Indian Institute Of Technology Kanpur
Bodhayananam Bahunyahnika Karyaani
Front matter
ओडमने इत्युपात वेदांतरत्न पांडुरंग शास्त्रिणां पुत्रैः
कमलाकर शास्त्रिभिः कृतानि
-
बोधायनानां बहून्याहिक
कार्याणि।
पुस्तककर्तृभिः इदं पुस्तकं कारवार महम्मडन मुद्रणालये
मुद्रयित्वा प्रकाशितं ।
पुस्तककर्तृभिः पुस्तकस्य प्रकाशन पुनर्मुद्रणाधिकाराः
स्वायत्तीकृताः।
प्रथमावृत्तिः ]
[ मूल्यं रूप्यकद्वयम्
विषयानुक्रमः ।। विषयः पृष्ठम् .... प्रस्तावना .... १ .... १ .... .... .... भस्मधारण विधिः प्रातः संध्या संकल्पोच्चारः ब्राह्मणानामनुकरणम् ब्रह्मचारिणां प्रातरग्निकार्य विधिः उपनयन व्रतं १० १० १० १४ ..... .... .... .... .... १५ १७ १७ .... .... .... .... ... ... स्नानकः स्नातकानां प्रानरग्निकार्य विधिः गृहस्थानां प्रातरग्न्यौपांसंन विधिः दिनस्य प्रथमभागकृत्यम् द्विःकार्याणि कृत्यानि ब्रह्मयज्ञः नित्यतर्पणम् दिनस्य द्वितीयभाग कृत्यम् दिनस्य तूंतीयभाग कृत्यम् नित्यस्नानविषये बहूनि कर्माणि माध्याह्न संध्या अथ चतुर्थभाग कृत्यम् पंचायतन पूजा लिंगार्चानां विरोधाः १९ २३ २३ २३ २५ २८ ... ... ... २८ ३८
२
पृष्ठम्
....
....
३८
...
...
विषयः
अथ वैश्वदेव प्रयोगः
अग्निविच्छेद प्रायश्चित्तम्
भोजन विधिः
षष्ठसप्तमाष्टमभाग कृत्यानि
सायं संध्या
अम्मत्पुस्तकेन प्रयोजनम्
...
४५
४५
....
४७
:स्तावन.. प्रयोगमाला ग्राह्या। (१) सूत्रेभ्योऽनुकूलः कोपि उत्तमप्रयोगोयद्यस्ति तर्हि एतत्सू- प्रेभ्योऽसौ उत्तमप्रयोगोऽतीव उपयोगयुक्तः। कुतश्चेत् यदि सामान्य ब्राह्मणाः सूत्राणि लभ तर्हि ते तैः सूत्रैः प्रयोगं रचयितुं न शक्नु वंति। प्रयोगरचनाय वैदिकपरंपरावा बहुशास्त्राध्ययनस्य च प्रयोज- नानि संति। अतः सूत्रभ्योऽनुकूलः कोप्युत्तमप्रयोगो यद्यस्ति तर्हि एतत्सूत्रभ्योऽसौ उत्तमप्रयोगः अतीव उपयोगयुक्तः । (२) स्वलिखितप्रयोगमालायां वेंकटेशभट्टाः। नमो बोधाय नायास्तु सर्वज्ञाय महात्मन। शेषोखिलार्थ विद्यस्य स्मृतः सर्वार्थ बोधकः ॥ ज्योति: शास्त्रं धर्मशास्त्रं कारिका सूत्रमेव च । प्रयोगंश्च समालोक्य वोधायनहितायच ॥ प्रयोगमाला क्रियते ॥ अथाहकप्रयो- गः ॥ अथ बोधायनानां अहग्नुष्ठेयमाह्निक बोधायनकल्पसूत्र धर्मशास्त्र च विचार्य संक्षेपेणोच्यत । भट्टलिखितैः एतच्छोकैः एतद्वाक्यैश्च वयं एवं बोधामः । भट्टलिखित प्रयोगस्य नाम प्रयो माला। एषा प्रयोग माला बोधायनानां कृत अस्ति। अस्यां षोडशसंस्कारादि प्रयोगाः संति । अस्यां बहूनि शास्त्रवचनानि वर्तते । अत: प्रयोगकार वेकटेश भट्टाः शास्त्रपारंगतश्रोत्रिया इति स्पष्टम् । प्रयोगमाला बोधायनानां वेदविद्याः तेषांच धर्मशास्त्राचार विचारान् दर्शकः सूत्रं समालोक्य लिखितः अत एव मूत्रभ्यो नुकूलः अस्मदज्ञातवर्षसंख्यायाः प्राक् लिखितः उत्तमप्रयोगः । प्रयोगमालाया भेदरहितोऽन्यग्रंथोऽधुनापि न प्रसिद्भः । प्रयोगमालया समः अन्यग्रंथोऽधुनापि न प्रसिद्धत्वात् एकदा प्रयोगमाला मुद्रणयंत्रे मुद्रितत्वात् शास्त्रपारंगतश्रोत्रियैश्च लिखि- तत्वात् प्रयोगमालाग्राह्या। विदुषां परस्परभिन्नप्रतिपादनानां कारणानि । क्वचिदेवं भवति । विद्वांसः तदेव विषयमुद्दिश्य यदा पुस्तकानि लिखंति तदा तेषां पुस्तकेषु तद्विषयस्य तेषां परस्परभिन्नप्रतिपाद २ नानि दृश्यते । एतस्य कारणे एवं । तेषां तेषां विदुषां विद्या विद्या- शानं च। पुस्तकानि लिखिते विदुषु विद्यायाः तुल्यप्रमाणं विद्या ज्ञानस्य च तुल्यप्रमाणं नवर्तेते। तयोः विषमप्रमाणे वर्तेते। भेदाना मेतदकं कारणं। कैश्चिद्विद्वद्भिः आत्मनां ग्रंथरचनप्रमाणाय कानिचि च्छालपुस्तकानि लभ्यते । अन्यद्भिः तान्येव शास्त्रपुस्तकानि नलभ्यते । भेदानामेतदपरं कारणं। किंतु तैः सर्वैः उचितानि शास्त्रपुस्तकान्येव प्रयोज्यानि। अन्यपक्षाणां भेदवादग्रहणानि । प्रयोगमालाया भेदरहितत्वेन तद्गतमंत्रान् आचारविचारांश्च प्रति- पादकाः तद्नंथकर्तारः वेंकटेशभट्टाः अधूना न संति । अतः प्रयोग मालाभिमानिभिः तदनुष्ठितैः पंडितैः अन्यपक्षाणां भेदवादग्रहणानि अनुचितानि । अधुना प्रयोगमालायाः भेदरहितत्वेन तद्गतमंत्रान् आचार विचारांश्च प्रतिपादका विद्वांसो यदि संति तदा ते भेदवादान्गृह्णीयुः। बोधायनानां बहून्याहिककार्याणि । वेंकटेशभट्टैः स्वलिखितप्रयोगमालाय बोधायन ब्राह्मणानामाह्निक प्रयोगो दत्तः। आह्निक प्रयोगः बोधायन कल्पसूत्रं धर्मशास्त्रं च विचार्य लिखितः। वयं तदाह्निक प्रयोगाद्वहु विषयान्गृहीत्वा तद्गत दुर्गम प्रसंगान्सुलभशद्वैः कथयित्वा अस्माभिः बोधायन ब्राह्मणानां बहून्याह्निक कार्याणि लिखितानि । परं केषुचिदाह्निक कार्येषु बहु दुर्गमप्रसंगा एव स्पष्टीकृताः। तथापि अस्मल्लिखित बहून्याह्निक कार्याण्युद्दिश्य प्रयोग मालाया अखिला योग्य प्रयोगा उद्धृत्य अत्र प्रयुक्ताः। एष्वखिल प्रयोगेष्वपि एकस्यैवाहिक कार्यस्य असमग्र प्रयोगोत्र प्रदत्तः। अस्मत्पु- स्तके केभ्यश्चित्कार्यभ्योऽस्मभिः संख्याक्रमः न दत्तः। भस्दधारण विधि वेदशास्त्राद्यभ्यासतांबूल भक्षणे तिहास पुराणाद्यभ्यासादीन्यापि आह्निक कार्याणि । एतेभ्यः (१) (२) (३) (४) एवंविधः संख्याक्रमः अस्माभिः न दत्तः । तपां संख्याक्रमाभावोपि तानि अनुष्ठेयानि आह्निककार्याणि । भस्मधारणं अवश्य कुर्यात् । तत्कृतं चेत् पूतो भवति दशपूर्वान्द शाप रानात्मानं चैकविगुंशति पक्तिं पुनाति ब्राह्मणः सायुज्य गुँ सलोकता- माप्नोति । प्रयोगकारः प्रयोगमालायां अस्मल्लिखिताहिककार्यैः समेषु ३ स्वलिखिताह्निककार्येषु कांश्चिमंत्रान् अखिलान् न दत्वा तन्मंत्राणां पठनं कुर्यादिति केवलं सूचितत्वात् अस्माभिः इदानींतनकाल बोधायन ब्राह्मणानां तन्मंत्राभ्यासपद्धतिना तन्मंत्राः अखिलाः अस्मत्पुस्तके दत्ताः। बोधायन शद्वस्यार्थः बोधायन सूत्रकारः बोधायन ब्राह्मणो वा । अस्माभि- लि खितानामाह्निक कार्याणां प्रमाणं प्रयोगमाला । अतः यदा एतदाह्निक कार्याणि ये पठंति तदा यदि ते संशयस्था भवेयुः ततः प्रयोगमालां सम्यग्निरीक्ष्य संशयनिवृत्ता भवेयुः। श्रोत्रियान्यपंडितानां संमतिः । काव्यनिपुणपंडितानां संमतविषयाः प्रयोगमालायां संतीति वयं किंचिद्वोधामः । शिवानंदलहरीनाम काव्यमस्ति । एतत्काव्यकृतशिव- स्तुतिः प्रयोगमालायाः शिवपूजया किंचिदंशेषु सदृशास्ति । शिवानंद लहरी श्लोकाः। किंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः किंचिद्ध्यानसमाधिभिश्च नतिभिः किंचित्कथावर्णनेः॥ किंचित्किंचिदवेक्षणैश्च नुतिभिः किंचिद्दिनेष्वीदृशं यः प्राप्नोति मुदा त्वदर्पितभरो जीवन्समुक्तः खलु ॥१॥ जननमृतयुतानां सेवपादेवतानां न भवति सुखलेशः संशयो नास्ति तत्र ॥ अजनिममृतरूपं सांबमीशं भजते य इह परम सौख्यं ते हि धन्या लभंते ॥२॥ शिव तव परिचर्या संविधानापवर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ॥ सकल भुवनबंधो सञ्चिदानंदसिंधो सदयहृदयगेहे सर्वदा संवसत्वं ॥३॥ एवं । एतत्काव्याय श्रीशाधिराज कलशांबुधिपूर्ण चंद्र पृथ्वीपाल प्रोत्सा- हित श्रीवेगसुधीविरचितं व्याख्यानमप्यस्ति । श्री शालिवाहन शक प्रस्तावनालेखकाः व्ययसंवत्सर वैशाख शुद्ध १० ओड्डमने इत्युपाहकमलाकर शास्त्रिणः १८६८ अंकोला पत्तनम् ॥ श्रीः॥ बोध यनानां बहून्याहिककार्याणि । भस्मधारण विधिः। भस्मधारणं दिनस्य प्रथमभागे कुर्यात् । भस्मधारण मंत्राः । सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः । भवे भवे नातिभवे भवस्वमां भवोद्भ- वाय नमः ॥ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमोरुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्व भूतदमनाय नमो मनोन्मनाय नमः ॥ अघोरेभ्यो थघोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः सर्व शर्वेभ्यो नमस्ते अस्तुरुद्ररूपेभ्यः ॥ तत्पुरुषाय विद्महे महादेवाय धीमहि । नन्नोरुद्रः प्रचोदयात् ॥ ईशानः सर्वविद्यानां ईश्वरः सर्वभूतानां ब्रह्मा धिपति ब्रह्मणोधिपति ब्रह्माशिवोमेऽस्तु सदाशिवोम् ॥ (इत्यभिमंत्र्य ) ॥ त्र्यंबक यजामहे सुगंधिं पुष्टिवर्धनं उर्वारुकमिवबंधनात् मृत्योर्मुक्षियमामृतात् ॥ अग्निरि- तिभस्म ॥ जलमिति भस्म ॥ स्थलमिति भस्म ॥ व्योमेति भस्म ॥ सर्वगुँ हवा इदं भस्म ॥ मनइत्येतानि चक्षुषि भस्मानि ॥ इति अंगानि संमृज्य मध्य 'मानामिकांगुष्ठैः भस्मना त्रिपुडू ललाटे हृदि दोर्द्वद्वे गले कुक्षौ शिरसि कुर्यात् ।। इति भस्मधारण विधिः ।। अयं विधिः न प्रातःसंध्यांतर्गत विषयः । अयं प्रातःसंध्यायाः भिन्नः । इदमाह्नि कार्यं आदौ कृत्वा पश्चात् प्रातःसंध्या कुर्यात् । (१) प्रातः संध्या। गृहेवा नद्यादौवा प्रक्षालित पाणिपादः बद्धशिखः यज्ञोपवीति प्राङ्मुख उपविश्य ॥ अपवित्रः पवित्रो वा सर्वावस्थांगतोपि वा । यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः।। इति विष्णुस्मरणं कृत्वा ॥ ॐ ऋग्वेदाय स्वाहा ॥ यजुर्वेदाय स्वाहा ॥ सामवेदाय स्वाहा ॥ इति त्रिवारं जलंपीत्वा हस्तं प्रक्षाल्य जलं स्पृष्ट्वा प्रतिस्थानं अभिमृशति । सजलेन अंगुष्ठमूलेन अथर्ववेदाय नमः इत्युत्तरोष्ठं परिमृजेत् इतिहासपुराणेभ्यो नमः ॥ इत्यधरोष्ठं ॥ अग्नयेनमः इति २ पाणिना मुखमवाङ्मृजेत् ॥ नक्षत्रेभ्यो नम इति वामपाणिमभ्युक्ष्य विष्णवे नम इति पादावभ्युदय सूर्याय नमः चंद्रमसे नमः इत्यंगुष्ठा नामिकाभ्यां दक्षिण बामनेत्रे संस्पृशेत् ॥ प्राणायनमः अपानायनमः इत्यंगुष्ठतर्जनीभ्यां नासिके दिग्भ्यो नमः दिग्भ्यो नमः इत्यंगुष्ठकनिष्ठिकाभ्यां दक्षिणवामकर्णौ ।। इंद्राय नमः इत्यं- गुष्ठमध्यमाभ्यांबाहू | पृथिव्यै नमः इति पादौ ॥ अंतरिक्षाय नम इति जनुनी ॥ दिवे नम इति गुह्यं ॥ ब्रह्मणे नमः इत्यंगुष्ठेन नाभिं ॥ रुद्राय नम इति पाणित- लेन हृदयं ॥ शिवाय नम इति सर्वाभिरंगुलिभिः शिरः ।। सप्तर्षिभ्यो नम इति सर्वाभिः शिखां स्पृशेत् । एवं सर्वत्र सजलहस्तेन स्पृष्ट्वा ॥ एवमेव पुनराचम्य॥ प्राणायाम कुर्यात् ॥ यया ॥ ॐ भूर्भुवस्सुत्रः ॥ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ॥ धियो योनः प्रचोदयात् ॐ ॥ आपोज्योति रसोमृतं ब्रह्म भूर्भुवः सुवरों ।। इति मंत्रः ।। वामनासिकया वायुं आपूर्व अंगुष्ठ कनिष्ठानामिकाभिर्ना- सिकां पीडयित्वा श्वासं नियम्य मंत्रं कुभके विर्जयित्वा ततः दक्षिणेन श्वासं रेच- येत् ॥ ( कुंभके श्वासनियमनकाले ॥ आपोज्योतिरसोमृतंब्रह्म भूर्भुवः सुवरों ॥ इदं गायत्रीशिरः ) ॥ इति प्राणानायम्य ॥ ममोपात्त दुरित क्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थ प्रातः संध्यामुपासिष्ये ।। इति संकल्प्य ।। मार्जनं कुर्यात् ॥ यथा ॥ ॐ आपोहिष्ठामयो भुवः॥ तान ऊर्जे दधातन ॥ भहेरणाय चक्षसे ॥ इति पादयोः॥ ॐ योवः शिवतमो रसः ।। तस्य भाजयते हनः ॥ उशती रिव मातरः ॥ इति मूर्भ ॥ ॐ तस्मा अरंगमामवो ॥ यच्चक्षयाय जिन्वथ ॥ आपोजनयथाचनः ॥ इति हृदये ॥३॥ ॐ आपोहिष्ठामयो भुवस्तान ऊर्जे दधातन ॥ महेरणाय चक्षसे ।। इति सूर्म ।। ॐ योवः शिवतमो रसस्तस्य भाजयते हनः ॥ उशतीरिव मातरः।। इतिहृदये ।। अतस्मा अंगमामवो यच्चक्षयाय जिन्वय ।। आपोजनययाचनः ॥इति पादयोः॥६.। ॐआपोहिष्टामयो भुवस्तान ऊर्जे दधातन ॥ महेरणाय चक्षसे।। इति हृदये ॥ ॐ योवः शिवतमोरसत्तस्य भाजयते हनः ॥ उशतीरिव मातरः ॥ इति पादयोः ॥ तस्मा अरंगमामवो यच्चक्षयाय जिन्वथ ॥ आपोजनयथाचनः ॥ इति ३ शिरसि ॥९॥ इति नवविधमार्जयित्वा हस्तेन जलमादाय ॥ ॐ सूर्यश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षतां ।। यद्रा त्रिया पापमकार्ष ।।. मनसा वाचा हस्ताभ्यां ॥ पद्यामुदरेण शिश्ना ॥ रात्रिस्तदवलुपतु यत्किंच दुरितं मयि ॥ इदमहं माममृनयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥ इत्यपः पीवा ॥ पूर्ववदद्विराचम्य ॥ द्वात्रिंशन्मार्जनं कुर्यात् ॥ यथा ॥ दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनोमुखाकरत्प्रण आयूक्षितारिषत् ॥ आपोहिष्ठामयो भुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे || शिरसि द्विर्मा- जयेत् ॥ योवः शिवतमो रसस्तस्य भाजयते हनः । उशतीरिव मातरः ॥ तस्मा अरंगमामवो यच्चक्षयाय जिन्वथ । आपोजनयथा चनः ।। मुखे द्विः ।। यचिद्विते विशो यथा प्रदेववरुणवतं । मिनीमसिद्यविद्यवि ।। यत्किचेदं वरुण दैव्येजनेभिद्रोहं मनुष्याश्चरामसि । अचित्तीयत्तव धर्मायुयोपि ममानस्तस्मा देनसो देवरी रिपः ॥ ग्रीवायां द्वे ॥ कितवासो यद्रिरिपुर्नदीवि यद्वाधा सत्य मुजयन्नचिन्न । सर्वानाविण्य शिथिरेव देवाथातस्यामवरूण यासः ॥ हिरण्य वर्णाश्शुचयः पावका यासुजातः कश्यपोयास्चिंद्रः । अग्निया गर्भ दाघिरे विरूपास्तान आपश्शङ्स्योना भवंतु ॥ बाव्हो हूँ ॥ यासाड्राजा वरुणोयाति मव्ये सत्यानृते अवपश्यंजनानाम् । मधुश्चुत इशुचयोयाः पावकास्तान आप- शत्योना भवंतु ॥ यासान्देवादिवि कृण्वंति भक्षया अंतरिक्षे बहुधा भवति । याः पृथिवीं पयसो दंति शुक्रास्तान आशङ्स्योना भवंतु ॥ वक्षसिद्वे ॥ शिवेनमा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशतत्वचमे । सर्वाङ् अग्नीङ् रप्सुषदो .हुवेवो मयिवर्हो बलमो जोनिधत्त ॥ पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातुमा ॥ हृदि द्वे || पुनंतुमा देवजनाः । पुनंतु मनबोधिया । पुनंतु विश्वआयवः ॥ जातवेदः पवित्रवत् । पवित्रेण पुनाहिमा । शुक्रेग देवदीयत् । अग्नेक्रवा क्रत्झ्नु ।। नाभौटे ॥ यत्त पवित्रमाञपि । अग्न विततमंतरा । ब्रह्मतेनपुनीमहे ॥ उभाभ्यां देवसवितः । पवित्रण सवेनच ।
४ इदं ब्रह्मपुनीमहे || पार्श्वयो। ॥ वैश्वदेवी पुनती देव्यागात् यस्यै वही स्तनुवो वीतपृष्ठाः । तया मदंतः सधमाद्येषु । वयग्ङस्थामपतयोरयीणाम् ॥ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणनषिरोमयो भूः । द्यावा पृथिवीपयसा पयोभिः। ऋतावरी यज्ञियमा पुनीताम् ॥ कट्यो· ॥ बृहद्भिः सवितस्तृभिः । वर्षिष्ठे देवमन्मभिः । अग्नेदक्षैः पुनाहिमा ॥ येन देवा अपुनत । येनापो दिव्यंकशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्मपुनीमहे ॥ गुह्यो ॥ यःपावमानी रद्धयेति । ऋषिभिस्संमृतग्डरसं । सर्वग्डसपूतमश्नाति । स्वदितं मातरिश्वना || पावमानीर्यो अद्धयेति । ऋषिभिस्संभृताङरसं । तस्मै सरस्वती दुहे । क्षीरग्डसर्पिमधूदकं ।। ऊोढ़े || पावमानी स्स्वस्त्ययनी: । सुदुघाहि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतग्ङहितं ॥ पावमानीदिशंतुनः ॥ इमल्लोकमथो अमुं । कामा- न्समर्धयंतुनः । देवीदेवैस्समामृताः ॥ जानुनोझै ॥ पावमानी स्स्वस्त्ययनीः । सुदुघाहिधृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्रह्मणेष्वमृतग्ङहितम् ॥ येनदेवाः पत्रित्रेण । आत्मानं पुनंतसदा । तेन सहस्त्रधारेण । पावमान्यः पुनतुमा । जंघयो· ॥ प्राजापत्यं पवित्रम् । शतोद्यामङ् हिरण्मयं । तेन ब्रह्मविदोवयं । पूतं ब्रह्मपुनीमहे ॥ इंद्रःसुनीति सहमापुनातु । सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातुमा । जातेवदा मोर्जयंत्या पुनातु ॥ पादयोढें ॥ भूः। ॐभुवः ॥ पादांगुलिषुढे ॥ ॐ [ सुवः । ॐ भूर्भुवस्सुवः ।। इति सर्वांगे द्वे ॥ इति द्वात्रिंशन्मंत्रैः द्वात्रिंशत्स्थानेषु क्रमेण मार्जयेत् ।। अथाध्यं ॥ अथिनः प्राङ्मुख एव कराभ्यां कृतेन अंगुष्ठवर्जितांजलिना जलमादाय नासाग्रे धृत्वा दक्षिणनासाग्भ्रेण आत्मनः तेजः तस्मिन्संयोज्य गायत्रीमंत्रमुक्त्वा ततः तजलं त्रिवार ऊवं जलमध्यो उत्क्षिपेत् ॥ ( अत्र संकल्पोच्चा:न विद्यते ) ॥ ॐ भूर्भुवस्सुवः । ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि । धियो योनः प्रचोदयात् ॥ एतद्गायत्रीमुक्त्वा जलं त्रिवार ऊर्च उक्षिपेत् । ततः । ॐ आपोज्योतिरसोमृतंब्रह्म भूवन्सुवरोम् । इति गायत्री- ५ शिरसा अंकुशमुद्रया आत्मनः तेजः सूर्यमंडलादाकृष्य वामनासारंध्रेण मूला धारे (नाभौ ) संस्थापयेत् ॥ पुनः जलं गृहीत्वा तेजः संयोज्यतं मंत्रमुक्त्वा पूर्वव दूर्ध्व क्षित्वा । स्वतेजः आत्मनि संस्थापयेत् । इति द्वितीयाध्य । पुनरपि जलं गृहीत्वा तेजः संयोज्य मंत्रमुक्त्वा पूर्ववदृर्व क्षित्वा स्वतेजश्च आत्मनि संस्थापयेत् । इत्य यंत्रयंदत्वा । कालातिक्रमदोषश्चेत् चतुर्थायं दद्यात् ॥ कालातिक्रमदोष परिहारार्थं प्रायश्चित्तायं करिष्ये इति संकल्प्य ॥ जलं गृहीत्वा तेजः संयोज्य । ॐ भूः भुवः सुवः महः जनः तपः सत्यं । ॐ तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात् ॥ ॐ भूः भुवः सुवः महः जनः तपः सत्यं ॥ इत्युक्त्वा जलं क्षिपेत् ॥ ॐ आपोज्योति रसोमृतं ब्रह्मभूर्भुवस्सुवरोम् ॥ इति स्वतेजः आत्मनि संस्थापयेत् ।। ततः ॥ असावादित्यो ब्रह्मेति जलहस्तः प्रदक्षिणं कुर्यात् ।। अपः स्मृष्ट्वा उपविश्य । द्विराचम्य दर्भासनेधूपविश्य (दर्भान् आसने निधाय ) ॥ ऊर्ध्वकेशिविरूपाक्षिमांसशोणित भक्षिणे ॥ तिष्ठ देवि शिख:बद्धे चामुंडेह्यपराजिते ॥ इति शिखां बध्वात्रोपसंहारं कुर्यात् ।। अस्य श्री अलोपसंहारमहामंत्रस्य || ब्रह्माऋषिः गायत्रीछंदः सवितादेवता ॥ सोहमर्कः परंज्योति रर्कज्योति रहंशिवः ॥ आत्मज्योति रहंसूर्यः सर्वज्योति रसोमहों । आवायव्ययावायव्या ।। ययावायव्ययावायव्या ॥ और्वाययवा ॥ हरोसि पाप्मानं मे विद्धि ॥ उत्तिष्ठ देवि गंतव्यं पुनरागमनायच ॥ प्रविश्य देवि गायत्री प्रविश्य हृदयं मम ॥ इत्यंकुशमुद्रया सूर्यमंडलादत्रमाकृष्यस्वात्मन्युपसंहत्य ॥ अंकुशमुद्रालक्षणं । ऋज्वी मध्यमिकां कृत्वा तर्जनीं मध्यपर्वणी संयोज्या- कुंचयीत्कचित् मुद्रेषांकुशसंज्ञिकतिलक्षणम् ॥ इति मंत्रमहोदध्यां व्याख्याकारः । अपसर्पतु येभूता येभूता भूमिसंस्थिताः ॥ ये भूता विघ्नकर्तारस्तेनश्यतु शिवाज्ञया ॥ ( अथ आसनं )। पृथिव्या मेरुपृष्ठऋषिः इति शिरसि ॥ सुतलं धंदः इति मुखे ॥ कूर्मो देवता इति हृदये ॥ आसने विनियोगः ॥ पृथ्वि- त्वया धृतालोकादेवित्वं विष्णुनाघृता ॥ त्वंचधारयमांदेवि पवित्रंकुरुचासनं ॥
कूर्मासनायनमः ।। इत्यासनमभिमंत्र्य ॥ ( इति आसनं ) ॥ अपक्राभंतु भूताद्याः सर्वे ते भूतिभारकाः ॥ सर्वेषामाविरोधेन ब्रह्मकर्मसमारभे ॥ वामपादतले नाथ भूमिमास्फाल्येत्रिधा । साधतालत्रयेनाथ भूतमुच्चाटयेद्गुरु ॥ इति दक्षिण हस्तेन वामपदांगुष्ठं गृहीत्वा तत्पादपाणिना भूमि त्रिरास्फालयेत् ॥ ॐ हीं अस्त्रा- यनमः इति भूतमुत्सार्य ॥ ॐ व्हीपरमात्माद्य शेषगुरुपारंपर्यक्रमेण स्वगुरुपा- दांबुजं यावत्तावत्प्रणोमि ॥ ॐ तीक्ष्णदष्ट्रमहाकाय कल्पांत दहनोपम ।। भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ गुं गुरुभ्यो नमः इति शिरसि ॥ गं गणपये नम इति दक्षिण बाहुमूले ॥ दुं दुर्गाय नम इति वामबाहुमूले ॥ ॐ क्ष क्षेत्रपालाय नम इति जानुनोः ॥ सं सरस्वत्यै नम इति नामेरधः ॥ पं परमात्मने नम इति हृदये ॥ ॐ भूः इति पादयोः । ॐ भुवः इति जानुनोः । ॐ गुंसुव इत्यूर्वोः । ॐ मह इति जठरे । ॐ जन इति कंठे । ॐ तप इति मुखे । ॐ गुं सत्यमितिशिरसि ॥ इति विन्यस्य ॥ प्रणवस्य परब्रह्मऋषिः इति शिरसि । गायत्री छंदः इति मुखे । सविता देवता इति हृदये ॥ ॐ तत्सवितुर्ब्रह्मात्मने अंगुष्ठिकाभ्यां नमः । वरेण्यं विष्ण्वात्मने तर्जनीभ्यां नमः । भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः। धीमहि ईश्वरात्मने अनामिकाभ्यां नमः । धियोयो नस्सदाशिवात्मने कनिष्ठिकाभ्यां नमः । प्रचोदयात्सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥ ॐ तत्सवितु०ने हृदयाय नमः । वरेण्यं ने शिरसे स्वहा । भो०ने शिखायैवषट् । धीमहि०ने कवचायतुं । धियो योनः ०ने नेत्रत्रयाय वौषट् । प्रचोदनल्ने अस्त्राय फट् ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ॥ मंदाराव्हय रोचनां जनजपा खभिमुखरिंदुमद्रत्नोद्यन्मुकुटांशु संत- तचतुर्विशार्ण चित्रातनुः । अंभोजेरिदराहयौ गुणकपालाख्यौच पाशांकु शेष्टाभीतिर्दधतीभवेद्भवभय प्रोत्सारिणी तारिणी। ॐ इत्येकाक्षरं ब्रह्म । अग्नि र्देवता । ब्रह्म इत्याषं । गायत्रं छंदं परमात्मं स्वरूपं । सायुज्यं विनियोग । आयातु वरदा देवी अक्षरब्रह्म संमितं । गायत्री छंदसां मातेदं ब्रह्मजुषस्वमे ।
महः जनः यदहात्कुरुते पापं तदहात्प्रतिमुच्यते । यद्रत्रियात्कुरुते पापं तद्र त्रियात्प्रति- मुच्यते । सर्ववर्णे महादेवि संध्याविध सरस्वति । ओजोसि सहोसि बलमसि भ्राजोसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभुरों । गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छंदऋषीनावाह- यामि श्रियमावाहयामि ॥ गायत्रिया गायत्रीछंदो विश्वामित्रऋषिस्सविता देव- ताग्निर्मुखं ब्रह्माशिरो विष्णुहृदय रुद्रः शिखापृथिवी योनिः प्राणापानव्यानो- दानसमाना सप्राणाश्वेतवर्णा सांख्यायन सगोत्रा गायत्री चतुर्विगु शत्यक्षरा त्रिपदाषट्कुक्षिः पंचशीर्षोपनयने विनियोगः ॥ (इति उदकंक्षित्वा) ॥ ॐ भूः भुवः ॐ [ सुवः तपः ॐ गुं सत्यं ॥ ( इति उच्चारं कृत्वा) ॥ ॐ भूर्भुवस्सुवः ॐ तत्सवितुर्वरेण्यं ॥ भर्गोदेवस्य धीमहि ॥ धियो योनः प्रचोदयात् ॥ ॐ ॥ इति यथाशक्तिजपेत् । ( अत्र गायत्रीजपविषये । याज्ञवल्क्यः। ॐकारं पूर्वमुच्चार्य भूर्भुवः सुवस्तथैवच । गायत्री प्रणवं चांते जप एवमुदाहृतः ॥ गायत्र्याः यथाशक्ति जपसमये केवलं त्रिव्याहृतियुक्तां गायत्री यथाशक्ति जपेत् किंतु सप्तव्याहृतीः न यथाशक्ति जपेत् इति एतेन याज्ञवल्क्यवचनेन व्यक्तं भवति ॥ यथाशक्तिजपेत् इत्यस्य अर्थः अष्टसहस्त्रं अष्टशतं दशवारं वा जपेदिति । किंतु चतुर्थीसप्तमीत्रयोदशीप्रदोषेषु दर्शच दश संख्या । अनध्यायेषु अष्टाविंशतिः । सुदिने यथेष्टं जपेत् । प्रातः संध्यायां सनक्षत्रादारभ्य आसूर्यदर्शनात् नाभिसमौकरौ कृत्वा तिष्ठन् जपेत् ॥ आपिच । ध्यायेत्तु मनसा मंत्रं जिव्हष्ठो न विचालयेत् । न कंपयेत् शिरोमीवं दंतानेव प्रकाशयेदिति ॥) ॐ तत्सवितुर्ब्रह्मात्मने अंगुष्ठिकाभ्यां नमः । वरेण्यं ने तर्जनीभ्यां नमः । भगादेवस्य ० मध्यमाभ्यां नमः । धीमहि ० अनामि- काभ्यां नमः । वियोयो ० कनिष्ठिकाभ्यां नमः । प्रचोदया ० करतलकरपृष्ठाभ्यां नमः । उत्थाय प्राङ्मुखःस्थित्वा हस्ताभ्यां स्वस्तिकं कृत्वा सूर्यमुपतिष्ठते । मित्रस्य चर्षणी धृतः श्रवो देवस्य सानसिं । सत्यं चित्र श्रवस्तमं मित्रो जनान् यातयति प्रजानन्मित्रोदाधारपृथिवीमुतयां ॥ भित्रः कृष्टी रनिमिषाभिचष्ट सत्याय हन्यं धृतवद्विधम ॥ प्रसमित्रमतों अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेन ॥ न हन्यने न जीयते तो तो नैन मगँ हो अश्नोत्यंति तोनदूरात् ॥३॥ ( अन्ये मंत्राः ) । उद्वयंतमसस्परिपस्यंतो ज्योति रुत्तरं । देवं देवत्रा सूर्यमगन्म ब्योति रुत्तमं ॥२॥ उदुल्यं जातवेदसं देव वहंति केतवः । द्दशे विश्वाय सूर्य ॥५॥ चित्रं देवानां उदगादनीकं चक्षुमित्रस्य वरुणस्याग्नः ॥ आप्रा- द्यावापृथिवीअंतरिक्षगुं सूर्य आत्मा जगतस्तस्थुषश्च ॥६॥ इतिषड्भिः सूर्य मुपत्थाय दिश उपतिष्ठते । नमः प्राच्य दिशे याश्चदेवता एतस्यां प्रतिवसं- येताभ्यश्च नमो नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसंत्सताभ्यश्च नमो नमः प्रतिच्यै दिशे याश्चदेवता एतस्यां प्रतिवसंत्येताभ्यश्च नमो नम उदीच्यै दिशे याश्च देवता एतस्यां प्रतिवसंत्येताभ्यश्च नमो नम ऊर्ध्वायै दिशे याश्च देवता एतस्यां प्रतिवसत्येताभ्यश्च नमो नमो धरायै दिशे याश्च देवता एतस्यां प्रतिवसंत्येताभ्यश्च नमो नमोवांतरय दिशे याश्च देवता एतस्यां प्रतिवसत्सेताभ्यश्च नमो नमो गंगायमुनयोर्मध्ये ये वसंति तेमे प्रसन्नात्मानश्चि- रंजीवितं वर्धयति नमो गंगायमुनयोर्मुनिभ्यश्च नमः ॥ नमो ब्रह्मणे नमोऽ स्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ॥ नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥ भद्रन्नो अपिवातयमनः ॥ ॐ शांतिः शांतिः शांतिः ॥ संध्यायै नमः । गायत्र्यै नमः । सावित्र्यै नमः । सरस्वत्यै नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वाभ्यो देवताभ्यो नमः । ऋषिभ्यो नमः मुनिभ्यो नमः गुरुभ्यो नमः । आचार्येभ्यो नमः । ईशानाय नमो गोपितृमातूगुरुदेवताभ्यो नमः ॥ हस्ताभ्यां स्वस्तिकं कृत्वा कर्णो धृत्वामुकप्रवरान्वितामुकगोत्रोत्पन्ना मुकश हमस्मि अहंभो अभिवादये इति भूमिं स्पृष्टवा भिवाद्य । एवं गुर्वा- दीन् अभिवादयेत् ॥ ततोजलिना दक्षिणाभिमुखो यममुपतिष्ठते । यमाय धर्म राजाय मृत्यवे चांतकायच ॥ वैवस्वताय कालाय सर्वभूतक्षयायच ।।
औदुंबराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वे नमः ॥ इति ॥ ततोत्तरमुरवः । ऋतनुं सत्यं परं ब्रह्म पुरुषं कृष्ण पिंगलं । ऊर्वरतं विरूपाक्षं विश्वरूपाय वै नमोनमः । नमो ब्रह्मण्य देवाय गोब्राह्म- णहितायच । जगत्धिताय कृष्णाय गोविंदाय नमो नम. ॥ इति प्रदक्षि- णत्रयं कृत्वा । यां सदा सर्वभूतानि स्थावराणि चराणिच । सायं प्रातर्न मस्यंति सामासंध्याभिरक्षतु । उत्तमे शिखरे जाते भूम्यां पर्वत मूर्धनि । ब्राह्मणेभ्योभ्यनुज्ञाता गच्छ देवियथासुखं । स्तुतो मया वरदा वेदमाता प्रचोदयंति पवने द्विजाता ॥ आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं । मादत्वा प्रजातुं ब्रह्मलोकं ॥ चतुःसागर पर्यंत गोब्राह्मणेभ्यः शुभं भवतु ॥ आकाशात्पतितं नोयं यथागच्छति सागरं । सर्वदेवनमस्कारः केशव प्रतिगच्छति ।। अथोपविश्य । द्विराचभ्य । अष्टाक्षरीपंचाक्षरीज कर्यात् । तद्यथा । साध्यानारायणऋषिः (शिरसि ) गायत्रीछंदः (मुखे ) परमात्मा देवता ( हृदये )। कोलकाय स्वाहा अंगु० नमः। महोत्काय स्वाहा तर्ज० नमः। वीखल्काय स्वाहा मध्य० नमः। जोल्काय स्वाहा अना० नमः । ज्ञानवल्काय स्वाहा कनि० नमः। सहस्त्रवल्काय स्वाहा करतल० नमः । एवं हृदयादिन्यासः ॥ नेत्राभ्यां वौषडितिविशेषः । नेत्रत्रयायेति न वक्तव्यमित्यर्थः । ध्यानं । अर्कोघाभ किरीटान्वितमकरलसकुंडलं दीप्तिराजत्केयूर कौस्तुभाभाशबल रुचिरहारं सपी- तांबरंच । नानारत्नांशुभिन्ना भरणशतयुजं श्रीवराश्लिष्ठवाचं वंदेदोसक्तचक्रां बुरुहदरगदं विश्वबंद्य मुकुंदं ॥ प्रणवपूर्वकं अष्टाक्षरीं गायत्रीं द्विगुणं जपेत् ॥ (प्रणवपूर्वकं अत एव अष्टाक्षरी मित्यर्थः । ॐ नमो नारायणाय इति जपः।।) गायत्री जपो दशवारः कृतश्चत् ॐ नमो नारायणायेति जपः विंशतिवारः कर्तव्यः ॥ वामदेवऋषिः (इति शिरसि)। पंक्ति छंदः ( इति मुखे ) । श्री सद शिवरुद्रो देवता (इति हृदये )। ॐ अंगुष्ठिकाभ्यां नमः । मं मध्यमा०। शि अनामिका०। वां कनिष्ठिका०। यं करतलकर। ॐ हृदयाय ० । नं १० शिरसे० । में शिखायै० । शिं कवचाय० । वां नेत्रत्रया० । यं अस्त्रायफट् ॥ विभ्रदोमिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः सर्वालंकारदीप्तिः सरसिज निलयो व्याघ्रचर्मात्तवासः । ध्येयो मुक्तापरागामृतरसकलितादिप्रभः पंचवक्त्रा- त्र्यक्षः कोटीरकोटीघटिततुहिनरो चिष्कलो तुंगमालिः ॥ प्रणवपूर्वकं पंचाक्षरी गायत्री चतुर्गुणं जपेत् । ( नमः शिवाय. इति पंचाक्षरीजपः को विध इति चेत् ॐ नमःशिवाय इति प्रणवपूर्वकं अस्ति । अत एव प्रणव पूर्वकं पंचाक्षरी इति शब्दयोजनं ॥ ॐ नमःशिवाय इति जपः ॥ ) गायत्री जपः दशवारः कृतश्चेत् ॐ नमःशिगय इति जपः चत्वारिंशद्वारः कर्तव्यः इत्यर्थः ॥ ततः आचम्य (द्विराचम्य ) अनेन प्रातःसंध्यावंदनकर्मणा श्री परमेश्वरः प्रीयताम् ॥ इति प्रातः संध्याविधिः ॥ - आह्निक कचित् प्रसंगोपयोगविषयाः॥ संकल्पोच्चारः ---स द्विविधः । देशकालाभ्यां सहितः । देशकालाभ्यां विना। ब्राह्मणानाम: करणम् इदानींतनकालबोधायन ब्राह्मणाः केषुचिप्रसंगेषु हिरण्यकश्याद्यन्यसूत्रब्राह्मणान् अनुकुवंतीति वयं मन्यामहे । ते द्विर चमनं प्रतिकरिंभं प्रतिकातं च कुर्वति । अनेन कर्मणा श्रीपरमेश्वरः प्रीयतामिति प्रतिकर्मातकथयति । केषुचिन्प्रसंगेषु घंटानादान् कुर्वति । एवं । परं एता- दृशकृत्यानि प्रयोगमालायां न वर्तते । अनुकरणकृत्यानि [ ] एतादृशचिहे दाताग्मः। २) ब्रह्मचारिणां प्रातरग्निकार्यविधिः अथ प्रारग्निकार्य ॥ प्रातःसंध्यां विधाय ब्रह्मचारिणः प्रातरग्निकार्य कुर्वति । यथा । जलगंधषुष्पाक्षतसमिधो गृहित्वा शुचौ सम देशे तथाकृते वा ईषत्प्रागुदक्प्लवे गोचर्ममात्रं चतुरस्त्रं स्थंडिलं गोमयेन उपलिप्य होममंडल ध्यं । विलिख्य कर्ता प्राङ् मुख उपविश्य द्विराचम्य पवित्रपाणिः प्राणानायम्य देश- कालौ संकीर्ल्स प्रातरग्निकार्य कर्तुं स्थल शुद्धयर्थं स्थंडिलोल्लेखनाख्यं कर्म करिष्ये । इति संकल्प्य । स्पऱ्याण उद्धयन्यमानं । अस्था अमे- अप पाप्मानं । यजमानस्य हंतु। शिवान स्संतु । प्रदिशश्चतस्त्रः । शन्नोमाता । पृथिवी तोक साता। इति नवपदैः । मध्येमध्ये पश्चिम पूर्वेषु । तदक्षिण | मध्याग्नेयनि! तिषु । तदुत्तरे । मन्यवा- होम मंडल यव्येशान्येषु । क्रमेण स्फ्ये- नोद्धत्याप उपस्पृश्य ॥ शंनोदेवीरभिष्टय आपो भवंतु पीतये । शंयोरभित्र वंतुनः ॥ इत्यधोमुखेन हस्तेनाद्भिरवोक्ष्य । तत्र सिकताः शुक्लाः अनार्द्राः शुद्धप्रदेशस्थिताः केश कीटतुषभस्मांगारपिपीलिकादिवर्जिताः पंचप्रस्थ संमिता आनीय ॥ देवस्यत्वा सवितुः प्रसवश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां इति सिकतान्युप्य ॥ ताभिररत्निमात्रं समचतुरस्त्रं चतुरंगुलो नतं प्रागुदक्प्लवं स्थंडिलमीशान्यादारभ्येशानपर्यंतं कृत्वा ॥ सुवर्णरजतताम्रशकलव्रीहियव दर्भाणामन्यतममंगुष्ठानामिकाभ्यां गृहीत्वा तस्य मध्ये प्राचीन [ संतत मृजुमुल्लिखेत् । . ॐ ब्रह्मजज्ञानं प्रथम पुरस्ताद्विसीमतः सुरुचो वन आवः । सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विव इति ॥ अथ दक्षि गतः प्राचीनं । नाके सुपर्णमुपयत्पतंतनुं हृदावेनंतो अभ्यचक्षतत्वा । हिरण्यपक्षं वरुणस्यदूतं यमस्य योनौ शकुनं भुरण्यं ॥ इति अप उपस्पृश्य । अथोत्तरतः १२ प्राचीन । आप्यायस्वः समेतुते विश्वतः सोमवृष्णिये। भवाबाः जस्य संगथे । इति पूर्वाग्रास्तितः ।। अथ मध्यादुदीचीनं । यो रुद्रो अग्नो यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु ॥ इत्यप उपस्पृश्य ॥ अथ पश्चादुदीचीनं ॥ इदं विष्णुर्विचक्रमे त्रेधा निदधेपदं । समूहमस्य पा] सुरे इति ॥ अथ प्रागुदीचीनं ॥ इंद्र विश्वा अवीवृधन्त्स- मुद्रव्यचसंगिरः । रथीतम गुँ रथीनां वाजाना मुं सत्पतिं पतिं ॥ इत्युत्तरा- प्रास्तिनः ॥ तत ईशान्यां शकलं निधाय मुष्ठयाभ्युक्ष्य नैऋत्यां दिशित शकलं निरस्य अप उप-पृश्य ॥ विरलमुष्ठया स्थंडिलमभ्युक्ष्य ॥ (एवं स्थल शुद्धिकृत्वा ) । अथ समृद्धं द्वादशांगार युक्तं विधूममग्निं मृन्मयादि पात्रद्वयन संपुटीकृत्य । सुवासिन्याहतं स्थडिलादाग्नेय्यान्निधाय ॥ देवस्यत्वा सवितुः प्रसवेश्विनो बहुभ्यां पूष्णोहस्ताभ्यां । भूर्भुवस्सुवरोम् लौकिकाग्निं प्रतिष्ठाप- यामि ॥ इति आत्माभिमुखं पाणिभ्यां प्रतिष्ठाप्य तत्पत्रे साक्षतजल मासिच्य । ईशान्यां निधाय प्रोक्षितकाष्ठानि निक्षिष्य । वेणुधमन्या प्रज्वाल्य । उपाव रोहजातवेदः पुनस्त्वं देवेभ्यो हव्यं वहनप्रजानन् । आयुः प्रजागं रयिमस्मासुधेहि अजस्रो दीदिहिनो दुरोणे। ॐ भूर्भुवः सुवरों ॥ अग्निं प्रतिष्ठापयामि । इति आत्मन्या रोपितमग्निं दक्षिण नासारंध्रेण विनिर्गतं मत्वा दक्षपाणितलेनादाय तस्मिन्नना संयोज्य ॥ प्राणानायभ्य देशकालौ सकीय ममोपात्तदुरितक्ष पदाराश्रीपरमेश्वरप्रीत्यर्थ प्रातरग्निकार्य करिष्ये इति सकल्प्य जुष्टो- दमूना अतिथिगेणे । इमन्नो यज्ञमुपयाहि विद्वान् । विश्वा अग्न अभियुजो विहत्य । शयता माभराभो जनानी ॥ इत्युपस्थाय । अथाग्नरीशानमारभ्य सजलेन हम्तेन प्रदक्षिणक्रमण ईशानपर्यंत परिसमूह्य पर्युक्ष्य । स्थंडिलाइ शांगुलि मिते देशे दर्भः परिस्तृणाति । ॐ देवस्यत्वा सवितुः प्रसंवश्विनो हुभ्यां पूष्णो हस्ताभ्यां ॥ परिस्तृणामीति पुरस्तादुदगोः षोडशभिः द|ः ॥ ॐ भूर्भुवस्सुवरोम् परिस्तृणामीति दक्षिणतः प्रागौः सप्तदशभिः द|ः ॥ ॐ समिधमग्नौ निधाय । उद्वयं तमसस्परिपश्यंतो ज्योतिरुत्तरं । देवदेवत्रा सूर्यमगन्म ज्योतिरुत्तमं । परिस्तुणामीति पश्चात् उदगनः अष्टादशभिः दर्भः ॥ ॐ अग्न भायाहि वितये गृणानो हव्यदातये । निहोता ससि बर्हिषि ॥ परिस्तृणामीति उत्तरतः प्रागप्रैः सप्तदशभिः दर्भः ॥ इति परिस्तीय ॥ दक्षिणान्दर्भान्यू- मृण्वन् । उपस्पृशं दिव्यं सानस्तूपैः संरमिभिस्ततनस्सूर्यस्य ॥ इति पठेत् । स्थंडिलादष्टांगुलिमिते देशे प्रदक्षिणमग्नि परिषिंचति । अदितेनुमन्यस्वेति प्रसुवात प्रागादिसंमतात्प्रदक्षिणमनिंग परिषिच्य ॥ अस्य पादा = शीर्षे सप्तहस्तासो अस्य ।। त्रिधाबद्धो वृषभो रोरवीति महोदेवो मागु आविवेश ॥ इत्यग्निध्यात्वा । स्थंडिलादेकाद शांगुलिमिते देश गंधपुष्णाक्षतः प्रागाद्यष्टदिक्षु प्रदक्षिणमग्नि अलंकरोति ॥ अग्नेयनमः जात- क्षित् ) ॥ अग्नि प्रज्वलितं वंदे सातवेदं हुताशनं । सुवर्णवर्ण मनलं जुषस्वनः समिधमग्ने अद्यशोचा बृहद्यजतं धूममृण्वन् । उपस्पृश दिव्यं अदितन्वमगुस्थाः । अनुमतेन्वम[स्थाः । सरस्वतेन्वमगुंस्थाः। देवसवितः १३ पश्चिमपरिस्तरणयोरुपरि कुर्यात् । उत्तरा गुंस्तयोरधः ॥ स्वाहा इत्येकां ॐ जुषस्वनस्समिधमग्ने अद्यशोचा बृहद्यजतं धूम प्राचीनं । अनुमतेनुमन्यस्वेति पश्चादुदीचीनगुँ । मन्स्वति उत्तरतः प्राचीनं । देवसवितः ॐ चत्वारि शृंगात्रयो नमः सहोजसे नमः अजिराप्रभवे नमः वैश्वानराय नमः नर्यापसेनमः नमः विसर्पिणे नमः ॥ इति प्रागाद्यष्टदिशु गंधाक्षतादिभिः श्री यज्ञेश्वराय नमः गंधपुष्पाक्षतान्समर्पयामि । (इति अग्नो समिद्धं विश्वतोमुखं ॥ इत्यग्नि प्रणम्य ॥ ॐ भूः स्वाहा अग्नय इदं । ॐ स्वाहा वायव इदं । ॐ सुवः स्वाहा सूर्याय इदं । ॐ भूर्भुवः सुवः प्रजापतय इदं ॥ इत्याज्याक्तचतस्त्र समिधः प्रतिमंत्र हुत्वा । संरश्मिभिस्ततनः सूर्यस्य ॥ अथ प्रदक्षिणमग्नि परिपिंचति । दक्षिणतः सरस्वतेनु पक्तिराधसे अलंकृत्य ॥ भुवः स्वाहा सानस्तोः १५ प्रासावीः ॥ इति पुर्ववत्परिषिच्य । उपोत्थाय तिर्यगभिमुखः स्थित्वा उप- तिष्ठते। यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं । यत्ते अग्ने वर्चस्तनाहं वर्चस्वी भूयासं । यत्ते अग्ने हरस्तेनाहं गुँ हरस्वी भूयासं । मयि मेधां मयिप्रायां मय्यग्नि स्तजो दधातु । मयि मेधां मयिप्रजां मयिइंद्र इद्रियं दधातु | मयिमेधां मयिप्रजां मयिसूर्यो भ्राजो दधातु । इति । अथोपविश्य उपतिष्ठते । मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः ॥ वीरान्मानो रुद्रभा मितोवधी हविष्मतो नमसा विधे मते ॥ इति ।। अथ प्राग्वोदग्वाहुत भस्म गृहीत्वा ॥ ओजोसीति ललाटे । सहोसीति कंठे । बलमसीति दक्षिणभाहुमूले । भ्राजो सीति कंठपृष्ठ । देवानां धामनामासीति नाभौ । विश्वमसि विश्वायुरिति हृदये । सर्वमसि सर्वायु रभिभुरोमिति मूनि ।। इत्युपस्पृश्य ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं हुताशत । यद्भुतंतु मया देव परिपूर्ण तदस्तुते ॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्यवा। यन्यूनमति रिक्तं च तत्सर्व क्षतुमर्हसि ॥ श्रद्धामेधां यशः प्रज्ञां विद्या बुद्धिं श्रियं बलं । आयुष्यं तेज आरोग्यं देहिमे हव्यवाहन ॥ इति प्रार्थ ॥ गोत्राभिवंदनं कृत्वा ॥ [द्विराचम्य] ॥ अनेन प्रातरग्नि कार्यक्रमणा श्री परमेश्वर : प्रीयताम् ।। अथ समारोपणं ॥ याते अग्ने यज्ञियातनूस्तयेह्यारोहात्मात्मानं । अच्छाव- सृनि कृण्वन्नस्मेनर्यापुरूणि । यजो भूत्वा यज्ञमासीद स्वां योनि । वेदोभुव आजायमानः सक्षय एहि ॥ इति दक्षिणपाणिं निष्ठप्य (तप्त्वा ) आत्मनि समारोपयेत् ॥ इति प्रातरग्निकार्यविधिः ॥ ( होममंडलस्य समंतात् प्रागाद्यष्टदिक्षु अश्वन्यपर्णानि इति ज्ञेयं नतु कमलपुष्पाणि ।) अत्र कचित् प्रसंगोपयोग विशयाः॥ उपनयनवतं उपनयना नंतरं बटुः उपनयनव्रतं अरभते । तद्रते स उपनयनाग्नि स्थंडिले रक्षन् तहतं त्र्यहं आचरति । चतुर्थेऽ हनिस उपनयन व्रतस्य विसर्जन करोति । जात स्नातक: ब्रह्मचारी वेदाध्ययनं ब्रह्मचर्यव्रतं वा उभयवा समाप्य समावर्तनाख्यकर्मानंतरं स्नातकः भवति । (३) स्नातकानां प्रातरग्निकार्यविधिः ॥ स्नातकाः प्रातःसंध्यानंतरं समावर्तनप्रसृति विवाहपर्यंत प्रातःकाले प्रातरग्निकार्य कुर्वति । स्नातकानां अग्निकार्यविधिः ब्रह्मचारिणां अग्निकार्य विधिवत् अस्ति । किंतु स्नातकाग्निकार्यविधौ अयं भेदः । तद्यथा । ॐ भूः स्वाहा अग्नय इदं ॥ ॐ भुव स्वाहाः वायव इदं ॥ सुवः स्वाहा सूर्याय इदं ॥ ॐ भूर्भुवः सुत्रः स्वाहा प्रजापतय इदं ॥ एताः चतस्त्रः आहुतीः आज्येन जुहुयात् । नतु समिद्भिः । शेषं समानं । इति स्नातकानां प्रातरनिकायविधिः ॥ (४) गृहस्थानां प्रातरग्न्यौपासनविधिः । गृहस्थः प्रातःसंध्यां विधाय प्रातरौपासनं कुर्यात् । आहुतिना अव- पद्येत पार्वणं पार्वणांतर दिति वचनेन सायमौपासनं प्रातरौपासनविधानसमये प्रातरौपासनेन सह कर्तुं शक्यते ॥ पर्वणि इदं पार्वणं । " पर्व प्रस्तावो- त्सवयोग्रंथौ विषुत्रदादिषु । दर्शप्रतिपत्संधीच तिथिग्रंथ विशेषयोः” इति हैमः । प्रस्तावः योग्यकालः। अत पर्व योग्यकालः । अथ प्रयोगः । बद्ध शिखो बद्धकच्छो यज्ञोपवीति प्राङ्मुख उपविश्य कर्ता द्विराचम्य प्रातर- ग्निकार्यविधौ उक्तवत् स्थलशुद्धिं कृत्वा । परं मंत्रबद्वा तूष्णींवा तिस्त्रस्तिखः रेखा लिखेत् । अथ समृद्धमित्यादि निधाय इत्यंतं कृत्वा । देवस्य० सुवरोम् लौकिकाग्निं प्रतिष्ठापयामि । इति आत्माभिमुखं० प्रचाल्य । ॐ आजुम्हानः सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्ते अध्युत्तरस्मिन् विश्वेदेवा यजमानस्य सीत ॥ उद्बुद्धयस्वाग्ने प्राति जागृह्य नमिष्टापूर्ने सगुं १६ प्राणानायम्य । सृजेथा मपंच । पुनः कृण्वगुंस्त्वा पितरं युवानमन्वातागुंसी त्वायितंतु मेतं ॥ ॐ भूर्भुवः सुवरोम् अग्निं प्रातिष्ठापयामि । इति द्वाभ्यां मंत्राभ्यामारोपित समिधं अग्नौ प्रक्षिप्य । आसनं कृत्वा । आसने उपविश्य इत्यर्थः । देशकालो संकीर्य ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातरौपासनाहुति (सायमौपासनं प्रातरौपासने प्रातरौपास- नेन सह कर्तुं इच्छति चेत् तदा प्रातः सायमोपासनाहतिं तंडुलै हैं.ष्यामि । व्रीहि भि झैष्यामीति व्रीहिणां। इति वक्तव्यं ।) तंडुलै झैष्यामि ॥ व्रीहिभि होयामीति व्रीहिणां ॥ जुष्टोदमूना इति प्रातरग्निकार्थे उक्तवत् ( यत् अग्नि मुखप्रयोगात्स्वीकृतं तदित्यर्थः ) उपस्थाय । प्रातरग्निकार्ये उक्तवत् अग्नि परिसमुह्य पर्युक्ष्य दभैः परिस्तीर्य ॥ होमव्यं पात्रे निधाय । द्वौदर्भी अग्नौ प्रज्वाल्य अभिद्योल्य पुनर्दर्भद्वयं प्रज्वाल्य त्रिःपर्यग्नि कृत्वोत्तरतो निरस्य अप उपस्पृश्य अग्नेः पश्चानिधाय ॥ अदितेनु मन्यस्वेत्यादिभिः प्रागादि समंतं परिषिच्य । अग्नये नमः । जातवेदसे नमः। सहोजसे नमः । अजि- राप्रभवे नमः । वैश्वानराय नमः । नर्यापसे नमः । पंक्तिराधसे नमः । विसर्पिणे नमः । इति गंधपुष्पाक्षतादिभिः प्रागाद्यष्ट दिक्षु प्रदक्षिणमग्निमलं कृत्य । अग्नि प्रज्वलितं० मुखं । इति प्रणम्य । तूष्णीका समिध अग्नो निधाय तस्यामादीप्तायां तत्पश्चिममागे समिध्येव शतान्यूनं होमद्रव्यं गृहीत्वा हस्त बिलेन वामपार्श्वन प्राङ्मुखं प्रबाहुग्जुहोति ॥ ॐ सूर्याय स्वाहा सूर्याय इदं ॥ पूर्वतो भूयसी मवदाय तामुत्तरतोतिहाय समिध्येव पूर्वार्धे हस्तबिलेन वामपार्श्वेन प्रत्यङ्मुग्वं प्रबाहुक् जुहोति ॥ यथा ॥ ॐ प्रजापतय इत्युपांशु स्वाहेत्युच्चैः प्रजापतय इदं इति मनसि अप्रतिमुख प्रबाहुक् जुहोति ।। ( अथ सायं । पूर्ववदवदाय समिधि पश्चिमभागे। ॐ अग्नये स्वाहा । अग्नय इदं ॥ ततो भूयसीमवदाय पूर्व आहुतिं दक्षिणतो तिहाय । ॐ प्रजापतये स्वाहा । प्रजापतय इदं । इति समिधि पूर्वभागे जुहुयात् । ) १७ आहुति परिमाणं । व्रीहिणां वा यवानां वा शतमाहुति रिष्यते । इति । ॐ जुषस्वनः० । अदितन्वम[स्थाः इत्यादि परिषिच्य । यत्ते अग्ने० मयि मेधां० इत्युपस्थाप । अथोपविश्य उपतिष्ठते । मानस्तोंक० । इति । प्रागुत्तरतोवा भस्म गृहीत्वा । ओजीसीति आरभ्य मूर्ध्नि इत्यंत अनामिकया स्पृष्टा । श्रद्धां मेधां इत्याशिषं प्रार्थ । गोत्रण अभिवाद्य । यस्य स्मृत्या च नामोक्त्या तयोयज्ञ क्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदेलमच्युतं ॥ इत्युक्त्वा । [द्विराचम्य ] । अनेन प्रातरौपासनाहुतिकर्मणा श्री परमेश्वरः प्रीयताम् । (साय- मौपासनमपि कृतश्चेत् । अनेन प्रातःसायमौपासनाहुतिकर्मणा श्रीपरमेश्वरः प्रीयताम् ।) ॐ आयंतयोनि ऋत्वियो यतो जातो आरोचथाः । तं जाननग्न आरोहाथा नो वर्धयारयिं । इत्याग्ने पालाशाश्वत्थखादिरी,बीषु वा समारोपणं कुर्यात् ॥ इति प्रातरौपासनविधिः ॥ - दिनस्य प्रथमभागकृत्यम् दिनस्य प्रथमभागे दंतधावनं पाणिपाद प्रक्षालनं प्रातःसंध्यावंदनं अग्निकार्य आपासन न कार्याणि । द्विःकार्याणि कृत्यानि अग्निकार्यमौपासनं च प्रातःसायंच एवंद्वि कार्ये । देवतार्चनं वैश्वदेवबलिहरणं च दिवा रात्रौ च एवं द्विः कार्य । संध्यातुत्रिः कर्तव्या। भोजनं च द्विः कर्तव्यम् । (५) ब्रह्मयज्ञः। तस्यकालः ॥ अष्टधा विभक्त य दिनस्य द्वितीयभागेवा मध्याह्नम्नाना नंतांवा नित्यतर्पणात्प्राग्वा मनुष्ययज्ञानंतरं वा ब्रह्मयज्ञं कुर्यात् । समाचम्म यजुःशाग्वी इत्यादि वचनात् ब्रह्मयज्ञं तर्पणात्प्राक् कुर्यात् । अथ प्रयोगः । कर्ता प्राङ्मुखो भूत्वा द्विराचम्य दर्भासने उपविश्य प्राणानायम्य देशकाली संकीर्त्य ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थ ब्रह्म पज्ञेन यक्ष्ये । इति १८ संकल्प्य । विद्युदसि विद्यमे पाप्मानमृतात्सत्यमुपैभि इत्यपः स्पृष्ट्वा त्रिराचम्य द्विरन्मृज्य (द्विः परिमृज्य ) वामकरं प्रोक्ष्य शिरश्चक्षुषी नासिके श्रोत्रे हृदय मालभ्य वामपादोपरि दक्षिणपादं प्रतिष्ठाप्य दक्षिणजानपरि सपवित्रे संहतो प्राङ्मुखो पाणी निधाय ॥ ॐ भूर्भुवः सुवः । तत्सवितुर्वरेण्यं । भर्गोदेवस्य धीमहि । धियो योनः प्रचोदयात् ॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देव- मृत्विजं ॥ होतारं रत्न धातमं ॥ ॐ इषेत्वो त्वा वायवस्थो पायवस्थ देवोवः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमप्निया देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मामावस्तेन ईशतमाघशग्ड्सो रुद्रस्य हेतिः परिवो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बहीर्यजमानस्य पशून्पाहि ।। यज्ञस्य घोषदसि प्रत्युष्ठग्ङ् रक्षः प्रत्युष्ठा अरातयः प्रेयमगाद्धिषणा बर्हि रच्छ मनुना कृता स्वधया वितष्ठात आवहंति कवयः पुरस्ताद्देवेभ्यो जुष्ठ मिहबर्हिरासदे देवानां परिषूनमसि वर्षवृद्धमसि देवबर्हि मात्वान्वङ्मा तियपर्वते राध्या समाच्छेत्ताते मारिपन्देव बहिः शतवल्शं विरोहसहस्त्रवल्शा विवयग्ङ् रुहेम पृथिव्याः संपृचः पाहि सुसंभृता त्वा संभराम्यदित्यै रास्ना- सीन्द्राण्यै सन्नहनं पूषाते ग्रंथिं प्रथ्नातु सते मास्थादिंद्रस्यत्वा बाहुभ्यामुद्यच्छे बृहस्पते मूर्ना हरांम्युर्वंतरिक्षमन्विहि देवं गममसि ॥ ॐ शुधध्वं देव्याय कर्मणे देवयज्याय मातरिश्वनो धर्मोसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृग्हस्व माह्वावसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्त्रधारग्ङ् हुतस्तोको हुतोद्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवी- भ्याग्ङ्सा विश्वायुस्सा विश्वव्यचास्सा विश्वकर्मा संपृच्यध्वमृतावरी रूमिणी मधुमत्तमा मंद्राधनस्य सातये सोमेन त्वाऽऽतनच्मीन्द्राय दधिविष्णो हव्यग्ङ् रक्षख ॥ अग्न आयाहि वीतये गृणानो हव्यदातये ॥ निहोता सत्सिबर्हिषि ॥ शंनो देहीरभिष्टय आपो भवंतुपीतये । शंयो रभित्रवंतुनः ॥ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाग्ङ् रेताग्ङ्सि जिन्वति ॥ ॐ यद्देवा देव १९ हेळनं देवासश्च कृमावयं । आदित्या स्तस्मान्मामुंचतर्त स्यर्ते नमामित ॥ अथशिक्षा प्रवक्ष्यामि । अमावास्येन वा पौर्णमास्येन वा हविषा यक्ष्यमाणो भवति । वृद्धिरादैच् । समाम्नायः समाम्नातः । मयरसतजभनलग सम्मितं । पंचसंवत्सरमयं ॥ गौः ॥ ग्मा ॥ उमा ॥ योगीश्वरं याज्ञवल्क्यं ॥ नारायणं नमस्कृत्य ॥ अथातो धर्मजिज्ञासा ॥ अथातो ब्रह्मजिज्ञासा ॥ इति पठित्वा ।। ( अथवा अशक्तश्चेत् ॥ ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात् ॥ इमां गायत्री यथाशक्ति जपित्वा । ॐ नमो ब्रह्मणे नमोऽस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥ ॐ नमो ब्रह्मणे नमोऽस्त्वग्नये. बृहते करोमि || ॐ नमो ब्रह्माणे० बृहते करोमि ॥ इति पठित्वा ॥) वृष्टिरसि वृश्चमे पाप्मान मृतात्सल्य मुपागां । इत्यपः स्पृष्ठा ॥ शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभते । ( इत्यपः तेषुस्थानेषु स्पृष्ट्वा इत्यर्थः ) ॥ द्विराचम्य । [अनेन ब्रह्मयज्ञ कर्मणा श्री परमेश्वरः प्रीयताम् ] || ततः नित्यतर्पणं कुर्यात् । (६) नित्यतर्पणम् । अथ प्रयोगः। द्विराचम्य प्राणानायम्य देशकालौ संकीर्त्य ममोपात्त दुरितक्षयद्वारा श्री परमेश्वरप्रीत्यर्थं देवऋषि पितृप्रीत्यर्थं देवर्षि पितृतर्पणं करिष्ये। इति संकल्प्य । पूर्वाभिमुखोंगुल्यग्रेण देवतीर्थेन ( अनेन देवकर्मणा । इदं देवकर्मकृत्वा इत्यर्थः । ) देवतांस्तर्प येत् । ब्रह्मादयोये देवास्तां देवांस्तर्प यामि । भूर्देवांस्तर्पयामि । भुवर्देवांस्त० । सुवः देवास्तर्प० । भूर्भुवः सुवः देवांस्तर्प०॥ अथ निवीत्युदङ् मुखोंगुली मूलेन वामपार्श्वन ऋषितीर्थेन ऋषीन् द्विस्तिर्प येत् । कृष्णद्वैपायनादयो येऋषयस्ता नृषीस्तपयामि तर्प- यामि । भूर्ऋषींस्तर्प० तप० । भुवः ऋषींस्तर्प० तर्प० । सुवः ऋषींस्तर्प० तर्प० । भूर्भुवः सुवः ऋषींस्तर्प० तर्प० । अथ प्राचीनावीति दक्षिणाभिमुखः २० खधा पितृतीर्थेन अंगुष्ठतर्जनीमध्येन पितृ निस्त्रिस्तर्पयेत् ॥ अस्मत्पि न् अमुक शर्मणः अमुकगोत्रान् स्वधानमस्तर्पयामि स्वधानमस्तर्पयामि स्वधा नमस्तर्पयामि । अस्सत्पितामहान् अनुक शमणः अमुकगोत्रान् नमः तर्प० खधा० स्वधा० ॥ अस्मत्प्रपिता महान् अमुक शर्मणः अमुक गोत्रान् खाधा नम स्तर्प० स्वधा० खना० ॥ अस्मन्मातृः अमुकदायी: अमुकगोत्राः स्वधा० स्वधा० स्वधा० ॥ अस्मत्पितामही: अमुकदायीः अमुक गोत्राः खधा० खधा० खधा० ॥ अस्मत्प्रपितामही: अमुकदायीः अमुकगोत्राः खधा० स्वधा० स्वधा० ॥ सपत्निमातृः अमुकदायीः अमुकगोत्राः खधा० खवा० ॥ माताम हान् अमुकशर्मणः अमुकगोत्रान् खधा० खधा० स्वधा० ॥ मातुः पितामहान् अमुकशर्मणः अमुकगोत्रान् स्वधा० स्वधा० स्वघा० ॥ मातुः प्रपितामहान् अमुकशर्मणः अमुकगोत्रान् स्वधा स्वधा ० स्वधा० ॥ मातामहीः अमुकदायीः अमुकगोत्राः स्वधा नमस्तर्प० ॥ मातुः पितामही: अमुकदायी: अमुकगोत्राः स्वधा० ॥ मातुः प्रपितामही: अमुकदायी अमुक गोत्राः स्वधा० ॥ स्वस्त्रीं अमुकां अमुकगोत्रां स्वधा० ॥ स्वपुत्रं अमुकं अमु- कगोत्रं स्वधा० स्वधा० स्वधा० ॥ तत्पनी अमुकां अमुकगोत्रां स्वधा० ।। तत्पुत्रं अमुक अमुकगोत्रं स्वधा स्वधा० स्वधा० ॥ अस्मपितु: ज्येष्ठ भ्रातृन् अमुकशर्मणः अमुकगोत्रान् स्वधा० स्वथा ० स्वधा० ॥ तत्पत्नी: अमुकदायीः अमुकगोत्राः स्वधा० ॥ तत्पुत्रं अनुकशर्मागं अमुकगोत्रं स्वधा० स्वाधा० स्वाधा० ॥ अस्मपितृव्यान् । अस्मभितु : कनिष्ठभ्रा -न् ) अमुक शर्मणः अमुकगोत्रान् स्वधः स्वधा ० स्वधाः । तत्पत्नी: अमुकदायी: अमुकगोत्रा स्वधा०॥तत्पुत्रं अमुकशर्मागं अनु : गोत्रं त्वचा स्वधा ० स्वघा०॥अस्मत्मातुलान् अमु कशर्मणः अमुकगोत्रान् स्वधा०स्वधा स्वधा ० ॥ तत्पत्नी: अमुझदायी: अमुकगोत्राः स्वधा ।। तत्पुत्रं अमुकशर्माणं अमुकगोत्रं स्ववा० स्वधा ० स्वधा ०। आत्म त्रातॄन् अमुकशर्मणः अनुकगोत्रान् स्वधा० स्वधा ० स्वधा० । तत्पत्नीः अमुकदायीः २१ अमुकगोत्राः स्वधा० । तत्पुत्रं अमुकं अमुकगोत्रं स्वधा०स्वधा ० स्वधा ० । अस्म- पितृभगिनीः अमुकदायीः अमुकगोत्राः स्वधा० । अस्मत्मातृभगिनी: अमुकदायीः अमुकगोत्राः स्वधा० । आत्मभगिनीं अमुकदायीं अमुकगोत्रां स्वधा० । तद्भतरं अमु- कशर्माग अमुकगोत्रं स्वधा स्वधा स्वधा०। तत्पुत्रं अमुकं अमुकगोत्रं स्वधा स्वधा० खधा अस्मत्श्वशुरान् अमुकशर्मणः अमुकगोत्रान् स्वधा स्वधा स्वधा०। तत्पत्नी: अमुकदायी: अमुकगोत्राः स्वधा० । श्यालकं अमुकं अमुकगोत्रं स्वधा० स्वधा० स्वधा० । तत्पत्नी अमुक अमुकगोत्रां स्वधा० । अस्मदाचार्यान् अमुक- शर्मणः अमुकगोत्रान् स्वधा० स्वधा० स्वधा । तत्वत्नीः अमुकदायीः अमुक गोत्राः स्वधा० । अस्मद्गुरून् अमुकशर्मणः अमुकगोत्रान् स्वधा० स्वधा. स्वधा । तत्पत्नीः अमुकदायीः ‘अमुकगोत्राः स्वधा । ज्ञातीन् अमुक- शर्मणः अमुकगोत्रान् स्वधा० स्वधा० स्वधा० । तत्पत्नी: अमुकदायीः अमुकगोत्राः स्वधा० । सखीन् अमुकशर्मणः अमुकगोत्रान् स्वधा ० स्वधा० स्वधा० । तत्पत्नीः अमुकदायी: अमुकगोत्राः स्वधा० । अमात्यान् अमुक- शर्मणः अमुकगोत्रान् स्वधा० स्वधा० स्वधा । तत्पत्नीः अमुकदायी: अमुकगोत्राः स्वधा । अंतेवासिनः अमुकशर्मणः अमुकगोत्रान् स्वधा० स्वधा ० स्वधा ० । तत्पत्नीः अमुकदायीः अमुकगोत्राः स्वधा नमस् यामि ॥ [ द्विरा- चम्य । अनेन देवर्षि पितृतर्पणकर्मणा श्रीपरमेश्वरः प्रीयताम् ] ॥ इति नित्य- तर्पण विधिः ॥ नित्यतर्पणे कालादिक्रमाः । (१) नित्यतर्पणकालः । ब्रह्मचारी गृहस्थो वा द्वितीयभागे ब्रह्मयज्ञानंतरं नित्यतर्पणं कुर्यात् । किंच स ब्रह्मयज्ञ विना द्वितीयभागे केवलं नित्यतर्पणं कर्तुं शक्नोति । गृहस्थः यद्यशक्तयादिना प्रातःकाले मंत्रस्नान कृतश्चेत् मध्याह्न यथाविधि जलन स्नात्वा संध्यामुपास्य स पूर्व ब्रह्मयज्ञं कृत्वापि अधुना तं कुर्यात् द्वितीयभागे च नित्यतर्पणं कृत्वापि स तं अधुना कुर्यात् । (२) नित्यतर्पणकाले सव्यापसव्यादि । देवान् सव्यन पितृन् वामेन मनुष्यान् च निवीतेन तर्पयेत् ॥ (३) अंजलिनमः । उभयेन २२ पाणिना नित्यतर्पणं कुर्यात् । किंतु श्राद्धे विवाहकाले च एकेन पाणिना तर्पणं कुर्यात् । (४) तर्पणोदकस्य निधानस्थानानि । उदकेषुवा पात्रेषुवा शुद्धभूमी वा उभयपाणिना तर्पणोदकं प्रयच्छेत् । अन्यथा तर्पणं व्यर्थं भवति । यत्रस्थलं अशुचि अस्ति तदा उदके तर्पयेत् । (५) तपणोदकस्य मोक्षस्थानानि । तर्पणानंतरं तपणोदक शुभे पात्रांतरे जलपूर्णे गर्ने वा क्षिपेत् । नतु अशुचौ स्थले । (६) नित्यतर्पणे रूपनिषेधः । तित्यतर्पणे वसुरुद्रादित्यरूपः विना केवल नामगोत्रादियुक्तं तर्पणं कुर्यात् । (७) अंजलि संख्या। देवानां तर्पणे प्रत्येक देवं प्रति तर्पयामि इति सकृदुक्त्वा प्रत्ये- काय एकं अंजलिं दद्यात् । ऋषीणां तर्पणे प्रत्येकं ऋषिं प्रति तर्पयामि तर्पयामि इति द्विरुक्त्वा प्रत्येकाय द्वौ अंजली दद्यात् । पितणां तर्पणे एवं क्रमः । सर्वत्र पुरुषाणामंजलित्रयमस्ति । तिसृणां मातृवर्गस्त्रीणामंजलित्रय- मस्ति । मातृवर्ग भिन्न स्त्रीणां एकैकं अंजलिः। सपत्निमातुरंजलिद्वयं । (८) श्राद्धदिवसेषु नित्यतर्पणम् । प्रत्याब्दिक पार्वणदर्शादि श्राद्धदिवसेषु श्राद्धानंतर ब्रह्मयज्ञं कृत्वा नित्यतर्पणं तिले विना कर्तव्यं । (९) तिलनि- षेधः । गृहेवा मृताहे वा जन्मदिनेवा नित्य तर्पण तिले विना कुर्यात् । इत्यादि । (१०) दिशा निर्देशः । नित्यतर्पणे देवान् प्राङ्मुखो भूत्वा ऋषीन् उदङ्मुखो भूत्मा पितृन् दक्षिामुग्यो भूत्वा च तर्पयेत् । (११) कठिण पितृशब्दानां कर्नाटक भापायानर्थाः । पितृ तंदे। पितामह तंदेय तंदे । प्रतितामह पितामहन तंदें। मातृ अव्व । पितामही तंदेय अव्य । प्रपितामही अजन अब्ब । सपत्निमातृ तदेय एरडने हेडति। मातामह अब्बन तंदे । मातुः पितामह अवन तंदेय तंदे । मातुःप्रपितामह अव्वन अन्जन तंदे। मातामही मातामहन हेडनी। मातु:पितामही अव्वन तंदेय तंदेय हे डंती। मातुःप्रपितामही अव्वन अन्जन तंदेय हेडती। वस्त्री तन्न हे डती। पितृव्य चिगप्प । पितुः ज्येष्ठ भ्रातृ दोहुप्प । मातुल अव्वन २३ अण्ण अथवा तम्म । पितृभगिनी तंदेय अक्क अथवा तंगी। श्वशुर हेडतिय तंदे । श्यालक हेडतिय सहोदर । श्यालक शब्दक्के एरडने अर्थवु तंगिय गंड । आचार्य पुरोहित । गुरु गायत्री उददेष्टा उपनयनद यजमाननु । ज्ञाति आप्त अथवा संबंधिक । सखी मित्र । अमात्य नेरेयवनु । अंतेवासी संगतियल्लिरुववनु अथवा शिष्यनु । (१२) तर्पणानिं । द्वे देवऋषि पितृ- तर्पणे स्तः । एकं तर्पणं लघु अस्ति । अन्यद्महदस्ति । लघुतर्पणं तित्यं प्रातःस्नानमध्ये कर्तव्यम् । महतः तपर्णस्य नाम महातर्पणं । इदं उपा- कर्मांगत्व ब्रह्मयज्ञानंतरं कुर्यात् । आहिकेऽपि ब्रह्मयज्ञानंतरं नित्यतर्पण संकल्पोक्तप्रकोरण देवऋषि पितृणां तर्पणं कुर्यात् । नतुतेषां महातर्पणम् । देवऋषिपितृतर्पण प्रातःस्नानमध्ये अस्ति । एतदेवतर्पणं ब्रह्मयज्ञानंतरं कर्तव्ये नित्यतर्पणे कर्तव्यं । तथापि ब्रह्मयज्ञानंतरं कर्तव्ये नित्यतपणे केचिद्भदाः संति । तस्मिन्नित्यतपणे कर्तव्यं पितृतर्पणं प्रयोगकारेण दत्नमस्ति । यदा एतपितृतर्पणं प्रातःस्नान कर्तव्यदेवऋषितर्पगेन सहकृतं भवति तदा एतत्तर्पणं देवऋषिपितृतर्पणं भवति । यदा एतद्देव ऋषिपितृतर्पणं आह्निके नित्यकृतं भवति तदा अस्य नाम नित्यतर्पणमिति अस्ति । एव माह्निके ब्रह्मयज्ञानंतर कर्तव्यदेवऋषिपितृतर्पणं नित्यतर्पणम् ॥ दिनस्य द्वितीयभाग कृत्यम् । द्वितीयभागे ब्रह्मयज्ञं नित्यतर्पणं च कुर्यात् । ततः दशास्त्राद्यभ्यासं कुर्यात् ।। दिनस्य तृतीयभाग कृत्यम् । अष्टधा विभक्तस्य दिनस्य तृतीयभागे ऋणार्थं शरीरयात्रार्थं पौष्यवर्यं च धनं ईहेत् ( यतेत ) । (७, नित्यस्नानविषये बहूनि कर्माणि । प्रातःकाले स्नानं कुर्यात् मध्याह्नकालेच स्नानं कुर्यात् । एवं स्नानस्य द्वौ काली प्रयोगकारः कथयित्वा स्नानकालयोः समर्थनाय इदं स्मृतिवचनं २४ दिशति । प्रातमध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः। यतेत्रिषवणः स्नानं सकृच्च ब्रह्मचारिणः ॥ स्नानस्य द्वौ कालौ स्तः प्रातःकालो मध्याह्नकालश्च । स्नानस्य तृतीयकालोपि अस्ति । परं यति संबंधस्य तस्य कालस्य नाम न दत्तं । इत्यनेन वचनेन निश्चीयते । अपिच गृहस्थः स्नानं द्विः कुर्यात् । वानप्रस्थोऽपि स्नानं द्विः कुर्यात् । यतिश्च स्नानं त्रिः कुर्यात् । ब्रह्मचारीतु एकदा एव स्नान कुर्यात् । इत्यप्यनेन वचनेन निश्चीयते। किंतु ब्रह्मचारी एकदैव स्नानं कुर्यादिति इयदेव उक्त्वा तस्य स्नानकालस्य नाम प्रयोग- कारो न उक्तवान् । उक्तनामभ्यां प्रातःकालमध्याह्नकालाभ्यामन्यकालो ब्रह्म- चारिणः स्नानसमयो नास्ति अतः तस्य स्नानसमयस्य नाम न दत्तवान् सकृत् स्नायादित्येव उक्तं । स्मृतिवचनानुरोधेन सकृन्नाम प्रातःकालो मध्याह्न कालोवा । किंच तद्वचनानुरोधन द्वौ कालौ अपि दोषरहितौ । अत एव तयों: : स्नानकालयोः कोप्येकः कालः श्रेयान् इष्टोवा इति प्रयोगकारेण नकथितम् । केचिजनाः एवमर्थं कुर्वति । सकृत्स्नयात् इत्यस्याथः चतुर्थ- भागे स्नायात् एवं कुर्वति । अयमसत्यार्थः । कुतः । सकृत्स्नायादिति इदं चतुर्थभागकृत्यानामेव वर्णन मयवाक्यषु नास्ति । इदं स्मृतिवचने अस्ति । तत्स्मृतिवचन चतुर्थभागकृत्यान्यव वर्णयति इतिन । किंतु तत्प्रातः ध्याह्न काल कृत्ये वर्णयति । अतः तेपामयमसयार्थः । एवं ब्रह्मचारी प्रत्यहमेकदा एव स्नानं कुर्यात्प्रातःकाले मध्याह्नकाले वा । गृहस्थस्तु स्नानं द्विः कुर्यात् प्रातः मध्याह्नच । यतिश्च स्नानं त्रिः कुर्यात् । अशक्तविषये । ब्रह्मचारी गृहस्था दिर्वा शक्तिरहितश्चत् हिरण्येत्यादिकान्मंत्रान्क्रमात् जपेत् । इदमेव मंत्रस्नान भवति । इदं मंत्रम्नानं कुर्यात् । अन्यत्र प्रयोगकारो यद्यशक्त्यादिना प्रातःकालस्नान कृतं चत् मध्याह्न स्नात्वा एवं कथयति । अस्य तात्पर्य । आह्निकस्य प्रातः केवल जलस्नानविषये अशक्तेर्वा प्रवासाद्वा अल्पज्वराद्वा एकमेव कारणाद्वा जातेन अशक्ततायाः कारणेन गृहस्थः प्रातः मंत्रस्नान २५ मकरोत् चेत् इदं यद्यशक्तयादिना प्रात:कालस्नानकृतं चेत् एतस्यार्थः । अशक्तिना वा प्रवासेन वा एवंविध कारणेन वा अशक्तः गृहस्थः प्रात:- मंत्रस्नानमकरोत् चत् मध्याह्ने स यथाविधि जलस्नानं कुर्यात् । गृहस्थः शक्तियुक्तश्चेत् जलस्नानमेव प्रत्यहं द्विः अवश्य कुर्यात् । इति तात्पर्यम् । मध्याह्न मृत्तिकास्नानं विहितं तत्तु प्रयोगमालायामेव द्रष्टव्यम् । . आह्निकस्य प्रातः केवलं ० गृहस्थः इति यदुपरि लिखितं तत् न शुद्धम् । आह्निकस्य प्रातः अल्पज्वराद्वा एवंविधकारणात् जातेन अशक्ततायाः कारणन यदि गृहस्थः एतत् शुद्धं ॥ ब्रह्मयज्ञस्य कालकथनसमये नित्यतर्पणात्प्राग्वा इति लिखितं । तत् न शुद्धं । तर्पणात्प्राग्वा इति शुद्धम् । तर्पणं नाम माध्याहसंध्यायाः द्धादश- तर्पणमित्यर्थः । अत एव मध्याह्नसंध्यायाः प्राक् ब्रह्मयज्ञं कुर्यात् । (८) माध्याह्नसंध्या । अह्नश्चतुर्थभागे माध्याह्नसंध्यां कुर्यात् । उपनयनप्रकरणेप्युक्तं । याव- ब्रह्मोपदेशः स्यात्तावत्संध्यादिकं नच । ततो माध्याह्नसंध्यादि सर्वकर्मसमाचरेत् । स्नानं च भोजनं तद्वत्संध्योपासनमेव च । ब्रह्मयज्ञश्च नित्यानि सामान्यस्यापि तानितु ॥ ( उपासनमप्युपासन मग्निकार्यमित्यर्थः । ) । यज्ञोपवीति प्राङ्मुख उपविश्य द्विराचम्य ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थ मध्याह्नसंध्या मुपासिष्ये । आपोहिष्ठेति नवविधमार्जयित्वा । ॐ आपो वा इद [ सर्व विश्वाभूतान्यापः प्राणावा आपःपशव आपोन्नमापो मृतमापः सम्राडापो विराडाप स्वराडापश्च्छंदाणू स्यापो ज्योती गुंष्यापो यजूगुष्याप स्सयमापः सर्वादेवता आपो भूर्भुवः सुवराप ॐ ॥ इति जलमभिमंत्र्य । दक्षिणहस्ते आपः पुनंतु पृथिवीं पृथिवीपूता पुनातु मां । पुनंतु ब्रह्मण जलमादाय ।
२६ स्पति ब्रह्मपूता पुनातु मां । यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । सर्व पुनंतु मामापो सतां च प्रतिग्रहगँ स्वाहा । इति प्राश्य । अथ द्विराचम्य । दधिक्रान्ण इति द्वात्रिंशन्मार्जनं कृत्वा । अयं दद्यात् यथा । जला- जटिमादाय सर्वोत्थितः सूर्याभिमुखस्तिष्ठन् अयमंत्रेणाभिमंत्र्य जलमध्ये जलं क्षिपेत् । ॐ ह[सःशुचिषद्वसुरंत रिक्षसद्धोतावेदिष दतिथिर्दुरोणसत् । नृष- द्वरसदृत सद्योम सदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । इति प्रथमार्यमंत्रः । आसत्येन रजसावर्तमानो निवेशयनमृतं मयं च । हिरण्ययेन सवितारथेना देवो याति भुवनानि पश्यन् ॥ इति द्वितीयार्थ्यमंत्रः । तृती- याय पूर्ववत् जलमादाय खतेजः संयोज्य गायत्रीमंत्रेणाभिमंत्र्य जलं क्षिप्त्वा । ॐ आपोज्यो० रोम् । इति आत्मनस्तेजः संस्थापयेत् । एवं तृतीपाऱ्या दत्वा । कालातिक्रमश्चेत् प्रायश्चित्तायें पूर्ववद्दद्यात् । असावादित्यो ब्रह्मेति जलहस्तः प्रदक्षिणं कुर्यात् । उपविश्याचम्य । अत्रोपसंहार कुर्यात् । श्री अलोपसंहारमहामंत्रस्य शिवात्मकऋषिः त्रिष्टुप्छंदः सवितादेवता । औ० उदासि पाप्मानं मे विद्धि । उत्तिष्ठदेवि गंतव्यमित्यादि सर्वप्रातःकावत्कृत्वा । यथाशक्ति गायत्री जपित्वा । गायत्रीजपसमये आसीनः प्राङ्मुख एव पूर्व- वद्यथाशक्ति जपेत् । पुन ऋष्यादि विन्यस्य करषडंगन्यासं हृदयादिन्यासं च कृत्वा । दिग्बंधमपि कृत्वा । मंदाराव्हय० गायत्रीमावाहयामि० श्रीयमावा हयामि । ( गायत्रिया गायत्रीछंदो इत्यादिं त्यजेत् । नकुर्यादित्यर्थः । ) द्वादशतर्पणं कुर्यात् । यथा । धानारं तर्पयामि । अर्यमणं तर्प० । मित्रं तर्प० । वरुणं तर्प० । अंशु तर्प० । भगं तर्प० । इंद्रं तर्प० । विवस्वतं तर्प ० । पूपाणं तर्प० । पजन्यं तप० । त्वष्टारं तर्प० । विष्णुं तर्प० । इति तर्पयित्वा । उत्थाय मूर्याय पुष्पाणि दत्वा ऊर्ध्वबाहुरायताक्षः सूर्य- मुपतिष्ठते । उद्वयं तमसस्परि० रुत्तमं । चित्रं देवानां० । ०तच्चक्षुर्देवहितं अस्य सोहमर्कः। आवायल्य०॥ ययावा० ।
२७ . पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं । जीवेम शरदः शतं । नंदाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शत गुं शृणुवाम शरदः शतं. प्रबवाम शरदः शतं अजीतास्याम शरदः शत जोक सूर्य दृशे । य उदगान्महतो वा द्विभ्राजमानः सरिरस्य मध्यात्समावृषभो लोहिताक्षः सूर्योविपश्चिन्मनसा पुनातु । इत्युपस्थाय नमः प्राच्य दिशे० सर्व देव नमस्कारः केशवं प्रतिगच्छति ॥ उद्यन्नद्य मित्रम ह आरोहन्नुत्तरां दिवं । हृद्रोग मम सूर्यह रिमाणं च नाशय । शुकेषुमे हरिमाणं । रोपणाकासुदध्मसि । अथोहा- रिद्रवेषुमे । हरिमाणं विदध्मसि । उदगादयमादित्यः । विश्वनसहसा सह । द्विषतं मम रंधयन् । मो अहं द्विषतोरथं । इति सूर्यावलोकनं कृत्वा । भूः प्रपद्ये भुवःप्रपद्ये सुवःप्रपद्ये भूर्भुवः सुवःप्रपद्ये ब्रह्मप्रपद्ये ब्रह्मकोशं प्रपद्येमृतं प्रपद्ये मृतकोशं प्रपद्ये चतुर्जालं ब्रह्मकोशं यं मृत्यु वपश्यति तं प्रपद्ये देवान्प्रपये देवपुरं प्रपद्ये परीवृतो वरीवृतो ब्रह्मणावर्मणाहं तेजसा कश्यपस्य यस्मै नमस्तच्छिरोधर्मोंमूर्धानं ब्रह्मोत्तरा हनुर्यज्ञोधराविष्णुहृदय [ संवत्सरः प्रजाजन- नमश्विनौ पूर्वपादावत्रिमध्यं मित्रावरुणावपरपादावग्निः पुज्छस्य प्रथमकांडं तत इंद्रस्ततः प्रजापतिरभयं चतुर्थ[ सवा एष दिव्यः शाक्वरः शिशुमारस्त [ हय एवं वेदापपुनर्मृत्युंजयति स्वर्ग लोकं ना ध्वनि प्रमीयत नाग्नौ प्रमीयते नाप्सु प्रमीयते नानपत्युः प्रमीयते लब्ध्वान्नो भवति ध्रुवस्त्वमसि ध्रुवस्यक्षित मसि त्वं भूतानामधिपतिरसि त्वं भूताना गुं श्रेष्ठोसि त्वां भूतान्युपपर्या वर्तते नमस्ते नमः शर्वते नमो नमः शिशुकुमारायनमः ॥ इति शिशुकुमारं प्रार्छ । उपविश्य । प्रातःकालवदष्टक्षरी पंचाक्षरी जपेत् । [आचम्य । अनेन माध्याह संध्याकर्मणा श्रीपरमेश्वरः प्रीयताम् ।] गृहस्थः यद्यशक्त्यादिना प्रातःकालस्नानकृतं चेत् मध्याह्नस्नात्वा संध्यामुपास्य ततो ब्रह्मयज्ञं कृत्वा नित्यतर्पणं कुर्यात् ।
२८ अथ चतुर्थभाग कृत्यम् । चतुर्थभागे माध्याह्नस्नानं कुर्यात् । माध्या- इसंध्यां कुर्यात् । शालग्रामास्समाः (९) पंचायतनपूजा। पंचमे भागे देवतार्चनं कुर्यात् । कूर्मपुराणे । यो मोहादथवालस्यदकृत्वा देवतार्चनं । मुंक्ते स याति नरकं सूकरेष्वभिजायते ॥ घाराह पद्मपुराणयोः । गृहे लिंगद्वयं नाय शालग्रामद्वयं तथा ॥ द्वे चक्रे द्वारकायास्तु नाचेत्सूर्य- द्वयं तथा ॥ शक्तित्रय तथा नाय गणेशत्रयमेव च । पूच्याः समेषु द्वितयन्नहि । विषमा नैव पूज्याः स्यु विषमेष्वेकमेवहि ॥ अथ पचायतनपूजा। आदित्यमंबिका विष्णुं गणनाथं महेश्वरं । ब्राह्मणः पूजये- त्पंच पंचयज्ञपरायणः ॥ पाने । रविविनायकश्चडी ईशो विष्णुस्तु पंचमः । अनुक्रमेण पूज्यंते व्युत्क्रमेतु महद्भयं ॥ तत्प्रकारमाहबप्पदेवः । शंभोर्मध्यगते हरीन हरभौ० व्यस्तास्तु हानिप्रदाः ॥ इति शंकरभागतः । ( ईशानकोणा- दारभ्य प्रदक्षिणमित्यर्थः )। दिक्खरूपं तु। प्रयोगपरिजाते । देवस्यमुख- मारभ्य दिशः प्राची प्रकल्पयेत् । तदादि परिवाराणामंगाद्यावरण स्थितिः । पूच्यपूजकयोर्मध्ये प्राची प्रोक्त विचक्षणैः ॥ उमामहेश्वर इति नामनियो जनस्य कारणाम् । उमया युक्तो महेश्वरः उमामहेश्वर इति मध्यमपदलोप समासः । पार्वती ईश्वरमुद्दिश्य चिरकालं तपः कृतवती । सा विरहदुःखं मा प्राप्नोत्विति करुणामात्रेण शिवः स्वशरीरार्ध तामवस्थापितवान् । एत- कथायां निर्दिष्टम्य शिवः खशरीरार्धे पार्यतीमवस्थापितप्रसंगस्य एव स्मरणं दर्शनं सांनिध्यं वा प्रयोगकागय रोचते । अत एव उमामहेश्वर इति नाम नियोजनं । तन्नामनियोजनेन ईश्वरलिंग प्राणप्रतिष्ठां कृत्वा तं लिंग पूजयते । कारणभेवं भवेत् । अपि च यथा अर्यकाले तत्पुरुषो रुद्र इत्यादि पुरा- णोक्तविविध कथानुरूपनामनियोजनं पूजांतर्गत प्रकारः । यथा च द्वादशनाम २९ ध्याना- - पूजाकाले महादेवः कामांगनाशनः श्रीकंठः इत्यादिपुराणोक्त विविधकथानु रूपनामनियोजनं पूजांतर्गतप्रकारः। तथैव ईश्वरप्राणप्रतिष्ठायां उमामहेश्वर इति नामनियोजनं पूजांतर्गतप्रकारः । कारणमेवमपि भवेत् । वाहनादि षोडशोपचाराः षोडशोपचारावा। षोडशप्रधाना उपचाराः षोडशोपचाराः। ते एते । ध्यानं आवाहनं आसनं स्वागतं पाद्यं अर्थ्य आचमनं मधुपर्क पुनराचमनीयं स्नानं वासांसि भूषणं गंधं अक्षताः पुष्पाणि धूपं दीपं नैवेद्यं तांबूलं नमस्कारः । एतेषु उपचारषु आसनखागतादिषुवा एतेषु उप चारेषु षोडश उपचाराः एव प्रधानाः॥ मूलमंत्राः। अनुष्टानपद्धता । गणपतेः- ॐ गं गणपतये नमः । शिवस्य ॐ नमःशिवाय । दुर्गायाः - ॐ हीं दुं दुर्गायै नमः । नारायणस्य -' ॐ नमो नारायणाय । सूर्यस्य ॐ धृणि सूर्या- दित्य ॥ अथ पूजाप्रयोगः। [ आचम्य ] आगमार्थं तु देवानां गमनाथ तु रक्षसां । कुरु घंटारवं तत्र देवताव्हानलांछनं ॥ एष रक्षोहरः श्रीमान् सर्वासुरविनाशनः । अनेन घंटामभ्यर्च्य वादयेत मनोहरं ॥ देहो देवालयः प्रोक्तो देवोजीवः सदाशिवः । त्यजेदज्ञान निर्माल्य सोहं भावेन पूजयेत् । इति ध्यात्वा ॥ उत्तप्तोज्वलकांचनेन रचितं तुंगांगरंगस्थलं शुद्धस्फाटिक भित्तिकाविरचितै स्तंभैश्च हेमैः शुभैः । द्वौश्चिामरत्न राजखचितैः शोभावहै मंडितैस्तत्रान्यैरपि चित्रशंखधवलैः प्रोद्भासितैः स्वस्तिकैः । मुक्ताजाल विनम्र मंडपयुतै र्वक्रैश्च सोपानकै नानारत्न विनिर्मितैश्च कलशैरत्यंत शोभावहं ।। माणिक्योञ्चल दीपदीप्ति रचित लक्ष्मीविलासास्पदं ध्यायेन्मंडपमर्चनेषु सक- लेष्वेवं विधं साधकः । इति मंडयं ध्यात्वा द्वारपूजां कुर्यात् ॥ ॐ पूर्वद्वारे द्वारश्रियै नमः । धात्रे नमः । विधात्रे० ॥ दक्षिणद्वेर द्वारश्रियै नमः । चंडायै नमः । प्रचंडायै० ॥ पश्चिमद्वारे । द्वारश्रियै० । जयाय० । विजयाय नमः ॥ उत्तरद्वारे । द्वारश्रियै०। शंखनिधये नमः । पुष्पनिधये । पूर्वसमुद्राय नमः । दक्षिणसनुद्राय०। पश्चिम समुद्राय०। उत्तर समुद्राय० । सप्त समुद्राय०। सप्त- व्याहृतिभ्यो० । सप्तप्रकृतिभ्यो० । वस्खष्टकाय० । दिग्वष्टकाय० । पाताला- घष्टकाय० । अणिमाद्यष्टकाय० । गुरुभ्यो० । परमगुरुभ्यो० । परमेष्ठी गुरु- भ्यो० । सनकादियोगिभ्यो० । शंकराद्याचार्येभ्यो० । नारदादिऋषिभ्यो । अप्सरेभ्यो । किलरेभ्यो०। गं गणपतये । क्षक्षेत्रपालाय० । वं वास्तु पुरुषाय नमः । द्वारपालपूजां समर्पयामि । पृषियामेरुपृष्ठऋषिः ०कूर्मासनाय नमः इल्यसनमभित्र्य । अपक्रामतु० । तीक्ष्णदंष्ठ० मर्हसि । आसनं कृत्वा । आसने उपविश्येत्यर्थः । प्राणानायम्य । ( एवं गुणेत्यादेरर्थः ब्राह्मणानामनु- करणपद्धतिना क्रियते । यथा । ) अत्रकलियुगे भरतवर्षे भरतखंडे दंडकारण्य देशे शालिवाहनशके अस्मिन्वर्तमाने अमुकनाम संवत्सरे अमुकअयने अमुक ऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे एवं गुणविशेषण विशि- ष्ठायां शुभपुण्यतिथौ ( इयमेव पद्धतिः। परं एतत्पद्धतिं सम्यग्ज्ञातुं हिरण्यके श्यादि प्रयोगाः द्रष्टव्याः । यद्येतत्पद्धतिः प्रयोगमालाया मेवान्यत्रास्ति तर्हि सुष्ठु भवेत् ।) धर्मार्थकाम मोक्षचतुर्विधफल पुरुषार्थफल सिद्धयर्थं आरोग्य निर्विघ्नतैश्चर्यज्ञान मोक्षसिद्धयर्थ । सूर्य गणपत्यं बिकाशिव विष्णूनुद्दिश्य ध्याना- वाहनादिषोड शोपचारपूचां करिष्ये । देवस्य दक्षिणभागे जलकलशं निधाय । करशस्य मुखे विष्णुः कंटेरुद्रः समाश्रितः । मूले तत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः । कुक्षौ तु सागराः सर्वे सप्तद्विपावसुंधरा । ऋग्वे दोथय जुर्वेदः सामवेदोह्यथर्वणः । अंगैश्च सहिताः सर्वे कलशंतु समाश्रिताः । अत्र गायत्रि सावित्री शांतिस्तुटिकरी तथा । आयांतु ममदेहस्य दुरितक्षयकारकाः । सर्वे समुद्राः सरित स्तीर्थानि जलदानदाः। गंगेच यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधु कावेरि जले स्मिन्संनिविंकुरु । कलशदेवताभ्यो नमः ध्यानावाहनादि पोडशोपचारपूजां समर्पयामि । सितमकर निषण्णां शुभ्र- वर्णा त्रिनेत्रां करधृतकाल शोयत्सोत्पला भीत्य भीष्टां । विधिहरिहररूपां सेंदुकोटीरजूदां भसितसितदुकूला जान्हवीं तां नमामि ॥ इति नमस्कुर्यात् ॥
३१ इति कलशपूजां समर्पयामि ॥ अथ शेखपूजा । खेष्ठदेवतास्त्रमंत्रेण शंखप्रक्षाल्य। यं अस्त्रायफडिति ईश्वरस्य । एवमन्येषां । स्वदक्षिणभागे भूमौ चतुरस्रमंडलं कृत्वा व्यापक मंडलाय नम इति संपूज्य । तदुपरि प्रक्षालितमाधार निधाय मं वन्हिमंडलाय धर्मप्रददशात्मने नम इति संपूज्य तदुपरि शंखन्निधाय ॥ ॐ अं अर्कमल लायार्थ प्रदद्वादशकलात्मने नम इति संपूज्य प्रणवेन जलमापूर्य ॐ उं सोममंडलाय कामप्रदषोडशकलात्मने नम इति जलं संपूज्य गंधपुष्पादि भिरभ्यर्च्य चक्रमुद्रया संरक्ष्य सुरभिमुद्रया अमृतीकृत्य तायमुद्रया निर्विषी कृत्य शंखमुद्रां प्रदर्थ ॥ शंखं चंद्रार्क दैवल्यं मध्ये वरुणदेवता । पृष्ठे प्रजापतिस्तत्र अग्रे गंगा सरखती ॥ पांचजन्यायविद्महे पद्मगर्भायधीमहि । तन्नः शंखः प्रचोदयात् ॥ इति शंखगायत्र्या त्रिवारमभिमंत्र्य । त्रैलोक्यां यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठति राजेंद्र तस्माच्छंख प्रपू- जयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । रक्षार्थ सर्वदेवानां पांचजन्य नमोस्तुते ॥ गर्भा देवारिनारीणां विशीर्यते सहस्रधा । तव नादेन पाताले पांचजन्य नमोस्तुते ॥ विलयं यांति पापानि हिमवद्भास्करोदये । दर्शनादेव शंखस्य किं पुनः स्पर्शनेन तु ॥ नत्वा शंखं करे कृत्वा मंत्र रेवतु वैष्णवैः । यः स्नापयति गोविंदं तस्य पुण्यमनंतकं ॥ शंखतीर्थं कल शोदके किंचिन्निक्षिप्य पूजोपकरणं संप्रोक्ष्य देवस्य मूनि त्रिः प्रोक्ष्यात्मानं प्रोक्ष्य । शंखमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अंगलग्नमनुष्याणां ब्रह्म- त्यायुतं दहेत् ॥ इति शंखपूजाविधिः ॥ अथ पीठपूजा । ॐ आधारशक्त्यै नमः । मूलप्रकृत्य नमः । कूर्माय । अनंताय । वास्तुपुरुषाय । पृथिव्यै । सुधार्णवाय । नवरत्नमय द्वीपाय । स्वर्णपर्वताय । नंदनोबानाय । कल्पपा- दपेभ्यो। मणिमंडपाय । रत्नमंदिराय । स्वर्णवेदिकायै । रत्नसिंहासनाय । श्वेतच्छत्राय । धवलचामराय । धर्माय | ज्ञानाय । वैराग्याय । ऐश्वर्याय । अधर्माय । अज्ञानाय । अवैराग्याय । अनैश्वर्याय । अव्यक्त विग्रहाय । आनंद " ३२ क्रंदाय । सविनालाय । षट्त्रिंशतत्वात्मक पद्माय । प्रकृतिमयपत्रेभ्यो नमः । विकारामयके सरेभ्यो । पंचाशद्वर्ण बीजाढ्य सर्वतत्व स्वरूपायै कर्णिकायै नमः। अं अर्कमंडलाय द्वादशकलात्मने । उं सोममंडलाय षोडशकलात्मने । मं वन्हि मंडलाय दशकलात्मने । सं सत्वाय । रं रजसे । तं तमसे । मां मायायै । विं विद्यायै । अं आत्मने । अं अंतरात्मने । पं परमात्मने । ॐ हीं ज्ञाना- त्मने नमः । पीठपूजां समर्पयामि । अथ पूजाक्रमः । स्मृल्यंतरे । रविविनायक चंडी ईशो विष्णुस्तु पंचमः । अनुक्रमेण पूज्यंतेव्युत्क्रमेतु महद्भयमिति ॥ अथ सूर्यपूजांकरिष्ये । नवशक्तिपूजां करिष्ये । ॐ दीप्तायै नमः । सूक्ष्मायै । जयायै । भद्रायै । विभूत्यै । विमलायै । अमोधायै । विद्युतायै । सर्वतोमुख्ये नमः। ओन्नमो भगवते सर्वभूतात्मने सकलगुण शक्तियुक्ताय योगपद्मपीठा- त्मने नमः सुवर्णपीठं कल्पयामि । खात्मसंस्थमजं शुद्धं त्वामद्य सुदिवाकर । अरण्यामिवहव्या शंमूर्तावा वाहयाम्यहं ॥ ॐ भूर्भुवः सुवरों सशक्ति सांग सायुधसवाहन सपरिवार सर्वालंकार भूषित श्री भास्करमूर्ते अत्रागच्छागच्छ आवाहयिष्ये । आवाहयामि । आवाहितो भव । संस्थापितो भव । सन्निहितो मव । सन्निरुद्धो भव । अवकुंठितो भव । अमृतीकरणो भव । व्याप्तो भव । सुप्रसन्नो भव । क्षमस्व । सान्निध्यं कुरु । भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात् । इदमयं । देवभागऋषिः गायत्रीछंदः सूर्यो देवता । ॐ सत्यतेजो ज्वालामणि हुं फट् स्वाहा । हृदया० । ब्रह्मतेजो ज्वालामणि हुं फट् स्वाहा । शिर । विष्णुतेजोज्वालामणि हुं फट् स्वाहा । शिखा । रुद्रतेजोज्वालामणि हुं फट् स्वाहा । कव । वह्नितेजोज्वालामणि हुं फट् स्वाहा । नेत्र । सहस्रतेजोञ्चालामणि हुं फट् स्वाहा । अस्त्र । अरुणोरुण पंकजो निषण्णः । कमले भीतिवरोकरैर्दधानः। स्वरुचाहित मंडल त्रिनेत्रो रविराकल्प शताकुलोवतान्नः ॐ धृणि सूर्य आदित्य । इत्यष्टाक्षरमंत्रमूर्ति हृदयं स्पृष्ट्वा जपेत् । ॐ हीं। क्रों यर लवं शंषं सं हों सं हं सः । सूर्यस्य ३३ ३ प्राणाइहप्राणाः सूर्यस्य जीव इहस्थितः सूर्यस्य सर्वेद्रियाणि : वाङ्मनश्चक्षु श्रोत्र जिव्हाघ्राणप्राणा इहायांतु सुखं चिरं तिष्ठतु स्वाहा । इति हृहयं स्पृष्टा त्रिवारं जपेत् । इति प्राणप्रतिष्ठा । आवरण पूजां करिष्ये । ॐ सत्यतेजो ज्वालामणि ढुंफट् स्वाहा । हृ । ब्रह्मतेजो। शि । विष्णुतेजो । शिखा । रुद्रतेजो। क। वह्नितेजो । ने। सहस्रतेजोज्वा । अस्त्र ॥ इति प्रथमाव- रणं ॥ रवये नमः । भानवे । भास्कराय । सूर्याय । उषायै । प्रज्ञायै । प्रभायै । संध्यायै ॥ इति द्वितीयं ॥ अदित्याय । चंद्राय । कुजाय । बुधाय । बृह- स्पतये । शुक्राय । शनैश्वराय । राहवे । केतवे ॥ इति तृतीयं ।। ब्राह्मै । माहेश्वर्यै । कौमार्थ । वैष्णव्य । वारायै । इंद्राण्यै । चामुंडायै । महालक्ष्म्यै ।। इति चतुर्थं ॥ इंद्राय । . अग्नये । यमाय । नैर्ऋतये । वरुणाय | वायवे । सोमाय । ईशानाय । अनंताय । ब्रह्मणे ॥ इति पंचमावरणं ॥ द्वादशनाम पूजां करिष्ये । सहस्रकिरणाय नमः । सूर्याय । तपनाय । सवित्रे । रवये । विकर्तनाय । जगच्चक्षुषे । घुमणये । तरणये । तिग्मदीधितये । द्वादशात्मने । त्रयीमूर्तये ॥ द्वादशनामपूजां समर्पयामि ॥ भास्करमूर्तये नम इति षोडशोप- चार पूजां कुर्यात् ।। इति सूर्य जा ॥ अथ विनायक पूजा। तीव्रायै । ज्वालिन्यै । नंदायै । भोगदायै । कामरूपिण्यै । उग्रायै । तेजोवत्यै । विघ्न- नाशिन्यै । नवशक्तिपूजां समर्पयामि । ॐ नमो भगवते सर्वभूतात्मने सकल गुण शक्ति युक्ताय योगपद्मपीठात्मने नमः । सुवर्णपीठं कल्पयामि । खात्म संस्थमजंशुद्धं त्यामद्य गणनायक । अरण्यामिवहव्याशं मूर्तावावाहयाम्याई । सशक्ति सांगसायुधसवाहन सपरिवार सर्वालंकार भूषित श्री सिद्धिविनायक मूर्ते अत्रागच्छागच्छावाहयिष्ये । सिद्धिविनायकमावाहयामि । आवाहितो भवे- त्यादि पूर्ववत् । एकदंताय विद्महे वक्रतुंडाय धीमहि । तन्नोदंतिः प्रचोदयात् ।। इदमध्यं ॥ गणकऋषिः । गायत्रीछंदः । गणपतिर्देवता । मूलेन षडंगन्यासः। रक्तोरक्तांगरागां शुककुसुमयुतस्तुंदिलश्चंद्रमौलिनत्रैर्युक्तस्त्रिभिर्वाङ् मनकर चरणो बीजपुरोत्तवासः । हस्ताग्रांक्लुप्तपाशांकुशरदवरदो नागवक्त्रोहि भूषो देवः पद्म- सनो नोभवतु नतसुरो भूतये विघ्नराजः ॥ इति ध्यात्वा । मूलं यथाशक्ति जपित्वा । आवरणपूजां कुर्यात् ॥ अंगैः ( हृदयादिन्यासः ) प्रथमावरणं ॥ गणाधिपाय । गणेशाय । गणनाथाय । गणक्रीडाय । गजकर्णकाय । इति द्वितीयं ॥ वक्रतुंडाय । एकदंताय । महोदराय । गजाननाय । विकटाय । विघ्नराजाय । धूम्रवर्णाय ॥ इति तृतीयं ॥ ब्रायै । माहेश्वर्यै । कौमार्य । वैष्णव्यै । वाराटं । इंद्राण्यै । चामुंडायै । महालक्ष्म्यै ।। इति चतुर्थं ॥ इंद्रायनम० इति पंचमं ॥ सुमुखाय । एकदंताय । कपिलाय । गजकर्णकाय । लंबोदराय । विकटाय । विघ्नराजाय । गणाधिपाय । धूमकेतवे । गणाध्यक्षाय । मालचंद्राय । गजाननाय नमः इनि द्वादशनामपूजां समर्पयामि । धूपदीपादि सर्वोपचारान्कुर्यात् । गणानांत्वेति मंत्रेणवा जपपूजादिकं कुर्यात् ॥ इति विनायकपूजा ॥ अथ दुर्गापूजा ॥ प्रभायै । मायायै । जयायै । सूक्ष्मायै । शुद्धायै । नंदिन्यै। सुप्रभायै । विजयायै । सर्वसिद्धिदायै । नवशक्तिपूजां समर्पयामि । ॐ नमो भगवत्यै सर्वभूतात्मिकायै सकलशक्ति गुणयुक्तायै योगपद्मपीठात्मिकायै नमः सुर्वणपीठं कल्पयामि । स्वात्मसंस्थामजां शुद्धां त्वामद्यपरमेश्वरी। अरण्यामिवहव्याशं मूर्तावावाहयाम्यहं । सशक्तीत्यादि । आवाहनादिमुद्रांप्रदर्थ | कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो- दुर्गिः प्रचोदयात् ॥ इदमयं ॥ नारदऋषिः गायत्रीछंदः । दुर्गादेवता । ॐ हीं दुं दुर्गाये व्हां । हृ। ॐ हीं दुं दुर्गायै ही। शि । दुं दुर्गायै हूं। शिखा । ॐ हीं दुं दुर्गाये हैं। कर । ॐ हीं दूं दुर्गायै हौं। नेत्र । ॐ हीं दुं दुर्गायै हः। अस्त्राय ॥ शंखारिचाप शरभिन्नकरां त्रिनेत्रां तिग्मेलरां शुकलयावि लसकिरीटां । सिंहस्थितां ससुर सिद्धिनतां च दुर्गा दूर्वानिभां दुरितवर्गह रानमापि ॥ ॐ ह्रीं दुं दुर्गायै नमः । इति जपः । अथावरणपूजा । पूर्वोक्तांगमंत्रैः प्रथमावरणं । जयायै न ।
३५ विजयायै । कीरौ । प्रभाय । श्रद्धायै । मेधायै । श्रुत्यै । इति द्वितीयं । चक्राय | शंखाय । गदायै । पाशाय । अंकुशाय । शराय | धनुषे । इति तृतीयं । इंद्रादिभिश्चतुर्थं ॥ वज्राय । शक्तये । दंडाय । खड्गाय । पाशाय । अंकुशाय | गदायै । त्रिशूलाय । चक्राय । पद्माय । इति पंचमं ॥ दुर्गायै । गांत्यै । शांभव्य । भूतिदायिन्यै । शंकरप्रियायै । नारायण्यै । भद्रकाल्यै । शिवदूत्यै । महालक्ष्म्यै । महामायायै । योगनिद्रायै । चंडिकायै । इति द्वादश नामपूजा । अथषोडशोपचारान्कुर्यात् । इति दुर्गापूजा ॥ अथोमा महेश्वर पूजा । नवशक्तिपूजां करिष्ये । वामायैनमः । ज्येष्ठायै । रौद्रियै । काल्यै । कलविकरिण्यै । बलविकरिण्यै । बलप्रमथिन्यै । सर्वभूतदमन्यै । मनोन्मन्यै नमः । नवशक्तिपूजां समर्पयामि । खात्म संस्थमजं शुद्धं त्वाम्य परमेश्वर । अरण्यामिवहव्याशं मूर्तावावा हयाम्यहं ॥ ॐ भूर्भुवः सुवरों सशक्ति सांग- सायुधसवाहन सपरिवार सर्वालंकार भूषित श्री सांबसदाशिव अत्रागच्छागच्छ आवाहयिष्ये । सांबसदाशिवमावाहयामि इत्यादि आवाहनमुद्राः प्रदर्श्य । तत्पु- रुषाय विद्महे महादेवाय धीमहि । तन्नोरुद्रः प्रचोदयात् ॥ इदमयं ॥ वामदेवऋषिः पंक्तिच्छंदः सदाशिवरुद्रोदेवता । मूलेन षडंगं विन्यस्य । वंदे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयो चलेदहकात्या । वामोरुपीठगतया निजवामबाहुं न्यस्तारुणोत्पलयुजा परिलब्धदेहं ॥ शक्तिपंचाक्षरीजपः । ॐ ही क्रों यरलवशषस हों संहसः। उमामहेश्वरस्य प्राणा इहप्राणाः उमाम- हेश्वरस्य जीव इह स्थितः । उमामहेश्वरस्य सर्वेद्रियाणि वाङ्मनः प्राणा इहायांतु सुखं चिरं तिष्ठतु खाहा। इति देवस्य हृदयं स्पृष्टा निर्जपेत् । मूलमुच्चार्य उमामहेश्वराय नमः। एतत्ते आसनमुपक्लृप्तमत्रास्तां भगवन् । इत्यासनं दत्वा खागत पाद्यं अध्यं आचमनं मधुमकं पुनराचमनीयं । स्नानं वाससी । इमानि भूषणानि । गंधं । अक्षतान् । पुष्पाणि । धूपं । दीयं । नैवेद्यं । तांबूलं । नमस्कारान् । खामिन्सर्वजगन्नाथ करुणाकर शंकर । यावत्त्वां ३६ पूजयिष्यामि तावत्त्वं सुस्थिरो भव ॥ इति षोडशोपचारान् कृत्वा आवरण पूजां कुर्यात् । ॐ । ह। नं। शि। मं। शि। शिं । क । वां । ने। यं। अं॥ इति प्रथमं ॥ अथ द्वितीयं ॥ हल्लेखायै । गगनायै । रक्तायै । करालिकायै । मनोच्छ्रुष्मायै । गायत्र्यै ।. सावित्र्यै । सरस्वत्यै ।। इंति द्वितीयं ॥ वृषभायै । क्षेत्रपालाय । चंडेश्वराय । गुहाय । नंदिन्यै । गणाधिपतये । सेनाधिपतये ॥ इति तृतीयं ॥ ब्राह्मेति चतुर्थ ॥ इंद्राय सुरधिपतये । अग्नये तेजोधिपतये । यमाय प्रेताधिपतये । नैऋतये रक्षोधिपतये । वरुणाय जलाधिपतये । वायवे प्राणाधिपतये। सोमाय नक्षत्राधिपतये । ईशानाय विद्याधिपतये । अनंताय नागाधिपतये । ब्रह्मण लोकाविपतये ॥ इति पंचमावरण ॥ द्वादशनामपूजां करिष्ये । महादेवाय नमः । महेश्वराय । शंकराय । वृषभध्वजाय । कृत्ति वाससे । कामांगनाशनाय । देवदेवेशाय । श्रीकंठाय । हराय । पार्वतीपतये । रुद्राय | शिवायनमः ॥ इति द्वादशनामपूजां समर्पयामि ॥ धूपदीपादि सर्वो पचारान्कुर्यात् । अथवा स्नानं कृत्वा । ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवंत इंद्रश्चाग्निश्च राष्ट्र धारयतां ध्रुवं ॥ युवं वस्त्राणि पीवसावसाथे युवोरग्छि दामंतवोहसर्गाः । अवातिरतमनृतानि विश्वऋतेन मित्रावरुणासचेथे ।। वस्त्रं समर्प यामि । यज्ञोपवीतं परमं पवित्र प्रजापते यत् सहजं पुरस्तात् । आयुष्यमग्रयं प्रतिमुच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ उपवीतं । हिरण्यपात्रंमधोः पूर्ण दधाति । मधव्यो सानीति एकधा ब्रह्मण उपहरति । एकदैव यजमान आयुस्तेजो दधाति ॥ आभरणं । गंधद्वारा दुराधर्षां नित्यपुष्टां करीषिणीं । ईश्वरी गुं सर्वभूतानां तामिहोपव्हये श्रियं ॥ गंधान्स । अर्चतप्रार्चतप्रियमेधा सोअर्चत | अर्चतु पत्रका उत पुरन्न धृष्ण वर्चत । अक्षतान् । आयनेते परायणे दर्वा रोहंतु पुष्पिणीः । -हदाश्च पुंडरीकाणि समुद्रस्य ग्रहा इमे ॥ पुष्पाणि । तत आवरणपूजा द्वादशनामाष्टोत्तर सहस्रनामपूजां यथाशक्ति कृत्वा ॥ वनस्पतिर सोत्पन्नो गंधाब्यो धूप उत्तमः । आप्रेयः सर्वदेवानां धूपोयं ३७ प्रतिगृह्यतां ॥ धूपमाघ्रापयामि । ज्योतिः शुक्लश्च तेजश्च देवाना सततं प्रिया । प्रभाकरो महातेजा दीपोयं प्रतिगृह्यतां ॥ साज्यं त्रिवर्ति संयुक्तं वह्निना योजितं मया । गृहाण मंगलं दीपं त्रैलोक्यतिमिरापहं ॥ दीपं दर्शयामि । ततो नैवेद्यं पुरतो निधाय । ॐ भूर्भुवः सुवः इति प्रोक्ष्य । सत्यत्वर्तेनेति परिषिच्य। सशक्ति सांगसायुध सवाहन सपरिवाराय श्री उमामहेश्वराय भक्षभोज्यं सोपहारं महानैवेद्यं निवेदयामि । अमृतोरस्तरणमसि वाह। । प्राणा- दिपंचमुद्राः प्रदर्शयेत् । कनिष्ठानामिकांगुष्ठैः प्राणाय स्वाहा । अनामिकामध्य गंगुष्ठैः अपानाय स्वाहा । मध्यमातर्जन्यंगुष्टैः व्यानाय स्वाहा । कनिष्ठतर्जन्य गुष्ठैः उदानाय । सर्वैः समानाय स्वाहा ॥ इति पंचमुद्राः प्रदर्श्य मूल मुच्चार्य देवस्यत्वेति निवेद्य उमामहेश्वराय नमः नैवेचं उद्वासयामि । अमृतापिधानमसि खाहा । चंडेश्वराय नम इति निर्माल्यं विसृज्य हस्तप्रक्षालनं । पुनराचमनं । पूगीफल समायुक्तं नागवल्ली दलैर्युतं । कर्पूरचूर्ण संयुक्तं तांबूलं प्रतिगृह्यतां ॥ इति तांबूलं । मंगलनीराजनं । प्रदक्षिणा । नमस्कारं । छत्रचामरान्समर्पयामि । आवाहनं न जानामि न जानामि तवार्चनं । पूजाक्रमं न जानामि तव दासोस्मि सर्वदा ॥ हरिणा चरणौ पुरा न दृष्टौ विधिना तेन शिरोपि ते न दृष्टं । कथमीश करोमि सांगपूजां कृपया पाहि विचार्य किंकरं मां ॥ इति स्तुत्वा । देवदेव जगन्नाथ हृदये मम निर्मले । यागदेशात्समागत्य निवासं कुरु लीलया ।। हृत्पद्मकर्णिकामध्ये देव्या सहमहेश्वर । प्रविशत्वं महादेव सर्वैरावरणैः सह ।। इति पुष्पांजलौ समागतं विभाव्य आत्मनि विसर्ज येत् । इति शिवपूजा विधिः ॥ अथ विष्णुपूजा । नवशक्तिपूजां करिष्ये । विमलायै । उत्कर्षिण्यै । ज्ञानाय । क्रियायै । योगायै । ब्राह्मयै । सत्यायै । ईशानाय । अनुग्रहायै ।। इति नवशक्ति पूजां समर्पयामि । ओन्नमो भगवते इत्याद्यावाहनांतं कृत्वा । खात्मसंस्थमजं शुद्धं त्वामद्य पुरुषोत्तम । अरण्यामिवहव्याशं मूर्तावावाहया- म्यहं ॥ सशक्तीत्यादि । नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः । प्रचोदयात् ॥ इदमयं ॥ साध्यानारायणऋषि रित्यादि अष्टाक्षरीजपांतं कृत्वा वरणपूजां कुर्यात् । कृद्धोलकायखाहेत्यादि करषडंगन्यासः इति प्रथमं ॥ वासुदेवाय । संकर्षणाय । प्रद्युम्नाय । अनिरुद्धाय । शांत्यै । श्रियै । सरस्वत्यै ॥ इति द्वितीयं ॥ चक्राय । शंखाय । गदायै । पद्मायै । मुसलाय । कौस्तुभाय । खड्गाय । वनमालायै ॥ इति तृतीयं ॥ ध्वजाय । वैनतेयाय । शंखनिधये पुष्पनिधये । दुर्गायै । विघ्नेश्वराय । आर्यकाय । विष्वक्सेनाय ॥ इति जतुर्थ ॥ इंद्रादिभिः पंचमं ॥ द्वादशनामपूजां करिष्ये । केशवाय नमः । नारायणाय । माधवाय । गोविंदाय । विष्णवे । मधुसूदनाय । त्रिविक्रमाय । वामनाय । श्रीधराय । हृषीकेशाय । पद्मनाभाय | दामोदराय ॥ द्वादशनाम पूजां समर्पयामि ॥ ध्यानावाहनादि षोडशोपचारा न्कुर्यात् ।। इति विष्णुपूजा विधिः ॥ [ आचम्य । अनेन सूर्यगणपत्यं बिकाशिव विष्णुपूजनेन कर्मणा श्री परमेश्वरः प्रीयताम् ।] लिंगा विरोधाः। ( निर्णय सिंधु धर्म सिंधुभ्यां अस्माभिः संग्र- हीताः।) लिंगार्चा अहरहः अर्चनीयाः। ता विरोधेभ्यो रक्षणीयाः । तासां विरोधाः । मद्यस्पर्शः चंडालस्पर्शः अग्निस्पर्शः शवस्पर्शः पापिस्पर्शः अपु- ज्यजन स्पर्शः विप्ररक्तदूषणं मानाभावस्य कारणं खंडः स्फोटः चलनं स्थान भ्रंशः पतनं एकाहपूजाविहतिः एकाहाधिकाह पूजाविहतिः पशुस्पर्शः रजस्वलास्पर्शः चोरस्पर्शः दुष्ट भूमिषु पतनं अन्यमंत्रार्चनं गात्रसंयोगः देवायतनस्य शिखरच्छेदः देवायतनस्य गृहवापी कूपतडागारामच्छेदश्च । : (१०) अथ वैश्वदेवप्रयोगः । दक्षः। पंचमे च तथाभागे संविभागो यथार्हतः। पितृदेवमनुष्याणां कीटानां चोपदिश्यते । पंचममागे वैश्वदेवहोमं विवाहित पूरुष एव कुर्यात् ।
३९ वैश्वदेव होमे वैश्वदेवो वलिहरणः पंचमहायज्ञाश्च समागताः।शातातपःगलौकिके वैदिके वापि हुतोत्सृष्टे जले क्षितौ । वैश्वदेवः प्रकर्तव्यः पंचसूनानुपतये ॥ पंचसूना गृहस्थस्य अहरहः वर्तते । सूनाः हिंसास्थानानि । पंचसूनानां पावनार्थाय वैश्वदेवः पंचमहायज्ञाश्च कर्तव्याः। पंचसूनाः। कंडनी पेषणी चुल्ली जलकुंभी उपस्करः ॥ वैश्वदेवार्थाः आहाराः जुहुयात्सर्पिषाभ्यक्तं तैलक्षार विवर्जितं । दध्यक्तं पयसाक्तं वा तदभावेंबुनापिवा ॥ अलाभे येन केनापि फलशाकोदकादिभिः । पयोदधिवृतैः कुर्यात् वैश्वदेवं स्त्रुवेण तु ॥ हस्तेनान्नादिभिः कुर्याद द्भि रंजलिनाजल इति ॥ गृह्यपरिशिष्ठे । शकंवा यदि वा पत्रं मूलं वा यदि वा फलं । संकल्पयेद्यदाहारं तेनैव जुहुयादपीति ॥ आपस्तंबः । न क्षार लवण होमो विद्यते तथा वरान संसृष्टस्य हविष्यस्य होमः। यदि एकदेव स्यादुत्तरतो भस्म मिश्रानंगारान्निरूह्य तेषु जुहुयादिति गृह्यसूत्रे ॥ पुनः गृह्यसूत्रं । सायं प्रायदशनीयंस्या क्रियेत्वौ पासने वा पचनेवा होम एतावदेव तानाक्षारलवण वरानसं सृष्टस्य नतु होमं परिचक्षते काममितरेष्वायतनेषु ॥ कालविषेशः। वृद्धावादौ क्षयेचांते दशैंमध्ये महा- लये । एकोत्तिष्ठे निवृत्तेतु वैश्वदेवो विधीयते ॥ वैश्वदेवस्य कर्ता। विवाहा नंतरं वैश्वदेवं कुर्यात् । एक एव कुर्यात् । गौणकर्तारः। अत्रिः । पुत्रो भ्राता तथा ऋत्विक् शिष्यः श्वशुरमातुलाः । पत्नी श्रोतिय याज्याश्च द्रष्टास्ते बलिकर्मणीति ॥ एते अपि विवाहानंतरमेव गौणकर्तारो भवति ॥ गृहे कत्र- तराभावे प्रवसता स्वेनैव कर्तव्यमित्याह बोधायनः ॥ प्रवासं गच्छतो यस्य गृहे कर्ता न विद्यते । पंचानां महतामेषां सयज्ञैस्सह गच्छतीति ॥ वैश्वदेवं चतुर्विधं । अन्नाभावे वैश्वदेवं तंडुलेन जलेन वा अथवा मंत्रमुच्चार्य वैश्वदेवं चतुर्विधमिति ॥ कात्यायनः । सायंप्रातर्वैश्वदेवः कर्तव्यो बलिकर्मच । अन नतापि सततमन्यथा किल्बिषी भवेत् ॥ पंचयज्ञानां नामानि । देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्यज्ञो ब्रह्मयज्ञश्च । एते पंचमहायज्ञाः अहरहः प्रयोक्तव्याः ।
४० तयोरधः । . ॐ प्रयोक्तारं :परमं प्रापयति । मनुष्ययज्ञ वय॑मन्ये प्रत्यहं सकृत्क्रियते । मनुष्य यज्ञ : प्रत्यहं द्विः कर्तव्यः प्रातः रात्रौच ॥ अथ वैश्वदेव प्रयोगः॥ आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम समस्ताहौरः पंचसूना दोष परिहारार्थ श्री परमेश्वरप्रीत्यर्थं वैश्वदेव होमं करिष्ये । ( लौकिकाग्निं वैदिकाग्निं जलं क्षितिं वापुरतः कृत्वा । औपासनाग्निमुपसमाधाय । यथा ) ॐ आजु- व्हानः सुप्रतीकः ० सीदत । उद्बुद्ध्यस्खाग्ने ० मेतं । ॐ भूर्भुव • सुवरोम् अग्निं प्रतिष्ठापयामि इति द्वाभ्यां मंत्राभ्यामारोपित समिधं तत्र प्रक्षिप्य । अग्नय लंकरणांतं कृत्वा यथा । जुष्टोदमूना अतिथिर्दुरोणे • अथाग्नेरीशान मारभ्य ० ॐ देवस्यत्वा ० इत्यादिभिः मंत्रैः सह दभैः परिस्तीर्थ । खाहा ०। जुषखनः ० । अदितेनुमन्यखेत्यादिभिः परिषिच्य । ॐ चत्वारिश्रृंगा ० । अग्नये नमः ० श्रीयज्ञेश्वराय नमः गंधपुष्पाक्षतान् समर्प- यामि । एवमग्निमलं कुर्यात् ॥ अंगुष्ठपर्वमानं चरुमादाय हस्तेनेव जुहोति । अग्नेय स्वाहा । अग्नय इदं ॥१॥ सोमाय खाहा । सोमायदं ॥२॥ ध्रुवाय खाहा । ध्रुवायेदं ॥३॥ ध्रुवाय भूमाय स्वाहा । ध्रुवाय भूमायेदं ॥४॥ ध्रुव क्षितये स्वाहा । ध्रुवक्षितय इदं ॥५॥ अच्युतक्षितये स्वाहा । अच्युत क्षितय इदं ॥६॥ ईशानाय स्वाहा । ईशानायेदं ॥७॥ जयंताय स्वाहा । जयंता येदं ॥८॥ धर्माय स्वाहा धर्मायेदं ॥९॥ धर्मरुचये स्वाहा । धर्मरुचय इदं ॥१०॥ धान्वंतराय स्वाहा । धान्वंतरा येदं ॥११॥ विद्यायै स्वाहा । विद्याया इदं ॥१२॥ अंबिकायै स्वाहा । अंबिकाया इदं ॥१३॥ हरय खाहा । हरय इदं ॥१४॥ गणेभ्यः स्वाहा । गणेभ्य इदं ॥१५॥ गणपतिभ्यः स्वाहा । गणपतिभ्य इदं ॥१६॥ वर्षभ्यः स्वाहा । वर्षभ्य इदं ॥१७॥ विश्वेभ्यो देवेभ्यः स्वाहा । विश्वभ्यो देवेभ्य इदं ॥१८॥ साध्येभ्यो देवेभ्यः स्वाहा । साध्येभ्यो देवेभ्य इदं ॥१९॥ सर्वेभ्यो देवेभ्यः स्वाहा । सर्वेभ्यो देवेभ्य इदं ॥२० सर्वाभ्यो देवताभ्यः स्वाहा । सर्वाभ्यो देवताभ्य इदं ॥२१॥ ॐ भूः स्वाहा । अग्नय ४१ इदं ॥२२॥ ॐ भुवः खाहा । वायव इदं ॥२३॥ ओ गुँ सुत्रः खाहा । सूर्यायेदं ॥२४॥ ॐ भूर्भुवः सुवः स्वाहा । प्रजापतय इदं ॥२५॥ इति पंचविंशत्याहुतीर्तुत्वा । ततो बलिहरणा र्थेषु वक्ष्यमाणस्थानेषु यथा । अग्नेः पश्चाद्भूमौ चतुरस्रमंडलं कृत्वा तत्तत्स्थानेषु पन्या गंधपुष्पाक्षतैः परिसमूह्य पर्युक्ष्य अभ्यर्चितेषु वयं पुरस्तादुपरिष्टाच्चोभयतः परिषेकं कृत्वा वक्ष्यमाण प्रकारेण बलिहरणं कुर्यात् । तत्रादौ चतुर्दिक्षुमध्ये च पंचबलयः । ॐ धर्माय स्वाहा । अधर्माय स्वाहा । कटुवेनागमात्रे स्वाहा । सर्पेभ्यः स्वाहा । ब्रह्मणे वाहा ॥५॥ इति पंच । अथेशानमारभ्य प्रदक्षिणाकारण एकविंशति बलयः। अचलायै देव्यै स्वाहा । वास्तुपाल्यै सगणायै स्वाहा । अद्भः खाहा । वरुणाय स्वाहा । प्रजापतये स्वाहा । परमेष्ठिने स्वाहा । ऋषभाय खाहा । रुद्राय स्वाहा । रुद्राण्यै स्वाहा । ओषधिवनस्पतिभ्यः स्वाहा । दक्षो देवयजनेभ्यः स्वाहा । कामाय स्वाहा । भगाय स्वाहा । श्रियै स्वाहा । विष्णवे खाहा । ग्रहाय स्वाहा । ग्रहराजाय स्वाहा । धनधनभ्या गुँ स्वाहा ॥१८॥ वैश्रवणाय स्वाहा । श्रियै स्वाहा । पुष्ठयै स्वाहा ॥२१॥ पुनरपि ईशानादि पूर्ववत्पंचदश । उलूखलमुसलाभ्यागुँ स्वाहा । दृषदुपलाभ्यागुँ स्वाहा । समूहन्यै देव्यै स्वाहा । गुह्याभ्यः स्वाहा । अवसानेभ्यः स्वाहा । अवसानुपतिभ्यः स्वाहा । सर्पदेव जनेभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । अंतरिक्षाय स्वाहा । अवांतरिक्षाय स्वाहा । धात्रे स्वाहा। विधात्रे स्वाहा । भूत्यै स्वाहा । प्रभूत्यै स्वाहा । यदेजतिजगतियच्चचेष्टति नाम्नो भागोयन्नाम्ने स्वाहा ॥१५॥ अथ मंडलम ये प्रागपवर्गा श्चतुस्त्रिंशद्वलयः । ज्येष्ठाभ्या [ स्वाहा । करस्कराभ्या गुं स्वाहा । श्रियै स्वाहा । विष्णवे स्वाहा । रुद्राय स्वाहा । वसुभ्यः स्वाहा । पशुपतये स्वाहा । वास्तोष्पतये स्वाहा । पृथिव्यै स्वाहा । अंतरिक्षाय स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा । चंद्रमसे स्वाहा । नक्षत्रेभ्यः स्वाहा । अद्भयः । ओषधीभ्यः। वनस्पतिभ्यः । चराचरेभ्यः। परिप्लवेभ्यः । सरीसृपेभ्यः ।
४२ दिशि । ये देवेभ्यः। कालेभ्यः । लोकेभ्यः। वेदेभ्यः । देवेभ्यः । ऋषिभ्यः ॥२६॥ वसुभ्यः 1 रुद्रेभ्यः । आदित्येभ्यः । इंद्राय ॥३०॥ बृहस्पतये । प्रजापतये । ब्रह्मणे । आयतनवते स्वाहा ॥३४॥ अथ दक्षिणभागे दर्भेषु प्राचीनावीति पितृभ्यः स्वधा नमः स्वाहा । पितामहेभ्यः स्वधा ० । प्रतितामहेम्यः स्वधा । मातृभ्यः स्वधा नमः । पितामहीभ्यः खधा ०। प्रपितामहीभ्यः स्वधा नमः स्वाहा । मातामहेभ्यः स्वधा ० । मातुः पितामहेभ्यः स्वधा ० । मातुः प्रपितामहेभ्यः स्वधा ० । मातामहीभ्यः ० । मातुः पितामहीभ्यः ० । मातुः प्रपितामहीभ्यः । अथाप उपस्पृश्य यज्ञोपवीती । उदग्दिशि । नमो रुद्राय भगवते वाहा । अथ दिक्षु । प्राच्य दिशे स्वाहा । दक्षिणायै दिशे खाहा । प्रतीच्यै दिशे स्वाहा । उदीच्यै दिशे वाहा । ऊर्ध्वायै दिशे ख़ाहा । अध- रायै दिशे खाहा । आग्नेयादि विदिक्षु । अग्नये खाहा । निर्ऋतये स्वाहा । वायवे स्वाहा । ईशानाय स्वाहा । उदग् भूताः प्रचरति दिवा नक्तं बलिमिच्छतो वितुद प्रेष्याः। तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्ददातु खाहा ॥ इति दिवा । नक्तं बलिमिच्छंत इति नक्तं । नमो रुद्राय भूमाय स्वाहा ॥ इति ॥ इति बलि- हरणांतं कृत्वा । प्रक्षालित पाणिपादोप आचम्य पंचमहायज्ञान् वैश्वदेवाहुति हुताग्नौ कुर्यात् ॥ यथा । देवयज्ञेन यक्ष्ये । विद्युदसि विद्यमे पाप्मान मृतात्सल्यमुपैमि । अप उपस्पृश्य । अदितेनु मन्यखेत्यादिभिः परिषिच्य । देवेभ्यः स्वाहा देवेभ्य इदं । इत्यन्नमाज्यं समिधं वा वैश्वदेवाहुति हुताग्नौ हुत्वा । ॐ भूः स्वाहा अग्नय इदं । ॐ भुवः स्वाहा वायव इदं । ओ गुं सुवः स्वाहा सूर्यायेदं । ॐ भूर्भुवः सुवः स्वाहा प्रजापतय इदं । अदितेन्व म[स्थाः । अनुम ० । सरस्व ० । देवस ० । इति परिषिच्य । वृष्टिरसि- वृश्चमे पाप्मानमृतात्सत्यमुपागां । शिरश्चक्षुषीनासिके श्रोत्रे हृदयमालभते । इत्यपः स्पृष्ट्वा आचमेदिति देवयज्ञः। पितृयज्ञेन यक्ष्ये । विद्युदसि०मि ।
इत्यपः स्पृष्ट्वा । अग्नेदक्षिणतो दक्षिणाग्रेषु दर्भेषु तूष्णीमपसव्यं परिषिष्य अंगुष्ठतर्जन्योतरालेन बलिहरण शेषेण पितृभ्यः स्वधास्तु । इति भूमौ निधाय । पितृभ्य इदं । पुनः अदितेन्वम[स्था इति अपसव्यं अग्नेर्दक्षिणतः परिषिच्य वृष्टिरसि०गां । यज्ञोपवीत्यप आचम्य । एष पितृयज्ञः । भूतयनेन यक्ष्ये। विद्युदसि ० । ०प्रदक्षिणं परिषिच्य । भूतेभ्यो नम इत्यन्नं फलं पुष्पं वा दत्वा भूतेभ्भ इदं । वृष्टिरसीत्यादि । आचम्नं कुर्यात् । इति भूतयज्ञः । मनुष्ययज्ञेन यक्ष्ये । विद्युदसि० । ०परिषिच्य मनुष्येभ्यो हंता । इत्यन्न ददाति भूमौ वा निधाय । वृष्टिरसीत्यादि । अप उपस्पृश्य । ततो बल्य:- शिष्ठमन्नं किंचिद्गृहीत्वा बहिर्गत्वा भूमौ दंडाकोरण जलं निक्षिप्य । द्वौ श्वानौ श्याम शबलौ वैवस्वतकुलोद्भवौ । ताभ्यां बलिं प्रदास्यामि स्यातामेतावहिंसकौ । ऐंद्रवारुण वायव्य याम्यां नैर्ऋतिकास्तथा । ते काका प्रतिगृण्हंतु भूमौ पिंड मयार्पितं ॥ इति हस्तस्थमन्नं भूमौ निधाय । पादौ प्रक्षाल्याचम्य । गोदोहन मात्रकालमतिथिं प्रतीक्ष्य तस्मै भोजनं शाकं वा दद्यात् ॥ एष मनुष्ययज्ञः॥ अथ वेदादीनामध्ययनं । अग्नेः पश्चादर्भेषु आसीनो दर्भान्धारयमाणः प्राणा- नायम्य त्रिराचम्य सावित्रीमपरिकत्वो दशवारं वाजपित्वा । अथ वेदादींश्च- तुरः। अग्निर्मू(भुवः । यद्देवादेवहेडन मित्यच्छिद्रोनुवाकः । कूष्मांडानि सानु पंगानि । नमो ब्रह्मण इति त्रिरनूच्य । अप उपस्पृश्य । इदं वैश्वदेवानंतर पापक्षयार्थ नित्यभधीयीत । ब्रह्मयज्ञः। आदिता इति स ग्रामावहिरुदितः । अस्मिन्समये अत्र एव पूर्वोक्तप्रकारेण पूर्वमकृतं श्चत् तं कुर्यात् । ( समाचम्य यजुः शाखीदं यजुः शाखिनां न तु अन्येषाम् यजुःशाखिनः तथा अन्यशाखिनोपि तर्पणं तु द्वितीयभागे एव कुर्युः।) ततः। ॐ जुषस्वनः ० । अदितेन्वम[स्थाः इत्यादि परिषिच्य । यत्ते अग्ने ० मयि मेधां०इत्युपस्थाय । अथोपविश्योपतिष्ठते । मानस्तोके० । इति । प्रागुत्तरतो वा भस्म गृहीत्वा । ओजोसी० अनामिकया स्पृष्ट्वा । श्रद्धां मेधां इत्याशिषं प्रार्छ । गोत्रेणाभिवाद्य । यस्य स्मृल्या च नामोक्तया० अच्युतं । इत्युक्त्वा द्विराचम्य । अनेन वैश्वदेव होम कर्मणा श्रीपरमेश्वरः प्रीयताम् । ॐ आयते योनि ऋत्वियोः । इत्यग्निं पालाशाश्वत्थखादिरौ दुबरीषु वा समारोपणं कुर्यात् । इति वैश्वदेव प्रयोगः। www- अग्निविच्छेदप्रायश्चित्तम् । प्रमादात् आशौचादिकारणेन वा पंच- महायज्ञेषु एकस्यापि अकरणे अग्नि (ओपासनाग्निरित्यादि ) विच्छेदे बहूनांच होमानांविच्छेदे एवं प्रायश्चित्तं । एकाहं अकरेण मनस्वत्याहुतिः प्रायश्चित्तमस्ति । द्वहं त्र्यहं वापि अकरणे तंतुं तन्वन्नुद्बुद्धयस्वाग्ने त्रयस्त्रि शत्तंतव इति हुत्वा इमं मे बरुण तत्वायामि त्वन्नो अग्ने सत्वन्नो अग्न इति जपेत् । एवं आदशरात्रं ॥ अतः परं विच्छेदे । अग्नेभ्यावर्तिनग्ने अंगिरः पुनरूर्जास हरय्येति हुत्वा । अग्नये तंतुमते चरं निवेपेत् ॥ यथा । औपासनाग्नि प्रतिष्ठाप्य दशरात्रादूर्व पंचमहायज्ञविच्छित्ति प्रायश्चित्तार्थ तंतुमती स्थालीपाकं करिष्ये । आधारवत्तंत्रमित्यादि पचनोनामाग्निः अग्नि स्तंतुमान्देवता इत्यादि संकल्प्य चरुश्रपणांतं कृत्वापक्काज्जुहोति । त्वन्नतंतु- रिति पुरोनुवाक्या स्वयंकृण्वान इति याज्या ॥ त्वन्नस्तंतुरुतसेतुरग्ने । त्वंपंथा भवसि देवयानः । त्वयाग्नेपृष्टं वयमारुहेम ॥ अथादेवैः सधमादं मदमोगुँ स्वयं कृण्वानः सुभगमप्रयावं ॥ तिग्म शृंगोवृषभः शोशुचानः ॥ प्रत्न सधस्थमनपश्यमानः । आतंतुमग्निदिव्यं ततान स्वाहा ॥ अग्नये तंतुमत इदं ॥ एवं ॥ बुद्धया ( इच्छया ) वैश्वदेवाकरणे । वैश्वदेवत्वकृते अति थावागते वैश्वदेवार्थमन्नमुदत्य भिक्षां दद्यात् । वैश्वदेवाकरणदोषं भिक्षुः परि- हरति ॥ यतीच ब्रह्मचारीच विद्यार्थी गुरुपोषकः । अवगः क्षीणवृत्तिश्च पड़ते भिशुकाः स्मृताः ॥
४५ ततः गृहमागतमतिथिं संतोषयेत् । पंचमेभागे भोजनं कुर्यात् । (११) भोजन विधिः। ( ब्राह्मणानामनुकरण प्रकारेण अयं प्रयोगः असमग्र एव प्रदत्तः ) भूर्भुवः सुवरोमिति तत्रन्यस्तमन्नं व्याहृतिपूर्व गायत्र्या प्रोक्ष्य । सत्यं- त्वर्तेन परिषिंचामीति दिवा । ऋतंत्वासत्येन परिषिंचामीति रात्री । इति जलेन प्रदक्षिणं परिषिच्य । अंतश्चरति भूतेषु गुहायां सर्वतोमुखः । त्वं यज्ञस्त्वं वषट्कार स्त्वं विष्णुः पुरुषः परः । इत्यभिमंत्र्य । दक्षिणतो भूमौ दंड- कारेण जलं दत्वा । चित्राय स्वाहा । चित्रगुप्ताय स्वाहा । यमाय स्वाहा । यमधर्मराजाय स्वाहा । इत्यनेन बलिं दत्वा । चित्रादिभ्यो नमस्तृप्तिरस्त्विति तदुपरि जलं दत्वा । तद्वलिं एकत्र संस्थाप्य हस्तं प्रक्षाल्य । सव्येन हस्तेन पात्रममुंचन् दक्षिणेन हस्तेन जलमादाय अमृतोप स्तरणमसी स्वाहेति निः शब्दं जलं पीत्वा । प्राणाय स्वाहा प्राणायेदं । अपानाय स्वाहा अपाना येदं । व्यानाय स्वाहा व्यानायेदं । उदानाय स्वाहा उदानायेदं । समानाय स्वाहा समानायेदं । ब्रह्मणे स्वाहा ब्रह्मण इदं । एवं प्राणाहुतिः ग्राह्या । मुंजीत । भोजनांते जलमादाय । अमृता पिधानमसि स्वाहा इति प्राश्य । इति भोजनविधिः ॥ भोजनानंतरं तांबूल भक्षणं कुर्यात् । इतिहास पुराणानि धर्मशास्त्राणि चाभ्यसेत् । वृथा विवादवाक्यानि परिवादांश्च वर्जयेत् । इति षष्ठसप्तमभागौ नीत्वा । अष्टमे लोकवार्तातु बहिः संध्या ततः पुनरिति । एवं अष्टमभागे सायं संध्यां कुर्यात् । सायं संध्यानंतर अग्निकार्यमौपासनं वा कुर्यात् । ततः प्रातरक्तप्रकारेण वैश्वदेव बलिहरणं च कृत्वा पंचोपचारैः देवमभ्यर्चयेत् । ततो अतिथ्यादि परिवृतो भुंजीत ।
४६ । (१२) सायं संध्या। आचमनविधिः। अंगुष्ठाग्रंसमाकुंच्य मध्यमा मध्यपर्वणि । संहतांगुलि मिस्तस्य तद्गोकर्ण प्रचक्षते ॥ गोकर्णाकृति हस्तेनमाषमग्नजलं पिबेत् । तन्यूनमतिरिक्तं चेत्सुरापान समं भवेत् ॥ गोकर्णाकृति हस्तेन माषमग्नं जलं गृहीत्वांगुष्ठमूलेन ब्रह्मतीर्थेन हृदयंगमं ॐ ऋग्वे. हा। यजु० हा । साम० हा । एवं त्रिवारं जलं पिबेत् । द्विराचम्य इत्यत्र पुनः त्रिवारं जलं पिबेत् । सर्वकर्मसु अयमेव आचमनविधिः । अष्टमभागे सायं संध्यां कुर्यात् । [ आचम्य ] प्राणानायम्य ममोपात्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ सायं संघ्यामुपासिष्ये । आपोहिष्ठेति मार्जयित्वा । ॐ अग्निश्च मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षतां । यदहा पापमकार्ष । मनसा वाचाहस्ताभ्यां । पद्भयामुदरेण शिश्ना । अहस्तदवलं पतु । यत्किंच दुरितं मयि । इदमहं माममृतयोनौ सल्ले ज्योतिषि जुहोमि इति जलं प्राश्य । द्विराचम्य । पूर्ववद्वात्रिंशन्मार्जनं कृत्वा । सूर्याभिमुखो भूत्वा ( अयंकाले एव पश्चिमाभिमुग्वः भवेत् ) आसीन एव अंजलि जले आत्मनस्तेजः संयोज्य तजलं गायत्र्याभिमंत्र्य तं भूमौ क्षिपेत् । ततः आत्मनस्तेजः आकृष्य मूलाधारे संस्थापयेत् । एवमय॑त्रयं दत्वा । चतुर्थाव्यं तु गायत्र्या सप्तव्याहृति संपुटं कालातिक्रमश्चेत् दद्यात् । प्रातः कालबमंत्रमुक्त्वा दद्यात् । ततः असावादित्यो ब्रह्मेति जलहस्तः प्रद- क्षिणं कुर्यात् । अप उपस्पृश्य अथ दर्भेषु पूर्वाभिमुखः उपविश्य दर्भान्धार यमाणः अस्त्रोपसंहारं कुर्यात् । अस्य श्री अस्त्रोपसंहार महामंत्रस्य विष्णुर्ऋषिः त्रिष्टुपछंदः सवितादेवता । सोहमर्कः । आत्मज्योति० । आवाय० । यया । औ०। संवर्तोसि । पा० । उत्तिष्ठदेवि गंतव्यमित्यादि गायत्रीजपांतं सर्व पूर्ववत्कृत्वा । ततः गावत्री जपेत् । गायत्रीजपसमये आसीनः पूर्ववत् यथाशक्ति जपेत् । जपानुष्ठान लक्षगं । शौनकः । कृत्वोत्तानौ करौ प्रातः सायं चाधो- स्वाहा।
४७ मुखौ द्विजः । मध्ये स्कंधकराभ्यां तु जप एव मुदाहृतः ॥ प्रात भौकरौ कृत्वा मयाह्ने हृदि संस्थितौ । सायमास्य समौ कुर्या जपलक्षणमीरितं ।। अन्यत्र । प्रातस्संध्यां सनक्षत्रां तिष्ठन्नासूर्यदर्शनात् । पश्चिमांतु समासीनो जपेदातारदर्शनात् ॥ तथा मध्यमसंध्यायामासीनः प्राडूमुग्वो जपेत् । ध्यायेत्तु मनसामंत्रं० दिति ॥ गायत्री जपानंतर उत्थाय पश्चिमाभिमुखः करौ मुकु- लितौ कृत्वा वरुण मुपतिष्ठते । ( हस्ताभ्यां स्वस्तिकं कृत्वा प्रातस्तिष्ठेत् दिवाकरं । मध्याह्न च ऋजू बाहू सायं मूकयितौ करौ ॥ ) अथ मंत्रः । इमम्मे वरुणश्रुधी हवमद्याच मृडय । त्वामवस्युराचके । तत्वायामि ब्रह्मणा वंदमानस्तदाशास्ते यजमानो हविर्भिः ॥ अहेडमानो वरुणे हबोध्युरुश [ समान आयुः प्रमोषीः ॥ इति द्वाभ्यां मंत्राभ्यां वरुण मुपस्थाय ॥ ओन्नमः संध्याथै । ( इत्यादि पूर्ववत् यथा ।) नमः प्रतीच्यै दिशे याश्च० नम उदीच्यै दिशे० नमः प्राच्यै दिशे० नमो दक्षिणायै दिशे याश्च देवता एतस्यां प्रतिवसंत्येताभ्यश्च नमो नम ऊर्ध्वीय दिशे याश्च देवता एतस्यां प्रतिवसंत्येताभ्यश्च नमो नमो धरायै दिशे० वांतरायै दिशे० नमो गंगायमुनयो० संध्यायै नमः गायत्र्यै नमः० हस्ताभ्यां स्वस्तिकं कृत्वा० । यमाय धर्म- राजाय० केशवं प्रतिगच्छति । उपविश्य पूर्वाभिमुख आचम्य पूर्ववत् अष्टक्षरी पंचाक्षरी जपं कुर्यात् । आचम्य । [अनेन सायं संध्यावंदनकर्मणा श्रीपरमेश्वरः प्रीयताम् । ] इति सायं संध्या ।। अस्मत्पुस्तकेन प्रयोजनम् । प्रयोगमालानामधेययोग्यप्रयोगग्रंथस्य आह्निक प्रयोगात् गृहीतानि बहून्याहिक कार्याणि अस्मत्पुस्तके संति । यानि कार्याणि सामान्यब्राह्मणैः सुलभानि ( सुखेन लभ्यानि ) यानि च तैः अहरहः कृताः भवंति तानि अत्र संति । एतत्कार्याणि ब्राह्मणैः सुकराणि । एत कार्येषु एकं विना अन्यसर्वाण्येतत्कार्याण्युद्दिश्य प्रयोगमालाहिक प्रयोगात् ४८ योग्यप्रयोगाः सकला गृहीत्वा अस्मत्पुस्तके दत्ताः । प्रयोगाणां च कठिणप्रसंगाः प्रायःसर्वत्र स्पष्टीकृताः। अस्मत्पुस्तकस्य एतत्कार्याण्यु द्दिश्य प्रयोगमालाहिक प्रयो- गस्थवचनानि अत्र एवं नियुक्तानि । (१) प्रयोगमालाहिक प्रयोगस्थेभ्यः प्रातः संध्यायाः प्रयोगाचरणस्य अभिप्रेतवचनेभ्यः काल निर्णयवचनानि अकरण दोषकथन वचनानि च विना अन्यसर्वाणां उपरिनिर्दिष्ठा भिप्रेत वचनानां तात्प- र्यमत्रास्ति । माध्याह्नसंध्यायाः सायं संध्यायाश्च एवमेव क्रमः। (२) अग्निकार्याभि प्रेत वचनानि प्रयोगे एव न संति । (३) प्रयोगस्थेभ्यः औपासनस्य प्रयोगा चरणस्य अभिप्रेतवचनेभ्यः कालनिर्णय वचनानि अकरण दोषकथन वचनानि कुंडलक्षण वचनानि च विना अन्यसर्वाणां उपरिनिर्दिष्ठाभिप्रेतवचनानां तात्प- र्यमत्रास्ति । एवं भवेत् । औपासनाग्निं स्थंडिले यः सर्वदा रक्षति स एव कुंडस्य उपयोगं करोति । (४) ब्रह्मयज्ञे तत्प्रयोगाचरणस्य प्रकारांतरं भवेदिति मत्वा प्रका- रांतरवर्णनपराणां वाक्यानां तात्पर्य अस्माभिः अत्र न दत्तम् । (५) प्रयो- गस्थेभ्यः नित्यतर्पणस्य प्रयोगाचरणस्य अभिप्रेतवचनेभ्यः कतिपयवचनानां तात्पर्यमत्रास्ति । खङ्गपात्रतिलैः उपयोगसंबंधस्य वचनानां तात्पर्य न दत्तं । केषुचिदिवसेषु तिलनिषेधः नित्यतर्पणेऽस्ति । नित्यतर्पणं एकेन एव पाणिना कुर्यात् । नतु उभयेन । उभयेन इति यत्पूर्व कथितं तन्न शुद्धम् । प्रयोग कारपद्धति प्रकारेण ब्रह्मचारी गृहस्थो वा नित्यतर्पणं द्वितीयभागे एत्र कुर्यात् । नित्यतर्पणविधिः विस्तरतः दत्तः । कठिण पितृशद्वानां भाषांतरमप्यस्ति । (६) नित्यस्नानस्य विधिः न दत्तो अस्माभिः । एतत्कार्य ब्राह्मणैः न सुकरं । किंतु नित्यस्नान संबंधस्य दुस्तरवचनानां तात्पर्यमत्रास्ति । (७) पंचायतन पूजाभिप्रेतवचनानि समप्राणि संति । (८) प्रयोगमालाहिक प्रयोगस्थेभ्यः वैश्वदेवप्रयोगस्य प्रयोगाचरणस्य सर्वाभिप्रेतवचनानां तात्पर्यमत्रास्ति । एवं अस्मल्लिखिताहिक कार्याण्युद्दिश्यं आहिक प्रयोगस्थेभ्यः एतत्कार्यागामाचरणा भिप्रेतवचनेभ्यः साधारणो पयोगयुक्त वचनानां तात्पर्य अत्र नास्ति । संध्या- ४९ दीनां केषांचित् कर्मणां कालनिर्णयः केषांचित्कर्मणां अकरण दोष कथनं औपासन कुंडलक्षणं च एते साधारणोपयोग युक्त विषयाः । ब्राह्मणास्तान् जानंति एव प्रयोगमालायां च ते संति । किंतु नित्यतर्पणे खङ्गपात्र तिलैः उपयोग संबंधस्य वचनानां तात्पर्य कठिणम् । आहिकप्रयोगरचना भिप्रेत क्चनानि प्रयोगकार एवं गृहीत्वा स्वप्रयोगान् अरचयत् । अतः तान्युद्दिश्य अस्माकं कर्तव्यता नास्ति । अस्मत्पुस्तके कानिचित्कार्याणि समग्रकरणे योग्यानि । त्रयाणां कालानां संध्याः कालद्वयस्य अग्निकार्ये कालद्वयस्य औपासन प्रयोगे ब्रह्मयज्ञः पंचा- यतनपूजा कालद्वयस्य वैश्वदेव प्रयोगेच । एतानि कार्याणि योग्यानि । तेषाम खिलाः प्रयोगाः प्रयोगाचरणस्य च उप गयुक्त वचनानां तात्पर्यमत्र संति । किंतु ब्राह्मणाः अष्टभागानां उपरिनिर्दिष्ठकर्मणां च कालान् जानीयुः । प्रायः ते तान् जाति एव । तेषां कालाः अस्माभिर्न दत्ताः । कस्यचित्कर्मणः अकरण दोषकथनं तत्कर्मणि प्रवृत्ति उत्पादयति तत्कर्मणश्च योग्यतां श्रेष्ठत्त्वं च दर्शयति । किंतु तस्य योग्यतां श्रेष्ठत्त्वं च न यच्छति । नित्यतर्पण भोजन विधिश्च विपुलकरणाय योग्ये । अतः अस्मत्पुस्तके लिखितानां अहिक कार्याणां आचरणेन अकरणदोषप्राप्तिः न संभवति । अकरणं नामन समग्र करणं । किमपि न करणमित्यर्थः । अतः अस्मत्पुस्तकेन आहिककर्तुः अतीव प्रयोजनमस्ति । ॥ पुस्तकसमाप्तिः ॥