Bharti Bhawan Library Allahabad

Yetendracharitamritmahodadha

PDF Proofread

Front matter

THATAN ॥श्रीः॥ IAS सर्वशास्त्रमयान् सर्वयोगदक्षान् जगद्गुरून् । श्रीविशुद्धानन्दनामवाग्देवान् समुपास्महे ॥१॥ POES यतीन्द्रचरितामृतमहोदधेः प्रथमः कल्लोलः। Pag श्रीमद्भावानन्दतीर्थचरिताणुकथामिषात् ॥ शास्त्रवाक्यनिगूढार्थविमोऽयं मनीषिणाम् ॥१॥ ॥ श्री.॥ ক্ষ্মান্ধিলক্ষ্ময়য়ল নিম্নাহালক্ষ্মীনাথজিয়া धाश्यां मेडिकल हालनामके यन्त्रालये मुद्रितः । सं. १९५७ वसन्तादी ॥

Patha Byapapniorwaliwwwimala AURADIATTA श्रीमद्भावानन्दतीर्थ- चरिताणुकथामिषात्॥ शास्त्रवाक्यनिगूढार्थ- विमर्शीऽयं मनीषिणाम् ॥१॥ PRINTINraPaaNPeam DAANE-ANAhanihatiaNA22bstha HAREL ॥ গীমায় । जगद्गुरुश्री१०८शङ्कराचार्यजी की गुरुशिष्यपरम्परा का सूचकपत्त्व । নাহ पद्मभू অতি স্বার तत्पुचपराशर || f शुक गौड़पाद गोविन्दयोगीन्द्र ০াভুম্বা - হয় নিয়ায়। নয়ায়। নাৱাৰায়। হাৱাত খান্না দুল্লায়। অহনা ? শুলিয়ায় । ভীনে! মুন্নীম। মান্নান প্রায়। কাল ৫ শালমান ? গলাৰায় । মান। ২য় ! হা। অন্য নেই, ঙ্গান,গীয়া, অনল, মাঃ, শুয়া ? মিৰি, অৰ্মন, , তখ।মনী, নানী, বী, হাজাছ। নিম্ন। হহিঙ্গাঙ্গুলি। ত্রিয়না। ব্লন্নাহা। লায়যায়ন। মানুষ। ৪াজীবী। কামী। হযহাফিহিলী। ত্তিামনা। , যমী, না। महाधितीर्थ। স্মলৱলনীয়। জানান। ক্লাব নাগলাম। ললনা। শুনানীঘ। না। স্মথ। অনলাল্লা। (মভি ফান্তা। মন্নালাল অম) লা- (থানা) মান্না। অব। ( স্পষ্ট মুলালি লাম্বা। यह सब मठाम्नाय आदि ग्रन्थों में लिखा है।

॥ श्रीः ॥ श्रीमहाराज श्रीभावानन्दतीर्थस्वामीजी की गुरुशिष्यपरम्परा का सूचक पत्त् । ये स्वामीजी काशीपुरी चौसट्ठीघाट पर (गोपालमठ) जिस में । अद्वैत रघुरामानन्दतीर्थ सिद्धि" श्रादि ग्रन्थ के कर्ता "श्रीमधुसू- दनस्वामीजी" पहिले रहते थे उस में रहे। " ये स्वामीजी कुछ दिन गोपालमठ में रहके उस स्थान से विरक्त हुये अच्युतानन्दती । तो अनिकेत अर्थात् कभी कहीं कभी कहीं इस चाल से रहे, और बड़े तपस्वी थे को अर्पण किया तब से ये स्वामी- कामरूपकामाक्षा के राजा चन्द्रकान्त ने काशी दशाश्वमेध घाट पर एक उत्तम मठ बनवाय के सं. १८४५ में इन स्वामीजी महादेवानन्दती । जी उसी मठ में रहे, और अब तक उसी मठ में उन की शिष्यपरम्परा है। ब्रह्मानन्दती॥ नित्यानन्दती। । कृपानन्दती० । महेश्वरानन्दती । शिवानन्दती० मौनी। | शङ्करानन्दती० । सर्वेश्वरानन्दती० । रुद्रानन्दती० । रामलष्णानन्द्रती० । रामचन्द्रानन्दती । श्रीभावानन्दती० ।। माधवानन्दती। 1| मनीष्यानन्दती० जीवत् । गोविन्दानन्दती। सर्वश्वरानन्दती० ॥ केशवानन्दती०। रत्नेश्वरानन्दती। देवानन्दतो० । हरानन्दती० ॥ । परीक्षितानन्दती०जी०। - कृष्णानन्दती । नसिंहानन्दती० जी०। ब्रह्मानन्दती० ॥ शुद्धानन्दती० जी० । कैवल्यानन्दती० जी० । हरिहरानन्दती गोकुलानन्दती०जीन भवानन्दती० जी०। रामेश्वरानन्दती। महादेवानन्दती०। केशवानन्दती०जी०। परमानन्दती० जी०। । निजबोधानन्द आदि दस बीस जीवत् हैं। सं० १९४७ वसन्तादिदिने । - १ त्वम् । १ ३४ ३ ... .... ४० ४१ ॥ श्रीगणेशाय नमः ॥ यतीन्द्रचरितामृतमहोदधेः प्रथमकल्लोलस्य संक्षिप्रं सूचनपत्रम् । विषयाः। श्लोकाङ्काः । विषयाः । श्लोकाडाः। मुद्रारूपं मङ्गलम् । मृदादौ काशीत्वव्यवहारस्यौपाधिक- अनुबन्धाः, श्रीभावानन्दतीर्थस्वामि-) स्मरणं च। अस्या दार्शनिकरीत्या मुक्तिदत्वम् । अयोध्याप्रान्तभूममन्वायुक्तं पवित्रत्वं अत्र दिनत्रयवासस्य मुक्तिदत्वोपपत्तिः। ३२ तत्कारणं च । अत्र प्राणोत्क्रमस्य मुक्तिदत्वम् । तत्रविप्राद्याचारादिः ।। दृढ़ानुरागस्य वस्तुप्रापकत्वम् । यतीन्द्रस्य जन्मादिचरितम् । मरणनिक्तिः । तस्य गार्हस्थ्य कारणम् । प्रयागादीनां मुक्तिदत्योपत्तिः । तस्य गेहानिर्गमकारणकालादिः । १० गङ्गाया मुक्तिदत्त्वोपपत्तिः। तस्य तीर्थयात्रावत्यागादिः । गङ्गासङ्गात् काश्या अतिशयः । तस्यायोध्यातीर्थराजचिकटब्रह्माव- अस्या आनन्दवनत्वोपपत्तिः । तपुष्करादितीर्थविधिः । अस्यां शाब्दब्रह्मसाक्षात्कारोपपत्तिः । बदरीवनतीर्थावधिः। अस्यां ज्योतिब्रह्मसाक्षात्कारोपपत्तिः । नीलाचलगयादितीर्थविधिर्वर्षपञ्चको- अस्या ज्योतिर्मयत्वोपत्तिः । १५ त्तरं काशीप्राप्तिश्च । अस्या अवश्य दृश्यता। काश्यां वेदोक्तशिवरूपतादि । अस्या अविमुक्तत्वोपपत्तिः । अत्र दिनत्रयं वासे मुक्तिः । अत्रत्यजनानामाचारादिः । अयोध्यादीनां काशीप्रापकता। तस्य काशीतीर्थविधिर्यावज्जीवं का-) प्रयागादिभ्योऽप्यस्या उत्तमता । शीवासेच्छा च । अनत्यजनानां देवरूपत्वम् । २० तस्य श्रेयःसाधनविमर्शस्तत्र वैराग्यस्य अस्याः शिवरूपत्वोपपत्तिः । मुख्यत्वम् । बन्धमुक्त्योः सापेक्षत्वम् । विषयाणां दुःखातिरेकः । निरपेक्षमोक्षस्वरूपं काश्यास्तत्यापकत्वं च ।२४ विषयवृद्धौ दुःखद्धिः। पापिनामत्रापि मोक्षाभावोपपत्तिः । वैराग्यासम्भवखण्डनं ज्ञानमात्रस्या- ६२ अस्या मृदादिरूपत्वाभावः । २६ ४४ ४५ १२ । १४ CO. .. ... ५० .... १८ ... ५४ .... १ ... ...2 ५६ ... मगोचरत्वात्।

२ संक्षिप्त सूचनपत्त्रम् । ६३ 16. - नाकारता। - १३८ १३२ १३५ । .... ... 8.. पद १४९ ... ... १६० १६२ 4. .. विषयाः । श्लोकाङ्काः। विषयाः । श्लोकाङ्काः। विषयान्तरायहऽपि वैराग्योपपत्ती लौकिकप्रयत्नस्य वृथात्वम् । १२२ पक्षद्वयम् । विषयत्यागस्यावश्यंभाविता । आत्मनः सुखस्वरूपतानिरूपणम् । हर निजेच्छया तत्त्यागे सुखादिः । पक्षद्वयेऽपि विरक्तद्धिवृत्तेः सुखमा. निजेच्छया तत्त्यागे सुखहान्यातेपत-) १२६ त्प्रतिपादिः। सुखत्वदुःखत्वयोरविरोधः । सुखादयवृद्धावपि जनप्रवृत्तेः स्वाभा- सुखस्य दुःखाभावरूपता,तदृष्टान्तादिच । विकत्वम् । विषजिहासाया दु:खमात्रनाशकत्वम् । ८१ स्त्रीसङ्गस्य दुःखकारणता। विषयत्यागे तदीयसुखहान्याक्षेपतत्म-) पुत्रस्य दुःखहेतुता। तितेपादिः पक्षद्वयऽपि । सेवादिफलेच्छया पुत्वैषणाया अनुपपत्तिः । १४२० सुखस्य सर्वथा विषयासंबद्धता। पुत्त्रेषणाकर्त्तव्यताबोधकवाक्यानां दुःखसंभित्रसुखस्य हेयता तदृष्टा- तात्पर्यनिरूपणम् । न्तादि च । पुचादिविधीनामपूर्वविधित्वाभावः । १५८ सुखदुःखयोः स्वाभाविक्यल्पत्वाधि- तेषां परिसंख्यात्वम् । दर क्यप्रतीतिः । अपर्वविधिधर्मयोलतणानि । सतोऽपि निन्दासंबन्धात्त्याज्यत्वे दृ- दृष्टफलेऽदृष्टकल्पनाभावः । ष्टान्तादिः। मानपुरुषार्थशास्त्रलक्षणानि । विषयानुरागस्य मूलानुत्थितिः । परिसंख्यालक्षणादिः। विषयवृद्धः सुखवर्द्धकत्वाभावः। तस्याः फलतो निषेधे पर्यवसानम् । अनिष्टानुबन्धिनीष्टोपि प्रवृत्त्यभावे तस्याः प्रकृताप्रकृतापेक्षत्वे । दृष्टान्तादिः । परिसंख्यावाक्यार्थस्तस्या विधित्वो- क चित्तत्र प्रवृत्तौ कारणान्तरम् । पपत्तिश्च । भ्रान्तिमोहाज्ञानादीनां प्रत्तिहेतुतादिः। अनन्यथासिद्धफलादिरेव सदोषाया १८७ तत्प्रवृत्तेस्तापकारणता । १०२ अपि तस्याः स्वीकारे हेतुः । प्रागुक्तदृष्टान्तसमन्वयः । १०३ भार्यागमनविधेः परिसंख्यात्वमेवन) सर्वविधविषयप्रवृत्तेर्दुःखहेतुतादिः । नियमत्वम् । विषयवृद्धितन्मलकसुखवृद्ध्योरसंभवः । नियमपरिसंख्ययोः स्वीकारतारतम्यम् । १९१ वैषयिकसुखानुरागयोस्तारतम्याभावः । १०८ लाघवगौरवयोर्गुणत्वदूषणत्वे सदृष्टान्ते । १९४ उपाधिभेदादेकस्यैव विषयस्य सुखत्व। भार्यागमनविधेरपर्वत्वाभावः । दुःखत्वादिः। अपर्वविधेरुदाहरणम् । २०० वैयिकसुखतारतम्याभावेऽपि लोकप्रव ततो भार्यागम वधर्वधर्म्यम् । त्तेधान्तिमूलकता तदृष्टान्तादि च। नियमविधेर्लक्षणादिः । ... २०२ १७० १७५ ... ... १७८ ५ १८३ M ... १८ १०५ १०७ .... 10 9. २०० ११४ संक्षिप्तं सूचनपत्त्रम् । ३ ... ३०८ ३१७ २०४ ... ... ३१८ । .. ... ३२२ ... । ... . ... ३३३ २३३ ... ... विषयाः । श्लोकाङ्काः । विषयाः। श्लोकाङ्काः। अस्यादृष्टार्थता सप्रमाणा। मिथ्यासत्योक्त्योः पापपुण्यत्वोपपत्तिः। ३१३ अस्य विधेरनुक्तविषये उदासीनता। मिथ्यात्वग्रहस्य प्रवृत्त्यादिप्रतिबन्ध-) अत्रापि परिसंख्यात्वाक्षेपप्रतितेपी। ... कत्वम् । परिसंख्यायां नियमत्वाक्षपतिक्षेपो । २११ मुनिवाक्ये तदसम्भवः । नियमपरिसंख्ययोर्वधर्म्यम् । २१५ काव्यादिषु मिथ्योक्तिफलम् । .. ३२१ दारविधी परिसंख्यासाधर्म्यम् । २१९ विध्यादौ मिथ्यात्वाभावः । दारविनियमत्वे दोषः । २२१ यन्येषु लोकोऽपि सारासारधिवेकः । হই नियमविधिदारविध्यारन्योऽन्यं वैधर्म्यम् । २२५ इतिहासभागस्य फलं सदृष्टान्तम् विज्ञानेश्वरायुक्तरयुक्तत्वं सहेतुकम् । अनृतत्वनिक्तिस्तस्य काव्यादावस- ३३० नियमविधेरनुक्ते यापासबोधकता। मन्वयश्च ।... पुण्याभावस्य पापत्वस्वीकारे दोषः । २३० काविधिवाक्ययोर्वधर्म्यम् । पापत्वं परिष्कृत्यापप्रतिक्षेपौ । २३१ क चिन्मुनीनां काव्यकर्तृत्वेऽपि न ३३४ नियमविधेः पापाबोधकत्वनिगमनम् । मुनित्वहानिः । दारविधेदारागमे पापताबावकत्वे दोषः । २३४ लोकतोषणं मुनित्ववर्द्धकम् । अत्रापि पापत्वरिष्काराक्षेपप्रतिक्षेपौ । २३५ पुराणायुक्तोर्वतयत्वाभावोपसंहारः । ३३९ दारागमे पापबोधकानां वचसां तात्पर्यम् । २४१ अधिकार्यनुसारेण वस्तूनां वैया- परदपरगमने दोषः। ३४० भावः सदृष्टान्तः। कन्याविवाहविधितात्पर्यम् । पुराणादावनृतत्वोद्भावनस्य मौढ्यो- पुरुषस्यानेऽपि विवाहा स्त्रियास्त्वेक) तुकत्वम् । एवेत्यत्र वाचायुक्तिः। अक्षरादार्थमादाय वितथताया अनु- नार्या अपिक चिपरिणयान्तरविधि- ३४६ २५७ द्वाव्यत्वं सदृष्टान्तम् । स्तनिषेधश्च । इतिहासभागस्य परस्परविरोधेऽपिन तत्र विधिनिषेधयोराशयः । पुराणार्दोर्मथ्यात्वम्। ब्रह्मचर्यप्राशस्त्यम् । नायाः पुनर्विवाहहानितदाक्षेपप्रतिवे-) पुत्त्रादिविधीनामर्थवादत्वं सलक्ष- गोदाहरणफलादि । ... वित्तैषणोनमलिका वस्तूनां साधुत्वासाधुवमर्शः । अद्भुतयुक्तयः ३५९ शिष्टत्त्वस्य लक्षणम् । लोकैषणोन्मलिका अपर्वयुक्तयः । साधुत्वासाधुत्वबोधकमुनिवचोवैय- ) मुनिवाक्यानां मृषात्वाभावोपसंहारः। ४३३ ३०१ यापतिक्षेपाय मुनिवनिक्तिः ।। यतीन्द्रस्य संन्यासेच्छाहेतुः। থমাননানি। मुनिवचसां मृषात्वासम्भवः । २४२ ... 2. २४ 0. २५८ ३४८ २६३ ३५४ पादयः। .. - २९४ ३९७ .. ४३४ i ... १ " .2 ३१२ ॥ श्रीगणेशाय नमः ॥

॥ श्रीगणेशाय नमः ॥ यतीन्द्रचरितामृतमहोदधेः प्रथमकल्लोलस्य शोधनपत्रम् ॥ ॥ शोधनम् अशुद्धस्य नलो शीरु पृष्ठाङ्काः २ न लो शीर ४ ... ५ ... ... ४ .. ५ म्यं ६ .... म्यम् शा ... का ... ख्या व्या ... १५ ५ ... ३२ . १३ जत वि ४८ ... १२ रवि दा वे . ५ ... ६ १५ सङ्केतपत्रम् ॥ (१) संयुक्ताक्षराण्यत्र तत्रैव यत्र समासात् स्वयं वैकपदत्वम् । (२) निनतितमश्लोकात प्राक् शोधकस्यात्र न तथा दृष्टियथा तत अर्द्धम् । ॥ श्रीमद्भावानन्दतीर्थचरणार्पणमस्तु ॥ ॥ श्रीरस्तु॥

सिकिरी शिवदेव्यास्तपोमूत- र्मातुः पादाब्जजन्मनः ॥ पितुः श्रीविश्वनाथस्य कणाल्लेयादरान् मुहुः ॥१॥ BORDAR0298222222222 000000000000000000000005 S श्रीमद्भावानन्दतीर्थ- तपस्तरणिरश्मयः ॥ प्रसादयन्तु सततं हृदब्जानिमनीषिणाम् ॥१॥ -- Anamnana predeceaseeeeeeeees

॥ श्रीः॥
यतीन्द्रचरितामृतमहोदधेः
प्रथमः कल्लोलः ॥
॥ श्रीगणेशाय नमः ॥
-60000000
शिवदेव्यास्तपोमूतमातुः पादानजन्मनः ॥
पितुः श्री विश्वनाथस्य कणाल्लेयादरान् मुहुः ॥ १॥
•ONOMOCKOR
रेरे चित्तचकार चञ्चल चिरात् संसारदावानलाद्
भीतो यद्यसि तर्हि भावय सखे तापोपशान्त्यै मनाक् ॥
लोकान् वीक्षयतो मनोऽनधिगतं ज्ञानप्रभाभिर्निजै-
भीवानन्दयतीश्वरस्य चरितं शुद्धं मनीषामृतम् ॥ १ ॥
जीवानां हितकारितां प्रकटयन् शुभैश्चरित्रैनिः
पूर्णः श्रीपरमेश्वराऽप्यविकलं पूर्णावतारं दधौ ।
यत्रैषा
सरयूजलापततटा यागादिधीचिता
मन्वाद्यैः कथिता चिरं विजयते साकेतभूः पावनी॥२॥
विद्याचारविवेकधैर्यधनिका मेधाविनस्तापसा
पाहूयाध्वरसाधनाय विधिना यत् कान्यकुलाद् द्विजाः ॥
श्रीरामेण समय॑ यत्र विनयाधिक्यात् प्रतिष्ठापिता
नैच्छन् हातुममूं ततोऽपि धरणीयं सर्वतो राजते ॥ ३ ॥

SORRHEUROO यतीन्द्रचरितामृतमहोदधेः यत्राद्यापि नरान् न मुञ्चति कदाप्यापामरं मार्द्धवं सत्यं धीविनयस्तपस्सुचरिताचारादि लोकोत्तरम् ॥ विप्रान् सार्थकपङ्गिपावनपदं धैर्याद्दरिद्रानपि स्वस्वाचारममुञ्चतो धनयशोलाभेऽपि तीव्रव्रतान् ॥ ४ ॥ यत्रस्थास्त्रुटिता अपि द्विजवरा देशान्तरे निर्गता विद्याचारविवेकधैर्यविनयानन्याधिकं बिभ्रते ॥ नो वा स्वाधमजातिजातमनुजैानादिसंबन्धनं लोभाद्यैरपि कुर्वतेऽतिविपदो मौलाः कुलीनप्रियाः ॥ ५ ॥ यज्जाताः शिरनेतिवंशमणयः सत्क्षत्रियाः पक्तिजा नो देशान्तरजातभूसुरवरस्पष्टाचपानादिकम् ॥ विस्रब्धं परिगृहुते तदुचिताचाराद्यबोधाद् भयाद् धर्मस्यापि, समस्तभूपरिसरे सा कि पवित्रा न भूः ॥ ६ ॥ तवत्योत्तमविप्रवंशतिलकः प्राग्जन्मपुण्यावली लोकेषु प्रथयन् निजां समजनि श्रद्धालुमुख्यः श्रुतौ ॥ मेधावान् धृतिमान् विवेककुशलः सद्धर्मभीरुः सदा- चारादच्युतचित्तवृत्तिरनिशं सत्तत्त्वचिन्तारतः॥ ७॥ बाल्येऽप्यस्य मनोन चञ्चलतरं नो वा कटोराक्षरा घाग दृष्टिश्चटुला रसादिविषये लोभस्य लेशः क्वचित् ॥ तारुण्यपि शमप्रधानममलं चित्तं न चित्रं तु तत् सर्व प्राक्तानपुण्यवैभववशात् किंकिं न संभाव्यते ॥६॥ यद्यप्यस्य विवेकवैभववशाद् रागान् नलोभादिना गार्हस्थ्येऽभिरतिस् तथापि जननीतातानुरोधादसौ ॥ गार्हस्थ्योचितदानदेवयजनादीन् शास्त्रविध्याहृतान् द्वात्रिंशच्छरदश्चकार विधिवत् सद्धर्मशास्त्रप्रियः ॥६॥ %D

प्रथमः कल्लोलः।
उत्पाद्यात्मजमेकमेष गृहिणीं संतोष्य वाग्भिर्महा-
वाक्यार्थप्रवणाभिरात्मनिरतश्रीयाज्ञवल्क्योपमः ॥
वैफल्यं कलयन् स्थिती निजगृहे विक्षेपमप्यात्मन-
स्तत्त्वार्थावगतो निरन्तरसमाधाने ततो निर्ययो ॥१०॥
भूचन्द्राङ्ककलानिधानगणितेऽब्दे वैक्रमे कार्तिके
निर्गत्यैष पवित्रमूलफलभुक्क्षामः पदातिर्ग्रहात् ॥
तीर्थेष्वालवनादिभिर्निजमनोवाक्कायसंशोधनं
वैधं पालयितुं प्रवृत्त इव संशुद्धोऽपि शिक्षा दिशन् ॥ ११ ॥
आदावात्मगृहान्तिकस्थसरयूमालाव्य तत्तोरगे
साकेते स्थिरतामुपेत्य विधिना मासं प्रयागं ययो ।
तत्राप्युयतपोदृढव्रतमना भिक्षाप्तकन्दादिभुङ्
मासांस्त्रीन् विगमय्य रामचरितोऽयं चित्रकूटं ययौ ॥ १२ ॥
सम्यक् तत्र समस्ततत्तदवनीकालोचितं साधयन्
ब्रह्मावर्तमगाद् व्यतीत्य सुकृतं मासद्वयं क्षीरभुक् ॥
पूर्ण मासचतुष्टयं स्थिरमतिः कृच्छ्रादिभिर्वर्तयन्
गङ्गातीर उवात रामनिरतो वाल्मीकितुल्यो वशी ॥ १३ ॥
एवं पुष्करमुख्यतीर्थनिवहान् संप्राप्य पद्भ्यां क्रमात्
तत्तत्तीर्थवरचितानि विधिवत् कर्माणि कृत्वा शनैः ॥
संप्रापद् बदरीवनं तदुचितं तीव्र तपः संचरन्
षण्मासं स्थिरधीस्वास विजनेऽयं शाकपत्राशनः ॥ १४ ॥
तस्मादप्यतिपावनानिरगमत् प्राप्तुं स लोकोत्तर
मध्येमार्गमुपास्य पूर्णविधिना तीर्थानि गच्छन् कृती ॥
प्रापत् पूर्वपयोनिधेस्तटगतं नीलाचलं वत्सरं
सावित्री प्रजपन्नुवास विधिना तत्रापि शाकाशनः ॥ १५ ॥

P90089999999999908499983 यतीन्द्रचरितामृतमहोदधेः एवं हायनपञ्चकेन विधिवत्तीर्थान्युपास्यात्मन- स्तातादेः पितृलोकपोषणकरान् पिण्डान् गयादी ददत् ॥ प्रापच्छ्रीमदनान्तकस्य नगरी वाराणसी यां श्रुति- याचष्टे शिवरूपिणी सुरनदीपूराविमुक्तां सदा ॥ १६ ॥ काशीरुद्रतनूः शिवा विसलति ज्ञानं यया देहिना- मित्युक्तं निगमे किमन्यदधिकं वक्तुं क्षमः स्याज्जनः । यत्र प्राणवियोगकालजपरब्रह्मोपदेशाच्छिवः कीटादीनपि साधनैर्विरहितान् मुक्तान् करोतीत्यपि ॥ १७ ॥ स्थित्वा यत्र दिनत्रयं विधिवशात् कुत्रापि जीवो मृतः स्यात् सोऽप्यत्र परत्र जन्मनि ततो मृत्वा भवेन् मुक्तिभाक् ॥ पुर्यो यद्यपि सप्त मुक्तिफलदा अन्या अयोध्यादयः प्रापय्यात्र विमुक्तिदा न तु पुनः स्वातन्त्र्यतः प्राणिनाम् ॥ १८ ॥ येऽप्येनामनपेक्ष्य मुक्तिजनकास्तीर्थाः प्रयागादय- स्ते सर्वे निवसन्ति पञ्चदशभिः स्वाभिः कलाभिस्त्विह ॥ स्वस्थाने कलयैकयेत्यमखिला रामेश्वराद्यास्सुरा नद्यः पुण्यतमाः सरांसि मुनयः सिद्धादयः सागराः ॥ १६ ॥ अद्याप्यत्र निवासिनो बुधवराः संन्यासिनः कारवो दासाद्या वणिजः कुकर्मनिरता धूती विटा दाम्भिकाः॥ वैद्यास्तन्त्रविशारदाः कविवरा देवप्रिया याज्ञिकाः खेल्वे कर्मणि देवतुल्यमतयो दृश्यन्त एव स्फुटम् ॥ २० ॥ Terasa239aossz:LTODESEDOSA

IC
प्रथमः कल्लोलः।
इत्यायुक्तं स्कन्दमुख्यैः पुराणै-
देवप्रष्टैासमुख्यैर्मुनीन्द्रः ॥
यत्तत्र स्यानो विवादः कुशाय-
बुट्यानत्यं पश्यतां वस्तु सर्वम् ॥ २१ ॥
तत्तत्सङ्गात्तत्तदूहां वितत्य
सर्वेषां या तत्तदज्ञानहन्त्री ॥
तत्तज्ज्ञानात् प्राणिनां शं विधत्ते
सा कि काशी नो शिवा शन्तमास्तु ॥ २२ ॥
तत्तद्द्वस्त्वज्ञानदुःखे निमग्नं
जीवं बद्धं तत्रतत्रामनन्ति ॥
एवं तत्तद्वस्तुतत्त्वावबोध-
सौख्यं तत्तन्मुक्तिरूपं प्रसिद्धम् ॥ २३ ॥
वस्तूनां यस्तत्त्वबोधः समेषाम्
पूर्ण ज्ञानं निर्विशेषं स मोक्षः ॥
तत्संसिद्धिः काशिवासाद् ध्रुवं स्या-
दित्येषा सत्सङ्गतो मोक्षदात्री ॥ २४ ॥
एतेनोक्तं पापिनां काशिकैषा
तुल्या ज्ञेया कीकटेनेति यत्तत् ॥
युक्तं यस्माद् वस्तुतत्त्वानभिज्ञ-
ग्रावादीनां काशिवासान्न मुक्तिः ॥२५॥
मृद्यावादिव्यूहरूपा न काशी
किं तु ज्ञानव्यूहरूपैव सेष्टा ।
नो चेत् सर्वा ज्ञानिनां काशिका भू-
रित्यायुक्तं नैगमं नो घटेत ॥ २६ ॥

AN-
Hapne
यतीन्द्रचरितामृतमहोदधेः
देशाशादेः पूर्वताद्या उपाधा-
वारोप्यन्ते मृज्जलायेषु धर्माः ॥
एवं तत्त्वाज्ञाननाशाद्युपाधी
काशीत्वादि प्रस्तरादी प्रसिद्धम् ॥ २७ ॥
तत्तद्वस्तूत्कृष्टमर्मज्ञसङ्गात्
तत्तत्तत्त्वं ज्ञायते काशिवासात् ॥
एवं सर्वाज्ञाननाशात् क्रमेण
मुक्तिः सिद्धा नात्र किं चित् परोक्षम् ॥ २८ ॥
येषां पक्षे बुद्धिवृत्तिप्रवाह-
रोधी मोक्षा बुद्धिनाशोऽथ वा सः॥
तेषां योगे कापिलादी स्थिताना-
मप्येषा स्यान् मुक्तिदात्रीति सिद्धम् ॥ २६ ॥
सर्वेषां स्वज्ञानगम्ये प्रसिद्धा
बुद्धेदृत्तिर्धीमतां पामराणाम् ॥
एवं वस्त्वाकस्मिकं बुद्धगम्यम्
दृष्ट्वा बुद्धीशरोधी प्रसिद्धा ॥ ३० ॥
काशीस्थेष्वाकस्मिकत्वावबोधः
सूक्ष्मं वस्तुष्वीक्षमाणस्य न स्यात् ॥
कस्य कापीत्यस्य संभावनैव
नास्तीत्येषा तन्मते मोक्षदात्री ॥३१॥
दिनत्रयं य स्थितिमत्र लब्ध्वा
देशान्तरं निर्गतवान् मनुष्यः ॥
अत्रत्यवस्तूनि स यावदायु-
न विस्मरेदन्यविलक्षणत्वात् ॥ ३२ ॥

प्रथमः कल्लोलः।
ततः शरीरच्युतिकालजेन
दृढ़ानुरागेण लभेत शाश्याम् ॥
उत्पत्तिमत्रत्यजनस्य तु प्राक
प्रदर्शितैवाशुविमुक्तिरीतिः ॥ ३३ ॥
आकर्ण्य काशीमहिमानमत्र
समागतः प्राणवियोगकाले ॥
यद्वा निजात्युत्कटपुण्यराशे-
रामुष्मिकात् प्राप्त इहैहिकाद् वा ॥ ३४ ॥
कथं चिदप्यत्र समागतस्य
प्राणान्तकालेऽखिलवस्तुप्तत्त्वम् ॥
प्रागुक्तरीत्या स्मरतो विमुक्ति-
युक्ता न चित्रास्पदतामुपैति ॥ ३५ ॥
दृढानुरागेण निजेष्टहेतू-
नन्यान् समासादयते क्रमेण ॥
ततस्तु सर्वेष्टनिदानमुख्यो
दृढ़ानुरागः पुरुषस्य सिद्धः ॥ ३६ ॥
मनःप्रभृत्यान्तरसूक्ष्मदेहात्
स्थूलस्य देहस्य वियोग इष्टः ।
प्राणोत्क्रमो नाम न चित्तवृत्ति-
नाशादिरिष्येत तदापि धीः ॥ ३७ ॥
एवं तु देहावसितेः क्षणेऽयं
यं भावमुत्कः स्मरति प्रकर्षात् ॥
जीवस्तदाप्तेरनुकूलदेहा-
द्याप्नोति रागादिति सुप्रसिद्धम् ॥ ३८ ॥

यतीन्द्रचरितामृतमहोदधेः
काश्यां शरीरं जहता जनस्या-
ऋत्येषु वस्तुष्वनुरागवृद्धिः ॥
तत्तत्त्वबोधाय भवेदवश्यं
तदेत्युपर्युक्तदिशा स मुक्तः ॥ ३९ ॥
एवं प्रयागादिषु सर्वतीर्था-
दिषूहनीयं स्वधिया यथेष्टम् ॥
यथासमावेशमिहत्यजन्मा-
न्तरस्थमुक्त्यादिनिमित्ततादि ॥ ४ ॥
गङ्गाजलं कायिकमानसादि-
शुद्धिप्रदं सर्वजनप्रसिद्धम् ॥
तद् बुद्धिनैर्मल्यविधानहेतो-
मुक्तिं करोतीति वदन्ति सन्तः ॥ ४१ ॥
यः संध्ययोर्देवनदीतटेऽत्र
स्नात्वा स्मरंस्तिष्ठति धीरचेताः ॥
तत्कालजं तस्य सुखं स एव
जानीत नान्योऽखिलवस्तुतत्त्वम् ॥ ४२ ॥
गङ्गाप्रवाहो यदि भारतेऽस्मिन्
न स्यात्तदेषोऽपि समोऽन्यदेशः ॥
स्यादेव देशः पुनरेनयाऽयं
सर्वाधिकः सर्वमनोऽभिरामः ॥ ४३ ॥
सैषा न यां मुञ्चति धीरधारा
तत्स्थान् पदार्थानखिलान् पुनाना ॥
निजोर्मिसंसक्तमरुद्विरस्याः
को मुक्तिदत्वे खलु संशयीत ॥ ४४ ॥

प्रथमः कल्लोलः।
श्रीवैद्यनाथान्तिकवाटिकादि-
विविक्तसर्वर्तुसुखप्रदत्वात् ॥
आनन्दंपूर्णत्ववनत्वमस्या
अद्यापि संदर्शयते विशेषात् ॥ ४५ ॥
गङ्गातटेऽत्युच्चविशालमत्र
केदारनाथोर्जितमन्दिरं यत् ॥
अद्यापि तत्रातुलतूर्यशब्द-
ब्रह्मापराक्षं भवति प्रदोषे ॥ ४६ ॥
विश्वेशनीराजनदीपमाला-
ज्योतिर्मयं ब्रह्म निरीक्ष्यतेऽत्र ॥
नित्यं निशायाः प्रहरे द्वितीये
देवैर्मनुष्यैरिव सेव्यमानम् ॥ ४७ ॥
तटे जलादी च सुरापगायाः
प्रत्यब्दमावेदयते पुरोऽस्याः ॥
दीपावली कार्तिकपञ्चदश्यो-
ज्योतिर्मयत्वं निगमादिषूक्तम् ॥ ४ ॥
स्याद् यद्यपीहत्यसमस्तवस्तु-
तत्त्वं गिरा बोधयितुं समर्थः ॥
कश्चित तथापीक्षणसार्थकत्व-
मभीप्सुभिर्दृश्यतमा पुरीयम् ॥ ४ ॥
एतादृशीं मुक्तिपुरी विहातुं
गङ्गामराः सत्पुरुषादयश्च ॥
यन्
नैव शक्ताः सहसा तदेषा-
ऽविमुक्तनाना जगति प्रसिद्धा ॥ ५० ॥

१०
REACARREAREDERERA
यतीन्द्रचरितामृतमहोदधः
सूर्योदयात् प्राग् निजकर्म कर्तु
गच्छन्ति शूद्रा अवगाह्य गङ्गाम् ॥
विश्वेश्वरादीन् परितोष्य देवान्
गङ्गाजलाधैरधुनापि यत्र ॥ ११ ॥
ताम्बूलकारा दधिदुग्धभक्ष्य-
भोज्यादिविक्रेतवराश्च यत्र ।
स्वस्वापणस्थाः कमपि स्टशन्ति
नैवाधुनोज्झन्त्यपि दूरतस्ते ॥ ५२ ॥
ताम्बूलवल्लीदलवीटिकादीन्
क्रतुः करे तन्निहितान् एथिव्याम् ॥
संगृहृते गाङ्गजलेन सम्यक्
प्रक्षाल्य तन्मूल्यपणान् स्वभाण्डे ॥ ५३ ॥
प्राप्यात्र गङ्गामणिकर्णिकादि-
स्नानादिकांस्तीर्थविधीन् समाप्य ॥
मासत्रयेणान निवासमैच्छच्
छरीरपातावधिकं स धीमान् ॥ ५४ ॥
अथ क्रमेणामलचित्तवृत्ति-
राहारशुझा तपसा जपाद्यैः ॥
निजैहिकामुष्मिकदुःखमूलं
समूलघातं स विहन्तुमैच्छत् ॥ ५५ ॥
तत्कारणान्येष धिया विचिन्वन्
वैराग्यमेवाजगणत् पुरस्तात् ॥
विवेकिनो दुःखकराः समस्ता-
स्तापादिदुःखैर्विषया यदेते ॥ ५६ ॥

प्रथमः कल्लोलः।
वेगाल्लघोस्तीव्रतराद् यथा वा
दोला विधावत्युभयत्र पार्श्वे ॥
तद्वेगवद्मादिकमेकपार्श्व-
संभाव्यमिच्छन् न भवेत् कृतार्थः ॥ ५७ ॥
तथा समस्ता विषयाः समेन
सुखेन दुःखेन च पूर्यमाणाः ॥
तत्रैकवृद्धि मनुजोऽन्यहानि-
मिच्छन् कृतार्थो भविता कथं सः ॥ ८ ॥
यत्नात् सुखं वर्द्धयितुं स्वकीयं
जनोऽभिलष्यत्यनिशं सुतादीन् ।
सहैव दुःखस्य सुखेन वृद्धी
पश्चात् स्वमौढ्यात् परितापमेति ॥ ५६ ॥
एवं सुखादिष्वनिशं विमूढाः
सुखेच्छया ताननुधावमानाः ॥
निश्यन्ति तत्त्यागनिगूढमार्गा-
ज्ञानादशक्ताः सहसा विहातुम् ॥ ६० ॥
वस्त्वन्तरस्य ग्रहणं विना स्यात्
त्यागः कथंकारमशेषभावे॥
सदानुरक्तं मनुजस्य चित्त-
मेकान्ततो निर्विषयं कथं स्यात् ॥ ६१ ॥
इदं न वाच्यं यत आत्मनिष्ठो
जनस्य चेतःपरिणाम आस्ते ॥
सदैव तत्तद्विषयत्वबुद्धि-
भ्रान्तिस्तु लोकस्य निजात्मनि स्यात् ॥ ६२ ॥

१ यतीन्द्रचरितामृतमहोदधेः रज्जुर्यथा सर्पधिया भ्रमेण जनस्य चित्तेन पुरा गृहीता ॥ तभ्रान्तिनाशे भुजगत्वमस्यां मता भवेन् नो विषयः कदा चित् ॥ ६३ ॥ अस्या न वस्त्वन्तरगोचरत्वं किं त्वात्तसपर्यादिविमोषमाने। सत्यप्यमुष्यां विषयः पुरासीद् यो रज्जुभागः स पुनस्तथास्ते ॥ ६४ ॥ घटादिबुद्धावपि तद्वदेव विशेष्यता स्वात्मन एव नित्यम् ॥ भ्रान्त्या तु तत्तद्विषयावभासो विशेषणत्वेन विभिन्नरूपः ॥६५॥ ततस्तु तत्तद्विषयप्रमोष- मात्रेण तस्या विषयो निजात्मा ॥ वस्त्वन्तरस्यायहणेऽपि सिद्धः शेषान् न वा निर्विषयत्वमस्याः ॥ ६६ ॥ यद्वा सुषुष्ट्यादिनिदर्शनेन धीसंततिर्निर्विषया कदा चित् ॥ स्फुरेत् कदा चिद् विषयानुरक्ते- त्येवं सुधीभिः परिकल्पनीयम् ॥ ६७ ॥ एवं त्वशेषेविषयैर्वियुक्ता- ऽप्येषा चिरं तिष्ठति निर्विशेषम् ॥ का वा क्षतिर्यद् विषयानुरागः सदातनोऽस्यामुररीक्रियेत ॥ ६८ ॥ ANNE ARRIES

प्रथमः कल्लोलः।
१३
पूर्वत्र पक्षेऽखिलदुःखरूप-
घटादिमोऽपि
सुखस्वरूपम् ॥
आत्मानमेषा विषयीकरोती-
त्येषा सुखैकाकृतिरिष्यते धीः ॥ ६ ॥
सर्वोऽपि जन्तुः शयनं विना नो
जीवत्यदः कामयते च सर्वः॥
सुप्तोत्थितस्तत्समयस्य सौख्यं
सर्वः स्मरत्यत्र च नो विवादः ॥ ७० ॥
श्रान्त्या महत्या परिखेदितोऽपि
रुजायि शोकादिपराहतोऽपि ॥
सुप्त्वा मती स्थूलशरीरकेऽपि
स्वस्थत्वमामोत्यखिलो हि जन्तुः ॥ ११ ॥
तदा तु नासीद् विषयस्य बुद्धिः
कल्यापि सौख्यं तु कुतस्तदीयम् ॥
तस्मात् तदा धीविषयो य आत्मा
सुखस्वरूपः स सदाभ्युपेयः ॥ १२ ॥
यस्मै प्रयत्नः सकलोऽपि यच्च
नान्यार्थमेतत् सुखचिह्नमिष्टम् ॥
आत्मन्यदः संघटते सदैवे-
त्ययं सुखात्मा सकलाभ्युपेतः ॥ ३ ॥
अन्यानधीनप्रियतास्पदत्वं
सुखातिरिक्त न कदापि दृष्टम् ॥
आत्मन्यदः कस्य भवेन् न जन्तो-
स्तस्मादसा सौख्यमयोऽभ्युपेयः ॥ १४ ॥

१४
Mana
यतीन्द्रचरितामृतमहोदधेः
तत्त्वं तु सर्वापि मतिर्विशेष्य-
प्रकारताभ्यां विषयीकरोति ॥
चैतन्यजाझे सुखदुःखरूपे
तत्रान्त्यबाधे प्रथमस्य शेषः ॥ ७५ ॥
सर्वत्र शेषी चितिरूप एक-
रसः प्रकारस्तु घटादिरूपः॥
जड़ो विभिन्नश्चितिमात्रशेषे
ज्ञाने तदा त्वेकरसत्वसिद्धिः ॥ १६ ॥
परत्र पक्षे तु निजात्मरूपं
सुखं प्रकाशेत न सर्वबुद्धौ
किं तु स्वरूपेण घटादिरेव
जड़ोऽप्यनित्यः सुखदुःखरूपः ॥ ७७ ॥
कालादिभेदात् सुखदुःखते वे
प्रत्यक्षसिद्ध न परस्परं ते॥
विरुद्ध एकत्र घटादिभावे
सम्यङ् निविष्टे इति तस्य तत्त्वम् ॥ ७ ॥
घटादिबाधे तु सुखावशेषः
संभाव्यते यद्यपि नो तथापि ॥
घटादिदुःखांशविनाशमात्रं
सुखस्वरूपं परिकल्पनीयम् ॥ ६ ॥
लोकेऽपि धर्मादिपराहतस्य
ततस्तरुच्छायमुपागतस्य ॥
सुखीति बुट्या न सुखादिरूप-
भावद्वयावश्यकतेति तत्त्वम् ॥ ८ ॥

प्रथमः कल्लोलः।
१५
पक्षद्वयेऽप्युक्तधियः सदैव
हिताहितौ यद्यपि गोचरी स्तः॥
तथापि दुःखस्य जिहासितत्वात्
तद्वानिरिष्टा मनुजस्य नित्यम् ॥८१ ॥
यद्यप्यमुख्या विषयो हितोऽपी-
त्युक्ता जिहासा न घटेत तस्याः ॥
किं तु प्रतीपं सुखगोचरत्वात्
तामप्युपादित्सुरसौ जनः स्यात् ॥ ८ ॥
तथापि योऽस्यां सुखभाग एष
दुःखांशनाशेऽपि न नाशमेता ॥
इत्यं विनिश्चित्य न को यतेत
दुःखांशनाशे सततं विवेकी ॥३॥
यद्यप्यमुष्या विषये घटादौ
नष्टे तदीयं सुखमप्यवश्यम् ।
नंष्टेति दुःखेन सहैव तस्या
युक्ता जिहासा न परत्र पक्षे ॥ ८४ ॥
तथापि दुःखांशविनाशरूपं
नित्यं सुखं कामयते जनो यः ॥
दुःखानुषक्तं नियतं विनाशि
घटादिसौख्यं मतमस्य न स्यात् ॥ ५ ॥
यद्वा घटाद्यात्मकसौख्यदुःख-
बाधात्मकं सर्वघटादिसौख्यात् ॥
विलक्षणं नित्यमशेषदुःखा-
संसृष्टमस्तीति नृणामभीष्टम् ॥८६॥

400
यतीन्द्रचरितामृतमहोदधेः
दुःखानुषङ्गस्तु सुखे जिहासा-
हेतुर्मतः पक्षयुगे समानः ॥
पयःसिताभ्यामुपसिक्तमन्त्र
को ना विषस्टष्टमुपाददीत ॥८॥
लोकेऽपि यत् स्यात् प्रतिकूलमेत-
ल्लेशोऽपि सह्यो न भवेत् स्वभावात् ॥
यत् स्यात् तु पुंसामनुकूलमेत-
द्राशी न संतोष इति प्रसिद्धम् ॥८॥
दुःखक्षणः कल्पसमो जनानां
क्षणोपमो भाति सुखस्य कल्पः ॥
सुखाम्बुधौ दुःखलवानुषक्ते
लक्ष्येत दुःखं न सुखं स्वभावात् ॥८६॥
भाज्ये जनः स्वादुरसे सुपक्के
घृताप्लते क्षीरसितादियुक्त।
अमेध्यलेशं पतितं समीक्ष्य
नापेक्षते भोज्यगुणान् विपश्चित् ॥ ८ ॥
एवं घटादौ विषये सुखस्य
भागेऽधिके दुःखलवात् समे वा ॥
दुःखस्य योगात् परिणामदर्शी
नैवानुरज्येत कदापि विद्वान् ॥ १ ॥
किं चानुरागो विषयेषु योऽयं
निजं सुखं वर्द्धयितुं स नूनम् ॥
यद्वा लघूकर्तुमथ स्वदुःखं
समूलमुन्मूलयितुं किलेष्टः ॥ २ ॥

प्रथमः कल्लोलः ।
आद्य न कश चिद् विषयाभिवृद्धा
निजं सुखं वर्द्धयितुं समर्थः ॥
यतः सुखेनैव सहाभिवृद्धिः
स्थिरीकृता दुःखमहार्णवस्य ॥ ३ ॥
या युक्तिरुक्ता प्रथमे घटादि-
सुखे जिहासाङ्कुरवृद्धिहेतुः
सैवावसेयाग्रिमतत्समान-
सुखेष्वनिष्टत्वमतेर् निदानम् ॥ ४ ॥
लोकेऽपि कश् चिन् न निजानभीष्ट-
बन्धादिहेतो सुखसाधनेपि ॥
प्रवर्तते निन्दितसाहसादी
यो राजनीतिं श्रुतवान् कदापि ॥ ५ ॥
श्रुत्वापि नीतिं पुनरीदृशानि
करोति कर्माणि विनिश्चिनोति ॥
प्राक् कोऽपि बन्धुं पुरुषो न शक्तः
पलायमानं भवितेति मां सः॥ ६६ ॥
यद् वा सुखं स्याद् बहु साहसादि-
जन्यं भवेदल्पतरं तु दुःखम् ॥
बन्धादिजन्यं त्विति निश्चिनोति
ततः प्रवर्तत विनिन्दितेऽसौ ॥ ७ ॥
पलायमानोऽपि भवेत् सुबद्धो
दुःखं बहु स्यादपि बन्धजन्यम् ॥
स्तयादिसौख्यादिति चान्यवाती
प्रवृत्तिरेतस्य तु तद्धियैव ॥ ८ ॥

यतीन्द्रचरितामृतमहोदधेः
यथा प्रमा कर्मसु कर्मजालात्
प्रवर्तयेच् चैव निवर्तयेच् च ॥
नरं प्रवृत्त्यादिकरत्वमेवं
भ्रमे प्रसिद्ध कतमो हुवीत ॥६॥
यद् वा निषिद्धपि नृणां प्रवृत्ती
रागादिसंमूढधियां घटेत ॥
यतोऽन्धबुद्धिः प्रतिघादिभिर् यस्
तस्यानुशीतिर् न भवेद् वधादेः ॥ १० ॥
यद् वानभिज्ञो नृपनीतिजाल-
स्थापि प्रवर्तत जनशू चुरादौ ॥
दुःखप्रदत्वेन न कर्म तेन
तज् ज्ञातमित्येष शिशूपमानः ॥ १०१ ।।
बालोपमोऽज्ञानवशान् मनुष्यः
क्रोधादिमौढ्यादथ वा भ्रमादेः॥
स्तेयादिकं यः कुरुते स पश्चाद्
दुःखातिरेकात् परितापमेति ॥ १०२ ।।
अतो महीपोहितनीतिमार्ग-
मावश्यकं सत्पुरुषा विदित्वा ।।
विविच्य दुःखाभिमतस्य मात्रां
तत्तक्रियास्वन्तदृशो यतन्ते ॥ १०३ ।।
एवं तु कश् चित् पुरुषो विवेकी
विद्वान् स्वकीयेष्टविवद्धिबुद्धया ॥
अनिष्टपूर्ण विषये घटादौ
न नश्वरे सूक्ष्ममतिर यतेत ॥ १०४ ॥

प्रथमः कल्लोलः।
१९
॥
भ्रान्तः स्वकीयष्टनिजानभीष्ट-
मात्राविवेके प्रतिपादिमूढः ॥
अज्ञोऽथ वा यो विषयाभिवृद्धी
यतेत तस्येसति दुःखमेव ॥ १५ ॥
सुखाभिवृद्धावपि दुःखसङ्ग-
विनश्वरत्वादिविचारकर्तुः ॥
जिहासितं
स्याद् विषयस्य सौख्य-
मित्युक्तमूर्द्ध पुनरत्र बोध्यम् ॥ १०६ ।।
का वा विवृद्धिर् विषये सुखानां
यतः क्रमेणैव भवन्ति भावाः ।
धीगोचरास् तन् न पुरात्तसौख्य-
मोषं विनापूर्वसुखग्रहः स्यात् ॥ १०७ ॥
प्रेमास्पदत्वं सुखलक्षणं स्यात्
तत्तत्सुखे तत् तु समानमेव ।
तत्रेदमुत्कृष्टमदो निकृष्टं
सुखं वचोऽहेतुकमित्ययुक्तम् ॥ १०८ ॥
संख्याकृतं चेद् विषयोत्यसौख्या-
धिक्यं मतं तस्य न संभवोऽस्ति ॥
अनादिसंसारसुखानि जीव-
भुक्तानि को वा गणयेत् समर्थः ॥ १० ॥
न्यूनाधिकत्वाद्यनुरागनिष्ठं
वक्तुं न शक्यं गुरुणापि यस्मात् ॥
ततस् तु तुल्यं सकलं घटादि-
सुखं विमृश्यात्र न सज्जते ज्ञः ॥ ११० ॥

२०
यतीन्द्रचरितामृतमहोदधेः
वर्षासु सौख्यं शिशिरे तु दुःखं
वृष्टिः समानैव ददाति येभ्यः ॥
सुखादिमात्राधिकतादिबुद्धिः
कालाद्युपाधेः परिकल्पितैभिः ॥ १११ ॥
कश्मीरदेशेऽधिकसौख्यदायि
वासः सदोर्णामयमन्यदेशे।
तथा न तत्रापि सुखादिमात्रा
देशाद्युपाधेः परिकल्प्यतेऽन्या ॥ १९२ ॥
श्रेष्मप्रधानं सुखयेन् मनुष्यं
तद् दुःखयेदाईकमुग्रपित्तम् ॥
तत्रापि पित्ताधिकतायुपाघेर्
दुःखादिमात्राधिकतादिरिष्टः ॥ ११३ ॥
ततस् तु न क्वापि सुखादिमात्रा-
धिक्यादि तत्तद्विषयप्रयुक्तम् ॥
लोकावबोधस् तु निजभ्रमेणे-
त्यास्थयमेतन् मतिमत्प्रधानैः ॥ ११४ ॥
भ्रमप्रयुक्ताप्यवलोकितैव
लोके महाव्याएतिरज्ञजन्तोः ॥
कशावहा स्वस्य निरर्थिका च
पतङ्गमीनद्विपमूषकादेः ॥ ११५ ॥
अतिप्रयत्न पतन्ति दीपे
पतङ्गमाला निजनाशहेती ॥
एवं मुखेनाददते झषाः स्व-
नाशस्य बीजं बड़िशं प्रयत्नात् ॥ ११६ ॥

प्रथमः कल्लोलः।
२१
काष्ठादिजेभीमवलोक्य गत्तै
पतन्ति नागा निजबन्धहेतौ ॥
निजप्रयत्नत्रुटिताहिपेटी-
स्थाह्यास्यमागच्छति मूषकोऽपि ॥ ११७ ॥
देशान्तरीयो लघुमूषकोऽपि
चक्रे शलाकाकृत ऊर्द्धगत्यै ॥
शुक्लश्चलो धावति घण्टिकाग्र-
स्पृष्ट शलाकातपञ्जरस्थः ॥ ११८ ॥
बंभ्रम्यमाणे न कदाप्युपैति
गोले शलाकाद्वय एव तिष्ठन् ।
तावच्छलाकापरपूर्वगोऽणु-
मानं फलं श्राम्यति तु भ्रमेण ॥ ११९ ॥
जनास् तु चाञ्चल्यममुष्य दृष्ट्वा
श्रुत्वा च शब्द लघुघण्टिकायाः ॥
तं पालयन्त्यात्मसुखाभिवझै
स्वव्याएतौ तत्तुलनानभिज्ञाः ।। १२० ॥
तत्तत्कलाभिज्ञजनेष्वनन्ते-
पूर्दू कियद्योऽध इतः कियाः ॥
बलात् प्रयत्वेऽपि कृते सदैव
स्थास्यत्ययं जीव इति प्रसिद्धम् ॥ १२१ ॥
ततस् तु योऽयं विषये प्रयत्नस्
तद्वद्धिकामैः क्रियते मनुष्यैः ॥
सोऽयं वृथैवेति विमृश्य धीमांस्
ततो विरज्येत यथार्थबुद्धिः ॥ १२२ ॥

यतीन्द्रचरितामृतमहोदधेः
धृतान् सदैव ॥
किं चेक्षते यो विषयान् समस्ता-
नतिप्रयत्न
विनश्यतः को न निजेच्छया तांस्
त्यजेद् य इच्छेदनुतापशान्तिम् ॥ १२३ ।।
सूनागतोऽजोऽपि न भोजनादौ
प्रवर्तते निश्चितमृत्युबुद्धिः ॥
निश्चित्य मृत्युं यतते मनुष्यः
पापेष्वपीतो न विचित्रमन्यत् ॥ १२४ ।।
त्यागे स्थिरे यस् त्यजति स्वयं स
आनन्दमाप्नोति यशोऽपि लोके ।।
अनिच्छतो यस्य पदार्थमन्य
आच्छिन्दुरेषोऽनुतपेदकीर्तिः ॥ १२५ ॥
निजेच्छयाशु त्यजने तदीयं
सुखं विनश्येद् गिरिशेच्छया तु ॥
यदा भवेत् तत्त्यजनं तदन्तः
सुखं न नश्यदिति नैव शङ्काम् ॥ १२६ ॥
यतो घटादी विषये सुखं यत्
तन् नेष्यमाणं त्विति निश्चितं प्राक् ॥
ततस् तु तावद् विषयोत्यदुःख-
जिहासयाशु त्यजनं मतं स्यात् ॥ १२७ ।।
किं चेयमूरीक्रियतां प्रवृत्तिर्
जनस्य नो सौख्यविकृत्सयैव ।।
किं तु स्वभावात् परिवर्तनेच्छा
सर्वत्र सिद्वैव सुखेऽपि योज्या ॥ १८ ॥

प्रथमः कल्लोलः।
अश्नन् नपूपादिमहाईवस्तू-
न्यत्यन्ततृप्तो मधुरादिना यः ॥
स तद्रसादेः परिवर्तनाय
तिक्तादि वाञ्छेदिति लोकसिद्धम् ॥ १२६ ॥
प्राप्तेषु सर्वस्य भवेज् जिहासा-
ऽप्राप्तेषु भावेषु जिक्षितत्वम् ॥
लोकस्वभावात् परिदृष्टमेवे-
त्यस्मात् सुखे नोत्तमतादि कल्प्यम् ॥ १३० ॥
तीव्रानुरागः सुरते सुभोज्ये
प्राग् यस्य तस्यैव कृते रतादौ ॥
नैवावशिष्येत जनस्य वाञ्छा-
लवः प्रतीपं समुदेति तापः ॥ १३१ ।।
नारीमयं यन्त्रमिदं नराणां
वीर्यप्रतापादिविचूषणाय ॥
विनिर्मितं तत्र जनो जुहोति
निजं बलादीति विचित्रमेतत् ।। १३२ ॥
मेषीप्रपातान्धपरम्परां यो
विहाय लाभादि विमृश्य पश्येत् ॥
किं वा सुखं तस्य रतप्रसङ्गे
दृश्येत दुःखाम्बुनिधौ प्रतीपम् ॥ १३३ ।।
वाञ्छातिरेकोनवदुःखमादौ
श्रमातिरेकः सुरते प्रवृत्ते ॥
प्राणोत्क्रमो विन्दुनिपातकाले
चान्ते महाग्लानिरुदेति तत्र ॥ १३४ ॥

HTTA
PAINKarmi
यतीन्द्रचरितामृतमहोदधेः
बी000
पुत्लेषणाहेतुकमत्र लोक-
प्रवर्त्तनं स्यात् सुखमात्मजेन ॥
किं स्यान् नरस्यति विमृश्य बुद्ध्या
प्रवर्ततां नाम नरो हितार्थी ॥ १३५ ।।
गर्भाशयस्थे तनुजे सुखं यन्
मातुः प्रसूतेः समये च तस्य ॥
संरक्षणेऽज्ञस्य शिशोस् तदेषा
जानीत नान्यस्य समक्षमेतत् ॥ १३६ ॥
दारेष्वनुत्तमचिरन्तनबद्धमूल-
रागातिरेकविंकलस्य तदीयदुःखात्॥
दुःखं पितुस् तनयरोदनकालजं यद्
वेत्त्वेष पुत्रसुखलाभसमुत्सुकस् तत् ॥ १३७ ॥
पुत्रस्य देहपरिपुष्टिमतिप्रकर्ष-
शिक्षाभिवृद्धिखलसङ्कनिवारणादौ ॥
संतोषलेशमनवाप्तवतोस् तयोस् तत्
सौख्यं न पर्वतधियामपि सुप्रसिद्धम् ॥ १३८ ।
पुत्वस्य जातकरपीड़नसंस्कृतेः स्व-
दारापकृष्टमनसः क्रमशोऽनुरक्तः।
स्वस्मिन् क्षतिं समवलोकयतोस् तयोः स्याद्
दुःखं स्वरागमपहर्तुमशक्तयोस् तु ॥ १३६ ॥
परस्परं रागनिमित्तकं यत्
सुखं समुत्पद्यत सकरागे॥
नष्टेऽन्यदीये तु समेऽधिके वा
रागे तयोरेव स दुःखदः स्यात् ॥ १४० ॥

HSHALA प्रथमः कल्लोलः। २५ रागप्रणाली मनुजस्य नित्य- मेकैव मुख्या इतरास् तु गौण्यः । तत्रैकतस् तत्परिवर्तने तु तत्र क्षतिस् तस्य भवेदवश्यम् ॥ १४१ ॥ जराभिभूतस्य करिष्यतेऽयं सेवामितीष्टस् तनुजो जनानाम् ॥ वैरी मृतो वा भवितेति तुल्यां संभावनां किं न करोति जन्तुः ॥ १४२ ॥ सर्वेऽपि कस्यापि सुता अवश्य तेषां कियन्तः परिचारकाः स्युः ॥ पित्रोर् द्विषो वा तनयाः कियन्तो- ऽधिकस्य संभावनमत्र योग्यम् ॥ १४३ ॥ कीटाः पतङ्गाः पशवो मृगाद्याः पुत्रा न कस्यापि भवन्ति किं वा ॥ अनन्तसंख्याः कतमस् तु तेषां तातादिसेवानिरतः प्रसिद्धः ॥ १४४ ॥ न सेवकत्वं तनयत्वधर्म- व्याप्यं मतं यद् धनुमत्खगेन्द्रौ ॥ नन्द्यादयोऽन्यस्य जगत्प्रसिद्धाः संसेवकाः सत्यपि तातमुख्ये ॥ १४५ ॥ को वा समर्थो निजवीर्यदर्प- शाली समीहेत सुतादिसेवाम् ॥ कदाप्यशक्तौ तनुजादिसेवा- मालोक्य किं संकुचितो न दुःखी ॥ १४६ ॥ 2402280088088232233220032420 ४

२६
यतीन्द्रचरितामृतमहोदधेः
सेवारतः स्याद् यदि कोऽपि तस्य
त्यागः सुतादेरतिदुःखदः स्यात् ॥
प्राणान्तकाले निजदेहनाशा-
दित्यादि जानन्ति न मानवाः किम् ॥ १४७ ॥
स्वर्गप्रमृत्यूर्द्धगतिर् मनुष्यैर्
नावाप्यते चेत् तनयादिहीनैः ।
इत्यादिकाच् छौतपुराणमुख्य-
वाक्यात् सुतादौ समुदेति वाञ्छा ॥ १४८ ॥
आलोड्यतां तर्हि धिया श्रुतीनां
वचांसि तद्वत् स्मृतिभारतादेः ॥
व्याघातदोषो न परस्परं स्या-
देषां यथेत्यं तु निगूढतत्त्वम् ॥ १४ ॥
सकन पुत्वस्य गतिप्रदत्व-
मन्यत्र तत्कर्तृकपिण्डदाने ।
तत्कनुके वाजिमखे गयादि-
पिण्डे वृषोत्सर्गसपिण्डनादौ । १५० ॥
परत्र दृष्टं निजकर्तृकेषु
पुराणपाठादिषु काशिकादौ ॥
वासादिषूत्कृष्टगतिप्रदत्व-
मन्यत्र गङ्गादितटादिवासे ॥ १५१ ॥
विषावादिदेवापचितों परत्रा-
ग्निष्टोममुख्यऽपि मखे परत्र ॥
तीर्थाटनेऽन्यत्र परत्र मन्त्र-
जपे व्रतादौ तपसि स्मृतं तत् ॥ १५२ ॥

प्रथमः कल्लोलः।
२७
तत्तत्प्रतिष्ठापकतत्तदुक्त-
वाक्येषु विस्पष्टतरं निरुक्तम् ॥
स्वोक्तान्यकर्मस्वगतिप्रदत्व-
मन्यत्र तहातृतयोदितेषु ॥ १५३ ॥
तृणारणिन्यायबलेन चैषां
चेद् धेतुताऽभीष्टतमा समेषाम् ॥
स्वर्गादिकं प्रत्यपि सा न युक्ता
वचोविरोधस्य दुरुद्धरत्वात् ॥ १५४ ॥
किंचात्मजाद्यैः पितृनाकहेतोर
न्युप्येत पिण्डो दशगात्रमुख्यः ।
ततस् तु काश्यादिमृतस्य कस्माद्
दाहादिकं तत्तनुजैः क्रियेत ॥ १५५ ।।
एवं गयादौ मनुजेन येन
कृतं पितृश्राद्धमसौ न कुर्यात् ॥
प्रत्यब्दमेतस्य यतो विमुक्तिर्
दृढैव शास्त्रप्रतिपादितास्ति॥ १५६
तस्माद् वचःसूक्तपुराणमुख्य-
प्रतिष्ठितेषूक्तफलानि यानि ॥
प्ररोचकान्येव न तत्त्वबुद्ध्या
संयोजनीयानि पवित्रधीभिः ॥ १५७ ॥
ततस् तु सर्वेऽपि सुतादिजन्म-
प्रवर्तका ये विधयोऽत्र शास्त्रे ॥
नाप्राप्तसंप्रापकता तु तेषां
यतः प्रवृत्तिः प्रथितैव तत्र ॥ १५८ ॥

यतीन्द्रचरितामृतमहोदधेः विधिप्रयुक्ता यदि मानवस्य प्रवृत्तिरिष्येत तनूढ़वादी ॥ शास्त्रानभिज्ञाः श्वशुगालमुख्याः कथं प्रवृत्ता अधिकं नरेभ्यः ॥ १५६ ॥ तस्माद् यथा कूर्मशशादिमांस- भुक्तेर् विधानं परिसंख्ययैव ॥ दोषाधिकत्वं तदुपात्तजन्तु- भिन्नामिषे बोधयितुं प्रवृत्तम् ॥ १६० ।। तथैव पुत्त्रादिजनुर्विधान- परं वचो योजयितव्यमत्र ॥ रागात् प्रवृत्तसभयत्र सिद्धा- वेको विधिर् नान्य इदं न युक्तम् ॥ १६१ ।। अत्यन्तमप्राप्तपदार्थसार्थ- प्रवर्तकत्वं जगति प्रसिद्धम् ॥ विधेरपूर्वस्य तु लक्षणं यत् प्राप्तानुवादेऽत्र न तद् घटेत ॥ १६२ ॥ श्रोताद्यपूर्वविधिगोचरभक्तिमात्र- हेतुप्रवृत्तिविषयत्वमभीष्टमेवम् ॥ धर्मस्य लक्षणमिदं न घटेत पुत्रा- द्युत्पादनादिषु सदैव समीहितेषु ॥ १६३ ॥ मन्वादिमुन्यमिहितत्वबलादमीषां कल्प्येत सूनुजनिदाररतादिकानाम् ॥ धर्मत्वमेवमपरेषु तदुक्तमूत्र- त्यागादिकेष्वपि न किं परिकल्प्यते तत् ॥ १६४ ॥ म5000 २९ प्रथमः कल्लोलः। आहारमैथुनभयादिशरीरधर्मा धर्मा भवेयरीषिभिः कथितत्वमात्रात् ॥ सर्वेऽपि कीटपशुपक्षिसरीसृपाद्यास् तत्रैव नित्यनिरता अतिधार्मिकाः स्युः ॥ १६५ ॥ यद् वेष्यतामपरलोकसुखप्रदत्वं धर्मस्य लक्षणमदोऽपि न संघटेत ॥ पुत्रादिजन्मसुरतादिषु दृष्टसौख्य- वद्धिप्रदेषु परलोकसुखाप्रदत्वात् ॥ १६६ ॥ मीमांसकैरपि निरुक्तमिदं विचार्य यत्रावलोकितमिहत्यसुखप्रदत्वम् । तन् नापरत्र सुखदं परिकल्पनीयं कर्मेति लाघवबलं समुपाददानैः॥ १६ ॥ रागप्रवृत्तिविषयेऽखिलदेहधर्मे धर्मत्वमिष्टमभविष्यदिहव लोके ॥ सौख्यप्रदे स्वपनभोजनमैथुनादी चित्रास्पदं किमभविष्यदितोऽपि जन्तोः ॥ १६८ ॥ तस्माद् विधायकवचांसि महर्षिधर्म- शास्त्रे प्रतिष्ठिततमान्यथ वा पुराणे ॥ अन्यत्र वापि निगमादिषु तानि धीरैर् योज्यानि नाक्षरपदार्थबलादमीषाम् ॥ १६ ॥ मानत्वमप्यभिमतं नयनादिनिष्ठं मानान्तरानधिगतावगमक्षमत्वम् । स्याद् बोधयत्यखिललौकिकमानसिद्धां लोकप्रवृत्तिमिह मापकता न शब्दे ॥ १७० ॥ Lote2223222222222222229922909209299

यतीन्द्रचरितामृतमहोदधेः
यं कश् चिदेव विरलः पुरुषोऽत्र धर्म-
मीशीत साधयितुमेष पुमर्थ इष्टः ॥
कीटादिकैरपि निरन्तरसाधितेषु
स्वापादिकेषु कथमुक्तपुमर्थता स्यात् ॥ ११ ॥
शास्त्रत्वमप्यभिमतं मतिमद्वराणा-
मन्याप्रसिद्धपुरुषार्थमतिप्रदत्वम् ॥
आपामरप्रथितरागलवाधिगम्य-
स्वापादिबोधकवचस्सु न तद् घटेत ॥ १७२ ॥
मानान्तरानधिगतार्थविधायकानि
मन्वादिशास्त्रपठितानि वचांसि न स्युः ॥
वैयर्थ्यमापतति तद्वचसां प्रसिद्ध-
रागप्रवृत्तिमवबोधयतामनिष्टम् ॥ १०३ ॥
तस्माद् वचांसि निगमादिषु यानि लोक-
सिद्धप्रवृत्त्यवगमाय महर्षिवर्यैः ।।
उक्तानि तानि सहजां पुरुषप्रवृत्तिं
रुद्धा भवन्ति न निरर्थकतास्पदानि ॥ ११४ ॥
रागात् प्रसिद्धां पुरुषप्रवृत्तिं
निवर्तयेत् काप्यवशेषयेच् च ॥
मीमांसकास् तं परिसंख्ययाहुर्
नाम्ना द्वितीयं विधिमात्मतन्त्रे ॥ १५ ॥
यथानुरागात् पुरुषप्रवृत्तिं
श्वादेः पले पञ्चनखस्य सिद्धाम् ॥
स्वादेर् निसन्धीत शशादिमांसे-
ऽवशेषयेद् यः स विधिर् द्वितीयः ॥ १६ ॥

प्रथमः कल्लोलः ।
यद्यप्यृषिप्रोक्तवचस्सु नैव
नजादिकं वापि विधौ द्वितीये ॥
आलोक्यते वा विनिवर्तनीय-
श्वाद्यामिषस्याप्यभिधायिशब्दः ॥ १७ ॥
तथापि वाक्येऽत्र निरर्थकत्व-
भिया नजाक्षेपजघन्यवृत्ती ॥
कल्प्ये तथात्वे तु शशादिशब्दाः
स्वशक्यभिन्न प्रकृतार्थकाः स्युः॥ १७८ ॥
जघन्यवृत्त्यापि पदं स्वशक्य-
भिन्नं तमर्थ सहसाभिदध्यात् ॥
यः स्वीयवाक्ये प्रकृतोऽपि केन
रूपेण वोक्तः सति संभवे स्यात् ॥ १७ ॥
असंभवेऽप्यप्रकृतं तमेव
जघन्यवृत्त्याभिदधाति शब्दः ॥
वक्तुर धियो यो विषयोऽन्यथा तु
कस्यापि बोधो न हि संशयात् स्यात् ॥१०॥
एवं तु खगः शशकूर्मगोधा-
शल्लक्य आद्या इति धर्मशास्त्र ।
उक्तिः स्फुटा पञ्चनखस्य यास्ति
न तद्लादन्यनिषेधकत्वम् ॥ १८१ ॥
युक्तं च तद् यत् प्रकृतस्य बुझा-
पेक्षा भवेन् नाप्रकृतस्य शीघ्रम् ॥
विधी निषेधे प्रकृतानपेक्षे
स्याद् गौरवं ज्ञानकृतं विलम्बात् ॥ १८२ ॥

यतीन्द्रचरितामृतमहोदधेः
ततस् तु खड्डादिविधौ शशादि-
पदस्य तद्भिन्नपदार्थकत्वात् ॥
नञः समाक्षेपबलाच् छशादि-
भिन्ना न भक्ष्या इति चार्थबोधः ॥ १८३ ॥
तत्रापि नापञ्चनखस्य किं तु
निषेधनं पञ्चनखस्य तेन ॥
वाक्येन शब्दात् प्रकृतोऽस्ति योऽर्थस्
तस्यैव नान्यस्य गुरुत्वभीतेः ॥ १८४ ॥
एवं तु सर्वत्र विधिर् द्वितीयो
निषेधमात्रावंगतो समर्थः ॥
विधायकत्वं तु तमंशमेवा-
दायास्य शास्त्रादिषु सुप्रसिद्धम् ॥ १८५ ॥
यद् वा न नञ् तत्र वचस्युपात्तः
स्फुटं ततो नास्य निषेधकत्वम् ॥
ततो विधित्वादपरं किमन्या
लिङादियुक्तोऽत्र घटेत वाक्ये ॥ १८६ ॥
भङ्गयन्तरेणास्य निषेधकत्व-
फलं तु पापातिशयावबोधः ॥
निषेध्यवर्ग शशकादिके
पापप्रदत्वावगतिश् च नूनम् ॥ १८७ ॥
शशादिभिन्नस्य निषेधमाने
वाक्यात् कृते केन शशादिके स्यात् ॥
पापप्रदत्वावगतिस तदन्ये-
ष्वत्यन्तपापप्रदतामतिश् च ॥ १८ ॥

BHARATTENAVAA, Mittari प्रथमः कल्लोलः। यद्यप्यमुष्मिस् तु विधौ द्वितीये दोषोऽधिकः स्वार्थविहानिमुख्यः ॥ भवेदवश्यं सहनीय एष विधानवैयर्थ्यबलाद् विधिज्ञैः ॥ १६ ॥ ऋतावुपेयात् पुरुषः स्वभार्या- मेषोऽपि नापूर्वविधिः प्रवृत्तः ॥ सर्वेषु दारेषु सदैव रागात् सिद्मा विधिः किं तु मतो द्वितीयः ॥ १७ ॥ यत् त्वस्य वाक्यस्य नियामकत्व- माचक्षते लाघवमाददानाः ॥ प्रागुक्तदोषाननुसंदधाना विधी द्वितीये तदयुक्तमेव ॥ ११ ॥ यतो यदा लाघवयुकप्रकार- मादाय वाक्यं न भवेत् कृतार्थम् ।। तदापि भीतिर् गुरुता कृता स्यात् तिलाञ्जलिस् तर्हि विधौ द्वितीये ॥ १९२ ॥ तस्माद् गुरुत्वं यदि लाघवस्य स्यात् संभवो दूषणमस्ति तर्हि ॥ यदा न लभ्येत लघुः प्रकारः कश् चित् तदा दूषणता न तत्र ॥ १३ ॥ विज्ञानभिप्रेततमत्वभिन्नं किं दूषणत्वं गुरुतागतं स्यात् ॥ का वा लघुत्वं गुणता बुधेष्ट- तमत्वभिन्नाप्युररीक्रियेत ॥ १४ ॥ ५

SSSSSSSossesseseadece
यतीन्द्रचरितामृतमहोदधेः
ततस् तु यत्रास्ति गतिद्वयस्य
संभावना तत्र गुरुप्रकारः॥
त्यज्येत धीरैरिति तस्य सिद्ध
स्याद् दूषणत्वं लघुतानिरूप्यम् ॥ १५ ॥
यत्र त्वनेको न भवेत् प्रकारः
किं त्वेक एवाक्षरयोजनादौ ॥
लघुर गुरुर् वाऽस्तु स एव धीरे-
रादास्यते तद् गुणतैव तत्र ॥ १६ ॥
लोकेऽपि पन्याः कुटिलो न विजै-
रादीयते स्यात् सरलोऽपि यत्र ।
यत्रक एवास्ति स एव वक्रो-
ऽप्यादास्यते सद्धिरिति प्रसिद्धम् ।। १९७ ॥
एवं च दाराभिगमावबोध-
क्षमेऽत्र वाक्ये विधिता तृतीया ।।
न संघटतेति विधित्वमस्य
द्वितीयमेवाभ्युपगम्यते जैः ॥ १८ ॥
नासावपूर्वोऽपि विधिर् घटेत
यतोऽप्रसिद्धस्य विधायको यः॥
धर्मस्य दुःखोपचितस्य शास्त्रे
मतस् त्वपूर्वः प्रथमो विधिः सः ॥ १६ ॥
यथावस्त्रत्वमुखस्य दुःख-
प्रदस्य शीतादिऋतौ विधिर् यः॥
अत्यन्तमप्राप्तमसो विधत्ते
तस्मादपूर्वो विधिरेष चाद्यः ॥ २० ॥

प्रथमः कल्लोलः।
न चात्र दाराभिगमः कथं चि-
दप्राप्त इत्यस्य विधिस् त्वयं यः ॥
नापूर्वतामर्हति धीरधीभि-
रित्यप्यवश्यं स्मरणीयमत्र ॥ २०१ ।।
प्राप्नोति पते विधिमन्तरा यः
प्राप्नोति नाप्यस्य विधायको यः ॥
सोऽयं तृतीयो नियमो विधिः स्या-
दित्यामनन्त्युत्तमविध्युपज्ञाः ॥ २०२ ॥
यथावघातो वितुषीक्रियायै
प्राप्नोति पते नखकर्तनेन ॥
फलस्य सिद्धी तु न तण्डुलानां
प्राप्नोति चेत्यस्य विधिम् तृतीयः॥ २० ॥
तुल्यं फलं यद्यपि तण्डुलानां
स्वरूपनिष्पत्तिरिहावघातात् ॥
निकर्तनाचापि नखैस तथापि
विधिस् तु पुण्यावगमाय तस्य ॥ २०४ ॥
सर्वत्र चैतस्य विधेरदृष्ट-
फलावबोधक्षमतैव विज्ञैः ॥
अङ्गीकृता तुल्यफलस्य सिद्धा-
वप्येकबीजस्य नियामकत्वात् ॥ २०५ ॥
व्रीहीन् निकृत्याप्यवहत्य तुल्य
प्राप्नोति दृष्टं फलमत्र लेोकः ॥
ततस् तु यद् ब्रीदवघातमेष
विधिर् विधत्ते स निरर्थकः स्यात् ॥ २०६ ॥

यतीन्द्रचरितामृतमहोदधेः ततस् तु वाक्यं स्वनिरर्थकत्व- दोषापनुत्त्यै पुरुषस्य पुण्यम् ॥ प्रकल्पयेत् सार्थकता तदाऽस्य स्पष्टैव पुण्यावगतिक्षमत्वात् ॥ २०७ ॥ निकर्तनादौन विधिः समर्थो- ऽयं पापपुण्याद्यवबोधने तु ॥ यतोऽवधातेऽवगमय्य पुण्य- संपादकत्वं चरितार्थ एषः ॥ २०८ ॥ यद्यप्यमूदग्विषयेऽपि पूर्व- प्रोक्तामिषप्राशनवाक्यतुल्यम् ।। निकर्तनादेर् दुरितप्रदत्व- विधिसार्थकत्वम् ।। २०६ संभाव्यतेऽथापि निरुक्तदोष- ग्रासाद् द्वितीयो न विधिर् विधिज्ञैः॥ अङ्गीकृतो यत्र तु नास्ति का चि- दन्या गतिस् तत्र स एव युक्तः ॥ २१० ॥ शशादिवाक्यं शशकादिमांसा- शनेऽपि धर्म परिकल्प्य तद्वत् ॥ स्यात् सार्थक शनेऽप्युदासीनमदो न किं स्यात् ॥ २११ ।। पुण्यावबोधेऽपि शशादिवाक्य- स्यानर्थकत्वं तदवस्थमेव ॥ यतो जनानां सततं प्रवृत्तिः सिद्धैव तत्रेति किमस्य कृत्यम् ॥ २१२ ॥ बोधप्रकृष्टया कुकुरमुख्यमांसा-

प्रथमः कल्लोलः।
पुण्यावबोधोऽपि जनप्रवृत्त्यु-
त्पादाय नूनं मुनिभिः क्रियेत ॥
वाक्यैः स्वकीयैरथ तस्य रागात्
सिद्धौ कथं वाक्यकृतार्थता स्यात् ॥ २१३ ॥
ततस् तु तद्वाक्यनिरर्थकत्वा-
पनोदनायैव शशादिवाक्ये॥
पापप्रदत्वावगतिक्षमत्वं
प्रकल्पनीयं शुनकादिमांसे ॥ २१४ ॥
न यत्र सिद्धा तु जनप्रवृत्तिः
पक्षे तदा पाक्षिकतत्प्रवृत्तः ।।
उत्पादनायावगमय्य पुण्यं
वाक्यं कृतार्थं भवतीति बोध्यम् ॥ २१५ ॥
एवं च तद्वाक्यकृतार्थताया
जघन्यवृत्त्यादिकमन्तरापि ॥
सद्धौ न शक्यं नखकर्तनादा-
वघावहत्वं वचनेन बोद्भुम् ॥ २१६ ।।
यदावघातो न नखैर् निकृत्तिर्
यदा निकृत्तिर् न तदावघातः ॥
प्राप्नोति साध्यं यदि सिद्धमेक-
बीजेन वाञ्छेत् कतमस् तदाऽन्यत् ॥ २१० ॥
मांसेषु सर्वेषु नृणां प्रवृत्तिर्
न पाक्षिकी क्वापि रसस्य भेदात् ॥
परस्परं तद् युगपत् समेषां
प्राप्या न चायं नियमो विधिः स्यात्॥२१८ ॥

यतीन्द्रचरितामृतमहोदधेः
एवं स्वकीयेषु परेषु नृणां
दारेषु सिद्धा पशुवत् प्रवृत्तिः॥
तत्रान्यदारेषु जनप्रवृत्ति-
रोधाय वाक्यं चरितार्थमेतत् ॥ २१६ ॥
यद्वान्तावप्यूतुषु प्रवृत्तिः
सिद्वैव लोकस्य पशूपमाना।
तत्रानृतौ तत्प्रतिषेधनाय
मन्वादिभिर् वाक्यमिदं प्रणीतम् ॥ २२० ।।
यदा तु वाक्यस्य नियामकत्वं
स्यादस्य तर्खेतदशक्तमेव ॥
दारान्तरस्याभिगमेघदत्व-
बोधे बुधैरित्यपि बोध्यमत्र ॥ २२१ ।।
किं चास्य वाक्यस्य नियामकत्वे
स्वकीयदाराभिगमे जनानाम् ॥
धर्मत्वमेतद्वचसावगम्यं
तद् बाधितं प्राक्कथितप्रकारैः ॥ २२२ ॥
यस्यावघातेन जनस्य सिद्धा-
ऽन्यथैव लब्धुः फलमेतदीया ॥
नूना प्रवृत्तिर् वचनात् तदानी-
मुत्पादनीया सुकृतत्वबोधात् ॥ २२३ ॥
ततस् तु तत्रावहतो वृषत्व-
बोधाय वाक्यं कथितं पुरस्तात् ॥
नियामकं यत् तदबाधितार्थ-
मेवेति सूक्ष्मं सुनिरीक्षणीयम् ॥ २२४ ॥

प्रथमः कल्लोलः। ३९ दारेषु लोकस्य तु या प्रवृत्तिः सा पाक्षिकी नेत्युदितं पुरैव ॥ अनेकशस् तद्विधिरेष नाल- मपूर्वबोधाय धियेति चिन्त्यम् ॥ २५॥ उक्त्वापि ये त्वस्य नियामकत्वं स्वकीयदारागमने वदन्ति । पापावहत्वावगमप्रदत्व- मापातरम्यं कथनं तु तेषाम् ॥ २६ ॥ यस्मान् न वाक्यमवघातविधायकं यत् तत् कर्त्तनादिषु विबोधयतीति किं चित् ।। पुण्यप्रदत्वमथ वा वृजिनावहत्व- मुक्तं पुरैव तदिहाप्यवलोचनीयम् ॥ २२७ ॥ एवं तु तद् वचनमेनसि वा वृषे वो- दासीनमेव नखकर्त्तनमुख्यनिष्ठे ।। एवं स्वदारगमनादिविधिर् यथाय- मप्यन्यदारगमनेऽपि तटस्थ एव ॥ २२८ ॥ धान्यावघातविधिनावहतेरभावे पापं न शक्यमवबोधयितुं यथैवम् । दारप्रसङ्गविधिनापि रतेरभावे शक्यं न पापमवबोधयितुं कथं चित् ॥ २६ ॥ तत्पुण्यलाभविरहो यदि संमतः स्यात् पाप्मा तदा तु न कृतावहतिर् जनैर् यैः ।। सर्वेऽपि ते निरयगामिन एव नूनं संपादितान्यसुकृता अपि संभवेयुः ।। २३०॥

यतीन्द्रचरितामृतमहोदधेः
यागप्रवृत्तपुरुषस्य मतोऽवघाता-
भावो यदा वृजिनदायितया तदा तु ।।
क्रत्वङ्गताऽवहननेऽपि न कल्प्यते किं
किं कल्प्यते वृजिनताऽवहतेरभावे ॥ २३१ ॥
यज्ञप्रसक्तमनुजेन यदाऽवघातो
नाकारि येन किमु तस्य मखांशहानेः ॥
अन्यत् किमप्यभिमतं वृजिनं न चेत् स्या-
दास्थयमस्य मखपूर्तिकरत्वमेव ॥ २३२ ॥
तस्मान् नियामकतयाऽभिमतं स्वदार-
रत्यादिबोधकवचो यदि तर्हि तन् न ॥
ईशीत पापमवबोधयितुं कदापि
दारागमे तदिति सूक्ष्मधियावसेयम् ॥ २३३ ॥
भार्यागमस्य विरहे यदि पापता स्या-
दिष्टा तदा तु यतिवर्णिवनस्थमुख्याः ॥
सर्वेऽपि वृद्धशिशुरोगिविदेशसंस्थ-
मुख्या अवश्यमतिपातकिनो भवेयुः ॥ २३४ ॥
पाणिग्रहं कृतवतो गृहिणो जराद्यैर्
विघ्नैरबाधिततनोर् मनुजस्य पापम् ॥
दाराऽगमे यदि भवेदिति तद्वचोऽर्थी-
ऽभिप्रेत इत्यपि न युक्तियुतः प्रलापः ॥ २३५ ॥
यस्माज् जरादिरहितत्वविशेषणानि
कल्प्यानि नूनमधिकारिगतानि कस्मात् ॥
वाक्ये क्वचिन् न पठितानि ततो गुरुत्व-
दोषोऽपि तत्र पततीति विभावनीयम् ॥ २३६ ॥

४१
प्रथमः कल्लोलः।
वाक्यार्थवत्त्वफलकं यदि कल्पनं स्या-
दिष्टं तदा लघुतरो न हि कल्प्यते किम् ॥
रागप्रसक्तपुरुषप्रतिरोधकत्वात्
सार्थक्यरूप उदितोऽनुपदं प्रकारः ॥ २३७ ॥
किं च प्रक्लप्तिविरहेऽपि विशेषणस्य
प्राक्प्रोक्तरोगरहितत्वमुखस्य नेदम् ॥
वाक्यं निरर्थकमधप्रतिपादकत्वाद्
वृद्धादिकेष्वपि यतो विषयोऽस्य लब्धः ॥२३८ ॥
किं चोक्तरोगरहितत्वमुखैः प्रकारैर्
युक्तस्य पातकमिदं सुरताद्यभावे ॥
किं बोधयेत् सुतसुखानुपलब्धिभिन्न
यद् दृष्टसत्फलमदृष्टपरं न किं चित् ॥ २३६ ॥
पुत्वादिसौख्यरहितत्वमनेन बोध्यं
स्यात् पातकं यदि तदा तु निरर्थकत्वम् ॥
स्पष्टं पुरोक्तवचसस् तदमुष्य नून-
मास्थयमन्यविनिषेधनतत्परत्वम् ॥ २४० ॥
स्वस्थोऽपि यो न कुरुते सुरतं स्वदारैः
स भ्रूणहेति वचनं तु य आत्मदारान् ॥
हित्वाऽन्यदारनिरतः प्रतिघादिना त-
त्यापस्य बोधकमिति प्रथितं बहुत्र ॥ २४१ ॥
एवं च नेदमपि वाक्यमघं स्वदारा-
सङ्गेऽवबोधयति किं तु परेषु सक्तः ॥
दारेषु पातकमुपार्जयतीति तस्मान्
नास्यापि पूर्ववचनेन विरुद्धताऽस्ति ॥ २४२ ॥

15
यतीन्द्रचरितामृतमहोदधेः
॥
स्युश् चान्यदारनिरता यदि मानवास् तन्
नैषां घटेत पशुवत् सुरतव्यवस्था ॥
तीत्युपलवपराः सततं मनुष्या
जीवेयुरेव कथमित्यपि भावनीयम् ॥ २४३ ॥
दारेषु किं च पुरुषः क्रमशः प्रवृत्त
आपादयत्युरुतरात्मगुणांस तु तत्र ॥
एवं तु तुल्यगुणयोः सुरतं न कां चि-
दापादयेद् विकृतिमन्तरतो बहिर् वा ॥ २४४ ॥
ये चान्यमानवरतैः सुचिरात् तदीय-
बाह्यान्तरप्रतिमापुरमीषु सक्तः ॥
दारेषु ना न सुखलेशमपि त्वतीव
दुःखं लभेत चिरमात्मविरुद्धसङ्गात् ॥ २४५॥
एतेन यन् मुनिवरैरुदितं परेषु
दारेषु सङ्गगुरुतालघुताप्रयुक्तम् ॥
एनोगुरुत्वलघुतादि तदञ्जसापि
व्याख्यातमेव भवतीति विभावनीयम् ॥ २४६ ॥
यद्येकपादचिरसक्तमुपानदादि
पादान्तरे परिहितं दशतीति सर्वैः ॥
नित्यं जड़ेषु विषयेष्वनुभूयते तद्
दारेषु तद्वदवधेयमघावहत्वम् ॥ २४७ ॥
दारेषु भिन्नगुणदोषयुतैर् मनुष्यैर्
भ्रष्टेषु भूरिभिरणुं कुरुते प्रसङ्गम् ॥
यस् तत्क्षणं स उरुरोगविदीर्णदेहो
नूनं भवेदिति विदामपरोक्षमेव ॥ २४८ ॥

प्रथमः कल्लोलः। ४३ या कन्यका न पुरुषान्तरदूषिताऽस्या- मुत्पद्यते प्रथममेव यदीयसङ्गात् ॥ यः स्याद् गुणादिरनुकूलतमोऽस्य तस्मात् कन्याविवाहविधिरप्यमुमर्थमाह ॥२४६ ॥ मृत्सादिनूतनघटोऽपि सुराघृतादि- द्रव्येण येन भवति प्रथमं प्रपूर्णः ॥ नोज्झत्यमुष्य रसगन्धमुखान् गुणादीन् काले चिरेऽपि विगते बहु दृष्टमेतत् ॥ २५० ॥ स्त्रीपुंससङ्गतिनिमित्तकगर्भरक्षा नारीषु नैव पुरुषेषु कदापि दृष्टा ॥ तद्वद् यथा न पुरुषेऽभिमता गुणादेः संक्रान्तिरन्यजनसङ्गविहीननार्याः ॥ २५१ ॥ रोगादिकं यदुपसर्पति सङ्गमात्रान् नारीगतं क चिदिदं पुरुषान्तरस्य ॥ सङ्गात् स्त्रियां स्वयमतिप्रबलामयस्य सद्धावतो भवति वेति न तत्र चित्रम् ॥ २५ ॥ पामादिकं यदुपसर्पति तद्युतस्य स्पर्शात् सहासनसहाशनमात्रतो वा ॥ तत् किं रतेन न भयानकरोगमुख्या धावेयुराशु मिथ इत्यपि सुप्रसिद्धम् ॥ २५३॥ यत् तु प्रकृत्यनुगतं गुणदूषणादि संक्रामति स्त्रियमदो न यथा तथाऽशु ॥ प्रायः पुमांसमिति सर्वजनप्रसिद्ध- मीशीत कोऽपलपितुं मतिमान् रतिज्ञः ॥ २५४ ॥ B999998eenGSSAGGSG egesssssgeegegeel SNTELEuments ४४ यतीन्द्रचरितामृतमहोदधेः एतेन यत् पुरुषपाणिनिपीड़नं स्यान् नानापि दारकरपीड़नमेकमेव ॥ इत्यादिका मुनिवरोक्तिरयुक्तिकेति निन्दोक्तिरेव मुनिवाविषया परास्ता ॥ २५५ ॥ किं चैष ना प्रतिदिनं सुरतेन गर्भ शक्नोति धारयितुमित्यपि सुप्रसिद्धम् ॥ द्विस् त्रिश्च नैवमबलेति न सृष्टिहानिः स्यादित्यनेककरपीड़नमस्य शस्तम् ॥ २५६ ॥ यद्येकदाररतिपूरणशक्तिहीनः षण्ढत्वदूषणयुतोऽप्यथ वामयावी ॥ स्यान् ना तदा परिणयान्तरमेतदेव नार्या विधाय मुनयोऽपि निषेधयन्ति ॥ २५७ ॥ तत्राशयो विधिवचोगत एष एव संवर्द्धतां मनुजसृष्टिरियं सदैव ॥ यस्मात् समस्तजड़चेतनवस्तुतत्त- कार्यक्षमेयमिति नान्यदितः समर्थम् ॥ २५८ ॥ भावो निषेधवचसां तु मनुष्यसृष्टिर् नूनं समस्तजड़चेतनकार्यहेतुः ॥ तववाशुद्धिवशतः सकलाशुचित्वं मा भूदशेषभवदुःखकरं तथेति ॥ २५ ॥ बुझुत्तमत्वकृतमेव नरस्य सर्वो- त्कृष्टत्वमिष्टमिति तत् परिरक्षणीयम् ॥ सर्वैः सदा मनुजसृष्टिविवृत्सुभिस् त- द्वानी यतो जगदुपल्लव एव भावी ॥ २६० ॥ जी000000सीसी प्रथमः कल्लोलः। ४५ यो राक्षसप्रकृतिरुग्रमतिः कदा चि- देकोऽपि कुत्र चिदजायत भूविभागे ॥ तस्मात् कियाञ् जगदुपद्रव आबिरासी- दित्यादि सम्यगवगम्य यतेत सृष्टी ॥२६१॥ या स्त्री पतिं कमपि पूर्वमुपास्य बुझा- प्यन्यं करिष्यति पतिं विधवापि पश्चात् ॥ तत्सृष्टिबुद्धिपरिशुद्धिरवश्यमेव हीना भवेदिति बुधैरवधारणीयम् ॥ २६२ ॥ प्रागुक्तयुक्तिमवधार्य महामनीषी कन्यां हृतामपि विहाय नृपोत्तमस्य ॥ आदेहपातमभवत् सततोर्द्धरेता वाञ्छन् समस्तजनताशुभमेव भीष्मः ॥ २६३ ॥ अन्येऽपि ये शक्ताश् च वीर्यमवरोधयितुं कथं चित् ॥ तैः सृष्टिरक्षणमनुत्तममात्मवीर्यात् संदर्शितं न पुनरात्मजवर्द्धनाद्यैः ॥ २६४ ॥ अद्यापि यः कथमपि स्वपरस्त्रिया ना सङ्गं विवर्जयितुमीष्ट इतो यथायम् ॥ लोकस्य पालनरतो भविता तथैते नारीरताः शतमपीति न सुप्रसिद्धम् ॥ २६५ ॥ तस्मान् नरैर् मतिमतां प्रवरैः सदैव यत्नेन दारगुणदोषगणान् समीक्ष्य ॥ सृष्टिं चिकीर्षुभिरपि प्रतिकूलदार- पाणिग्रहः क्षतिकरः परिवर्जनीयः ॥२६६ ॥ 299988895 a22322332999999999999 हनुमदादय उत्तमेहाः

यतीन्द्रचरितामृतमहोदधेः
यद्यकपुंस्यकृतपाणिनिपीड़नापि
चेतोऽनुरागलवमात्रवशादयोग्या ॥
साधुप्रजाप्रजनने पुरुषान्तरेण
सार्दू तदा कृतविवाहवधूकथा का ॥ २६ ॥
यद्यप्यसावहतयोनिरथापि पत्यो
संभाषणप्रमुखबद्धमनोऽनुरागा ॥
कीर्तिश्रुतेरधिकजाततदीक्षणाधु-
त्कण्ठाथ वा न पुरुषान्तरसङ्गयोग्या ॥ २६८ ॥
यादग्गुणं तु वड़वा सुरते सदश्व-
मीक्षेत तत्सदृशमेव सुतादि सूते ॥
गौर् यादृशी भवति तत्प्रसवस् तु तादू-
गित्यादि लोकविदितैव विचित्रताऽस्ति ॥ २६ ॥
तत् किं बधूषु न विचित्रतरत्वमेवं
किं चिद् भविष्यति धियेति विचार्यते जैः।
गर्भादिधारणमुखं कियदप्यमुष्य
कार्य स्फुटं सततमत्र दृशाऽपि दृष्ट्वा ॥२७॥
एवं च याहतभगा क्षतयोनिका वा
नारी द्वितीयपतिसङ्गमुपेत्य सूते ॥
वंशं यमेष जगदार्त्तिविवृद्धिकारी
नूनं भवेदिति न विस्मरणीयमज्ञैः॥ २७१ ॥
बालैव या विधिवशाद् विधवा भवेत् सा
वैधव्यमूलमतिकष्टमिहायुवत्त्वम् ॥
प्राप्नोति नूनमिति तत्परिहारहेतोर्
युक्तं द्वितीयकरपीड़नमेव नार्याः ॥ २७२ ॥

प्रथमः कल्लोलः।
४७
किं चाबला निजसुखाय परेण पुंसा
संगोप्य संगतिमवश्यमिहाचरेयुः ॥
दैवात् कदा चिदिह गर्भधृतिस् तदैत-
निष्यातनेऽपि निजवंश्यभयाद् यतेरन् ॥ २७३
किं चातिदुःखमबला विधवात्वमूलं
सोढुं न शक्ष्यति मनोजकृतान्धता या ।
निर्गत्य सा निजगृहान् निजपांसुलात्व-
संरोधकानरिवदेव निरीक्षयेत ॥ २७४ ॥
किं च प्रतिष्ठितगृहादभिसृत्य नारी
कामातुराधमपुमन्तरसंगता चेत् ॥
नष्टैव तत्कुलभुवां सकला प्रतिष्ठा
या संचितापि चिरमुत्तमतत्कुलोत्थैः ॥ २५ ॥
इत्यादि सम्यगवमृश्य विशेषहानि-
बीजं निनाशयिषुभिर् विधवाविवाहः ॥
संस्थाप्यते परमयं कथितो वितर्क
आपातरम्य इति सूक्ष्मधिया निरीक्ष्यम् ॥ २७६ ॥
पत्युर् वियोगजनितं तु कथं प्रशाम्येत्
पूर्वस्य दुःखमपरैः शतशः कृतेऽपि ॥
पाणिग्रहे सुपुरुषैरनिशं वियोग-
संयोगशालिभिरिति प्रविवेचनीयम् ॥ २७७ ॥
प्रेमास्पदस्य विषयस्य वियोगजन्यं
दुःखं न शाम्यति ततोऽपि सुखप्रदस्य ॥
संयोगतोऽपि विषयप्रकृतिर् न धीरैर्
विज्ञायते किमिति तर्कमतिप्रधानैः ॥ २० ॥

ANANA
MAHITANKHindi
यतीन्द्रचरितामृतमहोदधेः
कालेन नमति वियोगसमुत्थदुःखं
यत् सर्वमेव समयेन विनाशमेति ॥
इत्यादिकं यदि विभावयते तदा तु
व्यर्थः पुनःकरनिपीड़नयत्न एषः ॥ २७६ ॥
कामज्वरार्तिशमनाय चिकीर्षितोऽयं
यत्रो भवेद् यदि तदापि लघोरुपायात् ॥
आहारलाघवमुखात् क्रियते तु शान्तिस्
तस्याः कुतो न बहुमुन्युदिताद् यथेष्टम् ॥ २८० ॥
संतानवृद्धिफलकोऽभिमतो यदैष
तर्हि प्रदर्शितमनर्थकरत्वमस्याः ।
संस्मृत्य किं न विधवाकरपीड़नस्य
जह्याः प्रयत्नमृषिभिर्विनिवारितस्य ॥ २८१ ॥
रण्डाविवाहजनितस् तनुजो बहूनां
स्याद् दुःखदस् तदवरोधनजं तु दुःखम् ॥
तस्याः परं मनसि सम्यगिदं विमृश्य
लोकोपकारनिरतः कथमेनमिच्छेत् ॥ २८२ ॥
किं चाबला यदि कुटुम्बभयात् कदा चित्
संगोप्य संगतिमियात् पुरुषान्तरेण ॥
नूनं तदा स्वरतिगुप्तिमनाः पुरैव
कुर्यात् स्वगर्भधृतिवारणयत्नमेषा ॥ २८३ ॥
चेद् राजदण्डभयमत्र भवेन् न येषां
किं किं न कुर्युरबलाः पुरुषाश् च तेऽपि ॥
तस्माद् यथान्यनृपवारितकार्यरोधी
गर्भस्य पातनमिदंन तथाऽस्ति रुद्धम् ॥ २८४॥

४९
999999999999999999999999999
प्रथमः कल्लोलः।
किं चेदृशोऽपि पुरुषः कचिदस्ति कोऽपि
यच्छतुरत्र न भवेत् प्रथितस् ततस् तु ॥
न्याय्यं न कर्म यमभीतियुतोऽपि जह्यान्
मार्गोऽयमन्तसुखदो विदुषां प्रसिद्धः ॥ २८५ ॥
स्यादेव यस्य विधवाभयमेष तस्याः
साहाय्यमाचरतु किं न मनोऽभिलष्ये ॥
रण्डाविवाहजनितादपरादनन्
नास्यास्ति भीतिरिति चित्रमतः परं किम् ॥ २८६ ॥
किं चाबलासु निहितः स्वकुलाभिमानो
येनानुरोत्स्यति सदैव तदीप्सितं सः ॥
येन त्वसौ विनिहितः पुरुषेषु नूनं
नारीचरित्रमतिचित्रमुपेक्षिता सः॥२८॥
विद्यातपोधनसदाचरणादिजन्या
या संचितास्ति पुरुषैरतिधीरधीभिः ॥
तां नापहर्तुमबला इह शक्नुवन्ती-
त्यालोच्य ना सुचरितो बिभियान् न कश् चित् ॥ २८८ ॥
यस्याबलासु कुलटास्वपि नो विहीनी
लोभः स यद्यपि भवेदपकीर्तिरत्र ॥
तबीजमात्ममतिरेव न चाबलाः स्यु-
रित्यादि किं न परिभाव्य सुखी भवेज् ज्ञः ॥ २८६ ॥
आमाणकाऽपि विदितम् त्विह लौकिकानां
सत्क्षीरपूर्णचषकादभिनिर्गता या ॥
क्षीरं न दूषयितुमर्हति मक्षिका से-
त्यादिर् न सोऽपि हृदयं स्थिरयेन् नृणां किम् ॥ २० ॥

SSSSSSeSSeSSeSSessisseassa
५०
यतीन्द्रचरितामृतमहोदधेः
नार्या बिभेति पुरुषोऽपि य एनमेषा
संनर्तयेद् य इह भीषयते सदा ताम् ॥
नूनं न तद्नययुता मनसाऽप्यकार्य
संभावयेदिति च धीरनरैर् विभाव्यम् ॥ २६१॥
नार्याः सदैव विहिता परतन्त्रता या
मन्वादिभिर् मुनिवरैरपि तन्निमित्तम् ॥
इत्येव यत् स्ववशगा सततं कुकर्म-
निष्ठा भवेत् सहजदोषवशादियं तु ॥ २२ ॥
तस्मात् पुरातनमुनिप्रवरैर् निषिद्धं
शिष्टागृहीतमपि यः स्पृहयिष्यतीह ॥
रण्डाविवाहमवरोधयितुं प्रवृत्ती
नूनं स वार्षिकमहातटिनीप्रवाहम् ॥ २६३ ॥
यद्यप्यसाध्विति सुसाध्विति वा व्यवस्था
कुत्रापि वस्तुनि न साध्ववगन्तुमर्हा ॥
यत् सर्वमेव पुरुषैर् न निषिद्धमते ना-
प्यादीयते विविधधर्मरतैश च सर्वैः ॥ २४ ॥
एवं तु साधुचरितत्वनिमित्तक नो
शिष्टत्वमहमवधारयितुं क्वचिद् यत् ॥
सर्वे स्ववर्दीधृतधर्मजुषः स्ववन्यः
कथ्यन्त एव भुवि शिष्टतमा मनुष्याः ॥ २५ ॥
एवं तु वेदविहिताभिरतत्वमुख्य
शिष्टत्वमित्यपि न सार्वजनीनबुद्धिः ॥
किं त्वेकदेशिमतमेव भवेत् कदा चित्
क्षोदक्षमं तदपि नेति तु चिन्तनीयम् ॥ २६ ॥

प्रथमः कल्लोलः।
वेदत्वधीरपि भविष्यति शिष्टवाक्यात
तत्त्वेन बुद्धिजननादथ शिष्टताधीः ॥
वेदोक्तकर्मनिरतत्वमतेस् ततः स्या-
दन्योन्यसंश्रय इति प्रविवेचनीयम् ॥ २९ ॥
स्यात् पूरुषाद्यरचितत्वनिमित्तकं चेद्
वेदत्वमेतदपि वाक्यविशेषनिष्ठम् ॥
ज्ञातं कुतो यदि परम्परया सतां तत्
पूर्वोक्त एव न निवृत्तिमुपैति दोषः ॥२८॥
तस्मात् स्ववर्दीबहुलोकविनिन्द्यकर्म-
राहित्यमेव निजशिष्टतमत्वमिष्टम् ॥
आपेक्षिकं जनकतादिवदेतदेवं
तूक्तं भवत्यखिललोकमतं हितं च ॥ २६ ॥
एवं तु यद्यखिलकर्म समानमेव
तर्खेतदेव करणीयमिदं तु नेति ॥
वाचां मृषात्वमिव भाति पुरातनीनां
व्यासादिभिर् मुनिवरैर् लिखितोदितानाम् ॥ ३०० ॥
आलोचनीयमिदमेव पुरो मुनित्वं
किंबीजकं प्रथितमेषु तथापि लोके ॥
तेनैव सर्वकलहस्य भवेन् निवृत्तिर्
दूरे तु तद्वचसि लोकवृथात्ववादः ॥३०१॥
लोकैरभीप्सितमपि प्रविहाय पुत्व-
वित्तादि ये सकललोकहिताहितानि ॥
ध्यायन्ति धीरमतयोनिशमात्मदेह-
स्यैकं तदेव फलमित्यपि ते मुनीन्द्राः ॥ ३०२ ॥

कि
५२
यतीन्द्रचरितामृतमहोदधेः
त्यक्त्वापि लोकसुखकारणमात्महस्त-
विल्वोपमं परहिताय परं धरन्ति ।
देहं स्वकीयमनिशं निरता विचारे
धीरोत्तमैर् निगदिता अपि ते मुनीन्द्राः ॥३०३ ॥
कष्टं परं परहिताय सदा सहन्ते
निद्राशनादिकमपि प्रविहाय बौद्धम् ॥
शारीरमप्यतिविशुद्धधियः क्रमेण
जाताः सतामभिमता अपि ते मुनीन्द्राः ॥ ३०४ ॥
नित्यं विचाररतधीश्रमजन्यशुद्ध-
ज्ञानेन यस्य सकलं करविल्वतुल्यम् ॥
आभाति न कचिदबोधलवः कदापि
ते धर्मनिर्णयसमर्थतमा मुनीन्द्राः ॥ ३०५ ॥
येषां न कोऽपि न निजो न परः समेषू-
दासीनतैव विलसत्यनिशं जनेषु ॥
कर्माणि केवलदयापरतन्त्रभावात्
कुर्वन्ति ते सकललोकहिता मुनीन्द्राः ॥ ३०६ ॥
यस्येङ्गितादिभिरशेषभवे न कस्या-
प्याशासितापकृतिरार्तिपराभवेऽपि ।
किं तूपकारततिरेव सदा समेषां
ते कृत्स्नदुःखपरिहाणिपरा मुनीन्द्राः ॥ ३०७ ॥
ज्ञात्वापि शास्त्रनिगमादिरहस्यमन्तर्
ध्यायन्ति नैव वितरन्ति कदाप्यपात्रे ॥
स्वप्नेऽपि नो मदलवो निजबोधजन्यो
येषां त एव जगति प्रथिता मुनीन्द्राः ॥ ३०८ ॥

५३
प्रथमः कल्लोलः ।
ये नक्क चिद् धनयशःसुखलाभलोभा-
दुवाटयन्ति निगमागमतत्त्वरत्नम् ॥
शुश्रूषया विधिवशाद् वितरन्ति पात्रे
स्वान्तस्थितं स्थिरधियः खलु ते मुनीन्द्राः ॥ ३०६ ॥
प्राणात्ययेऽपि गुरुवेदवचांसि नाति-
क्रामन्त्यकार्यनिरतान् न विलोकयन्ते ॥
धर्मच्युतिं विगणयन्ति शरीरनाशा-
दत्याहितं य इह ते प्रथिता मुनीन्द्राः ॥ ३१० ॥
येषां वचांस्यखिलौकिकदीनजीवो-
द्वाराय सुप्रकटितानि न रोषरागात् ॥
विद्यातपःसुचरितैकनिदर्शनानि
ते याज्ञवल्क्यभृगुभीष्ममुखा मुनीन्द्राः ॥ ३११ ॥
एतादृशामपि वचांसि वृथा यदि स्युश
छिन्नैव सर्वजगतां व्यवहारवेला ॥
वाङ्मूलकं हि परबोधनमेतदुत्यो
नश्येद् वचःस्थितिमृते व्यवहारवर्गः ॥ ३१२ ॥
सर्वाधिकं कलुषमेतदिहाभ्युपेतं
मिथ्यावचो यदृषिभिस् तदमुष्य हेतोः ॥
सत्यात् परं न सुकृतं किमपीति तच् चा-
प्युक्तक्षतेर् भिय उरीक्रियतेऽन्तदूग्भिः ॥ ३१३ ॥
हेमापहारगुरुदाररतिद्विजान-
घातादिभिर् न भवितेदृशलोकहानिः॥
सा यादृशी वितथवाक्प्रभवेति केषां
नारोहतीक्षणपथं स्थिरचेतनानाम् ॥ ३१४ ॥

Nimedia LARATI ५४ यतीन्द्रचरितामृतमहादधेः सर्वस्य जीवनिवहस्य समस्तकार्य केनापि चादिपुरुषेण वचस्सु बढम् ॥ तस्यान्यथात्वकरणे यतते य एष सर्वस्य सर्वमपहर्तुमसौ प्रवृत्तः ॥ ३१५॥ सत्यव्रतास् तु मनुजा य इहाखिला ते सृष्टिं स्वकीयवचसा परितर्पयन्ति ॥ नानास्ति संशय इति प्रविचार्य मिथ्या ब्रूयान् न कश् चिदिति तत्त्वविदां रहस्यम् ॥ ३१६ ॥ बोधोऽभ्युदेति वचनाद् य इह प्रसिद्धी लोकप्रवृत्तिविनिवृत्तिनिदानभूतः ॥ तद्वाक्यगोचरमृषात्वमतिस् तु तस्य लोकप्रवृत्तिकरताद्यपहन्तुमीष्टे ॥ ३१७ ॥ प्रागुक्तमुन्युचितचिह्नसमन्वितानां वाक्ये मृषेदमिति संभव एव नास्ति ॥ लोभादिनैव वितथोक्तिरुदेति तेषु लोभादिलेशविरहस्य निरूपितत्वात् ॥ ३१८ ॥ मन्दोऽपि कश् चन वृथा न वदत्यसत्यं ब्रूयात् कृती वितथमेव मुधेति चित्रम् ॥ चातुर्य्यमुक्तमुनिषु प्रथितं तदीय- ग्रन्थैर् जगत्प्रचलितैरनृतैर् ऋतैर् वा ॥ ३१६ ॥ तादृग्निबन्धकुशला मुनयो वृथैव मिथ्या वदेयुरिति वक्तुमशक्यमेव ॥ यावन् न तेषु परिदर्शितमस्ति तस्य बीजं तु तावदिति तत्त्वधिया विभाव्यम् ॥ ३३० ॥ ॥

प्रथमः कल्लोलः। ५५ काव्यादिकेषु कुशला अपि कस्य हेतोर् मिथ्या वदन्ति बहुधेति न शङ्कनीयम् ॥ यत् तत्फलं प्रथितमेषु तु रूपकादेः पुष्टिश् चमत्कृतिकरीति न तदृथात्वम् ॥ ३२१ ॥ वाक्यं निषेधविधिबोधनतत्परं यत् तत्रापि चेदनृतता यदि तर्हि नूनम् ॥ लोकस्य हानिरिति तन् न मृषा विनैव लोभादिकारणमिति प्रविवेचनीयम् ॥ ३२२ ॥ काव्येष्वपि क्वचिदपि प्रविलोक्यते नो लोकप्रवर्तकनिवर्तकनीतिभागः ॥ मिथ्येति धर्मपरवाक्यमृषात्वशङ्का- कस्मिक्युदेष्यति नृणामतिचित्रमेतत् ॥ ३२३ ॥ पौराणिकादिवचनेष्वपि यस् तु भागश् चेतश्चमत्कृतिनिदानतया निरुक्तः ॥ सोऽपि प्रवृत्तिषु निवृत्तिषु सर्वथैवो- दासीनतां भजतु कापि न हानिरत्र ॥ ३२४ ॥ ग्रन्यो न कोऽपि सकलावयवेषु निन्द्यः स्तुत्यह एव भवतीति विमृश्य तस्मात् ॥ गृहीत सारमपहाय कथाविभागं लोकानुरञ्जनकृते कथितं पुराणैः ॥ ३५ ॥ काकश्वरासभमुखादतिनीचजन्तु- वर्गादनुत्तमगुणांश् चिनुयाद् विपश्चित् ॥ नोपाददीत जननीजनकादिदोषा- नित्यादिनीतिमवधार्य चरन्ति धीराः॥ ३२६ ॥ 28288388982228ee38a2222222222 ५६ ६ यतीन्द्रचरितामृतमहोदधेः ANS तत् किं पुरातननिबद्धकथासहस्र- ब्वेकोपि नास्ति मतिमद्ग्रहणीयभागः ॥ उज्झन्ति यत् सकलमेव पुरातनोक्तं स्वेष्टानभीष्टपरिमूदधियोऽनभिज्ञाः॥ ३२७ ॥ नानाविधैर् हृदयहारिकथाकदम्बर न स्युश् चमत्कृतिकृतो विधयो निषेधाः ॥ को नाम लौकिकमतिः शृणुयात् कटूंस ता- नित्यादिना सफलतास्त्वितिहासभागे ॥ ३२८ ॥ माता पिता च कटुमौषधमज्ञबालं यत् प्राशयत्यपि विरुद्धगुडादिलोभात् ॥ तद्वन् न किं विधिनिषेधवचांसि हृद्य- वाग्भिर् युतानि मुनिभिः कथितानि किं वा ॥ ३२६ ॥ किं चानृतत्वमपि बुद्धिविपर्ययादि- कारित्वमेव न च तत् क्वचिदस्ति काव्ये ॥ अन्यत्र वा स्मृतिपुराणवचःसु चेत्यं नाक्षेपलेश इति सूक्ष्मधिया निरीक्ष्यम् ॥ ३३० ॥ मन्थानभूधरनिघर्षणजन्यरन्ध्र चन्द्रेन चिन्हमिति वाक्यशतादपि स्यात् ॥ कस्यापि संशयविपर्ययधीः कदापि नैवेति नेदमनृतं वचनं कथं चित् ॥ ३३१ ॥ किं तूत्तमोत्तमकविप्रतिभादिशक्ति- मात्रस्य बोध उदियादुदितार्थबोधात् ॥ आह्लाद एव भविता न विपर्ययोज्पी- त्यालोच्य रागिण उपाददते तमर्थम् ॥ ३३२ ।।

प्रथमः कल्लोर।। ५० नैवं तु धर्मपरमुन्युदितेषु वाक्ये- वीशीत वक्तुमपि कश् चन मन्दबुद्धिः॥ यत् तेभ्य एव सुकृताद्यवबोध इष्टस् तानीदृशानि यदि तर्हि जगद् विनष्टम् ॥ ३३३ ॥ यत्र व चिन् मुनिवचःस्वपि तादृशोऽर्थः स्यात् सोऽपि चित्तसुखमात्रकरोऽभ्युपेयः ॥ नात्र प्रवृत्तिकरतादि निरुक्तकाव्य- वाक्यादितुल्यमिति सूक्ष्मदृशां समक्षम् ॥ ३३४ ॥ आह्लादमात्रफलकोक्तिपरेष्वमीषु नैवावधारयतु कोऽपि मुनित्वहानिम् ॥ नैवाचरेयुरपि किं मुनयः शरीर- कर्माणि लौकिकमुदां जनकानि वा यत् ॥ ३३५ ॥ कण्डूयनग्रहसितादिन यन् निषिद्धं यल् लोकतोषणकरं च तदादि कर्म । शास्त्रेण नापि विहितं तदिदं मुनित्व- व्याघातकारि न भवेदिति युक्तियुक्तम् ॥ ३३६ ॥ शारीरकर्म शयनाद्यखिलोऽपि जीवस् तुल्यं समाचरतु तेन मुनित्वहानिः ॥ कस्यापि नैव भविता पशुताक्षतिर् वे- त्येतत् प्रसिद्धतरमापशुपालभार्यम् ॥ ३३७ ॥ लोकस्य तुष्टिरपि शास्त्रविधिप्रसिद्वै- वास्तीति तेन भवितैव मुनित्ववृद्धिः ॥ यत् स्वार्थहानिमवमत्य परार्थसिद्धि कुर्यात् सदेति विदितैव सतां सुनीतिः ॥ ३३८ ॥ ॥ MORP

५८
यतीन्ट्रविनृतमहोदधेः
तस्मात् पुरातनवचस्सु विधेर् निषेध-
स्यादेय एव भवितेति विविच्य भागः ॥
आहादकोऽपि मनसः स्थिरताविधायी-
त्यंशं न कोऽपि वितथं कमपि ब्रुवीत ॥ ३३६ ॥
येषां मनः स्थिरतरं रुचिकारिवाक्या-
पेक्षां विनैव न स तानि शृणोत्वथापि ॥
व्यर्थानि तानि न भवेयुरतिप्रसिद्ध-
वाक्येषु तेष्वधिकृता बहवो मनुष्याः ॥ ३४० ॥
नैतादृशं किमपि वस्त्विह लप्स्यते यत्
सर्वार्थसाधकतया सफलत्वमेयात् ॥
एवं तु यत् क्वचिदपि स्वफलं लभेत
तत् सार्थकेतिपदवाच्यमतो न हानिः ॥ ३४१॥
तत्तद्रुजापहतिबोधकतचिकित्सा-
शास्त्र निरामयजनेष्यफलं तथापि ॥
स्यादामयाविषु फलप्रदमेवमेव
सर्वं पुरातनवचोऽपि फलप्रदं स्यात् ॥ ३४२ ॥
लोकेष्वनेकविधबुद्धियुतेषु कश् चिद्
रागी न कश् चिदतिमन्दमतिश्च कोऽपि ॥
तेषां न बोधनमिहैकविधैर् वचोभि-
रित्याकलय्य मुनयो बहुधा वदन्ति ॥ ३४३ ॥
ये
त्वन्यजन्मसुकृतादिविशुद्धचित्ताः
शास्त्रं विनैव सदसत् सुविवेचयन्ति ।
तेषां कृते न यदि शास्त्रमदः कृतार्थ
नैतावता तु भविता वितथत्वमस्य ॥ ३४४ ॥

प्रथमः कल्लोलः । -- तस्मान् न कुत्र चिदपीह पुराणवाक्ये- ष्वाशङ्कनीयमनृतत्वमतिप्रगल्भैः ॥ स्वस्यां मती सकलबुद्धिनिदर्शनत्वं जानतिरेव मतयो यदसंख्यरूपाः॥ ३४५ ॥ किंचानृतत्वमपि वाक्यगताक्षरार्थ- मादाय नैव भवतीत्यपरोक्षमेव ॥ वक्तुर् धियो भवति यो विषयस् तदर्थ- बाधादिनैव तदिति प्रथितं न केषु ॥ ३४६ ॥ ग्रल लक्षणादि परिकल्प्य पदैस तदीय- शक्यार्थजातमपहाय पदान्तरार्थान् ॥ जानन्ति सूक्ष्ममतयोऽथ परानपि स्व- तात्पर्यबोधनबलादवबोधयन्ति ॥ ३४७॥ नानाविधेष्वपि पुराणवचःसु तात्पर्यमेव परिचेयमिहास्ति वक्तुः । एवं तु नैव भवितानृतता पुराण- वाक्येषु कुत्र चिदपीति विभावनीयम् ॥ ३४८ ॥ तातात् तदीयजरसो ग्रहणं ययातेः सूनोर् घटेत न घटेत च तत्कथायाम् ॥ नैवावधेयमवृतत्वमदःसमस्त- संदर्भगोचरपदार्थमतेरबाधात् ॥ ३४ ॥ भोगान् न शाम्यति मनो हविषेव वहिर् वृद्धि प्रयाति विषयैरिति तस्य तत्त्वम् ॥ तच् चेदबाधितमृतं च जगत्प्रसिद्ध सर्वप्रघट्टकमदःपरमेव विद्यात् ॥ ३५० ॥ चैवं PrankariNamareer Narepre-4-2014

Creamind
hindiharcle
mamiminerainiantipur
Songdr.HIRamrose
meagmation
६०
यतीन्द्रचरितामृतमहोदधेः
लोकेऽपि बीजगणनाय वदन् पटोल-
स्यायुः समा नव शतानि मृषाभिधायी ॥
नोच्येत बीजगणनाय यतस् तदुक्तिर्
नायुःप्रदर्शनपरा तु पटोलकानाम् ॥ ३५१ ॥
स्वीयां वपामुदखिदन् निगमोक्तिरेषा-
प्यत्यन्तशस्ततरतां कथयेद् वपायाः॥
न त्वक्षरार्थमिति वेदविचारदक्षर
मीमांसकैरपि निरूपितमात्मतन्त्रे ॥ ३५२ ॥
एवं च सर्व इतिहासगणः पुराण-
वेदादिके निगदितो जनरञ्जनाय ॥
तेषां परस्परविरोधनिमित्तिका चेन्
मिथ्यात्वबुद्धिरिह तन् महती विनष्टिः ॥ ३५३ ॥
एवं सुतादिफलबोधकवाक्यजात-
मप्यर्थवादविधयैव सुयोजनीयम् ॥
नैवाक्षरार्थपरतां परिकल्प्य तस्या-
प्याशङ्कनीयमनृतत्वमृतेऽपि तस्मिन् ॥ ३५४ ॥
यत्राक्षरार्थपरतापहतेः पदानां
तात्पर्यगोचरपदार्थपरत्वमिष्टम् ॥
निन्दास्तवाद्यतिशयावगतिक्षमं तद्
वाक्यं वदन्ति निखिलार्थविदोऽर्थवादम् ॥ ३५५ ॥
पूरुप्रजापतिकथास्थपदार्थबाधान्
निन्दास्तुती विषयभोगवपासु वाक्यम् ॥
तात्पर्यतोऽवगमयेदिति सेतिहासः
प्रोक्तोऽर्थवादपदशक्यतया मुनीन्द्रैः॥ ३५६ ॥

प्रथमः कल्लोलः।
६१
22222222998929228002299229
निन्दाश्रुतेर् झटिति तद्विषया निवृत्तिः
स्तुत्या प्रवृत्तिरतिमन्दमतेरपि स्यात् ॥
इत्यर्थवाद उपयुज्यत एव सर्व-
विध्यादिकेष्विति च तस्य कृतार्थतैव ॥ ३५७ ॥
यत्रार्थवादरहितोऽपि विधिर निषेधो
वोच्येत तत्र परिकल्प्य तदर्थवादम् ॥
तस्य प्रवृत्तिविनिवृत्तिकरत्वमिष्ट-
मेवं च नैव किमपीह भवेदवद्यम् ॥ ३८ ॥
वित्तषणैषा महतोऽपि पुंसो
निपातयेच चित्तमकार्यगर्ने ।
मुनेरिदानीमिव किं ततः स्यात्
प्रवृत्तिरित्येव कुतो न कल्प्यम् ॥ ३५६
बहुत्र तैरेव यतो न्यरूपि
वित्तषणाया भ्रममूलकत्वम् ॥
कथं च तेष्वात्मकथाविरुद्धा-
चारोऽप्यकस्मादिति कल्पनीयः ॥ ३६० ॥
दम्भं करोति मनुजोऽद्यतनोऽपि वित्त-
लोभादिनैव न वृथेति जगत्प्रसिद्धम् ॥
चेतोगतस्य निजतद्विपरीतबाह्य-
रूपैः सदापलपनं सुखकन् न हि स्यात् ॥ ३६१ ॥
वित्तं च लोकसुखदं स्वत एव किं वा
वस्त्वन्तरोत्यसुखहेतुतया तदिष्टम् ॥
यद् वा सुखात्मकमिति प्रविविच्य विद्वाल
लिप्सेत तद् विविधदम्भमुखैरुपायैः ॥ ३६२ ॥

Santmay ६२ यतीन्द्रचरितामृतमहोदधेः दुःखप्रदे हि विषये पुरुषप्रवृत्तिस् तत्रैव युज्यत इति प्रथितं न केषाम् ॥ सौख्यात्मकं यदथ वा सुखसाधनत्वं साक्षाच् छयेदथ परम्परया भजेत् तत् ॥ ३६३ ॥ यद् यज् जड़ात्मकमदो न सुखं स्वरूपात् कुत्रापि दृष्टमिति वित्तमपीदगेव ॥ दुर्वर्णहाटकमहामणिविद्रुमादी- त्येतत् प्रसिद्धतरमस्ति न कस्य पुंसः ॥ ३६४ ॥ यद् रूपगन्धरसशब्दमुखं दूगादे- राप्यायकं निखिललोकमतं न तच च ॥ स्वर्णादिके किमपि वीक्ष्यत इत्यमुस्मिन् भ्रान्त्या जनोऽनुषजतीत्यतिचित्रमेव ॥ ३६५ ॥ नेत्रादिगोचरमनोहरगन्धमुख्यांस् त्यक्त्वाऽपि लोकसुखदान् करविल्वतुल्यान् ॥ आकाशपुष्यसदृशे मनसोऽप्यगम्ये धावत्यही जन इतो न विचित्रमन्यत् ॥ ३६६ ॥ रूपादिसाधकतया सुखसाधनत्वं स्वर्णादिकस्यपि परम्परयैव यस्मात् ॥ तस्मान् न तत्र महतामनुरागवृद्धिर् भ्रान्त्युत्थितेत्यपि न शङ्कितुमत्र शक्यम् ॥ ३६७ ॥ यस्मात् सुवर्णरजतादिषु लोककृप्तः सङ्केत एव सुखकद्रसरूपहेतुः॥ नैव स्वरूपत इहास्ति रसादिहेतु- भावः कथं चिदिति तत्त्वदूशां समक्षम् ॥ ३६८ ॥ समसावलीतली प्रथमः कल्लोलः। ६३ Cam येषां मते घटपटादिपदार्थसत्त्वं ज्ञानातिरिक्तमपि बाह्यमुरीक्रियेत । तैरप्यवश्यमुपगम्यमनेकरूपं हेतुत्वमेष्वखिललोकसमक्षसिद्धम् ॥ ३६६ ॥ वहिं स्पृशेद् य इह तत्त्वविदप्यजानंस् तुल्यस् तयोर् भवति दाह इति प्रसिद्धम् ॥ हेतुत्वमग्निगतमाहुरतः स्वरूपाज् ज्ञानानपेक्षमपि दाहफलं प्रतीति ॥ ३७० ॥ शोकादिकं प्रति तु पुत्रधनादिनाशो नो कारणं भवितुमर्हति तत्स्वरूपात् ॥ तत्त्वेन बुद्धिविषयस्य यतोऽर्थनाशा- देरेव शोककरतादि जगप्रसिद्धम् ॥ ३१ ॥ तद्वत् सुवर्णरजतादिषु रूपगन्धा- देः साधकत्वमपि सौख्यकरस्य बोधात् ॥ तत्त्वेन न स्वत इति स्वकरूपतस् ते नो हेतवोऽपि तु निजावगमेन वै स्युः ।। ३७२ ॥ जानाति यो न कनकादिमहार्घतां त- दुस्तस्थितोऽपि कनकादिरसाधकः स्यात् ॥ सौख्यप्रदस्य रसरूपमुखस्य मृवत् तन् नैष कारणममुष्य निजस्वरूपात् ॥ ३७३ ॥ ज्ञानीयकारणतयैव जनानुरागो युक्तोऽत्र नैतदपि शङ्कितुमत्र शक्यम् ॥ स्वाधीनतैव मतिकारणकार्यभावे सर्वत्र सर्वमनुजस्य हि लोकसिद्धा ॥ ३०४ ॥ - ॥

॥
यतीन्द्रचरितामृतमहोदधेः
यद्यन्यवस्तुषु जगत्परिकल्पितः स्यात्
सङ्केत इष्टरसरूपमुखानि तानि ॥
नो साधयेयुरपि किं कनकादिवद् यद्
वैषम्यमत्र महदाकलयेन् मनुष्यः ॥ ३१५ ॥
जानीत नैव कनकादिषु मृत्तिकादेर्
वैशिष्ट्यमस्य न चलेद् व्यवहारमार्गः।
यानासनादिरखिलोपि हि वित्तमूल
एवावलोक्यत इहेत्यपि नैव शङ्काम् ॥ ३०६ ॥
यद् ये सुवर्णमपि मृत्तिकयैव तुल्यं
जानन्ति पक्षिपशुकीटसरीसृपाद्याः ॥
तेषां न किं प्रचलति व्यवहारवर्गः
सौख्यादिहेतुरनिशं मनुजैः समानः ॥ ३१ ॥
किं च स्वकीयशयनासनभोजनादि-
मात्रोपयोगिकनकादिषु कस्य वाञ्छा।
तत्साधनत्वमतिमात्रनिमित्तिका स्या-
देतादृशे महति मानवसर्गवगै ॥ ३७८ ॥
यस्येदृशी मतिरसौ तु जगद्विचित्री-
ऽप्यावश्यकं शयनभोजनभाषणादि ॥
कुर्वन् नपि प्रचुरहाटकमुख्यवित्त-
मालोकयेन् मृदमिवेति न संशयोऽत्र ॥ ३१६ ॥
यद्यप्यशेषमपि
वस्तु
करोति किं चित्
कार्य हितं भवतु वाप्यहितं तु कस्य ॥
तत् किं सुवर्णरजतादिषु नेदृशी स्यात्
का चिद् विचित्रतरतेति न शङ्कनीयम् ॥ ३८० ॥

प्रथमः कल्लोलः।
६५
यद् गाढ़रागमिह मानव अातनोति
वैचित्र्यमात्रमुपपादकमस्य न स्यात् ॥
यत् सर्ववस्तुषु न तादृगसौं जनानां
वैचित्र्यवत्स्वपि परस्परमुत्तमेषु ॥ ३१ ॥
एतन्महार्घतरताऽपि जनानुराग-
मूलैव नान्यगुणहेतुरिति प्रसिद्धम् ॥
यद् वाल्पमेव भवतीह सुवर्णरौप्या-
दीत्यस्तु कारणममुष्य महार्घतायाम् ॥ ३८२ ॥
तुल्ये गुणेऽपि महती बहुला समर्घा
लध्वी तु गुर्जरभवा त्रिपुटा महा_ ॥
सर्वामयस्य हरणी त्रिफला समर्घा
तस्मान् न मूल्यविनियन्त्रितमुत्तमत्वम् ॥ ३८३ ॥
लोकस्य चात्र कनकादिषु योऽनुरागो
नो केवलंस विषयान्तरलिप्सयैव ॥
किं त्वेतदेव विषयान्तरमन्तरैव
सौख्यस्य साधकमितीष्टधियैव तत्र ॥ ३८४ ॥
नैवान्यथा निजकरस्थितभोगहेतून्
स्वापाशनादिकमुपेक्ष्य जनस्य तत्र ॥
क्लेशावहापि घटते सततं प्रवृत्तिः
स्वर्णादिकेष्विति महाधनिकैर् विचार्यम् ॥ ३८५ ॥
संभाव्य सौख्यबहुतास्थिरतादि बुद्धमा
तत्र प्रवृत्तिरिति नैव वचोऽपि युक्तम् ॥
सर्वः शरीरपतनावधि वित्तलिप्सुर्
दुःख्येव नो यदिह भोगपरस् तु कश् चित् ॥ ३८६ ॥

Pane Seseos escenesesse ६६ यतीन्द्रचरितामृतमहोदधेः कस्यापि नैव मनुजस्य निमेष एका- ऽप्येतादृशो व्रजति वित्तपरायणस्य । संप्राप्तवित्तसुखमात्रपरो न वाञ्छा- दुःखं यदाउनुभवतीभ्य इति प्रसिद्धम् ॥ ३८७ ॥ पुत्लादिरस्य सुखमाप्स्यति मत्प्रयाणा- न्तेऽपीति धीरपि न साधु नियोजिका स्यात् ॥ पुंसो धनेषु यदिहान्यभवेऽपि पुत्त्रो नार्थ करोति किमपीति निरुक्तमेव ॥ ३८८ ॥ किं चात्मजो यदि निजासुवियोगकाला- दूर्दू सुखी प्रभविताथ भवेद् दरिद्रः ॥ तेनास्य नोपकृतिरप्यपकारलेशः स्यादित्यपीह विमृशेयुरवश्यमज्ञाः॥ ३८६ ॥ पुत्त्रादिभाविसुखसंभवहेतुकं स्यात् सौख्यं निजासुधरणावसरेऽस्य पुंसः॥ तस्मात् प्रवृत्तिरुचितैव जनस्य वित्ते- ष्वित्यप्युपर्युपरिबुद्धिवशान् न शङ्काम् ॥ ३० ॥ बौद्धोऽयमप्युदितकारणकार्यभावो वित्तस्य पर्यवसितः स्वसुखं प्रतीति ॥ सोऽयं स्वनिघ्न इति तूक्तमतः प्रयास- साध्यस्य राय इह कोऽस्त्युपयोगलेशः ॥ ३९१ ॥ बुझैव यत् तु परिकल्पयितव्यमेत- देवं न कल्प्यमुरुगौरवयुग यथा स्यात् । तस्मान् न वित्तसुखकारणकार्यभावः कल्प्यः प्रयासकमनीयधनादिगर्भः ॥ ३९२ ॥ -- प्रथमः कल्लोलः। धर्माय वित्तमिदमजयितव्यमेवे- त्येषा मतिस् तु सहसा न घटेत यस्मात् ॥ ये धार्मिकाश् च्यवनकुम्भजभार्गवाद्याः ख्याता न ते धनवशात् तपसैव किं तु ॥ ३३ ॥ आमाणकोऽपि विदितस् त्विह लौकिकानां दानाम्बुभिः कनककर्दममार्जनायाः ॥ दूराद् विवर्जनममुष्य वरं लघुत्वा- दित्यादि सोऽपि सुधियामनुपेक्षणीयः ॥ ३४ ॥ तस्माद् विचाररमणीय इहास्ति कश चिन् नामुष्मिकोऽपि धनसाध्यजनार्थलेशः। यद्यप्यथापि सुदृढोऽत्र जनानुरागो भ्रान्युत्थितो न पुनरेष विमर्शपूर्वः ॥ ३८५ ॥ एवं च नैव सदसत्त्वविवेकचुञ्चु- व्यासादिनिर्मितपुराणनिबन्धरत्ने । ईदग्विपर्ययनिदानकता खपुष्प- तुल्या न कारणमृतेऽपि भवेदकस्मात् ॥ ३८६ ॥ लोकैषणा तु न विमुञ्चति पुत्ववित्त- वस्त्राशनादिपरिहारवतोऽपि पुंसः॥ पुत्वैषणादिरपि यद् यशएषणार्थ एवेति वेदपुरुषः शिरसाभ्यनन्दत् ॥ ३७॥ अद्यापि लौकिकजनः सुतवित्तकाङ्क्षां कीर्त्यर्थमेव तनुते बहुतापदात्रीम् ॥ लोकप्रसिद्धमिदमेव कुतो न तेषां वाक्ये मृषात्वगमकं न च वाच्यमेतत् ॥ ३८ ॥ 6ि066 ॥

LOSTALE यतीन्द्रचरितामृतमहोदधेः लोकैषणा यदनृतोक्तिपरस्य पुंसो नासादयेत् स्वविषयानिति सुप्रसिद्धम् ॥ नूनं जनोऽनृतपरः सततं विनिन्द्यः स्तुत्यः कदापि न भवेदिति को न वेत्ति ॥ ३६ ॥ निन्दास्तुती मनुजमानसदुःखसौख्य- हेतू जगत्सु विदिते अपि कस्य हेतोः एतत् समस्तमवधार्य महाप्रयास- साध्यस्तुतावनुषजेदनिशं मनुष्यः ॥ ४०० ॥ स्वस्मादधास्थितजनानवलोक्य सर्वः स्तुत्योऽस्त्युपर्युपरि दृष्टिकरम् तु निन्द्यः ॥ संख्या त्वनन्तभवजीवगणस्य कर्तु शक्या न केन चिदपीति पुरा निरुक्तम् ॥ ४०१ ॥ दुःखं सुखं च मनुजस्य यदस्ति बाह्य- वस्तूस्थितं तदनुरूपमदोऽस्तु चित्ते ॥ यत् केवलं मनसैव सुखादि जन्य- मेतन् न बाह्यपरतन्त्रमिति प्रसिद्धम् ॥ ४०२ ॥ यद्यप्यशेषमपि दुःखसुखादिचेतो- वृत्त्यैव भाति न पुनः स्वयमस्ति बोध्यम् ॥ एवं च तद्विविधतोपरि पश्यतो नो साधारणस्य मनसि स्थिरतां लभेत ॥ ४०३ ॥ सूक्ष्म तथापि सुविचारयतां नराणां तद्वैधता स्फुटतरैव यतोऽखिलस्य ॥ जन्तोर् बहिर्भवपदार्थविपर्ययेण दुःखं सुखं भवति धीविषयः कदा चित् ॥ ४०४ ॥ तु । प्रथमः कल्लोलः। F यद् दुःखदं जपतपःप्रभृति प्रसिद्ध तत् खेच्छयैव कृतबुद्धय आचरन्ति ॥ सौख्यप्रदं परिहरन्ति च भोजनादींस तन् नैव बाह्यसुखदुःखधिया घटेत ॥ ४५ ॥ संभाव्य भाविसुखमेव बहिःस्थवस्तु- जन्यं जपादिषु जनोऽनुरजत्यदभ्रम् ॥ दुःखप्रदेष्विति न मानससौख्यदुःख- मावश्यकं पृथगिदं तु न शकुनीयम् ॥४०६ ॥ यस्माद् यदा जपतपःसु जनानुरागो नैवास्ति तस्य सुखभोगलवस् तदानीम् ॥ चित्तेन कल्पितमिदं तु भविष्यदेवं चेदं न बाह्यमिति सूक्ष्मधिया विभाव्यम् ॥ ४०७ ॥ जन्मान्तरे भवतु भावित्वकाल इदमात्मधियैव कल्प्यम् ॥ सौख्यादि तद् द्विविधताऽस्य परिस्फुटवै- त्यस्यां न कोऽपि सहसा विवदेत विज्ञः ॥ ४०८ ॥ किं च स्तुतिस् त्वमसि पण्डित आत्मनिष्ट इत्यादिशब्दनिवहो जगति प्रसिद्धा ॥ निन्दा तु बोधरहितस् त्वमसि प्रमूढ़ इत्यादिशब्दगण एव मता नराणाम् ॥ ४० ॥ वाक्यद्वयं च सममेव कुतस् तदेकं दुःखं समर्पयति नान्यदिति स्वबुझा ॥ सम्यग् विमृश्य मतिमान् प्रयतेत लोक- लाघाप्रयास इति वन्द्यतमैर् विभाव्यम् ॥ ४१०॥ वेह भवे तदस्तु ॥

Ram
Adustagee
90
यतीन्द्रचरितामृतमहोदधेः
शब्दस्थिता मधुरता अवसः सुखस्य
हेतुस् तथैव कटुता सकलस्य जन्तोः ॥
दुःखस्य हेतुरिति च प्रथितं विपञ्ची-
वंशीक्रमेलकखरादिरवे न कस्य ॥ ४११ ॥
तद्वन् न किं चिदपि काटवमार्दवाद्य-
प्यालोच्यते स्तुतिविगर्हणवाक्ययोस् तु ॥
केनापि तद् विषमता मिथ एनयोर या
सा केवलं निजधिया रचिता मनुष्यैः ॥ ४१२ ॥
अर्थावबोधकविगर्हणवाक्यमात्म-
वाच्यार्थबोधजननान् मनुजस्य दुःखम् ॥
उत्पादयेत् स्तुतिपरं वचनं तु सौख्यं
भूतार्थबोधकवचोवदिति त्वशङ्काम् ॥ ४१३ ॥
शाब्दप्रमाजनकताप्तनिरुक्तवाक्ये-
ष्वङ्गीकृता न तु शठादिवचस्स्वपीति ॥
नैवावगच्छति जनः कतमोऽपि चात्म-
गहापरेषु सहसाप्ततमत्वमन्तः ॥ ४१४ ॥
किं च स्वबोधविभवादि विजानतोऽपि
मन्दो दरिद्र इतिबाधितवाक्यजन्यः॥
क्रोधोऽभ्युदेति यदिदं न तदर्थबोधात्
किं त्वात्मनिन्दनपदश्रवणात् परं तत् ॥ ४१५ ॥
तेजोवधं समवगम्य विनिन्दनेन
रुष्टो भवेन् मनुज इत्यपि नात्र शङ्काम् ॥
तेजोविनाशकरताऽपि वचोविशेषे
बाह्या न किं तु रचिता स्वधियैव यस्मात् ॥ ४१६ ॥

प्रथमः कल्लोलः।
॥
निन्दाप्रसारजनिता
मनुजस्य
लोके
रूपादिबाह्यविषयापहतिर ध्रुवैव ॥
संभावितेति मतिमदिरसौ प्रयासाद्
दूरान् निवर्त्यत इहेत्यपि नैव शङ्काम् ॥ ४१७ ॥
रूपादिबाधविषया मनुजस्य येयं
संभावना न खलु बाह्यपदार्थ एषा ॥
बुझैव लोकरचितेति न सापि बाह्य-
वस्तु प्रसाधयितुमीष्ट इतीति बोध्यम् ॥ ४१८ ॥
प्रास्तां कथं चिदपि सा रतरूप-
मुख्यबाह्यार्थनाशविषयापि तथापि नेयम् ॥
उत्पत्स्यते स्तुतिविगर्हणयो रसादि-
लाभादिकं प्रति बहुव्यभिचारदृष्टेः ॥ ४१६ ॥
चौर्यादिना परधनान्यपहत्य रूप-
गन्धादिलाभमुपयान्ति नरा धरायाम् ॥
ते स्तेनभिन्नबहुलोकविनिन्दिता अ-
प्यत्यन्तबाह्यसुखिनः किमु नैव दृष्टाः ॥ ४२० ॥
एवं विशिष्टनरवन्दितपादयुग्मा
रूपादिबाह्यसुखलेशमपि त्यजन्तः ॥
किं नैव साधुचरिते निरताः सदैव
धीरोत्तमा भुवनरत्नवराश् च दृष्टाः ॥ ४२१ ॥
आढ्यो न निन्द्यत इह व चनाधनस् तू
स्तुत्यो न चास्ति जगतीति मते त्विदानीम् ॥
वित्तात् स्तुतिः स्तवनजं धनमित्यमुष्मिन्
नन्योऽन्यसंश्रयनिवारणमप्यशक्यम् ॥ ४२२ ॥

pletirthwadhstimushaira
२
यतीन्द्रचरितामृतमहोदधेः
स्तोत्रस्य नैव धनलाभनिमित्ततास्ती-
त्युक्तौ न शिष्यत इयं जगदेषणापि ॥
वित्तषणा तु न यथा निजदेहलाभ-
माप्नोति तत् तु कथितं पुर एव सर्वम् ॥ ४२३ ॥
किं च स्तवादिषु रतिर् मनुजस्य येयं
साऽसंभवान् न किल सर्वजनानपेक्ष्य ॥
किं तु स्वलक्ष्यकतिचिन्मनुजानपेक्ष्यै-
वास्तीति कस्य मनुजस्य न निर्विवादम् ॥ ४२४ ॥
एवं तु लक्ष्यकरणं निजबुद्धिसाध्य-
मेवास्ति तत् किमयमात्मविनिन्दकादीन् ।
लक्ष्यीकरोति निजवन्दनकर्तभावाद्
येन प्रयासनिरतोऽतितरां च दुःखी ॥ ४२५ ॥
एतादृशे महति भिन्नरुचौ भवेऽस्मिन्
जीवा न कस्य सुलभाः स्तुतिकारिणस् तु ॥
कस्यां स्थितौ न किममून् प्रकरोतु लक्ष्यं
येन प्रयासरहितोऽतितरां सुखी स्यात् ॥ ४२६ ॥
किं च स्तुतिः कृतिपटुत्वभवा कृतिम् तु
नानेति पर्य्यवसिताः स्तुतयो विभिन्नाः ॥
तत्तक्रियाकुशलवर्गनिरूपितास् तत्
तत्तद्धियैव रचिताः स्तुतयो न बाह्याः॥ ४२७ ।।
एतादृशा न मनुजा बहवः प्रसिद्धाः
स्तोत्रं य आत्मघटितोत्तमवर्गजातम् ॥
त्यक्त्वाऽपि निन्द्यपरवर्गभवस्तवेष
रात्रिंदिवं निरतमानसवृत्तयः स्युः ॥ ४२८ ॥

॥
प्रथमः कल्लोलः।
चौरादिवर्गमहनीयगुणाः कफल्ल-
मुख्या जनुःप्रभृतिसाहसिका न किं तु ॥
वर्ग स्वकीयमपहाय सुखान् निविष्टा
वर्गान्तरे स्तवनकाशिण एव तत्र ॥ ४२६ ॥
प्रह्लादनारदसुयोधनरावणाद्यास्
त्यक्त्वा स्वकीयकुलरीतिमुपाददानाः॥
रीत्यन्तरं तदुचितस्तुतिजं सुखं किं
नापुस्तदन्यकुलनिन्दनजं च दुःखम् ॥ ४३० ॥
किं प्राप्तवर्गजनुतिर्न नुतिर् यदन्य-
वर्गोत्थितां स्तुतिमसो मनुजोऽभिवाञ्छेत्
एवं विनिन्दनमपीति सदैव पुंसां
निन्दा स्तुतिश् च न समृध्यति हीयते वा ॥ ४३१॥
प्राप्ते त्वनुत्तमतमे विषयेऽपि पुंसां
त्यागस्टहानधिगते त्वभिलाषुकत्वम् ॥
स्वाभाविकं मतिमतामपि पूर्वमुक्त
तद् भ्रान्तिजः स्तुतिषु सर्वजनप्रयासः ॥ ४३२ ॥
नैतादृशो मुनिवरेषु निरुक्तचिहू-
युक्तेषु फल्गुजनयोग्यविपर्ययोऽयम् ॥
हेतुं विनैव घटते सहसेति तेषां
वाणी मृषा न जगदेषणया प्रवृत्ता ॥ ४३३ ॥
हाहा समस्तजनता सुतदारवित्त-
लोकैषणादिभुजगैः प्रतिलोम दष्टा
कस् तां समस्तनिगमोदधिमन्यनोत्य-
ज्ञानामृतेन कुरुतां प्रकृतिप्रतिष्ठाम् ॥ ४३४ ॥

98 यतीन्द्रचरितामृतमहोदधेः संपूर्णः प्रथमः कल्लोलः । श्रीमद्गणेशशिवकेशववह्निभानु- दुर्गागुरूक्तिनिगमादिपदाभिलक्ष्यम् ॥ क्राइस्ट्महम्मदरसूलजिनाद्यनन्त- रूपं यदेतदमृतं त्वमृतप्रदं वा ॥ ४३५ ॥ तेषां वचांसि न मृषा न च नारदादेः प्रागुक्तमुन्युचितचिह्नसमन्वितस्य ॥ इत्यं विमृश्य मतिमान् वचसां विरोधा- द्यापातदोषमपहाय भवेद् विधिज्ञः॥ ४३६ ॥ त्यक्त्वा समस्तविषयान् मुनितुल्यवृत्तिर् यः स्यात् स एव मुनिवाक्यविरोधहर्ता ॥ स्यादन्यथा तु विषयापहृताल्पबुद्धेर् बाधादिरेव मुनिवाक्षु सुदुर्निवारः ॥ ४३७ ॥ इत्यं स वर्षयुगलेन विचार्य काश्यां कृच्छ्रादिभिः क्षयितवान् विषयाभिलाषम् ॥ देहस्थितिं तु निगमागमतत्त्वसाक्षा- त्काराय सूक्ष्मतनुमप्युररीचकार ॥ ४३८ ॥ चित्तस्थसूक्ष्मविषयोस्थितवासनादि- विक्षेपशान्तिपरतत्त्वसमक्षतादेः ॥ हेतुर्य एष तमियेष समस्तकर्म- संन्यासधर्ममतिदुष्करमप्ययत्नात् ॥ ४३६ ॥ षट्शास्त्री परमेश्वरस् तटयुगं श्रीरामनाथः शशी मोड्वाद्या नलिनानि यस्य भगवदासश् च सांयात्रिकः ॥ नाव्या श्रीहरिकृष्णकीर्तिरुडुपं रघ्या तिमिर् विष्णुदस् तस्यानन्धुदधेः सदुक्तिमणिदः कल्लोल आद्योऽभ्युदैत् ॥१॥ द सं० १९४६ का० १० १० शनी ॥

Yetendracharitamritmahodadha

Title
Yetendracharitamritmahodadha
File name
Yetendracharitamritmahodadha
Text
OCR done
Publisher
Null
Language
Sanskrit
Pages
84
Library
Bharti Bhawan Library Allahabad
DLI number
273960
Barcode
5990010894558.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
4uEkl36VTMH
Download PDF

Yetendracharitamritmahodadha