---
Bhatta Chintomani's Tarkapada.
Front matter
RANCE
wwe
चौखम्वा-संस्कृत-प्रन्थमाला ।
पी
(अन्य संख्या ६)
MOMEN
भादृचिन्तामणेस्तर्कपादः।
amtarakamanAmABATasteline
भट्टकुलावतंस महामहोपाध्यायश्रीगागाभट्टेति ।
प्रसिद्धनामधेयश्रीविश्वेश्वर सुधी
विरचितः।
2050
*ansa
वाराणसेयराजकीय प्रधान संस्कृतपाठशालायां
व्याकरणशास्त्राध्यापकेन पटवर्धनो पाव्हेन
तात्याशास्त्र्यपरनामकेनश्रीरामकृष्ण
शास्त्रिणा सपरिष्कारं परिशोधितः।
राजराजेश्वरी तारायन्त्रालये श्री बाबूहरिदासगुप्तेन
मुद्रयित्वा प्रकाशितः ।
सन् १९०० इस्वी।
बैक्रम संवत् १९५७ ।
शुभम्।
53.
Rstisekio す FUENCO श्रीगणेशाय नमः ॥ भादृचिन्तामणिः ॥ 17 ॥ अघिसरयूतटिनीतटमधिसाकेताङ्गणमाघतदुद्यानम् । खेलन्नीरदनीलो बालो मे मानसे सदा मात ॥ सारं यच्छतिशिरामगोचर यन्मनोवचसाम् तरकौशल्यावचसा शिक्षापात्रं महो वन्दे । विगामित्रकुट बजामभयो भनागमण- इतनस्य करीरता दधदयं विश्वेश्वारूप कृती गागाभट्ट इति प्रथां दिनकरात्मा पितुला लगाद श्रीमालाम्पुनिधि शमध्य चिनुते श्रीमाइचिन्तामणिम् ॥ ३॥ गुरोस्थ कुमारिकस्य पुरविद्विषोपि अप क्माकलो वनासित्ता कश्योधे विता प्रकतु ममो बुषजना परिक्षाम्यतु ।। । अथातो जिनासा ॥१॥ अनेन भूषण स साहसमिति पद धमोमिति चिन्ता प्रतिपाद्यते । विषयमजिनकथन द्वारा शास्त्रारम्भकर्तव्यता मा चदा तव्यपदावारेण निशा यनानन्त ज्यो धर्म तुका धर्मज्ञानेच्छामयो मापकको विचार चारहेत य इति वा । वन वि समयपशाचस्प धज्ञानमयोजनकचा भने का समबन्धोपि मनिगावातिपादक भाव ता य m श भादृचिन्तामणे यनहेतुकता चाधीतवेदस्य धर्मेण पापमपनुदतीत्यादिवाक्ये- भ्यः । सामान्यतो धर्मज्ञानस्य विशेषधर्मप्रकारकज्ञानेच्छाहेतु- त्वात् । तथाहि । धर्मेणेति वाक्येन सामान्यतो धर्मज्ञाने तदुत्तरं तदनुव्यवसाये धर्मज्ञानत्वसामान्यमत्त्यासत्या सकलधर्मज्ञा- नज्ञानम् । घटत्वसामान्यप्रत्यासत्या नीलघटादिज्ञानवत् । ततस्तद्विषयकेच्छेति क्रमेण सामान्यधर्ममकारकज्ञानस्य वि- शेषधर्मप्रकारकेच्छाप्रयोजकत्वम् । सा वेच्छा सप्रमाण- कधर्मज्ञानं जायतामित्याद्याकारिका, तादृशेष्टसाधनताज्ञानज- न्या च । तादृशज्ञानज्ञानं च धर्मज्ञानत्वसामान्यलक्षणप्रत्या- सन्त्येति । तेन चाधीतवेदोऽधिकारी प्रदर्शितः । इदं च सूत्रं स्मृ. तिरूपं स्वसूचितन्यायानुग्राह्यप्रमाणसापेक्षं चेत्यध्ययनविधिमूलं- कम् । तेनापि वेदाध्ययनानन्तरं तदर्थज्ञानाय विचारविधानात् । तथाहि । स्वाध्यायोऽध्येतव्य इत्यत्राध्ययनकरणकभावनायामर्थ- ज्ञानं भाव्यम् । कर्मानुष्ठानौपयिकत्वेन पुरुषार्थत्वादिति । स्व- यत्वमिति चेत् । न । अष्टार्थत्वापत्तेः । नाप्यक्षरम्नम्" पुरुषार्थाननुबन्धित्वात् । व्याकरणादी गावापत्तेश्च । अ- वत्वं वार्यजनने सहकारित्वं, तच्च राध्ययनस्यार्थज्ञानार्थत्वे उपपद्यते । व्याकरणादीनां वेदार्थज्ञा गर्थित्वे वा तदनुपयोगाव । बेहाणासनकदृष्टार्थकम् । च ए ति पा क पयोगित्वात् । स्व- घा वेट मि भा षधे ला मल वदित्यनुमानात् । अर्थवद्विषयकविहिताध्ययनत्वात् अङ्गाध्ययो व्यकेति । वि- अत्र स्तानाध्ययने व्यभिचारवशाय अर्थवद्वितोऽर्थज्ञान घमन्त्राध्ययने व्यभिचावारण विहितेति । भाव्यम् । न चार्यज्ञानस्य मी रूपकार्ययोरनुपयोगादध्ययनाङ्गत्वानुपपत्तिः । कार्योपय, वेपि विघ्ननिवारणार्थत्वेन स्वरूपोपयोगित्वात् । नियमापूर्व न भानां स्व- ऽनध्यायादिनिय ल्प गाभा- उप- कि ३ तर्कपादः । योगाच्च । कर्मार्थकतव्यप्रत्ययस्तु सम्बन्धमात्रे लाक्षणिकः । विषं भुनक्ति सक्तूब् जुहोतीतिवदनीप्सितकर्मत्वपरो वा । ईप्सि- तकर्मत्वपरत्वेपि स्वाध्यायकर्मकभावनाविशिष्टतत्करणभावनावि- धित्वेनैतस्य विधरर्थज्ञानभाव्यकत्वमिति कश्चित् । अत्र स्वाध्या- यत्वं स्वशाखात्वम् । स्वत्वञ्च परम्परया ऽध्ययनविषयत्वमनु: ष्ठानविषयत्वं च । तेन वेदत्रयान्तर्गतैकैकशाखापरः स्वाध्याय- शब्दः । तेनाध्ययनानुष्ठानयोः स्वपरम्परापरिगृहीताध्ययनानु- छानविषयत्वोपपत्तिः । तत्रेतिकर्तव्यतापेक्षायां योग्यतया वि- चार इतिकर्तव्यतात्वेन सम्बध्यतइति विचारकर्तव्यतासिदिः । एवं च “स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजाना- ति योर्थम्" "योर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानाविधूत- पाप्मे" त्यभिज्ञतदनभिज्ञनिन्दास्तुती उपपद्यते इति वार्ति- कादयः॥ पितृचरणास्तु प्रोक्षणादिविधावपूर्वसाधनत्वेन वीहीणामि- पात्रापि प्रयोजनवदर्थज्ञानजनकत्वेन स्वाध्यायस्यैव भाव्यत्वं, वेदार्थज्ञानस्य द्रव्यप्राप्तिप्रतिष्ठापयिकत्ववकर्मानुष्ठानौपयिकत्व- • मिति लोकसिद्धं पुरुषार्थत्वं, द्रव्यार्जनवत् । अतोयं विधि: प्रतिग्रहादिनियमवदध्ययजनियमार्थः । नन्वध्ययननियमस्य नि- षेधेषु नोपयोगः, अध्ययानेनैव विध्यर्थ जानन विधेयानुष्ठानेन फ- लमाप्नुयादितिवदध्यगनेनैव निषेधार्थ जानन निषध्यानुष्ठानेन प्रत्यवेयादिति कल्पनाया निषेधाध्ययने प्रवृत्त्ययोगादिति चेत्। न । तत्रागत्याऽध्ययनेनैव निषेधार्थमजानन् प्रत्यवेयादिति क- ल्पनात् । न चैतावता ऽदृष्टार्थकत्वं, नापि विनियोगभङ्गः । य. देव विद्यया करोतीति वाक्यं तु अर्थज्ञानस्य, नाङ्गताबोधक, किं तु श्रद्धोपनिषज्जन्यज्ञानार्थवादः । अस्तु वा यत्करोतीति भादृचिन्तामणेः वैदिककर्मसामान्यमुद्दिश्य विद्यापदलक्षितार्थज्ञानविशेषनियमार्थः सन्नताबोधकः, बाहिविधिवत् । तथापि न क्रत्वपूर्वार्थज्ञानजन- कत्वेनैवोद्देश्यता, .येनाध्ययनस्याङ्गता स्यात, स्याच्च प्रकरणापे. क्षा । स्वाध्यायस्योद्देश्यल्वादेव तद्गतैकत्वाविवक्षया वेदानधी- येत्यादिस्मृतेरेतन्मूलकत्वे. न तन्मूलश्रुत्यन्तरकल्पनागौरवम् । तेनार्जनविधिवद् अर्थज्ञानजनकत्वेनैवोद्देश्यतेति अर्थज्ञानफल- कविधिर्विचारकर्तव्यताक्षेपक इत्याहुः ।। तेनार्थज्ञानपर्यन्तं गुरुकुलवासो विचारकरणं चाध्ययन- विधेः फलम् । क्रत्वधिकारनियमाच्च । तथाहि । वसन्त ब्रा. ह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि वैश्यमित्यादिवाक्याल- णाद्यङ्गत्वेनोपनयनं विधीयते । अतृवर्ष ब्राह्मणमुपनयीवेत्यादि धाक्येषु ब्राह्मणाद्युद्देशेनाष्टवर्षत्वादिविधिः वत्सनिधिपठितथा- ध्ययनविधिः कर्तृसापेक्षः कार्यापेक्षानुपनातानेव कर्तृन् गृह्णाति इत्यध्ययनविधिप्रयुक्ताध्ययनजन्यार्थज्ञाने त्रैवर्णिकानामेव सिद्ध ऋतुविधयो ऽप्यर्थज्ञानोपायाक्षेपकत्वाभावलाघवसहकता ब्राह्म- गादिपरा. एव भवन्तीति शूद्रादेपनीतकर्तृकाध्ययनजन्यार्थज्ञा- नरूपाङ्गसम्पादनासमर्थस्य नाधिकारः । तमध्यापयीतेति सनि- घिसिद्धोपनीतकर्तृकत्वानुवादः । यद्वा उपनयनाध्यापनवाक्य- योः प्रयोजकव्यापाराविवक्षया उपाध्ययनविधिः । अ- ष्टवर्षो ब्राह्मण उपगच्छेत्सोधीयीतेति शाखान्तरीयत्वेन स्वा- ध्यायविधेलानर्थक्यम् । कर्मणां नित्यतया उपनयनाध्ययनको फलंतो नित्याल्वम् । यद्वा ধগলিয়াকান্ত আগৰ বুৰঃ। आत ऊर्ध्व पतनयेते. इति। वाक्येन अनधीयाना बाया.' भवन्तीति नि- तर्कपादः । षेधेन च नित्यत्वसिद्धिः । अधीतवेदस्य प्रयोजनवत्वं चैत्यमवसेयम् । विधीनां प्रवृत्तिजनकपवर्तनाज्ञानम्, अ- र्थवादानां प्राशस्त्यज्ञानं, मन्त्राणां विशिष्टार्थस्मरणं, ना- नां कर्मभेदो गुणफलोपबन्धः सङ्कल्पलाघवं च, सान्नामक्षरा- भिव्यक्ति, स्तोभानां सामकालपूर्तिः, उपनिषदा पारलौकिक- फलककर्मप्रवृत्तिजनकशरीरव्यतिरिक्तजीवात्मज्ञानं, क्रमज्ञानादि- च यथेष्टमूहनीयम् । एवमङ्गानां वेदोपकारकत्वम् । तच्च शिक्षा- याः स्वरादिनिश्चयद्वारा, कल्पस्य शाखान्तरसन्दिग्धविध्युप- संहारद्वारा, न्यायलभ्यार्थतात्पर्यनिर्णयद्वारा च, व्याकरणस्य वैदिकोहविज्ञानद्वारा, छन्दसां वैदिकवाक्यपरिमाणद्वारा, ज्यौ- तिषस्य वैदिककर्मप्रयोगोपयोगितिथ्यादिज्ञानद्वारा, अधीतवेद- जन्यार्थज्ञानोपयोगित्वाद् शास्त्रारम्भसिदिवैवी । अधिकरणं च पञ्चाङ्गम् । विषयः संशयश्चैव पूर्वपक्षस्तयोत्तरः । प्रयोजनं च पञ्चाएं शास्त्रे ऽधिकरणं स्मृतम् ।। सङ्गतिश्चति कचित्पाठः । तच्चेत्थम् । अध्ययनविधिषि- यः । वेदाध्ययनोत्तरं धर्माधर्मज्ञानफलकविचारविधायको न वे ति संशयः । अध्ययनस्य गुरुमुखोच्चारणपूर्वकोच्चारणरूपत्वा- तस्य विश्वजिद्वत्स्वर्गार्थत्वादधीत्य स्नायादिति स्नानविधिना न कर्तव्य इति पूर्वपक्षः । उत्तयुक्तया ऽध्ययनविधेरर्थज्ञानपर्य- न्तवया तस्य विचारमन्तरेणासम्भवात्क-व्यः । स्मृतिस्त्वध्य- यनकरणकभावनोत्तरकालं स्नानपिति व्याख्येया । श्रुत्यनुरो- धादिति सिद्धान्तः । प्रयोजनं स्पष्टम् । एवमग्रे ऽप्यधिकरणानि द्रष्टव्यानि । तथा च सिद्धं धर्मज्ञानाय शास्त्रमारम्भणीयमिति । वज्ञानं च स्वरूपप्रमाणसाधनप्रयोजनविचारद्वारेणेति तच्चिन्ता - ६ भाइचिन्तामणेः एवं सूत्रे अकारपश्लेषणाधर्मचिन्ताया अपि शाशे विषयत्व- मुक्तम् ॥ अत्र जैमिनेविघ्नाभावनिश्चयाद् ग्रन्थादौ न मालाचरणे प्रवृत्तिरिति जीर्णाः ॥ वस्तुतस्तु अतः पदेन अध्ययनहेतुत्वोक्ते- रानन्तर्यस्याप्यर्थप्राप्तत्वादयशम्दानर्थक्याप त्या अथशब्दो पक्क लार्थकः । तत्त्वं च समाप्तिविघ्नध्वंसान्यतरहेतुत्वेन विहितस्वम् । विधायको वेदस्त्वाचारानुमेयः । न च नास्तिकग्रन्थकादम्बर्या- दावन्वयव्यतिरेकव्यभिचारेण मङ्गलस्य तद्धेतुत्वेन विधिन सं- भवतीति वाच्यम् । व्यभिचारस्य हेत्वन्तरप्रयुक्ततया श्रुतिबो. धितहेतुत्ववादकत्वाभावाद्विघ्नसमसङ्ख्याकमङ्गलत्वेन कारणत्व- कल्पनाद्वेति जीर्णाः । समाप्तेर्बुद्धिप्रतिभादिदृष्टसामग्रीजन्यतया मङ्गलाजन्यत्वेन विघ्नध्वंसहेतुत्वेन विहितत्वं मालत्वामिति मणि- कृत् ॥ अत्र चिन्तयन्ति । विघ्नपंसस्य न भाव्यता, अपुरुषा- थत्वात् । न च समाप्तिजनकत्वेन तस्य पुरुषार्वता । समाप्ती विघ्नसंसर्गाभावस्यैव जनकतया ध्वंसस्याजनकत्वात् । अन्य- था विघ्नात्यन्ताभाववदारब्धस्य समाप्तिर्न स्यात् । इष्टसाधन- त्वभाव्यत्वयोः समानमकारकत्वनियमात् । न च विघ्नसंसर्गा- भावस्यैव भाव्यता । अत्यन्ताभावमागभावयोर्वसवदजन्यत्वेन संसर्गाभावत्वस्य भाव्यतानवच्छेदकत्वात् । अतो ऽदृष्टद्वारा म- जलस्य बुद्धिप्रतिभादीनां च दृष्टद्वारा समाप्तिजनकत्वम् । यदि चोपचापकर्मत्वेन तुषाणामन्वये तारशनियमस्य व्यभिचार इति विभाव्यते तदा कीर्णकरमतिपत्तिकर्मत्वातिरितकर्मत्त्वान्वये ताह- शनियमाद्विघ्नध्वसत्वस्य भाव्यतावच्छेदकत्वानुपपत्तिरेष । अ- दृष्टकल्पनागारवं तु विघ्नध्वसस्य फलत्वपि माले पूर्वोत्तराझोप- संहृतये तुल्यमिति दिक् ।।
तर्कपादः । चोदनालक्षणार्थो धर्मः॥२॥ अनेन सूत्रेण धर्मस्वरूपं तत्पमाणं चोच्यते । न तावद्या- मापूर्वोभयनिष्ठा धर्मत्वं जातिः । यागस्य क्रियेच्छान्यतररूप- तया क्रियात्वेनेच्छात्वेन च सङ्करात् । अतो ऽपूर्वनिष्ठैव सुख- कारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः ॥ अपूर्व मजानतामपि यागादिकर्तरि धार्मिक इति प्रयोगाद्वदबोधितेष्ट. साधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव धर्मत्वमिति केचित् ।। वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहि- तत्वं वा धर्मत्वम् । सोमादिष्वङ्गत्वेन विहितेष्वतिव्याप्तिवारणा- य तृतीयान्तम् । अलोकिकत्वं च वेदतदुपजीविप्रमाणातिरिक्त- प्रमाणागम्यत्वे सति प्रमितिविषयत्वम् । वेदत्वं च न मुख्य- वेदप्रयोगविषयत्वं शाखासमुदायत्वं वा, शाखात्वस्य वेदैकदे- शत्वरूपतया आत्माश्रयात् । नापि सन्दिग्धकर्तृकवाक्यत्वम् । वादिनोः सन्देहाभावेन मध्यस्थस्य वादिपञ्चावयववाक्यप्रयोग- जन्यतया तत्र पक्षतावच्छेदकज्ञानाभावेनान्योन्याश्रयात् । अतो मन्त्रत्वब्राह्मणत्वव्यापकजातिविशेषो वेदत्वमिति केचित् । त- दपि पौराणमन्त्रब्राह्मणत्वव्यापकपुराणत्वे ऽतिव्याप्तेर्न युक्त- म् । शब्दतदुपनीविषमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थक- त्वे सति शब्दाजन्यवाक्याज्ञानजन्यप्रमाणशब्दत्वं वेदत्वमिति चिन्तामणिः । अत्र लौकिकवाक्ये ऽतिव्याप्तिवारणाय सत्य- न्तं, घटादिवारणाय द्वितीयं, स्मृतिपुराणादिवाक्येष्वतिव्याप्ति- वारणाय शब्दाजन्येति । तादृशेश्वरीयज्ञानजन्यत्वाद्वेदस्य ल- क्षणसमन्वयः । अपौरुषेयवाक्यत्वं वेदत्वम् । अपौरुषेयत्वं च पौरुषेयभिन्नत्वम् । पौरुषेयत्वं च न तावत्स्वतन्त्रपुरुषप्रणीतत्व- । ८ भादृचिन्तामणे म् । स्वातन्त्र्यस्य निर्वक्तुमशक्यत्वाद्, ' व्यर्थविशेषणत्वात्, प- ठ्यमानभारते ऽव्याप्तेश्च ।नापि शब्दाजन्यवाक्यार्थगोचरयथार्थ- ज्ञानजन्यजातीयत्वं; पठ्यमानमारते अव्याप्तिवारणाय तज्जा- तीयेति । महाभारतादावसम्भवात् । सर्वस्यैव शब्दजन्यवाक्या- अर्थज्ञानजन्यत्वात् । तदुच्चारणेच्छाजन्यवाक्यत्वं, तदर्यधीजन्य- वाक्यत्वं वा, सजातीयोचारणानपेक्षोचरितजातीयत्वं वा, स्मृ. तिपुराणादिष्वव्याप्तिवारणाय सजातीयेति । एतादृशपौरुषेय- वाभावस्य वेदे सत्त्वात् । तथा च सिद्धमपौरुषेयं वाक्यं वेद इति । उपपादयिष्यते चेदमुपरिष्टात् । अनिष्टसाधनकलजभक्ष- गादौ व्यभिचारवारणाय श्रेयापदम् । अपूर्वे व्यभिचारवारणाय विहितति । तवं च विधिविषयभावनान्वयित्वम् । तेन फलसा- धनत्वेन विहितक्रियाद्रव्यगुणादीनां धर्मत्वम् । एतेन विहित- क्रियाजन्यत्वमपूर्वनिष्ठमेव धर्मत्वमित्यपास्तम् । धर्मः क्षरति की- तनादित्यादौ तु लाक्षणिकः प्रयोगः । एवं च “यज्ञेन यज्ञमय- जन्त देवास्तानि धर्माणी"ति। "इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मः इति निर्धारणषष्ठयपि सङ्गच्छते । न चैवं श्येने धर्मत्वापत्ति, रिष्टत्वात् । प्राणवियोगरूपहि- सायाः श्येनफलत्वेन श्येने हिंसात्वाभावाभिषेधाप्रवृत्तरधर्मत्वा- योगात् । तदुक्तम् । हिंसा हि फलमेतेषां भिन्ना तेभ्यः स्वरूपतः । सा हि प्राणवियोगात्मा श्येनस्तत्रासिवत्पृथक् ॥ यदि च प्राणवियोगानुकूलव्यापारस्य हिंसात्वमुपेयते त- दाप्यदृष्टाद्वारकव्यापारस्य हिंसात्वाव. श्येने तदभावः सुवचः। अस्तु वा हिंसात्वं तथाप्यमीषोमीयहि सावद्विषेयतया निषेधार- तर्कपादः। वृत्तेधर्मत्वोपपत्तिः । यागे रागादङ्गे वैधी प्रवृत्तिरित्यादि प्रा. भाकरवचनं नियुक्तिकत्वादनादेयम् । यदि च तत्र हिंसात्वा- भावेप्यदृष्टद्वारकमरणानुकूलव्यापारस्याभिचारत्वेन "अभिचारमहीनं च त्रिभिः कृच्छर्विशुध्यति" इति स्मृत्या ऽभिचारस्य निषिद्धतया तत्राधर्मत्वं विभा- व्यते । तदा तस्यान्यतररूपण धर्मत्वेपि न क्षतिः। अलौकिक- पदेनैव विवाहार्थमिथ्यावादस्य विधेयत्वेपि धर्मत्वं व्यावर्त्यते । तस्य विवाहमात्रसाधनत्या तदभावात् । अत एव “पञ्चामृता- न्याहुरपातकानी"ति पातकत्वाभावमात्र तत्र, न तु धर्मत्वम् । उपनिषज्जन्यात्मज्ञानस्याविद्यानिवृत्तिद्वारा मोक्षजनकस्य प्र- माणान्तरमाप्तत्वान्नालौकिकत्वमिति न तत्र धर्मत्वम् । अस्तु वा तत्र धर्मत्वम् । निषेधबोधितालौकिकानिष्टसाधनत्वमधर्मत्वम् । इदमप्यवधेयम् । स्वमकृतगङ्गास्नानादीनां मिथ्यात्वेपि श्रेयः- साधनतया धर्मत्वम् ॥ यस्यांयस्यामवस्थायां यद्यत्कर्म करोति यः । तस्यान्तस्यामवस्थायां तत्तत्फलमुपाश्नुते ॥ इति वचनात् । अतः सिद्धं क्रियादीनां धर्मस्वरूपत्वम् । ए- तत्पमितिकरणं वेदः । तत्रापि प्राधान्येन विधिनिषेधौ । ननु कोयं विधिस्तेन च कथमलौकिकश्रेयःसाधनत्वबोध इति चेत् । अत्र के चित् । लिङादिश्रवणे प्रवृत्तिर्जायतइति लिङादिज्ञानं प्रवृत्तिसामग्रीजनकम् । सा च कृतिसाध्यत्वप्रकारकेच्छारूपा चिकीर्षा,तज्जनकज्ञानं च लिङादिभिर्जन्यते, तच्चेधसाधनत्व- बलवदनिष्टाननुबन्धित्वज्ञानम् । अन्यतराभावे प्रवृत्त्यजननी- त् । अतो लिङादिज्ञानेन त्रितयज्ञानजननात् त्रितयेपि शक्तिः । पुष्पवन्तशब्दवद्युगपदर्थत्रयस्य बोधः । अन्वयश्च तेषां विधेय- २ भादृचिन्तामणे: धात्वर्थे । एवं च यागादिनिष्ठेष्टसाधनताबोधाद्ध, प्रामाण्यं, निषेधेष्वपि कलजभक्षणादावनिष्टसाधनत्वबोधादधर्मे प्रामाण्य. मिति के चित् ।। मीमांसकास्तु विधेः प्रवर्तनायां शक्तिः । श- ब्दजन्यप्रवृत्तौ प्रवर्तनाज्ञानस्य हेतुत्वात् । प्रवर्तनाज्ञानस्य प्र- वृत्तिहेतुत्वम्, अहमेनं प्रवर्तयामि आचार्यों मां प्रवर्तयतीत्यनु- भवात् । न च तत्रेष्टसाधनत्वज्ञानमेव प्रवर्तकम् । अनिष्टसाधने- पि आचार्यप्रवर्तितोहं करोमीत्यनुभवात् । प्रवर्तना च पर- निष्ठप्रवृत्तिहेतुः प्रवर्तकधर्मः । प्रवर्तकधर्मत्वं चाहमेनं प्रवर्तया- माति देवदत्तस्त्वां प्रवर्तयति नाहमित्यादिप्रतीतिसाक्षिक, भो- जनस्य स्वनिष्ठप्रवृत्तिहेतुत्वेन प्रवर्तनात्ववारणाय परनिष्ठति, प्रवृ. त्तिविशेषणम् । आचार्यत्वादिवारणाय प्रवृत्तिहेतुरिति । प्रवृत्ति- हेतुलिङादिवारणाय धर्मत्वं समवेतत्वं बोध्यम् । स च धर्मों लोके इच्छादिरूपो वेदे तु तदसम्भवाल्लिङादिनिष्ठो ऽलौकिक: कल्प्यते । प्रवृत्तिजनकत्वं च प्रवृत्तिविषयेष्टसाधनताज्ञानजनन- द्वारेत्याक्षिप्तेष्ट साधनताबोधकत्वात् सिद्धं विधेः प्रामाण्यम् । एतच्च नियोज्यान्वयवादे स्फुटीकरिष्यते । एवमर्थवादानामपीष्टसा- धनयागविशेष्यकलक्षितपाशस्त्यप्रकारकपमितिजनकत्वेन भाव- नाविशेष्यकपाशस्त्यादिप्रमितिजनकत्वेन वा प्रकारांशे अनधि- गतार्थगन्तृत्वं विशेष्यांशे धर्मप्रमाजनकत्वं चोपपादनीयम् एवं मन्त्राणां निर्वापाग्न्यादिस्मारकत्वेनानधिगतार्थगन्तृत्वरूप- प्रामाण्यासम्भवेपि अविसंवादिफलकत्वमेव प्रामाण्यमिति जी ः अङ्गताविधिकल्पनद्वारेष्टसाधननिर्वापादिविशेष्यकम- न्त्रप्रकारकप्रकाश्यतादिसंसर्गकप्रमामयोजकत्वेनोभयोपपत्तिरिति सोमेश्वर ॥ प्रयाजादिमन्त्रादिविशिष्टेन भावयेदिति प्रयोगवि- ध्य पदार्थे पदार्थविषया प्रामाण्यमिति मिश्राः ॥ वस्तुतस्तु Bak तर्कपादः । मन्त्राणां मन्त्रवाक्यार्थबोधजनकत्वेनैव प्रामाण्यं निर्वापाग्न्यादि. संसर्गस्यांनधिगतत्वेनानधिगतार्थगन्तृत्वोपपत्तेः । इष्टसाधननिर्वा- पस्य विशेष्यत्वाद्धर्मप्रामाण्योपपत्तेश्च । यदि च स्वसमाना- धिकरणस्वाव्यवहितपूर्वक्षणवृत्तिज्ञानाविषयविषयकत्वरूपमनधिग- तार्थकत्वं विभाव्यते तदा सुतरां स्मारकत्वे ऽपि प्रामाण्योपप- तिः। एवं नाम्नां सप्रकारकममितिजनकत्वेन प्रामाण्यम् ॥ तस्य निमित्तपरीष्टिः ॥३॥ धर्मे वेदः प्रमाणमित्युक्तं, तत्सम्भवति नवेति परीक्षा, प्रत्य- क्षादीनां धर्मप्रामाण्यासम्भवनिरूपणद्वारा क्रियतइत्यर्थः । किं नाम प्रामाण्यं प्रमाकरणत्वम् । ननु किं प्रमात्वम् । उच्यते । यथार्थानुभवत्वम् । याथार्थ्यञ्च तद्वद्विशेष्यकत्वे सति तत्पकार- कज्ञानत्वं, भ्रमवारणाय विशेष्यकान्तम्, रजतविशेष्यकद्रव्यत्व- प्रकारकज्ञाने रजतत्वममात्ववारकं तत्प्रकारकमिति । न च रङ्गरजतयोरजतरङ्गप्रतीतेः प्रमात्वापत्तिः, ज्ञानैक्येन तद्वाद्विशेष्यक- त्वतत्प्रकारकत्वयोः सत्वादिति वाच्यम् । तद्वद्विशेष्यकत्वा- वच्छिन्नतत्प्रकारकत्वस्य विवक्षणात् । तत्रापि येन सम्बधेन तद्वत्त्वं तेन तत्मकारकत्वं बोध्यम् । अतो न समवायेन लोहितः स्फटिक इति ज्ञाने ऽतिप्रसङ्गः । न चैवं पाकरक्ते इदानीं श्या. मरूपवानिति प्रतीतेः प्रमात्वप्रसङ्गः । यदवच्छिन्नेत्यस्य विव- क्षितत्वात् । रूपप्रकारताया वर्तमानकालावच्छिन्नरूपवद्विशेष्य- कत्वानवच्छेदकत्वात् ॥ अन्ये तु अयं विनाशीत्यादौ मतुपो वर्तमानार्थत्वासम्भवेन सम्बन्धार्थकत्ववदत्रापि सम्बन्धार्थ- कत्वादव्याहतमेव प्रमात्वमित्याहुः ॥ निर्विकल्पकस्य तु भूपप्रमोभयबहिर्भूतत्वमेवाकरे व्यक्तम् । अस्तु वा तस्यापि १२ भादृचिन्तामणेः प्रमात्वं, विशेष्यावृत्त्यप्रकारकत्वस्यैव प्रमात्वात् । अत्र ज्ञानत्व घटितमेव प्रमात्वं सुवचं, तथापि तस्य स्मृतिसाधारण्येन तत्का- रणस्य प्रमाणान्तरतापत्यानुभवत्वघाटितमेवानुमन्यन्ते सांपदा. विकाः । अनुभवत्वस्य जातित्वेन ज्ञानत्वाघटितत्वान्न गौरवमि. त्यन्ये ।। वस्तुनस्तु ज्ञानत्वघटितमेव त, लाघवात् । न च स्मृतिका- रणस्य प्रमाणान्तरतापतिः । इष्टत्वात् । नियुक्तिकमवादस्य हेयत्वा- व । अत एव मन्त्राणां स्मारकवे ऽपि प्रामाण्यम् । अनुभवत्वं च स्मृतिभिन्नज्ञानत्वं, स्मृतिजनकतावच्छेदकजातिविशेषो वा। न च स्मृतौ निश्चयत्वेन ज्ञानत्वेन वा जनकतेति वाच्यम् । गौ- रवात् । बहुतरानियताजनकवृत्तित्वाच्च । न च स्मृतितो ऽपिस्मृ. तिजननाबानुभवत्वेन स्मृतिहेतुतेति वाच्यम् । प्रथमानुभवस्यैव संस्कारद्वारा तत्र हेतुत्वात् । न च स्मरणेनानुभवजन्यसंस्कार- नागत्स्मरणोचरमस्मरणप्रसङ्गः । चरमस्मृतेरेव तन्नाशकत्वक- सनात् । अनो ऽनुभवत्वेन स्मृतिजनकता । संस्कारं प्रति तु उ. पेलान्यनिश्चयत्वेन । संशयात्संस्काराजननानिश्चयेति । समा- नप्रकारकस्मृतेरेव संस्कारनाशकत्वकल्पनात्समूहालम्बनादितो कैकगोचरऋषिकस्मरणानुपपतिः । उद्घोषकसमवधानस्यैव तत्वत्स्मृतिजनकत्वात् । उपेक्षात्वं च प्रवृत्तिनिवृत्त्यजनकज्ञानत्व- मा वाइशेन संस्कारानुत्पत्तेः सर्वसम्मतत्वात् । उपेक्षान्यत्कच सोलात्वात्वन्ताभावत्वम् । तेनांशे उपक्षात्मकस्यांश ऽनुषेक्षात्मक- व सुवर्णतणे इति ज्ञानस्याद्यांशेन संस्काराजनकत्वमप्रत्यूहम् । सदशे उपेक्षात्वामावसत्त्वात् । इदं रजतामिति ज्ञाने प्रकारांशे वात्सायाववत् । अतो ऽनुभवत्वं जातिः। वस्तुतः संस्कार प्रति उपेक्षायसवान्यानुभवत्वेनस्मृति प्रति ज्ञानत्वेन जनकत्ता, ना. पण्डसंस्कारकल्पनेवि युक्तम् । एवं च संस्कारजनकताव- .
पि केचित् । इदं तु चिन्त्यते । ज्ञानप्रामाण्यं ज्ञानहेतुभिन्न तपादः । च्छेदकतया ऽनुभवत्वजातिसिद्धिरिति ।। संस्कारश्च सविषय. कः । अन्यथा पटविषयकानुभवस्य स्वजन्यसंस्कारसम्बन्धेन स्मृतिहेतुत्वे घटत्वप्रकारकानुभवात् तद्विशेष्यकस्मरणापत्तिः। अ- तः समानप्रकारकसमानविशेष्यकसंस्कारस्य तादृशस्मृति प्रति हेतुत्वान्नानुपपत्तिः । एवं च स्मृतिजनकतावच्छेदके ऽनुभवत्व- स्याप्रवेशेन लाघवम् । समानविशेष्यकसमानप्रकारकत्वेनैव स्मृ- तिजनकत्वादिति दिक् ॥ स्मृतित्वं च ज्ञातविषयकज्ञानत्वं, सं- स्कारजन्यज्ञानत्वं चो । एवं चाज्ञातविषयकं , बाधकज्ञानरहित- ज्ञानं प्रमेति फलितम् । अनेनैवाशयेनागृहीतग्राहित्वं प्रामाण्य- मित्याचक्षते । न चैवं गृहीतविषयकधारावाहिकज्ञानस्याप्रामा- ण्यप्रसङ्गः । कालस्य षडिन्द्रियवेद्यत्वेन पूर्वक्षणविशिष्टघटस्य वि- षयीकरणेन तादृशस्योत्तरज्ञानाविषयतया ऽनधिगताविषय- कत्वसम्भवात् । मन्त्राणामनुवादवाक्यानां स्मृतीनां च स्व- समानाधिकरणस्वाव्यवहितपूर्वक्षणवर्तिज्ञानाविषयविषयकत्वस्व- रूपाग्रहीतग्राहित्वेन प्रामाण्योपपत्तिः ॥ तानि च प्रमा- णानि प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्ध्याख्यानि प- इ लौकिकानि । धर्मप्रमाणानि विध्यर्थवादमन्त्रनामधेयस्मृति शिष्टाचाररूपाणि षट् ॥ धर्मभेदकानि शब्दान्तराभ्याससंख्या- नामगुणप्रकरणान्तराणीति षट् । धर्माङ्गताबोधकानि श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाख्योति षट् । श्रुत्यर्थपठनस्थानमुख्यप्र- त्तिरूपाणि षट् क्रमबोधकानि । वचननामलिङ्गान्यतिदेशप्रमाणा- नि । स्थानापत्तिरूहप्रमाणम् । प्रत्याम्नानप्रतिषेधार्थलोपरूपा- णि बाधप्रमाणानि ॥ एवमेकत्रिंशदलौकिकप्रमाणानि । एषा- मालोकसंयोगादिवत्सहकारितामात्र, विधिरेचात्र मानमित्य- . १४ भादृचिन्तामणे जन्यं ज्ञानग्राहकभित्रज्ञानग्राह्यञ्चो, तरशानसामग्रीजन्य ज्ञान- ग्राहकसामग्रीग्राह्य वेति ॥ अत्र नैयायिकाः। प्रमात्वं ज्ञानसामा- न्यकारणभिन्न कारणजन्यतावच्छेदकम् । ज्ञानवृत्त्यनित्यधर्म- त्वात् । अप्रमात्ववदित्यनुमानेन प्रमात्वस्येन्द्रियादिगतगुणजन्य- त्वं सिद्धयति । दोषाभावस्य कारणत्वे गौरवात् । पीतः शक्ल इति शङ्खपमानुत्पत्तिप्रसङ्गाच्च । अन्वयव्यतिरेकाभ्यां तहेतुक- त्वसिद्धेश्च । एवं च प्रमायां गुणः भ्रमे दोषः कारणम् । किं च रङ्गादपि रजतज्ञानोत्पत्तिदर्शनान ज्ञानमात्रस्य तत्मकारक- त्वावच्छिन्नतद्वादशष्यकत्वानयमः । अतस्तत्र भिन्ना सामग्री वा- च्या। ज्ञानसामान्यकारणजन्यत्वे जन्यज्ञानमात्रस्य प्रमात्वास- जः। तेन प्रामाण्यमप्रामाण्यं च परत उत्पद्यते । एवं ज्ञानान्तरण गृह्यते । तच्च इदं ज्ञानं प्रमा, गुणवत्कारणजन्यत्वात्, अर्थ- क्रियासंवादात्, बाधाभावाद इत्यायनुमानम् । संपादत्वं चत- द्विषयविषयकत्वम् । न चैवं वेदवाक्यजन्ययागस्वर्गसाध्यसाध- नभावज्ञाने प्रक्रियासंवादाभावात् न कदापि प्रामाण्यनिश्चयः स्यादिति वाच्यम् । तेषामीश्वरवाक्यजन्यतया गुणवत्कारणज- न्यत्वेन तदनुमानात् । न चार्थक्रियादिनानेषु कयं प्रामाण्य- निश्चय इति वाच्यम् । अगत्या तत्र स्वतःमामाण्यग्रहानी- कारात् । तस्मात्परतः प्रामाण्यं निश्चीयतात्याहुः । सिदान्त- स्तु अनन्तगुणानां हेतुत्वमपेक्ष्य ज्ञानसामान्यसामग्रीजन्यत्व- स्यैवोचितत्वात् । दोषवादिन्द्रियजन्यस्यापि धर्य प्रमात्वी- च । एतेन गुणज्ञानप्राप्यत्वं दोषाभावहानझाप्यत्वं चापा- स्तम् ।' अनेकदोषाभावानामननुगतत्वेन गौरवात् । अतो न ज्ञानोत्पत्तेः परतस्त्वं, नापि. शोः परतस्त्वं सम्भवति । तथा हि । नोदकाहरणरूपार्थक्रिया बानेनार्थनिश्चयद्वारा पूर्वज्ञाने - तर्कपादः । १५ प्रामाण्यनिश्चयः । तस्यापि स्वप्नावस्थायामर्थव्यभिचारेण तेनानिश्चयासम्भवात् । नापि तज्जन्यमुखोत्पत्त्या । अयथा- दापि स्वप्ने चन्दनलेपादिज्ञानात्सुखोत्पत्तेस्तस्याप्यर्थव्यभि- चारात् । किं चोदकाहरणादिरूपार्थक्रियया व्याप्यविधया घ. ट निश्चयः । व्याप्तिश्च सम्बन्धरूपति नागृहीते सम्बन्धिान ग्रहीतुं शक्यते । तत्र सम्बन्धिघटज्ञाने स्वत एव प्रामाण्यनिश्च- यो वाच्यः । एवं मुणज्ञानसंवादज्ञानयोरपि । न चैताभ्यां विषयो निश्चेतुं शक्यते । न च तत्रापि ज्ञानान्तरेण प्रामाण्यनि- श्चयः । अनवस्यापत्तः । एवं च स्वत एवार्थतथात्वनिश्चयो वाच्यः । एवं तर्हि घटादिज्ञानेपि स्वत एव प्रामाण्यं, तस्यापरा- धाभावात् । तेन ज्ञानग्राहकेणैव तस्य ज्ञानमिति सिद्धं प्रामाण्य. ज्ञप्तेः स्वतस्त्वम् । किं च ज्ञानं न प्रत्यक्षम् । तस्य प्रत्यक्षत्वे नि- विकल्पकप्रत्यक्षवारणाय निष्पकारकत्वनिर्विशेष्यकत्वानःसंसर्ग- कत्वानां विनिममकाभावेन त्रयाणामपि प्रतिबन्धकत्वकल्पने गौरवात्। न च विशिष्टवैशिष्टयप्रत्यक्षे विशेषणतावच्छेदकप्रकारक- निश्चयस्य हेतुतया तदभावान निर्विकल्पकप्रत्यक्षतापत्तिरिति वा- च्यम् । विशेष्ये विशेषणमिति रीत्या एकत्रोमयामति रीत्या वाता- दृशप्रत्यक्षे विशेषणतावच्छेदकमकारकनिश्चयस्य हेतुत्वाभावेन तद्रीत्या निर्विकल्पकप्रत्यक्षापत्तेदुर्वारत्वात् । एवं चावश्यकम- तिबध्यप्रतिबन्धकभावकल्पनमपेक्ष्यात्मनिष्ठगुणप्रत्यक्षे तादात्म्येन ज्ञानस्यव धर्माधर्मभावनानामिव ज्ञानभाचनादृष्टसाधारणवजा. त्य कल्पनपा तज्जात्यवच्छेदेनैव वा प्रतिबन्धकत्वकल्पनमुचित- म् । जानामीत्यायनुभवानामपि अनुभवामीत्युपनीतभानत्वम् । एवं च विषयनिष्ठज्ञाततया तनिष्ठमेव ज्ञानमनुपीयते । घटो ज्ञानवान् ज्ञाततावत्त्वादिति । तत्र घटत्वनिष्ठ- . . भादृचिन्तामणे प्रकारतानिरूपितविशेष्यतासम्बन्धेन ज्ञानानुमिती तादृशभकार- तानिरूपितविशेष्यतारूपप्रामाण्यग्रहः । न च ज्ञाततायाः प्रमा स्वाव्याप्यतया तदनुमापकत्वासम्भव इति वाच्यम् । प्रमात्व- स्याननुमेयत्वात् । ज्ञानानुमाने समानसंविसंवेद्यतया ज्ञानत्वव- ममात्वस्य स्वतस्त्वसम्भवात् । न च ज्ञातताया मानाभावः । तस्या विषयज्ञानातिरिक्ताया आवश्यकत्वात् । तथाहि । न ता- वाद्वषयता ज्ञानस्वरूपा। घटप्रकारकभूतळविशेष्यकज्ञानाद्भूतल- प्रकारकघटविशेष्यकानुव्यवसायापत्तेः । नापि विषयस्वरूपा, विशिष्टज्ञानसमूहालम्बनयोरवैलक्षण्यापत्तेः । अत उभयातिरिक्ता, सा च नित्या, लाघवात् । अन्यथा ऽनन्ततत्ताद्वषयकज्ञानरनन्त- तत्तद्विषयतोत्पत्तिनाशकल्पनात् गौरवापत्तेः । एवं च नष्ट- युधिष्ठिरादिविषयकज्ञानोत्पत्तिरपि सुळभेति युक्तम् । अन्ये तु आत्मघटयोप्प्यतालक्षणः सम्बन्धो मानसप्रत्यक्षः स विषयते- स्याहुः । तेषां भावं नाकळयामः ॥ अन्ये तु तत्तज्ज्ञानज- न्या तत्तद्विषयनिष्ठा ज्ञातता सा च नष्टभाविविषयनिष्ठा- पि । न चासतोः कथं कार्योत्पत्तिरिति वाच्यम् । द्वित्वादि- वदुत्पत्तौ बाधकाभावात् । न च तत्र नष्टद्वित्वस्य स्मरणमिति वा- च्यम् । अननुभूतद्वित्वस्य स्मरणासम्भवात् । न च यावदाश्रय- प्रत्यक्ष विना कथं द्वित्वप्रत्यक्षमिति वाच्यम् । लाघवेन संयो- गप्रत्यक्षे तस्व हेतुत्वाङ्गीकारेण व्यासज्यवृत्तिधर्मप्रत्यक्षे तस्य हेतुत्वाभावेन तत्प्रत्यक्षस्य सुवचत्वान् । न चाश्रयप्रत्यक्षं विना कथं तनिष्ठगुणप्रत्यक्षमिति वाच्यम् । वायुप्रत्यक्षाभावे ऽपि त- निष्ठस्पर्शप्रत्यक्षस्य त्वयैवाङ्गीकारातः । अतो द्वित्वबहुस्वयोर्भा- विभूतपदार्थनिष्पत्ववत् तत्तज्ञानोत्पाद्यविषयताया अपि भावि- भूतपदार्थनिष्ठत्वम् । न च द्वित्वादेर्गुणस्य समवायिकारणाभावेन तर्कपादः । भाविभूतयोः कथमुत्पत्तिरिति वाच्यम् । समवायसम्बन्धेन भा. वकायोत्पत्तौ तादात्म्यसम्बन्धेन द्रव्यस्य जनकतेति समवाय- कारणकार्यकारणभावस्य वक्तव्यत्वेन संख्यायाः पदार्थान्तरत्वेन विषयतावत् समवायेनोत्पत्यभावेन समवायिकारणानावश्यक- त्वात् सङ्ख्याया विषयतायाश्चाभावं जानामि, अभावौ द्वौ, चतुर्विशतिर्गुणा इति प्रतीत्या ऽभावगुणादिनिष्ठतया स्वरूप- सम्बन्धेनवोत्पत्त्यङ्गीकारेण समवायिकारणानावश्यकत्वात् ।। च द्वित्वादीनामाकस्मिकत्वप्रसङ्गः । अपेक्षाबुद्धेरेव जनकतया नियामकत्वात् । अपेक्षाबुद्धभिव्यञ्जकत्वे तु नित्यतया न तदापत्तिप्रसङ्गोपि । न च कार्यसमवेतगुणत्वेनानित्यत्वा- नुमानात् कथं नित्यत्वमिति वाच्यम् । एकत्वेनाङ्गीकृतासु अरु- णादिव्यक्तिषु व्यभिचाराद, अनुकूलतर्काभावेनाप्रयोजकत्वा- च्च । न चआश्रयाभावे विषयताद्वित्वादेः कावस्थानमिति वा- च्यम् । कपालादिनाशे क्षणमात्र घटादेरिव विषयताया अपि स. वे बाधकाभावात् । अतो नष्टघटादावपि घटो ज्ञात इत्याधनुभ- वाद् भूतभाविनिष्ठत्वमिति, दिक ॥ अत एव ज्ञानजन्यज्ञात- तावन्त्वाद् घटं जानामीति कर्मत्वोपपत्तिः । तस्मादतिरिक्ता विषयता । किं च ज्ञानेच्छाकृतिसंस्काराणां समानविषयक- त्वेनैव कार्यकारणभावे लाघवादपि विषयता ऽतिरिक्ता, सैव च ज्ञातता, तयैव ज्ञानं गृह्यते, तनिष्टप्रमात्वमपीति स्वतस्त्वम् । नन्वेवमिदं ज्ञानं प्रमा नवेति सन्देहो न स्यात्, ज्ञानाग्रहे घ. मिज्ञानाभावात्, तद्रहे तन्निष्ठप्रमात्वस्यापि ग्रहादिति चेन्न । नायं ज्ञानविशिष्टप्रमात्वसंशयः, किं तु विषयसंशय एवायं, पुरो- वत्तिनि रजतत्वमास्ति वा नवेति रजतादिज्ञानोत्तरं प्रमात्वस्मरणे रजतादिज्ञाननाशात्तत्संशयोपपत्तेः । यद्वा धर्मिज्ञानाभावेपि ३
१८
भादृचिन्तामणे:
धर्मीन्द्रियसन्निकर्षमात्रेण संशयीत्पत्तिः । यद्वा सत्यपि मामा-
ध्यज्ञाने दोषवशादेव तदुत्पत्तिः । दोषश्चानभ्यासदशानापन्न
त्वमिति । तस्माद्युक्तं ज्ञप्तिप्रामाण्यस्य स्वतस्त्वमिति ॥ गुरवस्तु घ.
यदिमात्रविषयकं न ज्ञानं सर्वज्ञानानां त्रिपुटीविषयकत्वाङ्गीका-
रात् । त्रिपुटी च ज्ञानात्मविषयरूपा, तेन सर्वज्ञानं घटं जाना-
मात्यायनुव्यवसायाकारमिति । स्वेनैव स्वस्य घटादिविषय.
कग्रहणाचनः प्रामाण्यमित्याहुः ॥ मुरारिमिश्रास्तु घटादिज्ञानो-
चरं घट जानामीत्याद्यनुव्यवसायो जायते तेन घटत्ववद्विशेष्य-
कत्वघटत्वप्रकारकरूपप्रामाण्यग्रह इत्याहुः ॥ वस्तुतो जलादिज्ञा-
नोचरं प्रवृत्त्या जलादिनिश्चयोचरं पूर्वज्ञाने प्रामाण्यं जानाती-
वि कश्चित् । कश्चिन्तु ज्ञात्वा प्रामाण्यं प्रवर्तते इत्यनुभवाज्जातं
शानं प्रमा न वेत्यादिसंशयानुभवान्नज्ञानमात्रे स्वतः प्रामाण्य-
निश्चयो युक्तः । नापि परतः प्रामाण्यं क्व चित्सिद्धान्तभ-
झापादकम् । किं तु कुत्र चित्स्वतः प्रामाण्यग्रहः। क्व चित्प-
रस इत्यननुमत एव प्रामाण्यग्रहः । शक्तिग्रहवत् । तेन वेदजन्य-
शाने संशयाभावात्स्वतः मामाण्यं, तद्भित्रज्ञाने तु परतः प्रा-
मान्य ज्ञायते । अतएव स्मृतिजन्यज्ञाने सन्मूलकत्वगुणज्ञानादेव
पापाज्यं सिद्धान्वेप्यकीकृतमिति युक्तमुत्पश्यामः ॥
इति गागाभट्टकृतभाट्टचिन्तामणौ
ज्ञानप्रामाण्यविचारः ॥
सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्र-
सक्षमनिमिचं विद्यमानोपलम्भनत्वात् ॥ ४ ॥
... तर्कपादः। इदानी प्रत्यक्षस्य धर्मप्रामामनिराकरणाय प्रत्यक्षलक्षण- मुक्तं सूत्रकारेण । न तावदिन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति लक्षण- म् । ज्ञानमात्रस्य मनोजन्यत्वात् । अत इन्द्रियार्थसम्बन्धजन्य- ज्ञानं प्रत्यक्षमिति सूत्रकारः । न चेश्वरप्रत्यक्षे ऽव्याप्तिः। ईश्वर- ज्ञानस्यानुमितिविलक्षणत्ववत् प्रत्यक्षविलक्षणत्वादिति जीर्णाः ॥ यद्वा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । अनुमित्युपमितिशाब्दवोधा- र्थापत्तिस्मृतीनां ज्ञानकरणकत्वात् । न च सविकल्पकप्रत्यक्षे वि. शिष्टवैशिष्टयप्रत्यक्षे चाव्याप्तिः, तयोनिर्विकल्पकादिज्ञानकरण: कत्वादिति वाच्यम् । व्यापारवदसाधारणकारणस्य करणत- या तज्जन्यत्वे सति तज्जन्यजनकस्य व्यापारतया च निर्विक ल्पकादेः कारणत्वे ऽप्यकरणत्वात् । जन्यज्ञानजन्यमात्रवृत्तिजा- तिशून्यज्ञानत्वं वा । सर्वत्र प्रत्यक्षे इन्द्रियस्य करणत्वात् । तत्सं- बन्धस्य व्यापारत्वाच्च तादृशानामनुमितित्वादीनां प्रत्यक्षे ऽभावाल्लक्षणसङ्गतिः । सविकल्पकत्वादिकं तु न जातिः। इन्द्रि- यत्वं च संबद्धार्थविशदावभासकत्वम्, अपरोक्षज्ञानजनकद्रव्य. त्वं वा, ज्ञानानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं वा ॥ तच्च षड्विधम् । घाणरसनचक्षुस्त्वकश्रोत्रमनोभेदात् । त- त्राद्यानि चत्वारि गन्धरसरूपस्पर्शमात्राभिव्यञ्जकतया गन्धादि- मत्त्वानुमानन पृथिव्यप्तेजोवायुप्रकृतीनि । श्रोत्रमपि शब्दमात्र- ग्राहकतया शब्दवत्त्वानुमानेनाकाशात्मकमित्यक्षपादीयाः । अ- ध्रिगुप्रैषान्तर्गतदिशःश्रोत्रमिति लिङ्गादिगात्मकत्वं युक्तम् । मनसि च सुखीति प्रत्यक्षमिन्द्रियजन्यं, प्रत्यक्षत्वा, दित्यनुमान प्रमाणम् । अन्ये तु सुखादीनां नित्यद्रव्यविशेषगुणत्वेन द्रव्या- न्तरसंयोगासमवायिकारणकत्वे सिद्धे तादृशसंयोगाश्रयतया मनःसिद्धिरित्याहुः ॥ तन्न । शरीरसंयोगेन सिद्धसाधनादर्था- भादृचिन्तामणे न्तरत्वाच्च । तच्चान्तरिन्द्रियं स्वातन्त्र्येणात्मतद्योग्यगुणतद्ग- तजातिमात्रग्राहकं, बाह्यविषयेषु तस्य स्वातन्त्र्याभावात् । कुतो न स्वातन्त्र्यमिति चेन्न । तस्याणुपरिमाणस्य देहाहाहर्भावाभा- बेन सन्निकर्षासंभवायुगपजज्ञानानुत्पत्तिश्च मनसोणुत्वे प्रमा- गम् । येपि तस्य विभुत्वमाहुस्तेषामपि देहावच्छिन्नस्यन्द्रिय- त्वादस्वातन्त्र्याक्षतिः, युगपज्ज्ञानोत्पत्तिरिष्टैव । सन्निकर्षश्च संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायश्चेति । द्रव्यं संयोगेन, तद्गतगुणकर्मजातयो द्वितीयेन, गुणकर्मगतजातयस्तृ- तीयेन। के चित्तु समवायरूपप्रत्यासत्या द्रव्यगुणकर्मसामान्यग- ता सत्ता गृह्यते । सत्ता च तत्कालसंबन्ध इति तस्य जातिगतत्वं नानुपपत्रमित्याहुः, तेषां भावं नाकलयामः । शब्दस्य च द्रव्य- वात्तत्रापि संयोग एव संबन्धः । ननु बाह्येन्द्रियग्राह्यतया शब्दे गुणत्वमिति चेत् । न । वायौ रूपत्वादिसामान्ये च न्यभिचारात् । प्रत्यक्षद्रव्यगुणत्वाभावविशिष्टप्रत्यक्षेण गुणत्वा- मावानुमानाच्च । तत्रापि कर्मवेगवत्त्वेन द्रव्यत्वानुमानम् । + च तथापि शब्दे श्रोत्रसंयोगासम्भवः, तस्य सर्वत्रोपल- म्येन विमुतया दिगात्मकश्रोत्रस्यापि विभुतया संयोगासमवा- विकारणकर्माभावादिति वाच्यम् । न तावत्संयोगत्वावच्छिन्नं पति कर्मणो जनकता, संयोगजसंयोगे व्यभिचारात् । किंतु विजातीयसंयोमे, तत्र वैजात्यकल्पनमपेक्ष्य जन्यसंयोगे कर्मत्वे. म कारणता युक्ता । संयोगजसंयोगानङ्गीकाराच्च न व्य- विचार विमुनी मिया संयुक्त निरन्तरद्रव्यत्वात्, घटाकाशव- दित्यनुमानेन विथुसंयोगसिद्धेश्च ।। सच बत्यक्ष निर्विकल्पकं सविकल्पक ञ्चति द्वधा । प्रका. रताविषयमादिविषयतारहितं ज्ञानं निर्विकल्पक, तद्विशेषण- - . तपादः । २१ विशेष्यभावानापन्नघटघटत्वादिविषयकम् । इन्द्रियसयोगान- न्तरमविविक्तसामान्यव्यक्तिभागस्य व्यक्तिमात्रगोचरज्ञानस्य जायमानत्वात् । तच्च प्रत्यक्षं, किं चिद्भासतइति प्रतीतेः, अश्वोप्ययं न तथा पूर्व प्रतीत इति प्रतीतेश्चेति के चित् । विशिष्टज्ञानरूपसविकल्पकस्य विशेषणज्ञानं विनोत्पत्त्यसम्भवा- दनुमानगम्यमित्यन्ये ॥ विशेष्यविशेषणेन्द्रियसन्निकर्षस्य विशिष्टज्ञानहेतुतया विशेषणज्ञानस्य विशिष्टज्ञाने न हेतुत्वमिति के चित् ॥ तत्सिद्धं घटत्वनीलपीतादिनानाधर्मविषयकं निर्वि- कल्पकम् ॥ सविशेष्यकं समकारकं ससंसर्गकं वा ज्ञानं सविक- ल्पकम् । तच्च जातिद्रव्यगुणक्रियानामविषयकतया पञ्चधा। चाक्षुषादिभेदेन षोढा च । तंत्र प्रत्यक्षमात्रे महत्वं हेतुः । तच्च द्रव्यप्रत्यक्ष समवायेन, गुणक्रियाजातिप्रत्यक्षे समवायघटितसा- मानाधिकरण्येन,गुणक्रियागतजातिप्रत्यक्षे त्वेकार्थसमवायसमवा- येन । चाक्षुषे चोद्भूतरूपमुद्भूतानभिमूतरूपालोकसंयोगश्च । कालादिचाक्षुषे महत्वोद्भू तरूपादीनां न हेतुतेति के चित् । स्पा. शेने चोद्भूतस्पर्शः । न तु रूपमपि । तेन वायुरपित्वाचप्रत्यक्षः । एवं च बहिरिन्द्रियजन्यमत्यक्षत्वं नोद्भूतरूपकार्यतावच्छेदकं, किं तु चाक्षुषत्वादिजातिरेवेति लाघवम् । मानसेपि महत्त्वं हे- तुरिति के चित् । नेत्यन्ये ॥ केचित्तु क्रिया न प्रत्यक्षा, किं- तु विभागोत्तरसंयोगाभ्यामनुमेया । अतस्तत्प्रत्यक्षे महत्त्वस्य न हेतुते त्याहुः ॥ द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोन्धकार- शब्दरूपाण्येकादश । गुणा रूपरसगन्धस्पर्शपरिमाणसंयोगविभा- गपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारादृष्टबुद्धिसुखदुःखेच्छाद्वेषय- मा इति विंशतिः । कर्म चलनात्मकमेकम् । सामान्यं पस- ।
२२ भादृचिन्तामणे पररूपं द्वधा । समवायश्चैकः । शक्तिस्त्रिधा । सहजा ऽऽधेया पदशक्तिश्चेति । अभावस्विधा । ध्वंसो ऽत्यन्ताभावो भेदश्चे- ति ॥ एवं च द्रव्यगुणकर्मसामान्यसमवायशक्तयभावाः सप्त पदार्थाः॥ संख्यापि गुणादिवृत्तित्वात्पदान्तरमित्यन्ये ।। गुणसमुदाय एव पृथिव्यादिद्रव्यं, नातिरिक्तमिति के चित् । तन्न । पृथिव्यादौ पाकादिना पूर्वरूपनाशस्योत्तररूपोत्पत्ते- इचानुभवसिद्धत्वात् ॥ अन्ये त्ववयनसमुदायमेवावयाविनमाहुः । तदाप न । उत्पन्नः पटो विनष्टः पट इत्यादिप्रतीतेः । तेन पटो रूपवान् नीलश्चलति डित्थो ऽयमिति सविकल्प सि. दम् ॥ ननु नेयं प्रमा। अलीकघटत्वादिजातिविषयकत्वात् । तथा- हि । न तावद्वयक्तिभिन्ना जातिः प्रत्यलक्षत उपलभ्यते । इह गवि- गोत्वमिति प्रतीत्यभावात् । भिन्नापि सा सर्वगता व्यक्तिमात्र- निष्ठा वा । अन्तरालेनुपलब्धेर्नाधः, द्वितीयपि नित्याया उत्प- त्ययोगात् । अमूर्तीया व्यक्तयन्तरादागमनासम्भवाद् भविष्यति घटे सा न स्यात् । न चांशत आगमनम्, निरवयवत्वात् एव- मेकस्यां व्यक्तौ कृत्स्नायामंशेन वा न वृत्तिःसम्भवतीत्यवगन्त- व्यम् । अतो न व्यक्तितो भिन्ना जातिः सम्भवति । व्यक्तथा-. त्मकत्वं तु नित्यत्वानित्यत्वाभ्यां विरुद्धधमाभ्यामपहस्तितम्, भेदाभेदश्चात्यन्तविरुद्धः । एवं च स्वलक्षणरूपशुद्धविषयकमेव निर्विकल्पकं प्रमेति चार्वाकैकदेशिमः । तन्न । काणकूटायसह- शगोव्यक्तिष्वेकाकारप्रत्ययानुपपत्तेः । किं च सामान्यस्या- लीकत्वं वदता वस्तुस्वव्यापकभेदाभेदासम्भवेन सामान्य वस्तुत्वं निराक्रियते । सिद्धं तर्हि वस्तुत्वसामान्यम् । भेदाभेदाङ्गीकारेण च पूर्वोक्तमत्यक्षापादनादिनिरासः । इयं तर्कपादः । गौरिति पदयोभिन्नप्रवृत्तिनिमित्तकयोः सामानाधिकरण्येनानु- तव्यावृत्ताकारवोधकत्वेन भेदाभेदसिद्धिः । किञ्च जा- तिव्यक्त्योः समवायसम्बन्धाङ्गीकारेण चाभेदसिद्धिः । येन सम्बन्धेनाधेयमाधारस्य स्वानुरक्तबुद्धिजनकं स सम्बन्धः सम- वायः न त्वयुतसिद्धसम्बन्धः सः । युतसिद्धेवक्तुमशक्यत्वात् । पृथकूचलनवत्त्वस्य वृक्षशाखयोः सत्वेन तयोः समवायसम्ब- न्धो न स्यात् । अतो भेदाभेदः । एवमवयवावयविनोर्गुणगु णिनोः क्रियाक्रियावतोरपि भेदाभेदोनुसन्धेयः । तेन सिद्धं सामान्य जातिरूपं, तद्बाधके तूपाधिरूपम् । सामान्यं च नि- त्यमेकमनेकानुगतम् । तदाधकानि च व्यक्तेरभेदस्तुल्यत्वं सङ्करोथानवस्थितिः । रूपहानिरसम्बन्धो ह्यांशिकत्वमपीष्यते ॥ इति । एकव्यक्तिगतं न सामान्यम् । तुल्यव्यक्तिगतं न सामान्यद्वयम् । यथा घटत्वकलशत्वादि । परस्परात्यन्ताभाव- समानाधिकरणमेकव्यक्तित्ति न सामान्यं द्वयम् । यथा भूत- त्वमूर्तत्वे । अनित्यम् न सामान्यं, यथा पृथुबुध्नोदराकारत्वम् । असमवेतं न सामान्यम् । यथा ऽभावत्वादि । आंशिकं न सा- मान्यम् । यथोपेक्षात्वमिति दिक् । तत्राप्यांशिकत्वं सङ्करान्तर्गत- म् । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वस्य जातिनिष्ठ- स्वस्वाभावोभयसामानाधिकरण्यकत्वस्य भेदाभेदगर्भस्य दूष- कताबीजस्य तुल्यत्वादित्यस्तु प्रसक्तानुमसक्तम् । अत:- सविकल्पकप्रमा सिद्धा॥ अत्र निरालम्बनवादिनः । सर्वाणि बाह्यघटादिविषयका- णि सविकल्पकज्ञानानि मिथ्यार्थविषयकाणि, बाह्यार्थविषयक- ज्ञानत्वात् । स्वममत्ययवत् । स्वमज्ञानानां हि बाह्यघटायाकारण ।
- भादृचिन्तामणे परिणतं ज्ञानमेव विषयो न घटादि, तदानीमभावात् । मनाप्र- त्यासत्यभावात् । स्वशिरश्छेदादीनामसम्भवाच्च । अंतस्तत्र ज्ञानरूपात्मैव विषयः । एवं सर्वज्ञानानामिति दृष्टान्तेन न किं चिदपि ज्ञानं प्रमेत्याहुः ॥ तन्न । स्वमप्रत्ययानामात्मविषयक- त्वासिद्धया दृष्टान्तासिद्धेः । किं च नीलोयमित्यादिसविक- ल्पकानामात्मविषयकत्वे नीलोहमित्याकारत्वापत्तिः। अत इदं बाह्यविषयकम् । बाधकाभावेन प्रमैवेति ॥ शून्यवादी तु न ज्ञानातिरिक्तो बाह्यो विषयो ऽस्ति, ज्ञान- स्यैवाकारो विषयो ज्ञानस्वरूपात्मक एव, स्वमज्ञानवत्, तेन सविकल्पकं न प्रमा । तथाहि । नीलादेः किं ज्ञानविष- यत्वम् । न तावत्सदार्थत्वं सत्तावत्वं वा । नीलज्ञाने पीतादेर- पि विषयत्वप्रसङ्गात् । न ज्ञानहेतुत्वम्, इन्द्रियादेरपि तत्त्वप्र- सङ्गात् । नापि ज्ञानजनकसत्रिकर्षाश्रयत्वम् । रूपज्ञाने स्पर्श- स्य विषयत्वापत्तेः । नापि सादृश्यविशिष्टहेतुत्वं, विशेषणज्ञान- स्य ज्ञानत्वेन सादृश्याद्धेतुत्वाच्च विशिष्टज्ञाने विषयत्वप्रसङ्गात् । न चात्यन्तसादृश्यं विवक्षितं, तच्च न ज्ञानत्वेन, तस्य साधार त्वात् । किं वेकज्ञानविषयत्वेन । तच्च त्रिपुटीप्रत्यक्षाङ्गीकारेण माननीलयोरेकज्ञानविषयत्वाद्धेतुत्वाच्चोपपन्न विषयत्वपिति वाच्यम् । धारावाहिकज्ञानेषु पूर्वज्ञानस्य सादृश्येनोत्तरज्ञाने विषयत्वापत्तेः । ज्ञानस्य स्वस्मिन्स्वस्य हेतुत्वासम्भवेन विषय- स्वानुपपत्तेः । न च ज्ञाने नीलाद्याकारतासमर्पकत्वे सति हेतु- त्वम् । तच्च जपाकुसमस्येव सन्निधिलेति वाच्यम् । विषय- स्य नीलाघाकारतासमर्पकत्वे मानाभावात् । ज्ञानवैचित्र्यं मानमिति चेत् । न । अर्थ विनापि स्वमज्ञानवैचित्र्यदर्शनात् । नापि ज्ञानजन्योपादानहानाद्रिव्यवहारवन्त्वम् । घटज्ञाने घट. - तर्कपादः । ज्यणुकानां विषयत्वापत्तेः । सुखादीनां स्वज्ञानाविषयत्वाप- त्तेश्च । न च सुखादिषु सुखीत्यादिशब्दप्रयोगो व्यवहार इति वाच्यम् । शब्दप्रयोगस्य ज्ञानविषयनिरूपकत्वाभावात् । ज्ञानवि षयनिरूपणपूर्वकत्वेन शब्दप्रयोगस्य तेन विषयनिरूपणे इतरे- तराश्रयापत्तिः। नापि ज्ञानजन्यज्ञाततावत्त्वं तत् । भूतभवि. प्यतोस्तदसम्भवात् । तत्र मानाभावाच्च । अतो ज्ञानात्मकमेव तत् । किं च विषयो ज्ञानात्मको, ज्ञानेन सहोपलभ्यमानत्वा- व, ज्ञानत्ववत् । सहानुपलभ्यमानयोर्घटपटयोर्भेददर्शनमनु- कूलतर्कः । न च घटोयमिति ज्ञानस्य ज्ञानाविषयत्वेनासिद्धः सहोपलम्भ इति वाच्यम् । उत्तरकालं ज्ञातो घट इति ज्ञान- घटयोः स्मरणदर्शनेन पूर्वानुभवस्यावश्यकतया घटोयमिति ज्ञा- नस्य ज्ञानविषयकत्वकल्पनात् । स्वमादिज्ञानानां साकारत्व- मिव सर्वेषां साकारत्वेन ज्ञानातिरिक्तविषयाभाव इति स्वमतं परिष्करोति । तच्चिन्त्यम् । नीलादेर्शानात्मकत्वे ज्ञानस्य स्वविष- याकारत्वे मानाभावात् । उक्तानुमानस्याप्रयोजकत्वात् । समूहा- लम्बने सहोपलभ्यमानयोर्धटपटयोरभेदाभावेन व्यभिचारा- च्च । किं च न ज्ञानात्मको विषयः । ज्ञानाभावविषयके ज्ञाने ज्ञानाभावस्य ज्ञानात्मकत्वासम्भवात् । तदेवेदमिति स्थायित्व. विषयके ज्ञाने स्थायित्वस्य क्षणिकज्ञानात्मकत्वासम्भवात् इदं नानाकारमिति चित्रबुद्धावनेकाकारस्यैकस्मिन्नसम्भवाच्च । किं च विषयस्य ज्ञानात्मकत्वे ज्ञानस्यापरोक्षत्वनियमेनानुमिति- विषयवन्ह्यादेः परोक्षत्वानुपपत्तिः, किं चातीतकालसम्बन्धानु- मानविषयस्यातीतकालसम्बन्धस्य वर्तमानज्ञानात्मकत्वानुपप- त्तिः । न च तत्रातीतं ज्ञानमेव विषय इति वाच्यम् । अतीतत्व- स्य ज्ञानाकारत्वासम्भवात् । अतोवश्यं ज्ञानभिन्नो विषयो ४ २६ भादृचिन्तामणेः वाच्यः। तनिष्टविषयत्वं ज्ञानजन्यफलभागित्वं नित्यमतिरिक्तंचे. त्युक्तं प्राक् । न च स्वप्नदृष्टान्तो युज्यते । तस्यापि बाह्यविषयत्वा- त् । तथाहि । स्वमे दिवसानुभूतदेशकालान्तरगताः शिरश्छेदा- दयो विषया अदृष्टोद्बोधितसंस्कारवशात्स्मर्यमाणा निद्रारूपदोष- वशेनात्मनिष्ठतया भासन्ते । एवं चान्यसम्बन्धित्वेनावगताना- मन्यसम्बन्धित्वेन भानं शुक्तिरजतज्ञानवत् । इयमेव चान्यथा- ख्यातिः । न च बाह्यविषयेषु मनसस्तदानीमसम्बन्धात्कथं भानमिति वाच्यम् । ज्ञानलक्षणायाः प्रत्यासत्तेरङ्गीकारात् । प्रमुष्टतत्ताकस्मरणाङ्गीकाराद्वा न दोषः । अतः स्वमज्ञानानां वा- खविषयत्वं सिद्धम् । तेनानुभूयमानानां बाह्यार्थानामपलाषासम्भ- चाचद्विषयकज्ञाने न मिथ्यात्वं, किंतु दुष्टकारणजन्यं बाधि- तमिति ॥ गुरवस्तु शुक्तिरजतज्ञानादौ न संसर्गग्रहो मानाभावात् । किं तु स्मरणानुभवविषययो रजतत्वशुक्त्योरसंसर्गाग्रहमात्रं, ना. न्यथाख्यातिः । किं त्वसंसर्गाग्रहरूपेयमख्यातिः । एवं चासं- सर्गाविषयकतत्प्रकारकज्ञानस्य प्रवृत्ती व्यवहारे च हेतुत्वादति- लाघवमित्याहुः ॥ तन्न । असंसर्गाविषयकत्वरजतत्वप्रका- रकत्वयोनिविशेषणयोर्विशेषणविशेष्यभावे विनिगमकामा- घेन कार्यकारणभावद्वयकल्पनागौरवात् । एवं सामान्यतः प्रवृत्तौ कार्यताज्ञानस्य हेतुत्वे यत्र कार्यताभ्रमात्मवृत्तिस्तत्रासं- सगांविषयकत्वायत्वप्रकारकत्वयोर्विशेषणविशेष्यभावे विनि- गमनाविरहेण हेतुहेतुमद्भावद्वयकल्पनम् । एवमप्रामाण्यज्ञाना- भावविशिष्टकार्यत्वप्रकारकज्ञानस्य हेतुत्वेन यत्रामामाण्यग्रहो भू- मरूपस्तत्राप्रमात्वात्संसर्गाविषयकत्वकार्यत्वप्रकारकत्वयोर्विशेष. अविशष्यभावे विनिगमनाविरहेण हेतुहेतुमद्धावस्यकल्पे तर्कपादः । २७ इतिगौरवापत्तिः । अतो ऽवासंसर्गाग्रहस्य प्रवृत्तिव्यवहारादि- हेतुत्वानुपपत्तेन ख्यातिसम्भवः । तेनान्यथाख्यातिरूपरजतत्व- विशिष्टज्ञानस्यैव ग्रहे प्रवृत्त्यादिहेतुता युक्तेति,। न चैवं चत्रो र- जतज्ञानवान कार्यताज्ञानवत्वादिति ज्ञानान्मैत्रस्य प्रवृत्त्यापत्त्या भान्तभान्तिज्ञसंकरापत्तिरिति वाच्यम् । भान्तिज्ञस्य बाधादेव प्रवृत्त्यभावोपपत्तेः । परकीयरजतत्वप्रकारकज्ञानज्ञानवतः क्षण- विलम्बेन रजतत्वप्रकारकज्ञानादेव प्रवृत्त्यङ्गीकारात् । ज्ञानाविषय- कज्ञानत्वेन प्रवृत्यङ्गीकाराद्वा न दोषः । यद्वा रजतविषयकप्रवृ. त्तित्वावच्छिन्नं पति रजतत्वप्रकारतानिरूपितरजतनिष्ठमुख्याविशे. ष्यताशालिज्ञानत्वेन हेतुत्वान्न काप्यनुपपत्तिरिति । किं च सर्व- न प्रवृत्तौ नासंसर्गाग्रहो हेतुः । सर्वदा प्रवृत्त्यापत्तेः । किं तु प्र. माजन्यप्रवृत्तौ तत्मकारकनिश्चयो हेतुः । भूमजन्यप्रवृत्तौ चा. संसर्गाग्रह इति कार्यकारणभावद्वयकल्पनागौरवम् । मम तु सर्वत्र प्रवृत्तौ तत्मकारकनिश्चयत्वेनैव हेतुत्वमिति लाघवमिति दिक् ।। तच्च सविकल्पकं द्विविधम् । लौकिकमलौकिकञ्च । उक्त- सन्निकर्षजन्यमाद्यम् । सामान्यलक्षणाज्ञानलक्षणाजन्यं द्वितीयम्। सामान्यलक्षणा च सामान्यज्ञान ज्ञायमानं सामान्यं वा। तेन सम्बन्धेनेन्द्रियसम्बद्धानां तत्सामान्याश्रयव्यक्तीनां प्रत्यक्षम् । इदञ्चावश्यकम् । अन्यथा व्यवहारविषये घटे शक्तिग्रहे सर्व व्यक्तीनामप्रत्यक्षतया सर्वत्र शक्तिग्रहो न स्यात् ।। गङ्गेशस्तु महान सीयधूमे व्याप्तिप्रत्यक्षे सति धूमत्वसामान्य- लक्षणप्रत्यासत्या सकलधूमप्रत्यक्षानङ्गीकारे धूमो वन्हिव्याप्यो न वेति संशयो न स्यात् । प्रसिद्धधूमे प्रत्यक्षेण व्याप्तिनिश्चया- त् । अन्यस्य चाज्ञानात्संदेहानुपपत्तिः । किञ्च सुखार्थ कर्मणि प्रवृत्तिर्न स्यात्, सिद्धमुखच्छाविरहाव । असिद्धस्य चाहाना- २८ भादृचिन्तामणे: त् । एवं सुखादाविच्छापि न स्यात् । किं च कपालेषु घट- पागभावप्रत्यक्षं न स्यात् । प्राचीनघटानां प्रतियोगित्वानुपपत्या पागभावविशेषणीभूतस्य प्रतियोगिनो घटस्याज्ञानात् । एवं क- पालाधिकरणको वर्तमानप्रागभावप्रतियोगी घट इति शाब्दबो- धोपि न स्यात् । अतः सामान्य लक्षणा ऽङ्गीकार्येति ॥ अत्र शिरोमणिः । प्रसिद्धधूमे तमत्वन व्याप्तिनिश्चयपि धूमत्वेन तन्निश्चयाभावात् उक्तसंशयस्य नानुपपत्तिः। समानप्रका- रकनिश्चयस्यैव संशयादिविरोधित्वात् । धूमत्वेन व्याप्तिनिश्चये सं- शयाभावस्येष्टत्वात् । एवमिच्छाप्रवृत्योरपि तत्प्रकारकनिश्चयहेतु- कतया नानुपपत्तिः। विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वानङ्गीकारे- ण विशिष्टवैशिष्टयत्रोधे विशेषणतावच्छेदकप्रकारकानश्चयस्य हे- तुत्वानङ्गीकारेण च नात्यन्ताभावप्रत्यक्षानुपपत्तिः । किं च प्राग- भावसत्त्वेप्यत्र घटो भविष्यतीत्यत्र न घटपागभावप्रतीतिः कि- न्तूत्पत्तिप्रागभावस्य । तस्याश्च कालसम्बन्धरूपाया अप्रत्य- क्षत्वात् तत्प्रातियोगिकपागभावस्य सुतरामप्रत्यक्षत्वात् तत्पति- योगिप्रत्यक्षार्थ का कथा सामान्यलक्षणायाः। तथाहि । भवि. ष्यति भवितेत्यादौ उत्पत्तिर्धात्वर्थः। आख्यावार्थस्तदनुकूलव्या- 'पारः, तेन वर्तमानकालोत्तरकालीनकपालाधिकरणकोत्पत्त्यनुकू- व्यापारवान् वर्तमानप्रागभावप्रतियोग्युत्पन्त्यनुकूलव्यापारवान् वा घट इति बोधः । उत्पत्त्याश्रय इति वा । एवं नक्ष्यतीत्यत्र ‘नाशो धात्वर्थः वर्तमानमागभावप्रतियोग्युत्पत्तिकस्वरूपं भवि- प्यत्वं प्रतियोगितासम्बन्धेन धात्वर्थे ऽन्वेति । तेन वर्तमान- प्रागभावप्रतियोग्युत्पत्तिककपालाधिकरणकनाशप्रतियोगी घट इति बोधः । एवं चात्र वर्तमनोत्तरकालीनत्वं न प्रा. गभावेन तत्प्रतियोगिना घटेन वा नाशेन वान्वेति । तदन्वये Addeline २९ । 2 तर्कपादः । परश्वो भविष्यति परश्वो नश्यति श्वो नङ्ख्यति श्वो भ. विष्यतीति प्रयोगापत्तिः । गृहाङ्गणआगमिष्यति देवदत्ते श्व उ- त्पत्स्यति गृहाङ्गणे भविष्यतीति प्रयोगापत्तिश्च । तेन वर्तमा- नोत्तरकालत्वस्य उत्पत्तांववान्वय इति न तदर्थ सामान्यलक्ष- णापेक्षा । वस्तुतः प्रागभावे प्रमाणाभावात् सर्वमिदं गर्भस्रा- वगलितमिति । न च प्रागभावानङ्गीकारे उत्पन्नस्य पुनरुत्पत्ति- प्रसङ्गः । शततन्तुकपटे द्वितन्तुकपटोत्पत्तिप्रसङ्गश्चति वाच्यम् । तद्वयक्तरेव प्रतिबन्धकत्वाङ्गीकारात् अक्लप्तमागभावतद्धेतुत्वक- ल्पने गौरवात् ॥ के चिन्तु प्रागभावो नाशश्च नाभावरूपः । किं त्वाधलक्षणसम्बन्धरूपोत्पत्तिपूर्वकालरूप एव प्रागभावः । एवं चरमक्षणसम्बन्ध एव नाशः । तस्योत्तरकालमेव नाशाद- नित्यत्वम् । अत एव घटो भविष्यति नष्टो घट इति प्रतीतिः। न हि नाशोस्ति भागभावोस्तीति कश्चित्पत्येति । अतो ना- शपागभावौ न स्त इति वदन्ति । वस्तुतः सिद्धमुख विषयक त्यभावादसिद्धसुखज्ञानार्थमरण्यस्थदण्डादौ प्रवृत्तिजनकपटहे- तुताग्रहार्थ शक्तिग्रहार्थं च सामान्यलक्षणावश्यकीति युक्तम् ॥ एवं ज्ञानलक्षमानङ्गीकारे ज्ञातस्य सुरभिचन्दनखण्डस्य च. क्षुषा सुरभि चन्दनंमिति ज्ञानं न स्यात् । सौरभांशे सौरभ- त्वांशे वा प्रत्यासत्तेरभावात् । अतस्तत्र तज्ज्ञानमेव प्रत्यासत्तिः॥ न्यायविदस्तु योगजधर्मप्रत्यासत्तिं तृतीयामाहुः ॥ तद्यो- गिषु मानाभावनामुन्दरम् । न चेतिहासपुराणादि मानम्, त- स्पान्यतात्पर्यकत्वादिति दिक् ।। इति गागाभट्टकृते भादृचिन्तामणौ प्रत्यक्षपरिच्छेदः॥
भादृचिन्तामणे अनुमानं तु "ज्ञानसंबन्धस्यैकदेशदर्शनादेशान्तरे ऽसनिकृष्टे बु- द्धिः" इति सूत्रेणोक्तमासामान्यरूपेण ज्ञातव्याप्तिकस्य व्यक्तिवि- शेषदर्शनजन्यं सन्दिग्धसाध्यवदाधिकरणकमसानिकृष्टसाध्यविष- यकं निश्चयरूपं ज्ञानमनुमितिरित्यर्थः। व्याप्यतावच्छेदकप्रकारक- पक्षधर्मतानिश्चयजन्यं ज्ञानमनुमितिरित्यर्थः । न चैवं पदजन्यप- दार्थस्मरणवद्वयाप्यज्ञानेन व्यापकस्मृतिरिति वाच्यम् । व्यापकव- पक्षस्यानुभवाभावेन व्यापकवत्पक्षस्मृतित्वासम्भवात् । नचांश उपेक्षात्वानुपेक्षात्ववत् आंशिक स्मृतित्वानुभवत्वमिति वाच्यम् । उपेक्षात्वानुपेक्षात्वयोरविरुदयोर्दयोरेकानुभववृत्तित्वेषि वि. रुद्धयोः स्मृतित्वानुभवत्वयारेकज्ञानवृत्चित्वासम्भवात् । अत एव चाधुषत्वमानसत्त्वयोर्विरोधेन वाशे मानसत्त्वापास्तम् । बाहि- विषये तस्यास्वातन्त्र्यात् पक्षचाक्षुषलामण्याः प्रतिबन्धकत्त्वाच । न च तथापि व्याध्यतावच्छेदकपकारकपक्षधर्मतानिश्चयजन्ये क्दनुव्यवसाये तद्विशिष्टवैशिष्टयप्रत्यक्षे तत्सदृशज्ञानजन्यानुमि- नौ विशिष्टशाब्दबोधे तत्स्मरणे चातिव्यातिरिति वाच्यम् । तार दृशनिश्चयत्त्वेन हेतुत्वस्य विचक्षणात् । उक्तस्थलेषु अनुव्यवसाये- विषयत्वेन विशिष्टवैशिष्टयप्रत्यक्षे विशेषणतावच्छेदकमकारकनि- श्चयत्वेनोपमिती सादृश्यज्ञानत्वेन शाब्दबोधे चावान्तरवाक्यार्थ- ज्ञानत्वेन स्मृतावनुभवत्वेन हेतुत्वाना एवं भूमसंशयोत्तरप्रत्यक्ष कि शेषदर्शनस्य भूमादिविसषित्वेन हेतुत्वादमसंशयोत्तरैककोटिक- प्रत्यक्षत्वस्वार्थसमाजसिद्धतया विशेषवनजन्यवानहीकासदा नातिव्याप्तिः । न चान्वयव्यतिरेकल्याप्योरननुगमनकापादाने ऽपरवाव्याप्तिरिति वाच्यम्।व्यभिचारतानविरोधिशनविषयत्वे- नव्यातिज्ञामस्थानुगमात् । तेन व्यभिचारधाविरोषिीविषयता- वच्छेदकधर्यप्रकारकपक्षाधर्मनाशानजन्यमानानुमितिरिति तु फ- तपादः । लितम् । भैयायिकास्तु लाघवाद व्यभिचारधीविरोषिधीवि- षयधर्मप्रकारकपक्षधर्मताज्ञानजन्यज्ञानमनुमितिरिति वदन्ति । तत्परामर्शवादे निराकरिष्यते । यद्वा अनुमतित्वजातिमती अनुमि- तिः । अनुमितित्वजातिस्तु अनुमिनोमीत्यनुभवसिद्धा । व- त्करणमनुमानं तच्च भूतभाविलिङ्गेनानुमित्यनुत्पत्त्यापत्तेज्ञानमेव, न तु झायमनो हेतुः । अथ केयं व्याप्तिः । अत्र गौडमैथिलसर्व- स्वम् । साध्यचदन्यावृत्तित्वं व्याप्तिःचद्धिमन्महानसान्यहूदावृत्ति- स्वाद धूमे लक्षणसमन्वयः धूमवन्महावसान्यायोगोलकवृत्तित्वाद धूमवान्वन्हेरित्यसद्धेनौ च नातिव्याप्तिः। अत्र साध्यतावच्छेदक- सम्बन्धन साध्यवान् बोध्यः। तेन समवायेन वन्हिमद्वन्ह्यवयवान्य- महानसत्तित्वपि धूपस्य नाव्याप्तिः । साध्यवदन्यश्च साध्य- चन्त्वावच्छिन्नप्रतियोगिताकभेदवान् बोध्यः । तेन यत्किञ्चिद- न्हिमदन्यवृत्तित्वेपिधूमस्य नाव्याप्तिः । वृत्तित्वाभावश्च वृत्ति- त्वत्वावच्छिन्नप्रतियोगिताकः । तेन धूमवदन्यनलावृत्तित्वषि वन्ही नातिव्याप्तिः । न चैवपीशव्याप्तिज्ञानस्य केवलान्वनि- न्यसम्भवात्कथमनुमितिरिति वाच्यम् । इष्टापत्तेः केवलान्य यिव्यतिरेकहेत्वोः पञ्चरूपोफ्पन्नत्वाभावेनानुमाफ्कत्वाभावा- त् । एवं च केवलान्वयिव्यतिरेक्यनुमानमेव नेति । यद्वा हेतुस- मानाधिकरणात्यन्ताभावप्रतियोगितानबच्छेदकसाध्यतावच्छेद- कावच्छिन्नसामानाधिकरण्यं व्याप्तिः । अत्र प्रसिद्धानुमाने घ- टाभावमादाय लक्षणसमन्वयः । व्यभिचारिण्ययोगोलकवृत्तिधू- माभावमादाय नातिव्याप्तिः । अत एव महानसीयवन्यभावं वन्हिघटोभयाभावं वादाय नाव्याप्तिः । तत्र महानसीयवन्छि- स्वस्य च प्रतियोगितावच्छेदकत्वेन वन्दित्वस्य प्रतियोगि- तानवच्छदेकत्वात् । दाण्डमान् दण्डिसंयोगादित्यादौ रूप- -.... -- भादृचिन्तामणेः 1 त्वव्याप्यजातिमद्वान् पृथिवीत्वादित्यादौ च स्वाश्रयसंयु- क्तवादिसम्बन्धेन दण्डत्वादिकमेव साध्यतावच्छेदकम् । तस्य प्रतियोगितानवच्छेदकत्वानाव्याप्तिः । हेत्वधिकरणं च तदवच्छेदकसम्बन्धेन हेतुतावच्छेदकविशिष्टाधिकरणं च बोध्यम् । तेन वन्हिमान् धूमादित्यादौ समवायेन धूमावयव- त्यभावप्रतियोगितावच्छेदकत्वेपि वन्हित्वस्य द्रव्यं विशिष्टस. वादित्यादौ च शुद्धसत्त्वाधिकरणगुणादिनिष्ठाभावप्रतियो- गितावच्छेदकत्वेपि द्रव्यत्वस्य नाव्याप्तिः । अभावश्च हेत्वधि- करणावच्छेदेन प्रतियोगिव्यधिकरणः । प्रतियोगितावच्छेदका- वच्छिन्नप्रतियोगिव्यधिकरणश्च बोध्यः । तेन संयोगी द्रव्यत्वा- कपिसंयोगी एतत्त्वादित्यादौ नाव्याप्तिः । न वा संयोगी सन्त्वाद्विशिष्ट सत्तावान् जातरित्यादावतिव्याप्तिः। प्रतियोग्यन- धिकरणत्वं च साध्यतावच्छेदकसम्बन्धेन, तेन ज्ञानवान्सत्त्वा: दित्यादौ सत्ताधिकरणघटादेविषयतया ज्ञानाधिकरणत्वेपि न- शतिः । ननु प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्य चिदनधिकरणत्वं तत्सामान्यस्य यत्किंचित्पतियोगितावच्छेद- कावच्छिन्नानधिकरणत्वं वा विवक्षितम् । आये कापसंयोगी एतद्वृक्षत्वादित्यत्राव्याप्तिः । कपिसंयोगाभावस्य हि प्रतियो- गितावच्छेदकावच्छिन्नो वृक्षावृत्तिरपि कपिसंयोगो भवति त- दनधिरकणं च वृक्ष इति.। द्वितीये प्रतियोगित्यधिकरणामा- बामसिदिः । सर्वस्यैवाभावस्य पूर्वक्षणवृत्चित्वविशिष्टस्वा- भावात्मकप्रतियोगिसमानाधिकरणत्वात् । न च . वन्हिमान धूमादित्यादौ घटामावादेः स्वात्मकप्रतियोग्यधिकरणत्वं यद्यपि पर्ववादेस्तथापि र साध्यतावच्छेदकसम्बन्धेन तत्पतियोग्यन- धिकरणत्वमस्त्येवति। कयं । प्रतियोगिव्याधिकरणामसिद्धिरि ne सर्कपाद ति वाच्यम् । घटाभावे यो वनामावस्तस्य घटाभावात्मक- तया घयभावस्य चन्हिरपि प्रतियोगी तदाधिकरणं च पर्वतादि- रिति क्रमेण प्रतियोगिव्याधिकरणस्याप्रसिद्धत्वात् । यदि तु पठाभावादौ वन्यभावादिर्भिन इत्युच्यते । तथापि धूमाभाव- वान् वन्ह्यभाकादित्यादाक्व्याप्तिः । तत्र साध्यतावच्छेदकस. म्बन्धः स्वरूपसम्बन्धस्तेन सम्बन्धेन सर्वस्यैवाभावस्य पूर्वक्षण- तित्त्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं हेत्वधिकरणस्ये. ति । तृतीये तु कपिसंयोगाभाववानात्मवादित्यादौ अध्या- लिः । आत्मवृत्तिकपिसंयोगाभावाभावः कपिसंयोगस्तस्य च गुणत्वात् तत्पतियोगितावच्छेदकं गुणसामान्याभावत्वं तदव- च्छिमानधिकरणत्वं च हेत्वधिकरणस्यात्मन इति चेत् । मैवम् । यादृशमतियोगितावच्छेदकावच्छिन्नानंधिकरणत्वं हेतुमतस्ताह. शप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात् । ननु कालो घट. बान् कालपरिमाणादित्यत्र प्रतियोगिव्यधिकरणांभाषाप्रसिद्धिः। हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामभावाना साध्यतावच्छेदकसम्बन्धेन कालिकविशेषणत्वेन प्रतियोग्यधिकर- णत्वसत्त्वात् । अत्र के चित् । महाकालभेदविशिष्टघटाभाव- स्तत्र मतियोगिव्यधिकरणः । महाकालस्य घटाधारत्वेपि महा- कालभेदविशिष्टघटानाधारत्वात् । महाकाले महाकालभेदाभा- वात् । यद्वा प्रतियोगिवारच्छेदकसम्बन्धेन प्रतियोगितावच्छेद कावच्छि मानधिकरणहेवधिकरणवत्यभावप्रतियोगितासामान्ये यदर्यावच्छिमस्वयत्सम्बन्धावच्छिन्नत्योभयाभावस्तेन सम्बन्धे- न सद्धर्मावच्छिन्नस्य तद्धतुब्यापकत्वं व्यापकसामानाधिकरण्य च व्याप्तिा । अव्याप्यसिसाध्यकसद्धतावच्याप्तिवारणाया वकिरणान्तं हेत्वधिकरणविशेषणम् । यद्वा हेतुसमाना ५ ३४ . भादृचिन्तामणेः धिकरणान्योन्याभावप्रतियोगितानवच्छेदकसाध्यवत्त्वावच्छिन्न- वृत्तित्वं व्याप्तिः, अन्योन्याभावस्य व्याप्यवृत्तिन्वांदा न प्रतियोगिव्यधिकरणत्वादिनिवेश इति लाघवमिति जीर्णाः। तस्याप्यव्याप्यत्तित्वात्तथैव प्रतीतेरस्त्येव तद्विवक्षेति नव्याः । अत्राचार्याः । व्यापकसामानाधिकरण्यं न व्याप्तिः । किं तु व्यापकसम्बन्धमात्रम् । तेनाधश्छायादेरुपरि सवितरि कृत्ति- कोदयस्य रोहिण्युदये हेतुत्वोपपत्तिरित्याहुः । न चैवं व्यतिरे- कव्याप्तौ कथं व्याप्तिपदप्रयोग इति वाच्यम् । अनुमितिकार- णीभूतज्ञानविषयव्याप्तेर्लक्ष्यतया व्यतिरेकव्याप्ती व्याप्तिपद- प्रयोगाभावेपि वाधकाभावात् । वस्तुतो व्यभिचारधीविरोधिवि- पयधर्मविशिष्टहेतुतावच्छेदकमकारकपक्षधर्मताज्ञानत्वेन हेतु तेति युक्तम् । तेनानुमानत्रैविध्यमुपपन्नम् । पञ्चरूपत्वनियमस्त्व- विवक्षित इति ॥ तादृशव्याप्तिग्रहे व्यभिचाराग्रहः सहचारग्रहश्च हेतुः । भूयोदर्शनं तु न हेतुः । व्यभिचारास्मरणे सकदर्शने- नापि व्याप्तिग्रहात् । भूयोदर्शनं तु क चिद् व्यभिचार- शङ्कानिवर्तकम् । क्व चित्तः । व्याप्यारोपेण व्यापकारो- पद्वारानिष्टप्रसञ्जनं तर्कः। तथा पि वन्हिविरहेपि धूमस्या- दित्याशङ्का कार्यकारणभावप्रतिसन्धानानिवर्त्तते । तत्राप्यहेतुको भववित्याशङ्का तु धूमार्थं वन्हेनियमत उपादाने प्रवृत्तिर्न स्यादि- ति व्याघातेन निरसनीया । यत्र स्वत एव शङ्का नावतरति न तत्र तोपेक्षेति दिक् ॥ व्याप्तिग्रहच सकलधूमे सामान्यलक्षण- अत्यासल्या, सा च निरूपिता मा । तदङ्गीकारे तु महानसीय- धूमे मत्वप्रकारकव्यामिबहाद पर्वतीयधूमे धूमत्वमकारक- व्यामिस्मरणोपपतिः । उपाधिज्ञानेन च व्यासिग्रहप्रतिबन्ध .. . सर्कपादः । स च यद्धर्मावच्छिन्नसाध्यव्यापकस्तद्धर्मावच्छिन्नसाधनाध्याप- कः । भवति धूमवान् वन्हेरित्यत्र धूमत्वावच्छिन्नव्यापकं तत्सा- धनवन्हेरव्यापकमाईन्धनम् । स श्यामो मित्रातनयत्वादित्यत्र मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकं शाकपाकजत्वं मित्रातनय. स्वाव्यापकम् । वायुश्चाक्षुषः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र द्रव्य- त्वावच्छिन्नचाक्षुषत्वव्यापकमुद्भतरूपवत्वं तदवच्छिन्नहतोरव्या- पकं च । एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं जन्यत्वाव- च्छिन्नसाध्यव्यापकं साधनाव्यापकं च । एवं यत्र तादृशो धर्मो नास्ति तत्र साध्याधिकरणतदनधिकरणान्यतरत्वरूपधर्मों 'बोध्य इति । अयञ्च स्वव्याभिचारेण साधने साध्यव्यभिचा- रज्ञापनेन व्याप्तिग्रहमतिबन्धकः । वन्हिरनुष्णः कृतक- वादित्यत्र वन्हीतरत्वमुपाधिः । अयमेव बाघोन्नीत इत्युच्यते प्रसिद्धानुमाने पर्वतेतरत्वं नोपाधिः । साध्यव्यापकत्वाग्राहक- मानाभावात्, अयं च बाधानुन्नीतः । सन्दिग्धपक्षेतरत्वं तु नोपाधिः, सम्प्रदायादिति के चित् । अन्ये तु उपाधेः सत्प्रतिप- क्षोत्थापनेन दूषकता । वन्हिना धूमसाधने आन्धनाभावेन त. दभावः साध्यते । इत्थं करका पृथिवी कठिनसंयोगवत्त्वादित्य- त्र साधनव्यापकमप्यनुष्णाशीतस्पर्शवत्त्वमुपाधिरित्याहुः ॥ पक्षत्वं च असत्यां सिद्धौ सत्यां वा सत्यामनुमित्सायाम् उभयासवे वा ऽनुमितेरुदयादनुमित्साविरहविशिष्टायाः सिद्धे- रभावः । अनुमित्सा च यादृशयाशेच्छासचे ऽनुमितिः सासा विवक्षिता । तेन प्रत्यक्षाभिन्न वन्हिज्ञानं जायतामालोकेन वन्हि ज्ञानं जायतामित्यादीच्छासंग्रहः । अत्रायं निष्कर्षः। तत्साध्यता. वच्छेदकावच्छिन्मसाध्यविशिष्टतत्पक्षतावच्छेदकाविशिष्टभिन्नाधि- पयिका नुमितित्वभिन्न मितिविभाजकधर्माविषयकताजिता ..
१६. भादृचिन्तामणेः ऋच्छेदकावच्छिन्नीलङ्गकत्वाप्रकारकत्वे सति तदन्यलिङ्गताकच्छे- दकावच्छिन्नलिङ्गकत्वापकारिका तल्लिनमच्छेदकावच्छिन्नलि. कानुमितित्वावच्छिन्नानुद्देश्यकल्वे सति तशिवावच्छेदकाविरु- दधर्मविशिष्टलिजकानुमितित्वावच्छिन्नानुदेश्यिका तद्विशिष्टलिङ्ग- कत्तापकारकत्वे सति तद्विरुद्धमविशिष्टलिङ्गकत्वाकारिका त- ल्लिकालान्यकालाविषयिणी या तदन्यानुयित्सा तद्विरहविशिष्ट- सिद्धयभावः पक्षतेत्यर्थः । अत्र तत्साध्यतावच्छेदकावच्छिन्नसा- ध्यविशिष्टतत्पक्षतावच्छेदकविशिष्टभिन्नाविषयिकेतिकारणात्पर्वते बन्छ नुमितिर्जायता, प्रत्यक्षातिरिक्तं ज्ञानं जायतां, पर्वते चन्हित त्यक्षं तद्वयाप्यपरामर्शः विषयान्तरे चानुमितिसामान्यभावस्तक यत्किञ्चिज ज्ञानं जायतामितीच्छादीनां संग्रहाः ।। अनुमितित्व- मित्रप्रमितिविभाजकधर्माविषयकेतिकरणात् अनुमितो प्रत्यक्षलव- भूमदश्शायां पर्वतो वन्हिमानिति प्रत्यक्षं जायतामितीच्छायान संग्रहः । तल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वामकारकत्वे सति वदन्यलिङ्गकतावच्छेदकावच्छिन्नलिङ्गकत्वाकास्केितिकरणात धूमत्वावच्छेदेन व्याप्यत्वपरामर्शदशायां द्रव्ययावच्छेदेन व्यत्वावच्छिनालिङ्गकानुमितीच्छाया न संग्रहः । तल्लिङ्गतावच्छे दकावच्छिन्नलिङ्गकानुमित्मावच्छिन्नानुद्देश्यकल्वे सति बाल्लिक तावच्छेदकाविरुद्धधर्मविशिष्धलिङ्गकानुमितित्वावच्छिन्नानुहेरियके- तिकरणात् धूमेनालोकेन च वन्हानुमिति यतामितीच्छाया , संग्रालय द्रुच्यत्वस्या लिङ्गतावच्छेदकलानुलेखिली धन्येक व विहानुमिनुयायितीच्छा तस्याः संग्रहय। तद्विशिक्षालङ्गकत्वासका रकारने सति तहिन्दचम विशिष्टलिकत्वाप्रकास्किति करणाइ यत्र आलोकवस्यावच्छेदकत्वानवाहिनी: आलोकेन कहिानु मिनुवामितीच्या तस्यान संग्रह बलिकालानकालानिक । पाया। विणीनिकरणाव - पूर्वकालीनपर्वतीयधूमेन बन्धनुमिति - यतामितीच्छायान संग्रहः ।। गौवमलापैःस्वकपोलकल्पितेरिच्छासमारब्धमृषार्थकार्यैः । कुथैव कालक्षपणं विचिन्त्य चिन्तामयोपैक्षि खपुष्पतुल्या ।। परापर्शश्च यदि पक्षविशेष्यकस्तदा तद्विशेष्यिकैवानुमि- तिः । हेतुविशेषयके तु साध्यविशेष्यिकति माणिकृत् । उभयवि- धेनापि पाविशषियकवाति नन्गाः । अत्रा धूमलिङ्गकपर्वतपक्षकव- निहविधेयकानुमिति प्रतिधूमपरामर्शस्य हेतुत्वं, धूमालकत्वं स्वा- व्यत्रहितोत्तरत्वसम्बन्धन धूमझानवत्वम्, अव्यवहितोत्तरत्वं च धूमज्ञानाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधिकरणत्वे सति स्वाधिकरणत्वरूपम् । तेनापेक्षाबुद्धधात्मकपरामर्शसंग्रहः । एवं तत्तत्परामर्शानां कारणतेति । ननु सर्वेषु परामर्शेष्वनुमितिकारण- तावच्छेदकतया पहामर्शत्वं जाति किमितिः नाभ्युपेयते । चा- शुपत्यादिना सकर झक चेत्, वहि तस्या जातो पानसत्वव्या- प्पताजीकार्क, चाक्षुषपरामर्शानन्तरं जायमानायामनुमिती व्याभिचारवारणस्थ मध्ये मानसपरामर्शकल्पनेन सम्मकाः । न चाचाक्षुषसमस्या मानसप्रतिबन्धकत्वेन लदानी पानसोपादा- सम्भक इति वाच्यम् । फलबलेन चक्षुर्योगाभावेन चाक्षुषसाम- ग्यभावस्य सत्त्वात् । ननु परामर्श स्मृतित्वव्याप्यम् । चा- भुपादिपरामोत्तरोत्पधयानानुमितिस्थले भवत इव स्मरणरूप- परामर्शकाना क्षतिः। एवं चा स्मरणस्य संशयात्मकत्वाभावेन संशयानामत रमानुमित्युत्पादनासम्भवात् । विशेषतः परामर्शका रणतायां निश्चयत्वस्याप्रवेशेवातिलायनमित्ति चेत्, चाक्षुषादिपरा- पर्वोचोपचयामनुमितिस्थले स्मरणात्मकपरामर्शकल्पने तज्ज मसारका चालिमौरावापके अनुमितिजनकतावच्छे ३८ भाइचिन्तामणेः दकजातेःसंशयात्मकमानसव्यात्तत्वकल्पनेन संशयात्मकपरा- मदिनुमित्यापादनासम्भवेन विशेषहेतुतायां निश्चयत्वाप्रवेश- स्य तुल्यत्वात् । समूहालम्बनात्मकपरामर्शात्तरमेकानुमितो तया- यवत्तापरामर्शान्तरकल्पनेन समूहालम्बनात्मकपरामर्श ऽनुमि तिजनकतावच्छेदकजातिर्न कल्प्यते । अतो न तत्र द्वितीयानु- मितिः। तस्मात् परामर्शत्वं जातिरिति चेत् । अत्र के चित् । उक्तनयेनेष्टहेतुताज्ञानादौ प्रवृत्तिजनकतावच्छेदकबैजात्यस्यापि मानसत्वव्याप्यत्वेन सिद्धयेष्टसाधनत्वादिपरामर्शविशेषे प्रवृ. त्तिजनकतावच्छेदकवैजात्येन सङ्करप्रसङ्गात् । न च प्रवृत्तिजन- कतावच्छेदकवैजात्यं चाक्षुषत्वव्याप्यत्वमिति वाच्यम्। परामर्शत्वस्य चाक्षुषत्वादिव्याप्यत्वेन विनिगमनाविरहात् । अतो नः परामर्शत्वं जातिरित्याहुः ।। अत्र गौतमीयाः । वन्ह्याअनुमिता वन्हिव्याप्यालोकवान्प- र्वत इत्यादिविशिष्परामर्शस्यैव हेतुत्वं, न त्वालोको पनिहव्या. प्य आलोकवान्पर्वत इति ज्ञानद्वयस्य, गौरवात् । यत्र च मान- द्वयादनुमितिस्तत्र विशिष्टज्ञानकल्पनान व्यभिचार इत्याहुः ॥ मीमांसकास्तु वनिन्यायधूमवान् पर्वत इति विशिष्टपरा- मर्शस्य हेतुत्ववादिनये व्यापत्यंचे निश्चयत्वं निवेश्य धूमांशेपि निश्चयत्वं निवेशनीयम् । तथा च निश्चयत्वस्य तदभावा- प्रकारकास्वरूपबहुतरपदार्थघटितत्वेन तेषां परस्परविशेषणकि- शेयभावे विनिगमनाविरहेण कार्यकारणभावबाहुल्यम् । मानः द्वयवादिनये तुःशानस्य भिन्नतया निश्चयत्वमवेषि न मियों विनिगमनाविरहस्ती लायवामित्याहुः । न च परामनोवादिनये पाप्यवच्छिामा मातुनिष्ठमका- स्वा तविरूषितवितत्वावच्छिमानिध्यातासलिनिस्सयन DISM Mos सकंपादः । तुत्वकल्पनेन व्याप्त्यशे निश्चयस्वानिवेशेन नोपदर्शितगौरवमिति वाच्यम् । बनिहन्याप्त्यंशे निश्चयत्वानिवेशे वन्हिव्याप्यो धूम इति विशेषणतावच्छेदकमकारकनिर्णयकाले व्याप्त्यभाव- प्रकारकं ज्ञानं जायतापितीच्छासत्त्वे व्याप्त्यंशे संशयात्मकतथा- विधविशिष्टवैशिष्टयवोधोत्पत्तौ बाधकाभावः । तथा च तादृश- ज्ञाने ब्याप्त्यंशे निश्चयत्वनिवेशेन गौरवतादवस्थ्यात् । न च तादृशज्ञानस्याहार्यतेन न तस्मादनुमित्यापत्तिः । आहार्यपरा- मदिनमित्यापत्तिवारणार्थमनाहार्यस्त्वनिवेशस्यावश्यकत्वादिति वाच्यम् । अनुमितिजनकताच्छेदककोठावनाहार्यत्वस्यानुगतस्या शक्यनिर्वचनत्वेन तद्वयक्तिविश्रान्ततया तथाविधतद्वयक्तित्वा- वच्छिन्नभेदकूटस्यानुमितिजनकतावच्छेदककोटी निवेशमपेक्ष्य व्याप्त्यंशे निश्चयत्वस्यैन तर्कसहत्वाव, तथा च गौरवं तदवस्थ- मिति दिक् ॥ जायमानं लिङ्गमनुमानमिति केचित् । भूतभाविलिङ्गाभ्या- मनुमित्यजननापत्तेस्तज्ज्ञानमिति युक्तम् । तच्चानुमानं द्विविधं, स्वार्थ परार्थ च । परामर्शन स्वस्यैव साध्यज्ञानजनकं स्वार्थम् । प्रतिज्ञायवयवप्रयोगेण परस्य साध्यज्ञानजनकं परार्थम् । अवय- वत्वं चानुमानवाक्यैकदेशत्वम् । ते च प्रतिज्ञाहेतूदाहरणोपनय- निगमनरूपाः पञ्च । साध्यविशिष्टपक्षप्रतिपादकवाक्यत्वं प्रति- ज्ञात्वं, यथा 'पर्वतो वन्हिमा' निति । तृतीयान्तपञ्चम्या न्तान्यतरानुमितिप्रयोजकवाक्यत्वं हेतुत्वं, यथा 'धू मवत्त्वा' दिति । सदृष्टान्तव्याप्तिप्रतिपादकवाक्यत्वमुदाहरणत्वं, यथा 'यो धूमवान् सो ऽग्निमान्' 'यथा महानस' इति । व्या- तिविशिष्टौशिष्टचावगाहिपक्षप्रतिपादकवाक्यसमुपनयत्वं, यथा वियाँ चाय'मिति । व्याप्तिविशिष्टवैशिष्टय हेतुकसाध्यविशि- .
. भादृचिन्तामणेः पक्षप्रतिपादकवाक्यत्वं निगमनत्वं, यथा 'वम्हिच्याप्यमव- त्वाद् वन्हिमा निति । उदाहरणं साधर्योदाहरणं वैधोदाह- रणं चेति द्विविधम् । हेतुमदुद्देशेन साध्यवदुपादानमात्रम् । सा- सामाववदुद्देशेन हेत्वभाववदुषादानं द्वितीयम् । ततैकैनैव ग- तार्थत्वान्न द्वयोरावश्यकतेति । एवं चाक्यमवाक्थैरवान्तरवा- क्यार्थज्ञाने जनिते धूमज्ञानज्ञाप्यवन्हिमदभिन्नः पर्वतो, धूम- व्यापकतान्हिमन्महानससदृशो चन्हिव्याप्यधूमवत्त्वहेतुकवन्हि- मदभिन्न इति महावाक्यार्थज्ञानात्परः साध्यं बुध्यते इत्यक्षपा- दीयाः ॥ प्रतिज्ञाहेतूदाहरणैरेव धूमज्ञानज्ञाप्यचन्हिमदभिन्नः प. तो बन्दिव्याप्यधूषवन्महानससदृश इति वाक्यार्थज्ञानादनुमि. तिबननादुफ्नयनिगमचे व्यर्थे । न च पर्वते धूमवैशिष्टयज्ञाना- चपनयः । प्रतिज्ञाहेतुभ्यामेव सिः। निगमनपयोगस्तु सर्व- थैव व्यर्थः । एवं चोपनयविगमने नावयवाविति ॥ यद्वोदाहर- समभृतिभिरेव साध्यसिद्धेः प्रतिज्ञाहेत्वोर्न किं चित्पयोजन- मिति दिक्॥ अनुमितिकारणीभूताभावप्रतियोगिपथार्थवानकारी हेतु निष्ठदोषो हेत्वाभासः । भवति चासिद्धत्वानकान्तिकत्वबाघ- कवादिज्ञानाभावः प्रतिबन्धकाभावविधया ऽनुमितिकारणीभूत- स्तत्मतियोगिपमापकारत्नमसिद्धत्तादीनां तेन हेतुनिष्ठो दोषो हेवाभासः । यादृशविशिष्टविषयत्वेन यथार्थज्ञानस्यानुमिति- प्रतिबन्धकत्वं तत्त्वमिति यावत् । यद्वा वादृशेममाविषयत्वम् । वेन दुष्टो हेतुहेलामासः । धूपो वन्हिज्याभिचारीत्यादिभूमवार भाष ययाति । उपाविधारणाय कारणति । उपाधिज्ञानस्य साक्षात्मविबन्धकत्वाभावेन तदमावस्यानुमितिप्रयोजकवया हे- कुत्लामावात् । तेक्यो अपिदानकान्तिकबाधका विसिद्धिा, * 1 तर्कपादः । ४१ स्वरूपासिद्धिः सम्बन्धासिद्धिय॑तिरेकासिदिराश्रयासिदिया- प्यत्वासिद्धिश्चोत पञ्चधा । हेत्वप्रसिद्धिः स्वरूपासिद्धिः। बुद्धो धर्माधर्मवेदी सर्वज्ञत्वादिति । अत्र सर्वज्ञत्वं हेतु रप्रसिद्धः । पक्षे व्याप्यत्वेनाभिमतस्याभावः स्वरूपासिद्धिरित्यक्षपादीयमते त्वी- श्वरे प्रसिद्धिसत्त्वे बुद्धे तदभावादक्षतिः । पक्षे व्याप्यत्वा- भिमतस्य हेतुतावच्छेदकसम्बन्धेनाभावः सम्बन्धासिद्धिः । व. निहरदाहकः शीतत्वादिति । पक्षतावच्छेदकहेत्वोरभेदे व्यति. रेकासिद्धिः । गोशब्दः सास्नादिमवचनो गोशब्दत्वात् । अय- मसाधारणानकान्तिक इत्यक्षपादीयाः । इदमेव पक्षमात्रवृत्ति त्वमसाधारणस्य । अत्र साध्यवसाध्याभावसाधकतया ऽनुमिति- प्रतिबधो दूषकताबीजम् । पक्षाप्रसिद्धिराश्रयासिद्धिः । आकाशो नित्यो निरवयवद्रव्यत्वादिति । सौत्रान्तिकमाकाशाभाववादिनं प्रत्याश्रयासिद्धिः । पक्षतावच्छेदकाप्रसिद्धिरपि सा। काञ्चनम- यपर्वतो वन्हिमानिति । पक्षकदेशे हेतोरवृत्तित्वं व्याप्यत्वासि- दिः । यथा वायुराकाशश्चानित्यो मूर्तत्वादिति । साध्ये सा- ध्यतावच्छेदकस्य, हेतौ हेतुतावच्छेदकस्यामसिद्धिाप्यत्वा- सिद्धिः । काञ्चनमयवन्हिमान् काञ्चनमयधूमादिति । एवं नीलधूमादित्यादावपि नीलधूमत्वस्य गुरुतया हेतुतानवच्छेद- कत्वेन सापि व्याप्यत्वासिद्धिरित्यक्षपादीयाः । साध्यसन्देहज- नको हेतुरनैकान्तिकः । सन्देहजनकत्वं च साध्यतदभावस- म्बन्धित्वज्ञानेन सत्मतिपक्षितत्वेन च । यथा नित्यः शब्दो ऽमू- तत्वादिति । अत्रामूर्त्तत्वमनित्यक्रियादिसाधारणत्वात् साध्य- सन्देहं जनयति । एवं वायुरप्रत्यक्षो ऽरूपिद्रव्यत्वात् । वायुः प्रत्य- क्षो महत्वे सत्त्युद्भूतस्पर्शवत्त्वात् । अत्रोभयोः समबलत्वात्साध्य- सन्देहजनकतेति । अत्र साध्यतदभावव्याप्यताज्ञानात्परस्परा- ४२ भादृचिन्तामणेः नुमितिप्रतिबन्धो न संशयाकारानुमितिरित्यक्षपादीयाः । अत्रा- हुः । स्थाणुत्वपुरुषत्वव्याप्यवत्ताज्ञाने प्रत्यक्षरूपसंशयवत्स- प्रतिपक्षस्थलेपि संशयाकारानुमितिरस्तु । यत्रैककोटिव्याप्यदर्श- नं प्रबलं तत्राधिकबलतया द्वितीयकोटिभानप्रतिवधान संशयः । फलबलेन चाधिकसमबलभाव: कल्प्य इति ॥ अत्र नव्य:। तदभाववत्ताज्ञानस्येव तदभाकव्याप्यवत्ताज्ञानस्यापि लौकिकस- त्रिकर्षाजन्यज्ञानत्वमेव प्रतिबध्यतावच्छेदकं तेन न संशया- कारानुमितिरित्याहुः ॥ बाधकस्तु साध्याभावसाधकः । अयं विरुद्ध इत्यक्षपादीयाः। यथा शब्दो नित्यः कृतकत्वादिति । अत्र कृतकत्वमनित्यत्वव्याप्यं नित्यत्वं बाधते । अयं साध्य- सामान्यविपर्ययसाधक इत्युच्यते इति दिक् ॥ तदिदमनुमानं न धर्मप्रमितिजनकं व्याप्याभावेन व्याप्त्य- ग्रहादिति ॥ अत्र नैयायिकाः । एवमनुमाननिरूपणस्य जगन्निर्मान्तृपु. रुपौरेयसिद्धिः प्रयोजनम् । तथाहि । सिद्धसाधनभिवा. ज- न्यकृत्यजन्यं द्वयणुकं पक्षीकृत्य सकर्तृकं कार्यत्वादित्यनुमानेन तत्सिद्धिरित्याहुः । तदापातरमणीयम् । धर्मवद्वेदमागम्थत्वेन तदावेदकानुमानासम्भवात् । तथाहि । उक्तानुमानस्याकक- लसापकेन शरीरजन्यत्वेन सत्प्रतिपक्षितत्वात् । यदि चात्र शरीरविशेषणस्य स्वरूपासिद्धिवारकतया व्यर्थविशेषणत्वेन नित्यत्वोपाधिकतया व्यभिचारित्वेन सत्मतिपक्षासम्भव इति विमान्यते, तदा भवत्पक्षमेव पक्षीकृत्य शरीरमात्रकर्तृकत्वाभाव- बदलत्वादिति सत्प्रतिपक्षः । न चात्राणि नित्यत्वमुषाधिः । वास्कुसदानावरीरमात्रकर्तृकत्वसन्देहेन घटादौ पदभाव- स्वासन्दिग्नतया साध्य लाभावान कार्यस्वदेतोश्वाश- तर्कपादः । रीरमात्रकर्तृकत्वाभावसाधकतया साधारणानकान्तिकत्वं च बो- ध्यम् । अतो वेद एवेश्वरसिद्धौ प्रमाणं नान्यदिति दिक् ॥ इति श्रीगागाभट्टकृतभादृचिन्तामणौ ईश्वरवादः॥ नन्वेवं वन्हिहानुकूलातन्द्रियधर्मसंपवायी, दाइजनकत्वा- द्, आत्मबदित्यनुमानस्यानुकूलतर्काभावेनापयोजकत्वादुत्तेज- काभावविशिष्टमण्यादिप्रतिबन्धकामावस्यैव दाहजनकतया मण्या- दिसमवधाननाश्यतया ऽपि शक्तिकल्पनस्यानुपपत्तेस्तबोधकवे. दाभावाच्च शक्तिरपि न सिध्येदिति चेन । तृणारणिमणीनां व्यभिचारेण वन्हित्वावच्छिन्नजनकत्वग्रहानुपपत्त्या कार्यनिष्ठवै- जात्यकल्पनापूर्वकहेतुहेतुमद्भावत्रयकल्पनमपेक्ष्य तृणादिनिष्ठजन- कत्वावच्छेदकसहजशक्त्यङ्गीकारेणैकहेतुहेतुमद्भाबकल्पनालाघव- तर्कसहकृततृणादिपक्षकवहिजनकत्वहेतुकतादृशधर्मानुमानस्य तत्र मानत्वात् । एवं वैकल्पिकवीहियवयोरपि हेतुताग्रहे लाघवं, व्यभिचारवारणं च । न च प्रदेयप्रकृतित्वेनोभयातुत्वाज्जनक तावच्छेदकशक्त्यमावेपि न व्यभिचार इति वाच्यम् । वीहिनि- ष्ठकारणताग्रहे प्रदेयप्रकृतित्वग्रहस्तगृहे च तद्रह इत्यन्योन्याश्र- यात् । नाप्याग्नेयत्वव्याप्यवैजात्यस्य कार्यतावच्छेदकत्वकल्पनेन व्यभिचारपरिहारः। तादृशजातौ मानाभावात् । वीहिजन्यता- वच्छेदकतयैव तत्कल्पने विकल्पो दत्तजलाञ्जलिः स्यात् । शक्तेश्च प्रत्येक पर्याप्ततया न समुच्चयापत्तिः । अन्यथा ऽन्यत- राभावविशिष्टान्यतरस्योभयाभावविशिष्टवीद्यादे; हेतुत्वकल्प ने गौरवापत्तिः व्यभिचारश्च । अतो जनकतावच्छेदकतया स. हजशक्तिस्ताक्दावश्यकी । एवमाघेयशक्तिरापि प्रोक्षणादिजन्या ४४ भाइचिन्तामणे: वीहिनिष्ठा । अन्यथा प्रोक्षणादिजन्यापूर्वस्यात्मनिष्ठतया वीही- णां मोक्षणकर्मत्वानुपपत्तिः । अदृष्टचदात्मसंयोगेनादृष्टवत्तया क- मत्वोपपत्तौ घटादीनामपि तत्कर्मत्वापत्तिः । तेन वीहिजन्यापू- वजनिकाधेयशक्तिरप्यावश्यकी । तयोश्चायमेव भेदो यत्सहज- शक्तिनकतावच्छेदिका, आधेयशक्तिनिकाजन्या चेति । न च प्रोक्षणजन्यशक्तिमीहित्वनापूर्वजनकतया हेतुतावच्छेदक- वं सम्भवति । तादृशशक्तिमद्यवजन्यतदपूर्वे व्यभिचारात् । शक्तिवीहित्वयोविशेषणविशेष्यभावे विनिगमनाविरहेण हेतुहेतु- मद्भावद्वयकल्पने तथा यवत्वे ऽपीति तच्चतुष्ककल्पने ऽतिगौर- बापत्तिः । एवं सर्पविषमन्त्रोच्चारणजन्यपरशरीरनिष्ठाधेया श- तिर्जीवनजनिका विषबाधापहारजनिका वा, प्रतिष्ठादिजन्या च पाषाणनिष्ठा पूजाहेतुश्चाण्डालादिस्पर्शनाश्या ऽप्यावश्यकी- ति । पदशक्तिस्तूभयसिद्धा । तच्छाब्दबोधजनकपदत्वहेतुका. नुमानगम्या, वृद्धैस्तत्र प्रयुज्यमानत्वहेतुकानुमानगम्या वा परंतु सेश्वरेच्छारूपा ऽतिरिक्ता वेत्यावयर्विवादः । तत्रेश्वरे- छावदीश्वरसंयोगस्य गुणरूपपदे ऽसम्भवात्तत्तत्स्वरूपाणां सम्बन्धत्वकल्पनमपेक्ष्यैकसमवायस्योचितत्वात् पदानामर्था- नामनित्यत्वेपि नानुपपत्तिः । वस्तुतस्तु पदानां नित्यत्वा- बात्यादिरूपाणामर्थानां च तथात्वाच्छक्तिरपि नियेति तत्सम्ब- न्यस्व सुतरां नित्यतेति नानुपपत्तिलेश इति दिक् ॥ इति श्रीगागाभट्टकृतभादृचिन्ताम- णौ शक्तिवादः॥ नन्वे कारणता ऽप्यतिरिक्ता स्यात् । तन्न तावत्कार्या- मायापाभावप्रतियोमित्वम् । ईश्वरतज्ज्ञानेच्छादाचव्या.
तर्कपादः । ४५ सेः । अत एव न कार्यव्यापकत्वम् । व्याप्तेरनन्तपदार्थगर्भतया गौरवात् । नापि कार्योत्पत्तिप्रतिबन्धकाभावप्रतियोगित्वम् । उत्तेजके ऽव्याप्तेरिति चेन्न। तस्यानन्यथासिद्धनियतपूर्ववर्तित्व- रूपतया तदभिव्यज्यधर्मान्तरकल्पने मानाभावात् । अत्र दैवा. दागते हेतुत्ववारणाय नियतेति । तद्घटे तद्रासभस्य हेतुत्ववा- रणायानन्यथासिद्धति ॥ वस्तुतस्तु नियतपदं व्यर्थम् । तच्चा- न्यथासिद्धवैविध्यराहित्यम् । गृहीतस्वतन्त्रान्वयव्यतिरेकाननुवि- धानावच्छेदकधर्मत्वमाद्यम् । अन्यनिरूपितपूर्ववर्तित्वग्रहहेतुक- कार्यपूर्ववर्तित्वग्रहविषयत्वं द्वितीयम् । क्लप्तान्वयव्यतिरेका- नुविधानसाहित्यं तृतीयम् । अत्राक्लप्तान्वयव्यतिरेकानुविधायि- न इति विवक्षणीयम् । तेन न कारणान्तरस्यान्यथासिद्धिः। ईश्वरज्ञानादिसंग्रहश्च । तस्योपादानप्रत्यक्षतया स्वतन्त्रान्वयव्य- तिरेकानुविधानात् । तच्च कारणं द्विविधं, स्वरूपयोग्यं फलो- पहितं चेति । सहकार्यन्तराभावावच्छिन्नजनकत्वाभाववैशिष्टय- माद्यम् । सहकार्यन्तरसाहित्यं द्वितीयम् । अत एव नित्यस्य स्वरूपयोग्यस्य फलावश्यम्भावनियम इति प्रसिद्धिः । एवं च क्लप्तकार्यपूर्वकालदेशसम्बन्धस्यव कारणतया नाक्लुप्त- कारणत्वरूपपदार्थान्तरतत्मागभावध्वंसादिकल्पनम् ॥ प्रयोज- कत्वं चान्वयव्यतिरेकवत्त्वे सति नियतपूर्ववृत्तित्वमात्रमि- तिदिक ॥ प्रसङ्गात्सृष्टिपळयो चिन्त्यते ॥ अत्र नैयायिकवैशेषिको । त्रिविध वस्तुजातं, संपतिपत्र- चेतनकई कं यथा घटादि, संप्रतिपन्नचेतनाकर्तृकं व्योमादि, वि- प्रतिपन्नचेतनकर्तृकं महीरुहाङ्कुरादि । तत्र तृतीयं सावयवत्वेन सिद्धकार्यत्वक पक्षांकृत्य बुद्धिमत्कतकं कार्यत्वात्पटवादिति ईश्व- भादृचिन्तामणे रं कर्तारमनुमापयति । तस्य च परमाणवः समवायिकारणं, तत्संयोगश्चासमवायिकारणं, क्षेत्रज्ञपदवाच्या जीवात्मानो धर्मा- धर्मों च निमित्तकारणम् । सर्गकाले पुनरीश्वरेच्छामदृष्टं च निमित्तमासाद्य परमाणुषु कर्माण्युत्पद्यन्ते । ततो मिथः संयुक्तैः परमाणुभिर्यणुकादिक्रमेण पृथिव्यायवयविचतुष्टयपारभ्यते । न च परमाणूनां निरवयवत्वादन्याप्यवृत्तिः परमाणुसंयोगो न सम्भवतीति वाच्यम् । तत्र व्याप्यवृत्तिसंयोगस्याङ्गीकारात। तत्तद्देशस्यावच्छेदकत्वसम्भवेनाव्याप्तिसंयोगस्यापि परमाणौ नानुपपत्तिः । निमित्तभूतादृष्टवैचित्र्यादीश्वरेच्छाजन्याक्रिया- वैचित्र्यवशाच्च जरायुजाण्डजोद्भिज्जस्वेदजभेदं शरीरमार- भन्ते, इत्यूचतुः॥ इदमेव युक्तमस्मन्मतं च । परं त्वेतावान् विशेषः । इच्छाया: कार्यमानजनकत्वे न किं चिन्मानमस्ति । न चात्मनिष्ठप्रयत्नो- त्पादनं विनेच्छायाः कार्यजनकत्वम् । अचेतननिष्ठक्रियादि- जनकत्वं चनानुभूतपूर्वम् । अतस्तादशहेतुहेतुमद्भावकल्पनेनात्य- न्तगौरवापत्तिः । आवश्यकादृष्टस्तुकतया ऽन्यथासिद्धिश्च । अतो धर्माधर्मयोरेव विजातीयक्रियाजनकत्वं, नेश्वरेच्छामय- लादीनामिति । तेनेश्वरेच्छायान्तस्याः कार्यजनक च"स ऐ- क्षत बहु स्यां मजायेये" ति श्रुतिरेव मानम् । तत्र चा "स्मन आकाशः सम्भूत" इत्यादाविवेक्षतिरदृष्ट लाक्षणिक इत्यर्क पल्लवितेन ॥ ननु मलये किं मानमिति चेत् । न । कालकपालान्यवृत्ति- प्रागभावः, कार्यद्रव्यानाधारकार्याधिकरणवृत्तिः, अभावत्वाद्, आत्मावत्यन्यान्याभाववत्, इत्यनुमानेन, घटा, कार्यद्रव्यानधि- करणकाधिकरणतिर्वसमतियोगी, भावकार्यस्वात्, शब्द- ..।
तपादः । चद्, इत्यनुपानन खण्डमलयस्य, पटः, अदृष्टासमानकालीन- ध्वंसप्रतियोगी, भावकार्यत्वाद्, मुक्तयव्यवहितप्राक्कालीन- ज्ञानवद्, बुद्धिः, मागभावासमानकालीनध्वंसप्रतियोगिनी, भा- चकार्यत्वाइ, मुक्तयव्यवहितप्राक्काळीनादृष्टवत्, सुखं, गन्धा- नाधारसमयवृत्तिध्वंसमतियोगि, जन्यगुणत्वात्, संस्काराजन- कानुभववद्, आकाशवदिति व्यतिरेकिणा, एककालीनाः सर्वे परमाणवः, समग्रोपादेयप्रवन्धशून्याः, आरम्भकत्वाई, नष्ट- पवनारम्भकपरमाणुवद् दुःखसन्ततिरत्यन्तमुच्छिद्यते, सन्त- तित्वात्, प्रदीपसन्ततिवद्, इत्याचार्योपदर्शितानुमानेन च महा- प्रलयस्य च सिद्धः। एवं च नन्दान्तं क्षत्रियकुलमित्यादिपौ. राणव्यवहारोपपत्तिरित्याहुः ॥ अत्र जैमिनीयाः । उक्तानुमानेन “धाता यथापूर्वमक- स्पय"दित्यादिमन्त्रालि नावान्तरपळयसिद्धावपि महाप्रलये ना- स्ति प्रमाणम् । उक्तानुमानानामुपाधिग्रस्तत्वात् । तथाहि । अ- मूर्त्तमात्रन्त्यभावत्वस्योपाधित्वात् । उक्तः पक्षः, कार्यद्रव्या धाराधारः, मूर्त्तमात्रवृतम्भावत्वात्, तन्तुनिष्ठपटमागभाववदि- ति सत्प्रतिपक्षाच्च । एवं द्वितीयतृतीययोरमूर्तमाऋत्तिभावत्व- मुपाधिः । एवं महाप्रलयानुमाने, उक्ताः परमाणवः,समग्रोपा- देयप्रबन्धवन्तः, मागभाववन्त्वात्, कपालचदिति सत्प्रतिपक्षः । आचार्यानुमानं तु “धाता यथापूर्वमकल्पय"दिति श्रुतिवि- रोधात् ॥ अचन्द्रार्कग्रहा भूमिः कदाचिन्तु भविष्यति । अपौरवा तु पृथिवी कदापि न भविष्यति" ॥ इति हरिवंशरूपन्यासस्मृतिविरुद्धत्वाद्, यावत्तैलं तावद्या ख्यानमिति दृष्टान्तमसिदतैलाभावादिरूपोपाधिविस्मरणाच्चा- ४८ भादृचिन्तामणे -- नाचार्यानुमानमेव । अन्यथा नरशिरःकपालं, शुचि, पाण्य- गत्वात्, शङ्खवदित्यनुमानस्यापि प्रामाण्यापत्तेः । एवमन्येष्वप्य- नुमानेषु दूषणान्यूह्यानीति दिक ॥ वेदान्तनस्तु "सर्वं खल्विदं ब्रह्म, नेह नानास्ति किं चने"त्य- द्वैतवादश्रुतिभिरा,, त्मको जगदादावासी, तस्माद्वाएतस्मादा- स्मन आकाशः सम्मूत' इत्यादिब्रह्मोपादानत्वावेदकश्रुते "रि- न्द्रो मायाभिः पुरुरूप ईयत" इति भेदावगमस्य मायारूपावि- द्यानिवन्धनत्वश्रुतेश्च सैव व्योमादिरूपेण परिणतमिति चिदेक- रसस्य च ब्रह्मणो जडरूपेण परिणामो ऽनेकत्वं च न वास्तवं, किं त्वविद्योपाधिकं, स्वमप्रपञ्चवत्प्रत्यक्षविरोधिश्रुतिजन्यं ज्ञानं चन्द्रतारकापारमाणबोधकवाक्यवत प्रत्यक्षबाधेनोपपन्नम् । एवं च “लोकास्तं परादुरन्यत्रात्मनो लोकान् पश्यति, मृत्योः से मृत्युमामोति य इंह नानेव पश्यती" त्यादयो भेदज्ञानान- न्दार्थवादा उपपद्यन्ते तेन प्रपञ्चो ऽविद्योपाधिको धारमा- र्थिकः। अत एव सदसद्विलक्षण इत्याहुः ॥ तत्र किमिदमपारमार्थिकत्वं, मिश्वासमिति चेत्, किमिदं मिथ्यात्वम् । न तावच्छशशृङ्गादिवदत्यन्तासचन्तत् । अबाधि- तप्रत्यक्षादिविषयप्रपञ्चे तदभावात् । नापि ज्ञानबाध्यत्वमज्ञा- नजन्यत्वं वा । घटादेनिबाध्यत्वाभावाद् अज्ञानस्य जनक- त्वे ऽबाधितमानाभावेनाज्ञानजन्यत्वासम्भवाच्च । न वागमेन तद्बोधः । मिथ्याभूतप्रपञ्चान्तर्गतागमेन प्रत्यक्षदृष्टप्रपञ्चे मि- थ्यात्वबोधासम्भवात् । अन्यथा वेदबोध्ययागस्वर्गसाध्यसाधन- भावज्ञाने मिथ्यात्वबोधप्रसङ्गात् । इष्टापत्तौ । स्वर्गसाध्यसाधन- भावज्ञानेन ब्रह्मज्ञाने मिथ्यात्वबोधापत्तिः । आगमजन्यत्वा- विशेषात् । नाप्यनिर्वाच्यत्वं तत् । अनिर्वायपदार्थस्य लोके तपादः । ऽसम्भवात् प्रपञ्चस्यापि निर्वचनीयत्वेनानिर्वचनीयत्वाभावा- च्च । किं चैवं श्रुतिबोध्यमपञ्चमिथ्यात्वोपि मिथ्यात्वप्रसङ्गः । तदङ्गीकारे सिद्धं प्रपञ्चस्यामिथ्यात्वमिति दिक् ।। इदमत्र वेदान्तिनामाकूतम् । चैत्रस्य शुक्त्यज्ञानमित्यादौ चैत्रनिष्ठशुक्तिज्ञानस्यामान इति न बोधः, प्रतियोग्यप्रसिद्धः, किं तु चैत्रनिष्ठं शुक्तिज्ञानमिति तदर्थः । तेनाज्ञानं भावरूपः पदा- थः । तस्य च शुक्तिरजते हेतुत्वं लाघवाद्, न तु तज्ज्ञाने, गौर. वात् । किं च तत्र रजतं पश्यामीति लौकिकसाक्षात्कारोऽनुभव- सिद्धः । तत्र लौकिकसनिकर्षस्य विषयस्य च हेतुतेति तत्र रजन्तोत्पत्तिरावश्यकी । एतेन तत्र रजतत्वमेव विषयः, ज्ञान- लक्षणा चालौकिकसन्निकर्ष इत्यपास्तम् । अज्ञानं च जीवाना न ब्रह्मणः । एवं चाधिष्ठानाज्ञानस्य शुक्तिरजतादौ हेतुत्ववन्नि- पपञ्चब्रह्माज्ञानस्य जीवसम्बन्धिनः प्रपञ्चहेतुत्वमिति ॥ इदमेव मिथ्यात्वं सदसद्विलक्षणत्वं चेति पूर्वमतोपपत्तिरिति, नेदमपि युक्तम् । अधिष्ठानज्ञानेपि शंखपीतिमोत्पत्तेरधिष्ठाना- ज्ञानस्योत्पादकत्वायोगात् । न च तत्र दोषस्य हेतुत्वेन दोषा- नन्यरजतायुत्पत्तावधिष्ठानाज्ञानस्य हेतुत्वमिति वाच्यम् । तर्हि परमावाद्युपादानाजन्यस्वामादिप्रपञ्चएवाधिष्ठानाज्ञानस्य हे- तुत्वमस्तु, न प्रपञ्चमात्रे । किं च चन्द्रतारकापरिमाणशङ्खपीतिमा- दीनामधिष्ठानज्ञाने सत्यपि कथमुत्पत्तिः । भवतां विशेषदर्शने सत्यपि भान्तेरिव दोषवशादिति चेत् । तीविद्यातिरिक्तस्यापि प्रपञ्चहेतुत्वापत्त्या गतमज्ञानकारणत्वनियमेन ॥ यन्तु रजतं पश्यामीति लौकिकसाक्षात्कारे विषयस्य लौकिकसन्निकर्षस्य च हेतुत्वसिद्धये रजतोत्पत्त्यङ्गीकार इति, तदपि पुरोवत्यशे लौकि- कत्वेन रजतत्वांशे अलौकिकत्वेन दोपजन्यत्वाङ्गीकारेण परा- ५० भादृचिन्तामणे स्तम् । यत्तु रजतज्ञानत्वस्य कार्यतावच्छेदकत्वमपेक्ष्य रजतत्व.. स्यैव कार्यतावच्छेदकत्वे लाघवमिति, तदपि अज्ञानस्य कारण- त्वकल्पनमपेक्ष्य लघुभूतमेव । न चैवमधिष्ठानज्ञानेपि भूमाप- त्तिः । लौकिकतदभावसाक्षात्कारस्य तद्वत्ताज्ञान प्रति प्रतिबन्ध- कत्वात् । “मायां तु प्रकृति विद्या"दित्यादिश्रुतेरपि स्वाममृ- ष्टिविषयत्वेन मायामदस्य दोषपरत्वेन वा व्याख्यानादिति संक्षेपः॥ के चिन्तु परमात्मैव स्वेच्छया परमार्थत एक व्योमादि ज- नयति । “सदेव सौम्येदमग्रआसीत्, तदैच्छत्, बहुस्यां मजा- येय'इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति, पुरुष- एवेदं, नेह नानास्ति किं चनेत्यादिश्रुतयोमुमेवार्थ प्रकटयन्ति । अत्र ह्याद्यश्रुतिद्वयेनात्मनस्तद्रूपत्वेन भागवस्थितस्य बीजस्येव हेतुत्वं व्योमादीनां च वृक्षस्येव तत्कार्यत्वमुक्तम् । अपरश्रुति- द्वयेन धर्मिभेदाभाव उक्तः । नानाशाखस्य वृक्षस्यानेकत्वेन ज्ञातस्यैकबोधवत् ॥ यानि तु “आत्मैवैकः सत्यः, इन्द्रो मा- याभिः पुरुरूप इयत" इत्यादिनिष्प्रपञ्चस्य मिथ्यात्ववादा- सत्यत्ववादमान्तिवादमायावादबोधकानि, तान्यस्यानित्यत्वमेव प्रतिपादयन्ति । अपशवो वा अन्ये गोअश्वेभ्य इतिवत् । एते- षामपि मुमुक्षूणामुत्साहजननार्थतया वैराग्यजननार्थतया च प्र. पञ्चासत्यत्वात्मपरमार्थसत्त्वप्रतिपादकतयार्थवादत्वस्य तुल्य- स्वात् । विस्पष्टं चैत "द्वाचारम्भणं विकारो नामधेयं मृत्तिकेयेव सत्यं तथेद"मिति श्रुतौ। मृत्पिण्ड भावेन सकलताद्विकारशरावध. टादिज्ञानमिवात्मज्ञानेन तज्जन्यसकलप्रपञ्चज्ञानमित्यर्थः । यद्य- पि व्यासरूपेण न ज्ञानं तथापि समासरूपेणेत्युपपत्तिः । तच्च प्रपञ्चस्य सत्यत्वे उपपद्यते । नहि सद्रूपज्ञानेनासत्यस्य ज्ञानं, श- HTRA ... ... तर्कपादः । शविषाणादिज्ञानप्रसङ्गात् । अतः सत्यत्वमेव प्रपञ्चस्य युक्त- मित्याहुः॥ निरीश्वरसाङ्ख्यास्तु प्रकृतिरचेतना सत्त्वरजस्तमोगुणात्मि- का प्रधानशब्दवाच्या चेतनात्मनामुपभोगाय महदादिविशेषण- पञ्चरूपेण परिणमतीत्याहुः ॥ सेश्वरसाङ्ख्यास्तु प्रकृतिरेवाविद्यास्मितारागद्वषाभिनिवेश- क्लेशकर्मविपाकाशयैरपरामृष्टं सर्वव्यापिनं पुरुषशब्दवाच्यमीश्वर- मधिष्ठाय महदहङ्कारपञ्चतन्मात्रादिक्रमेण जगत्सृजति । बीजमे- व संस्कृतं क्षेत्रमधिष्ठायाङ्कुरादिक्रमेण वृक्षादि । तस्मात्मकृत्यु- पादाना सृष्टिरीश्वरभिन्नक्षेत्रज्ञपदवाच्यजीवभोग्या । प्रकृतेरक्ये- पि भोक्तॄणां भेदात्मपञ्चवैचित्र्योपपत्तिः । औपनिषदास्त्वैका- त्म्यवादाः सादृश्यपरत्वेन व्याख्येयाः। एवं नानात्वनिषेधाश्च । एतदभिप्रायेणैव ॥ "विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः" । इति । "इन्द्रो मायाभिः पुरुरूप इयत" इति च । मुक्तात्मनामीश्वरेण सहकत्ववादास्तेप्यत्यन्तसाम्येन वैलक्षण्या- भावेन वोपपादनीयाः॥ "यदा पश्यः पश्यति रुक्मवर्ण करिमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" ॥ इति श्रुत्या परमसाम्योक्तेः। "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । स्वर्गोपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ - ५२ भादृचिन्तामणेः इनि भगवद्वाक्येनापि साम्योक्तेः । न च "ममैवांशो जीवलोके जीवभूतः सनातन" इति भगवद्वचनस्य "भेदस्य जनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति" इनि पुराणवचनस्य चानुपपत्तिः। तयोः स्वामिभृत्यभाव- बोधकत्वेनोपपत्तेः । एवं च "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" "उपद्रष्टा ऽनुमन्ता च कर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः"॥ इति भेददर्शनमुपपद्यते । तस्मात्मकृत्युपादानोयं प्रपञ्च इत्याहुः॥ तदपि न । प्रकृतेरेकरूपतया हेतुवैलक्षण्याभावेन नरप- श्वादिरूपकार्यवैलक्षण्यानुपपत्तेः । क्षेत्रज्ञादृष्टवाद्वैलक्षण्यमित्य- प्यदृष्टस्य कार्यवर्गान्त पातितया प्रकृतौ विलीनत्वेनाकारणत्वा- द्वक्तुमशक्यम् । कुतो वा प्रकृत्या महदादिविकारारम्भः । ईश्वरे- च्छयेति चेत्, तस्यापास्तसमस्तकामस्येच्छाभावात् । किं च प्रलये प्रकृतिमात्रस्यात्मनां च निर्विशेषाणामवस्थितत्वाद्धर्मा. धर्मयोश्चान्तःकरणधर्मतया तदानीमभावात् पूर्वजन्मनि कृता- श्वमेघानां कृतमहापातकानां च विशेषो न स्यात् । न चासत: शशविषाणादेरुत्पत्तिनाशयोरदर्शनानियतोत्पत्तिदर्शनाच्चोत्प चिनायोराविर्भावतिरोभावरूपतया शक्तयात्मनावस्थितधर्मा- धर्मवशेन वैचित्र्योपपत्तिरिति वाच्यम् । मृत्पिण्डकपालावस्थयो- घटसत्त्वस्यानुपलब्धिवाधितत्वात् "नासतो विद्यते भाव" इति तु“न त्वेवाहं जानु नास" मिति नित्यत्वप्रतिषादनोपक्रमादा- तर्कपादः । त्पमात्रस्यानुत्पत्तिविनाशधर्मत्वप्रतिपादक, न सर्वस्य कार्यजा- तस्य । अस्तु वा कारणात्मना ऽवस्थानं तथा मृदात्मना ऽव- स्थितघटादिनोदकाहरणासम्भववत्प्रकृत्यात्मना ऽवस्थितधर्मा- धर्माभ्यामपि न वैचित्र्यसम्भवः । यदि तु सृष्टिप्रलयपरम्परया ऽनादित्वं शब्दानामनाद्यर्थसम्बद्धानां वेदानां नित्यतां चाश्रित्य "सर्वेषां चैव नामानि कर्माणि च पृथक्पृथक् ॥ वेदशब्देभ्य एवादौ पृथगाश्च निर्ममे" इति वचनानुरोधादेककर्तृका तुल्यनामव्यवहारकवस्तूत्पत्ति रङ्गीक्रियते ॥ "अष्टाशीतिसहस्राणि संप्रदायप्रवर्तका" इतिवचनानुरोधेन वा ऽनेककर्तृका तादृशसृष्टिरङ्गीक्रियते । तत्रापि प्रकृतेरुपादानत्वासम्भवाद् अनुपादाननिर्माणासम्भ- वात्सोपादानत्वसिद्धिरिति संक्षेपः ॥ इति श्रीगागाभट्टकृतभाहचिन्तामणौ सृष्टिप्रलयविचारः॥ ननु सर्वमिदं शरीरोन्द्रियमनतिरिक्तजीवात्मसद्भावे स्या, त्तत्रैव मानं न पश्यामः । न चाहं जानामीति प्रत्यक्षं तत्र मानं, तस्याहं गौर इत्यादिवच्छरीरादिविषयकत्वेनाप्युपपत्तेरिति चेत् । अत्र जीर्णाः । शरीरान्तर्गतवायोरूर्वाधोगमनानुकूलषय- नाश्रयतया सुखाद्याश्रयतया वा तत्सिद्धिः । तेषामयावच्छरी- रभावित्वेन तद्धर्मत्वासम्भवात् । कार्यद्रव्यवृत्तिविशेषगुणानां पाकादिना विरोधिगुणान्तरोत्पत्त्या द्रव्यनोशन वा नाश्यत्व- मिति नियमः। उक्तयत्नस्य सुखादीनां च मृतावस्थायामुक्तना- शकत्रयाभावेन नाशानुपपत्तेन शरीरगुणलं सम्भवति । एवं - भादृचिन्तामणेः ज्ञानेच्छादीनामप्ययावच्छरीरभावित्वेन न शररिगुणत्वम् । कि चावयविविशेषगुणानामवयवगुणपूर्वकत्वनियमेन मानादीनां शरीरावयवगुणत्वाभावेन न तदुत्पत्तिसम्भवः । अतः सुखा- दिगुणितया शरीरादिभिन्नात्मसिदिः । न च तेषामिन्द्रियगुण- त्वम् । इन्द्रियनाशन संस्कारनाशे स्मरणानुपपत्तेः । नापि म- नोगुणत्वं, तस्याणुतया सद्गुणप्रत्यक्षानुपपत्त्या ज्ञानादीनामम- त्यक्षत्वमसङ्गात् । मनसो विभुत्वनये तु तद्गुणत्वे ज्ञानादीनां क- रणाभावात्प्रत्यक्षानुपपत्तिस्तुल्या । तस्मात्तदाश्रयतया ऽऽत्म- सिद्धिः । किञ्च स्वर्गकामादिश्रुत्यापि देहातिरिक्तात्मसिद्धिः। तथाहि । स्वर्गकामादिश्रुतयः कर्यजन्यफळभोक्तारं शरीराति- रिक्तं कर्तारमाक्षिपन्ति । “अविनाशी वाअरे ऽयमात्मे"त्यादय उपनिषदोपि तमेवार्थन्द्रढयन्ति । अतोऽमित्ययवेद्यः शरी- रातिरिक्त आत्मेति । न च तस्याहंप्रत्ययगम्यत्वमनुपपन, बा. तृत्वज्ञेयत्वयोर्विरोधात्, एकस्यां क्रियायामेकस्य कर्तृत्वकर्म- त्वानुपपत्तरिति वाच्यम् । स्वात्मनि क्रियाविरोधस्य दूषकता- बीजाभावेनादूषकत्वात् । न च परसमवेतक्रियाजन्यफलभा- गित्वस्य कर्मवतया कर्मसंज्ञायास्तद्विभक्तेश्चासाधुतापत्तिर्दूषक- ताबीजमिति वाच्यम् । ताडकर्मत्वामावेपि तद्विभक्ते "रात्मा ज्ञातव्य, आत्मानं वेद, पात्मानमुपासीते"त्यादिलौकिकवैदिकम- योगेणैव साधुत्वात् । यथा चलतिगच्छत्योरेकार्थत्वपि सकर्म- त्वाकर्मत्वे एवं ज्ञातुर्मानजन्यप्राकव्यरूपफलवत्तया ज्ञानकर्मत्वे बाधकाभावात् । “स मानसीन आत्मा जनाना" मित्यादिश्रुति- वशाच्च मानसाईप्रत्ययवेद्य आत्मा सिद्ध इत्याहुः ।। वेदान्तिनस्तु सुखच्छादीनां मनोगुणत्वस्य श्रुतिसिद्धतया निर्गुणज्ञानस्वरूप एवात्मा, तस्य च निष्पकारकमेवोपनिषज्ज- . .
Home - RRER --------- .............................anchits armathaenimatismeta तपादः । न्यप्रत्यक्षं मोक्षसाधनमित्याहुः ।। का पुनर्मोक्षः । अत्र के चित् । संस्काराजनकानुभवध्वंसो मुक्तिः। के चित्त दुःखप्रागभावासहवृत्तिदुःखसाधनध्वंसो मुक्तिः ॥ दुःखमयसंसारवीजमिथ्याज्ञानध्वंसो मुक्तिरित्यपरे ॥ शरीरोन्द्रयबुद्धयादितन्निदानधर्माधर्मध्वंस इत्यन्ये ॥ आत्यान्तकदुःखमागमावो मोक्ष इति गुरवः ।। संस्काराजनकभोगविषयदुःखध्वंस इति के चित् ।। समानाधिकरणदुःखपागभावासहवृत्तिदुःखध्वंसो मुक्ति- रिति मणिकृत् ॥ प्रपञ्चसम्बन्धविलयो मुक्तिरिति वेदान्तिनः । प्रपञ्चस- म्बन्धो बन्धः । तस्यात्यन्तिको विलयो मोक्षः। तथाहि । भो- गायतनभोगसाधनभोगविषयाणां शरीरेद्रियाणां सम्बन्धादा- स्मा बद्ध इत्युच्यते । एतत्कारणधर्माधर्मपरिक्षयादेतेषामात्यन्ति- को विलयः पूर्वनाशपरानुत्पादस्वरूपः । न चैवमपुरुषार्थत्वा- पत्तिः । सुखवद् दुःखानुत्पादस्यापि पुरुषार्थत्वात् । तत्सम्बन्ध. विलयपूर्वकनित्यानन्दरूपात्माभिव्यक्तमुक्तित्वाङ्गीकाराद्वा । त- स्य सुखस्य नित्यतया धर्मजन्यत्वाभावात् । आत्मनश्च सुखा- स्मकत्वे मुक्तावस्थायां तन्नित्यत्वे चा "नन्दं ब्रह्मणो रूपं, न स पुनरावर्तत" इत्यादिश्रुतयो मानम् । यत्व"शरीरं वावसन्तं प्रियाप्रिये न स्पृशत" इति मुक्तस्य सुखाभाववत्ववचनं, तत्पपञ्च. सुखाभिप्रायम् । ननु मनःशरीराधभावात्कथं तत्रानन्दानुभ- वः । न च तस्यानन्दस्य स्वप्रकाशत्वम् । संसारावस्थायां ता- दृशस्याननुभवात् । न च तदानीमभिभवान्न तादृगनुभव इति वाच्यम् । स्वप्रकाशस्याभिभवासम्भवादिति चेत् । तस्यानन्द .... ghaneraynemamanarningplugineeti Pontemporation भाइचिन्तामणेः स्या"त्रायं पुरुषः स्वयंज्योति"रिति श्रुतिसिद्धस्वप्रकाशतया ऽऽत्मरूपानन्दानुभवस्य लोकसिद्धकारणान्तरानपेक्षत्वात् । तदुक्तम् ॥ निजं यच्चात्मचैतन्यमानन्दश्चेष्यते च यः॥ यच्च नित्यविभुत्वादि तेनात्मा नैवमुच्यते ॥ इति । अतो नित्यमुखाभिव्यक्तिर्मुक्तिरित्याहुः॥ तन्न । “विज्ञातारं केन विजानीयाद्, अस्य सर्वमात्मैवा- भूकेन कं पश्ये"दिति च मोक्षकाले ज्ञानाभावप्रतिपादकश्रुति निरुद्धत्वात् । आत्मनश्च न विज्ञानसुखादिरूपत्वम् । “आनदं ब्र. ह्मणो विद्वान्, स एको ब्रह्मण आनदः" इति श्रुत्या भेदप्रती- तेः। मम न किमपि सुखं, केवलं दुःखमेवेत्यनुभवात् । “ता एताः प्रजा अहरहर्ब्रह्मलोकं यन्ति, अहरहरागच्छन्ती" ति सुषुप्तिम- क्तयोः सादृश्यप्रतिपादकश्रुत्या ऽऽनन्दात्मकत्वनिषेधाच्च । सु- पुप्त्यवस्थायामानन्दानुभवाभावात् । अतो न नित्यसुखांभिव्य- क्तिर्मुक्तिः । तस्मात्प्रपञ्चस्य सर्वथा विलयो मुक्तिः । स च दुः- खाभावरूपत्वात् पुरुषार्थः । तेन सुखदुःखोपभोगाभावो मोक्ष इति फलितम् । तथा च. श्रुतिः । “प्रियाप्रियेन स्पृशत" इति ।। न चैवमानन्दश्रुतिविरोधः । “मन आनन्द,मितिश्रुतेर्मनसआ- नन्दधर्मत्वात्तदानीं"त्वमनस्क"मिति श्रुत्या मनोभावेन "विज्ञा- तारं केन विजानीया"दिति श्रुत्या च तदानीमानन्दानुभवनिषे- धात् । “अलं वा अरे इदं विज्ञाना" इति तु शक्तिमात्रपरम् । किंचानन्दमियाभाववचनयोर्विरोधे प्रमाणान्तरोपपत्तिभ्यामान- न्दवचसो दुःखाभावपरत्वं परिकल्प्य तत्परिहारः । उभयत्रापि सामान्योपादानात् । अत उक्तरीत्यैव विरोधपरिहार इत्या- त्यन्तिकदुःखामात्र एवं मोक्ष इति । न चैवं सुखस्यापि ना- .
तर्कपादः। नुपादेयत्वमिति पुमर्थत्वम् । मधुविषभोजनदुःखवत्सुखस्यापि बहुतरदुःखानुबद्धत्वेन हेयत्वात् । न चैवमपि वर्तमानदुःखानां स्वभावेन विरोधिगुणान्तरोत्पत्त्या वा नाशादागन्तूनां प्रतियो- ग्यभावादतीतानामतीतत्वादेव नाशासम्भवान्न मोक्षः साध्यः स्यादिति वाच्यम् । दुःखहेतुधर्माधर्मोंच्छेदस्य 'व्यापारसाध्य. त्वात् । तथाहि । सञ्चितानां प्रारब्धानां चादृष्टानां भोगात्मज्ञा- ननैमित्तिकप्रायश्चित्चानुष्ठानेन नाशात्काम्यानुष्ठानजन्यानां तद- ननुष्ठानेनानुत्पादाद्विहितानुष्ठाननिषिद्धाकरणाभ्यां प्रत्यवाया- परिहाराच्च । सुखदुःखजनकधर्माधर्मनाशात्पूर्वशरीरनाशे मुक्तो भवति । अत एव ज्ञानकर्मणोः समुच्चयेन जनकता । ज्ञानेन सञ्चितानामुत्पन्नधर्माधर्माणां नाशः । नित्यकर्मभिश्च तदनुत्प- तिः । अन्यथा नित्याकरणजन्यप्रत्यवायेन शरीरोत्पत्तिप्रसङ्गा- व । तस्मादुभयोरपि शरीरोत्पत्त्यभावसम्पादकतया मोक्षजनक- ता। प्रारब्धकर्मणां तु न कर्मभिन ज्ञानेन नाशः । किं तु भो- गेनेति । न च "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेजन" इति ज्ञानस्यैव शरीरात्पत्त्यभावसम्पादकतया मोक्षजनक- त्वमस्तु, किं कर्मणेति वाच्यम् । ज्ञानवतोपि विहिताननुष्ठानान- षिद्धाचरणाभ्यां प्रत्यवायोत्पत्तेः । तेन ज्ञानकर्मणोः समुच्चयेन जनकत्वम् । तत्राप्युपनिषज्जन्यात्मज्ञानं दृष्टोपयोगित्वात् कवर्थ- म् । उपासनात्मकं तु दृष्टोपयोगाभावात्सर्वान्कामानवामोति, न स पुनरावर्चत"इत्यादिवाक्यशेषाच्चाभ्युदयफलकं निश्रेयस. फलकं चेति विवेकः । अतः सिद्धो ज्ञानकर्मसमुच्चय इति सं- क्षेपः॥ तदुक्तम् "सत्येन लभ्यस्तपसा ह्येष आत्मा ८ भादृचिन्तामणे सम्यग् ज्ञानेन ब्रह्मचर्येण वेति ॥ "स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ।। तमभ्यर्च्य, तं ज्ञात्वेत्यर्थः ।। तस्मात्तत्माप्तये यत्नः कर्त्तव्यः पण्डितैनरैः। तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते ॥ उभाभ्यामिव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम्" । इति ब्रह्ममाप्तिर्मुक्तिरिति जीर्णाः ।। नव्यास्तु "तमेव विदित्वा ऽतिमृत्युमेति, नान्यः पन्था विद्यते अपनाये"ति श्रुत्या “न कर्मणा न प्रजये" ति श्रुत्या च मोक्षे ज्ञानातिरिक्तसाधननिषेधात् तीर्थस्नानमहादानकाशी- मरणादिकर्मणां ज्ञानद्वारैव मोक्षजनकत्वाच्च ज्ञानमेव साक्षान्मो- क्षजनकम् । कर्म तु ज्ञानजनकान्तःकरणश्रुद्धिजनकम् । न च त- मेवेत्यात्मातिरिक्तविषयकज्ञानस्य मोक्षजनकत्वपरिसंख्योत वा- च्यम् । ज्ञानस्य मोक्षजनकत्वेन नियतमाप्त्यभावात्परिसंख्यानुपप- चेः । वाक्यान्तरप्राप्तपरिसंख्यायां तत्तद्वाक्यानां नान्यः पन्थे. ति निषेधस्य चानुपपत्तिः । एतेनोपनिषज्जन्यज्ञानातिरिक्त भाषाग्रन्यादिजन्यज्ञानपरिसंख्येति परास्तम् । अध्ययनविधि- नैव तत्सिद्धेः । न चैवमुपनिषदध्ययनजन्यतत्त्वज्ञानस्य त्रैव- णिकेष्वेव सम्भवाच्छूद्रादीनां मुक्तिन स्यादिति वाच्यम् । ते- पामपि "श्रावयेचतुरो वर्णानि" ति पुराणश्रवणविधिना त- म्जन्यार्थज्ञानसत्त्वान्मुक्तिसिद्धेः । अतो ऽयं ज्ञानस्य मोक्षसाध- नत्वविधिः । नान्यः पन्येति तदतिरिक्तकर्मणः साक्षात्साधन- त्वनिषेधः । “न चतुस्विंशदिति ब्रूयात् षड्विंशतिरित्यव ब्रूया" ६९ तर्कपादः । दितिवत् । एतनिषेधवशादेव कर्मणां मोक्षसाधनत्वबोधकश्रुतयः परंपरासाघनत्वपराः । अत एव "अविद्यया मृत्यु तीवा विद्य- या ऽमृतमश्नुते" इति श्रुतेरविद्यारूपकर्मणो मृत्युतरणशब्दल- क्षिताज्ञाननाशस्यात्मज्ञानद्वारकत्वबोधकश्रुतिरपि सङ्गच्छते । न कर्मणेत्यादिश्रुतिरपि परंपरया मोक्षसाधने संन्याससादृश्यनिषे- धनद्वारा संन्यासमाशस्त्यबोधिका कर्मणां परंपरया साधनत्वं बोधयति । न साक्षात् । एवं त"मेवं वेदानुवचनेन ब्राह्मणां विविदिषन्ति यज्ञेन दानेन तपसा नाशकेने"ति श्रुतिरपि कर्म- णां ज्ञानार्थत्वमेव बोधयति न साक्षान्मोक्षार्थत्वमिति । न चैवं ज्ञानेन सञ्चितकर्मविनाशेपि शररिजनकनित्याकरणजन्या- धर्मविनाशायोगान्मोक्षो न स्यादिति वाच्यम् । तस्य सञ्चित. विनाशकत्ववदधर्मानुत्पादकत्वस्याप्यङ्गीकारात् । उत्पन्ननाशा- ङ्गीकाराद्वाः । न चैवं वेदान्ताध्ययनजन्यतत्त्वज्ञानोत्तरं मुक्तिः स्यादिति वाच्यम् । पारब्धस्य प्रतिबन्धकत्वात् । न चैवं सं. ञ्चितामा प्रायश्चित्तेन मारब्धानां भोगेन नाशान्नित्यकर्मभिश्चा. नुत्पादात्तत्त्वज्ञानस्यानुपयोग इति वाच्यम् । सुखभोगयोग्य. देहजनकधविनाशद्वारा तस्य मोक्षोपयोगित्वादिति जीर्णाः ।। अन्ये तु तत्वज्ञानस्य सञ्चितनाशकत्ववत्मारब्धनाशकत्व. माप । तत्त्वज्ञानव्यक्तिविशेषस्यैव मोक्षजनकतया तदुत्तरमेव मु. क्तिः । जीवन्मुक्तादिव्यवहारस्तु शरीररूपदुःखसत्त्वेन बाधा- टू भाक्त इत्याहुः॥ इति मीमांसकश्रीगागाभट्टकृतभादृचि. न्तामणावनुमाननिरूपणम् ॥ .
६० भादृचिन्तामणे: अथोपमानं निरूप्यते ॥ उपमानं पूर्वदृष्टे ऽर्थे स्मर्यमाणे दृश्यमानार्थसादृश्यज्ञानम् । दृश्यमानगवयनिरूपितसादृश्यप्रकारकगोविशेष्यकामोपमितिः । तत्करण गवयापिण्डदर्शनमित्यर्थः । एवं चारण्यकवाक्यार्थज्ञान- वतोऽरण्ये गवयदर्शनं तत्करणं, तत्सादृश्यविशिष्टो गौरिति ज्ञानं प्रमा, वाक्यार्थस्मरणमवान्तरव्यापार इति । न चेदं सादृश्यपत्य- क्षम् । अर्थान्तरयोगिभिर्धर्मेरर्थान्तरस्य तादृशयोगरूपसादृश्यस्य व्यासज्यवृत्तितया यावदाश्रयप्रत्यक्षाभावेन तदयोगात् । नानु. मानम् । उपमिनोमात्यनुव्यवसायेनानुमितिवैलक्षण्यप्रतीतेः । नापि शाब्दम् । पदज्ञानायभावादिति । अत इदं मानान्तरम् । एवं च प्रत्यक्षसौर्यविधिसादृश्यस्याग्नेयविधाबुपमित्योपस्थिता- ग्नेयविधिविहिततिकर्तव्यताया अपेक्षितायाः सौर्याङ्गत्वबोधः फलामति जीर्णाः ।। नव्यास्तु नैतन्नियतम् । उपमानस्य शक्तिग्राहकत्वानापत्तेः। एतादृशसादृश्यज्ञानस्यातिदेशवाक्यार्थज्ञानाजन्यत्वाच्च । अतो गोसादृश्यविशिष्टपिण्डदर्शनं करणम् । अतिदेशवाक्यार्थस्मरण- मवान्तरव्यापारः । अयं गवयपदवाच्यः, गवयो गवयपदवाच्य इति वा संज्ञासंझिसम्बन्धज्ञानं प्रमेत्याहुः ॥ इत्युपमानम् ॥ अथार्थापत्तिः ॥ अर्थापत्तिः प्रत्यक्षेण शब्देन वा प्रमितस्यार्थस्योपपादका- न्तिरकल्पनम् । यथा देवदत्तनिष्ठं दिने भोजनाभावः पीनत्वं च प्रत्यक्षदृष्टं स्वोपपादकं रात्रिभोजनं कल्पयति । तथा विश्व- निबामकरणकभावनाविषयकमवर्तना विधिप्रमितेष्टोद्देश्यकत्वं वि- ना ऽनुपपद्यमाना स्वर्गाद्युद्देश्यकत्वं कल्पयति । अत्र दिनभोज- + .. तर्कपादः । नाभावविशिष्टपीनत्वज्ञानं न करणं, येनानुमानान्तर्भाः शङ्कये- त । किं तु भोजनाभावपीनत्वयोः सामानाधिकरण्यरूपसम्ब. न्धानुपपत्तिज्ञानम् । रात्रिभोजनज्ञानं प्रमा । उपपादकत्वज्ञानम- वान्तरव्यापारः । एवं जीवतो देवदत्तस्य गृहे ऽदर्शनेनादृष्टव- हि वकल्पना । तेन नानुमानान्तर्गतिरिति जीर्णाः ॥ वस्तुत- स्तु नानुमिनोमि नोपमिनोमि न शाब्दयामि किं त्वर्थापयामीत्य- नुभवादेव मानान्तरत्वं युक्तम् । इदमेव सहजशक्तावाधेयशक्ती च मानम् । तथाहि । बीजत्वावच्छेदेनाङ्कुरजनकत्वे गृहीते मूषि- कायतषु तददर्शनेन कारणत्वसन्देहे मूषिकाघाणनाश्या बी- हिनिष्ठा कारणशक्तिः कल्प्यते । एवं यागजन्यं स्वर्गजनकम- पूर्व करप्यंतइति जीर्णाः॥ इत्यापत्तिः॥ एवमनुपलब्धिरभावग्राहकं मानान्तरम् । नचाभावस्य केव- लाधिकरणात्मतया प्रत्यक्षेण ग्रह इति वाच्यम् । तस्याधिकर- णात्मकत्वे भूतले घटाभाव इत्याचाराधेयभावप्रतीत्यनुपपत्तेः । किं च घटो नास्ति नायं पट इत्यादिव्यवहारस्य सघटे प्रसङ्गान भूतलमात्रं विषयः । घटविविक्तस्य विषयत्वे ऽभावातिरिक्तस्य विवेकस्यासम्भवासिद्धमभावेन । तद्राहकं च योग्यानुपलब्धि- मानान्तरम् । तथाहि । अभावो नेन्द्रियग्राह्यः । सन्निकर्षाभा- वात् । न च विशेषणत्वादिः सन्निकर्षः । तस्य प्रत्येकवृत्तितयोभ- यनिष्ठत्वाभावेन सन्निकर्षत्वायोगात् । न च तत्राभावस्मरण- म् । पूर्व तदनुभवाभावात् । एवं चतस्यानुपलब्धिरूपप्रमाणान्त- रवेद्यत्वम् । योग्यानुपलब्धिश्च दर्शनयोग्यस्यादर्शनं दर्शनाभाव इति यावत् । तेन घटाभावादिज्ञानं दर्शनाभावेन प्रतियोगिस- त्वप्रसञ्जनासञ्जितप्रतियोगिकेन याद घटः स्यात्तदा दृश्ये.
भादृचिन्तामणे: तेत्याकारकेण घटाभावो ज्ञायते । योग्यता च योग्यप्रतियोगिक- वयोग्याधिकरणकत्वादिरूपा तत्तदभावग्रहे नानव । अतः सिद्धमभावग्राहकमनुपलब्धिरूपं मानान्तरम् । अत्र प्रतियोगिम- त्यक्षाभावः करणम् । अनुमितिरवान्तरव्यापारः । अभाव- ज्ञानं फळम् । अर्थापत्तौ तु ज्ञानं करणमनुपपत्तिज्ञानमवान्तर- व्यापारः । उपपादकाज्ञानं फलमित्यनयोर्भेदमाहुः । अतः षट् प्रमाणानि । वस्तुतस्त्वर्थापत्त्यनुपलब्ध्योरन्योन्यभेदमनुमानाच्च भेदं नाकलयामः। यन्तु सहस्रसङ्ख्यान्तर्गतशतसंख्याप्रमाकरणं सम्भवाख्यम्प्रमाणं तदनुमानान्तर्गतं, वटे वैश्रवणमिति चैतिहां न प्रमितिकरणं, तत्त्वे ऽप्यागमान्तर्गतम् । वो मे भाता ऽऽगन्ते- ति प्रतिभाख्यमनिश्चायकत्वान्न मानम् । तेनर्षीणां प्रतिभया धर्मा- धर्मप्रमेति परास्तम् । लोकप्रसिद्धिः प्रत्यक्षान्तर्गतैव । अतः प- डेव प्रमाणानि । राम षड्युक्तयो लोके याभिः सर्वो ऽनुदृश्यत. इति रामायणाच्चेति संक्षेपः॥ इत्यभाववादः॥ अथ शब्द: ॥ " शब्द शब्दविज्ञानादसनिकृष्टे ऽर्थे विज्ञानम्" । इति सूत्रम् । शब्दज्ञानजन्यमसनिकष्टार्थविषयकं यथार्थ- शानं शाब्दपमा, तत्करणीभूतशब्दः प्रमाणमित्यर्थः । शब्दा- नुव्यवसाये ऽतिव्याप्तिवारणाय द्वितीयम् । अनुमित्यादाव- तिव्याप्तिवारणायायम् । एवं वाक्यश्रवणानन्तरं पदोपस्थि- तपदार्थानां संसर्मविषयिणी प्रमितिः प्रत्यक्षादिविलक्षणा जाय- ते, उत्करणं शब्दस्तमानं वा प्रमाणान्तरम् । जन्यपदधी- जन्यत्वब्यमिचार्यनुभवत्वाव्यापकजातिशून्यले सति पदविष- यकत्वाम्यभिचारिजातिशून्यपी: शब्दममा । उत्करणं शब्द:
. - तकंपादः । प्रमाणमिति जानकीनाथः । प्रत्यक्षानुमितिस्मृतीनां वारणाय सत्यन्तम् । असम्भववारणाय अनुभवत्वाव्यापकति जातिवि- शेषणम् । उपमितिवारणाय शून्यान्तम् । घटादिवारणाय धी- पदम् । स्वकरणकशान्दधीप्रकारप्रकारकममाजन्यः शब्दः प्र- माणशब्द इति मणिकृत् । वाक्यं चैकार्थकपदसमूहः। एकार्थत्वं चानेकमुख्यविश्वेष्यराहित्यम् । न त्वेकाख्यातवत्त्वम् । तेनाख्यात- भेदे ऽपि यत्रैकाख्यातायें न्याख्यातार्थः प्रकारो यथा पश्य मृगो धावतीत्यादौ तत्रैकवाक्यत्वम् । नन्विदं पदोपस्थितपदा- र्थानां संसर्गावगाहि मानसप्रत्यक्षमास्त्विति चेत् । न । तत्र मनःसन्त्रिकर्षाभावात् । उपनीतभानेपि ज्ञातस्यैव विषयतया ऽज्ञातसम्बन्धस्योपनीतभानासम्भवाच्च । किं च शाब्दसामग्री चाक्षुषादिप्रतिबन्धिका । मानसे तु चाक्षुषादिसामग्री प्रतिबन्धि- केति सर्वसम्मतम् । एवं च शाब्दत्वस्य मानसत्वव्याप्यताङ्गी- कारे भिन्नविषयकचाक्षुषसामग्रीकाले शाब्दबोधो न स्यात् तत्र चाक्षुषसामग्रीमानसयोः प्रतिबध्यप्रतिबन्धकभावेष्वनन्तेषु शाब्दान्यत्वप्रवेशे गौरवं स्यात् ॥ वैशेषिकास्तु शब्दो ऽनुमानान्तर्गतः । घटमानवेत्यादिप- दानि तात्पर्यविषयभूतपदार्थनिरूपिततात्पर्यविषयसंसर्गप्रमापूर्व- काणि । परस्परान्वयतात्पर्यकत्वे सति योग्यत्वात् । पदान्त- रवत् । आकाङ्क्षासत्योस्तु तात्पर्यज्ञानार्थमेवापेक्षा । यद्वा पदै- रुपस्थितेषु घटादिपदार्येषु । कर्मत्वमाधेयतासंसर्गेण घटवत् । तेन संसर्गेण घटे बाधाभावरूपयोग्यतावत्त्वात् । एते पदार्थास्ता- त्पर्यविषयसंसर्गवन्तः । आकाङ्क्षादिमत्पदस्मारितत्वात् । इदं वाक्यं संसृष्टार्थज्ञापकम् । आप्तवाक्यत्वात् । इत्याद्यनुमानमु- द्रयैव शब्दस्यार्थप्रसायकत्वसम्भवेन पृथक् प्रामाण्यकल्पना ऽयु- ६४ भादृचिन्तामणे: ता। न चैतादृशसंसर्गज्ञानात्कथं प्रवृत्तिः। इष्टतावच्छेदकप्रका- रकप्रवृत्तिविषयविशेष्यकज्ञानस्य प्रवृत्तिहेतुत्वादुक्तस्य तथाविध- स्वाभावादिति वाच्यम् । इष्टतावच्छेदकप्रकारकमवृत्तिविषयवै- शिष्ट्यावगाहिज्ञानस्यैव प्रवृत्तिहेतुत्वात् । इष्टतावच्छेदकसंसर्गप्र- कारकस्यापि वैशिष्टयावगाहिज्ञानत्वात् । अस्मिन् गृहे सुवर्ण- सर्पसम्बन्धोस्तीति ज्ञानादपि प्रवृत्तिनिवृत्त्यनुभवाच्चार्थपक्षका- नुमाने दोषाभावाच्चेत्याहुः॥ अत्र के चित् । पदपक्षकानुमानस्य संसर्गप्रकारकत्वनियमाद्रजतत्वप्रकारकज्ञानार्थ शब्दप्रामाण्या- ङ्गीकार आवश्यकः । नहि रजतवद्भूतलमिति शब्दश्रवणो- त्तरं संसर्गप्रकारकमेव ज्ञानं जायतइति नियमः । रजतादिन- कारकानुभवस्यापि सत्त्वात् । अर्थपक्षकानुमाने च योग्यता- याहेतुतया लिङ्गस्य निश्चितस्यैव निश्चायकतया योग्यता- संशये ऽनुमानानुपपत्त्या प्रवृत्त्याद्यनुपपत्तिः । शाब्दबोधे तु संशयसाधारणयोग्यताज्ञानस्य हेतुत्वाद् नानुपपत्तिरित्याहुः । वस्तुतो वक्तुः प्रतारकत्वादिशङ्कायां शाब्दबोधवारणायं योग्य- तानिश्चयस्यैव शाब्दबोधे हेतुतति नोभयोः पक्षयोर्विशेषः । पक्षधरास्तु घटमानय घटः कर्मत्वमानयनमित्यादिस्वरूपयोग्यतद- योग्ययोर्विशेषो न स्यात् । अनुमानस्योभयत्र सम्भवात् । अतो व्याप्त्यादिज्ञानसापेक्षत्वतदनपेक्षत्वकृतबोधविलम्बाविलम्बीभ्यां विभक्त्यादिसमभिव्याहृतशब्दस्य मानान्तरत्वम् । किं च ए- कपदार्थप्रकारकापरदार्थविशेष्यकभानं शब्दादेव नानुमानात् । अयं पदार्थों ऽपरपदार्थवानित्यनुमानेपि विपरीतक्रियाकर्मभाव- मादायार्थान्तरत्वापत्तेः । तात्पर्यविषयसंसर्गवानित्यनुमाने तुसं- सर्गस्य प्रकारतापत्तिः । न च तादृशज्ञानस्य मानसत्वम् । शब्दातिरिक्तस्य मनःसहकारिणो ऽभावात् । किं चौदनं पच- तर्कपादः । त्योदनः पच्यतइत्यत्र पाकौदनयोर्वशेष्यत्वनियमः शब्दप्रामा- ण्यं विनानुपपन्नः । तस्माच्छब्दः प्रमाणमित्याहुः ॥ एवं शान्दयामीत्यनुभवोपि सङ्गच्छते । न चानुमितिप्रमातः शा. ब्दप्रमाया भेदे यत्रैकस्मिन्विषये ऽनुमितिसामग्री शाब्दसामग्री च तत्रानुमितिवारणाय शाब्दसामग्याः प्रतिबन्धकत्वकल्पने गौरवमिति वाच्यम् । फलमुखत्वेनादोषत्वात् । किं च शाब्दप्र- माया अनुमितित्वे सिद्धिसत्त्वे शाब्दबोधो न स्यात् । शान्दा न्यानुमितित्वस्य सिद्धिमतिबध्यतावच्छेदकत्वकल्पने गौरवम् । किं चानुमितिशाब्दसामग्रीसत्त्वे सिद्धयभावदशायामनुमितिका- रणीभूतस्य सिध्यभावस्य सत्त्वेन तत्र शाब्दानुमित्युभयापत्ति- स्तद्वारणाय शाब्दान्यातुमितो शाब्दसामग्याः प्रतिबन्धकत्वं वाच्य तत्र शाब्दान्यत्वनिवेशे गौरवमिति दिक् । तत्सिद्धं शब्दस्य विजातीयप्रमितिजनकतया प्रामाण्यं, तत्र वाक्येनान्वयानुभव- जनने आकाङ्क्षायोग्यतासत्तिज्ञानं सहकारि । घटः कर्मत्वमि- त्यादेनिराकाङ्क्षतया स्वरूपायोग्याई अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यादेर्जनितान्वयबोधेन निराकाङ्क्षाद् वन्हिना सिञ्चतीत्यादेरयोग्याद् गिरि(कमाग्नमान् देवदत्तेनेत्यादेरना- सनाच्च शाब्दबोधानुदयात् । आकाङ्क्षा च पदनिष्ठा तत्प- दव्यतिरेकप्रयुक्तान्वयाननुभावकत्वरूपा । अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र राजपदस्य पुत्रेण सह जनितान्वयबोध- स्य न पुरुषसाकाङ्क्षत्वम् । घटः कर्मत्त्वमित्यादेरभेदान्वयबो- धे साकाङ्क्षत्वेपि भेदान्वयबोधे नं साकाङ्क्षत्वम्, लाक्षणि- कगङ्गादिपदस्याप्यनुभावकत्वस्वीकारात् । तत्रापि साकाक्ष- त्वम् । यदि च लाक्षणिकस्य नानुभावकत्वंतदा तीरोपस्थापक- पदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वरूपाकाङ्क्षात्राप्यङ्गीकार्या । .
६६ भादृचिन्तामणेः एवं श्रुतपदे ऽध्याहृतपदनिरूपिताकाङ्क्षापि बोध्या । यत्र स. वाणि पदानि लाक्षणिकानि तादृशवाक्याद् न बोधः । अन्ये तु यत्पदोपस्थाप्यस्य येन विना नान्वयबोधविषयत्वं तस्य तेनाकाङ्क्षा सा चार्थनिष्ठा तेन लाक्षणिके ऽध्याहा- रस्थले च नानुपपत्तिरित्याहुः । वाक्यैकवाक्यतास्थले तु तद्वय- तिरेकमत्युक्तकार्याजनकत्वमाकाङ्क्षा । एवं चार्थवादविधिवा. क्ययोरन्यतरव्यतिरेकप्रयुक्तप्रवृत्त्यजनकत्वेनाकासा । एवं प्र. धानविध्यर्थप्रधानस्याङ्गाविध्यर्था विना फलाजनकत्वरूपाका- क्षा । अन्ये तु पदव्यतिरेकपयुक्तो वक्तुस्तात्पर्यविषयसंस- गाँवगममागभाव आकाङ्क्षा । घटः कर्मत्वमानयनं कृतिरित्यादा- वयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादिजनितान्वयबोधे च संसर्गावगमाप्रसिद्ध्या तत्मागभावाभावानिराकाङ्क्षत्वमित्याहुः। न चैवं सर्वत्राकाङ्क्षाया अभावरूपतया स्वरूपसत्या एव जनक- त्वादाकाङ्क्षाभूमेण शाब्दबोध इति व्यवहारोच्छेदापत्तिरिति वाच्यम् । अन्वयानुभवाभावे तत्पदव्यतिरेकप्रयुक्तत्वभूमसम्भ वात् । घटः कर्मत्वमित्यादौ तत्पदव्यतिरेकाभावभूमेण शाब्द- बोधसम्भवः । जनितान्वयबोधे त्वजनितबोधत्वभूम इति दिक् ।। योग्यता च अन्वयप्रयोजकधर्मवत्त्वम् । अस्ति च पयसा सिञ्चतीत्यत्र सेकान्वयप्रयोजकधर्मजलत्वस्य पयसि सत्त्वाद्यो- ग्यता, न तु वन्हिना सिञ्चतीत्यत्र । के चिन्तु बाधाभावो योग्यता, सा च तात्पर्यविषयीभूतपदार्थसंसर्गे ऽपरपदार्थनिष्ठा- त्यन्ताभावप्रतियोगित्वाभावः । वर्त्तते चैतद् घटपदार्थसंसर्गे नि- ष्ठत्वे कर्मत्वनिष्ठात्यन्ताभावप्रतियोगित्वाभावः । अपरपदार्थ- निष्ठात्यन्ताभावश्च प्रतियोगिव्याधिकरणो बोध्यः । तेन घटव- द्भूतलमित्यत्र घटसंयोगे भूतलनिष्ठाभावप्रतियोगित्वे ऽपि न . तर्कपादः । क्षतिः । एकपदार्थतावच्छेदके तात्पर्यविषयापरपदार्थनिष्ठात्य- न्ताभावप्रतियोगितावच्छेदकत्वाभावो वा योग्यता । तेन समुद्रज- लनिष्ठाभावप्रतियोगितावच्छेदकत्वस्य सेककरणतात्वे स-स्वेपि पंयोन्तरस्य तात्पर्यविषयत्वान्न योग्यताहानिः, समुद्रजलाभि- प्राये वयोग्यमेव । एवं शक्ततावच्छेदकभेदेनैकपदबोध्ययोः प. चतीत्यादौ कृतिवर्तमानत्वयोर्योग्यता । पदार्थेपि स्थितौ क्व. चित्सशंयरूपस्य क्व चिनिश्चयरूपस्य सम्भवात् । अत्र च व- हिना सिञ्चतीत्यादौ शाब्दबोधवारणाय योग्यता हेतुः । सा च न स्वरूपसती हेतुः, तद्भमेण शाब्दबोधोदयात्, अतस्त. ज्ज्ञानं हेतुः। तच्च संशयनिश्चयसाधारणम् । न चात्यन्तान्यो- न्याभावगर्भयोग्यतयोनैकरूपेण हेतुत्वं सम्भवतीति वाच्यम् । अयोग्यताग्रहविरोधित्वेन हेतुत्वात् । होतव्यमग्निहोत्रं न हो- तव्यमिति शब्दो नित्यो न वेति वाक्यायोग्यतासंशयादपि शा. ब्दबोध इष्ट एव । यद्वा तदभावशाब्दसामग्यास्तद्वत्ताशाब्दे प्रति. बन्धकत्वं कल्प्यते, अतस्तत्र पदार्थस्मृतिमात्रं न शाब्दबोध इति दिक् ॥ वस्तुतस्तु न योग्यताज्ञानस्य कारणता किं तु वन्हिना सि- चेदित्यादौ बोधादर्शनेनायोग्यतानिश्चयः प्रतिबन्धकः । सा चानुमित्यादिसाधारण्येनैव क्लुप्तप्रतिबन्धकीभूतबाधज्ञानत्वादि- नैव शान्दबोधे ऽपि प्रतिबन्धकम् । किं च योग्यतायाः सर्वत्र- क्यासम्भवाद्विशिष्य हेतुत्वे तसद्वाक्यजन्यशाब्दबोधामसिया हेतुत्वकल्पनं न सम्भवति । अतो न योग्यताज्ञानं कारणं किं त्व- गृहीताप्रामाण्यकतद्धर्मितावच्छेदककतद्धर्मावच्छिन्नतदभावनिश्च- यत्वेन प्रतिवन्धकता, तद्धर्माचाच्छिन्नांशे दोषविशेषाजन्यतल्लौ- किकप्रत्यक्षीनश्चयान्याहोयतरतमितावच्छेदककतद्धर्मावच्छि, Animational ६८ भादृचिन्तामणेः चाविशिष्टबुद्धित्वेन प्रतिबध्यतेति रीत्या अयोग्यतानिश्चयः प्रति- वन्धकस्तदभावः कारणमित्याहुः ॥ आलङ्कारिकास्तु ।न शा. दवोधे योग्यताज्ञानं हेतुः नाप्ययोग्यतानिश्चयः प्रतिबन्धकस्त: त्सत्त्वेपि चन्द्रो मुखमित्यादिरूपकादिबोधोदयादेष वन्ध्यासुतो याति खपुष्पकृतशेखर इत्यादिश्लोकार्थशाब्दबोधेन चमत्कारा- तिशयानुभवाच्च । न च तत्र पदार्थस्मरणमात्रं न शाब्दबोध इति वाच्यम् । घटमानयेत्यादावपि तथा वक्तुं शक्यतया शा- ब्दबोधमात्रोच्छेदापत्तिः, किं तु बाधनिश्चयस्य शाब्दभिन्नमेव प्रतिबध्यम् । न चैवं प्रवृत्त्याद्यापत्तिः । प्राक्तनबाधन प्रामाण्य- शङ्काया एव जायमानज्ञाने जननादप्रामाण्यशङ्काशून्यज्ञानस्य प्रवृत्ति प्रति हेतुतया तदभावेन प्रवृत्त्यापादनासम्भवात् । तदुक्तं खण्डने 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शन्दः करोति ही' त्याहुः ।। वस्तुतस्तु एवं सत्ययोग्यवाक्योच्छेदापत्तेः । चन्द्रो मुखमि. त्यादिवाक्येन पामराणां बोधानुत्पादादालङ्कारिकाणामेव बो- धोदयाच्च वासनाविशेष एवोचेजको वाच्यः, एवं चोचेजका- भावविशिष्टवाधनिश्चयाभावस्य शाब्दबोधे हेतुत्वं युक्तमित्ययो- ग्यतानिश्चयस्य प्रतिबन्धकत्वं युक्तमुत्पश्यामः ॥ आसचिस्तु अव्यवधानेनान्वयप्रतियोग्युपस्थितिः । अव्य- वधानं च प्रकृतान्वयावोधाननुकूलक्षणेन । अननुकूलत्वं च पकवान्वयबोधाननुकूलोफस्थित्याधिकरणत्वं, तेन गिरि क्तम- सिमान् देवदत्तनेत्यादौ नासत्तिः। अत एवान्तरालिकानुकूलपदा- पिस्थितेन व्यवधायकत्वम् । श्लोकादौ त्वासत्तिभ्रमेण शा- ब्दबोध इति के चित् । अन्ये तु अन्वयपप्रतियोग्युपस्थापकपदा- व्यस्थानमासत्तिः श्लोकादौ तु योजनाक्यादेव शाब्दबोध तपादः । तात्पर्य सु तत्पतीलाच्छया पत्रानुसंहितत्वम् । तत्र पदार्थ- तात्पयानश्चयः संसर्गतात्पर्यनिश्चयश्च तादृशान्दबोधे हेतुः । तत्सन्देहे शान्दबोधानुदयात । तात्पर्यभ्रमे चाहायशाब्दवाधाद- यात् । शुकवाक्ये वेदवाक्ये चेश्वरतात्पर्यग्रहेण शाब्दबोधो ऽध्या- पकतात्पर्यग्रहेण वा । न च प्रकरणादिकमेव · तत्तच्छाब्दबोधे हेतुर्न तु तात्पर्यज्ञानमिति वाच्यम् । अननुगतप्रकरणादिज्ञाना- नां हेतुले गौरवात् । के चित्तु तात्पर्यज्ञानं लाक्षणिकनानार्थ- स्थलीयशाब्दे हेतुर्न तु शाब्दबोधमाने, गौरवात् । एवं च सै- न्धवपदजन्यनानार्थोपस्थितिकालीनतत्पदजन्यलवणादिशाब्द- बोधे तात्पर्यज्ञानं कारणम् । न चैवं मौरव, सर्वशान्दे तत्तच्छा- ब्दत्वावच्छिन्ने : तत्तत्तात्पर्यज्ञानानामनन्तकार्यकारणभावापे. क्षया लघुत्वादित्याहुः । परे तु तात्पर्यज्ञानस्य न हेतुत्वं सम्भ- वति । तज्ज्ञानासम्भवाद । आवश्यकपकरणसमभिव्याहारादि- ना तज्ज्ञानसम्भवे तद्देनोरिति न्यायेन तस्य वैयर्थ्यात् । अतो वेदवाक्यार्थबोधे लौकिकलाक्षणिकनानार्थस्थलीयशान्दवोधे च न तात्पर्य ज्ञान हेतुरित्याहुः ।। अत्रेदं बोध्यम् । पदार्थोप- स्थितिमात्रं न हेतुः पचतीत्यादौ प्रत्यक्षदृष्टकलापादेरपि शान्द- बोधापत्तः । नापि पदजन्य पदार्थोपस्थितिः, पदोपस्थितस्वाश्र- याकाशादेरपिशाब्दबोधापत्ते। अतो वृत्त्या पदजन्यपदार्थोपस्थि- तिहेतुः । अन्ये तु न पदजन्यपदार्थोपस्थितिहेतुः, किं तु पदा- र्थोपस्थितिमात्रम् । आकाशादेः शान्दबोधस्याकाङ्क्षायोग्यत्वा- भावेनैव वारणात् । न च तथापि प्रत्यक्षगम्यकलापादेरपि प- चतीत्यादौ शाब्दबोधापत्तिः । तात्पर्याभावात् । तत्सत्त्वे शा. ब्दबोधस्येष्टत्वात् । न चैवं घटः कर्मत्वमित्यादिपदजन्यपदार्थो- पस्थितौ शाब्दबोधापतिः । तादृशसमभिव्याहारविशिष्टपदजन्य- भाइचिन्तामणे - पदार्थोपस्थितेरेव हेतुत्वाङ्गीकारात् । अत एव वाचकपदानुप- स्थितस्यापि क्रमस्य विधानमुपपद्यतइत्याहुः । नन्वस्तु शाब्दबा- धे आकाङ्क्षादिज्ञानानां कारणता तथापि युगपत् तावत्पदज्ञा- नानां तावत्पदार्थस्मृतीनां चासम्भवात् कथं वाक्यार्थबोध इति चे,न्न । क्रमोच्चारितपदजन्यपदार्थक्रमिकोपस्थित्युत्तरं सर्वेषां पदानां समुहालम्बनरूपमानसोपस्थितिः ततः समूहालम्बनरूप- तत्पदार्थोपस्थितौ तदन्नयबोधोत्पत्तिः । न च पदसमूहालम्बन विनार्थोपस्थितिरेव कल्प्यतामिति वाच्यम् । तस्याः पदजन्य- वाभावेन क्लुप्तकार्यकारणभावबाधापत्तेः । अतः पदसमूहाल- म्बनमावश्यकम् । वस्तुतस्तु जन्यत्वापेक्षया अनन्यथासिद्धत्व- स्याप्रवेशन प्रयोज्यत्वस्य लघुतया पदजन्यपदार्थोपस्थितेन हेतुत्वं किन्तु पदप्रयोज्यपदार्थोपस्थितेरेव । तथा सति पदस- मूहालम्बनं नावश्यकमिति युक्तम् । पदार्थानां च खले कपोतन्या- येनात्वयबोधः। तदुक्तम् वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति ।। क चित्तु राजपुरप्रवेशन्यायेनान्वयबोधः । यत्र खण्डबा- क्यार्थबोधोत्तरं महावाक्यार्थबोधः । यत्र वा दण्डी कुण्डली छ- श्री चैत्र इत्यादौ विशिष्टस्य वैशिष्टयबोधे तात्पर्य, तत्र । तदु- कम् यद्यदाकाक्षितं योग्यं सन्निधानं प्रपद्यते । तेनतेनान्वितः स्वार्थः पदैरेवावगम्यते ॥ इति संप्रदायः । खण्डवाक्यार्थबोधोत्तरं चरमपदस्मृतिस्त- पदार्थस्मृतिस्तत्रार्थस्मृतिकाले खण्डवाक्यार्थबोधनाशाच्चरम- पदस्मृतिरेव तावत्पदविषयिणी। घरमार्थस्मृतिः तावदर्थवि- तर्कपादः । षयिणी ततो ऽन्वयबोध इति नव्याः । नर्नु पदजन्यपदार्थो- पस्थितिः शान्दबोधहेतुः, अन्यथा पचतीत्यादितः प्रत्यक्षदृष्टक- लापादेरप्यन्वयबोधापत्ते, रित्युक्तम् । एवं सति द्वारमित्यादौ शाब्दबोधो न स्यात् क्रियावाचकपदाभावादिति चेन्न । अनु. षनाध्याहारादिनान्वयबोधात् । एतेन विश्वजिता यजेतेत्यत्र स्वर्गकाम इति वा स्वर्गार्थमिति वा सौर्य चकै निर्वपेब्रह्मवर्चस- काम इत्यादौ प्राकृताग्न्यन्वाधानादीतिकर्तव्यतावाचकस्याग्ने- यवदितिपदस्य प्रतितिष्ठन्तीह वा य एतारात्रीरुपयन्ति सर्वेभ्यो दर्शपूर्णमासावित्यादौ विविषदस्य सौर्यादिविकृतावातिदेशिक- मन्त्रे ऽर्थलोपेन निवृत्ताग्निपदके सूर्यादिपदस्य चाध्याहारादिति व्याख्यातम् । स्वस्थानस्थितस्य पुनरनुसन्धानमावृत्तिः । ने. दीयस्थानान्तरस्थस्यानुसन्धानमनुषः । दवीयस्थानान्तरस्थ- स्यानुसन्धानमनुत्तिः । सा च सिंहावलोकितमण्डूकप्लुतिगङ्गा- स्रोतोवदिति त्रिधा । आवृत्त्यनुषानुवृत्त्यसाधारणलक्षणं श्रुत- पदस्यानुसन्धानम् । अश्रुतपदस्यानुसन्धानमध्याहारः । स च सर्वापेक्षया जघन्य इति ।गुरवस्तु तद्विषयकशाब्दे पदजन्यतदुप- स्थितेने हेतुत्वं किं तु तत्तदन्वयबोधे पदजन्यतत्तदन्वयप्रतियो- ग्युपस्थितित्वेन हेतुत्वम् । उक्तस्थले त्वर्थाध्याहारेणैवान्वयबोध इत्याहुः । तेषामयमाशयः । कार्यवाचकपदासमंभिव्याहृतवाक्या- नां मूकत्वाच्छाब्दबोधमात्रे कार्यवाचकपदज्ञानमर्थोपस्थितिश्च हेतुः। आकाङ्क्षाभावात्रोपस्थितस्याकाशादेोधः । उपस्थि- तकलापादेराकाङ्क्षायां बोधस्त्विष्ट एव । एवं च तत्तच्छाब्दबोधे तत्तत्पदार्थोपस्थितित्वेन हेतुतति लाघवम् । मतान्तरे तु तत्तत्पदज्ञानस्य तत्तत्पदजन्योपस्थितेश्च हेतुत्वकल्पने हेतु- हेतुमद्भावकल्पनागौरवमिति । अबाहुः । असाघुपदेनार्थप्रत्यया- .. भाचिन्तामणे भावात्साधुपदज्ञानमपि शाब्दबोधे हेतुः । साधुत्वं चानादि- तिप्रमाप्रयोज्यार्थप्रतिपादकत्वम् । तेन भाषाशब्देष्यनादिश. क्त्यभावाच्छक्त्यार्थाभावेन लक्षणाया असम्भवान्न साधुत्वम् । लाक्षणिकगङ्गापदे च न क्षतिः । आधुनिकसङ्केतितडित्थादिपदेषु पाणिनिसङ्केतितवृद्धिटिघुभादिपदेषु च पिता नाम कुर्यादिति विधिना पुत्रत्वनामत्वोपाधिना व्याकृता वागुद्यत इति विधिना व्याकरणोपाधिना चानादिवृत्तिप्रमासम्भवात्साधुत्वम् । वृत्ति- भ्रमेणार्थप्रत्यायकत्वमसाधुत्वम् । तद्यथा । भाषाशब्दानां प्र- योगपमयोः करणापाटवशक्तिभूमाभ्यामुपपत्तेः शक्त्यभावादे- व वृत्त्यन्तरस्य चासम्भवान वृत्तिप्रमेति न साधुत्वम् । राणक- स्तु पौरुषेयसङ्केतविरहविशिष्टत्वं साधुत्वम् । व्याकरणस. ङ्केतितानामसाधुत्वमिष्टमेवेत्याह । तन्न । टिपदोत्तरं विभक्त्यनु. त्पत्तिप्रसङ्गात् । टिधुभादिशब्दानामुभयबहिर्मूतत्वमिति केचित् । अदृष्टजनकतावच्छेदको व्याकरणाभिव्यज्यो जातिविशेष एवं साधुत्वामेत्यपि कश्चित् । तदुक्तम् । अनवभूष्टतानादियद्वाभ्युदययोग्यता । व्याक्रिया व्यञ्जनीया सा जातिः कापीह साधुता ।। यास्त्वेताः खेच्छया संज्ञाः क्रियन्ते दिघुमादयः । कयं नु तासां साधुत्वं नैवं ताः साधवो मताः ॥ अनपभ्रंशरूषत्वान्नाप्यासामपशब्दता । हस्तचेष्टा यथा लोके तथा सङ्केतिता इमाः ।। ततश्चासां नाभ्युदयः प्रत्यवायो पि वा भवेत् । लाघवेनार्थबोधार्थ प्रयुज्यन्ते तु केवलम् ।। वस्तुतः साधुत्वज्ञानं न कारणं नाप्यसाधुत्वज्ञान प्रतिबन्ध- कं, किं तु तादृशसमभिच्याहारस्य तादृशाकाङ्क्षाया वा हेतु- . तर्कपादः । ७३ स्वात्, नोक्तातिप्रसङ्ग इति युक्तम् । पदज्ञानस्य च द्वैधीकरण- ता चरमपदस्य सर्वपदस्मृतिहेतुसंस्कारोबोधकतया लाक्षणि कस्य च शक्तपदस्मृतिहेतुसंस्कारोद्धोधकतया स्वार्थोपस्थितिद्वा- रा च । अन्येषां तु स्वार्थोपस्थितिद्वारैवेति, तत्रोद्बोधक विधया यत्पदज्ञानजन्यत्वं पदार्थोपस्थितिद्वारा च यत्पदज्ञानजन्यत्वं शाब्दबोधनिष्ठं तदन्यतरसम्बन्धेन पदज्ञानविशिघटोपस्थिति- स्वादिना घटादिशाब्दे हेतृत्वम् । लाक्षणिकपदस्यानुभावकत्वा- भावात् । तत्स्मृतशक्तपदस्यैव शाब्दबोधहेतुत्वादिति के चित् । पदं चानुपूर्वी विशिष्टतद्वर्णसमुदायः। आनुपूर्वी च शक्ततावच्छे- दिका । सा च टमागभावविशिष्टयत्वरूपा घनाशविशिष्टटत्वरू- पा वा । वर्णानां नित्यत्वे तु अव्यवहितोत्तरत्वसम्बन्धेन घज्ञा- नविशिष्टज्ञानविषयटत्वादिरूपा । सुप्तिङन्तं पदमिति वैयाकर- णाः । शक्कं पदमिति तु युक्तम् । इदं तु बोध्यम् । पदज्ञानस्य घटशाब्दे केन रूपेण हेतुत्वम् । न तावत्पदज्ञानत्वेन, व्य. भिचारात् । नापि घटपदज्ञानत्वेन, कलशपदादपि घटशाब्दे व्यभिचारात् । किं तु घटशक्तपदज्ञानत्वेन । न तु वृत्तिमत्प- दज्ञानत्वेन, वृत्तित्वस्य शक्तिलक्षणान्यतरगर्भतया गौरवात् । तेन लाक्षणिकस्याननुभावकत्वम् । अत एव यत्र सर्वाणि लाक्ष- णिकानि तद्वाक्यं मूकमेव । गङ्गायां घोष इत्यादौ तु यत्कि- ञ्चिच्छक्तपदमादायान्वयानुभव इति सम्प्रदायः । वस्तुतो वृ- तिमत्पदज्ञानत्वेन घटपदज्ञानत्वेनं घटस्मारकपदज्ञानत्वेनान्त. तः शाब्दत्वावच्छिन्ने पदज्ञानत्वेनैव वा हेतुत्वं, तत्पदजन्यप- दार्थोपस्थितिरूपव्यापाराभावेन न व्यभिचारः । तेन लाक्ष- णिकस्याप्यनुभावकत्वं युक्तमिति दिक् ॥ ननु शक्तपदज्ञानत्वे- न हेतु वेत्युक्तं, तत्र केयं शक्ति रिति चेत् । अव्यवधानेन शब्द- । भादृचिन्तामणेः जन्यप्रतीत्यनुकूला वृत्तिः शक्तिः। अव्यवहितत्वञ्चार्थान्तरमती- त्यद्वारकत्वम् । इदं च लक्षणावारणाय तादृशचेष्टावारणाय चाव- शिष्टम् । सा चास्मात्पदादयमर्थों बोद्धव्य इत्याकारिकेश्वरे- च्छेति न्यायविदः । पदार्थान्तरमिति मीमांसकाः । अस्या एव सङ्केत इति व्यवहारः । साक्षाच्छन्दजन्यार्थप्रमितिसहकारि- ज्ञानविषयत्वं वा । वैयाकरणास्तु बोधकत्वमेव शक्तिः। एवं लाक्षणिकाद्यर्थे ऽपि शक्तिरेव । अत एव सर्वे सर्वार्थवाचका इत्याहुः ॥ शक्तिग्रहश्च व्याकरणादिना । तदुक्तम् शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्या व्यवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः।। अनुमानोपमानशब्दा एव शक्तिग्राहकाः । व्यवहारप्र- सिद्धसामानाधिकरण्यविवरणानामनुपानान्तर्भावः । व्याकर- णवाक्यशेषकोशानां शाब्दान्तर्भाव इति नव्याः । व्याकरणात् तृतीयादेः करणत्वकर्तृत्वादौ शक्तिग्रहः । उपमानेन उपमितिरू- पः शक्तिग्रहः । कोशो वैजयन्त्यादिः। आप्तवाक्यं घटो घटपद- वाच्य इत्यादि । अत्र च आप्तवाक्यत्वेन न शक्तिग्रहहेतुतां किं तु वाक्यत्वेन, लाघवात्, एवं च यन्न दुःखेन सम्भिनं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्व:पदास्पदम् ॥ इत्यादिवाक्येन शक्तिग्रहः । व्यवहारः प्रयोज्यवृ- दप्रयोजकवृद्धव्यवहारः । तथाहि । प्रयोजकवाक्यश्रर्व- णानन्तरं प्रयोज्यद्धप्रवृत्तिमुपलभमानो बालः प्रयोज्यवृ- दस्य तज्ज्ञानं ज्ञाने च शब्दस्यैव हेतृता तदन्यथानुपपत्त्या च शक्ति परिकल्पयन्नावापोद्वापाभ्यां तत्तत्पदस्य तत्रतत्रार्थे शक्तिमवधारयति । तदनन्तरं व्याकरणोपमानकोशाप्तवाक्यविव- , तकंपादः । रणवाक्यशेषप्रसिद्धपदसामानाधिकरण्यैर्यथायोग शक्तिमवधार- यतीति दिक् ॥ लक्षणा, गौणी च अपरा पदवृत्तिः । तत्र सा- दृश्यान्यशक्यसम्बन्धेनाशक्योपस्थितिर्लक्षणा । सादृश्यरूप- शक्यसम्बन्धेनाशक्योपस्थितिौणीति के चित् । तन्न । वृत्ते- रूपस्थितिहेतुत्वेनोपस्थितिरूपत्वानुपपत्तेः । अतः स्वशक्यसम्ब- न्धवत्वं लक्षणा । तस्याश्च पदनिष्ठत्वं स्वाश्रयसम्बन्धिवाचक- त्वसम्बन्धेन । यथा गङ्गायां घोष इत्यादौ गङ्गापदशक्यप्रवाह- सम्बन्धो लक्षणा तज्ज्ञानकार्यतावच्छेदकं च गङ्गासम्बन्धवत्तीर- त्वप्रकारकतीरविशेष्यकशाब्दत्वम् । गङ्गासम्बन्धस्य सम्बन्धत्वे- न भान संयोगत्वादिना वा, गङ्गासम्बन्धितीरे घोषो गङ्गासं- युक्ततीरे घोष इत्युभयविधानुभवात् । एवं सिंहो देवदत्त इत्य: त्रापि परंपरासम्बन्धेन सिंहसम्बन्धी देवदत्त इति बोधे लक्ष- - णैव । आभिधेयाविनाभूतइत्यस्याप्यभिधेयसम्बन्धत्वेन यत्र प्र- कारः, तत्र वृत्तिलक्षणेत्यर्थः । यदा तु सिंहनिष्ठक्रौर्यसजातीय- क्रौर्यवत्त्वेन देवदत्तप्रतीतिस्तदा गौणीति वक्ष्यते । न चैवं ती. रत्वमात्रप्रकारको बोधः कथं स्यादिति वाच्यम् । नदीतीरे समु. द्रतीरे वेति सन्देहापत्या तादृशबोधस्यालीकत्वात् । न चैवं सर्वत्र गङ्गासम्बघिनीति बोधादजहल्लक्षणापत्तिः । शक्यलक्ष्यो- भयस्य क्रियान्वयित्वे ऽजहल्लक्षणाङ्गीकारादिति सम्पदायः। वस्तुतो गङ्गापदात्तीरत्वमात्रप्रकारको बोधः । तीरत्वनिष्ठप्रकार- तानिरूपितविशेष्यतासम्बन्धन गङ्गापदजन्यशाब्दे समवायेन ग- ङ्गासंयोगवन्त्वज्ञानस्य हेतुत्वकल्पनया न संशयाद्यापत्तिरिति यु- क्तम् । सा च लक्षणा द्वेधा, ऽजहत्स्वार्था, जहत्स्वार्था च । स्वशक्या- थविशेष्यकान्वयबोधप्रयोजिका, अजहत्वार्था । यथा यष्टीः प्रवे- शयेत्यादौ । अत्र शक्यार्थस्यापि क्रियान्वयात् । इयमेवोपादानल. - भादृचिन्तामणे क्षणेत्यालङ्कारिकाः॥ स्वशक्यार्थाविशेष्यकान्वयप्रयोजिका जह- स्वार्था, गङ्गायां घोष इत्यादौ । लक्षितलक्षणाया अप्यत्रैवान्तर्भा- वः । स्ववाच्यपदघटकवर्णद्वयघटितपदवाच्यत्वरूपसम्बन्धस्यैव द्विरेफादिपदे लक्षितलक्षणात्वात् । एतेन द्विरेफपदेन भूमरपदं लक्ष्यते । तेन शक्त्या भूमरबोध इत्यपास्तम् । द्विरेफपदोत्तर- विभक्त्यर्थस्यानन्वयापत्तेः । तत्त्वमसीत्यादौ जहदजहल्लक्षणा च तृतीयेति वेदान्तिनः । लक्ष्यतावच्छेदके च न लक्षणेति प्राञ्चः । गोत्वविशिष्टशाब्दे गोत्वविशिष्टशक्तिग्रहस्य हेतुत्वव- द, तद्विशिष्टशाब्दे तद्विशिष्ट वृत्तिज्ञानस्य हेतुत्वा, त्तत्रापि लक्षणा युक्तति नव्याः ॥ लक्षणाबीजं शक्यार्थान्वयानुपपत्ति, न तु तात्पर्यानुपपत्तिः । वेदे तदसम्भवात् । यधीः प्रवेशयेत्यादौ तु प्रवेशनपदस्य भोजनप्रयोजनकप्रवेशनपरत्वग्रहादन्वयानुपप- त्तिरेव । वस्तुतो मुख्यार्थानुपपत्तिज्ञानं मुख्यार्थबोधे प्रतिबन्धक न लक्ष्यार्थबोधकारणं, लाक्षणिकस्थले गङ्गापदेन तीरपदस्मृ- तिस्तेन तीरस्मृतिरिति प्राञ्चः । तन्न । गङ्गापदात्तीरानुपस्थि- तौ तत्र विभक्त्यर्थान्वयो न स्यात् । अतस्तीरोपस्थापकत्वेपि नानुभावकत्वं, तीरान्वयबोधे तारान्वयप्रतियोगिशक्तपदज्ञान- खेन हेतुताङ्गीकरणात् । शक्तपदान्तसदेव तीरान्वयानु- भवस्य युक्तत्वात् । सर्वलाक्षणिकस्थले तु न बोध इति दिक् ।। अध केयं गौणी नाम । सादृश्यरूपशक्यसम्बन्धो गौणी, तेन लक्षणान्तर्गतिरिति नैयायिकाः । के चित्तु लक्ष्यमाणगुणयो- मनिमित्तवृत्तित्त्वं गौणत्वम् । सिंहो देवदत्त इत्यत्र सिंहपदल क्षिता सिंहमुणक्रौर्यादिसम्बन्धनिमित्ता अपरात्र वृत्तिरित्याहुः कन्न । सिंहनिष्ठतौर्यादीनां देवदचे असम्भवात् । प्रसिद्धार्थ- लागेनाप्रसिदगुणवाचित्वं तत्वम् । सिंहपदेन प्रसिद्धार्थसिंह - -- . तकंपादः । त्वत्यागेन देवदत्तनिष्ठकोयाँदि शक्त्योच्यते । सामानाधिकरण्यं च मत्वर्थलक्षणयोपपद्यतइति । तदपि न । प्रसिद्धार्थत्यागस्य तात्पर्यग्रहावीनतंया वेदे तदसम्भवात् । एतेन समुदायबाचिन एकदेशे वृत्तिौणी सिंहशब्दो न जातिमात्रवाचकः किं तु जातिव्यक्त्याकृतिक्रौर्यादिगुणसमुदायवाचकः । अन्यथा भक्त- सिंहादिशब्दे देवदत्तपदसामानाधिकरण्यानुपपत्तेः । एवं च समुदायवृत्तिन एकदेशार्थलक्षणया देवदत्तपदसामानाधिकरण्य- मित्यपास्तम् । तात्पर्यग्रहं विना तज्ज्ञानस्यासम्भवात् । आ- रोपितार्थवृत्तित्वं गौणत्वं, सिंहो देवदत्त इति प्रयोक्ता सिंह स्वादि देवदत्वे आरोप्य वाक्यं प्रयुक्त, बोद्धा च तथैव प्रविष- धते । आरोपश्चाहार्यो बोध्यः । एवं चालङ्कारिकाणां चन्द्रो मुखामित्यदावारोपेण गोषबोधः । परं त्वयमारोप आलङ्का- रिकवासनांविशेषजन्यत्वात्प्रेक्षित आहार्य इत्युच्यते । अत एक शुक्तिरजते न मौणत्वं, तदारोषस्य कारणदोषजन्यत्वेन आहा- यत्वाभावादित्यपरे । तन्न । आरोपकपुरुषापावेन वेदे तदसम्म- वात् । किं च. खपुष्पं भवसिद्धान्त इत्यादाक्ननुभूतपूर्वतया- रोपासम्भवात् मौणत्वानुषपत्तिः । अथ तत्र विशकलितप्र- सिद्धभक्दाकाशाधिकरणत्वरूपसंसर्गस्यारोपेणाकाशाधिकरणक- वृक्षादौ चर्तमानं पुष खपुष्पयदार्थमङ्गीकृत्यः तत्तादा- त्म्यारोपेण सिद्धान्ते गौणते.त्युच्यते । तदा आरोपितसं. सर्गरूपार्थवृत्तितया खपुष्पे खपुष्पशब्दस्य मौणत्वापत्तिः । अतो. गौणत्वनिरुक्तिरशक्येति चेत्,न । स्वशक्यसम्बन्धिः- गुणसजातीयगुणवदृत्तित्वं गौणत्वं, शक्यसम्बन्धश्च. एकार्थव- चिस्वसमवेत्तत्वादिः । एवं सिंहो माणवक इत्यादिवाक्यजन्ये सिंहत्वकासमवेतर्यादिसजातीयगुणवत्प्रकारके गुणप्रकार के .
७८ भाइचिन्तामणेः वा माणवकादिविशेष्यके शाब्दे सिंहपदजन्यगुणवदुपस्थितेर्गु- णोपस्थितेर्वा हेतुत्वम् । तत्र च सिंहपदेनकसम्बन्धिज्ञानादपर- सम्बन्धिस्मरणमिति रित्या सिंहगुणतत्सजातीयंगुणानां लक्षण.. योपस्थितिः । एवं योषावावगौतमाग्निरित्यादावग्निशन्दो यो- पायां गौणः, एवं खपुष्पं सिद्धान्त इत्यादौ खपुष्पसमासार्थ- स्यालीकत्वस्य सिद्धान्ते संम्बन्धाद्गौणता । खपुष्पं नास्तीत्यत्र तु नास्तिपदमनुवादः । अतः स्वशक्यसम्बन्धिगुणसजातीय- गुणवदुपस्थितिहेतुवृत्तिर्गौणीति सिद्धम् । एवंविधगौणत्वाङ्गीका- रे च शक्यार्थत्यागाभावेन न वेदाप्रामाण्यापत्तिलेशो ऽपि । अत एव यजमानः प्रस्तर इत्यादौ यजमानपस्तरयोगकारण- त्वरूपगुणयोगेन यजमानपदं प्रस्तरे गौणमतो भिमा लक्षणातो गौणी । उपपादयिष्यते च तभिमित्तानि तत्सिद्धयादीनीति दिक् ।। तच्च पदं चतुर्विधम् । रूदं, यौगिकं, योगरूढ़े, यौगिक- रूढं, च । समुदायशक्तया ऽर्थप्रत्यायकत्वं रूढत्वम् । अवयव- शक्तथार्थप्रत्यायकत्वं यौगिकत्वम् । समुदायशक्त या अवयव- शक्तया चैकार्थप्रत्यायकत्वं योगरूढत्वम् । तथैव भिन्नार्थप्रत्या- यकत्वं यौगिकरूढत्वम् । यथा घटः,चितगुः, पङ्कजं, मण्डप, इत्या- दिशब्देषु । पङ्कजपदात् पङ्कजनिकरीत्वपद्मत्वोभयप्रकारको. पस्थितरानुभविकत्वात् । अन्यथा पङ्कजपदात् भेकादिबोधो ऽपि स्यात् । अतो योगरूदिरावश्यकी । अत्र के चित् । पक- जादिपदानां यौगिकत्वमेव पंकजपदादवयवशक्तया पद्मवि- शेष्यकपङ्कजनिकत्वमात्रप्रकारकबोधेन पनत्वप्रकारकबोधाभा- वात् । न चैवं पङ्कनपदात् कुमुदभेकादिविशेष्यकपङ्कजनिकर्तृत्व- प्रकारकवाधापत्तिरिति वाच्यम् । पूर्वतरप्रयोगत्वप्रकारकज्ञानस्य तत्पदजन्यशाब्दबोघे हेतुत्वाङ्गीकारात । यद्वा पङ्कजानिकर्तृत्वाने M . 'तपादः । ७९ ठप्रकारतानिरूपितशिष्यतासम्बन्धेन पङ्कजपदावयवशक्तिग्रहज- न्यशाब्दबोधं प्रति समवायसम्बन्धन पनत्वस्य पद्ममात्रवृत्ति- विषयताया वा पद्ममात्रवृत्तिविषयता सम्बन्धेन ज्ञानस्यैव वा हेतुताङ्गीकारानोक्तातिप्रसङ्गो न वा भूतभाविपद्मबोधानुपपत्ति- रित्याहुः ॥ व चित् कुमुदादौ प्रयोगस्तु लाक्षणिकः । यद्यपि योगरूढयङ्गीकारे ऽपि इथं लक्षणा तुल्या तथापि शक्यतावच्छे- दकाननुप्रविष्टधर्मेण लक्षणापेक्षया तदनुप्रविष्टधर्मेण लक्षणा लघी. यसी।घालवं च तेन रूपेणान्वयमात्रकल्पनं न तु स्मरणमपीति । ऐवं यौगिकरूढं मण्डपादिपदम् । योगेन रूढ्या च भिन्नार्थप्रत्या- यकत्वात् । योगापेक्षया रूढेः प्राबल्यमप्येतद्विषयमेव । अत एव रथकारादिवाक्ये सौधन्वनापरपर्यायऋभुरूपजात्यन्तरग्रहणमेव सिद्धान्तयिष्यतइति दिक् ॥ उक्तरूपपदज्ञानकरणको वाक्या- र्थो द्विविधः । भेदरूपः, संसर्गरूपश्च । राज्ञः पुरुष इत्यादावराज- सम्बन्धिभिन्नः पुरुष इति बोधादिति के चित् । सर्वत्र सम्बन्ध- एव वाक्यार्थ, उक्तरूपापोहस्य मानुषेण भानाभावात् । अपो- हस्याप्रसिद्धेश्च । अतः संसर्ग एवं वाक्यार्थः । स च घटमानये- त्यादौ घटकर्मकत्वादिरूपविशेषणविशिष्टं विशिष्यमेव वाक्यार्थ इत्याचार्याः । तस्य च विशिष्टवैशिष्ट्यरूपवाक्यार्थस्य भानं चतुर्विधम् ॥ "भावनैव हि वाक्यार्थः स्वकारकाविशेषिता । विधित्वं श्रौतमार्थ वा भावनाकारकाश्रयम्" । इति वार्तिकात् । विशिष्टस्य वैशिष्ट्यरूपमेकं, विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्यपरं, यथा नीलदण्डवान् पु- रुष इति । एकविशिष्टे अपरवैशिष्टयमिति तृतीयम् । दण्डी देवदत्तः कुण्डलीति, एकत्र द्वयमिति चतुर्थम् । यथा दण्डी ..
८० भादृचिन्तामणेः कुण्डली देवदत्त इति । चतुर्विधेपि वाक्यार्थे वाक्यस्य शक्ति- रिति वैयाकरणाः । कार्यान्विताभिधानाङ्गीकारेण कार्यान्वयरू- पेण वाक्याथै शक्तिरिति मुरकः । इतरान्विताभिधानाङ्गीकारे णान्वयरूपे वाक्यार्थे शक्तिरिति वेदानिनः । वैयाकरणानां वाक्यार्थो विशेष्य इतरयोस्तु विशेषणभूत इति भेदः । संसर्ग- मर्यादया वाक्यार्थभानमिति गौतमीया: । क्याथै लक्षणति सिद्धान्तः । तत्र वैयाकरणास्तावत् । भवति भूयात् बभूव रामः रामानित्यादौ श्रूयमाणतिकाराविसादीनां वाचकता न तु भूधातुलकारसुवायुपस्थापनद्वारा ऽर्थपत्यायकत्त्वम् । आ- देशिनां वाचकत्वकल्पने आदेशानां तदुपस्थापकत्वकल्पने गौ- रवात् । व्याकरणभेदेनादेशिनामननुगमाच्च । अन्यथा ऋषभो वृष इत्यादावप्यन्यतरेणान्यतरस्मरणे नैकत्रैव शक्त्यापत्ते अतः श्रूयमाणानुपूर्वी विशिष्ट वर्णा वाचका न तु धात्वाद्युप- स्थापका इति वर्णस्फोटः । एवं हरिणा हरये रामात् हरेरित्या- दौ पदादेशविभामाभावात्कस्य चिदंशस्य द्रव्यवाचकत्वं कस्य चित्करणत्वादिवाचकत्वमिति नियन्तुमशक्यत्वात् । सम्पूर्ण- स्यैव करणत्वादिविशिष्टहरिवाचितति पदस्फोटः । एवं कृष्णेहि रसैनमित्यादौ काक्येशविभागाभावादेकारघटितानुपूर्वीकस्याग- मनवाचकस्यात्र सत्त्वे मानाभावाद्वाक्यस्यैव विशिष्टार्थे शक्तिरि- ति वाक्यस्फोटः । स द्विविधः सखण्डवाक्यस्फोटो,. ऽखण्डवा- क्यस्फोटश्च । आद्यो द्विधा । पदरूपखण्डवाक्यस्फोटो, वर्णरूप- खण्डवाक्यस्फोटश्च । तथाहि । विष्णोवेत्यादिवाक्येषु आका सादिसहकृततत्तत्पदस्मारिनपदार्थानां संसर्गरूपवाक्यार्थावग: मपि तस्य शाब्दत्वसिद्धये वाक्यस्य शक्तिः कल्प्यते । सैव वा- व्यस्फोटः । सा चाज्ञातैव स्वरूपेण हेतुः । अन्धितशक्तिवादि- यद्वा वाक्ये तर्कपादः। मते अन्वयांशशक्तिवत् । हरिद्रायां नद्यां घोष इति वाक्यइवा- न्वयाव्यवहितपूर्वक्षणे तदवगमो वा कल्प्यते । यद्वा हरे ऽवेत्या- दौ पदविभागानिर्णयावर्णत्रयात्मकवाक्यस्य सम्बोध्यहरिकत. करक्षणे शक्तिरूपः स्फोटः । तदा वर्णरूपः खण्डवाक्यस्फो- । अस्याश्च व्यवहारकाले ग्रहः । न चैवं वाक्यस्य पदव- स्मारकत्वापत्त्या ऽननुभावकत्वापत्तिः । अनुभवत्वस्य प्रत्य- क्षमात्रवृत्तितयेष्टत्वात् । यथार्थज्ञानजनकत्वस्यैव वाक्यप्रमाण- त्वात् । आकाङ्क्षादिसहकृतपदार्थस्मरणजन्यार्थज्ञानजनकत्व- स्यैवानधिगतार्थगमकतया प्रामाण्याविघातः बोधकत्वातिरिक्तः सम्बन्धो न शक्तिः, मानाभावात् । हस्ति- पकादौ तु तस्य मानान्तरगम्यत्वाद्युक्तं तेन तत्स्मरणम् । अतो न स्मारकत्वापत्तिलेशोपि । एवं चाकाङ्क्षादिज्ञानस्य हेतुत्वाभावान्तात्पर्यज्ञानस्यैव हेतुतया कार्यकारणभावकल्पना. काघवम् । यद्वा घटमानयेत्यादिवाक्येषु ध्वनिधर्मंस्तारत्वमन्द. त्वादिभिरिखघटत्वादिध्वनिधमैरेव एकशब्दो वर्णरूपो ऽभिव्य- ज्यते । स एव वाक्यस्फोटः । एवं पदस्फोटेपि द्वैविध्यमुन्नेय- म् । एवं च एकं पदमेकं वाक्यं महत्पदं महद्वाक्यं शब्दात् प्र. त्यमीत्याद्यनुभवोपपत्तिः । वर्णानामनेकत्वेन महत्वाभावेन च तदनुपपत्तेरित्याहुः ॥ परे तु यथा बलवता प्रेरित इषुरेकैनैव वेगाख्यव्यापारेण वर्गच्छेदमुरोभेदं प्राणहरणं शत्रोः करोत्येवं शब्द एकेनाभिधाव्यापारेण पदार्थस्मृतिं वाक्यार्थानुभवं च करोतीतिं यत्परः शब्दः स शब्दार्थ इति वाक्यार्थे शक्तिमा- हुः । तदयुक्तम् । पूर्वो धावतीत्यत्र परस्य पुत्रस्ते जात इत्यादि- घु हर्षादीनां,गच्छसि चेदित्यादौ मा गा इति निषेधस्य वाक्यार्थः तापत्तेः। अत. एव तादृशार्थप्रत्ययाय व्यजनैवाङ्गीकृता। तच्च भाइचिन्तामणे व्यन्जनानिरूपणे स्पष्टामिति दिक् ॥ के चिन्तु वाक्यार्थे तात्प- याख्यं वाक्यस्य वृत्त्यन्तरमाहुः ॥ प्राभाकरास्तु । कार्यान्विते पदानां शक्तिः । तथाहि । पदेषु स्मारिका ऽनुभाविका, चेति शक्तिद्वयम् । तत्र स्मारि- का जातौ । अनुभाविका कार्यान्विते । एवं च घटादिपदानि घटत्वादिजातिस्मरणद्वारा घटादेः कार्यान्वयानुभवजनकानि । तथाहि । सर्वत्र व्यवहारेणैव शक्तिग्रहः, प्रयोज्यवृद्धस्य प्रयो- जकवाक्यश्रवणानन्तरं गोकर्मकानयनचेष्टया ताशकृतीच्छानु- मानद्वारा स्वप्रवृत्तौ कार्यताज्ञानस्य हेतुत्वदर्शनात्कार्यताज्ञान- मनुमाय कार्यताज्ञानहेतुत्वमवधार्य तस्यासति वृत्त्यन्तरे तदर्थश- कि विनानुपपन्नतया कार्यान्वये अनुभाविकां शक्तिमवधारय- ति । कार्य चापूर्वमेवोत यत्र कार्यवाचकपदाभावस्तत्र न वा- क्यार्थबोध: किन्तु पदार्थस्मरणमात्रम् । लिङादियुक्तलौकिकवा- क्यस्य च लक्षणया ऽऽनयनादिरूपकार्यान्वितबोधकत्वमित्याहुः । वेदान्तिनस्तु इतरान्वित एव शक्तिग्रहो न तु कार्यान्विते । तथाहि । प्रयोजकं वाक्यस्य आनयनकर्मत्वविशिष्टगोरूपेर्थे शक्तिमव- धार्यावापाद्वापाभ्यां गवादिपदस्य गोत्वादौ शक्तिमवधारयन्ना- धन्युत्पत्चिगृहीतान्वयांशे शक्तिमत्यजन्नानयनान्विते एव शक्तिम- वधारयति । एवं चान्वयेपि शक्तिरित्याहुः । नैयायिकास्तु समभिव्याहारेण वाक्यार्थबोध इति घटानयनविशिष्टसंसर्गज्ञाने तादृशानुपूर्वीज्ञानस्य हेतुतामात्रकल्पने लाघवात् । शाब्दत्वं च न शब्दवृत्तिविषयत्वं किं तु शब्दजन्यप्रतीतिविषयत्वम् । तेन वृत्त्यविषयस्याप्यन्वयस्य शाब्दत्वोपपत्तिरित्याहुः । सिद्धान्त- स्तु वाक्यस्य वाक्यार्थे लक्षणा । न च शक्याभावात् कथं ल. सणेति वाच्यम् । बोध्यसम्बन्धस्यैव लक्षणात्वात् । घटमानये- । । ।
तर्कपादः । '८३ त्यादिवाक्ये घटानयनसामान्यबोधेपि तद्विशेषबोधस्य लक्षणां विनानुपपत्तेः । नहि घटानयनसामान्यं वाक्यार्थः । ज्ञानेच्छा- प्रवृत्तीनां समानप्रकारकत्वसमानविशेष्यकत्वेन हेतुहेतुमद्भावा- विशेषविषयकेच्छापवृत्त्यनुपपत्तेः । अतस्तद्विशेषरूपवाक्यार्थस्प लाक्षणिकत्वं युक्तमिति स्फुटीकरिष्यते चैतत्तद्भूताधिकरणे । अवलोक्य जरनिबन्धजातमणिमन्यानि तदीयटिप्पणानि। अनवाप्य मुदं ततो मुदर्थे लिखितो ऽयं निजकल्पितो विशेषः॥१॥ अथ प्रवर्तकज्ञानं विचार्यते ॥ ननु किमत्र विचार्यते, इष्टसाधनत्वकृतिसाध्यत्वबळवद. निष्टाननुबन्धित्वज्ञानानां प्रवृत्तिहेतुत्वस्य क्लप्तत्वादिति चेत् । अत्र गुरवः । स्वविशेषणवत्तापतिसन्धानजन्यकार्यताज्ञानस्यैव चिकीर्षाद्वारा प्रवृचिहेतुत्वं नेसाधनत्वबलवदनिष्टाननुबन्धित्व- ज्ञानयोरपि । अन्यथा हेतुहेतुमद्भावत्रयकल्पनागौरवात् । तथा- हि । कार्यताज्ञानं द्विविधं, मयेदं कर्तुं शक्यतइत्येवं रूपमेकं, ममेदमवश्यं कार्यमित्येवरूपं द्वितीयम् । तत्राचं पदार्थनिष्ठयो- ग्यतागम्यमिति न प्रवृत्ति प्रति हेतुः । द्वितीयं तु स्वेष्टसाधन- त्वबलवदनिष्टाननुबन्धित्वज्ञानजन्यमिति चिकीर्षाद्वारा प्रवृत्ति प्र. ति हेतुः । इदमेव स्वविशेषणवत्ताप्रतिसन्धानजन्यत्वं, स्वं नि- योज्यः, तद्विशेषणं काम्ये फलकामना, नित्ये शुचितत्काळजी. वित्वादीति नेष्टसाधनत्वबलवदनिष्टाननुवन्धित्वज्ञानजन्यकार्य- ताज्ञानस्य चिकीर्षाद्वारा प्रवर्तकत्वं सिद्धं भवति । अत एवे- ष्टसाधनत्वेनाज्ञाते मध्वनभोजने ऽनिष्टप्लाधानत्वेन ज्ञाते विष- भोजने बलवदनिष्टानुबन्धित्वेन ज्ञाते मधुविषसम्पृक्तानभोजसे न प्रवृत्त्यापत्तिः । न च तत्र मध्वनभोजनजन्यं सुखं भवत्वि- SEASE भादृचिन्तामणे तीच्छया तदापत्तिः । विषासम्पृक्तमध्वनभोजनसुखत्वेनैवेच्छा- गोचरीभावात् । नापि जीवकर्तृकत्वलिङ्गककार्यताज्ञानेन विष- भक्षणे प्रवृत्त्यापत्तिः । न वा काम्ये शौचादिलिङ्गककार्यताज्ञाना- त्प्रवृत्त्यापत्तिः । एतेन भावियौवराज्ये तृप्तस्य भोजने च प्रवृत्त्या- पत्तिनिरस्ता । के.चिन्तु इदानीन्तनमत्कृतिसाध्यताज्ञानं हेतु- स्तच्चेदानीन्तनमदिष्टसाधनत्वज्ञानाधानमिति तदभावान प्र- त्तिरित्याहुः ॥ तन्न । तदनुकूलकृत्यभावे ऽपि यदि मया क्रिय- ते तदेदं भविष्यतीत्येतादृशकृतिसाध्यत्वज्ञानस्य तदानीमपि स- चात् । एवं चेष्टसाधनत्ववलवदनिष्टाननुबन्धित्वशुचितत्का- लजीवित्वज्ञानजन्यानां कार्यताज्ञानानां कार्यताज्ञानत्वेनानुगता- नां प्रवृत्ती हेतुत्वमिति लाघवम् । इष्टसाधनत्वज्ञानादीनां प्र. ति प्रति हेतुत्वे तु हेतुहेतुमद्भावत्रयकल्पनागौरचम् । न चेष्टसाध- नत्वादिज्ञानानां कार्यताज्ञानहेतुत्वकल्पने तद्धेतोरेवास्त्विति न्यायात् प्रवृत्ति पति तेषामेव कारणत्वं युक्तम् । शाब्दबोधे तात्पर्यज्ञानस्येव प्रवचौ कार्यताज्ञानस्य लाघवेन हेतुत्वांत, त- हेतुप्रकरणादीनां शाब्दबोधहेतुत्वाभाववत् कार्यताज्ञानजनके ष्टसाधनत्वज्ञानादीनामपि तद्धेतृत्वकल्पनायोगात् । तस्मात्का- ताज्ञानमेव प्रवर्तकं कार्यत्वमेव विध्यर्थः ॥ अथ कार्यत्वं वियर्थमङ्गीकृत्य तन्मते वाक्यार्थबोधप्रकारः। लोके तृप्तिकामः पचदित्यादौ प्रत्ययार्थकार्यत्वस्य प्रकृत्यर्थ- पाके ऽन्वयवत्स्वर्गकामो यजेत श्रुचिः सन्ध्यामुपासीतेत्यादिवैदि- कविधौ प्रत्ययार्थकार्यत्वस्य न प्रकृत्यर्थयागाद्यन्वयः सम्भवति । प्रकृत्यामतीतयोग्यताकत्वात् । तथाहि । यागादिक्रियायां का- यत्वान्वये नियोज्यान्वयो हेतुः । नियोज्यविशिष्टायामेव पा- कादिक्रियायो कार्यत्वान्वयदर्शनात् । अन्वयम्योजकरूपतत्त्व- 1 ॥ तर्कपादः । स्य तन्मते योग्यत्वात् । नियोज्यस्य च प्रकृते स्वर्गकामस्य नि- योज्यत्वेन स्वफलकामनाप्रयुक्तकार्यताज्ञानविषयत्वेन सम्बन्धे. न यागादिक्रियायामन्वये स्वर्गसाधनत्वेन ज्ञायमानत्वं वा योग्यता । तच्च न सम्भवति । साक्षात्स्वर्गसाधनत्वस्य बाधात्, परम्परया तत्साधनत्वस्य परम्पराघटकापूर्वज्ञानं विना दुर्जेयत्वात् । तथा च यागे नियोज्यान्वयासम्भवान कार्यत्वान्वय इति । अथ शुचिः सन्ध्यामुपासीतेत्यादौ नित्ये यथेष्ठसाधनत्वज्ञानं विनापि शुचिनियोज्यकं सन्ध्यावन्दनाविषय. के कार्यमिति बोधस्तथा स्वर्गकामनियोज्यको यागः कार्य इति बोधः स्यादिति चेन्न । प्रकृते कामनाविशिष्टस्य नियोज्यत्वेन नित्यविधितो विशेषात् । न च कामनोपलक्षणमस्त्वात्ममात्रमे- वोपलक्ष्यं, काम्यसाधनतालिङ्गककार्यताज्ञानस्य प्रवर्तकत्वेन नातिप्रसङ्ग इति वाच्यम् । तर्हि स्वर्गकाम इत्यस्य वैफल्यापत्तेः । कामनाया उपलक्षणत्वे नित्य इव वेदाधीनकार्यताज्ञानानिष्का- मस्यापि प्रवृत्त्यापत्तेः । इष्टसम्बन्धे मानाभावादमवृत्त्यापत्तेश्च । नहि नित्यविधितः प्रकृत स्वर्गकामपदसमभिव्याहारादन्यो विशे- पः । विशेषणत्वे हि विशिष्टस्य स्वप्रयोज्यकार्यताज्ञानववरूप- नियोज्यत्वेनान्वये तत्कामनाविषयसाधनत्वस्य योग्यतात्वात् स्वर्गकामपदैकवाक्यतानिर्वाहकमतीत्यनुपपत्त्या वाच्यमपूर्व का- मनाविशिष्टान्वयि सिद्धयति । अत एव प्रधानविधावेवापूर्वा- काङ्क्षा न नित्यविधावानेयादिविधौ च । ममेदं कामिति बो- धवत्त्वरूपनियोज्यत्वे च कामनाया विशेषणतया प्रयोजकत्वं कामिनो जनकत्वमिति विशिष्टप्रयो त्वम् । सम्बद्धत्वं च कर्तृ- त्वाधिकारित्वाभ्याम् । बोधे तूपलक्षणता ऽनन्यगत्या न क्षति- करी । माथमिकनियोज्यान्वये विशेषणतयैवेष्टसिद्धः । एसेन ।
४६ . भाइचिन्तामणः राजा स्वाराज्यकाम इत्यादौ राजत्वादिवद्विधमानत्वे सति व्या- वर्तकत्वेन विशेषणत्वमप्यपास्तम् । कामनायामेव तत्कृतेरुदया- त् । यदा कामना तदा तत्कृतिरिति रीत्या व्यावर्तकत्वसम्भ- वाच्च । अतो यागे कार्यत्वान्वये नियोज्यान्वयो योग्यता । तत्र चेष्टसाधनत्वेन ज्ञायमानत्वम् । स्वर्गसाधनत्वस्य योग्यतात्वाभा. वादति गुरुमत निगर्वः ॥ अत्र काम्यसाधनत्वेपि तत्त्वेनाज्ञायमाने नियोज्यानन्वया- व काम्यसाधनत्वेन ज्ञायमानस्वमुक्तम् । यसु काम्यासाधनेपि तत्साधनत्वभ्रमाश्रियोज्यान्वयाव- पस्थितकाम्यसाधनत्वागृहीतासंसर्गकत्वमेव योग्यता, उपस्थि- त्ययमेवापूर्ववाच्यतासिद्धिरिति । तन्न । त्वन्मते योग्यताविशि- टज्ञानस्यैव शाब्दबोधे हेतुत्वादन्यथाख्यात्यापत्तेः । एतेन ताह- शज्ञानवतोपि नियोंज्यस्य चिकीर्षाशून्यस्य न यागकतिरिति 'न नियोज्यत्वं योग्यता, न वा चिकीर्षा, तद्वतो ऽप्युपादान:- त्यक्षविरहिणो ऽसत्त्वादिति परास्तम् । अन्वयप्रयोजकत्वं ना. वित्तवृत्तित्वेन गृहीतत्वं, किंत्वनन्वितवृत्तित्वेनागृहीतत्वम् । त- त्वं च यदा यस्य तत्त्वं तदा तस्य नं योग्यतात्वं, किं तु वि. शिष्ठनिष्टतयोक्तनियोज्यत्वमेव, प्रयोजकतया तस्य विशिष्टनिष्ठ- त्वात् । चिकीर्षावत्त्वमपि तथेति चेत् । सत्यम् । किं तु तत्प्रयो- जकत्वं तस्योक्तनियोज्यत्वद्वारकत्वेन गुर्विति तत्यागः । अत एच कृतिप्रयोजकत्वरूपकर्तृत्वत्यागः। कृतिसमवायित्वरूपं कर्तृत्वं 'फलभावित्वरूपं चाधिकारित्वं नकामनायामिति न तयोविशि- धनिष्ठत्वमिति प्रागेवोक्तम् । वस्तुतस्तन्मते ऽन्यथाख्यात्यभावा- धागो मत्कृतिसाध्य इति ज्ञानं कृतिशून्यस्य नास्त्यवेति न कि- ञ्चिदेतत् । ननु योग्यतान्वये योग्यतान्तरापेक्षायामनवस्था.
तपादः । पत्तनियोज्यान्वयरूपयोग्यतान्वये न योग्यतान्तरापेक्षेति चेत् । सत्यम् । नियोज्यत्वस्य योग्यतारूपस्य स्वर्गकामेन्वये योग्य- तान्तरानपेक्षायामपि नियोज्यत्वेन रूपेण स्वर्गकामस्य पदार्थ- स्य धात्वर्थे यागे ऽन्वये योग्यतान्तरस्यावश्यकत्वात् । घटे छि- देतरत्वस्यान्वये योग्यतान्तरानपेक्षायामच्छिद्रेतरत्वेन घटस्या- ., न्वये योग्याहरणत्वस्याहरणे योग्यजलत्वस्य जले योग्यतात्वात् । तथाहि । यथा घटादिमात्रेणाहरणाघसम्भवात् घटे छिद्रेतरत्व. माहरणे योग्याहरणत्वं जले च योग्यजलत्वं योग्यता, तथा ख. गदिमात्रस्य ममेदं कार्यमिति ज्ञानशून्यस्य यागाद्यन्वयसम्भ- वात्स्वर्गकामे नियोज्यत्वं क्रियायां काम्यसाधनत्वेन ज्ञायमान- त्वं योग्यता, नित्ये तु शौचादिमत्त्वमेव योग्यतेति बोध्यम् ।। अथार्वरूपकार्येपि न नियोज्यान्वयसम्भवः । अपूर्वस्य प्रागनुपस्थित्या तत्र काम्यसाधनत्वरूपयोग्यताज्ञानासम्भवा- दिति चेन्न । विशिष्यापूर्वत्वेन ज्ञानासम्भवोप कार्यत्वेन तस्य काम्यसाधनत्वज्ञानसम्भवेन नियोज्यान्वयसम्भवात् । ओदनत्वेन तृप्तिसाधनतया ज्ञाते ओदने तृप्तिकामान्वयवत् समा- नप्रकारकत्वेनैव योग्यताधियो नियोज्यान्वये हेतुत्वात् । अपू. लाभस्तु योग्यताबलात् । यागजन्यं कार्य स्थायि प्रकृतका- म्यसाधनमित्यत्रापूर्वस्यैव विषयत्वाद्, यागजन्यस्य कार्यान्तर- स्यातथात्वात् ।। एतेन साक्षात्साधनवान्वययोग्यतारूपं स्था- यित्वं पागपूर्वानुपस्थित्या ऽसम्भवीत्यपास्तम् । कार्यत्वावच्छिन्ने क चित स्थायित्वज्ञानसम्भवात् । साक्षात्साधनत्वस्य नियोज्या- न्वययोग्यतारूपस्य योग्यतात्वेनैवोपस्थितस्तत्र योग्यतान्तरान- पेक्षणाच्च । स्वर्गकामो यजेतेत्यादिवाक्यश्रवणे स्वर्गसाधनं स्था- यि कार्य सम्भवति स्वर्गकामान्वययोम्यं, यागस्त्वस्थायीत्यनु- है ८८ " भाइचिन्तामणे पपत्तिज्ञानादपूर्व वाच्यं सिध्यतीत्यनुपपत्तिज्ञानमेव योग्यताज्ञान- मित्यन्ये ॥ लिन फलकरणत्वान्वितं स्वार्थमाहेति न्यायप्रदीपः ॥ प्रवृत्तिजनकशान्दबोधक्रमस्तु नियोज्यस्वर्गकामीयं यागवि. षयकं स्वर्गसाधनं स्थायि कार्य ममेति प्रथमो बोधः। स्वर्गकामे नि- योज्यत्वं संसर्गतया प्रकारतयावा भासते । नियोज्यस्वर्गकामीयो यागः कार्य इति द्वितीयः। अन्यथा ऽतीन्द्रियस्याफलस्य स्वतन्त्र- कृत्यसाध्यतया यागकृतिसाध्यस्य यागे कार्यत्वान्वयबोधं विना ऽनुपपत्तेः । नियोज्यस्वर्गकामः स्वनियोज्यकस्वर्गसाधनत्वेन ज्ञा. यमानकार्यो यागानुकूलकृतिमानिति व्यापारवानिति वा तृतीयः। अन्यथा पूर्वप्रतीतकृतेराश्रयान्वयं विना ऽनुपपत्तेः । आख्यात- बाच्यव्यापारसामान्यस्य कर्तृसाकाङ्क्षत्वात्प्रथमान्तपदोपस्था- प्पे ऽन्वयबोधनियमाच्च तदन्वयं विना ऽनुपपत्तेर्वा स्वर्गकामो यागजन्यफलभामिति चतुर्थो बोधः । अन्यथा ऽनधिकारि- णः कर्तृत्वानुपपत्तेः । मत्कृतिसाध्यो यागः अहं च कर्ता ऽधि- कारी चेति पञ्चम इति के चित् ॥ विवरणकारस्तु अत्र बोधत्रयमेवावश्यकं तावतैव प्रवृत्तिसि- देरित्याह ॥ निबन्धकारस्तु माधबोधद्वयोत्तरमहं स्वर्गकामः कर्ता भोक्ता चति विरोधात्प्रवृत्तिमाह ॥ इदं गुरुमतं तु मद्विहितसूत्रवृत्तौ मया विचार्य कुसुमाञ्जलौ बहु च दूषितं भूषितम् । अपेक्षितमथाप्युपेक्षितमिदकठोरत्वतः शिशुपतिविबोधनार्थकृतभावचिन्तामणौ ॥ नैयायिकास्तु इष्टसाधनत्वकृतिसाध्यस्वबलवदनिष्टाननुब- तपादः। न्धित्वज्ञानानामन्यतराभावे चिकीर्षाऽजननात्सर्वेषां तंज्जनक- स्वमविवादम् । अन्यथा चन्द्रमण्डलादावपि चिकीर्षापत्तेः । एवं च प्रवृत्तिजनकलिजादीनां विनिगमनाविरहेणे त्रितयेपि शक्तिः, पुष्पवन्तशब्दवच्च युगपदर्थत्रयबोधेनैका शक्तिः । शक्तित्रयेण वा युगपद्घोषः । अन्वयश्च तेषां धात्वर्थे । अतस्त्रित- यमित्याहुः॥ अत्रेदमवधेयम् । कृतिसाध्यत्वं न विधिवाच्यम् । कृतौ या- गानुकूलत्वबोधेन समानसंविसंवेद्यतया यागे कृतिसाध्यत्वस्यापि भानात् । एवमिष्टसाधनत्वमपि न वाच्यम् । तस्यापि यागस्त्र- गयोः साध्यसाधनभावबोधेनैव भानात् । अनन्यलभ्यस्य च शब्दार्थत्वात् । न च तत्र तत्पकारकबोधार्थ शक्तिकल्पनम् । इष्ट- त्वावच्छिन्नसाध्यतानिरूपितसाधनताज्ञानस्यैव प्रवर्तकत्वादिति वाच्यम् । स्वर्गकामपदेन तत्रेच्छाविषयत्वबोधाद् यागे तत्सा- धनत्वबोधेनैवेष्टसाधनत्वस्यापि बोधात् । स्वर्गो ऽनिष्टं यागो. वा साधनमिति बोधे स्वर्गकामादिपदार्थबोधाभावेनैव तद्वाक्य- जन्यप्रवृत्त्यभावोपपत्तेः । एवं बलवदनिष्टाननुबन्धित्वमपि न वाच्यम् । अर्थवादेनैव तरोधात् । क्लमायासादिरूपानिष्टे इष्टो- त्पत्तिनान्तरीयकदुःखाधिकत्वाभावबोधनेनैव बलवदनिष्टाननुब- न्धित्वस्य लाभात् । किं चेष्टसाधनकृतिसाध्यवलवदनिष्टान- नुबन्धिज्योतिष्टोमाभिनयागानुकूलकृतिमान् स्वर्गकाम इति बोधे आख्यातार्थकृतविशेष्यतया प्रकारतया: च भाने वैरूप्यापत्ति- रित्यादि दिक् ॥ अत्राभिधीयते । अभिधैव शब्दनिष्ठा प्रवर्तनारूपा विध्यर्थः । तथाहि । प्रवृत्तिर्द्वधा स्वेच्छाधीना पराधीना च । तत्राद्यायामि- टसाधनत्वादिधीः कारणम् । अन्यायां राजगुर्वादेराज्ञाप्रेर- -- - . १२.
. भादृचिन्तामणेः णादिधी । अनिच्छन्तमपि राजा मां प्रवर्तयतीत्यनुभवात् । तेषां च प्रवृत्तौ प्रत्येकरूपेण न हेतुत्वं, व्यभिचाराद् गौरवाच । किं तु इच्छादिनिष्ठप्रवर्तनात्वप्रकारकज्ञानं हेतुः । तच्चायं मां मवर्तयति विधिर्मा प्रवर्तयतीत्याकारकम् । प्रवर्तना च प्रवर्त- यितुः परप्रवृत्त्यनुकूलव्यापारविशेषः । स च चेतनस्य राजादे- राज्ञादिः । वेदे वक्तुरभावादचेतनस्य वेदस्याभिधानामकः क- श्चिच्छब्दसमवेतो ऽलौकिकः । तथा च राजाज्ञादिज्ञानाद्यथा प्र- वृत्तिस्तथा विधेराभिधाज्ञानादिति सैव लिङर्थः । सा च श- ब्दाश्रितत्वाच्छब्दशक्तिः । शब्दव्यापारत्वाच्च शाब्दभावने- त्युच्यते । भावनापदस्य व्यापारवाचकत्वात् । अत एवाख्या- सार्थो भावनापि व्यापार एन । ननूक्तयुक्त्या ऽभिधादिप- दाभिधेयत्वादिना ज्ञानादप्रवृत्तेश्च प्रवर्तनात्वेनवाभिधाज्ञानं प्रवृत्तिहेतुस्तेन तज्ज्ञानं च कथं स्यात् । किं चाभिधाया अचे- सेनवेदरूपकर्तृशक्तित्वेन तस्यां व्युत्पत्त्यसम्भवश्चेति चेन्न । प्र: वर्तनात्वविशिष्टे लिङ्त्वावच्छिन्नशक्तिस्वीकारात्तत एव तज्ज्ञा- नात्तथैव व्युत्पत्तेः । तथाहि । स्तनपानार्थ रुदन्तं स्वं पश्यन्त्या पास्तन्यदानार्थ प्रवृत्तिमुपलभ्य तज्जनकं ज्ञान जिज्ञासुः स्व- रोदनेन स्वाभिप्रायरूपमवर्तनानुमानमेव मातुः परिशेषात्तथेति प्रतिसन्धत्ते, ततश्च प्रयोजकवृद्धवचनश्रवणजन्म प्रयोज्यवृद्धस्य. प्रवृत्तिं दृष्ट्वा तस्य तद्वाक्यजं प्रवर्तनाज्ञानमनुमिनोति । तत. स्तस्य किं हेतुरिति जिज्ञासायां वाक्यमेव तथा अधारयति । तत आवापोद्वापाभ्यां लिङस्तत्र शक्तिं गृह्णाति । तदुक्तम् । अभिधाभावनामाहुरन्यामेव लिकादयः । अर्थात्मभावना त्वन्या साख्यातस्य गोचरः॥ इति । अर्थात्मत्वमर्थविषयकत्वमाश्रितत्वं वा । तथा चा- :
.. . भा- तपादः। र्थनिष्ठत्वादर्थभावना फलोत्पत्त्यनुकूलकृतिनोदनादिव्यापाररू- पा ऽऽख्यातत्वावच्छिन्नशक्त्या चेतनाचेतनकर्वसाधारणी क. र्तृशक्तिः। द्विविधापि भावना नियमतः कर्मकरणेतिकर्तव्यता- रूपांशत्रयसाकाङ्क्षा तन्त्रितयसाकाङ्क्षत्वमेवोभयानुगतं वनापदप्रवृत्तिनिमित्तम् । तत्र शब्दभावनाया अंशत्रयमाहुः । लिङो ऽभिधा सैव शब्दभावना, भाव्या च तस्याः पुरुषप्रवृत्तिः, सम्बन्धबोधः करणं, तदीयप्ररोचना चाङ्गतयोपयुज्यते । अस्यार्थः । लिङो ऽभिधानामकस्ववृत्तिः स्वशक्तिरवश्यं वाच्या। न च तत्र मानाभावः । व्यापारभित्रस्य परनिष्ठव्यापारजनकत्वं स्व- निष्ठव्यापारद्वारैवेति व्याप्तेः। चक्रभ्रमिजनकत्वस्य दण्डादौ स्व. निष्ठस्पन्दादिद्वारैव दृष्टत्वात् । तथा च लिङ्पदेनापि प्रवृत्त्यनु- कूलेन स्वनिष्ठव्यापारो ऽवश्यं जननीय इति स एवाभिधात्म- कः । व्यापारस्य व्यापारापेक्षायामनवस्था स्यादिति व्यापा- रभिन्नस्येति । व्यापारिणः स्वनिष्ठव्यापारार्जनेपि व्यापाराये क्षायामनवस्थापत्ते परनिष्ठति। शब्दे ज्ञानद्वारा प्रवृत्तिहेतुत्वाद सिद्धसाधनं स्यादिति शब्दनिष्ठाभिधासिद्धयर्थ स्वनिष्ठेति ।। किमित्याकाङ्क्षायां भाव्यमाह, भाव्या चेति । अर्थभावनैव. शब्दभावनाभाव्येत्यर्थः । केनत्याकाङ्क्षायां करणमाह । सः म्बन्धबोध इति । अगृहीतलिङ्शक्तिकस्याप्रवृत्त्या सङ्केतग्रहस्य तत्सहकारित्वमित्याशयः । सङ्केतश्च तद्वाक्यघटकपदानां तत्त. दर्थे, लिङश्च प्रवर्तनात्वादिविशिष्टे बोध्यः ॥ नन्विष्टसाधन ताज्ञानं प्रवृत्तिमात्रे हेतुस्तथा च तद्विना प्रवर्तनामांत्रज्ञानेपि कथं प्रवृत्तिरिति चेत् । सत्यम् । स्वर्गकामो यजेतेत्यादौ प्रथमतो लि. पदार्थयोरर्थभावनाशब्दावनयोरन्वयबोधः प्रवर्तनाविषयः कृतिरित्याकारको जायते । एकपदोपात्ततया . धात्वर्थापेक्षया ९२ भाहचिन्तामणे • . प्रत्यासत्तितारतम्यात् । तदुक्तम् ।। विधिभावनयोः श्रुत्या सङ्गतिः पूर्वमिष्यते ॥ इति । प्रवर्त्तनात्वविशिष्टस्य च विषयतया ऽर्थभावनाया- मन्वये इष्टभावनात्वामिष्टं भावयति उत्पादयतीति व्युत्पत्त्येष्टसा- धनत्वरूपं, योग्यता तस्य विध्यर्थेपि, क्रियागतमिष्टसाधनत्वं न विध्यर्थे इत्यतन्मते विशेषः । अर्थभावनाया इष्टसाधनत्वं क्रिया- गतेष्टसाधनत्वं विना नेत्याक्षिप्तक्रियष्टसाधनत्वधीरपीति प्रवृत्ति- नानुपपन्नेति । तत्र आख्यातोपस्थितार्थभावना कि केन कथमि- संशत्रयं क्रमेणापेक्षमाणा किमिष्टं कुर्यादित्याकाङ्क्षायां याग- स्य कष्टत्वेन करणत्वेन चासाध्यतया यागेनान्यद्भावयेदिति । ततः किमिदन्तदन्यदित्याकाङ्क्षायां स्वर्गकामपदसमार्पतमसि- द्धतया साधनापेक्षं स्वर्गमेवार्थभावनाभाव्यत्वेन स्वीकरोति । श्रुतिवृत्त्या हि पदार्थभूतस्य स्वर्गकामस्य भाव्यत्वमुच्यमानं वि: शेष्यबोधे विशेषणे स्वर्गे पर्यवस्यति । तथा च यागेन स्वर्ग भाव- योदति फलितं, यागकरणिका स्वर्गफलिका प्रवृत्तिः प्रवर्तना- विषय इति बोधः । यत्र च समभिव्याहृतानुपस्थितं फलं तत्र प्रकरणादीना, तेषामन्यभाव ऽर्थवादेन विधिसापेक्षेण, तस्या- प्यभावे विश्वजिन्यायेन फलविशेषः कल्प्यते । यद्यपि पुरुषप्र- तिरूपभावनानिष्याद्यो यागस्तत्र न करणं तथापि फलावच्छि- नभावनायां विशेषणे करणत्वे करणत्वोपचार इति फलोद्देश्य- कपर्वतककृतिविषयत्वमेवात्र करणत्वं, दण्डेन घटं करोतीत्यादौ लोकोप हि तथैव करणत्वम् । केनेत्यस्यापि किंविषयिणी कृतिः स्वर्गसाप्रचमित्यर्थ इत्यन्ये । अत्र यागकरणकत्वविशिष्ट लक्षणे- ति प्राञ्च । वस्तुतः करणत्वं यागस्य सम्बन्धो वाक्यार्थ एव ज्योतिष्टोमादेस्तत्राभेदेनान्वयो निराबाधः । इत्थं च.कथं विन- . तपादः टेन यागेन स्वर्मो भाव्य इति प्रतीत्यवसानेन्तरापूर्वकृत्येति सम्ब- ध्यते, ततः कथमपूर्व यागेन कर्त्तव्यमित्यपूर्वभावनायामित्थंभा- वेन संयुज्यमानमितिकर्तव्यताजातमपूर्वप्रयुक्तमुच्यते । ततः प्र. कारापेक्षायां समिधो यजतीत्यादिवाक्यौरिष्टविशेषापेक्षः स्वाधि- कारवाक्यैकवाक्यतया दर्शपूर्णमासभावना प्रयाजादिभावनो- पेता ऽपूर्व साधयतीत्यवगते प्रयाजादीनां . तादर्थेन समन्वये पश्चादुपकारत्वं कल्प्यते । तदयं भट्टमते बोधक्रमः । स्वर्गकाम- निष्ठा यागकरणिका स्वर्गफलिता प्रयाजादीतिकर्तव्यताका. भावनेत्यर्थ भावनाबोधः। विधिनिष्ठा शक्तिग्रहकरणिका स्तुत्य- र्थवादोपकृता प्रवत्तनेति शब्दभावनाबोधः शक्तिकल्पनेन लक्ष- गया वोपपद्यते । ततो विरुद्धार्थभावना निरुक्तपवर्तनाविषय- इत्येकवाक्यतया महावाक्यार्थबोधः । अत एव विध्युपरक्ता भा- वना लिङथ इति भट्टसिद्धान्तः। विधिः प्रवर्तना तदुपरक्ता त- द्विशिष्टार्थभावना लिङ्मतिपाद्येत्यर्थः । अर्थभावनाविशेष. णत्वेनैव शब्दभावनाया अन्वयः । राजादिकृताज्ञादेस्तथैवान्व- यात्, तदन्वयेन योग्यत्वेन प्रवर्द्धनायामपि बलवदनिष्टाननुव- न्धीष्टसाधनत्वं लभ्यते । न सुरां पिबेदित्यादौ प्रतिषेधवाक्या- थोंपीत्थमेवोनेयः । एवमन्ये ऽप्यन्वयबोधाः स्वयमूह्या इति ॥ अथ विधर्भेदः । तत्र विधिविविधः । अपूर्वविधिनियम- विधिः परिसंख्याविधिश्च ।। विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ॥ तत चान्यत्र च प्राप्ता.परिसंख्यांत गीयते ॥ अत्यन्ताप्राप्तविषयमापको विधिरपूर्वविधिः । यथा वीही- मोक्षति । अत्र प्रोक्षणमत्यन्तामाप्तम् । पक्षे प्राप्तस्याप्राप्तांश- पूरणफलो विधिनियमविधिः । यथा वीहीनवहन्तीति वीहीणां H.. भाइचिन्तामणे पुरोडाशद्वारा यागसाधनत्वस्य तुषविमोकसाधनीभूसावघातन- खविदलनान्यतराक्षेपकतया ऽवघातस्य पक्षमासत्वात् । एक- स्मिन्प्रधाने नियतप्राप्तस्याङ्गद्वयस्यैकस्मिन्नो नियतप्राप्तस्य प्र. धानद्वयसम्बन्धस्यान्यतरनिवृत्तिफलको विधिः परिसङ्ख्यावि. धिः। यथा गृहमेधीये आज्यभागौ यजतीति । इमामगृभ्णन् र- शनामृतस्ये,त्यश्वाभिधानीमादत्त इति च । अत्रातिदेशेनाज्यभा. गतादतराङ्गयोहमेधीये मन्त्रे च मन्त्रलिङ्गनाश्वगर्दभरशनादान- सम्बन्धयोर्नियतप्राप्ततया तद्विधेरितरनिवृत्तिफलकत्वात् । न च विधीनामाक्षेपातिदेशलिङ्कानपेक्षपत्तिकतया प्राप्तावघा- तादिपापकत्वेनापूर्वविधित्वमिति वाच्यम् । विधानवेलायां वि. धिमात्रस्यापूर्वविधिते ऽपि फळतो नियमादिव्यपदेशात्. । न चैवमपि नियमपरिसङ्ख्याविध्योरितरनिवृत्तिफलकत्वस्यैत्रका: रेण विवरणस्य च तुल्यतया भेदो न स्यादिति वाच्यम् । अ. प्राप्तांशप्राप्तर्विधेयावघातनिष्ठतया शीघोपस्थितत्वेन लाघवेन च फलत्वसम्भवे लिङ्गोपस्थितिकाया निष्पादिन्याश्च निव, त्तेः फलत्वायोगात् । मन्त्रविधीः तु. नियमस्य फलत्वासस्मवा. दितरनिवृत्तेरेव फलत्वमिति । नन्वेवमप्यपूर्वविधिलक्षणमग्रिहोत्रं जुहुयात्स्वर्गकामः, अथातोऽग्निमग्रिष्टोमेनानुयजतीतिविध्योरव्या- प्तम् । एतद्विधिविषययोरग्निहोत्रचयनयोरुत्पचिविधिमाप्तत्वात् । न चोद्देश्यसम्बन्धित्वेनेत्यप्राप्तविशेषणामति वाच्यम् । तथा पि तमुक्थ्येनेत्यादिविधावव्याप्तेः । उद्देश्योक्थ्यादिसम्बन्धे- नानिदेशतश्चयनादिपाप्तेः । न चायं प्रकृताबुत्तरवेमा सह विकल्पितस्य. उक्थ्ये ऽतिदिष्टस्य नियमोङ्गान्तरपरिसंख्या- वा, मोरवाद । उपपादितं चामाकराणकस्यापि चयनस्य बा. क्येन प्रकृतिभूनज्योतिष्टोमाइत्वमिवाक्यायकत्वं, तस्य चयना- . - तर्कपादः । श्रितगुणकामप्राप्तिः फलमिति दशमे । न चौद्देश्यसम्बन्धित्वेन विधिविषयान्ययत्किंचित्माप्तिफलको विधिरपूर्वावीधारीत लक्षण- म् । द्वादशांहिकगावामयनिकच्यनीकादिविध्यन्तर्गतयोरेन्द्रवाय- वाग्रं प्रथममहर्भवति अथ श्रुक्राग्रमिति विध्योरव्याप्तेः । रथन्त- बृहत्पृष्ठत्वेनैन्द्रवायवाग्रत्वादिप्राप्तेः सप्त्वादनैमित्तिकत्वबोधन- द्वारा तत्तद्विकृतौ वायदेव्यपृष्ठवति तत्माप्तिफलकत्वेनापूर्वविधि- त्वात् । न च यत्किंचित्संबन्धित्वेन यस्य कस्य चिदमाप्तस्य प्राप्तिफलको विधिरपूर्वविधिरिति वाच्यम् । अवघानियमस्या- पि विकृता वाज्यधर्मप्राप्तिफलकत्वेनातिव्याप्तेः । तावताम- ग्नीषोमावाज्यस्यैव नावुपांशु या पौर्णमास्यामन्तरा यजतीत्यु: पांशुबाजे कालविधावप्राप्तस्वर्गसम्बन्धप्राप्तिफलके ऽव्या- प्तेश्च । सत्रोद्देश्यान्यसम्बन्धित्वेन यत्किचित्प्राप्तिफलकत्वा. भावात् । आपराग्निकहोमाविधिसंदंशपठिते द्वे आहवनी- ये जुहोतीति विधौ गार्हपत्यान्वाहार्यपचनाधिकरणकच- तुःसङ्ख्याकहोमान्तरत्वतदत्वव्यावृत्तप्राप्तानिहोत्रहोमाभ्यास- तसिद्ध्या तेषामभ्यासानामप्राप्तफलसम्बन्धप्राप्तिफलकत्वा- व । न च विधेयसम्बन्धित्वेन यत्किञ्चित्प्राप्तिफलक- सं विवक्षणीयम् । वैश्वदेवी सांग्रहणी निवपद् ग्रामकाम इति विधौ सन्निध्याम्नांतानामामनहोमानामार्थवादिकग्रामफ- लसम्बन्धब्यावृत्त्यानत्वसिदिफलके ऽव्याप्तेः । दर्शपूर्णमासा- भ्यां स्वर्गकामो यजेतेति विधौ सर्वथा ऽव्याप्तेश्चेति चेत् ।। अत्र पितृचरणाः । उद्देश्यविधेयफलान्यतराणामनिर्धारि- तस्वविरोधिप्राप्तिप्रयुक्तस्वाप्राप्तांशमाषको विधिनियमः। अस्ति चेदं वाहीनवहन्तीत्युपायनियमे नियम्यावघातस्यानिश्चितस्ववि- रोधिनखरिदलनपतिप्रयुक्तावघाताप्यंशपूरकत्वात् । यज्जव्हां . ... . " ९६ भादृचिन्तामणे: गृह्णाति प्रयाजेभ्यस्तत्, यदुपभृति,मयाजानूयाजेभ्यस्तत् इत्यु- भयनियमे पुरोडाशं प्रथयतीति नियमे च । अत्र चोद्देश्यविधि- विषययोः पाक्षिकत्वे सतीत्युक्तो तमुक्थ्येनति विधौ रथन्तरे प्रस्तूयमाने सम्मीलयेदित्यत्र चातिव्याप्तिः । तद्वारणार्थममा- प्यंशपूरणफलकेति । एवमपि सर्वेभ्यो दर्शपूर्णमासाविति वि- धेरप्राप्तस्वर्गान्यफलांशपूरणफलकत्वादतिव्याप्तिवारणाय स्व- विरोधिप्राप्तिपयुक्तत्वं अप्राप्तिविशेषणं, स्वर्गान्यफलप्राप्तेः प्रा. पकप्रमाणाभावप्रयुक्तत्वेन विरोधिप्राप्तिप्रयुक्तत्वाभावात् । एक- मपि पृष्ठयः षडहो बृहद्रथन्तरसामा कार्य इति विधौ षडहांश- तृतीयादिदिवसेषु वृहद्रथन्तरविरोधिरूपादिप्राप्तिप्रयुक्तस्त्रामा- प्तिपूरणफलकत्वादतिव्याप्तिवारणाय निर्धारितत्वं स्वविरोधि- प्राप्तर्विशेषणम् । अत्र विरोधिप्राप्तेरनिर्धारितत्वान्नातिव्याप्तिः। न च हिरण्यगर्भः समवर्तताग्रइत्याघारमावास्यतीति नियमे ऽव्याप्तिः । अत्र पक्षप्राप्त्यभावादिति वाच्यम् । तस्यापूर्ववि- धित्वेनेष्टापत्तेः । न च नियमापूर्वस्य नियम्यजन्यत्वात्तत्र दृष्टा- थत्वानियमादृष्टकल्पनावश्यम्भावनियमापूर्वस्य हिरण्यगर्भमन्त्र- स्य जनकतानवच्छेदकत्वान्नियमापूर्वजनकत्वाभावात् । एवमस- मर्थमन्त्रविनियोगेषु उत्करे वाजिनमासादयति परिधौ पशुं नियुञ्जीतेत्यादिष्वपूर्वविधित्वं द्रष्टव्यमिति दिक ।। परिसङ्ख्यात्वं च वैदिकप्रमाणेन केन चित्सम्बन्धेन द्वयो- रेकसम्बन्धत्वे लिङ्गादिप्रमाणप्रकृतविध्यनुपपत्यन्तरेण समुच्चि- त्य नित्यप्राप्तयोरनुयोगितासम्बन्धेन इतरानिवृत्तिफलकनबाद्य. समभिव्याहृतविधित्वम् । वर्तते चेदमश्वाभिधानीमादत्ते इति शेषिपरिसयायाम् । शेषित्वसम्बन्धेनाश्वाभिधानीगर्दभाभि- चान्ययोर्मन्त्रसम्बन्धित्वेन प्राप्तयोरितरनिवृत्तिफलकत्वात् । ..
. । . तर्कपादः। इडान्ता प्रायणीया सन्तिष्ठतइति शेषपरिसंख्यायां च यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान्गृह्णीयादिति निय- मान्तरपरिसंख्यायाञ्च । अस्य प्रकृतिविकृतिभूतानां रथन्तरसा- म्नामरथन्तरसान्नांचैन्द्रवायवाग्रतासम्बन्धित्वेन प्राप्तरथन्तरसा- मनिवृत्तिफलकत्वात् । वाग्वा एषा यदैन्द्रवायव इत्याश्रयान्तर- परिसंख्यायां च । अत्र ह्यवावपति ह्यत एवोद्वपतीति पावमान- गायत्रीबृहत्यनुष्टुवभिन्नऋपरिसंख्यायां गायत्र्यादिषु तद्भिन्न ऋक्समागमस्यैतद्विधितः प्रागसिद्धत्वेन प्राप्त्यभावादव्याप्ति- वारणाय प्रकृतविध्यनुपपत्तीति । अत्र चैवकारोक्तपरिसंख्याबो- धानन्तरमर्थप्राप्तिबोधः प्राप्तिसामर्थ्येनावापस्य ऋग्विषयत्व- परित्यागः सामविषयत्वं कल्प्यतइति । एवमप्यप्राप्तपरिसंख्ये- ति नाव्याप्तिः । चत्वारो भवन्ति षडहा भवन्तीत्यपूर्वविधिषु ष- त्रिंशद्रात्रिक्रमप्रयोगसम्बन्धितया प्राप्तषडहच्छन्दोमधर्माणां मध्ये छन्दोमधर्मनिवृत्तिषडहेष्वतिव्याप्तिवारणाय समुच्चित्यति प्राप्तिविशेषणम् । नहि षडहच्छन्दोमधर्माणामेकत्र समुच्चित्य प्राप्तिः । सप्तमादिषु छन्दोमधर्माणां प्राप्तेः । यदि चैककर्तृप्रयो. गसम्बन्धित्वेन प्राप्तिरस्तीति विभाव्यते तदास्त्येव परिसंख्या- विधिरिति नातिव्याप्तिसम्भावनापि । एतेन सर्व ब्रह्मणे परिह- रति सप्रियाय सगोत्राय ब्रह्मणे देयः। आग्नेया ग्रहा भवन्तीति विधिष्वतिव्याप्तिसम्भावना परास्ता । सर्वविजां स्वस्वभागस- म्बन्धितया प्राप्तिसत्त्वनैकत्र समुच्चित्य प्राप्त्यभावात् । सकल. नियमविधिव्यावृत्यर्थ नित्यति । यावज्जीवमाग्नहोत्रं जुहोतीत्य- करणनिवृत्तिफलके विधावतिव्याप्तिवारणायानुयोगितासम्बन्धे- नेति निवृत्तिविशेषणम् । अकरणनिवृत्तेः करणत्वरूपाया अ- नुपयोगितासम्बन्धेन तदभावात् । अत एवाभावाभावस्य भाव. . १३ . ९८ भादृचिन्तामणेः रूपत्वम् । ननु तथापि क्रत्वर्थनिषेधेषु दीक्षितो न ददाति न जुहोति न पचतीत्यादिष्वतिव्याप्तिः । दीक्षितस्य क्रत्वर्थपुरुषा- यहोमादीनां समुच्चित्य प्राप्तिसत्त्वेनतस्य पुमर्थहोमनिवृत्तिफ- लकत्वाद् इति चेत् । निषेधषु विधित्वाभावाद्विधिपदेनैव तद्वथा- वृत्तिरिति के चित् । नायसमभिव्याहृतेति वा विशेषणीयं, सेन न कुत्राप्यव्याप्त्यतिव्याप्त्यवकाश इति दिक् ॥ उभयभिन्नो विधिरपूर्वविधिः । प्राप्तिफलको विधिरिति लक्षणं तु नियमपरिसख्ययोः फलवाभावे प्राप्तिरेव फलत्वे. न पर्यवस्यतीत्यभिप्रायेणेत्याहुः ।। के चिन्तु अयोगान्ययोगव्यावृत्तिभिन्नफलको विधिरपूर्ववि- धिः, अयोगव्यावृत्तिमात्रफलको नियमो,ऽन्ययोगव्यावृत्तिमात्र- फलको विधिः परिसंख्यति लक्षणान्याहुः ॥ परे तु तात्पर्यविषयतापर्याप्त्यवच्छेदकमाप्तिमद्विधित्वमपूर्व- विधित्वम् । एवं तात्पर्यविषयतापर्याप्त्यवच्छेदकनिवृत्तिमद्विधि- त्वं परिसंख्यात्वम् । तात्पर्यविषयतापर्याप्त्यवच्छेदकायोगव्य- बच्छेदकत्ववद्विधित्वं नियमत्वम् । विषयताया अपि पर्याप्त्यङ्गी- कारात् । यत्र त्वेकस्यैव विधरुभयत्र तात्पर्य तत्र सङ्करोपीष्ट एवे- त्याहुः ॥ वर्तते चैतमोक्षणविधौ । प्रोक्षणप्राप्तिफलकत्वात् । नन्वग्नये वो जुष्टं प्रोक्षामीति मन्त्रस्य देवतार्थद्रव्यमोक्षणलिङ्ग- पलादविःमोक्षणद्वारा कथित्वावगमाचत एव प्रोक्षणप्राप्तिः । य्या प्रकृती दीक्षाहुती होतीति विहितास दीक्षाहुतिष्वाकूत्यै प्रयुजे ऽग्नये स्वाहेत्यादिषु षट्सु मन्त्रेषु लिङ्गक्रमप्राप्तेष्वग्नि- प्रयोमे पुनराकूतिमग्निमित्यादिषु षट्सु मन्त्रेषु पठितेषु षभिर्दी- क्षयतीति वचनन विनियुक्तेषु स्वाहालिङ्गबलाद्धोमद्वारा दीक्षा- र्थत्वे प्राप्ते लिङ्गाद्धोमप्राप्तिः । न च वाच्यं तत्र द्वादश जुहो- तर्कपादः । तीति वाक्यं होमविधायकमिति । प्रकृतितः प्राप्तत्वेन विध्य- नुवादकृतवैरूप्यप्रसङ्गेनानुवादत्वात् । न च वाच्यमेकादशमयाजा. न्यजतातिवदभ्यासावधिरयामिति । षडाभिर्दीक्षयतीति विधेरान. र्थक्यापत्तेः । एतत्कृतदीक्षासम्बन्धानुपपत्त्या होमद्वारकमाप्त्या प्राकृतमन्त्रबाधापत्तेश्च । अस्तु वा मन्त्रगतद्वादशत्वं विधिः । हो- मप्राप्तिस्तु मन्त्रलिङ्गादेव । एकस्य वाक्यस्य सर्वथानर्थक्यापे- क्षया गुणविधित्वस्य न्याय्यत्वादित चेन्न । तार्किकमाप्त्यनव- धानदशायामेवापूर्वविधित्वात् । तार्किकप्राप्त्यालोचनेभ्युदयाश- रस्कत्त्वप्रायश्चितप्राप्त्यध्वर्युककत्वायनेकप्रयोजनासिद्धेः । वि. धिना प्रोक्षणाप्राप्तौ मन्त्रस्य लिङ्गेनाग्निप्रोक्षणादावुत्कर्षांपत्तेः । न च ग्रहणावेक्षणवन्मन्त्रलिङ्गेन प्राप्तिरिति वाच्यम् । तयोर- पि भक्षविधिनैव विध्यङ्गीकारात् । अतः पदार्थविध्यभाचे प- न्त्रस्यानतया तेन न पदार्थप्राप्तिसम्भावनापि । दीक्षाहुतीना- मपि द्वादश जुहोतीत्यभ्यासविध्यांकाराविहान होमप्राप्तिः। वेन युक्तमुदाहरणमिति दिक् ।। तत्रापूर्वविधिरुत्पत्तिविधिविनियोगविध्यधिकारविधिप्रयो- गविधिभेदेन चतुर्थी । कर्मस्वरूपबोधको विधिरुत्पत्तिविधिः, यथाग्निहोत्रं जुहोतीति। अङ्गताबोधको विधिनियोगविधिः, यथा दध्ना जुहोतीति । फलसम्बन्धबोधको विधिधिकारविधिः, यथा ऽग्निहोत्रं जुहुयात्स्वर्गकाम इति । स्वाजानुष्ठानबोधको विधिः प्रयोगविधिः । सं च नित्यकल्पो भिन्न उत्पत्तिविनियो- गविध्युपजीवकश्च । न च किमर्थं तत्कल्पनामिति वाच्यम् । स- मानदेशकालकर्तृताया अन्येनालाभात् । तल्लाभाय तस्यावश्यक- स्वात् । अङ्गप्रधानविध्येकवाक्यताबोध एव प्रयोगविधिरित्य- न्ये । नियमपरिसख्याविधी प्रायेण विनियोगविषयावे- भादृचिन्तामणेः * ति दिक् ॥ सोपि विधिविषयभेदादविधः । शुद्धधात्वर्थविधिः । अ- न्योदेशेन धात्वर्थविधिः । विशिष्टधात्वर्थविधिः । अन्योद्देशेन विशिष्टयात्वर्थविधिः । धात्वर्थोदेशेनान्यविधिः । धात्वर्थोद्दे- शेन विशिष्टान्यविधिः । धात्वर्थोद्देशेनान्ययोः सम्बन्धविधिः । मुक्त्वा धात्वर्थमन्ययोः सम्बन्धविधिः ॥ उदाहरणानि । अग्नि- होतं जुहोति । अग्निहोत्रं जुहुयात्स्वर्गकामः । सोमेन यजेत । दशापवित्रेण ग्रहं सम्मार्टि । दध्ना जुहोति । य इष्टया पशुना सोमेन वा यजेत सोमावास्यायां वा । अत्र यागोद्देशेन पौर्णमास्य- मावास्याविशिष्टविकल्पविधानात् । विकल्पितपौर्णमास्यमावास्या- विधानाद्वा । प्राकाशावध्वर्यवे ददाति । अत्र प्रकृतंदानोद्देशेन प्राकाशाध्वर्युसम्बन्धविधानात् । दध्नेन्द्रियकामस्य जुहुयात् । अत्र मुक्त्वा धात्वर्थमन्यसम्बन्धविधानादित्यष्टौ प्रकाराइति जीर्णाः ॥ धात्वथाद्देशेनान्यसम्बन्धविधेरुद्देशेन विशिष्टविधितो भेदाभावात्सप्तविधत्वं युक्तम् । अत्र च पूर्वापेक्षया उत्तरोत्तर दौर्बल्यम्प्रत्ययानां प्रकृत्यान्वितस्वार्थाभिधायकत्वव्युत्पत्तित- द्भङ्गाभ्यां द्रष्टव्यम् ॥ इति मीमांसकश्रीगागाभहकृतभाचिन्तामणौ तर्कचरणे विधिभेदतत्प्रकारनिरूपणम् ।। धातोः किं वाच्यमिति चेत् । अत्र वैयाकरणाः । भूवादिधातूनामुत्पत्यादिरूपं फलं तद- मुकुलो व्यापारश्च वाच्यः । उत्पत्तिः माकटयम् । फैले श- तिबाइकच भूसत्तायामित्यादिः सर्वोपि धातुपाठः । व्यापारे प्रतिग्राहकं च भवादयो घातक इति सूत्र,न्तच्च वाप्रकारेषु भ्वा- ननु aridabahariwarfian.. AN तपादन दिषु धातुसंज्ञां विधत्तइति वाधातुवाच्यार्थवाचितां सर्वधातूनां सूचयति । बाधातोश्च गतिरूपव्यापार एव वाच्य इति सर्वधा- तूनां व्यापारवाचित्वम् । न चैवं बीजमरीकरोतीति प्रयोगाप- त्तिः । इष्टापत्तिः । अत्र फलानुकूले व्यापारे व्यापारजन्ये फले ऽनुकूलत्वजन्यत्वयोः संसर्गमर्यादया लभ्यतया फले व्या- पारे च शक्तिः । प्रत्ययार्थस्तु व्यापाराश्रयः फलांश्रयश्चे- त्याहुः ॥ कश्चिन्तु भूवादय इति सूत्रं कृतैकशेषादिशन्दत्रयकं सत्तादि- रूपफलवाचकभूमकारा गतिवाचकवामकारा भ्वादिगणपठिता- इच धातव इत्येतदर्थकं सत्फलवाचितां सर्वधातूनामाहेत्याहुः ॥ अत्र मण्डनः। फलमेव धात्वर्थः। पचिगमित्यजिपतत्यादीनां वि- क्लित्त्युत्तरदेशसंयोगपूर्वदेशविभागाधादेशसंयोगादय एवार्थाः । अनुकूलव्यापारस्तु प्रत्ययार्थः । लहाधर्थवर्गमानत्वादिकं व्या पारे ऽन्वेति, समानपदोपात्तत्वात् । शेन व्यापारविरमे न पच तीतिप्रयोगः, फलानुत्पाददशायां व्यापारमात्रकाले पंचतीति प्रयोगश्त । व्यापारविरमे पाको विद्यते पच्यर्थो विद्यतइति प्रयो- यस्तु विक्लित्तिचितइतिवदिष्ट एव । अत एव पाकं करो- ति पाके व्याप्रियतइति पाकात्पृथक् करणेन व्यापारविवरण म् । न च ग्रामो ममनचानिति प्रयोगापत्तिः, उत्तरदेशसंयो- गरूपफलस्योभयनिष्ठत्वादिति वाच्यम् । तथापि निरूपक- स्वादिसम्बन्धविशेषेण वर्तमानस्यैव फलस्य वाच्यत्वाङ्गीकारा- । अन्यथाभिमुख्यसम्बन्धेन , संयोगानुकूलक्रियाया प्रायपि सत्त्वायापारवाचिल्वेपि तुल्यो दोषः । एवं विध्यर्थकृतिसाध्य. सेशमाघनत्वादीनामपि व्यापारएकान्वयः । तेनौदनकायः पवेदिलादावोदमसामवत्वस्य कृतिसाध्यस्वस्य च. पापार १०२ भादृचिन्तामणे एवान्वयः । एतेन फलस्योपायगोचरकृतिसाध्यतया उपायस्य स्वगोचरकृत्यसाध्यत्वेन विधिवाच्येष्टसाधनत्वकृतिसाध्यत्वयोः पाके ऽन्वयात्तत्रप्रवृत्त्यनुपपत्तिरिति मणिकुदुक्तदूषणमपास्तम् । तदनुकूलव्यापार प्रवृत्तेरिष्टत्वात् । न चैवं यजेन्दद्याञ्जुहुया- दित्यादिषु पर्यायत्वप्रसङ्गः । स्वत्वध्वंसरूपफलस्यैकत्वादिति वाच्यम् । यजतेः स्वत्त्वध्वंसरूपफलवाचित्वात् । ददाते: परस्वत्वमात्ररूपफलवाचित्वात् । जुहोतेः प्रक्षेपरूपफलवाचि- त्वात् । एतेन स्वत्वध्वंसरूपफलोपलक्षितदेवतोद्देश्यकद्रव्यत्यागो यजिवाच्यः, सङ्कल्पितस्वीकरणपूर्वकपरस्वत्वापत्तिस्वस्व त्वध्वं- सफलकद्रव्यत्यागो ददातिपदवाच्यः, देवतोद्देश्यकप्रक्षेपफलको द्रव्यत्यागो जुहोतिपदवाच्य इति भदः । न च देवतायें दान- स्थले यजतीतिप्रयोगापत्तिरिति वाच्यम् । देवताया असम्प्रदा- नत्वेन तत्र ददातेलाक्षणिकत्वात् । एवं चास्तिभवति विद्यत- इत्यादेः फलमात्रप्रतीतिरुपपद्यते । करोतेश्चोत्पत्तिरूपफलवा- चित्वं, तदनुकूलव्यापारो यत्नरूपः प्रत्ययवाच्यः । एवं च न करोतियतत्योः समानार्थकत्वं, न वा. यततेः सकर्मकत्वाप. तिरनुप्रयोगश्च । एवं जानातीत्यत्र विजातीयविषयता, इच्छ- त्यादावपि. विजातीयविषयता, नश्यतीत्यत्रदर्शनाभावरूपफल- मेव वाच्यम् । अतः सर्वधातूनां फलएव शक्तिरित्याहुः ।। अन्ये तु व्यापार एव धात्वर्थः । न चोक्तदोषः । तत्तद्धा- तुसमाभिव्याहृतद्वितीयाया एवं संयोगादिरूपफलविशेषबोधक- वाङ्गीकारादित्याहुः॥ के चिन्तु पचतीत्यादौ फलजनकतावच्छेदकतया व्यापार- समुदायनिष्ठोन्तिमव्यापारानिष्ठो वा वैजात्यमखण्डोपाधिर्वा सिद्धः पच्याद्यर्थः । एवं च धातूपाचव्यापाराश्रयस्य कर्तृतया : ताह- तर्कपादः । शव्यापारविवक्षायां चैत्रः पचति काष्ठं पचतीत्यादिप्रयोगः एवं करोतेयापारवाचिंत्वम् । न च यत्नजन्यत्वाजन्यत्वप्रति- सन्धानात्पटाङ्कुरयोः कृताकृतव्यवहारेण रोगेण स्पन्दमानोषि चैत्रे स्पन्दं करोतीत्यप्रयोगेण च करोतेयत्नवाचित्वमिति वा- च्यम् । करोतेयत्नार्थकत्त्वे तस्याकर्मकत्वेन करोतेरकर्मकत्वाप- तेः, फलसमानाधिकरणव्यापारवाचित्वात् । उत्पत्तिरूपफल- व्यधिकरणव्यापारवाचित्वेन ज्ञानादाविधान्यकर्मकत्वे तु यततेर- पि सकर्मकत्वापत्तिः । एधाञ्चक्रइत्यादिवद्यततेरनुप्रयोगापत्ति- श्च । अतः करोतेापारसामान्यवाचित्वामिति वदन्ति ।। अन्ये तु करोतेयत्नवाचित्वम् । न चोक्तदोषः । विवक्षावि- कक्षाभ्यां सकर्मकाकर्मकधात्वोः पच्यास्योरपि पचति मासमास्य- तइत्यादावतिप्रसङ्गेन नोक्तं सकर्मकत्वम् । किं त्वविवक्षाविर- हविशिष्टकर्माकाङ्क्षधातुत्वम् । तेन सकर्मके विशेषणाभावेना- कर्मकत्वस्याकर्मकत्वविवक्षाऽसत्त्वेन सकर्मकत्वस्य चाक्षतिः । आकाङ्क्षायाः शब्दवैचित्र्यकृतत्वादेकस्य धातोरर्थभेदेन सकर्म- कत्वाकर्मकत्वे । एवं पर्यायाणामपि सदव्याहतम् । एवमविवक्षा- विरहविशिष्टकर्मद्वयाकाङ्क्षधातुत्वं, द्विकर्मकत्वम् । तस्यापि एक कविवक्षणेन निशां निनायेत्यादिप्रयोगे न क्षतिः । अतः प्रयत्न एव करोत्यर्थ इत्याहुः॥ यत्तु जानातिनश्यतीत्यादौ व्यापार एवं प्रत्यं यार्थः, तस्य च धात्वर्थे ऽभेदेनान्वयः, तेन ज्ञानाभिन्नो व्यापारो नाशाभि- नो व्यापार इत्याह । तत्प्रकृतिप्रत्ययार्थयोरभेदान्वयस्याव्युत्प- नत्वेन मूर्खदाम्भिकलिखितत्वेनोपेक्षणीयम् ।। इति धात्वर्थवादः॥ एवमाख्यातस्य व्यापाररूपभावनायां शक्तिः । ननु धा- : भादृचिन्तामणे तोरेव व्यापारवाचितया धात्वातिरिक्तभावनायां मानाभावः। न चास्तिभवत्यादिधातुतः फलस्यैव प्रतीतेापाराऽप्रतीतेश्व तत्सामान्येन पच्यादीनामपि फलएव शक्तिः, न व्यापारइति वाच्यम् । तत्रापि -- अस्त्यादावपि कत्रंशे भाव्ये ऽस्त्येव हि भावनां । इत्यादिवैयाकरणोक्तरीत्या कपालावस्थो घट आत्मानं मा. वयतीति वार्चिकोक्तरीत्या च तद्वाचित्वात् । नापि फलमात्रे तस्य शक्तिः सम्भवति, व्यापारोफ्रमे पाको विद्यते इति प्रती- तमो गमनवानिति प्रयोगस्य चापत्तेः। धादिसमंभिव्याहार- स्य व्यापारपत्यायकत्वकल्पने फलप्रत्ययप्रतिबन्धकल्पने वागौ- स्वम्। पच्चों विद्यतइति प्रयोगापत्तिश्च । घनादेापारवाचि. लकल्पना तु सर्वभावप्रत्ययानां धात्वर्थातिरिक्तवाच्याभावनि- यमेन निरस्ता । अतो न फलमात्रं धात्वर्थः । नापि व्यापार- मात्रं, त्यनिगम्योः पर्याय तापत्तेः । अतः फलव्यापारौ धात्व- थः । पच्यादिधातोविक्लित्यादिफले ऽनुकूलव्यापारे च प्रत्ये- के शक्तिर्न विशिष्टे व्यापारस्यैकदेशत्वापत्त्या कारकानन्वयाप- चे। व्यापारश्चात्मनिष्ठः प्रयत्नः फूत्कारादिशरीरंगता चेष्टा च । अनुकूलत्वस्य संसर्गमर्यादालभ्यत्वान्न तत्र शक्तिः । याव- सु च व्यापारेषु पचनीति प्रयोगस्तावत्सु प्रत्येकं शक्तिः, श- क्यतावच्छेदकं च तावदन्यतमत्वम् । फलानुकूलत्वं तन्त्वं का। एतेन प्रत्यत्तस्यान्यथासिद्धत्वेनाजनकत्वात् प्रयोजकव्या. पारस्य वन्त्वे व्यवहितकृष्यादीनामपि संग्रहापचिरिति परास्त- सनच धातूपात्तन्यापाराश्रयत्वस्य कर्तृत या सर्वेषां कारकाणां कर्तृत्वापत्या तृतीयाधापतिरिवि वाच्यम् । विवक्षाया एव नियामकत्वात् । अत एव तत्तत्कारकव्यापारस्य पच्यर्थत्वविव- तर्कपादः। १०५ क्षायां काष्ठं पचति स्थाली पचतीत्यादिप्रयोगोपपत्तिः । न चैवं प्रत्ययवैयर्थ्य, प्रकृत्युपात्तफलव्यापारान्यतराश्रयस्याख्यांतत्त्वेन तित्वादिना वा एकवचनत्वादिना चैकत्वादिसङ्ख्याया लट्- स्वादिना वर्तमानत्वादेस्तदर्थत्वात् । तत्रापि लाघवेनाश्रयत्व- स्यैव शक्यतावच्छेदकत्वम् । यत्ननिरूपकत्वादीनां संसर्गत्वा- त् । अत एव फलव्यापाराश्रयस्य तिर्थत्वादनभिहिताधिकारे कर्मणि द्वितीयेत्यादिशास्त्रोधिततृतीयाद्वितीयान्तत्वं कर्तृकर्मणो- युज्यते । अन्यथा तिडां कर्तृकर्मानभिधायकत्वेन सर्वदा द्वितीया- तृतीयाधुत्पचिप्रसङ्गेन देवदत्तः पचतीत्यादीनामबोधकत्व- सङ्गः । तत्रापि धात्वर्थव्यापारस्य मुख्यविशेष्यत्वं, सर्वकारका- णां फलस्य वर्तमानत्वादिकालस्य च व्यापारविशेषणत्वम् । एकत्वादिसङ्ख्यायाश्च कर्तृकर्मणोः, कर्मणश्च फले। एवं च काख्याते तण्डुलनिष्ठविक्लिचिजनक एकाश्रयको व्यापार इति, कर्माख्याते चैकाश्रयकफलजनको व्यापार इति बोधः । प्रथमान्त. पदोपस्थाप्यस्याख्यातोपस्थाप्यकर्तृकर्मभ्यामभेदेनान्वयः, स्थी- यतइत्यादौ भावाख्याते सङ्ख्यानन्वितैव धात्वान्विता वा । अनुशासनाच द्विवचनादीनामसाधुत्वम् । न च प्रत्ययार्थाश्र- यस्य धात्वर्थव्यापारविशेषणत्वे प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थस्य प्राधान्यमिति प्रत्ययार्थप्राधान्यबोधकस्मृतिविरो- धः । तस्या भावप्रधानमाख्यातमिति विशेषस्मृत्या बाधात् । किं च नात्र प्रत्ययार्थोद्देशेन प्राधान्यविधिः । लिङ्गसङ्ख्य- योयभिचारेण विधेयस्योद्देश्याव्यापकत्वात् । नापि प्रधानोद्दे- शेन प्रत्ययार्थत्वविधिः । नामसु प्रातिपदिकार्थप्राधान्येन व्य- भिचारात् । अत एव तस्याः प्रमाणान्तरसिद्धप्राधान्यानुवादक. त्वमिति वैयाकरणाः॥ -- १४ १०६ भादृचिन्तामणेः अत्र गौतमीयाः । आख्यातस्य यत्नो वाच्यः। यत्नार्थ- ककरोतिना विवरणात् । किं करोतीति यत्नप्रश्ने पचतीत्युत्त- रस्य यत्नार्थकत्वं विनानुपपत्तेः । कृत्रश्च यत्नाभिधायक- त्वम् । पटाखुरयोः कृत्यकृतिव्यवहारात् । तृजन्तकर्तृपदस्य कृ- त्याश्रयवाचकत्वम् । अन्यथा क्रियाश्रयवाचित्वापत्त्या कार- कमात्रं कर्तृपदार्थः स्यात् । अत: कृताकृतविभागेन कृतरूपव्यवस्थया । यत्न एवाकृतिः पूर्वापरास्मिन् सैव भावना ।। इति यत्न एवाख्यातार्थः । रथो गच्छतीत्यत्रानुकूलव्या- पारे जानाति इच्छति यतते करोतीत्यादावाश्रयत्वे ऽपक्षीयते नश्यति भविष्यतीत्यादौ प्रतियोगित्वे सर्वत्रानुकूलव्यापारे वा निरूढा. लक्षणा । अत्र शक्यतावच्छेदकं च जीवनयोनिनि- त्तिजनकयत्नभिन्नयत्नत्वम् । यतते करोतीत्यव्यवहारात् । श- ततावच्छेदकं च लत्वं तित्वादिकं वा । तस्य प्रत्ययार्थत्वा- दात्वनिरूपितं विशेष्यत्वं, प्रत्ययार्थप्राधान्यबोधकस्मृतेः । आख्याताभिहितसङ्ख्या च आख्यातार्थविशेष्ये आख्यातता. त्पर्यविषयविशेष्ये वा ऽन्वति । स च प्रथमान्तपदोपस्थाप्यः । चैत्रः पचतीति कर्ताख्याते तण्डुलः पच्यते इति कर्माख्याते पच्यते ओदनः स्वयमेवेति कर्तृकर्माख्याते प्रथमान्तविशेष्यकशाब्दबोधा- नुभवात् । आख्यातार्थयत्नस्य समवायेन चैत्रे स्वजन्यव्यापार- जन्यफलवत्त्वसम्बन्धेन प्रथमान्तपदोपस्थाप्ये तण्डुलादौ वा प्रका- रत्वात् । एतेनानभिहिताधिकारकत्वानुपपत्तिकृततण्डुलं पच्यते- इत्यादिप्रयोगापत्तिरपास्ता । कर्तृकर्मनिष्ठसङ्ख्यानभिधानस्यैवा- नभिहिताधिकारार्थत्वात् । न च व्यापार एवाख्यातार्थ इति वाच्यम् । व्यापारत्वस्योपाधितया यत्नत्वजातवाच्यतावच्छेदक- -- .. । तर्कपादः। १०७ वे लाघवात् । अत एव न कर्ता वाच्यः। आक्षेपलभ्यत्वाच । तदुक्तम् । आक्षेप्यलम्ये सङ्ख्येये नाभिधानस्य कल्पना । सङ्ख्येयमात्रलाभेपि साकाङ्क्षण व्यवस्थितिः ॥ अतो यत्न एवाख्यातार्थः । अयं च शाब्दबोधप्रकारः । प्रथमान्तपदोपस्थाप्यस्यैव मुख्यविशेष्यत्वम् । काख्याते फलं व्यापार विशेषणं, कर्माख्यातपि व्यापारः फले,जन्यत्वादि च संसर्गः। यत्नश्च प्रत्ययार्थः । तेन तण्डुलनिष्ठविक्लित्तिजनक- यत्नवान् देवदत्त इति काख्याते, देवदत्तनिष्ठकृतिजन्यव्यापा- रजन्यफलशाली तण्डुल इति कमाख्याते बोधः। फलमात्मनेप- दार्थः । निष्ठत्वं कृतिश्च द्वितीयातृतीयाद्यर्थः, संसर्गोवा, तेन स्मृतिरप्युपपन्नेत्याहुः ॥ रत्नकोशकारस्तु व्यापारोधात्वर्थः । उत्पादनमाख्याता. थः। तेन रथो गच्छति जानाति नश्यतीत्यादौ न लक्षणा । उत्पादयतीत्यत्र प्रत्ययार्थोनुवादकः । अनुत्पादवाचिधातूत्तरप्रत्य- यस्य चोत्पादवाचित्वमित्याह ।। सिद्धान्तस्तु जो न यत्नार्थकत्वम् । बोजनाङ्कुरः कृता स्वर्गादिना सुखं कृतमिति यत्नं विनापि व्यवहारात् । कर्तृपद- स्य कर्मादिपदवढूढत्वात् । रुढिश्च कृत्याश्रये व्यापाराश्रये वा। अन्यथा प्रकृतिप्रत्ययार्थयोः कृतिकृत्यांश्रययोरनन्वयापत्तिः । अतः कुत्रा विवरणेनाख्यातस्य यत्नार्थत्वं गर्भस्रावगलितम् । किं च यतते करोतीत्यत्र प्रकृतिप्रत्ययार्थयोरनन्वयापत्तिः पौन. रुक्तथं च । एषिष्यति द्वौ त्रय इत्यादाविच प्रत्ययस्यानुवादक- त्वं वा । अयत्नार्थकधातूत्तराख्यातप्रत्ययानां यत्नार्थत्वं वा। स्थो गच्छतीत्यांदावचेतने जानाति इच्छीत्यादौं कृत्सजन्ये --- . . ..
. + १०० भादृचिन्तामणेः चाख्यातप्रयोगस्य गौणत्वम् । अनुकूलत्वमात्र वा लाक्षणिकत्वं ब्राह्मणे श्रोत्रियपदस्येव कल्पयितुं युक्तम् । एवं मध्यमोत्तमपुरु- षयोयुष्मदस्मदोश्चेतनार्थकतया ऽचेतनार्थे ऽनुपपत्तिः । अतः कुलो व्यापारो ऽर्थस्तेन विवरणाच्चाख्यातप्रत्ययानां तत्रैव श- क्तिः । एवं सति फलानुकूलव्यापारस्य धात्वर्थत्वेपि न यत्न- स्य तदर्थत्वम् । पाके यतते पाकं करोति पाकं भावयतीत्यादि- घु पाकात्पृथकरणेन यत्नभानानुपपत्तेः । अतो विवरणवेलाय भासमानस्य यत्नस्य धातुवाच्यत्वासम्भवात्फलजनकव्यापार- स्योक्तरीत्या वा व्यापारस्यैव धातुवाच्यत्वम् । न चान्ते त्य-- जिगम्योः पर्यायता । तत्तद्धातुसमभिव्याहृतद्वितीयाया एव सं- योगादिरूपफलविशेषबोधकत्वाङ्गीकारात् । सर्वत्र फलानां द्विती- याद्यर्थत्वस्याश्रयत्वजन्यत्वादीनां च संसर्गलम्यत्वस्याङ्गीका-- f त के चित्तु विक्लित्यादिफलजनकतावच्छेदकतया व्यापार- समुदायनिष्ठोन्तिमव्यापारनिष्ठो वा वैजात्यमखण्डोपाधिर्वा प- च्यर्थः । कर्मत्वकर्तृत्वादिकमपि जातिरूपमखण्डोपाधिरूपं वा । अत एव तस्य व्यासज्यवृत्तित्वं सङ्गच्छते । एवं देवतात्वम- पि । अतः प्रयोज्यव्यापारवाचिषु भवतिविक्लिद्यतीत्यादिषु प्रयोज्यव्यापारजन्यत्वस्य प्रयोजकव्यापारवाचिषु पच्यादिषु विक्लिन्त्यनुकूलत्वादेराक्षेपेण भानाद्यन्नभिन्नफलानुकूलव्यापा- राणां तत्तद्वृत्तिजातेरखण्डोपाघेर्वा धातुवाच्यत्वम् । यत्नस्य तू- चरीत्या पार्थत्वासम्भवात् पारिशेष्यात्प्रत्ययवाच्यत्वम् । त- चापि न यलत्वेन वाच्यता, किं तु अनुकूलव्यापारवाचिक- गदिना विक्रमाद्रियो गच्छतीत्यादिसाधारण्यायानुकूळव्यापार- दाव्यता । करातेश्च भवत्वर्थककर्षकत्वाणिजन्तभव- . तर्कपादः १०९ तिसमानार्थकत्वम् । तादृशकरोतिना विवरणेनान्योत्पादानुकू लत्वेन यत्नएव शक्तिः सैव भावनेति ॥ के चिन्तु लघुभूतशक्यतावच्छेदके सम्भवति तद्गौरवस्या- न्याय्यत्वाधनार्थककृया विवरणाच यत्नत्वमेव वाच्यतावच्छे- दकम् । नन्वेवं करोतेर्यततिसमानार्थकत्वे फलसमानाधिकरण- व्यापारवाचितयाऽकर्मकत्वापत्तिः । उत्पत्तिरूपफलव्यधिकरण- व्यापारवाचित्वेन ज्ञानादिवत्सकर्मकत्वे तु यततेरपि सकर्म.. कत्वापत्तिः। एधाञ्चक्रे इत्यादिवदनुप्रयोगापत्तिश्च । न च कृञ् चानुप्रयुज्यते लिटीति कृधातोरेवानुप्रयोगविधानान्न त- दापत्तिरिति वाच्यम् । अनेन प्रत्याहारान्तःपातिव्यापारसामा- न्यवाचिधातूनामनुप्रयोगविधानात् । अत एव प्रत्याहारान्तःम- विष्टसंपदो नानुप्रयोग इति चेत् । विवक्षाविवक्षाभ्यांधात्वोः स- कर्मकाकर्मकत्वे पच्यास्योरपि पचति मासमास्यतइत्यादावति- प्रसङ्गानोक्तं सकर्मकत्वम् । किं त्वविवक्षाविरहविशिष्टकर्माका. झधातुत्वं, तेन सकर्मके विशेषणाभावेनाकर्मकत्वस्य विवक्षा- सत्त्वेन सकर्मकत्वस्य चाक्षतिः । आकाङ्क्षायाः शब्दवैचित्र्यक- तत्वादेकस्य धातोरर्थभेदेन सकर्मकत्वाकर्मकत्ववत्पर्यायाणामपि तदव्याहतम् । एवमविवक्षाविरहविशिष्टकर्मद्वयाकाङ्क्षधातुत्वं द्विकर्मकत्वमिति द्विकर्मकस्याप्येककर्मत्वे निनायेत्यादौन क्षतिः। अनुप्रयोगस्तु शब्दसामर्थ्यकृतव्यापारसामान्यवाचकव्यादिधा- तोरित्रोपपादनीय इत्यस्तु प्रसक्तानुप्रसक्तम् । एवं च यततिप- र्यायत्वेपि कृषः सकर्मकत्वोपपत्त्या तदर्थयागादिनिध्युपपत्ते क्रियते घटः स्वयमेवेत्यादिप्रयोगोपपत्तिः । अतो यत्नत्वमेव वा- स्यतावच्छेदकमित्याहुः॥ जानाति इच्छति यतते करोति . भवति नश्यतीत्सादावा- ।
११० भादृचिन्तामणे: श्रयत्वप्रतियोगित्वादौ निरूढ लक्षणा । न चाश्रयत्वं संसर्ग इति वाच्यम् । नामार्थधात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वयस्याव्यु- त्पन्नत्वात् । अन्यथा तण्डुलः पचति चैत्रः पच्यते तण्डुल इत्या- दावन्वयबोधापत्तः । शंक्ततावच्छेदकं लत्वादिकं स्थानिवृत्ति । तिबादिप्रत्ययादर्थप्रत्ययस्त्वादेशिस्मरणादिति के चित् ।। अन्येतु स्थानिभूतलादिकमजानतोप्यर्थप्रत्ययाच्छचादीनां साधुत्वार्थ कल्पितत्वेन प्रतिव्याकरणं भिन्नत्वेन च तत्र शक्ति- ग्रहासम्भवाद् ओदशवृत्तितिप्त्वादिकमेव शक्ततावच्छेदकं, ग. च्छेत्यादौ शबादिविकरणत्ति तदित्याहुः ।। तन्सिद्धं व्यापारत्वेन यत्नत्वेन वा प्रत्ययवाच्यो यत्नो भावनेति । स च नित्यं सकर्मकः । नित्यसकर्मकेन कृया णि- जन्तभवतिना च विवरणात् । एवं च स्वास्थ्यकामः स्वपेदित्या- द्यकर्मकघातूनामपि स्वास्थ्यादिभाव्यकत्वोपपत्तिः । तस्य भाव. नायां कर्मत्वेनान्वयात् । तस्याश्च मुख्यविशेष्यत्वेनैवान्वयः । न च चैत्रः पचतीत्यादौ तस्याः प्रथमान्तपदोपस्थाप्ये चैत्रा- दो प्रकारतयान्वयानुभवाद् न मुख्यविशेष्यत्वं सम्भवतीति वा- च्यम् । स्थाल्यां पचति काष्ठैः पचति खादिरं वीर्यकामस्य यूपं कु- र्यादित्यादौ प्रथमान्तपदाभावेपि शाब्दबोधानुभवेन भावनापका- रकशाब्दबोधे प्रथामान्तपदोपस्थितेतुत्वस्य वक्तुमशक्यत्वात् । न च तत्र प्रथमान्तकर्तृवाचिपदाध्याहारः । प्रत्ययवाच्यसंख्यायाः समानपदोपस्थाप्यकर्जन्वयसम्भवेनाध्याहारापेक्षया लक्षणाया ल. घुत्त्वेन चाख्याते कर्तृलक्षणाया एव युक्तत्वात् । एतेनाख्यातार्थ- विशेष्ये आख्याततात्पर्यविषयविशेष्ये वा प्रथमान्तपदोपस्थाप्ये. वा संख्यान्वयः। गगनेन स्थीयतइत्यत्र प्रथमान्तपदाभावात्संख्या नन्वितैवेत्यपास्तम् । काष्ठः पचतीत्यत्राप्यनन्बयापचेः पचतीत्यत्र . तर्कपादः । १११ कृतिविशेष्यकबोधस्वीकार ऽननुगमा । आख्यातार्थविशेष्यत्वा- दिना हेतुत्वस्याख्यातजन्योपस्थितेर्हेतुत्वापेक्षया गुरुत्वाच्च । एवं च यत्र प्रथमान्तपदोपस्थाप्योस्ति तत्राप्याख्यातार्थकतर्यभेदेन तस्यान्वयो, न तु भावनाविशेष्यत्वं, न च कारकाणानां भावनायां प्रकारकत्वेनान्वयो भावनायाश्च प्रथमान्तपदोप- स्थाप्यइत्यनेकव्युत्पत्तिकल्पनापत्तिः । एतेन कारकाणां धात्वर्थे तस्य वर्तमानत्वादीनां च भावनायां तस्याश्च प्रथमान्तपदो- पस्थाप्ये प्रकारकत्वेनान्वय इति परास्तम् । किं च पश्य मृगो धावतीत्यत्र दर्शनभावनायां धावनभावनाया एव कर्मलेनान्व- यः मृगस्य प्रथमान्तत्वेन तदनुपपत्तेः । अध्याहारे वाक्यभेदात् । सा चान्यविशेषणीभूता न सम्भवतीत्यतोपि मुख्याविशेष्य- स्वम् । न च मृगनिष्ठयत्नस्यानुमेयत्वेन साक्षाद्भावनाकर्मत्वं न सम्भवतीति वाच्यम् । ज्ञानकर्मत्वसम्भवात् । भावनाश्रयत्वस्य तत्सम्भवाच्च । अत एकवाक्यत्वस्यानुपपत्त्यापि विशेष्यत्वम् । न चैवं पाकभावना जायतइत्यस्मिन्नर्थे पचति भवतीति प्रयोगा- पत्ति, रिष्टापत्तेः । किं च भावप्रधानमाख्यातमिति स्मृतेर्भार- नाप्राधान्यबोधिकायाः सार्थकत्व,मन्यथानर्थक्यापत्तिः । न च नेयं भावना प्राधान्यबोधिका, किं तु धात्वर्थः केवलः शुद्धो भावनेति वैयाकरणपरिभाषितधात्वर्थप्राधान्यबोधिकेति वाच्य- म् । लिङ्प्रत्ययवाच्याख्यातशब्दसामानाधिकरण्यानुपपत्तेः । न च सर्वमाख्यातनं नामेति स्मृतेराख्यातपदेन धातुरेवोच्यत- • इति वाच्यम् । पाक इत्यादावाख्यातपदाप्रयोगात् । नामनि- चंचने तु आख्यातपदन्तत्मकृतौ लाक्षणिकम् । तेनाख्या- तशब्दस्य धातुवाचित्वाभावात्मत्ययवाच्याख्यातपदसामानाधि- करण्यानुपपत्तिः । अतोऽत्र पंष्टिस्त्रिष्टुभो माध्यन्दिनं सवनमिति- . '११२ भादृचिन्तामणे वदनेकाख्यातार्थोद्देशेन भावनाप्रधानविधिः । तेनाख्यातवाच्य- लक्ष्यकालसङ्ख्याभावनाकर्तृकर्मसु भावनाप्राधान्यं विधत्ते अन्यथा धात्वर्थनिरूपितप्राधान्यविधौ प्रकृतिप्रत्ययाविति स्मृ- तिप्राप्तत्वेनानुवादे आनर्थक्यापत्तिः । वैयाकरणपरिभाषणं तु न- पुंसके भावे क्त इत्यादौ धात्वर्थग्रहणमेव न त्वतलाद्यर्थग्रहणमि- त्येतदर्थ, न तु भावपदशक्तिग्राहकम् । एवं सत्त्वप्रधानानि नामानीत्यत्रापि पावको लावक इत्याद्यनेकार्थनामसु लिङ्गसंख्या- नययोगिनः प्राधान्यबोधनम् । घटादिपदेपि जातिव्यक्त्योरु- भयोरपि प्राधान्यम् । अत एव चाकृत्यधिकरणे जातिव्य. क्त्योर्बोधद्वयमित्याहुः ॥ अतो ऽनेकार्थप्रतिपादकेष्वाख्यातेषु मावनाप्राधान्यनियमो भावप्रधानमाख्यातमित्यनया स्मृत्या क्रियते । सत्त्वप्रधानानि नामानीति स्मृत्या ऽनेकार्थप्रतिपादकसु- बादिषु क्रियापदं विनान्वयबोधाजननात् । क्रियान्वयं विना कारकत्वव्याघाताच्च । प्रधानभूतक्रियान्वयित्वेन कर्तृत्वादिका- रकप्राधान्यनियमः । कारकाणामेव प्राधान्यं संख्यादीनां प्रातिप.. दिकार्यस्यापि प्रत्ययार्थप्राधान्यबोधकस्मृत्या कारकान्वयः । सं- ख्यादीनां तु समानाभिधानश्रुत्या तत्परिच्छेदद्वारा कारके एवा- न्वय इति चतुर्थे स्फुटम् । अतः सर्वकारकाणां भावनान्वयात् सिद्ध भावनाया मुख्याविशेष्यत्वम् ।। कारकाणां भावनान्वयश्च साक्षादसम्भवादात्वर्थपरिच्छे- दद्वारकः, तत्राभिहितकर्तृकर्मवाचिनी प्रथमोते मते प्रथमार्थकत- वादविनान्वयः । प्रातिपदिकार्थे प्रथमेति मते कर्तृत्वादिसंस- र्गेण चैत्रादेरेव तत्रान्वय इति के चित् । वस्तुतो लक्षणैव युक्ता, निषातातिरिक्तनामार्थाख्यातायोर्भेदान्वयासम्भवादिति । तत्र चाधिकारित्वमपि संसंग इति के चित् । एवं सम्बोधनविभक्ते- तर्कपादः। रपि प्रथमासमानार्थकत्वात्तदर्थोपि भावनान्वयी । एवं क्वाणमु- ल्कृत्वसुजनबधवाद्यर्थानां कालावृत्यभावादीनामपि भावनाया- मन्वयः । एवं निमित्तस्य कारकत्वाभावे ऽप्यनुष्ठापकत्वसत्वा- द्भावनान्वयः । षष्ठयास्तु कारकविभक्तित्वाभावात्तदर्थस्योपप- दार्थेनान्वय इति संप्रदायः॥ अन्ये तु साक्षात्परंपरासम्बन्धेन भावनायामेव प्राधान्येना- न्वयो युक्त इत्यप्याहुः॥ एवं वर्तमानत्वादिकमपि । विध्यर्थोपि प्रवर्तना जनकता- सम्बन्धेन भावनान्वयी, संख्यायास्तु भावनाक्षिप्ताखण्डोपाधि- रूपकर्तृत्वकर्मत्वान्वयो, न तु तदाक्षिप्ततदाश्रयान्वयः। एवं च य- जेतेवादावाश्रयभेदेपि एकवचनोपपत्तिः । वसानावित्यादौ प्रमा- णान्तरानुरोधाल्लक्षिताश्रये तदन्वयः। तत्र शब्धिकरणस्थळे क- र्तृत्वान्वयो यगाादविकरणे कर्मत्वान्वय इति व्यवस्थेति सं- भदाय:॥ के चिन्तु स्थीयते सुप्यतामित्यादौ भावनायामेव संख्या- न्वयः । प्रधानान्वयस्य युक्तत्वात् । न चैव कृतौ संख्यान्वये त- स्थाः सत्त्वतापतिः । इष्टत्वात् । तत्रापि स्मृतिबोधितप्राधान्या- क्षतेः । न हाय स्मृतिरसत्वभूतस्य प्राधान्यबोधिका, संख्याया: प्राधान्यप्रसङ्गात् । न च भावनाद्वये द्विवचनापत्तिः । एकवचन: स्यैव साधुत्वात् । अतो युक्तः परंपरया भावनान्वयः । गगनेन स्थीयतइत्यादावाख्यातलक्ष्ये आश्रयत्वे संख्यान्वयो ऽनन्वितैव वा संख्येत्याहुः॥ कर्तृत्वकर्मत्वयोरपि भावनायामन्वयः, तत्र काख्या ते आख्यातलक्षितकर्तृत्वस्य सामानाधिकरण्येन कर्माख्याते तद्वाच्यप्रयत्नप्रयोज्यतया लक्षितफलस्य सामानाधिक रण्येना- । १५ - भादृचिन्तामणे न्वयः । तदाक्षिप्ताश्रयाभेदेन प्रथमान्तोपस्थाप्यान्वयः। एवञ्च तण्डुलाभिन्नाश्रितत्वकर्मत्वसमानाधिकरणफलप्रयोजको व्या- पार इति कर्माख्याते, क ख्याते देवदत्तनिष्ठ कर्तृत्वसमानाधि- करणः पाकानुकूलो यत्न इति बोधः । कर्तृत्वं च तृतीयार्थः । एवमोदनः पच्यते स्वयमेवेति कर्तृकर्माख्याते ओदननिष्ठयोः कर्तृत्वकर्मत्वयोर्विवक्षणादोदननिष्ठकर्मत्वसमानाधिकरणफलप्र- योजकौदननिष्ठकर्तृत्वसमानाधिकरणपाकानुकूलभावनेति बोधः । तत्र कृर्वाधाद्वयापारे लक्षणा । न चैवमोदनः स्वं पचतीति प्रयो- गापत्तिः । कर्मवत्कर्मणा तुल्यक्रिय इति यगादिविधानेन ताह- शस्यासाधुत्वात् । अत एव तत्र चैत्रे न प्रथमा न तृतीया, किं तु षष्ठीति सम्पदायः । तस्माद्भावप्रधानमाख्यातमिति स्मृत्यैव सर्वकारककर्दत्वादिनिरूपितं च प्राधान्यं भावनाया इति सिद्ध- म् । किं चानयैव स्मृत्या प्राधान्ये भावनाया बोधिते प्रधानस्य गुणाक्षेपकत्वनियमेन भावनाया एव कर्तृत्वकर्मत्वाक्षेपकत्वं युक्तं न वैपरीत्यम् । अनन्यळभ्यस्य शब्दार्थत्वाच्च नाक्षेपलभ्ये कर्तृ- त्यादौ शक्तिः । किं त्वाक्षेपककृतावेध । अत एव यत्र नाक्षेपक- त्वं, तत्र नानव शक्ति, यथा संख्यादौ । न चैवं पक्ता पचमानः पक इत्यादिकर्तृकर्मकृतामपि भावनावाचित्वं लाघवादिति वा- च्यम् । नामार्थयोभैदान्वयानुपपत्ते, रतस्तत्र कर्तरि कृदित्याध- नुशासनिकी आश्रये शक्तिः। न चाक्षेपेण तद्बोधो लक्षणया वा, शक्तथाकचिदप्यप्रयोगे शक्तयज्ञानेन लक्षणाया असिद्धेः ।अत- स्तत्र नामत्वेन सत्त्वभाधान्यबोधकस्मृत्या लिङ्गसंख्यान्वययोग्य- स्व प्रधानमूतस्य कृत्याक्षेपकत्वबोधनम् । न च कृतौ लक्षणा कर्तरि शक्तिः । लाघवस्यापि प्राधान्यविरोधित्वेनाप्रयोजकत्वात् । त. त्सिदं कर्तृकर्मकृतां कृतिबोधशक्तिरिति ॥ 4 तकंपादः। ११५ भावकृतां तु पाको बाग इत्यादौ जायतेक्रियतइत्यादिक- तिवाचिपदाध्याहारेण बोधोऽन्यथा धात्वर्थमात्रप्रतीतेस्तत्र का- रकान्वयानुपपत्तेः । अतस्तत्र धात्वर्थमात्रे शक्तिः । कृतेस्त्वाक्षे- प एवेति सिद्धम् । अतो धात्वर्थातिरिक्ता कृतिरूपा भावना ऽऽख्यातार्थः । आश्रयस्त्वाक्षेपलभ्यः।आक्षेपलभ्यत्वादेव वैया- करणोक्तं कर्तृकर्मवाचित्वमपास्तम् । लः कर्मणि च भावे चाकर्म- केभ्य इति स्मृतिरपि ल इति षष्ठयन्तमाश्रित्य द्वथेकयोर्द्विवचनै- कवचने बहुषु बहुवचनमित्यनुशासनैकवाक्यतया लादेशतिवा- दीनां कर्तृकर्मगतैकत्वादिविवक्षायामेकवचनादिविधानपरा व्या- ख्येया। अनभिहिताधिकारस्मृतिरपि कर्मादिगतसंख्यानभिधाने द्वितीयातृतीयादिविधानपरा । करिकदिति स्मृतिस्तु नामा- र्थयोर्भेदान्वयानुपपत्तिभयेन न कृत्यभिधानपरा । किं तु कर्षभि- धानपरैवेति दिक् । यागाधसत्त्वमचिरस्थितिकं च यस्याः सम्बन्धतः फलभुवः फलदायि जातम् । दध्यादिसत्त्वमपि यत्करणस्वतो ऽत: सा भावना रघुपतेः पदयोर्मम स्यात् ।। इति गागाभहकृतभादृचिन्तामणौ आख्यातवादः समाप्तः॥ लटो वर्तमानत्वे शक्तिः । वर्तमाने लडित्यनुशासनात् । तच्च वर्तमानत्वं लट्मयोगाधिकरणकालसम्बन्धित्वं लटशब्दप्रयो- गाधिकरणकालोपाधित्तित्वं म । अतीतभविष्यकालातिरिक्त- कालसम्बन्धित्वं वा । एवं च तक्रियाप्रयोगप्रयोज्यशाब्दा- धिकरणतत्तत्काल एष वर्तमानकालः। तचत्कालकृतिषु वर्च- A भाइचिन्तामणेः m मानवव्यवहारः । अननुगतस्यापि शब्दैक्यमात्रेणैवानुगम इति। यथा तदादिसर्वनामार्थो ऽननुगत एव, बुद्धिस्थत्वेनानुगमे बु. देरप्यननुगमस्तबुद्धेश्चाननुगम इति । एवं यत्र न प्रयोगाधिक- रणकालस्तत्रापि लिप्यादिजन्यप्रयोगज्ञानसत्त्वात्तत्कालज्ञानम. व्याहतम् । परे तु वर्तमानत्वादिकं क्व चिदुत्पत्तौ क्व चिदेक- देशे क्व चित्कृतौ क्व चिदाश्रयत्वे क्व चिदभावे ऽन्वति । तेन आदिपर्वणि युधिष्ठिरोस्ति इह कुमाराः क्रीडन्ति पचति जानाति क्वास्ति देवदत्त इत्यादिप्रयोगः । ईश्वरो जानाती- त्यादौ वर्तमानत्वमनन्वयि, दैवतैः स्थीयतइति प्रत्ययार्थैकत्ववत् आहार्यशाब्दबोधो वा । संग्रहश्च । अप्रवृत्ती परश्चैव वृत्तौ विरत एव च ॥ नित्यः प्रवृत्तः सामीप्ये वर्तमानश्चतुर्विधः ॥ इति । अस्यार्थः । लडों वर्तमानत्वं प्रवृत्त्यभावे ऽन्वेति । यथा मांसं न भुङ्क्ते, मांसभोजने निवृत्त इति। इह कुमारा:क्रीड- न्तीत्यत्र क्रियाया धारावाहिकत्वे, तिष्ठन्ति पर्वता इत्यादौ क्रि- याया नित्यनिवृत्तत्वे । तच्च बहुकालव्यापित्वात् । सामीप्ये तु कदा त्वमागमिष्यसि गमिष्यसि वेति पृष्टे एष आगच्छामि गच्छामीति वोत्तरे बोध्यम् । अत्र सर्वत्र शक्तिर्लक्षणा वा तथा मन्यतेरुत्तमपुरुषेकवचनस्य प्रहासे शक्तिः । अतादृशत्वेन जानत- स्तादृशत्वकथनं महासः। तथा पुरापदयोगे भविष्यदर्थे लटः।प्रहा- सादिकं व्यञ्जनागम्यमित्यालङ्कारिकाः॥ अनद्यतनभूतपरोक्ष- त्वं लिडर्थः । अनद्यतने भूते इत्यनुवृत्तौ परोक्षलिडिति पाणिनी- रसूत्रात् । वर्तमानाहोरात्रवृत्तिप्रागभावध्वंसान्यतरामतियोग्यु- त्पत्तिकत्वमद्यतनत्वम् । तद्भिन्नत्वमनद्यतनत्वम् । भूतत्वं वर्तमा- नध्वंसप्रतियोगित्वम् । साक्षात्करोमीयेतादृशविषयताशालि- . तपादः। ज्ञानाविषयत्वं परोक्षत्वम् । तच्च क्रियानिष्ठं क्रियाविशिष्टकार- कनिष्ठं वा। क्रियायाश्च पिण्डीभूतायास्तादृशप्रतीतिविषयत्वासं. भवेप्यबयवशस्तत्संभवात् । अत एव पश्य मृगोधावतीत्यत्र धाव- नस्य धावनाश्रयकारकस्य वा तादृशज्ञानविषयत्वान्न लिट्मयो- गः । व्यातेने किरणावलीमिति भूतत्वारोपेणोपपादनीयम् ॥ अनयतनभविष्यत्वं लुडर्थः । भविष्यतीत्यनुवृत्तौ अनद्यतने लुडितिपाणिनीयमूत्रात् । यथा श्वो भवितेति ॥ भविष्यत्सामान्यं लूटोर्थः । यथाय वो वा घटो भविष्यतीति । एवं च दर्शपूर्ण- मासाचारप्स्यमानोन्वारम्भणीयां निपेत् सोमेन यक्ष्यमाण आदधीतेत्यादौ लडादेशशानचः साधारण्ये ऽपि लट् शेषे चेति सूत्रेण वाक्यसार्थक्याय चाद्यतनभविष्यत्परत्वम् ॥ लिङर्थे ले- डिति सूत्रात् विध्यादय आशीश्च लेडर्थः । यथा भवाति प- तातीति । अयं तु छन्दोमात्रगोचरः ॥ विध्यादय आशीश्च लो- दर्थः । लोट् च अशिपिलिङ्लोटाविति पाणिनीयसूत्रात् । यथा मा भवतु भवतादिति । तुह्योस्तातडाशिष्यन्यतरस्यामिति सू. त्रेण आशिषि तातविधानात् ॥ अनद्यतनभूतत्वं लङो ऽर्थः । अनद्यतने लङिति पाणिनीयसूत्रात् । यथा घटो ऽभवत् ॥ विध्या दकं लिडाः। विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नपार्थ- नेषु लिङिति सूत्रात् । भृत्यादेनिकृष्टस्य प्रवर्त्तनं प्रेरणं विधिः । निमन्त्रणमावश्यके श्राद्धादौ नियोगकरणम् । आमन्त्रणं काम- चारानुज्ञा । अधीष्टः सत्कारपुरस्सरं प्रवर्तनम् । अत्र तत्तत्त्वेन न शक्तिः । नानाशक्तिकल्पनापत्तेः । किं त्वेतच्चतुष्ठयत्तिप्रव. तैनात्वेन, प्रवर्तनात्वं च परनिष्ठप्रवृत्तिजनकज्ञानविषयप्रवर्तक- धर्मत्वम् । एतेष्टसाधनत्वकृतिसाध्यत्वबळवदनिष्टाननुवन्धि- स्वानां प्रवर्तनात्वाभावेन विध्यर्थत्वं वदन्तः परास्ताः । मण्डन प्रवर्तना, तत्र भाइचिन्तामणे स्तु यागादौ कृतिसाध्यताज्ञानस्य लोकत एव सिद्धरम्पलभ्य- त्वान्न तत्र लिङः शक्तिः । बलवदनिष्टाननुबन्धिज्ञानं च द्वे- पाभावजननेनान्यथासिद्धत्वान्न प्रवृत्ती हेतुः । अत एव कामु. कस्य नरकसाधनताशानदशायां प्रवृत्तिनिराबाधा । अत इष्टसाधनत्वमेव प्रवर्तनेत्याह । कार्य निर्थ इति गुरवः । इष्टसाधनत्वादीनामाक्षेपतो. लाभात्पदार्थान्तरं लिः शक्तिरिति भट्टाः । अर्थभावनाभिधानुकूला शक्ति- रेव प्रवर्तनेति पितृचरणाः । कार्यकारणभावश्च लिस्र्थः । हेतुहेतुमतोर्लिङिति सूत्रात् । यथा यो ब्राह्मणायावगु- रेत्तं शतेन यातयादिति ॥ भूतसामान्य लुथः । भू- तइत्लधिकारे लुकिति सूत्रात् । यथा घटोभूदिति ॥ अनिष्यन्नयोः क्रिययोर्हेतुहेतुमद्भावो लुङर्थःालिनिमित्तेलक्रियातिपत्ताविति सूत्रात् । लिडो निमित्तं हेतुहेतुमद्भावः । यथा सुदृष्टिश्चेदभाव- व्यत्सुभिक्षबप्यभविष्यत् । यदिघटो ऽभविष्यत्चदाइक्ष्यदिति । इति गागाभट्टकृते भादृचिन्ता- मणौ लकारवादः समाप्तः ॥ अथ प्रातिपदिकार्थों निरूप्यते । धातुप्रत्ययतदन्तभिन्नत्वे सति अर्थवच्छब्दत्वं प्रातिपदिकत्वम् । अर्थवदधातुरमत्ययः प्रातिपदिकमिति सूत्रात् । विभक्तयन्तानां सरसंझावारणाय प्र: स्ययान्तति । एवं च पूर्वनिपातितेपदसमाप्त्यर्थकबहुमत्यययुक्त- बहुपटुःशब्दस्य प्रातिपदिकसंज्ञा । तत्र तद्धितान्तत्वाभावेन त- संज्ञायाः कृत्तदितेति सूत्रेणालाभात् । तद्वितयोगमात्रविवक्षायां पचनकीत्यत्राकच्प्रत्यययुक्तेपि तदापत्तेः । न चैव कृत्तद्धितान्ते- पु. अनर्थकशशश्रृङ्गादिसमासेषु प्रातिपदिकत्वं न स्यादिति - m त F- 36: CE तर्कपादः । वाच्यम् । कृत्तदिवसमासाश्चेति सूत्रेण तत्र संज्ञाविधानात् ।। अन्ये तु अर्थवत्सूत्रेण वाक्यसमासयोरपि संज्ञाप्राप्ती कृत्सू- त्रेण समासेषु पुनः संज्ञाकरणं वाक्यपरिसंख्यार्थमित्याहुः॥ तघ्च प्रातिपदिकं चतुर्धा पूर्वमुक्त, सढं यौगिकं योगरूढं यौगिकरूढं चेति । तच्चतुर्विधमपि जातिगुणक्रियायदृच्छाशब्द- भेदाच्चतुर्षिधमिति महाभाष्यकाराः । वस्तुनिर्देशशब्दावधिका- विति चन्द्रालोककारः। सर्वेषुद्रव्यवाचकघटादिपदेषु जातिरेव वा- च्या, वाच्यतापच्छेदिका वा । इदं चाग्रे स्फुटीकरिष्यते । ना- लशुक्लादिपदेषु गुणपदसमानाधिकरणेषु गुणिवाचिसमानाधि- करणेष्वपि गुण एव वाच्यो न नीलत्वत्वादिजातिगुणिनि तद- भावात् । नापि गुणी, गौरवात् । लक्षणया सामानाधिकरण्या- धुपपत्तेश्च । वाच्यतावच्छेदको वा गुणः । एवं पाचकादिपदे पाकक्रियेव वाच्या, तस्याएव प्रतीतेः । तस्याश्चकत्वाद्वाच्यत्वं वाच्यतावच्छेदकत्वं वा । एवं दण्डीत्यादौ दण्डसम्बन्धो वा. च्यो वाच्यतावच्छेदको वा । पाचकादिपदे पचनस्य विशेष. णत्नभानादिह एण्डसम्बन्धस्य विशेषणत्वेन भानाद्भेदः । डित्यादियदृच्छाशब्देषु शब्द एव वाच्यो वाच्यतावच्छेदको वा । एवं कंसपरिक्षितचामुण्डादिपदेषु निर्देश एव वाच्यः श- क्यतावच्छेदको पा, निर्देशश्च पाचकवर्णानां स्वपरत्वम् । यथा कंस इत्यत्र कङ्कार सकारावेव कंसपदे प्रतीयते। तत्र नरक- पदान्तर्गतसानुस्वारककारण नरकमतीति: समाश्रितपदान्तर्ग- तसकारेण च समाश्रितप्रतीतिः । तेन स्वोपस्थाप्यसानुस्वारक- कारसकारवत्पदवत्त्वसम्बन्धेन ककारसकारावेव वाच्यौ वा- च्यबावच्छेदको वेति । एवं चामुण्डादिपदेपि चण्डमुण्डानयन- वन्त्वादिसम्बन्धेन वर्ण त्रयमेव शक्यं शक्यतावच्छेदकं वा । एवं त्वे यः म. त. त. यां देति १२० भादृचिन्तामणेः परिक्षितादिपदे परिक्षीणे कुले जात इत्यादिसम्बन्धन तत्तद्वर्ण- वन्त्वं बोध्यम् । एतेषु च जातिगुणाक्रियासम्बन्धासिद्धर्न जा- त्यादिशब्दत्वं, नापि यदृच्छाशब्दत्वं सम्बन्धप्रदर्शनात् । नापि यौगिकत्वं, पिण्डान्तिःप्रविधार्थवाचकावयवारब्धत्वासम्भ- चात् । नापि लक्षणा, सम्बन्धाग्रहात् । द्विरेफपदस्य भ्रमरपदादौ रेफद्वयसम्बन्धज्ञानसत्वाद्युक्ता लक्षणा । नापि लक्षितलक्षणा, लक्षणाया अभावात् । अतस्ते वर्णा एव शक्यतावच्छेदकाः श- क्या वति ॥ अत्र के चित् । व्यक्तिसंकेतपक्षे सर्वासु व्यक्तिषु सङ्केत एको नाना वा । नायः । आनन्त्यात् । नान्त्यो, व्यभिचारा- पत्तेः । गौः शुक्लश्चल इत्यादिपदानां व्यक्त थैक्येनार्थ भेदाभा- वात्सहप्रयोगानुपपत्तेश्च । अतो धर्मएव शक्तिः । हेतुला ऽपिश क्तिग्रहस्य तत्तत्पदत्वधर्मितावच्छेदककगोत्वप्रकारकनिश्चयत्वे- न । नत्र जातौ च निरवच्छिन्नैव प्रकारतेति लाघवम् । अन्य- था गोत्वधर्मितावच्छेदकतत्तत्पदप्रकारकनिश्चयत्वेन हेतुतायां सत्तत्पदत्वस्य प्रकारतावच्छेकतया गौरवामिति जातादेव शक्ति- युक्ता । आकाशादिपदे अनन्तशक्तिकल्पनाभावेन न धर्मे शक्तिः। एवं च सर्वत्र नानानीलपीतरूपव्यक्तिपु वर्तमाना नीलत्वपीत- त्वादिजातिर्नीलपीतादिपदवाच्या । चलनेत्यत्रापि चलनक्रिया- निष्ठा जातिरेव । डित्यादिशब्दानामपि बालाद्यवस्थापरिणते नानाविरुद्धधर्माध्यासाद्भिन्नडित्थाद्यर्थनिष्ठा हित्यत्वजातिरेव पाच्येति वालवृद्धशुकोदीरितशब्दभेदेन शब्दनिष्ठेव जातिवा- येत्यपि के चित् ॥ तत्राप्येवं विभागः । जातिरेव नामार्थ उक्तयुक्त्या आक्षे- पाच्च व्यक्तिलामः । अर्थापत्तिः समानवित्तिवेद्यत्वं व ss- .. तपादः। १२१ पः। निरूढलक्षणा वा । तेन वृत्त्या प्रकृत्युपस्थाप्यत्वस्थ प्रकृत्य- र्थत्वान्न प्रत्ययार्थान्वयाद्यनुपपत्तिः ॥ "शक्यादन्येन रूपेण भाने भवति लक्षणा" इति नियमस्याप्रयोजकत्वादिति । एवं च घटशाब्दबोधे घटत्वशक्तिज्ञानत्वेन कारणतायां लाघवम् ॥" अन्ये तु सर्वत्र व्यक्तिरेव पदार्थः । अशक्याया अपि जातेरुपलक्षणतया तदुपलक्षितव्यक्तिशक्त्यङ्गीकारेण न व्यभि- चारानन्तशक्तिकल्पनादिर्दोषः । तदुक्तम् । आनन्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥ इति ॥ परे तु जातिविशिष्टा व्यक्तिर्वाच्या । अन्यथा घटत्वांशे शक्तयभावेन घटत्वादेः शाब्दविषयत्वासम्भवात् । न च घटविशेष्यकघटत्वप्रकारकबोधे जातिशक्तिज्ञानत्वेन व्य- क्तिशक्तिज्ञानत्वेन वा हेतुत्वान्नायं दोष इति वाच्यम् । द्रव्यादिप- दानामप्येवमापत्तौ घटादिपदाद् द्रव्यत्वप्रकारकबोधापत्तेः। न च पदज्ञानस्य सम्बन्धिज्ञानविधया हेतुत्वेन येन रूपेणोपस्थितयोः स- म्बन्धस्तेन रूपेणोपस्थापकत्वनियमः। एवं च घटत्वांशे शक्त्यग्रहे- पि तेनैव रूपेणोपस्थितिरिति वाच्यम् । उपस्थितस्याकाशादेरापि अन्वयापत्तेरिति । एवं च द्विकं प्रातिपदिकार्थ इति । यद्वा जातिव्य- तिलिङ्गानीति त्रिकमर्थः । लिङ्गं द्वेषा, शास्त्रीयव्यवहारहेतुलौकिक च । अवयवसंस्थानविशेषवत्वमन्त्यं तत्तद्वयक्तिविशेषनिष्ठं व्यव- स्थितम् । इयं व्यक्तिरयंपदार्थ इदं वस्त्विति सर्वत्र व्यवहारादव्यव- स्थितंलिङ्गात्रितयनिबन्धनकार्योपयुक्तमाद्यम् ।तच्च सत्त्वरजस्तमो- गुणानां वृद्धयपचयस्थितिरूपमिति पतञ्जलिस्वामिनः । स्त्रीत्व- पुंस्त्वापुंसकत्वादि जातिरेवेत्यन्ये । तत्र लौकिके लिङ्गे शक्तिः।
१२२ भादृचिन्तामणेः अलौकिके गौण्या प्रयोग आरोपात् । पशुना यजेतेत्यादौ मु- ख्यपुंस्त्वविवक्षणान्न स्वीपशुना यागप्रसङ्ग इत्याहुः ॥ अन्ये तु पशुशब्दस्य लिङ्गत्रयसाधारण्येन प्रयोगपि मान्त्रवर्णिकच्छाग- पदस्य व्यवस्थितप्रयोगेन लौकिकपुंस्त्वे शक्तिमादाय दोषो- दार इत्याहुः ॥ यद्वा शास्त्रीयं लिङ्ग शब्दनिष्ठमेव, लौकिकं त्व- यनिष्ठं, तत्रानिष्ठे शक्तिः । कुमारब्राह्मणपदानां तत्रैव प्रयो- गात् । अत एव प्रास्मा अग्निं भरतेत्यत्रोपस्थितव्यक्तिगतपुंस्त्वे शक्तिस्वीकारात्केवळमेष्यामूहः । शब्दगते लक्षणेति । अत्र टा. बादीनां सीबादीनां शीप्रभृतीनां द्योतकत्वमस्मिन्मते । ङीवा- दीनामेव वाचकत्वमित्यपि के चित् । यद्वा जातिव्यक्तिलिङ्गसं. ख्या इति चतुष्कं प्रातिपदिकार्थः । दधि पश्येत्यादौ प्रातिप- दिकादेव तत्प्रत्ययात् । एवं च विभक्तेोतकत्वमात्रम् । तेनैव च नामार्थप्रकारकशाब्दबोधे सुवादिजन्योपस्थितेहेतुत्वनिर्वाह इति दिक् ॥ एतत् सर्व महाभाष्ये सरूपाणामेकशेष इति सूत्रे स्पष्टम् ॥ आलङ्कारिकास्तु "विषयत्वमनाहत्य शब्देनार्थः प्रकाश्यते" इतिमतावष्टम्भेन पञ्चकं प्रातिपदिकार्थः ॥ परे तु शब्दस्यापि प्रातिपदिकार्थत्वात्षट्कं प्रातिपदिका- थः । तथाहि । गामुच्चारयेत्यादिलौकिकप्रयोगे शिपिविष्टवती- धु रवन्तरं गायतीत्यादिवैदिकपयोगे च शब्दोपि भासतइति निर्विवादम् । वृत्तिविषय एव शाब्दबोधे विषय इति नियमः। सवा च शब्दस्यापि शब्दशक्तिविषयतया भानमङ्गीकार्यम् । सत्र घटादिपदे शब्दनिरुपितापि शक्तिभिन्ना कल्यतइति चित् ॥ ।
. तपादः। १२३ अन्ये तु शक्तिविषयो ऽर्थो भासते, शक्तिविषयत्वं चा. श्रयतानिरूपकतान्यतरसम्बन्धेन शक्तिमत्त्वम् । तथा चार्यशक्ति- ज्ञानेनैव पदस्यापि भानम् । तेन घटादिपदानां शक्तिसम्बन्धेन घटत्वादिवत्पदमपि शक्यम् । एतावांस्तु विशेषो यत्सम्बन्ध- स्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वा- धवच्छिन्नशक्तचैव घटादिवच्छब्दस्यापि तथैव वृत्त्योपस्थिती सत्यामर्थबोधे तात्पर्य सति तत्र विशेषणतया स शब्दो भासते । सत्रापि घटत्वादिरूपेण विशिष्य शक्तिग्रहवतां पदजात्युभयप्र. कारकबोधः । नळयुधिष्ठिरादिपदवद्विशिष्य शक्तिग्रहाभावे तु व्यक्तिविशेष्यकः केवलपदप्रकारको नलपदवाच्यः काचिदित्या. धाकारको बोधः । यत्र तूक्तोदाहरणेषु शब्दमात्रे तात्पर्य तदा तत्र शक्तया शब्दस्वरूपस्य प्राधान्येन भानामिति । एवं च क्व चित्तात्पर्यवशाच्छन्द एव प्राधान्येन भासते क्व चित्तदभा- वेऽर्थविशेषणत्वेनेति सिद्धम् । अत एवाग्निहोत्रं जुहोतात्यादौ तस्य विशेषणत्वेनान्वयादामहोत्रनामकेनेति बोधः । एतेनाग्नि- होत्रनामके निरूढलक्षणेति निरस्तम्, अनुपपत्त्यभावान्, मत्वर्थ- लक्षणाताल्पेन सिद्धान्तानुबन्धाच, अतः शब्दोपि वाच्यः । एवं च उदेति सविता तामूस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता । इत्यादौ रक्त एवास्तमेतीति यदा क्रियते तदा पदान्तर- प्रतिपादितः स एवार्थोर्थान्तरतयैव प्रतिभासतइति काव्यप्रका- योक्तिः सङ्गच्छते । अतः षट्कं प्रातिपदिकार्थ इति । तदुक्तम्। "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्पशब्दानामेते पृथगवस्थिते" इति दिक् ॥
१२४ भादृचिन्तामणेः इति प्रातिपदिकार्थनिरुक्तिः॥ अथ सुविभक्तयों निरूप्यते । तत्र प्रथमाषष्ठीवर्ज स- विभक्तयः कारकाणि । तत्र "प्रातिपदिकार्थलिङ्गपरिमाणवचन मात्र प्रथमा"। लिङ्गपरिमाणवचनानां लिङ्गत्वपरिमाणत्वसंख्यात्व- प्रकारकशक्तयालिङ्गादिषु प्रथमायाः शक्तिः । प्रातिपदिकार्थ इ- ति क्व चित्पथमाया अर्थो नास्तीति सूचनाय। पुमान् देवदत्तः द्रोणो ब्रीहिः एको घट इत्यादौ पुंस्त्वद्रोणत्वैकत्वानां प्रातिपदि. कार्थानां देवदत्तादौ न समवायसम्बन्धेनान्वयः सम्भवति । नामार्थयोर्भेदान्वयस्याव्युत्पत्तेः । अतो लिङ्गादिकं प्रथमार्थः । तत्र च प्रातिपदिकार्थानां पुंस्त्वादीनामभेदेनान्वयः, विभक्तय- र्थश्च देवदत्तादौ प्रकारतयान्वेति । एवं च पुंस्वाभिन्नलिङ्गवा- न् देवदत्तः । द्रोणाभिन्नपरिमाणवान् व्रीहिः । एकत्वाभिन्नसं- रूयावान् घट इत्यादिवोधोपपत्तिरिति वैयाकरणाः ॥ अत्राहुः । नामार्थयोरभेदान्वयव्युत्पत्तिरक्षणाय विभक्तय- थप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिकल्पनं न युक्तम्, किं चैवं सति नामार्थयोरभेदान्वयः क्वापि न स्यात् । प्रातिपदिकार्थ- स्वेन प्रातिपदिकार्थे प्रथमायाः शक्त्या नीलो घट इत्यांदावपि नीलाभिन्नप्रातिपदिकार्थस्य समवायसम्बन्धेन घटे ऽन्वयात् । न चेष्टापतिः । प्रातिपदिकार्थत्वस्य शक्यतावच्छेदकत्वे गौरवात् । किं च तण्डुलः पचतीत्यादावपि प्रातिपदिकार्थरूपविभक्त्यर्थ- स्य कर्मत्वसंसर्गेण. पाके ऽन्वयापत्त्या ततो ऽपि बोधाप- ति। नहि विभक्त्यर्थस्यापि धात्वर्थान्वये निरूपितत्वादिवत्क- पवस्व संसर्मतया भाने किं चिदाधकमास्ति । अतः प्रातिप- दिकार्डन विभप्रत्यर्थस्याभेदातिरिक्तसम्बन्धेनान्वयबोधो ना- स्तीति व्युत्सचान्तरकल्पने. गौरक्म्, अतो नेदं शक्तिग्राहकं कि वर्कपादः १२५ तु प्रथमोचारणे ऽन्यार्थस्याभावाद् नेयं कारकविभक्तिरिति सू. त्राशयः । एवं च मात्रपदं सङ्गच्छते । शक्तिग्राहकत्वे मात्रपदवै- यर्थ्यप्रसङ्गः । एवं सम्बोधनेचेत्यत्रापि सम्बोध्यत्वे प्रथमाया न शक्तिरुच्यते । हे.देवदत्त पचेत्यत्रापि सम्बोध्यस्य विभक्त्य- र्थस्य धात्वर्थ कर्तृत्वेनान्वयापत्तेः । तेनामान्त्रतादिसंज्ञान्तरप्रयु- क्तकार्यप्राप्त्यर्थ सम्बोधने चेति सूत्रम् । संबोधने या प्रथमा सा आमन्त्रितमिति सूत्रार्थः। अतो न प्रथमायाः किं चिद्वाच्यं, किं त्वाख्यातायुक्तार्थानुवाद इति दिक् ॥ एवं षष्ठयपि षष्ठीशेषे इति सूत्रेण विहिता.न कारकवि- भक्तिः। शेषे उक्तकर्मत्वादिद्वितीयाधर्थभिन्ने सम्बन्धमात्रे ष- ष्ठीति सूत्रार्थः । एवं च सम्बन्धे षष्ठयाः शक्तिः। सम्बन्धत्वं शक्यतावच्छेदकं, चैत्रस्य धनमित्यादौ सम्बन्धप्रकारक एव बोधः । स्वत्वस्वामित्वविषयत्वसाध्यत्वजनकत्वादिविशेषे तु लक्षणा । एवं सर्पिषो जानीते मातुः स्मरतीत्यादौ सम्बन्धत्व प्रकारक एव बोधः । तात्पर्यग्रहाच्च विशेषबोधो लक्षणया मानसो वेति जीर्णाः ॥ नव्यास्तु षष्ठयाः स्वत्वादी शक्तिः । चैत्रस्य धनमित्यत्र निरूपितत्वस्वत्वादिप्रकारक एव बोधः । एवं चैत्रस्य न धन- मित्यत्र चैत्रनिरूपितस्वत्वाभाववद्धनमिति बोधः । स्वामित्वं पा षष्ठयर्थः । चैत्रनिष्ठस्वामित्त्वनिरूपकं धनमिति बोधः, चैत्रस्य न धनमित्यादी. चैत्रनिष्ठस्वामित्वनिरूपकत्वाभाववद्धन मिति बोधः । एवं घटस्थाभाव इत्यादौ प्रतियोगित्वादिकं, घटप्रति- योगिको ऽभाव इति बोधः । एवं स्वत्वादिविशेषे आनुशासनि- की शक्तिमाहुः ॥ तन्न । नानाशक्तिकल्पने गौरवात् । अनुशा- सनानां लाक्षणिकत्वेनाप्युपपत्तेः । समभिव्याहारविशेष लक्षणा.
१२१ भाइचिन्तामणेः नियमानि चानुशासनानि । तेनान्यत्र लक्षणया ऽपि न प्रयोगः । यथा । "झोविदर्यस्य करणे" । ज्ञानभिन्नार्थकजानातिसमभिन्या- हारे करणत्वे षष्ठी । सर्पिषो जानीसे, सपिषोपायेन भक्षय- तीत्यर्थः॥ "अधीगर्थदयेशां कर्मणि" । स्मृत्यर्यकदयेशचातुसमभि- व्याहारे । मातुः स्मरति, सुवर्णानां दयते, दिशामीष्टे । "कृषः प्रतियत्ने"। सतो गुणान्तराधानं प्रतियत्नः। क- पूरेणोदकस्योपस्कुरुते ॥ "रुजानां भाववचनानामज्वरेः" । पीडार्थकज्वरभिन्न धात्वर्यकर्तृवाचकपदसमभिव्याहारे । दुष्कर्मणो रोगस्य रुजा ।। "आशिषि नाय" । आशीरर्यकनाथधातुसमभिव्याहारे कर्मणि । राज्ञो नायते ॥ "जासिनिप्रहणनाटकाथपिषां हिंसायाम्"हिंसार्थकस्य जा- सघातोय॑स्तसमस्तनिप्रपूर्वकहन्धातोः नाटकाथधास्वोश्च सम- भिव्याहारे कर्मत्वे | चौरस्योज्जासते, चौरस्य निहन्ति प्रह- न्ति प्रणिहन्ति, नाटयति, क्राययाति, पिनष्टि । "व्यवहपणोः सपर्ययोः" । समानद्रव्यकव्यवहारपणार्थ- कयो_त्वोः समभिव्याहारे करणे । शतस्य व्यवहरति, स्व पणते, व्यवहार ऋणादानं, पणो द्यूतम् ॥ "दिवस्तदर्थस्य" । व्यवहारपणार्थकदीव्यतेः समभिव्या- हारे । शतस्य दीव्यति॥ "प्रेष्यब्रुवोर्हविषो देवतासम्मदाने"। प्रेष्यपदहिपदसम- मिव्याहतइविचिकपदे कर्मत्वे । मेदसः प्रेष्य, मेदसो ऽनुहि । हविषः प्रेष्य, हविषो ऽनुब्रूहि ॥ शत- : !
-.. marrians Homent तर्कपादः । १२७ “यजेश्च करणे" । यजिसमभिव्याहतहविचिकपदे । सो- मस्य यजति । "कृत्वोर्थप्रयोगे कालेधिकरणे" । सुचकृत्वसुचप्रत्ययान्त- संख्यावाचकपदसमाभिव्याहृतक्रियापदसमाभिव्याहृतकालवाचक- पदे अधिकरणत्वे । द्विरहो भक्ते । द्विसंख्याकमहरधिकरण- के भोजनमित्यर्थः॥ "कर्तृकर्मणोः कृति" । कृदन्तपदसमाभिव्याहृतकर्तृकर्मवा- चकयोः । कुष्णस्य कृतिः, भारतस्य श्रवणम् ।। "उभयप्राप्तौ कर्माण,, । कृत्समभिव्याहृतयोः कर्तृकर्म- पोः कर्मण्येव । गवां दोहो गोपेन ॥ "नकोकाव्ययानष्ठाखलर्थतनाम्' । लादेशयोः शशान- चो उप्रत्ययोकप्रत्ययाव्ययनिष्ठाप्रत्ययखळपत्ययसमानार्थप्रत्यया- नां तन्प्रत्याहारोक्तशानचादीनां समभिव्याहारे कर्तृकर्मणोः ष- ठी न । भरि जिगीषन् जिगीषमाणः, पपिवान्, सोमं, पपिश्च सोमं चिकीर्षुः, दैत्यान् घातुको हरिः, अंरि जित्वा, सोमं भ- क्षितवान् ॥ "अकेनोभविष्यदाधमर्ययोः" । भोजका ओदनं गच्छन्ति। "कृत्यानां करि वा" । कृत्संयोगानित्यप्राप्तषष्ठयाः कर्तरि विकल्पः । भवतः कर्तव्यं भवता कर्तव्यम् । इदं सूत्रं तृतीयापतिप्रसवफलम् ॥ "तुल्यौँथरतुलोपमाभ्यां तृतीयान्यतरस्याम्" । तुलोपमाभि- असदृशार्यकपदसमभिव्याहारे उपमानत्वादिसम्बन्धे उपमेयो- तरमाप्तषष्ठया तृतीयाविधिः । यथा मुखस्य तुल्यश्चन्द्रः मुखेन वेति । अत्र तृतीयाया उपमानत्वादी लक्षणेति के चित् । आनु- शसनिकी शक्तिरित्यन्ये ।।
- १२८ भाइचिन्तामणे " चतुर्थी चाशिष्यायुष्यपद्रभद्रकुशलमुखार्थहितैः" आयुष्यादिपदकरणकाशीरर्थकलिकादिसमभिव्याहारे सम्बन्ध प्राप्तषष्ठी चतुर्थ्यपि कल्पते । देवदत्तस्वायुष्ये देवदत्तायायुष्यं भूयादित्यादि । सर्वत्र षष्ठयाः सम्बन्धमात्रवाचकतया सम्बन्ध- प्रकारको बोधः । कर्तृत्वकर्मत्वादिबोधस्तु लक्षणयैवानुशासन. पश्चात् । अन्यत्र लक्षणापि नास्तीति तत्त्वम् ।। इति गागाभट्टकृते कारकवादे प्रथमाषष्ठ्यर्थनिरूपणम् ॥ एतदर्ज द्वितीयादिविभक्तयः कारकाणि । ननु किमिदं कारकत्वम् । न तावक्रियाप्रयोजकत्वम् । देवदत्तस्य तण्डुलं पचतीत्यत्रानुमतिद्वारा क्रियाप्रयोजके देवदत्ते ऽतिप्रसङ्गात् । नापि क्रियाजनकत्वम् । यथाज्ञानं पचतीति ज्ञाने तिप्रसक्तेः। अथ धात्वान्वितविभक्त्यर्थान्वयित्वं कारकत्वम् । धनाय ग- च्छति स्वर्गाय यतते इत्यादावकारकयोधनस्वर्गयोरतिव्याप्तेः । न पचतीत्यादौ नार्थेतिव्याप्तेश्च । तस्य पाकान्विताख्यातविभ- क्त्यर्यान्वयात् । निपातातिरिक्तत्वेन विशेषणे नक्त्वं पचती- त्यादौ अधिकरणे नक्तादावव्याप्तेः ॥ तस्मात्कर्तृकर्माद्यन्यत- मत्वं कारकत्वमिति नैयायिकाः ॥ सामान्यतः समवेतासमवेत- स्य दैविध्यात्कारकत्वं कर्तृत्वादिकं चानुगतव्यवहारसिद्धमखण्डो- पाधिरूपं सामान्यमिति रत्नकोशकृतः। सिद्धान्तस्त्वाख्याता- न्वितविभक्त्यर्थान्वयित्वं कारकत्वम् । लिङ्गसंख्यादीनां का- रकत्वमिष्टमेव । आज्यस्य यजतीत्यादौ लाक्षणिकषष्ठयर्थस्या- प्याख्यातार्यान्वयादाज्यादेः कारकत्वम् । उपपदविभक्त्यर्था- नां तु कल्पितधात्वर्थान्तरे ऽन्वयात् श्रुतभावनानन्वयित्वेन न तर्कपादः। १२९ कारकत्वम् । अत एव तस्याः कारकविभक्त्यपेक्षया दुर्बल- त्वमिति सम्प्रदायः। तत्र द्वितीयायाः कर्मत्वमर्थः । तच्च कि- याजन्यफलशालित्वम् । घटं पश्यतीत्यत्र दर्शनजन्यज्ञातताया घट- निष्ठत्वाल्लक्षणसमन्वयः। नन्वेवं चैत्रो ग्रामं गच्छतीत्यादौ चैत्रस्य कर्मत्वापत्तिः । क्रियाजन्यसंयोगशालित्वात् । किञ्च त्यजति. गच्छत्योः पर्यायत्वापत्तिरिति चेत् । अत्र नैयायिकाः । परसम- वेतत्वं क्रियाविशेषणं धात्वर्थतावच्छेदकत्वं फलविशेषणं, परत्वं च द्वितीयाप्रकृत्यर्थापेक्षया । एवं चैत्रो ग्रामं गच्छतीत्यादौ चैत्रसमवेतव्यापारजन्यधात्वर्थतावच्छेदकसंयोगशालितया ग्राम- स्य कर्मता । शाब्दबोधोपि ग्रामसमवेतधात्वर्थतावच्छेदकसंयो- गानुकूलग्रामान्यसमवेतव्यापारजनककृतिमांश्चैत्र इति । त्यजते- विभागफलकव्यापारे शक्तिरिति नोक्तदोष इत्याहुः ॥ तच्च कर्म द्विविधम् । “कर्तुरीप्सिततमं कर्म" "तथायुक्तं चानीप्सितम्' इति व्याकरणात् । तत्राद्यं चतुर्धा । उत्पाद्य- प्राप्यविकार्यसंस्कार्यभेदात् । उत्पत्तिर्नाम येनाकारेण कारकम- भिधानोपात्तं तस्यासत एवोत्पादनम् । तस्यैव सतो ऽप्राप्तस्य प्रापणं प्राप्तिः । तद्गतंदृष्टातिशयोत्पादनं विकृतिः । तस्यैवादृष्टा- तिशयोत्पानं संस्कार इति । यथा यूपं छिनत्ति, घटं कुरुते, पयो दोग्धि, वाहीनवहन्ति, वीहीन्मोक्षतीति । एतदुक्तं वाक्यपदीये । यदसज्जायते सद्वा जन्मना यत्प्रकाशते । तन्निव विकार्य तु द्वेधा कर्म व्यवस्थितम् ॥ प्रकृत्युच्छेदसम्भूतं किंचित्काष्ठादिभस्मवत् । किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न लभ्यते । दर्शनादनुमानाद्वा तात्विकं तत्तु कथ्यते ॥ REFERREARRELIANCE १७ भादृचिन्तामणेः इति । अनीप्सितमपि चतुर्विधम् । उदासीनं द्वेष्यं संज्ञान्त. रैरनाख्यातमन्यपूर्वकं च । यथा तृणं स्पृशति । विषं भुङ्क्ते । गां दोग्धि । विषमनुक्रुध्यतीति, अग्निमनुजपतीति च । अत्र ईप्सि- तत्वानीप्सितत्वयोः शक्तिद्वयमिति सोमेश्वरः । ईप्सितानीप्सि- तानुवृत्तिसाध्यत्वं न द्वितीयार्थो गौरवात् । न च सूत्रद्वयानर्थ- क्यम् । वारणार्थानामीप्सित इति यवेभ्यो गां वारयतीत्यत्र यवानामीप्सितत्वेनापादानतया ईप्सिततमे गवि द्वितीयाप्राप्त्य. यत्वादाद्यस्य, विषं भक्षयतीत्यादौ द्वितीयस्यापि सार्थक्यात् ।। "अकथितं च"। दुह्याच्यादिदिकर्मकघातनामपादानत्वादि- कारकैरसम्भदन्वयं धात्वर्थतावच्छेदकफलशालि व्याप्यमानं द्वितीयकर्म। गां पयो दोन्धि, राजानं याचते वसुधाम्, अजां ग्राम नयति । गोकर्मकदोहेन पयो भावयतीति बोधः । विपरीतं वा । अत्र धात्वर्यव्याप्यमानमेकं कर्म व्याप्यव्याप्यमानं द्वितीयम् । अत एव तप्ते पयास दध्यानयतीत्यत्र द्वितीयकर्मापेक्षया पयसः कर्मत्वेनैवान्वयः॥ "गतिवुद्धिपत्यवसानार्थशब्दकर्माकर्मकाणामाणि कर्ता स गौ" गर्थकबुद्धधर्यकपत्यवसानार्थकानां शब्दकर्मकाणामकर्म- काणां च शयनाद्यर्थकधातूनामण्यन्तानां समभिव्याहारे यः की स तेषां ण्यन्तानां समभिव्याहारे कर्म ।। गुरुं ग्रामं गमय- ति, शिष्यं शास्त्रं बोधयति, मन्त्रं यजमानं वाचयति, विष्णुं शा- ययति। अनापि व्याप्यमानत्वम् ।। "हक्रोरन्यतरस्याम्"। हरणार्थकानां करणार्थकानाच सम- मिन्याहारे द्वितीया तृतीया च । शिष्येण शिष्यं वा भारं हार- वि कारयति च । तस्मात्साध्यत्वं द्वितीयार्थ इति पार्थसारथिः।। यत्र च द्वितीयार्थस्य न साक्षाक्रियान्वयस्तत्रोपपदविभक्ति- तर्कपादः। १३१ .. त्वम् । यथा "अन्तरान्तरेण युक्ते" । त्वां मां चान्तरा ऽन्तरेण वा हरि- रस्ति । अत्र सम्बन्धे द्वितीयाया लक्षणा । उभयसम्बन्ध्यन्तरा. लवर्ती इरिरिति बोधः॥ "कालाध्वनोरत्यन्तसंयोगे"। कालाध्ववाचिपदसमभिव्या- हृतद्वितीयाया अत्यन्तसंयोगो व्याप्तिरर्थः। मासमधीते, क्रोशंप- तस्तिष्ठति । मासाभिव्याप्तिविशिष्टमध्ययनं क्रोशाभिव्याप्तिवि- शिष्टपर्वतस्थितिरिति बोधः। अभिव्याप्तेः पर्वतसम्बन्धित्वादुपपद- विभक्तित्वम् ॥ "अपवर्गे तृतीया" । क्रियासम्बन्धोपवर्गः । मासेनानुवा- कोऽधीत इति । द्वितीयापवादः॥ "सप्तमीपञ्चम्यौ कारकमध्ये" । कृतिशक्तिद्वयमध्ये यो कालाध्वानौ ताम्यां सप्तमपिञ्चम्यौ । अद्य भूक्त्वा द्वयहे द्वयहाद्वा भोक्ता ॥ "कर्मप्रवचनीययुक्ते द्वितीया" । उपलक्षणाद्यर्थकानुप्रतिपर्या- दिसमाभव्याहृतकमप्रवचनयिसंज्ञकानां योगे द्वितीया । जपमनु- पावर्षत् । नदमिन्ववासता सेना । अनु हरिं सुराः । उप हरि मुराः । वृक्षं प्रति परि अनु वा विद्योतते विद्युत् । भक्तो विष्णु प्रति परि अनु वा । लक्ष्मीहार प्रति परि अनु वा । वृक्षवृक्ष प्रति परि अनु वा सिञ्चति । हरिमभि वर्तते ॥ “यस्मादाधिकं यस्य चेश्वरवचनं तत्र सप्तमी" । अत्र कर्म प्रवचनीययुक्त सप्तमी । उप परार्धे हरेर्गुणाः । अधि भुविरामः । अधि रामे भूः। “पञ्चम्यपापरिभिः। एतैः कर्मप्रवचनीयैोंगे पञ्चमी। अपहरेः संसारः ॥
भादृचिन्तामणे "प्रतिनिधिप्रतिदाने च यस्मात्" । अत्र कर्मप्रवचनीय- योगे पञ्चमी । प्रद्युम्नः कृष्णात्मति । तिलेभ्यः प्रतियच्छ- ति माषान् । “गत्यर्थकमर्माण द्वितीयाचतुथ्यौँ चेष्टायामनध्वनि" । अ- वभिन्ने गत्यर्थानां कर्मणि एते स्तः चेष्टायां गम्यमानायाम् । ग्रामं ग्रामाय वा गच्छति ॥ इति कारकवादे द्वितीया ॥ अथ कर्तृत्व करणत्वं च तृतीयार्थः । “कर्तृकरणयोस्तृती- या" इति सूत्रात् । कर्तृत्वं च स्वातन्त्र्यं स्वतन्त्रः कर्तेति सूत्रा- ॥स स्वतन्त्रनिविधः । शुद्धः प्रयोजकः कर्मकर्ता चेति । तदनु- कूलव्यापारफळाश्रयः शुद्धः। व्यापारानाश्रयत्वे सति फलाश्र- यो द्वितीयः । फलानाश्रयत्वे सति अनुकूलच्यापाराश्रयस्तृती- यः॥ कर्तृत्वं न तावद्यत्नाश्रयत्वं, तदुपादानविषयकापरोक्षज्ञा. नचिकीर्षाकृतिमत्त्वं वा, कूलं पिपतिषति रथो गच्छत्तीत्यादा- वभावात् । नापि कारकान्तराप्रयोज्यत्वे सति कारकान्तरप्रयो- जकत्वम् । उक्तदूषणापरिहारात् । किं धात्वर्थव्यापारा- अयन्वं तत् । यद्धातूत्तराख्यातेन यगाद्यसमाभिव्याहृतेन यद्धा- त्वर्यान्वितधर्मवत्त्वं बोध्यते तद्वत्त्वं तक्रियाकर्तृवम् । चैत्र: पचति जानाति नश्यतीत्यादौ पाकानुकूळव्यापारवत्त्वाश्रयत्व- प्रतियोगित्वादिकमेव तत्तक्रियाकर्तृत्वम् । पच्यते तण्डुल इत्यादौ कर्मण्यतिप्रसङ्गवारणाय . यगाद्यसमाभिव्याहृतेति । तेन स्वाली पचति काष्ठानि पचन्तीत्यत्र स्थालीकाष्ठादावपि क- तृत्वमविरुद्धम् ॥ करणत्वं तु साधकतमत्वम् । “साधकतमं करणम्" इति सूत्रात् । साधकतमत्वं चाव्यवधानेन फलजनकव्यापारवस्कार- तु नि तर्कपादः। णत्वम् । फलायोगव्यवच्छिन्नत्वं वा । तेनात्मना जानातीत्या. दावात्मनोपि करणत्वमविरुद्धम् । फलोदेशप्रवृत्तकर्तृव्यापारो- पकार्यत्वं वा । अस्ति चेदं कुठारादौ । एवं च कुठारेण छिन- त्ति दर्शपूर्णमासाभ्यां स्वर्गमित्याद्युपपत्तिः । अत्र कर्तृत्वकरण- त्वयोः साक्षाद्भाबनायां सम्बन्धात्तदर्थकतृतीया कारकविभ- क्तिः । भावनाभिन्नपदार्थान्वयर्थिकोपपदविभक्तिः । यथा "सहयुक्त प्रधाने" साहित्ययुक्तापधानवाचकशब्दसमभि- व्याहृततृतीयाया निरूपितत्वमर्थः । शिष्येण सहागतो गुरुः । शिष्यनिरूपितसाहित्यविशिष्टगुरुकर्तृकमागमनमिति बोधः । एवं च तृतीयार्थस्य भावनान्वयाभावादुपपदविभक्तिः ॥ "येनाङ्गार्विकारः" । विकारयुक्ताङ्गवाचकपदसमभिव्याहृत- तृतीया सम्बन्धे । यथा अक्ष्णा काण इत्यत्र अक्षिसम्बन्धिकाण- त्वविशिष्ट इत्यर्थः । अत्र च अक्षिनिष्ठकाणत्वस्य परंपरासम्बन्धे. ने चैत्रे प्रकारता॥ "इत्थंभूतलक्षण" ॥ इत्थंभूतलक्षणे तृतीया । इत्थंभूतलक्षणं ज्ञापकत्वम् । जाभिस्तापस इत्यत्र जटाज्ञाप्यतपोवानित्यर्थः । अत्र ज्ञाप्यत्वस्य तपोविशिष्टे ऽन्वयः । अन्यथा एकदेशे ऽन्वयापत्तेः॥ "संज्ञोन्यतरस्यां कर्मणि" ॥ संपूर्वस्य ज्ञाधातोः कर्मणि तृतीया द्वितीया वा स्तः । मात्रा मातरं वा संजानीते । मातृ- विषयकपूज्यत्वादिपकारकज्ञानवानित्यर्थः । अत्र मातृपदार्थस्य पूज्यत्वप्रकारकज्ञानक्रियायामन्वयात् । पूज्यत्वरूपक्रियान्वय आर्थिकः । फलजनकज्ञानान्वयो वा । तेनात्रोपपदविभक्तित्वम् । "हेतौ” । हेत्वर्थ तृतीया । पुण्येन दृष्टो हरिः । अत्र तृ. तीयार्थस्य सहकारित्वस्य दर्शने ऽन्वयः। पुण्यसहकृतेन्द्रियजन्यं - १३४ भादृचिन्तामणे: A दर्शनम् ॥ "अकर्तणे पञ्चमी" । शतेन बद्धः शताद्वदः । अत्र शत- स्य ऋणक्रियाद्वारा बन्धनक्रियायामन्वयादुपपदविभक्तित्वम् । शताभिन्नऋणजन्यबन्धनवान् इति बोधः ॥ “षष्टी हेतुप्रयोगे” ॥ हेतौ द्योत्ये षष्ठयेव न तृतीया । अ- ध्ययनस्य हेतोवसति । अध्ययनाभिन्नहेतुको निवासः ।। "सर्वनाम्नस्तृतीया च" । कस्य हेतोः, केन हेतुना वसति ॥ इति तृतीयार्थः ।। सम्प्रदानं चतुर्थ्यर्थः । “चतुर्थी सम्प्रदाने” इति सूत्रा- त् । सम्पदानत्वं च धात्वर्थकर्मणा व्याप्यमानत्वम् । व्या- प्यमानत्वमभिप्रेयमानत्वम् । धात्वर्थकर्मजन्यव्यापारोदेश्यत्व- मिति यावत् । यथा विप्राय गां ददाति दानकर्मीभूतगोजन्य- पयोदोहनादिव्यापारोद्देश्यत्वाद्विपस्य सम्प्रदानत्वम् । रजका- य वस्त्रं ददातीत्यत्र तु ददातेाक्षणिकत्वात् चतुर्थ्यपि सम्ब- न्धमात्रे लाक्षणिकी । एवं च दानकर्मीभूतगवादिप्रतिग्रहीतृत्वं सम्पदानत्वम् । “कर्मणा यमभिप्रति स सम्प्रदानाम” ति सू. त्रस्याप्ययमर्थः । दानकर्मणा गवादिना यमभिव्यामोतीति जीर्णाः । अभिनवास्तु दृष्टद्वारकधात्वर्थोद्देश्यत्वं सम्प्रदानत्व- म् । धात्वर्थजन्यदृष्टफलशालित्वमिति यावत् । तत्फलं सकर्मके- घु धात्वर्थतावच्छेदकमकर्मकेषु धात्वर्थजन्यमात्रम् । सूत्रस्यापि कर्मणा धात्वर्थेनेत्यर्थः । तेन विप्राय गां ददाति पत्ये शेते - ष्णाय रोचते भक्तिरित्यादौ मुख्यः प्रयोगः । अत्र विमनिष्ठ- स्वत्त्वोत्पत्याद्युद्देश्यको दानानुकूलो व्यापरः । पतिनिष्ठसुखो- द्देश्यकशयनानुकूलो व्यापार इत्यादिबोधः । एवं च कर्मका- रकापेक्षया सम्पदानस्य प्राधान्यम् । अत एव मैत्रावरुणाय : । - 1 तर्कपादः । दण्डं प्रयच्छतीत्यत्र न दानस्य दण्डप्रतिपन्त्यर्थत्वं किं तूपयो- क्ष्यमाणसंस्कारत्वं सिद्धान्तितम् । आत्रेयाय हिरण्यं ददाती- त्यत्र तु आत्रेयस्य सम्पदानत्वेपि न भावनोद्देश्यत्वं, भूतभा- व्युपयोगाभावेनेष्टत्वाभावादिति दिक् ॥ "रुच्यर्थानां प्रीयमाणः” । रुच्यादिधातुसमभिव्याहारे तु पीयमाणस्यैव सम्प्रदानत्वम् । देवदत्ताय वने रोचन्ते फला- नीति । रुचिमत्त्वस्यावच्छेदकतासम्बन्धेन वननिष्ठत्वेपि न सम्प्रदानत्वम् ॥ "श्लाघन्हुस्थाशपांझीप्स्यमानः" । द्वीप्स्यमानस्य सम्पदा- नत्वम् । गोपी स्मरात्कृष्णाय श्लाघते, निन्हुते, तिष्ठते, शपते वेति । स्मरहेतुकगोपीकर्तृकश्लाघनादिज्ञापनवत्त्वात् कृष्णस्य सम्पदानत्वम् । इतीव पान्थं शंपतः पिकान् द्विजानित्यत्र पान्थस्य शापज्ञापनाभावान सम्प्रदानत्वम् । श्लाघनं स्तवनं, निन्हवो ऽयनयः ॥ "धारेरुत्तमर्णः” । धारयतिसमभिव्याहारे उत्तमर्णस्य स- म्पदानत्वम् । मह्यं सुवर्णशतं धारयति देवदत्तः । देवदत्तक- तूकधारणकर्मीभूतसवर्णशतव्याप्यमानत्वात्सुवर्णशतधारणजन्य- दुःखवत्वाद्वा । अत एव वने धारयतीत्यत्र वनस्य न तत् । उत्तमर्णत्वं च गृहीतधनवृद्धिभागित्वं वृद्धिजन्यसुखभागित्वं वा । एतेन भक्ताय धारयति मोक्ष कृष्ण इत्युदाहरणं सूत्र- विरुद्धम् ॥ "स्पृहेरीप्सितः" । स्पृहयतिसमभिव्याहारे इच्छासामा- न्यविषयस्य सम्पदानत्वम् । प्रकृष्टेच्छाविषयस्य कर्मत्वम् । पुष्पेभ्यः स्पृहयति, पुष्पाणि स्पृहयति । वने स्पृहयतीति वने सदभावः ॥
. भादृचिन्तामणेः "क्रुधदुहेा सूयार्थानां यं प्रति कोपः" । "अधट्ठहोरुपम- ष्टयोः कर्म" । अरये क्रुध्यति द्रुह्यति यति असूयति । उपस- गैरहितक्रोधाद्यर्थकधातुसमभिव्याहारे कोपकर्मणो हरेः सम्पदा. नत्वम् । वने क्रुध्यतीत्यादौ वनस्य न तत् । शिष्यमभिक्रुध्यती- त्यादावपि न । क्रोधो ऽमर्षः । द्रोहो ऽपकारः । ईष्या ऽक्षमा । असूया गुणेषु दोषाविष्करणम् । एते क्रोधविशेषा एव ।। "राधीक्ष्योर्यस्य विप्रश्नः” । राधीक्ष्योः समभिव्याहारे विविधप्रश्नविषयशुभाशुभाधिकरणस्य सम्पदानत्वम् । कृष्णाय राध्यति ईक्षते वा । गर्गकर्तृकगोपीकृतविविधप्रश्नविषयशु- भाशुभपर्यालोचनाधिकरणहरिसम्पदानकं राधनपीक्षणं वेति बोधः ॥ "प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' । आअतिपूर्वकश्रुधा- तुसमभिव्याहारे धात्वर्थप्रतिज्ञाजनकयाचनकर्तुः सम्पदानत्व- म् । देवदत्ताय गामाशृणोति प्रतिशृणोति वा । प्रतिश्रवणादि- धात्वर्थेन व्याप्यमानत्वाद्याचकस्य ॥ "अनुमतिगृणश्च" । प्रत्यनुपूर्वकगृणातेः समभिव्याहारे पूर्वशंसनादिकोतुः सम्पदानत्वम् । अवोत्रेनुगृणाति, प्र- तिगृणातीति, धातुलक्ष्यप्रोत्साहनव्याप्यमानत्वात् । एवञ्च मुख्यैव चतुर्थी ॥ यत्र तु धात्वर्थकर्मव्याप्यमानस्यासम्भवेनान्यत्रान्वयस्तत्रो- पदविभक्तिस्तादर्थ्यादिलक्षणया । उपपदार्थे ऽन्वयेन प्रधान- क्रियायामनन्वयात् । मुक्तये हरिं भजति, भक्ति नाय कल्पते इत्यादौ । अत्र कल्पितप्राप्तिक्रियान्वयेन श्रुतभजनादिक्रियायां कारकत्वेन साक्षादनन्वयात् । साध्यत्वमात्रे लाक्षणिकत्वाच्चे- ति वैयाकरणाः ॥ अन्ये त्वत्र चतुया नोपपदविभक्तित्वं, किं - ।
सर्कपादः। तु साध्यत्वलक्षणया कारकविभक्तित्वमेव । अत एव सर्वेभ्यः कामे- भ्यो दर्शपूर्णमासावित्यादौ साध्यत्वेन भावनान्वयो ऽङ्गीक्रियत- इत्याहुः॥परे तु तत्रापि सर्वान्कामानित्यादुपपदविभक्तित्वमेवे त्याहु, स्तदग्निमाधत्तइत्यादौ द्वितीयाया अपि उपपदविभक्तित्वाप- त्योपेक्षणीयमेव ॥ एवं वाताय कपिला विद्युदिल्लत्र कल्पितज्ञान- क्रियान्वयन, फलेभ्यो यातीत्यादौ अप्रयुज्यमानतुमुन्नन्तकर्तृक- काल्पिताहरणक्रियान्वयेनोपपदविभक्तिः॥ "तुमर्थाच्च भाववचनात्' । यागाय यात्यिादौ कल्पि- तदर्शनादिक्रियान्वयेनोपपदविभक्तित्वम् । यागसाध्यकं यान- मित्यर्थे तु पूर्ववत्कारकविभक्तित्वमेव । जनादनायामित्यत्रा- प्युपपदविभक्तित्वम् । पक्षे कारकत्वं च । "नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च" इति चिहिता नमःपदादियोगे चतुर्युपपदविभक्तिः । यथा हरये नमः, स्व- यम्भुवे नमस्कृत्य, हरिमनुकूलायतमित्यर्थः । नारायणं नमस्कृ- त्येत्यत्र तु छान्दसःप्रयोगः। प्रजाभ्यः स्वस्ति । स्वस्तिपदं कल्या- णवाचकपिदं, द्वितीयं सुबन्तं, "स्वास्तिन इन्द्रो वृद्धश्रवाः" "वै- श्वानरो वसुरग्निः स्वस्तये" इत्युभयथा प्रयोगात् । उभयत्रापि मङ्गलवाचकमेव । अग्नये स्वाहा । पितृभ्यः स्वधा । इन्द्राय व षट् । स्वाहापदं स्वधापदं वषट्पदं च प्रदानार्थकम् । अलमिति पर्याप्त्यर्थसमर्थादिपदान्तरोपलक्षणम् । अत एव स्वामिवाच- काभुपदसमाभिव्याहारे षष्ठयेव साधुन चतुर्थी । "इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता । अधिभूर्नायको नेता प्रभूः परिढो ऽधिपः" ॥ इत्याद्यनुशासनात्मभुपदस्य स्वामिनि शक्तिग्रहात् प्र बुभूषु- (वनत्रयस्योत प्रयोगाच्च । तस्मै प्रभवतीति त्वलंपदार्थकप्रभु- । Vocain... १८ MM- . १३८ भादृचिन्तामणेः पदसमभिव्याहाराचतुर्युव साधुः । सापि जनयितुं पालयितुं बे. ति कल्पितक्रियान्तरान्वयादुपपदविभक्तिरेव । प्रभ्वादियोगे षष्ठयपि साधुरिति वार्तिकस्य तु भावं नाकलयामः । "मन्यकर्मण्यनादरे विभाषा ऽमाणिषु' । मन्यधातुसमाभि- व्याहारे तद्धात्वर्थकर्मणि विकल्पिता चतुर्युपपदविभक्तिः । न त्वां तृणाय तृणं वा मन्ये । अत्र विकल्पितानादरक्रियान्वया- दुपपदाविभाक्तित्वम् । एवं ग्रामं प्रामाय वा गच्छाति विकल्पिता चतुर्थी कल्पितचेष्टाध्वादिपदार्थान्तरान्वयादुपपद- विभक्तिः । मनसा हरिं व्रजात्यत्र चेष्टाध्वाभावाद् द्वितीयैव सा. धुरिति दिक ॥ अत्र मीमांसकाः । चतुर्थ्या देवतात्वे शक्तिः। "तदितेन चतुर्थ्या वा मन्त्रवर्णेन वा पुनः । देवतासङ्गतिस्तत्र दुर्बलं तु परंपरम्" । इति वार्त्तिकात् । तथाहि । सूक्तहविषोरिति वार्तिकादाग्ने- यं सूक्तमाग्नेयोष्टाकपाल इत्यादिप्रयोगाच्च सूक्तप्रकाश्यत्वं त्य- ज्यमानहविःसम्बन्धित्वरूपं च देवतात्वं द्विविधं तद्धितवाच्यं, सास्य देवतेत्यनुशासनेन देवताधिकारे अग्नेगित्यादिभिः सूत्रै रनेकढगादिप्रत्ययविधानात् । सास्य देवतेत्यत्र मुक्तहविषोः षष्ठयन्तनिर्दिष्टत्वेन विशेषणत्वप्रतीतावपि उक्तप्रयोगेषु सामाना. धिकरण्येनाग्न्यादिपदार्थविशेष्यत्वेन प्रतीतस्तत्पदनिर्दिष्टाग्न्या. दीनां देवतात्वमात्रबोधकत्वात् । तेन तद्धितस्य देवतास्वविशिष्टा- ग्न्यादिविशिष्ठसूक्तहविर्वाचकत्वे सिद्धे "ना गृहीतविशेषणा." न्यायेन देवतात्वे शक्तिः । एवमग्नये स्वाहेत्यादावपि स्वा- हाशब्दार्थहविस्त्यागे अग्नश्च विशेषणत्वेन प्रतीतेः सम्बन्धा- न्तरत्वाभावेन देवतात्वेनैव विशेषणतोते तत्र चतुर्थ्याः शक्तिः।
. reasoor.- . तर्कपादः। १३९ एवं मन्त्रवर्णस्यापीति जीर्णाः ॥ अत्र पितृचरणाः । नेदं वार्तिकं चतुर्था देवतात्वे शक्तिबो- धक, किं तु देवताप्रतिपादकान्तरोपलक्षणं सच्चतुर्थामन्त्रवर्णा- दौ देवतालाक्षणिकत्वपरं, दुर्बलं तु परंपरमित्यभिधानात् । त- थाहि । देवताशब्दतद्धितचतुर्थीद्वितीयामन्त्रा देवतात्वबोधकाः । तत्राग्निर्देवता वातो देवतेत्यादावग्न्यादीनां देवतात्वप्रकारकभा. नात् उभयरूपे देवतात्वे शक्तिः । सूक्तप्रकाश्यो ऽग्निद्रव्यत्या- गसम्बन्धी वेति बोधः । तद्धितस्य तु हविषो ऽग्न्यादिनिष्ठत्वबो- धानन्तरं त्यागादिकल्पनात् ततो दुर्बलत्वं । चतुर्थ्यास्तु त्यज्यमान- द्रव्योद्देश्यत्वविशिष्टप्रतिग्रहीतृत्वरूपसंप्रदानत्ववाचिन्याः प्रतिग्र- हीतृत्वत्यागेनैकदेशलक्षणया ततो ऽपि दुर्बलत्वम् । विष्णुं यज- तीत्यादौ द्वितीयायास्तूद्देश्यत्वमात्रवाचिन्याः विशिष्टे लाक्षणिक- त्वाद् दुर्बलत्वम् । मन्त्रकर्मसम्बन्धज्ञानानुपपत्तिकल्प्यमन्त्रप्रका- श्यकर्मसम्बन्धज्ञानानुपपत्तिकं देवतात्त्वमित्यत्यन्तं दुर्बलत्वम् । ते- न सम्पदानत्वे एव चतुर्थ्याः शक्तिर्न देवतात्वे इत्याहुः ।। अत्र तद्धितादियुक्तवाक्येषु देवताविधिरपूर्व इति के चित्या- गविधिनैव द्रव्यसामान्यस्येव देवतासामान्यस्याप्याक्षेपादिन्द्रादि- देवताविशेषनियमपरतया नियमविधिरित्याहुः । तद्धितचतुर्थ्या- दिभिरुक्तव्युत्पत्त्या स्वप्रकृत्यर्थस्य देवतात्वं प्रतिपाद्यते । अत एक इन्द्राग्नीतिप्रातिपदिकोत्तरतद्धितेनेन्द्राग्निरूपमातिपादिकार्थद्वय- निष्ठमेकं व्यासज्यवृत्ति देवतात्वं प्रतिपाद्यते । एवं महेन्द्रपदोत्तरत- द्धितेन महेन्द्रस्यैव देवतात्वामति तत्र नेन्द्रस्य देवतात्वमिति । उद्देश्यत्वं च त्यागाव्यवहितपूर्वकालीनस्ववाचकवैधपदोच्चा- रणवत्त्वं तेन देवतायाः प्रयोगसम्बन्धित्वमिति प्रकृतिविकृति- सम्बन्धिनिगमेष्वपि वैधपदसिद्धिरिति दिक् ।। E १४० भादृचिन्तामणे: अधिक मत्कृतकुसुमाञ्जलाववधेयम् ॥ ।। इति कारकवादे चतुर्थ्यनिरूपणम् ॥ अपादानत्वं पञ्चम्यर्थः । “अपादाने पञ्चमी"ति सूत्रात् । अपादानत्वं च परसमवेतक्रियाजन्यविभागाश्रयत्वं, विभागहेतु- क्रियानाश्रयत्वे सति विभागाश्रयत्वमिति तदर्थः। "रुवमपाये- पादान"मिति सूत्रात् । अपायो विश्लेषः विभागवियोगादिशब्द- वाच्यः । अन्यस्य विभागवियोगादिक्रियाश्रयस्य विभागादौ सति विभागवियोगाश्रयत्वेन ध्रुवं स्थिरं विभागवियोगादिनि- रूपकमिति यावत्, तदपादानमिति सूत्रार्थः । यथा वृक्षात्पर्ण पतति,अधःसंयोगानुकूलक्रिया पतेरर्थः । अधःसंयोगप्रयोजक- विभागानुकूलक्रिया वा । एवं चाधासंयोगानुकूलक्रियानाश्रय- त्वे सति तादृशक्रियाजन्यविभागाश्रयत्वात् वृक्षस्यापादानत्वम् । इत्थं च तत्तद्धात्वर्थतावच्छेदकफलजनकक्रियानाश्रयत्वे सात तादृशक्रियाजन्यफलनिरूपकत्वं तादृशक्रियानिरूपकत्वं चेति निष्कर्षः । एवं चौराद्वयाघाद्विभति, चौरात्रायते, अध्ययना- त्पराजयते, यवेभ्यो गां वारयति, मातुनिलीयते, उपाध्यायाद. धीते, ब्रह्मणः प्रजाः प्रजायन्ते, हिमवतो गङ्गा प्रभवति, इत्यादी भयादिहेतुचौरव्याघ्रादीनां "भीत्रार्थानां भयहेतु" । “पराजेर- सोढः" । "वारणार्थानामीप्सितः" । “अन्तर्षी येनादर्शनमि- च्छति" । "आख्यातोपयोगे" “जनिकर्तुः प्रकृतिः" । भुवः प्र- भवः" । इत्याद्यानुशासनिकं मुख्यमेवापादानत्वम् । अत्र चाप- न्हवानुकूलक्रिया बिभेतेरर्थः । तदनुकूलरक्षणं त्रायतेः । ग्लानिज- नकक्रिया पराजयतेः । दूरदेशसंयोगानुकुलक्रिया वारयतेः । दर्शनाभावानुकूलक्रिया निलीयतेः । गुरुमुखोच्चारणानुकूलक्रिया . : तर्कपादः। १४१ ऽधीतेः । उत्पत्त्यनुकूलक्रिया जायतेः । प्रकाशजनकद्धयादि- क्रिया प्रपूर्वकभवतेरर्थः । तदनाश्रयत्वे सति तत्तक्रियानि- रूपकत्वात्, भीत्रार्थानां भयहेतुरित्याद्यनुशासनानामपादा- नत्वबोधकता, न तु पञ्चम्या उपपदविभक्तित्वबोधकतेति वैयाकरणाः॥ मीमांसकाचारण्यादर्निरूपकत्वाभावान्नापादानत्वम् । अत एव अरण्याद्विभेति इति न प्रयोगः । यदि वनाद्विभेतीति प्र- योगः तदा वनपदस्य वनस्थितव्याघ्रादौ लक्षणा । मध्यादवद्य तीत्यादौ विभागप्रयोजकक्रियानाश्रयस्य तन्निरूपकस्याधोभा. गस्यापादानत्वम् ॥ नैयायिकास्तु विभागाश्रयत्वमेवापादानत्वमिच्छन्तो व्या- घादिभेतीत्यादौ लक्षणया प्रयोग क्रियान्तरकल्पनेन वा उपप- दविभक्तित्वमिच्छन्ति । एवं धावतो ऽश्वात्पतति इत्यत्राश्वस्यो. तिक्रियाश्रयत्वेपि तस्य विभागहेतुत्वाभावादपादानत्वोपपत्तिः । न चैवं मेषान्मेषो ऽपसराति इत्यत्र मेषस्य कथमपादानत्वम्, उभयकर्मजविभागस्यैक्येन तज्जनकक्रियानाश्रयत्वाभावादिति वाच्यम् । विभागजनकक्रियाभेदादेकक्रियामादायापादानत्वम् । अन्योन्यस्मादपसरत इत्यत्रोभयकर्मजविभागस्यैक्यपि तत्तज्ज- नकक्रियामादाय परस्परस्य तदनाश्रयत्वोपपादनात् । वृक्षाद्वस्त्रं पततीत्यत्र पतनक्रियाधात्वर्थमादाय सङ्गमनीयम् । न चैवं वृक्षा- स्पन्दतइत्यापत्तिः। गृहाच्चलितो राज्याच्चलित इत्यादिवदिष्ट- त्वात् ॥ केचिन्तु पञ्चमीजन्यापादानत्वबोधेन द्वितीयाया असा- धुत्वादित्याहुः ।। बलाहकाद्विाद्विद्योतते इत्यत्र निसृत्येत्यध्या. हारेणोपपदविभक्तिः । एवमन्यादिपदसमभिव्याहारे तु पञ्च- म्युपपदविभक्तिः। “अन्यारादितरतेंदिकशब्दाञ्चत्तरपदाजीहयु- १४२ भादृचिन्तामणे ते" इति सूत्रात् । अन्यपदेन अन्यार्थकेतरादिपदग्रहणम् । कृ. ष्णादन्यस्तिष्ठति, आरावनात्, कृष्णादितरः, ऋत कृष्णात् । कालदेशसमभिव्याहारे ग्रामात्पूर्वक्षेत्रात्पूर्वः । अञ्चूत्तरपदं प्रा. कात्यगादिपदं तत्समभिव्याहारे ग्रामात्माक् । आप्रत्ययान्तद- क्षिणासमाभिव्याहारे दक्षिणा ग्रामात् । दूरवाचकाहिपदसमभि- व्याहारे दक्षिणाहि ग्रामात् । अत्र पञ्चम्यर्थस्य उपपदार्थान्व- यः । इदं चमभृत्यादिपदानामुपलक्षणम् । भवात्मभृबि आरभ्य। ग्रामादहिः । एवं विनापृथगित्यादिपदसमभिव्याहारे द्विती- यात्तीयाभ्यां विकल्पिता पञ्चम्युपपदविभक्तिः । एवं दूरा- न्तिकार्थकपदसमभिव्याहारे द्वितीयाषष्ठीभ्यां विकल्पिता पञ्च- म्युपपदविभक्तिः । ग्रामस्य ग्रामाद् ग्रामं दूरेणान्ति केनेति ॥ ॥ इति कारकवादे पञ्चम्यर्थनिरूपणम् ॥ सप्तम्या अधिकरणत्वमर्थः । “सप्तम्यधिकरणचे"ति सूत्रा- त् । अधिकरणत्वं चाधारत्वम् । “आधारोधिकरणमि". ति सूत्रात् । तच्चाश्रयत्वं, तच्च साक्षात्परम्परासाधा- रणम् । परम्परा कर्तृकर्माद्याश्रयत्वद्वारा । तेन स्थाल्यां पचति भूमौ वसति कटे शेते इत्यादिप्रयोगः । अधिकरणं च त्रिविधम्, औपश्लेषिकं वैषयिकमभिव्यापकं चेति, तेन गुरौ वसति घटे ज्ञानं तिलेप तैलामत्यादिप्रयोगः । चर्मणि द्वीपिनं हन्ति इत्यत्र निमित्तत्वे लक्षणा । चर्मनिमित्तं हन्तीत्य- थः । निमित्तत्वं च धात्वर्थजनकेच्छादिविषयत्वम् । गोषु दुह्य- मानास्वागत इति सतिसप्तमी । “यस्य च भावेन भावलक्षण". मिति सूत्रात् । क्रियान्तरोपलक्षणं यत्रान्या क्रिया तद्वाचक- पदोचरं सप्तमीति तदर्थः । तेन क्रियान्तरोपलक्षणत्वं सप्त- तर्कपादः । २४३ म्यर्थः । उपलक्षणत्वं च क्रियाकालान्तरव्यावर्तकत्वम् । एवं मुख्यक्रियाप्रतिबन्धकक्रियानादरे लक्षणा । यथा रु. दति प्रावाजीदिति । रोदनमनाहत्येत्यर्थः । अत्र षष्ट्या अपि लक्षणाः। “षष्ठी चानादरे" इति सूत्रात् । एवं गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः ।वैश्वामित्राणां विश्वामित्रेषु वा दायादो देवरात इत्यादिषु च । साक्षी चैत्रस्य धने वा प्रतिभूः गवां गोषु वा प्रसूत इत्यादौ षष्ठीसप्तम्योरुपपदविभक्तित्वं, श्रूयमाणस्वामित्वादिकि- यासम्बन्धेन मुख्यक्रियासम्बन्धित्वात् । गोषु प्रसूत इत्यत्र क- ल्पितज्ञानक्रियायामन्वयाच्च । गोज्ञानार्थ प्रसूतइत्यर्थः । एवं हरि- पूजने आयुक्तः आसक्तः कुशल इत्यत्रापि । एवं निर्धारणमपि ष- ष्ठीसप्तम्यर्थः । जातिगुणाक्रियाणामेभिरभिव्यज्यमानभेदनिरूपक- वं निर्धारणत्वम् । अत्र भेदाधिकरणभेदानरूपकयााप्यव्या- पकरूपावच्छिन्नत्वं बोध्यम् । तेन नराणां नरेषु वाक्षत्रियः शुरः, गोषु कृष्णा सम्पन्नक्षीरा, गच्छत्सु धावन् शीघ्रः, छात्रेषु मैत्रः प्रिय इति प्रयोगो न तु विप्रेषु क्षत्रियः शूर इत्यादिप्रयोगः । नर- त्वावच्छिन्ननिरूपितभेदानधिकरणत्वे सति क्षत्रियत्वावच्छिन्न- निष्ठमन्यनरभेदसमानाधिकरणं शूरत्वमिति बोधः। न चैवं इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ इत्यत्र मणिमुक्तामवालानां सर्वस्यैव पिता प्रभुः। स्थावरस्य तु सर्वस्य न पिता न पितामहः॥ इत्यत्र च निर्धारणषष्ठी न स्यादभेदभानादिति वाच्यम् । कर्मभेदस्य आत्मदर्शने निर्धारणसम्भवात, द्वितीये तु सर्वस्यति षष्ठया निर्धारणत्वसम्भवात् । अत एव माथुराः पाटलिपुत्रके- १४४ भादृचिन्तामणेः भ्य आढ्यतरा इत्यत्र निर्धारणकदेश पञ्चम्या लक्षणा। अभेदभा. नाभावात् । एवं मातरि साधुर्निपुणो वेत्यत्रापि । हरि हरौ वा उत्सुकः प्रसितः । मूलेनावाहयेदित्यत्रापि लक्षणेति दिक् ॥ अत्रचोपपदविभक्तितः कारकविभक्तबलीयस्त्वम् । कारकविभ- क्तयर्थस्य श्रुतक्रियान्वयित्वात् । उपपदविभक्तयर्थस्य कल्पित- क्रियान्वयित्वादिति दिक॥ इति गागाभट्टकृते भादृचिन्ता- मणौ कारकवादः॥ समासश्चतुर्विधः। अव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिभेदात् । तत्र पूर्वपदार्थप्रधानो ऽव्ययीभावः । यद्वा अव्ययार्थप्रधानोऽव्य- यीभावः तेन सूपप्रतीत्यायव्ययीभावे नाव्याप्तिः । उत्तरपदार्थ- प्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुव्रीहिः । इति लक्षणानि । उपकुम्भं, राजपुरुषः, धवखदि- रौ, चित्रगु, रित्याधुदाहरणानि । नीलोत्पलमिति कर्मधारयः पञ्चमूलीति द्विगुश्च तत्पुरुषस्यैव भेदौ । ननून्मत्तगङ्गामित्यव्य- यीभावे तल्लक्षणमन्याप्तमतिव्याप्तं च बहुव्रीहिलक्षणम् । एवं सू- पप्रतीत्यादावव्ययीभावे सुप्रतिना मात्रार्थे इति सूत्रविहिते त- त्पुरुषलक्षणातिव्याप्तिः । उत्तरपदार्थप्राधान्यात् । एवमर्द्ध नपु- सकम् इत्यादिसूत्रविहिते ऽर्धपिप्पली पूर्वकाय इत्यादितत्पुरुषे ऽव्ययीभावलक्षणातिव्याप्तिः । एवं द्वित्रा इति बहुवीहौ तल्ल. क्षणाव्याप्तिः द्वन्द्वलक्षणातिव्याप्तिश्च । एवं शशकुशपलाशमि- ति समाहारद्वन्द्वे समाहारप्राधान्याद् द्वन्द्वलक्षणस्याव्याप्तिः । बहुव्रीहिलक्षणस्य चातिव्याप्तीनि चेन । तेषां प्रायिकत्वेन लक्षणत्वाभावात् । तत्तदधिकारपठितत्वमेव तत्तल्लक्षणमिति वै.
तर्कपादः। १४५ याकरणा: ॥ वस्तुतो ऽव्ययार्थप्रधानत्वाविद्यमानावयवार्थत्वविशिष्टा- न्यपदार्थप्रधानत्वान्यतरत्वमव्ययीभावत्वं, तेनोन्मत्तगङ्गं सूपपती- त्याद्यव्ययीभावे नाव्याप्ति, ने वा तत्पुरुषलक्षणातिप्रसङ्गः । समस्यमानान्यतरपदार्थप्रधानत्वे सति सुबलोपाभाववत्पदान्तत्वं तत्पुरुषत्वं, तेन राजपुरुषोऽर्द्धपिप्पलीत्यादितत्पुरुषे न लक्षणा- व्याप्ति,न वा ऽव्ययीभावलक्षणातिप्रसङ्गः। एवमन्यपदार्थप्रधानत्वं बहुव्रीहित्वम् । वित्रा इत्यत्रापि समस्यमानपदार्थसङ्ख्यामाधा- न्येन द्वन्द्वत्वे ऽप्यन्यपदार्थसख्येयप्राधान्येन बहुव्रीहित्वमन्यप दार्थतावच्छेदकं चात्राल्पत्वम् । एवं च सङ्ख्ययाव्ययेति सूत्र सङ्ख्येयप्राधान्यगमकं सङ्ख्यावाचकाव्ययादिपदानां वहुव्रीहि- विधायकमिति सङ्गच्छते । एवं दिङ्नामान्यन्तरालइत्यादिसूत्रा- ण्यन्यपदार्थप्राधान्येन बहुव्रीहिविधायकानि भवन्ति । यथा उत्त- रपूर्वा केशाकोश भुजाभुजि सपुत्र इति । अत्रांशे तुल्यसम्बन्धित्व- मन्यपदार्थतावच्छेदकम् । अत एव एकद्वैरथ वा वित्रैर्धमरा मधुसीकरैः । कुक्षिम्भराः परं तेपि न सन्ति खलु केतके ॥ इत्यादावल्पत्वपरिच्छिन्नव्यक्तीनां बोधः । एवमुपदशा इत्य: त्रान्यपदार्थैकादशव्यक्तीनां बोधः । अतो ऽत्राप्यन्यपदार्थप्रा- धान्यमव्याहतम् । एवं तेन सहेति तुल्ययोगे इति सूत्रविहिते सपु. इति बहुव्रीहौ तुल्यक्रियान्वयी पिता ऽन्यपदार्थ इति बहुव्रीहि. त्वं सुस्थम् । समाहारद्वन्द्वे तु समाव्हियमाणानामेव क्रियान्व- यित्वेन समाहारस्याप्राधान्यान्न द्वन्द्वलक्षणाव्याप्तिबहुव्रीहिलक्ष- णातिव्याप्तिश्चेति युक्तम् ।। अन्ये तु उन्मत्तगङ्गमित्यादीनां बहुव्रीहित्वं द्वित्रा इत्यादी १४६ भादृचिन्तामणे: द्वन्द्वत्वादिकमेव । अव्ययीभावबहुव्रीडाधिकारपाठस्तु तद्धर्म- नपुंसकत्वस्वरादिप्राप्त्यर्थः । अन्यथाधिकारसूत्रविरोधापत्तेः । न च तवापि प्रकरणविरोधापत्तिः । अधिकारसूत्रश्रुत्यनुरोधेन प्रकरणबाधस्य न्याय्यत्वात् । अन्यपदार्थे च संज्ञायामित्यव्य. यीभावस्य समभिव्याहारविशेषे ऽन्वर्थतावाधवत् तेन प्रकरण- बाधाच्च । अत उक्तान्येव लक्षणानीत्याहुः॥ अत्र वैयाकरणाः। राजपुरुष इत्यादितत्पुरुषादीनां राज- विशिष्टपुरुषादौ शक्तिः । न तु समासान्तर्गतराजादिपदशक्त्या राजादिबोधः । समर्थः पदविधिरिति महाधिकारेण एकार्थीभा- वलक्षणे सामर्थे समासादिसकलवृत्तिविधानात् । पदोद्देशेन विधीयमानः समासादिः समर्थः विग्रहवाक्यार्थाभिधाने शक्तिं प्राप्त इति सूत्रार्थः । एकार्थीभावश्च समस्यमानपदद्वयस्य स्वा- थपरित्यागैनकार्थप्रतिपादकत्वम् । स चार्थो ऽराजकीयभिन्नो राजसम्बन्धवांश्चायमिति भेदरूपः संसर्गरूपश्च । न च क्ल- तराज्ञादिपदशक्तित एव तादृशापस्थितिसम्भवे किं समासश- क्तिकल्पनेनेति वाच्यम् । राजपुरुषादिपदे उक्तरूपेणोपस्थितये चित्रग्वादिपदे स्वामित्वोपस्थितये च तत्कल्पनात् । अन्यथा प- कूजादिपदोप पद्मत्वेनोपस्थितये ऽतिरिक्तशक्तिकल्पनं न स्या- त् । किं च समासगतराजपदेन राज्ञः स्वतन्त्रोपस्थिते राजा पु- रुष इत्यत्रेव विशेषणान्वयापत्तिः । न च सविशेषणानां वृत्तिन वृत्तस्य च विशेषणयोगो नेति निषेधेन तदनापत्तिः । तस्य वि- शिषशक्तिसिद्धपदार्थैकदेशत्वकृतानन्वयानुवादकत्वात् । अपि वैवं वाक्यसमासयोस्तुल्यार्थत्वेन विभाषावचनस्य समासनिय. मनिवारणार्थत्वं कल्प्यामिति गौरवम् । किं च कृतविश्वः प्राप्तो. दक स्मृतोदन इत्यादिबहुव्रीहिषु विश्वजनककृतिमान् उदकक- तपादः। १४७ र्तृकप्राप्तिकर्म ओदनोद्धरणावधिरित्याधर्थकेषु कृतादिपदानां लक्षणासम्भवात् । चित्रग्वादिपदे च विनिगमनाविरहेण चित्र. पदे गोपदे या लक्षणासम्भवादुभयत्र लक्षणायां बोधावृत्तिप्रस- तेः। न च प्रत्ययार्थान्वयानुरोधेन चरमपदे लक्षणेति वाच्यम् । अनेकपदानामन्यपदार्थप्रतिपादकत्वाभावेन बहुव्रीहित्वभकापचे। न च तात्पर्यग्राहकतया ऽन्येषां तत्प्रतिपादकत्वम् । घटादिप- देष्वप्यायवर्णानां तात्पर्यग्राहकतयान्त्यवर्णे शक्तयापत्तः। कि च शिवो नाम गायको यस्येति शिवनामगायक इति बहुवाहों शिवकर्तृकगानकर्मीभूतनामवानिति बोधस्य शक्तिकल्पनं विना सुतरामनुपपत्तिः । अतः समासेषु विशिष्टशक्तिरङ्गीक्रियते । किं च तत्र शक्तयनङ्गीकारे ऽर्थवत्त्वाभावेन प्रातिपदिकसंज्ञान स्यात् । न च चित्रगुमानयेत्यादिषु कर्मत्वाद्यर्थबोधकत्वं समस्यमानोत्तर- पदार्थगतस्वार्थबोधकत्वं वा समासोत्तरविभक्तीनामिति वाच्यम् । अर्धपिप्पलीत्यादौ व्यभिचारात् । क्लुप्तव्युत्पत्तिभङ्गापत्तेश्च । किं च समासस्य प्रातिपदिकतया तदेकदेशपुरुषादिपदार्थस्य पुरुषादेः प्रातिपदिकार्थत्वाभावेन तत्प्रकारकबोधो न स्यात् । न स्याच्च समस्यमानपदार्थयोः परस्परान्वयः । विभक्तिजन्यो- पस्थित्यभावेन राजपदार्थप्रकारकबोधायोगात् । अभेदातिरिक्त- सम्बन्धेन नामार्थप्रकारकबोधे विभक्तिजन्योपस्थितेहेतुत्वात् । किं च राजपदस्य सम्बन्धिान सम्बन्धे वा लक्षणा.। नायः । राज्ञः पुरुष इति वाक्यस्य समासभिन्नार्थकतया तेन विवरणवि. रोधात् । नान्त्या, विरुद्धविभक्तिरहितमातिपदिकार्थयोरभेदान्ध- यव्युत्पत्त्या राजसम्बन्धरूप पुरुष इति बोधापत्तेः । अतः समा- सेषु शक्तिरङ्गीकार्येत्याहुः ॥ अत्र गौतमीयाः। समासेषु क्लुप्तराजपदादेरेव सम्बन्धिः SANELIPEE E १४८ भादृचिन्तामणेः लक्षणया राजसम्बन्ध्यभिन्नः पुरुष इति बोधसम्भवेन शक्तिक- ल्पनं युक्तम् । महाधिकारस्याप्यजहत्स्वार्थलक्षणव्यपेक्षारूपसाम- थै सामासादिविधाननापेपत्तेः। पदोद्देशेन विधीयमानः समासा- दिः समर्थः स्वार्थवाचकादनिष्ठ इति सूत्रार्थः । एतेन राजप- दार्थे शोभनादिविशेषणान्वयापात्तिः, निष्कौशम्बिः गोरथ इत्या- दो क्रान्तयुक्ताादपदकल्पनापत्तिश्च परास्ता । राज्ञः पदार्थंक- देशतया तत्र विशेषणानन्वयात् । लक्षणया क्रान्तायुपस्थिति- सम्भवाच्च । लक्षणाशक्तिभ्यां बोधेच्छायां समासविग्रहनिय. मेन विभाषासूत्रोपपत्तेः । राजादिपदशक्त्यग्रहे राजपुरुषश्चित्रगु- रित्यादौ बोधाभावेन तत्र शक्तिग्रहस्यावश्यकतया पङ्कजादिप- देष्ववयवशक्तयग्रहेपि बोधोदयेन तच्छक्तिग्रहस्यानावश्यकतया पङ्कजादिपदलक्षण्यस्य स्पष्टत्वात् । किं च चित्रगुरित समासस्य न स्वामित्वादौ शक्तिः सम्भवति, तत्तत्पदेन सेवकदेशादिप्रती- त्या नियमेन तदप्रतीतेः तत्रतत्र शक्तिकल्पनायां नानार्थतापात्तः, पद्मत्वस्य तु नियतप्रतीत्या तत्र शक्तिरिति वैलक्षण्यम् । किं च प्राप्तोदक इत्यादावपि उदकपदे लक्षणा, प्राप्तादिपदस्य धातु- प्रत्ययतदर्थज्ञानविलम्बेन तत्र लक्षणाया विलम्बितत्वात् । प्र- त्ययार्थस्य सन्निहितपदार्थगतत्वानुरोधाच्च । अत एव चित्र- ग्वादिपदपि गोपदे लक्षणा । विरुद्धविभक्तिरहितप्रातिपदिका- र्थयोरभेदान्वयव्युत्पत्त्यङ्गीकाराच्च चित्रराजादिपदार्थान्वयास- दिः। न चैकलक्षणायामनेकमन्यपदार्थइति व्याकरणविरोधः तेनानेकस्पान्यपदार्थे वर्तमानस्य समासानुशासनादिति वाच्यम् । सर्वपदस्यापि तात्पर्यग्राहकतया परंपरया अन्यपदार्थबोधकत्वा- त् । अतोन्यपदे लक्षणा । घटादिपदशक्तिस्तु विशिष्टस्य सङ्के. तितत्वाद्विशिष्टे कल्प्यते । अस्तु वान्त्यवर्णे शक्तिः । अत्र तर्कपादः। १४९ क्लप्तराजादिपदादेव लक्षणया तादृशार्थबोधसम्भवे शक्तिक- ल्पनमन्याय्यम् । यत्तु समासे ऽर्थवत्त्वाभावात् प्रातिपदिकसंज्ञा न स्यादिति । तन्न । कृत्तद्धितसमासाश्चेति तद्विधानात् शश. शृङ्गमित्याद्यनर्थकेषु तद्विधानप्रयोजनकत्वात् । एतेन तत्र कर्म- त्वानन्वयदूषणमपास्तम् । समस्यमानपदलक्ष्यार्थगतस्वार्थबोध. कत्वव्युत्पत्यङ्गीकारात् । विशिष्टशक्तिस्वीकारे उक्तरीत्या उक्त- स्मृतिविरोधः। विशिष्टस्यातिरिक्ततयानेकत्वासम्भवात् । अतो लक्षणैव युक्तेत्याहुः॥ आचार्यादयस्तु बहुवीही शक्तिरेव, तस्य मतुबर्थसमाना र्थकत्वात्, मनुपो गोमांश्चैत्र इत्यादावभेदान्वयाय सम्बन्धिवा- चित्वनिश्चयात् । अत एवेन्द्रपीताधिकरणे तत्पुरुषाहुवी ही लाघवमङ्गीकृतमित्याहुः॥ अत्र मीमांसकैकदेशिनः ॥ "सर्वत्र यौगिकैः शब्दैद्रव्य- मेवाभिधीयत" इति वार्त्तिकात् सर्वेषां कृत्तद्धितसमासरूपयौ- गिकशब्दानां द्रव्ये शक्तिमाहुः ॥ परेतु अनितिशक्तिकैकदेशयौगिकपदपरमिदं वार्तिकं तेन पा- चको गोमानत्यादिकृत्तद्धितानां द्रव्यवाचित्वेपि बहुव्रीहेर्न तद्वा- चित्वं तत्रापि विशेष्ये द्रव्याविनाभूतगुणवाचकपदबहुव्रीहेरेकहाय- नी पिङ्गाक्षीत्यादेव्यवाचित्वे द्रव्याक्षेपकत्वे वा चित्रगुरित्यादी सदसम्भवेन द्रव्यलक्षणाया आवश्यकत्वात् । अतः क्व चिर- हुवीही लक्षणा ॥ न चैवमिन्द्रपीताधिकरणविरोधः । इन्द्रपीत- पदे तत्पुरुषेपि पूर्वपदलक्षणया पीतपदे हुतातशेषलक्षणया लक्षणाद्वयापत्त्या लाक्षणिकबहुव्रीह्यपेक्षया तत्पुरुषस्य दुर्बलत्वा- सिद्धान्तसिद्धिः । अत एव निषादस्थपत्यधिकरणे लक्षणा- पत्त्या तत्पुरुषापेक्षया. कर्मधारयस्य प्राबल्यमुक्तम् । अन्यथा १५० भादृचिन्तामणेः तत्र ज्ञानोपायाक्षेपलाघवेन बहुवीद्यापसेर्दुद्धरत्वात् । अतः क्व चिहुदीही लक्षणेत्याहुः॥ ये तु सर्वत्र बहुव्रीहौ शक्तिं मन्यन्ते तेषां भावं नाकलयामः॥ अन्ये तु मतुपोपि सम्बन्धो वाच्यः । तस्य चैत्रे प्रकारतया ऽन्वयः । सम्बन्धिनि वा लक्षणा । तेन बहुवीहेर्न मतुवर्थकत्व- मित्याहुः॥ अहं तु ब्रुवे। समासेषु न शक्तिर्न पा लक्षणा, किं तु समा- सोपस्थिताविग्रहवाक्यादेव बोधः । श्लोकादावन्वयवाक्यादिवत् । अत एवं रामेश्वर इत्यादौ। रामस्तत्पुरुषं माह बहुव्रीहिं महेश्वरः । अन्ये तु ऋषयः सर्वे कर्मधारयमूचिरे ।। इत्यादौ तादृशविग्रहवाक्योपस्थित्यैव बोधः । एवं च विग्रहसंदेहे बोधसंदेहों ऽप्युपपद्यते । अतः समासवा- क्यस्य विग्रहवाक्योपस्थित्या बोधजनकत्वं युक्तम् । न च बहु- वीही विग्रहवाक्यात्पुरुषप्रकारको बोधः समासे तु पुरुषस्य विशे प्यत्वेन भानामति कथं वैषम्यमिति वाच्यम् । चित्राणां गवां यः प्राप्तस्योदकस्य यः कृतस्य विश्वस्य य इति विग्रहवाक्य- स्यापि तादशस्याङ्गीकारात् । न चैवं सर्वत्र पष्ठीबहुव्रीडापत्त्या पो बहुव्रीहिरिति सूत्रानुपपत्तिरिति वाच्यम् । तस्योक्ताव्या यीभावादिसंज्ञसमासभिलपरत्वात् । अत एव निषादस्थपति- पित्यादौ व्यधिकरणतत्पुरुषात् समानाधिकरणतत्पुरुषस्य ज्यान यस्त्वं सङ्गच्छते । सामानाधिकरण्यदैयधिकरण्ययोर्विग्रहकाक्या- धीनत्वादिति । विशेषणपदे सामानाधिकरण्यं च विशेष्य समानलिङ्गरूपत्वानरोधकृतसमान विभक्तिविशेषकत्वम् । तेन देवदत्तस्यापत्न्या इत्यत्र विशेषलिङ्गकत्वाभावाद्देवदत्तः पचतीत्या " - तर्कपादः । १५१ दौ समानविभक्तिकत्वाभावामातिप्रसाः । सामानाधिकरण्यं च भिन्नप्रतिनिमित्तकानामेकत्र प्रवृत्तिः । अत्र लिङ्गनियमाननु- शिष्टविभक्तयन्तत्वं विवक्षणीयम् । तेन देवदत्तो मित्रमित्यादौ न व्यभिचार इति दिक् ॥ अथ राजपुरुष इति तत्पुरुषे पूर्वपदे लक्षणा । न च तत्र लुप्तषष्ठयैव सम्बन्धवाधान शक्तिर्न वा लक्ष- णेति वाच्यम् । षष्ठीलोपमजानतोप्यर्थप्रत्ययात् । किं चैवं साधु- शब्दस्मारकत्वेनापदंशोपयोगवद्विग्रहस्मारकत्वमात्रेण समासो. पयोगः स्यात् । न च सम्बन्धस्य संसर्गतया भानोपपतन लक्षणेति वाच्यम् । विग्रहसमासयोभिन्नार्थत्वापत्तेः । विग्रह- वाक्ये सम्बन्धस्य प्रकारतया समासे संसर्गवायोगात् । अतो लक्षणावश्यकी ॥ अत्र पक्षधरः । राजपदेन राजसम्बन्धी लक्ष्यते । राजसम्बन्धी पुरुष इत्यनुभवात् । विरुद्धार्थकविभक्तयः वरुद्धयोः प्रातिपदिकार्थयोर्भेदान्वयस्य व्युत्पत्तिसिद्धत्वात् । एवं घटो नेत्यत्रापि घटपदेन घटप्रतियोगिकलक्षणया घटप्रति. योगिकाभावयोरभेदान्वयानुभवः । अतो राजपदेन सम्बन्धी लक्ष्यत इत्याह । अन्ये तु राजपदेन सम्बन्ध एव लक्ष्यते, लाघवा- न चात्राभेदस्य नियमतः प्रतीतिः । नीलोत्प. लमित्यादिसमानाधिकरणतत्पुरुषे ऽपि नीलस्यैव समवाये- न प्रकारत्वाद्भेदान्वयः । नीलमुत्पलमिति वाक्ये तु समान- विभक्तयवरुद्धत्वस्य विरुद्धविभक्तयनवरुदत्वापेक्षया लघुतया तन्त्रत्वादस्त्वभेदान्वयः। एवं च भिन्नप्रतिनिमित्तकत्वे सति एकवयुपस्थापकत्वरूपं सामानाधिकरण्यं नीलघटयोरभेद इ. त्यादिव्यवहारश्च युज्यते । नीलरूपघटत्वयाराश्रयाभेद इति त्।
१५२ भादृचिन्तामणे वाक्यार्थः । तेन समासे समानविभक्तिकत्वाभावादभेदप्रत्यया- योगेन सम्बन्धमात्रं लक्ष्यते । अर्धपिप्पळीत्यत्रापि पिप्पलीपदेन सम्बन्ध एव लक्ष्यतइत्याहुः ॥ परे तु नीलोत्पलामति कर्मधारये नीलपदस्य नील- वति लक्षणा । अभेदश्चोत्पले प्रकारतया भासते व्यास- समासयोः समानप्रकारकभानजनकत्वनियमात् । यदि च व्यासेपि कर्मत्वार्थकद्वितीयाया अभिन्ने लक्षणा तस्य चोत्पले ऽभेदेनान्वयस्तदा समासे ऽप्यभिन्ने लक्षणेति समानार्थकत्वो- पपत्तिरित्याहुः॥ अन्ये तु विशेषणविभक्तेः साधुत्वार्थत्वादभेदस्य व्या- से समासेपि संसर्गतयैव भानम् । अन्यथा ऽभिन्नलक्षणा. यां नीलाभिन्नाभिन्नमुत्पलमिति बोधः स्यात् । अभेदलक्षणा. यामपि लक्षणैव दोषः । अत' कर्मधारये न लक्षणा । अत एव निषादस्थपातशब्दे तत्पुरुषबहुव्रीह्यपेक्षया लक्षणाभावलाघवेन कर्मधारयोङ्गीकृतः । अङ्गीकृतं च फलमुखमध्ययनप्रयुक्तं गौरव- मित्याहुः॥ चार्थे द्वन्द्व इति विहिते द्वन्द्वे पदद्वये लक्षणा । तथा- हि । समुच्चयान्वाचयेत्तरेतरयोगसमाहाराश्चत्वारश्चार्थाः। तु ल्यवदुभयोः क्रियाप्रयोजकत्वे समुच्चयः । अन्यतरस्याप्रयोजक- त्वेन्वाचयः । चकारसमाभव्याहार एवैतद्बोधक इति न तयोः समासः ।चार्थे द्वन्द्व इति सूत्रेण चकारमात्रबोधितेर्थे द्वन्द्ववि- धानादनयोश्चकार विना अपिशब्देनपि बोधाच्च । इतरेतरयो- गसमाहारयोस्तु चकारमात्रार्थत्वात्तत्रैव समासः । यथा धवख- दिरौ छिन्धि कुशपलाशमानयति । अत्रेतरेतरयोगद्वन्द्वस्थपदो. पस्थितयोर्धवखदिरयोश्छिादाक्रयान्वयेन द्वित्वान्वयेन च कुत्रा- । webmami.i- तर्कपादः। १५३ पि न शक्तिलक्षणा वा, घटी घटा इत्यादिस्वरूपैकशेषेपि न ल. क्षणा, घटपदाच्च शक्तचैव युगपन्नानाघटोपस्थितौ द्वित्वबहुत्वा- न्वयसम्भवात, पितरावित्यादिविरूपैकशेषेषु पितृपदेन जनक- दांपत्ये लक्षिते द्वित्वान्वये लक्षणैव, पाणिपादमित्यादौ समाहा. रद्वन्दप्येकत्वान्वयानुरोधेन तावत्पदार्थतिरेकबुद्धिविषयरूपः समाहारो लक्षणयोपस्थाप्यते इति सिद्धान्तः । अत्र के चित् । इतरेतरयोगे विभक्त्युपस्थिते द्वित्वादिसंख्यााँ धचे खदिरे चान्वयः । तत्र च न धवत्तायन्वयितावच्छेदकं द्वित्वपर्याप्त्य. धिकरणत्वानवच्छेदकत्वाद्, विभक्तेः प्रकृत्यर्थतावच्छेदकव्याप्य- संख्याभिधायकत्वनियमात् । अतो धवपदं साहित्याश्रयतया ध. वखदिरौ लक्ष गयोपस्थापयतीति साहित्यावच्छि ने द्वित्वान्वयः। नचैवं खदिरपदवैयर्थ्यम् । साहित्याश्रयविशेषलाभतात्पर्यक- त्वात् । वृत्तिद्वयविरोधापत्त्या धवेपि लक्षणैव, अत इतरेतरयो- गद्वन्द्वे लक्षणा आवश्यकी । एवं च मित्रावरुणपदे मित्रयोवरुण- योरिति विग्रहोपदर्शकं वाक्यमुपपद्यते । अन्यथा द्विवचनानुप- पत्तेः। एवं समाहारद्वन्द्वेप्येकत्वान्वयार्थ साहित्ये लक्षणावश्यकी। परं वितरेतरयोगद्वन्द्वे साहित्याश्रये लक्षणा, एवं च विभक्तः प्रत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तिरपरित्यक्ता भवति । एवं स- रूपैकशेषस्थलेपि साहित्योपस्थित्या द्वित्वान्वय्यर्थे लक्षणेत्याहुः ।। तन्न, प्रत्यक्षेणेव पदद्वयेनोपस्थिते ऽर्थद्वये द्वित्वान्वयसम्भवात् । योग्यतावच्छेदकप्रकारकज्ञानस्य शाब्दबोधहेतुले मानाभावात् विभक्तेः पदार्थतावच्छेदकधर्मसमानाधिकरणसंख्याभिधायक- त्वाच्च । अत एव घटेन जलमाहरतीत्य सच्छिद्रेतरत्वेन न घटो. पस्थितिः किं तु घटत्वेनैव, घटश्च पटश्च स्त इति द्वित्वान्वयश्च । पतेन मुप्तिकोरेकसंख्याभिधायकत्वलक्षणसामानाधिकरण्यनिय- PATRA REAK -- . २.
१५४ भाइचिन्तामणे मादेकत्वेनोपस्थिते द्वित्वान्वयासम्भवाचैत्रो मैत्रश्च यच्छत इ. त्यादौ चकारोपात्तसाहित्यान्वयिनि द्वित्वान्वयेन क्रियायां वा द्वित्वान्वयेन बोधः । अन्यथा एकत्वेनोपस्थिते द्वित्वान्वये एको द्वाविति प्रतीत्यापत्तिरिति परास्तम् । वस्तुतो यत्र सुबुपस्थाप्यसं- ख्या तिकुपस्थाप्यसंख्याविरोधिनी तत्र सामानाधिकरण्यानुपप- त्तिः । सुबद्वयोपस्थाप्यैकत्वद्वयस्य तिकुपस्थाप्यद्वित्वेन विरोधा. भावाद् घटश्च पटश्च स्त इति प्रयोगो युक्तो न त्वेको द्वाविति तत्रैकत्वस्य विरोधित्वादिति। न च समाहारलक्षणायां पाण्यादीनां क्रियान्वयो न स्यादिति वाच्यम् । परंपरासम्बन्धेन पाण्यादी क्रियान्वयानीकारात् । के चित्तु एवं नतत्पुरुषे ऽप्यघटः पट इत्यादौ घटप्रतियोगकान्योन्याभावे नको लक्षणा, तत्राप्यन्वयि- तावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिलभ्यत्वाद- न्योन्याभावमात्रे लक्षणा । एवं च घटप्रतियोगिकान्योन्याभाव- पान् पट इति बोधः । एवं न घट इति वाक्ये ऽपि लक्षणव । नमः संसर्गाभावे शक्तत्वादिति दिक् ।। इति श्रीगागाभहकृते भारचिन्तामणौ समासवादः ॥ अथ नबर्थो विचायते । घटो नास्तीत्यादौ घटपदस्य घट- प्रतियोगिकाभावे लक्षणा, नन,तूपसर्गवलक्षणातात्पर्यग्राहक इति नास्त्यत्र नमर्थ इति के चित् ॥ तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्य विरोधश्च नर्थाः षट् प्रकीर्तिताः ॥ । इत्युक्तेः षट्मुः शक्तिरित्यन्ये । संसर्गाभाव एव नअर्थो न भेदः। घटो न पट इत्यादौ नबर्थभेदस्याभेदातिरिक्तसम्बन्धेन -- तपादः १५५ पटे ऽन्वयासम्भवात्ततॊदवति लक्षणाया आवश्यकत्वात् । अतः संसर्गाभाव एव नबर्थ इत्यन्ये ॥ संसर्गाभावो ऽन्योन्याभावश्च नर्थः । तदात्म्यसंसर्गाव- च्छिन्न प्रतियोगिताकाभावत्वं तादात्म्यारोपजन्यप्रतीतिविषया. भावत्वं प्रतियोग्यवच्छेदक देशकालावच्छेदेन प्रतियोगिसमानों- धिकरणाभावत्वं वा अन्योन्याभावत्वम् । तदन्याभावत्वं संसर्गाभावत्वम् । आरोपश्च प्रत्यक्ष इव शाब्दोपि ग्राह्यः । तेनातीन्द्रियप्रतियोगिकाभावे नाच्याप्तिः । अभावबुद्धौ प्रति- योग्यारोप एव नियामको न तु तदारोपसम्बन्धो नियामकः । तत्संसर्गे गौरवाद्, घटो भविष्यति नष्ट इत्यादौ प्रतीतिविषय- योः प्रगभावध्वंसयोनयर्थत्वायोगाकपाले घटो नेत्यादौ अ- त्यन्ताभावस्यैव प्रतीतेः । अत्यन्ताभावान्योन्याभावावेव नबर्थों न संसर्गाभावत्वेन तस्य शक्तिरिति पितृचरणाः । एतेन पीतघटवति नीलघटो नास्तीति प्रयोगप्रत्ययों न वा घटवर्ति नीलो घटो नास्तीति प्रयोगः । तत्र च नवर्यान्वयितावच्छेदकस्य प्रतियोगितावच्छेदकत्वनियमः । घटो नास्तीत्यत्र घटत्वस्योभा यरूपत्वात् । कम्बुग्रीवादिमानास्तीत्यत्र कम्युग्रीवादिमत्त्वमेव तथा । न च तस्यान्वयितावच्छेदकत्वेपि गौरवान्न प्रतियोगि- तावच्छेदकत्वमिति वाच्यम् । उपस्थितस्यैव प्रतियोगिताव- च्छेदकत्वे लाघवात् । अननुपविष्टत्वेन गौरचाभावात् । अन्व- यितावच्छेदकतां च पर्याप्तिसम्बन्धेन बोध्या तेन घटवाति घट- पटौ न स्त इति प्रत्ययप्रयोगी घटत्वपटत्वयोरन्वयिताव च्छेदकत्वपि तत्पर्याप्त्यनाधिकरणत्वात् । द्वित्वस्यैव तादृशत्वेन प्रतियोगितावच्छेदकत्वात् इति के चित् ॥ अन्ये तु कम्बुप्रीवादिमानास्तीत्यत्रान्वयितावच्छेदकं न प्रतियो- PRASADARSANEPALHALKAma : १५६. भादृचिन्तामणेः गितावच्छेदकं गौरवात् । घटपटौ न स्त इत्यत्रान्वयितानव- च्छेदकमपि प्रतियोगितावच्छेदकं प्रतीतिबलादित्याहुः ।। अत्र चाभावाधिकरणभूतलादिप्रकारकाभावविशेष्यकबो- धे ऽधिकरणप्रकारकप्रतियोगिविशेष्यकबोधसामग्रीहेतुः । सा च सप्तम्यन्तभूतलादिपदसमाभिव्याहारः । एवमभावप्रका- रकाधिकरणविशेष्यकबोधे ऽपि तेन भूतलं घटे भूतले न घटः चैत्रः पचति न पचति चैत्र इत्यादिप्रयोगप्रत्य- याः । अन्यथा भूतलं न घटः चैत्रो न पाककृतिरित्यत्राधिकर- णवाचिसप्तम्यन्तपदाभावेप्यत्यन्ताभावबोधः स्यात् । अत एवं पृथिव्यां गन्धो न जलइत्यादौ गन्धविशेष्यक एव बोधः ।। अन्ये तु नबोऽभावमात्रे शक्तिः। शक्यतावच्छेदकं च लाघ- वादभावत्वम् । अतो नान्योन्याभावे लक्षणा। न चैवमपि घटप- दानीलघटत्वप्रकारकप्रतीतो घटपदलक्षणे वान्योन्याभावप्रकार- कमतीत्यर्थ नमो लक्षणावश्यकी । अन्यथा न घट इत्यत्राभावाप्र- कारकप्रतीतौ घटः पटो नेति प्रतीत्यनन्तरं घटः पटो न वेति संशयः स्यात्, भिन्नप्रकारकत्वेनाभावनिश्चयस्याप्रतिबन्धकत्वा- तू । एवं वाक्ये प्रतिषेधस्थले ऽपि संसर्गाभावप्रतीत्यर्थ लक्षणाव- श्यकीति वाच्यम् । प्रतियोग्यधिकरणवाचकपदयोः समानविभः क्तिकत्वस्यान्योन्याभावबोधहेतुत्वस्य तयोः प्रथमादिविभक्तिक- त्वस्यात्यन्ताभावबोधे हेतुत्वस्य च कल्पनया लक्षणाया अभावात् । यद्वा नञ्समभिव्याहारे यत्पदार्थयोराधाराधेयभावसंसर्गेणान्वयः। सत्रात्यन्ताभावप्रत्ययः । यत्राभेदसंसर्गेणान्वयस्तत्रान्योन्याभाव- भानमिति व्युत्पत्तिः । तेन न पचति चैत्र इत्यत्रात्यन्ताभावबो- धः सुवचः । किं चात्रात्यन्ताभावबोधो न नियतः । कदा चिद- स्मादेव वाक्यात्पाकानुकूलकतिमनिमश्चैत्र इत्यन्योन्याभाव- सर्कपादः। १५७ स्यापि बोधात्, अतस्तादृशतात्पर्यज्ञानात्तादृशो बोध इति न लक्षणावश्यकीति । न चैवं प्रतिषेधपर्युदासयोस्तुल्यत्वापत्तिः । इष्टापत्तेः । नानुयाजेषु न होतारं वृणीतइत्यत्र वाक्यभेदक- रोत्यनुषविकल्पपरिहाराणां पर्युदासबीजत्वात् । न तो प- शाचित्यत्र पशुप्रकरणाभावस्य निषेधवीजत्वात् । एवं च समासे वाक्ये वा कापि न लक्षणति के चित् ॥ दीधितिकारास्तु संसर्गाभावत्वमन्योन्याभावत्वं च नमः शक्य- तावच्छेदकमिति नबो नानार्थत्वं, तथाप्यघट इति समासे ऽन्यो- न्याभाववदुपस्थित्यर्थ नबो लक्षणा । अत एव प्रतिषेधापेक्षया पर्युदासो दुर्बलत्वेन गीयते । नानुयाजेष्वित्यत्र प्रतिषेधेपि न विकल्पापत्तिः अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्या पि विशेषविधिनिषेधयोर्विशेषनिषेधाभ्यनुनाफलकत्वनियमस्य व्युपत्तिसिद्धतया विधिप्रतिषेधयोरुद्देश्यतावच्छेदकैक्ये विधेय. प्रतिषेध्यतावच्छेदकैक्ये च विकल्पस्य युक्तत्वात् । यथातिराने षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृहातीत्यादौ न तौ प. शौ करोतीत्यत्र च । तत्राप्यतिदेशशास्त्रस्य पशूद्देश्योनाज्यभा- गजन्योपकारविशेषविधिपरत्वेन विधिनिषेधयोरेकविषयत्वात् । नानुयाजेष्वित्यत्र तदभावेन वैषम्यात् । अतो ऽत्र पूर्वोक्तयुक्त्यै- व पर्युदाससिद्धिरित्याहुः ॥ के चिन्तु निषधस्य प्रसक्तिपूर्वकतया इष्टसाधनत्वेन प्र- मितस्य निषेधविषयत्वनियमः । एवं च .. विध्यर्थव्यतिरे: कबोधकनिषेधेनानिष्टसाधनत्वं निष्फलत्वं वा निषेधस्य बो- ध्यतइत्युभयोः मामाण्यायोगात् ग्रीहिशास्त्रयवशास्त्रयोरिवा- शतः पाक्षिकप्रामाण्याङ्गीकारेण विकल्पापत्त्या सामान्यविधे. विशेषविधिसमभिव्याहारेण तदितरपरत्वरूपपर्यंदासाङ्गीकार.
१६८ भादृचिन्तामणे इत्याहुः॥ अत्रेदमाभाति । सर्वत्र नमर्थस्यान्वयितावच्छेदकावच्छि- अप्रतियोगिताकत्वव्युत्पत्तिः । अन्यथा नीलघटवति नेह घट इत्यत्यन्ताभावव्यवहारस्य, नीलघटो न घट इत्यन्योन्याभावव्यः वहारस्य चापत्तिः । न च पदार्थैकदेशस्य घटत्वस्य कथम भावान्वयः । अमावस्यैव घटेन सममन्वये घटत्वावच्छिन्नपति- योगितायाः संसर्गत्वात् । सा च विलक्षणप्रतियोगिताविशेष इति के चित् । यत्रानुयोगिवाचकपदे सप्तमी तत्रात्यन्ताभाव- घोषः, यत्र प्रथमा तत्रान्योन्याभावबोध इति व्युत्पत्तिमाः॥ परे तु तादृशव्युत्पत्तेर्न पचति चैत्र इत्यादावस्यन्ताभावम- त्यये व्यभिचारादेवं वाच्य, नबसमभिव्याहासभावे पत्पदार्थयो- राधाराधेयभावसंसर्गेणान्मयस्तपात्यन्ताधावप्रत्ययः । यत्राभे. दसंसर्गणान्वयस्तत्रान्योन्यामावभानामति । एवं च चैत्रः पच- तात्यादावाख्यातार्थयत्नस्य समवायेन चैत्र भानम् । न पचती- त्यत्र यत्नामावः । तत्सम्बन्धावच्छिन्न एवाधाराधेयभावनियाम- कस्वरूपसम्बन्धेन चैत्रे भासतइति । एवं चैत्रस्य नमित्यत्रापि षष्ठचर्यस्वामित्वस्य धने निरूपकत्वसम्बन्धावच्छिन्नमतियोगिता काभावो विशेषणतया भासते । यदि तु स्वत्त्वं षष्ठय- यस्तदा चैत्रनिरूपितस्वत्त्वाभाव आश्रयतासम्बन्धेन भासतइति । एवं नयसपभिव्याहाराभावे यादृशमतियोग्यनुयोगिवाचकप- दयोर्विरुदविभक्तचनवरुद्धयोरभेदान्वयव्युत्पत्तिः । तत्समाभि- व्याहृतनया अन्योन्याभावबोधः । अत एक समान विभक्ति- कातियोग्यनुयोगिवाचकसममिव्याहतननपदजन्यबुद्धिविषयत्व मन्या या भावलक्षणामस्याहुः ।। अन्ये तु भूनले ने घटा, घटों न पट इत्यत्र भूत- प्रथमान्त- तर्कपादः । लाधिकरणको घटप्रतियोगिको अभाव: पटनातेयोगिकभेदवान् घट इति बोधः । यत्र तु घटो नास्ति घरपटौ न स्त इति क्रियासमाभिन्याहारस्तत्र लबर्थवर्तमानत्वेन । नर्थान्वयः, तत्रैव च भूतलाधयत्वान्वयः, एकत्वान्वयस्तु घटपदार्थ, तथा च भूतलवृत्तिवर्तमानत्वाभावाश्रय एकत्वाश्रयो घटः, भूतलवृत्तिवर्तमानत्वाभाववन्तौ द्वित्वावच्छिन्नौ घटपटावि- ति बोधः । एवं जातौ सत्ता नास्तीत्यत्र सत्ताभावो जाता- विति बोधो जात्याधेय इति वा बोध इत्याहुः ।। अत्र च सर्वत्र प्रातिपदिकार्थे नसर्थे घटपटादीनामभेदाति- रिक्तेन प्रतियोगित्वसम्बन्धनान्वयः । निपातेषु भिन्नव्युत्पत्रि- स्वीकारादिति के चित् । घटपदस्य घटप्रतियोगिके लक्षणाङ्गी- कारे न कोपि दोष इति दिक ॥ इति श्रीगागाभट्टकृते भादृचिन्तामणौ नार्थवादः । उपसर्गरूपा निपातरूपाश्चोपशन्दाः । प्र, परा, अप, सम्, अनु, अव, निस, निर, दुस, दुर्, कि, माङ्, नि, अधि, अपि, अति, मु, उद्, अभि, प्रति, परि, उफ,, इत्युपसर्गा द्वाविंशतिः । एतद्भिमा नादयो निपाताः । प्रादीनां च धातुसमभिव्याहारएवोपसर्गत्वं निपातत्वं च । त- प्रापि कश्चिद्धात्वर्थमतिक्रम्य वर्तते । कश्चित्तमेव विशिनष्टि । यथा प्रस्थानं पसजयः प्रवेश विजय इति । अत्र गमनजयाभा- वावुपसर्गार्यो, प्रविशतीत्यादौ तनिष्ठः प्रकर्षः विजयतइत्यादौ ज. यत्यर्थे विशेष: । चादिनिपातानां केषां चित्केवलप्रयोज्यत्वोपि सहप्रयुज्यमानपदार्थान्वयित्वं तदर्थानाम् । यथा १६० भादृचिन्तामणेः तटस्थः स्वानान्घटयति च मौनं च भजते विकारः कोप्यन्त डयति च तापञ्च कुरुते इत्यादी लोके मैत्रावरुणः प्रेष्यति चान्वाहेत्यादौ वेदे स- पुच्चयः । चार्थो भावनान्वयी, घटं च पटं चानयेत्यादी लोके यदग्नये चेत्यादिवेदे चोपपदार्थान्वयित्वं, तेनाग्निनिरूपित समुच्च- यस्य प्रजापतौ विशेषणत्वेन समुच्चयस्य भावनान्वयाभावेन न विधिः, किं तु समुच्चयविशिष्टप्रजापतिविधिः । न चैवं गौश्चा- श्व इत्यत्र दक्षिणोद्देशेन समुच्चयविधिन स्थात् । इष्टापत्तेः । विशिष्टदक्षिणाविध्यङ्गीकारात् । तस्याश्च ऋत्विग्भ्यो ददातीति विनियोगश्चमसाध्वर्युव्यावृत्त्यर्थः । एतच्च दशमे स्फुटम् ॥ तत्रोपसर्गा द्योतका न वाचकाः। प्रजयतीत्यादौ प्रकृष्ट- जयादौ जिधात्वादेर्लक्षणयैवोपपत्तेः, तत्र शक्तिकल्पने गौरवा- त् । प्रतितिष्ठतइत्यत्र गमने प्रशन्दार्थे विभक्तयर्थानन्वयप्रस- जात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वात् । न चैवं न- बोप्यभावे शक्तिर्न स्यादिति वाच्यम् । भूतलं न घट इत्यत्र घट- पदलसितभेदस्य नामार्थयोर्भेदान्वयाव्युत्पत्या भूतले ऽनन्वया- पत्तः । भेदस्य नअर्थत्वे तु निपातार्थातिरिक्त तनियमान भे- दान्वयानुपपत्तिः । न च घटपदस्य घटभिन्ने लक्षणया भूतले. नान्वयोस्त्विति वाच्यम् । भेदप्रकारकबोधस्यानुभावकत्वादि- ति के चित् ॥ अन्ये तु धातौ शक्तिलक्षणयोरुपसर्गसमभिव्याहारतदभा- वहेतुकत्वस्य उपसर्गाणां घोतकत्वशक्तेश्च कल्पनायां गौरवाद् वाचकतैव युक्ता । एवं चैवकारादावन्ययोगव्यवच्छेन्दायोगव्य- वच्छेदयोरिवकारादीनां सादृश्यादीनां शक्तिप्रदर्शनमुपपन्नम् । अत एवात्र सेवावपन्त्यत एवोदपन्तीति वैदिकप्रयोगस्य, तत्रै- 2 तपादः। वायाति इत एवाभिवर्तत इति लौकिकप्रयोगस्य, चोपपत्तिः । अतो वाचकत्वमित्याहुः ॥ स्वतलादिभावप्रत्ययानां घटत्वं पटत्वामित्यादौ घटत्वत्वेन घटत्वादिकमर्थः । घटत्वत्वं च घटेतरासमवेतत्वे सति घटनिष्ठा- न्योन्याभावप्रतियोगितानवच्छेदकत्वे सति समवेतत्वम् । अ- त्रेतरसमवेताभावनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वाभा- वसमवेतत्वे षट् शक्तयः । संसर्गः समभिव्याहारलभ्यः । सत्त्व- मित्यादाकदेशे लक्षणा । तत्र सदितरासमवेतत्वस्याप्रसिद्धः । एवं प्रमेयत्वमित्यत्रापि । एवमन्यत्राप्यूह्यम् ॥ के चित्तु भावप्रत्ययस्य धर्मत्वेन धर्मे शक्तिः । धर्मत्वमा. धेयत्वं शक्यतावच्छेदकं, शक्ततावच्छेदकं तु त्वतलत्वादिकं न भावपत्ययस्वम् । घटत्वमित्यादौ घटधर्म इति बोधः। पटे घटत्वं नास्तीत्यत्र तु नबर्थस्य घटमात्रवृत्तित्वविशिष्टभावप्रत्ययार्थे धर्मे ऽन्वयः। भावप्रत्ययसमभिव्याहृतनबः प्रकृत्यर्थमात्रवृत्तित्वविशि- प्रतियोगिताकाभावबोधकत्व व्युत्पत्तेः । एवं समासाद्युत्तरभा. वप्रत्ययेपि नीलोत्पलत्वमित्यत्र नीलोत्पलधर्म इति बोधः । समा- सोत्तरभावप्रत्ययस्य प्रकृत्यत्तित्वावशिष्टधर्मबोधकत्वव्युत्पत्त्या न रक्तोत्पले नीलोत्पलत्वमिति बोध इत्याहुः । अन्ये तु कृत्तद्धितसमासोत्तरभावप्रत्ययस्य पदार्थताबच्छे- दकद्वयसामानाधिकरण्ये शक्तिः, लोके पाचकत्वमौपगवत्वं नी- लोत्पलत्वमित्यादौ वेदे च वैश्वदेवीत्वं निषादस्थपातत्वमित्यादौ पाककृतिपुरुषत्वयारुपगुसम्बन्धत्वापत्यत्वयोनीलत्वोत्पलत्वयो- विश्वदेवदेवताकत्वामिक्षात्वयोनिषादत्वस्थपतित्वयोः सामाना- धिकरण्यस्य विशेषणतया भानादिति ॥ अन्ये तु सामानाधिकरण्यस्योत्तरपदार्थतावच्छेदकविशेष- --- १६२ . भाइचिन्तामणे: णतया भानम् । सामानाधिकरण्यमात्रे शक्तिः । प्रत्ययानां प्रकृ. त्यान्वितस्वार्थबोधकत्वनियमात् । प्रत्ययार्थप्राधान्यनियमस्य भावप्रत्ययातिरिक्तसमासाद्यतिरिक्तपरत्वात्तेन नीलत्वसमा- नाधिकरणमुत्पलत्वमिति बोध इत्याहुः॥ परे तु नीलादिपदस्य तत्समवायिनि लक्षणा । अभेदः सं- सर्गः। नीलत्वसमवाय्यभिन्नसमवेतोत्पलत्वमिति बोध इत्याहुः ।। वैश्वदेवीत्यादितद्धितस्य देवतात्वविशिष्टे सर्वनामार्थे शक्तिः, सर्वनामार्थश्च बुद्धिस्थप्रकारविशेषावच्छिन्न पयस्त्वादि, एवं च प्रातिपदिकार्थविश्वदेवानां देवतात्वे देवतात्वस्य च निरूपकत्वे- न सर्वनामाव्यविशेषणत्वेनान्वयः । ससंबन्धिकत्वादेकदे- शान्वयेपि न दोषः । आमिक्षापदे तु प्रकाराविशेषोपस्थापने त- द्वितस्य तात्पर्यग्राहकत्वमिति प्राञ्चः ।। के चित्तु तद्धितस्य सर्वनामार्थे शक्तिर्देवतात्वे तु निरूढ- लक्षणा, कृत्प्रत्ययानामाश्रयवाचिनां कृताविव विश्वदेवमातिप- पदिकार्थस्य लाक्षतदेवतात्वे ऽन्वयो व्युत्पत्तिवैचित्र्यादित्याहुः ।। अन्ये तु तद्धितार्थो द्रव्याविशेष एव, देवतात्वंतु प्रातिपदि- कार्थतद्धितार्थयोः संसर्ग इत्याहुः ॥ परे तु देवतात्वमेव तद्धितार्थः, सर्वनामार्थस्य व्यक्तिन्या- येन बाध इत्याहुः ॥ अपरे तु बद्धितेनानिर्धारितविशेषद्रव्यसामान्यप्रतीतेन इ- व्याविशेषवाचित्वं, किं त्वामिक्षापदादेव विशेषनिर्णय इत्याहुः ।। देवतात्वबोधकानि च देवताशब्दस्तद्धितश्चतुर्थी द्वितीया मन्त्रवर्णश्चेति, देवतास्तर्पयति प्रजापतिर्ब्रह्मा देवता इत्यादौ रात्रिदेवतामेके नक्षत्रदेवतामेके इत्यादौ च द्रव्यत्यागोद्दे. इयत्वरूपदेवतात्वस्य देवतापदवाच्यस्याम्बयः । धात्वर्थ- चिड तर्कपादः। त्यागांशेनुवादः । एवमाग्नेय इत्यादितद्धितस्य देवतात्वविशि- ष्टद्रव्यविशेषवाचित्वम् । न च द्रव्यविशेषवाचित्वमसिद्धमिति वाच्यम् । बुद्धिस्थप्रकारावाच्छन्नबाधकसर्वनामार्थे सास्यदेवतेति तद्धितविधेः । एवं च तद्धितस्य देवताखविशिष्टे बुद्धिस्थप्रकारे ऽष्टाकपालत्वादौ तव्यक्तित्वादौ वा शक्तिस्तदवच्छिन्नस्य तु व्यक्तिन्यायेन लाभः । बुद्धिस्थत्वेन भानाभावात्तु न बुद्धिस्थत्वे शक्तिः । तेषां प्रकाराणां नानात्वेपि बुद्धिस्थत्वस्योपलक्षणत्वेन शक्तिग्रहसम्भवः, शक्तिग्रहोपलक्षणस्य न शक्यतावच्छेदकत्व- मिति दिक ॥ तदादिपदानां बुद्धिस्थित्वेन बुद्धिस्थे शक्तिमान च बुद्धिस्थमानये ति बोधापत्तिः, पदार्थस्मरणशाब्दबोधयो समानप्रकारकत्वादिति वाच्यम् । पदान्तरे तादृशनियमे ऽपि तदादिपदेषु घटत्वादिरूपे. णैव पदार्थोपस्थितेः शाब्दबोधस्य च कल्पनं फलानुरोधादिति के चित ॥ अन्ये तु तदादेर्घटत्वादिनैव शक्तिरिति नानार्थतवत्याहुः ।। त्वंपदस्य तत्कालीनसम्बोध्यत्वविशिष्टचत्रादावस्मत्पदस्य तत्कालीनस्वतन्त्रोच्चारायतृत्वविशिष्टचैत्रादौ शक्तिः । स्वातन्त्र्यं चान्यबोधतात्पर्येणानुच्चारयितृत्वं, तेनान्यतात्पर्येणोच्चारिते वा- च्यस्त्वया मद्वचनात्स राजेत्यादौ लक्षणया सीताप्रतीतिर्न कवि. प्रतीतिरुचारयित्प्रतीतिर्वा । अत्रापि संबाध्यत्वादिकं न भासते भासते चेति । वयं याम इत्यत्र स चाहं च त्वं च वयामित्येकशे- पादन्यतात्पर्यकेपि सर्वेष्वारोपितस्वातन्त्र्यप्रतीतिः । एवमिदमवच्छिन्न ऽदः पदस्य शक्तिः ॥ यत्किचिच्छब्दस्य पर्याप्तिसम्बन्धेन बुद्धिविषयत्वविशिष्ट भादृचिन्तामणेः श्चित्सोमलिप्तमित्यादौ तथैव बोधात् । अत एव शक्यताच्छेद- कतावच्छेदकस्य विषयत्वस्यैक्यान्न पाक्यभेदः, यत्किञ्चिदा- नयेत्यादौ तु पर्याप्तिसम्बन्धेनोपेतबुद्धिविषयत्वविशिष्टे लक्षणा॥ केवलकिञ्चित्पदस्याज्ञातप्रकारावच्छिन्ने शक्तिः॥ एवं सर्वपदस्य पर्याप्तिसम्बन्धेन बुद्धन्यवच्छिन्ने शक्तिः । सर्वेषु घटेषु द्रव्यत्वमित्यत्र घटपर्याप्तिभानं, सर्वेषु घटेषु रूपमि- त्यत्र व्यापकत्वे लक्षणा । कस्यापि रूपस्य सर्वघत्तित्वाभावा- व । सर्वेषु सत्त्वं प्रमेयत्वमित्यादौ भेदप्रतियोगितानवच्छेदकत्वे लक्षणा । एवं सर्वेभ्यो दर्शपूर्णमासौ सवै ब्रह्मणे परिहरतीत्या- दावपीति दिक् ॥ क्त्वाप्रत्ययस्य समानकर्तृकत्वे पूर्वकालत्वे च शक्तिरिति वे- की याकरणा:॥ नैयायिकास्तु भुक्त्वा व्रजतीत्यादौ भोजनोत्तरकालीनं चूज- नमिति बोधादुत्तरकालत्वे समानकर्तृकत्वे च शक्तिः । समान- कर्तृकत्वं समभिव्याहृतधात्वर्यजनकव्यापारयोरेकनिष्ठतं, तेन रथो गत्वा तिष्ठतीत्यादिप्रयोगः । उत्तरकालत्वं च तात्पर्य- विषयीभूतान्यवधानविशिष्टं बोध्यम् । तेनाय गत्वा स्वस्तिष्ठ- तीत्यादिप्रयोगः । मुखं व्यादाय स्वपितीत्यादौ समानकर्तृकत्व- मात्रे सामानाधिकरण्ये वा लक्षणा । मुखं व्यादत्तइति वैपरी- त्यन बोध इति कश्चित् । दर्शपूर्णमासाभ्यामिष्टवा सोमेन य- जेनेत्यादौ त्वयवाहतत्वभानमिति दिक् ॥ आयुधपदस्य यु- दसाधनत्वे शक्तिः । साधनत्वमाने लक्षणा । स्तोमपदस्य स्तो- त्रसाधनऋक्समुदाये शक्तिः । त्रिदादिपदानामभ्याससाध्यन- स्वचिशिष्टऋक्समुदाये शक्तिः । त्रिवृद्धहिष्ववमानमित्यत्रान- भ्वस्त लक्षणा । एवं पञ्चदशदिपदानां संस्थापदस्य तद्विषय- 7 तर्कपादः। १६५ कव्यापारोपरमे शक्तिः । आरम्भपदस्याद्यपदार्थे शक्तिरिति के चित् । आद्यप्रवृत्तौ शक्तिरित्यन्ये । आद्यत्वं तत्समानविषयकम- वृत्तिध्वंसव्यधिकरणत्वम् । एवमन्यदृह्यम् ।। इति श्रीगागाभट्टकृतभाचिन्तामणौ शब्दखडः॥ "औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञा- नमुपदेशो व्यतिरेकश्चार्थे ऽनुपलब्धे तत्प्रमाणं वा- दरायणश्चानपेक्षत्वात्"। एवं प्रत्यक्षादिलक्षणकथनेन तेषां धर्माधर्मप्रमायामकारण- त्वमित्युक्तम् । इदानीं चोदनासूत्रप्रतिज्ञातस्य विधिप्रामाण्यस्य परीक्षा क्रियते । कारणदोषबाधकज्ञानरहितमगृहीतग्राहिज्ञानं प्र. मेति पूर्वमुक्तम् । विधिजन्यज्ञाने तथात्वमस्ति न वेति चिन्ता । सत्र पूर्वः पक्षः । नैतादृशम्माजनकत्वं विधीनां सम्भवति, स्व. र्गाद्यामुष्मिकफलकर्मवोधकानामपूर्वकल्पकार्थापत्तिरूपप्रमाणसा- पेक्षतया निरपेक्षतज्जनकत्वरूपमामाण्यासम्भवात् । ऐहिकफ- लचित्रादिकर्मबोधकानामाप प्रत्यक्षादिप्रमाणान्तरेण बाधात् । नहि तत्रापि द्वारभूतादृष्टकल्पनं, मानाभावात् । कारीर्यादौ ता. स्कालिकफलदर्शनात् हिरण्यधारणस्य भ्रातृव्यदुर्वर्णत्वजनने दृष्टद्वारत्वसम्भवे तत्कल्पनायोगाच्च । अतो न बाधकराहित्य म् । स एष यज्ञायुधी यजमानो जसा स्वर्ग लोकं यातीति यज्ञायुधपदवाच्यस्यादिसंयोगविशिष्टस्य यजमानशरीरस्य दाहेन भस्मीभूतस्य स्वर्गलोकगमनवादस्याशक्यपरिहारः प्रमाणान्तरवि- रोधः । किं. चात्र कारणदोषो ऽप्यस्ति । तथाहि । विधिस्थसो- nairaananmiatr..
१६६ भादृचिन्तामणेः मादिपदानां स्वार्थेन संयोगतादात्म्यादिसम्बन्धासम्भवात् प्र- त्यायकत्वं सम्बन्धः । तचायं शब्दो ऽस्य वाचक इति पुरुषा- न्तरापदेशाधनिमवार्थज्ञानम् । एवं च विधिवाक्यार्थज्ञानस्य रुषोपदेशाधीनत्वेन पुरुषाणां च भान्त्यादिसम्भवेन कारण- दोषवत्त्वम् । न च पदपदार्थयाोर्नत्यः स्वाभाविकः सम्ब- न्धः सम्भवति । प्रथमश्रवणे ऽप्यर्थप्रत्ययप्रसङ्गात् । आधु. निकैः पुरुषैरिदं पदमत्र शक्तमिति व्यवहारकरणाच्च । न चा- धुनिकैः पुरुषैनित्यस्य सम्बन्धस्योपदर्शने ऽपि न तत्कल्पनमि- ति वाच्यम् । आधुनिकैरकल्पनपि सर्गाद्यकालिकपुरुषे न त- स्कल्पनासम्भवः । न च सर्गादौ मानाभावः । “स ऐक्षत बहु- स्यां प्रजायेय"मिति "नासदासीनो सदासी" दिति श्रुतेरेव मानत्वात् । तथा च । सर्गादौ भगवता स्थावरं जङ्गमं जग- दर्माधर्मों च सृष्ट्वा व्यवहाराय तत्तच्छब्दानां तेनसेनार्थेन स- म्बन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हि- रण्यगर्भादिभ्यः प्रतिपादितास्तरन्येभ्य इत्येवमुत्तरोत्तरं शब्दा- र्थप्रतीतिरिति ॥ सिद्धान्तस्तु प्रथमे श्रवणे ऽर्थप्रत्ययाभावस्य नित्यसम्बन्धान- वगममूलकत्वेनोपपत्तेरीदृशार्थकल्पने मानाभावात् । सर्गत एक- रूपस्यानुभवसिद्धत्वेन सर्गादौ नाशाभावान्मन्त्रार्थवादेतिहा- सपुराणानामपि पौरुषेयसम्बन्धापेक्षितया पौरुषेयतया च शा. क्यग्रन्थवदतीन्द्रियार्थे प्रामाण्यासम्भवनाप्रमाणप्रतिपादितसर्गा- देदुरापेतत्त्वात् । अतो न सर्गादिकाले पदपदार्थसम्बन्धकरणं सम्भवति । किं च सर्वपदानामर्थानां च सम्बन्धसिद्धौ वाक्येन तत्सम्बन्धकरणं स्यात् । अज्ञातार्थसम्बन्धकपदघटितवाक्येन सदसम्भवात् । न चैवं श्रोतृणामप्रसिद्धसम्बन्धत्वात्सम्बन्धवि- १ तर्कपादः । १६७ शेषकथनमप्यनुपपन्नमिति वाच्यम् । सतः सम्बन्धस्योपाया- भावादनातस्य वाक्येन ज्ञापनसम्भवात् । वृद्धव्यवहारेणैव सम्बन्धज्ञानसम्भवे तज्ज्ञापकवाक्यकथनस्यानावश्यकत्वाच्च । तस्मान पौरुषेयः सम्बन्ध इति सम्बन्धस्य नित्यतया पुरुषापे- क्षा नास्तीति सिद्धं चोदनापामाण्यम् । न च तथापि चित्रादी- नामनन्तरफलादर्शनेन विसंवादादप्रामाण्यमिति वाच्यम् । शब्दो- क्तसाधानत्वमात्रस्यापूर्वद्वारेण कालान्तरेपि तैलपानवत्सम्भव- नाविसंवादात् । अपूर्वद्वारकत्वस्याङ्गप्रधानमेलनान्यथानुपपन्त्या वाक्यार्थबोधे संसर्गलभ्यत्वात् । पशूत्पत्तिमात्रस्याफलनया तदु. पयोगस्य फलत्वेन तत्पर्यन्तस्यापि द्वारकल्पनावश्यम्भावनापू- बोधाच्च । अतो न विसंबादः । न च तथापि स एष यज्ञा- युधीत्यत्र दृष्टविरोधादप्रामाण्यमिति वाच्यम् । शरीरशरीरिणाम- त्यन्तभेदाभावेनैव तत्पदव्यपदेश्यस्य शरीरस्य यज्ञायुधैः परम्प- रया यज्ञायुधवत आत्मनः स्वर्गगमनलिप्सितभोगोत्पादविरोधा- भावात् । फलवाचकफलभोक्तृवाचकपदयोः सामानाधिकरण्य- स्या "ग्निं चिनुत ऋनोत्येव" "द्विरात्रेण यजते स्वर्गमेव लोक- मेवे" त्यादौ बहुशो दर्शनात् । एवमत्रापि यजमानः वर्ग यातीत्युपपन्नम् । एवं सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीति सङ्कल्पनिरूपितकर्तृत्वबोधकषष्ठया ऽऽत्मनः सङ्कल्प प्रति कर्तृत्व- म् । न च व्यापकस्य स्पन्दोन सम्भवतीति वाच्यम् । प्रयत्नद्वारा प्रयोजकत्वसम्भवात् । सर्वधात्वर्थस्य क्रियात्वेन तत्र कर्तृत्वस- म्भवाच्चेति । तस्मात्कारणदोषबाधकज्ञानरहितागृहीतग्राहित्वन वेदप्रामाण्यम् । बादरायणग्रहणं पूजार्थम् ॥ नित्यस्तु स्यादर्शनस्य परार्थत्वात् ।।
यत्नान- १६८ भादृचिन्तामणे: ननु कथं पदार्थसम्बन्धस्य नित्यत्वम् । वर्णानामनित्यत्वे. न पदानामप्यानित्यत्वात् । तथाहि । वर्णा अनित्या, भिव्यङ्गयत्वे मति प्रयत्नोत्तरमुपलभ्यमानत्वाद्, घटादिवदित्य- नुमानेनानित्यत्वम् । न च स एवायं गकार इति प्रत्यक्षरूपप्रत्य. भिज्ञाबलेनाभिव्यङ्गयत्वकल्पनमिति वाच्यम् । उत्पन्नो गकारो विनष्टो गकार इति प्रतत्यिा प्रत्यभिज्ञाया एवं जातिविषयत्व- स्य कल्पनात् । अत एव कदा चित्तज्जातीयोयमिति प्रत्यभिज्ञो- पपद्यते । अन्यथैकव्यक्तिकत्वेन तज्जातेरभावात्तादृशप्रत्याभ- ज्ञानुपपात्तः । स्वरूपेण जात्युपस्थितौ सोयमिति प्रत्यभिज्ञा जातित्वेन जात्युपस्थितौ तज्जातीयो ऽयमितीति विशेषः । कि च जात्यतिरिक्तस्यैकस्य मूर्तस्य युगपनानादेशोपलम्भो नास्ती- त्यनुभवः । एवं च वर्णानां युगपन्नानादेशोपलम्भान्दसिद्धिः। तस्मात्मत्यभिज्ञाबाधेनानित्यत्वासिद्धिारीत चेन्न । अनभि. व्यङ्गयत्वस्यासिद्धतया हेतोरसिद्धः । प्रयत्नाभिव्यङ्गयत्वस्यै- वाङ्गीकारात् । न च श्रोत्रनिष्ठग्रहणयोग्यताजनकसंस्कारोत्पाद- कत्वेन तनिष्ठग्रहणप्रतिबन्धकदोषनिराकरणेन चाभिव्यञ्जक- स्वे श्रोत्रस्याकाशाहंकारदिगन्यतमरूपस्य नित्यव्यापकशब्दस्य वा संस्कृतत्वात्सर्वग्रहणापत्तिरिति वाच्यम् । अवच्छेदककर्ण- शष्कुत्यामेव संस्कारोत्पत्त्यङ्गीकारात् । उत्पत्त्यादिप्रतीतेरभि- व्यजकध्वनिस्वरादिविषयत्वेन प्रत्यभिज्ञाया जातिविषयकत्वा-. योगाच्च । न चानेकोत्पादादिप्रत्ययानां विषयभेदकल्पनमपक्ष्यै- कस्याः प्रत्यभिज्ञाया एव विषयभेदकल्पनमुचितमिति वाच्यम्। उत्पादविनाशप्रत्ययवद्भेदाभेदप्रत्ययस्यापि मानावात् । भेदस्या- न्योन्याभावव्यावर्तकधर्मादिरूपतया नानात्वेन तदभावप्रत्यय- स्यापि नानात्वात् । ध्वनीनां भेदस्योमयसिद्धत्वेन गकारादि- तर्कपादः। १६९ व्यक्तिकल्पनाधिक्याच्च ॥ के चित्तूत्पादविनाशप्रत्यययोर्धान्तित्वकल्पने व्यञ्जकध्व- निनिष्ठयोस्तयोः परंपरासम्बन्धेन वनिष्ठं भानमभ्युपेयम् । तथा च परंपराघटकवायोरपि विषयतापत्या गौरवम् । प्रत्यभि- ज्ञाया गत्वगकारभेदविषयिण्या जातिविषयत्वकल्पनपि नाति- रिक्तविषयताकल्पनामिति लाघवमाहुः ।। तदपि गकारादिव्यक्तितत्मागभावध्वंसकल्पनागौरवेण निरस्तम् ॥ चिन्तामणिस्तु तारत्वमन्द्रत्वविरुद्धधर्माध्यासेन प्रत्यभिज्ञा- यान प्रामाण्यं सम्भवतीति जातिविषयत्वं तस्याः। तथाहि । सजा- तीयसाक्षात्कारप्रतिबन्धकतावच्छेदकतया तत्प्रतिबध्यतावच्छे- दकतया वा गत्वादिव्याप्यनानातारत्वमन्द्रत्वादिजातिसिदौ पूर्वगकारापेक्षयोत्तरगकारो मन्द्र इत्यनुभवः पूर्वापरगकारयोरक्ये न सम्भवति । अतो ऽस्ति गकारयोर्भेदः । एवं गकारनिष्ठशु- कपुरुषजन्यतावच्छेदकवैजात्यभेदेनापि तद्भेदः । अन्यथा त- चवणे शुकाधनुमितिर्न स्यात् । अतः प्रत्यभिज्ञाया एव जा- तिविषयकत्वकल्पनमित्याह । तदपि "मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम्" इत्यक्षरशिक्षायों मन्द्रत्वादिधर्मस्य स्वरनिष्ठत्वोक्तरकिंचि. करम् ।। अन्ये तु वर्णो ऽनित्यः । स्वाधिकरणनिष्ठाधेयतानिरूपक- त्वसम्बन्धावच्छिन्नव्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताका- भावप्रतियोगिगुणत्वात् । संयोगसम्बन्धावच्छिन्नपतियोगिताक- गगनपरिमाणाभावप्रतियोगिनि व्यभिचारवारणायाधेयतानिरू. २२ P ३ १७० भादृचिन्तामणेः पकत्वसम्बन्धावच्छिन्नति । उभयाभावप्रतियोगिनि तत्रैव व्य. भिचारवारणाय व्यासज्येति । ईश्वरज्ञानस्य नाव्याप्यवृत्तित्वम् । संयोगाभावस्य न गुणत्वमिति । संयोगदृष्टान्तेनानित्यत्वमाहुः ॥ तदपि गुणत्वाभावेन हेत्वसिद्धया प्रत्युक्तम् । वर्णात्मकशब्द- स्थाकाशवव्यापकत्वेन द्रव्यत्वाङ्गीकारात् । सामान्यवत्वे सति म. नोभिन्नेन्द्रियजन्यलौकिकप्रत्यक्षविषयत्वादिति हेतुस्त्वाकाशका. लदिशां षडिन्द्रियजन्यप्रत्यक्षविषयत्वनानैकान्तिकः । इष्यते हि विशेषगुणसम्बन्धित्वेनात्मन इव बाह्यविषयसम्बन्धित्वेन काला- दिप्रत्यक्षम् । इदानीं घटो ज्ञातो घटाकाशे ध्वनिरुत्पन्न इत्याद्य- नुभवात् । अतो नानित्यत्वम् ॥ यत्तु वर्णानां नित्यत्वे युगपन्नानादेशोपलम्भो न स्यादि- त्युक्तम् । तन्न । आदित्योपलम्भवत्तदुपपत्तेः । एकस्यैवादि- त्यस्य दूरस्थतया सर्वैः स्वसांमुख्येन ग्रहणम् । एवं व्यापकव- र्णानामपि तत्तद्ध्वनिभिस्तदेशाभिव्यक्तानां स्वसामीप्योन्मुखा- दिक्रमेण च ग्रहणमुपपन्नम् । तस्मानित्यः शब्दः । अनुमानं च नित्यः शब्दः, ध्वनिभिन्नत्वे सति श्रावणत्वात, शब्दत्ववत् । अ. नेनैवानुमानेन वर्णानां द्रव्यत्वसिद्धिः । न चैवं सैश्यं गुर्जरीति प्रत्याभिज्ञानाद् ध्वनीनामपि नित्यत्वं स्यादिति वाच्यम् । रथ- न्तरादिगीतीनां नित्यताङ्गीकारेणेष्टापत्तेः । वर्णाभिव्यञ्जकध्व- नानामेवानित्यत्वाङ्गीकारात् । गुर्जर्यादीनां तु वर्णाभावेपि प्रती- यमानानां रथंतरादिवन गीतिरूपता । अतस्तेषामपि न बा- धकम् । दर्शनस्य, उत्पत्त्यादिदर्शनस्य, परार्थत्वाद्, ध्वनिविषय- वादित्यर्थः। उत्पत्तौ वा वचनाः स्युरर्थस्यातन्निमित्तत्वात् ।।
तर्कपादः। १७१ तद्भूतानां क्रियार्थेन समाम्नायोर्थस्य तन्निमित्तत्वात् ॥ नन्वस्तु पदपदार्थयोस्तत्सबन्धस्य च नित्यत्वम् । तथापि वाक्यस्य वाक्यार्थप्रतिपादकत्वासम्भवान्न प्रामाध्यं सम्भवति । तथाहि । न तावद् घटादिपदानां प्रत्येकं घटादिकर्मकत्वरूपवा. क्यार्थप्रतिपादकत्वं सम्भवति । अनन्तवाक्यार्थसाधारणपदानां वाक्यार्थविशेषसम्बन्धसम्भवात् । एतेन पदसंघातरूपवाक्यस्य प्रत्यायकत्वमपास्तम्।तर्हि वाक्यस्य वाक्यार्थप्रतिपादकत्वासम्भ- वान प्रामाण्यं सम्भवतीति चेद्, अत्र वैयाकरणाः । कृष्णैहि रक्षनमित्यादौ वाक्ये पदरूपा- वयवविभागे मानाभावादेकारघटितानुपूर्वीकस्यागमनवाचकस्या- त्र सत्वे मानाभावाच्च न पदसमुदायस्य वाक्यत्वं, किं त्व- वयविरूपं तस्यैव विशिष्टार्थशक्तिः, स एव वाक्यस्फोटः । एवं च एकं वाक्यं सूक्ष्म वाक्यं महद्वाक्यामित्याद्यबाधितसंख्यापरि- माणा प्रतीतिरुपपद्यते । अन्यथा पदसमुदायस्य वाक्यत्वे समुदा यस्य समुदाय्यपेक्षया भेदाभावात्तत्प्रतीत्यनुपपत्तिः। अतो वाक्ये शाक्तः। एवं घटेनेत्यादिपदे प्रकृतिप्रत्ययाविभागे तदंशे च श- क्तिकल्पने मानाभावादवयविरूपपदस्यैव शक्तिरूपः स्फोटः । एवं भवतिपचतीत्यादौ भूधातुलडाद्युपस्थितौ मानाभावादानुपू- वविशिष्टवर्णानां शक्तिरिति वर्णस्फोट इत्याहुः ॥ तन्मन्दम् । विस्मृतपूर्ववर्णस्यान्तिमवर्णस्मृतिमतः पदार्थप्रत्य- याभाववत्पदार्थस्मृतिमतो विस्मृतपूर्वपदस्य वाक्यार्थप्रत्ययाभावा- पत्तेस्तत्तत्पदार्थस्मृतिवशेन पदानुमानावलम्बे मानाभावाच्च । कि चैव पदार्थवद्वाक्यर्थोपि निर्भागः स्यात् । तदा ARDASSET ।
१७२. भादृचिन्तामणे . न M प्रसङ्गो बाधतन्त्रोहप्रदेशाधिक्रियागमाः। प्रयुक्तशषभेदाश्च न कल्पेनिति स्थितिः ॥ इति। वाक्यस्य निरवयवत्वं तु पठ्यमान श्लोकानवबोधे सति तदवयवपदार्थप्रदर्शनेन जायमानेन श्लोकार्थानुभवेन विरुद्ध- त्वात् प्रत्युक्तम् । पूर्वमज्ञाताया वाक्यशकेर्वाक्यार्थानुभवजनक- वायोगात्पूर्व ज्ञानकल्पने स्मारकत्वापत्तिः । वाक्यशक्तिज्ञानं तद्धे. तुकवाक्यार्थानुभवश्चैकदा विरुद्धौ । एवं पदानामपि निरवयवत्वं प्रत्युक्तम् । धातुप्रत्ययविभागानभिज्ञस्य बोधापत्तेः । एवं वर्णस्फो- टोपि स्फोटवणेषु शक्तिकल्पनगौरवमपेक्ष्य धातुप्रत्ययोपस्थापक- त्वकल्पनालाघवेन निरसनीयः । धातुप्रत्ययानभिज्ञस्य यङन्तपदैः पदार्थानुपस्थितेश्च । एकत्वमहत्वप्रतीतिस्तु एको महान्धान्यरा- शिरितिवदौपाधिकी । अतो न वाक्यस्फोटरूपा वाक्यशक्तिरिति । के चिन्तु पदानामितरपदान्विते शक्तिः । इतरपदार्थश्च तत्समाभिव्याहारेण विशेषितो ऽननुगत एव । एवञ्चाकााक्षत- योग्यसन्निहितार्थाभिधायकानां पदानां वाक्यार्थप्रतीपादकत्व- मित्याहुः॥ गुरवस्तु कार्यान्वयस्य वाक्यार्थतया पदानामेव कार्यान्विते अनुभाविका शक्तिः । स्मारिका च जातिगुणादौ । अनुभाव- शक्तिग्रहे च स्मारकशक्तिज्ञानस्य हेतुता, तेनोपपत्तेन वाक्यार्थे श- क्तिः । तथाहि । प्रयोज्यवृद्धप्रयोजकवृद्धव्यवहारेण शक्तिं गृ- छन् बालः प्रयोज्यवृद्धप्रवृत्तेश्च मातृस्तन्यप्रवृत्तिदृष्टान्तेन कार्य- ताज्ञानजन्यत्वमनुमाय तज्जनकापेक्षायां प्रयोजकवृद्धवाक्यान- न्तर्यात्तस्यैव हेतुप्तां ज्ञात्वा तत्रत्यपदानां कार्यान्विते शक्तिं जा- नाति, तत आवापोद्वापाभ्यां तत्तत्पदाथै शक्ति जाननपि पूर्वा- वधृता कायान्वितशक्तिं न बाधते । एवं च पदाना कार्यान्वित- .
तर्कपादः। वाचकत्वादन्वयेपि शक्तिरित्याहुः ॥ एतन्मतद्वयमपि इतरान्विते कार्यान्विते वा तस्यापि शक्ति- ग्रहस्य गौरवप्रतिसन्धानदशायां चन्द्रतारकापरिमाणज्ञानवद् पाधसम्भवात्कार्यवाचकपदसमभिव्याहाराभावे शाब्दबोधानुद- यप्रसङ्गाच्च न युक्तम् ॥ नैयायिकास्तु घटत्वप्रकारकघटविशेष्यकप्रत्यक्षादौ समवा- यादेरिव घटकर्मप्रकारकानयनविशेष्यकशाब्दबोधेपि निष्ठत्वादेः संसर्गतया भानं सम्भवति । प्रकारविशेष्ययोरेव शाब्दत्वात्संस- गस्योभयसमभिव्याहारगम्यत्वात्संसर्गमर्यादालभ्य इत्याहुः ॥ सिद्धान्तस्तु घटमानयेत्यादौ घटपदोपस्थितघटसामान्य- स्यानयनान्वयबोधासम्भवाद् घटानयनाविशेष एव वाक्यार्थः, स च लाक्षणिकः, अतो लाक्षणिक एव वाक्यार्थः । तत्र च नामसु कारकविशेष्यता सर्वत्र च भावनाविशेष्यतीत नियमः स्मृतिगम्यः । एतेनाख्यातसमभिव्याहारे प्रथमान्तार्थविशष्यक- बोधनियमं वदन्तस्तादृशनियमे मानाभावेन परास्ताः । नहि प्रथमान्तपदार्थस्य प्राधान्यबोधकं स्मृत्यादि मानमास्ति । वा. क्यार्थसंसर्गस्योभयविधत्वेन विनिगपनायोगात् । तथा च ला. क्षणिकवाक्याथै पदसमुदायरूपवाक्यस्य पदजन्यपदार्थोपस्थि- तिद्वारा जनकत्वमिति वाक्यस्य वाक्यार्थबोधे प्रामाण्यामिति युक्तं विधीनां धर्मे प्रामाण्यम् ॥ वेदांश्चैके सन्निकर्ष पुरुषाख्याः ।। उक्तं तु शब्दपूर्वत्वम् ॥ नन्वस्तु पदानां पदपदार्थसम्बन्धस्य च नित्यत्त्वं, वाक्या:
१७४ भादृचिन्तामणे थप्रमितेश्च वाक्यजन्यतया विधीनां प्रामाण्य, तथाप्यानुपूरि- पवेदानां नित्यत्वासम्भवात्काठकादिसमाख्यया तत्कर्तृकत्वनि- श्चयाच्च पौरुषेयत्वं सम्भवति । पुरुषे च दोषसम्बन्धसम्भाव- नया न प्रामाण्यं सम्भवति । तथाहि । वेदः प्रागभावप्रतियो- गितावच्छेदकधर्मवान् वाक्यत्वाद्, भारतवदित्यनुमानेन पौरुषे- यत्वम् । न च सामान्यधर्मस्य पागभावप्रतियोगितानवच्छेदकत्वे- न वेदत्वस्यातथात्वादसिद्धिरिति वाच्यम् । वेदत्वस्यातादृश- त्वेपि इदानीन्तनवेदत्वादीनां तदवच्छेदकतया नासिद्धिः । अन्यथा घटादीनामपौरुषत्वप्रसङ्गः । वस्तुतो वेदत्वं प्रागभावप्र- तियोगितावच्छेदकं कार्यवृत्तिधर्मत्वात् । तद्धटत्ववादत्यनुमाने- न वेदत्वस्यापि तथात्वात् । अतो वेदानां पौरुषेयत्वम् । एवं च काठककालापकादिसमाख्या बवरः प्रावाहाणिरकामयतेत्याय- नित्यसंयोगोप्युपपद्यते । तदुक्तं, सन्निकृष्टकाला वेदा इदानी- न्तना इति । तत्र चास्मदादीनां कर्तृत्वासम्भवाव्यासादिवदी- श्वर एव कर्ता।एवं च त्रयो "वेदा अजायन्तेत्यग्नेग्वेदो वायोर्य- जुर्वेद" इत्यादिदर्शनमुपपद्यते अतो न स्वतः प्रामाण्यमिति चे. द, न । उक्तानुमानस्य वेदत्वं न प्रागभावप्रतियोगिताच्छेदक सामान्यधर्मत्वादित्यनुमानेन सत्प्रतिपक्षितत्वात् । प्रतियोगिता वच्छेदकभेदाभावेन सकलघटप्रागभावैक्ये प्रतियोग्युत्पत्तिनाश- त्वासम्भवेन च नित्यत्वापत्तेः । इष्टापत्तौ तूत्पन्नस्य पुनरुत्पत्ति प्रसङ्गः, भागभावनाशस्वीकारे घटानुत्पत्तिप्रसङ्गः । अवयवश- स्तन्नाशस्वीकारो निरवयवत्वादेवायुक्तः । प्रतियोगिभेदेनाभा- वनानात्वकल्पने संसर्गाभावान्यान्याभावयारेक्यप्रसङ्गः । अतो न सामान्यधर्मस्य प्रागभावप्रतियोगिताच्छेदकत्वम् । प्रथमा. नुमानमपि वेदाः पागभावप्रतियोगितावच्छेदकधर्माभाववन्तो, तर्कपादः । ऽस्मर्यमाणकर्तृकत्वाद्, आत्मवादित्यन्वयिना अस्मयमाणकर्तृक वाक्यत्वादिति व्यतिरोकिणा च सत्प्रतिपक्षितम् । वेदशून्यका- लाभावेन वेदमागभावासिद्धेश्च । तथाहि । पूर्वकालो न वेदशू- न्यः कालत्वाद्, वर्चमानकालवत् । पूर्वकालीनं वेदाध्ययनं गु. वंध्ययनपूर्वकं, वेदाध्ययनत्वाद, इदानीन्तनवेदाध्ययनवत् । वे- दान पौरुषेया, अस्मर्यमाणकर्तृकत्वादित्यनुमाननापारुषेयत्वास- द्धेश्च । नन्वस्मर्यमाणकर्तृककूपादौ व्यभिचारः । तत्रापि सा- मान्यतः कर्तृस्मरणात् । अतः पौरुषेयत्वासम्भवादपौरुषेयत्व- म् । एवं "वाचा विरूपनित्यये" ति श्रुतिः ॥ स्वयंभूरेष भगवान् वेदो गीतस्त्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मारो ऽस्य न कारकाः ॥ इति स्मृतिश्योपपद्यते । काठकादिसमाख्या तु श्रुतिस्मृतिवि- रोधात्प्रवचननिमित्तत्वेनोपपादनीया । अग्नेक्रग्वेद इत्यादिश्रु- तिरपि अग्निना ज्ञापितइति व्याख्येया । अनित्यसंयोगोऽपि प्रवाहनित्यतामादायोपपादनीयः ॥ प्रवाहनित्यत्वं च सजातीय- प्रागभावसमव्याप्तसजातीयध्वंसकत्वरूपम् । यद्वा बहुक्षीरादिवा- क्यवदसत्यकथादिना विधेयस्तुतिपरत्वेनोपपादनीया। अतोऽपौ. रुषेया वेदा इति सिद्धं वेदप्रामाण्यम् ।। विश्वामित्रकुलध्वजः समभवद्यो भट्टनारायण- स्तद्वंशस्य करीरतां दधदयं विश्वेश्वराख्यः कृती ॥ गागाभट्ट इति प्रथान्दिनकरात्माप्तः पितुालनात् तद्ग्रन्थे प्रथमादिमोङ्घिरभवच्छ्रीभादृचिन्तामणौ ॥ १ ॥ अहो बहु परीक्षितुं निकषणीयमेतनिजे न मत्सरकदुष्णिते कषशिलानिभे चेतसि ॥
१७६ भादृचिन्तामणेः परं तु हृदयालुभिः खलु दयालुभिः स्थाप्यता महाद्भुतरसाम्बुधौ निजकृपानिधौ मद्वचः॥२॥ इति भकुलावतंसमीमांसकमहामहोपाध्याय- श्रीगागाभट्टकृतभाट्टचिन्तामणौ प्रथमाध्यायस्य प्रथमः पादः ।। ॥ संपूर्णोयं भाट्टचिन्तामणेस्तकंचरणः ॥