ४, २, ४७-६४) (नैग०४, २,६५-८४) ४५६ ४५६ ४६६ प्रथमः पादः द्वितीयः पादः तृतीयः पादः चतुर्थः पादः
अथ षष्टाध्यायः
प्रथमः पादः
५६८
द्वितीयः पादः
तृतीयः पादः
वतुर्थः पादः
( २ )
(नैगमव्याख्या)
(नैग०४, ३, १-२२)
(नैग०४, ३, २३-४१)
(नैग० ४, ३, ४२-७० )
(नैग० ४, ३,७१-१००)
(नैग० ४, ३,१०१-११६ )
(नग०४,३, ११७-१३२)
,
६२३
૬૪૮
पञ्चमः पादः
aai
षष्टः पादः
॥ समाप्तैषा सूची ॥
32223, 2010 निरुक्तम् द्वितीयः खण्डः अथ नैगमं काण्डम् अथ चतुर्थाध्यायः प्रथमपादः। -:*:)- ॐ । एकार्थमनेकशब्दमित्येतदुक्तमथयान्यनेका- थान्येकशब्दानि तान्यतोऽनुक्रमिष्यामोग्नवगतसंस्कारांश्च निगमांस्तदैकपदिकमित्याचक्षते जहा जघानेत्यर्थः ॥१॥ "एकार्थमनेकशब्दमित्येतदुक्तम्”। किमर्थमिदमुच्यते ? न हि यद्यद् वृत्तं तत्तद् वक्तव्यम्, इदं वृत्तमिदं वर्तिष्यत इति । यद्यद् वृत्तं तत्तदनुक्तमपि प्रतीयते, यञ्च वक्ष्यमाणमिति । आह,- सक्षेपतो निगमनाय यदुक्तं यद्वा वक्तव्यं प्रतिजानीथ, समास- विस्तराभ्यां हि सुखमाधस्त्यं प्रकरणमवधारयिष्यामहे, गृहीतार्थ सक्षेपाच विस्तरेणोत्तरग्रन्थमुच्यमानं सुखमवभोत्स्यामहे । अपिचोक्तमन्यत्रापि,-- “विस्तीर्य हि तमज्ञानमृषिः सोपतोऽब्रवीत्। इत्थं हि विदुषां लोके समासव्यासधारणम् ॥"
* निरुक्तम् * [पूर्वषट्कम् शृणु, समासतो यदुक्तं यच्च वक्तव्यम् “एकार्थमनेकशब्द. मिति”-एतत् पुरस्तात् सूचितम्, एतावन्तः समानकर्माणो धातवः, एतावन्त्यस्य सत्त्वस्य नामधेयानि,-इत्यनेन वाक्येन । यदेतत् “गौरिति पृथिव्या नामधेयम्"-इत्यत आरभ्य नामाख्या- तोपसर्गनिपातानां प्रपञ्चनञ्च, तत्त्वभेदपर्यायसङ्ख्यासन्दिग्धो- दाहरणतनिर्वचनव्याख्याप्रविभागेनोक्तम् । स एव नैघण्टुकस्य प्रकरणस्य निगमव्याजेन सर्वथाऽप्यर्थः सङ्खपत उक्तः, शास्त्र- सम्बन्धश्चैवमनुसृतो भविष्यति। प्रकरणद्वयस्य चास्यैवमपुन- रुक्तता प्रदर्शिता भविष्यतीत्यनेनाभिप्रायेण एकार्थमनेकशब्द- मित्युक्तम्। एकोऽर्थः पृथिव्यादिः, अनेकेषां गवादिशब्दानाम् , यत्र तत्त्वभूतः कथ्यते, अनेके व गवादिशब्दाः पृथिव्यादेरेक- स्यार्थस्य यत्राभिधायिनः कथ्यन्ते, तदिदमेकार्थमनेकशब्द प्रकरणम् । अत्रैकेनार्थेनानेके शब्दा लक्ष्यन्ते, अनेकैः शब्दैरेकोऽर्थः । ततो लक्षितलक्षणया वृत्त्या प्रकरणं लक्ष्यते। अत्र यद्यपि गतिकर्मणां द्वाविंशतिशतसङ्ख्यानामविशिष्टं गमनमेकोऽर्थ उक्तः, तथापि प्रसिद्ध्यानुरोधाय “कसति” “लोठते", "श्चोतते" इत्येवमादयः प्रतिनियतसत्त्वगमनविषया एव द्रष्टव्याः । तद्यथा,-य एवोत्कटिक उरसा वा गच्छति, स एव कसती- त्युच्यते, नेतरो य ऊों गच्छति। तथा च,-य एव निम्नेन प्रदेशेन कश्चिदचेतनो लोष्ट्रादिरन्यो वा चेतनः पुरुषादिः अकाम- कारेण गच्छति, स एव लोटत इत्युच्यते, नान्यः। तथा च, यदेव द्रवद्रव्यं किञ्चित् स्रवति, तदेव श्चोतत इत्युच्यते, नान्यत् । Sama , , ४०१पा० ९ख०] * नैगम काण्डम् * एवं गच्छतिकर्मणामेकार्थत्वेऽपि सति प्रसिद्ध सामर्थ्याद् गमन- विशेषेषु यथार्थं विनिवेशो द्रष्टव्यः। देशान्तरप्राप्तिस्तु चलन- पूर्विका, सर्वेषां समानं कार्यम्, इत्यत एकार्थत्वमेषामुक्तम् । सामान्य शब्दाश्च क्वचिद् विशेषवाचिनो भवन्ति, विशेषशब्दाश्च क्वचित् सामान्यवाचिनः, तदप्युपेक्षितव्यम् ॥ एकार्थमनेन समासतो नैघण्टुकं प्रकरणमनुस्मृतम्, “अर्थ" इदानीं यद्व्याख्यातव्यं, तत् समासतः प्रतिज्ञायते । -“यानि अनेकार्थानि एकशब्दानि” पुरस्तात् समासतः सूचितानि, एता- वतामर्थानामिदमभिधानमित्येवम्, “तानि” “अतः” परम् "अनुक्रमिष्यामः” व्याख्ययेत्यभिसम्बन्धः। किंलक्षणा पुनरिह व्याख्या ? इति। तदुच्यते,- 'तत्त्वं पर्यायशब्देन व्युत्पत्तिश्च द्वयोरपि । निगमो निर्णयश्चेति व्याख्येयं नैगमे पदे॥" न्यान्येतानि दयत्यकूपारादीनि पदानि अनेकैरथैरुपया- दानदहनहिंसादिभिरर्थवन्ति, यानि चैतान्यर्थजातान्युपदयादान- दहनहिंसादीनि, एकशब्दवाच्यानि, तान्येवमितरेतरविशेषण- विशेष्यभावलक्षणोपलक्षितानि, एकप्रकरणतामुपगतानि, एवम्प्र- कारया ऐकपदिकप्रकरणव्याख्यया 'अनुक्रमिष्यामः' वर्णयिष्यामः। अत्रार्थस्याप्रतीयमानस्य पर्यायाभिधानेन विभज्य प्रतिपादनं व्याख्या, शब्दस्यापि व्युत्पादनं व्याख्या। एवमेते द्वे व्याख्ये। तयोरर्थपरिज्ञानमेकस्याः कार्यम् , शब्दपरिज्ञानमेकस्याः। तदेतदुभयकप्येकैकस्मिन् नैगमे पदे यथासम्भवं व्याख्यास्यते । " ३४४ * निरुक्तम् * [पूर्वषट्कम् आह,-किमनेकार्थान्येव केवलानि अस्मिन् प्रकरणे व्या- ख्यायन्ते? नेत्युच्यते,-"अनवगतसंस्कारांश्च निगमान्” । 'अनवगतसंस्कारान्' अविज्ञातसंस्कारानित्यर्थः । येषां प्रकृति- प्रत्ययादिसंस्कारो न साकल्येन ज्ञायते, तांश्च निगमान् अत्रैव व्याख्यास्यामः। पूर्वाणि चानेकार्थानि अनवगतसंस्कारांश्चेति च शब्दः॥ तदेतदेवम्प्रकार प्रकरणं यत्रैतदुभयं व्याख्यायते, “तत्" "ऐकपदिकम्” “इति” अनेन नाम्ना अन्येऽप्याचाऱ्याः "आचक्षते" निरूढा हीयमस्मिन् प्रकरणे सजज्ञेत्यभि- प्रायः। पूर्वस्मिन् प्रकरणे गणशः पदानां विरचनापेक्ष्यैत- दैकपदिकमुच्यते, त्वेकैकमेव पदं समाम्नातम्। तद्यथा,-"जहा, निधा”—इत्येवमादीनि । पुनः क्वचिदनेकान्यपि समानातानि, तद्यथा,-"देवो देवाच्या कृपा" “सोमो अक्षाः” इत्येवमादीनि तत्रैव तत्प्रयोजन वक्ष्यामः ॥ एवं प्रकरणाथ सङ्खपतः प्रतिज्ञाय क्रमेण वर्णवृत्तित्वाच प्रथमं यत् पदं, तदुपादीयते,-"जहा(३)"--इति । किमेतदनवगतसंस्कारमुतानेकार्थम् ? उच्यते, स च जहीत्य- नेनानुपपन्नसंस्कारेणोक्तो भवति । अत्र हन्ते हातेश्च सन्देह इति भाष्यकारेणावधृतं “जघानेत्यर्थः”--इति । आह, कुतः पुनर्विशेषावधारणं हन्तेरेवात्र रूपम् , न पुनर्जहातेः ? इति । उच्यते,-निगमात् ॥१॥ ও यत्र ४अ०१पा०२ख० * नैगम काण्डम् * को नु मा अमिथितः सखा सखायमब्रवीत् । जहा को अस्मदीषते । मर्या इति मनुष्यनाम मर्यादा- भिधानं वा स्यान्मर्यादा ( मध्यरादीयते मादा) मर्यादिनोविभागो मेथतिराक्रोशकर्मापापकं जघान कमहं जातु कोऽस्मद्भीतः पलायते निधा पाश्या भवति यन्नि- धीयते पाश्या पाशसमूहः पाशः पाशयतेविपाशनात् ॥२॥ कतमः पुनरसौ निगमः ? इत्याह,-"को नु मर्याः ( ऋ० सं०६, ३, ४६, २)"-- इति । त्रिशोकस्येयमार्षम् । गायत्री। महाव्रते महदुक्थे तृचाशीतिषु शस्यते। अस्यामृचि जहेत्यस्य पूर्वोत्तरपदाविरोधप्रकरणशब्दसारूप्यार्थोपपत्तिभिः संस्कारानवगमेऽपि सति हन्तेरेव विशेषेणार्थोऽवतिष्ठते, जहातेः। कथम् ? इति, शृणु,-"मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु। वीर्मा शूर भूरिषु ॥” (ऋ० सं० ६, ३, ४८, ४)। 'मा' 'नः' 'एकस्मिन् आगसि' 'वधीः' हे 'शूर !' 'मा' 'द्वयोः' आगसोः वधीः। 'उत' अपि च 'त्रिषु अपि आगस्तु मा वधोः। 'भूरिषु' अपि अपराधेषु 'मा वधीः' इति। एत- स्मिन् प्रकरणे ब्रवीति “को नु मर्याः” इति। हे 'माः' मनुष्याः! युष्मानेव तावत् पृच्छामि,–'अमिथितः' अनाक्रुष्टः, परुषमपि वा किञ्चिदनुक्तः, अपि च 'सखा' समानख्यानः, 'सखा- यम् एव समानख्यानमेव सन्तम् ( यथा भवतामहं यज्ञे समान- शब्दस्य ।
* निरुक्तम् * [पूर्वषट्कम् ख्यानः, एवं सन्तम् ) 'अब्रवीत्। को न्वेवमाह ? 'अमिथितः' अनाक्रुष्टो ब्रूयाद् यः कश्चित्,-यथा यूयमनाहूताः सन्तो मां ब्रूत मा वधीरिति। “जहा को अस्मदीषते" । अपापकशब्दोऽत्र भाष्यकारेणाध्याहृतः प्राक् जहाशब्दस्य अर्थोपद्योतनार्थम् , 'अपापक" सन्तं “कमह” “जधान" हतवान् “जातु” कदाचिदि. त्यर्थः। “अपापक” “कम्” “अहम्" "जातु"-इति सर्वमेतत् अध्याहृतं भाष्यकारेण, 'जहा' शब्दस्य निराकांक्षीकरणार्थमध- स्ताञ्चोपरिष्टाञ्च, एवं हि जहाशब्दः परिसमाप्तार्थों भवति। न कदाचिदपि कश्चिदपापको मया हतपूर्व इति, पापकारिणन्तु हन्मीत्यभिप्रायः। ते यूयमपापा एवाजत्रं भूयास्थ, न वो हनिष्यामि। यत् पुनरेतदुक्तं भवद्भिः 'भूरिष्वयागस्सु, मास्मान् वधीः'-इति, कथमागस्कारी न हन्यते? श्वा पुरोडाशमवलिह्यात्, न च कस्यचित् कस्मिंश्चिदपि श्वता स्यात्, सर्व वा असमञ्जसमेव स्यात्, यदि पापकारिणो न. हन्येरन् , अथ मनुष्यानपापानपि त्वं हस्येवेति। अत्र ब्रूमः, “कः” “अस्मत्” अस्मत्तः अपापकारी सन् “भीतः” 'ईषते' “पलायते” इत्यर्थः, न कश्चिदप्यपापकारी मत्तः उद्विजमानः पलायते, स हि शुद्धेन चेतसा अभिमुख एव मामभ्येति, य एव तु पापकारी भवति, स एवात्मापराधशङ्कितया बुद्ध्या अस्मत्तो भीतः पलायते इत्यभिप्रायः। अत्रापि कोऽस्मदित्येतस्मात् पञ्चमीयोगात् ईषतेर्गमनमात्रसामान्यवाचिनः सतो गमनविशेषे पलायनेऽवस्थानम् । यो हि यस्माद् बिभेति, स तस्मात् पलायते।
४१०१पा० २ख.] नैगम काण्डम् * भीतशब्दश्चाध्याहृतः ? न ह्यभीतः कश्चित् पलायते। इत्येष समस्तार्थः ॥ अथैकपदनिरुक्तम् । -“मा इति” मनुष्यनामसु पठितम् । इहापि चैतत् “मनुष्यनाम" एव। तस्योक्ता व्युत्पत्तिः,- "मर्यो मनुष्यो मरणधर्मा” इति । अथ “वा” “मर्यादा- भिधानम्” एव अत्र “स्यात्” न मनुष्यनाम । यदा मर्यादाभि- धानमेतदभिप्रेतं भवति. तदेवमर्थवत्तास्य योजयितव्या, "मर्यादा, मय्यरादीयते”। का नु एषा मर्यादा,-यतो धर्मज्ञाः सन्तो यूयमनाहता अनाक्रुष्टाश्च असदभियोगं सखायः सन्तो मम सख्युर्दत्तं मा वधी: ? इति, नैतन्याय्यमित्यभिप्रायः । "मर्यादा, मर्यादिनोचिभागः”। संश्रिता या भूमिरुपक्षीणा, सा मयेत्युच्यते (विषयान्त इत्यर्थः ), आदिन्यस्य विषयस्योप- क्रमश्चोच्यते। संश्रितायाश्च भूमेरादेश्च विभागकारिणी या भूमिः, सा मर्यादेत्युच्यते। "मेथतिराक्रोशकर्मा"। चतस्रः पत्न्योऽश्वमभिमेथतीति प्रसिद्धमश्वमेधे मेथतेराक्रोशकर्मत्वम् । लोकेऽपि च शालो मेथनक इत्युच्यते, स ह्यभीक्ष्णमाक्रुश्यते, आक्रोशति व सः॥ “अपापकम्”- इत्यस्य भाष्यपदस्यापरो व्याख्यामार्गः,- को न्वेवं ब्रूयादपापकं सन्तं मा वधीरिति ? जघान कमहं जातु पापकमपापकं वा? कोऽस्मदीतः पलायते ? न कश्चि- दपि, सौम्योऽहमित्यभिप्रायः । बलकृति सम्बन्धादिन्द्र एवायम् ॥ एवमेतस्मिन् मन्त्रे प्रकरणपूर्वोत्तरपदाविरोधशब्दसारूप्या.
३४८ * निरुक्तम् * [पूर्वषट्कम् र्थोपपत्तिभिहन्तेरेव विशेषेणार्थोऽवतिष्ठते, न जहातेः, जहातौ ह्य तस्मिन् कल्प्यमाने प्रकरणं पूर्वोत्तराणि च पदानि विरुध्यन्ते शब्दसारूप्येऽपि सति । तस्मान्नात्र जहातेरवकाशोऽस्ति, पारि- शेष्यात् हन्तेरेतद्रूपमित्युपपन्नं भवति एवमेव सर्वेष्वेवानवगतसंस्कारेषु योज्यम् ॥ “निधा (२)”-इति । एतत् पदमनवगतसंस्कारावसरप्राप्त व्याख्यानीयमैकपदिकव्याख्याधर्मेण प्रकृतानुवृत्त्या स व्याख्या- तव्य इति तदभिधानाभिधेयनिगमनिर्वचनानुक्रमप्रवृत्त्या ब्रूमः, -“निधा पाश्या भवति"-इति । पर्यायेण तत्त्ववचनम् । यो बालमयः स्नायुमयो वा पाशसमूहः, पक्षिग्रहणार्थः, स पाश्येत्युच्यते। अधुना द्वावप्येतौ शब्दो निर्वक्ति, निधाशब्द पाश्याशब्दश्च ।--"यत्” यस्मात् इयं “निधीयते” नोचैर्धार्यते पक्षिग्रहणार्थम्। तस्मात् निधिरिति प्राप्ता, निधानीति वा। सेयमेवं प्राप्ता सती निधेत्यनवगतसंस्कारेणोच्यते। पाश्याशब्द पर्यायाभिधानप्रसक्तं निर्ब वीति प्रत्ययोत्पादनार्थम्, - “पाश्या पाशसमूहः” इति । पदानिष्कृष्य तद्धितार्थों निरुक्तः, अधुना पदार्थं निब्रवीति,–“पाशः पाशयतेर्विपाशनात् तेन हि विविध- मतिशयेन वा पाश्यते बध्यत इत्यर्थः ॥ २॥ वयः सुपर्णा उपसेदुरिन्द्र प्रियमेधा ऋषयो नाध- मानाः। अप ध्वान्तमूर्णहि पूर्द्धि चक्षुर्मुमुग्ध्य १ स्मान्नि- बद्धान् । वयो वेर्बहुवचनं ( सुपर्णाः ) सुपतना ।
ॐ नैगम काण्डम् * ३४६ स्मान पाशैरिव ४अ०१पा०३ख०] आदित्यरश्मय उपसेदुरिन्द्र याचमाना अपोणु ह्याध्वस्तं चक्षुश्चक्षुः ख्यातेर्वा चष्टेवा पूर्द्धि पूरय देहीति वा मुञ्चा- बद्धान् पार्वतः श्रोणितः शितामतः पार्च पशुमयमङ्ग भवति पशु स्पृशतेः संस्पृष्टा पृष्ठदेशं पृष्ठ स्पृशतेः संस्पृष्टमङ्गरंगमंगनादचनाद्वा श्रोणिः श्रोणतेर्गति- चलाकर्मणः श्रोणिश्चलतीव गच्छतो दोः शिताम भवति दो वयोनिः शितामेति शाकपूणिर्विपितोभवति श्यामतो यकृत्त इति तैटीकिः श्यामं श्यायतेर्यकृद् यथा कथा च कृत्यते शितिमांसतो मेदस्त इति गालवः शितिः श्यतेमांसं माननं वा मानसं वा मनोऽस्मिन् सीदतीति वा मेदो मद्यतेः ॥३॥ - अधुना यस्मिन् मन्त्रे निधाशब्दः पाशसमूहवाची, तमानीय ब्रवीति, निधाशब्दनिगमार्थम् । कतमः पुनरसौ मन्त्रः ? इत्याह,- 'वयः सुपर्णा” इति । शाक्त्यस्य गौरिवीतेरियमार्षम् । त्रिष्टुप् । अग्निष्टोमे मरुत्वतीयशस्त्रस्य परिधानीयैषा निविद्धानीये सूक्ते । 'वयः' “आदित्यरश्मयः” । “वेतेः” गत्यर्थस्य (अदा०प०) नामीभूतस्य “बहुवचनम्” विः, वी, वयः इात। 'सुपर्णाः' "सुपतनाः” एत एव “उपसेदुः” । उपसीदन्ति व्युष्टायां रात्रा- निरुक्तम् , [पूर्वषट्कम् वहन्यहनि। कमुपसेदुः ? 'इन्द्रम्' आदित्यम्। "प्रियमेधाः' प्रिययज्ञाः। त एव यशसहचारित्वात्, उद्गतेषूदितेषु हि तेषु. यज्ञास्तायन्ते। 'ऋषयः' त एव, अर्षणात्, प्रकाशकत्वात् । 'नाधमानाः' त आदित्यमुपसेदुः । कमर्थं "याचमानाः” ? इति । “अपोर्गुहि” अपावृणु जनानामेतत् 'ध्वान्तम्' "आध्वस्तम्" आच्छादितं तमसा। चक्षुः' 'पूद्धि' “पूरय” युष्मदननुगृहीत- मसफलमिवैतेषां जनानामेतच्चक्षुः, तत् पूद्धि, सफलं कुर्वित्यर्थः । अथवा 'पूर्द्धि' “देहि” इति। यदुक्तं स्यात् अस्त हि गच्छता त्वया एतेषां जनानामाप्तमिव यच्चक्षुः, तत् पुनरुद्यस्त्वमेतेभ्यो जनेभ्यो देहि। कथञ्च पुनर्देहि ? 'मुमुग्धि अस्मान्' "मुञ्चास्मान्" 'निधया' “पाशैः” पाशसमूहेन पक्षिणः “इव” एतस्मिन् मण्डले “बद्धान्”। यावदेतत्ताचदशेषं तमो नाशयित्वा एतेषां जनाना- मेतच्चक्षुयुग्मं, सफलं वा कुर्मः । एवं ह्य तत् त्वयैव दत्तं भविष्य. तीत्यभिप्रायः। एतमर्थं याचमाना उपसेदुः ॥ "चक्षुः “ख्यातेर्वा” दर्शनार्थस्य, “चष्टेर्वा” दर्शनार्थस्यैव । एवमेतस्मिन् मन्त्रे 'मुमुग्ध्यस्मानिधये व बद्धान्-इत्येतेषां पदानां मध्ये वर्तमानस्य तृतीयान्तस्य निधाशब्दस्य पाशस- मूहादन्यः कोऽर्थः स्यात् ?-'मुमुग्धि' 'बद्धान्'-इत्येतौ शब्दो येन बद्धाः, यस्माञ्च मुच्यन्ते, तदर्थाभिधायिनं शब्दमाकाङ्क्षतः । तत्रैवं सति वरमविद्यमानस्याध्याहाराद् विद्यमानस्य, निधा- शब्दस्य, अनयोः शब्दयोर्मध्ये वर्तमानस्य, आकाक्षितार्थाभि- धायकत्वकल्पना इति निधाशब्दः पाशसमूहाभिधायित्वेऽवतिष्ठते, ?
हविष ४अ० १पा० ३ख०] * नैगम काण्डम् * इतरथा ह्ययमितरैः पदैरसम्बन्ध्यमानोऽनर्थक एव स्यात् । तस्मादेवं सर्वत्रानवगतसंस्काराणामसिद्धार्थानां पदानां सामर्थ्या- दाकाक्षितरूप एवार्थेऽवस्थानं भवति, तदुपपाद्य सर्वत्र, ग्रन्था- तिगौरवभयात् तु सझेपतोऽत्र दर्शयिष्यामः "शिताम (३)"-इति। एतदनवगतम् । अनुपन्यस्यैव पदम् , अभिधेयं चानुक्त्वैव निगममेव प्रथमं पठत्याचार्यः । विप्रतिपत्त्यानेकार्थत्वमस्येति । “पार्श्वतः श्रोणितः शितामतः” इति निगमः ( य० मा० सं० २१, ४३)। पशुहविषः प्रैषेऽयं मन्त्रशेषः। कतमः पुनरसी प्रैषः ? “होता यक्षदिन्द्राग्नीछागस्य आत्तामद्य मध्यतो मेद उद्धृतम्पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे अत्राणां यवसप्रथमाना सुमतक्षराणा शतरुद्रियाणामग्निष्वात्तानां पीवोपवसनानां पार्वतः श्रोणितः शितामत उत्सादतोऽङ्गादङ्गादयत्तानां करत एवाश्विना जुषेता हवि)तर्यज॥” (य० मा० सं० २१, ४३) इति । सर्व एव गद्यः। वामदेवस्यार्षम्। मैत्रावरुणो ब्रवीति । होता यक्षत् होता यजस्वित्यर्थः । तेन चेज्यमानौ 'इन्द्राग्नी' अस्मात् 'हविषः' पश्वाख्यात् 'मध्यतः' यदेतत् मेदः' 'उभृतम्' अस्यां च्यां हितम् । तस्मान्मेदः पर्य्यस्यति, श्रपयति, त्रेधा भेदः करोतीति युक्तम्। एतन्मेदः 'अद्य' एतस्मिन्नहनि सद्यः उद्धृतम् 'आत्ताम्' भक्षयेताम्। 'पुरा द्वषोभ्यः' हविर्मथिभ्यः पिशाचादिभ्यः । 'पुरा पौरुषेय्या गृभः' अर्वागिडावदानात्, इडा हि पुरुषार्थ गृह्यते, प्राक् तस्माद् ग्रहणात्। 'इन्द्राग्नी' 'घस्तां' भक्षयेतां, ।
३५२ * निरुक्तम् * [पूर्वषट्कम् 'नूनं निश्चयेन। एतस्मिन् 'घासे घसनकाले, भक्षणकाले प्राप्ते 'अज्राणाम्' अनभिभूतानां रक्षोभिः आदरेण प्रतिविशि- ष्ट्रमन्त्रः संस्कृतानाम् । अथवा 'घासेअज्राणाम्' इत्येकं पदम् । तदायमर्थः,-घासे हि सति पशवो न जीर्य्यन्त इति 'घासेअजाः'। 'यवसप्रथमानां' यवसः अशनम्, तस्य अनेकप्रकारस्य श्रेष्ठत्वा- देतान्येव देवतृप्तये प्रथमानि, तेषां यवसप्रथमानाम्। 'सुमत्क्ष. राणाम्' स्वयमेवैतानि भक्ष्यमाणानि स्वादुत्वादुदरंप्रति क्षरन्तीति सुमत्क्षराणाम्। 'शतरुद्रियाणाम्। बहुस्तुतीनाम् । अथवा 'शतरुद्रियाणां' बहुशो रुग्णानाम् । 'अग्निष्वात्तानाम्अग्नि- वात्तादीनाम्, अग्निपाकेन मृदुत्वात् स्वादूकृतानाम्। 'पीवो- पवसनानाम्' पीवना छागेन, उपवस्तानाम्, अथवा पोवानं छागमुपगम्योषितानाम् । 'पार्श्वतः' अङ्गात् 'अवत्तानाम्' 'श्रोणितः' अवत्तानाम् । 'शितामतः' अवत्तानाम् । 'उत्सादतः' च उच्छेद- नस्थानात् 'अङ्गादङ्गात्' अवत्तानाम् । 'करतः' कुरुताम् इन्द्राग्नी ! तृप्तिम् एतेषाम् एवंलक्षणानामवदानानाम्। हे होतः' ! यथै- ताविन्द्राग्नी 'जुषेताम्' आसेवेताम्, एतत् 'हविः। तथा त्वमपि यज॥ निगमप्रसक्तमुच्यते,–“पार्श्व पशुमयमङ्ग भवति”। पर्शवो वक्रय उच्यन्ते, तन्मयं हि तद् भवति पार्श्वपदलक्षणम् । आह, -पशुः कस्मात् ? उच्यन्ते,–“पशुः, स्पृशतेः”। आह,- किमनया स्पृष्टम् ? इति। उच्यते,-"संस्पृष्टा पृष्ठदेशम्” प्रति भवति। आह,-"पृष्ठं" कस्मात् ? उच्यते-"स्पृशतेः” amanane * नैगमं । ४१०१पा० ३ख०] काण्डम् * (तु०प०) एव, तद्धि "संस्पृष्टमङ्गः” । आह,-"अङ्गम्” कस्मात्? उच्यते,–“अङ्गनात्” अङ्गितं हि तत् कालेन भवति, गतमित्यर्थः (भू० ५०)। “अञ्चनाद्वा"। अञ्चतिरपि गत्यर्थ एव (भू०प०)। धात्वन्यत्वमथैकत्वम् । पार्श्वशब्दप्रसक्तानुप्रसक्तमुक्तम्। अधुना श्रोणिशब्दं निगमप्रसक्तं निब्रवीति,-"श्रोणिः श्रोणतेः” धातोः "गतिचलाकर्मणः” (भू०प०)। गतिनिमित्तं चलनं यस्य कर्म, सोऽयं गतिवलाकर्म, तस्य गतिचलाकर्मणः । किं कारणम् ? "श्रोणिश्चलतीव” स्थानात् पशोः “गच्छतः” ॥ शितामशब्दस्य तत्त्वमाचष्टे,-"दोः शिताम भवति” बाहु- रित्यर्थः आह,-दोः कस्मात् ? उच्यते,-"दोः” “द्रवते." (भू०प०) तस्य हि प्राणेन पशु वति । श्रितमंसभावेन एतत्- कार्ये भवतीति शिताम। यदा दोविषये शितामशब्दः, तदैवं निर्वक्तव्यः । आह, कयोपपत्त्या दोः शितामशब्देनोच्यते ? शृणु,-पशोर्हि बाह्यानि चावदानानि, आभ्यन्तराणि च भव- न्तीति । तत्र, पशोः पार्श्वे श्रोण्यावंसाविति वाह्यानि, जिह्वा- हृद्यकृतादीनि आभ्यन्तराणि । तत्रैवं सति पार्श्वतः श्रोणितः इत्येतयोरन्तरा वर्तमानः शितामशब्दः किमन्यद् दोष्णोऽभि- दध्यात्। प्रायो हि नियामको भवति। एवं बाह्यावदानप्राये च शितामशब्दो वर्तते इति दोर्विषयः कल्यते । “योनिः शितामः”– “इति” शाकपूणिः” आचार्यों मन्यते। तत्र योनि अनवदानीया एव । योनिसमानदेशस्तु गुदो नामावदानमस्ति, स योनिशब्देनोच्यते। स च गुदः “विषितो भवति” । 'विष्ल " * निरुक्तम् * [पूर्वषट्कम् च्याप्तौ' (जु० उ०), व्याप्तः सं पुरीषेण भवति। अथवा विषित- मांसो विपुषितमांसः, विनस्तमांसः, स भवति। आह,-कयो- पपत्या शाकपूणेर्मते योनिः शिताम शब्देनोच्यते ? इति । शृणु, -स हि श्रोण्यनन्तरो भवति, श्रोण्यनन्तरञ्च शितामशब्द उच्यते,-श्रोणितः शितामत इति । शब्दसारूप्यमपि च किञ्चि- दस्ति,-विषितो भवति, शितामेति। अनयोपपत्त्या अनेन च शब्दसारूप्येण योनिः शिताम इति शाकपूणिर्मन्यते । "श्यामतो यकृत्तः"-"इति” “तैटिकिः” आचार्यों मन्यते। यदुक्तं भवति श्यामत इति, तदुक्तं भवति शितामत इति। एवं हि बहुतरं शब्दसारूप्यं लक्ष्यते। एवञ्च सति यकृत्त एतदद्वदानं चोदितं स्यादिति गम्यते । किङ्कारणम् ? तद्धि “श्याम” श्यायतेः” (भू० आ०) धातोः, तद्धि सम्पर्कादुपपद्यते । आह,-"यकृत्" कस्मात् ? उच्यते, तद्धि मृदुत्वात् “यथा कथा च" अयत्नेनैव "कृत्यते" छिद्यत इत्यर्थः । "शितिमांसतो मेदस्तः"-"इति" “गालवः” आचार्यों मन्यते । श्वेतान्मांसात् 'शितिमांसतः' । कतमत पुनस्तत् श्वेतं मांसमिति ? उच्यते-'मेदस्तः। तस्मात् यदुक्तं भवति शितिमांसत इति, तदेवोक्तं भवति शितामत इति । एवमपि बहुतरं शब्दसारूप्यमस्ति । “शितिः” “श्यतेः” तनूकर णार्थस्य (दि०प०), परो हि विवेकस्तेजसो मेदस्येवावतिष्ठते । "मांस" "माननं वा" य एव हि मान्यो भवति, तदर्थमेतत् संस्क्रियते । “मानसं वा” सुमनसा हि तदुपादीयते। अथ वा य एच हि मनस्विनो भवन्ति, तैरुपादीयते । “मनोऽस्मिन् सीद-
४०१पा३ख०]
* नैगम काण्डम् *
तीति वा" सर्वस्यैव हि मांसे मनः सीदति। “मेदः" "मेद्यतेः"
स्नेहनार्थस्य ॥
एवमेष शितामशब्दोऽनवगताभिधेयोऽनवगतसंस्कारोऽपि ।
एवमेतस्मिन् प्रकरणे अन्यान्यनवगतसंस्काराणि उपेक्षितव्यानि ।
उक्त हि-
“शब्दरूपं पदार्थश्च व्युत्पत्तिः प्रकृतिर्गुणः ।
सर्वमेतदनेकार्थे दशानवगमे गुणाः ॥” इति।
(१) (२) (३) (४) (५) (६)
कतमे पुनस्ते ? इति । पदजात्यभिधेयंखरसंस्कारगुणविभा-
(७) (6) (6) (१०)
गक्रमविक्षेपाध्याहारव्यवधानानि । तेषु चाभिधेयमपेक्ष्य निर्वचनं
कर्त्तव्यम् । उक्तं हि,-
"धातूपसर्गावयवगुणसत्त्वं हि धातुजम् ।
बढेकधातुजं वापि पदं निर्वाच्यलक्षणम् ॥
धातुजं धातुजाज्जातं समर्थार्थजमेव च।
वाक्य व्यतिकीर्णञ्च, निर्वाच्यं पञ्चधा पदम् ॥” इति ।
(१) पदजात्यनवगतम्,–“त्व” इति यथा, नाम, निपातो
वा?
(२) अभिधेयानवगतम्,–“शिताम” इति ॥ यथा ।
(३) खरानवगतम् ,---“वने न वायो" इति यथा।
(४) संस्कारानवगतम्,--"ईन्तिासः” इति यथा।
(५) गुणानवगतम्,-“करूलती" इति यथा।
ॐ निरुक्तम् * [ पूर्वषट्कम (६) विभागानवगतम्,-"मेहना” इति यथा । (७) क्रमानवगतम्,--"उपरमध्वं मे वचसे” इति यथा । (८) विक्षेपानवगतम्,--“द्यावा नः पृथिवी” इति यथा । (6) अध्याहारानवगतम्,–“दानमनसो नो मनुष्यान्” इति यथा। (१०) व्यवधानानवगतम्, “वायुश्च नियुत्त्वान्” इति यथा। एकमपि पदं पद द्वितयं क्रियते-“पुरूषादः, पुरुषानदनाय” इति यथा। पदद्वितयमपि चैकं पदं क्रियते,-"गर्भनिधानी सनितुः" इति यथा। आख्यातमपि च नाम क्रियते,-"सर्वाणीन्द्रस्य धनानि विभक्ष्यमाणाः” इति यथा । एवमेव शब्दार्थसङ्करोऽनेकप्रकार उपेक्ष्यः, दृष्टानुविधानात् छन्दसि यथासम्भवमनुविधेयः ॥ ३ ॥ यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभया हस्त्याभर । यदिन्द्र (चित्र) चायनीयं मंहनीयं धनमस्ति यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि त्वया नस्तदातव्यमद्रिवन्नद्रिराहणात्येतेनापि वात्तेः स्यात्ते सोमाद इति ह विज्ञायते गध इति धननाम राख्नु- वन्त्येनेन तन्नस्त्वं वित्तधनोभाभ्यां हस्ताभ्यामाहरोभौ * नैगम काण्डम् * ४०१पा०४ख०] समुन्धौ भवतो दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यान्मनो मनोतेः॥४॥ “मेहना (8)-इति । एतदद्वगतम्। "महनीयम्" इति अवगमः। “यदिन्द्र चित्र मेहना-इति निगमः । अत्रे- भौमस्यार्षम् । अनुष्टुप् । ऐन्द्री । स्वरपृष्ठानां खरसाम्नां १ २र ३ प्रथमे स्वरसास्नि “यज्जायथा अपूर्व्य” इति स्तोत्रियः, स्वर- पृष्ठानां “यदिन्द्र चित्र मेहना” इति द्वे “या इन्द्र मुज आभर” इति तृतीयानुरूपस्येति विनियोगः । हे “इन्द्र" ! 'चित्रम्' "चायनीयम्” पूजाहम्, “यत्" 'मेहना' “महनीयं" पूजाहम, तव 'राधः' “धनम्” “अस्ति” किञ्चित् , 'त्वादात' "त्वया" च “दातव्यम्” एवावश्यं सुचिरमपि स्थित्वा "नः" अस्मभ्यम् “तत्” यतः; अतो ब्रूमः हे 'अद्रिवः' वजिन् ! "तत्” “नः” राधः है "विदद्वसो' आप्तधन! साम्प्रतमेव “उभाभ्यां हस्ताभ्याम्” अकृपणम् 'आभर' “आहर” मा चिराय इत्यभिप्रायः। अथ “वा" “यन्म इह नास्तीति” एतस्मिन् वाक्यैकदेशे “त्रीणि” “पदानि” “मध्यमानि” मध्ये भवन्ती- त्यर्थः। कथं मेहना इत्येषा संहिता,-'मे - इह-न' इति ? एतान्यस्याः संहितायाः पदानि । एवमेष वाक्यावयवः पञ्चपदो भवति। अत्र 'यत्' इति प्रथमं पदम्, अतः परं 'मे' 'इह' २-२ SolarsinguisthanesTRAI * निरुक्तम् * [पूर्वषट्कम 'न'-इत्येतानि त्रीणि मध्यमानि पदानि, 'अस्ति'-इति पञ्चमं पदम् । एवमभिप्रेत्य “इन्द्र चित्र"-शब्दादपकृष्योक्तं “त्रीणि मध्यमानि पदानि" इति। आह,-यदेवम् पदविभागः, तदा कोऽर्थः ? इति। उच्यते, यत् मे मम गृहे नास्ति धनम् , तव च तत् अस्ति धनम्, दातव्यञ्च त्वया तावत् स्तोतृभ्यः, तद्धस्ता- भ्यामस्मभ्यमाभरेति। बड़वानां 'मेहना'-इत्येकं पदम् । छन्दोगानां त्रीण्येतानि पदानि म, ह, न'-इति । तदुभयं पश्यता माष्यकारणोभयोः शाकल्यगायेयोरभिप्रायावत्रानुविहितो, एवञ्जातीय निर्वचनोपप्रदर्शनार्थमुभयोश्च प्रामाण्यख्यापनार्थम् ॥ आह,-पदकारयोः पदविकल्पे कोऽभिप्रायः? इति । उच्यते,–'विद्यावान्' विद्यमानधनो वा प्रतिविशिष्टतरं प्रार्थयते, -यञ्च यस्य गृहे नास्ति, स तद्विशिष्टमविशिष्ट वा प्रार्थयेत, न चानयोरुभयोरपि विशेषलिङ्गमस्ति, तस्मान्मंहनीयमित्येतयार्थ- मत्या मेहनेत्येवमेकं पदममिप्रेतं शाकल्यस्य । गार्ग्यस्य पुनर्यन्म इह गृहे नास्ति तदाहरेत्यभिप्रायः । एवमत्र विशेषलिङ्गाभावा- द्विप्रतिपत्तिः एवमन्येष्वपि शाखान्तरपदविकल्पेषु अनुविधानम- र्थाविरोधेन कर्त्तव्यम्। एवमयं मेहनाशब्दो राधःशब्दसामाना- करण्ये वर्तमानो यन्महनीयं राधः, यद्वा मद्गृहे नास्तीति धन- विशेषणत्वात् कमन्यमर्थं ब्रूयात् ? तस्मान्मेहनेति सामर्थ्याद्धन- विशेषणमेतदित्युपपत्तिः ॥ अधुना निगमप्रसक्तानि निरुच्यन्ते ।--"अद्विरादणात्येतेन" अद्रिसारमयमेव ह्यायुधं भवतीति । अद्रिर्वन उच्यते। आह, व्याख्यात ४अ०१पा० ५ख.] * नैगम काण्डम् ** अद्रिः कस्मात् ? उच्यते,-आगुणाति आदारयतीत्यर्थः । अथवा सोमाभिषवग्राव भिस्तद्वान् अद्रिवान् स्यात् । तैरपि हि सोम ओदार्य्यते "अपि वा” “अत्तेः स्यात्” अद्रिः। कुतः ? एतन्निगमात् । कतमोऽसौ निगम इति “ते सोमाद इति ह विज्ञायते” “ते सोमादो हरी इन्द्रस्य निसते (ऋ० सं०८,४, ३०, ४)"-इत्येतस्मिन्मन्त्रे विचार्यमाणे ज्ञायतेऽत्तरद्रिः स्यादितिः। एव शेषः। “राधः” “इति” एतत् “धननाम” स्मारयति। व्यभिचारित्वाद्वा शब्दानां धननामसु पठितमपि सदेतवधारयति,—इहाप्येतद्धननामैव, नात्र व्यभि- चारोऽस्तीति। पठिताभिधाननिरूपणेषु सर्वेष्वेतौ समाधी योज्यौ। “वित्तधन" इति प्राप्तधन ! उभौ समुन्धौ भवतः, संपूर्णावित्यर्थः ॥ “दमूनाः (५)"-इति । एतदनवगतम् । "दममनाः” दमूनाः स्यात्, दमे हि नित्यमस्य मनः, अक्रूरमना इत्यर्थः । “दानमना वा” दातव्यं मयेति यस्य मनसि स वा दमूनाः । 'दान्तमना वा” दमेषु दान्तेषु यमनियमवत्सु पुरुषेषु यस्य मनः, स वा दमूनाः। अथवा “दम इति” एतद् गृहनाम” एतद् यस्य मनसि ममेदमिति, स दमूनाः “स्यात्” गृहपतिरग्निः ॥४॥ जुष्टो दमूना अतिथिर्दुरोण इमन्नो यज्ञमुपयाहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामाभरा I * निरुक्तम् * [पूर्वषट्कम् भोजनानि ॥ अतिथिरभ्यतितो गृहान् भवत्यभ्येति तिथिषु परकुलानीति वा गृहाणीति वा ( अयमपीतरोऽतिथिरेत- स्मादेव ) दुरोण इति गृहनाम दुरवा भवन्ति दुस्ता इमं नो यज्ञमुपयाहि विद्वान् सर्वा अग्ने अभियुजो विहत्य शत्रूयतामाभर भोजनानि विहत्यान्येषां बलानि शत्रूणां भवनादाहर भोजनानीति वा धनानीति वा मूषो मूषिका इत्यर्थो मूषिकाः पुनमुष्णातेमू पोऽप्येतस्मादेव ॥ ५ ॥ निगमः,-"जुष्टो दमूनाः” इति। वसुश्रूतस्यात्रेयस्येय. मार्षम् ! त्रिष्टुप्। आग्नेयी। प्रातरनुवाकाश्विनयोः शस्यते विष्टकृत्पुरोनुवाक्या चेयं चातुर्मास्येषु साकमेधे। हे भगवनग्ने ! 'जुष्टः' आसेवितस्त्वमस्माभिः स्तुतिभिः 'दमूनाः' दममनाः, अक्रूरमनाः भूत्वा, ततः 'उपयाहि'। अथवा गृहं ममेदमिति चेतोऽवस्थाप्य, तत् उपयाहि । अथवा दानमना भूत्वा, दातव्य. मेभ्यो मयेत्येवं चेतोऽवस्थाप्य, तत उपयाहि। अथवा दान्तेष्वेव हि तव मनो वयश्च दान्ताः, 'अतिथिः' च त्वमग्निहोत्रिणां दान्तमनसां प्रातः सायञ्च उद्बोध्यमानो भवसि स्वभाव एवैष तवाग्निहोत्रिणामतिथित्वेनोपस्थातव्यमिति, अतो ब्रूमः वयमपि दान्तमनसोऽग्निहोत्रिणश्च, अस्माकमपि य एषः 'दुरोणे' यज्ञगृहे यज्ञस्तन्यते, तं त्वमुपयाहि, तमागच्छ, 'विद्वान्' जानानः स्वम- ३ ४अ० १पा० ५ख०] नैगम काण्डम् * धिकारं भक्तताञ्चास्माकम् । किञ्च, 'विश्वाः' सर्वाः 'अभियुजः' अभितः सर्वतो युजः, अभियोक्त्र्यः, शत्रुसेनाः त्वदागमनप्रति- बन्धेन वर्तमानाः, 'विहत्य' नानाप्रकारं हत्वा, तत उपयाहि । किञ्च, एवमागच्छंस्त्वं शृणु यत्कुरुष्व,-'शत्रूयतां' येऽस्माकं शत्रुत्वं कामयन्ते कर्तुम् , तान् विहत्य, तेषां बलानि, ततो यानि तेषां भोजनानि अन्नानि, धानानि वा, तानि अस्मभ्यम् 'आभर, आहरेति समस्तार्थः ॥ निगमप्रसक्तोऽतिथिशब्दो दुरोणशब्दश्च । आह,-"अतिथि:" कस्मात् ? उच्यते,–“गृहान्” “अभि" आभिमुख्येनासौ "अतितो भवति” गत इत्यर्थः। “अतति-पतति” इति गतिकर्मसु पठितम्, अथवैवमन्यथा स्यात्, “अभ्येति” अभ्यागच्छति “तिथिषु” पौर्णमा स्याद्यासु “परकुलानि” यजमानकुलानीत्यतिथिः । “अयमपीतरो- ऽतिथिरेतस्मादेव” । “दुरोण इति” एतत् “गृहनाम” । आह,- किङ्कारणम् ? उच्यते-ते हि गृहाः “दुरवा भवन्ति, अवतिस्तर्प- णार्थः, “दुस्ताः” इत्यर्थः । उक्तञ्च,-'कुटुम्बतन्त्राणि हि दुर्भराणि' -इति । एवमेतस्मिन्मन्त्रे, जुष्टः, दमूनाः, अतिथिः, विद्वान् , हे अग्ने! यज्ञमुपयाहि ! इत्येतस्मिन्नधिकार वर्तमानः 'दमूनाः' शब्दः कमन्यमग्निविशेषणादर्थं ब्रूयात् ? न कञ्चिदपि, परिशेषा- इमूना इत्येतदग्निविशेषणमेवेति सिद्धम् ॥ “मूषः (६)-इति। एतदनवगतम्। बहुवचनञ्चैतंत्, मूट, मूषौ, मूषः इत्येवम् । आह,-कुत एतत् ? उच्यते- "व्यदन्ति” इत्येतस्मिन्नाख्याते बहुवचननिर्देशात्, मूषो व्यदन्ति' * निरुक्तम् * [पूर्वषट्कम् -इत्येतत् सम्बध्यते! "मूषिकाः-इति” अनेनावगतसंस्कारेण यः “अर्थः उक्तः स्यात् , स एव मूष इत्युक्तः प्रसिद्धार्थेन अभि- धानेन । 'मूषः'-शब्दस्य तस्वमाख्यातम्, अधुनाऽऽख्यात- प्रसक्तस्य मूषिकाशब्दस्य निर्वचनं करोति,-"मूषिकाः पुनर्मु- ष्णातेः” । “मुष स्तेये (क्या०प०)" इति। अस्य “मूषः अपि" व "एतस्मात् एव" ते हि हरन्ति धान्यादीनि ॥५॥ सं मा तपन्त्यभितः संपत्नीरिव पर्शवः । षो न शिश्ना व्यदन्ति माध्यः स्तोतारन्ते शतक्रतो वित्तं मे अस्य रोदसी ॥ सन्तपन्ति मामभितः सपत्न्य इवेमाः पशवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदन्ति स्वाङ्गा- भिधानं वा स्याच्छिश्नानि व्यदन्तीति सन्तपन्ति माध्यः कामाः स्तोतारं ते शतक्रतो (वित्तं मे अस्य रोदसी) जानीतं मेऽस्य द्यावापृथिव्याविति त्रितं कूपेऽवहितमेतत् सूक्त प्रतिबभौ तत्र ब्रह्म तिहासमिश्रमृमिश्रं गाथामिश्रं भवति त्रितस्तीर्णतमो मेधया बभूवापि वा संख्यानामैवा- भिप्रेतं स्यादेकतो द्वितस्त्रित इति त्रयो बभूवुः ॥ ६॥ “सं मा तपन्ति”-इति निगमः,-"सं मा तप ०-० रो- दसी" इति । आप्त्यस्य त्रितस्य, कुत्सस्य, वेयमार्षम् । पङ्क्तिः । ऐन्द्र्येषा। संतपन्ति” “माम" "अभितः” सर्वतोऽवस्थिताः, ।
, ४अ.१पा०६ख०]] ॐ नैगमं काण्डम् कूपे पतितस्य एताः, “कूपपर्शवः" कृपेष्टकाः, सङ्कटेऽवस्थितम् । कथं पुनः संतपन्ति मामभितः ? 'सपत्नीरिव' यथा समानभर्तृका योषितः (परस्परं वा पीड्यन्ते) एकं भर्तारमभि सन्तपेयुः दुर्वचोभिः, इदमस्याः त्वया कृतम्, इदं मम न कृतमिति, एवं मामेताः कूपपर्शवः सन्तपन्ति, ताभिः कूपेष्टकादिभिः अहं पीड्ये। किञ्च, 'मुषो न' “मुषिकाः इव" "शिश्नाः “शिश्नानि” “व्यदन्ति" अदन्ति तानि । अन्नवेष्टितानि, अन्नमिश्राणि, अन्नमिश्रोदकपायितानि "सूत्राणि” “व्यदन्ति”। सूत्रशब्दोऽध्याहृतः उपपतिं दृष्ट्वा भाष्यकारेण । विविधमदन्ति भक्षयन्ति । अथ “वा” “स्वाङ्गाभि- धानम्” एतत् स्यात् । स्वाङ्गाभिधानमिति शेपोऽभिप्रेतः, भवति हि तिरश्चामेषः स्वभावः,-यच्छेपं भक्षयन्ति । लाङ्गुलमपि सादृश्यात् शिश्नमुच्यते, भवति हि मूषिकाणामेष स्वभावः,-स्नेहभाण्डे स्वलाङ्गुलं मुक्त्वा उद्धृत्य व्यदन्ति आस्वादयति। उपपद्यत उपमार्थ एवायमपीति शिश्नशब्दो विकल्प्यते। एवमेते मदुक्तः 'सन्तपन्ति मा आध्यः” । आधयः "कामाः" सोमेन यक्ष्य, दास्ये, भोक्ष्ये इत्येवमादयः। मां भक्षयन्ति, पीड़यन्ति, असम्पूर्यमाणाः। 'आधिः' इति मानसं दुःखमुच्यते । “स्तोतारं ते शतक्रतो" हे 'शतक्रतो!' तव नाम 'स्तोतारं' सन्तम् एते कामाः, एताश्च कूपपर्शवः, मा उभय- पाव/कृतं सबाह्यान्तरं सन्तापयन्ति । न च नाम त्वमस्मानेतस्या आपदः त्रायसे, समर्थः सन् ? अहो न युक्तम् ? भक्तपरित्यागो हि सतां सर्वेभ्यः पापेभ्यः पापिष्ठ इत्यभिप्रायः। यदा एवमर्थ्य- अथवा निरुक्तम् [पूर्वषट्कन् मानो न शुश्राव इन्द्रः, तदा द्यावापृथिव्यौ आह,-यदि नायमिन्द्रः शृणोति मन्दभागधेयत्वादस्माकम् । युवामपि तावत् है 'रोदसी!' 'वित्तम्' “जानीतम्” “अस्य” वचसः स्तुत्याख्यस्य यत् प्रयोजनम् , यदर्थमहं रोरवीमि, युवामपि चैतस्मात् अति- भयाकारात् कूपात् उद्धरतम्। यदि नायमिन्द्रोऽभ्युद्धरति युवयोरपि स्तोतैवाहमित्यभिप्रायः॥ आह,--पर्शवः इति एतावति श्रूयमाणे कुत एतत् कृपपर्शव एताः ? इति। उच्यते,–“त्रितः कूपेऽवहितः” इत्येतस्मिन् सूक्ते विशेषलिङ्गात् तदेव भाष्यकारेण ख्यापितम् , अतएव सूक्तगताद्विशेषलिङ्गात् उपलभ्य “त्रितं कूपेऽवहितमेतत् सूक्तं प्रति बभौ” यत्रेयमृक् । तस्मात् कूपपर्शवः एता इति ॥ सूत्राणि व्यदन्तीति सूत्रशब्दो भाष्यकारेणाध्याहृतः शिश्न इत्यस्य शब्दस्य शेषभूतो मूषकसम्बन्धेन, ते ह्यन्नगन्धेन सूत्राणि व्यदन्तीति। स्वाङ्गाभिधानपक्षे तु अध्याहारो नास्त्येवेति ॥ "तत्र ब्रह्मोतिहासमिश्रम्” । तत्र तस्मिन् सूक्ते ब्रह्म, इतिहास- मिश्रम् , इतिहासयुक्तमित्यर्थः। तत् यथा,-"त्रितः कूपेऽव- हितो देवान् हवत ऊतये” इत्येवमादि ( ऋ० सं० १, १०, ५, १७)। “ऋग्मिनं” “गाथामिश्रं" च भवति । स पुनरिति- हासः ऋग्बद्धों गाथाबद्धश्च । ऋक्प्रकार एव कश्चित् गाथेत्यु- च्यते, गाथाः शंसति, नाराशंसीः शंसतीति ह्य तं गाथानां कुर्वीतेति । स एष सूक्तानां स्वभावः प्रदर्शितः, इतिहास- सम्बन्धान्यपि सूक्तानि भवन्ति। तेषु प्रकरणादपि सन्दिग्धस्य ४१० पा० ख०] नैगम काण्डम् 8 पदस्यार्थोऽध्यवसेयः, - यथेह पशुशब्दो भाष्यकारेणाध्यषसित इति ॥ ? ७ - भाष्यप्रसक्तं त्रितशब्द निर्ब्रवीति,-"त्रितः तीर्णतमो मेधया” एकतद्वितयोः सकाशात् “वभूव”। “अपि वा" सङ्ख्यानिमित्तमेष एतत् "नाम" " "अभिप्रेतं स्थात्" । कथम् "एकतः, द्वितः, त्रितः इति त्रयः” हि ते भ्रातरः “बभूवुः” तस्मात् सङ्ख्यानिमित्तमप्युपपद्यत एव । उक्तञ्च,-"भार्याङ्गारेणाभ्यु: पादयत् तत एकतोऽजायत, द्वितीयं ततो द्वितः, तृतीयं ततस्त्रित इति ॥६॥ इपिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः। सोमराजन् प्रण आयू षि तारीरहानीव सूर्यो वासराणि ॥ ईषणेन वैषणेन वार्षणेन वा ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव धनस्य प्रवर्द्धय च न आयू षि सोमराजन् । अहानीव सूर्यो वासराणि । वासराणि वेसराणि विवास- नानि गमनानीति वा कुरुतनेत्यनर्थका उपजना भवन्ति कर्त्तनहन्तनयातनेति जठरमुदरं भवति जग्धमस्मिन् ध्रियते धीयते वा ॥ ७॥ "इषिरः (७)"--इति । एतदनवगतम् । “ईषणेन वा एषणेन वा ऋषणेन वा" इति। एताः शब्दसमाधयः। “इषि निरुक्तम् [पूर्वषट्कम् रेण ते मनसा” इति समानविभक्त्यन्तत्वात् इषिरशब्दस्य प्रती- यत एवमतो विशेषणत्वमित्यभिधेयमबुक्त्वा निगममेव पठति, -"इषिरेण ते मनसा ०-० • वासराणि"-इति (ऋ० सं०६, ४, १२, २)। प्रगाथस्येयमार्षम् । त्रिष्टुप् । सौमी। हे भगवन् ! 'सोम!' 'इषिरेण मनसा' त्वां प्रति सर्वात्मना गतेनेत्यर्थः। “ईषति, फणति"-इति गतिकर्मसु पठितम् । “एषणेनेति वा" स्यात्, इच्छावता फलप्रार्थनावतेत्यर्थः । “ऋषणेनेति वा* दर्श- नवता। ईदृशेन मनसा किं कुर्मः ? 'ते' तव योऽस्माकं स्वांशः, तं भक्षीमहि तं भक्षयेमहि । कथं पुनः भक्षयेमहि ? 'पित्र्यस्येव रायः' यथा पित्र्यो धनांशः अविघ्नेन भक्ष्यते, भक्षितश्च सुखपरिणामो भवति, एवं तव वयं स्वमंशमविध्नेन भक्षयेमहि, भक्षितश्च सुखपरिणामो मे अस्तु, मातीव भिद्येमहीत्यभिप्रायः। किञ्च, हे 'सोमराजन् !' 'प्र' 'न' 'आयूंषि' 'तारीः' तारय च प्रवर्द्धय च नः आयूंषि। कथं पुनः प्रवर्द्धय ? "अहानि इव सूर्यः वासराणि" । यथा सूर्यः वासराणि वासन्तिकान्यहानि । "वासराणि" इति “वेसराणि" । शीतोष्णाभ्यों हि द्वाभ्यां तानि सरन्ति, तेषु हि शीतोष्ण भवति, रात्रौ शीतम् , दिवा उष्णम्। अथवा “विवासनानि” स्युः, तानि हि वत् शीतं विवासयन्ति नाशयन्तीत्यर्थः । “गमनानीति वा विसृतानि विस्तीर्णानि सन्ति वासराणीति उच्यन्ते। तानि सूर्य्यः बर्द्धयति मन्दगतित्वात्, एवमस्माकं त्वमायुः प्रवर्द्धयेत्याशीः॥ । यथा नैगम काण्डम् ४अ० १पा० ख०] “कुरुतन (८)"-इति। “अनर्थका उपजना भवन्ति य एवार्थः कुरुतेत्युक्ते भवति, स एव कुरुतनेति, नात्र नकारस्यार्थी- ऽधिकोऽस्ति। अधुना एवमुक्त्वा अन्यान्यपि दर्शयति,-कर्त्त- नहन्तनयातनेति । “शुनं सुफाला वितुदन्तु भूमि शुनं कीनाशा अभियन्तु वाहैः। शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्त्तनास्में - इति (य० वा० सं० १२, ३६)। अग्निचयने क्षेत्रकर्षणे विनियुक्ता । त्रिष्टुप् । 'शुनं' सुफालाः' सुखं शोभनाः फालाः, 'वितुदन्तु' विकृषन्तु 'भूमिम्' । सुखं 'कीनाशाः' भूमि कीणनाशाः, खिलोत्कर्तारः, कर्षकाः, 'अभियन्तु' 'वाहैः' अनडुद्धिः । अयं तावदेवं कृषीबलः कृर्षि करोतु, युवामपि हे 'शुनासीरौ !' 'हविषा' उदकेन 'तोशमानौ' निघ्नन्तौ भूमि 'सुपिप्पलाः' सुफलाः, एताः 'ओषधीः' 'कर्त्तन' कुरुत, 'अस्में अस्मभ्यमित्यर्थः॥ “यो नो मरुतो अभि दुर्हणायुस्तिरश्चित्तानि वसवो जिघां- सति ॥ द्रुहः पाशान् प्रति संमुचीष्ट तपिष्ठेन हन्मना हन्तना तम्" इति (ऋ० सं० ५, ४, ३०, २)॥ वसिष्ठस्येयमार्षम् । सान्तपनस्य चरोः याज्यैषा । 'यः' 'नः' अस्माकं हे 'मरुतः! 'दुर्हणायुः' पापक्रोधः, 'तिरश्चित्तानि' अन्तहितानि चित्तानि कृत्वा सम्मोह्य ततो हन्तुमस्मानिच्छति। हे 'वसवः' सर्वभूतवासयितारः! तस्येदंलक्षणस्य 'दुहः' अस्मद्- द्रोग्धुः उपरि 'पाशान्' 'प्रति संमुचीष्ट' प्रतिसम्मोचयत । पाशैः ३ निरुक्तम् , [पूर्वगटकम् एवं बद्ध्वा 'तपिष्ठेन' तापयितृतमेन हन्मना' हननेन, वधेन 'हन्तना' हन्तेत्यर्थः॥ 'कोऽन्वत्र मरुतो मामहे वः प्रयातन सखी रच्छा सखायः । मन्मानि चित्रा अपि वातयन्त एषां भूत नवेदा म ऋतानाम् ॥" -इति (ऋ० सं० २, ३, २६, ३)। इन्द्रागस्त्यमरुतां सम्वादः। कयाशुभीयं सूक्तम् । तत्रेयमगस्त्यस्यार्षम् । महावते व्यूढस्य च दशरात्रस्य सप्तमेऽहनि सूक्तं शस्यते। हे 'मरुतः !' कोऽन्यः युष्मानेवमेतस्मिन् जगति 'मामहे' पुनः पुनः महयति, पूजयति ? यथा अहं, तथा न कश्चिदित्यभिप्रायः यत एवमतो ब्रवीमि,-अस्मान् एव 'सखीन्' आभिमुख्येन 'प्रयातन, प्रयात, हे 'सखायः !' । किञ्च, 'मन्मानि' मननानि स्वानि चेतांसि "चित्राः' चित्राणि, अस्मान् प्रति 'अपि पातयन्तः' निगमयन्तः 'एषाम्' 'ऋतानां यज्ञानां प्रापयितारः 'भूत' भवत, हे 'नवेदाः' मेधाविनः! ܣ इत्यर्थः॥ “जठरम् (8)"-इति । एतदनवगम् । “उदरं भवति"-इति अभिधेयवचनम् । “जग्धम्” भुक्तमन्नम् “अस्मिन्” अवस्थितं "ध्रियते” इति जठरम् । अन्न “वा" जग्धमस्मिन् “धीयते" जग्धधानं वा स्यात् । एते शब्दसमाधी॥ ७ ॥ मरुत्वां इन्द्र वृषभो रणाय पिवा सोममनुध्वधं मदाय । आसिश्च स्वजठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः ४अ० १पा० ८ख.] नैगमं काण्डम् सुतानाम् ॥ मरुत्वानिन्द्रः मरुद्भिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्ने मदाय मदनीयाय जैत्रायासिश्च स्वजठरे मधुन ऊमि मधु सोममित्यौपमिकं माद्यतेरिदमपीतरन्मध्वे तस्मादेव त्वं राजासि पूर्वेष्वप्यहासु सुतानाम् ॥ ८॥ इति चतुर्थाध्यायस्य प्रथमः पादः ॥ ४,१॥ “मुरुत्वा इन्द्र”–इति निगमः । “मुरुत्वा इन्द्र वृषभः०-. सुतानाम्" इति (ऋ० सं० ३, ३, ११, १)। विश्वामित्रस्येय- मार्षम्। त्रिष्टुप् । महाव्रते पृष्ठ्यस्य चतुर्थेऽहनि शस्यते। मरुत्संयुक्तो भूत्वा पिव। हे 'इन्द्र !' यः त्वं 'वृषभः' वर्षिता, 'अपाम्' इत्यध्याहृतं भाष्यकारेण वृषभसम्बन्धात् । यः त्वामेवं कर्मकारी तं त्वां ब्रवीमि,-'रणाय' “रमणीयाय संग्रामाय" रमणीयं संग्रामं करिष्यामीति एतमर्थमुद्दिश्य “पिब” एतं "सोमम्” अस्मत्प्रदत्तम् । 'अनुष्वधं स्वधेति अन्ननाम, सवनीयपुरोडाशाद्यभिप्रायेण । 'अनुष्वधम्' “अन्वन्नम्” । 'मदाय' “मदनीयाय” पानाय, युष्मदर्थमस्माभिः संस्कृतम् । 'जैत्राय'-इत्यध्याहृतं भाष्यकारेण, द्विविधो हि मदः, -सम्मो- हकरो जैत्रश्च, तयोः जैत्र इष्टः संग्रामे। कथं च पुनः पिब ?- किमीषत् ? नेत्युच्यते,–'आसिश्च स्वजठरें ये 'मध्वः' "मधुनः" । "मधुसोममिति, औपमिकम्”–इत्येतदुक्तं सोमस्य मधुत्वम्।
३७० निरुक्तम् . [पूर्वषट्कम् "माद्यतेः” धातोः। तृप्तिहि समाना, सोमेन मध्वा चेत्यौपमि- कत्वम् । “इदमपीतरत् मधु” माक्षिकम् “एतस्मादेव" माद्यतेः । यत्तु सोमस्योपचारत्वेन, तस्मात् माध्वीकम् । 'ऊर्मिः' सङ्घातः तावत् तं सोममासिश्च स्वजठरे, यावता जैत्रो मद उपजायते । कस्मात् पुनरेवं ब्रवीमि ? इतः, यस्मात् 'त्वं राजासि प्रदिवः सुतानाम् ' त्वमेव 'राजा' ईश्वरः “पूर्वेष्वपि अहःसु सुतानाम्" अभिषुतानाम्, न केवलमाधुनिकानाम् , एवं ते समुचितं सोम- पानमित्यभिप्रायः॥८॥ इति निरुक्तवृत्तौ नवमाध्यायस्य (चतुर्थाध्यायस्य) प्रथमः पादः॥४,१॥ द्वितीयः पादः तितउ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतु नमिति वा ॥ १(६)॥ "तितउ (१०)" इति । एतदनवगतम् । “परिपवनं भवति"- इति अभिधेयवचनम्। सक्तवः परिपूयन्ते येन द्रव्येण, तत् परिपवनमुच्यते। ततेन चर्मणा नद्धं 'तितउ'। तुन्नैर्वा छिद्रः तद्वत् 'तितउ'। तिलमात्राणि वा तुम्नानि तस्मिन्निति 'तितउ' यथासम्भवमेताः शब्दसमाधयः॥१(६)॥ ।
MORNERMIRE - धाव्यते प्रक्षाल्यत इत्यर्थः। “कलतेः वा स्यात् विपरीतस्य" स १अ० १पा०५ख०] * नैगम काण्डम् * सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाच- मक्रत। अत्रा सखायः सख्यानि जानते भद्रषां लक्ष्मी- निहिताधि वाचि ॥ सक्तुमिव परिपवनेन पुनन्तः सक्तुः सचतेदुर्धावो भवति कसतेर्वा स्याद्विपरीतस्य विकसितो भवति यत्र धीरा मनसा वाचमकृषत प्रज्ञानं धीराः प्रज्ञान- वन्तो ध्यानवन्तस्तत्र सखायः सख्यानि सञ्जानते भद्रषां लक्ष्मीनिहिताधि वाचि भद्रम्भगेन व्याख्यातं भजनीयं भूतानामभिद्रवणीयं भवद्रमयतीति वा भाजनवद्वा लक्ष्मी- लाभाद्वा लक्षणाद्वा (लप्स्यनाद्वा) लञ्छनाद्वा लषतेर्वा स्यात् प्रेप्साकर्मणो लग्यतेर्वा स्यादाश्लेषकर्मणोलजतेर्वा स्यादश्ला- याकर्मणः शिप्रे इत्युपरिष्टाद् व्याख्यास्यामः ॥२ (१०)। निगमः,-"सक्तुमिव तितउना" इति। विद्यासूक्ते बृह- स्पतेरार्षम् । “सक्तः सवतेः” स हि सूक्ष्मत्वात् सचति संश्लि. ष्यति अङ्ग। ततः “दुर्धावो भवति"-इति उपपत्तिः। दुःखं “विकसितः” विपुष्पितः “भवति":। यथा सक्तुं कश्चित् परि- पवनेन पुनाति, एवं “मनसा" परिपवनस्थानीयेन परिपूय विनि- श्चित्य शब्दार्थ न्याययुक्तां “वाचं” “यत्र” यस्मिन् समाजे यज्ञ वा “धीराः" धीमन्तः, मेधाविनः 'अक्रत' "अकृषत कुर्वन्ती- * निरुक्तम् * [पूर्वषट्कम् त्यर्थः। अत्र केचित् अकृषत प्रज्ञानमित्यभिधीयते, प्रज्ञानार्थ- त्वात् वावः। तत्र किम् ? इति "तत्र सखायः" समान- ख्यानाः। समानख्यानानामेव समानेषु शास्त्रेषु कृतश्रमाणाम् , तद्यथा, वैयाकरणानां वैयाकरणा एव, नैरुक्तानां नरुक्ता एव “सख्यानि" सखिभावान् “सञ्जानते" विज्ञानानि सजानते, इतरे- तरस्य यो विज्ञानप्रकर्षः, तं जानते। किङ्कारणम् ? यस्मात् "भद्रा” भन्दनीया “एषां” “लक्ष्मी:” विज्ञानाख्या निहिताधि- वाचि" वाचः 'अधि' उपरि, 'निहिता' अवस्थापिता। लक्ष्म्या इतरेतरस्य विज्ञानश्रमं जानते, इतरो ह्यविद्वान् किं विज्ञा- स्थत इत्यभिप्रायः॥ "भद्रम्”। “भगेन व्याख्यातम्” स्त्रीभगः तथा स्यात्, भजतेः इति । “भजनीयम्” इति। “भूतानाम्" *अभिद्रव- णीयम्” अभिगमनीयमित्यर्थः । “भवद्रमयतीति वा” यस्य हि तद् भवति, स रमते । “भाजनवद्वा" सन्ति हि कल्याणरूपाः पुरुषाः, ये यस्य भाजनम् , तैः तद्वत् ॥ "लक्ष्मीः”। “लाभाद्वा" लक्ष्मीवन्त एव लभन्ते, नेतरै। "आ लक्षणाद्वा" आलक्षित एव हि लक्ष्मीवान् । “लञ्छनाद्वा" तया हि लञ्छित इव भवति। “लषतेः (भू० उ०) वा स्यात्, प्रेप्साकर्मणः” सर्व एव हि तामभिलषन्ति । “लग्यतेः (भू०प०) वा स्यात् , आश्लेषकर्मणः” आश्लिष्य इव हि सा वर्तते पुरुषम् । “लजतेः (तु आ० ) वा स्यात् , अश्लाघाकर्मणः ये हि लक्ष्मीवन्तो भवन्ति, ते स्वयमात्मानं न श्लाघन्ते । , ४अ० ख० ३पा]] नैगम काण्डम् ३७३ “शिप्रे (११)”- इति। “एतत् उपरिष्टात् व्याख्यास्यामः" - “शिप्रे हनू नासिके वा"-इति, अत्र हि एतनिगमप्रसक- मायास्यतीति लाघवार्थमुत्कृष्टम् ॥ २ (१०)॥ । MININ तत्मय॑स्य देवत्वं तन्महित्वं मध्या कर्त्ताविततं सञ्ज- भार। यदेदयुक्त हरितः सधस्थादादात्री वासस्तनुते सिमस्मै ॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संहियते यदासावयुक्त हरणानादित्य- रश्मीन् हरितोऽश्वानिति वाथरात्रौ वासस्तनुते सिमस्मै वेसरमहरवयुवती सर्वस्मादपि वोपमार्थे स्याद्रात्रीव वासस्त- नुत इति तथापि निगमो भवति पुनः समव्यद्विततं वयन्ती। समनात्सीत् ॥ ३ (११)॥ "मध्या (१२)” इति। एतदनवगतम् । “मध्ये”–इत्य- वगमः। “तत् सूर्यस्य देवत्वं सिमस्मै - इति निगमः ऋ० सं० १,८,७, ४)। आङ्गिरसस्य कुत्सस्येयमार्षम् ! त्रिष्टुप् । सौर्य्यस्य पशोः षडचे वपाया याज्या, सूत्रितञ्च -“चित्रन्देवानामिति पुरोनुवाक्यास्तिस्र उत्तरा याज्याः सौर्य- स्योपांशु ( आ० ३, ८)” इति। 'तत्' अहं 'सूर्य्यस्य' भगवतः 'देवत्वं देवताभावं, 'तन्महित्वं तच्च महत्त्वं माहाभाग्यं 'मन्ये' जाने। तत् किम् ? इति,–'मध्या' “मध्ये” “यत्” “कर्मणां * निरुक्तम् * [पूर्वषट्कम् क्रियमाणानाम्" अनेकेषाम् अवगणय्य सर्वान् कर्मकर्तृन 'विततं' तेषां “विततम्” एतत् प्रकाशजालम् । एवमतिमहत्। महतापि कालेन तत् दुरुपसंहारमन्यैर्यदेकेन मुहूर्तेनायत्नेनैव भगवता सूर्येण “संहियते” तत् अस्य देवत्वं तच्च महत्त्वमहं मन्ये। किञ्च, “यदासी भगवान सूर्यः, “अयुक्त” युनक्ति, 'हरितः' “हरणान्" रसहरणान् “आदित्यरश्मीन्” आत्मन्यस्तं गच्छन् 'सधस्थात्' पृथिवीलोकादाकृष्य । पृथिवी हि तेषां रसादानार्थ सहस्थानम् । इतो हि ते सर्व एव रसानाददते। 'आत' अथेत्यर्थः। अथ तदैव उपसंहृतसर्वरश्मिजाले भगवति सूर्ये, 'रात्रिः' 'वासः' “वेसरमहरवयुवती” अवमिश्रयन्ती 'सिमस्मै' सिमस्मात्, सर्व- स्मात् लोकात् अहरपकृष्य, स तमः 'तनुते'। तदेवमेतदपि सूर्यस्यैव माहाभाग्यं यदस्य सन्निधौ तमो नश्यति, यश्चानेनो- त्रसृष्टो देशः स तमसा छाधत इत्यभिप्रायः। “हरितोऽश्वानिति वा” ऐतिहासिकपक्षमतेन ॥ "अपि वोपमाथै स्यात् , रात्रीव वासस्तनुत इति" वास इव रात्री तमः तनुत इत्यर्थः। पूर्वत्र वेसरमहरवयुवती तम- स्तनुत इति नास्त्युपमा, इह पुनर्वास इव तमस्तनुत इत्येव- मुपमा॥ यथाच उपमार्थोऽपि युज्यते, “तथा” च "निगमः” “अपि" अयं भवति"--"पुनः समव्यद् विततं वयन्ती मध्या कौयं धाच्छक्म धीरः। उत्संहायास्थाद् व्यू १ तूं रदर्धरमतिः सविता देव आगत् ॥” (ऋ० सं० २, ८, २, ४)। गृत्समदस्ये- यथा ४०२पा० ख०] * नैगम काण्डम् * यमार्षम् । सावित्री। त्रिष्टुप् । पृष्ठ्यस्य षष्ठेऽहनि वैश्वदेव- शस्त्रे शस्यते तृतीयसवने । “पुनः समव्यद्विततं वयन्ती" । “समनात्सीत्”-इति निर्वचनम्। समवेष्टयदित्यर्थः । योषित् काचिद् वासो वयन्ती, पुनः संवेष्टयत्यस्तमयकाले, पुनश्च वितनोत्यादित्य उदिते, एवमियं रात्रिः पुनरेव तमः संवेष्टयति, योपिदिव वासो वयन्ती। कदा पुनः संवेष्टयति ? यदा 'मध्या' मध्ये 'कौः' कर्मणां क्रियमाणानां लौकिकवैदि- कानां विततम्' एतद्रश्मिजालम् , 'शक्म' स्वात्मप्रसवादपत्यभूतं 'न्यधात्' न्यदधात्, नीचैर्धत्ते लोकानां प्रकाशनाय । अथवा शक्मेति कर्मनाम स्यात्, यदा स्वं प्रकाशं पुनः कर्म निधत्ते, निद्धाति, उदेति 'धीरः' धीमानादित्यः, तदा अहनि अभ्युपस्थिते पुनः संवेष्टयति रात्रिस्तम इति। अस्तमयं प्रति पुनर्वास इव तनोतीति । एवमेतस्मिन्नपि मन्त्रे सामर्थ्यादसत्युपमाशब्दे वाससा तम उपमीयते। यथेह तथा पूर्वस्मिन्नपि, निगमेऽपीत्ये- चमेके मन्यन्ते। अपर पुनः अपि वोपमार्थे स्यादित्यवं वर्ण- यन्ति,-रात्रीव वासस्तनुत इत्यत्र वासःशब्दोऽहःशब्दपर्याय- वाची, तस्योक्ता व्युत्पत्तिः वेसरमहरिति । सा रात्रिः वासस्त- नुते, अहस्तनुत इत्यर्थः। रात्रिप्रान्ते हि शुक्लमहर्लक्ष्यते, तेन ज्ञायते रात्र्यैवेदं ततमिति । एवमुपमार्थत्वमेके मन्यन्ते,-यदा वायमर्थः, तदा “पुनः समव्यद्विततं वयन्ती (ऋ० सं० २, ८, २, ४)"-इत्यत्र पुनः समवेष्टयदहो रात्रिः, विततमिव वासो वयन्ती। कदा ? यदा मध्ये कर्मणां 'न्यधात्' निदधाति ।
* निरुक्तम् * [पूर्वषट्कम् अस्तं गच्छन् आदित्यः खमण्डले 'शक्म' रश्मिजालं यदा च 'उदस्थात्' उत्तिष्ठति, स्वरश्मीनुपसंहृत्य 'व्यधात्' विदधाति. 'ऋतून' अहोरात्रलक्षणान् । यदा एवम् 'एषः' 'सविता देवः' 'अलमतिः' पर्याप्तमतिः, 'आगात्' आगच्छति। तदा 'रात्रिः तनुते' 'वासः' अहर्लक्षणम् , 'पुनः' 'संवेष्टयतीत्येवं मन्यन्ते । यदत्रार्थाविरोधि तत् प्रतिपत्तव्यम् ॥ ३ (११) ॥ इन्द्रण सं हि दृक्षसे सञ्जम्मानो अविभ्युषा। मन्दू समानवर्चसा ॥ इन्द्र ण हि सन्दृश्यसे सङ्गच्छमानोऽबिभ्यु- षा गणेन मन्दू मदिष्णू युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समानवसेत्येतेन व्याख्यातम् ॥ ४ (१२) ॥ "मन्दू (१३)”-इति। एतदनवगतम् । “मदिष्णू. मन्दुनेति वा” शब्दसमाधी। “इन्द्रेण सं हि” - इति निगमः। मधु- च्छन्दस इदमार्षम्। महाव्रते महदुक्थे तृचाशीतिषु शस्यते, सात्रिकेषु चाहःसु स्तोमातिवृद्धौ प्रातःसवने ब्राह्मणाच्छंसिनः शस्त्रे इन्द्र उच्यते। हे भगवन् ! इन्द्र! त्वं 'इन्द्रेण' ईश्वरेण, दीप्त न वा मरुद्गणेन, नित्यमेव “सङ्गच्छमानः” 'संदृक्षसे' “सन्दू- श्यसे"। 'अबिभ्युषा' अभयवता, गणेन -इत्यध्याहारः । . तौ च “युवा" मरुद्गणः त्वं च, एकत्र सङ्गतौ। “मदिष्णू” हर्षशीलौ, नित्यप्रमुदितावित्यर्थः। 'समानवर्चसौ' च समान- दीप्ती इत्यर्थः। एवं “मन्दू समानवर्चसा”-इत्येतेन द्विवचनेन ४अ० २पा० ५ख०] नैगम काण्डम् * मरुद्गणेन्द्रविषयेण निगमो व्याख्यातः । “अपि वा" एवमन्यथा “स्यात्"। मन्दु इत्यस्य तृतीयैकवचनान्तत्वेन विपरिणामः, एवञ्च सति मरुद्गणविशेषणमेतद्भवति। कथम् ? “मन्दुना" मरुद्गणेन, इन्द्र! सन्दृश्यसे सङ्गच्छमानः। “समानवर्चसा इति" एतत् पदं मन्दुनेति “एतेन" पदेन “व्याख्यातम्” यथैव हि मन्दू इत्येतत् द्विवचनमेकवचनं वा, एवमेतदपि,-समानवर्च- साविन्द्रमरुद्गणाविति द्विवचनमथवा मन्दुना समानवर्चसा च मरुद्गणेन इत्येवं तृतीयैकवचनम्। अपि वा एवं मरुद्गण उच्यते, त्वमिहेन्द्रेण सङ्गच्छमानो नित्यमेव सन्दृश्यस इति । समानमन्यत् ॥ ४ (१२)॥ मश्वाः॥ ईन्तिासः सिलिकमध्यमासः संशूरणासो दिव्यासो अत्याः। हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्म- ईन्तिाः समीरितान्ताः ( सुसमीरितान्ताः) पृथ्वन्ता वा सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वाऽपि वा शिर आदित्यो भवति यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठतीदमपीतरच्छिर एतस्मादेव समाश्रिता- न्येतदिन्द्रियाणि भवन्ति संशरणासः (दिव्यासो अत्याः) शूरः शवतेर्गतिकर्मणो दिव्या दिविजा अत्या अतनाः। हंसा इव श्रेणिशो यतन्ते। हंसा इन्तेनन्त्यध्वानं - ३७८ सूरादश्वं * निरुक्तम् * [पूर्वषट्कम् ( श्रेणिश इति ) श्रेणिः श्रयतेः समाश्रिता भवन्ति यदा- क्षिपुर्यदापन दिव्यमजममजनि माजिमश्वा अस्त्यादित्य- स्तुतिरश्वस्यादित्यादश्वो निस्तष्ट इति । वसवो निरतष्टेत्यपि निगमो भवति ॥ ५ (१३) ॥ "ईन्तिासः (१४)"--इति । एतदनवगतम् । “समीरि- न्ताः"-"पृथ्वन्ता वा” इति यथासम्भवं शब्दसमाधी । “ईन्तिासः” इति निगमः। दीर्घतमस आर्षम् । "यमेन दुत्तम्"---इति इयञ्च, हे अप्येते अश्वस्तोमीये सूक्ते, तेन चाश्वः स्तूयतेऽश्वमेधे, आदित्यस्य रथे येऽश्वा युक्तास्त उच्यन्ते ईर्मा- न्तासः, तेषां सप्तानां येऽश्वाश्चत्वारः, ते “समीरितान्ताः' विक्षिप्तान्ताः, प्रसृतान्ताः, प्रविरला इत्यर्थः। “पृथ्वन्ता वा" तेषामेवाश्वानां पृथवोऽन्ताः, पृथूरस्काः, पृथुजघना वा इत्यर्थः । "सिलिकमध्यमाः, संसृतमध्यमाः” संश्लिष्टमध्यमा इत्यर्थः । तेषां हि सप्तानां ये मध्यमास्त्रयः इतरेतरमुत्पीड्य संश्लेषेणा- वस्थिताः। अथवा पृथुजघनोरस्कानां सतां मध्यमाः शरीरप्र- देशाः, सप्तानामपि सश्लिष्टाः संलग्यास्तनवः, निरुदरास्तेऽश्वा इत्यर्थः। तथापि हि स्तुतिरुपपद्यत एव । “शीर्षमध्यमा वा" सिलिकमध्यमा वा। एवमपि हि शब्दे सारूप्यमस्ति, यो हि तेषां सप्तानां मध्यमः, स शिरोभूतः प्रधान इत्यर्थः । “अपि वा" एवमन्यथा स्यात् । “शिर आदित्यः” एव “भवति” सर्वभूत प्राधान्यात्। “मूर्द्धा, राजेति वा अहमेतमुपासे इति ह विज्ञा- , " * नेगम काण्डम् * " ४१०२पा० ५ख०] यते” । यस्माचासावनुप्रविश्य प्राणभावेन सर्वभूतानि “शेते" आस्ते, तस्मात् सर्वभूताश्रयणात् शिर आदित्यः। स चैतेषा- मश्वानां “मध्ये तिष्ठति” शीर्षमध्यमास्त एते शीर्षमध्यमा इत्युक्ताः सन्तः सिलिकमध्यमा इत्युच्यन्ते। “इदमपीतरच्छिर एतस्मादेव” इति प्रासङ्गिकम् । “समाश्रितानि” हि “एतत्" उत्तमाङ्गम् “इन्द्रियाणि” चक्षुरादीनि “भवन्ति” इति शिर उप- पत्तिः। 'संशूरणासः' सङ्गताः शूरेण भगवतादित्येन संशूरणाः । “शूरः शवतेर्गतिकर्मणः” स हि परानभिमुखो गच्छत्येव, न पर्यावर्त्तते। "दिव्यासः' ते हि "दिव्याः” दिविजाताः , 'अत्याः' 'अतनाः” ते हि अतन्त्येव, मुहर्त्तमपि नावतिष्ठन्ते। य एवं- लक्षणा अश्वास्ते किं कुर्वन्ति ? इति। उच्यते,-हंसा इच श्रेणिशो यतन्ते' हंसा इव श्रेणीकृताः पङ्क्तीकृताः यतन्ते गच्छन्ति। "हंसा हन्तेः” ते हि “नन्त्यध्वानम्”। कदा पुनरेवं यतन्ते ? “यदाक्षिषुः” 'यत्' “यदा" यस्मिन् काले 'आक्षिषुः' 'आपन्' आप्नुवन्ति। किम् ? 'दिव्यम्' 'अजमम्' “अजनि”। अज्य- तेऽस्यां गम्यत इति अजनिः, वाहिका, स्वर्गपथ इत्यर्थः । यदा ते आप्नुवन्ति-उदयादारभ्य यावदस्तमिति, तदैवं यतन्ते । के पुनस्ते? इत्युच्यते-'अश्वाः'। एवमेतानि ईन्तिास इत्येव- मादीनि अश्वविशेषणानि, अश्वशब्देन समानविभत्यन्तत्वात्। आत्मैवैषां रथो भवत्यात्माश्वा इत्येवं प्रक्रमेण सूर्य दैवत एष स पुनरयमश्वस्तुतौ विनियुक्तस्तदसमञ्जसमिति मन्यमानो भाष्यकारः प्रतिसमाधित्सुराह,-"अस्त्यादित्यस्तु- मन्त्र उक्तः।
। - ३८० * निरुक्तम् * [पूर्वषट्कम् तिरश्वस्य” इति, अश्वोऽपि ह्यादित्यात्मना स्तूयत इत्यर्थः । आह,-कयोपपत्त्या ? इति। उच्यते, “आदित्यादश्वो निस्तष्ट इति" "-अनयोपपत्त्या सूर्यात्मना अश्वः स्तूयते। आह,-कुत एतत्सूरादश्वो निस्तष्ट ? इति। उच्यते,-"सूरादश्वं वसवो निरतष्ट-इत्यपि निगमो भवति” । “यमेन दत्तं त्रि त एनमायु. नगिन्द्र एणं प्रथमो अध्यतिष्ठत् । गन्धर्वो अस्य रशनामगृभ- णात् सूराश्वं वसवो निरतष्ट ॥” इति (ऋ० सं० २, ३, ११, २)। 'यमेन' 'एनम्' अस्माकं 'दत्तम्' अश्वम् 'त्रितः' त्रिस्थानो वायुः 'आयुनक' युनक्ति। यत्रायं योक्तव्यः, तत्र वायुना युक्त- स्येन्द्रेणाधिष्ठितस्य 'अस्य' 'गन्धर्वः' गन्धर्वराजः 'रशनामगृभ- णात् नियमेन रज्जु गृह्णाति। कुतः पुनरयमश्वः ? इत्युच्यते, 'सूरात्' सूर्यादेतमेवंलक्षणम् 'अश्वं' 'वसवः' 'निरतष्ट' निस्त- वन्तः। एवमेतस्मिन् मन्त्रे सूर्यप्रभवोऽश्व इति स्तूयते । 'कारणाच कार्यमनन्यत्”-इत्युपपद्यते सौर्येण मन्त्रेणाश्वस्य स्तुतिरिति ॥ ५ (१३)॥ कायमानो वना त्वं यन्मातरजगनपः । न तत्ते अग्ने प्रमृषे निवर्त्तनं यद्रे सन्निहाभवः ॥ कायमान- वायमानः कामयमान इति वा वनानि त्वं यन्मातृरपोऽगम उपशाम्यन् न तत्ते अग्ने प्रमृष्यते निवर्त्तनं दूरे यत् सन्निह भवसि जायमानः। लोधं नयन्ति पशु मन्यमानाः ।
'४अ० २पा० ६ख०]] * नैगम काण्डम् * i । लुब्ध्वमूर्षि नयन्ति पशुं मन्यमानाः। शीरं पावकशो चिषम् । पावकदीप्तिम् । अनुशायिनमिति वाशिनमिति वा ॥ ६ (१४)॥ "कायमानः (१५)"-इति। एतदनवगतम् । “चायमानः' -इत्यवगमः, “कामयमान इति वा" । "कायमानो बना त्वम् -इति निगमः (ऋ० सं० ३, १, ५,२)। विश्वामित्रस्ये- यमार्षम्। बृहती। प्रातरनुवाकाश्विनयोः शस्यते । हे भगवन् ! अग्ने! "कायमानः' "चायमानः" पश्या नित्यर्थः। अथवा “काम- यमानः”। किम् ? स्वां योनिम्। कतमाम् ? 'चना' “वनानि" दारूणि। दारुभ्योऽग्निर्जायते, तदेतत् प्रसिद्धमेवोक्तम्, यदा चाग्निरनुगच्छति अरणी वावगच्छति। 'मातः' वा सर्वभूतनि- र्मात्रीः 'अपः' सापि योनिरेवाग्नेः । “आपो वा अग्नेयोनिः,- इति ह विज्ञायते” । अनयोर्योन्योरन्तरां योनि 'यत्' यदा 'अज- गन्' "अगमः” “त्वम्” । कदा पुनरगमः ? "उपशाम्यन्” इत्यध्याहृतं भाष्यकारेण, अनुगच्छन्नित्यर्थः। तस्य तवैवमनु- गच्छतः किम् ? इति । उच्यते,-'न' 'तत्' 'ते' 'अग्ने'! 'प्रमृषे 'निवर्त्तनम्' । “न प्रमृष्यते” न प्रमृज्यते निवर्त्तनं', वर्त्म, मागों न लुप्यत इत्यर्थः। कथं गम्यते न प्रसृज्यते मार्गः ? “इति । 'दूरे' अपि 'सन्' अदृश्योऽपि भूत्वा यस्मात् “इह” पुनः "भवसि” एव । कदा? “जायमानः” “यत्" यदा अद्भ्यो जायसे वैद्य तात्मना, यदा वा अरणिभ्यां जायसे मथ्यमानः, तदा ॥ D ॐ निरुक्तम् [पूर्वषट्कम् "न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्य- मानाः। नावाजिनं पाजिना हासयन्ति न गर्दभं पुरो अश्वान् नयन्ति” इति (ऋ० सं० ३, ३, २३, ३)। "लोधम् (१६)”- इति । एतदनवगतम् । “लुब्धम्” इत्यवगमः। यस्मिन् निगमे एष शब्दः सा वसिष्टद्वषिणी ऋक् । अहं व कापिष्टलो वासिष्ठः । यतस्तान् निर्बवीमीति॥ "शीरम् (१७)”-इति। एतदनवगतम् । अग्निरभिधेयः। "अनुशायिनमिति वा”-इति, अनुप्रविश्य सर्वभूतानि शेते. इत्यनुशायी, तमनुशायिनम् । अश्नोति व्याप्नोति वा सर्वभूता- नीति "आशिनम्”। “शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा- दीदाय दीर्घश्रुत्तमः ॥ -इति निगमः (ऋ० सं० ६, ७, ११, १)। भार्गवस्य प्रयोगस्येयमार्षम् । प्रातरनुवाकाश्विनयोः शस्यते । 'शीरम्' अनुशायिनं व्यापिनं वा अग्निं स्तौमि। “पावकशो- चिषम्” पावयित्री यस्य शोचिर्दीप्तिः, तं पावकशोचिषम् । किञ्च 'ज्येष्ठः' श्रेष्ठः, 'यः' प्रधानः 'दमेषु' यज्ञगृहेषु 'आदीदाय आदीप्यते, परिचर्यमाणोऽग्निहोत्रिभिः। किञ्च दीर्घश्रुत्तमः' यः, दीर्घश्रोतृभ्यः यो दीर्घश्रुत्तमः। तमग्नि स्तौमि ॥ ६ (१४) ॥ । कनीनकेव विद्रधे नवे द्रुपदे अर्भके। অল্প यामेषु शोभते ॥ कनीनके कन्यके कन्या कम- नोया भवति क्वेयं नेतेव्येति वा ( कमनेनानीयत ४१०२पा० ख०] * नैगम काण्डम् * इति वा ) कनतेर्वा स्यात्कान्तिकर्मणः कन्ययोरधिष्ठान- प्रवचनानि सप्तम्या एकवचनानीति क्षाकपूणिर्विद्धयोर्दारु- पाद्वोर्दारु दृणातेर्वा द्रुणातेर्वा तस्मादेव द्रु नवे नवजाते अर्भके अवृद्ध ते यथा तदधिष्ठानेषु शोभेते एवं बभ्र यामेषु शोभेते बभ्र वोरश्वयोः संस्तव इदश्च मेऽदादिदश्च मेदा- दित्यपिः प्रसंख्यायाह । सुवास्त्वा अधि तुग्वनि । सुवा- स्तुर्नदी तुग्य तीर्थ भवति तूर्णमेतदायन्ति । कुविन्नंसन्ते मरुतः पुनर्नः । पुनर्नो नमन्ते मरुतो नसत इत्युपरिष्टाद् व्याख्यास्यामः । ये ते मदा आहनसो विहायसस्तेभिरिन्द्र चोदय दातवे मघम् । ये ते मदा आहननवन्तो वञ्चनवन्त- स्तैरिन्द्र चोदय दनाय मघम् ॥७ (१५)॥ -- "विद्रधे (१८), द्रुपदे (१६)"-इत्येते पदे एकनिगमे । द्वे अप्यनवगते, पक्षेण चानेकार्थे । 'विद्रधे' विद्धे, 'द्रुपदे' द्रुममये पदे इत्यवगमः। दारुपादौ वा एताभ्यां शब्दाभ्यां विशेष्यते। कन्ययोर्वा पादपीठप्रवचने सप्तम्येकवचनान्ते एते। द्वयोरपि पदयोरेक एव निगमः,-"कनीनकेव विधे०-०शोभेते"- इति (ऋ० सं० २, ६, ३०, ७)। वामदेवस्यार्षम् । “कन्या कमनीया भवति" सर्व एव हि तां प्रार्थयन्त एव । अथवा “वयं नेतव्येति वा” दानायेत्येवं तां प्रति पिता चिन्तयतीति कन्या। “कमने- । 28 निरुक्तम् * [ पूर्वषटकम् नानीयत इति वा”। “कनतेर्वा स्यात् कान्तिकर्मणः” “कनति (१७) कानिषत् (१८)-इति कान्तिकर्मसु पठितम् । 'इव' इति उपमायाम् । “विद्रधे 'नवे' 'द्रुपदे' 'अर्भके' इत्येतानि चत्वारि पदानि “कन्ययोरधिष्ठानप्रवचनानि” “सप्तम्या एकवचनानीति" एवं "शाकपूणि:” आचार्यों मन्यते। एकस्मिन् दारुमये पाद् पीठेऽस्मिन् समधिरूढेषु पाकाख्येषु अधिष्ठानेषु अधिरूढ़े 'शोभेते' यथैवं 'बभ्' बभ्रूवर्ण अश्वे 'यामेषु' आजिस्थानेषु यमनस्थानेषु, कन्यके, शालभञ्जिके वा। तदेतैश्चतुर्भिः पादैरुच्यत इति शाकपूणिराचार्यो मन्यते। यास्कस्तु “विद्धयोः” विकुषि- ताधोभागयोः “दारुपाद्वोः” अधिरूढ़योः कन्ययोरभिधानपदान्य- भिधायकान्येतानि द्विवचनानीति मन्यते। ताभ्यां ह्यश्विन्योः खुराकारत्वेन सारूप्यमस्तीत्येवमुपादानम्। दारुपाद्वोरित्ये- तस्मिन् व्याख्यानप्रसक्त पदे विग्रहप्रसक्तो दारुशब्दो निरुच्यते, "दारु द्वणातेर्वा” विदारणार्थस्य (क्या० प०)। “दूणातेर्वा" हिंसार्थस्य तस्मादेव धातुद्वयादन्यतरस्य "दु"-इत्येतदभिधानं भवति । द्रुपदे इत्येतदपेक्ष्य “तस्मादेव द्रु"-इत्येतदुक्तम्, द्रुम इत्यर्थः। “नवे नवजाते”। “अर्भके अवृद्धे” अल्पके इत्यर्थः । "ते" कन्यके एवम्प्रकारेषु “तदधिष्ठानेषु" तेषु पादुकाख्येषु अधिष्ठानेषु अधिरूढ़े “शोभेते” यथा “एवं” “बभ्रू” बभूवर्णे अश्वे “यामेषु” आजिस्थानेषु यमनस्थानेषु वा बन्धनस्थानेषु मन्दुराख्येषु, वर्तमाने शोभेते। ते एवमेव “वभ्वोरश्वयोः संस्तवः ॥
- ४अ०२पा० ख०] * नैगम काण्डम् * "तुग्वनि (२०)” इति एतदनवगतम् । “तूर्णमेतदायन्ति” इति शब्दसमाधिः। “तीर्थम्” अभिधेयम् । “सुवास्त्वा अधि तुम्वनि” – इति निगमः (ऋ० सं० ६, १, ३५, ७)। अस्य ऋक्- पादस्य ऋक्छेषापेक्षो निर्णयः। सर्वस्या अपि च तस्या ऋचो यस्यामयं पादः, तस्या या आद्यान्या आधस्त्या ऋक्, तदपेक्षो निर्णया यतः, अतस्तस्या ऋचः आधस्त्यायाः सक्षिप्यार्थमाह भाष्यकार:,-'इदञ्च मेऽदादिदश्च मेऽदादित्य॒षः प्रसङ्ख्या- याह"-इति। इञ्च द्रव्यजातं, मम दत्तवानसौ राजेत्येवं, प्रसङ्ख्याय' परिसङ्ख्यानं कृत्वा, ऋषिराह उक्तवानित्यर्थः । कतमा पुनरसौ आधस्त्या ऋक्, यथायमर्थः सक्षिप्यते ? इति । उच्यते,–“अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् । मंहिष्ठो अर्यः सत्पतिः” (ऋ० सं० ६, १, ३५, ६)। सोभरेः काण्वस्येयमार्षम् , परा च, दानप्रशंसा। 'यः' 'अदात्' 'मे' मम, 'पौरुकुत्स्यः' बहुशत्रुकर्तितुः पुत्रः 'त्रसदस्यु' दस्युत्रासनः । किमदात् ? 'पञ्चाशतं वधूनाम्' पञ्चाशतं वोढव्यानां कन्यानाम्। 'मंहिष्ठः पूज्यतरः । 'अयंः' ईश्वरः । 'सत्पतिः' च सतां पाल- यिता च। एवंलक्षणः पौरुकुत्स्यः सदस्युः मम दत्तवान् पञ्चाशतं वधूनाम्। आह किमेतदेवादात् ? नेति। उच्यते,- इदञ्च यदुक्तम् उत्तरञ्च यद् वक्ष्यते। कतरा पुनरसावुत्तरा ऋक् ? इति । उच्यते,-"उ त में प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि । तिसृणां सप्ततीनां श्यावः भुवद् वसुर्दि- यानां पतिः-(ऋ० सं०६, १, ३५, ७)। अप्येतत्, यदुक्तम्, ? प्रणेता ३८६ * निरुक्तम् * [पूर्वषट्कम् अपि च यदेतत् वक्ष्यमाणमिति 'उत'-शब्द एवमुभयं सम्भाव- यति। 'में मम 'प्रयियोः' (प्रगम्यते येन, तत् प्रयियुः, धनम- श्वादि, तस्य प्रयियोः) धनस्य, बह्नदात् । ताभिः कन्याभिः सह 'वयियोः' (ऊयत इति वयियुः वस्त्रादि, तस्य ) च बह्वदात् । "तिसृणां सप्ततीनां' गवाम् । 'श्यावः' श्यामवर्णः कृषः, श्याम- वर्णानां प्रणेता' प्रकर्षण नेता अग्रतोगामी। 'भुवद्वसुः' भाव- यिता वसूनाम्। 'प्रशस्तः' पूजितलक्षणः। 'दियानां दानार्हा- णाम् , देया याः तासां पतिः। ताश्च गा एतत्सङ्ख्यायुक्ताः, एतद्गुणयुक्ताश्च महमदात् । क्व पुनरसावदात् ? 'सुवास्त्वा' सुष्ठ निवासाया नद्याः 'अधि तुग्वनि' तीर्थेऽधि, एतत् अदात मह्यम् । “सुवास्तुः नदी” “तुग्वं तीर्थं भवति” “तूर्ण” हि “एतत् अवगाहनार्थम् “आयन्ति” । अत्र दानसम्बन्धात् सुवास्तुशब्दो नद्यभिधाने, प्रसिद्ध हि नद्यां दानम्, नदीसम्ब- न्धाञ्च तुग्वशब्दोऽपि तीर्थाभिधायक इत्युपपत्तिः। निगमार्थ- प्रकाशनायैवं सूक्तगतोऽपि अन्वीक्षितव्य एवार्थ इत्येतत् प्रदर्शित- माचार्येण ॥ "नंसन्ते (२२)”-इति। एतदनवगतम् । "नमन्ते" इत्यवगमः। “कुविनंसन्ते”-इति निगमः, “ता आ रुद्रस्य मीव्व्हुषो विवासे कुविन्नसन्ते मुरुतः पुनर्नः। यत् सस्वती जिहीलिरे यदाविरव तदेनं ईमहे तुराणाम्” ॥ इति (ऋ० सं० ५, ४, २८, ५)। वसिष्ठस्येयमार्षम् । 'तान्' अहं 'मीव्व्हुषः' मरुतः वर्षस्य सेक्तृन् धनवतः, बलवतः वा 'आविधासे' आभि- ama . ४१०२पा० ख०] नैगमं काण्डम् * ३८७ मुख्येन स्थित्वा परिचरामि । किंलक्षणान् पुनः मरुतः आवि- वासे? 'रुद्रस्य' इन्द्रस्य स्वभूतान, आप्तान् चा। अथवा 'मीव्व्हुषः' इति रुद्रविषयं षष्ट येकवचनान्तं स्यात् मीत्वहुषो रुद्रस्य स्वभूतानिति। कस्मात् पुनस्तानहं परिचरामि ? यस्मात् ते मरुतः 'कुवित्' बहु 'नसन्ते' 'नमन्ते' 'पुनः' वर्षायु प. कारेण अस्मान् प्रति नमन्ते, प्रीभवन्ति। किञ्च, 'यत्सखर्ता यच्छरीरगतम् “एनः' जिहीलिरें लजयन्ति, यच्च 'आविः' प्रकाशम् , तदेवम्प्रकारमुभयलक्षणमपि। एनोऽस्मान् "जिही- लिरे' लजयन्ति। तदेषां मरुतां 'तुराणां' त्वरमाणानां प्रसादेन उभयलक्षणमपि 'अवयजेमहि' निर्णदेमहि,--इत्येतत् 'ईमहें' 'यावामहे' अनेन परिचारैण आराध्यैतान् मरुत इति। "नसत इत्येतदुपरिष्टात्” , द्वादशाध्याये “व्याख्यास्यामः”– अभि प्रवन्त समनेव योषाः” (ऋ० सं०३, ८, ११, ३)-इति व्या- ख्याने, “नसतिराप्नोतिकर्मा वा नमतिकर्मा वा"--इति ॥ “आहनसः (२३)”–इति । एतदनवगतम्। “आहनन- वन्तः"---इत्यवगमः। “ये ते मदा आहनसः”-इति निगमः, 'परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् । ये ते ०-० मघम् ॥” इति (ऋ० सं०७, २, ३३, ५)। पाच- मानी सौमी। कवेर्भार्गवस्येयमार्षम्। जगती। हे भगवन् ! 'सोम!' 'परिप्रधन्व' परिप्रक्षर, एतस्मात् दशापवित्रात् । 'खस्तये' स्वस्त्ययनाय अस्माकम् । 'नृभिः' एतैः ऋत्विग्भिः, 'पुनानः' पूयमानः। किञ्च, 'अभिवासय' अभिप्रच्छादय, - " * निरुक्तम् * [पूर्वषट्कम् अभिभावय। 'आशिरम्' तृतीयसवने। किञ्च, 'ये ते मदा आहनसः' ये ते मदाः तव आहननवन्तः, “वञ्चनवन्तः” सम्मो- हयितार:, "विहायसः' महान्तः, तैः 'इन्द्र' 'चोदय' प्रेरय, 'दातवे' “दानाय" 'मघ' धनम्। यथास्माकं तैर्मदैरनभिहतचेताः सन् दद्यात् मधं धनमित्यर्थः ॥ ७ (१५) ॥ उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत- प्रियाणि । अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरे- युपोणाम् ॥ उपादर्शि शुन्ध्युवः शुन्युरादित्यो भवति शोध- नात्तस्यैव वक्षो भासाध्यूढ इदमपीतरद्वक्ष एतस्मादेवाध्यद काये शकुनिरपि शुन्ध्युरुच्यते शोधनादेवोदकचरो भव- त्यापोऽपि शुन्ध्युव उच्यन्ते शोधनादेव नोधा ऋषिर्भवति नवनं दधाति स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपा- ण्याविष्कुरुतेऽअसदमान्नं भवत्यममादिनीति वाबसानिनीति वा। ससतो बोधयन्ती शश्वत्तमागात् पुनरे युषीणाम् । ( स्वपतो बोधयन्ती) शाश्वतिकतमागात् पुनरे युषीणाम् । ते वाशीमन्त इष्मिणः। ईपणिन इति वैपणिन इति वार्षणिन इति वा वाशीति वाङ्नाम वाश्यत इति सत्याः । शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
, ४०२पा० ८ख. ॐ नैगम काण्डम् * अभिवहनस्तुतिमभिषवणप्रवादां स्तुति मन्यन्त ऐन्द्री त्वेव शस्यते परितक्म्येत्युपरिष्टाद् व्याख्यास्यामः ॥८(१६)॥ इति चतुर्थाध्यायस्य द्वितीयः पादः ॥ ४,२॥ “अनसत् (२४)” इति । एतदनवगतम्। “अझसादिनीति वा अन्नसानिनीति वा” शब्दसमाधी। “उपो अदर्शि-इति निगमः (ऋ० सं० २, १,१, ४)। कक्षीवत आर्षम् । औषसी। त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते, 'उपो अदर्शि' उपश्लिष्टा दृश्यत इयमुषाः। कस्य ? 'शुन्ध्युवः' शोधयितुरादित्यस्य, आदित्यो हि यदप्यशुचिर्भवति, तदपि रश्मिभिः स्पृष्ट्वा शुची- करोति। “सूर्यः पवित्रमुच्यते” इति वक्ष्यति। तमांसि वा शोधयतीति शुन्ध्युः, तस्य शुन्ध्युवः। कथं पुनरुपश्लिष्टा दृश्यते ? 'वक्षो न' वक्ष इव, यथा तस्य स्वभासः स्वम्प्रकाशजालं वक्षोभूतमेतस्मिन् मण्डलेऽध्यूढ़म् , एवमियमुषा एतस्मिन् मण्डले उपश्लिष्टा दृश्यते, सन्निकर्षात् । प्रासङ्गिकमुच्यते शब्दसामा- न्यात्,-"इदमपीतरत्” “वक्षः” पुरुषवक्षः, पशुवक्षो वा अङ्गम् “एतस्मादेव” वहेर्धातोः (भू० ५०), इदम् “अध्यूढम्" अधिप्रवे- शितमेव “काये” शरीरे भवति। “शकुनिरपि” य एष मद्गुर्नाम, अयमपि “शुन्ध्युरुच्यते” “शोधनादेव” यो हि “उदकचरो भवति" नित्यशुद्ध एवेति शुन्ध्युः । “आपोऽपि शुन्ध्युव उच्यन्ते" ता अपि हि शोधयन्ति। “एवं” तावदियम् "उषाः” आदित्य- स्यवक्ष इवोपश्लिष्टा दृश्यते। किञ्च इयमेवोषा नोधाः इवाविष्क- २-४ ३६० * निरुक्तम् * [पूर्वषट्कम् तप्रियाणि "नोधा ऋषिर्भवति" स हि “नवन” स्तोत्रं देवताः प्रति “दधाति” । “स यथा" स्वमुखोद्गीर्णया "स्तुत्या प्रिया ण्यात्मनः “कामान्” स्वानि कामाख्यानि “आविष्कुरुते" आविष्कृणोति, प्रकाशति देवताः प्रति। “एवम्” इयम् “उषाः" स्वात्मनः एवोद्गीणन प्रकाशेन "रूपाणि” जनानाम् “आवि- कुरुते" प्रकाशीकुरुते। किञ्च, इयमेवोषाः 'अझसन्न ससतो बोधयन्ती' “अद्म अन्नम्” तत् प्रतिकर्त्तव्यतया सीदति, तद्वा सनोति, सम्भजत इति “अझसत्” गृहाधिकारी नियुक्ता अन्नसा- धिका स्त्री। सा यथा प्रातरेव क्षीराद्युपादानार्थं 'ससतः' "स्वपतः” जनान् , दोहकादीन् “बोधयन्ती” अन्नं साधयिष्यन्ती, एवमुषा अपि जनान् बोधयन्ती, तत्काल हि ते इतिकर्तव्यतार्थ जनाः प्रतिवुध्यन्ते, तेनैतयैव बोधिता भवन्ति। आह,-कदा पुनरेतद्भवति ? इति । उच्यते,—यदा 'शश्वत्तमागात्' "शाश्वति- कतमा” नित्यतमा “आगात्” आगच्छति, तदैव जनान् बोध- यति, एवमुषा रूपाण्याविष्कुरुते। एवञ्च वक्ष इवोषा आदि- त्यस्य दृश्यते। आह,-का वा सा शश्वत्तमा इयमुषाः ? उच्यते,–'पुनरेयुषीणाम्' “पुनरागामिनीनाम्"- इत्यर्थः। या एताः काश्चिद्गत्वा पुनरागच्छन्ति, ताः पुनरेयुष्यो गावः, अन्या वा, तासां पुनरेयुषीणामिति निर्धारयति। एषैव 'शश्वत्तमा' शाश्वतिकतमा। एवमेतस्मिन् मन्त्रे, सा यथा अझसदित्यन्नसाधिका स्त्री उच्यते, सा हि तत्काले जनान् दोहकादीन् बोधयति, उषा अपि च तत्काल एपागच्छतीति, a इति।
* नैगम काण्डम् * -- ४४०२पा० ८ख.] एवमुपमानमुपपद्यत इत्युपपत्तिः। अन्ये तु मक्षिकामासदं मन्यन्ते, सापि ह्यन्ने सीदति, सनोति वानं तत्काले च प्रति- बुध्यमाना अन्यान् बोधयतीति॥ “इष्मिणः (२५)”-इति । एतदनवगतम्। ईषणिन इति वा, एषणिन इति वा, आर्षणिन इति वा” शब्दसमाधयः । “श्रियसे के भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः। ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धास्नः” ॥ इति निगमः (ऋ० सं० १, ६, १३, ६)। राहुगणस्य गोतमस्येयमार्षम्। जगती। मारुतस्य प्रेयङ्गवस्य चरोरियं याज्या, तत्र ह्युक्तम् “प्रियवती याज्यानुवाक्ये भवतः” -इति। "श्रियसे कम्' श्रियोऽर्थाय यजमानाय आत्मने वा, कमित्यनर्थकमेव, कामये इति वा अस्यार्थः । 'भानुभिः' दीप्तिभिः सूर्य्यरश्मिभिः, येऽन्तरिक्षे मरुतः 'सम्मिमिक्षिरे' सङ्गच्छन्ते, 'ते' एव 'रश्मिभिः' सर्वलोकनियन्तृभिः 'सम्मिमिक्षिरे'-इत्येतदेवा- नुवर्तते । 'ते' एव 'ऋक्वभिः' रसहर्तृभिः सम्मिमिक्षिरे । 'सुखादयः' सुखदातारः जनानाम् । शोभनानां वा हविषां खादितारः, अत्तारः, 'सुखादयः'। 'ते' एच 'वाशीमन्तः' वाग्मिनः ? 'इष्मिणः' “ईषणिनः” उपगमनवन्तः, "एषणिनो वा” इच्छावन्तः, “आर्षणिनो वा” आभिमुख्येन सर्वार्थानां रः, 'अभीरवो विद्रे' विदारयितव्ये शत्रौ प्राप्ते विगतभयः, अथवा 'विद्रे' वेदमि, जाने। य एवंलक्षणा मरुतः, तेषां मरुतां यत् स्थानम् अन्तरिक्षलोकः, तस्य 'प्रियस्य' इष्टस्य 'मारुतस्य' હર * निरुक्तम् * [पूर्वषट्कम मरुतां स्वभूतस्य 'धाम्नः स्थानस्य प्राप्तये, तानेव मरुतः स्तोमी. त्यध्याहारः। एवमेतस्मिन् मन्त्रे 'वाशीमन्त इष्मिणः' इत्ये- तस्मादेकवाक्यसम्बद्धात् 'इष्मिणः' इत्येतन्मरुद्विशेषणम् । 'वाशीति वाङ्नाम”। “वाशी (११), वाणी (१२)”--इतिः पठितं वाङ्नामसु । वास्यत इति कारकावधारणम् ॥ “वाहः (२६)-इति । एतदनवगतम् । पक्षेण चानेका- र्थम् । “शंसावाध्वयों प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम्। एदं बहिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥” इति निगमः .(ऋ० सं० ३, ३, १६, ३)। विश्वा- मित्रस्येयमार्षम्। त्रिष्टुप् । होता ब्रवीति, हे 'अध्वयों।'' एहि 'प्रति गृणीहि' 'शंसाव' आवामुभावपि, न ह्यप्रतिगीर्यमाणं शस्यते, नाप्यशस्यमानं प्रतिगीर्यते, एवामितरेतरोपकारकत्वमभि- प्रेत्योक्तं द्ववचनम्,-'शंसाव' इति । एवमितरेतरगुणसम्पन्नमेतत् 'वाहः' स्तोत्रं 'कृणवाव' आवाम् । स्तोम एव हि देवानां वोढा भवति। “वाहिष्ठो वां हवानां स्तोमः। (ऋ० सं० ६, २, २६, १)"-इति, “वोढतमो “वोढतमो हानानां स्तोमः” इति हि वक्ष्यति। एवमियमभिवहनस्तुतिः। एवमेतच्छस्त्रमाभिमुख्य- गामि “इदम्” 'इन्द्राय' इन्द्रार्थम् , 'जुष्टम्' प्रियम् , तस्य यथा स्यात् तथा कुर्वः। अन्ये त्वेनाम् “अधिषवणप्रवादा” सोमा- भिषणप्रवादिनी स्तुति मन्यन्ते, वाहःशब्दो हि उदकवाहाभिधा- नसारूप्यात् तत्र युक्तरूपतर इति कृत्वा यदा पुनरेवं, तदैवमर्थों योज्यः,–'इन्द्राय' 'इदं' 'वाह' सोमोदकपूर्णमधिषवणफलका- " , '४अ० २पा० ८ख०] * नैगम काण्डम् * ख्यं वाहः 'जुष्ट' प्रियं यथा स्यात् तथा कुर्वः। तद्धि 'सुशस्तं सुप्रतिगीर्णञ्च इन्द्रस्य प्रीतिजनकं भवति। एतदेव कर्त्तव्यमा- वाभ्यां यतः, अतो ब्रवीमि,–'एदं बर्हिः यजमानस्य सीद' एतद् बहिः, यदेतद्नतःस्तीर्णमग्रोण होतारं बहिः। 'सीद' “स प्रतिग- रायोपविशति”-इति ा क्तम् , 'यजमानस्य' अभिप्रेतकामावाप्तये आसीद। मा अवमंस्थाश्चिरेणैतच्छस्यत इति, उपविष्टश्चेत् त्वं ममाग्रतः । 'अथ' अनन्तरमेव भूत्' भवति । 'उकथं शस्त्रमेतत्, इन्द्रार्थं शस्तम् , नात्र मम वाङ्मृषेत्यभिप्रायः। एवमियमभि- पहनस्तुतिः, अथवा अधिषवणप्रवादा स्तुतिः, उभयथापि तु इयम् “ऐन्द्री त्वेव शस्यते” इदमेवैकमभिधानमत्र व्युत्पाद्यत इत्यभिप्रायः॥ “परितक्म्या (२७)”—“इति”। “एतदुपरिष्टाद् व्याख्या- स्यामः” षोड़शाध्याये, तत्र हि एतत् “किमिच्छन्ती सरमा प्रेद मानट् (ऋ० सं० ८, ६, ५, १)"-इत्येतस्मिन् मन्त्रे प्रसक्तमा- यास्यतीति लाघवार्थमुत्कृष्टमिति ॥ ८ (१६)। इति निरुक्तवृत्तौ नवमाध्यायस्य (चतुर्थाध्यायस्य) द्वितीयः पादः ॥ ४,२॥ , 1 तृतीयः पादः। सुविते सुइते सूते सुगते प्रजायामिति वा। सुविते मा धा इत्यपि निगमो भवति । दयतिरनेककर्मा । नवेन पूर्व दयमानाः स्यामेत्युपदयाकर्मा । य एक इद्विदयते वस्थिति दानकर्मा वा विभागकर्मा वा । दुव भीमो दयते वनानीति दहतिकर्मा । दुर्वतुर्दुर्वारः विदद्वसुदयमानो वि शत्रूनिति हिंसाकर्मा । इमे सुता इन्दवः प्रातरित्वना सजोषसा पिब- तमश्विना तान् । अयं हि वा मूतये वन्दनाय मां वायसो दोषा दयमानो अबुबुधत् । दयमान इति । नू चिदिति निपातः पुराणनवयोन चेति च । अद्या चिन्न चित्तदपो नदीनाम् । अद्य च पुरा च तदेव कर्म नदीनाम् । नू च पुरा च सदनं रयीणाम् । अद्य च पुरा च सदन रयीणां रयिरिति धननाम रातेर्दानकर्मणः ॥ १ (१७)॥ “सुविते (२८)"-इति । एतदनवगतम् । अनेकार्थञ्च । 'सु, इते'-इति, “सूते-इति शब्दसमाधी। अत्र यदा “सु इते" इति विपरिणामः, तदा "सुगते” इत्यर्थः । यदा “सूते” इति, तदा "प्रजायाम्” सूते देवदत्ता पुत्रमिति प्रजायत इत्यर्थः । एवं 'सुविते' ४०३पा० ९ख०] ॐ नैगर्म काण्डम् । -इत्यस्य “सु इते, सूते” शब्दसमाधी। तयोरेतद् यथासङ्ख्ये. नार्थवचनम्, “सुगते, प्रजायामिति” । “सुविते मा धाः” इत्यपि निगमः। 'अनाधृष्टमस्य नादृष्यं देवानामोजो अभि शस्तिपाः। अनभिशस्त्यञ्जसा सत्यमुपगेषां सुविते मा धाः" ---- इति । अनेन तानूनप्नं संस्पृश्यते। हे तानूनपत्र ! 'अनाधृष्टमसि' अनाधर्षितमसि, त्वयि स्पृष्टे समयोपयन्त्रिता ह्येते नान्योऽन्य- स्मिन् द्रोहमुपयास्यन्त्य॒त्विजः। कुतः पुनरेतत् सामर्थ्यं तव? इति। इतः, यस्मात् 'अनावृष्यं देवानामोजः' अनाधर्षणीयं त्वम् । ओजो बलमित्यर्थः। किञ्च, 'अभिशस्तिपाः' अभिशंस- नान् पासि त्वम् । 'अनभिशस्ति' नाभिशंसनीयं केनचित्, अनवद्यमित्यर्थः। 'अनु में' 'इदं व्रतं व्रतपतिः' 'मन्यताम्' अनु- मन्यताम् इदं व्रत' कर्म, 'व्रतपतिः' अग्निः । 'मैं' मयोपेयमानाम् एनां 'दीक्षाम्' 'अनुमन्यताम्' 'दीक्षापतिः' सोमः। किञ्च, 'अञ्जसा' अनन्तहितम् , अहम् 'सत्यम्' उपगेषम्' उपगतवान् । योऽहमेतदस्पृशम्, स त्वं हे तानूनपत्र! एवमुपगतवन्तं मा 'सुविते' सुगते स्थाने, यत्र गतानां शोभनं गतं भवति, तत्र धेहि, अथवा प्रजायां जनयितव्यायां धेहि, यथा बह्वपत्या स्याम तथा कुर्वित्यर्थः । “दयति (२६)”-इति । एष शब्दः “अनेककर्मा” अनेकार्थः, नत्वनेकविकल्पप्रकृतिः,-यथा सुवितेशब्दस्य अन्येनान्येन धातुना विगृह्यानेकार्थत्वमुक्तम्,-इणा विगृह्य “सु इते”-इति गत्य- र्थत्वम्।। सूतिना विगृह्य “सूते"--इति च प्रजार्थत्वम् , नैवमिह । । - MA । निरुक्तम् ७ [पूर्वषटकम् किन्तर्हि ? एकप्रकृतेरेवायं शब्दोऽनेकार्थों भवतीत्यस्य विशेष- स्योपद्योतनार्थमुदाहरति। एवमुच्यमानेऽप्यनेकार्थत्वे दयतिर- नेककमैवेत्येवमुक्तम्। अन्ये तु ब्रुवते, यथा “सुविते"शब्दोऽ- नेकार्थोऽनवगतसंस्कारश्च, नैवमयम्। किन्तर्हि ? अनेकार्थ एवायमिति॥ एवमनेकार्थत्वं प्रतिज्ञाय उदाहरणेनैवोपपादयति,-"नवेन पूर्व दयमानाः स्याम"-"इति” एतस्मिन् मन्त्रे दयतीत्येष शब्दः “उपदयाकर्मा"। उपदयेति रक्षणमुच्यते । 'नवेन' धान्येन 'पूर्व' पुराणं 'दयमानाः' रक्षन्तः 'स्याम' पुराणेन च नवम् , इष्टं हि नवेन पुराणस्य व रक्षणं, पुराणेन व नवस्य, प्रसिद्धं च लोके। तस्मादिहायमुपपद्यते उपदयाकर्मा। चतुर्दशेऽध्याये इत्यस्य शेषः॥ “य एक इद् विदयते वसु”—“इति” एतस्मिन् मन्त्रे “दान- कर्मा वा, विभागकर्मा वा”। “य एक इद् विदयते वसु माय दाशुषे। ईशानो अप्रतिष्कुत इन्द्रो अङ्ग॥” इति (ऋ० सं० १, ६, ६, २)। राहुगणस्य गोतमस्यार्षम्। ऐन्द्री। उष्णिक् । 'यः' इन्द्रः 'एकः इद्' एक एव स्वतन्त्रः 'वि' विविधं 'वसु' धनं 'दयते' ददाति। कस्मै ? 'म य' मनुष्याय । किंलक्षणाय ? 'दाशुषे दत्तवते हवींषि। अथवा विभागकर्मा । 'दाशुषे 'वसु' 'विदयते' विभजते इत्यर्थः। किंलक्षणः पुनरिन्द्रो ददाति, विभजते वा? इति। उच्यते,-ईशानः' ईश्वरः, 'अप्रतिष्कुतः' अप्रतिस्खलितः संग्रामेषु। 'इन्द्रः'. 'अङ्ग' क्षिप्रं धनं ददाति, ७ 1 ४० पा रख०] 2 नैगम काण्डम् ३१७ विभजते वा, 'दाशुषे' यजमानाय, तमहं स्तौमि, सोऽस्माकमेतत् करोत्वित्यभिप्रायः। ईशानः, इन्द्रः, अन्यत्र दानविभागाभ्यां दाशुषे यजमानाय वस्वेकवाक्ये श्रूयमाणं किमन्यत् कुर्यात् ? तस्माद् वाक्यसामर्थ्यात्र “दानकर्मा वा विभागकर्मा वा"- इत्युपपद्यते ॥ “दुर्वर्तुर्भीमो दयते वनानि".-"इति” एतस्मिन् मन्त्रे “दहतिकर्मा”। निगमप्रसक्तं निब्रवीति,-“दुर्वर्तुः दुर्वारः” दुर्वारगीय इत्यर्थः। "अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना। शूरस्येच प्रसितिः शातिरग्नेदुर्वर्तु भीमो दयते वनानि ॥” इति (ऋ० सं० ४, ६, ८, ५)। आग्नेयी। भरद्वाजस्यार्षम्। त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते। उपज्वलितस्याग्नेः 'अध' अथ, अनन्तरमेव तस्य 'जिह्वा' ज्वाला दारुषु 'पापतीति' पुनः पुनः पतति, 'प्रवृष्णः' प्रवर्षितुः इन्द्रस्य 'गोषुयुधः' गवार्थं वादे पणिभिः सह असूरैर्युध्यते, अथवा 'गोषु' अप्सु, मेघेन सह युध्यत इत्यर्थः । सह युध्यत इत्यर्थः । 'न'-इत्युपमा, इन्द्रस्य गोषु युध्यत इव । 'अशनिः' 'सृजाना' तेनैव सृज्यमानो यथा पतति अशनिर्वत्रः, तथा अग्नेर्चाला दारुषु पापतीति । किञ्च, "शूरस्येव प्रसितिः क्षातिरग्नेः' । यथा कस्यचित् 'शूरस्य' विक्रान्तस्य वा अप्रतिहतगतेः 'प्रसितिः' प्रसहनं संग्रामानुप्रवेश- मार्गः छिन्नभिन्नरुग्णैः शत्रुभिः प्रकीर्णः स्यात्, एवमस्य 'अग्नेः' 'क्षातिः' दहनमार्गः, ईषत्प्लुष्टार्द्धदग्धभस्मीभूतैर्वृक्षैर्गुल्मादिभि- राकीर्यते। कदा पुनरैतद् भवति ? 'दुर्वर्तु: दुर्वारः, दावा- , । निरुक्तम् [पूर्वषट्कम् ग्नीभूतः, भीमः सर्वप्राणिभयङ्करो यदायमग्निः 'दयते' दहति । किम् ? 'वनानि । एवमयमाग्नेये मन्त्रे वनशब्दसन्निकर्षे श्रूयमाणे दयतिशब्दो दहनादन्यत् किमभिदध्यात्? तस्मात् सामर्थ्यादिहायं “दहनकर्मा"-इत्युपपत्तिः ।। "विसुर्दयमानो, विशत्रून्”–“इति” एतस्मिन् मन्त्रे "हिंसाकर्मा। पूभिदातिहासमविदद्वसुर्दयमानो विशत्रून् । ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपणद्रोदसी उभे ॥” इति (ऋ० सं० ३, २, १५, १)। विश्वामित्रस्येय- मार्षम् । त्रिष्टुप्। उद्भिवलभिदोनिष्केवल्ये निविद्धानीयस्य सूक्तस्य प्रथमैवेयम् । 'इन्द्रः' 'पूभित्' असुरपुरां मेघानां वा भेत्ता, अद्भिः पूर्णा अपो वा पालयन्तीति मेघाः, पुरः, “पृ पालन- पूरणयोः ( क्रया प०)"-इत्येतस्य । 'आतिरत्' आभिनत् । 'दासं' दासयितव्यं मेघम्। कैः सहायैः सह ? 'अ' वृक्षः, देवैर्माध्यमिकैर्वा । किंलक्षणः पुनरसाविन्द्रः, य आतिरत् ? 'विवसुः' प्राप्तधनः। किं कुर्वन् आतिरत् दासम् ? 'विदय- मानः' विविधं हिंसन् 'शत्रून्' ये मेघवधप्रतिबन्धिनः। आह,- कि विदवसुत्वेनैवैकेन गुणेन युक्तो य इन्द्रः, स एतदकरोत् ? नेत्युच्यते, 'ब्रह्मजूतः' व ब्रह्मणा स्तुतिलक्षणेन 'जूतः' प्राप्तः, प्रीतो वा, ब्राह्मणतन्वा शरीरेण 'वावृधानः' वर्द्धमानः 'आपृणत् आपूरयति। 'रोदसी' द्यावापृथिव्यौ उभे अपि भूरिदात्रः बहुदानश्च इन्द्रो दासमातिरत्। एवमत्र “विदद्वसुर्दयमानो विशत्रून्” इति शत्रुसन्निधौ दयतेः किमन्यत् सामर्थ्यमुपपद्येतान्यत्र वधात् ?
- इति। समानातः। ४१०३पा० ९ख०] ॐ नैगम काण्डम् ॐ "इमे सुता इन्दवः प्रातरित्वना सजोषसा पिबतमश्विना तान् । अहं हि वा मूतये वन्दनाय मां वायसो दोषा दयमानो अबूबुधत्" "दयमान इति"। अत्र दयतिर्गत्यर्थः। दयमान उड्डीयमानः काकोऽन्तरिक्षेणाधस्तात् मां सुप्त दोषायाम- बोधयत्। मृग्योऽत्र शेषः॥ "नू चित् (३०)" इति। एषः “निपातः” अनेकार्थत्वेनेह न हि निपातानां प्रकृतिप्रत्ययादिसंस्कारोऽस्ति, यस्यानवगतं स्यात् । स च पुनरयं “पुराणनवयोः” अर्थयोर्व- र्तते। प्रकरणोपपदवशात् पुराणतां कस्यचिदर्थस्यावद्योतयति, नवतां च कस्यचित्॥ "नू च (३१)”– “इति च”। अयमपि पुराणनवयोरर्थयो- वर्त्तते। अयन्तु नू चिदित्येतस्यैवार्थसामान्यप्रसङ्गादसमानात एवोदाहृतः॥ नू चिदित्यस्योदाहरणम्,-"अद्या चिन्नू वित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र। निपवता अझसदो न सेदुस्त्वया दृढानि सुक्रतो रजांसि ॥” इति (ऋ० सं० ४, ७, २, ३)। भरद्वाजस्येयमार्षम् । त्रिष्टुप् । उक्थपर्यायेष्वच्छावाकस्य शस्त्र माध्यन्दिने सवने विनियुक्ता। 'अद्य च पुरा च, तदेव कर्म 'नदीनां' वर्तते। कतमत् ? 'तत्' उद्दिश्य वहनं कर्म । कथं नाम ! अस्य लोकस्योपकारायाजसमेता वहेयुरिति । गातु' गमनमार्गम् 'आभ्यः' नदीभ्योऽर्थाय त्वम् 'अरदः' अखन- स्त्वम्। किं गमनम् ? गच्छन्त्यनेनेति गमनम्। हे 'इन्द्र !'
४०० * निरुक्तम् * [पूर्वषट्कम् तदेव कर्माद्यापि वर्त्तते, तासां नदीनाम्, यथा व्यादिष्टमेव 'त्वया' । ताभिरद्यापि तदनुष्ठीयत इत्यभिप्रायः । यदुक्तं पुरस्तादपि, “इन्द्रो अस्माँ अरदत्”–इत्यत्र। एवं तावदयं त्वयौव नद्यधीनेनोपकारेणानुगृह्यते लोकः। किञ्च, 'निपर्वता अझसदो न सेदुः'। यः एते 'पर्वताः' पर्ववन्तो मेघाः, 'अझसदः' निष्पादयितव्यमन्नमस्माभिरित्येतदर्थमुद्दिश्यान्तरिक्षे लोके सी- दन्ति, अवतिष्ठन्ते, गच्छन्ति वा, तेऽपि युष्मद्वीर्योपमृदिता एवोदकभूताः, नीचर्भूम्यामत्र, निष्पत्त्यर्थ 'सेदुः सीदन्तीत्यर्थः । तदेवं कृत्वा ( किं बहुना) सर्वथाप्युदकप्रदानद्वारेण त्वयैवैतानि, हे 'सुकर्मन् ! 'दृढानि' दृढ़ीकृतानि 'रजांसि' लोका इत्यर्थः । त्वञ्चदेषामेवमन्नमुदकञ्च न व्यधास्यः, सर्व एवैते लोका नाभ- विष्यन्नित्यभिप्रायः। इहाद्य तस्य सन्निधौ वर्तमानो नूचिदित्येष पुराणाभिधायीत्युपपद्यते । इह पुराणनवयोरित्युक्तम् , तत्र पुराणाभिधायित्वस्टौतदुदाहरणम् , नवाभिधायिनः “नू चिन्नु वायोरमृतं विदस्येत्” अत्र हि वक्ष्यति,-"नवञ्च पुराणञ्चेति” ॥ नू चेत्यस्योदाहरणम्, “नू व पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । सतश्च गोपां भवतश्च भूरे- दवा अग्निं धारयन् द्रविणोदाम्।” इति (ऋ० सं० १, ७, ४, २)। कुत्सस्येयमार्षम्। पृष्ठ यस्य षष्ठऽहनि अग्निमारुते शस्त्रे जातवेदस्ये सूक्ते शस्यते। 'नू च पुरा च सदनम्' अद्य च पुरा व सदनम्। 'रयीणां' धनानाम् । किञ्च, "जातस्य' उत्पन्नस्य 'जायमानस्य' 'व' अभिनिष्पद्यमानस्य भूत- । कस्य?
४१०.३प्रा० २ख] * नैगम काण्डम् * जातस्य 'क्षाम्' निवासमित्यर्थः । 'तस्मात् सर्वानृतून पशवो. ऽग्निमभिसर्पन्तीति विज्ञायते"। “यत्र गां शयानां निर्जगाति. मृतामेतामद्विद्वान् मन्यतेऽन्वग्नौ ह्य वैते प्रविशन्तीति व विज्ञा- यते”। तस्मादुपपद्यते स्थानत्वं निवासत्वं चाग्नेः। 'सतश्च' निष्पन्नस्य भूतजातस्य 'गोपां' गोप्तारम् , 'भवतश्च' उत्पद्यमानस्य 'भूरेः' बहुनः, गीतारमित्यनुवर्तते । य एवंलक्षणोऽग्निस्त 'द्रविणोदां' धनस्य दातारम् , 'देवाः' 'धारयन्' धृतवन्त इत्यर्थः। क्व ? हविवहनकर्मणि ? “अथा देवा दधिरे हव्यवाहम्”- इति वक्ष्यति। एवमिह पुरा चेत्यस्य सन्निधौ नू चेत्येष शब्दो वर्तमानो नवाभिधायीत्युपपद्यते। पुराणाभिधायित्वे पर्योष्य- मस्योदाहरणम् ॥ १ (१७)॥ विद्याम तस्य ते वयमकूपारस्य दावने। विद्याम तस्य ते वयमकुपरणस्य दानस्यादित्योऽप्यकूपार उच्यतेऽ- कूपारो भवति दूरपारः समुद्रोऽप्यपार उच्यतेऽकूपारो भवति महापारः कच्छपोऽप्यकूपार उच्यतेऽकूपारो न कूप- मृच्छतीति कच्छपः कच्छ पाति कच्छेन पातीति वा कच्छेन पिबतीति वा कच्छः खन्छः खच्छदोऽयमपीतरो नदीकच्छ एतस्मादेव कमुदकं तेन छाद्यते। शिशीते शृङ्ग रक्षसे विनिक्ष। निश्यति शृङ्ग रक्षसो विनिक्षणाय ४०२ निरुक्तम् , [पूर्वषट्कम् रक्षो रक्षितव्यमस्माद्रहसि क्षणोतीति वा रात्रौ नक्षत इति वा। अग्निः सुतुकः सुतुकेभिरश्वैः। सुतुकनः सुतुकनैरिति वा सुप्रजाः सुप्रजोभिरिति वा । सुप्रायणा अस्मिन् यज्ञ विश्रयन्ताम् । सुप्रगमनाः॥ २ (१८)॥ " , "दावने (३२)"-इति। एतदनवगतम्। "दानस्य"- इत्यवगमः। “अकूपारस्य (३३)"-इति। एतदनवगतम्। अनेकार्थम् । “अकुपरणस्य”–इत्यवगमः। द्वयोरप्येतयोरेक एव निगमः, “यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर। विद्याम तस्ये ते वयमकूपारस्य दावने ॥ -इति (ऋ० सं०४, २, १०, २)। अत्रेभीमस्येयमार्षम्। अच्छावाकस्य तार्तीयसवनिके आवापे नियुक्ता, “यदिन्द्रचित्र”-इति, इयञ्च। हे 'इन्द्र !' 'यत्' 'मन्यसे जानीषे त्वं 'वरेण्यं' वरणीयम्, एतद्धनमिति, 'धु क्षं च, यत् ध तिनिवासभूतम् , द्युतिमदित्यर्थः। 'तत्' अस्मभ्यम् 'आहर'। कदाचित् त्वमाहृत्यापि न दयाः ? अतो ब्रूमः,- 'तस्य' त्वयाहृतस्य धनस्य विद्याम' लभेमहि 'ते' तव स्वभूतस्य। किलक्षणस्य ? 'अकूपारस्य' “अकूपरणस्य” अकुत्सितपूरणस्ये- त्यर्थः। येन लब्धेन सुपूर्णमात्मानं मन्यामहे पर्याप्तमैहिकाय च श्रेयसे आमुष्मिकाय चेत्यर्थः। 'दावने' “दानस्य” इत्यर्थः ॥ ईदृशस्य भावत्कस्य धनस्य वयमेव लब्धारः स्यामेत्यभिप्रायः । एचमिह यन्मन्यसे वरेण्यं, द्युक्षञ्च; तदाभरेति इन्द्र उच्यमानो यते। ४० ३पा० रखा * नैगम काण्डम् * ४०३ 'धनसन्निधानाद् दानादन्यत् किमुच्यते ? धनमेव हि प्रायेण मनुष्यैः प्रार्थ्यते, तस्मादत्राश्रूयमाणोऽपि धनशब्दोऽध्याहृतः । तच्च पुनः प्रार्थ्यमानं बहु प्रार्थ्यते। तस्मादकूपारस्येत्येष शब्दोऽ- तिपरोक्षवृत्तिः। "अकुपरणस्य"-इत्येवं परोक्षवृत्तित्वेनाव- स्थाप्य, ततः अकुत्सितपुरणस्य...इत्येवं प्रत्यक्षवृत्तित्वेन व्याख्या- अत्र कुरिति कुत्सार्थः, परणं पूरणमुच्यते, कुत्सितं परणं 'कुपरणम्' न कुत्सितं परणं 'अकुपरणम्' तस्य “अकुपरणस्य" प्रभूतस्येत्यर्थः ॥ दानसम्बधादेव “दावने"-इत्येष शब्दो दानार्थ इत्युपपत्तिः। एतस्मिन् मन्त्र “अकूपारस्य, दावने”-इत्यय- मनयोः पदयोरनुक्रमः, समानाये पुनः “दावने, अकूपारस्य"- इति मन्त्रपाठव्यतिक्रमेणानुक्रमः। तेन ज्ञायतेऽन्यैरेवायमृषिभिः समानायः समानातः, अन्य एव चायं भाष्यकार इति, एको हि समानानं भाष्यं च कुर्वन्, प्रयोजनस्याभावादेकमन्त्रगतयोः पाठानुक्रमं नाभक्ष्यत् । अविवक्षितार्थाश्चैते मन्त्रे निगमाः, तेषु सम्पत्त्या काकतालीयन्यायेन कस्मिंश्चिदेकस्मिन्नेव निगमे द्व पदे अगच्छतस्ते यथोपागते एव भाष्यकारो व्याचष्टे इत्यदोषः ॥ "आदित्योऽप्यकूपारः” इति “उच्यते"। किं कारणम् ? स हि अकुत्सितस्य महतोऽध्वनः पारयिता भवति, उदयादारभ्य यावदस्तमिति। “समुद्रोऽप्यकृपार उच्यते” असावपि ह्यकुत्सि- तपारः आत्मनैव भवति । "महापारः" इति पर्यायेणार्थ- वचनम् , विस्तीर्णपार इत्यर्थः । "कच्छपोऽप्यकूपार उच्यते" ।
walOARD .... निरुक्तम् [पूर्वषट्कन् स हि “न कूपमृच्छति” अल्पोदकत्वात् , किं तर्हि ? यत्र बहु- प्रकीर्णमुदकम्, तत् स्थानं गन्तुमिच्छति, समुद्रं नदी वा। आख्यानप्रसक्तमुच्यते,-कच्छपः” “कच्छम्” आत्मनो मुख- सम्पुटं “पाति” रक्षति, स हि किञ्चिद् दृष्ट वा स्वशरीरे एव मुखसम्पुटं प्रवेशयति, सम्पुटे हि कच्छशब्दः प्रसिद्धः, प्राणि वाच्यः कच्छपुट इति च । “कच्छेन” कटाहेन इतराण्यङ्गानिः पातीति वा, स हि किञ्चिद् दृष्ट वा सर्वाण्यङ्गानि कटाह एवानु. प्रवेश्य कूर्मत्वेनेवावतिष्ठते । अथ "वा" "कच्छेन" मुखसम्पुटेनः "पिबतीति” कच्छपः । विग्रहप्रसक्तः कच्छशब्दो निरुच्यते,- य एष कच्छो मुखसम्पुटः कटाहो वायं कच्छः, आह किमुक्तं भवति ? "खच्छः” इत्युच्यते, स हि “खच्छदः” खम् आकशं छादयति, स हि मध्ये सुस्थिरो भवति। “अयमपीतरो नदी- कच्छ एतस्मादेव” कसज्ञकेन उदकेन “छाद्यते” इति कच्छः ॥ आदित्योऽप्यकूपारः, समुद्रोऽप्यकूपारः, कच्छपोऽप्यकूपारः -इत्येतेषु निगमाः पर्येष्याः॥ "शिशीते (३४)-इति । एतदनवगतम् । “निश्यति”-इत्य- वगमः। “वि ज्योतिषा बृहता भात्यग्निराविविश्वानि कृणुते महित्वा। प्रादेवीर्मायाः संहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे॥” (ऋ० सं० ३, ८, १५, ३)।-इति निगमः । वृषो नाम जनपुत्रस्तस्येयमार्षम् , आत्रेयस्य वा कुमारस्य, उभयोर्वा । प्रातरनुवाकाश्विनयोः शस्यते। "वि भाति' 'अग्निः' नानाप्रकार भाति। केन ? 'बृहता ज्योतिषा' । स एवं विभासमानः , ।
४० ३पा० ख०] नैगमं काण्डम् * किं करोति ? 'आविविश्वानि कृणुते' 'आविष्करोति' प्रकाशी- करोति 'विश्वानि' सर्वाणि भूतानि । 'महित्वा' महत्त्वेनेत्यर्थः । किञ्च, “प्रादेवीर्मायाः सहते" 'प्रसहते' प्रकर्षणाभिभवति। किम् ? 'अदेवीर्मायाः' आसुरीरित्यर्थः । 'दूरेवा' दुरवाः, दुस्ता वा, न ह्यग्नेस्तृप्तिरस्ति । किञ्च, "शिशीते शृङ्गो' यथा हि वृषभ- स्तटानिधन शृङ्ग तीक्ष्णीकरोति, एवमग्निरपि दारूणि दहस्ती- क्ष्णीकरोति ज्वालाः। कमर्थं पुरस्कृत्य ? "रक्षसो विनिक्षणाय" विहिंसनायेत्यर्थः॥ अत्र शृङ्गशब्दसन्निधानात् “शिशीते”- इत्यस्य तीक्ष्णार्थत्वम्, तीक्ष्णीकृतैह्य चिभिर्विनिक्षणनमुपपद्यत इति ॥ निगमप्रसक्तमुच्यते,-रक्षः रक्षितव्यम्” हि शरीरमस्मा- द्भवति, रक्षो हि मानुषान् भक्षयति । “रहसि वा” 'विविक्ते प्रदेशे रक्षः "क्षणोति” हिनस्तीत्यर्थः। “रात्रौ नक्षते” गच्छति- 'इति वा रक्षः॥ “सुतुके (३५)” इति। एतदनवगतम्। पक्षेण वाने- कार्थम् । “सुतुकनः' इत्यवगमः, “सुतुकनैरिति वा” “स आ वक्षि महि न आ व सत्सि दिवस्पृथिव्योररतियुवत्योः। अग्निः सुतुकः सुतुकेभिरश्वैरभवदी रभवो एह गम्याः॥” इति निगमः (० सं०७, ५, ३१, ७)। त्रितस्येयमार्षम् आप्त्यस्य । प्रातरनु- वाकाश्विनयोः शस्यते यस्त्वं 'दिवस्पृथिव्योः' 'युवत्योः' सम्मि- श्रीभवन्त्योः यानि भूतानि अन्तरा वर्तन्ते,तेषां सर्वेषाम् 'अरतिः' त्वमेवालमतिः, पर्याप्तमतिरित्यर्थः । 'सः' एवंलक्षणस्त्वमस्माकम् 'आवक्षि' आह्वयसि देवान्, 'महि' महत इत्यर्थः। स एवम् २-५ ।
६ * निरुक्तम् * [पूर्वषट्कम 'आसत्सि च' आसीदसि च होतृत्वे । 'अग्निः' इत्येतत् पदं सम्बोधनत्वेन विपरिणम्यते, 'आ वक्षि'-'आ च सत्सि'-इति मध्यमपुरुषयोगान्मन्त्रस्य । हे अग्ने! यस्त्वमेवगुणयुक्तः 'सुतुकः' "सुतुकनः” सुगमन इत्यर्थः, अथवा “सुप्रजाः” । तुगित्यपत्य- नामसु पठितम् हिरण्यमपत्यमभिप्रेतमग्नः, “हिरण्यरेता अग्निः" -इति श्रूयते, “अग्नेरपत्यं प्रथम सुवर्णम्” इति च । 'सुतुकैरैव' सुगमनैरश्वैः, अथवा “सुप्रजोभिः" कुलजैरित्यर्थः। अथवा शोभना प्रजा येषां ते सुप्रजाः, शोभनानामेवाश्वानां शोभनाः प्रजा भवन्तीति प्रजाद्वारेण चाग्निः स्तूयते। अथवा स एवाग्निः 'सुतुकः' “सुप्रजाः" अपत्यश्चास्य सर्वाः प्रजाः, ताश्च प्रति कल्याण इति “सुप्रजाः” । 'रभस्वद्भिः' त्वरितैः 'रभस्वान्' स्वयं च त्वरितः 'एह गम्याः' आगच्छस्त्वंहि कर्मणि, नित्यं हवींषि वोढुम् , कर्मैव तवेदमित्यभिप्रायः । एवमेतदिह “सुतुकः” इत्यग्निविशेषणम्, सुतुकनैरश्वैरित्येतस्मात् तृतीयासम्बन्धादित्युपपत्तिः ॥ "सुप्रायणा:(३६)” इति । एतदनवगतम्। “सुप्रगमनाः” इति शब्दप्रतीतिः । यज्ञगृहद्वारोऽभिधेया यास्कमतेन, शाकपूणेस्तु अर्चिषः । “होता यक्षद्दुर ऋष्वा कवष्योऽकोषधावनीरुदाताभ- जिहतां वि पक्षोभिः श्रयन्तां सुप्रायणा अस्मिन् यज्ञे विश्रयन्ता- मृतावृधो व्यन्त्वाज्यस्य होतयंज ॥” इति निगमः (य० का० सं० वा० सं० २८, ५)। मैत्रावरुणो ब्रवीति,–'होता यक्षत्' होता यजतु । किम् ? एताः 'दुरः' यज्ञगृहद्वारः, अथवैता अग्न्य- चिषः। 'ऋष्याः' महत्यः, अथवा हिंसाः, द्वायंव हि यो निवा- ।
" ४०३पा० ३ख.] * नैगम काण्डम् * रणीयः, स हिंस्यते, अर्चिषान्तु हिंस्रत्वमुपपद्यत एघ । 'कवष्यः' विकर्तिताः, कुषिता इत्यर्थः, कपाटवत्यो वा यज्ञगृहद्वारः । 'अकोषधावनीः' अकोशधावनीः, तासु हि संवृतासु द्रव्यकोशाः सुरक्षा भवन्ति, अर्चिष्वपि हविः प्रक्षिप्तं नान्यतो धावति, किं सहि ? देवानेव प्राप्नोति, एतदकोषधावनीत्वमर्चिषाम् । एवंलक्षणा एता द्वारः, अर्चिषो वा 'उदाताभिर्जिहताम्' 'उज्जिहताम्' उत्ति- ठन्तु, 'आताभिः' दिग्भिः, 'विश्रयन्ताम्' च पक्षोभिः' वित्रियन्ते कवाटसंवरणैः द्वारः, अर्चिषस्तु हविषोऽनुप्रवेशार्थम् पक्षोभिः स्वैरेवावयवैर्विश्रयन्ताम् । विवृताश्च सत्यः 'सुप्रायणाः' “सुप्रग- भवन्तु ऋत्विजं प्रति द्वारः, अथ पुनरर्चिषस्ततो हविषः सुप्रगमनाः सन्तु। सामान्यमेवेदमाशास्तं यत् , पुनस्तस्मिन्नेव वर्तमाने कर्मण्याशास्ते,–'अस्मिन् यज्ञे, विश्रयन्तां' विवियन्ताम् "मृतावृधः' यज्ञवर्द्धयित्र्यः। या एता एवंलक्षणा द्वारः, अर्चिषो वा, ता अस्याः 'आज्यस्य व्यन्तु' य आसां स्वांशः, तं पिबन्तु । हे होतः !' त्वमपि मया प्रेषितः 'यज' एताः॥ एवमेषः 'सुप्रा- यणाः' इति दुरामर्चिषां वा सन्निधौ श्रूयमाणः सुप्रगमनाभि- धायीत्युपपद्यते ॥ २ (१८)। मनाः” देवा नो यथा सद मिद्धे अमन्नप्रायुवो रक्षितारो दिवेदिवे ॥ देवा नो यथा सदा वर्द्धनाय स्युरप्रायुवोऽप्र- माधन्तो रक्षितारश्चाहन्यहनि च्यवन ऋषिर्भवति च्याव- * निरुक्तम् * [पूर्वषट्कम् यिता स्तोमानां च्यवानमित्यप्यस्य निगमा भवन्ति । युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः। युवां च्यवनं सनयं पुराणं यथा रथं पुनयुवान चरणाय ततक्ष- थुर्यवा प्रयौति कर्माणि तक्षतिः करोतिकर्मा रजो रजते- ज्योती रज उच्यत उदकं रज उच्यते लोका रजांस्युच्य- न्तेऽसृगहनी रजसी उच्यते ( रजांसि चित्रा विचरन्ति तन्यव इत्यपि निगमो भवति ) हरो हरतेयॊतिहर उच्यते ( उदकं हर उच्यते ) लोका हरांस्युच्यन्ते । ( असृगहनी हरसो उच्यते । प्रत्यग्ने हरसा हरः शृणीही- त्यपि निगमो भवति ) जुहुरे विचितयन्तः। जुहिरे विचेतयमाना व्यन्त इत्येषोऽनेककर्मा । पदं देवस्य नमसा व्यन्त इति पश्यतिकर्मा । वीहि शूर पुरोडाश- मिति खादतिकर्मा। वीतं पातं पयस उस्रियायाः । अनीतं पिबतं पयस उस्त्रियाया उस्रियेति गोनामोत्स्रा- विणोऽस्या भोगाः ( उस्रोति च )। त्वामिन्द्र मतिभिः सुते सुनीथासो वस्यवः । गाभिः क्राणा अनूषत । गोभिः कुर्वाणा अस्तोषतः । आ तू षिश्च हरिमी द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः। आसिश्च हरि I - 1 । ४० ३पा० ३ख०] * नैगम काण्डम् * द्रोरुपस्थे द्रुममयस्य हरिः सोमो हरितवर्णोऽयमपीतरो हरिरेतस्मादेव । वाशी भिस्तक्षताश्मन्मयीभिः। वाशी- भिरश्ममयीभिरिति वा वाग्भिरिति वा । स शर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपिगुऋतं नः। स उत्सहतां यो विषुणस्य जन्तोर्विषमस्य मा शिश्नदेवा अत्र- मचाः शिश्न नथतेः। अपिगुऋतं नः। सत्यं वा यज्ञ वा ॥ ३ (१६)॥ । भद्राः क्रतवो to- 'अप्रायुधः (३७)”-इति। एतदनवगतम् । “अप्रमाद्यन्तः” इत्येवमर्थप्रतीतिः । "आनो यन्तु विश्वतो. दब्धासो अपरीतास उद्भिदः । देवा नो यथा सद् मिद् वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥” इति निगमः (ऋ० सं० १, ६, १५, १)। गोतमस्येयमार्षम्। अग्निष्टोमे महावते तृतीयसवने वैश्वदेवे शस्त्रे शस्यते। 'आ यन्तु' उपयन्तु, अस्माकं 'भद्राः' भन्दनीयाः, स्तुत्याः। 'क्रतवः' सोमक्रतवः, कामा वा। 'विश्वतः' सर्वतः, सर्वदैव यथाविहितेषु कालेषु । 'अदब्धासः' अनुपहताः, अविगुणाः, कैश्चिदपि दस्युभिः । 'अपरीतासः अपरिप्राप्तपूर्वाः, अस्मच्छत्रुभिः । 'उद्भिदश्च' उद्भत्तारः, एषां त्रयाणामपि लोकानाम् , येषां फलेनैतान् त्रीनपि लोकानुद्धिन्दी- महि, ते आगच्छन्तु । किञ्च, तथा च तेऽत्यर्थमविगुणा आग- च्छन्तु, 'यथा' तैः परितोषिताः सन्तः 'देवा' सदैव नित्यमेवा- , " * निरुक्तम् * [पूर्वषट्कम् स्माकं वर्द्धनायोद्यताः 'असन्' स्युरित्यर्थः, भाष्येऽपि “स्युः"- इत्येष पाठः । 'अप्रायुवः' अप्रमाद्यन्तः, प्रमादमकुर्वाणः, अस- म्मुह्यमाना इत्यर्थः । वर्द्धयितारो रक्षितारः' च। 'दिवेदिवे' अहन्यहनि यथा स्युस्तथा ते सोमक्रतवः, सगुणाः कामा वा आगच्छन्तु। अत्र "अप्रायुवो रक्षितार:-इति रक्षितृशब्देन समानार्थसनिवेशादप्रायुवशब्दस्याप्रमादार्थत्वम्, रक्षणे रक्षणे हि सत्यप्रमादस्येष्टत्वात् ॥ 'च्यवनः(३८)”-इति । एतदनवगतम् । एतदनवगतम् । “च्यावनः" इत्येवमर्थप्रतीतिः। "ऋषिर्भवति" इत्यभिधेयवचनम् ' "च्य- वानम्"-"इति" एवम् “अप्यस्य” ऋषभृगुपुत्रस्य छन्दसि "निगमाः" सन्ति। च्यवन इति प्रसिद्धमेवेति कृत्वा निगमं न पठति, इतरथा त्वप्रसिद्धमल्पप्रयोगश्चतदिति कृत्वा पठति,- “युवं च्यवानं सनयं यथा रथं पुनयु वानं चरथाय तक्षथुः । निष्टौप्रयमूहथुरद्भ्यस्परि विश्वेत् ता वां सवनेषु प्रवाच्या ॥”- इति (ऋ० सं० ७, ८, १५, ४)। काक्षीवत्या घोषायाः इयमा- र्षम्। प्रातरनुवाकाश्विनयोः शस्यते। अश्विनावुच्येते, हे अश्विनौ ! “युवां” 'च्यवानम्' ऋषि च्यावयितारं स्तोमानाम् । 'सनयं' वृद्धं गमनासमथं सन्तम् 'यथा' चिरन्तनं 'रथं गमना- समर्थं कश्चिच्छिल्पी गमनसमर्थं कुर्यात्, एवं 'पुनः युवानम् च्यवनमृर्षि 'चरथाय' “चरणाय गमनार्थम् 'तक्षथुः' कृतवन्तौ स्थ इत्यर्थः। किञ्च, 'निष्टौनयमूहथुः' निरूहथुः, निहतवन्तौ स्था, 'तौग्र यं' तुग्राणामपां सङ्घातं मेघानाम् । क पुनः निरूहथुः ? - ४१०३पा० ३ख * नैगम काण्डम् * 'अभ्यस्परि' चिरन्तनीनामन्यासामपामुपरि, अनुपक्षीणास्वेवा- न्यासु वार्षिकाखप्सु, तासामेवोपरि लोकानुग्रहार्थमन्यमुदक- सङ्घातं निरूहथुः। तान्येवमादीनि कर्माणि 'विश्वा' विश्वानि, सर्वाणि। युवयोः 'सवनेषु' यज्ञेषु, प्रातःसवनादिषु वा 'प्रवाच्या' प्रकर्षेण वचनीयानि स्तोतृणाम् ॥ एवमेतस्मिन् मन्त्रे “च्यवानः" -शब्देन च्यवन एव ऋषिरुक्तः, स हि श्रूयते सौकन्ये आख्याने, -जीर्णः सनश्विभ्यां पुनर्युचाकृत इति। तस्मादुपपद्यते निगम- प्रसक्तमुच्यते,–“युवा, प्रयोति कर्माणि” मिश्रयति । “तक्षतिः करोतिकर्मा” करोतीत्यर्थः "रजः (३६)*-इति । अनेकार्थम् । "रजतः” इति व्युत्पत्तिः ॥ “ज्योती रज उच्यते” तद्धि अनुरञ्जयति द्रव्याणि स्वेन प्रकाशेन । “या ते अग्ने रजःशया तनूः”-इत्येवमायुदा- हरणं द्रष्टव्यम् । भाष्यकारस्तु प्रचुरत्वादेतेषु निगमान् न पठति॥ "उदकं रज उच्यते” तदपि हि स्वेन ने हाख्येन गुणेनानुरञ्ज- यति। “भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः। दिवि मूर्द्धानं दधिषे स्वषां जिह्वामग्ने वकृषे हव्यवा- हम् ॥” इति निगमः (ऋ० सं०७, ६, ४, ६)। हे अग्ने ! त्वमेवास्य 'यज्ञस्य' 'भुवः' पृथिवीलोकादमु लोकं 'नेता'। रजसः उदकस्य च नेता, “अग्नि, इतो वृष्टि समीरयति" इति हि वक्ष्यति । क्क पुनर्नेता? 'यत्र' यस्मिन् लोके 'नियुद्भिः' अश्वजातिभिः 'शिवाभिः' सुखतमाभिः सहितं 'वायुम्' अन्तरिक्ष- स्थानं 'सचसे' संसेचसे त्वम्, तत्र नेता, मध्यस्थानानां देवानां , यः । " ४१२ * निरुक्तम् * [पूर्वषट्कम् स्थितये। किञ्च, त्वमेव 'दिवि' अवस्थितः सर्वभूतमूर्धानं 'दधिषे धारयसि । यज्ञाभिनिष्पन्न नेतो लोकाहतेन हविषा 'स्वः' स्वराख्यमादित्यम्। किञ्च, त्वमेव एतां 'जिह्वां' ज्वालाम् अत्यद्भुताम् , आत्मनः सकाशात् 'चकृषे' पुनः पुनः करोषि । अस्मत्प्रदत्तानि हवींषि उपक्षिपति, यस्त्वमेवगुणयुक्तस्तं त्वां वयमेतस्मिन् कर्मणि 'हव्यवाह' हविषां वोढारम् , अनेन पुरोडाशा- ख्येन 'हविषा' यजामः। पौर्णमासस्याग्नेयस्य हविषो याज्यैषा ॥ "लोका रजांस्युच्यन्ते" तेष्वपि हि. प्राणिनो रज्यन्ते । “त्वया हृढानि सुक्रतो रजांसि” (ऋ० सं० ४, ७, २, ३)-इति व्याख्यातो निगमः॥ "अमृगहनी, रजसी उच्यते” । असृग् रुधिरम्, असृक् च अहश्च असृगहनी, ते अपि रजसी उच्यते। “मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति”-इति रुधिरस्योदाहरणम् । "अहश्च कृष्णमहरज्जुनच '----इत्य उदाहरणम्॥ "हरः (४०)”-इत्येतदनेकार्थम् ।“हरतेः” इति व्युत्पत्तिः । "ज्योतिर्हर उच्यते” तद्धि ह्रियते, हरति वा स्नेहम्, विरुक्षी- करोति। हरति वा तम इति हरः। “या ते अग्ने हरःशया तनूः” “अग्ने यत्ते हरस्तेन तं प्रति हर”–इत्येवमादयः प्रचुरा एव निगमा इति अत्रापि भाष्यकारो न पठति ॥ “उदकं हर उच्यते” तद्धि ह्रियते प्राणिभिः जीवनाय॥ "लोका हरांस्युच्यन्ते” तेभ्यो हि क्षीणपुण्याः प्राणिनो ह्रियन्ते॥
४अ० ३पा० ३ख०]] * नैगम काण्डम् * ४१३ 'जुहुरे (४१)” इति। एतदनवगतम् । “जुहिरे -इत्यव- गमः । “जुहुरे विचितयन्तोऽनिमिषं नम्णं पान्ति। आदृढां पुरं विविशुः ॥” इति (ऋ० सं० ४, १, ११, २)। वरात्रेय- स्यार्षम् । जुहुरे, जुहिरे, जुह्वति। योऽग्निं विचितयन्तः' “विचेतयमानाः” कर्मकर्तृसाधनानां याथार्थ्यं वेदान्तदर्शनेन जानाना, ये व नराः 'अनिमिषम्' आदवदवस्थानमात्मनः कृत्वा युक्तात्मानो 'नृम्णं' योगवलमात्मनः कर्मणि वर्तमाने 'पान्ति' रक्षन्तीत्यर्थः। आह,-ये एवं गुणयुक्ताः, किं तेषाम् ? इति । उच्यते,-'आ दृढां पुरं विविशुः' ते 'दृढां' नित्यम्, अनावृत्तये परब्रह्ममयों 'पुरम्' इमामगृढां शरीरपुरं पापिष्ठां हित्वेत्यभिप्रायः॥ विचेतयमाना हि वेदप्रामाणिकाः सन्तो हवनाते किमन्यत् कुर्य्यः, येन दृढां पुरमाविशेयुः ? शब्दसारूप्यमपि च “जुहुरे” इत्येतस्मिंच्छब्देऽस्त्येव । प्रकरणाच्चेयमाग्नेयी क्। तस्मात् “जुहुरे”-इत्येष शब्दो हवनार्थ एवेत्युपपद्यते ॥ “व्यन्तः (४२)”–इत्येषोऽनेककर्मा । यस्माद्धातोरयं शब्दो निष्पद्यते, स धातुरनेककर्मा, अनेकार्थः । “वी गतिप्रजननका- न्त्यशनखादनेषु (अदा०प०)”-इति । तद्यथा.-"पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपनमृक्तम् । नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥”-इति (० सं० ४, ४, ३५, ४)। इत्यत्र “पश्यतिकर्मा" । भरद्धाजस्येयमार्षम् । प्रातरनुवाकाश्विनयोः शस्यते, पशौ व विनियुक्ता । 'पदं स्थानम् , अवस्थानं याथार्थ्यम्, 'अग्नेः' 'देवस्य दानादिगुणयुक्तस्य 'व्यन्तः' ।
ॐ निरुक्तम् * [पूर्वषट्कम् पश्यन्तो जानानाः। केन ? 'नमसा' नमस्कारेण, 'स्तुत्या" मन्त्रेणेत्यर्थः। मन्त्रार्थपरिज्ञानादेव ह्यग्नेराध्यात्माधिभूताधि- यज्ञेष्ववस्थानं याथार्थ्यतो दृश्यते। पदशब्दो हि स्थाने प्रसिद्धः, पदस्थोऽयमिति हि वक्तारो भवन्ति लोके। अथवा 'नमसा' अन्नेन, हविराख्येनाभ्युद्यतेनेति योज्यम् । 'श्रवस्यवः' श्रव इच्छमानाः, अन्नमात्मनः प्रार्थयमानाः। य एवमग्नेः स्तुतिभि- विद्वांसो याथार्थ्यम् , अन्नैर्वा अभ्युद्यतैः श्रव इच्छमानाः पश्यन्तो. ऽग्निमुपासते। किन्तेषाम् ? इति । उच्यते,–'श्रव आपन्' । किंलक्षणं पुनराप्नुवन्ति ? 'अमृक्तम्' अमृदितम्, अनुपभुक्त- मन्यैः। किञ्च, 'नामानि चित्' ये चैते ग्रन्थमात्राध्येतारः, केवलच्छान्दसाः, नामान्यपि च मन्त्रभावनावस्थितानि धारयन्ति, अनर्थज्ञाः, 'यज्ञियानि' यज्ञार्हाणि, तेऽपि “भद्रायां' भन्दनीयायाम, अग्नेः 'सन्दृष्टौं' सन्दर्शने 'रणयन्त' रमयन्त्यात्मानम्। तानपि भद्रेण चक्षुषा पश्यत्येवाग्निरित्यभिप्रायः॥ एवमेतस्मिन् मन्त्र “पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्” -इत्येतेषां पदानामेकवाक्ययोगात् “व्यन्तः”-इत्यस्य शब्दस्य पश्यत्यर्थोऽप्युपपद्यते ॥ “इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद। वीहि शूर पुरोडाशम् ॥” इति (ऋ० सं० ३, ३, ३, ३)। इत्यत्र “खाद- तिकर्मा" | विश्वामित्रस्येयमार्षम्। रात्रिपायेषु महारात्रिके पाये ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्ता। 'इमा' इमानि, 'ब्रह्म' ब्रह्माणि, ऋग्यजुःसामाख्यानि स्वरसौष्ठवादियुक्तानि, , ४अ०३पा० ३ख०] नैगमं काण्डम् * अस्माभिः ब्रह्मणोऽस्य हविषः वहनसमर्थानि, त्वां प्रतिक्रियन्ते, उच्यन्त इत्यर्थः। यज्ञो ब्रवीति,--हे इन्द्र! 'आ बर्हिः सीद' आसीदेदं बहिः प्रति। आसीनश्चैतस्मिन् बर्हिषि, 'वीहि' भक्षय एतमस्मत्प्रदत्त हे 'शूर' ! 'पुरोडाशम् ॥ एवमेतस्मिन् मन्त्रे “वीहि. शूर पुरोडाशम् -इत्येतस्मादेकवाक्यसंयोगात् “वीहि" इत्येष. शब्दः खादनार्थः प्रतीयति, किमयं बर्हिष्यासीन इन्द्रः पुरोडाशस्यान्यत्र भक्षणात् कुर्य्यात् ? प्रसिद्धञ्च लोके कठिन- द्रव्यस्य भक्षणम्, भक्षयति मोदकादीनि । तस्मात् सामर्थ्याद्भक्ष- णार्थोऽयमित्युपपद्यते॥ "वीतं पातं पयसः”-इत्यत्राशनार्थः । “उ त वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः। उ तो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्त्रियायाः ॥” इति (ऋ० सं० २, २, २३, ४)। मैत्रावरुण्येषा। त्रिष्टुप् । दीर्घतमस आर्षम् । मित्रावरुणावुच्येते,–'उत वां' अपि युवयोः, एतासु 'विक्षु मद्यासु' एतेषु मनुष्येषु मदयितृषु वर्त्तमानमेतत् 'अन्धः' हविर्ल- क्षणम्, यदि तस्मिन्नहनि मनुष्यैः भवद्भ्यां देयं पयस्याख्यम् आज्याख्यञ्च । तदेव 'गावः' एताः 'च आपः' 'देवीः' दानादि- गुणयुक्ताः। आसां गवामुपकारं कुर्वन्त्यः, 'पीपयन्त' वर्धयन्ती- त्यर्थः। यदेतदशनपानयोग्यम्, आज्यं सान्नाय्यलक्षणम् आभि- रद्भिर्गाभिश्च युवयोरन्धो वय॑ते। 'उतो न अस्य' अप्यस्य हविषोऽस्मत्पूर्वो यजमानः पतिः। पूर्व हि द्रव्यस्य यजमानः पतिर्भवति, तदनन्तरं स तद् ऋत्विग्भ्यः समर्पयति–'देवतायै - * निरुक्तम् * [पूर्वषट्कम् संस्कुरुतवत्'-इति, ततस्ते तस्य हविषः पतयो भवन्ति । तानपेक्ष्य यजमानः 'पूर्व्यः पतिः'। तदपेक्षयैव ऋत्विज आहुः, -योऽस्मत्तः 'पूर्व्यः पतिः' अस्य हविषः, सः 'दन्' भवति, दददि- त्यर्थः। तेनाप्येतद् भवन्तावेवोद्दिश्य स्यात् प्रत्युत्सृष्टम् । एवमपि सदन भवत्यपि वयं यथा व्यादिष्टमेव तेन पूर्वेण हविः- पतिना भवद्भ्यामेतद्भ्यः। तौ युवामस्य हविषः, 'पयसः' पयस्याख्यस्य, 'उस्त्रियायाः' पयसा निष्पन्नस्य, नातिकठिनस्य अशनयोग्यस्य स्वं भागमस्माभिर्दीयमानं 'वीतम्' अनीतं युवा- मित्यर्थः। पिबतं च यदेतदाज्यस्य स्वं भागम् उपस्तरणाभि- धारणसम्बद्धम् । एवमस्मिन् मन्त्रे 'उस्त्रियायाः पयसा निष्प- नस्य'-इति श्रूयमाणे पयस्याज्ये प्रतीयेते, तयोराज्यं पेयम् , तत् 'पातम्' इत्यनेन सम्बध्यते, पारिशेष्यात् 'वीतम्'- शब्दस्य पयस्यया सह सम्बन्धः, सा च नातिकठिना, नातिद्रवा, अशनयोग्या, तस्मात् “वीतम्”–प्रत्येष शब्दोऽशनार्थ इत्युप- पद्यते, लोकेऽपि हि नातिकठिने नातिद्रवे अनातिशब्दः प्रसिद्धः, 'अनाति पायसम्'-इति ॥ निगमप्रसक्तमुच्यते,–“उस्त्रि- येति गोनाम" "उत्स्राविणः” हि तस्याः सकाशात् क्षीरादयः "भोगाः" भवन्ति ॥ "क्राणाः” (४३)-इति । एतदनवगतम्। “कुर्वाणाः”- इत्यर्थप्रतीतिः। “गोभिः काणा अनुषत' इति निगमः । “गोभिः कुर्वाणा अस्तोषत”-इति निर्वचनम्, त्वामिन्द्रति शेषः। “त्वामिन्द्र मतिभिः सुते सुनीथासो वसूयवः। गोभिः ४१०३पा० ३ख०] * नैगम काण्डम् * । क्राणा अनुषत ॥"-इति । है 'इन्द्र !' त्वामस्मिन् सोमे 'मतिभिः' मतिमद्भिः 'सुते' मेधाविभिरभिघुते सोमे, य एव हि मतिमन्तः, त एव हि सोममभिषोतु शक्नुवन्ति, नेतरे मतिहीनाः । 'सुनीथासः' सुष्ठ ये स्तोतुं शक्नुवन्ति, ते सुनीथाः । 'वसूयवः' वसुकामाः। आह,-किमेते कुर्वन्ति, मतिभिः सुते मेधाविभि- रभिषुते लोमे ? उच्यते,-'गोभिः' वाग्भिः, स्तुतिलक्षणाभिः । अस्मिन्नभिषुते सोमे, आभिमुख्येन “कुर्वाणाः” 'अनुषत' “अस्तो- षत” स्तुवन्तीत्यर्थः। अभिषुतेषु सोमेषु किमन्यदाभिमुख्येन करणाद् इन्द्रस्य गोभिः सुनीथाः स्तुवन्तः कुर्युः, तस्मात् "क्राणाः”–इत्येष शब्दः, “कुर्वाणा:"--इत्येवमुपपद्यते॥ “वाशी (४४)”---इति। एतदनवगतम्। पक्षेण च अने- कार्थम् । “चाशीभिरश्ममयाभिरिति वा, वाग्भिरिति वा” इति शब्दसमाधी। “वाश्यः” एवाभिधेयाः, वाच्याः वा। “आ तू षिञ्च हरिमी द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । परिष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्नि युनक्त ॥” इति (ऋ० सं० ८, ५, १६, ४)। बुधस्य सोमपुत्रस्यार्षम् 'आसिञ्च' प्रक्षिप, एतं 'हरि' हरितवर्णं सोमम्। क ? 'द्रोरु- पस्थे' द्रुममयस्याधिषवणफलकद्वयस्योपरि। एवं तावद्ध्वर्यु- रुक्तः, स हि सोममुपावहरति । अधुनेतरानभिषवकर्तृन् ब्रवीति, ~-यूयमपि अनेनाध्वर्युणोपावहृतमेनं सोममधिषवणफलकयोरु- परि 'वाशीभिः' एताभिः 'अश्मन्मयीभिः' "अश्ममयीभिः” 'तक्षत' संस्कुरुत, अभिषुणुतेत्यर्थः, “प्रावभिरभिषुण्यन्ति”-इति * निरुक्तम् * [पूर्वषट्कम् ह्य कम्। अथवाऽयमन्योऽस्यार्द्धस्यार्थः, हे उन्नेतः! 'आसिञ्च' प्रक्षारय, तं हरितवर्णं सोममनेन कलशेन । व? 'द्रोरुपस्थे' द्रोणकलशस्योपरि। यूयमपि च हे होतारः ! आसिच्यमानम् एनं सोमं 'वाशीभिः “वाग्भिः” स्तुतिलक्षणाभिः 'तक्षत' संस्कु- रुत, यदस्यायज्ञियमपूतं, तत् स्तुतिभिः पुनीतेत्यभिप्रायः। 'अश्मन्मयीभिः' व्यापनसमर्थाभिरित्यर्थः । यूयमपि हे अध्व- य॑वः! पूतमेतमुद्गातृभिः, सोमं 'परिष्वजध्वं' ग्रहेषु, स्थालीषु च। 'कक्ष्याभिः' अङ्गुलीभिः, अङ्गुलिभिरैव हि पात्रस्थः सोमो गृह्यते। यदेव चेदं ग्रहणमेष एव तस्य परिष्वङ्गः । परिष्वज्य च गृहीत्वा एनं सोमम् 'उभे हवि ने-'धुरौं' 'प्रति' "वह्निम्' इव, वोढारमिव, अनड्वाहं 'युनक्त' एनं सोमं सादयते- त्यर्थः स हि सोमो हवि नधुरोः अधस्तात् खरै साधते । एतस्मादेव चानुडुयोजनदेशं प्रति सामान्यावह्निमिव युनक्तति लुप्तोपममुपपद्यते। अत्र “वाशीभिस्तक्षते"-इति लक्षणयोगात् अश्ममय्यो वाश्य एता पावाख्या इति प्रथमस्यार्थस्योपपत्तिः॥ एतस्मिन्नर्थे 'आ तू षिञ्च'-इत्यासेकशब्दो गौणः, न हि सोमां- शूनाम् अनभिषुतानाम् आसेकोऽस्ति कठिनत्वात् , तस्मादेतस्मि- नर्थे प्रक्षेपणमात्रमेव सिञ्चतेरर्थः । अथवा 'आसिञ्चत हरि द्रोरुपस्थे --इत्यतोऽनन्तरं वाशी शब्दः श्रूयमाणो वाङ्नामधेय- त्वेनाप्युपपद्यते एव, सोमो हि द्रोणकलशस्योपरि आसिच्यमाने वाग्भिः स्तूयते । एवमर्थद्वयमभिप्रेत्य उभयथा भाष्यकारेणो- कम्,-"वाशीभिरश्ममयीभिरिति वा वाग्भिरिति वा” इति ॥ 5 n -- ४अ० ३पा० ३ख०] * नैगम काण्डम् * ४१६ “अयमपीतरो हरिः” मर्कटः, “एतस्मादेव” इति, हरित- वर्णत्वाद्धरिरुच्यते, “शिरीषकुसुमप्रख्याः केचित् पिङ्गलकप्रभाः, वानराः*-इति श्रूयन्ते रामायणे ॥ “विषुणस्य (४५)” इति । एतदनवगतम् । “विषमस्य" इत्यवगमः । “न यातव इन्द्र जूजुवुनों न वन्दनाः शविष्ठ वेद्याभिः । स शर्द्धर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुऋतं न ॥”- इति (ऋ० सं० ५, ३, ३, ५)। वसिष्ठस्येयमार्षम् । त्रिष्टुप् । उन्नीयमानसूक्ते माध्यन्दिने सपने शस्यते । हे भगवन् ! “इन्द्र !" तथा, कुरु यथा 'न' इमममद्यज्ञं 'यातवः' यातयितारः, यज्ञविघ्न- कर्तारः, केचिदपि 'जूजुवुः' आगच्छेयुरित्यर्थः ? किञ्च, हे 'शविष्ठ' बलिष्ठ! य एते 'वन्दनाः' वन्दितारः, लाड(ट?)गौडादयः,जानपदीभि 'वेद्याभिः' आकृतिभिर्युक्ताः, किं ब्राह्मणाः एते स्युः, उतान्यजा- तीयाः केचिदिति ? अथवा आवेदितव्याभिः प्रवृत्तिभिः युक्ताः न हि तासां प्रवृत्तीनामन्तोऽस्ति, याभिस्ते प्रवर्त्तन्ते चपलत्वात् । किञ्च, येऽपि चैते श्रोत्रिया अपि सन्तः "शिश्नदेवाः' शिश्ने नित्यमेव प्रकीर्णाभिः स्त्रीभिः सार्क क्रीड़न्त आसते, श्रोतानि कर्माणि उत्सृज्य, तेऽपि युष्मदनुग्रहादिदमस्माकम् 'ऋतं' यज्ञम् 'मा अपिगुः' मा आगच्छन्तु, नास्माकं तैरपि यज्ञमभिगच्छद्धि- रर्थोऽस्तीत्यभिप्रायः। आह, कीदृशास्तहि यज्ञमागच्छन्त्विति? उच्यते,–'स शर्द्धत्' स एवोत्सहतामिममस्मद्यज्ञमागन्तुम् , एव अर्यः' ईश्वर आत्मीयानामिन्द्रियाणाम; जितेन्द्रिय इत्यर्थः । यश्च विषुणस्य “विषमस्य” यज्ञविध्वंसयितुः 'जन्तोः' मनुष्यस्य 2 ४२० * निरुक्तम् * [पूर्वषट्कम् निग्रहाय समर्थः, येन परिपाल्यमाना एतं यज्ञमविघ्नेन समापये- महीत्यभिप्रायः॥ एवमेतस्मिन् मन्त्रे “यातयो वन्दनाः शिश्न- देवाश्च मा आगच्छन्तु”-इति प्रतिषिद्धेष्वेतेषु अनिष्टत्वादेतेषां 'स शर्खऱ्या:'--इति श्रूयमाणमर्यवृत्तमनुष्याभ्यागमनविषयमेत- द्भवति, तस्येष्टत्वात् , स चाभ्यागतः सन्नवश्यं 'विषुणस्य' “विष- मस्य” मनुष्यस्य निग्रहं करोति, तस्मात् “विषुणस्य-शब्दो विषमस्येत्युपपद्यते। यदा तु ऋतशब्दस्य “सत्यं वा"-इत्येत- दथर्वचनं भवति तदाऽस्माकम् 'ऋतं' सत्यम् , एवंलक्षणाः पापकर्माणः 'मा अपिगुः' इत्येवं योज्यम् । · अपिगुरिति चैष गमिस्तदा ज्ञानार्थः । एवमप्युपपद्यत इत्यतो भाष्यकारेणोक्तम् , "सत्यं वा यज्ञं वा".--इति ॥ ३ (१६)॥. आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणव- न्नजामि । उप बहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ आगमिष्यन्ति तान्युत्तराणि युगानि यत्र जामयः करिष्यन्त्यजामिकर्माणिजाम्यतिरेकनामबालिशस्य वासमानजातीयस्य वोपजन उपधेहि वृषभाय बाहुमन्य- मिच्छस्व सुभगे पति मदिति व्याख्यातम् ॥ ४ (२०)॥ "जामि (४६)"-इति । एतदनेकार्थम् । भगिनी, बालिश:, पुनरुक्तञ्चास्याभिधेयानि। प्रकरणादेवेतेषामन्यतममस्मिन्नव- विष्ठते । यथानेन ताबद्धगिन्युच्यते, तथेदमुदाहरणम्,-"आ ४० ३पा० ४ख०] * नैगम काण्डम् * घाता-०मत्" इति (ऋ० सं० ७, ६, ७, ५)। इयं यमी किल यमं प्रार्थयाञ्चकार, एहि मैथुनाय सङ्गच्छावहा इति, तामकामयमानोऽसावनयर्चा प्रत्युवाच,-'आ घा ता गच्छान्' । 'घा' इत्यनर्थक एव, 'आगच्छान्' आगमिष्यन्तीत्यर्थः। आह, कानि ? उच्यते,–'ताः' “तानि उत्तराणि युगानि आगमिष्यन्ति' तेऽपि काला न तावत् साम्प्रतं वर्त्तते इत्यभिप्रायः। येषु किम् ? 'यत्र' येषु 'जामयः' भगिन्यः भ्रातृणाम् “अजामि”-योग्यानि मैथुनसम्बन्धानि “कर्माणि” “करिष्यन्ति” कलियुगान्ते हि तादृशः सङ्करो भवति, न चेदं कलियुगं वर्तते इत्यभिप्रायः । यतो न तावदद्यापि सङ्कीर्णो वर्णसङ्करधर्मः स्वाचारा एघ तावत् प्रजाः । अतो ब्रवीमि,–'उप बहि' उपधेहि । कस्मै ? 'वृषभाय' तवोपरि रेतःसेक्तुमन्यकुलजो योग्यः, तस्मै। किमुपबव॒हि ? इति 'बाहुम्'। शयनीये सर्वथा प्रार्थ्यमानोऽप्यहं तव पतिः न भविष्यामीति। यतो ब्रवीमि,-'अन्यमिच्छख' अन्यमन्वेषयस्व । हे 'सुभगे!' 'पति' 'मत्' मत्त इत्यर्थः ॥ एतमेतस्मिन् मन्त्रे, सूक्त वा संवादाधिकाराजामिशब्देन भगिन्युच्यते इत्युपपद्यते ॥ "जामि"-इत्येतदेव स्वरान्तशब्दरूपम् "अतिरेकनाम" भवति, पुनरुक्तनामेत्यर्थः। तदुत्तरत्र लक्षणतो भविष्यति, "तद् यत् समान्यामृचि समानाभिव्याहारं भवति, तत् जामि भवति"-इति पुनरुक्ताभिधानत्वेन। जामिशब्दस्य पर्थेष्यो निगमः॥ “बालिशस्य वा बालिशस्यैतदेव नाम। बालिशो मूर्खः, २-६ ? ।
निरुक्तम् ४२२ [पूर्वषट्कम् स हि बाल इव शेते, प्रमादित्वाद्धर्मकार्येषु । एतस्यापि पर्यष्यो निगमः॥ "असमानजातीयस्य वा” असमानजातीयो हि पुरुषस्य भगिन्याख्यो भ्राता, सा हि स्त्रीत्वादेवातुल्यजातीयैव पुरुषस्य भवति। जामिरित्येतस्मिन् शब्दे “मिः' इत्येषः “उपजनः" यदेवोक्तं भवति 'जा'-इति, तदेव जामीति। उभयथापि मन्त्रे प्रयोगो द्रष्टव्यः । “अन्यमिच्छस्व सुभगे! पति मत्-इति व्याख्यातम्”। निगदसिद्धमेवैतदित्यर्थः । अथवैतानि पदान्य- धस्तात् तत्र तत्र व्याख्यातानि, तद् यथा,-"अन्यो नानेयः”- इत्येवमादि उपेक्षितव्यम् ॥ ४ (२०)। । चौमें पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयो धम्बोयोनिरन्तरत्रा पिता दुहितु- गर्भमाधात् ॥ द्यौर्मे पिता माता वा पालयिता वा जनयिता नाभिरत्र बन्धुर्मे माता पृथिवी महतीयं बन्धुः सम्बन्धना- नाभिः सन्नहनान्नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुरेत- स्मादेव ज्ञातीन् सनाभय इत्याचक्षते सम्बन्धव इति च ज्ञातिः सज्ञानात् । उत्तानयोश्चम्बोयोनिरन्तः। उत्तान उत्ततान ऊर्ध्वतानो वा तत्र पिता दुहितुर्गर्भ दधाति पर्जन्यः पृथिव्याः। (शंयुः सुखंयुः । ) अथा नः ४० ख० ५पा०] नैगम काण्डम् ४२३ शंयोररपो दधात । रपो रिप्रमिति पापनामनी भवतः शमनश्च रोगाणां यावनञ्च भयानामथापि शंयुबर्हिस्पत्य उच्यते । तच्छ योरावृणीमहे गातु यज्ञाय गातुं यज्ञपतय इत्यपि निगमो भवति । गमनं यज्ञाय गमनं यज्ञपतये ॥ ५ (२१)॥ इति चतुर्थाध्यायस्य तृतीयः पादः ॥ ४,३॥ "पिता (४७)"-इति। एतदनवगतम् । “पाता वा पाल- यिता वा"-इत्यवगमः। “धौम पिता"-इति (ऋ० सं०२, ३, २०, ३)। इयमस्यवामीयं दीर्घतमस आर्षम्। तृतीयलवने वैश्वदेवे शस्यते । 'योम पिता' येयं द्यौः, उपरि स्थिता घुलो- काख्या, एष एव मम पिता। द्यौरह मित्येवं वैवाहिके कर्मणि धु लोकभावेन पित्रा आत्मानमभिसम्पाद्यमानं दृष्ट्वैवमाह मन्त्र- दृक्-'द्यौर्मे पिता'-इति। 'जनिता' जनयिता, उत्पादयिते- त्यर्थः । आह,-कथम् ? उच्यते,–'नाभिरत्र' नहनमेव नाभिः, अत्र एतस्मिन् धुलोकलक्षणे पितर्युदकदानेनानुग्रहीतरि सति सन्तानोत्पत्त्यनुग्रहक्रमेणैध शुक्रात्मनोत्पत्तिरुपपद्यते, इत्येष- मभिसमीक्ष्योक्तम् ‘द्यौर्मे पिता, जनिता, नाभिरत्र'-इति। 'बन्धुः मे' अङ्गसम्बन्धकारणाद् बन्धुः मे 'माता पृथिवी महीयम्'--इति । मातुर्मन्त्रेण पृथिवीत्वं सम्पाद्यमानं दृष्ट्वैवमाह,-'बन्धुर्मे माता पृथिवी महीयम्' इति । उदकं हि द्युलोकात् पतितम्, पार्थि- ४२४ । ROMA * निरुतम् * [पूर्वषट्कम् वेन धातुना सम्पृक्तम् , ओषधिभावमागम्य, शरीरभावेनावतिष्ठते, इत्येतदपेक्ष्य सर्वभूतानां द्यावापृथिव्यौ मातापितरौ उच्यते तत्र तत्र। तद्यथा, "द्वे स्तुती अणवं पितॄणामहं देवानामुत मानाम् । ताभ्यामिदं विश्वमेजत् समेत यदन्तरा पितरं मातरच॥"--इति (ऋ० सं० ८, ४, १२, ५)। इत्येवमादि। तत्कृतस्य ह्य पकारस्याभावे सतीतरौ मातापितराव किञ्चित्करा- वेव भवतः । तस्मादुपपद्यते द्यावापृथिव्योर्मातृपितृभावः। आह, -किमेते द्यावापृथिव्यौ अन्यत् किञ्चदनपेक्ष्यैव सर्वभूतानां मातृपितृभावं बिभृतः, उत अन्यदपि किञ्चिदपेक्षेते? 'इति । उच्यते,-अनयोः 'चम्बोः' द्यावापृथिव्योः 'उत्तानयोः' ऊर्ध्वमेध धनयोः अन्तरा व प्रतिधारणीयोऽन्तः प्राणः तत इति उत्ताने द्यावापृथिव्यो, प्राणेन हीमे वायुना सूत्रभूतेन विधृते तिष्ठतः, एतयोः द्यावापृथिव्योरुत्तानयोः य एषोऽन्तरिक्षाख्यः 'अन्तः' मध्ये योनिः' 'अत्र' एतस्मिन्नवकाशदानोपकारप्रवृत्ते सति 'पिता' "पर्जन्यः” धुलोकाख्यः, द्यौरेव हि रसान् प्रार्जयति, तस्मात् सैवात्र पर्जन्यशब्देन भाष्यकारेणोक्ता। 'दुहितुः' “पृथिव्याः” उपरि 'गर्भ'सर्वभूतगर्भोत्पत्तिहेतुभूतोदकम् 'आधात्' आदधाति, ददातीत्यर्थः। अत्र पृथिव्येव दुहितुशब्देनोक्ता सा हि धुलोकात् 'दूरे निहिता' अथवा सा हि धुलोकं 'दोग्धीति' दुहिता,-सा हि धुलोकात् पतितमुदकमुपजीवत्येवादूरे निहिता, दोन्धि वा ॥ एवं द्यावापृथिवीभ्यामन्तरिक्षेण चावकाशदानेनानुगृह्यमाणान्येतान्य- स्मदादीनि भूतान्युत्पद्यन्त इति एतदनेन मन्त्रेण मन्त्रदृशा ख्या- नैगम काण्डम् । ४० पा० ५ख पितम् । अत्र मातृपितृसम्बन्धात् पितृशब्दः पितयेवेत्युपपत्तिः । पिता माता चायमेतदाशासनं मन्येत ॥ "शंयोः (४८)"-इति । एतदनवगतमा पञ्चम्यन्तं वा षष्ठ यन्तं वा सत् । निगमश्चैषः,–“बर्हिषदः पितर ऊत्यर्वा- गिमा वो हव्या चकृया जुषध्वम् । त आ गतावसा शन्तमेनाथा नः शंयोररपो दधात ॥"--इति (ऋ० सं०७, ६, १७, ४)। न चैवं यजमानोऽर्थात्तस्माद् वृहस्पतिपुत्रादर्थमपेक्षते, किं कारणम् ? खत एव हि ते विधातु समर्थाः, न च बृहस्पतिपुत्रस्य शंयोः मम पितरः किञ्चिदेभिः पितृभिः विधीयेतेति। एवं पञ्चम्यर्था- सम्भवं षष्ठ यर्थासम्भवञ्च पश्यन् भाष्यकारः, 'शंयोः'-इत्येक पदं, द्वितीयान्ते द्वे पदे चकार, 'शम्'--- इति, 'यो:'--इति च । शमित्यस्य “शमनम्" अर्थं निराह, योरित्यस्य “यावनम्"--इति । एवं द्वितीयान्ते परिणामं कृत्वा अर्थ निराह, तथाहि वाक्येन सम्बध्यत इति। कस्य शमनं कस्य वा यावनम् ? इति पुन: पर्यनुयोगे प्राप्त “रोगानाम्” “भयानाम्” “च” इत्यध्याजहार भाष्यकारः। रोगशमनश्च दधात, भययावनञ्च, शान्तरोगा यथा स्थाम, प्रहीणसर्वभयाश्च, तथा कुरुतेत्यभिप्रायः । किमेतावदेव ? नेत्युच्यते, यदपि चान्यत् किञ्चित् 'अपरः' अपापम्', तदपि चास्मभ्यमेव 'दधात' दत्तेत्यर्थः॥ एवमेतत् पदम् एकम् , अर्था- सम्भवाद् द्विधा प्रविभज्य भाष्यकारेण निरुक्तम् । इत्थमप्यर्था- सम्भवे सति निर्वचनप्राप्तिरस्त्येव, तद्यथा उद्गीथशब्दे,-"प्राण एवोत्प्राणेन ह युत्तिष्ठति, वाग् गीर्वाचो ह गिर इत्याचक्षतेऽन्न २ ६ 1 .. ४२६ * निरुतम् * [पूर्वषट्कम् मथानन हीदं सर्व स्थितम् (छा० ब्रा० ३, ३)"-इत्येवमादि, तस्मादुपपद्यते। प्रथमान्तमेव सत् कस्माद् द्वितीयान्तत्वेन विपरिणम्यते शंयुमिति ? एवमपि न विरुध्यति, तथापि हि न कश्चिदर्थ उपपद्यते, तस्माद् युक्तमिति ॥ “रपो रिप्रम्"-इति, अत्र रिप्रशब्दस्य रपःशब्देनार्थसामान्यात् तन्त्वमुक्तम् । यदेवास्य 'रिप्रम्' अमेध्यम् , तच्छुध्यतीति ह विज्ञायते ॥ "अथापि शंयुर्हिस्पत्य उच्यते" अपि शं, योः, इत्यनेन पदद्वयेन शमनयावने रोगभययोः उच्येते, द्वधा प्रविभक्तेन, अपि यथावस्थितेनैवाविभक्तन बार्हस्पत्यो बृहस्पतेः पुत्र उच्यते, तस्याप्येतदेव, नामेत्यपिशब्दः। "तच्छंयोरावृणीमहे गातु यज्ञाय गातु यज्ञपतये” इति । "ओमानं शंयोर्ममकाय सूनवे (ऋ० सं० १, ३, ४, ६)” इति, “तच्छंयोः सुन्नमीमहे (ऋ. सं० १, ३, २६, ४)"--इति च निगमौ। इयं शक्करी। शंयोरेव बृहस्पतिपुत्रस्यार्षम् । शंयोर्चाके विनियुक्ता। शंयोरात्मान- मभिसम्पाद्य, अथवा शंयोः सकाशादिति केचिन्मन्यन्ते। अनेन कर्मणा 'शंयोः' वाकाख्येन 'तत् तदा आभिमुख्येन 'वृणीमहे । कि पुनस्तत् ? 'गातु यज्ञाय' “गमनम्" अस्मै “यज्ञाय” देवान् प्रति, 'गातु यज्ञपतये “गमन" चास्मै “यज्ञपतये" देवान् प्रति । किञ्च, दैवी खस्तिरस्तु नः' देवानुग्रहादस्माकं स्वस्तिरस्तु, मा नो देवाः काञ्चिदापदमुत्पादयन्त्वित्यभिप्रायः । 'स्वस्ति मानु- बेभ्यः' मनुष्येभ्योऽपि सकाशात् मा नः काचिदापदस्तु। 'उद्ध्वं जिगातु भेषजम् गच्छत्वेतद्भषजम् भयसादयितृ कर्म, यावजी- ।
४२७ ४०४पा० ख०] * नैगम काण्डम् * वमनवच्छिन्नमविगुणञ्चोर्ध्वगमनयोग्यम् अस्माकमस्त्वित्यभि- प्रायः । किञ्च, 'शन्नो अस्तु' शं सुखं नोऽस्माकं भवतु, "द्विपदे' मनुष्यादिकाय 'चतुष्पदें गवादिकाय च ॥ 'शंयुः' बृहस्पति- पुत्रः--इति, एतस्मिन् मन्त्र विशेषलिङ्गमस्ति, तदन्यस्मात् श्रुति- लिङ्गात् कुतश्चिदुपलभ्यमानाद्वा एतावदेव त्वेतस्मात् मन्त्रात् सिद्धम्,-एकमेवेदं पद्मविभक्तम् निरुच्यते, पञ्चम्यन्त वा षष्ठ यन्त वा, न यथा पूर्वस्मिन् मन्त्रार्थासम्भवाच्छंयुशब्दो विभक इति ॥ ५ (२१)॥ इति निरुक्तवृत्तौ नवमस्याध्यायस्य (चतुर्थाध्यायस्य) तृतीयः पादः॥४, ३॥ चतुथ पादः॥ अदितिरदीना देवमाता ॥ १ (२२)। "अदितिः (४६)"-इति। एतदनवगतम्। “अदीना"- इत्यवगमः । “देवमाता" अभिधेया, ऐतिहासिकपक्षण, नैरुक- पक्षेणपुनर्यान्येतस्यामविवक्ष्यमाणायां द्यौरित्येवमादीनि पदानि श्रूयन्ते एतान्येवादितिशब्दनोच्यन्ते ॥ १ (२२)॥ अदितिौरदितिरन्तरिक्षमदितिर्माता स पिता सं पुत्रः। विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदि- ४२८ निरुतम् [पूर्वषट्कम् तिर्जनित्वम् ॥ इत्यदितेविभूतिमाचष्ट एनान्यदीनानीति वा। यमेरिरे भृगवः। एरिर इतीतिरुपसृष्टोऽभ्यस्तः ॥२ (२३)॥ “अदितिौ :० - मदितिर्जनित्वम्” (ऋ० सं० १, ६, १६, ५)। राहुगणस्य गोतमस्येयमार्षम्। तृतीयसवने सर्वस्तोमे- ध्वेष, वैश्वदेवस्य शस्त्रस्य परिधानीयैषा। 'अदितिः' एच देव- माता द्यौः' 'अदितिः' अदितिरेव च 'अन्तरिक्षम्' 'अदितिः' एव 'माता' सर्वभूतनिर्मात्री, 'सः' एव च 'पिता' पालकः, 'सः' एव हि 'पुत्रः' सैव हि परितुष्टा सती स्तोतारं पुरुणो बहुनः पापात् त्रायते, अथवा सैव निपृणाति, सर्वभूतानां यनिवर्त्तव्यं दातव्य- मित्यर्थः। येऽपि चैते 'विश्वेदेवाः सर्वे देवाः, एतेऽपि 'अदितिः' एच। ‘पञ्चजना' गन्धर्वादयः ‘अदितिः' एव। सर्वथापि किं बहुना, यावदेतत् किञ्चित् 'जातं च 'जनित्वं' च जनिष्यमाणञ्च सर्वमप्येतत् 'अदितिः एव । एवमनेन मन्त्रेण मन्त्रद्वक् “अदिते- विभूतिमाचष्टे" देवमातुस्तत् सर्वमप्युपपद्यत एव, माहाभाग्या- देवतायाः। तदुत्तरत्र वक्ष्यामः । एवमैतिहासिकपक्षण, नैरुक्त- पक्षेण पुनः “एतानि" द्यु लोकादीनि सर्वाणि “अदीनानि” अनु पक्षीणानि इति योज्यम्, न ह्यषां क्षयोऽस्तीति ॥ "परिरे (५०)".-इति। एतदनवगतम् । “आ ईरिरे" इत्यवगमः। “यमेरिरे भृगवो विश्ववेदसं नामा पृथिव्या भुव- नस्य मज्मना अग्निं तं गीभिहिंनुहि स्व आ दमे य एको वखो ४२६ । ४०४पा० ख०] * नैगम काण्डम् * वरुणो न राजति ॥” इति (ऋ० सं० २, २, २, ४)। दीर्घ- तमस इयमार्षम्। जगती। प्रातरनुवाकाश्चिनयोरग्निमारुते च शस्यते। 'यम्' अग्निमाभिमुख्येन ईरितवन्तः, प्रेरितवन्तः, स्थापितवन्त इति यावत्, आत्माभिप्रेतार्थसिद्धये 'भृगवः' । 'विश्ववेदसं सर्ववेदसं, सर्वस्य वेत्तारं, सर्वधनं वा। व पुनः "एरिरे' ? 'नाभा' पृथिव्याः नाभौ अवस्थितम् , उत्तरवेदिमध्यग- तायाः पृथिव्या वेद्या उपरि। केन पुनरेरिरे ? "भुवनस्य' उदकस्य 'मजमना' मननीयेन वीर्येणान्नेन हविर्लक्षणेन । कि तस्य ? 'तमग्निं हे यजमान ! त्वमपि 'गीभिः' चाग्भिः स्तुति- लक्षणामिः आभिमुख्येन स्थित्वा "हिनहि' प्रेरय । तस्मिन् तस्मिन् कर्मणि वर्तमानमग्निहोत्रादौ, यथा भृगवः ईरितवन्तः, तथा 'खे . दमे स्व एव गृहे, मा कस्यचिदात्विज्येऽवस्थित इत्यभिप्रायः । किलक्षणं पुनरग्निमाहिनुहि ? 'य एको वस्वः' एक एव यो वसुनो धनस्य दाता। 'वरुणो न' वरुण इच, यथा वरुणः समुद्रान्तर्गतानां धनानाम् इष्ट, एवं यः सर्वस्येच धनस्य 'राजति' इष्टे इत्यर्थः। राजतिरैश्वर्यकर्मसु पठितः,-"क्षियति (३), राजति (४)" इति। “एरिरे-इति" "ईत्तिः” अयं धातुर्गति- कर्मा,-"ईर्त (७६), जयति (८२)-इति गतिकर्मसु पठितम् । स पुनरयमाङोपसर्गेण “उपसृष्टोऽभ्यस्तः” च, पुनः पुनरीरित- चन्त इत्यर्थः ॥ २ (२३)। उत स्मै नं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो निरुक्तम् [पूर्वषट्कम् भरेषु । नीचायमानं जसुरिं न श्येनं अवश्चाच्छा पशुमच्च यूथम् ॥ अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनं वस्त्रं वस्तेस्तायुरिति स्तेननाम संस्त्यानमस्मिन् पापकमिति नरुक्तास्तस्यतेर्वा स्यादनुक्रोशन्ति क्षितयः संग्रामेषु भर इति संग्रामनाम भरतेर्वा हरतेर्वा नीचायमानं नीचैरयमानं नीचैर्निचितं भवत्युच्चैरुच्चितं भवति जस्तमिव श्येनं श्येनः शंसनीयं गच्छति। श्रवश्चाच्छा पशुमच्च युथम् । श्रव- श्चापि पशुमच यूथं प्रशंसां च यूथं च धनं च यूथं चेति वा यूथं यौतेः समायुतं भवति । इन्धान एनं जरते स्वाधीः । गृणाति मन्दी मन्दतेः स्तुतिकर्मणः । प्रमन्दिने पितुमदर्चता वचः । प्रार्चत मन्दिने पितुमद्वचो गौा- ख्यातः॥३ (२४)॥ । "जसुरिः (५१) - इति । एतदनवगतम् । "जस्तम्" इत्यवगमः। “उत स्मैन”- इति निगमः (ऋ० सं० ३, ७, ११, ५)। वामदेवस्यार्षम् । त्रिष्टुप् । दधिक्रावणे सूक्ते। दधि- कावा चेन्द्र एव, वायुर्वा मध्यस्थानत्वात् । 'उत स्मैनम्' अप्येन- मिन्द्रम् 'अनुक्रोशन्ति' आभिमुख्येन क्रन्दन्ति, आह्वयन्ति । 'क्षितयः' मनुष्याः। क? 'भरेषु' संग्रामेषु । कथं पुनरभि- mpm ४१०४पा० ३ख०] * नैगम काण्डम् क्रन्दन्ति ? 'वस्त्रमर्थि न' वस्त्रापहर्तारमिव 'तायुम्' यथा केचि. जनाः कञ्चिद्वस्त्रापहर्तारं तायुं दृष्ट्वा कञ्चिदन्यमात्मनस्त्राणार्थ- मभिक्रन्देयुः, एवमेतमिन्द्रम् अभिक्रन्दन्ति संग्रामेषु, परैरप्यर्य: मानास्त्राणार्थमात्मनः। किञ्च, अपि चैनं तायुं 'नीचायमान नीचैर्गच्छन्तं 'जसुरिन' जसुरिमिव, “जस्तमिव” श्येनं' बद्धम्, स्नायुतन्तुना य एष याजिक इति प्रसिद्धो राज्ञाम् , स हि बद्धत्वा- दुत्पतितुमत्यर्थं न शक्नोति, नीचैरेव गच्छति, गत्वा व शशका. दीनि हिनस्ति सत्वानि । स यथा जनैरभिकन्यते, तथा चैन- मभिक्रन्दति । आह,-कमर्थमभिसन्धाय ? इति। उच्यते, 'श्रवश्व अच्छ' कीर्तिश्चाभिसन्धाय, कथं नाम श्रूयेमहि ? प्रशस्ये. महि जितमेभिरित्येतमर्थमभिसन्धाय । 'पशुमञ्च यूथम्' अनेक- पशुजातिसंयुक्तं पशुयूथमभिसन्धायैतदस्माकं स्यादित्येवमभिक्रन्द- तीत्येष समस्तार्थः॥ अथैकपदनिरुक्तम् । “वस्त्र वस्तेः” आच्छादनार्थस्य (अदा आ०), तद्ध्याच्छाद्यते । “तायुरिति”-एतत् “स्तेननाम" "संस्त्यानं” संहतम् “अस्मिन् पापकं भवति “इति” एवं “नरुक्ता-” मन्यन्ते। “तस्यतेः वा स्यात्” क्षयार्थस्य (दि० १०), उपक्षीणो ह्यसौ भवति, अधार्मिकत्वात् , परलोकमनपेक्ष्य कल्पयति कर्माणि । क्षितयो मनुष्याः। “भर इति संग्रामनाम नियन्ते तस्मिन् योद्धारः "हरतेः वा” हियन्ते हि तस्मिन् जीवि- तानि, वसूनि च। 'श्येनः शंसनीयं गच्छति शीघ्रत्वात् । “यूथं यौतेः” तद्धि "समायुतं भवति” एकत्र मिश्रीभूतं स्त्रीपुरुष- [पूर्वषट्कम् na- । .. -- बान * निरुक्तम् * बालवृद्धैः पशुभिः ॥ एषमिह नीचायमानं श्येनमित्यनेन सम्ब- न्धाजसुरिर्बद्ध इत्युपपद्यते न ह्यबद्धः श्येनो नीचैरयते । "जरते (५२) --इति। एतदनवगतम् । धातोरस्वार्थे प्रवृत्तिरेवानवगमः। “दिवस्परि प्रथमं जशे अग्निरस्मद् द्वितीयं परि जातवेदाः। तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते खाधीः ॥” इति (ऋ० सं०७, ८, २८,१)। वत्सप्रिर्भाल- न्दनः, तस्येयमार्षम् उकथस्याग्नेरुपस्थाने विनियुक्ता। *दिवस्परि' 'दिवः' धुलोकादित्यर्थः। 'प्रथमम्' अयम् 'अग्निः' 'जशे' आदित्यात्मना। "द्वितीयम्' 'अस्मत् परि' अस्मदधि, असत्तो जायते, पार्थिवात्मना। 'तृतीयम्' 'अप्सु' अन्तरिक्षलोके वैद्यु तात्मना जायते। "आपः"-इति हन्तरिक्षनामसु पठितम् । नृणां मनस्यवस्थितः 'नुमणाः' नृषु वा मनोऽस्य, स नृमणाः । योऽयमेक एव त्रिषु स्थानेषु जायते, तमेवगुणयुक्तं 'स्वाधीः' शोभनधीः 'इन्धानः' 'अजस्त्रं नित्यं 'जरते' स्तौति, यः, स एव 'स्वाधी सुप्रज्ञ इत्यर्थः। इन्धानोहि किमन्यत् स्तुतेः कुर्यात् ? तस्मात् “जरते"-इत्यस्य शब्दस्य “गृणाति”-इत्यर्थ उपपद्यते ॥ "मन्दिने (५३)"-इति । एतदनवगतम् । "मन्दतेः” स्तुत्यर्थस्य । मन्दनीयः स्तुतिमान् वेत्यर्थप्रतीतिः। “मन्दति (१८), शंसति (२५)”–इति स्तुतिकर्मसु पठितम् । “प्रमन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना। अव- स्यवो वृषणं चदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥". इति ( ऋ० सं० १, ७, १२, १)। कुत्सस्येयमार्षम्। छन्दोमेषु २ इ मि ।
* नेगमं काण्डम् * , ४१०४पा० ३ख०] ४३३ तृतीयेऽहनि 'मरुत्वतीये शस्त्रे निषिद्धानीयसूक्तस्य प्रथमैषा। हे स्तोतारः! 'प्रार्चत' प्रकर्षणोच्चारयत, पूजयत। 'मन्दिने' मन्दनीयाय, स्तुत्याय, स्तुतिमते वा इन्द्राय । "पितुम अन्नसंयुक्तं वचः'। 'यः' इन्द्रः, किं करोति ? कृष्णस्य मेघस्य गर्भभूता अपः 'निरहन्' नीचैरहन्, निरगमयदित्यर्थः। केन? 'जिश्वना' ऋजुरेवावक्षिप्तो लक्ष्ये यः स्वनति गच्छति इति ऋजिश्वा वज्रः, तेन निरगमयत् । 'अवस्यवः' अवनमात्मनो रक्षणमिच्छन्तः, तर्पणं चा। योऽयमेवम्प्रभाव इन्द्रः, तमिम 'वृषण' वर्षितारम् , 'वज्रदक्षिणं, वज्रबाहुम्, 'मरुत्वन्तं' मरुत्स- हितम्, 'सख्याय' सखिभावाय 'हवामहे' तासु तासु क्रियासु आह्वयामहे इत्यर्थः ॥ एवमेतस्मिन् मन्त्रे “मन्दिने पितुमद्वचः प्रार्चत'-इत्येतस्माद्वाक्यसम्बन्धादिन्द्रविशेषणमेतदित्युपपद्यते ॥ "गौः (५४)” इति। एतद्नेकार्थत्वादिह समानातम् । यथा चैतदनेकार्थत्वं तथा पुरस्तात् “व्याख्यातम्" ॥ ३ (२४)॥ अत्रा ह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपचितमपगतमपिहितमन्तर्हितं वामुत्र चन्द्रमसो गृहे गातुर्व्याख्यातः (गातुं कृणवन्नुषसो जनायेत्यपि निगमो भवति) दंसयः कर्माणि दंसयन्त एनानि । कुत्साय मन्मन्नह्यश्च दंसय इत्यपि निगमो भवति । स तू ताव ह - ४३४ .. - निरुक्तम् * [पूर्वषट्कम् नैनमश्नोत्यंहतिः। सतुताव नैनमंहतिरम्नोत्यंहतिश्चाह- श्चांहुश्च हन्तेर्निरूडोपधात् विपरीतात् । बृहस्पते चयस इपियारुम् । बृहस्पते यच्चातयसि देवपीयं पीयतेहिंसाकर्मा वियुते द्यावापृथिव्यौ वियवनात् । समान्या वियुते दूरे अन्ते । समानं सम्मानमात्रं भवति मात्रा मानाद् दूरं व्याख्यातमन्तोऽततेऽऋधगिति पृथग्भावस्य प्रवचनं भवत्यथाप्नोत्यर्थे दृश्यते । ऋधगया ऋधगुताशमिष्ठाः । ऋध्नुवन्नयाक्षीऋध्नुवन्नशमिष्ठा इति चास्या इति चास्येति चोदात्तं प्रथमादेशेऽनुदात्तमन्वादेशे तीव्रार्थतरमुदात्तमल्पी- योऽर्थतरमनुदात्तम् अस्या ऊ षु ण उप सातये भुवोऽहे- लमानो ररिवाँ अजाश्व (श्रवस्यतामजाश्व) ॥ अस्यै नः सातयः उपभवाहेलमनोऽक्रुध्यन्त्ररिवानातिरभ्यस्तोऽजाश्वेति पूषण माहाजावाजा अजना अथानुदात्तम् । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् । दीर्घायुरस्या यः पतिर्जीवतु स शरदः शतं शरच्छृता अस्यामोषधयो भवन्ति शीर्णा आप इति वाऽस्येत्यस्या इत्येतेन व्याख्यातम् ॥ ४ (२५)॥ यत्तूक्तम्,–“अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते, •-० सोऽपि गौरित्युच्यते,-'अत्रा ह गोरमन्यतेति' तदुपरिष्ठा- - ? ४१०४पा० ४ख०] नैगमं काण्डम् व्याख्यास्यामः"--इति, तदिदमुच्यते,-"अत्रा ह"-इति । गोतमस्य राहुगणस्येयमार्षम् । अग्निचयने इष्टकोपधाने विनि- युक्ता। 'अत्रा ह' अत्रैव, एतसिंश्चन्द्रमण्डले 'गो' सुषुम्नस्यैकस्य सूर्यरश्मः, इतरे सूर्य्यरश्मयः 'अमन्वत' अमन्यन्त, समनुज्ञातवन्त इत्यर्थः। किं पुनस्तत् सममन्यन्त 'नाम' नमनं प्रणमवस्थान- मित्यर्थः। कुतः ? 'त्वष्टुः आदित्यस्य स्वभूता रश्मयः सम- मन्यन्त। कथं तस्य नमनं तत् सममन्यन्त ? इति 'अपीच्यम्' "अपगतं” तत्रैव चन्द्रमण्डलेऽन्तःप्रविष्टस्य यदवस्थानान्तरं तत् सममन्यन्त । अथवा अपीच्यमिति “अप” एत्य सूर्यमण्डलात् चन्द्रमण्डले “चितम्” अपीच्यम्। अथवा अपीच्यम् “अन्त- हितम्" इत्यर्थः, “प्रतीच्यम् (५), अपीच्यम् (६)”-इति अन्तर्हि- तनामसु पठितम् । क पुनरन्तर्हितस्यान्यत्रावस्थानम् ? इति 'इत्था चन्द्रमसो गृहे' अमुष्मिश्चन्द्रमण्डले इत्यर्थः ॥ "गातुः (५५)"--इति । “व्याख्यातः” “गमनं यज्ञपतये" "दंसयः (५६)” इति। एतदनेकेषां कर्मणां अभिधानम्। तानि हि दसयन्त्युपक्षयन्ति कर्मकराः । 'तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यददिबलम् । यत्रा दशस्यन्नुषसो रणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥” -इति (० सं०८,७,२६,१)। अङ्गस्यौरवस्येयमार्षम् । हे 'इन्द्र' 'तव' 'त्ये' 'वह्नयः' वोढारोऽश्वाः, 'सख्येषु' समानख्यानेषु कर्मसु वर्तमानाः, इदमेव हि भवतः कर्म, मेघो विदारयितव्य इति, एतदेव तेषामपि समानख्यानत्वम् ।
४३६ निरुक्तम् , [पूर्वषट्कम् 'ऋतम्' उदकमस्मिन्नस्तीति, एवमेतं 'मन्वाना'। किमकुर्वन् ? 'व्यदर्दिरु' विदारितवन्तः 'बल' मेघं काले काले । 'यत्र' यस्मिन् मेघे विदारिते 'दशस्यन्' दशस्यन्ति 'उपसः' माध्यमिकाः एकस्या एव पूजनार्थे बहुवचनम् । किं दशस्यन् ? 'अपः' 'अह्यः च' अहिनिवासिन्यः, मेघनिवासिनीरित्यर्थः। ताश्च दीर्यमाणाः 'रिणन् आगच्छन्, पृथिवीलोकम्। तदेतत् सर्वमपि युष्मदश्वैः क्रियते। किं पुनरर्थमुद्दिश्य त एवं कुर्वन्ति ? 'मन्मन्' मन्य- मानाः, 'कुत्लाय' पृथिवीं कृन्तते, कृषीवलाय, 'दंसयः कृषि- कर्माणि सफलानि कर्तुम्। अत्र 'दंसयः'--इत्येतेन शब्देन "कर्माणि" उक्तानि । दासैः कर्मकरैः, 'दस्यन्ते'-इति कृत्वा कर्मकरा दासा इति। बाहुल्याद् भाष्यकारेण निगमोऽत्र- नोदाहृतः ॥ "तूताव (५७)-इति। एतदनवगतम्। “तुताच” इत्यव- गमः। “यस्मै त्व मा यजसे स सांधत्यनर्वा क्षेति दधते सुधी- य॑म्। स तूताप नैनमश्नोत्यहतिरग्ने सख्ये मा रिपामा वयं तव ॥” इति (ऋ० सं० १, ६, ३०, २)। ६, ३०, २)। कुत्सस्येय- मार्षम्। महाव्रते आग्निमारुते शस्त्रे जातवेदस्ये सूक्त शस्यते । हे भगवन् ! 'अग्ने !' 'यस्मै' यजमानाय 'त्वम्' 'आ' आहूय 'यजसे देवान् , होतृत्वेऽवस्थितः। 'सः' एव 'साधति' 'साध- यत्यात्मनोऽभिप्रेतार्थम्। किञ्च, स एव 'अनर्वा' अप्रत्युतः, अनाश्रितः कश्चिदन्यम् , स्वेनैव महिमायुक्तः। 'क्षेति' निघसति, युष्मदनुग्रहात्। स एव 'धते' धारयते 'सुवीय शोभनमा- - ॐ नैगम काण्डम् ® ४०४पा०४ख०] ४३७ त्मनो वीर्यम्। स एच 'तूताव' वर्द्धते, प्रजाधनयशोभिः, 'न' व 'एनम्' 'अंहतिः' अपि पापमपि सम् “अश्नोति” आप्नोति । हे भगवनग्ने! यः त्वमेवमतिमहानुभावः, तस्य 'तव' 'वयं 'सख्ये सखिभावे, परिचरणकर्मणि वर्तमानाः 'मा रिषाम' मा केनचि- च्छिद्य महि ॥ एवमयमत्र “तूताव" - इति शब्दः 'यस्मै त्वमा यजसे'-इत्येवमादीनां पदानां मध्ये श्रूयमाणो वृद्ध यर्थमुप- पद्यते ॥ “अंहतिश्च अंहश्च अंहुश्च"-इत्येते शब्दाः “हन्तेः" "निरूढ़ोपधात् विपरीतात्" अकारमुपधातोनिष्कृष्यादौ कृत्वा, ततो हकारनकारौ विपर्ययेण भवतः॥ "चयसे (५८)” - इति। एतदनवगतम्। “चातयसि - इत्यर्थप्रतीतिः । "ये त्वा देवोत्रिकं मन्यमानाः पापा भद्रमुप- जीवन्ति पत्राः। न दूढ्य अनुदासि वामं बृहस्पते चयस इत् पियारुम् ॥”- इति (ऋ० सं० २, ५, १२, ५)। मैत्रावरुणस्येयमार्षम् । हे 'बृहस्पते!' 'देव' दानादिगुणयुक्त ! 'ये' यजमानाः त्वाम् 'उस्त्रिकम्' उत्नाविणं भोग़ानां 'मन्यमानाः' दातैव केवलं भोगानाम् , अयमार्जवेन न प्रत्युपकारार्थीत्येवं मन्यमानाः, 'पापाः' अप्रत्युपचिकीर्षवः 'उपजीवन्ति' एव केवलं, न क्रियया प्रत्युपकारं कुर्वन्ति, 'भद्रं' भन्दनीयं स्तुत्यम् , 'पत्राः' प्रार्जितधनाः सन्तः, न दरिद्राः। किं तेभ्यः? इति 'न दूढ्य' न तेभ्य एवंलक्षणेभ्यः, दुर्धीभ्यः, पापबुद्धिभ्यः, स्वार्थ- प्रधानेभ्यः त्वम् 'अनुददासि' 'वाम' बननीयं धनम्। किं तर्हि ? यस्तादृशो जनः 'पियारुः' देवपीयुः, देवर्हिसिता, खभोगप्रधानः, । अगस्त्यस्य * निरुक्तम् * [पूर्वषट्कम् न यष्टा देवानाम्, तं 'चयसे' “चातयसि” नाशयसि। य एष श्रधानो यष्टा, तस्मै देवान् यजते अनुददासि वामम् , यस्मात् त्वमेवं करोषि, तस्मात् ते पापबुद्धयः त्वां सम्यक् न पश्यन्तीत्य- भिप्रायः। यो हि दुर्बुद्धिः देवपियारुः तस्य किमन्यत् चातनाइते स्यात् ? चात्य एवासौ॥ तस्मात् 'चयसे' इत्येष शब्दः, "चतयतिः” नाशने इत्येवमस्थापिते नाशनार्थों भवतीत्युपपद्यते, "वातयति शने” इति हि वक्ष्यति। लोकेऽपि च प्रसिद्धं देशादुच्चातित इति। तस्मादुपपद्यते ॥ “वियुते (५६)”-इत्येतदेकमेव समस्तयोद्धयोरपि द्यावा- पृथिव्योरभिधानम् । 'वियवनात्” इति निर्वचनम्। यौति- मिश्रणार्थः ( अदा० प०) तस्योपसर्गसामर्थ्याद्विपर्ययेणार्थो भवति, विमिश्रीभूते इत्यर्थः । “इमे वै सहास्तां ते शम्यामात्रं न्यतामिति ह विज्ञायते”। “समान्या वियुते दूरे अन्ते ध्रुवे पदे तस्थतुर्जागरूके। उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥” इति (ऋ० सं० ३, ३, २५, २)। विश्वामित्र- स्येयमार्षम् । वैश्वदेवे सूक्ते। 'समान्या' समान्यावेते द्यावा- पृथिव्यौ, समानपरिमाणे । 'वियुते' च विमिश्रीभूते । 'दूरै अन्ते' च, न हि द्यावापृथिव्योरन्तोपलब्धिरस्ति । 'ध्रुवे पदे' सप्तम्येक- वचनम्, अन्तरिक्षविषयम् , ध्रुवं शाश्वतम्, एतस्मिन् पदे आधार- भूते, अन्तरिक्षस्य क्षयो नास्ति, प्रतिद्वन्द्वाभावात् , तच्चैतयो- वापृथिव्योः प्रतिष्ठा, तस्मिन्नेते 'तस्थतुः' स्थितवत्यौ। सर्गा- दारभ्य 'जागरूके जागरणशीले, स्वं स्वमधिकार प्रति। 'उत' पर ४०४पा०.४ख०] * नैगम काण्डम् * अपि चैते खसारौं' भगिन्यौ, सहोत्पत्तित्वात् । 'युवतीभवन्ती' सम्मिश्रीभवन्त्यौ, परस्परसम्भोगेन । 'आद् उ ब्रु वाते मिथु- नानि नाम' इति। अथैवमेते "वियुते' च सम्मिश्रीभूते च सत्यौ, द्यावापृथिव्यौ, ब्रवाते इव, प्रथयत इव, स्तोस्तृणां 'नाम' नामानि, आत्मनः 'मिथुनानि' द्विवचनसम्बद्धानि स्तुतिनामभिः,-वधे (१), पुरन्धी (२)" - इत्येवमादिभिरिति॥ एवमेतस्मिन् मन्त्रे 'वियुते"-इत्यस्य पदस्य द्यावापृथिवीविशेषणत्वम्, द्यावा- पृथिवीशब्दश्चात्राध्याहार्यः, 'दूरे अन्ते'-इत्येवमादीनां तथो- पपत्तिदर्शनात् ॥ 'ऋधक् (६०)"-इति। अनेकार्थम् । “ऋधगिति पृथः ग्भावस्य प्रवचनं भवति” पृथक्त्वमेव पृथग्भावः, तस्येदं प्रवचनं भवति, सोऽनेन प्रोच्यते इत्यर्थः। “यदिन्द्र दिवि पाये यद- धग् यद्वा स्वे सदने यत्र वासि। अतो नो यज्ञमवसे नियुत्वान् सजोषाः पाहि गिर्वणो मरुद्धिः ॥”-(ऋ० सं० ४, ७, १२, ५)। भरद्वाजस्येयमार्षम् । पृष्ट्यस्य पञ्चमेऽहनि मरुत्वतीये निविद्धानीये सूक्ते शस्यते। हे भगवन् ! 'इन्द्र !'. 'यत्' यदि त्वं 'दिवि' युलोके 'पायें' पारणीये स्थानेऽवस्थितः, 'यद्धक्' यदि ऋधक् पृथगिव इत्यर्थः। 'यद्वा' यदि वा 'स्वे सदन' अन्तरिक्षलोकेऽव. स्थितः । 'यत्र वासि' क्वचिदन्यत्रैव स्थानेऽवस्थितः, को हि तत्त्वतो वेद, तव स्थानं यत्रासीति। किंबहुना, यत्र यत्रासि अवस्थितः, 'अतः' आगत्य 'यज्ञम्' 'अवसे' रक्षसि । 'नियुत्वान्' चायुर्भूत्वा। यस्त्वमेवम्प्रभावः, त्वां तु ब्रवीमि, हे 'गिर्वणः' * निरुक्तम् * [पूर्वषट्कम् गीर्भिः सम्भजित! स हि स्तुतीः सम्भजति, स्तुतिभिर्वा सम्भज्यते, 'सजोषाः' सहजोषणः सप्रीतिः, 'मरुद्धिः पिबतं सोममस्मात्प्रत्तम् । एवमेके पृथग्भावोदाहरणमेतमृचं व्याचक्षते॥ अपर पुनर्य एवेष भाष्यकारेण निगमः पठितः,-"ऋध- गया:"--इति, अत्रैवैतौ द्वावप्यर्थाविति मन्यन्ते, तथापि दर्शयि- ध्यामस्तस्यामेवर्चि “अथापि” अथमेवमृधगिति शब्दः कदाचित् "मृध्नोत्यर्थे” अपि “दृश्यते”—“ऋधगया ऋधगुताशमिष्ठाः” इत्यस्मिन् मन्त्र । “वयं हि त्वा प्रयति यज्ञे अस्मिन्नग्ने होतार- मवृणीमहीह। धगया ऋधगुताशमिष्ठाः प्रजानन् यज्ञमुपयाहि विद्वान् स्वाहा ॥"--इति (य० वा० सं०८, २०)। समिष्टयजुःषु सौमिकेषु विनियुक्ता। तत्र चोक्तम्,-"एतौ विश्वामित्रो यज्ञस्या- रणी अपश्यत्” इति। हे भगवन् ! 'अग्ने !' 'यत्' प्रयोजनमु- द्दिश्य 'अद्य' 'प्रयति' प्रोत्सर्पति एतस्मिन् 'यज्ञ' 'वयम्' 'अवृणी- महि' वृतवन्तः ‘होतारं त्वाम्। “अग्निर्देवो दैव्यो होता"-इति श्रूयते। किं पुनस्तत् प्रयोजनम् ? इति। कथं नामाल्पमप्यवदानमात्रं हुतं देवतातृप्तिसमर्थ बहु कुर्य्यादशान्तमपि च यद् विगुणं यज्ञस्य किञ्चित् तच्छमयित्वा समृद्धमेष कुर्यात् ? इति, तच्चोभयमपि यथाशास्त्रमेवास्माकं त्वया कृतम् , अत इदानीं परिसमाप्त एत- स्मिन् यज्ञ प्रत्यभाष्यसे अस्माभिः,-'ऋधगयाः' त्वम् , अल्पमपि, हुतम् अस्माभिः हविः, 'अधक्' एव ऋद्धमेव, देवतातृप्तिसमर्थ बहु कुर्वन 'अयाः' त्वं यागमकार्षीरित्यर्थः । किञ्च, 'ऋधगुताशah + ४अ०४पा०४ख० * नैगम काण्डम् * मिष्ठाः अपि च यदपि किञ्चिद्विगुणम् अकार्म, वयमेतस्मिन् यो, तदपि सर्वमेव समृद्धं सगुणमेव कुर्वन् , पापमस्य यज्ञस्य अश- मिष्ठाः विष्टकद्रूपेण शमितवानसि। यस्त्वमेतदकार्षीरस्माकमे- तस्मिन् यज्ञे, तं, त्वां ब्रवीमि,-एतदेव मयैतेषां कर्त्तव्यमित्येतत् "विद्वान्' 'प्रजानन्' प्रकर्षण जानन् अस्माकमात्मन उपरि भक्ति पुनः पुनः 'उपयाहि' उपागच्छ 'यज्ञम् ॥ एवं तावदेकेषाम् "ऋधगयाः, ऋधगुताशमिष्ठाः” इत्येतो द्वावपि “ऋधक्” शब्दो ऋध्नोत्यर्थावेव। एतसिन्नर्थे, ऋधक्छब्दस्य पृथग्भावार्थत्वे “यदिन्द्र दिवि पाये यद्धक---इत्येतदुदाहरणम्। अन्ये पुनर्मन्यन्ते,-"ऋधगयाः, ऋधगुताशमिष्ठाः”-इत्येतयोरेव ऋधक्छब्दयोः पूर्वः पृथग्भावार्थः, उत्तर ऋध्नोत्यर्थ इति। तदेत- दुपपद्यते, मिश्राण्यपि हवींषि हुतानि सन्ति, त्वमग्ने ऋधक पृथगेव कृत्वा ततो देवानथाक्षीन ते सम्मोहोऽस्तीत्यभिप्रायः । 'ऋधगुताशमिष्ठाः'-इत्येष यथाव्याख्यात एव। पूर्वस्त्वर्थः लाधीयान् , यत्र द्वाघप्येतावृध्नोत्यावेव,-"धगयाः” “ऋध- गुताशमिष्टाः"--इति। किं कारणम् ? “अथाप्य॒ध्नोत्यर्थे दृश्यते” इति एवमुपन्यख्य भाष्यकारेण ततोऽयमुपात्तो निगमः, 'ऋधगया ऋधगुताशमिष्ठाः इति, एवञ्च निरुक्तम्-- 'ऋध्नुवन्नयाक्षीध्नुवनशमिष्ठाः -इति। तस्मात् द्वावप्येता- वृध्नोत्यर्थावित्येतदेव साधीयः ॥ “अस्याः (६१)”-इति, “अस्य (६२)”- इति च। पदद्वयं स्त्रीपुंसविषयम् , स्वरकृतात् विशेषात् प्रधानाभिधायि वा भवति । १ ४४२ * निरुक्तम् * [पूर्वषट्कम् आह,-कथम् ! इति उच्यते,-"उदात्तं प्रथमादेशे। प्रथम इति मुख्यनाम, मुख्यं प्रधान उच्यते, प्रधानं कञ्चिदर्थमभिधत् एतद् द्वयमुदात्तं भवति । “अनुदात्तमन्वादेशे”। प्रधानमर्थमनु यो वर्तते गुणभावेन तस्यैतत् पदद्वयमन्वादेशे वर्तमानमनुदातं भवति। आह, कस्मादेतत् पुनरुदात्तं प्रधाने वर्तमानमनुदात्त- मप्रधाने ? इति। उच्यते, लोकेऽपि हि यत् “तीव्रार्थतरम्" उत्कृष्टार्थप्रधानतरं तत् “उदात्तम्" इति प्रसिद्धम् , तद्यथा,- उदात्तमेतत् कुलमिति। “अल्पीयोऽर्थतरमनुदात्तम्” अल्पीय- सार्थेन यद्य तं भवति तदनुदात्तमुच्यते, अप्रधानमित्यर्थः । उदाहरणैरेवानयोविभागं दर्शयति,-"अस्या ऊ षु ण उप सातये भुवोऽहलमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व। ओषु त्वा ववृतीमहि स्तोमभिर्दस्म साधुभिः न हि त्वा पूषन्नतिमन्य आणे न ते सख्यमपह्न वे ॥” इति (ऋ० सं० २, २, २, ४)। परु- च्छेपस्यार्षम् । अतिच्छन्दाः। 'ऊ'-इति, 'बु'-इति, 'ण'- इति पदानि। 'अस्याः' "अस्यै” 'सातये' लब्धये। कथं नाम षयमर्थमभिप्रेतं लभेमहि ? इत्येतमर्थमुद्दिश्य, हे 'पूषन् !' अस्माकं सुष्टु 'उप' समीपे 'भुवः' भव। त्वयि सन्निकृष्टे त्वदनुग्रहादेतमर्थ लभेमहीत्यभिप्रायः । कथं पुनरुपभव ? अहेल- मानः' अक्रुध्यन्, सर्बो ह्यभ्यर्थ्यमानः क्रुध्यतीत्यभिप्रायः । 'ररिवान्' दानवान्, दानाभिप्रायसंयुक्तेन चेतसा उपभव । 'अजाश्व' “अजनाश्व” गमनाश्व, छागाश्व वा 'श्रवस्यताम्' अस्माकं धनमिच्छतां भव, “अजनाश्व" छागाश्वेत्यर्थः। किञ्च, नि ४अ०४पा० ४ख० नैगमं काण्डम् * 'ओषु त्वा ववृतीमहि। 'आ' 'उ' 'धु-इति पदानि । 'मा ववृतीमहि त्वां सुष्ठु आभिमुख्येन आत्मनो वर्त्तयामहे । केन ? 'स्तोमेभिः स्तोत्रैः। 'स्तोत्रैः'। 'दस्म' हे दस्म! दर्शनीय ! अथवा दान्त! साधुभिः शोभनैरित्यर्थः । किञ्च, 'न हि त्वा' नैव त्वां दर्शनीयम् अतीत्य साधुतरां कश्चिदप्यन्यामहं देवतां मन्ये, हे 'आघृणे' आगतदीप्त! त्वद्भक्त एवाहमस्मीत्यभिप्रायः । किञ्च, 'न ते' न चाहं तव 'सख्यं' सखिभावं कदाचिदपि 'अपह्नवे' कृतज्ञो ह्यहमित्यभिप्रायः । एवमत्र सातिः प्रधानेति कृत्वा "अस्याः” इत्येतत् पदमन्तोदात्तम् । अन्तोदात्तमपि च सदु- दात्तमित्युक्तं भाष्यकारेण, एकदेशस्योदात्तत्वात् ॥ “अथ” पुनर्यस्मिन् “अनुदात्तम्” एतत् पदं गुणभूतार्थाभि- धायि भवति । तस्यैष निगमः,–“पुनः पत्नीमग्निरदादायुषा सह वर्चसा। दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥' इति (ऋ० सं० ८, ३, २७, ४)। सूर्याया आर्षम् । विवाहे विनियुक्ता। पित्रा पूर्वमेतां दत्तां सती कन्यां पत्नी पुनरग्निग्दात्, 'आयुषा सह वर्चसा' तेन सह एतस्मिन् वैवाहिके कर्मणि अग्निसन्निधिसंस्काराद् भार्यात्वमुपजायते इत्येतदपेक्ष्य पूर्व- दानात् पुनतृत्वमुच्यते । तदेवमस्या दत्ताया एतदाशास्महे,- 'योऽस्याः पतिः' सः 'दीर्घायुः' अस्त्विति। यतो विशेषयन् ब्रवीमि,-"जीवतु सः शरदः शतम्" इति। शरदि दुर्जीवाः, रोगभूयस्त्वात्, अतएव आशास्यते शरच्छतं जीवत्विति ॥ एतस्मिन् मन्त्रे भर्तृकन्यासंयोगे सति भत्तै प्रधानम्, तस्य ema ह्यायुराशास्यते। , wan निरुक्तम् * [ पूर्वषटकम् तस्य लक्षणार्था पत्नी। तस्मात् “दीर्घायुः अस्या यः पतिः"-इति, एतदनुदात्तम् ॥ निगमप्रसक्तमुच्यते,-"शरत्” “अस्यां" हि "भृताः” पक्काः "ओषधयो भवन्ति”-इति, "शीर्णा आप इति वा" वर्षासु हि प्रवृद्धानि स्रोतांसि शरदि विशीर्य्यन्ते । "अस्य-इति” एतत् पदं पुंविषयम् षष्ठ्यन्त “अस्याः-इत्येतेन” स्त्रीविषयेण पदेनैव व्याख्यातम्” ॥ ४ (२५)॥ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पर्ति सप्तपुत्रम् ॥ अस्य वामस्य वननीयस्य पलितस्य पालयितु- होतुतिव्यस्य तस्य भ्राता मध्यमो अस्त्यशनो भ्राता 'भरतेहरतिकर्मणो हरते भागं भर्त्तव्यो भवतीति वा तृतीयो भ्राता घृतपृष्ठो अस्यायमग्निस्तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा विश्पतिं सप्तपुत्रं सर्पणपुत्रमिति वा सप्त सृप्ता सङ्ख्या सप्तादित्यरश्मयइति वदन्ति ॥ ५ (२६)॥ यदेवोक्तम् “उदात्तं प्रथमादेश, अनुदात्तम् अन्वादेशे"-इति तदेवात्रापि लक्षमित्यभिप्रायः। उदाहरणमात्र प्रदर्श्यते,-"अस्य वामस्य ०-० सप्तपुत्रम्” । अस्यवामीयमेवेदं सूक्तम् । दीर्घतमस आर्षम् । तार्तीयसवने महाव्रते वैश्वदेवे शस्त्रे शस्यते। 'अस्य' सूर्यस्य 'वामस्य “वननीयस्य” स्तुतिभिः, 'पलितस्य' “पाल- नैगमं काण्डम् * ४४५ ४० पा०५ख०] यितुः" अयं हि सर्वमेवेदं जगत् पालयति । 'होतुः "हातव्यस्य" आह्वानाहस्य । आह, तस्य किम् ? इति । उच्यते, योऽयमेवं लक्षणः आह,-तस्य' भ्राता' “भागहर्ता” “भर्त्तव्यो वा" उदकेन, 'मध्यमः' मध्यमस्थानः 'अस्ति' विद्यते। कतमः? योऽयम् 'अश्नः' “अशनः” व्याफ्नो वायुरित्यर्थः, स हि धुलोका. दादित्येनोदकेन भ्रियते, हरति चोदकं द्युलोकात् । 'तृतीयः' 'अस्य' वायोः 'भ्राता' हविर्भागहर्ता वा, ऐन्द्राग्ने हविषि संस्तुतौ वा, घृतपृष्ठः' घृतेन स्पृष्टः, आज्यस्पृष्टः, “अयम्” एव "अग्निः पृथि- वीस्थानः। 'सहस्रिणः' वायोः, सर्वस्माद्धि वायुः बलवान् । अथवा सहस्रमस्य नियुक्तमश्वानामस्तीति सहस्त्री वायुः, “आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिः” इति' (ऋ० सं० २, १, २४, ३)। श्रूयते वायव्ये मन्त्रे। वायुः, आदित्यः, अग्निः,- इत्येवं परिसंख्याय वायोस्तृतीयोऽअग्निर्भवति, वायुरपि च ज्योतिरेव, “वायुना ज्योतिषा" - इति विज्ञायते। तत्रैतस्मिन् त्रेधा विभक्त ज्योतिषि, प्रधानत्वेनैतमेवाहमपश्यमिति । 'विश्- पति विश्वस्य सर्वस्य जगतः पालयितारम् । कतमम् ? य एषः 'सप्तपुत्रः' सूर्यएतमेवाहमत्र प्रधानेनापश्यमित्येवमे- तस्मिन् मन्त्रे। सूर्य्यः प्रधानः, सूक्ते सूर्याधिकारात्, तस्मात 'अस्य वामस्य' इत्येषः “अस्य"-शब्द अन्तोदात्तः । वायुरत्रा- प्रधानम्, तस्मात् 'तृतीयो भ्राता घृतपृष्ठः अस्य,-इत्येषः “अस्य" -शब्दोऽनुदात्तः॥ एवमेकस्मिन्नेवास्मिन् मन्त्रे उदात्तानुदात्ता. वेतौ “अस्य"-शब्दो प्रधानाप्रधानविषयावित्येकमेवोदाहरणम् ॥ - ।
। maintam । * निरुक्तम् * [पूर्वषट्कम् आह,-तृतीयो भ्राता घृतपृष्ठो अस्य'-इत्यनेन “अस्य" शब्देन सूर्य एव कस्मान्न सम्बध्यते ? अपि च "तृतीय"-शब्दस्य प्रकृतानुक्रमाविरोधेनैवमेव सुखतरा योजना भविष्यति । उच्यते, 'अस्य वामस्य'-इत्येतदन्तोदात्तं पदमितरदन्यत् 'तृतीयो भ्राता घृतपृष्ठः अस्य-इति प्रधानरूपमेव सत् पूर्वेणानुदात्तमिति. स्वरकृताद्विशेषादर्थकृतेनापि विशेषेण भवितव्यमित्यप्रधानार्थाभिः धायिना विशेषः प्रतीयते। आदित्यसंस्तवात् सूक्ते वायुश्चात्रा- प्रधानः, प्रकृतादादित्यात् तस्माद्वायुविषयमेवेदम् अस्येति द्वितीय- पदमनुदात्तं सम्पद्यते। अतः सुतरामुपपन्नं भवति “उदात्तं प्रथमादेशेऽनुदात्तमन्वादेशे"-इत्यत्र प्रथमादेशान्वादेशशब्दाभ्यां प्रधानाप्रधानावुच्यते इति। अन्ये तु मन्यन्ते,-प्रथमादेशो नाम प्रारम्भः, तत्र यद्वर्त्तते, तदुदात्तं भवति, प्रधानार्थतरमुदात्तत्वेनैव लक्षणेन। तद्यथा,--"अस्या ऊ षु णः (ऋ० सं० २, २, २, ४)" "अस्य वामस्य (० सं० २, ३, १४, १)"--इति । अन्वादेशो नाम, अन्यस्य पदस्य पश्चादादेशः, तत्र वर्तमानमनुदात्तं भवति । पदात् पदस्य निघातो भवतीति हि लक्षणविदोऽपि ब्रुवते । तच्चानुदात्तत्वेनैव लक्षणेनाल्पीयोऽर्थतरमप्रधानार्थतरं भवति। तद्यथा,–“दीर्घायुरस्या यः पतिः (ऋ० सं०८, ३, २७, ४)" तृतीयो भ्राता घृतपृष्ठो अस्य (ऋ० सं० २, ३, १४, १)-इति॥ -कथं सप्तमपुत्र आदित्यः ? इति । उच्यते,-"सप्तमो हासावादित्यः पुत्रः” इत्येवमैतिहासिका मन्यन्ते । ब्राह्मणेऽपि च,-"मृतपितरमण्डमवापद्यत, तस्मिन्नादित्यः सप्तम इन्द्रोऽष्टम ।
४०४पा०६ख०] *नैगम काण्डम् * इति ह विज्ञायते"। अथवा सप्तसंख्याका युक्ता अस्य रश्मयःः पुत्राः, तेनासौ सप्तपुत्रः। अथवा नैव संख्याभिप्रायमेतत् सप्तपुत्र इति। आह, कथं तर्हि ? इति । उच्यते,--"सर्पणपुत्रमिति" एवम् , सर्पणा हि तस्य रश्मयो मुहूर्तमप्यनवस्थायिनो यस्य पुत्राः सोऽयं सप्तपुत्रः। “सप्त सृप्ता संख्या" षड्भ्यः सकाशात् । एवं सप्तसंख्योपेताः, सर्पणक्रियायोग्या वा एत एव "आदित्यरश्मयः" आदित्यस्य पुत्राः "इति” मन्त्रविदः “वदन्ति” मन्यन्ते ॥५(२६)।. - सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा। त्रिनाभि चक्रमजरमन यत्रेमा विश्वा भुवनाधि तस्थुः ॥ सप्त युजन्ति रथमेकचक्रमेकचारिणंचक्रं चकतेर्वा चरतेर्वा कामते वैको अश्वो वहति सप्तनामादित्यः सप्तास्मै रश्मयो रसानभिसन्नामयन्ति सप्तैनमृषयः स्तुवन्तीति वेदमपीतर- बामैतस्मादेवाभिसन्नामात् संवत्सरप्रधान उचरोहचत्रि- नाभिचक्रं त्र्य॒तुः संवत्सरो ग्रीष्मो वर्षा हेमन्त इति संवत्सरः संवसन्तेऽस्मिन् भूतानि ग्रीष्मो ग्रस्यन्तेऽस्मिनसा वर्षा वर्ष- त्यासु पर्जन्यो हेमन्तो हिमवान् हिम पुनर्हन्तेर्वा हिनोतेर्वा- जरमजरणधर्माणमनवमप्रत्युतमन्यस्मिन् यत्रेमानि सर्वाणि भूतान्यभिसन्तिष्ठन्ते तं संवत्सरं सर्वमात्राभिः स्तौति पञ्चारे ४४८ प्रत्युत * निरुक्तम् * [पूर्वषट्कम् चक्रे परिवर्तमान इति पञ्चर्तुतया पश्चर्तवः संवत्सरस्येति च ब्राह्मणं हेमन्तशिशिरयोः समासेन पलर आहुरर्पितमिति षडतुतया अराः नाभौ षट् पुनः सहतेः। द्वादशारं नहि तज्जराय। द्वादश प्रधयश्चक्रमेकमिति मासानां मासा मानात् प्रधिः प्रहितो भवति । तस्मिन् साकं त्रिशता न शङ्कयोऽपिताः षष्टिन चलाचलासः। पष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहोरात्रा इति च ब्राह्मणं समासेन । सप्त शतानि विंशतिश्च तस्थुः। सप्त च वै शतानि विंशतिव संवत्सरस्याहोरात्रा इति च ब्रामणं विभागेन विभागेन ॥६॥ इति चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४, ४ ॥ यथा चायं सप्तभिः सर्पणैर्वा रश्मिभिर्युज्यते तथेयमपरा ऋगेतस्मिन्नेव सूक्ते “सप्त युञ्जन्ति अधि तस्थुः” इति (ऋ० सं० २, ३, १४,२)। 'सप्त' सङ्ख्योपेताः सर्पणा वा 'युञ्जन्ति' योजयन्त्यात्मना रश्मयः 'रथ' रहणमादित्यम्, उद्य- न्नेव ह्यसावादित्यो रश्मिभिः युज्यते, म्हणश्चासौ मुहूर्त्तमप्यन- चस्थायित्वात् । 'एकवक्रम्' एक एव ह्यसावन्तरिक्षे चरति, इतराणि ज्योतींषि नाशयत्येव स्वेन तेजसा प्रकाशेन । ‘एकोऽ- श्वः, एक एवाश्वः, अशनो व्यापनः सर्वभूतानाम् 'वहति' गच्छति 'सप्तनामा' सप्तस्तुतिः, सप्तपुत्रः-इत्येवमाद्याः सप्तf भ- ४० ४पा० ६ख०] नैगमं काण्डम् * सङ्ख्याकाः स्तुतयोऽस्य। अथवा "सप्तास्मै रश्मयो रसानभि- सन्नामयन्ति”-एतस्मिन् मण्डल, इति सप्तनामा। अथवा "सप्त नमृषयः (नमन्ति) स्तुवन्ति इति” सप्तनामा। “इदमपीत- रत्" शब्दः "नाम" "एतस्मादेव"-"अभिसन्नामात्” तदपि स्वमर्थ प्रत्याययितु क्रियापदस्य वा गुणभावेनाभिमुख्येन सन्नमति। स एवंलक्षणः सप्तचारी व्यापनः सप्तनामा, सर्पणैः सप्तभिर्वा रश्मिभिर्युक्तो यदा वहति, उदयादारभ्य यावदस्तमिति, तदैवं वहन् निर्वर्तयन्तीति उच्यते,-'त्रिनाभिवक्रमजरमनवम्' 'त्रिनाभिसंयुक्त कालचक्रम्, चकनधर्मि, चकनं चलनमुच्यते, चरणधमि, क्रमणमि वा! 'अजरम्' “अजरणधर्माणम्” । 'अनर्यम्' “अप्रत्युतमन्यस्मिन्” अनाश्रितमित्यर्थः । 'त्रिनाभिचक्र' "व्यूतुः” हि “संवत्सरः"--"ग्रीष्मो वर्षा हेमन्त इति” अनेन ऋतुविभागेन एतदेवास्य विनाभित्वमभिप्रेतम् । ऋतुभिर्हि संवत्सरो नाते समाते इत्यर्थः। “संवत्सरप्रधान उत्तरोऽर्द्धर्चः” नादित्यप्रधानः। "संवत्सरः संवसन्त्यस्मिन्" प्रसक्तम् , समस्तानि हि “भूतानि” एतस्मिन् संवसन्ति। मैथुना- भिप्रायो वा स्यात् संवासः ? “ग्रीष्मः, अस्यन्तेऽस्मिन् रसाः" सूर्येण । “वर्षा, वर्षत्यासु पर्जन्यः” तदेतत् प्रत्यक्षमेव । “हेमन्तः, हिमवान्” तत्र हि बहु भवति हिमम् । “हिमं पुनर्हन्तेर्वा” तद्धि हन्त्योषधिवनस्पतीन् प्रकिरति, “हिनोतेर्वा” तर्पणार्थस्य, तेन हि पुष्यन्ति यवादयः, गमनार्थस्य वा हन्तेः, तद्धि गमयति क्षयं भूतानि । 'अजरं' तत् संवत्सरचक्रम् अजरणधर्मि, न हि संव- -इति प्रलक्तानु- , * निरुक्तम् * [पूर्वषट्कम् त्सरस्य जरा नाम धर्मोऽस्ति । "अनर्व" च तत् “अप्रत्युतम्” अप्रतिगतमनाश्रितमन्यत्र क्वचित् । आह, अत्र किम् ? इति । उच्यते,–“यत्र" यस्मिन् 'मा' “इमानि” 'विश्वा' “सर्वाणि" 'भुवना' “भूतानि” 'अधि' उपरि 'तस्थुः' "अभिसन्तिष्ठन्ते" आश्रितानि विनाशमुपयान्ति। विनाशोऽपि हि संस्थोच्यते, संस्थितः पिता ममेत्युक्त मृत इति गम्यते । तदेवंलक्षणं 'त्रिनाम' कालचक्रमजरम्, य आदित्योऽभि- निवर्तयति, यच्चेदमभिनिर्वय॑ते कालचक्रम्, तदेतदुभयमप्यहं स्तौमीत्येवमस्य मन्त्रस्य पूर्वोऽर्द्धर्च आदित्यप्रधानः, उत्तरः संवत्सरप्रधानः॥ आह-कथं गम्यते सम्वत्सरप्रधान उत्तरोऽर्द्धर्चः इति, नहि संवत्सरग्रहणमत्रास्ति ? उच्यते,–'त्रिनाभिचक्रम्'-इत्येतस्मा- दनुसम्बन्धात्। आह,-एतदपि विशेषलिङ्गमत्र नास्त्येव, त्रय ऋतवो नाभिशब्देनोच्यन्ते इति? तस्मादेतदप्ययुक्तमेवेति । उच्यते, य एष पूर्वस्मिन्नर्द्धर्चे प्रकृतेन सूर्येणाभिनिवर्त्यते संवत्सरः, अस्सिंश्च सर्वाण्येतानि भूतान्यभिसन्तिष्ठन्ते, “तम्” एतं "संवत्सरम्" उत्तरस्मिन्नर्द्धर्चे प्रकृत्य मन्त्रकृत् 'त्रिनाभिवक्रम्'- इत्येवमाद्याभिः “सर्वमात्राभिः” सर्वैः अवयवैः ‘पश्चारे चक्रे' 'षडरें 'त्रीणि शतानि षष्टिश्च' 'सप्तशतानि विशतिश्च' इत्येव- प्रकारैः “स्तौति"। तस्मात् सूक्ते संवत्सरस्यावयवस्तुतिप्राय- दर्शनादिहापि त्रिनाभिशब्द ऋतुविषय इत्युपपद्यते । षण्णामृतूनां द्वौ द्वौ ऋतू समानस्वभावौ इत्यनेनाभिप्रायेण त्रित्वम्। अथैवinde *नगम काण्डम् * ४.०४पा०६ख०] मुक्त्वा “तं संवत्सरं सर्वमात्राभिः स्तौति” अधुना यथैतं सर्व- मात्राभिः स्तौति, तथोपपादयति,–“पञ्चारे चक्रे परिवर्त्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा। तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्य्यते स नाभिः ॥” इति (ऋ० सं० २, ३, १६, ३-१, २२, ८, १३)। “इति पञ्चर्तुतया" संवत्सरस्य स्तुतिः । 'पञ्चारे चक्रे ऋतवः अत्र अरत्वेनाभिप्रेताः। “परिवर्त्तमाने परिगृह्य दं जगद् वर्त्तमाने। आह,-किम् ? इति। उच्यते, 'तस्मिन्नातस्थुः' तस्मिन्नवस्थितानि उपरि अधिरूढानि। कानि? 'भुवनानि' भूतानि 'विश्वा' विश्वानि, सर्वाणि, कालचक्रे हि सर्वमेवेदं जगदधिरूढ़ बम्भ्रमीति। अथैवमतिमहतापि सर्वभूत- चक्रेणाक्रान्तस्य कालचक्रस्य 'भूरिभारः' बहुभारः सन्नेवायम् 'अक्षः' संवत्सराख्यः 'न तप्यते न सन्तापयति नापि सन्तापं यास्यतीत्यर्थः। अपि च 'सनादेव' चिरन्तन एव सोऽक्षा, तथापि न तप्यते, न वा तप्रोऽपि सन् सहसैव 'विशीर्यते' नश्यति। आह, यद्यक्षो न तप्यते शीर्यते वा, किमेवमतिब- लीयसाक्षेण वृष्यमाणा नाभिः, तप्यते शीर्य्यते वा? इति। नेत्युच्यते,–'स नाभिः' अक्षो न शीर्यते न तप्यते। नाभिरा- दित्य एवाभिप्रेतः। आह,-कथमेतद्गम्यते 'पञ्चारे चक्रे इत्यत्र अर शब्देन ऋतवोऽभिप्रेता इति, न ह्यत्र विशेषलिङ्गस्तूनामर- त्वेऽस्ति, अपि च ऋतवः षट् प्रसिद्धाः, इह व पञ्चार इति श्रूयते, तस्माद्नुपपन्नम् ? इति । उच्यते,-सूक्ते संवत्सरस्यावयवस्तु- तिप्रायदर्शनादुपपद्यते। “पञ्चवः संवत्सरस्येति व ब्राह्मणम्, , ४५२ * निरुक्तम् * [पूर्वषट्कम् हेमन्तशिशिरयोः समासेन एकत्वेनेत्यर्थः । तस्मादुपपद्यते । एवं पञ्चर्तुत्वमृतूनाम् , अरत्वं चावयवस्तुत्यभिसम्बन्धादिति ॥ पञ्चपादं पितरं द्वादशाकृति दिव आहुः परे अर्द्ध पुरीषिणम् । अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षलर आहुरर्पितम्” इति (ऋ० सं० २, ३, १६, १) । “पलर आहुरर्पितमिति षड्जस्तुतया” संवत्सरस्य स्तुतिः। 'पञ्चपादं संवत्सरम् , ऋतवो हि संवत्स- रस्य पादाः, तैस्यसौ पतति गच्छति। "पितरं' पालकं सर्वभूता- नामुत्पादयितारं वा 'द्वादशाकृतिम्' द्वादशमासप्रविभक्तविग्रहम्, "द्वादशमासाः संवत्सरस्य” इति च ब्राह्मणम् "दिवे' धुलोकस्य 'परे' परमे 'अर्द्ध' स्थाने योऽयमवस्थित आदित्यः, एतस्मिन् पञ्चपादं पितरं द्वादशाकृति 'पुरीषिणं' उदकवन्तं संवत्सरम् 'अर्पितमाहुः' अविशेषेणान्ये ब्राह्मणाः। तस्मात् सर्वऋतवो वृष्टिमन्त इति ह विज्ञायते। तस्मात् संवत्सरस्योदकवत्त्वमु- पपद्यते । 'अर्थ' पुनः ‘इमे 'अन्ये' य एते 'उपरे' उपर्यवस्थिताः, 'सप्त' ऋषयः, एते 'विचक्षणं' विविधानां सर्वभूतकर्मणां द्रष्टारमे- वमादित्यं 'चक्रे षडरे' तस्मिन् संवत्सराख्ये 'अर्पितमाहुः । अथवा सप्तचक्र आदित्यः, स हि सप्तभीरश्मिभिश्वकते दीप्यते, 'सप्त- चक्रे-इत्येकं पदं तस्मादेवमपि भवति ॥ एवमेके संवत्सरमा- दित्यप्रविष्टमाहुः,अपरे पुनरादित्यं संवत्सरेप्रविष्टमित्येष सम- स्तार्थः॥ एवमेतस्यामृचि आदित्यसंवत्सरौ स्तूयेते। वक्ष्यति हि "चन्द्रमसा वायुना संवत्सरेणेति संस्तवः” । संवत्सरस्य चक्ररूपेण नाभ्यादिभिः स्तुतिरुपपद्यते ॥ “अराः प्रत्युता नाभी" ४०४पा०६ख०] नैगम काण्डम् , प्रतिगता इत्यर्थः। षट् पुनः सहतेः" ते हि पञ्चसङ्ख्यामभि- भूय वर्तन्ते॥ "द्वादशारं न हि तजराय” इति । 'द्वादशप्रधयश्चक्रमे- कम्" इति। “इति मासानाम्” एतौ पादौ भवत इति वाक्य- शेषः। “द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत । तस्मिन् साकं त्रिशता न शङ्कयोऽर्पिताः षष्टिन चलाचलासः ॥' -इति (ऋ० सं० २, ३, २३, २)। "मासा मानात्” मीयते हि तैः संवत्सरः। “प्रधिः प्रहितः” प्रश्लिष्य ‘चक्र निहितः "भवति" गण्डपुच्छः प्रधिरित्युच्यते । द्वादशप्रधयः' मासाख्याः, संहताः सन्तः 'चक्रमेकं' भवति। तत्र च पुनः 'त्रीणि नभ्यानि' फलकानि भवन्ति,-त्रय ऋतवो ग्रीष्मो वर्षा हेमन्त इति । यदेतदेवलक्षणं चक्रम् ‘क उ तत् चिकेत' कस्तु तत् याथार्थ्यतो विजानाति ? 'तस्मिन्' चक्रे 'सार्क' सह 'त्रिंशता न शङ्कयोऽ. पिताः' त्रिशतान्यहोरात्राणि शङ्कव इवार्पितानि। 'षष्टिर्न षष्ट्यधिकानि त्रीण्यहोरात्रशतानि शङ्कच इधार्पितानि, प्रक्षि- सानि। द्वितीयो नकारः समुच्चयार्थे। 'चलाचलासः' चलानि व अचलानि च, चलान्यनवस्थायित्वात्, अचलान्यहोरात्रात्म- भावं न मुञ्चति। आह,-कथं गम्यते अहोरात्राण्येतानीति ? उच्यते,-संवत्सरस्तुतिप्रायसम्वन्धा। षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहोरात्राः इति च ब्राह्मणं समासेन" अहो. रात्रयोरेकत्वेनेत्यर्थः ॥ "द्वादशारं न हि तजराय वर्वर्ति चक्रं पर द्यामुतस्य । २-८ ४५४ * निरुक्तम् * १. [पूर्वषट्कम् पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥"- इति (ऋ० सं० २, ३, १६, १)। 'न हि तजीर्य्यते' किं तर्हि अन्यानि भूतानि जरयत् 'वर्वतिं च पुनः पुनर्वर्त्तते। 'परि द्या' परिगृह्य द्याञ्च पृथिचीञ्च ततो धर्वर्त्ति। 'ऋतस्य' उदकस्य पूर्णम्, अथवा 'तस्य' आदित्यस्य स्वभूतम् , अथवा 'ऋतस्य' यज्ञस्याङ्गभूतम् 'आतस्थुः पुत्राः। एतस्मिंश्चक्रे 'मिथुना' द्वन्द्वा इत्यर्थः। कस्य ? 'अग्ने। अग्निशब्दोऽस्मिन् मन्त्रे सम्बोध- नान्तः, षष्ठ्या विपरिणम्यते, अग्नेः पुत्रा आतस्थुरिति। अग्नि- 'श्चात्रादित्य एवाभिप्रेतः, तस्याहोरात्राण्येव पुत्रत्वेनोच्यन्ते, तत्- कृतत्वादहोरात्राणाम्। आह,-कियन्तस्ते पुत्राः ? इति । उच्यते,-"सप्तशतानि विंशतिश्च"। ब्राह्मणमपि चैतस्मिन्नर्थे भवति,-"सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः- इति च ब्राह्मणमहोरात्रयोविभागेन विभागेन”–इति ॥ एवमेत- स्मिन् सूक्ते संवत्सरं “सर्वमात्राभिः” सर्वैरवयवैः “स्तौति”। तस्मादुपपद्यते “सप्त युञ्जन्ति” इत्येतस्यामृचि संवत्सरप्रधान स्त्रिनाभिचक्रमित्येषोऽर्द्धर्चः। तदेतत् सर्वमपि 'सप्तपुत्रं' सर्पण- पुत्रमित्येतस्मात् पदात् प्रसक्तानुप्रसक्तमुक्तम्, प्रकृतमिदानीं वर्णयिष्यामः । • किं पुनः प्रकृतम् ! ऐकपदिकं समानायव्या- ख्यानम्। तत्र यदुक्तं तदुक्तमेव, यदनुक्तं तद्वक्तव्यमितीदमार- भ्यते,-"सस्निमविन्दुच्चरणे नदीनाम्" इति ॥ ६ (२७)। इति निरुक्तवृत्तौ नवमाध्यायस्य [चतुर्थाध्यायस्य] चतुर्थः पादः ॥ ४,४॥ amam
४४०४पा०६ख०] *नेगर्म काण्डम् *
ऋज्वर्थायां निरुक्तवृत्तौ जम्बूमार्गाश्रमवासिन
आचार्यभगवद्दुर्गस्य कृतौ नवमोऽध्याय
(चतुर्थोऽध्यायः) समाप्तः ॥ ४॥
१
३
५
६
(एकार्थकानुवयःसुपर्णायदिन्द्रजुष्टोदमूनाः सम्मातप-
११
न्तीपिरेणमरुत्वाँतितउसक्त मिवतत्सूर्यस्येन्द्रणसमीर्मान्ता-
१५
१८
१६
सः कायमान कनीनकेवापाअदर्शिसुवितेविद्यामदेवानआधा-
२१
२५ २६
द्यौर्मेऽदितिरदितिस्तस्मात्राहास्यवामस्यसप्तयुजन्ति सप्त-
विशतिः।)
इति निरुक्त पूर्वपट्के चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥
अथ पश्चमाध्यायस्य
प्रथमः पादः।
-:०*०:-
।
Chavam
ॐ३म् । सस्निमविन्दच्चरेणे नदीनाम् । संस्नातं
मेघम् । वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
वोढतमो ह्वानानां स्तोमोदूतो हुवन्नरौ मनुष्यानरा नृत्यन्ति
कर्मसु दूतो जवतेर्जा द्रवतेर्वा वारयतेर्वा (दूतो देवानामसि
मानामित्यपि निगमो भवति ।) वावशानो व्रष्टेर्वा
बाश्यतेवा । सप्त स्वसृररुपीर्वावशान इत्यपि निगमो
भवति । वार्य घृणोतेरथापि बरतमम् । तद्बार्य वृणीमहे
वरिष्ठं गोपयत्यम् । तद्वायं वृणामहे वर्षिष्ठं गोपायितव्यं
गोपायितारः। यूयं स्थ युष्मभ्यमिति वान्ध इत्यन्ननामा-
ध्यानीयं भवति । आमत्रेभिः सिञ्चता धमर्द्धः। आसि-
ञ्चतामत्रमंदनीयमन्धोऽमत्रं पात्रममा अस्मिन्नदन्त्यमा
पुनरनिर्मितं भवति पात्रं पानात्तमोऽप्यन्ध उच्यते नास्मिन्
ध्यानं भवति नदर्शनमन्धन्तम इत्यभिभाषन्तेऽयमपीतरोऽन्ध
एतस्मादेव । पश्यदक्षण्वान् न विचेतदन्ध इत्यपि निगमो
भवति ॥ १॥
५०१पा० ९ख०]] नैगम काण्डम् "सस्लिम् (१)"-इति। एतदनवगम्। अर्थाप्रतीतिरस्य- नवगभ्य इत्युच्यते । लक्षणासम्पन्नश्च संस्कारः खल्वपि अविज्ञा- तमित्युच्यते। तत्रैवं सति, कवित्प्रकृत्यादेः संस्कारस्यानवगमः, क्वचिदाप्रतीतिरेव, क्वचिदुभयस्याप्यनवगमः, यथास्मिन्नेव सनि- मिति न विज्ञायते किमष्युक्तं भवति ? प्रकरणादत्र मेधाभिधेयम् , अन्यत्रान्योऽपि कश्चित् स्यात्, प्रकरणविशेषादेव । एवं सर्वत्रै- वोपेक्षितव्यम्। प्रकरणसामर्थ्याच्छब्दोऽध्यर्थान्तरं भजते । “सन्निमविन्दचरणे नदीनामपावृणोद्दुरो अश्मंत्रज्ञानाम् । प्रासां गन्धों अमृतानि अघोचदिन्द्रो दक्षं परिजानादहीनाम् ॥” इति (ऋ० सं० ८, ७, २७, ६)। विश्वावसोर्देवगन्धर्वस्येयमार्षम् । धर्मोत्सादने विनियुक्ता। तत्रोक्तं परिषिक्ते गन्धर्वनामभिरुपति- टन्तऋत्विजो यजमानश्चेति । तासामुपस्थान,मियं मध्ये मैत्राय- णीयके। 'समि' “संस्नातम्” अद्भिः परिवेष्टितं, सर्वतः परिनुतं, धौतं वा “मेघम्” 'अविन्दत्' अलभतेन्द्रः। क पुनरलभत? 'चरणे नदीनां यत्र नदना आपश्चरन्ति, गच्छन्ति, तत्रालभत, अन्तरिक्षलोके इत्यर्थः। आह, लब्ध्वानन्तरं किमकरोत् ? इति। उच्यते,–'अपावृणोत्' अपावृतवान्, उद्घाटितवानि- त्यर्थः। 'दुरः' द्वारः। आह,-कस्य ? उच्यते,-'अश्मव्रजा- नाम्' अपामश्मा मेघः, तमधि या ब्रजति, स च यासां व्रजभूतो गोष्ठभूतः, ता अश्मव्रजा आपः, तासां निर्गमनद्वाराणि अपावृ- णोत्। .या एता एवंलक्षणा आप', 'आसाम्' अस्य च इन्द्रस्य 'गन्धर्वः' विश्वावसुः 'प्रावोचत्'-'अमृतानि नामानि, छान्दसस्तु- , anem * निरुक्तम् * [पूर्वषट्कम् तियुक्तानि, तानि हि नित्यत्वादमृतानि । आह, कस्मात् पुनर- स्येन्द्रस्यामृतानि प्रांवोचदासाचापाम् ? इति । उच्यते, इतः,-. यस्मादसाविन्द्रः 'दक्ष दातारं मेघम्। अयम् आसाम् 'अहीनाम्' अयनानाम् , अपां द्वारेषु अपावृतेषु, दानाय समर्थो भविष्यति,- इत्येवं परिजानात्' परिज्ञातवान् । परिज्ञाय व 'अपावृणोत् दुरोऽ- श्मव्रजानाम्। तस्मादस्येन्द्रस्यामृतानि नामानि प्रावोचदद्धि- श्चानेन प्रकारेणेन्द्रेण सर्वमेवेदं जगद् ध्रियत इति आसामपि अनेन हेतुना प्रावोचदिति। एवमेतस्मिन् मन्त्रे 'चरणे नदीनाम् अवि- न्दत्' अपावृणोच्च दुरोऽश्मव्रजानाम् , दक्षञ्च परिजानात्' इत्ये- कवाक्यतार्थसम्बन्धात् “सस्नि” शब्दो मेघविशेषणम् उपपद्यते ॥ अथवा अयमप्यस्य मन्त्रस्य पादव्यत्ययेनार्थः स्यात्,- संस्नातं मेघमविन्ददलभतेन्द्रः पर्येष्यमाणः, क्वाविन्दत् ? चरणे नदीनाम्, अपाम्, अन्तरिक्षलोके। लब्ध्वा च स एव इन्द्रः, तं मेघ, दक्षं दातारम्, अहीनाम् अपां परिजानात् । परिज्ञाय च समर्थोऽयमिति ततस्तस्य द्वाराण्यपावृणोत्। अश्मव्रजानाम- पामधो निर्गमनाय। तत एतानि निर्गतानि, अमृतानि उदकानि, शस्यसम्पत्कराणि प्रावोचदिव प्राकथयदिव,-असाविन्द्रो गन्धर्वः, आसां प्रजानां जीवध्वमेभिरुदकैरस्मदत्तै रति। “इन्द्रो गन्धर्वः, तस्य मरुतोऽप्सरसः" इति श्रूयते। तस्मादिन्द्रस्यापि गन्धर्वत्वमुपपद्यत एव, स च गोः पत्रस्य धारयिता इति गन्धर्वः। “वाहिष्ठः (२)-इति। एतदनवगतम् ! वाढतमः”, इत्यवगमः । “वाहिष्ठो घां हवानां सोमो दूतो हुन्नरा । युवाभ्यां matatus ।
। ५०० १पा ०९ख०] * नैगमं * नैगम काण्डम् * भूत्वश्विना । -इति (ऋ० सं० ६, २,२६,१)। गायत्री। विश्वमनसो वैयश्वस्येयमार्षम् , पितुर्वा व्यश्वस्य । प्रातरनुवाका- श्विनयोः शास्यते। 'नरा' हे नरौ ! सर्वेषामेव घोढणां स्तोमानाम्, आह्वातॄणाञ्च। य एव एषः 'वाहिष्टः' अतिशयेन वोढा, आह्वातृतमः, अयमेव 'दूतः' इव युवां 'हुवत्' आह्वयदि- त्यर्थः। योऽयमेवंलक्षणः 'सोमः' अस्मत्प्रेरितः, स नित्य- कालमेव 'युवाभ्यां' 'भूतु' भवत्वित्यर्थः । हे 'अश्विना अश्विनौ! इति सम्बोधनम् । इति सम्बोधनम्। 'स्तोमो दूनः' इत्येताभ्यां समानविभत्तयन्तत्वात् “वाहिष्ट”-शब्दः सोमविशेषणामित्य- पपद्यते॥ निगमप्रसक्तमित्युच्यते,-"मनुष्याः” अपि हि “नराः" उच्यन्ते, ते हि "नृत्यन्ति” गात्राणि पुनः पुनः प्रक्षिपन्ति “कर्मसु" उपस्थितेषु तान्यनुतिष्ठमानाः॥ “दूतो” (३) जवतेर्वा गत्यर्थस्य” स हि गच्छति। "द्रवते;" गत्यर्थस्यैव। “वारयते;" स हि धारयत्यनर्थान् ॥ 'वावशानः (8)"-इति अनवगतम्। “वष्टेर्वा” कान्त्य- र्थस्य, “वाश्यतेर्वा” शब्दार्थस्य वावशानः स्यात् । “सप्त खसृर- रुषीर्वावशानो विद्वान्मध्व उजभारा दृशे कम्। अन्तर्यमे अन्त- रिक्षे पुराजा इच्छन् वविमविदत् पूषणस्य ।”-इति (ऋ० सं० ७, ५, ३३, ५)। त्रितस्याप्तस्येयमार्षम् । आग्नेयी। त्रिष्टुप् । प्रातरनुषाकाश्विनयोः शस्यते । 'सप्त' 'स्वसृः' वसारो भगिन्य इच पाह्यचिषः समानजन्मत्वात् । अथवा सह सर्पणात् स्वसारः, - [पूर्वषट्कम् ता हि सह सर्पन्ति 'अरुषीः' अरोचनाः, दीप्ता इत्यर्थः। या एवं- लक्षणाः अचिषः, ताः, अग्निः 'वावशानः कामयमानो वावश्यय- मानो वा, शब्दं कुर्वाणः सः 'विद्वान्' आत्मीयमधिकारान् जानानः, 'मध्वः' घृतस्य हविषः पूर्णः, 'उजभार' ऊद्ध्वं हृतवानेषां लोकानां 'दृशे के दर्शनायेत्यर्थः। एवं ता ऊर्द्ध हुत्वा दर्शनम- भिव्यञ्जयित्वा जनानाम् 'अन्तः' आदित्यस्य मध्ये यदन्तरिक्ष तत्र, 'येमे' तत्रोपनियमितवान् तद्धविः 'पुराजाः' अग्निः, स हि सर्वदेवेभ्यः प्रथम एच जातः। 'इच्छन्' 'वत्रि' रूपं 'पूषणस्य' पूष्णः, आदित्यस्य । कथं नामासावादित्यो दीप्तरूपः स्यात् । अतोऽन्तरादित्यस्य येमे। तचासावेतमर्थम् 'अविदत्' अलभत इत्यर्थः। स एव दीप्तरूप आदित्यः संवृत्त इत्यभिप्रायः॥ एवमन "स्वसृर्षाचशानः"-इत्यनेन सामानाधिकरण्याच्छब्दसा- रूप्याञ्च “वावशाने" इत्यस्य कान्त्यर्थत्वं शब्दार्थत्वञ्च उप- । पद्यते॥ mamme “चार्यम् (५)" इति। अनवगतम् । वृणोतेर्यद्वरयितव्यं भवति, तद्वाऱ्यामित्युच्यते। अथापि। कदाचिद् वार्यशब्देन यद्वरतमं श्रेष्ठतमं किञ्चिद्भवति, तदुच्यते। तद्वायं वृणीमहे वरिष्ठं गोपयत्यम् । मित्रो यत् पान्तिःवरुणो यर्यमा ॥” इति (ऋ० सं० ६, २, २३, ३)। विश्वमनस इयमार्षम् । मैत्रावरुणे सूक्ते। "तद्वाय्यं वृणीमहे' परयितव्यं धरणाहँ धनं वृणीमहे । हे स्तोतारः! 'वरिष्ठ' 'गोपयत्य' "गोपायितव्य" यद्रक्षणाहमित्यर्थः। अथवा गापयत्यां गोपितारो यस्य धनस्य । ५.० ९ख०१पा०]] व नैगम काण्डम् - यूयं भविष्यथ, तद् वृणीमहे । अथवा युष्मभ्यं यौष्माकीणं यद्भवति, तद् वृणीमहे। किञ्च, नित्यकालमेव मित्रावरुणार्य- माणः 'यत्' 'पान्ति' रक्षन्तीत्यर्थः, तद् वृणीमहे । एवमत्र च 'मित्रावरुणार्यमाणो यत् पान्ति इत्यनेन सम्बन्धात् “वार्य" शब्दो धनविशेषणमित्युपपद्यते ॥ “अन्धः (१६)" इति। अनेकार्थमनवगतम्। आध्यानीय- मित्यर्थप्रतीतिः। प्रार्थनीयमन्न भवति सर्वस्यैव । “अध्वयंवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः। कामी हि वीरः सदमस्य पीति जुहोत वृष्णे तदिदेष वष्टि ॥” इति (ऋ० सं० २, ६, १३, १)। गृत्समदस्येयमार्षम्। रात्रिपाये शस्यते। होतुः शस्त्रे विनियुक्ता। अस्त्येव च शस्त्रस्य हे 'अध्वर्यवः !' 'भरत' प्रापयतेमं 'सोमम्' एतस्माद्धविर्धानादुत्तरवेदिम् ,. 'इन्द्राय' इन्द्रार्थम् । अथवा 'भरत' धारयताग्नेरुपरि । ततश्चैनम् 'अमत्रभिः' अमत्रैः पात्रः, एभिः सोमवमसैः, वषट्कार प्राप्त. 'आसिञ्चत' तस्मिन्नग्नौ । 'मद्य" मदनीयम्, एतत्सोमाख्यम् 'अन्धः' । कस्मात् पुनरेवं 'ब्रवीमि ? ? इतः-यस्मात् 'कामी हि वीरः कामयत वीरः इन्द्रः 'अस्य' सोमस्य 'सदं सदैव, नित्यकालमेव 'पीर्ति' पानमित्यर्थः । तस्मात् कारणात् 'जुहोत' तस्मै 'वृष्ण' वर्षित्रे इन्द्राय, एतं सोमम्। किमेतमेव केवलं सोममेष कामयते ? नेत्युच्यते,- 'तदिदेष वष्टि' तत्तत्सोमप्रदानमेष इन्द्रो वष्टि कामयत इत्यर्थः, न केवलं रात्रिपायेष्वित्यर्थः। तस्मादासिञ्चत इमं सोमं याज्यैषा।
-- ४६२ W निरुक्तम् । [पूर्वषट्कम् मा विलम्बध्वमित्यभिप्रायः। एवमत्र दानसम्बन्धात् “अन्धः". शब्दोऽन्नार्थ उपपद्यते। पठितमपि चाननामसु अनेकार्थत्वात् तु सन्दिह्यते इत्येष निगम उपात्तः॥ निगमप्रसक्तमुच्यते ।-अमत्रं पात्रम् , अमा अस्मिन् अदन्ति” अश्चन्तीत्यर्थः। अमा-शब्देन पुनर्यदनिर्मितपरिमाणं किञ्चिद् भवति, तदुच्यते, न हि तेषां परिमाणमस्ति, यावन्तस्त- स्मिन्नदन्ति। “पात्रं पानात्” पीयते हि तेन ॥ तमोऽप्यन्ध उच्यते। किं कारणम् ? "नास्मिन्" "ध्यानं" दर्शनं कृतं “भवति” चक्षुषो दृष्टि-निरोधाल्लौकिका अपि दर्शननिरोधे सति “अन्धन्तम इत्यभिभाषन्ते” । “स्त्रियः सतीस्ता उ मे पुंस आहुः पश्यदक्षण्वान् न विचेतदन्धः । कविर्यः पुत्रः स ईमाचिकेत यस्ता विजानात् स पितुष्पितासत् ॥” (ऋ० सं० २, ३, १७, १)। अस्यवामीये । त्रायतोः पालनार्थयात्र स्त्री-शब्दो निरुच्यते। पालयियः एवैतः सत्यः कृतस्तस्य जगतः। एत एव रश्मयो नाडीभिः अध्यात्मिकीभिः अनुप्रविश्य प्राणिशरीरेवनपक्ति कुर्वन्ति, ततः स्थितिरुपजायते, एत एव वर्षप्रदानेन कृत्स्नं जगत् त्रायन्ते, तस्मात् त्राणात् 'स्त्रियः' एताः । 'तान्' इति नकारान्तं पदम्। 'उ'-इति पदपूरणे एव । तानेवलक्षणानुश्मोन पालयितॄन् सतः। 'मे' ममेति मन्त्रद्वगात्मानं निर्दिशति। ममैतान् पुंस आहुः। एत एव रश्मयो बहुप्रजानाः' इत्येवं ब्रह्मविदः आहुः। एत एवानपक्त्यादिनोपकारेणोपकु- वन्ति । जगत्त्रायन्ते एत एव बुद्धः सर्वार्थप्रकाशित्वेनोपकुर्वन्ती- -इति ।
स ५२०१पा०२ख०] * नैगम काण्डम् - त्यभिप्रायः। आदित्यान्तरपुरुषो हि वुद्ध्यधिदेवता, तद्घयव- भूताश्च रश्मयः, तेन ह्यन्तर्गता आध्यात्मे पुरुषस्य विज्ञानम् उप- हरन्ति । अतस्तेषां बहुप्रजानत्वमुपपद्यते। आह,-कः पुनरेतान् रश्मीनेवगुणयुक्तान् पश्यतीति ? 'पश्यदक्षण्वान् न घिचेतदन्धः' यो हि अक्षण्वान् भवति, दर्शनवान्, विज्ञानवान्, वेदार्थविज्ञान- वान्, वेदार्थविज्ञानेनोपजनितप्रज्ञः, स एव ताभ्यां गुणाभ्यां युक्तान पश्यन्नास्ते नित्यकालं नित्ययुक्तत्वात् । इतरस्तुयोऽन्धः अध्यान- वान्, अश्रुतवेदोपनिषत्कः स मन्दबुद्धित्वात् 'न विचेतत्' नैतान याथार्थ्यतः पश्यति, न विजानातीत्यर्थः यः पुनः एवं एतान् यथार्थ्यतः पश्यति, स एव 'कविः' क्रान्तदर्शनो भवति, परिनि- ष्टितविद्य इत्यर्थः। स व परिनिष्टितविद्यत्वेनैव 'पुत्रः' पुरुणो बहुनोऽहंसस्त्रातः। यश्चायमेवङ्गणयुक्तः, स 'ईम् आचिकेत'। 'ईम्'-इति पदपूरणः । 'आचिकेत' स एवैतानेवम् आभिमुख्येन यथावत् पश्यति, नेतरो मूढः । यश्चैतानेवं पश्यति, स एव 'पितुः' अपि 'पिता' भवतीत्यर्थः, स हि आधिदैविकम् आत्मानम् अभि सम्पन्नो भवति, न हि तस्य पिता नाम कश्चित्, स एव हि सर्वेषां जनानां पिता भवतीत्यभिप्रायः। एवमेतस्मिन् मन्त्रे य एवाक्षण्वान् भवति। स एव पश्यतीत्यस्य सन्निधौ 'न विजानात्यन्धः' शब्द- प्रयोगात् अदर्शनलक्षणं तमः-अन्धःशब्देनोच्यत इत्युपपद्यते ॥१॥ बस असश्चन्ती भूरिधारे पयस्वती। असज्यमाने इति वायुदस्यन्त्याविति वा बहुधारे उदकवत्यौ वनुष्यतिर्हन्ति- * निरुतम् * [पूर्वषट्कम् कर्मानवगतसंस्कारो भवति । वनुयाम वतुष्यत इत्यपि निगमो भवति । दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः । दीर्घषततयज्ञमभिजिघांसति यो बयं तं जयेम पृतनासु ढ्यं दुर्धियं पापधियं पापः पाता- पेयानां पापत्यमानोऽवाङच पततीति वा पापत्यतेर्वा स्यात् तरुष्यतिरप्येवकर्मा । इन्द्रण युजा तरुषेम वृत्रमित्यपि निगमो भवति । भन्दना भन्दते स्तुतिकर्मणः। पुरुप्रियो भन्दते धामभिः कविरित्यपि निगमो भवति । स भन्दना उदियर्ति प्रजावतीरिति च। अन्येन मदाहनो याहि तूयम् । अन्येन मदहनो गच्छ क्षिप्रमाहंसीव भाषमाणे- त्यसभ्यभाषणादाहना इव भवत्येतस्मादाहनः स्यादृषिर्नदो भवति नदते स्तुतिकर्मणः। नदस्य मा रुधतः काम आ गन् । नदस्य मारुधतः काम आगमद् संरुद्धप्रजननस्य ब्रह्मचारिण इत्यृषिपुत्र्या विलपितं वेदयन्ते ॥ २ ॥ । PANEN "असश्चन्ती (७)”-इति अनवगतम्। “असज्यमाने इति वा" इत्यर्थप्रतीतिः, “अव्युदस्यन्त्याविति इति वा"-इति । "असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिते राजन्ती अस्य भवनस्य रोदसी अस्मे रेतः सिञ्चन्तां यन्मनुहितम् ॥” इति । अस्मभ्ययं रेतः' उदकं "सिञ्चन्तम्' अभिमते काले। किलक्षणं. शस्यसम्पत्करमित्यभिप्रायः। एवमेतस्मिन् मन्त्रे 'भूरिधारै- इत्येवमादिभिः समानविभत्त्यन्तत्वात् “असश्चन्ती"- वनुष्यतो नभन्तामन्यके समे॥” इति (० सं०६,३,२५, १)। ५०१पा० २ख०] * नैगमं काण्डम् * (ऋ० सं० ५, १, १४, १)। भरद्वाजस्येयमार्षम्। अभिप्लवस्य षडहस्य पञ्चमेऽहनि तृतीयसवने वैश्वदेवे शस्त्र द्यावापृथिवीये निविद्धानीये सूक्ते शस्यते । 'असश्चन्ती' असज्यमाने असांश्लिष्य- माणे परस्परतः, एते द्यावापृथिव्यौ । 'भूरिधारें' बहूदकप्रक्षरण- खभावे एव, अथवा बहु भूतं धारयित्र्यो । 'पयस्वती' उदकवत्यौ। 'घृतम् उदकम्, द्वे अप्येते 'दुहाते' प्रपूरयेते, इतरेतरसम्भोगेन । 'सुकृते' शोभनकृते, अथवा शोभनानां स्वाधिकारप्रयुक्तानां कर्मणां कच्यौं। 'शुवित्रते' शुक्लकर्मणी इत्यर्थः । 'राजन्ती' दीप्यमाने स्वैः स्वः तेजोभिः। 'अस्य' "भुवनस्य' भूतजातस्य रोदसी' रोधसी, रोधयिध्यौ । ये एते एवंलक्षणे द्यावापृथिव्यौ, ते 'अस्में सिञ्चन्तम् ? 'यत्' 'मनुर्हितम्' मनुष्यहितम्, अक्षारं, -इति द्यावा- पृथिवीविशेषणमुपपद्यते । “असज्यमाने इति” न हि ते सज्येते परस्परतः “अव्युदसन्त्यौ वा” अनुपक्षियन्त्यौ अविपर्यस्यन्त्यौ वा, न हि ते उपक्षीयेते विपर्यस्येते वेति ॥ “वनुष्यति (८)"-इति "हन्तिकर्मा” हन्त्यर्थे वर्तमानः, "अनवगतसंस्कारो भवति” । “यदिन्द्राग्नी जना इमे विह्वयन्ते सना गिरा! अस्माभिर्नु भिर्वयं सासह्याम पृतन्ययो वनुयाम 66 - नाभाकस्यार्षम्। महाव्रते महदुक्थे शस्यते। अस्याः पुनरष्टा- 600 ६ * निरुतम् * [पूर्वषट्कम् क्षराः षट् पादाः। छन्दसां पुनरनुक्रमण्यां शौनकेनाग्निमस्तो. पीत्यत आरभ्य जागतानि त्रीणि सूक्तानि अनुक्रान्तानि तेषामपीयां मध्ये है ‘इन्द्राग्नी!' 'यत्' यदा 'इमें 'जनाः' येऽस्मदीयाः परकी- याच उभयेऽपि 'विह्वयन्ते' व्यत्ययेनेतरतरम् आहूयन्ते विजिगीषु- तया। तना' सन्ततया 'गिरा' 'वाचा, अथवा 'तना' धनेन निमित्तभूतेन जेतव्येन पुरस्कृतेन विह्वयन्ते । तदा युवाम् 'अस्माभिः' अस्मदीयैः 'नृभिः' मनुष्यैः संहितौ भूयास्तन्ते 'वयं' युवाभ्यां सहिताः 'सासह्याम' पुनःपुनरभिभवेम । कान् ? य एते 'पृतन्यवः' पृतनामस्माभिः सह कर्तुम् इच्छन्ति, तानभिभवेम। किञ्च, 'वनुयाम वनुष्यतः ये च एतेषाम् अस्माभिः सह सम्पन्ना एव सम्प्रहारीभूता वनुष्यन्त्यस्मान् घन्त्येव, एतांश्च वनुष्यतः धनु- यामो वयं हन्म इत्यर्थः। कथं पुनर्जन्म ? उच्यते यथा,- 'नभन्तामन्यके समे' युवयोरनुग्रहाद्धन्म इत्यभिप्रायः । एव. मेतस्मिन् मन्त्रे सासह्याम पृतन्यतः” इत्येनस्मिन् संग्रामा- धिकार वनुष्यतेर्हन्त्यर्थमुपपद्यते, न हि संग्रामे हननादन्यत् कर्त्तव्यमस्ति, यत् क्रियते॥ "इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम्। दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूत्यः ॥"-इति (ऋ० सं० ५, ६, २,१)। वसिष्ठस्येयमार्षम् । जगती। तार्तीयसवानिकीये मैत्रावरुणस्य शस्त्रे विनियुक्ता। हे 'इन्द्रावरुणौ !' 'युवम्' युवामित्यर्थः। 'अध्वराय नः' यज्ञाय अस्माकं विशे' जनाय सर्वस्मै मनुष्यजनाय, अस्मत्सर्वकामाय amHRIED - - Mar ५.० १पा० ख०] नैगम काण्डम् . 'महि' महत्, 'शर्म' सुख्ां 'यच्छतम्' दत्तमित्यर्थः। 'दीर्घप्रयज्यु “दीर्घप्रततयशं” नित्ययायजूकम् , अग्निहोत्रिणम् 'अति यो वनुष्यति' “अभि जिघांसति” यो निहन्तुमिच्छति । किं तस्य ? इत्युच्यते,–'वयं जयेम' 'पृतनासु' संग्रामेषु 'दूढ्यः' “दुधियं" पापधियं, पापया धिया हि दीर्घप्रततयज्ञममि जिघांसति । एव. मत्रापि प्रकरणात् “वनुष्यतिः” हन्त्यर्थः। अल्पप्रयोगविषय- त्वाद् भाष्यकारेण निगमद्वयं पठितम् ॥ व्याख्यानप्रसक्तमुच्यते,–“पापः पाताऽपेयानाम्” अपेयान्य- लेह्यानि यानि, तान्यलो पिबति, विषयप्रसक्त इत्यर्थः। “पाप- त्यमानः” पुनः पुनः पात्यमानः, तेनैव पापेन कर्मणा "अवाडेच” नरकमेव प्रति “पतति” असौ, तस्मात् “वा" पापः॥ वृत्रम् ॥” इति "तरुष्यति (), अप्येवकर्मा” हन्तिकर्मत्यर्थः। “ऋभुभु- भिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि। वाजो अस्माँ अघन्तु वाजसाताविन्द्रेण युजा तरुषेम (ऋ० सं० ५, ४, १५, २)। वसिष्ठस्येयमार्षम् । त्रिष्टुप् । अधिवाक्ये तृतीयसवने, वैश्वदेवे शस्त्रे, आर्भवे सूक्त, निविद्धा- नीये शस्यते। ऋभवः उरु भासो वयम्, उरुभाभिः 'ऋभुभिः' देवैः सहिताः 'अभि वः स्याम' अभिभवेम युष्मान् वयम् । हे 'विम्वः! 'विभुभिः' प्रभूतबलैः युष्माभिः 'शवसा' स्वेन बलेन, एतेषामभिभवितॄणां 'शवांसि' बलान्यभिभवेम। किञ्च, 'वाजः' 'अस्मान्' 'अवन्तु। कस्मिन् ? 'वाजसाती' संग्रामे, 'इन्द्रेण' * निरुतम् * च 'युजा' संयुक्ताः सन्तो वयं 'तरुषेम' हन्मैनं वृत्रं शत्रुमित्यर्थः । अभिभवाधिकारात् तरुष्यतिर्हन्त्यर्थ उपपद्यते ॥ "भन्दना (१०), भन्दतेः स्तुतिकर्मणः” स्तुत्यर्थे वर्तमानस्य । "पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् । आविवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥" -इति (ऋ० सं० १, ८, २० ४)। विश्वामित्रस्येयमार्षम् । पृष्ठ्यस्य प्रथमेऽहनि आग्निमारुते शस्त्र, निविद्धानीये. वैश्वान- रीये सूक्ते शस्यते। "पिता यज्ञानां' पालयिता यज्ञानाम्, 'अग्निः' 'असुरः' प्रज्ञावान् ‘विपश्चितां' प्रज्ञावतामपि मध्ये प्रज्ञावान् , विनिर्माणं कृत्स्नस्य जगतः, अग्निनैव ह्यग्निहोत्रादिकर्मद्वारेण कृत्स्नं जगद्विनिर्मीयते। 'वयुनञ्च' प्रज्ञानमयमेव 'वाघताम्' ऋत्विजाम्, ऋत्विजो ह्ययमेवाग्निः 'आविवेश' 'रोदसी द्यावा- पृथिव्यौ 'भूरिवर्पसा' बहुरूपत्वेन, तमेवगुणयुक्तमग्निं 'पुरुप्रियः' बहुकामप्रियः स्तोता, 'भन्दते' स्तौति, 'धामभिः' नामभिः अनेकैः प्रकारैः, 'कविः' क्रान्तदर्शन इत्यर्थः । पुरुप्रियो हि स्तोता धाम- भिरग्नेः किमन्यत् स्तुतेः कुर्यात् ? तस्मादुपपद्यते स्तुत्यर्थत्व- “स भन्दना उदियत्ति प्रजावतीविश्वायुर्विश्वाः सुभरा अहर्दिधि । ब्रह्म प्रजावयिमश्वपस्त्यां पीत इन्द्रविन्द्रमस्मभ्यां याचतात् ॥” इति (ऋ० सं०७, ३, २०, १)। भौमोऽत्रिः, तस्येयमार्षम्। जगती। प्रत आशवः पवमान धीजवः”- इत्यष्टाचत्वारिंशत्के महासूक्ते एकचत्वारिंशत्तमी पावमानसौमी।
५अ० १पा० २ख०] * नैगम काण्डम् * यदिममयाझं कर्मोपनमेत्तत्सुयामहमेतं सोमं तत्रेति, य एवं नित्यकालमास्ते 'सः' एष साम्प्रतमस्मिस्तोमकर्मणि उपनीते है सोम! तव 'भन्दनाः' स्तु तीः 'उदीरयति'। 'प्रजावती:' प्रजा- संयुक्ताः, प्रजालिङ्गा इत्यर्थः । 'विश्वायुः' विश्वमयतीति विश्वायुः, सर्वत्राप्रतिहतप्रज्ञान इत्यर्थः, सर्वतो वा विश्वायुः । 'विश्वाः' सर्वप्रकाराः, नामवन्धुकर्मरूपसम्बन्धात् स्तुतीनाम् , नाना, बन्धुभिः, कर्मणा, रूपेणेति ह्य क्तम्। 'सुभराः' सुभृताः, सुपुष्टाः, स्थानकरणानुप्रदानवत्यो युष्मद्गुणेरलङ्कृताः। 'अह- दिवि' अहनि वा रात्री च, रात्रिपायाभिप्रायेण नित्यकालमेवे- त्यभिप्रायः। कं पुनरर्थमुपेत्य स्तुतीरुदीरयति ? 'ब्रह्म प्रजावत्' अन्नं प्रजासंयुक्त भोक्तुसहितम् । अपि च रयिम्' धनं गोहिर- ण्यादि। 'अश्वपस्त्यम्' अश्वैः पतनसमर्थैः शीघ्रः संयुक्तम् । 'पीतः' त्वमस्माभिरस्मिन् कर्मणि । हे 'इन्द्रो' सोम! इदमस्म- दर्थं याचतात्' याचस्वेत्यर्थः । एतमर्थमभिप्रेत्य स्तुतीरुदीरयति। भन्दना उदियतीत्युदीरणसम्बन्धात् स्तुतय एताः “भन्दना" शब्देनोच्यन्ते इत्युपपद्यते। पूर्वमाख्यातपदसम्बद्धमुदाहरणं “पुरुप्रियो भन्दते धामभिः” - इति नामरूपसम्बद्धं "स भन्दना उदियति प्रजावतीः” इति इदन्तु च । -इति इदन्तु च। उभयथा प्रयोगोऽस्ती- त्युभयमुपप्रदर्शितम् , अल्पप्रयोगविषयत्वाच्च ॥ “आहनः (११)” इति। एतत् पदं सम्बोधनमनवगतम्, अप्रतीयमानार्थत्वात् । "आहंसि".-इत्यर्थप्रतीतिः । an "न २-६ * निरुक्तम् * [पूर्वषट्कम् तिष्ठन्ति न निमिषन्त्येते देवानां स्पश हुह ये चरन्ति । अन्येन मदाहनो याहि तूयं तेन विवह रथ्येव चक्रा "- इति (ऋ० सं० ७, ६, ७, ३)। यमस्य यम्याश्च संवादसूक्तम् , तत्र यमस्येय- मार्षम् । स यमी मैथुनाय प्रार्थयमानां ब्रवीति, हे यमि ! मामस्था साम्प्रतं रहो वर्तत इति, किन्तु 'न तिष्ठन्ति' मुहूर्त्तमपि, एते जनाः रन्ध्रान्वेषणतत्परा इत्यभिप्रायः। अपि च, 'न निमिषन्ति' अनिमिषाः, आदरवन्त इत्यभिप्रायः। के पुनस्ते? इत्युच्यते,–'एते देवानां' स्वभूताः, य इह एतस्मिन् लोके 'स्पशः' स्पाशयितारः, कृताकृतानां कर्मणाम् । के पुनस्ते? इति । उच्यते,-अहश्व, रात्रिश्च, उभे च सन्ध्ये, सूर्याचन्द्रमसौ, वायुश्च, अन्तरपुरुषश्च इत्येवमादयः, न ह्य तेषां किञ्चिदविदितं परोक्षमस्ति इत्यभिप्रायः। अतो ब्रवीमि,-'अन्येन' अन्यकुलजेन केनचित् पुरुषेण, 'मत्' मत्तः, त्वं हे 'आहनः !' मैथुनं 'याहि' 'तूयं' "क्षिप्रम्” । “आहंसि इव” असभ्यमेतत् “भाषमाणा" त्वम् , नाहमेतदसभ्यं श्रोतुमप्युत्सहे तव, किं पुनः कर्तुम् ? तस्मान्म- त्तोऽन्येन मैथुनार्थं चर। 'तेन' एव सह 'विवह' अभ्युद्यच्छस्व आत्मानं मैथुनकर्मणि । 'रथ्येव चक्रा' रथचक्रे इव, यथैकमक्षं रथचके अभ्युद्यतः, एवमेकमनस्त्वमुपपाद्य तेनैकभूतेन मनसा अक्षेणवोभेऽपि शरीरे, तञ्च तस्य कामिनः सक्तम् , स च तव, तेनैव सह तवैतस्मिन्नथै एकमनस्त्वमस्त्विति, न मया सार्द्धमेत- स्मिन्नर्थेऽभ्युद्यच्छमाना न मां शक्ष्यसे कम्पयितुमित्यभिप्रायः ।। एवमेतस्मिन् मन्शेऽनिष्टत्वान्मैथुनसमाचारस्य “आहन."- , ७ , iraniname ५अ० १पा० ख०]] * नैगम काण्डम् * ४७१ इत्येतद् यमीविषयं सन्धानम्। आहन्यत “इव” हि स यम नयाऽनेन दुर्वचनेन । तस्मात् सैव सम्बोध्यते आहनः । इति “एतस्मात्” एव कारणात् “आहनः स्यात्” योऽयम् उपदेशः स्त्रिय, असावपि हि यस्य सन्निधौ सङ्कीर्त्यते, स आहन्यत इव असभ्यत्वात् , तस्य अयशियो वै पुरुषोऽमेध्य आहनः स्याज्जा- यत इति विज्ञायते॥ “नदः (१२)"-इति, एतदनवगतम् । “ऋषिः नदो भवति" -इति शब्दस्य पर्यायेण तत्ववचनम् । “नदतेः स्तुतिकर्मणः” इति व्युत्पत्तिः। नदिता वा नदतीवेत्यर्थप्रतीतिः । “नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् । लोपा- मुद्रा वृपणं नीरिणाति धीरमधीरा धयति श्वसन्तम् ॥” इति (ऋ० सं० २, ४, २२, ४)। अगस्त्यलोपामुद्राब्रह्मचारिसूक्त- संवादे लोपामुद्राया इयमार्षम् । सा अब्रवीदगस्त्यं भर्तारम- भिप्रेत्य 'नदस्य “नदनस्य” नदितुर्वा देवतास्तोतुः अस्यागस्त्यस्य 'रुधतः' संरुद्धवतः इन्द्रियग्राम 'मा' माम् अयं 'कामः' 'आगन्' आगतवान् , येनाहं साम्प्रतं पीड्य। सा पुनरेवं न जाने । किम् 'इतः एव 'आजातः' अस्मच्छरीराजातः, ममोपरि ह्यभिव्यक्तोऽस्म- त्पीड़नाय,-अथवा 'अमुतः' अगस्त्यशरीरात् ? पुरुषगुणानु- स्मरणाद्धि स्त्रियाः कामो जायते-अभिव्यज्यते, पुरुषस्य च रूभ्यनुस्मरणात्। "स्मरः” तस्मादुपपद्यते इतो चारमच्छरीरात्, - अमुतो वा नदशरीरात्, इति, न जाने इति । अथवा अन्यत एव 'कुतश्चित्' अतएव -इति काम उच्यते। कुतः?
४७२ , watanam निरुक्तम् * [पूर्वषट्कम् अयमागतः स्यात् ? इत्येतदपि तत्त्वतो न जाने। इत्येवं विलपमानो कामार्ता 'लोपामुद्रा' राजर्षिपुत्रिका 'वृषणं' रेतसो पर्षितारम् , अगस्त्यं 'नीरिणाति' निश्चयेनाधिकं वा दोषण गच्छति, यदि न ममासावुपरि प्रजननं निरोत्स्यात् , ततो नायं कामो मागमिष्यत् , इत्येवं दोषेण गच्छति। "रिणाति"- इति गतिकर्मसु पठितम् । अथवा चेतसा 'नीरिणाति' उप- गच्छतीत्यर्थः, इटपुरुषानुचिन्तना हि कामार्त्तायाः स्त्रियाः स्वभाव एव । तस्मादेवमप्युपपद्यते। 'धीरं' स्थिरबुद्धिं ब्रह्म- चये 'अधीरा' सक्षुब्धसर्वेन्द्रियग्रामा 'धति' पिबतीव चेतसा, चक्षुभ्यां वा पश्यति। 'श्वसन्त” चेतसा व्यावत्तेमानं, तस्याः सकाशात् ब्रह्मचर्ये कृतबुद्धिं तथापि धयत्येव । “श्वसति, नदति”- इत्येवं गतिकर्मसु पठितम् । एवं लोपामुद्रावाक्ये “नदस्य रुधतो मामागमत् कामः” इति प्रकरणादृषि दशब्द- नोच्यत इत्युपपद्यते। “संरुद्धप्रजननस्य ब्रह्मचारिणः इत्यृषि- पुत्र्या विलपितं वेदयन्ते”-इति निदानप्रख्यापनम् ॥ २॥ न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः। अश्नीते रित्ये के। अनूपे गोमान् गाभि- रक्षाः सोमा दुग्धाभिरक्षाः। लापाशः सिंह प्रत्यश्च मत्साः। क्षियति नगमः पूर्वः क्षतिनिगम उत्तर इत्ये- केऽनूपे गोमान् गोभिर्यदा क्षियत्यथ सोमा दुग्धाभ्यः ४७३ ५२०१पा० ३ख०] नैगम काण्डम् * क्षरति सर्वे क्षियतिनिगमा इति शाकपूणिः श्वात्रमिति क्षिप्रनामाशु अतनं भवति । स पतत्रीत्वरं स्था जगद्य- च्छात्रमग्निरकृणोजातवेदाः। स पतनि चत्वरं स्थावरं जङ्गमञ्च यत्तत् क्षिप्रमग्निरकरोजातवेदाः। ऊतिर वनात् । आ त्वा रथं यथोतय इत्यपि निगमा भवति । हासमाने इत्युपरिष्टाद्व्याख्यास्यामः । वनकः पड्भिरुप- सर्पदिन्द्रम् । पानरिति वा स्पाशनरिति वा ( स्पशनैरिति वा ) ससं न पक्कमविदच्छुचन्तम् । स्वपनमेतन्माध्यमिकं ज्योतिरनित्यदर्शनं तदिवाविदजाज्वल्यमानम् । द्विता च सत्ता स्वधया च शम्भुः। द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शम्भुः सुखभूः। शम्भुः मुखभूः। मृगं न वा मृगयन्ते । मृगमिव व्रात्याः प्रेपाः ॥३॥ "सोमो अक्षाः (१३)” इत्येते हे पदे। इत्येतत् पदं अनवगतम्, पक्षेण चानेकार्थम् । अस्यैव च सम्बन्धादुपलक्षणार्थं सोमशब्दोऽत्र समाग्नातः । कथं नाम “न यस्य द्यावापृथिवी" --इत्येतदेवोदाहरणमत्र उपलक्षितं स्यात् ? अत्र हि अक्षा इत्येष शब्दः, सोमशब्देन सम्बद्धः, यथा भूतशब्देन, मेषशब्दः-“मेषो भूतो३ भियन्नयः"-इत्यत्र; यथा वा “अग्निर्नय"-इत्यत्राग्निशब्दः । अत्र चाश्नोतिपक्षे अत्र अक्षा , * निरुक्तम् * [पूर्वषट्कम अक्षा इति अस्य शब्दस्य सुपुष्टतर उदाहरणार्थो भवति । तस्मा- दयमनन्तर उपलक्ष्यते अल्पप्रयोगविषयत्बादस्य मन्त्रस्य प्रति- तत्त्यर्थं सोमशब्दः समानात एकपदसंमाम्नाते प्राप्त सति ॥ “न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । यदस्य मन्युरधिनीयमानः शृणाति वीलु रुजति स्थिराणि ॥” इति ( ऋ० सं० ८, ४, १५, १)। रेणुन म विश्वामित्रस्य पुत्रः, तस्येयमाषम्। ऐन्द्रे सूक्ते सूर्यस्तुन्नामै- काहः, तत्रेयं निष्कैवल्यशस्त्रे निविद्धानीये शस्यते। 'न यस्य द्यावापृथिवी' न यस्य इन्द्रस्य द्यावापृथिव्यौ महिमानं 'अश्नुवाते' व्याप्नुत इत्यर्थः । 'न' 'धन्व' उदकम् , तद्धि धन्वत्यन्तरिक्ष- लोकात् । 'न अन्तरिक्षम्' 'न' 'अद्रयः' पर्वताः अश्नुवाते महिमानम्। किं तर्हि ? सोम एवाक्षाः महिमानमश्नोतीत्वर्थः । कथं पुनर्गम्यते सोम एवेन्द्रस्य महिमानमश्नोतीति ? इतः, 'यत् अस्य मन्युः अधिनीयमानः' यस्मादस्येन्द्रस्य मन्युः क्रोधः सोमेन पीतेन सता मदसामर्थ्यादुपरि शत्रूणां नीयमानः प्राप्य. मानः शृणाति। 'वीलु'। यदपि 'बीलु' दृढ़ सन्नद्धं शत्रुबलं भवति, तदपि शृणात्येव, हिनस्तीत्यर्थः। 'रुजति' च स्थिराणि' अपि दृढानि मेघवृन्दानि भिनत्तीत्यर्थः। एवमेतस्मिन् मन्त्रे व्याप्त्यर्थस्य “अश्नोतेः" अक्षा इत्येष शब्दो निरुच्यते "इत्येव- मेके" मन्त्रार्थविदो मन्यन्ते॥ "अनूपे गोमान् गोभिरक्षाः सोमो दुग्धाभिरक्षाः। समुद्र न संवरणान्यग्मन् मन्दी मदाय तोषते ॥” इति (ऋ० सं० ५अ० १पा० ३ख०] नैगम काण्डम् 8 ४७५ ७, ५, १३, ४)। सप्तर्षीणामार्षम् । वृहती। पावमानो सौमी। 'अनूपें' देशे 'गोमान्' गोभिः सहितो यदा 'अक्षाः' क्षियति, निवसति, अथ तदा सुयवसत्वात् तस्य देशम्य 'सोमो दुग्धाभिः' पुनः पुनः दुग्धाभ्योऽपि गोभ्यः क्षरत्येव । कथं पुनः क्षरति ? इति। उच्यते,-समुद्र न संवरणानि समुद्र- मिव संवरणान्युदकानि, उदकानि हि देशान्तरात् संवृण्वन्ति, तानि यथा सर्वेभ्यो. देशेभ्यः संसृत्य समुद्रमाभिमुख्येन 'अग्मन्' गच्छन्ति, एवं दुग्धाभ्यः सोमः सर्वेभ्यो गात्रेभ्यः संसृत्य उधः प्रतिक्षरति मदायेन्द्रस्य । अथ यदैवं प्रक्षरति, तेन सोमेना- मावास्यायां सान्नाय्येन तृप्त इन्द्रः 'मन्दी' इर्षशीलः, यजमानस्य शत्रून् 'तोषते' हिनस्तीत्यर्थः। “नितोषयति, निवर्हयति" इति हन्तिकर्मसु पठितम् । एवमेतस्मिन् मन्त्रे “क्षियति-निगमः पूर्वः” "अनूपे गोमान् गोभिरक्षा:..- इत्येषः “क्षरति-निगमः उत्तरः”—“सोमो दुग्धाभिरक्षाः”– इत्यत्र एवम् “एके” मन्त्रार्थ विदो मन्यन्ते । तच्च तथैवोपव्याख्यातम् । “सर्वे” एवैते त्रयोऽपि "क्षियतिनिगमाः” “इति” “शाकपूणि:” आचार्यों मन्यते। यस्य द्यावापृथिव्यौ निवासः, न धन्व, न अन्तरिक्षं निवासः, किं तहि ? सोम एव इन्द्रस्य निवासः। तस्य सोमस्य किम् । इति । उच्यते,-यदस्य मन्यूरधि शत्रूणां नीयमानः, शृणाति वीलु रुजति स्थिराणि। समानमन्यत् पूर्वेणेवार्थेन । “अनूपे गोमान् गोभिरक्षाः इत्यत्र निवासार्थतैव पुर्वस्मिन्नेवार्थे । अथ सोमो दुग्धाखपि गोषूधः निवसति, न निदुग्धाः कर्त sa - 1 * निरुक्तम् * * [पूर्वषट्कम् शक्यन्ते इत्यभिप्रायः। एवमेते सर्वे त्रयोऽपि “क्षियतिनिगमाः" -इति “शाकपूणि:” आचार्यो मन्यते ॥ 'श्वात्रम् (१४)-इति एतदनवगतम् । “आशु अनतं भवति”-इति शब्दसमाधिः । 'क्षिप्रनाम”– इत्यभिधेयवच- नम्। “यो होतासीत् प्रथमो देवजुष्टो यं समाजनाज्येना- वृणानाः। स पतत्रीत्वरं जगद्यच्छात्रमग्निरकृणोजातवेदाः ॥” इति (ऋ० सं० ८, ४, १०, ४)। इयं हविष्पातीये सूक्ते । तत् पुनर्मूर्द्धन्वताङ्गिरसेन दृष्टम् , वामदेव्येन वा। पृष्ट्यस्य पञ्चमेऽहनि अग्निमारुते शस्त्रे निविद्धानीयं तद्भवति । । 'यः' अग्निः 'होतासीत्' आहोता देवानाम् , 'प्रथमः' प्रधानः, मनुष्य- होतुः सकाशात् । 'देवजुष्टः' देवैरासेवितः। 'य' 'समाञ्जन्' समुक्षितवन्तः । केन ? 'आज्येन' 'आवृणानाः' सेवमानाः; भजमाना इत्यर्थः । तस्य किम् ? इति । उच्यते,-सः पत्रत्रीत्वरम्' सोऽग्निः पतत्रिः, यदेतदितश्चेतश्च पतति, इत्वरञ्च पक्ष्यादि, 'स्था' स्थावरञ्च वृक्षादि, 'जगत्' यदेतजङ्गमादि । तस्य किम् ? इति। उच्यते,-तत सर्व प्रलयकाले श्वात्र' क्षिप्रमात्मसात् 'अकृणोत्' “अकरोत्” 'जातवेदाः' अग्निः । एवमेतस्मिन् मन्त्रे “श्वात्रमिति” इत्येतत् “क्षिप्रनाम"। पतत्रि- स्थावर-जङ्गमानां क्षिपदहनादग्नि, किमन्यत् कुर्यात् ? दुपपद्यते क्षिप्रनामेति ॥ "ऊतिः (१५”-इति, अनवगतम्। “अवनम्” -इत्यर्थ प्रतीतिः। 'अवनात्” रक्षणादित्यर्थः । आ त्वा रथं यथोतये तस्मा- ५० ९ख० ३पा०]] नैगम काण्डम् ॐ ४७७ सुम्नाय वर्त्तयामसि । तुविकूर्मि मृतीषहमिन्द्र शविष्ठ सत्पते ॥" - इति (ऋ० सं० ६, ५, १, १)। प्रियमेधस्यार्षम्। हे इन्द्र ! 'त्वा' त्वाम् 'आवर्त्तयामसि' आवर्त्तयामहे । किमर्थम् ? 'ऊतये' अस्माक रक्षणाय, 'सुम्नाय' सुखाय च। कथं पुनराव- तयामहे ? इति । उच्यते, - 'रथं यथा' शक्तो हि कश्चिद् यथा रथमावर्त्तयेत् , एवमावर्त्तयामहे वयं त्वां स्तुतिभिः । किंलक्षणं पुनर्भवन्तमावर्त्तयामहे ? उच्यते,-'तुचिकृर्मिम्' बहूनामनेकप्रकाराणां कर्मणां कर्तारम् । 'ऋतीषहम्' च, आतनामभिभवितारम् । हे 'इन्द्र !' 'शविष्ट बलिष्ठ ! 'सत्पते' सतां पते! एवमावर्त्तनेनैकवाक्याभिसम्वन्धेन “ऊति” शब्दो रक्षणार्थ इत्युपपद्यते॥ "हासमाने (१६)" - इति । “उपरिष्टाद् व्याख्यास्यामः" “प्रपर्वतानामुशती उपस्थात्"-- इत्यत्र ॥ “पभिः (१७)”---इति, अनवगतम् । “पानैरिति चा स्पर्शनैरिति वा"-इति शब्दसमाधौ । “एचा महो असुर चक्षथाय वज्रकः पद्भिरुपसर्पदिन्द्रम् । स इयानः करति सस्ति मस्मा इषमूर्ज सुक्षितिं विश्वमाभाः ॥” - इति (ऋ० सं० ८, ५, १५, ६)। वम्रो नाम वैखानसः, तस्येयमार्षम्। पेन्द्री। 'एष एतस्मिन् सूक्ते स्तुतिप्रकारोऽधिकृतः 'एवा' एवम् अनेन प्रकारेण वर्तमान! हे इन्द्र! 'असुर' असुमन ! प्रज्ञानवन् ! बलवन् ! चा 'वक्षथाय' स्तुतिवक्त्रे, महते यजमानाय, पूर्व- कल्पान्तरीणाय, पूर्वकल्पान्तरीण एव 'वनकः' 'पड्भिः' सोम- ४७८ " * निरुक्तम् * [पूर्वषट्कम् पानरभ्युदितैः, अथवा गुणस्पाशनैः स्तुतिगतैः, 'उपसर्पत्' उप- सृप्तवान् , अन्यकल्पान्तरीणम् ‘इन्द्रम्' । 'सः तेन तथा 'इयानः' ईयमानः, अनुस्त्रियमाणः 'करति' कृतवान् । किम् ? 'स्वस्तिम्" स्वस्त्ययनम्। 'अस्मै यजमानाय । यतो ब्रवीमि,-साम्प्रतम- हमेतस्मिन् कल्पे वनकः, त्वच्चन्द्रः, ता एवैताः स्तुतयः, याभिर- हमुपासपं साम्प्रतं भवन्तम् , स त्वमेवं विज्ञाय, अस्मै वर्तमानाय यजमानाय स्वमधिकारं जानानः, कुरु स्वस्त्ययनम् । किञ्च, 'इषमूर्नम्'। 'इषम्' अन्न व्रीहियवादि, 'ऊर्जम्' क्षीरादि । 'सुक्षिति' च, शोभननिवासञ्च। "विश्वम्' एतत् सर्वम् 'आभाः' आभिमुख्येनास्मै यजमानाय भावयव॥ एवमेतस्मिन्मन्त्र शब्दसारूप्यात् प्रकरणाच “पड्भिः” इत्येतत् पानाभिधानं स्पाशानाभिधानं वेत्युपपद्यते ॥ “ससम् (१८)” इति अनवगतम् । "स्वपनम्" इत्य- धगमः। “प्रमातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः उपसर्प- दुर्वीः। ससं न पक्कमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥” इति (ऋ० सं०८, ३, १४, ३)। अग्नेवश्वानरस्य, अग्नेर्वा सूचीकस्य, सप्तर्घा जम्भरस्य इयमार्षम् । आग्नेयी। त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते। 'प्रमातुः प्रतरम् गुह्यम्' प्रकर्षण गततरं गह्वरं; मातुः सर्वनिर्मातुः भूमेः, अग्निः 'वीरुधः' दग्धुम् ‘उपसर्पत्' 'उर्वीः' ऊर्गुवत्यः, प्रच्छाद्य भूमेनिर्भर- प्रदेशम् , तस्मिन् निर्भरप्रदेशे वर्तमानाः, तत्र हि ताः सुविवृद्धाश्च भवन्ति । कथम्पुनरुपसर्पत् ? इति । उच्यते,–'प्रमातुः --- ४७६ ५० पा० ३ख०] नैगम काण्डम प्रतरं गुह्यमिच्छन् कुमारो न' स्तनपानाय मातुः यथा कुमारः, प्रकर्षण गुह्यतरं सर्वाङ्गभ्यः स्तनप्रदेशम् , स्तनपानम् इच्छन् उपसर्पत्, एवं योऽग्निः बह्वोषधिके भूमेनिर्भरप्रदेशे कुमार इच स्तनप्रदेशमिवोपसर्पत् । तत्रैव च निर्भरप्रदेशे 'रिरिहांसं' पुन:- पुनरास्वादयमानम्, ओषधीः 'रिपः' अस्या एव भूमेः 'उपस्थे उपस्थाने, निर्भरे हि भूमेः प्रदेशे आप उपतिष्टन्त इति निर्भर एवोपस्थो भूमेः। तस्या एव 'अन्तः' मध्ये इत्यर्थः। तस्मिन्ने- वलक्षणे प्रदेशे, तमग्निम् 'अविदत्' कश्चित् ऋविः अन्यो वा। ओषधीरास्वादयन्तं कथं पुनरविदत् ? इति। उच्यते,–'ससं न पक्कम्' अविदत् , यथैव स्वपनशीलं “माध्यमिक्कं ज्योतिः वैद्यु ताख्यं पक्कम भिव्यक्तम् , वर्षासु उपर्यवस्थानादयन्नेनैव दृश्यते, एवं नि:रान् प्रविष्टमपि सन्तमग्निमतिमहत्त्वादचियोऽविददेवा- पश्यत् । 'शुचन्त” दीप्यमानमित्यर्थः। निर्भरेऽन्योऽनुप्रविष्टो न विज्ञायते, अग्निस्तु निर्भरस्थोऽपि स्वया दीप्त्या विज्ञायत. एवेत्यभिप्रायः। य एवगुणयुक्तोऽग्निः स इदं नाम करोतु- इत्येवमाशीोज्या। न ह्यष्टौ मासान् माध्यभिकं ज्योतिर्दृश्यते, ततः “अनित्यदर्शनम्” तस्मादनित्यदर्शनात् “स्वपनम्”–इत्यु- च्यते, पक्व नामाभिव्यक्तमित्युच्यते ॥ एवमिह शब्दसारूप्यात् अर्थोपपत्तेश्च “समम्"-इत्यनेन शब्देन स्वपनमुच्यत इत्यु पपद्यते॥ "द्विता (१६)”-इति, अनवगतम्। गमः। “यस्त्वद्धोता पूर्वो अग्ने यजीयान् द्विता च सत्ता "द्वधम्" -इत्यव- ७ वायुः, । * निरुक्तम् * [पूर्वषट्कम् स्वधया च शम्भुः। तस्यानुधर्म प्रयजा चिकित्वोऽथा नो धा अध्वरं देववीतौ ॥” इति (ऋ० सं० ३, ६, १७, ५)। कतस्य वैश्वामित्रस्येयमार्षम् । त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते । हे भगवन् ! 'अग्ने !' पृथिवीस्थान ! 'त्वत्' त्वत्तः, 'यः' 'पूर्वः' 'होता' मध्यमस्थानो असावपि हि दूतो देवानामिति श्रूयते,-"आ दूतो अग्निमभरद् विवस्वतः” इति। वैद्युतोऽ ग्निरिति केचिन्मन्यन्ते । 'यजीयान्' यष्ट तरः । 'द्विता च सत्ता' द्वैधं यस्य विद्यमानता,-"मध्यमे च स्थाने” वैद्युतभावेन, “उत्तमे च” स्थाने सूर्यभावेन। 'स्वधया च' अन्नेन, सर्वभूतानां वर्षाद्वारेण। यः 'शम्भुः' “सुखभूः” सुखस्य भावयिता। तस्य किम् ? इति। उच्यते,–'तस्य अनुधर्म' वायोवृत्तिलाभमन्वा- त्मनो दीप्तिलक्षणां वृत्तिमतिलाभमाप्नु वन् , “वायुर्वा अग्नेस्तेजः, तस्माद् वायुरग्निमन्वेति" इति ह विज्ञायते। हे अग्ने ! 'प्रयज' प्रकर्षण यज, देवान् । हे "चिकित्वः' चिकित्वन् ! ज्ञानवन्नित्यर्थः । 'अर्थ' एवम् , 'नः' अस्माकं यागं कुर्वन् , तं शृणु, यं कुरुष्व । 'धाः अध्वरं' धारय यज्ञम्। 'देववीतौ' देवतर्पणायेत्यर्थः ॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च "द्विता" इत्ययं धिमित्येवमुपपद्यते ॥ "वाः (२०)-इति, अनवगतम्। “वात्याः” 'गोभिर्यदी मन्ये अस्मन्मृगं न वा मृगयन्ते। अभित्सरन्ति धेनुभिः ॥"- इति (ऋ० सं० ५, ७, १८, १)। कोण्वश्च मेधातिथिः, प्रियमेधाङ्गिरसः ऐन्द्रं सूक्तं ददृशतुः। तत्रैषाभिप्ल. -इत्यवगमः।
५१०१पा० ४ख०] * नैगम काण्डम् * ४८१. वस्य षडहस्य द्वितीयेऽहनि मरुत्वतीये शस्त्रे अनुचरतचे शस्यते । हे भगवन्निन्द्र ! 'यद् ईम्' यद्यपि त्वाम् 'अन्ये' यजमानाः 'गोभिः' वाग्भिः, स्तुतिलक्षणाभिः 'धेनुभिः' च तर्पयित्रीभिराहुतिभिः 'अभित्सरन्ति' अभिगच्छन्ति, अभिव्याप्नुवन्ति, तथाप्यस्मा व प्रत्यभ्येहि। किं कारणम् ? इतः, यस्मादितेऽस्माभिरतिरि- क्तया भक्त्यान्येभ्यो यजमानेभ्यः सकाशात् 'ब्रा' “व्रात्याः" "प्रैषाः” युष्मत्संस्तवसंयुक्ताः प्रतिप्रहिताः 'मृगं न' "मृगमिव" इतरे लुब्धकाः व्रात्याः 'मृगयन्ते' मार्गयन्ते त्वाम् , तस्माद् भक्त्यतिरेकात् विषहेतोरस्मानव प्रत्यभ्येहि ॥ एवमेतस्मिन्मन्त्रे मृगसम्बन्धात् “व्राः” इति शब्देन लुब्धका उच्यन्ते इत्यु- पपत्तिः ॥ ३ ॥ वराहो मेघो भवति वराहारो वरमाहारमाहार्षीरिति च ब्राह्मणम् । विध्यद्वराहन्तिरो अद्रि मस्तेत्यपि निगमो भवत्ययमपीतरो वराह एतस्मादेव वृहति मूलानि वरं वरं मूलं बृहतीति वा। वराहमिन्द्र एमुपमित्यपि निगमो भवत्यङ्गिरसोऽपि वराहा उच्यन्ते । ब्रह्मणस्पतिवृषभिर्व- राहैः। अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन् हिरण्यचक्रानयोदंष्ट्रान् विधावतो वराहून् ॥ ४ ॥ वराहः (२३)" - इति, अनवगतमनेकार्थञ्च । "मेघः” तावद् वराह उच्यते, स हि “वराहारो भवति” तस्यवरमुदकमा- ।
Policies ४८२ * निरुक्तम् * [पूर्वषट्कम् हारः। “वरमाहारमाहार्षीरिति च ब्राह्मणम्” निर्वचनस्य दृढ़- प्रतीत्यर्थं ब्राह्मणमाचार्येण प्रदर्शितम्। यथा मेधो वराहशब्दे. नोच्यते, तथैष निगमः,–“अस्येदु मातुः सवनेषु सद्यो महः पितु पपिवाञ्चार्वन्ना। मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराह तिरो अद्विमस्ता ॥” - इति (ऋ० सं० १, ४, २८, २)। नोधा नाम गोतमपुत्रस्येयमार्षम्। ऐन्द्री। त्रिष्टुप्। अभिजिद्वि- श्वजिन्महाव्रतादिषु आहीनिकेषु अहःसु अहीनसूक्त माध्यन्दिने सवने ब्राह्मणाच्छंशिनः शस्त्रे विनियुक्ता। अस्य इत् उ मातुः' अस्य जगन्निर्मातुः यज्ञस्य 'सवनेषु' प्रातःसवनमाध्यन्दिनतृतीय- सवनेषु, 'महः' महतः यज्ञस्य, "पितु" महान्तं सोमभागं 'पपिवान्' पीतवान् । पीत्वा 'चार्वना' चारूणि च शोभनान्यन्नानि, अन्या- न्यपि हवींषि भक्षयित्वा, तैर्ह विभिः, तेन च सोमेन 'विवृद्धबलः, सद्यः एच ‘पचतम्' परिपक्वमुदकदानसमर्थं मेघ हि 'विष्णुः' इन्द्रः, सर्वभूतानां वेशा प्राणभावेन 'मुषायत्' अमुष्णादित्यर्थः । 'सहीयान्' अभिभवितृतमः। कथम्पुनरमुष्णात् ? इति । उच्यते,-"विध्यद्वराहं तिरो अद्विमस्ता" । 'वराहम्' मेधं 'विध्यत्' । कथम्पुनः विध्यद्वराहम् ? इति । उच्यते- 'तिरः अद्रिम् अस्ता' दूर एवावस्थितस्य 'अदि वज्रम् 'अस्ता' शेतत्यर्थः । एवमेतस्मिन् मुपायच्छब्दसम्बन्धात् “वराहा मेघः”-इत्युपपत्तिः ॥ "अयमपीतरो वराह एतस्मादेव” असौ अपि हि वरं मूला- ख्यमाहारमाहरत्येव । “वरं वरं मूलं वृहति”-उद्यच्छतीत्यर्थः ॥ - ५अ० १पा० ४ख०] ॐ नैगम काण्डम् * ४८३ यथा अयमपीतरो वराहशब्दः छन्दसि घराह इत्युच्यते, तथैष निगमः,–“विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः । शतं महिषान् क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥” इति (ऋ० सं० , ५, ३०, ४)1:काण्वस्य पुरुसुतेरार्षम्। ऐन्द्री। 'विश्वा इत् ता' विश्वानि एव तानि "विष्णुः आभरत्' । 'उरुक्रमः' बहुविक्रान्तः, 'त्वेषितः' सन्दीपितः इन्द्रः वाक्येन । यदि त्वा' 'इषितः' इति पदविभागः, तथापि तु त्वेषितः' इत्येक पदं कृत्वैव निरुक्तम् , परोक्षकृतत्वान्मन्त्रस्य, नान्यथार्थ उप- पद्यते। कानि पुनस्तानि वसूनि आहरत् ? इति । उच्यते,- 'शतं महिपान्' बहून् महतो यान् आहरत् । किंलक्षणान् ? उच्यते,-'क्षीरपाकम् ओदनम्' 'प्रायणीयाख्यमादितः कृत्वा ये क्रियन्ते तान् , सोमऋतूनित्यभिप्रायः। कुतः पुनरा- हरत ? इति । उच्यते,–'वराहम्' असुरम्, वराहरूपेणाव- स्थितम्। सर्वेषामसुराणां मध्ये 'एमुषम्' मोहस्थानीयम् ॥ "माययायमिन्द्रो जघान, तस्य मध्यादाहरत, ययं वराहमिन्द्र एमुषमेकविंशत्याः पुरां पार इत्युच्यते”-इत्येवं ब्राह्मणं मैत्राय- णीयके, तदनुवादिनी चैषा ऋक् । तस्मादत्र वराह एवोच्यत इत्युपपद्यते॥ “अङ्गिरसोऽपि वराहा उच्यन्ते”। सत्येभिः सखिभिः शुचद्भिर्गोधायसं विधनसरदर्दः। व्रणस्पतिवृषभिर्व- राहैर्मस्वेदेभिर्द्रविणं व्यानट् ॥” इति (ऋ० सं० ८, २, १६, १)। आयासस्याङ्गिरसस्येयमार्षम्। ब्राह्मणस्पत्यस्य काम्य- इति । "स * निरुक्तम् * [पूर्वषट्कम् पशौ षड़र्चे विनियुक्ता मैत्रायणीयके। 'सः' 'ब्रह्मणस्पतिः' 'सत्येभिः' सत्यवादिभिः, 'सखिभिः' समानख्यानैः, 'शुचद्भिः" दीप्तिमद्भिः, 'विधनसैः' विविधधनवद्भिः, 'वृषभिः' वर्षद्भिः वर्षि- तृभिः, 'वराहैः' 'धर्मस्वेदिभिः' धर्मतापयितृभिः, प्रवर्यकर्मणि, अथवा यज्ञस्वेदिभिः, यज्ञस्वादयितृभिः, यज्ञसद्भिर्चा । एवङ्गुण- विशिष्ट रङ्गिरोभिः सहितो ब्रह्मणस्पतिः 'गोधायसं गोः वाचः धायितारम् , अपां चा, मेघम् । 'अदर्दः' अदारयदिति। विपरि- णामपरोक्षकृतत्वान्मन्त्रस्य । दारयित्वा च 'द्रविणम्' उदकं 'व्यानट्' व्याप्नोतीत्यर्थः। एतस्याभूचि अङ्गिरसां विशेषलिङ्ग नास्ति वराहशब्दवाच्यत्वं, सूक्ते तु एतस्मिन्नङ्गिरसो लिङ्ग- मस्तीत्यर्थः ! - "ऋतं शंसन्त दीध्याना दिवस्पुत्रासो असुरस्य वीराः । वित्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथम मनन्त ॥” इति ऋ० सं० ८, २, १५ सू०, २१०, ५, ६७ व०, २)। 'ऋतं शंसन्तः' ऋतं सत्यं वा प्रशंसन्तः, अपि च 'ऋजु' अकुटिलम अतिकालमेव 'दीध्यानाः' ध्यायमानाः, सर्वभूतानामुपरि सम- चेतस इत्यभिप्रायः। 'दिवस्पुत्रासः' द्योतनवतः, 'असुरस्य' प्रज्ञावतः पुत्राः, 'वीराः' विविधानामर्थानां वक्तारः, ईरयितारो वा मेधावित्वात् । 'विप्रं पदं' विप्राप्त सर्वतः प्राप्तम् 'अङ्गिरसो दधानाः'। यत्पदं स्थानं ज्ञानसहितस्य कर्मणः फलपराकाष्ठा, तामङ्गिरसो दधाना धारयन्तः चेतसा, विवृद्धप्रज्ञत्वात् । “य॒ज्ञस्य धाम प्रथमं मनन्त" 'यज्ञस्य यत् 'प्रथम' मुख्यं परमात्माख्यम- अजु , , , ५.० १पा० ४ख] * नैगम काण्डम् ४८५ नावृत्तिलक्षणं 'धाम' स्थानं तत्त्वेन 'मनन्त' जानत इत्यर्थः ॥ एतदेवैतस्यामृचि अङ्गिरोलिङ्ग दृष्ट्वा एष निगमो भाष्यकारणो दाहृतः,–“अङ्गिरसोऽपि वराहा उच्यन्ते” इति ॥ "अथापि एते माध्यामिका देवगणा घराहव उच्यन्ते" "मरुतः, रुद्राः”-इत्येवमादयः। अङ्गिरसो ह्य षिसमाख्यामपि लभन्ते, तस्मान्माध्यमकत्वेऽपि सति पृथगुद्धत्योक्ताः। ये ताव- मरुतो वराहशब्देनोच्यन्ते. तथैव निगमः, -“ए तत्त्यन्न योजन मचेति सस्बई यन्मरुतो गौतमो धः। पश्यन् हिरण्यचक्रानयो दंष्ट्रान विधावतो वराहून् ॥” इति (ऋ० सं० १, ६, १४, ५)। राहगणस्य गोतमस्येयमार्षम् । “आविद्युन्मद्धिर्मरुतः”–इती- यञ्चैतस्मिन्नेव सूक्ते। हे 'मरुतः!' 'एतत् 'त्यत्' वलं यौष्मा- कीणं 'न योजनमचेति' न योगमागच्छति, विजितारित्वात् भवतां न युज्यत इत्यर्थः । तस्य बलस्य किम् ? इति । उच्यते,- 'सस्वह यन् मरुतो वः'। अन्तर्हितं यत् सर्वेषां मनुष्याणाम् । यस्य च मध्ये युष्मान् ‘वराहून्' परेषां शत्रूणांउद्धर्तृन् , उद्वहणान्, 'हिरण्यचक्रान्' सुवर्णविकृतचक्रान्, 'अयोदंष्ट्रान्' अयोमयान् रथानधिरूढान् ‘विधावतः' नानाप्रकारं धावतः, 'पश्यन्' स्तौति, 'गौतमः'। तदेतन्न योजनमचेति । अचेतिर्गत्यर्थः, अञ्चतेर्ग- त्यर्थस्य सारूप्यात् एवमत्र प्रकरणे मरुतो वगहव उच्यन्ते इत्युपपत्तिः। मरुतादयोहि सर्व एव माध्यमका देवगणा वराहव उच्यन्ते। तेषां शाखान्तरेषु मृग्या निगमाः। निगमानु- पलब्धौ च “माध्यमिका देवगणा वराहव उच्यन्ते"-एतद् २-१० a ४८६ * निरुक्तम् * [पूर्वषट्कम् बहुवचनं मरुत्स्वेव योज्यम्, तेषां सप्तसप्तका गणा ब्राह्मणे हि श्रूयन्ते,-"ते सप्तसप्त मरुतां गणाः”-इति, तस्मादेवमप्युप- पद्यते। एवं बहुवचनं भाष्यकारस्य एकदेवताविषयेऽपि कदाचिद् वराहशब्दो भवत्येव, तदप्युपेक्षितव्यम् । तद्यथा,-"दिवो वराहमरुषं कपर्दिनम्”- इति (ऋ० सं० १, ८, ५, ५)। रुद्र स्वसराण्यहानि भवन्ति स्वयं सारीण्यपि वा स्वरा- दित्यो भवति स एनानि सारयति । उता इव स्वसरा- णीत्यपि निगमो भवति । शर्य्या अगुलया भवन्ति (सृजन्ति कर्माणि) शऱ्या इषवः शरमय्यः शरः शृणातेः शाभिनभरमाणो गभस्त्योरित्यपि निगमो भवत्यको देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति २ दनेनार्चन्त्य- कमन्नं भवत्यर्चति भूतान्यों वृक्षो भवति संवृत्तः कटुकिम्ना ॥ ५ (४)॥ इत्यवगमः। "स्वसराणि (२२)"-इति । अनवगतम् । “स्वयं सारीणि" "अहानि"-इत्यभिधेयवचनम्, तानि हि स्वयमेव सरन्ति गच्छन्ति । अपि वा “स्वर् आदित्यः” अत्र उच्यते । “स एतानि सारयति” तेनैतानि स्वसराणीत्युच्यन्ते ।
उस्रा इव स्वस- " ५१०१पा० ५ख०] * नैगम काण्डम् * “विश्वेदेवासो अस्तुरः सुतमागन्त तूर्णयः । राणि ॥” इति (ऋ० सं०१, १, ६, २)। मधुच्छन्दस आर्षम् । अग्निष्टोमे प्रउगे शस्त्रे गायत्रे तृचे वैश्वदेवे शस्यते। हे 'विश्वे- देवासः!' 'अप्तुरः' कर्म प्रति त्वरमाणाः, ते हि याज्ञिकं कर्म प्रत्यागन्तु त्वरन्ते । अत एवमामन्त्र्यते 'सुतम् आगन्त' अस्माभिः अभिषुतमेतं सोमं प्रति 'आगन्त' आगच्छत । हे 'तूर्णयः' त्वरण- शीलाः! कथं पुनरागच्छत ? 'उना इव स्वसराणि'। यथा 'उस्नाः' रश्मयः, 'स्वसराणि' अहानि प्रति, शीघ्रमागच्छन्ति, एवमागच्छत ॥ एवमस्मिन् रश्मिसम्बन्धात् “स्वसराणि" इत्यहानीत्युपपद्यते॥ “शUः (२३)"-इति । अनवगतम् । “शरमय्यः”-इत्य- वगमः। “इषवः” अभिधेयाः। शृणातेः” हिंसार्थस्य (क्या०प०), हिंस्यन्ते हि तेन। “अभ्यभि हि श्रवसा तत- दिथोत्सं न कञ्चिजनपानमक्षितम् । शाभिर्न भरमाणो गभस्त्योः ॥” इति (ऋ० सं० ७, ५, २२, ५, ६, ७७, ५) । त्र्यरुणः त्रसदस्युश्च “पयूंषु प्रधन्व वाजसातये"-इति पावमानं सौम्यं सूक्तं ददशतुः । पिपीलिकमध्यास्तिस्रोऽनुष्टुभः षडू बृहत्यः, तासामियं द्वितीया। 'अभि ततर्दिथ' एतं सोमं हे अभिषोतारः! पुनः पुनरभिहतेत्यर्थः । 'श्रवसा' श्रवणीयेन मन्त्रेण। कथं पुनरभितर्दिथ ? इति 'शाभिः न भरमाणः' शरमयीभिः इषुभिः यथा कश्चित् के तर्दयेत् धनुर्धारयमाणः, एवमेतं सोमम् एभिः प्रावभिः 'गभस्त्योः' बाह्वोरवस्थितैरभित- "शरः, ARHARU 8. निरुक्तम् । [पूर्वषट्कम् तर्दिथ यूयम्। किञ्च, एवमेतं सोमं अभितर्दयन्तो यूयं वसती- वरीभिरद्भिराप्याय्य 'उत्सं न कश्चित् कूपमिव कश्चित् 'जनपानं' महतः 'अक्षितम्' अक्षीणं कुरुत, महतो देवजनौघस्य पानाहँ प्रभूतं कुरुतेत्यभिप्रायः॥ एवमिहाभितर्दनक्रियासम्बन्धात् “शा" शब्देन इषव उच्यन्त इत्युपपद्यते॥ “अर्कः (२४)”-इति, अनेकार्थम्। “देवः” तावत् सर्व एवार्क इत्युच्यते। आह किं कारणम् ? उच्यन्ते,-"यत्" यस्मात् “एन” देवम् “अर्चन्ति” स्तोतारः। “अर्को मन्त्री भवति"। किं कारणं? “यत्” यस्मात् “अनेन” मन्त्रेण "अर्चन्ति” तस्मादकः । “अर्कमन्नं भवति”। किं कारणम् ? तद्धि “अर्चति भूतानि” यो हि पूज्यः, तस्मात् तमपि संस्कार- विशेषेण संस्कृतं पूजा क्रियते, पूज्यं च सर्वस्यैनमन्नम्। “अर्को वृक्षो भवति" य एष प्रसिद्धः। आह किं कारणम् ? इति । उच्यते,-"संवृत्तः” सङ्गतः, संव्याप्तः, "कटुकिग्ना" कटुकभा. वेन भवति ॥५॥ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः। ब्राह्मणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ गायन्ति त्वा गायत्रिणः प्रार्चन्ति तेऽर्कमर्किणो ब्राह्मणास्त्वा शतक्रतो उद्य मिरे वंशमिव वंशो वनशयो भवति वननाच्छ्र यत इति वा पवी रथनेमिर्भवति यद्विपुनाति भूमिम् । उत पव्या रथानामदि ५४० १पा० ख०] * नैगम काण्डम् * ४८६ । भिन्दन्त्योजसा । तं मरुतः क्षुग्पविना व्ययुरित्यपि निगमौ भवतः । वक्षो व्याख्यातं धन्वान्तरिक्षं धन्वन्त्यस्मादापः । तिरो धन्वातिरोचत इत्यपि निगमो भवति । सिनमन्नं भवति सिनाति भूतानि । येन स्मा सिनं भरथः सखिभ्य इत्यपि निगमो भवति । इत्थामुथेत्येतेन व्याख्यातं सचा सहेत्यर्थः । वसुभिः सचा भुवा । वसुभिः सह भुवौ। चिदिति निपातोऽनुदात्तः पुरस्तादेव व्याख्यातोऽथापि पशुनामेह भवत्युदाचश्चिदसि मनासि चितास्त्वयि भोगा- श्चतयस इति वा आइत्याकार उपसर्गः पुरस्तादेव व्याख्या- तोऽथाप्यध्यर्थे दृश्यते। अभ्र आ अपः। अभ्र आ अपोऽपोऽऽधीति घुम्नं द्योततेर्यशो वा अन्नं वा। अस्मे द्युम्नमधि रत्नं च धेहि। अस्मासु द्य म्नं च रत्नं च धेहि ॥ ६ (५)॥ इति पञ्चमाध्यायस्य प्रथमः पादः॥ ५, १ ॥ यथा तावद्दे घोर्कशब्देन उच्यते, तथैष निगमः,-"गायन्ति त्वा गायत्रिणोऽचन्त्यमणिः। ब्राह्मणस्त्वा शतक्रतो उद्धश- मिव येमिरे ॥” इति (ऋ० सं० १, १, १६, १)। मधुच्छन्दस आर्षम् । अनुष्टुप् । ऐन्द्री। हे भगवन्निन्द्र! 'गायन्ति त्वा वृक्षस्तु प्रसिद्ध * निरुक्तम् * [पूर्वषट्कम् गायत्रिणः' स्तुवन्ति त्वां सामगाः, सामभिः। 'अर्चन्त्यर्क- मणिः पूजयन्ति त्वाम् ऋग्भिः होतारो मन्त्रिणः। एवमनेन प्रकारेण सर्व एते "ब्राह्मणाः” याज्ञ कर्मणि हे 'शतक्रतो!' । 'उद्वंशमिव येमिरे' उद्यमिरे वंशमिव त्वां स्तुतिभिः हविभिश्च, यज्ञेषु तवैव महिमानं वर्द्धयन्तीत्यर्थः ॥ “वंशो वनशयो भवति" वने शयित इवास्ते। “वननाच्छ्र यत इति वा” सम्भजनाद् वा वल्लिभिः ॥ एवमत्र देवः “अर्क" शब्देनोच्यते ॥ मन्त्रस्यार्कशब्दवाच्यत्वे “अर्चन्त्यर्कमर्किण:"-- इत्येष एव निगमः, अर्किणो हि मन्त्रिण एवाभिप्रेताः । एव, तेन निगमस्तदभिधायको नैवास्ति "पविः (२.५)"--इति । अनवगतम्। “रथनेमिर्भवति इत्यभिधेयवचनम् । “यद् विपुनाति भूमिम्” सा हि विपुनाति भूमिमिति पविः ॥ “उ त स ते परुष्ण्यामूर्णा वसत शुन्ध्यवः । उत पया रथानामदि भिन्दन्त्योजसा ॥” इति (ऋ० सं० ४, ३, ६, ४)। श्यावाश्वस्येयमार्षम् । हे मरुतः ! येषां वः तिरोभ- वितुमाविर्भवितुं च काले शक्तिरस्ति, ते यूयम् 'उत स्म, अपि च कस्मिंश्चन काले 'शुन्थ्यवः' मद्गव इव परुष्ण्यां' नद्या, माध्यमि- कायां वा विपर्ववत्यां यूयमेव 'शुन्ध्यवः' शोधयितारः 'ऊर्णाः' चित्राः, तिरोहिताः 'वसथ' एतस्मिन्नन्तरिक्षलोके। 'उत' अपि, च, कस्मिंश्चिदभ्युद्गमनकाले प्राप्ते युष्माकं स्थानां पव्याः' या रथनेमयः, ता एव 'अद्रिम्' एवं 'भिन्दन्ति' 'ओजसा' बलेन, किमुत यूयमित्यभिप्रायः॥ एवमेतस्मिन्नर्थसंयोगात्पविशब्देन ” - , ५अ० १पा० ६ख०] नैगम काण्डम् * ४६१ रथचक्रनेमिरभिसम्बन्ध्यते। ब्राह्मणमपि चैतस्मिन्नेवार्थे चातु- स्येिषु सान्तपनं हविरधिकृत्य 'देवा वै वृत्रस्य मर्म नाविदंस्- "तं मरुतः क्षुरपविना व्ययुः” सान्तपनं सन्तस्तस्मात् सान्त- पनाः' इति । एतस्मिन्नपि च ब्राह्मणे चक्रनेमिः क्षुरधाराकृति- स्तोक्ष्णपविरित्युच्यते, तस्मादुपपद्यते। अल्पप्रयोगविषयत्वादु- दाहरणद्वयम् ॥ “वक्षः (२६)”---इति, व्याख्यातम् । “उपो अदर्शि शुन्ध्यवः” । “धन्व (२७)”-इति, अनवगतम् । “धन्वन्ति”-इत्यच- गमः । “अन्तरिक्षम्” --इत्यभिधेयवचनम् । "धन्यन्त्यस्मा- दापः” इति नामप्राप्ती हेतुनिर्देशः, “यः परस्याः परावतस्तरो धन्वाति रोचते। स नः पर्षदति द्विपः ॥” इति (ऋ० सं० ८, ८, ४५, २)। अग्निपुत्रस्य वत्सस्येयमार्षम् । व्यू ढस्य दशरात्रस्य नवमेऽहन्याग्निमारतस्य शस्त्रस्य जातवेदस्ये सूक्ते निविद्धानीये शस्यते। 'यः' अग्निरादित्यात्मनावस्थितः, 'परस्याः परावतः परस्यामपि परावति वर्तमानः, "तिरः' तीर्णतममेतन्मह- दन्तरिक्ष 'धन्व' स्वेन प्रभावेन दीप्त्या 'अति' अतीत्य, अस्मान् प्रति रोचते' एव, प्रकाशत एव । अनेनैवमतिमहतापि तिरो- धीयत इत्यभिप्रायः। तस्य किम् ? इत्युच्यते,-'स नः' सोऽस्माकं 'पर्षत्' 'अति' सर्वतः सादयतु नाशयतु 'द्विषः' द्वेष्ट्रन् इत्यर्थः ॥ एवमस्मिनादित्यस्तुतिसम्बन्धात् “धन्व” शब्दोऽन्त- रिक्षाभिधानमित्युपपद्यते ॥
४६२ - , ॐ निरुक्तम् , [पूर्वषट्कम् “सिनम् (२८)-इति, अनवगतम् । "सिनाति" इति शब्दयुक्तिः। "अन्नं भवति”–इत्यभिधेयवचनम् । “सिनाति भूतानि” बध्नातीत्यर्थः, अन्नेन हि सर्वाणि भूतानि बध्यन्ते । “इमा उ वां भुमयो मन्यमाना युवावने न तुज्या अभूवन् । क्व? त्यदिन्द्रावरणा यशो वां येन मा सिनं भरथः सखिभ्यः ॥” इति (ऋ० सं० ३, ४, ६, १)। विश्वामित्रस्येयमार्षम् । तार्तीयसवनेषु उक्थपर्यायेषु स्तोमाभिशंसने मैत्रावरुणस्य शस्त्रे विनियुक्ता। हे 'इन्द्रावरुणौ !' 'इमा उ वां' युव : 'भृमयः' स्तुतयः यायास्तैस्तैस्तोतृभिरुदीरयामहे, तां पुनरेता अस्मै 'युवावते' युष्मद्वते, भवद्भ्यां तद्वते यजमानाय 'न' यथा पूर्व 'तुज्या' दानायाभिमतानामर्थानाम् 'अभूवन्' बभूवुः । यतो ब्रवीमि, हे 'इन्द्रावरुणौ !' 'क्क त्यत्' व तत् युवयोः 'यशः' माहाभाग्यं गतम् ? 'येन' माहाभाग्येनैताभिः स्तुतिभिः अभि- ष्ठुतौ सन्तौ 'सिनम्' अन्न 'भरथः' 'सखिभ्यः' समानख्यानेभ्यो यजमानेभ्यः ॥ अन्नमेव हि प्रायेण यजमानैः प्रार्थ्यत इति "सिन" शब्देनात्रान्नमभिधीयत इत्युपपत्तिः। व्यभिचारित्वादभिधा- नानां “सिनम्”-इत्यादीनि स्वेस्वेऽभिधानव, पठितान्यपि सन्ति नैघण्टुके प्रकरणे समाम्नाता ह्य तस्मिनैकपदिके प्रकरणेऽ नवगतसंस्काराभिप्रायेण, कानिचिदनेकार्थाभिप्रायेण ॥ "इत्था (२६)"-इति, एष निपातः, “अमुथा"-इत्यनेन व्याख्यातोऽष्टमेऽध्याये॥ "सचा (३०)-इति, अप्रतीतार्थों निपातः। “सह"- ១ । "५अ० १पा० ख०] * नैगम काण्डम् * इत्यर्थप्रतीतिः। “अग्निनेन्द्रेण वरुणेन विष्णुनादित्यैरुदैर्वसुभिः सचा भुवा। सजोषसा उषसा सूर्येण च सोमं पिबतम- श्विनाः ॥" - इति (ऋ० सं०६, ३, १४,१)। श्यावाश्वस्ये- यमार्षम्। त्रिष्टुप् , ज्योतिष्मती। हे 'अश्विनौ !' एताभिः अग्न्यादिभिः देवताभिः 'सचा भुचौ' सहितौ भूत्वा, 'सजोषसौ च' सहप्रीती, इमं 'सोमं 'पिबतम्'। पीत्वा चैतन्नामास्माकमर्थ- मभिप्रेतं कुरुतमित्येवमाशोर्योज्या ॥ एवमिहाग्न्यादिदेवताभि- सम्बन्धात् “सचा"-इत्येष सहयोगे भवतीत्येतदुप्रपद्यते ॥ "चित् (३१)”-इति, एष “निपातः” “अनुदात्तः” । तद्यथा,-- “सद्यश्चिद् यः शवसा पञ्च कृष्टी:"--इति ( ० सं० ८, ८, ३६, ३)। स “पुरस्तादेव व्याख्यात” चिदित्येषोऽनेक- कर्मा"-- इत्यत्र । “अथापि” अयमेव “उदात्तः” आद्य दात्तो भवति, ततः “पशुनाम भवति”। तद्यथा.–“चिदसि मनासि धीरसि-इति राजक्रयणी गोस्तुतौ। सैवोच्यते. 'चिदसि मनासि" इति। अतः पुनरेतद् ब्राह्मणे व्याख्यायते, .. “चिद- सीति यद्वाव विचिकित्सते"-इत्येवमादि आध्वर्य्यवे॥ "आ (३२)- इति, आकार उपसर्गः, पुरस्तादेव व्याख्यातः” "आ इत्यर्वागर्थे" -इति। 'अथाप्युपमार्थे दृश्यते” निपा- तत्वेन “जार आ भगम्" --इति । “अथापि” कदाचित् “अध्यर्थे दृश्यते"-"अधीत्युपरिभावमैश्वरो वा”- इति । यथायमध्यर्थेऽपि भवति, तथा “अभ्र ा अपः” - इत्येष निगमः । 'कदु प्रियाय धाम्ने मनामहे स्वक्षेत्राय स्वयशसे । ।
* निरुक्तम् , [पूर्वषट्कम् महे वयम्। आमेनस्य रजसो यद्ध औं अपो वृणाना वितनोति मायिनी ॥” इति (ऋ० सं०४, ३, २, १)। अधुना पद- विभागमस्य भाष्यकार: करोति, उपसर्गविभागोपप्रदर्शनार्थम् , -"अभ्रे, आँ, अपः” इति। अधुना “आँ-इत्यस्यार्थं ब्रवीति,-"अपोऽभ्रेऽधीति” यदुक्तं स्यात्तदेवोक्तं भवति “अभ्र आँ अपः” - इति । प्रतिभानो रात्रेयस्येयमार्षम्। वैश्वदेवस्य प्रथमैव। जगती । अत्र पुनः प्रायेणापः स्तयन्ते । “आपो वं विश्वेदेवाः, सर्वा एव वा देवताः” इत्यनेन ब्राह्मणदर्शनेनापां विश्वेदेवत्वमुपपद्यते। तत् पुनः सूक्तं अभिप्लवस्य षड़हस्य पञ्चमे- ऽहनि तृतीयसवने वैश्वदेवे शस्त्र शस्यते। “कदु प्रियायधाम्ने मनामहे”। 'कत् उ प्रियाय' सुखाय प्रियाय च 'धाम्ने' स्थानाय वैश्वदेवाय, तत्प्राप्त्यर्थम् । तानेव च विश्वान् देवान् यः 'मनामहे' त एव ह्य पास्यमानाः तत् स्थान प्रापयितु समर्था इत्यर्थं मनामहे। स्थानविशेषणान्येवोत्तराण्यपि स्वक्षत्रादीनि । 'स्वक्षत्राय च धाम्ने स्वबलायेत्यर्थः। यत्र स्वमेव बलं भवति, न तत्र परकीयं बलमाशास्यते, यथेह लोके । 'स्वयशसे' यत्र स्वम हिमकृतमेव यशो भवति, न सांयौगिकद्रव्यकृतम् । 'महें' महते धाम्ने। मत्प्राप्त्यर्थमेव 'वयं' मनामहे, मत्वा चोपास्मह इत्यभिप्रायः। 'आमेन्यस्य' मेना माध्यमिका वाक्, सा यत्र, तस्य। 'रजसः' रजोलोकः, अन्तरिक्तलोक इत्यर्थः, तस्य 'आँ' उपरि। 'यत् अभ्रे' यो मेघः, तत्र । या आपः अवस्थिताः, ताः 'अपः'। 'वृणाना' सम्भजमाना 'वितनोति' विस्तृणाति ७ इन्द्र! 'शतं ते तव 'ऊतयः' आगमनानि सन्तु। क ? 'सुदासे' ५अ० १पा० ख०] * नैगम काण्डम् * वर्षभावेन । 'मायिनी' प्रज्ञावती, माध्यमिका वाक् । ताः 'अप' 'वयम्' एवमादिगुणयुक्ताः, तासामेव सर्वगतस्य धाम्नः प्राप्त्यर्थं 'मनामहे' याचामहे ॥ अभ्रे एव हि अधि आपः वर्तन्ते इति आध्यर्थ इत्युपपद्यते ॥ अथ चैवमन्यथास्य मन्त्रस्यार्थः स्यात्,-'कदु प्रियाय' सुखाय प्रियाय चैतस्मै 'धाम्ने' स्थानाय, यत्र वयं वर्तामहे । कथं नामैतत् स्थानं सुखं च प्रियं च स्वक्षत्रञ्च स्वमहत्त्वञ्च स्या- दित्येवमर्थं विश्वान् देवान् मनामहे । “मदेमहि, मनामहे"- इति याज्ञाकर्मसु पठितम् । कतमाः पुनरपो याचामहे ? इति । उच्यते,–'आमेन्यस्य रजसः' आभिमुख्येन मननीयस्य रजसोऽ- न्तरिक्षलोकस्य यदभ्रमुपरि वर्त्तते, तस्मिन्नने 'अपः' 'वृणाना' सम्भजमाना 'मायिनी' माध्यमिका वाक् 'वितनोति' वृष्टिभावेन, ताः 'मनामहे' याचामहे ॥ “घुम्नम् (३३)"---इति, अनेकार्थम् । “यशो चा अन्नं वा” इत्यभिधेयवचनम् । “शतं ते शिप्रिन्नूतयः सुदासे सहस्त्रं शंसा उ त रातिरस्तु। जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ।” इति (० सं० ५, ३, ६, ३)। वसिष्ठस्यार्षम् । त्रिष्टुवेव । महाव्रते महदुक्थे दक्षिणे पक्षे शस्यते। हे 'शिप्रिन् !' mam सुदाने कल्याणदाने, एतस्मिन् यजमाने, तथैनमनुगृहाण, यथा नित्ययाज्येवायं यजमानः स्यादित्यभिप्रायः। आगतस्य च सतः तव 'सहस्रं शंसा' बहूनि स्तोत्राणि सन्तु। 'उत रातिः अस्तु' * निरुक्तम् * [पूवषट्कम् अपि च हविर्दत्तिरस्त्वत्येतदेवानुवर्तते । एवश्व त्वमागत उपस्मृप्तः सन् शृणु, यत् कुरुष्व । हे 'वधः' वधयितः! 'वनुषः मर्त्यस्य योस्मान् हन्तुमिच्छति मर्यो मनुष्यः तस्य । यद् वीर्यम्, तत् 'जहि'। हत्वा च तस्य वीर्यम्, निरुक्तमकृत्वा 'अस्मे' अस्मासु 'द्युम्नम्' “अन्नं यशो वा” रत्न च' 'धेहि' देही- त्यर्थः । 'रत्न' धनम्। एवमेतस्मिन् शत्रुवधसम्बन्धात् “धुन्न" शब्देन “यशो वा अन्नं वा” उच्यत इत्युपपत्तिः, हते हि शत्रौ यशोऽन्नं वा भवतीति ॥ “द्युम्नं द्योततेः” इति, अन्नमेव हि भुञानस्य दीप्तिर्भवतीति । धुम्नं द्योतयित च, यशस्तु दीप्त प्रकाशस्वभावादिति ॥६॥ इति निरुक्तवृत्ती दशमाध्यायस्य (पञ्चमाध्यायस्य) प्रथमः पादः॥५१॥ । द्वितीयः पादः॥ cung पवित्रं पुनातेर्मन्त्रः पवित्रमुच्यते । येन देवाः पवित्र- णात्मानं पुनते सदेत्यपि निगमो भवति। रश्मयः पवित्र मुच्यन्ते। गभस्तिपूत इत्यपि निगमो भवत्यापः पवित्र मुच्यन्ते। शतपवित्राः स्वधया मदन्तीबहुदकाः। अग्निः ५१०२पा० ख०] नैगमं काण्डम् * पवित्रमुच्यते वायुः पवित्रमुच्यते सोमः पवित्रमुच्यते सूर्यः पवित्रमुच्यते इन्द्रः पवित्रमुच्यते । अग्निः पवित्रं स मा पुनातु वायुः सोमः सूर्य इन्द्रः । पवित्रं ते मा पुनन्वि- त्यपि निगमो भवति तोदस्तुद्यतेः ॥ १ (६) । “पवित्रम् (३४)”–इति, अनेकार्थम् । “पुनातेः ---इति धातुः निर्देशो निर्वचनाभिप्रायः। "मन्त्रः पवित्रमुच्यते”-इत्यभिधेय- १२३२३१२३१२१२३१२१२३१२ वचनम्। “येन देवाः पवित्रेणात्मा पुनते सदा । तेन सहस्त्र- धारेण पावमानीः पुनन्तु नः ॥” इति (सा० सं० उ० आ०५, २, ८, ५)। मन्त्रस्य पवित्रत्वप्रख्यापको नियमः। पवित्रस्य वसिष्ठसहितस्य वा आर्षम् । पावमानी सौमी। 'येन' 'पवित्रेण' मन्त्रेण 'देवाः' ऋत्विग्यजमानाः 'आत्मानं पुनते' 'सदा' सतत- मेव। प्रस्तुते कर्मणि यस्य मन्त्रस्य तत् सामर्थ्यम्, 'तेन' मन्त्रेणैवं वीर्यवता 'सहस्रधारेण' बहुप्रक्षरेण प्रविरलेन 'पवमानः' पूयमानः, सोमो मां पुनातु ॥ मन्त्रेणैव देवा ऋत्विग्यजमाना आत्मानं पुनन्ति, तस्मादुपपद्यते तेषां देवत्वमिति, न हि इतरेषां देवानां पापमस्ति, यत् पूयेत। “न च वे देवान् पापं गच्छति" -इति विज्ञायते । तस्माद्दे वशब्देनात्र ऋत्विग्यजमाना उच्यन्ते। ते हि हविषां दातारः, याचनेन च अर्थिनः तस्मादुपपद्यते तेषां देवत्वम्॥
। * निरुक्तम् * [पूर्वषट्कम् 'रश्मयः पवित्रमुच्यन्ते" ते हि स्पर्शनेनैव पावयन्ति । "वावस्पतये पवस्व वृष्णः अंशुभ्यां गभस्तिपूतः। देवो देवेभ्यः पवस्व येषां भागोऽसि” – इत्येषा उपांशुग्रहग्रहणे विनियुक्ता । हे सोम! वाचस्पतिरिन्द्रः, त्वां पश्यतीत्येतमर्थं पुरस्कृत्य वृष्णः' वर्षितुः, अग्नी प्रास्ताहुत्या वृष्टिं कर्तुरादित्यस्य चार्थे पवस्व' पूयस्व, यावेतावन्तर्हितौ सन्तौ सकलयज्ञ व्याप्नुवानौ निषिच्य- मानस्यैव ताभ्यां पवस्व । अपि च त्वं प्रागप्यभिषवात् 'गभ- स्तिपूतः' एव रश्मिपूतः। किञ्च, 'देवः' त्वं दानादिगुणयुक्तः । देवानामेव दानादिगुणयुक्तानां पवित्रमसि पावयितासि । कि सर्वेषामेव ? नेत्युच्यते,–'येषां भागोऽसि' ये त्वाम भिषवादि- क्रियया भजन्ति ऋत्विग्यजमानाः, ते ह्यत्र देवत्वेनाभिप्रेताः पाचनसम्बन्धात्, न हीतरेषां देवानां पापमस्ति। पूर्ववत् किञ्चित् ॥ “पवमान मह्यो विधावसि सूरो न चित्रो अव्ययानि पव्यया। गभस्तिपूतो न भिरद्रिभिः सुतो महे वाजाय धन्वसि ॥" । एतं मन्त्रं व्यावक्षते। ऋषिगणैरकृष्टमायादिभिर्व्य- स्तैः समस्तैश्च त्रिभिः “प्रत आशवः”–इत्येतस्याष्टाचत्वारिंश- द्वचस्य सूक्तस्य चत्वारिंशतामृचां दशदशों दृष्टाः, तत्रैषा चतु- स्त्रिशत्तमी। हे 'पवमान' पूयमान ! सोम ! 'अव्ययानि' 'पव्यया' पत्रिमयेन, और्णन पवित्रेण पूयमानः, त्वम् 'महि' “अर्ण' उदकम्, उदकत्वेनाभिसम्पन्नः, तत्स्वभावमुपगतः, नि- जीषः, स्वच्छो भूत्वा ततो द्रोणकलशं प्रति 'विधास'।
५अ० २पा० ९ख०]] * नैगम काण्डम् ” कीदृशः पुनः पूर्वं भूत्वा एतां रसावस्थामापद्यते त्वम् ? इति, उच्यते,-पूर्व तावदरण्येऽवस्थितः, 'गभस्तिपूतः' रश्मिपूतः सन् । ततः आहृत्य क्रीत्वा सोमस्तूपविक्रय विधानेन, 'नृभिः' ऋत्विग्य- जमानैः 'अद्रिभिः' ग्रावभिः 'सुतः' अभिषुतः। ततो 'महे' 'वाजाय' अन्नाय 'धन्वसि' कृतस्त्र जगद्धारयित्रेऽर्थाय । कथं नाम कृतनजगदुपकारित्वमभिनिष्पद्यत, वृष्टिनिमित्तेनेत्येतमर्थ पुरस्कृत्य रसभावमापन्नो द्रोणकलशं प्रति 'धन्वसि' प्राप्नोषी- त्यर्थः ? 'सूरो न चित्रः' सूर्य इव पूजनीयः ॥ एवमस्ति “गभस्तिपूतः -इत्येतस्मात् पावनसम्बन्धाद्रश्मीनां पवित्रत्व- मुपपद्यते ॥ कैश्चित् “पवित्रवन्तः परि वाचमासते” - इति (ऋ० सं० ७, २, २६, ३)। एष निगमो विधीयते ।। “आपः पवित्रमुच्यन्ते” ता अपि हि पाचयन्ति। वित्राः स्वधया मदन्तीवीर्देवानामपियन्ति पाथः। ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं धृतवज्जुहोत ॥”– इति (ऋ० सं० ५, ४, १४, ३)। अब्देवत्या। त्रिष्टुप् । वसिष्ठ- स्यार्षम् । 'शतपवित्राः' बहुपावयित्र्यः; याः देव्यः, 'स्वधया' अन्नन सहिता भूत्वा 'मदन्ती:' 'देवीः' दानादिगुणयुक्ताः, 'देवानां' दानादिगुणयुक्तानामेव 'पाथः' पानं सोमाख्यम् , 'अपि यन्ति' गच्छन्ति । ताः, एवंलक्षणा आपः, 'इन्द्रस्य न मिनन्ति' न हिंसन्ति च तानि कर्माणि? येनात्रवधानन्तरमविलम्बमानो वर्षभावेन प्रक्षरन्तीत्यभिप्रायः । या एताः, एवगुणयुक्ता आपः, ताभ्योऽभ्यः 'सिन्धभ्यः' स्पन्दमानाभ्यः 'हव्यं हविः, “घृतवत्' "शतप-
५००
"पुरुत्वा दाश्वान् वोचे
* निरुक्तम् * [पूर्वषट्कम्
घृतमिश्रम् 'जुहोत' हे ऋत्विजः ! अर्हन्ति ता हविरित्यभिप्रायः ।
एवमत्रापः “पवित्र” शब्देनोच्यन्ते, अब्दैवतत्वादस्य मन्त्रस्य ॥
अग्न्यादयोऽपि ह्य ते पवित्रशब्देनोच्यन्ते, तेऽपि हि सर्व एव
पाधयन्ति । “अग्निः पवित्रं स मा पुनातु, वायुः सोमः सूर्य्य
इन्द्रः पवित्रं ते मा पुनन्तु ॥"-"इत्यपि निगमो भवति" ।
निगदप्रसिद्ध एवैष निगमः ॥
"तोदः (३४)”-इति, अनवगतम् । “तुदः”-इत्यवगमः ।
“तुद्यतेः” व्यथनार्थस्येति (तु० उ०) धातुनिर्देशः। भूमेविलं
तोद इत्युच्यते, तद्धि तुन्न भवति दीर्घत्वात्। कृप इत्येके ॥
२(६)॥
पुरु त्वा दाश्वान्याच रिरग्ने तव स्विदा। तोदस्येव
शरण आ महस्य ॥ बहुदाश्वांस्त्वामवाभिह्वयाग्यरिरमित्र
ऋच्छतेरीश्वरोऽप्यरिरेतस्मादेव यदन्यदेवत्या अग्नावाहुतयो
हृयन्त इत्येतद् दृष्ट्वैवमवक्ष्यत् । तादस्येव शरण आ
महस्य । तुदस्येव शरणेऽधि महतः स्वञ्चाः सु अञ्चनः।
आजुहाना घृतपृष्ठः स्वञ्चा इत्यपि निगमो भवति ।
शिपिविष्टो विष्णुरिति विष्णो द्वै नामनी भवतः कुत्सिता-
थर्थीयं पूर्व भवतीयोपमन्यवः ॥ २ (७) ॥
-० महस्य" इति (ऋ० सं.
२,२, १३, १)। दीर्घतमस आर्षम्। उष्णिक । प्रातरनुवा-
* नैगम काण्डम् * ५२०२पा० ख०] काश्विनयोः शस्यते। 'पुरु त्वा दाश्वान्' बहुदानवान् अहं भूत्वा हे अग्ने! त्वामहं 'वोचे' त्वामाहयामीत्यर्थः। किं पुनः कारणमन्या देवता उत्सृज्य त्वामाह्वयामि? इति, उच्यते,- यस्मात् 'अरिः अग्ने! तव स्वित् आ,--इत्येतद् विवक्षार्थ सुचिरमपि विचार्य तवाहमरिरेव स्तोमानामुच्चारणे। अर्य्यः ईश्वर एव, समर्थोऽहमायामि त्वां स्तोतु बहु च दातुमित्यभि- प्रायः। किं पुनः कारणमन्या देवता उत्सृज्य त्वामेवाहयामि ? इति, उच्यते-इतः,-यस्मात् 'तोदस्य इव शरणे आ महस्य' तुन्नस्येव विदीर्णस्य कस्यचिच्छत्रस्य कृपस्योपरि। आङ् अध्यर्थः। 'महस्य' महत इत्यर्थः। 'शरणे' चिले। "" हिंसायाम् (क्रया प०), तस्य शरणं विलम् , तद्विदारितं भवति, तथाहि श्वभ्रे विले कस्मिंश्चिद् वह य आपो गच्छन्ति, न च तस्य श्वभ्रस्य महतो ग्रहणशक्तिपरिहाणं भवति, एवं तवानेकाश्चानेक- देवताश्चाहुतीरस्माभिः प्रदत्ताः प्रतीच्छतो न सामर्थ्यपरिहाण- मस्ति, अतो देवतानामस्माकं त्वमेवातिविशिष्टोपकारे प्रवृत्तः, अतः त्वामेवाहयामि॥ एवमत्र शब्दसारूप्योदुपमार्थोपपत्तेश्च “तोद" शब्दस्य भूप्रदेशस्याभिधायकत्वमित्युपपद्यते। तथा चोक्तम्, "तोद मध्ये निर्ह त्यार्द्धचतुर्दशशकुंनिखन्यात्”---इति सदसो निर्माणे ॥ स्त्रिया अपि च असत्प्रदेशः तोद इत्युच्यते। तस्मादेतदपि तुत्रस्य भूप्रदेशस्याभिधायकमित्युपपद्यते॥ “अरिः, अमित्रम्, “ऋच्छतेः' -इति निगमप्रसक्तम्। ऋच्छतेः हिसार्थस्य (भू०प०)।" "ईश्वरोऽप्यरिः एतस्मादेव" कृतः सुप्रभाता रात्रयो भवन्ति,-नेतरस्य यज्वन इत्यभिप्रायः। * निरुक्तम् * [पूर्वषट्कम् धातोः। यदन्यदेवत्या अग्नावाहुतयो हूयन्ते, यस्मादन्यदेव- ताश्च अन्यदेवताश्चापरिसङ्ख्यया अग्नावाहुतयो हूयन्ते, न चाग्ने स्तासां ग्रहणशक्तिपरिहानमस्ति, न च ज्ञायते श्वभ्रे विल इव निषिक्ता आपः क्वापि गच्छन्ति, ता आहुतय इत्ये- तत् सामान्यं दृष्ट्वेवमवोचन्मन्त्रदृक्-"तोदस्येव शरण आ महस्य"- इति, “तुदस्येव शरणेऽधि महतः”-इत्यर्थः ॥ “स्वञ्चाः (३६)”-इति, अनवगतम् । “सु-अञ्चनः- इत्यवगमः । “सं भानुना यतते सूर्य्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः । तस्मा अमृध्रा उपसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥” इति (ऋ० सं० ४, २, ८, १)। अत्रेरार्षम् । ऐन्द्री। त्रिष्टुप् । यस्य यजमानस्य नित्यपापयुक्तत्वात् तेषु तेषु कर्मसु ज्वलितः अग्निः 'आजुह्वानः' आहूयमानः, अभिहूयमानो वा, 'घृतपृष्टः' घृताक्तपृष्ठः, 'स्वञ्चाः' शोभनगमनः, स्वेन प्रकाशेन 'भानुना' सता सूटपेण 'संयतते' सङ्गच्छते, संस्पर्द्धते वा, सूर्येण अतिदीप्तत्वात् । तस्य यजमानस्य किम् ? इति, उच्यते,-'तस्मै' एव 'अमृध्राः' अमृताः, अम्लानाः, 'उषसः' 'व्युच्छान्' विभान्तीत्यर्थः । यस्यैव- मभिहृयमानोऽग्निः नित्यकालमेव सूर्येण संयतते, तस्यैव पुण्य- । - १ अपि च य एवम् 'आह' अयज्वापि शुद्धाद्वितीयो दरिद्रः कश्चित् 'इन्द्राय' इन्द्रार्थं 'सुनवाम' अभिषुणुमः सोमम् 'इति' तस्यापि कल्याणाभिव्याहारिणः सुप्रभाता एवोषसः,-किमुत यः सुनो- तीत्यभिप्रायः॥ एवमस्मिन् “सूर्येण संयतते"-इत्यनेन सम्बधात् , ५४०२पा० ३ख०]] नैगमं काण्डम् * " "स्वञ्चाः=स्वञ्चनः" अञ्चतः (भू०प०) गत्यर्थस्य ' दर्शनादित्यु- पपद्यते ॥ "शिपिविष्टः, विष्णुः"-"इति” एते “विष्णोः" एव "वें नामनी भवतः” । अत्र “शिपिविष्टः (३७)” इति, एतद् गुण- पदमनवगतम्, पक्षण चानेकार्थम्। शिपिविष्टः, शेप इव निर्वेष्टित इत्यर्थप्रतीतिः। अस्य सम्बन्धादत्र “विष्णु (३८) "शब्दः समा- स्नातः । यथा “अक्षाः”--इत्यस्य लम्बन्धात् “सोम"शब्दः 'सोमो अक्षा" -इति । न ह्यत्र प्राधान्येन विष्णुशब्दः समानातः, देवतोपदत्वात्। अनयोई योरपि नानोः यत् “पूर्व” तत् “कुत्सितार्थीयं भवति 'इति" 'औपमन्यवः” आचार्यो मन्यते। यथा च कुत्सितार्थीयं तथोदाहरणर्थमेव निव॒वन दर्शयिष्यति ॥ २ (७)॥ किमित्त विष्णो परिचयं भूत् प्रयद्ववक्षे शिपिविष्टः अस्मि । वर्षों अस्मदप गूह एताइन्यरूपः समिथ बभूथं ॥ किं ते विष्णोऽप्रख्यातमेतद्भवत्यप्रख्यापनीयं यन्नः प्रब पे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नः श्मिरपि वा प्रशंसानामैवाभिप्रेतं स्यात् किं ते विष्णो प्रख्यातमेद- वति प्रख्यापनीयं यदुत प्रबषे शिपिविष्टोऽस्मीति प्रति- पन्नरश्मिः शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवति । मा वर्षों अस्मदप गूह एतत् । वर्प इति रूपनाम वृणो- reOT * निरुक्तम् * [ पूर्वषट्कम तीति सतो यदन्यरूपः समिथे संग्रामे भवसि संयतरश्मि- स्तस्योत्तरा भूयसे निर्वचनाय ॥ ३ (८) ॥ "किमित् ते” “प्रतत्ते अद्य".-इति (ऋ० सं० ५, ६, २६, ६, ५)। पसिष्टस्यैते आर्षे । विष्णोः शिपिविष्टस्यान्वारम्भरणीये चरुः, तस्यैते याज्यानुवाक्ये, वाजपेये च सप्तदशे शस्त्रे शस्यत्रे, सोमातिरेकशस्त्रे च तृतीयसवने च किंरूपः त्वम् ? इति पृष्टः शिपिविष्टोऽस्मोत्युक्ते अनन्तरं प्रक्रियते, “किमित् ते विष्णोः” इति। किमेतदेवैकं विगतरश्मिरूपं परिचक्ष्यं परिध्याख्यापनीयं भवति, नान्यानि रूपाणि तव सन्ति, येनैवं “प्रववक्षे” पुन:- पुनव्र थे। अस्माकमग्रतः “शिपिविष्टः अस्मि”--इति, "शेप इव निर्वेष्टितोऽस्मोति” “अप्रतिपन्नरश्मिः” हि सूर्यः, उदयकाले निर्वेष्टितः शेपस्वरूपो भवति, तस्य तद्रपगुणयोगित्वमकुत्सितार्थ- मित्युपपद्यते । “अपि वा” “प्रशंसानामैवाभिप्रेतं स्यात्" प्रशंसायुक्तगुणमेवैतन्नाम स्यात् “शिपिविष्टः”--इति। आह,- कथम् ? इति, उच्यते,--"शिपयः” “अत्र” अस्मिन् प्रशंसापक्षे "रश्मयः उच्यन्ते” । स च सूर्यो मुहर्त्ततः “तैः” शिपिसझैः बालरश्मिभिः “आविष्टः” तस्मात् “शिपिविष्टः”–इत्युच्यते । एवमेतद् व्युत्पाद्यमानं प्रशंसानामैव भवति, नाश्लीलोपमासम्बद्ध- मित्यभिप्रायः । हे 'विष्णो !' किमेतदेवैकं रूपं तव 'परिचक्ष्यां' "प्रख्यापनीयम्” अस्ति, यदेतदुदयकाले प्रतिपन्नमात्रेषु रश्मिषु नान्यानि रूपाणि प्रख्यापनीयानि सन्ति। “यदुत” एवं " "प्रबषे.
* नैगम काण्डम् * । ५०.२पा०४ख०]] -शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः” प्रतिपन्नमात्रेषु रश्मि- विति । विज्ञानोमस्तवैतद्रूपद्रयम्। अतो ब्रूमः-“मा वो अस्मदपगृह ए तत्” । 'मा' एतत् 'वर्पः' रूपम् 'अस्मत् अस्माक- मग्रतः प्रख्यापय । किं तर्हि ? 'अपगृह एतत्' संवृतं कुरुष्वैतद् “शिपिविष्ट” शब्दवाच्यमुपमेयरूपम्, अथवा बालरश्मिसंयुक्तम् । किं तर्हि ? “यदन्यरूपः” येनान्येन रूपेण 'समिथे' “संग्रामे" 'बभूथ' “भवसि" । "संयतरश्मिः” सम्बद्धानेकरश्मिजालः, तदेव नो माध्यन्दिनं रूपमनेकरश्मिविकचं प्रकाशयस्वेत्यभिप्रायः। तघ्यनाधृष्टं संग्रामेषु भवति ॥ “तस्य” एवार्थस्य प्रकृतस्य यथा प्रशंसानामैतदिति, “उत्तरा" ऋगस्या एवं प्रकृताया ऋचः “भूयसे निर्वचनाय” अत्र हि स्वशब्देनैवास्य प्रशंसा- नामत्वमुच्यते ॥ ३ (८)॥ प्रतत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तन्त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके ॥ तत्तेऽद्य शिपिविष्टनामार्यः प्रशंसाम्यर्यो- हमस्मीश्वरः स्तमानामयस्त्वमसीति वा तन्त्वा स्तौमि तवसमतव्यांस्तवस इति महतो नामधेयमुदितो भवति निवसन्तमस्य रजसः पराके पराक्रान्त आघृणिरागतहणिः । आघृणे संसचावहै । आगतहणे संसेवावहै । पृथुन्याः ।
। 29 निरुक्तम् [पूर्वषट्कम् पृथुजवः। पृथुज्रया अमिनादायुर्दस्योः प्रामापयदा- युर्दस्योः ४ (8)॥ "प्र तत् ते अद्य"-इति (ऋ० सं० ५, ६, २५, ५)। हे 'शिपिविष्ट ! विष्णो! 'तत्' 'ते' तव 'नाम' 'प्रशंसामि' तत्प्रशं. सार्थीयमेव पश्यामि, यदन्ये कुत्सितार्थीयं पश्यन्ति। 'वयुनानि' युष्मद्विषयाणि प्रज्ञानानि 'विद्वान् जानानः। किञ्च, “आर्योऽ- हमस्मि” यस्मादीश्वरः स्तुतीनामुदीरणे, युष्मद्गुणाभिज्ञः, तस्मादहं प्रशंसामि । अथवा" "अर्यस्त्वमसि” अर्य ईश्वरः, मदनुग्रहाय समर्थः, तस्मात् प्रशंसामि । तत्ते नामेति विस्फुटतरं प्रशंसानामत्वमिति। यस्त्वं सर्वगुणसम्पन्न ईश्वरः, 'त' 'त्वा' त्वामहं गृणामि' स्तौमि । 'तवसं' महान्तम् । 'अतव्यान् अहमहानहम्, आत्मनिन्दया स्तूयते । क वर्तमानं निवसन्तम् ? 'अस्य रजसः' अन्तरिक्षलोकस्य 'पराके पराक्रान्ते स्थाने, दूराद् दूरतरे निवसन्तं स्तौमि॥ "आघृणिः (३६)"--इति, अनवगतम् । “आगतहृणिः” इत्यवगमः। आगतदीतिरागतक्रोधो वाभिधेयः। एहि वां विमुचो नपादावृणे संसंचावहै। रथीन् ऋतस्य नो भव ॥" इति (ऋ० सं० ४, ८, २१, १)। भरद्वाजस्येयमार्षम् । गायत्री। पौष्णे सूक्ते । 'एहि' आगच्छ। हे 'विमुचः' विचयितः ! प्रजानाम् तमोभ्यः, पूषन् ! सूर्य ! 'नपात्' नप्तः ! अभ्योऽ- । - ५१०२पा० ४ख * नैगम काण्डम् * ५०७ ग्निर्जायते, अग्नेरादित्यः--इत्यनयापेक्षया नपात्वं सूर्यस्य । अथवा मनुष्याणामेव नप्ता स्यात् नभ्य ऋत्विगभ्यो मनुष्येभ्यो जायतेऽग्निः, अग्नेरपि च सूर्यो जायते, यदुक्तमग्न्युपस्थाने, "एष प्रातः प्रसुवति"-इति। 'आघृणे' आगतदीप्ते! 'संस- चावहैं' “संसेवावहै"। 'वाम्' आवां परस्परतः । 'रथीन ऋतस्य' रहयिता, गमयिता, प्रोत्सर्पयिता त्वं यज्ञस्य 'नः' 'भव'। त्वदुयप्रतीक्ष एवाहं यज्ञप्रारम्भं प्रत्याशासे। यत् त्वमुदिहि, त्वय्युदिते प्रोत्सर्पतामयं यज्ञ इत्यभिप्रायः। स एव- मयमत्र सूर्यसम्बन्धात् “आघृणि"शब्दो दीप्तिवाचकः। दीप्ति- कर्मसु च पठित एवायं “हरः (8), हृणिः (१०)"-इति । क्रोधो- ऽपि हृणिरित्युच्यते,-"हेल: (१), हरः (२), हृणिः (३)” इति, तदपि प्रकरणवशादुपेक्षितव्यम् ॥ “पृथुज्रयाः (४०)”-इति, अनवगतम्। “पृथुजवः वगमः । “यं नु न किः पृतनासु स्वराज द्विता तरति नतमं हरिष्ठाम्। इनतनः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादा- युर्दस्योः ॥”--इति (ऋ० सं० ३, ३, १३, २)। विश्वामित्रस्येय- मार्षम्। त्रिष्टुप् । ऐन्द्रे सूक्ते व्यूढस्य दशरात्रस्य द्वितीयेऽहनि मरुत्वतीये शस्त्र शस्यते। 'यं नु न किः' यमिन्द्रं न कश्चिदपि 'पृतनासु' संग्रामेषु 'स्वराजम्' अपराधीनराज्यां "द्विता' द्विविधे- नापि बलेन सांयौगिकेन औरसंन च, 'तरति' जयति, सर्वथा यो जेतुन शक्यत इत्यर्थः । अथवा, 'द्विता तरति' द्विधैकधा वा, बहुधा वा वर्तमान पृतनासु' 'यं नु न किः' यं न कश्चित् हन्तुं more इत्यao ।
५०८ * निरुक्तम् [पूर्वषट्कम् शक्नोति 'नृतमं' मनुष्यतमं 'हरिष्ठां' होः स्थातारम् । 'इनतमः' ईश्वरतमश्च यः सर्वेभ्य ईश्वरेभ्यः 'सत्वभिः यो ह शूषैः' अनेक- सत्वसंयुक्तैः हस्त्यश्वरथपदातिलक्षणैः सांयोगिकैः बलैः, शूषैश्च बलविशेषैरेव । अथवा, सत्वशब्दविशेषणमेव “शुष" शब्दः स्यात्, --सत्वयुक्तैः शूषैः बलैरिति । 'पृथुज्रयाः' विस्तीर्णजवः 'अमिनात् आयुः' । कस्य ? 'दस्योः' मेघस्य, असुरस्य, तमहं स्तौमि स इदं नाम करोत्वित्यभिप्रायः ॥ एवमत्र शब्दसारूप्यात् बधा- धिकाराच्च “पृथुज्रयाः = पृथुजवः” इत्युपपद्यते ॥ ४ (६)॥ अग्नि नरो दीधितिभिररण्योहस्तच्युती जनयन्त प्रशस्तम् । दूरदृशं गृहपतिमथयुम् ।। दीधितयोऽङ्गुलयो भवन्ति धीयन्ते कमस्वरणी प्रत्युत एने अग्निः समरणा- ज्जायत इति वा हस्तच्युती हस्तप्रच्युत्या जनयन्त प्रशस्तं दूरे दर्शनं गृहपतिमतनवन्तम् ॥ ५ (१०)। “अथर्य्यम् (३६)" -इति, अनवगतम्। 'अतनवन्तम्” -इत्यवगमः ॥ “अग्नि नरो ०- मर्युम् इति (ऋ० सं०५, १, २३, १)। वसिष्ठस्यार्षम् । विराट् त्रिष्टुप् । महाव्रते आग्नेये सूक्ते प्रथमैवेयम् । व्यूढस्य दशरोत्रस्य चतुर्थेऽहनि आग्निमारुते शस्त्र जातवेदस्ये सूक्ते च प्रथमैव । 'नरः' मनुष्याः 'दीधितिभिः' अङ्गुलिभिः योक्तं परिगृह्य, उत्तराणि च 'हस्तच्युती' हस्तप्रच्युत्या हस्ताभ्यां प्रच्यावयन्तः 'अरण्योः सकाशादग्नि 'जनयन्त' । 'प्रशस्त' प्रशस्य मित्पर्थः । 'दूरदृशं' दूरे दर्शनम् 'गृहपतिम'
५०६
५०२पा० ख०]
* नैगम काण्डम् *
"अथर्युम् “अतनवन्तम्” गमनवन्तमित्यर्थः॥ एवमत्र अततेः
गत्यर्थस्य (भू०प०) सारूप्यादग्न्यधिकाराच्चापि “अथर्म्युः'
अतनवा नित्युपपद्यते। “दीधितयोऽङ्गुलयो भवन्ति” ता हि
"धीयन्ते” “कर्मसु" अनुष्ठीयमानेषु । “अरणी” “प्रत्युतः”
प्रतिगतः। “एने “अग्नि, वा स्यात् “समरणाज्जायते-इति
वा" अरण्योः हि 'समरणात्' समागमनादग्निर्जायते ॥ ५ (१०) ॥
एकया प्रतिधा पिवत्साकं सरांसि त्रिंशतम् । इन्द्रः
सोमस्य काणुका ॥ एकेन प्रतिधानेनापिवत् साकं सहे-
त्यर्थः
। इन्द्रः सोमस्य काणुका कान्तकानीति वा क्रान्त-
कानीति (वाकृतकानीति) वेन्द्रः सोमस्यकान्त इति वा कणे
घात इति वा कणे हतः कान्तिहतस्तत्रतद्याज्ञिका वेदयन्ते
त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि तान्येत-
स्मिन् काल एकेन प्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते
त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत् पूर्वपक्षस्येति नरुक्तास्तद्या
एताश्चान्द्रमस्य आगामिन्य आपो भवन्ति रश्मयस्ता अप-
रपक्षेपिबन्ति तथापि निगमा भवति । यमक्षितिमक्षितयः
पिबन्तीति । तं पूर्वपक्ष आप्याययन्ति तथापि निगम
भवति। यथा देवा अंशुमाप्याययन्तीति ॥ ६ ॥
वा, * निरुक्तम् * [पूर्वषट्कम् "कोणुका (४२)”-इति, अनवगतम्, अनेकार्थं च । “कान्त- कानीति क्रान्तकानीति वा, कृतकानीति वा"-इत्येवमाद्या: शब्दसमाधयः । “एकया प्रतिः -काणुका” इति (ऋ० सं०६, ५, २६, ४)। काण्वस्य कुरुसुतेरियमार्षम् । गायत्री। ऐन्द्री। 'एकया प्रतिधा' एकेन प्रतिधानेन सकृत्प्रतिहितेनैव चेतसा 'पिबत् पिवतीन्द्रः 'साकं सहेत्यर्थः। कानि पुनः पिबति ? 'सरांसि' । कियन्ति ? 'त्रिंशतम्' कस्य पूर्णानि पिवति ? “सोमस्य । किङ्गुणयुक्तानि ? 'काणुका' “कान्तकानि” प्रियाणीत्यर्थः । अथ “वा" सोमस्य "क्रान्तकानि" अखिलं सरांसि सोमस्य पूर्णानीत्यर्थः। अथ “वा" "कृतकानि" संस्कृतानि, ऋत्विग्भिः इन्द्रार्थमेव । अथ 'वा" "इन्द्रः” यस्मात् “सोमस्य कान्तः” तस्मादपिवत् । अन्यथेन्द्रविशेषणमेव स्थान सरोविशेषणम् । आह, कथम्? इति, उच्यते,-"आघातः इति वा” आ कणे घोतं पिवतीति यावत, कणे हन्यत इत्यर्थः, “कणे हतः "कान्ति- हतः" इत्यर्थः। कामः, प्रार्थना, कणे,-इति समानार्थाः, कामे योऽभिहतः, सः “कणे हतः" - इत्युच्यते, हतपानाभिलास इत्यर्थः । एवमेतत् काणुकेति सरोविशेषणमिन्द्रविशेषणं वा? पानविशेषणं वा? सर्वेषामस्मिन्मन्त्रे प्रकृतत्वात्। एवं चास्य विकल्प्यमानस्यानेकार्थतापि दर्शितैव भवति ॥ यदेतदुक्तमस्मिन्मन्त्रे “सरांसि त्रिंशतम्”-इति, अस्याभिधेय- विषयप्रख्यापनप्रसक्तमिदमुच्यते, "तत्रैतद्याज्ञिका वेदयन्ते" तत्रै. तस्मिन् त्रिंशच्छब्दे एतदभिधेयमर्थवस्त याज्ञिकाः 'वेदयन्ते' ७ । " - , ५१०२पा० ख०] ॐ नैगम काण्डम् . कथयन्ति । “त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेव- तानि"-इति. तत्र हि माध्यन्दिने सवने उक्थपर्यायाः त्रयोऽ- प्यन्द्रा एव भवन्ति, त्रिष्वपि चेतेषु दश चमसाः, तदभिप्रायेण त्रिंशत्सरांसीत्युक्तं मन्त्रदृशा। ते ह्यनेन्द्रस्य "सरकाः" अभि- प्रेताः । सीधुसरका इवेतरस्य कस्यचित् क्षत्रियस्य यानि तान्युक्- थसम्वद्धानि च सोमपात्राणि "एकेन” प्रतिधानेन “पिवन्ति" पीयन्ते, “तान्यत्र सरांस्युच्यन्ते" -इत्येष याशिकानामभिप्रायः। "त्रिंशदपरपक्षस्याहोरात्राः, त्रिंशत् पूर्वपक्षस्येति नैरुक्ताः” । “तत्" तत्रैवं सति "याः एताः" 'चान्द्रमस्यः” चन्द्रमसि भवाः चान्द्रमस्यः, “आगामिन्यः” प्रतिपद्वितीयाद्यासु तिथिष्वागच्छ- न्तीति । कि तासाम् ? इति, उच्यन्ते,-रश्मयस्ता अपरपक्षे पिबन्ति”। यथा चैतदेवं "तथापि" तथैष “निगमः"-"यम- क्षितिमक्षितयः पिबन्ति" इति। चन्द्रमसमपरपक्षे पीत्वा ते सूर्यरश्मयः “पूर्वपक्षे" प्राप्ते पुनः "आप्याययन्ति" आपूरयन्ति । यथा चैतदेवं “तथापि” तथैषः “निगमः”-यथा देवा अंशु- माप्याययन्ति"-इति॥ यथा देवा अंशुमाप्याययन्ति, यमक्षितिमक्षितयः पिबन्तिः। तेन च इन्द्रो वरुणो वृहस्पतिराप्याययन्तु भुवनस्य गोपाः ॥” इति । राजयज्वगृहीतस्य वैश्वदेवश्चरुनिरूप्यते, तत्र प्राक् स्विष्टक- तोऽनेन याज्याहुति यते। 'यथा' येन प्रकारेण, देवाः' सूर्यरश्मयः 'अंशं' सोमम् 'आप्याययन्ति' पूर्वपक्षे। एवमनेन प्रकारेण हे यजमान ! त्वाम् इन्द्रः' 'वरुणः' 'बृहस्पतिः' च एते 'भुवनस्य' * निरुक्तम् * [पूर्वषट्कम् भूतजातस्य 'गोपाः'गोप्तारः। 'आप्याययन्तु' आयुषा धनेन च । किञ्च, 'यथा' येन प्रकारेण 'अक्षितिम्' अक्षीणम् सोमं, 'अक्षितयः' सूर्य्यरश्मयः पिबन्ति तया त्वमपि हविर्दातारं सन्तं पिबन्तु, उप- जीवन्तुएते देवाः इति। येषान्तु एते “यमक्षतिम्”- इति पाठः, तेषां यमक्षतिमक्षितयः पिबन्ति, स च त्वामाप्याययन्त्वित्येवं योज्यम् ॥ आह,-"एकया प्रतिधापिवत्” इत्येतस्मिन्मन्त्रे “साकं सरांसि त्रिंशतमिन्द्रः” पिवतीत्युक्तम्। नरुक्तपक्षेणोक्तम्,- "तद् या एताश्चान्द्रमस्य आगामिन्य आपो भवन्ति रश्मयः, ता अपरपक्षे पिबन्ति”-इति, तदेतद्रश्मिषु पातृष, चन्द्रमसि व पीयमाने, सर्वमेवेदमसम्बद्धं भवति ?-इति “एकया प्रतिधा- पिवत्" इत्येतस्य मन्त्रम्यैन्द्रत्वात् । इतरस्मिन् “अक्षितिम. क्षितयः पिवन्ति”-इति रश्मीनां पानसम्बन्धादादि उच्यते, आदित्योऽपि हि इन्द्रशब्देनोच्यत एव -“असावादित्य इन्द्रः" -इति विज्ञायते। तदवयवभूताश्च रश्मयः, आदित्येन सह समासव्यासस्तुतिभाजः। सरःशब्दः खल्वपि उदके एव वर्तते, “पयः (३७), सरः (३८), भेषजम् (३६)”-इत्युदकनामसुपठितम् । तत्रैवं सति यानि तान्युदकानि सरांसि पञ्चदशाहः सम्भूतानि साकमवस्थितानि भवन्ति चन्द्रमसि, तानि सूर्यः = इन्द्रो रश्मि- भिरपरपक्षे पिवतीति । एवमेतत् सर्वमुपपद्यते एव नैरुक्तपक्षे ॥६॥ अध्रिगुमन्त्रो भवति गव्यधिकृतत्वादपि वा प्रशासन- मेवाभिप्रतं स्यात्तन्छब्दवत्वादधिगो शमीचं सुशमि शमीचं ५अ० २पा० ख० * नैगम काण्डम् * शमीध्वमध्रिगवित्यग्निरप्यध्रिगुरुच्यते। तुभ्यं श्चोतन्त्य- धिंगो शचीवः। अधृतगमनकर्मवन्निन्द्रोऽप्यध्रि गुरुच्यते । अधिगव ओहमिन्द्रायेत्यपि निगमो भवति अग्रूपः स्तोम आघोषः । एनाङ्गुषेण वयमिन्द्रवन्तः। अनेन स्तोमेन. वयमिन्द्रवन्तः ॥ ७ (११) “अध्रिगुः (४३)"---इति, अनवगम्, अनेकार्थञ्च । “अध्रिगु- मन्त्रो भवति”। ओह, किं कारणम् ? उच्यते,---"गवि अधि- कृतत्वात्”। सोऽयमधिगुः सन् अध्रिगुरित्यथः । गवि योऽ- विकृतो मन्त्रः स अध्रिगुः । “अपि वा” गोरनित्यत्वात् “प्रशा- सनमेव” एतत् “अभिप्रेतं" स्यात् । अध्रिगुर्नाम कश्चिदस्ति दैव्यः शमिता, तम्यैतत् प्रशासनं स्यात्, सम्प्रेषणमित्यर्थः । किं कारणम् ? “तच्छन्दवत्वात्” । तथाह्यस्य मन्त्रस्य अध्रिगुशब्द- वत्त्वं यदेतदुक्तमुपपद्यते। तदनेनैव निगमेन “अध्रिगो शमीध्वम्" इति । है 'अध्रिगो!' सर्व एव यूयं 'शमीध्वम्' "शमयध्वम्" एनं पशु मिति। “देव्याः शमितार आरभध्वम् ०-० आशालाना मेधपतिभ्यां मेधम् ०-० नेद्वस्तोके तनये रवितारवच्छमि- -~-० अध्रिगो शमीध्वम्" -इति प्रेषः। हे 'दैव्याः !' 'शमितार: !' अपि च हे 'मनुष्याः !' 'ओरभध्वम्' 'उपनयत' च एनं पशुम् । एताः 'मेध्याः' 'दुरः' यज्ञगृहद्वार इत्यर्थः। 'आशा- सोनाः' प्रार्थयमानाः; 'मेधपतिभ्याम्' आभ्यामग्नीषोमाभ्यां मेधम् एनं पशुशमयितुम् । किञ्च, 'प्र अस्मै अग्नि भरत' प्रभरतास्मै । kamunana * निरुक्तम् * [पूर्वषटकम् पशवे सञ्ज्ञप्यमानाय अग्निमुल्मुकम्, पुरस्ताद्धारयतेत्यर्थः । किञ्च, 'स्तृणीत वहिः' अस्मै पशवे सञ्ज्ञप्यमानाय, उपाकरणमेनं दर्भमपास्यतेत्यर्थः। किञ्च, 'अन्वेनं माता मन्यताम्' एनं सञ् ज्ञप्यमानं माता अनुमन्यताम् । 'अनु' मन्यतां 'पिता'। 'भ्राता सगर्थ्यः' 'अनु' मन्यतां सहगर्भीयः, सहोदर इत्यर्थः। 'अनुम- न्यतां' चैनं 'सखा सयूथ्यः' सहयूथवारी, 'अनु' मन्यतामेनमेभिः सञ्ज्ञपयतेत्यभिप्रायः। किञ्च, 'उदीचीनाम् अस्य पदो निधत्तात् उदकपादमेनं सज्ञपयतेत्यर्थः। किञ्च, सूर्यप्रभवमस्य चक्षुः, ततः 'सूर्यम्' एव 'गमयतात्' । 'वातम्' अनु 'प्राणम्' अन्वव- सृजतात्' । 'असु" शरीरविधारकं प्राणम् 'अन्तरिक्षम्' अन्वव. सृजत। 'दिशः' 'श्रोत्रम्' अन्ववरसृजत । किञ्च, 'उपाकरणेन' दर्भेण 'सह' साकम् 'एकधास्य त्वचम्' 'आच्छ्यतात्' आच्छा. तेत्यर्थः। ततोऽनन्तरमेव 'पुरा' नाभ्या अपि शसः तस्माच्छसः प्रशस्तात् प्रदेशात् 'चपाम्' 'उखिदतात्' उद्धरत । किञ्च, 'अन्तरेव' अभ्यन्तरत एव, 'उष्माणम्' अस्य शस्यमानस्य वारय- ध्यात्'। 'श्यनमस्य' श्येनाकृति श्येनवर्ण वा पाकेन 'वक्षः' उरः 'कुरुत'। 'प्रशसा बाहू' 'शला दोषणी' -इति वाह्वोरेवैतददि- धानम् अवयवशः, अन्न बाहुशब्दः प्रायेणांसयोः वर्तते, आ आरलिसन्धानी बाहू प्रशस्तौ कुरुत । स्वधित्याकृती, इत्येकः । शलाशब्दः अरत्न्यामेव वर्त्तते। तौ च शलादोषणी द्रवणसमर्थों प्रशस्तौ कुरुत। शलाकाकृती निर्माणौ कुरुतेत्येके। “श्येन- शलाकश्यपा-कवषा--स्रोकपणेष्वाकृति--विशेष-वचन--सिद्धसाधनं ५०२पा० ७ख०] * नैगम काण्डम् * । स्यात्” इति हि नैयायिकाः पठन्ति। 'कश्यपेवामा' कश्य- पाविव अंसौ कुरुत। किञ्च, 'अच्छिद्रे श्रोणी' अविकले कुरुत। 'कवषोरू' कवषे गतिसमथै कुरुत, कवतिर्गत्यर्थः, “च्यवते, कवते, गवते"-इति गतिकर्माणः। पिण्डिकाख्ये उरू अच्छिद्रे एव कुरुतेत्यर्थः। 'स्नेकपर्णा' करवीरपत्राणीव 'अष्ठीवन्ता' अस्थिसंयुक्तो कुरुत । षड्विशतिरस्य वक्रयः, ता अनुष्ठ्यो च्यावयतात्' या एता वक्रयः पर्शवः, अनुष्ट्या अनुष्ठानक्रियया प्रच्यावनसमर्थयव प्रच्यावयत । किञ्च, 'गात्रम्' 'अस्य' 'अनूनम्' अविकलं 'कृणुतात्' कुरुत। किञ्च, 'ऊवध्यगोहम्' ऊवध्यं यः पार्थिवो गतः, प्रकृष्ट संवृणोति, तम्, उत्तरश्चात्वालस्य खनतात्'। “अस्मा रक्षः संसृजतात्' अमृगभाजि रक्षांसि कुरुतेत्यर्थः । किञ्च, 'वनिष्ठुम्' दृष्ट्वा 'मा राविष्ट' 'मा शब्दं करिष्यथाः। 'उरुकं मन्यमानाः' उलूकवन्त घनिष्टुं मन्यमानाः, उलूको हि भयङ्कर- त्वात् दृष्ट्वा जनैः विराव्यते,-अयमुळूकोऽयमुलूक इति। तदाशङ्कया उलूकसारूप्यावनिष्ठोर्मा राविष्टेत्युच्यते । हे शमितारः ! नेद्वस्तोके तनये रमितारवच्छमितार:' नैतत् कर्म कुर्वतां रवितारवत्. पुत्रेषु पौत्रेपु वः स्यात्, अरवणशीलं वः पुत्रपौत्रं भविष्यतीत्यभिप्रायः । हे 'अध्रिगो!' 'शमीध्वम्' एनं पशु 'सुशमि शमीध्वम्' यथा चायं सुशमितः स्यात्तथैनं 'शमीध्वं' हे 'अधिगो!' मा प्रमाद करिष्यथ ॥ एवमेतस्मिन् दैव्यस्य शमितुः अध्रिगोः प्रशासन- मित्येतदुपपद्यते, तस्य सम्बोध्यत्वादस्मिंश्च प्रेषे यथासम्भवं :प्रशासनानि द्रष्टव्यानि,-"प्रारमा अग्नि भरत".-इत्येवमादीनि ॥ Twing ॐ निरुक्तम् 8 [पूर्वषट्कम् अग्निरप्यध्रिगुरुच्यते” अधृतगमनोऽसावित्यध्रिगुः । “तुभ्यं श्चोतन्त्यध्रिगो शचीवः स्तोकासो अग्ने मेदसो घृतस्य। कवि- शस्तो बृहता भानुना आगा हव्या जुषस्व मेधिर ॥” इति (age सं० ३, २, २१, ४)। कुशिकपुत्रस्यार्षम् । विराट् । पाश्विष्टस्तोके सूक्ते विनियुक्ता? है 'अध्रिगो' अधृतगमन ! 'शचीवः' कर्मवन् ! 'तुभ्यं त्वदर्थमेते 'स्तोकासः' विन्दवो वपामतीत्य श्रोतं क्षरन्ति । 'मेदसः' च 'घृतस्य' च। यस्य तवैतत्तते, सत्वं 'कविशस्तः' प्रक्षरणे प्रक्षरणे कविभिरभिपुतः, 'बृहता' महता भानुना' 'भासा' "आगाः आगच्छ। आगत्य चेमानि 'हव्या' हवींषि यानि स्तोकाख्यानि, त्वदर्थमेव क्षरन्ति 'जुषस्व' संसेवख। हे 'मेधिर' यज्ञवन् ! इत्यर्थः। एवमत्र "अध्रिगो"---इत्यग्निरुक्तः, तस्मा- दग्नेरध्रिगुत्वमुपपद्यते॥ “इन्द्रोऽप्यनिगुरुच्यते”। तस्यापि न कश्चिद् गमनधार- यितास्ति “अस्मा इदु प्र तवसे तुराय प्रयो न हमि स्तोम माहिनाय । ऋचीपमायाधिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥" -इति (ऋ० सं० १, ४, २७, १) । नोधस इयमार्षम्। अहीनसूक्ते शस्यते। 'अस्मै' इन्द्राय 'प्र हर्मि' प्रभरामि स्तोमम्' 'प्रयो न' प्रय इव, अन्नमिव, यः स्तोमः तृप्तिं करोति, तं प्रभरामि। तवसे' महते 'तुराय' त्वरमाणाय 'माहिनाय' महनाय हो। किञ्च, 'वीषमाय' ऋक्समाय, स्तुतिसमाय, यावती स्तुतीरुदीर्यते तापानेवासौ भवति, माहाभाग्यात्। 'अध्रिगवे' अधृतगमनाय, अप्रतिहतगमनाय, एवंलक्षणीय 'इन्द्राय' 'ओहन्' अहं प्रापयामि... , , "अ० २पा० ८ख०] * नेगम काण्डम् * 'ब्रह्माणि' हवींषि 'राततमा' दातव्यतमानि यान्यसावेवाहति, तानीत्यभिप्रायः ॥ एवमस्मिन्नध्रिगुशब्दे इन्द्रविशेषणत्वादिन्द्राभि- धानमित्युपपद्यते ॥ "आश्रेष: (४४) इति, अनवगतम्। “स्तोमः” अभि- धेयः! “आघोषः” इति शब्दसमाधिः ॥ “ए नाङ्गुषेण वय- मिन्द्रवन्तोऽभिष्याम वृजने सर्ववीराः। तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उ त द्यौः ॥” इति (ऋ० सं० १, ७, २३, ४)। त्रिष्टुप्। कुत्सस्य त्रितस्य वा कूपे पतित- स्यार्षम्। वैश्वदेवस्य चरोतृव्यवतो याज्यपा। 'एनेन' अनेन 'वयम्' 'आशुषेण' आघोषणीयेन स्तोमेन 'इन्द्रवन्तः' इन्द्रसंयुक्ताः 'स्याम' वयम्। 'तत्' ततो विश्वे 'सर्वे' एव अनवखण्डिताः सन्तः, सर्वान् भ्रातृयान् 'अभि' भवेम । तदेतत् 'नः' सर्वमपि 'मित्रः' 'वरुणः' च 'मामहन्ताम्' पुनःपुनर्महयन्तां पूजयन्तु । 'अदितिः' च पूजयतु। 'सिन्धुः' च पूजयतु । 'पृथिवी' च पूजयतु। 'उत द्यौः पूजयत्वित्येतदेवानुवर्तते॥ स्तोमोऽयम् “आग्रुप"शब्देनोक्तः, शब्दसारूप्यादर्थोपपत्तेश्च , एवमत्र आपान्तमन्युस्नुपलभर्मा धुनिः शिमीवाञ्छरुमान् ऋजीपी। सोमा विश्वान्यतसा वनानि नागिन्द्र प्रतिमानानि देभुः॥ आपातितमन्युस्तृप्रहारी (क्षिप्रप्रहारी सृप्राहारी) सोमो वेन्द्रो वा धुनिषूनोतेः शिमीति कर्मनाम २-१२ * निरुक्तम् ४ . [पूर्वषट्कम् शमयतेर्वा शक्कोतर्वीषी सोमों यत् सोमस्य पूयमानस्या- तिरिच्यते तहजीषमपार्जितं भवति तेनीषी सोमोऽ- थाप्यन्द्रो निगमो भवति । ऋजीषी वज्रीति । होरस्य स भागो धानाश्चेति धाना भ्राष्ट्र हिता भवन्ति फले हिता भवन्तीति वा । बब्धा ते हरी धाना उप ऋजीषं जिघ्रतामित्यपि निगमा भवत्यादिनाभ्यासेनापहितेनोपधा- मादत्ते बभस्तिरत्तिकर्मा सोमः सर्वाण्यतसानि वनानि नागिन्द्र प्रतिमानानि दम्नुवन्ति यैरेनं प्रतिमिमते नैनं तानि दनुवन्त्यागेवेनमप्राप्य विनश्यन्तीतीन्द्रप्रधानेत्येके नघण्टुकं सोमकर्मोभयप्रधानेत्यपरं श्मशा शु अश्नुत इति वा श्माश्नुत इति वा । अव श्मशा रुघद्वाः। अवारु- धच्छमशा वारिति ॥ ८ (१२)। इति पञ्चमाध्यायस्य द्वितीयः पादः॥५, २॥ "आपान्तमन्युः (४५)”-इति, अनवगतम्, पक्षण चाने- कार्थम् । “आपातितमन्युः” --इत्यवगमः । “आपान्तमन्युः” -इति (ऋ० सं० ८, ४, १४, ५)। वैश्वामित्रस्य रेणोरिय- मार्षम् । त्रिष्टुप् । सूर्यस्तुत्यैकाहे निष्केवल्ये विनियुक्ता । आपादितदीप्तिः, उत्पादितमन्युर्वा शत्रुभिः संग्रामे, 'तृपलप्रभा' "तृप्रहारी क्षिप्रप्रहारी, सोमो वेन्द्रो वा” । 'धुनिः' धूनयिता 8 नेगम काण्डम् , . । ५अ० २पा० ८ख०] ५१६ कम्पयिता शत्रूणां पात्राणाम् । 'शिमीवान्' स्वाधिकारविहितेन कर्मणा कर्मवान् । 'शरुमान्' हिंसावान् । 'ऋजीषी' यदि सोमो- ऽभिप्रेतः, तस्य ऋजीषित्वमुपपद्यते, अथेन्द्रोऽभिप्रेतः, तस्य तयोर- श्वयोः ऋजीषभागाः इत्यनयापेक्षया ऋजीषित्वम् । एवमयमर्द्धर्चः, सोमस्येन्द्रस्य वा, यश्मिंश्च पक्षे सौम्य एषोऽर्द्धर्चः, तस्मिन् पक्षेऽयं तृतीयः पादः सोमेनाभिसम्बन्धयितव्यः,—य एवङ्गुणयुक्तः 'सोमः' स एतानि विश्वानि' सर्वाणि 'अतसा' अनुपक्षीणानि 'वनानि' उदकानि, इतराणि वा वनानि वनस्पत्याख्यानि, स्वेन महिनो व्याप्नोति, स हि तेषामधिपतिः। एवमेते त्रयोऽपि पादाः सौम्या भवन्ति । उत्तर ऐन्द्र एव-"नागिन्द्र प्रतिमा- नानि देभुः” ---इति। नैनम् इन्द्रं प्रतिमानानि, यैः प्रतिमीयन्ते स्तोत्राणि, न तानि दभ्नुवन्ति, नाभिभवितुं शक्नुवन्ति । किन्तर्हि ? अर्वागेव तान् पुनात्येव । तस्मादिन्द्राद् भूत्वा "एनम्” इन्द्रम् “अप्राप्य” एव “विनश्यन्ति” नोपमार्थं कुर्वन्ति, स हि तेषां विनाशः। एवमेष पाद् ऐन्द्रः। एवमुभयप्रधान- त्वमस्या ऋचः॥ अथवेवमन्यथास्या ऋच उभयप्रधानत्वम् । द्वौ प्रथमो पादावैन्द्रत्वेन व्याख्यायेते, तृतीयपादमुत्कृष्य चतुर्थः पादः आद्याभ्यामभिसम्बन्धयितव्यः । योऽयमेवङ्गणविशिष्ट इन्द्रः, आपादितमन्युः तृप्रहारी, धुनिः, शिमीवान , शरुमान्, ऋजीपी च, तमेनमिन्द्रमेवम्प्रभावं न प्रतिमानानि दनुवन्ति । किन्तर्हि ? अर्वागेवैनमप्राप्य वर्तमानानि विनश्यन्ति । एवमेते त्रय ऐन्द्राः १ * निरुक्तम् * [पूर्वषट्कम् पादाः,--द्वावाद्यौ चतुर्थश्च। अयं तृतीयः सौम्यः,-"सोमो विश्वान्यतसा वनानि”- इति । यः "सोमः, सर्वाण्यतसानि. वनानि" महिम्ना व्याप्नोति, यञ्च “इन्द्रं न प्रतिमानानि दनु- वन्ति" तौ सोमेन्द्राविदं नाम कुरुतामित्याशीर्योज्या ॥ “एके" पुनः “इन्द्रप्रधाना" एवेयमृक् “इति” एवं मन्यन्ते, -“नघण्टुकम्” अस्यां “सोमकर्म"-इति, तेषामियं योजना, य इन्द्र आपादितमन्युः, तृप्रहारी, धुनिः, शमीवान्, शरुमान् , ऋजीषी च, स सोम इव अतसानि वनानि इदं सर्वं व्याप्नोति । न चैनं प्रतिमानानि दनुवन्ति। किन्तर्हि ? एनमिन्द्रमप्राप्यैव विनश्यति। एवमिन्द्रप्रधानैव भवति । एवमस्या ऋचः त्रिधा समासार्थो बोद्धव्यः। तथाहि भाष्यकारेण दर्शितम् । सोमस्य ऋजीषित्वोपपादनार्थमाह भाष्यकारः,–“यत्सोमस्य पूयमान- स्यातिरिच्यते” रसादन्यदसारमतिरिच्यते, “तद्वजीषम्" इत्युच्यते। तत् “अपार्जितम्” अपवर्जितं "भवति” कल्कभूत- त्वात् “तेन" संयोगात् “ऋजीषी सोमः" उच्यते॥ "अथ” यस्मिन् पक्षे “ऐन्द्रः” अर्द्ध) भवति. एतस्मिन् पर्छ इन्द्रस्य ऋजीषित्वाभिधायकः एषः “निगमः भवति” । इन्द्रस्य ऋजीषित्वमनुपपन्न मन्यमानो निगमं पठति,-"अजीषी बज्री वृषभस्तुरापाट्छुष्मी राजा वृत्रहा सोमपावा युक्त्वा हरिभ्यामु- पयासदर्घाङमाध्यन्दिने सवने मत्सदिन्द्र ॥”-इति (ऋ० सं० ४, २, ११, ४)! अत्रेरियमार्णम् । त्रिष्टुप् । ऋजीषेण तद्वान् 'ऋजीषी' वज्रेण तद्वान् 'वज्री' 'वृषभः' वर्षिता कामानाम् ..
५१०२पा० ८ख०] * नैगम काण्डम् * MARA- , 'शुष्मी' बलवान् , 'राजा' अधिपतिः, 'वृत्रहा' शत्रुहा, 'सोमपावा' सोमस्य पातेत्यर्थः य एवङ्गणयुक्त इन्द्रः, सः 'युक्त्वा' 'हरिभ्याम्' अश्वाभ्यां रथं तम् अधिरुह्य 'उपयासत्' उपागच्छत् । 'अ'क्' अस्मानाभिमुख्येन, 'माध्यन्दिने सपने' एतस्मिन् प्राप्त 'उप' उपागम्य च 'मत्सत्' माद्यताम् , अस्मत्प्रदत्तेन सोमेनेत्यर्थः ॥ एवमेतस्मिन् मन्त्रे 'ऋजीषी' इन्द्र उक्तः। तत् पुनरेतद्वजी- षित्वमिन्द्रस्य न विज्ञायते, केन कारणेत्यतस्तदुपपादनार्थमाह, -हटयोरस्य स भागः' -इति। होरेवाश्वयोरस्येन्द्रस्य स भागो यदृजीपम्। "धानाश्च" । प्रसङ्गात्र धाना उक्ताः। यदुक्तम्,-"होर्धाना हरिवतोः” इति। तेन हरिसंयोगेन ऋजीषेण लक्षितलक्षणया वृत्त्या इन्द्रस्य ऋजीषित्वम्।। आह,-"धानाः" कस्मात् ? उच्यते,-ता हि “भ्राष्ट्र हिताः” भवन्ति, अथ “वा” भ्राष्ट्रादवतार्य “फले" फलके "हिताः" निहिताः भवन्ति । तत्र हि ता विसार्यन्तेति दाहभयात्। यथा ऋजीपं धानाश्च होरश्वयोरिन्द्रस्य च भागस्तथैष निगमः,-"बब्धां ते हरी धाना उप ऋजीर्ष जिघ्र- ताम्-इति। अत्र 'बब्धाम्' इत्येतस्मिन् पदे य एषः “बभस्तिः” धातुः, “अत्तिकर्मा” भक्षणार्थः। सः “आदिनाभ्या- सेनोपहितेनोपधामादत्ते" आदावभ्यासेनोपहितेनोपधामादत्ते, धकारेण निमित्तभूतेन उपधामकारमादत्ते, लुम्पति। “घसि- भसोर्हलि च (पा०६, ४, १००)"- इत्यकारलोपः, ततो धत्वे कृते, जश्त्वे च कृते, बन्धामित्येतद्रूपं भवति ॥ “धानाः सोमा- * निरुक्तम् * [पूर्वषट्कम् नामिन्द्राद्धि व पिब व बब्धां ते हरी धाना उप ऋजीषं जिघ्रतामा रथचर्षणे सिञ्चस्व । यत्त्वा पृच्छाद् वृषन् पत्नी कामीमदथा इत्यस्मिन् सुन्वति यजमाने तस्मै किमरास्थाः सुष्टु सुवीर्य यज्ञस्यागुर उद्रुचं यद्यदचीकमतां तत्तथाभूद्धोतर्यज"। हारि- योजनास्यायं प्रेषः। हे 'इन्द्र!' 'अद्धि' भक्षय 'धानाः'। 'सोमानाम् एतेषाम् स्वभूतं रसम् 'पिव च' अस्य हारियोजनस्य सोमस्य। किञ्च, 'बधाम् , भक्षयतां 'ते' तव एतावश्वौ 'हरी" एताः 'धानाः' 'उप ऋजीषं जिघ्रताम्' उपजिघ्रतामृजीषश्च । 'आ रथचर्षणे सिञ्चस्व' जठरे सोममेनम् हे 'रथचर्षणे' रथगमन ! आसिञ्चस्व । किञ्च, 'यत्त्वा पृच्छात्' यदि त्वां पृच्छेत् गृह- मनुप्राप्तमस्मद्यज्ञात् हे 'वृषन्' वर्षितः ! 'पत्नी क्वामीमदथाः' क्व पीतवांस्त्वम् ? अतो ब्रूयाः, त्वमस्य यजमानस्य नाम, गृहीत्वा, 'अस्मिन्' 'सुन्वति' सोममभिषुण्वति 'यजमाने । ततः सा यदि पुनरपि पृच्छेत् 'तस्मै परितुष्टः त्वं 'किमरास्थाः' किं दत्तवानसि ? ततः तां प्रति ब्रूयाः,-'सुष्टु' 'सुवीय्य' शोभनं वीर्यम् अहमस्मै दत्तवान् । 'यज्ञस्य आगुर उद्रचम्' यदसावनेन यज्ञन आगूर्णवान् प्रार्थितवान् अभूत्, तत् सर्वमहमदाम्, 'यज्ञस्य' चोत्कृष्टां रुचं दीप्तिमहमदामस्मै। किं बहुना, 'यद्यत्' 'अचीक- मताम्' यद्यत्कामितवानयं यजमानः फलमस्य कर्मणः, 'तत्' सर्वमेतत् 'तथा' प्रार्थितमेव 'अभूत्' न कश्चिदस्य मृषा कामो बभूवेत्यभिप्रायः। हे होतः' त्वमपि योऽयमेवगुणविशिष्ट इन्द्रः, तं सहरिभ्यां 'यज'-इति ॥ एवमत्र “हरी उपजिघ्रताम्"
शीघ्रव्यापिनी कुल्या,
,
।
-
५अ० २पा० ख०] नैगमं
काण्डम् *
इत्येतस्माद् विशेष लिङ्गात् ऋर्जाषित्वमश्वयोः, अश्वयोगाच्च
ऋजीषित्वं लक्षितलक्षणया इन्द्रस्योपपद्यते ॥
"श्मशा” (४६)- इति, अनवगतम् । "श्वाशिनी"
"श्माशिनी”-इति
वावगमः । গুলামিনা =দুল্লাহিলা
कुल्या, नदी वा। श्माशिनी पुनर्नाड़ी, सा हि शं
शरीरं व्याप्नोति। एवमेतदिह विगृह्यमाणमनेकार्थमपि भवत्येव ॥
"कदा वसी स्तोत्रं हर्य्यत आव श्मशा रुधद्वाः। दीर्घ सुतं
वाताप्याय ॥"--- इति (ऋ० सं० ८, ५,२६, १)। कुत्सपुत्रस्य
दुर्मित्रस्थार्षम् । उष्णिक । ऐन्द्रस्य सूक्तस्य प्रथमैवेयम् । हे
'वसो' वसुमन् ! इन्द्र ! 'कदा' कस्मिन् काले 'स्तोत्रम्' एतन्मयो-
दीरितम् 'अस्य यजमानस्य 'हर्यतः' कामयतः, कामान् प्रार्थयतः
त्वाम् 'रुधत्' उपरोत्स्यति । 'श्मशा' इव 'वाः' कुल्येवोदकं
विसर्पमाणम्, नाड़ीव वा, अथवा आध्यात्मिको नाड़ी, शरीरा-
श्रितं रसम्। आह, कतमत् स्तोत्रम् ? इति, उच्यते,-यदेतत्
'दीर्घ सुतं' सोमं सत्राख्यं सुतमभिषुतं प्रवर्तते, 'वाताप्याय'
उदकार्थम् ॥ एवमेतस्मिन् “श्मशा"-इत्येतत् नाड्यभिधानं
कुल्याभिधानं वा शब्दोपपत्तश्चेति ॥ ८ (१२) ।
इति निरुक्तवृत्तौ दशमाध्यायस्य (पञ्चमाध्यायस्य)
द्वितीयः पादः ॥ ५,२॥
Ommam
उरुर्वा तृतीयः पादः। उर्वश्यप्सरा उर्वभ्यश्नुत ऊरुभ्योमश्नुत वशोऽस्या अप्सरा अप्सारिण्यपि वाऽप्स इति रूपनामाप- सातेरप्सानीयं भवत्यादर्शनीयं व्यापनीयं वा स्पष्टं दर्शना- येति शाकपूणिर्यदप्स इत्यभक्षस्याप्सो नामेति व्यापिनस्तद्रा भवति रूपवती तदनयात्तमिति वा तदस्यै दत्तमिति वा तस्या दर्शनान्मित्रावरुणयोरेतश्चस्कन्द तदभिवादिन्येषग्- भवति ॥ १ (१३) ॥ "उर्वशी” (४७)-इति, अनवगतम्। “अप्सराः” भिधेयवचनम् । “उर्वभ्यश्नुते” इति व्युत्पत्तिः, उरु, महद् यशोऽभिव्याप्नोति । अथवा “उरुभ्यां” मैथुने धर्मे पुरुषम् “अश्नुते” व्याप्नोतीति उर्वाशिनी सती उर्वशीत्युच्यते। अथ "वा” “उरुः” महान् “अस्याः" “वशः" कामः, सेयमुरुवशिनी सती उर्वशीत्युच्यते । एताः शब्दसमाधयः॥ अधुना “अप्सराः"~-इत्येतं शब्दं समाख्यानप्रसक्तं निव्र- आह,-"अप्सराः” कस्मात् ? उच्यते,-सा हि "अप्सारिणी" भवति, अपः प्रति नित्यमेव सरति, तत्प्रभवत्वात् तदेव तस्याः प्रियमुदकम्, तस्मादप्सराः । अथवा अभ्यः सृतेत्यप्सराः। “अपि” चैवमन्यथा स्यात्,-"अप्सः-इति" वीति। , "अपि वापस anima ५१०३पा० ९ख०] * नैगम काण्डम् 8 एतत् “रूपनाम”। “अप्सातेः” प्रतिषेधपूर्वस्य प्सातेः भक्षणार्थस्य (अदा०प०), तद्धि “अप्सानीयम्" अनदनीयं “भवति" न हि तद्भक्ष्यते, किन्तर्हि ? "आदर्शनीयं” तदाभिमुख्येन स्थित्वा द्रष्टव्यमेव भवति चक्षुषा, न पुनर्मुखेन भक्षयितव्यमित्यर्थः । "व्यापनीयं वा" व्यापनमर्हति। “आप्लव्याप्ती (स्वा०प०)" तस्य वा अप्सः, तद्धि नायनेन रश्मिना आत्मनः प्रत्यया धानार्थ व्यापयितव्यं भवति । "स्पष्टं दर्शनायेति” “शाकपूणिः' आचार्यो मन्यते, न ह्य तदस्पष्ट दर्शनाय, किन्तर्हि ? स्पष्टमे- वेत्यर्थः । “यदप्सः-इत्यभक्षस्य” पुरस्तादुक्तम् , इति रूपनाम, अप्सातेः” न हि तद्भक्ष्यते, किन्तर्हि ? दृश्यते -तदिति। तत्र “अभक्षस्य” अप्सःशब्दवाच्यत्वप्रख्यापक एष निगमः,-"यदेनश्चम यदप्सश्चकृमा वयम्” इति। “यद्नामे यदरण्ये यत्सभायां यदिन्द्रिये। यदेनश्चक्रमा वयं यदप्सश्चकमा चयं यदेकस्यापि धर्मणि एनस्ततोऽवयजनमसि स्वाहा"-इति (य० वा० सं० ३०१७)। वरुणप्रधासेषु करम्भपात्रहवने पत्नी- यजमानयोर्मन्त्रः, 'यद्नामें 'वयं किञ्चित् 'एनः' चक्रम, 'यत्' च 'अरण्ये' 'यत् सभायाम्' 'यत्' च 'इन्द्रिये' प्रजनने निमित्तभूते सति, ‘यत्' च अन्यत्रापि कचिद्ग्रामादिभ्यः 'वयम्' 'एनः "चक्रम' कृतवन्तः, यत्' च 'अप्सः' 'चक्रम' यदभक्ष्यभक्षणं कृतवन्तः, 'वर्य' किश्चित्तदेवानेक प्रकारमेकैकस्यापि आवयोश्चे- तसि निमित्तभूतं उत्पन्न किञ्चित्, 'यदेकस्यापि धर्मणि' तदने- कप्रकारमेकस्यावयोः कर्मणि निमित्तभूतम्,-यच्च महत् कृतम्, " , * निरुक्तम् * [पूर्वषट्कम् यच्च पृथक् कृतम्, यच्च मानसम्, यच्च शारीरम्, तस्य सर्वस्य एनसोऽस्माकं अपनयनं कृत्वा ततः 'अवयजनमसि' मरुतां हे हविः ! करम्भपात्राख्यं प्रघासान् हवामहे । “मरुतः-इत्यतो विशेषलिङ्गान्मारुतत्वमस्यावसीयते ॥ यत् “अप्सः”-इत्येष शब्दः अभक्ष्यस्याभिधायको दृष्टः, तस्मात्साधूक्तं "अपि वाप्स इति रूपनामापसाते:”---इति ।। अधुना यदुक्त “व्यापनीयं वा” इति “आप्ल, व्याप्ती (स्वा०प०) इत्येतस्य वापस इति तस्यार्थस्य ख्यापक निगमं ब्रवीति,-"अप्सो नामेति व्यापिनः"-इति। यथा आप्नोतिः अभिव्याप्त्यर्थः तस्या इत्येतदुपनाम भवति, तशेष निगमः,-"पृथिव्याः पुरीषमस्यप्सो नाम, तां त्वा विश्वे अभिगृणन्तु देवाः। स्तोमपृष्ठा घृतवती सीद प्रजावदस्मै द्रविणा यजस्वाश्विनाध्व! सादयतामिहत्वा”- इति (य० वा० सं० १४,४)। अग्निचयने द्वितीयायां चितावाश्विन्यो नामे- टकाः, तासामेकस्यामयमुपधानमन्त्रः। 'पृथिव्याः' 'पुरीषमसि" पूरयित्र्यसि। हे इष्टके ! 'अप्सो नाम' 'तो' 'त्वाम्' एवगुण- युक्ता सती 'विश्वे' सर्वे 'अभिगृणन्तु' अभिष्टुवन्तु 'देवाः' । किञ्च, सा त्वं स्तोमपृष्ठादेव उदीरितेन स्तोमेन स्पृष्टा 'घृतवती' उदकसंश्लेषिता 'इह' अग्निवयने 'आसीद' । किञ्च, 'अश्विना अश्विनौ देवी 'अध्वय्यू' 'सादयताम् इह त्वाम्' तौ हि सञ्जा. नीतो यथा त्वं सादयितव्येत्यभिप्रायः। एवमत्रापाप्त्यर्थ- स्याप्स इत्युपपद्यते, इह लक्षणार्थासम्भवात् ॥
५० पा० २ख] * नैगम काण्डम् * एवं तावदप्सरा इत्यस्याभिधानस्याप्स इत्ययमेकदेश उपपादितः, अधुना 'रा'-इत्येकदेशमुपपादयिष्यन्नाह,-"तद्रा भवति रूपवती”। रो मत्वर्थो, तेनाप्सशब्दवाच्यत्वेन रूपेण तद्वती सा भवत्यप्सरा तद्रा भवतीत्येवमुक्तेऽपि सति रेफस्य मत्वर्थता न गृह्यत इति मन्यमानी भाष्यकार:, स्पष्टमेव मत्वर्थ- माह, यदुक्तं रूपवतीति रूपसंयुतेत्यर्थः। तस्या एव सर्वयो- षिद्भ्यः प्रति विशिष्ट रूपमित्यभिप्रायः। अथ “वा" एवमन्यथा स्यात्,-"तदनया" अप्सशब्दवाच्यं रूपम् “आत्तं” गृहीतमेव कुतश्चित् । एतस्मिन् पक्षे 'रा'--इत्ययमादानार्थः। अथ 'वा' एवमन्यथा स्यात्,-"तत्” अप्सशब्दवाच्यं रूपमतिरिक्तमिव “अस्मै” “दत्तम्" विधात्रा। तथाहि ते तस्मादतिशयेनानयापि च लक्ष्यते। एतस्मिन् 'रो'-इत्ययं दानार्थः ॥ “तस्याः” एवगुणविशिष्टाया उर्वस्याअप्सरसः “दर्शनात्" "मित्रावरुणयोः रेतः” “चस्कन्द” स्कन्नम्। “तत्” तस्यार्थस्य "अभिवादिनी” “एषा ऋग् भवति"-॥ १ (१३) । 1 उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसाऽधि- जातः। द्रप्सं स्कन्नं ब्रह्मणा दव्येन विश्वेदेवाः पुष्करे त्वाददन्त ॥ अप्यसि मैत्रावरुणो वसिष्ठोवंश्या ब्रह्मन्मन- सोऽधिजातो द्रप्सं स्कन्नं ब्रह्मणा दैव्येन द्रप्सः संभृतः प्सानीयो भवति सर्वे देवाः पुष्करे त्वाधारयन्त पुष्कर- * निरुक्तम् * [पूर्वषट्कम् मन्तरिक्षं पोषति भूतान्युदकं पुष्करं पूजाकर पूजयितव्य- मिदमपीतरत् पुष्करमेतस्मादेव पुष्करं वपुष्करं वा पुष्पं पुष्पतेर्वयुनं वेतेः कान्तिर्वा प्रज्ञा वा ॥ २ (१४)॥ “उतासि मैत्रावरुणः” इति। वसिष्ठस्य सपुत्रस्येयमा र्षम्। तस्यैव स्तुतिरिन्द्रस्य वा। 'उत्त'--इति, अयम् 'अपि' शब्दार्थे वर्तमानोऽधस्त्यायामृचि ये जन्मनी वसिष्ठस्योक्ते, ते सम्भावयति । सा पुनरियमृक्-“विद्युतो ज्योतिः परिसञ्जि- हान मित्रावरुणा यदपश्यतां त्वा । तत्ते जन्मोतैकं वसिष्टागस्त्यो यत् त्वा विश आजभार ॥”----इति (ऋ० सं० ५, ३, २३, ५)। 'विद्युतः' विशेषेण, द्योतते देदीप्यते इति विद्युत् = उर्वशी-इति, अस्मात् । 'ज्योतिः प्रकाशः । तस्मात् 'परि' परितोऽधिकं 'सचिहानम्' उत्तिष्ठन्तम्, जायमानमित्यर्थः । 'मित्रावरुणो' देवौ 'यत्' 'अपश्यता' 'त्वा' 'त्वाम्' 'तत्' 'ते' तव 'जन्म' एकम् हे 'वसिष्ट'! 'उत' अपि च यत्' 'त्वा' "अगस्त्यो विश आज- भार” 'अगस्त्यः' ऋषिः “विशः' मनुष्यान् प्रति, मनुष्यलोकम् 'आजभार' आहतवान्, 'तत्' 'ते' तव द्वितीयं जन्म ॥ 'उतासि' अपि चासि 'मैत्रावरुणः' हे 'वसिष्ठ!' कथं नर्मित्रावरुणयोरुत्पन्नोऽसि-किं सङ्घर्षण ? न, इत्युच्यते, -'उर्वश्याः' सकाशात् । हे 'ब्रह्मन् !' 'मनसोऽधिजातः' न सङ्घर्षणेन । किञ्च, निर्बीज एवासि, मनोभिधानमात्रादुत्पन्नः ?
५१० ३पा० ख०] ॐ नैगम काण्डम् * न, इत्युच्यते। किन्तर्हि ? 'द्रप्स' शुक्रम्, उर्वशीदर्शनात् 'स्कन्न' मित्रावरुणयोः। 'ब्रह्मणा' 'दैव्येन' देवानां स्वभूतेन, ऋग्यजुःसामाख्येन स्तुवन्तः 'विश्वेदेवाः' मा एतद् भूमौ पतेदिति कुम्भस्योपरि 'पुष्करें' उदके, अन्तरिक्षे वा 'त्वा' त्वाम् , तेन शुक्रेण सहैकतामुपगतम् 'अददन्त' अधारयन्तेत्यर्थः॥ एवमेतस्मिन् "द्रप्सं स्कन्नम्”-इत्यादिना सम्वन्धेन “उर्वशी"शब्देन “अप्- सराः" --इत्युपपद्यते ॥ “ऐन्द्रेण किल तेजसा निधे वसिष्ठः, मित्रपरिगृहीतायामु. श्यामुत्पन्नो वरुणतेजसो जातः” -इति पुराणात् श्रूयते, तदप्युपेक्षितव्यम्। अनेकविधो मन्त्राणां विषयः, वसिष्ठस्येयमाष युष्मदश्चात्र प्रयोगः,-"उतासि”-इति, तदेतद्विरुद्धार्थमुपलक्ष्यते ? नैत- द्विरुद्धम्, नित्यत्वान्मन्त्राणां भवति ॥ आह, रेतः कस्मात् “द्रप्सः”-इत्युच्यते? स हि रेतः- सञ्ज्ञको रसः, पुरुषस्याङ्गादङ्गात् “सम्भृतः” स्त्रीयोनेः “प्सानीयो भवति" भक्षणीयो भरणीयश्च । एवं प्लातेः (अदा०प०) भरतश्च (भू० उ०) यथासम्भवं “द्रप्सः”–इत्येष शब्दो द्रष्टव्यः । पुष्करशब्दोऽनेकार्थः, तमिह प्रसक्तं व्यावष्ट,-"पुष्करमन्त- रिक्षम्” तद्धि “पुष्णाति भूतानि" अवकाशदानेनोपकुर्वत्। 'उदकम्” अपि “पुष्करम्” तेन हि पूजा क्रियते, पूजाकरत्वात् पुष्करम् । अथवा “पूजयितव्यम्" पूजनाहमात्मन एवेति पुष्करम् । “इदम्” “इतरत्” पद्मम् “एतस्मादेव” कारणात् , निरुक्तम् [पूर्वषट्कम् “पुष्करम्”- इत्युच्यते, तदपि हि पूजाकर पूजयितव्यं शोभन- त्वात्तस्य। अथ “वा” “पुष्कर” तदिति “वपुष्करम्” व्यवहृते हि तस्मिन् वपुष्मान् भवति ॥ पद्मप्रसङ्गात् पुष्पशब्दं निराह,-"पुष्पं पुष्पतेः” इति । 'पुष्पतिः विकसनार्थः (दि. १०), तद्धि विकसितं भवति ॥ 'वयुनम् (४८)-इति, अनेकार्थम्, अनवगतम् । “वेते." -इति धातुनिर्देशः, वेनम् - इति न्याय्यम्। "कान्तिर्वा" अभिधेया “प्रज्ञा वा” ॥ २ (१४)॥ स इत्तमोऽवयुनं ततन्वत् सूर्येण वयुनवच्चकार। स तमोऽप्रज्ञानं ततन्वत् सतं सूर्येण प्रज्ञानवच्चकार वाजपस्त्यं वाजपतनम् । सनेम वाजपस्त्य मित्यपि निगमो भवति । वाजगन्ध्यं गध्यत्युत्तरपदम् । अश्यामवाजगन्ध्यमित्यपि निगमो भवति । गध्यं गृह्णातेः । ऋत्रा वाजं न गध्यं युयूषन्नित्यपि निगमा भवति । गध्यतिमिश्रीभावकर्मा । आगधिता परिगधितेत्यपि निगमो भवति। कौरयाणः कृतयानः पाकस्थामा कारयाण इत्यपि निगमो भवति । तौरयाणस्तूर्णयानः । स तौरयाण उप याहि यज्ञ मरुद्भि- रिन्द्र सखिभिः सजोषा इत्यपि निगमे। भवत्ययाणो ही अनुष्ठ्या कृणुह्यह्वयाणेत्यपि निगमो भवति । 1 तयानः।
Hussayari ५० ३पा० ३ख०] * नैगमं काण्डम् * हरयाणो हरमाणयानः। रजतं हरयाण इत्यपि निगमो भवति। य आरितः कर्मणि कर्मणि स्थिरः। प्रत्युत स्तोमान् बन्दी बन्दतेमभावकर्मणः ॥ ३ (१५) । । -- “स इत्तमोऽवयुनं ततन्वत् सूर्येण वयुनवञ्चकार । कदा नेमा अमृतस्य धामेयमन्तो न मिनन्ति स्वधावः॥” इति (ऋ० सं० ४, ६, ११, ३)। भरद्वाजस्यार्षम्। त्रिष्टुप् । ऐन्द्रे सूक्ते व्यूढस्य दशरात्रस्य नवमेऽहनि मरुत्वतीये शस्त्रे शस्येते। यस्त्वमेवगुणविशिष्टो हे भगवन्निन्द्र! यथागुणं त्वामवोचाम । 'सः' त्वम् इत् एतत् शार्वरं 'तमः' 'अवयुनम्' अप्रज्ञानलक्षणं 'ततन्वत्' स एव तं सर्वमेवैनं लोकं स्वेन प्रकाशा- ख्येन सन्तनोति 'सूर्येण वयुनवत्' “प्राणो हीन्द्रः, तस्मात्सूर्य्य उदेति, प्राणाद्वा एष उदेति, प्राणेऽस्तमेति”-इति युक्तम्। तस्मात् प्राण इन्द्रः, सूर्यस्योदयहेतुः, स तं सूर्यमुद्गमयत् । तेन 'सूर्येण' 'वयुनवत् चकार' एतजगत् ज्ञानवत् करोति । तस्मात् स एवेन्द्र एवमुच्यते, सूर्येण त्वमेतजगद्वयुनवत्प्रज्ञावत् चकार कृतवानसीत्यर्थः। यस्त्वमेवम्प्रभावः तस्य 'कदा' कस्मिन् काले 'मर्ताः' मरणधर्माणो मनुष्याः 'अमृतस्य' अमरणधर्मिणः 'धाम' स्थानं 'इयक्षन्तः' यष्टुमिच्छन्तः 'न मिनन्ति' न श्रयन्ति हे 'स्वधावः !'। अत्र च न सर्वदैवतं चापरिक्लिष्टं स्थानम् , कृतावकाशस्त्वं यशेष्वित्यभिप्रायः ॥ एवमिह “तमः ततन्वत्
'वाजगन्थ्यम्' प्रति विशिष्टानसमानगन्धम्, अथवा वाजग्रही-
५३२
* निरुक्तम् * [पूवषट्कम्
सूर्येण” “वयुनवत् चकार"-इति अनेन सम्बन्धात् “वयुन”
शब्देन प्रज्ञानमित्युच्यत इत्युपपत्तिः। कान्त्यर्थत्वमपि क्वचिदु-
पेक्ष्यम् , इहैव वा पक्षेण योज्यम् ।।
“वाजपस्त्यम् (४६) - इति. अनवगतम्। “वाजपतनम्"
इत्यवगमः। “तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥” इति ( ऋ० सं०
७, ४, २५, ६)। पाचमानी सौमी। अम्बरीष ऋजिश्वा व
सूक्तं ददशतुः, तत्रैषा।
'तम्' एनं सोमं है 'सखायः !
ऋत्विजः ! 'पुरोरुचम्' अग्रतो दीप्तम् , 'यूयं वयं च' सम्पृक्ताः
सन्तः, हे 'सूरयः !' मेधाविनः ! 'अश्याम' व्याप्नुयाम वयम्
तारम् , अथवा वाजसम्मिश्रयितारम् । किञ्च, 'सनेम' सम्भजे-
महि “वाजपस्त्यम्” वाजमन्नम्, तदस्माकमिति मन्यमानः
सन्तो यमाभिमुख्येन देवाः पतन्ति गच्छन्ति, स वाजपस्त्यः
सोमः, तं नित्यकालमेव वयं भजेमहि ॥ एवमत्र शब्दसारूप्या-
दर्थोपपत्तेश्च “वाजपस्त्य" शब्देन सोम उक्तः ॥
“वाजगन्ध्यम् (५०)"-इति, एतदपि पदमेकस्मिन्नेव निगमे
निरुक्तम् , केवलं समानायानुक्रमविपर्यासः,–“वाजपस्त्यम्,
वाजगन्ध्यम्"---इत्येष
समानायानुक्रमः,
निगमे
पुनः “अश्याम
वाजगन्ध्यम्,
,सनेम वाजपस्त्यम्”-इति (ऋ० सं०७,४,२५,६)॥
"गन्ध्यम् (५१)”-इति. अनवगतम् । ग्रहणीयमित्या
प्रतीतिः। “यासि कुत्सेन सरथमवस्युस्तोदो वातस्य होरी-
- ५१०३पा० ३ख०] नैगमं काण्डम् * शानः। ऋत्रा वाजं न गध्यं युयूषन् कषिर्यदहन् पार्याय भूषात् ॥” इति (ऋ० सं० ३, ५, १६, १)। वामदेवस्यार्षम् । ऐन्द्री। त्रिष्टुप् । अहीनसूक्ते चतुर्विश उक्थे माध्यन्दिने सवने मैत्रावरुणस्येयं शस्त्रे शस्यते। हे भगवन्निन्द्र! 'यासि' 'कुत्सेन' ऋषिणा स्तूयमानः, अथवा 'कुत्सेन' वज्रणाभ्युद्यतेन, 'सरथं समानगमनम् , अभिवहनरथमारुह्य, अथवा 'सरथं' रथ- संयुक्तं परानीकम् । 'अवस्युः' रिरक्षिपुः आत्मीयान् , मर्दिषुश्च परकीयान् । 'तोदः' तुन्न इव केनचित् 'वातस्य' जवेन यासि । तथापि च गच्छन् 'होः' अश्वयोः 'ईशानः' ईश्वरो न धावति त्वयि अन्यत एव त्वामूहतुः। स त्वं भज 'ऋत्रा' ऋजुनैच मार्गेण न काश्चिदन्यां गति धावमानः, 'वाजं न गध्यम्' वाजमिव ग्रहणाहं भोक्तुमाभिमुख्येन। 'युयूपन्' पुनः पुनः सम्मिश्रयिष्यन्, आत्मानं शत्रुभिः युद्ध । 'कविः' क्रान्तदर्शनः । 'यदहन्' यस्मि- नहनि 'पार्याय' पारणाय शत्रूणामुपरि चेतः करोषि, पारयित- व्यायैत इति वा, तस्मिन्नेवाहनि तान् सर्वान् ‘भूषात्' अतिक्रम्य वर्त्तसे इत्यर्थः । पर्यगृह णात् , पर्य्यरचत् , अत्यकामत्-इत्येते भूषतेराः ॥ एवमेतस्मिन् शब्दसारूप्यादर्थोपपत्तेश्च “गध्यम्" -इत्येष शब्दः “गृह्णातेः”-इत्युपपद्यते ॥ "गध्यतिः (५२)"-इति, अप्रतीतार्थः । न पुनरोष “मिश्री- भावकर्मा”। “आगधिता परिगधिता या कशीकेच जङ्गहे । ददाति मह्य यादुरीथा याशूनां शता॥"-इति (ऋ० सं० २, १, ११, ६)। भावयव्यस्यार्षम्। 'आगधिता' आय- भोज्या निरुक्तम् [पूर्वषट्कम् हीता आमिश्रिता च। 'परिगधितो' च परिमिश्रीकृता बाहुभ्यां मया परिष्वक्तेत्यर्थः। 'या' 'कशीकेव' प्रतिकशं कशीकेव, सा हि नकुलजातिः काचित्, कशामिति श्रूयतेऽश्वमेधे। सा यथा मदकाले प्रतिकशमतितरां परिष्व- जति, स हि तस्याः परिष्वजनस्वभावः। एवं याम् 'आ जङ्गहें' परिगृह्णाति बाहुभ्याम् । परिगृह्य च ददाति' । 'यादुरीथा' आदरवतो, अथवा यादसा रेतःसेकेन तद्वती। “यादः”-इत्यु- दकनामसु पठितम्। आहे, किं ददाति 'मह्यम्' ? इति, उच्यते, -~-'याशनां' मैथुनाख्यानां शता' शतानि बहुश इत्यर्थः । एवम्प्रकारा, सा मम 'भोज्या' पत्नीत्यभिप्रायः। एवमत्र मैथुन- सम्बन्धात् शब्दसारूप्याच्च “गध्यतिः” मिश्रीभावकर्मत्युप. पद्यते ॥ "कौरयाणः (५३)"-इति, अनवगतम् । "कृतयानः"- इत्यवगमः। “यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः । विश्वे षां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥”- इति (ऋ० सं० ५, ७, २६, १)। मैध्यातिथेः काण्वस्यार्षम् । यानमनया प्रशस्यते। 'य' 'मे' मम “दुः' दत्तवन्तः, 'मरुतः' 'इन्द्रः च । 'पाकस्थामा' विपक्कप्राणः, 'कौरयाणः' संस्कृतयानः “विश्वेषां त्मना' सर्वेषामपि यानानां अन्यप्रतिग्रहीत शक्तानां मध्ये आत्मना तदेव शोभिष्ठ' शोभनतमम्, अनेकरत्नविचित्रत्वात् "दिवि इव' ज्योतिश्चक्रम् 'उपधावमानं दृश्यते ॥ एवमत्र शब्दसारूप्यादर्थो- पपत्तेश्च “कौरयाणः” = कृतयानः"-इत्युपपद्यते ॥
५१०३पा० ३ख०] नैगम काण्डम्स "तौरयाणः (५४)”-इति, अनवगतम्। “तूर्ययानः” इत्यवगमः। “जातं यत् त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे। स तौरयाण उपयाहि यज्ञं मरुद्भिरिन्द्र सखिभिः सजोषाः ॥”-इति, (ऋ० सं०३, ३, १६, ३)। 'जात' जातमात्रं विश्वेदेवाः 'यत्' 'त्वा' त्वां 'पर्यभूषन्' परिगृहीतवन्तः, 'महे' महते 'भराय' भरणाय, महान्तमसुरैः सह संग्रामं करिष्यतीत्य- नेनाभिप्रायेण । 'सः' त्वं हे 'पुरुहूत !' इन्द्र ! 'तौरयाणः' त्वरि. तयानो भूत्वा 'उपयाहि' उपगच्छैनं 'यज्ञम्' 'मरुद्धिः 'सखिभिः' सह 'सजोषाः' सम्प्रीयमाणः । उपागत्य च अस्माकमाशिषः समर्द्धयेत्यभिप्रायः ॥ एवमत्रागमनसम्बन्धात् "तौरयाणः-तूर्ण- यानः”-इत्युपपद्यते ॥ 'अह्रयाणः (५५)"-इति, अनवगतम्। “अह्रीतयानः" इत्यवगमः । “त्वया वयं संधन्य १ स्त्योतास्तव प्रणीत्यश्याम वाजान् । उभा शंसा सूदय सत्यतातेऽनुष्टुया कृणुह्यह्रयाण ॥ -इति (ऋ० सं० ३, ४, २५, ४)। वामदेवस्यार्पम् । त्रिष्टुप् । अग्नये रक्षोम्ने अष्टाकपालः, तत्र विष्टकृतः पुरोऽनुवाक्यैषा, मैत्रायणीयके। हे भगवन् ! में त्वया वयं' 'सधन्यः' समा- नधनिनः यदेतदस्मद्गृहे धनभेतदावयोः तत्सहेत्यभिप्रायः । यत एवमतो ब्रूमः,-'वोताः' त्वयैव रक्षिताः सन्तः, 'तव' 'प्रणीती' प्रणीत्या तवैव प्रणयेन 'अश्याम वाजान्' प्राप्नुयामोऽन्नानि । किञ्च, 'उभा शंसा' उभावपि शंसितारो,-यश्चानतो नः पापानि शंसति, यश्च पृष्ठतः, तावुभावपि 'सूदय' जहि । हे 'सत्यताते' ११ ५३६ * निरुक्तम् * [पूर्वषट्कम् यज्ञतनितः! किञ्च, 'अनुष्टु या' अनुष्ठानेन 'कृणुहि कुरु कर्मणै- तत्सम्पादय यदहं ब्रवीमि। हे 'अह्रयाण ! अलजितयानेत्यर्थः । एवमत्र "अह्रयाणः”-इत्यनेन अह्रीतयानोऽग्निरुच्यते। उप- पद्यते हि देवताया अलजितयानत्वम् ॥ “हरयाण: (५६)”-इति, अनवगतम् । “हरमाणयानः इत्यवगमः। 'ऋज्रमुक्षण्यायने रजतं हरयाणे । रथ युक्तमस- नाम सषामणि ॥” इति (ऋ० सं० ६, २, २५, २)। विश्व- मनसो वैयश्वस्येयमार्षम्। उष्णिक् । यानमनया स्तूयते। 'ऋज्रम्' ऋजुगामिनम् 'रथम् 'रजतम्' रजतमयं रजतविकृतं वा, 'युक्तम्' अश्वैः। 'असनाम' लब्धवन्तो वयम् । क पुनर्लब्ध- वन्तः ? 'उक्षण्यायने' । उक्षण्यायन इति कश्चिदासीत्, तस्मिन् यजमाने, 'हरयाणे “हरमाणयाने" नित्यकालमेवाभिप्रस्थितयाने सुषामणि' शोभनं सामास्य सुषामा, तस्मिन् यजमाने। तादृशः स दक्षो दातेत्यभिप्रायः॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च "हरयाण:= हरमाणयानः” -इत्युपपद्यते॥ “आरितः (५७)” ---इति, अनवगतम् । प्रतीत्यस्य स्थाने आङ्, “प्रत्युतः” – इत्यर्थप्रतीतिः। “यो अश्वानां यो गवां गोपतिवंशी य आरितः कर्मणि कर्मणि स्थिरः । वीडोश्चिदि- दिन्द्रो यो असुन्वतो बधो मरुत्वन्तं सख्याय हवामहे ॥” इति. ( ऋ० सं० १, ७, १२, ४)। कुत्सस्येयमार्षम् । व्यूढस्य, दशरात्रस्य नवमेऽहनि मरुत्वतीये शस्त्रे निविद्धानीये सूक्त शस्यते । 'यः' इन्द्रः 'अश्वानां' 'गवां' च 'गोपतिः'। किञ्च, ।
५अ० ३पा०४ख०] नैगमं काण्डम् * . 'यः' 'आरितः कर्मणि कर्मणि स्थिरः' आरितः सर्वान् स्तोमान् प्रति योऽवस्थितः। केन ? देवतारूपेण सर्वेषु स्तोमेषु चाव- स्थानात् । यः ‘कर्मणि' अग्निहोत्रादौ 'स्थिरः' नित्यः, यमृते न किञ्चन कर्म प्रवर्तत इत्यभिप्रायः। 'वोडोश्चित्' संस्तब्धस्यापि दर्पितस्यापि 'यः 'इन्द्रः 'असुन्वतः' अभिषवमकुर्वाणस्य 'बधः' वधयिता। तमेवगुणयुक्तं 'मरुत्वन्त' मरुत्सहितम्, इन्द्रम्, 'सख्याय” सखिभावाय एतस्मिन् कर्मणि 'हवामहे" आह्वयाम इत्यर्थः॥ एवमयम् “आरित” शब्दोऽर्थोपपत्त्या “प्रत्युतः”- इत्युपपद्यते॥ "बन्दी (५८)"-इति, अनवगतम् । “वन्दतेमृदुभावार्थस्य" 'धातुरेवायमप्रतीतः ॥ ३ (१५) ॥ नि यद् वृणक्षि श्वसनस्य मूर्द्ध नि शुष्णस्य चिद् वन्दिनो रोरुवदना । निवृणक्षि यच्छसनस्य मूर्द्धनि शब्दकारिणः शुष्णस्सादित्यस्य च शेषयितू रोख्यमाणो वनानीति वा बधेनेति वा। अवदन्तवीलितेत्यपि निगमो भवति वीलयतिश्च वीलयतिश्च संस्तम्भकर्माणौ पूर्वण संप्रयुज्यते निष्पपी स्त्रीकामो भवति विनिर्गतसपः सपः सपतेः स्पृशतिकर्मणः। मा नो मघव निषषपी परादाः । स यथा धनानि विनाशयति मा नस्त्वं तथा परादाः।
निरुक्तम् * [पूर्वषट्कम् तूर्णाशमुदकं गवति तूर्णमश्नुते । तूर्णाशं न गिरेरधीत्यपि निगमो भवति। क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते ॥४ (१६)॥ एष एवं निगमः,-"नि ०-० वना। प्राचीनेन मनसा बर्हणावता यदद्या चित् कृणवः कस्त्वा परि ॥” इति (ऋ० सं० १, ४, १७, ५)। सव्यस्येयमार्षम् , आङ्गिरसस्येयम् । जगती। ऐन्द्री। स पुनरिन्द्र एवाङ्गिरसः पुत्रत्वमापन्न 'निवृणक्षि' निवर्णयसि । 'यत्' यस्त्वं हे भगवन्निन्द्र! मेघ हत्वा 'श्वसनस्य' “शब्दकारिणः” वायोः 'मूर्द्धनि' उपरि 'शुष्णस्य चित्' “शोषयितुः” अपि. भगवतः "आदित्यस्य" 'बन्दिनः' मृदुभावकर्तुः, आदित्येन हि परिपच्यमानं संस्तब्धु- मपि च दरतिन्दुकादि मृदु भवति, तस्मादसौ वन्दी। तस्या- प्येव कर्मकारिणो मण्डल प्रत्यूवं 'रोरुवत्' स्तनयितुशब्द कुर्वाणः । 'वना' “वनानि” विक्षिपसि। उर्द्धमधश्च “वनानि" उदकानि विक्षिपतो न ते शक्तिप्रतिघातोऽस्तीत्यभिप्रायः। यस्मिंस्तु पक्षे “बधेन"-इति निर्वचनम्, तस्मिन् पक्षे 'वना'- इत्येष शब्दो मेघबधेनेति योज्यः। उदकशब्दश्च तस्मिन् पक्षेऽ- ध्याहार्योऽभिवर्जनसम्बन्धात् । 'प्राचीनेन' प्रागञ्चितेन, अदीनेन, तस्मिन् कर्मण्योभिमुख्येन, 'मनसा' 'बर्हणावता' हिंसावता। 'यत्' 'अद्या चित्' अद्यापि त्वं कर्म 'कृणवः' करोत्येव, असुकर- मन्यः, तस्माद् ब्रवीमि,-'कः त्वा परि' ? कोऽन्यस्त्वा उपरि Hasi wap ५१०३पा० ४ख.] * नैगम काण्डम् * वर्त्तते, त्वमेव सर्वभूतानि परिगृह्यसरीस इत्यर्थः॥ एवमत्र “बन्दि" शब्देनादित्य उक्तः। तत् पुनरेतदस्पष्टं मृदुभावकरणादादित्यस्य बन्दित्व मिति । अतो बन्दिशब्दस्य मृदूभावार्थोपपिपादयिषया बीडयतिना संस्तम्भार्थवाचिना सह सम्बद्धोऽत्र वन्दतेः प्रयोगः ॥ ततो निगमात् बन्दतेहि मभावार्थता स्पष्टतरेति दर्शयति, "अवदन्त वीड़ितेत्यपि निगमो भवति”। अपिपूर्वोऽप्ययं स्पष्टतर इत्यपिशब्दः वीडयतिश्च “वीडयतिश्च वीडयतिश्च" एती द्वावपि "संस्तम्भकर्माणी" “पूर्वेण” अनेनैव अनन्तरेण वन्दिना, यस्मात् समानवाक्यतामुपगतो “प्रयुज्यते”। तस्मात् बन्दिशब्दस्य मृदुभावार्थत्वमुपपद्यते । “तद्देवानां देवतमाय कर्वमश्रथ्नन् दृढा बदन्त वीडिता। उद् गा आजदभिनद् ब्रह्मणा बलमगृहत् तमो व्यचक्षयत् स्वः ॥”--इति (ऋ० सं० २, ७, १, ३)। गृत्समदस्यार्षम्। जगती। बार्हस्पत्ये, सूक्ते । 'तत् कत्वं' तत् कर्म 'देवानां' 'देवतमाय' देवतमस्य बृहस्पतेः, यत् 'अश्रथ्नन्' श्लथान्यभवन् , 'दृढा' दृढान्यपि सन्ति मेघ- वृन्दानि । किञ्च, 'अवन्दन्त' मृदून्यभवन् । कानि पुनस्तानि मृदून्यभवन् ? इति, उच्यते,–'वीडिता' यानि वीड़ितानि बीडितानि सन्नद्धानि दर्पितानि, असुरकुलानि, अन्यानि वा यानि कानिचित् , तानि मृदून्यभवन्निति। किञ्च, उद् गाः आजत्' उदाजद गाः, उदगमयदपः । 'अभिनत्' 'बलम्' मेघम् , 'ब्रह्मणा' स्तूयमानः । किञ्च, 'अगूहत्' अनाशयत् 'तमः' वैद्युतात्मना। किञ्च, 'व्यचक्षयत् स्वः' व्यदर्शयत् आदित्यम् ॥ अव्यवधान- 9 * निरुक्तम् * [पूर्वषटकम् करणेन बीडयतिना सह प्रयोगात् ब्रीड़तेरर्थवैपरीत्येन बन्दतेम दुतार्थत्वमुपपद्यते नभसः ॥ एवमत्रावदन्त वीलितेति बन्दतेः, वीडयतेर्वन्दिना सह प्रयोगोऽन्यत्र कश्चित् द्रष्टव्यः । "निष्षपी (५६)”-इति, अनवगतम् । “विनिर्गतपसाः -इति शब्दसमाधिः । “स्त्रीकामः” पुश्चलोऽभिधेयः, स हि नित्यं निर्गतशेप एव भवति। “स्पश स्पशतेः” “स्पृशतिक- र्मणः” स्पृशत्यर्थे वर्तमानस्य,- शेपः, तेन हि स्त्री स्पृश्यते । "प्रति यत् स्या नीथा दर्शि दस्योरोको नाच्छा सदनं जानती गात्। अध मा नो मघवञ्चर्कतादिन्मानो मधेव निषपी परा दाः ॥” इति (ऋ० सं० १, ७, १८, ५)। कुत्सस्यार्षम् । ऐन्द्री। त्रिष्टुप् । हे भगवन्निन्द्र ! 'यत्' यस्मात् 'प्रत्यदर्शि' प्रतिपश्यतीव, 'स्या' सा 'नीथा' स्तुतिः। “नीथाविदो जरि- तार:”–इति ( ऋ० सं० ३, १, ११, ५)। एतस्मान्निगमात् स्तुतिनीथेति प्रतीयते। 'दस्योः' शत्रोः दासयितुस्तव 'ओको न' ओक इव, निवासगिव । 'अच्छ' आभिमुख्येन, हृदयमनु- प्रविश्य । 'सदन स्थानम्, यत्र तया नीथया स्तुत्या स्मर्त्तव्यम्, यस्तवाभिमतो गुणः, अनेन यदि नाम मामेष स्तोता स्तूयात्, साधु स्यादिति, तमर्थमनुप्रविश्यैव भक्तो हृद्गतम्, तेनार्थेनात्मा- नमभिसम्बन्धयित्वा एतन्मम सदनमित्येवं 'जानती' च तदेव 'अगात्' नित्यकालमेवागच्छति। अतएवमतः स्तुत्युदीरितारो वयं भवतः । 'अध' एतस्मात् कारणात् वयं ब्रूमः, हे 'मघ- वन् !' 'चर्कतात् पुनः पुनः क्रियमाणात् एतस्मात् कर्मणः, ५० ३पा०४ख०] * नैगम काण्डम् * D 'आत्मस्तुत्याश्रयभूतात्मानमस्मान् 'परा दाः' पराङ्मुखान् दधीथाः, उपनामय तत् कर्मसाधनानि । कथं च पुनः कर्मसा- धनानि ? कथं च पुनर्मा परा दाः ? 'मधेच निष्पपी' स यथा धनानि नित्यविनिर्गतशेपो विनाशयति । एवम् 'नः' अस्मान् त्वम् 'मा' अवसादयिष्टाः धनभूतास्तव वयमतो रक्षस्वेत्यभि- प्रायः ॥ एवमत्र शब्दसारूप्यादर्थोपपत्तश्च धननामसम्बन्धात निष्पपी” निर्गतपसाः, स्त्रीकाम इत्युपपद्यते॥ “तूर्णाशम् (६०)"-इति, अनवगतम् । “उदकं भवति”. इत्यभिधेयवचनम्। “तूर्णाशं” हि क्षिप्रम्, तत् “अश्नुते" व्याप्नोति, तूर्णाशनमिति प्राप्तम्। अपठितं चैतदुदकनामसु, तेनाप्रतीतार्थम् । प्रतिश्रुताय वो धृषत् तूर्णाशं न गिरेरधि । हुवे सुशिप्रमूतये ॥” इति (ऋ० सं० ६, ३, १, ४) । मेधातिथे- रार्षम् । गायत्री। ऐन्द्री। रात्रिपाये शस्यते। मैत्रावरुणस्य प्रथमे शस्त्रे विनियुक्ता। हे ऋत्विग्यजमानाः! यन्मया प्रति- श्रुतमात्विज्यमुपगच्छता अहमिन्द्रं स्तुतिभिराहयिष्यामीति, तस्मै 'प्रतिश्रुताय' 'वः' युष्माकमुपकरणार्थमेतस्मिन् कर्मणि 'धृषत्' धृष्टं प्रगल्भम् । 'हुवे' आह्वये । 'सुशिप्रं' सुहनु सुनसं वेन्द्रमहम् 'ऊतये' तर्पणाय, अथवा भवतामात्मानश्च रक्षणायेति स्यात् । कथम्पुनराहयामि ? “तूर्णाशं न गिरेरधि" । यथा "तूर्णाशम्' 'गिरेः अधि' मेघास्योपरि वर्तमानमाह्वयन्ति वर्षार्थिनो जनाः । एवमायामीति ॥ एचमत्र गिरिसम्बन्धात् “तूर्णाशम्" उदकमित्युपपत्तिः॥
५४२ * निरुक्तम् * [पूर्वषट्कम् “क्षुम्पम् (६१)”-इति, अनवगतम् । “अहिच्छत्रकं भवति" -इत्यभिधेयवचनम्। “यत्” यस्मात्तत् स्पृष्टमात्रं “क्षुभ्यते" चलति, तस्मात् क्षुपं क्षोभणमिति न्याय्यम् ॥ ४ (१६) ॥ कदा मर्त्तमराधसम्पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद् गिर इन्द्रो अङ्ग। कदा मर्त्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति कदा नः शृणोति च गिर इन्द्रो अङ्गारुति क्षिप्रनामाञ्चितमेवाङ्कितं भव तिनिचुम्पुणः सोमो निचान्तपृणो निचमनेन प्रीणाति ॥ ५ (१७) । ० “कदा मर्तमराधस इन्द्रो अङ्ग” इति (ऋ० सं० १, ६, ६, ३)। गोतमस्येयमार्षम् । उष्णिक । ऐन्द्री। तात्तीय- सवनिकेषु उक्थपर्यायेषु ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्ता। 'कदा' कस्मिन् काले 'मत्त मनुष्यम् 'अराधसम्' अनाराधयन्तम्, यः तमिन्द्र नाराधयति, स्तुत्या हविषा च, तम्। 'पदा' पादेन 'स्फुरति (१५), स्फुलति (१६)” इति वधकर्मसु पठितम्। किञ्च। 'कदा नः कदा अस्माकं परिचरणमानानां स्तुतिभिर्ह- विभिश्च 'शुत्रवत्' श्रोष्यति 'गिरः' सः 'इन्द्रः' 'अङ्ग' क्षिप्रमित्यर्थः। कदास्माकं परिवरितृणामिन्द्रः श्रोष्यति गिरः, श्रुत्वा व समर्द्ध- यिष्यत्याशिषः। अनाराधयितश्च कदा पादेनाभिहनिष्यति ? कदा अनाराधयित्राराधयित्रोविशेषं ज्ञास्यतीत्यभिप्रायः। स्वरूपेण तावदेषोऽस्य मन्त्रस्यार्थो मया लक्ष्यते, भाष्यं पुनरत्र लोकः ।
* नैगम काण्डम् * MANGAON ५० ३पा० ख०] “पादेन क्षुम्पमिवावस्फुरसि”-इत्येवमधीते, तथाच,-"कदा नः शृणोति गिरः” इति, तदेतत् "चम्पमिवावस्फुरसि"-"शृणोति गिरः” इत्यनयोर्भाष्यवाक्ययोः पुरुषो वैलक्षण्यात् दुर्योज्यो मन्त्रार्थ इति “गिरः अवस्फुरसि”-इति मध्यमपुरुषयोगः प्रत्यक्ष- कृतलक्षणाभिसम्बन्धी । मन्त्रस्य “कदा नः शृणोति च गिरः”- इत्येतत् परोक्षकृतः। एवमेतद्भाष्यं दुर्योज्यम्, यद्यप भाष्यस्य सम्यक् पाठः? अथ पुनरसम्यक् पाठः ? सम्यक् पाठोऽन्वेष्टव्यः । अहन्तु लक्षये-यथैष मया मन्त्रो व्याख्यातः, स एव सम्यक् पाठः स्यात्।-“पादेन क्षुम्पमिवावस्फुरिष्यति"--"श्रोष्यति च गिरः".--इति, तथाहि मन्त्रार्थस्याविरोधो लक्ष्यते। सूक्तेऽपि चास्मिन् काश्चित् परोक्षकृता ऋचः, काश्चित् प्रत्यक्षताः । अतोऽपि दुरवधार्योऽस्य भाष्यस्याभिप्रायः । अहिच्छत्रकं हि पादेन स्पृष्टमात्रं शीर्यते । নথামালাৰাঘষিবিনামী इति । “क्षुम्प" शब्देनाहिच्छत्रमभिधीयते ॥ "निचुम्पुणः ( ६२ )”-इति, अनवगतम्, अनेकार्थश्च । "निचुम्पुणः सोमो भवति"-इत्यभिधेयवचनम् । “निचान्त- पृणः” इति शब्दसमाधिः। स हि निवान्तो भक्षितः "प्रीणाति" ॥५(१७)॥ पत्नीवन्तः : सुता इम उशन्तौ यन्ति वीतये। अपां जग्मिर्निचुम्पुणः ॥ पत्नीवन्तः सुता इमेऽद्भिः सोमाः कामयमाना यन्ति वीतये पानायापां गन्ता निचुम्पुणः * निरुक्तम् * [ पूर्वषट्कम् समुद्रोऽपि निचुम्पुण उच्यते निचमनेन पूर्यत आवभृथो- ऽपि निचुम्पुण उच्यते नीचैरस्मिन् क्वणन्ति नीचैर्दधतीति वा। अवभृथ निचुम्पुर्णेत्यपि निगमो भवति। निचुम्पुण निचुङ्कुणेति च पदिर्गन्तुर्भवति यत् पद्यते ॥ ६ (१८) ॥ 'पत्नीवन्तः सुता इमे-निचुम्पुणः । कक्षो नाम आङ्गिरसः, तस्येयमार्षम् । गायत्री। ऐन्द्री। रात्रिपर्सायेषु मध्यमे पाये होतुः शस्त्रे विनियुक्ता । 'पत्नीवन्तः' पत्नीभिः अद्भिः, तद्वन्तः । 'सुताः' अभिषुताः। 'इमे' सोमाः । 'उशन्तः' 'कामयमानाः” इव 'यन्ति' देवान् प्रति, 'वीतये' कथं नामास्मान् देवाः पिबेयुरित्येवमर्थं कामयमाना इव यन्ति । किमेतदेव ? नेत्युच्यते । पुनःपुनरेष: 'निचुम्पुणः' सोमः “अपां” वीर्येण सहितः, तासु तासु क्रियासु प्रदीयमानः अस्माभिर्देवान् प्रति 'जग्मिः' एव भवन्ति, गन्तैव भविष्यति ॥ एवमिह सोमाधि- कारात् “निचुम्पुण" शब्देन सोम उच्यत इत्युपपद्यते ॥ “समुद्रोऽपि निचुम्पुणः” इति “उच्यते” । स हि "निचमनेन” उदकेन “पूयते” उदकं हि निचम्यत इति निच- मनम् । मृग्योऽत्र निगमः ॥ “अवभृथोऽपि निचुम्पुण उच्यते”। “नीचैरस्मिन् क्वणन्ति" शब्दं कुर्वन्ति। तत्र ह्यु क्तमवभृथेष्ट योपांश्वेव चरन्तीति निचु- म्पुणः । अथ “वा" "नीचैः” अस्मिन् यज्ञपात्राणि “दधतीति" । ५ अ० ३पा० ख०] * नैगम काण्डम् * निचुम्पुणः, तानि हि तत्राप्सु निधीयन्ते । “अवभृथ निचुम्पुण निनेरुर सि निचुम्पुणः । अव देवैर्देवकृतमेनो यासिषमव मत्तैर्म- य॑कृतं पुरुराव्णो देवरिषस्पाहि ॥”- इति ( य० वा० सं० ३, ४८)। अनेनाभिसाद्याप्सु प्रहीयन्ते सोमपात्राणि। हे 'अवभृथ' अवभृथदेव! हे वरुण! नीचक्कणन ! “निचेरुरसि' नीचैश्चरणशीलोऽसि । निचुम्पुणो नीचकणनो भूत्वा गृहे गृहे यज्ञगृहेऽवतिष्ठसे। स त्वमेवगुणविशिष्टः “अव देवैः देवकृतम् एनः यासिषम्” अवयक्षि नः देवैः सहितो देवकृतं देव निमित्तम् देवापराधम् , तमेनः। 'अच' यक्षि 'मत्तैः' सहितः 'मर्त्यकृतम्' मनुष्यकृतम्, एनः, 'पुरुराव्णः' पुरोः महतोऽपि 'देवरिषः' देवरोषणादस्मात् पाहि ॥ एवमत्र “निचुम्पुण' एवमत्र “निचुम्पुण” शब्देनावभृथ उच्यते॥ निचुङ्कुणोऽप्यनेनैव व्याख्यातः ॥ “पदिः (६३)"- इति, अनवगतम् । “गन्तुः” एष निर्देशः कृतः “भवति” । “यत् पद्यते” यस्मादसौ पद्यते गच्छतीत्यर्थः। अभिधेयः पक्षी, स हि नित्यकालमेव पतितो भवति ॥ ६ (१८)॥ , सुगुरसत् सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति । यस्त्वा यन्तं वसुंना प्रातरित्वो मुक्षीजयेव पदिमु- त्सिनाति ॥ सुगुर्भवति सुहिरण्यः स्वश्वो महच्चास्मै वय इन्द्रो दधाति यस्त्वा यन्तमन्नेन प्रातरागामिन्नतिथे * निरुक्तम् * [पूर्वषट्कम् मुक्षीजयेव पदिमुत्सिनाति । कुमारो सुक्षीजा मेाचनाच्च सयनाच्च ततनाच्च पादुः पद्यतेः। आविः स्वः कृणुते गृहते बुसं स पादुरस्य निर्णिजो न सुच्यते । आविष्कुरुते भासमादित्यो गृहते बुसम्बुसमित्युदकनाम ब्रवीतेः शब्द- कर्मणा भ्रशतेर्वा यद्वर्षन् पातयत्युदकं रश्मिभिस्तत् प्रत्या- दत्ते ॥ ७ (१६)॥ इति पञ्चमाध्यास्य तृतीयः पादः॥ ५, ३ anumar - "सुगुरसत्०-०सिनाति” इति ( ऋ० सं० २, १, १०, २) । कक्षीवत आर्षम् । य एव 'सुगुः' भवति, शोभनगुः । स एव 'सुहिरण्यः' भवति। स एव स्वश्वः' भवति । 'बृहत्' च महञ्च 'अस्मै' 'वयः' 'इन्द्रः' 'दधाति' ददाति। आह, तस्य किम् ? इति। उच्यते, 'यस्त्वाऽऽयन्तं वसुना प्रातरित्वः" । प्रातरागामिन्नतिथे! स हि प्रातःप्रातरन्यानि गृहाण्यभ्येति, तेनैवमामन्च्यते-'प्रातरित्वः !'-इति। 'आयन्तम्' अध्वानं “वसुना' अन्नेन क्षुधाविप्रशनेन प्राणरक्षणेन । 'मुक्षीजयेव पाश्ययेव, “कुमारः” 'पदि' पतितारं पक्षिणम् 'उत्सिनाति' उद्गम्य सिनाति, बध्नाति, प्राणांस्त्वपि सन्नियच्छतीत्यर्थः । यथा हि अतिथिरध्वगो भवति, स पतन् क्षधितोऽन्नसंयोगेन कस्यचिद् 'गृहिणो गृहेऽचतिष्ठते, एवमेतत् स्यात् ॥ एवमत्र पक्षी “पदि” ५१०३पा० ख०] * नैगम काण्डम् * anam शब्देनोच्यते, स हि अतिक्रममाणः पाश्यया वध्यत इत्युपपद्यते॥ "मुक्षीजा मोचनाच” सा हि अवमुच्यते पक्षिणः पातेः । "सयनाच" सीयते बध्यते हि तया पक्षी। “तननाच" सा हि पक्षिणो बधार्थं तन्यते। एताभ्यः क्रियाभ्यो यथासम्भवं "मुक्षीजा"-इत्येतदभिधानं भवति ॥ "पादुः (६४)" -इति, अनवगतम् । “पद्यतेः” ---इत्यर्थ- प्रतीतिः । सा ते जीवातुरुत तस्य विद्धि मा स्मै तागपगृहः समय 10-मुच्यते ॥”-इति (ऋ० सं० ७, ७, १६, ४)। वसूकस्येयमार्षम्। ऐन्द्री। त्रिष्टुप् । महाव्रते मरुत्वतीये शस्यते। हे यजमान ! 'सा' 'ते' तव 'जीवातुः' जीविका, या भगवतः सूर्यस्य तापप्रकाशवृष्ट युदयास्तमयरसादानादि- लक्षणा प्रवृत्तिः, अनेन सौर्येण कर्मणा सर्वभूतानि त्वं जीवसि इत्यभिप्रायः। यत एवमथैतस्मात् कारणात् ब्रवीमि.-'तस्य' सूर्यस्य 'विद्धि' विजानीहि, यस्त्वया स्तुतिहविर्दानादिलक्षणः प्रत्युपकारः कर्त्तव्यः ! 'मा' त्वम् 'अस्मै' सूर्याय, 'एतादृक्' एतादृशमुपकारम् 'अपगूहः मा संवृतं कार्षीः । प्रत्युपकारायास्मै त्वमभ्युद्यच्छस्वेत्यभिप्रायः । अपि च 'समर्ये' संग्रामे एतस्मिन्, मृत्युना सह वर्तमाने, सर्वभूतानाम् , श्वः अद्य वा मृयेथाः, को हि तद् वेद ?–कस्य कदा मृत्युरिति । सत्वं तत्कृतानि शोभन- कार्याणि मन्यमान, शीघ्र प्रत्युपकुरुष्वास्मै सूर्यायेत्यभिप्रायः । आह,-का पुनः सूर्यस्य प्रवृत्तिः जीवातुः ? इति । “आविः स्वः कृणुते गृहते बुसम्” । 'आविष्कुरुते प्रकाशीकरोति स्वभासा
* निरुक्तम् * [पूर्वषट्कम्
सर्वमिदमुपभासितं व्यवहाराय कल्पते, 'खः' आदित्यः । 'गूहते'
संवृणोति रश्मिभिः 'बुसम्' उदकम् । किञ्च, 'सः' 'पादुः'
तत्पदनं तद्गमनमवभासनेन चरणदानादिकर्तुः 'अस्य' सूर्य्यस्य
'निणिजः' उपनिर्णजयतुः तमःपङ्कदिग्धानि स्वरूपाणि स्वेन
प्रकाशोदकेन धौतानीव करोतीति निर्णिक सूर्यः, तस्य.
निर्णिजः । 'न मुच्यते' नोपरमतीत्यर्थः। अतएवमयमद्य च
तवोपकारे प्रवृत्तः।
अतः प्रत्युपकुरुष्वास्मा इत्यभिप्रायः॥
एवमत्र शब्दार्थोपपत्तेः “पादुः = पदनम्”–इत्युपपद्यते ॥ “बुस-
मित्युदकनाम” । “ब्रवीतेः” शब्दार्थस्य ( अदा०प०), तद्धि
शब्दवद्भवति। “भ्रंशतेर्वा” तद्धि भ्रश्यते (दि० प०) मेघात् । “यद्
वर्षन् पातयत्युदकम्" आदित्यः, “तत्” “रश्मिभिः प्रत्यादत्ते"
इति समासतो भाष्यकारेणायमस्यार्द्धर्चस्यार्थ उक्तः ॥ ७ (१६)॥
इति निरुक्तवृत्तौ दशमस्याध्यायस्य (पञ्चमाध्यायस्य)
तृतीयः पादः ॥५३॥
चतुर्थ पादः । वृकश्चन्द्रमा भवति विवृतज्योतिष्को वा विकृतज्यो- तिज्योतिष्का वा विक्रान्तज्योतिको वा ॥१ (२०) ॥ “वृकः (६५)”-इति, अनवगतम्, अनेकार्थञ्च । “वृकः” तावत् “चन्द्रमा भवति” स हि “विवृतज्योतिष्कः” प्रकाशित- ज्योतिको भवति, तस्माद् वृकः । अथ “वा” “विकृतज्यो- तिष्कः” --इति वृकः, तद्धि तस्य विकृतं ज्योतिः, शीतत्वात्, इतराणि उष्णानि ज्योतींषि सूर्यादीनि, तोन्यपेक्ष्य । "वा” विक्रान्त ज्योतिष्कः वृकः, तस्य हि विक्रान्तं ज्योतिः, इतरेभ्यो ग्रहनक्षत्रताराकदिभ्यो ज्योतिर्म्यः सकाशात् । एते शब्दसमाधयः ॥ १ (२०)॥ अरुणा मामकृद् वृकः पथा यन्तं ददर्श हि। उज्जि- हीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ।। अरुण आरोचनों मासकृन्मासानां चाईमासानां च कर्त्ता भवति चन्द्रमा वृकः पथा यन्तं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमास्तक्ष्णुवन्निव पृष्ठरोगी जानीतं मेऽस्य द्यावापृथिव्यावित्यादित्योऽपि वृक उच्यते यदावड़क्त ॥ २॥ AMAR "अरुणो मासकृत् ५५० * निरुक्तम् * [पूर्वषट्कम् .-० रोदसी"- इति (ऋ० सं०.१, 8, २३, ३)। त्रितस्येयमाप्तस्य कूपे पतितस्य, कुत्सस्य वा आषम्। पङ्क्तिः । वैश्वदेवी। 'अरुणः' “आरोवनः" आभि- मुख्येन सर्वस्य जगतो रोचयिता स्वया ज्योत्स्नया । 'मास- कृत्' “मासानां च अर्द्धमासानां च कर्ता” । मासशब्दसम्व- न्धादद्धमासशब्दोऽध्याहृतः, तानपि ह्यसौ निर्मिमीत इति । "चन्द्रमाः” 'वृकः'। आह,-किं करोति ? इति, उच्यते,- “पृथा 'यन्तं ददर्श हि” नक्षत्रमण्डलस्याधोऽवस्थितः ‘पथा' स्वेन मार्गेण 'यन्तं' 'ददर्श' पश्यति “नक्षत्रगणम्”-न मा- मन्धकूपे पतितं पश्यति, यदि नाम पश्येत् कथञ्चिदवश्य- मस्यास्त्रायेतापदो मामित्यभिप्रायः । किञ्च, “उजिहीते निवाय्या तष्टेव पृष्ट्यामयी वित्तम् । यथा कश्चित् 'तष्टा' तक्षा “पृष्ठरोगी” कञ्चिद॒क्षं “तक्ष्णुवन्" उच्छेदनास्पदे वयं योज्या न वा?-इत्यनेनोत्कटो भूत्वा 'निचाययति' पश्यति, एवं “चन्द्रमाः” अप्युजिहीते “येन" नक्षत्रेण “योक्ष्यमाणः" अमुना मयाद्य योक्तव्य इति। एवं 'निचाय्य' "तष्टा" स्वेन दृष्टात् दर्शनेन । ततस्तदेव “अभिजिहीते" तेनैव सहोदेतीत्यर्थः । एवमस्य येनार्थः, तमयमादरेणोर्द्धकायो हि भूत्वा पश्यति, मया त्वस्यार्थो नास्तीति मा न पश्यत्यधोवर्तमानम्। एवमता ब्रवीमि,-अपि तावत् हे 'रोदसी!' 'वित्तं' विजानीतं 'अस्य' त्रितस्यातिप्रलापस्य योऽर्थः । विदित्वा उत्तरतं मामस्मात् कृपात् इत्यभिप्रायः ॥ एवमत्र अरुणशब्दात् मासकृच्छन्दाच्च ५१०४पा० ३ख०] * नैगम काण्डम् । 'वृकः-चन्द्रमाः” । चन्द्रमःशब्दाच्च नक्षत्रगणोऽध्याहृतः, तथार्थोपपत्त्याविरोधात् ॥ येषां तु शाखिनां "मा सकृत्" इत्येतत् पदद्वयं भवति, तेषां सकृत् मां ददर्श चन्द्रमाः, मां ददर्श चन्द्रमाः, यदि पुनः पुनः पश्येदवश्यं मोच- येदस्या आपदः, पथा तु यन्तं नक्षत्रगणं पुनः पुनः पश्यति न मामित्येवमादि योज्यम् ॥ "आदित्योऽपि वृक उच्यते” । “यद् आवृङ्क्ते” यस्मादसौ तम आवृक्ते, तस्माद्वृकः ॥२॥ अजाहचीदश्विना वर्तिका वामानो यन्सीममुञ्चतं वृकस्य । आह्वयदुपा अश्विनावादित्येनाभिग्रस्ता ताम- घिना प्रमुमुचतुरित्याख्यानं वापि वृक उच्यते विकर्त- नात् । वृकश्चिदस्य वारण उरामथिः। उरणमथिः । उरण ऊर्जावान् भवत्यूर्णा पुनर्वृ णातरूणोतेर्वा । वृद्धवा- शिन्यपि वृक्युच्यते । शतं मेषान् वृक्ये चक्षदानमृत्राश्वं तं पितान्धं चकारेत्यपि निगमो भवति । जोषवाकमित्य- विज्ञातनामधेयं जोषयितव्यं भवति ।। ३ (२१) । । वि जयुषा यथथुः -- “अजोहवीदश्विना०-०वृकस्य । सान्धर्जातं विश्वाचो अहतं विषेण ॥"--इति (ऋ० सं०१, ८, १६, १)। कक्षीबत आर्षम् । आश्विनी । त्रिष्टप् ।
'वर्तिका'। कदा त्यस्य। १ * निरुक्तम् * [पूर्वषट्कम् प्रातरनुवाकाश्विनयोः शस्यते। 'अजोहवीत् 'आह्वयत्" आहूतवती "उषाः”। हे 'अश्विनौ !' युवाम्। वर्तनशीला पुनराह्वयत् ? इति, उच्यते,-'आनः' आस्याद्यदैनां 'चां' युवाम् 'अमुञ्चतम्। 'वृकस्य' आदि- उषाः किल “आदित्येनाभिप्रस्ताश्विनौ” आहूत- वती, “तामश्विनौ प्रमोचितवन्तावित्याख्यानम्”-एतस्मि- नर्थ वेदयन्ते निदानविदो बचाः, तदप्युपेक्षितव्यं मन्त्रा र्थ नेर्णयाय। आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।” इति (ऋ० सं० १, ८, १०, ४)। एतच्च युवयोर्माहाभाग्यम्। किञ्चान्यत्। “विजयुषा यययुः सान्चद्रे"। "विजयुषा' विजय मिच्छन्तौ युवां 'ययथुः गच्छथः, 'सानु' समुच्छ्रितम् 'अद्रेः' मेघस्य शिखरमारुह्य। किञ्च, युवामेव 'जातम्' उपद्रवं दुर्भिक्षाख्यं कृत्स्नस्य जगतः, 'विश्वाचः' विश्वगञ्चनौ, सर्वतो गती भूत्वा -मेघजालेनेदं सवमभिप्रच्छाद्य, ततः 'अहतं' हतवन्तौ स्था, 'विषेण उदकेनेत्यर्थः ॥ यथाऽस्मिन् वृकशब्देनादित्य उच्यते, तथाऽऽख्या नादुपेक्षितव्यम् ॥ "श्चापि वृक उच्यते” “विकर्तनात्” विविधमसौ कृन्तति तस्माद् वृकः । “वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । सेमं नः स्तोमं जुजुषाण आगहीन्द्र प्रवित्रया धिया ॥” इति (ऋ० सं० ६, ४,४६, ३)। प्रगाथपुत्रस्य कलेरार्षम्। सतो बृहती। महाव्रते तृवाशीतिषु विनियुक्ता। 'वृकश्चित्' वृकोऽपि, MASTI "५१०४पा० ३ख०]] * नैगम काण्डम् * "श्वा' सारमेयोऽस्येन्द्रस्य विद्यत एव । 'वारणः' वारयिता शत्रूणाम् । किमुतान्यान्युपकरणानि ? 'उरामथिः' "उरणमथिः” उरान् मेषान् यो मथ्नाति स उरामथिः । स पुनरस्येन्द्रस्य 'आभूषति' 'वयुनेषु' प्रज्ञानेषु, यदैवासौ विजानीते आभूषत्वयं शत्रूनिति, तदेवासी आभूषति । यस्य तवैवं सर्वोपकरणसम्प- नत्वम्. हे 'इन्द्र !' 'सः' त्वम् 'इमम्' 'नः' अस्माकं स्तोमम्' उपश्रुत्य 'आगहि' आगच्छेमं यश 'प्र' प्रकर्षण 'चित्रया' चायनी- यया कमनीयया "धिया' बुद्ध्या ॥ सरमा हि देवशुनी श्रूयते । तत् पुत्रनप्तृभिश्च देवानां भवितव्यम्, तस्मात् श्वापि वृक उच्यत इत्युपपद्यते, इतरेषामारण्यकाणां परिग्रहाभावात् अस्य मन्त्रस्य पूर्वोऽर्द्धर्चः परोक्षकृतः,-वृकश्चिदस्येत्यस्मात् षष्ठीयोगात्। उत्तरस्तु प्रत्यक्षतः,-आगहीन्द्रेत्यस्मान्मध्यमपुरुपयोगात्, सम्बोधनाच्च। देवता किल परोक्षा स्तूयमाना प्रत्यक्षीभवति । तदेतत् सर्वेष्वेवंलक्षणेषु मन्त्रेषूपेक्षितव्यम् ॥ निगमप्रसक्तमुच्यते, .-"उरणः-ऊर्णावान्" ऊर्णया तद्वान् "भवति” । “ऊर्णा पुनर्वृणोतेः”। इति विग्रहप्रसक्तम् । ता अपि शीतत्राणार्थ वित्रियन्ते । “ऊोतेर्वा” आच्छादनार्थे स्यात, ताभिराच्छन्न उरणो भवति “वृद्धवाशिन्यपि वृक्युच्यते” यैपा वृद्धं वाश्यते,-शिवा, सापि वृक्युच्यते, विकर्तनादेव । “शतं मेषान् वृक्ये वक्षद् दानमत्राश्वं तं पितान्धं चकार । तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥” इति (ऋ० सं० १, ८, ११, १)। ।
* निरुक्तम् ३७ [पूर्वपट्कम् अजोहवीदित्यनया समानार्षयम् । 'शतं मेषान्' 'वृक्ये शिवाय, तया वाशिते सति परितुष्टः 'चक्षत्' व्यादिष्टवान् ‘दानम्'। येयमेवं शोभनमभिप्रस्थितानामस्माकमर्थसिद्धये वाश्यते,तस्यै, शतं मेषाणां दीयतामित्येवमाज्ञापितवान् । 'ऋत्राश्वम्' ऋत्राश्वो नाम राज- पुत्रः, तम्। 'तं च' पुनरेवं व्यादिष्टवन्तमतिसाहसिकोऽयमिति 'पिता' कुपितः, शापेन 'अन्ध' 'चकार' कृतवानित्यर्थः । तस्मै एवमन्धीभूताय पितुरभिशापेन, 'अक्षी' अक्षिणी, 'नासत्यौ' अश्विनौ देवी, 'विवक्षे' विगतदर्शनाय 'आधत्तम्'। 'दस्रौं" दर्शनीयौ अश्विनौ । “भिषजौ' देवभिषजौ। भयसादयितारो, 'अनर्वन्' चक्षुः आधत्तम् अनाश्रितमन्यत्र क्वचित्, स्वप्रधान- मित्यर्थः ॥ एवमत्र मेषसम्बन्धात्, व्याख्याने च तथार्थतोपपत्ति- दर्शनात् “वृद्धवाशिनी वृक्युच्यते”–इत्युपपद्यते ॥ “जोषः (६६)--इति, अनवगतम् । “अविज्ञातनामधेयम्" इत्यभिधेयवचनम् । “जोषयितव्यं भवति”- इति शब्दसमाधिः। जोषयितव्यं विज्ञापयितव्यं परस्मै तद्भवत्यस्पष्टत्वात् ॥ ३ (२२)॥ य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा। जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥ य इन्द्राग्नी सुतेषु वां सोमेषु स्तौति तस्याश्नीथोऽथ योऽयं जोषवाकं वदति विजजपः प्रार्जितहोषिणो न देवौ तस्याश्नीथः कृत्तिः कृन्ततेर्यशो वा अन्नं वा महीव कृत्तिः शरणात IND Kamvali । ५० ४पा०४ख०]] * नैगम काण्डम् * सुमहत्त इन्द्र शरणमन्तरिक्षे कृत्तिग्वितीय- मपीतरा कृत्तिरेतस्मादेव सूत्रमप्युपमार्थे वा । कृत्तिवासाः पिनाकहस्ताऽवततधन्वेत्य पि निगमो भवति । श्वनी कितवा भवति स्त्रं हन्ति स्वं पुनराश्रितं भवति । कृतं न श्वन्धी विचिनोति देवने कृतमिव श्वनी विचिनोति देवने कितवः किं तवास्तीति शब्दानुकृतिः कृतवान्वाशी मकः सममिति परिग्रहार्थोयं सर्वनामानुदात्तम् ॥ ४ (२२) । “य इन्द्राग्नी सुतेषु वां-भसथश्चन" इति (ऋ० सं० ४, ८, २५, ४)। भरद्वाजस्येयमार्षम्। वृहतो। हे 'इन्द्राग्नी !' 'यः' यजमानः 'सुतेषु' अभिषुतेषु सोमेषु 'वां' युवां 'स्तवत्' "स्तौति” 'तेषु' कर्मसु 'ऋतावृधा' सत्यवर्द्धयितारौ, यावर्द्धयि- तारौ वा। "तस्य” युवाम् “अश्नीथः” स युवयोः बहुमत इत्यभिप्रायः । “अथ" पुनः “योऽयम्” “जोषवाकम्” अविज्ञातं किमपि उपांशु “वदति” “विजापः” केवलमुदकतीरेऽवस्थितो- ऽन्यत्र वा जपनशोल एव, न कर्मकारीत्यभिप्रायः । तस्य 'जोष- वाकं वदतः'। 'पज्रहोषिणा' हे “प्रार्जितहोषिणी ! प्रभूतयागौ! “यदिन्द्रश्च अग्निश्च भूयिष्ठभाजौ देवतानां तस्माद् ब्राह्मणश्च राजा च भूयिष्ठभाजो मनुष्याणामिति ह विज्ञायते” । 'देवा' हे "देवी !" 'न भसथश्चन' न कदाचिदपि तस्य हवींषि भक्षयथः, तेन युषयो- र्नासी बहुमत इत्यभिप्रायः। अत्र “जोषवाकं वदतः” “न धातुनिर्देशः । * निरुक्तम् ci : [पूर्वषट्कम् भसथः --इत्येतद् दृष्ट्वा यः सुतेषु सोमेषु स्तौति, तस्य न भसथ इत्येतदध्याहृतं भाष्यकारण ॥ एवमत्र विजञ्जपस्य भक्ष- यितव्याभावाजपस्य चोपांशुस्वाभायात् “जोषवाक" शब्दोऽवि- ज्ञातनामधेयमित्युपपद्यते॥ “कृत्तिः(६७) -इति, अनवगतम् अनेकार्थश्च । “कृन्ततः” -इति 'यशोऽन्नं वा"-इत्यर्थवचनम् ।' कर्त्तन- मिति न्याय्यम् यशो हि द्विषता मर्माणि कृन्तति. अन्नमयसम्य- गुपयुक्तमायुरेव कृन्तति । “तमु त्वा नूनमसुर प्रत्रे तसं राधो भाग मवेमहे। महीव कृत्तिः शरणा त इन्द्र प्र ने सुन्ना नो अश्नवम् ॥” इति (ऋ० सं०६. ६. १३, ६)। नमेधसः प्रियमे- धसधेयमार्षम्। सतो वृहती। ऐन्द्री। चतुर्विंशादिषु सात्रिके- वहःसु माध्यन्दिो ब्राह्मणाच्छंसिनः शश्त्रे स्तो त्रयानुरूपवर्ग विनियुक्ता। 'तम् उ त्वा' हे 'असुर' प्रज्ञावन् ! 'प्रचेतसं' विवृद्ध- प्रज्ञानं राधः' धनं स्वमिव पिध्यं 'भागम्' उत्पन्नप्रणयत्वात् ईमहे' तत्रोदेहि स्थिरशरीराणां तदेतदस्तु नः । किञ्च, 'महीव कृत्तिः' महदिव यशः. महद् वा अन्नम् शरणा' शरणम् . गृहम् । 'ते' तव हे 'इन्द्र !' यत् “अन्त रक्षलोके” हदहं 'प्राश्नवम्' । किञ्च, 'ते' तव 'सुत्रा' सुम्नानि बलसम्बन्धा ने सुखानि, त्वदोग्यानीत्यर्थः । यद्वा, सुम्नानि, सुख लाधनानि, अप्सरःप्रभतीति प्राश्नुयामहम् । तदहं सोमं सुन्वानः तस्याभिषवकर्मणो माहाभाग्येन, येन त्वत्सायुज्यमश्नुयाम्. देहपातोत्तरकालमिह चामुत्र चैतत् नः फलद्वयमस्तु त्वत्त इत्यभिप्रायः। यशो हि विस्तीर्णं भवति, ॐ नैगम काण्डम् * 66 ५० ४पा० ४ख.] तेन हि गृहस्पोपमानमुपपद्यते। यदनुप्रविष्टानाम् अशनापिपासे न स्तः, तदहं नव गृहम् प्राश्नुयामित्येवमन्नेनाप्युपपद्यते ॥ “इयम् अपि इतरा कृत्तिः एतस्मादेव”। सूत्रमयी कन्थेति या प्रसिद्धा, साप्येतस्मादेव कृन्ततेः, सा हि वस्त्रावयवैः सूत्रघ्र- थिता भवति । “उपमार्थ वा” चर्मापि कृत्तिरित्युच्यते । तयेतरा सूत्रमयी उपमीयते विकर्तनसामान्यात् । कृत्तिरिव कृत्तिः कन्था । “कत्तिवासाः पिनाकहस्तोऽवततधन्वा”-इति । व्याख्या- तोऽयमष्टमेऽध्य ये निगमः ॥ 'श्वनो)-इति, अनवगतम् । "कितवो भवति" इत्यभिधेश्वचनम् । “स्वं हन्ति”-इति शब्दव्युत्पत्तिः । स्वहा इति न्याय्यम्। विग्रहप्रसकमुच्यते,-"स्व पुनराश्रितं भवति" तद्धि स्वामिनमाभिमुख्येन श्रितं भवति स्वत्वेन । “कृतं न श्वनी विविनोति देवने संवर्ग यन्मघवा सूर्य जयत्। न तत्ते अन्यो अनुवीय शकन्न पुराणों मघवन्नोत नूतनः ॥”-इति ऋ० सं० ७, ८, २४, ५,। कृष्णस्याङ्गिरसस्येयमार्षम् । ऐन्द्री ! जगती । तात्तीयसनिकेगु ऊस्थपर्यायेषु ब्राह्मणाच्छंसिनः शस्त्रे विनि- युक्ता । यथात्र कृतादोनां दायानां मध्ये कितवः ‘कृतं विचिनोति' "देवने' आस्तारे, अपि नामात्र कृतं यस्मात् ततो जयेयमहमि- त्येवम् । मघवा' इन्द्रः 'संवर्गम् उदकसंवर्जयितारम् , अन्तरिक्षे, बहूनां मेघानां मध्ये, विचिनोति, कतमस्त्वेषां मेघानामुदकदाने समर्थः ? इति, तं विज्ञाय यदजहत् । 'सूर्य्यम' सुष्ठु ईरयि- तारमपाम् । 'न' 'तत् तव 'अन्यः' कश्चित् 'अनुवोयं शकत्' । ।
बभूव । * निरुक्तम् , [पूर्वषट्कम् तद् वीरकर्म तावकम् , अन्यः कश्चिदनुकत॒मशक्तः। 'न' अपिः 'पुराणः' 'न उत' नापि 'नूतनः' नव इत्यर्थः । न पूर्वे चक्रुः, नापरे करिष्यन्तीत्यभिप्रायः। कृतसम्बन्धाद् देवनसम्बन्धाच "श्वनी कितवः” इत्युपपद्यते ॥ अस्य मन्त्रस्य पूर्वोऽर्द्धर्चः परोक्षकृतः, स एव विपरिणमः यितव्यः, अत्र चोक्तः समाधिः॥ निगमप्रसक्तमुच्यते, "कितवः"-इत्यस्य शब्दस्य “किं. तवास्तीति” एषा “शब्दानुकृतिः” स हि नित्यकालमेव दिदेविषुः प्रतिदेवितृभिः, कितवैः पृच्छ्यते,-किं तवास्तीति, तस्माच्छब्दा- नुकरणारिकतव एवासी अथवा "कृतवान्" अयं यथाः स्यादित्येवमसौ आशास्यते सुहृद्विरन्यैः कितवैः, स हि तस्मादेव- माशासनान् “आशी:” निमित्त 'नामकः" कितव एवासौ बभूव ॥ *समम् ६६)” - इति, एतत् “परिग्रहार्थीयं सर्वनाम”। तत् पुनरेतत् “अनुदात्तम्” "त्वत्वसमसिमेत्यनुच्चानि"-इति. ह्युक्तम् । विप्रतिपन्नस्वरत्वादत्र भाष्यकारेण स्वरोऽवधृतः, पक्षण चाप्यनेकार्थताप्यस्य भवतोत्येतत् प्रदर्शितं भाष्यकारेण ॥ ४ (२२)॥ मा नः समस्य दृढ्यः १ परिद्वषसो अंहतिः। ऊमिन मा नः सर्वस्य दुर्धियः पापधियः सर्वतो दुषसा अंहतिरूमिरिख नावमावधीदमिरूणोतेनौंः प्रणोत्तव्या भवति नमतेर्वा तत् कथमनुदात्तप्रकृति नाम स्याद् दृष्टव्ययंः , नावमावधीत् ॥
५१०४पा० ५ख०]]
* नैगम काण्डम् 8
तु भवति । उता समस्मिन्नाशिशीहि नो वसा इति सप्तम्यां
शिशीतिर्दानकर्मा। उरुष्या णो अघायतः समस्मादिति
पञ्चम्यामुरुष्यतिरकर्मकः । अथापि प्रथमाबहुवचने ।
नभन्तामन्यके समे ॥ ५ (२३) ॥
"मा नः समस्य०-०मावधीत्”। विरूप आङ्गिरस एता-
माग्नेये सूक्ते ददर्श । गायत्री । आग्नेयी । दशरात्रस्य तृतीयेऽहनि
प्रातःसवने आद्य सूक्ते विनियुक्ता। हे भगवन् अग्ने ! युष्मत्.
प्रसादात् ‘मा नः' मास्मान् , 'समस्य' सर्वस्यैव, 'दूढ्यः' दुर्धियः
पापधियः, 'पग्विषसः' सर्वतो द्वेष्टुः, स्वभूतः, 'अंहतिः' बध
इत्यर्थः । 'ऊमिन' ऊर्मिरिव, यथोर्मि चमाभिमुल्येन गत्वा
बधयति, मैवमंहतिरस्मान् द्वष्यप्रहितोऽवधीदिति ॥
सर्वस्मादेव द्वेष्टुर्बधानभीष्टत्वात् “समस्य” - इत्येतत् सर्वना-
मेत्युपपद्यते ॥
"ऊर्मिः, उर्जातः” आच्छादनार्थस्य, सा ह्याच्छादयति
तीरमुदकमध्ये वा यदन्यद् भवति । “नौः प्रणोत्तव्या भवति
पारगमनाय, “नमतेर्वा” स्यात् , सा हि प्रहीभूतेव भवति,.
एवमत्र
--
पारगमनाय॥
आह, यदेतत् सममिति शब्दरूपम् “अनुदात्तप्रकृति” अनुदो-
तस्वभावम्, “तत् कथं नाम स्यात्” ? “अनुदात्तप्रकृतयो हि
निपाताः, उदात्तप्रकृतीनि नामानि भवन्तीति । उच्यते,-"दृष्टव्ययं
-
* निरुक्तम् * [पूर्वषट्कम् तु” एतत्, यस्मादनुदात्तप्रकृतित्वेऽपि सति, तस्मानामैवैतत् "भवति। आह, क पुनरस्य व्ययो दृष्टः ? इति, उच्यते,-"उ तो समस्मिन्ना शिशीहि नो वसोः इति सप्तम्याम्” व्ययो दृष्टः । "विद्मा सखित्वमत शूर भीज्य मा ते ता वनिनीमहे । उतो समम्मिन्नाशिशीहि ते वसो वाजे सुशिप्र गोमति ॥” इति (ऋ० सं० ६.२.२, ३)। सौभरेरार्षम् । सतो वृहती। ऐन्द्री। आख्याने विनियुक्ता। विद्म' विजानीमो वयं 'सखित्वं' सखि- भावम्। 'उत' अपि च । हे 'शूर' वजिन् ! इन्द्र ! 'भोज्यं' भोग्यम् अंशोपजीव्यत्वं मित्राणाम् , यतो वयं 'आ ईमहे' आभि- मुख्येन स्थित्वा याचामहे,-'ते' तव यानि धनानि। किञ्च, 'उतो' अपि च 'समस्मिन्' सर्वस्मिन् 'शिशीहि नः' देहि अस्माकं हे 'वसो वानुमन् ! इन्द्र ! क पुनराशिशीहि नः ? इति,-'वाजे' अन्ने इत्यर्थः। हे 'सुशिप्र' हे सुनस! अथवा हे सुहनो! 'गोमति' गोभिस्तद्वति अन्ने, अस्मान् प्रतिष्ठापयेत्यर्थः॥ एवमत्र समस्मिन्निति सप्तम्यां व्ययोदृष्टः ॥ “उरुष्याणो अघायतः समस्मात् -इति पञ्चम्याम्” व्ययो दृष्टः। “तं त्वा०-सखिभ्यः । स नः बोधि श्रुधी हवमुरु- ष्याणोऽघायतः समस्मात् ॥” इति ( य. वा० सं० ३, २६ ।। श्रुतबन्धोराषम्। आग्नेयी। द्विपदा। अग्न्युपस्थाने विनियुक्ता । यः त्वमेवम्प्रभावः, यथाप्रभावं त्वां वयमवोचाम। 'सः त्वं हे भगवन्नग्ने ! 'बोधि' वुध्यस्व 'नः अस्माकमभिप्रायम । 'श्रुधी' ५१०४पा० ख०]] * नैगम काण्डम् * शृणु च हवम्' आह्वानमिदम् । आहूतश्च 'उरुष्याणः' उपगम्या. स्मान्, 'अघायतः' पापमिच्छतः 'समस्मात्' सर्वस्मात् पाहि । एवमत्र समस्मादिति पञ्चम्यां व्ययो दृष्टः ॥ तस्मात् व्ययदर्शनाद् दृष्टानुविधिश्छन्दसि भवतीति कृत्वाऽ:- नुदात्तप्रकृतित्वेऽपि सति नामैतद्भवतीत्युपपद्यते ॥ ५ (२३) । हविषा जारी अपां पिपनि पपुरिनरा। पिता कुटस्य चर्षणिः ॥ हविषापां जरयिता पिपर्ति पपुरिरिति पृणाति- निगमौवा प्रीणातिनिगगौ वा पिता कृतस्य कर्मणश्चायिता- दित्यः शम्ब इति वज्रनाम शमयतेर्वा शातयतेर्वा । उग्रो यः शम्बः पुरुहूत तेनेत्यपि निगमा भवति । केपयः कपूया भवन्ति कपूयमिति पुनाति कम कुत्सितं दुष्यं भवति ॥ ६ (२४)॥ 'कुटस्य (७०)" "चर्षणिः (७)"-इति, एते अनवगते । "कृतस्य" "चायिता" - इत्येतो शब्दसमाधी। एक एव निगमः । -"हविषा जारो०-०चर्षणिः” – इति (ऋ० सं० १, ३, ३३, ४)। प्रस्कण्वस्यार्षम् । आश्विनी। प्रातरनुवाका श्विनयोः शस्यते। हे 'नरा' नरौ! अश्विनौ ! युवाम् । एषः “आदित्यः' 'पिता' पाता, कृत्स्नस्य जगतः । 'कुटस्य' “कृतस्य कर्मणः सार्वभौमस्य साध्वसाधुनः । 'चर्षणिः' “चायिता" द्रष्टा, बुद्ध्यधिदेवताभावेनावस्थितः सर्वभूतानाम्। 'अपां जारः' अपां !
, एवमत्र * निरुक्तम् * [पूर्वषट्कम् सर्वभूतान्तर्गतानां प्राणभावेनावस्थितो जरयिता, शोषयिता। 'पपुरिः' व पूरयिता च। प्राप्ते काले 'हविषा' उदकेन 'पिपर्ति पूरयति वा प्रीणपति वा । यौ युवामेवगुणयुक्तनादित्येन पूयेथे, प्रीणेथे वा, तौ युवामिमां नामास्माकमाशिषं समर्द्धयत- मित्येवमाशीयॊज्या "कुटस्य-वर्षगि:"-इत्येते कृतस्य चायितेत्येवमुपपद्यते॥ नरावत्र द्यावापृथिव्यावभिप्रेते, तयोश्चोदकेनादित्यः पूरयिता। तस्मादादित्यविषययिता वर्षणि- शब्दस्य, तस्य च बुद्ध्यधिदेवताभावेन कृतस्य कर्मणो द्रष्टुत्व. मुपपद्यते ॥ 'पिपर्ति'-'पपुरिः' इत्येवमेतौ निगमस्थौ शब्दो। "पृणात्यौँ वा प्रीणयत्यर्थों चा" || "शम्बः (७२)"-इति, अनवगतम् । “वज्रनाम”-इत्यभि- धेयवचनम् । “शमयिता वा शातयिता वा”- इति शब्दसमाधी। "आराच्छत्रुमपबाधव दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद् गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥” इति (ऋ० सं० ७, ८, २३, २)। कृष्णस्याङ्गिरसस्यार्षम्। त्रिष्टुप् । माध्य- न्दिने सवने स्तोमातिशंसने ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्ता। हे 'पुरुहूत' बहुभिराहूत! 'यः' एषः, 'आरात्' समीपे अस्माकं वर्तते शत्रुः, तं दूरम् 'अपबाधस्व' नाशयस्वेत्यर्थः । आराच्छ. ब्दोऽत्र समीपार्थवाची। अन्यत्रापि चोक्तम्,-"आरात् प्राग्वं. शादुदयास्तमयौं'-इति । किं पुनरपवाधस्व ? 'उग्रो यः शम्वः' उद्र्र्णो यो वज्रः तेन अपबाधस्व । किञ्च, तं दूरमपबाध्य 'अस्में' अस्मभ्यं 'धेहि' देहि 'यवमत्' यवैस्तद्वत्-व्रीहिगोधूमाद्यन्नम् । - - ५०४पा० ख०]] * नैगम काण्डम् * MIRMIRE अपि च 'गोमत्' गोभिस्तद्वत्-पश्वादिभिः। किञ्च, स त्वमे- तदेवगुणकमस्मभ्यमन्नं ददन् 'कृधि' कुरुष्व इमां 'धियम्' एतत् कर्म, 'वाजरत्नां वाजारमणीयां, प्रचुरेणान्नेन यथैतस्मिन् कर्मणि वर्तमाना रमेमहि, तथा कुरुष्वेत्यभिप्रायः। धोरिति कर्मनामसु पठितम्,-'धीः, शची” इति । एवमत्रापवाधनसम्बन्धात् "शम्बः”- इत्येतद् वज्रनामेत्युपपद्यते। अपठितमेतद्वन्जनामसु,- इत्यतोऽप्रसिद्धार्थम् , तस्यैवम्प्रकरणादर्थसिद्धिर्भवति ।। “केपयः (७३,"----इति, अनवगतम्। “कपूयाः” ह्यते सन्तः केपय इत्युच्यन्ते । आह, 'कपूयम्"--"इति” किमुक्तं भवति ? उच्यते,-यदेतत् पापकारी प्रायश्चित्तेन “पुनाति कर्म कुत्सितम्" यञ्च तत् “दुष्पूयं” दुष्पावं “भवति” पूयमानमपि, एतत् कपूय- मित्युच्यते ॥ ६ (२४)॥ पृथक् प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा। न ये शेकुर्यज्ञियां नावमारुहमीमैव ते न्यविशन्त केपयः ॥ पृथक् प्रायन् पृथक् प्रथतेः प्रथमा देवहूतयो ये देवानाढयन्ताकुर्वत श्रवणीयानि यशांसि दुरनुकराण्यन्यै- र्येऽशक वन् यज्ञियां नावमारोढुमथ ये नाशक वन् यज्ञियां नावमारोढुमीमवते न्यविशन्तेहैव ते न्यविशन्त ऋणे हैव ते न्यविशन्तास्मिन्नेव लोक इति वेर्म इति बाहुनाम समी- रिततरो भवति । एता विश्वा सवना तूतुमा कृषे स्वयं ne निरुक्तम् [पूर्वषट्कम् . सूनो सहसा यानि दधिषे। एतानि सर्वाणि स्थानानि तूर्णमुपाकुरुषे स्वयं बलस्य पुत्र यानि धत्स्वांमत्रमंहसस्त्राणं धनुर्वा कवचं वा कवचं कु अञ्चितं भवति काञ्चितं भवति कायेऽञ्चितं भवतीति वा ॥ ७ (२५)॥ “पृथक् प्रायन्०-- केपयः” इति (ऋ० सं० ७, ८, २७, १)। पूर्वयैव समानार्षविनियोगा, इयन्तु जगती। 'पृथक प्रायन्' 'पृथक' भूता एव विद्याकर्मानुरूपेण, देवयानेन पथा, पितृयानेन चा 'प्रायन्'। हे इन्द्र! स्वतप्रसाद द् देवलोकं गन्धर्वलोकं पुनः स्व उच्यते। 'प्रथमाः देवहूतयः' ये मुख्या देवानामाह्वातारो यत् कर्मसु । किञ्च, 'दुष्टरा' “अन्यैः” अस- दिदुस्तराणि । - 'श्रवस्यानि "श्रवणीयानि यशांसि” 'अकृप्यत" अकुर्वत । किञ्च, 'ये' त्वत्प्रसादरहिताः जनाः, 'यज्ञियां नावम्' 'आरुहम्' "आरोढुम्” 'न शेकुः' नाशक्नुवन् । अथ पुनर्ये नाश- नुवन् यज्ञियां नावमारोढुं किन्तर्हि ? विषयप्रधानाः, कपूयमेव दुष्पूयमेव कर्म चक्रिरे, तेनैव कपूयेन कर्मणा प्रर्यमाणाः 'ते' 'ईमव' "इहैव” लोके यथा कर्मानुरूपायां योनौ 'न्यविशन्त' । तदुक्तम् -- “अथ य इह कपूयचरणा अभ्याशोहयत् , ते कपूयां योनिमापोरन् ,-श्वयोनि वा, शूकरयोनि वा, चण्डालयोनि. वा"-इत्येवमादि ॥ एवमत्र न ये शेकुः यज्यिां नावमारोढु- मित्येतेन सम्बन्धात् “केपयः = कपूयाः"-इत्युपपद्यते ॥
५१०४पा० ख० नैगम काण्डम् , शब्दसारूप्यप्रसङ्गादुच्यते,–“ईम इति बाहुनाम”-इति, स हि “सारिततरो भवति” एतेभ्योऽङ्गभ्यः ।। 'तूतुम्-आकृषे (७४)" -इति, एते अनवगते। “तूतुम्" -इत्यस्य “तूर्णम्”-इति शब्दसमाधिः। “आकृष-- इत्यस्य "उपाकुरुषे”.-इति शब्दसमाधिः । "एता विश्वा०-० दधिपे। चरायते पात्रं धर्मणे तना यज्ञो मन्त्री ब्रह्मोद्यतं वचः ॥" -इति (ऋ० सं०८, १, ६, ६)। इन्द्रस्य वैकुण्ठस्येयमार्षम् । ऐन्द्रे सूक्ते निविद्धानीये महाव्रते महदुक्थे शस्यते। 'एता' एतानि, “विश्वा' विश्वानि, सर्वाणि स्थानानि । त्वमुपागम्य तेन तेन देवतात्मना कुरुष्व निवर्तयेत्यर्थः । आह, कतमानि पुनः स्थानानि ? उच्यते,-"स्वयं सूनो सहसो यानि दधिषे” । हे 'सूनो सहसः' वलस्य पुत्र! 'यानि' एतानि स्वयम्' एच 'दधिषे' धारयसि, तानि त्वमेव कुरुषे । यत एवं कुरुष, अतएव त्वमेव धारयिता स्रष्टा चास्य जगतः । अत एतस्मात् कारणात् 'वराय' वरयितव्याय, 'ते' तव, 'पात्रम्' एतत् सोमपूर्ण प्रदिशामः । 'धर्मणे' धारयित्रे। 'तना' च धनं च, सर्वं तवैव । 'यज्ञः' च कृत्स्नः तवैव । 'मन्त्रः' च कर्मकरणः, तवैव । 'ब्रह्म' चान्नं, तवैव। 'उद्यतं' चैतदनेकप्रकारमपि स्तुतिलक्षणं वचः' तवैव । एवमत्र शब्दमारूप्यात् “तूतुम्”--इत्येष शब्दः तूर्णमित्येवमुप-. पद्यते। करणसम्बन्धाच्च, यद्धि कर्म, तूर्णमेव करणमिष्यते कर्तृभिः तस्मादुपपद्यते। *आकृषे”---इत्यत्रापि यद्धि क्रियते, तदुपगम्याभि- मुख्येनैव स्थित्वा क्रियत इति उप'शब्दोऽत्र भाष्यकारेणाध्याहृतः ॥
। - , मस्तु स्वस्तिवाहनं रथं कुरुध्वं द्रोणाहावं द्राण द्रुममयं * निरुक्तम् * [ पूर्वषट्कम् अत्र "सूनो!. सहसः” इत्येतस्माद्विशेषलिङ्गादाग्नेयीमे- तामृचं कत्वा केचिद् व्याचक्षते, अग्निहि बलेन मथ्यमानो जायत इति। तथाहि प्रकरणविगेधो भवति। सूक्तं ह्य तदैन्द्रम् । ऐन्द्रत्वे त्वस्य “सूनो !” 'सहसः इत्यनयोः पदयोरर्थ- योजना, अधिदेवताभावेन, प्राण इन्द्रो व्यवस्थितः, तस्येतरो यः प्रजासु व्यादिष्टः, प्राणस्तु पुत्रः, इत्येवमुपपद्यते पितृपुत्रभावः । तदुक्तम्,-"प्राणो वा अहमस्मि, प्राणस्त्वं, प्राणः सर्वाणि भूतानि”-इति ॥ “असत्रम् (७५)” -इति, अनवगतम्। विकल्पतश्चानेका- र्थम् । “अंहसः त्राणम्”-इत्यर्थप्रतीतिः । “धनुर्वा कवचं वा"--इत्यभिधेयवचनम्, ताभ्यां हि पुरुषाः सांग्रामिकाः, अंहसस्त्रायन्ते । आख्यानप्रसक्तमच्यते,-"कवचं, कु-अञ्चितं भवात” कुाटलमञ्चितम् , स हि तस्य स्वभावः । "काञ्चितम्” कुटिलीकृतं "भवति । अथवा "कायेऽञ्चितम्" तद्गतं “भवति” ॥ ७ (२५)॥ प्रीणीताश्वान् हितं जाथ स्वस्तिवाहं रथमित् कृणुध्वम् । द्रोणाहावमव तमश्मचक्रमसनकाशं सिञ्चता नृपाणम् ॥ प्रीणीताश्वान् सुहितं जयथ जयनं वो हित- अथवा भवत्याहाव आह्वानादावह आवहनादवतोऽवातितो महान् ५० ४पा० ८ख० * नैगम काण्डम् * भवत्यश्मचक्रमशनचक्रमसनचक्रमिति वांसत्रकोशमंसत्राणि वः काशस्थानीयानि सन्तु काशः कुणातेर्विकुपितो भव- त्ययमपीतरः काश एतस्मादेव सञ्चय आचितमात्रा महान् भवति सिञ्चत नृपाणं नरपाणं कूपकर्मणा संग्राममुपमि- मीते काकुदं ताल्लित्याचक्षते जिह्वा काकुवा सास्मिन् धीयते जिह वा काकुवा काकूयमाना वर्णान्नुदतीति वा काकूयतेर्वा स्याच्छब्दकर्मणा जिह वा जोहुवा तालु तरते- स्तीर्णतममङ्गलततेर्वा स्याद् लम्बकर्मणा विपरीताद् यथा तलं लतेत्यविपर्ययः ॥ ८ (२६) ॥ "प्रीणीताश्वान्० - नृपाणम्”-इति (ऋ० सं० ८, ५, १६, १)। बुधस्य सोमपुत्रस्येयमार्षम् । वैश्वदेवे सूक्ते । प्रीणीत' प्रीणयत यवसोदका दिना। एतान् 'अश्वान्' उपस्थितोऽयं संग्राम इत्यभिप्रायः। प्रीणयित्वैतानश्वानेभिरश्वैरुपजातवीय्यः हितं' “सुहितं” 'जयाथ' “जयथ” “जयनं वो हितमस्तु अहितोऽपि जयः कश्चिद् भवत्येव,-यत्र सुहृद्भातृपुत्रादयो हन्यन्ते । 'स्वस्तिवाहम्' अभिपूजितवाहं 'रथं' 'कृणुध्वम्' “कुरुध्वम्” हे देवाः! एवमेतां सांग्रामिकीमितिकर्त्तव्यतां कृत्वा 'द्रोणं' “द्रुममयम्” एतम् “आहावम्” आहावस्थानीयं रथं कृत्वा, "अवतम्' एतं संग्रामरूपम् । 'अश्मचक्रम्' “असनचक्रं व्यापनचक्र, 99. एवमत्र * निरुक्तम् * [पूर्वषट्कम् व्यापयन्ति हि तत्र क्षिप्तानि चक्राणि शत्रूणाम्। अथवा "असन- चक्रम्” अस्यन्ते हि तत्र चक्राणि । 'अंसत्रकोशम्' “अंसत्राणि" धषि, कवचानि वा “कोशस्थानीयानि” तत्र “सन्तु” । तैः 'सिञ्चत' उत्लिञ्चतैनं संग्रामकूपम्। 'नृपाणं' “नरपाणम्” नरा एव तत्रोदकस्थानीयास्त एवोच्यन्ते। एवमत्र “कूपकर्मणा अस्मिन्नुत्तरेऽर्द्धचे किञ्चित् साधम्र्येण “संग्राममुपमिमीते" मन्त्रद्वक्॥ संग्रामोपमासम्बन्धादुत्सेचनसम्बन्धाच्च "अंसत्र” शब्देन धनुः, कवचं वोच्यत इत्युपपद्यते ॥ ततः "आहावः, आह्वानात्" इत्येतद्यथावस्थितस्यैव मन्त्र- पदस्य निर्वचनम् । आह्वयतेऽस्मिन्नित्याहावः । इदं त्वन्यत्,- "आवहः, आवहनात्”- इति अस्यैव विपरिणम्यते। उह्यतेऽ- स्मिन्नुदक मित्याहवः । “अवतः” कूपः, स हि खन्यमानः “महा- नवातितः” अवाङतितो “भवति” गत इत्यर्थः । 'अंसत्रकोशम्' -इति कोशशब्दो विग्रहप्रसक्तः “कोशः कुष्णातेः"-इति । "विकुषितः” स विविधं कुषितः “भवति” चर्मकोशः, शुषिर- त्वात् । “अयमपीतरो द्रव्यकोशः” “एतस्मादेव” कुष्णातेः । “सञ्चयः” सञ्चयकोशः। स हि “आचितमात्रः” मात्राभिः आचितः “भवति" “महत्त्वात् ॥ "काकुदम् (७६)- इति, अनवगतम् । “तालु~-इत्याचक्षते" इत्यभिधेयवचनम् । “जिह्वा, कोकुवा"-इत्युच्यते, “सा" हि कोकुवाख्या जिह्वा, “अस्मिन्” तालुनि वर्णाभिव्यक्त्यर्थं मुहुर्मुहुः "धीयते” तदेतत् कोकूवाधानं सत् काकुद मित्यभिधीयते । ad ५२०४पा० ख०] * नैघण्टुकं काण्डम् * "जिह्वा कोकुवा” कथं स्यात् ? इति, उच्यते,-शब्दानुकरण- निमित्तं जिह्वायाः कोकुवात्वम् । “कोकूयमाना" तथाविध हि सा कुर्वाणा, तालुनि “वर्णान् नुदति” तस्माद्वा कोकुवां नुदत् काकुदं स्यात् । आह,-जिद्वैव तावत् कस्मात् “जिह्वा"-इत्य- भिधीयते ? इति, उच्यते,-सा हि “जोहुवा” सती जिह्वेत्युच्यते। तथा प्राणिनोऽन्नमात्मन्येव जुह्वति, तया आहयतीति वा जोहुवा। अथ “तालु” कस्मात् ? उच्यते,--"तरते:' धातोः तद्धि “तीर्ण- रम्” इतराङ्गभ्यो विस्तीर्णत्वेन भवति। “लततेर्वा स्यात्" 'विपरीतात्" आद्यन्तवैपयेण,--"यथा तलम्"---इति। समानजा- तीयशब्दोपप्रदर्शनं दृष्टप्रतीत्यर्थम् । अस्यैव लततेलवनार्थस्य "लता"-इत्येतच्छब्दरूपम् “अविपर्ययः” अविपर्यायेण भवति॥ सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूय॑ सुपिरामिव ॥ सुदेवस्त्वं कल्याणदानो यस्य तव देव सप्त सिन्धवः प्राणायानुक्षरन्ति काकुदं सूर्य सुषिरामिवेत्यपि निगमो भवति ॥ मुवस्त्वं कल्याणदेवः कमनीयदेवो वा भवसि वरुण यस्य ते सप्त सिन्धवः सिन्धुः स्रवणाद् यस्य ते सप्त स्रोतांसि तानि ते काकुदमनुक्षरन्ति मूर्मि कल्याणोमि स्रोतः सुषिरमनु यथा बीरिटं तैटीकिर- निरुक्तम् * [पूर्वषट्कम् न्तरिक्षमेवमाह पूर्व वयतेरुत्तरमिरतेवयांसीरन्त्यस्मिन् भांसि वा तदेतस्यामृच्युदाहरन्त्यपि निगमो भवति ॥६ (२७)॥ “सुदेवो असि-सुषिरामिव”-इति (ऋ० सं० ६, ५, ७, २)। प्रियमेधस आर्षम् । अनुष्टुप् । हे “वरुण !” “सुदेवः" शोभनस्त्वमसि देवः। 'यस्य' 'ते' तव, एताः 'सप्त सिन्धवः' अन्तरिक्षनद्यो वा बहुलाहेत्येवमाद्याः, “अश्वा नामासि, तितुत्रा नामासि, अभ्रपत्नी नामासि, मेघपत्नी नामासि, वर्षयन्ती नामासि, पुरस्तादरुन्धा नामासि”-इति सिन्धुनद्य उच्यन्ते सप्तताः । समुद्रा एव वा सप्तसिन्धुशब्देनोच्येरन् । 'काकुदं' तालु, 'अनुक्षरन्ति' सूयं 'सुषिरा' नगरोदकनिःसरणभूमिम् 'इव' सर्वतः समश्नुवतेत्यभिप्रायः॥ एवमत्र सिन्धूनुक्षरणसम्बन्धात् "काकुदं तालु"-इत्युपपद्यते। दुर्वचनत्वं सर्वस्य मन्त्रस्य कृत्स्नाध्ययने प्रयोजनम्। अन्यासु हि ऋक्षु या एतस्मिन् प्रकरणेऽधीताः, तासु समानातेभ्यः पदेभ्योऽन्यान्यपि अनवगत- संस्काराण्यनेकार्थानि वा सन्तोत्युपप्रदर्शनार्थं कृत्स्नेयमृगधीता स्यात्॥ “वीरिटम् (७७)"-इति, अनवगतम्, पक्षेण चानेकार्थम् । भीरस्मिन् तन्यत इति भीतननम्, अन्तरिक्षम् , निरालम्बत्वात् सर्व एव बिभेति। तदेव भीतननं सद् बीरिटमित्युच्यते । अथवा भासोऽत्र नक्षत्रादीनां तन्यन्ते, तदेतद्भास्तननं सद् बीरिट- मित्युच्यते। गणाभिधानपक्षेऽपि यथासम्भवं योज्यम् ॥६ (२७) ।
५१०४पा० १०ख०]] * नैगम काण्डम् * प्रवावृज सुप्रया बर्हिरेषा मा विश्पतोव बीरिट इयाते। विशा मक्तोरुषसः पूर्वहृतौ वायुः पूषा स्वस्तये नियुत्वान् ।। प्रवृज्यते सुप्रायणं बहिरेपामेयाते सर्वस्य पातारौ वा पाल- यितारा वा बीरिटमन्तरिक्षं भियो वा भासेो वा ततिरपि वोपमार्थे स्यात् सर्वपती इव राजानौ बीरिटे गणे मनुष्याणां राच्या विवासे पूर्वस्यामभिहतौ वायुश्च नियुत्वान् पूपा च स्वस्त्ययनाय नियुत्वान् नियुतोऽस्याधा नियुता नियमनाद्वा नियोजनाद्वाऽच्छाभेराप्तुमिति शाकपूणिः परी सीमिति व्याख्यातमेनमेनामस्या अस्येत्येतेन व्याख्यातं सृणिरङ्क,शो भवति सरणादङकुशोऽञ्चतेराकुचिता भवतीति वा । नेदी- य इन्सुण्यः पक्वमेयादित्यपि निगमा भवत्यन्तिकतममनु- शादायात्पक्कमौषधमागन्छत्वित्यागच्छत्विति ॥ १० (२८)।। इति पञ्चमाध्यायस्य चतुर्थः पादः॥ ५, ४ ॥ "प्रवावृजे सुप्रया -नियुत्वान्” इति (ऋ० सं० ५, ४, ६, २)। वसिष्टस्यार्षम्। त्रिष्टुप् । 'प्रवावृजे' “प्रवृज्यते" प्रस्तीर्यत इत्यर्थः। 'सुप्रयाः' “सुप्रयाणं” सुप्रगमनं, यत् सुख- मभिगच्छन्ति देवताः प्रास्तीर्णे तस्मिन् । “आविशपतीच बीरिट इयाते"। "आ इयाते" "विश्पती' “सर्वस्य” जगतः “पानारौ * निरुक्तम् * [पूर्वषट्कम् वा पालयितारौ चा" धात्वन्यत्वमर्थंकत्वम् । 'इव' पादपूरणः, एवेत्येतस्याथै वा। क पुनरवस्थितौ एयाते ? इति, उच्यते,- 'वीरिटे अन्तरिक्षे इत्यर्थः । “अपि वा” अयमिवशब्दः “उपमार्थे" एव “स्यात्" विश्पतीच, “सर्वपती इव राजानौ बोरिटे गणे" अवस्थितो। आह,-कस्य पुनः एयाते ? को वा एयाते ? के वा अर्थ पुरस्कृत्य एयाते ? इति, उच्यते,- एषां" "विशां' "मनुष्याणा" तासु क्रियासु आह्वयमानौ 'अक्तोः' “रात्र्याः” अपगमे सति, 'उषसः' व आगमनकाले 'पूर्वहृतौ' “पूर्वस्याम्” एव “अभिहूतौ" प्रथमे एवाह्वानकाले। 'वायुः “च" 'नियत्वान्' 'पूषा' “च" 'स्वस्तये' “स्वस्त्ययनाय” स्वस्त्ययनार्थम् , एयाते यज- मानस्य ॥ अन्तरिक्षेणैव हि देवता आगच्छन्तोति “बीरिटम् = अन्तरिक्षम्”-इत्युपपद्यते। यस्मिन्नपि पक्षे, गणो बीरिटशब्दे- नोच्यते, तस्मिन्नपि पक्षे, विश पती राजानी सर्वदा गणमध्यगता- वेव आगच्छत इत्युपपद्यत एव ॥ आह.-"नियुत्वान्” कस्मात् ? इति, उच्यते,-"नियुतो- ऽस्याश्वाः" । अथ “नियुतः” कस्मात् ? उच्यते,-"नियमनात् । नीचैहि नियम्यते । “नियोजनाद्वा' नियोज्यन्ते हि रथे । “नियुतो वायोः”-त्येतस्मात् कारणात् विप्रकृष्टोऽपि नियुत्वच्छब्दोवायुश- ब्देनैव संयोजितोभाष्यकारेण, न हिपूष्णो नियुद्भिः सम्बन्धोऽस्ति। "अच्छ (७८)"-इते, एष शब्दो "अभेः” अर्थे भवति । "आप्तुम्"--" इति योऽर्थ उक्तः स्यात्, स एवार्थः अच्छेत्यने- नोक्तो भवति, एवं “शाकपूणिः” आचार्यो मन्यते ॥ , अस्याः- सर PHinineHEIR " रसि। ५० ४पा० १०ख०] * नैगमं काण्डम् * “परि (७६)” “ईम् (८०)” “सीम् (८१)" - "इति” एते "व्याख्याताः" षष्ठऽध्याये निपातोपसर्गप्रकरणे ॥ “एनम् (८२)” “एनाम् (८३)”-इति पदद्वयम् , अस्येत्येतेन” पवयेन “व्याख्यातम्” नवमेऽध्याये। निगमाश्चात्र मृग्या:॥ “सृणिः (८५)" ---इति, अनवगतम्। “अङ्कुशो भवति" -इत्यभिधेयवचनम् । “सरणात्”-इति व्युत्पत्तिः। इति न्याय्यम्। सरति गच्छत्यसो हस्तिशिरलि। “अङ्कुशो- ऽञ्चते: ---इति पर्यायप्रसक्तम्, अञ्चत्यसौ गच्छति हस्तिशि- 'आकुचितो भवतीति वा”। स ह्याभिमुख्येन कुटिली. भूता भवति॥ 'युनक्त सीरा वियुगा तनुध्वं कृते योनौ वपतेह चीजम् । गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्मृण्यः पवमेयात् ॥” --इति (य. वा० सं० १२, ६८)। बुधस्ये यमार्पम् । त्रिष्टुप् । वैश्वदेवो। ऋत्विकस्तुति, अग्नौ मध्यमदान्तयोजने सीरा- नुमन्त्रणे विनियुक्ता। 'युनक्त' योजयत, देवाः योजयितारः, 'सीरा' सीराणि, 'वि' 'तनुध्वम्' वितनुत च 'युगा' एतानि युगानि, 'कते' कृष्ट 'इह' अस्मिन् 'योनी' क्षेत्रे 'चीज' 'वपत' । तथा 'च' वपत, यथा 'गिरा' वाचा यत् प्रार्थयामः, तत् 'श्रुष्टिः' क्षिप्रमेव 'असत्' भवेत् , 'सभराः' च अतिफलभारवत्य एताः स्युरोषधयः 'नः' अस्माकम् । किञ्च, नेदीय इत्पृण्यः' सृणि- रङकुशो भवति" यावति प्रदेशेऽवस्थितमाकृष्टुं शक्नोति, ततोऽपि - - 3 १ an नेदीयः। an ५७४ * निरुक्तम् * [पूर्वषट्कम् अत्र 'पक्कम्' औषधं प्रचुरत्वात् ओषधीनाम् ; 'एयात्' आगच्छेदस्मान् प्रति, तथा शीघ्रं बहु च वपतेत्यर्थः। एवमत्र नेदीय इत्यनेन सम्बन्धात् "मृणिरङ्कुशो भवति"-इत्युपपद्यते । अन्ये तु ब्रुवते। तथा वपत, यथा प्राग् दात्राकर्षणान्मुष्टिः पूयेतेति दात्रमेवास्मिन् पक्षेऽङ्कुशशब्देनोच्यते। तदाकृष्टश- स्यस्य अङ्कुशाभावात् दात्राकर्षणात् प्राक् “अन्तिकतम” सन्नि- कृष्टतममौषधं पक्कं आगच्छेदिति युष्माभिरेवमुक्ते सति एतत् वयमाशास्महे, 'पक्कमौषधमागच्छत्विति” ॥ अध्यायसमाप्त्युपप्रदर्शनार्थाय द्विरभ्यास इति ॥ १० (२८)॥ इति निरुक्तवृत्तौ दशमाध्यायस्य चतुर्थः पादः ॥ ५, ४॥ ऋज्वर्थायां निरुक्तवृत्ती जम्बूमार्गाश्रमवासिन आचार्यभगवदुर्गस्य कृतौ दशमो- ऽध्यायः (पञ्चमोऽध्यायः) समाप्तः ॥५॥ mms- १ २ ३ ५ ६ ॥ १० ११ १२ १३ १८ १६ (सस्निमसश्चन्तीनयस्यवराहोगायन्तित्वापवित्रंपुरुत्वा- किमित्तेप्रतत्तेऽग्निन्नरएकयोपान्तमन्युरुवंश्यप्सराउतासिसइ- नियत्कदामपत्नीवन्तःसुगुरसद्वकश्चन्द्रमाअरुणोमाय-इ- न्द्राग्नीमानःसमस्यहविषाजारः :पृथक्झायन्प्रीणीतासुदेवःप्रवा- वृजेऽष्टाविंशतिः।।) इति निरुक्त पूर्वषट्के पञ्चमोऽध्यायः ॥ ५ ॥ २३ ३५ अथ षष्टाध्यायस्य प्रथमः पादः। ॐ३म् । त्वमग्ने धु भिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्व- मश्म नस्परि। त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥ त्वमग्ने छ भिरहोभिस्त्वमाशुशुक्षणिराशु इति च शु इति च क्षिप्रनामनी भवतः क्षणिरुत्तरः क्षणो- तेराशु शुचा क्षणातीति वा सनातीति वा शुक शोचतः पञ्चम्यर्थ वा प्रथमा तथाहि वाक्यसंयोग आ इत्याकार उपसर्गः पुरस्ताच्चिकीर्पितज्ञ उत्तर आशु शोचयिषुरिति शुचिःशाचतज्वलतिकर्मणाऽयमपीतरः शुचिरेतस्मादेव निष्- षिक्तमस्मात् पापकमिति नरुक्ताः ॥ १ ॥ “आशुशुक्षणि: (१)" --इति, अनवगतम् । “आशु शुचा सनिता वा” स्यात् , “आशु शुचा क्षणिता वा” । “त्वमग्ने धुभि- स्त्वमाशुशुक्षणिः -०जायसे शुचिः॥” इति (ऋ० सं० २, ५, १७, २)। गृत्समदस्येयमार्षम् । प्रातरनुवाकाश्विनयोः शस्यते।
५७६ * निरुक्तम् * [पूर्वषट्कम् जगती, आग्नेयी। हे भगवन् ! 'अग्ने !' 'त्वं' 'युभिः' अहोभिः निमित्तभूतैः पौर्णमास्यायः एषां मध्यमानो नुणां जायसे, पौर्ण- मास्याममावस्यायां वाधीतेत्युक्तम् । किञ्च, 'त्वम् आशुशुक्षणिः' । “आशु इति च शु इति च” एते “क्षिप्रनामनी भवतः”। शु- इत्येतदत्र प्रासङ्गिकमन्यत्रोपकारं करिष्यतीति । तद्यथा,-"शुनो वायुः, शु एत्यन्तरिक्षे" -इत्येवमादौ । 'आशुशुक्षणिः' इत्येतेषां पञ्चाना-क्षराणामाद्य तावदक्षरद्वयम् 'आशु'-इत्येतत् क्षिप्रनाम । अधुना 'शु'---इत्येतत् तृतीयमक्षरमतिक्रम्य उत्तरमक्षरद्वयं निराह, --"क्षणि:"-इत्येष व्यक्षरः शब्दः “क्षणोतेः” धातोः ( तना उ० ) हिंसार्थस्य । “सनोतेः (तना० उ०)” वा सम्भजनार्थस्य । मध्यमं तु 'शु'- इत्येतदक्षरं शुचेः ( भू० ५०) दीस्यर्थस्य । अथ कोऽर्थः सर्वैरप्येतैरक्षरैरभिधीयते? इति, उच्यते,-"आशु" “शुचा" दीप्त्या “क्षणोति” हिनस्ति-“इति” आशुशुक्षणिः, अग्निः । अथवा “आशु” “शुचा" “सनोति” सम्भजति-"इति" आशुशुक्षणिः, अग्निः। क्षणोतेः सनोतेश्च विकल्पः । “शुक् शोचतेः”-इति। पञ्चानामक्षराणामाशुशुक्षणिशब्दे तृतीयमक्षरं 'शु'-इति, तस्यैतन्निर्वचनम् । एवं तावदयमेको निर्वचनप्रकार: आशुशुक्षणिशब्दस्य । अथवैवमन्यथा स्यात् “पञ्चम्यर्थे” इयं “प्रथमा विभक्तिः । 'आशुशुक्षणे:'-इति यदुक्तं स्यात् , एतदुक्तं भवति-'आशुशुक्षणिः' - इति । आह,-किं पुनः कारणं प्रथमैषा सती पञ्चमीत्वेन विपरिणम्यते ? इति, उच्यते,-"तथाहि वाक्यसंयोग:" तेन प्रकारेण पञ्चमीत्वेन विपरिणामे पञ्चमीत्वेन ६१०१पा० १२०] ॐ नैगम काण्डम् * विपरिणतस्य शब्दस्यानेन वाक्येन संयोगेऽर्थसङ्गतिर्भवति न. यथावस्थितस्य । आह, -कथं कृत्वा ?- इति, उच्यते, त्वम- भ्यस्त्वमश्मनस्परि । त्वं वनेभ्य स्त्वमोषधीभ्यः” इत्येतान्य- क्षराणि वहूनि पदानि पञ्चम्यन्तानि, तस्मादनेनापि पञ्चम्यन्तेनैव भवितव्यमित्युपपद्यते पञ्चमोत्वेन विपरिणाम इति । आशुशुक्ष- णिरित्येतस्थाक्षरपञ्चकस्य य एषः पुरस्तात् “आ-इति आकार:” एप तावत् “उपसर्गः”। यः पुनरेप शुशुक्षणिरिति “उत्तरः” अनन्तरश्चतुरक्षरः शब्दः, एषः चिकीर्षितजः” चिकीप्तिादथा- जातः सन्नन्तादित्यभिप्रायः। अथ पुनः समस्तस्य कोऽर्थः ? इति, उच्यते,-यः कश्चित् “आशुशोचयियुः” आदिदीपयिषुः भवति, स आशुशुक्षणिः यजमान इति यावत् तस्मादाशुशुक्षणेः त्वं है भगवन्नाने ! 'जायसे' । किमेतावदेव ? नेत्युच्यते, त्वम् 'अभ्यः' जायसे, वैद्युतात्मना। त्वमेव च 'अश्मनः' 'परि' परितः सर्वतः, इतरेतराभिघाताज्जायसे। त्वं 'वनेभ्यः' दारुभ्यः। त्वम् 'ओषधोभ्यः' शरादिभ्यः। त्वं 'नृणां' मनुष्याणां हे 'नुपते' मनुष्यपते ! जायसे' अभिव्यज्यसे। 'शुचिः' दीप्त इत्यर्थः॥ “शुचिः शोचतेः” ज्वलत्यर्थस्य । “अयमपीतरः शुचिः लौकिकः “एतस्मादेव”-इति वैयाकरणा मन्यन्ते, नैरुक्ताः पुनः निःपूर्वान् सिञ्चतेरितरः शुचिरित्येवं मन्यन्ते, “निः” निष्कृष्य हि “अस्मात्” “पापकम्” अशुचित्वम् , अन्यस्मिन् "सिक्त" भवतीत्येवम् । अत्राग्निर्वाच्य आशुशुक्षणिरन्यो वा यः कश्चिदग्नि a * निरुक्तम् * . [पूर्वषट्कम् मथित्वा तेन किञ्चिदादिदीपयिषुर्भवति, स वा आशुशुक्षणि- रिति॥१॥ इन्द्र आशाभ्यस्परि सर्वाभ्या अभयं करत् । आशा दिशो भवन्त्यासदनादाशा उपदिशा · भवन्त्यभ्यशनात् काशिमुष्टिः प्रकाशनान्मुष्टिर्मोचनाद्वा मेाषणाद्वा मोहनाद्वा। इमे चिदिन्द्र रोदसी अपारे यत् संगृभणा मघवन् काशि- रित्त । इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यी विरो- धनाद्रोधः कूलं निरुणद्धिस्रोतः कूलं रुजतेविपरीताल्लाष्टोऽ- विपर्ययेणापारे दूरपारे यत् संगृभ्णासि मघवन् काशिस्ते महान् । अहस्तमिन्द्र सम्पिणक्कुणारुम् । अहस्तमिन्द्र कृत्वा सम्पिड्ढि परिक्वणनं मेघम् ॥ २ (१) ।। । "आशाभ्यः (२)”-इति, अनवगतमनेकार्थञ्च। “आसद- नात्" इत्यवगमः । “इन्द्र ०-० करत्। जेता शत्रून् विचर्षणिः ॥” इति (ऋ० सं० २, ८, ६,२)। गृत्समदस्ये. यमार्षम् । गायत्री । ऐन्द्री। अभिप्लवस्य द्वितीयेऽहनि प्रउगे शस्यते । 'इन्द्रः' 'आशाभ्यः' दिग्भ्यो हि यत् भयमुत्पद्यते जगताम् , 'सर्वाभ्यः' नानादिनिवासिभ्यो भूतेभ्यः 'अभयं' 'करत् करोत्वित्यर्थः। आह,-किलक्षणः पुनरसाविन्द्रः ?- इति, 'जेता शत्रून्विचर्षणिः' अधिद्रष्टा सार्वभौतिकानां कर्मणाम् ॥
६०१पा०२ख०] * नैगम काण्डम् * ५७६ वगमः। maan "आशा दिशो भवन्ति, आसदनात्” आभिमुख्येन हि ताः सर्वत्र सन्ना इव भवन्ति । “आशा उपदिशो भवन्ति, अभ्यशनात्” । अभ्यश्च वते हि ताः परस्परेणैव ॥ "काशिः (३)"-इति, अनवगतम्। 'काशयितव्यः'-इत्य- "मुष्टिः” -इत्यभिधेयवचनम् । 'प्रकाशनात्"- इति निर्वचनम् । “मुष्टिः” -इत्येतत्पर्य्यायप्रसक्तं निरुच्यते,- “मोचनाद्वा” मुच्यते ह्यसौ, “मोपणाद्वा” तेन हि मुष्यते, “मोह- नाद्वा” तत्र हि मुह्यति परः। किमेतन्मुष्टौ ? इति। “उताभये पुरुहूत श्रवोभिरेको दृढमवदो वृत्रहा सन। इमे चिदिन्द्र रोदसी अपारे यत् संगृभणा मघवत् काशिरित्ते ॥”---इति (ऋ० सं० ३, २, १, ५)। विश्वामित्रस्यार्षम्। त्रिष्टुप् । ऐन्द्री। पृष्टया- भिप्लवयोः द्वितीयपञ्चमयोरहोः सम्पातसूक्तं नाम, तत्रेयं शस्यते, अच्छावाकेन माध्यन्दिने सवने, सहदानुमलातृण उद्धृहरक्ष इत्येताश्च तत्रैव। अपि भयवति संग्रामे, 'अभये' अभये इव । हे 'पुरुहूत!' 'एकः' अपि 'सन्' असहाथः, 'श्रवोभिः' श्रवणीयैः शब्दैरनर्धा, हविभिर्वा तृप्तः सन् 'दृढ़' समर्थम् 'अवदः' 'वृत्रहा' शत्रुहेत्यर्थः। किमेतावदेव माहाभाग्यम् ? नेत्युच्यते, इदं चान्यत्-'इमे चित्' इमे अपि 'रोदसी' “द्यावापृथियो” एवमपि 'अपार' “दूरपारे” सती 'यत्' “संगृभ्णासि” त्वमहो! 'काशिः' 'ते' “महान्” ॥ एवमत्र संग्रहणसम्बन्धात् “काशि" शब्दो मुष्ट यभिधायक इत्युपपद्यते ॥ प्रसक्तानुप्रसक्तमुच्यते,-ये एते “रोदसी" एते "रोधसी"। , * निरुक्तम् * [पूर्वषटकम् किं कारणम् ? “चिरोधनात्" विविधानि हि भूतान्येते रुन्धः । “कूलम्” अपि “रोधः” उच्यते, तदपि हि "स्रोतः” उदकलो- तांसि “निरुणद्धि”। “कृलं रुजतेः (तु०प०) धातोः, तत् पुनः “विपरीतात्” वैपरीत्येन। “लोष्टः” पुनरस्यैव धातोः "अविपर्ययेण" ॥ “कुणारुम् (४)”-इति, अनवगतम्। मेघोऽभिधेयः। “क्वणनम्” इति शब्दसमाधिः। “सहदानु पुरुहूत क्षियन्तम- हस्तमिन्द्र सम्पिक कुणारुम् । अभि वृत्रं वर्द्धमानं पियारुमपा- दमिन्द्र तवला जघन्थ ॥” इति (ऋ० सं० ३, २, २, ३)। 'सह'-इत्युदकनाम, उदकदातारं मेघम् । हे 'पुरुहूत !” “इन्द्र!” 'क्षियन्तम्' अन्तरिक्षलोके वसन्तं गच्छन्तं वा 'अहस्तम्' अप्रती- कारसमर्थं कृत्वा ततः पुनः सम्पिग' “स स्पिण्डि” सञ्चूर्णय । 'कुणारु' “परिक्वणन” शब्दकारिणमित्यर्थः। एवं तावदेनं. कुरु । अथ पुनः योऽयमपरो वृत्रः, वर्तितो, मेघः। एनमप्यु: परि 'वर्द्धमान' 'पियारु' हिंसनशीलम् , 'अपाद' गमनहीनं कृत्वा तत एनं तवसा' बलेन 'जघन्थ' जहीत्यर्थः ॥ एवमत्र बधाधि. कारात् मेघाधिकाराच्च “कुणारु' = क्वणनशीलम्"-इत्युः पपद्यते॥ २ (१)॥ अलातृणो चल इन्द्र ब्रजो गाः पुगहन्तीर्भयमानो व्यार। सुगान् पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः॥ अलातृणोऽलमातर्दनो मेघा बलो ।
५८१ अ० १पा० ३ख०] * नैगमं काण्डम् * वृणोते जो व्रजत्यन्तरिक्ष गोरतस्या माध्यमिकाया वाचः पुरा हननाद्भयमाना व्यार। सुगान् पथो अकृणोन्निरजे गाः। सुगमनान् पथो अकरोन्निरजनाय गवाम् । प्राव- न्वाणीः पुरुहूतं धमन्तीः। आपो वा वहनाद्वाचा वा वदना बहुभिराहतमुदकं भवति धमतिर्गतिकर्मा ॥ ३ (२)॥ teammar amasure 'अलातृणः (५)" ---इति, अनवगतम्। “अलमातर्दनः" इत्यवगमः। 'अ-लातृणो बल -उधमन्तीः ॥” - इति (ऋ० सं० ३, २, २, ५)। हे 'इन्द्र !' योऽयम् 'अलातृणः' “अलमात- दनः” पर्याप्तिः आतर्दयितुम् । उदकपूर्णः 'वलः' मेघः. स हि आवृणोत्युदकम् । 'बजः' च, स एव अन्तरीक्षे व्रजताति, गुणा- न्तरत्वादज्ञामि। आह,-कि तस्य ? इति। एप 'गोः “एतस्याः माध्यमिकाया वाचः” भावत्कायाः शब्दमुपश्रुत्य 'पुरा' एव 'हन्तोः' "हननात्" भवतो बधात् 'भयमानः' बिभ्यत् , असह्योऽ- यमस्य वध इति मन्यमानः, 'व्यार' विश्लथीभवतीत्यर्थः। स त्वमनेनैव प्रकारेण एनं मेघं विदारयन् , 'सुगान्' “सुगमनान्" 'पथः' मार्गान् , 'अकृणोत्' करोषि, कृतवान् वा “निर्गमनाय" एतासां मेघोदरान्तर्गतानां "गवोम्" अपाम्, विदीर्ण हि तस्मिन्मेधे सुखं ताः तस्मान्मेघोदरान्निर्गच्छन्ति। किञ्च, निर्गताः सत्यः ताः 'वाणी:' आपः 'प्रावन्' प्रकर्षणावन , रक्षन्ति, 'धमन्ती: गच्छन्त्यः यथा निन्नमभिसरमाणः, 'पुरुहूतम्' उदकम् । यदेतदुद- ५८२ * निरुक्तम् * [पूर्वषट्कम् कस्थानं तड़ागनद्यादि, तत्प्रति धमन्तीः तदेव रक्षन्ति, तद्धि उपदस्येत्, यदि न पतेरंस्ता आपः । एवमापः 'वाणीशब्देनोक्ताः, ताः हि “वहनात्” वाणीरित्युच्यन्ते। “वाचो वा वदनात्" वाणीरित्युच्यन्ते। यदा विदीर्णात् मेघानिर्गतमुदकं पुरुहूतं भवति वर्षभावेन, अथ तदा तेषामेव प्राणिनामहो दृष्टमिति-एव- माद्या वाणीः वाचो धमन्तीः सुखेभ्यो निर्गच्छमानाः, तदेवोदकं प्रावन् प्रागच्छनित्यर्थः ॥ एवमत्र “पुरा हननाद् भयमानो व्यार" -इत्यनेन सम्बन्धात् “अलातृणः = मेघः” इत्युपपद्यते ॥ “बहु भेः” प्राणिभिः “आहूतः” आहूयते-ममेदं ममेदमिति, तस्मात् पुरुहूतम् “उदकं भवति” । “धमतिः” एषः “गतिकर्मा" एव, नात्र स्तुतिकर्मेत्यभिप्रायः। स्तुतिकर्मस्वपि हि धमतिः पठितः । (१२), नदति “धमति ६), सरति"-इति ॥ 'निरजे गाः' -इत्यत्र केचित् पशुगव्य एता:'-इति व्याचक्षते, तासां हि इन्द्रेण विदारितेषु मेघेषु सुगमनाः पन्थानो निर्गमनाय भवन्ति, सुयवसत्वान्नीरजस्कत्वाच्च । 'प्रावन् वाणीः'- इत्यत आरभ्य समानमेव पूर्वेण ॥ ३ (३) ॥ RAMAnta , उद्धृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि । आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषि हे तिमस्य ॥ उद्धर रक्षः सहमूलमिन्द्र मूलं मोचनाद्वा माषणाद्वा महिनाद्वा वृश्च मध्यं प्रति शृणीह्यग्रमग्रमागतं ॥
अ० ९ख०४पा०] नैगमं काण्डम् 8 भवत्या कियतो देशात्सललूकं संलुब्धं भवति पापकमिति नरुक्ताः सररूकं वा स्यात्सत्तरभ्यस्तात्तपुषिस्तपतेह तिर्हन्तः । त्यं चिदित्या कत्पयं शयानम् । सुग्वपयसम् । मुखमस्य पयः। विस्रह आपो भवन्ति विस्रवणात् । क्या इव रुरुहुः सप्त विवह इत्यपि निगमो भवति। वीरुध ओषधयो भवन्ति विरोहणात् । वीरुधः पारयिष्ण्व ? इत्यपि निगमा भवति। नक्षदाभमश्नुवानदाभमभ्यशनेन दभ्नोतीति । नक्षदाभं ततुरिं पर्वतष्ठामित्यपि निगमो भवत्यस्कृधोपुरकृध्विति द्वस्वनाम निकृत्तं भवति । अस्कृघायुरजरस्वा नित्यपि निगमो भवति निभा निश्रथ्यहारिणः ॥ ४ (३)॥ यो - 'सललूकम् (६)”-इति, अनवगतम्। “संलुब्धम् - इति शब्दसमाधिः, “सररूकम्”-इति “वा" । “उद्धृह रक्षः०-० हेतिमस्य ॥” इति (ऋ० सं० ३.२, ४, २)। “उद्धर” एतत् रक्षः' “सहमूलम्' हे 'इन्द्र !' 'वृश्चा' अस्य छिन्धि 'मध्यम्' 'अन' च अस्य 'प्रति शृणीहि' प्रतिजहीत्यर्थः। किञ्च, 'आ कीवतः' 'आ कियतः" आ कस्मात् “देशान्” एतदुद्धर, यस्मात् वित- यमाणा अपि न शक्नु युर्वितर्कयितु-कियतोऽपि प्रदेशादे- तदुद्धृतमिति । यथा न किञ्चिदप्यस्यावशिष्यते, तथैतदुद्धरेत्य- * निरुक्तम् * [पूर्वषट्कम्, भिप्रायः। तथा चैतदुद्धृत्य 'सललूक' “संलुब्धं" संमूढमप्रति- पक्षं कुरु । अथवा “पापकं”. पापतरमसत्तः कुरु-“इति" एतत् "नरुक्ताः” नरुक्तपक्षेण । अथवा “सररूकं” सरणशीलं "वा" अशनशीलं प्रच्युतं स्वदेशात् एतत् कुरु। तत एतत् उन्मूलं कृत्वा स्थानप्रच्युतायास्मै रक्षसे 'ब्रह्म वषे ब्राह्मण द्वेष्ट्र 'तपुषि' तापयित्री 'हेति' हन्त्रीम् , आयुधजातिम्, मूलमध्यान- च्छेदनाय पुनः पुनः 'अत्य' क्षिरेत्यर्थः ॥ एवमत्र सललूकमिति लुभेर्मोहनार्थस्य (तु०प०) शब्दसारूप्यात् संलुब्धमित्युपपद्यते। "सत्तैः” (भू. ५०) अप्यत्र सारूप्यमस्ती ते “सररूकंवा स्यात्" इत्युक्तं भाष्यकारेण । रसोविशेषणश्चैतत्, तत्य हि सम्मोहो वा नाशनं वाभीष्टमिति ॥ "कल्पयम् (७)" --इति, अनवपतम् । कपयम्'–इत्यवगमः। कपयमित्यवगमे “सुखपयसम्" इति पर्यायेणाभिधेयवचनम् । मधुरोदको यो मेघः, सोऽभिधेयः। किं कारणम् ? “सुखं" हि सुखोत्पादनम् “अस्य” “पयः” मधुरत्वात्। “त्यं चिदित्था करपयां शयानमसूर्ये तमसि वावृधानम्। तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूा जघान ॥” इति (ऋ० सं० ४, १, ३२, ६)। गातुर्नामात्रेयः, तस्येयमार्षम् । 'त्यं तं मेघम् ‘इत्था' अमुना प्रकारेण, अथवा अमुस्मिन्नन्तरिक्षलोके 'कत्पयं' सुखोदक 'शयानम्' असूयं तमश्च कृत्वा 'वावृधानं' वर्द्धमानम् । 'मन्दानः' मन्दमानः, 'वृषभः' वर्षिता, 'इन्द्रः' 'सुतस्य' अभिषुतस्य, सोमस्य स्वमंशं पीत्वा। ततः 'उच्चैः' बज्रम् “अवगूर्य 'जधान' । ७ अ० १पा० ४ख०] नैगमं काण्डम् । सुखपयः = मेघः” Re- य एवगुणयुक्त इन्द्रः, सोऽस्माकमिदं नाम करोत्वित्येवमा- शीर्योज्या ॥ एवमत्रेन्द्रो जघानेति अनेन सम्बन्धात् “कत्पयः = इत्युपपद्यते, तस्य बधस्याभीष्टत्वात् ॥ “विस्नुहः (८)”-इति, अनवगतम् । 'विरूवः'--इत्यवगमः । "आपो भवन्ति" --- इत्यभिधेयवचनम् । "विस्त्रवणात”-इति हेतुनिर्देशः। “वैश्वानरस्य विमितानि वक्षसा सानूनि दिवो अमृतस्य केतुना। तस्पेदु विश्वा भुवनाधि मूर्द्धनि घया इव रुरुहुः सात विस्नुहः ॥” इति (ऋ० सं० ४, ५, ६, ६)। भरद्वाज- स्येयमार्षम्। प्रातरनुवाकाश्विनयोः शस्यते। 'वैश्वानरस्य' भगवतः, अग्नेः, 'अमृतस्य' अमरणधर्मिणः, 'केतुना' कर्मणा, 'चक्षसा' चक्षुषा दर्शनेन 'दिवः' अपि यानि 'सानूनि' समुच्छ्रि- तानि स्थानानि, तानि विमितानि' विनिर्मितानीत्यर्थः । अग्नि. प्रकाश्यमान विषयो हि लोकः कर्मणि प्रवर्त्तते साधुन्यसाधुनि वा। साधुभ्यः साधुना च, पापेभ्यः पापेन च सार्वलौकिकेन कर्मणा स्वकर्मफलभोगायेदं सर्व विनिर्मीयत इत्यनयापेक्षयोक्तम्, “वैश्वानरस्य चक्षुषा केतुना च दिवोऽपि सानूनि निर्मितानि" -इति, अग्निरेव हि वाच्यधिदेवताभावेनाव स्थितः सर्वमिदं ख्यापयति, ततः कर्म प्रतायते। तदुक्तम्,--अग्निर्वाग भूत्वा मुखं प्राविशत्' इति । किञ्च, 'तस्येदु विश्वा' तस्यैच वैश्वा- नरस्य पृथिवीभावेनावस्थितस्य । अयं वाग्निर्वैश्वानर इत्युक्तम् , 'विश्वा भुवना' विश्वानि भुवनानि, सर्वभूतभावयितृण्युदकानि । “भुवनम्" इति ह्य दकनामसु पठितम्। 'मूर्द्धनि' उपरि CA- ५८६ * निरुक्तम् * [पूर्वषट्कम् 'वया इच' शाखा इव "रुरुहुः सप्त विनुहः”। 'सप्त' सर्पणाः, 'विस्नुहः' विविधस्त्रवणाः भूत्वा ततः शाखा इव 'रुरुहुः' अस्यां पृथिव्यां नद्यादिभावेन, ततः शाखा इव ह्यताः पृथिव्या उपरि, यथानिम्न विस्वमाणा आपो लक्ष्यन्ते-इत्येतद् दृष्ट वैवमवोचत्-“तस्येदु विश्वा० - सप्त वित्रुहः” इति ॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च "विनुहः =आपः =आपः” “भवन्ति" -इत्युपपद्यते। 'भुवन' शब्देन भूतान्येवोच्यन्त इति केचिद् वर्णयन्ति, चतुर्विधश्च भूतग्रामः, विनुहश्च बया इव रूरुहुः पृथिव्या उपरीति । 'सप्त'शब्देनापि समुद्रानेव केचिद् वर्णयन्ति, ते हि पृथिव्याः शाखा इव लक्ष्यन्ते, विस्रवन्ति च ॥ "वीरुधः (6)"-इति, अनवगतम् । "विरोहणात्"- इत्यवगमः । "ओषधयो भवन्ति"-इत्यभिधेयवचनम् । "विरोहणात्” -इति हेतुनिर्देशः । "ओषधीः प्रतिमोदध्वं पुष्प वतीः प्रसूवरीः। अश्वा इव सजित्वरीवर्वीरुधः पारयिष्ण्वः ॥' इति (ऋ० सं० ८, ५, ८, ३)। भिषज आथर्वणस्येयमार्षम् । ओषधिसूक्ते । अनुष्टुप् । हे 'ओषधीः' ओषधयः ! 'प्रतिमोद- ध्वम्' इमं रुग्णं प्रति, अस्मान् प्रति वा। 'मोदध्वम्' मुदिताः हृष्टाः भवन्तु। कीदृश्यो यूयम् ? 'पुष्पवतीः' पुष्पवत्यः, 'प्रसू- वरीः' प्रकर्षेण सूयन्ते उपभोगायेति प्रसूवरीः । याश्च पुष्पवत्यो याश्च फलवत्यो याश्चाफला याश्चापुष्पाः, ताः सर्वाः। 'अश्वा इव' वड़वा इव 'सजित्वरी:' सह जैव्यः, 'वीरुधः' सर्वरोगान् जित्वा अस्माकमायुषः 'पारयिष्यः' पारयिभ्यः सन्तु ॥ एवमत्र ६०१पा०४ख.] * नैगम काण्डम् * Pa- " “पुष्पवतीः प्रसूवरी:"-इत्येतस्मात् विशेषलिङ्गात् “वीरुधः- ओषधयः” “भवन्ति" -इत्युपपद्यते॥ "नक्षदाभम् (१०)"-इति, अनवगतम् । 'न क्षणदाभम्'- इत्यवगमः। “अश्नुवानदाभम्" -इति पर्यायेणाभिधेयवचनम्। अभ्यशनेन अभिव्यापनेन यो दम्नोति हिनस्ति, स नक्षदामः। “तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः । नक्षद्दाभं ततुरि पर्वतेष्ठामद्रोधवाचं मतिभिः शविष्ठम् ॥” इति (ऋ० सं० ४, ६, १३, २)। भरद्वाजस्येयमार्षम्। ऐन्द्री। त्रिष्टुप् । सम्पातसूक्ते माध्यन्दिने ब्राह्मणाच्छसिनः शस्त्रे शस्यते। “तमीमहे” इति इयञ्च तत्रैव । 'तम्' इन्द्रम् 'नः' अस्माकम् , ये 'पूर्व' 'पितरः पितृगणाः, 'सप्त' सप्तसङ्याकाः, ये पुराणेषु पठ्यन्ते। अथवा 'सप्त' 'सृप्ताः' पूर्वतरमस्माल्लोका- दमुं लोकम् , ते च 'नवग्वाः' नवगतयः, अभिनवा हि तेषांगतिः, अर्द्धमासेऽर्द्धमासे भवति पितृयज्ञं प्रत्यागन्तुम्। अथवा नवनी- तगतयः नवनीते हि तेषां मनसो गतिर्भवति,- इदमस्माकं स्यादिति, “स्वयं विलीनं पितॄणाम्" इति, विप्राः प्राप्तप्रज्ञाः, पितृलोकेऽवस्थिताः। 'मतिभिः' 'अभि- वाजयन्तः' स्तुवन्त आसते। किलक्षणं पुनरिन्द्र मतिभिरभिवा- जयन्त आसते ? इति, उच्यते,-'नक्षद्दाभम्' योऽभिव्यापनमा- त्रेणापि दभ्नोति, किमुत वेधेन ? तम्। 'ततुरिम्' यश्च त्वरण- शीलः, तम् । 'पर्वतेष्ठाम्' यश्च मेघस्थायो, तम् । 'अद्रोधवाचम्' यस्य चाद्रोग्धव्या वाक् अनतिक्रमणीया, तम्। 'शविष्ठम्' यश्च बलिष्ठः, -इत्युक्तम् । विप्रासः * निरुक्तम् * [पूर्वकषम् तम् । य एवगुणविशिष्ट इन्द्रः, तं मतिभिरभिवाजयन्त आसते; सोऽस्माकमिदं नाम करोत्वित्येवमाशीर्योज्या ॥ एवमत्र शब्दसा रूप्यादपपत्तश्च योऽभ्यशनेन दभ्नोति, स नक्षद्दाभ इत्युच्यते ॥ “अस्कृधोयुः (११)"-इति, अनवगतम्। “अकृथ्वायुः" --इत्यवगमः । “कृधु"-इति “हस्वनाम” तद्धि “निकृत्तम्" इच “भवति” ह्रस्वत्वात् । तस्य अकारेण प्रतिषेधे कृते 'अकृधु इति भवति । “तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः । यो अस्कृयोयुरजरः स्वर्वान तमाभर हरिवो मादयध्यै॥" ---इति (ऋ० सं०४, ६, १३, ३)। 'तम्' वयमात्मनः पुत्रम् 'ईमहे' याचामहे। 'हरिवः !' त्वाम्। 'इन्द्रम्' ईश्वरम्। आह, -यः किंलक्षणः पुत्रः ? इति, उच्यते,-सः 'अस्य' 'रायः' धनस्य परिपालने भोगे च समर्थः। किंलक्षणस्य पुनर्धनस्य ? इति, 'पुरुषीरस्य' बहुवीरैस्तद्वतः, 'नृवतः च दासैस्तद्वतः, 'पुरुक्षोः च बहुनिवासस्य, अनेकप्रकारस्येत्यर्थः । न च परिपालनसमर्थ एव य. केवलमल्पकालः, तमीमहे, किन्तर्हि ? 'यः' व 'अस्कृ- धोयुः' अकृथ्वायुः, दीर्घायुरित्यर्थः । 'अजरः' च, यो दृढ़शरीर इत्यर्थः । 'स्वर्वान्' च, यः सुष्टु शत्रूणामीरयिता। यः एवङ्- गुणविशिष्टः पुत्रः 'तम्' 'आभर' आहर। 'हरिवो मादयध्यै अस्माकमात्मनश्च मदनाय तर्पणायेत्यर्थः ॥ एवमत्र “अस्कृधोयुः” -इत्यनेन दीर्घायुरुच्यते, तस्याभीष्टत्वात् , शब्दसारूप्याञ्च ॥ “निम्भाः (१२)-इति, अनवगतम्। “निश्रथ्यहारिणः" इत्यवगमः, निश्लथया दृढ़या गत्या हरन्तः ॥ ४ (३)॥ CHAM ? ॥
Rom । । 'देअ० १पा० ५ख०] * नैगम काण्डम् * आजासः पूषणं रथे निशम्भास्ते जनश्रियम् । देवं वहन्तु विभ्रतः॥ बिभ्रतः॥ आवहन्त्रजाः पूषणं रथं निश्रथ्यहारि- गस्ते जनश्रियं जातश्रियं बंदुक्थो महदुकथो वक्तव्य- मस्मा उक्थमिति बृबदुकथो वा। बृबंदुक्थं हवामह इत्यपि निगमो भवति ऋदूदरः सोमो मृदूदरो मृदुरुदर- विति वा । ऋदरेण सख्या सचेयेत्यपि निगमो भवति ऋदूपे इत्युपरिष्टाद् व्याख्यास्यामः । पुलुकामः पुरुकामः । पुलुकामो हि मर्त्य इत्यपि निगमो भवति । असिन्वती असङ्खादन्त्यो॥ असिन्वती बप्सती भूर्य्यत्त इत्यपि निगमो भवति । कपनाः कम्पनाः क्रिमयो भवन्ति । मोपया वृक्ष कपनेव वेधस इत्यपि निगमो भवति । भाऋजीकः प्रसिद्धभाः। धूमकेतुः समिधा भाऋजीक इत्यपि निगमो भवति। रुजाना नधो भवन्ति रुजन्ति फलानि । संरुजानाः पिपिष इन्द्रशत्रुरित्यपि निगमो भवति। जूणिर्जवतेर्वा द्रवतेर्वा दूनोतेर्वा । क्षिप्ता जूणिर्न वक्षतीत्यपि निगमो भवति । परि घसमोमना वां वयोऽ- गात् । पर्य्यगाद्वां घसमहरवनेनान्नम् ॥ ५ (४) ॥ इति षष्ठाध्यायस्य प्रथमः पादः ॥६,१॥
- Cass- - ५६० * निरुक्तम् 8 पूर्वषट्कम "आजासः पूषणं 6--०वहन्तु बिभ्रतः॥” इति (ऋ० सं० ४, ८, २१, ६)। भरद्वाजस्यार्षम्। 'आवहन्तु' 'अजासः' अजाः,. अश्वाः। 'निटम्भाः' “निश्रथ्यहारिणः” । य एवंलक्षणा अश्वाः, ते आवहन्तु 'पूषण' देवं 'रथे' व्यवस्थितं 'बिभ्रतः' धारयमाणाः । 'जनश्रियम्' “जातश्रियम्” उद्भूतश्रियमित्यर्थः । एवमत्र समान विभक्त्यन्तत्वात् 'अजासः'--इत्यनेनं “निम्भाः"-- इत्येतदश्व विशेषणम् । सति चावविशेषणत्वे “निश्रथ्यहारिणः' शीघ्रहारिणः, तस्याभीष्टत्वादागमनस्य ॥ “वृबदुक्थः (१३)"---इति, अनवगतम् । “महदुक्थः" -- इति, “वक्तव्यम् अस्मै उक्थम्-इति वा” शब्दसमाधी । “बृव- दुक्थं हवामहे सुप्रकरस्नमूतये। साधु कृण्वन्तमवसे॥ -इति. (ऋ० सं०६, ३, २, ५)। कश्यपस्यार्षम्। प्रथमे पाये मैत्रा- वरुणस्य शस्त्रे तृचाशीतिषु च महाव्रते शस्यते। “उक्थम्”- इति शस्त्रमुच्यते, तद् यस्य बृहत् महत्, स वृवदुक्थः, अथवा तद् यस्य वक्तव्यम् , स वृबदुक्थः। तं 'वृवदुक्थम्' इन्द्रम् , 'हवामहे' वयमाह्वयामहे, एतस्मिन् कर्मणि । 'स्मृप्रकरनम्' स्मृप्रवाहुम्, ब्राहम् 'ऊतये' अवनाय, रक्षणाय आत्मनः । 'साधु कृण्वन्तम् साधुकारिणम् , नित्यकालमेवास्य जगतः साधु करिष्यामीत्य- भिप्रायम्। “अवसे' तस्यैव तर्पणाय, तमागतं सन्तमेतस्मिन् कर्मणि तर्पयिष्याम इत्येतेनाभिप्रायेणायामहे ॥ एवमत्र 'हवामहे'-इत्यनेन सम्बन्धात् “वृबदुक्थः =महदुक्थः, वक्त- व्योक्थो वा"-इत्युपपद्यते। य एव हि महदुक्थो भवति, www- दीर्घ- , । , ६अ० १पा० ५ख०] * नैघण्टकं काण्डम् * वक्तयोक्थो वा स एव सुतरामायत इति ॥ 'मृदूदरः (१४)"---इति, अनवगतम्। “मृदूदरः” इत्यव. गमः। “सोमः” अभिधेयः ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः। अयं यः सोमो न्यधाय्य॒स्मे तस्मा इन्द्र प्रतिरमेम्यायुः ॥” - इति (ऋ० सं०६, ४, १२, ५)। प्रगाथस्ये- यमार्षम् । त्रिष्टुप् । सौमी। सोमेन्द्रस्य श्यामाकस्य चरोः याज्यैषा, सोमचायिनः प्रायश्चित्तेष्टौ । 'ऋदूदरेण मृदृदरेण सोमेन, मृदु हि सोमस्योदरम्, सुषिरत्वात् । अथवा मृदुरयमुदरे स्यात् - इत्येव- माशास्यते, पातृभिर्वमनाशङ्कया। तस्मात् मृदूदरः सोमः,स पुनरेष मृदूदरः सन्नदूदर इत्युच्यते, तेन मृदृदरेण । 'सख्या' समानख्या- नेनैव केनचित् पुरुषेण, मित्रेण 'सचेय' संसचेयम्, संसेवेयम् । पुनरागामिषु 'यः' सोमः 'मा' मां 'न रिप्येत्' न हिस्यात्, 'पीतः' सन् । यथाहमेतेन सोमेनाहिसितः, तथा सचेयम् । हे 'हर्यश्व !' इन्द्र ! सोमस्वामिन् ! एतदस्तु नः ! किश्च 'अयं यः सोमः' 'न्यधायि अस्मे निहतोऽस्मास्वासीत् । येनेमामापदभापादिताः सो वमनद्वारेण । 'तस्मै' तदर्थम् । तेनास्माकमायुषो यदवखण्डनं कृतम्, तत्प्रतिपूरणाय । 'इन्द्रम्' 'प्रतिरम्' प्रतीर्णमनवखण्डितं सर्वम् आयुः' 'एमि' याचामीत्यर्थः। सोमवमनवैगुण्यात् आयु- पश्छेदमाशङ्कमान इन्द्रं दीर्घमायुर्ययाच यजमानाय ॥ एवमस्मिन् 'ऋदूदरः सोमः” प्रकरणात, शब्दसारूप्याच्च ॥ "ऋदूपे (१५)"--"इति, उपरिष्टाद् व्याख्यास्यामः" “ऋदूपे चिदवृधा" ---इत्यत्र ॥ । । OONAMA KATHA १५६२ [पूर्वषट्कम् * निरुक्तम् * “पुलुकामः (१६)---इति. अनवगतम् । “पुरुकामः” इत्यचगमः। “इमं नु सोममन्तितो हृत्सु पीतमुप त्रुबे। यत् सीमागश्चकृमा तत्सुमृडतु पुलुकामो हि मर्त्यः ॥”- इति (ऋ० सं० २, ४, २२, ५)। अगस्त्यलोपामुद्रासंवादे अन्तेवासी ब्रह्म- चारी इमां सौमी वृहतोमपश्यत् । 'इमम् अहम् 'सोमम्' 'अन्तितः' अन्तिके अवस्थितम् 'उपगम्य' चेतसा 'ब्रुवे'। न च बहिरन्तिके- ऽवस्थितमुपत्रु वे, किन्तर्हि ? 'पीतं' सन्तं 'हृत्सु' एव, स्व एव हृदयेऽवस्थितमुपत्रु वे ।-“यत् सीमागश्चक्रमा” । 'यत्' 'सीम्' सर्वतः सवप्रकारम् 'आगः चकम' पापं कृतवन्तो वयम् । 'तत्' अयं सोमः ‘सुमृडतु सुष्टु सुखविधिपरिणामं करोतु । किं कारणम् ? इतः, -यस्मात् 'पुलुकामो हि' बहुकामो हि 'मर्त्यः । स बहुकामत्वात् मनुष्यस्वाभाव्यात् अवश्यमागः करोति, तदा पीतः सोमः शमयत्वित्यभिप्रायः॥ एवमत्र 'पुलुकाम'शब्देन पुरुकामो बहुकाम उच्यते, 'मर्त्य, शब्दसामानाधिकरण्यात् सारूप्याच्च॥ - “असिन्धती (१७)”-इति, अनवगतम् । “असङ्खादन्त्यौ” -इत्यर्थप्रतीतिः। "अपश्यमस्य महतो महत्वममर्त्यस्य मासु विक्षु। नाना हनू विभृते संभरेते असिन्धती बप्सती भूयंत्तः ॥” इति (ऋ० सं०८, ३, १४, १)। वैश्वानरस्याग्नेः सौचीकस्य वा वाजम्भरस्य वा सप्तेरियमार्षम्। त्रिष्टुप् । आग्नेयी । 'अपश्यम्' अहम् । भगवतः अग्नेः 'महतः' 'महित्वम्' माहाभाग्यम्। 'अमर्त्यस्य' अमरणधर्मिणः। 'मासु' मरण- ।
६अ० १पा ५ख०]] * नैगम काण्डम् धर्मिणीषु, 'विक्षु' मनुष्यप्रजासु इत्यर्थः । आह,-किम्पुनस्त- माहाभाग्यम् ? इति, उच्यते,–'नाना' भावेनैते-'हनू' हनन- समर्थ ज्वाले अवस्थिते 'विभृते विविधमिव धृते सत्यो 'संभरते' एकत्र हरेते हवींषि दारूणि वा। संभृत्य च 'असिन्वती' “अस- वादन्त्यौ” असङ्खादन्त्याविव, अथवा असञ्चूर्णयन्त्याविव । अनेन प्रकारेण शीघ्रं बसती' भक्षयन्त्यौ । 'भूरि' अपि दारुजातं हविर्जातं वा,-यत् 'अत्तः' भक्षयतः, न च श्राम्यतः । एतदस्य माहाभाग्यमहमपश्यमस्मिन मनुष्यलोके इति। हनुरूपसम्बन्धात् बहीष्वपि ज्वालासु द्विवचनमेव स्थितम् ॥ एवमत्र हनुसम्बन्धात "असिन्वती =असङ्खादन्त्यौ---इत्युपपद्यते ॥ "कपनाः (१८)” -- इति, अनवगतम् । -इति शब्दसमाधिः । “क्रिमयः भवन्ति”-इत्यभिधेयवचनम् । “अभ्राजि शौं मरुतो यदर्शस मोषथा वृक्षं कपनेव वेधसः । अध स्मा नो अरमति सजोषसश्चक्षरिव यन्तमनु नेषथा सुगम् ॥” - इति (ऋ० सं० ४, ३, १५, १)। श्यावाश्वस्यात्रेयस्येमार्षम् । मारुती। जगती। दाशरात्रिके त्रिवृत् स्तोमे प्रथमेऽहन्याग्निमारुते विनि- युक्ता। “प्रश‘येत्याग्निमारुतः” इति सूत्रणात् । 'अभ्राजि' भ्राजते। 'वः' मरुतः!' तत् 'शर्द्धः' तलम् । 'यत्' येन बलेन 'अर्णसं' मेवं वृद्धम् , उदकपूर्णम्, अनुप्रविश्य 'मोषथ मुष्णीथ यूयम् , निरुदकं कुरुतेत्यभिप्रायः । कथम्पुनर्मोषथ ? इति ।- “वृक्ष कपने वेधसः” । 'कपनाः' “कम्पनाः” “क्रिमयः" इच, 'वेधसः' वेद्धारः, यथा वृक्षमनुप्रविश्य क्रिमयोऽन्तर्गतं दारुचूर्ण 'कम्पना." Nameer * निरुक्तम् [पूर्वषट्कम् रसं वा मुष्णन्ति, एवं यूयमुदकं मुष्णीथ। अथवा हे 'वेधसः मेधाविनः ! इति मरुद्विषयमेतत् सम्बोधनं स्यात्। यस्माद् यूयमेवादिना प्रभावेण युक्ताः, अथैतस्मात् कारणात् अस्माकमेव "अरमतिम्' अलमतिम्, पर्याप्तमतिम् , परिसमाप्तविद्यं यजमानं स्वकृतेनैव कर्मणा विद्यया वा यन्तम् इतो लोकादमुं लोकं 'सुगं' शोभनगमनं स्थानम्, यूयमपि 'अनुनेषथ' हे 'सजोषसः' सह- प्रीताः! गमनानुग्रहेऽस्य बर्तध्वमित्यभिप्रायः । कथञ्च पुनर्ने- पथ ? 'चक्षुरिव' यथा गच्छतः पुरुषस्य चक्षुर्गमनानुग्रहे वर्तते, एवमनुनेषथैनं सुगमिति ॥ एवमत्र वृक्षसम्बन्धात् “क्रिमयः कम्पना:" ते हि वृक्षं मुष्णन्ति, मोषयन्ति च कम्पयन्ति च यं खादन्ति, स्वयमेव वा कम्पन्ते चलनस्वाभाव्यात् ॥ “भाऋजीकः (१६)”-ईति, अनवगतम् । “ऋजुभाः" "प्रसिद्धभाः” इति पर्यायशब्देन निर्वचनम् ।। "देवो दे॒वान् परिभूतेन वहा नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाजीको मन्द्रो होता नित्यो वाचा यजी- यान् ॥” इति (ऋ० सं० ७, ६, ११, २)। आङ्गस्य हविर्धानस्यार्षम्। त्रिष्टुप् । 'देवः' त्वं दानादिगुणयुक्तः । हे भगवन् ! अग्ने ! 'देवान्' 'परिभूः' सर्वतो भवसि । 'ऋतेन' यज्ञेन सहितः। तदुक्तम् ,-अग्ने नेमिररा इव देवांस्त्वं परिभूरसि -इति (ऋ० सं० ४, १, ५, ६)। यस्त्वमेवम्प्रभावः, तं त्वां ब्रवीमि,-'वह' प्रापय 'नो हव्य" देवान् प्रति। 'प्रथमः' यस्मात् त्वं मनुष्यहोतारमपेक्ष्य, तस्या इत्यवगमः। andpal ईअ०१पा० ५ख०]] * नैगम काण्डम् * । होता। map देतत् कुरु। 'चिकित्वान्' स्वमधिकारमेतं जानान इत्यभिप्रायः । 'धूमकेतुः' धूमप्रज्ञानः, धूमध्वजोवा। 'समिधा' समिन्धनेन 'भाजीकः' प्रसिद्धभाः। 'मन्द्रः' मदनः, तीयता देवानाम् । 'होता' आह्वाता नित्यः' इतरं मनुष्यहोतारयपेक्ष्याग्निरेव नित्यो 'वाचा' वागधिदेवताभावेनावस्थितः । 'यजीयान्' यष्टतरः,-मनुष्यहोतारमपेक्ष्य । एचमत्र "भाऋजीकः प्रसिद्धभाः” ---इत्युपपद्यते ॥ "रुजानाः (२०)"---इति, एतदेकं पदम, अनवगतम्। 'रुजत्यः' - इत्यवगमः। “नद्यो भवन्ति”-इत्यभिधेयवचनम् । 'रुजन्ति कलानि”, इति हेतुनिर्देशः ॥ “अयोद्धेव दुर्मद आ हि जुद्धे महावीरं तुविवाधमृजीषम् । नातारीदस्य समृतिंबधानां संरुजानाः पिपिष इन्द्रशत्रुः ॥”-इति (ऋ० सं० १, २, ३७,१) । हिरण्यस्तूपस्यार्षम्। अग्निष्टोमे निष्केवल्ये शस्यते। 'अयोद्धा इव' यथा कश्चित् अयोद्धा, 'दुर्मदः' दुर्मत्तः-वाङ्मात्रसारः । आह, स यथा किं करोति ? इति, उच्यते,-'आ हि जुद्दे आह्वयतीत्यर्थः। कमाह्वयति ? 'महावीरम्' महाविक्रान्तम् , 'तुविवाधम्' वहूनां शत्रूणां बाधितारम् , 'ऋजीषम्' ऋजीषिण- मित्यर्थः । तदुक्तम् ,-"ऋजीषी वज्री" इति। तमेवम्प्रभा- वमिन्द्रमाहूय मेघः 'नातारीत्' इतरवदुर्मदः न तर्तुं शक्नोति । 'अस्य' इन्द्रस्य 'समृति' समागर्म 'बधानां' प्रहाराणाम् , अतर- माणः या एताः नद्यः, 'संरुजानाः' ऊर्मिभिः कूलानि वहन्त्यो रुजन्ति, ताः प्रति विशीर्यमाणः 'पिपिणे' 'इन्द्रशत्रुः' इन्द्रस्य निरुक्तम् * [पूर्वषट्कम् शातयितव्य इत्यर्थः। एवमत्र शब्दार्थोपपत्तेः “नद्यः =रुजाना:" इत्युपपद्यते॥ "जूणिः (२१)"-- इति, अनवगतम् । जवनाद् घा, द्रवणाद् चा, दधनाद् वा-इति शब्दसमाधयः। शक्तिः अभिधेया। “जवतेर्वा” गत्यर्थस्य जूर्णिः, “द्रवतेर्षा” गत्यर्थस्यैव जूणिः, “दुनोतेर्वा” हिसार्थस्यैव जूणिः ॥ "प्रपा घो अस्मे स्वयशोभि- रूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन् । स्वयं सा रिषयध्यै या न उपेषे अत्रैः। तमसन्न वक्षति क्षिप्ता जूणिर्न वक्षति ॥”-- इति (ऋ० सं० २, १, १७, ३)। पुरुच्छेपस्यार्षम् । अति- शक्कयतिच्छन्दाः। पृष्ट यस्य षष्ठेऽहनि निष्केवल्ये शस्यते। 'प्र' ब्रवीमि है स्तोतार:! प्रवत अस्मै। 'स्वयशोभिः' आत्मीयैः यशोभिः संयुक्तोः स्तुतीः। किं कारणम् ? यस्मादेषः 'इन्द्रः' स्तुतः 'ऊती' अधिता. रक्षिता परिचर्गे' संग्रामे, यत्र हि प्राणाः परिवृज्यन्ते वियुज्यन्ते, तत्र अयमस्माकं रक्षिता भवति। 'दुर्म- तीनाम् पापमतीनाम मच्छणां हन्ता भविष्यति । तमेतमेवङ्- गुणविशिष्टमिन्द्रम् 'दरीमन्' दारयितृतमं दुर्मतीनां पुनः पुनः स्तुतः। आह.-कथं पुनरसावस्माकं रक्षिता भविष्यति ? इति, उच्यते, --- 'स्वयं' 'सा' 'रिषयध्यै' रेषणाय भविष्यति, किञ्चिदप्य- कृत्वासाकमिन्द्रप्रभावात् स्वयमेव विनक्ष्यतीत्यभिप्रायः, का पुनरसौ? इति,--"या न उपेषे अनः। 'या' अस्मान् 'उपेर्षे उप आगच्छति 'अत्रैः' अदनैः रक्षोभिः प्रहिता, सा। “हतेमसन्न वक्षति" । 'ईम्'---इत्यनर्थकः। 'हता सती इन्द्रेण 'न' 'वक्षति' । क ६अ० १पा० ख०] ॐ नैगमं काण्डम् * 66 । अस्मान् प्रति क्षिप्ता' अपि च तैः पुनराद्रेणापि रक्षोभिः 'जूणिः' जवसम्पन्नापि सती शक्तिः, 'न वक्षति' अस्मान् प्रति न प्राप्स्यती- त्यर्थः ॥ एवमत्र क्षेपणसम्बन्धात् “जूर्णिः-शक्तिः” इत्युपपद्यते ॥ “ओमना (२२)” इति अनवगतम् । "अवनाय"-इत्यव- गमः। “युवोः श्रिय पर योषावृणीत सूरो दुहिता परितक्म्या- याम्। यद्देवयन्तमवथः शचीभिः परि घंसमोमना वां वयोs- गात् ॥”- इति (ऋ० सं० ५, ५, १६, ४)। वसिष्ठस्येयमापम् । त्रिष्टुप् । आश्विनी।. प्रातरनुवाकाश्विनयोः शस्यते। हे अश्विनी ! 'युवोः श्रियम्' युवयोः या श्रीः तां 'परि अवृणीत' सर्वतः सम्भजत 'योषा'। आह,-कतमा? इति, उच्यते, 'सूरो दुहिता' सूर्यस्य दुहिता। कदा तां श्रियमुषःसज्ञिका इयमवृणीत ? 'परितक्म्यायाम' राघ्याम् , ऊर्ध्वमर्द्धरात्रात्, स ह्यश्विनोः कालः । किञ्च “यद् देवयन्तमवथः शचीभिः” यस्मात् 'देवयन्तं देवान् यष्टुमिच्छन्तम् यजमानम् 'अवथः' 'शचीभिः' स्वैः कर्मभिः। तेन कारणेन 'वां' 'परि अगात्' परिगच्छति । सर्वासु दिक्षु यजमानैर्दीयमानं युवां प्रति 'वयः' “अन्न” हविर्ल- क्षणम्, 'घंसं परि' प्रति अहनि प्राप्त इत्यर्थः । पूर्वाह्रोह श्वि- नोर्यागकालः । तदुक्तम्,-"प्रातावाणा प्रथमा यजध्वम् ॥” इति (ऋ० सं०४, ४, १८, १)। कमर्थं पुरस्कृत्य वयोऽन्न गच्छति ? 'ओमना' “अवनाय” तर्पणायेत्यर्थः। एवमत्राश्वि- नोर्हविःसम्प्रदानसम्बन्धात् 'ओमना'--इत्यस्य शब्दस्य “अवनाय" -इत्येष विपरिणाम उपपद्यते ॥ २-१७ Heman ?
* निरुक्तम् * [पूर्वषट्कम् केविदत्र “अवनेनानम्"-इत्येवमधीयते भाष्यम्। तेषां योजना,-"अवनेन" तर्पणेन भवतो निमित्तभूतेन 'पर्यगात्' "अन्नम्" इति ॥ केचित् “अनेनान्नम्"-इत्येवमधीयते भाष्यम्। तेषाम् , "अनेन” मन्त्रेण “अन्न" परिगच्छतीति योजना स्यादिति ॥ ५(४)॥ इति निरुक्तवृत्तौ एकादशाध्यायस्य (षष्ठाध्यायस्य) प्रथमः पादः ॥ ६,१॥ Premattee द्वितीयः पादः॥ उपलप्रक्षिण्युपलेषु प्रक्षिणात्युपलप्रक्षपिणी वा ( इन्द्र ऋषीन् पप्रच्छ दुर्भिक्षे केन जीवतीति तेषामेकः प्रत्युवाच शकटः शाकिनी गावो जालमस्यन्दनं वनमुदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तय इति सा निगदव्याख्याता) ॥१॥ "उपलप्रक्षिणी (२३)--इति, अनवगतम् । “सक्तुकारिका' अभिधेया, सा हि “उपलेषु" यवान् “प्रक्षिणाति” हिनस्ति । एवमस्योपलप्रक्षिणीशब्दस्याप्रतीयमानार्थस्य विग्रहेणार्थप्रतीति- .. 1 ६५०२पा० ख०] नैगम काण्डम् * अथ “वा" "उपलेषु” “प्रक्षेपिणी" स्यात् , उपलेषु तप्तेषु भर्जनार्थ यवान् प्रक्षिपति, सा हि गौडेषु प्रसिद्धा । उपलान् वा यवेभ्यः प्रक्षिपति विचिनोतीत्यर्थः। सेयम् 'उपल- प्रक्षेपिणी सती 'उपलप्रक्षिणी'- - इत्युच्यते ॥ १ (५) ॥ कारुरहं ततो भिषगुपलप्रक्षिणी नना। नाना धियो वस्यवोऽनु गा इव तस्थिमेन्द्रायेन्द्रो परि स्रव ॥ कारुर- हमस्मि कर्ता स्तोमानां ततो भिषक् तत इति सन्ताननाम पितुर्वा पुत्रस्य वोपलप्रक्षिणी सक्त कारिका नना नमतेर्माता वा दुहिता वा नानाधियो नानाकर्माणो वसुकामा अन्वास्थिता स्मो गाव इव लोकमिन्द्रायेन्दो परिस्र वेत्यध्ये- षणा। आसीन ऊर्ध्वमुपसि क्षिणाति । उपस्थं प्रकलविद् वणिग् भवति कलाश्च वेद प्रकलाश्च । दुर्मित्रासः प्रकल- विन्मिमाना इत्यपि निगमा भवत्यभ्यर्द्धयज्वाभ्यर्द्धयन्यजति । सिषक्ति पूषा अभ्य यज्ज्वेत्यपि निगमो भवतीक्ष ईशिषे । ईक्षे हि वस्व उभयस्य राजनित्यपि निगमो भवति । ओणस्य क्षयणस्य। महः क्षोणस्याश्विना कण्वायेत्यपि निगमा भवति ॥ २ (६) । “कारुरहं ततो -- मेन्द्रायेन्दो परिस्रव” । शिशुरागिरसः, वस्यवो प्रियवक्ता , * निरुक्तम् * [पूर्वषट्कम् तस्येयमार्षम् । पङ्क्तिः। ऐन्द्री। स्वदुष्कृताशङ्कया किला- परिस्रवति सोमे पापसङ्कीर्तनादात्मशुद्धिर्भविष्यतीति मन्यमान आत्मानमेव निर्दिशन्नाह,–'अहं' तावत् कस्मिंश्चिदनादिकाले परेषां 'कारुः स्तोमकर्ता स्तुतीनां प्रयोक्ता यज्ञकर्मणि होतृत्वेना- वस्थितो बहिर्वा यज्ञात् लौकिकाभिर्वाचो युक्तिभिर्जि- विकापरतया। “ततः' मम पिता पुत्रो वा 'भिषक् आसीत्, 'ब्रह्मा, स हि प्रायश्चित्तरोगे उत्पन्ने यज्ञस्य भेषजं करोति । यदुक्तम् ,-"भेषजकृतो ह वा एष यज्ञो यत्रैवंचिद् ब्रह्मा भवति” । इतरो लौकिको वा भिषक् । “ततः-इति सन्ताननाम, पितुर्वा पुत्रस्य वा”। पितुर्हि सकाशात् पुत्रः तन्यते। एवमपादाने कारके 'ततः' पिता, पुत्रः पुनः तन्यते अयं 'ततः कर्मणि कारके। 'उपलप्रक्षिणी' सवनीयानां पेष्ट्री, “दासी पिनष्टि"-इति ह्य क्तम् । इतरेषां सक्तूनां पेष्ट्री। 'नना' “माता" ममासीत्, सा हि स्तनसम्प्रदानाद्युपकारार्थमपत्यं प्रति नता भवति । “दुहिता वा" नना स्यात्, सापि हि परिचर्यार्थ पितुः प्रवीभवति। यस्मिन् पक्षे पिता भिषक, तस्मिन् पक्षे ननाशब्देन मातोच्यते, यस्मिन् पुनः पक्षे पुत्रो भिषक्, तस्मिन् पक्षे ननाशब्देन दुहितोच्यते। ते वयमेवमनादिकाले कस्मिंश्चिद् जीविकाप्रधानाः सन्तः 'नानाधियः' "नानाकर्माणः” यथोक्तेन क्रमेण कारुरहमित्येवमादिना 'वसूयवः' “वसुकामाः” कथं नाम वसुलभेमहि, येन प्रोणधोरणं स्यादिति। एतेनाभिप्रायेण “अनु गा इव तस्थिम” अन्वास्थिताः स्मो लोक- मिमम्। कथम्पुनरन्वास्थिताः स्मः ? इति,-गाव इच, यथा-- , - , अ०२पा० ख०] * नैगमं काण्डम् * नेकैरुपकारप्रकारैलोकमन्वास्थिता गावः, एवमन्वास्थिताः स्मो चयमपीमं लोकम् । स त्वम् ‘इन्दो!' विज्ञायैतदनेन स्वदुरिता- नुकीर्तनेन क्षयितकल्मषाः स्म इति मन्यमानः, एतस्माद् दशा- पवित्रात् 'इन्द्राय' इन्द्रार्थम् 'परिव' अस्माभिरेवमध्येष्यमाणः कथं वा न परिनविष्यसीत्यभिप्रायः ॥ एवमत्र “उपलप्रक्षिणी सक्तुकारिका”-शब्दार्थोपपत्तेरित्युपपद्यते ॥ "उपसि (२४)-इति, अनवगतम् । “उपस्थे -- इत्यव- गमः । “पत्तो जगार प्रत्यञ्चमत्ति शीपर्णा शिरः प्रतिदधीवरूथम् । आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्डुत्ताना मन्वेति भूमिम् ॥” - ऋ० सं० ७, ७, १७, ३)। वसुक्रस्य इन्द्रपुत्रस्य आर्षम् । ऐन्द्री। त्रिष्टुप् । महावते मरुत्वतीये शस्त्र शस्यते। 'पत्तः' पादतः रश्मिभिः इतः लोकात् यदादित्यः 'जगार' गृह्णात्युदकम, तत् इन्द्रो मध्यस्थाने 'आसीनः' 'प्रत्यञ्चम्' आत्मानं प्रत्यश्चितं प्राप्तम् , तेन भगवतादित्येन 'शीर्णा' उत्सृष्टम् 'अत्ति' स्वीकरो- :तीत्यर्थः । तदेवमसौ स्वीकृत्य चतुर्ष वार्षिकेषु मासेषु पृथिवी- लोकनिवासिनां जनानां 'शिरः प्रतिदधौ' शिरस उपरि दधाति । 'वरूथं वरतरमुदकम् । एवमयमिन्द्रो जगदुपकाराय प्रतिसंव- त्सरम् एतां द्युलोकाख्यां गाम् आदित्योपसृष्टाम्, ' ऊर्ध्वाम्' उपर्यवस्थिताम्, अन्तरिक्षलोके आसीनः 'उपसि' उपस्थे, आत्मन- उपस्थाने, अन्तरिक्षलोके 'क्षिणाति':प्रक्षारयति । यच्च प्रक्षारयति, तदिमं लोकं प्रति पुनरुत्सृजति। तत् तेनोत्सृष्टं 'न्यक्' नीचैर्व- र्थभावेन आगच्छति । ततः 'उत्तानां भूमि' यथानिम्नम् 'अन्वेति ॥
DROID 8 निरुक्तम् * [पूर्वषट्कम्, एवमत्र “उपसि"-इत्यस्य शब्दसारूप्यात् अर्थोपपत्तेश्च “उपस्थे" -इत्येवार्थप्रतीतिः ॥ “अपि वा शिर आदित्यो भवति"-इत्यु: तम्, तस्मात् 'शीर्णा'--इत्यत्रोपपद्यते शिरस्त्वमादित्यस्य ॥ "प्रकलवित् (२५)”-इति, अनवगतम्। 'प्रकलावित्'- इत्यवगमः । “बणिग् भवति”-इत्यभिधेयवचनम् । स हि "कलाश्च वेद प्रकलाश्च"। कलासम्बन्धेनैवेह प्रकला उच्यन्ते, कला एव ह्यपेक्ष्य प्रकला भवन्तीति। यथा,-अधिष्ठानमपेक्ष्य प्रत्यधिष्ठानमिति । “इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः। दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥” इति (ऋ० सं० ५, २, २०, ५)। वसिष्ठः स्यार्षम् । त्रिष्टुप् । ऐन्द्री। महाव्रते निष्केवल्ये दक्षिणे पक्षे शस्यते। 'इन्द्रेण' 'एते' 'तृत्सवः' दारयितव्याः मेघाः, 'वेविः षाणा:' पुनः पुन: व्याप्यमानाः, 'आपः न' आप इव 'सृष्टा केनचित्, 'अधवन्त' अगच्छन् । 'नीचीः' नीचैरित्यर्थः। उच्चै-- र्गतय एते सन्तः इन्द्रबलानीचैर्गतयः संवृत्ता इत्यभिप्रायः । किञ्च, 'दुमित्रासः' सुमित्राण्यपि सन्तो ये अतिसन्धानपराः, ते पुनर्दु मित्राः। के पुनस्ते ? इति,-'प्रकलविदः' बणिज इत्यर्थः । ते यथा अभिद्रोहबुद्ध्या किञ्चिद् द्रष्टव्यमल्पं ददति, एवमेते मेघाः पूर्वमल्पोदकदातारो भूत्वा अधुनेन्द्रबलोद्यताः सन्तः 'जहुः" 'विश्वानि' सर्वाण्यशेषाणि 'भोजना' भोजनान्युदकानि 'सुदासे' राजनि, यजमाने वा कल्याणदाने ॥ एवमल्पोदकाल्पदानोपमा. सम्बन्धात “प्रकलवित् =बणिक-इत्युपपद्यते ॥ अवयवप्रत्य- *नेगम काण्डम् * - १ ६.०२पा० २ख०]] ६०३ वयवादिकलाः प्रकलाशब्देनोच्यन्ते, तेषु च वणिगेव निपुणो भवति, गणितकुशलत्वात्, न तथान्य इति । “अभ्यर्द्धयज्वा (२६)”-इति, अनवगतम् । अभ्यर्द्धयन् अभि- वर्द्धयन् यो यजति । अभ्यर्द्धय तिरत्र दानार्थः । “मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्द्धयज्वा । श्रुत्वा हवं मरुतो यद्धयाथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥” इति (ऋ० सं०४, ८, ८, ५)। ऋजिवा नाम भारद्वाजः, तस्येयमार्षम् । वैश्वदेवे सूक्ते । त्रिष्टुप् । हे मरुतः ! 'येषु' युष्मासु 'रोदसी' देवी, रुद्रस्य पत्नी 'मिम्यक्ष पुनः पुनरेकतां गच्छति। "इयक्षति, मियक्षति"-इति गतिगतिकर्मसु पठितम् । यश्च युष्माक मध्येऽवस्थितः 'सिषक्ति' सेवते, 'पूषा' सूर्यः रश्मिभिः 'अभ्यर्द्धयज्या' अभिवृद्धदानः। ते यूयमेवगुणयुक्ता उच्यध्वे । 'श्रुत्वा' 'हवम्' आह्वानम् ‘यत् ह यार्थ' यदा यूयमायाथ अस्मान् प्रति, तदा 'भूमा' बहूनि बलानि, ध्वजाग्राणि वा रेजन्ते' कम्पन्ते । एतस्मिन् 'अध्वनि' अन्तरिक्षे। 'प्रविक्ते विविक्ते, विस्तीर्णे इत्यर्थः।। एवमत्र “पूषा-अभ्यर्द्ध- यज्वा” स हि स्वरश्मिपोषं युष्यन्, भूतान्याभिमुख्येन वृद्ध्या योजयन्नभिमतानर्थान् भूतेभ्यो ददाति ॥ (२७) --इति, अनवगतम् । “ईशिशे"-इत्यवगमः। "नृवत्त इन्द्र नृतमाभिरुती वंसीमहि वाम श्रीमतेभिः। ईक्षे हि वस्व उ भयस्य राजन् धा रत्न महि स्थरं बृहन्तम् ॥"-इति (ऋ० सं० ४, ६, ८, ५)। भरद्वाजस्यार्षम् । त्रिष्टुप् । व्यूढस्य दशरात्रस्याष्टमेऽहनि मरुत्वतीये शस्त्रे शस्यते । 'नृपत् 1 Mur * निरुक्तम् * [पूर्वषट्कम् ते' यथा केचिदुत्पन्नप्रणयाः कञ्चिदीश्वरं मनुष्यं स्तुतिभिः सम्भ- जेरन्, एवं वयं त्वां 'नृतमाभिः' मनुष्यतमयोग्याभिः 'ऊती' अवन्तीभिः तर्पयन्तीभिः स्तुतिभिः 'वंसीमहि' सम्भजेमहि । 'वामं पार्थिवं' वननीयं धनम् । 'श्रीमतेभिः' श्रवणीयतमैः शब्दः । केन पुनरर्थेन वंसीमहि ? इतः, यस्मात् 'ईश्छे' ईशिषे, त्वम्, 'वस्वः' वसुनः, धनस्य, : 'उभयस्य' उभयलक्षणस्य,-दिव्यस्य पार्थिवस्य च वसुनः। त्वम् , हे राजन् ! 'धाः रत्नम्' देहि धनम्। कीदृशं पुनर्देहि ? 'महि' महत् , वस्तुभूतम् , 'स्थूरं' बहु बृहन्तञ्च बहुकालं यत् स्यात् , तत् देहि ॥ एवमत्र वसु- सम्बन्धात् 'ईक्षे-इत्येष शब्दः “ईशिषे”–इत्येवमुपपद्यते ॥ "क्षोणस्य (२८) - इति, अनवगतम् । “क्षयणस्य”. इत्यधगमः। “युवं श्यावोय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय। प्रवाच्यं तद् वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥” इति (ऋ० सं० १, ८, १४, ३)। कक्षीवत आर्षम् । आश्विनी। त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते। 'युवं' युवां हे 'अश्विनौ !' 'श्यावाय' राज्ञ 'रुशती' ज्वलितरूपां श्रियम् 'अदत्तम्। युवामेव च महतः क्षोणस्य' "क्षयणस्य" निवासस्य दातारौ 'कण्वाय' ऋषये। किञ्च, 'प्रवाच्यं प्रकर्षण वचनीयं श्रोतव्य तत् 'वां' युवाभ्यां 'कृतम्' हे 'वृषणौ ! वर्षितारौ यत् 'नार्षदाय ऋषये वधिरीभूताय 'श्रवः' श्रोत्रम् 'अध्यधत्तम्' अधिकं दत्तवन्तौ स्थः ॥ एवमंत्र दानसम्बन्धाधिकाराच्छब्दसा- रुप्याच्च "क्षोणस्य गृहस्य"-इति प्रतीयते ॥ ।
६०२पा० ३ख०] * नघण्टुकं काण्डम् * "क्षीणस्य (२८)"--इति एके मन्यन्ते। तत् पुनरनुपपन्नम्, "क्षयणस्य"--इति हि भाष्यकारो निराह ॥ २ (६)॥ । । अस्मे ते बन्धुः। वयमित्यर्थः । अस्म यातं नासत्या सजोषाः । अस्मानित्यर्थः । अस्मे समानेभिवं पभ पौंस्ये- भिः । अस्माभिरित्यर्थः । अस्म प्रयन्धि मघवन्नजीपिन् । अस्मभ्यमित्यर्थः। अस्म आराञ्चिद् द्वपः सनुतयु योतु । अस्मदित्यर्थः । ऊर्व इव पप्रथे कामो अस्म । अस्माक- मित्यर्थः । अस्मे धत्त वसवो वसूनि । अस अस्मास्वित्यर्थः पाथोऽन्तरिक्षं पथाव्याख्यातम् । श्येनो न दीयन्नन्वेति पाथ इत्यपि निगमो भवत्युदकमपि पाथ उच्यते पानात् । आचष्ट आसां पाथो नदीनामित्यपि निगमो भवत्यन्नमपि पाथ उच्यते पानादेव । देवानां पाथ उपवक्षि विद्वानित्य- पि निगमो भवति । सीमनि प्रसवे । देवस्य वयं सवितुः सवीमनीत्यपि निगमो भवति । सप्रथाः सर्वतः पृथुः । त्वमग्ने सप्रथा असीत्यपि निगमो भवति । विदथानि वेदनानि। विदथानि प्रचोदयन्नित्यपि निगमो भवति ॥ ३ (७)॥ -“अस्मे (२६)"- इति, एतत् पदं सर्वविभत्त्यन्तम् । तस्मा- DING Musnear - MONDARI Manas BI च, छ निरुक्तम् ॐ पूर्वषट्कः दनेकार्थम्। एकमेव ह्यतच्छब्दरूपं सप्तस्वपि विभत्त्यर्थेषु वर्तते, प्रकरणादिवशात् तस्य नियमो भवति। तद्यथा,- प्रथमायास्तावत्, 'अस्मे ते बन्धुः” "वयमित्यर्थः” । “तपसस्तनूरसि प्रजापतेर्वर्णः परमेण पशुना क्रीयसे सहस्रपोष पुष्यन्ती। अस्मे ते बन्धुः पुषेयम्" -इति । सोमक्रयणस्य द्रव्यापाकरणमन्त्रेषु अजायाः एषोऽपाकरणमन्त्रः। सोच्यते- हे अजे! 'तपसः' अग्नेः त्वं 'तनूः' शरीरम् 'असि' “अग्नेयें षा अजा" ---इति ह्य तम्, "स एता एभ्यः प्ररोचयत्" -इति तस्मादुपपद्यते अग्नेस्तनुत्वमजायाः। 'प्रजापतेः' 'वर्णः' वरणीया त्वम्। 'सहस्रपोषम्' अस्माकम् । 'पुष्यन्ती' एतस्मिन् कर्मणि अङ्गभावमुपेहि । एवमजामभिष्ट त्य अधुना सोमं ब्रवीति, हे सोम! अनेन परमेण श्रेष्ठेन पशुना 'क्रीयसे। किं कारणम् ? 'अस्मे “वयम्" 'ते' तव 'बन्धुः' बन्धवः, विनियोक्तार इत्यभि- प्रायः॥ एवमत्र प्रथमान्तेन 'बन्धु'शब्देन सामानाधिकरण्यात् 'अस्मे-इत्यस्य “वयम्" इत्येवं प्रथमया विपरिणाम उपपद्यते ॥ द्वितीयायास्तावत् ,-"अस्मे यातं नासत्या सजोषाः "अस्मानित्यर्थः” । “आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः। हचे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥” इति ( ऋ० सं० १, ८, १६, ६)। कक्षीवत. आर्षम् । त्रिष्टुप्। आश्विनी। प्रातरनुवाकाश्विनयोः शस्यते । 'आ यातम्' 'अस्में “अस्मान्” प्रति। हे 'नासत्या' नासत्यौ ! 'अश्विना' अश्विनौ ! कथञ्च पुनरायातम् ? 'श्येनस्य' पक्षिणः:
६अ०२पा० ख०] * नैगम काण्डम् * ६०७. 'जवला' जवेन वेगेन, 'नूतनेन' नवतमेन, परिश्रान्तस्य हि श्येन- स्यापि मन्दतरो जवो भवति । 'सजोषाः' मया सह प्रीयमाणी,. रस्परेण वा। 'वां' युवाम् । कस्मात् पुनरेवं ब्रवीमि ? इतः,. यस्मात् 'हवे हि वाम्' आह्वयामि युवाम् । न वृथैव आह्वयामि, किन्तर्हि ? 'रातहव्यः' दत्तहव्यः, युवामुद्दिश्य उत्सृष्टमेतद्धव्यं मया। तो युवामेतद् विज्ञाय 'शश्वत्तमायाः' शाश्वतिकतमायाः 'उपसः' 'व्युष्टौ' व्युच्छेदनकाले आहृयमानावागच्छतम् ॥ एव- "आयातम्” -इत्यनेन सम्वन्धात् 'अस्मे-इत्यस्य "अस्मान" - इत्येवं द्वितीयया विपरिणाम उपपद्यते ॥ तृतीयायास्तावत्,– “अस्मे समानेभिवृषभ पौंस्येभिः” “अस्माभिरित्यर्थः”। “भूरि चकर्थ युज्येभिरस्मे समानेभि- वृषभ पौंस्येभिः। भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यशाम ॥” इति (ऋ० सं० २, ३, २५, २)। इन्द्र- मरुत्संवादे मरुतामार्षम् । ऐन्द्री। त्रिष्टुप् । महाव्रते व व्यूढस्य दशरात्रस्य सप्तमेऽहनि मरुत्वतीये शस्यते। इन्द्र उच्यते,–स त्वं 'भूरि' बहु 'चकर्थ कृतवानसि कर्म, तस्मिंस्त- स्मिन् संग्रामे। तत्पुनः 'युज्येभिः' एव 'अस्मे' “अस्माभिः" एव संयुक्तः, 'समानेभिः' समानः, “पौंस्येभिः' बलैः। हे 'वृषभ' वर्षितः! नेकाकीत्यभिप्रायः। किञ्च, वयमपि 'भूरीणि' बहूनि. कर्माणि 'कृणवाम' तस्मिंस्तस्मिन् संग्रामे। हे 'शविष्ठ' बलिष्ठ ! 'इन्द्र !' न च केवलं वाङ्मात्रेणैतद् ब्रूमः, किन्तर्हि ? 'क्रत्वा' एव कर्मणैव । तत् सम्पादयामः, 'यद् घशाम' यत् कामयामहे - - * निरुक्तम् * [पूर्वषट्कम् इत्यर्थः ॥ एवमत्र “युज्येभिः” इत्यनेन सम्बन्धात् 'अस्में- इत्यस्य “अस्माभिः” इति तृतीयया विपरिणाम उपपद्यते ॥ चतुर्थ्यास्तावत्.-"अस्मे प्रयन्धि मघवन्नृजीषिन्” “अस्मभ्य- 'मित्यर्थः । “अस्मे प्रयन्धि मघवन्नजीषिन्निन्द्र रायो विश्ववारस्य भूरेः। अस्मे शतं शरदो जीवसे धा अस्मे वीराच्छश्चतइन्द्र शिप्रिन् ॥” इति (ऋ० सं० ३, २, २०, ५)। घोरस्याङ्गिरसस्ये- यमार्षम् । त्रिष्टुप् । ऐन्द्री। जातकर्मणि विनियुक्ता । 'अस्मे' "अस्मभ्यम्” 'प्रयन्धि' देहि । हे 'मघवन्' धनवन् ! 'इन्द्र !' 'ऋजीषिन् !' 'रायः' धनस्य, 'विश्ववारस्य' सर्वा आपदो यद् धनं वारयति तस्य, 'भूरेः' बहुनः, यस्य अधिपतिः त्वम्, तस्य अभिलषितां मात्रां देहि। किञ्च, 'अस्मे' “अस्मभ्यम्” 'शतं शरदः शतं वर्षाणि 'जीवसे' जीवनाय 'धाः' देहि। 'अस्में 'अस्मभ्यम्” 'वीरान्' पुत्रान् 'शश्वतः' दीर्घायुषः देहि। हे 'शिप्रिन् ! ॥ एवमत्र “अस्मे प्रयन्धि”–इत्यनेन याज्ञार्थेन सम्बन्धात् 'अस्मे-इत्यस्य “अस्मभ्यम्" इति चतुर्थ्या विप- रिणाम उपपद्यते॥ पञ्चम्यास्तावत्,-अस्मे आराचिद् द्वषः सनुतर्युयोतु” “अस्मदित्यर्थः” । "तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम। ससुत्रामा स्ववान् इन्द्रो अस्मे आराञ्चिद् द्वषः सनुतर्युयोतु ॥”-इति (० सं० ४, ७, ३२, ३)। गर्गस्य भारद्वाजस्यार्षम् । षष्ठे मण्डले ऐन्द्री, त्रिष्टुप् । पुनरपि चेयमेव काक्षीवतः सुकीर्तिनामा, तेन दशमे मण्डले दृष्टा। षष्ठे चाहनि .
६०२पा० ख०] * नैगम काण्डम् * , a पृष्ट्यस्य, विश्वजिति चेयं तृतीये सवने ब्राह्मणाच्छंशिनः शस्त्रे विनियुक्ता। 'तस्य' इन्द्रस्य 'यज्ञियस्य' यज्ञाहस्य 'वयम्' 'मुमती' शोभनेऽध्यवसाये 'स्याम'। 'अपि' चास्य 'भद्रे भन्दनीये स्तुत्ये 'सौमनसे' शोभनसङ्कल्पे मनसि नित्यमेव स्याम । 'सः' 'सुत्रामा' इन्द्रः, 'स्ववान्' धनवान्, अम्मे “अस्मतः" 'आराञ्चित्' दूरतरमपनीय 'द्वषः' व पं पापम्, ततः ‘सनुतः स्वन्तर्हितं कृतं यथा तं न पश्येम तथा, 'युयोतु' नाशयत्वित्यर्थः । एवमत्र 'द्वषः'-इत्यनेन सम्बन्धात् 'अस्मे'---इत्येतस्य “अस्मत्' -इत्येवं पञ्चम्या विपरिणाम उपपद्यते ॥ षष्ठ्यास्तावत्, 'ऊर्व इव पप्रथे कामो अस्म" "अस्माक- मित्यर्थः”। “आ नो भर भगमिन्द्र धुमन्तं नि ते देष्णस्य दधी- महि प्ररेके। ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥” इति (ऋ० सं० ३, २, ४, ४)। “उद्धृहरक्षः" इत्यस्या एवेयमनन्तरा। 'आ भर' आहर। 'नः' अस्मभ्यम्। हे 'इन्द्र !' 'भगम्' भजनीयं धनराशिम्, 'धुमन्तं' दीप्तिमन्तम् । आहृत्य चास्मभ्यं देहि । तथा प्रभूतं देहि, यथा भुक्तशेषस्य 'प्ररेके अतिरेके सति 'नि दधीमहि । 'ते' तव स्वभूतस्य 'देष्णस्य' दानस्येत्यर्थः। कस्मात् पुनरेवं ब्रवीमि,-प्रभूतं देहीति ? इतः, -यस्मात् 'ऊर्व इच' यथा वडवामुखेऽवस्थितः ऊर्वोऽग्निः, अपः: पिवन 'पप्रथे प्रथते, एवमयम् 'अस्मे' “अस्माकम्" 'कामः' प्रथते विस्तीर्यते । 'तम्' 'आ' आभिमुख्येन 'पृण' पूरय 'वसूनाम् । हे 'वसुपते ॥ एवमत्र 'कामः पप्रथे-इत्यनेन सम्बन्धात् १ । ?
* निरुक्तम् * [पूर्वषट्कम् आत्मविषयत्वात् आशिषः 'अस्मे --इति “अस्माकम्”- इत्येवं षष्ट्या विपरिणाम उपपद्यते॥ सप्तम्यास्तावत्,- अस्मे धत्त वसवो वसूनि” । अत्र 'धत्त' इत्यनेन सम्बन्धात् 'अस्मे'--इत्यस्य “अस्मासु"-इत्येवं सप्तम्या विपरिणाम उपपद्यते ॥ सप्तदशेऽध्याये "सुगावो देवाः सुपथाः' -इति शेष उच्यत एव ॥ “पाथः(३०)"-इति, अनवगतम, अनेकार्थश्च । अन्तरिक्षम्" तावत् पाथ उच्यते। तत् पुनरेतत् “पथा व्याख्यातम्” “पन्थाः पततेर्वा -इत्यत्र । “यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः। प्रति वा सूर उदिते विधेम नभोभिर्मित्रा- वरुणोत हव्यैः ॥”---इति (ऋ० सं० ५, ५, ५, ५)। वसिष्ठ- स्याषम्। अस्याः प्रथमोऽर्द्धर्चः सौर्य इति प्रतिजज्ञे शौनको मैत्रावरुणो द्वितीय इति । एवं ह्याह,-"ऋचः सौर्यो हि गीयन्त उद्वतीत्यर्द्धपञ्चमाः -इति। 'यत्र' यदा "अस्में 'चक्रुः कृतवन्तः 'अमृताः' देवाः ‘गातुं' गमनमार्गम् , उदयादारभ्य यावदस्तमय इति, यदा चायमारब्धः सूर्य 'श्येनो न' श्येन इव 'दीयन् अन्वेति' दीयमानः गच्छन् 'पाथः' “अन्तरिक्षम्” तेन मार्गेण । अथ तदा आरभ्य 'प्रति विधेम' 'वां' प्रतीत्य चेतसा युवाम्। 'उदिते' सूर्ये विधेम' परिचरेम वयम् । हे 'मित्रा- चरुणी! 'नमोभिः' नमस्कारैः 'उत' अपि च 'हव्यैः ॥ एवमत्र 'श्येनो न दीयन्नन्वेति पाथः'---इत्यनेन सम्बन्धात् “पाथः =अन्त- :रिक्षम्" इत्युपपद्यते ॥ messa सूर्याय । । ६०२पा० ३ख०] * नैगम काण्डम् * अपठितमेतदन्तरिक्षनामसु, इतिअप्रतीतार्थम् । अथ चैवमन्यथा स्यात्,-प्रथमस्याईर्चस्यार्थः सूर्यप्रधानत्वात् उत्तरार्द्धचों निराकाङ्क्ष एव । 'यत्र' यस्मिन् नभसः प्रदेशे 'गातु' कृतवन्तः, 'अमृताः' देवाः सूर्यश्च । तेन एव प्रदेशेन 'श्येनः इव 'दीयन्नन्वेति' अनुगच्छति 'पाथः' न तांभयदामीश्वरोऽपि सन्नतिक्रामतीत्यर्थः ॥ “उदकमपि पाथ उच्यते” “पानात्” । “अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥ आ चष्ट आसा पाथो नदीनां वरुण उग्रः सहस्त्रचक्षाः ॥” इति ( ऋ० सं०५, ३, २५, ६, १०)। वसिष्ठस्यार्षम् । व्यूढस्य दशरात्रस्य चतुर्थेऽ- हनि तृतीये सवने वैश्वदेवशस्त्रे शस्यते । हे ऋत्विजः! 'अभि' वदामि 'व:'-एनां देवीं धियं' यूयम् एतान् विश्वान् देवान् 'प्रति दधिध्वम्' धारयध्वम् । किञ्च, “प्रवो देवत्रा वाचं कृणुध्वम्" । 'प्र' ब्रवीमि च एतत् 'देवत्रा' देवगामिनीम् एतां 'वाचं' स्तुतिलक्षणाम् 'कृणुध्वम्'। किञ्च, “आ चष्ट आसां पाथो नदीनां वरुणः”। वरुणोऽपि देवः आदित्यः, 'आचष्टे' इव, प्रकथयतीव जनानां वर्षम् , उत्सृजन् 'आसां' 'नदीनां' स्वभूतम् , उदकं 'पाथः'। किंलक्षणः पुनर्वरुणः ? आचष्टे,- 'उग्रः' उद्गूर्णः, 'सहस्रचक्षाः' बहुदर्शन इत्यर्थः ॥ एवमत्र 'पाथः' शब्देन “उदकम्”-इत्युच्यते, नदीसम्बन्धात् ॥ "अन्नमपि पाथ उच्यते” “पानादेव” । “वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् । स्वदाति देवः कृण- -वद्धवींष्यवतां द्यावापृथिवी हवं मे ॥” इति (ऋ० सं०८,२, ।
* निरुक्तम् * [पूर्वषटकम् २२, ५)। आप्रीसूक्ते वाध्यश्वस्य सुमित्रस्येयमार्षम् । हे 'वनस्पते!' 'रशनया' 'नियूय' निबध्य 'देवानाम्' एतत् स्वभूतं 'पाथः' अन्न हविर्लक्षणम् 'उप वक्षि' समीपं वहसि 'विद्वान् जानानः। कस्मात् पुनरेवं ब्रवीमि ? इतः, यस्मात् 'स्वदाति' स्वादयति, सः 'देवः' त्वयोढानि एतानि 'हवींषि'। यानि 'कृण- वत्' अकरोत् , एष यजमानः। वनस्पतिमेवमुक्ता पुनावापृ- थिव्यावाह,-हे 'द्यावापृथिव्यौ !' 'वां' युवामपि 'अवताम् अवगच्छताम्, एनं 'हवम्' आह्वानं 'में मम ॥ "सवीमनि (३१)----इति, अनवगतम् । “प्रसवे”- इत्यवः गमः । “देवस्य वयं सवितुः सचीमनि श्रेष्ठे स्याम वसुनश्च दावने। यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥”-इति (ऋ० सं० ५, १, १५, २)। र्षम् । जगती। गवामयने चतुर्विशं नाम द्वितीयमहः, तत्रेयं तृतीयसवने वैश्वदेवशस्त्रे शस्यते। 'देवस्य' 'सवितुः' सर्वार्थ- प्रसवितुस्तस्य वयं 'सवीमनि' 'श्रेष्ठे' प्रसवे सर्वार्थाभ्यनुज्ञाने, नित्यकालं 'वयम्' एव 'स्याम'। 'वसुनश्च' धनस्य च 'दावने दाने श्रेष्ठे प्रवृत्ते, वयमेव लब्धारः स्याम । हे सवितः! 'यः' त्वं विश्वस्य' सर्वस्यास्य "द्विपदः' मनुष्यादेः, 'यः' 'चतुष्पदः" गवादेः, 'भूम्नः' भूनः, 'निवेशने' च स्थिती, 'प्रसवे च' सृष्टी, प्रभुः 'असि'। तस्य तव एवङ्गुणावशिष्टस्य प्रसवे च दाने व वयमेव अङ्गभूताः स्यामेति॥ एवमत्र 'सवितुः-इत्यनेन सम्बन्धात् 'सवीमनि'-इत्यस्य "प्रसवे"-इत्येवं विपरिणाम उपपद्यते॥ भरद्वाजस्या- ६अ० २पा०४ख०] नैगम काण्डम् ॐ ६ इत्यवगमः। । । 'सप्रथाः (३२)”–इति, अनवगतम्। सर्वतः पृथुः”. “त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते ॥” इति (ऋ० सं०४, १, ५, ४)। सुतम्भर- स्येयमार्षम् । गायत्री। आग्नेयी। प्रातरनुवाकाश्विनयोः शस्यते। हे अग्ने ! त्वमेव 'सप्रथाः' “सर्वतः पृथुः” विस्तीर्णः । 'जुष्टः च आसेवितो यजमानैः । 'होता' आह्वाता देवानां भवसि। 'वरेण्यः' वरणीयः सर्वथापि। किंबहुना त्वया' एव हेतुभूतेनैते यजमानाः एतं यज्ञ वितन्वते विविधं तन्वते, विस्तारयन्ति। एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च सप्रथाः =सर्वतः पृथुः”-इत्युपपद्यते॥ “विदथानि (३३)” - इति, अनवगतम्। “वेदनानि”- इत्यवगमः। “होता देवो अमर्त्यः पुरस्तादेति मायया। विद- थानि प्रचोदयन् ॥” इति (ऋ० सं० ३, ६, २६, २)। विश्वा- मित्रस्यार्षम्। गायत्री। आग्नेयी। प्रातरनुवाका श्विनयोः शस्यते। अग्नीषोमप्रणयने विनियुक्ता। 'होता' आह्वाता, 'देवः' अग्निः, 'अमर्त्यः' अमरणधर्मा, 'पुरस्तात्' अस्य यज्ञकर्मणः, सोमस्य वा प्रणीयमानस्य 'एति' गच्छति, "मायया' स्वया प्रज्ञया। एषाम् ऋत्विजाम् विदथानि' विज्ञानानि 'प्र' प्रकर्षण 'चोदयन्' अनुगृह्णन्नित्यर्थः॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च “विदथानि वेदनानि इत्युपपद्यते ॥ ३(७) । श्रायन इव सूर्य विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रतिभागं न दीधिम ॥ समाश्रिताः । -- निरुक्तम् 8 पूर्वषट्कम् सूर्यमुपतिष्ठन्ते अपि वोपमार्थे स्यात् सूर्य्यमिवेन्द्र मुपतिष्ठन्त इति सर्वाणीन्द्रस्य धनानि विभक्ष्यमाणाः स यथा धनानि विभजति जाते च जनिष्यमाणे च तं वयं भागमनुध्यायामौजसा बलेनौज ओजतेर्वोञ्जतेर्वाशीराश्रय- णाद्वाश्रपणाद्वाथेयमितराशीराशास्तेः । इन्द्राय आशिरमित्यपि निगमो भवति । सा मे सत्याशीदेवेविति च॥४॥ । "श्रायन्तः (३४)"-इति, अनवगतम् । “समाश्रिताः" इत्येवमर्थप्रतीतिः। “श्रायन्त इव०-०न दीधिमः” इति (ऋ० सं० ६, ७, ३, ३) बृहती। नृमेधस्य आङ्गिरसस्येयमार्षम् । अन्नर्शरातिमितीयमनन्तरा चास्याः महाव्रते बृहतीसहस्र विनि- योगः। 'श्रायन्त इव सूर्यम्' इवोऽनर्थक एतस्मिन् प्रथमेऽर्थे । "समाश्रिताः समन्तादाश्रिताः 'सूर्यम्' “उपतिष्ठन्ते" रश्मयः । किम् ? इति,–“विश्वेदिन्द्रस्य भक्षत” । 'इत्' इत्यनर्थक एव । 'विश्वा' विश्वानि “सर्वाणि” 'इन्द्रस्य' “धनानि" सूर्यस्य स्वभू- तानि, उदकानि, तेन प्रवृत्तानि “विभक्ष्यमाणाः” विभक्तुमि- च्छन्तः । अथ “वा” 'इत्'-इत्ययम् “उपमार्थे स्यात्" नानर्थकः । आह,-कथम् ? इति, उच्यते,-"सूर्यमिवेन्द्रमुपतिष्ठन्ते" यथा सूर्य्यमहन्यहनि रश्मय उपतिष्ठन्ते, एवं मध्यस्थानमिन्द्रमुदकेश्वर- मुपतिष्ठन्ते। तस्य “इन्द्रस्य” स्वभूतानि “सर्वाणि धनानि" ६०२पा०४ख०]] * नैगम काण्डम् * उदकानि तेन प्रवृत्तानि, आत्मनो जनानां वा विभक्तुमिच्छ- मानाः। किञ्च “वसूनि जाते जनमान ओजसा”। यथेन्द्र आदित्यो वा 'वसूनि' धनानि 'जाते' "च” उत्पन्ने च 'जनमाने' "जनिष्यमाणे च स्वेन 'आजसा ऐश्वर्य “बलेन" “विभजति" । तथैव यथाविभक्तः तेन, “त" 'भाग' भूतानि उपजीवन्ति, तदैश्वर्यानुप्रवृत्त्यैव । यत एवमतः “वयम्” अपि “तम्” एव 'भाग' 'प्रति' 'न दीधिमः' । अत्र 'न'-इत्यनर्थकः, अनो, स्थाने । “तं वयं भागमनुध्यायामः”-इति भाष्यकारी निराह ॥ एवमत्र 'श्रायन्त इव सूर्य्यम्-इति सूर्यसम्बन्धात् रश्मयोऽ- ध्याहृताः, रश्मिसम्बन्धाच 'श्रायन्तः'- इत्येष शब्दः, समाङा- वुपसर्गावध्याहृत्य “समाश्रिताः” - इत्येवमुपमार्थे भवतीत्यु- पपद्यते॥ "ओजः"-"ओजतेर्वा" वृद्ध्यर्थस्य (चु० अ० प०), "उब्ज- तेर्वा" न्यग्भावार्थस्य (तु०प०)॥ "आशीः (३५)"-इति, अनवगतमनेकार्थश्च । “आशि- रम्" इत्यर्थप्रतीतिः। या यजमानस्य व्रतधुक्, तामाशिरं दुहन्ति। एतस्मिन् पक्षे दध्यभिधेयम् , तेन हि सोम उपधीयते, तस्मात्तदाशिरमित्युच्यते। अथ “वा" “आश्रपणात् ईषद्धि तच्छृतं भवति दधिभावात् ॥ "अथ" पुनः या "इयम्,-इतरा आशी:” ? इयम् “आशास्तेः" आयूर्वस्य शास्त्रः (अदा०प०) अभिलाषार्थस्य ॥ “इन्द्राय गाव दुदुहे वज्रिणे मधु। यत् सीमुपहरे - , आशिर * निरुक्तम् * [पूर्वषटकमा विदत् ॥” इति (ऋ० सं० ६, ५, ६, १)। प्रियमेधस आङ्गिर- सस्येयमार्षम् । मध्यमे रात्रिपाये ब्राह्मणाच्छंसिनः शस्त्रे, विनियुक्ता । 'इन्द्राय' 'वज्रिणे' अर्थाय 'गावः' 'आशिरं' श्रपणार्थं पयः, यज्ञे पुनः 'दुदुहे। 'मधु' मध्वास्वादम्। 'यत्' 'सीम्' सर्वतः 'उपरे' उपगूहे ऊधःप्रदेशे, दोग्धा 'अविदत् तत् स्तन दुदुहे ॥ एवमत्र गोसम्बन्धात् 'आशीः'शब्देन “आशिरम्” उच्यतः इत्युपपद्यते॥ "अथेयमितराशीराशास्तेः”-इति यदुक्तम्, तत्रेदमुदाहर- णम्-“सा मे सत्याशीर्देवान् गम्यात् । शृण्वन्तु ते समर्द्धयन्तुः। जुष्टात् जुष्टतरा पण्यात् पण्यतरा। अहेडता मनसा नु गच्छ यज्ञो देवान् गच्छतु" ॥ प्रस्तरे प्रह्रियमाणे यजमानो जपत्येनम् । 'सा' 'मे' मम 'आशीः' 'सत्या' यथाप्रार्थितेह 'देवान्' 'गम्यात् प्राप्नोतु । 'शृणन्तु' 'ते' देवाः। श्रुत्वा च 'समर्द्धयन्तु' 'जुष्टात् अपि 'जुष्टतग प्रियादपि प्रियतरा, पण्यादपि 'पण्यतरा' स्तुता- दपि स्तुततरा। किञ्च, 'अहेडता मनसा' अक्रोधवता मनसा प्रहितोऽस्माभिः हे प्रस्तर ! त्वमपि देवान्' 'गच्छ' । 'यज्ञः' अपि, 'देवान्' 'गच्छतु। त्वमपि चान्यं यज्ञम् । तद्वयं याचामोऽ- सावपि देवान् गम्यात् ॥ एवमत्र आशीरेव 'आशीः'शब्देनाभि-: धीयते, आशिषो हि देवान् प्रति गमनमभीष्टमिति ॥ ४॥ यदा ते मर्तों अनु भोगमानलादिद् असिष्ठ ओपधीर- जीगः ॥ यदा ते मर्ती भोगमन्वापदथ ग्रसितृतम ओष- अ०२पा०५ख०] नैगमं काण्डम् * धीरगारीजिंगतिर्गिरतिकर्मा वा गृणातिकर्मा वा गृह्णाति- कर्मा वा । मूरा अमूर न वयश्चिकित्वो महित्वमग्ने त्वमङ्ग वित्से ॥ मूढ़ा वयं स्मोऽमूढ़स्त्वमसि न वय विद्यो महत्त्व- मग्ने त्वं त वेत्थ शशमानः शंशमानः । यो वा यज्ञ: शशमानो ह दाशतीत्यपि निगमो भवति । देवो देवाच्या कृपा। देवी देवान् प्रत्यक्तया कृपा कृप कृपतेर्वा कल्पतेर्वा ।। ५ (८)॥ १ "अजीगः (३६)”- इति, अनवगतम् । "अगारी:"---इत्यव- गमः। “अत्रा ते रूपमुत्तममपश्यं जिगीपमाणमय आपदे गोः । यदा---० रजीगः ॥” इति (ऋ० सं० २, ३, १२, २)। दीर्घ- तमस इयमार्षम् । अश्वमेधेऽश्वस्तुतौ विनियुक्ता। 'अत्र' एतस्मिन् काले ते तव हे अश्व! 'रूपम' अहम् 'उत्तमम् उत्कृष्टम् 'अपश्यम्' । “जिगीषमाणं' जेतुमिच्छमानम् 'इथे' अन्ने जेतव्ये निमित्तभूते 'आ पदे गोः' उपरि भूम्याः शरपथे वेद्यो वा। यज्ञ. नापि ह्यनमेवामुस्मिन् लोके जीयते, तस्माद् वेद्यामित्येवमुपपद्यते । किञ्च, 'यदा' यस्मिन् काले 'ते' तव 'मतः' मनुष्यः 'अनुभोगम्' 'आनट्' प्राप्नोति, वाहयन् वा, अथ परिश्रान्तस्त्वम् 'ओषधीः अगारी:' ओषधी हासि गिरसि वा। अन्ये हि प्राणिनः परि- श्रान्ताः चरितुं न शक्नुवन्ति, त्वं तु सुतरामोषधी क्षयसीत्येतदधिक । स्मः। भवतो * निरुक्तम् * [पूर्वषट्कम् तव ॥ एवमत्र ओषध्यश्वसम्बन्धात् “जिगतिः, गिरतिकर्मा वा गृह्णातिकर्मा वा"-इत्युपपद्यते ॥ “अमूरः (३७)”-इति, अनवगतम् । “अमूढः”–इत्यव- गमः । “मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से। शये वविश्वरति जियादन रिह्यते युवतिं विश्पतिः सन् ॥” इति (ऋ० सं०७, ५, ३२, ४)। त्रितस्याप्तस्यार्षम् । त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते। हे भगवन्नग्ने ! 'अमूर!' अमूढ़ ! 'मूराः' मूढाः 'वयं माहाभाग्यपरिज्ञानं प्रति मन्द- बुद्धित्वात् 'न वयं चिकित्वः' न वयं भवतः प्रभावस्यान्तं विजा- नीमः। हे 'अग्ने!' 'त्वम्' एव आत्मनो महिमानं “महत्त्वम्" माहाभाग्यम् 'वित्से वेत्सि, कस्तवान्यो माहाभाग्यस्यान्तं वेत्तुम- हतीत्यभिप्रायः। किञ्च, 'शये शयपरिमाणे प्रदेशे उत्तरवेद्याख्ये 'वविः' विशेषात्मा, तव रूपाख्यः 'चरति' समिद्धत्वात् मुहुर्मुहु- श्वरति। स त्वमनेन रूपेणोत्तरवेद्यामवस्थितः "जिह्वया' ज्वालया तानि तानि हवींषि 'अदन्' भक्षयन् 'रेरिह्यते' । 'युवति' तां तामाहुतिं पुनः पुनः आस्वादयसि । 'विश्पतिः' विश्वस्य सर्वस्यः पतिः, मनुष्यपतिर्वा 'सन्' यस्त्वमेवं करोषि हितैषित्वात् यजा मानानाम्, सोऽस्माकमिदं नाम कुर्वित्यभिप्रायः॥ एवमत्र मूढाः'-इत्यात्मनिन्दाद्वारेण अग्निः “अमूढ़ः” -इत्यनेन स्तूयते इत्यस्य 'अमूर'शब्दस्य “अमूढः” -इत्येष विपरिणाम उपपद्यते॥ 'शशमानः (३८) इति, अनवगतम् । “शंसमानः”-इत्य- धगमः। “यो वां यज्ञैः शशमानो ह दाशति कवि)ता यजति .
६१०२पा० ५ख०] * नैगम काण्डम् * मन्मसाधनः । उपाहतं गच्छथो वीथो अध्वरमच्छा गिरः सुमति गन्तममयू ॥” इति (ऋ० सं० २, २, २१, २)। दीर्घतमस आर्षम् ।. जगतीच्छन्दः । 'यः' यजमानः, युवां हे मित्रावरुणौ ! 'यज्ञै' निमित्तभूतैः 'शशमानः' “शंसमानः” स्तुवन् 'दाशति' ददाति हवींषि युवाभ्याम् । 'कविः' क्रान्तदर्शनः, 'होता' आह्वाता 'यजति'। 'मन्मसाधनः' मननसाधनः, विज्ञानसाधन इत्यर्थः । आह,-तस्य किम् ? इति, उच्यते,–'उपाहतं गच्छथः' प्रत्यु- पागच्छथः युवाम् , 'वीथः' च 'अध्वरम्' अध्वाश्रितानि हवींषि । वयमपि च एवगुणविशिष्टा एव ? यतो व्रमः, - 'सुमति' शोभनप्रज्ञ यजमानम् अनुलक्ष्य 'अच्छा गिरः' एता अस्मद्गिरः आभिमुख्येन 'गन्तम गन्तुमिच्छथो युवाम् । 'अस्मयू' अस्मान् कामयमानावित्यर्थः॥ एवमत्र 'यज्ञः शशमान:'-इति यज्ञ- सम्बन्धात् शब्दसारूप्याच्च “शशमानः-शंसमानः”-इत्येव- मुपपद्यते ॥ "देवो देवाच्या, कृपा (३६)"-इति, एते अनवगते। देवश- ब्दोऽनयोरेव उपलक्षणार्थोऽत्र समानातः। देवः, देवाच्या, कृपा,-इति त्रीणि एतानि पदानि । 'देवाच्या'-इत्यस्य “देवान् प्रत्यश्चितया"-इत्यर्थप्रतीतिः। 'कृपा'-इत्यस्यापि “कल्पि- तया” ---इत्येवमर्थप्रतीतिः। "अग्नि होतारं मन्ये दास्वन्तं वसुं स्त्रनुं सहसो जातवेदसं चित्रं न जातवेदसम्। य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा। घृतस्य विभ्राष्टिमनुवष्टि शोचि- पाजुह्वानस्य सर्पिषः ॥” इति (ऋ० सं०२, १, १२, १)। परुच्छे- , , ६२० निरुक्तम् * [पूर्वषट्कम् पस्यार्षम्। अतिच्छन्दाः अत्यष्टिः। अंग्निचयने इष्टकोपधाने विनियुक्ता। 'अग्नि' 'होतारम्' आह्वातारम् देवानाम् 'म-ये। 'दास्वन्तं' दानवन्तं दातृतमम्, 'वसुं' वासयितारं सवस्य जगतः । 'सूर्नु-सहसः' बलस्य पुत्रम् , 'जातवेदसं' जातप्रज्ञानम् । 'विप्र' न जातवेदसम्' विप्रमिव जातप्रज्ञानम्, यथा हि कश्चित् कञ्चि- न्मनुष्यं समानपृष्ठोदरपाणिपादं विप्राप्तज्ञानं यथावत् जानीयात्, एवमहमग्निं यथावजाने। 'यः' अग्निः, स्वध्वरः' शोभनयज्ञः 'देवः'। 'ऊर्ध्वया' 'कृपा' कृपया सामर्थ्याख्यया कल्पितया, 'देवाच्या देवान् प्रत्यश्चितया गत्या, 'घृतस्य' 'विभ्राष्टिं विभ्रंशम् 'अनुवष्टि' आहुतिप्रक्षेपम्। 'शोचिषा' ज्वालया अनुकामयते वाञ्छति। “वष्टि"--इति कान्तिकर्मसु पठितम् । 'आजुह्वानस्य' उपरि हूयमानस्य 'सर्पिषः' सर्पणशीलस्य। यमग्निमहमेवं जाने, यश्चैवगुणयुक्तः, स इदं नामास्माकं करोत्वित्यभिप्रायः॥ एवमत्र "देवाच्या, कृपा"-इत्येतो शब्दौ देवान् प्रत्यक्तया कल्पितयेत्ये- वमुपपद्यते, शब्दसारूप्यादर्थोपपत्तेश्च ॥ ५ (८)॥ अश्रवं हि भूरिदाबत्तरा वां विजामातुरुत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ अश्रौषं हि बहुदातृतरौ वां विजामा- तुरसुसमाप्ताजामातुर्विजामातेति शश्वद्दाक्षिणाजाः क्रीताप- तिमाचक्षतेऽसुसमाप्त इव वरोऽभिप्रेतो जामाता जा अपत्यं
अ०२पा० ६ख०]]
नैगम काण्डम्
तनिर्मातोत वा घा स्यालादपि च स्यालात् स्याल आसन्नः
संयोगेनेति नैदानाः स्याल्लाजानावपतीति वा लाजा लाजतेः
स्यं शूर्प स्यतेः शूर्पमशनपवनं शृणातेर्वाथ सोमस्य प्रदानेन
युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरमोमास
इत्युपरिष्टाद् व्याख्यास्यामः ॥ ६ (६)॥
इति षष्टाध्यायस्य द्वितीयः पादः ॥ ६, २ ॥
।
।
"विजामातुः (४०)"-इति, अनवगतम्। उपसर्गस्यापरि-
समाप्त्यर्थे वृत्तिरत्रानवगमः। “अलुसमाप्त इव वरोऽभिप्रेतः”
इति भाष्यकारी निराह्य विगतजामातृभाव व
प्राप्तजामातृभावः स विजामातेत्युच्यते, स हि दाक्षिणात्येषु
प्रसिद्धः। "अभंवं हि ---- • जनयामि नव्यम् ॥"--इति
(ऋ० सं० १, ७, २८, २)। कुत्सस्यार्पम् । त्रिष्टुप् ।
"अश्रौषम्” अहम् युवाम्।
हे 'इन्द्राग्नी! 'भूरिदावत्तरा'
भूरिदातारौ। कुतः ? "विजामातुः “असुसमाप्तात् जामातुः” यो
हि असमाप्तजामातृभावो भवति, स जामातृगुणहीनत्वात् बहु-
दानेन कन्या पितॄनाराध्य तेभ्य आत्मानं रोचयति। ततोऽपि
बहुतरस्य धनस्य दातारावहमश्रीषं भवन्तौ । “उत वा वा
स्यालात्” । “धा"-इत्यनर्थकः। 'स्यालात्' अपि बहुदातारौ
युवामहमश्रीषं भवन्ती, स्यालोऽपि हि भगिनीप्रियचिकीर्षया
बहेव ददाति! यत एवमहमश्रीषं भवन्ती, एतस्मात् कारणात्
।
૬૨૨ ॐ निरुक्तम् [पूर्वषट्कम्, 'सोमस्य' 'प्रयती' प्रदानेन, हे इन्द्राग्नी 'युवाभ्यां' 'स्तोम' 'जनयामि' उच्चारयामि, 'नव्यं नवतरमन्येभ्यः स्तोमेभ्यः॥ एषमत्र 'विजामातृ'शब्देन “असुसमाप्तजामातृभावः” उच्यते, तस्य बहु- दातृत्वादित्युपपत्तिः॥ "विजामातेति” "शश्वत्" प्रसिद्धमेतत् “दाक्षिणात्याः क्रीता- पतिमाचक्षते” तस्य निर्गुणत्वादात्मनः क्रीणाति कन्यामात्मनो भार्यार्थे । तस्मात् “असुसमाप्त इव" असौ “वरोऽभिप्रेतः॥ "जामाता”। “जा अपत्यम्, तन्निर्माता” जामाता, स्त्रीत्वं हि मैथुनेन व्यवहारेणासौ निर्मिणोति, तेनासौ दुहितुः पतिर्जामाता भवति ॥ “स्यालः आसन्नः संयोगेनेति” “नैदानाः” निदानविदो मन्यन्ते। अथ “वा" स्यम्”-इति “शूर्पम्” उच्यते, “स्यात्" तस्मादसौ गृहीत्वा विवाहे “लाजानावपति” तस्मात् स्याल उच्यते । “स्यं शूर्पम्" "स्यतेः (दि० प०)” धातोः प्रक्षेपणार्थस्य, तेन हि तुषाः क्षिप्यन्ते ॥ “शूर्पम् अशनपवनम्” तेन ह्यशनं पूयते । "सृणातः (क्या०प०) तद्धि शरमयं भवति ॥ "ओमासः (४१)"-"इति” एतत् पदम् “उपरिष्टाद् व्याख्या- स्यामः” सप्तदशेऽध्याये "ओमासश्चर्षणीधृतः”-इत्यत्र ॥ ६(e); इति निरुक्तवृत्तावेकादशाध्यायस्य (षष्टाध्यायस्य) द्वितीयः पादः ॥ ६,२॥ , and cirginity MIN । तृतीयः पादः। सोमानं स्वरणं कृणुहि ब्रह्मणस्पते। कक्षीवन्तं य औशिजः ॥ सोमानां सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्ठेः कान्तिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानां सोतार मा प्रकाशनवन्तं कुरु ब्रह्मणस्पते ॥ १ (१०)॥ 'सोमानम् (४२)"-इति, अनवगतम्। “सोतारम्" इत्यवगमः। “सोमानं स्वरणं ०-० य औशिजः" । मेधातिथेः काण्वस्यार्षम् । अग्न्युपस्थाने विनियुक्ता, “सोमानं खरणमिति ब्राह्मणस्पत्ययोपतिष्ठेत”-इति ह्य तम्। सोमानम्' अनेकेषां "सोमानां” “सोतारम्” अभिषोतारम्, माम्, 'स्वरणं' शब्दयि- तारम् , सुयशस्विनं 'कृणुहि कुरु हे 'ब्रह्मणस्पते!' कथं च पुनः 'प्रकाशनवन्तं कुरु” ? इति,-"कक्षीवन्तं य औशिजः” । लुप्तोपममेतत्। 'यः' 'औशिजः' कक्षीवान् , तमिब । अत्र करो- तिसम्बन्धात् “प्रकाशनवन्तम्" इत्येतद्ध्याहृतं भाष्यकारेण । 'कक्षीवान्' “कक्ष्यावान्" कक्ष्यया तद्वान् । “अपि त्वयं मनुष्य- कक्ष एवाभिप्रेतः स्यात्” स हि कक्षे उत्पन्नः, तदुत्पत्तिसंयोगात् कक्षीवान् । 'औशिजः' “उशिजः पुत्रः” । “उशिक्” पुनः '६० ३पा० २ख०] * नगमं काण्डम् * “वष्टः” कान्त्यर्थस्य। एवमत्र 'सोमानम्'-इत्यस्य शब्दसा- रूप्यात् “सोतारम् सोमानाम्”-इत्येष विपरिणाम उपपद्यते ॥ अपि चैवमन्यथा स्यात् ,--योऽहं सोमानां सोता, कक्षीवान् औशिजः, तमेवगुणविशिष्टं मां प्रकाशनवन्तं कुरु हे ब्रह्म- णस्पते! ॥१(१०)॥ इन्द्रासोमा समघशंसमभ्य१ पंतपुर्ययस्तु चरुरग्निवा इव। ब्रहमद्विपे क्रव्यादे घोरचक्षसे द्वषो धत्तमनवायं किमीदिने ॥ इन्द्रासोमावस्य शंसितारमघं हन्तेनिह सि- तोपसर्ग आहन्तीति तपुस्तपतेश्वरसृञ्चयो भवति चरते; समुच्चरन्त्यस्मादापो ब्रह्मद्विषे ब्राह्मणद्वेष्ट्र' क्रव्यमदते घोरचक्षसे घोरख्यानाय व्यं विकृत्ताजायत इति नैरुक्ता द्वेषो धत्तमनवायमनश्यवं यदन्ये न व्यवेयुरद्वेषस इति वा किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा पिशुनाय चरते पिशुनः पिंशतेविपिंशतीति ॥२(११)॥ "अनवायं (४३)" "किमीदिने (४४)"-इति, एते अनवगते । "अनवायम्'-इत्यस्य “अनवयवम्”--इत्यवगमः । “किमीदिने" ---इत्यस्य “किमिदङ्किमिदङ्कारी पिशुनः” ॥ “इन्द्रासोमा घशंस मनवायं किमीदिने ॥”--इति (ऋ० सं० ५, ७, ५ २)। वसिष्ठस्यार्पम् । हे “इन्द्रासोमौ !” सन्तापन्तं भवन्तौ, " . १२५, * निरुक्तम् [पूर्वषट्कम् 'अघशंसं' पापस्य “शंसितारम्" 'अभ्यत्रं पापमेव कर्तुमाभि- मुख्येन नित्यकालमेव योऽवस्थितः, तं सन्तापयत्यम् । स च 'तपुः' युवाभ्यां सन्ताप्यमानः, “चरुरग्निवा इव” चरिव अग्नि- संयुक्तः 'ययस्तु' क्षयं यात्वित्यर्थः। किञ्च, 'ब्रह्मद्विषे' "ब्राह्मण- द्वष्ट्र" 'क्रव्यादे:क्रव्यमदते पृष्ठमांसभक्षयित्रे, 'घोरचक्षसे' घोर- दर्शनाय, 'द्वपः' सर्वलोकवोप्यतां 'धत्तम्' युवाम् । 'अनवायम् "अनवयवं" सकलमित्यर्थः ।। "चा" “यदन्ने" 'अतद्रुहः' “अद्वेषसः” अष्टार: “न व्यवेयुः” व्यवेतुं वियोजयितुं घटमाना अपि न शक्नुयुः, तादृशं तु पो धत्तम्। 'किमीदिन "पिशुनाय”-इत्यर्थः । एवमत्र 'अनवायम्'--- इत्यस्य "अनव- यवम्” अवियोजनं वा-इत्यर्थप्रतीतिः, तथाभीष्टत्वात् ।। किमिदी च पिशुनः, स हि "किमिदानीम्” वर्त्तते “इति" एवमन्वेषमाणः “चरते" अथ “वा” “किमिदं” वर्तते “इति" एवमन्वेषमाणः “चरते" स हि तस्य स्वभावः ॥ “चरुः, मृच्चयो भवति” मृदादिसञ्चितो भवति। "चरतेर्वा” “समुच्चरन्ति" हि “अस्मादापः” । “क्रव्यं” मांसम्, तद्धि “विकृत्ताजायते” ॥ "पिशुनः" "पिंशतेः (जु०प०)" धातोः, स हि स्वल्पमपि पापं "विपिशति” विपुष्यतीत्यर्थः ॥२ (११)॥ कृणुष्व पाजः प्रसिति न पृथ्वीं याहि राजेवामवाँ इभेन । तृष्वीमनु प्रसितिं द्रुणानोऽस्तासि विध्य रक्षस- स्तपिष्ठः ॥ कुरुष्व पाजः पाजः पालनात् प्रसितिमिव "
अ० ३पा० ३ख०] * नैगम काण्डम् *
पृथ्वीं प्रसितिः प्रसयनात्तन्तुर्वा जालं वा याहि राजेवामा-
त्यवानभ्यमनवान् स्ववान्वेराभृता गणेन गतभयेन हस्ति-
नेति वा तृष्व्यानु प्रसित्या
द्रुप गानस्तृष्वीति क्षिप्रनाम
तरतेर्वा त्वरतेर्वासितासि विध्यरक्षसस्तपिष्टैस्तप्ततमैः
प्रपिष्ठतमैरिति वा। यस्ते गर्भममी वा दुर्णामा योनिमाशये।
अमीवाभ्यमनेन व्याख्यातो दुर्नामा क्रिमिर्भवति पापनामा
कृमिः क्रव्ये मेद्यति क्रमतेर्वा स्यात्सरणकर्मणः कामतेर्वा ।
अतिक्रामन्तो दुरितानि विश्वा। अतिक्रममाणा दुर्गति-
तिगमनानि सर्वाण्यप्वा यदेनया विद्धोऽवीयते । व्याधी
भयं वा। अवे परेहीत्यपि निगमो भवेत्यमतिरमामयी
मतिरात्ममयी।
ऊळ यस्यामतिर्भा अदिद्यु तदित्यपि
निगमो भवति । शुष्टीति क्षिप्रनामाशु अष्टीति ॥ ३(१२)॥
'पाजः
'अमवान् (४५)”-इति, अनवगतमनेकार्थञ्च। “कृणुष्य
रक्षसस्तपिष्ठः ॥ इति (ऋ० सं० ३, ४, २३, २) ।
वामदेवस्यार्षम्। अग्निचयने पुरुषव्याघारणे विनियुक्ता, “राक्षो.
ग्नेन व्याघारयेत्” इति ह्य क्तम् ॥ हे भगवनग्ने! 'कृष्णव'
“कुरुष्व” एतदात्मीयं 'पाजः' बलम्, 'प्रसितिं न' “प्रसितिमिव"
वागुरातन्तुमिव, जालमिव वा। 'पृथ्वीं' विस्तीर्णाम् । तत
एवमेतत् विस्तीर्णं कृत्वा 'याहि त्वं रक्षास्यभिमुखः। कथं च
।
१ सन्ततया ६२७ * निरुतम् * [पूर्वषट्कम् पुनर्याहि ? राजा इव' यथा राजा यायात् 'अमवान्' “अमात्य- चान्” रीतियुक्तो विजयाय, तथा त्वं याहि । अथवा यथा "अभ्यमनवान्” रोगभूतः परेभ्यो भयदाता यायात् , तथा याहि । अथवा यथा “स्ववान्” आत्मवित्तवान् . सुभृतसैन्यो यायाद् विजयाय, तथा याहि । 'इभेन' “इराभृता” अन्नभृतेन “गणेन" सुपुष्टेन युक्तो यथा राजा यायात्, तथा याहि । अथ वा 'इभेन' “गतभयेन" शूरेण “हस्तिना" यथा यायात् तथा याहि । किञ्च “तृष्वीमनु प्रसिति दूणानः। क्षिप्रमनु प्रसृतया गत्या, गत्या। 'गृणानः' रक्षांसि हिंसन् याहि । कस्मात् पुनरेवमुच्यते ? इतः,-यस्मात् 'अस्ता असि' “असिया” क्षेप्ता त्वं रक्षांसि प्रति दीप्तयाः अचिषः। स त्वमेवमागत्य 'विध्य' एतान् “रक्षसः" अस्मच्छत्रून् 'तपिष्ठैः “तप्ततमैः” अर्चिभिः ॥ एवमत्र राजोपमान- सम्बन्धात् “अमवान् =अमात्यवान्”–इत्येवमायुपपद्यते ॥ 'पाजः' इति बलनाम, “पालनात्” तेन हि पाल्यते । 'प्रसितिः'--"प्रसहनात्” “तन्तुर्वा जालं वा" उभाभ्यामपि ताभ्यामभिभूयन्ते मृगाश्चमत्स्याश्च ॥ "अमीवा (४६)"--इति, अनवगतम् । “अभ्यमनेन", "अभ्य- मनवान्”-इति यदुक्तमाधस्त्ये मन्त्रे, अनेनैव तत् “व्याख्यातम्” । “यस्ते गर्भममीवा दुर्णामा योनिमाशये। अग्निष्टं ब्रह्मणः, सह निष्क्रयादमनीनशत् ॥” इति (ऋ० सं० ८,८,२०,२)। रक्षोहा नाम ब्राह्मणः, तस्येयमार्षम् । पुत्रकामस्य षडाहुतो नाम स्थालीपाकः, तत्रैयं विनियुक्ता। 'यः' 'ते' तव हे स्त्रि! 'गर्भम्' - । । ६०.३पा ३ख०] नैगम काण्डम् ६२८. 'अमीवा' रोगभूतः, 'दुर्णामा' “पापनामा क्रिमिः” पापप्रदेशे नतः परिणतः उत्पन्नः; 'योनिम्' 'आ' गत्य 'शये' शेते गर्भहिंसिता। 'तम् अग्निः' ब्रह्मणा सह 'निर् अनीनशत् नाशयतु। 'क्रव्याद" मांसभक्षयितारम् ॥ एवमत्र 'अमीवा' इत्यस्य "क्रिमिः” अभि- धेयः, क्रिम्युपहते हि योनौ गर्भो न सम्भवतीत्युपपत्तिः ॥ “दुरितम् (४७)"--इति, अनवगतम्। “दुर्गतिगमनम्" इति अर्थप्रतीतिः। “वैश्वदेवीं सूनृतामारभध्वं शुद्धा भवन्तो यज्ञियासः पावकाः अतिक्रामन्तो दुरितानि विश्वा शतं हिमाः सर्ववीरा मदेम”। वैश्वदेवीं वाचं 'सूनतां' सत्याम् 'आरभध्वम्' उपक्रमध्वम् वक्तुम् । तयैवंलक्षणया वाचा 'शुद्धाः' इह अनभिशस्तः पूताश्चपरलोके भवथ । 'यज्ञियासः' यज्ञियाः यज्ञसम्पादिनः । किञ्च, 'अतिक्रामन्तः' अतिक्रममाणा वयम् । तस्या वाचो माहा- भाग्येन । 'दुरितानि' दुर्गतिप्रापकाणि कर्माणि, 'विश्वा' विश्वानि । 'शतं हिमाः' शतं हेमन्तानां सर्ववीराः' अनवखण्डित- पुत्रपौत्राः 'मदेम' हृष्येमेत्यर्थः॥ एवमत्रातिक्रमणसम्बन्धात् “दुरि- तम् = दुष्कृतम्" इत्युपपद्यते, तस्य हि अतिक्रमणम भीष्टमिति॥ "अप्वा (४८)"-इति, अनवगतम् । अपव्ययति'-इत्यवगमः। रोगजातिर्वा अभिधेया भयजातिर्वा, तया हि “विद्धः अपवीयते" अपवेष्ट्यते प्राणैः । “अमीषां चित्तम् (ऋ० सं०८, ५, २३, ६) -इति उपरिष्टाच्छेषः॥ “अमतिः (४६)-इति, अनवगतम् । “अमामयी मतिः” अमतिः। एवमपि न प्रतीयत इत्याह,-"आत्ममयी” यस्य ।
६०३पा० ख०] *नैगम काण्डम् * मतिः असावमतिरित्युच्यते। कश्चासौ ? आदित्यः, तस्य ३१ २३१२३कर हि आत्मप्रकाशमयी मतिः। “अभि त्यं देवं सवितारमोण्योः: कविक्रतुमामि सत्यसवं रतधामभि प्रियं मतिम्। २र३१२ ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत ३ सुक्रतुः कृपा स्वः ॥” इति ( सा छ० आ० ५, २, ३, ८)। नकुलस्यार्षम्। अतिच्छन्दाः, अष्टिः। प्रवाये शस्यते, सोम- सम्माने चाध्वयंवे विनियुक्ता। 'अभि अर्चामि' 'त्यंत अहम्, 'देवं' 'सवितारम्'। 'ओण्योः' द्यावापृथिव्योः यान्यन्तरा भूनानि वर्त्तन्ते, तेभ्यः सर्वेभ्यः सकाशात्। 'कविक्रतुं' क्रान्तप्रज्ञानम्, सत्यसव' सत्याभ्यनुज्ञम् , 'रत्नधां' रमणीयानां धनानां दातारम्, 'अभि मतिम्' अभिमन्तारं सर्वार्थानाम्, ईश्वरत्वात् , 'प्रियं व सर्वभूतानाम् । 'ऊर्ध्वा' 'यस्य सवितुः 'अमतिः' आत्मप्रकाश- मयी मतिः। आह,-कतमा पुनरसावू ? इति,-'भाः' याः 'अदिद्युतत्' अद्योतयत्। तम् अभ्यर्चामि । किञ्च, सवीमनि' प्रसवे यस्य सर्वमिदं प्रवर्तते, 'हिरण्यपाणिः' रश्मिपाणिः सर्वमिदं जगत् 'अमिमीत' निर्मितवान् । 'सुक्रतुः सुकर्मा। कृपा' स्वया सामर्थ्यकल्पनया। 'खः' आदित्यः, सु अरण इत्यर्थः ॥ एवमत्र 'अमति'शब्देन आत्मप्रकाशगत आदित्यस्य विज्ञानमुच्यते, २-१६ एव , । * निरुक्तम् * [पूर्वषट्कम स हि प्रकाशसतत्व नान्यत् प्रकाशान्तरमपेक्षत इत्युपपत्तिः ॥ “श्रुष्टी (५०) -इति, अनवगतम्, “पुरन्धिः (५१)"-इति च। श्रुष्टीत्यस्य 'श्वशनम्' इत्यवगमः, पुरन्धिरित्यस्यापि पुरां धी:-इत्यवगमः॥३(१२)॥ ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगन्नासत्या पुरन्धिम् । तानध्वरे यज्ञ उशतः कामयमानान् यजाग्ने श्रुष्टी भगन्नासत्यौ चाश्विनौ सत्यावेव नासत्यावित्यौर्ण- बाभः सत्यस्य प्रणेतारावित्याग्रायणो नासिकाप्रभवौ बभूव- तुरिति वा पुरन्धिर्वहुधीस्तत्कः पुरन्धिर्भगः पुरस्तात्तस्या- न्वादेश इत्येकमिन्द्र इत्यपरं स बहुकर्मतमः पुरां च दारयि- तृतमो वरुण इत्यपरं तं प्रज्ञया स्तौति । इमामू नु कवितमस्य मायामित्यपि निगमो भवति । रुशदिति वर्णनाम रोच- तेज्वलतिकर्मणः ॥ समिद्धस्य ल्शददर्शि पाज इत्यपि निगमो भवति ॥ ४ (१३)॥ ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभिसन्ति देवाः। ताँ अध्वर ०-० पुरन्धिम् ॥” इति (ऋ० सं०५, ४, ६, ४)। वसिष्ठस्यार्षम् । वैश्वदेवी । त्रिष्टुप् । 'ते' ये 'विश्वेदेवाः' 'यज्ञेषु' 'यशियासः' यज्ञसम्पादिनः, 'ऊमाः' अवितारो रक्षितारः, ६ 66 अ०३पा० ४ख०] * नैगम काण्डम् 9 अवनीया वा तर्पणीयाः, 'सधस्थं वैश्वदेवं समानं स्थानम् 'अभि सन्ति' अभितिष्ठन्ते। किं तेषाम् ? इति,-'तान् विश्वान् देवान् हे “अग्ने!” एतस्मिन् 'अध्वरे' “यज्ञ” 'उशतः' खमंशं, “कामय. मानान्" 'श्रुष्टी' “क्षिप्रम्” अविलम्बमानः 'यक्षि' "यज" 'नासत्या' "नासत्यौ चाश्विनी” यज, 'पुरन्धिम्' च यज ॥ एवमत्र यागस्य विघ्नभयात् क्षिप्रस्येष्टत्वात् “श्रुटि-इति क्षिप्रनाम”-इत्युपपद्यते । अन्यत्र हि वक्ष्यति “श्रुष्टीवरी: सुखवरी:” इति, तस्मादेतदने- कार्थमपि भवति ।। "सत्यो एव नासत्याइति” “और्णवाभः” आचार्यो मन्यते। तौ हि सत्यमेव व्रतः, न कदाचिदप्यसत्यम् । तस्मा- नासत्यावित्युच्यते । द्विः प्रतिषेधः प्रकृतिमापादयति। अथवा 'सत्यस्य” उदकस्य, यज्ञस्य वा “नेतारौं” नासत्यौ, तथाहि "आग्रायण:” आचार्यो मन्यते । अथ “वा" ऐतिहासिकपक्षण "नासिकाप्रभवो बभूवतुरिति” । “पुरन्धिः”। पुरन्धिशब्दोऽत्र गुणपदत्वात् सन्दिह्यते इति विवार्यते।-“तत्कः पुरन्धिः ?” इति। “भगः” अत्र “पुर. स्तात्”-'श्रुष्टी भगम्'-इति, “तस्य" अयम् “अन्वादेशः" "इत्येकम्” आचार्य्यमतम्। नासत्याचनन्तरावपि सन्तो न सन्दिह्यते द्विवनवाच्यत्वात् तयोः,-एकवचनान्तत्वात् 'पुरन्धि' शब्दस्य व। “इन्द्रः” उक्तः स्यात् पुरन्धिशब्देन,-"इत्यपरं" मतम् । किङ्कारणम् ? “स” हि इन्द्रः “बहुकर्मतमः” अन्येभ्यो देवेभ्यः। “धीः”-इति कर्मनामसु पठितम्, तद्यस्यपुरु बहु स इमामू नु कवितमस्य , । * निरुक्तम् * [पूर्वषट्कम् पुरन्धिः, स चेन्द्रः । तस्मात् पुरन्धिः इन्द्रः-इत्युपपद्यते । अथवा अन्येन पुरन्धित्वमिन्द्रस्य स्यात्,-"पुरा व दारयितृतमः" मेघपुरो हसावेव दारयति। “वरुणः” पुरन्धिशब्देनोच्यते,-- “इत्यपरम्” मतम् । किङ्कारणम् ? “तं” हि अन्यत्रापि मन्त्रद्वक् “प्रज्ञया" बुद्ध्या "स्तौति । अद्यथा, मायां महीं देवस्य न किरा दधर्ष । एकं यदुद्भ। न पृणन्त्येनी रासिञ्चतीरवनयः समुद्रम् ॥”--इति (ऋ० सं० ४, ४, ३१, १)। अत्रेरापम् । वारुणी। त्रिष्टुप् । 'इमा' 'माया' प्रज्ञा 'कवितमस्य' मेधावितमस्य द्योतमानस्य 'मही महती मायां 'न किरा धर्ष' न कश्चिदप्याधर्षयितुं शक्नोति । कतमा मायाम् ? इति,-'एकम् एतं सन्त वरुणम् आदित्यम् , 'यत्' एता 'उद्धा' उदकेन रश्मिना नद्यः 'एनीः' गमनशोलाः सततमुदकमादाय आदित्यमण्डलं गच्छति। एवं नामाहनिशमेता गच्छन्त्यः 'अवनयः' नद्य इव 'समुद्र' सिञ्चन्त्यः 'न पृणन्ति' न प्रीणयन्ति वुद्ध्या। तेषां रश्मीनाञ्च मायाम् एवंलक्षणां भगवतो वरुणस्य 'आधर्षयितुम्' अभिभवितुं विज्ञातुं न शक्नोति कश्चिदपि कथयितुम् कथमप्ययं न सम्पूर्य्यत इति ॥ एवमत्र वरुणः प्रशया स्तूयते, धीरिति च प्रज्ञानाम, सा यस्य पुर्वी बहो, स पुरन्धः। वरुणश्च प्रज्ञया स्तूयते, तस्मात् “घरुणः =पुरन्धिः"-इत्युपपद्यते ॥ "रुशत् (५२)"-इति, अनवगतम् । “रोचतेज़लति- कर्मणः -इति निर्वचनम् । “रोचनम्”–इत्यवगमः । “अबोधि होता यजथाय देवानूवों अग्निः सुमनाः प्रातरस्थात् । समिद्धस्य ६० ३पा० ५ख०] ॐ नैगम काण्डम् - रुशददर्शि पाजो महान् देवस्तमसो निरमोचि ॥”-इति (ऋ० सं० ३, ८, १२, २)। गविष्ठिरवुधयोरार्षम्। आग्नेयी। त्रिष्टुप् । अग्निचयने इष्टकोपधाने विनियुक्ता। 'अबोधि होता' बुध्यते होता 'अग्निः' 'यजथाय' यजमानाय, यष्टव्यतया 'देवान्' । 'ऊर्ध्वः' ज्वलनक्रियायोगात्। 'प्रात: अस्थात्' अग्निहोत्रिणां गृहेषु योऽवतिष्ठते, 'सुमनाः' च शोभनमनाः। 'समिद्धस्य च यस्य 'रुशत्' रोचिष्णुवर्णः ‘अदर्शि' दृश्यते । 'पाजः' च बलं यस्य 'अप्रमितम्' यश्च प्रभावतः 'महान्'। 'तमसः' च सर्वमिदं 'निरमोचि' निर्मोचयति, बुध्यते देवान् ययतया ॥ एवमग्न्यधि- कारादत्र शब्दसारूप्यात् “रुशत्"--"इति” एतत् “वर्णनाम". इत्युपपद्यते ॥ ४ (१३) ॥ HIRana । अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यन् । अस्ति हि वः समानजातिता रेशयदारिणो देवा अस्त्याप्य- माप्यमामोतेः सुदत्रः कल्याणदानः । त्वष्टा सुदत्रो विद- धातु राय इत्यपि निगमो भवति। सुविदत्रः कल्याण- विद्यः। आग्ने याहि सुविदत्रेभिरर्वाङित्य पि निगमो भवत्यानुषगिति नामानुपूर्वस्यानुषक्त भवति । स्तृणन्ति बर्हिरानुषगित्यपि निगमो भवति। तुर्बणिस्तूर्णवनिः । स तुर्वणिर्महाँ अरेणुपौंस्य इत्यपि निगमो भवति। गिर्वणा * निरुक्तम् * [पूर्वषट्कम् देवो भवति गीभिरेनं वनयन्ति । जुष्टं गिर्वणसे बृहदित्यपि निगमो भवति ५ ॥ (१४)॥ "रिशादसः (५३)”-इति, अनवगतम् । “रेशयदासिनः” इत्यवगमः । “अस्ति हि वः ०-०अस्त्याप्यम् । प्रणः पूर्वस्मै सुविताय वोचत मनु सुम्नाय नव्यसे ॥” इति (ऋ० सं०६, २, ३२, ५)। मनोवैवस्वतस्येयमार्षम् । सतो बृहती। वैश्वदेवे सूक्ते । हे 'रिशादसः' "रेशयदासिनः” ! 'देवासः' देवाः ! यो' हि रेशयति हिंसावान् भवति, तस्मै त आयुधान्यस्यन्ति । "रेशयदारिणः”--इति केचिद्धीयते निर्वचनम् , तेषां रेशयन्तं हिंसन्तं दारयन्तीत्यर्थः। 'अस्ति' 'सः' युष्माकं 'सजात्यं “समानजातिता" देवत्वम्, 'अस्ति' च युष्माकम् 'प्यम् । आप्तव्यं मनुष्यैः, ईश्वरा यूयमित्यभिप्रायः । यत एवमतो ब्रवीमि, -'प्रचोचत' यूयम् अस्मभ्यमनुजानीत । 'सुविताय' सुगताय, 'सुभोगाय' स्थानाय, 'सुम्नाय' सुखाय च पूर्वस्मै स्वभूताय, 'नव्यसे' नवतराय । कथं च पुनः प्रचोचत ? इति,–'मक्षु' क्षिप्र.' मित्यर्थः । एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च "रिशादसः रेशय- दासिनः' रेशयदारिणो वा” - इत्युपपद्यते ॥ "सुदरः (५४)”-इति, अनधगतम् । 'सुदानः' इत्यवगमः। "ता नो रासनातिषाचो बसून्या रोदसी वरुणानी शृणोतु । वरुत्रीमिः सुशरणो नो अस्तु त्वष्टा सुदत्रो विदधातु रायः ॥”- इति (ऋ० सं० ५, ३, २७, २)। वसिष्ठस्यार्षम् । दशरात्रस्य । ।
एवमत्र ६१०३पा०५ख०]] नैगम काण्डम् * चतुर्थेऽहनि तृतीयसपने वैश्वदेवशस्त्रे द्विपदा एताः शस्यन्ते । 'ताः' देव्यः, 'नः' अस्मभ्यं रासन्' 'वसूनि' ददरिवत्यर्थः । किंलक्षणाः देव्यः ? 'रातिषाचः' हविर्दानं याः सचन्ते सेवन्ते । किञ्च, आभिमुख्येन स्थित्वा 'रोदसी' रुद्रस्य पत्नी 'शृणोतु' 'वरुणानी' च। किञ्च, 'वस्त्रीभिः' वरयितव्याभिः सहितः 'सुशरणः' स्वाश्रयणः 'नः' अस्माकम् 'अस्तु' । 'त्वष्टा' 'सुत्रः' 'कल्याणदानः” विदधातु' च अस्माकम् 'रायः' धनमित्यर्थः॥ 'रायः-सम्बन्धात् 'सुत्रः = कल्याणदानः"--- इत्यु. पपद्यते॥ "सुविदत्रः (५५)”-इति, अनवगतम् । सुविद्यः' इत्य- वगमः। "कल्याणविद्यः”– इत्यभिधेयवचनम् । “ये तातृषुर्दै- वत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः। आग्न याहि सुविदत्रेभिरर्वाङ्ग सत्यैः कव्यैः पितृभिर्धर्मसद्भिः ॥” इति ऋ० सं० ७, ६, १८, ४)। शङ्खस्य यामायनस्यार्षम् । त्रिष्टुप् ' पैत्री। पितृयज्ञ खिष्टकृद्याज्यैषा । 'ये' 'तातृषुः' स्तीर्णवन्तः, 'देवत्रा' देवान् प्रति जेहमानाः' गच्छन्तः, 'होत्राविदः स्तुतिविदः, 'स्तोमतष्टासः स्तोमकर्तारः 'अर्कैः' मन्त्रैः स्तोमकारः। य एवंलक्षणाः पितरः, तैः साकम् 'आयाहि' । हे 'आग्ने!' 'सुवि- दोभिः' "कल्याण विद्यः” 'अर्वाक्' अस्मानाभिमुख्येन' तैश्च साकम् । एवङ्गुणयुक्तैः 'पितृभिः' आगत्य 'सत्यैः' एतैः यथा- वत्संस्कृतैः 'कव्यः' पितृदेवत्यैः 'धर्मसद्भिः' यज्ञसादिभिः हवि. भिस्तृप्तिमुपयाहि। अथवा सत्यवादिभिः पितृभिः कव्यवाहैः ।
. * निरुक्तम् * [पूर्वषट्कम् "साकमायाहीति । एवं पितृविशेषणत्वेनैव योज्यमेतदपि पद- द्वयम् ॥ एवमत्र शब्दसारूप्यात् सुविद शब्दः “कल्याणविद्य" वाचीत्युपपद्यते ॥ "आनुषक् (५६)"-इति, अनवगतम् । “अनुषक्तम्" इत्यवगमः । “नामानुपूर्वस्य -इत्यर्थवचनम् । “आ था ये अग्निमिन्धते स्तृणन्ति बहिरानुषक् । येषामिन्द्रो युवा सखा ।” -इति० सं०६, ३, ४२, १)। त्रिशोषस्यार्षम् । बृहतीसहस्त्रे तृचाशोतिषु विनियुक्ता । 'ये' एव नित्यमग्निम् 'आ' आभिमुख्ये- नावस्थिताः 'इन्धते' यज्वानः, य एव यज्ञषु 'बहिः' 'मानुषक' "अनुषक्तं” 'स्तृणन्ति' तेषामेव 'इन्द्रः' 'युवा' नित्यः 'सखा' समानख्यानो याज्ञ कर्मणि भवति, नेतरेषामयज्वनाम् । वर्हिः- सम्बन्धात् 'आनुषक्' इति "नाम" एतत् “आनुपूर्वस्य नाम”- इत्युपपद्यते॥ "तुर्वणिः (५७)-"-इति, अनवगतम् । “तूर्णवनिः' इत्यर्थवचनम् ! तूर्णं हि यः सम्भजते, स तूर्णवनिता सन् तूर्ण- वनिरित्युक्तः । “स तुर्वणिर्महाँ अरेणुपौंस्ये गिरे ष्टिर्न भ्राजते तुजा शवः । येन शुष्ण मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥"-इति ऋ० सं० १, ४, २१, ३)। इन्द्रस्य सव्यत्वमा- पन्नस्येयमार्षम् । जगती । ऐन्द्री । वैषुवतेऽहनि निष्केवल्ये शस्त्र शस्यते । स इन्द्रः तूर्वणिः तूर्णवनिता, इन्द्रो हि स्तोतारं तूर्ण सम्भजते । 'महान्' प्रभावतः । 'अरेणुपौंस्ये' अन्तरिक्षे हि यत् बलं भवति, तत्र न रेणवः सन्ति, तस्मादरेणुपौंस्यमित्युच्यते । ।
६० ३पा० ५ख०] * नैगम काण्डम् * “पौंस्यम्" इति बलनामनु पठितम्, तस्मिन् 'अरेणुपौंस्ये' बले अन्तरिक्षे, संग्रामे वा। 'गिरेः भृष्टिः' गिरिशङ्गमिव उच्छ्रितः भ्राजते। 'तुजा' वज्र ण प्रगृहीतेन 'शवः शविष्ठो बलिष्ठ इन्द्रः । 'येन' बनण 'शुष्णं' शोषयितारम्, 'असुरं" मेघम्, 'मायिनं' प्रज्ञावन्तम 'आयसः' देवान् प्रति अयनशीलस्य मस्य 'मदे' प्राप्त 'दुध्रः' दुर्द्धरः शत्रुणाम् 'आभूषः' उपर्युपरि आत्मनो भवतुमिच्छन् 'रामयन्नि दामनि' दाम्नीच न्यरमयत, सुबध्ना. दित्यर्थः ॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च “तुर्वणिः-पूर्णवनिः" --इत्युपपद्यते॥ "गिर्वणसे (२८)" ---इति, अनवगतम्। 'गीर्वणनीयः'- इत्यधगमः । “गीभिः” स्तुतिभिः “एनं वनयन्ति” - इति अर्थ- वचनम् । “आमासु पक्कमैरय आ सूर्य रोहयो दिवि। धर्म न सामन्तपता सुवृक्तिभिर्जुष्ट गिर्वणसे बृहत् ॥” इति (ऋ० सं० ६, ६, १२, ७)। नृमेधसः प्रियमेधसो वा इयमार्षम् । बृहती । ऐन्द्रे सूक्ते । 'आमासु' अपक्कासु गोषु क्षीरं 'पक्वम्' 'ऐरयः' त्वम् इन्द्र!। तस्मादामा सती पक्कं दुहे इति ह विज्ञायते। तदिदमा- मायां सत्यां गवि शृतं पय इति । किञ्च, “आ सूर्य रोहयो दिवि 'आ रोहयः' 'सूर्य' 'दिपि' द्यु लोके इत्यर्थः। एवमिन्द्र. मुक्त्वा स्तोतनाह'- अस्मै इन्द्राय एवषणविशिष्टाय ‘धर्म न' धर्म- मिव सुतप्त सुष्टु सुगुणं 'सामन्' साम 'तपत' स्थानकरणानु- प्रदानवदुश्चारयतेत्यर्थः। 'सुवृक्तिभिः' शोभनाभिः स्तुतिमिः "जष्ट' प्रियं 'गिर्वणसे' इन्द्राय स्तुतिसम्भक्त्रे । कतमत् पुनस्त- । 1 29. निरुक्तम् , [पूर्वपटकम् त्साम ? इति,- 'बृहत्' तद्धि प्रियमिन्द्रस्य । एवमत्र "गिर्वणाः= देवः” उच्यते, शब्दसारूप्यादित्युपपद्यते ॥ ५(१४) ॥ असूते मूत्ते रजसि निषत्ते ये भूतानि समकृष्वन्नि मानि ॥ असुसमीरिताः सुसमीरिते वातसमीरिता माध्य. मका देवगणास्ते रसेन पृथिवीं तर्पयन्तो भूतानि चकुर्वन्ति त आयजन्तेत्यतिक्रान्तं प्रतिवचनम्। अम्यक् सा तं इन्द्र ऋष्टिः। अमाक्त ति वाभ्यक्तति वा यादृश्मिन् धायि तमपस्यया विदत् । यादृशेऽधायि तमपस्ययाविदत् । उस्रः पितेव जारयायि यज्ञः। उस्र इव गोपिताजायि यज्ञ ॥ ६ (१५)॥ “असूर्त सूर्ते (५६)-इति, एते अनवगने। “असुसमी- रिताः” “सुसमोरिते' -इत्यवगमः । “त आयजन्तु द्रविणं समस्या ऋषयः पूर्वे जरितारो न भूमना। असूर्ते सूते निमानि ॥ -इति (ऋ० सं०८, ३, १७, ४)। विश्वकर्मणो भौवनस्येय- मार्षम्। वैश्वकर्मणीभ्यां जुहोतीति ह क्तमग्निप्रणयने, तत्र विनियोगः । 'असूर्ताः' असुः प्राणः, प्राणश्च वायुः, “योऽयं वायुः पवत एष प्राणः" ह्य क्तम्, तेन समन्तात् ईरिताः “असुसमीरिताः" वातसमीरिताः इत्यर्थः । के पुनस्ते ? “माध्य- मका देवगणाः" मेघाः, इतरे व मरुदादयः। ते वातेन समीर्य्यन्ते वात एव हि तान् वहति। क पुनरेतेऽवस्थिताः समीरिताः ? । -इति नैगम काण्डम् * MAS Arseniles ६० ३पा० ६ख०]] इति,- 'सूर्ते' “सुसमीरिते” विक्षिप्त विस्तीर्ण इत्यर्थः। 'रजसि' अन्तरिक्षलोके 'निषत्ते' निषणे इत्यर्थः । समीरिताः किं कुर्वन्ति ? इति,-'ये भूतानि समकृण्वन्' समस्तानि कृतवन्तः 'इमानि' । तेषां किम् ? इति,--'त आयजन्ते' इति। “अतिक्रान्तं प्रति- वचनम्” प्रतिनिर्देशः प्रतिवचनमुच्यते, स एव पूर्वकाले प्रयोगार्हो यच्छब्दः पश्चात् प्रयुक्तः पश्चात्प्रयोगार्हश्च तच्छब्दः पूर्वं प्रयुक्तो मन्त्रपाठक्रमेण, -तदेतत् भाष्यकारण प्रदर्शितमस्मिन् मन्त्रे "त आयजन्त इति अतिक्रान्तं प्रतिवचनम्” ---इति । त आयज- न्त इति अतिक्रान्तं प्रतिवचनम्” - त आयजन्तेत्यस्य पादस्य समासेनैतद्भाष्यकारेण निर्वचनमुक्तम् । "ते रसेन पृथिवीं तर्पयन्तो भूतानि च कुर्वन्ति” ते मेघाः, रसेन उदकेन, पृथिवीं तर्पयन्तः, भूतानि सर्वाण्युत्पादयन्ति, स्थिति च एषां कुर्वन्ति । 'आयजन्त' 'द्रविणम्' उदकम् , आभिमुख्येन ददति सर्वमुदकम् 'समस्मै' सर्वस्मिन् भूतजाते। एवं भूतान्युदकेन कुर्वन्ति अनुगृह्णन्ति च। अधुना दृष्टान्तमाह,-'ऋषयः पूर्वे' विश्वसृजः, 'जरितारः न' 'भूमना' भूना कर्मणा वार्षसहस्रिकेण सत्रेण, तैहि सर्वो भूतनामः पूर्वं सृष्टोऽनुगृहीतश्च। एवमत्र शब्दसारूप्यादर्थोपपत्तश्च 'असूः' 'सूर्ते'-इत्येतयोः “असुसमी- रिता:"-"मुसमीरिते"-इत्येते शब्दसमाधी उपपद्यते ॥ "अम्यक् (६०)--इति, अनवगतम् ! "अमाका इति वा, अभ्यक्ता इति वा” शब्दसमाधी। 'ऋष्टिः' अभिधेया' तां हि संग्रामे शत्रवो मन्यन्ते,-मामेषा प्रत्यञ्चिता क्षिप्ता मामेषा 8 निरुक्तम् , [पूर्वषट्कम् प्रत्यञ्चितेति । अथवा “अभ्यक्तेति वा” अभिगतैव नित्यकालं शत्रून् प्रति भवतीति अभ्यगित्युच्यते । “अभ्यक् सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति । अग्निश्चिद्धि ष्मातसे शु शुक्कानापो न द्वीपं द्धति प्रयांसि ॥"-इति (ऋ० सं० २, ४, ८, ३)। अगस्त्यस्यार्षम् । त्रिष्टुप् । ऐन्द्री। छन्दोमेषु द्वितीये- ऽहनि मरुत्वतीये शस्त्रे शस्यते। 'अम्यक् सा ते' यदैवलक्षणा रेषणा शक्तिः आभिमुख्येन मेघमञ्चिता त्वया क्षिप्ता भवत्या- त्मनस्तव या स्वभूता, अथ तदा मरुतोऽपि तदनुवृत्सयैव हे 'अस्में अस्मदर्थं 'सनेमि' चिरन्तनम् 'अभ्यं' बहु- दकमिह पातयितव्यमिति स्वान्यायुधानि मेघविदारणाय 'जुनन्ति' गमयन्ति। किञ्च, सर्वेषामेवायुधानां मध्ये भावत्कैव शक्तिः 'अग्निरिव' 'अतसे' काष्ठे 'शुशुक्वान्' देदीप्यमान एतस्मिन् मेघे आस्ते। किञ्च, 'आपो न द्वीपम्' यथा ता द्वोप्या आपो द्वीपं परिवार्यात्मानं धारयन्ति, एवमेतानि मेध्यानि 'प्रयांसि' उदकानि महत्त्वाद् वृष्टः तानि मजयितुमशक्नुवन्ति द्वीपमिव परिवार्य धारयन्ति ॥ एवमत्राञ्चतेर्गत्यर्थस्य (भू०प०) 'अम्यक्' -इत्येतद् वृष्टिसम्बन्धादित्युपपद्यते ॥ “याश्मिन् (६१)”–इति, अनवगतम् । “यादृशे” - इत्यव- गमः । “ज्यायांसमस्य यतुनस्य केतुना ऋषिस्वरं चरति यासु नाम ते । यादृश्मिन् धायि तमपस्ययाविद् य उ स्वयं वहने सो अरं करत् ॥"-इति (ऋ० सं० ४, २, २४, ३) । अवत्सारस्ये. यमार्षम् । जगती । आग्नेयो। “तम्प्रत्नथा” -इत्येतस्मिन् सूक्ते । ।
* नैगम काण्डम् * ७ ६०३पा० ख०] उपहव्ये तृतीयसवने वैश्वदेवे शस्यते। 'ज्यायांसं' महत्तरम् । 'अस्य' यतुनस्य' कर्मणि षष्टयौ वा यतनशीलस्य भगवतः सूर्यस्य, 'केतुना' कर्मणा प्रज्ञया घा, 'ऋषिस्वरम्' ऋषिभिः स्वय्यते स्तूयते इत्यृषिस्वरः, तमृषिस्वरम्, स्तुवन् 'चरति' प्रचरति। “यासु नाम ते” 'यासु' क्रियासु 'नाम' नमनं 'ते' तव हे भगवत् अग्ने ! स एवं चरन् तासु क्रियातु, 'यादृश्मिन् “यादृशे” कामे 'धायि' मनो धत्ते, 'तम्' तादृशं कामम् 'अप- स्यया' क्रियया हविःस्तुत्यादिलक्षणया तव प्रसादात् 'अविदत्' अलभतेत्यर्थः । किञ्च, 'य उ स्वयं वहते' त्वां प्रति आदरचान प्रापयति स्तुतिः, 'सः' एव 'अरं करत्' पर्याप्तमात्मनोऽभिप्रेत- मर्थं करोति ॥ एवमत्र शब्दसारूप्यात् 'यादृश्मिन'-इत्यस्य "यादृशे"---इत्येवं विपरिणाम उपपद्यते । "जारयायि (६२) -इति, अनवगतम् । “अजायि"-इत्य- वगमः । “सोस्माके भिरेतरी न शूरग्निटवे दम आ जातवेदाः। द्वन्नो वन्वन्क्रत्वानास्त्रिः पितेव जारयायि यज्ञः॥ - इति (ऋ० सं० ४, ५, १४, ४)। भरद्वाजस्यार्षम् । आग्नेयी। त्रिष्टुप् । प्रातरनुवाकाश्विनयोः शस्यते। “सारमाकेभिः” इति छान्दस- मात्वम्। 'सः अग्निः' 'अस्माकेभिः' 'शूषैः' सुखैः स्तोत्रैः 'स्तवे स्तूयते। 'एतरी न' अतिथिरिव । 'दमे' यज्ञगृहे यज्ञ 'आ' आभिमुख्येनावास्थितैः स्तूयते 'जातवेदाः' जातचिद्यो वा जात- धनो वा 'द्वन्नः' द्रुमानः चन्वन्क्रत्वा' बननीयकर्मा घननीय- प्रज्ञानो वा। 'अनार्वा' अनर्वा, अनाश्रितः कञ्चिदन्यम्। 'उस्त्रः Aana- ६४२ * निरुक्तम् * [पूर्वषट्कम् पिता इव' साण्ड इव “गोपिता” गवां पिता 'जारयायि' "अजायि”। यथा साण्डः पुत्रपौत्रादिभिरनेकधा प्रजायते एवं यज्ञषु विह्रियमाणः अनेकधा जायतेऽग्निः ॥ एवमत्र 'जारजायि' -इत्यस्य "अजायि” इत्यर्थप्रतीतिः ॥ ६ (१५) ॥ प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥ प्रास्थुओं जोषयमाणा अभवत सर्वेऽग्रगमनेनेति वाग्रगरणेनेति वायसम्पादिन इति वापि वानमित्येतदनर्थ- कमुपबन्धमादद्दीत । अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । अद्धीन्द्र प्रस्थितानीमानि हवींषि चनोदधिष्व चन इत्यन्ननाम पचति मीभूतः । तं मे दस्तः प्रति पचतान भीष्टामित्यपि निगमो भवत्यपि वा मेदसश्च पशोश्च साचं द्विवचनं स्याद्यत्र य कवचनार्थः प्रसिद्ध तद्भवति । पुरोला अग्ने पचत इति यथा । शुरुध आपो भवन्ति शुचं सरून्धन्ति । ऋतस्य हि शुरुधः सन्ति पूर्वीरित्यपि निगमो भवत्यमिनोऽमितमात्रो महान् भवत्य- भ्यमितो वा। अमिनः सहोभिरित्यपि निगमो भवति जज्झतीरापो भवन्ति शब्द कारिण्यः प्रदिवो जज्झतीरि- वेत्यपि निगमो भवत्यप्रतिष्कुतोऽप्रतिस्कृतोऽप्रतिस्ख- । - an RWAIMAHI 1 ईअ०३पा० ख०] * नैगम काण्डम् * लितो वा। अस्मभ्यमप्रतिष्कुत इत्यपि निगमो भवति । शाशदानः शाशाद्यमानः। प्रस्वां मतिमतिग्च्छाशदान इत्यपि निगमो भवति ॥ ७ (१६) । इति षष्ठाध्यायस्य तृतीयः पादः॥६, ३ ॥ "अग्निया (६३)"-इति, अनवगतम् । “अग्रगमनेन” अप्रियाः । अग्रमेव अनिया:, अनर्थक एवानशब्दे 'या'कार उपबन्ध उपात्तः -“अपि वानमित्येतदनर्थकमुपबन्धमाददीत”---इत्युक्तं भाष्य- कारण। “अयं वो यज्ञ भवोऽकारि यमा मनुष्यत् प्रदिवो दधिध्वे । प्रवोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अमियोत वाजाः ॥”--इति (ऋ० सं० ३, ७, ३,३)। वामदेवस्यार्षम् । आर्भवे त्रिष्टुप् । व्यूढस्य दशरात्रस्य पञ्चमेऽहनि तृतीये सवने वैश्वदेवे शस्यते। हे भवः!' युष्माकम् 'अयं' 'यज्ञः' 'यम्' अहमाकर्षम् । तमागत्य 'मनुष्वत्' मनुष्यवत् , 'प्रदिवः' प्रकर्षण द्योतमानाः सन्तः, 'आदधिध्वे' धारयध्वे। एतत् 'व:' प्रब्रवीमि । किञ्च, “प्रवोऽच्छा जजुषाणासो अस्थुः” प्रस्थितानि यान्येतानि हवींषि, तानि यूयं “जोषयमाणाः” देवैः सेव्यमाना वा आत्मना 'अग्निया' 'अभूत' “अभवत” । 'उत वाजाः अपि च हे वाजाः ! यूयमप्येवमेव भवत। एवम् “अग्रगामिनः अग्रसम्पादिनो वा अग्रमेव वा=अग्रिया” तथार्थोपपत्तेः शब्दसारूप्याच ॥ "चनः (६४)-इति, अन्ननाम” “पचता (६५) - इति, “पचतिः नामीभूतः” इति भाष्यकारो ब्रवीति । “अद्धीदिन्द्र - , - 29. * निरुक्तम् * [पूर्वषटकम् प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् । प्रयस्वन्तः प्रति हामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥” इति (ऋ० सं०८, ६, २१, ३)। इयमग्नियुतस्य वाग्नियूपस्य वार्षम् । त्रिष्टुप्। ऐन्द्री। 'अद्धि' भक्षय । हे 'इन्द्र !' 'प्रस्थिता' “प्रस्थितानि" 'इमा' “इमानि" "हवींषि" 'चनः' अन्नम् , एतत् हविलक्षणम् 'दधिष्व' प्रक्षिप जठरे । 'पचता' पकानि इमानि हवींषि, अतएव ब्रवीमि दधिष्वेति। 'उत सोमम्' अपि च सोमं दधिष्व । 'प्रयस्वन्तः' अन्नवन्तो वयं हवींषि कामयमानं त्वा' त्वां 'प्रति हामसि' प्रतिहामः, कामयामहे । “सत्याः सन्तु यजमानस्य कामाः -इत्यभिप्रायेण । 'हवींषि'- इत्यनेन सम्बन्धात् 'पवता'- इत्ये- तदन्नविषयं बहुवचनमुपपद्यते ॥ “पचतिर्नामीभूतः” इति धातु- निर्देशः॥ द्वितीयमुदाहरणं ब्रवीति, अर्थविशेषदर्शनादस्येति,-"तं मेदस्तः प्रति पचताग्रभीष्टाम्" इति। 'तं' पशु मेदस्तः' यतस्तस्य मेदो वपासहयोगि, ततः, तेन प्रदेशेन 'प्रत्यग्रभीष्टाम्' इन्द्राग्नी 'पचता' पक्कमित्यर्थः॥ एवमेतदेकवचनं भवति ॥ "अपि वा” “मेदसश्च वपासहयोगिनः “पशोः” पश्ववदा- नस्य चाभिघायकमेतत्, “सात्वं” सत्त्वविषयं “द्विवचनं स्यात् । सन्ति हवंरूपाणि द्विवचनान्यपि। तद्यथा,-'दैव्या होतारा भिषजा" किं कारणमुच्यते "द्विवचनम्” एतत् "स्यात्" इति ? अतः,-यस्मात् “यत्र हि एकवचनार्थः प्रसिद्धम् एव, निःसन्देह- नैगम । ६अ०३पा० ख० काण्डम् मेव “तद् भवति,--'पुरोला अग्ने पचतः-इति यथा" । “पुरोला अग्ने पचतस्तुभ्यं वा घा परिष्कृतः । तं जुषस्व यविष्ठ्य ॥” इति (ऋ० सं०३, १, ३१,२)। विश्वामित्रस्यार्षम् । गायत्री। आग्नेयी। आश्विनस्य द्विकपालस्य अतिरात्रे यदि विष्टकद् भवति, तस्येयं पुरोऽनुवाक्या भवति । 'पुरोडाः' पुरोडाशः ‘पचतः' पक्क इत्यर्थः। 'तुभ्यं त्वदर्थम् ! भगवन् 'अग्ने !' 'च'-'घ'---इति अनर्थको। न केवल पक्कः, किन्तर्हि ? 'परिष्कृतः' सुसंस्कृत इत्यर्थः। तं 'जुषस्व' सेचस्व हे 'यविष्ट्य' युवतम ! अथवा मिश्रयितम ! ॥ एवमत्र परिष्कृतः'-इत्येतस्मादेकवचनसम्बन्धात् 'पचतः'-इत्ये- कवचनमेव सिध्यति॥ “शुरुधः (६६)”-इति, अनवगतम् । “आपो भवन्ति” इति अभिधेयवचनम् । “शुचं संन्धन्ति ---- इति निर्वचनम् । “शुग्रुधः"-इति न्याय्यम् । “ऋतस्य हि शुरुधः ॥ ---इति ऋ. सं० ३, ६, १०, ३)। दैवते शेषः ॥ "अमिनः (६७)"-इति, अनवगतम्। “अमितमात्र:- इत्यवगमः, न यस्य मात्राणां मानमस्ति, सोऽमिन इत्युच्यते। "अभ्यमितो वा” अनभिर्हिसितो यः केनचिदसी अमिनः । “महा इन्द्रो नृचदा चर्षणिप्रा उत द्विवर्हा अमिनः सहोभिः। अस्मद्रयम् वावृधे पार्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥” इति (ऋ० सं० ४, ६, ७, ३)। भरद्वाजस्यार्षम् । त्रिष्टुप् । ऐन्द्रो। दशरात्रस्या- टमेऽहनि मरुत्वतीये शस्त्र शस्यते, माहेन्द्रश्च ग्रहोऽनन्यैव गृह्यते । 'महान्' प्रभावतः, 'नृवत्' मनुष्यवन, 'आचर्षणिप्राः' आपूरयित २-२० SION " मानेभ्यः तदन्वेव चापोऽपि 'अतः आगच्छन्तु । कथम् ? इति,- निरुक्तम् । [पूर्वषट्कम् 'चर्षणीनाम्' मनुष्याणां कामैः, यथा हि मनुष्य ईश्वरः परितुष्टः कामैरवश्यं भृत्यमापूरयति, एवमिन्द्रोऽपि स्तोतारम् । द्विबर्हाः' अपि च द्वयोः स्थानयोः मध्यमोत्तमयोः परिवृढ़ः 'अमिनः' च अमितमात्रः, अथवा अनभिहिंसितः वनचित् । केन पुनरमिनः ? इति, उच्यते,-'सहोभिः' बलैरित्यर्थः, न हीन्द्रस्य बलमात्राः केनचिन्मितपूर्वा इत्यर्थः, अनभिहिसितपूर्वो वा केनचिदिन्द्रः । 'अस्मत् अस्मनुग्रहाय अस्मदर्शनाय 'वावृधे' वर्द्धते। 'वीर्य्याय' चीरकर्मणे वर्षार्थम्' 'उरुः' महान् परिमाणतः, 'पृथुश्च विस्तीर्णो यः, सोऽस्माकं प्रत्यभिमुखो दानायाभिप्रेतानामर्थानां 'सुकृतः' स्तुतिभिः एतैः ‘कर्तृभिः' ऋत्विग्भिः 'भूत' भूयादित्यर्थः ॥ एवमत्र 'अमिन'शब्देन "अमितमात्रः” अनभिहिलितमात्रो वा- इत्युच्यते शब्दसारूप्यादर्थोपपत्तेश्च ॥ "जज्झतीः (६८)”-इति, अनवगतम् । शब्दानुकरणात "आपः”-इति प्रतीयन्ते। "आ रुक्मरायुधा नर ऋष्वा ऋष्टीर- सूक्षतः। अन्वेना अह विद्युतो मरुतो जज्झतीरिव भानुरत्मिना दिवः ॥”---इति (ऋ० सं० ४, ३, ६, ६)! श्यावाश्वस्यार्षम् । मारुती। पङ्क्तिः । 'आ' आभिमुख्येन ‘शत्रून्' शातयितव्यान् मेघान् प्रति 'आयुधा' एतान्यायुधानि 'रुक्मैः' विकृतानि, एताश्च 'ऋष्टी' शक्तीः 'असृक्षत' असृजन्त हे 'नरः' मरुतः! किञ्च, 'अन्वेनान्' प्रहारान् “विद्युतः' 'भानुः' आदित्यः 'इच' 'त्मना' आत्मना 'दिवः' धुलोकात् 'अर्त' अपगच्छन्तुः । मेघेभ्यो हन्यwoman । १ ६०३पा० ख०] * नैगम काण्डम् * 'जज्झतीः इव' “शब्दकारिण्यः” इव स्रोतस्याः “आपः” 'ऋष्य' प्रभूता इत्यर्थः ॥ एवमत्र शब्दानुकरणात् “आप =जज्झतीः” इत्युपपद्यते॥ 'अप्रतिष्कुतः (६६)" ---इति, अनवगतम्। 'अप्रतिकृतः, अप्रतिस्खलितः वा"---इति शब्दसमाधी ! “स नो बृयन्नमुं वर सत्रादावन्नपावृधि । अस्मभ्यमप्रतिष्कुतः ॥” इति (ऋ. सं० १.१.१४, १)। मधुच्छन्दस आर्यम् । गायत्री । न्द्री। पृष्ट्या भिष्टवयोः प्रातः सवनिके आवापे विनियुक्ता ब्राह्मणा. च्छं शिनः शस्त्र शस्यते । हे 'वृषन्' इन्द्र वर्पितः '. यः त्वम् अनु ग्रहीता 'नः' अस्माकम्, 'सः' त्वं गृणु यन् कुरुष्य । 'अ{चरम्' अमुमन्तरिक्षवरणशीलं मेघम् । हे सत्रादावन' सततदान : अपा- वृधि' अपावृणु, उदकदानार्थमस्मभ्यम् । 'अप्रतिकुतः न होन्द्रः “प्रतिष्कृतः” परान प्रति पराङ्मुखः कृतपूर्वः केनचित्, अथवा "अप्रतिस्खलितः” संग्रामेषु ॥ एवमत्र 'अप्रतिष्कुत' शब्दः तिष्कृत” वाची अथवा "अप्रतिम्खलित" वाची. तथार्था- विरोधः॥ "शाशदानः (७०)" - इति, अनवम्तम्। "शाशाद्यमानः" ---इत्यवगमः । “अभि सिध्मो अजिगादस्य शत्रून वितिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रणासृजद् वृत्रमिन्द्रः प्रस्वां मतिमति- रच्छाशदानः ॥” इति (ऋ० सं १, ३, ३, ३)। हिरण्यस्तूपस्या- षम्। गोसवविवधयोनिष्केवल्ये शस्यते। 'अभि अजिगात्' अभ्यगच्छत् । 'अस्य' इन्द्रस्य स्वभूतः, "तिग्मः' उत्साहवान् ६४८ * निरुक्तम् * [पूर्वषटकम् वज्रः 'शत्रून्' प्रति 'सिध्मः' साधयिता शत्रूणाम्। 'वितिग्मेन' तीक्ष्णेन 'वृषभेण वर्षप्रवर्तकेन । 'पुर' मेघपुरः असुरपुरो वा 'अभेत् । किञ्च, समसृजत् वज्रेण वृत्रमिन्द्रः। स च भिद्य- मानः 'प्रातिरत् स्वां मति' “न दातव्यमुदकमेषाम्" इत्येतां मति स्वां 'प्रातिरत्' प्राजहादित्यर्थः। 'शाशदानः' पुनः पुनः “शाशा. द्यमानः" इन्द्रेण ॥ एवमत्र "शाशदानः- शाशाद्यमानः"- पपद्यते, शब्दसारूप्यादाविरोधाचति ॥ ७ (१६) ।। इति निरुक्तवृत्तौ एकादशस्याध्यायस्य (षष्टाध्यायस्य) तृतीयः पादः॥ ६,३॥ चतुर्थः पादः। सृनः सर्पणादिदमपीतरत् सप्रमेतस्मादेव सपिा तेलं वा। सूप्रकरस्नमूतय इत्यपि निगमो भवति। करनौ बाहू कर्मणां प्रस्नातारौ सुशिप्रमेतेन व्याख्यातम् । वजे सुशिप्रगोमतीत्यपि निगमो भवति शिप्रेहनू नासिके वा हनुहन्तेर्नासिका नसतेः। विष्यस्व शिप्रे विसृजस्व धेने इत्यपि निगमो भवति । धेना दधातेरंसु रमणात् । चित्रेण चिकिरंसु भासेत्यपि निगमो भवति। द्विवर्हा स ६०४पा० ९ख०] * नैगमं काण्डम् * द्वयोः स्थानयोः परिवृढो मध्यमे च स्थान उत्तमे च । उत द्विवहीं अमिनः सहो भिरित्यपि निगमो भवत्यक्र आक्र- मणात् । अक्रो न बघ्रिः समिथे महीनामित्यपि निगमो भवत्युराण उरु कुर्वाणः । दृत ईयसे प्रदिव उराण इत्यपि निगमो भवति ॥१॥ "सृप्र (७१)" इति, अनवगतम्। 'सर्पः' - इत्यवगमः । “सर्पणात्”-इति निर्वचनम्। “इदम् अपि इतरत् सृप्रम्" “एतस्मादेव” स्यात्, यदेतत् “सर्पिर्वा तैलं वा” तदपि हि सर्पति । “सृप्रकरस्नमतये”-इति (ऋ० सं ६, ३, २, ५)॥ निगमः । बृबदुकथं हवामहे".---इति व्याख्यातः शेषः ॥ “करनी बाहू, कर्मणां प्रस्नातारौं” निर्वर्त्तयितारावित्यर्थः ॥ “सुशिप्रः (७२)"-इति, अनवगतम् । तत् पुनः “एतेन" एव सृप्रशब्देन “व्याख्यातम्” सर्पतेरेवैतदपि, “शिप्रे =हनू, नासिके वा” ते यस्य शस्ते, स सुशिप्रः । “वाजे सुशिघ्र गोमति”– इति (ऋ० सं०६, २, २, ३)। निगमः “विद्मा सखित्वम्"-इति व्याख्यातः । नास्मिन् मन्त्रे नासिकयोर्हन्योर्वा शिप्रशब्दवाच्यत्वे विशेषलिङ्गमस्तीति, अतः “शिप्रे हन नासिके वा”-इत्युक्त्वा विशिष्टतलिङ्गमन्यदुदाहरणं ब्रवीति,-"विष्यस्व शिप्रे” इति । 'मादयस्व हरिभिर्ये त इन्द्र विष्यस्व शिप्रे विसृजस्व धेने। त्वा सुशिप्र हरयो वहन्तशन् हव्यानि प्रति नो जुषस्व ॥”-इति । - " निरुक्तम् । [पूर्वषट्कम् (० सं० १, ७, १३, ४)। कुत्सस्येयमार्षम्। ऐन्द्री। जगती। दशरात्रस्य नवमेऽहनि मरुत्वतीये शस्त्र शस्यते। 'मादयस्व" हर्षयस्व 'स्वम्' आत्मानम् हे 'इन्द्र !' 'हरिभिः' अश्वः, 'ते' तव स्वभूताः, तैः सह । कथं च पुनर्मादयस्व ? इति, - 'विष्यस्व' विमुञ्चस्व 'शिप्रे' सप्रे, दीर्घ हनू हविर्भक्षणाय, नासिके वा गन्धा- घ्राणाय, एवं मादयस्वात्मानमिति। "विसृजस्व धेने आधस्त्ये दंष्ट्रवा, 'जिह्वोपजिविके वा'-इत्येके, तयोहि अन्नं धीयते। किञ्च, 'आ त्वा वहन्तु हरयः' हृष्टाः सन्त आवहन्तु त्वां हरयः अस्मान् प्रति। हे 'सुशिप्र!' 'उशन्' कोमयमानः 'हव्यानि' हवींषि एतानि अस्मत्प्रत्तानि । स्तुतिभिरस्माभिरासेवितः 'प्रतिजुषस्व नः' प्रतिसंसेवस्व नः कामैरित्यभिप्रायः॥ एवमत्र मेदनसम्बन्धात्, हविःसम्प्रदानसम्बन्धाच्च “शिप्रे =हनू नासिके वा". इत्यु पपद्यते ॥ यत्तदुक्तम्,–“शिप्रे इत्यु परिष्टाद् व्याख्यास्याम” इति, एतद् व्याख्यातम्,-"शिप्रे=हनू नासिके वा"-इति ॥ "हनुः, हन्तेः (अदा० प०)" धातोः। “नासिको, नसते.' "नसतिराप्नोतिकर्मा वा नमतिकर्मा वा"-इति हि वक्ष्यति ॥ "रंसु (७३)"-इति, अनवगतम् । 'रमणीयेषु'-इत्यवगमः । “रमणात्” इति निर्वचनम् । “आयन्मे अभ्वं वनदः पनन्तोशि- ग्भ्यो नामिमीत वर्णम् । स चित्रेण चिकिते रंसु भासा जुजुर्वान् यो मुहुरा युवाभूत् ॥” इति (ऋ० सं० २, ५, २४, ५)। सोमाहु- तेर्भार्गवस्याषम् । त्रिष्टुप्। आग्नेयी। प्रातरनुवाकाश्विनयोः AIRPOM । - * नैगम काण्डम् * । ६०४पा० ख०] शस्यते । 'आ पनन्त' आभिमुख्येन पनन्त, अस्तुवत । 'मे' मम स्वभूतेकर्मणि। 'अभ्वं' महान्तम् अग्निम् , 'वनदः' वननीयस्य हविषो दातारः ऋत्विजः यं वर्णः' वरं वृण्वन्ति अस्मदर्थम्, तेभ्यः 'उशिगभ्यः' मेधाविभ्यः। तमसौ वरणं प्रार्थना 'न अमिमीत' न हिनस्ति। किन्तहि ? यथाप्रार्थितमेव समईयतीत्यर्थः । किञ्च, 'सः' अग्निः 'चित्रेण' चायनीयेन भासा युक्तः 'रंसु' रमणीयेषु स्थानेषु धुलोकादिषु अग्निहोत्रेषु वा 'चिकित। किंलक्षणः 'यः' अग्निः ? इति,-'जुजुर्वान्' पुनः पुनः जरावान् अपि भूत्वा, 'मुहुरा युवा भूत्, इन्धनक्षयात् पुनरिन्धनं प्राप्य तस्योपरि दीप्य मानो मुहुर्मुहुः युवैव भवति ।। एवमत्र शब्दसारूप्यादा- विरोधाच्च 'रंतु'-इत्यस्य रमणीयेषु'-इति विपरिणाम उप- पद्यते ॥ "द्विवर्हाः (७४)"-इति, अनवगतम् । "द्विपरिवृढः'--इति न्याय्यम् । मध्यमे च स्थाने वैद्युतात्मना, उत्तमे च सूर्यात्मना । 'उत द्विबर्हाः”-इति (ऋ० सं०४, ६, ७, १)। निगमः। "महाँ इन्द्रः”-इति व्याख्यातः शेषः ॥, “अक्रः (७५)”-इति, अनवगतम् । 'आक्रमणः,-इति न्याय्यम् । “आक्रमणात्"-- इति निर्वचनम् । प्राकारोऽभिधेयः । "अक्रो न बभ्रिः समिथे महीनां दिदृक्षे यः सूनवे भाऋजीकः । उदुनिया जनिता यो जनानापां गर्भो नृतमो यह्वो अग्निः"-इति (ऋ० सं० २, ८, १५, २) । विश्वामित्रस्यार्षम् । त्रिष्टुप् । आग्नेयी प्रातरनुवाकाश्विनयोः शस्यते । 'अक्रो न' अक्र इव, प्राकार इव । Hin- , अथवा गाव * निरुक्तम् * [দুম্বন্ধ 'बम्रिः' भर्ता, धारयिता व ? 'समिथे' संग्रामे । कस्य ? 'महीनां' महतीनां शत्रुसेनानाम् । एवंलक्षणो योऽग्निः । किश्च, 'दिदृले य' दृश्यते यः। 'सूनवे' सोमाभिषवकर्ते यजमानाय नित्य- कालमेव। 'भ्राऋजीकः' प्रसिद्धभाः' प्रसिद्धदीप्तिः' नित्यो ज्वलित इत्यर्थः। किञ्च, सर्वस्य लोकस्य 'जनिता' जनयिता। 'उस्त्रिया उजजान' उस्त्रिया आहुतिः आत्मनि प्रक्षिताः सतीः देवतातृप्तिसमर्थेन रूपेण ऊर्धाः 'यः' जनयति । एव चोस्नियाः स्युः, ता अपि ह्यसौ पशुकामकर्मणि अङ्गभावं गच्छन् जनयति । यश्च 'अपां गर्भः' यश्च 'नृतमः' मनुष्यतमः' यश्च 'यह्वः' महान्, 'अग्निः' स इदं नामास्माकं करोत्विति ॥ एच- মন মানাকাৰিৰীয়া "अक्रः =प्राकारः"-इत्यु- पपद्यते, असौ हि आक्रम्यते जनैः ॥ "उराणः (७६) -इति, अनवगतम्। “उरु इत्यधगमः । “वरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी सञ्चि- कित्वान् । दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोध- नानि ॥” इति (ऋ० सं० ३, ५, ७, ३)। वामदेवस्यार्षम् । त्रिष्टुप् । आग्नेयी । प्रातरनुवाकाश्विनयोः शस्यते । हे भगव- नग्ने ! 'वेः' त्वं जानीपे । किम् ? 'अध्वरस्य' यज्ञस्य 'दूत्यानि' दूतकर्माणि, यानि दूतेन कर्त्तव्यानि । किञ्च, 'उभे अन्ता' उभा- घप्यन्तौ 'रोदसी' रोदस्योः 'विद्वान्' असि विजानिषे। किञ्च, समस्तमप्येतजगत् 'चिकित्वान्' असि, न ते विज्ञानप्रतीघातो- ऽस्ति कृत्स्नेऽपि जगति, विजानीषे सर्वाणि देवतास्थानानि । कुर्वाणः OneIA ६०४पा० ख०] * नैगमं काण्डम् * 'प्रदिवः' एव असि 'दूतः चिरन्तनः सर्वेषां यजमानानाम् । यस्तो ऽस्लामिस्त्वमेतस्मिन् कर्मणि 'दूतः' दूतत्वेन 'ईयसे' याच्यसे, स त्वम् 'उराणः' अल्पमपि हुतं हविः देवतातृप्तिसमर्थ बहु कुर्वाणः। 'विदुष्टरः' विद्वत्तरः, मनुष्यहातुः सकाशात् । 'दिव आरोधनानि' आरोढव्यानि देवतास्थानानि प्रति वह एतानि हवींषीत्यभिप्रायः ॥ एवमत्र शब्दसारूप्यादर्थोपपत्तेश्च 'उराणः' -इत्स्य "उरु कुर्वाणः”-इत्येष विपरिणाम उपपद्यते ॥ ६ ॥ स्तिया आपो भवन्ति स्त्यायनात् । बृपा सिन्धना वृषभ स्तियानामित्यपि निगमो भवति । स्तिपा स्तिया- पालन ऊपस्थितान् पालयतीति वा । सन स्तिपा उत भवा तनूपा इत्यपि निगमो भवति ॥ जबारु जवमानरोहि जरमाणरोहि गरमागरोहीति वा। अग्र रुप आरुपितं जवावित्यपि निगमो भवति । जरूथं गरूथं गृणातेः जरूथं हन्यक्षिराये पुरन्धिमित्यपि निगमो भवति । कुलिश इति वज्रनाम कूलशातनो भवति । स्कन्ध सीव कुलिशेना विवृणाहिः शयत उपपृक् पृथिव्याः। स्कन्धो वृक्षस्य समास्कन्नो भवत्ययमपीतरस्कन्ध एतस्मादेवास्कन्नं काये- हिः शयत उपपर्चनः पृथिव्यास्तुञ्जस्तुञ्जतेदनकर्मणः ॥२ (१७)॥ Reme +pre- । SANI । * निरुक्तम् * [पूर्वषट्कम् "स्तियाः (७७)"-इति, अनवगतम् । 'स्त्यायजाः' इति न्याय्यम् । “आपो भवन्ति ---इत्यभिधेयवचनम् । “स्त्यायनात्" संहननात् इत्यर्थः, आप एव हि पार्थिवानामवयवानां संहनने हेतुभूता भवन्ति, अथवा हिमप्रभावेण च ता आत्मनैव संहता भवन्ति । “वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभः स्तियानाम्। वृष्णे त इन्दुवृषभः पीपाय स्वादू रसो मधुपेयो वराय॥"~~इति (१० सं० ४, ७, २०, १)। शंयोर्हिस्पत्येय- मार्यम् । पेन्द्री। हे इन्द्र ! 'वृषा असि' वर्षितासि 'दिवः पृथिव्याः' च वर्षिता। 'सिन्धूनां' स्यन्दमानाम् अपाञ्च वर्षिता। 'स्तियाता संहन्त्रीणाम् अपाम्, अथवा संहतानामात्मनैव हिमप्रभावेण । यावत् किञ्चित् सेचकर्म, तत् सर्व त्वदधीनमित्यभिप्रायः। तस्मै ते एवंगुणविशिष्टाय वृष्णे' वर्षित्रे 'ते' तुभ्यम् । एषः 'इन्दुः सोमः, है "वृषभ' वर्षितः! 'पीपाय' पुनः पुनः आप्यायते, अथवा पानाय संस्कृतः, 'स्वादू रसः' स्वादुरससंयुक्तः, मधुपेयः' मधुर- पेयः, 'वराय' तुभ्यं श्रेष्ठायेत्यर्थः ॥ एवमत्र "स्तिया'शब्देन 'संहन्त्र्यः, संहता वा आपः' उच्यन्ते, शब्दसारूप्यात् “स्त्यै शब्दसवातयोः (भू० प०)"--इत्यस्य ॥ "स्तिपाः (७८)-इति, अनवगतम् । “स्तियापालनः" इत्यवगमः। 'कूपः' अभिधेयः, स हि “उपस्थितान्” पातॄन् “पालयति”। “यं त्वा पूर्वमीडितो वध्रयश्वः समीधे अग्ने स इदं जुषस्व । स नः स्तिपा उत भवा तनूपा दानं रक्षस्व यदिदं ते अस्मे ॥” - इति (ऋ० सं०८,२, १६, ४)। पाध्यश्वस्य सुमित्रa । । - ६०४पा० ख०] * नैगम काण्डम् * - स्येयमार्षम् । त्रिष्टुप् । आग्नेयी। 'हे अग्ने !' 'यं त्वां वध्यश्वः 'ईडितः' अपि सर्वैर्महर्षिभिः: 'पूर्व' 'समीधे' समेधितवान् , उप- वीर्णवान् , तं त्वामहमपि समिन्धे. को हि नाम त्वां न समि- ध्यात्। 'सः' त्वमिध्यमानः अस्माभिः 'इदं हविः 'जुषस्व' संसेवस्व । किञ्चय एवमस्माभिः ईड्यसे त्वम्, 'सः' 'नः' 'स्तिपाः' कृप इव 'तनृपाः' भव, कृपो हि तृप्रणयानि पातून पात्युदक- सम्प्रदानेन । किञ्च, 'दात्रम्' दानम् 'रक्षम्व' । कतमत् ? 'यदिदं ते' 'अस्मे अस्मासु वर्तते इत्यर्थः ॥ एवमत्राविरोधाच्छब्दसा- रूप्याच्च “स्तिपाः = कृपः" ---इत्युपपद्यते ॥ "जवारु (98)--इति, अनवगतम्। 'जवमानरोहि"-इत्ये- वमाद्याः शब्दलमात्रयः। "त मिन् वेव समाना समानमभि ऋत्वा पुनती धीतिरश्याः । ससस्य चर्मन्नष्ट चारू पृश्नेरने रुप आरूपितं जवारु॥” इति-(ऋ० सं०३, ५, २, २) । वामदेवस्यार्थम् । "वैश्वानराय मीन्हुषे सजीपाः” --इत्येतस्मिन् वैश्वानरीये सूक्ते । 'तम्' एव हे यजमान ! त्वम् 'अभ्यश्याः' प्रामु याः यैश्वानरं सूर्यम्' । 'समाना' समानयैव, तदनुरुयैव अस्तुत्या 'समा- नम्। केन पुनरभ्यश्याः ? 'कत्वा पुनती' स्वात्मपवन- समर्थन कर्मणा प्रज्ञानेन वा। किंलक्षणः पुनर्यो वैश्वानरः तमभ्यश्याः ? 'ससस्य पृश्नेः' स्वपनस्य द्युलोकस्य 'पृश्ने' प्राष्ट- वर्णस्य 'अधि' उपरि, स्वपन्तीव हि द्युलोको निश्चलत्वात् । 'चर्मन्' चरणार्थम् । कथं नाम सौर्येण प्रकाशेन जनाश्चरेयुरि- त्यनेनाभिप्रायेण । 'चारु' दीप्तिमत् । 'अग्रे' पूर्वसर्गादौ 'रुपः । ॥
[पूर्वषटकम् , * निरुक्तम् * आरुपितम्' 'रिपः'-इति विपरिणामः, भूम्या इत्यर्थः, 'आरुपितम्' आरोपितं देवैः, 'जबारु' मण्डलं यस्य। तं त्वमभ्यश्याः । इह वा आदित्य आसीत् , तमाभ्यां परिगृह्योपरिष्टात् नासां प्रजानां न्यधुरिति विज्ञायते ॥ एवमत्र “जबारु =आदित्यमण्डलम्" उच्यते, तद्धि जवमानं गच्छन् नभसो मध्यमारोहति, जायते वा उदेतीत्यर्थः, जवमानमेव हि तत्र तत्रोदेति। “जरमाणरोहि” वा स्यात्, तद्धि जरमाणं सर्वभूतानि रोहति । "गरमाणरोहि वा" तद्धि गरमाणं रसानारोहति ॥ "जरूथम् (८०)"-इति, अनवगतम्। . “गरूथम्” - इत्य- वगमः । “गृणातेः (क्रया० ५०) --इति धातुनिर्देशः । “त्वामग्ने समिधानो वसिष्ठो जरूथं हन् यक्षि राये पुरन्धिम् । पुरुणीथा जातवेदो जरस्व ययं पात स्वस्तिभिः सदा नः ॥” इति (ऋ० सं. ५, २, १२, ६)। वसिष्ठस्यार्षम् । आग्नेयी। त्रिष्टुप् । प्रातरनु- वाकाश्विनयोः शस्यते। हे भगवन् 'अग्ने!' 'वसिष्ठः' 'त्वां' 'समिधानः' सन्दीपयन् 'जरूथं स्तोत्रं 'हन्' गमयन् त्वां प्रति, “हन्ति, सेधति"-इति गतिकर्मसु पठितम्। 'यक्षि' यजति । 'राये' धनप्राप्त्यर्थम् । 'पुरन्धिम्' बहुकर्मतमं धनसम्बन्धाद्वा बहुदातृतममिति स्यात् । यस्त्वं वसिष्ठेन एवमिज्यसे, तं त्वां वयमपि यजाम एव । सत्वं 'पुरुणीथा' बहुस्तुत! 'जातवेदः' अस्माभिरिज्यमानः 'जरस्व' जुषस्वैतद्धविः अस्मत्प्रत्तम्। किञ्च, 'यूयम्' अस्मान् 'पात' रक्षत। एकस्यैव पूजनार्थे बहुवचनम् । 'स्वस्तिभिः' स्वस्त्ययनैः, आशी:प्रयोगैः पात 'नः'। 'सदा' । ܦ ।
* नैगम काण्डम् * । witho ६०४पा० ३ख०] नित्यमेवेत्यर्थः। एवमत्र जरतेः स्तुत्यर्थस्य शब्दसारूप्पादा- विरोधाच “जरुथम् स्तोत्रम्” उपपद्यते ॥ “कुलिशम् (८१)* ---इति, अनवगतम्। “वज्रनाम"---इत्य- भिधेयवचनम्। “कूलशातनः” .. इति शब्दसमाधिः । “अहन, वृत्रं वृत्रतरं व्यसमिन्द्रो वज्रण महता वधेन । स्कन्धांसीव० पृथिव्याः ॥”----इति (ऋ० सं० १, २, ३६, ५)। ऐन्द्री। त्रिष्टुप् । हिरण्यस्तूपस्यार्षम्। अग्निष्टोमे निष्केवल्ये शस्यते । 'अहन्' हतवान् , हन्ति वा इन्द्रः 'वृत्रं मेघम् । 'वृत्रतरम्'--इति तस्यैव वा विशेषणम् , अन्यो वा वृत्रतरो यः तमपि हन्ति। कथं पुन- हन्ति ? इति,-'व्यंसम् विच्छिन्नसन्धिबन्धनं कृत्वा । केन पुनर्हन्ति ? इति,-'वज्रण महता' प्रहारेण । किञ्च, स्कन्धांसि इव' वृक्षशाखा इव, कुलिशेन' "कलशातनेन वज्रण" "विवृणा' विवृणानि । स एवम् 'अहिः' अगमनो मेघः, छिद्यमानोऽस्याः पृथिव्याः 'उपपृक्' “उपपर्चन:” सम्पर्कस्य कर्ता भूघोदकभावेन, अस्यामेव पृथिव्याम् 'अहिः' 'शयते' अगमयत् । अबस्थानमात्रमेव स्वप्नोऽभिमतः॥ एवमत्र बधसम्बन्धात् “कुलिशःचत्रः-- इत्युपपद्यते॥ "तुजे (८२)”-इति, अनवगतम् । “तुञ्जतेः” दानार्थस्येति निर्वचनम् । 'तुञ्जनम्' इति स्यात् ॥ २ (१७) ॥ तुञ्ज तुञ्ज य उत्तरे स्तोमा इन्द्रस्य वत्रिणः । न विन्धे अस्य सुष्टुतिम् ॥ दाने दाने य उत्तरे स्तोमा ।
- * निरुक्तम् * [पूर्वषट्कम् इन्द्रस्य बनिणो नास्य तैविन्दामि समाप्ति स्तुतेर्हणा परिबर्हणा। बृहच्छ्वा असुरो बर्हणा कृत इत्यपि निगमा भवति ॥ ३ (१८)॥ “तुजे तुजे-सुष्टुतिम्”-इति (ऋ० सं० १, १, १४, २)। मधुच्छन्दस आर्षम् । ऐन्द्री। गायत्री। प्रातःसवने ब्राह्म- णाच्छंसिनः आवापे विनियुक्ता। 'तुजे तुजे “दाने दाने" 'ये' 'उत्तरे' उत्तरोत्तरे दानपरितुष्टेन मया 'स्तोमाः' 'इन्द्रस्य वत्रिणः' चिन्त्यन्ते,-एतैः स्तोमैरसौ योग्यः स्तोतुमिति । कि तेषाम् ? 'न 'विन्धे' न 'अस्य' सर्वैरपि “तैर्विन्दामि" "सुष्टुति समाप्ति स्तुतेः” इत्यर्थः । यावत्य एव स्तुतय उपादीयन्ते' ताः सर्वा एवेन्द्रं प्राप्य न्यूया भवन्तीत्यभिप्रायः॥ एवमत्र स्तोम- सम्बन्धात् 'तुञ्ज' शब्दो दानपायवचनः' तुञ्जतेश्च दानार्थस्य दर्शनात् ॥ 'बर्हणा (८३)”–इति अनवगतम्। “परिबर्हणा”-इत्युपस- गर्गाध्याहारेणार्थप्रतीतिः । परिवहणा=परिवृद्धिः, परिहिंसा वा। “अर्चा दिवे बृहते शुष्यं १ वचः स्वक्षत्रं यस्य धृषतो वृषन्मनः । वृहच्छ्र वा असु रो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि पः॥”-इति (ऋ० सं० १, ४, १७, ३)। सव्यत्वमापन्नस्यास्ये न्द्रस्यार्षम् । जगती। ऐन्द्री। चतुर्थे पादे 'रथः' हि, सः"- इति पदानि । हे स्तोतः! 'अर्च' प्रोच्चारय इन्द्राय 'दिवे द्योत- नघते 'बृहते' च महते, 'शुष्यं धनसंयुक्त बलकृतिसंयुक्त वा - ६०४पा० ख०] *नगम काण्डम* बचः । किलक्षणायेन्द्राय अर्च? इति,-'स्वक्षत्रं यम्य स्वमेव क्षत्रं धनं बलं वा यस्यः, न कदाचिदपि यः परकीयमाकाक्षतीत्यभि. प्रायः। किञ्च, यस्य 'धृषतः धर्षयतः' शत्रन 'पत् एव वृष्ट 'मनः' भवति, तदर्थमर्चेति । किञ्च, येनेन्द्रण 'हवाः वृह- द्घोषः' "असुरः मेघो चा। 'वर्हणा परिवृद्ध या परिवृर्द्धन बंधन परिहिंसया वा 'पुरः' अर्थात् 'हरिभ्यां प्राप्त नैव ताचदश्वी हरी रथे युक्ती तमनुरं प्राग्न तः। अथेन्द्रेण शीघ्रास्त्रत्वाद् दृग्याति- त्वाच्च वृपभः' वर्षिता कृतः। अथच तावत् राहि सः' रहणो हि शीघ्रः स मेघः । तथाहि.येनेन्द्रमा पुरैव हरिभ्यां प्राप्तेः प्रहारजर्जरीकृत्य चर्षिता कृतो मेघः, तमभ्यर्च ॥ एवमत्र शब्दसारूप्यादसुरसम्बन्धाच्च “वणा = परिवहणा"--इत्युपप- यते॥ ३ (१८)॥ यो अस्मै घस उत वा य ऊधनि सामं सुनाति भवति यु मां अह । अपाप शक्रस्ततनुष्टि महति तनू- श्रुभ्र मघवा यः कवासखः ॥ घंस इत्यहर्नाम ग्रस्यन्तेऽ- स्मिन्नसा गोरूध उद्धततरं भवत्युपोन्नद्धमिति वा स्नेहा नुप्रदानसामान्याद्रात्रिरप्य ध उच्यते स योऽस्मा अहन्यपि वा रात्रौ सोमं सुनोति भवति भवति ह द्योतनवानपी- हत्यपोहति शक्रस्तितनिषू धर्मसन्तानादपेतमलङ्करिष्णु- मयज्वानं तनू शुभ्र तनूशोभयितारं मघवा यः कवासखो Ritea - ७ निरुक्तम् [पूर्वषट्कम् यस्य कपूर्याः सखायः। न्याविध्यदिलीबिशस्य दृढा विभृङ्गिणमभिनच्छुष्णमिन्द्रः। निरविध्यदिलाविलशयस्य दृढानि ब्यभिनच्छृङ्गिणं शुष्णमिन्द्रः ॥ ४ (१६) ॥ । “ततनुष्टिः (८४)”-इति, अनवगतम् । “तितनिषुः - अयं स्यात् । “यो अस्मै ग्रंस० - ०कवासखः इति (ऋ० सं० ४, २, ३, ३)। प्राजापत्यस्य संवरणस्यार्षम् । ऐन्द्री। जगती। 'यः 'अस्मै' इन्द्राय 'घंसे' "अहनि" 'उत वा “अपि वा" 'यः' 'ऊधनि. "रात्रौं” 'सोमं 'सुनोति' अभिषुणोति' नित्यकालमेव यः सोमा. भिषवे प्रयतते इत्यर्थः। तस्य किम् ? इति, स एव निश्चयेन. 'द्य मान्' “द्योतनवान्” 'भवति' । अथ पुनः इतो यो विपरीतो भवति, पूर्वैश्च पूर्वतनैश्च “धर्मसन्तानात्” अनुष्ठितात् “अपेतम्" तमलं कर्मभिरित्येवंधादिनम् “अलङ्करिष्णुम्” “अयज्वानम्" अयजनशीलम्, आत्ममण्डनपरं वा, विषयोपभोगपरतया स्ववित्तं "तितनिषुम्” अनेकैः प्रकारैः यो वित्तानि तनितुमिच्छति, तम्, अश्रद्दधानम् धर्मे। 'शक्रः' शक्तः इन्द्रः, “अप ऊहति-अप. ऊहति”-उपसर्गाभ्यासदर्शनात् ऊहतेरप्यभ्यास आदरार्थं कृतः, पुनः पुनरपोहति नाशयतीत्यर्थः। 'तनूशुभ्रम्' "शरीरशोभयि- तारम्” ततनुष्टेरेवैतद् विशेषणम् । यश्च अन्योऽपि 'कवासखः' कपूयसखो भवति, तमप्यपोहति। 'मघवा' धनस्वामी इन्द्रः, अवश्यम्भावी तस्य हि विनाश इत्यभिप्रायः ॥ केचित्तु 'कवा- ६०४पा०४ख०]] नैगम काण्डम् । सख' शब्द 'तनूशुभ्रं' विशेषणमेव वर्णयन्ति ॥ इतरो विषय- प्रधानोऽपि भूत्वा साधुसम्पर्कात् कदाचित् प्रपद्यत, इतरव- साधुसम्पर्कादत्यन्तनष्ट एवेत्यनेनाभिप्रायेण ॥ एघमत्र 'ततनुष्टि' शब्देन "विषयोपभोगप्रधान:' उच्यते, शब्दार्थाविरोधादित्यु- पपत्तिः॥ "घंसः-इति अहर्नाम" "ग्रस्यन्तेऽस्मिन् रसाः” सूर्येण । "गोः 'ऊधः' उद्धततरम्' -इति शब्दसारूप्यप्रसक्तम्, तद्धि अन्येभ्योऽङ्गभ्य उद्धततरं “भवति” “उपोन्नद्धम्-इति वा" तद्धि विजायते केनचिदुपश्लिष्य गोरुदरे नद्धमिति । “स्नेहा- नुप्रदानसामान्यात् राभिरप्यूध उच्यते” सावि ह्यवश्यायानो- पधिवनस्पतिस्नेहकान् दधाति ॥ "इलीबिशस्य (८५)"-- इति, एतदेकपदमनवगतम् । “इला- विलशयस्य”-इत्यवगमः। 'मेघः' अभिधेयः, स हि इलाहेतो- रुदकस्य आत्मीयानी निर्गमन चिलानि संध्य शेते, तस्यैव वा बिलेषु इलाहेतुरुदकं शेते इति इलीविशः । “न्याविध्य:- मिन्द्रः। यावत्तरो मघवन् यावदोजो वज्रेण शत्रु मवधीः पृतन्युम ॥”- इति (ऋ० सं० १, ३, ३, २)। हिरण्यस्तूपस्यार्षम् । ऐन्द्री। त्रिष्टुप् । गोसवविवधयोनिष्कवल्ये शस्यते। 'न्यावि- ध्यत्' “निरविध्यत्” निरताडयत्, इलोविशस्य' “इलाबिल- शयस्य" मेघस्य 'टूढा' "दृढानि” दुर्भेद्यानि उदकसंरोधक्षमाणि स्थानानि । न च केवलमेतावदेव, किन्तर्हि ? 'विङ्गिणम् अभि- नत्' शृङ्गिणं शिखरवन्तं दीनिमन्तं वा विद्युद्भिः, 'शूष्णं' बलवन्तं - ।
* निरुतम् * [पूर्वषट्कम् मेघम् , 'इन्द्रः' एवं स्तूयमानः प्रत्यक्षीभूतः। प्रत्यक्षकृतः उत्तरो. ऽर्द्धर्चः। हे 'मघवन् ! 'यावत्तरः' यावलमेतस्मिन् मेघेऽस्ति तावदेनं जहि । 'यावत्' च तव व्यथनसमर्थम् 'ओजः' बलमस्ति, या ते शक्तिः, तयैनं 'वज्रण' 'शत्रु' शातयितव्यम् 'अवधीः' जहीत्यर्थः। 'पृतन्युम्' पृतनामिच्छन्तम् ॥ एवमत्र “इली- विशः मेघः" शब्दसारुप्यादाविरोधाच ॥ ४ (१६) ॥ अस्मा इदु प्रभरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः। गोर्न पर्व विरदा तिरश्चेष्यन्नांस्यपां चरध्य ।। अस्मै प्रहर तूर्णं त्वरमाणो वृत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नास्यपां चरणाय भूमिमा॑म्यतेः। भृमिरस्यषि- कृन्मानामित्यपि निगमो भवति। विष्पितो विप्राप्तः । पारन्नो अस्य विष्षतस्य पर्षन्नित्यपि निगमो भवति ॥५ (२०)॥ "कियेधाः (८६)"-इति, अनवगतम्। “कियद्धाः” “क्रम- माणधा वा-इत्यवगमः। कियदप्युदकमपरिमाणं धारयतीति कियद्धा मेघः ।। क्रममाणो पा धारयतीति क्रममाणधा मेघ एव । “अस्मा इदु प्रभरा ०-० चरध्यै"- इति (ऋ. सं०१, ४, २६, २)। गौतमः, तस्येय-. मार्षम् । त्रिष्टुप। ऐन्द्री। आहीनिकेष्वहःसु अहोनसूत धिनि- नोधा नाम ईअ० ४पा० ५ख०] ॐ नैगम काण्डम् , युक्ता। हे इन्द्र ! एष वृत्रः, 'कियेधाः' “कियद्धाः” कियदप्यु- दकमपरिमाणं धारयति, क्रममाणो वा धारयति । 'अस्मै त्वं 'तूतुजानः' "त्वरमाणः” 'वज्र' 'प्रभर'। 'ईशानः' ईश्वरो यस्मात् त्वमस्माकं तस्मादेवमुच्यते । किञ्च, प्रहृत्य चन वज्रप्रहारस- म्मूढस्यास्य मेघस्य 'गोर्न पर्व' गोरिव पर्वाणि 'विरद' विदारय, यथा गोविकर्ता गोः पर्वाणि "विरदेत्' विच्छिन्द्यात् । एवं त्वमप्येतं मेघमवयवशः 'विरद' विच्छिन्धि। कथञ्च पुनर्विरद ? इति,-'तिरश्चा' वज्रेण तिर्यग्गामिना। केन पुनरर्थेन विरद ? इति-'इष्यन् अणासि' उदकानीच्छन् । 'चरम्य' “चरणीय" 'अपाम्' प्रजाभ्यो दातुम्। एवमस्माद् द्विशकलीकृतादापो निश्च रिष्यन्तीत्यनेनार्थेन विरद ॥ एवमत्र “कियेधाः = मेघः” शब्द- . सारूप्यादाविरोधाच्च ॥ "कियेधाः-इन्द्रः =इन्द्रः"-इत्येवमेके मन्यन्ते, स हि यदपि न ज्ञायते कियत्परिमाणमेतद् बलमिति, तदपि धारयति, क्रममाणो वा शत्रुबलं धारयतीति कियेधाः। एवं सति इयं योजना,- यस्मादीशानस्त्वं कियेधाश्च, तस्मात् प्रहर वज्रमिति ॥ "भृमिः (८७)-इति, अनवगतम् । 'भ्रमणम्' - इत्यवगमः । “भ्राम्यतेः”--इति निर्वचनम् । 'अग्निः'-अभिधेयः ॥ “इमामग्ने शरणि मीमृषो न इममध्वानं यमगाम दूरात्। आपिः पिता प्रमतिः सोम्यानां भृमिरस्य॒षिकृन्मानाम् ॥”-इति ( ऋ० सं० १, २, ३५, १)। हिरण्यस्तूपस्यार्षम् । हिरण्यस्तूपस्यार्पम्। प्रातानुवाकाश्विनयोः शस्यते । हे भगवन् ! 'अग्ने !' 'इमां शरणि' मरणलक्षणां हिंसाम्, mamarpan 1 :
MAN . मार्जय * निरुका * [पूर्वषट्कम् इमां संसृति वा 'मीमृषः नः' मार्जयख नाशयस्व नः ॥ कतमां शरणिम् ? 'इमम् अध्वानम्' 'यम्' एतं संसाराध्वानम् 'अगाम' गतवन्तो वयम्, अमुष्माल्लोकादिमं लोकम् । अस्मासु एतां संसा- रहिंसाम्, एतां वा संसारसृतिम् , एनम् आर्जवं जवीभवन्तमस्माकं त्वम् । कस्मात् पुनरेवमुच्यसे? इतः, यस्मात् 'आपिः त्वमस्माकं प्राप्तः, अथवा व्यापयिता कृतनस्य जगतो महिना। 'पिता' च रक्षिता, 'सोम्पानाम्' सोमसम्पादिनां मनुष्याणाम् । 'प्रमतिः' च प्रकृष्टमतिः । 'भृमिः' च, त्वमेव संसारे भ्रामयिता पञ्चाग्निविद्योक्तेन प्रक्रमेण, त्वदधीन एव संसारो मोक्षश्च ।। 'ऋषिकृत्' च, दर्शनकर्तासि त्वम् , त्वद्धीनमेव दर्शनं 'मानो' मनुष्याणाम्। सर्वविज्ञानप्रकाशेनानुगृह्यास्मान् मोचयखास्मात् संसारादित्यभिप्रायः । देवयानेनैव पथा गमय, मा पितृयानेनेति ।। एवमत्र "भृमिः =अग्निः” अर्थाविरोधात् विशेष्यते ॥ 'विष्पितः (८८)-इति, अनवगम् । “विप्राप्तः”- इत्य- वगमः । विस्तीर्ण इतश्चेतश्च, सर्वतो यः प्राप्तः, स विष्पितः। "इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति । प्रवाजे चिन्नद्या गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥”-- इति (ऋ० सं० ५, ५, २, १)। “यय सूर्य ब्रवोऽनगाः"-इत्ये- तस्मिन् सूक्त, अस्य पुनः सूक्तस्य प्रथमा सौरीति प्रतिजज्ञे शौनकः,--अन्याः सर्वा मैत्रावरुण्य इति। 'इमे-इति द्वयोरेव मित्रावरुणयोः पूजार्थे बहुवचनम् । अर्यमा वा तृतीयः स्यात्, अवावपि हि अस्मिन् सूक्ते श्रूयते। शौनकाभिप्रायस्त्वेवं सति.
* नैगम काण्डम् * अ०४पा ख] परीक्ष्यः । 'इमे' मित्रावरुणार्यमाणः 'दिवः' एत्य 'अनिमिषाः' आदरवन्तः 'पृथिव्याः' पृथिवीलोकादित्यर्थ । 'चिकित्वांसः' सुकृतदुष्कृतानि कर्माणि प्राणिनां जानन्तः, 'अचेतसम्' अचेतय- मानं प्राणिनं कर्मानुरूपेण अमुं लोकं 'नयन्ति' । यत एवमतस्तानहं ब्रवीमि.-'प्रवाजे' प्रकृष्टे एतस्मिन् वजने मरणाख्ये मृत्युकाले उपस्थिते, यदि 'गाधं' संसारगाहनसमर्थ कर्म, विज्ञानं वा 'अस्ति नः' अस्त्यस्माकमः हतः 'अस्य' 'विष्पितस्य' “विप्राप्तस्य" संसाराध्वनो नद्या इव 'पारं पर्षन्' पारं यन्त्वित्यर्थः ॥ एवमत्र शब्दसारूप्यादाविरोधाच "विष्पितः = विप्राप्तः” संसाराध्वा- इत्युपपद्यते ॥ ५ (२०)॥ तन्नस्तुरीपमद्भुतं पुरुवारं पुरुत्मना। त्वष्टा पोपाय विष्यतु राये नाभानो अस्मयुः ॥ तन्नस्तूर्णापि महत्सम्भृत- मात्मना त्वष्टा धनस्य पोषाय विष्यत्वित्यस्मयुरस्मान् कामयमानो रास्पिनो रास्पी रपतेर्वा रसतेर्वा राप्सिन- स्यायोरित्यपि निगमो भवत्युञ्जतिः प्रसाधनकर्मा आ व ऋञ्जसे ऊजी व्युष्टिष्वित्यपि निगमो भवति ऋजुरित्यप्यस्य भवति । ऋजुनीती नो वरुण इत्यपि निगमो भवति । प्रतद्वसू प्राप्तवसू । हरी इन्द्र प्रतद्वसू अभि स्वरेत्यपि निगमो rans भवति ।। ६ (२१)॥
440 [पूर्वषट्कम् । * निरुक्तम् * "तुरीपम् (८६)" - इति, अनवगतम् । “तूर्णापि"- इत्या. वगमः । 'उदकम्'-अभिधेयम्, तद्धि तूर्णमाप्नोति । “तन्नस्तु- रीप ०-० नाभानो अस्मयुः ॥”-इति (ऋ० सं० २, २, ११, ४)। दीर्घतमस आर्षम्। त्वाष्ट्री। अनुष्टुप् । आप्री-सूक्त । 'तत् नः तुरीपम्' तदस्माकं तुरीपमुदकम्' 'अद्ध तं' व "महत्" इत्यर्थः। “अद्भ तः, बर्हिष्ठः”-इति महन्नामसु पठितम् । 'पुरुवारं' च बहुदेशान्तरमावृणोत्युदकम्' पुरुत्मना बह्वात्मना । यदेवलक्षणमुदकम् , तत् 'नः' अस्माकं 'नामा' नाभौ मध्ये 'त्वष्टा 'विष्यतु' विमुञ्चतु वर्षभावेन। 'अस्मयु' अस्मान् अनुगृहीतुं "कामयमानः” 'राये पोषाय' “धनस्य पोषाय” इत्यर्थः, वर्षे हि सति पशवः पुष्यन्ति। अथवा 'नाभानः'---इति त्वष्टुरेव विशे- षणं स्यात्, 'नाभानः' न अदीप्यमानः, किन्तर्हि ? दीप्यमान एव- विष्यतु ॥ एवमत्र माध्यमिकस्त्वष्टति विष्यत्वित्यनेन सम्ब- न्धात्, “तुरीपम्= उदकम्”-इत्युपपद्यते ॥ "रास्पिनः (६०)"-इति, अनवगतम् । 'रापी'-इति वा स्यात्, 'रासी-इति वा, “रपतेः वा” शब्दार्थस्य, “रसतेः वा” शब्दार्थस्यैव । रपणशीलो वा रसनशीलो यः, सः 'राप्सी'। “उ त त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै । प्र वो नपातमपां कृणुध्वं प्रमातरा रास्पिनस्यायाः ॥” इति (० सं० २, १, १, ४)। कक्षीवत आर्णम्। त्रिष्टुप् । वैश्वदेवे सूक्ते । 'उत त्यौ' अपि तौ, अश्विनौ। 'मे' मम 'यशसा' हविर्लक्षणेन. धनेन तर्यमाणो, 'श्वेतनायै' उषसः काले प्राप्त 'व्यन्ता पान्ता" १ ६०४पा० ख०] * नैगम काण्डम् * r । Namal वीताम् भक्षयेतां पुरोडाशम्, पिबेतां सोमम् । यतो ब्रवीमि, है 'औशिजः' मेधाधिनः ! ऋत्विजः! 'हुवध्यै आयध्वं तापश्विनौ। किञ्च, 'प्र' ब्रवीमि 'व' - 'कृणुध्वम्' 'अपां नपातम्' अपि, एत- स्मिन् कर्मणि भागिनम्। किञ्च, 'प्रमातरौं' द्यावापृथिव्यावपि सर्वभूतनिर्मात्र्यो कृणुतैव, एतस्मिन् कर्मणि भागिन्याविति एतच वो ब्रवीमि। कं च पुनरर्थ' पुरस्कृत्य एतत् कुरुध्वम् ? इति,- 'रास्पिनस्य आयोः' रपणशीलस्य वा रसनशीलस्य चा शब्दका- रिणो वर्षभूतस्योदकस्य प्राप्त्यर्थम् , अथवा स्तोतुः पुत्रस्य प्राप्त्य र्थम् । “आयवः” -इति मनुष्यनाम ॥ एवमत्र 'राप्लिन'-शब्देन उदकं स्तोता वाभिधीयते, शब्दसारूप्यादाविरोधाच्च ।। 'ऋजतिः(६१)” “प्रसाधनकर्मा" । “भाञ्जीकः”- इत्यनेन गतार्थतामस्य मन्यमानो भाष्यकारी निगम नाधीते॥ केचित्त्वत्र एतं शेषमधीयते । “दूतं वो विश्ववे दसंह. व्यवाहममर्त्यम्। यजिष्टमृअसे गिरा ॥” इति (ऋ. सं० ३, ५, ८, १)। वामदेवस्यार्णम्। गायत्री। आग्नेयी । प्रातरनुषा- काश्चिनयोः शस्यते । 'ध'-इत्येतस्य 'त्वम्' इति विपरि- णामः । हे यजमान ! त्वं 'दूतम्' विश्ववेदसम्' सर्वप्रज्ञानम् , 'हव्यवाहम्' हविषां वोढारम्, 'अमर्त्यम्' अमरणधर्माणम, 'यजि- ष्ठम्' यष्टतमम् , 'असे' प्रसाधयसि 'गिरा' स्तुत्येत्यर्थः ॥ एव- मत्र “ऋअतिः' प्रसाधनकर्मा" दूतसम्बन्धात् ॥ "जुः(१२)"-"इत्यपि” “अस्य" एव ऋञ्जतेः भवति । 'जुनीती नो वरुणो मित्रो नयतु विद्वान् । अर्यमा देवैः - १ १ * निरुतम् * पूर्वषट्कम् सजोषाः ॥” इति (ऋ० सं० १, ६, १७, १)। गोतमस्याणम् । वैश्वदेवसूक्त। गायत्री। गवामयनस्य द्वितीयेऽहनि शस्यते मैत्रावरुणस्य शस्त्रे। 'जुनीती' ऋजुनयनः, ऋजुप्रज्ञो वा 'वरुणः' 'नः' अस्मान् इतो लोकादमुं लोकं कर्मफलप्राप्त्यर्थ 'नयतु । 'मित्रः' व 'विद्वान्' नयतु । 'अयंमा' 'देवैः' 'सजोषाः' सहप्रीयमाणः नयतु ॥ एवमत्र 'ऋजु'-शब्देन प्रसिद्धं नयनम्, प्रसिद्धा वा मतिरुच्यते॥ “प्रतद्वसू (६३)" -इति, अनवगतम् । “प्राप्तवसू” प्राप्तवसू-इत्यव- गमः । 'अश्वौ' अभिधेयौ। “इह त्या संधमाद्या युजानः सोम- पीतये। हरी इन्द्र प्रतद्वसू अभिस्वर ॥"-- इति (ऋ० सं० ६, १, १२, २)। नारदस्येयमार्षम् । उष्णिक । महाव्रते औष्णिही तृचाशीतिः, तस्यां शस्यते। हे 'इन्द्र !' 'इह' कर्मणि 'त्या हरो' तावश्वौ 'प्रतहसू' “प्राप्तवसू” प्राप्तधनौ, तयोहि ऋजीषं धानाच धनम्, स हि ताभ्यां यज्ञ भागः प्राप्तः। 'सधमाद्या' सहमदनौ 'युजानः' युक्त्वा रथे, ततः 'सोमपीतये' सोमपानार्थम् 'अभिस्वर' अस्मान् प्रत्यागच्छ॥ एवमत्र “हरी"-इत्येनेन सम्बन्धात् 'प्रतद्वसू =प्राप्तवसू” अश्वौ--इत्युपपद्यते ॥ ६ (२१)। हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य योगे विष्यध्वमूधः श्रुष्टीवरीभूतना- स्मभ्यमापः ॥ प्रहिणुत नोऽध्वरं देवयज्यायै प्रहिणुत ब्रह्म धनस्य सननाय ऋतस्य योगे यज्ञस्य योगे याज्ञ शकट १ देअ० ४पा. अख नैगम काण्डम्, इति वा शकटंशकदितं भवति शनकैस्तकतीति वा शब्देन तक- तीति वा । श्रुष्टीवरीभूतनास्मभ्यमापः । सुखवत्यो भवता- स्मभ्यमापः चोकूयमाण इन्द्र भूरि वामम् । दददिन्द्र बहु वननीयम् । एधमानद्विलुभयस्य राजा चोकूयते विश इन्द्रो मनुष्यान् । व्युदस्यत्येधमानानसुन्वतः सुन्वतोऽभ्यादधात्यु- भयस्य राजा दिव्यस्य च पार्थिवस्य च चोकूयमाण इति चोष्कूयतेश्चर्करीतवृत्तं मुमत्स्वयमित्यर्थः। उप प्रागात्म- मन्मेधायि मन्म। उपप्रेतु मां स्वयं यन्मेमनोऽध्यायि यज्ञ नेत्याश्वमेधिको मन्त्री दिविष्टिषु दिव एषणेषु ॥ ७ ॥ "हिनोत (६४)" - इति, अनवगतम् । “अहिणुत”-इत्यव- गमः "हिनोता नो-भूतनास्मभ्य मापः ॥”-इति (ऋ० सं० सं ७, ७, २६, १)। कवषस्येयमार्षम्। अपोनत्प्रीयास्वृक्षु शस्यते। "हे ऋत्विजः ! 'हिनोत' “प्रहिणुत” प्रगमयत, प्रोत्सर्पयत। एतम् 'अध्वरं यज्ञम् 'देवयज्या' देवयज्यायै" देवयजनार्थम्। किश्च, प्रहिणुत 'ब्रह्म' स्तुत्याख्यं यथाशास्त्रदृष्ट- क्रमेण । 'सनये' लब्धये 'नः' अस्माकं धनानाम् । किञ्च, 'ऋतस्य' 'यज्ञस्य” 'योगे' संयोगे यदेतत् 'ऊधः' इव सोमपूर्णम् अधिष- बणचर्म वर्तते, अथवा योगसम्बन्धाच्छकटं योगः, तद्धि तत्र युज्यते, तेनाधिषवणवर्मषः ऊधसोऽधस्तादवस्थितेनेति मन्यमानो भाष्यकारो ब्रवीति,-"याने शकटे-इति वा” यदेतद् यज्ञशकट. - ।
६७० ॐ निरुक्तम् [पूर्वषटकम् स्याधस्तादुपरि वाधिषषणचर्म, एतत् 'विष्यध्वम् ' विमुञ्चध्वम् ग्रहबमस स्थाल्यादिषु यो निषेकः सोमस्य, एतद् विमोचनम् अधिषवणचर्मोधसः, तद्धि सोमउत्सिच्यमाने श्लथीभवति, यथेतरगोरूधो दुह्यमानायां गवि । एवमृत्विज उत्त्वा अधुना ता एव सोमसम्मिश्रा अपो ब्रवीति,- यूयमपि हे 'आपः! एभिः ऋत्विग्भिः उत्सिच्यमानाः 'श्रुष्टीवरीः' “सुखवत्यः” 'भूतन' "भवत” 'अस्मभ्यम् ॥ एवमत्र 'प्र'शब्देनार्थस्य सुतरां प्रकटता भवतीति भाष्यकारेण 'प्र'ब्देशोऽध्याहृतः, 'अध्वरम्' इत्यनेन, सम्बन्धाद्विनोतर्गत्यर्थत्वमुपपद्यते ॥" “प्रहिणुत”--इति 'आपः' उच्यन्त इति केचित् । “शकटम्” “शदितं भवति” । यदा अनड्वान् युक्त, शकृत् मुञ्चति, तेनेतमिति। “शनकैस्तकतीति वा" तद्धि भारा- क्रान्तं शनकैर्गच्छति “शब्देन तकतीति वा” तद्धिशब्देन गच्छति ॥ “चोकूयमाणः (६५) "चोकूयते (६६)"-इति, एते अन- वगते। धातुरेवायमप्रतीतः। एते सुबन्ततिङन्ते, तदनयोः पूर्व 'सुबन्तम्' उत्तरं तिङन्तम्। दानार्थे वर्तमानस्य “चोष्कृय- माण इन्द्रभूरि वामम्”-इति (ऋ० सं० १, ३, १, ३)। निगम- मुक्त्वा “दददिन्द्र"-इति हि पूर्वस्य निर्वचनं वकार भाष्यकारः।। व्युदसने वर्तमानस्योत्तरस्य "चोकूयते विश इन्द्रो मनुष्यान" -इति (ऋ० सं० ४, ७, ३३, १)। निगममुक्त्वा 'चोकूयते' इत्यस्य शब्दस्य “व्युदस्यति”-इति निर्वचनामाह भाष्य कारः॥ उभयत्रापि तु चोकूयतिशब्दश्चर्करीतवृत्तेन द्रष्टव्यः॥ , wami * नैगम काण्डम् * - ६०४पा० ख०] 'चोष्कृयमाण इन्द्र भूरि घामम्”–इत्यस्य शेषः,–“नि सर्व- सेन इषुधीरसक्त समर्यो गा अजति यस्य वष्टि। चोष्कृयमाण इन्द्र भूरि वाम मा पणिभूरस्मदधिं प्रवृधः ॥” इति (० सं० १, ३, १, ३)। हिरण्यस्तूपस्यार्षम्। ऐन्द्री। त्रिष्टुप् । उद्भिद्वलभिदोनिष्केवल्ये शस्यते। 'न्यसक्त' न्यबध्नात् 'इषुधीन्' तूणान् , पृष्ठे रथस्य, 'सर्वसेनः' समग्रसेनः इन्द्रः। एवं तूणान् सनह्य बद्धा, गोधाङ्गुलित्रवान् भूत्वा “समर्यो गा अजति” इषुभिर्मेघान् छिन्दन् 'सम् अजति' समस्ताः क्षिपति' 'गाः' अपः, 'अर्यः' ईश्वरः इन्द्रः। कस्मै समजति ? यस्य वष्टि। यस्य राज्ञो देशे कुटुम्बिनो वा क्षेत्रे कामयते, क्षेप्तुम् , तस्यैव क्षिपति, वर्ष प्रवर्तयत इत्यर्थः। एवं स्तूयमानः स इन्द्रः प्रत्यक्षीभूतः, यतः प्रत्यक्षकृत उत्तरोऽर्द्धर्चः। हे इन्द्र! चोष्कृयमाणस्त्वं ददत् उदकं जनेभ्यः भूरि' “बहु” 'वाम' “वननीय” शस्यसम्पत्करम् , शृणु यत् कुरुष्व । 'मा पणिः भूः' मा बणिकशीलोऽस्मान् प्रति मन्दोदकदाता कृपणो भूः। किन्तर्हि ? प्रवृद्धोदकः उन्नतवित्तः, अस्मान् प्रति बहूदकदाता भव ॥ एवमत्र 'मा पणिभूर्भूरि वामम्- इत्येभिः पदै सम्बन्धात् 'चोष्कृयमाणः'-इत्यस्य “ददत्"-इत्ये वमर्थ उपपद्यते॥ एवमत्र दानार्थः 'चोष्कृयति' “एधमानद्विलुभयस्य" इत्यत्र व्युदसनार्थः। अस्य शेषः,--"शृण्वे वीर उग्रमन दमायनन्यमन्यमतिनेनीयमानः । एधमानद्विलुभयस्य राजा चोकूयते विश इन्द्रो मनुष्यान् ॥”--इति (ऋ० सं० ४, ७, ३३, 1 स्थति,-यो 'विशः' एधमानानसुन्वत इतरांश्च सुन्वतः 'मनुष्यान्' * निरुक्तम् * [पूर्वषट्कम् १)। गर्गस्य बार्हस्पत्यस्येयमार्षम् । त्रिष्टुप् । ऐन्द्री। 'दमा- यन्'--इत्येकं पदम् । 'शृण्वे वीरः' अश्रौषमहं वीरमिन्द्रम, 'उग्रम्' वज्रम्। आदरार्थो द्विरभ्यासः आदर चार्थभूयस्त्वम् , "अभ्यासे भूयांसमर्थ मन्यन्ते” इति हि वक्ष्यति। अथवा 'उग्र' शत्रु प्रति उद्ग र्णवत्रम्। 'दमायन्' दमयिता शत्रूणाम् । कथं पुनरश्रौषम् ? इति,-'अन्यमन्यम्' देवताविशेषम्, 'अतिने- नीयमानः' अतिशयेन स्वाभीष्टन कामेन तुष्ट्र षया 'अमुष्मात् सुतात् कामान् प्रोप्सथ'-इत्येवं पुनः पुनः नयमानः। किम्पुन- लक्षणं वीरमौषम् ? इति,-'एधमानद्विट्' “एधमानान्" दीप्य- मानानपि "द्वोष्टि" "असुन्वतः” सोमाभिषधमकुर्वाणान् अयज्वन इत्यर्थः। अत एवं वैपरीत्येन “सुन्वतोऽभ्याधाति”–इत्यध्या- जहार भाष्यकारः। व पुनरादधाति ? 'सुकृतस्य लोके'- इति सामर्थ्याद् गम्यते । ये हि सुन्वते, त इष्टा इन्द्रस्य, ये न सुन्वन्ति, ते द्वष्याः, इत्यभिप्रायः। 'उभयस्य राजा' "दिव्यस्य च" धनस्ये- श्वरः “पार्थिवस्य च मानुषस्य च। किञ्च, 'चोकूयते' व्युद- अभ्यादधाति सुकृतस्य लोके इति ॥ एवमत्र 'एधमानद्विट्' इत्यनेन लम्बन्धात् “चोष्कृयतिः, व्युदसनार्थः".---इति उपnamam पद्यते॥ । । “सुमत् (६७)”-इति, अनवगतम् । “खयम्”-इत्यवगमः । “उपप्रागात् सुमन्मे ऽधायि मन्म देवानामाशा उप चीतपृष्ठः अन्धनं विप्रा ऋषयो मदन्ति देवानां पुष्ट चकमा सुबन्धुम् ॥" - - । । ६अ०४पा० ८ख०] * नैगम काण्डम् * इति (ऋ० सं० २, ३, ८, २)। दीर्घतमस आर्षम्। त्रिष्टुप् अश्वदेवताका। अश्वमेधेऽश्वतोमीयेन षोडशाहुतयो हूयन्ते, तत्रेयं विनियुक्ता। 'उपप्रागात्' “उपप्रैतु" "मां” प्रकर्षण 'सुमत्' “स्वयम्” एव । 'यत्' यदनेन “यज्ञन” प्राप्नु याम् "इति” । 'मे' मम 'मनः' अपि “अध्यायि” अनेकविधान सङ्कल्प- विकल्पान् चकार, तत्तदहमेव, अहं मनसा ध्यातवानित्यर्थः । किम्पुनस्तत् ! 'मन्म' मननीयमर्थजातम्। किञ्च, अयमपि ! 'वीतपृष्टः' कान्तपृष्ठोऽश्वः 'उपप्रागात्' उपगच्छतु । 'देवानाम्' 'आशा' यम् एतं वयं देवानां 'पुष्टे' पोषणाय 'चक्रम' कृतवन्तः । 'सुबन्धुम्' शोभनयूपवन्धनम्। तमेतमुपगच्छन्तम् 'अनुमदन्ति' अनुमन्यन्ताम् 'विप्राः ऋषयः' मेधाविनः ॥ एवमत्र शब्दसारुप्या- दर्थोपपत्तश्च 'सुमत्'-इत्यस्य “स्वयम्"---इत्येष विपरिणाम. उपपद्यते॥ "आश्वमेधिकोऽयं मन्त्रः"-इति प्रकरणोपप्रदर्शनार्थमाह, मन्त्रार्थं निब्रुवता प्रकरणमप्युपेक्षितव्यमिति, एतदेनेन प्रदर्शितं भवति॥ "दिविष्टिषु (६८)"-इति, अनवगतम्। “दिव एषणेषु" इत्यवगमः। याभिः क्रियाभिर्दिवमिच्छन्ति गन्तु ता दिवि- प्रयः ॥७॥ स्यरं राधः शताश्वं कुरुङ्गस्थ दिविष्टिषु । स्थूरः समाश्रितमात्रो महान् भवत्यणुरनु स्थवीयांसमुपसगों ६७४ * निरुक्तम् * [पूर्वषट्कम लुप्तनामकरणो यथा सम्प्रति कुरुङ्गो राजा बभूव कुरुगम- नाद्वा कुलगमनाद्वा कुरुः कृन्ततेः कूरमित्यप्यस्य भवति कुलं कुष्णातेर्विकुषितं भवति दूतो व्याख्यातो जिन्वतिः प्रीतिकर्मा । भूमि पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नय इत्यपि निगमो भवति ॥ ८ (२२) । इति षष्टाध्यायस्य चतुर्थः पदः ॥६, ४ ॥ “स्थूर०-०दिविष्टिषु । राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशे प्वमन्महि ॥”- इति (ऋ० सं० ५, ७,.३३, ४)। मेधाति- थेरार्षम्। वृहती। दानमनया प्रशस्यते । 'स्थूर' स्थूलमहत, "राधः' धनम्, 'शताश्व' बह्वश्वसंयुक्तम्। 'कुरुङ्गस्य' 'राज्ञः' 'त्वेषस्य' महतः, 'सुभगस्य' शोभनस्य 'दिविष्टिषु' क्रियासु दक्षिणाभूतं सर्वेष्वपि 'तुर्वशेषु' मनुष्येषु याः रातयः दत्तयः, तासु च, एतदेव स्थूलमित्येवं वयम् 'अमन्महि' मन्यामह इत्यर्थः ॥ एवमत्र 'दिविष्टि' शब्देन 'क्रिया' उच्यते, ताभिर्हि द्युलोकमिप्यते गन्तुम्॥ "स्थूरः, समाश्रितमात्रो महान् भवति” समस्ता हि तत्र मात्रा आश्रिता भवन्ति। स्थूलप्रसङ्गनैव अणुशब्दो निरुच्यते,- “स्थवीयांसमनु" यो वर्तते, सः “अणुः” इत्युच्यते। अन्वि- त्ययम् “उपसर्गः” “लुप्तनामकरणः” येन प्रत्ययेन न्याय्यमेतनाम स्यात्, सोऽत्र लुप्तो न श्रूयत इत्यर्थः। कथं लुप्तः ? इति, * नैगम काण्डम् * । ई०४पा० ८ख०] ६.७५ “यथा सम्प्रति"- इति । अस्मिन्नामकरणलोपेन प्रयोगसिद्धिः, साम्प्रतम् - इति हि न्याय्यम् , तथापि सम्प्रतीत्येवमपि वर्तमान- कालविषयप्रयोगः प्रसिद्धः, एवमिहाप्यनुशब्दे। कुरुङ्गो नाम राजा बभूव" । “कुरुगमनाद्वा” कुरुङ्गः, स हि कुरून् प्रति पुत्र- त्वेन गतो जेतु वा। “कुलगमनाद्वा" शत्रुकुलानि हि स नित्य- मेव याति विजेतुम् । “कुरुः कृन्ततः” स हि शत्रून् कृन्तति । “क्रूरम्"--"इति” एतत् “अपि” “अस्य” एव कृन्ततेः “भवति” । "कुलं कुष्णातेः (क्या० ५०)” तद्धि “विकुषितम्" इव “भवति" विस्तीर्णत्वात् ॥ “दूतः (६६)"--इति, अनवगतम् । “जूतः - -इति न्याय्यम् । "जवतेर्वा द्रवतेर्या"--इति व्याख्यातम् ॥ "जिन्वतिः (१००)” “प्रीतिकर्मा” --इति अर्थवचनम् , अप्रतीतार्थत्वात् । “समानमेतत्”--इत्यत्र उपरिष्टाद् व्याख्या- स्यामो द्वादशेऽध्याये ॥ ८.२३) ॥ इति निरुक्तवृत्ती एकादशाध्यायस्य (षष्टाध्यायस्य) चतुर्थः पादः ॥ ६, ४॥
पञ्चमः पादः॥ अमत्रोऽमात्रो महान् भवत्यभ्य मितो चा। महान् अमत्रो वृजने विरप्शीत्यपि निगमो भवति। स्तवे वज्यूची पमः । स्तूयते वज्यूचा समोऽनर्शरातिमनश्लीलदानमश्लीलं पापकमश्रिमद्विषमम् । अनर्शरातिं वसुदामुपस्तुहीत्यपि निगमो भवत्यनर्वाप्रत्युतोऽन्यस्मिन् । अनर्वाणं वृषभं मन्द्रजिह्म वृहस्पति बर्द्धया नव्यमकैः। अनर्वमन्यस्मिन् वृषभं मन्द्रजिह्म मन्दनजिह्व मोदनजिह्वमिति वा बृहस्पति वईय नव्यमकरर्चनीयैः स्तोमैरसामि सामिप्रतिषिद्धं सामि स्यतेः। असाम्योजो बिभृथा सुदानवः । असु- समाबलं विभृत कल्याणदानाः ॥ १ (२३) ॥ "अमत्रः (१०१)- इति, अनवगतम् । “अमात्रः"--इति. शब्दसमाधिः। “महान् भवति”-इत्यर्थवचनम् , यो हि महान् भवति, न तस्य मात्राः प्रमातुं शक्यन्ते, अतोऽसावमत्र इत्यु- च्यते। "अभ्यमितो वा” स्यात् , अनभिर्हिसितः केनचित् । 'महाँ अमत्रो वृजने विरपश्यु १ न शवः पत्यते धृषण्वोजः । नाह विव्याच पृथिवी च नैनं यत् सोमासो हर्म्य श्चममन्दन् ॥”- इति (ऋ० सं० ३, २, १६, ४)। विश्वामित्रस्यार्षम् । त्रिष्टुप् ।
६०५पा० ९ख०] * नैगम काण्डम् * प्रभावतः। ऐन्द्री। पृष्ठयस्य चतुर्थपञ्चमयोरन्होर्माध्यन्दिने सवने अच्छाधा- कस्य शास्त्रे सम्पातं नाम सूक्तम् , तत्रेयं विनियुक्ता। 'महान्' 'अमत्रः' च अपरिमाणमात्रः' 'इन्द्रः' 'वृजने' संग्रामे 'विरप्सी' विरावणशीलः' 'उग्रम्' उद्गूर्णम् अभ्युद्यतम्, 'शवः' शत्रुबलम् ‘पत्यते' पातयते। 'धृषण्वोजः' धर्षयितृ यस्य ओजः, बलम् , तत् 'पत्यते। किञ्च, 'नाह विव्याच' 'नैनं व्याप्नोति 'पृथिवी नापि द्यौः, उपमानत्वेन । कदा पुनरंवं भवति ? 'यत्' यदा ‘सोमास' सोमाः 'हर्यश्वम्' इन्द्रम् 'अमन्दन्' अतर्पयन्नि- त्यर्थः॥ एवमत्र 'शवः' 'पत्यते' 'वृजने'-इत्यनेन सम्बन्धात् "अमात्रः =महान्”–इत्युपपद्यते॥ 'ऋचीषमः (१०२)”-इति, अनवगतम् । ईकारोऽत्रान- "चा समः”-इत्यवगमः। "इह श्रत इन्द्रो अस्मे अद्य स्तवे वज्र युचीषमः । मित्रो न यो जनेचा यशश्चक्रे असाम्या ॥” इति (ऋ० सं०७, ७, ६, २)। विमदस्यार्षम् । आस्तारपङ्क्तिः। ऐन्द्री। स पुनरैन्द्रो वा प्राजापत्यो वा वासु. क्रस्य वा वसुकृतः। पृष्ठ्यस्य चतुर्थेऽहनि निष्केवल्ये शस्यते। 'श्रुतः' विख्यातः सर्वासु दिक्षु, ‘इह' एतस्मिन् कर्मणि, 'अद्य' 'स्तवे विजेतुं स्तूयतेऽस्माभिः 'वनी' 1 किलक्षणः ? 'सचीपमः' "ऋचा समः” यावतैवार्थेन युक्तोच्चार्यते ऋक् स्तुत्यभिप्रायेण, तावानेवासी भवत्यैश्वर्ययोगात् । किञ्च, "मित्रो न' मित्र इच, यथा हि कश्चिदाप्तो मित्रो जनेषु यशः कुर्यात् , एवं य इन्द्रः 'यशः' 'आचक्रे आभिमुख्येन सर्वासु दिक्षु करोति। किंलक्षणं वगतः।
* निरुक्तम् * [पूर्वषट्कम् पुनर्यशः करोति ? 'असामि' असमाप्तमनन्तमित्यर्थः। य एव. गुणयुक्त इन्द्रः, सोऽस्माभिरिह स्तूयते ॥ एवमत्र स्तुतिसम्बन्धात् शब्दसारूप्याच्च "ऋचीषमः =ऋचा समः” -इत्युपपद्यते॥ "अनर्शरातिम् (१०३)"-इति, अनवगतम् । “अनश्लील- दानम्"--इत्यवगमः। विग्रहप्रसक्तस्याश्लीलशब्दस्यार्थमाह, "अश्लीलं पापकम्"-इति । न यस्याश्लीला रातिर्दानम्, सोऽन- शरातिः। शब्दसारूप्यप्रसक्तमाह,-"अश्लीलम् = अश्रिमद् विष मम्” तत्सारूप्योपपत्तितोऽश्लीलमित्युच्यते । "अनर्शराति वसुदामुपस्तुहि भद्रा इन्द्रस्य रातयः। सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥”-इति (ऋ० सं० ६, ७, ३, ४)। "श्रायन्त इव सूर्यम्” इत्यस्या अनन्तरैव । नेमस्या- बम् । ऐन्द्री। सतो वृहती। हे स्तोतः! 'अनर्शरातिम्' अपापदानम्, एनम् इन्द्रम् 'वसुदा' वसुदातारम् , 'उप' उपगम्यो- पगम्य चेतसा 'स्तुहि'। किंङ्कारणम् ? यस्मात् 'भद्राः' भन्द- नीयाः ‘इन्द्रस्य' 'रातयः' दत्तयः। किञ्च, 'सः' 'अस्य' 'कामम्' अभिप्राय "विधतः' दधतः, कामिनां कामान् 'न रोषति' न पीड़- यति। "मनः' व 'इन्द्रस्य' आत्मनः 'दानाय' 'चोदयन्' भवति, य एवं स्तुत्वा याचते ॥ एवमत्र शब्दसारूप्यादाविरोधाच्च "अनर्शरातिम् = अनश्लीलदानम्" इत्युपपद्यते ॥ “अन; (१०४)”-इति, अनवगतम् । “अप्रत्युतः”–इत्यव- गमः। यः “अन्यस्मिन्” न आश्रितो भवति, स्वप्रधान एव सः 'अनर्वा'-इत्युच्यते। “अनर्वाणं वृषभं मन्द्रजिडं वृहस्पति , ।
। , ६०५पा० ९ख०] * नैगम काण्डम् * वर्धया नव्यमः। गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः॥"-- इति (ऋ० सं० २, ५, १२, १)। अगस्त्य- स्यार्षम्। बार्हस्पत्या। त्रिष्टुप् । हे स्तोतः! 'अनर्वाण' स्वेन महिन्ना युक्तम् , अप्रतिगतं कञ्चिदन्यं प्रत्यधीनत्वेन, 'वृषभं' वर्षितारम् , 'मन्द्रजिहम्' “मन्दनजिह्वम्” हर्षकरो हि तस्य जनानां स्तनयित्नु, घोषः, “जिह्वा, घोषः” इति हि वाङ्नामसु पठितम् । 'वृहस्पति' 'वर्द्धय' । 'नव्यं स्तुत्यम् , 'नव्यं स्तुत्यम् , 'अर्कैः' मन्त्रैः। किंलक्षणं वृहस्पतिम् ? इति,-'गाथान्यः स्तुतिप्रापणार्हाः 'देवा' 'सुरुचः' सुदीप्तिमन्तः, 'यस्य' शुप्मम् 'आ' आभिमुख्येन स्थित्वा 'शृण्वन्ति' आदरेण, 'मर्ताः' च । 'नवमानस्य' नवो हि मानः तस्य, अहन्य- हनि अनया स्तुत्या स्तुत्यस्य भवति, तेनासौ नवमानः, तस्य, अथवा 'नवमानस्य' प्रशासतः इत्यर्थः। अथवायमन्यो मन्त्रार्थः स्यात्, ऐतिहासिकपक्षेण,-'मन्द्रजिह्वः' हर्पकरी हि जिह्वा, तस्य स्तुतिः। 'गाथानीः' स एव पौरहित्येन गाथाः स्तुतीर्नयति 'प्रापयति देवान् प्रति। स एव च 'सुरोचनः'। तस्यैव च 'नवमानस्य' स्तुवतः 'देवा आशृण्वन्ति' 'मः' च । “वृहस्पति देवानां पुरोहितः”- इति ह विज्ञायते। तस्मादेवमप्युपपद्यते। एवं, मन्त्रार्थाविरोधात् “अनर्वा = अप्रत्युतः”---इत्युपपद्यते ॥ "असामि (१०५)” - इति, अनवगतम् । सामीति समाप्त- मुच्यते, तस्य प्रतिषेधः असामि ।। "असाम्योजो विभृथा सुदानवोऽसामिधूतयः शवः। ऋषिद्विपे मरुतः परिमन्यव_इघु न सृजत द्विषम् ॥” इति (ऋ० सं० १, ३, १६, ५)। कण्वस्या- ,
Mu
।
® निरुक्तम् ।
[पूर्वपट्कम्
र्षम्। सतो वृहती। मारुती। हे 'सुदानवः "कल्याणदानाः"
मरुतः!
यूयम्
'असामि' अपरिसमाप्तम् अनन्तम् , 'ओज'
"बलम्" 'शवः' अभिवृद्धिरूपश्च बलम् 'बिभृथ' धारयथ । 'असा-
मिधूतयः' असमाप्तगतयः । धवनं धूतिः, “धवति, धावति”
इति गतिकर्मसु पठितम् । एतत् कुरुध्वम् । य एषः 'ऋषि-
द्वष्टा' स्तोतृवष्टा, तस्मै है मरुतः! 'परिमन्यवे' प्रकृष्टक्रोधाय
'इषु न इषुम् इव 'द्विषं सर्वलोकद्वष्यता 'सृजत' क्षिपत ॥ एव.
मत्र “असामि =असुसमाप्तम्" इत्युपपद्यते, अर्थाविरोधात् ॥
o
मा त्वा सोमस्य गल्दया सदा याचन्नहङ्गिरा ।
भूणि मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥ मा
चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहं गिरा गीत्या
स्तुत्या भूर्णिमिव मृगं न सवनेषु चुक्रुधं क ईशानं न
याचिष्यत इति गल्दा धमनयो भवन्ति गलनमासु
धीयते । आ त्वा विशन्त्विन्दव आ गल्दा धमनी नाम् ।
नानाविभक्तीत्येते भवत आगलना धमनीनामित्यत्रार्थः
॥ २ (२४)॥
“गल्दया (१०६)-इति, अनवगतम्। 'गलितधानी स्यात्
गलितं हि तस्यां धीयते। “धमनिर्भवति"-- इत्यभिधेयवचनम्,
नाड़ीत्यर्थः। “मा त्वा सोमस्य०-०न याचिषत् ॥”-
, ६०५पा० ख०] नैगमं काण्डम् * (ऋ० सं० ५, ७, १३, ५)। मेधातिथेरार्षम्। ऐन्द्री। वृहती। महाव्रते बृहतीसहले विनियुक्ता। हे इन्द्र ! 'मा चुक्रुधं त्वा' मा क्रोधयेयम् 'अहं' 'सोमस्य' 'गल्दया' “गालनेन” धमनेन, पूरणेन सोमस्य 'सदा' नित्यकालमपि 'याचन्' "गिरा' गीत्वा स्तुत्या च 'सवनेषु' यज्ञेषु। कथञ्च पुनर्मा चुक्रुधम् ? इति । 'भूणि न' 'मृगम्' इव । भ्रमणशीलो भूणिः। कः पुनरसी ? व्याघ्रो वा सिंहो वा, स हि भ्रमणशीलो विभर्ति च शृगालादीन् । तेनेन्द्र उपमीयते। यथा शृगालादयो लागृललालनादिनो. पचारेणोपसर्पमाणः तं न क्रोधयन्त्येवमहं सोमसम्प्रदानपूर्विकया स्तुत्योपसर्पमाणो मा चुक्रुधं भवन्तमिति । अथ मतम् ,-यदि मम क्रोधात् विभेषि, मास्मान् याचेथा इति । "क ईशानं न याचिषत्” को हि नाम सोऽस्ति लोके, य ईशानीश्वरं न “याचि- ष्यते" ? न घयाचतां वृत्तिः सिध्यति ॥ एवमत्रेन्द्रस्य या 'गलना' धमनिः, यया सोम आगल्यते सा, तेनैव आगलनेन उपलक्ष्यमाणा “गल्दा"-इत्युच्यते, न ह्य वमर्थविरोधोऽस्ति । 'गल्दा धमनिर्भवति"-इत्यस्य भाष्यकारवाक्यस्य मन्त्रे नात्र धमनिलिङ्ग, विशिष्टमस्तीत्यतो विशिष्टलिङ्गमन्य दुदाहरणं ब्रवीति, "आ त्वा विशन्त्विन्दवः”-इति। है इन्द्र! 'आवि- शन्तु' 'त्वा' त्वाम् 'इन्द्रवः' सोमाः । कथञ्च पुनरा- विशन्तु त्वामिन्दवः? 'आगल्दाः धमनीनाम्' याः “आग- लनाः” धमनयः, याभिरनुप्रविष्टाः सन्तो नवं मदमुत्पादयन्ति, अधोवाहिन्यो याः, ताभिराविशन्तु। शेषो मृग्यः॥ एवमिह ६ * निरुक्तम् * [पूर्वषट्कम् 'धमनी'शब्दसहयोगी 'गल्दा'शब्द इति कृत्वा "आगल्दा-धमनिः” -इति उपपद्यते॥ "नानाविभक्तीत्येते" पदे “भवतः”-'गल्दया' 'गलदा'- इति, न तु नानार्थे । आह,-कोऽभिप्रायः ? इति, उच्यते,- पूर्व- स्मिन् मन्त्रे यद्यपि धमनिशब्दो नास्ति, तथापि निगमे ‘गल्दा'- शब्देन धमनिरेवोच्यते। तप “गल्दा धमनीनाम्” इत्येतदेव ज्ञापकमित्यभिप्रायः । 'गल्दया' - इति तृतीयान्तम् , 'गल्दाः- इति प्रथमाबहुवचनान्तम् । एतदनयो नाविभक्तित्वम् ॥२ (२४)॥ न पापासो मनामहे नारायासो न जल्हवः । न पापा मन्यामहे नाधना न ज्वलनेन हीना अस्त्यस्मासु प्रश्नचर्यामध्ययनं तपो दानकर्मत्युषिरबीचद् वकुरो भास्करो भयङ्करो भासमानी द्रवतीति वा ॥ २ (२५) । - । "जल्हवः (१०७)”–इति, अनवगम् । “ज्वलनहीनाः” इत्यवगमः। “न पापासो मनामहे नारायासो न जल्हवः । यदिनन्विन्द्रं वृषणं सवा सुते सखायं कृणवामहै ॥” इति (ऋ० सं० ६, ४, ३७, ६)। भर्गो नाम प्रगाथपुत्रः, तस्येयमार्षम् । ऐन्द्री। बृहती। तस्यामेव तृचाशीत्यां विनियुक्ता। 'न' वयं 'पापासः' “पापाः” इत्येवं 'मनामहे' “मन्यामहे"। किङ्कारणम् ? अस्त्यमास्वपापत्वे हेतुः,-'ब्रह्मचर्यम्, अध्ययनम् , तपः, दान- अथ मतम्, एतैरपि युक्तो यो निर्धनः, स पाप " ६अ०५पा० ३ख०]] * नैगम काण्डम् ® एवेति ? तश्च न । किङ्कारणम् ? 'न अरायास:' न वयमधनाः । अथापि स्याद्धनवत्त्वेऽपि सति अनाहिताग्नित्वात् ज्वलनहीनत्वेन पापवस्वमिति ? तदपि न । किङ्कारणम् ? 'न जलहवः' न वयं "ज्वलनहीनाः” किन्तर्हि ? आहिताग्नयो वयम् । तदेतदध्यय- नाद्यपापत्वहेतुभूतं सर्वमसास्वस्ति । किञ्च, 'यदिन्विन्द्र' यस्माद् वयम् इन्द्रं वृषणं' वर्षितारम् , एतस्मिन् यज्ञकर्मणि 'सखायं' सहभूतस्य सोमपानस्य ख्यापयितारम् , अमीभिः सह मया सोमः पीत इत्येवं वक्तारं 'कृणवामहै। तस्मात् न वयं पापाः, नापि वयमरायासः, नापि जल्हवः, इत्येवमात्मानं मन्यामहे, न हि पापानामधनानामनाहिताग्नीनां च इन्द्रः सखा भवतीत्यभिप्रायः ॥ एवमत्र “जल्हवः =ज्वलनहीनाः” शब्दसारूप्यादाविरोधाच्च ॥ बकुरः (१०८)”-इति, अनवगतम्। “भास्करः, भयङ्करः, भास्वव्वणो वा”- इति शब्दसमाधयः ॥२ (२५) ॥ यवं वृके णाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । अभिदस्यु बकुरेणा धमन्तोरु ज्योतिश्चक्रथुराव्य ॥ यवमिव वृकेणाश्विनी निवपन्तौ को लाङ्गलं भवति विकर्तनाल्लाङ्गलं लङगतेलांगूलचद्वा लागृलं लगतेर्लङग- तेर्लम्बतेर्वान्नं दुहन्तौ मनुष्याय दर्शनीयावभिधमन्ती दस्यु वकुरेण ज्योतिषा वोदकेन वार्य ईश्वरपुत्रो बेकनाटाः स्रल कुसीदिनो भवन्ति द्विगुणकारिणो वा द्विगुणदायिनो वा ६८४ ६ निरुक्तम् , [पूर्वषट्कम् - द्विगुणं कामयन्त इति वा । इन्द्रो विश्वान् बेकनाटाँ अह- दृश उत क्रत्वा पणी रभि । इन्द्रो यः सर्वान् बेक्टनाटान हदृशः सूर्यदृशो य इमान्यहानि पश्यन्ति न पराणीति वाभिभवति कर्मणा पणींश्च वजिजः ॥ ३ (२६)। । “यवं वृकेणाश्विना०-०राव्य ॥” इति (ऋ० सं० १, ८, १७, १)। कक्षीवत आर्षम् । आश्विनी। त्रिष्टुप् । प्रातरनु वाकाश्विनयोः शस्यते। 'यवं' यवादि धान्यं 'वृकेण' लाङ्गलेन । 'वपन्ता' “वपन्तौ” युवाम् 'अश्विना' हे “अश्विनौ !” तत्कृतौ, यत्कृते महानुग्रहे सति वर्षादौ लाङ्गलकर्मणः फलसम्पद् भवती- त्यतः तावेवाश्विनी वपन्तावित्युच्यते। 'इषम्' “अन्नम्” 'दुहन्ता' “दुहन्तौ” प्रपूरयन्ती 'मनुषाय' "मनुष्याय”। 'दस्रौ शत्रूणां दासयितारौ दंसयितारो वा, कर्मणां कृष्यादीनां कारयितारौ वा वर्षाद्यनुग्रहेण, एतावेवंविधं कर्म कारयन्तौ कुर्वाणौ वा । 'अभि- दस्युम्' दासयितारमनाकालं दुर्भिक्षं 'धमन्ता' धमन्तौ विनाश- यन्ती, कृत्स्नं जगदर्भिपुष्यन्तौ युवाम्। केन पुनरभिधमन्तौ ? इति,–'बकुरेण' जलसमूहेन ज्योतिःसमूहेन, च, मध्यस्थानो ह्य दकसमूहेन, द्युस्थानो ज्योतिषा, शस्यमनुगृह्णाति, ततो दुर्भिक्षं ध्वस्यते जगच्च पुष्यति। किञ्च, युवामेव 'उरुज्योतिः चक्रथुः' विस्तीर्णमविकलं चक्षुः चक्रथुः। 'आर्याय' “ईश्वरपुत्राय" ऋत्रावाय, स हि युवाभ्या' मन्धीभूतः चक्षुष्मान् कृत इत्यभि.
६०५पा० ३ख०] * नैगम काण्डम् * प्रायः ॥ एवमत्र ज्योतिःसमूह उदकसमूहश्च 'बकुर'शब्देनोच्यते, शब्दार्थाविरोधात्। "ज्योतिषा वोदकेन वा"-इति भाष्यपाठः ॥ । - “बेकनाटान् (१०६)"-इति, अनवगतम्। “द्विगुणकारिणो वा" "द्विगुणदायिनो वा" "द्विगुणकामिनो वा'- इति शब्दसमा- धयः । इन्द्रो विश्वान् बेकनाटौँ । अहर्दश उ त क्रत्वा पणीरभि । कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तु तम् ॥”- इति (ऋ० सं० ६, ४, ४६, ५)। प्रागाथः कलिर्नाम, तस्यार्पम् । ऐन्द्री। बृहती। महाव्रते वार्हस्पत्यां तृवाशीत्यां विनियुक्ता। 'इन्द्रः' 'विश्वान्' “सर्वान्” 'वेकनाटान्' “कुसीदिनः" वृद्धिजीव- नान्, 'अहर्दशः' यैरिहैव जन्मनि सूर्यो दृष्टो न पुनर्द्रक्ष्यन्तीत्यर्थः । अथवा “ये इमानि" एव "अहानि पश्यन्ति” विषयभोगप्रधानाः, नास्तिकतया, "न" पारलौकिकेचहासु, अस्य दुष्कृतस्य कर्मणः कोऽपि फलपरिणामो भविष्यतीत्येवं भावि न पश्यन्ति, तान- भिभवति। 'ऋत्वा' स्वेन "कर्मणा" । 'उत पणीन्' अपि पणीन् । “पणिर्वणिम् भवति” न हि विशुद्धेन कर्मणा व्यव- हरन्ति। याभिरेतत् कर्म करोति, याभिः पुनरेवमादीन दुष्कृत- कारिणो विभवति, 'कत् उ महीः' कता महत्यः सेनाः ? 'अस्य' इन्द्रस्य 'अधृष्टाः' अनाधर्षितपूर्वाः परैः, 'तविषीः' याश्च महत्यः । 'कत् ऊ वृत्रघ्नः' क्व च वृत्रघ्नः इन्द्रः? यस्य 'अस्तृतम्' अनुपहतं बलम्, येनैतान् हन्तीति ॥ एवमत्र "बेकनाटाः =कुतीदिनः" अर्थाविरोधादित्युपपद्यते ॥ ३ (२६) ॥
MA । । - ® निरुक्तम् , [पूर्वषट्कम जीवान्नो अभिधे तनादित्यासः पुरा हथात् । कडू स्थ हवनश्रुतः॥ जीवतो नोऽभिधावतादित्याः पुरा हन- नात् व नु स्थ ह्वानश्रुत इति मत्स्यानां जालमापन्नाना- मतदाष वेदयन्ते मत्स्या मधा उदके स्यन्दन्ते माद्यन्ते- ऽन्योन्यं भक्षणायेति वा जालं जलचरं भवति जलेभवं वा जलेशयं वाहुरोऽहस्वानहरणमित्यप्यस्य भवति । कृण्वन्न हरणादुर्वित्यपि निगमो भवति। सप्त मर्यादाः कवय- स्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । सप्त मर्यादा कवयश्चक्रुस्तासामेकामप्यधिगच्छन्नंहस्वान् भवति स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रूणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातके नृतोद्यमिति बत इति निपातः खेदानुकम्पयोः ॥ ४ (२७) ॥ "अभिधेतन (११०)"-इति, अनवगतम्। “अभिधावत" इत्यवगमः । “जीवानो ०-०हवनश्रुतः ॥” इति (ऋ० सं० ६, ४, ५१, ५)। उक्तमार्ष भाष्यकारेणैवात्रोपप्रदर्शनार्थम् , एवं सर्वत्र परिज्ञ यमार्षमिति । गायत्री। आदितेयी। 'आदित्योसः' हे “आदित्याः !” 'जीवात् नः' “जीवतः” अस्मान् 'अभिधेतन' "अभिधावत” यूयम् 'पुरा हथात्' “पुरा हननात्” अहतान् अस्मान् सम्भावयतेत्यभिप्रायः । 'कत् ह स्थ' “क्क नु स्थ” यूयम् ?
६अ०५पा०४ख०] * नैगम काण्डम् * येन न शृणुत क्षिप्त नाभिधावत है 'हवनश्रुतः !' ते ह्यातनामा- हानं शृण्वन्ति ॥ एवमत्र 'पुरा हथात्'-इत्यनेन सम्बन्धात् "अभिधेतन= अभिधावत" - इत्येष विपरिणाम उपपद्यते ॥ ऋषेर्वा मत्स्यवधकारुण्यभिभूतस्यैतदार्थम्, मत्स्यानां वा केचिन्मन्यन्ते। “मत्स्याः, मधौ उदके स्यन्दन्ते” मधु इत्युदक- नाम, तत्र हि ते स्यन्दन्ते गच्छन्ति। “स्यन्दति, कसति”-इति गतिकर्मसु पठितम् । “माद्यन्ते" हृष्यन्ति “अन्योन्यं भक्षणाय -इति वा” मत्स्या हि इतरेतरभक्षजीविनः । “जालम् , जलचरं भवति" तद्धि जले चरति । “जले भवं वा” जले वा भवति । "जलेशयं वा” जले वा शेते इतिजालम् ॥ "अंहुरः (१११)"-इति, अनवगतम्। “अंहस्वान्”-इत्यव- गमः। रो मत्वर्थे । “अंहरणम्-इत्यप्यस्य भवति"--इति प्रासङ्गिकम्, एवमपि हि प्रयोगो भवतीति । “त्रितः कृपेऽवहितो देवान् हवत ऊ तये । तच्छुश्राव बृहस्पतिः कृण्वन्नहरणादुरु वित्तं में अस्य रोदसी॥” इति (ऋ० सं० १,७, २३, २)। “सप्त मर्यादा"-इत्येते त्रितस्यैव कृपे पतितस्यार्थे । एतयोः पूर्वा कुत्स्यस्य वा। वैश्वदेवी। पङ्क्तिः । प्रातरनुवाकाश्विनयो- विनियुक्ता । 'त्रितः' 'कू' 'अवहितः' पतितः, 'देवान्' 'हवते' आह्वयते, 'ऊतये' रक्षणायात्मनः । तस्य आह्वानं 'वृहस्पतिः शुश्राव' । “वित्तं मे अस्य रो दसी”-इत्येतत् पुनःपुनरुच्यमानं द्यावापृथिव्यौ शश्रुवतुः । किमित्येतदसौ श्रावयाञ्चकार ? इति, -कृण्वन्' 'अंहुरणात्' अंहस्वतः कूपात् आत्मनः । 'उरु' विस्तीर्ण ।. * निरुक्तम् * [पूर्वषटकम् त्राणं कुर्वन् ॥ एवमत्र “अन्धकूपः = अंहुरणः” इत्युपपद्यते, 'प्रकरणाविरोधात् ॥ "सप्त मर्यादा:--गात् । आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणे तस्थौ ॥” इति (ऋ० सं० ७, ५, ३३, ६)। 'सप्तमर्यादाः' सप्त स्थितीः कवयः' मेधाविनः, हिरण्य- गर्भमनुप्रभृतयः 'ततक्षुः कृतवन्तः। नित्या एव हि ताः, तैस्तु तत्प्रख्यापकोऽनुस्मरणार्थो ग्रन्थसन्दर्भोऽभिव्यञ्जितः, एतदेव कर- णमित्युपचर्यते । “तासामेकामिदभ्यं हुरो गात्” । 'इत्'- इत्य- नर्थकः, अप्यर्थे वा। 'तासां' मर्यादानाम् 'एकाम्' “अभिग- च्छन्” अभिक्रामन् “अंहस्वान् भवति” । 'गात्'- इत्येतत्, अभेः समीपमाकृष्य “एकामप्यभिगच्छन्” इति । कतमाः पुनस्ता मर्यादाः ? इति,-"स्तेयम्” “तल्पारोहणम्” इत्येवमाद्याः । यः पुनरैतानभिगच्छति, तस्य किम् ? इति, सः 'आयोः' अय- नस्य सूर्य्यस्य 'स्कम्भे' स्वम्भने मण्डले 'उपमस्य' सर्वभूतोपनि- मातुरादित्यान्तरपुरुषस्य नीडे' निलयने स्थाने, यानि धरुणानि धारयितृणि स्थानानि अप्रध्वंसीनि' आभूतसंप्लवस्थायीनि, तेषु "तस्थौ तिष्ठति। आह, कस्मिन् काले इति? उच्यते,-'पथां विसर्गे' विषयानुप्रवेशमार्गभूतानामिन्द्रियाणां "विसर्गे' विसर्जन- काले प्राप्ते, मृत्युकाल इत्यर्थः ॥ मर्यादासम्बन्धात् स्पष्टतर एष निगम इत्यतो द्वितीय उपात्तः, स्मृतिसमाचारश्चानेन प्रतिविशिष्ट उपदर्शितो भविष्यतीत्येवं मन्त्रे एवोपश्रुत्य सर्व एव समाचारः विशिष्ट स्मृतिकारैः सन्तुष्टो न स्वतन्त्र इति ॥
६अ० ५पा० ५ख० नैगम काण्डम् "वत-इति निपातः, खेदानुकम्पयोः"। "बत (११२)" -इति, अनवगतम्, अनेकार्थञ्च । “निपातः"-इति पदजात्यव- धारणम् । “खेदानुकम्पयोः” इत्यर्थवचनम् ॥ ४ (२७) ॥ ।। वतो व तासि यम नैव ते मनो हृदयञ्चाविदाम। अन्या किल स्वां कक्ष्येव युक्त परिष्वजाने लिवु जेव वृक्षम्। बतो बलातीतो भवति दुर्बलो बतासि यम नैव ते मनो हृदयञ्च विजनीमोऽन्या किल त्वां परिष्वक्ष्यते- कक्ष्येव युक्त लिवुजेव वृक्षं लिवुजा व्रततिर्भवति लीयते विभजन्तीति व्रततिर्वरणाच्च शयनाच ततनाञ्च वाताप्यमुदकं भवति वात एत एतदाप्याययति । पुनानो बाताप्यं विश्वश्च न्द्रमित्यपि निगमो भवति। बने न वायो न्य धायि चाकन् । वन इव वायो वेः पुत्रश्चायन्निति वा कामय- मान इति वा वेति च य इति च चकार शाकल्य उदात्तं त्वेवमाख्यातमभविष्यदसुसमाप्तश्चार्थो स्थर्यतीति सिद्ध- स्तत् प्रेप्सू रथङ्कामयत इति वा । एष. देवो रथर्यतीत्यपि निगमो भवति (२८)। धेनं न इषं पिन्वतमसकाम् । असंक्रमणीम् ॥ ५॥ इति षष्ठाध्यायस्य पञ्चमः पादः॥६, ५॥
ॐ निरुक्तम् , [पूर्वषट्कम् "बतो बतासि०-०वृक्षम्" इति (ऋ० सं० ७, ६, ८, ३)। यमी, यमं ब्रवीति,-"दुर्बलः 'बत' दुर्बलहृदयः त्वम्, अधर्म- भीलोहमयस्त्वम्। एवमसन्मया प्रार्थ्यमानः खेदमुपयासि,-- नेच्छसि मया सम्भोक्तुं स त्वं सर्वथा ह्यनुकम्प्यः, शोच्य इत्यर्थः । अथवा 'नैव' 'ते' तव 'मनः सङ्कल्पम् , 'हृदयं हृद्तमध्यवसायञ्च 'विजानीमः' । अथवा लब्धस्ते मयाभिप्रायः,-'अन्या किल त्वा' मत्तो विशिष्टतरा योषित्, 'परिष्वजाते' “परिष्वक्ष्यते” ततः 'किल' त्वं मां तयापहृतचेतस्त्वात् नेच्छसि परिष्वक्तुम् । कथञ्च पुनरन्या रयाँ परिष्वक्ष्यते ? 'कक्ष्येव युक्तम्' 'लिबुजेच वृक्षम्' । 'कक्ष्या' कक्षजाता 'इव' सुवृद्धा, 'लिबुजा' वल्ली, यथा 'युक्तम्' आत्मना संयुक्तम् समीपजं परिष्वजेत् परिवेष्टयेत्, एवं किल त्वामन्या परिष्वक्ष्यते इति ॥ एवमत्र प्रकरणाविरोधात् 'वत'-इत्येष निपातः खेदानुकम्पयोः ॥ अत्र 'कक्ष्येव युक्तम्'- 'लिबुजेव वृक्षम्-इत्येकः 'इव'-शब्दोऽनर्थकः, अथ वोपमानद्वय- मेव स्यात्,-कक्ष्येव च, लिवुजेव च,-यथा कक्ष्या व लिवुजा च परिष्वजनीयौ अश्वत्थवृक्षौ परिष्वजेते, एवं परिष्वक्ष्यते इति॥ “वाताप्यम् (११३)"--इति, अनवगतम्। “उदकं भवति" इत्यभिधेयवचनम् । “वातः” हि “एतत्” उदकम् “आप्या- ययति" शीतं करोति । अथवा आप्यायतिद्ध्यर्थः स्यात्, पुरो वातेन हि वृष्टिभूतमुदकं संवर्द्धते। “नू नो रयिमुपमास्व नृवन्त पुनानो वाताप्यं विश्वश्चन्द्रम्। प्र वन्दितुरिन्दो तार्य्यायुः *नैगम काण्डम् * ई० ५पा० ५ख०] प्रातमा धियावसुर्जगम्यात् ॥” इति (ऋ० सं० ७, ४, ३, ५)। जोधसो गौतमस्यार्षम्। पावमानी सौमी। हे सोम! 'नू नः' क्षिप्रमलाकम् रयिम् धनम् 'उपमाख' उपनिर्मिणुहि । 'नृवन्तं' 'पुत्रपौत्रैः सहितम् । 'पुनानः' पूयमानः। 'वाताप्यम्' उदकं प्राप्य द्रवीभूतः। 'चन्द्र' चायनीयमुदकम् । 'विश्वः' च सर्वः 'पूयमानः । किञ्च,-'प्रतारि' प्रतीण दीर्घ कुरु-हे 'इन्दो' सोम ! 'वन्दितुः स्तोतुः 'आयुः। किञ्च, तथा उपमास्व, यथा 'प्रातः' नित्यमेव "धियावसुः' कर्मवसुः । इन्द्रः त्वां पातुमस्माकम् 'आजगम्यात्' आगच्छेदित्यर्थः ॥ एवमत्र “वाताप्यम् =उदकम्" अर्थाविरोधाच्छब्दोपपत्तेश्च ॥ “चाकन् (११४)”-इति अनवगतम्। “चायन्”-इति, "कामयमानः” इति शब्दसमाधी ॥ “वने न वायो न्यधायि चाकछुचिर्वा स्तोमो भुरण्यावजीगः। यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥ इति (ऋ० सं०७, ७,२२, १)। वसुक्रस्येयमार्षम् । ऐन्द्री। त्रिष्टुप् । 'वने न' “वने इव" वृक्षे इव । शकुनिः, स्वे नीडे वायमात्मीयं पुत्रं 'न्यधायि' निद- धाति 'शिशुकम्' अजातपक्षम् । स यथा तत्र निहितः 'चाकन्' 'चायन्” पश्यन्, भयाद् दिशो निरीक्षमाणः आसीत्, अथवा "कामयमानः" तदुत्सुकमना आसीत् ॥ एवमयमस्मासु वृक्षस्य नीडभूतेषु शकुनिपुत्रभूतः, 'शुचिः' व्यपगतसर्वदोषः युधयोः स्वभूतः, 'स्तोमः'। हे 'भुरण्यौ' भर्तारौ अश्विनौ ! शीघ्री वा, भुरण्युरिति क्षिप्रनामेति। किञ्च, यस्य स्तोमस्य 'पुरुदिनेषु' । " ६१२ * निरुक्तम् * [पूर्वषट्कम् बहुष्वहःसु 'इन्द्रो होता' इन्द्रोऽप्याह्वाता भवति,-ममायं स्तोमः स्यादिति। किंलक्षणः पुनरिन्द्र आह्वाता ? यः 'नृणां नृतमः' मनुष्वाणामपि मनुष्यतमः, शूराणामपि मध्ये शूरतम इत्यर्थः। 'नयंः' च नृभ्यो हितः, यः 'क्षपावान्' च रात्रिपायेषु सोम भागी। एवगुणयुक्तेन यः स्तोम इन्द्रेणापि प्रार्थ्यते, अस्मासु वर्तमानः, स युवां प्रति 'अजीगः' नित्यकालमेव गच्छत्तीत्यर्थः ॥ एवन्तावदेतामृचमाश्विनीमिति कृत्वा व्याचक्षते, तदसाधु, ऐन्द्रे हि सूक्ते प्रथमैवेयमृग् भवति । तच्च पुनः पृष्ट्यस्य षष्ठेऽहनि स्तोमे वर्द्धमाने माध्यन्दिने सवने ब्राह्मणाच्छशिनः शस्त्रे विनियुज्यते। हे 'भुरण्यौ' भर्तारौ, देवतानां पती ! य एषः स्तोमोऽस्मासु निहितः, 'शुचिः' व्यपगतदोषः, शकुनिपुत्र इव, वने वनावयते वृक्षे, 'चाकन्' पश्यन्निव कामयमान इव वा इन्द्रम् आस्ते यः स्तोमः, तस्य किम् ? इति,-यस्ये. न्द्रः पुरुदिनेषु बहुष्वहःसु आह्वाता अभूत, अपि नाम मामनेन, स्तोमेन स्तुयुरिति । किलक्षणः पुनराहाता यस्येन्द्रः ? इति, नृणां नृतमः नय॑श्च क्षपावांश्च। समानमेतत् पूर्वेणैवार्थेन । यमेवमिन्द्रः प्रार्थयते, स एषः स्तोमः, तं प्रत्यजीगः, गच्छती- त्यर्थः। अथवा स एषः स्तोमोऽस्माभिरुदीर्यमाणः, तस्येन्द्रस्य गुणान् गृह्णातीति स्यात् , “जिगतिः०-गृह्णातिकर्मा चा"-इति. ह्य क्तम् ॥ एवमत्र 'चाकन्'-इत्यस्य “चायन्” इति, “कामय- मानः-इति वा”-इत्येतौ विपरिणामावुपपद्यते, शब्दसारूप्या- दाविरोधाच॥ trakaar * नैगम काण्डम् * ६०५पा० ५ख०] एतस्मिन्निगमे पदविभागतः कश्चिद् विचारोऽस्ति, तमाह भाष्यकार:,-"वा-इति च, यः-इति च, चकार शाकल्यः" -इति। शाकल्यः पदकारः। तदेतत् विचार्यमाणं न साधु भवति, किङ्कारणम् ? “उदात्तं त्वेवमाख्यातमभविष्यत्” । 'एवम्' एतस्मिन् पदद्वये सति, यदेतत् 'आख्यात' न्यधायीति, एतत् 'उदात्तम् अर्भावष्यत्' यवृत्तात् परस्य नित्यमाख्यातस्य निघातो न भवतीति लक्षणविदो मन्यन्ते, न चेदमुदात्तम्. तस्मात् 'यः' इति नेदं यवृत्तम् । किन्तर्हि ? 'वायः'- इति एक पदम् । किञ्च, "असुलमाप्तश्चार्थः” अपुष्कलः, एवमेतस्मिन् पदद्वये सति मन्त्रस्यार्थोऽसुसमाप्तो भवति। कथम् ? द्विपदत्वे हि सति 'वा' शब्दस्यार्थेन केनचित् भवितव्यम् , न चेह विकल्पः समुच्चयो वा कश्चिदर्थोऽस्ति। तस्मादाख्यातस्यानुदात्तत्वादर्थासम्भवाञ्च द्विप- दत्वे, 'वायः'- इत्येतदेकपदमेव, “शकुनिपुत्रः” एव चास्या- भिधेयः उपपद्यते॥ "रथय॑ति (११५)” इति, अनवगतम् । 'रथं हयंति -इत्यवगमः, हयंतिशब्दो हि प्रेप्सायाम् , “रथं” हि यः "काम यते" स रथय॑ति । एष देवो रथयंति पवमानो दशस्यति । आविष्कृ णोति वग्वनुम् ॥” इति (ऋ० सं० ६, ७, २०, ५)। शुनःशेपस्यार्षम् । पावमानी सौमी। गायत्री। ग्रावस्तुत आपापे। 'एषः सोमः 'देवः' 'रथयंति' रहणमात्मनो गमन मिच्छति । 'पचमानः' 'दशस्यति' दानमात्मन इच्छति, कथं नाम मां देवेभ्यो दद्युरिति। किञ्च, 'आविष्कृणोति' प्रकाशी- २-२३ [पूर्वषट्कम् । - ६६४ * निरुक्तम् * करोति 'वग्वनुम्' वचो वननीयम् , दत्त मां देवेभ्य इति ॥ एवमत्र “रथयंति-रथप्रेप्सुः” शब्दसारूप्यादेतदुपपद्यते ॥ "असक्राम् (११६) - इति, अनवगतम् । “असंक्रमणीम्" -इति शब्दसमाधिः। “पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसंक्राम् । स्तुतश्व वा माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमगमन् ॥” इति (ऋ० सं० ५, १, ४, ३)। भरद्वाजस्या- षम्। त्रिष्टुप् । आश्विनी। प्रातरनुवाकाश्विनयोः शस्यते। 'पुरु' बहु 'देष्णं' दानं 'वां' युवाभ्यां यज्ञ यस्मात् हे 'पुरुभुजी' बहुभोजिनौ ! अश्विनौ ! तस्मात् युवां ब्रूमः,–'धेनुं नः' तर्पयि- त्रीमस्मभ्यम् 'इषम्' अन्नलक्षणम् 'पिन्वतम्' प्रक्षारयन्तम् 'अस- क्राम्' असंक्रमणशीलाम् अनपायिनीम् अस्मत्तः, अथवा असंक्र- मणशीला द्याम् , 'इषम्' इड्हेतूदकमस्मदर्थं प्रक्षारयतमिति स्यात्। किम्पुनः तद् युवयोर्वहुदानम् ? इति,-'स्तुतश्च' स्तुत- शस्त्रवांश्च सोमो युवयोरन्नम् । हे माध्वी' मधुपौ! 'सुष्टुतिश्च' शोभनाभिः स्तुतिभिः सुष्टु स्तुतः, 'रसाश्च' आज्यादयः, य एते 'राति' पुरोडाशस्यानुगच्छति, सर्व एते युवयोरेव । तस्माद् ब्रवीमि,-पिन्वतमिति ॥ एवमत्र शब्दसारूप्यादाविरोधाच 'असक्रम्'- इत्यस्य शब्दस्य “असंक्रमणीम्”-इत्येष विपरिणाम उपपद्यते। इडभिधेया, द्यौर्वा ॥५॥ इति निरुक्तवृत्तौ एकादशाध्यायस्य (षष्टाध्यायस्य) पञ्चमः पादः॥ ६,५॥
षष्ठः पादः॥ आधब आधवनात् । मतीनां च साधनं विप्राणां चाधवमित्यपि निगमो भवत्यनवनवोऽनवक्षिप्तवचनः । विजेषकदिन्द्र इवानववव इत्यपि निगमो भवति ॥ १ (२६)॥ "आधवः (११७)"-इति, अनवगतम् । “आधवनात्”- इत्यवगमः, आकम्पनादित्यर्थः। “मंसीमहि त्वा वयमस्माकं देव पूषन् । मतीनां च साधनं विप्राणां चाधवम् ॥” ---इति (ऋ० सं० ७, ७, १३, ४)। ऐन्द्रस्य विमदस्यार्षम् । अनुष्टुप् । पौष्णी। "मंसीमहि त्वां है 'पूषन्' ! 'देव !' 'मतीनां' च प्रज्ञानामस्माकं साधयितारम् , आदित्येन हि प्राणिनां प्रज्ञा अभि- व्यज्यन्ते। किञ्च, ये चान्ये "विप्राः' प्राप्तप्रज्ञाः मेधाविनः तेषाम् 'आधवम्' आकम्पयितारं स्वयमेव । तथा त्वमात्मनो गुणवत्तां दर्शयसि, यथा प्रोत्कम्पमानहृदयास्ते त्वां स्तुवते ॥ एवमत्र शब्दसारूप्यादाविरोधाच "आधवः =आकम्पयिता" -इत्युपपद्यते॥ 'अनवब्रवः (११८)-इति, अनवगतम् । "अनवक्षिप्त- वचनः"-इति अवगमः। "विजेषकदिन्द्र इवानवब्रवोइस्माकं मन्यो अधिपा भव । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥ इति (ऋ० सं० ८,३,१६,५)। मन्योरार्षम् । ।
4 * निरुक्तम् * [पूर्वषट्कम् त्रिष्टुप् । मान्यवे सूक्ते । श्येनादिषु निष्केवल्ये शस्यते । 'विजे. षकृत्' विजयकृत्, ‘इन्द्रः इव अनवनवः' इन्द्र इवानवक्षिप्तवचनः, न हीन्द्रस्य केनचिदाक्षिप्यते वचः। हे 'मन्यो !' यस्त्वम् अनव- क्षिप्तवचनः इन्द्र इव, स त्वमस्माकम् 'अधिपाः' अधिष्ठाय पाता 'भव'। किञ्च, हे 'सहुरे' शत्रूणां सहनशील ! 'प्रियं ते' यत् 'नाम' तेन त्वां 'गृणीमसि' नित्यमेव स्तुम इत्यर्थः । किञ्च 'विद्म' जानीमो वयम् 'तम्' 'उत्सम्' उत्स्यन्दनम्, 'आबभूथ' ॥ एवमत्र शब्दसारूप्यादाविरोधाच "अनववधः = अनवक्षिप्तवचनः”–इत्युपपद्यते ॥ १ (२६)॥ अरायि काणे विकटे गिरि गच्छ सदान्वे । शिरि- म्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥ अदायिनि काणे विकटे काणोऽविक्रान्तदर्शन इत्यौपमन्यवः कणतेर्वा स्यादणूभावकर्मणः कणतिः शब्दाणभावे भाष्यतेऽनुकण- तीति मात्राणूभावात्कणो दर्शनाणभावात्काणो विकटो विक्रान्तगतिरित्यौपमन्यवः कुटतेर्वा स्याद् विपरीतस्य विकुटितो भवति गिरिं गच्छ सदानोनुवे शब्द कारिके। शिरिम्बिठस्य सत्वभिः। शिरिम्बिठो मेघः शीर्यते बिठे बिठमन्तरिक्षं विठं बीरिटेन व्याख्यातं तस्य सवै- रुदकैरिति स्यत्तष्टवा चातयामोऽपि वा शिरिम्बिठो भार- ।
नैगमं ६०६पा० २ख०] काण्डम् 8 द्वाजः कालकर्णोपेतोऽलक्ष्मीनिर्णाशयाञ्चकार तस्य सचः कर्मभिरिति स्यात्तैष्ट्रवा चातयामश्चातयति शने पराशरः पराशीर्णस्य वसिष्ठस्य स्थविरस्य जज्ञे। पराशरः शतया- तुर्वसिष्ठ इत्यपि निगमो भवतीन्द्रोऽपि पराशर उच्यते परा शातयिता यातूनाम् । इन्द्रो यातूनामभवत्पराशर इत्यपि निगमो भवति । क्रिविर्दती विकर्त्तनदन्ती। यत्रा वो दिद्य ददति क्रिविर्दतीत्यपि निगमो भवति । करूलती कृत्तदती अपि वा देवं कश्चित् कृत्तदन्तं दृष्ट्वैवमवक्ष्यत् ॥ २ (३०)॥ "सदान्वे (११६)"--इति, अनवगतम् । “सदानोनुवे"-इति शब्दसमाधिः। “अरायि काणे०-०चातयामसि ॥"-इति (ऋ० सं० ८, ८. १३, १)। शिरिम्बिटस्य भारद्वाजस्य आर्षम् । अनुष्टुप्। दुर्भिक्षाधिदेवतोच्यते, कालकर्णा वा अलक्ष्मीः। हे 'अरायि' "अदायिनि !” दुर्भिक्षाधिदेवते! अथवा हे अलक्ष्मि ! दुर्भिक्षेण पीड़ितानां न दाने मतिः प्रभवति, नाप्यलक्ष्म्याभिभूता- नाम्। 'काणे' दुर्भिक्षेण ह्यभिभूतानां मान्यं चक्षुषोर्भवति, अन्नाभावात् , अलक्ष्मीपक्षेऽपि तद्रपा अलक्ष्मीरिति प्रतीयते, लोकेऽपि च या विरूपा भवति, अलक्ष्मीरिति सोच्यते । 'विकटे' दुर्भिक्षे दुर्बलत्वात् विकटेव प्राणिनां गतिर्भवति, अलक्ष्मीरपि -तद्रपा। "गिरं गच्छ' मात्रावस्थानं कार्षीः। 'सदान्वे' “सदा- audharma * निरुक्तम् * [पूर्वषट्कम् नोनुवे शब्दकारिके” दुर्भिक्षे हि क्षुत्पीडिताः प्राणिनो निःश्वस- न्तः सदैव शब्दं कुर्वन्ति, अलक्ष्मीरपि तद्रपा,-पिशाचादीनि नित्यमव्यक्तं शब्दं कुर्वन्ति,--पिशाचाद्या हिशृणु नसुनायन्तस्थेति लोके वक्तारो भवन्ति, एतत् प्रसिद्धम् । 'शिरिस्बिठस्य' मेघस्य स्वभूतैः 'सत्वभिः' “उदकैः” “सत्त्वम्” -इति ह्य दकनामसु पठि- तम् । “अपि वा शिरिस्बिठो भारद्वाजः” "तस्य सत्त्वैः नामभिः” तेन यानि दृष्टानि नामानि, सम्भवनसमर्थानि, स्तुतिसंयुक्तानि, तैर्वयं त्वां नाशयामः ॥ एवमत्र शब्दार्थाविरोधात् “सदान्ये" इत्यस्य “सदानोनुवे"-इत्येष विपरिणाम उपपद्यते ॥ निगमप्रसक्तान्यधुनोच्यन्ते,–“राति, रासति” इति दान- कर्मलु पठितः, तस्य प्रतिषेधपूर्वस्य 'अरायि'-इति भवति । "कणतिः, शब्दाणूभावे भाष्यते,-अनुकरणतीति” “मात्राण- भावात्” “कणः” श्यामाकादिः, तत्सामान्यात् “दर्शनाणूभावात्" "काणः” । अथवा “काणः= विक्रान्तदर्शनः" - "इत्यौपमन्यवः" विक्रान्तं हि तस्य दर्शनं भवति, एकीभूतत्वात् । “काणः = अविक्रान्तदर्शनः" - इति वा, मन्दचक्षुष्ट्वात् । “विकट:= विक्रा- न्तगतिः" विकृतगतिरित्यर्थः। अथ “वा” “कुटते" धातोः “स्यात्” असौ हि “विकुटितो भवति” कुत्सीभूत इत्यर्थः । "विठम्"---इत्यपठितमन्तरिक्षनामसु, तत् पुनरेतत् “बीरिटेन व्याख्यातम्” अत्र झुकम्,– “बीरिटमन्तरिक्षम्, भियो वा भासो वा ततिः”। तस्मिन् “बिठे" यः "शीर्यते" सः “शिरि- म्बिठः (१२०) मेघः” । “अपि वा शिरिम्बिठो भारद्वाजः” सो. , R ARMA ६अ०६पा० रखा] * नैगम काण्डम् * , ऽनेन सूक्तेन “अलक्ष्मीः निर्नाशयाञ्चकार" - इति निदानमन्वा- ख्यातम् । अद्यापि योऽलक्ष्म्याभिभूतो भवति, स आस्यदघ्न उदके- ऽवतीर्य सूक्तमेतज्जपति, तस्यालक्ष्मीनिनश्यति ॥ 'पराशरः (१२१)”-इति, अनवगतमनेकार्थश्च । “पराशीर्णः -इत्यवगमः। “प्रये गृहादममदुस्त्वाया पराशरः शतयोतु- वसिष्ठः। न ते भोजस्य सख्यं मृपन्ताधा सूरिभ्यः मुदिना व्युच्छान् ॥” इति (ऋ० सं० ५, २, २८, १)। वसिष्ठस्यार्षम् । ऐन्द्र सूक्ते । त्रिष्टुप् । प्रकर्षण 'ये' 'अममदुः' तृप्तवन्तः सोमेन, हृष्टवन्तो वा यज्ञषु। हे इन्द्र! 'त्वोया' त्वया सह 'पराशरः' च 'शतयातुः' बहूनां रक्षसां यातयिता, तेन हि रक्षोघ्नं सत्रमाहृत- मासीदिति भारते श्रूयते । 'वसिष्ठः' च इत्येवमादयः । किं तेषाम् ? इति,–'न' 'ते भोजस्य' भोगिनः तव 'सख्यं सखिभावं 'तृषन्त' मार्जयन्ते नाशयन्तीत्यर्थः। 'अधा' अथैवगुणयुक्तेभ्य- स्तेभ्यः 'सूरिभ्यः' 'सुदिना' शोभनानि दिनानि 'व्युच्छान्' विभा- न्तीत्यर्थः। तेषामेव सुप्रभाता रात्रयः इत्यभिप्रायः । एवमत्र "ऋषिः =पराशरः” वसिष्ठसम्बन्धात् ॥ 'इन्द्रोऽपि पराशर उच्यते” स हि “परा" परितः "शात- यिता" “यातूनां" यातयितव्यानाम्, असुरादीनामिति । “इन्द्रो यातूनामभवत् पराशरः ॥” – इति (ऋ० सं० ५, ७, ६, १)। व्याख्यातः शेषः॥ "क्रिविदंती १२२)”-इति, अनवगतम् । “विकतनदन्ती' -इत्यवगमः । “यूयं न उग्रा मरुतः सुचेतुनारिष्टनामाः सुमति ७०० * निरुक्तम् * [पूर्वषट्कम् पिपर्तन । यत्रा वो दिद्युद्रति क्रिचिर्दती रिणाति पश्वः सुधितेव बर्हणा ॥ --इति (ऋ० सं० २, ४, २, १)। अगस्त्यत्र यस्यार्षम् । जगती। हे 'मरुतः! 'उग्राः' 'उद्गूर्णाः, 'अरिष्टप्रामाः' अनुप- हिंसितसङ्घाताः यूयम् , अस्माकं 'सुचेतुना' शोभनेन प्रज्ञानेन, एतां 'सुमति' शोभनां मतिम 'पिपर्त्तन' पूरयत पालयत वा । केन पुनः पूरयत ? कुतो वा पूरयत ? इति---“यत्रा वो दिद्यत् । 'यत्र' यस्मिन् मेधे 'दिद्युत्' आयुधं क्षिप्त युष्माभिः, तमेव मेधं 'रदति' विलिखति, विदारयति वर्षार्थम् । किंलक्षणा पुनर्दिद्युत् ? इति,--'क्रिविर्दती' विकतनसमर्थैः दन्तः या रदति । कथम्पुनर्या रदति ? "रिणाति पश्वः सुधितेव” इति । यथा 'पश्वः' पशोः अङ्गानि 'रिणाति' पृथक् करोति, 'सुधिता' स्वधित्या, 'वहणा' परिवृद्धया हिंसया, एवमस्मिन् मेधे दिद्युतः ता रन्ति । ततः प्रभ्रष्टेनोदकेन सुमतिमस्माकं पिपर्तन ॥ एवमत्रार्थाविरोधा- दायुधं 'क्रिविर्दती' शब्देनोच्यत इत्युपपद्यते ॥ करूलती (१२३)"--इति, अनवगतम् । “कृत्तदती” इत्यवगमः ॥ २ (३०)॥ - वामं वामं त आदुरे देवो ददात्वर्य्यमा । वामं पूषा वामं भगो वामं देवः करू लती॥ करू लती॥ वामं वननीयं भवत्यादुरिरादरणात्तत्कः करूलती भगः पुरस्तात्तस्यान्वा- देश इत्येकं पूषेत्यपरं सोऽदन्तकोऽदन्तकः पूषेति च ६०६पा० ख०] नैगम काण्डम् , ७०१ ब्राहमणम् । दनो विश इन्द्र मृध्रवाचः दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु । अवीरामिव मामयं शरा- रु रभिमन्यते । अवलामिव मामयं बालोऽभिमन्यते संशि रिपरिदयुरिदं कामयमानोऽथापि तद्वदर्थे भाष्यते । वम्युरिन्द्रो वसुमानित्यत्रार्थः। अश्वयुर्गव्यूग्थयुर्वस्युरि- त्यपि निगमो भवति ॥ ३ (३१) ॥ । , “वामं वामं त०-०देवः करूलती ॥” इति (ऋ० सं ३, ६, २३, ४)। वामदेवस्यार्षम् । ऐन्द्रे सूक्ते । अनुष्टुप् । रात्रिपाये प्रशास्तुः शस्त्रे विनियुक्ता। 'वामं वामम्'-इति भूयस्त्वार्थोऽ- भ्यासः, “अभ्यासः, “अभ्यासे भूयांसमर्थं मन्यन्ते” इति हि वक्ष्यति। यद्यत् सुष्टु “वननीयम्” इष्टम् , 'ते' तव घनम् , तत्तत् हे 'आदुरे आदरवन् ! यजमान ! स हि यागं प्रति नित्यम् आवृतो भवतीत्यत एवं सम्बोध्यते-हे आदुरै !। 'वामं ददात्व- र्यमा'। यर्यम्णो 'वाम"वननीयम्” इष्टम्, आत्मनो धनम्, तत् असौ तुभ्यं ददातु। किञ्च, 'वामं पूषा' ददातु। 'वामं भगः' ददातु। 'वामं देवः करूलती' ददात्वित्येतदेवानुवर्तते। “करूलती'---इत्येतद् गुणपदत्वात् सन्दिह्यते, “तत्” एतत् विचार्य्यते-“कः करूलती ?"-इति। “भगः पुरस्तात्" "करूलती'शब्दस्य । “तस्य” एवायम् “अन्वादेशः” सन्निधान- * निरुक्तम् * [पूर्वषट्कम् सामर्थ्यात् । - "इत्येकम्” आचार्य्यमतम्। “पूषा-इति अप- रम्" । किडारणम् ? “स:” हि पूषा “अदन्तकः” । आह,- कुत एतत् इति, उच्यते,-अदन्तकः पूषा-इति च ब्राह्मणम्” । प्राशित्रभागब्राह्मणे हि श्रूयते,-"तत् पूष्णे पर्याजहः, तत् पूषा प्राश्नात्, तस्य दतो निर्जधान, तस्मादाहुः,-अदन्तकः पूषा - इति । यत् पुनरेतदुक्तं सन्निधिसामर्थ्यात् भगः करूलती स्यादिति। अकारणमेतत्,–“यस्य येनार्थसम्बन्धो दूरस्थमपि तस्य तत्। अर्थतो ह्यसमर्थानामानन्तर्यामकारणम्" इति न्यायविदः पठन्ति ॥ तस्मात् पूषच 'करूलती'-इत्युच्यते, शब्दसारूप्यादर्थोपपत्तश्चेति ॥ "दनः (१२४)-इति अनवगतम् । “दानमनसः-इत्यवगमः । “दनो विश इन्द्र मुभ्रवाचः स॒प्त यत् पुरः शर्म शारदीर्दत् । ऋणो- रपो अनद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥” इति (ऋ० सं० २, ४, ६, २)। अगस्त्यस्यार्षम् । हे 'इन्द्र !' 'दनः' “दानमनसः" एव एतान् अस्मभ्यं 'विशः' "मनुष्यान्" “कुरु” 'मृध्रवाचः' "मृदुवाचः” । कस्मात् पुनरेवमुच्यते ? इतः,-'यत्' यस्मात् त्वम् 'सप्त' सृप्ताः, 'पुरः' मेघपुरः, 'शारदोः' शरत्कालोत्थाः संवत्सरोत्था वा, संवत्सराऽपि हि शरदित्युच्यते,-"स जीव शरदः शतम्" -इति लिङ्गात्। 'शर्म' सुख मिच्छन् जनानां दत्' दार- यसि । किञ्च,'अनवद्यार्णाः' अनवद्योदकाः, ताः पुरः 'ऋणोः'अपग- मितवानसि इमं लोकं प्रति 'अपः'। स्वभाव एवैष तव लोकान- नुगृहीतुमित्यभिप्रायः। किञ्च, “यूने वृत्रम्” । यौतिः स्तुत्यर्थः । ।
६१०६पा० ख०] * नैगम काण्डम् * ७०३ । उताहwatsARI स्तोत्रे यजमानाय 'गुरुकुत्साय' बहुस्तुतिकर्ने 'वृत्रं' धनं 'रन्धीः" सम्पादितवानसीत्यर्थः । यत एवमुपकारे प्रवृत्तो भवान् स्तोतृणा- मेषाञ्च जनानाम् , तस्मात् बमोऽस्माकमपि एतान् मृदुवाचः कुरु- मनुष्यानिति ॥ एवमत्र दनः'-इत्यस्मिन् पदे दकारे “दानमनसः” -~-इति एतान्यक्षराण्यध्याहृतानि भाष्यकारेण, 'न'कारश्चास्मद्योगे विभज्योदाहृतः, तथार्थोपपत्तिदर्शनात् । “कुरु"-इत्येतचार्थपरि समाप्त्यर्थमध्याहृतम्। उत्तरास्त्रयः पादा हेतुभावेन, 'सप्त यत् पुरः' -इत्येतस्मात् सर्वनामसम्बन्धात्॥ "शरारुः (१२५)”-इति, अनवगतम् । “संशिशरिषुः” इत्यवगमः। “अवीराम॒िवमामयं शरारुभिमन्यते । मस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥” इति (ऋ० सं० ८, ४, २, ४)। पङ्क्तिः। ऐन्द्री। इन्द्रपत्नी एवं बबीति-'अवीरामिव' “अबलामिव” अपरिग्रहामिव । 'माम् अयं' 'शरारुः' “चालः" मूर्खः “संशिशरिषुः” संशर्तुमिच्छन् शरीरं तित्यक्षुरित्यर्थः। 'अभिमन्यते अभिभविष्याम्येतामित्येव मन्यते, क्षुद्रया बुद्ध्या। नहुषोऽन्यो वा कश्चित् , “नहुषेण हीन्द्राण्य- भिभवितुमारब्धासीत्” - इत्याख्यानं श्रूयते । "उताहमस्मि वीरिणी” अथ च तावदस्मि वीरिण्येव । केन च पुनर्वीरेण वीरिणी। 'इन्द्रपत्नो' इन्द्रस्याहं पत्नी,-मरुत्सखा' यः 'इन्द्रः' ? "विश्वस्मात् सर्वस्माद् यश्च 'उत्तरः' 'जगतः' उद्यततरः प्रभावेण, स मे वीरः, तदयं बालो न मन्यते, तेन मामभिभवितुमिच्छतीत्यभि प्रायः॥ एवमत्र “शरारुः संशिशरिषुः” शब्दसारूप्यादर्थोपपत्तेश्च । . .
* निरुक्तम् * [पूर्वपटकम् “इदंयुः (१२६)"-इति, अनवगतमनेकार्थञ्च । इदमिति यत् किञ्चिदभिप्रेतं निर्दिश्यते, तद्यः कामयते, स इदंयुरित्युच्यते। "युः'-इत्येषः शब्दोऽप्रसिद्धः कामयतेऽर्थे, तेनानवगतमेतत स्यात्। "नानाधियो वसूयवः” इत्यनेन गतार्थं मन्यमानो भाष्यकारो निगमं न ब्रवीति । वार्तिककारेणाप्युक्तम्,-"निग- मवशादुत्कष्यं भवति पदम्” तद्धितः, तथा धातुः, उपसर्गगुणः, निपाताश्च मन्त्रगताः सर्वथा लक्ष्याः ॥ “अथापि” 'युः'-इत्येषः, “तद्वदर्थे भाष्यते”। आह,- किमुदाहरणम् ? “वसूयुरिन्द्रः” – इति, वसुमानित्यर्थः । “इन्द्रो अश्रायि सुध्यो निरेके पत्रेषु स्तोमो दुर्यो न यूपः। अश्वयुर्ग- व्यूरथयुर्वसूयुरिन्द्र इन्द्रायः क्षयति प्रयन्ता ॥” इति (ऋ० सं० १, ४, ११, ४)। लव्यत्वमापनस्येन्द्रस्येयमार्षम्। ऐन्द्री। त्रिष्टुप् । दशरात्रस्य सप्तमेऽहनि मरूत्वतोये शस्यते । यः 'इन्द्र' 'अश्रायि' शृणाति, हिनस्तीत्यर्थः। 'शुद्धः' शुद्धविक्रमः, अजिह्म- योधी, अथवा शोधयिता योधानां प्रहारैः, सुधीर्वा स्यात् । क्व पुनः शृणाति ? 'निरेके संग्रामे यत्रैकोऽप्यन्यः सहायो नास्ति, तत्र एक एव शत्रून् हन्ति । 'पत्रेषु' प्रार्जितायुधेष्वपि पदेषु संग्रामेषु। किञ्च, 'स्तोमो न' स्तोम इव । यः प्रधानः त्रिवृत् स्तोमः, पञ्चदश इति हि व्यपदेशः, सोमे प्रभवति स्तोमेन तस्य प्राधान्यात्। किञ्च, यः इन्द्रः 'दुर्यो न' दुय्ये इव 'यूपः' यः 'प्रधानः । तस्य किम् ? इति,--स इन्द्रः 'अश्व युः' अश्वैस्तद्वान् । 'गव्युः गोभिः तद्वान् । 'वसूयुः' अन्नैर्वसुभिः तद्वान् । एवमु- ६अ०६पा०४ख०] नैगम काण्डम् , ७०५ णविशिष्टः 'यः इन्द्रः' सः 'रायेषु' धनेषु जनानां दातव्येषु 'क्षयति' इष्टे । 'प्रयन्ता' प्रकर्षण दात्यर्थः ॥ एवमत्र 'वसूयुः' इत्ययं युशब्दः “तद्वदर्थे”। किङ्कारणम् ? न हीन्द्रो वसु कामयते, सुपूर्णत्वात्, परिशेषात् अयं “तद्वदर्थे भाष्यते”-इत्युपपद्यते ॥ ३ (३१)॥ । - किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुहन तपन्ति धर्मम् । आ नो भर प्रमगन्दस्य वेदो नैचाशाख मधव- नन्धया नः। किं ते कुर्वन्ति कोकटेषु गावः कोकटा नाम देशोऽनायनिवासः कीकटाः किं कृताः किं क्रिया- भिरिति प्रेप्सा वा नैव चाशिरं दुहे' न तपन्त धर्म हर्म्यमाहर नः प्रमगन्दस्य धनानि मगन्दः कुसीदी माङ्गदो मामागमिष्यतीति च ददादि तदपत्यं प्रमगन्दोऽत्यन्तकुसी- दिकुलीनः प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुःपण्डको वा पण्डकः पण्डगः प्रादको वा प्रादयत्याण्डा- वाण्डावाणी इव वीडयति तस्तम्भ नैचाशाखं नीचाशाखो नीचैःशाखः शाखाः शनोतराणिररणात्तन्नो मघवनन्धयेति रध्यतिर्वशगमने बुन्द इषुर्भवति वुन्दो वा भिन्दो वा भयदो वा भासमानो द्रवतीति वा ॥ ४ (३२)॥ 1 na - * निरुक्तम् * [पूर्वषट्कम् “कीकटेषु (१२७)” इति, अनवगतम् । “किकृताः- इति शब्दसमाधिः, “किं क्रियाभिः-इति” “वा"। "किं ते कृण्वन्ति०-०नन्धया नः ॥” इति (ऋ० सं० ३, ३, २१, ४)। विश्वामित्रस्यार्षम्। ऐन्द्री। त्रिष्टुप् । इन्द्र! याः ‘कीकटेषु' अनार्यदेशनिवासिषु मनुष्येषु 'गावः' ताः 'ते' तव 'किम्' कमुप- कारं कुर्वन्ति ? न कञ्चिदपीत्यभिप्रायः । “नाशिरं दुहे, न तपन्ति धर्मम्” नाप्याशिरार्थं दुह्यन्ते, नापि धर्म तप्यमानेऽङ्गभावं गच्छन्ति, नाप्यग्निहोत्रादिषु कर्मसु अन्याखपि क्रियाखित्यभि- प्रायः। यत एवमतो ब्रूमः,-"आ हर नः" ताः गाः, वयं तव' ताभिराशिरादिविनियोगेनोपकारं करिष्याम इत्यभिप्रायः । किञ्च, यदप्येतत् 'प्रमगन्दस्य' वृद्धिजीविनो धनम्, एतच्च तथा अस्मभ्य- माहर, तदपि न क्रियासु “तत्स्थं” विनियुज्यते, वयं तद् विनि- योक्ष्याम इत्यभिप्रायः । “प्रमदको वा” नित्यप्रमुदितो विषय- परः प्रमगन्दः स्यात् । “पण्डको वा” नपुंसकः प्रमगन्दः स्यात् । तयोर्वा धनानि क्रियासु न विनियुज्यन्ते, शब्दसारूप्यञ्च प्रम- गन्दशब्दे उभयोरस्ति, तस्मात् तावप्युपपद्यते। “नैचाशाख मघवनन्धया नः” । यदेतेषामन्यतमस्य नीचशाखाप्रसूतस्य नोच- वंशप्रसूतस्य दीनतुल्यस्य धनम्, तत् । हे 'मघवन् !' शीघ्र 'रन्धय' संसाध अस्मद्वशं कुर्वित्यर्थः ॥ एवमत्र 'कीकटाः' “किं कृताः किं ते कृताः? इत्येवमभि- व्याहारमर्हन्ति, न तैः कश्चिदर्थोऽस्ति, न ते देवपितृमनुष्याणामु- पकारं कुर्वन्तीत्यर्थः। अथ “वा" किं क्रियाभिः ?"--"इति" ७०9 १ . ६०६पा० ५ख.] * नैगम काण्डम् * एवं “प्रेप्साः” ते नास्तिका एवमभिप्राया इत्यर्थः । एतस्माच्छब्द- सारूप्यादर्थोपपत्तेश्च “कीकटाः =अनार्यदेशनिवासिनः”- -इत्यु- पपद्यते॥ "भगन्दः =कुसीदी"--इत्युच्यते, स हि “माम्”–इयात् अद्यतनोऽर्थः, अयञ्च “आगमिष्यति"-इत्येवमनुचिन्त्य, परेभ्यो धनानि “ददाति” । “तदपत्यं प्रमगन्दः, अत्यन्तकुसीदिकुलीनः" तद्धितार्थे प्रः, प्रमगन्दः, 'प्रस्कण्वस्य-इति यथा। “प्रमदकः” प्रमादशीलः,-"अयमेवैको लोकोऽस्ति, न परः"-"इति” एवं "प्रेप्सुः” नास्तिकः । "पण्डकः” । तृतीया प्रकृतिः, सहि "पण्डगः” पण्डं गच्छति, स्त्रीरूपत्वात् । “प्रार्दकः"-इति “वा" स्यात्, “प्र” प्रकर्षण ह्यसौ “अर्दयति” अज्ञानैः सह स्त्रीत्वेन गच्छति “आण्डौ” कस्मात् तो “आण्डौं” ? “आणी इव बीड- यति” तो ह्यसौ पण्डको मुखे पुनर्मैथुने कर्मणि वर्द्धमानः “आणी इव वीड़यति” सम्भ्रमतीत्यर्थः ॥ बुन्दः (१२८)”-इति, अनवगतम् । “इषुर्भवति"-इत्यभि- धेयवचनम्। “भिन्दो वा भयदो वा भासमानो वतीति वा" --इति शब्दसमाधयः॥ ३ (३२)॥ तुविक्षं ते सुकृतं स्मयं धनुः साधुर्बुन्दो हिरण्ययः ॥ उभाते बाहूरण्या सुसंस्कृत ऋदूपे चिधा ॥ तुविक्षं- बहुविक्षेपं महाविक्षेप वा ते सुकृतं समयं सुसुखं धनुः साधयिता ते बुन्दो हिरण्यय उभौ ते वाहूँ रण्यौ रमणीयौ - ७०८ निरुक्तम् [पूर्वषट्कम् सांग्राम्यौ वर्दु पे अर्दनपातिना गमनपातिनौ शब्दपातिनौ दूरपातिनौ वा मर्मण्यदनवेधिनौ गमनवेधिनौ शब्दवेधिनौ दूरवेधिनी वा ॥ ५ (३३)॥ “तुविक्षं तेदूवृधा ॥ ॥"-इति (ऋ० सं० ५, ६, ३०,१)। “निराविध्य०-०स्वाततम् ॥” इति (ऋ० सं०६, ५, ३०, १)। च कुरुस्तुतेरार्षमेतद्वन्द्वयम्। ऐन्द्री। सतो बृहती पूर्वा, गाय- व्युत्तरा। हे इन्द्र! 'तुविक्षं “बहुविक्षेपम्” बहूनां विक्षेपाणां 'सुकृतं' शोभनानि हि येन कर्माणि क्रियन्ते तम् , अथवा शोभनं कृतम्, 'सूमयं' च सुखकर सुहृदाम् । किम्पुनस्तत् ? 'धनुः' । किञ्च, “साधुर्बुन्दो हिरण्ययः” 'साधयिता' स्तोमानां शत्रुसङ्का- तानां वा 'वुन्दः' इषु: "हिरण्ययः” हिरण्यविकृत इत्यर्थः । किञ्च, 'उभा ते बाहू' उभावपि ते बाहू, 'रण्या' “रमणीयो” स्वायतो पीनौ च, अथवा "सांग्राम्यौ“ रणयोग्यौ, 'सुसंस्कृती' सम- लकृतौ 'दूपे “अर्दनपातिनौ अर्दनेन हि गमनेन क्षेपणेन तो शत्रून् पातयतः। 'ऋवृधा' ऋद्विति मर्मोच्यते, तत्र यो विध्येते तौ ऋदूवृधौ मर्मवेधिनावित्यर्थः। भाष्यमत्र न सम्यगिव लक्ष्यते, तस्य सम्यक् पाठोऽन्वेष्यः, ततो योज्यम् । एवमत्र धनुःसम्बन्धात् “बुन्द = इषुः” ॥ ५ (३३)॥ , निराविध्यगिरिभ्य आधारयत्पक्कमोदनम् । इन्द्रो बुन्दं स्वाततम् ॥ निरविध्यगिरिभ्य आधारयत्पकमोदनमुदकदानं ६अ० ६पा० ख०] * नैगम काण्डम् * ७०६ मेघम् । इन्द्रो बुन्दं स्वातं वृन्दं बुन्देन व्याख्यातं वृन्दा रकश्च ॥ ६ (३४)॥ "निराविध्यः - स्वाततम् ॥” इति (ऋ० सं० ६, ५, ३०, १)। 'पक्वम्' बहूनां मेघानां मध्ये यः पक्को मेघः, उदकदाने समर्थः, तम्, 'इन्द्रः' “निरविध्यत्' । विद्ध्वा च तावत् 'आधारयर' यावनिरुदकः संवर्त इति । कथं निरविध्यत् ? इति,- बुन्दं 'स्वाततम्' स्वाकृष्टमाकर्णीकृत्वा॥ एवमत्राकर्षणसम्बन्धात् “इषुः =बुन्दः”-इत्युपपद्यते ॥ "वृन्दम् (१२६)"-इति, एतत् पदम् “बुन्देन” एव “व्याख्यातम्" अस्यापि हि ता एव व्युत्पत्तयो या वुन्दशब्दे ॥ “वृन्दारकश्च” 'बुन्देन' एव “व्याख्यातः” । हस्ती वृन्दारकः प्रकरणवशाद्वान्यः कश्चित् ॥६ (३४)॥ अयं यो होता किरु स यमस्य कमप्यूहे यत्ममञ्जन्ति देवाः। अहरहर्जायते मासि मास्यथा देवा दधिरे हव्य- वाहम् ॥ अयं यो होता कर्त्ता स यमस्य कमप्यन्नमभि- वहति यत्समश्नुवन्ति देवा अहरहर्जायते मासे मासेऽर्द्ध- मासेऽर्द्धमासे वाथ देवा निदधिरे हव्यवाहमुल्वमोतेवृणो- तेर्वा । महत्तदुल्वं स्थविरं तदासीदित्यपि निगमो भक्त्य- २-२४ * निरुक्तम् * [पूवषट्कम् बीसमपगतभासमपहृतभासमन्तर्हितभासं गतभासं वा ॥ ७ (३५)॥ "किः (१३०)"-इति, अनवगतम् । “कर्ता"-इत्यवगमः। "अयं यो होता०-०हव्यवाहम् ॥” इति (ऋ० सं० ८, १, १२, ३)। ऋचीकस्याग्नेर्विश्वेषां देवानां संवादसूक्तम्, तत्रेयं विश्वेदे- वानामार्षम् । आग्नेय्यौ। 'यः अयम्' अग्निः, 'होता' आह्वाता देवानां पृथिवीस्थानः। किं तस्य ? इति-'किः उ सः' 'यमस्य' भगवत आदित्यस्य, अग्नेहि सकाशात् प्रातरादित्यः प्रसूयते। तदुक्तम्,-"एष प्रातः प्रसुवति, तस्मात् प्रातर्वोपतिष्ठन्त इति । “यस्मिन् वृक्षे सु पलाशे (ऋ० सं०८, ७, २३, १)-इत्यस्या- मृचि यमत्वमादित्यस्य वक्ष्यति। किञ्च, 'कम् अपि ऊहे' “कमप्यन्नम् अभिवइति” । “कम्" इत्यन्ननाम, अन्नमपि वाय- मेवाभिवहति। कतमत् ? 'यत् एतत् हविर्लक्षणं 'समञ्जन्ति' “समश्रुवन्ति” 'देवाः'। अञ्जतिरत्र प्रकरणवशाद् भोजनार्थः । किञ्च, अयमेव 'अहरहः' अहन्यहनि अग्निहोत्रिणां गृहेषु उद्वोध्य- मानो महान् 'जायते'। 'मासि मासि' जायते पितृयज्ञ षु, "अर्द्ध- मासेऽर्द्धमासे” च दर्शपूर्णमासेषु च। यस्मादेवगुणविशिष्टोऽय- मग्निः, 'अर्थ' एतस्मात् कारणात् एतमग्निं सर्वे 'देवाः' 'दधिरे' “निदधिरे" 'हव्यवाहम्' हविषां वोढारमित्यर्थः । एवमत्र शब्द. सारूप्यात् 'यमस्य'-इत्येतस्माच्च षष्ठीयोगात् 'कि'-इत्यस्य "कर्ता"-इत्येष विपरिणाम उपपद्यते ॥ ।
"अपग ६अ०६पा० ८ख०]] * नैगम काण्डम् * "उल्बम् (१३१)"-इति, अनवगतम् । 'जरायु'-इत्यवगमः । "ऊोतेः"-इति धातुनिर्देशः । 'ऊर्णम्'- इति स्यात् । “वृणो- तेर्वा" स्यात्, तेन हि गर्भ आवृतो भवति । "महत्तदुल्वं स्थविर तदासोयेनाधिष्टितः प्रविवेशिथापः। विश्वा अपश्यद् बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥”-इति (ऋ० सं० ८, १, १०, १)। 'महत्' परिमाणतः, 'तत्' 'उल्ब' जरायु 'आसीत् 'स्थविर' चिरन्तनञ्च तदासीत् । येन त्वम् 'आवेष्टितः' आवृतः, है भगवन् ! अग्ने ! 'प्रविवेशिथ' प्रविष्टवानसि 'पूर्वम्' आदिसर्गे 'अपः'। किञ्च, "विश्वाः' सर्चा 'तन्धः' तच, हे 'जातवेदः !' 'बहुधा' अनेकेषु अभिधानेषु वर्तमानाः 'अपश्यत्' 'एकः देवः' प्रजापतिः, कोऽन्यस्ततः तव तनूनामन्तं वेत्तुमर्हतीत्यभिप्रायः ॥ एवमत्र 'जरायु' 'उल्ब' शब्देनोच्यते, आवेष्टनसम्बन्धादित्यु- 'पपद्यते॥ -इत्येवमाद्याः शब्दसमाधयः। 'पृथिवी-अभिधेया, सा हि कृष्णच्छाया। तस्मादपगतभासमित्येवमाद्याः शब्दसमाधय उपपद्यन्ते ॥ ७ (३५)॥ NOMINDI हिमेनाग्निं घ्र समवारयेयां पितुमतीमूर्ज मस्मा अध- त्तम्। ऋषीसे अत्रिमश्विनावनोतमुन्निन्यथुः सर्वगणं स्वस्ति ॥ हिमेनोदकेन ग्रीष्मान्तेऽग्निं घ्रसमहरवारयेथा- ७१२ * निरुक्तम् * [पूर्वषट्कम् मन्नवतीं चास्मा ऊर्जमधत्तमग्नये योऽयमृबीसे पृथिव्या- मग्निरन्तरोषधिवनस्पतिष्वप्सु तमुन्निन्यथुः सर्वगणं सर्वना- मानं गणो गणनाद् णश्च यद्धृष्ट ओषधय उद्यन्ति प्राणि- नश्च पृथिव्यां तदश्विनो रूपं तेनैतौ स्तौति स्तौति ॥८ (३६)॥ इति षष्ठाध्यायस्य षष्ठः पादः ॥ ६, ६॥ "हिमेनाग्निक - सर्वगणं स्वस्ति ॥” इति (ऋ० सं० १, ८, ६, ३)। कक्षीवत आर्षम् । त्रिष्टुप् । आश्विनी। प्रातरनुवाका श्विनयोः शस्यते। हे अश्विनौ ! 'हिमेन' “उदकेन" अतिप्रवृद्धं ग्रोष्मान्ते” 'अग्निम्' 'बंसम्' "अहः"लक्षणम्, इमान् लोकान् दिधान्तमिव, युवाम् 'अवारयेथाम्' । वारयित्वा च 'पितुमतोम्, “अन्नवतीम्” पुरोडाशाद्यन्नसहिताम् 'ऊर्जम्, आज्यलक्षणम्, युवाम् 'अधत्तम्' 'अस्मै' अग्नये हविर्भाजे, वर्षानुग्रहपूर्विकया ओषधिनिष्पत्या। किश्च, "बीसे अत्रिमश्विनावनीतम्” युवामेव हे 'अश्विनौ !' “योऽयम्” 'ऋबीसे' “पृथिव्याम्” अग्निरनुप्रधि- टोऽन्तः, येनेमानि पृथिवीगर्भेषु उपनिहितानि तिन्दुकादीनि पच्यन्ते, यमवेक्ष्योक्तम्,-"ऋबीसपक्वं नाश्नीयात्” इति। 'तम् उत् निन्यथुः' युवाम् , ओषध्याद्यन्तर्वतिनमोषध्यादिरूपेणैव । 'सर्व- गणं' “सर्वनामानम्" अग्निरेव ह्ययमनेनौषध्यादिरूपेणावस्थितः, सर्वैर्नामभिः अभिधोयते, अग्नेः सर्वोत्पत्तिदर्शनात् । कम्पुनरर्थं ।
* नैगम काण्डम् * ६० ६पा० ८ख०]] ७१३ पुरोधाय उन्निन्यथैः ? इति, स्वस्ति' स्वस्त्ययनायास्य जगतः, ओषध्याद्यभावेन हि सर्वमेव जगदभक्ष्यत ॥ एवमत्र 'ऋबीस'. शब्देन “पृथिवी"-इत्युच्यते ॥ "गणः, गणनात्" स हि गण्यते बहुसंयोगात् “गुणश्च" गुणोऽपि गणनादेव, असावपि हि गण्यत एव,-द्विगुणः, त्रिगुण इति। निगमप्रसक्तमेतदुक्तम् ॥ अधुनास्य मन्त्रस्य भाष्यकारः समस्तार्थमाह,-"यद् वृष्ट ओषधयः उद्यन्ति प्राणिनश्च पृथिव्याम् तदश्विनो रूपम्” सोऽश्वि- नोरधिकारः, तदश्विनोर्माहाभाग्यम्। “तेन" माहाभाग्यलक्षणेन रूपेण "एतौ” अश्विनी मन्त्रक 'स्तौति" ॥८ (३६)॥ इति निरुक्तवृत्तौ एकादशाध्यायस्य (षष्ठाध्यायस्य) षष्ठः पादः ॥६,६॥ इति श्रीजम्बूमार्गाश्रमवासिनः आचार्यभगवदुर्गस्य कृती ज्वायां निरुक्तवृत्ती एकादशोऽध्यायः (षष्ठोऽध्यायः) समाप्तः ॥ ६ ॥ १ ५ doy (त्वममऽलातृणउद्धृहाऽऽजासउपलपक्षिणीकारुरहम- . १० ११ १२ स्मेतेश्रायन्तइवाश्रवंहिसोमानमिन्द्रासोमाकृणुष्वतांअध्वरे- १७ १८ २१ स्तिहिवोऽसूर्तेप्रवोच्छामृप्रस्तुञ्ज तुञ्ज योअस्माअस्माइदुतन्न- * निरुक्तम् * [पूर्वषट्कम् २२ २३ २४ २५ २६ २७ स्तुरीपंहिनोतामत्रोमात्वानपापासोयवं वृकेणजीवान्नोबतो २६ ३० १ धेनुंनोऽरायिकाणेवामंवामंकिन्तेतुविक्षन्तेनिराविध्यदबंयो- हिमेनाग्नि पत्रिंशत् ॥) इति निरुक्त पूर्वषट्के षष्ठोऽध्यायः ॥ ६॥ . यावन्तो मन्त्राः सर्वशाखासु, तेषु यानि, गुणपदानि लक्षणो- देशतः, तानि सर्वाण्येव व्याख्यातानि। (नैगम काण्ड समाप्तम् ) इति नैरुक्तपूर्वार्द्धः समाप्तः॥ (S 32003 १०/