Library

Mrxgaang-kalekhaa Naatikaa

Deva~ Shriivishvanaatha · 2005-12-01

PDF Proofread

Front matter

TEXT PROBLEM
WITHIN THE
BOOK ONLY

UNIVERSAL
LIBRARY
OU_184453
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

No text on this page.

51
OUP-391-29-4-72-10,000.
OSMANIA UNIVERSITY LIBRARY
Call No.
S8
PG
Accession No. 51328
V8811
Author
Title
विश्वनाथदव
याङ्कलेखाटिका 29.
This book should be gurned on or before the
date last marked below.

No text on this page.

THE
PRINCESS OF WALES
87 RASUATI BHAVANA TEXTS
No. 26
EDITED BY
GOPI NÄTHA KAVIRAJA
THE
MRGĀNKALEKHĀ NĀTIKĀ
Printeit by Jai Krishna Das Gupta
At the Vidyu Vilas Press, Gopal Mandir Lane,
Benares City.
1929

No text on this page.

मृगाङ्कलेखा नाटिका
श्रीविश्वनाथदेव प्रणीता ।
काशिकराजकीय संस्कृत पुस्तकालय सरस्वतीभवनाध्यक्षेण
साहित्याचार्येण खिस्ते- इत्युपाख्यनारायणशास्त्रिणा
सम्पादिता।
MRGĀNKA LEKHĀ NĀTIKĀ
By
VIS/VANÃ THA DEVA KAVI
Edited with Introduction etc,
By
NĀRĀYANA S'ĀSTRĪ KHISTE, SĀHITYACHARYA,
Assistant Librarian, Govt. Sanskrit Library,
Sarasvati Bhavana, Benares.
1929

No text on this page.

उपोद्घातः ( १ ) अथेयमुपक्रम्यते मृगाङ्कलेखाऽभिधाना नाटिका मुद्रयित्वा प्रकाशयितुम् । अस्याः प्रणेता कविः श्री विश्वनाथदेवो नाम । अयं च दाक्षिणात्यो दक्षिणदेशे गोदावरीतीरपवित्रे धारासुरनगरे त्रिमल्लदेवालब्धजन्मा वाराणस्यां निवासं कल्पितवान् । अस्य समयश्च विक्रमशकस्य सप्तदशं शतकम् । अस्माभिरुपलब्धे प्रायो प्रन्थकत्रैव स्वयं लिखिते प्रकृतनाटिकापुस्तके संवत् १६६४ इति समयो निर्दिष्टो वर्तते तदनुसारेण संवत् १६४० चत्वारिंशदाधक. षोडशशततमविक्रमशकानन्तरभावत्वमस्य वयं कल्पयामः । न्यायसारप्रणेता वैक्रमाष्टादश शतककालिको माधवदेवोऽपि नामसादृश्याद् गोदावरीतीरवर्तिधारासुरनगराऽभिजनवत्त्वाच्च प्रकृ. तनाटिकाप्रणेतुर्विश्वनाथदेवस्यैव वंशोद्भव इति निर्विवादं वक्तुं शक्नुमः। इतोऽधिकं ग्रन्थकर्तुर्विषये किमप्यतिचं नाऽवगम्यते । अनेना- ऽपरेऽपि केऽपि ग्रन्थाः प्रणीता नेवत्यपि बाबु किमपि द्वारं नास्ति । प्रकृतनाटिकायां तत्प्रणेतुः कवितालालित्येन भृशं समाकृष्टा वयं तन्मुद्रणे प्रवृत्ताः स्मः ।

२ उपोद्रातः। ( २ ) अथेदानी प्रकृतनाटिकामधिकृत्य किमपि समालोचनमार. चयामः-तत्रोपरूपकेषु प्रकृतिभूताया नाटिकाया लक्षणं तु यथोक्तं साहित्यदर्पणे- नाटिका ख्यातवृत्ता स्यात् स्त्रीप्राया चतुरङ्किका । प्रख्यातो धारललितस्तत्र स्यानायको नृपः । स्यादन्तःपुरसम्बद्धा सङ्गीतव्यापृता ऽथवा । नवानुरागा कन्याऽत्र नायिका नृपवंशजा । सम्प्रवर्तेत नेता ऽस्या देव्यास्त्रासेन शङ्कितः । देवी भवेत्पुनज्येष्ठा प्रगल्भा नृपवंशजा । पदे पदे मानवती तद्वशः सङ्गमो द्वयोः । वृत्तिः स्यात् कैशिकी स्वल्पविमर्शाः सन्धयः पुनः । इत्युक्तं लक्षणमत्र बाढं संवदति । तथा हि-प्रकृतनाटिकायामपि चत्वार एवाऽङ्काः । अत्र कलिङ्गाऽधिपः कर्पूगतिलको नाम राजा प्रधा- ननायकत्वेन कल्पितः । स च शृङ्गारपायचेष्टितो धीरललित एव वर्णितः । तदनमहिषी देवी विलासवती । रत्नचूडो नरपतेः प्रधानाऽमात्यः काम- रूपेश्वरतनयां मृगागलेखां सिद्धकथितसार्वभौमपतिकामाकलय्य तां स्वस्वामिना संयोजयितुमिच्छति । सिद्धियोगिनीनामिका परित्राजिका महीपतेहितकारिका मृगाकलेखां महीपतेरन्तः पुरं समाकर्षति । अथ मिथः प्रेरितनयनयोरनयोयूनोः सङ्कल्पजन्मा चेतसि विजृम्भते । सखी- उपोद्धातः। ३ नामा नुकूल्येन मिथः समेलनादिना परिपुष्टा रतिरभिवर्द्धते । ततः परं दातवाऽधिपः शङ्खपालो मृगालेखामपहृत्य श्मशाने कालिकायतने तां स्थापयति । मृगाइलेखाऽपहारक्षुब्धचेता उन्मत्तो राजा कर्पूरतिलकः स्वप्राणपरित्यागेच्छया श्मशानं प्रयाति । तत्र दानवेशकरान्मृगा. लेखामाच्छिद्य हत्वा च तं दानवेन्द्रं मृगाङ्कलेखां पुनः प्रत्यानयति । अत्रान्तरे कामरूपेश्वरः कलिङ्गेश्वरान्तिकमुपयाति । रचना तत्र मृगाङ्कलेखां प्रत्यभिजानाति । सर्वे मिथः सङ्गमेन प्रदृष्टा भवन्ति । नाटिका च समाप्यते । इदं संविधानकर्मशतो रत्नावलीमाल. विकामिमित्रमालतीमाधवकर्पूरमञ्जरीत्यादिरूपकैः संवदति । च प्रायो निरुक्तरूपकरचनाभिर्बहूंशे समानाकारा प्रतिभाति । बहुषु स्थलेषु कवेर्नाट्यरचनायामकौशलमिव प्रतीयते, तन्निपुणनिरीक्षकैरेव निध्येयम् । अस्माभिः पुनः प्रकृतनाटिकासम्पादकैस्तदोषकीर्तनं न यो. ग्यमिति परिहृतम् । अस्तु किमपि । मानवे संसारे न खलु किमपि निर्दोष वस्तु। सदोषमपि विपुलगुणमुपादेयमेवेति नीतिमनुसरद्भिरस्मा. भिर्नाटिकेयं काव्यरसिकानां करकमलेषूपायनीक्रियते । इमां मृगार लेखां शिवस्वभावाः सन्तः शिरसा वहन्त्वित्याशास्महे । प्रार्थया- महेच गुणगृह्यान् विपश्चितो भ्रमप्रमादादिजानि स्खलितानि ते क्षाम्यन्त्विति ।

४ उपोद्वातः। ( ३ ) प्रकृतनाटिकादर्शपुस्तकं प्रकाशनाय सस्नेहं वितरयः सोलापुर करोपाख्य पं० रामशास्त्रिपौराणिकेभ्यः सादरमनेकान् धम्यवादान् वितरामः । यैरस्माकं मित्रवरैर्येन केनाप्यध्वना प्रकृतपुस्तकसम्पादने महनीयं साहाय्यमाचरितं, तेभ्यः सर्वेभ्यः सादरमनेके धन्यवादाः। सर्वान्ते सर्वप्रधानभूतानां काशीस्थराजकीयपाठालयप्रधानाध्यक्ष प्रभुवर श्रीगोपीनाथकविराजपूज्यपादानां महनीयं साहाय्यं सादरं सधन्यवादम- भिनन्ध समुपसंहरामः पल्लवितमुपोद्धातामिमम् । सरस्वतीभवनम् काशी विद्वज्जनवशंवदः नारायणशास्त्री खिस्ते

॥ श्रीः ॥
मृगाङ्कलेखानाटिकास्थितपात्रपरिचयः ।
पुरुषाः
४ रनचूडः
१ सूत्रधारः
२ पारिपावकः
३ कर्पूरतिलकः
कलिङ्गाराजः प्रधाननायकः
कलिङ्गराजकपूरतिलकस्य मुख्यामात्यः
५ शपालः
दानवराजो मृगाकलेखाऽपहर्ता
६ शाखामृगमुखः = कर्पूरतिलकस्य वयस्यो विदूषकः
७ कुण्डरुधिरः
राक्षसः
८ कलकण्ठः
कर्पूरतिलकस्य वयस्यः
९ कामरूपेश्वरः = मृगाकलेखायाः पिता
१० नीतिवृद्धः
कामरूपेश्वरीऽमात्यः
कामरूपेश्वरतनयः
१२ तिग्मप्रतापः = कर्पूरतिलकस्य सेनापतिः
वैतालिकोद्यानपालकञ्चुकिप्रतिहारिपिशाचप्रभृतयः ।
॥
॥
११ चण्डघोषः

No text on this page.

स्त्रियः
॥
कामरूपेश्वरतनया प्रधाननायिका
मृगाइलेखासखी
॥
१ नटी
२ मृगाइलेखा
३ कलहंसिका
४ लवनिका
५ सिद्धियोगिनी
६ विलासवती
७ नवमालिका
८ लम्बस्तनिका =
कर्पूरतिलकस्योपकारिका परित्राजिका
कर्पूरतिककस्य प्रधानमहिषी
विलासवत्याः सखी
कुण्डषिरस्य गृहिणी
॥

No text on this page.

॥ श्री॥ मृगाङ्कलेखा नाटिका। दूराद कनिमहारप्रबल भरनतमौदद करेन्द्र- श्वासोट्रेकमशुष्यज्जलधिजलभरप्रस्तपाठीनकूटम् । गङ्गारिङ्गसरतावलिवलितजटाक्षालनं शुलपाणे: पायादायासखेदाज्जगदिदमखिलं ताण्डवाडम्बरं तत् ॥ १॥ अपि च- वामां वामाङ्गभागे कलयति मदनप्लोषकीर्ति च धत्ते सत्रयांकुलोऽपि प्रकटयति करे नारमेकं कपालम् । दाता मुक्तेरीयान्भवति स भुवने या स्वयं चाविमुक्तः पायान्मायादुरूहो गिरिवरतनयावल्लभो भूतनाथः ॥ ९॥ अपि च- रोषाकुञ्चितपाणिपल्लवतया सेवाञ्जलिनों कृतः स्तब्धकाङ्गतया च नो नतिततिर्विस्तारिता शम्भुना। नो किश्चिद् गदितं च मुकपदवीं वक्त्रैकदेशे गते पार्वत्याः सफलैब मानपदवी पायात्रिलोकीतलम् ॥ ३॥ नान्यन्ते सूत्रधारः--अलमतिविस्तरेण । अद्य कि. लाचलतनयालोचनचारुचश्चरीकचक्रवालचुम्बितबदनसरोजस्य ताण्डबाडम्बरविलालतगङ्गाजलधाराधीतनरकपालावलीसनात. नवीनचन्द्रशेखरकौतहलाकुलितसकललोकवन्दितपादारविन्दस्य २ मृगाकलेखानाटिका। निटिलानलभस्मीकृतमकरकेतनविरहविधुरतिसन्तोषकस्य वारा. णसीपतेविश्वेश्वरस्य यात्रायां मिलिता एव पार्षदाः । तथा हि-- एते वनकलिङ्गासिलवललगभूलिङ्गगा. श्वश्चद्राविडगांडचोलविलसत्काश्मीरसौवीरजाः । अन्ये लाटवराटभोटतटगाः कर्णाटचे घुद्भवाः केऽप्यन्ये कविवाक्यकौशलकलाविज्ञा महाराष्ट्रजाः ॥ ४ ॥ तदत्र गत्वा निजगुणकणिकाकौतुहलमदर्शनाय सकलमेव विदग्धजनं प्रार्थयामि । अथवा कृतं मार्यनया । यत:- विकसितसहकारश्रेणिकुञ्ज मिलिन्दाः सरसनलिनवापीमध्यदेशे मरालाः । निविडजलदकाले किं च ते नीलकण्ठाः कथय किमिह ते ते प्रार्थनामाश्रयन्ते ॥५॥ (ऊर्ध्वमवलोक्य ) अये कथमुदयाचलान्तरित एष भग. वानम्भोजिनीवल्लभः परा कोटिमधिरोहति रमणीयतायाः । ( अञ्जलिं बवा) अशलान्तरितचोलसुन्दरी. कुडुपाक्तकुचमण्डलममम् । कोकशोकदहनाम्बुदमेक पधिनीरमणमेष नतोऽस्मि ॥३॥ (इति प्रणम्य ) सद्यावद् गृहमेव गत्वा रमणीमाहूय क. स्थापि शृङ्गारामृतप्रायस्य प्रबन्धस्याभिनयाय सजीकरिष्या. मि सकलमेव कुशीलचजनम् । ( नेपथ्याभिमुखमवलोक्य ) इद- प्रथमोऽङ्कः। मस्मदीयं गृहम् । यावत्मविशामि । ( प्रविश्य सर्वतोऽनलोक्य) (सहर्षम् ) कथमत्र सर्वतएव महोत्सबारम्भः । तथा हि- एषा कुन्तलमालिका मुकुठमश्रोणिं विधते जवा. दन्या चन्दनमङ्गना कुचतटे विस्तारपन्ती स्थिता। अध्यन्या चरणेऽपि यावकरसं बाला तनोत्यादरा. दालीलोचनपञ्जनेन तरुणी सेयं करोत्याञ्जितम् ॥ ७॥ अपि च- एताः प्रियालतरुमुन्दरमअरीभिः कर्णावतंससरंसीरुहमश्चयन्ति । द्राक्षालतापरिवितोपवनालिमेताः सारङ्गशावनयनास्त्वरितं प्रयान्ति ॥ ८॥ तन्न जाने महोत्सवकारणम् । सावत्मियां ध्याहरामि । प्रिये ! इतस्तावत् । (प्रविश्य ) नटी-(१)अज्ज ! घरकम्मवावडा अहं तुए कीस आलविदा । -आर्ये, कथय केयं महोत्सवपरम्परापरिणतिरस्मद्गृहे । नटी--अज(२) किल भअवदो अणंगसासणस्स दंसणुक्कंठि. सूत्र- (१) आर्य ! गृहकार्यव्यापूनाऽहं स्वया कीहशमालपिता। (२) अद्य किल भगवतोऽनङ्गशासनस्य दर्शनोत्कण्ठितसकल. नागरजनस्य अप्रतः कौतूहलं कर्तु पर्युत्सुकः सकलएव कुशीलवज. नः। स एष मधूत्सबारम्भः । तत्कथय किमत्राऽमिनीय कौतूहला. कान्तमान सम्पादयामो नागरजनम् ।

मृगाङ्कले खानाटिका। दसअलणाअरजगस्स अग्गदो कोदूहलं काढुं पज्जुम्सुओ सअ. लो ज्जैव कुसीलबजणी । सो एस महूसवारंभो । ता कहेहि किं एस्थ अभिणीअ कोहलकंतमाणसं संपादेम्ह णाअरजणं । सूत्र---तदेताहशि वाराणसीनगरे समीचीनतमप्रवन्धेन मृगाङ्ग. लेखोदयेन सकलकलाकोविदानाममीषां चित्तचकोरे चम. स्कारं कुर्मः । अथवा कृतमस्माकं परिहासैकफलकेन कविगो- ष्टीविनोदनकौतूहलेन । यतः, कुम्भाम्भसा जलनिधेराभिषेक पूजा कापिंदरधरणीधरसेवनानि । दीपावलीविरचनं न नु पनबन्धोः स्मेराननं न वितनोति जनं किमेतत् ।। ९ ।। (आकाशे ) किं ब्रीषि स्वत एव काव्यकलाकलापकुशलाः समाजिका इति । ( विहस्य ) केयं शङ्का बत कविकथालम्पटोऽसौ प्रसिद्धो विद्वत्सार्थः प्रथितयशसा तर्जितोदामचन्द्रः । शुभूषुस्ते किमपि गदितं पूरयैतस्य वाञ्छां द्विवरिन्दुः स्वकरनिकरः क्षीरधि नो घिनोति ॥ १० ॥ ( श्रुत्वा सोल्लासम् । ) कथं नियोजयन्ति मामार्थमिश्राः पर्षदाराधनाय । तदनतिक्रमणीयं गुरोर्वचनम् । ( नटी प्रति।) प्रिये ! प्रस्तृयतां सङ्गीतकम् । नटी-(३)ता किं गीदं ? (३) तत् किं गीतम् ।

प्रथमोऽङ्कः। ५ सूत्र०-अथ किम् । नटी--(१) ता अग्गदो तुह्माणं भोदु । सूत्र--(गायति ) मुरभिसमीरणवेल्लल्लवलीलतिकापनोज्ञनिकुञ्ज । रचयति पश्चमनादं कुण्ठितपान्था हि कलकण्ठी ।। ११ ॥ नटी-(गायति)(२)मअरन्दपाणमहुरं गीदं सुब्बइ मत्तमहुअरीणम् । एदेहि भमरेहिं फुल्लिदमल्लीलदाकुंजे ॥ १२ ॥ सूत्र--तदिदानी का खल्वमीषां चेतश्चकोरचमत्काराय मृगा. ङ्कलेखा भवेत् । नटी-मिअङ्कलेहाजे व(३)। ( नेपथ्ये ) भाव ! त्वर्यताम् २ । सूब०-(स्मृतिमभिनीय सहर्ष) नन्विमामेव गोदावरीतीरपवित्र- धारासुरनगरनिवासिनः साम्प्रतविरचितवाराणसीवसतेस्त्रिमा ल्लदेवतनजस्य विश्वनाथशर्मणः कृतिं मृगाङ्कलेखाभिधानां नाटिकामभिनेतुमुयुक्त एवास्मि । (प्रविश्य ) पारिपावकः--भाव ! अनतिमसिद्धस्य तस्यैव दा. क्षिणात्यस्य कवेः कृती प्राचीनप्रबन्धानवधूय पर्युत्मुकः सामा- जिकजनः । सूत्र--मारिष ! उचितमेवैतद्विदग्धपुरुषाणाम् । तथा हि-- (१) तत् अग्रतो युष्माकं भवतु । (२) मकरन्दपानमधुरं गतिं श्रूयते मत्तमधुकराणाम् । पतैमरैः फुल्लितमल्लीलताकुले ।। (३) मृगाङ्कलेखैष ।

मृगाङ्कलेखानाटिका। अतिपरिचयदोषात्मौढबालेव वाणी न रचयति विनोदं प्राक्तनानां कवीनाम् । अभिनवकविवाचा काऽपि रीतिर्नवीना युवतिरिव विधत्ते प्रौढमानन्दमन्तः ॥ १३ ।। ( नेपथ्ये ) साधु भोः कुशीलव साधु । ( अतिपरिचये. त्यादि पठति ।) सूत्र--(विलोक्य ) एष देवस्य कर्पूरतिलकस्य प्रधानसर्वखं रत्नचूडशर्मा साधुवादपुरःसरं इत एवाभिवर्तते । तदनन्तरक- णीयाय सज्जभिवामः । ( इति निष्क्रान्ती) प्रस्तावना। (ततः प्रविशति रवचूडः। ) रखचूड:--साधु भोः कुशीलव साधु । (अतिपरिचयेत्यादि पठित्वा) अत एवास्मत्स्वामी कलिङ्गेश्वरः कामरूपेश्वरतनयां मृगा. लेखां मृगयामसङ्गेनावलोक्य न तथा चिरपरिचितां विलासवती मन्यते । किं बहुना, नाङ्गं भूषणभूषितं रचयति मीणाति वीणारवै- नों संसत्सु करोति चिन्तनभरादानन्दवाष्पोद्गमम् । चित्रे चञ्चललोचना करतले धर्तुं समुद्योगवा. नायासं गमितः स्मरेण विशिखैर्धारस्वभावोऽप्ययम् ॥ १४ ॥ अपिच पारं वारं इसति किमपि श्वासमश्चत्युदारं स्फाराम्भोभिः स्थगयति दशौ सस्तकेशोतरीयः ।

प्रथमोऽङ्कः । ७ हारं वष्टि श्रयति विजने पङ्कजश्रेणिशयां पीयूषा| सपदि मनुते तिग्मरश्मिप्रतापम् ।। १५ ।। तदिदानी तत्सङ्गमोपायमनोरथं फलितमिव पश्यामि । यतस्तद्रूपोन्मादमोहितस्तां तिरस्करिण्या विद्यया यावदपहरति दानवः शङ्खपालो नाम तावद्भगवत्या सिद्धियोगिन्या महारा. जैकपक्षपातिन्या समाकृष्टवान्तःपुरम् । उक्तं च देवी प्रति स्थापनीया सखीवेयं बाला मृगाङ्कलेखा। निर्मितश्च तयैवाघ मकरन्दोद्याने वसन्तोत्सवनिर्भर इति । (ऊर्ध्वमवलोक्य ) क. यमुदयाचलकुरविन्दकन्दलशिलाशोभाकामुकः कामुकाव रा. गसङ्घलो रजनीविरामशंसी अोदितः पद्मिनीरमणः । नेपथ्ये वैतालिकयोरेकः-- जय जय महाराजाधिराज ! कलिङ्गराज ! मुखाय प्रभा. तवेला तत्रभवतो भूयात् । सम्प्रति हि- फुल्लाम्भोजपरागांसलमिलन्मत्तालिमालाकुल. व्याहारैरियमत्र पङ्कजवनी वाचालभावं गता । अस्तं याति कलानिधौ कुमुदिनी सङ्कोचदीनानना जाता सम्पति चक्रवाकमिथुनं सन्तोषमालम्बते ॥ १६ ॥ तत्रैव द्वितीय:- जय जय कलिङ्गविलासिनीलोचनाना ! मुखाय प्रभातवे. छा तत्रभवतो भूयात् । सम्पति हि- निद्राभविघूर्णमाननयनं विस्रस्तपम्मिल्लक जृम्भारम्भविकासदर्शितकसभाभीगभीराशयम् ।

मृगाङ्कलेखानाटिका। किश्चित्कुचितलोचनाञ्चलतया मन्देक्षणं सुन्दरी कान्तागारगता प्रयाति भवने मूर्योदयाशङ्किता ।। १७ ॥ अपि च- क्रीडासनि कलिलम्पटतया सम्भोगखिनाङ्गना. निद्राभञ्जनकोविदो गृहशुकव्याहारदीक्षागुरुः । जीमूतध्वनिमन्यरो बधिरयन्सर्व त्रिलोकीतलं प्रातःकालमृदङ्गमङ्गलरवः शोभा विधत्तेतराम् ॥ १८ ॥ ०-(ऊर्ध्वमवलोक्य) कथमयं देवः कर्परतिलकः सकलनि. शाजागरक्षामक्षामगाव: पाण्डुरकपोलमण्डलः द्वारदेशगतेन शाखामृगमुखेन प्रियवयस्येन सङ्गच्छपानो मनसा तत्सम्बन्धिः नी कथा कथयन् शय्यामन्दिरमध्यास्ते । तदहमपि राज्यभा. रनिर्वाहायाभ्यन्तरमेव प्रविशामि । इति निष्क्रान्तः । विष्कम्भकः । (ततः प्रविशति यथानिर्दिष्टो राजा विदूषकश्च । ) राजा- केनापि चञ्चलहगश्चलविभ्रमेण चन्द्रानना मयि चकार सरोजमालाम् । हा ! हन्त ! सा स्मृतिगतापि तनोति. दाह केयं प्रकाररचना मकरध्वजस्य ॥ १९ ॥ अपि च- सा बन्धुकधुतिरधरयोर्माधुरी सा अक्षराणां तेः कालिन्दीसलिलकुटिलाः कुन्तलपान्तभागाः।

प्रथमोऽङ्कः। स्वर्णाम्भोजद्युतिसहचरी सा कुचाऽऽभोगलक्ष्मी. स्तनस्तन्व्या गमनमलसं मानसं नो जहाति ॥ २० ॥ विद्०-(उपमृत्य) (१)जेदु २ पिअवअस्सो। राजा-(अश्रुतिमभिनीय) पुनस्तदेव पठति । विद्०-(२)अञ्चरिअं २ कई पिअवअस्सो पहादमंतं भणा- दि । ता अहं पि बह्मणीए कदस्स पच्चग्गमोअअस्स क- हालावहिं विणोदेसि अप्पाण। -(विलोक्य) कथं पियवयस्यः । विदू०-(३)तुह सोस्थि भोदु । भो वअस्स किं तुमं भिक्खुअ. बम्हणो विअ पढणेक्करसो कुरकुराअंतो चिठ्ठसि । ता कहेहि कीदिसी सा जाए कुंचिदेहिं लोअणेहिं तुमं पेक्खिदो। राजा-सखे किं वय॑ते सा । यस्याः- नीलन्दीवरमेव लोचनयुगं बन्धूकतुल्योऽधरः कालिन्दीजलचारुकुन्तललता बाहू मृणालोपमौ । रम्भागर्भसमानमूरुयुगलं किं वा बहु ब्रूमहे सेयं कापि नवीनमीननयना सर्वोपमानिर्मिता ॥ २१ ॥ (१) जयतु २ प्रियवयस्यः। (२) आश्चर्यमाश्चर्यम् । कथं प्रिवयस्यःप्रभातमन्त्रं भणति । तद. हमपि ब्राह्मण्या कृतस्य प्रत्यग्रमोदकस्य कथालापैर्विनोदयाम्या. स्मानम् । (३) ते स्वस्ति भवतु | भो वयस्य किं त्वं भिक्षुकब्राह्मण इव पठनैकरसः कुरकुरायमाणस्तिष्ठसि । तत्कथय कीडशी सा यया कुञ्चिताभ्यां लोचनाभ्यां त्वं प्रेक्षितः । २ मृगाकलेखानाटिका। इदानी च तस्याः इन्दु निन्दति पार्वणं मुखशशी मीनागना लोचने धम्मिल्लोऽपि कलिन्दौलतनयां दन्तावली मौक्तिकम् । किमान्यत्कमनीयकाञ्चनरुचस्तस्याः स वृद्धिं गतो लावण्याम्बुधिरन्धयत्यनुदिनं यूनां मनासैकतम् ॥२२॥ विद्-(१)मो वअस्स कीस णाभिसरसि तं मिअलोअणं । राजा-बयस्य सम्यगभिहितम् । तथापि, दृष्टा मत्तचकोरचारुनयना देवेन यावन्मया सावत्पश्चशरश्चकार हृदयं बाणावलीमकुलम् । कस्गेयं क गताक वा प्रचलिता किंवा वनश्रीरियं किं वा कामविलासिनीति न मया ज्ञाता न मुग्धात्मना॥२३॥ तम्न जाने काऽत्र प्रतिपत्तिरिति । (नेपथ्ये) सुखाय वसन्तावतारो भवतु देवस्य । सम्पति हि- रम्यैः कोकिलकाकलीकळकलैर्वाचालमास्ते धनं जेतुं त्रीणि जगन्ति किं च मदनः सानन्दमुज्जृम्भते । माकन्देषु लसन्ति चश्चलहशा दोलाविलासाः कलं गुञ्जन्ति प्रतिपल्लवं मधुकराः किं कामदेवाज्ञया ॥ २४ ॥ विद्-(२)भो अस्स एदे वंदिविंदारा रुदुराअं अहिणं- - (१) मो वयस्य ! कीशं नाऽभिसरसि तां मृगलोचनाम् । (२) मो षयस्य । एते बन्दिमदारका मातुराजमभिनन्दन्ति। वदेहि प्रमदवने मदनमहोत्सवं प्रेक्षमाणः मास्मानं विमोदय ।

प्रथमोः। दति । ता एहि पमदवणम्मि मअणमहसवं पेक्खंतो अ. प्पाणअं विणोदेहि। राजा-वयस्य सम्यगभिहितम् । एहि तत्रैव गच्छामः । (इति परिकामतः ।) विद्-(१)एदं कोइलालावेहि संकुलं पमदवणं ता एस्थ पवि. सपिअअस्सो। राजा-(पविश्य समन्तादवलोक्य) अहो सर्वत एव वसन्ताव. तारः । तथा हि- सपदि मुकुलितेयं किंशुकानां वनाली ललितमधुपमाला विभ्रमं सन्तनोति । इह घनमकरन्दामोदमाघम्मिलिन्दा विलसति सहकारश्रेणिराकन्दकुब्जा ॥ २५॥ अपि च, इह किसलयलीलालोलशाखो रसालः कलयति कलगीतं कोकिलालीवितीर्णम् । कलितनवलवङ्गीसङ्गभङ्गीविलासै- रभिनयमिह मृङ्गी गीतमङ्गीकरोति ॥ २६ ॥ ( स्पर्शमभिनीय सरोमाञ्चम् ) कावेरीजलसङ्गशीतलशिलापृष्ठ लुठन्तः क्रमा- दान्ध्रीपीनपयोधरोच्चशिखरपाग्भारसञ्चूर्णिताः । (१) एतत् कोकिलाछापा सडुलं प्रमदनं तदा प्रविशतु प्रियषयस्या मृगाङ्कलेखानाटिका। चोलीलोचनलालिताः कुचतटे लाटीभिरालिङ्गिता दूता एव मनोभवस्य भुवने चञ्चन्ति चैत्रानिलाः ॥ २७ ॥ अपि च । .. - उभिद्राम्भोजरेणूत्करदरदलनामोदमाघम्मिलिन्दः स्पन्दन्माकन्दवीथीपथि पथिकदशालम्बनान्मन्दमन्दः । हिन्दोलाकेलिलीलाऽलसललितदृशां लासयन्कुन्तलाली- मुल्लासी शीतलाङ्गः किसलयति मनश्चैत्रचारी समीरः॥२८॥ विद०-(१)भो वअस्स एदं मारुदं वणिअ पंडिदगब्बं उब्बह- सि । ता अहं पि एणं सिंदुवारमंजरीहिं संकलिदं मल. अमारुदं वण्णिअ पंडिदो हुविस्सं । राजा-वयस्य ! एवं क्रियताम् । विदू०-(२)एसो सिंघलकामिणीघणथणत्याणमि कत्थूरिआ. पङ्कासोसणलंपडो दविडजामाणस्स पाहच्चरो । तेलंगीवसणस्स पच्चणकरो पंडीण लीलागुरू मंदं वच्चदि मंजरींहि कलिदो कामिव्व चेनाणिलो॥२९॥ (१) भो वयस्य ! पतं मारुतं वर्णयित्वा पण्डितगर्वमुद्वहसिं । तहमपि एनं सिन्दुवारमअरीभिः सङ्कलितं मलयमारुतं वर्णयि. स्वा पण्डितो भविष्यामि । (२) एष सिंहलकामिनीघनस्तमस्थाने कस्तूरिका- पङ्काशोषणलम्पटो द्रविड जामानस्य पाटच्चरः । तैलीयसनस्य नर्तनकरः पाण्ड्यानां लीलागुरु- मन्दं वर्तते मञ्जरीभिः कलितः कामीष चैत्रानिलः।

प्रथमोऽङ्कः। राजा-(समन्तादवलोक्य )। कः कोऽत्र भोः । (प्रविश्य उद्यानपालः) उद्यान०-आज्ञापयतु देवः । राजा-कचिद्विनोदस्थानमावेदय । उद्यान-अतिमनोहरं माधवीलतामण्डपमवधारयामि देवावास. योग्यम् । विद्०-(१)ता अग्गदो होहि । राजा-गच्छाग्रतः । उद्यान-इत इतो देवः । राजा-अहो रमणीयता माधवीमण्डपस्य । तथा हि- इह शिरीषवने वनितासखः किमपि गुञ्जितमश्चति षट्पदः । पुनरितोऽपि सरोजवनानिलस्तरलयत्यबलावसनाचलम् ॥२९॥ (पुनरन्यतो ऽवलोक्य)। मधुचपलमिलिन्दीलोलमिन्दीवराली. कलितमतुलमेनं सैन्दुवारं निकुञ्जम् । रसिकइव सलील कोकिलागीतलोभा. दिह चलति वसन्ते मालतीमन्दवातः ॥ ३० ॥ उद्यान-एतदप्यवलोकयतु देवः, एता लबालतिकामुतरङ्गिताङ्गी मृत्रीमनगमधुरध्वनिसाधुरीतिम् । (१) तत् अप्रतो भव ।

मृगाङ्कलेखानाटिका। लीलालसः कमलकाननकेलिलोल: सानन्दमेष मधुपः स्पृहयाम्बभूव ॥ ३१ ॥ इतव, सिंहलीधनकुचाचलपाता. चूर्णितश्चपलरीतिमुदस्य । वाति मालववधूमुरतान्तो. द्भासिशीकरहरोऽत्र समीरा ॥ ३२ ॥ अपि च, एते स्वर्गतरङ्गिणीपरिणमद्राजीवराजीलस- मृङ्गश्रेणिकदम्बचुम्बनभरोदश्चन्मरन्दाज्ज्वलाः। स्वारीकुचकुम्भचन्दनरसोल्लासमनोजन्मनः साहाय्यं रचयन्ति हन्त परितस्ते ऽमी वसन्तानिलाः ॥३॥ राजा-(मदनाकूतमभिनीय)। पाणान्संहर पञ्चवाण किमु रे निर्मासि मर्मव्यथा मा मा कोकिल काकलीकलफलैः कर्णस्य दाहं कुरु । भो भो मारुत सिन्दुवारकलिकामादाय किं ज़म्भसे सा नो हन्त नवीननीरजमुखी कुत्रापि लभ्या मया ॥३४॥ (इति मूच्छितः पतति ) । ( नेपथ्ये कलकल: ) राजा-(सहसोत्थाय विपकं प्रति ) सखे ! कथमत्र कोलाहल. इव श्रूयते । विद्-(१)ता अपसरम्ह । (१) अपसरावा।

प्रथमोऽ। राजा-कुतोऽत्र भीतिसम्भावना । वि०-(१)ज अकिदसंझोपासणं दिसं पम्हणं देक्खिअ भूद. संघाणं कोलाहलो सुणीअदि । राजा--धिङ् मूर्ख ! क भूतचर्चा नूपुरशिञ्जिते । जानामि वस- न्तोत्सवसम्भार एवायम् । (ततः प्रविशति मृगाङ्कलेखा कलहंसिका लवत्रिका परि- वारसमूहश्च ।) कल०--ए दुरपिअसही(२)। राजा-(दूरादवलोक्य सहर्पम्) मौलौ कलिन्दतनयामयमम्बुजश्रि नेत्रे मृगाङ्गमदहारि यशःप्रशस्तौ । स्वर्णाम्बुजाभमुरासि स्मरवापिकामं नाभीपथे किमपि यौवनमाविरास्ते ॥ ३५ ॥ विद्०-( ससम्भ्रमं ) परिचाहि(३) । राजा-केयमलोकशङ्का । विदु०--अप्पणो कदे ण भणामि(४)। राजा-तत्कस्य कृते । (१) यत् अकुतसन्ध्योपासनं ईशं ब्राह्मणं दृष्ट्वा भूतसङ्गाना कोलाहलः श्रूयते । (२) एनु २ प्रियसखी। (३) परित्रायस्व । (४)मात्मनः कृतं न भवामि ।

१६ मृगाङ्कलेखानाटिका। विदू०--णं तुज्झ कदे, जं एसा रक्खसी(१) उम्मीलिदलोअणा इदोमुही तुमं जेव णिज्झाअन्ती इदोज्जेव आअच्छदि । राजा-(विलोक्य सोत्मासं) सखे ! सैवेयमस्मन्मनश्चकोरोन्मा- दिनी वाला मृगाङ्कलेखा । (पुनः सानन्दम् ) वयस्य ! स्मेराननोल्लसदशोकदलाधरामा दूरादियं तरलतारकमम्बुजाक्षी । लक्षीकरोति हृदयं विषमाशुगस्य बाणैरिवातिविषमैर्मधुरैः कटाक्षः ॥ ३६ ॥ अपि च, अन्तः स्मितमुधासारोल्लसदाननपङ्कजा अपाङ्गैरङ्गना गाड्रेस्तरङ्गरिव सिञ्चति ॥ ३७ ।। (चिरं निर्वर्ण्य ) वयस्य ! पाण्डु क्षामं वदनमधरो धूसर श्वाससङ्गा- दाभोगे भवति मलिना मालतीपुष्पमाला ।। लीलामन्दं गमनमधिकं [ प्रेक्षते ] शून्यशून्यं मन्ये चिन्तां चपलनयना चेतसा स्वीकरोति ॥ ३८ ॥ निः श्वासेनाधरदलतललेशमेषा विधत्ते धत्ते किञ्च स्फटिकशकलोद्भासि पाण्डे कपोलम् । (१) ननु तव कृते । यदेषा राक्षसी उन्मीलितलोचनाइतोमुखी. स्वामेव निवा॑यन्ती इतएवागच्छति ।

प्रथमोऽङ्कः। १७ तन्वी यस्माद्विलसति तनुस्तेन तव्याः प्रतीम. श्चिन्ताभारश्चिरतरमसौ चित्तमङ्गीकरोति ॥ ३९ ॥ तदहि प्राणेश्वरीमभिसरामः । ( इत्यभिसरतः । मृगाङ्क-( राजानमवलोक्य ) हिअ ! समस्ससिहि २ । फल-( राजानमवलोक्य सस्मितं ) आसणम् २ । मृगाङ्क-( स्वीयमासनमर्पयितुमिच्छति । ) राजा-मुन्दरि, अलमलमायासेन । त्वं सर्वस्वं त्वमसि हृदयं जीवितं त्वं मदीयं त्वं में प्राणाः कमलनयने मामकीनं मनस्त्वम् । त्वं जानीषे यदि सुवदने सोपचारं वचो चतःसाक्षी भवति भगवानावयोः कामदेवः ॥ १० ॥ (इति पाणौ धतुमिच्छति ) ( नेपथ्ये ) मृगाङ्कलेख ! विरम वसन्तोत्मवात् । भगवती सिद्धियोगिनी द्रष्टुमिच्छति । राजा-(ससम्भ्रमं मृगाङ्कलेखां विमुच्य ) कथं सिद्धियोगिनी। मृगा०-( राजानमवलोकयन्ती प्रस्थितैव ) ( नेपथ्ये ) वैतालिकयोरेकः-जय जय जय निजजभुजभराक्रान्तभूवलय ! माध्यन्दिनी सन्ध्या सुखाय भूयात् । सम्प्रति हि- दत्वा पाटीरपडू सपदि कुचतटे काऽपि निद्राति बाला दोलाशय्यासु वेलां गमयितुमधुना हन्त माध्यन्दिनीं ताम् । (१)हदय ! समारसिहि २। (२) मासनम २। तत्रभवतः ३ १८ मृगाङ्कलेखानाटिका। एते मातताः करतनलिनीतालवृन्ता: सहेलं मनाः कासारनीरे सपदि जलकणानूप्रदेशे लिपन्ति ॥४१॥ (पुनस्तत्रैव द्वितीयः) जय जय महाराजाधिराज ! कलिङ्गाराज ! अम्बरमध्यगतो भगवान् भानुमाली सुखाय ते भूयात् । सम्पति हि- भानोरुपैः समन्तादजनि किल वनी पान्थ सङ्घाकुलेयं छायाबहाशयास्ते वनमतिगहनं पान्ति वेगात्कुरङ्गाः । किञ्च क्रीडाकपोतः पिबति जलकणान्वारियन्त्रप्रयुक्ता- नङ्गे कान्तस्य बाला स्वपिति रतभरमौढमनातखेदा ॥४२॥ राजा-- ( ऊर्ध्वमवलोक्य ) अये कथं तप्तकातस्वरपिण्डसङ्का. शमूर्तिरम्बरमध्यमधिरोहति भगवान् भानुमाली । सम्पति हि- मूले मूले तरूणां पिबति जलममी चक्रवाको वराकः कुछ कुञ्जे मृगीभिः सह हरिणयुवा पान्थगीतं शृणोति । किंचाऽत्यन्तं गभीरे सरमि निपतितं मत्तमातङ्गयूथं त्यत्का तापातिरेकात्सरसि विकसितशिल्लकीकाननालिम् ॥४॥ विदू०-(१)मो वअस्म ! ता एहि देवीए भवणं गद्अ मज्झण्ड- विहिं का, अन्भन्तरमेव पविसामो । राजा-वयस्य ! सम्यगभिहितम् , एहि तत्रैव गच्छामः । (इति निष्कान्ता:मर्वे) प्रथमोऽङ्कः ॥ १॥ (१) भो वयस्य ! तदेहि देव्या भवनं गत्वा मध्यान्हविधि कर्तुं अभ्यन्तरमेष प्रविशाषः ।

द्वितीयोऽङ्कः। (ततः प्रविशति सिद्धयोगिनी) (परिक्रम्याऽवलोक्य) कथं विभातपाया विभावरी । तथा हि- पाची नीचीकरोति स्फुरदरुणकरैन्धकारमपञ्चं किचासो चन्द्रपादैस्तिमिरकवलिता धूसराऽभूत्पनीची । तारास्फाराभिरामाश्चरमजलनिधेस्तारमुक्ता इवैता. श्चश्चन्ति द्रागमूयां परिहरति विधोश्चक्रवाकाङ्गजोऽपि ॥१॥ अपि च, एते कर्पूग्धूलीधवलतनुरुचश्चन्द्रपादाः पकाम पाश्चात्याम्भोधिनीरं सपदि विदधते धूमरपान्तरालम् । एतेऽपि स्वर्गकन्याकरकमलगलल्लोललाक्षारसाभाः प्राचीभागं सरागं रचयितुमुदिता भास्करीयाः करौघाः ॥२॥ तदिदानीमाधिखिनमानसां वत्सां मृगाङ्कलेखामवलोकयितुं प्रस्थिताऽस्मि । ( इति परिक्रामिति ।) (ततः प्रविशति कञ्चुकी) (जरानिःस्सह परिक्रम्य) अहो जरा जर्जरीकरोति मे शरीरम् । इयं हि- निःपात कम्पपड़े रचयति कुरुते पानसे किं च मोहं प्रत्यङ्गं सङ्गतैव स्फुरति मृदुवलीचारुभावं दधाना ।

२० मृगाङ्कलेखानाटिका। साई मार्गेऽपि यान्ती न च गुरुवचनं कर्णयोः श्रावयन्ती केयं हाहन्त देवादजनि मम जरा क्लीवभावे प्रगल्भा ॥३॥ ( अग्रतोऽवलोक्य । ) कथमेषा भगवती सिद्धियोगिनी उत्कण्ठितहृदया इत एवाऽऽयाति । तदहमुपसर्पामि । (उपमृत्य) भगवत्यभिवादये। सिद्धि०-प्रत्यभिवादये । आर्य ! विनीतवेष ! मृगालेखो. दन्तमावेदय । कञ्चु०-कथमावेदयामि वाचामगोचरोऽङ्गसन्तापो वत्सायाः । तथा हि- यावश्चन्दनपङ्कमङ्गनिहितं निर्मानि काचित्सखी तावद्धारसमीरमातकणो जातः स पिष्टातकः । किश्चान्यत्सरसं शरीरपिलनान्नीलं तदानीमभूत तस्या एव मृणाल कोमलमिदं शय्याविलासस्थलम् ॥४॥ अपि च, कर्पूरी दहनायते कुमुदीनानाथोऽपि सूर्यायते हारोऽस्या भुजगायते मलयजो वातः कृतान्तायते । गानं कर्णविषायते मृगमदालेपोऽपि भस्मायते तस्या एव विधूदये प्रतिदिनं दृक् चन्द्रकान्तायते ॥ ५ ॥ सिद्धि०-तदिदानी वत्सां कुत्राऽवलोकयामि । कञ्चु०- अब देव्या माधवीमण्डपे कुसुपशरमहोत्सवव्यपदेशेन मनोविनोदनाय प्रातरेवापक्रान्ता ।

द्वितीयोऽङ्कः। २१ ०-भवतु तत्रैव तां द्रक्ष्यामि । आर्य ! त्वं कुत्र प्रस्थितोऽसि कञ्चु०-अहमपि एतस्मिन्कुसुमशयने कोपलमृणालीविरचित. कुसुमशयनपधिशयानं प्रियवयस्येन मन्दमन्दमाधूय. मानकोमलनलिनीदलतालवृन्तानिलं राजानं कर्पूरति- लकमवलोक्य विज्ञायानन्यशरणां पञ्चशरबाधा चि- तितवानस्मि । प्रायो मृगाङ्कलेखैव कुरुते तरलं मनः । नवोदिता मृगाङ्कस्य लेखेवाऽम्भः पयोनिधेः ॥ ६ ॥ तदयमपीदानीम् - किश्चिदक्ति करोति हासमसकृन्नियति सन्तिष्ठते बाप्पं मुञ्चति किञ्च रोषकलितः शोणां विधत्ते दृशम् । बालेति प्रणमत्यकाण्डकुपितेत्याभाषते निष्ठुरे त्यालित्यधुना स मन्मथशरैर्नीतः परां दुर्दशाम् ॥७॥ इदानीं च, उत्कण्ठितैव दैवेन साऽपि सारङ्गलोचना। यदि स्यादनयोः सङ्गः किं न स्यान्कुशलो विधिः ॥ ८॥ ( ऊर्ध्वमवलोक्य ) कथमघापि प्रभातवेलैव । सम्प्रति हि- उद्यत्तुषारकणसम्भृतफैरवाली- कुलेषु पत्तपधुपालिरियं प्रमुप्ता । वैतालिकरुषसि मूरकरैः प्रबुद्धा मन्दं जहाति कमलोदरचारुशय्याम् ॥ ९॥ -

२२
मृगाकुलेखानाटिका ।
अपि च,
सहोचितेषु कमलेषु सुखं प्रमुप्ता
सेयं द्विरेफपटली मधुपानमत्ता ।
अस्ताद्रिमौलिमिलितेऽपि निशाधिनाथे
काय्याविलासकुतुकाम विराममेति ॥१०॥
अपि च,
पीयूषपानमदमनचको रकान्त-
नेत्राश्चलैरतितरामवलोक्यमानः ।
हा इन्त करववनीवनिताविहारी
जातोऽस्तशेखरमणी रमणीयमूर्तिः ॥ ११ ॥
कंचु०-भगवति ! तद्छ वत्सामवलोकयितुं माधवीमण्ड-
पम् । अहमपि अत्र स्थितं महाराज देव्यै नि.
वेदयितुम् ।
( इति निष्क्रान्तौ । प्रवेशकः ।)
( ततः प्रविशति यथानिर्दिष्टो राजा विदूषकश्च । )
राजा-(स्पतिमभिनीय)
तक्षेत्रान्ततराङ्गितं मृगहशस्तकर्णकण्डूयनं
सा वक्रोक्तिपरम्परा प्रियसखीहस्तावलम्बोऽपि सः।
यावभो हृदयात्मपाति सहसा तावद् द्विरेफावली.
सकारमणवोपदेवारसिको जातो वसन्तोदयः ॥ १२ ॥

द्वितीयोऽङ्कः। १३ अपि च, तारुण्योन्मादलीळानवमिव सदनं रक्तवाचा नवीना पुष्पेषोवैजयन्ती प्रतिदिनमतुला काऽपि लावण्यवापी। मर्यादा लोकसृष्टेः सफलयुवमनोबन्धनागारमुच्चै- चातुर्यप्रौढसीमा स्फुरति मम पुरो मान्मथी काऽपि माया॥१३॥ विद्०-(१)भो वअस्स अभिणवसलिलं वजिअ मिअतिहिआए लंपडो मिओ विअ पुणो पुणो विमुपरोसि एणं चित्त. गदं ण पेक्खसि ( इति चित्रफलकं दर्शयति ) राजा-(विलोक्य सहर्षम् ) नवमृदितमृणालीतल्पभूमौ शयाना ललितविरहलीलापाण्डुभावं दधाना । मृगमदघनसारद्रावसँल्लपिताङ्गी हरति हृदयमेषा चित्रभूमौ गतापि ॥ १४ ॥ हन्त ! अपूर्णलिखितमेवैतत् । तथा हि- नोत्तुङ्गैबिमखण्डनैरभिनवं लीलागृहं निर्मित कस्तूरीघनमारपत्ररचना नो वक्त्रदेशे कृता । नो गुअन्मधुपं विकासि नलिनं कर्णावतंसीकृतं नोत्ताम्यत्कुचमण्डले च नलिनीपत्रातपत्रं धृतम् ॥१५॥ अपि च, मदमुखरचकोरी लेखनीया मियायाः प्रलयदहनतुल्यां चन्द्रभासं पिबन्ती । (१.) भो पयस्य ! अभिनषसलिलं धर्जयित्वा मृगतृष्णया लम्पटो मूग व पुन: पुनर्षिस्मरसि, एना चित्रगान प्रेक्षसे।

मृगाङ्कलेखानाटिका। विरहजनितखेदप्रौढविज्ञानदक्षा पुनरिह लिखनीया चक्रवाकी वराकी ॥ १६ ॥ बिदू०-(१)भो वअस्स एणं तुम पेक्खिअ पज्झाउलो होसित्ति जाणामि । राजा--पख तस्कि ब्रवीमि । आलोकिता यदारभ्य मया सारङ्गलोचना । कल्पायितं तदारभ्य यामिनीभिस्तथा दिनैः ॥ १७ ॥ ( पुनः सप्रत्याशं विदूषकं प्रति ) वयस्य ! पुनरपि नयनत्रिभागभङ्गरभिनवचन्द्रकरैरिवाऽपविद्धः। स्मितमधुरमुदारपायताक्ष्याः प्रचलदपाङ्गतरङ्गितं लभेय ॥ १८ ॥ विदु०-( साटोपं ) (२)मारिसो तुह पिअवअस्सो किं णु क्खु एदं दुल्लह संभावीअदि । राजा- पञ्चाशुगशरासारस्तूणीरयति मानसम् । उन्निद्रशतपत्राक्ष्याः स्फीताधररसाहते ॥ १९ ॥ तदेहि माधवीलतामण्डपतले मत्तकाशिनीमन्वेषायामः । (इति परिक्रामतः)। (ऊर्ध्वमवलोक्य ) हन्त मध्याह्नचण्डदीधितिमण्डली कु- ण्डलीकरोति सर्वतश्छायावितानम् । सम्प्रति हि- (१) भो वयस्य एनां त्वं प्रेक्ष्य पर्याकुलो भवसीति जानामि । (२) माहशस्तव प्रियवयस्यः किं नु खल्वेतत् दुर्लभं स. म्भावयति । - द्वितीयोऽङ्कः । २५ मम तनुरिव नीरं जीर्णतामेति सद्यो ज्वलति किरणजालं मन्मनस्तुल्यमेव । स्मरदहन इवासौ क्रूरतामेति मूर. स्तपति सपदि पन्थाः प्रान्तरात्मा यथा मे ॥ २० ॥ नदिदानी माधवीलतामण्डपैकदेशे मिहिकासरोवरएव त- रलाक्षीनिवासं तर्कगामि । तद्भवतु तत्रैव गच्छामः । ( अग्रतोऽवलोक्य ) मन्दान्दोलितचारुपल्लवमिदं गुञ्जद्विरेफाकुलं निःस्यन्दन्मकरन्दबिन्दुसरमीसम्भारसम्भावितम् । एतत्कोकिलकाकलीकलकलैर्वाचालतापागतं क्रीडाकाननमाविरस्ति मदनोन्माद्यत्कुरङ्गाकुलम् ॥ २१ ॥ ( पुनः सकौतुकमवलोक्य ) इह नलिनमिलिन्दी कामबन्दीव गुञ्ज. त्यविरतमिह बन्दीभावमायाति पान्थः । मलयवनविहारी चन्दनामोदवाही वितरति हृदि मोहं मान्मथं मारुतोपि ॥ २२ ॥ सदभ्यन्तरमेव प्रविशामः । विदू०-एदु२ पिअवअस्सो । राजा--(प्रविश्य समन्तादवलोक्य सरोपाश्चम् ) पान्थाङ्गनाविरचितश्वसनोमसला दङ्गारतप्त इव शीतलसंनिशम् । (१) एतुर प्रियवयस्यः ।

मृगाङ्कले खानाटिका। गन्ता विनिद्रसरसीसरसीरुहाणा- मुद्यत्तरङ्गतरलो मुरलायमीरः ॥ २३ ॥ ( नेपथ्य-हला अलं परिदेविदेण ) राजा-(शब्दानुमारणाऽवलोक्य) अये कथामियं मम मनोरथै. कचित्रशाला बाला मृगाङ्कलेखा सह सखीभ्यामन्यास्ते । विदु० - भी वअम्स किं एसा मिलाणमुणालिआसिदिलेहि अंगेहि पडिवाचंदकलिभं विडंबेदि । राजा-सम्यगवधारितम् । विपमशर शरप्रहारशीणरपि मधुरैरियमङ्गनाऽङ्गकैः स्वः । विशद यनि मनोऽनुरागवन्धं चिरविमुखी मुमुखी सखीजनेषु ।। तथा हि-. परिक्षामैरङ्गैः प्रतिपदुदिनन्दोरिव कला विलासपागलभ्यं प्रथयति च निश्वासमरुतः । विधत्ते तन्वङ्गी स्मरदहनमन्तापमुभग कपोले लावण्यं ललितलवलीपाकमधुरम् ॥ २५ ॥ तत्तावदत्रान्तरितावेवाकर्णयावः पियाविश्रम्भभाषितानि । लवं०-पिअसहि नदो२ । (१) भी वयस्त ! किमग म्लानमृणालिकाशिथिलै रङ्गैः प्रति- पञ्चन्द्रकलिकां विडम्बयति । (२) प्रियसखि ! ततस्ततः ।

द्वितीगांऽङ्कः ।
२७
मृगां०-तदो तत्थ पमदयणम्मि मअणमहसवे कोवि णी-
लुप्पल सामलंगो अदिगंभीराकिदी मअणो विअ पच्च
क्खीकदसरीरो दिहो कुमारो । तं दिअसमारहिअ-
चंदो चंदणमुप्पलाई लिणीपत्ताई मंदाणिलो
कालो कोवि अ चत्तणच्चिदचलप्पप्फुल्लमल्लीलदो ।
लीलामजणमुजलं च वमणं सजा मिअंकोजला
जं जं सोक्खकरं जणस्स मह तं चिंताजरोद्दीवणम् ॥२६॥
राजा-(श्रुत्वा मानन्दम् ) वयस्य !
अपकारं मनोजन्मा यः शरम निमम ।
उपकाराय तैरेव साम्प्रतं प्रतिभासते ॥ २७॥
मृगां०-हला !
अहिलासो महिलाणं दुल्लह मंगमे दूम हो होई ।
जाणादु पिअमही नं मरणं ताणं कुलबहणम् ॥ २८ ॥
राजा-वयस्य श्रुतं श्रोतव्यम् ।
(१) नतम्नत्र प्रमदवन मदनमहोत्सव कोऽपि नालोत्पलश्या-
मलाङ्गोऽतिगम्भीराकृतिमदन इव प्रत्यक्षीकृतशरीरो दृष्टः कुमारः।
तं दिवसमारभ्य-
चन्द्रश्चन्द नमुत्पलानि नलिनापत्राणि मन्दानिलः
कालः कोऽपि च चैत्रनतिनचलप्रोत्फुल्लमल्लीलतः ।
लीलामजनमुज्ज्वलं च वसनं शय्या मृगाङ्कोज्ज्वला
यद्यत्सांख्यकरं जनस्य मम तच्चिन्ताज्वरोद्दीपनम् ॥२६॥
( २ ) अभिलाषो महिलानां दुर्लभ सङ्गमे दुस्सहो भवति ।
जानातु
प्रियसखी
तत् मरणं तासां कुलवधूनाम् ॥ २८ ॥

२८ मृगाइलेखानाटिका विद०-भो अस्स अण्णदो गमिस्सामो । राजा-किमिति । विद्०-को णु क्खु अली भं कण्णे करदि । राजा--किनामालीकमालपितं कमललोचनया । विदु०-जं तुमं दुआरहिदं दुल्लहं ति भणादि। राजा-वयस्य ! एकालयेऽपि बहुचाटुकरं निशीथे जीवाधिनाथमुदयन्म दनाग्नितापम् । तं दुर्लभं वितनुते तनुते च खदं वीडेव केवलमियं कुल कामिनीनाम् ॥ २९ ॥ कल० --हला अज्ज देवीए पुणिमाभिअंको अञ्चिदव्योति क. हिदं तहिं सो राा संणिहिदो भवे ता मा उत्तम । विद् -(परिक्रम्य अवलोक्य) कहं एसो दिसाबहूथणकुंकुमा. रुणदे हो कंदुओ विअ वारुणीबह ए हत्थे पडिदो भअवं सहस्सकिरणो। (१) भी वयस्य ! अन्यतो गमिष्यावः । (२) को नुखल्वलाकं कर्णे करोति । ( ३ ) यत्त्वां द्वारस्थितं दुर्लभमिति भणति । (४) सखि ! अद्य देव्या पूर्णिमामृगाङ्कोऽर्चयितव्य इति कधि. तम् । तत्र स राजा सन्निहितो भवेत् तन्मा उत्ताम्य । (५) कथमेष दिशावधूस्तनकुङ्कुमारुणदेहः कन्दुक इव वारुणी. घश्या हस्ते पतितो भगवान् सहस्रकिरणः ।

द्वितीयोऽङ्कः। २९ - ( नेपथ्ये) वैतालिकयोरेक:-मुखाय सन्ध्याऽवतारो भवतु देवस्य । सम्प्रति हि- काश्मीराऽरुणरश्मिरेप भगवानस्ताद्रिमालम्बते प्राची शङ्करकण्ठभासुरतमास्तोमैस्निरोधीयते । किं चास्मिन्सपये मनोरथशाराङ्गना केवलं द्वारोपान्तविलोचना वितनुते शययाविलासस्थलम् ॥ ३० ॥ अपि च, दृतीवाक्यशतैरनेकशपथैरेता नवोढाङ्गना नीयन्त रतिमन्दिरेषु शनकैः संजातलज्जाभराः । एषा वारविलासिनी वितनुते भूषाविशपश्रियं सेयं हन्त कुलाङ्गना विरहिणी बाष्पादकं मुश्चति ॥ ३१ ॥ तत्रैव द्वितीय:-महाराज ! सकल जनमनोविनोद हेतुः सन्ध्याऽव. तारस्ते सुखाय भूयात् । सम्प्रति हि, शोकात्कोकयुवा कराति करुणं तारं विरावं परं जानीते तरुणी न वा विरहिणी पाश्र्वैकदेशस्थिताम् । एताभिः प्रतिमन्दिरं मृगमदैराच7 देहं निज गुञ्जन्मजुलभृङ्गसुन्दररवं मञ्जीरमुतार्यते ॥ ३२ ॥ अपि च, कुर्वन्नानन्दकन्दं कमपि मृगदृशां वर्द्धयन्कामदेव मत्तानां भृङ्गयूनां सपदि विरचयन् पद्माकोशेषु बन्धम् ।

मृगाङ्कलग्वानाटिका। खेदोद्रेकं वितन्वन्ननुभवाविषयं चक्रवाकाङ्गनानां सोऽयं तीक्ष्णप्रतापः सपदि विधिवशादस्तशैलं प्रयाति॥३३॥ राजा-( श्रुत्वा ऊर्ध्वमवलोक्य ) अये कथं कुरुविन्दकन्दलशि. लाताटङ्कमिव पश्चिमाङ्गनायाः शोभते पद्मिनीरमणः । मम्प्रति हि, दृष्ट्वा कान्तमनागतं मृगदृशः सङ्कतेभङ्गोद्माद् दूतीनां वदनानि लोहितदृशा पश्यन्ति गछन्विति । अप्येषा वितनाति मन्मथ शरैः सन्तापिता सुन्दरी नीलाम्भोजमृणालकोमलमिदं शय्याविलासस्थलम् ॥३४॥ वयस्य ! तदेहि कमललोचनामभिसरामः।(इति परिक्रामनः) विदू० -(अग्रतोऽवलोक्य) कहं अञ्जणगिरिगंजणचदुरो भ. वणपारावदकण्ठ सामलो अभिसारिआपठमपणअदृदो खबाचरणच्चकरणो सअलदिसाबहूचोरो विअ सव्वदो जेव अन्धआरो दीसदि । राजा-वयस्य, सम्यगभिहितम् । इदानी हि- मूची भेयैः सपदि तिमिरैः पूरिते दिग्विभागे इयामे किञ्च स्फुरति समये बान्धवे बन्धकीनाम् । शुन्या दृष्टिः स्खलति विषमे निर्निमेषोऽपि जन्तु- श्चित्रं नीलीजलचुलकितं जीवलोकं प्रतीमः ।। ३५ ॥ - - (१) कथमअनगिरिगञ्जनचतुरो भवनपारावतकण्ठश्यामलो ऽभिसारिकाप्रथमप्रप्रणयदूतः क्षपाचरनृत्यकरः सकलदिशावधू. चौर व सर्वत एषाऽधकारो दृश्यते ।

द्वितीयोऽङ्कः । ३१ ( इति परिक्रामति ) राजा-(पुरोऽवलोक्य) इयं देवेन सम्प्राप्ता मया सारङ्गालोचना। कुमदोल्लासद क्षोऽयमुदेति च निशाकरः ॥ ३६ ॥ विदु०-भो वअस्स एहि मणस्सिणीणं माणो कहासेसो हुविस्सदि । भो वअस्म जदो दुद्धमुद्धेहिं करहिं तिहुअ- णं धवलेन्तो उदेदि कुमुदिणीणाहो । राजा-वयस्य ! सम्यगभिहितम् । अयं हि- मानं निर्दलयन् जगद्धवलयंश्चतोभवं वर्द्धयन् तृष्णां कन्दलयन चकोर सुहृदां पायोधिमान्दोलयन् । चिन्तां पल्लव यन्मनोभवशरैः वशरैः पान्थाङ्गनानामयं शीतांशुः समुदति चारुकिरणेश्चन्द्रोपलान्प्लावयन् ॥ ३७ ॥ अपि चेदानीम् , चटुलमिह चरन्तश्चन्द्रमश्चन्द्रिकाम्भः समदमकरकण्ठकाणमुच्चारयन्तः । भ्रमितरलितपक्षं कुर्वते ऽमी रतेच्छ. मविरतमिह चञ्चुमश्चयतश्चकोराः ॥ ३८ ॥ ( इत्युपसर्पतः) लवं०-(राजानमवलोक्य ) कहं भट्टा इदोजेव आअच्छदि । (१) भो वयस्य । इदानी मनस्विनानां मानः कथाशेषो भ.. विष्यति । भो वयस्य ! यतो दुग्धमुग्धैः करै त्रिभुवनं धवलयन्नु देति कुमुदिनीनाथः। (२) कथं भर्ता इतएवागच्छति ।

मृगाङ्कलेखानाटिका मृ०-( राजानमवलोक्य ससंभ्रममासनादुत्तिष्ठति ) राजा-सुन्दरि ! अलमलमलमायामेन । मृ०--( ल जावनतमुखी तिप्रति ) राजा-महाभाग ! विलोकय । नपदीय वक्त्रं विधुमुखि ! कथं त्वं विननुषे तवापागासङ्गाद्भवतु सुषुमा काऽपि नभमः । पिवन्तु प्रत्यग्रामभिनवसुधापूरगधुरां स्मितज्योत्स्नामेते पतगयुवतीनामपि चयाः ॥ ३९ ॥ लवं०-भेट्टा एसो कुमुदिणीणाहो किरणहिं मह पिअमहिं अदिसेदं बाधेदि । ता इमाए सह अण्णदो गमिस्सम् । मृगां०-( धीरपङ्गुल्या तज गति ।) राजा-प्रिये ! अमृतकिरणमाली कैरवानन्दकन्दो हरमुकुटललामं मण्डनं यामिनीनाम् । भवति तदपि नित्यं दाहकारी जनानां मलिनहृदयभाजामेष नूनं स्वभावः ॥ ४० ॥ मृगां०-( अन्यतो गन्तुमिच्छति । ) राजा- मदुलतरमृणाली कोमलौ वाहुपाशी रचय सुतनु ! कण्ठ कामपाशर्निवहे । (१) भर्तः ! एष कुमुदिनानाथः किरण मम प्रियसखी अतिश- यितं बाधते । तदनया सहाऽन्यतो गमिष्यामि । - द्वितीयोऽः। ३३ कुपितफणिफणामः पान्यसीमन्तिनीना. मयमुदयति यस्माकैरवानन्दकन्दः ॥ ४१ ॥ ( इति बलादेनां धर्तुमिच्छति ) लवं०-हला अम्हाणं पारविदा चोरी चंदिशासलिलं पातुं मुषकबंधणा कादब्वा । ता एहि सह गपिस्सामो। (इति निष्क्रान्ते) विदे० -अहं पि चेटिअं अणुगमिस्सामि । (इति सशिखाबन्धं निष्क्रान्तः ) मृगां-( गन्तुमिच्छति ) राजा-सुन्दरि अलमलमायासेन । यदि गच्छसि रम्भोरु मामसम्भाव्य भाषितः । तदा नेष्यति चेतोभूः स्मरणीयामसौ दशाम् ॥४२॥ मृगो०-महाभाअ ! गमिस्स। राजा-गमिष्यसि । मृगां०-केत्तिएण कालेणे । राजा-मुन्दरि ! अद्यापि नाकारि पीनकुचमण्डलतापहारी हारोऽपि किचन मया मकरी कपोले। (१) सखि ! अस्माकं पारस्थिता चकोरी चन्द्रिकासलिलं पातुं मुक्तबन्धना कर्तव्या । तदेहि सह गमिष्यावः । (२) अहमपि चटिकामनुगमिष्यामि । (३) महाभाग ! गमिष्यामि । (४) कियता कालेन । ५ मृगाइलेखानाटिका। सम्भोगखेदभरमुप्तमदाल पाया नित्यं व्यधाय करभोरु न मन्दवातः ॥ ४३ ॥ (इत्यालिङ्गति ) ( नेपथ्ये) ( मिअंकलेहे तुवर २ मिअंकपूअणं कादं तुवरावेदि देवी । ) राजा-( ससम्भ्रमम् ) सुन्दरि ! गच्छाग्रतः । अहमप्यागतएवा- ऽनुपदम् । मृगां-( सोद्वगं त्वरितं परिकापति ) राजा-( शुन्यमवलोक्य लतामण्डपम ) तस्याः पद्ममयी मृणालगचिता शय्या शिलायामियं कस्तूगधनपङ्कमङ्गमलिनं क्रीडारविन्दं परम् । हारोऽयं घनसारसङ्गतकणः खेदेन मुक्तम्तया तस्या एव पदारविन्दगलिता लाक्षारसोऽयं भुवि ॥४४॥ अपि च । इदं किमलगच्छेदभूषितं शयनस्थलम् । पया विरचितं चेदं नलिनीदलमन्दिरम् ॥ ४५ ॥ तदिदानीं तत्रैव प्रियासनाये मकरन्दोघोन गच्छामः । ( इति निष्कान्ताः सर्वे) द्विनीयोs: ॥ २ ॥ (१) मृगाकलेखे ! घरस्व २ मृगापूजनं कर्तु परयति देषी।

तृतीयोऽङ्कः।
( ततः प्रविशतो रक्षोदम्पती
ऐका-अले २ कुंडलुहिला लक्खशा शिग्घर ।
कुंड-घलिणिके लंबत्थणिए के एशे तह्माणं बुद्धिविहवे जं
खादे वि पंशे पादे वि लुहिले तुव लावेशि ।
लवं०-एदश्शिं काणणुद्देश मणुश्शगन्धे विअ आअदे । ता
पक्खर ।
कुंड०-( संत्रामं ) शणि जंगेहि पश्श कचुण्ण हुविश्शाद ।
संव०-ता लक्खशा पलित्ताहि. ( इतिमपअरस्वमालिङ्गति )
कुंड-घलिणि गस्थि तुए जाणिदे शणि अनंपणकालणे ।
लवं.--णस्थि ।
कुंड-कहिश्शम् । जं अम्हाणं गामी शंखपाले दानवे ।
(१) अरे२ कुण्डरुधिर ! राक्षस ! शीघ्रम२ ।
(२) गृहिणिके ! लम्बस्तनिके ! क एष युग्माकं बुद्धिविभषः।
यत् खादितेऽपि मांस पीनेऽपि रुधिरे स्वरयसि ।
( ३ ) एतस्मिन् काननोहशे मनुष्यगन्ध इवाऽऽगतः, तत्प्रेक्षस्वस
(४) शनैर्जल्प मस्तकचूर्ण भविष्यति ।
(५) तद्राक्षस ! परित्रायस्वर
(६ ) गृहिणि ! नास्ति त्वया छातं शनैल्पमकारणम् ।
(७) नास्ति।
(८) कथयिष्यामि । यदस्माकं स्वामी राहपालो दानवः ।

मृगाङ्कलेवानाटिका।
लवं-किं वदो।
कुंडरु--तेण कशवि पणुश्शपुलिशश घलिणी अप्पणो
घलिणी कादं आणीदा । एण्हि एत्थ मसाणकालिआ.
घरम्मि पुवपडिस्मुदं पुरं णिवत्तेदि । शे एशे मणु.
शगन्धे ।
५०-जुत्तं एदं । ( पुनरन्यतः सगन्धम् । ) अच्चरिअं २ कई
इहावि मणुश्शगंधे । (निपुणं निरूप्य ) । अले लक्ख.
शा के एशे चउरगमीर माणुशे विभिआविदलक्खशे पमत्ते
विअ णश्चाविदतलवालिए इदोमुहे पत्थिदे ।
कुंड०-( सवितर्कम् ) जाणे तिए शमाणरूवे तिए विणा कि.
लामंतसरीरे लाअपुलिशे विअ लक्खी अदि । ता पहि
तुलिअंइदो अवशलम्ह ।
(इति निष्कान्तो प्रवेशकः ।)
(१) किं ततः।
(२) तेन फस्याऽपि मनुष्यपुरुषस्य गृहिणी आत्मनो गृहिणी
कर्तुमानता । इदानीमत्र श्मशानकालिकागृहे पूर्वप्रतिश्रुतां पूजा
निर्वर्तयति । स एष मनुष्यगन्धः।
(३) युक्तमिदम् । आश्चर्यमाश्चर्यम् । कथमत्राऽणि मनुष्य.
गन्धः । अरे राक्षस ! कएष चतुरगम्भीरो मानुषो भीषितराक्षसो
मत्त इव नर्सिततरवारिक इतोमुखः प्रस्थितः।
(४) जाने तया समानरूप स्तया विना लाम्यवरोि राज.
पुरुष व लक्ष्यते । तदेहि त्वरितमितोऽपसरावः ।

तृतीयोऽङ्कः। (ततः प्रविशति यथानिर्दिष्टो राजा। पार्श्वगतो विदूषकः कलकण्ठश्च ।) राजा- जीमूतश्यामलाले विगति तरल यत्युन्पद बहभारं मायूरीकेलिलोले शिखिनि परिलसन्नीपनिर्यन्मरन्दे । काले विद्युत्कराले चकितमृगवधूमुन्दरापाङ्गरम्य रम्भोरु! कासि लीनाबत तव महती मानरीतिर्विचित्रा।।२।। ( इति शुन्यं परिक्रामति ) विद्-कंह एसो उम्मादो महिलालंपडानं । भोदु कजंतरिदं करोमि । ( राजानं प्रति ) भो वअस्स ! एदाणं मो. राणं पेक्खिी केलि अप्पाणं विणोदेहि । राजा-(विलोक्य ) अयं शिखण्डी विरतो रतान्ते नृत्यन्मयूरीतरलैः कलापैः। संवीज्यमानः पुनरप्युदारं केलीविलासं कुरुते विलासी ॥ २ ॥ सदेनमनुगच्छामि । ( मयूर प्रति ) त्वं धन्योऽसि शिखण्डिन् ! काले जीमूतमालिीन कापि । मानन्दयाऽनया यस्पियतमया सेवितोपान्तः॥३॥ (१) कथ मेष उन्मादो महिलालम्पटानाम् । भवतु कार्यान्त. रितं करोमि । भो वयस्य ! एतेषां मयूराणां प्रेक्ष्य कोल भात्मानं बिनोदय।

३८ मृगाङ्कलेखानाटिका। ( माश्चर्यम् ) चक्रीकृत्य कलापं वक्री कलकण्ठनालपलसाङ्गः । भ्रमति वयस्य ! मयूरः कन्दरमधुरे वनोद्देश ॥ ४ ॥ (पुनरवलोक्य ) कथं विलोभयत्ययं जनगनः कलापैः । ननु मूहः खल्बसौ । मम पियागाः सति केशपाशे विशेषविज्ञानविदा मनामि । अयं मयूरस्तरलैः कलापैः प्रमोदवश्यानि कथं विदध्यात् ॥५॥ (सनिर्वेदम् ) वियोगवन्हिमथिताऽन्तरात्मा तथाऽऽविरामीत्सरसीरुहाक्ष्याः । धाराकदम्रयमप्युदारः स्फारीभवत्यम्बुदकलिकालः ॥ ६ ॥ ( इति मूर्च्छति ।) कलकण्ठः-वयस्य ! समाश्वसिहि २ ( राजा तथैव तिष्ठति ) विद्०-हद्धि २ कई एण्डिं पणचेअणो पिअवअस्सो। कळ०-हन्त ! निर्मिता पांमुलीलापि त्वया सह मया सखे । विधातुः प्रातिकूल्येन मामपि त्यक्तुमिच्छसि ॥ ७ ॥ (इति मूर्च्छति । ) (१) हा धिक् २ इदानीं प्रनष्टचेतनः प्रियवयस्यः।

तृतीयोऽङ्कः । ३९ राजा (चिराल्लब्धसंज्ञः विदूषकं प्रति ) वयस्य ! कथं कलकण्ठोपि देवेनापहसितः । विदु०- मए कहिदाए रक्खसीए तीए वंचिदोसि तस्त परिणामो एसो। फल०-( शनैरुन्मील्य चक्षुषी ) सखे ! ( निर्मितत्यादि पठति) राजा- जीवितोऽस्मि तया तन्व्या गाढमालिङ्गितो यतः । मूर्छापि दृतिकवासीन्मम तस्याः प्रदर्शिका ॥८॥ तदन्यतो गच्छामि । (इति परिक्रामति) ( अग्रतो दृष्ट्वा ) कथमयं यूथनाथः । ( सोच्छ्वासम् ) वयस्य ! अयं हि, कृत्वा लीलां ललितसलिलैः पुष्करप्रान्तरण त्यक्वा मानं कमलमुकुलैः केलिलीलां विधाय । शुण्डादण्ड सरसबिसिनीकाण्डमादाय लोलः कक्षोत्तसं सपदि कुरुते यूथनाथः प्रियायाः ॥ ९ ॥ तदेतस्मादेव प्रियाप्रवृत्तिमुपलक्षयामि ( इति परिक्रम्य ) ननु मातङ्गपते ! यस्याः पीनस्तनकलशयोजिमा कुम्भयोस्ते नूनं यस्या गमनमलमं त्वद्गतेस्तौल्यमेति । (१) यन्मया कथितया राक्षस्या स्त्रिया वश्चितोसि । तस्य परिणाम एषः।

मृगाङ्कलेखानाटिका। उरूकाण्ड करियरकरस्पदि यस्याः कृशायाः सा चेद् दृष्टा कथय करिणीकलिलीला विधाय ॥१०॥ हन्त मूर्धानं धुनीते । ( सक्रोधम् ) उन्मादमेदुर मतगज मोदमाघन् ! मत्तालिकेलिकवलीकृत निर्विवेक । दृष्टा त्वयैव कमलायतलोचना सा स्पष्टं गतिस्त्वयि विभाति यतस्तदीया ॥ ११ ॥ विद्-अहो उम्पाहिआणं सङ्गेण उम्मत्तो होमि । ( राजानं प्रति ) भो वअस्त ! अभं मुगन्धकाणणो गिरिप्पदेसो । एणं दाव पेक्ख२। राजा-( निर्वर्ण्य सहर्षम् ) नन्वेतस्यैव कक्षान्तराले तरलाक्षी. मन्वेषयामि । ( परिक्रम्पावलोक्य ) हन्त सम्पूर्णमनोरथोऽस्मि । गंगातरङ्गधवलः कालिन्दीजलकोमलः । अपाङ्ग इव तन्वयाः प्रेक्षितः पुरतो मया ॥१२॥ भवतु निपुणं निरूपयामि । ( विलोक्य सविषादम् ) प्रेरितो लीलयाऽपाङ्गः कुरंग्या हरिणं प्रति । भ्रमादपाङ्गबुद्धिर्मे तस्या एव मृगीदृशः ॥ १३ ॥ भवतु सारङ्गमेवाभ्यर्थये । ( समुपमृत्याञ्जलिं बवा ) हंहो हरिणपते ! (१) अहो उन्मादितानां सङ्गन उन्मत्तो भवामि । भोषियस्य ! मयं सुगन्धकाननो गिरिप्रदेशः । एनं तावत्प्रेक्षस्व २।

तृतीयोऽङ्कः । सारङ्गशावनयना नयनान्तपात- रालोकिता न भवता विपिने कदाचित् । या पूर्णचन्द्रवदना कमनीयनेत्रा पीनस्तनी ललितुङ्गनितम्बबिम्बा ॥ १४ ॥ हन्त मामनादृत्य कुरझ्या सह विहरति । हा सर्वथा वक्रो विधिः । कल०-( राजानं प्रति) वयस्य ! एतैयाप्तेि जलदपटलैरन्तराले समन्ता. दुत्तालाभिस्तिमिरततिभिर्भाविते काननान्ते । निःशङ्के च प्रसरति निशाचारिणां कण्ठनाले कापि स्थेयं सपदि भवता यावदुन्मज्जतीन्दुः ॥ १५ ॥ विर्दू-भो वअस्स अहं तुह वंदणं करोमि । पसीददु पिअवअ. स्तो कहिं वि चिट्ठिस्सामो । णिद्दा बाधेदि । राजा-वयस्य ! एवमस्तु । विश्रम्यतामस्मिन्कन्दरान्तराले । विद्०-अंधारेण ण किंपि पेक्खामि । राजा-विद्युद्दीप एव दर्शयिष्यति । ( इति प्रविश्योपविशन्ति ) राजा-निर्विश्यतामिदानी निद्रासुखं वयस्येन । (कलकण्ठं प्रति ) सखे ! त्वमपि शयनीयमङ्गीकुरु । अहं तु, (१) भो वयस्य ! अहं तव वन्दनं करोमि । प्रसदितु प्रियवयः स्यः । निद्रा मां बाधते । (२) अन्धकारेण न किमपि प्रेक्षे । ६

मृगाङ्कलेखानाटिका।
-
क्षणं ध्यात्वा कुरङ्गाक्षीविम्बाधररसामृतम् ।
आत्मानं प्रीणयिष्यामि प्राणत्यागपरामुवः ॥ १६ ॥
( उभौ तथा कुरुतः ) ( नेपथ्ये कलकल: )
राजा-( समन्तादवलोक्य ) अहो श्मशानवाटादनसिदवीया
नसौ प्रदशः । तथा हि-
क्रीडत्कौशिककोटिकुट्टनग्टद्दात्यूहकोलाहल.
त्रस्तव्यस्तसमस्तफेरुविरुतव्यावल्गदुल्कामुखम् ।
नृत्यकौणपकामिनीकुचतटमारभारभूरीभवत्-
प्रेतपान्त्रविशालमालमतुलं लीलाश्मशानं पुरः ॥ १७ ।।
तत्सुप्तावतौ परित्यज्य तत्प्राप्तये श्मशान कालिकामेव स्वी
यक्षतजेन तोपयामि । (इति सरभसं परिक्रामति) (पुरोऽवलो.
क्य) अहह बीभत्सता पिशाचानाम् ! तथा हि-
आकृष्योल्बणदाहजर्जरमपि प्रेताङ्गमुत्कण्ठया
ज्वालाजालकरालिताद् हुतभुजः प्रीताः पिशाच!ङ्गनाः ।
संघिच्छदविनिर्यदुष्णविकसन्धामोदमेदोभर.
स्नहस्निग्धकपालमाकुल ललजिहा लिहन्ति द्रुतम् ॥१८॥
अपि च-
पक्कप्रान्तं नलकमनलातूर्णमाकृष्य याव.
मज्जापानं कुणपशिशुकः कर्तुमुत्कण्ठितोऽभूत् ।
तावल्लोलल्ललितरसनालेलिहानः कपालं
दीर्घग्रीवः सरति तरमोन्मत्तनक्तंचरौघः ॥ १९ ॥

तृतयिोऽङ्कः ।
( अग्रतोऽवलोक्य ) अहो लीलारीतिः कोणपानाम्-
ज्यादायोत्तुजदंष्ट्राकुटिलमुखदरीमुल्लल ताम्रनिन्दः
प्रेतग्रीवां विदार्य ग्रसति नववसासारमन्तः प्रमोदात् ।
प्रीताभिः कामिनीभिः कृतविकटमहाहासकोलाहलाभिः
पीनोदश्चत्कुचाभिः सह पिबति ललज्जाङ्गलम्नेहसारम् ।२०॥
इतोऽपि कौतुकोत्तरलो लीलारस:-
तालोत्तोलिततालिकाकलकलक्लाम्पच्छृगालार्भकः
क्रेङ्कारस्फुटझर्झरध्वनिनटल्लागूललीलापरः ।
एताभिर्नरनाभिपङ्कजचयप्रारब्धमालाविधिः
प्रक्रीडनिह सारमेयतरुणस्तूर्ण नरीनृत्यते ॥ २१ ॥
( अग्रतोऽवलोक्य ) नुनमतत्कालिकायतनम् । यतः,
नृयन्तेते विकटरदनप्रोतलोलान्त्रमाला.
स्तालं पूर्ण सपदि तनुते तालजङ्घः पुरस्तात् ।
मार्दङ्गीयं ध्वनिमविरतं कर्तुमुत्कण्ठि तोऽमी
प्रौढाघातैजठरापिठरं पाटयत्यट्टहासः ॥ २२ ॥
तदत्र गत्वा समीहितसिद्धिं सम्पादयामि । (इति परिक्रामति)
( नेपथ्ये
किं प्राणेश्वरि ! खदमत्र कुरुप यत्माणनाथे माय
त्रासं मुश्च मनस्विनि ! सज रुषं किं लोचने साश्रुणी ।
त्वत्माप्त्यै यदवोचि पुररिपोः कान्तामिदानीमहं
तस्कृत्वाचनमिन्दुसुन्दरमुखि ! त्वां चुम्बयिष्याम्यहम् ॥२३॥

मृगाङ्कलेखानाटिका। राजा-(श्रुत्वा) कस्याऽयं विकटो निनादः । नूनं कस्याप्यम्बुजा- क्षीलाभाय प्रतिश्रुताम्बापूजनस्यास्मत्सदृशस्य व्याहारो भवेत् । ( पुनर्नेपथ्ये ) आपूर्यन्तां रुधिरकलशाः पकमांसोपदंशाः संचीयन्तामिह हि मदिरापूरिताः स्वर्णकुम्भाः । व्यापाद्यतां महिषनिचयाश्चारुशृङ्गोत्तमाङ्गा निर्वास्यन्ता प्रबलबलिभिः किङ्करैर्विघ्नलेशाः ॥ २४ ॥ राजा-अहो पूजासंविधानचातुरी | तथा हि- बेतालस्तालिकाभिईलपति धरणी पृष्ठमङ्गुष्ठदीर्घः प्रोड्डीयोड्डीय नृत्य त्यति बटुरसौ घूर्णयन्नुत्तमाङ्गम् । घोणामारोप्य भूमी भ्रमति मधूमनिधी भूतपात: कर्णाभ्यां लम्बकर्णोऽप्य यागह तनुते तालवृन्तानिलाघम् ।। ( पुनर्नेपथ्ये ) मन्दारपूजावितमत्तम वन्दस्व कालीचरणारविन्दम् । मया सहैवेन्दुसमानवक्त्र ! मृगाङ्कलेखे ! प्रविहाय रोषम् ॥ २६ ॥ [-(श्रुत्वा सप्रयाशम्) (परिक्रम्याऽवलोक्य) कथमनेन प्रि. यापहारकेण पूज्यते देवी । ( उच्चैः ) तिष्ठ रे पाखण्डाधम ! तिष्ठ । अयमहमिदानीम् - तूर्णाघातविदीर्णवक्त्रविकटकोडाऽन्तरालोल्ललन कीलालासवपूर्णकर्परचयरचैव कापालिक !। राजा- तृतीयोऽङ्कः। 84 आधाय त्वदुरःस्थलीयकमलैलीलासरोजस्रनं भूतपूद्धतताण्डवैर्भगवतीं कुर्यामहं सस्मिताम् ॥ २७ ।। (इत्युद्धतं परिक्रम्य) हा प्रिये ! कथं निशाचरकरगाऽसि । ( ततः प्रविशति यथानिर्दिष्टा मृगाङ्कलेखा शङ्खपालश्च । ) मृगां०-(राजानमवलोक्य सबाष्यम् ) णाह ! परित्ताहि२ । राजा-प्रिये ! निःशङ्कमिह स्थीयताम् । ( अयमहमिदानीमिति पूर्वोक्तं पठति )। शंख-अये कोऽयमस्माकं प्रियासङ्गम अन्तरायः संवृत्तः । क- थमयं दुरात्मा कर्पूरतिलकः । तिष्ठ रे क्षत्रियडिम्भ ! तिष्ठ । स्वत्कण्ठत्रोटनोद्यक्षतजनवनीपूरलीलावगाह. प्रस्तान्तस्तापखेदस्तव शवमतुलं स्कन्धसंस्थं विधाय । उद्यत्ताली करा करालैरतुलभुजबलैरुद्धतैः : सामेते. वैतालेः कालिकाSI सपदि रचयिता नाटकं शङ्खपालः ॥२८॥ राजा-( सस्मितम् ) यद्रामो जनकात्मजाऽपहरणे भीमोऽपि यत्क्रोधनः पाञ्चालीकचकर्षणे रांचेतवान् ताकि न ते विश्रुतम् । क्रोधोन्माथितकण्ठपीठरुधिरैरभ्यर्य शम्भोः प्रियां तनकर्म करोमि येन भवतो नामाऽपि न श्रूयते ॥२९॥ तदङ्गीकुरु कृपाणम् । नायमशस्त्रे पतति मद्भुजपरिघप्रहारः । (१) नाथ ! परित्रायस्व२।

मृगाङ्कलेखानाटिका। शङ्ख०- आनीयन्तां कृपाणाः कथितरिपुशिरःश्रेणयः श्यामलाङ्गाः प्रस्तुयन्तां पिशाचैः सह मम सचिवैर्विक्रमास्ते मदीयाः । उद्गीयन्तां सुरीभिर्धवलितगगनाः कीर्तयः सर्वतो मे कामः कामं विधत्तां मयि कुसुमशरैर्मनिर्मायनानि ॥ ३० ॥ कः कोऽत्र भोः । कथं न कोऽपि । आः कथं क्षुद्रराज- न्यपोतपराक्रमत्रस्ताः सर्वएवैते ऽन्तर्हिताः । भवत्वहमेव कर. वालमादाय एनं व्यापादयामि । ( इति निष्क्रान्तः) राजा-( सानन्दं मृगाङ्कलेखामालिन्य ) प्रिये ! यावदहमपि स्वामेकान्ते स्थापयामि । मृगां०- महाभाअस्स रोअदि । ( इति निष्क्रान्ताः सर्वे ) इति तृतीयोऽङ्कः ॥ ३ ॥ IN (१) यन्महाभागाय रोचत ।

चतुर्थोऽङ्कः। A आ. (ततः प्रविशति विदूषकः ) विद०-(सहर्ष परिक्रम्य । ) ही ही भोः णिहामंथरलोअणं में परिचइअ महिलालंपडो एसो मह पिअवअस्सो कहिं गदो ति जाव किंपि अणुसंधेमि ताव तीए सह अदो ज्जेव । मह समीवे नं णिक्विविअ तुरिअं कहिं गदोत्ति ण आणे । (अग्रतोऽवलोक्य) कहं एसो कल. कंठो । भोदु एदस्स जेव्व मुहादो जाणिस्सं पिअवअ. स्सस्सवित्तम् । (उच्चैः) अरेरे कलकंठा इदो दाव एहि । कह ण सुणादि । ( अत्युच्चैस्तदेव पठति ) ( ततः प्रविशति सोत्कण्ठः कलकण्ठः ।) कलकण्ठः- क्रोधव्याधूतखगक्रथितनवशिरःशोणितैस्तस्य शत्रो. रापूर्यापूर्य पात्राण्युचितनरशिरःकर्पनिर्मितानि । (१) ही ही भोः निद्रामन्थरलोचनं मां परित्यज्य महिलाल- म्पट एष मम प्रियवयस्यः कुत्र गत इति यावत् किमपि अनुसन्दधे तावत्तया सह आगतं एव । मम समीपे तां निक्षिप्य त्वरितं कुत्र गत इति न जाने । कथमेष कलकण्ठः । भवतुएतस्यैव मुखात हास्यामि प्रियवयस्यस्य वृत्तान्तम् । अरे रे कलकण्ठ! इतस्तावदेहि। कथं न शृणोति ।

मृगाङ्कलेखानाटिका। आराध्य प्रेतभूमौ विरचितवसति कालिकां कौशलेन प्राणप्रयान् मदीयः प्रिय मुहदसकौ प्रीणयत्यन्तरं नः ॥१॥ रद्भवतु देवीवचनासिद्धियोगिनीसन्दिष्टं सम्पादयितुं त्वरित गच्छामि । ( इति परिक्रम्याऽवलोक्य ) अये कथमयं शाखा. मृगमुखः । विद्-(तदेव व्याहरति) कल०-( गत्वा विदूषकं प्रति ) वयस्य ! दिष्टया व से पियव- यस्यस्य विवाहमहोत्सवेन । विदु० -कहिं सो पिअवअस्मा । कल. मकरन्दोद्यान निष्ठति । विद० -तुम उण कहिं । कल० -अहमिदानी सिद्धियोगिनीवचनात्कृतविवाह निश्चया दे. वीति प्रियवयस्यं निवेदयितुम् । भवता कुत्र प्रस्थितम् । विदु०-जहिं मोअआणं गंधो आअच्छदि। कलकं०-पश्चाद्गमिष्यसि । इदानीं तु प्रियवयस्यस्य विवाह महोत्सवमुपहर । अहं तु मृगाङ्कलेखाजनकमन्दिरे दतं विसर्जयामि । ( इति निष्क्रान्तौ । निष्कम्भकः । ) (१) कुत्र स प्रियवस्यः। (२) त्वं पुनः कुत्रा (३) यत्र मोदकानां गन्ध आगच्छति ।

चतुर्थोऽङ्कः । ४९ (ततः प्रविशति सोकण्ठो राजा पार्वस्थितो विदृषकश्च ।) राना-(सोत्कण्ठं निःश्वस्य ) अम्भोजिनीकुसुमकोमलकान्तिरेषा जाने यदैव परिरम्भणमाततान । स्यूतेव हृदयपअरमध्यदेशे बाणः प्रचण्डचरितेन मनोभवेन ॥ २ ॥ मे अपि च- यच्छीतलेन सरसीरुहकोमलेन पीयूषसारमधुरेण विजृम्भितेन । लीलालसेन मयि लोचनचालनेन चित्र विचित्रनयना रचयाञ्चकार ॥ ३ ॥ अपि च-- तस्याः प्रसन्नसरसीरुहलोचनाया राकासुधाकरसमप्रतिमाननायाः । निर्माय मर्मणि मनोजशरमहारा- नम्भोजभृङ्गकुटिलो रचितो दृगन्तः ।। ४ ।। ( सचिन्तम् ) हन्त वयस्योऽपि न सन्निहितः । विदु०-एसम्हि । (१)ोऽस्मि।

मृगाङ्कलेखानाटिक।। राजा-वयस्य ! इहोपविश्य विचिन्तनीयोऽङ्गनासङ्गमोपाय इति । विद्-भी वअस्स चिंतिस्सम् । जइ महाणसाहिबई अहं हुविस्सम् । राजा-नायं दुर्लभो मनोरथः । विदू० - सुणाहि । ( इति कर्णे एवमेवं कथयति ) ( नेपथ्ये ) पाटीराम्भःप्रपञ्चैश्छुरयत धरणि केतकीपांसुपूरै- रापूर्वन्तां चतुष्काः कमलनवदलमण्डपा मण्डनीयाः । मुक्ताहारैर्विचित्रनगर युवतयः किं च कुर्वन्तु हारान लास्यं वाराङ्गनाभिः स्तन भरविनमन्मध्यभङ्गं विधेयम् ॥५॥ अपि च- सौधं कपूर पूरैः परिचिनुत चिरं चामरैश्चन्द्रशालाः समाय॑न्तां विचित्राः पथि पथि करिणः सन्तु सिन्दूर पूरैः । आनीयन्तां तुरङ्गाः सरणिषु निरणकिङ्किणीमजुनादाः कन्योताहोत्सवाय प्रविशति नगरं कायरूपाधिपोऽमौ ॥६॥ राजा-( विदृपकं प्रति ) सा तत्रभवती कामरूपाधिपतनया । उचितमेवैतत् । (१) भो वयस्य ! चिन्तयिष्यामि । यदि महानसाधिपतिरह भविष्यामि। (२) णु।

चतुर्थोऽङ्कः ।
५१
ईदृशी रूपसम्पत्तिरित रस्मात्कथं भवेत् ।
नोदेति कैरवानन्ददायिनी चन्द्रिका रखेः ।। ७ ।।
( प्रविश्य प्रतिहारी)
जेदु २ भेट्टा । भट्टा कामरूए सरो णीदिवुड्ढण अमञ्चेण
दारएण चंडघोसेण समं पडिहारभूमीए चिट्ठदि । ता किं प.
विसीअदु ।
गजा-(विदुर पनि ) सखे ! कलकण्ठ सहितस्त्वमेव तूर्णमुप.
चारपूर्वकं प्रवेशय ।
अहमपि देवीं सम्माव्य भवदागमनं प्रतिपालयामि । (इति.
निष्क्रान्तः)
( ततः प्रविशति यथानिर्दिष्टः कामरूपेश्वरः कलकण्ठो
विपकश्व )
कल०-इत इतोऽत्र भवन्तः ।
चण्डघोष:--अहो अपरेश्वरादप्यतिशेते कलिङ्गेश्वरस्य रा.
ज्यशोभा ।
तथा हि-
एकस्तत्र गजाधिपः प्रतिगृहं पत्ता गजेन्द्रावली
तत्रैकस्तुरगो ऽत्र वातजवना लक्षाधिकाः सैन्धवाः ।
(१) जयतु २ भर्ता। भर्तः ! कामरूपेश्वरी नीतिवृद्धेनामात्येन
दारकण चण्डघोषेण समं प्रतिहारभूमौ तिष्ठति । तत्कि प्रवेश्यताम् ।

५३ मृगाङ्कलेग्वानाटिका। तत्रैको बुधभावमञ्चति बुधाः सर्वेऽपि ते नागरा- स्तत्रैकाऽस्ति तिलोतमा मृगदृशः सन्त्यत्र सर्वोत्तमाः ॥८॥ नीतिद्धः-भतदारक ! किमेतदाश्चर्य भवतः । यत्का धवलीकृते त्रिभुवने मुग्धा किराताङ्गना गुञ्जापुञ्जभियं जहाति विलसन्मुक्ताधिया सर्वतः । जम्बकादपि भीतिप्रति सहसा पारीन्द्रबुध्या करी स्वां नारीमपि हन्त कोकिल युवा माधिया मुश्चति ॥२॥ कामरूपे०- अद्य तनूजालाभमेव दुष्करं मन्यमानेन तद्विवाह महोत्सवोऽपि प्रेक्षणीयः । अयं च निरुपमगुणा राजा कपूर तिलकः । विदु०-भो अपच्च एसो जूहबई । चण्ड एप क्षुभ्नाति वीथीं तिरपति घराणं सर्वतो दानपूर: पारीन्द्राणां क्षिणोति प्रबलतररवैः कन्दरागर्भशय्याम् । रोपान्मत्तालिमालाकुलविकटकटं किं च धूनोत्यजस्रं विसंसच्चारुचापीकरनिकरकृतोद्दामदामा गजेन्द्रः ॥१०॥ अमात्य:- यः-इतोऽपि- चश्चत्पुच्छः सर्फनं फल यति वदनं किंश्चिदाभुग्नकण्ठं कुण्ठीकुर्वन्निनादं कठिनतररवैः क्रूरकण्ठीरवाणाम् । ( १ ) भो अमात्य ! एप यूथपनिः ।

चतुर्थाऽङ्कः। सानन्दं किं च चञ्चत्खरखुरनिकरोत्खातधूलीमधूम्रो यौष्माकीनस्तुरङ्गः कलयति धरणौ ताण्डवाडम्बराणि ॥११॥ ०-भो भोः कामरूपेश्वर ! एष प्रियवयस्यः सह देव्या युष्म. दागमनं प्रतिपालयन् तिष्ठति । तदुपसर्पन्तु भवन्तः । काम०-( राजानमवलोक्य ) सौन्दर्येण मनोभवाकृतिरसौ शौर्येण मिहोपमः पाण्डित्येन बृहस्पतिपनिभटो लम्या ऽपराधीश्वरः । भूभारोद्वहने भुजङ्गमपतिश्चाणक्यशास्त्रे गुरुः सन्तोषं कुरुते मदीयहृदये सोऽयं धराधीश्वरः ।। १२ ।। अमा०-सोऽयं कलिङ्गेश्वरस्तदयं किं वयं ते । यहोर्दण्ड कठोरखण्डितरिपुस्कन्धाटवीपोच्छल- द्रक्तौधैरहितपियानयनर्बाष्पैस्तथा कीर्तिभिः । गङ्गा किं च सरस्वती रविसुना संयोजिता सङ्गर मनास्तत्र भटा भवन्ति विबुधाः सा तीर्थराजौचिती ॥१३॥ ( इत्युपमृत्य)-विजयतां महाराजः । राजा०-( सरभसमुत्थाय ) आसनम् २ । विद०-( आमनमपति ) ( सर्वे यथोचितमुपविशन्ति ) अमा०-महाराज ! एप मतदारकश्चण्डघोषः प्रणपनि । राजा -(मस्नेहमालिङ्गनि) मृगाङ्कलवानाटिका। विदू० -भो अत्तभवं तत्तमादी मिअङ्कलहावहिणी देवी विला. सवदी पणमदि। काम-वत्से ! पुत्रवती भूयाः । विला०-हजे णोमालिए मिअङ्कलहं गेहिअ एहि वि णाअदा भअवदी मिद्धि नोइणी। नवमालिका-आअदत्ति तकमि । जदो पदंसदो विअसुणीअदि । ( ततः प्रविशति मृगाङ्कलेखानुगम्यमाना मिद्धियोगिनी सिद्ध०-वत्से ! अद्यैव तव तातसमीपे त्वत्परिणयं विधाय कृतकृत्यामात्मानं सम्भावयामि । मृगां०-( लज्जयाऽयोमुखी भवति ) सिद्रि-वत्स ! अयं तव तातः सह नाथेनाऽलङ्करोति सिंहास- नम् । तत्वरितं संभावय । (इत्युपसर्पतः) ( सर्वे मिद्धियो. गिनीमवलोक्य ससम्म्रममुत्तिष्ठन्तो वन्दनं रचयन्ति ) मृगां०-( तातमभिगम्य ) ताद वन्दामि । काम -( गाढमालिङ्य शिरस्याघ्राय च ) वत्स ! सौभाग्यवती भव । अयममात्यः । (१) भोः अभवन्तं तत्रभवती मृगाङ्कलेखाभगिनी देवी वि. लासवती प्रणमति । (२) हंजे ! नवमालिक ! मृगाङ्कलेखां गृहीत्वा इदानीमपि ना. गता भगवती सिद्धियोगिनी । ( ३ ) आगतेति तर्कयामि । यतः पदशब्द इव श्रूयते । (४) तात ! वन्दे ।

चतुर्थोऽङ्कः । मृगां० - कहं एसो अमच्चो गीदिबुड्ढो । अज्ज वंदामि । अमा०-वत्से ! अभिलपितेन युज्यस्त । एष ते भ्राता चण्ड घोषः प्रणमति । ( मृगाङ्कलेखामालिङ्गय सर्वे यथोचितमुपविशन्ति ) ( नेपथ्ये महान कलकलः सर्वे ससम्भ्रमपाकर्ण यन्ति ) ( पुनर्नेपथ्य ) भोभोः पौरजानपदाः ! भअन्नायसशृङ्खलाविरचितं वन्धं मदोन्मादितः कोपाटोपभरेण नागरजनं वेगेन निर्दालयन । शुण्डाताण्डवडम्बरण सहसा हत्वा निजाधोरणं क्रोधाकान्तकलेवरः मरमसं निर्याति मत्तद्विपः ॥ १४ ॥ अपि च- गर्जन् संवर्तकालक्षुभितघनघटाचण्डगंभीरधीरं मार्गे पद्धं विनन्वन् कटुकटविगलदानधारासहः । उद्यत्प्रौढासिधारास्फुरितानिजकरैः पत्तिभिः प्रेक्ष्यमाणः प्रभ्रष्टोऽयं करीन्द्रः प्रविशति सहसा राजवीथीं स्वयूथान १५॥ ( सर्वेससम्भ्रममाकर्ण यन्ति ) राजा-न भेतव्यं न भेतव्यमयमहमागत एव । (१) कथमेषोऽमात्यो नीतिवृद्धः । आर्य ! वन्दे ।

मृगाङ्कलेग्वानाटिका। ( पुनरन्यतो नेपथ्ये ) रे रे मृगाङ्कलेखाकामुक ! काऽसि । किं व्यापाद्य त्वदीयक्षतजनवजलैः सिञ्चयाम्यङ्गमारा- दुभ्राम्य त्वामिदानी चरमजलनिधी प्रक्षिपामि क्षणारिकम् । किं वा वन्मांसपूरैर्दहनपटुतरो जाठरः पूरणीयो मद्माता शंखपालः कथमिव दलितः कालिकामन्दिरान्तः ॥१६॥ ( सर्वे सत्रासमाकर्णयन्ति ) काम-कस्यायं विकटो व्याहारः । राजा-( तूष्णीं तिष्ठति ) कल०-( कथयति) कामरू०-महाननद्भिदः । मृगां० ( सत्रामं वेपते ) विलासवती-( भयं नाटयति) विदू०-रक्खदु २ पिअवअस्मो । राजा-भगवतीं नमस्कृत्य तिष्ठन्तु भवन्तः । यावदहमेतमास्क- न्ध संभावयामि । ( इत्युद्धतं परिक्रम्य निष्क्रान्तः ) विदृ०-( कलकण्ठं प्रति ) अज्ज ! पेक्ख २ कोहलं जं एसो गइंदो वावादेदि दाणवं । (१) रक्षतु २ प्रियवयस्यः । ( २ ) आर्य ! प्रेक्षस्व २ कौतूहलम् । यदेष गजेन्द्रो व्यापाद यति दानवम्।

चतुर्थोऽङ्कः । ५७ कल०-(विलोक्य सहर्षम् ) तखे ! सम्यगुपलक्षितम् । पश्य, यावत्कोदण्डकाण्डं विशति हृदि दलपअरोद्याननादं तावन्मातङ्गराजः प्रकटयाते रदैरत्र मालान्तरालम् । यावत्स्वागनानां करकमलतला-पुष्पवृष्टिर्जजम्भे तावत्पाणैर्वियुक्तः पतति भुवि महादानवो व्या त्तवः ॥१७॥ ( प्रविश्य पटीक्षेपेण राजा ) (भगवतीमभिवाघ सर्वे यथो. चितमुपविशन्ति ) विला-कहं एत्य रअणचूडो न दीसदि । (प्रविश्य ) रत्नचूड:-अहो बलवती पराधीनता । तथा हि- सर्वो:रमणं विधातुमधुना देवं मया निर्मिता माया काऽपि यया नवीनतरुणीलाभः प्रभोः स्यादयम् । देवी स्वाऽवरजामनेकसुकृतैरासाद्य सन्तोषिता यत्ससं च तथाऽपि किं नु हृदयं साशङ्कमास्ते मम ॥१८॥ ( परिक्रम्याऽवलोक्य ) एष महाराजः सपरिवारः सा. नन्दमास्ते । तद्यावदुपसृत्य निवेदयामि दिग्विजयप्रेषितमागतं विचित्रपराक्रमं तिग्मप्रतापम् । (उपमृत्य) विजयतां महाराजः । राजा-(सस्मितम् ) अभिवादये । (१) कथमत्र रत्नचूडो न दृश्यते ।

मृगाङ्कलेखानाटिका। रत्न०-महाराज! विचित्रपराक्रमस्तिग्मप्रतापो द्वारदेशमध्यास्ते। राजा-अविलम्बितं प्रवेश्यताम् । अमा०-( निष्क्रम्य तिग्मप्रतापेन सह प्रविशति ) सेनाप०-( उपमृत्य ) विजयतां महाराजः । राजा-वत्स ! चिरायुर्भूयाः । विदू०-एदं आसणं एत्थ उपविसदु अमच्चो । राजा-अमात्य ! अञोपविश्यताम् । सेनापते ! त्वमप्यासन मङ्गीकुरु । ( इति यथोचितमुपविशन्ति ) राजा -सेनापते ! कथय स्वायत्तमुर्वीमण्डलम् । सेना-(विहस्य) महाराज ! पालेयाचलचारुचन्दनवनीचन्द्रप्रभाविभ्रमः क्षीरोदक्षयकारिणां प्रविलसत्कर्पूरशोभाजुषाम् । क्षोणीकान्तनितान्तकान्तकुमुदच्याधुननपेयसा नित्यं ते यशसामिदं त्रिभुवनं स्वाधीनभावं गतम् ॥ १९॥ सम्प्रति हि, अतिघनतिमिरेऽपि श्वेतभूषाः प्रयातुं प्रियतमवसति तामुत्सुकाः स्वर्गकन्याः । (१) इदमासनम् । अत्रोपविशत्वमात्यः।

चतुर्थोऽङ्कः । सपदि कलितर्वाणं चारु गायन्ति गौरी-- गुरुगजपतिगंगागौरमुच्चैर्यशस्ते ॥ २० ॥ तथाऽप्याकर्णय, वङ्गः प्रोन्मूलिताङ्गः कलयति सहसा सङ्गमाशानुबन्धं तैलङ्गो रङ्गभूमौ सुरपतितरुणीसङ्गमङ्गीचकार । अङ्गः साङ्गोऽयमास्ते कलितनिजवधूकङ्कणः कुण्डिनेशो वैदर्भो दर्भचूडाकथितनिजबलो भाति युष्ममतापात् ॥२१॥ राजा- ना-(सर्वानवलोक्य ) कः कोऽत्र भोः । (प्रविश्य दौवारिकः) आज्ञापयतु देवः। राजा-सर्वानेतान्पूजय यथोचितरूपचारैः । दौवा०-यथाज्ञापयति देवः । ( इति निष्क्रामति ) रत्न०-महाराज ! क्षम्यतां यदनिवेद्य विहितम् । राजा-किमनिवेद्य विहितम् । रत्न०-येयं मृगाङ्कलेखा कामरूपेश्वरतनया तां सिद्धकथितसा. वभौमपतिकामाकलय्य यावत्वदर्थं प्रार्थयामि तावद्भगवत्या सिद्धियोगिन्या समावान्तःपुरम् । राजा-(स्वगतम् ) कथममात्यबुद्धिरपि वागुरायते । ( प्रकाशं ) को दोषः।

६० मृगाङ्कलेवानाटिका। काम-(विलासवती प्रति ) एषा ते भगिनी, इदानी यदुचि. तं तद्विधेहि । बिला०-भअवदि तुम अज्जउत्तस्स हत्थे इमं पडिवादेसु । सिद्धि०-( मृगाङ्कलेखां हस्ते गृहीत्वा ) राजन् ! एषा यथा बन्धुजनशोचनीया न भवति तथा विधेहि ! राजा-( तथेति हस्तौ प्रसार्य मृगाङ्कलेखां गृह्णाति ) ( नेपथ्ये दुन्दुभिध्वनिः ।) रत्न०-( ऊर्ध्वमवलोक्य ) आश्चर्यमाश्चर्यम् । नृत्यन्तीनाममरसुदृशां किङ्किणीमजुनादः पुष्पश्रेणीपतनविलसद्भङ्गवाचालताभिः । गीर्वाणानां मुदितमनसां साधुवाचां प्रचारैः पूर्णीभूतः सकलभुवने दुन्दुगिवान एषः ॥ २२ ॥ -- सिद्भि०-महाराज ! तत्कथय किं ते भूयः प्रियमुपकरोमि । राजा-(सानन्दम् ) अतः परमपि प्रियमस्ति । क्षोणीराज्यं सपदि विहितं कान्तया साईमुच्चै. देवी तुष्टाऽप्य जनि भगिनीलाभमासाद्य सद्यः । स्फीता कीर्तिः सपदि रचिता चन्द्रवंशस्य तस्मात कस्मिन्निष्टे भगवति ! पुनः कर्तुमीहा तवाऽऽस्ते ॥ २३ ॥ (१) भगवति ! त्वं आर्यपुत्रस्य हस्ते इमां प्रतिपादयस्व ।

चतुर्थोऽङ्कः ! ६१ तथापीदमस्तु भरतवाक्यम् । यावह्माण्ड भाण्डे स्फुरति स भगवान् पमिनीजीवितेशो यावक्षोणी फणीन्द्रः कलयति शिरसा यावदास्ते शशाङ्कः । यावत् कल्पान्तवातो न चलति भुवने सन्तु तावत् समस्ता विस्पू क्षीरधाराद्रवमधुरतराः सत्कवीनां प्रबन्धाः ॥२४॥ ( इति निष्क्रान्ताः सर्वे ) चतुर्थोऽङ्कः ॥ ४ ॥ समाप्तेयं मृगाङ्कलेखाभिधाना नाटिका कृतिरियं विश्वनाथदेवकः ॥

No text on this page.

मृगाङ्कलेखायां शुद्धिपत्रम् अशुद्धम् पृष्ठे १७ पङ्गो १७ १६ २४ निजजभुज मन्वेषायामः मुतार्यते मश्चयतश्चकोराः शुद्धम् निजभुज मन्वेषयामः मुत्तार्यते मञ्चयन्तश्चकोराः सुन्दरापाङ्गरम्ये प्रान्तरेण २९ १९ ३१ १६ w सुन्दरापाङ्गरम्य प्रान्तरणे ३९ १२ सबाष्यम् सबाष्पम् ४५ ५

No text on this page.

THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS. Edited by GOPINATII KAVIRAJ, M. A. No. 1-The Kiraṇāvāli Bhaskara, a Commentary on Udayana's Kiraṇāvali, Dravya section, by Padmanabha Miśra. Ed.with Introduction and Indox by Gopinath Kaviraj,M.A. Rs. 1-12 No. 2-The Advaita Chintamani, by Rangoji Bhatta, Ed. with Introduction etc. by Nārîyana Sastri Khisto Sahityachārya. Rs. 1-12 No. 3—The Vedānta Kalpalatikā, by Madhusudana Sarasvati. Edited with Introduction etc. by Rāmājia Pandeya Vyitkaraṇicharya. Rs. 1-12 No. 4-The Kusumanjali Bodhani, a Commentary on Udayann's Theistic Tract, Nyaya Kusumānjali, by Varadaraja. Ed. with Introduction etc by Gopinath Kaviraj, M.A,Rs. 2-0 No.5– The Rasasāra, a Commontary on Udayana's Kiranavali, Guna Soction, by Bhatta Vadindra. Ed. with Introduction etc.by Gopinath Kaviraj, M.A. Ks. 1. 2 No. 6—(Part I)-The Bhāvanā Viveka by Mandana Miśra, with a Commontary by Bhatta Umboka. Ed, with Introduction ote. by M. M. Gangānātha Jhā, M. A., 1). Litt. Rs. 0-12 No. 6-(Part II)---Ditto Ditto Rs. 0-12 No. 7-(Part I)-Yoginihỉdaya dipikā, by Amrtānanda Nātha, being 1 Commontary on Yoginihỉdaya, a part of Vāmakośvara Tantra Ed.with Introduction ote by Gopinath Kaviraj, M..A Rs. 1-8 No 7-( Part II ) Ditto Ditto Rs. 1-4 No. 8--The Kávyadūkini, by Gangananda Kavindra. Ed, with Introduction otc. by Jayannātha Sastri Hoshing Sābityopādhyāya. Rs 0-10-6 (2) No. 9--(Part I)-The Bhakti Chandrikā, a Commentary on Sandılya's Bhaktisütras, by Nārāyaṇa Tirtha. Ed.with a Prefatory Note by Gopinath Kaviraj,M.A. Rs. 0-15 No. 10-(Part I-Tho Siddhantaratna, by Baladeva Vidyābhūşana. Ed. with a Prefatory Noto by Gopinath Kaviraj, M.A. Rs.1-2 No. 10-(Part II)-Do. Do, Rs. 2-12 No. 11-The S'ri Vidyā Ratna Sūtras, by Gaudapāda, with a Commontary by Sankarāraṇya. Ed. with Introduction etc. by Nārāyaṇa Sāstri Khiste Sahityacharya Rs. 0-9 No. 13-The Rasapradipa, by Prabhākara Bhatta. Ed, with Introduction ote. by Nārāyana S'astri Khiste Sahityacharya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, hy Balablıadra. Ed, with Introduction by Gopinath Kaviraj, M. A Rs. 0-14 No. 14-Tho Trivoạikā, by Āsādhara Bhatta. Ed. with Introduction by Batukanātha S'arma Sahityopādhyāya, M. A, and Jagannātha S'āstri Iloshing Sahityo. pădhyāya. Rs. 0-14 No, 15-(Part I)-The (Jnāna Khanda) Ed.with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.0-14 No. 15-( Part-II )-Do. Do. Rs. 2-4 No. 15--( Part III)-Do. Do. No. 16-The Kävya Vilāsa, by Chiranjiva Bhattāchārya. Ed with Introduction etc. by Batukanātha S'armă Sāhityopādhyāya, M. A. and Jagannātha S'āstri Hosing Sāhityopādhyāya. Rs. 1-2 No. 17-Tho Nyāya Kalika, by Bhatta Jayanta. Ed. with Introduction by M. M. Gangānātha Jhã, M. A., D. Litt. Rs 0-14 (3. No. 18-(Part 1)-The Croraksa Siddhanta Sangraha. Ed. with Prefatory Note hy Gopinath Kariraj, VI A. Rs, 0-18 No. 19-( Part. I )-The Prākrita Prakāśa by Vararuchi with the Prākṣita Sanjivani by Vasantarāja and the Subodhini by Sadananda. td with Prefatory note etc. by Batuk Nath S'armū, M. A. and Baladeva Upadhyāya, M. A. Rs 1-4 No. 19-( l'art.II ) Ditto Ditto Rs. 2-12 by No 19.--( Part. III ) Introduction etc. ( In Proparation. ) No. 20 The Münsatattvaviveka by Visvanatha Nyayapanchanana Bhattacharya. Edited with introduction ote. P. Jagannathu Sristri Hoshing Sahityopadhyaya, with a Foroword by Pandit Gopi Nath Kavirája, M. A., Principal, Government Sanskrit College, Benaraq. Rs. 9.12 No. 21-(Part 1) The Nyāya Siddhanta Müla by Jayarūma yaya Parichanana Bhattacharya, Edited with Introduction etc. by Mangal Dova S'astri M. A., D. Phil. ( Oxon ), Librarian, Covi. Sanskrit Library, Sarasvati Bhuvana, Lenares. Rs. 1- No 21-( Part II) Ditto Ditto No. 22-The Dharmánubandhi Slokachaturdasi by Sri S'es& Kirsma with a Commentary by Rāma Pandit. Edited with Introduction etc. by Närāvana S'āstri Khisto Sāhitváchārra, Assistant Librarian, Government Sanskrit Library, Saraswati Bhavana, Benares. No. 23-Navarătrapradipa hp Nanda Pandit Dharmadhikari. Ed, with Introduction etc. by Vaijanátha Sastri Varakale, Dharmaśāstra-S'ästri, Sādholal Research Scholar, Sanskrit College, Benares, with a Foreword hy P. Gopinath Kaviraj, M, A., Principal, Government Sanskrit College, Benares.

( 7 ) No. 24-S'ri Rāmatäpiniyopauişad with the Commentary called Räma. Kāśikā in Pürvatäpink and Anandanidhi in Utturatäpini by Auandavana Ed, with Introduction etc. by Anantarama Sastri letāla Sahityopādhyāya, Post-Acharya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Natha Kavirāja, Jl. A., Principal, Government Sanskrit College, Benares. No. 35- Sāpiņlyakaljalatski by Sadāsıra dera alias Apadeva with il commentary by Nárāvana Devil. Edited with Introduction etc. by Jaganātha Sāstrī Hosirga, Sahityopadhyaya, Sadholal Research Scholar, Govt. Sanskrit College, Benares. No. 26-Mrvănkalekha Nauka by visvanatha deva Kavi. Edited with Introduction ote. by Värāvana Šāstri Khista Salutyacharya, Asst. Librarian, Government Sanskrit Library, Bonaros.

THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES: Edited by (TOPINATH KAVIRAJ, M. A. Vol. I (1) Studios in Hindu Law (1): its Evolution, by Ganganatha Jhā. (b) The view-point of Nyāya Vaiſeșika Philosophy, by Gopi nath Kaviraj. (c) Nirmaņa KĂya, hy Gopinath Kaviraj. Rs. 1-12 Vol. II- (a) Parasurama Misra alias Vapi Rasala Raya, by Gopinath Kaviraj. (b) Index to S'abara's Bnāsya, by the late Col. G. A. Jacob. (c) Studios in Hindu Law (2):--its sources, by (iangānāth Jha (d) A Now Bhakti Sūtra, by Gopinath Kaviraj. (@) The System of Chakras according to Giornkşa nátha, by Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. (y) Hindu Poetics, by Batuka påtha S'armā. (h) A Seventeenth Century Astrolabe, by Padmākara Dvivedi (i) Some aspects of Vira S'aiva Philosophy, by Gopinath Kaviraj (j) Nyaya Kusumānjali (English Translation ), hy Gopinath Kaviraj. (k) The Definition of Poetry, by Nārāyaṇā S'astri Khiste. (1) Sondala Upadhyāya, hy Gopinath Kaviraj. Rs. 5 Vol. TII- (a) Index to S'abara's Bhāşya, by the late Col. G.A. Jacob. (b) Studies in Hindu Law (3): Judicial Procedure: by Ciangānátha Jha, (c) Theisn in Ancient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyaya Vaisasika Literature, by Gopinath Kaviraj. (e) Naisadha and S'ri Harga by Nilakamala Bhattacharya. (f) Indian Dramaturgy, hy P. N. Pátankar. Rs. 5 Vol. IV- (a) Studies in Hindu Law (4): Judicial Proceduro: by Ganga nātha Jhā. (b) History and Bibliography of Nyāya Vaišoșika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Prātiśākhyn, by Mangala Deva Sastri, (d) Nirāyaṇa's Gapita kaurudi, by Padmākara Dvivedi, (©) Food and Drink in the Rāmāyanic Age, hy Manmatha natha Roy (f) Satkāryavāda: Causality in Sāåkhya, by Gopinath Kayiraj. (4) Discipline by Consequences, by G. L. Sinha. (h) History of the origin and expansion of the Aryans by it. C. Ganguly. (i) Punishments in Anciont Indian Schools, by G.L. Sinha. Rs 5 Vol. V (a) Ancient Home of the Aryans and their migration to India, hy A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mohr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Rāmāyaṇa, by Manmatha nātha Roy. (d) A Comparison of the Contents of the Ryveda, Vājasaneya, Tait tiriya & Atharvaveda Prātiśākhyas, by Mangala Deva S'astri. (0) Formal Training and the Ancient Indian Thought, by G.J. Sinha. (E) History and Bibliography of Nyāya Vais'oșika Literature, by Gopinath Kaviraj. (g) A Descriptive Index to the names in the Rámāyaṇa, by Manmatha náth Roy. (h) Notes and Queries (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI-( In progress) (*) Index to S'abara's Bhāşya, by the late Col. G. A. Jacob.. (b) Some Aspects of the History and Doctrines of the Nathas, by Gopinath Kaviraj. (c) Studies in Hindu Law (5): Evidence, by Ganganatha Jhā, To be had of The Superintendeut Government Press. Allahabad. U. P.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Mrxgaang-kalekhaa Naatikaa

Author
Deva~ Shriivishvanaatha
Title
Mrxgaang-kalekhaa Naatikaa
File name
Mrxgaang-kalekhaa Naatikaa
Text
OCR done
Citation
1929
Published
2005-12-01
Publisher
Vidhyaa Vilaasa Presa~
Language
Sanskrit
Pages
94
Classification
Language. Linguistics. Literature
DLI number
369618
Barcode
2030020016440.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
5DnQoNjpFh6
Download PDF

Mrxgaang-kalekhaa Naatikaa