Sanmati Library, Jaipur
सांख्यसूत्रवैदिकवृत्तिः
Front matter
No text on this page.
सांख्यसूत्रवैदिकवृत्तिः।
अर्थात
आनन्मर्षिकपिलमणीतनत्रागा वेशानुगारणी वृनिः
श्रीमन्निखिलशास्त्रनिष्णातपण्डितस्वामिः
हरिप्रसादेन निर्मिता।
14
...
मन्त्रालयङ्कयित्वा प्रकाश्यनीती.
संम्बत् १९.६३
मयमावृत्तिः १००
.
मुल्य १)
१६६.. तम निस्तादिक २५ तम राजानियमानुसारेण राजलेन्वेन
सर्वथा पण्डिनदेवदत्तशम्मयित्तीकृतोऽय प्रन्थः ।
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
ओ३म्
सांख्यसूत्रवैदिकवृत्तिः।
अर्थात्
श्रीमन्महर्पिकपिलमणीतसूत्राणां वेदानुसारिणी वृत्तिः ।
श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवोत्माराम
भगवत्पादशिष्येण.
श्रीमत्परमहंसपरिवाजकाचा-दासीनवर्य्यपण्डितस्वामि
ज्वाहिरदासभगवत्पादाधिगतवेदवदाङ्गविद्येन ।
श्रीमनिखिलशास्त्रनिष्णातपण्डितस्वामि
हरिप्रसादेन निर्मिता।
साच
विहारमान्तीय भागलपुरनिवासि महामान्य श्रीयुत चौधरी बाबू छेदी
प्रसाद हरिमोहन मिश्र वैजनाथ मण्डल महाशयैः।
मुम्बय्यां
14
"श्रीवेङ्कटेश्वर" यन्त्रालयेऽङ्कायित्वा प्राकाश्यंनीता
सम्बत् १९६२.
प्रथमावृत्तिः १०००
मूल्यं १)
१८६७ तम निस्ताब्दिक २५ तम राजनियमानुसारेण राजलेखेन सर्वथा
पण्डितदेवदत्तशम्मयित्तीकृतोऽयं ग्रन्थः ।
No text on this page.
No text on this page.
No text on this page.
ओ३म्
सांख्यसूत्रवैदिकवृत्तिः
पारद
अर्थात्
श्रीमन्महर्पिकपिलमणीतसूत्राणां वेदानुसारिणी वृत्तिः ।
श्रीमत्परमहंसपरिव्राजकाचायोदासीनवात्माराम
भगवत्पादशिष्येण.
श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्य्यपण्डितस्वामि
ज्वाहिरदासभगवत्पादाधिगतवेदवदाङ्गविद्येन ।
श्रीमनिखिलशास्त्रनिष्णातपण्डितस्वामि
हरिप्रसादेन निर्मिता।
सान्च
विहारमान्तीय भागलपुरनिवासि महामान्य श्रीयुत चौधरी बाबू छेदी
प्रसाद हरिमोहनमिश्र बैजनाथ मण्डल महाशयः।
मुम्बय्यां
"श्रीवेङ्कटेश्वर" यन्त्रालयेऽझायित्वा प्राकाश्यनीता
सम्वत् १९६२.
प्रथमावृत्तिः १०००
मूल्यं १)
१८६७ तम निस्ताब्दिक २५ तम राजनियमानुसारेण राजलेखन सर्वथा
पण्डितदेवदत्तशम्मयित्तीकृतोऽयं प्रन्थः ।
No text on this page.
अथ साङ्ख्यदर्शनम्। द्रष्टव्यं यो विवेकेन प्रधानपुरुषेश्वरम् । व्याचख्यौ मोक्षकामानां वन्दे तं कपिलं वरम् ॥ १॥ सांख्यसिद्धान्तजिज्ञासुबालधीबोधहेतवे । पुण्यां कपिलसूत्राणां वैदिकी वृत्तिमारभे ॥ २ ॥ अथ परमपुरुषार्थसाधनत्वेनेप्सिततमप्रकृतिपुरुषविवेकमत्ययं विस्तरे- णोपदिदिक्षुः करुणैकनिळयो भगवान् कपिलाचार्यस्तदुपदेशपरं शास्त्रमा- रममाणः परमपुरुषार्थस्वरूपं दर्शयन् तदारम्भन्तावत्मतिजानीते- "अथ त्रिविघदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ" ॥१॥ अथेति शास्त्रारम्भमाह । त्रिविधदुःखात्यन्तनिवृत्तिः आध्यात्मिका- धिभौतिकाधिदेविकेति तिस्रो विधा यस्य,तत् त्रिविधं, तञ्च दुःखश्चेति त्रि- विघदुःखं, तस्य याऽत्यन्तनिवृत्तिः अन्तमतिकान्ता बाधितावाधितसाधार- ण्यन निशेषतोनिवृत्तिः सोऽत्यन्तपुरुषार्थः अन्तमतिकान्तः पुरुषमात्रेणा- र्थनीयः परमपुरुषार्थ इत्यर्थः । भोगापवर्गों हि पुरुषार्थो । यत्कृते प्रधानप्रवृत्तिारेति सांख्याः । तत्र भोगस्तावजन्यभावतया नान्तमतिकामति । तेनेष पुरुषार्थोऽपि नात्यन्त- पुरुषार्थः। अन्तमतिकामतःपुरषार्थस्यैवात्यन्तपुरुषार्थत्वात् । अत एव तत्सा- धनोपदेशपरंःशास्त्रमपिनारम्भणीयम् । मन्दप्रयोजनत्वापत्तेः । किन्तु दुःखा- त्यन्तनिवृत्तिसाधनोपदेशायैव । यतो दुःखात्यन्तनिवृत्तिरेवान्तमतिकामन्ती (२) सांख्यदर्शनसूत्रवृत्ती। पुरुषमात्राभिलाषगोचरतया परमपुरुषार्थ इति । तथाच-पुरुषमात्राभि- लाषगोचरदुःखात्यन्तनिवृत्तिलक्षणपरमपुरुषार्थसाधनस्य प्रकृतिपुरुषविवेकम- त्ययस्योपदेशपरम् । “अथेत्यादि,"पुरुषार्थ इत्यन्तं षडध्यायात्मक शास्त्रमेतदारब्धमिति सूत्रार्थो निष्पन्नः । यद्यपि सांख्यानां दुःखादि सर्व बुद्धरेव ।नपुरुपस्यात्मनः।तस्य कूटस्थ नित्यत्वेन दुःखादिपरिणामानभ्युपगमात् । तथापि दुःखादिमत्या बुद्धःसनिधा नाव पुरुषस्यात्मनः तत्र प्रतिविम्बिततया बुद्धरेव वा तत्र प्रतिबिम्बिततया दुःखादिच्छायापत्तो विवेकग्रहाभावेन सूर्ये बिम्बे जलकम्पादिवदौपाधिक पुरुषेऽपि दुःखादिसर्वमस्त्येव, तेन तदत्यन्तनिवृत्तिः परमपुरुषार्थ इत्युपपद्यते। निवृत्तिात्र न ध्वंसः । सांख्यानांसत्कार्यवादित्वेनाभावपदार्थानङ्गीकाराव, फिन्त्वतीतानागतावस्थयोरेव तेषां ध्वंसमागभावस्थानितयाऽतीतावस्थैव । तस्याश्चात्यन्तत्वं तदुःखानागतावस्थयाऽसहवृत्तित्वमिति । तत्र चातीतं दुःखं स्वयमेवातीतावस्थां यातम् । वर्तमानश्च भोगारूढतया क्षणान्तरे स्वयमेव यास्यति । परिशेषादनागतं दुःखमेवातीतावस्था यापनीयम् । तद्यथोक्तं समानतन्त्रऽपि । यो. पा. २ सू. १६ । 'हेयंदुःखम- नागतम्' इति । तस्य चात्मनि पुरुषेऽविवेकमूलकतया विवेकमत्यय एव सम्यगुच्छेदोपायो नान्यः कश्चनेति तदुपदेशाय शास्त्रारम्भ इति भावः, तत्रात्मानं शरीरंमनश्चाधिकृत्य प्रवृत्तं व्याध्यागुत्थं कामक्रोधाद्युत्थञ्च दुःखमाध्यात्मिकम् । भूतानि-पाणिनो व्याघ्रचोरादीनधिकृत्य प्रवृत्तं दुःसमाधिभौतिकम् । देवान-विधुदमिवारवादीनधिकृत्य प्रवृत्तं दाहाद्युत्थं दुःखमाधिदैविकमायद्यप्यतत्सर्वं दुःखं मानसमेव, तथापि मनोमात्रजन्य- त्वाजन्यत्वाभ्यां विशेष इति विवेकः ॥ १ ॥ ननु भवतु विविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः, तथापि सा दृष्टो- पायादेव सत्स्यति । कृतं बहायाससाध्यन शास्त्रीयोपायन विवेकप्रत्ययेन । तत्राह-- - प्रथमोऽध्यायः। (३) "न दृष्टात्तत्सिद्धिर्निवृत्तेऽप्यनुवृत्तिदर्शनात्" ॥२॥ दृष्टात् लोकसिद्धादोपधाद्युपायाव: तत्सिद्धिः तस्यास्त्रिविधदुःखात्य- न्तनिवृत्तेः सिद्धिः निष्पत्तिर्न न भवति । कुतः ? निवृत्तेपि लोकसिद्धो- पायेन कथश्चिनिवृत्तेऽपि दुःखऽनुवृत्तिदर्शनाव कालान्तरे पुनस्तदनुवृत्तिदर्श- नादित्यर्थः। नात्यन्तनिवृत्तं पुनरनुवर्तते । तस्मान तेन तदत्यन्तनिवृत्तिरिति भावः ॥ २॥ नन्वेवन्तर्हि दृष्टोपायनन्यायास्तदुःखनिवृत्तेलोंकसिद्धं पुरुषार्थत्वं न स्यात् । तत्राह- " प्रात्यहिकक्षुत्प्रतीकारक्त्तत्प्रतीकारचेधनात्पुरु- षार्थत्वम्" ॥३॥ दृष्टादित्यनुवर्तते । मात्यहिकात्मतीकारवत'उपसर्गस्य घनि' इति वा दीर्घः । मतीकारो निवृत्तिमा न त्वत्यन्तनिवृत्तिः । मात्यहिंक:- प्रत्यहं.जायमानो यःक्षुत्मतीकारः भोजनादितः क्षुतः चुभुक्षायाः प्रतीकारः- निवृत्तिमात्रं तद्भव-तस्य यथा पुरुषार्थत्वं, तथा 'यदा दुःखं तदा तत्मतिक- र्तव्यम्' इतिन्यायेन दृष्टाव-दृष्टोपायतोऽपि तत्मतीकारचेष्टनात् तस्याध्या- त्मिकांदिदुःखस्य यः प्रतीकारः-निवृत्तिमानं, तस्य चेष्टनाद अन्वेषणात कथश्चिज्जायमानायास्तदुःखनिवृत्तेः पुरुषार्थत्वं-पुरुपार्थत्वमात्रं न त्वत्यन्त- पुरुषार्थत्वमित्यर्थः ॥ ३॥ ननु तथापि पुरुषार्थोऽसौ दृष्टोपायज़न्यो दुःखमतीकारः पुरुषरुपादेयः किन्नस्यादित्याशंक्य पुरुषैरुपादेयोऽपि निपुणैर्हय एवेत्याह- "सर्वासंभवात् 'संभवेऽपि सत्तासंभवाद्धेयः प्रमाण- कुशलैः ॥ ॥४॥ दृष्टादित्यनुवर्तते। दृष्टादृष्टोपायादेकस्मिन् कस्मिंश्चिमतिकृतेऽपि दुःखे १ अष्टा० अ०६ पा० ३ सू० १२२।
(४) सांख्यदर्शनसूत्रवृत्ती। सर्वासंभवात्सर्वपामाध्यात्मिकादीनां तेषां प्रतीकारासंभवात् । संभवपि= कथश्चिकाकतालीयन्यायेनस्थूलरूपतया तत्पतीकारसंभवेऽपि सत्तासंभवात्- सूक्ष्मरूपाणांतेषां सत्तायाः संभवाव अवश्यंभावाद हेयः सर्वसाधारणवत् परमपुरुषार्थत्वबुद्ध्या नोपादेयो दृष्टोपायजन्यो दुःखमतीकारःप्रमाणकुशल:- निपुणरित्यर्थः ॥ ४॥ हेयत्वे हेत्वन्तरमाह- "उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुते॥५॥ हेयः प्रमाणकुशलैरित्यनुवर्तते । मोक्षस्य-शास्त्रीयोपायजन्यस्य दुःखात्य- न्तनिवृत्तिलक्षणस्य कैवल्यस्योत्कर्षादपि दृष्टोपायजन्यदुःखमतीकारापेक्षयो- स्कृष्टयादपि हेयः स प्रमाणकुशलैरिति पूर्ववत् । ननु मोक्षोत्कर्षे किं मानम् । तत्राह-सर्वोत्कर्पश्रुतेः=' अशरीरं वाव सन्तं न प्रिया- प्रिये स्पृशत:। 'एषास्य परमागतिरेषास्य परमा संपत्' इति सर्वस्माद् दृष्टोपायजादुःखपतीकारान्मोक्षस्योत्कृष्ट्यश्रुतरित्यर्थः ॥ ५ ॥ नतु माभूट्ट दृष्टोपायाद दुःखात्यन्तनिवृत्तिः । अदृष्टोपायात्तु वैदि- ककर्मणःस्यात् । तत्राह- " अविशेषश्चोभयोः ॥६॥ एवार्थश्चः । उभयोःन्द्रयोदृष्टादृष्टयोलौकिकवैदिकोपाययोरविशेषश्च दु:- खात्यन्तनिवृत्त्यसाधकतायामविशेष एक-विशेषो नास्त्येव-तौल्यमेवेत्यर्थः । यथा दृष्टोपायस्यौषधादे दुःखात्यन्तनिवृत्तिसाधकत्वम् । तथाऽदृष्टो- पायस्यापि केवलयज्ञादेवैदिककर्मण इति भावः ॥ ६ ॥ ननु दुःखात्यन्तनिवृत्तेर्मोक्षत्वादुःखयोग एव बन्धो वक्तव्यः, सच- स्वाभाविकश्चेत् कथं दृष्टादृष्टोपायवच्छास्त्रीयोपायेन विवेकमत्ययेनापि निव- १ छान्दो०प्रपा०८ खं१२-१०।२ वृहदा०अ०६वा०३-३२.
प्रथमोऽध्यायः।
(५)
तेंतेत्याशंक्य वन्धस्य तस्य विवकप्रत्ययनिवर्त्यत्वसंपत्त्यर्थमविवेकमात्रमयो-
ज्यत्वं व्यवस्थापयिष्यन्नादी तावत्स्वाभाविकत्वे दोपमाह-
"न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिया
पुरुषस्य स्वभावतो वन्धोन संभवतीति मतिज्ञाशेषः । कुतोन संभवति ।
यतः स्वभावतो वद्धस्य स्वरूपतो दुःखयोगवतः पुरुषस्य मोक्षसाधनोपदशे-
विधिः मोक्षाय-दुःखात्यन्तनिवृत्तिलक्षणाय कैवल्याय साधनोपदेशस्य--
शास्त्रेण कृतस्य तदुपायोपदेशस्य विधिः-विधान-करणम् अनुष्ठानं न-न
घटते इत्यर्थः ॥
यस्मिन् सति कारणान्तरविलम्बादिलम्बो यस्याभिव्यक्ती न भवति,
तस्य तत्स्वाभाविक यथारोष्ण्यमिति भाप्यकारः ॥ ७॥
ननु कस्मादनुष्ठानं न घटते । मा वा घटतामनुष्टानं किन्तेन । तत्राह-
"स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्" ८॥
स्वभावस्य स्वरूपस्यानपायित्वा-यावद्व्यभावित्वेनाग्न्यौष्ण्यवद्-
निवर्त्यत्वादिति पूर्वत्र हेतुः । शास्त्रोपदेशस्यानुष्ठानाभावे दूपणम् 'अननु-
छानलक्षणममामाण्यम् अननुष्ठानं तदुपदेशाननुवर्तन-तदिहिताकरणमि-
ति यावद् लक्षणं-ज्ञापकं यस्य तागमामाण्यम् अप्रमाणत्वं शास्त्रस्य तस्य
स्यादित्यर्थः ॥ ८ ॥
नन्वेवं नर्हि शास्त्रवलादेवानुष्ठानमस्तु । तत्राह-
"नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः ॥९॥'
अशक्योपदेशविधिः अशक्याय-साधयितुमशक्याय फलायोपदेशस्य
शास्त्रीयस्य तदुपायोपदेशस्य विधिः-अनुष्टानं नन्न संभवति । कुतः? यतः
उपदिष्टेऽपि शास्त्रेगोपदिष्टेऽप्यशक्यस्योपायेऽनुपदेशःस तस्य शास्त्रस्योप-
देशोऽनुपदेश एव-उपदेशाभास एव भवतीत्यर्थः ।
असंभवार्थप्रतिपादनादिति भावः ॥ ९ ॥
- (६) सांख्यदर्शनसूत्रवृत्ती। अत्रं स्वाभाविकापायवादिमतमाशंकते। "शुक्लपटव बीजवच्चेत् ॥ १० ॥ ननु शुक्लंपटवंत यथा शुक्लपटस्य रागेंण स्वाभाविकं शौक्ल्यं बीजवत्= यथा वा बीजस्य वह्निना स्वाभाविकं तत्तदंकुरजननसामर्थ्यमपैति, तथा . पुरुषस्यापि स्वाभाविको बन्धः शास्त्रीयोपायेनापैष्यति. न कश्चिद्दोष इति चोदित्यर्थः ॥१०॥ समाधत्ते । "शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः ॥११॥ नाशक्योपेदशः उक्तोदाहरणाभ्यामप्यशंक्योपदेशो. न भवति । कुतः ? शक्त्युद्भवानुभवाभ्याम् उत्तेजकेन प्रतिबन्धकेन च तत्तच्छक्नेरुदवानुभ वाभ्यां सर्वत्रोत्पादापायव्यवहारयोरभ्युपगमादित्यर्थः ।... तथाच शुक्लपटबीजयोरपिरागेण वह्निना चमतिबन्धकेन शौक्ल्यांकुरश- क्योरनुदव एव जायते नात्यन्तापायः। रजकस्य व्यापारण योगिनःसंकल्पेन चोत्तेनकेन पुना रक्तपटभृष्टबीजयोस्तयोः शौक्ल्यांकुरशक्त्योराविभावस्योप- लब्धः । तस्मान्नास्तिकुत्रापि स्वाभाविकस्यापायः. शक्यनिदर्शन इति न पुरुषस्य स्वाभाविको बन्ध इति फलितम् ॥ ११ ॥ ननु मास्तु पुरुषस्य स्वभावतो बन्धः। कालवादिनों मे कालतो निमि- त्ताभविष्यति, तत्राह- "नकालयोगतोव्यापिनो नित्यस्य सर्वसंबन्धात्॥१२॥ निमित्त तसिलर्थः । पुरुषस्य वन्ध इति. प्रकरणलाभः ।-न-नापि कालयोगतः कालसंबन्धनिमित्तकः पुरुषस्य बन्धः ।' कुतः ? व्यापिन:- सर्वपदार्थसंयोगिनो नित्यस्य सततस्य, त्वदभ्युपगतकालपदार्थस्य सर्वस- बन्धात सर्वतः सर्वदा मुक्तामुक्तसर्वपुरुषसंयोगादित्यर्थः । ... बन्धकस्य कालस्य मुक्तामुक्तसर्वपुरुषसंबन्धाविशेषादमुक्तस्येव मुक्तस्यापि बन्धापत्तरिति भावः। - । :
. प्रथमोऽध्यायः.. (७) सांख्यानां तु क्षणात्मकः कालो नित्यः तदन्यः सर्वोऽप्यनित्य इत्यग्रे विस्पष्टम् । अत्र.च प्रकरणे कालदेशकर्मादीनां निमित्तत्वसामान्य नापलप्यते । श्रुतिस्मृतियुक्तिभिः सिद्धत्वात् । किन्तु यनैमित्तिकत्वं पाकजरूपादिवनिमिः त्तजन्यत्वं तदेव प्रतिपिध्यते । पुरुषवन्धस्योपाधिकत्वाभ्युपगमात्' इति भाष्यकृतः ॥ १२ ॥ एतेनैव हेतुना, दिग्योगतोऽपि पुरुषस्य बन्धं निराचष्टे । " न देशयोगतोऽप्यस्मात् ॥ १३ ॥ देशयोगतोऽपि-दिसंबन्धनिमित्तकोपि न-पुरुषस्य वन्धो न । कुतः? अस्माव-व्यापिनो नित्यस्य सर्वसंबन्धादित्यर्थः । कालवद् दिशोऽपि मुक्तामुक्तसर्वपुरुषसंवन्धाविशेषादमुक्तस्येव मुक्त- स्यापि बन्धापत्तरिति भावः ॥ १३ ॥ नन्वस्तु तयवस्थातो वन्धस्तत्राह- "नावस्थातो देहधर्मत्वात्तस्याः ॥१४॥ अपिरनुवर्तते । नाप्यवस्थातः बाल्यकौमारयौवनांदिलक्षणावस्थातः पुरुषस्य. वन्धः । कुतः ? तस्याः अवस्थाया. देहधर्मत्वात् आत्मातिरि- तस्यानात्मनो देहस्य.धर्मवादित्यर्थः ॥ १४ ॥ ननु देहधर्मत्वेऽपि पुरुषस्यात्मनो धर्मः किं न स्यात्, तबाह- "असङ्गोऽयं पुरुष इति ॥ १५.॥ इतिशब्दो हेतुमाह । यतोऽसंगः-न विद्यते संगः केनापि कथमपि विकारहेतुसंवन्धविशेषो यस्य, स तथाय-अत्यगात्मा पुरुष इति-अतोऽव- स्थाया देहमाजधर्मत्वमेव न पुरुषधर्मत्वमित्यर्थः । • अन्यथा देहवत्पुरुषस्यापि परिणामिता: स्यादिति भावः ॥ १५ ॥.. ननु मा भूत् कलादियोगतःपुरुषस्य वन्धः। कर्मणा भविष्यति, तत्राह-- .. -- (८) साख्यदर्शनसूत्रवृत्तौ। "न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च" ॥ १६ ॥ नं-नापि कर्मणा-विहितेन वा निषिद्धन वा कर्मणा पुरुषस्य बन्धः। कुतः? अन्यधर्मत्वात् कर्मणस्तस्य पुरुषातिरिक्तदेहादिधर्मत्वात् । अन्यधर्मणान्यस्य वन्धांगीकारेऽतिमसक्तेश्च अन्यत्वाविशेषादमुक्तस्येव मुक्तस्यापि वन्धापत्तेश्चे- त्यर्थः ॥ १६ ॥ दूषणान्तरमाह- "विचित्रभोगानुपपत्तिरन्यधर्मत्वे" ॥ १७॥ अपिरनुवर्तते । अन्यधर्मत्वे-बन्धकस्य कर्मणः पुरुषातिरिक्तदेहादिधर्म- त्वेऽपि पुरुषवन्धहेतुतायामभ्युपगतायां विचित्रभोगानुपपत्तिः अनुभूयमानस्य विचित्रस्यम्-मिथों विलक्षणस्य भोगस्य-पुरुषाणां सुखदुःखानुभवात्मकस्य भोगस्यानुपपत्तिः अव्यवस्थितिः संगतिर्न स्यादित्यर्थः । न ह्यनादिसंसारे केनापि सुखहेतु कर्म वा दुःखहेतु कर्म वा न कृतम् । अन्यधर्मेणान्यत्र कार्य्यजनने तु नियमाभावात् सर्वे सुखिनो वा दुःखिनो वा प्रादुःष्युरिति भावः ॥ १७॥ नन्वस्तु तर्हि साक्षात्मकृतिनिमित्ततःपुरुषस्य बन्ध इत्याशंक्य नेत्याह- "प्रकृतिनिबन्धनाचेन्न, तस्या अपि पारतन्त्र्यम् ॥१८॥ ननु प्रकृतिनिबन्धनाच्चेव-साक्षात्मकृतिनिमित्ताच्चेत्पुरुषस्य बन्ध इति न । कुतः? यतस्तस्या अपि-प्रकृतेरपि बन्धकतायां पारतन्त्र्यम् अविवेककृतसं- योगविशेषपराधीनत्वमस्तीत्यर्थः । नहि प्रकृतिरन्तरेणाविवककृतसंयोगविशेष कस्यापि साक्षात-संबन्ध- सामान्याद्बन्धिका भवति । भवेच्चेत् । तदा तस्या व्यापकतया सामान्यतः सर्वपुरुषसंवन्धाविशेषान्मुक्तस्यापि बन्धः स्यादिति भावः ॥ १८ ॥ ननु स्वभावतो वा निमित्ततो वा पुरुषस्य बन्धो नास्ति' चेत्तर्हि कस्मात्तस्य बन्धस्तत्राह- प्रथमोऽध्यायः। (९) "न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते"१९ नित्यत्व-कूटस्थनित्यत्वम् । शुद्धत्वं-गुणासंगित्वम् । बुद्धत्वं अलुप्त- चिद्रूपत्वम् । मुक्तस्वभावत्वं-मुक्तशीलत्वम् । न नित्यशुद्धबुद्धमुक्तस्वभावस्य पुरुषस्यात्मनस्तद्योगः बन्धयोगः बन्ध इति यावत् तद्योगादृते अविवे- ककृतमकृतिसंयोगविशेष विना संभवतीत्यर्थः । अविवेककृतः प्रकृतिपुरुषसंयोगो बन्धहेतुरिति परमार्थः । तथा चोक्तं समानतन्त्रेऽपि । यो० पा० २ सू० १७ । द्रष्टदृश्यसंयोगो हेयहेतुः' इति । प्रकृतिपुरुषसंयोगस्य च वन्धकस्याविवेककृतत्वमग्रे पञ्चपञ्चाशत्तमे सूत्रे वक्ष्यते । तस्मादविवेककृत एव बुद्धिसत्वोपाधिकः पुरुपस्य वन्धो न स्वभावसिद्धो न वा निमित्तजन्य इति भावः ॥ १९ ॥ ननु नास्माभिः प्रकृत्यादिवाह्यं वस्त्वन्यदभ्युपगम्यते येनाविवेककृतत- संयोगविशेषादौपाधिकः पुरुषस्य वन्धः स्यात् । किन्तु चित्तापरपर्याय क्षणि- कविज्ञानमेवाद्वितीयं पारमार्थिकमात्मतत्वम्।तस्य च संसारलक्षणः सर्वोऽपि वन्धः सांवृत्तिकः । संवृत्तिरवस्तुभूताऽनिर्वचनीयाऽविद्या तन्मात्रविलसित इति यावदिति बौद्धभेदेषु योगाचाराभिमतं वन्धकारणन्तावनिराकुरुते । "नाविद्यातोऽप्यवस्तुनावन्धायोगात्" ॥२०॥ अपि शब्दः पूर्वोक्तकालाद्यपेक्षया। तद्योग इत्यनुवर्तते । अविद्यातोऽ- पिस्त्वदभ्युपगतसंवृत्तितोऽपि पुरुषस्य तद्योगः बन्धयोगोन-न संभवति । कुतः? अवस्तुना अवस्तुभूतया-मिथ्याभूतयाऽनिर्वचनीयया त्वद्भ्युपगत- याऽविद्यया पुरुषस्य बन्धायोगात स्वामरज्ज्वेव वन्धानौचित्यादित्यर्थः । इदमत्र बोध्यम् । यद्यपि वैदिकदर्शनेषु सांख्ययोगन्यायवैशेषिक- पूर्वोत्तरमीमांसास्वपिवन्धहेतुतयाऽस्त्यविद्याभ्युपगमः । तथापि .सा नेदृशी। यथा सौगतैरभ्युपगम्यते । किन्तु तदिलक्षणा चित्तधर्मोऽपि वासनारूपेणा- नादीमध्याज्ञानलक्षणाविवेकापरपायैव, इति ॥ २० ॥.
(१०.) सांख्यदर्शनसूत्रवृत्तौ। ननु नाविद्या सर्वथाऽवस्तु । येन तया बन्धनं न स्यात् । तत्राह- "वस्तुत्वे सिद्धान्तहानि ॥२१॥ वस्तुत्वे अविद्यायां वस्तुत्वे सिद्धान्तहानिः सिद्धान्तस्य-स्वाभ्युपग-- तस्य तदनृतत्वस्य हानिःम्हानं स्यादित्यर्थः ॥ २१ ॥ दूषणान्तरमाह- "विजातीयद्वैतापत्तिश्च" ॥ २२ ॥ वस्तुत्वे इत्यनुवर्तते । अविद्याया वस्तुत्वे विजातीयद्वैतापत्तिश्च स्यादि- त्यर्थः । सन्तानान्तःपातिव्यक्तीनामानन्त्यात्सजातीयद्वैतमिष्यत एवेत्या- शयेन विजातीयदेतमिति विशेषणमिति भाष्यकृतः ॥ २२ ॥ : शंकते- " विरुद्धोभयरूपा चेत् " ॥२३॥ ननु नाविद्याऽवस्तुभूता । नापि वस्तुभूता । किन्तु विरुद्धोभयरूंपान वस्तु, नावस्तु वस्त्ववस्तुविलक्षणेति यावत् । वस्त्ववस्तूभयरूपा वेति' चेदित्यर्थः॥२३॥ निराचष्टे- "न तापदार्थाप्रतीतेः॥॥२४॥ न यदुक्तं तन्न । कुतः १ तादृकपदार्थाप्रतीतेः जगति तादृशों वस्त्वव स्तुविलक्षणवस्त्ववस्तूभयरूपस्य पदार्थस्यामतीतः अप्रसिद्धरित्यर्थः॥२४॥ पुनराशंकते। "न वयं षट्पदार्थवादिनो वैशेषिकादिवत् ॥ २५ ॥ 'ननु न वयम् अद्वैतिनोबौद्धा वैशेषिकादिवत् नैयायिक आदिपदार्थः। कणभक्षाक्षचरंणा ' इव 'षट्पदार्थवादिनः उपलक्षणश्चैतत् पटषोडशनियत- पदार्थवदनशीलाः । तेनामतीतोऽपि मिथ्याभूतोऽविद्यालक्षणस्ताकपदा- थेऽिभ्युपैतन्य इत्यर्थः ॥ २५ ॥ पारहरात ।
प्रथमोऽध्यायः
(११)
"अनियतत्वेऽपि नायौक्तिकसंग्रहोऽन्यथावालोन्मत्ता-
दिसमत्वम्" ॥ २६॥
अनियतत्वेऽपि वैशेषिकादिवत्पदार्थनियमाभावेऽपि नायौक्तिकस्य युक्ति
मसहमानस्य लोकापसिद्धवस्त्ववस्तुविलक्षणवस्त्ववस्तूभयात्मकस्य कस्य
चित्पदार्थस्य संग्रहः-स्वीकारो भववचनमात्रादहति भवितुम् । अन्यथा
अयौक्तिकस्यापिसंग्रहे बालोन्मत्तादिसमत्वं व्युत्पत्तिशून्यो बालः
उन्मत्तो विभ्रान्तः । तदादितुल्यत्वं सङ्ग्रहीतुः स्यादित्यर्थः ।
तथा च लोकामसिद्धमिध्याभूताविद्यायाः संग्रहासंभवान्न तया पुरुष
स्यात्मनोदुःखयोगलक्षणो बन्धः शक्यसंभव इति भावः ।
एतेन शांकरं मतमप्यपास्तं वेदितव्यम् । तत्रापि योगाचारवदनिर्वचनी
याविद्यया पुरुषस्य बन्धो विद्यया च मोक्ष इत्यभ्युपगमात् ॥ २६ ॥
ननु बाह्यं विषयजातमपलपतो योगाचारस्य तादृशाविद्यया क्षणिक-
विज्ञानात्मनः पुरुषस्य बन्धो माभूत् । अनादिविषयवासनानिमित्ततो भवि-
ष्यति । परमाणुपुञात्मनो बाह्यविषयजातस्यावयोः सौत्रान्तिकवैभाषिकयो-
रङ्गीकारात, तत्राह-
"नानादिविषयोपरागनिमित्ततोऽप्यस्य" ॥ २७ ॥
अस्य-क्षणिकविज्ञानात्मनःपुरुषस्यांनादिविषयाँपरागनिमित्ततोऽपि
प्रवाहरूपेणानादियों विषयोपरागः उपरन्नकस्य बाह्यविषयस्य वासनालक्षणः
सम्बन्धविशेषः । तन्निमित्ततोऽपि तन्निमित्तकोऽपि नबन्धो नेत्यर्थः ।
मोक्षहेतोर्भावनामचयस्य स्थिरैकाश्रयाभावेन विशेषानाधायकतया.
वासनोच्छेदकत्वानुपपत्तौ विगतविषयाकारोपप्लवविशुविज्ञानसन्तानोदयल-
क्षणमोक्षानुपपत्तेरितिभावः ॥ २७ ॥
किच-
"न बाह्याभ्यन्तरयोंरुपरज्योपराकभावोऽपि, देश-
व्यवधानात, घुघ्नस्थपाटलिपुत्रस्थयोरिव" ॥ २८ ॥
(१२) सांख्यदर्शनसूत्रवृत्ती। वाह्याभ्यन्तरयो विषयविज्ञानयोरुपरज्ज्योपराकभावोऽपिपरस्परमुपर- अकत्वमुपरयत्वमपि न=न घटते । कुतः ? देशव्यवधानात मध्य शरीररूपदेशेन व्यवधानात् । तत्रादाहरणम्-सुघ्नस्थपाटलिपुत्रस्थयोरिव- यथा त्रुघ्नस्थपाटलिपुत्रस्थयाःपुष्पस्फटिकयोर्देशव्यवधानान्न परसरमुपरज्यों परन्नकभावो घटत इत्यर्थः । यथा हि वैदिकरात्मातिरिक्तं चित्तं तद्व्यतिरिक्तश्च ज्ञानेन्द्रियपश्चक जीवात्मनि पुरुषे विषयसमर्पणायाभ्युपगम्यते । न तथा वौद्धैरभ्युपेयते । येन वैदिकानामिव परम्परयाऽप्यात्मनि विषयोपरागःसंभवेत् । ते हिक्षणिक- मेव चित्तमात्मा । तस्यैव क्षणिक विज्ञानं, क्षणिका च बुद्धिरिति नामान्त- रम् । ज्ञानेन्द्रियपश्चकञ्च नगोलकव्यतिरिक्तं विषयसमर्पकमित्यभ्युपयन्ति । तस्मात्तेषां समर्पकान्तराभावनात्यन्तव्यवहितयोदेहाभ्यन्तरवाह्यदेशस्थयो- श्चित्तचैत्तयोः परस्परमुपरस्योपरनकभावोऽपि नोपपद्यत इति भावः॥२८॥ ननु क्षणिकमपि विज्ञानात्मा चित्तं न देहाभ्यन्तरमेव -। किन्तु बहिरन्तःसर्वतः पूर्णमिति न विषयोपरागानुपपत्तिस्तत्राह- "द्वयोरेकदेशलब्धोपरागान्न व्यवस्था" ॥ २९ ॥ एवन्तर्हि क्षणिकविज्ञानवादिनस्ते द्वयोः बद्धमुक्तात्मनोरुभयोरविशेषेणै- कदेशलब्धोपरागात् भावप्रधानो निर्देशः । एकस्मिन् विषयदेशे लब्धो विषयोपरागो याभ्याम्, तयोर्भावस्तत्त्वम्, तस्मान्न व्यवस्था बन्धमोक्षव्यव- स्था नस्यादित्यर्थः ॥ २९ ॥ अदृष्टतो व्यवस्थां चोदयति । "अष्टवशाञ्चेत् ॥ ३०॥ ननु बद्धमुक्तात्मनोविषयसंयोगसाम्येऽपि यस्यादृष्टमस्ति, तस्यैवादृष्ट- वशादिषयोपरागलाभोनान्यस्य मुक्तस्यादृष्टाभावादितिन बन्धमोक्षाव्यवस्थेति चेदित्यर्थः ॥ ३० ॥ भङ्गयन्तरेण दूषयति।
प्रथमोऽध्यायः। (१३) "नद्वयोरेककालायोगादुपकार्योपकारकभावः"३१॥ तथापि बौद्धस्य ते चित्तस्यात्मनः क्षणिकत्वाभ्युपगमाद्वयोः अदृष्टस्य कर्तृभाक्तचित्तात्मनोरेककालायोगा-समानकालकत्वाभावात्रोपकार्योपकार कंभावान कर्तृचित्तनिष्ठादृष्टेन भोक्तचित्तनिष्ठो विषयोपरागलक्षण उपकारः संभवतीत्यर्थः ॥ ३१ ॥ एककालायोगेऽप्युपकार्योपकारकभावं शङ्कते। "पुत्रकर्मवदितिचेत् ॥ ३२॥ ननु यथा पितृनिष्ठेन गर्भाधानादिना कर्मणा तदिन्नकालकस्य पुत्रस्य संस्कारलक्षण उपकारो भवति, तथाऽत्रापि कर्तृनिष्ठादृष्टेन भोकृनिष्ठो विषयोपरागलक्षण उपकारः सेत्स्यतीति चेदित्यर्थः । पुत्रकर्मवत् तदसमा- नकालकपितृकृतपुत्रसंस्कारककर्मवदित्यक्षरार्थः ॥ ३२ ॥ दृष्टान्तासिङ्ख्या परिहरति । "न, अस्ति हि तत्र स्थिर एकात्मा, यो गर्भाधाना- दिना संस्क्रियते ॥ ३३ ॥ न यद्भवतोतं, तद्युक्तंन । कुतः ? हि-यस्मात् । तत्र-येषां वैदिकाना- मुदाहरणं, तेषां सिद्धान्ते । यः यो जीवात्मा. । गर्भाधानादिना-गर्भ- पात्रशोधनपूर्वकगर्भनिषको गर्भाधान, गर्भः शुद्धतयाऽऽधीयतेऽनेनेति तदव्यु- त्पत्तेः। तदादी यस्य संस्कारकर्मणस्तेन संस्क्रियते-सतोऽथस्य गुणान्तराधान संस्कारस्तद्युक्तो विधीयते । सोऽस्ति-विद्यते स्थिरः स्थास्नुरेकात्मा-एको. जीवात्मा पुरुष इत्यर्थः । भवसिद्धान्तेच स तथा नास्तीत्युदाहरणासिद्धिः। तदसिद्ध्याचादृष्टस्या- व्यवस्थापकत्वेन वन्धमाक्षव्यवस्थानुपपत्तौ तदवस्थैव विषयोपंरागनिमित्ततो- ऽप्यस्य बन्धानुपपत्तिरिति भावः ॥ ३३ ॥ अर्थ बन्धविषयं बौद्धमतं निराकृत्य 'ग्रामंगच्छन्' इति न्यायेन विशेष- तस्तन्मतं निराचिकीर्षुबभाषिकन्तावत्पुनरुत्थापयति ।
(१४) सांख्यदर्शनसूत्रवृत्तौ। "स्थिरकाOसिद्धः क्षणिकत्वम्" ॥ ३४॥ ननु स्थिरका-सिद्धः स्थिरस्य-स्थायिनः कार्य्यस्य-एकस्यापि भाव- कार्य्यस्यासिद्धेः अनुपलब्धरुदाहरणाभावान कस्यापि भावपदार्थस्य स्थिर- त्वम् । किन्तु यत्सत् तत क्षणिकं ' यथा दीपशिखा, संचदं भावजातमिति भावमानस्य क्षणिकत्वं स्वोत्पत्तिक्षणमात्रावस्थायित्वं-स्वोत्पत्त्यव्यवहितो- त्तरक्षणवृत्तिध्वंसमतियोगित्वमित्यर्थः ॥ ३४ ॥ दूपयति- "न प्रत्यभिज्ञाबाधात् ॥ ३५ ॥ क्षणिकत्वमित्यनुवर्तते।न-कस्यापि भावपदार्थस्य क्षाणिकत्वन । कुतः? प्रत्यभिज्ञावाधात-यदेवाहमद्राक्षं तदेवाहं स्पृशामीति प्रत्यभिज्ञया घटपटा- दिसर्ववस्तुपु वहावनुष्णत्वाभाववत् क्षणिकत्वाभावस्य निश्चयादित्यर्थः३५॥ ननु प्रत्यभिज्ञेयं सादृश्यमवलम्बताम् , को दोषस्तत्राह- "श्रुतिन्यायविरोधाच्च" ॥ ३६॥ नेति पदमनुवर्तते । 'संदेवसोम्येदमन आसीत्' इत्यादिश्रुतिः । कथमसतः सज्जायेत' इत्यादिौतन्यायः । ' असदैकरणात् ' इत्यादिस्मार्तन्याया वा । ताभ्यामसत्त्वप्रतिषेधन भावमात्रस्य सत्त्वमतिपा- दकाभ्यां विरोधाच्च-क्षणिकत्वानुमानस्य बाधाच्च'न प्रत्यभिज्ञेयं साहश्याव- लम्बिनीभवितुमर्हतीत्यर्थः । अथवा दूषणान्तरमाह-'श्रुतिन्यायविरोधाच्च' । हेत्वन्त- रापेक्षया चः । न क्षणिकत्वमिति पदद्वयमनुवर्तते । पूर्वोक्तश्रुतिन्यायविरो- धाचन क्षणिकत्वं कस्यापि भावस्येत्यर्थः ॥ १६ ॥ ननु श्रुतिन्यायाभ्यां भावमात्रस्य 'सत्त्वमवगम्यते, नाक्षणिकत्वम् तच्चास्माकमनुकूलभव, नंप्रतिकूलम् । यत्सत् तत् क्षणिकं यथा दीपशिखा। सच्चेदं भावजातमिति मयुक्तत्वाव, तत्राह- १ छां०प्रपा०६-ख०२-१13.छ/०प्रपा० ६-खं०२-११३साका०९।
. प्रथमोऽध्यायः। (१५) "दृष्टान्तासिद्धेश्च"॥ ३७ ॥ न क्षणिकत्वमिति पदव्यमनुवर्तते । दृष्टान्ते दीपशिखादी क्षणिकत्वा- सिद्धेश्च न क्षणिकत्वं कस्याप्यमनुमातुं शक्यमित्यर्थः । दीपशिखादी हि सूक्ष्मानेकक्षणानाकलनमात्रेण क्षणिकत्वभ्रमो न परमार्थतस्तथात्वमिति भावः ॥३७ ।। किञ्च क्षणिकत्ववादे कार्यकारणभावोऽपि न संभवतीत्याह- "युगपज्जायमानयोर्न कार्यकारणभावः" ॥ ३८ ॥ युगपज्जायमानयोर्वा ऋमिकयोर्वा कार्यकारणभावो वक्तव्यः । तत्र युगपज्जायमानयोर्मुद्घटयोः सव्येतरविषाणयोरिव न कार्यकारणभावः शक्यसंभव इत्यर्थः । कारणस्य कार्यानियतपूर्ववृत्तित्वनियमादिति भावः ॥ ३८ ॥ अथ ऋमिकयोरिति चेत्, तत्राह- "पूर्वापाये उत्तरायोगात् " ॥ ३९॥ न कार्यकारणभाव इत्यनुवर्तते । क्रमिकयोरपि कार्यकारणभावो न संभवति । कुतः? पूर्वापाये-पूर्व कारणं, तदपायवेलायामुत्तरायोगात्-उत्त- रस्य कार्य्यस्योत्पत्तेरनौचित्त्यादित्यर्थः । नहि मृदपाये घट उत्पद्यते । कार्य्यस्योपादानकारणानुगततयैवानुभ- वादिति भावः ॥ ३९ ॥ किञ्च- तद्भावे तदयोगादुभयव्यभिचारादपि न " ॥४०॥ कार्यकारणभाव इत्यनुवर्तते । भावमात्रस्य क्षणिकतया तदावे-तयोः पूर्वोत्तरयोः कारणकार्ययोर्भाव-सत्वे । तदयोगात्-तयोरुत्तरपूर्वयोः कार्य- कारणयोरयोगात् असत्वादुभयव्यभिचारादपि-उभयोरन्वयव्यतिरेकयोःका- यकारणभावनियामकयोर्व्यभिचारादपि । न-कार्यकारणभावो नेत्यर्थः ।
(१६) सांख्यदर्शनसूत्रवृत्तौ। अन्वयव्यतिरेकव्यभिचारस्यैव कार्यकारणभावविघटकत्वादिति भावः ॥ ४० ॥ ननु निमित्तकारणस्येवोपादानकारणस्यापि पूर्वभावमात्रेणैव कारणत्व- मस्तु किं तस्य कार्यकाले सत्वेन, तत्राह- " पूर्वभावमात्रे न नियमः"॥४१॥ पूर्वभावमात्रे-उपादानकारणस्य कार्यापेक्षया पूर्वभावमानेऽभ्युपगम्य- माने न नियमः इदमेवोपादानकारणं नेदमिति नियमो न स्यादित्यर्थः । निमित्तकारणस्यापि पूर्वभावाविशेषादिति भावः ॥ ४१ ॥ योगाचारमतं निरस्यति । न विज्ञानमात्रं बाह्यप्रतीतेः॥४२॥ विज्ञानमात्र विज्ञानमेव । न-तत्त्वं न । कुतः ? बाह्यप्रतीतेः-वि- ज्ञानवद् वाह्यार्थानामपि प्रतीतरित्यर्थः ॥ ४२ ॥ ननु स्वाममतीतिरिवास्तु वाह्यमतीतिस्तत्राहु- तदभावे तदभावाच्छून्यन्तार्ह " ॥ ४३ ॥ तर्हिबाह्यार्थाभावे शून्यं शून्यमेव प्रसज्येत । कुतः ? तदभावे-तस्य बाह्यार्थस्याभावे । तदभावात्-विज्ञानस्याप्यभावादित्यर्थः। नास्ति निर्विषयं किमपि विज्ञानम् । स्वप्नेऽप्यर्थीनामभ्युपगमादिति भावः ॥४३॥ शून्यवादिनमुत्थापयति । "शून्यं तत्वं, भावो विनश्यति, वस्तुधर्मत्वाद्वि-. नाशस्य ॥४४॥ अस्तु तर्हि शून्यं तत्त्वं शून्यमेवैक तत्वम् । कुतः १ यतो भावो विनश्य- ति-यो यो भावः स सर्वो विनश्यत्येव । कस्मात् ? विनाशस्य वस्तुधर्म- त्वात् वस्तुनो भावमात्रस्य धर्मत्वात् स्वभावत्वादित्यर्थः । स्वभावस्तु निरनियोज्य इति भावः ॥ ४४ ॥ :
प्रथमोऽध्यायः। (१७) प्रत्याह- "अपवादमात्रमबुद्धानाम् ॥ ४५ ॥ अबुद्धानाम् अज्ञातशास्त्रतत्त्वानांशून्यवादिनां माध्यमिकानामपवादमात्र 'यो यो भावः स सर्वो विनश्यत्येव' इत्यपवादमात्रम् अपवादो मिथ्याम- वादस्तन्मात्रमित्यर्थः। निरवयवभावानां विनाशासंभवादिति भावः ॥ ४५ ॥ किन्तर्हि विधेयं ? तत्राह- " उभयपक्षसमानक्षेमत्वादयमपि"॥ ४६ ॥ उभयपक्षसमानक्षेमत्वाल्-सौत्रान्तिकवैभाषिकयोईयोःक्षणिकबाह्यार्थस्ता वदेकः पक्षः । तदिन्नस्य च तृतीयस्य योगाचारस्य क्षणिकविज्ञान- मात्रं द्वितीयः पक्षः । तदेतदुभाभ्यां पक्षाभ्यां समानः-तुल्यः: क्षेमः= रक्षणम्-तत्तन्निरासकहेतुभिर्निरसनकोटौ व्यवस्थापनं यस्य पक्षस्य । स तथा । तस्य भावस्तत्त्वं तस्मात तुल्यनिरसनहेतुकत्वादयमपि-माध्यमि- कानां तुरीयः शून्यपक्षोऽपि तदुभयपक्षवत्पारित्याज्य इत्यर्थः । नहि सर्व शून्यमित्यभ्युपगमे यदेवाहमदाक्षं, तदेवाहम्' इत्यादिप्रत्यक्ष प्रत्यभिज्ञा " घटोऽयं पटोऽयमित्यादिप्रत्यक्षाभिज्ञा वा कथश्चिदुपपद्यते । तस्मात्तदनुपपत्तिरेव क्षणिकबाह्यविज्ञानपक्षयोरिव तनिरासे हेतुः । तन्नि रस्यत्वाच्च तदुभयवदयमपि परिहेय इति भावः ॥४६ ॥ ननु नायं परित्याज्यः दुःखनिवृत्तितत्साधनयोरेकरूपत्वात् तत्राह- " अपुरुषार्थत्वमुभयथा " ॥ ४७ ॥ अपिरनुवर्तते । शून्यस्येति विपरिणम्यान्वयः । उभयथापि प्रकारद्धये- नाप्य पुरुषार्थत्व-शून्यस्य पुरुषार्थत्वं न संभवतीत्यर्थः । आत्मनः शून्यभावो दुःखनिवृत्तिरूपतया तत्साधनरूपतया वा (१८) सांख्यदर्शनसूत्रवृत्तौ। पुरुषार्थो नोपपद्यते । सर्वथाऽनिष्टत्वात् । तस्मात्परित्याज्य एवायं पक्ष इति भावः ॥ ४७ ॥ ननु क्षणिकबाह्यार्थविज्ञानमात्रशून्यानां वौद्धपक्षाणामयुक्तत्वान्माभु- त्तदभ्युपगतविषयोपरागादितः पुरुषस्य बन्धो, गतिविशेषात्स तस्य भवि- घ्यति तत्राह- न गतिविशेषात् ॥ ४८ ॥ पुरुषस्य बन्ध इति प्रकरणलाभः । न गतिविशेषात् दिव्यादिव्यशरीर- प्रवेशादि लक्षणाद्गतिभेदात्पुरुषस्य वन्धो नेत्यर्थः ॥ ४८ अत्र हेतुमाह- " निष्क्रियस्य तदसम्भवात् "॥ ४९ ॥ निष्क्रियस्य-क्रियापारीणामरहितस्यतदसंभवावगत्यसंभवादित्यर्थः॥४९॥ ननु पुरुषस्यमध्यमपरिमाणत्वमभ्युपगम्यते, न तेन तदसम्भवः, तत्राह- "मूर्तत्वाद्घटादिवत्समानधर्मापत्तावपसिद्धान्तः॥५०॥ घटादिवम्यथा घटादेर्मूर्त्तत्वात्-मध्यमपरिमाणत्वात्सावयवत्वादिधर्म वत्वं, तथा पुरुषस्यापिमूर्त्तत्वात्समानधर्मापत्ती-घटादितुल्यसावयवत्वादि- धर्मप्राप्तौ सत्यामपसिद्धान्तः सिद्धान्तस्य-स्वाभ्युपगतस्य पुरुषनित्यत्व- स्यापगतिः हानिः स्यादित्यर्थः ॥ ५० ॥ नतु निष्क्रियश्चेत् पुरुषः, तदा तस्य , गतिप्रतिपादिका श्रुति स्तवापि कथमुपपद्येत, तत्राह= "गतिश्रुतिरप्युपाधियोगादाकाशवत " ॥५१॥ त्वर्थोऽपि, पुरुषस्येति प्रकरणलाभः गतिश्रुतिरपि= "पुण्येन पुण्य लोकं नयति, पापेन पापम्' इत्यादिकागतिश्रुतिस्तूपाधियोगाद • १ प्रश्नो ०२-७ प्रथमोऽध्यायः। (१९) बुद्धिसत्वलक्षणोंपाधिसम्बन्धात पुरुषस्यगमनागमनप्रतिपादकतयोपपद्यते, तत्रोदाहरणमाकाशव-यथानिष्क्रियस्याकाशस्यघटोदश्चनाद्यपाधिसम्ब- न्धात्तमनेनगमनं तदागमनेनचागमनमित्यर्थः । तत्राकाशंविभु, पुरु- षश्वाणुरित्युदाहरणादाहरणिकयोधर्म्यम् निष्क्रियत्वञ्चतयोःसाधर्म्यम्,उपा- धिगमनागमनाभ्यामुपधेयगमनागमनमात्रे चोदाहरणमिति विवेकः ॥५१॥ नन्वस्तु तर्हि कर्मजन्यादृष्टेन वन्धः, तत्राह- न कर्मणाप्यतद्धर्मत्वात् ॥ ॥ ५२ ॥ कर्मणापि कार्य कारणोपचारः। फर्मजन्यादृष्टेनापि न पुरुषस्य बन्धो न । कुतः ? अतद्धर्मत्वात अदृष्टस्य तद्धर्मत्वाभावादित्यर्थः । पूर्व विहितनिषिव्यापाररूपेण कर्मणा बन्धो निराकृतः । अत्र तु तजन्यादृष्टेनेत्यार्थिकविभागादपौनरुत्यमिति भाप्यम् ॥ ५२ ॥ नन्वन्यधर्मेणाप्यन्यस्य बन्धः स्याद, तत्राह- "अतिप्रसक्तिरन्यधर्मत्वे॥॥५३ ।। अन्यधर्मत्वे बन्धतत्कारणयोभित्रधर्मत्वेऽतिमसक्ति: मुक्तस्यापिबन्धाप तिरित्यर्थः ॥ ५३ ॥ नन्यस्त्वदृष्टं पुरुषस्यैव धर्मः को विरोधः? तत्राह- " निर्गुणादिश्रुतिविरोधश्चति ॥ १४ ॥ इति शब्दो बन्धकारणपरीक्षासमाप्तिमाह । अदृष्टस्य पुरुषधर्मत्वे असं- गोह्ययं पुरुषः' इति गुणसङ्गप्रतिषेधेन निर्गुणतादिप्रतिपादकश्रुतिविरोध एव स्यादित्यर्थः। भाष्यकृतस्तु-'साक्षी चेता केवलो निर्गुणश्च ' इत्यादिश्रु- तिविरोधश्चेत्यर्थः इत्याहुः । तन्न युक्तम् । उक्तश्रुतेरीश्वरविषयत्वावानि- र्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः' इत्यग्रिमसूत्रविरोधाच ॥५४॥ . १ बृ०अ० ६ बा० ३-१५। २ श्वेताश्व० अ० ६ मं० ११। ३ सां० म०६सू० १०॥ -
(२०) सांख्यदर्शनसूत्रवृत्तौ।
ननु योऽयमेकोनविंशसूत्रे प्रकृतियोगः पुरुषस्य वन्धहेतू राद्धान्तितः
सोऽपि न संगच्छते।कालादियोगवत्तस्यापि मुक्तबद्धयोः समानत्वावातत्राह-
"तद्योगोऽप्यविवकान्न समानत्वम् " ॥ ५५ ॥
पुरुषस्यति संबन्धः । तद्योगोऽपि तच्छन्दः प्रकृतिमाह । पुरुषस्य प्रकृ
तियोगोप्यविवेकात्-निमित्तत्वं पञ्चम्यर्थः । अगृहीतासंसर्गकं प्रकृतिपुरुषोः
भयविषयकं वृद्धिवृत्त्यात्मकं विपर्ययज्ञानमविवेकः अविद्यास्थलाभिषिक्त-
सत्त्वपुरुषानन्यतापत्यय इति यावत । तस्मात् तनिमित्तक इति यावत् ।
अतो न समानत्वं प्रकृतिसंयोगस्य मुक्तवद्धयोः कालादियोगवत्तुल्यत्वं
नेत्यर्थः ।
मुक्तानामविवेकाभावादिति भावः ।
यथा च बुद्धिधर्मोऽप्यनादिरयमविवेकस्तथाग्रे विस्पष्ठयिष्यते ॥५५॥
नन्वविवेकस्यास्योच्छेदः कथं स्यात्, येन मोक्षो भवेत्, तत्राह-
"नियतकारणात्तदृच्छित्तिर्वान्तवत् ॥५६॥
नियतकारणात् नियतम् अविवेकनाशकतया शुक्तिरूप्यादिभूमौनिश्चितं
यत्कारण-विवेकमत्ययलक्षणं कारणं तस्मात्तदुच्छित्तिः तस्याविवेकस्यो-
च्छित्तिः उच्छेदः हानमिति यावत् । तत्रोदाहरणं ध्वान्तवत् यथा ध्वान्त
स्य-तमसो नियतकारणादालोकादुन्छित्तिरित्यर्थः ।
तदुक्तं योगशस्त्रेऽपि । स. पा० सू० २६ । 'विवेकख्यातिर-
विप्लवा हानोपाय इतिविवेकेनाविवेकनिवृत्ती तनिवन्धनः प्रकृ-
तिपुरुषसंयोगविशेषोऽपि निवर्तते । तनिवृत्तौ च तत्मयुक्तदुःखात्यन्तनि-
वृत्तिलक्षणो मोक्ष इति द्रष्टव्यम् ॥ ५६ ॥
ननुमकृतिपुरुषविवेकेन प्रकृतिपुरुषाविवेकोच्छेदेऽप्यन्याविवेकानुच्छेदाव
कथं मोक्षः स्याव? तत्राह-
"प्रधानाविवेकादन्याविवेकस्य तद्धाने हानम्॥५७॥
प्रथमोऽध्यायः। (२१) प्रधानाविवेकात्-प्रधानस्य मूलपकृतरविवेकात्=पूर्वोक्तलक्षणादविवेका- सुरुषेऽन्याविवेकस्य कार्य्यभूतमहत्तत्वाद्यविवेकस्य संभव इति शेषः । अतस्तद्धाने तस्य प्रधानाविवेकस्य हानेसम्यगुच्छेदे हानम् अन्याविवेक- स्याप्युच्छेद इत्यर्थः। कारणनाशे कार्य्यनाशस्यावश्यकत्वान्न मोक्षानुपपत्तिरितिभावः ॥५७॥ ननु विवेकनत्ययेन मोक्षाभ्युपगमे बन्धादेरवश्यं वक्तव्यतया पुरुषस्य नित्यशुद्धघुद्धमुक्तस्वभावत्वं न स्यात् , तत्राह- “वाङ्मात्रं न तु तत्त्वं, चित्तस्थिते ॥५८॥ माङ्मानं मोक्षान्तं सर्व वन्धादिकं पुरुषे वाङ्मात्रं स्फटिके लौहित्यव- दाचारम्भणमात्रं, नतु तत्व-पुष्पेलौहित्यवद्धास्तवम् । कुतः? चित्तस्थितेः- पुप्पेलीहित्यवत्सर्वेशं वन्धादीनां चित्त एवावस्थानादित्यर्थः । तथा च चित्तस्थितानामेव वन्धमोक्षविवकाविवेकसुखदुःखप्रभृतीनां तत्सन्निधानात्पुरुषे प्रतिभासो न तु स्वत इति न तस्य नित्यशुद्धबुद्धमुक्त- स्वभावत्वहानिरिति भावः ॥ ५८ ॥ नतुन्धादीनां पुरुषे वाङ्मानत्वे श्रवणतो मननतो वावाधो भविष्यति । किं श्रुतिस्मृत्योः साक्षात्कारपर्यन्तेन मोक्षहेतुविवेकमत्ययोपदेशेन ? तत्राह- "युक्तितोऽपिन बाध्यते दिङ्मूढवदपरोक्षाहते"॥५९॥ वाइमात्रमित्यनुवर्तते । वाङ्मात्रमपि पुरुषस्य वन्धादिकं सर्वमपरो- क्षाहते विवेकसाक्षात्कारं विना युक्तितोऽपि न वाध्यते-श्रवणतो न वाध्यते इति किमुवक्तव्यम् ? युक्तितोऽपि युक्तिर्मननं ततोऽपि न वाध्यते-न निव; य॑ते । तत्रोदाहरणं दिङ्मूढवत् यथा दिङ्मूढस्य पुरुषस्य वाङ्मात्रमपि दिग्वैपरीत्यं दिक्साक्षात्कारं विना श्रवणमननाभ्यां न वाध्यते, तथेत्यर्थः । अपरोक्षभ्रमेणापरोक्षविशेषदर्शनस्यैव विरोधादिति भावः ॥ ५९ ॥ ननु येभ्यः मकृत्यादिभ्यः पुरुषस्य विवेकप्रत्ययो मोक्षकसाधनमुपदि- श्यते । तसिद्धिः कथं स्यात् ? तत्राह- - - (२२) सांख्यदर्शनसूत्रवृत्तौ । "अचाक्षुषाणामनुमानेन बोधोधूमादिभिरिव वह्नः॥१६॥ अचाक्षुषाणां स्थूलभूतानि, तत्कार्यभूता देहादयश्च चाक्षुपा एव । न तत्साधनापेक्षा । ये चाचाक्षुपाः चक्षुषा ग्रहणायोग्याः अप्रत्यक्षा इति यावत् । तेषामनुमानेन अनुमानममाणेन बोधः सिद्धिर्भवतीति शेषः । तत्रोदाहरणं धूमादिभिरिव वनेः यथा धूमादिभिर्जनितेनानुमानेन वह्नः सिद्धिरित्यर्थः ।। ६० ॥ ननु किं तदनुमानं येनाचाक्षुषाणां वोध इत्याशंक्य सामान्यतो दृष्टं कार्यलिङ्गकानुमानं तत्र प्रदर्शयितुं पूर्वन्तावत्मकृत्यादीनां तेषां मिथः कार्यकारणभावमाह- "सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः १ प्रकृतेर्म- हान् १ महतोऽहङ्कारः १अहङ्कारात्पञ्चतन्मात्राण्युभयमि- न्द्रियं १६ तन्मात्रेभ्यः स्थूलभूतानि ५ पुरुषः १ इति पंचविंशतिर्गणः ॥६१॥ --सत्त्वरजस्तमाँसिद्रव्याणि । नतु गुणाः । संयोगविभागलघुत्वचलत्वगुरु- स्वादिधर्मकत्वात् । गुणशब्दमयोगस्तु तत्र रज्जुसाम्यात्पुरुषबन्धनहेतुतयौ- पचारिकः । तेषां त्रयाणां या साम्यावस्था अन्यूनानतिरिक्तावस्था न्यूना- धिकभावनासंहितावस्था, 'सा प्रकृतिः प्रधानम् । वस्तुतस्त्वका-वस्थो- पलक्षितं गुणसामान्यं प्रकृतिः । यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशमसं- गादिति । महान् महत्तत्वं=बुद्धितत्त्वमिति यावत् । अहङ्कारः अभिमान- त्तिको बुद्धितत्त्वावस्थाभेदः । शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । बाह्यमाभ्यन्तरश्चेन्द्रियमुभयमिन्द्रियम् । तत्रोत्रत्वकूचक्षुर्जिह्वाघ्राणाख्यानि। वाक्पाणिपादपायूपस्थाख्यानि च ज्ञानकर्मेन्द्रियाणि दश वाह्यमिन्द्रियम् । मनश्चैकमाभ्यन्तरमिन्द्रियम् ।व्योमानिलज्योतिरुदकभूमयः पञ्च स्थूलभूता- नि । सर्वत्रात्रोपादाने पञ्चमी । तदुपरिष्टादुत्पद्यत इतिपदं शेषणीयम् ।
प्रथमोऽध्यायः। (२३) पुरुषोत्र जीवेश्वरोभयपरः । स तु न कस्य चित्कार्य नापि कारणम् । तस्येह ग्रहणं सांख्याभ्युपगततत्त्वसंख्यापरिपूर्णार्थम् । इति इत्येवं पञ्च- विशतिः पञ्चविंशतिसंख्याको गणः-तत्त्वव्यूहः कापिलानामित्यर्थः । गुणकर्मसामान्यादयो वैशेषिकोक्ताः शक्तिसादृश्यादयो मीमांसकोक्ताश्च नातिरिक्ताः पदार्थाः। किंतु धर्मधर्म्यभेदादत्रैवान्तर्भूताः। दिक्कालौ चाकाशमेव। 'दिक्कालावाकाशादिभ्यः' इत्यागामिसूत्रात् । अभावस्तु धर्मि- स्वरूप एवाभ्युपगम्यते नार्थान्तरमिति न काचन न्यूनता । तत्र प्रकृतित्वञ्च तत्त्वान्तरोपादानत्वमित्यध्यवसेयम् ॥ ६१ ॥ नन्वस्त्वेवं प्रकृत्यादीनां कार्यकारणभावः । तथापि कस्मात्का~- कस्य कारणस्यानुमानेन बोधस्तत्राह- स्थूलात्पश्चतन्मात्रस्य" ॥६२॥ अनुमानेन बोध इत्यनुवर्तते । स्थूलात् बाह्येन्द्रियग्राह्यगुणवत्वं, शान्तघोरमूढरूपत्वं वा स्थूलत्वम् । तदाश्रयात्पृथिव्यादिस्थूलभूतपञ्चकात्का- ात् पश्वतन्मात्रस्य-गन्धादिपञ्चतन्मात्रस्यतत्कारणस्यानुमानेन यत्काऱ्या, तत्कारणपूर्वकमिति व्याप्तिमता सामान्यतोदृष्टानुमानेन बोधः-सिद्धि- रित्यर्थः ।। ६२ ।। बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य" ॥३६ ॥ अनुमानेन बोध इत्यनुवर्तते । बाह्याभ्यन्तराभ्यां मनआदिज्ञानकर्मेन्द्रि- याभ्यां कार्याभ्याम् । तैश्च स्थूलभूतकारणैः शब्दादिपञ्चतन्मात्रैश्च कार्य- रहङ्कारस्य-कारणभूताहङ्कारप्रकृतेरनुमानेन बोध इति पूर्ववत् ॥ ६३ ॥ "तेनान्त:करणस्य"॥६४॥ अनुमानेन बोध इत्यनुवर्तते । तेन अहङ्कारण कार्येणान्तःकरणस्य- महत्तत्वाख्यायाः कारणभूताया बुद्धेरनुमानेन बोध इति पूर्ववत् । इदमत्र बोध्यम् । यद्यप्यन्तःकरणं मनोबुद्धिश्चित्तमहङ्कार इति चतुष्ट- यम्, तथापि बुद्धिसत्त्वावस्थाविशेषत्वान तत्परमार्थतो बुद्धिसत्त्वव्यतिरिक्तम्, - - (२४) सांख्यदर्शनसूत्रवृत्तौ। बुद्धिसत्वमेव हि तत्तदवस्थाविशेषमापन्नं तत्तनाम्नाव्यपदिश्यते । यदा संकल्प- यति तदा मनः । यदाऽध्यवस्यति तदा बुद्धिः । यदा चिन्तयति तदा चित्तम् । यदाऽहंकरोति तदाऽहंकार इत्यभिधीयते । अवस्थाऽवस्थावतोश्च भेदाभेदाभ्युपगमाञ्चतुष्टयत्वे सत्यप्युक्तमन्तःकरणं बुद्धिरित ॥ ६४ ॥ "ततः प्रकृतेः" ॥६५॥ अनुमानेन वोध इत्यनुवर्तते । ततः अन्तःकरणात्कार्यात्मकृतेः-सर्व- कारणभूताया मूलप्रकृतेरनुमानेन बोध इति पूर्ववत् ॥ ६५ ॥ ननु प्रकृत्यन्तानां तत्त्वानां मिथः कार्यकारणभावादनुमानेन सिद्धि- रस्तु । कार्यकारणभावशून्यः पुरुषो जीवः पुनःकथं सिध्येत् ? तबाह- "संहतपरार्थत्वात्पुरुषस्य"॥६६॥ अनुमानेन बोध इत्यनुवर्तते । संहतपरार्थत्वात् संहतानांपरस्परमिलि तानांमकृतितत्काऱ्याणां परार्थत्वात् स्वेतरभोगापवर्गप्रयोजनकत्वं परार्थत्वम्। तस्मात् परप्रयोजनकत्वात्पुरुषस्य-मकृत्यादिभ्यः परस्य भोक्तुः पुरुषस्यानु- मानेन ये ये संहताः पदार्थास्ते सर्वे शय्यासनादिवत्परार्थाः संहतश्च प्रकृतितत्का>मिति सामान्यतोदृष्टानुमानेन वोधः-सिद्धिरित्यर्थः । संहननमारम्भकसंयोगः ।स चावयवावयव्यभेदात्मकृतिकार्यसाधारणः। तथा च संहतानां प्रकृतितकार्याणामिति भाष्यम् ॥ ६६ ॥ ननु महदादिवन्मूलपकृतेरपि किञ्चिन्मूलान्तरं सिध्येत्, तत्राह- "मूलेमूलाभावादमूलं मूलम्" ।। ६७ ॥ मूलं-महदादित्रयोविंशतितत्वानां मूलकारणं प्रधानं प्रकृतिरमूलं मूलान्तरवय॑म् । कुतः? मूले मूलकारणे तस्मिन् मूलाभावात् मूलस्य प्रकृत्यन्तरस्याभ्युपगमाभावादित्यर्थः ॥ ६७ ॥ ननु हेतुना सिद्धौ किमभ्युपगमाभावेन ? तत्राह-
-
प्रथमोऽध्यायः।
(२५)
"पारम्पर्येऽप्येकत्र परिनिष्ठेति संज्ञामात्रम् ॥ ६८॥
पारम्पर्येऽपि-मकृतेः प्रकृत्यन्तरम् । तस्यापि मकृत्यन्तरामित्येवं प्रकृ-
तिपारम्पय्ये सिद्धेऽप्येकत्र अन्ततोगत्वा यस्मिन् कस्मिँश्चिदेकस्मिन् प्रकृ-
त्यन्तरे परिनिष्ठा-पर्यवसानं वक्तव्यम् । अन्यथाऽनवस्थापत्तेः । यत्र वः
परिनिष्ठा, सेवास्माकं मूलमकृतिरिति= अतः संज्ञामानं-विवादास्पदं केव-
लमिहावयोर्नाममात्र स्यादित्यर्थः ॥ ६८ ॥
नतु कुत एतव ? तत्राह-
समानः प्रकृतेर्द्वयोः ॥६९॥
यत इति शेषः । यता द्वयोः वादिप्रतिवादिनोरावयोः प्रकृतः मूलका-
रणस्य समान:-अभ्युपगमस्तुल्य इत्यर्थः ॥ ६९ ॥
नन्धवं प्रकृतिपुरुषादीनामनुमानतः सिद्धी सुकरोऽयं विवेकमत्ययः
शास्त्रश्रवणादेव सर्वेषां किं न स्यात ? तनाह-
"अधिकारित्रविद्यान्न नियमः" ७० ।।
अधिकारित्रैविद्यात् मन्दमध्यमोत्तमभेदेनाधिकारिणां त्रिप्रकारत्वाननि-
यमः शास्त्रश्रवणमात्रेण सर्वेषां दृढविवेकप्रत्ययोदयनियमो नेत्यर्थः॥७०॥
ननु 'प्रकृतेर्महान् ' इत्येकाधिकपष्टितमसूत्रेण प्रकृत्यादीनां कार्य
कारणभाव एव प्रतिपादितो नतु क्रम इति श्रमसंभवाकिं तत्राचं काय
किश्च तदनन्तरामति कथं विज्ञेयं ! तत्राह-
" महदाख्यमाद्यकार्य तन्मनः॥ ७१ ।।
महदाख्यं महत्तत्वनामकमाद्यं कार्य-प्रकृतेः प्रथमं कार्य विज्ञातव्यम्
तन्मनः तदेव च महदाख्यं तत्त्वं मननवृत्तिकत्वान्मनःप्रननमत्र निश्चय
स्तवृत्तिकं बुद्धिसत्त्वमित्यर्थः ॥ ७१ ॥
" चरमोऽहङ्कारः ॥ ७२ ॥
चरमा महत्तत्त्वानन्तरस्तकार्य्यमेदोऽहंकाररा-अहंवृत्तिकस्तत्त्वविशेष इ-
त्यर्थः ॥ ७२ ॥
. . (२६) सांख्यदर्शनसूत्रवृत्ती। "तत्कार्यत्वमुत्तरेषाम् ॥७३॥ तत्कायंत्वम् अहंकारकार्यत्वमुत्तरेषाम् एकादशेन्द्रियपश्चतन्मात्राणा- मित्यर्थः । पञ्चतन्मानकार्यत्वं भूतानामित्यपि द्रष्टव्यम् ॥ ७३ ।। नन्ववं चेत् कार्यकारणभावक्रमः, तदा प्रकृतिहतुकं सर्वमिति कथ- मुपपद्येत ! तत्राह- "आद्यहेतुता तवारा पारम्पय्येऽप्यणुवत् "॥७४॥ पारम्पर्येऽपि-साक्षादहेतुत्वेऽपि तद्वारा महदादिद्वाराऽऽद्यहेतुता आ- यस्य मूलकारणस्य प्रधानस्य हेतुता-सर्वत्र कारणताऽस्त्येव । तत्र निदर्श नमणुवत् यथा वैनाशिकसमयेऽणूनां परमाणूनां व्यणुकादिद्वारा सर्वत्र सङ्घातेषु हेतुतेत्यर्थः ॥ ७४ ॥ ननु प्रकृतिपुरुषयोरुभयोर्नित्यत्वेन निखिलकार्यपूर्वभावित्वसाम्येऽपिक- थं प्रकृतिरेव जगतः कारणं न पुरुषः? तत्राह- "पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः॥७५ ॥ योः पुम्मकृत्योरुभयोःपूर्वभावित्वे अपिरनुवर्तते निखिलकार्यपूर्वभा- वित्वसाम्येऽप्यकतरस्य द्वयोरेकस्य पुरुषस्य हाने-अपरिणामित्वेन.कारण- त्वासंभवेऽन्यतरयोग अन्यतरस्य पुरुषभिन्नस्य प्रधानस्पैव कारणतायोग इत्यर्थः ॥ ७५ ॥ ननु प्रकृतिव्यतिरिक्तं किश्चिदेकं परिच्छिन्नं जगतःकारणं कल्प्यता, किंकल्पितया महत्या प्रकृत्या, तत्राह- "परिच्छिन्नं न सर्वोपादानम् ॥७६ ॥ पारीच्छिन्नं यदेकदेशि, तत्सर्वोपादानं-यत्किश्चिदुपादानं भवदपि मह- दादिसर्ववस्त्वात्मकजगदुपादानकारणं नन संभवति । परिच्छिन्नत्वान्मृदा दिवदिति शेष इत्यर्थः ॥ ७६ ॥ . त्रैव हेत्वन्तरमाह- प्रथमोऽध्यायः। (२७) 'तदुत्पत्तिश्रुतेश्च ॥ ७७॥ पूर्वसूत्रमनुवर्तते 'तद्धेदंतीव्याकृतमासीत्तन्नामरूपाभ्या- मेव व्याक्रियत'इत्यादिना प्रकृतः सकाशात्तब्यतिरिक्तस्य सर्वस्य तस्य प- रिच्छिन्नस्योत्पत्तिश्रवणाचन परिच्छिनं सर्वोपादानं संभवतीत्यर्थः ॥७७॥ नवस्तु तहभाव एव जगतः कारणमपरिच्छिन्नत्वात, तत्राह- "नावस्तुनो वस्तुसिद्धिः ॥ ७८॥ अवस्तुनःअभावाद वस्तुसिद्धिावस्तुनः=भावस्य सिद्धिः-उत्पत्तिर्न न संभवतीत्यर्थः । कार्यकारणयोः सारूप्यस्येव लोक दर्शनादिति भावः ॥ ७८ ॥ ननु तत्का> जगदापि शुक्तिरजतादिवदवस्त्वेवास्तु, तत्राह- "अबाधाददुष्टकारणजन्यत्वाञ्च नावस्तुत्वम्" ॥७९॥ अवाधात्-शुक्तिरजतादिवढ वाधाभावाददुष्टकारणजन्यत्वाच-शंखपीति- मादिवद्दष्ट कारणजन्यत्वाभावाच नावस्तुत्वं जगतोऽवस्तुत्वं नेत्यर्थः ।।७९॥ नन्ववचेत्तदाऽवस्तुनस्तस्माद वस्तुभूतमेव जगदुत्पद्यतां, तत्राह- "भावे तद्योगेन तत्सिद्धिरभाव तदभावात्कुतस्तरां- तत्सिद्धिः"॥८॥ भावेकारणस्य भावरूपत्वे तद्योगेन-तस्य भावरूपकारणस्य सवन्धेन तत्सिद्धिः तस्य भावरूपकार्य्यस्य सिद्धिः उत्पत्तिः संभवति । सतोः संबन्धो- पपत्तरिति शेषः । अभाव-कारणस्याभावरूपत्वे पुनस्तदभावात् तद्यो- गासंभवातुतस्तरां तत्सिद्धिः तस्य भावरूपकार्य्यस्य जगतः सिद्धिः- उत्पत्तिः संभवेदित्यर्थः ।। ८०॥ नन्वस्तु तर्हि कमैव जगतः कारणम् । आवश्यकत्वाद, तबाह- "न कर्मण उपादानत्वायोगात् ॥ ८१ ।। - १ वृ० अ १ बा० ४.७ ।
(२८) साख्यदर्शनसूत्रवृत्तौ। तत्सिदिरित्यनुवर्तते । न कर्मणः अदृष्टात् तत्सिद्धिः नगदुत्पत्तिः संभवति । कुतः १ उपादानत्वायोगात्-कर्मणो निमित्तत्वेऽप्युपादानत्वानी- चित्त्यादित्यर्थः ॥ ८१ ॥ ननु कर्मणो निमित्तत्व मोक्षोऽपि तेनैव सेत्स्यति किं परिणामित्वापरि- णामित्वपरार्थत्वापरार्थत्वादिना पुम्पकृत्योविवेकप्रदर्शनेन? तत्राह- "नानुश्रविकादपि तसिद्धिः साध्यत्वेनावृत्तियोगा- दपुरुषार्थत्वम्" ।। ८२ ॥ कर्मण इत्यनुवर्तते । दृष्टात्कर्मणो न तसिद्धिरिति किमुवक्तव्यम् । आनुश्रविकादपि गुरुपाठादनुश्रूयत इत्यनुश्रवः वेदस्तद्विहितं यागादि- के कर्मानुश्रविक, तस्मादपि कर्मणो न तसिद्धिः तस्य दुःखात्यन्तनिवृ- त्तिलक्षणस्य मोक्षस्य सिद्धिः-निप्पत्तिर्न । कुतः ? यतःसाध्यत्वेन मोक्षस्य कर्मसाध्यत्वेनावृत्तियोगात्="तद्यथह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकाक्षीयते । "क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इति पुनरावृत्तिसंवन्धावश्यंभावादपुरुषार्थत्वं= पुरुषार्थत्वं न संगच्छत इत्यर्थः । पूर्व कर्मणा वन्धो निराकृतः सम्पति मोक्ष इत्यपौनरुक्त्यम् ॥८२ ॥ नन्वेवं पश्चामिविद्यारूपेणोपासनाख्यकर्मणा मोक्षसुखभोगाय ब्रह्मलोकान् गतानामपुनरावृत्तिश्रुतिः कथमुपपद्येत, तत्राह- "तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः॥ ८३ ।। अनावृत्तिश्रुतिः 'तेर्वा ब्रह्मलोकेषु पराः परावतो वसन्ति, तेषां न पुनरावृत्तिः इति श्रुतिस्तत्र-तेषु ब्रह्मलोकेषु प्राप्तविवेकस्य% प्राप्तो विवेको येन, तस्य-विषयत्वं षष्ठ्यर्थस्तद्विषयैव. मन्तव्या! नान्यविषये- -त्यर्थः ॥ ८३ ॥ १ छो० पाठ ८ खं०१-६॥ २ गी०-०९-श्लोक २१ । ३ बृहदा०अ०८ मा०२-१५ ।
प्रथमोऽध्यायः। (२९) ननु किन्तर्हि कर्मणः फलं, तत्राह- "दुःखादुःखं जलाभिषेकवन्नजाड्यविमोकः" ॥ ८४ ।। कर्मण इति पूर्वसूवादनुपज्यते । दृष्टानुश्रविकाद हिंसावहुलाकर्मणः पुरुषस्याधिकारिणो दुःखाहःखदुःखमनुदुःख-दुःखधारैवेति यावत् फलं भवति, न जाइयविमोकः जाड्यमविवेकम्तस्यात्यन्तनिवृत्तिर्विमोकः फलं नेति शेषः । तत्रोदाहरणं जलाभिषेकवत् यथा जाड्यातस्य पुरुषस्य जलाभिषेकात्कर्मणोदुःखाद्दुःखं फलं भवति न जाड्यविमोक इत्यर्थः॥८४॥ ननु काम्यस्य कर्मणो दुःखादुःखं फलमस्तु । निष्कामस्य तु तस्य श्रुतिस्मृतिभ्यां मोक्षफलकत्व सिद्धी तथा फलं कथं स्यात्, तत्राह- "काम्येऽकाम्येऽपि, साध्यत्वाविशेषात् ॥ ८५ ॥ काम्ये यथा काम्ये कर्मणि दुःखाद्दुःखं फलम् । तथाऽकाम्येऽपि निष्कामकर्मण्यपि बोद्धव्यम् । कुतः ? साध्यत्वाविशेषाव-कर्मसाध्यत्वस्यो- भयत्रापितुल्यत्वादित्यर्थः । निष्कामकर्मणः फलं हि न साक्षान्मोक्षः। तस्य 'तमेवं विदि- त्वातिमृत्युमेति । इति श्रुत्या ज्ञानमात्रैकफलतांनिश्चयात् । किन्तु 'तमेतं ब्राह्मणाविविदिषन्ति यज्ञेन दानेन कर्मणाऽनाश- केन' इति श्रुतेरन्तःकरणशुद्धिवारा मोक्षहेतुसत्वपुरुषान्यताप्रत्ययः । स च त्रिगुणात्मकप्रकृतिसत्वकार्य्यतया दुःखमेव । न सुखमिति भावः । यस्तु निष्कामकर्मणि श्रुतिस्मृत्योः साक्षान्मोक्षसाधनत्वमवादः । सच ग्राममार्ग दर्शयितरि ग्रामं दर्शयतीतिवदौपचारिको न मुख्य इति द्रष्टव्यम् ॥ ८५ ॥ नन्वेवं भवतां मोक्षोऽपि दुःखमेव स्यात् साध्यत्वाविशेषात् । तत्राह- "निजमुक्तस्य बन्धध्वंसमात्रं परं न समानत्वम्॥८६॥ १ श्वे०अ०३ मं०८।२ ३०अ०६ प्रा० ४ कं० २२ ।
(३०) सांख्यदर्शनसूत्रवृत्ती । निजमुक्तस्प-निजेन आत्मीयन विवेकमत्ययेन मुक्तस्य-मुक्तिंभानः पुरुषस्य यत्परम् आत्यन्तिकं बन्धध्वंसमात्रम् अविवेकनाशेनतत्कृतदुःखयोगलक्षण- बन्धस्य निवृत्तिमानं तदेव विवेकमत्ययस्य फलमिति शेषः । तस्मान समा- नत्वं-तस्यकर्मफलनुल्यत्वं नेत्यर्थः । अतीतावस्थालक्षणस्यध्वंसस्याविनाशितया पुनर्वधासंभवेनादुःसत्वादि- तिभावः ॥ ८६ ॥ नवस्तु प्रकृतिपुरुषयोविवेकप्रत्यय एव साक्षान्मोक्षस्योपायः । तथापि ममाणोपदेशाभावे तत्सिन्दिः कथं स्यात् ? तबाह- "द्वयोरेकतरस्यवाऽप्यसनिकृष्टार्थपरिच्छित्तिःप्रमा, तत्साधकतमं यत् तत्रिविधं प्रमाणम्" ॥ ८७ ॥ दयोः बुद्धिपुरुपयोरुभयोरेकतरस्यवापि तयोरेकस्य बुद्धिसत्त्वस्यैव वा पुरुषस्यैव वा येयमसनिकृष्टार्थपरिच्छित्तिः असनिकृष्टस्य-प्रमातारोहोऽत्र सन्निकर्षः । तद्रहितस्य-पूर्वमनधिगतस्येति यावत् । अर्थस्य-सामान्यविशे- पात्मनो घटपादिभेदभिन्नस्य विषयजातस्य परिच्छित्तिः स्वनिष्ठतयावधारणं, सा प्रमा-पमितिः यथार्थानुभूतिः फलामिति यावत् | तत्साधकतमंयत्- तस्याःफलरूपममाया यदतिशयेन साधकम् असाधारणकारणमिति यावत् । तत्ममाणं माणसामान्यम् । तच्चास्माकं सांख्यानां मत्यक्षानुमानशब्दभेदात त्रिविध त्रिपकारंमित्यर्थः । तत्रयदि प्रमारूपं फलं बुद्धिनिष्ठमिप्यते।तदा ममात्रीबुद्धिः,तदुपहितः पुरुषः 'साक्षी, घटोऽयंपटोऽयमित्याद्याकारा बुद्धिवृत्तिःममा, चक्षुरादयः प्रमाणम् । यदा तु पुरुषनिष्ठं तदिष्यते, तदा बुद्धौ प्रतिविम्वितः पुरुषः प्रमाता । शास्त्रे तनिष्ठस्यैव पुरुषनिष्ठत्वव्यपदेशात् । स एव बिम्बलक्षणः साक्षी । घटमहं जानामि, पटमहं जानामीत्याद्याकारः परैरनुव्यवसायनाम्ना परिभा- षितस्तत्तद्विषयोपरक्तबुद्धिवृत्तिविषयो बोधः प्रमा। घटोऽयं पटोऽयमित्या- - प्रथमोऽध्यायः। (३१) दिबुद्धिवृत्तिः प्रमाण मुख्यम् । चक्षुरादिकं तु गौणम् । चदा तुभयनिष्ठं तदा यथायथं तदुभयमिति विवेकः । इदमन बोध्यम् । यद्यप्यत्राचार्यः प्रमाविकल्पः सूत्रितः । तथापि पौरुषेयवोध एव फलं ममेति मुख्यः सिद्धान्तः । पुरुषार्थ करणानां प्रवृत्ते वक्ष्यमाणत्वात् । तत्र पौरुषेयवोधोऽपि न पुरुषस्य काचन वृत्तिः, न वा बुद्धिवृत्तिजन्यः कश्चन धर्मः, परिणामित्वमङ्गात् । किन्तु बुद्धी प्रतिविम्बि तस्तत्तदर्थीकारया बुद्धिवृत्त्या तदाकारतामापद्यमानस्तदुभयावभासकश्चेतनः पुरुष एवेति वाचस्पतिमिश्राः । तत्तद्विषयोपरतवुद्धिवृत्तिमतिविंवोपहिता केवला-चितिरेवेति भाष्यकृतः । पौरुपेय इत्याचाराधेयभावश्चोभयत्रापि समारोपित एव न मुख्य इति ।। ८७ ॥ नतु विविध प्रमाणामति नोपपद्यते । प्रमाणाधिक्यस्यापि सिद्धत्वात् । तबाह- "तत्सिद्धो सर्वसिद्ध धिक्यसिद्धिः ॥ ८८॥ तसिद्धौ-तस्य त्रिविधममाणस्य सर्वार्थसाधकत्वसिद्धी सर्वसिद्धः सर्वेषां प्रतिवादिभिरभ्युपगतानामुपमानादीनामपि तेष्वेवान्तर्भावसिद्ध धिक्यसि- दिममाणाधिक्यस्य सिदिन भवतीत्यर्थः । अन्तर्भावस्तु सांख्यतत्त्वकौमुद्यां विस्पष्टः ॥ ८८ ॥ ननु प्रत्यक्षप्रमाणस्य किं लक्षणं ? तत्राह- "यत्सम्बद्ध सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षम्॥९॥ सम्बद्ध सब इन्द्रियसन्निकर्षद्वारा विषयसम्बद्ध भवत् तदाकारोल्लोख- विषयाकारपारि यत्-घटोऽयं पटोऽयमित्येवमादियविज्ञानं बुद्धिवृत्यात्मकं ज्ञान तत्मत्यक्ष-प्रत्यक्षप्रमाणमित्यर्थः ॥ ८९ ॥ ननु योगिप्रत्यक्षेऽव्याप्तिः । तत्मत्यक्षस्यातीतानागतव्यवहितविप्रकृष्टव- स्तुविषयत्वेन विषयेन्द्रियसनिकर्षद्वारा संवद्धवस्त्वाकारत्वाभावाद, तबाह- " योगिनामवाह्यप्रत्यक्षत्वान्नदोषः ॥ ९० ।। योगिनां योगनधर्मवतां पुरुषाणामवाह्यमक्षत्वान्न विद्यते बाह्य-वाले (३२) सौख्यदर्शनसूत्रवृनी। न्द्रियप्रयोज्य-विषयेन्द्रियसनिकर्षप्रयोज्यमिति यावत् प्रत्यक्षं येषां, ते तथा, तेषां भावस्तत्वं, तस्मात् इन्द्रियसनिकर्षामयोज्यवाह्यविषयमत्यक्षत्वान दोषः तत्सत्यक्षेऽन्याप्तिलक्षणो दोषो नेत्यर्थः। इन्द्रियसंनिकर्षप्रयोज्यवाह्यविषयप्रत्यक्षस्यैवात्र लक्ष्यत्वेन योगिमत्य- क्षस्यालक्ष्यत्वादिति भावः ॥ १० ॥ अथवा भवतु तदपि लक्ष्यमेवेत्याह- लीनवस्तुलब्धातिशयसंबन्धाद्वाऽदोषः" ॥९१॥ लीनवस्तुषु अतीतानागतव्यवहितविमकृष्टवस्तुविषयेषु लब्धातिशयसं- बन्धादा योगप्रभावेन लब्धोऽतिशयो येन योगीन्द्रियेण तत्संबन्धस्य सद्भा- वादाऽदोषः उक्ताव्याप्तिलक्षणो दोषो नेत्यर्थः ॥ ९१ ।। नन्वस्मदीश्वरमत्यक्षेऽव्याप्तिः । तस्य जन्यत्वेऽपीन्द्रिय सन्निकर्षामयो ज्यत्वाभ्युपगमादिति जैनमाशयनिराचष्टे- "ईश्वरासिद्धेः ॥ ॥ ९२ ॥ अदोष इत्यनुवर्तते । यस्येश्वरस्य भवता प्रत्यक्षमुदाहियते । तस्यैवा- सिद्धरेदोषः उत्ताव्याप्तिलक्षणो दोपा नेत्यर्थः ॥ ९२ ॥ ननु कस्मान्न तत्सिद्धिः । तत्राह- मुक्तबद्धयोरन्यतराभावान्न तसिद्धिः ॥ ॥ ९३ ॥ साधितोऽपीश्वरः पुरुषविशेष एव वक्तव्यः । स च मुक्तबझ्योरन्यतरः स्यात् । तस्य च मुक्तवद्धयोरन्यतरस्येश्वरत्वासंभवान तसिद्धिरित्यर्थः॥९३॥ ननु कस्मादसंभवः १ तबाह- उभयथाप्यसत्करत्वम् ॥ ९४॥ यत इति शेषः । यतो मुक्तो वा स्याबद्धो वा स्यादुभयथापि%3D मकारद्वयेनापि तस्यासत्करत्वंसत विद्यमानस्यास्य जगतः करत्वम् उत्पा दकत्वं न संभवतीत्यर्थः । मुक्तस्य प्रयोजनाभावाद् बद्धस्य च सामर्थ्या भावादुत्पादकत्वासम्भवः। तदसम्भवे च तदसम्भव इति भावः ॥ ९४ .
प्रथमोऽध्यायः। (३३) ननु जगजन्मानभ्युपगमादेवमीश्वरोमासैसीव, अस्मदागमविहित तत्म शंसोपासान्यथानुपपत्या सेत्स्यति, तत्राह- "मुक्तात्मनः प्रशंसोपासांसिद्धस्य दागा ९५॥ चार्थीवाकारः । मुक्तात्मनः भवदागमेषु तु मुक्तिं प्राप्तस्य जीवात्मनः प्रशंसा-निर्दुःखत्वादिसाम्यादीश्वररूपतयास्तुतिः, सिद्धस्यवा-तपःमभावा- सिद्धिगत्तस्य जीवविशेषस्य चोपासा-मोक्षमाणानांहितार्थमुपास्तिर्विद्यते, न भगवती विश्वभर्तुरीश्वरस्येत्यर्थः ॥ नहि भवदागमास्तावनगतांपति मीश्वरं प्रशंसन्ति, तदुपासनश्च विदधति, येन तदन्यथानुपपत्त्याकश्चिदीश्वरः सिध्येत् । अपिच मुक्तात्मनः प्रशंसां सिद्धस्यचोपासां विदधते । तत्रच मुक्तात्मनोऽसङ्गत्वेन ज्ञानासम्भवाद, सिद्धस्य च शरीरित्वेन तज्ञानस्ये न्द्रयसत्रिकर्षप्रयोज्यत्वावश्यंभावानतंत्मत्यक्षेऽव्याप्तिलक्षणः कश्चिदोषःसम्भ वतीतिभावः ॥ ९५ ॥ ननु तवापि सांख्यस्य नित्यशुद्धबुद्धमुक्तस्वरूपत्वनेश्वरस्य प्रकृतिपुरु- पाधिष्ठातृत्वं नोपपपद्यते, तत्राह-- "तत्सन्निधानादधिष्ठातृत्वमणिवत्" ॥ ९६ ॥ सांख्यानामस्माफन्तु तत्सविधानाव-प्रकृतिपुरुषाभ्यां सनिधानंतत्सन्नि धान,तस्माद्भगवतःपरमेश्वरस्याधिष्ठातृत्वं प्रकृतिपुरुषनियन्तृत्वं जगदचना- येप्रकृतिपुरुषमेरकत्वमुपपद्यते, मणिवल्यथाऽयस्कान्तमणेः शल्यनिष्कर्ष- णाय सन्निधिमात्रेणलोहमेरकत्वमित्यर्थः। यद्यपि क्लेशकर्मविपाकाशयरपराम प्रत्वान्नित्यशुद्धबुद्धमुक्तस्वरूपः परमात्मा,तथापि स ज्ञानक्रियाशक्तिकोऽप्य- भ्युपगभ्यते, ज्ञानक्रियाशक्तिश्च तस्य सर्वथा साम्यातिशयविनिर्मुक्ता न जातु ज्ञानान्तरेण क्रियान्तरेण च केनचिदतिशय्यते । अतोऽस्यसनिधिमात्रेण प्रकृ- तिपुरुषाधिष्टातृत्वमपि नानुपपन्नं भवति । सन्निधानञ्चानेश्वरस्य प्रकृतिपुरुषा भ्यांसाक्षात्सम्बन्धविशेषः, सच न संयोगो नापि समवायोऽपिच स्वस्वामि- भावः प्रकृतिपुरुषयोस्तत्रस्वत्वाव, ईश्वरस्य च स्वामित्वाव । सचापि वाह्या (३४) सांख्यदर्शनसुत्रवृत्तौ। नामिव नागन्तुकः किन्तु सदातन एव मन्यते, अतएव च स सदेववरः सदेव मुक्त इति वैदिकानामचलोराद्धान्तः । अतस्तस्य नित्यशुद्धबुद्ध- मुक्तस्वरूपत्वेऽपिनिखिलशनिसम्पन्नत्वात् प्रकृतिपुरुषाधिष्ठातृत्वे न कश्रिद्दा- पइति भावः ॥ ९६ ॥ नतु चेतनत्वाविशेषानीवानामिवेश्वरस्यापि सङ्कल्पादिदारवाधिष्ठातृत्वं किं न स्यात् ? कृतं सनिधिमात्रेण, तत्राह- "विशेषकार्येष्वपि जीवानाम् " ॥ ९७ ॥ भिन्नक्रमोऽपिः । तत्सनिधानादधिष्ठातृत्वमित्यनुवर्तत । जीवानामपि3 बुद्धिमतिविम्विताहङ्कारविशिष्टचेतनानामपि विशेषफार्येपु-आहारविहारादि लक्षणेपु कार्य्यभेदेषु तत्सविधानाव=चुद्धिसनिधिमात्राबुद्धयधिष्ठातृत्वं न सङ्कल्पादिनेत्यर्थः ।। ९७ ॥ ननु सन्निधिमात्रेण चेदीश्वरस्याधिष्ठातृत्वं, न सङ्कल्पादिना, तदा सर्गा- रम्भे जीवानां वेदवाक्यापिदेशः कथं स्यात् ? तत्राह- सिद्धरूपबोवृत्वाद्वाक्पार्थोपदेशः ॥ ९८॥ सिद्धरूपबोद्धृत्वाद-सिद्ध निखिलशक्तिसम्पन्नं रूपं स्वरूपं यस्य, स सिद्धपः परमात्मा,तस्य वोद्धृत्वाव-सनिधिमात्रेणवोधकत्वात्, बोधोज्ञान, तत्प्रदातृत्वादितियावद् वाक्यार्थोपदेशः अम्यादिमहर्षिदारा वेदवाक्यार्था- नुशासनं सम्भवतीत्यर्थः ॥ ९८॥ ननु पुरुषमात्रस्य चेत्सनिधिमात्रेणाधिष्ठातृत्वं गौणं, तदा सङ्कल्पा दिद्वारकं मुख्य कस्य ? तत्राह- अन्त: करणस्थ तदुज्ज्वलितत्वाल्लीहवद- धिष्ठातृत्वम् ." ॥ ९९ ॥ लोहवतः यथा स्वसन्निहितेनज्वलनशक्तिवह्निना लोहपिण्डस्योज्ज्वलितत्वं भवति,तथाऽन्तःकरणस्य-बुद्धिसत्त्वस्य तदुज्ज्वलितत्वा-तेन स्वसन्निहिते 4 प्रथमोऽध्यायः। (३५) चेतनशक्तिपुरुषेणोज्ज्वलितत्वात-चेतनायमानत्वादधिष्ठातृत्वसंकल्पाद्याथ- यत्वसंभवात्तद्वारकं मुख्यमाधिष्ठातृत्व-नियन्तृत्वमित्यर्थः ॥ ९९ ॥ एवं विस्तरेण प्रत्यक्ष लक्षितम् । क्रमप्राप्तमनुमानं लक्षयति । "प्रतिवन्धदृशः प्रतिवद्धज्ञानमनुमानम्" ॥१०॥ प्रतिवन्धशः प्रतिबन्धो व्याप्तिस्तद्विशिष्टो हेतुरत्र लक्ष्यते । तं पक्षधर्म- तया पक्ष्यतीति प्रतिवन्धक । तस्य-व्याप्तिविशिष्टपक्षधर्मताज्ञानवतःसिपा- धयिषाविस्य यत्प्रतिवद्धज्ञान-प्रतिबदस्य-निरूपकत्वेन प्रतिबन्धाश्रयस्य “साधनीयधर्मस्य ज्ञान-पक्षनिष्टतया जायमानं बुद्धिवृत्त्यात्मकं ज्ञानं, तद- नुमानम् अनुमानप्रमाणमित्यर्थः । अत्र फलमनुमितिः पौरुषेयो बोध इति पूर्ववत् ॥ १०० ॥ शब्दं लक्षयति- "आप्तोपदेशः शब्दः ॥ १०१।। आप्तोपदेशः उपदिश्यतेऽनेनेत्युपदेशः वाक्यम् । अर्थाव्यभिचारित्वमा- प्तिस्तया वर्तत इत्याप्तः । आप्तवासाबुपदेशश्रेत्याप्तोपदेशः वेदवाक्यम् । तजनितं बुद्धिवृत्यात्मकं वाक्यार्थज्ञानं शब्द:-शब्दप्रमाणमित्यर्थः । अत्रापि फलं पौरुषेयो बोधः शाब्दी समेति पूर्ववद्रष्टव्यम् ॥१०॥ यदर्थोऽयं प्रमाणोपदेशस्तत्स्वयमाह- "उभयसिद्धिःप्रमाणात्तदुपदेशः ॥१०२॥ यतोऽत इति पूरणीयम् । यत उभयसिद्धिः-उभयोः प्रकृतिपुरुषयोः सिद्धिः मिथो विवेकेन ज्ञप्तिः प्रमाणात उक्तलक्षणात्ममाणादेव भवति । अतस्तदुपदेशःप्रमाणानुशासनमित्यर्थः ॥ १०२ ॥ ननूक्तममाणानां मध्ये कस्मात्प्रमाणात्तदुभयसिद्धिर्भवति ? तत्राह- "सामन्यतो दृष्टादुभयसिद्धिः॥ १०३॥ पूर्ववच्छेपवसामान्यतादृष्टश्चेति त्रिविधमनुमानम् । अन्वयमात्रव्याप्तिकं 'पूर्ववत् । व्यतिरेकमात्रव्याप्तिकं शेषवत् । सामान्यतोदृष्टान्वयव्यातिरेकन्या- (३६) सांख्यदर्शनसूत्रवृत्तौ। प्तिकं सामान्यतोदृष्टम् । तत्रोभयसिद्धिः प्रकृतिपुरुषोभयसिद्धिः सामान्यतो- दृष्टात सामान्यतो दृष्टसंज्ञकादनुमानादित्यर्थः ॥ १०३ ।। नन्विष्टानिष्टविषयः प्रमाणजनितो वोधः पौरुषेयो न संगच्छते । तस्य बुद्धिवृत्त्यात्मकत्वेन पुरुषनिष्ठत्वाभावात, तत्राह- "चिदवसानो भोगः ॥१०४॥ भोगः इष्टानिष्टविषयानुभवलक्षणो भोगश्चिदवसानः चिति-पुरुषेऽवसा- नं-पर्यवसानं यस्य स तथेत्यर्थः । यद्यपि विषयानुभवलक्षणो भोगो बुद्धिवृत्त्यात्मकः, तथापि नासौ बुद्धौ- पर्य्यवस्यति । तस्या जडत्वेन भोक्तशक्तिहीनत्वात् । पुरुषस्त्वकर्तापि चेतनत्वान्न भोक्तशक्तिहीनः । तस्मात्तस्य तत्तद्विषयोपरक्तबुद्धिवृत्तिपतिवि- म्बिते पुरुषे पर्यवसानमिति भावः ॥ १०४ ॥ ननु चिदवसानो भोग इत्ययुक्तम् । लोके कर्तुरेव क्रियाफलोपभोगदर्श- नाद, तत्राह- "अकर्तुरपि फलोपभोगोऽन्नाद्यवत्" ॥१०५॥ अकर्तुरपि-कर्माकर्तुरपि पुरुषस्य स्वामिनः फलोपभोगः बुद्धिकर्तृक- 'क्रियाफलोपभोग उपपद्यते । अन्नाद्यवत्-दिगादित्वायत । यथाऽन्यकृताना- देरुपभोगस्तत्स्वामिनो नृपतेरित्यर्थः । अदनीयमाद्यं, तच्च तदन्नश्च-अन्नाचं तदिति माधवाचार्यः ॥ १०५ ॥ नन्वेवं 'शास्त्रफलं प्रयोक्तरि' इति शास्त्रं व्याकुप्येत, तत्राह- "अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः" ॥१०६॥ स्वाभिमतपक्षान्तरसूचनार्थ वा शब्दः । अविवेकादा-प्रकृतिपुरुषयो- विवेकग्रहाभावाद्वा तत्सिद्धः कर्तृभूताया बुद्धरुपरागात्पुरुषस्य कर्तृत्वसिद्धेः कर्तुः कर्तुरेव फलावगमः-क्रियाफलोपभोगो नान्यस्येत्यर्थः ॥ १०६ ॥ . १ पूर्वमी० अ० ३.पा. ७ सूत्र १८.
-- प्रथमोऽध्यायः। (३७) नन्वेवं भोक्तृत्वं तस्य वास्तवं प्रसक्तं, तथाचानिमोक्षमसङ्गस्तत्राह- "नोभयञ्च तत्त्वाख्याने" ।। १०७॥ तत्त्वाख्याने प्रकृतिपुरुषयोःस्वरूपं तत्त्वं, तस्याख्याने साक्षात्कारे जाते नोभयञ्च-कर्तृत्वभोक्तृत्वोभयमपि नावतिष्ठते इत्यर्थः । कर्तृत्वस्येव तत्समकक्षभोक्तृत्वस्याप्यौपधिकत्वाभ्युपगमादितिभावः१०७॥ ननु यत्मत्यक्षण नोपलभ्यते तन्नास्त्येव, कुतः?सामान्यतो दृष्टात्तदुभय- सिद्धिः, तत्राह- " विषयोऽविषयोऽप्यतिदूरादेानोपादाना- भ्यामिन्द्रियस्य ॥ १०८॥ चोऽनुवृत्तिःपूर्वसूत्रात् । भिन्नक्रमोऽपिः । हानं घातः। उपादान-विमो- हकरविषयान्तरोपादानं-मनोऽनवस्थानमिति यावत् । न प्रत्यक्षेणानुपलब्धे- रर्थस्याभावः साधयितुं शक्यते । यतोऽतिदूरादेः भावप्रधानो निर्देशः । अतिदूरत्वादेषात् । आदिपदेन 'अतिसामीप्यसौक्ष्म्यव्यवधानाभिभवस- मानाभिहाराणां सङ्ग्रहः' । हानोपादानाभ्याश्चन्द्रियस्य चक्षुरादीन्द्रियस्य घातानवस्थानाभ्याश्च विषयोऽपि प्रत्यक्षस्य विषयोऽप्यविषयो भवती- त्यर्थः ॥ १०८॥. ननु कस्मात्पुनरेतेषु दोषेषु प्रकृतिपुरुषयोः प्रत्यक्षणानुपलब्धिस्तत्राह- "सौक्ष्म्यात्तदनुपलब्धिः ॥ ॥ १०९।। सौक्ष्म्याव-निरवयवद्रव्यत्वं सौक्ष्म्यं, तस्मात्तदनुपलब्धिः तयोः प्रकृ- तिपुरुषयोरनुपलब्धिः प्रत्यक्षत्वाभाव इत्यर्थः ॥ १०९ ॥ नन्वभावादेव तदनुपलब्धिः किं न स्यात्कृतं तत्र सौक्ष्म्यकल्पनया तत्राह- "कार्यदर्शनात्तदुपलब्धे ॥११० ॥ कार्य्यदर्शनात्-महदादिभूतान्तकार्य्यस्यदर्शनात् । तत्कारणतया तदो- (३८) सांख्यदर्शनसूत्रवृत्तौ। कृतयांचतदुपलब्धेः=तयोः प्रकृतिपुरुषयोरनुमित भाव इत्यर्थः ।। ११०॥ : ननु कार्य्यदर्शनात्कारणमानं गम्यते न प्रकृतिरिति शंकते। "वादिविप्रतिपत्तस्तदसिद्धिरिति चेत् ।। ११२ ॥ वादिविप्रतिपत्तेः वादिनां जगत्कारणतया शून्यब्रह्मपरमाणुवदनशीला- नां सौगतातिचार्वाकाणां विमतिपत्तेः कारणगोचरविम्मतिपत्तेस्तदसि- द्धिः तस्याः मकृतेन सिद्धिरिति चेदित्यर्थः ॥ १११ ॥ अभ्युपेत्य परिहरति । "तथाप्येकतरदृष्टयाऽन्यतरसिद्ध पलापः" ॥ ११२ ॥ तथापि प्रकृती वादिनां विप्रतिपत्तावप्येकतरदृष्टया कार्यकारणयोरे- कस्य कार्यस्य दृष्ट्या दर्शनेनान्यतरसिद्धः तयोरन्यस्य नित्यकारणस्य सिद्धः अनुमिते पलाप: न तदपन्हवः संभवतीत्यर्थः ॥ ११२ ।। ननु न कारणमपलप्यते । किन्तु प्रकृतिस्तत्राह- 'विविधविरोधापत्तेश्च ॥११३॥ नापलाप इत्यनुवर्तते । 'अंजामेकाम् । इत्येकः श्रुतिविरोधः । 'अंकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' इति स्मृतिवि- रोधो द्वितीयः । यादृशं कार्य तादृशं कारणम् । कार्य्यश्च त्रिगुणात्मकम् । तस्मात्तत्कारणमपि तथेति न्यायविरोधस्तृतीय इत्येतस्य त्रिविधविरो- धस्यापत्तेः प्राप्तेश्च नापलापःन कारणभूतायाःप्रकृतेरपलापःसंभवतीत्यर्थः । त्रिविधी गुणः सत्वरजस्तमांसि, तद्विरोधः तच्छून्यं जगद्भवेत्, न चैवं दृश्यत इत्यनिरुद्धः ॥ ११३ ॥ - ननु तदा हि कार्याधारतया नित्या प्रकृतिः सिध्येत, चेदुत्पत्तेः माक कार्य सद्भवेदान चोत्पत्तेः प्रागस्ति कार्य सत् । असदुत्पादाभ्युगमात,तत्राह- "नालदुत्पादो नृशृङ्गवत् ॥ ११४॥ १ श्वे० अ० ४ मं० ५। २ गीता अ० ३ श्लो० २७ ।
प्रथमोऽध्यायः। (३९) नासहुत्पादःकारणव्यापारात्मागसतः कार्य्यस्य कारणब्यापारणोत्पादो न संभवति, नृशृङ्गवत् यथाऽसतो नृशृङ्गस्य कारणव्यापारणोत्पादो नेत्यर्थः ।। ११४ ॥ ननु कस्मान संभवति ? तत्राह- "उपादाननियमात्" ॥ ११५ ॥ उपादानस्थ उपादानकारणस्य नियमात्-चटं प्रति मृद इव ज्ञानं प्रति चिद इव मतिकार्य नियमादित्यर्थः । चेदसदुत्पद्येत तदा प्रतिकारणं कार्यमानासत्त्वतौल्यात्तनियमोब स्यादिति भावः ॥ ११५ ॥ किन । "सर्वत्र सर्वदा सर्वासंभवात्" ।। ११६ ॥ नासदुत्पाद इत्यनुवर्तते । सर्वत्र सर्वस्मिन् कारणे सर्वदा सर्वस्मिन्, काले सर्वासंभवात्सर्वस्य कार्य्यस्योत्पादासंभवान्नासदुत्पादः संभवतीत्यर्थः । असदुत्पादे चासत्वाविशेषात्सर्वत्र सर्वदा सर्वसंभवेदिति भावः॥ १.१.६।। किश्च। "शक्तस्य शक्यकरणात् ॥ ११७ ॥ नासदुत्पाद इत्यनुवर्तते । शक्तस्य-कारणेकाऱ्यानागतावस्थाऽत्र शक्तिः। तदाश्रयस्य कारणस्य, शक्यकरणा-शक्यस्य-ताशक्तिविषयस्य कार्य्यस्य करणात् उत्पादनानासनुत्पाद इत्यर्थः । असतः कार्य्यस्य कारणशक्तिविषयत्वायोगादिति भावः ॥ ११७ ॥ किश्च । "कारणभावाच ॥ ११८ ॥ नासदुत्पाद इत्यनुवर्तते । कार्यस्येति शेषः । तत्साधकसर्वहेतुसमुच्चये चः । कारणभावाच-भावोऽत्रात्मा । कारणस्य भावोभावो यस्य, तत्तथा। तस्माच कारणात्मकत्वाच्च कार्यस्य नासदुत्पाद इत्यर्थः ।
(४०) सांख्यदर्शनसूत्रवृत्तौ।
कार्य हि कारणात्मकं दृष्टम् । यथा मृत्कार्य घटादि मृदात्मकम् ।
तन्तुकार्य वा पटादि तन्त्वात्मकम् । कारणञ्च दण्डादिकारणव्यापारात्मा-
क्सदिति तदात्मक कार्यमपि तदा भदेव, नासत् । सदसतोरक्यायोगादिति
भावः ।
कार्यस्य कारणात्मना भेदाभावेऽपि कार्यात्मना कारणाझेद इति
भेदाभेदाभ्युपगमात्कार्यकारणभावोपपत्तिरित्यपि द्रष्टव्यम् ॥ ११८ ॥
शकते ।
न भावे भावयोगश्चेत् ॥ ११९ ॥
ननु भाचे कारणव्यापारात्मागपि विद्यमाने भावात्मके कार्ये भावयो-
गश्चेत् कारणाव्यापारणोत्पत्तिसंबन्धश्चेत्तदा कार्य्यस्योत्पादानुत्पादावस्थायां
विशेषाभावात्तनिवन्धनी तद्विपयो व्यवहाराव्यवहारौ नम्न स्याता-
मित्यर्थः ॥ ११९ ॥
परिहरति ।
"नाऽभिव्यक्तिनिवन्धनौ व्यवहाराव्यवहारो॥१२०॥
न-सांख्यानामस्माकं कार्य्यस्योत्पादानुत्पादनिबन्धनौ तद्विषयौ
तदुत्पत्तिव्यवहाराव्यवहारौ न, किं त्वभिव्यक्तिनिवन्धनौ-तदभिव्यन्यन-
भिव्यक्तिनिमित्तको व्यवहाराव्यहारी-कारणव्यापारण कार्याभिव्यकौ तदु-
त्पत्तिव्यवहारस्तदनभिव्यक्तौ च तदुत्पत्तिव्यवहाराभाव इत्यर्थः ।
अभिव्यक्तिश्चात्र कार्य्यस्य वर्तमानावस्थैव । तेन कारणव्यापारात्माक
तस्यावस्थान्तरेण सत्त्वेऽपि न कश्चिद्दोष इति नियम् ॥ १२० ॥
नन्धवं कार्य्यस्यानादिभावमाप्तेर्नाशो न स्यात्, तत्राह-
"नाशः कारणलयः ॥ १२१ ॥
सत्कार्यवादिनां नः कार्य्यस्य नाशो न ध्वंसः, किन्तु नाशः कारण-
लया निमित्तयोगादतीतावस्था प्राप्तस्य तस्य कारणेऽविभागेन संश्लेष
इत्यर्थः ॥ १२१ ॥
प्रथमोऽध्यायः। (११) ननु तथाप्यसदुत्पादभिया कार्याभिव्यक्तरप्यभिव्यक्तिरेव वक्तव्या । तस्याश्च पुनरभिव्यक्तिरन्येत्यनवस्थादोषस्तत्राह- "पारम्पर्यतोऽन्वेषणा बीजाकुरवत् " ॥ १२२ ॥ अदोष इत्यग्रिमसूत्रादनुकृप्यते । पारम्पर्य्यतः अनागतावस्थस्य कार्य- स्य कारणव्यापारेणाभिव्यक्तिः तस्याः पुनरभिव्यक्तिस्तस्याः पुनरिति परम्प- राभावतोऽन्वेषणा अभिव्यक्तेर्गवेषणा । बीनाङ्कुरवत्-बीजादंकुरोऽङ्कुराबी- जमिति वीजाङ्गुरयोः पारम्पर्यतोऽन्वेषणावन्मन्तव्या । न ततो विलक्षणे- त्यदोषः प्रामाणिकत्वादनवस्थालक्षणो दोषो नेत्यर्थः ॥ १२२ ॥ ननु कार्याभिव्यक्तः कथञ्चित्मामाणिकत्वेऽपि तदभिव्यक्तिपरंपराया- स्तथात्वाभावाद् वीजागुरवदित्यनुपपन्नं, तबाह- " उत्पत्तिवद्वाऽदोषः" ॥ १२३ ॥ समाधानान्तरपरो वा । यथा भवतामसत्कार्य्यवादिनां कार्योत्पत्ते- रुत्पत्तिरनवस्थाभिया कार्योत्पत्तिरूपेव । न ततोऽतिरिक्ता । तथाऽस्माकं सत्कार्यवादिनांसांख्यानामपि कार्याभिव्यक्तरभिव्यक्तिः कार्याभिव्यक्तिरू- पैव । न तताव्यतिरिक्ता। तेनोत्पत्तिवत् भवदभ्युपगतकार्योत्पत्तिवदोषः- अस्मदभ्युपगतकार्याभिव्यक्तावप्यनवस्थादोषो नेत्यर्थः ॥ १२३ ॥ .. नन भवतूत्पत्तेः प्राक्कायं सत् । सिध्यतु च तदाधारतया नित्या प्रकृतिः । तथापि कार्य्यमतत्कारणश्चैतदिति विवेकज्ञानं कथं स्यादुभयोरै- क्यादित्याशंक्य तदुपयुक्तं साधर्म्यवैधर्म्यप्रकरणमारभमाणः पूर्वन्तावन्मह- दादिभूतान्तव्यक्तस्य कार्यस्य साधर्म्यमाह- "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ॥ १२४ ॥ यल्लिङ्गंलीनमर्थ गमयति, लयं वा गच्छतीति लिंग-महदादिभूतान्तं कार्यनातं व्यक्तम् । तद् हेतुमत्-हेतुः कारणं, स विद्यते यस्य, तत्तथा कारणवत् । अनित्यम् अध्रुवं नाशशीलमिति यावत् । अव्यापि सर्व परि-
(१२) सांख्यदर्शनसूत्रवृत्ती।
णामिनं व्यातुं शीलं यस्य न । तत् । सक्रिय परिम्पन्दः क्रिया तत्साहि-
तम् । अनेक-नाना । आश्रितं साधारमित्यर्थः ।
यल्लिङ्गं तद्धतुमत्त्वादिधर्मकमिति भावः ॥ १२४ ॥
ननु हेतुमत्वादिकं साधयं महदादिकार्य्यस्य निम्प्यमाणं नसङ्गच्छत।
हेतुभूतायाः प्रकृतस्ततोऽतिरकेणासिद्धस्तत्राह-
आञ्जस्यादभेदतो वा गुणसामान्यादेस्तसिद्धिः
प्रधानव्यपदेशाद्वा"॥ १२५ ॥
प्रमाणभेदमदर्शनार्थ वा द्वयम् । लिङ्गस्यान्वयव्यतिरकशालित्वमान-
स्यम् । सुखदुःखमोहलक्षणः साधारणो गुणो गुणसामान्यम । आदिना
परिणामशीलत्वसंग्रहः । तदभेदः कार्य्यमात्रेऽन्वयः । तथाच-विमतं
कार्य सुखदुःखमाहात्मकप्रकृतिपूर्वकम् । तदन्वितत्वात् । यद्यनान्वीयते,
तत् तत्पकृतिपूर्वकम् । यथा मृदन्वितं घटादि मृत्प्रकृतिपूर्वकं, तथाचेदम् ।
तस्मात्तथा' इत्येवमानास्यात् अन्वयव्यतिरकशालिनोगुणसामान्यादेरभेदता
वा-सुखदुःखमोहादिसाधारणगुणान्वयलक्षणालगता वा, प्रधानव्यपदेशाबा-
प्रधीयते-लीयते कार्य्यनातमस्मिन्नितिप्रधानशब्देन शास्त्रे व्यवहाराहा
तसिद्धिः कार्यातिरेकेण प्रकृतिसिद्धिरित्यर्थः ॥ १२५ ॥
कार्य्यमात्रस्य व्यक्तस्य साधर्म्यमुक्त्वा कार्यकारणयोय॑क्ताव्यनयो-
रुभयोः साधर्म्यमाह-
त्रिगुणाचेतनत्वादिद्वयोः ॥ १२६॥
आदिशब्देनाविवेकित्वविषयत्वसमानत्वप्रसवधर्मित्वानां सङ्ग्रहः । नि-
गुणत्व-त्रीणि सत्वरजस्तमांसि गुणाः कारणतया स्वरूपतया च संति
ययोस्ते तथा, तयोर्भावस्तत्त्वं गुणत्रयवत्वम् । अचेतनत्वं-चेतनभिन्नत्वम् ।
अविवेकित्वं-संभूयकारित्वम् । विषयत्वं ग्राह्यत्वम् । समानत्वं-सर्वपुरु-
षसाधारणत्वम् । प्रसवधर्मित्वं-सरूपायरूपपरिणामशालित्वम् । द्वयोः
कार्यकारणयोर्व्यक्ताव्यक्तयोःसाधर्म्यमित्यर्थः ॥ १२६ ॥
- प्रथमोऽध्यायः। (४३) ननु गुणानामपि मिथः साधयं वैधर्म्यश्च वक्तव्यम् । अन्यथा तेषा त्रित्वानुपपत्तेरित्याशंक्य पूर्व वैधर्म्यमाह- "प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योऽन्यं वैधर्म्यम्" ॥ १२७ ॥ मीति-सुखम् । अप्रीतिः-दुःखम् । विषाद:-मोहस्तदायैः तदादि- भिरसाधारणधर्मर्गुणानां सत्त्वरजस्तमसामन्योऽन्य-परस्परं वैधय॑-विरु- धर्मत्वमित्यर्थः। तत्र प्रसादलाववाभिष्वङ्ग प्रीतितितिक्षा सन्तोषार्जवमार्दवहीश्रद्धाक्षमा- नुकम्पा ज्ञानादिरूपनानाभेदं सत्त्वम् । दुःखशोकद्वेषद्रोहमत्सरनिन्दा परा- भवादिरूपनानाभेदं रजः । मोहभयविप्रलम्भ नास्तिक्यकौटिल्यकार्पण्याज्ञा- नादिरूपनानाभेद तम इति विवेकः ॥ १२७ ॥ वैधयं प्रदर्य साधर्म्यवैधम्ये हे प्रदर्शयति । "लघ्वादिधर्म साधर्म्य वैधर्म्यञ्च गुणानाम्" ॥ १२८॥ गुणानां सत्वरजस्तमसां लघ्वादिधर्मः-भावप्रधानो निर्देशः । लघुत्व- चलत्वगुरुत्वपुरुषार्थत्वान्योऽन्याभिभववृत्तित्वादिभिधर्मः साधर्म्य वैधHश्च- पुरुषार्थत्वादिभिः साधर्म्य, लघुत्वादिभिश्च वैधर्म्यमित्यर्थः ॥ १२८ ॥ नतु महदादेर्निरूप्यमाणं हेतुमत्त्वादिकं साधये न संभवति । तस्य कार्य्यत्वासिद्धस्तत्राह- "उभयान्यत्वात्कार्यत्वं महदादेर्घटादिवत्" ॥१२९॥ महदादेरुभयान्यत्वात् प्रकृतिपुरुषोभयभिन्नत्वात्कार्य्यत्वं जन्यत्वमनुमे यम् । तत्रोदाहरणं घटादिवत्-यथा : घटादेः प्रकृतिपुरुषान्यत्वात्कार्य: त्वमित्यर्थः । तदुभयान्यत्वञ्च भोग्यत्वाविनाशित्वादिति बोध्यम् ॥ १२९ ॥ हेत्वन्तरमाह- "परिमाणात् ॥ १३० ।।
(४४) सांख्यदर्शनसूत्रवृत्तौ। कार्य्यत्वं महदादेर्घटादिवदित्यनुवर्तते । परिमाणात्-परिमितत्वाव 'परिच्छिन्नत्वान्महदार्घटादिवत्कार्य्यत्वमित्यर्थः ॥ १३० ॥ तृतीयं हेतुमाह- समन्वयात् "॥ १३१ ॥ कारणगुणानां कार्ये समानरूपतयाऽन्वयः समन्वयः । तस्माल्लिङ्गान्म- हदादेः कार्य्यवमित्यर्थः ॥ १३१ ॥ चतुर्थ हेतुमाह- "शक्तितश्चेति ॥ १३२ ॥ इतिशब्दः कार्य्यत्वसाधकहेतूनां समाप्तिमाह । शक्तितश्च सातिशयश- क्तिमत्वाच्च महदादेः कार्यत्वं घटादिवदित्यर्थः । शक्तितश्च करणतश्चत्यर्थः । पुरुषस्य यत्करणं, तत्कार्य चक्षुरादिव- दिति भावः । इतिभाष्यम् ॥ १३२ ॥ ननु मास्नु तस्य कार्य्यत्वं को दोषस्तत्राह- " तद्धाने प्रकृतिः पुरुषो वा "॥ १३३ ॥ ' तद्धाने कार्यत्वाभावे प्रकृतिः पुरुषो वा-महदादिकं प्रकृतिर्वा स्यात्पु- रुषो वा स्यादित्यर्थः । तयोरेवाकार्य्यत्वात् । तच्च नेष्टंभोग्यत्वाद्विनाशित्वादितिभावः।।१३३॥ नन्वकार्य सदपि तदुभयभिन्नमेव किश्चित्सेत्स्यति । तत्राह- "तयोरन्यत्वे तुच्छत्वम् तुच्छत्वम्" ॥ १३४ ॥ तयोः पञ्चम्यर्थे षष्ठी । प्रकृतिपुरुषाभ्यामन्यत्वे-भिनत्वे तुच्छत्वं शश- शृङ्गादिवत् तुच्छत्वमेव स्यादित्यर्थः । तद्भिन्नाकार्य्यस्य तुच्छत्वदर्शनादिति भावः ॥ १३४ ॥ तदेवं महदादेः कार्य्यत्वं मसाध्य तेन कारणानुमानेऽनुक्तं विशेषमाह- "कार्यात्कारणानुमानं तत्साहित्यात्" ॥ १३५॥ कार्यात्-महत्तत्त्वादेः कारणानुमान प्रकृतेरनुमानं तत्साहित्यात्-- -
प्रथमोऽध्यायः।
(४५),
कार्यसाहित्य कारणे वैशिष्ट्यं तस्माद्भवति । नतु ताटस्थ्यादित्यर्थः ।
कार्यकारणयोरभेदाभ्युपगमादिति भावः ॥ १३५ ॥
यादृशं कारणं तदाह--
"अव्यक्तं त्रिगुणाल्लिङ्गात् ॥ १३६ ।।
त्रिगुणात्-त्रिगुणात्मकाव लिङ्गाव-महदादेर्व्यक्तात्कारणं प्रकृतिरव्यक्त
सूक्ष्मतरमित्यर्थः ॥ १३६ ॥
नन्वव्यक्तं चेत्तर्हि नास्त्येव । तत्राह--
" तत्कार्य्यतस्तत्सिद्ध पलापः ॥ १३७॥
तत्कार्य्यतः तस्य कारणस्य प्रकृतेर्यकार्य महत्तत्वादिकम् । तस्मात्त-
सिद्धः तस्य
कारणस्य प्रकृतेरनुमिते पलापः-न तदपह्नवःसंभवती-
त्यर्थः ॥ १३७ ॥
नन्वेवं जगतः कारणं प्रकृतिः साध्यताम् । तत्कार्योपलब्धेः । पुरुपसा-
धनन्तु कथं स्यात् ? तत्राह-
"सामान्येन विवादाभावाद्धर्मवन साधनम् ॥१३८॥
विशेषतः पुरुषे विवादेऽपि सामान्येन-सामान्यतो विवादाभावान साधन
तस्य प्रकृतिवत्साधनं नापेक्षितं । धर्मवत् यथा धर्मे विशेषतो विवादेऽपि
सामान्यतो विवादाभावात्तत्साधनानपेक्षेत्यर्थः ॥ १३८ ।
ननु सामान्यतः सिद्धेऽपि पुरुषे शरीरादिमकृत्यन्तेषु तत्त्वेषु.कोऽसा
पुरुपः किंस्वरूपश्चेति जिज्ञासा न निवर्तते विशेषतो निरूपणाभावादित्याशंक्य
तस्य विशेषतो निरूपणार्थ पूर्वन्तारच्छरीरादिव्यतिरिक्तत्वं मतिनानीते ।:
" शरीरादिव्यातिरिक्तः पुमान् ॥ १३९॥
आदिशब्दः मकृत्यन्ततत्वमात्रपरः । शरीरादिव्यतिरिक्त शरीरादिभ्यों
भिन्नः पुमान्-पुरुष इत्यर्थः ॥ १३९ ।।
प्रतिज्ञायां हेतुमाह--
संहतपरार्थत्वात
"॥ १४०॥
-- (४६) सांख्यदर्शनसूत्रवृत्तौ। संहतपरार्थत्वात्पुरुषस्य ' इति पूर्वमुक्तोऽपि हेतुः प्रसंगादिह पुनरुक्त इत्यदोषः । हेतुवर्गसंकलनार्थ पुनरुक्तिरिति भाष्यम् । शरी- रादि प्रकृत्यन्तं संहतम् । तत्साध्यौ भोगापवर्गों परार्थो । तच्छालित्वा- दित्यर्थः ॥ १४० ॥ द्वितीयहेतुमाह- " त्रिगुणादिविपर्ययात् " ॥ १४१ ॥ आदिपदमचेतनत्वादिसंग्रहार्थम् । प्रकृतितत्कार्य त्रिगुणमचेतमविवेकि । तदैपरीत्यादित्यर्थः ॥ १४१ ॥ तृतीयहेतुमाह- " अधिष्ठानाच्चेति ॥ १४२॥ पुरुषातिरिक्तत्वसाधकहेतुपरिसमाप्तिपरमितिपदम् । अधिष्ठातृत्वाच्चेत्यर्थः। यथा रथस्याधिष्ठाता पुरुषस्तब्यतिरिक्तः । तथा शरीरायधिष्ठाता पुरुषोऽपि तदधिष्ठेयेभ्यः शरीरादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यो व्यतिरिक्तो मनसि धर्तव्यः । जडस्याधिष्ठातृत्वायोगादिति भावः । इंदमत्र बोध्यम् । यद्यपीश्वरःप्रकृतेरधिष्ठाता। नजीवः । तथापि तस्य तदधिष्ठातृत्वोक्तिीक्तृत्वाददृष्टाभिप्रायेण वा । बुद्धिसत्त्वाधिष्ठातृत्वात्कार्यका- रणयोरभेदाभिप्रायेण वा द्रष्टव्या । तेन न कश्चिद्दोष इति ॥ १४२ ॥ ननु हेतुरस्तु । मास्तु साध्यमित्याशंक्य दाभ्यामनुकूलं तर्कमाई- “भोक्तभावात् " ॥ १४३ ॥ शरीरादिव्यतिरिक्तःपुमानित्यनुवर्तते । पुमान् शरीरादिव्यतिरिक्तो भोक्तृत्वादित्यर्थः । चेच्छरीरादिव्यतिरिक्तो न भवेत् । किन्तु । तदन्यतम एव स्यात्, तदा भोनापि न स्यात् । अत एव चेतनोऽपि न स्यात् । शरीरादेर्जडत्वेन भोक्तृत्वासंभवादिति भावः । १ सांख्य अ० १ सूत्र ६६ ।
प्रथमोऽध्यायः। (४७) एतेन साध्याभावे प्रथमाद्वितीयहेतू अपि न स्यातामित्यनिष्टमापादितं वेदितव्यम् ।। १४३ ॥ द्वितीयं तर्कमाह- "कैवल्यार्थ प्रवृत्तेश्च ॥ १४८ ।। अधिष्ठानाभावः कैवल्य-मोक्ष इति यावत् । तदर्थ मवर्तनाच्चेत्यर्थः । चैत्पुमान् शरीरादिव्यतिरित्तो न भवेत् । किन्तु तदन्यतम एव स्यात् । तदा कैवल्यार्थ न प्रवर्तेत । चेतनस्यैवाधिष्ठानं कुर्वतः परिश्रान्त- चित्तस्य केवलीभावाय प्रवृत्तिदर्शनात् । शरीरादेश्च तदयोगेन कैवल्यासं- भवादिति भावः। एतेन साध्याभावे तृतीयहंतुरपि न स्यादित्यनिष्टमापादितं द्रष्ट- व्यम् ॥ १४४ ॥ नट तथापि किंस्वरूपः पुरुषस्तत्राह- जडप्रकाशायोगात्प्रकाशः ॥ १४५॥ शरीरादिव्यतिरिक्तः पुमानिति सम्बध्यते । स च प्रकाश: अमाकृत- प्रकाशात्मकः ज्ञानस्वरूप इति यावत् । कुतः ? जडप्रकाशायोगात्माकृतः प्रकाशो जड़प्रकाशः । तस्यात्मत्वायोगादित्यर्थः । एतेन बुद्धिसत्त्वमात्मेति मतं निराकृतं वेदितव्यम् ॥ १४५ ॥ ननु प्रकाशस्वरूपत्वेऽपि तेजोवर्मधर्मिभावः किन्न स्यात्, तत्राह- “निर्गुणत्वान्न चिद्धर्मा" ॥ १४६॥ निर्गुणत्वात-गुणानाश्रयत्वानचिद्धर्मानज्ञानधर्मा पुमानित्यर्थः १४६॥ नन्वहमुपलभे जानाम्यहमिति धर्मधर्मिभावस्य प्रत्यक्षत्वाञ्चिद्धर्मा पुमान् किन्न भवेत् , तत्राह- "श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात् ॥१४७॥ श्रुत्या 'असङ्गोह्ययं पुरुषः' इत्यादि श्रुत्या सिद्धस्य-सिद्धिं १० अ० ६ वा०३ शु०१५ ।
(४८) सांख्यदर्शनसूत्रवृत्तौ ।
गतस्य निर्गुणत्वस्य नापलापः नापह्नवः संभवति । तत्प्रत्यक्षवाधात्=
तत्सत्यक्षस्य गौरोहमिति प्रत्यक्षवच्छ्रुत्यैव बाधनादित्यर्थः ॥ १४७ ॥
ननु युक्तिमधानमेतच्छास्त्रं न श्रुतिप्रधानम् । तेन पुरुपस्य प्रकाशरूप-
त्वाभावे को दोषः तत्राह-
सुषुप्त्याद्यसाक्षित्वम् ॥ १४८॥
आदिपदार्थः स्वमः । प्रकाशरूपत्वाभावे पुरुषस्य सुषुश्यादिसाक्षित्वं-
नस्यादित्यर्थः ॥ १४८ ॥
तदेवं पुरुषस्य प्रकाशरूपत्वमुपपाद्य वहुत्वमुपपादयति ।
"जन्मादिव्यवस्थातः पुरुषबहुत्वम् " ॥१४९॥
जन्मादिव्यवस्थातः कश्चिन्नातः कश्चिन्मृतः कश्चिद्धः कश्चिन्मुक्त इत्या-
दिव्यवस्थाऽन्यथानुपपत्तितः पुरुपबहुत्वं नानापुरुष इत्यर्थः ॥१४९॥
ननु पुरुषैक्येऽप्युपाधिभेदाजन्मादिव्यवस्था संभवति । तत्राह-
"उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव
घटादिभिः ॥ १५०॥
आकाशस्येव घटादेभिः यथैकस्यैवाकाशस्य नानोपाधिभूतैर्घटादिभिर्यो-
गस्तैथकस्यैव पुरुषस्य नानायोगः नानाभूतैरुपाधिभिः संवन्धो वक्तव्यः।
तथा चोपाधिभेदेऽपि तत्तदुपाधिनानात्वेऽप्युपधेयभेदाभावान जन्मादिव्यव-
स्था संभव इत्यर्थः ॥ १५० ॥
ननु स्वतश्चैतन्यस्यैक्येऽपि तत्तदुपाधिविशिष्टस्य तस्य भेदाद्यवस्था-
सेत्स्यति तत्राह-
"उपाधिभिद्यते न तु तद्वान् ॥१५१॥
तत्राप्युपाधिर्भिद्यते-उपाधिरेव नाना । नतु तद्वान् नैवोपाधिमान्
विशिष्ट इत्यर्थः ।
विशिष्टस्य वस्तुतो भेदाभ्युपगमे तु नानात्मवाद एवाभ्युपगतः
स्यादिति भावः ॥ १५१ ॥
प्रथमोऽध्यायः। किञ्च । " एवमेकत्वेन परिवर्तमानस्य न विरुद्ध- धर्माध्यासः" ॥ १५२॥ अपिरनुवर्तते । एवं यथा जन्मादिव्यवस्थाऽनुपपत्तिरेवमेकलेन= सर्वोपाधिष्वेकरूपत्वेन परिवर्तमानस्य सर्वतो विद्यमानस्य पुरुषस्य युगप- विरुद्धधर्माध्यासोऽपि विरुद्धानां सुखदुःखादिधर्माणां सुख्यहं दुःख्यह- मित्यादिरूपसम्बन्धोऽपि न-नोपपद्यत इत्यर्थः ॥ १५२ ॥ ननु सुखदुःखादयोऽपि तत्तदुपाधिधर्मा एवाभ्युपगम्यन्ते । तेन तेषां पुरुषे समारोपादेककालावच्छेदेनापि व्यवस्था सेत्स्यति, तत्राह- "अन्यधर्मत्वेऽपि नारोपात् तत्सिद्धिरकत्वात् ॥१५॥ अन्यधर्मत्वेऽपि सुखदुःखादीनां तत्तदुपाधिधर्मत्वेऽप्यारोपा=पुरुषे समारोपात्तत्सिद्धिः-सुखदुःखादिव्यवस्थासिद्धिर्न=न संभवति । कुतः ? एकत्वात्-आरोपाधिष्ठानस्य पुरुषस्यैकत्वादित्यर्थः ॥ १५३ ॥ नन्वेवं तर्हि पुरुषनानात्वेऽद्वैतश्रुतिविरोधस्तत्राह- "नाद्वैतश्रुतिविरोधी जातिपरत्वात् " ॥ १५४ ॥ मादैतश्रुतिविरोधः नानात्मवादिनामस्माकमात्मैक्यप्रतिपादिकाभिः श्रु- तिभिर्विरोधो न । कुतः ? जातिपरत्वात्-तासां चित्त्वेन पुरुषकरूपत्वप्रति- पादनपरत्वादित्यर्थः ॥ १५४ ॥ ननु यथा पुरुषकत्वं तन्नानात्वमत्यक्षेण विरोधात्परित्यज्यते,तथा पुरुषै- करूपत्वमपि तन्नानारूपत्वप्रत्यक्षेण विरोधात् परित्यक्तव्यम् , तत्राह- "विदितबन्धकारणस्य दृष्टयाऽत्तद्रूपम् ॥ १५५ ॥ विदितबन्धकारणस्य-विदितं लब्धवृत्तिकं बन्धकारणं अविवेकलक्षणं मिथ्याज्ञानं यस्य, तस्याज्ञपुरुषस्य दृष्टयाऽतद्रूपं श्रुतिप्रतिपादितं चित्त्वेन पुरुषैत्यरूपं नेत्यर्थः ।
(५०) सांख्यदर्शनसूत्रवृत्तौ। ज्ञातबन्धकारणस्य दृष्टया तद्रूपं-श्रुतिप्रतिपादितं रूपमित्यनि- रुद्धः ॥ १५५ ॥ नतु पुरुषकरूपत्वं चेत् स्यादुपलभ्येत । नोपलभ्यते । तस्मानास्त्येव, तत्राह- नान्धदृष्टया चक्षुष्मतामनुपलंभः॥१५६ ।। अन्धदृष्ट्या अन्धानां विवेकचक्षुःशून्यानां दृष्ट्याऽनुपलभेऽपिन चक्षुप्म- तां विवेकचक्षुपामार्याणां दृष्ट्याऽनुपलंभा पुरुपेकरूपत्वानुपलम्भ इत्यर्थः। तथा च नाद्वैतश्रुतिविरोध इति भावः ॥ १५६ ॥ किश्च। "वामदेवादिर्मुक्तो नाद्वैतम् " ॥ १५७ ॥ आदिना भरतादेः संग्रहः । वामदेवादिर्मुक्तो जातः। तदतिरिक्ता वद्धजी- वाश्चाद्याप्युपलभ्यन्ते । तस्मानाद्वैत-नात्मैकत्वमित्यर्थः । चेदेक एवात्मा भवेत्, तदा वामदेवादिमुक्ती सर्वमुक्तरिदानी पद्धजीवो न कश्चिदुपलभ्येत । विद्यते तावदुपलम्भस्तस्मानाद्वैतमिति भावः॥१५७॥ ननु वामदेवादरपि न मुक्तिर्जाता, तत्राह- "अनादावद्य यावदभावाद्भविष्यदप्येवम्॥ ॥ १५८ ॥ अनादौ-अनादिकालकेसंसारेऽद्ययावत् अद्यपर्यन्तमभावात्-मुक्तरजा- यमानत्वाद भविष्यदपि भविष्यत्कालके संसारेऽप्येवंन कस्य चिन्मु- तिर्भविष्यतीत्यर्थः ॥ १५८ ॥ ननु नानात्मवादेऽपि मुक्तेरवश्यंभावात् क्रमेण सर्वमुक्तौ संसारस्यात्य- न्तोच्छेदः प्रसज्यते, तबाह- इदानीमिव सर्वत्र नात्यन्तोच्छेदः ॥१५९ ॥ इदानीमिव यथेदानीमीश्वरनियमात् केचिन्मुक्ताः केचिद्दद्धा वर्तन्ते, प्रथमोऽध्यायः। (५१) तथा सर्वत्र भूतभविष्यतोरपि कालयोरवर्तन्त । वय॑न्ते च । तस्मात्रात्य- न्तोच्छेदः-संसारस्यात्यन्होच्छदोन कदापि शंकनीय इत्यर्थः ॥ १५९ ॥ ननु प्रकृतिपुरुषव्यतिरिक्तः कोऽयमीश्वरः। यस्य नियमवशात्संसारचक्र सततमनुवर्तते, तत्राह- "व्यावृत्तोभयरूप" ॥ १६० ॥ व्यावृत्तं भिन्न-विलक्षणमितियावदुभयस्मात्-प्रकृतेः पुरुषाच रूप स्वरूपं यस्य, स तथा नित्यं क्लेशकर्मविपाकाशयेरपरामृष्टःपुरूपविशेष इत्यर्थः ॥१६॥ ननु प्रकृतिविलक्षणत्वेऽपि पुरंपविलक्षणत्वमस्य कथमनुजानीमः ? तत्राह- "साक्षात्संबन्धात्साक्षित्वम्" ॥ १६१ ॥ यत इति शेपः । यस्मात् साक्षात्संबन्धात्मकृतः पुरुषाणाञ्चेश्वर- स्मीयतया तादात्म्यलक्षणः संवन्धः साक्षात्सम्बन्धः । स्वस्वामिभावलक्षणः शरीरशरीरिभावलक्षणः संवन्धोऽप्ययमेव परिभाप्यते । तस्मादस्य भगवतो जगदधिपतेः साक्षित्वं विश्वसाक्षित्वं साक्षात्सर्वद्रष्टुत्वमित्यर्थः । तथा चाह भगवान् मन्त्रः । ऋ०अष्ट०२अ०३ वर्ग १७८२०॥ द्वा, सुपर्णा, सयुजा, सखाया, समानं वृक्षं परि- षस्वजाते। तयो रन्यः पिपलं स्वाद्वत्त्यन- नन्नन्यो अभिचाकशीति ॥ इति ॥ पुरुषस्तावदात्मोपाधिभूतबुद्धिसत्त्वस्य तद्धर्माणाश्च केषाश्चित्साक्षी भवनपि न विश्वस्य साक्षी । तेन तद्विलक्षणः श्रीपतिरीश्वर इति भावः ॥ १६१ ।। अन्यं विशेषमाह- नित्यमुक्तत्वम् "॥१६२॥ यत इति शेषः। यस्मादस्य भगवतो नित्यमुक्तत्वं नित्यं मुक्तिभाक्त्व- मित्यर्थः ।
(५२) सांख्यदर्शनसूत्रवृत्तौ।
पुरुषस्य बन्धकोटिरुपावर्तते, भगवतो जगदीश्वरस्य तु न साऽभून
भवति न भविष्यतीति महद्वैलक्षण्यमिति भावः ॥ १६२ ॥
ननु कस्मादस्य नित्यमुक्तत्वमभ्युपेयते ? तत्राह-
" औदासीन्यश्चेति" ॥ १६३ ॥
इति हेत्वर्थे । पर्याप्तकामत्वादिधर्मान्तरसमुच्चयार्थश्चः । यस्मादस्य
जगदधिपतेरौदासीन्यं नित्यं माध्यस्थ्य-पक्षपातराहित्यमित्यर्थः ॥१६॥
नन्वीशश्चेदीश्वरस्तर्हि श्रूयमाणं जगत्कर्तृत्वं तस्य कथमुपपद्येत,
कथश्च तदा की प्रकृतिरिति सांख्यडिण्डिमोऽपि सङ्गच्छेत ? तत्राह-
"उपरागात्कर्तृत्वं चित्सान्निध्यात,
चित्सान्निध्यात्" ॥ १६४ ॥
अध्यायपरिसमाप्तिसूचनार्था वीप्सा । यथायोग्यमन्वयः । उपरागात्=
प्रकृतिसन्निधानादस्य कर्तृत्वंयोजककर्तृत्वम् । प्रकृतेश्च चित्सानिध्याद-
ईश्वरश्चित् । तत्सविधानान्मुख्यं कर्नीत्वमित्यर्थः ।
तत्र प्रयोजककर्तृत्व निमित्तत्वम् । मुख्यकर्तृत्वमुपादानत्वमिति विवेकः १६४
अथात्यन्तपुरुषार्थों बन्धोऽनुमकृतिस्तथा ॥
सविस्तरं पुमानीशः प्रथमेऽस्मिनिरूपितः ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्या-
त्मारामभगवत्पादशिष्यहरिप्रसादकृतायांसांख्य-
सूत्रवृत्ती प्रथमो विषयाध्यायः॥१॥
द्वितीयोऽध्यायः। (५३) अथ द्वितीयोऽध्यायः। ननु प्रकृतेः प्रयोजनाभावान्मुख्यं जगतः कर्मत्वं न संभवति, तत्राह- विमुक्तमोक्षार्थ स्वार्थ वा प्रधानस्य ॥१॥ कर्तृत्वमिति प्रथमाऽध्यायशेपसूत्रानुवर्तते । विमुक्तमोक्षार्थ-विवेकेन मुक्तो विमुक्तः-पुरुषः, तस्य मोक्षार्थ-मुक्त्यै स्वार्थ वा भोगापवर्गमदातृत्व- लक्षणस्वाधिकारसमात्य वा प्रधानस्प-प्रकृतेः कलिं-जगत्स्रष्ट्रीत्वमित्यर्थः । यद्यपि मोक्षवद्भोगोऽपि सृष्टेः प्रयोजनं, तथापि प्रधानत्वान्मोक्ष एव सत्रित इति ध्येयम् ॥ १ ॥ ननु विमुक्तमोक्षार्थश्चेत्प्रकृतेः स्रष्ट्रीत्वं, तर्हि सकृत्सृष्टयैव मोक्षसंभव कृतमसकृत्सृष्टया, तबाह- "विरक्तस्य तत्सिद्धः" ॥२॥ विरक्तस्य-विवेकमत्ययोत्पन्नपरवैराग्यस्य तत्सिद्धः मोक्षोत्पत्तेर्न सकृ- रसृष्टया निर्वाह इत्यर्थः ॥ २ ॥ ननु सकृत्सृष्टयैव श्रवणमात्रांद्वैराग्यं सेत्स्यति, तत्राह- न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् "॥३॥ अनादिवासनायाः वैराग्यपतिवन्धकीभूताया अनादिसंसारवासनाया वल- वत्त्वात्म्पवलत्वान श्रवणमात्रात्-बहुजन्मकृतपुण्यसश्चयलम्यात्सत्त्वपुरुषा- न्यताश्रवणमात्रात्तत्सिद्धिः तस्य वैराग्यस्य सिद्धिरित्यर्थः ॥ ३ ॥ असकृत्सृष्टौ युक्त्यन्तरमाह- बहुभृत्यवद्वा प्रत्येकम् " ॥४॥ वा अथवा प्रत्येकं बहुभृत्यवतः यथैकैकं सद्गृहस्थं प्रति स्त्रीपुत्रादिभेदेन बहवो भृत्याः भर्तव्याः सन्ति,तथा प्रकृतेरापि बहवः पुरुषा विमोचनीयाः सन्तीत्यर्थः ।
- (५४) सांख्यदर्शनसूत्रवृत्तौ। तथा च सकृत्सृष्ट्या कियत्पुरुषमोक्षेऽपि पुरुषान्तरमोक्षार्थं पुनः पुनः सृष्टिरिति भावः ॥ ४ ॥ ननु ." तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिना परमेश्वरस्यापि स्रष्टत्वश्रवणात्कंथं प्रकृतिरेव स्रष्टी, तत्राह-- "प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः"॥५॥ चोऽप्यर्थः पुरुषस्याये योज्यः । प्रकृतिवास्तवेप्रकृतर्मुख्य स्रष्ट्रीत्वे सिद्ध पुरुषस्य च-पुरुपेश्वरस्याप्यध्याससिद्धिःअध्यासः प्रकृत्युपरागस्त- स्मात् स्रष्टुत्वसिद्धिरस्तीत्यर्थः। तेन युक्ता श्रुतिवागिति भावः ॥५॥ ननु प्रकृतेर्मुख्यं स्रष्ट्रीत्वमेवासिद्धं, तत्राह- "कायंतस्तत्सिद्धः ॥६॥ कार्य्यतः-महदादिभूतान्तकार्य्यतो लिङ्गात् तत्सिद्धेः मुख्यस्रष्ट्रीत्वस्य तस्यसिद्धरित्यर्थः ॥ ६ ॥ ननु प्रकृतेर्मुख्य स्रष्ट्रीत्वे सिद्धे तत्मवृत्तिनिवृत्तिनियमो नस्यात, तबाह-- "चेतनोदेशानियमः कण्टकमोक्षवत् ॥७॥ चेतनोद्देशात् जगदधिपतिरीश्वरोऽत्र चेतनः 'चेतनश्चेतनानाम्। इति श्रुतेस्तस्योद्देशः अभिलाषस्तस्मानियमः स्वार्थ परार्थ वा प्रकृतिम- त्तिनिवृत्तिनियमः, कण्टकमोक्षवत्-सूच्यग्रभागः काटकस्तस्य यथा राजा भिलाषाददण्डयेषु मोक्षस्य, दण्डयेषु च प्रयोगस्य, नियम इत्यर्थः ॥४॥ ननु यस्याभिलाषमात्रात्मकृतेः प्रवृत्तिनिवृत्तिनियमस्तस्य साक्षात्स्रष्टत्वं किं न स्याव, किमन्ययोगकल्पनया ? तत्राह- "अन्ययोगेऽपि तत्सिद्धिर्नाञ्जस्येनायोदाहवत्"॥८॥ अपिरवधारणे । अन्ययोगेऽपि प्रकृतियोगे सत्येव तसिद्धिः-पुरुषेश्वर-. स्य स्रष्तृत्वसिद्धिर्भवति नानस्येन-न साक्षात् । अयोदाहवत् अयसो दाहक- त्ववादित्यर्थः । १ तै० ब्रह्मानं० व० अनु ०१ ।
द्वितीयो ऽध्यायः। (५५) प्रकृतियोगाभावे कस्येश्वरः स्यात् ? जीवानामिति चेत, तदागतस्तद्धों- गापवर्गप्रदान्याः प्रकृतेरपि सनातनो योग इति भावः ॥ ८ ॥ ननु केयं सृष्टिर्नाम ? तत्राह- "रागविरागयोर्योगः सृष्टिः॥९॥ रागविरागयोःरननात्मकत्वादागः प्रकृतिः, नित्यमुदासीनत्वाद् विगत रागो जगदीश्वरः । तयोयोगः-संवन्धः सृष्टिः-सृष्टिहेतुत्वात्सृष्टिरित्यर्थः । योगः सनातन इत्यसकृदुक्तं तेन सृष्टिरपि सनातनीति बोध्यम् । रागविरागयोरिति निमित्तसप्तमी, सांसारिकविपयेषु स्नेहो रागस्तद- भावो विरागः । तत्र रागनिमित्ता सृष्टिविरागनिमित्तो योगः मोक्ष इति भाप्यकृतः॥ ९ ॥ ननु सा केन क्रमेण भवति ? तत्राह- " महदादि क्रमेण पञ्चभूतानाम् ॥ १० ॥ सृष्टिरित्यनुवर्तते । महदादिक्रमेण-प्रकृतर्महान् महतोऽहङ्कारोऽ हङ्कारात्पश्चतन्मात्राणि पश्चतन्मात्रेभ्यः पश्चभूतानीतिमहदादिक्रमेण पञ्च- भूतानां क्षितिजलज्योतिरनिलविहायसां सृष्टिरित्यर्थः । यद्यप्येतस्मादात्मन आकाशः संभूत इत्यादिश्रुतावादावेव पञ्चभू- तानां सृष्टिः श्रूयते, तथापि महदादिक्रमेणैव तत्सृष्टिारप्टेति भाष्यम्॥१०॥ ननु प्रकृतिसृष्टितो महदादिसृष्टौ को विशेषः ? तत्राह- आत्मार्थत्वात्सृष्टेनैषामात्मार्थ आरम्भः॥११॥ सृष्टः महदादिसृष्टेरात्मार्थत्वा=आत्मा पुरुषस्तदर्थत्वान्नैषां महदादी- नामात्मार्थः-प्रकृतिवत्स्वार्थ आरम्भः-सृष्टिरित्यर्थः । प्रकृतिक का सृष्टिः परार्था स्वार्था च । महादादिकर्तृका तु केवलं परार्थेवेति विशेषः ॥ ११ ॥ ननु सर्वव्यवहारसिद्धौ दिकालौ कुतो न गणिती, तबाह- "दिक्कालावाकाशादिभ्य" ॥ १२ ॥ आदिपदेनोपाधीनां सङ्ग्रहः । तेनाकाशस्यैकत्वेऽप्युपाधिसंबन्धाद (५६) सांख्यदर्शनमूत्रवृत्तौ। बहुत्वम् । दिकालौ-पूर्वपश्चिमदिनमासादिदिक्कालावाकाशादिभ्यः-तत्तदुपा- घिसंबन्धविशिष्टाकाशेभ्यो व्यवहार्यावित्यर्थः । आकाशान्तर्भूताविति भावः । नित्यौ यो दिकालौ, तावाकाशमकृतिभूती प्रकृतेर्गुणविशेषावेव । यो खाइदिकालौ, तौ तु तत्तदुपाधिविशिष्टमाकाशमेवेति भाष्यकृतः ॥ १२ ॥ संमति महदादिकं लक्षणतः कायंतश्च क्रमेण दर्शयति । "अध्यवसायो बुद्धि"॥ १३ ॥ अध्यवसाय: ईक्षणपूर्वक एवमेवेति निश्चयात्मको व्यापारः । क्रिया वृत्तिापार इत्यनान्तरम् । बुद्धिः=बुद्धेः महतो लक्षणमित्यर्थः । कियाक्रियावतोरभेदविवक्षया सामानाधिकरण्यमितिवाचस्पतिमिश्राः॥१३॥ "तत्कायं धर्मादि" ॥ १४ ॥ तत्कायं तस्याः=महत्तत्वाख्याया वुद्धेः कार्य धर्मादि-धर्मों ज्ञानं वैराग्यमैश्वर्य्यमित्यर्थः ॥ १४ ॥ "महदुपरागाद्विपरीतम्"॥ १५॥ महद् तदेव बुद्धयाख्यं महत्तत्त्वमुपरागात्-रजस्तमसोः संबन्धाद् विपरी- तं-विपरीतकार्य्यक-अधर्माज्ञानावैराग्यानैश्वर्यकार्यकं भवतीत्यर्थः ॥१५॥ . अहंकारं लक्षयति । "अभिमानोऽहङ्कारः" ॥ १६ ॥ आभिमानः अहमित्यभिमानोऽहङ्कारः अहङ्कारस्यलक्षणमित्यर्थः अभेदविवक्षया सामानाधिकरण्यम् ॥ १६ ॥ "एकादशपञ्चतन्मात्रं तत्कार्य्यम्" ॥ १७ ॥ एकादशेन्द्रियाणि । शब्दादिपञ्चतन्मात्रञ्चेति षोडशकोगणस्तत्कार्य्यम्= महङ्कारकार्यमित्यर्थः ॥ १७ ॥ तत्रावान्तरविशेषमाह- द्वितीयोऽध्यायः। (५७) "सात्त्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात्॥ १८॥ एकादशकम् एकादशेन्द्रियं सात्त्विकं वैकृतात्-सात्विकादहंकारात्= अभिमानवृत्तिकात्मवर्तते-जायते इत्यर्थः । शिष्टपञ्चतन्मात्रञ्चतामसंतामसाहंकारात्मवर्तते । चालकतया रजस्तू- भयत्रान्वयीति शेषः ॥ १८ ॥ नतु कानि तान्येकादशेन्द्रियाणि ? तत्राह- "कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकाशदशकम् ॥ १८ ॥ कर्मेन्द्रियाणि बाक्पाणिपादपायूपस्थाख्यानि पश्च । बुद्धीन्द्रियाणि= ज्ञानेन्द्रियाणि-चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च । एतैर्दशभिर्वाह्येन्द्रियैः सहान्तरं-अभ्यन्तरेन्द्रियं मन इत्येकादशकम् एकादशेन्द्रियाणीत्यर्थः । इन्द्रस्य-संघातेश्वरस्य पुरुषस्य कर्मज्ञानसाधनामन्द्रियामति व्युत्पत्तिः। अहङ्कारकार्य्यत्वे सति करणत्वमिति लक्षणम् ॥ १९ ॥ ननु भूतविशेषगुणग्राहकानि तानि भौतिकानि किं न भवयुः ? तत्राह- "आहङ्कारिकत्वश्नुतेर्नभौतिकानि" ॥२०॥ माहंकारिकत्वश्रुतेः अहङ्कारकार्य्यत्वश्रवणान्न भौतिकानि भूतका-- णीत्यर्थः । यद्यपीन्द्रियाणामाहङ्कारिकत्वप्रतिपादिकाश्रुतिर्न काचन साक्षान्मिलति, तथापि एतस्माज्जायतेप्राणो मनःसर्वेन्द्रियाणि च' इति भूतो- त्पत्तेः प्रागिन्द्रियोत्पत्तिमतिपादनात् । तदैक्षत' "सोहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्" इत्यादिश्रुत्यन्तरे महदहकारोत्पत्तेश्चेतः पूर्वश्रवणादेषैव सा श्रुतिरिति कल्प्यतेऽनयैव चैपामाहङ्कारिकत्वश्रवणम् । 'अन्नमयं हि सोम्य मन' इत्यादिश्रुतिस्तु तेषामनकृतपटु- वाभिमायतया नेतव्यति ध्येयम् ॥ २० ॥ १ मुं०२-खं०१-३॥२ छां०३०६-खं०२॥३॥३वृ०अ०२ना.४॥४ छां०प्रपा० ६ खं० ५। .
(५८) सांख्यदर्शनसूत्रवृत्तौ । नन्विन्द्रियाणामाहङ्कारिकत्वं नोपपद्यते अग्निवागप्येति । वातं प्राणश्चक्षुरादित्यम्' इत्यादिश्रुत्या तेपामन्यादिपु भृतेपु लयश्रवणात कारणे हि कार्यस्य लयो भवति, तत्राह- "देवतालयश्रुति रम्भकस्य" ॥२१॥ देवतालयश्रुतिः-देवतासु-दिव्यगुणकप्वम्यादिप्विन्द्रियाणां लयमतिपा- दिका श्रुति रम्भकस्य आरम्भककारणस्यावेदिका भावितुमर्हति । कुतः? अनारम्भकेऽपि भूतले जलबिन्दोरकार्य्यस्य लयदर्शनादित्यर्थः ॥ २१ ॥ नन्ववन्तर्हि तानि नित्यानि सन्तु, तत्राह- "तदुत्पत्तिश्रुतेविनाशदर्शनाच" ॥ २२ ॥ इन्द्रियाणीति प्रकरणलाभः । नेति पूर्वसूत्रादनुवर्तते । नित्यानीति शेपः तदुत्पत्तिश्रुतेः='ऐतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति तेषामुत्पत्तिश्रुतेरुत्पन्नानां विनाशदर्शनाच न तानि नित्यानीन्द्रियाणी त्यर्थः ॥ २२ ॥ नन्वत एव गोलकमात्राणि तानि, नतु तद्यतिरिक्तानि, तत्राह- "अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठानम्। ॥ २३ ॥ इन्द्रिय-चक्षुरादीन्द्रियमतीन्द्रियम् इन्द्रियजन्यज्ञानागम्यम्भ्रान्तानां “भ्रान्तिमापनानां बौद्धानां त्वधिष्ठानं तदधिष्ठानं गोलकमेवेन्द्रियमि- त्यर्थः ॥ २३॥ ननु गोलकातिरिक्तं चेदिन्द्रियं, ताकमेव शक्तिभेदात् तत्तगोलकस्थं सन्नानाकावें करिष्यति, किं नानाभ्युपगमेन? तत्राह- "शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम्" ॥२४॥ शक्तिभेदेऽपि शक्तीनां भेदाभ्युपगमेऽपि भेदसिद्धौ इन्द्रियभेदसिद्धी सत्यां नैकत्वंनेन्द्रियस्यैकत्वमभ्युपगन्तुं शक्यमित्यर्थः । शक्तिभेदेन शक्याश्रयभेदस्य कल्पनादितिभावः ॥ २४ ॥ - १वृहद-अ०५-०२। २ मं० २-खं० १२३६ - द्वितीयोऽध्यायः। (५९) ननु शक्तिभेदेन भेदकल्पनायां विरोधः प्रसज्येत । शक्तिभेदेऽपि ते.. जोभेदादर्शनात्, तबाह- "न कल्पनाविरोधः प्रमाणदृष्टस्य" ॥२५॥ कल्पनाविरोधः इन्द्रियभेदकल्पनायां विरोधो न-न प्रसज्यते । कुतः? प्रमाणदृष्टस्य-प्रमाणेन दृष्टस्य भेदस्य कल्पनादित्यर्थः । तेजसि तु न ममाणेन दृष्टो भेद इति भावः ॥ २५ ॥ तत्र मनसि विशेषमाह- "उभयात्मकं मनः" ॥२६॥ उभयात्मकं ज्ञानकमन्द्रियात्मकं मनः मन इन्द्रियमित्यर्थः ॥२६॥ नन्वेकस्याहंकारस्य भूतेन्द्रियात्मकं काय॑नानात्वं कुतो जातं? तबाह-. "गुणपरिणामभेदान्नानात्वमवस्थावत् ॥ २७ ॥ गुणपरिणामभेदात्-गुणानां सत्वरजस्तमसामुद्भवाभिभवलक्षणपरिणाम विशेषानानात्वम्-एकस्याप्यहंकारस्य कार्यानानात्वम् तत्रोदाहरणमवस्थाव- त् । यथैकस्यापि देहस्य गुणपरिणामभेदादवस्थानानात्वमित्यर्थः ॥ २७ ॥. संप्रति ज्ञानकर्मेन्द्रिययोरेसाधारणी वृत्तिं दर्शयितुं तद्विषयमाह- "रूपादिरसमलान्त उभयोः ॥ २८ ॥ रूपमादी रसमला अन्नरसमलः पुरीपादिरन्ते यस्य स तथाभूतो विषय, उभयोः-ज्ञानेन्द्रियकमंन्द्रिययोरित्यर्थः । दर्शनाद्यात्मिका द्वयोरसाधारणी वृत्तिरिति भावः । तत्र रूपरसगन्धस्पर्शशब्दा ज्ञानेन्द्रियविषयाः। वचनविहरणादानानन्द-. मलाः कर्मेन्द्रियविषया इति विवेकः ॥ २८ ॥ ननु प्रकाशकत्वादिन्द्रियाणामेव द्रष्टत्वादिकमस्तु, कृतं तदतिरिक्तपुरु. पाभ्युपगमेन, तत्राह- "द्रष्टत्वादिरात्मनः करणत्वमिन्द्रियाणाम् ॥ ॥ २९॥ द्रष्टुत्वादिः द्रष्टुत्वादिकं वक्तृत्वादिकश्चात्मनः-पुरुषस्यैव, केवलं दर्श- नादिवृत्ती करणत्वं-साधनत्वमिन्द्रियाणां चक्षुरादीन्द्रियाणामित्यर्थः ।
(६०) सांख्यदर्शनसूत्रवृत्तौ। तथैवं संकल्पयितृत्वादिकमित्यपि द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणत्रयस्यासाधारणों वृत्तिमाह- त्रयाणां स्वालक्षण्यम् "॥३०॥ त्रयाणां-महदहंकारमनसां स्वालक्षण्यं महतोऽध्यवसायोऽहंकारस्या- भिमानो मनसः संकल्प इति स्वस्वं लक्षणमेवासाधारणीवृत्तिर्येषां तानि स्वल- क्षणानि तेषां भावस्तत्त्व-स्वलक्षणासाधारणवृत्तिकत्वमित्यर्थः ॥ ३०॥ बाह्याभ्यन्तरकरणानामसाधारणी वृत्तिमुक्त्वा साधारणी वृत्तिमाह- "सामान्यकरणवृत्तिःप्राणाद्या वायवः पञ्च" ॥३१॥ सामान्यकरणवृत्तिः सामान्या-साधारणी चासौ करणवृत्तिः समस्तकरण- वृत्तिः माणाद्या माण आदिभवो येषां ते तथा भाणापानसमानोदानव्यान- नामानो वायवः वायुवत्सञ्चरणशीलाः पञ्च पश्चसंख्याका इत्यर्थः । वायुवत्सश्चरणशीलाःमाणाद्याःपश्च साधारणी समस्तकरणवृत्तिरिति भावः। तथा चोक्तं योगभाष्यकृदिरप्येकोनचत्वारिंशसूत्रे विभूतिपादस्थे भाष्ये- "समतोन्द्रयवृत्तिः प्राणादिलक्षणा इति" यत्तु योगभाष्यटिप्पण्याम् 'अत्र समस्तेन्द्रियशब्देनाऽन्तःकरणत्रयमेव गृह्यते,नतु बाह्येन्द्रियाण्यपि । सुपुप्तौ चक्षुराद्यपगमेऽपि प्राणव्यापारदर्शनात् । अत एव कपिलाचारीश्वरकृष्णैश्चान्तःकरणप्रस्तावे'त्रयाणां स्वालक्ष- ण्यम्' इत्यनेनासाधारणीरध्यवसायादिवृत्तीर्यथायथमुक्त्वा 'सामान्यक- रणवृत्तिःप्राणाद्या वायवःपञ्च'इत्यभिहितम्, इति प्रलपति बालरा- मोदासीनः । तन्नितान्तामङ्गलम् । पूर्वोत्तरानुसन्धानाभावादानहि कपिलाचा- -य्यरीश्वरकृष्णश्चान्तःकरणमस्तावे 'त्रयाणां स्वालक्षण्यम्'इत्यनेनासा- धारणीरध्यवसायादिवृत्तीरुत्वा 'सामान्यकरणवृत्तिःप्राणाद्या वायवः पञ्चे- त्यभिहितम, येन बालोक्तिःकथञ्चित्मामाणिकी भवेत् । किन्तु करणमानप्रस्ता- वे पूर्वज्ञानकर्मेन्द्रियाणामसाधारणीरालोचनादिवृत्तीरन्तःकरणत्रयस्यचासा- द्वितीयोऽध्यायः। (६१) धारणीरध्यवसायादिवृत्तीरभिधाय पश्चात- सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च' इत्यभिहितम् । अत एव च वाचस्पतिमिरैः 'द्वयीन्द्रियाणां वृत्तिर्बाह्याभ्यन्तरीच बाह्या रूपाद्यालो धनलक्षणा, आभ्यन्तरी तु जीवनम् । स हि प्रयत्नभेद: शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणों यथाचाहुः कापिला 'इति ससाक्षिकं व्याख्यातांचेदन समस्तेन्द्रियश- ब्देनान्तःकरणत्रयस्य ग्रहणं युक्तममंस्यताकथं नाचार्या व्याख्यास्यत्।कथश्च प्रत्युत सर्वकरणसाधारण इति व्यारेत्, कथञ्च तत्र कापिलानां साक्ष्यमुदा- हरेत्, नचाचा- अपि वञ्चका भवन्ति । येनान्यथा ग्राहयेयुरिति स्वयमेवो- ह्यम् । किञ्च समस्तान्द्रयशदनान्तःकरणत्रयस्य ग्रहणे जिज्ञासापि न निवा तते, किन्त्ववशिप्यते । कस्मादाचार्वाह्याभ्यन्तरेन्द्रियाणामसाधारणी- रालोचनादिवृत्तीरभिधाय पश्चादन्तःकरणत्रयस्यैव साधारणी वृतिरभिहिता न वाह्येन्द्रियदशकस्येति । तनिवृत्तवावश्यकत्वात्कोऽन्यस्तदुपायः स्याद वालकस्येति नानाच्योऽसौ महद्भिः । किञ्च 'सुपुप्ती चक्षुराद्यपगमेऽपि माणव्यापारदर्शनादित्युपपत्तिरपि बालस्वामिनस्तस्यानुपपत्तिसमैन । नहि. सुपुप्ताविन्द्रियाणामपगमः कस्यापीष्टतमः । किन्तु तदुपरमः । तस्य च ज्ञान- कर्मलक्षणवृत्त्युपरमेणाप्युपपत्तिः सुसाध्वीति न किश्चिदवद्यमस्ति । तथा चा- य॑मर्यादामतिकम्य सर्वथा विरुद्धमलापेन वार्तिककारं मृषाभिपीडयन् वालोऽसौ कथं नार्यसंसदि गलहस्तितो भवेदिति स एव प्रष्टव्यो निखिल- शास्त्रनिष्णातमन्यो वालिशो वाल इत्यलमिह विस्तरेण । तस्य सांख्यतत्त्वको मुदीटीकायां चित्तप्रसादिन्यांदर्शितत्वात् ॥ ३१ ॥ बाह्याभ्यन्तरभेदेन त्रयोदशविधं करणम् । साधारणासाधारणभेदेन तद्वृत्तिदैविध्यश्च प्रदर्शितम् । इदानीं तदसाधारणीषु वृत्तिषु क्रमाक्रमों प्रदर्शयति।
N (६२) सांख्यदर्शनमूत्रवृत्तौ। "क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः ॥ ३२ ॥ क्रमशः कस्मिंश्चिद्विषये कुतश्चिनिमित्तात् क्रमेण, कस्मॅिश्चिञ्च कुत- श्चिन्निमितादक्रमशश्व-भन्तरेणापिकम-युगपदितियावदिन्द्रियवृत्तिः चक्षु- रादिबुद्धयन्तानामिन्द्रियाणां वृत्तिः दर्शनसङ्कल्पाभिमानाध्यवसायलक्षणा क्रिया भवतीत्यर्थः ॥ ३२ ॥ नन्विन्द्रियलक्षणदारभेदेन भिन्ना अपि बुद्धिवृत्तयो वस्तुतः कतिधा- सन्ति ? तत्राह- "वृत्तयः पञ्चतय्यः किष्टाक्लिष्टाः ॥ ३३ ॥ वृत्तयः बुद्धिसत्त्ववृत्तयः पञ्चतय्यः प्रमाणविपर्ययविकल्पनिद्रास्मृतिभे- दात् पञ्च मकारा भवन्ति । तत्र यास्तावद्राजस्यास्तामस्याश्च ताः क्लिष्टाः । न्याः पुनः सात्विक्यस्ता अक्लिष्टा इत्यर्थः ॥ ३३ ॥ ननु वृत्तिनिवृत्तौ सत्यामसत्यां च कीदृशः पुमान् ? तत्राह- "तनिवृत्तावुपशान्तोपरागः स्वस्थ ॥ ३४ ॥ तनिवृत्ती-तासां वृत्तीनां विरामदशायामुपशान्तोपरागः=निवृत्ततत्संवन्धः पुरुषः स्वस्थः स्वरूपस्थितस्तदनिवृत्तौ तु तत्मतिबिम्बिततया तदाकारतां भजमान इवास्वस्थो भवतीत्यर्थः ।। ३४ ॥ तत्रोदाहरणमाह- कुसुमवच्च मणिः ॥ ३५॥ कुसुमवच्च-यथा जपाकुसुमेन मणिः स्फटिको मणिरस्वस्थः, कुसुम- निवृत्तौ च रागशून्यः स्वस्थ इत्यर्थः ॥ ३५ ॥ ननु किमर्थ करणप्रवृत्तिः ? कुतश्च ? तत्राह- "पुरुषार्थ करणोद्भवोऽप्यदृष्टोल्लासात् " ॥ ३६॥ अदृष्टोल्लासा-अभिव्यक्तादृष्टनिमित्तात्करणोद्भवोऽपि-प्रधानप्रवृत्तिनि द्वितीयोऽध्यायः। दर्शनार्थोऽपिः । प्रधानप्रवृत्तिवत्करणप्रवृत्तिरपि पुरुषार्थ=पुरुषस्य स्वामिनः कृते स्वत एव भवतीत्यर्थः ॥ ३६ ॥ परार्थ स्वतः प्रवृत्तौ निदर्शनमाह- “धेनुवद् वत्साय"॥ ३७॥ धेनुवत् यथा धेनुर्वत्साय वत्सार्थ स्वयमेव क्षीरं स्रवति । नान्यं प्रय- लमपेक्षते । तथा पुरुषार्थ स्वयमेव करणानि प्रवर्तन्ते इत्यर्थः ॥ ३७ ।। ननु कतिविधं करणं ? तत्राह- "करणं त्रयोदशविधमवान्तरभेदात् ॥ ॥ ३८॥ अवान्तरभेदात् बाह्याभ्यन्तरभेदात्करणं त्रयोदशविधं-बुद्ध्यहङ्कारमना- सीत्यन्तस्त्रयम् । बाह्यानि चक्षुरादीनि दशेति त्रयोदशविधा यस्य, त- दित्यर्थः ॥ २८ ॥ ननु कस्मादिन्द्रियेषु करणत्वं ? तत्राह- "इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत्" ।। ३९ ॥ इन्द्रियेषु-चक्षुरादिवाह्याभ्यन्तरेन्द्रियेषु साधकतमत्वगुणयोगाव-अति- शयेनज्ञानक्रियासाधकत्वलक्षणगुणसंबन्धात्करणत्वं व्यापारवदसाधारणकार- णत्वम्। कुठारवत् यथा छिदादिक्रियासाधकतमत्वगुणयोगात्कुठारे करणत्व- मित्यर्थः । व्यापारत्वश्च तज्जन्यत्वे सति तज्जन्यजनकत्वमिति ध्ययम् ।।३९ ।। नन्वनयोर्वाह्याभ्यन्तरयोरुभयोः किं प्रधानं, तत्राह- "द्वयोः प्रधानं मनो लोकवद्धृत्येषु"॥ ४० ॥ दयोः बाह्याभ्यन्तरयोरुभयोः प्रधान मुख्यं मना-मननवृत्तिकं बुद्धि- सत्त्वमेव, भृत्येषु भृत्यवर्गेषु लोकवत् लोकसिद्धस्वामिवदित्यर्थः। तत्र वाह्येभ्यः प्रधानमनः, मनसः प्रधानमहंकारः, ततश्च बुद्धिसत्त्वमि- ति विवेकः ॥ ४० ॥ ननु तत्प्राधान्ये को हेतुः ? तत्राह- (६४) सांख्यदर्शनसूत्रवृत्तौ। "अव्यभिचारात्"॥४१॥ इन्द्रियान्तराणां व्यभिचारेऽपि ज्ञानमात्रे मनसो व्यभिचाराभावादि- त्यर्थः ॥ ४१ ॥ द्वितीयहेतुमाह- "तथाऽशेषसंस्काराधारत्वात् "॥ ४२ ॥ हेत्वन्तरसूचनाय तथाशब्दः । अनुभवजन्यनिखिलसंस्काराश्रयत्वादि- त्यर्थः ॥ ४२ ॥ तृतीयहेतुमाह- स्मृत्याऽनुमानाच "॥४३॥ स्मृत्या पूर्वानुभूतपदार्थविषयिण्या स्मृतिलक्षणयाऽसाधारणवृत्त्याऽनुमा- नाच्च-मनःप्राधान्यानुमानाच्चेत्यर्थः । यद्वा संस्कारा एव न सन्ति कुतो बुद्धस्तदाधारत्वम् । तत्राह-स्मृ- त्याऽनुमानाच' । पूर्वानुभूतस्मृत्या लिङ्गभूतया तजनकसंरकाराणाम- नुमानाच्च मनसस्तदाधारत्वमित्यर्थः ॥ ४३.॥ नन्वेवं बुद्रेिव करणमस्तु किं करणान्तराभ्युपागमेन, तत्राह- "संभवेन्न स्वतः ॥४४॥ द्वारभूतैश्चक्षुरादिकरणैर्विना बुद्धः स्वतः करणत्वं न संभवेत् न संभ-: वतीत्यर्थः । बहिरस्वातन्त्र्यादिति भावः ॥ ४४ ॥ ननु किन्निबन्धनस्तर्हि करणेषु गुणप्रधानभावः ? तत्राह- "आपेक्षिको गुणप्रधानभावः क्रियाविशेषात्"॥४५॥ क्रियाविशेषात् करणत्वे समानेऽपि व्यापारविशेषानिमित्तादापेक्षिकः=. परस्परापेक्षानिवृतो गुणप्रधानभावः-गुणभावः प्रधानभावश्चेत्यर्थः । चक्षुरादिदशकमपेक्ष्य मनः प्रधानम् । तदपेक्ष्य चाहंकार, स्तदपेक्ष्य च. बुद्धिरिति भावः ॥ ४५ ॥ ।
द्वितीयोऽध्यायः।
(६५)
नन्वेवं गुणप्रधानभावमापन्नानि तानि कस्मात्पुरुषार्थ चेष्टन्ते? तत्राह-
"तत्काजितत्वात्तदर्थमभिचेष्टा लोकवत्" ॥४६ ॥
तत्कार्जितत्वात्-पुरुषस्य कर्म-तत्कर्म, तेन-पुरुषादृष्टेनार्जितत्वा=
संपादितत्वात् तदर्थ-पुरुषार्थमभिचेष्टा करणानामीहा।लोकवत्न्यथा लोके
देवदत्तकार्जितं कुठारादि देवदत्तार्थ छिदादिक्रियां करोतीत्यर्थः ॥४६॥
नन्वेवं पुरुषार्थ करणानां क्रियातोल्ये कस्माद् बुद्धरेव प्राधान्यं नेत--
रेषां? तत्राह-
"समानकर्मयोगे बुद्धःप्राधान्यं लोकवल्लोकवत्॥४७॥
अध्यायपरिसमाप्तिसूचनाय वीप्सा । समानक्रियायोगे-बुद्ध्यादिकरणानां
पुरुषार्थत्वेन समानेऽपि क्रियासम्बन्धे बुद्धः-बुद्धरेव प्राधान्यं-क्रियाविशेष
निमित्तं मुख्यत्वम् । लोकवत्-यथा लोके राजामात्यप्रभृतीनां राजाज्ञा
परिपालनरूपकर्मयोगे समानेऽपिराजामात्यस्यैव प्राधान्यं नेतरेषामित्यर्थः ।
चक्षुरादीनि विषयानादाय बुद्ध्यै प्रयच्छन्ति । बुद्धिश्चात्मने पुरुषाय
राजमन्त्रिवत्पुरुषेश्वराय प्रयच्छति । तस्मान्मन्त्रिवत्प्रधानं बुद्धिरिति
भावः ॥ ४७ ॥
प्रकृतेरीधराधीनं पुरुषाय प्रवर्तनम् ।
ततोऽष्टादशतत्त्वानि द्वितीयेऽस्मिन्निरूपितम् ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्या-
त्मारामभगवत्पादशिष्यहरिप्रसादकृतायां सांख्य-
सूत्रवृत्तौ प्रधानकार्याध्यायो द्वितीयः ॥२॥
(६६) सांख्यदर्शनसूत्रवृत्तो।
अथ तृतीयोऽध्यायः।
क्रमप्राप्तं महाभूतोत्पादमाह-
"अविशेषाद्विशेषारम्भः" ॥१॥
अविशेषात-शान्तधोरमूढतालक्षणविशेपरहितात्तन्मात्रपश्चकाद्भूतसूक्ष्माद
विशेषारम्भः-विशेषाणां-शान्तघोरमूढतालक्षणविशेषवतां व्योमानिलतेजोऽ-
पृथिवीनां पश्चमहाभूतानामारम्भः-उत्पाद इत्यर्थः ॥ १॥
ननु महाभूतपञ्चकात्कस्य पुनरुत्पादः ? तत्राह-
"तस्माच्छरीरस्य" ॥२॥
तस्मात्-महाभूतपञ्चकाच्छरीरस्य-स्थूलस्यास्य शरीरस्यारम्भ इत्यर्थः॥२॥
ननु स्थूलस्यास्य दृष्टनष्टमायत्वादशरीरः पुमान् कथं भोगापवर्गाय दे-
हादेहान्तरं गच्छेत् ? तत्राह-
"तबीजासंसृतिः॥ ३ ॥
तद्धीजा-तस्य स्थूलशरीरस्य बीज निमित्तं यत् साहङ्कारबुद्धीन्द्रिय-
तन्मात्रसप्तदशकारब्धं साशयं लिङ्गशरीरम् । तस्मादस्य भोक्तुरात्मनः
संसृतिः-ऐहिकामुष्मिका गतिरित्यर्थः ॥ ३ ॥
ननु किं पर्यन्तं महदादयः शरीरमारभन्ते? तत्राह-
"आ विवेकाच्च प्रवर्तनमविशेषाणाम्" ॥४॥
आविवेकाच्च-चोऽवधारणे । विवेकप्रत्ययपर्यन्तमेवाविशेषाणां शान्त-
घोरमूढता लक्षणविशेषरहितानां महदादीनां प्रवर्तन-शरीरारम्भाय प्रवर्तन-
मित्यर्थः ॥ ४ ॥
ननु कुत एतदद्वगम्यते । तत्राह-
"उपभोगादितरस्य" ॥५॥
नृतीयोऽध्यायः। (६७)
इतरस्य अनुत्पनविवेकमत्ययस्य पुरुषस्योपभोगात्-प्रकृत्या सांसारिक-
भोगावश्यंभावादित्यर्थः ॥ ५ ॥
ननु संसृतिवेलायामस्य भोक्तुरात्मनः सुखदुःखोपभोगो भवति न वा ?
तत्राह-
"सम्पति परिमुक्तो द्वाभ्याम् ॥६॥
सम्पति-संसृतिवेलायां पुरुषो द्वाभ्यां सुखदुःखाभ्यां परिमुक्तः सर्वतो
मुना-निर्मुक्तो भवतीत्यर्थः ।
सम्मूर्छितत्वादिति भावः ॥ ६ ॥
ननु यस्माल्लिङ्गशरीरादस्य पुंसः संमृतिस्तस्य स्थूलशरीराको विशेषः?
तत्राह-
"मातापितजं स्थूलं प्रायश इतरन्न तथा" ॥७॥
स्थूलं स्थूलं शरीरं मायशः वाहुल्येन मातापितृज-योनिजं भवति।सर्गा-
दावयोनिजस्यापि स्मरणात् प्रायश इत्युक्तम् । इतरत् सूक्ष्म शरीरं तु न
तथान मातापितृनमित्यर्थः ॥ ७ ॥
ननु तथापि भोगायतनत्वं कस्य ? तत्राह-
"पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य" ॥८॥
पूर्वोत्पत्तेः-पूर्व-सर्गादावेवोत्पत्तिः जन्म यस्य,तस्य लिङ्गशरीरस्यैकस्य
प्रतिपुर नियमनैकस्यैव भोगात-सुखदुःखानुभवात् तत्कार्य्यत्वं भोगायत-
नत्वम् । भोगकर्तव्यताया अत्रैव युक्तत्वात् । नेतरस्य स्थूलशरीरस्येत्यर्थः ।
मृतशरीरे व्यभिचारादिति भावः ॥ ८ ॥
ननु
किं तल्लिङ्गशरीरं? तनाह-
"सप्तदशैकं लिङ्गम्" ॥९॥
सप्तदश एकादशेन्द्रियाणि, पञ्चतन्मात्राणिभूतसूक्ष्माणि, साहङ्कारा
बुद्धिश्चेति सप्तदश मिलित्वा लिङ्ग-लिंगशरीरम् । तच्चैकंपतिपुरुषमेकमि
त्यर्थः ॥९॥
(६८) सांख्यदर्शनसूत्रवृत्ती।
ननु लिङ्गशरीरस्य तस्य सर्वत्र तुल्यत्वात् कथं देवतिर्यगादिभेदेन
भेदः? तनाहं-
"व्यक्तिभेदः कर्मविशेषात्" ॥१०॥
व्यक्तिभेदः व्यक्तर्लिङ्गशरीरस्य भेदः कर्मविशेषाद-जीवानामदृष्टविशे-
पादित्यर्थः ॥ १० ॥
ननु तथापि लिङ्गशरीरस्य भोगायतनत्वे तत्रैव शरीरव्यवहारे स्थूलेऽ-
स्मिन् लोकसिद्धः शरीरव्यवहारः कथं स्यात् ? तत्राह-
"तदधिष्ठानांश्रये देहे तद्वादात्तद्वाद" ॥ ११॥
तदधिष्ठानाश्रये तस्य कर्मविशेषस्य यदधिष्ठानं बुद्धितत्त्वं, तस्याश्रये
लिङ्गशरीरे तदादा-तस्य शरीरस्य वादः व्यवहारस्तद्वादस्तस्माद् देहे-
लिङ्गशरीरस्याश्रयीभूते स्थूलशरीरेऽपि तदादा शरीरव्यवहार इत्यर्थः।११॥
नन्वस्तु तर्हि बुद्धित एव पुरुषस्य भोगः, कृतं सूक्ष्मशरीरेणाप्रामाणि-
केन, तत्राह-
"न स्वातन्त्र्यात् तहते, छायावच्चित्रवञ्च" ॥ १२ ॥
तहते-लिंगशरीरंविना न स्वातन्त्र्यात् स्वतन्त्रतया बुद्धिसत्त्वमव-
स्थातुमर्हति, दूरे ततो भोगः । तत्रोदाहरणं, छायावच्चित्रवच-यथाश्रयं
विना छाया चित्रश्च न तिष्ठतीत्यर्थः ॥ १२ ॥
नन्वस्तु तर्हि लिंगशरीरणैव पुरुषस्य भोगः, कृतं स्थूलशरीरेण,
तत्राह-
"मूर्त्तत्वेऽपि न संघातयोगात् तरणिवत्" ॥ १३ ॥
स्वातन्त्र्यादिति पूर्वसूत्रादनुवर्तते । मूर्त्तत्वेऽपि-लिङ्गशरीरस्य स्थूलश-
रोरवन्मूर्त्तत्वेऽपि न तेन स्वातन्त्र्यात् पुरुषस्य भोगः संभवति । किन्तु
संघातयोगात्-स्थूलशरीरसंबन्धात् । तत्रोदाहरणं तरणिवतः यथा संघात-
योगादेव सहस्ररश्मितो भोग इत्यर्थः ॥ १३ ॥
तृतीयोऽध्यायः । (६९) ननु तत्सूक्ष्मं शरीरं किं परिमाणं ? तत्राह- "अणुपरिमाणं तत्कृतिश्रुतेः॥ १४ ॥ न इति पूर्वसूत्रादनुवर्तते । तत्-लिङ्गशरीरमणुपरिमाणं न, किन्तु मध्य- मपारमाणम् । कुतः ? कृतिश्रुतेः- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति तत्कृतेः करणस्य निर्माणस्य श्रुतेः-अब- णादित्यर्थः ॥ १४ ॥ मध्यमपरिमाणत्वे हेत्वन्तरमाह- "तदन्नमयत्वश्रुतेश्व" ॥ १५॥ 'अन्नमयं हि सोम्य मन आपोमयःप्राणस्तेजोमयी वाग्' इति तस्य लिङ्गशरीरस्यांशतोऽन्नमयत्वस्य अन्नसंसृष्टसजातीयांशप्रचुरत्व- स्य श्रवणाच मध्यमपरिमाणं तदित्यर्थः ॥ १५ ॥ ननु भवतु मध्यमपरिमाणं लिङ्गम् । तथाप्यचेतनानि तानि किमर्थं संस- रति ? तत्राह- "पुरुषार्थ संस्मृतिलिङ्गानां सूपकारवत् ॥ १६॥ पुरुषार्थ-पुरुषाणां भोगापवर्गाथै लिङ्गाना-लिङ्गशरीराणां संमृतिः ऐहि कामुष्मिकागतिः । तत्रोदाहरणं सूपकारवत् यथा राज्ञः सूपकाराणां पाक- शालायां गतिस्तदर्थमेव भवति नात्मार्थमित्यर्थः ॥ १६ ॥ एवं लिङ्गशरीरं स्वरूपपारमाणाभ्यां विचार्य स्थूलशरीरं विचार- न्यन्नाह- "पाश्चभौतिको देहः ॥ १७॥ पाश्चभौतिकः व्योमानिलतेजोऽप्पृथिवीनां पञ्चभूतानां परिणामो देहः- स्थूलशरीरमित्यर्थः॥ १७ ॥ मतान्तरमाह- १ मुं०२ खं० १-३॥ २ छा०प्रपा. ६-खं० ५।
(७०) सांख्यदर्शनसूत्रवृत्तौ ।
"चातुभौतिकमित्येके ॥ १८ ॥
चातुर्नीतिक व्योमापहाय चतुणी भूताना परिणामःस्थूलदेह इत्येकें
इत्यर्थः ॥ १८॥
अपर मतमाह-
"ऐकभौतिकमित्यपरे ॥ १९ ॥
एकभूतस्य पृथिवीमात्रस्य परिणामः स्थूलो देह इत्यपरे इत्य-
र्थः ॥ १९ ॥
प्रसंगादेहचैतन्यवादं निरस्यति ।
"न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः॥ २०॥
प्रत्येकादृष्टेः-पृथक्कृतेषु भूतेष्वकैकस्मिन् चैतन्यादर्शनाद् भौतिकस्य
देहस्य न सांसिद्धिकंन स्वाभाविक चैतन्यं, किन्तु पुरुषोपाधिकमि-
त्यर्थः॥ २० ॥
स्वाभाविके चैतन्ये बाधकान्तरमाह-
"प्रपञ्चमरणाद्यभावश्च" ॥ २१ ॥
आदिना सुषुप्तेः संग्रहः । देहस्य स्वाभाविके चैतन्येऽभ्युपगमे प्रपञ्चे-
जगत्यां मरणस्य सुषुप्तेश्चाभावः प्रसज्येतेत्यर्थः ।
स्वभावसिद्धस्य चैतन्यस्याशक्यलोपतया कस्यापि सुषुप्तिमरणे न स्या-
तामिति भावः ॥ २१ ॥
यदुक्तं प्रत्येकादृष्टरिति, तत्राशंक्य दृष्टान्तवैषम्येण निराचष्टे ।
"मदशक्तिवच्चेत प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः॥२२॥
मदशक्तिवतन्ननु यथा मदशक्तिः प्रत्येकद्रव्यावृत्तिरपि मिलितेषु तेषू
भवति, तथा प्रत्येकभूतादृष्टमपि चैतन्य मिलितेषु तेषूद्भविष्यतीति चेद्=
याच्यते, तदा न-न वाच्यम् । कुतः? प्रत्येकपारदृष्टेन्यतस्तत्रापि सूक्ष्मत-
या प्रत्येक मादकत्वे परिदृष्टे सति सांहत्ये-समुदाये तदुद्भवः तस्या मदश-
केरुद्भवः प्रभवो नतु प्रत्येकादृष्टरित्यर्थः ॥ २२ ॥
- तृतीयोऽध्यायः। (१) नन्वस्तु देहस्य पुरुषोपाधिकं चैतन्यं, तथापि पुरुषस्य तस्य मुक्ति कथं स्यात् । तत्राह- "ज्ञानान्मुक्तिः ॥ २३ ॥ ज्ञानात्-सत्त्वपुरुषयोविवेकज्ञानान्मुक्तिः शरीरसंबन्धहेतुकस्य त्रिविधदुः खस्यात्यन्तनिवृत्तिरित्यर्थः ॥ २३ ॥ ननु वन्धः कथं ? तत्राह-- "बन्धी विपर्ययात् ॥ २४ ॥ विपर्ययात्-विवेकज्ञानविपरीतादविवेकाइन्धः शरीरसंबन्धहेतुकदुःख- त्रययोग इत्यर्थः ॥ २४॥ ननु ज्ञानान्मुक्तिरित्ययुक्तं, कर्मणोऽपि तत्र हेतुत्वाव, तत्राह- "नियतकारणत्वान्न समुच्चयविकल्पो" ॥ २५ ॥ नियतकारणत्वाद-ज्ञानस्य मुक्ति प्रति नियमेन कारणत्वान समुच्चयवि- कल्पौ-न मोक्षोपजनने तस्य कर्मणा समुच्चयः, कदाचिज्ज्ञानात्कदाचित्क- मण इति विकल्पो वेत्यर्थः ॥ २५ ॥ किश्च। . "स्वमजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य" ॥ २६ ॥ पूर्वसूत्रात्समुच्चयविकल्पौ विभक्तिविपरिणामेनानुवर्तते । नोभयो:-ज्ञान- कर्मणोर्विकल्पसमुच्चयाभ्यां पुरुषस्य. मुक्तिः । किन्तु, ज्ञानादेव । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति- श्रुतेः । तत्रोदाहरणं स्वमजागराभ्यामिव मायिकामायिकाभ्यां यथा मायि- कामायिकाभ्यां-कल्पिताकल्पिताभ्यां स्वमजागराभ्या:स्वमजागरपदार्था- भ्यां, विकल्पिताभ्यां वा समुचिताभ्यां वा, न पुरुषस्य बुभुक्षातो मुक्तिः, किन्तु जागरपदार्थादेव, तथेत्यर्थः ॥ २६ ॥ 1 १ यजुः-अ० ३१-०१८॥
(७२) सांख्यदर्शनसूत्रवृत्तौ। ननु माभूतां नित्येन कर्मणा ज्ञानस्य विकल्पसमुच्चयो । नैमित्तिकन तु तौ किं न स्यातां ? तत्राह- "इतरस्यापि नात्यन्तिकम्" ॥२७॥ इतरस्यापि-नित्यनैमित्तिकस्यापि कर्मणो नात्यन्तिक-नान्तमतिकान्तं फलम् । अतस्तेनापि विकल्पसमुच्चयो ज्ञानस्य नेत्यर्थः ॥ २७ ॥ ननु माभूतां नैमित्तिकेनापि कर्मणा ज्ञानस्य विकल्पसमुच्चयो। काम्न कर्मणा सेत्स्यतः, तत्राह- "सङ्कल्पितेऽप्येवम्" ॥ २८ ॥ नात्यन्तिकमित्यनुवर्तत । संकल्पितेऽपि-काम्ये कर्मण्यप्येव-नित्यनैमि- त्तिककर्मवनात्यन्तिकं फलम् । अतस्तेनापि तस्य तौ न स्त इत्यर्थः॥२८॥ नन्वेवं यस्य मोक्षोपजनने केनापि कर्मणा विकल्पसमुच्चयौ नस्त स्तज्ज्ञानं कुतो जायतां ? तत्राह- "भावनोपचयाच्छुद्धस्य सर्व प्रकृतिवत् ॥ २९ ।। सर्व-निखिलं वेदोक्तं कर्म कुर्वतः शुद्धस्य-शुद्धान्तःकरणस्य भावनोप- चयाव-भावना-ध्यानं, तस्योपचय उत्कर्षस्तस्माज्ज्ञानं जायते इति शेषः। तत्रोदाहरणं प्रकृतिवत्-प्रकृत्या शुद्धान्तःकरणवदित्यर्थः ॥ २९ ॥ ननु किं तद्ध्यानं ? तत्राह- "रागोपहतिया॑नम् ॥ ३० ॥ रागोपहतिः-चित्तचाञ्चल्यहेतुविषयानुरागो रागः, तस्योपहतिः अभि भवो ध्यानमित्यर्थः ॥ ३० ॥ ननु कुतो ध्यानस्य सिद्धिः ? तबाह- "वृत्तिनिरोधाचात्सद्धिः"॥३१॥ वृत्तानरधिात पमाणविपर्ययविकल्पनिद्रास्मृतयः पश्च वृत्तय, स्तासा नृतीयोऽध्यायः (७३) विषयानुरागहेतूनां निरोधात्तत्सिद्धिः तस्य ध्यानस्य सिद्धिः निष्पत्तिरि- त्यर्थः ॥ ३१॥ ननु वृत्तिनिरोषस्य सिद्धिः कुतः ? तत्राह- "धारणासनस्वकर्मणा तत्सिद्धिः" ॥ ३२॥ धारणासनस्वकर्मणा वक्ष्यमाणलक्षणेन धारणाध्यानस्वकर्मणा तत्सि- "दिः तस्य वृत्तिनिरोधस्य सिद्धिः निष्पत्तिरित्यर्थः ॥ ३२ ॥ धारणां लक्षयति । "निरोधछर्दिविधारणाभ्याम् ॥ ३३ ॥ छर्दिविधारणाभ्या-रेचनं छर्दिस्तेन पूरणस्यापि संग्रहास्तम्भनं विधारणं, ताभ्यां यः माणस्य निरोधः सा धारणेत्यर्थः ॥ ३३ ॥ आसनं लक्षयति । "स्थिरसुखमासनम्" ॥ ३४ ॥ यद्यपि स्वस्तिकादिभेदनासनं बहुविध,तथापि यत् स्थिरसुखं स्थिरंसत्सु- खादं, तदेवासनमित्यर्थः ॥ ३४ ॥ स्वकर्म लक्षयति । "स्वकर्म स्वाश्रमविहितकर्मानुष्ठानम्" ॥ ३५ ॥ स्वाश्रमविहितकर्मानुष्ठानम् आश्रमाचत्वारस्तत्रस्वस्वाश्रमस्य वेदेन विहितानां कर्मणां यथाशास्त्रमनुष्ठानं स्वकर्मेत्यर्थः ॥ ३५ ॥ वृत्तिनिरोधस्योपायान्तरमाह- "वैराग्यादभ्यासाच्च "॥३६ ।। समुच्चये चः। दृष्टानुश्रविकविषयवैतृष्ण्यं वैराग्यम् । स्थितौ यलोड भ्यासः, ताभ्यां समुचिताभ्यां वृत्तिनिरोध इत्यर्थः ॥ ३६ ॥ 'बन्धो विपर्ययात् । इत्युक्तं, तत्र विपर्यायभेदानाह- " विपर्ययभेदाः पश्च" ॥ ३७॥ १ सां०अ० ३ सू० २४ ।
(७४) सांख्यदर्शनसूत्रवृत्ती। अविद्यास्मितारागदेषाभिनिवेशाः पञ्च विपर्ययभेदाः-विपर्ययस्य= विवेकज्ञानविपरीतस्याविवेकस्य भेदा इत्यर्थः ॥ ३७ ।। विपर्ययस्य भेदानुक्त्वा तत्कारणभूतामशक्तिमाह- "अशक्तिरष्टाविंशतिधा" ॥ ३८॥ अष्टाविंशतिधा एकादशेन्द्रियाणि, तेषां वैकल्यादेकादशधा, सप्तदश तुष्टिसिद्धी, तयोर्विपर्ययात् सप्तदशधेति मिलित्वाऽष्टाविंशतिधाऽशक्तिः-- देरशक्तिरित्यर्थः ॥ ३८॥ ययोर्विपर्ययात्सप्तदशधा बुद्धेरशक्तिस्ते तुष्टिसिद्धी सूत्रद्वयेनाह- " तुष्टिर्नवधा"॥ ३९ ॥ स्पष्टम् । नवधात्वं वक्ष्यति ॥ ३९ ॥ " सिद्धिरष्टधा "॥ ४०॥ स्पष्टम् । अष्टधात्वं वक्ष्यति ॥ ४० ॥ ' 'विपर्ययभेदाः पञ्च' इत्युक्तं, तत्रावान्तरभेदान् निरूपयति । "अवान्तरभेदाः पूर्ववत् " ॥४१॥ पूर्ववत्-यथा पूर्व विपर्ययस्य पश्च भेदा उक्तास्तथाऽवान्तरभेदाः-विं- षयभेदादवान्तरभेदा अपि दापष्टिरवगन्तव्या इत्यर्थः । तत्राव्यक्तमहदहंकारतन्मात्रेष्वष्टास्वनात्मस्वात्मख्यातिरविद्या तमोऽ. ष्टधा ८ अणिमाद्यष्टविधैश्वर्येष्वणुरस्मि, महानस्मीति तादात्म्याभिमानोऽ- स्मितामोहोऽष्टधा ८ दिव्यादिव्यभेदेन दशविधेषु शब्दादिविषयेषु लोभो रागो महामाहो दशधा १० अस्मिताया अष्टौ ये विषया, ये च रागस्य दशविषयास्तविघातकेषु क्रोधो देषस्तामिस्त्रोऽष्टादशधा १८ तेषामेवाष्टा- दशानां विनाशस्यानुसन्धानाजायमानस्वासोऽभिनिवेशोऽन्धतामिस्रोऽष्टादश- धा १८ इति द्वाषष्टिभेदो विपर्यय इति भावः ॥ ४२ ॥ अशरष्टाविंशतिधात्वमवधारयति । १ सां० अ०३ सू० ३७ ।।
तृतीयोऽध्यायः। (७५) "एवमितरस्या"॥४२॥ एवं-विपर्ययवदितरस्याः अशक्तरप्यष्टाविंशतिरवान्तरभेदा अवग- न्तव्या इत्यर्थः । ते च भेदा अष्टात्रिंशत्तमे सूत्रे उक्ता इति ध्येयम् ।। ४२ ॥ तुष्टेनवधात्वमाह- "आध्यात्मिकादिभेदानवधा तुष्टिः ॥ ४३ ।। आध्यात्मिकादिभेदात-आत्मानमधिकृत्य प्रवर्तन्ते इत्याध्यात्मिक्यः प्रकृत्युपादानकालभाग्याख्याश्चतस्रस्तुष्टय आदौ यस्य पारसुपारपारापारा- नुत्तमाम्भोत्तमाम्भाख्यपञ्चविधतुष्टिभेदस्य, स तथा, तस्मात् नवधा नव- प्रकारा तुष्टिरित्यर्थः। विवेकसाक्षात्कारपर्यन्तः सर्वोऽपि परिणामः प्रकृतेरेव, तश्च प्रकृतिरेव करौति, अहन्तु कूटस्थः पूर्ण इत्यात्मभावनाद्यः परितोषः सा प्रकृत्याख्या तुष्टिः। इयश्चाम्भ इत्युच्यते । ततश्च प्रबन्योपादानेन या तुष्टिःसोपादानाख्या सलिलमित्युच्यते । तदनु प्रव्रज्यायां बहुकालं योगानुष्ठानेन या तुष्टिः सा कालाख्या ओष इत्युच्यते । पश्चात् प्रसंख्यानापरनामधेयविवेकख्यातिपर- मकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिः सा भाग्याख्या वृष्टिरित्युच्यते। ता एताश्वतस्त्र आध्यात्मिक्यः । यास्तु शब्दादिषु पञ्चसु वाह्यविषयेष्वर्जन- रक्षणक्षयभोगहिंसादोषनिमित्तकोपरमाज्जायन्ते ता यथाक्रमं पारसुपार- पारापारानुत्तमाम्भोत्तमाम्भा इत्याख्यायन्ते । ताश्चैता बाह्यविषयत्वाद बाह्याः पञ्च तुष्टय इति नवधा तुष्टिरिति भावः ॥ ४३ ॥ सिद्धेरष्टधात्वमाह- "ऊहादिभिः सिद्धि"॥४४॥ आदिपदेन 'शब्दाध्ययनसुहृत्माप्तिदानदुःखविधातानां संग्रहः।तत्र विह- न्यमानस्य दुःखस्य त्रयत्वात्तदिघाता अपि त्रय इतीमा मुख्यास्तिस्रः सि- (७६) सांख्यदर्शनसूत्रवृत्तौ । यः तदुपायभूतास्त्वितराः पञ्च गोण्य इत्येवमूहादिभिर्भेदैरप्टधा सिद्धिरि- त्यर्थः । उपदेशादिकं विनैव प्राग्भत्रीयाभ्यासवशात् तत्वस्य स्वयमूहनमूहा? मन्यदीयपाठमाकर्ण्यस्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तच्छब्दः २ शिष्याचार्य्यभावेन शास्त्राध्ययनाजायमानं ज्ञानमध्ययनं ३ स्वयमुपदेशार्थ गृहागतात्परमकारुणिकाज्ज्ञानलाभः सुहत्माप्तिः ४ धनादिदानेन परितोपि- ताज्ज्ञानलाभो दानमित्युपायभूताः पञ्च सिद्धयः । आध्यात्मिकादिदुःख- त्रयविधातात्मिकाः फलभूतास्तिस्रः सिद्ध्य इत्यष्टो ता इति भावः॥४४॥ ननूहादिपञ्चकं सिद्धिहेतुत्वात्सिद्धिरित्युक्तमयुक्तम् । तप आदेरपि तद्धे- तुत्वात, तत्राह- "नेतरादितरहानेन विना" ॥ ४५ ॥ सिद्धिरिति पूर्वसूत्रादनुवर्तते। नेतरासिद्धिः ऊहादिपश्चकेतरात्तप आदे- र्जायमाना सिद्धिर्न सिद्धिः, किन्तु सिद्ध्याभासः कुतः? इतरहानेन विना- विपर्ययस्य हानमितरहानं, तेन विना-विपर्ययविनाशमन्तरैव जायमानत्वा- दित्यर्थः ॥ ४५ ॥ एवमन्तःसृष्टिभेदानुक्त्वा वाह्यसृष्टिभेदानाह- "देवादिप्रभेदा" ॥ ४६॥ सृष्टिरित्यग्रिमसूत्रादनुकृष्यते । मानुष्यभेदस्य तैयंग्यौनभेदस्य चादि- 'पदेन परिग्रहः । प्रभेदोऽवान्तरभेदः । देवादिः प्रभेदो यस्याः सा तथा भौतिकी सृष्टिरित्यर्थः । तत्र दैवी सृष्टिरष्टविधा । तैयंग्योनिः पञ्चविधा । मानुषी चैकविधेति भाष्यम् ॥ ४६॥ ननु किमर्थमेषा सर्वा सृष्टिः किमवधिका च?तत्राह- "आब्रह्मस्तम्बपर्य्यन्तं तत्कृते सृष्टिराविवेकात्" ॥४७॥ .
तृतीयोऽध्यायः। (७७) ओब्रह्मस्तम्बपर्यन्तम्-आदिमो ब्राह्मणवर्णो ब्रह्मा, स्तम्बः स्थावरण, ब्राह्मणादि स्थावरान्ता सृष्टिः यावती भौतिकी सृष्टिः, सा सर्वाऽभौतिक- सृष्टिवत् तत्कृते-पुरुषकृते वेदितव्या। साऽप्याविवेकात यावद्विवेकज्ञानं न जायते तावदेवेत्यर्थः ।। ४७ ॥ तत्रविस्पष्टमतिपत्तये स्वयं तद्विभागमाह- "ऊर्व सत्वविशाला"॥४८॥ सृष्टिरित्यनुवर्तते।सत्त्वविशाला सत्त्वं विशालं वृहद् रजस्तमसोचलघुनी यस्यां सृष्टौ, सा तथा सत्त्वगुणवहुला, सृष्टिः या सृष्टिः, सोर्ध्वम् ऊर्ध्वग तिका दैवीत्यर्थः ॥ ४८ ॥ "तमोविशाला मूख्तः॥ ४९॥ सृष्टिरित्यनुवर्तते । तमोविशाला-तमोगुणवहुला या सृष्टिः सा मूलतः मूलंगा-शिफंगेति यावत् । पश्वादिस्थावरान्ता तैर्यग्योनीत्यर्थः ॥४९॥ मध्यरजोविशाला" ॥ ५० ॥ सृष्टिरित्यनुवर्तते । रजोविशालारजोगुणबहुला या सृष्टिः सा मध्ये= नोवं न मूलतः,किन्तूभयोर्मध्ये वर्तमाना मध्यगतिका मानुषीत्यर्थः॥५०॥ • ननु कस्मादीविचित्रसृष्टयै प्रकृतश्चेष्टा ? तबाह- कर्मवैचित्र्यात्प्रधानचेष्टा गर्भदासवद" ॥५१॥ कर्मवैचित्र्याव-पुरुषादृष्टवैलक्षण्यात् प्रधानचेष्टा-विचित्रसृष्टयमकृते- ापतिः । गर्भदासवत् यथा दास्यवासनावैचित्र्याद्गर्भदासस्य = गर्भादार भ्य सेवकंस्य पुरुषसेवायै विचित्रा चेष्टेत्यर्थः ॥ ५१ ॥ नन्वन्तर्हि पुरुषस्यास्य कमवैचित्र्यांदूर्ध्वगतिलाभेनैव कृतार्थत्वमस्तु किं मोक्षण ? तत्राह- "आवृत्तिस्तत्राप्युत्तरोत्तरयोनियोगाद्धयः" ॥५२॥ तत्रापि ऊर्ध्वगतिलाभेऽप्युत्तरोत्तरयोनियोगाव-उत्तरस्मात्तरस्य योनेः - (७८) सांख्यदर्शनसूत्रवृत्तौ । सम्बन्धादावृत्तिः पुनरावृत्तिरस्ति । तस्मादृत्तरोत्तरगतिलाभोऽपि हेयः-मुमु क्षुभिस्त्याज्य इत्यर्थः ॥ ५२ ।। किञ्च । समानं जरामरणादिजं दुःखम्" ॥ ५३॥ हेय इत्यनुवर्तते । यत इतिशेषणीयम्, आदिना शोकमोहादयो ग्राह्याः। यस्माज्जरामरणादिकं दुःखं समानम् ऊ धोमध्यगानां ब्रह्मादिस्तम्ब- पर्यन्तानां सर्वेषां जीवानामविशिष्टम् । तस्मादप्युत्तरोत्तरगतिलाभो मुमु- शुभिर्हेय इत्यर्थः ॥ ५३ ॥ नन्वस्तु तर्हि कारणलयादेव कृतार्थत्वं, तबाह- "न कारणलयात्कृतकृत्यता मनवदुत्थानात् ॥ ॥५४॥ कारणालयात कारणे प्रकृती लयादपि न कृतकृत्यता-कृतार्थत्वमस्य पुंसः संभवति । कुतः ? ममवदुत्थानाव-जलनिममपुरुषोत्थानवपुनरुत्थान संभवादित्यर्थः । यस्य विवेको न जातः, केवलं वैराग्यं वर्तते, तस्यात्मबुद्धयोपास्यमा- नांयां प्रकृती लय इति द्रष्टव्यम् ॥ ५४ ॥ नन्वखिलकारणं प्रकृतिः कस्मादात्मलीनं पुमांसं पुनरुत्थानेन योज- यति ? तत्राह- . "अकार्यत्वेपि तद्योगः पारवश्यात् ॥५५॥. अकार्यत्वेपि-निखिलकारणत्वेऽपि प्रकृतेः पारवश्याव्=पर ईश्वरस्त दधीनत्वाद्यथानियमं पुरुषस्य तद्योगः तया प्रकृत्या पुनरुत्थानयोगः संभ- वतीत्यर्थः ॥ ५५ ॥ ननु कुलवधूरिव जगजननी प्रकृतिः कथं परस्य वशवर्तिनीस्याव ? तन्नाह- "सहि सर्ववित् सर्वकर्ता ॥ ५६ ।। .
- तृतीयोऽध्यायः। (७९) हिन्यस्मात् सम्परः परमेश्वरः । सर्ववित सर्वज्ञः । सर्वकर्ता-सर्वस्य जगतः पितेत्यर्थः। तेन प्रकृतेस्तदशवर्तिनीत्वे न कश्चिद्दोष इति भावः ॥ ५६ ॥ नन्वनुमानतः केवलं परसामान्यस्य सिद्धिर्जायते, नत्वीदृशेश्वरस्य, तनाह- "ईदृशेश्वरसिद्धिः सिद्धा" ॥१७॥ ईदृशेश्वरसिद्धिः ईदृशस्य-प्रकृतिनियन्तुरीश्वरस्य सर्वज्ञेश्वरस्य सिद्धि ज्ञप्तिःसिद्धा वेदमात्रजन्येत्यर्थः । तथा च तत्रभवान् वेदः । यजुः श्वेताश्व० अ० ६ मं० १६॥ "स विश्वकृद्विश्वविदात्मयोनिः कालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः सरसारमो- क्षस्थितिबन्धहेतुः" ॥ १६ ॥ इति ॥ ५७ ॥ नत्वस्तु परवशवर्तिनी प्रकृतिस्तथापि जीवसृष्टिरिव तत्सृष्टिरात्मकृते किन्न भवेत् ? तत्राह- "प्रधानसृष्टिः परार्थ स्वतोऽप्यभोक्तृत्वा- दुष्टकुङ्कुमवहनवत"॥५८॥ एवार्थोऽपिः। परार्थमित्यस्याग्रे योजयितव्यःमिधानसृष्टिः परार्थमेव भवि- तुमर्हति न स्वार्थम् । कुतः? स्वतोऽभोक्तृत्वात् स्वयं तस्य भोक्तृत्वाभावात् । तन निदर्शनमुष्टकुंकुमवहनवत् यथोष्ट्रः परार्थमेव कुङमं वहति न स्वार्थ- "मित्यर्थः ॥ ५८ ॥ नतु तथाप्यचेतना प्रकृतिः कथं परवशवर्तिनी सत्यपि परार्थं चेष्टेत? तबाह- "अचेतनत्वेऽपि क्षीरवञ्चष्टितं प्रधानस्य ५९॥
(८०) सांख्यदर्शनसूत्रवृत्तौ। प्रधानस्य-प्रकृतेरचेतनत्वेपि-चेतनत्वाभावेऽपि चेष्टितं-पुरुषकृतेजग- त्सर्ननलक्षणो व्यापारविवशेष उपपद्यते । क्षीरवत् यथा परवशवर्तिनः क्षीर- स्याचेतनत्वेऽपि वत्सार्थ चेष्टितमित्यर्थः ॥ ५९ ।। निदर्शनान्तरमाह- "कर्म वदृष्टेर्वा कालादे" ॥६० ॥ आदिपदेनादृष्टस्य संग्रहः। प्रधानस्येत्यनुवर्तते । कालादेः कर्मवद्धा यथा वा कालादेरचेतनत्वेऽपिपरार्थं हेमन्तशिशरादिलक्षणं कर्म-चेष्टितम्, तथा प्रधानस्यापि चेष्टितम् । कुतः ? दृष्टेः दर्शनादित्यर्थः । यथा दर्शनश्चान्यत्र कल्पनमिति भावः ॥ ६० ॥ नन्वचेतनायाः प्रकृतेर्ममेदंकर्तव्यमित्यनुसन्धानाभावात्कथं परार्थ. चेष्टितं स्यात् ? तत्राह- "स्वभावाच्चेष्टितमनभिसन्धानामृत्यवत् ॥ ६१ ॥ प्रधानस्येत्यनुवर्तते । स्वभावा-निसर्गतः प्रधानस्य चेष्टितं-परार्थ चेष्टनमनभिसन्धानात् अभिसन्धानमत्रानुसन्धानम्, न 'ममेदं कर्तव्यम्' इत्यनुसन्धानाताभृत्यवत् यथा भृत्यस्यगर्भदासस्य स्वभावादेव स्वामिकृते चेष्टितं नाभिसन्धानादित्यर्थः॥ ६१ ॥ समाधानान्तरमा- "कर्माकृष्टेर्वानादितः" ॥ २ ॥ प्रधानस्य चेष्टितमिति पददयमनुवर्तते । अनादितः कर्माकृष्टवा- संसारस्यानादित्वादनादीनि कर्माणि, तेषामनादित्वात्तैराकृष्टिः आकर्षण मप्यनादि । तस्मादनादिभूतात्कर्मभिराकर्षणादा मधानस्य चेष्टित-- मित्यर्थः ॥ ६२ ॥ ननु स्वभावादा कर्मभिराकर्षणादा प्रधानस्य चेच्चेष्टितं, मृधिनिवृत्तिर्न स्यात्, तत्राह- तृतीयोऽध्यायः। (८१) "विविक्तबोधात्सृष्टिनिवृत्तिः प्रधानस्य सूदवत्पाके" ॥६३ ॥ विविक्तवोधात प्रकृतितत्कार्येभ्यो विविक्तस्य पुरुषस्य बोधो विविक्त- बोधः सत्त्वपुरुषान्यतामत्ययस्तस्मात्-तदुपजननात् प्रधानस्य-प्रकृतेःसृ- टिनिवृत्तिः सर्जनलक्षणव्यापारस्य निवृत्तिर्भवति । सूदवत्पाके यथा पाके निष्पन्ने सूदस्य-पाचकस्य पाकानुकूलव्यापारस्य निवृत्तिरित्यर्थः । चरिताधिकारत्वादिति भावः ॥ ६३ ।। ननु प्रकृतेरेकत्वादजातविविक्तबोधं मतीव तदितरं प्रत्यपि तस्याः सृष्टि- निवृत्तिः स्यात्, तत्राह- इतर इतरवत् तदोषात् ॥६४॥ तद्दोपात्-तच्छब्दः प्रधानमाह । विविक्तबोधानुपजननलक्षणो दोषस्तद्दों- षस्तस्मादितर:-विविक्तवोधरहितः पुमानितरवत् अबुद्धवदवतिष्ठते । तेन तं प्रति न प्रधानस्य सृष्टिनिवृत्तिरित्यर्थः ॥ ६४ ॥ ननु विविक्तबोधाच्चेत्सृष्टिनिवृत्तिस्तर्हि सैवापवर्गोऽस्तु कृतं तदन्येन तेन, तत्राह- " द्वयोरेकतरस्य वौदासीन्यमपवर्गः ॥६५॥ विविक्तबोधादित्यनुवर्तते । विविक्तबोधाद्वयोः प्रकृतिपुरुषयोरुभयोरेक- तरस्य वा-द्वयोरेकस्य वा पुरुषस्य यदौदासीन्य-एकाकिता-मिथोऽन- नुषङ्ग इति यावत्, सोऽपवर्ग: मोक्ष इत्यर्थः ॥ ६५ ॥ नन्वेवमेकस्मिन्नौदासीन्यंभजतःप्रधानस्यान्यस्मिन्नप्यौदासीन्यस्यात, तत्राह- " अन्यसृष्टयुपरागेऽपि न विरज्यते, प्रबुद्धर- ज्जुतत्त्वस्येवोरगः॥६६॥ अपिएकमुपजातविविक्तबोधं प्रत्यौदासीन्यं भजदपि प्रधानमन्यसृष्टयु- -
(८२) सांख्यदर्शनसूत्रवृत्तौ।
परागे अन्यम् अनुपजातविविक्तबोधं प्रति सृष्टयुपराग-सृष्टयुपजनने न
विरज्यते नौदासीन्यं भजते। प्रबुद्धरज्जुतत्त्वस्येवोरगः यथोरगः-रज्जुसर्पः
प्रबुद्धरज्जुतत्त्वस्य-ज्ञातरज्जुस्वरूपस्य पुरुषस्यार्थमुदासीनोऽपि भयकम्पा
दिजनने नापबुद्धरज्जुतत्वस्य कृते विरज्यते इत्यर्थः ॥ ६६ ॥
अनौदासीन्ये हेत्वन्तरमाह-
"कर्मनिमित्तयोगाच्च" ॥ ६७ ॥
अन्यसृष्टयुपरागे न विरज्यते इत्यनुवर्तते । सृष्टौ कर्मलक्षणनिमित्तस्य
सद्भावाचान्यसृष्टयुपरागे न विरज्यते प्रकृतिरित्यर्थः ॥ ६७ ॥
ननु पुरुषान् प्रति प्रकृत्युपकारे किं तनिमित्तं, येन प्रत्युपकारनिरपे-
क्षापि प्रकृतिः पुनःपुनः प्रवर्तते ? तत्राह-
"नरपेक्ष्येपि प्रकृत्युपकोरेऽविवेको निमित्तम्॥६८ -
नैरपेक्ष्येऽपि-प्रत्युपकारापेक्षाभावेऽपि पुरुषान् प्रति प्रकृत्युपकारे भोगा-
पवर्गलक्षणे तस्मिन्नविवेको निमित्तमित्यर्थः ॥ ६८ ॥
न तयापि प्रवृत्ति स्वभावायाः प्रकृति विवेके सत्यपि निवृत्तिः कथमु-
पजायेत? तत्राह-
"नर्तकीवत्मवृत्तस्यापि निवृत्तिश्चारितार्थ्यात्" ॥६९॥
प्रवृत्तस्यापि-स्वभावतः प्रवृत्तिमतोऽपि प्रधानस्य निवृत्तिः-निवर्तन
जायते । कुतः ? चारितार्थ्यात् कृतकार्य्यत्वात् । नर्तकीवत्-यथा पारिपदानं
प्रति नृत्यप्रदर्शनाय प्रवृत्ताया नर्तक्याश्चारितार्थ्यानिवृत्तिरित्यर्थः ॥६९॥
किश्च।
"दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत्" ७०॥
समाधानान्तरसूचकोऽपिः।दोषबोधे परिणामित्वदुःखात्मकत्वादयःप्रकृ-
तिदोषास्तेषां वोधे–ज्ञाने जाते नोपसर्पणं-न पुनर्ज्ञातदोषं प्रति प्रवर्तनं
प्रधानस्य संभवति । कुलवधूवत्-यथा परेण दोषस्य वोधे ललितायाः कु-
लीनस्त्रियाः पुनः परं प्रत्यनुपसर्पणमित्यर्थः ॥ ७० ॥
तृतीयोऽध्यायः। (८३) ननु प्रकृत्युपसर्पणानुपसर्पणाभ्याश्चेत्पुरुषस्य वन्धमोक्षौ । तर्हि तस्य परिणामापत्तिस्तत्राह- "नकान्ततो बन्धमोक्षौ पुरुषस्याविवेकाहते' ॥७१॥ अविवेकाहते-अन्तरेणाविवेकमेकान्ततः-परमार्थतः पुरुषस्य-जीवस्य वन्धमाक्षी-वन्धो मोक्षश्च न-तस्त इत्यर्थः । अविवेकादेव तो पुरुषस्येति भावः ॥ ७१ ॥ नतु पुरुषस्याविवेकादेव चेट्ट बन्धमोक्षौ न परमार्थतस्तर्हि परमार्थतः कस्य ? तत्राह- "प्रकृतेराजस्यात्ससङ्गत्वात्पशुवत्" ॥७२॥ वन्धमोक्षी पूर्वसूत्रादनुवर्तते । प्रकृतेराभस्यात्=परमार्थतो वन्धमोक्षौ । कुतः ? ससङ्गत्वात्-चन्धमोक्षहेनुधर्माधर्मादिभिर्गुणैः संबन्धः सङ्गस्त- इत्त्वात् । पशुवत् यया गुणसंबन्धवतः पशोः परमार्थतो बन्धो मोक्षश्चे- त्यर्थः ॥ ७२ ॥ ननु कतिमिर्गुणैः प्रकृतिरात्मानं बध्नाति मोचयति च ? तत्राह- "रुपैः सप्तमिरात्मानं बध्नाति प्रधान कोश- कारवद्विमोचयत्येकरूपेण ॥ ७३ ॥ कोशकारवत्यथा कोशकारः कीटविशेषः स्वगुणैरात्मानं बध्नाति तथा प्रधानन्यकृतिः सप्तभिः-धर्मवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्य रूपैः- गुणैरात्मानं स्वं बध्नाति । विमोचयति मोचयति चैकरूपेण-एकेन विवेक- ज्ञानेन गुणेनेत्यर्थः । तत्राज्ञानमविवेक इति ध्येयम् ॥ ७३ ॥ नन्वेवमविवेकाइन्ध इति पूर्वोक्ता पञ्चमी नोपपद्येत, लोके गुणानां निमित्तकारणत्वस्यैव दृष्टः, तत्राह- "निमित्तत्वमविवेकस्येति न दृष्टहानि:॥७४ ॥ - (८४) सांख्यदर्शनसूत्रवृत्ती। अविवेकस्य-पूर्वोक्तलक्षणस्याविवेकस्य पुरुषेषु बन्धादिकं प्रति निमि- तत्त्व-निमित्तकारणत्वमवसेयमिति-अतो न दृष्टहानिः लोके दृष्टस्य हानि- नेत्यर्थः। निमित्तेऽपि पञ्चमी स्मरणादिति भावः ॥७४ ॥ ननु भवत्वविवेकात्पुरुषस्य बन्धादिकं, तथापि तनिवर्तकस्य विवेकस्य सिद्धिः कथं स्यात् ? तत्राह-- "तत्त्वाभ्यासान्नेति नेतीति त्यागाद् विवेकसिद्धिः"॥ ७५ ॥ नेति नेतीति त्यागात् इदमर्थकमत्रेति पदम् । प्रकृत्यन्तानां चतुर्विंश- तितत्त्वानां नेदमात्मानेदमात्मेति एवं प्रकारेण परित्यागात् तत्त्वाभ्यासात् परिशिष्यमाणस्यात्मतत्त्वस्य पुनः पुनश्चिन्तनलक्षणादभ्यासादादरनैरन्तर्य- दीर्घकालासेविताद्विवेकसिद्धिःनिरस्तसमस्तसंशयविपर्ययस्यात्मसाक्षात्का- रलक्षणस्य विवेकस्य सिद्धिः निष्पत्तिर्भवतीत्यर्थः ॥ ७५ ॥ ननु तत्वाभ्यासाच्चेद् विवेकस्य निष्पत्तिस्तāकस्मिन् जन्मन्येव सर्वेपाम- भ्यास कुर्वतां तन्निष्पत्तिः किंन स्यात् ? तत्राह- "अधिकारिप्रभेदान्न नियमः" ॥ ७६ ॥ अधिकारिप्रभेदात उत्तममध्यमाधमभेदेनाधिकारिणां भेदादभ्यासे क्रिय- माणेऽपि ननियमः कस्मिन् जन्मनि सर्वेषां विवेकनिष्पत्तिनियम॥इत्यर्थः।। किन्तूत्तमानामेवेति भावः ॥ ७६ ॥ ननु विवेकनिष्पत्याऽविवेकनिवृत्तौ तदविनाभूतनिःशेषदुःखनिवृत्ते- विवेकिनः पश्चाटुपभोगो न स्यात्, तत्राह- "बाधित्तानुवृत्त्या मध्यविवेकतोऽप्युपभोग"॥ ७७ ॥ उत्तमविवेकतो बाधितानामनुवृत्तिर्न भवतीति मध्यपदमुपात्तम् । अपि- शब्दो मुक्तिसमूञ्चायको भिन्नकमः । मध्यविकतः मन्दमध्योत्तमभेदाद - तृतीयोऽध्यायः। (८५) विवेकोऽपि त्रिविधः । तत्र मध्यावस्थाई विवेकाद बाधितांनुवृत्त्या बाधि- तानां दुःखादीना प्रारब्धवलेनानुवृत्त्योपभोगोऽपि भोगोऽपि संभव- तीत्यर्थः ॥ ७७ ॥ ननु विवेके सत्यपि चेदुपभोगस्तदा विवेकेन किं कृतं ? तत्राह- "जीवन्मुक्तश्च" ॥ ७८ ॥ अप्यर्थश्वः । बाधितानुवृत्त्योपभोगं कुर्वाणोऽपिविवेकमाहात्म्यान्जीव- न्मुक्तः जीवन् सन् मुक्त इव भवतीत्यर्थः ॥ ७८ ॥ ननूपभोगं कुर्वाणोऽपि जीवन्मुक्त इति न सिध्यति, तत्राह- "उपदेश्योपदेष्टुत्वात् तसिद्धिः" ॥ ७९ ॥ उपदेश्योपदेष्टुत्वात् लोकवेदयोरुपदेश्योपदेष्टभावस्य दर्शनात् तत्सि- 'दिः तस्य जीवन्मुक्तस्य सिद्धिरित्यर्थः। मन्दविवेकस्योपदेश्यत्वादुत्तमविवेकस्य चोपदेष्टुत्वासंभवादर्थादुपदेष्टा मध्यविवेको जीवन्मुक्त इति भावः ॥ ७९ ॥ नन्वनुमानमेतन्न श्रुतिस्तत्राह- "श्रुतिश्च" ॥ ८०॥ तस्य तावदेव चिरम्' इति श्रुतिश्च जीवन्मुक्तस्य सदावे प्रमाण मित्यर्थः ॥ ८० ॥ विपक्षे दण्डमाह- इतरथाऽन्धपरम्परा "॥८१॥ इतरथा जीवन्मुक्तानङ्गीकारेऽन्धपरम्परा-उपदेष्टुरभावादन्धपरंपरापत्ति- रित्यर्थः । सम्यगविवेकचथूरहितत्वादन्धोगुरुस्तच्छिष्योऽपि तथात्वात्तथा, एवम- ग्रेडपीत्यन्धपरम्परोति भावः ।। ८१ ॥ १छां० प्र०६ खं० १४+२।
(८६) सांख्यदर्शनसूत्रवृत्तौ ।
ननु विवेकसाक्षात्कारेण निवृत्तायां प्रकृती कथं पुनर्जीवन्मुक्तस्तिष्ठेत ?
तत्राह-
चक्रभ्रमणवद्धृतशरीरः" ॥८२॥
चक्रभ्रमणवत्-यथा दण्डेन भ्राम्यमाणं चक्र निवृत्तेऽपि दण्डे भ्रमण-
चदवतिष्ठते, तथायं धृतशरीरः-निवृत्तायां प्रकृती प्रारब्धकर्मणाधृतशरीर-
स्तिष्ठतीत्यर्थः ॥ ८२ ॥
ननु तथापि जीवन्मुक्तस्य भोगादिवासनाक्षये शरीरधारणं न सिध्य-
ति, तत्राह-
"संस्कारलेशतस्तसिद्धिः" ॥ ८३ ।।
शरीरधारणहेतवो ये विषयभोगादिसंस्कारास्तेषां लेशः आभासस्त-
स्मात्-विषयभोगादिवासनाभासात्तत्सिद्धिः तस्य शरीरधारणस्य सिद्धि-
रित्यर्थः ॥ ८३ ॥
सम्प्रति भोगेन प्रारब्धकर्मक्षये परममुक्तिमुपसंहरनाह-
" विवेकानिःशेषदुःखनिवृत्तौ कृतकृत्यो
नेतरान्नेतरात्"॥ ८४ ॥
अध्यायपरिसमाप्तिवचना वीप्सा। विवेकात् आत्मसाक्षात्कारलक्षणात्स-
त्त्वपुरुषान्यतामत्ययानिःशेषदुःखनिवृतौ बाधिताबाधितसाधारण्येनाखिल-
दुःखनिवृत्तौ सत्यां पुरुषः कृतकृत्या कृतकार्य्यः मुक्तो भवतिनेतरात-ने-
तरस्मात्केवलात्कर्मण इत्यर्थः ।। ८४ ॥
स्थूलं लिंगं तथा सृष्टि ना वैराग्यसाधनम् ।
विवेकोऽथ इयी मुक्तिः सम्यगस्मिन्निरूपितम् ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनव-
ात्मारामभगवत्पादशिष्यहरिप्रसादकृतायां
मांख्यसूत्रवृत्तौ वैराग्याध्यायस्तृतीयः॥३॥
चतुर्थोऽध्यायः। (८७) । अथ चतुर्थोऽध्यायः। नतु कस्मात्स विवेको जायते येन निःशेषदुःखनिवृत्तिः? तत्राह- "राजपुत्रवत् तत्त्वोपदेशात" ॥ १ ॥ विवेक इति विपरिणम्यानुवर्तते । तत्त्वोपदेशात्-स विवेको गुरुभिरा, त्मतत्त्वोपदेशाज्जायते । रानपुत्रवत् यथा वसिष्ठेनात्मतत्वोपदेशादानपुत्रस्य रामस्य विवेको जात इत्यर्थः ॥ १ ॥ ननु यदर्थं गुरूणामुपदेशः किं तस्यैव विवेक उत्पद्यते, उत तदन्य- स्यापि समीपस्थस्य? तबाह- "पिशाचवदन्यार्थोपदेशेऽपि ॥२॥ विवेक इति पूर्ववदनुवर्तते । अन्यार्थोपदेशे अन्यस्मै शिष्याय गुरुभि- रात्मतत्त्वोपदेशे कियमाणेऽपितत्समीपस्थस्यान्यस्यापि यथाविधिश्रवणाद् विवेको जायते । पिशाचवत्-यथा स्वमियायै पार्वत्यै शिवनात्मतत्त्वोपदेशे कियमाणे तत्पार्श्ववर्तिनः पिशाचनानो भृत्यस्य विवेकोऽजायतेत्यर्थः॥२॥ ननु सकृत् तत्त्वोपदेशाच्चेद् विवेको नोपजायत । तदा किं कर्तव्यं ? तत्राह- "आवृत्तिरसकृदुपदेशात्" ॥३॥ आवृत्तिः सकृदुपदेशाद विवेकेऽजायमाने तदाऽऽवृत्तिः कर्तव्या। कुतः? असकृदुपदेशात् छान्दोग्योपनिषदि षष्ठमपाठके शेतकेतुं पुत्र प्रति पितु- रारुणेरसकृदुपदेशदर्शनादित्यर्थः ॥३॥ नतु पुत्रं प्रति पितुरसकृदुपदेशः संभवति । न तु शिष्यं पति गुरोः। तत्राह- "पितापुत्रवदुभयोर्टष्टत्वात्" ॥ ४ ॥ -
(८८) सांख्यदर्शनसूत्रवृत्तौ।
पितापुत्रवत्-पितापुत्रयोरिवोभयोः गुरुशिष्ययोरुपदेश्योपदेष्टुभावो भ-
वति। न तद्विलक्षणः कुतः? दृष्टत्वात् लोकेमायण तथा दृष्टत्वादित्यर्थः॥४॥
नन्वेवमुत्पन्नविवेकमत्ययस्य तद्दाक्य किं कर्तव्यमित्याकांक्षायां पूर्व
तस्य सर्वथा विषयपरित्यागमाह-
"श्येनवत्सुखदुःखी त्यागवियोगाभ्याम्" ॥५॥
सर्वथा विषयपरित्यागः कर्तव्यः । यतस्त्यागवियोगाभ्यां सुखदुःखी
विषयस्य त्यागात्पुरुषः सुखी । तस्य स्वयं वियोगाच्च दुःखी भवति ।
श्येनवत्-यथाऽऽहितः श्येनः श्येनान्तरेरामिषत्यागेन सुखी । तस्य स्वयं
वियोगेन च दुःखी भवतीत्यर्थः ।
स्वयं त्यागः श्रेयानिति भावः ॥ ५ ॥
ननु कथं स्वयं विषयपरित्यागः स्यात् ? तत्राह-
"आहिनिल्वयनीवत्" ॥६॥
यथा सो निर्खयनी स्वकीयां त्वचंभुक्तभोगां विज्ञाय स्वयमनायासन
परित्यनति, तथा भुक्तभोगान् विषयान् परिज्ञाय स्वयं मेधावी परित्यने-
दित्यर्थः ।। ६॥
निदर्शनान्तरमाह--
"छिन्नहस्तवद्वा" ॥ ७ ॥
यथा वा कश्चित्स्वकीयं छिन्नं हसं दुःखहेतुं मत्वा स्वयं परित्यजति,
तथा परित्यजेदित्यर्थः ॥ ७ ॥
ननु विषयाणां परित्यागेऽपि मनसानुचिन्तने को दोषः? तबाह--
"असाधनानुचिन्तनं बन्धाय भरतवत्" ॥८॥
असाधनानुचिन्तनम् असाधनानां विवेकज्ञानासाधनानांविषयाणामनु-
चिन्तन-मनसाऽनुचिन्तनं पुरुषस्य बन्धाय-बन्धनाय भवति ।. भरत-
वत्स्यथा रानर्षिभरतस्य हरिणीशावकानुचिन्तनं वन्धाय बभूवेत्यर्थः ।
विषयानुचिन्तनं न कार्यमिति भावः ॥ ८ ॥
C
चतुर्थोऽध्यायः। (८९)
ननु विषयानुचिन्तनामावपि बहुभियोगे को दोषः ? तत्राह--
"बहुभियोगे विरोधो रागादिभिः
कुमारीशंखवत" ॥९॥
बहुभिः स्वभावतोविपरीताशयैर्बहुभियोगे संगे सति रागादिभिः
सङ्गदोषादभिव्यज्यमानै रागद्वेषादिभिर्विरोधः परस्पर विरोधो भवति ।
कुमारीशंखवत्यथा कुमार्या हस्ते सङ्गतानां वहूनां शङ्खानामन्योऽन्य-
योगेन झणत्कारलक्षणो विरोध इत्यर्थः ॥ ९ ॥
ननु बहुभिर्योगे भवतु विरोधो दूषणम् । दाभ्यां योगे कि दूषणं ?
तत्राह-
"द्वाभ्यामपि तथैव" ॥१०॥
योगे विरोध इति पदयमनुवर्तते । दाभ्यामपिदाभ्यां योगेऽपि
तथैव बहुभिर्योगवदेव विरुद्धसंलापादिना विरोधो दूषणमित्यर्थः ॥१०॥
नन्वेवन्तर्हि किं कुर्यात् ? तत्राह-
"निराशः सुखी पिङ्गलावत्" ।। ११ ॥
निराश: परिवर्जितसर्वाशः सुखी-सन्तोषमुखभाग्भवेत् । पिङ्गलावत्
यथा पिङ्गला काचित्सर्वाशां परित्यज्य सुखिनी बभूवेत्यर्थः ॥ ११ ॥
नन्वकाकी स्वगृहारम्भेश्शक्तः कथं सुखी भवेत् ? तत्राह-
"अनारम्भपि परगृहे सुखी सर्पवत्" ॥ १२॥
अनारम्भेऽपि स्वगृहारम्भाभावेऽपि परगृहे-परनिर्मितशून्यालये वसन्
सुखी-नित्यं सुखभाग्भवेत् । सर्पवत् यथा सर्पःस्वगृहमनारम्भमाणोऽपि पर-
गृहे वसन् सुखी भवतीत्यर्थः ॥ १२॥
ननु परगृहे वसन्नपि विवेकी बहुशास्त्राध्ययने गुरूणामुपासने च सक्तः
किं कुर्यात् ? तत्राह-
"बहुशास्त्रगुरूपासनेऽपि सारादानंषट्पदवत्" ॥१३॥
(९०) सांख्यदर्शनसूत्रवृत्तौ।
बहुशास्त्रगुरूपासनेऽपि-बहूनां शास्त्राणां तदर्थ गुरूणाञ्चोपासनेपि सत्तो
विवेकी सारादानं-सारस्य-विवेकमत्ययोपयुक्तस्यार्थस्यादानं ग्रहण कु-.
र्यात् । षट्पदवत् यथा षट्पदः भ्रमरः कुसुमेभ्यः सारमेवादत्ते नान्यदि-.
त्यर्थः ॥ १३ ॥
ननु सारमाददानस्यापि विवेकिनो जनाकुले संसारे समाधिभ्रेषः सेत्स्यति,
तबाह-
'इषुकारवन्नैकचित्तस्य समाधिहानिः॥ १४ ॥
एकचित्तस्य-सारैकचित्तस्य-एकागमनसो विवकिनः कथमपि समाधि-
हानिर्न-न भवति । तत्रोदाहरणमिपुकारवत् यथा शरैकचित्तस्य शरकार-
स्य पार्धाभ्यां ससैन्यराजगमनेऽपि न समाधिभ्रषो जात इत्यर्थः ॥ १४ ॥
नन्वेकचित्तस्यापि कश्चित्ममादाच्छास्त्रीयनियमोल्लंघने किं स्यात् ?
तत्राह-
" कृतनियमलङ्घनादानर्थक्यं लोकवत्" ॥ १५ ॥
कृतनियमलंघनान्-शास्त्रेण कृतस्य नियमस्य लङ्घनात्-उल्लंघनादान-.
र्थक्यम् अनर्थभावः स्वार्थहानिर्भवति। लोकवत्यथा लोके रुग्णस्य पुंसः
शास्त्रकृतपथ्यादिनियमोल्लङ्घनादानर्थक्यमित्यर्थः ।
कथमपि नियमस्य लंघनं न कुर्यादिति भावः ॥ १५ ॥
नतु नियमज्ञाने तदुल्लङ्घनादानर्थक्येऽपि तद्विस्मरणे को दोषः ? तत्राह-
तद्विस्मरणेऽपि भेकीवत्"॥ १६ ॥
आनर्थक्यमित्यनुवर्तते । तद्विस्मरणेऽपि तस्य शास्त्रेण कृतस्य नियमस्य
विस्मरणेऽप्यस्यानर्थक्यं भवति । भेकीवत् यथा कया चिढ़ राजकन्यकया
नाना भेक्या पाणिग्रहसमये 'भो आर्यपुत्र कदापि त्वद्रियोगो मे माभूद-
न्यथा मदियोगस्ते भविष्यति' इति कृतस्य नियमस्य विस्मरणे देवादेका-
किनो बहिर्गतस्यतर्तुर्वसुधाधिपस्य भेकीवियोगलक्षणमानर्थक्यं बभू-
वेत्यर्थः ॥ १६ ॥
चतुर्थोऽध्यायः। (९१) नन्वेतदुत्पन्नविवेकप्रत्ययस्य कर्तव्यमुक्तं । यः पुनर्विवकोत्पत्त्यर्थ केवलं गुरुमुखादुपदेशमात्रं शृणोति तस्य किं कर्तव्यं ? तत्राह- नोपदेशश्रवणेऽपि कृतकृत्यता, परामर्शाहते विरोचनवत् "॥ १७ ॥ उपदेशश्रवणेऽपि-गुरुमुखात्सत्यप्युपदेशश्रवणे परामर्शाते-गुरुवाक्य- विचारः परामर्शस्तं विना कृतकृत्यता कृतार्थता नन भवति। विरोचन- वत् यथा विरोचनस्य गुरुमुखादुपदेशश्रवणेऽपि परामर्शाहते कृतकृत्यता नाभूदित्यर्थः। अवणानन्तरं परामर्शः कर्तव्य इति भावः ॥ १७ ॥ ननु श्रवणानन्तरं कस्यायं परामर्शो दृष्टः ? तत्राह- "दृष्टस्तयोरिन्द्रस्य" ॥ १८ ॥ परामर्श इति विपरिणम्यानुवर्तते । तयोः-विवेकार्थ गुरुं प्रजापति- मुपसर्पतोरिन्द्रविरोचनयोरिन्द्रस्य परामर्शो दृष्ट इत्यर्थः ॥ १८ ॥ नन्वेवं तर्हि श्रवणानन्तरं परामर्श सति झटित्येव विवेकमत्ययस्य सिद्धिः स्यात्, तत्राह-- "प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्ब- हुकालात् तद्वत् ॥ १९॥ प्रणतिब्रह्मचर्योपसर्पणानि-ननीभावः प्रणतिः । सन्द्रियसंयमी ब्रह्म- चर्यम् । श्रद्धाभक्तिभ्यां यथाविधि गुरुं प्रत्युपगमनमुपसर्पणं । तान्येतानि कृत्वा-नियमेनानुष्ठाय सिद्धिः श्रवणपरामर्शाभ्यां विवेकप्रत्ययस्य निष्पत्ति- बहुकालात-बहुकालानन्तरं भवति । न दागित्येव । तदत्-तच्छब्दे- नेन्द्रस्य परामर्शः । यथा प्रजापतौ गुरौ प्रणतिब्रह्मचयोपसर्पणानि कुर्वत इन्द्रस्य श्रवणपरामाभ्यां विवेकपत्ययस्य सिद्धिर्बहुकालादभव- दित्यर्थः ॥ १९ ॥ ननु किमेवमेव सर्वत्र सर्वथा कालनियमः ? तबाह- (९२) सांख्यदर्शनसूत्रवृत्तौ। "न कालनियमो वामदेववत्" ।। २० ॥ कालनियमः विवेकप्रत्ययस्य सिद्धी सर्वथा कालस्य नियमों न= नास्ति । वामदेववतन्यथा वामदेवस्यैहिकसाधनाभावेऽपि प्राग्भवीयसा- धनेभ्यो दागित्येव विवेकप्रत्ययोदयो बभूवत्यर्थः ॥ २० ॥ ननु प्रणतिब्रह्मचर्योपसर्पणानि कुर्वतो गुरूण, तत्त्वोपदेशाच्चे- द्विवेकसिद्धिस्तर्हि कुतो बहुकालापेक्षा ? तत्राह- "अध्यस्तरूपोपासनात्पारंपर्येण यज्ञो- पासकानामिव"॥ २१ ॥ यत इति शेषः । सिद्धिरित्यनुवर्तते । यस्मादध्यस्तरूपोपासनात-गुरु- भिरुपदिष्ट रूपमध्यस्तरूपम्।परोक्षत्वात् । तस्योपासनं श्रद्धाभक्तिभ्यामनु- छान धारणामिति यावत्तस्मात्पारम्पर्यण-ध्यानादिपरंपरया विवेकप्रत्ययस्य सिद्धिर्भवति । यज्ञोपासकानामिवन्यथा यज्ञादिकर्मानुष्ठायिनामदृष्टादि पारम्पर्येणाभ्युदयसिद्धिरित्यर्थः । तत्र प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा श्रवणम्।श्रुतस्यासंभावनानिवृत्त्यै श्रद्धाभक्तिभ्यां परामृश्य धारणं मननम् । मतस्य विपरीतभावनोप- शान्त्यर्थं ध्यानं निदिध्यासनम् । तस्य पाकोऽङ्गभूतः समाधिः । तस्य प्रपाकोऽङ्गी समाधिः संप्रज्ञातः । ततश्चित्साक्षात्कारलक्षणा नाना ऋतम्भरा प्रज्ञा सत्त्वपुरुषान्यताख्यातिरिति बहुकालविवेकः ॥ २१ ॥ नन्वेवश्चेत्तर्हि कर्मभिरुवंगत्यैवालम् । कृतं परंपरायाससाध्येन मोक्ष- हेतुना विवेकप्रत्ययेन, तबाह- "इतरलाभेऽप्यावृत्तिःपञ्चाग्नियोगतोजन्मश्रुतेगा२२॥ इतरलाभेऽपि वेदोक्तैर्निष्कामफर्मादिभिर्मोक्षतरस्योगमनस्य लाभेड- पि-माप्तावप्यावृत्तिः पुनरावृत्तिरस्ति न मोक्षवदनावृत्तिः कुतः? पञ्चाग्मियो- गतः छान्दोग्योपनिषदि पञ्चमप्रपाठके छुपर्जन्यधरानरयोषितां पञ्चाग्नीनां चतुर्थोऽध्यायः। (९३) संवन्धतो जन्मश्रुतेः 'असौ वावलोको गौतमाग्नि इत्यादि- नोर्ध्वगतिमतोऽपि जन्मश्रवणादित्यर्थः । तत्रोर्ध्वगमनं ब्रह्मलोकपर्य्यन्तमिति सर्वे श्रुतिविदो भाष्यकृदादयः ते च लोकाः सप्त पुरुषस्य कर्मिणः प्राकृतावस्थाविशेषा नेहशो नगरभेदा इत्यनुसन्धेयम् ॥ २२ ॥ नन्वेव विवेकमत्ययोत्पत्त्यर्थ ब्रह्मलोकान्तस्य निखिलसंसारस्य हानं तद्विलक्षणस्य च मोक्षस्योपादानं कस्य स्यात् ? तत्राह- "विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत्" ॥२३॥ विरक्तस्य ऐहिकामुष्मिकविषयवितृष्णस्य हेयहानं हेयस्य संसारस्य हानमुपादेयोपादानम् उपादेयस्य मोक्षस्य चोपादानं संभवतिहिंसक्षीरवतः- यथा हंसपक्षिणो नीरेण मिश्रिते क्षीरे नीरस्य हानं क्षीरस्य चोपादान- मित्यर्थः ॥ २३ ॥ ननु विरक्तस्यैतदुभयश्चेत्तदा कृतं सत्सङ्गमाहात्म्येन, तत्राह- "लब्धातिशययोगाद्वा तद्वत् ॥ २४ ॥ हेयहानमुपादेयोपादानमित्यनुवर्तते । लब्धातिशययोगात्म्लन्धः संपा- दितो विवेकप्रत्ययकाष्ठालक्षणोऽतिशयो येन, तस्य सतः पुरुषस्य योगात संगादा-अपि हेयहानमुपादेयोपादानञ्च संभवति । तद्वत-हंससंगाद् हंस- स्येवेत्यर्थः ।। २४ ॥ नन्वेवं रागिणोऽपि तदुभयं स्याव, तत्राह- न कामचारित्वं रागोपहते शुकवत् " ॥ ३५॥ रागोपहते-रागेण गुणेनाभिभूते पुरुषे कामचारित्वं यथेष्टसञ्चारित्वमेव नम्न संभवति । कुतस्तदुभयम् ? तत्रोदाहरणं शुकवतन्यथा रागोपह-- "तस्य शुकपक्षिणः कामचारित्वाभाव इत्यर्थः ॥ २५ ॥ ननु कुतोऽयं रागिणः कामचारित्वाभावः ? तत्राह- "गुणयोगाद बद्धः शुकवत् ॥ २६ ॥ १छा० प्रपा० ५-खं० ४-५-६-७-८-९ ।
- (९४) सांख्यदर्शनसूत्रवृत्तौ। यत इति शेपःायस्मादसौरागी गुणयोगात्-रागादिगुणसंबन्धाद बद्धः बन्धनं गतोऽस्ति । शुकवत यथा गुणयोगाद बद्धः शुकः पक्षी कामचारी न.भवतीत्यर्थः ॥ २६ ॥ ननु भोगादागशान्तौ रागिणोऽपि वैराग्यं सेत्स्यति, तत्राह- न भोगाद्रागशान्तिर्मुनिवत् ॥ २७ ॥ भोगात्-विषयभोगादागशान्तिः रागस्य निवृतिर्नन भवति। मुनिवत् यथा सौभरिनाम्नो मुनर्विषयभोगान रागस्य शान्तिरजायतेत्यर्थः ॥ २७ ॥ ननु कस्मात्तर्हि रागोपशान्तिः ? तत्राह- " दोषदर्शनादुभयो" ॥ २८ ।। उभयोः प्रकृतितत्कार्ययोईयोर्दोषदर्शनात परिणामित्वदुःखात्मकत्वा- दिदोपदर्शनाद्रागः शाम्यतीत्यर्थः ॥ २८ ॥ नतूपदेशादेव विवेकप्रत्ययः सेत्स्यति किमुभयोपिदर्शनाद्रागस्य शान्त्या ? तत्राह- न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् ॥ २९ ॥ मलिनचेतसि रागादिमलेन मलिने चित्ते नोपदेशवीजप्ररोहः उपदेश- चीनस्य प्ररोहो न भवति । तत्रोदाहरणमजबत् यथाऽजस्य राज्ञो भार्या- शोकादिना मलिने चेतसि वसिष्ठोपदेशवीजस्य मरोहो नाभूदित्यर्थः॥२९॥ ननु मलिने चेतसि • यथाकाममुपदेशवीनं मा प्ररोहतु यत्किचित्तु परोहिष्यति, तत्राह- " नामासमात्रमपि मलिनदर्पणवत्॥३०॥ आभासमात्रमपि-दूरे तावदुपदेशबीजमरोहः, मलिनचेतसि तु तदाभा- समात्रमपिन-नभवति । मालिनदर्पणवत्-यथा मलिने दर्पणे मुखाभासाभाव इत्यर्थः ॥ ३०॥ ननु तथापि गुरूणामुपदेशो न व्यर्थोऽवश्यं ततो ज्ञान भविष्यति,. तन्नाह-
चतुर्थोऽध्यायः। (९५)
न तज्जस्यापि तद्रूपता पंकजवत् ॥ ३१ ॥
तजस्यापि-तस्माद्गुरूणामुपदेशान्जायमानस्यापि ज्ञानस्य न तद्रूपता
नोपदेशानुरूपता भवति । चेतोदोषात् । पवाजवत् यथा वीजाज्जायमानस्या-
पि पङ्कजस्य न वीजानुरूपता पंकदोषादित्यर्थः ॥ ३१ ॥
तदेवं श्रवणादिपु वैराग्यस्यैव प्राधान्येन विवेकप्रत्ययोत्पत्तिसाधन-
त्वमभिधाय यः पुनरणिमादिभूतियोगेनैव कृतकृत्यतां मन्यते ते
मत्याह
"न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्धि-
वदुपास्यसिद्धिवत्" ॥ ३२॥
अध्यायपरिसमाप्ती वीप्सा । भूतियोगेऽपि कथञ्चिद्योगमभ्यस्यतोऽणि-
मादिविभूतियोगेऽपि कृतकृत्यता-कृतार्थत्वं न न जायते। योगे विप्रयोग-
स्यावश्यंभावात् । उपास्यसिद्धिवत् व्यतिरेक्युदाहरणार्मदें, यथोपास्यस्य-
मुमुक्षुभिरुपास्यमानस्य विवेकज्ञानस्य सिद्धितः कृतकृत्यतेत्यर्थः ॥३२॥
आत्मतत्त्वोपदेशादिविवेकज्ञानसाधनम् ।
निरूपितं तुरीयेऽस्मिन्नितिहासैःपुरस्कृतम् ॥ १ ॥
इति श्रीमत्परहंसपरिव्राजकाचार्योदासीनवर्यात्मा-
रामभगवत्पादशिष्यहरिप्रसादकृत्तायां सांख्यसू-
त्रवृत्तौ चतुर्थोऽयमाख्यायिकाध्यायः॥४॥
(९६) सांख्यदर्शनसूत्रवृत्तौ। अथ पञ्चमोऽध्यायः। चतुर्भिरध्यायैः स्वसिद्धान्तं निरूप्य तद्दाक्य परसिद्धान्तमपाकर्तु पञ्चमाध्यायमारभमाणो ननु विवेकमत्ययाञ्चनिःशेषतो दुःखनिवृत्तिस्तर्हि किं मङ्गलेन लौकिकवैदिकाचारेणेति शङ्कान्तावदपाकरोति । "मङ्गलाचरणं शिष्टाचारात्फलदर्शनाच्छुतितश्चेति॥१॥ इति शब्दो हेत्वन्तराकांक्षां निरस्यति । मङ्गलाचरणं-मङ्गलानां- शुभानांलौकिकवैदिककर्मणामाचरणम् अनुष्ठानं विवकिभिरवश्यं कर्तव्यम्। कुतः ? शिष्टाचारात्-शिष्टैः स्वधर्मनिष्टर्वेदिकैः पुरुषैराचारात् आचरणात् । फलदर्शनात् अनुष्ठितानां तेषां तत्तदभ्युदयादिलक्षणस्य फलस्य दर्शनात् श्रुतितश्च 'कुर्वन्नेवेह कर्माणि जीजीवेच्छत समाः" यान्यन- वद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि इत्यादि श्रुतितश्चेत्यर्थः ॥ १ ॥ नन्वस्तु विवेकिनामपि कर्तव्यं लौकिकं वैदिकं कर्म । तथापि तत्फल दानायेश्वराभ्युपगमो व्यर्थः कर्मणैव फलनिष्पत्तेस्तस्य तदधिष्ठितत्वा- सिद्धेश्च । तत्राह- "न, ईश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः२॥ चोऽनुवर्तते । न-कर्मणोजडत्वात्स्वतः फलदातृत्वं नाकिन्वीश्वराधिष्ठिते- तदधिष्ठानविषयीभूते तस्मिन् फलनिप्पत्तिः-तत्तदभ्युदयादिलक्षणस्य फलस्य सिद्धिः । कर्मणा च-कर्महेतुना च तत्सिद्धः यत्कर्म, तत्सर्व पराधिष्ठितं सत् फलदं, यथा प्रजानाथाधिष्ठितं प्रजाकर्म, तथा चेदं वैदिकं. कर्मेति तस्य-ईश्वराधिष्ठितत्त्वस्य सिद्धरित्यर्थः ॥ २॥ १ यजुः अ० ४० मं० २१ २ तै० ५० १-अनुवा० ११-२-३ ।।
पञ्चमोऽध्यायः। (९७) ननु कस्मादीश्वरः परेषां कर्माण्यधितिष्ठति ? तत्राह- "स्वोपकारादधिष्ठानं लोकवत्" ॥३॥ स्वोपकारात्-स्वीयानामुपकारः स्वोपकारः 'तस्यात्मानुग्रहाभा. वेऽपि भूतानुग्रहप्रयोजनम्' इति योगभाष्योक्तेः । तस्मात्-जी- बोपकृतिमात्रादीश्वरस्याधिष्ठान-जीवकर्मसुसंबन्धविशेष: अधिष्ठातृत्वमिति- यावत् । लोकवत् यथा लोंके कारुणिकस्य प्रजानाथस्य प्रजाकर्मस्वाधिष्ठा- नमित्यर्थः ॥ ३ ॥ ननु यथेश्वरस्य स्वीयोपकारस्तथा स्वोपकारोऽपि स्यात्को दोषस्तत्राह- "लौकिकेश्वरवदितरथा" ॥ ४ ॥ इतरथा स्वीयोपकारवत्स्वोपकारेसद्भवतिलौकिकेश्वरवत् लोकसिद्धमजे- श्वरवदपर्याप्तकामः स्यादित्यर्थः ॥ ४ ॥ नन्वात्मानमुपकुर्वाणोऽपि नासौ लौकिकेश्वरवन्मन्तव्यस्तत्राह- "पारिभाषिको वा" ॥५॥ वा-आत्मानमुपकुर्वाणोऽपि चेदीश्वरस्तर्हि पारिभाषिकः स्वपरिभाषा- मात्रक्लप्सः स्यान्न सर्वसंमत इत्यर्थः ॥ ५ ॥ ननु पर्याप्तकामत्वात्तस्य स्वोपकाराभावेऽपि रागाभावात्कथमाधिष्ठातृत्वं सिध्येत् ? तत्राह- "न रागाहते तसिद्धिः प्रतिनियतकारणत्वात्"॥६॥ न रागाहतेनान्तरेण रागम् । किन्तु करुणालक्षणादागादीश्वरस्य तसिद्धिः अधिष्ठातृत्वसिद्धिः । कुतः? प्रतिनियतकारणत्वात् प्रवृत्ति प्रति रागमात्रस्य नियमन कारणत्वादित्यर्थः ॥ ६ ॥ ननु रागी भवन्नीश्वरो नित्यमुक्तो न भवेत, तत्राह- "तद्योगेऽपि न नित्यमुक्तः ॥७॥ १ यो.पा. १-"तत्रनिरतिशय सर्वज्ञवीजम्" इति सूत्रभाष्यम् । - 19
(९८) सांख्यदर्शनसूत्रवृत्तौ।
नेत्यनुवर्तते । तद्योगेऽपि तस्य करुणालक्षणस्य रागस्य योगे-संवन्ये
सत्यपि स नित्यमुक्तो नेति न । किन्तु नित्यमुक्तः सदैवेश्वरः सदैव
मुक्त इत्यर्थः ।
तत्रेश्वरस्य क्लेशात्मको रागो नाभिधीयते । किन्तु करुणात्मकः । स्तेन
तद्योगे सत्यपि न तस्य नित्यमुक्तत्वक्षतिः। क्लेशात्मकरागस्यैव तत्क्षतिकर-
त्वात् । नाप्यधिष्ठातृत्वानुपपत्तिः । तादृग् रागाभावऽपि करुणालक्षणरागस्य
सद्भावात्कारुणिकानामिवेश्वरस्यापि तदुपपत्तेः । करुणा चास्य भगवतो
जगदधिपतेरागन्तुकी न, किन्तु स्वाभाविकी, नित्यत्वादिति न कश्चिद्दोष
इत्यनुसन्धेयम् ॥७॥
ननु जीव एवेश्वरः संपद्यते, न तव्यातिरिक्तः कश्रनेश्वरः, तस्य-
तत्संपत्तिश्च न स्वभावात् , किन्तु प्रकृतियोगात्, तत्राह-
"प्रधानशक्तियोगाच्चेत्संगापत्तिः ॥८॥
प्रधानशक्तियोगात्-प्रधानात्मिका शक्तिःप्रधानशक्ति:-प्रकृतिस्तस्या यो-
गा-संयोगस्तस्मात् चेद् यदि जीवस्यैश्वर्य, तदा तस्य संगापत्तिः-नि:-
संगताभंगापत्तिः स्यादित्यर्थः ॥ ८ ॥
नन्वस्तु तर्हि तत्सत्तामात्राजीवस्यैश्वय्य, तत्राह-
सत्तामात्राञ्चत् सर्वेश्वर्यम्" ॥९॥
सत्तामात्राच्चेत्-प्रधानशतेस्ताटस्थ्येनविद्यमानता सत्ता, तन्माना-
ञ्चदैश्वर्य, तदा सर्वेश्वर्य सर्वेषां समानमैश्वयं स्यादित्यर्थः ।
प्रकृतिसत्तायाः सर्वान् प्रत्यविशेषादितिभावः ॥ ९ ॥
ननु समानत्वात्सर्व एवेश्वराः सिध्यन्तु को दोषस्तत्राह-
प्रमाणाभावान्न तत्सिद्धि"॥१०॥
प्रमाणाभावात्प्रमाणमत्र प्रत्यक्षम् । तदभावात्तत्सिद्धिः तस्य सर्वे.
वर्यस्य-सर्वेषामीश्वरभावस्य सिद्धिर्न न भवतीत्यर्थः ॥ १० ॥
-
पञ्चमोऽध्यायः।
(९)
ननु मास्तु प्रत्यक्षमनुमानं भविष्यति, तत्राह-
"संबंधाभावान्नानुमानम्" ॥ ११ ॥
संबन्धाभावात्-संवन्धोव्यामिः, तदभावस्तद्गहाभावः तस्मानानुमानम्-
अनुमानमपि तत्साधक नेत्यर्थः ॥ ११ ॥
ननु श्रुत्या तर्हि जीवस्य नित्येश्वरभावः सिध्यतु, तत्राह-
"अतिरपिप्रधानकार्यात्वस्य" ॥ १२ ॥
श्रुतिरपि-वैदिकी श्रुतिरपि प्रधानकार्य्यत्वस्य-नीवैश्वर्ये प्रकृतिकार्य
त्वस्य बोधिका विद्यते, न नित्येश्वरभावस्येत्यर्थः ॥ १२ ॥
ननु मास्तु जीव ईश्वरः, विज्ञानात्मकंब्रीवाविद्याशक्तियोगादीवरो
भविष्यति, तत्राह-
"नाविद्याशक्तियोगी निःसंगस्य " ॥ १३ ॥
अविद्याशक्तियोगः विद्यावाध्या, सदसद्विलक्षणा, मायाशक्तिरविद्याश-
क्तिस्तस्या योग-संगो निःसङ्गस्य-निष्कान्तसर्वसंगस्य ब्रह्मणो न-न
संभवतीत्यर्थः ।
तदसंभवे तु तदसंभव एवेतिभावः ॥ १३ ॥
नन्वविद्यायोगोऽपि तस्याविद्यक एवाभ्युपगम्यते न पारमार्थिकः तत्राह-
"तद्योगे तत्सिद्धावन्योन्याश्रयत्वम् "॥ १४ ॥
अविद्यायां सिद्धायामाविद्यकस्तद्योगः सिध्यति, नचाद्याप्यविद्या
सिद्धाऽस्ति, तद्योगे अविद्यायोगे सिद्धे सति तत्सिदौ अविद्यासिद्धी
चान्योऽन्याश्रयत्वं परस्पराश्रयत्वं दूषणं स्यादित्यर्थः ॥ १४ ॥
नन्त्रविद्यातद्योगयो-जागुरवदनादित्वान्नान्योऽन्याश्रयत्वं दोषः,तत्राह-
" न बीजाङ्कुरवत्सादिसंसारश्रुतेः"॥ १५ ॥
बीनाङ्गुरवत्-बीजाकरयोरिव न-अनादित्वं न । कुतः ? सादिसंसार-
श्रुतेः सादिभूतस्याविद्यातद्योगलक्षणसंसारस्य श्रवणादित्यर्थः ॥ १५ ॥
(१००) सांख्यदर्शनसूत्रवृत्तौ। नन्वविद्यैवासिद्धेति न युक्तम् । विद्यान्यत्वस्यैवाविद्यात्वात्, तबाह- "विद्यातोऽज्यत्वे ब्रह्मवाधप्रसंगः ॥ १६ ॥ विद्यातोऽन्यत्वे-विद्यान्यत्वस्यैवाविद्यात्वे ब्रह्मवाधप्रसंग-विद्याऽन्यत्वा- विशेषाद् ब्रह्मणोऽप्यविद्यावद बाधः प्रसज्येतेत्यर्थः ॥ १६ ॥ विपक्षे दण्डमाह- "अबाधे नैष्फल्यम्" ।। १७ ।। अवाधे-ब्रह्मबाधाभावे नष्फल्यं-विद्याया निष्फलत्वं स्यादित्यर्थः॥१७॥ ननु विद्याऽन्यत्वं न विद्याभिन्नत्वं विवक्षितम् । अपि च विद्यावाध्य- त्वम् । तेन न ब्रह्मवाधप्रसंगस्तत्राह- "विद्यावाध्यत्वे जगतोऽप्येवम्" ॥ १८ ॥ विद्यावाध्यत्वे-विद्यावाध्यत्वस्यैवाविद्यात्वेजगतोऽपि-अपश्चस्याप्येवम: अनया रीत्याविद्यात्वं स्यादित्यर्थः । विद्याबाध्यत्वाविशेषादिति भावः ॥ १८ ।। नन्वस्तु जगतोऽप्यविद्यात्वम् । किं तेन ? तत्राह- "तपत्वे सादित्वम्" ॥.१९ ॥ तद्रूपत्वे-जगतोऽप्यविद्यास्वरूपत्वे सादित्वं जगदिवाविद्याया अपि सादित्वं स्यान्नानादित्वमित्यर्थः । तथा च नेष्टसिद्धिरिति भावः ॥ १९ ॥ , ननु तवापि जीवानां धर्माधर्मादृष्टसिद्धौ तत्फलमदाता कश्चिदीश्वरः सिध्यति । तदेवं नास्ति । कुतस्तत्सिद्धिस्तत्राह- "न धर्मापलापः प्रकृतिकार्यवैचित्र्यात्" ॥२०॥ धर्मापलापः धर्मलक्षणादृष्टस्यापहवो न-न संभवति । कुतः? प्रकृति कार्यवैचित्र्यात्-प्रकृतिकार्याणां सुखादीनां विचित्रताया दर्शनादित्यर्थः ।।
, पञ्चमोऽध्यायः (१०१) कश्चित्सुखी, कश्चित्सुखितरः, कश्चित्सुखितम इतिः प्रकृतिकार्य्यवैचि- न्यान्यथानुपपत्त्या धर्मसिद्धिरिति भावः ॥ २० ॥ ननु स्वभावादेव वैचित्र्यमस्तु । किमसिद्धेन धर्मेण ? तत्राह- "श्रुतिलिङ्गादिभिस्तत्सिद्धिः ॥ २१॥ 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्यादि- श्रुतिः । सुखभोगोऽदृष्टजन्यो भोगत्वाद् दुःखभोगावदित्यादिलिङ्गम् । आदिना योगिमत्यक्षमित्येभित्रिभिः प्रमाणेस्तसिद्धिः तस्य धर्मस्य सिद्धिरित्यर्थः। स्वभाववैचित्र्यकल्पने गौरवान स्वभावाश्रयणं युक्तमिति भावः॥२१॥ ननु यदस्माकं न प्रत्यक्षं, तन्नास्त्येव, तत्राह- न नियमः प्रमाणान्तरावकाशात्"॥२२॥ न नियमान्यदस्माकं न प्रत्यक्ष तन्नास्त्येवेति नियमो नाकुतःप्रमाणा- स्तरावकाशात् अप्रत्यक्षे वस्तुनि प्रमाणान्तरयोः शब्दानुमानयोरवकाशस्य- गोचरत्वस्य संभवादित्यर्थः ॥ २२ ॥ धर्म प्रसाध्याधर्म साधयन्नाह- "उभयत्राप्येवम्" ।। २३ ।। उभयत्रापि धर्मवदधर्मेऽप्येवं-पूक्तिमकारेण श्रुतिलिङ्गादिकं प्रमाण बोध्यमित्यर्थः ॥ २३ ॥ ननु धर्मवधर्मसाधनं न युक्तम् । अर्थादेव तत्सिद्धेस्तत्राह- "अर्थात् सिद्धिश्चेत्समानमुभयो" ॥२४॥ अर्थात् सिद्धिश्चत् एकस्मिन् सिद्ध तदपरस्य तत्संबन्धितया सिद्धि- रासिद्धिस्तत्र धर्मे सिद्ध तत्मतिद्वन्दित्वादधर्मस्य सिद्धिश्चत्तदा समानमु- भयोः एतद धर्माधर्मयोरुभयोरपि समानमित्यर्थः । अधर्मवद् धर्मेऽपि पर्य्यनुयोगोऽयं तुल्य इति भावः ॥ २४ ॥ .: - १बृहदा. अ०५-ना २-१३ ।
(१०२) सांख्यदर्शनसूत्रवृत्तौ। ननु धर्मादिस्वीकारे पुरुषस्य निर्गुणत्वं न स्यात्, तत्राह- अन्तःकरणधर्मत्वं धर्मादीनाम् ॥ २५ ॥ धर्मादिनां-धर्माधर्मसुखदुःखरागद्वेषज्ञानेच्छायलादीनामन्तःकरणधर्म- त्वं बुद्धिधर्मत्वं न पुरुषधर्मत्वमित्यर्थः ॥ २५ ॥ ननु धर्मादीनामन्तःकरणधर्मत्वे पुरुषे तत्समारोपों वक्तव्यः । समारो- पितानाश्च तेषां विवेकज्ञानेनात्यन्तबाधे सत्कार्य्यवादो न सिध्येत्, तत्राह- "गुणादीनाञ्च नात्यन्तबाध" ॥२६॥ गुणादीनाश्च-उपचारात्कार्यकारणप्रयोगस्तद्वाधामाप्तेः । वैशेषिकपरि- भाषय वा प्रयोगोऽयम् । धर्मादीनाञ्च नात्यन्तवाधान स्वरूपतो बाध इत्यर्थः। अयस्यौष्ण्यवदात्मनि संसर्गतो वाधाभ्युपगमादिति भावः ॥ २६ ॥ ननु स्वस्य धर्मादिज्ञाने जातेऽपि परस्य तज्ज्ञानं कथं भवेत् ? तत्राह-. पञ्चावयवयोगात्सुखसंवित्तिः ॥२७॥ गुणादीनामित्यनुवर्तते । पञ्चावयवयोगात्=पञ्चानां प्रतिज्ञाहेतूदाहरणो- पनयनिगमनानामवयवानां योगः-मेलनं यस्मिन् परार्थानुमाने तस्माद धर्मादीनां सुखसंवित्तिः-सुखेनानायासेन संवित्तिः-ज्ञानं भवतीत्यर्थः॥२७॥ ननु व्याप्तिसिद्ध्यधीनजन्म ह्यनुमानम् । सा तावत्कथं भवेत् ? तबाह " नसकृद्रहणात् संबन्धसिद्धिः" ॥ २८ ॥ नसकृद्हणाव-नैकधेत्यादिवत्समासः, साध्यसाधनयोरसकृत्सहचारग्रह- णात्संबन्धसिदिः संबन्धो व्याप्तिस्तत्सिद्धिर्भवतीत्यर्थः ॥ २८ ॥ ननु केयं व्याप्तिः तत्राह- "नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः॥२९॥ उभयोः साध्यसाधनयोर्दयोरेकतरस्य वा-साधनमात्रस्य वा यनियत- धर्मसाहित्यं-नियतम् अव्यभिचरितं, धर्मतायां साहित्य, धर्मसाहित्य सहचारः। अव्यभिचारतसंबन्ध इति यावत्सा व्याप्तिरित्यर्थः । ..
पञ्चमोऽध्यायः। (१०३) समव्याप्तिप्रदर्शनार्थमुभयोरति, विषमव्याप्तिप्रदर्शनार्थमेकतरस्यवेति ग्रहणम्।तत्रानित्यत्वकृतकत्वयोः समव्याप्तिः । धूमस्य च विषमव्याप्तिरिति विवेकः ॥ २९ ॥ ननु नियतधर्मसाहित्यं न व्याप्तिः, अपि च तत्त्वान्तरं, तत्राह- "न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तः ॥ ३० ॥ न तत्त्वान्तर नियतधर्मसाहित्यातिरिक्त पदार्थान्तरं व्याप्तिन । कुतः? वस्तुकल्पनासक्तेः-तत्त्वान्तरकल्पनाप्रसंगादित्यर्थः । धर्मकल्पनापेक्षया धर्मिकल्पने गौरवं स्यादिति भावः ॥ ३० ॥ ननु नियतधर्मसाहित्य कीदृशं विवक्षितं? तत्राह-- "निजशतयुद्भवमित्याचा-"॥३१॥ निनशक्त्युद्भव बस्तुनो नैसर्गिकी शक्तिर्निशक्तिस्तयोदवः अभिव्य- तिर्यस्य, तत्तथाभूतं साहित्यमित्याचाO: सांख्याचार्या:माहुरित्यर्थः । तत्रस्वभावप्रतिवद्धं व्याप्यम् । येन च प्रतिबद्धं तद्व्यापकम् । स्वभावाभिव्यक्तः प्रतिवन्धो व्याप्तिरीति विवेकः ॥ ३१ ॥ "आधेयशक्तियोग इति पञ्चशिखः"॥ ३२ ॥ आधेयशक्तियोगः आधानं सङ्केतः, तद्विषयीभूता शक्तिः इदं व्याप्यं- व्यापकञ्चेदमिति सांकेतिकी शक्तिराधेयशक्तिः । तल्लक्षणो योगः वस्तुनों- व्यभिचरितसंबन्धःसाहित्यमिति पञ्चशिखः पञ्चशिखाचार्याइत्यर्थः३२॥ ननु स्वरूपशक्तिरेव व्याप्तिरस्तु । किमाथेयशक्त्या ? तत्राह- "न स्वरूपशक्तिनियमः पुनर्वादप्रसक्तः ॥३३॥ स्वरूपशक्तिः वस्तुनःस्वरूपभूता शक्तिः स्वरूपशक्तिर्नियमः च्याप्तिर्न न भवति । कुतः ? पुनर्वादप्रसक्तः घटः कलश इत्यादिवत्पौनरुत्यमसंगा- दित्यर्थः ।। ३३ ॥ ननु कुतः पौनरुक्क्यं ? तत्राह--
.
(१०४.) सांख्यदर्शनसूत्रवृत्ती।
"विशेषणानर्थक्यप्रसक्तः॥॥३४ ।।
-शक्तो देवदत्त · इत्यादी विशेषणस्य 'शक्त, इत्यस्यानर्थक्यप्रसक्तेः=
नैरर्थक्यप्रसंगादित्यर्थः ।
यदा स्वरूपात्मिका शक्तिः, तदा 'शक्तो देवदत्त इत्यादौ देवदत्त इत्युक्ते
शक इत्यप्ययुक्त एव । तदात्मकत्वात् । तथा च पुनस्तत्मयोगः कलशो घट
इत्यादौ कलश इव निरर्थकः । नैरर्थक्यप्रसक्तिरेव च पौनरुत्यासक्तिरिति
भावः ॥ ३४॥
ननु स्वरूपशक्तेाप्तित्वानुपपत्तेरनुपलम्भात्पुनर्वादसतिर्न दोषस्तत्राह-
"पल्लवादिष्वनुपपत्तेः ॥ ३५ ॥
पल्लवादिषु-वृक्षादिभ्यश्च्छिन्ने पल्लवादिषु वर्तमानायाः स्वरूपशक्तेरनु--
पपत्तेश्व-व्यामित्वानुपपत्तश्चेत्यर्थः ।
तत्र स्वरूपात्मिकायाः शताप्तित्वे यया दूरतो दृष्टिपथमारोहन्तो
वृक्षादिसंलग्नाः पल्लवादयो वृक्षादिकमनुमापयन्ति । तथा छिना अप्यनु-
मापयेयुः । वर्तमानस्वरूपत्वात् । न च ते तथाऽनुमापयन्ति । तस्मात्स्व-
रूपशक्तिर्न नियम इति भावः ॥ ३५ ॥
ननु मास्तु स्वरूपशनिर्व्याप्तिः । निजशक्त भिव्यको योग एव व्याप्ति-
रस्तु । कृतमाधेयशक्त्या, तत्राह-
"आधेयशक्तिसिद्धौ निजशक्तियोगः समान-
न्यायात्" ॥ ३६॥
भाधेयशक्तिसिद्धौ-संकेताभिव्यक्तशक्तेाप्तित्वसिद्धौ निजशक्तियोगः=
निनशक्यभिव्यक्तो योगोऽपि व्याप्तित्वेन सिद्ध एव । कुतः? समानन्यायात
युक्तिसाम्यादित्यर्थः ।
तत्र निजशक्त्यभिव्यक्तो योगो व्याप्तिरिति सांख्याचार्याः । संकेताभि-
ध्यक्तशक्तिलक्षणो योगो व्याप्तिरिति पश्चशिखाचार्या इति विवेकः ॥.३६॥
पञ्चमोऽध्यायः । (१०५) नन्वनुमान प्रमाणीकर्तु यथालिङ्गलिङ्गिनोः संबन्धी निरूपितस्तथा शब्दं प्रमाणीकर्तुं शब्दार्थसंवन्धोऽपि निरूपणीयः, कच भवतां शब्दार्थयोः संबन्धः। तत्राह- "वाच्यवाचकभावः संबन्धः शब्दार्थयो॥ ३७॥ शब्दार्थयोः शब्दस्यार्थस्य च मिथो वाच्यवाचकभावः वाच्योऽर्थों वाचकः शब्दस्तद्धावा-वाच्यवाचकत्वं तल्लक्षणः संबन्धः-सनातनः संवन्ध इत्यर्थः। अयमेव संवन्धी वृत्तिरित्याख्यायते । तत्र साक्षात्संवन्धः शक्तिवृत्तिः । परम्परासंवन्धो लक्षणावृत्तिः । सा च स्वशक्यसंवन्धिनिस्वशक्यगुणसंबन्धि- नि च नियतेति बोद्धव्यम् ॥ ३७ ॥ ननु ज्ञातः संवन्धो बोधको भवति नाज्ञात इतितत्संबन्धज्ञप्तिः कथं स्यात्, तत्राह- "त्रिभिः संबन्धसिद्धिः" ॥ ३८ ॥ त्रिभिः आमोपदेशः, वृद्धव्यवहारः, प्रसिद्धपदसन्निधानमित्येभिस्त्रि- भिः संबन्धसिद्धिः संवन्धस्य-वाच्यवाचकभावलक्षणस्यशब्दार्थसंवन्धस्य सिद्धिः-ज्ञप्तिर्भवतीत्यर्थः ॥ १८ ॥ ननु भवतु त्रिभिः संबन्धसिद्धिः। तथापि तत्सिद्धिनियमः कस्यात् कार्य बा कार्याकार्ययोरुभयत्र वा, तत्राह- "न कार्ये नियम उभयथादर्शनात् ॥ ३९ ॥ अस्माकं सांख्यानां कार्ये कार्यबोधके "गामानय शुक्लां दण्डेन"इत्या- द्यात्मके चोदनावाक्ये नियमः संबन्धासदिनियमो नम्-नास्तिाकुतः उभय- थादर्शनात कार्यवदकार्यवोधके "जगदधिपतिरीश्वरः पुत्रस्ते जातः" इ- त्याद्यात्मके सिद्धवाक्येऽप्यानोपदेशादिना संवन्धसिद्धिदर्शनादित्यर्थः३९॥ नन्वेवं संवन्धसिद्धी लोके शब्दार्थप्रतीतिसंभवेऽपि वेदे तदर्थमतीतिः कथं स्याव, तत्राह- .
, (१०६) सांख्यदर्शनसूत्रवृत्तौ। "लोकेव्युत्पन्नस्य वेदार्थप्रतीतिः" ॥४०॥ लोके-लौकिके शब्दे व्युत्पन्नस्य आप्तोपदेशादिना गृहीतार्थसंवन्धस्य वेदार्थप्रतीतिः वैदिकशब्दानामर्थस्य प्रतीतिः-ज्ञप्तिः संभवतीत्यर्थः । यादृशा लौकिकाः शब्दास्तादृशा वैदिका इत्यभ्युपगमादिति भावः ॥ ४० ॥ ननु लौकिकशब्दानापौरुषेयत्वादाप्तोपदेशेन, अर्थस्यातीन्द्रियत्वाभा- वाच्च वृद्धव्यवहारादिना संबन्धसिद्धौ तदर्थप्रतीतिः संभवति। वेदे तद्विप- >यासंबन्धासिद्धौ तदर्थप्रतीतिः कथं संभवेदित्याशकंते । "न बिभिरपौरुषेयत्वाद् वेदस्य तदर्थस्यातीन्द्रि- यत्वात् ॥४१॥ संबन्धसिद्धिरित्यनुवर्तते वेदस्यऋग्यजुःसामाथर्वनानो भगवतो वेद- स्यापौरुषेयत्वाद-पुरुषमणीतत्वाभावात्तदर्थस्य वेदार्थस्य चातीन्द्रियत्वात् इन्द्रियगोचरत्वाभावानाप्तोपदेशादिभिस्त्रिभिः संबन्धसिद्धिः संभवती- त्यर्थः ॥ संबन्धसिद्ध्यसंभवे दूरे तदर्थप्रतीतिसंभव इति भावः । तत्रापौरुषेयत्वादाप्तोपदेशासंभवः तदर्थस्यातीन्द्रियत्वादृद्धव्यवहारम- सिद्धपदसन्निधानयोरसंभवस्तदसंभवेचसंबन्धसिद्ध्यसंभव इति विवेकः४१॥ तबादौ वेदस्यातीन्द्रियार्थत्वं निरस्पति ।। "न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्टयात्" ॥४२॥ नम्यदुक्तं तन्न । यतो यज्ञादेः यज्ञदानतपआदिकर्मणः स्वरूपतः सा- क्षाद्धर्मत्वं वेदार्थत्वमभ्युपगम्यते । वैशिष्ट्यात्-विशिष्टफलजनकत्वादि- त्यर्थः॥ ४२ ॥ अपौरुषेयत्वादाप्तोपदेशासंभवं निराकरोति ॥ "निजशक्तिर्युत्पत्या व्यवच्छिद्यते" ॥ ४३ ॥ .
पञ्चमोऽध्यायः ।। (१०७) निजशक्तिः वेदानामपौरुषेयत्वेऽपिया स्वाभाविकी शक्तिः शब्दानामथैः स्वाभाविकः संबन्धः, सेवाप्नरन्तर्वाणिभिरयमस्यार्थ इत्येवंरूपया व्युत्प- त्या शब्दार्थावबोधकशत्त्या व्यवच्छिद्यते व्यावोपदिश्यते इत्यर्थः । तथाचाप्तोपदेशादीनां त्रयाणां संभवानापारुषेयवेदेऽपि संबन्धसिद्ध्य- संभवः । तदसंभवाभावे चोपपन्ना लोकवत्तदर्थप्रतीतिरिति भावः ॥ ४३ ।। ननु यज्ञादेः क्रियात्मकत्वेन योग्यत्वात्तत्राप्तोपदेशादिभिः संवन्धसिद्धि- संभवेऽप्ययोग्येषु वेदार्थेषु तत्सिद्धिःकथं स्यात्, तत्राह- "योग्यायोग्येषुप्रतीतिजनकत्वात्तत्सिद्धिः॥४४॥ योग्यायोग्येषु-निदर्शनार्थं योग्यपदम् । इन्द्रिययोग्येषु यज्ञादिकर्मस्विव तदयोग्येष्वर्थेष्वपि पदानां प्रतीतिजनकत्वात्-प्रतीतिजनकत्वसाम्यात्तत्ति- द्धिान्तस्य स्वाभाविकसंबन्धस्य सिद्धिः-ज्ञप्तिः संभवतीत्यर्थः ॥ ४४॥ ननु शब्दार्थसंबन्धस्य स्वाभाविकत्वे शब्दराशिवेदा अपि स्वाभाविकाः स्युस्तनाह- " ननित्यत्वं वेदानां कार्य्यत्वश्रुतेः"॥४५॥ वेदानां ऋग्यजुःसामार्थवणां चतुर्णा वेदानां नित्यत्वं स्वाभाविकत्वं ननभवति । कुतः ? कार्य्यत्वश्रुतेः तस्माद्यज्ञात्सर्बहुतऋच: सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मा- दजायत' इति तेषां कार्यत्वस्य ईश्वरजन्यत्वस्य श्रुतेः श्रवणा- दित्यर्थः ॥ ४५ ॥ ननु वेदानां कार्य्यत्वे भारतादिवत्पुरुषप्रणीतत्वमेवकिनस्यात् ? तत्राह- न पौरुषेयत्वं, तत्कर्तुः पुरुषस्याभावात् ॥ ४६ ॥ चेदानामित्यनुवर्तते । वेदानां पौरुषेयत्वं कार्य्यत्वेऽपि जीवकर्तृकत्वं १ यजु.-३1३१ मं. ९ ।
(१०८) सांख्यदर्शनसूत्रवृत्ती। नम्न संभवति। कुतः १ तत्कर्तुः अदकर्तुः पुरुषस्य-जीवस्याभावात् अनु- 'पलम्भादित्यर्थः ॥ ४६ ॥ ननु प्राचीनतमेषु धर्ममन्दिरेषु व्यभिचारात्कर्तुरनुपलम्भी न वेदाना जीवकर्तृकत्वं प्रतिक्षेप्तुमर्हति । कथं तेषां तदसंभवस्तत्राह- मुक्तामुक्तयोरयोग्यत्वात् ॥ १७ ॥ मुक्तामुक्तयोः मुक्तस्य जीवस्य निःसङ्गत्वेनामुक्तस्य बद्धस्य सर्वज- त्वाभावेनायोग्यत्वात् वेदकरणे योग्यत्वाभावादित्यर्थः ॥ १७ ॥ ननु येषां कर्ता नोपलभ्यते जीवाश्च न तद्योग्यास्तेषामपौरपेयत्वा- नित्यत्वं किनस्याद, तत्राह- नापौरुषेयत्वान्नित्यत्वमंकुरादिवत् " ॥ ४८ ॥ अपौरुषेयत्वात् पुरुषो जीवस्तत्कर्तृकत्वाभावान्नित्यत्त्ववेदानां नित्यत्वं नन भवति, तत्रोदाहरणमगुरादिवत् यथाऽगुरादीनां जीवकर्तृकत्वाभावेंड पिन नित्यत्वमित्यर्थः । यदपौरुषेयं तन्नित्यमिति नियमो नास्ति, अङ्गुरादौ व्यभिचारादिति भाव: ॥४८॥ नन्वगुरादीनां कार्य्यत्वाज्जीवकर्तृकत्वमनुमेयं, तत्राह- "तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः॥४९॥ तेषामपि सस्यादिवदड्डुरादीनामपित्तद्योग-तस्यजीवकर्दकत्वस्य योगे- प्रयोगे दृष्टवाधादिप्रसक्तिः आदिपदेनादृष्टकल्पनं गृह्यते । दृष्टबाधस्या- दृष्टकल्पनस्य च मसक्तिः स्यादित्यर्थः ॥ ४९॥ नन्वेवं तर्हि जीवकर्तृकमेतदीश्वरकर्तृकञ्चेदमिति कथं विज्ञेयं तत्राह- "यस्मिन्नदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयम्" ॥५०॥ अदृष्टेऽपि दृष्टिगोचराभावेऽपि तत्करि यस्मिन् यदस्तुनि कृतबुद्धिः- 'जीवन कृतमित्येषा धीरुपजायते-समुत्पद्यते । तवं-तद्वस्तु पौरुषेयंजीवक- र्तृक-मित्यर्थः ।
पञ्चमोऽध्यायः ।, (१०९)
स्त्र तु वेदांकुरादी जीवकर्तृकत्वबुद्धिपिजायते अयोग्यत्वात् । तत्रेश्वरः
कति मन्तव्यम् ॥ ५ ॥
ननु वेदानामीश्वरोक्तत्वे परतः प्रामाण्यं किं न स्यात्, तबाह-
"निजशक्त्यभिव्यक्तः स्वतःप्रामाण्यम्" ॥५१॥
निनशत्याभिव्यक्तेः शब्दार्थसम्बन्धलक्षणया स्वाभाविक्या शक्क्याऽभि-
व्यक्तेः प्रतिसगै भगवतो जगदधिपतेः प्रादुर्भावावेदानां स्वतः प्रामाण्यं
स्वार्थसिद्धी प्रमाणान्तरनिरपेक्षममात्वमित्यर्थः ।
ईश्वरोच्चरितत्वेऽप्यनादित्वानिजया शक्त्या प्रामाण्यं स्वतःमामाण्यं
कुपविषये रवरिवति सांख्या इति भावः ॥ ५१॥
ननु शब्दप्रमाणविषयं सांख्यानामीदृशं मतमस्तु । श्रान्तिविषये पु-
नस्तेषां कीदृशं मतमित्याकांक्षायामात्ममतं दिदर्शयिषुरादौ परमतं निरा-
कुर्वनाह-
"नासतः ख्यानं नृशृङ्गवत्" ॥५२॥
असतः शुक्निशकलादा नितान्तालीकस्य रजतादेः ख्यानम् इदं रजत-
मित्यादीभ्रान्तिज्ञान विषयतया भानं न नो पपद्यते।अयोग्यत्वात् । नृशृङ्ग
बत-यथा नितान्तासतोनृशृङ्गस्य क्वचिदपि ख्यानं नेत्यर्थः ।। ५२ ॥
नन्वसता रजतादेः ख्यानं मास्तु विज्ञानात्मनः सत एव ख्यानमस्तु,
तबाह-
"न सतो बाधदर्शनात्" ॥५३॥
ख्यानमित्यनुवर्तते । सतः-शुक्तिशकलादौ विज्ञानात्मनः सदनतादेः
ख्यानम् इदं रजतमित्यादी भ्रान्तिज्ञाने.विषयतया भान न-नोपपद्यते ।
कुतः? बाघदर्शनाव- नेदं रजतमित्यादिना तदाधस्य दर्शनादित्यर्थः ।
रजतस्य विज्ञानात्मकले शक्तिशकलादिवद बाधो न स्यादिति
भावः ॥ ५३॥
(११०) सांख्यदर्शनसूत्रवृत्तौ। अनिर्वचनीयवादिनं प्रत्याह- "नानिर्वचनीयस्य तदभावात् "॥५४॥ ख्यानमित्यनुवर्तते । अनिर्वचनीयस्य-सदसदिलक्षणस्यरजतादेःख्यान- भ्रान्तिज्ञाने भान न-नोपपद्यते। कुतः १ तदभावात्तापदार्थस्यैवाभावा- दित्यर्थः ॥ ५४॥ अन्यथाख्यातिवादं निरस्यति । "नान्यथाख्यातिः स्ववचो व्याघातात् ॥५५॥ अन्यथाख्यातिः इदंरजतमित्यादी पुरोवर्तिनः शुक्तिशकलादेर- न्यथाजताद्यात्मना ख्यातिः-ख्यानं न समीचीनं न । स्वक- चोव्यायाताव-ज्ञेयानुरूपं ज्ञानम्' इति स्ववचसो' व्याहतिमसंगादि- त्यर्थः॥ ५५ ॥ आत्ममतमाह- "सदसत्ख्यातिर्वाधावाधा" ॥ ५६ ।। सदसख्यातिः- सांख्यानामस्माकं हटादौ सतः पुरोवर्तिनि चासतो रजतादेः पुरोवर्तिसामान्यांशनेदमाऽसंसार्गाग्रहाख्यातिः इदं रजतमित्या- दौ भ्रान्तिज्ञाने विषयतया भानम् । कुतः ? बाधावाधाव-तस्य रजतादेः संसर्गतः पुरोवर्तिनि वाधेऽपि स्वरूपतोऽबाधात-बाधाभावादित्यर्थः । अख्यातिवादिनस्तावत्सांख्या इदंरजतमित्यादौ सर्वत्र ज्ञानद्वयमाचक्षते। तिमरादिना प्रमाणदोषण पुरोवर्तिविशेष्यांशस्याग्रहात्सामान्यांशविषयाम- दमाकारं सन्निकर्षमात्रजन्यमकं ज्ञानम् । लोभादिममातृदोषसमीचीनसाह- श्यादिदोषोडुद्धरजतादिसंस्कारमात्रजन्यश्च सदनतादिविषयं स्मृत्यात्मकं द्वितीयम्।तयोश्चद्वयोज्ञानयोःप्रमाणादिदोषवशेन स्वरूपतो विषयतश्चासंसर्गा- ग्रहलक्षणो 'माय भिन्न विषयं ज्ञानदयं जातम्' इति विवेकमतिद्धन्दी-योऽयमेक ज्ञानमित्यविवेका, स एव तेषां तद्रूपाप्रतिष्ठितत्वात् भ्रमो विपर्ययो मिथ्या- पञ्चमोऽध्यायः। (१११) ज्ञानं, नापरः कथनपदार्थः । अत एव रजतादिज्ञानस्य विषयो रजतादिर्देशा- न्तरे सन्नपि न पुरोवर्तिनि सन् । तेन नेदं रजतमित्यादिना बाधकज्ञानेन दे- शान्तरे वर्तमानस्य तस्य स्वरूपतोवाधासंभवात्पुरोवर्तिनि संसर्गतोवाध इति भावः। तत्रासत्सदनिर्वचनीयेति ख्यातित्रयं वाह्यानाम् अन्यथाख्यातिः सदस- ख्यातिति इयं वैदिकानाम । बाधश्च प्रतिपन्नधर्मिणि निषेधबुद्धिविषयः त्वमिति विवेकः ॥ ५६ ॥ एवं भ्रान्तिविपये स्वमतं प्रदर्य शन्दविषयं तत्मदर्शयितुमादौ परेण संमतं शहस्य स्फोटात्मकत्वं प्रतिषेधाति । "प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः ॥५॥ शब्द: गौरित्यादिशब्दः स्फोटात्मक: हस्तपादाद्यवयवेभ्यो व्यति- रितोऽखण्डेकमूर्तिरवयत्रीव गकारादिवणेभ्यो व्यतिरिक्तोऽखण्डकमूर्तिरर्थ- प्रत्ययहेतृः पदादिसंज्ञाभार गौरित्यादिशब्दविशेषः स्फोटस्तदात्मकः-त- स्वरूपो न-न भवति।कुतः? प्रतीत्यप्रतीतिभ्यांगकारादिवर्णानां प्रतीतेस्त- व्यतिरिक्तस्य स्फोटस्य चामतीतरित्यर्थः ।। ५७ ।। न शब्द्धस्य स्फोटात्मकत्वाभावपि नित्यत्वं किं नस्यात् ? तत्राह- "न शब्दनित्यत्वं कार्य्यताप्रतीतेः" ॥५८॥ शब्दनित्यत्वं-शब्दस्य-गकारादिवर्णस्य नित्यत्वम्-उपत्तिविनाशशू- न्यत्वं न-नभवति । कुतः? कार्यताप्रतीतेः उत्पनो गकार इत्यादिना तदु- त्पादकताप्रतीतरित्ययः ॥ ५८ ॥ शव्दनित्यत्लवादी शंकते । "पूर्वसिद्धसत्त्वस्याभिव्यक्तिीपेनेव घटस्य "|५९॥ ननुन कारणव्यापारेण शब्दस्योत्पत्तिर्भवति,येन तस्य नित्यत्वं नस्यावा किंतु पूर्वसिद्धसत्त्वस्य-कारणव्यापारात्पूर्व सिद्धं सत्त्वं यस्य तस्याभिव्य- (११२) सांख्यदर्शनसूत्रवृत्ती। क्ति= मादुर्भूतिदीपेनेवघटस्यव्यथा पूर्वसिद्धसत्त्वस्यघटस्य दीपेना- भिव्यनिरित्यर्थः । उत्पन्नो गकारो नष्टः ककार इत्यादिमतीतिस्तु ध्वन्युपाधिकृता न स्वतः। कारणव्यापारेण ध्वनेरेवोत्पत्तिविनाशयारभ्युपगमादितिभावः॥५८॥ परिहरति । " सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनम् ॥ ६० ॥ अभिव्यक्तया नित्यत्वं साधायतस्ते कः सिद्धान्तः सत्कार्यसिद्धान्तश्चेत= कारणव्यापारात्पूर्व सतः कार्य्यस्य ,तेनाभिव्यक्तिरिति ते सिद्धान्तक्षेत् तदा सिद्धसाधनम अस्माकं सिद्धस्यैवैतत्साधनमित्यर्थः । तादृशनित्यत्वस्यास्माकं कार्यमाने सिद्धत्वादिति भावः ॥ ६ ॥ आत्मदितवादं मतिक्षिपति । "नाद्वैतमात्मनो लिंगात्तद्भेदप्रतीतः ॥ ६१ ॥ आत्मनः =पुरुषात्मनोऽद्वैतम्=ऐक्यं न=न संभवति । कुतः? लिङ्गात्= सुखदुःखजरामरणादिलिंगात् तदेदमतीते-तस्यपुरुषात्मनोभेदस्य सिद्धे- रित्यर्थः। आत्मैक्य प्रतिपुरुष सुखदुःखादिभेदो न स्यादिति भावः ॥ ६१ ॥ ननु मा भूत्सजातीयादेतं, विजातीयादेतं भविष्यति, तत्राह- " नानात्मनापि, प्रत्यक्षबाधात् "॥ ६२॥ अद्वैतमात्मन इत्यनुवर्तते।आत्मनोऽनात्मनापि =भोग्येन जगताऽपि ना- दैतम् =नात्यन्ताभेदः संभवति । कुतः ? प्रत्यक्षवाधात् भेदग्राहकमत्य- क्षेण वाधादित्यर्थः ॥ ६२ ॥ नन्वस्तु तर्हि समुचिताभ्यामात्मानात्मभ्यामद्वैतं,तबाह- "नोभाभ्यां तेनव॥६३॥ अद्वैतमात्मन इत्यनुवर्तते । नोभाभ्यां नसमुचिताभ्यामात्मानात्मभ्याम- प्यात्मनोऽद्वैतं संभवति । कुतः १ तेनैव-पूर्वोक्तहेतुयेनैवेत्यर्थः ॥ ६३ ॥ .
- पञ्चमोऽध्यायः। (११३) नन्वेवमदतमतिपादक त्या विरोधः स्याव, तत्राह- अन्यपरत्वमविवेकानां तत्र"॥६४॥ तत्र अद्वैतभतिपादकश्रुतावन्यपरत्वं दैतादन्यदद्वैतंतत्परत्वम् आत्मादै तमतिपादिकत्वमविवेकानां शास्त्रव्युत्पत्तिशुन्यानांमतिभाति न जातविवेका- नामिति न विरोध इत्यर्थः । कचित्कार्यकारणयोरभेदविवक्षया कचिच्चात्मतयैक्यमतिपादिकत्वमदै- तश्रुतीनामिति भावः ॥ ६४ ॥ नन्वात्मोपादानकं जगदात्माभिन्नं किं न स्यान्मृदुपादानकस्य मृदंभि- नत्वदर्शनाद, तत्राह- "नात्माऽविद्या नोभयं जगदुपादानकारणं नि:सङ्गत्वात् "॥६..॥ , आत्मोपादानकं जगदिति कोऽभिप्रायः ? किमात्ममात्रोपादानकम, उ- तात्माश्रिताविद्योपादानकम् ? आहोस्त्रिदात्माविद्योभयोपादानकं १ तत्रात्मा कूटस्थत्वादविद्याकल्पितत्वादुभयम् आत्माऽविद्या चेति द्वयं निःसंङ्गत्वा- व-परस्परसंगाभावाद् जगदुपादानकारणं न संभवतीत्यर्थः ।। तदभावे कुतस्तदभेद इति भावः ॥ ६५ ॥ आत्माऽदैतं निराकृत्य सच्चिदानन्दस्वरूप ईश्वरः,सच्चित्स्वरूपो जीवः, सती च केवला प्रकृतिारत्यात्ममतं दृढीकर्तुं पराभिमत जीवात्मनः पुरुषस्य तावदानन्दरूपत्वं निराचष्टे । "नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् "॥६६॥ एकस्य-भतिशरीरमेकस्य-जीवात्मनः पुरुषस्येतियावदानन्दचिद्रपत्व सुख्मानन्दो ज्ञानं चित्तदुभयस्वरूपत्वन-जभवति । कुतः १ यो:-मुखज्ञा- नयो रुभयो भेदाभेदेनावगमादित्यर्थः । ..
(११४) सांख्यदर्शनसूत्रवृत्तौ। यथाऽऽत्मनोज्ञानं स्वरूपं, तथा चेदानन्दोऽपि । तदा तया देनावगमो न स्यात् । तदभिन्नाभिन्नस्य तदभिन्नत्वनियमाव । भवति च दुःखानुभववेलायां सुखाननुभवेन तद्भेदावगमः । ततो भवति प्रतिपत्तिः " ज्ञानवनात्मनः स्वरूपमानन्द" इति भावः ॥ ६६ ॥ ननु पुरुषस्यानन्दरूपत्वाभावे कदाचिदस्यात्मनिजायमानः "सुखमहम स्मीति सुखमत्ययो नोपपद्येत-तत्राऽह " दु:खनिवृत्तेर्गौणः ॥ ६७ ॥ दुःखनिवृत्तः कस्यचित्तीव्रतरदुःखस्य निवृत्तेगौणः-जायमानःसुखपत्य- यो गौणो-भाको मन्तव्य इत्यर्थः । दुःखाभावहि तदा सुखं प्रत्येतीति भावः ॥ ६७ ॥ ननु कथन्तर्हि मुक्यवस्थायामात्मनः केचिदानन्दरूपतामाचक्षते तनाह- "विमुक्तिप्रशंसामन्दानाम् ॥ ६८ ॥ मन्दानां कर्तरिषष्ठीयम् । अत्र वैदिकसिद्धान्तानभिज्ञा मन्दास्तेषां सा विमुक्तिमशंसा-श्रुतिस्मृतिविरुद्धा मुक्यवस्थायामानन्दरूपत्वेनात्मनः स्तुति- रित्यर्थः । मनोवैभवं निराकरोति । "न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा" ॥६९ ॥ मनसो व्यापकत्वं विभुत्वं न-न सम्भवति । कुतः ? करणत्वाद-सा क्षाव क्रियासापकत्वादास्यादिवदिन्द्रियत्वादा चक्षुरादिवदित्यर्थः ॥ ६९ ॥ किञ्च- " सक्रियत्वाद्गतिश्रुतेः "॥ ७० ॥ न व्यापकत्वं मनसइत्यनुवर्तते । गतिश्रुतेः = मनःसहकृतस्यात्मनो लोकान्तरे गमनश्रुतेर्मनसःसक्रियत्वात् सक्रियत्वावगमान तस्प व्यापकत्वं सम्भवतीत्यर्थः ॥ ७० ॥ ननु मास्तु मनसो व्यापकत्वम् । अणुत्वं भविष्यति, तबाह- पञ्चमोऽध्यायः। (११५) "न निर्भागत्वं तद्योगाढ़ घटवत् ॥ ७१॥ मनस इत्यनुवर्तते । मनसो नि गत्वं भागोऽक्यवस्तद्रहितत्व-निरवय- वत्वम्-अणुत्वमिति यावन्न-न संभवति । कुतः? तद्योगात भागयोगस्तद्यो- गस्तस्माद-सावयवत्वात् । घटवत् यथा घटस्यसावयवत्वात्राणुत्वमि- त्यर्थः ॥ ७ ॥ नतु मनसो नित्यत्वात्कथं सावयवत्वं,तत्राह- "प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम्" ।। ७२ ॥ जोवेश्वरोभयपरोऽत्र पुरुषशब्दः, सांख्यानां पदार्थत्रयस्यैव नित्यत्वाभ्यु- पगमात, स्पष्टमन्यत् । मनसोपि प्रकृतिपुस्पान्यत्वान नित्यत्वमिति भावः ॥ ७२ ॥ नन्वीश्वरस्य भागयोगाभावेऽपि पुम्मकृत्योर्भागयोगः किं न स्यात्, तनाह- "न भागलाभो भोगिनो निर्भागत्वश्रुतेः"॥ ७३ ।। भोगिनः जीवात्मनः पुरुषस्य प्रधानस्य च भागलाभ:-भागयोगः- सावयवत्वमिति यावन-न संभवति । कुतः ? निर्भागत्वश्रुतेः "अजो नित्यःशाश्वतोऽयम्""अजामेकाम् इति निरवयवत्वस्य श्रवणा- दित्यर्थः ॥ ७३ ॥ परस्य मुक्ति निराकुरुते । "नानन्दाभिव्यक्तिर्मुक्तिनिर्धर्मत्वात् ॥ ७४ ॥ आनन्दाभिव्यक्ति, संसारावस्थायामनभिव्यक्तस्यानन्दस्याभिव्यक्ति:- मोझावस्थायां प्रादुर्भुतिर्मुक्तिः कैवल्यं न न संभवति । कुतः ? निर्धमत्वात आत्मनस्ताइग्धर्मानाश्रयत्वाभ्युपगमादित्यर्थः ॥ ७४ ॥ नवस्तु ताशेषविशेषगुणोच्छित्तिर्मुक्तिस्तत्राह- "न विशेषगुणोच्छित्तिस्तद्वत् ॥७॥ १ कठोअ.१-वल्ली. २-१८ । २ श्वे०अ० ४। मं०५। A (११६) सांख्यदर्शनसूत्रवृत्तौ । मुक्तिरित्यनुवर्तते । तद्वत् आनन्दाभिव्यक्तिवद् विशेपगुणोच्छित्तिः= आत्ममनःसंयोगेननातानांज्ञानादिविशेषगुणानामुच्छित्ति-निवृत्तिरपि मुक्ति- नन संभवतीत्यर्थः । मनःसंयोगसत्वेतदुच्छित्तेरसंभवादितिभावः ।। ७५ ॥ नन्वस्तु तर्हि निरन्तरोर्ध्वगतिरेव मुक्तिस्तत्राह- "न विशेषगतिनिक्रियस्य" ।। ७६ ॥ मुक्तिरित्यनुवर्तते । विशेषगतिः लोकसिद्धगतिव्यावर्तनाय विशपपदम् । निरन्तरोर्ध्वगतिरपि मुक्तिर्न । कुतः ? निष्क्रियस्य-स्वतःक्रियारहिनस्य गत्यसंभवादित्यर्थः ॥ ७६ ॥ जैनमुक्तिं दूषयित्वा वौद्धमुक्तिं दूषयति । "नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात्" ॥ ७७॥ मुक्तिरित्यनुवर्तते । आकारोपरागोच्छित्तिा आत्मनि क्षणिकविज्ञान यो विषयाकाराणामुपरागान्तदासनालक्षणः संबन्धविशेषस्तस्योच्छित्तिा उच्छे दोऽपि मुक्तिन संभवति । कुतः ? क्षणिकत्वादिदोषात-आदिपदेन तदुच्छेदोपायाभावस्यसंग्रहः । क्षणिकत्वादिदोषात्तस्याः पुरुषार्थत्वानु- पपत्तेरित्यर्थः। सर्वस्य क्षणिकत्वात्का मुक्तिकस्य वा मुक्तिः स्यादिति भावः।।७७॥ नन्वस्तु तर्हि साच्छित्तिर्मुक्तिस्तत्राह- न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् ॥ ७८ ॥ मुक्तिरित्यनुवर्तते।सर्वोच्छित्तिा-सर्वस्य-विषयोपरागस्य तदाश्रयक्षणिक- विज्ञानात्मनोजीवस्यचोच्छित्तिरपि मुक्तिनन संभवति । कुतः ? अपुरुषार्थ त्वादिदोषात-आदिपदेनात्मोच्छेदासंभवदोषस्यसंग्रहः, पुरुषार्थत्वाभावादि दोषप्रसंगादित्यर्थः ॥ ७८ ॥ शून्यवादिनं बौद्धं निरस्यति ।
'पञ्चमोऽध्यायः। (११७) "एवं शून्यमपि ॥ ७९ ॥ मुक्तिनैत्यनुवर्तते । एवं यथाऽपुरुषार्थत्वादिदोषाद सर्वोच्छित्तिर्न मुक्ति- रेवं शून्यमपि ज्ञानज्ञेयात्मकनिखिलमपञ्चनाशोऽपि मुक्तिर्न संभवती- त्यर्थः ॥ ७९ ॥ - देशविशेषादिलाभो मुक्तिरित मतं व्युदस्यति । "संयोगाश्च वियोगान्ता इति न देशादिलामोऽपिगा८०॥ मुक्तिरित्यनुवर्ततेचि यस्मात्तंयोगाः-सर्वे प्राप्तिलक्षणाः संवन्धा वियो- गान्ताः विभागसीमान इति-अस्माद्देशादिलाभोऽपि प्रकृष्टदेशधनाङ्गनादि- प्राप्तिरपि मुक्तिन-न संभवतीत्यर्थः ॥ ८ ॥ जीवस्य परमात्मयोगो मुक्तिरिति मतं दूषयति । "न भागियोगो भागस्य" ॥८१॥ संयोगाश्च वियोगान्ता इत्यपि मुक्तिरित्यनुवर्तते । भागस्य-ईश्वरां- शस्य जीवस्य भागियोगः ईश्वरयोगोऽपि मुक्तिर्न संभवतिासंयोगानां वियो- गातन्त्वनिर्णयादित्यर्थः । निरंशस्य वास्तवांशासंभवाद्, भावेवासावयवत्वमसंगादौपाधिकस्य च प्रत्याख्यानाचेत्यपि द्रष्टव्यम् ॥ ८१ ॥ नन्यस्तु त_णिमादियोगो मुक्तिस्तत्राह- "नाणिमादियोगोऽप्यवश्यंभावित्वात्तदुच्छित्तेरितर- योगवत् ॥ ८२॥ मुक्तिरित्यनुवर्तते । अणिमादियोगोऽपि अणिमा, लघिमा, महिमा, माप्तिः, माकाम्यं, वशित्वम्, ईशितृत्वम्, यत्र कामावसायित्वमित्यणिमा- अष्टविवर्यप्राप्तिरपि मुक्तिनीकुतः? तच्छित्तेरवश्यंभावित्वात् तस्याणि- मादियोगस्योच्छित्तेः-वियोगस्यावश्यंभावित्वात आवश्यकत्वात् इतरयो- गवत्यथैश्वर्यान्तरयोगस्योच्चित्तेरवश्यंभावित्वमित्यर्थः ॥ ८२ ॥ नन्धिन्द्रादिपदयोगस्तर्हि मुक्तिरस्तु, तत्राह- (११८) सांख्यदर्शनसूत्रवृत्तौ। "नेन्द्रादिपदयोगोऽपि तद्वत" ॥८३॥ मुक्तिरित्यनुवर्तते । तद्वद अणिमादिप्राप्तिवत्तदुच्छित्तेरवश्यंभावित्वादि- न्द्रादिपदयोगोऽपि इन्दवृहस्पतिपमापत्यादिपदमातिरपि मुक्तिनत्यर्थ: ८३॥ नतु 'घ्रोणरसनचक्षुस्त्वकूश्रोत्राणीन्द्रियाणिभूतेभ्य:। इति नैयायिका वैशेषिकाश्च मन्यन्ते । सांख्यानामन्त्र का सिद्धान्तः ? तत्राह- "न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः॥८४॥ सांख्यानामस्माकमिन्द्रियाणां-याणादीनामिन्द्रियाणांभूतमकृतित्वम्भूतो पादानकत्वं न । किन्त्वहंकारोपादानकत्वम्।कुतः आईकारिकत्वश्रुतेः ते षामहंकारकार्यत्वश्रवणादित्यर्थः । नैयायिका वैशेषिकास्तु यस्मादिन्द्रियाणां भौतिकत्वमाहुस्तत्स्वयमग्रे वक्ष्यति ॥ ८४ ॥ नन्वेवं तदुक्तपदार्थनियमोऽपि भवतां न स्यात्, तत्राह- न षट्पदार्थनियमस्तद्वोधान्मुक्तिः॥८५ ॥ षटपदार्थनियमः द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां नियमः नियतिरस्माकं सांख्यानां न नास्ति, न वा तरोधात्-तेषां षण्णां पदार्थानांबोधाद-विवेकमत्ययान्मुक्तिः त्रिविधदुःखात्यन्तनिवृत्तिलक्षणकैव ल्यमित्यस्माकं नियमः । किन्तु पञ्चविंशतितत्त्वानां वोधादित्यर्थः ॥८५॥ अतिदिशति । " षोडशादिष्वप्येवम्" ॥ ८६ ॥ एवं यथा वैशेषिकोक्तषु पसु पदार्थेषु तदोधान्मुक्तौ च सांख्यानाम स्माकं नियमो न, तथा षोडशादिष्वपि नैयायिकादिमोक्नेषु-प्रमाण-प्रमेयसं- शय-प्रयोजन-दृष्टान्त-सिद्धान्ताऽवयव-तर्क-निर्णय,वाद-जल्प-वितण्डा-हेत्वा १ न्याय.अ. १-आ. १-सूत्रं १२ ।
- " पञ्चमोऽध्यायः। (११९) भास-च्छल-जाति-निग्रहस्थानदिषुपदार्थेष्वपि, तोधान्मुक्ती च वोद्धव्य इत्यर्थः। आदिशब्देन मीमांसकोक्ताः पदार्थाः संगृह्यन्ते ॥ ८६ ॥ वैशेषिकैकदेशिमोकंत्रसरेणुनित्यत्वं प्रत्याह- नाशुनित्यता, तत्काय॑त्वश्रुतेः" ॥ ८७ ॥ अणुनित्यता अणूनां परमाणुनाम्नाऽभ्युपगतानांत्रसरेणूनां नित्यता-नि- त्यत्वं नन्न संभवति । कुतः ? तत्कार्यत्वश्रुतेः तेषां प्रकृतिकार्यत्वस्य श्रवणादित्यर्थः । इदमत्र बोध्यम् । यद्यपि सांख्या अप्येताहपरमाणून् मन्यन्ते तथापि तेषां वैशेषकैकदेशिवन्न ते नित्याः । किन्तु पञ्चतन्मात्रकार्य्यभूता इति ॥ ८७ ॥ ननु निरवयवाः परमाणवः कथमनित्याः स्युः ? तत्राह- "न निर्भागत्वं कार्यत्वात् " ॥ ८८ ॥ निभांगत्वं-निरवयवत्वं न भवदभ्युपगतपरमाणूनां न संभवति।कुतः ! कार्यत्वाव-जन्यत्वाद् घटवदित्यर्थः ॥ ८८ ॥ केवलरूपनिबन्धन बहिरिन्द्रियैर्द्रव्यप्रत्यक्षनियम निरस्यति । न रूपनिबन्धनात्प्रत्यक्षनियमः ॥ ८९ रूपनिवन्धनाद-रूपमात्रांनिमित्तात्प्रत्यक्षानियमा वाह्यद्रव्यप्रत्यक्षस्य नियमोनम्न भवति । कुतः १ घणुकादेरपिमत्यक्षत्वमसङ्गादित्यर्थः ॥८॥ अणुमहद्दीष इस्वमिति चतुर्विधं परिमाणमिति वैशेषिकाक्तं परि- माणचातुर्विध्यं दैविध्येनचरितार्थयन्नाह । "न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात्" ॥९॥ परिमाणचातुर्विध्यम् अणुमहद्दीर्घ इस्वमिति परिमाणस्य चतुःप्रकार- त्वं न युक्तं न । किन्तु द्विप्रकारत्वम् । कुतः ? दाभ्यां तद्योगावअणु- महत्परिमाणाभ्यामेवं तस्य परिमाणचातुर्विध्यस्य सर्वत्र प्रतिपादनसंभवा- दित्यर्थः। . “
(१२०) सांख्यदर्शनसूत्रवृत्ती।
मध्यादिवद्रस्वदीयोरपि महत्परिमाणावान्तरभेदत्वेनैवोपपत्तरिति
भावः।
तत्राणुपरिमाणमाकाशस्य कारणं शब्दतन्मात्रलक्षणंगुणविशेष वर्जयित्वा
भूतेन्द्रियाणां मूलकारणेषु सत्वादिगुणेषु मन्तव्यमिति भाष्यम् ॥ ९० ॥
इदानी स्वमतेन प्रत्यभिज्ञायाः सामान्यविषयत्वमुपपादयिष्यन् तदप-
लापिनं बौद्धं प्रत्याचक्षाण आह-
"अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं
सामान्यस्य"॥९१॥
प्रत्यभिज्ञान स एवायमित्यादिप्रत्याभिज्ञानं सामान्यस्य-विषयत्वं षष्ठय .
र्थः । अनुगतधर्मविशेषःसामान्यं, तद्विषयमवगन्तव्यम् । कुतः ? अनित्य-
त्वेऽपिस्थिरतायोगात् तस्यमकृतिपुरुषाभ्यामन्यत्वेन नित्यत्वाभावेऽपि चिर-
स्थायित्वाभ्युपगमादित्यर्थः ।। ९१ ॥
नन्वस्तु सामान्यविषयं प्रत्यभिज्ञानं, किं तेन ? तत्राह-
न तदपलापस्तस्मात्
"॥१२॥
तस्माद मत्यभिज्ञाविषयत्वात्तदपलापः तस्यसामान्यस्यापह्नवो नन
संभवतीत्यर्थः ।। ९२ ॥
नन्वतद्ध्यावृत्तिरूपमेव सामान्य न किञ्चित्तत्त्वान्तरं, तबाह-
"नान्यनिवृत्तिरूपत्वं भावंप्रतीते" ॥९३ ॥
सामान्यस्येत्यनुवर्तते । घटत्वादिसामान्यस्यान्यनिवृत्तिरूपत्वं-घटादि-
भ्योऽन्ये पटादयस्तदभावस्वरूपत्वं न न संभवति । कुतः ? भावमतीतेः-
तस्य स एवायं घट" इति भावत्वेन ज्ञप्तरित्यर्थः ॥ ९३ ॥
नन्वस्तु तर्हि सादृश्यनिवन्धनमेवैतत्मत्यभिज्ञानं न सामान्यनिवन्धनं,
तनाह-
न तत्त्वान्तरं साहश्य, प्रत्यक्षोपलब्धेः॥९४ ॥
पश्चमोऽध्यायः।
सादृदयं भवदभ्युपगतं सादृश्यं तत्तान्तरं योऽवश्वसामान्यातिरिक्तं
पदार्थान्तरं न न भवति । कुतः? प्रत्यक्षोपलब्धः गोसदृशो गवय इत्यादि-
वत्सएवायं घट इत्यादौ सर्वत्र भूयोऽवयवसामान्यस्यैव प्रत्यक्षेणापलब्धे-
रित्यर्थः ॥ ९४॥
नतु सापेक्षप्रतीतिविषयभूतं सादृश्यं कथं सामान्यतोऽतिरिक्त तत्वा-
न्तरं न स्यात्तत्राह-
" निजशत्यभिव्यक्ति वैशिष्टयातदुपलब्धेः॥१५॥
सादृश्यमित्यनुवर्तते । वा अथवा निनशचयभिव्यक्तिः वस्त्वन्तरदर्शन-
सापेक्षा वस्तुनःस्वाभाविक्याः शक्तेरभिव्यक्तिः अभिव्यक्ता स्वाभाविकी श-
क्तिरितियावत्सादृश्यं मन्तव्यम्।नतत्त्वान्तरम् ! कुतः विशिष्टयात्तदुपलव्धेः-
तादृशशक्तिसंवन्धोऽत्र वैशिष्टयम् । तस्मात्तस्य सादृश्यस्य प्रतीतरित्यर्थः ।
तत्तत्पदार्थनिष्ठस्तादृक्शक्तिभेद एव सर्वत्र सादृश्यमतीतिविषयो न
तत्त्वान्तरमिति भावः ॥ ९५॥
नतु सादृश्यस्य शक्तिरूपत्वकल्पनं न युक्तम् । संज्ञासंज्ञिसंबन्धग्रहहेतु-
खेन पृथक् तत्सिद्धेस्तत्राह-
न संज्ञासंझिसंबन्धोऽपि ॥९६॥
वैशिष्टयात्तदुपलब्धेरित्यनुवर्तते।संज्ञासंज्ञिसंवन्धोऽपि-विषयेण विषयिणं
लक्षयतिागवयादिशब्दः संज्ञा, तदर्थों व्यक्तिविशेषः संज्ञी,तत्संबन्धग्रहोऽपि
न-सादृश्यहेतुको न। कुतः ? वैशिष्टयात्तदुपलव्धेः आप्तोपदेशादिसंबन्धोऽत्र
वैशिष्टयम् । तस्मात्तस्य संवन्धस्य मतीतरित्यर्थः ॥ ९६ ॥
संप्रति दिक्कालादीनां संबन्धो नित्य इति मतमपाकरोति ।
न संबन्धनित्यतोभयानित्यत्वात् ॥ ९७ ॥
संवन्धनित्यता-दिकालादीनां संबन्धस्य नित्यत्वं न न सम्भवति ।
कुतः ? उभयानित्यत्वात-दिकालयोर्वा कालाकाशयो संवन्धधर्मिणोरुभ-
योः प्रकृतिपुरुषान्यत्वेन नित्यत्वाभावादित्यर्थः ॥ ९७ ॥
(१२२) सांख्यदर्शनसूत्रवृत्ती । ननु संबन्धिनामनित्यत्वेऽपि तत्संबन्धी नित्यः किं न स्यात् ? तबाह- "नाजः संबन्धो धर्मिग्राहकमानवाधात्" ॥ ९८॥ १ संवन्धः संबन्धिनामनित्यत्व सति संयोगादिलक्षणस्तत्संबन्धोऽन:: नित्यो नन संभवति । कुतः? धर्मिग्राहकमानवापात्-धर्मिण: संवन्धस्य ग्राहकं यन्मानप्रमाणं तेनैव तनित्यत्वस्य बाधात अभावनिश्चयादि- त्यर्थः। यो यः संवन्धः स सर्वः कादाचित्कविभागपूर्वक इति संबन्धं ग्राहय- प्रमाणं तदजवाभावमपि ग्राहयतीति भावः ॥ ९८ ॥ नन्वेवम् 'इहेदमिति यतःकार्यकारणयोःस समवायः' इति वैशेषिकोक्तः समवायसंबन्धोऽपि नित्यो न स्यात्तत्राह- "न समवायोऽस्ति प्रमाणाभावाद" ॥९॥ समवायः समवायाख्यः कश्रित्संबन्धो नास्ति न विद्यते । कुतः?ममा- णाभावात्-तत्साधकममाणानुपलम्भादित्यर्थः । तदाख्यासम्बन्धवास्माकं नास्ति दूरे तनित्यत्वमिति भावः ॥ ९९ ॥ ननु कथं तत्साधकममाणाभावः प्रत्यक्षानुमानयोरेव तत्र प्रमाणत्वाद, तबाह- "उभयत्राप्यन्यथासिद्धर्न प्रत्यक्षमनुमानं वा" ॥ १०० ॥ प्रत्यक्ष-शुक्लः पट इत्यादिप्रत्यक्षमनुमानं वा विशिष्टवुद्धिः विशेषण- विशप्यसंबन्धविषया, विशिष्टबुद्धिवाद, दण्डीपुरुष इति विशिष्टबुद्धिवादि- त्याद्यनुमानं वा न-तत्र प्रमाणं न भवति । कुतः ? उभयत्राप्यन्यथासिद्धेः- प्रमाणयेऽपि स्वरूपसंबन्धनैवोपपत्तरित्ययः । १ वोषिकं-अ०७--आ०२-०२६ ।
पञ्चमोऽध्यायः। (१२३) प्रमाणदयं स्वरूपसंबन्धं गोचरयति । न समवायसंवन्धमिति भावः इदमत्रबोध्यम् यहि वैशेषिका नैयायिकासमवायसंवन्धमाचक्षते तमेव सांख्या योगाश्च स्वरूपसम्बन्धं वैदान्तिकाश्चतादात्म्यसम्बन्धं व्याचक्षत इति न वैदिकदर्शनानां कश्चिन्मिथो विरोध इति ॥ १०० ॥ सर्वथाऽनुमेया क्रियेति वौद्धस्तं प्रत्याह- "नानुमेयत्यमेव क्रियाया नेदिष्ठस्य तत्तद्वतोरेवापरो- क्षप्रतीतेः ॥ १०१ ॥ कियाया: कर्मणोऽनुमेयत्वमेव केवलंसंयोगविभागलिङ्गकानुमानविष- यत्वमेव नन मन्तव्यम् । कुतः ? नेदिष्ठस्य अतिनिकटवर्तिनः पुरुषस्य तत्तद्धतारेव-क्रियाक्रियावतोरुभयोरप्यपरोक्षमतीतेः-चलतीति प्रत्यक्षोपलब्धे रित्यर्थः ॥ १०१ ॥ समाधानानां क्षित्यादिपञ्चभूतानां परिणामः स्थूलों देह इत्येकदेशि- नस्तान् निराकरोति । "नपाञ्चभौतिकं शरीरं, वहूनामुपादानायोगात्॥१०२॥ शरीरं स्थूलं शरीरं पाश्चभौतिक पञ्चानांसमप्रधानानां क्षित्यादिभू. तानां कार्य न नभवति । कुतः? वहूनां भिन्नजातीयानां बहूनामुपादानायो- गात एक कार्य प्रति समप्रधानभावेनोपादानत्वासंभवादित्यर्थः । तन्तूनां बहुत्वेऽपि समानजातीयत्वान्नदोष इति द्रष्टव्यम् ॥ १०२॥ स्थूलमेवैकं शरीरमिति बाह्यास्तान् प्रत्याह- "न स्थूलमितिनियम आतिवाहिकस्यापि विद्यमान- त्वात्"॥१०३ ॥ स्थूलमितिनियमः = स्थूलमेवैकशरीरमितिनियमो न = नोपपद्यते । कुतः ? आतिवाहिकस्यापि जीवात्मानं पुरुषं देहादेहान्तरमतिवाहयतीत्या- तिवाहिक सूक्ष्म शरीरम् । तस्यापि विद्यमानत्वात् स्थूलाभ्यन्तरे सत्त्वा- दित्यर्थः ।
(१२४) सांख्यदर्शनसूत्रवृत्तौ। लोकवल्लोकान्तरेऽपि निराश्रयस्य पुंसो गमनासंभवात्स्थुलादन्यदाति- वाहिकं शरीरमभ्युपेतव्यमिति रहस्यम् ॥ १३ ॥ अप्राप्तार्थप्रकाशकानीन्द्रियाणीति बौद्धास्तान् परानयते । "नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्रातःसर्वप्राप्तेर्वा"१०४ इन्द्रियाणां चक्षुरादिज्ञानेन्द्रियाणामप्राप्तप्रकाशकत्वम् आत्मासम्बद्धा- विभासकत्वं नन संभवति । कुतः ? अमाप्त प्राप्तिरत्र ज्ञानम् । व्यव- हितवस्तुज्ञानाभावात् , सर्वपाप्तेर्वा व्यवहिताऽव्यवहितसर्ववस्तुज्ञानप्रसंगारे- त्यर्थः ॥ १०४ ॥ नन्वेवं चक्षुरिन्द्रियस्य तैनसत्वमेव सिध्येत्, नाहङ्कारिकत्वम् । लो- के तेजस एव विषयप्रकाशार्थ किरणरूपेण विषयदेशापसर्पणदर्शनात, तत्राह- न तेजोऽपसर्पणातैजसं चक्षुवृत्तितस्तत्सिद्ध" ॥१०॥ तेजोऽपसर्पणाव दूरदेशस्थविषयप्रकाशार्थ किरणरूपेण तेजसोऽपसर्पण- दर्शनाचक्षुः चक्षुरिन्द्रियं तैजसं तेजःकार्य नन्न संभवति । कुतः ? वृत्तितस्तत्सिद्धेः तैजसत्वाभावेऽपितस्यशरीरमपरित्यज्यवृत्तिविशेषेण विष- यदेशापसर्पणोपपत्तेरित्यर्थः । यत्स्वाश्रयमपरित्यज्य बहिरपसर्पति, तनेजसमिति नियमो नास्ति । प्राणानामतैजसत्वेऽपि नासाग्रतो बहिरपसर्पणदर्शनादिति भावः ॥२०५॥ नतु तद्वत्तेरेवासिद्धत्वात्कथं वृत्तितस्तत्सिद्धिस्तत्राह- " प्राप्तार्थप्रकाशलिङ्गावृत्तिसिद्धि: "॥ १०६ ॥ प्राप्तार्थप्रकाशलिङ्गात्-इन्द्रियैः प्राप्तस्य-संबद्धस्यार्थस्य-विषयस्य जाय- मानो यः प्रकाश अर्थीकारःप्रत्ययस्तल्लक्षणाल्लिङ्गाद्धत्तिसिद्धिा-चक्षुरादी- नां तेषां वृत्तेः सिद्धिर्भवतीत्यर्थः । आत्मासबंदममन्द्रियाणि न प्रकाशयन्ति, प्रकाशश्चानुभवसिद्धः ।
पञ्चमोऽध्यायः। (१२५) स एवान्यथानुपपन्नः संवन्धयोजिकां वृत्तिं साधयति । तसिद्धौ च सुतरां ततस्तत्सिद्धिरिति भावः ॥ १०६॥ ननु सा किं विस्फुलिङ्गादिवचक्षुरादिभागविशेपो वा रूपादिवत्तर- णविशेपो था, तबाह- "भागगुणाभ्यां तत्त्वान्तरं वृत्तिःसंबन्धार्थसर्पतीति १०७ वृत्तिः चक्षुरादीन्द्रियाणां विषयः संबन्धप्रयोनिका वृत्तिर्भागगुणाभ्यां तद्विभक्तांशो भागः, गुणः प्रसिद्धो रूपादिस्ताभ्यां द्वाभ्यां तत्त्वान्तरम् अन्यः पदार्थः आहङ्कारिकश्चाक्षुपादिपरिणामविशेष इति यावत् । कुतः ? संवन्धार्थ सर्पतीति-हत्वर्थक इतिः । यस्मादेपा संवन्धार्थम-इन्द्रियार्थ- संयोगाय सर्पति-विषयदेशं गच्छतीत्यर्थः । वृत्तर्विभक्तांशत्वे तद्वारा चक्षुरादीनामर्थसंवन्धो न भवेत्, गुणत्वे चा क्रियत्वात्स्वयं न सत्संबध्नाति सर्पति च । तस्मादाभ्यांताभ्यां तत्त्वान्तरं वृत्तिरिति भावः ॥ १०७॥ नतु चक्षुरादीनां द्रव्यत्वे वृत्तिभिर्विषयदेशोपगमनं संभवति नाहंकारिकत्वे । लोके द्रव्यस्यैव तथात्वदर्शनात, तबाह- "न द्रव्यनियमस्तद्योगात्" ॥ १०८ ॥ न सांख्यानामस्माकं द्रव्यत्वात् क्रियानियमो न। किन्तु तद्योगात्-क्रि- योगाद व्यनियमान्यत्कियायोगि तव्यमिति नियम इत्यर्थः । तथा चेन्द्रियाणामाहंकारिकत्वेऽपि नद्रव्यत्वव्याघात इति भावः।।१०८॥ नन्वत्राहकारिकाणि सन्त्यपीन्द्रियाणि देशान्तरे भौतिकानि भवि- ध्यन्ति । देशभेदवत्कार्यभेदस्यापि संभवात्, तत्राह- "न देशभेदेऽप्यन्योपादानताऽस्मदादिवन्नियमः॥१०९॥ इन्द्रियाणामिति शेषः । चक्षुरादीन्द्रियाणां देशभेदेऽपि ब्राह्मादिदेशवि- शेषेऽपि देशान्तरेऽपीतियावदन्योपादानता अहंकारातिरिक्तभूतोपादानता
( १२६.) सांख्यदर्शनसूत्रवृत्तौ।
भौतिकत्वमिति यावन्न-नास्ति । किन्त्वस्मदादिवनियमः अत्रेव सर्वत्र
तेषामाहारिकत्वनियम इत्यर्थः ॥ १०९ ॥
नन्वेवंतहि कथं वैदिकानां दर्शनान्तरे"भूतभ्य इति भौतिकत्वन्यपदे.
शः? तत्राह-
"निमित्तव्यपदेशात्तद्वयपदेशः॥ ११०॥
निमित्तव्यपदेशात्-उपष्टम्भकत्वानिमित्तभूतेषु तेजआदिभूतेपूपादानतो-
पचारो निमित्तव्यपदेशस्तस्मात्तव्यपदेशः भौतिकत्वव्यपदेश इत्यर्थः ।
यथेन्धनोपष्टम्भेन तदनुगतात्तेजसो जायमानो बहिरिन्धनादहिरि-
ति व्यपदिश्यते । तथा तेजआदिभूतोपष्टम्भेन तदनुगतादहंकाराजाय-
मानानीन्द्रियाणि भूतेभ्य इति व्यपदिश्यन्ते । नोपादानताऽभिप्रायादिति
न दर्शनान्तरविरोध इतिभावः ॥ ११० ॥
अण्डनजरायुजस्वेदनोदिनमिति चतुर्विधं शरीरमिति केचित, तान्
मत्याह-
"ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्कल्पिकसांसिद्धिक
श्वेति न नियम"॥ १११॥
हेत्वर्थकश्चकारः । सर्वेषां भौतिकत्वं समानमिति सूचनाय समाहारसाय-
स्मादूष्मनाण्डजजरायुजोदिज्नसांकल्पिकसांसिदिकम् ऊष्मणो जानं कृमि-
“दशादिशरीरमूष्मजम् । अण्डाज्जातं पक्षिसरीसृपादिशरीरमण्डजम् । गर्भवेष्टनं
चर्म जरायुस्तस्माज्जातंमनुजगवादिशरीरंजरायुनम् । भूमिमुद्भिद्य जातं
तरुगुल्मादिशरीरमुन्दिनम् । सृष्टयादौ मजापतिसङ्कल्पाज्जातमा शरीरं
सांकल्पिकम् । योगसाधनाज्जाता सिद्धिः संसिद्धिस्ततोजातं योगिनां
यथाकामं शरीरं सांसिद्धिकमिति षड्विधं शरीरमिति-अस्मानियमः-
चतुर्विधमेव स्थूलं शरीरमिति नियमो नम्न संभवतीत्यर्थः ॥१.११ ॥
पञ्चमोऽध्यायः। (१२७) नन्वेसर्वेषु लोके पार्थिवत्तव्यपदेशनात्कथं "पाश्चभौतिको देह" इति तृतीये सूत्रितं, तबाह- “सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्वयपदेशः पूर्ववत् "॥ ११२॥ यतोऽत इति शेषः । यस्मात् सर्वेषु-पूर्वोक्तेषु पनिधशरीरेण्वसाधार- ण्या-माधान्यात्पृथिव्युपादानं भूमिरुपादानकारणमितराणि च जलादीनि साधारण्याव,अतस्तव्यपदेशः शरीरेषु तेषु पार्थिवत्वव्यपदेशः तत्रोदाहरणं पूर्ववव यथेन्द्रियेष्वाहकारिकत्वव्यपदेश इत्यर्थः ॥ ११२ ॥ ननु शरीराणां भौतिकत्वे तदन्तर्वर्तिनः प्राणस्यापि भौतिकत्वं किं न स्यात् ? तबाह- "नदेहारम्भकस्यप्राणत्वमिन्द्रियशक्तितस्त सिद्धेः॥ ११३॥ देहारम्भकस्य शरीरोत्पादकस्य भूतपश्चकस्य प्राणत्वमाणोत्पादकत्वं न-नास्ति । कुतः ? इन्द्रियशक्तित: इन्द्रियाणांशक्तिविशेषात्तत्सिद्देः तस्य माणस्योत्पत्तरित्यर्थः ॥ ११३ ॥ नन्वेतानि शरीराणि भोक्ता जीवः कदाधितिष्ठति ? तत्राह- भोक्तुरधिष्ठानान्दोगायतननिर्माणमन्यथापूति- भावप्रसङ्गात् "॥ ११४।। भोक्तु: जीवात्मनः पुरुषस्याधिष्ठानाद अधिष्ठात्रधिष्ठेयभावलक्षणःसम्ब- न्धविशेषोऽधिष्ठान, वस्मात्सतो भोगायतननिर्माण भौतिकाभ्यां शुकशोणि- ताभ्यां भोगायतनस्य-शरीरस्य निर्माणम् आरम्भो भवति । अन्यथा-पुर- स्तात्तदाधिष्ठानाभावे पूतिभावप्रसङ्गाद मृतशरीरवच्छुकशोणितयोस्तयोःपूति त्वमसक्तरित्यर्थः ॥ ११४ ॥ १ सां. भ. ३ सू. १७ ॥ - (१२८) सांख्यदर्शनमयवृती। नतु परमात्मनोऽधिष्ठानाकार्यात्रारम्भश्रुतेः क्यमुच्यते भोनुरधि छानाोगायतननिर्माण, तत्राह- भृत्यद्वारा स्वाम्यधिष्ठितिर्नेकान्तात् गा११५ ॥ भृत्यद्धारा परमात्मना सर्वदाभरणीयत्वाभृत्योनीवात्मापुरुषः । तद्वारा तत्रस्वाम्यधिष्ठितिः-स्वामिनःपरमात्मनोऽधिनम् । 'ये आत्मनि तिष्ठन् ' इति श्रुतेः । नैकान्तान्न साक्षादित्यर्थः भोतारं जीवात्मानं पुरुषमधिष्ठाय जगदधिपतिरीधरस्तदाधिष्ठितं भो ग्यभातमधितिष्ठतीति भावः । यद्वा ननु जीवात्मनः पुरुषस्य कूटस्थत्वेन स्वतो व्यापाराभावात्क यं तत्र तस्णधिष्टानं स्यात् ? तत्राह । भृत्यद्वारा भृत्यतुल्यमत्र बुद्धिस- स्वप्रधानं सूक्ष्म शरीरम् । तदारा तत्र स्वाम्यधिष्ठितिः-स्वामिनः पुरुष. स्याधिष्ठानं नैकान्तावन्न साक्षादित्यर्थः ॥ ११५ ॥ नन्वेवं परमात्मनोऽप्यधिष्ठातृत्वेन सन्निहिततरत्वाद् बुद्धिसत्वसरूम- तावत्तत्सरुपताऽपि जीवात्मनः स्थाव, तंबाह- " समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता" ॥ ११६ ॥ भोक्तुरित्यनुवर्तते । जीवात्मनः पुरुषस्य जायदादौ बुदिसत्त्वसरूपताव समाधिसुषुप्तिमोदेषु-समाधिर्योगः, सुषुप्तिर्निदा, मोक्षो विदेह कैवल्यम् । समाधिश्च सुषुप्तिश्च मोक्षश्च, ते तथा, तेषु ब्रह्मरूपता-परमात्मसरूपता भवतीत्यर्थः । यथाहिनापदादौ बुद्धिधर्मान् दुःखादीन् धारयन् जीवोऽयं बुद्धिरूपः सम्पद्यते यत्रेदमुक्तं भवति 'ध्यायतीव लेलायतीव । वृत्तिसारू प्यमितरत्र ' इत्यादीति । तथैव समाधिसुषुप्तिमोक्षेषु निर्दुःखादीन ब्रह्मधर्मान् धारयन् तत्स्वरूपानन्दमुपभुनानो ब्रह्मरूपः सद्यते । न तद- १३.-अ. ५-या. ७-२२२वृ.अ.६ वा. ३-७॥यो. पा. १सू..।
. पश्चमोऽध्यायः। (१२९) भेदमापद्यते । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसासह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम्। 'संता सोम्य तदा सम्पन्नो भवति । 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । निरञ्जनः परमं साम्यमु- पैति' 'ब्रह्मविदामोति परम्' 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन' इत्यादिश्रुतेरिति मन्तव्यम् ॥ ११६ ॥ ननु ब्रह्मरूपतातील्ये समाधिसुषुप्तिभ्यां मोक्षस्य विशेषो न स्याव, तत्राह- द्वयोः सबीजमन्यत्र तद्धतिः"॥ ११७ ॥ ब्रह्मरूपत्वमित्यनुवर्तते । द्वयोः समाधिसुषुप्त्योः सवीज-क्लेशकर्मादि- वासनान्तेन बन्धवीजेन सहितं ब्रह्मरूपत्वम्, अन्यत्र मोक्षे तु तद्धतिः-तस्य वन्धवीजस्य हानं भवतीत्यर्थः । बन्धीजहानाहानाभ्यां विशेष इति भावः ॥ ११७ ॥ ननु समाधिसुपुप्ती दृष्टे न मोक्षस्तत्राह- द्वयोरिव त्रयस्यापि हष्टत्वान्न तु द्वौ ॥ ११८॥ दयोरिव-समाधिसुषुप्त्योरिवत्रयस्यापि तृतीयस्थमोक्षस्यापिदृष्टत्वात श्रुतिस्मृतिभ्यामवगतत्वान्न तु दौ-न समाधिसुषुप्ती एव स्तोऽपि च मोक्षोऽप्यस्तीत्यर्थः ॥ ११८॥ ननु समाधी क्लेशकर्मादिवासनायाः कौण्ठ्यात्सर्ववृत्तिविलये जीवात्मनः पुरुषस्य ब्रह्मरूपत्वमस्तु । सुषुप्तौ पुनस्तदभावात्कथमस्य ब्रह्मरूपता स्याव, तत्राह- "वासनयाऽनर्थख्यापनं दोषयोगेऽपि न, निमित्तस्य प्रधानबाधकत्वम् ॥ ११९॥ १ कठो. व.६+१०। २ छो. प्र. ६ खं. ८+१ । ३ मुं.३ खं. १-२-३ । ४ ते. . व. अनु. १+१। ५. ज. व अनु. ४-१ ।
- (१३०) सांख्यदर्शनसूनवृत्ती। दोपयोगेऽपि यथा समापी तथा निद्रादोपयोगेऽपि-सुषुप्तावपीति- यावद वासनया केशकर्मादिवासनयाऽनर्थख्यापनम् आत्मातिरिक्तार्थानु- भावनं न न संभवति । कुतः? यतो निमित्तस्य-सुपुप्तिप्रति निमित्तभूतस्य- निद्रादोषस्य प्रधानाधकत्वं ख्याति प्रति प्रधान कारणं वासना, तहाध- कत्वं तदभिभावकत्वमस्तीत्यर्थः । तथा च समाधिवत्सुषुप्तावपि वासनाकोण्ठ्यात्सर्ववृत्तिविलये प्रझरूपता संभवतीति भावः ॥ ११९ ॥ यत्नेनेवादिक्षेपे जायमानादाद्यकर्मणो वेगास्थः संस्कारो जायते ततः कर्म, ततश्च संस्कारः, पुनरप्येवमितिनैयायिकैकदेशिनस्तान्निरा- कुर्वन्नाह- एकः संस्कारः क्रियानिवर्त्तको न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः":॥ १२० ॥ एक: आद्यकर्मनिर्वर्त्यः प्रथम एवं संस्कारः वेगाख्यः संस्कार:- क्रियानिर्वर्तकः यावदिष्वादिपतनंतावक्रियासन्तानस्य जनको, नतु मति- क्रिय-क्रियां क्रियां मति संस्कारभेदाः वेगाख्यसंस्कारभेदाः सन्ति । कुतः? बहुकल्पनाप्रसक्तेःबहुसंस्कारकल्पनामसङ्गादित्यर्थः ॥ १२० ॥ नतु यदुक्तमुन्दिनं भोक्तृशरीरं, तन्न युक्तम् । तत्र शरीरत्वप्रयोनि- काया वाह्यबुद्धेरनुपलम्भात्तत्राह- " न वाह्यबुद्धिनियमो वृक्षगुल्मलतोषधिवनस्पतितृ. णवीरुधादीनामपि भोतमोगायतनत्वं पूर्ववत्" ॥१२१॥ वाह्यबुद्धिनियमः बहिरिन्द्रियजन्यं वाह्यवस्तुविपयंज्ञानं वात्ववाद्धः सा यत्र, तदेव भोक्तशरीरमिति नियमो न-न भवति । किन्तु ज्ञानमात्रम्, अतो वृक्षादिवोरुधन्तानामप्यन्तःसंज्ञवाभोक्तभोगायतनत्वं भोक्तशरीरत्वं पू- ववव ऊष्मजादिवन्मन्तव्यमित्यर्थः ।
- पञ्चमोऽध्यायः। (१३१) लत्र पुष्पाजायमानफलाश्चूतादयस्तरवो वृक्षाः,गुल्माकाराः सोमलता- प्रभृतयो गुल्मलताः, ओषधयः फलपाकान्ता वीहियवादयः,पुष्पाहते जाय- मानफलाःपनलोदुम्बराश्वत्थादयो वृक्षविशेषा वनस्पतयः,नडमभृतीनि तृणा- नि, शाखादिभिर्विस्तृता लता वीरुधः, फलहीनाः केवलपुष्षिणो वृक्षविशेषा आदिपदार्था इति विवेकः ॥ १२१ ॥ तत्र श्रुतिस्मृती प्रमाणयति । स्मृतेश्च ॥ १२२ ॥ वृक्षादीनां भोक्तभोगायतनत्वमित्यनुवर्तते।श्रुतिसमुच्चयाय चः अस्य यदेका शाखां जीवो जहात्यथ सा शुष्यति' इत्यादिश्रुतेः शैरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचकै पक्षि- मृगतां मानसैरन्त्यजातिताम्' इत्यादिस्मृतेश्च वृक्षादीनां भोक्तभो- गायतनत्वमित्यर्थः ॥ १२२ ॥ नतु वृक्षादीनां भोक्तभोगायतनत्वे तेषां लौकिकवैदिककर्माधिकारिता- ऽपि स्यात्तन्नाह- "न देहमात्रतः कर्माधिकारिता, वैशिष्टयश्श्रुते॥१२३॥ देहमानतः शरीरमात्रात्कर्माधिकारिता लौकिकवैदिकर्माधिकारित्वं न-कस्यचिन्न भवति । कुतः ? वैशिष्ट्यश्रुतेः मनुष्यत्वब्राह्मणत्वादिवैशिष्ट्य- स्यापि तत्र श्रवणादित्यर्थः ।। १२३ ॥ नतु समाने देहे कुत एष भेदः तत्राह- "त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभय- देहा:"॥ १२४ ॥ यत इति शेषः । यस्मात् त्रयाणाम् उत्तममध्यमाधमानां सर्वदहिना कर्मदेहोपभोगदेहोभयदेहा इति विधा-त्रिपकारा व्यवस्था-देहव्यवस्थे- त्यर्थः । १ छां. प्र. ६-ख. ११-२।२मनु-अ. १२-श्लोक ८।
- . (१३२) सांख्यदर्शनसूत्रवृत्तौ। तत्र ब्रह्मचारिवानप्रस्थानां कर्मदेहः पश्वादिस्थावरान्तानामुपभोगदेहः। गृहस्थानामुभयदेह इति विवेकः । यद्यपि ब्रह्मादिस्तम्बान्तानां सर्वेषामुपभोगदेहत्वतौल्यात्रिधा विभागों न संभवति, तथापि प्राधान्येनैप विभाग इति विज्ञेयम् ॥ १२४ ॥ ननु चतुर्थाश्रमिणः शरीरं न गणितं, तत्राह- न किश्चिदप्यनुशयिनः॥१२५ ॥ अनुशयिनः मारब्धकर्मावशेषोऽनुशयः, सविद्यते यस्य, तस्य त्यक्तस- र्वकर्मणो विवेकवतः संन्यासिनः किश्चिदपि-पूर्वोक्तेषु त्रिविधशरीरेषु किमपि शरीरं न नास्तीत्यर्थः । उपदेशादिकन्तु तस्य स्वाभाविकी लीलति सर्वमवदातम् ॥ १२५ ॥ ज्ञानेच्छाकृत्यादयोबुद्धिसत्त्वगुणास्तादात्म्यात्पुरुष व्यपदिश्यमाना - द्धिसत्त्वपरिणामविशेषत्वादनित्या इति सिद्धान्तः। तत्रैकस्मिन् कस्मिश्रि- दाश्रये तेषामनित्यत्वदर्शनेऽप्याश्रयान्तरे नित्यत्वं भविष्यति, किमवशेषेण सर्वत्रानित्यत्वाभ्युपगमेनति परेणाशङ्कित पाह- "न बुद्धयादिनित्यत्वमाश्रयविशेषेऽपि वहिवत्॥१२६॥ आश्रयविशेषेऽपिएकाश्रयवदाश्रयान्तरेऽपि बुद्धयादिनित्यत्वं बुद्धिर्ता- नम् । आदिपदेनेच्छाकृत्यादिसंग्रहः । तेषां ज्ञानेच्छाकृत्यादीनां नित्यत्वम्- उत्पत्तिविनाशशून्यत्वं नं-न संभवति । वह्निवत् यथा महानसादावेकत्रा- श्रयेऽनित्यत्वेन दृष्टस्य वढेराश्रयान्तरे न नित्यत्वमित्यर्थः ॥ १२६ ॥ ननु ज्ञानादयो न बुद्धिसत्त्वगुणाः किन्तु जीवगुणाः, जीवाश्च नित्या इति तदूणा अपि नित्याः किं न स्युस्तत्राह- "आश्रयासिद्धश्च ॥ १२७ ॥ न वुद्धयादिनित्यत्वमित्यनुवर्तते । पक्षे पक्षतावच्छेदकाभाव आश्रया- सिद्धिः । पक्षश्चात्र जीवगुणावुद्ध्यादयः, तेषां जीवगुणत्वस्यासिद्धश्च न नित्यगुणत्वेन हेतुना नित्यत्वं सिध्यतीत्यर्थः । १
पञ्चमोऽध्यायः। (१३३)
अत्र वृत्त्यात्मनो ज्ञानस्य नित्यत्वं मतिषिध्यते न स्वरूपभूतस्य
ज्ञानस्येति द्रष्टव्यम् ॥ १२७ ॥
सांसिद्धिकं शरीरमित्युक्तम् । तदुपपत्तये योगसिद्धीरभ्युपाययति ।
"योगसिद्धयोऽप्यौषधादिसिद्धिवन्नापलपनीया:"१२८॥
औषधादिसिद्धिव आदिनामणिमन्त्रतणसि संगृह्यन्ते । तत्मयोगेण
जायमानरोगहरणादिसिद्धिवद् योगसिद्धयोऽपि योगाभ्यासेन जायमाना-
अणिमादिसिद्ध्योऽपि नापलपनीयाः नापोतुमर्हाः सन्तीत्यर्थः ।
औषधादिसिद्धिवत्ता अप्यभ्युपगन्तव्या इति भावः ॥ १२८ ॥
सम्प्रति परमतनिराकरणाध्यायमुपसंहरनन्ते पुरुषसिद्धिमतिकूल-
तया भूतचैतन्यवादिनं चार्वाकं प्रत्याचष्टे ।
न भूतचैतन्यं प्रत्येकादृष्टः सांहत्येऽपि च सांह-
त्येऽपि च ॥ १२९ ॥
अध्यायपरिसमाप्तिपरावीप्सा | भिन्नक्रमश्चः । भूतचैतन्यं भूतानां
वियन्मरुत्तेनोऽम्बुपृथिवीनां चैतन्यं प्रत्येक चेतनत्वं न न दृश्यते।प्रत्येका-
दृष्टश्च एकैकस्मिन्नदर्शनाचसाहत्येऽपि-देहाकारेण परिणते तत्संघातेऽपि
चैतन्यं न युक्तमित्यर्थः।
तृतीयाध्यायेचेदं स्वसिद्धान्तविधयोक्तम् । अत्र च परमतनिराकर-
णायेति न पौनरुक्त्यमिति भाष्यम् ॥ १२९ ॥
स्वसिद्धान्तं दृढीकर्तुं परसिद्धान्तनिर्नयः ।
प्रसङ्गाचात्मसिद्धान्तः पञ्चमेऽस्मिन्निरूपितः॥ १ ॥
इति श्रीमत्परमहंसपरिवानकाचार्योदासीनवात्मारामभगवत्पादशिष्यहरिप्रसा
दकृतायां सांख्यसूत्रवृत्ती परमतनिर्जयाध्यायः पञ्चमः ॥ ५॥
(१३४) सांख्यदर्शनसूत्रवृत्ती । अथ षष्ठोऽध्यायः। पञ्चमाध्यायेन परसिद्धान्तं निराकृत्य चतुर्भिःपूर्वाध्यायनिरूपित- स्यात्मसिद्धान्तस्य स्थूणानिखननन्यायेन पुनः स्थिरीकर्तु पष्ठाध्यायमारभ- माणः पूर्वन्तावदात्मास्तित्वमाह- "अस्त्यात्मा, नास्तित्वसाधनाभावात् " ॥१॥ आत्मा देहेन्द्रियादिसंघातद्रष्टा जीवात्मा पुरुषोऽस्ति विद्यते । कुतः? नास्तित्वसाधनाभावात् तन्नास्तित्वसाधकस्य हेतोरनुपलम्भादित्यर्थः ॥१॥ ननु नास्माभिरात्मा प्रतिषिध्यते, किन्तु तस्यदेहादिव्यतिरिक्तत्वं, तनाह- "देहादिव्यतिरिक्तोऽसौ वैचित्र्या " ॥२॥ असो-जीवात्मा पुरुषो देहादिव्यतिरिका देहादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यो मिनो भवितुमर्हति । कुतः ? वैचित्र्या-ततो विलक्षणत्वादित्यर्थः ।।२।। व्यतिरिक्तले हेत्वन्तरमाह- “षष्ठीव्यपदेशादपि " ॥३॥ देहादिव्यतिरिक्तोऽसावित्यनुवर्तते । भमेदं शरीरं ममेयं बुद्धिरित्यादि- भैदव्यपदेशादपि देहादिव्यतिरिकोऽसौ पुरुष इत्यर्थः ॥ ३ ॥ ननु शिलापुत्रकस्य शरीरं, पुरुषस्य चैतन्यं, राहो शिर इत्यादिव्य- पदेशवदयमपि गौणो व्यपदेशो न मुख्यस्तत्राह- न शिलापुत्रवभिग्राहकमानबाधात् " ॥४॥ शिलापुत्रव-शिलापुत्रकस्य शरीरमित्यादिवन-ममेदं शरीरामित्यादि- व्यपदेशो गौणोन कुतः? धर्मियाहकमानवाधात् धर्मिणः-जीवात्मनः पुरु- पस्य ग्राहक शरीरादिभ्यो भेदेनानुभावकंयन्मानं प्रत्यक्षानुमानशब्दल- क्षणं प्रमाणं, तेन बाधा भेदगौणत्वस्य वाधनादित्यर्थः ।
षष्ठोऽध्यायः। (१३५) शिलापुत्रादौ तु न तद्वाहकमानेन भेदगौणत्वबाध इति भावः ॥४॥ नवस्तु देहादिव्यतिरिक्तः पुमान्, तथापि दुःखिनस्तस्य कृतकृत्यता कथं स्यात् ? तबाह- अत्यन्त दुःखनिवृत्त्या कृतकृत्यता॥५॥ अत्यन्तदुःखनिवृत्या अन्तमतिकान्ता त्रिविधदुःखनिवृत्तिरत्यन्तदुःख- निवृत्तिस्तयैवास्य कृतकृत्यता-कृतकार्य्यता-कृतार्थत्वं भवतीत्यर्थः ॥ ५॥ ननु कस्मादस्य दुःखात्यन्तनिवृत्त्यैव कृतकृत्यता, न सुखावात्या, तत्राह- यथा दुःखात्क्केशः पुरुषस्य न तथा सुखादभि- लापः ॥६॥ यत इति शेषः । यस्मात्पुरुषस्य-भोकुर्जीवात्मनों यथान्येन प्रका- रेण दुःखाद-दुःखसंबन्धात्तशः तद्विषयोदेषस्तथा तेनप्रकारेण सुखा- -सुखसंबन्धादभिलाषः तदिषयः कामो न न भवतीत्यर्थः । सुखाभिलाषतो दुःखद्वेषस्य बलीयस्त्वात्तदत्यन्तनिवृत्तिरेवोत्कटेच्छा- विषयत्वात् परमपुरुषार्थो न सुखावाप्तिरिति भावः ॥ ६ ॥ ननु कस्मादस्य दुःखनिवृत्तिवत्सुखमभिलाषगोचरो न भवति, तत्राह- कुत्रापि कोऽपि सुखीति"॥७॥ इतिहेतौ। यस्मात्कुत्रापि ब्रह्माण्डमध्ये कचिदेव कोअप ब्रह्मादिस्तम्ब- पर्यन्तानां जीवानां मध्ये कश्चिदेव सुखी-सुखभाग्भवतीत्यर्थः ॥ ७ ॥ नन्वतन सुखस्य दौर्लभ्यमायातं नाभिलाषाविषयत्व, तत्राह- तदपि दुःखशबलमिति दुःखपक्षे निःक्षपन्ते विवेचका ८॥ तदपि ब्रह्माण्डमध्ये कदाचित्कुत्रचित्कस्यचित्कथंचिज्जायमानं सुखमाप विवेचकाः विवेकिनो जना दुःखपक्षे दुःखकोटी निःक्षपन्त व्यवस्थापय- न्ते। कुतः १ दुःखशवलमिति हेत्वर्थक इतिः। यतो दुःखसंभिन्नमित्यर्थः।
( १३६) सांख्यदर्शनसूत्रवृत्तौ । यथा विषसंसृष्टमन्नं बुद्धस्याभिलाषगोचरो न भवति तथैव दुःखश- वलत्वात्सुखमपि दुःसनिवृत्तिवदस्यमुमुक्षुपुरुषस्याभिलापगोचरो न भव- तीति भावः ॥ ८ ॥ लनु केवला दुःखनिवृत्तिरपि परमपुरुषार्थो न संगच्छंते, लोके सुखी- स्यां दुःखी न स्यामिति दुःखनिवृत्तिवत्सुखस्याप्यभिलापविषयत्वदर्शनादि- त्याशंक्य दुःखात्यन्तनिवृत्त्या ब्रह्मानन्दोपभोगावश्यभावादभिलापोपपत्तेर- दोष इति तात्पर्येण समादधान आह- सुखलाभाभावादपुरुषार्थत्वमिति चेन द्वै- विध्यात्" ॥९॥ ननु सुखलाभाभावात्-मुक्ती सुखावाप्त्यभावादपुरुषार्थत्व केवलदुःख- निवृत्तेरपि पुरुषार्थत्वं न स्यादिति चेन्न दैविध्यात्-दुःखात्यन्तनिवृत्तिरूप- तया परमपुरुषार्थस्यैकमकारत्वेऽपि तदविनाभूतन ब्रह्मानन्दोपभोगेन तस्य दिप्रकारत्वाभ्युपगमादित्यर्थः । इदमत्रबोध्यम् । यद्यपि सांख्यानां दुःखात्यन्तनिवृत्तिरेवैकः परमपुरु- पार्थो न सुखावाप्तिः, तेषां जायमानसुखमात्रस्य भाकृतत्वेन दुःखशवलतया दुःखवत्परिहार्यत्वात्। तथापि ते मुफ्यवस्थायां जीवात्मनः पुरुषस्य ब्रह्मा- नन्दोपभोग मन्यन्ते 'सोऽश्रुत्ते सर्वान् कामान् सह ब्रह्मणा विपश्चिता 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन' इत्यादिश्रुतेः । स च दुःखात्यन्तनिवृत्तिवनस्वतन्त्रःकश्चित्पुरुषार्थः, पुरु- पुरुषकारेण तस्य साक्षात्साध्यत्वाभावात् । किन्तु दुःखात्यन्तनिवृत्तौ सि- दायामवश्यंभावित्वाचनान्तरीयकः, तेनदैविध्ये सत्यपि प्रधानतः परम-. पुरुषार्थस्यैकत्वान्न पूर्वापरविरोध इति ॥ ९॥ १ ते.. व. अनु. १ । २ है. ब्रह्मा.प.अनु ९।
. षष्ठोऽध्यायः। (१३७) ननु साख्यानां दुःखमात्रस्य बुद्धिधर्मत्वेनात्मनिष्ठत्वासिद्धः कथं तन्नि- वृत्तिरपि परमपुरुषार्थः स्यादिति शंकते । "निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः ॥ १० ॥ नन्वात्मनः-जीवात्मनः पुरुषस्य निर्गुणत्वं-दुःखादिनिखिलगुणसंवन्ध- शून्यत्वं स्वतः सिद्धमस्ति । कुतः ? असङ्गत्वादिश्रुतेः='अंसङ्गोह्ययं पुरुषः' इत्यादिना तस्यासङ्गत्वादिश्रवणादित्यर्थः । यस्य यत्संवन्धो न भूतो न भवति न भविता,तस्य तनिवृत्तिः कथम- भ्यर्थनीया स्यादिति भावः ॥ १० ॥ समाधत्ते। " परधर्मत्वेऽपि तत्सिद्धिरविवेकात् ॥ ११ ॥ परधर्मत्वेऽपि दुःखादेर्बुद्धिसत्त्वधर्मत्वेऽप्यविवेकाव-पूर्वोक्तलक्षणादवि- वैकाइवुद्धिसत्त्वतादात्म्यापत्त्यातसिद्धिः तस्य दुःखादेःपुरुषनिष्ठत्वसि- द्धिरस्तीत्यर्थः। • यथा वह्नितादात्म्याल्लोहस्य दाहादिमत्त्वं, तथा पुरुषस्यापि बुद्धिसत्त्व- तादात्म्यादुःखादिमत्त्वमस्ति, तेन तस्य तदत्यन्तनिवृत्तिः परमाभ्यर्थनी- येति भावः ॥ ११ ॥ नन्वस्त्वविवकमूलकंपुरुषस्य दुःखादिगुणजातमविवेकः पुनः किं- मूलकः ? तत्राह- "अनादिरविवेकोऽन्यथादोषद्वयप्रसक्ते" ॥ १२ ॥ अविवेकः पूर्वोक्तलक्षणोऽविवेकोऽनादिः आदि कारणं, तनविद्यते यस्य, स तथा । कुतः१ अन्यथा दोषद्वयमसक्ते: अन्यथा सादित्वे दोषद्धय- प्रसक्तेः स्वोत्पत्ती कारणान्तरापेक्षायामनवस्था, तदनपेक्षणेचमुक्तस्या- पिपुनर्बन्ध इति दोषद्वयस्य प्रसंगादित्यर्थः ॥ १२ ॥ १६. अ. ५ बा.३-१५ ।
(१३८) सांख्यदर्शनसूबवृत्तौ। .
नन्दनादिश्चदविवेकस्तर्हि नित्यः सेत्स्यति, तत्राह-
न नित्यः स्यादात्मवदन्यथाऽनुच्छित्तेः ॥ १३ ॥
अनादिरविवेक इत्यनुवर्तते। अनादिः सन्नप्यविवेको न नित्यः स्यात-
मागभाववनित्यो न भवेत् । अन्यथा नित्यत्वेत्वात्मवदनुच्छित्तिः यथाऽऽ-
त्मनो नित्यत्वान्नाशो न भवतिातथाऽविवेकस्यापिनाशो न स्यादित्यर्थः १३॥
ना किनाश्यस्त_विवेकः ? तबाह-
"प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् ॥ १४ ॥
अस्य-अविवेकस्यप्रतिनियतकारणनाश्यत्वम् अविवेकनाशंपतियनियतं.
कारणविवेकस्तन्नाश्यत्व, ध्वान्तवत् यथा ध्वान्तस्य तमसःस्वनाशं प्रति
नियतकारणेनालोकेन नाश्यत्वमित्यर्थः ॥ १४॥
ननु ध्वान्तालोकयोरन्वयव्यतिरेकाभ्यां नाश्यनाशकंभावनियमोऽवग-
म्यते न विवेकाविवेकयोस्तत्राह-
" अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् "॥ १५ ॥
अत्रापि ध्वान्तालोकयोरिव विवेकाविवेकयोरपि प्रतिनियमः-नाश्य-
नाशकभावनियमोऽन्वयव्यतिरेका-विवेकसत्वेऽविवेकनाशसत्वम् । विवे-
कासत्वेऽविवेकनाशासत्वमित्यन्वयव्यतिरेकादवगन्तव्य इत्यर्थः ।
शुक्तिरजतादौ तथा दर्शनादिति भावः ॥ १५ ॥
नन्देवं विवेकेनाविवकनाशेऽपि बन्धनिवृत्तौ किमायातं, यत्कृते पुरुषस्य
महान् प्रयत्नस्तत्राह-
प्रकारान्तरासंभवादविवेक एव बन्धः॥ १६ ॥
प्रकारान्तरासंभवात् प्रथमाध्यायोक्तानामविवेकातिरिक्तानां स्वभावादि-
बन्धप्रकाराणामसंभवादविवेक एवं बन्धः बन्धकत्वादन्ध इत्यर्थः ॥१६॥
षष्ठोऽध्यायः। (१३९) नन्दविवेकस्य बन्धवे तनिवृत्तिरूपाया मुक्तेविवेकसाध्यत्वेन कार्य- त्वापत्तौ विनाशावश्यंभावान्मुक्तस्यापि पुनर्वन्धयोगोदुरिणः प्रसन्येत तत्राह- "न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः" ॥ १७ ॥ अपि-मुक्तविवेकसाध्यत्वेऽपि मुक्तस्य-मुलपुरुषस्य पुनर्वन्धयोगः पुन- रविवेकसंवन्धो न न भवति।कुतः अनावृत्तिश्रुतेः "नेच पुनरावर्तते, न च पुनरावर्तते" इत्यादिना तस्यापुनरावृत्तिश्रवणादित्यर्थः ॥१७॥ नतु श्रुतिरुक्ता न युक्तिस्तवाह- "अपुरुषार्थत्वमन्यथा ॥ १८ ॥ अन्यथा मुक्तस्यापि पुनर्बन्धयोगेऽपुरुषार्थत्वं-मुक्तः परमपुरुषार्थत्वं न स्यादित्यर्थः। भाधि क्षयानुसन्धानादिति भावः ॥ १८ ॥ युक्त्यन्तरमाह- "अविशेणापत्तिरूभयोः" ॥१९॥ उभयोः बद्धमुक्तयोर्दयोरविशेषापत्तिः अविशेषत्वं-तुल्यत्वमापद्येते. त्यर्थ:- मुक्तस्य पुनर्वन्धयोगे संसारितो विशेषो न स्यादिति भावः ॥१९॥ ननु का सा मुक्तिर्यल्लामादस्य पुनरावृत्तिर्न भवति? तबाह- " मुक्तिरन्तरायध्वस्तेन पर: ॥ २० ॥ अन्तरायध्वस्ते: अन्तरायोऽविवेकस्तस्य ध्वस्तिः-विवेकेनध्वंसस्त- स्मात्सर अन्यः पदार्थो मुक्तिर्न न भवतीत्यर्थः । अविवेकनिवृत्तिर्मुक्तिरिति भावः ॥ २० ॥ १.छा.प्रपा. ८ खं. १५ ।
(१४०) सांख्यदर्शनसूत्रवृत्तौ।
ननु दुःखात्यन्तनिवृत्तिर्मुक्तिरिति पुरस्तादुत्तम् । इदानीमन्तरायध्व-
स्तिर्मुक्तिरित्युंक्तौ विरोधः स्याव, तत्राह-
"तत्राप्यविरोध: "॥ २१ ॥
तत्रापि अन्तरायध्वस्तिर्मुक्तिरित्युक्तावप्यविरोधा-विरोधोनास्तीत्यर्थः।
निमित्तापाये नैमित्तिकापायस्यार्थसिद्धत्वादिति भावः ॥ २१ ॥
नन्वन्तरायध्वस्तिश्चेन्मुक्तिस्तर्हि सर्वेषां श्रवणमात्रादेव विवेकज्ञाने जाते
सा सेत्स्यति । किं मनननिदिध्यासनादिभिः साधनान्तरैस्तत्राह-
" अधिकारित्रैविध्यान्न नियमः ॥ २२ ॥
अधिकारित्रैविध्यात्-अधिकारिणां-विवेकज्ञानाधिकारिपुरुषाणां त्रैवि-
ध्यात्-उत्तममध्यमाधमभेदेन त्रिप्रकारत्वाननियमः श्रवणमात्रादेव सर्वेषां
दृढ़विवेकज्ञानोदयनियमो नेत्यर्थः ।
असंभावनाविपरीतभावनयोरुपमर्दकत्वादपरोक्ष विवेकज्ञानं दृढामित्या-
ख्यायते । तदेवानादित्वादृढीभूतमविवेक समूलकाकषितुं पारयति, नेत-
रत् । तच्च न सर्वेषांश्रवणमात्रादुत्पत्तुमर्हति । शब्दमात्रस्य परोक्षज्ञानो-
पजननस्वाभाव्यात् । किन्तु भगवदनुगृहीतानां पूर्वजन्माभ्यस्तश्रवणमनन-
निदिध्यासनादिसाधनानां केषां चित्पुण्यात्मनामुत्तमानामेवेति भावः॥२२॥
ननु येषां श्रवणमात्रादिविवेकज्ञानं दृढं नोत्पन्न, तैस्तद्दाढाथ किं
विधेयं ? तत्राह-
"दाढार्थमुत्तरेषाम् ॥ ॥ २३ ॥
दाढाथै-श्रवणाज्जायमानस्य विवेकमत्ययस्यदृढ़ीभावायोत्तरेषां-
श्रवणादुत्तरेषां मनननिदिध्यासनादीनांदीर्घकालनरन्तर्यसत्कारादिपूर्वक
नियमेनानुष्ठान विधयमित्यर्थः ॥ २३ ॥
-
षष्ठोऽध्यायः। (१४१)
नन्वासनाभाव ध्यानादिकंन संभवति तत्र कस्यासनस्य नियमः तत्राह-
" स्थिरमुखमासनमिति न नियमः "॥ २४ ॥
स्थिरसुख-यदेवस्थिरं-निश्चलंसत्सुख-ध्यायिनः सुखावह, तदेवास-
नम् आसनपदवाच्यमिति-अतो ध्यानादौ नियमः कस्य चित्पद्माद्यासन-
विशेषस्य नियतिर्न-नास्तीत्यर्थः ॥ २४ ॥
ननु ध्यानस्य किं लक्षणं । तत्राह-
"ध्यानं निर्विषयं मनः ॥२५॥
निर्विषयं यदात्मातिरिक्तसर्व विषयानिष्कान्तं मनः चाश्चल्यहेतुविष-
यानुरागाभावादात्मैकमत्ययक चित्तं, तळ्यान-ध्यानपदवाच्यं निदिध्यास-
नमिति यावदित्यर्थः।
अत्र ध्यानमित्युक्तौ तदवस्थाभेदः समाधिस्तदवस्थाभेदः संप्रज्ञाता-
दिसमाधिरप्युक्तोभवतीतिद्रष्टव्यम् ॥ २५ ॥
ननु ध्यानाध्यानयोःपुरुषस्यविशेषाभावास्किंध्यानेनेत्याशंक्य विशे-
षमाह-
"उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेष:"॥२६॥
उभयथापि-ध्यानादिकं स्यान वा स्यादुभयप्रकारेणाप्यविशेषः-पुरुषस्य
विशेषो न भवति, निःसङ्गत्वादन्यथा विकारित्वापत्तरिति चेतन्यदिशंकसे,
नैवम् एवं मा शतिष्ठाः । कस्मात् ? यस्मादुपरागनिरोधाद-ध्यानादौं
केशकर्मादिनानाविधवासनालक्षणस्योपरागस्यापगमाद्विशेषः पुरुषस्य विश-
पोऽस्त्येवेत्यर्थः ॥ २६ ॥
ननु निःसङ्गे निर्विकारिणि पुरुषे कथमुपरागस्तत्राह-
" निःसंगेऽप्युपरागोऽविवेकात् ॥ २७ ॥
निःसंगेऽपि केशकर्मादिनानाविधवासनावासितबुद्धिसत्त्वसंसर्गरहितेऽपि
पुरुषेऽविवेकाव-सत्त्वपुरुषानन्यतामत्ययमावलक्षणादविवेकादुपरागः उक्त
वासनलक्षणोपरागोऽस्त्येवेत्यर्थः ॥ २७ ॥
(१४२) सांख्यदर्शनसूत्रवृत्तौ। नतु कीदृशोऽयं पुरुषस्योपरागः? तबाह- जधास्फटिकयोरिव नोपरागः किन्त्वभिमानःणा२८॥ जास्फटिकयोरिव नोपरागः-यथा जास्फटिकयोः परस्परसंसर्गात्स्फ- टिके जवावर्णोपरागो,न तथा सत्त्वपुरुषयोः संसर्गात्पुरुषे वासनोपरागः, कि- न्वभिमान:-बुद्धिसत्वतादात्म्यात्पुरुषस्य तदासनाभिमान इत्यर्थः ॥२८॥ ननु तन्निरोधः किं ध्यानमात्रेण संभवति, तत्राह- "ध्यानधारणाभ्यासवैराग्यादिभिस्तन्निरोधः" ॥ २९ ॥ आदिपदेन दोषदर्शन-यमनियमादिसाधनसंग्रहादोषदर्शनादिना विषयेषु वैराग्यं, तदनु यमनियमादिचित्तस्थैर्यसाधनानुष्ठानमभ्यास, स्तदम्बात्मनि चित्तवन्धो धारणा, तदनु पूर्वोक्तलक्षणं ध्यानादिकमित्येवंविधधारणादिस- हितेनध्यानेनतनिरोधः तस्योक्तलक्षणोपरागस्यनिरोधाभवतीत्यर्थः ॥२९॥ ननु ध्यानादिभिरेभिः किं साक्षादुपरागनिरोधो भवति १ तत्राह- लयविक्षेपयोावृत्त्पत्याचार्याः॥ ३०॥ पूर्वसूत्रं समग्रमनुवर्तते । पूर्वेतियानादिभिर्लयविक्षपयो:-निद्रावृत्तिर्ल- यः,प्रमाणविपर्ययविकल्पस्मृतिलक्षणावृत्तिर्विक्षेपस्तयोर्ध्यावृत्या-निवृत्त्या तन्निवृत्तिद्वारेतियावत्तनिरोधः वासनानिरोधोभवतीत्याचार्याः सांख्याचा- या मन्यन्त इत्यर्थः। तथा च " पवापरावराध इति द्रष्टव्यम् ॥ ३० ॥ ननु लयविक्षपयोावृत्त्यर्थं क ध्यानादिकं कर्तव्यं ? तत्राह- "नस्थाननियमश्चित्तप्रसादात् ॥ ॥ ३१ ॥ चित्तमसादाद-चित्तप्रसन्नतातो ध्यानादिकं भवति । तस्मात्स्थाननि:- माध्यानाद्यर्थ कस्य चित्स्थानविशेषस्य नियमा नन्नास्तीत्यर्थः । यंत्र चित्तप्रसाद आलक्ष्येत, तत्र ध्यानादिकं कर्तव्यमिति भावः॥३१॥.
षष्ठोऽध्यायः। (१४३) ननु येषां बुद्ध्यादीनां तादात्म्यात्पुरुषस्य तद्वासनाभिमानस्तेषु मूलका- रणता कस्यास्ति ? तत्राह- "प्रकृतेराद्योपादानताऽन्येषां तत्का>त्वश्रुतेः" ॥३२॥ आद्योपादानता-प्रथमोपादानकारणता मूलकारणतेति यावत् , प्रकृतेः- त्रिगुणात्मकस्य प्रधानस्य सर्वत्र मन्तव्या । कुतः ? अन्येषां महदादीनां तेषां तत्कायंत्वश्रुतेः 'मोया तुप्रकृति विद्यात् ' इत्यादिना प्रकृ- तिकार्यत्वस्य श्रवणादित्यर्थः ॥ ३२ ॥ ननु पुरुषस्यापिनित्यत्वात्तस्यैवाद्योपादानताऽस्तु, कृतंप्रकृत्या,तत्राह- "नित्यत्वेऽपि नात्मनो,योग्यत्वाभावात्" ॥३३॥ आद्योपादानतेत्यनुवर्तते, आत्मनः पुरुषस्य नित्यत्वेऽपि प्रकृतिवन्नित्यत्वे सत्यप्याद्योपादानता न=न संभवति। कुतः? योग्यत्वाभावाव-तदयोग्यत्वा- दित्यर्थः। न केवलं नित्यत्वमेव तद्योग्यत्वमयोजकं किन्तु परिणामिनित्यत्वं । पुरुषस्य च नित्यत्वेऽपि परिणामिनित्यत्वाभावान्नतयोग्यत्वमितिभावः । गुणवत्त्वं सङ्गित्वञ्चोपादानतायोग्यत्वमिति भाष्यम् ॥ ३३ ॥ ननु केवलात्मनस्तद्योग्यत्वाभावेऽप्यविद्यासहकृतस्य तस्य तद्योग्य- त्वसंभवादसिद्धो हे.स्तत्राह- "श्रुतिविरोधान कुतर्कापसदस्यात्मलाभः ॥ ३४ ॥ कुतर्कापसदस्य इत्थं कुतर्केण-कुत्सिततर्केण वेदविरुदेनतर्केणेति यावदात्मानं जगदुत्पादानकारणं मन्वानस्य ते पुरुषाधमस्यात्मलाभा-अ- खण्डैकरससदात्मप्राप्तिन-न भवेत् । कुतः । श्रुतिविरोधा-'अॅसन्नेव स भवति असद्ब्रह्मेति वेदचेत्' इत्यादिश्रुतिविरोधादित्यर्थः । १ श्वे. अ. ४-१०। २-तै.माल, वल्ली. २ अनु. ६-१ ।
:( १४४) सांख्यदर्शनसूत्रवृत्तौ।
खया कार्यकारणयोस्तादात्म्यस्याभ्युपेतत्वात्कारणस्यात्मनः सरूप-
तोऽसत्त्वाभावेऽपि कार्यात्मनाऽसत्त्वं वक्तव्यं, तदसत्त्वे च कुतस्तल्लाभ इति
भावः ॥ ३४ ॥
ननु स्थावरादिषुसर्वेषुक्षित्यादीनामेवोपादानकारणतादर्शनात्कथं स-
र्वत्र प्रकृतेराद्योपादानता, तबाह-
"पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत्" ॥ ३५ ॥
पारम्पय्येऽपि स्थावरादिषु साक्षात्कारणत्वाभावेऽपि प्रधानानुवृत्तिः
प्रधानस्य प्रकृतेरनुवृत्तिः तेषु कारणतयाऽन्वयोऽस्त्येव । तत्रोदाहरणमणु-
वत् यथा वैनाशिकसमयेऽणूनां परमाणूनां साक्षात्कारणत्वाभावेऽपि सङ्घा-
तादिषु कारणतयानुवृत्तिरित्यर्थः ॥ ३५ ॥
ननु प्रकृतेरायोपादानत्वे निश्चितेऽपि विभुत्वं कुतो निश्चयं ? तत्राह-
"सर्वत्र कार्य्यदर्शनाद्विभुत्वम्" ॥ ३६ ॥
प्रकृतेरिति संबन्धः । सर्वत्र कार्य्यदर्शनात सर्वासु दिक्षु सर्वेषु लोकेषु
तद्विकारोपलम्भात्मकृतेवि त्वं निश्चेतव्यमित्यर्थः ।
अत्र विभुत्वं सापेक्षं मन्तव्यं, ननिरपेक्षं, तस्य परमात्मन्ये वा भ्युप-
गमादिति दिक् ॥ ३६ ॥
ननु प्रकृतर्विभुत्वे तस्या जगत्सर्जनानुकूलक्रियायोगो न भवेत् । कथ-
श्चित्तद्योगे वा तन्त्वादिवदाद्योपादानकारणता न सिध्येव, तत्राह-
"गतियोगेऽप्याद्यकारणताऽहानिरणवत्" ॥३७ ॥
गतियोगेऽपि भगवादच्छया जगत्सर्जनानुकूलक्रियायोगे सत्यपि मक-
तेरायकारणताऽहानिः मूलकारणताया हानिन भवति । अत्रोदाहरणमणु-
वदन्यथा वैनाशिकसमयेऽणूनां परमाणूनां सङ्घातादिसनानुकूलक्रियायो-
गेऽपि मूलकारणताया हानिर्नेत्यर्थः ॥ ३७ ॥
षष्ठोऽध्यायः। (१४५) नतु प्रकृतेर्गतियोगे द्रव्यत्वावश्यंभावात्पृथिव्यादिषु द्रव्येषु क तस्या अन्तर्भावो भविष्यति? तत्राह- "प्रसिद्धाधिक्यं प्रधानस्य न नियमः ॥ ३८ ॥ प्रधानस्य-मकृतेः मसिद्धाधिक्य भसिद्धेभ्यः पृथिव्यादिद्रव्येभ्योऽधि- कत्वमस्ति । मूलकारणत्वात् । अतो न नियमः यदद्व्यं तेन मसि- देम्वेवान्तर्भवितव्यमिति नियमो नेत्यर्थः ॥ ३८ ॥ ननु प्रकृतेर्दव्यत्वे कियावत्सत्त्वादीनामपि तदर्मत्वमेव सिध्येव, तद्रूपत्त्वं, गुणत्वाद, तत्राहं- "सत्त्वादीनामतद्धमत्वं, तद्रूपत्वात्" ॥ ३९ ॥ सत्त्वादीनां सत्त्वरजस्तमसो त्रयाणामतधर्मत्वंअकृतिधर्मत्वं न भवति । कुतः? तद्रूपत्त्वात्म्पकृतिस्वरूपत्वादित्यर्थः । गुणशब्दप्रयोगस्तु तत्र केवलं रज्जुवदन्धनहेतुत्वादिति भावः ॥३९॥ ननु भधानस्य जड़त्वेनात्मोपभोगाभावात् किमर्थं तस्यैषा सृष्टिः? तबाह- "अनुपभोगेऽपिपुमर्थसृष्टिःप्रधानस्योष्ट्रकुङ्कमवहन- वत्"॥४०॥ प्रधानस्य प्रकृतेरनुपभोगेऽपि आत्मोपभोगाभावेऽपिपुमर्थ पुरुषार्थ सृष्टिः-जगतः सर्जनम् । तत्रोदाहरणमुष्टकुङ्कमवहनव-यथोष्ट्रस्यात्मोपभो- गाभावेऽपि पुरुषार्थ कुङ्कुमवहनमित्यर्थः ॥ ४० ॥ नन्वकाकिन्याः प्रकृतेः सृष्टिवैचित्र्यं कुतो जातं? तत्राह- "कर्मवैचित्र्यात्सृष्टिवैचित्र्यम् ॥ ४१ ॥ कर्मवैचित्र्या-अकृतेरेकत्वेऽपि सहकारिभूतानां पुरुषकर्मणां वैचित्र्या त्सृष्टिवैचित्र्यं-तत्सृष्टिवैचित्र्यं जातमित्यर्थः ॥ ४१ ॥ नतुं भवतु कर्मसहकृतात्मघानादिचित्रा सृष्टिः,मलयः पुनः कस्माद- विष्यति । न ह्येकस्मात्कारणाविरुद्धकार्य्यदयं घंटते । तत्राह- - सांख्यदर्शनसूत्रवृत्तौ। "साम्यवैषम्याभ्यां कार्य्यद्वयम्" ॥ ४२ ॥ साम्यवैषम्याभ्यां प्रकृतेरेव समभावविषमभावाभ्यां सरूपविरूपपरिणा- माभ्यामिति यावत्कार्य्यद्वयं-सृष्टिमलयलक्षणं कार्यद्वयं भवतीत्यर्थः । प्रकृतेःसरूपपरिणामात्सलयो विरूपपरिणामाचसृष्टिरितिभावः ॥४२॥ ननु कदा पुनः प्रकृतेः पुरुषार्थ सृष्टिर्न भवति? तत्राह- "विमुक्तबोधान्न स्मृष्टिः प्रधानस्य लोकवत् ॥ १३ ॥ विमुक्तबोधाद-विवके नमुक्तस्यपुरुषस्यविवेकप्रत्ययोदयात्पश्चात् प्रधान- स्य-कृतकाव्याःमकृतेःसृष्टिः-तविवेकिंपुरुषप्रतिजगतःसर्जनं न नभवति, लोकवतन्यथाकृतकार्य्यस्यलोकस्यनपुनःमवर्तनमित्यर्थः ॥ ४३ ॥ नतु प्रकृतेर्व्यापकत्वादन्यान् मति भोगार्थमुपसर्पणे मुक्तस्यापि पुन- भोगो भवेत, संबन्धाविशेषाव, तत्राह- "नान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावाव"॥४४॥ अन्योपसर्पणेपि अन्यानविवकिपुरुषान प्रति प्रकृतेरुपभोगार्थप्रवर्तनेऽपि मुक्तोपभोगः मुक्तस्य पुनरुपभोगो न भवति । कुतः निमित्ताभावाव= भोगनिमित्तस्याविवेकस्याभावादित्यर्थः । अविवेककृतः पुरुषस्योपभोग इति भावः ॥ ४ ॥ नन्बन्योपसर्पणेऽपीत्येतदयुक्तम्, अद्वैतात्मवादिनामस्माकंपुरुषवहुत्वा- भावात्तत्राह- पुरुषबहुत्वंव्यवस्थातः॥४५॥ पुरुषबहुत्वं-पुरुषाणां जीवात्मनां बहुत्वं नानात्वमस्ति । कुतः व्यवं- स्थातः जन्ममरणबन्धमोक्षादिव्यवस्थात इत्यर्थः । अन्यथा व्यवस्था न स्यादिति भावः ॥ ४५ ॥ नतु पुरुषकत्वेऽप्युपाधिबहुत्वाव्यवस्था सेत्स्यति किं पुरुषबहुत्वाभ्यु- पगमेन, तबाह- . षष्ठोऽध्यायः। (१४७) " उपाधिश्चेत्तत्सिद्धो पुनर्वृतम्" ।। ४६ ।। चव-यदि जन्ममरणादिव्यवस्थासिद्ध्यर्थमुपाधिः अविद्यालक्षणोपाधिः साध्यते, तर्हि मा साध्यताम् । कुतः ? यतस्तसिद्धौ-उपाधिसिद्धौ सत्यां पुनते-पुनस्ते दैतं प्रसज्यतेत्यर्थः ॥ ४६ ॥ ननु साध्यमानाउपाधयोऽपि न परमार्थभूताः, किन्त्वाविद्यकाः, तेन तसिद्धावपि न नः पुनर्दैतप्रसङ्गः, तत्राह- द्वाभ्यामपि प्रमाणविरोधः ॥ ४७ ॥ अपि-तथापि दाभ्याम् अविद्या, पुरुष इति द्वाभ्यामभ्युपगताभ्यां सद्भ्यां प्रमाणविरोधः अदतसाधकत्वेनाभिमतेन प्रमाणन विरोधस्त स्या- दित्यर्थः ॥४७॥ किञ्च- "द्वाभ्यामप्यविरोधानपूर्वमुत्तरश्चसाधकाभावात्मा४८॥ द्वाभ्यामप्यविरोधात प्रकृतिपुरुषो चेदविद्यात्मानौ ते, तर्हि दाभ्याम- प्यस्माकं विरोधाभावात्पूर्वम्-उपाधितो जन्ममरणादिव्यवस्थोपपादनं न% न सङ्गन्च्छते । परमार्थतः पुरुषनानात्वाभ्युपगमात् । उत्तरश्च तथा पुरुषा- द्वैतसाधनमपि न-न सङ्गच्छते, साधकाभावात-पुरुषादैतसाधकममाणा- भावादित्यर्थः ॥ १८ ॥ ननु स्वप्रकाशत एवाद्वितीयपुरुषः सेत्स्यति, किं साधकममाणेन, तबाह- "प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः ॥ १९ ॥ प्रकाशतः स्वस्यप्रकाशतस्तत्सिदौ-तस्य-प्रकाशरूपस्याद्वितीयात्मनः स्वस्य सिद्धौ कर्मकर्तृविरोध: एकस्मिन् प्रकाश्यप्रकाशकभावसंबन्धासंभ- वाद् यत्कर्म स एव कर्तेति कर्मकर्तृभावविरोध आपतेदित्यर्थः । अस्मन्मतेतुबुद्धिवृत्त्याख्यममाणाङ्गीकारात्तद्वारा प्रतिविम्वरूपस्य स्व- स्य विम्बरूप स्वस्मिन् सम्बन्धी घटते, यथा सूये जलद्वारा प्रतिविम्बरू- पस्वसंवन्ध इति भाष्यम् ॥ ४९ ॥ - .
(१४८) सांख्यदर्शनसूत्रवृत्तौ। नन्वस्तु तर्हि प्रकाशाश्रयतया तत्सिद्धिः । तत्राह- "जड़व्यावृत्तो जई प्रकाशयति चिद्रूप" ॥ ५० ॥ यत इति शेषः।यस्मान्नड़व्यावृत्तः जाड्यधर्मकात्साक्ष्यभूतादबुद्ध्यादे- भिन्नो नई-जड़जातं प्रकाशयति-भासयति,तस्माञ्चिद्रूपा चित् प्रकाशो ज्ञा- नमित्यनान्तरं, भकाशस्वरूपः पुरुषो न प्रकाशाश्रय इत्यर्थः । तत्र जड़व्यावृत्त इति प्रकाशाश्रयत्वंप्रतिषिद्धं, जई प्रकाशयतीति सर्व- साक्षित्वमुक्त, चिद्रूप इति पुरुषस्वरूपं निर्धारितमिति विवेकः ॥ ५० ॥ नन्वेवमदैतासिद्धः " एषनतिनेति" इति जगनिषेधेनात्मै- कग्राहयन्त्या श्रुत्या विरोधः किन्न स्याव, तत्राह- "न श्रुतिविरोधोरागिणीवैराग्यायतत्सिद्ध" ॥ ५१ ॥ श्रुतिविरोधः पुरुषबहुत्वेऽपि जगनिषेधकश्रुत्या विरोधो ननभवति । कुतः ? रागिणां विषयासक्तचेतसां वैराग्याय-विषयेषु हेयत्वबुयुत्पादनाय तसिद्धः जगनिषेधोपपत्तेरित्यर्थः । जगतोविरक्तःसन्नात्मानंगृह्णातीति श्रुतेराशय इति भावः ॥ ५१ ॥ ननु जगत्सत्यत्वे कल्पनैषा युज्यते, तदेव कुंतः ? तबाह- "जगत्सत्यत्वमदुष्टकारणजन्यत्वाद्वाधकाभा- वात्" ॥५२॥ जगत्सत्यत्वं जगतः महदादिपपञ्चस्यसत्यत्वं त्रिषु कालेषु विद्यमा- नत्वमस्ति । कुतः? अदुष्टकारणजन्यत्वात-निद्रादिदोषयुक्तं कारणं दुष्टका- रणं,तदिन्नमदुष्टकारणं भगवद्भुद्धिसहकृता प्रकृति स्तजन्यत्वं तदुपादेयत्वं, तस्माव-भगवबुद्धिसहकृतप्रकृतिकारणकत्वात्, बाधकाभावा-बाधकज्ञान विषयत्वाभावाच्चैत्यर्थः । तत्रायेनहेतुना स्वामार्थशंखपीतिमादिव्यावृत्तिः, द्वितीयेनशुक्तिरजता- दिव्यावृत्तिरितिविवेकः ॥ ५२ ॥ १-०अ०६-प्रा०२-४ ।
षष्ठोऽध्यायः (१४९) ननु वर्तमानकालेसद्भवपिनगदुत्पत्तेःमाक्कथंसद्भवेत् ? तत्राह- प्रकारान्तरासंभवात्सदुत्पत्तिः" ॥ ५३ ॥ प्रकारान्तरासंभवात् प्रथमाध्यायोकरीत्या प्रकारान्तरस्य संभवाभावा- सदुत्पत्तिा सतः-उत्पत्तेःपूर्व सूक्ष्मरूपेण विद्यमानस्यैव जगतः कारणव्या पारेणोत्पत्तिः अभिव्यक्तिर्भवतीत्यर्थः ॥ ५३ ॥ ननु जगतः सत्यत्वे पुरुषस्य कर्तृत्वमपि सत्यं किन्न स्याव ? तत्राह- "अहंकार: कर्ता न पुरुष" ॥ ५४॥ अहंकारः चित्मतिविम्बसमन्वितमहंकारावस्थापनं बुद्धिसत्त्वमेव क- तो कर्तृत्वाश्रयो, न पुरुषः न पुमान, अपरिणामित्वादित्यर्थः ॥ ५४ ॥ ननु पुरुषस्य कर्तृत्वाभावे भोक्तृत्वमपि न स्यात्, तत्राह- "चिदवसाना भुक्तिस्तत्कर्मार्जितत्वा" ॥५५॥ भुक्तिः सुखदुःखयोरनुभूतिश्चिदवसाना चिति-पुरुषेऽवसान-पर्यवसानं यस्याः सा तथा । कुतः ? तत्कर्मार्जितत्वात् =अहंकारेणासनितंपुरुषे कर्म, तत्कर्म, तेनार्जितत्त्वं-संपादितत्वं, तस्माव-तत्पुरुषीयाहंकारकर्तृ कर्मजन्यत्वादित्यर्थः। यद्यपि कर्तृत्वमिवतत्समकक्षभोक्तृत्वमपिपुरुषस्यनास्ति, तस्यविशिष्ट- धर्मत्वात् । तथाप्यहंकारस्य जड़त्वेन भोक्तृत्त्वासंभवात्तदवसानं चित्येवेति भावः ॥ ५५ ॥ नन्वेवं कर्मणामानन्त्याभोगार्थचन्द्रादिलोकंगतानांततःपुनरावृत्तिर्न स्याव, तत्राह- "चन्द्रादिलोकेऽप्यावृत्तिनिमित्तसद्भावात् ॥५६॥ चन्द्रादिलोकेऽपि भूलोकवञ्चन्द्रादिलोकेगतानामप्यावृत्तिः तल्लोकोचि- तकर्मफलभोगानन्तरं पुनरावत्तिर्भवत्येव । कुतः १ निमित्तसद्भावाव=पुनरावृ- तिनिमित्तस्याविवेककर्मादेः सत्त्वादित्यर्थः ॥ ५६ ॥ .
( १५०) सांख्यदर्शनसूत्रवृत्ती। ननु तल्लोकवासिपुरुपोपदेशात्तत्र गतानांविवकेनाविधकादिनष्टे पुनरावृ- त्तिन भविष्यति, तत्राह- "लोकस्य नोपदेशात्सिद्धिः पूर्ववत्" ।। ५७ ॥ लोकस्य तल्लोकवासिपुरुषस्योपदेशात-उपदेशमात्राव सिद्धिः स्वकर्म. फलोपभोगाथै तल्लोकं गतानां विवेकज्ञाननिष्पत्तिर्न-न संभवति । पूर्ववत यथा पूर्वस्मिन् भूलोके भागासक्तचेतस्कतयोपदेशमात्रावविवेकज्ञाननिष्प- त्तिर्जातत्यर्थः ॥ ५७ ॥ नतु किमर्थन्तर्हि "चन्द्रमसो विद्युतं, तत्पुरुषोऽमानव: स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिप- द्यमाना इमं मानवमावत नावर्तन्ते" इति श्रुतिश्चन्दादिलोक गतानामपुनरावृत्तिमभिधत्ते ? तत्राह- "पारम्पर्येण तत्सिद्धौ विमुक्तिश्श्रुतिः" ॥ ५८ ॥ पारम्पर्येण कथञ्चिदैराग्योदयाच्छ्रवणमनननिदिध्यासनाद्यनुष्ठानपरम्प- स्या तसिद्धौ-विवेकज्ञाननिष्पत्ती सत्यां विमुक्तिश्रुतिः एषाऽपुनरावृत्ति- श्रुतिरित्यर्थः ॥ ५८ ॥ ननु सांख्यानां पुरुषल्याणुत्वेऽपिकूटस्थानित्यतयागतिपरिणामासम्भवाद् कथं तस्यकर्मफलोपभोगार्थ देशविशेषस्य लाभो भवेद, तत्राह- "गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशकाल- लाभो व्योमवत्" ।। ५९॥ . व्यापकत्वेऽपि यथास्वशास्त्रमनुरुन्धतां विभुवादिनां भवतामात्मनो व्या- पकत्वेऽपिशरीरोपाधिसम्बन्धादेशविशेषस्यलाभः, तथैव गतिश्रुतेश्व-स्मृत्य- भ्युच्चयार्थश्वः, गतिमतिपादिकायाः श्रुतेः स्मृतेश्चवशवर्तिनामस्माकं सो ख्यानामुपाधियोगाव-अधिसत्त्वप्रधानलिङ्गशरीरलक्षणोपाधिसंयोगाभोगदे- शकाललाभः स्वकर्मफलोपभोगार्थतदुचितदेशविशेषस्य कालेन लामामाप्तिः १-छो०प्रपा०४-खे० १५+६ ।
षष्ठोऽध्यायः। ( १५१) संभवति । तत्रोपाधिसम्बन्धादेकदेशतो देशान्तरस्य लाभमाचे निदर्शनं व्योमवत् यथाव्योम्नो घटोदश्चनाद्यपाधिसंयोगादेकदेशतो देशान्तरस्य लाभ इत्यर्थः ॥ ५९॥ ननु यथा पुरुषोपभोगार्थ पूर्व तदनधिष्ठित्तस्यैव लोकविशेषस्य सिद्धि- ोयते, तथैव भोगायतनसिद्धिरपि किन्न जायेत ? तत्राह- "अनधिष्ठितस्य पूतिभावप्रसंगान्न तत्सिद्धि"॥ ६०॥ तसिद्धिः तच्छब्दो बुद्धिस्थत्वाभोगायतनमाचष्टे । भोक्तृपुरुषाधिष्ठान विना तस्य भोगायतनस्य सिद्धिः निष्पत्तिन-न संभवति। कुतः? अनधिष्ठित- स्य-भोक्तृपुरुषानाधिष्ठितस्य तदीजभूतस्य शुक्रशोणितस्य पूतिभावप्रसङ्गा पूतित्वमसक्तारैत्यर्थः ॥ ६ ॥ ननु भोक्तृपुरुषादृष्टवशादपूतित्वमसत्तेस्तसिद्धिर्भविष्यति । किंतदाधि- ठानेनेत्याशंक्य समाधत्ते । " अष्टद्वाराचेदसम्बद्धस्यतदसंभवाजलादि- वदडरे " ॥६१॥ न तसिद्धिरित्यनुवर्तते । अदृष्टद्वारा भोक्तृपुरुषादृष्टद्वारा चेव यदि तसिद्धिरित्याशकन्यते, तर्हि न-नाशङ्क्यम्, कुतः१ असम्बदस्य-भोगायतन- वीजभूते शुकशोणिते सम्बन्धरहितस्यादृष्टस्य तदसंभवाव-भोगायतन- सिद्धिहेतुत्वासंभवात् । तत्रोदाहरणंजलादिवदडुरे यथावीनासम्बद्धस्य जलादेखने हेतुत्वं न संभवतीत्यर्थः ॥ ६१ ॥ किश्च- " निर्गुणत्वात्तदसंभवादहंकारधर्मा ह्येते" ॥६२ ।। एते अदृष्टादयोऽहंकारधर्मा हि-अहंकारावस्थापनबुद्धिसत्त्वधर्मा एव १-० अ०६ना०४॥
( १५२) सांख्यदर्शनसूत्रवृत्तौ। सन्ति न पुरुषधर्माः । कुतः ? तदसंभवाव=तेषां पुरुषधर्मत्वसंभवाभावात् । कुतोऽसंभवः ? निर्गुणत्वाव-पुरुषस्य सर्वधर्मासंगित्वाभ्युपगमादित्यर्थः । तथा चादृष्टादीनां पुरुषधर्मत्वासंभवान तत्र तत्संबन्धसंभव इति भावः॥६२॥ नन्वन्तर्हि कथमदृष्टादीनां जीवधर्मत्वव्यपदेश ? तबाह- . "विशिष्टस्यजीवत्वमन्वयव्यतिरेकात् ॥ ॥६३ ॥ विशिष्टस्य अहंकारविशिष्टपुरुषस्य जीवत्वं जीवभावो न तु केवल- पुरुषस्य । कुतः१ अन्वयव्यतिरेकावन्यनाहंमत्ययस्तत्रजीवभावो, यत्र न तंत्र नेत्यन्वयव्यतिरेकादित्यर्थः ॥ वैशिष्टयश्च तच्छायापत्तौतादात्म्यम् । तेनयुक्तोव्यपदेशइतिभावः॥६६॥ ननु जीवस्ययेयंलौकिकवैदिककार्यसिद्धिःसाकिंतस्यात्मतन्त्रा, परत- न्त्रा वा तत्राह- "अहंकारकधीना कार्यसिद्धिर्नेश्वराधीना, प्रमाणा- भावा" ॥६४॥ अहंकारकर्बधीना=पुरुषप्रतिबिम्बसमन्विताहकारकर्तृतन्त्रा कार्यसिद्धिः कार्य कर्म, तस्य लौकिकवैदिककर्मणःसिद्धिः अनुष्ठितिर्विद्यते नेश्वरा- धीना=न परमात्मतन्त्रा । कुतः१ ममाणाभावाद=भोगवत्कार्यसिद्धेरीश्वर- तन्त्रत्वें प्रमाणाभांवादित्यर्थः । कणि स्वतन्त्रो, भोगे परतन्त्रों जीव इति भावः ॥ ६४ ॥ ननु यथानेश्वरतन्त्राकार्यसिद्धिस्तथाहंकारकर्तृतन्त्रापिन, किन्तु नीवा दृष्टतन्त्रा, तत्राह- " अदृष्टोतिवत्समानत्वम् " ॥ ६६ ॥ अदृष्टोद्भूतिववउद्भातिरनुष्ठितिः,नीवादृष्टतन्त्रां कर्मानुष्ठितिरित्युक्तिवत्- षष्ठोऽध्यायः। (१५३) इत्युक्तिसमैवेतियावत्सुरुषपुरुषकारतन्त्रा कर्मानुष्ठितिरित्युक्तिः, नास्ति किश्चि- दन्तरम् । अपि च समानत्वम् उतिदयस्यार्थतस्तुल्यत्वमस्तीत्यर्थः । अदृष्टस्यापि पुरुषपुरुषकारसाध्यकर्मत्वाविशेषादिति भावः ॥ ६५ ॥ ननु पुरुषपुरुषकारसाध्यश्चेदखिलंकर्म, तदादुःखात्यन्तनिवर्तकं प्रकृ- तिपुरुषविवेकात्मकमानसंकर्मास्यपुरुषस्ययथाकामंकुतोनजायत । तत्राह- "महतोऽन्यत्" ॥६६ ।। महतः अनेकजन्माभ्यासपाटवनजायमानशुद्धसत्त्वगुणमयसूक्ष्मतमवु- द्धिसत्त्वतोऽस्यकल्याणभाजःपुरुषोत्तमस्यान्यत्-दुःखफलकेभ्योलौकिकवैदिक काखिलकर्मभ्योविलक्षणंप्रकृतिपुरुषविवेकात्मकंमानसंकर्मोद्भवतीत्यर्थः । तथा च पुरुषपुरुषकारसाध्यमपि प्रकृतिपुरुषविवेकदर्शनं बुद्धितत्त्वमा- लिन्यादस्य पुरुषस्य यथाकामंनोत्पद्यते, तस्मान्मुमुक्षुणाऽनेन तच्छोधनो. पायभूतं यमनियमादिकं यत्नतोऽनुष्ठेयमिति भावः ॥ ६६ ॥ ननु ययोः प्रकृतिपुरुषयोविवेकदर्शनादस्य पुरुषस्य तत्संबन्धोच्छित्ति- पूर्विका दुःखात्यन्तनिवृत्तिः शास्त्रेणोपदिश्यते, तयोः संवन्धः किनिमित्तकः? तकदेशिमतमाह- "कर्मनिमित्तःप्रकृतेःस्वस्वामिभावोऽप्यनादि- बीजाकुरवत्" ॥ ६७ ॥ प्रकृतेः उपलक्षणमेतव, बुद्धिसत्त्वात्मिकायाः प्रकृतेः पुरुषस्य च परस्पर स्वस्वामिभावः प्रकृतभोंग्यत्वात्सुरुषस्य च भोक्तृत्वात्स्वस्वामिभावलक्षणः सं- बन्धः कर्मनिमित्तः कर्मनिमित्तकारणकः, स चापि कर्मनिमित्तोऽपि भीजा- डुरव-बीनारयोरिवानादि: प्रवाहरूपेणकर्मानादित्वादनादिरित्यर्थः ६७ तत्रात्मसंमतं पश्चशिखाचार्याणां मतमाह- "अविवेकनिमित्तीवापश्चशिखः॥ ६८॥ प्रकृतेः स्वस्वामिभाव इत्यनुवर्तते । पूर्वतो भेदसूचनाय वाफारः । मा-
(१५४) सांख्यदर्शनसूत्रवृत्तौ।
तिपुरुषयोरविवेकनिमित्तकः स्वस्वामिभावलक्षणः संवन्ध इति पञ्चशिसः
पञ्चशिवाचार्यो मन्यते इत्यर्थः ॥ ६८ ॥
मतान्तरमाह-
"लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः" ॥६९॥
भकृतेः स्वस्वामिभाव इत्यनुवर्तते। प्रकृतिपुरुषयोः स्वस्वामिभावसंवन्धो.
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यो मन्यत इत्यर्थः ॥ ६९ ॥
उपसंहराति.।
" यद्वातद्वातदुच्छित्तिःपुरुषार्थस्तदुच्छित्तिः
पुरुषार्थः॥ ७० ॥
अध्यायपरिसमाप्त्यर्था वीप्सा । यत्तदिति हेत्वर्थकमव्ययम् । प्रकृतेः
स्वस्वामिभाव इत्यनुवर्तते । यतो वा ततो वा कर्मनिमित्ततो वाऽविवेक-
निमित्ततो वा, लिङ्गशरीरनिमित्ततो वा बुद्धिसत्त्वप्रकृतिपुरुषयोः स्वस्वा-
मिभावः संवन्धोऽस्तु । सर्वथाऽपि तदुच्छिात्तिः विवेकज्ञानं विना दुरुच्छे.
द्यस्य तस्य संबन्धस्योच्छेदः पुरुषार्थः दुःखात्यन्तनिवृत्तिहेतुल्वात्परमपुरु-
पार्थ इत्यर्थः ॥ ७० ॥
आत्मास्तित्वादिमोक्षान्तो विषयोऽपूर्वयुक्तिभिः ॥
स्थूणान्यायेन तन्त्राख्ये पुनः षष्ठे निरूपितः ॥ १॥
कपिलेन प्रणीतेयं वैदिकी सांख्यकप्रपा ॥
मया हरिभक्षादेन वृत्त्या सम्यकपरिष्कृता ॥२॥
यत्प्रसादादियं वृत्तिनित्यं स्थास्यति निश्चला ॥
पहीभावेन. वन्द्योऽसौ विद्यादातेश्वरस्सदा ॥ ३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवा
त्मारामभगवत्पादशिष्यहरिप्रसादकृतायां :
सांख्यसूत्रवृत्तौ तन्वाध्यायः षष्ठः ॥ ६॥
सांख्यसूत्रवैदिकवृत्तेः शुद्धाशुद्धपत्रम् । - पृ० पं० अशुद्धम् १५ ३ कस्याप्यमनु कस्याप्यनु १६ तेषां तत्र सत्त्व प्रकाशः,रजःक्रिया, आवरणं तमः,तेषाश्चमीषां ८ व्यारेत् व्याहरेत् १६ परहंस परमहंस ११ जीजि निजी ८८ स्तन तेन निरस्पति निरस्यति १६ सर्ब सर्व १०८ ३ वेदाना वेदानां ममात्व प्रमाणत्व १११ त्पादकता त्पाद्यता १२१ सज्ञा संज्ञा १' साख्यानां सांख्यानां १४२ दोपदर्शनयमनियमादि दोषदशनादि सङ्ग्रहः साधन सङ्ग्रहः १४२ १५ नपवापरावराधइ न पूर्वापरविरोध इ कचित् तकारस्यदित्वमद्वित्वञ्च स्वयमूह्यम्-