University Liberey Allahabad

Shreemadarthvarnnarayanopnishad

Hari Shankar Sastri · 30.05.06

PDF Proofread

Front matter

शेठ नारायणदास तथा जेठानंद आसनमल पुष्टिमार्गीयग्रन्थमाला. रन १२. ॥ श्रीकृष्णाय नमः॥ विद्वत्केसरिशुद्धाद्वैतसहस्रांशुसर्वतत्रवतत्राद्यनेकोपपदराजिविराजित- शुद्धाद्वैतसम्प्रदायाचार्यश्रीमद्वल्लभाचार्यवंशविभूषण- गोस्वामिश्रीमदनिरुद्धाचार्यविरचित- वेदान्तविद्यालङ्कारभाष्यसमुपबृंहिता श्रीमदाथर्वणनारायणोपनिषद् । शुक्लोपाहश्रीमदोङ्कारशर्मतनुजन्मपण्डितकुलकौस्तुभ- हरिशङ्करशास्त्रिविरचितया किरणावल्याख्यव्याख्यया समलङ्कृता । साच मुम्बापुरीस्थश्रेष्ठिवर्य 'नारायणदास आसनमल ट्रस्ट'द्रव्यादिव्यव- हारावलोकपितृभिः दूस्टद्रव्यव्ययेन मुद्रयित्वा प्रकाशिता। मुम्बय्यां निर्णयसागरमुद्रणालये मुद्रिता । सन १९४३, श्रीवल्लभाब्द ४६५.

(All rights reserved by the Publishers ]
Printed by Ramchandra Yesu Shedge at the Nirnaya Sagar Press,
26-28 Kolbhat Street, Bombay.
Published by the Trustees of Sheth Narayandas and Sheth Jethanand
Asanmal Trust, 236 Kalbadevi Road, Bombay 2.

प्रस्तावना आ नारायणउपनिषद्भाष्यना कर्ता गोखामी श्रीअनिरुद्धलालजी बेटशंखोद्धारमा संवत् १९४७ ना भाद्रपद शुक्ल द्वादशी (वामनजयंती) ने दिने श्रीमुरलीधरजीने लां श्रीरु- क्मिणीजीथी प्रकव्या हता. नटपुरना गोस्वामी श्रीव्रजरत्नलालजीने संतान न होवाथी तेमने सातमे वर्षे गोद लीधा. नानपणमा विद्याम्यासनी साथे मल्लकुस्तीरूपी व्यायाम पोते आनं- दथी करता, अने अश्वने पण पोते सारी रीते केळवी शकता, ने अश्वखारीमा पण चतुर हता, विद्याम्यासमां पंडित मथुराप्रसाद शास्त्री, पंडित शिवशंकरजी, शास्त्री हरिशंकरजी, मोहनलाल शास्त्री, दुर्लभजी शास्त्री विगेरेनी पासे अभ्यास को हतो, अटलुंज नहि, पण पुष्टिसंप्रदायना अद्वितीय विद्वान् भृगुकच्छवासी शास्त्री ममलाल गणपतिराम एम. ए. नी. पासे अणुमाष्यतुं सारं अध्ययन कर्यु हतुं, अने मंगलाचरणमा 'तम् ममलालं मनसा स्मरामि एम जणावी तेनु स्मरण कर्य छे. संस्कृत साहित्य वांचवानो एमने घणो शोख हतो, अने रोज चार पांच कलाक वांचे नहि तो एमने चेन पडतुं नहि. शुद्धाद्वैतमंजरी, प्रमेयरवार्णव, पुष्टिमार्ग लक्ष- णानि ग्रंथनी टीका, वगेरे नाना मोय आशरे चालीस ग्रंथ एमणे लख्या हशे एम धारवामां आवे छे. तेमां गोपालतापिनी उपनिषद् अने नारायणउपनिषद्न भाष्योनो पण समावेश थाय छे. सोळ वर्षनी उमरे पोते प्रथम वैष्णव परिषद्मा संस्कृतमां भाषण कर्य त्यारे शास्त्रीजी बद्रीनाथ अने प्रोफेसर ममलाल शास्त्री वगेरे विद्वानो तेमज त्यां हाजर रहेला सर्वे मनुष्योने अत्यानंद थयो. पोते मुंबाइ रहेता ते समये गोखामी श्रीगोकुलनाथजी, श्रीदेवकीनंदनाचार्यजी, पंडित बलभद्र शर्मा, पंडित सुदर्शनाचार्यजी वगेरे घणा विद्वानोना प्रसंगमां आव्या. पछी पटना, कलकत्ता, मुंषाइ, वगेरे घणा सलोए व्याख्यानो आप्या बने शुद्धाद्वैतकेसरी, शुद्धाद्वैतवाचस्पति, शुद्धाद्वैतसहस्रांशु, वेदांतसुधाकर, वेदांतविषा- लकार पंडितमंडलेश्वर, पंडितेन्द्र, सर्वतत्रवतत्र वगेरे पदवीओ अने सुवर्णपदक वगेरे प्राप्त कर्या. सूरतमा छप्पनमोग समये तिलकाइत श्रीगोवर्धनलालजीए एमनी सराहना करतां कछु इतुं के 'तमे विधातिलकाइत छो'. संवत् १९६४ ना मार्गशीर्ष शुक्ल दशमीने दिने एमना लम मद्रासना श्रीमहालक्ष्मीवहुजी साथे थया. ते समये नटपुरना भाउसाहेब देसाइना पौत्र श्रीयुत गिरिधरदास मंगळदास वा तातासाहेबे सर्व व्यवस्था बहु सारी रीते करी हती, अने लमसमारंभ उत्साहपूर्वक उजव्यो हतो. संवत् १९६५ मां श्रीपुष्टिमार्गीयपुस्तकालयनी स्थापना पोते नटपुरमा करी, अने ते समये मायावादीओनी साना झगडामां शंकराचार्यमाधव- तीर्थने चेलेंज करवानी पहेल पोते करी हती. सारपछी पोते जामनगरमां गादीनशीन थया, ( २ ) शास्त्री हाथीभाइ आव्या, अने श्रीकृष्णचंद्राभ्युदय नाटक भेटमां आप्यु, महाराजश्रीएं तरत ज आ पुस्तकना उत्तर रूपे गोपालतापिनीभाष्य रची स्वसिद्धान्त प्रतिपादन कर्यो, अने ते छपावी तेनी एक प्रति शास्त्रीजीने मोकली आपी. त्यार बाद आ नारायणोपनिषद् भाष्य रच्यु जे हाल प्रकट थाय छे. एमना प्रथमवहुजी जे सेवारसिक अने साहित्यरसिक हता, तेना लीलाप्रवेश थया पछी, संवत् १९८८ ना कार्तिक शुक्ल पूर्णिमाने दिने श्रीमहा- लक्ष्मीवहुजी साथे बीजं लग्न कर्यु. ते समये नटपुरना वैष्णवोए तेमने पंडितेन्द्रनुं उपपद आपी सुवर्णपदक भेट कर्यो. गुरुवायुरमां हरिजनोना मंदिरप्रवेश संबंधी सत्याग्रह चालतो हतो ते समये सनातनधर्मना रक्षणने माटे पोताना शास्त्री हरिशंकरजीने त्यां मोकल्या हता, अने नटपुरमा वर्णाश्रम स्वराज्य-संघनी एक शाखा स्थापी हती. खेडाजिह्लामां वर्णाश्रम स्वराज्य संघना अधिवेशनमा एमने अध्यक्षस्थाने आपवामां आव्युं हतुं. मुंबाइमां गोस्वामी श्रीगोकुलनाथजीना अध्यक्षपणा नीचे प्रान्तीय सम्मेलन भरवामां आव्युं ते समये श्रीअनिरुद्धलालजीए स्वागतनुं अने उपसंहारनुं संस्कृत भाषामां व्याख्यान आप्युं हतुं, ते समये गोस्वामी श्रीवल्लभलालजी, श्रीरणछोडलालजी, शंकराचार्य श्रीभारतीकृष्णतीर्थजी, श्रीजयेन्द्रपुरीजी, रामानुजमतानुयायी श्रीदेवनायकाचार्यजी सर्वे विराजेला हता. श्रीशंकरा- चार्यजीए ते समये महाराजश्रीना कंठमां पुष्पमाला धरावी सर्वतत्रस्वतन्त्रना उपपदथी विभू- षित कर्या. संवत् १९९१ मां श्रीपुष्टिमार्गीय पुस्तकालयनो रजत-महोत्सव उजवायो ते समये सात दिवस सुधी सभानु प्रमुख स्थान अलंकृत करी नटपुरना तेमज बहारगामथी आवेला वैष्णवोने उपदेशनो लाभ आप्यो हतो. संवत् १९९२ ना मार्गशीर्ष कृष्ण सप्तमीने दिने पोते लीलाप्रवेश कों. श्रीवल्लभप्राकट्यो- त्सव सं. १९९९ शेठ नारायणदास तथा जेठानंद आसनमल ट्रस्ट फंडना ट्रस्टीओना सर्व वैष्णवोने भगवत् स्मरण. चैत्र वदि ११.

કાન ગોસ્વામી શ્રી અનિરૂધ લાલજી મહારાજ श्रीहरि। ॥ अथ श्रीमदाथर्वणनारायणोपनिषत् ॥ ॐ भद्रकर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षिभिर्यजत्राः। स्थिरैरङ्गतुष्टुवाश्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ ॐ शान्तिः शान्तिः शान्तिः ।। ॐअथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । नारायणात्प्राणो जायते। मनः सर्वेन्द्रियाणि च । खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी। नारायणाब्रह्मा जायते । नारायणाद्रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणाग्रजापतिः प्रजायते । नारायणावादशा- दित्या रुद्रा वसवः सर्वाणि छन्दाश्सीति । नारायणाग्रजायन्ते । नारायणा- अतीयन्ते । नारायणे प्रलीयन्ते । एतहग्वेदशिरोऽधीते । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । रुद्रश्च नारायणः । प्रजापतिश्च नारायणः । शक्रश्च नारायणः। कालश्च नारायणः । आदित्यश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वञ्च नारायणः । अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेद सर्व यद्भूतं यच्च भाव्यम् । अथ निष्कलो निष्कलङ्को निरजनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणोऽस्ति न द्वितीयोऽस्ति कश्चन । य एवं वेद । विष्णुरेव स भवति, स विष्णुरेव भवति । एतद्यजुर्वेदशिरोऽधीते । ॐ इत्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ॐ 'इत्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै नारायणस्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । ततोपासनयाऽमृत- त्वमश्नुते, ततोऽमृतत्वमश्चत इति । एतत्सामवेदशिरोऽधीते । प्रत्यगानन्दं ब्रह्म पुरुष प्रणवखरूपं पश्यति । अकार उकारो मकार इति ।

(२) अथ ॐ नमो नारायणायेति जपन्नुपासको वैकुण्ठभुवन गच्छति । तदिदं पुण्डरीकं विज्ञानघनम् । तस्मात्तडिदाभमात्रम् । ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरुच्यते इति । सर्वभूतस्थमेकं वै नारायणम् , कारणं, पुरुष, अकारणं, परं ब्रह्म इति । य एवं वेद नारायण- सायुज्यमवाप्नोति । श्रीनारायणसायुज्यमवाप्नोति । एतदथर्वशिरोऽधीते । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायम्प्रातरधीयानो पापोऽपापो भवति । मध्यन्दिनमादित्याभि- मुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते। इत्युपनिषत् ॥

现
贝贝网网心网心似网网网规网侧侧似网网网网MG
ts
જન્મ-સંવત્ ૧૯૨૦ શ્રાવણ સુદી ૭.
જમા–સંવત્ ૧૯૨૮ ને ફાગુને વદી ૧૧-
અવસાનઃ-સંવત્ ૧૯૮૪ શ્રાવણ વદી ૭,
અવસાનઃ-સંવત્ ૧૯૮૫ પોષ વદી ૧૨,
.A.1ERCUS ZiMR.
8. A. Rele dl.dlll.
333333GSSSSS:: SSSSS:
网网

॥श्रीकृष्णाय नमः॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ विद्वत्केसरिगोस्वामिश्रीमदनिरुद्धाचार्यविरचितवेदान्त- विद्यालङ्कारभाष्योपहिता श्रीमदाथर्वणनारायणोपनिषद् ओङ्कारात्मजहरिशङ्करशास्त्रिविरचितया किरणावल्या समेता। जयत्यमलरासकृन्मदनवर्पसंहारक- क्षणेन ब्रह्माद्यान्गगनपवनापः क्षितिविभे प्रजाः प्राणांश्चेतः सृजति, सकलं यो भवति च । विरुद्धान्धर्मान्वै धरति रमणार्थ विभुरपि नमामि श्रीनारायणमविकृतं भक्तशरणम् ॥ १ ॥ मायावादतमोनिरासनपटुः श्रीलक्ष्मणस्यात्मजो जित्वा राजसभास्थितान्बुधवरो वादेषु सङ्ख्यावतः । शुद्धाद्वैतविभाकर सुखकर प्रादर्शयन्निर्भयो वेदोद्धारधुरन्धरो विजयते श्रीवल्लभार्यः प्रभुः ॥२॥ पितामहं वामनं च ठाकोरं तत्सहोदरम् । ओङ्कारं पितरं चैव रूपादेवीं च मातरम् ॥ ३ ॥ कनुमाधवलीलाख्यान्मणिं नत्वा पितामहीम् । हरिशङ्करशर्माऽहं तनोमि किरणावलीम् ॥४॥ अथ श्रीमच्छुद्धाद्वैतब्रह्मवादप्रवर्तकाचार्यवर्यजगद्गुरुश्रीश्रीवल्लभाचार्यमहाप्रभुपूज्यपादवंशा- 'वतंसाः शुद्धाद्वैतसहस्रांश्वाधनेकविरुदालता वेदान्तविद्यालङ्काराः श्रीमदनिरुद्धाचार्याः प्रारी- प्सितस्य श्रीमदाथर्वणनारायणोपनिषद्भाष्यस्य वेदान्तविद्यालङ्काराख्यस्य निष्प्रत्यूहपरिपूर्ति- प्रचारादिफलकं शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं शिष्यशिक्षायै मङ्गलमाचरन्ति- जयतीति । अमलेति विशेषणं निरवद्यत्वबोधनाय; "रासोत्सवः सम्प्रवृत्तो गोपीमण्डलम- ण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः" इत्यत्र भगवतः श्रीकृष्णस्य योगेश्वर- वोतः। रसानां समहो रासः । अथवा. रसस्याविर्भावो यस्मात । अत एवाह श्रुतिरपि - २ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- न्महेन्द्रमदभङ्गकृजविलासिनीशोकहृत् । - "रसो वै सः" इति । "उगतोऽग्निः सर्वत्रैवाग्निं लीनं जनयितुं शक्नोति" इति श्रीसुबोधि- नीवाक्येन स्वयं रसात्मा पुरुषोत्तमः स्वस्मादेव रसमुत्पाद्य सर्वेषु स्थापयति, स्वयं च तत्र लीनो भवति; पुनः सर्वान्स्वस्मिन् लयं जनयति । इयं हि तस्य लीला । बहुनर्तकीयुक्तो नृत्यविशेषो रासः । अत्र हि रसोगमः क्रीडायां मनसो, नृत्ये च देहस्य । तेन क्रीडायाः सर्वथैव रसोद्गमे तद्भोत्कृत्वं च स्वप्रधानम् । न तु नायिकाप्रधानम् । अतएव मदनेति, मदनस्य कामस्यापि दर्पस्य संहारकर्ता । कामस्तु शिवब्रह्मादीनपि विमोहयति । तथाहि- "एवं तां रुचिरापाङ्गी दर्शनीयां मनोरमाम् । दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल" इत्युपक्रम्य “प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः । तस्यानुधावतो रेतश्चस्कन्दामोधरेतसः । शुष्मिणो यूथपस्येव वासितामनुधावतः” इत्याद्यष्टमस्कन्धे शिवस्य, सरस्वतीप्रसङ्गे विरञ्चेश्व मोहोत्पादन प्रसिद्धमेव । इह पुनः “रेमे रमेशो व्रजसुन्दरीभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः" इत्युक्तेर्वशीकृतकामः, “सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्त- तोऽङ्ग। वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलील" इत्युक्तेश्व खरतिः श्रीकृष्णो मदनदर्प संहरत्येव बाह्यरतित्वाभावात् । अत एवाहुः श्रीमदाचार्यचरणाः "रसात्मकस्तु यः कामः सोऽत्यन्तं गूढ एव हि ।" इत्यारभ्य "कामाख्यं सुखमुत्कृष्टं कृष्णो भुङ्क्ते न चापरः" इति । लौकिकरत्यादिषु रसाभास एवेति विचक्षणैर्बहुशः प्रतिपादितम् ।। रसात्मकस्तु कामः भगवत्सम्बन्धेनैव भवति । अत एव "क्रिया सर्वाऽपि सैवात्र परं कामो न विद्यते” इति श्रीमदाचार्यचरणोक्तेः कामाभाव एव तत्र, तेन विद्यमानायामप्युद्बोधकसामग्र्यां कामोद्रेकाभावः। तदेवाहुः “कामाभावेन पूर्णस्तु निष्कामः स्यान्न संशयः" इति । भगवतो निर्जितकामत्वादेव कामपराभूताः शिवादयस्तद्दर्शनार्थं जग्मुः । तथाहि "..."नभस्तावद्विमान- शतसङ्कुलम् । दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम्” इति । उक्तं च श्रीधरस्वामिनापि "ब्रह्मादिजयसंरूढदर्पकन्दर्पदर्पहा । जयति श्रीपतिर्गोपीरासमण्डलमण्डनः" इति । एवमेव "स्मयावलोकलवदर्शितभावहारिधूमण्डलप्रहितसौरतमत्रशौण्डैः । पत्यस्तु षोडशसहस्रमनङ्ग- बाणैर्यस्येन्द्रियं विमयितुं कुहकैन विभ्व्यः' इत्यत्र स्पष्टमेव कामपराजयः प्रदर्शितः । महे- न्द्रेति । महेन्द्रस्य पुरन्दरस्य गोवर्धनोद्धरणादिना मदभङ्गं करोतीति तथा । “कालात्मना भगवता शक्रदर्प जिघांसता । प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्ति तद्वचः” इति वाक्या- द्भगवत्प्रेरणया कृते च गोवर्धनयागे, शक्रेण चोपलादिवर्षणेन कृतेऽपि गोकुलपीडने, भगवता तद्रक्षायाः कृतत्वात् । तथाहि-“देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैः सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयन् । उत्पाध्यैककरेण शैलमबलो लीलोच्छिलीन्ध्र यथा बिभ्र- किरणावल्या समेतम् । ३ प्रपन्नपरिपोषकृन्निज़जनैकहदासकृ- त्प्रपञ्चविभवान्तकृत्प्रमथनाथसन्तापहृत् ॥१॥ विविक्त उपसङ्गम्य वीडितः . कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा । दृष्टश्रुता- नुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः” इत्युपक्रम्य पुरन्दरकृनस्तुतौ तेनैव "मयेदं भगवन्गोष्ठनाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना । त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वर गुरुमात्मानं त्वामहं शरणं गतः" इत्युक्तत्वात् । भगवतापि “मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनु- स्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् । मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंश- यामि सम्पन्यो यस्य चेच्छाम्यनुग्रहम्" इत्युक्तत्वात् । व्रजविलासिनीति । "इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः" इत्येवं- रूपस्य . तासां शोकस्य "तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः” इत्यादिनाऽपहारक इत्यर्थः । प्रपन्चेति । प्रपन्नानां “सन्त्यज्य सर्व विषयांस्तव पादमूलम्" इत्युक्तेः “तव पाद- रजःप्रपन्नाः" इति चोक्त्या लोकवेदत्यागपूर्वकं शरणागतानां भयेभ्यः संसारासक्तिरूपेभ्यः परिपोषकद्रक्षक इत्यर्थः । “सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद्रतं मम" इत्युक्त्या तस्य तद्वतत्वात् । अत एव निजजनैकवासकृदिति । निज- जनानां भक्तानां हृदि वासं करोतीति तथा । “नाहं वसामि वैकुण्ठे योगिनां हृदये न च । मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद" इति वाक्यात्कीर्तनादिना भक्तान्तः- करणस्थितस्याविर्भावकथनात् , “दुर्लभानपि सिद्धानां मुकुन्दं हृदि पश्यतः", "आहुश्च ते नलिननाम पदारविन्दं योगेश्वरैर्हदि विचिन्त्यमगाधबोधैः । संसारकूपपतितोत्त- रणावलम्बं गेहंजुषामपि मनस्युदियात्सदा नः” इत्यादिवाक्येभ्यः, "दहर उत्तरेभ्यः" इत्यत्र च दहरं भक्तानां हृत्कमलमिति श्रीमप्रभुचरणैर्विद्वन्मण्डने व्याख्यातत्वाच । प्रपञ्चेति । प्रपञ्चस्य संसारस्य विभवोऽहन्ताममतात्मकस्तस्यान्तकृन्नाशक इत्यर्थः । अथवा, प्रपञ्चस्य विभव ऐश्वर्यरूपो जनकः कामः, तदन्तकृन्नाशकः । तथाचोक्तं "अत एतच्छ्रुतौ लोंको निष्कामः सर्वथा भवेत्" इति, “भगवचरितं सर्वं यतो निष्काममीयते" इति, “अतः कामस्य नोद्बोधः” इति च । तथा च “सन्तुष्टः सर्वदुःखानि नाशयत्येव सर्वतः” इत्युक्तेः, संसारदुःखोदर्कनाशकत्वमेव प्रदर्शितम् । प्रमथेति । प्रमथनाथः शिवः, तस्य सन्तापं हरतीति । “सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनत- कन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः" इत्युक्तेस्तस्याप्यनिश्चिततत्त्वत्वात्समुत्पन्नस्य सन्ता- पस्य वेणुनादश्रावणेन कश्मलं मूर्छा प्रापय्य खात्मानन्दे निमग्नं कृत्वा सन्तापहारक इति भावः । अथवा, वृकासुरं हत्वा शिवस्य सन्तापहारकः । अत एव पण्डितपुरन्दराः श्रीपुरुषो- 0 श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सर्वखं सुकृतस्य रम्यसदनं शान्तेश्च भाग्यं दृशां सौभाग्यं शरणागतस्य सुमन श्रेष्ठ्यं च भक्तेः फलम् । साकृतं कुसुमायुधस्य हृदयं श्रीराधिकायास्तुते- स्तत्त्वं मन्मथमोहनं रसघनं नित्यं मुदा संश्रये ॥२॥ वक्रोष्णीषे स्रगतिविमला शोभते मौक्तिकानां कण्ठे मालां मणिविरचितां कर्णयोः कर्णपुष्पे । खच्छैहीरः संमनुजटितां मध्यमाणिक्यमुख्यां नासाभूषां दधति वदने नौमि तं बालकृष्णम् ॥ ३ ॥ यो निर्माति च पाति संहरति वै सर्व जगल्लीलया निर्लेपो रमते रमापतिरसौ ध्येयः सदा योगिभिः। साकारः शुभसर्वशक्तिविलसन्नानन्दरूपो रसः सङ्गीतः श्रुतिभिर्ममास्तु वचने मुक्तोपमृप्यो हरिः ॥४॥ . लीलाभेदे स्वरूपभेद इति न्यायेनैकस्यापि नानाविधस्वरूपान् नमन्ति, तेषु प्रथमतः खसेव्यं श्रीमदनमोहनं जामनगरे विराजनं प्रणमन्ति-सर्वस्वमित्यनेन ॥२॥ नटपत्तने विराजनं श्रीबालकृष्णं नमन्ति-वक्रोष्णीषेत्यादिना ॥३॥ एतदुपनिषत्प्रतिपाद्यस्वरूपं स्तुवन्ति-यो निर्मानि चेति । "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसम्विशन्ति" इति श्रुतेः । एतदुपनिषद्यपि “नारा- यणात्प्रजायन्ते, नारायणात्प्रतीयन्ते, नारायणे प्रलीयन्ते' इत्युक्तत्वाच्च । लीलयेति । निर- कुशसर्वकर्तृत्वम् । अनेन "तदैक्षत बहु स्यां प्रजायेय' इत्यादिश्रुतिप्रतिपाद्यं “स वै नैव रेमे स द्वितीयमैच्छत्” इति श्रुते रमणार्थमेवैतत्सर्वमिति सूच्यते । एतदुपनिषद्यपि “पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेय" इत्युक्तमेव । निर्लेपोऽविकृतत्वात् । साकारः। "पुरुषो ह वै नारायणः" इति श्रुतेः । सर्वशक्तीति । अलौकिकसर्वधर्मयुक्तः । आन- न्दरूपः । “आनन्दमात्रकरपादमुखोदरादिः” इति वाक्यात् ।रसः। “रसो वै सः" इति श्रुतेः । मुक्तोपमृप्य इति । "मुक्तोपसृष्यव्यपदेशात्” इति न्यायात्तादृशः शुद्धाद्वैतरूपो वचने वेदान्तविद्यालङ्कारभाष्येऽस्तु। एतेनास्य स्वकल्पितत्वं पराहतम् । मुक्तैर्जीवन्मुक्तैरुपसृप्यः। तथाचैतद्भाष्यस्याधिकारिसम्बन्धविषयप्रयोजनान्यपि प्रदर्शितानि । मुक्तोपसृप्यत्वकथनात्सा- त्विको भगवद्धक्तो मुक्तावधिकारी भगवदिच्छया भवान्तसम्भवोऽधिक्रियते । सर्वकर्तृत्वोत्त्या

किरणावल्या समेतम् ।
खमोदमुदितोऽपि सन्निजजनैकशिक्षाकृते
मुकुन्दपदपङ्कजं परिचरन्प्रतापोज्वलः।
अनन्यजनमुक्तिदो विबुधमण्डलीपूजितो
निगूढवचनः सदा जयति वागधीशः प्रभुः॥५॥
प्रचण्डपाखण्डमतानुयायिनो
जित्वा सभायां नृपतेः स वाक्पतिः।
वेदान्तसिद्धं खमतं न्यरूपय-
च्छुद्धाद्वयं मद्धृदये विराजतात् ॥ ६ ॥
श्रीमद्वल्लभवंशवार्षिविकसज्जैवातकः पुण्यभूः
शुद्धाद्वैतनिरूपणे भगवतो ज्ञानावतारोऽपरः।
एवं ग्रन्थाध्ययनविषयकंप्रवृत्तिप्रयोजकीभूतज्ञानविषयत्वरूपमनुबन्धचतुष्टयं प्रदर्श्य श्रीमद्-
लभाचार्यान्स्तुवन्ति-खमोदेति। “स्वानन्दतुन्दिल" इति श्रीमत्प्रभुचरणोक्तत्वात् । निजज-
नेति । “जनशिक्षाकृत कृष्णभक्तिकृदि"ति सर्वोत्तमस्तोत्रोक्तरूपः । मुकुन्देति । पृथ्वीप्रदक्षि-
णायां सहैव विराजमानं खसेव्यं श्रीमुकुन्दरायस्वरूपमधुना काश्यां विराजमानं, तस्य पदपङ्कजं
परिचरन्सेवन् । अत एवाहुः "मुकुन्दरतिवर्धिनी नमत कृष्णतुर्यप्रियाम्" इति । श्रीमुकुन्द-
रायाणां यमुनातः प्रादुर्भावात्।प्रतापोज्वल उग्रप्रतापः। अनन्यगणायाव्यभिचारिण्या भक्त्या
प्रपन्नभक्तवृन्दाय मुक्तिं सायुज्यं ददाति स्वस्यादेयदानदक्षत्वादनन्यभक्तेषु ज्ञापिताशयत्वाच्च ।
विवुधा विद्वांसः, तन्मण्डलीपूजितः सत्कृतः । सर्ववादिनिरासकृतत्वात् । विबुधेश्वरत्वाच ।
निगूढवचनो निगूढहृदयः। वागधीशो वाक्पतिः। तथाहि-"न ह्यन्यो वागधीशाच्छुति-
गणवचसां भावमाज्ञातुमीष्टे यस्मात्साध्वी स्वभावं प्रकटयति वधूरग्रतः पत्युरेव । तस्माच्छ्री-
वलंभाख्य त्वदुदितवचनादन्यथा रूपयन्ति भ्रान्ता ये ते निसर्गत्रिदशरिपुतया केवलान्धन्त-
मोगाः” इति । श्रुतिरहस्येऽपि “नमो ब्रह्मणे नमो अस्त्वग्नये' इत्यत्र वाचस्पतिशब्दे तथैव
निरूपणात् । प्रभुर्विभुत्वात्पतित्वात्प्राप्तश्रीमहाप्रभुबिरुदत्वाच्च ॥ ५॥
श्रीमहाप्रभुबिरुदप्राप्तिं वर्णयन्ति-प्रचण्डेति । प्रचण्डपाखण्डमतानुयायिनः स्वबुद्ध्या
वेदार्थ परिकल्प्य. विचारशास्त्रस्योत्तरमीमांसायास्तदानुकूल्येन मतप्रचारकान् । नृपतेः श्रीकृ-
ष्णदेवराज्ञः । सभायां विजयनगरे विद्यानगरे वेति शेषः। खमतं शुद्धाद्वैतम् । वेदान्त-
सिद्धमित्यनेन “ये धातुशब्दा यत्रार्थे उपदेशे प्रकीर्तिताः। तथैवार्थो वेदराशेः कर्तव्यो
नान्यथा क्वचित्" इति, "लक्षणां नैव वक्ष्यामि' इति “अक्षरमात्रान्यथा कथनेऽपि दोषः
स्यात्" इत्यादि च श्रीमद्वल्लभाचार्याणां प्रतिज्ञां स्मारयन्ति ॥ ६॥

- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- श्रीमहालककृष्णसेवनरतः श्रीविठ्ठलेशात्मज- स्तं तातं मुरलीधरं सुमनसा वन्देऽवदातं मुहुः॥७॥ ललितां मातरं वन्दे कृपापीयूषवर्षिणीम् । यस्याः प्रवन्धतो विद्यां प्राप्नुयां पारमेश्वरीम् ॥ ८॥ श्रीमद्वल्लभवंशकौस्तुभमणिविद्यावतामग्रणी- गोविन्दानिसरोजसेवनधनो गोखामिचूडामणिः । यः श्रीभागवतामृतं निजजनेऽघर्षीदजस्रं हि तम् पि(?)तृव्यं पुरुषोत्तमं निजगुरुं दीक्षाप्रदं नौम्यहम् ॥९॥ सद्विद्यासमलङ्कतं बुधवरं श्रीवल्लभं संश्रितं धीरं सौम्यतनुं पवित्रचरितं वेदान्तविद्यागुरुम् । शिष्याध्यापनकर्ममार्गनिपुणं तं मग्नलालं मुद्रा औदीच्यान्वयज सुधीगणपतेः सूनुं स्मराम्यन्वहम् ॥१०॥ ॐ भंद्रङ्कर्णेभिः शृणुयाम देवाः, तत्रादौ भगवतः “सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता” इति तैत्तिरीयश्रुत्या सचिदानन्दस्य परब्रह्मणः खरूपानन्दप्राप्तेरेव मोक्षपदाभिलप्यत्वेन, मोक्षश्च सेव्यस्वरूपस्य सेवने निर्गुणभक्तिमार्गप्रोक्तप्रकारेण परिचर्यायां रतः प्राप्तव्यसनसम्पत्तिः । "ततः प्रेम तथाऽऽसक्तिर्व्यसनं च यदा भवेतू" इति “यदा स्याद्व्यसनं कृष्णे कृतार्थः स्यात्तदैव हि" इति च श्रीमदाचार्यचरणवाक्यात् ॥७॥ मातृचरणान्नमन्ति-ललितामिति । यस्याः प्रबन्धतो नटपत्तनादिषु श्रीविष्णुसम- शास्त्रिप्रभृतिपण्डितप्रकाण्डान् । नियुज्य, वेदान्तशास्त्राध्ययनाय मुम्बापुरीं गन्तुमाज्ञां प्रदाय च ॥८॥ ब्रह्मसम्बन्धदीक्षाप्रदं पितृव्यं नमन्ति-श्रीमद्वल्लभवंशकौस्तुभमणिरिति ॥९॥ विद्यागुरून् भगवच्छास्त्रनिष्णातान्मग्नलालशास्त्रिमहाभागांन्स्मरन्ति-सद्विद्येति । आङ्ग्ल- भाषायाः पूर्णवेत्तृत्वेऽपि वेदशास्त्राणां तलस्पर्शिज्ञानत्वाद्वेदानामपौरुषेयत्वस्वतःप्रामाण्यादिष्व- सन्दिग्धधीत्वाद् भूतार्थमेवैतद्विशेषणम् । औदीच्यान्वयजं टोळकिया औदीच्यज्ञाति- सम्भवम् ॥१०॥ अथैतदुपनिषदुक्तशान्ति पठन्ति–तत्रादाविति । सत्यमिति । स्वरूपलक्षणमिदम् । फलवाक्यस्य "ब्रह्मविदाप्नोति परम्" इत्यस्य व्याख्यानरूपेयमृक् । सत्यत्वादिना ब्रह्मपदार्थ किरणावल्या समेतम् । "चतुर्मुखादीनां सर्वेषामपि विना विष्णुभक्त्या कल्पकोटिभिर्मोक्षो न विद्यते", "भक्त्याहमेकया ग्राह्यः", "भक्त्या मामभिजानाति" इत्साधनल्पाभिनिगम- गीतादिसूक्तिभिर्भक्त्येति शास्त्रीयसिद्धान्तात् , तस्याश्च परमकाष्ठापन्ने तस्मि- न्माहात्म्यज्ञानपूर्वकसुदृढस्नेहरूपत्वेन तत्र तत्रोक्तत्वाच, तन्निरूपकोपनिषच्छ्र- वणाध्ययनमननेषु तदुक्तभक्त्यनुष्ठाने चोद्वेगादीनां बाधकत्वेन निःशेषप्रत्यू- हपराहतिपुरःसरं शान्तिप्राप्तिः परमेश्वरादेवेति निश्चित्य तदर्थ खाशास्यप्रकटन- , वेदे च प्रथितः पुरुषोत्तमः" इति स्मृतेः "आनन्दमयोऽभ्यासात्” इति ब्रह्मसूत्राचावगतं सक- ललोकवेदातीतं निरङ्कुशसर्वकर्तृस्वतत्रं क्रीडन्तं पूर्णत्वरूपमेवः “पूर्णमदः पूर्णमिदं पूर्णात्पूर्ण- मुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते' इति श्रुतेः । मोक्षश्वाहम्ममात्मकस्य संसारस्य निवृत्तिपूर्वकं नित्यलीलाप्रवेशः । तत्साधनं च भक्तिरेव । तत्र प्रमाणमाहुः-चतुर्मुखादी- नामिति भक्त्याहमिति च । तत्स्वरूपमाहुः परमेति । "माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिन चान्यथा" इति श्रीनारदपञ्चरात्रवा- क्यात् महान् आत्मा बृहत्त्वाव॑हणाच्च, तस्य भावो माहात्म्यम्, तज्ज्ञानं माहात्म्यज्ञानम् "ऐतदात्म्यमिदं सर्वम्” इति श्रुतेः । एतादृशभत्त्यनुष्ठाने बाधकमाहुः-उद्वेगेति । “उद्वेगः प्रतिबन्धो वा भोगो वा स्यात्तु बाधकम्" इति श्रीमदाचार्यचरणवाक्यात् । उद्वेगादीनां लक्षणादीनि सेवाफलोक्तान्येवात्र सङ्ग्राह्याणि । तद्यथा-"सेवाचां क्रियमाणायामन्यत्र गमनेच्छादिरुद्वेगः" इति श्रीकल्याणरायाः, "श्रवणे, कीर्तने, भगवदर्शने, सेवायां च ज्वरा- दिजनितापाटवेन स्वतोऽप्रवर्तमानानामिन्द्रियाणां प्रसह्य प्रवर्तनाद्विक्षेपः" इति श्रीगोपेशाः । उद्वेगो नाम मनसः सेवायां क्रियमाणायामुत्कृष्टो घेगः । सर्वथा तत्रास्थिरता बाहिर्मुख्यमिति यावत् । स च सेवाया अनाधिदैविकीत्वसम्पादकतया प्रतिबन्धकः । तस्मिन् सति क्रिय- माणसेवायाः केवलकायिकीत्वान्मानसीत्वाभावेन प्रतिबन्धनेनाधिदैविकीत्वात्" इति श्रीहरि- रायाः। "मनसोऽन्यपरता उद्वेगः” इति श्रीवल्लभाः । "उद्वेगो नाम उच्चैर्भयं चलनं वा । ओविजी भयचलनयोः । तदत्र सेवायां क्रियमाणायां दुष्टादिभ्यो भयं वा पापादिना बुद्धे- श्वाञ्चल्यं वा । अत्र द्वितीयमदृष्टजन्यम् । एतदुभयमप्यान्तरमतो द्विविधोऽप्युद्वेगो बाह्यसेवा- फलरूपा मानसी तत्समानाधिकरणविरुद्धसामग्रीरूपस्तत्प्रतिबन्धकः” इति श्रीपुरुषोत्तमाः । "उदधिको वेगो भयम् , अपराधादिना मनश्वाञ्चल्यं वा पापादिना । स च सेवाऽरुचि- सम्पादनेन बाधकः" इति श्रीविवृतिविवरणकाराः। “उद्वेगो भगवत्सेवासमये चित्तक्लेशप्रद- श्वाञ्चल्यविशेषः । स च सेवायां प्रतिबध्नाति" इति लालूभट्टाः। “उद्वेगः शोकदुःखादिजनितों भवति" इति जयगोपालभट्टाः । एवमेव मनसोऽस्थैर्यादिकमप्युक्तं व्याख्याकृद्भिः । प्रति- ८ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- पूर्वकं कर्तुमकर्तुमन्यथाकर्तुं च समर्थ खभक्तरक्षणे दक्षं "वेदैश्च सर्वैरहमेव वेद्यः" इति गीतोपनिषदुक्तं सकलंवेदवेद्यं श्रीकृष्णं सात्त्वताः प्रार्थयन्ते-ओमिति । " न्तरासक्तिः” “कायस्यान्यपरता" इत्यादिलक्षणलक्षितः । भोगोऽपि “रूपरसग- न्धशब्दस्पर्शानां लौकिकविषयाणामत्यासक्त्या सेवनम्" इत्यादिप्रकारकः । एतत्रितयमपि भक्त्यनुष्ठाने बाधकम् । ओमितीति । ओङ्कारो मङ्गलार्थकः । “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिष्क्रान्तौ तस्मान्माङ्गलिकावुभौ" इति वाक्यात् । ओङ्कारपूर्वकमेव वेदो- चारणं कर्तव्यमिति नियमाद्वा । “प्रणवः सर्ववेदेषु' इति गीतास्मृतेर्भगवद्रूपत्वात् । "तस्मा- दोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्" इति च वाक्यात् , “स्वाध्यायो ब्रह्मयज्ञः" इति स्मृतेः प्रणवपूर्वकमेव स्वाध्यायाध्ययनम् । “परस्य ब्रह्मणो ह्येतानि नामानि, ओतं प्रोतं जगवत्र स्वयं च पूर्णों वेदोक्तस्वरूपोऽनुपचारतश्च, सर्वैः शुभैश्चाभियुतो न चान्यैः” “ॐतत्सदित्येतमतो वदन्ति", इति हि ऋग्वेदखिलेषूक्तत्वात् । "ओमिति ब्रह्मेति च" इति श्रुतेश्च । “आरम्भेऽत्र भगवानोमित्यादौ वदत्यजः । ओमिति ब्रह्मणो नाम प्रसिद्धं यत आगमे ॥ तस्मादोमित्युदाहृत्य विधिशास्त्रेण बोधिताः । प्रकृष्ट- त्वेन वर्तन्ते यज्ञदानतपुःक्रियाः ॥ अङ्गवैगुण्यराहित्यात्सततं वेदवादिनाम् । यस्सैकावय- वोचार्यमाणे वैगुण्यसङ्ख्यः ॥ किम्पुनस्तस्य सर्वस्तस्योचारणादिति संस्तुतिः ॥ अहो हरेनीम महत्फलं श्रुतौ श्रुतं सदोङ्कार इति स्मृतं हृदि । पुनाति यज्ञादिकृतं लुनाति पापौ- घमुदीरणात्सकृत् ॥” इति च वाक्येभ्यस्तस्य सर्वविघ्नोपशामकत्वाच । “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृणान्येवमोङ्कारेण सर्वा वाक्" इति श्रुतेः सर्वो वेद ओङ्कारेण ग्रथितः । अस्य हिरण्यगर्भादिरूपत्वं त्वम एतदुपनिषदारम्भे निराकरिष्यत इति ततोऽवगन्तव्यम् । एतन्निर्वचनविषये पाश्चात्या बहुशो विप्रतिपद्यन्ते, मेक्समूलरः “अव” इति सार्वनामि- कान्मूलरूपात् 'अवम्' इति जाते सम्प्रसारणे च कृते 'अउम्' इति जाते गुणे च कृते- "ओम्" इत्याह । बोथलिङ्गमहाशयो राथश्चात्रानुगमकाभावान्नाङ्गीकुरुतः, प्रतिपादयतश्च 'ओ' इति ध्वनेः सानुनासिकमिदं रूपमिति । तत्र मानम् “ॐश्रावय" इत्यत्र सूत्रकारा “ओ श्रावय" इति प्रयोजयन्ति इति । एवमेव "आश्रावय" इति च सूत्रेषु प्रयोगो दृश्यते। तेन "अ" इति ध्व- नेरपि स्यादिदं रूपम् । तथा ओमिति स्वतत्रोऽपि ध्वनिः प्रणवापरंपर्यायः। पुरोनुवाक्याश्रुती- नामच्चारणेऽन्तिमः सानुनासिकः 'ओ' खरः प्रयुज्यते वैदिकैः । ओमाङोश्च (६-१-९५).

किरणावल्या समेतम् । समस्तविघ्नेभ्यः स्वरूपानन्दप्राप्तिपर्यन्तं भक्तानवतीयोम् । “भक्तवत्सलः खयमेव सर्वेभ्यो मोक्षविघ्नेभ्यो भक्तिनिष्ठान्प्रयच्छति मोक्षं दापयति" "मञ्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि", "इत्थं गजेन्द्रमुपवर्णितनिर्विशेष ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात्तत्रा- खिलामरमयो हरिराविरासीत्" इत्यादिश्रुतिगीतासात्वतसंहितासूक्तिसमुदितं सात्वताभयदमोङ्कारपदवाच्यं परं ब्रह्म कृष्ण एवेति निगर्वः। (विघ्नविभागः) तत्र, चिघ्नो द्विधा, ऐहिकः, आमुष्मिकश्च । स एव पुनर्विषयबाहुल्यप्रयु- क्तोऽनेकविधत्वं भजते । तत्र, ऐहिकः, पशुपुत्रप्रमदागारधनादिप्रापचिकेषु तत्तदिन्द्रियविषयेष्वासक्तिरूपः । ततोऽवनं नाम प्रापञ्चिकसकलविषयानभि- मुखीकरणपूर्वकसर्वेन्द्रियान्तःकरणात्मनां खैकसाम्मुख्यसम्पादनम् । प्रपञ्चवि- स्मृतिपूर्वकभगवदासक्तिरूपस्य निरोधस्य श्रीमदाचार्यचरणैराज्ञप्तत्वात् । आमुष्मिकस्तु, व्यापिवैकुण्ठेतरब्रह्मलोकपर्यन्तं पुनरावृत्तिपर्यवसितविविध- लोकापातरम्यसुखाशासम्भवः । “आब्रह्मभुवना लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते” इति गीतासुगीतत्वात् । पुनरावृत्ति- पर्यवसितत्वं तु तेषां नैर्गुण्याभावप्रयुक्तमेव । “मन्निकेतं तु निर्गुणम्” इति सात्वतसंहितासूक्त्या नैर्गुण्यस्य व्यापिवैकुण्ठ एव नियतत्वात् । ततोऽप्यधिकां तु पूर्ववदेव । तदन्त प्रविष्टा एव सुरासुरकृता विघ्नाः । तत्र सुरकृता यथा- "त्वां सेवतां सुरकृता बहवोऽन्तरायाः” इत्यादिव्यासवाक्यविषयाः । असुर- कृताः प्रहादादिषु प्रसिद्धाः। तेभ्यः सर्वेभ्योऽपि विघ्नेभ्यो भक्तानामवनमो- ङ्कारपदवाच्येन परब्रह्मणैव क्रियते । तस्य भक्तवत्सलखभावत्वात् । श्राथशब्दश्चै"ति प्रमाणत्वेन प्रदर्श्यते, तहिं तत्र सर्ववर्णप्रकृतिरूपतयेवोक्तत्वात् , मङ्गलरूपत्वाच्च नैतेषां मतानि समर्थितानि भवन्तीत्यलम् । उपनिषत्सु “सर्वे वेदा यत्पदमामन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहेण प्रब्रवीम्योमित्येतत्" इत्यादयः श्रुतयः परब्रह्मत्वेन वर्णयन्योङ्कारमिति । समस्तेति । भगवत्सेवाप्रतिबन्धका उद्वेगादयो वाऽऽधिभौतिकादीनि दुःखानि वा । स्वरूपेति। "रसो वै सः" इतिश्रुते रसात्मकपुरुषोत्तमप्राप्तिपर्यन्तं भक्तिमार्गीयफलानुभवप- यन्तमिति यावत । तत्र प्रमाणान्याहः-भक्तवत्सेलेत्यारभ्याविरासीदित्यन्तम् । - १० श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- (श्रुत्यर्थः) एवं परमकाष्ठापन्नं सम्बोध्य खाशास्यं निवेदयन्ति-भद्रमिति । परमफल- लोपलब्धावधिकारसम्पादकत्वेन महामङ्गलखरूपं वेदवेदान्तमीमांसापुराणे- तिहासादिकं सकलं भगवदीयं शास्त्रम् । अत्र, शङ्कराचार्या नृसिंहपूर्वतापिनीभाष्ये “भद्रं कल्याणम्" इत्याहुः । नानकीया अमरदासास्तु मणिप्रभाव्याख्यायां प्रश्नोपनिषट्टीकायामेंतन्मन्नव्या- ख्याने भद्रं भजनीयं कल्याणवचनं निर्विशेषब्रह्मप्रतिपादकवेदान्तजातम्" इति वदन्ति । तन्न मञ्जुलम्, वेदपुराणेतिहासादिषु "वेदे रामायणे चैव पुराणे भारते तथा । आदौ मध्येऽवसाने च हरिः सर्वत्र गीयते” इत्यादिवा- क्याद्भद्रत्वस्य सर्वत्राव्यवहितत्वात् । तेषां प्रामाण्यस्यापि “इतिहासः पुराणञ्च वेदानां पञ्चमो वेदः" इतिश्रुतिविश्रुतत्वाच । नन्विदमसङ्गतम्-शाङ्करभाष्यविरोधात् । तथाहि-"एवं वा अरे अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुख्यानानि व्याख्यानान्यस्यैवैतानि निःश्वसितानि” इति बृहदारण्यकीयश्रुतिवाक्ये शङ्कराचार्यैः “किं तन्निःश्व- सितमिव जातमित्युच्यते, यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसश्चतुर्विधं मन्त्रजातम् , इतिहास इत्युर्वशी पुरूरवसो सम्वादादि "उर्वशी हाप्सराः" इत्यादिब्राह्मणमेव । पुराणं "असद्वा इदमग्र आसीत्” इत्यादि । विद्या, देव- जनविद्या । वेदः “सोऽयम्" इत्याद्यः । उपनिषदः "प्रियमेतदुपासीत" इत्याद्याः। श्लोकाः, ब्राह्मणप्रभवा मन्त्राः “तदेते श्लोकाः” इत्यादयः। सूत्राणि उपनिषत्सु शान्तिपाठस्तत्प्रतिपाद्यस्य भगवत्स्वरूपस्य श्रवणाधिकारसम्पादकः । तदेतन्म- तान्तरनिरासपूर्वकमाहुः-वेदेत्यादिना । पुराणेतिहासादीनां वेदमध्यपातित्वमाशय परि- हरन्ति-नन्वित्यारभ्यासगतेश्चेत्यन्तम् । पुराणं च पञ्चलक्षणमतःशास्त्रे विशेषः । तथा- . चोक्तम् “सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम्" इति । इतिहासलक्षणं च धर्मार्थकाममोक्षाणामुपदेशसमन्वितत्वे सति पुरावृत्तकथांयुक्तत्व- मिति । एवं च पुराणेतिहासादेन वेदान्तर्गतत्वमिति निर्गलितार्थः । तथा च मनुः-"स्वाध्यायं श्रावयेत्पित्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च" इति ।

. किरणावल्या समेतम् । वस्तुसङ्ग्रहवाक्यानि वेदे, यथा “आत्मेत्येवोपासीत" इत्यादीनि । अनु- व्याख्यानानि चतुर्थाध्याये “आत्मेत्येवोपासीत" इत्यस्य,यथा वा “अन्योऽसा- वन्योऽहमस्मीति न स वेद पशुरेव” इत्यस्यायमेवाध्यायशेषः । मन्त्रविवर- णानि व्याख्यानानि । एवमष्टविधं ब्राह्मणम्” इत्याभाष्य प्रसिद्धेतिहासपुरा- णयोरनादृतत्वादिति चेत् , तन्मन्दम् ; “इतिहासपुराणं वेदानां पञ्चमं बेदम्" "ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वणश्चतुर्थ इतिहासपुराणं पञ्चमो वेदानां वेदः" "वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदम्" इति छान्दोग्यसप्तमाध्याये नारद- सनत्कुमारसम्बादीयप्रथमद्वितीयखण्डोक्तश्रुतिंत्रयविरोधात्, प्रसिद्धयोस्तयो- स्तथात्वानङ्गीकारे ब्राह्मणोक्तयोस्तयोस्तन्मध्यपतितत्वे पञ्चमत्वोक्त्यसङ्गतेश्च । किञ्च; तयोस्तद्रूपत्वाभावे तदुपबृहकत्वासिद्धिः । न चेष्टापत्तिः, “इतिहासपु- राणाभ्यां वेदार्थमुपद्व्हयेत्, विभेत्यल्पश्रुतावदो मामयं प्रहरिष्यति" इति ब्रह्माण्डीयप्रथमाध्यायवाक्यस्य, “वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः" इति विष्णुपुराणवाक्यस्य, “नान्यथा ज्ञायते धर्मो ब्रह्मविद्या च वैदिकी, तस्मात्सर्व पुराणश्च श्रद्धातव्यं मनीषिभिः” इति कोयंपञ्चदशाध्यायवाक्यस्य च विरोधापत्तेः। न चात्रार्थवाद इति शङ्क्यम् । पुराणेष्वर्थत्वं ये वदन्ति नराधमाः, an तत्स्पष्टतया विवृण्वन्ति तथाहीति । तदेव खण्डयन्ति-तन्मन्दमिति । मन्दं शास्त्र- विद्भिरमान्यमित्यर्थः । तत्र श्रुतिप्रमाणमाहुः-इतिहासेति । ननु पूर्वमीमांसायां श्रुति- मूलकतया तत्प्रामाण्यस्य वीकृतत्वाच्छ्रुतिमध्यपातित्वे का हानिरिति चेत्, न; तन्मध्यपा- तित्वे पञ्चमत्वभङ्गापत्तेः । अत एवाहुः-पञ्चमत्वोक्त्यसङ्गतेश्चेति । पुराणानि वेदोप- बुंहकाणीत्याहुः-किञ्चेत्यादिना विरोधापत्तरित्यन्तेन । पुराणानामर्थवादत्वमाशय निराकुर्वन्ति न चेति । पुराणेष्विति । तथा च पुराणे- घूतानां व्रततीर्थदानयज्ञादीनामाचारादीनां चानर्थक्यप्रसङ्गो दुर्वारः । किञ्च, "स्त्रीशूद्रद्विज- 'बन्धूनां त्रयी न श्रुतिगोचरा" इत्यादिना स्त्रीशूद्रोपकाराय व्यासप्रवृत्तिः । पुराणानामर्थ- वादत्वे, तस्य च “विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः" इति पूर्वतत्रन्यायेन विध्येकवाक्यतया प्रामाण्यात्, विधीनां च त्रैवर्णिकवेद्यत्वाव्यासप्रवृत्त्यानर्थक्यप्रसङ्गोऽपि १२ श्रीमदाधर्वणनारायणोपनिषद्भाष्यम्- तैरर्जितानि पुण्यानि तद्वदेव भवन्ति हि" इति बृहन्नारदीये दोष- कथनात्। यत्तु, नित्यानन्दमुनयो मिताक्षरायाम् “ऋग्वेदो यजुर्वेदः सामवेदोऽथा- ङ्गिरसः" इति चतुर्विधमत्रजातमुच्यते; अथर्वणाङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः, इतिहास उर्वशीपुरुरवसोः सम्वादादिरूपो ब्राह्मणभागः "उर्वशीहाप्सराः" इत्यादि ब्राह्मणमेव; पुराणं "असद्वा इदमग्र आसीत्" इत्यादि, विद्या, देवजनविद्या "उदकुम्भं निधाय दास्यो मार्जालीयं परिवृत्यन्ति” इत्यादि ब्राह्मणमेव उपनिषदः, प्रियमित्येतदुपासीत" इत्याद्याः श्लोकाः, ब्राह्मणप्रभवा मन्त्राः "अाखिल" इत्याद्याः; सूत्राणि वेदे वस्तु सङ्ग्राहकाणि वाक्यानि "आत्मेत्येवोप सीत" इत्येवमादीनि; अनुव्याख्यानानि वस्तुसङ्ग्राहकवाक्यानां विवरणवाक्यानि, यथा-"प्राणा वै सत्यम्" इत्येव- मादिना शिशुमूर्तामूर्तबामणे व्याख्यानानि मेधया हि तपसाऽजनयत्पिता" इत्येवामादीनि; एतान्युक्ता ऋग्वेदादीनि मन्त्रब्राह्मणात्मकान्यस्यैवेश्वरस्य निःश्व- सितानीत्याहुः । तदप्येते नैव दत्तोत्तरम् । अत्र श्रीमजयगोपालभट्टाः, बहिर्मुखमुखध्वंसे “न हि पुराणानां वेदमूल- कत्वेन प्रामाण्यं वयमशीकुर्मः, किन्तु परमाप्तमनित्यनिर्दुष्टसर्वज्ञभगवद्वचन- त्वेन । वेदादीनां भगवद्वचत्वं तु बृहदारण्यकोपनिषदि प्रतिपादितम् ; “अस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि अस्यैवैतानि निःश्व- सितानि" इति प्राणतुल्यताज्ञापनाय भगवत एतद्रूपं निःश्वासोच्छ्वासवत्ता- ज्ञापनाय वा 'निःश्वसितपदं' श्रुतौ प्रयुक्तम् ; अत्र “पञ्चाङ्गवत्पुराणं स्वादा- ख्यानमितरत्स्मृतम्" इति मत्स्यपुराणीयपुराणानुक्रमणिकाप्रसङ्गीयमत्स्य- वचनादाख्यानरूपमहाभारतादिकेतिहास एवेतिहासः, पुराणं पूर्वोक्तलक्षणा- ब्राह्मादिकमेवेति; पुराणमित्येकवचनं तु “पुराणमेकमेवासीत्तस्मिन्कल्पान्तरे- ऽनघ” इति मत्स्यपुराण एवोक्तत्वात् , यावद्विभागमेकमेव तिष्ठतीत्यभिप्रा- यामास वानरमित्यादिवदेव । किञ्च, दोषोऽपि तत्र वर्तत एवेति-तैरजितानीति वाक्या- दिति दिक् । . - , , , H किरणावल्या समेतम् । येण ज्ञेयम् ; विद्याः, आयुर्विद्या, धनुर्विद्या, गान्धर्वविद्या, स्थापत्यविद्या, नीतिविद्या, शिक्षाकल्पव्याकरणच्छन्दो ज्योतिर्निरुक्तान्येव; उपनिषदो गीता- दयोऽवतारद्वारा प्रकटाः; श्लोका रामायणादिस्था एव, तदारभ्यैव श्लोकप्र- वृत्तेः; सूत्राणि व्याससूत्राणि; व्याससूत्राविरुद्धानि जैमिनिण्यन्यमुनिप्रणीत सूत्राण्येव; अनुव्याख्यानानि, "ब्रह्मणः कल्पसूत्राणि भाष्यं विद्यास्तथैव च" इति मत्स्यपुराणे प्रतिपादितत्वात् ब्रह्मादिकृतानीदानी प्रचलद्रूपाणि भाष्या- ण्येव, वेदाधुत्तरं प्रवृत्तत्वादनुव्याख्यानत्वम् ; व्याख्यानानि निघण्टादीन्येव; अत्र पूर्वोक्तेतिहासपुराणविद्या श्लोकसूत्राणां वेदादिवाक्यार्थनिर्णायकत्वे- नोपयोगो निरुक्तनिघण्टादीनां तु पदशक्तिनिर्णायकत्वेनोपयोग-इति ज्ञेयम् । एतेन वेदपुराणेतिहासादीनामर्थः परस्परं तैरेव भगवन्निःश्वसितरूपैनिश्चे- तव्यो न तु खकपोलकल्पित इति मनसि विभावनीयं सुधीभिः । अत एव कूर्मपुराणे द्वादशाध्याये वेदचतुष्टयमनुनीतिधर्मशास्त्रपुराणोपपुराणान्युक्त्या "शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च; ज्योतिःशास्त्रं न्यायविद्या सर्वेषामुपबृंहणम्" इत्युक्तम् । “इतिहासपुराणाभ्यां वेदं समुपबृंहयेदि- त्यन्यत्रोक्तम् । वेदोपहकत्वमितिहासपुराणयोरपि "भारताख्यानमखिलं चक्रे श्रुत्युपबृंहितम्" इत्यत्रोपहितपदेन भावार्थकतान्तपक्षे वेदपुराणायुप- बृंहणरूपत्वम् ; कर्मार्थकक्तान्तपक्षे भारतस्यापि वेदपुराणायुपबृंहकत्वमुक्त- मिति दिक् । यत्तु, मायावादिन आचार्याः स्वकृतबृहदारण्यकभाष्ये तदनुसारिणो नित्यानन्दाश्रमाश्च स्वकृतबृहदारण्यंकव्याख्यायां मिताक्षरायामेतां श्रुति व्याचक्षाणा एतच्छ्रुतिस्थेतिहासादिपदैः “उर्वशीहाप्सराः” इत्यादि ब्राह्मणभाग एवेतिहासत्वेन, "असद्वा इदमन आसीत्" इत्यादि ब्रामणभागरूपदेवजन- विद्यैव विधात्वेन; "प्रियमित्येतदुपासीत", "प्रियेमेयोपासीत" इत्यादि वेदा- न्तर्गतैवोपनिषच्चोपनिषत्वेन; "अर्वाग्विलश्चमसः" इत्यादिका वेदान्तर्गता एव च मन्त्ररूपाः श्लोकाः श्लोकत्वेन; "असत्यं” इत्यादिको वेदस्थवस्तुसङ्ग्रा- हकवाक्यरुखूण विवरणरूपो ब्राह्मणभाग एव चानुव्याख्यानत्वेन “मेधया हि तपसा जनयत्पिता" इत्येवमादिको ब्राह्मणभाग एव चात्र व्याख्यानत्वे- नोच्यते; इत्याहुः-तचिन्त्यम् ; वेदचतुष्टयान्तर्गतानामितिहासादीनामेवेतिहा- श्रीमदाथर्वणवारायणोपनिषद्भाष्यम्- सादित्वेन ग्रहणे तेषां वेदचतुष्टयान्तर्गतैव पाठात्, “मन्त्रबामणयोर्वेदनामधे- यम्” इति वाक्याच वेदत्वाद्वेदचतुष्टये भगवनिःश्वसितत्वप्रतिपादनेनैव वेद- चतुष्टयान्तर्गतेतिहासादीनामपि ग्रहणमिति वाच्यम् ; “उर्वशीहाप्सराः" इत्यादि ब्राह्मणमेव मन्नब्राह्मणयोरवे ग्रहणमित्यत्रोपक्रमोपसंहारसम्बन्धी- मायावाद्याचार्यदत्तैवकारयोस्तदनुसारिनित्यानन्दाश्रमदत्तस्वकृतबृहदारण्यक- भाष्यरूपमिताक्षरास्थान्यप्रतिवाक्यैवकाराणां विशेष्यसङ्गतैवकारत्वादन्ययोग- व्यवच्छेदकार्थानां व्यर्थत्वापत्तेः । धन्यार्थकत्वेऽधिकार्थानागतेश्च । न च तर्हि, इतिहासादिपदैः किं प्रायमिति वाच्यम्, इतिहासपदेन महा- भारतरूपेतिहासस्यैव, पुराणपदेनाविभक्तब्राह्मादिपुराणविशिष्टत्वादेकत्वसंख्या- विशिष्टस्य वेदान्तर्गतस्य पुराणस्यैव, विद्यापदेन षडङ्गविद्यादीनामेव, उपनि- पत्पदेन भगवद्गीतादीनामेव, श्लोकपदेन रामायणादिस्थश्लोकानामेव, सूत्र- पदेन व्यासजैमिनिसूत्राणामेव, अनुव्याख्यानपदेन "ब्रह्मणः कल्पसूत्राणि भाष्यविद्यास्तथैव च” इति मत्स्यपुराणसिद्धानां वेदोत्तराविर्भूतत्वादनुव्या- ख्यानरूपाणाम् । यद्वा, "ब्रह्मविदाप्नोति परम्" इत्यादि व्याख्यानरूपम् , "तदेषाभ्युक्ता" इत्यादि व्याख्यानरूपत्वादनुव्याख्यानरूपाणां वा ब्रह्मकृत- भाष्याणामेव, व्याख्यानपदेन निघण्टादीनामेव चात्र ग्रहणम् । एवं चैतेषां पार्थक्येन ग्रहणस्य वैयर्थ्यम् । अस्मयाख्यान एवं न भवतीति सुधीभिरेवा- कलनीयमिति दिक। स्यादेतत् , “अष्टादशपुराणानि कृत्वा सत्यवतीसुतः, भारताख्यानमखिलं चक्ने श्रुत्युपबृंहितम्” इति मात्स्यवाक्यादैतिह्यप्रसिद्धेश्च महाभारतरूपेति- हासे ब्रह्माण्डादिपुराणेषु च व्यासकृतत्वमेव, एवमेव जैमिनीसूत्रेषु जैमिनि- कृतत्वम् , षडङ्गविद्यासु शिक्षाव्याकरणयोः पाणिनिकृतत्वम् , कल्पसूत्रेष्वा- पस्तम्बादिकृतत्वम् , निरुक्ते यास्कमुनिकृतत्वम् , गीतासु वेदादिप्रादुर्भावो- तराविभूर्तश्रीदेवकीनन्दनादिकृतत्वम् , ब्रह्मकृतभाष्यरूपानुव्याख्यानेषु च ब्रह्मादिकृतत्वमिति परमात्मेश्वरनिःश्वसितत्वासम्भवादितिहासादिपदैर्महाभा- रतादीनां ग्रहणं तत्र कथं सङ्गच्छत इति चेत् ? , किरणावल्या समेतम् । , अत्र वदामः, "तपश्चचार प्रथमममराणां पितामहः, आविर्भूतास्ततो वेदाः साङ्गोपाङ्गपदक्रमाः, पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् , नित्यं शब्दमयं ब्रह्म शतकोटिप्रविस्तरम् । अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिर्गताः, मीमांसा न्यायविद्या च प्रमाणाष्टकसंयुता" इति मत्स्यपुराणीयतृतीयाध्यायस्थप्रघट्ट- केन श्रीभगवता मत्स्येन वेदादिसर्वशास्त्रेभ्योऽपि पुराणस्य प्रसिद्धत्वज्ञापन- पूर्वकभङ्गोपाङ्गपदक्रमसहितवेदचतुष्टयपुराणमीमांसान्यायविद्यास्मर्तृत्वमेवोक्तं ब्रह्मणः । एवमेव “पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते, नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः” इत्युपक्रम्य नामतोऽष्टादश पुराणान्युक्त्वा “पञ्चाङ्गवत्पुराणं स्यादाख्यानं तदितत्मृतम्" इति पुराणव्याख्यानयोर्लक्षण- मुक्त्वा; "सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च, वंशानुचरितं चेति पुराणं पश्चलक्षणम्" इत्यनेन पञ्चाङ्गान्युक्त्वा; "ब्रह्मविद्यार्करुद्राणां माहात्म्यं भुवनस्य च, ससम्प्रहारं दृश्येत पुराणं पञ्चवर्णकम्” इत्यनेन पुराणवर्णनीयपदार्थानु- क्त्वा, “धर्मो ह्यर्थश्च कामश्च मोक्षश्च परिकीर्त्यते” इत्यनेन धर्मार्थकाममोक्ष- प्रतिपादकत्वं पुराणानामुक्त्वा, “सात्विकेषु तु कल्पेषु माहात्म्यमधिकं हरेः, राजसेषु च माहात्म्यमधिकं हरेः, राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः, तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च, सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते” इत्यनेन पुराणेषु परस्परविरोधपरिहाराय कल्पभेदेन समाधान- मुक्त्वा, “अष्टादशपुराणानि कृत्वा सत्यवतीसुतः, भारताख्यानमखिलं चक्रे श्रुत्युपबृंहितम्" इत्यनेन भारताख्यानमाविर्भावमुक्त्वा, “वाल्मिकिना तु यत्रोक्तं रामोपाख्यानमुत्तमम् , ब्रह्मणाभिहितं तत्तु शतकोटिप्रविस्त- रम् , आहृत्य नारदायैव तेन वाल्मीकये पुनः, वाल्मिकिना तु लोकेषु धर्मकामार्थसाधनम् , पुरातनस्य कल्पस्य पुराणं तद्विदुर्बुधाः" इत्यनेन मत्स्य- पुराणीयतृतीयाध्याय एव पुरातनकल्पपुराणरूपं शतकोटिप्रविस्तरम् , रामा- यणरूपाख्यानमाहृत्य सङ्क्षिप्य ब्रह्मणा नारदायाभिहितम् , तं स्मृत्वा कथितं न तु कृतमिति रामायणविषयकस्मर्तृत्वमेव ब्रह्मण उक्तम् , न तु खप्रयत्नसि- द्धसाक्षात्कर्तृत्वम् ; एवं ब्रह्मणोऽपि चेत् वेदपुराणादिस्मर्तृत्वं तदा तदनन्तरा- विर्भूतानां व्यासादीनां तु सुतरामेव पुराणादिस्मर्तृत्वं न तु पुराणादिषु साक्षा- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- कर्तृत्वमित्यस्यां श्रुतावितिहासादिपदैर्भारतरूपेतिहासादिग्रहणं सङ्गततर- मिति सन्तुष्य एवं च अष्टादश पुराणानि कृत्वा” इति "भारताख्यानमखिलं चक्रे” इत्यच व्यासकर्तृत्वोक्तिस्तु तत्स्मरणकर्तृत्वविषया, गीतारूपोपनिष- दस्तु देवकीनन्दनस्य साक्षाद्भगवत्त्वात्तस्याः स्मरणरूपत्वे साक्षात्कृतत्वेऽपि निःश्वसितत्वमस्त्येव । न च "ब्रह्मणाभिहितं तत्तु शतकोटिप्रविस्तरम्” इत्य- त्राभिहितपदस्य श्रूयमाणत्वात्स्मृतमिति पदाभावात्कथं रामायणस्मर्तृत्वं ब्रह्म- णकथ्यत इति वाच्यम् ; रामायणस्य हि पुरातनकल्पीयपुराणत्वं “पुरातनस्य कल्पस्य पुराणं तद्विदुर्बुधाः” इत्यनेन प्रतिपादितमस्ति । एवं च "पुराणं सर्व- शास्त्राणां प्रथमं ब्रह्मणा स्मृतम्” इति वचनसिद्धपुराणविषयकल्पनोपपत्तेः । न च स्मृतमिति पदेन ब्रह्मणा पूर्वकल्पे कृतमस्मिन् कल्पे स्मृतमिति खकर्तृ- कस्यैव वेदसहिततिहासपुराणादेः स्मरणमत्रोच्यत इति वाच्यम् । एतादृशार्थ- बोधकस्य वेदादिप्रमाणस्यानुपलभ्यमानत्वात् ; “खयम्भूरेष भगवान् वेदोगी- तस्त्वया पुरा, शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः” इत्यादि देवी- पुराणवचनैस्तत्सजातीयान्यपुराणवचनैश्च शिवादीनामादिपदोक्तब्रह्मादीनामृ- षिपर्यन्तानां कारकत्वनिषेधपूर्वकं शिवब्रह्मादिषु वेदादिस्मर्तृत्वस्यैव प्रतिपाद- नाच । न चास्मिन् वचने वेदमात्रस्मर्तृत्वमेव कारकत्वनिषेधपूर्वकमुच्यते, न तु पुराणेतिहासस्मर्तृत्वम् वेदपदेन पुराणेतिहासादीनामग्रहणादिति वाच्यम् । "ऋग्वेदो भगवोऽध्यमि यजुर्वेदं सामवेदमितिहासपुराणं पञ्चमं वेदानां वेदम्" इति सामवेदकौथुमीयशाखीयछान्दोग्योपनिषच्छत्येतिहासपुराणयोर्वेदत्वोक्ते, इतिहासपुराणयोरजोपाजानां चानिसहभावनियमाच्छिमाकल्पो व्याकरणं छन्दोज्योतिर्निरुक्तरूपवेदाङ्गानां प्रतिपदमनुपदं छन्दोभाषाधर्मो मीमांसा न्यायस्तर्क इति वेदोपाङ्गानां च चरणव्यूहोक्तानां वेदावयवत्वाद्वेदत्वात् । गीताद्युपनिषदामुपनिषत्वेन वेदत्वाच वेदशब्देनैव ग्रहणात्तत्तत्स्मर्तृत्वस्यापि निःप्रत्यूहत्वात् । अत्र “प्रतिः प्रतिनिधौ वीप्सालक्षणादौ प्रदर्शितः इति विश्वकोषोक्तेः प्रतिनिधीभूतानि पदानि यस्मिंस्तत्रतिपदम् निघण्टुरूपं यन्निश्वसितमिति श्रुतौ व्याख्यानपदेनोक्तम् , अनुपशब्देन-अनूपपद्यते ज्ञाय- तेऽर्थोऽनेनेति व्युत्पत्तिसिद्धं ब्रह्मकृतभाष्यं यनिःश्वसितश्रुतावनुव्याख्यानप- किरणावल्या समेतम् । यया प्रातिशाख्यादिरूपया कृत्या सा छन्दोभाषा प्रातिशाख्यादिः; धर्मशब्देन "अयं हि परमो धर्मो यद्योगेनात्मदर्शनम्" इति स्मृतेहिरण्यगर्भादिकृतो योगनिरूपको ग्रन्थः, मीमांसाशब्देन पूर्वमीमांसोत्तरमीमांसासूत्राणि, न्याय- शब्देन “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च” इति श्रीभागवतादि- पुराणोक्तचतुर्विधनीतिप्रतिपादको ग्रन्थो महाभारतरूपेतिहासः "धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ, यदिहास्ति तदन्यत्र यच्चेहास्ति न तत्वचित् इति वचनाचतुर्विधः, मर्यादायास्तत्रैव दृश्यमानत्वात्। एवं च चतुर्दशविद्यासु न्यायशब्देनैवेतिहासस्य ग्रहणम् । अन्यथा चतुर्दशविद्याबहिर्भूतत्वं महाभार- तस्य विद्याधर्मस्थानत्वाभावश्च प्रसजेत । अत्र ह्यात्मविद्यामर्यादारूपाऽन्वी- क्षिकी साङ्ख्यज्ञानरूपोपनिषदज्ञानरूपमर्यादाभेदेन द्विविधा ज्ञेया । तर्कश- ब्देन गोतमप्रणीतं न्यायशास्त्रं कणादप्रणीतं वैशेषिकशास्त्रं च बोध्यम् । ननु व्यासादीनां मास्तु सङ्केपविभागविस्तररहितेषु महाभारतादीति- हासपुराणादिकर्तृत्वं तु वर्तत एव, तेषां तदर्थमेवावतारात्; एवं च सङ्केप- विभागविस्तरयुक्तेतिहासपुराणादिकस्य भिन्नानुपूर्वीकत्वेन भिन्नत्वात्तादृशाना- मेवेदानी प्रचरद्रूपत्वात्परमेश्वरनिःश्वसितत्वाभावादितिहासपुराणादिपदैः प्रच- रद्रूपमहाभारतरूपेतिहासाष्टादशपुराणादिकस्य ग्रहणमस्यां श्रुतौ कथं साम- जस्यमापद्यतेति चेत् ? अत्रोच्यते, सङ्केपविभागविस्तराणामपि भगवत्कर्तृकत्वेन व्यासादिकर्तृक- त्वाभावात् । अत एव “पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेऽनघ, त्रिवर्ग- साधनं पुण्यं शतकोटिप्रविस्तरम्' कस्मिंश्चित्कल्पे पुराणस्यैकत्वं त्रिवर्गसा- धनत्वं शतकोटिप्रविस्तरत्वमुक्त्वा "निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया, अङ्गानि चतुरो वेदाः पुराणन्यायविस्तरः, मीमांसाधर्मशास्त्रं च परिगृह्या- त्मसात्कृतम्" इत्यनेन प्रलये चतुर्दशविद्यानामात्मसात्करणं प्रतिपाद्य “मत्व- रूपेण च पुनः कल्पादावुदकार्णवे, अशेषमेतत्कषितमुदकान्तर्गतेन वै" पुनः शङ्कते-नन्विति । तदर्थमिति । सङ्केपविस्तरार्थम् । भिन्नेति । समानानुपूर्येव ताशसमानत्वे मानमिति भावः। अत एवाह-कथं सामञ्जस्यमिति ।

श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- इत्यनेन मया ब्रमणे चतुर्दशविद्याः पुनः कथिता इति निरूप्य “श्रुत्वा जगाद च मुनीन् प्रतिवेदं चतुर्मुखः प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः” इत्यनेन चतुर्मुखो मत्तश्चतुर्दशविद्याः श्रुत्वा जैमिनिभ्यो मुनिभ्यश्चोक्तवान्। ततो लोके सर्वशास्त्राणां पुराणस्य च प्रवृत्तिर्जातेत्युक्त्वा, "कालेनाग्रहणं मत्वा पुराणस्य ततो नृप, व्यासरूपमहं कृत्वा संहरामि युगे युगे, चतुर्लक्षप्रमाणेन द्वापरे द्वापरे तथा, तदष्टादशधा कृत्वा भूर्लोकेऽस्मिन् प्रभाष्यते; अद्यापि देवलोकेषु शतकोटिप्रविस्तरम् , तदर्थोऽत्र चतुर्लक्षः सङ्केपेण प्रदर्शितः" इत्यनेन “व्यासरूपं कृत्वाऽहं संहरामि” इति वाक्येन पुराणसझेपकर्तृत्वम् "तदष्टादशधा कृत्वा" इत्यनेन पुराणविभागकर्तृत्वम् , “प्रभाष्यते" इत्यनेन प्रकर्षण भाष्यते विस्तरेण कथ्यते, इत्यर्थकेन पुराणविस्तारकर्तृत्वमपि, भगवता मत्स्येन खस्यैव मत्स्यपुराणीयतृतीयाध्यायस्थे पुराणानुक्रमणिकाप्रसङ्गे प्रति- पादितम् । एवमेव वेदविषयकसङ्केपविभागविस्तरकर्तृत्वमपि भगवत एवेति "वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः, करोति बहुलं भूयो वेदव्यासखरूप- धृक्" इतिविष्णुपुराणीयद्वितीयांशतृतीयाध्यायसमाप्तिस्थवचनेनोक्तम् । अस्वार्थः, "शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् , अनन्तपारं गम्भीर दुर्विगाद्यं समुद्रवत्" इति भागवतैकादशस्कन्धीयवचनादेवंजातीयकान्य- पुराणस्थवचनाच शब्दतोऽर्थतश्चानन्तं वेदं “एके मुख्यान्यकेवलाः" इति कोषादेकमन्यं शतसहस्रपरिमितं तावच्लोकयुक्तं वा, एवं सङ्केपं कृत्वा भूयः पुनश्चतुर्भेदमृग्यजुःसामाथवभेदेन विभक्तं कृत्वा पुनः शाखाशतैबहुलं विस्तारयुक्तं वेदव्यासरूपधृक: "ततोऽत्र मत्सुतो व्यासो ह्यष्टाविंशतिमेन्तरे, वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः” इत्यादिना विष्णुपुराणीयतृतीयांशस्थ- चतुर्थाध्याय एव शतसाहस्रसम्मितो वेदो भगवता कृत इत्यस्यार्थस्योक्तत्वात् । न च नित्यसिद्ध एव वेदः शतसाहस्रसम्मित इति नित्यसिद्धपरिमाण एवेति. वाच्यम्, श्रीभागवतीयैकादशस्कन्धीयवचनोक्तानां तत्त्वानां बाधापत्तेः । तस्माच्छ्रीभागवतोक्तानन्तत्वस्य वेदस्य भगवता प्रथमतः शतसहस्रसम्मितत्व- रूपः सङ्केपः कृतः, पश्चाच्चतुर्धा विभागः कृतः, पश्चाच्छाखाभेदैः पुनरपि विस्तरो भगवतैव कृत इति वेदपुराणसङ्केपविभागविस्तरकर्तृत्वमपि भगवत , किरणावल्या समेतम् । सझेपविस्तरविभागानां दृश्यमानत्वाभावाच्छूयमाणत्वाभावाच त्वदुक्त्यनव- काश एवेति दिक् । वस्तुतस्तु, ब्रह्मव्यासश्रीमद्देवकीनन्दनकृतभिन्नानुपूर्विकसङ्खपविभागविस्तर- विशिष्टेष्वेतच्छृत्युक्तवदितिहासादिषु पुराणगीताब्रह्मसूत्रब्रह्मकृतभाष्येषु भग- वन्निःश्वसितत्वेऽपि न क्षतिः ब्रह्मव्यासयोर्भगवदवतारत्वात् । श्रीमद्देवकी- नन्दनस्य तु “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः, अतोऽस्मि लोके वेदे च प्रस्थितः पुरुषोत्तमः” इति साक्षात्परमात्मेश्वरत्वरूपत्वात् , शिक्षाकल्प, व्याकरणछन्दोज्योतिर्निरुक्तेषु तु पाणिन्यादिवत्स्मृतित्वमेव । तत्कर्तृणां जीव: त्वदुत्त्यनवकाश इत्यन्तेन । वाङ्मयमात्रं प्रमाणमिति “अथवा सर्वरूपत्वान्नामलीलाविभेदतः” इत्यादिश्रीमदाचार्यचर- णोक्तं सिद्धान्तमेव भङ्ग्यन्तरेण स्फोरयन्ति-वस्तुतस्त्वित्यादिना । तथासत्यपि अङ्गादीनां स्मृतित्वं व्यवस्थापयितुमाहुः-शिक्षेति । तत्र हेतुमाहुः-जीवत्वादिति । अयम्भावः, "साङ्गो वेदोऽध्येयो ज्ञेयश्च" इतिश्रुतेः साङ्गवेदाध्ययनं विधीयते । तत्र शिक्षादीनां प्राङ्- निरूपितप्रकारेण भगवनिःश्वसितत्वेऽपि, सम्प्रति समुपलभ्यमानानां शिक्षादिग्रन्थानां कर्तारो पाणिन्यादयो वर्तन्ते, अत एव तत्र जीवकृतत्वात्स्मृतित्वम् । तच निपुणं विवेचितमुपरितनग्रन्थे। तथा च सर्वनिर्णये श्रुतिस्मृतिपुराणनिरूपणानन्तरमङ्गानां निरूपणम् । तत्र साक्षा- धर्मप्रतीतेः कल्पसूत्राणां वेदत्वं स्मृतित्वं चेत्युभयरूपत्वं निर्णीतम् । शिक्षादीनां च वेदा- ङ्गत्वाद्वेदत्वमेवेति । अत्र हि वेदोपकारकत्वात्पाणिन्यादिप्रणीतत्वोक्तेश्च स्मृतित्वेऽपि न दोषः । वेदार्थनिर्णायकतया धर्मप्रतीतिहेतुत्वात् । तत्र शिक्षा छन्दश्च स्वरूपे, निरुक्तं व्याकृतिश्चार्थे, ज्योतिः कल्पश्चानुष्ठाने उपकुर्वन्ति । तत्र शिक्षा “अथ शिक्षा प्रवक्ष्यामि' इत्यादि पञ्चखण्डात्मिका पाणिनिप्रकाशिता । ननु “अथातस्त्रैस्वर्यलक्षणं व्याख्यास्यामः" इत्यादियाज्ञवल्क्यादिशिक्षानां विद्यमानत्वात्तत्तच्छाखासु तदध्ययनस्य चावश्यकत्वात्कथं पाणिनिप्रकाशिता शिक्षेत्युच्यत इति चेत् , सत्यपि शिक्षाबाहुल्ये शाखाभेदेनैव तदुपयोगात्, पाणिनिशिक्षायाश्च सर्ववेदसाधारणत्वादिति न कश्चिदपि विरोधः । शिक्षायाः प्रयोजनं चोदात्तानुदात्तस्वरितहखदीर्घप्लुतविशिष्टस्वरव्यञ्जनात्मकवर्णविशेषज्ञानम् , उच्चारणप्रकारविशे- पज्ञानं चेति स्वरूप उपयोगः । तदभावे मन्त्राणामनर्थजनकत्वं स्यात् “मत्रो हीनः खरतो वर्णतो वे"तिवाक्यात् । छन्दस्तु, मयरसतजभनेत्याधष्टाध्यायात्मकं पिङ्गलेन प्रकाशितम् । " श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- त्वात् । स्मृतयस्तु न भगवन्निःश्वासभूताः, किन्तु, ऋषिप्रणीतास्तेन तासामर्थस्तु वेदाविरुद्ध एव ग्राह्यो न तु तद्विरुद्धः । अत एवोदाहृतबृह- दारण्यकश्रुतौ स्मृत्यादीनामनुपादानम् । भगवनिःश्वसितत्वे तु तदप्युक्तं स्यात् । अत एव श्रुतेः सकाशात्समाने विषये स्मृतीनां दुर्वलोक्तिः छन्दांसि च मन्त्रेषूपयुक्तानि; अन्यथा गायत्र्यादौ वरेणियमिति व्यवायेन पाठो न स्यात् ; तदभावे च मत्रो वर्णतो हीयेत । अतश्छन्दसोऽपि स्वरूपोपयोगः । व्याकरणस्य यः खराद्युपयोगः सोऽर्थद्वारकः । यथेन्द्रशत्रुपदे स्वरभेदेन बहुव्रीहिणाऽर्थस्य वैपरी- त्यमभूदिति । अतः व्याकरणस्य पदसाधुताज्ञानरूपमेव प्रयोजनं स्फुटं प्रतीयते । निरुक्तं च यास्ककृतं “समानायः समानातः” इत्यादित्रयोदशाध्यायात्मकम् । तत्र च नामाख्यातनिपातोपसर्गरूपं चतुर्विधं पदजातं निरूप्य मत्राणामों दर्शितः । अन्यथा सृण्येव जर्फरीतुर्फरीपर्फरीभूरित्याद्यतिदुरूहपदानामर्थो न ज्ञायतेति तदावश्यक- त्वम् । निघण्टुस्तु निरुक्तशेषत्वेनोपयुक्तः । दर्शादिकालनिधीरे ज्योति शास्त्रमुपकरोति । कल्पस्तु प्रयोगेषूपयुक्तः । एवं चैतेषां वेदाङ्गत्वाद्वेदत्वेऽपि स्मृतिरूपतया न क्षतिः । ऋषिप्रणीता इति । मन्वादिप्रणीता इत्यर्थः । मन्वादिभिश्च विप्रकीर्णश्रुत्यर्थसमुदायत- यैताः स्वस्खशिष्यान्प्रति कथिताः, न तु स्वकपोलकल्पनया । तदुक्तं स्मृतिपादे "अपि वा कर्तृसामान्याप्रमाणमनुमानं स्यादि"ति । श्रीमदाचार्यचरणा अपि "स्मृतिर्बहुविधा प्रोक्ता" इत्यारभ्य "धर्मः सम्पद्यते षड्भिरधर्मो ह्यन्यथा भवेत्" इत्यन्तेन तत्स्वरूपतत्प्रामाण्यतद्विष- यादिकं च प्राहुः । तत्र "ऋषीणां पूर्वचरितस्मरणं स्मृतिरुच्यत" इत्यनेन तल्लक्षणं प्राहुः । ऋषीणामिति कर्तृषष्ठी । तेन ऋषिकर्तृकं पूर्वाचारस्मरणप्रयुक्तं वाक्यं स्मृतिरिति प्रमाण- लक्षणम् । तद्विरुद्धः। वेदविरुद्धः । दुर्बलोक्तिरिति । “विरोधेत्वनपेक्षं स्यादसति ह्यनुमानमि"ति जैमिनिसूत्रेणेत्यर्थः । तदुपपत्तिश्चेत्थम्-“औदुम्बरी स्पृष्ट्वोगायेत्” इति प्रत्यक्ष- श्रुतिविरुद्धा "औदुम्बरी सर्वा वेष्टयितव्या" इति स्मृतिः प्रमाणमप्रमाणं वेति संशयः । प्रत्य- क्षश्रुतिविरुद्धापि स्मृतिः प्रमाणम् , पूर्वाधिकरणन्यायेन अनुमितवेदमूलकत्वात् । न ह्यनु- मितेत्येवानुमिता श्रुतिर्दुर्बला प्रत्यक्षेयेव प्रत्यक्षा प्रबला । बाधिताबाधितार्थकत्वमेव हि तत्र बीजम् । न चेहान्यतरत्र तत्सम्भवः, उभयोरपि प्रत्यक्षानुमितयोः श्रुतित्वाविशेषात् । तथा..च. षोडशिग्रहणाग्रहणवद्वीहियववच्च विकल्प इति प्राप्ते-विरोधे त्विति सूत्रम् । तुरष्ट- कादिस्मृतिवैषम्ये । प्रत्यक्षश्रुतिविरोधे सति अनपेक्षं मूलप्रमाणानपेक्षं श्रुतिवाक्यमेव प्रमाणं स्यात् , न तु स्मृतिवाक्यम् , तस्य मूलश्रुत्यपेक्षत्वात् तथाविधश्रुतौ च प्रमाणाभावात् । , .

किरणावल्या समेतम् । स्पर्शनसर्ववेष्टनयोरभित्तिचित्रायितो विकल्पः । ग्रहणादिविषये तु तच्छास्त्रयोः प्रत्यक्षत्वा- द्विकल्पो युक्तः । इतोऽपि सर्ववेष्टनश्रुतिरप्रमाणमित्याह-हेतुदर्शनाच्च । लोभादिना हेतुना सर्ववेष्टनस्मृतेः प्रवृत्तिदर्शनादित्यर्थः । सर्ववेष्टनस्य महतैव वाससा साध्यत्वात्तग्रहणलोभेन सर्ववेष्टनस्मृतिः प्रवृत्ता स्यात् । अतो लोभादिमूलिका एवंजातीयका स्मृतिरप्रमाणम् । चकारोऽभ्युच्चये । प्रत्यक्षश्रुतिविरोधे सति स्मृत्यनुमानस्यानुन्मेषे पूर्वसूत्रेण वर्णिते परिशेषादेव यथोचितं लोभादिकल्पनस्य सिद्धेः । अत एव वाधिकरणान्तरपरमस्तु । तथा हि-सन्ति ज्योतिष्टोमे वैसर्जनाख्या होमाः “वैसर्जनानि जुहोति" इति । तत्र "अध्वर्यु यजमानोन्वा- रभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरोऽहतेन वाससा सम्प्रच्छन्ना भवन्ति" इति विहितं वासः प्रकृत्य स्मरन्ति “वैसर्जनीयं वासोऽध्वर्युगृह्णाति" इति । तदिदं वैदिकपरिगृहीतत्वा- प्रत्यक्षश्रुतिविरोधाभावाच प्रमाणम् । न च सर्ववेष्टनादिस्मृतिवल्लोभादिमूलकल्पनसम्भवः । तत्र हि प्रत्यक्षविरोधात्तथाकल्पनम् । न चात्र तद्विरोधोस्ति, येन, तथा कल्प्येत । सम्भा- वनामात्रेण च लोभादिमूलत्वकल्पनायां दानविषयस्मृतिमात्रस्य प्रामाण्योच्छेदापत्तिः । अत एवंजातीयकं स्मरणं प्रमाणम्, इति प्राप्ते, सिद्धान्तयति-हेतुदर्शनाचेति । चोप्यर्थे । प्रत्यक्षश्रुतिविरुद्धा स्मृतिरप्रमाणम् । कुतः ? हेतुदर्शनात् । प्रकीर्णकतया पठ्यमानत्वेन वैस- जनस्मृतेर्लोभादिमूलकत्वसम्भवेऽपि मन्वादिप्रणीताष्टकादिसहपठिततया दानादिस्मृतीनां न लोभमूलकत्वावकाशः । ततश्च वस्त्रलोलुपेन केनचिदध्वर्युणा प्रवर्तितेयं स्मृतिरप्रमाणम् । तदेवं प्रत्यक्षश्रुतिविरुद्ध लोभादिमूलकमपि स्मरणमप्रमाणमिति भाष्यानुयायी पन्थाः। तत्र प्रत्यक्षश्रु- तिविरुद्धं स्मरणमप्रमाणमिति प्रथमाधिकरणमनुपपन्नम् । तथाहि-औष्ण्यशैत्ययोः स्वरूपेण परस्परविरोधित्वाद्वह्नावौष्ण्यप्रत्यक्षेण शैत्यानुमानबाधो युज्यते । स्पर्शनश्रुतिप्रत्यक्षेण तु सर्ववे- ष्टनश्रुत्यनुमानस्य बाधो न सम्भवति, तयोः श्रुत्योः स्वरूपेण विरोधाभावात् । अर्थतो विरोधस्तु सर्ववेष्टनश्रुत्यनुमानोत्तरकालिकस्फूर्तिको न तदनुमानप्रवृत्ति बाधितुं क्षमते, विरोधस्य तदा- नीमलब्धात्मकत्वात् । प्रवृत्ते तु तदनुमाने प्रत्यक्षानुमितश्रुयोरुभयोरपि श्रुतित्वाविशेषात्स- नप्यर्थतो विरोधो युगपदेव तदनुष्ठानद्वयं बाधते, स्पर्शनसर्ववेष्टनयोयुगपत्कर्तुमशक्यत्वात् । कस्मिंश्चित्प्रयोगे स्पर्शनं प्रयोगान्तरे सर्ववेष्टनमित्येवं कालभेदेन तदुभयानुष्ठानं तु निर्बाध- मेव, विरोधाभावात् । तथा च ब्रीहियवादिशास्त्रवत्कालभेदेन स्पर्शनसर्ववेष्टनश्रुत्योरपि प्रामाण्यं निर्वाधमिति सर्वदा तदप्रामाण्यवर्णनमनुपपन्नम् । तथा द्वितीयाधिकरणमप्यनुपप- नम् , प्रकीर्णकस्मृतीनामपि सकलवैदिकशिष्टैर्धर्मबुद्ध्या तदर्थानुष्ठानस्याद्रियमाणतया दाना- दिस्मृतिवत्प्रामाण्यस्यावश्याङ्गीकार्यत्वादित्यादिदूषणान्युद्भाव्य सूत्रद्वयमिदमन्यथा योजितं १२ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- - तया तद्विसम्मविषये मूलानुसन्धानापेक्षत्वात् । विस्तम्भणीयस्य प्रत्यक्षश्रुतिवाक्ये असति स्मृतिमूलश्रुतिप्रत्यक्षस्य परकीयस्य विस्रम्भविषये अनुमानं मूलानुसन्धानं क्लिष्टमपेक्ष्यते । खप्रत्यक्षस्य हि विनम्भणीयत्वात्तस्मिन्सत्यनुष्ठानप्रतीतिः स्वारसिकी। परकीयप्रत्यक्षस्य तु विस्रम्भमूलानुसन्धानसापेक्षत्वात्तस्मिन्सति नैवम् । अस्ति चात्र विस्रम्भणीया प्रत्यक्षा श्रुतिः। अतः सैवानुष्ठाने प्रमाणं यावत्स्मृतिमूलश्रुतिः प्रत्यक्षतो नोपलभ्यते । तदुपलम्भो- त्तरं तु द्वयोरपि व्रीहियवादिश्रुतिवद्विकल्प आदर्तव्यः। ततश्च कदाचित्फलतः अप्रामाण्यं प्रत्यक्षश्रुतिविरुद्धस्मृतेरिति सिद्धम् । हेतुदर्शनादिति सूत्रमप्यत्रैवार्थे युक्त्यन्तरपरं योज्यम् । स्मणां सर्ववेष्टनश्रुतिप्रत्यक्षे सत्यपि न्यायामासात्मकहेतुदर्शनसम्भावनया विस्रम्भः प्रति- बध्यत इति । तदेवं योजनायामनुष्ठानपदाध्याहारे गौवं मत्वा वर्णकान्तरं वर्णितं वार्तिके । तद्यथा-यानि वैदिकशिष्टैरपरिगृहीतानि शाक्यादिनिबन्धनानि त्रयीविपरीतार्थानि अहिंसा- सत्यवचनशमदमदानादि प्रतिकञ्चुकच्छायाबहुलानि साङ्ख्ययोगपाञ्चरात्रादीनि च धर्मशा- स्त्राभासानि तेषां प्रत्यक्षादिमूलकतया प्रामाण्यं निराकृतं तर्कपादे "सत्सम्प्रयोगे पुरुषस्ये- न्द्रियाणाम्" इत्यादिसूत्रे वार्तिके । इदानीं सम्भावितवेदमूलकतया प्रामाण्यं तेषां निराकर्तुम- धिकरणमिदमारभ्यते । मन्वादिस्मृतिवत्तेषामप्यस्ति वेदमूलकतया प्रामाण्यम् । न च तन्मू- लश्रुतीनां मन्वायदृष्टतया कथं तत्रामाण्यमिति वाच्यम् , मन्वादिदृष्टवेदचतुष्टयाद्भिन्नप्रस्था- नानामेव वेदानां तत्र मूलत्वसम्भवात् । नच “चत्वारो वेदाः" इति लोकप्रसिद्धिविरोधः, प्रसिद्धेमन्वादिदृष्टमात्राभिप्रायकत्वात् । सर्वदा च प्रवाहनित्यतया मन्वादिस्वीकारान्नानित्य- संयोगः । अत एव “यद्वै किञ्च मनुरवदत्" इत्यादि सङ्गच्छते । अस्तु वा चत्वार एव वेदा इति; तथापि वेदमूलकत्वमेषां न विरुध्यते । ऋग्यजुःसामवेदेषु हि धर्मबोधकेषु अस- येयाः शाखाः सन्ति । तत्र काश्चिदेव ऋषिभिदृष्टाः । न हि सर्वा अपि शाखाः पुरुषायु- घेणापि कथमपि केनचिद्रष्टुं शक्याः, आनन्त्याच्छाखानामल्पत्वाच पुरुषायुषस्य । अत एव भरद्वाजस्य महानुभावस्यापि सर्ववेदाध्ययनाय सगर्वं प्रवृत्तस्य कतिपयशाखाध्ययनमात्रेण जरा- प्रवृत्तिमनधीतानां शाखानामानन्त्यादशक्याध्ययनत्वं च दर्शयति काठकश्रुतिः-"भरद्वाजो ह त्रिभिरायुभिब्रह्मचर्यमुवास । तरह जीर्ण५ स्थविर५ शयानमिन्द्र उपव्रज्योवाच, भरद्वाज- यत्ते चतुर्थमायुर्दद्यां किमनेन कुर्या इति । ब्रह्मचर्यमेवैनेन चरेयमिति होवाच । तरह त्रीन् गिरिरूपानविज्ञातानिव दर्शयाञ्चकार । तेषा हैकैकस्मान्मुष्टिमाददे । स होवाच । भरद्वाजे- सामन्यः । वेदा वा एते । अनन्ता वै वेदाः । एतद्वा एतैत्रिभिरायुभिरन्ववोचेथाः। अथ ते इतरदननूक्तमेव" इति । तथा च मन्वाद्यदृष्टवेदमूलकत्वसम्भवादषामस्ति प्रामाण्यम् । ML किरणावल्या समेतम् । श्रुतिलिङ्गसूत्रोक्ता, "श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसी"ति स्मृत्युक्ताच मपि वेदमूलकतया प्रामाण्यशङ्कया तत्परिग्रहः प्रसज्यतेति तामिमां शङ्कां मन्दविधन्यायेन निराकरोति-विरोधे त्वनपेक्षं स्यादसति हनुमानमिति । प्रमाणमित्यनुवर्तते, तुशब्दः शङ्काव्यावृत्तौ । शाक्यादिग्रन्थानां वैदिकशिष्टपरिगृहीतप्रत्यक्षश्रुतिविरोधे सति मूलान्तरानपेक्षं श्रुतिवाक्यजातमेव प्रमाणं न तु तद्विरुद्धशाक्यादिग्रन्थजातम् , पौरुषेयत्वात् । न च श्रुति- मूलकतया प्रामाण्यम् , मूलश्रुतौ प्रमाणाभावात् । ननु स्मृत्यैव श्रुतिरनुमीयताम् , तत्राह- असति हनुमानमिति । असति हि प्रत्यक्षश्रुतिविरोधे मूलश्रुत्यनुमानमुदेतुमुत्सहेत । अय- म्भावः वेदेषु दृढविस्रब्धमन्वादिस्मृतीनां तथाविधवैदिकदृढपरिग्रहान्यथानुपपत्त्या मूलश्रु- तिकल्पकत्वं युज्यते । शाक्यादिग्रन्थेषु त्विदं विपरीतम् , वैदिकपरिग्रहाभावात् , वेदविद्वेषि- परिग्रहाच्च । न च वैदिकपरिग्रहाभावेऽपि अहिंसादिकतिपयवैदिकार्थगन्धवासितत्वेन हेतुना मूलश्रुत्यनुमानं स्यादिति वाच्यम् , वेदविद्वेषिजनपरिग्रहेण वेदमूलकत्वव्यतिरेकस्य निश्चित- तया हेत्वन्तरेणापि मूलश्रुत्यनुमानाप्रवृत्तेः । साङ्ख्ययोगादिशास्त्रेषु वैदिकपरिग्रहो यदंशेऽस्त्यु, पासनादिविषये तदंशे प्रामाण्यमिष्टमेव । यदंशे तु प्रपञ्चसत्यत्वमिथ्यात्वद्वैताद्वैतादिविषये विहितस्य हिंसादोषास्तित्वादिविरुद्धवामाचारप्रचुरत्वात्सर्वथैवाप्रामाण्यम् । “भरद्वाजो ह त्रिमिः” इत्यादिः सावित्रार्थवादः । तत्रानन्तपदमेकविंशतिर्बाढच्यमित्यादिशाखापरिमाणस्खा- तिविस्तृतत्वपरमित्यदोषः। अत एव श्वेतकेतुं प्रकृत्य "सर्वान्वेदानधीत्य” इति छान्दोग्य- श्रुतिः सङ्गच्छते । यदपि शाक्यादिनिबन्धेषु पाञ्चरात्राद्यागमेषु च क्वचित्वचिद्वेदबोधितमे, वाहिंसादिकमुपासनादिकं चोपनिबद्धं तदागमप्रचारसिद्ध्यर्थमेवोपनिबद्धमिति तदनुष्ठानं वैदि- कानां न तन्मूलकतया, किन्तु वेदमूलकतयैवेति । तदेवं शाक्यादिग्रन्थानामविगीतवैदिक शिष्टपरिग्रहाभावाद्वेदविद्वेषिजनपरिग्रहाच न वेदमूलकतया प्रामाण्यम् । इतोऽपि तेषामा- माण्यमित्याह हेतुदर्शनाचेति । असिद्धहेतुदर्शनाचेत्यर्थः । शाक्यादिभिर्हि स्वप्रतिपाद्यानि, सर्वाणि हेतुभिरेव प्रायेणोपन्यस्यन्ते “अष्टका पितृदेवत्या इत्ययं प्रस्तो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति । यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रसवतः श्राद्धं •न तत्पथ्यशनं भवेत् । निहतस्य पशोर्यज्ञे वर्गप्राप्तिर्यदीप्यते । स्वपिता यजमानेन किं नु. तेन न हन्यते । जीवस्यावरणं देहो देहस्यावरणं कुतः। यदि तस्यापि कार्य स्यात्तस्यापि. ह्यनवस्थितिः । मलभाण्डं शुचि भवेद्वहिःक्षालनतः कथम् । गव्यं पयश्चेत्पीयेत मांसैः किम- पराध्यते” इत्यादिना । न च मन्वादयः स्वप्रतिपाद्ये सर्वत्र हेतूनुपन्यस्यन्ति । न चैवं हेतुमूलकतयैव शाक्यादिग्रन्थानां प्रामाण्यं किं न स्यादिति वाच्यम्; तदीयहेतूनामस- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सङ्गच्छते; अन्यथा विकल्पापत्तिः कृता स्यात् । तस्माद् बृहदारण्यकश्रुतिप- रिगणितानां सर्वेषां भगवद्वचनत्वेनैव प्रामाण्यम् , न तु तेषु केषां चिदपि वेदमूलकत्वेनेति; अन्यथा वेदेऽपि किम्मूलकं प्रामाण्यमिति प्रश्ने किमुत्तरम् ? भगवनिःश्वसितत्वमिति चेत्, तर्हि तदेवास्तु सर्वत्र मूलप्रामाण्ये किं वेदमूलकत्वाद्युक्तिभिरिति । एवं च सति बृहदारण्यकश्रुत्युक्तेषु भगवन्निःश्वसितभूतेषु वेदपुराणेति- हासादिषु समत्वेन क्वचिद्विकल्पः, क्वचित्सामान्यविशेषभावश्चाङ्गीकर्तव्योऽ- त्रत्यवचनबलादिति परिभावनीयम् । यदि च नास्माभिर्वेदपुराणवचनयोर्वि- कल्प आश्रयणीयो वैदिकवचनद्वय एव विकल्प आश्रयणीयः, “अतिराने षोडशिनं गृह्णाति", "नातिरात्रे षोडशिनं गृह्णाति", इत्यत्रेवेत्यत्राहस्म । "ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमावणं चतुर्थमितिहासपुराणं वेदानां पञ्चमं वेदम्" इति सामकौथुमीयशाखीयछान्दोग्योपनिषच्छतेः । अथ च अवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्" इति जैमिनीयं सूत्रम् । स चायं प्राबल्यदौर्बल्यविचारोऽङ्गाङ्गिविचाराधीन एव । न तु श्रुतिस्मृत्यो- विरोधे प्रवर्तते सः । तथापि प्रथमाध्यायद्वितीयपादेन साधितेऽपि श्रुतिप्राबल्ये कदाचि- स्कुत्रचिदङ्गाङ्गिभावेन प्रवृत्ते स्मृत्या श्रुतिबाधे, सोऽपि श्रुतिलिङ्गेत्यादिना परिहरणीय एवेत्याशयः । अन्यथा भाष्यकारस्य श्रुतिलिङ्गसूत्रोक्तेत्युक्तिव निरर्थकत्वमापद्येत । निरपेक्षः शब्दः श्रुतिः, अर्थप्रकाशनसामर्थ्य लिङ्गमित्यादिश्रुत्यादीनां लक्षणानि, “नीहीन्प्रोक्षति" "ऐन्द्रया गार्हपत्यमुपतिष्ठते"इत्यादीनि तदुदाहरणानि च, तत्र बाध्यबाधकमावश्चेत्यादिकं पूर्व- तत्रतृतीयाध्यायादूह्यम् । प्रकृते तदनुपयोगान्नात्र लिख्यते । एवं श्रुतिस्मृतिविरोधे श्रुतेरेव प्राबल्यं स्मृतिपादोक्तविधया प्रसाध्य तत्र स्मृतिमपि प्रमाणयन्ति-श्रुतीति । सकाशादिति पदं तु अपेक्षाधीनमतो न तस्य शाब्दबोधोपयोगित्वमिति । विकल्पापत्तिरिति । “उदिते जुहोति" "अनुदिते जुहोति"इत्यादिष्विवेत्यर्थः । अन्यथेति । बृहदारण्यश्रुतिपरिगणितस्य पुराणादेर्भगवन्निःश्वसितत्वाभावे, वेदमूलकत्वादेव प्रामाण्यस्वीकारे । पुराणादेर्भगवन्निश्व- सितत्वादेव प्रामाण्यं प्रसाधयन्तो युक्त्यन्तरमाहुः-वेदेऽपीत्यादिना ॥ वेदपुराणयोभंगवन्निःश्वसितत्वेन समबलत्वे तद्विरोधे विकल्पमाहुः-एवं च सतीत्यादिना । यद्यपि पुराणानां नित्यत्वं वेदतुल्यं च प्रामाण्यं प्रसाधयितुं प्रवृत्ता इमे श्रीमदनिरुद्धाचार्यचरणा- किरणावल्या समेतम् । २५ "इतिहासपुराणानि पञ्चमो वेद उच्यते” इति वाक्याच तेषामपि वेदत्वे सिद्धे किं वैदिकत्वेन; अत एवेतिहासपुराणादेरपि सकाशात् स्मृतीनां दौर्व- ल्यमङ्गीकर्तव्यम् । इतिहासपुराणयोरपि वेदत्वेन श्रुतित्वानपायात् । ननु “श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते, तत्र श्रौतं प्रमाणं स्यात्त- यो₹धे स्मृतिर्वरा' इति व्यासस्मृतिवचनेन श्रुतिस्मृतिपुराणानां परस्पर- विरोधे श्रुतेरेव प्रावल्यम्, स्मृतिपुराणयोः परस्परविरोधे तु स्मृतेरेव प्रावल्यमुच्यते; इति, कथं भवता पुराणस्य स्मृतितः प्रावल्यमुच्यत इति चेत्, न; "ऋग्वेद भगवोऽध्येमि, यजुर्वेद, सामवेदमथर्वणं चतु- थमितिहासपुराणं पञ्चमं वेदानां वेदम्” इति श्रुत्या पुराणस्येतिहासस्य च वेदत्वेन स्मृतितः प्राबल्ये सिद्धे तद्विरुद्धव्यासस्मृतिबोधितायाः स्मृतितः पुराणदौर्बल्यव्यवस्थाया बाधितत्वात् । “श्रुतिस्मृतिविरोधे तु श्रुतिरेव बलीयसी" इति सिद्धान्तात् । अत एव स्मृतिभ्यः पुराणानां प्राबल्यायैव चित्तशुद्धौ सत्यां पश्चाच्छ्रीभागवते “इतिहासः पुराणश्च पञ्चमो वेद उच्यते" इत्यनेन वेदत्वमेवोक्तं श्रीवेदव्यासचरणैरपीति किम्बहुतरेण निर्लजमुखभझेन । एवं च सति बृहदारण्यकोक्तवेदेतिहासपुराणादिष्यपि क्वचित्रवलदुर्बल- भावस्त्वेतदन्तर्गतवचनेनैवाङ्गीक्रियते; नत्वन्यवचनेन। “खयम्भूरेष भगवान्वेदो गीतस्त्वया पुरा। शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः” इति देवी- पुराणवचनन्तु भगवद्यतिरिक्तपुरुषकर्तृकत्वाभावमेव बोधयति । अत एव मीमांसकानामपौरुषेयत्वेन व्यवहारो वेदे, न तु सर्वथा पुरुषकर्तृकत्वाभावम् , "ऋचः सामानि जज्ञिरे तस्मात्” इति पुरुषसूक्तविरोधात् । “वह्वीः प्रजाः पुरुषात्सम्प्रसूताः” इत्युपक्रम्य, “तस्मादृचः सामयजू षि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च" इति मुण्डकोपनिषद्विरोधाच । अत्र स्वयम्भूत्वेन कथनं तु भगवद्धर्माणां नित्यत्वेन वेदस्थापि निःश्वसितत्वेन भगवद्धर्मत्वान्नित्यत्वम् । श्रुतित्वानपायादित्यन्तेन । अत्र व्यासस्मृतिविरोधं परिहर्तुमाशङ्कते-नन्विति । परिहरन्ति-इति चेन्नेति । तत्र प्रमाणमाहुः-ऋग्वेद इति । पुराणानां वेदत्वमाहुः-इतिहासः पुराणश्चेति । तत्र २६ datta श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- न च वेदस्य भगवद्धर्मत्वेन नित्यत्वे सिद्धे “छन्दांसि जज्ञिरे” इति श्रुतिविरोध इति वाच्यम् ; जनीप्रादुर्भाव इति धातोर्जज्ञिर इत्यस्य प्रादुर्भाववाचकस्य सामजस्यात् । न चात्र प्रादुर्भावस्तु स्थितस्यैव प्राकट्यं न तु वेदस्य चतुर्मुख- शिवादिसाधारणम् , एवं च सति कथं न कारकत्वं शिवादीनामिति वाच्यम् ; खतन्त्रप्रादुर्भावकत्वस्य कारकत्वेन विवक्षितत्वात् , ब्रह्मादीनां तु “प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सती स्मृतिं हृदि, खलक्षणा प्रादुरभूत्कि- लास्यतः स मे ऋषीणामृषभः प्रसीदताम्" इति श्रीभागवतीयवचनेन स्वत- अप्रादुर्भावकत्वाभावात् तस्मादपौरुषेयत्वमपि सर्वथा वेदे न सम्भवतीति दिक। ननु स्मृतीनां भगवन्निःश्वसितत्वाभावेन कथं तदुक्तधर्माणां प्रामाण्यमिति चेत् “य द्वै किञ्चन मनुरवदत्तद्भेषजम्” इति श्रुतेरिति गृहाण । न चैवं मनुस्मृतेरेव प्रामाण्यमायाति न त्वन्यस्मृतीनामिति वाच्यम् ; “वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् , आचारश्चैव साधूनामात्मनस्तुष्टिरेव च" इति मनुस्मृतिवचनेनान्यासां स्मृतीनामपि प्रामाण्यस्याबाधितत्वात् । न च "स्मृतिशीले च तद्विदाम्" इत्यनेन मनुस्मृतेरेव ग्रहणमिति वाच्यम् , तद्वि- दामिति बहुवचनेनान्यर्षिप्रणीतस्मृतीनामपि ग्रहणादिति गृहाण" इत्यादिना महता प्रबन्धेन शास्त्रार्थमाहुः, तत्र यद्यप्येतद्विषयेऽन्यदप्यस्तोकमुपपादितं तथापि बहुविस्तरभिया विरम्यतेऽतस्ततोऽवधेयं विशेषजिज्ञासुभिः । यत्तु, रारामानुजाचार्या बृहदारण्यकभाष्ये-"भाव्यरूपाण्येतानि भगवतो निःश्वसितानि, अयत्नेन तदुगतानीत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयो व्यासादुद्गता इति पुराणेषु प्रसिद्धिस्तथापि तेषां भगवदंशत्वाद्भगवन्निःश्वसि- तोक्तिरुपपद्यत इति द्रष्टव्यम्" इत्याहुः । तन्न रुचिरम् , तेषां वेदवत्पूर्व- सिद्धत्वात् । हरन्ति-जनीति । शिवब्रह्मणोरपि कृतित्वपरिहारायाहुः-एवं च सतीति । अपौरु- षेयत्वमिति । पुरुषः पुरुषोत्तमः, तदकृतत्वमित्यर्थः । , किरणावल्या समेतम् । २७ ननु कथमेवं विभाव्यते "अष्टादशपुराणानि कृत्वा सत्यवतीसुतः' इति वाक्यादेव व्यासकर्तृकत्वसिद्धेरिति चेत् ; मैवम् , “पुराणं सर्वशास्त्राणां प्रथम ब्रह्मणा कृतम् , नित्यं शब्दमयं ब्रह्म शतकोटिप्रविस्तरम् , अनन्तरं च क्वेभ्यो वेदास्तस्य विनिर्गताः, पुराणमेकमेवासीत्तस्मिन् कल्पान्तरेऽनघ” इति मात्स्यमानात् । न चोभयोर्विरोधो विभाव्यः, तेषां तत्कर्तृकत्वोक्तौ सङ्ग्रह- वत्पुराणसमासकर्तृत्वेनापाततः प्रतिपन्नापष्टुत्वपरिहारस्य सुशकत्वात् ; अतो नैगमविरोधाद्वैयासविरोधाच न तथाद्रियतेऽस्माभिरिति दिक। प्रकृतमनुसरामः; श्रवणकरणत्वं प्रकटयन्ति-कर्णेभिरिति।श्रोतव्यसाधनख- रूपैःश्रोत्रैः शृणुयाम भगवद्वाचकपदानां भगवति शक्तितात्पर्यनिर्धारपूर्वकं श्रोतुं समर्थाः स्याम; समस्तभगवच्छास्त्रश्रवणस्य “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः", "तस्माद्भारत सर्वात्मा भगवान् हरिरीश्वरः, श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्वेच्छताऽभयम्", “यथायथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथा श्रवणाभिधानः, तथातथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाजन- सम्प्रयुक्तम्" इत्यादिवेदव्यासवाक्यैः प्रत्यूहपराहतिपूर्वकपरमफलप्राप- कत्वात्तद्यथानुतिष्ठामो वयं तथा भवता विधेयम् । श्रवणभक्तेः परमफल- व्यासकर्तृत्वं परिहरन्ति-नन्वित्यादिना । भगवतिशक्तितात्पर्यनिर्धारपूर्वकमिति । श्रवणं नाम श्रावणप्रत्यक्षम् । तच्च शक्तिग्रहपूर्वकमेव । अस्मात्पदादयमर्थो बोद्धव्य इति सङ्केतः शक्तिः । किन्तु, ये केवलं लौकिकमेव शृण्वन्ति, न तेषामिन्द्रियेषु भगवदीयत्वाविर्भावः । लौकिकशब्दशृण्वतां श्रोत्र- योर्विवरत्वादिरूपेण भागवतादिषु निन्दाश्रवणात् । अतो भक्ताः सर्वत्र सर्वेभ्यः शब्देभ्यो भगवन्तमेव गृह्णन्ति । सर्वेषामपि शब्दानां भगवत्येव शक्तिरिति वैयाससिद्धान्तः । शब्दानां भगवति शक्तिर्वाक्यानां च भगवति तात्पर्यमिति तन्निर्धारपूर्वकमित्यर्थः । विस्तरस्तु मत्कृत- भक्तिमार्तण्डकिरणावलीतोऽनुसन्धेयः। तत्फलं हि प्रत्यूहपराहतिपूर्वकं परमफलप्राप्तिरित्याहुः- प्रत्यूहेति । ननु "आत्मा वा अरे द्रष्टव्यः श्रोतव्यः' इत्यादिश्रुतिषु न भवदभिमतं नित्य- लीलाप्राप्तिरूपं फलमभिहितम् ; अपि तु ज्ञानसाधकतयैव श्रवणमभिहितम् , तत्कथमत्र श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- प्रापकत्वं “यः पूाय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति । यो जात- मस्य महतो महिनवत्सेदुःश्रवोभियुज्यं चिदभ्यसत्" इत्यादिवेदमब्रेऽपि परिपठ्यते । मन्त्रार्थस्तु, यः पुरुषः पूर्व्याय कारणाय वेधसे कर्ने नवीयसे नित्य- नूतनाय सुमजानये सुमतिः श्रीर्जाया यस्य तस्मै विष्णवे ददाशति ददाति अर्पयत्यविशेषात्सर्व देहेन्द्रियप्राणान्तःकरणादिजातं, जन्म, उपलक्षणमेत- गुणकर्मणां महतो महिष्ठं श्रेष्ठं अस्य विष्णोः जातं जन्मादि ब्रवत् ब्रूयात् , सः इत उ, निपाताववधारणाओं, प्राप्नुयादेवेति, युज्यं सायुज्यं, वर्णलोप उक्तरीत्या, चित् इदं जन्मनो विशेषणं, अभ्यसत् प्राप्नुयात् , श्रवोभिः कीर्तिभिः, यद्वा, श्रवोभिः श्रवणैः सन्निधानाजन्मगुणकर्मणां “द्वा सुपर्णा सयुजा सखाया' इति मन्त्रवर्णात् , युज्यं पुरुषोत्तमं चित् सदानन्दरूपमित्यर्थः । चिदित्युपलक्षणं सदानन्दयोः, तथा च “तमु स्तोतारः” इति श्रुतिविवरणे चिदित्युपलक्षणं सदानन्दयोः इति श्रीमत्प्रभुचरणैरुक्तं सिद्धान्तमुक्तावलीविवृतौ, अमि आभिमु- ख्येन अनुरागेण अभ्यसत् , प्राप्नुयादिति श्रुतिरहस्यप्रकाशे श्रीमद्रामकृष्णभट्टा व्याचख्युः। तत्र, श्रवणं नाम भगवद्वाचकपदानां भगवति शक्तितात्पर्यनिर्धारः। अत्रापरे वेदान्तानां ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रिया श्रवणम्" इत्याहुः । आनन्दगिरयस्तु सुरेश्वराचार्यकृतबृहदारण्यकीये "श्रुतिलिङ्गादिको न्यायः शब्दशक्तिविवेककृत, आगमार्थविनिश्चित्यै मन्तव्य इति भण्यते" इति वार्तिकोपरि श्रुत्यादिभिः शक्तितात्पर्यनिश्चायकैयायैब्रह्मात्मनि वेदान्त- तात्पर्यनिरूपणं श्रवणम्” इत्याहुः । धर्मराजाध्वरीन्द्रास्तु वेदान्तपरिभाषायां श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि तात्पर्यावधारणानुकूला मानसी क्रियेति जगदुः । तन्न रुचिरम् , वेदान्तपदव्युदस्तेतिहासपुराणादिश्रवणेऽव्याप्तेः, तच, कर्मज्ञानोपासनं भक्तिमार्गीयाधिकारिभिरनुष्ठीयमानमनेकविधम् । यथा- त्रिवर्गकामनया कृतं कर्ममार्गीयम् , अधिकारिणः कर्ममार्गीयत्वात् , ज्ञानोदय- हेतुचित्तशुद्धिहेतुत्वेनाचरितं ज्ञानवीयम् । साक्षान्मोक्षसाधनत्वेन तन्त्र- - तदेव श्रुत्या समर्थयन्ति-यः पूर्व्यायेति । ननु ब्रह्मणि तात्पर्यावधारणरूपा मानसी क्रिया नाम श्रवणमिति प्रसिद्धलक्षणं विहाय किमिति भगवति शक्तितात्पर्यनिधार इत्युच्यत इत्या- किरणावल्या समेतम् । २९ प्रकारेण क्रियमाणमुपासनामार्गीयम् । भक्तिमार्गीयभक्तकृतभक्तिसाम्प्रदा- यिकदीक्षापूर्वकमोक्षसाधनत्वेनानुष्ठितं प्रवाहवन्मुक्तिफलकत्वेनाभिमतं प्रावा- हिकभक्तिमार्गीयं भवति । वेदादिविहितप्रेमात्मकभाविसाधनत्वेन कृतं मार्या- दिकभक्तिमार्गीयं ज्ञेयम् । भगवदभिन्न श्रीमदाचार्यचरणकृपाकटाक्षवितीर्ण- भगवत्स्नेहोत्पत्यनन्तरं खव्यसनतः स्वतत्रपुरुषार्थत्वेन समाचरितं पुष्टिपद- लक्षितं निर्गुणभक्तिमार्गीयं ज्ञेयम् । एवं मार्गभेदैरधिकारिभेदैश्वानेकविधं भवतीत्याकरेषु प्राश्चैर्मया च ब्रह्मामृतभाष्ये पीयूषलहयाँ च प्रपञ्चमिति दिक् । न चात्र शक्यमेकस्यैव वस्तुनो विविधफलदत्वमसम्भवदुक्तिकमिति । एकस्यैवोषधस्यानुपानभैदैर्विविधामयनिवर्तकत्ववन्मार्गभेदादधिकारिभेदाच सुखेनैवोपपत्तेः । तथैव च भागवतमाहात्म्ये "श्रवणस्य विभेदेन फलभेदोऽत्र संस्थितः", इति व्यासवचसा व्यवस्थापितत्वात् । अथवा "मल्लानामशनिनृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां खज- नोऽसतां क्षितिभुजां शास्ता खपित्रोः शिशुः । मृत्यु जपतेर्विराडविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजा" इत्यत्र यथैककालावच्छेदेनैकस्यैव परब्रह्मणस्तं तमधिकारिणं तथा तथा दर्शनम् । यथा च “यद्यद्धियात उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सद. नुग्रहाय' इत्यत्रैकस्यैव भगवतस्तत्तद्भाववन्तं प्रति तत्तद्वपुःप्रणयनं प्रगीयते, तथेहापि, सामञ्जस्येन न काप्यनुपपत्तिः । न च कथाया भगवत्त्वे विमतत्वं विभाव्यम् , भागवते "तब कथामृतं तसजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः" इति गोपीगीते भगवत इव कथायाः षड्भिविशेषणैः षडैश्चर्यवत्त्वस्य स्फुटीकृतत्वात् । भाग- वतमाहात्म्ये च “खकीयं यद्भवेत्तेजस्तच्च भागवतेऽदधात् ; तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम् ; तेनेयं बाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः, सेवनाच्छ्रव- णात्पाठाइर्शनात्पापनाशिनी; श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि" इत्यायुक्त्या प्रत्यक्षकृष्णवं कृष्णद्वैपायनेन निरूपितत्वाञ्चेति चतुरस्रं सर्वम् ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- इह दर्शनश्रवणयोः श्रवणस्य प्रथमप्रार्थनप्रयोजनं परमात्मनि नैष्ठिकभ- क्तिजनकत्वमेव तस्य; तजनकत्वमपि “आचार्यादेवाधीता विद्या साधिष्ठं प्रापयति", "आचार्यवान् पुरुषो वेद", “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ, तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः” इत्यादिश्रुतिततिस्तूय- मानया गुरुसेवया लब्धगुरुप्रसादं प्रत्येव प्रतीयते । अत्रैषा प्रक्रिया-प्रथम तीर्थपर्यटनं, ततो महत्सङ्गः ततस्तेषां सेवा । ननु किं महत्सङ्गेन, स्वयं पठने श्रवणकीर्तनयोः सिद्धेरिति चेत्, न, श्रवणस्यैवासिद्धेः । तदुक्तं च भागवते "सतां हि सङ्गान्मम वीर्यसम्पदो भवन्ति हृत्कर्णरसायनाः कथाः, तजोषणा- दाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति' इति कथनेन कथायाः श्रोतुहृद्रसायनत्वं कर्णरसायनत्वं च, भगवद्वीर्यसम्पत्सङ्गत्यैव भवति नान्यथेति निगमय्य तस्यात्यन्तमपेक्षोपक्षिप्यते; अत एव श्रीमदाचार्यचरणा अपि “सर्वानेव गुणान् विष्णोर्वर्णयन्ति विचक्षणाः, ते मृतोदाः समाख्यानास्त- व्याख्यानं सुदुर्लभम् ; महतां कृपया यद्वत्कीर्तनं सुखदं भवेत् , न तथा लौकि- तच श्रवणमाचार्यादेवेत्याहुः-इहेति । स्म सतामिति । तृतीयस्कन्धे पञ्चविंशा- ध्याये भगवद्वाक्यमिदम् । सुबोधिन्यां सतां प्रसङ्गादिति पाठः । प्रकृष्टत्वं प्रोपसर्गार्थः । तथा च न केवलं सतां सङ्ग एव, अपि प्रकृष्टः सङ्गः; सच रहस्यवर्णनात्मक एव भवितु- महति, तस्मादेव हेतोर्भवगीर्यसम्विदः, हृत्कर्णरसायनाश्च कथा भवन्ति, तासां जोषणात् प्रीतिपूर्वकसेवनात् , प्रथमं श्रद्धा, ततो रतिः, ततश्च भक्तिः क्रमेण शीघ्रमपवर्गवमनि भवन्ति; भक्त्या वैराग्यम् , ततोऽपि निरन्तरं स्मृतिः, ततो योगप्रवृत्तिश्चेति सकलार्थः अत एव तादृशकथाया रसायनत्वोक्तिबलाधायकत्वात् “नायमात्मा बलहीनेन लभ्यः" इति श्रुतेः । तादृशां सताममृतोदरूपत्वं जलभेदग्रन्थोक्तं दर्शयन्ति अत एवेत्यादिना । सर्वा- नेवेति । शेषव्यासानिमारुतजडनारदमैत्रादीनां समुद्ररूपत्वमुक्त्वा तैरुक्ताया भगवत्कथाया लोक-वेद-गुण-मिश्रत्वं च प्रतिपाद्य ततोऽप्युत्तमाविचक्षणा गुणातीतया शुद्धान् सचिदा- नन्दरूपिणः सर्वानेव गुणान् वर्णयन्ति । तथा चाहुः पण्डितपुरन्दराः श्रीपुरुषोत्तमचरणाः- स्वस्य गुणातीततया शुद्धान् लोकवेदगुणामिश्रान् सच्चिदानन्दरूपिणः सच्चिदानन्दात्मकान् , विष्णोरित्यस्य वा विशेषणम् , तथा च सचिदानन्दरूपिणो वा विष्णोः, तादृशान् शुद्धान सर्वान् गुणान् स्वयं गुणातीततया विचक्षणाः सर्वज्ञातारः सन्तो ये वर्णयन्ति, ते अमृतोदा किरणावल्या समेतम् । कानां हि स्निग्धभोजनरुक्षवत्" इति प्राहुः । ततः कलावस्मिन् यागादीनां देशादिषट्शुयधीनप्रतिपत्तिकत्वेन "को वा भगवतस्तस्य पुण्यश्लोकेब्यक- मणः, शुद्धिकामो न शृणुयाद्यशः कलिमलापहम्" इति सावतसंहिता- समुदितामनोमुकुरनिर्मलीकरणाय श्रीमद्यदुकुलालङ्कारस्य गोपीपतेः श्रीकृष्णस्य कथाश्रवणम् ; ततः कथायां रुचिरुत्पद्यते, ततः कथायां गुरौ च श्रद्धा, तत एतादृशधर्मेण स्वरूपोपकारेणाव्यभिचारिणी शुश्रूपा समुद्भवति। अत्र पूर्वपूर्व- साधनानां दृढत्वान्नेतरेषां निवृत्तिः । तादृशशुश्रूषया सततं "प्रविष्टः कर्ण- शुद्धोदा इत्यनुक्त्वा यदमृतोदा इत्युक्तं तेन श्वेतद्वीपादिपरिखाभूतावरणाख्यौ "अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके” इति श्रुत्युक्तौ “अरनामामृताम्भोधिय॑नामामृतसागरः" इति वारा- हपुराणोपबृंहितौ समुद्रावपि सङ्गृहीतौ ज्ञेयाविति । एवं च यागादीनां सत्यपि शुद्धिहेतुत्वे भगवत्कथायास्ततोप्याधिक्येन शुद्धिहेतुत्वं प्रतिपादयितुमाहुः-कलावस्मिन्निति । को वेति । वेत्यनादरे । तेन ये हि भगवत्कथां न शृण्वन्ति तेऽशुद्धा एव तिष्ठन्ति आसुरावेश- वत्तयेति भावः। कलौ सर्वेषामपहतपाप्मत्वाभावात्साधनान्तरैर्न कलिदोषनिवृत्तिः। भगव- तस्तु कालादपि परत्वात्तयशसोऽपि तत्परत्वम् । अतः कलिदोषनिवर्तकत्वं तस्यापि । ततः कथायामिति । पुरोदीरित तृतीयस्कन्धोक्तस्य सताम्प्रसङ्गादिति वाक्यस्य खास्स्यं तत्र प्रदर्शितश्च क्रमोऽयम् । प्रविष्टेति । द्वितीयस्याष्टमे राजवाक्यमिदम् । कीर्तनेऽपि श्रवस्य विद्यमानत्वात् मुखस्य गुणनिर्गमनहेतुत्वाकर्णरन्ध्रणेत्युक्तम् । रन्ध्रशब्दः प्रवेशहेत्वर्थः । एकवचनमतिसावधानश्रवणार्थम् । यतो लोके सावधानश्रवणे एकैव कर्णशष्कुली व्याप्रियते तदेन्द्रियमेकमुखमेव भवति । खानामिति कृतात्मनिवेदिनाम् । न केवलं हृदयमात्रे प्रवि- शति, किन्तु भावसरोरुहे । भावो रतिरिति केचित् । धातुसामान्यार्थः सत्तारूपो भगवानि- त्यपरे । कारणरूपस्त्वविनाशीभावः । स निरन्तरश्रवणेन हृदयरूपो जात इति । स चेत्पुन- भत्त्या विकाशं प्राप्तः सरोवररूपो भवति । साधनरूपभक्तिः श्रवणसम्पुटिता यदि तस्मिन् बीजमापद्यते । प्रेम्णा च हृदयं पूरितमेव तिष्ठति तदा बीजवृद्धौ श्रवणादिना कमलं भवति । तदेव हि भगवदासनं गृहं च भवतः। तदा तत्र प्रविष्टो भगवान् शमलं सर्वमेव धुनोति । यद्यपि पापक्षयः सर्वोऽपि पूर्वमेव जातस्तथापि शमलं तिष्ठति । शं अलं यस्मादिति शम- लम् । ऐहिकामुष्मिकफलानि शंशब्देनोच्यन्ते शमादयश्च । केवलपुण्येन च भोगाभावात्तत्र श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- रन्ध्रेण खानां भावसरोरुहम्, धुनोति शमलं कृष्णः सलिलस्य यथा शरत्" इति भागवतवाक्यात्खकथाः शृण्वतां सतां सात्वतां हृदि विराजमानो ह्यभ- द्राणि विधुनोति पुण्यश्रवणकीर्तनः श्रीकृष्णः । ततो नष्टप्रायाया "उच्छि- ष्टलेपाद्यनुमोदितो द्विजैः सकृत्वभुजैस्ततदपास्तकिल्बिषः, एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिय॑जायत” इति भागवतोक्तप्रकारेणोच्छिष्टले- पाउनुमोदिताः सततं भागवतं गुरुं परिचरन्तो “तत्रान्वहं कृष्णकथाः प्रगा- यतामनुग्रहेणाशृणवं मनोरमाः; ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रव- स्यङ्ग ममाभवद्रुचिः।” “नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया, भगवत्युत्तम- , रूपो न ज्ञानादिसाधनमपेक्षत इत्यर्थः। अत्र दृष्टान्तेन स्पष्टयति-सलिलस्य यथा शरदिति । सरःशब्देन यत्सलिलं तदत्रोच्यते । यथा शरदित्येव दृष्टान्तः । यथा लौकिकं जलं शरदा निर्मलं क्रियते न तु वर्षासु कथमपि निर्मलं भवति । तथा प्रेमरूपं यजलं तदपि भगवता निर्मलं भवतीत्यर्थः, इत्याहुः सुबोधिन्यां भगवत्पूज्यपादाः श्रीमद्वल्लभाचार्य- चरणाः । सतां परिचरणफलमाहुः-उच्छिष्टेति । तत्रान्वहमिति । नारदवाक्यमि- दम् । अन्वहमित्यशृणवमित्यनेन सम्बध्यते । परमहंसानां वा नित्योऽयं धर्म इति ख्याप- यितुम् । कृष्णपदात्परमहंसा अप्येते भक्ता इति ज्ञापितम् । गानं प्रेमाधिक्यात् । प्रकृ- ष्टगानं तद्भावेन । अनुग्रहेणेत्याज्ञया श्रवणं बोध्यते । न तु प्रासङ्गिकम् । कथामनोरमपदाभ्यां अर्थमभिप्राय ते बोधयन्तीति लक्ष्यते । निर्बन्धेन श्रवणाभावायाह-मनोरमा इति । मनसो रमणे यासु । एवमेका श्रवणभक्तिः सिद्धा । तस्या नारदत्वपर्यन्तं फलम् । ततः कीर्तनमिति साम्प्रतं कीर्तनम् । एवमग्रे श्रवणादिवृद्धौ तावद्भिः कल्पनैनवविधसाधन- भक्तौ सिद्धायां प्रेम्णा भगवत्सायुज्यं भवतीति शास्त्रार्थः । तत्र श्रवणफलमाह-ताः श्रद्धयेति । श्रवणादीनां नादृष्टद्वारा फलसाधकत्वम् । किन्तु, स्वरूपेणैव । फलं च भगवद्याथार्थ्यज्ञानम् । तदैव हि कीर्तनेऽधिकारः । उत्तरस्यादिना हि पूर्वस्यावसानम् । अतः श्रवणस्य नैरन्तय कर्तव्यम् । ततो भगवति रुचिः। परं श्रवणद्वारा । तदाह- प्रियश्रवसीति । प्रियं श्रवः श्रवणं कीर्तिवा यस्य । अङ्गेति कोमलामन्त्रणमप्रतारणाय । प्रमाणबलं परित्यज्येन्द्रियाणां स्वाभाविकविषयग्रहणं रुचिरिति श्रीमदाचार्यचरणाः प्राहुः नष्टप्रायेष्चिति । धुता एव कामादयो न नाशिता इति कचित्कचित्तेषां सत्त्वं प्रतीयते । श्रवणे ommu- किरणावल्या समेतम् । श्लोके भक्तिर्भवति नैष्ठिकी" इत्यादिव्यासवचनव्यक्तां महति बाधकेऽप्य- चलत्वलक्षणामुत्तमश्लोकस्य भगवतो नैष्ठिकी भक्तिं प्राप्नुवन्ति । न च तान् बाधितुं कालादयः प्रभवन्ति । ततो भगवति समाविष्टे चेतसि विनष्टरजस्त- मस्कं कामलोभादिभिरनाविद्धं तद्भगवदासनयोग्यं सत्त्वे प्रसीदति । प्रसन्न- मनसो "विषयाविष्टचित्तानां विष्ण्वावेशस्तु दूरतः", इति न्यायेन मुक्त- सङ्गस्य भगवद्भक्तियोगतः "भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः", इति गीतागीतगोविन्दवचसां भगवत्तत्त्वविज्ञानं जायते । ततो भगवत्खरूपविज्ञानानन्तरं भगवद्दर्शनम् । दर्शनेन च “यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति" इति श्रुत्या सर्ववस्तूनां याथार्थ्यज्ञानेन "भिद्यते हृदयग्र- एवं कथायां क्रियमाणायां भगवति प्ररमप्रेमोत्पद्यत इत्याह-भगवतीति, अत्र सर्वत्र भगव- च्छब्देन शुद्धं परं ब्रह्मोच्यते । उत्तमश्लोक इति । उत्तमैः श्लोक्यत इति, उत्तमा वा श्लोका यस्येति । सद्भिः कथया च सहिते भक्तिर्भवतीत्यर्थः । ततश्च जातायामपि भक्तौ सन्तः कथाश्च न त्यज्यन्त इति भावः । महताऽपि बाधकेनाचलनं निष्ठा । निष्ठां प्राप्ता नैष्ठिकी । तदा हि कालाधुपद्रवा न स्फुरिष्यन्तीत्यर्थ इति सुबोधिनी । भक्त्येति । गीतायामष्टा- दशाध्याये । स मदीयया भक्त्या निर्गुणया निर्गुणविषयकत्वात्परया मामेकं निर्गुणं पुरुषोत्तममभिजानाति तत्त्वतो यावान् यश्चास्मीति । यादृशैश्वर्याद्यनन्तालौकिकविशिष्टो यादृशलीलापरिकरसहितः प्राकृतगुणसृष्टिरहितो ब्रह्म परमात्मा भगवानिति भेदेन ततो नाम- विस्तृतोऽस्मि यथा तथा मामभिजानाति । एवमभिज्ञानमुक्तं भागवतचतुःश्लोक्यां "यावानहं यथाभावो यद्रूपगुणकर्मकः" इत्यादि । तदनन्तरं तत्त्वतो मां पुरुषोत्तमं ज्ञात्वेत्यनुवादः । तत्त्वतो वा पुरुषोत्तमं मां विशते । प्रवेश एव फलं “निर्गुणा मुक्तिरस्माद्धि सगुणा सान्य- सेवया” इति निबन्धे, “अलौकिकसामर्थ्य सायुज्यं सेवोपयोगिदेहो वा वैकुण्ठादिषु" इति सेवाफले च निरूपितम् । अथवाऽऽविशते पुरुषोत्तमाविष्टो भवति । अत एवोक्तमाचार्यैः सुबोधिन्यां "शुको भावनया गोकुले स्थित्वाह य एतदिति, स भगवानिति च" । तेन ब्रह्मभूतोऽपि शुकः श्रीपुरुषोत्तमभक्तितत्त्वज्ञानतः श्रीपुरुषोत्तमाविष्ट एव तल्लीलामध्यपाती- त्यवसीयते । तदनन्तरं तेन नान्तरं भेदो यथा भवति तथेति वा । तथाच श्रुतिः-"ब्रह्म- विदाप्नोति परम्" "तदक्षरे परमे व्योमन्” “यो वेद निहितं गुहायाम्" "सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति । एतेनाक्षरमार्गात् भगवन्मार्गे वैलक्षण्यं यत्र तत्र भगवानेव प्रमाणं प्रमेयं च दर्शितम् । यस्मिन्निति । सर्वमिदं विदितमिति । ऐतदा- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- न्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इति श्रुतिविश्रुतप्रकारेण चिदचिद्भन्थिरूपस्याविद्याकार्यरूपस्य समूलोन्मूलनमिति साधनश्रवणप्रक्रिया । श्रीमदाचार्यचरणाश्चमां प्रथमस्य द्वितीये पञ्चमे च खव्याख्यायां व्याचख्युः। प्रकृतमनुसरामः । कीदृशा यूयमित्यपेक्षायामाहुः-देवा इति । सुरसर्ग- समुद्भूताः । “देवो भूत्वा देवं यजेत्” इति न्यायेन सेवायामधिदैवत्व- व्यक्त्यै तस्य परमोपयोगित्वात् । देवत्वं चात्र दीव्यते प्रकाशते गीतोक्त- पड़िशतिसम्पत्तिभिरिति व्युत्पत्त्या दैवसम्पत्सम्पन्नत्वम् : सम्पत्तयस्तु "अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः, दानं दमश्च यज्ञश्च खाध्यायस्तप आर्ज- वम् , अहिंसा सत्यमक्रोधस्त्यागः क्षान्तिरपैशुनम् , दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् , तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता, भवन्ति सम्पदं दैवमभिजातस्य भारत" इति भगवतोपवर्णिता षोडशध्याये । तत्र, अभयं नाम खोच्छेदेनाबुद्धभावः; सत्त्वसंशुद्धिश्चित्तनैर्मल्यम् ; ज्ञानम् "एता- वानस्य महिमा अतो ज्यायांश्च पूरुषः” इति पुरुषसूक्तोक्तप्रकारक भगवन्माहात्म्यज्ञानम् , योगो ज्ञातेऽर्थे चित्तप्रणिधानम्, तयोविशेषेणा- वस्थितिर्निष्ठा, महति बाधकेऽप्यचलनमिति यावत्। श्रौतस्मादिः, खाध्यायो वेदाध्ययनम् ; तपो “देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ब्रह्मan मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ कर्मबीजं प्ररोहति, न तु तत्त्वज्ञाननिदाघनिष्पीतस- लिलतयोषरायामिति कर्माण्यपि क्षीयन्ते । एतत्सर्वं न येन केन प्रकारेण जातज्ञानकार्य, किन्तु, ब्रह्मात्मैक्यानुभवकार्यमित्याह-दृष्ट एवेति । आत्मत्वेन भगवदनुभवे । नान्य- थेत्येवकारार्थः । आत्मनो ह्यनीश्वरत्वेन जाताः पदार्था ईश्वरत्वेन निवर्तन्ते । अन्यस्येश्वरत्वे ज्ञातेऽपि न ह्यन्यस्येश्वरत्वाज्ञानं स्वस्य संसारहेतुर्भवति । इमां प्रक्रियाम् । प्रथमस्य द्वितीये पञ्चमे चेति । भागवते प्रथमस्कन्धे द्वितीयाध्याये व्यासवाक्येष्वित्यर्थः। पञ्चमा- ध्याये नारदवाक्येषु च । सुरसर्गसमुद्भूता इति । देवो भूत्वेति । अन्यत्र भूतशुद्धिपूर्वकं मन्त्र-चक्रादि- न्यासजालेन देवत्वं सम्पाद्य, केवलानुग्रहमार्गे तु ब्रह्मसम्बन्धोत्तरं श्रीयमुनादिद्वारेति विशेषः । , - जा , किरणावल्या समतम् । चर्यमहिंसा च शारीरं तप उच्यते; अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च तत्, खाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते; मनःप्रसादः सौम्यत्वं मौन- मात्मविनिग्रहः; भावसंशुद्धिरित्येत्तपो मानसमुच्यते” इति गीतालक्षितलक्षिणं कायिकादिभेदात्रिविधम् ; आर्जवमृजुत्वं सर्वदा; अहिंसा परपीडाराहित्यम् ; सत्यं खार्थपरार्थलोभादिराहित्येन यथार्थभाषणम्, अक्रोधो निष्कारण- ताडनादिनाऽपि क्षोभरहितत्वम् ; त्यागोऽनासक्तिः प्रापश्चिकविषयेषुः शा- न्तिश्चित्तस्थैर्यम् : अपैशुनम् “ऐतदात्म्यमिदं सर्वम्” इतिश्रुतिविश्रुतसर्वत्र- भगवदात्ममत्या परापवादराहित्यम् ; भूतेषु दया सकलप्राणिषु व्युच्चरणश्रुत्या भगवद्विप्रयुक्तत्वेन भगवत्स्मरणोपदेशादिरूपा दया; अलोलुप्त्वं लौकिक- भोगेच्छया मनोधावनत्वाभावः; मार्दवं मृदुत्वं परदुःखाभिज्ञत्वम् ; ही लज्जा शास्त्रनिषिद्धाचरणे, तथाचाहुः श्रीमदाचार्यचरणानिवन्धे "धर्ममार्ग परित्यज्य छलेनाधर्मवर्तिनः, पतन्ति नरके घोरे पाषण्डमतवर्तनात्” इति । अचापलम् भगवक्रियासत्तया प्राकृतविषयेषु शैघ्याभावः, तेजो भगवत्कृपा प्रागल्भ्येना- धृष्यत्वम् ; क्षमाविद्यमानेऽपि सामर्थ्य परिभवादिषु क्रोधानुत्पत्तिः, धृतिः लौ- किकालौकिकदुःखादिषु चित्तस्थैर्यम् ; शौचं शुद्धिः सा हि बाह्याभ्यन्तरभेदेन द्विविधा, तत्र बाह्या मृजलाभ्यामान्तरी “यथा यथात्मा परिमृज्यतेऽसौ मत्पु- ण्यगाथाश्रवणाभिधानैः; तथा तथा पश्यति वस्तुसूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्र- युक्तम्"; "प्रविष्टः कर्णरन्ध्रण खानां भावसरोरुहम् , धुनोति शमलं कृष्णः सलिलस्य यथा शरत्” इति भागवतोदीरितप्रकारेण भगवत्कथाश्रवणा- दिना, तस्या आवश्यकत्वं तु "शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः, शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः, शौचं च द्विविध प्रोक्तं बाह्यमाभ्यन्तरं तथा, मृजलाभ्यां स्मृतं बाह्यं भावशुद्ध्या तथान्तरम् , अशौचं तु परं बाह्यं तस्मादाभ्यन्तरं परम् , उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः" इति सन्दर्भण स्मृतं दक्षस्मृतौ, तथैव गौतमीयतन्त्रेऽष्टमाध्याये- “अथ द्वादशधा शुद्धिर्वैष्णवानामिहोच्यते, ग्रहोपसर्पणं चैव तथानुगमनं हरेः, भक्त्या प्रदक्षिणे चैव पादयोः शोधनं पुनः, पूजार्थ पत्रपुष्पाणां भक्त्यैवोत्तो- लनं हरेः, करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते, तन्नामकीर्तनं चैव गुणा- - , , NR श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- , भद्रं पश्येमाक्षिभिर्यजत्राः। दकस्य निर्माल्यमालाया अभिवारणम् , उच्यते शिरसः शुद्धिः प्रणतस्य हरौ पुनः, आघ्राणं गन्धपुष्पादेर्निर्माल्यस्य तपोधन, विशुद्धिः स्यादलं तस्य घाण- स्यापि विधीयते । पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् । तदेकं पावनं लोके तद्धि सर्व विशोधयेत् ॥” इत्यादिवाक्यैादशधा शुद्धिार्वधीयते ॥ अद्रोहः-परानिष्टचिन्तनरहितत्वम्, अतिमानिता-"आढ्योभिजनवानस्मि कोऽन्योऽस्ति सहशो मया" इत्यादिगीतोपनिषदुक्तप्रकारक आसुरसम्पत्स- म्विलीनमात्मनि सर्वाधिक्यं यज्ज्ञानं तद्भावः । एवमेताःषड्विंशतिसम्पत्तयस्त- द्विशिष्टा देवाः। न चात्र तथार्थग्रहणे प्रमाणाऽभाव इति मन्तव्यम्-बृह- दारण्यके "द्वयाह प्राजापत्या देवाश्चैवासुराश्च" इत्यत्र दैवसम्पद्विशिष्टानामेव देवपदवाच्यत्वेन व्यक्तत्वात् ॥ द्वितीयमाशास्यं प्रकटयन्ति भमिति । समस्तकल्याणगुणगणैकनिलयं सदैकरसखरूपमानन्दमात्रकरपादमुखोदरादिविग्रहं ब्रह्मनयनपरावृत्तिपूर्वक- मनिमेषलोचनैर्दग्विषयं कर्तुं समर्था भवाम यथा तथा विधेयम् । भक्तानां तु “अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननुनिवेशयतोर्वयस्यैः, वक्रं व्रजेशसुतयोरनुवेणुजुष्टं यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्” “जड उदी- क्षतां पक्ष्मकृदृशाम्" "अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः, प्रियं प्रियेव ब्युषितं विषण्णा मनोरविन्दाक्ष दिदृक्षते त्वाम्" इत्यादि- सात्त्वतसंहितासूक्तिभिर्भगवतो भक्तवत्सलस्य श्रीमन्मन्मथमोहनस्य “तदा- सेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शने” इति वाक्यविश्रुतप्रकारेणासेचनकया दृशा श्रीमुखदर्शनमेव चक्षुषोः परमं फलम् । अन्यथा चक्षुश्वमेव नश्येत, "वहायिते ते नयने नराणाम्" इति श्रीवादरायणानुशासनात् । तदेतद्यथा तथा “श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर्हरतोङ्गतापम् , रूपं दृशां इशिमतामखिलार्थलाभ त्वय्यच्युताविशति चितमपत्र में” इति तुरीयप्रस्थानीयश्रीमद्रुक्मिणीवाक्ये “षड्गुणा भगवांश्च, एते चेत्प्रार्थ्यन्ते किरणावल्या समेतम् । , वा तदा सर्वनाश इति विनिश्चित्य, इन्द्रियाणां त्वत्परत्वे मनोऽपि त्वत्परं जातमिति शरीरमपि त्वत्परं कर्तव्यमिति प्रघट्टकार्थः । क्रमेण गुणा निरू- प्यन्ते भगवदैश्वर्यं चैतदिति सूचितम् , गुणद्वारा खतोऽपि चित्तवशीकरण- मैश्वर्यादप्यैश्वर्यं भगवदीयानां कान्तिगुणखरूपाणां माहात्म्यं निरूप्यते, हे भुवनसुन्दर, भुवनेष्वेक एव सुन्दरः, अनेन कान्याधिक्येन स्त्रीणां खतश्चित्त- वृत्तिरुक्ता, ते गुणान् शृण्वतां कर्णविवरैरन्तर्निर्विश्याङ्गतापं हरतां सतां रूपं च शिमतामखिलार्थलाभं यतः, अतस्त्वयि मे चित्तमाविशति, बहिरिन्द्रिय- द्वयमेव नियामकम् , अन्तरिन्द्रियस्य, श्रोत्रं चक्षुश्च श्रुतावपि “अक्षण्वन्तः कर्णवन्तः" इत्यत्र तथैव निरूपितम् , उभयेषामुपकारं त्वद्गुणास्त्वद्रूपं च करोति; तत्रैकमान्तरं तापं हरति, एकं च बहिः सर्वपुरुषार्थान्प्रयच्छति, श्रवणमात्रेऽपि क्रियमाणे प्रयत्नं विनापि त्वद्गुणाः खत एवान्तर्निविष्टाः तेषा- मपि निवेशने प्रतिबन्धाभावायाह-कर्णविवरैरिति । अपावृतानि कर्णरन्ध्राणि लक्ष्यन्ते; अन्यथा न प्रविशन्तीत्येतावत् पुरुषकर्तव्यमुपदिष्टम् ; अतः कर्ण- विवरैः पातालविवरवत्प्रसिद्धैरन्तर्निविश्याङ्गानां तापं हरन्ति गुणाः, अङ्गेति सम्बोधनं वाऽऽत्मत्वेन, रूपं च ये दृशिमन्तो दर्शनयुक्ता येषां चक्षुःकार्य- मस्ति, रूपभेदविद इति प्रथमा कक्षा, सर्वात्मना दृश्यगुणपरिज्ञानमन्तिमा; तेषां दृशां चक्षुषामखिलार्थानां लाभो यस्मात्, चतुर्विधपुरुषार्थाश्चक्षुषा सिद्धयन्ति; चक्षुषः सूर्यभावो मोक्षः, रूपज्ञानं कामः, रूपग्रहणमर्थः, तत्रा- वगाहनं धर्म इति । फलवतामेषां फलान्यप्यूह्यानि, तत्रापि पुरुषार्था न सम्पादनीयाः, किन्त्वेकरमादुपलब्धा निधय इव प्राप्यन्ते । यत्रैवमिन्द्रिया- णामुपकारं तद्धर्माः कुर्वन्ति तत्र चित्तमपि ममापि तथा भविष्यतीति त्वयि निर्विशति । चित्तस्य हि द्वयं प्रतिबन्धकम् , लोको वेदश्च, तत्र लोकमति- क्रम्य प्रवर्तत इत्याह-अपत्रपमिति । अपगता त्रपा यस्मात् “लज्जा हि लोके नियामिका" इत्यादिना श्रीमदाचार्यचरणाः सुबोधिन्यां बोधयाञ्चक्रुः । नन्वेवं प्रार्थने को हेतुरित्याकाङ्क्षायां हेतुं निर्दिशन्ति-यजत्रा इति । यतो भगवत्पूजनमेव निसर्गसिद्धः खभावोऽस्माकं तचादर्शन असम्भव्यत्यतस्तथा श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- ABARD स्थिरैरङ्गैस्तुष्टुवास- एतावन्तं नर्यया विवासात्" इत्यादि मन्त्रैर्वेदेऽपि परिपठ्यते । अस्थार्थस्तु- योमर्तः मर्त्यः गुरुगायाय बहुभिः कीर्त्यमानाय विष्णवे पुरुषोत्तमाय दाशत् दद्यात् सर्व समर्पयेत् सः सत्राचा समीचीनेन मनसा भगवति निश्चलेन प्रय- जते भगवन्तं सेवत इत्यर्थः । यजधातोः पूजार्थकत्वेऽपि प्रकृष्टार्थ प्रोपसर्ग- विशिष्टत्वेन सेवारूप एवात्र यजतेरर्थः, सनिष्यन् फलमिच्छन् , नु क्षिप्रं दयते प्राप्नोतीत्यर्थः, यत एतावन्तं महन्तं नयं नरेषु हितं विष्णुं अविवासात् परिचरेदित्यर्थः” इति श्रीमद्रामकृष्णभट्टाः श्रुतिरहस्यप्रकाशे प्रकटीचक्रुः । एवं खस्य सेवकत्वमाविर्भाव्य स्तोतृत्वं प्रकटयन्ति-स्थिरैरङ्गैस्तुष्टवांस इति, स्थिरैर्विषयाविष्टः केवलं भगवति निरुद्धैरङ्गैः "अङ्गं प्रतीकोऽवयवः” इति कोशादवयवैरिन्द्रियादिभिः । एतेन देहेन्द्रिया- दीनां शुद्धत्वमुक्तम् । तादृशैः करणैस्तुष्टुवांसः बलस्तोतारो वयं भक्ता उक्ताः। तुष्टुवांस इति वर्तमानप्रयोगेण स्तुतिविषयिण्या भगवतः सर्वलीलाया- स्तन्मध्यपातिनामङ्गानां च नित्यत्वं सूच्यते । वेदेऽपि "ध्रुवासो अस्य कीरयः" इत्यादिमत्रैस्तथैव स्फुटं निरूप्यते एतेन कीर्तनभक्तिरपि प्रतिपादिता । तथाहि वेदे “प्रतत्ते अद्य शिपिविष्ट नामार्य शंसामि वयुनानि विद्वान् तं त्वा गृ- णामिव समतव्यान्यस्य रजसः पराके" इत्यादिमन्त्रैर्गीयते । अस्थार्थस्तु हे शिपिविष्ट शरीरान्तर्यामिन् तत् ते एव नाम अभेदेनेदानी प्रशंसामि कीर्त- यामि । आर्य श्रेष्ठ त्वम् सत्य अनन्त गुणान्वितत्वात् “सत्यादिगुणसाहसैर्युक्त"- मिति तत्त्वदीपे श्रीमदाचार्यचरणाः वयुनानि ज्ञातव्यानि विद्धानिति नामोचारणे शान्त्यादिगुणसम्पन्नस्य ज्ञातव्यं नावशिष्यते । त्वा गृह्णामीति गुणसङ्कीर्तनं करोमि । तव संमहान्तम् , अतव्यान् , अल्पोऽहम् , अस्य रजसः पराके परपाके क्षयन्तं निवसन्तमिति श्रीरामकृष्णभट्टाः श्रुतिरहस्यप्रकाशे व्याचख्युः । अथवा स्थिरैरङ्गैरित्यस्योभयत्रान्वयः । तथा सति “स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुति चकाराच्युत सत्कथोदये । मुकुन्दलिङ्गालयदर्शने दृशौ तभृत्यगात्रस्पर्शेऽङ्ग- ३ ॥ किरणावल्या समेतम् । स्तनूभिर्व्यशेम देवहितं यदायुः ॥ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ अथ पुरुषो ह वै नारायणोऽकामयत, क्योक्तपद्धत्या भगवति निरुद्धदेहेन्द्रियप्राणान्तःकरणात्मभिः सेवनं ज्ञेयम् । तथैव स्तुतिरपि । तेनैतादशभक्तैरभिलषितं श्रवणे दर्शनस्य फलरूपमेवेति गम्यते । एवं खाशास्से प्रकटय्य खाधिकारम्पत्तिसूचकं मध्ये हेतुद्वय- मुक्त्वा तृतीयमाशास्वं प्रकटयन्ति-तनूभिरिति। अप्राकृतदेहै: "देहेन्द्रियासु- हीनानां वैकुण्ठपुरवासिना'मित्यादिपाराशर्यप्रसिद्धसूक्तिसमुद्रावितैरलौकिकै- रिति यावत् । देवहितं देवेन दशविधलीलाविशिष्टेन पुरुषोत्तमेन शास्त्रे "तजन्म तानि कर्माणि तदायुस्तन्मनो वचः । नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः" इत्यादिवचोभिरुपदिष्टं भगवत्सेवापयिकमायुर्जीवितं व्यशेम विशेषेण अशेम व्याप्नुयाम इत्यर्थः । अत्र शङ्कराचार्याः-नृसिंहपूर्वतापिनि भाष्ये-“व्यशेम वीतरोगं विविधैहिकामुष्मिकसुखभोगे क्षमं व्यशेम प्राप्नुयाम" इत्याहुस्तन्न, स्थिरदेहेन्द्रियान्तःकरणात्मनां देवानामैहिकामुष्मिकसुखाकाङ्क्षा- विरहात् । तत्सत्त्वे च देहेन्द्रियान्तःकरणात्मनां स्थिरत्वस्य देवत्वस्य चास- म्भवः । इष्टापत्तिश्चेद्वदतो व्याघातः श्रुतिविरोधश्चेत्यलं प्रयासेन। आशास्सं सर्व निवेद्य शान्ति प्रार्थयन्ते-ॐशान्तिरिति । ओङ्कारपदवाच्यं परब्रह्म श्रीकृष्णः प्रत्यूहपरम्परां विनाश्य शान्तिं कुर्यादिति । त्रिरावृत्तिः त्रिविधनिवृत्तिप्रयो- जनिका ज्ञेया । इति शम् ॥ इति शान्तिव्याख्यानम् ॥ ( नारायणो मूलपुरुषः) एवं शान्तिमुक्त्वोपनिषदं विवक्षुर्निगम उपनिषदुक्तं ब्रह्मखरूपं प्रथम- माह-अमिति । "ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति देवेनेति । देवहितमित्येकं पदम् । केचन हे देव हितं यदायुरिति व्याचख्युस्तन्न शोभ- नम् । पदपाठविरोधेन पदच्छेदे मानाभावात् । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैरिति पाणिनीयानुशासनाचतुर्थीसमासः। देवेभ्यो दैवसम्पद्विशिष्टेम्यो हितमुपकारकमिति तदर्थः ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- गीतावाक्योपदिष्टत्रिप्रकारकनिर्देशात्मकः परब्रह्मखरूपः “एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्" इत्यादिमा- ण्डूक्यश्रुत्या सर्वकारणत्वेन तस्य निरूपणात् । निराकारमेव परं ब्रह्मेति मतं ܩ सर्वम्" "०मित्यात्मानं युञ्जीत” इत्यादिश्रुतिप्रतिपाद्यं ब्रह्म । तस्यैव त्रिविधो निर्देशो गीतास्मृतिराहेत्यर्थः । परब्रह्मरूप ओङ्कार एव सर्वकारणमिति श्रुत्या प्रदर्शयन्ति-एष सर्वेश्वर इति । एष ॐकारः सर्वेश्वरो वस्तुजातस्य स्वरूपावस्थत्वादीश्वरः । सर्वेषां भेदानां ज्ञाता सर्वज्ञः । अन्तर्यामी, अन्तरनुप्रविश्य नियामकः । योनिरुत्पत्त्यधिकरणम् । प्रभवाप्य- यावुत्पत्तिप्रलयौ । अत एव छान्दोग्यपरिशिष्टेऽप्युक्तम् “ॐकारपूर्वं हि योगोपासनं यानि नित्यानि पुण्यतमानि कर्माणि दानयज्ञतपःस्वाध्यायजपध्यानसन्ध्योपासनप्राणायामहोम- दैव्यपत्र्यमत्रोचारब्रह्मारम्भादीनि यच्चान्यत्किञ्चिच्छ्रेयस्तत्सर्वं प्रणवमुच्चार्य प्रवर्तयेत्समापयेच्च । स्वरितोदात्त एकाक्षर ॐकार ऋग्वेदे । सर्वोदात्त एकाक्षर ॐकारो यजुर्वेदे । दीर्घोदात्त एकाक्षर ॐकारः साग्नि । सङ्क्षिप्तोदात्त एकाक्षर ॐकार अथर्वणे" इत्यादिना । बौधाय- नोऽपि “अपि वा प्रणवमेव त्रिरन्तर्जले पठन्सर्वात्पापात्प्रमुच्यते सर्वात्पापात्पूतो भवति" इत्याह । योगसूत्रेऽपि-"तस्य वाचकः प्रणवः” (१२७) "अदृष्टविग्रहो देवो भावग्राह्यो मनोमयः। तस्योङ्कारः स्मृतो नाम तेनाहूतः प्रसीदति" इति याज्ञवल्क्यवचनमपि । तत्फलमपि “तमेतमात्मानमोमिति" "प्रपञ्चोपशमः शिवोऽद्वैत ॐकार आत्मैव" इति च श्रुतेः । अन्यत्रापि “माङ्गल्यं पावनं धर्म्य सर्वकामप्रसाधनम् । ॐकारं परमं ब्रह्म सर्वमत्रेषु नायकम् । यथा पर्ण पलाशस्य शङ्कुनैकेन धार्यते । सिद्धानां चैव सर्वेषां वेदवेदान्तयोस्तथा। अन्येषामपि शास्त्राणां निष्ठार्थोङ्कार उच्यते । आचं मत्राक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता । सर्वमन्त्रप्रयोगेषु अमित्यादौ प्रयुज्यते । तेन सम्परिपूर्णानि यथोक्तानि भवन्ति हि । सर्व- मन्त्राधियज्ञेन ॐकारेण न संशयः । तत्तदोङ्कारयुक्तेन मत्रेण सफलं भवेत्” इत्याह भग- वान् याज्ञवल्क्यः । निरुक्तमाण्डूक्यश्रुतेस्तस्य सर्वकारणत्वरूपं ब्रह्मत्वं निरूपितमित्यर्थः । मायावादमतं निरसितुमाहुः-निराकारेत्यादिना । तन्मते "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" "साक्षी चेता केवलो निर्गुणश्च" "अस्थूलमनणु" “सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्" "अरूपवदेव हि तत्प्रधानत्वात्" "प्रकृतैतावत्त्वं प्रतिषेधति ततो ब्रवीति च भूयः” इत्यादिभिः श्रुतिस्मृतिन्यायैर्निराकारत्वं साध्यते । तन्मन्दम् । लौकिकक्रियाकलासत्त्वादिगुणजन्यशरीरविकारीन्द्रियजडधर्मनिषेधपरत्वेन तदभिप्रायात् ।

किरणावल्या समेतम् । निरसितुं तस्य साकारत्वमाह-पुरुष इति । सर्वान्पाप्मन औषत्तस्मात्पुरुषः" इतिपुरुषविधवाह्मणनिरूपितः पुरुषाकारः, “सहस्रशीर्षा पुरुषः सहस्राक्षः वासः साक्षी चेता केवलो निर्गुणश्च" इत्यादिभिर्गुणानाम् , “उतामृतत्वस्येशानः" इत्युक्त्वा सर्वतःपाणिपादादिकथनेनाजन्यशरीरस्याविकारीन्द्रियाणाम् , “अणोरणीयान्महतो महीयान्" इत्यादौ अणुत्वादिधर्माणां चोक्तत्वात् । न चैतेषां सोपाधिकपरत्वं वाच्यम् , तत्पक्षस्य श्रीमदाचार्यचरणैः पण्डितपुरन्दरश्रीपुरुषोत्तमपादैश्च खण्डितत्वात् । एतद्भाष्यकारैरप्यग्रे दूष्य- माणत्वाच । “सर्वेन्द्रियगुणाभासम्" इत्यत्र सर्वेन्द्रियगुणा इव आभास इत्युपमानसमासेन ब्रह्मण एव सर्वरूपत्वम् । तेन "प्राणन्नेव प्राणो भवति वदन्वागिति" इतीन्द्रियकार्याणां ब्रह्मकार्यत्वश्रावणेन “प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ते निचिक्युर्ब्रह्म पुराणमयं मनसैवाप्तव्यं नेह नानास्ति किञ्चन" इत्यत्र प्राणाधिदैविकत्वबो- धनेनेह ब्रह्मणि नानात्वनिषेधेन च ब्रह्मणः सर्वेन्द्रियगुणरूपत्वपोषणाच्च । न्यायविरोधोऽपि नात्रोपपद्यते । अरूपवत्सूत्रे तन्मतानुसारेण "अस्थूलमनणु" "अशब्दमस्पर्शमरूपमव्ययम्" "दिव्यो ह्यमूर्तः पुरुषो स बाह्याभ्यन्तरो ह्यजः' इत्यादिश्रुतिषु रूपाभाव एव व्यासोऽभि- प्रेयात्तदा मतुपं विनापि बहुव्रीहिणाऽरूपशब्दादेव तादृप्रतीतिसौकर्याच्छ्रुतिसामानाधिकर- ण्याचारूपमेवेत्येव ब्रूयात् । अत एवम्वदता श्रुतौ रूपवद्वैलक्षण्यमेवाधिक बोध्यते, न तु रूपाभावः । दिव्यो ह्यमूर्त इत्यत्रापि मूर्तामूर्तवैलक्षण्यमेव बोध्यते । पुरुषत्वादिकथनाच नाकारनिषेधः । अरूपवदित्यादिसूत्राणां तात्पर्य त्वग्रे वक्ष्यमाणत्वान्नात्र विस्तरः । एवमेव प्रकृत इत्यादिसूत्रेऽपि विषयवाक्योक्तमूर्तामूर्तलक्षणरूपद्वयप्राप्तरेकतरवैयर्थ्यात् , तत्र प्रकृते ब्रह्मणि प्रकृत्य ब्रह्मणो मूर्तामूर्तमात्रतानिषेध एव सूत्रकाराशयः । उभयविलक्षणस्यैव ब्रह्मणोऽङ्गीकारात् । तत्र श्रुतिं प्रमाणयन्ति–सर्वानित्यादि । प्राणिनां सर्वान् पाप्मनः सेवाप्रतिबन्धान् औष- स्वप्रमेयबलेनेत्यर्थः। तस्माद्धेतोः पुरुषो नारायणपदवाच्यो भवतीत्यर्थः। ननु प्रजापतित्वप्रति- बन्धकारणभूतानां असङ्गाज्ञानलक्षणसर्वपाप्मनां कर्मज्ञानभावनानुष्ठानैर्दहनं श्रूयते, न तु सेवा- प्रतिबन्धकानामुद्वेगादीनाम् । तथाहि-"वैराजपदसम्प्रेप्सोर्यजमानमहाजनात् । एनांस्यौपद्यतो- ग्रेऽतः सम्वृत्तः पुरुषाभिधः। औषत्स्वां पाप्मनः पूर्व ज्ञानाद्यतिशयाग्निना। वैराजपदलिप्सुभ्यस्ते- नासौ पुरुषाभिधः । पुरुषोऽस्मीत्युपास्त्यर्थं पुरुषार्थोऽयमुच्यते । ओषतीत्युक्तितः साक्षात् गुणो- पास्तिः फलश्रवात् ।” इत्यादिभिः सुरेश्वराचार्याः प्रजापतित्वकामनया सगुणोपासनमाहुः । तेन हि भवितुमर्हति पुरुषो परं ब्रह्म वा सेवाप्रतिबन्धकोद्वेगादीनामोषिता वा, इति चेन्मैवम् ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सहस्रपात्" इत्यादिश्रुतिभिः पुरुषत्वस्य निगमनात् । श्रुतौ सहस्रशब्दोऽन- न्तवचनः। अन्यथा शीर्ष्णः सहस्रत्वे चक्षुपोर्द्विसहस्रत्वापत्तेः । प्रयोगप्राचुर्याच्चात्मसामान्ये तस्य शक्तेरावश्यकत्वेन तत एवोपपत्तेन विष्णौ विशिष्यशक्तिः कल्पयितुं शक्या बर्हिराज्याधिकरण (१-४-८) विरोधात्। नामधेयपादे “बर्हिराज्ययोरसं- स्कारे शब्दलाभादतच्छब्दः” इत्यत्र बर्हिराज्यपुरोडाशशब्दाः शास्त्रानुयायिभिः संस्कृतेषु प्रयुज्यन्ते, इतरैस्त्वसंस्कृतेषु । तथा सति किमेषां यूपादिवत्संस्कार उत जातिरिति संशये पील्वादिशब्दवच्छास्त्रानुसारिप्रसिद्धेर्बलीयस्त्वात् संस्कारस्यैव निमित्तत्वमिति पूर्वः पक्षः । उत्तरस्तु "अन्वयव्यतिरेकाभ्यां जातरेव निमित्तता, न संस्कारस्य, व्यभिचारात्' इत्येतदुप- न्यस्येत्यर्थ इति वाच्यम् । पुरुषशब्दस्य बर्हिराज्यादिशब्दवदत्र केवलरूढत्वाभावात् । निरुक्ते "स यस्मात्पूर्वास्मात्सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः" इतिबृहदारण्यकश्रुतिरेव तत्र योगत्वं निरूपयति । न च यौगिक एवेति शक्यम् । सर्वेषां शब्दानां ब्रह्मणि रूढेः श्रीमदा- चार्यचरणैः पण्डितपुरन्दरश्रीपुरुषोत्तमपादैश्चोपपादितत्वात् । तस्याश्च शक्तिसङ्कोचोत्तरमपि "तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । विना तं पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् । भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधीति वर्तेते वासुदेवे सनातने । ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति" इत्यादिषु निरुपा- धिपदेन तदुपबृंहणादन्येषु पुरुषांशस्य हेतूकरणाच विशिष्यापि तत्रैव व्यवस्थितेः । एवं च "पुरुषौ चात्ममानवौं” इत्यभिधानस्मृतिरपि व्यावहारिकशक्तिसङ्कोचरूपेति भगवति पूर्वो- क्तवाक्यैर्विशिष्य व्यवस्थापितां शक्तिं न प्रतिबद्भुमीष्टे । किञ्च, बर्हिराज्याधिकरणेऽव्यभिचारः सिद्धान्तयुक्तिः । सा च लौकिकस्यापि पुरुषपदप्रयोगस्य वस्तुतो भगवदव्यभिचारान्न हीयते । बर्हिराज्यादिशब्दानां जातिशब्दत्वे "बर्हिषा यूपावटमसृणाति' इत्यादिवाक्योपपत्तिः फलम् । विशिष्यसंस्कारवाचित्वे चासंस्कृतेषु तृणादिषु बर्हिराज्यादिशब्दप्रवृत्त्यभावात्तेन शब्देना- नुवादाशक्त्या प्राथमिकसंस्कारानुपपत्तिः, शब्दप्रवृत्तौ संस्कारसिद्धिः, तत्सिद्धौ च शब्दप्रवृ- त्तिरित्यन्योन्याश्रयदोषः । प्रकृते तु पुरुषशब्दस्य जातिशब्दले "पुरुष एवेद सर्वम्" इत्याद्युक्तसर्वत्वादेः सर्वेष्वात्मसु प्राप्तौ महिम्नः साधारणत्वापत्त्या "एतावानस्य महिमा अतो- ज्यायांश्च पूरुषः” इतिश्रुत्युक्तपुरुषोत्कर्षासाधारण्यबाधकप्रसक्तिर्दोषः । विशिष्यभगवद्वाचित्वे च तदुपपत्तिरिति वैपरीत्यम् । किञ्चात्मशब्दोऽपि सत्त्वमूतौं विशिष्य रूढः । अन्यथा “दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान्' इत्यस्यासङ्गतत्वापत्तिः । एवं चात्मशब्दस्य विशिष्य विष्णुवाचकत्वे, आत्मपर्यायस्य पुरुषशब्दस्यापि साक्षान्नारायणवाचकत्वम् । अतः कथमपि " , किरणावल्या समेतम् । ३ न च पुरुषसूक्तस्य विराग्निरूपकत्वेन न परब्रह्मनिरूपकत्वमिति विभावनीयम् । "सहस्रशीर्षा" इत्यादिना पुरुषं निरूप्य “ततो विराडजायत" इति कथनादस्य ननु "द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इत्यनेन सर्वभूतात्मकस्य क्षरत्वेनोक्तत्वात् कूटस्थस्य चाक्षरपुरुषत्वोक्त्या चात्रापि क्षरस्याक्षरस्य वा पुरुषशब्दत्वं कथं नाद्रियते । कथं वा पुरुषस्य पुरुषोत्तमस्य घटपटात्मक- जगद्रपत्वं प्रतिपाद्यते ? उच्यते, द्वाविमावित्यत्र क्षरत्वं च भगवदिच्छया प्रकृतिसंसर्गोपा- धिकृतम् । अतो जायते म्रियते इति प्रवाहो न वस्तुतः । तदेतत्स्वयं व्याचष्टे "क्षरः सर्वाणि भूतानि" इत्यादिना । ब्रह्मादिस्तम्बपर्यन्तानि व्यष्टिभूतानि जीवजडशब्दाभिलपनीयानि भगव- सच्चिदंशभूतानि चराचरत्वेन व्यपदिश्यमानानि । क्षरः पुरुषः । “आब्रह्मभुवनात्” इतिवा- क्यात् । अत्रैकत्वनिर्देशो व्यष्टीनां समष्टयैक्याशयेन । अचित्संसर्गोपाधिना वेति केचित् । कूटस्थो मूलभूतः सच्चिदानन्दात्मा भगवद्धामादिपदवाच्योऽपि स महदादि सृष्ट्वा कूटे भूतस- मुदाये तिष्ठतीति वा मूर्धन्यमणिरिव । "अविनाशी वा अरेऽयमात्मा” “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इत्यौपनिषदज्ञाने साक्षात्कृतो योऽक्षरः स पुरुष उच्यते । भगवद्धर्माणां श्रुतावुपदेशादधिदैवादिष्वन्तर्यामी भगवानेवेत्यर्थकात् । “अन्तर्या- म्यधिदैवादिषु" इत्यादिना साङ्ख्यमतं निराकृत्योक्तन्यायेन जीवान्तर्यामीति प्राप्ते "शारीर- श्रोभयेऽपि हि भेदेनैनमधीयते” इतिसूत्रमुक्तवान् भगवान् व्यासः । एतदर्थस्तु-नेसनुवर्तते, शारीरश्च जीवोऽन्तर्यामी हि यतः उभयेऽपि काण्वा माध्यन्दिनाश्च एनं “विज्ञाने तिष्ठन्नि"त्या- दिना प्रकारान्तरेणान्तर्यामिणो भेदेनैव जीवेऽधीयन्ते । निःसन्देहार्थमुभयग्रहणम् । “यो विज्ञाने तिष्ठन्” इति काण्वाः । “य आत्मनि तिष्ठन्" इति माध्यन्दिनाः । विज्ञानात्म- शब्दयोः शरीरपरत्वेन तयोर्मेदस्य स्पष्टत्वादिति भावः । एतेन शारीरो जीवः । अन्तर्याम्य- क्षर इति सिद्धम् । तथाच क्षराक्षरपरत्वेन पुरुषोत्तमस्य प्रतिपादिका श्रुतिः। “यत्तदद्रेश्यमग्रा- ह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म, तदव्ययं परिपश्यन्ति धीराः" इत्युक्त्वा “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति, यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्" इत्यक्षरस्वरूपं निरूप्य "अक्षरा- त्परतः पर" इत्युक्तम् ।क्षरात् परोऽक्षरात् परः पुरुषोत्तम इत्यर्थः । तेन परत्वोपपादनेन स्पष्टं पुरुषोत्तमस्वरूपमुदितम् । तेनाक्षरस्य ब्रह्मत्वं तस्मात्परब्रह्मत्वं पुरुषोत्तमस्येति । किञ्च "तद्वै- तदक्षरं ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्खम्" इत्यादिनाऽक्षरस्य ब्रह्मत्वं श्रुतौ निरूपितम् । mpोत तानिरस्तम। मखरातरूपमाह-लत्तमः परुषस्त्वन्यः" इति।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- विराड्जनकत्वम् , न तु विराड्रपत्वमिति यथा तथोपपादितं पीयूषलहाम् । अथवा पूर्षु सकलप्राणिशरीरेषु शेत इति पुरुषः । नेदं शयनं निद्रारूपमिति शक्यम् । तस्य सम्भोगार्थकत्वस्य द्वितीये “भूतैर्महद्भिर्य इमाः" इति श्लोक- यद्वा, नन्वक्षरपरमपुरुषोत्तमयोरपि को विशेषस्तत्राह परमात्मेति । परमश्वासावात्मा चेति गङ्गाध्यात्मदेवतयोरिव (सिद्धान्तमुक्तावल्युक्तप्रकारेण) तयोः स्वरूपमिति तात्पर्यम् । तथाच क्षराणि प्रकृतिकार्याणि तत्सम्बन्धी क्षरः, तदुत्कृष्टोऽक्षरः, तदुत्तमः पुरुषोत्तमः श्रीकृष्ण इत्यर्थः । एतदेवाष्टमाध्याये “अव्यक्ताद्यक्तयः सर्वाः' इत्यादिना । क्षरस्वरूपं निरूप्य “परस्तस्मात्तु भावोऽन्यः” इत्यादिना अक्षरब्रह्मस्वरूपमुक्त्वा “पुरुषः स परः पार्थ" इत्यादिना पुरुषोत्तमस्वरूपं निरूपितमित्यलं विस्तरेण । शङ्कराचार्यमतं खण्डयन्ति नचेत्यारभ्य पीयूषलहर्यामित्यन्तेन । अर्थान्तरमाहुः--अथवेति । पूचिति । शेते निरोधं सम्पादयतीत्यर्थः । “निरोधोऽ- स्थानुशयनम्” इति वाक्यात् । अत एव शयनस्य निद्रारूपत्वं निषेधयन्ति - नेदमित्या- दिना । “शयानो याति सर्वतः” इति श्रुतेः, शयानस्य सर्वत्र गमनमुक्तमतो नेदं शयनं निद्रारूपं सम्भवतीत्यर्थः । श्रीसुबोधिनीमुदाहरन्ति-तस्येत्यारभ्योपदिष्टत्वादित्यन्तेन । तथाहि “भूतैर्महद्भिर्य इमाः पुरो विभुनिमय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान्वचांसि मे” (२।४।२३) भूतैर्महद्भिः पञ्चमहाभूतैः स्वनि- मितैरेव । इमाः देवतिर्यङ्मनुष्यादिरूपाः । अमूषु पूर्षु शेते । अन्यथा स्वस्य पुरुषत्वमेव न स्यात् । षोडश गुणान् , षोडशात्मको भगवान् भुते । "इदं हि शयनं न निद्रारूपं किन्तु सम्भोगार्थमेव" इदंच शयनं भगवन्माहात्म्यस्य सर्वत्र पूर्णत्वबोधनायैवेति बोध्यम् । ननु शयनस्य निरोधार्थकत्वमनुपपन्नम् “निरोधोऽस्यानुशयनम्' इत्यत्र निरोधार्थ- कस्यानुशयनरूपेणोक्तत्वात् , इति चेन्न, शयनस्य "इदं हि शयनं न निद्रारूपं किन्तु सम्भो- गार्थमेव" इति श्रीसुबोधिनीवाक्यानुरोधेन सम्भोगार्थकत्वेनोक्तत्वात् । सम्भोगश्च स्वस्थित- रसाविर्भावेन भेदरूपमात्मानं विधाय अन्योन्यस्य रसानुभवः । अत एव "स्थिति गश्च सर्वत्र भगवत्कृतकौ यतः" इत्यत्रापि स्थितेर्भोगस्य च सहोक्त्या भगवत्कृतकत्वोक्त्या च शयन- मित्यस्य सम्भोगार्थ स्थितिरेवेत्यर्थः स्वीक्रियते । स्थितिरपि स्वशक्तिभिरेव यदा भवेत्तदैव रसाविर्भावः । अत एव "निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः” इत्ययमेव निरोधो "प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिः” इति कथ्यते साम्प्रदायिकैः । “या तु व्यसनसम्प- त्तिनिरोधः स तु कथ्यते” इति भरताचार्याः । व्यसनस्य तु कृतार्थकत्वं उच्यते किरणावल्या समेतम् । सुबोधिन्यां श्रीमदाचार्यचरणैरुपदिष्टत्वात् । तथा च-"नवद्वारं पुरं पुण्य- मेतैर्भावैः समन्वितम् । व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते' इति भारतीयशान्तिपर्ववाक्यात् । अथवा पूर्णत्वाद्वा पुराणत्वाद्वा सदनाद्वा पुरुषः "पूरणात्सदनाचैव ततोऽसौ पुरुषो मतः" इति भारतीयोद्योगपर्ववचनात् । नारायणभिन्नानां परत्वपरिहारायाग्रिममाह-नारायण इति । नराणां स्फुटमेव । “नारायणे कमलवत् स्थायिभावात्मके स्वस्मिन् विचित्रान् भावानुत्पाद्य ब्रह्मवत्तादृशं कञ्चन प्रचरं भावमुत्पादितवान् येन तल्लीलाविवरणात्मकमखिलरसात्मकं जगदा- विरभूदिति तेन शयनपदोक्त्या नारायणे तत्प्रसिद्धमिति" इति श्रीमत्प्रभुचरणा आज्ञाप- यामासुः। शयनशब्दस्य भावार्थकत्वपक्षे शय्यते स निरोधः । करणपक्षेऽपि शय्यते शक्तिभि- रिति निरोधः । तथाचात्र लिङ्गोपहितलैङ्गिकभानवत् करणोपहितैव क्रियोच्यते, क्रियोपहितं वा करणमिति व्युत्पत्तिद्वयेऽप्यदोषः । करणोपधानं तु द्वितीयसुबोधिन्यां "शक्तीः शाययित्वा तद्भोगार्थं स्वस्य शयनम्" इत्याहुः श्रीमदाचार्यचरणाः । शयनाधिकरणसकलप्राणिशरीरस्य पूर्वाच्यत्वे किं मानमित्यत आहुः-नवद्वारमिति । श्रीमद्भागवतेऽपि “यदा जिघृक्षन् पुरुषः कात्स्येन प्रकृतेर्गुणान् । नवद्वारं द्विहस्ताचि तत्रामनुत साध्विति" इत्यत्र प्रदर्शितम् । पुरुषो हि नवद्वारे पुरे सुप्त्वा नैर्गुण्यं सम्पादयति । तस्यैव पुरुषस्य पूर्णत्वं सर्वाधारत्वं चाहुः-अथवेति । “पूर्णमदः पूर्णमिदं पूर्णात्पूर्ण- मुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते” इति श्रुतेः। महाभारतमुदाहरन्ति-पूरणा- दिति । ननु नारायणस्यैव 'पूर्णत्वं पुरुषोत्तमत्वं च कथमुच्यतेऽन्यत्राक्षरब्रह्मवाचित्वादित्यत आहुः-नारायणभिन्नानामिति । नहि नारायणात्परः कश्चिदस्तीत्यर्थः । ननु प्रश्नोप- निषदि परापरे द्वे ब्रह्मणी अङ्गीकृत्य, यदविद्याकृतनामरूपादिविशेषप्रतिषेधेनास्थूलादिशब्दैर्ब्रह्मो- पदिश्यते तत्परम् , यत्पुनर्नामरूपविशेषाणां केनचिद्विशिष्टोपासनयोपदिश्यते तदपरमतोत्रापि नारायणस्य नामरूपादिविशिष्टत्वादपरं ब्रह्माक्षरं ब्रह्मैवोच्यतामिति चेत् न; नारायणस्य पुरुष- वोक्तेः “पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः" इति श्रवणाच्च परमकाष्ठापन्नः श्रीकृष्ण एव नारायणादिपदवाच्यो नाक्षरं ब्रह्म । नारायण इतीति । नरन्ति पूर्वपुरुषानुत्तमां गतिं प्रापयन्ति ते नराः भक्ताः । भक्त एव स्वपूर्वजानुत्तमां गतिं प्रापयति इति भागवतादिषु स्पष्टमेव । नराणां समूहो नारम् । तस्य समूह इत्यण् । तत्सर्वमयते प्रविशति यमिति श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- , भक्तानां समूहो नारम् , तत्सर्वमेवायते प्रविशति यमिति नारायणः । “भत्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्” इति गीतावाक्यात् । न च "आपो नारा इति प्रोक्ता आपो वै नरसूनवः।" इत्यत्रोक्तं नरभूजलायनत्वमत्र शक्यम् । नरभूजलायनस्यैतस्या- विग्रहः । भक्तानां प्रवेशे किं मानमित्यत आहुः-गीतावाक्यादिति । वाक्यार्थस्तु तत्त्वदीपिकायां श्रीवल्लभा आहुः भत्त्येति । स मदीयया भक्त्या निर्गुणया निर्गुणविषयकत्वात्परया मामेकं निर्गुणं पुरुषोत्तममभिजानाति तत्त्वतः यावान् यश्चास्मीति यादृशैश्वर्याधनन्तालौकिकगुणविशिष्टो यादृशलीलापरिकरसहितः, प्राकृतगुणसृष्टिरहितो ब्रह्म- परमात्माभगवानितिभेदेन ततो नामविस्तृतोऽस्मि यथा तथा मामभिजानाति एवमभिज्ञानमुक्तं भागवतचतुःश्लोक्यां “यावानहं यथाभावो यद्रूपगुणकर्मकः” इत्यादि तदनन्तरं तत्त्वतो मां पुरुषोत्तमं ज्ञात्वेत्यनुवादः। तत्त्वतो वा पुरुषोत्तमं मां विशते । प्रवेश एव फलम् । “निर्गुणा मुक्तिरस्माद्धि सगुणा सान्यसेवया” इति निबन्धे, “अलौकिकसामर्थ्य सायुज्यं सेवोपयोगिदेहो वा वैकुण्ठादिषु" इति सेवाफले च निरूपितम् । अथवा आविशते पुरुषोत्तमाविष्टो भवति । अत एवोक्तमाचार्यैः सुबोधिन्यां "शुको भावनया गोकुले स्थित्वाह य एतदिति स भगवानिति' च" । तेन ब्रह्मभूतोऽपि शुकः श्रीपुरुषोत्तमभक्तितत्त्वज्ञानतः पुरुषोत्तमाविष्ट एव तल्लीला- मध्यपाती भवतीत्यवसीयते । तदनन्तरं तेन नान्तरं भेदो यथा भवति तथेति वा । तथा च श्रुतिः "ब्रह्मविदाप्नोति परं यदक्षरे परमे व्योमन् यो वेद निहितं गुहायां सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति । एतेनाक्षरमार्गात् भगवन्मार्गे वैलक्षण्यं, यत्र भग- वानेव प्रमाणं प्रमेयं चेति दर्शितम्" इति । अथवा नराणां भक्तानां समूहो नारम् , तदयते जानाति सर्वसाक्षिकत्वादित्यर्थः। नारम् अयते प्रवर्तयति सर्वप्रवर्तकत्वादिति वा । अय गतौ । कृत्यलुटो बहुलम् इति ल्युट् । नराजातानि तत्त्वानि तत्समूहो नारम् तदयते जानाति आययति प्रवर्तयति वा । नरस्य भक्तसमूहस्य अयनं पन्थाः भक्तानां भगवदेकपरत्वादिति भावः । नारायणस्य सर्वेश्वरत्वं ब्रह्मणैवोक्तम् । तथाहि “नारायणस्त्वं नहि सर्वदेहिनामात्मास्य-. धीशोऽखिललोकसाक्षी"इति । आत्मा हि सर्वभूतेषु तिष्ठति "अहमात्मा गुडाकेशः सर्वभू- ताशयस्थितः" इति गीतास्मृतेः । तेन नारम् जीवसमूहो अयनं यस्येति पुरोदीरितव्युत्पत्त्या नारायणः सर्वात्मेति बोध्यम् । प्रवर्तनत्वसाधको हेतुरत्रैव ब्रह्मवाक्ये अधीशेति किरणावल्या समेतम् । गरूपत्वात् । तद्रूपस्यापि प्रदर्शनमात्रपरकत्वाच । अन्यथा “तचेजलस्थम्" इति भागवतवाक्यविरोधापत्तेः । अस्य तु “सर्वे वेदा यत्पदमामनन्ति" इति श्रुतिप्रकटितपरब्रह्मत्वस्य “नारायणपरा वेदा देवा नारायणाङ्गजाः । नारा- यणपरा लोका नारायणपरा मखाः । नारायणपरा योगा नारायणपरं नरभूजलायनस्य तदङ्गत्वेनावधारणत्वात् । तथा च तत्रैव ब्रह्मवाक्यम् "नारायणोऽङ्गं नरभूजलायनात् तचापि सत्यं न तवैव माया" इति । विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः । प्रथमं महतः स्रष्ट्र द्वितीयं त्वण्डसंस्थितम् । तृतीयं सर्वभू- तस्थं तानि ज्ञात्वा विमुच्यते" इति वाक्यान्नारायणो नरभूजलायनो हि पुरुषस्य परब्रह्म- णोऽङ्गमेव । किञ्च नारायणशब्दो वस्तुतस्तथा न व्युत्पन्नः, यतो जलवासस्य प्रदर्शनपर- त्वात् , नद्यवस्तुना शब्दो व्युत्पद्यते, अन्यथा रजतदाने शुक्तिकामपि दद्यात् , अतो जल- स्थितेः प्रदर्शनमात्रपरत्वात् तेन न नारायणयोगार्थः सिद्ध्यति । तदेतजलाधिकरणत्वं न सत्यं किन्तु माययैवेत्येतत्प्रदर्शयन्ति-अन्यथेत्यादिना । “तच्चेजलस्थं तव सत् जगद्वपुः किं मे न दृष्टं भगवस्तदैव । किंवा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि" इति तुरीयप्रस्थानवाक्यविरोधः स्यादित्यर्थः । एतदुपनिषत्प्रतिपाद्यस्य भगवतो नारायणस्य परब्रह्मत्वे श्रुतिभागवतप्रमाणमाहुः-अस्य त्विति । ननु सर्वैरपि वेदैर्न नारायण एव वेद्यः, वेदेषु सकलपदार्थस्य निरूपणादिति चेन्न “वेदैश्च सर्वैरहमेव वेद्यः” इति गीतावाक्यविरोधात् । ब्रह्मवादेऽग्निसोमसूर्यवाविन्द्रादीनां भगवदन्तर्यामित्वेन भगवद्रूपत्वात्तत्प्रतिपादनपरो वेदो भगवत्त्वमेवाह सर्वस्य । नहि नारायणात्परं किञ्चिदस्तीति वाच्यम् । पदार्थजातानां नारायणपरत्व- मेव श्रीभागवते प्रतिपादितत्वात् । तदेवाहुः-नारायणपरा इति । वेदाः शब्दतोऽर्थ- तोऽभिधानतश्च भगवत्पराः । तत्र वेदानां भगवन्निश्वासान्निर्गतानां पुनस्तत्रैव प्रवेक्ष्यमाणानां भगवति नारायण एव तात्पर्यमिति निर्विवादम् । मध्येऽपि ते स्वार्थ प्रत्याययन्तस्तदर्थस्य भगवद्रूपत्वाद्भगवत्परा एव भवन्ति । ननु वेदानां विध्यर्थवादमत्रनामधेयात्मकत्वान्न तेषां भगवति तात्पर्यम् । तत्र विध्यर्थस्य पुरुषप्रयत्नप्रेरणालक्षणस्य पुरुषप्रयत्ने तात्पर्यम् । पुरुष- प्रयत्नाभिव्यङ्गयभावे वा। विधेयार्थस्तवने त्वर्थवादाः । मन्त्रा अपि याज्याव्यतिरिक्ता देवता- प्रतिपादनस्तुत्यादावुपयुक्ताः । याज्यास्तु देवतोद्देशेन द्रव्यत्यागे । नामधेयान्यपि धात्वर्थाव- च्छेदेन तात्पर्ययुक्तानि । तस्मात्तदर्थे उपक्षीणानि कथं भगवति तात्पर्यमावहन्ति तत्राह भगवान्बादरायणः-देवा नारायणाङ्गजाः, नारायणपरा लोका नारायणपरा .

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- तपः। नारायणपरं ज्ञानं नारायणपरागतिः।” इति द्वितीयस्य पञ्चमे व्यासेन स्फुटमुक्तत्वात् । श्रीमदाचार्यचरणैस्तत्र तथैव विवृतत्वाच । किञ्च “युवां श्लाध्यतमौ नूनं देहिनामिव मानद । नारायणेऽखिलगुरौ यज्जाता मतिरीदृशी” इति श्लोकसुबोधिन्यां "अयं हि नारायणो मूलपुरुषः, तु न व्यापारः । यागेनाजन्यत्वात् , कल्पनायां मानाभावात् , दृष्टस्य व्यापारस्य विद्यमान- त्वाच । ते हि देवतोद्देशेन द्रव्यत्यागं कुर्वन्तः स्वर्ग साधयन्ति । देवता च विधिहुतं हवि- रादाय किञ्चिदुपकरोति । अन्यथा देवतोद्देशेन द्रव्यत्यागो यागो न भवेत् । द्रव्यसंस्कार- कत्वेनापि देवतोपयोगस्य वक्तुमुचितत्वात् । निर्वापादारभ्य तत्सम्बन्धवचनस्य च प्रोक्षणा- दिवत्संस्कारपरत्वं घटते । न च प्रीतिर्व्यापारः । सा हि अन्यधर्मवती स्वर्ग न साधयति । देवता तु स्वर्गादावधिकृता फलं दातुं शक्नोति । अतो द्रव्येण प्रीता देवता व्यापारः । सा च नित्या चेतना च । यथानुरूपं फलं नियमयितुं शक्ता । किन्तु तस्या अपुरुषार्थत्वात्पुरुष- स्याभिप्रेता न भवति । अतो न तावता यागस्यान्यथासिद्धिः । अतो मध्ये व्यापाररूपदेव- तापरत्वेऽपि भगवत्परत्वम् । यतो देवा नारायणस्याङ्गेभ्यो बाह्वादिभ्यो जाताः । न ह्यङ्गसे- वार्थं प्रवृत्ता अङ्गे तात्पर्ययुक्ता भवन्ति, किन्त्वङ्गिनि । किञ्च यत्र देवता व्यापारत्वेन गृहीता स स्वर्गादिरुद्देश्यो भवति । तस्य लोकत्वे “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्' इति वाक्यात्सुखत्वे वा भगवदीयत्वं न व्यभिचरति । स्वर्गादीनां "हृदा स्वर्गादिलोकः" इत्यादिना तदवयवत्वेन प्रतिपादनात् । योगो हि चित्तवृत्तिनिरोधात्मकः । न हि योगो नाम कश्चित्पुरुषार्थस्तस्य पुरुषार्थसाधन- रूपत्वात् । न चाणिमादिसिद्धीनां योगस्य फलत्वेनोक्तत्वात् योगस्य नारायणपरत्वं नास्तीति वक्तव्यम् । मोक्षपर्यवसायित्वाभावेऽशास्त्रत्वापत्तेः । अतो योगो भगवति चित्तैकाग्यं साध- यित्वा नारायणपरो भवतीत्यवधेयम् । तपस्तु भगवदुपयोगि देहेन्द्रियसम्पादकत्वेन तत्पर- मेव । अन्यथा क्लेशात्मकस्य तस्य पुरुषार्थपर्यवसानं न स्यात् । ज्ञानं द्विविधम् । औपनि- पदं साङ्ख्यसिद्धं च । तच्च यद्यपि परस्पर विरुद्धम् । तथापि ज्ञानस्य ज्ञेय एव तात्पर्यम् । ज्ञेयस्तु न हि भवितुमर्हति नारायणादन्यः कश्चित् । श्रुतिविरोधापत्तेः । आत्मत्वात्सर्वत्वा-- ब्रह्मत्वाच्च । गतिरपि भगवत्परैव । सा हि ब्रह्मज्ञानफलं भवति । विस्तरस्तु श्रीसुबोधिन्यां तत्प्रकाशे च द्रष्टव्यः ।

किरणावल्या समेतम् । नारायणशब्दोऽत्र पुरुषोत्तमवाची" इति फकिकयाऽस्य मूलपुरुषत्वं श्रीमदा- चार्यचरणैर्व्यक्तमाज्ञाप्यते। ननु नैवं वक्तुं युक्तम् , “अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः। एक- स्तद्वेद भगवान्धाता नारायणो विभुः । नारायणाषिगणः” इत्यादिमोक्ष- धर्मीयवाक्यैर्नारायणस्य सर्वज्ञानिमुख्यत्वस्य परब्रह्मवित्त्वस्य प्रतिपादनादीश्व- राञदस्य च कथनान ब्रह्मत्वमिति चेत् ; अत्रेदं तत्त्वम्-तत्र नारायणपदस्य "आपो नारा इति प्रोक्ताः” इति वाक्यविषयत्वम् , धातृपदविशेषितत्वात् । , , मिति चेत् ? उच्यते, न ह्यत्रोद्धवेन केवलं पुत्रत्वमुच्यते, किन्तु नारायणे प्रेमातिशयो कथ्यते । तत्र नारायणशब्देन पुरुषोत्तम एवाभिप्रेत इत्यत आहुः-श्रीमदाचार्यचरणै- य॑क्तमाज्ञाप्यत इति । ननु कथमयं नारायणशब्दो पुरुषोत्तमवाचको भवति , अन्यत्र तु नारायणस्याक्षरत्वमु- च्यत इत्यत आह उद्धवः-अखिलगुरौ । अयं हि नारायणो अखिलानां चराचराणां गुरुः प्रकाशकः “गुशब्दस्त्वन्धकारे स्याद्रुशब्दतन्निरोधकृत्” इति वाक्यात् । यद्वा गृनिगरणे इत्यतः "कृग्रोरुच" इत्यौणादिके गिरति भक्तानामज्ञानं भक्षयतीति गुरुः । गृशब्दे इत्यतश्च गृणात्युपदिशति स्वस्वरूपमित्यर्थः । तेन प्रमाणरूपोऽपि भगवानेव । त्यादिगणीय गृशब्दे' इति धातोरौणादिके प्रत्यये कृते अखिलोपदेष्टुत्वान्नारायणादन्यस्य वेदवत्तृत्वं नास्तीत्यवधे- यम् । अतः सर्वशास्त्रार्थरूपे प्रमेयबलवति यद्यस्मात्कारणादेतादृशी मतिः कृता इति सम्बन्धः। नन्देन देवोत्तमत्वं तूत्कटकोटिकत्वाज्ज्ञातमेव, तस्मादसम्भावना न भविष्यतीति मनसि कृत्वा पुरुषोत्तमत्वं ज्ञपितवानुद्धवः । श्लाध्यतमत्वविशेषणेन भक्तरधिकं कर्तव्यं नास्तीति द्योत्यते । अखिलगुरुत्वकथनेन मूलपुरुषत्वमपि स्फुटीभवति । “सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकर्मणे । नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे" इति मन्त्रेऽपि 'गुरवे' इत्यनेन विद्यादातृत्वात्स्व- खरूपप्रकाशकत्वाच्च श्रीकृष्णस्य मूलरूपत्वम् । ननु गुर्वाचार्यादयः शब्दा विद्वत्सु प्रयोज्याः, आचार्यादिशब्दानां प्रवृत्तिनिमित्तकस्य विद्याया एव सत्त्वात् , इति चेच्छृणु, “त्वं हि नः "पिता योऽविद्यायाः पारं तारयसि", "ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्', "विद्याविद्ये मम तनू” इत्यादिश्रुतिस्मृतिवाक्येभ्यः श्रीकृष्ण एवाखिलगुरुरिति सिद्धम् ॥ नारायणस्येश्वराद्भेदमधिकृत्य शङ्कन्ते-नन्विति। समादधते-अत्रेदं तत्त्वमिति । धातृपदविशेषितत्वादिति । 'डुधाञ्' धारणपोषणयोः इति धातोस्तृचि रूपम् । अत्र हि धारणं धात्वर्थः । तेन सर्वाधारकत्वं धातृशब्दार्थः । तच्चाक्षरब्रह्मण एव सम्भवति । “दृश्य- " , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- अत्र तु "एको ह वै नारायण आसीन ब्रह्मा नेशानो नापो नाग्नीषोमौ" नारायणस्य मूलपुरुषत्वं प्रमाणपरम्परया प्रतिपादयन्ति-अत्र त्वित्यादिना । एक इति । "एकमेवाद्वितीयं ब्रह्म' इतिश्रुतेः । न ब्रह्मेति । ब्रह्मा नासीदित्यर्थः। “नारायणाद्ब्रह्मा जायते" इति वक्ष्यमाणत्वात् । तेन नारायणादेव नाभिजन्मनः प्रादुर्भवनोक्त्या "धाता यथापूर्वम- कल्पयत्" इति श्रुतिः स्रष्टुर्नाभिनालजातस्य जगत् कारणे प्रमाणमित्यपि न वाच्यम् । श्रुति- रियं "ऋतं च सत्यं चाभीद्धा" इत्यारभ्य विधेर्विष्णोः प्रादुर्भावं प्रतिपाद्य तस्य च तपश्चरण- मुक्त्वा सृष्ट्यर्थं प्रवृत्तिराह "धाता यथापूर्वम्" इत्यंशेन । ननु वेधसो विधानं विश्वहेतुत्वे । अत्रैव ब्रह्मणः पूर्वं ज्ञानाभावे "भगवन्सर्वभूतानामध्यक्षोवस्थितो गुहाम्" इत्यादि तत्कृत- विज्ञापनयाविर्भूतेन भगवता सप्तश्लोक्युपदिष्टा । तत्रैव नारायणस्य मूलपुरुषत्वं ब्रह्मेशानयोश्च तदंशत्वं च निरूप्यते "अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् । पश्चादहं यदेतच योऽवशि- ध्येत सोऽस्म्यहम्" इत्यनेन । अत्रैव सुबोधिन्यां श्रीमन्महाप्रभुपूज्यपादाः “यादृग्रूपं भग- वान् जगत्करोति तच्छिक्षायां प्रार्थितम् । तत्राह । अहमेव तद्रूपो जातः नान्यदिति । अन्यथा भानं च मन्माययेति । जडे देहादौ मध्ये जीवप्रतीतिश्च घटादावाकाशप्रतीतिवत् । आधाराधेयभावो बाह्याभ्यन्तरभेदहेतुश्चाहमेवेति । स्वरूपतो मूलभूतं जगत् , प्रतीतितो माया- रूपं, अनुप्रवेशको जीव इति सर्वं जगत्प्रकारेणाहमेवेति ज्ञात्वा स्वरूपमपि तथा ज्ञातव्यम् । इयमेव शिक्षा । एवं मद्रपो भूत्वा मद्रूपं चेन्जगत्करोति तदा गर्वो न भवतीति तद्धेतुभूतो मोहोऽपि न भवतीति पञ्चानां श्लोकानामर्थः। तत्र सर्व जगत्कथं भगवानित्याकाङ्क्षायां तज्जला- निति हेतुं विस्तरेण वदति । सृष्टेः पूर्व अहमेव । “एको नारायण आसीन्न ब्रह्मा नच शङ्करः" "वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः” इति श्रुतेः सृष्टेः पूर्वमहमेव । किञ्च, मत्तो- ऽपि पूर्वमिति नाशङ्कनीयम् । यथा जगतः पूर्वमहं मत्तोऽपि पूर्वमदन्यदिति, तदैवं भवेत् , यदि कदाचिदप्यहं नासम् । तत्तु मम न सम्भवति । सद्रूपेणैव निरूपणात् । “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इतिश्रुतेरासमेव । अग्रे सृष्टेः पूर्वम् । “असद्धा इदमग्र आसीत्ततो वै सदजायत" इत्यादीनां पश्चात्प्रतीयमानस्य जगतः पूर्वमेतादृशरूपेणानवस्थितित्वप्र- तिपादकत्वात् । अन्यथाऽसतः सत्ताबोधकत्वे विरोधः "नासतो विद्यते भावो नाभावो विद्यते सत" इतिवाक्यात् । “नासदासीन्नो सदासीत्तदानीम्" इत्यादेस्तु स्थूलसूक्ष्मकार्यपरत्वम् । आपो वा इदमग्रे सलिलमासीत्" इतित्ववान्तरकल्पाभिप्रायेण । आपो नानाविधानि जलानि इदं तत्कार्यं च जगत्सर्वं सलिलं प्रलयोदकरूपमेवासीदित्यर्थः । “अव्यक्तादीनि भूतानि" किरणावल्या समेतम् । तस्याः कार्यैकोन्नेयस्वरूपाया अभावात् । एवमन्यान्यपि वाक्यानि तत्तद्भावप्रकारेण बोध- यन्ति पूर्वमेकरूपे भगवति न बाधकानि भवन्ति । अत एव श्रुतिसिद्धत्वादन्यानि तत्काले निषेधति-नान्यदिति । सदसतोः श्रुतौ पूर्वसिद्धत्वेऽपि न तयोरन्यत्वम् । तदाह-सदस- दिति । सच्छब्देनासच्छब्देन च ब्रह्मवोच्यत इत्यर्थः । “योऽस्मात्परस्मात्परः” इति परश- ब्देनापि न कालादिरुच्यते, किन्त्वहमेव । तस्मात्पूर्वमहमेवेति सिद्धम् । अमावास्त्वस्मन्मते तिरोभावातिरिक्ता न भवन्तीति । तस्य च भगवच्छक्तित्वात् । पूर्ववद्वेति न्यायेन शक्तिधर्मा- णामपि तदोगतत्वाभावेन कालस्यापि निरूपणसमय एव तथावचनात्प्रकृतितुल्यत्वेन भग- वानेक एव सिद्ध इत्यविवादम् । किञ्च । पश्चादहं, सर्वभवनसमर्थरूपत्वादेव चेष्टावत्या- दुर्भावः कालस्य पश्चाद्गुणरूपेण शक्तिरूपेण च पश्चात्कार्यरूपेण "स आत्मान स्वयमकुरुत" इतिश्रुतेः । असतः सत्तानङ्गीकाराच । यदेतदिति परिदृश्यमानं सर्वम् । चकारादपरिदृश्यमा- नमप्रसिद्धं च । अनेन जीवा अपि सङ्गृहीताः । त्वमेतचेति पाठे जीवजडात्मकं सर्वमहमेवे- त्यर्थः । अयं मुख्यो ब्रह्मवादः । ननु पदार्थविरोधे शब्दो न प्रमाणम् , भगवांश्च सर्वदोषर- हितः, विकारादयश्च दोषाः, सर्वशब्दे सङ्कोचाभावादुपदेश्याभावः शास्त्रोच्छेदश्च, प्रयोजना- भावात् । हिताकरणादिदोषप्रसक्तिः । पुरुषोत्तमत्वाभावश्च । तस्मादनेकदोषदुष्टत्वाद्ब्रह्मवा- दोऽनुपपन्नः, इतिचेत् , मैवम् , "प्रत्यक्षादृष्टविषये पदार्थाः श्रुतिबाधिताः। परस्परं विरुद्धास्ते नैकशेषं भजन्ति हि । उभयोवैदिकत्वेन कः स्यादन नियामकः । विचारकाणां बुद्धिस्तु सोपजीव्या श्रुतेः सदा । क्रियाविद्यापरत्वे तु विकल्पेनैकवाक्यता । दुष्टोऽप्याश्रीयते पक्षो विकल्पाख्यः श्रुतेर्बलात् । तथैव भगवद्रूपं यथा हस्तादयः पृथक् । यथा सर्वाविरोधः स्यात्त- थैवात्र विचारणम् । सर्वरूपसमर्थत्वमतो ब्रह्मणि गीयते । अन्यथा प्रतिमानं यदुच्चनीचादि- भेदतः । तद्भानं तस्य कर्ता च हरिव तथाविधः । यत्किञ्चिद्दूषणं त्वत्र दूष्यं चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभते ॥ योऽवशिष्येत सोऽस्म्यहमि"ति । उद्भूतस्य तस्य तिरोभावप्रापणे यत्तिरोभूतं न भवति, तिरोभावस्तदाश्रयो वा अंशभेदेन वा तदप्यहम- स्मीत्यनेन सर्वा एव क्रियास्तद्विवयश्चाहमिति ज्ञापयति ॥” इत्याज्ञापयामासुः । महाभार- तेऽपि "मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजस्वयम् । ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमम् । मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च" इति वाक्यात् तत्सृष्टित्वेन तदधीनत्वम् । एवं भागवते नारायणेन स्वयमेव स्वस्य मूलपुरुषत्वेन प्रतिपादनात् भारतवाक्ये च नारायणादेव ब्रह्मणः प्रादुर्भावकथनाच तस्य मूलपुरुषत्वशङ्का परिहृता बोध्या । नेशानेति । ईशानः शिवोऽपि न मूलकारणम् । नच "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्" इत्युक्त्या तस्य मूलपुरुषत्वमिति वाच्यम् । “नारायणाद्रुद्रो जायते' इति वक्ष्यमाणत्वात् । “एको , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- MER . , भ्रुवोर्मध्यात्प्रजापतेः । सद्योजायत तन्मन्युः कुमारो नीललोहितः ॥” इत्यनेन । तत्र यदा ब्रह्मा भगवतो गुणावतारः पञ्चपर्वा विद्याधिष्ठातृदेवान् सृष्ट्वा तां पापीयसी सृष्टिं दृष्ट्वा स्वात्मानं निन्दितवान् । पुनर्भगवद्ध्यानपूतेन मनसा पूर्वस्माद्विलक्षणान्सनकादीन् ससर्ज । तान् स्वभुवः सनकादीन् “पुत्रकाः प्रजाः सृजत" इति बभाषे। किन्तु वासुदेवपरायणास्ते मोक्षधर्माणो यदा नैच्छंस्तदा पूर्वमविद्यासृष्ट्या खिन्नः सनकादिभिश्चाव- ज्ञातश्चक्रोध । तदा उत्पन्नः क्रोधो भगवदभीष्टकार्ये भगवदंशानुप्रवेशात् तस्मिन्कायें आधि- दैविको जातः । अत्र हि धिया मन्युनिगृहीत इत्युच्यते । क्रिया ज्ञानं चेति मनसो व्यापारद्व- यम् । तत्र ज्ञानेनैव धियो विग्रहो न तु क्रियया । स च निगृहीतो मन्युऱ्यांमध्याद्भगवदाज्ञा- चक्रस्थानात् सद्यस्तत्क्षणमेव भगवदाज्ञाकारी भगवदंशस्तद्वारा विनिर्गतः । स एव मन्युर्नी- ललोहित इति प्रसिद्धः । अत्र च कुमार इति विशेषेण कुत्सितो मारो यस्येति व्युत्पत्त्या स्वाभाविकसृष्टयुपयोगिकन्दर्पनाशकत्वं सूचितम् । नीललोहितत्वेन कळूरवर्णः सूचितः, तत्र भगवतो नीलो वर्णः, क्रोधस्य च रक्तो वर्णः, उभयमेकीभूय शङ्करस्य नीललोहितः कर्बुरो वर्ण इति ध्येयम् । स च कुमारः नामधामाभिवाञ्छन् रुरोद । अत एव तस्य रुद्रेति नामान्तरम् । "यदरोदीत्तदरोदीत्तद्रुद्रस्य रुद्रत्वम्” इति श्रुतेः । तस्मै एकादश स्थानानि रुद्राण्यश्च दत्त्वा सर्जनायाज्ञापयामास । स च रुद्रः प्रजाः ससर्ज । रुद्रस्य च मन्युजातत्वात् तत्सृष्टिरपि तादृश्येव जगद्वसन्ती समभवत् । तदा “अलं प्रजाभिः” इत्युक्त्या ब्रह्मा तं “तप आतिष्ठ भद्रं ते" इत्यादिना तपश्चरणायाज्ञापयामास । एतेनैतिह्येनेशानस्यापि मूलपुरुषत्वं नास्तीत्य- वधेयम् । स च मन्युजातस्तामसोऽशिवः शिवोः भगवत्पादतीर्थनिषेवणेन पूज्यतां गत इत्यपि भागवतवचनेन ज्ञायते । तथाहि-महोपनिषद्यपि-"तस्य ध्यानान्तःस्थस्य ललाटाव्यक्षः शूलपाणिः पुरुषो जायते” इति श्रूयते । तेनापि नास्य मूलपुरुषत्वम् । “यच्छौचनिःसृतसरि- अवरोदकेन तीर्थेन मू_धिकृतेन शिवः शिवोऽभूत्" इति वाक्यप्रतिपादितशिवस्य नारा- यणात्पूर्ववर्तित्वाभावस्तत्पादसलिलस्य धारणादेवाशिवस्यापि शिवस्य शिवपदवाच्यत्वम् । नाप इति । आपो जलानि नेत्यर्थः । “तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत्स्पर्श- वच्चाम्भो व्योमवच्च परान्वयात्" इति वाक्यात्तेषां उत्पत्तिकथनात् । नच आप्नुवन्तीत्याप इति व्युत्पत्त्या “अन्य एव पुरुषं समुद्धृत्य" इतिश्रुतेः अङ्ग्य एव पुरुषोत्पत्तिर्वाच्या । तस्य भिन्नार्थकत्वात् । तत्र च “स ईक्षत इमाँल्लोकान्नु सृजा इति । स इमाँल्लोकानसृजत ।" इत्यनेन भगवत इच्छया सर्जनमुक्तम् । “तत्राप्यम्भो मरीचीः' इत्यनेन पूर्वमम्भसां सृष्टिः । ततश्च "मोऽद्य एव परुषं समुद्धत्यामूर्च्छयत्" इत्युच्यते । तत्रायं भावः, ब्रह्मणा नारायणाझ्यः किरणावल्या समेतम् । इत्यादिमहोपनिषदुपदिष्टस्य ब्रह्मेशानाबादीनामुत्पादकस्य तेभ्यः प्राग्वर्तिनो यत्रासौ प्रतिपद्यते” इत्यनेन आपः तदिन्द्रियं तद्देवता चोच्यते । तेन नात्र पुरुषशब्दः पुरुषोत्तम- वाचक इति विभावनीयम् । श्रुत्यामपि "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाश- द्वायुः वायोरग्निरग्नेरापः” इति । विशेषस्तु पीयूषलहाँ द्रष्टव्यम् , बिस्तरभिया नात्र विस्तरः । नाग्नीषोमाविति । पौर्णमासप्रधानदेवतयोरग्नीषोमयोरपि मूलपुरुषत्वं नास्तीत्यर्थः । न च "अग्नीषोमात्मकं जगत्" इति श्रुतेरग्नीषोमात्मकत्वाज्जगतस्तदेव मूलस्वरूपमिति वाच्यम् । इयं हि श्रुती रामपूर्वतापिन्युपनिषदि श्रूयते। तत्र च “स त्वनुष्णगु विश्वश्वेदग्नीषोमात्मकं जगत्। उत्पन्नं शीतया भाति चन्द्रश्चन्द्रिकया यथा" इति सम्पूर्णा श्रुतिः । तदर्थस्तु-“स रामोऽनु- ष्णगुना चन्द्रेण सीतया विश्वो व्याप्तो विष्टितश्चेत्तदा पुम्प्रकृत्यात्मकं जगत् सिद्धम् । अथ चन्द्रेण विश्वो बिन्दुनाऽऽवेष्टितश्चेत्तदाऽनीषोमात्मकं जगज्जगद्वाचकं रामिति सिद्धम् । उत्पन्न- मिति पूर्वेण सम्बध्येत । स रामः शीतया "शीतालाङ्गलपद्धतिः । शीङ् स्वप्ने । शेते सीता । औणादिकः क्तप्रत्ययः । तज्जत्वाजनकात्मजाऽपि शीता तयाऽऽभाति । दृष्टान्तश्चन्द्र इति" इति नारायणविरचितदीपिकायाम् । अत्रेदं तत्त्वम् । राममन्त्रोद्धारप्रस्ताव पूर्वमन्त्रेण रा' इत्यग्निबी- जयुतेन चन्द्रो बिन्दुः संयुज्यते तदा जगद्वाचकं रामिति सिद्ध्यति । अवाङ्मनसगोचरं लोहित- बिन्दुं श्वेतबिन्दुं चेति मिश्रितं भाति जगद्रूपेणेति रहस्यं गुरुमुखादवगन्तव्यम् । तेन अग्निश्च सोमश्चेति व्युत्पत्त्या अग्नीषोमात्मकं जगद्भवति । नात्र दर्शपौर्णमासप्रकरणपठितयोरग्नीषोमयोः कश्चित् सम्बन्धः कल्प्यः । प्रकृतानुपयोगात् । तयोश्चोत्पत्तिप्रकारः प्रतिपाद्यते शतपथब्राह्मणे प्रथमकाण्डे दर्शपौर्णमासप्रकरणे । तत्र हि-"त्वष्टुवै पुत्रस्त्रिशीर्षा षडक्ष आस । तस्य त्रीण्येव मुखान्यासुः । तद्यदेवरूप आस तस्माद् विश्वरूपो नाम । तस्य सोमपानमेवैकं मुखमास, सुरापानमेकम् , अन्यस्मा अशनायकम् । तमिन्द्रो दिद्वेष-तस्य तानि शीर्षाणि प्रचिच्छेद । स यत् सोमपानमास ततः कपिञ्जलः समभवत् । तस्मात् स बभ्रुक इव । बभ्रुरिव हि सोमो राजा । अथ यत्सुरापाणमास ततः कलविङ्कः समभवत् । तस्मात् सोऽभिमाद्यत्क इव वदति । अभिमाद्यन्निव हि सुरां पीत्वा वदति अथ यदन्यस्मा अशनायास ततस्तित्तिरिः समभवत् । तस्मात्स विश्वरूपतम इव । सन्त्येव घृतस्तोका इव त्वत् , मधुस्तोका इव त्वत् । पर्णेष्वा- श्रुतिताः । एवंरूपमिव हि स तेनाशनमावयत्॥ स त्वष्टा चुक्रोध कुविन्मे पुत्रमवधीदिति । सोऽपेन्द्रमेव सोममाजहे। स यथायं सोमः प्रसुत, एव मयेन्द्र एवास । इन्द्रो ह वा ईक्षाञ्चक्रे-इदं तं भक्षयाञ्चकार । स हैनं जिहिंस । सोऽस्य विष्वड्डेव प्राणेभ्यो दुद्राव, मुखा?वास्य न दुद्राव ७ - - श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- नारायणस्य निरूप्यमाणत्वादत्रापि “खं वायुर्योतिरापः” इति श्रुत्याऽवा- दीनां नारायणादेव प्रादुर्भावस्य वक्ष्यमाणत्वाच न कोऽपि शङ्काकलङ्कानुगमः। सोऽग्निमेव प्राप्य सम्बभूव । अन्तरैव सम्बभूवेत्यु हैक आहुः । सोऽग्नीषोमावेवाभिसम्बभूव सर्वा विद्याः, सर्वं यशः, सर्वमन्नाद्यम् , सर्वां श्रीम् ॥ स यद् वर्तमानः समभवत् , तस्माद्- वृत्रः, अथ यदपात्समभवत्तस्मादहिः । तं दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुः- तस्मात् दानव इत्याहुः । अथ यदब्रवीत इन्द्रशत्रुर्वर्धखेति तस्मादु हैनमिन्द्र एव जघान । अथ यद्ध शश्वदवक्ष्य इन्द्रस्य शत्रुर्वर्धस्वेति शश्वदु हस एवेन्द्रमहनिष्यत् । अथ यदब्रवीद्- वर्षस्खेति तस्मादु ह स्मेषुमात्रमेव तिर्यङ् वर्धते, इषुमात्रं प्राङ् । सोऽवैवावरं समुद्रं दधौ, अव पूर्वम् । स यावत् स आस, स हैव तावदन्नाद आस, तस्मै ह स्म पूर्वाह्ने देवा अशनम- भिहरन्ति, मध्यन्दिने मनुष्याः, अपराह्ने पितरः । स वा इन्द्रस्तथैव नुत्तश्चरन्नग्नीषोमावुपा- मन्त्रयाञ्चक्रे-अग्नीषोमौ युवं वै मम स्थो युवयोरहमस्मि, न युवयोरेष किञ्चन, कं म इमं दस्युं वर्धयथ । उप मावर्तेथामिति । तौ होचतुः किमावयोस्ततः स्यादिति । ताभ्यामेतम- नीषोमीयमेकादशकपालं पुरोडाशं निरवपत । तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति ॥ तावेनमुपाववृतुः तावनु सर्वे देवाः प्रेयुः, सर्वा विद्याः सर्व यशः सर्वमन्नाद्यम् सर्वाश्रीः । तेनेन्द्र इट्वेन्द्र एतदभवत् यदिदमिन्द्रः । एष उ पौर्णमासस्य बन्धुः । स यो हैवं विद्वान् पौर्णमासेन यजते-एतां हैव श्रियं गच्छति, एवं यशो भवति एवमन्नादो भवति ॥" इत्यादिना अग्नीषोमयोर्दैवतयोरुत्पत्तिस्तदुद्देश्यकैकादशकपालं पुरोडाशं चैतदैतिह्यानुकूलमा- हुस्तद्विदः । उपांशुयागविषयेऽपि तत्रैवैतिह्यम् । तथैवाज्यभागविषयेऽपि । तच्च द्रष्टव्यम् । एतावता दर्शपौर्णमासपठितयोरग्नीषोमयोन हि भवितुमर्हति मूलपुरुषत्वमिति विदाकुर्वन्तु विद्वांसः । नचाग्निश्च सोमश्चेति विग्रहेऽपि अग्नितत्त्वस्य सोमतत्त्वस्य च मूलस्वरूपत्वं शक्यम् । "मुखादिन्द्रश्चाग्निश्च” “चन्द्रमा मनसो जातः" इतिश्रुतिप्रामाण्यात्पुरुषोत्तमादेव तयोः प्रादु- भीवः । तस्मात्सर्वथैव ब्रह्मण ईशानस्याग्नीषोमयोश्च न. मूलपुरुषत्वमिति सद्भिराकलनीयम् । यत्तु ब्रह्मानन्दसरस्वत्यो लघुचन्द्रिकाख्यायामद्वैतसिद्धिटीकायां द्वितीयपरिच्छेदे ब्रह्मनिराकारत्वो- पपत्तिप्रकरणे “एको हवै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवीत्यादि- महोपनिषदपि भूतभौतिकसकलकार्यस्रष्टुत्वादिकं नारायणशब्दितस्य मायावच्छिन्नचैतन्यस्यैव प्रतिपादयति" इत्याहुः, तन्न मञ्जलम् , मायावच्छिन्नचैतन्यकर्तृकब्रह्मेशानादीनामपि मायिकत्वा- पत्तेः, शैवाद्यागमोदितषदत्रिंशत्त्वाभेदेन तदुपासनया.फलाभावापत्तेश्च । उपासनावाक्यानां प्रता- रकत्वापत्तेश्च। भवद्भिरप्यत्रैव "नमो नवघनश्यामकामकामितदेहिने । कमलाकामसौदामकण- .

किरणावल्या समेतम् । ५५ साकारं ब्रह्म ननु “अस्थूलमनण्वहखमदीर्घमलोहितम्” “स पर्यगाच्छुक्रमकायमत्र- मायावच्छिन्नचैतन्यत्वे किं मानम् ? “यतो वा इमानि भूतानि जायन्ते” “तस्माद्वा एतस्मा- दात्मन आकाशः सम्भूतः” “आनन्दाद्धेव खल्विमानि भूतानि जायन्ते" इत्यादिश्रुतिकद- म्बेषु निरुपाधिकब्रह्मण एवाभिन्ननिमित्तोपादानकारणत्वं प्रतिपाद्यते, मायायाश्च "श्रिया पुष्टया गिरा कान्त्या कीर्त्या तुष्टयेलयोर्जया। विद्ययाऽविद्यया शक्त्या मायया च निषेवितम्" इति भगवता बादरायणेनैव तच्छक्तित्वं प्रतिपाद्यते । नहि शक्तिः शक्तिमन्तमतिकामति । मायावच्छिन्नचैतन्यस्य कर्तृत्वपक्षाङ्गीकारे "एकेन विज्ञातेन सर्वमिदं विज्ञातं भवति" इति- श्रुतेः, “जन्माघस्य यतः शास्त्रयोनित्वात्” इति वैयासन्यायस्य च विरोधापातः । “एक- मेवाद्वितीयं ब्रह्म" "नेह नानास्ति किञ्चन" "सर्वं खल्विदं ब्रह्म तज्जलान्' इत्यादिश्रुतिप्रति- पादिताद्वैतभङ्गश्च । “अनाद्यनिर्वचनीयत्वे सति विपर्ययोपादानभूता विक्षेपशक्तिप्रधाना माया” इति भवन्मते मायालक्षणात्स्वरूपविस्मारकत्वात्तस्याः, मायावच्छिन्नचैतन्यनमस्कारेणा- ज्ञानोत्पत्तौ त्वन्मतस्याप्यज्ञपरिकल्पितत्वात्तदुपेक्ष्यम् । अस्मदाचार्यचरणास्तु-'मायेति भगवतः शक्तिः सर्वभवनसामर्थ्यरूपा' इत्याहुः । मायाशब्दस्य लक्षणानि तद्भेदाश्चाग्रे वक्ष्यन्ते । भगवानेव हि तन्नियामकः । अतो नारायणस्य परब्रह्मत्वे नास्ति शङ्काकलङ्कानुगमः । मायावादिमतं निरसितमाहुः-नन्वित्यादिना । अस्थूलमिति । अस्थूलमनण्वहख- मदीर्घम्" इत्यनेन परिमाणनिषेधः । अलोहितमित्यादिना तेजस्त्वादीनां निषेधः । नन्वत्र प्रसज्यप्रतिषेधपर्युदासाभ्यां कीदृशो नअर्थो ग्राह्यः ? आये स्थूलापह्नुतिः, द्वितीये स्थूलादी- नामक्षरादन्यत्वम् । नच पारमार्थिकस्य वस्तुनः स्थूलापह्नुतिर्न दोषाय इति वाच्यम् । अन्यत्राप्यभावनिष्ठो निषेधो न भवति किमुताक्षरे । लोके हि उत्सर्गविषये सत्यपवादो दृष्टः, निये ब्रह्मणि कथं स्थूलादेरपवादो घटते? उत्सर्गापवादन्यायस्तु "न हिंस्यात्सर्वा भूतानि" इत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः, सामान्यतो विधिरित्यर्थः । ततश्चापवादेनोत्सर्गस्य बाधितत्वान्न श्रौतो हिंसाविधिर्दोषाय "उत्सर्गापवादयोरपवादविधिबलीयान्" इतिन्यायात् । अत्रोच्यते-प्रतीच्यज्ञाते प्राप्तं स्थूलादि तस्मिन्नेव ज्ञाते निषिध्यते दृश्यते च रज्वामज्ञातायां प्राप्तस्य सादेस्तस्यां निषेधस्तत्प्रसज्यप्रतिषेधः, साधीयान् । उत्सर्गापवादविधिनिषेधा एक- त्रात्मनि अध्यस्तदिनिषेधश्च यथैकस्मिन् व्योग्नि तथा । अतो न प्रसंज्यप्रतिषेधार्थग्रहणे कश्चिदोषः । तथैव नापि पर्युदासे दोषो विभावनीयः । अहेर्यद्वत्स्रग्याथात्म्यं तद्वदत्राप्यक्षर- - श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- णम्" इत्यादिश्रुतिवचनानां ब्रह्मण्याकारनिषेधकत्वात्कथं साकारत्वमिति धारणान्न तत्र स्थूलादिनिषेधो धर्म्यभावात् । एवं चेत्तर्हि तस्याक्षरे का प्रसङ्गो यतस्तत्प्रति- विध्यते, अव्याकृत आकाशादावपि तदसम्भाव्यम् , किमुत प्रत्यगात्मनि ? अत्रापि श्रूयताम्- केचिद्ब्रह्मणः समस्तव्यस्ततां प्रतिजानते, अतस्तन्निषेधार्थ निषिद्धं सन्निषिध्यते । एवं आत्म- याथात्म्यज्ञानाग्निदृष्टान्तेऽपि यदिदं सर्वं इत्यादिना स्थूलादीनां कारणे व्यक्तावस्था निरस्ता, तेषामेव शक्त्यवस्था कार्यकारणविलक्षणे अक्षरे निरस्या, तदर्थमेवास्थूलादिवाक्यप्रवृत्तिः । तथाच कार्यकारणनिषेधे सति प्रतीचिश्रुतं ब्रह्मादिपदं मुख्यार्थं स्यात्तदनिषेधे वस्तुपरिच्छेदा- गौणार्थमेवाखण्डवस्तु-स्वात्मना अवस्थानाख्यो मोक्षश्च न सिद्ध्येत्ततो मोक्षशास्त्रबाधः स्यात् । अथवा निषेधपरत्वं परित्यज्य तत्त्वमादिवद्विधिमुखेन बोधकमस्थूलादिवाक्यं ग्राह्यम् । ओत- प्रोतवाक्येन स्थूलादिनिषेधस्य सिद्धत्वात् । अस्थूलादिवाक्यानां निषेधपरत्वाभावे, तन्निषेधानु- वादेन प्रतीचि ब्रह्म बोध्यत इत्यर्थो ग्राह्यः । एवंच-तन्निषेधस्य फलं स्फुरणं तदात्मना गम्यमानं स्वप्रकाशं 'त्वं'पदलक्ष्यमात्मानं उक्तविशेषणं ब्रह्मेति बोध्यम् । एवं सति सर्वेषां चोद्यानां न सम्भवः । नवति वाक्ये विधिमुखेन बोधकत्वं तु नेतिनेतीतिवत् सर्वापीह व्याख्याऽनुसन्धेया। स्थूलादिचतुष्टयेन द्रव्यमात्रव्यपाश्रयत्वात्परिमाणस्यात्रापि द्रव्यत्वनिषेधो बोध्यः । अक्षरे द्रव्यत्वनिषेधेगुणत्वादि प्राप्तिर्भविष्यतीत्यतोऽलोहितमित्यादिना तन्निषेधः । तन्निषेधे च विशे- पान्तरमत्रानिषिद्धं भविष्यतीत्यत उक्तविशेषनिषेधानुक्तविशेषनिषेधोपलक्षणं बोध्यम् । ननु युगपदशेषनिषेधसम्भवाव्यर्थमनेकविशेषणोपादानमिति चेन्न, विशेषप्रतिषेधे तु क्रम आश्री- यते, वाचः क्रमवर्तित्वादपर्यायेण सर्वनिषेधासिद्धेः । निषेध्यक्रमाच निषेधक्रमोऽनुसर्तव्यः । विरोधिनिषेधानुपपत्त्या तद्विरोधिप्राप्तिस्ततश्च क्रमो निषेध्यानामेवादर्तव्यः । एवं च कृत्लकार्य- निषेधतः कारणप्रतिषेधेन पूर्ण तदक्षरं ज्ञेयम् । नच प्रतीचि स्थौल्यादिनिषेधात्तत्तन्निषेध्य- विरुद्धानेकाकारत्वप्राप्तेरैकरस्यं न स्यादिति वाच्यम् । येन रूपेण स्थूलं वस्तु निषेधति, तेनैव रूपेण तस्याण्वादि निःशेषं निषिध्यते । तदेवाक्षरम् । यथा वह्नयाधुक्तिः जठरकुहरवर्तित्वं काष्ठपृष्ठनिष्ठत्वं च बोधयति तथाक्षरमपि विरोधिना स्थूलाद्यपाक्रियां बोधयतीति नेह घटते निरुक्तवैधर्म्यदृष्टान्तात् । किं तदक्षरे सर्वविरोध्येकरूपं इति चेदुच्यते-यथैका क्रिया रूपतः प्रत्यक्कूटस्थरूपेण मानित्वादिनिषेधस्तथा सर्वनिषेधकृदक्षरं साधर्म्यदृष्टान्तात् । तेन नायं नारायणः साकार इति सिद्धम् ।

किरणावल्या समेतम् । मादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि नार्थान्तरप्रधानानीत्येतत्प्रतिष्ठापितं "तत्तु समन्वयात्" इत्यत्र । तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्माव- धारयितव्यम् । इतराणि त्वाकारवब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि । उपासनाविधि- प्रधानानि हि तानि । तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् । सति तु विरोधे तत्प्रधाना- न्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति । एष विनिगमनायां हेतुः । येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति ॥१४॥ का ताकारवद्विषयाणां श्रुतीनां गतिः ? इत्यत आह-"प्रकाशवचावैयर्थ्यात्" यथा प्रकाशः सौरश्चान्द्रमसो वा वियश्याप्यावतिष्ठमानोऽङ्गुल्याधुपाधिसम्बन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याधुपाधिसम्बन्धात्तदाकारतामिव प्रतिपद्यते, तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवमवैयर्थ्यमाकारवब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् । नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातं नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते । नेति ब्रूमः । उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः, उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम ॥ १५ ॥ “आह च तन्मात्रम्" आह च श्रुतिश्चैतन्यमानं विलक्षण- रूपान्तररहितं निर्विशेषं ब्रह्म-"स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्लो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्यः प्रज्ञानघन एव" इति । एतदुक्तं भवति-नास्यात्मनोऽ- न्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् । यथा सैन्धवधन- स्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति॥१६॥"दर्शयति चाथो अपि स्मयते” दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म निर्विशेषत्वात्-“अथात आदेशो नेति नेति" इति “अन्यदेव तद्विदितादथो अविदितादधि" "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” इत्येवमाद्या । वाष्कलिना च बाध्वः पृष्टः सन्नवचनैव ब्रह्म प्रोवाचेति श्रूयते- "सहोवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि । उपशान्तोऽयमात्मा" इति । तथा स्मृतिष्वपि परनिषेधेनैवोप- दिश्यते-"ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते" इत्येवमाद्यासु । तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मयते-"माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि" इति ॥ १७ ॥ "अत एव चोपमा सूर्यकादिवत्" यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसा- .

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- एव हि भूतात्मा भूते भूते व्यवस्थितः । एकथा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्येवमा- दिषु ॥१८॥ अत्र प्रत्यवस्थीयते-"अम्बुवदग्रहणात्तु न तथात्वम्" न जलसूर्यकादि- तुल्यत्वमिहोपपद्यते; तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूत जलं गृह्यते, तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः, न त्वात्मा मूर्तो न चास्मात्पृथग्भूता विप्रकृष्ट- देशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥ अत्र प्रतिविधीयते-"वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्” युक्त एव त्वयं दृष्टान्तो विवक्षितांशसम्भवात् । न हि दृष्टान्तदानॊन्तिकयोः क्वचित्कञ्चिद्विवक्षितांशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदा न्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् , शास्त्रप्रणीतस्य त्वस्य प्रयोजन- मात्रमुपन्यस्यते । किं पुनरत्र विवक्षितं सारूप्यमिति ? तदुच्यते-वृद्धिहासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्ब जलवृद्धौ वर्धते जलहासे हसति जलचलने चलति जलभेदे भिद्यत इत्येवं जलधर्मानुयायि भवति न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं परमार्थ- तोऽविकृतमेकरूपमपि सद्ब्रह्म देहाद्युपाध्यन्त वाद्भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एव- मुभयोदृष्टान्तदाटन्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥ “दर्शनाच" दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम्-“पुरश्चक्रे द्विपदः पुरश्चके चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्' इति । "अनेन जीवेनात्मनानुप्रविश्य” इति च । तस्माद्युक्तमेतत्-"अत एव चोपमा सूर्यकादिवत्" इति तस्मानिर्विकल्पकैकलिङ्गमेव ब्रह्म नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् ॥ अत्र केचित् द्वेऽधिकरणे कल्पयन्ति । प्रथमं तावत्-किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्मोत प्रपञ्चवदनेकाकारोपेतमिति । द्वितीयं तु-स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमिति । अत्र वयं वदामः-सर्वथाप्यानर्थक्यमधिकरणान्तरा- रम्भस्येति । यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव “न स्थानतोऽपि" इत्यनेनाधिकरणेन निराकृतमित्युत्तरमधिकरणं "प्रकाशवच” एतद्व्यर्थमेव भवेत् । न च सल्लक्षणमेव ब्रह्म न बोधलक्षणमिति शक्यं वक्तुम् ; विज्ञानघन एवेत्यादि- श्रुतिवैयर्थप्रसङ्गात् कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणमिति शक्यं वक्तुम् “अस्तीत्येवोपलब्धव्यः' इत्यादिश्रुति- वैयर्थ्यप्रसङ्गात् । कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्यते । नाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तम् , पूर्वाभ्युपगमविरोधप्रसङ्गात् सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च किरणावल्या समेतम् । लक्षणमित्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नास्वनाकारे ब्रह्मणि परि- गृहीतेऽवश्यं वक्तव्येतरासां श्रुतीनां गतिः। तादर्सेन प्रकाशवच्चेत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते । यदप्याहुराकारवादिन्योऽपि श्रुतयः प्रपञ्चविलयमुखेनाकारप्रतिपत्त्यर्था एव न पृथगा इति, तदपि समीचीनमिव लक्ष्यते । कथम् ? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा-"युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरयो यो वै दश च सहस्राणि बहूनि चानन्तानि च" इत्येवमादयस्ते भवन्ति प्रविलयार्थाः; "तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबा- ह्यम्" इत्युपसंहारात् । ये पुनरुपासनाविधानाधिकारे प्रपञ्चा उच्यन्ते, यथा “मनोमयः प्राणशरीरो भारूपः” इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यम् ; “सक्रतुं कुर्वीत" इत्येवं- जातीयकेन प्रकृतेनैवोपासनविधिना तेषां सम्बन्धात् । श्रुत्या चैवंजातीयकानां गुणानामुपा- सनार्थत्वेऽवकल्प्यमाने न लक्षणया प्रविलयार्थत्वमवकल्पते । सर्वेषां च साधारणे प्रविलया- थत्वे सति “अरूपवदेव हि तत्प्रधानत्वात्” इति विनिगमनकारणवचनमनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः क्वचिदैश्वर्यप्राप्तिः क्वचित्क्रममुक्तिरित्यवगम्यत एवे- त्यतः पार्थगर्थ्यमेवोपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यं, नैकवाक्यत्वम् । कथं चैषा- मेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् । एकनियोगप्रतीते प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् , न; ब्रह्मवाक्येषु नियोगाभावात् । वस्तुमात्रपर्यवसायीनि हि ब्रह्मवाक्यानि न नियोगोपदे- शीनीत्येतद्विस्तरेण प्रतिष्ठापितं "तत्तु समन्वयात्' इत्यत्र । किंविषयश्चात्र नियोगोऽभि- प्रेयत इति वक्तव्यम् । पुरुषो हि नियुज्यमानः कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चविलयो नियोगविषयो भविष्यति। अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः । यथा स्वर्गकामस्य यागो- ऽनुष्ठातव्य उपदिश्यत एवमपवर्गकामस्य प्रपञ्च प्रविलयः । यथा च तमसि व्यवस्थितं घटा- दितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यत एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्र- सनीकभूतः प्रपञ्चः प्रविलापयितव्यः । ब्रह्मस्वभावो हि प्रपञ्चो, न प्रपञ्चस्वभावं ब्रह्म, तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवतीति । अत्र वयं पृच्छामः-कोऽयं प्रपञ्चम- विलयो नाम । किमग्निप्रतापसम्पर्काद्धृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्य आहो- स्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रवि- लापयितव्य इति । तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चो देहादिलक्षण आध्यात्मिको बाह्यश्च पृथि- व्यादिलक्षणः प्रविलापयितव्य इत्युच्येत स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रवि- ."

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- MES ब्रह्म, तत्सत्यं स आत्मा तत्त्वमसि' इति तस्मिन्नावेदिते विद्या स्वयमेवोत्पद्यते तया चाविद्या बाध्यते, ततश्चाविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वमप्रपञ्चवत्प्रविलीयते । अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं चेति शतकृत्वोऽप्युक्ते, न ब्रह्मविज्ञानं प्रपञ्चप्रवि- लयो वा जायते । नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् । न निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैवोभयसिद्धेः । रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपवि- ज्ञानमविद्याध्यस्तसादिप्रपञ्चप्रविलयश्च भवति । नच कृतमेव पुनः क्रियते । नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम स प्रपञ्चपक्षस्यैव वा स्याब्रह्मपक्षस्य वा। प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवजीवस्यापि प्रविलापितत्वात्कस्य प्रपञ्चविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत । द्वितीयेऽपि ब्रह्मैवानियोज्य- स्वभावं जीवस्य स्वरूपं, जीवत्वं त्वविद्यया कृतमेवेति प्रतिपादिते ब्रह्मणि नियोज्याभावान्नियो- गाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्त्वा- वबोधविधिप्रधाना भवन्ति । लोकेऽपीदं पश्येदमाकर्णयेति चैवंजातीयकेषु निर्देशेषु प्रणिधा- नमात्रं कुर्वित्युच्यते न साक्षाज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदा- चिन्न जायते, तस्मात्तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वय- मेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । नच प्रमाणान्तरेणान्यथाप्रसिद्धेऽर्थेऽन्यथा- ज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमित्यन्यथाज्ञानं कुर्यान्नतु तज्ज्ञानं किं तर्हि मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथा- भूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते । नच प्रतिषेधशतेनापि वारयितुं शक्यते। न हि तत् पुरुषतत्रं, वस्तुतत्रमेव हि तत् । अतोऽपि नियोगाभावः । किञ्चान्यन्नियोगनिष्ठतैव पर्यवस्यत्याम्नाये यदभ्युपगतमनियोज्यब्रह्मात्मत्वं जीवस्य तदप्रमाणकमेव स्यात् । अथ शा. स्त्रमेवानियोज्यब्रह्मात्मत्वमप्याचक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रह्मशास्त्रस्यैकस्य अर्थपरता विरुद्धार्थपरता चं प्रसज्येयाताम् । नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्म- फलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्माद- वगतिनिष्ठान्येव ब्रह्मवाक्यानि न नियोगनिष्ठानि । यतश्चैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् । अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु चासिद्धम् । न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने सर्वत्रैको नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येषु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् । नत्विह सगणनिर्गणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति । नहि भारूपत्वादयो गुणाः प्रपञ्चप्रवि.

किरणावल्या समेतम् । चेत्, न, श्रुतिषु लोकप्रतीतानामेवास्थूलादीनां निषेध्यतयोच्यमानत्वेना- लौकिकस्यान्दमात्रकरपादमुखोदराद्याकारस निषेधाविषयत्वात् । प्रत्युत "आनन्दो ब्रह्मेति व्यजानात्" "आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते" एवमेव "सपर्यगाच्छुक्रमकायमव्रणमनाविर शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः” इतीशोपनिषच्छ्रुतेरपि ब्रह्मण आका- रनिषेधः । तथाच श्रुत्यर्थः-स पर्यगात्स यथोक्त आत्मा पर्यगात्परि समन्तादगागतवाना- काशवयापीत्यर्थः । शुक्र शुद्धं ज्योतिष्मद्दीप्तिमानित्यर्थः । अकायमशरीरो लिङ्गशरीरवर्जित इत्यर्थः । अव्रणमक्षतम् । अस्नाविरं स्नानाः शिरा यस्मिन्नविद्यन्त इत्यस्लाविरम् । अव्रणम- स्त्राविरमित्येताभ्यां स्थूलशरीरप्रतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरप्रति- षेधः । अपापविद्धं धर्माधर्मादिपापवर्जितम् । शुक्रमित्यादीनि वचांसि पुंलिङ्गत्वेन परिणेयानि स पर्यगादित्युपक्रम्य कविर्मनीषीत्यादिना पुंलिङ्गत्वेनोपसंहारात् । कविः कान्तदर्शी सर्वदृक् । "नान्योऽतोऽस्ति द्रष्टे' त्यादिश्रुतेः । मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भवतीति परिभूः । स्वयम्भूः स्वयमेव भवतीति स्वयम्भूः । स नित्यमुक्त ईश्वरो याथातथ्यतः सर्वज्ञत्वाद्यथातथाभावो याथातथ्यं तस्माद्यथाभूतकर्मफलसाधनतोऽर्थान्कर्तव्य- पदार्थान्व्यदधाद्विहितवान्यथानुरूपं व्यभजदित्यर्थः । शाश्वतीभ्यो नित्याभ्यः सम्वत्सराभ्यः प्रजापतिभ्य इत्यर्थः । अत्राप्यकायमित्यादिना स्पष्टमेव साकारत्वप्रतिषेधः श्रूयते । तस्मान्नि- राकारमेव ब्रह्म न तत्र साकारताभ्युपगमः । एवं पूर्वपक्षमुपन्यस्य खण्डयन्ति-इति चेन्ने- त्यादिना । “अस्थूलमनणु" इत्यादिना प्राकृतधर्माणामेव प्रतिषेधो नाप्राकृतानामित्यत आहुः- लोकप्रतीतानामेवेति । अस्थूलादिवाक्येषु नार्थस्योभयथापि ग्रहणे दोषाभावः प्राकृत- धर्माणामेव निषेधात् । अत एव श्रीमत्पुरुषोत्तमचरणाः 'न स्थूलमस्थूलं स्थूलाद्भिन्नमिति पर्युदासगर्भोऽर्थः, न विद्यते स्थूलं यस्मिन्निति प्रसज्यप्रतिषेधगर्भो वार्थ' इत्याहुः। अस्थूला- दिश्रुतिभिर्न ब्रह्मणि सर्वथा धर्माभावो बोध्यते । अन्यथा “सर्वकामः सर्वरसः सर्वगन्धः" "सहस्रशीर्षा पुरुषः” “विश्वतश्चक्षुः” “एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" "आदि- त्यवर्णं तमसः परस्तात् " "यदा पश्यः पश्यते रुक्मवर्णम्" "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्' “पादोऽस्य विश्वाभूतानि" "पश्य मे पार्थ रूपाणि" "सर्वतः पाणिपादं तत्" "अन्तस्तद्धर्मोपदेशात्" सर्वोपेता च तद्दर्शनात्" "श्रुतेस्तु शब्दमूलत्वात्" "देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्गिण" इत्यादिश्रुतिस्मृतिन्यायविरोधो गीर्वाणगुरुणाऽपि दुष्परिहार्यो - श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- "आनन्दमयोऽभ्यासात्" "प्रकृतैतावत्त्वं प्रतिषेधति ततो ब्रवीति च भूयः" इत्यादिश्रुतिवैवासन्यायैरप्राकृताकारस्य साधितत्वाच । मयैतद्विशदतया प्रप- श्चितं गोपालतापिनीभाष्ये तट्टीकायां चेति नात्र विस्तरः । नचाकारनिरूपिकाः श्रुतयः सोपाधिब्रह्मपरा इति वाच्यम् । ब्रह्मणः सोपाधिकं निरुपाधिक चेति रूपद्वयं नास्त्येव, विनिगमनाविरहात् । “एकमेवाद्वितीयं ब्रह्म" "अयमेव स योऽयम्" "नेह नानास्ति किञ्चन" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” “एक एवात्मा मन्तव्यः" "न भेदादिति चेन्न प्रत्येकमतद्वचनात्” “अपि चैवमेके" इत्यादि श्रुतिन्यायव्याकोपाच । किञ्च, धर्मबोधिकाः श्रुतयोऽनन्ताः, ताः सर्वा अपि सोपाधिब्रह्मप्रतिपादिका भवेयुस्तदा भूयान् वेदभागो ब्रह्मवर्णनतो वञ्चितो भवेत् । तदा “सर्वे वेदा यत्पदमामनन्ति" "वेदैश्च सर्वैरहमेव वेद्य” इत्यादि श्रुतिस्मृतिव्याकोपः । “अथातो ब्रह्मजिज्ञासा” इत्यत्र किं सोपाधिकस्य ब्रह्मणो विचारः प्रतिज्ञातः, निरुपाधिकस्य वा ? नायः, उपाधेमिथ्यात्वात्तद्विशिष्टस्य ब्रह्मणोऽपि मिथ्यात्वापत्तेः । “सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतिप्रतिपादितस्य ब्रह्मणः सत्यत्वव्याकोपाच । निरुपाधिकस्य चेत्सर्वाण्यपि धर्मबोधकानि वाक्यानि निरुपाधिकपरात्परब्रह्मपराण्येवेति मन्त- व्यम् । सोपाधिकस्य निरुपाधिकस्य चेत्युभयरूपस्यापि ब्रह्मण इत्यपि न वाच्यम् । विनिगमना- विरहात् । उपाधिपक्षस्य श्रुतिसूत्रविरुद्धत्वं त्वग्रे वक्ष्यते । ननु विशेषाणामविद्याकल्पितत्वात् न तादृशवाक्यानां परब्रह्मपरत्वम् , इति चेदुच्यते ? भवता विशेषाणामविद्याकल्पितत्वं यदु- च्यते- का साऽविद्या ? जीवगता ब्रह्मगता वा ? नाद्या, जीवगताया अविद्याया ब्रह्मगतधर्म- कल्पने सामर्थ्याभावात् । धर्मकल्पनं हि शुद्धब्रह्मणि, तस्य च मनोवागगोचरत्वात् , अधि- ष्ठानज्ञानाभावान्जीवस्य, तर्हि तस्याः सम्बन्धो दूरतरः । तथाहि शुक्तिकारजतादिस्थले विष- यावरकमज्ञानं चेतद्रजतकल्पकं स्यात् , तदा सर्वान् प्रति स्यात् , साधारणत्वात् । तथा सत्यदृष्ट- रजतस्यापि तत्र रजताध्यासः स्यात् , कस्यचिद्विशेषदर्शनदशायां तदभिभवे तस्य सर्वान्प्रत्यभि- भूतत्वाद्विशेषदर्शनाभाववतोऽपि रजताध्यासनिवृत्तिश्च स्यात् । अतो विषयावरकमज्ञानं यथा तत्र न रजतकल्पकमेवं ब्रह्मावरकाज्ञानमपि । अतः परं तत्रैवात्रापि जीवावरकाज्ञानं तत्कल्प- कमित्यवशिष्यते । तच विषयेण सम्बध्यमानमेव कल्पकम् । अन्यथा शुक्त्यदर्शनेऽपि कल्पयेत् । सम्बन्धश्च तस्य मनोद्वारक एव, मनो यदेन्द्रियेण संसृज्यते तदैव बाह्यज्ञानो- दयात् । “यतो वाचो निवर्तन्ते' इतिश्रुत्या च मनःसंसर्गे निवारिते द्वाराभावाज्जीवावरक- लिङ्गशरीरनिष्ठायास्तस्याः सम्बन्धस्तथेत्यर्थः । न द्वितीया, ब्रह्मणो नित्यशुद्धमुक्तस्वभावात् तस्मिन वन्मते त्वविद्याया अभाव एव । न च ब्रह्मण एकरसत्वेन विशेषाणां च सर्वरस- . , किरणावल्या समेतम् । , न्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च" इत्यादिना भगवतैव स्वस्वरूपं प्रतिपादितम् । सर्वेषामपि रूपाणां नित्यत्वात् । ब्रह्मणो विरुद्धधर्माश्रयत्वात् । ब्रह्मणोऽ- प्राकृतरूपवत्त्वं तु गीतास्मृतौ "अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावम- जानन्तो मम भूतमहेश्वरम्" इत्यनेन प्राकृतधर्मनिषेधमुक्त्वा "महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्" इत्यनेन बोध्यते । "अपाणिपादो जवनो ग्रहीता" इत्यत्रापि विरुद्धधर्माधारकत्वं श्रुतम् । अतो नास्ति सविशेषश्रुतीनां निर्विशेषश्रुतीनां च कश्चिद्विरोधः । न वा सविशेषश्रुतीनां बाधो निर्विशेष- श्रुतिभिः क्रियत इति वाच्यम् । आमिक्षाधिकरणन्यायविरोधात् । तदेतद्विशदतया प्रपञ्चितं विद्वन्मण्डने श्रीमत्प्रभुचरणैः, श्रीमत्पुरुषोत्तमपादैश्च सुवर्णसूत्रे भाष्यप्रकाशे च, योगि- गोपेश्वरचरणैरपि रश्मिभक्तिमार्तण्डादिषु । अतोऽत्र नेह तन्यते । ननु पूर्व व्याससूत्रैर्निराकारत्वं प्रतिपादितमेव तर्हि कुतो व्याससूत्राण्यनादृत्य साकारत्व- मुच्यते, इति चेत् , मैवं वादीः; नहि व्याससूत्राणामयमाशयः । तथाहि-"अरूपवदेव हि तत्प्रधानत्वात्" "अस्थूलमनण्वह्रस्वमदीर्घम्" "अशब्दमस्पर्शमरूपमव्ययम्" "आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म" "दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः” “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः" इत्येवमादीनि वाक्या- न्येव पूर्वं व्याख्यायन्ते तत्रास्थूलमिति श्रुतेः प्राकृतधर्मरहितं ब्रह्मेत्यर्थः पूर्वमेव प्रति- पादितः । अशब्दमित्यस्यापि शब्दादिप्राकृततन्मात्रारहितमित्यर्थः । न विद्यते शब्दो भूता- काशवृत्तियस्मिंस्तदिति व्युत्पत्त्या शब्दादिरहितत्वं ब्रह्मणि सम्भवति । "अशब्दमस्पर्श- मरूपमव्ययं तथाऽरसं नित्यमगन्धवच यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते” इति हि सम्पूर्णा श्रुतिः । अत्र हि शब्द- स्पर्शरूपरसगन्धेति पञ्चानामपि तन्मात्राणां निषेधः श्रूयते । अव्ययं, नित्यं, अनाद्यनन्तं, ..महतश्च परं यदलौकिकं ब्रह्म तस्मिञ्च्छब्दादीनां प्राकृतधर्माणां राहित्यं सूच्यते । न चात्रा- लौकिकधर्माणामपि निषेधो वाच्यः, “सर्वे वेदा यत्पदमामनन्ति" "वेदैश्च सर्वैरहमेव वेद्यः" "ईक्षते शब्दम्" "शब्दादेव प्रमितः" "श्रुतेस्तु शब्दमूलत्वात्” “वेदो नारायणः साक्षात्" इत्यादिश्रुतिस्मृतिसूत्रसमाधिभाषासु वेदस्यालौकिकशब्दराशेब्रह्मत्वं स्पष्टमेव प्रतिपाद्यते । शब्दब्रह्मणो लोकभिन्नत्वं तु पूर्वोत्तरतन्त्रप्रसिद्धम् । अत एव "अलौकिको हि वेदार्थो न श्रीमदाथर्वणनारायणोपनिषद्भाप्यम्- लाभूताया अहल्याया उद्धारो भगवत्पादस्पर्शेनैवेति सुप्रसिद्धमेव । व्रजभक्ता अपि “यी- म्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्पाक्ष्म तत्प्रभृति नान्य- समक्षमञ्जः स्थातुं त्वयाऽभिरमिता बत पारयामः' नागपन्योऽपि “तवाघिरेणुस्पर्शाधिकारः यद्वाञ्छया" इत्यूचुः। भगवच्चरणस्पर्शस्य फलस्थानीयत्वात् । अतो नात्र श्रुतौ अलौकिक- स्पर्शनिषेधः, किन्तु लौकिकस्पर्शाभाव एव । रुद्रादिभिरपि भगवद्विग्रहस्पर्शो याचित इति कृष्णोपनिषदि श्रूयते, तथाहि-"तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्त- मिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ । अन्ये येऽवतारास्ते हि गोपान्नः स्त्रीश्च नो कुरु । अन्योन्यविग्रहं धार्य तवाङ्गस्पर्शनादिह । शश्वत्स्पर्शयिताऽस्माकं गृह्णी- मोऽवतारान्वयम् । रुद्रादीनां वचः श्रुत्वा प्रोवाच भगवान्स्वयम् । अङ्गसङ्गं करिष्यामि भवद्वाक्यं करोम्यहम् । मोदितास्ते सुराः सर्वे कृतकृत्याऽधुना वयम् ।" इति । अलौकिक- रूपं तु "भद्रं पश्येमाक्षिभिः" इत्यत्र प्रतिपादितमेव "त्रुटियुगायते त्वामपश्यताम्" इत्या- दिषु भगवदर्शनं फलरूपमिति सिद्धम् । श्रुतावपि “आत्मा वा अरे द्रष्टव्यः' इत्यत्र अलौकि- करूपवतो भगवतो दृग्विषयत्वं प्रतिपाद्यते । तदपि नहि द्रष्टुं चर्मचक्षुभिः शक्यमिति "दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्” इति भगवता कृपया दिव्यचक्षुःप्रदानेन रूप- मैश्वरं दर्शितम् । “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः, क्षीयन्ते चास्य कर्माणि तस्मि- न्दृष्टे परावरे" इत्यादिना भगवद्दर्शनेन सर्वकर्मक्षयः प्रतिपाद्यते । सर्वसंशयानां छेदनं हृदय- ग्रन्थेहेंदनं रागद्वेषादीनां ग्रन्थिवदुर्मुचां भेदनं मोक्षः। न च "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि" इति छान्दोग्यश्रुतेः, शरीरवियोगकाल एव पुण्यपापाख्यकर्मविनाशः श्रूयते इति वाच्यम् । तस्मि- न्दृष्टे परावरे इत्यनेन भगवद्दर्शनेन शरीरवियोगात्प्रागेव कर्मक्षयः । न च “नामुक्तः क्षीयते कर्म कल्पकोटिशतैरपि" इति वाक्याद्भोगादेव कर्मक्षय इति वाच्यम् । तद्वाक्यस्य विष्णु- भक्तेतरपरत्वात् । “जिह्वा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यान्” इति यमवा- क्यात् । ननु शङ्कराचार्यैः "तस्मिन्दृष्टे परावरे" इत्यस्य परमात्मज्ञानमित्यर्थः क्रियते न तु भगवद्दर्शनम् । तथा च मुण्डकोपनिषद्भाष्येऽपि “अस्य परमात्मज्ञानस्य फलमिदमभिधीयते" इत्युक्तं तेन नास्याः श्रुतेर्भगवद्दर्शनमर्थः, किन्तु परमात्मज्ञानमेव । तदविचारचारु-"दृशिर प्रेक्षणे' इति धातोनिष्ठायां भगवदर्शने कृते सतीत्येवार्थः साधीयान् । प्रेक्षणं हि चाक्षुषं प्रत्य- क्षम् । अग्रे चास्यामेव मुण्डकोपनिषदि "ज्योतिषां ज्योतिः” "तस्य भासा सर्वमिदं विभाति' किरणावल्या समेतम् । ६५ , "रस ह्येवायं लब्ध्वाऽऽनन्दी भवति" इत्यादिश्रुतिव्याकोपः। भगवतो रसरूपत्वं तु भाष्यसुबोधिन्यादिषु विस्तृतं विवेचितं श्रीमन्महाप्रभुपूज्यपादैस्तद्वंशजैस्तदनुयायिभिश्च, अतो नेह तन्यते । अगन्धमित्यत्रापि प्राकृतगन्धराहित्यं बोध्यम् । “सर्वकामः सर्वगन्धः सर्वरसः” इतिश्रुतेः। "आकाशो वै नाम रूपयोनिर्वहिता ते यदन्तरा तब्रह्म तदमृत५ स आत्मा” इति सम्पूर्णा श्रुतिः । तदर्थस्तु नामरूपयोः निर्वहिता तयोरविच्छेदेन चालको व्याकर्ता आकाशो वै निश्चयेन तद् ब्रह्म । ते नामरूपे यदन्तरा यदन्तःस्थिते वर्तते तद्ब्रह्म, तदमृतम् , स आत्मेत्यर्थः । केचित्तु, यद् ब्रह्म, ते नामरूपे, अन्तरा विना; तथाच अनाम- रूपमित्यर्थमाहुः, तन्न; ते यदन्तरेत्यनेन नामरूपयोरन्तःस्थानमुक्तमतो नामरूपवब्रह्मेत्यर्थ एव प्रशस्यतरः । ब्रह्मणश्चाप्राकृतनामरूपवत्त्वं प्रसिद्धम् । अत एव श्रीमदाचार्यचरणाः “नामरूपविभेदेन क्रीडति, नामरूपविभेदेन यो जगत् , नामरूपविभेदेन यतो जगत्" इत्याहुः । अत्रापि श्रुतौ नामरूपयोर्निर्वोढत्वं विभाजकत्वं ब्रह्मणः कार्यमित्युच्यते । एतदेव समन्वयतृतीयपादे द्वादशाधिकरणे स्पष्टमाज्ञाप्यते व्यासपादैः "आकाशोऽर्थान्तरत्वादि- व्यपदेशात्" इत्यत्र । अत्राकाशशब्दे सन्देहः,भूताकाशः परमात्मा वेति। नामरूपनिर्वाहमात्र- त्वमवकाशदानाद्भूताकाशस्यापि भवतीति न ब्रह्मपरत्वम् , अन्यस्य नियामकस्याभावादेवं प्राप्ते-आकाशः परमात्मैव, कुतः, अर्थान्तरादिव्यपदेशात् । अर्थः प्रयोजनं यद्भूताकाशस्य श्रुतिसिद्धं वायुजननरूपं तस्मादन्यदर्थान्तरं, ते यदन्तरेत्यादिनोक्तम् । आसमन्तान्नामरूपयो- रन्तःस्थापनम् । आदिपदेन तद्ब्रह्मेत्यादिना बोधितं तत्पोषकत्वं तयोरानन्ददायकत्वं तदात्मत्वं च बोध्यम् । तेन अन्तरः अर्थो यस्मादित्यर्थान्तरम् , “वाऽऽहितान्यादिषु" इति पूर्व- मिपातः । तस्य भावोऽर्थान्तरत्वम् । तदादयः। पूर्वोक्ता धर्मा ब्रह्मादिश्रुतयश्च तेषां व्यपदे- शात् कथनात् इति सौत्रार्थः । न चेदमसङ्कुचितं नामरूपनिर्वोढत्वं निरुद्धस्य रूपान्तर्ग- तस्याकाशस्य सम्भवति, न वा क्वापि श्रुतावाकाशमाहात्म्यहेतुत्वेनोक्तमस्ति । नाप्यसङ्कुचितं तयोरन्तःस्थापनं बृंहणं वा तथा । अत आकाशकार्यातिरिक्तकार्यकर्तृत्वादेरत्रोक्तत्वाद्ब्रह्मादि- श्रुतीनां चानुकूल्याब्रह्मैवाकाशः । स्वारसिकं च शब्दानां ब्रह्मवाचकत्वम् , अतो न लक्षणा- दोषः । यदपि लोकदृष्ट्याऽऽकाशस्थावकाशदानान्नामरूपनिर्वाहकत्वं तदपि भगवदधीनम् । "अदो ददाति श्वसतां पदं यनियमान्नमः" इति श्रीभागवतवाक्यात् । न वोपासनार्थ वक्तुं शक्यम् । वैपदविरोधात् । तस्माद्ब्रह्मधर्म एवाऽयम् । एवंच नामरूपनिर्वोदृत्वरूपोऽ- लौकिकधर्मोऽनया श्रुत्या प्रतिपाद्यत इति ध्येयम् ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- प्राकृताकाररहितः, दिव्याकृतिमत्त्वात् । पुरुषः पुरि शेतेऽसाविति पुरुषः सर्वव्यापकः पुमान् । स लोकवेदप्रसिद्धः । बाह्याभ्यन्तरः “व्यस्तना रोदसी विष्णवे ते दार्थ पृथिवीमभितो मयूखैः” "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति श्रुतिगीतादिवाक्यैः सदंशेन प्रपञ्चे व्यापकत्वाद्राह्यः । आभ्यन्तरः सर्वगुहाशयः “यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष आत्मान्तर्याम्यमृतः” इत्याधन्तर्यामिब्राह्मणश्रुतेः । अजः, उत्पत्तिविनाशरहितः । ननु गोपा- लकृष्णादीनां जन्मादिश्रवणात्कथं तद्रहितत्वमिति चेन्न, लीलापरत्वात् । भागवते “न ते भवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे" "आविवेशांशभागेन मन आनक- दुन्दुभेः" इति वाक्याभ्यां तस्य विनोदमात्रत्वमुक्त्वा रेतोद्वारा प्रादुर्भावस्य निवारितत्वाच । इदमत्र ज्ञेयम्-'अनित्ये जननं नित्ये परिच्छिन्ने समागमः । नित्यापरिच्छिन्नतनौ प्राकव्यं चेति सा त्रिधा” इति वाक्यान्नित्यापरिच्छिन्नस्य प्राकट्यमेव न तु जननम् । अतोऽवतारः कथ्यते । अवतरणं प्राकट्यम्, तच्च तावन्मात्रमायां दूरीकृत्य स्वयं प्रकटीभावः । अथवा व्यापिवैकुण्ठादत्र भक्तोद्धारार्थमवतरणं वा । अत एव “जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन" इति गीतायां तयोरलौकिकत्वेन ज्ञातॄणां स्वप्राप्तिमुक्त्वा, “अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम्” इति वाक्येन तत्र मानुषदृशां मूढत्वस्य भगवतैव व्यक्तीकृतत्वात् । अप्राणः, दशविधप्राणरहितः। दिव्याकृतौ प्राकृतानां तेषां निवेशासम्भवात् । प्राणानां हि "यः प्राणेषु तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरम् , यः प्राणमन्तरो यमयति" इति श्रुत्या नियामकत्वाच्च । अमनाः सङ्कल्पविकल्पात्मक मनोरहितः, तत्र तस्या- प्यानन्दमयत्वात् । मनसोऽपि “यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरम् , यो मनोऽन्तरों यमयति" इति श्रुत्या नियामकत्वाच । शुनः स्वच्छः, मलविक्षेपा- ज्ञानादिदोषरहितः, आनन्दमात्रकरपादमुखोदरादित्वात् । अक्षरात्परतः परः, क्षरात्परतोऽक्ष- रात्परः पुरुषोत्तमः “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति गीतावाक्यात् । अथवाऽक्षरात्परो हि नित्यलीलोपकरणस्तोमस्त- तोऽपि परः श्रेष्ठ इत्यर्थः।" इत्याहुः । अत्रापि भगवतोप्राकृतदिव्याकृतित्वं स्पष्टमेव । न चामूर्तपदेनाकारनिषेधः शक्यः । पुरुषपदेनाकारस्यैव प्रतिपादितत्वात् । "तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूः" इति मधुब्राह्मणोपसंहारश्रु- , " किरणावल्या समेतम् । ६७ , युक्ताः गोविन्दं स्वविषयान्प्रति हरन्तीति हरयः इन्द्रियाणि, शता शतानि, नित्यलीलास्थ- भक्तेन्द्रियाभिप्रायेण दशप्राणाः प्राणानामिन्द्रियपदवाच्यत्वात् । अयं परमात्मा, वै निश्चयेन हरय इन्द्रियाणि, ब्रह्मणः सर्वरूपत्वात् ; दश प्राणापानव्यानसमानोदाननागकूर्मककलदेवद- तधनञ्जयभेदात् , “दशेमे प्राणा' इति बृहदारण्यकीयश्रुतेश्व; सहस्राणि, "अस्मिन् सहस्रं पुष्यासम्" इति श्रुतेः, बहूनि, अनन्तानि हरिशब्दशब्दितानीन्द्रियाणि प्राणिबाहुल्यात् । तदेतद्ब्रह्म अपूर्व यस्य कारणान्तरं नास्तीत्येवं रूपं, अनपरं यस्मादपरं किञ्चिन्नास्तीति सर्वस्य जगतो ब्रह्मरूपत्वात् , अनन्तरं, “यच्च किञ्चिजगत्सर्वं दृश्यते श्रूयतेऽपि वा, अन्तर्बहिश्च य- त्सर्वं व्याप्य नारायणस्थितः” इति श्रुतेः, अबाह्यम् सर्वान्तरत्वात् । सर्वान्तरत्वं हि अन्तस्त- धर्मोपदेशादित्यधिकरणे अन्तर्याम्यधिदैवादिषु इत्यत्र च प्रसिद्धमेव । सर्वानुभूः सर्वमनुभव- तीति सर्वानुभूः । अत्ता चराचरग्रहणात् इत्यत्र ब्रह्मणः सर्वांनुभवयोग्यत्वं स्पष्टमेव । इत्यनु- शासनमित्याज्ञा। न च तदेतद्ब्रह्मेति पूर्वेभ्यः "अयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्" इत्यादि- चतुर्दशपर्यायेभ्यो भिन्नं वाक्यमिति वाच्यम् । तच्छब्दात्पूर्वपरामर्शाद्विभागे साकाङ्क्षतया तद- भावात् । तथा हि पूर्वतत्रे "अर्थैकत्वादेकं वाक्यं साकाझं चेद्विभागे स्यात्" इत्यत्र भाट्टम- तानुसारेण यावत्सु पदेषु वाक्यत्वं पर्याप्तं तावत्सु पर्याप्तं न तु वाक्यसमूहे, तस्य विनि- योगानहत्वात् । वाक्यत्वं च यावत्स्वर्थैकत्वं विभज्यमानसाकाङ्क्षत्वं च तावत्सु । अर्थैकत्वं च भिन्नप्रतीतिविषयानेकमुख्यविषयराहित्यम् ; अन्यस्य दुर्वचत्वात् । अस्ति च गामानये- त्यादौ मुख्यविशेष्यभूताया भावनाया एकत्वात्तत् । दर्शपूर्णमासामनहोमादिवाक्येषु च भावनानामनेकासामपि भिन्नप्रतीतिविषयत्वाभावात् । व्रीहियववाक्ययोः “भगो वां विभ- जतु" इत्यादौ च सत्यपि भिन्नप्रतीतिविषयत्वे मुख्यविशेष्याया भावनाया एकत्वादथैकत्वम् । अतस्तत्रैकवाक्यत्वव्यावृत्यर्थं द्वितीयमन्वीयमानयोः पदार्थयोरनन्वये अनिवृत्ताकासत्वरूपं विशेषणम् , “स्योनं ते सदनं कृणोमि तस्मिन् सीद" इत्यत्रान्वये साकाङ्क्षत्वेऽपि भिन्न- वाक्यत्वादाद्यं विशेषणम् , इति जैमिनीयानुशासनेनैकवाक्यत्वे भिन्नवाक्यत्वाभावात् । न चेदं तच्छब्देन पूर्वोक्तरूपत्वं परामृशदप्यपूर्वमित्यनेन तन्निषेधतीति न दोष इति वाच्यम् । एवं तीनपरमित्यनेनानन्तरत्वादीनग्रिमानपि निषेधच्छून्यवादमेव प्रसञ्जयेत् । अतोत्र पूर्वत्वा- दीनां धर्माणामेव निषेध इत्यङ्गीकार्यम् । तथा सति “न शुष्केण न चाट्टैण जहार नमुचेः शिरः" इत्यत्र यथोभयात्मकस्य फेनस्याशुष्कत्वमनार्द्रत्वम् , एवमत्राप्येकैकतन्निषेधेन सर्वा- त्मकमेव बोध्यत इत्येव युक्तम् । अत एव गजेन्द्रस्तुतौ “स वै न देवासुरमर्त्यतिर्यङ् न स्त्री ६८ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- ? शेषस्य निखिलात्मकत्वं बोधितम् । तथात्राप्यन्ते सर्वानुभूरिति श्राव्यते । सर्वसत्त्व एव सर्वानुभवितृत्वसम्भवात् । न चेदं प्रलये न सम्भवतीति वाच्यम् । को नाम प्रलयः ? ध्वंसो वा प्रतिसञ्चरो वा ? नाद्यः, असत्कार्यवादप्रसङ्गात् । अन्त्यश्चेत् , अस्मदाद्यगोचर- वेऽपि सर्वं ब्रह्मगोचरमस्त्येवेति नासम्भवः । वस्तुतस्तु अखण्डब्रह्मवादे अस्मदायगोचरत्वमेव प्रलयः । “तस्माद्वा एतस्मात्" इति क्रमेण वा "स आत्मान स्वयमकुरुत"-इति युगपद्वा तगोचरत्वमेव, सृष्टिरितीच्छया समर्थनान्न कश्चिद्दोषः । एवं अस्थूलमित्यारभ्य सर्वानुभूरित्यन्ताः श्रुतयो व्याख्याताः । तत्र नैकेनापि पदेन निराकारं ब्रह्मेत्यर्थः स्फुटति, किन्तु प्राकृताकार- रहितं "आनन्दमात्रकरपादमुखोदरादिः" इत्यलौकिकाकार एवाभिः श्रुतिभिः प्रतिपाद्यत इति निर्मत्सराणां विदुषां नाप्रत्यक्षम् । अलौकिकारत्वं तु ब्रह्मणो न दूषणाय, प्रत्युत भूषणायैव । “तत्तु समन्वयात्" इत्यत्रोक्तं शाङ्करमतं श्रीमद्वाक्पतिभिर्भाष्ये पण्डितपुरन्दरैश्च प्रकाशे, अवतारवादावल्यां च सहस्रशः खण्डितमिति नात्र विस्तरः । प्रकृतमनुसरामः । अस्थूलादिश्रुतीनां व्याख्यानेन "रूपाद्याकाररहित"मित्यारभ्य "निराकारमेव ब्रह्मावधारितव्यम्" इत्यन्ताः शाङ्करभाष्यस्थाः पतयो दत्तोत्तरा वेदितव्याः। अतः परमग्रिमं विचार्यते । "इतराणि त्वाकारवब्रह्मविषयाणि वाक्यानि न तत्प्रधा- नानि । उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथा श्रुत- मेवाश्रयितव्यम् । सति तु विरोधे तत्प्रधान्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति । एष विनिगमनायां हेतुः। येनोभयीष्वपि श्रुतिषु सतीष्व- नाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति" वाक्यानीमान्यपि न वेदान्त- तात्पर्यवोधकानि । तथाहि-यदत्र "तत्परात्परविरोधे तत्परं बलवत्" इति न्यायमुपक्षिप्य श्रुतिषु विरोधः प्रदश्यते, तदसङ्गतम् । नात्रैका श्रुतिः प्रधानाऽन्याऽप्रधानेति । सर्वासां निराकारसाकारप्रतिपादिकानां श्रुतीनां ब्रह्मपरत्वात् । आकारप्रतिपादिकाः श्रुतय उपासना- विधिप्रधानाः सोपाधिकं ब्रह्म प्रतिपादयन्तीत्यपि मुधा, एकस्यैव स्वतन्त्रस्य ब्रह्मणः सोपाधि- कनिरुपाधिकभेदाभावात् , उपाधिपक्षस्य अशास्त्रीयत्वाच्च । अतो चैका प्रधानेतराञाप्रधाना, तयोः प्रधाना बलवत्यन्या निर्बलेत्येवम्विधा कल्पना परिहता बोध्या। नात्र ताीयो दाशमिको. वा न्यायः । उभयविधास्वपि श्रुतिषु गुणप्रधानत्वाभावाद्वाध्यबाधकताभावाचेति दिक् । . एवमेव "प्रकाशवच्चावैयर्थ्यात्" इत्यत्रापि निरुपाधिकस्यैव ब्रह्मणोऽऽङ्गीकारान्न घटते त्वदुक्तः पक्षः । उपाधीनां चाविद्याप्रत्युपस्थापितत्वात्" इति युक्तिरपि “विद्याऽविद्ये मम तन विद्ध्यद्धव शरीरिणाम् , बन्धमोक्षकरी आये माययैव विनिर्मिते" इति श्रीमत्तरी- किरणावल्या समेतम् । , , भवितुमर्हति । अतो निरुपाधिकमेव साकारं ब्रह्म स्वीकर्तव्यम् । न च निरुपाधिकस्य निराकारत्वं वाच्यम् । “आनन्दरूपममृतं यद्विभाति" इति मुण्डके, “अकारं ब्रह्माणं नाभौ, उकारं विष्णुं हृदये, मकारं रुद्रं भ्रूमध्ये, ॐकारं सर्वेश्वरं द्वादशान्ते आनन्दामृतरूपं प्रणवं घोडशान्तम्" इति तापनीये, “आनन्दमात्रकरपादमुखोदरादिः" इति पञ्चरात्रस्मृतौ "अथवा परमात्मानं परमानन्दविग्रहम्" इति याज्ञवल्क्यस्मृतौ च आनन्दाकारस्यैव सिद्धत्वाच । अस्मिन् सूत्रे प्रकाशवदिति न मतुप्, किन्तु तृतीयान्ताद्वतिः। पूर्वसूत्रादेकदेशभूतमपि तत्पदमनुवर्तते । तद्ब्रह्म प्रकाशेन तुल्यम् । यथा प्रकाशो व्यवहार्योऽव्यवहार्यश्च, न हि स्वतः सम्पादयितुं शक्यते स्थापयितुं वा । आगन्तुके तु सूर्ये मेघाद्यभावे च सान्निध्यमा- त्रेण व्यवहारः कर्तुं शक्यते । तथा लौकिकवाङ्मनोमिन शक्यते व्यवहर्तुम् । ईश्वरसन्नि- धाने तु शक्यत इति द्वयमाहुः-"मनसैतदाप्तव्यम्", "तं त्वौपनिषदं पुरुषं पृच्छामि” यतो वाचो निवर्तन्ते” इत्यादिश्रुतयः । अन्यथा शास्त्रं व्यर्थं स्यात् । सूत्रस्थचकाराद्धर्माणां तथात्वविरोधः परिहृतः । “आसीनो दूरं व्रजति," "अपाणिपादो जवनो ग्रहीता", इत्यादौ भगवद्धर्मा अलौकिका एवोच्यन्ते । अकारणककार्यकवचनाद्ब्रह्मधर्माणां चाकार्यत्वं बोधयति । तस्मान्न शास्त्रवैयर्थ्यम् । "आह च तन्मात्रम्” इत्यत्रापि “स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्लो रसघन एवैवं वा अरेऽयमात्मा कृत्स्नः प्रज्ञानघन एव" इति बृहदारण्यकीयश्रुत्या विलक्षण- रूपान्तररहितत्वं साध्यते, तदप्ययुक्तम् । विलक्षणरूपं तु ब्रह्मणो भूषणायैव । श्रुत्यर्थस्तु- यथा सैन्धवघनः लवणपिण्डः अनन्तरोऽबाह्यः बहिरन्तश्च रसघनः तथा स आत्मा अनन्त- रोज्बाह्यः बहिरन्तश्च सर्वत्र कृत्स्लोऽपि प्रज्ञानघन एव । तथा च कृत्स्नस्य घनत्वोत्त्या शास्त्रतः प्रतीयमानस्य सर्वस्य केवलज्ञानात्मकताया एव सिद्धेः, स्वरूपस्य च आनन्दमात्र- त्वात् , तदतिरिक्तानामिन्द्रियाणामभावः सूच्यते निरुक्तश्रुत्या । न तु साकारतानिषेधः । अन्यथा प्रज्ञानधन एवेत्युक्त्वा एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति इति न वदेत् । अस्मिन्नेव प्रकरणे पूर्वश्रुतौ वेदनिःश्वासायनभूतसमुत्थानादेः श्रावणेन श्वासोच्छास- जगत्स्थापनभूतसमुत्थापनतदनुविनाशनक्रियाश्चोच्यन्ते, तेन सर्वथैव न त्वदभिमतं निराकार ब्रह्म, किन्तु साकारं, सर्वाकारं, आनन्दाकारमेव ब्रह्म प्रतिपद्यते । "दर्शयति चाथो अपि स्मयते” इत्यत्रापि “अथात आदेशो नेति नेति", "अन्य- देव तद्विदितादथो अविदितादधि" "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इत्या- दिभिः निर्विशेषत्वं प्रतिपाद्यते तदपि मन्दम् । निरुक्तश्रुतीनां समन्वयस्तु श्रीमत्प्रभुचरणै- , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- NDIA न वा स्मृत्याऽभीष्टसिद्धिः कल्पनीया। तथा हि-"ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते, अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते" इत्यत्रापि सदसत्त्वनिषेधेनापि न त्वदभीष्टं सद्ध्यति । न सत्तन्नासदिति असत्त्वं सत्त्वं च विरुद्धौ धौ तयोराश्रयं "न हि विरोध उभयं भगव- त्यपरिगणितगुणगण ईश्वरे” इत्यादिभागवतवाक्यैरुच्यते । न सत्तन्नासदुच्यते इत्यनेन ज्ञेयस्य ब्रह्मणः सत्त्वाभावोऽसत्त्वाभावश्चोच्येत चेत् , शून्यवाद एव प्रसज्येत । ब्रह्मणोऽस्ति शब्दावाच्यत्वे नास्तिशब्दवाच्यशशविषाणवन्नास्तित्वप्रसङ्गश्च दुर्वारः । सर्वासां बुद्धीना- मस्तिनास्तित्वानुगतत्वेन ब्रह्मणोऽन्यतरविषयत्वेन त्वन्मतेऽपि अनिर्वाच्यत्वस्वीकारे अनि- वाच्यत्वप्रकारकं ब्रह्म न निर्विशेषं भवेत् । न च ब्रह्म न सद्भावाश्रयः, नासदभावाश्रयः, इत्येव “न सत्तन्नासदुच्यते” इत्यनेन ज्ञाप्यते; अतो नोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्दप्रवृत्तिहेतूनां तत्रासम्भवादिति वाच्यम् । शब्दस्य ब्रह्मण्येव मुख्यवृत्तित्वात् । “सर्वे वेदा यत्पदमामनान्ति" इति श्रुतेः "वेदैश्च सर्वैरहमेव वेद्यः” इत्यादिस्मृतेश्च मुख्ययैव वृत्त्या शब्देन ब्रह्मपदार्थावगतेश्च । तद्यथा-गौरश्वः इति जातितः, पचति पठतीति वा क्रियातः, कृष्णः शुक्लः इति गुणतः, धनी गोमानिति सम्बन्धतः अर्थ प्रत्याययन्ति । एवं च यं कञ्चि- धर्म स्वात्मानं वा प्रवृत्तिं वा निमित्तीकृत्य अर्थ प्रत्याययन्ति शब्दाः । अत्रापि ब्रह्मत्वेन धर्मेण, सर्वाश्रयत्वेन वा सम्बन्धेन ब्रह्मप्रत्ययो भवेदेव । नोचेदीश्वरसिद्धिरेव न स्यात् । न च लक्षणयेति वाच्यम् । लक्षणापक्षस्य श्रीमदाचार्यचरणैः पण्डितपुरन्दरैश्च खण्डित- त्वात् । अतोऽभिधयैव ब्रह्मपदार्थावगतिरिति सद्भिराकलनीयम् । विस्तरभिया विरम्यते । तच ब्रह्म नैव नीरूपं किन्तु साकारमेव । इतः परं ज्ञेयत्वेन “सर्वतः पाणिपादान्तं सर्वतोऽक्षिशि- रोमुखम्" इत्यादिना तत्स्वरूपस्य प्रतिपादनात् । सर्वतः पाणिपादादिकथनेनालौकिकाकार- त्वमेव सिद्ध्यति । सदसतोः क्षेत्रत्वाज्ञेयनिरूपणे निषेधः । तेन प्रपञ्चधर्मा न भगवति भवन्ति, किन्तु तद्भिन्ना अलौकिका एव धर्मा इत्येव रमणीयम् । प्रपञ्चधर्मा ब्रह्मणि उपचारादुच्यन्ते इत्यत्र निदर्शनार्थं "अत एव चोपमा सूर्य- कादिवत्” इति सूत्रयाञ्चक्रुर्व्यासपादाः । न तु "उपाधिनिमित्ता पारमार्थिकी विशेषव- तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते" इति ध्येयम् । "अम्बुवदग्रहणात्तु न तथात्वम्" "वृद्धिहासभाक्त्वमन्तीवादुभ- यसामञ्जस्यादेवम्” इसेताभ्यां निरुक्तोपमाया युक्तायुक्तत्वं विचार्यते, तत्र विशेषतो नास्ति किञ्चित् खण्डनीयमतोव न किञ्चित ब्रवीमि । “दर्शनाच" इत्यत्रापि तथा । अत्र किरणावल्या समेतम् । कर्तृत्वादीनामलौकिकत्वम् एवं नारायणस्य परब्रह्मत्वं साकारत्वं च प्रकटय्य ब्रह्म सर्वथा निर्धर्मक निर्गुणं चेति मतं परिहतं तस्य कर्तृत्वावलौकिकधर्मानिरूपयति- . भाष्ये निराकारपक्षे काश्चन युक्तयः समुत्क्षिप्तास्तासां सर्वासामपि युक्तीनामत्रैव पूर्वपक्षरूपेणा- स्माभिरुपन्यस्य खण्डनं कृतमेव । अतो नात्र तत्खण्डनार्थ प्रवृत्ता भवामः। मुहुर्मुहुरुपाधि- पक्षस्य खण्डनेन न भवेत्पिष्टपेषणमिति मनसि निधायैवोपेक्ष्यते । एवं नारायण एव परं ब्रह्मेत्युक्त्वा कर्तृत्वं प्रतिपाद्यते-कर्तृत्वाद्यलौकिकधर्मा- निति । उत्पत्तिस्थितिसंहृतयो भगवानेव करोतीत्यर्थः । आदिशब्देनात्तृत्वान्तरत्वान्त- यामित्वादृश्यत्वादिगुणकत्वसर्वप्रसिद्धत्वव्यापकत्वसार्वात्म्यसाधार- त्वप्रभृत्यलौकिका एव धर्माः । यत्तु क्षित्यकुरादिकं कर्तृजन्यं कार्यत्वाद्धटवदिति कार्यलिङ्गाद्यनुमानैः कर्तृत्वं साध्यते, यच्च लौकिकैहेतुभिः साध्यं तत्कथमलौकिकं भवेत् , इति, तन्न परब्रह्मणो लौकिकत्वात्तत्कर्तृत्वमप्यलौकिकमेव । न ह्यनायासेन विविधलीलाच- तुरस्य मनसाप्याकलयितुमशक्यरचनस्य अनेककोटिब्रह्माण्डानामुत्पत्तिस्थितिभङ्गकरणं लौकि- कम् । किञ्च लोके पुरुषैः खोदरपूरणार्थ पाकनिष्पत्त्यर्थमपि महानायासः साध्यते, सोपि कदाचित्सफलप्रयत्नः कदाचिद्विफलप्रयासश्च दृश्यते । महतायासेनापि सम्पादितं कार्य भगवदिच्छामन्तरा नैव सिद्ध्यति । भगवांश्च निखिलमप्यनायासेनैव करोति, जगदुत्पादने भगवता यत्नः क्रियत इति न केनापि दृष्टं श्रुतं वा । किञ्च लोके हि विषवृक्षोऽपि सम्वर्ध्य स्वयं छेत्तुमसाम्प्रतम्' इत्यभियुक्तोक्तानुसारेण नैव कश्चित् स्वोत्पादितं वस्तु विलयं नयति भगवाँश्च चिक्रीडिषया जगदुत्पादयति, तत्र क्रीडति संहरति च । कः खलु स्वपुत्रं पत्नी वा व्यापादयेत् । अतो भगवतो निर्लेपत्वात्तस्य कर्तृत्वादिकं निखिलमप्यलौकिकमेव । यत्तु ब्रह्मणो निमित्तकारणत्वमेव नोपादानकारणमित्युच्यते तदपि न “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसम्विशन्ति तद्ब्रह्म विजिज्ञासव” "सर्व खल्विदं ब्रह्म तज्जलान्" "जन्माद्यस्य यतः शास्त्रयोनित्वात्" इत्याद्यनेकश्रुतिसूत्रैर- भिन्ननिमित्तोपादानत्वं स्फुटीभवति । अत्तृत्वं-समन्वये द्वितीयपादे "अत्ता चराचरग्रहणात्" इत्यधिकरणे प्रतिपादितं व्यासपादैः । तत्र कठवल्लीथं “यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनम् , मृत्युर्यस्योपसेचनं ७२ श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- संहारकत्वं शिवस्योच्यते, इति चेत्सत्यम् , शिवस्यापि परब्रह्मणस्तमोरूपाधिष्ठातृत्वाद्भगवदंश- त्वात्संहृतिकार्ये नियोजितत्वान्न तस्य खतत्रमत्तृत्वम् । निरुक्तश्रुतैब्रह्मप्रकरणपठितत्वाचा- लौकिकमत्तृत्वं नारायणस्यैव । आन्तरत्वं-"अन्तस्तद्धर्मव्यपदेशात्" इत्यत्र समन्वये प्रतिपादितम् । “य एषोऽ- न्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदितेति: ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदेत्यधिदैवतमथाध्यात्ममथ य एषोऽक्षिणि दृश्यते” इत्यादि- छान्दोग्यश्रुतेः । अत्रादित्यान्तर्दृश्यमानः परमात्मैव । कुतः ? तद्धर्मोपदेशात् , उदित्यादे- ब्रह्मधर्मस्योपदेशात् । अयम्भावः-कारणं ब्रह्मकार्य जगदिति स्थितम् । तत्र यथा कार्या- साधारणधर्मा विकारितादयो न कारणे गच्छन्ति तथा कारणासाधारणधर्मा अपि कार्ये कारणधर्माश्चोपजीव्यत्वाइलिष्ठाः, अतोऽपहतपाप्मत्वादीनां ब्रह्मधर्माणामत्रोपदेशावि । हिरण्मयशब्दस्तु न विकारे प्रकृतिभूतहिरण्मयशब्दस्य त्र्यच्त्वात् । केशादयस्तु नाम- मात्रेण तुल्या न वस्तुतः। परिच्छेदधर्मस्तु ब्रह्मधर्म एव "अणोरणीयान्" इत्यादिश्रुतेः । चाक्षुषत्वं तु भगवदिच्छया, नत्विन्द्रियसामर्थ्यात् । “तस्यैष आत्मा विवृणुते तनुं खाम्" इत्यादिश्रुतेः । अस्थूलादिवाक्ये स्थूलत्वादिनिषेधस्तु लौकिकानामेव तेषाम् । अतो ब्रह्मण एव सर्वान्तरत्वं तच्च न लौकिकं सम्भवतीति ध्येयम् । अत्र भिक्षवः-काण्वपञ्चमाध्यायस्थं “यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरो योऽशनाया पिपासे शोकं मोहं जरां मृत्युमत्यति" इति वाक्यमुपन्यस्य तदर्थस्य ब्रह्मत्वं चिन्तयन्ति । तदविरुद्धम् । अन्तर्यामित्वं-"अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्" इत्यत्र चिन्तितम् । “य इमं च लोकं परं च लोकं सर्वाणि भूतान्यन्तरो यमयति" इति प्रकृत्य वाजसनेयके श्रूयते "यः पृथिव्यां तिष्ठन् यः पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरम् , यः पृथिवीमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः" इति । अत्राधिदैवादिष्वन्तर्यामि किं पृथिव्याघभिमानी देवताविशेष उत योगप्राप्ताणिमाद्यैश्वर्यो जीव उत परमात्मा इति संशये; अन्तर्यामिशब्दोऽन्तर्यमननिबन्धनोत्र पृथिव्याघभिमानिनी देवतां प्रकाशयति, योगप्राप्तसिद्धिं जीवान्तरं वा, न तु परमात्मानम् । तत्रास्याः सञ्ज्ञाया अप्रसिद्धत्वादिति प्राप्तम् । तत्राहुः-परमात्मैव । कुतः १ तद्धर्मव्यपदेशात् । सर्वनियमनशक्तस्तत्रैवोपपत्तेः । .. .

किरणावल्या समेतम् । ७३ अदृश्यत्वादिगुणकत्वं-"अदृश्यत्वादिगुणको धर्मोक्तेः' इत्यत्र सर्वाऽपि मुण्डको- पनिषद्विषयवाक्यतयोक्तेति ज्ञेयम् । अदृश्यत्वादिगुणकोऽक्षरत्वेनोक्तः परमात्मैव विश्वरूपजन- कस्य तत्रोक्तेः । तेनादृश्यत्वादिगुणकत्वरूपो धर्मोऽप्यलौकिक एव । सर्वत्रप्रसिद्धत्वं तु-"सर्वत्रप्रसिद्धोपदेशात्" इत्यधिकरणे छान्दोग्यस्थशाण्डिल्य- विद्यां विषयीकृत्य साधितम् । तत्र “मनोमयः प्राणशरीर" इत्यनेन विज्ञानमयस्य जीवस्य मनोमयत्वादिधर्मवैशिष्टयात्तैरेव च धर्मैः कर्तृत्वनिर्वाहाब्रह्मणो जगत्कर्तृत्वमपि नोपपद्यत इत्याशङ्कायां जीवस्य ब्रह्मत्वेनोपासनं निवार्य सर्ववेदान्तप्रसिद्धब्रह्मण एवोपदेशाब्रह्मैवोच्यत इति सर्ववेदान्तप्रसिद्धत्वं स्फुटमेव । गीतास्मृतावपि “अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" इति पुरुषोत्तमस्तु क्षराक्षरातीतः प्रसिद्ध एव । व्यापकत्वं तु-"यच्च किञ्चिजगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः" इतिश्रुत्या स्पष्टमेव । ननु साकारस्य व्यापकत्वं कथमुच्यत इति चेत्, श्रृयताम्-"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरूत विश्वतस्पात् , सम्बाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन् देव एकः" एक अद्वितीयो देवो दशविधलीलाविशिष्टः । दिवुधातोर्दशविधार्थकत्वात् । द्यावाभूमी जनयन् स्वस्मादा- विर्भावयन् बाहुभ्यां सन्धमति । धमतिर्गत्यर्थः सङ्गच्छते । साधनैर्विनैव सर्वं सृजती- त्यर्थः । कीदृशः । विश्वतश्चक्षुः सर्वतः चढूंषि यस्य । विश्वतोमुखः सर्वतो मुखानि यस्य । विश्वतो बाहवो भुजा यस्य । उतापि च विश्वतः पादा यस्य । 'पादस्य लोपो हस्त्या- दिभ्यः' इति पादस्यान्यलोपः । अत्र एकस्यैव सर्वकर्तुरीश्वरस्य चक्षुरादीनीन्द्रियाणि सर्वत्र सन्तीत्युक्तम् , तेनासावप्राकृताकारः साकारोऽपि सर्वत्र व्याप्य तिष्ठति । एवमेव “सहस्र- शीर्षा पुरुषः” इत्यादयोऽनेकशः श्रुतयस्तस्य साकारत्वं व्यापकत्वं च प्रतिपादयन्ति । नहि विरुद्धधर्माधारस्य तस्य किञ्चिदप्यशक्यम् । “सर्वोपेता च तद्दर्शनात्" इति व्याससूत्रेऽपि ब्रह्मणः सर्वोपेतत्वमुक्तम् । "व्याप्तेश्च समञ्जसम्" इति वैयासन्याये च 'साकारमेव व्याप- कम्' इति स्पष्टमेव ज्ञापयाञ्चक्रुः श्रीमदाचार्यचरणाः। “सर्वतःपाणिपादान्तम्" इति गीताया- मपि साकारस्य व्यापकत्वमुच्यते श्रीमुखेन । “सर्वरसः" इति छान्दोग्यश्रुत्या रसात्मकत्वेनैव तस्यावस्थितेरुक्तत्वाच्च इति । “सच्चिदानन्दरूपं हि ब्रह्म व्यापकमव्ययम्" इति कारिका- ऽप्यत्राऽनुसन्धया। “निर्दोषपूर्णगुणविग्रह आत्मतत्रो निश्चेतनात्मकशरीरगुणैश्च हीनः" इति । गुणोपसंहारन्यायश्चानुसन्धेयः। “आत्मनि चैवं विचित्राश्च हि" इतिसूत्रमपि ब्रह्मणो विरुद्ध- धर्माश्रयत्वे हेतुः। “आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च त्रिविधभेदविवर्जितात्मा" इत्यादि- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- अकामयतेति । “स वै नैव रेमे", "तस्मादेकाकी न रमते", "स द्वितीय- मैच्छत्", "एकोऽहं बहु साम्" इतिश्रुत्युपदिष्टां चिक्रीडिषामकरोत् । क्रीडायाः प्रयोजनान्तरं नास्ति ननु क्रीडा हि सर्वत्र खानन्दफलैवावलोक्यते । नद्याप्तकामस्य प्रकटान- न्दविग्रहस्य ब्रह्मण आनन्दापेक्षास्ति । न च तत्वरूपानन्दो न्यूनो यतोऽधिकाथ चिक्रीडिषा स्यात् । इष्टापत्तिश्चेत्प्रलये न्यूनानन्दत्वप्रसङ्गो दुष्परिहर इति चेत्, न; “लोकवत्तु लीलाकैवल्यम्" इति सूत्र एव भगवता बादरायणेन समाहितत्वात् । तत्र हि “न प्रयोजनवत्त्वात्” इति सूत्रेण न ब्रह्म जगत्का- रणम् , कुतः ? प्रयोजनवचात् । कार्य हि प्रयोजनवदृष्टं लोके, ब्रह्मणि पुनः प्रयोजनवत्त्वं नैव सम्भाव्यते, आप्तकामश्रुतिविरोधात्, इति पूर्वपक्षे, "लोकवत्तु लीलाकैवल्यम्" इत्याह । अत्र तुशब्दः पूर्वपक्षं व्यावर्तयति, लोकवदेव हि लीला । न हि लीलायां किञ्चित्प्रयोजनमस्ति, लीलाया एव प्रयोजनत्वात् । यथा जगति नृपैगया क्रियते, नास्ति तत्रामध्याहरणादिक प्रयोजनम् , सेवकैरपि तत्सम्भवात् । किन्तु सा लीलैव । न हि खराज्यसु- खात्तत्सुखं विशिष्टं येन तत्रोपपद्येतापि प्रवृत्तिः। एवं ब्रह्मापि प्रयोजनं विना खेच्छयैव क्रीडतीति निगमादिषु तथासिद्धत्वात् । तस्य कर्तुमकर्तुमन्यथा- कंतु सर्वदा खतन्त्रत्वेन लीलाया अनुयोगविषयत्वाभावाच । सैव कैवल्यं यतः । न च कारणं विना कार्याभाव इति शक्यम् , इच्छाया नित्यत्वेन तत्र तदपेक्षाभावादिति नात्र शङ्कापकावकाशः। आत्मा जनानाम्" "स आत्मान५ स्वयमकुरुत" "अहमात्मा गुडाकेश सर्वभूताशयस्थितः" "सर्वोपेता च तद्दर्शनात्" इत्यादिश्रुतिस्मृतिन्यायैः साध्यते । सर्वाधारत्वं हि “अक्षरमम्बरान्तधृतेः" इतिसूत्रे प्रतिपादितमेव । एते सर्वेऽपि धर्मा अलौकिका एवात्र ज्ञेयाः । चिक्रीडिषामिति । कर्तृत्वादिकं निखिलमपि रमणार्थमेव। न हि प्रयोजनान्तरं कल्प्यम् । "क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते" "क्रीडाभाण्डमिदं विश्वम्" इत्यादिवाक्यैः क्रीडा- थमेव सर्व करोतीति ध्येयम् । लीलाया एव प्रयोजनवत्त्वादिति । “स द्वितीयमै- किरणावल्या समेतम् । एकाकित्वे सन्देहनिरासः न च "एकोऽहं बहु स्याम्" “स द्वितीयमैच्छत्” इत्यादाविच्छोपलब्ध्यै-. काकित्वकथनं न समजसमिति शङ्यम् ; तथात्वे "एकाकी हयमारुह्य जगाम गहनं वनम्" इतिपुराणीयवाक्यानुपपत्तेः, तदीयज्ञानेच्छावस्त्रशस्त्रादीनां सत्त्वात् । किञ्च, फलं भुञ्जानोऽयमत्र तिष्ठति, एकं फलं भुङ्क्ते, फलमेकाकी मुक्के एवम्प्रकारकवाक्यासङ्गतिर्भवेत् । फलनिष्ठगुणरसक्रियाजात्यादीनामुप- लम्भेनैकत्वस्थानुपलम्भात् । अतोऽत्रैकाकिपदं सहायरहितत्वज्ञापकमेव । तच्छब्देन हिरण्यगर्भो न ग्राह्यः ननु “स द्वितीयमैच्छत्" इत्यत्र तत्पदेन हिरण्यगर्भस्योपदिष्टत्वेन ब्रह्म- बोधकत्वस्थानौचित्यमिति चेत्, न; इच्छारहितत्वेन तस्य सिद्धेर्द्वितीयस्य ब्रह्मण एव तदा सत्त्वेन द्वितीय इच्छोत्पत्तेरभावात् । तस्य ब्रह्मणः पूर्ववर्तमा- भगवान् सहायान्तरं विनैव सर्वं करोतीति प्रतिपादयितुमाहुः-नचेति । एकाकि- शब्दस्य सहायान्तराभाववत्त्वमर्थः । “एकादाकिनिच्चासहाये” इत्यनेनासहायवाचकादेक- शब्दात्स्वार्थे आकिनिष्प्रत्यये सिध्यत्ययमेकाकिशब्दः । “स एकाकी न रमते" इत्यत्रापि सहायान्तराभावादेकाकिपदोपन्यासः। इच्छोपलब्ध्येति । इच्छायाः स्वस्मिन्नेव वर्तमान- त्वात् तच्छक्तित्वाच्च सहायान्तराभावः स्फुटमेव प्रतीयते । शक्तिशक्तिमतोरभेदात् । ननु मायासहायत्वं कथं नाङ्गीक्रियत इति चेत् , न; मायाया अपि तच्छक्तित्वात् । नहि स्वशक्तिः खात्मानमेवाभिभावयति । तस्या. अपि खेच्छाधीनत्वात् । नहि लोके स्वशक्त्याऽभिभूतः कश्चिदृश्यते । नहि माययाऽभिभूतः परमेश्वरः सर्व करोतीति वाच्यम् ; मानाभावात् , श्रुतिसूत्रविरोधाच्च । भगवान् मायां खेच्छया नियोजयति, नहि माया भगवन्तम् , तस्या- स्तदधीनत्वात् । न वा माया स्वतन्त्रेति वाच्यम् , मायाया भगवतश्चेत्युभयोः स्वातन्त्र्यप्रति- पादनेन द्वैतापत्तेः, भगवच्छक्तित्वविरोधाच्च । न च कालादीनां सहायकत्वं वाच्यम् , "आत्मनि चैवं विचित्राश्च हि" इति वैयासन्याये आन्तररमणे यथा देशकालापेक्षा नास्ति तथैव बहिरपीति निपुणं "अनन्तरोऽबाह्य" इति बृहदारण्यकश्रुत्या विवेचितम् । अतो भग- वान् सहायान्तरं विनैव सर्व करोतीति ज्ञेयम् । तत्पदेन हिरण्यगर्भो न ग्राह्य इत्यत आहुः-नन्विति । अत्रायं भावः-मायावादि- भिर्वृहदारण्यकप्रथमाध्यायचतुर्थब्राह्मणस्यार्थो धातृपरत्वेन कृतः । तत्र हिरण्यगर्भापरपर्यायो श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- प्रजाः सृजेयेति। नत्वेनैकाकित्वस्य बाधाच । किञ्च "सदेव सोम्येदमग्र आसीत्", "तदैक्षत", "आत्मा वा इदमेक एवाग्र आसीत्” इत्यादिनिगमवाक्येष्वपि तस्यैवोपादे- यत्वं भविष्यति । न भविष्यति, एकपदविरोधात् इति चेत्, अत्राप्येका- किपदविरोधादपीति दिक। प्रकृतमनुसरामः। पूर्वनिरूपितामिच्छां विशिनष्टि-प्रजाः सृजेयेति । प्रकर्षण ब्रह्मणः सकाशाजायन्त इति प्रजाः । जननं हि आविर्भाव एव । जनीधातोः प्रादुर्भावबोधकत्वात् । तथैव नाशस्तिरोभाव एव । णशधातो- रदर्शनार्थकत्वात् । तौ हि "आविर्भावतिरोभावाः खपदे तिष्ठन्ति" "आवि- र्भावतिरोभावौ शक्ती वै मुरवैरिणः” इति श्रुतिपुराणवचनाभ्यां भगवतः शक्तिखरूपावेव । आविर्भावतिरोभावशब्दौ करणव्युत्पन्नौ भावव्युत्पन्नौ च । तत्र प्रथमे पक्षे आविः प्रकटं भावयति कारणान्तःस्थं कार्य बहिः प्रकटी- रण्यगर्भस्य प्रादुर्भावादिति भावः । “हिरण्यगर्भ जनयामास पूर्वम्" इतिश्रुतेः । “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति श्रुतेश्च । “नतोऽस्म्यहं त्वाऽखिलहेतुहेतुं नारायणं पूरुषमाधमव्ययम् । यन्नाभिजातादरविन्दकोशाब्रह्माऽऽविरासीयत एष लोकः” इति भागवतादिष्वपि भगवतो नाभिकमलात्तत्प्रादुर्भावस्सोक्तत्वाच । प्रजा इति । "उपसर्गे च सज्ञायाम्" इति जनेर्डः । प्रादुर्भवनं धात्वर्थः । प्रादुर्भावश्च विद्यमानस्यैव वस्तुनो नाविद्यमानस्य । भगवान्नारायणो जीवान् आविष्कर्तुमैच्छदित्यर्थः । मूले सृजेयेत्यात्मगामिनो लिङि रूपम् “इच्छार्थेषु लिङ्लोटौ" इति पाणिनीयानुशासनात् । एवंच सर्जनेच्छया जीवान् प्रादुश्चके नारायण इति वाक्यार्थः । ननु सर्जनं हि लोकेऽवि- धमानस्यैव वस्तुनः क्रियते, प्रजानां सर्जनेच्छा हि नैव भवितुमर्हति तासामाविर्भावेच्छा, पुनः कथमयमाविर्भाववाद उपक्षिप्यते सतां पुरतः ? अत्रापि श्रूयताम्-सृजविसर्गे इति धातोः सम्बन्धोर्थः । विसर्गः सम्बन्धः, “संसृज्यते सरसिजैररुणांशुभिन्नैः" इत्यभियुक्तोक्तेः,. अरुणांशुभिन्नैः अरुणकिरणविकसितैः सरसिजैः कमलैः सम्बध्नातीत्यर्थः । वस्तूनां सर्जने चोपादानकारणस्य तत्तदाकारैः सम्बन्ध एव सर्जनमर्थः । घटं करोति कुम्भकार इत्यत्र, मृदा, पृथुबुनोदराकारेण सम्बन्ध एव घटपदार्थः । घटो ध्वस्त इत्यत्राप्याकारस्यैव तिरोभावः । तेनोपादानकारणस्याकारेण सम्बन्धः सर्जनम् , विसर्गोधात्वर्थः इच्छा च लिङर्थः। तेन सर्जने- किरणावल्या समेतम् । . धातुस्त्वकर्मकः सम्बन्धार्थः, अत्र हि प्रजाः सृजेयेति श्रुतौ सकर्मकः प्रयोगो दृश्यते, कथं तर्हि तस्य सम्बन्धोऽर्थः सिद्ध्यतीति चेत् , सत्यम् , तौदादिकस्य सृजिधातोः प्रजाः सृजती- त्युदाहरणमुपन्यस्य सकर्मकत्वं प्रतिपादितम् , तत्र विसर्गस्य उत्पादनमर्थः । उत्पादनमप्या- विर्भाव एव । उत्पूर्वस्य गत्यर्थकात्पदधातोः तिन् प्रत्यये उत्पत्तिरिति साधुस्तस्य च उद्गमन- मर्थः, उद्गमोऽप्याविर्भावातिरिक्तो नास्ति । एवंच प्रजायन्त आविर्भवन्ति ताः प्रजाः। जायत इति जन्म जनीधातोर्मनिनि प्रादुर्भावार्थः । भागवतेऽपि “भूतमात्रेन्द्रियधियां जन्मसर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः” इत्यत्र सर्गलीलाया विसर्गलीलायाश्च आविर्भाव एवार्थः । एवमेव नाशशब्दस्यापि तिरोभावोर्थः । णश अदर्शन इति धातोपनि अदर्शनार्थों नाशशब्दो व्युत्पद्यते स च तिरोभाव एव । मृतिशब्दस्यापि प्राणत्यागोर्थः । स च संयोग- विनाश एव । एवंच जन्मोत्पत्तिमृतिनाशशब्दैराविर्भावतिरोभावावेव योगरूढौ सिध्यतः । तथाच आविर्भावो नाम विद्यमानस्य वस्तुनोऽनुभवयोग्यत्वम् । तदभावश्च तिरोभावः । ननु आविर्भावो घटस्य कारणव्यापारात्प्राक् सन् असन् वा ? अन्त्येऽसत्कार्यापत्तिः । आये कृतं तर्हि कारणव्यापारेण । नहि सति कार्ये कारणव्यापारप्रयोजनं दृश्यते । आवि- भीवे चाऽऽविर्भावान्तरकल्पनेऽनवस्थादोषः प्रसज्येत । अत्रोच्यते भवन्मतेऽसदुत्पद्यते, तर्हि केयमुत्पत्तिः ? सती वा असती वा ? सती चेत्तर्हि कृतं कारणैः । असती चेत् तस्या अप्यु- त्पत्यन्तरमित्यनवस्था तथैव । अथ उत्पत्तिपटान्नार्थान्तरम् , अपि तु घट एवासौ, तथापि यावदुक्तं भवति घट इति तावदुक्तं भवति उत्पद्यत इति ततश्च घट इत्युक्ते उत्पद्यत इति न वाच्यम् । तथासति पुनरुक्तिदोषः । विनश्यति इत्यपि न वाच्यम् । उत्पत्तिनाशयोर्युग- पदेकत्र विरोधात् । तस्मादियं घटोत्पत्तिः स्वकारणसमवाया वा, सत्तासमवाया वा ? उभ- यथापि नोत्पद्यते, अथच तदर्थानि कारणानि व्यापार्यन्ते । एवं सत एव घटादेराविर्भा- वाय कारणापेक्षेति युक्तमुत्पश्यामः । आविर्भावतिरोभावयोनित्यत्वात् , युगपत्प्रवृत्तिर्भविष्य- तीत्यपि न वाच्यम् , तयोर्भगवच्छक्तित्वात् तस्याश्च भगवत इच्छाधीनत्वात् । ननु भवन्मते तु सर्वत्र श्रुतिं प्रमाणयन्ति तर्हि कथमयं वादः श्रुतिप्रमाणव्यतिरेकेणैवो- पक्षिप्यत इति चेत्, मैवं विमनायेथाः एनमपि भवन्मनोरथं पूरयितुं समर्थोऽस्त्ययं वाक्पतिप्रादुर्भावितशुद्धाद्वैतब्रह्मवादः । तथाहि- ऋग्वेदसंहितायाम् “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते" इति “तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" "नामरूपे व्याकरवाणि" "तस्यैवम्विजानत वम्मन्वानस्य" इत्युपक्रम्य "आविर्भावतिरोभावावात्मनोऽन्नमात्मन" इत्यादिश्रुतिभिः “तदेतदक्षयं नित्यं जगन्मुनि- श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- . काले काले यथोचितम् । ईशेच्छयाऽऽविर्भूतं हि न भवेप्रतिबन्धकम् " "ब्रह्माण्डं वा कतिविधमाविर्भूतं तिरोहितम् । विधेया वा कतिविधास्तस्य भ्रूभङ्गलीलया" "तन्नि- रोधोऽस्यानुशयनमाविर्भावस्तु सम्भवः” “आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः” इत्या- दिस्मृतिपुराणवचनैश्च आविर्भावतिरोभावौ भगवतः शक्तीति ज्ञेयम् । तयोः शक्तित्वं तु. "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इत्यादिश्रुतेः। ननु भोः, भवन्मते तिरोभाव एवाभावानामन्तर्भावस्तर्हि किमयं तिरोभावः प्रमाणं प्रमेयं वा ? नाद्यः, शब्दप्रमाण एव प्रमाणान्तरमन्तर्भाव्यते भवद्भिः । अन्त्ये, प्रमाणशब्दो भवन्मते भाव- व्युत्पन्नोऽप्यङ्गीक्रियते, तेन तिरोभावापरपर्यायस्याभावस्य प्रामाण्यापत्तिः, तच्च न सम्भवति । नच नास्तीति व्याहारव्यवहाराः प्रमाणान्तरमन्तरेण न सम्भवन्तीति वाच्यम् , भूतलविशेषा- देवोपपत्तेः । न च नास्तिव्यवहारस्य 'अस्ति'व्यवहारविषयभूतं भूतलं नालम्बनम् , 'अस्ति-नास्ति'व्यवहारयोरेकविषयता प्रसङ्गादिति शक्यम् । अभावाख्यं प्रमेयमस्तीति वादिना भवता तु तदभावस्य 'अस्ति'व्यवहारविषयत्वमङ्गीकृतमेव । इतरथाऽभावाभावस्य नास्तित्वप्रसङ्गात् , ततश्चाभावोऽपि नास्तिव्यवहारे विषयो न स्यात् । अथ यद्यप्यभावस्य खापेक्षया अस्तिव्यवहारविषयत्वम् , तथापि स घटापेक्षया नास्तिव्यवहारविषयः, तर्हि भूतलमपि स्वापेक्षया अस्तिव्यवहारविषयः, घटापेक्षया नास्तिव्यवहारविषय इति किं तत्त्वा- न्तराभ्युपगमेन ? भूतलमात्रस्य विषयत्वात् । ननु तर्हि कः केवलः पदार्थः ? यदि भूतलमेव, घटवत्यपि प्रसङ्गः, अथ ततोऽन्यत् अङ्गीकृतं तर्हि तत्त्वान्तरम् । अथैकाकि भूतलमिति चेत्, 'एकादाकिनिच्चासहाये' इत्यनुशासनात् सहायाभावाङ्गीकारप्रसङ्गः। अथ स्मर्यमाणेऽपि प्रतियोगिनि भूतलमेवाऽऽलम्बनम् , गृह्यमाणे तु स्मरणाभावादेव न 'नास्ति'व्यवहारः, एवं तर्हि देशान्तरस्थे गृह्यमाणे देशान्तरे तदभावव्यवहारो न स्यात् । अथ तत्रापि देशान्तर- सम्बन्धिरूपस्य प्रतियोगित्वात्तत्सम्बन्धितया स्मरणासम्भवान्नास्ति व्यवहारो न स्यात् । अथ जिज्ञासिते प्रतियोगिनि भूतलमालम्बनम् , सघटे तु प्रतियोगिनो ज्ञातत्वान्न जिज्ञासेति, नैवम् ; प्रिये पुत्रादौ ज्ञातेऽपि पुनर्नेच्छासम्भवात् व्यवहारप्रसङ्गात् । जिज्ञासायाश्च विलक्षणव्यव- हारहेतुत्वं विलक्षणार्थज्ञानहेतुतया दृष्टम् , अतो घटजिज्ञासायां 'नास्ति'व्यवहारहेतुत्वं भूतलातिरिक्तं घटाभावपरिच्छेदेनैव भवतीत्यङ्गीकृतं तत्त्वान्तरम् । अथ तदतिरिक्तसामग्री- विशिष्टं भूतलमालम्बनम् । सघटे तु तदभावान्न प्रसङ्ग इति किमिदं तदतिरिक्तत्वम् ? यदि ततोऽन्यत्वम् तर्हि संसृष्टावस्थायामपि तत्सम्भवात् 'नास्ति' व्यवहारप्रसङ्गः । यदि तदभावः, म्वीकतमेव तर्हि तत्त्वान्तरम् । अतोऽप्येतद्भूतलमात्रविज्ञानं न कारणम् , अपि तु भूतलबुद्धि- किरणावल्या समेतम् । कारिवैकल्यात् , घटानुपलब्धिस्तु सहकारिणी, तेनानुपलब्धिविशिष्टं भूतलमात्रज्ञानमभाव- ज्ञानोत्पादकम् । एवं तर्हि तदेव व्यवहारकारणमस्त्विति चेत् , नैव, विषयवैलक्षण्याभावात् । तथाहि, भूतलमात्रस्यैवानुपलब्धिसहकारिसमवधानाज्ज्ञानान्तरोत्पादकत्वमुपपद्यते, यथैकस्यैव घटस्य चक्षुःस्पर्शनभेदाज्ज्ञानभेदः, अतः संसृष्टबुद्धिविलक्षणबुद्धयुत्पादादभावज्ञानहेतुत्वमु- पपद्यते, विलक्षणव्यवहारस्य विलक्षणविषयकृतत्वेन दृष्टत्वात् , यथा घटपटव्यवहारयोः । अतोऽभावज्ञानकारणेनैवाभावव्यवहार इति न प्रतिबन्दिसिद्धिः । अत्रोच्यते-नास्तिव्यव- हारस्य नास्तिज्ञानकारणत्वेऽपि नास्तिज्ञानस्य कारणत्वेन तन्मात्रबुद्धिरभाववादिनाऽप्यङ्गीकृता, सा च संसृष्टज्ञानादभावविशिष्टज्ञानाच्च विलक्षणत्वेनाङ्गीकृता । तदुक्तम्-"गृहीत्वा वस्तुस- द्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽज्ञानपेक्षया" इति । अतो वस्तु- सद्भावग्रहणरूपतन्मात्रबुद्धिस्वसम्वेदनादेव विलक्षणव्यवहारोपपत्तिः, अतो न घटवत्यपि प्रसङ्गः, तत्र विलक्षणतन्मात्रबुद्धेरभावात् । यद्यपि कारणभेदाझेदः, तथापि विषयकृत एव -भेदो व्यवहारहेतुरिति चेत्,सत्यम् , विलक्षणतन्मात्रबुद्ध्यङ्गीकारादेव तद्विषयस्यापि वैलक्षण्य- मवश्यमङ्गीकार्यम् , विषयविषयिभावस्य भेदात् । अतो विलक्षणव्यवहार उपपद्यते । यथा विलक्षणतन्मात्रबोधात् विलक्षणाभावज्ञानोत्पत्तिः, तथा विलक्षणव्यवहारोऽस्माकमिति . न दोषः । यत्तूक्तम् , कारणभेदमात्रेण ज्ञानभेदे न विलक्षणव्यवहारो दृष्टः, यथा चाक्षुषस्पार्श- नयोरेकविषययोरिति, तन्न, चाक्षुषपटज्ञानाच्छुक्लः पटः इत्यपि व्यवहर्तुं शक्यते, स्पार्शनात्तु मृदुः पट इति, अतस्तत्रापि विलक्षणव्यवहार इति । किञ्च, विलक्षणव्यवहारो विलक्षणार्थ- परिच्छेदादित्यपि न, घटाभावो नास्ति, घटो नास्तीति । अथ तत्रैकार्थ्यायवहारवैलक्षण्यमेव नास्तीत्युच्यते, एवं तर्हि भूतलमस्ति घटो नास्ति इति व्यवहारयोरप्यर्थैक्याद् वैलक्षण्यं न स्यात् । नन्वस्माकं प्रतियोगिजिज्ञासायां तन्मात्राधीनो विशेषः, जिज्ञासायाश्च विलक्षणव्यवहार- हेतुत्वं विलक्षणार्थपरिच्छेदादेव; अतो विलक्षणाभावज्ञानाङ्गीकारप्रसङ्गः। नैवं, जिज्ञा- सायाश्च व्यवहारहेतुत्वम् , किन्तु, तन्मात्रबुद्धिविशेष एव व्यवहारहेतुः । केचित्तन्मात्र- बुद्धिविशेषाः प्रतियोगिजिज्ञासानन्तरभाविनः, केचिच्च नेति, ये च प्रतियोगिजिज्ञासानन्तर- भाविनो विशेषाः ते व्यवहारहेतवः । प्रतियोगिजिज्ञासा चात्रोपलक्षणकोटिनिविष्टा, न व्यव- हारकारणम् , भवतामपि प्रतियोगिजिज्ञासाया अभावज्ञानहेतुत्वं नास्ति, किन्तु तत्कारणभूत- तन्मात्रबुद्धावुपलक्षणत्वमेव वस्तुसद्भावग्रहणं प्रतियोगिस्मरणं च. कारणमित्युक्तत्वात् । यत्तूक्तम्-प्रिये ज्ञातेऽपि पुनर्ज्ञानेच्छा सम्भवति, अत उपलक्षणत्वेऽपि व्यभिचार इति . , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- , कचिद्विभक्तो घटः, कचित्कपालमाला, क्वचिचूर्णीभूतोऽवयवः, कचिच्च देशान्तरस्थितिः, अतोऽनियतहेतुकत्वादहेतुकमेव तन्मात्रज्ञानम् , अस्मन्मते तु अभावोऽभावज्ञानकारणम् । मैवम् , भवतामेकत्र प्रागभावः, अन्यत्र प्रध्वंसाभावः, अपरत्रेतरेतराभावोत्र विज्ञानहेतुः इति अनियतहेतुत्वमपि सममेव । अथ घटप्रतियोगिकाभावत्वेनैकत्वेऽप्यवान्तरभेदं कल्पयित्वा कारणभेदः समर्थ्यते, तस्माकमपि घटतन्मात्रबुद्धिरूपेणैकत्वेऽप्यवान्तरभेदः कल्प्यताम् । अथ न जातिभेदः, अभावानामेव कारणभूतानां भावविरोधित्वेनैकत्वमेव, तर्हि भावानामप्य- नेकेषामभावविरोधित्वेनैकत्वेनाभावविज्ञानं न सम्भवति । योग्यानुपलब्धिर्हि कारणत्वेनाभिमता, तस्याश्च सत्तया कारणत्वम् , ज्ञायमानतया वा? न तावज्ज्ञायमानतया, तस्या अपि अभावत्वे नानुपलब्ध्यन्तरमग्रहणप्रसङ्गेनानवस्थाप्रसङ्गात् । नच सत्तया हेतुत्वम् , तदभावेऽप्यभावज्ञा- नदर्शनात् । उपलभ्यमानेऽपि देवदत्ते प्राङ्गासीदयमिहेति दर्शनानुपलम्भादेवानुपलम्भो निरस्तः । ननु प्रत्यक्षोपलम्भात्प्रत्यक्षानुपलब्धिमात्रस्यैव निरासः, नानुपलब्धिमात्रस्य; अतस्तत्र तत्स्मृ- त्यनुपलम्भस्य सम्भवादभावज्ञानमिति, नैवम् ; तस्याप्यभावेऽप्यभावज्ञानदर्शनात् । तथाहि- मध्यन्दिने दृष्टो देवदत्तः प्रातर्नास्त्येवायमिहेति सायम्बुद्ध्या तत्र तदा मध्यन्दिनस्मृत्या स्मृत्यनुपलम्भो निरस्तः, सायङ्ग्रहणेनैव ग्रहणानुपलम्भोऽपि निरस्त एव; अतोऽनुपलब्धि- मात्रस्यैव व्यभिचारान्न सत्तया हेतुत्वम् । अथोपलम्भात्तत्कालीनानुपलम्भबाधः न प्रातरतु- पलम्भस्स; अतः प्रातरनुपलब्ध्या प्राङ्नासीदिति नास्तित्वं गृह्यते, तन्न; उपलम्भकत्वेन तत्प्रागभावरूपानुपलम्भोऽपि एक एव; अत उपलम्भे जातेऽनुपलम्भमात्रस्य नाशः; प्रातर्व- तित्वोपाधिरपि प्रात शादेव नष्टः; अतो यावदुपलम्भक्षणं प्रसक्तः प्रागभावः उपलम्भादेव नश्यति । इतरथा, प्रध्वंसेऽपि मुद्गरप्रहारकालीन एव घटो नष्टः इति पूर्वकालीनो घटोऽनु- वर्तेत; न चैतद् दृष्टमिष्टं वा । ननु यद्यप्युपलम्भोदयादनुपलम्भनिरासः, तथापि प्रातरुत्पत्ति- योग्योपलम्भस्याप्यनुत्पन्नत्वात्तदनुपलम्भो वर्तते; ततोऽभावग्रहणमस्तु इति चेन्न; नित्यतुच्छ- त्वात्तस्योपलम्भस्य तत्प्रतियोगिकोऽप्यनुपलम्भो नास्ति । तथाहि-नच तस्य प्रातरुत्पत्तिः, नच पूर्वम् , नच पश्चात् , इत्युपलम्भजातीयत्वमेव तस्य नास्ति अतोऽनुपलम्भस्य सत्तया कारणत्वमपि दूरोत्सारितमेव । अतोऽभावाख्यं प्रमाणान्तरं नास्तीति ज्ञेयम् । अत्रापि सावधानेन चेतसा श्रूयताम्-प्रमाणशब्दो वस्तुतः करणव्युत्पन्न एव ग्राह्यः, अन्यथा प्रमा तदसाधारणं कारणं चेति ज्ञेयज्ञापकभावोच्छित्तिः । भावव्युत्पत्तिस्तु सर्वस्य ब्रह्मात्मकत्वस्फोरणायैव । परमप्रमाणस्य वेदस्य च ब्रह्माभिन्नत्वज्ञापनायेति वा । अस्मन्मते परमालौकिकस्य ब्रह्मणो निर्णये शब्दातिरिक्तस्य प्रामाण्यं नास्ति । तदपि भवेद्यदि शब्दा- , , किरणावल्या समेतम् । ८१ BE ? करोति निमित्तोपादानगता च या शक्तिः साऽऽविर्भावशक्तिः। द्वितीये तु- आविर्भवनमाविर्भावः, तिरोभवनं तिरोभावः, इति तयोर्लक्षणम्। तच्च सृष्टाव- स्मिन्कालात्मके स्थूलोपाधौ तत्तत्प्रतीकात्मकतत्तत्कालोपाधिनिमित्तके तस्य तस्य तथा तथा तत्तदुपलम्भो भवत्विति तदा तत्र तस्य तथा तन्मा भवत्वि- तीच्छाविषयत्वमिति फलति । नचाविर्भावो नित्यो न वेति शक्यम् । तस्य ब्रह्मशक्तित्वस्य प्रागुपपादि- वाच्छक्तिशक्तिमतोरभेदान्नित्य एव । नित्यत्वेऽपि नानवस्था । पदार्थाविर्भा- वस्यैवाविर्भावाविर्भावपदार्थत्वात् । न हि पदार्थाविर्भावादतिरिक्ताविर्भावस्था- विर्भावः । सम्बन्धसम्बन्धभेदभेदादिवत् । ननु सर्व कार्य ब्रह्म जानाति न वा ? अन्त्ये-ब्रह्मणः सर्वज्ञत्वहानिः,“यः सर्वज्ञः सर्ववित्" इतिश्रुतिविरोधप्रसङ्गश्च । आधे-सर्जनं किम्प्रयोजनकम् ? पदा- नामाविर्भाव एव सृष्टिः, स च ज्ञानाहत्वरूप एव; तस्य च सदावर्तमान- त्वेन तत्र प्रकृत्यादीनामनुत्पादात्, इति चेत् , न; अन्धकारस्थितघटाविर्भा- वार्थ प्रदीपानयनादिवैयापत्तेः । यद्यन्धकारव्यासस्य तस्य ज्ञानाभाव इति विभाव्यते, तदा तदर्थ यत्नासम्भव एव । अज्ञानार्थे प्रयत्नस्यादृष्टत्वात् । ज्ञानमस्तीति चेत् , वित्तिविषयरूपस्याविर्भावस्य सत्त्वात्तदर्थं यत्नो व्यर्थ एव । अतो न ज्ञानार्हत्वमाविर्भूतस्य लक्षणम् , किन्तु तत्तत्कार्यकारित्वम् । यथा जलाहरणादिकार्यकारित्वं घटस्य । अनाविर्भूतस्य तस्य मृद्रूपेणावस्थितस्य तत्कार्यकारित्वानुपपत्तेः । सृष्टेः प्रागपि ब्रह्मणः सदा प्रकटत्वेन पदार्थानां च कारण एवाव्यक्ततया स्थितत्वेन तेषां ज्ञानस्याप्यप्रकटतया सत्त्वान्न सार्व- श्यबाधः। किञ्च, रमणाय हि सृष्टिः। रमणं चाविर्भूतैरेव पदार्थैर्नाऽनाऽऽविर्भूतैः । अत एव योगिनां योगजधर्मेण व्यतीतानादेानेऽपि, न तैस्तेषां क्षुदपनो- दनम् । नच प्रागभावचतुष्टयागीकारः, आभ्यामेव सुनिर्वाहात् । तत्र प्रागभावः कारणावस्थातो न भिन्नः। एवं ध्वंसोऽपि तिरोभाव एव । घटः पटो नेत्य- ८२ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- प्रजाया बहुविधत्वम् प्रकृतमनुसरामः । प्रजाया बहुविधत्वेन बहुवचनम् । तस्या बहुविधत्वं तु "तदात्मान स्वयमकुरुत" “सोऽकामयत बहु स्यां प्रजायेय" "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः" इत्यादिश्रुत्युपदिष्टपुष्टिप्रवाहमर्यादाभेदैः । अथवाऽनेकप्रकारककल्पभेदेनानेकविधया सिसृक्षया तथात्वम् । ताः प्रकटी- कुर्व इत्यर्थः। घटः पटो न इत्यन्योन्याभावे घटे भगवदिच्छया घटत्वस्य तिरोभावः पटे च पटत्वस्य । सर्वस्य ब्रह्मात्मकत्वात् , तदिच्छाधीनत्वात् । अत एव वस्तुनोऽनुभवयोग्यत्वमाविर्भावत्वं तद- योग्यत्वं च तिरोभावत्वम् इति लक्षणं सङ्गच्छते । आविर्भावतिरोभावावपि शब्दाविरोधि- त्वादङ्गीकृतौ, न युक्तित इति तु प्रागेव प्रतिपादितम् । न वा तिरोभावोऽभावस्यैव पर्याय इति शङ्कयम् । तिरोभावस्य भगवच्छक्तित्वेन पूर्वमेव प्रतिपादितत्वात् । न हि भावविरो- धिनोऽभावस्य भगवच्छक्तिषु गणना भवति । शक्तिशक्तिमतोरभेदन्यायेन तिरोभावोऽपि भगवद्रूप एवेति वेदेनोच्यते । अतो नायमभावापरपर्याय इति ध्येयम् । ननु तिरोभाव एवा- भावा अन्तर्भाव्यन्ते, घटानुपलब्धिरपि तिरोभावेनैव भवति, तर्हि कथमयमभावापरपर्यायो न भवेदिति चेच्छृणु, घटपटात्मकं जगद्भगवद्रूपम् , वस्तुतः सर्वेऽपि पदार्था ब्रह्मात्मका एव, तथापि गामानयेत्यादि वक्तव्ये ब्रह्मानयेत्युक्तौ बोधासम्भव एव । तेन सर्वेषां पदानां ब्रह्मणि विशिष्यशक्तिस्वीकारेऽपि घटादिषु शक्तिसङ्कोचेन तत्तत्पदार्थानां बोधः सुकरः । तथैव अभावस्य तिरोभावेऽन्तर्भावेऽपि न पर्यायवाचित्वम् । बहुवचनमिति । पूर्वोत्तरकाण्डोक्तसृष्टिप्रतिपादकवाक्यरित्यर्थः । “अप्सु सर्वं प्रति- ष्ठितम्", "आपो वा इदमग्र आसीत्", "तत्तेजोऽसृजत्", "तोयेन जीवान् व्यससर्ज भूम्याम्" इत्यादिश्रुतिनिचयोक्तभूतभौतिकसृष्टिप्रतिपादकवाक्यानि “धाता यथापूर्वमकल्पयत" "हिर- ण्यगर्भः समवर्तताग्रे" इत्यादिधातृपदविशेषितब्रह्मद्वारा सृष्टिकरणं पुराणेषूक्तं मन्वन्तरद्वा- राऽनेकविधसृष्टिकरणं च निखिलमप्यत्र सङ्ग्राह्यम् । पुष्टीति । “जन्माद्यस्य यतः, , किरणावल्या समेतम् । नारायणात्प्राणो जायते, (प्राणप्रादुर्भावः) नारायणात्सर्वेषां प्रादुर्भावमुपदिशति-नारायणात्प्राणो जायत इति । प्राणो हि आसन्यो जीववन्नित्यो गतिमानणुपरिमाणो जायते प्रादुर्भवति । नच “वृक्षादिकम्पनहेतुः शरीरान्तःसञ्चारी वायुः प्राणः” इतिनैया- यिकनिरूपितवायुरूप इति शक्यम् । प्राणस्य "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुयॊतिरापः पृथिवी विश्वस्य धारिणी" इति श्रुतौ वायोः पार्थक्येनोपदेशात् । अतो मुख्यः प्राणः पदार्थान्तरमेव । नच “स वायुः स एष पञ्चविधः” इतिश्रुतिविरोध इति विभावनीयम् । तस्य भौतिक- वायुभिन्नभगवत्प्राणात्मकवायुपरत्वेन निरूपणात् । न वै प्रमाणाभावोऽत्र शयः । “अथ हेममासन्यं प्राणमूचुः” इति बृहदारण्यकीयोगीथब्राह्मणोप- दिष्टस्य तस्येतरप्राणवैलक्षण्यस्यैव प्रमाणत्वात् । न च तस्याध्यात्म्यापत्त्या वैलक्षण्याभावेन दोषस्तदवस्थ इति मन्तव्यम्। तस्या नस्य प्राणेऽपि सत्त्वात्। अत्र श्रुतावपहतपाप्मत्वरूपासाधारणवैलक्षण्यस्योपदिष्टत्वाद्वस्त्वन्तरमेव । प्राणप्रादुर्भावं प्रदर्शयन्ति-नारायणादिति । ननु श्रुतौ "एतस्माज्जायते नाणः" इत्यत्र प्राणस्य जन्यत्वमुच्यते, तेनास्य शरीरादिवदुत्पत्तिविनाशशालित्वं, न तु जीववन्नित्य- त्वमिति चेत् , न, "तथा प्राणः" इति वैयासनयेन तस्य नित्यताया उक्तत्वात् । ननु “अथ ह प्राणा अहं श्रेयसि व्यूहिरे" इत्यादिश्रुतिषु प्राणशब्द इन्द्रियेषु प्रसिद्ध इति चेन्न, तत्र सामान्यतयोक्तत्वात् , मुख्यप्राणस्तु तद्भिन्न एव । "तथा प्राणः" इत्यधिकरणेऽपि प्राणशब्द इन्द्रियवाचकः, मुख्यप्राणोऽपि अविरोधस्य तुरीये पादे “तथा प्राणः” इत्यारभ्य जीवधर्मातिदेशस्योक्तत्वात् इन्द्रियादयो जीववन्नित्यगतिमदणुपरिमाणाश्चेति ज्ञापितमिति अस्माभिरप्यत्र सङ्ग्रहीतम् । मुख्यप्राणस्य नित्यत्वं तु "श्रेष्ठश्च" इत्यधिकरणे विचारितम् । "प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च" "आनीदवातं खधया तदेकं"इत्यादिना नित्यत्वं वायुभिन्नत्वं च प्रतिपादितम् । वैशेषिकमतं दूषयन्ति-नचेत्यादिपदार्थान्तर मेवेत्यन्तम् । श्रुतिविरोधं परिहरन्ति–तस्येत्यादिना । श्रुतौ प्राणशब्दो भौतिकभिन्नप्राणत्वेनोपदिष्टः । अन्यथा वायुनैव तन्निर्वाहात्पृथगुपादानं व्यर्थमेव स्यात् । साङ्ख्यमतमुपन्यस्य निराकुर्वन्ति-अत्रे- त्यादिना । तथाचोक्तं साङ्ख्यकारिकासु-“करणं त्रयोदशविधं तदाहरणधारणप्रकाशपरम् ।

. श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- नच मैत्रायण्युपनिषद्विरोधो विभावनीयः । तत्र "सोऽमन्यतैतासां प्रबोधनायाभ्यन्तरं विविशामीति स वायुरिवात्मानं कृत्वाऽऽभ्यन्तरं प्राविशत् स एको नाशकत् स पञ्चधाऽऽत्मानं विभज्य” इत्यादिना। इवेतिपदेन तत्स- मानाकारमात्रत्वस्य प्रतिपादितत्वान्न कोऽपि शङ्कावकाशः। अत्र साङ्ख्यास्तावदेवं मन्यन्ते पञ्च ज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, मनोबुद्ध्यहङ्कारा इत्यान्तरं त्रिकमेवं त्रयोदशविधं करणम् । त्रयोदशविधस्यापि करणस्य या साधारणी वृत्तिः प्राणाद्या प्राणनादिरूपा सैव पञ्चवायवः प्राणा- दय इति कथ्यते; अतः समस्तकरणवृत्तिरूपत्वमेव प्राणस्य । तन्न, "एतस्मा- जायते प्राणो मनः सर्वेन्द्रियाणि च" इति श्रुतौ मन इन्द्रियादिभिर्भेदेन निर्दे- शात् । त्रयोदशविधकरणवृत्तित्वे शक्तिशक्तिमतोरभेदेनेन्द्रियादिभिः पृथगुक्तेन विरोधाच। ननु "असद्वा इदमग्र आसीत्तदाहुः किं तदासीहषयो वा व तेऽग्र आसीत्त- दाहुः के ते ऋषय इति, प्राणा वा ऋषय इति" इत्यादिश्रुतिभिः सृष्टेः पूर्वमपि प्राणस्थित्या कथं तस्य प्रादुर्भाव इति चेत् , न, "नासदासीत्" इत्यत्र "आनी- दवातं खधया तदेकम्” इतिश्रुत्या सृष्टिप्राकाले वायुरूपत्वनिषेधपूर्वकमानी- दित्युपदेशेन भगवदननात्मकधर्मतया मुख्यप्राणसत्तासिद्धेः । प्रादुर्भावोऽपि जीववधुच्चरणमेव, नतूत्पत्तिः; बृहदारण्यकीयव्युचरणश्रुतौ तस्यापि निर्दिष्ट- त्वात् । निषेधस्तु स्वरूपोत्पत्तिविषयक एवेति विद्वद्भिः सद्भिरनुसन्धेयम् । स च आसन्यत्वान्मुख्यतो भगवदधीनो व्यवहारे जीवाधीनः, इति यथा- तथोपपादितं "चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः” इति वैयासन्यायभाष्ये श्रीमदाचार्यचरणैरिति ततोऽवगन्तव्यम् । पृथगुपदेशात् । अविरोधस्य चरमे पादे "न वायुक्रिये पृथगुपदेशात्" इति वैयासन्याये न्यायसाङ्ख्यतत्रयोरुक्तमतयोः खण्डनाच्च । विस्तरस्त्वविरोधतुरीयपादे द्रष्टव्यः । चक्षुरादिव- त्त्विति । अयं न्यायोऽविरोधतुरीयपादे वर्तते । शिष्यादिभ्य इत्यपि पाठः । न चायं पाठः संशोधकप्रमादजन्य इति वाच्यम् श्रीमत्पुरुषोत्तमगुरुभिः श्रीकृष्णचन्दैर्भावप्रकाशिकायां तथा स्वीकारात् । तत्र सूत्रार्थस्तु 'पूर्वपक्षनिरासार्थस्तु शब्दः, चक्षुरादिवदयमप्यस्वतन्त्रः, किरणावल्या समेतम् । ८५ , मनः प्राणप्रादुर्भाव प्रतिपाद्य मनसोऽपि निरूपयति-मन इति । तदप्यणुप- रिमाणं प्राणवन्नित्यमुभयात्मकमिन्द्रियरूपमनिन्द्रियरूपश्च । नच पीयूषलहर्यां मनसो नित्यत्वस्य खण्डितत्वादिह तस्य नित्यत्वस्य कथं सङ्गतिरिति शक्यम् । तत्खण्डनस्यार्धवैनाशिकप्रक्रियाप्रतिपन्ननित्यत्वपरकत्वा- नानुयोगावकाशः। नचोभयात्मकत्वे भावाभावविरोधः शङ्कयः । अविद्यावद्धर्मान्तरत्वेनाप्यनि- न्द्रियत्वबोधस्य व्यक्तत्वात् । यथाहि-यमे देवत्वं पितृत्वं चेति द्वयमस्ति, तथात्रापि क्रियात्मकस्य ज्ञानमयत्वस्य च प्रवेशोऽपराहत एवेति । न काऽप्य- नुपपत्तिः । अत्र विस्तरः पीयूषलहर्याम् । अत्र प्रस्थानरत्नाकरे पण्डितपुरन्दराः-"अथ मनः-तचोभयात्मकमुभय- कार्यकर्तृत्वात् । तस्य च “सङ्कल्पविकल्पात्मकत्वम्" खरूपलक्षणम् , “काम. रित्सञ्ज्ञालोपाभ्यामपहारे "शास इदङ्हलोः" इत्यनेनेत्वे "शासिवसिघसीनांच" इत्यनेन षत्वे च शिष्य इति रूपम् , शिष्टिश्च "क्तिन्नावादिभ्यः" इत्यनेन तिन् प्रत्यये पूर्वोक्तत्वषत्वे च सिद्ध्यति । उभयोरप्येकार्थत्वाद्विरोधाभावाच न कश्चिद्दोषः । मनसः प्रादुर्भावं निरूपयन्ति-मन इतीति । अणुपरिमाणमिति । "अणवश्व" इति वैयासन्यायेन मनसोऽप्यणुत्वमेव । नित्यमिति । “तथा प्राणाः" इत्यतिदेशेनेत्यर्थः । नचेति । पीयूषलहाँ "भक्तिरहस्यभजनम् , तदिहामुत्रोपाधिनैराश्येनैवामुष्यात्मनःकल्प- नम्" इतिश्रुतौ सप्तचत्वारिंशत्तमे पृष्ठे ब्रह्मामृतभाष्ये “अन्ये तु" इत्यनेन पाठान्तमुपन्यस्य टीकायां मनसो विचारः प्रक्रान्तः । तत्रैव पीयूषलयाँ अष्टाचत्वारिंशत्तमे पृष्ठे "तन्नित्यमिति केचित्” इत्याहुः । अर्धवैनाशिकेति । तन्मते नित्यत्वं च तस्यानाश्रितत्वात् , तस्यावय- वकल्पनायां प्रमाणाभावादनाश्रितत्वमिति । “तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते" (अ. ३ आ. २ सू. २) इत्याहुः कणभक्षपादाः । वायुनिरूपणावसरे च "अद्रव्यत्वेन नित्यत्वमुक्तम्" (अ. २ आ. २ सू. १३) परमाणुलक्षणस्य वायोरिति शेषः। द्रव्यं हि सम- वायिकारणासमवायिकारणान्यतरनाशान्नश्यति परमाणोस्तु निरवयवतया न तदुभयमस्ति तथाच विनाशकाभावान्न विनश्यतीति तत्रैव विश्वनाथपञ्चाननाः । एवं चावैनाशिकमते निरवयवत्त्वेन हेतुना नित्यत्वं साध्यं तन्नेति ग्रन्थकृदभिप्रायः । अत्र श्रीमत्पुरुषोत्तमानामभि- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- जनकत्वम्" कार्यलक्षणम् । एतदाध्यात्मिकं लक्षणद्वयम् । आधिदैविकं तु "अनिरुद्धाविर्भावस्थानत्वम्" भौतिकं तु “योगिभिः शनैः संराध्यत्वम्" यत । यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः' इत्यत्र सुबोधिन्यां पूर्वार्धेन मनसो वैका- रिकात्सात्त्विकाद्विकुर्वाणात्कालकृतगुणक्षोभयुक्ताद्भगवद्वीर्यसम्भवान्मनसः प्रादुर्भावं निरूप्योत्त- राधेनाध्यात्मिकम् , आधिदैविकं तु “यद्विदुनिरुद्धाख्यं हृषीकाणामधीश्वरम् , शारदेन्दी- वरश्याम' इतिचरणत्रयेणोक्तमिन्द्रियनियामकत्वम् । भौतिकं तु “संराध्यं योगिभिः शनैः” इति तुरीयपादेनोक्तम् । एतानि चत्वार्यपि लक्षणानि श्रीभागवतसुबोधिन्युक्तान्येवेति ज्ञेयम् । काणादास्तु-“आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्' (अ. ३ आ. २ सू. १) आत्मेन्द्रियार्थसन्निकर्षे सति यस्मिन्निन्द्रियसन्निकृष्टे ज्ञानस्य भाव उत्पादः, असन्निकृष्टे ज्ञानस्याभावोऽनुत्पादस्तन्मन इत्याहुः । द्रव्यसमवायिकारणत्वरहिताणुसमवेत- द्रव्यत्वापरजातित्वं मनस्त्वमित्यप्यौलूक्याः । गौतमीयाः-"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" (अ. १ आ. १ सू. १६) युगपञ्च खलु प्राणादीनां गन्धादीनां च सन्निकर्षेषु सत्सु युगपज्ज्ञानानि नोत्पद्यन्ते, तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरमव्यापि यस्यासन्निधे!त्पद्यते ज्ञानं सन्निधे- श्रोत्पद्यत इतीत्याहुः । साङ्ख्यास्तु-“उभयात्मकमत्र मनः सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणाम- विशेषान्नानात्वं बाह्यभेदाश्च" इति कारिकया बुद्धीन्द्रियकर्मेन्द्रियात्मकं सङ्कल्पेन रूपेण मनो लक्षयन्ति । सङ्कल्पनं चात्र 'इदमेवम्', 'नैवम्' इति विशेषणविशेष्यभावेन विवेचनम् । भाट्टास्तावदेवं मन्यन्ते-सुखाद्यपरोक्षज्ञानमेव मनसो लिङ्गम् । प्राभाकरास्तु-बुझ्यादिकार्य खसमवायिकारणद्रव्यान्तरसंयोगासमवायिकारणकम् , नित्य- द्रव्यगतानित्यविशेषगुणत्वात् पार्थिवपरमाणुगतरूपादिवत् ; तद्र्व्यं मनःशब्दाभिधेयम् , तच नित्यमित्यास्थयम् । इतरथा तस्यापि कारणकल्पनाप्रसङ्गात् । ननु मनसोऽस्तित्वे किं मानम् ? न तावत्प्रत्यक्षम् , तस्यान्तर्वतित्वात् , नानुमानम् तस्य खतत्रद्रव्यत्वाभावात् , नोपमानम् रूपाभावात् , न च शब्दः श्रुतौ मनोलक्षणस्यानुक्तत्वात् इति चेन्मैवं वोचः । सर्वैरपि दर्शनकारैर्मनसोऽस्तित्वं स्वतन्त्रद्रव्यत्वं च स्वस्वप्रक्रियानुरूपं साध्यते । तत्र साङ्ख्यास्तावदेवं साधयन्ति-चक्षुरादीनां वागादीनां च मनोधिष्ठितानामेव खस्वविषयेषु प्रवृत्तेः । वैशेषिकास्त-सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् करणान्तर- किरणावल्या समेतम् । गुपरिमाणम् । अपसर्पणोपसर्पणवचनात्संयोगविभागौ । मूर्तत्वात्परत्वापरत्वे संस्कारश्च । अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्त्वान्मूर्तत्वम् । साधारणविग्रहवत्त्वप्रसङ्गादज्ञ- त्वम् । करणभावात्परार्थम् । गुणवत्त्वाद् द्रव्यम् । प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारी चेति । तत्कर्मापि-सविग्रहे मनसीन्द्रियान्तरसम्बन्धार्थं जाग्रतः कर्म, आत्ममनःसंयोगादिच्छाद्वेष- पूर्वकप्रयत्नापेक्षात् अन्वभिप्रायमिन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । सुप्तस्य प्रबोध- काले जीवनपूर्वकप्रयत्नापेक्षात् । अपसर्पणकर्मोपसर्पणकर्म चात्ममनःसंयोगाददृष्टापेक्षात् । कथम् ? यदा जीवनसहकारिणोधर्माधर्मयोरुपभोगात् प्रक्षयोऽन्योन्याभिभवो वा तदा जीव- नसहाययोर्वैकल्यात् , तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां लब्धवृत्तिभ्यां धर्मा- धर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृतशरीराद्विभागकरणमपसर्पणकर्मोत्पद्यते । ततः शरीराद्ध- हिरपगतं ताभ्यामेव धर्माधर्माभ्यां समुत्पन्नेनातिवाहिकशरीरेण सम्बध्यते तत्सङ्क्रान्तं च स्वर्ग नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बध्यते तत्संयोगार्थ कर्मोपसर्पणमिति । योगिनां च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च । तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थ कर्मादृष्टकारितम् । एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमान- कारणमुपकारापकारसमर्थं च भवति तदप्यदृष्टकारितम् । यथा सर्गादावणुकर्म अग्निवाय्वो- रूद्धतिर्यग्गमने महाभूतानां प्रक्षोभणम् अभिषिक्तानां मणीनां तस्करं प्रति गमनम् । अय- सोऽयस्कान्ताभिसर्पणं चेति । ननु मनो वैभवेऽपि करणधर्मत्वादेव ज्ञानयोगपद्यमुपपद्यते, किञ्च मनो विभुविशेषगुणशून्यद्रव्यत्वात् कालवत्, ज्ञानासमवायिकारणसंयोगाधारत्वा- दात्मवत्, स्पर्शात्यन्ताभाववत्त्वादाकाशवदित्यादिवैभवसाधकं प्रमाणमिति चेत् , मैवम् ; यदि मनो विभु स्यात्तदा सर्वेन्द्रियसन्निकृष्टात्ततः सर्वेन्द्रियकमेकमेव ज्ञानं स्यात् । कार्यविरोधान्नै- वमिति चेन्न, न हि सामग्रीविरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरोधाय बिभ्येत् , चित्ररूपवत् चित्राकारमेव वा स्यात् । भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न, तत्रापि व्यासङ्गदर्शनात् । तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति कथमनुव्यवसाय इति चेन्न; शीघ्रसञ्चारिमनोजनितेषु पञ्चसु स्मृत्युपनीतज्ञानेषु यौगपद्याभिधानात् । व्यास- ङ्गोऽपि करणधर्माधीन इति चेन्न उक्तोत्तरत्वात् । बुभुत्साधीनो व्यासङ्ग इति चेन्न; सर्वबुभुत्साया सर्वविषयकसर्वोदयप्रसङ्गात् । बुभुत्साया अपि अभिमतार्थग्राहीन्द्रिय- मनःसम्बन्धमात्रफलकत्वात् , तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या सिद्धत्यणु मनः । अतो धर्मिग्राहकमानबाधिता वैभवः । किञ्च, मनो वैभवे पादे मे सुखं शिरसि वेदनेति प्रादेशिकत्वं सुखादीनां न स्यात् विभुकाUणामसमवायिकारणावच्छिन्नदेशे उत्पाद- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- मनःसंयोगोऽपि कथं स्यात् ? अजो साविति चेन्न, विभागस्यापि अजत्वप्रसङ्गात् । अवच्छे- दभेदेनोभावप्यविरुद्धावितिचेन्न, संयोगविभागयोरवच्छेदभेदस्य स्वकरणाधीनत्वात् , अजयोस्तु तदभावादिति । ननु मनो विभु सर्वदा निःस्पर्शद्रव्यत्वात् आकाशवत् ज्ञानाद्यसमवायिकारण- संयोगाधारत्वादात्मवदित्याकाशात्मनोः साहचर्येण मनोपि किं नोक्तमित्यत्र "तदभावादणु- मनः" इति सूत्रयाञ्चक्रुः श्रीमन्तः कणभक्षचरणाः । सूत्रार्थस्तु-तस्य विभवस्य सर्वमूर्तसंयो- गित्वस्याभावादणु मन इति । भाट्टास्तु-मनःसद्भावे सुखादिज्ञानमेव प्रमाणम् , अपरोक्षावभासज्ञानस्पेन्द्रियाधीनतया रूपादिज्ञानेषु व्याप्तिदर्शनात् सुखादिविषयमपरोक्षज्ञानमिन्द्रियमनुमापयति । तत्र चक्षुरा- दीनामसम्भवात्तेभ्योऽन्यदवतिष्ठते । अत्र कश्चित्-नित्यद्रव्यगतविशेषगुणत्वात्सुखादीनां द्रव्यान्तरसंयोगजत्वम् , पार्थिवपरमाणुगतरूपादीनामग्निसंयोगजकत्वदर्शनात् , यच्च द्रव्यान्तरं मनस्तन्न युक्तम् । शरीरं हि भोगायतनम् । किञ्च भोगायतनत्वमन्यत् तत्संयोगापेक्षसुखा- द्युत्पत्तेः, अशितपीताद्याधारत्वाच्च न बहिःशरीरात्सुखाद्युत्पत्तिः । अतः शरीरसंयोगादेव सिद्धेर्न द्रव्यान्तरानुमानम् । किञ्च पार्थिवगुणानामेव द्रव्यान्तरसंयोगापेक्षा दृष्टा न द्रव्यमात्रगुणा- नाम् । तेजःसंयोग एव च कारणतया दृष्टो न द्रव्यमात्रसंयोगस्तस्मान्नैवं मनःसिद्धिरिति सुखाद्यपरोक्षज्ञानमेव मनसोलिङ्गम् । मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्योन्यद्वा सर्वथा तावदस्ति मनः । तच्चात्मतद्गुणेष्वेव स्वतन्त्रं प्रवर्तते न बाह्येषु रूपादिष्वित्यान्तरमि- त्युच्यते । रूपादिज्ञानेष्वपि तचक्षुरादिसहायं प्रवर्तते, एवमनुमानादिष्वपि लिङ्गादिसहायम् , अन्यमनस्कस्य सम्प्रयुक्तेष्वपि रूपादिषु ज्ञानानुत्पत्तेः । स्मृतावपि संस्कारपरतत्रं प्रवर्तते न खतन्त्रम् । नन्वनुमानादीनां मनोजन्यत्वात्तेषां च भूतभविष्यतोरपि प्रवृत्तेरिन्द्रियजन्यत्वं विद्यमानोपलम्भनत्वेनानैकान्तिकं स्यात् । न स्यात् । नहीन्द्रियजन्यत्वं हेतुः किन्त्वि- न्द्रियसम्प्रयोजत्वम् । न चानुमानेऽतीताया भविष्यन्त्या वा वृष्टेरनुमीयमानाया मनसा सम्प्रयोगोऽस्तीत्यव्यभिचारः इति मन्यन्ते । प्राभाकरास्तावत्-इदानीं मनःसद्भावोऽणुपरिमितत्वं च साध्यते इत्युपक्रम्य तल्लक्षणं चोक्त्वा नित्यं च द्रव्यमणुरूपं विभु रूपं वा भवतीत्याशय, तस्य विभुत्वमयुक्तम् , संयो- गाभावप्रसङ्गात्; संयोगस्य साक्षाद्वा परम्परया वा क्रियैव कारणम् , सम्प्रतिपन्ने संयोगे तथा दर्शनात् । नच नैरन्तर्यमानं संयोगः, गुणगुणिनोरपि संयोगप्रसङ्गात् । नच द्रव्यनै- रन्तर्यम् , अवयवावयविनोर्व्यभिचारात् । अप्राप्तयोरेव द्रव्ययोः प्राप्तिः संयोगः; स च विभु- , , किरणावल्या समेतम् । मितिवत् । ततश्चान्यत्र संयोगः क्रियाजन्यत्वेन दृष्टः, विभुद्वये तु संयोगे साध्ये कारणा- भावात् कार्याभावानुमानबाधाद्वाधितविषयत्वम् । अतो न विभुनोः संयोगः । यच्च विभुत्वसाधकमनुमानं, मनो विभु, ज्ञानसमवायिकारणसंयोगाश्रयत्वादात्मवत् , द्रव्यत्वे सति द्रव्यानारम्भकद्रव्यत्वादाकाशवत् , द्रव्यत्वे सति भूतत्वादाकाशवत् , स्पर्शशून्यत्वे सतीन्द्रियत्वाच्छ्रोत्रवत् इत्यादि, तत्सर्वं धर्मिग्राहकप्रमाणविरोधादेवापास्तम् , संयोगार्थ- त्वान्मनःकल्पनायाः, अतः पारिशेष्यादणुत्वमेव निश्चीयते, तर्हि पार्थिवाद्यणुरेवास्तु, न दूव्यान्तरं मनः इति चेन्न, पार्थिवाद्यणूनां द्रव्यारम्भकत्वनियमात् , मनसश्च न द्रव्यारम्भ- कत्वम् , स्पर्शशून्यत्वादिति । किञ्च, विवादाध्यासितत्वात्पार्थिवादिद्रव्ययोगो न ज्ञानसमवा- यिकारणम् , पार्थिवादिद्रव्यसंयोगादितरपार्थिवादिद्रव्यसंयोगवत्, द्रव्यान्तरसंयोगवद्वा । विभुत्वपक्षे दिगात्मसंयोगो वा भवतु, कालात्मसंयोगो वा किं द्रव्यान्तरेण मनसेति तुल्योऽयमनुयोगः । अतो मनसोऽस्तित्वमणुत्वं च सिद्धम् । श्रुतिस्तु-"कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं|ीरित्येतत्सर्वं मन एव" इत्याह मनसो रूपम् । तदस्तित्वं च "अन्यत्र मना अभूवं नादर्शमन्यत्र मना अभूवं नाऔषम्" इति । कामादीनां लक्षणान्युक्तानि शङ्कराचार्यैः । तथाहि-कामः स्त्रीव्यतिकरा- भिलाषादिः । सङ्कल्पः प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन । विचिकित्सा संशय- ज्ञानम् । श्रद्धाऽदृष्टार्थेषु कर्मस्वास्तिक्यबुद्धिर्दैवतादिषु च । अश्रद्धा तद्विपरीता बुद्धिः । धृति- र्धारणं देहाद्यवसाद उत्तम्भनम् । अधृतिस्तद्विपर्ययः । हीर्लज्जा । धीः प्रज्ञा । भीर्भयमित्ये- तदेवमादिकं सर्वं मन एव मनसोऽन्तःकरणस्य रूपाण्येतानि । अत्रैव सुरेश्वराचार्याः- मनसोऽस्तित्वसिद्ध्यर्थं श्रुत्योपन्यस्सतेऽनुमा । सतश्च तस्य कामादिरूपाण्यपि च वक्ष्यति ॥ अविद्याधिकृतावस्यां धर्मधादिसङ्गतिः । अविद्याकार्यसंस्थैव नत्वसौ प्रत्यगात्मनः ॥ इत्येतत्प्रतिपत्त्यर्थं परो ग्रन्थोऽवतार्यते । मा भूत्कामादिधर्मित्वमात्मनीति प्रयत्यते ॥ पृष्टो जरद्भवं यान्तमद्राक्षीस्त्वमितीतरः । ततोऽन्यत्र मना आसं नातोऽद्राक्षमुदीरितम् ॥ विषयान्तरसम्बद्धं मनो दृष्टं घटादिकम् । आत्मैकसाक्षिकं तच्च युक्तार्थापत्तिसंश्रयात् ॥ अस्यात्मा चित्स्वभावोज्ञ चक्षुश्वाविकलं तथा । सप्रकाशं गवाश्वं च नच पश्यति चेतनः ॥ अतोऽनुमीयतेऽस्त्यन्यद्यस्मिन्नसति नेक्षते । द्रष्ट्रादिसंहतं सर्वं यस्मिँश्च सति वीक्षते ॥ यत्तदस्ति मनस्तत्स्यात्प्रसिद्ध्या चास्ति तन्मनः । अभून्मम मनोन्यत्र यतो नाद्राक्षमित्यतः ॥ - .

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- विषयाभिलाषः कामस्यान्न विशेषेऽस्ति कारणम् । इन्द्रियालोचितार्थस्य स्यात्सङ्कल्पोऽवधारणम् अनिश्चयात्मिका वृत्तिर्विचिकित्सेत्युदाहृता । आस्तिक्यबुद्धिः श्रद्धा स्यादश्रद्धा तद्विरोधिनी ॥ धृतिश्रद्धे विना न स्युः कामाद्याः कारणाहते । यतो कामादयोऽप्यत्र युक्ता एवार्थतोऽमताः॥ धारणं च धृतिर्जेया बुद्ध्योपात्तस्य वस्तुनः । विपर्ययो धृतिस्तस्या हीर्लजेत्यभिधीयते ॥ विज्ञानं निश्चितं धीः स्याद्भयं भीरभिधीयते। एतत्सर्वं मनो ज्ञेयमिति तादात्म्यमुच्यते ॥ बुद्धेश्च मनसश्चैक्यं विवक्षित्वोपसंहृतिः । इन्द्रियाण्यपि सर्वाणि स्वान्तस्यैव तु वृत्तयः ॥ यतः स्वकार्यनिर्देशः स्वान्तस्य स्पर्शनेन्द्रिये । मन एव ततो ज्ञेयं शरीरेन्द्रियसंहतिः ॥ पुंसो भोगप्रसिध्यर्थं वैचित्र्यं धीनिंगच्छति । देहेन्द्रियाद्यवस्थाभिरतो धीः सर्वमेव तु ॥ जिवन्ती भवति प्राणं पश्यन्ती चक्षुरुच्यते । शृण्वन्ती भवति श्रोत्रमिति व्यासोऽप्यभाषत। शुक्लं कृष्णमणु स्थूलमिति धीः कर्मणो वशात् । द्वैताधिकारमापन्ना वैश्वरूप्यं निगच्छति ॥ प्रत्यक्चिद्देशभेदेन नहि शुक्लादिवस्तुनः । सत्तासम्भाव्यतेऽन्यत्र प्रत्यग्वद्वाह्यवस्तुनः ॥ नातः शुक्लादिवस्त्वस्ति बुद्धिरेव क्रियावशात् । शुक्लादिरूपतामेति पुरुषार्थप्रसिद्धये ॥ धीविपर्ययरूपेयं यतः शुक्लादिरूपिणी । मन एवेत्यतः प्राज्ञाः सर्वरूपं प्रचक्षते ॥ आत्मार्थेनैव सत्यत्वं कृत्स्नात्मीयस्य वस्तुनः । तस्य तन्मात्रयाथात्म्यादिति पूर्वमवादिषम् ।। अपि सर्वाणीन्द्रियाणि मन एव यतस्ततः । पृष्ठतोऽपि नरः स्पृष्टो मनसैव प्रपद्यते ॥ पराङ्मुख उपस्पृष्टः पाणेः स्पर्शोयमीदृशः । इति स्पर्शविशेषं ना मनसैव प्रपद्यते ॥ त्वचोपस्पृष्टिमात्रेण स्पर्शमात्रं प्रपद्यते । स्पर्शनादिविशेषं तु मनसैव प्रपद्यते ॥ मनसैव यतोऽशेषकरणस्वार्थधीभवः । सर्वं हि मन एवेति श्रुतिराह वचस्ततः ॥” इति यत्तु धर्मराजाध्वरीन्द्रा एतस्यानिन्द्रियत्वमेव साधयन्ति, न तावदन्तःकरणमिन्द्रियमि- त्यत्र मानमित्यादिना । तन्न युक्तम् । तस्य उभयात्मकत्वात् । इन्द्रियरूपत्वं तु यैर्वाक्यैर्धर्म- राजाध्वरीन्द्रा निषेधन्ति तैरेव वाक्यैः शङ्कराचार्याः प्रतिपादयन्तीति तन्मते महानयं दोषो मूले कुठारवदापतति । तथा हि-"मनःषष्ठानीन्द्रियाणि" इति भगवद्गीतावचनं प्रमाण- मिति चेन्न अनिन्द्रियेणापि मनसा षट्वसङ्ख्यापूरणाविरोधात् इति धर्मराजाध्वरीन्द्राः । शङ्क- राचार्यास्तु गीताभाष्ये--"मनःषष्ठानीन्द्रियाणि श्रोत्रादीनि" इति श्रोत्रादिसमभिव्याहृतस्य मनस इन्द्रियत्वं स्पष्टमेव । न च शेषभक्षणाधिकरणन्यायेन षट्वसङ्ख्यापूतौ मनसोऽनिन्द्रि- यत्वमिति वाच्यम् । "इन्द्रियाणां मनश्वास्मि" इत्यत्रापि शङ्कराचार्याः "इन्द्रियाणामेकाद- शानां चक्षुरादीनां मनश्चास्मि सङ्कल्पविकल्पात्मकं मनश्चास्मि" इत्याहुः । एवमेव "इन्द्रि- , किरणावल्या समेतम् । तदुक्तम्-“यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः” इत्यादिना । एतस्ये- न्द्रियत्वं प्रत्यक्षखण्ड एव विचारितम् । इदश्च नेन्द्रियम् “इन्द्रियेभ्यः परा बर्थी अर्थेभ्यश्च परं मनः", "मनः सर्वेन्द्रियाणि च” इत्यादिश्रुतेः । “मनःष- ठानीन्द्रियाणि" इति भगवद्वाक्यं तु “यजमानपञ्चमा इडां भक्षयन्ति' इत्यत्र अनृत्विक्त्वेऽपि यजमानस्य पञ्चमत्वसङ्ख्यापूरकत्ववन्मनसः षट्वसङ्ख्यापूर- कत्वेनाप्युपपत्तेः । “इन्द्रियाणां मनश्चास्मि" इति तु “नक्षत्राणामहं शशी" इतिवनियामकखविभूतिकथनमात्रपरमिति न तजातीयता । अन्यथा “ज्ञानं ज्ञानवतामहम्” इति वाक्येन ज्ञानेऽपि ज्ञानवत्तापादानप्रसङ्गात् । “इन्द्रि- याणि दशैकं च" इत्यादावपि व्यवहारस्त्विन्द्रियनियामकत्वनिवन्धनः । क्रियाज्ञानमयत्वे 'सङ्कल्पयामि' इत्यनुव्यवसायात्वगम्यं मनः 'आत्मनाऽऽत्मानं वेत्सि' इत्यत्र आत्मन इवोपाधिभेदेनैकस्यापि मनसः प्रमेयत्वप्रमाणत्वयोरु- पपत्तेः। योगजधर्मसहकृतेन तेनातीन्द्रियज्ञाने खविषयज्ञानस्य सुवचत्वात् । "अनागतमतीतं च वर्तमानमतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः" इति वाक्यात् , यामीति मम मनोऽस्तीत्यभिलापादपि तथा । एवं च "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींधी रित्येत- कोऽयं व्यपदेशः। ते प्राकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते । श्रुतावेवं व्यपदेशदर्शनात् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक् चेन्द्रियाणि । ननु मनसोऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात् , 'मनः सर्वेन्द्रियाणि च' इति पृथग्व्यपदेशदर्शनात् । सत्यमेतत् । स्मृतौ त्वे- कादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्सङ्गृह्यते । प्राणस्य त्विन्द्रियत्वेन न श्रुतौ स्मृतौ वा प्रसिद्धिरस्ति । व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते । तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् । तस्मात्तत्त्वान्तरभूता मुख्यादितरे” इति श्रीशङ्कराचार्याः । सुरेश्वराचार्या अपि मनस इन्द्रियरूपत्वं स्वीकुर्वन्ति, तदुपरिष्टात् तेषामेव वार्तिकवाक्यान्युद्धृत्य प्रतिपादितम् । भागवतेऽपि पुरञ्जनोपाख्याने “एकादशेन्द्रियचमूः" इत्युक्तम् । इन्द्रियलक्षणमप्यत्र सम्भवति । तल्लक्षणं तु देहस्थत्वे सति ज्ञानक्रियान्यतरकर- णत्वम् । विस्तरस्त्वग्रे द्रष्टव्यः । एतत्प्रत्यक्षखण्डे प्रतिपादितमित्याहुः एतस्येति । यथा मुख्यप्राणस्य भगवदधीनत्वाद्वायुभिन्नत्वं तथास्यापि मनसोऽनिन्द्रियत्वमपि प्रतिपादयन्ति ९२ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सर्वेन्द्रियाणि च, त्सर्वं मन एव" इति श्रुतौ प्रकारवाचकेतिशब्दप्रयोगात्कामादितुल्याः सुख- दुःखप्रयत्नद्वेषादृष्टस्नेहाद्या अनुक्ता अपि मनस एव गुणा ज्ञेया न त्वात्मनः । शाण्डिल्यशतसूत्रीयभाष्ये त्वनुमानमपि दर्शितम् । तथाहि-सुखादयो न साक्षा- दात्मविकाराः, आत्मनि प्रतीयमानत्वात्, गौरत्वादिवत् । सुखाद्युपलब्धिः सकरणिका क्रियात्वात् , छिदिक्रियावत्, इत्यत्र लाघवात् । समवायेनैव करणजन्यत्वं युज्यते, श्रोत्रजन्यत्वमिव शब्दस्य, सुखादयः करणसमवेताः, प्राणादीन्द्रियग्रायगुणत्वात् , स्पर्शशून्येन्द्रियग्राह्यगुणत्वाद्वा, शब्दवदिति । शास्त्रान्तरे तु "स्मृत्याद्यनुमेयं मनः" तच्च सकलशरीरव्यापि मनोरथाभिमानि- कसुखदर्शनाद्यापकम् , इति मीमांसकाः । अन्ये तु करणत्वात्सक्रियत्वादुत्क- मणादिश्रुतेर्मनो गच्छतीति व्यवहाराचाणुपरिमाणमाहुः । तत्रापि नियमित्य- धवैनाशिकाः, अनित्यमिति साङ्खयाद्याः । सिद्धान्ते तु चन्द्रदेवताकत्वान्नाना- किरणशालि "एतस्माजायते" "तन्मनोऽसृजत्” इतिश्रुत्या जन्यम् “तथा प्राणः” इत्यधिकरणे जीवातिदेशेनाणुत्वादेर्व्यवस्थापनादणुपरिमाणम् , आभि- मानिकसुखं सामर्थ्यादेवोपपद्यमानम् । तस्य च रूपद्वयम् , आन्तरं बाह्यं चेति प्रत्यक्षखण्डे ज्ञानप्रक्रियायामेव निरूपितम् । सामर्थ्यादेवाभिमानिकादिसुखो- पपत्तेः श्रुत्यैवाणुत्वादिकं सिद्ध्यतीति सङ्केपः। अस्यापि गोलकं हृदयम् ।" इति प्राहुः। मनसः प्रादुर्भावं निरूप्य सर्वेन्द्रियाणामुपदिशति-सर्वेन्द्रियाणि चेति । जधर्मसहितमेव प्रमाणमन्यत्र त्वप्रमाणम्" इति सुबोधिन्यामाचार्यचरणाः । सिद्धान्ते मनसः स्वरूपमाहुः-चन्द्रदेवताकत्वादित्यादिना । “मनसश्चन्द्रमा जातः" इति तृतीय- स्कन्धषड्रिंशाध्यायवाक्ये "मनसः सकाशाजातश्चन्द्रमास्तस्य देवः" इति श्रीमदाचार्यचरणाः सुबोधिन्यामूचुः । तस्मिन्नेवाध्याये "हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट्" इत्यत्रापि तस्य चन्द्रदेवताकत्वं श्रीव्यासेनोक्तमेव । “मनश्चन्द्रशरीरं च मनोऽस्माकं तथैव च" "चन्द्रश्चन्द्राभिमानी च मनःप्रेरक एव नः” इति निबन्धीयवाक्याच । गोलकमिति । तृतीयस्कन्धे "हृदयं मनसा' इत्यत्रोक्तमित्यर्थः । “हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत । मनसांशेन येनासौ विक्रियां प्रतिपद्यते” इत्यत्र सुबोधिन्यां किरणावल्या समेतम् । एकादशसङ्ख्याकान्यणुपरिमाणानि प्राणवन्नित्यानि च । एकादशत्वं तु पञ्च- कर्मेन्द्रियाणि, पञ्चज्ञानेन्द्रियाणि मनश्चेति भेदात् । ननु कथमिन्द्रियाणामेकादशत्वम् “सप्त प्राणा प्रभवन्ति तस्मात्सप्तर्चिषः समिधः सप्त जिह्वाः” “अष्टौ ग्रहा अष्टावति ग्रहा इति" "सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ” इति, “नव वै पुरुषे प्राणा नाभिर्दशमी" दश वै पशोः प्राणा आत्मैकादश" इतिश्रुतिभिर्नानासङ्खया श्रावणेनैकतरपक्षनिर्धारणस्या- शक्यत्वात् । “सप्त इह लोका येषु सञ्चरतीह प्राणा गुहाशया निहिताः सप्त करणे प्रतिपादितमणुपरिमाणमाहुः-अणुपरिमाणानीति । एकादशत्वं प्रदर्शयन्ति- एकादशत्वे त्विति । ननु "नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुयाँति- रापः पृथ्वी विश्वस्य धारिणी" इति श्रुतौ मनसः पृथग्व्यपदेशात्सर्वेन्द्रियाणि चेत्यत्र दशानाम- वेन्द्रियाणां श्रवणं स्यान्नत्वेकादशानाम् , इति चेत् , सत्यम् । अत्र मनसः प्रमेयरूपत्वेनोक्त- त्वात्तदनिन्द्रियम् , प्रमाणरूपस्येन्द्रियेषु गणनायामेकादशेन्द्रियाणि । अत एव पूर्व मनस इन्द्रियरूपत्वमनिन्द्रियरूपत्वं चोक्तम् । अनिन्द्रियरूपस्य विशेषतः खण्डनप्रयोजनं तु वेदा- न्तपरिभाषाकारसम्मतमनिन्द्रियत्वं शाङ्करभाष्यविरुद्धमिति तन्मते मूले कुठारपातवन्महान्दोषः समुत्पततीत्येव । सप्त प्राणाः प्रभवन्ति तस्मादिति । द्वितीयमुण्डके श्रुतिरियम् । चक्षुर्घाणरसनवाश्रोत्रमनस्त्वगिति । कचिदष्टौ प्राणा ग्रहत्वेन बन्धनेन गुणेन सङ्कीर्त्यन्ते- अष्टौ ग्रहा इति । इयं श्रुतिवृहदारण्यके तृतीयाध्याये द्वितीयब्राह्मणारम्भे दृश्यते । तत्राष्टौ हा अष्टावतिग्रहा व्याख्याताः । तद्यथा-प्राणरसनत्वक्चक्षुःश्रोत्रमनोहस्तत्वगिति, त एते ग्रहाः । एषां तु विषया अतिग्रहास्त्वष्टावेव । तथाहि-(१)"प्राणो वै ग्रहः सोऽपानेना- तिग्राहेण गृहीतोऽपानेन हि गन्धाञ्जिघ्रति । (२) वाग्वै ग्रहः स नानातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति । (३) जिह्वा वै ग्रहः स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति । (४) चक्षुर्वै ग्रहः स रसेनातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति । (५) श्रोत्रं वै ग्रहः स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि शब्दाञ्छृणोति । (६) मनो वै ग्रहः स कामेनातिग्राहेण गृहीतो मनसा हि कामान् कामयते (७) हस्तो कै ग्रहः स कर्मणातिग्राहेण गृहीतो हस्ताभ्या५ हि कर्म करोति । (८) त्वम्वै ग्रहः स स्पर्शेनाति- ग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः।" इति । तैत्तिरीय- संहितायां नव । तथाहि-सप्त वै शीर्षण्या इति । द्वे श्रोत्रे द्वे चक्षुषी द्वे प्राणे एका- •वानिति सप्त पायूपस्थौ-बुद्धिमनसी वा द्वाववाञ्चाविति नव । कचिद्दशेत्याहुः-नवेति ।

, श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सप्त” इतिश्रुतौ सप्तानामेव गतिनिर्देशात् सप्तैव सङ्ख्या तेषां युक्तेति चेत्, न; चक्षुरादिसप्तगणनायां “हस्तौ चादातव्यं च, उपस्थं चानन्दायितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च” इति मन्त्रे चतुर्णामपीन्द्रिय- त्वेन गणितत्वादेकादशत्वमक्षुण्णमेव । नच तर्हि सप्तादिगणनाया असङ्गतिरिति वाच्यम् , सप्तगणनायाश्चक्षुस्त्व- ग्घ्राणरसनश्रवणमनोवाचामन्येन्द्रियाणामनल्पोपकारजनकत्वेनैतेषां मुख्यत्व- सूचकत्वेन, अष्टगणनायाश्च ग्रहपदोक्त्या तेषां शास्त्रप्रसिद्धवन्धकत्वख्यापन- परत्वेन नवगणनाया अनावृतनवद्वारप्रदर्शकत्वेन, दशगणनायाश्च केवलद्वार- मात्रप्रकटनेन, एकादशसङ्ख्यायामिमा अपि सम्भवन्तीत्यभिप्रायकत्वात्तस्याः सङ्गतेरवाधात् । क्वचिच्चतुर्दशसङ्ख्याकथनमप्यन्तःकरणचतुष्टयसमन्वितत्वबो- धनायेति ध्येयम् । नच तर्हि कथमेकादशत्वमेवेति निश्चय इति शक्यम् , "ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः” इत्यु- पक्रम्य क्षेत्रनिरूपणे “महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च" इत्यने- नाहङ्कारप्रभृतीन्पृथक्तयाऽऽज्ञाप्य "इन्द्रियाणि दशैकं च” इत्याज्ञया ब्रह्म- सूत्रपदेष्वेकादशैवेन्द्रियाणीति भगवतैव निर्णीतत्वात् । नचेन्द्रियाणां प्राणपदावाच्यत्वमिति विभावनीयम् , तेषां प्रियत्वबोधनाय वेदे तथा प्रयोगात् । तस्य "अथ ह प्राणा अहं श्रेयसि व्यूहिरे” इत्यत्रेन्द्रि- याणां प्राणपदवाच्यत्वस्य स्फुटत्वाच । - अत्र विद्वन्मुकुटमणयः प्रस्थानरत्नाकरे “अथेन्द्रियाणां लक्षणानि । तत्र तैजसाहङ्कारोपादेयत्वे सति ज्ञानक्रियान्यतरकरणमिन्द्रियम् । घरट्टयत्रा- समादधते-चक्षुरादिसप्तगणनायामिति । पुनः शङ्कते नचेति । गीताप्रमाण- माहुः-ऋषिभिरित्यादिना । ब्रह्मसूत्रेष्वपि "हस्तादयस्तु स्थितेऽतो नैवम्" इत्यत्रैका- दशसङ्ख्याया एव समर्थित्वात् । सप्तादिगणनायाः सङ्गतिमाहुः-नचेत्यादिध्येयमित्यन्तम् । इन्द्रियाणां प्राणपदावाच्यत्वं परिहरन्ति-तेषामित्यादिना । ..

किरणावल्या समेतम् । दिक्रियाजनकवाय्वादिवारणाय सत्यन्तम् । प्राणबुद्धिवारणाय शेषम् , देहसं- युक्तत्वे सति खफलेनात्मज्ञापकत्वं वा । इदमेव मुख्य लक्षणम् । साक्षायुच्च- रणेऽपि समन्वयात्कालिकव्याप्तेरदुष्टत्वाचेति । (अत्र मतान्तराणि) मीमांसकास्तु-यत्सम्प्रयुक्तेऽर्थे विशदावभासं ज्ञानं जनयति तदि- न्द्रियम् । नैयायिकास्तु-शब्देतरोद्भूतविशेषगुणानानयत्वे सति ज्ञानकारणमनः- यतो भवः । मनसश्चेन्द्रियाणां च भूतानां महतामपि" "तेजसानीन्द्रियाण्येव क्रियाज्ञान- विभागशः।" इत्याद्युक्तेस्तैजसाहकार एवेन्द्रियाणामुपादानकारणम् । करणत्वं तु "कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम्" इत्युक्तेः । व्यापारवदसाधारणं कारणं करणम् । ज्ञानं प्रति ज्ञानेन्द्रियाणां क्रियां प्रतिकर्मेन्द्रियाणां करणत्वमिति बोधनाय ज्ञानक्रियान्यतरेति । प्राणबुद्धिवारणाय करणेति । क्रियाज्ञानविभागश इत्यत्रोक्तं राजसाहङ्कारोपादेयत्वं क्रियावत्त्वं ज्ञानवत्त्वं च तयोः । करणं तु साधकतमम् । तच्चेन्द्रियाण्येवेति ज्ञापनायेति वा । ननु प्रकृते नारायणादेवेन्द्रियाणामुत्पत्तिरुच्यते, नतु राजसाहङ्कारादिति लक्षणासङ्गतिरिति चेल्लक्षणान्तरं गृहाण देहेति । साक्षायुचरणेत्यादिना । “यथाग्नेः क्षुद्रा विस्फुलिङ्गाः" इति श्रुतेः । “एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च" इति श्रुतिरपि विस्फुलिङ्गसदृशीति श्रीमदाचार्यपादा अविरोधचतुर्थे तत्प्राक्श्रुतेश्चत्यत्राहुः । एवं च यथा विस्फुलिङ्गवाक्ये व्युचरणं तथाच प्रादुर्भावः । एवमेव स प्राणमसृजतेत्यादयः । प्रकृतेऽपि नारायणात्सर्वेषां प्रादुर्भावस्योक्त्या विस्फुलिङ्गश्रुतिसादृश्यम् । खफलेनात्मज्ञापकत्वं योगादीनांमपीति तद्वार- णाय सत्यन्तम् । देहसंयुक्तत्वे सत्यात्मज्ञापकत्वं बुद्धेरपीति तद्वारणाय स्वफलेनेति । मतान्तराण्याहुः-मीमांसकेत्यादिना । यत्प्रयुक्तेति । मीमांसकमते षण्णामेवाङ्गी- कारात् । शब्देतरेति । विश्वनाथपञ्चाननेन सङ्गृहीतं मुक्तावलीस्थं लक्षणमिदम् । एतन्मते कर्मेन्द्रियाणां भौतिकत्वाज्ञानेन्द्रियाणामेवेदं लक्षणम् मनसश्चानिन्द्रियत्वात् । आत्मादाव- तिव्याप्तिवारणाय सत्यन्तम् । आदिपदेन चर्ममनःसंयोगस्य ज्ञानकारणत्वपक्षे तत्सङ्ग्रहः । उद्भूतविशेषगुणस्य श्रोत्रे सत्त्वादव्याप्तिवारणाय शब्देतरेति । विशेषगुणस्य रूपादेश्चक्षुरादौ सत्त्वादुद्भूतेति । शब्देतरोद्भूतगुणः संयोगादिश्चक्षुरादावण्यस्त्यतो विशेषेति । कालादिवारणाय विशेष्यत्वम । इन्द्रियावयवविषयसंयोगस्यापि प्राचां मते प्रत्यक्षजनकत्वादिन्द्रियावयववारणाय, १६ श्रीमदाथर्वशनारायणोपनिषद्भाष्यम्- खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी। संयोगाश्रयमाहुः । तानि ज्ञानेन्द्रियकर्मेन्द्रियभेदात् द्विधा । तत्र वागादीनि पञ्च कर्मेन्द्रियाणि । श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि । नैयायिकास्तु कर्मेन्द्रियाण्यनजीकुर्वन्तः श्रोत्रादीनां पञ्चानां भौतिकत्व- माहुः । तन्न, साक्षात्सृष्टौ भगवत एवेन्द्रियोत्पत्तिश्रुतेः 'एतस्माजायते प्राणो मनः सर्वेन्द्रियाणि च, खं वायुर्योतिरापः पृथिवी विश्वस्य धारिणी' इति क्रमसृष्टौ चाहकारिकत्वश्रुतेः, मूढभूतांशत्वेन ज्ञानकरणत्वानुपपत्तेश्च । आदित्य वै चक्षुर्गच्छति' इत्यादिना देवतासु तल्लयश्रवणाच । अन्यथा देवतामनादृत्य परमाणुभाव एवोच्येत । केचित्तु-इन्द्रियाणि नित्यान्याहुः, तदप्येतेनैवापास्तम् । अन्ये तु-गोलकानां दृश्यत्वादिन्द्रियाणामैन्द्रियकत्वमाहुः । तदप्यसङ्गतम् । छिन्नकर्णस्य शब्दश्रवणानुपपत्तेः । नष्टलिङ्गचक्षुषश्चाचा- क्षुषापत्तेश्च । अतो रूपाधुपलब्धिः करणसाध्याक्रियात्वात् , छिदिक्रियादि- वत् ; इत्यनेनेन्द्रियाणां करणत्वेन रूपेण सिद्धौ गोलकं न करणमुक्तरीत्यान्वय- व्यतिरेकव्यभिचारादित्येवं गोलकातिरिक्तेन्द्रियसिद्धौ तसातीन्द्रियत्वमव- सीयते अपरे तु-एकमेवेन्द्रियं व्यापिकायास्त्वच एव तत्तदवच्छेदेन तत्तज्ज्ञान- जनकत्वात्कृतमिन्द्रियान्तरेणेत्याहुः । तदपि न, उपाधिभेदशक्तिभेदयोः कल्पनापत्तेः सर्वेन्द्रियाणि च' इति औतबहुवचनवाधापत्तेश्च । . मनःसंयोगस्यापि ज्ञानकारणतया तद्दोषतादवस्थ्यं, समवायेन कारणत्वविलक्षणे तु क्वापि कार्य कालमनःसंयोगस्य समवायेनाकारणत्वाज्ज्ञानपदमनर्थकं, तथापि समवायेन कारणताला- भायैव ज्ञानपदम् । अथवा दैशिकपरत्वादिकारणदिङ्मनःसंयोगमादाय दिश्यतिव्याप्तिवा- रणाय तत्पदमिति भावः । “अङ्गोपाङ्गकर्मनिर्माणनामकर्मोदयात्प्राप्यानि त्वगादीन्द्रियाणि" इति जैनाः।

किरणावल्या समेतम् । नच क्रमसृष्टावेकस्मात्तैजसात्कथं नानाविधेन्द्रियोत्पत्तिः सम्भवतीति वाच्यम् , भगवदिच्छासहकृतात्तस्मात्तदनुसारेण गुणपरिणामभेदे देहस्यावस्था- नभेदेनेव तस्यापि भिन्नावस्थात्वेन नानाविधोत्पत्तिसम्भवात् , अतो न किञ्चि- दनुपपन्नम् । तानि चैकादशाणूनि च, तदुपपादितमविरोधचतुर्थपादभाष्ये, नित्यानि चेत्यपि। मायावादिनस्तु-अनित्यत्वं, मध्यमपरिमाणत्वं, भौतिकत्वं चाहुः । तदपि तत्रैव निरस्तम् । देवताधिष्ठितत्वादेव च खकार्यक्षमत्वमतो न त्वचो व्यापकत्वकल्पनमपि युक्तम् । चक्षुषो गमनादेरपि तत एवोपपत्तेरित्यपि तत्रैव । तत्र व्यवहारजनकमिन्द्रियं वह्निदेवताकमिन्द्रियं वा वाक्, शिल्पजनकमि- न्द्रियमिन्द्रदेवताकमिन्द्रियं वा दोः, आनन्दजनकमिन्द्रियं प्रजापतिदेवताक- , , . प्रथमलक्षणेऽसङ्गतिं निवारयन्ति-नचेत्यादिना । उपपादितमिति । तथा प्राणः इत्यारभ्येति शेषः । मायावादिमतं खण्डयन्ति-मायावादिनस्त्वित्यादिना । तत्रैव । अविरोधतुरीयपादे । देवतेति । शरीरव्यापिका त्वगिति कल्पनमयुक्तमित्यर्थः । कर्मेन्द्रियाणां लक्षणानि प्रदर्शयन्ति-व्यवहारेत्यारभ्य तथेत्यन्तम् । “विवक्षोर्मुखतो भूनो वह्निर्वाड- व्याहृतं तयोः", "तस्याग्निरास्यं निर्मिन्नं लोकपालोऽविशत्पदम् ।", "वाचा खांशेन वक्तव्यं ययाऽसौ प्रतिपद्यते”, “वह्निर्वाचां मुखं भेजें" इत्यादितुरीयप्रस्थानवाक्येभ्यः “मुखादिन्द्र- श्वाग्निश्च" इति श्रुतेश्च वागिन्द्रियं वह्निदेवताकम् , तत्कार्य च वाग्व्यापारो वाणीत्यतो व्यवहारजनकत्वं तस्य । उक्तं च-"वाच्यार्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः” इति । शिल्पजनकेति । “हस्तौ चादातव्यं च” इति श्रुतेः । ग्रहणकर्मकमिन्द्रियं शिल्पजनकं वादोः । तदधिष्ठातृदेवता चेन्द्रः । “हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु बलवा- निन्द्र आदानमुभयाश्रयम्" इति वाक्यात् । “बाहवो लोकपालानां" इत्यत्रापि च सुबोधिन्यां लोकान्यान्तीति व्युत्पत्तिमाश्रित्य “पालनकर्तारो देवा इन्द्रादयः" इत्युक्तम् । द्वितीयस्य पञ्चमेऽपि “वह्नीन्द्रोपेन्द्रमित्रकाः” “वाग्दोर्मेद्राधिपायवः" इतीन्द्रियाणां क्रमशो देवा उक्ताः । तृतीये च "हस्तावस्य विनिर्मिन्नाविन्द्रः स्वर्पतिराविशत् । वार्तयांशेन पुरुषो • यदा वृत्तिं प्रपद्यते" इत्यत्रेन्द्रदेवताकत्वं वार्ताशब्देन करणसामर्थ्य शिल्पजनकत्वं प्रतिपादि- .

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- मिन्द्रियं वा मेढ़म् , गतिजनकमिन्द्रियं विष्णुदेवताकमिन्द्रियं वाङ्गिः, विसर्ग- जनकमिन्द्रियं मित्रदेवताकमिन्द्रियं वा पायुः, गोलकान्येषां प्रसिद्धानि । एता- वान्परं विशेषः, दोरादिचतुष्कमन्यदेवतावच्छेदेनापि कार्य जनयति । अन्यथा मल्लविद्याकुशलानां खानां च हस्ताभ्यां चलनं, विषयेन्द्रियसंयोगाच्चक्षुरादि- प्वानन्दः, पद्भ्यां तालादिवादनं, नेत्राभ्यामश्रुः, शरीरे च खेदरोमहर्षादयो न स्युः । वागिन्द्रियं तु न तथेति । इति पञ्चकर्मेन्द्रियाणि । अथ ज्ञानेन्द्रियाणि । तत्र नभोगुणविशेषत्वेन शब्दग्राहकमिन्द्रिय दिग्देवताकं वा श्रोत्रम् । वायुगुणविशेषत्वेन स्पर्शग्राहकमिन्द्रियं वायुदेवताकं वा त्वक् । एवमग्रेऽपि पार्थिवेषु गन्धस्य सामान्यत्वाद्गन्धलक्षणेऽपि न विशेष- पदवैयय॑म् , गन्धग्राहकमिन्द्रियमश्विदेवताकं वा प्राणम् । रूपग्राहकमिन्द्रियं सूर्यदेवताकं वा चक्षुः। रसग्राहकमिन्द्रियं वरुणदेवताकं वा रसनम् । गोल- वानन्दं प्रतिपद्यते” “उपस्थश्चानन्दयितव्यं च" "सर्वेषामानन्दानामुपस्थ एकायनम्" इति भागवतश्रुतिवाक्यैरितिभावः । गतीति । “पादौ च गन्तव्यं च" इतिश्रुतेः । “विक्रमो भूर्भुवःस्खश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्वरण आस्पदम्" "गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् । पझ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः" "पादावस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते” इति भाग- वतवाक्येभ्यश्च । विसर्गेति। "पायुश्च विसर्जयितव्यं च" इति श्रुतेः। "पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निर्ऋतेर्मृत्योर्निरयस्य गुदः स्मृतः","उत्सिसूक्षोर्धातुमलं निरभि- द्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः", "गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्ग प्रतिपद्यते” इत्यादिभागवतवाक्येभ्यश्च । अपाङ्गानामिन्द्रियान्तरेण कार्यसाधकत्वं प्रदर्शयन्ति-विशेष इत्यादिना । अत्रैव "इन्द्रादयो बाहव आहुरुस्राः" इत्यादिवाक्यान्यपि द्वितीयस्कन्धोक्तान्यपि अनुसन्धेयानि । अथ ज्ञानेन्द्रियाणां लक्षणानि सङ्गृह्यन्ते । तत्रेति । “कर्णी श्रोत्रं ततो दिशः", "कौँ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः", ", "दिशः श्रोत्रममुष्य शब्दः कौँ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः" इति भागवतवाक्येभ्यः। वाग्विति। "त्वगस्य स्पर्शवायोश्च सर्वमेवास्य चैव हि तत्र चान्तर्बहिर्वायुस्त्वचाऽऽरब्धगुणावृतः" इत्युक्तेः । गन्धेति। "नासत्यदस्रौ परमस्य नासे घाणञ्च गन्धः", "अश्विनोरोषधीनां च घ्राणे मोदप्रमोदयोः", "नासिके निर- .

किरणावल्या समेतम् । ९९ कान्येषां प्रसिद्धानि । एतावान्विशेषः । त्वक्चक्षुषी द्रव्यस्यापि ग्राहके नान्या- नीति नैयायिकादयः। अस्माकं तु न तथा, इत्युपपादितम्प्रत्यक्षविचारे । एतानि दशापि राजसाभ्यां बुद्धिप्राणाभ्यां परिगृहीतत्वादपि राजसानि, न तु ज्ञानजनकानि । सात्त्विकानि क्रियाजनकानि । जडपर्यवसानात्तामसानि । तदुक्तम्-"तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च" । "ज्ञानशक्तिः क्रिया- शक्तिबुद्धिः प्राणस्तु तैजसौ” इति । एतेन सात्त्विकमेकादशकः प्रवर्तते । वैकृतादहङ्कारात्, इति साङ्खयकारिकोक्तमत्र नाभिप्रेतमिति ज्ञापितम् । एतेषु , "मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायत । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते” इति भागवतोक्तिभ्यः । तदुक्तमिति । अत्रेदं तत्त्वम्-इन्द्रियाणि, इन्द्र आत्मा ईयते अनेने- तीन्द्रियम् । आत्मा हि न चाक्षुषः । नाप्यन्येन्द्रियग्राह्यः । व्यवह्रियते च देवदत्तस्त्वं यज्ञदत्तस्त्वमिति । स च पश्यति शृणोतीत्येव प्रतीयते । तानीन्द्रियाणि दश । तैजसादि- त्युक्त्या ज्ञानेन्द्रियाणि ज्ञानप्रधानानि सात्त्विकानि, कर्मेन्द्रियाणि च जडपर्यवसानात्तामसा- नीति मतस्य निरासः । तत्र प्रमाणं "ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैजसौ" । बुद्धिः प्राणश्च राजसाहङ्कारकायौँ । अत्र हि-"ज्ञानशक्तिः क्रियाशक्ति"रित्युक्तम् , तेन बुद्धेः सात्त्वि- कम् । प्राणश्च वायुरूपः श्वासोच्छासाभ्यां प्रतीयते, इति तयोर्न राजसाहङ्कारोद्भवत्वमिति मतमपि निरस्तम् । अस्मिन् मते न बुद्धिर्ज्ञानम् , किन्तु ज्ञानशक्तिः । ज्ञानजनिका शक्तिः । "सुबुद्धिरयं पदार्थान् जानाति" इति ज्ञानकरणत्वेन बुद्धिय॑पदिश्यते । कार्यकारणयोरभे- दोपचाराच्च बुद्धिज्ञानयोः पर्यायत्वव्यवहारः । प्राणोऽपि वायुभिन्नः “अथ हैनमासन्यं प्राण- मूचुः" इति प्राणरूपां विलक्षणां देवतामाह श्रुतिः। अतो ज्ञानजनने शक्तिर्यस्य, क्रियाजनने शक्तिर्यस्येति च तयोभिन्नधर्मत्वात्तावुभौ राजसाहङ्कारकार्यो । सात्त्विकेति । साङ्ख्यसप्तत्यामीश्वरकृष्णाः "सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्का- रात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्" इत्याहुः । तदर्थस्तु-प्रकाशलाघवाभ्यामे- कादशक इन्द्रियगणः सात्त्विको वैकृतात्सात्त्विकादहङ्कारात्प्रवर्तते । भूतादेस्त्वहङ्कारात्तामसा- तन्मात्रो गणः प्रवर्तते । कस्मात् ? यतः स तामसः । एतदुक्तं भवति, यद्यप्येकोऽहङ्कार- स्तथापि गुणभेदोद्भवाभिभवाभ्यां भिन्नं कार्य करोतीति । ननु यदि सत्त्वतमोभ्यामेव सर्व कार्य जन्यते तदा कृतमकिञ्चित्करेण रजसेत्यत आह-तैजसादुभयमिति । तैजसाद्राजसादुमयं गणद्वयं भवति । यद्यपि रजसो न कार्यान्तरमस्ति, तथापि सत्त्वतमसी स्वयमक्रिये समर्थेऽपि १६ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- चक्षुःश्रोत्रमाणहस्तपादा द्विगोलकाः, जिह्वाख्यं तु गोलकं वायसनाभ्यामधि- ष्ठितम् , पायूपस्थौ एकैकगोलको, त्वग्व्यापिकेति । एतेषां देवाः पूर्वमुक्ताः। तेषां कार्य विषयाभिव्यक्तिः । तदुक्तमाचायः, तृतीयस्कन्धे-'अभिव्यञ्जनं यतः' इत्यस्य व्याख्याने 'देवताधिष्ठानव्यतिरेकेण केवलादिन्द्रियाच्छब्दज्ञा- नादिकं न भवतीति, सामर्थ्य देवानामेव । इन्द्रियाणामेव सामर्थ्य कल्पेत यदि कल्पितं शास्त्रं स्यात् , यथासिद्धमत्रोच्यत इति देवाधीनैव विषयप्रका- शनशक्तिः' इति । ज्ञानेन्द्रियाणि तु च, वस्तुप्राप्यप्रकाशकारीणि । सौगतास्तु-श्रोत्रखाप्राप्यप्रकाशकारित्वमाहुः । तदन्ये दूषयन्ति-य- थाह शास्त्रदीपिकाकारः, अप्राप्यकारित्वे हि सन्निकृष्टविप्रकृष्टस्थिती युग- पच्छब्दमुपलभेयाताम् , तयोस्तु क्रमेणोपलब्धिर्न कथञ्चिदप्य प्राप्यकारित्वे समर्थयितुं शक्या । किञ्च शब्दः क्षणिको वा स्थायी वा । यदि क्षणिकः, प्रत्यासन्नैहीतमात्रो नष्टः कथं विप्रकृष्टैर्गृह्येत । स्थायित्वं तु सौगतानामनभि- मतमेव । स्थायित्वे प्रत्यासन्नानां चिरकालं श्रवणमनुवर्ततेति । तस्मान्नाप्राप्य- एतेषां गोलकान्याहुः-चक्षुरित्यादिना । अर्थेति । "वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा । अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् । वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः" इति तृतीयस्य पञ्चमे वाक्यम् । देवेति । वागादीन्द्रियाधिष्ठातृदेवैरेव विषयप्रकाशः नाथद्वारीय- मुद्रिते पुस्तके तु सामर्थ्यमित्यत्र तथात्वमिति पाठ आहतः पुरुषोत्तमचतुर्वेदेन । कल्पि- तेति । इन्द्रियाधिष्ठातृदेवताप्रतिपादकवाक्यानि कल्पितानि भवेयुरित्यर्थः । देवताव्यतिरेकेण यदि भवेच्छब्दादिज्ञानं तदा मृतशरीरेऽपि गोलकानां विद्यमानत्वात्तस्यापि ज्ञानं भवेदेव, तच्च न सम्भवत्यतो विषयप्रकाशनशक्तिर्देवानामेवेति ध्येयम् । सौगतास्त्विति । "कमैके तत्र दर्शनात्" इति शब्दनित्यताधिकरणे शब्दप्रत्यक्षे बौद्धानामियं शङ्का । अप्राप्यकारित्वे हीति । अप्राप्त एव शब्दः श्रोत्रेण गृह्यत इति पक्ष इति भावः । सन्निकृष्टेति । दूरस्थस्य समीपस्थस्य च शब्दस्य युगत्पज्ज्ञानं स्यादिति भावः । श्रीमत्कुमारिलभट्टपादाः शाक्यान् प्रत्याहुः-"येषां त्वप्राप्त एवायं शब्दः श्रोत्रेण गृह्यते । तेषामप्राप्तितुल्यत्वं दूरव्यवहितादिषु । तत्र दूरसमीपस्थग्रहणाग्रहणे समे । स्यातां, नच क्रमो, नापि तीव्रमन्दादिसम्भवः” इति । दूषणान्तरमाहः पार्थसारथिमिश्राः-किश्चेति ।

किरणावल्या समेतम् । कारित्वं श्रोत्रस्य सम्भवतीति । वृत्तेस्तु न व्यापारत्वम् , किन्तु ज्ञानावस्था- त्वमेवेति व्युत्पादितं पूर्वम् । कर्मेन्द्रियेषु तु, तत्तक्रियैव व्यापारः, 'सर्वेषामा- नन्दानामुपस्थ एकायनम्' इत्यादिश्रुतेः । तजन्या स्थूलशरीरक्रिया च फल- मिति सङ्केप इति" श्रीमत्पुरुषोत्तमचरणा निरूपयाञ्चक्रुः। सिद्धा तत्प्रद्वेषेण लक्ष्यते । नच शब्दार्थसम्बन्धः कर्तुं योग्यः कथञ्चन । क्षणिक श्रोत्रपक्षे च सोऽवश्यं कृतको भवेत् । संस्कारे तुल्यमेतच्चेन्न संस्कारान्तरस्थितेः। संस्कारशब्दवाच्या हि केचिद्वर्षशतान्यपि । ध्रियन्ते तेन तच्छब्दसम्बन्धो न विनश्यति" इति । निर्ण- यसागरे मुद्रितायां शास्त्रदीपिकायां तु दृश्यते पाठभेदः । तत्र हि-अप्राप्यकारित्वे हि सन्निकृष्टविप्रकृष्टस्थितौ पूर्वे शब्दविचारावसरे । कर्मेन्द्रियाणां व्यापार प्रदर्शयन्तः प्रमाणमाहुः-सर्वेषामिति । आकाशप्रादुर्भावं निरूपयंति-आकाशेति । क्रमसृष्टौ तत्प्राथम्यमाहुः-सहीति । सहीत्यतोऽनुसन्धेयम् । जन्मायधिकरणे आद्यस्य यतो जन्मेति पक्षमनुसृत्य प्रथमकार्यरूपत्वेन प्रतिपादितः । ननु “जन्माद्यस्य यतः" इत्यत्र आवस्य आकाशस्य जन्म यतो ब्रह्मणः सका- शादिति पक्षाभ्युपगमे तत्राकाशजनकत्वस्यैव लक्षणत्वमायाति न तु सर्वभूतजनकत्वस्य तत्स्थित्यादिकर्तृत्वस्य चेति नैतन्मञ्जुलम् , इति चेत् , न; तत्रैव श्रीमदाचार्यचरणैः “एकत्र सिद्धः शास्त्रार्थः प्रकारान्तरेऽपि 'यतो वा इमानि भूतानि' इत्यत्र विस्फुलिङ्गवत्सर्वोत्पत्तिः, अत्र तु क्रमेणेति विशेषः" इत्युक्तत्वात् । ननु "एतस्मादात्मन आकाशः सम्भूतः” इति श्रुतावाकाशाद्वारवादीनां जननमुक्तम् , इह पुनर्नारायणादेवेत्यनया श्रुत्या प्रथमकार्यरूपत्वस्य समर्थनं तु सुतरां विरुद्धमिति चेत्, “नारायणात्प्राणो जायते” इत्यारभ्येह साक्षादेव नारा- यणात्पदार्थजातानां सृष्टिमाह भगवान् वेदो विस्फुलिङ्गश्रुतिवत् । नेयं क्रमसृष्टियेन त्वदुक्त- शङ्कावकाशः स्यात् । प्राथम्यं तु क्रमसृष्टौ । तदेवाह श्रीमद्भागवते द्वितीयस्कन्धे भगवाना- त्मभूः “तामसादपि भूतादेविकुर्वाणादभून्नभः" इत्यहङ्काराद्भूतोत्पत्तौ तत्प्राथम्यम् । तत्र हि "नभः" इति नाम “अत्यन्ततामसत्त्वात्प्रकाशवृत्तिरहितत्वान्न विद्यते भा यस्येति" इति श्रीमदाचार्यचरणोक्त्या प्रकाशदेश्च तत्प्राथम्यं स्पष्टमेव । नानात्वमिच्छतां भगवतः सृष्टिप्र- कारप्रतिपादकवाक्येष्वपि “अन्तःशरीर आकाशात्पुरुषस्य विचेष्टितः" इत्युक्त्या भगवच्छरी- रमध्यगत आकाश एव तचेष्टोक्ता, यतश्चेष्टारम्भ एवाकाशात्प्राग्भवितुं नाहतीति तत्प्राथम्यं तु सुतरां सिद्धमेव । ननु छान्दोग्ये "तत्तेजोऽसृजत" इतिश्रूयते श्रुतिः, सापि क्रमसृष्टि- , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- इत्यादि कविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय द्वितीये खण्डे “सदेव सोम्येदमग्र आसीदेक- मेवाद्वितीयं ब्रह्म' इत्यारभ्य ब्रह्मणोऽद्वितीयत्वं प्रतिपाद्य तदिच्छया सृष्टिमाह श्रुतिः “तदक्षत बहु स्यां प्रजायेय तत्तेजोऽसृजत” इत्यादि । अत्र तेजोऽबन्नादिसृष्टिरक्ता, न, तु तत्त्वान्तराणि । उपक्रमे च सर्वविज्ञानम्प्रतिज्ञातं, तत्राकाशनिरूपणाभावे प्रतिज्ञाहानिः, “एकमेवाद्वितीयं ब्रह्म' इत्युक्त्या चाकाशस्य पृथनिर्देशे द्वैतापत्तिः; आकाशास्तित्वं तु श्रुत्यन्तरे प्रसिद्धमेव, तेजोऽबन्नानां स्थितिरप्याकाशमन्तरा नार्हति; तस्मात् "श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात्" इति पूर्वतत्रन्यायेन सर्जनशेषस्याकाशस्यातिदेशश्छान्दोग्योक्त- क्रमसृष्टौ कर्तव्यः । नात्र छान्दोग्यश्रुतौ क्रमस्य वाचकः कश्चिच्छब्दः श्रूयते । तस्मात् तैत्तिरीयाधुक्तसृष्टिवाक्यानां नैव सम्भवति मिथो विरोधः । “खं वायुः" इत्यादीनां विस्फु- लिङ्गसाध्याश्रुतीनां साक्षान्निरुपाधिकब्रह्मणः सकाशादुत्पत्तावभिप्रायः । नच कल्पभेदेन सृष्टि- भेदोऽप्यशास्त्रीय इति वाच्यम् प्रतितत्रं श्रूयमाणत्वात् । पयोदधिदृष्टान्तश्च न तत्त्वानां सृष्टौ प्रमाणम् , तयोः पृथक्तत्त्वाभावात् । कल्पान्तरीयसृष्टौ प्रमाणं तु निबन्धीयशास्त्रार्थप्रक- रणेऽस्ति । इहापि तदेवोह्यम् । यत्तु निबन्धे सृष्टिप्रकारा एव प्रदर्शिताः श्रीमदाचार्यचरणैर्न तु कल्पभेदाः इत्याहुः; तन्न, “एवं कदाचिद्भगवान् साक्षात्सर्वं करोत्यजः । कदाचित्पुरुष- द्वारा कदाचित्पुनरन्यथा । कदाचित्सर्वमात्मैव भवतीह जनार्दनः । महेन्द्रजालवत्सर्वं कदा- चिन्माययाऽसृजत् । तदा ज्ञानादयः सर्वे वार्तामात्रं न वस्तुतः । वियदादि जगत्सृष्टवा तदाविश्य द्विरूपतः । जीवान्तर्यामिभेदेन क्रीडतिस्म हरिः क्वचित्" इत्यत्र कालवाचक- कदाचिच्छब्दाभ्यासेन तदुक्तेः । नचेदमश्रौतमिति शक्यम् । मुण्डके "दिव्यो ह्यमूर्तः पुरुषः" इत्युपक्रम्य "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च” इति साक्षात्सृष्टिः । ऐतरेये "आत्मा वा इदमेक एवाग्र आसीत्" इत्युपक्रम्य लोकानां लोकपालानां च सृष्टिः । महो- यनिषदि "एको ह वै नारायण आसीन्न ब्रह्मा" इत्यारभ्य चतुर्दशपुरुषादीनां सृष्टिः । छान्दोग्ये "सदेव सौम्येदमग्र आसीत्" इत्युपक्रम्य तेजोबन्नादिसृष्टिः । तैत्तिरीये "आत्मन आकाशः सम्भूतः” इत्यादिनाऽऽकाशक्रमेण सृष्टिः । पुराणादौ "कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् । ततोऽभवन्महत्तत्त्वमव्यक्ता- कालचोदितात् । विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जस्तमोनुदः' इत्यत्र श्रीमद्भागवततृतीय- स्कन्धे सृष्टिसक्ता । पञ्चरात्रे वासुदेवो भगवान् सर्वकारणं परमेश्वरस्तस्मादुत्पद्यते सङ्कर्ष- णाख्यो जीवस्तस्मात्प्रद्युम्नो मनस्तस्मादनिरुद्धोऽहङ्कार इत्येवम्प्रकारेण सृष्टिरुक्ता । तत्त्वार्थ- दीपनिबन्धीयसर्वनिर्णयप्रकरणेऽपि “शतं कल्पास्ततोऽप्यन्ये सन्ति कृष्णेन निर्मिताः । सत्त्वेन किरणावल्या समेतम् । अथ एवं प्राणादित्रयस्य नारायणा णाप्रादुर्भाव निरूप्य आकाशादिपञ्चमहा- भूतानां प्रादुर्भावमाह-खमिति अत्रापि भूतसामान्यलक्षणं तु श्रीम- त्पुरुषोत्तमचरणाः प्रस्थानरत्नाकरे एवमाहुः-"अथ भूतानां लक्ष- णान्युच्यन्ते-तत्राकाशादिपञ्चकान्यतमत्वं सविशेषशब्दादिमत्त्वं वा सामा- न्यलक्षणम् । बहिरिन्द्रियग्राह्यविशेषगुणवच्चमिति भूतलक्षणं त्वग्रे आलङ्कारिकै- र्दूषणात्, योग्यताघटितत्वेऽपि प्रमाणरहितत्वान्नादृतम् । एवमन्यदपि षोध्यम्” इत्याहुः। तत्र आकाशो अत्र प्रस्थानरत्नाकरे पण्डितपुरन्दराः-रूपरहितः। खशक्त्या चक्षुषाऽग्रायः । आकाशसामर्थ्याव्राह्यः । स हि “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः", "खं वायुयॊतिः" इति तैत्तिरीयमुण्डकश्रुतिभ्यां ब्रह्मणः प्रथमकार्यरूपः। तत्र आकाशस्य भूतावकाशदातृत्वम् , बहिरन्तरव्यवहारविषयत्वम् , प्राणे- न्द्रियान्तःकरणाधारत्वं चेति लक्षणत्रयम् । तदुक्तम् भूतानां छिद्रदातृत्वं , , एनमपि पण्डितप्रकाण्डानां श्रीमत्पुरुषोत्तमानां सम्मत्या समर्थयन्ति-अनापीति । तत्र तावत्तन्मात्राणां विकारपरिसमाप्तौ भूतानां लक्षणान्युक्तानि । अत्रापि मूले "खं वायु- ज्योतिरापः पृथिवी विश्वस्य धारिणी" इतिश्रुतौ पञ्चानामपि भूतानां नारायणादुत्पत्तिः प्रतिपादिता, अतः प्रथमं प्रस्थानरत्नाकरोक्तं भूतसामान्यलक्षणमुच्यते-आकाशादीत्यनेन । कणभक्षतनयास्तु-भूतत्वेन्द्रियप्रकृतित्वम् । बाबैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वं वा । तच संस्कारत्वान्यबहिरिन्द्रियग्राह्यगुणत्वव्याप्यजातिमद्विशेषगुणवत्त्वमेव । इन्द्रियप्रकृतित्वमिन्द्रि- योपादानत्वम् । तद्धि नभसोऽवच्छिन्नानवच्छिन्नभेदकल्पनयोपपादनीयमिति किरणावली । बाबैकैकेन्द्रियेण चक्षुरादिना ग्राह्या ये विशेषगुणा रूपादयस्तद्वत्ता पृथिव्यादीनामित्यर्थः । अन्तःकरणग्राह्यत्वस्यैतेषु सत्त्वादेकैकेयसिद्धमतो बाह्येति कन्दली । आकाशं लक्षयन्ति- तत्राकाशे । एतल्लक्षणत्रयमाधिदैविकादिभेदेन बोध्यम् । तत्र प्रमाणमाहुः-भूताना- मिति । भूतानां प्राणिनां छिद्रदातृत्वम् , बहिरन्तःस्वरूपत्वम् , प्राणेन्द्रियान्तःकरणा- धारत्वं चेति नभसो लक्षणत्रयम् । छिद्रमवकाशः, बहिरन्तर्व्यवहार आकाशविषय एव । पृथिव्यादेरावणरूपस्य न बहिरन्तर्व्यवहारविषयत्वं, परिच्छेदकत्वं परम् । परिच्छेदकत्वं नाम भागद्वयविभाजकत्वात् । प्रदेशो न व्यवहारहेतुस्तुल्यत्वादिति नातिव्याप्तिः । आन्तरो देशो श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्र नभसो वृत्तिलक्षणम्' इति । तत्र आद्यमाधिदैविकस्य स्वाधिभौतिकखरूपकर्मकदातृत्वस्य तत्रैव सत्त्वात्। द्वितीयं तु आधिभौतिकं खरूपलक्षणम् , व्यवहारोपयोगि । नचावरणेऽतिव्याप्तिः। तस्य विषयपरिच्छेदकत्वात् । अत एव न भूप्रदेशे दिशि च । आन्तरो देशो बायो देशः। आन्तरा दिक् बाह्या दिगिति तत्र विद्यमानत्वेनामिलप्यमान- त्वात् , अतो धूमोऽन्तरेव न बहिरिति व्यवहारसाक्षिको विवर एव बहिरन्तर व्यवहार इति । एतेन आकाशमनिच्छन्तो म्लेच्छा भाट्टैकदेशिनश्च परास्ताः। अयं नित्य इति वैशेषिकादयः। तथाहि-समवाय्यादिकारणत्रयसामग्र्या हि सर्वोत्पत्तिः। तत्राकाशावयवाप्रसिद्ध्या समवाय्यभावेन तद्वयसंयोगरूपा- समवायिनोऽप्यभावात् । केवलनिमित्तेन कार्योत्पत्त्यदर्शनात् । सृष्टिप्रागभाव- दशायामसुषिरत्वस्थासम्भाव्यत्वात् । पृथिव्यादिवैधाद्विभुत्वात्सम्भवश्रुते- रुपाधिपरत्वेन, गौणत्वेन, अजत्वसिद्धिः । अतोऽयं नित्य इति वदन्ति । स्थानम् । धिष्ण्यशब्देन वैदिकत्वं तस्य स्थानस्य द्योतितम् । नभसो वृत्तिलक्षणमिति । नमो हि त्रिधा वर्तते । स्वस्याधिभौतिकं रूपं स्वयं प्रयच्छतीत्याधिदैविकत्वम् । अन्तर्बहि- र्व्यवहाराश्रयमित्याध्यात्मिकत्वम् । देहान्तःस्थितपदार्थाश्रयत्वेनाधिभौतिकत्वमिति तदर्थः । तदेवाहुः-तत्रेत्यारभ्याऽपास्ता इत्यन्तम् । तस्य नित्यत्वे कणभक्षमतमाहुः अयमित्यनेन । कारणत्रयेति । समवाथ्यसमवायि- निमित्तभेदादित्यर्थः । तत्र यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् , कार्येण कारणेन वैकस्मिन्नर्थे समवेतं सत्कारणमसमवायिकारणम् , एतदुभयभिन्नं निमित्तकारणम् । एतत्का- रणत्रितयसामग्र्या कार्यजातमुत्पद्यते । आकाशावयवाभावान्न तस्य समवाय्यसमवायिकारणे सम्भवतः । तयोरभावे न कस्यचिदपि निमित्तत्वकल्पनाऽपि स्यात् । कार्यत्वं च प्रागभाव- प्रतियोगित्वम् । तदेव न सम्भवति । आकाशप्रागभावे मानाभावात् । “तस्माद्वा एतस्मा- दात्मन आकाशः सम्भूत" इतिश्रुतेर्जन्यत्वशङ्कायामाहुः-पृथिव्यादीति । एककारण- जन्यानां साधर्म्य तद्विरुद्धानां वैध→मिति नियमात् । पृथिव्यादीनामाकाशस्य वैधर्म्य सुप्रसिद्धमेव । तेन नैककारणजन्यत्वं पृथ्व्याकाशयोः । नच सम्भवश्रुतावुत्तरोत्तरं प्रति पूर्व किरणावल्या समेतम् । तद्वियदधिकरणे दृषितं व्यासैस्तद्दिमात्रं प्रदयते, तथाहि-नमो जन्य विकारित्वात् , विकारिलौकिकव्यवहारविषयत्वात् , घटादिवत् ; इत्यनुमानेन 'आत्मन आकाशः सम्भूतः' इति श्रुत्यनुगृहीतेन जन्यत्वसिद्ध्या, ईश्वरस्यैव समवायिनो निमित्ताद्विभागाच समवायिनः सुखेन जन्यत्वसिद्धिः । क्रमस- ष्टयन्तरेऽपि तत्सिद्धिरप्रत्यूहातः सुष्टु । • एवं कणभक्षमतमुपन्यस्य खण्डयन्ति–तद्वियदधिकरण इत्यादिना । अविरोधस्य तार्तीयप्रथमन्यायेन दूषितं व्यासपादैरित्यर्थः । तत्र च "यावद्विकारं तु विभागो लोकवत्" इतिसूत्रेणाकाशोत्पत्तावसम्भवापत्तिनिवारिता । आकाश उत्पादविनाशशाली, विकृतत्वात्; विकृतो लौकिकव्यवहारविषयत्वात् लोकवत् ; यन्नैवं तन्नैवं इत्यनुमानेन तत्सिद्धेः । ननु ब्रह्मणः प्रज्ञानघनत्वाध्यापकत्वेन विभागासम्भवाच तज्जन्यत्वविरोध इति चेन्न; ब्रह्म यदा सिसृक्षति तदा घनत्वं तिरोभावयतीत्याकाशो विभज्य इति नानुपपत्तिः काचित् । नन्वात्माऽपि आकाशादिभ्यो विभक्त इति सोऽपि कार्यरूप एव स्याद्धयदिवत्, इति चेत्, न; "आत्मन आकाशः सम्भूतः" इतिश्रुतेः। यद्यात्मापि विकारः स्यात्तस्मात्परं हि न किञ्चि- च्छ्रुतमित्याकाशादि सर्व कार्य निरात्मकमात्मनः कार्यत्वे स्यात्तदा शून्यवादः प्रसजेत । आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः । नह्यात्मोपादानान्तरस्योपादेयः, तस्य स्वयं सिद्ध- त्वात् । एवं चाकाशस्य जन्यत्वान्न सम्भवश्रुतिौणी स्यादिति ध्येयम् । तथाहि-ब्रह्मणो विरु- द्धधर्माश्रयत्वात्सर्वोपादानत्वाच न सम्भवश्रुतेगौणत्वम् । ननु श्रुतिर्हि "आकाशवत्सर्वगतश्च नित्यः" "आकाशशरीरं ब्रह्म" "स यथाऽनन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः, "आकाश आत्मा" इत्यादिभ्यो नित्यत्वमाहेति चेत् , न; आकाशवदिति श्रुतौ ब्रह्मोपमानता, सां च, समोऽनेन सर्वेणेत्यत्र यथा सर्वस्य भगवदुपमानता भगवतस्तत्परिमाणतायां पर्यवस्यति, न तु सर्वस्य ब्रह्मतुल्यपरिमाणत्वे; तथात्राप्युपमानता ब्रह्मणो व्यापकत्वनित्यत्वयोः पर्यवस्यति नत्वाकाशस्य भगवत्तुल्यत्वे । सर्वगतनित्यशब्दयोब्रह्मविशेषणत्वात् । “न तत्समश्चाभ्यधिकश्च दृश्यते” इति साम्यनिषेधश्रुतेः “ज्यायानाकाशात्" इति ज्यायस्त्वश्रुतेश्च । तथा सत्याकाशस्य यन्नित्यविभुत्वं तदन्यापेक्षयैव; . न तु ब्रह्मवदिति फलितम् । एवमाकाशशरीरत्वश्रुतिः “य आकाशे तिष्ठन्" इत्यन्तर्यामिब्राह्मणेन, बहुव्रीहिणा तस्यैवार्थस्य लाभात् । एवं सति यथा पृथिव्यादीनामाधारतामात्रं न तु नित्यत्वादिकमपि, तथैवाकाशस्यापीति बोध्यम् । एवमनन्त- वोपमानश्रुतावपि आपेक्षिकमेवानन्तत्वमाकाशस्येति पूर्ववत्साम्यश्रुत्यैवैकवाक्यतां लभते ।

१०६ . श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- अथ प्रसङ्गादिदं विचार्यते-आकाशे नीलप्रतीतियां सा भ्रमः प्रमा वेति । तत्र बहवः, आकाशस्य रूपवत्त्वे न मानम् । तथाहि-न तावत्प्रत्यक्षम् ; आकाशं तद्रूपं वा पश्यामीत्यप्रत्ययात् । नीलं नमोऽस्तीति प्रतीतिः सार्वलौ- किकीति चेत् , तस्या भ्रान्तत्वात् । ननु रूपवतः प्रत्यक्षविषयता न नियता परमाणौ व्यभिचारात्, इति चेत् , न; सहकार्यभावस्य तत्र तत्रत्वात् । किं तत्सहकारीति चेत्, महत्त्वमेव । नापि वायुभिन्नत्वे सति महत्त्वात्पृथिवीव- दित्यनेनाकाशे रूपसिद्धिः, द्रवत्वस्य तत्रोपाधित्वात् । नापि क्रियादिरहितत्वे सति भूतत्वात् , यन्नैवं तन्नैवं कालादिवदित्यनेन सिद्धिः, द्रव्यारम्भकत्वस्यो- पाधित्वात् । आद्यक्षणीयघटादौ व्यभिचाराच्च । बहिरिन्द्रियग्रायविशेषगुण- ववृत्तिद्रव्यत्वसाक्षायाप्यधर्मवत्त्वस्य कालादीतरद्रव्यत्वस्य वा भूतत्वस्य तत्रापि त्वादौ तात्पर्यमपि तु ब्रह्मात्मकत्वे । वस्तुतस्तु प्राणसञ्चारायाकाशस्यात्मत्वमुच्यते । तत्राय- मर्थ एव न भवतीति न चाशङ्का न चोत्तरमिति । ननु भवन्मते प्रपञ्चस्य नित्यत्वात्कथमा- काश एवानित्यः ? इति चेन्न; आविर्भावतिरोभाववादे श्रीपुरुषोत्तमपादैः सम्यक् तस्य प्रपञ्चनात् । अत्रापि प्रपञ्चवन्नित्यत्वविरोधो न, किन्तु अजत्वविरोध एवेति सर्वं चतुरस्रम् । आकाशनीरूपत्वं साधयन्ति-अथेत्यादिना । प्रसङ्गादिति । स्मृतस्योपेक्षानहत्वं प्रसङ्गः । भ्रम इति । तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारशालिज्ञानत्वं भ्रमत्व- मितियावत् । प्रमेति । तद्वति तत्प्रकारकं ज्ञानम् । मतान्तराण्याहुः-तत्रेत्यनेन । प्रत्यक्षस्येन्द्रियार्थसन्निकर्षजन्यत्वादित्यर्थः । तथाहि- चाक्षुषत्वप्रयोजकस्य महत्त्वे सत्युद्भूतरूपवत्त्वस्याकाशेऽसम्भवेन चक्षुषः प्रमाजनकत्वासम्भ- वात् । ननु यद्याकाशो न चाक्षुषस्तदेह पक्षीति चाक्षुषाधिकरणत्वेन किं भासत इति चेदा- लोक एवेत्याकलय । नीलं नभ इति । यत्तु सुदूरं गच्छच्चक्षुः परावर्तमानं खचक्षुः कनीनिकामाकलयत्तथाभिमानं जनयतीति, तन्न, पिङ्गलसारनयनानामपि तथाभिमानात् । कथं तर्हि नीलं नभ इति प्रतीतिरिति चेत् ? सुमेरोदक्षिणदिशमाक्रम्य स्थितस्येन्द्रनील- मयशिखरस्य प्रभामालोकयतां तथाभिमानात् । ननु दधिधवलमाकाशमिति कथं प्रतीति- रिति चेत् ? मिहिरमहसां विशदरूपाणामुपलम्भात्तथाभिमानात् । प्रत्यक्षेण रूपाभावं किरणावल्या समेतम् । , H सत्त्वात् । किञ्च, आकाशो यदि रूपवान् स्यात् परममहान स्यात् , बहिरि- न्द्रियग्राह्यो वा स्यात् , स्पर्शवान्वा स्यात् , पृथिव्यादित्रयं वा स्यादिति बाध- कतर्कपराहतमाकाशस्य रूपवत्त्वमित्याहुः । तत्र साहित्यसर्वस्वकारः-नेदमुचितम् , नीलं नभः पश्यामीति निःशङ्क सार्वजनीनप्रत्ययात् । न चासौ भ्रमः, तत्कारणीभूतदोषस्य विकल्पपराहतेः। तथाहि-किमसौ विषयदोषः सादृश्यनिबन्धन इदं रजतमितिवत् ? उत कर- णदोषः, पित्तादिनिबन्धनः शङ्खः पीत इतिवत् ? नाद्यः, असम्भवात् ; विष- यगतदोषजन्यभ्रमत्वावच्छिन्नं प्रति धर्मिप्रमोषसहकृतारोपस्य तन्त्रत्वात् । प्रकृते तदभावात् नभस्त्वस्यावच्छेदकताया व्यवस्थापयिष्यमाणत्वात् । न द्वितीयः, अस्य प्रत्ययस्य सार्वजनीनत्वात् ; युगपत्सर्वजनकरणदोषस्य वक्तुम- शक्यत्वात् । न चैन्द्रजालिकमायायां यथा वस्तुग्रहणप्रतिबन्धरूपः करणगतो विषयगतो वा दोषः सार्वजनीनस्तथात्रेति वाच्यम् , तत्रैन्द्रजालिकस्य तत्प- रिपन्धिमत्रादिवतोऽन्यस्य च यथावस्तुग्रहणदर्शनेन तस्यासार्वजनीनत्वनिश्च- यात् । किञ्च, सर्वेषां ख्यातिवादिनां मते आकाशस्यातीन्द्रियतायाः सम्मतत्वेन निर्गुणं निष्क्रिय सम्भवति पश्चात्तत्समवेता गुणा उत्पद्यन्ते इति न्यायेनेति भावः । तत्र हेतुं दर्शयन्ति-बहिरिति । सत्प्रतिपक्षं प्रदर्शयन्ति-किञ्चेति । मतान्तरेण रूपवत्त्वं साधयन्ति-तत्र साहित्यसर्वखकार इति । भ्रमत्वं निवारयति-न चासाविति । भ्रमत्वं हि-तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रका- रताशालित्वम् । स द्विविधः संशयो विपर्ययश्च । एकथर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशयः; यथा स्थाणुर्वा पुरुषो वेति । शरीरादौ निश्चयरूपं यदात्मप्रकारकं ज्ञानं गौरोऽहं, श्यामोऽहं कृशोहमित्याकारकम् । शङ्खादौ पीतत्वामतिश्च विपर्ययः । नीलं नभ इति प्रती- तिस्तु न भ्रमः । स्थाणुर्वा पुरुषो वेतिवत् सादृश्यनिबन्धनतो नायं विषयदोषः, आकाशस्य सादृश्यान्तराभावादसम्भवः । तदेवाह-विषयगतेति । विषयो शुक्तावारोपितो रजतादिः, तद्गतश्वाकचिक्यादिरित्यर्थः । करणेति । करणमिन्द्रियं नेत्रादि, तद्भतः पित्तादिदोषः । खण्डयति-नाद्य इति । धर्मिण आकाश्य प्रमोषो वस्त्वन्तरेणाख्यानं तत्सहकृतस्य नील- त्वारोपस्य तत्रत्वाद्युगपत्प्राप्तत्वादिति भावः । करणगतदोषं निवारयति-न द्वितीय इत्य- नेन । पीतः शङ्खः इति ज्ञानं तु पित्तादिदोषसहकृतमेव तस्य सार्वजनीनप्रत्ययत्वाभावात् , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- तदधिकरणभ्रमायोगात् , अतो बाधकाभावात्सा प्रतीतिः प्रमैव । सामीप्ये नैल्याभावप्रत्यय एव बाधक इति चेत्, न; व्यापकस्याकाशस्य दैशिक- परत्वापरत्वात्मकदूरत्वसामीप्ययोरनधिकरणत्वात् , पुरुषसंसृष्टदेशविवक्षया सामीप्यप्रत्यय इति चेत्, तवाकाशस्यातीन्द्रियत्वेन सामीप्याद्यविषयत्वात् , नयनसंसृष्टाअनवत् , सागरनीलिमवच्च, समीपे तदग्रहणेप्यदोषात् , तस्माददुष्ट आकाशप्रत्यक्षतापक्षः। एवंच पूर्वोक्तमनुमानमपि मानम् । न च द्रवत्वमुपाधिः, तस्य प्रलये पृथिवीतेजःपरमाण्वोः साध्याव्यापकत्वात्, घटवह्नयादावपि तथात्वाच, निवारयति-सामीप्य इति । “अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् । सौक्ष्म्यात्तद्व्यवधानादभिभवात्समानाभिहाराच्च" इति साङ्ख्यस्मृतेरपि अतिसामीप्यात्प्रत्य- क्षाननुपपत्तिः । नभसि नीलत्वं भ्रमः इति मन्वानस्य मते तस्य व्यापकत्वादेशिकपरा- परत्वाभावं प्रदर्शयति-सामीप्ये नैल्याभावेति । वायुभिन्नत्वे सति भूतत्वात्पृथिवीवत् इत्यनुमानमप्यमानम् । पृथिवीतेजःपरमाणुषु द्रवत्वाभावात् । जातिघटकत्वेन नायं दोष इति पक्षं निवारयति-घटादाविति । प्रतिबन्दिं प्रदर्शयति-व्याप्यधर्मस्येवेति । प्रदर्शितानुमाने द्रवत्वस्योपाधित्वं निवारयति-नच द्रवत्वमुपाधिरिति । उपाधित्वं हि पूर्वोक्तानुमाने धर्ममात्रेण विभाजकतया । यथा द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेष- त्वसमवायत्वाभावत्वानां पदार्थविभाजकोपाधित्वम् । सच धर्मः वचन जातिरूपः, कचन च तद्भिन्नः । द्रव्यत्वादयो जातिरूपाः । सामान्यादयस्तु तद्भिन्नाः । जातिधर्मोऽपि द्विविधः सखण्डोपाधिरखण्डोपाधिश्चेति । तत्राद्य आकाशादिः, द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगि- त्वादिः । तदेतत्स्वारस्यमाच्छादयन् वदति साहित्यसर्वस्वकार इति ध्येयम् । साध्या- व्यापकत्वादिति । द्रवत्वाधुपाधौ हेत्वाभासप्रयोजकीभूतमर्थमादायेदम् । साध्यव्याप- कत्वे सति साधनाव्यापकत्वमुपाधिः । तथा च-यस्य यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मा- वच्छिन्नसाधनाव्यापकत्वं च स तत्साध्यकतद्धतावुपाधिः । भवति च तत् आर्दैन्धनं साध्यस्य धूमस्य व्यापकम् । यत्र यत्र धूमस्तत्राट्टैन्धनमिति नियमयोगात् । भवति साधनस्य वह्ने- रव्यापकम् । यत्र यत्र वह्निस्तत्रान्धनमिति नियमायोगात् । तप्तायःपिण्डे वह्निसत्त्वेऽपि आर्दैन्धनाभावादिति । एवं चात्र साहित्यसर्वस्वकारेण साध्यव्यभिचारोन्नायकतया दूषकत्वेन उपाधिनिरूप्यत इति ध्येयम् । तदेव हेत्वाभासप्रयोजकीभूतोपाधेः फलम् । यथा केवल- A किरणावल्या समेतम् । घटादौ द्रवत्वववृत्तिद्रव्यत्वसाक्षाद्याप्यजातिमत्त्वेन द्रवत्वसिद्धेर्न साध्यव्याप- कत्वमिति चेत्, न; तदृत्तितादृशजातिमत्त्वेन तत्तद्गुणसाधने द्वेषवदृत्तिद्रव्य- त्वसाक्षाद्याप्यजातिमत्त्वेनेश्वरेऽपि द्वेषापत्तिः। किञ्च, व्याप्यधर्मस्येव विशेषण- व्यापकधर्मस्यापि नियामकत्वापत्तिः । तदिष्टत्वे गन्धवदृत्तिपृथिवीत्वव्यापक- जातिमत्त्वेनाकाशादावपि गन्धादिसाधनापत्तिः । न चैवं घटवह्नयादावसत्त्वेन द्रवत्वं पृथिवीतेजसो गासिद्धं स्वादिति वाच्यम् । इष्टापत्तेः । तस्यालक्ष्य- श्रयत्वं प्रत्यक्षविषयत्वव्यभिचारि उद्भतरूपाभाववद्वहिर्द्रव्यत्वावच्छिन्नवायुवृत्तित्वादितिरीत्या हेतौ साध्यव्यभिचारः साधनीयः । साधनावच्छिन्नसाध्यव्यापकोपाधिस्थले उदासीनधर्माव- च्छिन्नसाध्यव्यापकोपाधिस्थले च जन्यत्वं प्रमेयत्वं च विनाशित्वव्यभिचारि भावत्वाभावव- जन्यध्वंस वृत्तित्वादितिरीत्यासाध्यव्यभिचारो हेतौ साधनीयः । केचित्तु, सत्प्रतिपक्षोत्था- पकतया दूषकत्वमुपार्वदन्ति । सत्प्रतिपक्षोत्थापकत्वं च स्वाभाववत्त्वरूपहेतुना साध्या- भावानुमितिजनकत्वम् । यथा आधे अयोगोलकं धूमाभाववत् आर्टेन्धनसंयोगाभावादिति । द्वितीयादिषु यद्धर्मविशिष्टसाध्याभावानुमितिजनकत्वं सम्भवति । यथा वायुः बहिर्द्रव्यत्व- विशिष्टप्रत्यक्षविषयत्वाभाववान् उद्भूतरूपाभावात् , ध्वंसः जन्यत्वविशिष्टविनाशित्वाभाववान् भावत्वाभावादित्यादिरीत्या । पर्वतो धूमवान् वढेः, प्रागभावो विनाशी जन्यत्वादित्यादौ तु सत्प्रतिपक्षोन्नायकतया दूषकत्वं न सम्भवति, पक्षे तत्र साध्यस्य सत्त्वात् ; किन्तु एतादृश- स्थले साध्यव्यभिचारोन्नायकतया दूषकत्वमेवेति गृह्यते । ननु सत्प्रतिपक्षोन्नायकतया दूषक- त्वपक्षे तत्तद्धर्मविशिष्टो यः साध्यः तदभावस्यैव सिद्धत्वेन एतादृशसाध्याभावनिश्चयस्य तत्त- द्धर्माविशेषितसाध्यविषयकप्रकृतानुमितिप्रतिबन्धकत्वाभावेन तत्तत्पक्षे तत्तत्साध्यसिद्धिर्दुवीरेति चेत्, न; तादृशानुमितावपि तत्तद्धर्मसमानाधिकरणस्यैव साध्यस्य विषयत्वसम्बन्धेन ताश- बाधनिश्चयाप्रतिबध्याया अनुमितेः सम्भवेऽपि अभिमतसाध्यस्यासिद्धेः । यत्र च पक्षे बाध- निश्चयो नियतस्तत्र पक्षेतरः पक्षेतरत्वं वा उपाधिर्भवत्येव, यथा वह्निरनुष्णः पदार्थत्वात् इत्यत्र वहीतरत्वमुपाधिः । कुत्रचित्साध्यसाधनोर्व्यापकोऽप्युपाधिदृश्यते, यथा, करका पृथिवी कठिनसंयोगादित्यत्रानुष्णाशीतस्पर्शवत्त्वमुपाधिः । एवमुपाधेः प्रायशो दोषान्तरसाङ्कय विद्यत एव । व्याप्येति । यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य स्वरूपं तत्तस्य व्याप्यमिति नियमेन तादृशव्याप्यधर्मस्येवेत्यर्थः । तथाच वह्निसामानाधिकरण्यं धूमे धूमत्वेनावच्छिद्यते । उपाधौ तूपाधिना । अत एव साधनतावच्छेदकभिन्नेन येन साधनताभिमते साध्यसम्बन्धोऽ- वच्छिद्यते स एव तत्र साधने विशेषणमुपाधिरित्यत आह-विशेषणेति । भागासिद्ध- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- त्वात् । यथोपलम्भं तन्नियमस्य युक्तत्वादिति, यद्यप्यत्राकाशभिन्नत्वमुपाधि- स्तथापि साध्याभावोपाध्यभावयोर्वायौ व्यभिचरितत्वेन पक्षे साधनाव्यापक- त्वस्यादूषकत्वेन च न तत्सम्भवः । एतेन द्रवत्वाभावस्य रूपाभावसाहचर्या- दुपाधिदृढीकरणमुत्क्षिप्तम् । वस्तुतस्तु, द्रवत्वं जल एव । नच घृततैलसुवर्णादौ वयादिसंसर्गेण तदुप- लब्धिस्तर्हि न स्यादिति शङ्यम् । तदन्तर्गतानां जलांशानामेव तद्वत्ताभ्युपग- मेन तदभिव्यक्त्योपलम्भसम्भवात् । अन्यदा तदनुपलब्धिस्तु हिमकरकादा- विव पार्थिवभागबाहुल्यादभिव्यञ्जकासंयोगाद्वेत्याहुः । अपिच द्वितीयानु- माने द्रव्यारम्भकत्वोपाधिस्तु रूपवदंशावयविनि साध्याव्यापकत्वान्निरस्तः । आद्यक्षणावच्छिन्ने बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वरूपभूतत्वस्य हेतोरभावान्न व्यभिचारोऽपि । विरुद्धभूतत्वयोराद्यविवक्षायां तद्वदृत्तिद्रव्यत्वसाक्षायाप्य- धर्मस्य भूतत्वस्येव मूर्तत्वस्य मनसि । द्वितीयविवक्षायां भाट्टानां शब्दे गन्धवती घटत्वात् इत्यादौ पृथिवीत्वसामानाधिकरण्येन पटादौ घटत्वाद्यभावः । यथा वा पृथिव्यादयश्चत्वारः परमाणवोऽनिया गन्धवत्त्वादिति । अत्र गन्धवत्त्वं हेतुः पक्षीकृतेषु सर्वेषु नास्ति, पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धत्वम् । जलादितरत्र द्रवत्वाभावं साधयति-वस्तुतस्त्विति । तदुदाहरणान्तरं यथा घट- शब्दावभिधेयौ मूर्तत्वादिति । शब्द इति । "श्रोत्रमात्रेन्द्रियग्राह्यः शब्दः शब्द- त्वजातिमान् । द्रव्यं सर्वगतो नित्यः कुमारिलमते मतः" इति भाट्टमते शब्दस्य द्रव्यत्वेन स्वीकारात् । तथाचेत्थं तदुपपत्तिः-शब्दत्वं नाम जातिस्तन्मते । श्रोत्रग्राह्यत्वे शब्दस्य न विवादः । किन्तु, आकाशगुणत्व एव सः । तथाचाहुः-"वियद्गुणत्वं शब्दस्य केचिदूचुर्म- नीषिणः । प्रत्यक्षादिविरोधात्तद्भट्टपादैरुपेक्षितम्” इति । तत्र गुणस्य सर्वत्र साश्रयतया प्रतीयमानत्वादिह च निराश्रयतयैव प्रतीतिदर्शनात् प्रत्यक्षविरोधः । शब्दो द्रव्यं साक्षादक्ष- सम्बन्धसाक्षात्कार्यत्वात् घटवत् , शब्दो द्रव्यं सत्त्वे सत्यनाश्रयत्वाद्गगनवत् , इत्याद्यनुमान- विरोधोऽपि । नचास्यानाश्रयत्वमसिद्धमिति वाच्यम् ; प्रतीतिविरोधात् । विमतं द्रव्यं शब्दाश्रयो न भवति द्रव्यत्वात् सम्प्रतिपन्नद्रव्यवत् इति निराश्रयत्वसिद्धेश्च । शब्दो द्रव्यं न भवति श्रोत्रग्राह्यत्वात् शब्दत्ववत् , इति अद्रव्यत्वं साध्यमिति चेत्, न; शब्दो गुणो न भवति श्रोत्रग्राह्यत्वात् शब्दत्ववत् , इत्येताभ्यामेव हेतुभ्यां गुणत्वनिवृत्तेरपि सुसाधनीयत्वात् । .

किरणावल्या समेतम् । १११ पुनरेनमेव युगपदुपलम्भं व्यक्तिभेदेन समर्थयन्ति । व्यक्तीनां च विनाशित्वमभ्युपगच्छन्ति । स एवायं गकार इति प्रत्यभिज्ञानस्य तु जातिगोचरत्वमपि कल्पयन्ति । तच्चायुक्तम्-यस्य हि प्रत्यभिज्ञानस्य बलवत्प्रमाणविरोधेन व्यक्तिगतमेकत्वं गोचरीकर्तुमशक्यं तस्यैव जात्या- त्मना प्रत्यभिज्ञानकल्पने सोऽयं देवदत्त इत्यादावपि तथात्वप्रसङ्गात् । न चात्र बाधकप्रमाणं किञ्चिदुपलभ्यते । ननु उत्पन्नः शब्दः, विनष्टः शब्द इत्यादिप्रत्ययोऽत्र बाधक इति चेत्, न; नित्यविभुत्वेन सम्मतानामपि गगनादीनां खननपूरणानन्तरभवस्य जननविनाशप्रत्ययस्ये- वाभिव्यञ्जकसान्निध्यसदसद्भावनिबन्धनत्वात् । नित्यः शब्दः सत्त्वे सत्यकारणत्वात् व्योमवत् इति नित्यत्वसिद्धिः । नच ताल्वादिव्यापाराणां कारणत्वदर्शनादकारणत्वमसिद्धमिति वाच्यम् , ताल्वादिव्यापाराणां खननादेर्मूलोदकाभिव्यञ्जकत्ववदभिव्यञ्जकत्वस्यैवोपपत्तेः । ताल्वादिव्यापारः शब्दकारणं न भवति व्यापारत्वात् सम्प्रतिपन्नव्यापारवत् इत्यकारणत्व- सिद्धेश्च । ननु ताल्वादिव्यापारः शब्दकारणं भवति शब्दस्य तदनन्तरभावित्वात् । यो यद- नन्तरभावी स तत्करणकः यथा कुलालव्यापारानन्तरभावी घटस्तत्कारणक इति तस्य कारणत्वमपि साध्यमिति चेत् , न; मूलोदकादौ व्यभिचारात् । नच ताल्वादिव्यापाराणाम- भिव्यञ्जकत्वे शब्दानां विभुत्वादभिव्यक्तस्य वर्णस्य सर्वोपलभ्यत्वप्रसङ्गः इति वाच्यम् । ताल्वादिव्यापारोत्पन्नध्वनिश्रोत्रसंयोगस्यैवाभिव्यञ्जकत्वाङ्गीकारात्, ध्वनीनां वायुविशेषत्वात् , तत्प्रेरकताल्वादिबलानुसारेणादूरश्रवणादिव्यवस्थोत्पत्तेश्च । यथाह भगवान् शबरः-"अभि- घातेन हि प्रेरिता वायवः स्तिमितानि वाय्वन्तराणि प्रति योधमानाः सर्वतो दिक्कान् संयोगविभागानुत्पादयन्तो यावद्वेगमभिप्रतिष्ठन्ते । अनुपरतेषु शब्द उपलभ्यते, नोप- रतेषु" इति । यत्रैकस्य गकारस्य तीव्र-तीव्रतर-मन्द्रमन्द्रतरत्वादिविरुद्धधर्मानुपपत्ते- भिन्ना एवैते गकारा इति वाच्यम् , एकस्मिन्नेव मुखे मणिदर्पणकृपाणाद्यभिव्यञ्जकभेदेन भिन्नत्वप्रतीतिवत् , तदभिव्यञ्जकध्वनिधर्मसमारोपेण वर्णेऽपि भिन्नत्वप्रतीत्युपपत्तेः । ज्वालै- कत्वप्रत्यभिज्ञानवत् भ्रान्तिमूलमिदं वर्णैकत्वप्रत्यभिज्ञानमिति न वाच्यम् ; कारणदोषबाधक- प्रत्यययोरन्यतरस्याभावे भ्रान्तिमूलत्वकल्पनानुपपत्तेः । ज्वालैकत्वप्रत्यभिज्ञानं हि ज्वालाया विशीर्यमाणावयवत्वदर्शनात् , तेनावयविविशरणस्याप्यनुमेयत्वादेकस्यामेव वर्तिकायां ज्वल- हीपनिवारणे दीपान्तरोद्दीपने च विहितेऽपि तदनवलोकयतः सैवेयं ज्वालेति पूर्ववदेव प्रत्य- भिज्ञानदर्शनाच्च विषयगतसादृश्यादिदोषनिबन्धनमिति शक्यावगमम् । गकारप्रत्यभिज्ञाने तु विनाशप्रतिनियतलिङ्गादर्शनाद्विषयदोषकारणदोषयोरन्यतरस्यादर्शनाच न भ्रान्तिमूलकल्पन- मुपपद्यते । तस्मादखिललोकैरपि युगपदुपलभ्यमानोऽयमेक एव गकारः । अपि च शब्दो- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- वेदान्तिनामज्ञानेऽस्मन्मते तमस्यतिव्याप्तेः । वक्ष्यते च तमसो द्रव्यत्व- , एवं च सिद्धाः शब्दस्य द्रव्यत्वनित्यत्वसर्वगतत्वादयः। स पुनरयं शब्दो वाचकावाचकभेदेन द्विविधो भवति । तत्रावाचको भेरीप्रहरणादिजन्यध्वनिव्यङ्ग्यः । अन्यस्तु ताल्वादिव्यापारज- न्यध्वनिव्यङ्गयो वर्णात्मकः । यथाहुः-“वर्णात्मकानां शब्दानां सम्भूयैकार्थवाचिनाम् । समाहारपदं प्रादुराचार्यमतकोविदाः॥ उत्तीर्णवर्ण यत्किञ्चित्तत्त्वं स्फोटपदोदितम् । वर्णव्यङ्ग्यं पदं प्रोक्तं पतञ्जलिमतानुगैः ॥” इति । तत्र तावदुत्तीर्णवर्णे पदस्वरूपे किं प्रमाणम् । ननु अस्ति तावदेकं पदमिति प्रत्यक्षानुभवः । नासौ वर्णविषयः, तेषामनेकत्वादिति तदतिरिक्त- वासिद्धिरिति चेत्, मैवम् ; यथाऽनेकपदारब्धं वाक्यमेकवाक्यार्थावबोधकत्वादेकबुद्धि- विषयं भवति तथाऽनेकेषामपि वर्णानामेकपदार्थप्रतिपत्तिहेतुत्वेनैकबुद्धिविषयत्वोपपत्तेः। नहि दृष्टे सत्यदृष्टकल्पनावकाशः । तस्मात् पदे वाक्येऽप्येकत्वबुद्धिरेकार्थावबोधकत्वादेव । वर्णे पुनरेकत्वप्रतीतिर्नानुपपन्नेति वर्णातिरिक्तपदकल्पनानवकाशः । यत् पुनर्वणानां पदत्वमक्रम- व्युत्क्रमपठितेभ्योऽपि वर्णेभ्योऽर्थप्रतीतिप्रसङ्गादसङ्गतमित्युक्तं, तद्वर्णानां स्फोटाभिव्यजकत्व- पक्षेऽपि समानमेवेति न स्फोटाभिधानं पदान्तरं द्रव्यान्तरं वा कल्पनीयम् । एतादृशस्य पदस्य पदार्थेन सह प्रत्याय्यप्रत्यायकलक्षणः सम्बन्धोऽपि नित्य एव । पदपदार्थसम्बन्धः साङ्केतिक ईश्वरोऽत्र सङ्केतयितेति तार्किकाणां मतम् । तदपि तार्किकेश्वरनिराकरणेन निरस्तं वेदितव्यम् । गवादिजातिरेव गवादिपदवेदनीया । व्यक्तिस्तु गामानयेत्यादिवाक्येषु जाते- रानयनादिक्रियान्वयानुपपत्त्या लक्ष्यते । एवम्-“अनित्यत्वे हि शब्दानां शशशृङ्गप्रहारवत् । शब्दात्मकानां वेदानां नित्यत्वं हास्यतां व्रजेत् । इति सञ्चित्य वादोऽयं विस्तरेण प्रपञ्चितः॥" इति । तथाच शब्दस्य द्रव्यत्वेनातिव्याप्तिरिति ध्येयम् । तमसीति। "ऋतेऽर्थ यत्प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः" इति द्वितीयस्य नवमे भागवते तमसोऽतिरिक्तद्रव्यत्वेन मायाकार्यत्वेन चोक्तत्वादित्यर्थः । तत्र श्रीमदाचार्यचरणैरपि सिद्धान्ते सुबोधिन्यां विषये विषयताख्यं पदार्थ स्वीकृत्य तस्याश्च व्यामोहिकया मायया प्रतीतिः प्रतिपादिता । तथाहि-"विषये विषयता काचित् स्वीकर्तव्या, यया दृष्टिः सविषया भवति । अन्यथा पदार्थानां स्थिरत्वाद्धमदृष्टिनिर्विषया स्यात् । अतोऽन्यत्रैव सिद्धभ्रमिर्मायया पुरःस्थिते . विषये समानीयते । दृष्ट्यनुरोधित्वात्तस्याः । अतो यथाधिकारं जीवसृष्टिं पुरस्कृत्य व्यामोहि- कया मायया व्यात्यासेन पदार्थाः सम्पाद्यन्ते । एवं सर्वत्र जगति सा बुद्धिभ्रमं जनयति, अन्यत्रान्यविषयतां सम्पादयति । विषयता मायाजन्या, विषयो भगवान् । मायायामेव विषयतारूपं भगवतः स्वरूपं प्रकटितमिति । तदपि न निःस्वभावम् । आत्मशक्तित्वान्मायाऽपि किरणावल्या समेतम् । , , च विद्यमानं न प्रकाशयति । अविद्यमानं प्रकाशयति । ननु सार्वजनीनप्रतीत्यनुरोधेन जग- दूपोऽयं विषयो ब्रह्मणो भिन्न एव कुतोऽनाङ्गीक्रियते, इति चेत्, यस्मात्कारणादविद्यमान- मेव बोधयति विद्यमानं न बोधयति, तस्मात्कारणात्तां मायामेव विद्यात् । न हि विषय- चक्षुर्वा जडं नियतस्वभावमन्यथाप्रतीतिहेतुर्भवति । तत्र दृष्टान्तः-यथाऽऽभासो यथा तम इति । यथा द्विचन्द्राद्याभासो माययैव जन्यते, न तु प्रतीत्यनुरोधेन चन्द्रद्वयं कल्प्यते; एवं विषयताऽपि मायया जन्यते । बुद्धिस्तु चिद्विलास इति न मायाजनिता । अन्यथा ब्रह्म- विदोऽपि बुद्धिस्तथा स्यात् , ततश्च सर्वविप्लवः । सा च विषयता द्विधा । आच्छादिकैका, अन्यथाप्रतीतिहेतुकाऽपरा । सा, उभयविधाऽपि माययैव जन्यते, यथाऽऽभासः । ननु मायायाः कथमेवं पदार्थजनकत्वम् । व्यामोहजनकत्वमेव तस्याः । न च विषयातिरिक्ता विषयता क्वचिदुपलब्धा । यथाऽन्धकारः पदार्थस्तेजोऽभावे जन्यते । यत्रैव तेजोऽभावस्तत्रै- वान्धकारं जनयति माया । इयमेव व्यामोहिका । अत एव दिवाभीतान्प्रति नान्धकारं जन- यति । ते तु तेजोऽभावमेव गृह्णन्ति । तेषां दृष्टेः कोमलत्वाबलवत्तेजो दृष्टिप्रतिबन्धक भवति । तदभावे सुखेन विषयान् गृह्णन्ति । अस्मदादीनामपि तेजो न विषयसंस्कारकम् , नवा चक्षुषः, किन्तु तेजोऽभावे मायया तमोजननात् सैव दृष्ट्या विषयीक्रियते, न तु विषयः" इत्यादि । तथाचायमर्थः-नटादयो हि यदृष्टिं व्यामोहयन्ति तानेव मायिक पदार्थ दर्शयन्ति, नेतरान् । तथेयमपि यदृष्टिं व्यामोहयति तानेव तमः प्रदर्शयतीति तमश्चाक्षुषत्वेन तदृष्टि- व्यामोहत्वेन कार्यकारणभावात् पेचुकादिदृष्टीनां दोषरहितत्वेन तान् प्रति तदभावेऽप्यस्मदृष्टि- विषयतया तादृशाधिकरणे तमःसिद्धिरप्रत्यूहा । नच तेजोऽभावस्यैव तमस्त्वान्न विषयानु- पपत्तिरिति भ्रमस्य विशिष्टज्ञानत्वेन विशेषणज्ञानजन्यत्वात् प्रकृतभ्रमस्यापि तथात्वाचाक्षुषत्वं युक्तं, चक्षुःसंयुक्तविशेषणतारूपविशेष्यभानसामग्रीतद्विशेषणज्ञानमात्रस्यैवावश्यकत्वेन विशे- षणीभूतनीलरूपाभावेऽपि तज्ज्ञानस्य सत्त्वान्नीलरूपतेजोऽभावयोरसंसर्गाग्रहमात्रेणैव तादृश- भ्रमोपपत्तेर्नीलचाक्षुषस्याभिमानमात्रत्वान्न तेन तमोरूपपदार्थसिद्धिरिति वाच्यम् , नीलज्ञानस्य 'स्मरणादिरूपतया वक्तुमशक्यत्वेन तत्र चाक्षुषेऽभिमानत्वस्य वक्तुमशक्यत्वात् । ननु स्मरणरूपत्वे किं बाधकमिति चेत् , उच्यते; अमावस्यारात्रौ सुधाधवलितगृहादौ दिनसम्ब- न्धिनी वार्ता कुर्वतः सदृशादृष्टचिन्तादीनां संस्कारोबोधकानामभावेन तादृशस्मरणस्याशक्यो- दयत्वमिति जानीहि । न चादृष्टमेव तदोद्बोधकमिति वाच्यम् ; दृष्टसामग्री विना तस्याकिञ्चि- करत्वात् । ननूपनीतभानरूपमेव नीलज्ञानं तत्रेति चेत्, न; मानसोपनीतभानत्वे पूर्वोक्त- युक्त्या उपनायकस्य स्मरणस्य संस्कारस्य वा तदानीं वक्तुमशक्यत्वेन तदभानापत्तेः । 'चाक्षुषोपनीतभानत्वं तु तादृशस्थले नीलाभावादेवासङ्गतम् । नच चक्षुर्गतं नैल्यं तत्रारोपितं श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- यदपि प्राभाकराः, तेजोज्ञानाभाव एव तमः, सत्यपि तेजसि तदज्ञाने तमप्रत्ययादि- त्याहुःतदपि न; ज्ञानाभावज्ञानस्य मानसत्वेन नीलं तम इति चाक्षुषत्वव्याघातात् । अभिमानत्वव्याघातात् । तस्मान्नीलचाक्षुषानुरोधेन पदार्थान्तरमेव तम इति सिद्धम् । भाट्टास्तु द्रव्यान्तरं तमः प्राहुः । अस्पर्शत्वे सति रूपवत्तमः । तच्च नेत्रेन्द्रियमात्रग्राह्य- मालोकाभावप्रकाश्यं कृष्णरूपम् । “कलापकोमलच्छायं दर्शनीयं भृशं दृशाम् । तमः कृष्णं विजानीयादागमप्रतिपादितम्" इति । तत्पुनरन्धतमसादिरूपम् । आलोकाभावस्तम इति तार्किकाः । तदयुक्तम् । यतः, "गुणकर्मादिसद्भावादस्तीति प्रतिभासतः । प्रतियोग्यस्मृतेश्चैव भावरूपं ध्रुवं तमः ॥ नीलादिरूपमुक्तस्य स्पर्शवत्त्वं च दृश्यते । स्पर्शाभावान्न रूपि स्यात्तम इत्यप्यपेशलम् ॥ स्पर्शयुक्तस्य सर्वत्र रूपवत्त्वं च दृश्यते । रूपाभावेन वायोरप्यस्पर्शत्वप्रसङ्गतः" इति । स्पष्टदृष्टरूपस्पर्शत्वं चोभयत्रापि तुल्यम् । आलोकादर्शने सति ग्राहकभूतात्मस्वरूपोपलम्भात् सामान्यतो नीलद्रव्यस्मरणे सति स्मृतित्वमगृह्णतस्तयोर्भेदाग्रहनिबन्धनस्तमोल्यव्यवहार इति गुरुमतम् , तदपि हास्यम् , आत्मग्रहणस्य नैल्यस्मृत्या भेदाग्रहे सति इदं नीलमिति व्यवहारमपहाय अहं नील इति व्यवहारस्वीकारप्रसङ्गात् । देशान्तरे कालान्तरे चाप्यबाधितस्य प्रत्ययस्य भ्रान्तिमूलत्वकल्प- नानुपपत्तेश्च । ननु तमसश्चाक्षुषत्वे पिहितपटललोचनस्य पिहितलोचनस्यात्यन्तान्धस्य च कथं नीलं तम इति प्रतीतिः ? तत्र पिहितपटललोचनस्य पिहितलोचनस्य च तत्तदाव- रणच्छायाग्रहणात् तमोव्यवहारः । महत्त्वभ्रमस्तु सामीप्यदोषात् । पक्ष्मादीनामग्रहणं तु निमीलनदशायामालोकाभावात् । उन्मीलनदशायामार्जवस्थित्यभावादिति द्रष्टव्यम् । अत्य- न्तान्धानां पुनर्नीलबुद्धिरसिद्धा । तमसीव प्रविष्टोऽहमित्यादिवाक्यं पुनः अमृतमिव पाथः पीतमित्यादिवाक्यवत् वाक्यान्तरश्रवणजनितसंस्कारवशादिति द्रष्टव्यम् । “तमः कृष्णमा- स्थित" इति श्रुतिरपि तमसो नीलरूपतामनुवदति । तस्मात् द्रव्यान्तरं तमः, नीलात्मकत्वात् नीलोत्पल ल्यवत् । पृथिवीगुणस्तम इति कौमारिलेष्वेव केचिन्मानरत्नावलीकारादयः प्राहुः । शाङ्करमतानुयायिनश्च आनन्दज्ञानखामिनोऽपि तमसो दशमद्रव्यत्वं स्वीकुर्वन्ति । तथाहि- द्रव्ये नवत्वनिर्बन्धो नैव सिद्धिमुपाश्नुते । तमसो दशमस्यापि संसिद्धेर्मानयुक्तितः ॥ न हि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव द्रव्याणीति युक्तम् , रूपादिमतस्तमसो दशमस्य दृश्यमानत्वात् । नचाप्रतीतावेव प्रतीतिभ्रान्तिरालोकप्रतीत्यास्तमःप्रतीतेरविशेषात् । मच प्रकाशानपेक्षचक्षुषो रूपिधीजनकत्वानुपपत्त्या 'तमो नीलम्' इतिधीः सिताभावविषयत्वे- किरणावल्या समेतम् । मुपरिष्टात्।योऽपि यदि रूपवान् स्यात् पृथिव्यादित्रयं स्यादित्यादिरुत्प्रेक्षितस्तर्कः सोऽपि दुस्तर्क एव । वायुभिन्नत्वे सति निष्क्रियत्वोपाधिग्रासात् । यदि रूप- वान् न स्याद्वायुभिन्नत्वे सति बहिरिन्द्रियग्राह्यविशेषगुणवान स्यादिति प्रतितर्क- पराहतेश्च । न च स्पर्शवत्त्वमुपाधिः,प्रभायां साध्याव्यापकत्वात्। तत्राप्यनुभृतः स्पर्शोऽस्तीति चेत् , न, मानाभावात् , स्पर्शवबृत्तित्वादिविवक्षायाः प्रागुक्त- रीत्याऽपक्षिप्तत्वात् । रूपवत्त्वेन तत्साधने त्वग्ग्राह्यत्वस्योपाधित्वात् । अपि च रूपं पृथिव्यादित्रयाकाशेतरवृत्त्यत्यन्ताभावप्रतियोगिवायुस्पर्शतरबहिरिन्द्रिय- ग्राह्यविशेषगुणत्वाइन्धादिवत् । शब्दो रूपसमानाधिकरणः तादृशविशेषगुण- त्वाद्रसादिवत् । द्रव्यत्वासामानाधिकरण्यमुपाधिरिति चेत्, विषमव्यापक- तयञ्जकत्वम् । गौरवात् नेति चेत् , न; व्यञ्जकमादाय व्यङ्ग्यापलापेऽतिप्रसङ्गात् । अन्वय- व्यतिरेकौ च व्यञ्जकविषयत्वेऽन्यथासिद्धौ । नचालोकसंसर्गाभावे तदीयप्रागभावादिविक- ल्पानुप्रवेशाद्व्यञ्जकत्वानुपपत्तिराशङ्कितव्या; तदीयतमस्त्वानुपपत्तेरपि विकल्पद्वारायास्तुल्य- त्वात् , अनिर्व्यक्ततावादे च प्रतीत्यनुसारिणो व्यङ्ग्यव्यञ्जकमावस्य सुवचत्वात् । यत्तु, विमतः तमाशब्दवाच्यः परस्पराभावातिरिक्तालोकसंसर्गाभावत्वादालोकवदिति व्यतिरेक्यनु- मानम् , तदसत् , विमतः प्रकाशशब्दवाच्यः, इतरेतराभावातिरिक्ततमःसंसर्गाभावत्वात् ; तमो- वत्, इत्यपि व्यतिरेकिणो वक्तुं शक्यत्वात् । मनस्त्वं स्पर्शवदवृत्तिवेगवद्वृत्तिजात्यन्यत्, जातित्वात् , गोत्ववत्, इत्यपि प्रयोक्तुं सुकरत्वात् । आत्मत्वं स्पर्शवदवृत्तिज्ञानवृत्तिजात्य- न्त्यम् , जातित्वादित्यामाससमानतेति चेत् , तर्हि सर्वास्वेव महाविद्याखेवमामाससमानता- सम्भवादुच्छिन्नसङ्कथास्ताः स्युः । परमतेन तत्प्रयोगोऽस्माकमिति, न, अनिष्टापत्तिः । तदेवं मूलकारणस्यैव बहिर्विवर्तमानस्य तमोव्यवहारालम्बनस्य दशमत्वसम्भवान्न द्रव्येषु नवत्व- नियमसिद्धिरिति । उपरिष्टादिति । साहित्यसर्वस्वे । वैशेषिकाभ्युपगतमनुमानं निराक- रोति योऽपि रूपवान् स्यादिति । दुस्तर्कः । बाधिततर्कः । तदेव दर्शयति-वायु- भिन्नत्वे सतीति । स्पर्शवत्त्वस्योपाधित्वमपि दूषयति-न चेति । साध्यतावच्छेदक- सम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नं यत् साध्यं तदव्यापकत्वादित्यर्थः । अन्यथा पक्ष- धर्मावच्छिन्नत्वादिकमादाय दोषतादवस्थ्यम् । व्यापकत्वं नात्राधिकदेशवृत्तित्वम् , किन्तु, तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम् । तद्वन्निष्ठभेदप्रतियोगितानवच्छे- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- त्वात् , प्रलयकालीनतेजःपरमाणुषु साध्याव्यापकत्वाचेति। न च विभुत्वनिः- -स्पर्शत्वाभ्यां सत्प्रतिपक्ष इति वाच्यम् । आये स्पर्शवत्त्वस्य, द्वितीये वेगव- त्वस्योपाधित्वात्। नचोपाधेः सत्प्रतिपक्षोत्थापकतया सातिपक्षे न दूषकत्व- मिति वाच्यम् । उपाधेहेत्वाभासत्रितयोत्थापकतया निर्णयात् । उपाधेयंति- रेकोपसंहारे सत्प्रतिपक्षोत्थापकत्वेन प्रसज्यतां दूषकत्वम् । प्रकृते तदभावेन तस्यादृषकत्वाच । एतेनाकाशस्य रूपवत्त्वे सिद्धे प्रत्यक्षसिद्धिरप्रत्यूहैव । स्यादेतत् । चक्षुरिन्द्रियजन्यद्रव्यसाक्षात्कारत्वावच्छिन्ने महत्त्वसमानाधि- करणरूपवत्त्वस्य कारणत्वात् । वियति च प्रत्यक्षपरिपन्थिनः परममहत्त्वस्थ सत्त्वात्कथं तत्प्रत्यक्षमिति चेत् ; उच्यते, लाघवेन अणुपरिमाणेतरपरिमाण- समानाधिकरणरूपत्वस्यैव प्रयोजकत्वात् । पक्षी चलति, नेह पक्षी, इह पक्षी इत्यादिप्रत्ययानामपि वियत्प्रत्यक्षसाधकत्वमुपपद्यते । आलोकमण्डलविषयत्वे तु तदपगमेऽपि तथाप्रत्ययानापत्तिः । इहेति निर्देशानुपपत्तिश्च तद्भूदेशोर्ध्व- भागानुगमेन प्रत्ययस्य देशविषयत्वापादनं प्रत्यभिज्ञानिर्वहणं चानिर्वहणमेव तदुपेक्षितमित्यलं विस्तरेणेत्येवमाकाशस्य रूपवत्त्वं साधयतिस्म । . .ण्यस्याव्यापकतया तादृशविशेषगुणत्वे च व्यापकतया तथेति भावः । साध्याव्यापक- त्वादिति । प्रलयकालीनतेजःपरमाणुषु द्रव्यत्वासामानाधिकरण्यस्यावृत्तत्वादित्यर्थः । शब्दो रूपसमानाधिकरणो विभुत्वात् , शब्दो रूपसमानाधिकरणो निःस्पर्शत्वादिति सत्प्रतिपक्षण साधयितुं वारयति-न चेति । तत्राप्युपाधि दर्शयति-आद्य इति । सत्प्रतिपक्षस्यानुमिति- दूषकतया स्वीकारादुपाधेरपि तदुत्थापकत्वेन दोषाभावमाशङ्कय निवारयति-नचेत्यादिना । पुनः प्रकारान्तरेणाकाशस्य रूपवत्त्वं दर्शयति-चक्षुरिन्द्रियजन्येत्यादिना । प्रतिबन्दि निवारयति-वियति च प्रत्यक्षपरिपन्थिन इत्यादिना । निवारयति-लाघवेनेति । आकाशाश्रयतां दर्शयति-पक्षीत्यादिना । एवमाकाशस्य रूपवत्त्वं साधयतिस्म । “साहित्यसर्वस्वकारः । अत्रेदमवधेयम्-यद्यपि साहित्यसर्वस्वकारेणाकाशस्य रूपवत्त्वं महता प्रपञ्चेन प्रसाध्यते, तथापीदं न सर्वसम्मतम् । सर्वत्रापि तस्य नीरूपत्वेनैव स्वीकारात् । साहि- 'त्यशास्त्रेऽपि तथैव सिद्धत्वाच । शारदातनयोऽपि भावप्रकाशने सप्तमाधिकरणे "इह तत्त्वानि षदत्रिंशच्छिवः शक्तिः सदाशिवः । ईश्वरः शुद्धविद्येति शुद्धान्येतानि पञ्च च ।माया कालोऽथ 'नियतिः कला विद्या ततः परम् । रागः पुरुष एतानि शुद्धाशुद्धानि सप्त वै । ततः प्रकृति- किरणावल्या समेतम् । सिद्धान्तस्तु-नाकाशे रूपम् । उपरिनीलं पश्यत आकाशं पश्यामी- सेव प्रत्ययात् । नीलं नभः पश्यामीत्यत्रापि न गुणत्वेन नमसो मानम् , गुण- वेन नीलसत्त्वे मानाभावात् । घटादौ पाकादिना रूपपरावर्तने तनिष्ठनीला- वायुभिः । वयम्भःक्षितिभिश्चैते कार्यकारणमूर्तयः ॥" इत्येवम्प्रकारेण शुद्ध-शुद्धाशुद्ध- अशुद्धभेदेन, आत्मतत्त्व-विद्यातत्त्व-शिवतत्त्वभेदेन च प्रत्यभिज्ञादर्शनोक्तानि शाम्भवसिद्धा- न्तोदितानि वा तत्त्वानि भावसाधनतया प्राह । तत्रापि व्योम्नो नीरूपत्वेनैव स्वीकारदर्शनाच । स्याद्वादिनस्तु-उत्पादव्ययध्रौव्यात्मकत्वान्नित्यत्वानित्यत्वमाचक्षते । तथा च अवगाहकानां जीवपुद्गलानामवगाहदानीयग्रह एव तल्लक्षणम् । “अवकाशदमाकाशम्" इति उत्तराध्य- यनसूत्रोक्तेः । यदात्रावगाहका जीवपुद्गलाः प्रयोगतो विलसातो वा एकस्मान्नभःप्रदेशात् प्रदे- शान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकस्मिन्प्रदेशे विभाग उत्तरस्मिंश्च प्रदेशे संयोगः । संयोगविभागौ च परस्परं विरुद्धधर्मों; तद्भेदे चावश्यं धर्मिणो भेदः । तथा चाहुः "अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः, कारणभेदश्चेति", ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम् , उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्प- नम् । उभयत्राकाशद्रव्यस्यानुगतत्वाचोत्पादव्यययोरेकाधिकरणत्वम् । तथाच यद् "अप्र- च्युतानुत्पन्नस्थिरैकरूपं नित्यम्" इति नित्यलक्षणमाचक्षते, तदपास्तम् । एवम्विधस्य कस्य- चिद्वस्तुनोऽभावात् । “तद्भावाव्ययं नित्यम्" इति तत्त्वार्थसूत्रोक्तमेव लक्षणं सत्यं नित्यलक्षणम् । उत्पादविनाशयोः सद्भावेऽपि तद्भावादन्वयिरूपाद् यन्नव्येति तन्नित्यमिति तदर्थस्य घटमानत्वात् । यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदोत्पादव्यययोनिरा- धारत्वप्रसङ्गः । न च तयोर्योगे नित्यत्तहानिः; "द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा दृष्टा मानेन केन वा” इति सम्मतितर्कोक्तेः। लौकिकानामपि घटाकाशं पटाकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्यानित्यत्वम् । घटाकाशमपि हि यदा घटापगमे पटेनाक्रान्तं, तदा पटाकाशमिति व्यवहारः । तत्रायमौपचारिकत्वादप्रमाणमेव । उपचारस्यापि किञ्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं तत् तदाधेयघटपटादिसम्बन्धिनियतपरिणामवशात् कल्पितं सत् प्रतिनियतदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादितत्तव्यपदेशनिबन्धनं भवति । तत्तद्धटादिसम्बन्धे च व्यापकत्वेनावस्थितस्य व्योम्नोऽवस्थानान्तरापत्तिः, ततश्च अवस्थाभेदेऽवस्थावतोऽपि भेदः । तासां ततोऽविष्वग्भावादिति सिद्धं नित्यानित्यत्वं व्योम्न इति । , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- देणुगत्पनिकन प्रकृते बैलक्षण्यात् । नच वायुभिन्नत्वे सति महत्त्वात्पृथिवी- वदित्याद्यनुमानेन सिद्धिः । नीरूपः परममहत्त्वादात्मादिवत्, इति प्रत्यनु- मानेन सबतिपक्षत्वात् । नापि वायुभिन्नत्वे सति बहिरिन्द्रियग्राह्यविशेषगु- णवत्त्वादित्यनेन, तत्र स्पर्शवत्त्वस्योपाधित्वात् । नच तस्य प्रभायां साध्या- व्यापकत्वमिति वाच्यम् , तस्या गुणत्वेन रूपवत्त्वाभावाददोषात् । पृथिव्या- दित्रयभिन्नत्वादित्यनेन सत्प्रतिपक्षत्वाच्च । न चात्र वायुभिन्नत्वे सति निष्क्रि- यत्वमुपाधिरिति वाच्यम् , तस्य मनसि साध्याव्यापकत्वेनानुपाधित्वात् । अतः पुराणादौ तेजोविशेषगुणत्वेनैव रूपस्य निरूपणादाकाशे तदुपगमो न प्रामाणिकः । नच “यनं तद्वायोर्यन्नीलं तन्नभसः” इतिश्रुतिसिद्धत्वान्न तथेति वाच्यम्। तस्यास्तद्देवतारूपपरत्वेनाप्युपपत्तेः । अन्यथा पायावपि धूम्रवर्णापत्तेः । नच 'खं काकाण्डाभगोक्षाभम्' इति वृष्टिलक्षणेषु ज्योतिर्वच- नान्नैवमिति वाच्यम् , 'यत्र कर्मसु काम्येषु स्त्रियं वनेषु पश्यति । सिद्धिं तत्र विजानीयात्तस्मिन्खप्ननिदर्शने' इति श्रुत्या स्वप्नस्य सिद्धिसूचकत्ववत्तादृशभ्रमस्य वृष्टिसूचकत्वेऽपि वचनोपपत्तेः । तस्मादाकाशे रूपप्रतीतिभ्रान्ता एव । न चोक्तरीत्या भ्रमहेतोर्निवक्तुमशक्यत्वान्नेदं साम्प्रतमिति वाच्यम् । रूपवद्रव्य- ग्राहकस्य चक्षुषो मध्ये रूपवद्रव्याभावेन दूरगमने आकाशे नीलमिव दृश्यत इति चक्षुरसामर्थ्यदोषस्यैव हेतुत्वात् । नच तत्र रूपवतां सूर्यकिरणानामेव 'नीलत्वस्याकाशवे मानाभावादित्यर्थः । वायुभिन्नत्वे सतीति । पुरोदीरितानुमानमपि न प्रमाणम् । तत्र सत्प्रतिपक्षं प्रदर्शयन्ति-नीरूप इति । दूषणान्तराण्याहुः-नापीति । वैशेषिकास्तु सुमेरुदक्षिणशृङ्गस्येन्द्रनीलमणिमयस्य प्रभामालोकयतो नीलं नम इति प्रतीतिभ्रम एवेत्याहुः। केचन सुदूरं गच्छच्चक्षुः परावर्तमानं स्वचक्षुःकनीनिकामाकलयत्तथाभिमानं जनय- तीति वदन्ति, तदयुक्तम् ; पिङ्गलसारनयनानामपि तथाभिमानात् । यत्तु दधिधवलमाकाशमिति प्रतीतेर्धवलत्वं साधयति कश्चित् , तन्न; मिहिरमहसां विशदरूपाणामुपलम्भात्तथाभिमतेः । पूर्वोक्तं प्रभायां साध्याव्यापकत्वं परिहरन्ति-नचेत्यादिना । तस्याः प्रभायाः । गुण- त्वेनेति । गुणे गुणानङ्गीकारादिति भावः । आकाशो नीरूपः पृथिव्यादित्रयभिन्नत्वादिति 'सत्प्रतिपक्षत्वात् । निष्क्रियत्वेनोपाधिना सत्प्रतिपक्षवारणं निवर्तयन्ति-नचेति । मनसि साध्याव्यापकत्वेनेति । तत्र प्रमाणं निर्दिशन्ति-अत एव पुराणादा- किरणावल्या समेतम् । सत्त्वात्कथं रूपवद्रव्याभाव इति वाच्यम् , तेषां विरलत्वेनायोग्यतया तत्स- त्ताया अप्यभावकल्पत्वात् । अन्यथा 'छायायां साचि तिष्ठतोः' इत्या- घसंलमानामपि तेषां दर्शनप्रसङ्गात् । नच सार्वजनीनत्वान्नायं भ्रम इति वाच्यम् , देहात्मभ्रमवदुपपत्तेः । योगिनां तदभावादसार्वजनीनः स इति चेत् , तुल्यम् ; कपिलादीनामेव तथावचनात् । एतेनैवाने वाधाभावोऽपि प्रत्युक्तः । नन्वेवं सति सामीप्ये नीलभ्रमापत्तिरिति चेन्न, दूरत्वस्यापि सह- कारित्वात्। न च विभौ दूरत्वमनुपपन्नमिति वाच्यम् , 'तहरे तद्वदन्तिके' इति श्रुतौ विभुन्यपि ब्रह्मणि तदङ्गीकारादत्राप्युपपत्तेः, प्रदेशदूरत्वस्य शक्यवचन- त्वाच । किञ्च, गन्धर्वनगरवदाकाशे तादृशवस्तुसामर्थ्यादपि तादृशभ्रमोपपत्तिः। न चाकाशस्यातीन्द्रियत्वात्तदधिकरणभ्रमायोग इति वाच्यम् , वस्तुसामर्थन तस्याप्यन्द्रियकत्वात् । अन्यथा कालवदवकाशस्याप्यप्रत्ययापत्तेः । ननु वस्तु- सामर्थ्यात्प्रमैव कुतोनाङ्गीक्रियत इति चेत्, पुराणादौ रूपानुक्तेरिति वदामः। तर्हि अवकाशप्रत्ययोऽपि भ्रमोऽस्त्विति चेत्, न; बहिरन्तरव्यवहारविषयत्वस्य भूतानां छिद्रदातृत्वस्य च शास्त्रेणैवोक्तत्वात् , तस्माद्वस्तुसामर्थ्यजन्यत्वावि- शेषेऽपि, आकाशे नीलरूपं प्रत्येमीत्येव प्रतीतिर्धान्ता । ननु नीलाभिन्नमाकाशं पश्यामि, आकाशं वा पश्यामीति । एतेनाकाशे सर्वदा सूक्ष्मनीलमेघसत्त्वम- झीकुर्वन्तोऽपि निरस्ता ज्ञेयाः । एवमेवान्धकारप्रतीतिरपि ज्ञेया । तस्यापि पदार्थान्तरत्वात् । यथेदं, तथान्धकारवादे अपश्चितमिति न पुनः प्रपञ्चयते । तेनैतत्सिद्धम् । चक्षुः खसामर्थ्येनाकाशं न गृह्णाति, आकाशमेव तु नचेति । देहात्मेति । असार्वजनीनत्वं च तस्य प्रतिपादयन्ति-योगिनामिति । बाधा- भाव इति । युक्त्यन्तरेणेति शेषः । सामीप्ये भ्रमापत्तिमाशय निवारयन्ति-नन्वित्यनेन । विभुन्यपि दूरत्वसामीप्यव्यवहारं समर्थयन्ति-नचेत्यादिना । उपपत्त्यन्तरं भ्रमे युक्त्या दृष्टान्तेन च साधयन्ति-किश्चेति । अतीन्द्रियत्वेनाप्याकाशस्याधिकरणत्वं प्रदर्शयन्ति-नचे- त्यारभ्य प्रत्ययापत्तेरित्यन्तम् । वस्तुसामर्थ्यादाकाशे रूपप्रतीतिर्न भ्रमः, अपि तु प्रमैवेति पूर्वपक्षिनः प्रतिबन्दि निराकृत्य शब्दप्रमाणं समर्थयन्ति-नन्विति । वदामः । खोक्त- लक्षणे परस्याशङ्कानुवादपूर्वकं बहिरन्तरव्यवहारस्य भ्रमत्वं निवारयन्ति–तीत्यादिना । सिद्धमाहुः-एतेनेति । एवमिति । तस्यापीति । अन्धकारस्य पदार्थान्तरत्वं, उक्तरीत्या १२० श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- स्वसामर्थेन खात्मानं ग्राहयति, गन्धर्वनगरवत्पिशाचवचेति दिक् । एतेनै- वाकाशप्रतिबिम्बतत्प्रतीती अपि व्याख्याते ज्ञेये । अस्य च शब्द एव विशेष- गुणः 'तस्य मात्रा गुणः शब्दः' इति वाक्यात् । विशेषगुणत्वं च कारणेऽनु- ब्रूतत्वे सति खस्मिन्नुभूतगुणत्वम् । इत्याकाशः" आकाशप्रादुर्भावमुक्त्वा वायोराह-वायुरिति । वायुर्हि पञ्चलक्षणको रूपरहितश्च, अत्रापि पण्डितपुरन्दरास्तत्रैव । “अथ वायु:-तल्लक्षणं तु अरूपित्वे सति चालनव्यूहनद्रव्यशब्दगन्धनयनसन्द्रियवलादानाख्यकार्य- त्वमेकमेव । तदुक्तम् 'चालनं व्यूहनं प्राप्सिर्नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रिया- णामात्मत्वं वायोः कर्माभिलक्षणम्' इति । तत्र चालनं शाखादेः, व्यूहनं पतिततृणादेर्वात्यैर्मेलनम् , प्राप्तिर्गन्धस्य प्राणप्रापणम् , द्रव्यनयनं च द्रव्यस्य घटादेरन्यत्र नयनम् , शब्दनयनं तु पूर्वमुपपादितम् , सर्वेषामिन्द्रियाणां वल- दश्वायम् , एतदभावे किमपीन्द्रिय कार्यक्षमं न भवतीति । एवं च प्राणरू- पोऽपि सङ्गृहीतो ज्ञेयः । अस्य च स्पर्शी विशेषगुणः । शब्दश्च कारणान्वयात् . आकाशमुक्त्वा वायुमाहुः-वायुरिति । इहापि सर्वतत्रखतत्रादिबिरुदालतो भाष्यकारः श्रीपुरुषोत्तमसम्मतिं प्रदर्शयन् प्रस्थानरत्नाकरमेवावतारयाञ्चकार “अथ वायुरित्यादि भव- तीतीत्यन्तम् । तत्राऽयमाशयः स्यात् , लक्ष्यतावच्छेदकसमनियतत्वे प्रदर्शनीये यथा तलक्ष- णस्य, लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रति- योगित्वे, लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेद- सामानाधिकरण्ये, लक्ष्यतावच्छेदव्यापकीभूताभावप्रतियोगित्वे वा पातो माभूदिति । पुरुषो- त्तमेतिभागवतेतिनानोः स्तम्भनास्त्रप्रयोजकत्वादिति वा । चालन मिति । तृतीयस्कन्धे षड्डिं- शाध्याये । कर्मलक्षणमिति । कमैव लक्षणमित्यर्थः । सामान्यलक्षणम् चालनादन्यतया, कर्मकत्वं च विशेषलक्षणम् । स्पर्शगुण इति । वायोर्गुणद्वयम् , स्वाभाविकः स्पर्शः; कारणान्वयाच्छन्दश्च । प्राण इति । प्राणो दशविधः । ओज इन्द्रियशक्तिः । सहो मनः- किरणावल्या समेतम् । तेनायं द्विगुणः । तदुक्तम् 'नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः । परा- न्वयाच्छन्दवांश्च प्राण ओजः सहो बलम्' इति । अयं च मीमांसकमते त्वचा प्रत्यक्षः, यथाहुः-'महदुद्भूतस्पर्शवव्यत्वेनैव त्वचो योग्यता लाघवात् । उद्भूतरूपस्य प्रवेशे गौरवापत्तेः अतो द्रव्यचाक्षुष- त्वावच्छेदेनैवोद्भूतरूपहेतुतालाघवादुचिता । एवं च सार्वजनीनप्रतीतिरप्यनु- कूला भवतीति । इति वायुः” इत्याहुः । वायोर्निरूपणानन्तरं ज्योतिराह-ज्योतिरिति । पञ्चवृत्तिमत्, प्रकाश- नादिषट्कार्यकारि। इहापि श्रीमत्पुरुषोत्तमचरणाः-“अथ तेजः-तस्य च प्रकाश- नपाचनपानहिममईनादनशोषणाख्यषट्कार्यकत्वं सामान्यलक्षणम् । तदुक्तम्- 'द्योतनं पाचनं पानमदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडे- वच' इति । तच । तत्त्वरूपे एव प्रसिद्धम्।ब्रह्माण्डान्तःस्थे त्वन्यतरवृत्तिकत्वं लक्षणमिति ज्ञेयम् । तेन चन्द्रादावपि जलकृतो नोष्णस्पर्शाभिभवः । तत्र योतनं प्रकाशनं सूर्यादेवि, पाचनमौदर्यवः, पाककरणं वा बहिर्वः, फलादेः सूर्यस्यापि, पानं जलादेः, अदनमन्नादेः, इदमप्यौदर्यस्यैव, हिममर्दनं हिमदूरीकरणम् , शोषणं चानुमेयम् । हिमवाय्वपेक्षया, आतपे वस्त्रादिषु जलाकर्षणस्य शैघ्यात्, एतेनैव सिकताखर्परादौ व्यभिचारः परिहतो वोध्यः, पानमदनं चान्तःप्रवेशरूपत्वादेकमेव, तेन पञ्चैव वृत्तयः। क्षुत्तृषौ च तेजो- रूपे एव; तेन चेतनकर्तृकत्वेऽपि पानादनयोन तेजःकार्यवहानिः । अस्य च रूपं विशेषगुणः, शब्दस्पशौं च कारणान्वयात् । तेन त्रिगुणम् । तदुक्तम् "उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत्' इति तेजः" इत्याहुः । रूपवद्रव्याभिघाते योऽयं पर्णादिषु शब्दसन्तानः स स्पर्शवद्वेगवद्रव्यसंयोगजन्यः, अविभज्य- मानावेयवद्रव्यसम्बन्धिशब्दसन्तानत्वात् दण्डाभिहतभेरीशब्दसन्तानवत् । नभसि तृणतूल- स्तनयिनुविमानादीनां धृतिः स्पर्शवेगवदुभयसंयोगहेतुका अस्मदायनविष्ठितद्रव्यधृतित्वात् नौकाधृतिवत् । रूपवद्रव्याभिघातमन्तरेण तृणे कर्म स्पर्शवद्वेगवद्रव्याभिघातजन्यं विजातीय- कर्मत्वात् नादपराहताकाशादिकर्मवत् । मतान्तरं प्रदर्शयन्ति-अयं चेत्यादिना ।

१२२ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- एवं ज्योतिर्निरूप्य, अपो लक्षयति-आप इति । जलं तु चतुर्गुणयुक्तम् , तदपि प्रस्थानरत्नाकरे--"अथ जलम्-तस्य च क्लेदनपिण्डनतृतिप्री- णनाप्यायनप्रेरणतापापनोदनभूयस्त्वाख्याष्टकार्यकत्वं सामान्यलक्षणम् । तदु- तम्-'क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोदनम् । तापापनोदे भूयस्त्वम- म्भसो वृत्तयस्त्विमाः' तच तत्त्वरूपे कार्येऽपि च समम् । क्लेदनमाकरणं वस्त्रादेः, पिण्डनं सङ्ग्रहः; चूर्णीभूतानां पिण्डतासम्पादनम् , यथा सक्तूनाम् । तृप्तिः क्षुदादिनिवृत्त्या पुरुषस्य सन्तर्पणम् , भुक्त्वाऽपि जलेऽपीते तृप्सो न भवतीति; प्राणनं जीवनम् , आप्यायनं प्राणसन्तर्पणम् , प्रेरणं च प्रवाहादौ प्रवाहेनैव पदार्था नीयन्ते, कूलादिश्च पात्यते, तापापनोदः प्रसिद्धः, भूयस्त्व- मेकस्मिन्देशे सजातीयप्रचुरस्यैवावस्थानम् ; यद्वा यत्रापः प्रविशन्ति तद्भूयो भवतीति एवं घृततैलादौ यत्लेदकत्वं सङ्ग्राहकत्वं च दृश्यते, सोऽपि जलधर्म एव । वह्नयादिसंसर्गेण परमभिव्यज्यते कार्यस्य पाञ्चभौतिकत्वात् , तेन नातिव्याप्तिशङ्कालेशः । तेषु जलव्यवहाराभावस्तु भूतान्तरकृतप्रतिवन्धनि- बन्धनः करकाखिव । करकासपि काठिन्यप्रतीतिर्न भ्रान्ता । तत्र नैमित्ति- कस्य तस्य सत्त्वात्। इत्येवातिशैत्येन संरुद्धे वायौ जलस्य पिण्डने करकोत्पत्तेः । अतएव हिमालयोपत्यकागतगङ्गाप्रवाहोपरि पुरुषाः पद्भ्यां पद्यन्ते । अन्यथा मज्जयेयुरेव । शीतकाले च निर्वाते मिहिकायामम्भसि निशि स्थापिते प्रातश्च तजलपात्रेऽधोमुखे कृतेऽपि न तजलस्य पातः । छुरिकया विदार्य फलवजलस भक्षणमपि मध्यदेशीयजनानुभव गोचर इति दिक अस्य च विशेषगुणो रसः । शब्दस्पर्शरूपाणि परान्वयात् , तेनेदं चतुर्गु- णम् , तदुक्तम् "तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत्स्पर्शव- चाम्भोघोषवच्च परान्वयात्' इति जलमि" त्याहुः श्रीपुरुषोत्तमचरणाः। अपामभिव्यक्तिं प्रदर्य पृथिव्याः प्रदर्शयति-पृथिवीति । तस्या वृत्तयः , गुणास्तत्र प्रतीयन्ते । तेजसि भास्वरमेव रूपमुष्ण एव स्पर्श इति नैयायिकास्तन्न रुचिरम् , तथासति वैश्वानरे इन्द्रनीलमण्यादौ, चन्द्रकिरणेषु रत्नप्रभादौ चाव्याप्तिः ।

किरणावल्या समेतम् । पञ्च; 'भावनं ब्रह्मणः स्थानं धारणं सविशेषणम् । सर्वसत्त्वगुणोद्भेदः पृथि- वीवृत्तिलक्षणम्' इति तृतीये षड्विंशतितमवाक्यात् । अत्र भावनं सर्वपदार्थ- रूपापादकत्वम् , सर्वमेव भावयतीति । ब्रह्मणः शब्दब्रह्मणः परब्रह्मणश्च हृद- यकण्ठादिस्थानरूपत्वम् । धारणं सर्वस्यापि जगतः। सतां सर्वेषामेव तत्त्वानां विशेषणं व्यावर्तकम् , अवयवभूतं वा । काष्ठादग्निं प्रकटीकृत्येतरव्यावृत्तिं जनयति । इतरथा तेजसः खरूपमेव क्वापि नाभिव्यक्तमिति कुतो व्यावर्तयेत् । एवं जलमपि खान्तर्गतं रसरूपं प्रकटीकृत्य प्रदर्शयति । एवं व्यजनादिना वायुम् । गर्तादिनाऽऽकाशम् । शरीरादावहङ्कारादिसर्वाण्येवेन्द्रियात्मानं च । किञ्च, सर्वसत्त्वानां जीवानां यावन्तो गुणाः, आब्रह्मतृणस्तम्बपर्यन्तं भेदाः, तेषामुद्भेदः पृथिव्यामेवेति सुबोधिन्यां श्रीमदाचार्यचरणा आज्ञाप- याञ्चक्रुः। विद्वन्मुकुटमणयः श्रीपुरुषोत्तमचरणा अपि प्रस्थानरत्नाकरे-पृथिव्याः खरू- पमेवं बोधयन्ति-"अथ क्षितिः-तल्लक्षणं तु "भावनं ब्रह्मणः स्थान धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्” इति वाक्यात् । भावनादिपञ्चवृत्तिकत्वं शास्त्रे उक्तम् । तथापि प्रकृते व्यवहारोपयोग्येव विस्तरभिया विवेच्यते । वाक्यव्याख्यानं सुबोधिन्यां द्रष्टव्यम् । तत्र रूपवत्त्वे सति साक्षात्सर्वजगद्धारकत्वमित्येकं लक्षणम् । कालादि- वारणाय सत्यन्तम् । आवरणतत्त्ववारणाय साक्षादिति । आधारवत्त्वे सर्व- तत्त्वव्यावर्तकत्वं वा। न हि काष्ठादिकं वह्निराविर्भवति । न वा पृथिवीं विना समुद्रादिः। न वा व्यजनादिकं विना वायुः । नवा गर्तादिकं विनाऽऽकाशः। न वा शरीरं विना सर्वेन्द्रियादिकमात्मा चाविर्भवतीति सुस्थम् । एवं सति भावनादिपञ्चवृत्तिकत्वं पृथिवीसामान्यलक्षणम् ; एकैकवृत्तिकत्त्वं च विशेषलक्षणम् , इत्येवं षल्लक्षणानि ज्ञेयानि । गन्धवत्त्वनीलरूपवत्त्वादिकं विशेषलक्षणमेव, सामान्यलक्षणत्वे तु पाषाणशुक्लपटादावव्याप्त्यापत्तिः, अनुद्भूतगन्धादिकल्पनापत्तिश्चेत्यादिकमूह्यम् । प्रस्थान- रत्नाकरोक्तं पृथिव्या लक्षणमाहुः-विद्वन्मुकुटमणय इत्यादिना। तत्र रूपवत्त्व इति । यद्यपि धारणवृत्तिकत्त्वं प्राणादिधिष्ण्यरूपे, आकाशे, मेघादिधारके वायौ, तेजसि, जले ..

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्-- नैयायिकास्तु-पाकजानुष्णाशीतस्पर्शवती पृथिवीत्याहुः । मुक्तावली- कारस्तु गन्धवती पृथिवीति लक्षयित्वा पाषाणादावव्याप्तिवारणाय यहव्यं यहव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तिं दर्शितवान् । तदर्थस्तु, यद्व्यं पाषाणभस्माख्यं यद्रव्यध्वंसजन्यं पाषाणाख्यद्रव्यध्वंसजन्यं तद्भस्म तदुपादानो पादेयम् पाषाणोपादानभूता येऽवयवास्तदुपादेयमिति । अनया च व्याप्त्या पाषाणारम्भकेषु सिद्धे गन्धे तत्कार्ये पाषाणेऽप्यस्त्यनुद्भुतो गन्ध इति न लक्षणव्यभिचार इति । तदविचारचारु । पाषाणध्वंसजन्यत्ववद्वह्निध्वंसजन्य- त्वस्यापि भस्मनि सत्त्वात्पाषाणोपादानोपादेयत्ववत् वह्नयुपादानोपादेय- त्वस्याशक्यवचनत्वात् । सति वह्नौ भस्मासम्भवात् । तथा सति वह्नावप्यनु- श्रूतगन्धापत्तिाप्तिव्यभिचारो वेति । नचोद्भूतरूपवद्यद्रव्यध्वंसजन्यत्वमत्र विवक्षितम् । तथा च वह्निध्वंसजन्यत्वेऽप्यनुद्भूतरूपबद्वह्निद्रव्यध्वंसजन्यत्वम् , नतूद्भूतवत्तदध्वंसजन्यत्वम् , उद्भूतरूपे तस्मिन्ध्वस्तेऽप्यज्ञारसम्भवेन भस्मा- भावात् । यदाचानुद्भूतरूपः स ध्वंस्यते तदैव भस्म भवतीति न व्यभिचार सजलघटादावतिव्याप्तिवारणाय सांसिद्धिकेति । न चासम्भवः । भूमौ नैमित्तकस्यैव वेगस्या- नुभवसाक्षिकत्वात् । सांसिद्धिकत्वे गन्धादिवत् सर्वदाऽनुभवप्रसङ्गात् । यद्यपि पाकजानु- ष्णाशीतस्पर्शवत्त्वं व्यवहार उपयुज्यते, तथापि पाकजत्वस्य शास्त्रमात्रगम्यत्वेन दुरधिगमादि- दमेव सम्यक् । यद्रव्यं यद्रव्यध्वंसजन्यमिति । अत्र घटध्वंसप्रत्यक्षे घटोपादानानुपादेये व्यभिचारवारणाय प्रथमं द्रव्यपदम् । अथवा घटध्वंसजन्यरूपध्वंसे व्यभिचारवारणाय तत् । मिथ्याज्ञानध्वंसजन्यकायव्यूहे नवीनमते दण्डप्रागभावध्वंसजन्ये घटे वा व्यभिचारवारणाय द्वितीयं द्रव्यपदम् । प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारवारणाय ध्वंसपदम् । ध्वंसत्वेन चेह जनकत्वं विवक्षितम् । तेन प्राचां मते प्रतिबन्धकसंसर्गाभावत्वेन तस्य हेतुत्वेऽपि न क्षतिः । ध्वंसजन्यत्वं चादृष्टद्वारा विवक्षितम् । तेन शालिग्रामशिलाध्वंसजन्ये नारकीयशरीरे न व्यभिचारः। न च दुग्धध्वंसजन्ये दनि दुग्धावयवजन्यत्वस्वीकारे दनोऽपि दुग्धत्वापत्त्या दुग्धावयवैदेधि न जन्यत इत्यङ्गीकरणीयम् । तथा च दनि व्यभिचार इति वाच्यम् , दन्नो घणुकातिरिक्तदुग्धध्वंसजन्यत्वास्वीकारात् , घणुकरूपदुग्धध्वंसजन्यत्वेऽपि तस्य न तत्र व्यभिचारः, तदुपादानपरमाणुजन्यत्वस्य दनि सत्त्वात् । न च दुग्धपरमाणु-.

किरणावल्या समेतम् । नारायणाद्रह्मा जायते। इति वाच्यम् । तथापि दग्धकर्करे व्यभिचारात्, उद्भूतरूपवह्निध्वंस एव दग्धता सम्भवात् , सति वह्नावङ्गारव्यवहारात्, जलादिसेकेनानुद्भूतध्वंसे तु भस्मताऽसम्भवात् , अतो दुर्वारस्तत्र व्यभिचारः। यत्तु-तेजोऽवयवानां विजातीयद्रव्यं प्रत्युपादानत्वादत्रोपादानपदे विजा- तीयोपादानता विवक्षिता, अतो विवक्षां विनव निर्वाह इति, तन्न, सुवर्णरूपं विजातीयद्रव्यं प्रति तेजोऽवयवानामेवोपादानत्वात् । अत एवं वक्तव्यम्- यन्निनेह गुरुद्रव्यं निःस्नेहगुरुद्रव्यध्वंसजन्यं तन्निश्लेहगुरुपादानोपादेयम्, अथवा, यद्गन्धवद्रव्यमितरध्वंसजन्यं तत्वजातीयोपादानोपादेयमिति । एवं भस्मारम्भकावयवेषु गन्धसिद्धौ तदुपादेये पाषाणेऽपि साजात्यादनुद्भूतगन्ध- सिद्धिर्भवति, तथापीयं नासत्कार्यवादिनामुपयोगिनी, अवयवेष्वसन्नेव गन्धो निमित्तवशाद्भस्मन्येवोत्पद्यते, तत्प्रागभावस्य तत्र सत्त्वात्कपालेषु घटवत्, द्वितीयक्षणे गुणवदिति । अत इदमपि तन्मतमपाकुर्वत्सत्कार्यवादमेव स्थाप- यतीति सुसमर्थितं खमतमिति दिक् । अस्याश्च विशेषगुणो गन्धः । शब्दस्पर्शरूपरसास्तु कारणान्वयात् । तदु- तम्-'विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् । परान्वयाद्रसस्पर्शशब्दरूप- गुणान्वितः' इति । तेनेयं पञ्चगुणा । इति पृथिवी” इति । तस्या विश्वधारकत्वं प्रकटयति-विश्वस्य धारिणीति । एतावता प्राणाधष्टानां नारायणात्प्रादुर्भाव प्रतिपाद्य ब्रह्मादीनामुपदिश- ति-नारायणाद्ब्रह्मा जायत इति । ब्रह्मा समष्टिप्राणवान् रजोगुणाभि- मानी नारायणात्प्रादुर्भवति "मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत्खयम् । ततस्तस्मै वरान्प्रीतो ददावहमनुत्तमम् । मत्पुत्रत्वं च कल्पादौ लोकाध्यक्ष- त्वमेव च” इति भारतवाक्यात् । समष्टिप्राणवत्वं तु “यथोर्णनाभिहृदया- दूर्णामुद्वमते मुखात् । आकाशाद्धोषवान्प्राणो मनसा स्पर्शरूपिणा । छन्दो- मयोऽमृतमयः सहस्रपदवीं प्रभुः" इत्येकादशस्कन्धीयैकविंशाध्याये तथोप- दिष्टत्वात् । तस्य रजोगुणाभिमानित्वं तु “राजसो ब्रह्मा" "सत्त्वं रजस्तम श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- नारायणाद्रुदो जायते। नरायणादिन्द्रो जायते। नारायणात्प्रजा- पतिः प्रजायते । नारायणावादशादित्या रुद्राः- इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिहरेति विरिञ्चिसज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोतॄणां स्युः" इति योगचूडामण्युप- निषद्भागवतवाक्ययोरन्यत्र च स्फुटमेव । रुद्रस्याह-नारायणाद्रुद्र इति । भगवतो रुद्रस्तमोगुणाभिमानी संहाराधिष्ठाता आविर्भवति । रोदनादेव तस्य रुद्रत्वम् । “सोऽरोदीघद्रोदीत्तदेव रुद्रस्य रुद्रत्वम्” “एते हीदं सर्व रोदयन्ति" इति श्रुतिभ्याम्। तमोगुणाभिमानित्वं तु “तामसो रुद्रः" इति योगचूडामण्यु- पनिषदि पूर्वोक्तभागवतवाक्येऽन्यत्र च प्रसिद्धम् । इन्द्रप्रभवमाह-नारायणा- दिन्द्र इति । इन्द्र ऐश्वर्यवान् , इदिधातोरैश्चर्यबोधकत्वात्। तथैश्वर्यलाभोऽपि भगवद्भक्त्यैवेति “दशार्णाद्यास्तेऽपि सङ्क्रन्दनायैरभ्यस्यन्ते भूतिकामैर्यथावत्" इति गोपालपूर्वतापिन्युपनिषच्छ्रतिव्यक्तः । प्रजापतेराह-नारायणात्प्रजा- पतिरिति।आदित्यरुद्रवसुवेदानां नारायणादाविर्भावं लक्षयति-नारायणा- दिति । 'विवखानर्यमा पूषा त्वष्टाऽथ सविता भगः । धाता विधाता वरुणो मित्रः शक्र उरुक्रमः” इति षष्ठस्कन्धीयषष्ठाध्यायवाक्यावादशादित्याः। रुद्रा अपि "रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः । अजैकपादहिर्बुभ्यो बहुरूपो महानिति" इति तत्रत्यवाक्यादेकादशरुद्राः । कल्पभेदेन “मन्युमनु- महिनसो महान् शिव ऋतुध्वजः। उग्ररेता भवः कालो वामदेवो धृतव्रतः इति तृतीयद्वादशवाक्यादेकादशरुद्रा नारायणाजायन्ते । नचात्र परशिवस्य नारायणात्प्रादुर्भावाभावः शङ्ख्यः । तस्योत्पत्तेः "नारायणाद्वद्रो जायते” इति श्रुत्यैकवचनेन पूर्वमेव निर्दिष्टत्वात् । अन्येषां रुद्राणां "रुद्रा वसवः” इति श्रुत्या पृथनिर्दिष्टत्वाच्च । अन्यथा श्रुतिद्वयवैयर्थ्यांपत्तेः । एकवचनबहुवचन- रुद्रस्येति । रोदयतीति रुद्रः । रोदेर्णिलुक् चेत्यौणादिकेन रकि तत्सिद्धिः । तत्र श्रुतिं.

किरणावल्या समेतम् । १२७ वसवः सर्वाणि छन्दासीति । नारायणात्प्रजायन्ते नारायणा- स्पतीयन्ते। योर्विरोधापाताच । किञ्च, एतदेव यथा तथा “एको ह वै नारायण आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः स एकाकी नर एवं" इति श्रुत्या सृष्टेः पूर्वं ब्रह्मेशानादिसर्वनिषेध- पूर्वकं केवलनारायणस्यैव सत्त्वमुपदिश्य ततः सृष्टिमुक्त्वा अग्रे “अथ पुनरेव नारायणः सोन्यत्कामो मनसा ध्यायत तस्य ध्यानान्तःस्थस्य ललाटाध्यक्षः शूलपाणिः पुरुषो जायते" इति श्रुत्या महोपनिषदि नारायणाच्छिवोत्पत्तेः स्फुटं प्रवचनात् । अत्र विस्तरस्तु श्रीमपुरुषोत्तमचरणविनिर्मितप्रहस्तवादे बहिर्मुखमुखध्वंसे मत्कृतब्रह्मामृतटीकायां पीयूषलहरू च द्रष्टव्यः । वसूना- माह-वसव इति । अष्टौ वसवः, "द्रोणो प्राणः ध्रुवोऽर्कोऽग्निर्दोषो वसु- विभावसुः” इति भागवतीयषष्ठस्कन्धवाक्यात् । वेदानामुपदिशति-सर्वा- णिच्छन्दाश्सीति । अर्थवादादिरूपाण्यन्यान्यपि सर्वाणि प्रमारूपाणि "निःश्वसितमस्य वेदाः” इति श्रुत्या अपौरुषेयत्वस्य निःश्वसितत्वस्य च सर्वत्र तौल्यात् । अत एव "वेदाः सर्व एव काण्डद्वयस्थिता अर्थवादादि- रूपा अपि" इत्यादिनार्थवादादिरूपस्यापि सर्वस्यैव वेदस्य श्रीमदाचार्य- चरणाः प्रामाण्यमङ्गीचक्रुः। पूर्वोक्तानां सर्वेषामुत्पत्त्यादित्रयं मायादिसम्बन्धरहितानारायणादेव भव- तीत्युपदेष्टुमग्रिमं वेदयति-नारायणात्प्रजायन्त इति। पूर्वनिरूपितसाका- रत्वकर्तृत्वादिधर्मविशिष्टान्नारायणात्परब्रह्मणः सर्वेऽपि प्रकर्षेण विविधखरूपेण जायन्ते, आविर्भवन्ति, “यतो वा इमानि भूतानि जायन्ते" “स वै सर्वमिदं जगत्" "स हैतावानास" “सर्व खल्विदं ब्रह्म" इत्यायनेकश्रुतिप्रामाण्यात् । उत्पत्तिमाख्याय स्थितिमपि तस्मादेवेपि प्रतिपादयति-नारायणात्प्र- तीयन्त इति । तथाखरूपेणाविस्थानं प्रतीतिः, "सन्मूलाः सौम्येमाः प्रजाः संदायतनाः सत्प्रतिष्ठानाः" “स सर्वमभवत्" इत्यादिश्रुतिभ्यः सदायशत्र- अर्थवादादिरूपा इति । "वेदो नारायणः साक्षात्" इत्युक्तेः सर्वोऽपि वेदः काण्ड- श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- नारायणे प्रलीयन्ते। येण सर्वप्रपञ्चरूपेण तस्यैव प्राकट्यात्तदंशभूतानां सर्वेषां प्रतीतिरपि तत एवाप्रत्यूहा, “तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । प्रवर्तन्त इति पाठे तु प्रवर्तनं प्रवृत्तिः, तस्यैव सर्वबुद्धिप्रवर्तक- त्वेन सर्वेषां सर्वत्र प्रवृत्तिरपि नारायणादेव “तमेव साधु कर्म कारयति यमेभ्यो लोकेभ्य उन्निनीपति, तमेवासाधु कर्म कारयति यमधो निनीपति" "य एको वर्णो बहुधा शक्तियोगाद्वर्णाननेकान्निहितार्थों दधाति, विचेति चान्ते विश्वमादौ सुदेवः सनो बुद्धा शुभया संयुनक्तु” इत्यादिश्रुतेः । बृहदारण्य- कीयान्तर्यामिब्राह्मणाच। स्थितिमुक्त्वा लयमाह-नारायणे प्रलीयन्त इति । पूर्वप्रतिपादितो- स्पत्त्यादिकर्तरि नारायण एव लयं प्राप्नुवन्ति, “यत्प्रयन्त्यभिसम्विशन्ति" "परे देवे सर्व एकीभवन्ति” इत्यादिश्रुतेः । एतावता 'यतो वा' इति श्रुत्युक्तं "जन्माघस्य यतः शास्त्रयोनित्वात्" इति सूत्रे व्याससमर्थितं च प्रपञ्चस्वाभि- ननिमित्तोपादानकारणत्वं नारायणस्य निरूपितम् । तेन निरङ्कुशजगजन्मादि- कर्तृत्वेन शास्त्रप्रतिपाद्यत्वं ब्रह्मत्वमिति फलितम् । स्थादेतत् , अपञ्चस्य मायिकत्वाच्छुक्तिरजतवदध्यस्तत्वमेव । अध्यासश्च हट्ट- स्थरूप्यदर्शनजन्यसंस्कृत्या तद्गतचाकचक्यादिसाधारणधर्मस्य शुक्तौ प्रतीत्या शुक्त्यज्ञानसहकृतया शुक्तौ रजताध्यास उत्पाद्यते । अन्यथाऽद्वैतभङ्गप्रसङ्ग इति चेत् , मैवम् ; दृष्टान्तवैधात् । शुक्तिरूप्यतच्चाकचक्यादिसत्यवस्तुसत्त्वेन दृष्टान्ते तथा स्वादपि; परमिह तु क्वचिदप्यध्यासात्याक्प्रपञ्चस्यादृष्टत्वेन तज- न्यसंस्कारस्य सुतरामभावात्कर्तुरप्यभावेनाध्यासस्यैवासम्भवः । शुक्तिरूप्य- स्थानीयसत्यप्रपञ्चं विना तजन्यसंस्काराभावात् । अध्यासोऽयं कस्येति प्रथम , शङ्कराचार्यमतमुपक्षिपन्ति-प्रपञ्चस्येत्यादिना । भ्रमस्तु सादृश्यज्ञानमपेक्षते, तदेवात्र न सम्भवतीत्याहुः-दृष्टान्तवैधादिति । कर्तुरिति । मनःसंयुक्तचक्षुरिन्द्रियेण शुक्तेः किरणावल्या समेतम् । १२९ विचार्यते । जीवस्य ब्रह्मणो वेति ? नाद्यः, अध्यासपक्षिणो जीवस्यापि तन्म- ध्यगतत्वात् । न द्वितीयः, ब्रह्मणोऽप्यध्यस्तत्वापत्तेः। किञ्च, जगदलीकत्वे किं मानम् ? नेदं रूप्यमिति प्रत्यक्षवन्नेदं जगदिति प्रत्ययवाधाभावेन न प्रत्यक्षम् । ननु 'प्रपञ्चो मिथ्या दृश्यत्वात् , शुक्तिरजतवदित्यनुमानं प्रमाणमिति चेत्, न, दर्शनयोग्यताया ब्रह्मण्यपि विद्यमानत्वेन तस्मिन्नलीकत्वस्यासम्भाव्यत्वेन दृश्यत्वादिति हेतो कान्तिकत्वात् । तथापि अहिलतया ब्रह्मणोऽदृश्यत्वाङ्गी- कारे "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" "यदा पश्यः पश्यते रुक्मवर्णम्" इत्यादिनिगमवचनानां विरोधो दुर्वारः। किञ्च, प्रपञ्चालीकत्वं साधिष्ठानं भवेत्।सामान्यतया बुद्धत्वे बुद्धविशेषवैशि- ध्यस्याधिष्ठानत्वप्रयोजकताया विशेषशून्यसामान्यरहिते तस्मिन्नसम्भाव्यत्वात्। कल्पितसामान्यविशेषवैशिष्ट्यस्य तस्मिन्नुपलम्भेन तस्याधिष्ठानत्वमविरोधीति न शङ्कयम् , सामान्यविशेषकल्पनाया अप्यधिष्ठानयुक्तत्वात्तत्रापि कल्पिततहणे- ऽनवस्थादोषस्य दुष्परिहरत्वात्। सजातीयतत्सदृशवस्तुन्यध्यासस्य नियत्या रज- तशुक्त्योः परस्परं चाकचक्यसाधर्म्यस्य विद्यमानत्वेन रजतरूपेण शुक्तेः ख्यानं भवति । तथा ब्रह्मण्यपि प्रापचिकपदार्थरूपत्वेनाख्याने प्रापश्चिकपदार्थसाह- श्याङ्गीकारे साकृतित्वजडत्वाद्यापत्तिर्भविष्यति । साधर्म्यसजातीयत्वभिन्ने- ऽध्यासस्थासम्भवदुक्तिकत्वात् । अन्यथा परस्परविरुद्धधर्मयोर्विजातीययोः स्तम्भस्य शुक्तावप्यध्यासो भवेदेव । साधर्म्यस्य साक्षात्प्रयोजकत्वं न वयं ब्रूमः, किन्तु संस्कारोबोधकत्वेन । तत्र तदुद्बोधस्य तद्भिन्नत्वेनापि सम्भाव्यत्वेन तद- भावेऽपि नानुपपत्तिरिति वाच्यम् , तद्भिन्नेनाप्यदृष्टादिनोबोधाङ्गीकारे विजाती- यवैधर्म्यविशिष्टे चाध्यासासम्भवात्। सादृश्यदर्शनं विनाऽदृष्टादेविद्यमानत्वेऽपि तदुपपत्तेरभावाच । खप्तस्मृत्युद्भावकसंस्कारोबोधस्य तदादिना सम्भवदुक्ति- कत्वेऽपि भ्रमोद्भावकस्य तस्य तत्सदृशधर्मदर्शनमन्तरा कथञ्चिदप्यनुपलब्ध्याऽ- दृष्टं न दृष्टेनान्यथयितुं शक्यम् । तथानादरे सर्वकार्यस्यादृष्टेनैव सम्भवे दृष्ट- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- कारणस्य दण्डादेर्निरुपयोगित्वापातः । कार्ये तस्यैव हेतुत्वात् । नच विजा- तीये विजातीयाध्यासे तत्तसंस्कारोबोधाभावेन न सम्भवति, सति तदध्यासे तत्सादृश्यज्ञानस्य न हेतुत्वमिति शङ्यम्; रज्ज्वज्ञाने मन्दे तमसि घटावा- दीनां संस्कारोबोधेऽपि तमस्यादृष्टत्वान्न संस्कारोबोध एवाध्यासे कारणम् , किन्तु साधर्म्यसम्वित्तिजन्यसंस्कारोद्धोध एव कारणमिति तस्यैव कारणत्वम् । ननु साधर्म्यसन्दर्शनजन्यवित्तेस्तद्धेतुत्वे रजावनेकाशीविषदण्डभूच्छिद्रमा- लाजलधारादीनां तत्तत्साधर्म्यज्ञानस्य पृथक्तध्यासानुरोधेन विद्यमानत्वादे- ककाल एव कथं न भ्रमोत्पत्तिरिति चेत् , न, भिन्नतत्तदध्यासे तत्तत्साध- यवित्तेर्विद्यमानत्वेऽप्येककाल एव तदभावात् । सादृश्यप्रतीतियोग्युपस्थिति- युक्तस्यैव सादृश्यसत्त्वस्य सादृश्यवित्तिकारणत्वात् । अतो यत्प्रकारकप्रतियो- ग्यवस्थानं तत्प्रकारक एव भ्रमोद्भवः। एककाल एव प्रतियोग्यवस्थाने चाहि- त्वधारात्वमालात्वादेरेकत्र निश्चयरूपवोधासम्भवः । परस्परविरुद्धधर्माणामे- कत्र विद्यमानत्वे विरोध एव न स्यात् , अतो यथाकथञ्चिदेककाल एवाव- स्थानेऽप्येककाल एव सर्वाध्यासासम्भवः । भ्रमस्यानिश्चयात्मकत्वात् । अतस्तादृशं ज्ञानं संशयात्मकं भवति । तदिष्टमेव । एवमनङ्गीकारे संस्कारस्य कारणत्वेन पृथक्तदध्यासानुरोधेनादृष्टस्योद्बोधकस्य सत्त्वेन युगपदध्यासस्तव मतेऽपि कथं न भवेत् ? संस्कारोबोधस्य विद्यमानत्वात् । अतो ब्रह्मणि साकारत्वं दुष्परिहरमेव । अतो न कथञ्चिदपि प्रपञ्चस्य भ्रमरूपत्वम् । अद्वैत- सिद्धिस्तु ब्रह्मवादे ब्रह्मण एव सर्वरूपत्वात्सरलैवेति न कश्चिद्विप्रतिपत्त्युद्गमः । भवति न तत्र सादृश्यज्ञानस्य हेतुत्वम् , इति तन्मतमुपक्षिपन्तः सादृश्यबाधमाहुः-नन्वि- त्यनेन । खण्डयन्ति-भिन्नेति । भ्रमोद्भव इति । भ्रमस्वरूपं तु तृतीयस्कन्धषड़ि- शाध्याये-"संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्" इत्यत्र सुबोधिन्यां द्रष्टव्यम् । संशयादीनां बुद्धिवृत्तित्वेन शुक्तिरूपाधिष्ठाने उत्पन्ने- नानिर्वचनीयरजतेन चक्षुःसन्निकर्षस्य सुतरामसम्भाव्यत्वम् । अतः प्रत्यक्षज्ञाने मनइन्द्रि- यविषयाणां सामान्यज्ञानोत्पादकत्वम् ; बुद्धिस्तु विशेषाकारेण संशयादिशब्दवाच्यानि ज्ञानानि जनयतीति ज्ञेयम् । तत्र चक्षुःशुक्तिसंयोगे समानप्रत्यासत्तिरुत्पद्यते, ततो भग- किरणावल्या समेतम् । , तदानीं रजतस्याभावात्सामान्यज्ञानानन्तरं बुद्ध्या रजतोत्पादनात् । विशेषज्ञाने तु रजतस्य कल्पितत्वेनाऽऽन्तरत्वाद्यैव ग्रहणम् , नत्विन्द्रियैः, अतः सामान्यज्ञाने शुक्तिरेव विषयी- भूता । तस्या एव सामान्यज्ञानम् , विशेषज्ञानं तु बुद्धिकृतमिति तत्र वौद्धमेव रजतं विषयी- भवतीति निष्कर्षः । तदुक्तं श्रीसुबोधिन्यां श्रीमदाचार्यचरणैः "रजतं तु तदनन्तरं बुद्ध्या जन्यते । विषयीक्रियते । तत्र सा बुद्धिरेव कारणम् । इन्द्रियार्थयोर्मध्ये भाति तन्मृषा" इति । प्रथमस्कन्धे "तेजोवारिमृदां यथा विनिमयः” इत्यत्र सुबोधिन्यां तेजसि वारिबुद्धि- मरीचितोये । वारिणि पृथिवीबुद्धिस्तमिस्रायां जलादौ । तथा मण्यादिष्वग्निबुद्धिः । मृदि काचादौ वारिबुद्धिः । मेघेषु चन्द्रबुद्धिः । चन्द्रकिरणेषु वस्त्रबुद्धिः । सजातीया भ्रमाश्च शुक्तिरजतादिषु" एवंच अन्यस्मिन्नन्यस्य धर्माणां प्रतीतिरेवाध्यासः, न तु शुक्तित्वं, रजतत्वं वा मिथ्येति ध्येयम् । तेनेन्द्रियविषययोः सम्बन्धे सामान्यज्ञानानन्तरं यद्बुद्धौ माया मायिक पदार्थ निर्माय बुद्धिविषयीकारयतीति तद्वौद्धं ज्ञानं भ्रमात्मकम् । तद्विषयश्च मायिको बौद्धो घटादिः । अयमेव बुद्धौ भातः पदार्थ आन्तरालिकी सृष्टिरित्युच्यते । तस्यैव मिथ्यात्वम् । न तु भगवत्कृतप्रपञ्चस्य घटपटादेः । औपाधिके “घटो भ्राम्यति" "पीतः शङ्खः" इत्यादिभ्रमे तु चक्षुाह्ये घटशङ्खादौ भ्रमरिकाकामलाधुपाधिं पुरस्कृत्य भ्रमणपीतत्वादिरूपो मायिको धर्मो विषयतारूपो मायया सृज्यते । सच धर्मो धर्मिणां घटशङ्खादीनां चाक्षुषे चक्षुषा गृह्यते । अत एव "ऋतेऽर्थं यत्प्रतीयेत" इत्यत्र सुबोधिन्यां “विषयता मायाजन्या विषयो भगवा- निति । विषये विषयता काचित्स्वीकर्तव्या । अन्यथा भ्रमदृष्टिः सविषया स्यादिति । विषयताजनितं ज्ञानं भ्रमात्मकं, विषयजनितं प्रमेति च” इत्युक्तं श्रीमदाचार्यचरणैः । तथा च तं भ्रमणपीतत्वादिरूपं मायिकं धर्ममवलोक्य मायया मोहिता बुद्धिर्धर्मिणं शङ्खादीव पीतत्वादिकमपि वस्तुभूतं निर्धार्य तद्विशिष्टं शङ्ख स्वीकरोति । तदा तद्भमात्मकं ज्ञानं भवति । एवं सति बुद्ध्या पीतत्ववैशिष्टयेन कल्पित एव शङ्खो मायिकः । न तु चक्षुर्गृहीतः । ननु भगवान् चक्षुषाऽग्राह्यस्तर्हि भवन्मते भगवदात्मको घटः कथं चक्षुषा ग्राह्य इति चेत्, मैवम् ; “न चक्षुषा गृह्यते” इत्यादिश्रुतीनां मूलरूपपरत्वादह्यमाणघटस्य तु भगवतः सदंश- त्वाद्राहकस्येन्द्रियस्यापि तत्सदंशत्वेन दोषासम्भवात् । ग्राह्यस्य घटस्य विषयतावैशिष्टयेन शुद्धत्वाभाववद्वाहकस्येन्द्रियस्यापि विषयतावैशिष्टयेन तुल्यत्वाच । सोऽयमौपाधिको धर्मो रजतादिभ्रमवन्नाधिष्ठाननाश्यः। कामलादिदोषो भ्रमरिकादोषश्च यदा नश्यति तदैव नश्यति । भ्रमरिकादशायां “घटो न भ्राम्यति" इति ज्ञानवतोऽपि भ्राम्यतीति प्रतीतेः सार्वजनीनत्वात् ।। न मितिले जानकाभिमेऽपि सटपै रजनहाते चलषा भजस्त बद्भिकल्पितो श्रीमदाथर्वणनारायणोपनिषद्भाप्यम्-- , इत्यवादि । यथा घटावच्छिन्नगगनमहाकाशयोर्वस्तुतो भेदाभावेऽपि घटोपाधिकृतो बवास्तवो भेदस्तथा विषयताविशिष्टतद्रहितजगतोरपि । घटाकाशश्चलतीति प्रतीतावपि चलनं वस्तुतो घटधर्मः, न तु तदवच्छिन्नस्य; एवं विषयताविशिष्टे जगति उत्पत्त्यादिप्रतीतावपि उत्पत्त्यादि- विषयताया एव धर्मः, न तु तदवच्छिन्नस्य, घटाकाशमहाकाशयोरभेदवद्विषयताविशिष्टतद्र- हितयोरभेदेन वस्तुतस्तदवच्छिन्नजगतोऽपि ब्रह्मरूपत्वात् । एवं शुद्धसंसारिजीवयोरप्यवास्त- वो भेदः संसाररूपोपाधिकृत एवेति ध्येयम् । शुद्धजीवस्य भगवदंशत्वेन संसारिजीवस्यापि तद्वत्त्वेन भेदाभावात् । मिथ्यात्वं तु संसाररूपोपाधिपर्यवसन्नम् । अत एव “जीवसंसार उच्यते” इति श्रीमदाचार्यचरणा निबन्धे आज्ञापयाञ्चक्रुः । तत्रापि "उच्यते न तु जायते, असत्त्वेनास्य गणनात्" इति व्याख्यातं तैः । तेन यो बद्धः स एव साधनसम्पत्तौ मुक्तिमा- नोतीति बन्धमोक्षव्यवस्था सम्यगुपपद्यते । एवंच विषयतावैशिष्ट्येन मिथ्यात्वं तदवैशिष्ट्येन सत्यत्वं च प्रपञ्चस्येति ज्ञेयम् । अस्मन्मते तु पारमार्थिकदृष्टया प्रपञ्चस्य विषयतारहितत्वात् ब्रह्मात्मकत्वाच्च सत्यत्वम् , व्यवहारे संसाररूपस्य विषयतावैशिष्टस्य मिथ्यात्वम् । मायावा- दिनस्तु व्यवहारे सत्यत्वं पारमार्थिक मृषात्वमिति मन्यन्ते । तदत्र पक्षपातदर्वीकरादष्टहृदयाः सहृदयाः सुधिय एवाकलयन्तु युक्तायुक्तत्वमित्याशास्महे । अन्यच्च, केचित् बुद्धेनिक्षणावस्थायित्वेनामूर्तत्वेन च बहिःक्षेपनिवृत्त्योरशक्यवचनत्वेन बुद्धिकल्पितः संसार आभासरूप इत्यत्र मानाभावं द्योतयन्ति, तस्या अस्थिरत्वात् ; तन्मन्दम् ; बुद्धिर्हि ज्ञानजनिका शक्तिरहङ्कारभेदः "ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैजसः” इति द्वितीयस्कन्धोक्तेः । अत एव सा स्थिरेति बोध्यम् । तेन मूर्तीयास्तद्वृत्तेर्मायया बहिःक्षेपादिकं न दुर्घटम् । त्रिक्षणावस्थायित्वनियमैकशरणानां तज्ज्ञानतत्प्रागभावध्वंसकल्पनापेक्षया ज्ञान- स्थैर्यकल्पनस्य, विरुद्धवृत्तितिरोभाव्यत्वकल्पनस्यैव च लघुत्वात् । नचोपेक्षाबुद्धौ व्यभिचार इति वाच्यम् ; तत्र शीघ्र विरुद्धवृत्त्युदयेन पूर्वज्ञानतिरोभावेऽपि अन्यत्र तिरोभावादर्शनेन त्रिक्षणावस्थायित्वनियमस्याप्रयोजकत्वात् । नापि मूर्तत्वाभाव इति शक्यम् ; अर्थदर्शनोत्तरं नेत्रनिमीलनेन तदर्थाकारस्यानुभवसाक्षिकत्वात् । नचेदानी मायायाः सर्वदा सत्त्वात्सर्वदा भ्रमापत्तिरिति शक्यम् , संस्कारप्राबल्यस्यापि सहकारित्वात् । अतिरिक्तसंस्काराऽनङ्गीकारपक्षे तूद्वोधकैरेवान्तःशयानाया बुद्धिवृत्तेरुद्धोध इति तदा सदृशादृष्टचिन्तादिरूपोद्बोधकसामग्री- प्राबल्यस्यैव तत्रत्वात् । अतः प्रबलसंस्कारेण प्रबलोद्बोधकसामग्र्या वा सहकृता माया बुद्धिं बहिः क्षिपति, नेतरथेति, न सर्वदा तदापत्तिः । आत्मा हि निर्विषयज्ञानात्मकः । बुद्धिस्तु किरणावल्या समेतम् । १३३ एतहग्वेदशिरोऽधीते ॥ अथ नित्यो नारायणः। एतावदुपनिषद्भागस्य ऋग्वेदशिरोरूपत्वमुपदिशति-एतहग्वेदशिरोऽ- धीत इति । ऋग्वेदशिरोभागेन नारायणस्य परब्रह्मणो जगत्कर्तृत्वादिकमुपपाद्य साङ्ख्य- मायावादादिप्रतिपन्नं जगत्कर्तुगौणत्वं मायावच्छिन्नत्वं च परिहरन् सत्कार्य- वादनिरूपणाय पूर्वोक्तकर्तृत्वादिधर्मविशिष्टस्य नारायणस्य नित्यत्वं सर्वेषामपि "स सर्वमभवत्” इतिश्रुत्या तदंशत्वेन विभूतित्वेन च तस्यैव प्राकट्यात्तद्रूप- त्वप्रतिपादेन नित्यत्वमुपदिशति-अथ नित्यो नारायण इति । नित्यस्त्रि- कालावाध्यस्वरूपः सदा वर्तमानः प्रकृत्यनधीनत्वात् । नारायणस्य “नित्यो नित्यानां चेतनश्चेतनानाम्" "हरिहि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः । स सर्वगुपद्रष्टा तं भजन् निर्गुणो भवेत्" इत्यादिश्रुतिभागवतवचनैनैर्गुण्यस्य प्रकृत्यनधीनत्वस्य च स्फुटत्वात् । ननु नित्यत्वं नाम त्रिकालाबाध्यत्वम्, प्रकृत्यनधीनत्वात् ; नामरूपक्रियाकर्तृत्वादीनां च प्राकृतत्वमेव, अविद्याक- ल्पितत्वादनित्यत्वाच । एवं निष्क्रिये निर्विशेषे नित्ये ब्रह्मणि तद्धर्माणामेवा- सम्भवेन कर्तृत्वादिशिष्टे नारायणे नित्यत्वप्रकृत्यनधीनत्वनिर्गुणत्वादीनां चास- म्भाव्यतया तद्धर्माणां च मायाशवलितानित्यप्रकृत्यधीनपरकत्वेन शास्त्रे निरू- पणात् नारायणस्य मायाशवलितत्वं न तु प्रकृत्यनधीनत्वं परत्वं चेति चेत्, एवमृग्वेदशिरोभागं व्याख्याय यजुर्वेदशिरोभागं व्याचिख्यासवः साङ्ख्यादिमतनिरसनाय जगत्कर्तुभंगवतो नित्यत्वं ब्रह्मादीनां तदंशत्वेन तदभिन्नत्वं च प्रतिपादयन्ति-जगत्कर्तु- रित्यनेन । ब्रह्मरुद्रादीनां नारायणांशत्वे प्रमाणमाहुः-स सर्वमभवदिति । सर्वं ब्रह्मा- दितृणस्तम्बपर्यन्तम् , सः, मायातीतो नारायणोऽभवत् । खेच्छयेति शेषः । त्रिकाला- बाध्येति । प्रागभावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वमिति तु न नित्यत्वलक्षणम् । आविर्भावतिरोभाववादखीकारे प्रागभावादीनां तत्रैवान्तर्भावात् । प्रकृत्यनधीनः पदार्थस्त्रिका- लाबाध्यो भवतीत्याहुः-हरिहिं निर्गुण इति । नामरूपेति । मायावादे "अस्ति श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- न, अनेकभूतभौतिकदेवतिर्यमनुष्यानेकलोकाद्भुतरचनायुक्तस्य मनसायाकल- यितुमशक्यरचनस्यानायासेनेच्छामात्रेणोत्पत्तिस्थितिभङ्गकरणस्याप्राकृतत्वात् । "एकोऽहं बहु स्याम्" “स ईक्षाञ्चक्रे' इत्यादिश्रुतिषु निर्गुणप्रकृत्यतीतपर- ब्रह्मण एवेच्छाया मायासम्बन्धरहितस्यैव कर्तृत्वस्य निरूपणाच । अत्र हि भगवान् बादरायणश्चतुर्लक्षण्याम् “अथातो ब्रह्म जिज्ञासा" इति शान्तं निरवद्यं निरञ्जनम्" इत्यादिश्रुतेः । एवं मायावादमुपक्षिप्य तं खण्डयन्ति-अनेके- ति । अनायासेनैव खेच्छयैव करणे श्रुतिप्रमाणमाहुः–एकोऽहमिति । निष्कलमित्यादि- श्रुतीनां तात्पर्य पूर्वमेवास्माभिः प्रतिपादितम् , तत्ततोऽवगन्तव्यं जिज्ञासुभिः । ननु नित्य- विभोर्न कारणत्वमुपपद्यते । तथाहि-अन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण, अतिप्रसङ्गात् । नच नित्यत्वेन कालतो व्यतिरेकः, विभुत्वेन च देशतो व्यतिरेकः सम्भवति । नच सोपाधेरसावस्त्येवेति साम्प्रतम् । तथाभूतस्योपाधिसम्बन्धेऽप्यनधिकारात् । जनितो हि तेन स तस्य स्यात् , नित्यो वा ? नायः, अयुक्तत्वात् । उपाधिजनकत्वग्राहकव्यतिरेका- भावस्तुल्य एव । नापि द्वितीयः, नित्यविभोरपि व्यतिरेकाभावात् । तथापि चोपाधेरेव व्य- तिरेको न तस्य, अविशेषात् । उपाधिमत इति चेन्न, स चोपाधिश्चेत्यतोऽन्यस्य तद्वत्पदार्था- भावात् । भावे वा स एव कारणं स्यात् , इति चेत्, न “पूर्वभावो हि हेतुत्वं मीयते येन केनचित् । व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि" इति श्रीमदुदयनपादोक्तेः । भवे- देवं यद्यन्वयव्यतिरेकावेव कारणम् । किन्तु कार्यान्नियतः पूर्वभावः । स च क्वचिदन्वय- व्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात् । अन्यथा कार्यात्कारणानुमानं कापि न स्यात् । तेन तस्यानुविधानानुपलम्भात् ; उपलम्भे वा कार्यलिङ्गानवकाशात् ; प्रत्यक्षत एव तत्सिद्धेः । तज्जातीयानुविधानदर्शनासिद्धिरन्यत्रापि न वार्यते । तथापि कोष्ठगत्यानु- विहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्ध्येत् , अन्यत्र तथादर्शनादिति चेन्न, बाधेन सङ्कोचात् । विपक्षे बाधकाभावेन चाव्याप्तेः । दर्शनमात्रेण चोत्कर्षसमत्वात् । सर्वव्यापकानां सर्वान्प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गो बाधकमिति चेत्, न; अन्वयव्यतिरेकवजाती- यतया विपक्षे बाधकेन च विशेषेऽनतिप्रसङ्गात् । तथाहि कार्य समवायिकारणवद् दृष्ट- मित्यदृष्टाश्रयमपि तज्जातीयकारणकम् , आश्रयाभावे किम्प्रत्ययासन्नमसमवायिकारणं स्यात् , तदभावे निमित्तमपि किमुपकुर्यात् १ तथाचानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् । अतो नित्यविभोरपि कर्तृत्वे न काऽप्यनुपपत्तिः सम्भवति ।

किरणावल्या समेतम् । , स्तसिल्) ब्रह्मविचारोऽधिक्रियते प्रारभ्यत इत्यर्थः । ब्रह्मण इति शेषषष्ठीसमासाद्ब्रह्मसम्बन्धि सर्व विचार्यत इति तात्पर्यम् । अत्र सर्वेऽपि वेदान्तसूत्रव्याख्यातारोऽथशब्दमानन्तर्यार्थ- कमेवाङ्गीकुर्वन्ति । केचन (१) नित्यानित्यवस्तुविवेकः, (२) इहामुत्रफलभोगविरागः, (३) शमदमादिसाधनसम्पत् , (४) मुमुक्षुत्वं चेति साधनचतुष्टयसम्पत्त्यनन्तरम् ; केचिच्च धर्मज्ञानानन्तरम् , अन्ये च साङ्गवेदाध्ययनानन्तरमिति वदन्ति । इतरेऽथशब्दमधि- कारार्थकमिति वदन्ति । तदत्र जिज्ञासूनां सौकर्यार्थ सर्वाण्यपि मतान्यत्र सङ्क्षिप्य सङ्ग्रह्यन्ते। (१) तत्रतावच्छङ्कराचार्याः-अथ नित्यानित्यवस्तुविवेकः, इहामुत्रफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वञ्चेति साधनचतुष्टयसम्पत्त्यनन्तरम् , अतः अग्निहोत्रादी- नामनित्यफलकत्वात् , ब्रह्मज्ञानफलस्य च नित्यत्वाद्धेतोः; ब्रह्मजिज्ञासा-ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा ब्रह्मविषयकज्ञानेच्छा । कर्तव्येति शेषः । इत्याहुः । (२) शेषावतारास्तु-अथ-साङ्गवेदाध्ययनानन्तरम् , अतः कर्मणामनित्यफलकत्व- ज्ञानात् , मोक्षेच्छावतोऽनन्तनित्यफलप्रयोजिका, ब्रह्मजिज्ञासा-ब्रह्मज्ञानेच्छा भवतीतित्याहुः । (३) भास्कराचार्याः-अथ कर्मविचारानन्तरम् । अतःशब्देनारम्भे फलप्राप्तौ च हेतु- त्वमुच्यते । कर्मणि पूर्ववृत्ते तदपेक्षा ब्रह्मजिज्ञासा कर्तुं शक्यत इत्यारम्भे हेतुत्वम् । कर्मणा समुच्चितं ज्ञानं क्षेमप्राप्तिनिमित्तमिति फलप्राप्तौ हेतुत्वम् । ब्रह्म च कारणात्मना, कार्यात्मना, जीवात्मना च त्रिधाऽवस्थितम् , तत्राविशेषेण ब्रह्मजिज्ञासा प्रस्तूयते । इत्यानन्तर्यार्थकम- धिकारार्थकञ्चेत्युभयमुररीकुर्वन्ति । (४) निम्बार्काचार्याः-अथ अधीतषडङ्गवेदेन मुमुक्षुणाऽनन्ताचिन्त्यखाभाविकस्वरूप- गुणशक्त्यादिभिबृहत्तमो यो रमाकान्तः पुरुषोत्तमः ब्रह्मशब्दाभिधेयस्तद्विषयिका जिज्ञासा सततं सम्पादनीयेति प्राहुः। (५) श्रीकण्ठशिवाचार्यास्तु-अथशब्द आनन्तर्यार्थः, अतःशब्दो वृत्तस्य हेतुभावे वर्तते । यतोऽधीतवेदेन धर्मो विचारितः, अतस्तदनुष्ठानसम्पन्नचित्तशुद्धिना तत्कालसम्पन्न- विवेकादिसमुल्लसितपरमभक्तिसम्भावितेनानेन ब्रह्मापि निरतिशयनिःश्रेयसकरं विचारणीय- मिति । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति कर्मणि षष्ठीत्याहुः । (६) मध्वाचार्याः-अथशब्दो मङ्गलार्थोऽधिकारानन्तर्यश्च । अतःशब्दो हेत्वर्थः । यतो नारायणप्रसादमृते न मोक्षः, अतो ब्रह्मजिज्ञासा कर्तव्येत्याहुः । (७) विज्ञानभिक्षवोऽपि-अथ शब्द उच्चारणमात्रेण मङ्गलरूपोऽधिकारवाचकः। अत इत्यत्रे- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम- ., त्यनन्तरम् , अतो यतो ब्रह्मज्ञानं साक्षान्निःश्रेयससाधनसाधनम् , ब्रह्मजिज्ञासा वक्ष्यमाणलक्ष- णस्य ब्रह्मणो ज्ञातुं साक्षात्कर्तुमिच्छा भवतीत्याह । तत्र प्रथमे, साधनचतुष्टयसम्पत्तेः प्राग्ज्ञानाभावान्नित्यानित्यविवेकादीनामभावाद्ब्रह्मज्ञानस्य साधनचतुष्टयसम्पत्त्यनन्तरभावित्वाच्च न कदाचित्कस्यचिद्ब्रह्मज्ञानावसरः । सत्यां च सम्पत्तौ सञ्जातवैराग्यस्य वेदान्तवाक्यविचारानवकाशात्कस्यचिदपि विचारशास्त्रे प्रवृत्तिर्न भविष्यतीति ब्रह्मविचारशास्त्रस्य वैयर्थ्यापत्तिः । द्वितीये, कर्मकाण्डज्ञानकाण्डयोः पूर्वापरीभावस्य अप्रामाणिकत्वात् । तृतीये, धर्ममीमांसाया ब्रह्ममीमांसातः प्राग्रचनायां प्रमाणाभावादुभयोरेकशास्त्रत्वाभावाच्च । चतुर्थे, वेदाध्ययनानन्तर्य तु सिद्धमेव, नानधीतवेदो विचारार्थ प्रवर्तते । तदत्र व्यर्थतामापद्यते अथशब्दः। पञ्चमे-तृतीयवदेव दोषापत्तेः । षष्ठे-अष्टमेऽपि प्रथमवदेवदोषापत्तिः । ननु जिज्ञासा नाधिकर्तुं शक्येति चेन्न, जिज्ञासाशब्दस्य विचारे रूढत्वात् , योगाद्रूढिर्बली- यसीति न्यायेन जिज्ञासाशब्दस्य विचार एवार्थः । नच "जिज्ञासितुमिच्छेत्' इति शाबर- भाष्यमुदाहृत्य विचारार्थों न वाच्यो भट्टपादैरिच्छायामिच्छाप्रदर्शनात् , तथाहि-“सन्वाच्येच्छा- न्तरं कर्म ज्ञानं व्याप्नोति तावता, ज्ञानोपसर्जना सैव न तु विध्यादि गम्यते । इषेस्तुकर्म बाह्यः स्याद्धर्मः सा वाऽथवा द्वयम् । समानकर्तृकत्वं तु तुमुनोक्तं लिङा विधिः । एवं विषयनाना- त्वान्न काचित्पुनरुक्तता । सूत्रितेच्छाभिनिवृत्त्यै द्वितीयेच्छाऽत्र सूत्रिता” इति । मन्दाग्नीनां भोजनेच्छायामिच्छादर्शनात् “सा हि तस्य ज्ञातुमिच्छा” इतिवाक्येन शाबरभाष्ये वदतो व्याघातदोषप्रसङ्गाच्चेति वाच्यम् । इच्छाया अकर्तव्यत्वात् , सामान्यतो ज्ञाते विशेषजिज्ञासा विचारं विना न सम्भवतीत्यन्तीतविचारजिज्ञासापदसामर्थ्याद्वेदाध्ययनानन्तरं तद्धेतुको धर्मविचारः कर्तव्यः इति पूर्वमीमांसायाः प्रतिज्ञासूत्रार्थः सम्पद्यते । वार्तिककारमतमनादृत्य जिज्ञासापदस्य विचारवाचित्वेऽपि न काचिदनुपपत्तिः सम्भवति । श्रीभागवतेऽपि "जिज्ञा- सितं सुसम्पन्नमपि ते महदद्भुतम्" "जिज्ञासितमधीतं च यत्तद्ब्रह्म सनातनम्" "अजिज्ञासि- तमद्धर्मो गुरुं मुनिमुपाव्रजेत्” “जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम्" "जिज्ञासि- तात्मयाथात्म्यो मुनेवा॒ससुतादसौं" इत्यादिवाक्यकदम्बेषु च जिज्ञासापदस्य विचारवाचित्वं तु प्रसिद्धमेव । अतस्तस्य रूढत्वे न काचित्क्षतिरिति ध्येयम् । नन जिज्ञासापदस्य विचारार्थमेवाभिप्रेयाध्यासस्तदा “अथातो ब्रह्मविचारः” इत्येव वदेत् किरणावल्या समेतम् । सूत्रे निर्गुणब्रह्मविचारं प्रतिज्ञाय किंलक्षणकं तद्ब्रह्मेत्याकाङ्क्षायां "जन्माद्यस्य यतः शास्त्रयोनित्वात्" इति द्वितीयेन तस्य जगजन्मादिकर्तृत्वेन शास्त्रप्रति- पाद्यत्वमुक्त्वा तत्र यत इति पञ्चमीनिर्देशश्रवणानिमित्तकारणमेव तद्भवतु न ननु "ब्रह्मजिज्ञासा" इत्यत्र कथं शाब्दबोधः, को वा समासः ? धर्माय जिज्ञासेतिवत् चतुर्थीसमासः, षष्ठीसमासो वा ? षष्ठीसमासेऽपि किं कर्मणि षष्ठी शेषषष्ठी वा ? न ताव- चतुर्थीसमासः, यतश्चतुर्थ्यन्तः शब्दस्तदर्थवचनादिभिः शब्दैः समस्यते; तथाहि-"चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः” इति । तदर्थेन प्रकृतिविकृतिभाव एवेष्टः । “तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम्" इति कात्यायनीयवचनेन यूपदार्वादिष्वेव प्रकृतिविकारभूतेषु चतुर्थीसमासनियमात् , अप्रकृतिभूते ब्रह्मजिज्ञासेत्येवमादौ तन्निषेधात् । नच "अथातो धर्मजिज्ञासा" इत्यत्रापि धर्माय जिज्ञासेति शबरोक्ताभिमतश्वतुर्थीसमास इतिवाच्यम् “सा. हि तस्य ज्ञातुमिच्छा" इत्युक्त्या षष्ठीसमासलब्धार्थिकार्थप्रदर्शनपरं नतु विग्रहपरं वाक्यम् इति बोध्यते । यथाभट्टपादाः-"प्रकृत्या विकृतिर्यस्माचतुर्थ्यन्ता समस्यते । तादयें यूपदार्वादौ तेनास्मिन्न समासता, सा हि तस्येत्यनेनोक्तो धर्मस्पेत्येष विग्रहः । धर्मायेति तु तादयें षष्ठी वृत्तेति कथ्यते । प्राप्नोत्यत्र चतुर्थैव विशेषश्चेद्विवक्षितः। सामान्यस्य विवक्षायां तादृशं कथ्यते कथम् । सम्बन्धमात्र एवैषा षष्ठयुत्पन्ना तथापि तु । विशेषनिष्ठता तस्या भाष्यकारेण वर्ण्यते” इति । नात्र कर्मणि षष्ठी, किन्तु शेषषष्ठी, तेन ब्रह्मसम्बन्धी विचार आरभ्यत इति शाब्दबोधः । अन्यथा द्वितीयाद्यध्यायवैयर्थ्यापत्तिरिति भाष्यप्रकाशे विस्तरः। जन्मायस्येति । जन्म आदिः पूर्वावधिर्येषां भावविकाराणां ते जन्मादयः । सुपां सुलुगिति जसो लुक् । अत्र कुटादिभ्य इतिवदवयवसमासादतद्गुणसम्विज्ञानो बहुव्रीहिः। विकारान्त- रज्ञानदशायां जन्मनः प्रव्यक्तत्वाभावात् । न च तदसङ्ग्रहापत्तिः। श्रुतत्वेन पूर्वमेव तस्य. बुद्धावारोहात् । अथवा, जन्म आदिर्यस्य स्थितिभङ्गस्य तजन्मादीति तद्गुणसम्विज्ञानः । अस्येति पुरोवर्ती प्रपञ्च इदमा निर्दिश्यते । अनायासेनोत्पत्तिस्थितिभङ्गकरणं भावविकारादिकं वा यतः, तब्रह्मेति स्वधिकारबलादेवायाति नत्वध्याहारः । यद्वा, आयस्याकाशस्य प्रधानस्य वा जन्म यत इति । शास्त्रे योनिः शास्त्रयोनिस्तस्य भावस्तस्मात् । योनिशब्दो निमित्तकारणे रूढः । “तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता' इति मातृरूपत्वबोधनात्, मातुश्च भस्त्रात्वात् , तथा च शास्त्रोक्तनिमित्तकारणत्वादित्यर्थः । , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- दस्य प्रकृतिवाचकत्वाझीकारात् , तद्वारणार्थ ब्रह्मणि शास्त्रोक्तकर्तृत्वप्रतिपादनस्यावश्यकत्वाच्च । माध्वाः शैवाश्च जन्माद्यधिकरणं शास्त्रयोनित्वाद्यधिकरणं च भिन्नमङ्गीकुर्वन्ति । तेषामाद्यस्य हेतुशून्यत्वात्प्रतिपादकाकाङ्क्षिततया, द्वितीयस्य च साध्यशून्यत्वात्प्रतिपाद्याकाङ्क्षिततयाऽति- क्लिष्टत्वाद्विवक्षितप्रमेयासाधकत्वं वा क्लेशेन साधकत्वं वा बोध्यम् । (१) शङ्कराचार्यास्तु-"जन्मोत्पत्तिरस्येति तद्गुणसम्विज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् “यतो वा इमानि भूतानि जायन्ते” इत्यस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रलयसम्भवात् । अस्येति प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिजन्यसम्बन्धार्था । यत इति कारणनिर्देशः । अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफला- श्रयस्य मनसाऽप्यचिन्त्यरचनस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः” इत्याहुः। (२) रामानुजाचार्याः-“जन्मादि"इति सृष्टिस्थितिप्रलयम् । तद्गुणसम्विज्ञानो बहु- व्रीहिः । “अस्य" अचिन्त्यविविधरचनस्य नियतदेशकालफलभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमि- श्रस्य जगतः। “यतः" यस्मात्सर्वेश्वरान्निखिलहेयप्रत्यनीकस्वरूपात्सत्यसङ्कल्पात् ज्ञानानन्दा- धनन्तकल्याणगुणात्सर्वज्ञात्सर्वशक्तेः परमकारुणिकात् परस्मात्पुंसः सृष्टिस्थितिप्रलयाः प्रव- तन्ते तद्ब्रह्मेति सूत्रार्थ इत्याहुः । (३) पूर्णप्रज्ञभाष्ये तु-"सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षाः, यतः, "उत्प- त्तिस्थितिसंहारा चियतिज्ञानमाकृतिः । बन्धमोक्षौ च पुरुषाबस्मात्स हरिरेकराट् इति स्कान्दे । "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसम्विशन्ति तद्विजि- ज्ञासव तद्ब्रह्मेति" “य उन्निधात्तु पृथिवीमुत द्यामेको दधार भुवनानि विश्वा, चतुर्मिः साकं नवतिञ्च नामभिश्चक्रं न वृत्तं व्यतीरवी वियत्परो मान्या तन्नावृधाना न ते महित्वमश्नुवन्ते, "न ते विष्णो जायमानो न जातो देवमहिम्न परमं तमाप” “यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा” इत्यादि च । अनुमानतोऽन्ये न कल्पनीयाः । "नावेदविन्मनुते तं बृहन्तं सर्वानुभूतमात्मानं सम्परा ये औपनिषदं पुरुषम्" इत्यादिश्रु- तिभ्यः । न चानुमानस्य नियतप्रामाण्यम् । "श्रुतिसाहाय्यरहितमनुमानं न कुत्रचित् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च । श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् । प्रमाण- पदवीं गच्छन्नात्र कार्या विचारणा । पूर्वोत्तराविरोधेन कोत्रार्थोऽभिमतो भवेत् । इत्याद्य- " -- 4 किरणावल्या समेतम् । , ऽम्बुभुक् क्षणम् । प्रेत्य भूताप्ययश्चैव देवताभ्युपयाचनम् । मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः" इति मोक्षधर्मवचनान्न नास्तिकवादो युज्यते, "दर्शनाच तप आदिफलस्य" इत्युक्तम् । (४) भास्कराचार्या हि-"जन्म आदिर्यस्य तदिदं जन्मादि सृष्टिस्थितिप्रलयम् । तद्गुणसम्विज्ञानो बहुव्रीहिः, यथा लम्बकर्णमानयेति । अस्येति त्रिजगन्निर्दिश्यते । यत इति कारणम् । यस्मादीश्वरात्सर्वज्ञात्सर्वशक्तेः परमकारणादस्य जगतो नामरूपाभ्यां व्याकृतस्य विविधविभक्तभोक्तृसंयुक्तस्य नियतदेशकालफलोपभोगाश्च अस्याचिन्त्यरचनस्य सृष्टिस्थिति- प्रलयाः प्रवर्तन्ते तद्ब्रह्मेति प्रतिपत्तव्यम् ।" इत्याहुः । (५) निम्बार्का अप्येवम् । (६) विज्ञानभिक्षवः-"जन्मादि-जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतीत्येवं रूपं जन्मादिषदम् । अस्य जगतः । यतः परमेश्वरादन्तीनप्रकृतिपुरुषाद्य- खिलशक्तिकात्स्वतश्चिन्मात्राद्विशुद्धसत्त्वाख्यमायोपाधिकाक्लेशकर्मविपाकाशयैरपरामृष्टाचेतनवि- शेषाद्भवति तद्ब्रह्मेति" वाक्यार्थमाहुः । (७) शैवाः-जन्मादिकं जन्मस्थितिलयतिरोभावानुग्रहरूपं कृत्यम् । अस्य चेतनाचेतन- सम्मेलनसमरसीभूतस्य प्रपञ्चविलासस्य । यतो यस्मात् । तद्ब्रह्मेति शेषः इत्याहुः । (८) वैदिकमुनिरपि शङ्कराचार्यवदेव। सर्वेऽप्यत्र तद्गुणसम्विज्ञानबहुव्रीहिमाचख्युः, तन्न; अवयवार्थकानां पदानां हि बहुव्रीहौ बहुधाऽतद्गुणसम्विज्ञानत्वमेव प्रतीयते । संयोगसमवा- यान्यसम्बन्धेन कार्याऽनन्वयितया गुणानां वृत्तिघटकीभूतपदानामर्थोऽन्यपदार्थे प्रधानेऽन्वे- तीत्यतद्गुणसम्विज्ञानत्वम् । अत एव "सर्वादीनि सर्वनामानि" इत्यत्र सर्वशब्दस्य सर्वनाम- सज्ञाप्रयुक्तसुडागमसिद्ध्यर्थं तद्गुणसम्विज्ञानो बहुव्रीहिः "हलि सर्वेषाम्" इति ज्ञापकबलेन स्वीकृतः। तस्मादवयववाचके बहुव्रीहौ ज्ञापकं विना न तद्गुणसम्विज्ञानत्वमिति ध्येयम् । ननु जन्म आदिर्येषामिति विग्रहवाक्ये बहुवचनमनुपपन्नं, सूत्रे प्रत्यक्षत एवैकवचनस्य दृष्ट- त्वात् , इति चेत् , न; अयं बहुवचननिर्देशो बहुव्रीहेः कर्मधारयत्वगर्भत्वसूचकः । अन्यथा "जन्म आदिः यस्य तत्" इत्थमेव विग्रहः स्यात् । एवं चातद्गुणसम्विज्ञानपक्षे जन्मनोऽपि ब्रह्महेतुत्वप्रतिपत्तये कर्मधारयो गर्भस्थो वेद्य एकशेषेण । तथा च जन्म च तदादिश्च जन्मादिः । जन्म आदिर्येषां तानि जन्मादीनि । जन्मादिश्च जन्मादीनि च. जन्मादीति विग्रहो ज्ञेयः। “नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्" इति सूत्रेण बहुव्रीहेः शेष एकव- द्भावस्य वैकल्पिकत्वप्रदर्शनार्थं येषामिति बहुवचननिर्देश इति भावः । एवंच ब्रह्मणः सका- शादस्य जगतो जन्मादि आविर्भावतिरोभावादिप्रकारा भवन्तीति ज्ञेयम् । तथाच-"सो , , श्रीमंदाथर्वणनारायणोपनिषद्भाष्यम्- नतूपादानमपीति शङ्कापनुत्तये “तत्तु समन्वयात्” इतितृतीयमाह । सूत्रार्थस्तु- तच्छास्त्रप्रसिद्धं ब्रह्मैव समवायिकारणम्, तत्र हेतुः समन्वयादिति । सम्यग- नुवृत्तत्वात् । अस्तिभातिप्रियत्वेन सच्चिदानन्दरूपेणान्वयादिति । नानि धारयन्" इत्यादिश्रुत्या जगतो जन्मादिप्रकाराणां तत्तद्रूपेण जगद्रूपेण च भगवानेव क्रीडतीति पुष्टिसृष्टिप्रकारो बोधितः । प्रवाहसृष्टिप्रकारो मर्यादासृष्टिप्रकारश्च पक्षान्तरद्वयेनाभ्यु- पगन्तव्यौ । एतेनान्येषां भाष्यकाराणां पक्षो निरस्तो ज्ञेयः । यत्तु जन्माद्यधिकरणोक्तं न ब्रह्मणः स्वरूपलक्षणं, कार्यलक्षणं वा तस्य ताटस्थ्यात् । तथा च यो हि धर्मो राज्ञश्छत्रचामरादिकमिवासाधारणः सन्नेव कदाचिद्धर्मिणा सम्बध्यते स तटस्थलक्षणमित्युच्यते । मायिकस्य जगजन्मादिकारणत्वस्यानृततया परमार्थतो निर्धर्मस्वरू- पेण विरोधानुपपत्तेः। आरोपितेन रजतेन शुक्तेरिवारोपितेन जगत्कारणत्वेन ब्रह्मणो लक्ष्यत्व- सम्भवाच ब्रह्मणा लक्षणं भवत्येवेत्याह कश्चित् , तन्न युक्तम् ; कारणत्वस्य ब्रह्मगतत्वेन तटस्थ- लक्षणासम्भवात् । जगत्कारणत्वस्यारोपितत्वे तु एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाभङ्गप्रसङ्गाच्च । उपाधिपक्षस्तु शतधा दूषितः पूर्वाचारित्यलमप्रकृतविचारणेति । : तत्तु समन्वयादिति । तद्ब्रह्म समवायिकारणं अस्तिभातिप्रियत्वेन सच्चिदानन्द- रूपेणान्वयात् । नामरूपयोः कार्यरूपत्वाच । ननु अस्त्यादिसमन्वयस्य न ब्रह्मसमवायिता- गमकत्वम् । यथाहुः साङ्ख्याः-"प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्यो- न्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः" इति गुणानां स्वरूपं वृत्तीश्वोक्त्वा “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरुवरणकमेव तमः प्रदीपवचार्थतो वृत्तिः" इति । एतदर्थस्तु-सत्त्वादयो गुणाः सुखदुःखमोहस्वरूपाः प्रकाशप्रवृत्तिनिग्रहफलका यथाक्रम बोध्याः । ते पुनरन्योन्याभिभवनान्योन्याधारत्वान्योन्यजननान्योन्यमिथुनक्रियावृत्तयः खत एव सन्तो यथा वर्तितैले अग्निविरोधीनी सहाग्निना रूपप्रकाशनं कार्य कुरुतः, यथा वा वात- पित्तकफा दोषाः परस्परविरुद्धा अपि शरीरधारणलक्षणं कार्यं कुर्वन्ति, तथैते परस्परविरुद्धा अप्यनुवर्तन्ते, कार्य च कुर्वन्ति । तथा चानुमानप्रयोगः-महादादिकार्य सुखदुःखमोह- गुणकद्रव्यजन्यं कार्यत्वे सति सुखदुःखमोहगुणकद्रव्यत्वात् , एकैव रूपयौवनशीलवती भर्तृसपत्नीपुरुषान्तराणां सुखदुःखमोहदेतिवत् । नच सुखादीनामान्तरत्वेनानुभवात् रूल्यादीनां सुखादिगुणकत्वे मानाभावः शक्यः । स्त्रीचन्दनादिजन्यस्य सुखस्य तत्तदवयवेषु बहिरेवानु- सवेन तजनकेषु ख्यादिष्वपि तस्य बहिरेव सत्तानिश्चयात् । न च तस्यानुभवस्य भ्रान्तत्वं किरणावल्या समेतम् । विमताः सुखादयो न साक्षादात्मधर्माः, बाह्यत्वे सति आत्मनि प्रतीयमानत्वात् गौरत्वादिवत् । इति । तथा, ख्यादयः सुखादिगुणकाः सुखादिजनकत्वात् । यद्यजनकं तत्तद्गुणकम् , प्रकाशशै- त्यादिजनकवह्निचन्दनादिवदिति च । एवं सिद्धे तेषां तद्गुणकत्वे तेषां द्रव्याणां तद्गुणात्मकत्वम- प्यनुमेयम् । तथाच प्रयोगः-विमताः सुखाद्यात्मकाः, सुखाद्यविनाभूतत्वात् । तन्मात्रावि- नाभूतमहाभूतवत् । तथा, सुखादयो द्रव्यसूक्ष्मावस्थारूपाः, तदविनाभूतत्वे सति तजनक- त्वात् , महाभूताविनाभूततज्जनकतन्मात्रवदिति । न चाद्यक्षणे द्रव्यं यावद्गुणशून्यमेवोत्पद्यते इति वाच्यम् , प्रत्यक्षबाधितत्वात् । अपाकजस्य रूपादेरुत्पत्तिदशायामप्यनुभवात् । एवं सुखा- दावपि बोद्धव्यम् । पुत्राद्युत्पत्तिकाल एव पुरुषभेदेन सुखाद्युत्पत्तिदर्शनात् , तस्य बालादेस्त- दानीमपि तज्जनकतया तद्गुणकत्वत्तदविनाभावयोनिश्चयादिति । एवं मैत्रायणीये "तमो वा इदमेकमेवाग्र आसीत् तत्परे स्यात् तत्परेणेरितं विषमत्वं प्रयाती"ति। श्वेताश्वतरेऽपि “प्रधान- क्षेत्रज्ञपतिर्गुणेश इति तमःशब्दवाच्यायाः प्रकृतेर्गुणानां च सृष्टयादौ सत्ता श्रावणात् पुराणेषु मन्वादिषु तथा स्मरणात् सिद्धे प्रकृतेः सत्त्वे सर्वस्य त्रिगुणत्वेन गुणमय्याः प्रकृतेरेव समन्व- यस्य सिद्धत्वान्न ब्रह्मणः समवायित्वसिद्धिः, इति चेत् ? अत्रोच्यते-प्रकृतेरपि स्वमते तदंश- त्वात् । “आसीज्ज्ञानमयो ह्यर्थ एकमेवाविकल्पितम् । यदा विवेका निपुणा आदौ कृतयुगे युगे। तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद्वृहत् । तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते" इत्यायेकादशस्कन्धीयभगवद्वाक्यैस्तस्या अंशत्वे जन्यत्वे च निश्चिते तद्रूपस्याप्यागन्तुकत्वेन तदन्वयस्यापि समन्वयत्वाभावान्न तेन ब्रह्मणः समवायित्वभङ्ग इति ध्येयम् । ननु भवत्वेवं, तथापि तदन्वयस्य साङ्ख्यैः साधितत्वात् तेनैव रूपेण ब्रह्मान्वयोऽस्तु किम- स्त्यादिरूपान्वयाग्रहेणेति चेत् , श्रूयताम् ; प्राकृती या प्रीतिः साऽऽज्ञानिकी, नतु वास्तवी । . तत्र गमकम् देशतः कालतश्च परिच्छेदः। यथा कस्यचित्किञ्चित्प्रियं किञ्चिन्न । तदपि कदाचित्प्रियं कदाचिन्न । तथा सति तस्या औपाधिकत्वम् । मैत्रेयीब्राह्मणे तथैव सिद्ध- त्वात् । वास्तवस्य नैसर्गिकतायां वस्तुसद्भावे ज्ञानेन तद्बाधायोगाच्च । अतो वास्तवं प्रियत्व- मात्मन्येवेत्यात्मन एव दर्शनादिकमावश्यकमिति बाधयित्वा "इदं सर्वं यदयमात्मा" इत्य- नेन सर्वस्यात्माभिन्नत्वं श्रावयति । तथा तैत्तिरीये—“आनन्दं ब्रह्मणो विद्वान्" इत्युपक्रम्य, "एत ह वा व न तपति किमह साधुनाकरवं किमहं पापमकरवमिति स य एवं विद्वाने- तेन आत्मनः स्पृणुते' इत्यात्मत्वानुसन्धानेन तत्कृततापाभावे च श्रावयति । अत एवमा- - श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- ननु नैतत्सारम् । सम्यगनुवृत्तत्वं नामारोपितागन्तुकत्वाभावेन पदार्थ- जातं लक्षीकृत्य वर्तमानत्वम् । यथा पटादौ तन्तोर्घटादौ मृदश्च समन्वयः। प्रपञ्चे ब्रह्मणस्तादृशः समन्वयो न सम्भवतीति चेत्, मैवम् ; तत्तत्पदार्थेषु प्रेक्षकप्रत्ययविषयेणास्तित्वादिनाऽवगम्यमानत्वेन सदादिनाऽन्वयात् । यश्च येनान्वितस्तदीयामेव प्रतीति खस्मिन्नाधत्ते । यथाहि-घटः पृथिवीति । तथेहापि निखिलमस्तीत्यादिप्रतीतिजनकत्वात्सदाद्यन्वितमेव । ? " "एकोऽहं बहुस्याम्" इत्यादिषु तस्वैच्छिकत्वश्रावणात् । ननु घटपटादिषु सच्चिदानन्दात्म- कांशत्रितयस्यानुपलम्भात्कथं तत्समन्वय इति चेत्, न; जडजीवान्तर्यामिकैकांशप्राकट्यात् । ननु कारणत्वमेवास्तु ब्रह्मणः किं पुनः समवायिकारणत्वेन? तथा सति तस्य विकृतत्वं स्यात् । तच्च नेष्टम् । अत्रोच्यते-श्रीमदाचार्यपादैरविकृतपरिणामवादस्यैव स्वीकारात् न कश्चिदपि दोषः । नापि परिणामित्वेऽद्वैतसिद्धान्तभङ्गप्रसङ्ग इति वाच्यम् । हाटकस्य कटक- त्वादिना भेदेप्यभिन्नत्वात् "कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा" इति भास्करोक्तेः । ननु परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थितिर्न सम्भवति-यथाहर्वाचस्पतिमिश्राः-"का पुनरयं भेदो नाम, यः सहाभेदेनैकत्र भवेत् । परस्पराभाव इति चेत् , किमयं कार्यकारणयोः कटकहाटकयोरस्ति न वा । न चेत्, एकत्वमेवास्ति न च भेदः । अस्ति चेद्भेद एव ना- भेदः । न च भावाभावयोरविरोधः, सहावस्थानासम्भवात् । सम्भवे वा कटकवर्धमानकयो- रपि तत्त्वेनाभेदप्रसङ्गः, भेदस्याभेदविरोधात् । अपि च कटकस्य हाटकादभेदे यथा हाट- कात्मना कटकमुकुटकुण्डलादयो न भिद्यन्ते, एवं कटकात्मनाऽपि न भिधेरन् ; कटकस्य हाट- कादभेदात् । तथाच हाटकमेव वस्तुसन्न कटकादयः; भेदस्याप्रतिभासनात् । अथ हाटकत्वे- नैवाभेदो न कटकत्वेन, तेन तु भेद एव कुण्डलादेः । यदि हाटकादभिन्नः कटकः, कथ- मयं कुण्डलादिषु नानुवर्तते ? नानुवर्तते चेत्कथं हाटकादभिन्नः कटकः ? ये हि यस्मि- ननुवर्तमाने व्यावर्तन्ते ते ततो भिन्ना एव, यथा सूत्रात्कुसुमभेदाः । नानुवर्तते चानुवर्त- मानेऽपि हाटकत्वे कुण्डलादयः, तस्मात्तेऽपि हाटकाद्भिन्ना एवेति । सत्तानुवृत्त्या च सर्वव- स्त्वनुगमे इदमिह नेदम् , इदमस्मान्नेदम् इदमिदानी नेदम् , इदमेवं नेदमिति विभागो न स्यात् । कस्यचित्वचित्कदाचित्कथञ्चिद्विवेकहेतोरभावात् । अपिच दूरात्कनकमित्यवगते न तस्य कुण्डलादयो विशेषा जिज्ञास्येरन् । कनकादभेदात्तेषाम् , तस्य च ज्ञातत्वात् । अथ भेदेऽपि अस्ति कनकात्कुण्डलादीनामिति कनकावगमेऽप्यज्ञातास्ते । नन्वभेदोप्यस्तीति किं " किरणावल्या समेतम् । भिद्यते, यथा करभे गृह्यमाणेऽगृह्यमाणो रासमः करमात् । गृह्यमाणे च दूरतो हेग्नि न गृह्यन्ते तस्य भेदाः कुण्डलादयः, तस्मात्ते हेग्नो भिद्यन्ते । कथं तर्हि हेमकुण्डलमिति सामानाधिकरण्यम् ? इति चेत्, नद्याधाराधेयभावे समानाश्रयत्वे वा सामानाधिरण्य- मित्युक्तम् । अथानुवृत्तिव्यावृत्तिव्यवस्था च हेम्नि ज्ञाते कुण्डलादिजिज्ञासा च कथम् न खल्वभेद ऐकान्तिकेऽनैकान्तिके चैतदुभयमुपपद्यते इत्युक्तम् । तस्माद्भेदाभेदयोरन्य- तरस्मिन्नवहेयेऽभेदोपादानैव भेदकल्पना, न भेदोपादानाऽभेदकल्पनेति युक्तम् । मिद्यमान- तत्रत्वाद्भेदस्य, भिद्यमानानां च प्रत्येकमेकत्वात् , एकाभावे चानाश्रयस्य भेदस्यायोगात्, एकस्य च भेदानधीनत्वात् , नायमयमिति च भेदग्रहस्य प्रतियोगिग्रहसापेक्षत्वात् , एकत्वग्रहस्य चान्यानपेक्षत्वात् , अभेदोपादानैवानिर्वचनीयभेदकल्पनेति साम्प्रतम् । तथाच श्रुतिः–'मृत्तिकेत्येव सत्यम्' इति । तस्मात् कूटस्थनित्यतैव पारमार्थिकी न परिणा- मिनित्यतेति सिद्धम्" इति । अत्रेदमवधेयम्-नायं परस्पराभावः । अवयवावयविनोरिवोपादानकारणस्य कार्यस्य च भेदाभावात् । अन्यथा घट इत्युक्ते मृदो पृथक् भानं स्यात् । 'मृदभिन्नोऽयं घटः' इति ज्ञानमेव तस्य मृदुपादानत्वं बोधयति, घटः पटो नेतिवत् परस्पराभावबुद्धिरुपादानत्व- बोधासमर्पिकेति दिक् । अन्योन्याभावोऽपि तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः । सचात्र न सम्भवति कार्यकारणयोस्तादात्म्यात् । नच “नचैकत्वमेवास्ति नच भेदः, अस्ति- चेद्भेद एव नाभावः" इति वाच्यम् कार्याव्यवहितप्राक्क्षणे मृदूपणावस्थानाद्भेदः, कार्या- वस्थायामभेद इति भेदाभेदरहस्यस्य भवद्भिरज्ञातत्वात् । ननु"भावाभावयो विरोधः, सहाव- स्थानासम्भवात्” इति चेत्, न युक्तम् ; मृद्घटो नास्ति, किन्तु घटस्तु मृदभिन्न एवेत्य- परोक्षं चक्षुष्मताम् । नच तथा सति कटकवर्धमानकयोरपि तत्त्वेनाभेदप्रसङ्ग इति वाच्यम् । तयोः कार्यकारणभावाभावात् । नच कार्याव्यवहितप्राक्क्षणे घटाभावस्य मृदि सत्त्वात् घटस्य च मृदूपत्वात् मृदभिन्नो घटाभावः कारणं घटं प्रति; तेन कार्यकारणयोरभेदस्वीकारे घटानुपलब्धिरेव स्यान्न घटोपलब्धिः । सत्यामपि तस्यां शुक्तौ रजताभासवदामासरूपतैव नतु वास्तविकः कश्चिद्धटपदार्थः इति वाच्यम्, तथात्वे शङ्काकृतां भवतामेव प्रथमं तावच्छून्य- वादप्रवेशः । अस्मन्मते तु न कश्चिद्विरोधः, अभावानां तिरोभावेन्तर्भावात् । इदं च पण्डि- तपुरन्दरैः श्रीमत्पुरुषोत्तमैराविर्भावतिरोभाववादे निपुणं प्रपञ्चितमिति नेह तन्यते । प्रेक्षा- वद्भिस्ततोऽवधेयम् । वस्तुतः सत्यपि तत्त्वेनाभेदे न सिद्धान्तभङ्गप्रसङ्गः शुद्धाद्वैतब्रह्मज्ञाने सर्वस्यापि ब्रह्मरूपत्वात् । “तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्युपक्रम्य एकविज्ञानेन सर्व- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- स्परविरोधेऽपि भावाभावनिषेधयोः । समुच्चयस्य दृष्टत्वादिष्टोत्रापि तथा न किम्" इत्युक्त- मेव तत्कृतसर्वसङ्ग्रहे । अथ कोऽयमन्योन्याभावः? (१) अनादिरनन्तोऽभावः, (२) प्रतियोगिनिष्ठो यथोक्तोऽभावः, (३) तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावः, (४) अन्योन्यप्रतियोगिकः अभावो वा ? (१) नाद्यः, अत्यन्ताभावेन निर्वाहात् । नच प्रति- योगिनिष्ठतदनिष्ठत्वाभ्यां तयोः वैधर्म्यसिद्धिः । प्रतियोगिनिष्ठत्वस्य भावत्वे अत्यन्ताभाव- निष्ठत्वाश्रयणात् ; अभावनिष्ठत्वेऽपि न अभावनिष्ठत्वं सिद्ध्यति । प्रतियोग्यनिष्ठत्वमपि तनिष्ठात्यन्ताभावात् , अन्यत्वं चेत् अन्योन्याभावस्याभिमतं, कथं तर्हि प्रतियोगिनिष्ठात्यन्ता- भावान्योन्याभाववत्त्वेनान्योन्याभावोक्तौ घटाश्रयत्वम् । प्रतियोग्यनिष्ठत्वं नाम प्रतियोगिनि- ष्ठात्यन्ताभाववत्त्वम् , इति चेत् , मैवं; तस्यैवाद्याप्यसिद्धत्वात् । (२) न द्वितीयः, प्रति- योगिनिष्ठत्वस्याभावे प्रयुक्तत्वात् , अनाद्यनन्तत्वेऽभावत्वानुपपत्तेः अदर्शितत्वात् । अत्यन्ता- भावश्च निःस्वभावश्चेत्, नः सप्रतियोगित्वं शशविषाणादिवद्युक्तम् । स स्वभावश्चेत्, न प्रागभावादिवैधर्म्यम् । अनाद्यनन्तत्वं ततो वैधयं, इति चेत् , न; तन्मतस्य बहुशः खण्डि- तत्वात् । (३) नापि तृतीयः, तथात्वे तादात्म्यं प्रमितं न वा ? प्रमितं चेत्, न प्रतिषेढुं शक्यं प्रमितिविरोधात् । नच घटपटयोस्तादात्म्यं प्रमितं-अन्यत्र प्रतिषेध्यम् , अप्राप्तेः अन्यत्र प्रतिषेधायोगात् । घटपटयोश्च तादात्म्यस्य प्रमितत्वादेवाप्रतिषेधे न तयोः साङ्कय वार्येत; तथा चोदकाहरणार्थी पटमपि घटमिवाददीत, शीतापनयनार्थी च घटमपि पटमिवोपाददीत । एवं तत्र प्रमितस्य तादात्म्यस्य प्रमितिविरोधादेवाप्रतिषेधे प्रवृत्तिसाङ्कय दुरिमापद्येत । यदि पुनरन्योन्याभावप्रतियोगिभूतं तादात्म्यं प्रतिहीयते तर्हि प्राप्त्यभावान्न तत्प्रतिषेधो युज्येत । अप्राप्तप्रतिषेधे च निवारकाभावान्निरङ्कुशो निषेधः स्यात् । घटपठयोस्तादात्म्यं भ्रान्तिप्राप्तं-अयं-अयं न भवति-इति निषेध्य- मिति चेत्, न भ्रान्तिपूर्वकत्वात् घटपटतादात्म्यस्य कापि प्रामाणिकत्वप्रसङ्गात् । एतेन तुरीयमपि अन्योन्यप्रतियोगिकोऽभावोऽन्योन्याभावः-इति प्रत्यूढं, अन्योन्यशब्दस्य अता- दात्म्यविषये प्रागुक्तदोषानतिक्रमणात् , घटपटविषयत्वे च तत्वखनिषेधस्सासिद्धत्वात् , घटे पटेत्वं पटे च घटत्वं-घटः पटोनेति निषेध्यं-इति चेत्, न; घटे पटत्वस्य पटे च घटत्वस्यः प्रसङ्गाभावादेव · प्रतिषेधायोगात् । नहि घटादौ पटत्वादिप्रसक्तमस्ति; तन्निषेधे च तादाम्यनिषेधातिरिक्तसंसर्गनिषेधाभ्युपगमः स्यात् । तथा च सर्वस्य संसर्गनिषेधत्वादवान्तर- विभागकथा वृथा प्रसज्येतेतिदिक् । अत एव पण्डितपुरन्दराः श्रीपुरुषोत्तमचरणाः "तत्तु सम- ध्वयात्" इत्यधिकरणस्थभाष्यप्रकाशे "भेदाभेदयो नात्वैकत्वरूपतया भेदस्यान्योन्याभावरूप, ।

किरणावल्या समेतम् । १४५ कतानियामकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकात्यन्ताभावरूपत्वेचात्यन्ताभाव एव । तादा- त्म्यसम्बन्धावच्छिन्नप्रतियोगिताकामावरूपत्वे तु अतिरिक्तः। तत्रातिरिक्तपक्षे घटः पटो नेत्या- दिप्रत्ययस्य तादात्म्यसम्बन्धारोपपूर्वकतदभावावगाहितया प्रतियोगितिरोभावसङ्कीर्णानुयोगि- स्वरूपविषयत्वात्स्वरूप एव निविशते । यदि च तत्र घटप्रतियोगिकान्योन्याभाववान् पट इति बोध आपद्यते तदा पृथक्त्व एव निविशते । तच्चाविर्भावविशेष एव तस्यै- वेतरव्यावर्तकत्वादितरव्यावृत्तत्त्वाच । अयमस्माद्भिन्नः अन्यः पृथगित्यादिव्यवहारसाधक- त्वेन तस्याविर्भावातिरेके मानाभावात् । घटः पटोनेत्यत्र पञ्चम्यभावस्त्वनुशासनाभावा- स्वरूपात्मकत्वाद्वेति न तेनाप्यतिरेकसिद्धिः । नचेतरतिरोभाव घटायाविर्भाव इति वाच्यम् , तस्य व्याप्यवृत्तित्वे घटाप्रतीतिप्रसङ्गात् , अव्याप्यवृत्तित्वे तस्यापि तिरोभा- वान्तरं कल्पनीयमिति कल्पनातौल्यात् । अतो भावमुखप्रतीतेः "आविर्भावतिरोभावौ शक्तीवैमुरवैरिणः” इतिवाक्याचाविर्भावाभ्युपगमस्यावश्यकत्वान्नागताप्रेक्ये कांस्यवदविवक्तौ विवक्षितवस्त्वाविर्भावतदितरतिरोभावावेव पृथक्त्वं, तस्य भावप्रतीत्याऽऽधिक्याचाविर्भाव- विशेषत्वं, तेन पृथक्त्वग्राहकसामग्र्यैव तद्ब्रहः” इति । एवंच परस्पराभावासिद्धौ व्यर्थ एवायं प्रयासः पूर्वपक्षकृताम् । तथापि तुष्यतु दुर्जन इति न्यायेन घटतदत्यन्ताभावयोध- टंत दयोश्च भूतले सहावस्थानं दृश्यते तेन भेदस्य तदभावेनाभेदेन सह न विरोधः । अत्यन्ताभावस्य नित्यव्यापकत्वेन सर्वत्र सत्वात् प्रतियोग्यानयनोत्तरं तदभावबुद्धिप्रतिबन्ध- मात्रपरम् । एवं सति यत्र भेदस्तत्राप्यभेदो वर्तत एवेति तयोः सहासम्भवाद्विरो- धकथनस्यापि तथात्वम् । एवं सम्भवे वेत्यादिना कटकवर्धमानकयोरभेदप्रसङ्गस्यापि तथा- त्वम् । अविरोधस्यैक्यापादकतायाः क्वाप्यदृष्टत्वात् । यदपि कटकस्य हाटकादित्यादिना कटकादीनां हाटकाद्धेदव्युत्पादनं तदपि तथा । तेषां तदवस्थारूपत्वात् । अवस्थानां चाव- स्थावतः सकाशाद्भिन्नाभिन्नत्वात् । षट्पद्यां श्रीमच्छङ्कराचार्या अपि "सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः” इत्यनेन समु- द्रतरङ्गयोस्तथात्वमाहुः। अथ "हाटकादभिन्नः कटकः कथमयं कुण्डलादिषु नानुवर्तते” इत्यत्र विद्यमानेपि कुण्डलादिना भेदे हाटकत्वेनाभेदस्तु प्रतीयते तदा न प्रतीतिविरोधः, प्रमाणत्वेना- धिगमात् । प्रमिते च तस्मिन् दूरात्कनकमित्यादिनोक्तानां विकल्पानामनवसरपराहतत्वातदिति, "प्रतीयते चेदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोधे प्रमाणं कारणं मतम् । एकरूपं प्रती- तत्वात् द्विरूपं तत्तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम्" इत्यादिना भास्करैरप्युक्तम् , व्युत्पादितं च । अपि च कार्यकारणयोः समानजातीयत्वनियमः न तु समानधर्मत्वनियमः। ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- जनकत्वयोरुपपत्तेर्मेदस्यागन्तुकत्वमेव नवनिर्वचनीयत्वम् । नच श्रुतिविरोधः । उक्तश्रुतौ परिणामिनो मृदादीनेव दृष्टान्तीकृत्य “एव सौम्य स आदेशो भवति" इति दार्टान्तिकेऽ- तिदेशेन परिणामिनित्यताया एव श्रुत्यभिप्रेतत्वात् । न चात्र कारणे सत्यत्वस्य कार्ये वाचा- रम्भत्वस्यचोक्तत्वेन कार्यमिथ्यात्वसिद्धौ कूटस्थनित्यत्वमेव सेत्स्यतीति वाच्यम् । घटः पट इत्यादिवाचारम्भणरूपस्य श्रुत्सनभिप्रेतत्वात् । यदि कार्यरूपस्यापि वाङ्मात्रतामभिप्रेयाद् , वाचारम्भणं नामधेयमिति पदद्वयं न ब्रूयात् ; एकेनैव चारितार्थ्यात् । तदेतत्सर्वं “तदन- न्यत्वमारम्भणशब्दादिभ्यः' इत्यत्र सम्यग्विचारितम् । विशेषजिज्ञासुभिस्ततोऽवगन्तव्यम् । (१) तत्र तावच्छङ्कराचार्याः-तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः । पूर्वपक्षस्तु-आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति सूत्रप्रतिपादितः सकलस्य वेदस्य क्रियापरत्वमेवेत्येवंरूपः । तत् ब्रह्मणः शास्त्रप्रमाणकत्वम् , समन्वयात्-सर्वेषु वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि तस्मादित्याहुः । (२) रामानुजा अपि-प्रसक्ताशङ्कानिवृत्त्यर्थं तु शब्दः । आशङ्का च सिद्धरूपं ब्रह्म शास्त्रं न प्रतिपादति प्रवृत्तिनिवृत्तिपरत्वाभावादित्येवंरूपा । तत् ब्रह्मणः शास्त्रप्रमाणकत्वं सम्भवत्येव । कुतः, समन्वयात् परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयान्वयात् । (३) भास्करास्तु-तु शब्दः पूर्वपक्षं व्यावर्तयति । ब्रह्मस्वरूपं शास्त्रमवबोधयति न केवलं कार्यमेव । कुतः, समन्वयात् । समन्वितानि हि ब्रह्मस्वरूपप्रतिपादनपरत्वेन सृष्टिप्रक- रणगतानि वाक्यानि । (४) निम्बार्काचार्याः- तजिज्ञास्यं विश्वकारणं शास्त्रप्रमाणकं ब्रह्मैव, न कर्मादि । तत्रैव प्रतिपादकतया कृत्स्नस्यापि वेदस्य समन्वयान्मुख्यवृत्त्याऽन्वय इत्याहुः । (५) मध्वाचार्याः-अन्वय उपपत्त्यादिलिङ्गम् , उक्तञ्च बृहत्संहितायाम्-"उपक्रमो- पसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये" इति । उपक्रमादि- तात्पर्यलिङ्गैः सम्यनिरूप्यमाणे तदेव शास्त्रगम्यम् , “मां विधत्तेऽभिधत्ते मां विकल्पापोह्यते ह्यहम् । इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन" इति भागवत इत्याहुः । (६) भैक्षवस्तु-तत् पदं व्यवहितपरामर्शार्थम् , तु शब्दः पूर्वपक्षप्रतिषेधार्थः । तद्- ह्मणो जगजन्मादिकारणत्वं तु समन्वयात् , अस्य जगतः कारणरूपे ब्रह्मणि समनुगतत्वात्, ब्रह्मणश्च कारणरूपेण जगति समनुगतत्वादुपपद्यत इति शेषः इत्याहुः । (७) शैवाः-तच्छब्देन प्रकृतं ब्रह्म परामृश्यते । तु शब्देन सर्वाणि वेदान्तवाक्यानि समाह्रियन्ते । समन्वयपदं सम्बन्धतात्पर्यकम् । तद्ब्रह्म वेदान्तवाक्यानि तात्पर्यलिङ्गसम्बन्धा- , किरणावल्या समेतम् । स्यादेतत् । समवायित्वं ब्रह्मण अस्त्यादिसमन्वयेनैव साध्यते तन्नैकान्तिकं सिध्यति रूपनानोरपि समन्वयस्य दृष्टत्वात् । तयोः प्रतिव्यक्तिगत्वेन नाना- त्वान्नान्वय इत्यपि न वाच्यम् । नियतरूपेणान्वयेऽपि तयोरवच्छेदावच्छेदेना- न्वयखानुभवविषयत्वात्। न हि खरूपव्यभिचारापत्तिः, व्यवहार्यत्वपरकत्वात् । आकाशेऽप्यवकाशरूपेण तत्त्वस्य वर्तमानत्वादिति चेत्, न; तयोः कार्यरूप- त्वात् । श्रुतौ "त्रयं वा इदं नाम स्वरूपं कर्म" इत्यत्र जगतस्त्रयात्मकत्वेनो- पदिष्टत्वात् । युज्यते चैतत्, कार्यताव्यञ्जकत्वं तयोरेव कार्यस्य "अनेन ये च समन्वयशब्दस्यार्थः सम्बन्धत्वेन व्याख्याय तुशब्देन वेदान्तवाक्यान्तमपि क्रियापरत्वमिति पूर्वपक्षं निवारयन्ति तन्न रुचिरम् । “शास्त्रयोनित्वात्" इत्यनेनैव तन्निरासात् । शास्त्रे योनिः शास्त्रयोनिः तस्य भावस्तस्मात् इत्यर्थस्वीकारे शास्त्रोक्तकारणत्वं तु सिद्धमेव । शास्त्रोक्तकारणत्वेनैव "आम्नायस्य क्रियार्थत्वादानर्थक्यमतदानामि"ति जैमि- नीयतत्रोक्तसर्वस्यापि वेदस्य क्रियापरत्वं तु व्यासैनिराकृतमेव, न पुनः पूर्वपक्षावकाशोऽव- शिष्यते । शास्त्रं योनिर्यस्येति विग्रहे शास्त्रस्य ब्रह्मकारणत्वापत्तिः । नहि शास्त्रं ब्रह्मणः कार- णम् । किन्तु तच ब्रह्मणः कार्यमेव, निःश्वासरूपत्वात् । किञ्चैवमर्थस्वीकारेऽरुच्याऽपि निमित्तकारणत्वमेवायाति न पुनः समवायिकारणत्वम् । प्रकृते तु जगज्जन्मादेरभिन्ननिमित्तो- पादानं कारणं ब्रह्मैवेति प्रतिपाद्यो विषयः । न केवलं निमित्तत्वम् । अतः सुधीभिर्विचार- णीयं कतरः समासः साधुतामाप्नोतीति । पूर्वाचार्यैः सुविस्तृतोऽयं विषयो विवेचित इति नेह तन्यते। पूर्वपक्षमाहुः-रूपेत्यादिना । तयो रूपनम्नोः । कार्यरूपत्वादिति । "नामरूपे व्याकरवाणि" इति श्रुतेः । जगतस्त्रयात्मकत्वेनेति । त्रयं वेति श्रुतिबृहदारण्यके प्रथमाध्याये षष्ठब्राह्मणे दृश्यते । इदं पुरोदृश्यमानं जगत् त्रयं वै त्र्यात्मकमेव । किं तत्रय- मित्याह-नाम रूपं कर्मेति । तत्र प्रमाणमाह-"तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति । अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ये तदेषां सामैतद्धि सर्वै रूपैः सममेतदेषां ब्रह्म तद्धि सर्वाणि रूपाणि बिभर्ति । अथ कर्मणामात्मेत्ये- तदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषां सामैतद्धि सर्वैः कर्मभिः सममेतदेषां ब्रह्मै- तद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्रयं सदेकमयमात्माऽऽत्मो एकः सन्नेतत्रयं तदेतद- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- जीवनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुत्या जगतः कार्य- दृष्टिगोचरत्वस्य रूपेषु नाम्नां नियतिकृतावेव व्यक्तत्वात् । यदा हि पृथुबुनो- दराकारो भवति, तदा तत्र तादृशं रूपं घट इति भवति, तदापि न खतः किन्तु व्याकरणश्रुतेखत्कारणोत्तरमेव । यथाहि बालके जाते तदवयवाना- लोक्य निश्चितव्यक्तौ नामनियमनं भवति तद्वत् । अतो मूलवस्तूत्तरकाली- नस्य कर्मणोऽपि कार्यत्व एव प्रवेश इत्यागन्तुकत्वान्न तत्समन्वयः । किन्तु त्रयाणामन्वयमात्रत्वेन सर्वत्र ब्रह्मणश्च सम्यगन्वयान तत्समवायित्ववाधकं किञ्चित्पश्यामः। नन्वेतदप्यापातरम्यमेव । अस्तित्वस खप्नदृष्टविषयेऽप्युपलम्भात्तत्रापि सदन्वयेन खानिकपदार्थानामपि ब्रह्मकर्तृकत्वसिद्धौ जगत्साम्येन स्वप्नस्यापि सत्यत्वापातः । स च विशेषदर्शनपराहतत्वेन न वक्तुं शक्यः । अतो न ब्रह्म- कर्तृकत्वं तस्य । एवं ब्रह्मकार्यभिन्नेऽपि सदन्वयसत्त्वेन सदन्वयान्न ब्रह्मणः समवायित्वमिति सिद्धान्त इति चेत् , अत्रैतज्ज्ञेयम्-नह्यन्वयमात्रत्वस्य सम- वायित्वं वयं ब्रूमः, किन्तु समन्वयस्यैव । स त्वागन्तुकत्वारोपितत्वाभावेन सदाद्यन्वय एव । मिथ्याप्रतीत्यङ्गीकारे तु, सत्ताप्यारोपितैव । तदन्वयस्याप्या- रोपितत्वेन न तस्य ब्रह्मकार्यत्वबोधक्षमत्वम् । तत्र सम्यगन्वयाभावस्यापि प्रकटत्वेन ब्रह्मणः समवायित्वेऽप्यविरोध एव । अतो नामरूपकर्मणः सुख- दुःखमोहानां चागन्तुकत्वेन परमाण्वादीनामसाधारणत्वात्कालादीनां तथात्वे विप्रतिपन्नतयालौकिकालीकप्रतीतौ सत्त्वस्यारोपितत्वेन तेषामन्वयस्यासम्य- क्तया प्रकटानां वास्तविकानां सच्चिदानन्दानामेव समन्वयाब्रह्मण एव समवायित्वं नान्यस्येति वेदान्तसिद्धान्तः। मात्मा" इत्यंशेन स्फुटीभवति । स चात्मा 'उ' निश्चयेन “एकः" कार्यकारणयोरैक्यात् । "एकः सन्" एकोऽप्येतत्रयं भवति । तदेतमृतं सत्येन छन्नं सम्वृतम् । तच्चामृतं प्राण आसन्यः। सत्यं च नामरूपे । नामरूपाभ्यामयं कर्मोपादानकारणरूपः प्राणः (आसन्यः) छन्नः सम्वृतः । अनेन जगतस्त्रयात्मकत्वं त्रयाणां च ब्रह्मणः कार्यरूपत्वम् । नचात्र सच्च त्यच किरणावल्या समेतम् । एवं त्रिसूत्र्या ब्रह्मणोऽभिन्ननिमित्तोपादानकारणत्वं सुनिरूप्य मायाप्रकृत्या- देर्जडस्यैव तद्भवतु नतु चैतन्यस्येति शङ्कानिवारणाय ईक्षतेनाशब्दम्" इति सूत्रेणेक्षणपदवाच्यविचारविशिष्टस्य चैतन्यस्यैव कर्तृत्वं नान्यस्येति निरूपयति । न हीक्षणादयो धर्मा मायादौ सम्भवति जडत्वात् । नन्विदमत्र विचार्यम् , वेदे हि ब्रह्मणः कर्तृत्वमकर्तृत्वं चोभयमप्युच्यते, तत्र, “यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसम्विशन्ति” “स् आत्मा- न स्वयमकुरुत" इत्यादि श्रुतयः कर्तृत्वं निगमयन्ति । तत्र यतो वेत्यादिषु निमित्तत्वं, स आत्मानमित्यादिषुपादानत्वम् , “निष्कलं निष्क्रिय शान्तं निर- वद्यं निरजनम्" "असङ्गो ह्ययं पुरुषः” इत्यादिष्वकर्तृत्वं च । तत्र कर्तृत्व- विरुद्धं निष्क्रियत्वं शान्तत्वं च, उपादानत्वविरुद्धं निष्कलत्वं निरवद्यत्वं च, असङ्गो ह्ययमित्यत्र संसर्गस्यासक्तेश्च निरासो बोध्यते। तेन ब्रह्मणि क्रियाभावो विकारित्वाभावश्च स्फुटीभवति । एवमत्र परस्परविरुद्धप्रमाणसम्प्रतिपत्तावु- भयथा समाधेयम् । तत्र ब्रह्मणः सर्वभवनसमर्थत्वाविरुद्धसर्वधर्माणामाश्रय. त्वात्कर्तृत्वादिकं सर्वमपि सम्भवतीयेकः प्रकारः। द्वितीयस्तु-अन्यतरवा. धात् । तत्राक्रियत्वाद्यलौकिकापेक्षया कर्तृत्वादीनां लौकिकानां हीनत्वात्तद्वा- धेनेति । ईक्षत्यादिकं तु प्रकृतिसम्बन्धादपि सम्भविष्यति । अतोऽलौकिक- कर्तृत्वसर्वभवनसमर्थत्वादिकल्पनापेक्षया लौकिकस्य कर्तृत्वस्यैव बाधः क- तव्यः । एवं च कृते परब्रह्मणः सत्यखरूपाद्भिन्नमेव कर्तृत्वादिविशिष्टं गौणं मायाशवलं ब्रह्म सेत्स्यतीति चेत्; अत्र ब्रूमः। ब्रह्मणः सत्यस्वरूपाद्भिन्नमेव कर्तृत्वादिविशिष्टं गौणं माया- शबलं ब्रह्मेति शङ्कापिशाचीनिवृत्तये व्यासोऽग्रिमं सूत्रं सूत्रितवान् “गौणश्चे- नात्मशब्दादिति" वेदे हि "आत्मा वा इदमेक एवाग्र आसीत्" इत्युपक्रमा, ब्रह्मण एवाभिन्ननिमित्तोपादानत्वं साधयन्ति-एवं त्रिसूत्र्येत्यारभ्य वेदसम्मतो मार्ग इत्यन्तेन । ईक्षते शब्दमिति । ब्रह्मणो वेदान्ताद्यात्मकशब्दप्रतिपाद्यत्वेऽपि ईक्षतिधातु- निर्देशाद्ब्रह्मैवाभिन्ननिमित्तोपादानम् । “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्युपक्रम्य "तदैक्षत बहु स्यां प्रजायेय” इति, “तत्तेजोऽसृजत", "आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किञ्चन मिषत् स ऐक्षत लोकान्नु सृजै' स "ईक्षाञ्चक्रे” “स प्राणमसृत" इत्येव- मातिष समिताक्येष बहाण ईथा पतीयते । न चान ब्रह्मणो गौणत्वं होत्यते प्रकतिगणस- श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- नन्तरं “स ऐक्षत" इति पठ्यते । अत्राऽऽत्मशब्दस्य वेदान्ते निर्गुणब्रह्मवाच्य- लेनैव प्रसिद्धत्वात्तस्यैव कर्तृत्वादिकं श्रुतिर्वदति । सगुणस्य शबलस्य वा तथा- वाङ्गीकारे तस्य प्राकृतगुणानधीनत्वस्य मायानधीनत्वस्य चाभावात्स्वात- व्यरहितत्वेन कर्तृत्वासम्भवात् । कर्तुश्च सर्वत्र खतत्रत्वेनैवोपदिष्टत्वेन तद्वि- रोधाच्च । वातन्त्र्यस्य कारकमात्रव्यापार प्रति खीकारेऽपि यत्कर्तृलक्षणतया खातन्त्र्यस्य कीर्तनं तत्कारकान्तरनियामकतयैव । अतो गुणानां मायाया योपादानवे या कारणत्वे वाऽवश्यं कर्तृनियम्यतैव युक्ता, न तु प्रयोजकता। तथा सति तेषामेव तस्या वा सृष्टयादिकार्ये खातन्त्र्येण ब्रह्मनियामकतया . सगुणस्य शबलस्य वा खातन्त्र्याभावेन कर्तृत्वस्यासिद्धेः। अत एव वेदे, आत्मशब्दप्रयोगेण निर्गुणब्रह्मण एव कर्तृत्वं साध्यते नान्यस्येति न विप्रति- पत्तिः काचित् । नन्वेवमात्मशब्दसाधितं निर्गुणस्य ब्रह्मणः कर्तृत्वमप्यापातरमणीयमेव । कथम् ? इत्थम् , ममायमात्मा देवदत्त इत्युपचाराधथा लोके कथ्यते; एवं "आत्मा वा इदमेक एवाग्र आसीत्" इति श्रुतावपि गौणे कर्तृत्वादिविशिष्टे ब्रह्मण्युपचारप्रयुक्तात्मशब्दप्रयोगस्य सम्भाव्यत्वादिति चेत् । अत्रेदमवधेयम्, न पत्रात्मशब्दो गौणे सम्भवितुमर्हति, वैयासन्यायविरोधात् । तथा च सूत्रम्-"तनिष्ठस्य मोक्षोपदेशात्” इति । अत्र पूर्वोक्तात्मशब्दवाच्ये जगत्क- तृत्वादिगुणगणालङ्कृते ब्रह्मणि निष्ठावतो मोक्षप्राप्तिर्व्यक्तमुच्यते । तदेव च "असद्वा इदमन आसीत्" "ततो वै सदजायत" "तदात्मान खयमकुरुत" इत्युपक्रम्य “यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दतेऽथ. सोऽभयं गतो भवति" इत्यादिश्रुतिभिर्दढीक्रियते । बादराय- णोऽपि "हेयत्वावचनाच" इति तृतीयं हेतुमुपदिश्य कर्तृत्वादिविशिष्टत्रमणः शवलत्वं गौणत्वं वा यदि वेदाभिप्रेतं स्यात्तदा जीवानां नैर्गुण्यसम्प्रतिपत्तये मायानिवृत्तये मोक्षलाभाय च तस्योपास्यत्वं न वदेद्भगवान्निगमः। यदि चानु- पास्यत्वं तस्याभिप्रेतं भवेत्तदा पुत्रादिसर्वप्राकृतपदार्थानां मोक्षमार्गनिष्ठजीव- विषये यथा हेयत्वं निरूप्यते तथा तस्यापि तथात्वमेवोपदिशेत् । उपास्यत्वे- नोपदिष्टत्वाद्धेयत्वावचनाच कर्तृत्वादिविशिष्ट एवोपास्य इति प्रतिपाद्य तदेव N किरणांवल्या समेतम् । ब्रह्मा नारायणः। शिवश्च नारायणः। रुद्रश्च नारायणः। प्रजा- पतिश्च नारायणः। शक्रश्च नारायणः । कालश्च नारायणः। प्रकृतमनुसरामः-एवं कर्तृत्वादिविशिष्टस्य नारायणस्य नित्यत्वं समाख्याय तदंशत्वात्सर्वेषां तद्विभूतिरूपत्वं तद्रूपत्वेन नित्यत्वं ब्रह्मा नारायण इत्यारभ्य शक्रश्च नारायण इत्यन्तेन ब्रह्मशिवरुद्रप्रजापतीन्द्राणां तथात्वमुपदिश्य का- लस्य तद्रूपत्वं निगमयति-कालश्च नारायण इति । कालो हि भगवचेष्टा- रूपः "योऽयं कालस्तस्य तेऽव्यक्तवन्धो चेष्टामाहुश्चेष्टते येन विश्वम्" "प्रकृ- तेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्युपल- क्षितः।” "प्रकृतिर्यस्योपादानमाधारः पुरुषः परः । सतोऽभिव्यजकः कालो ब्रह्मतत्रितयं त्वहम्" "कालोऽस्मि लोकक्षयकृत्प्रवृद्धः" इत्यादिशास्त्रवचोभिर्भ- गवतश्चेष्टारूपत्वेन प्रतिपादनात्कालाख्यमेकं चेष्टारूपं भगवतः खरूपमेव । ननु, नैतच्छोभनम् , “आत्मा वा इदमेक एवाग्र आसीत्" इति श्रुतावात्म- ब्रह्मरुद्रादीनां तदंशत्वं तदभिन्नत्वं च प्रतिपादयन्ति तदंशत्वादिति । कालस्यापि नारायणाभिन्नत्वं प्रतिपादयन्त आहुः-कालस्येति । तलक्षणमाहुः- कालो हीति । तत्र प्रमाणमाहुः-योऽयमिति । चेष्टतेऽतीतानागतवर्तमानतया । प्रकृतेरिति । गुणानां साम्यं प्रकृतिः, प्रकृतेर्गुणानां सत्त्वादीनां गुणक्षोभात्पूर्वं निर्वि- शेषस्य साम्यस्य या चेष्टा स कालः । कालादेव गुणक्षोभात् । स कालो भगवानेव । कालस्य भगवदभिन्नत्वं कुतः? इत्यत आह भगवान् कपिलः उपलक्षित इति । कलयत्याकल- यति येन सर्वोऽपि प्राणी येन रूपेणेति भावः । अतः भगवानेव कालः। नहि काल इति साक्षात् भगवन्नाम, किन्तु प्राणिनां बोधनरूपत्वादेव । अत्र प्रमाणमाहुः-प्रकृतिरिति । एकादशे चतुर्विंशाध्याये प्रकृत्याधेयकपुरुषाधारकः सतः प्रमेयस्याभिव्यञ्जकः काल इत्यर्थः । अत्र कालस्य ब्रह्मपदेनाक्षररूपतोक्ता । “वाङ्मनोगोचरं सत्यं द्विधा समभवबृहत्" इत्युपक- मात् । न तु तदुत्पत्तिः। प्रकृतेरुपादानत्वमुक्त्वा सदभिव्यञ्जकमात्रमुक्तम् , तेन निमित्त- रूपतया कारणत्वम् । यथा सोऽभिव्यनक्ति पदार्थान् तथा स एव संहरति चेत्याहुः- कालोऽस्मीति । “अन्तःपुरुषरूपेण कालरूपेण यो बहिः। समन्वेत्येष सत्त्वेन भगवाना- ममायया” तथा “वीर्याणि तस्याखिलदेहभाजामन्तर्बहिः पूरुषकालरूपैः । प्रयच्छतो मृत्यु- , १५२ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- पदेन ब्रह्मणः, अग्रपदेन च कालस्यैवमुभयोमिन्नपदाभ्यां वर्तमानत्वस्य निर्दिष्ट- त्वात्कालस्य नारायणखरूपत्वमसम्भवदुक्तिकम् । नचात्रैवकारोऽन्ययोगव्य- वच्छेदक इति वाच्यम् , श्रुतावापदेनैव कालप्रात्या तस्यान्ययोगव्यवच्छेदक- वाभावात् । एवं सृष्टेः पूर्वमेकपदार्थाङ्गीकारे ततस्तस्यैव सर्वरूपभवनत्वाङ्गी- कारे चाग्रपदविरोधः। ब्रमकालयोरुभयोरङ्गीकारे शुद्धाद्वैतभङ्गप्रसङ्गश्चेत्युभ- यतः पाशारज्जुरिति चेत्, अत्रेदं तत्त्वम् , श्रुतिरियं कालादिसर्वसृष्टयपेक्षया पूर्वमुदन्तं निरूपयति, तत्रैवकारेण ब्रह्मव्यतिरिक्तसर्वव्यवच्छेदे भिन्नविधप्रमा- णस्यापि व्यवच्छिन्नत्वेन तस्याप्यभावादग्रपदे प्रमाणान्तरसिद्धकालानुवादक- तया वक्तुमशक्यत्वेनैतस्यैव वाक्यस्य कालसत्ताबोधकत्वे चात्मासीत्कालोप्या- सीदित्येवं पाक्यभेदप्रसङ्गेन कालसत्ताया अशक्यवचनत्वे केवलस्यात्मनोऽपि निरूपणमशक्यमिति वाक्यस्याबोधकत्वे प्रसक्ते सृष्टयुत्तरव्यवहारानुसारेण सर्वाधारतया प्रतीयमानो यः कालस्तदुपरजनेन पूर्व वृत्तान्तं निरूपयतीति ज्ञापनायैवाग्रपदोपादानमिति सर्व चतुरस्रम् । स त्रिविधः । आधिभौतिकादिभेदात् । तत्र सूर्यादीनां भौतिकत्वम् , पर- मावादिद्विपरार्धान्तस्याध्यात्मिकत्वम् । भगवतश्चाधिदैविकत्वमिति । अत्र प्रस्थानरत्नाकरे पण्डितपुरन्दराः श्रीमत्पुरुषोत्तमचरणा:-तत्र, अन्त:- सच्चिदानन्दो व्यवहारे ईषत्सत्त्वांशेन प्रकटः काल इति कालस्य खरूपलक्षणम् , अतीन्द्रियत्वेन कार्यानुमेयत्वेन चेषत्सस्त्वांशेन प्रकटत्वमाकाशादेरप्यस्तीति तद्वारणाय, अन्तःसचिदानन्द इति । अक्षरवारणाय द्वितीयम् । इदं च "कालो- ऽस्मि लोकक्षयकृत्" "कालेनाव्यक्तमूर्तिना” इतिवाक्यानुरोधि नित्यगत्वे सति सकलाश्रयः सकलोद्भवो वा काल इति कार्यानुसारिलक्षणम् । तत्राद्येऽक्ष- रवारणाय द्वितीय ईश्वरेच्छादिवारणाय सत्यन्तम् , प्राणादिवारणाय द्वितीयम् , श्रुतावनस्तमितत्ववोधनेन तस्यापि नित्यगत्वात् । एतेनैव चिरक्षिप्रादिव्यव- हारस्यातीतानागतादिव्यवहारस्य चोपपत्तिः। “गुणव्यतिकराकारो निर्विशे- षोऽप्रतिष्ठितः । पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत्” इति वाक्यानुसारि चेदं लक्षणम् । एतस्य प्रथमकार्य गुणक्षोभः । “कालागुणव्यतिकरः” इति पूर्वपक्षमुपक्षिपन्ति नन्विति । समादधति-अत्रेदं तत्त्वमिति । तस्य त्रैविध्यं किरणावल्या समेतम् । १५३ वाक्यात् । एतस्य सूर्यादय आधिभौतिक रूपम् , परमाण्वादिद्विपरार्धान्त- माध्यात्मिकम् , आधिदैविकं “कालोऽस्मि" इतिवाक्याद्भगवानेव तत्र या- वता कालेन सूर्यरथचक्रं परमाणुमात्रं देशं व्याप्नोति स कालः परमाणुः, चतुर्मुखायुर्द्विपरार्धम् । परमाणुस्तु सदा संयोगावस्थां चाप्राप्तोऽतिसूक्ष्मः सदवयवः, तदुक्तम्-"चरमः सद्विशेषाणामनेकोऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः” इति । अतिसूक्ष्म इति विभाजकाघातास- हिष्णुः। संयोगावस्थामप्राप्त इति यत्रैकस्तिष्ठति तत्र बहवः पृथग्भूतास्ति- छन्ति "अणोरणीयान्" इत्यादिश्रुत्या भगवतोऽप्यतिसूक्ष्मत्वमुपपद्यत इति तद्वारणाय संयोगेत्यादि । ततः कार्योत्पत्तिवारणाय कार्येत्यादि । कदाचि- संयोगे तस्यां दशायां परमसूक्ष्मतानिवृत्तौ लक्ष्याभावादेव लक्षणस्यागमने- सम्भवः स्यादिति तद्वारणाय सदेति । सिद्धान्ते तु-स्थूलादेव प्रकृत्यादेः सकाशात्कार्यस्य महदादेरुत्पत्तिः कार- णत्वन्तु “जन्यभावत्वावच्छिन्नं प्रति कार्ययोग्यावयवस्थूलांशत्वेनानुगतम्"।न च सूक्ष्मरेव तन्तुप्रभृतिभिः पटादिजननदर्शनादयं नियमः प्रत्यक्षविरुद्ध इति वाच्यम् । तत्रापि स्थूलांशस्यैव कार्पासादेर्दीर्घावस्थायां प्राप्तस्याकृतिविशेष- सम्पादनार्थ खण्डशोऽवयवयोजने यः समुदायस्तस्यैवोपादानत्वमिति, ततः सूक्ष्मस्यैव पटादेरुत्पत्तेः। अन्यथा यत्रादुत्तारणे छेदस्तन्त्वादेर्न क्रियेत । यत्र तु प्रकारान्तरेण पटोत्तारणं तत्रापि समस्यैवोत्पत्तिर्न तु सूक्ष्मस्येत्यविरोधात्का- रणतानुगमकरूपालोपाच्च । कुण्डलप्रतिमादावपि मणिसुवर्णलाक्षादिसमुदाय- स्यैवोपादानत्वमित्यन्यत्रापि तथैवोयम् । एवं गर्भादावपि बीजरजःसमुदायस्यै- वोपादानता; कारणस्थूलता तु बहिस्तदंशदर्शनात्स्पष्टैव । एतेनाण्डजा अपि व्याख्याताः। खेदजा अपि स्थूलादेव खेदादुत्पद्यन्ते । उद्भिजास्तु प्रथमम- कुरन्तीति बीजात्सूक्ष्मा एव, अत एव यावन्नोप्यन्ते तावदङ्कुरभाव एव तिष्ठ- तीति युज्यते । उप्तानां वृद्धिस्त्वाहारन्यायेन बोध्या, यत्र पुनर्लोहदारुदन्त- निर्यासादिभिः पर्यायेणावयवयोजनं गृहादौ चेष्टकादिभिस्तत्रापि पटन्याय १५४ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- आदित्यश्च नारायणः। एव, अत एवास्यैकवोपादानमिति निश्चयः । अन्यथा कारणगुणानां कार्यगु- णारम्भकत्वात्कारणगतैकत्वैः प्रत्येकमेकत्वारम्भे कार्याऽनेकत्वप्रतीतिरनारम्भ तत्तद्गतैकत्वैरपेक्षाबुया बहुत्वमेव प्रतीयेत नत्वेकत्वम् , अत एकस्यैकमेवो- पादानमित्यवदातम् । किञ्च परमाणुकारणवादे कार्यस्य पाञ्चभौतिकत्वाजला- दयः संयुक्ता भवन्तीति तेऽपि ततः पृथग्भूताः परमाणुत्वमापोरन् । न चैव- मभ्युपगन्तुं शक्यम् , प्रत्यक्षविरोधात्, मृतकादौ तथाऽदर्शनात् । ननु पर- माणुभ्यः सृष्टयनङ्गीकारे तदभ्युपगमस्य किमावश्यकत्वमिति चेदुच्यते-देहेन सहात्मन ऐक्यभ्रमस्य तत्कार्यत्वेन तदङ्गीकारस्यावश्यकत्वाद्धर्माधर्मसंस्कृतै- तैरेव जीवदेहेन सहैक्यभ्रमात् । नन्वेवं सति पुजात्पुजोत्पत्तिपक्षापत्तिरिति चेत् , न; इष्टापत्तेः । “पीवेति राशौ न विदाम्प्रवादः” इत्यादिस्मृतौ शरीरे राशित्वकथनाद्धमार्थमेव तदङ्गीकारात् । बहिश्यमानस्त्ववयवी तेभ्योऽति- रिक्त एव सङ्घातरूपत्वात्सामुदायिकश्चायमतो न काप्यनुपपत्तिः। ननु स्थूला- सूक्ष्मोत्पत्त्यङ्गीकारे विभागादुत्पत्तिरङ्गीकृता भवति, तथा सति नाशः कस्मा- दङ्गीकार्य इति चेत्, संयोगादेवेति ब्रूमः । सत्कार्यवादिभिः प्रतिसञ्चरस्यैवा- ङ्गीकारात् । लोकप्रत्यक्षानुग्रहाय तु पाश्चात्यकार्याणामुभाभ्यां यथासम्भवं नाशोत्पत्ती। अत एव जलसंयोगेन वह्नः कपालविभागाच घटस्य नाशः, तत्क्षणाइन्तचषकादेस्तन्तुसंयोगाच पटस्योत्पत्तिरिति सङ्गच्छते । ननु परमा- णुभ्यः सृष्टयनङ्गीकारे स्थूलाचाङ्गीकारे मनसोऽपि सृष्टिन स्यात्तथा सति "ब्र- ह्मणो मानसाः पुत्राः" इत्यादिवाक्यविरोधापत्तिरिति चेत्, न तस्य परमा- गुपरिमाणत्वेऽपि परमाणुत्वाभावात् । अन्यथा परमाणूनां पञ्चविधत्वापत्तेः, भौतिकत्वे सति नित्यो गतिमान् परमाणुरिति वैशेषिकलक्षणं तु बाधितमेव । सर्गादौ भूतासिया भौतिकत्वस्थाशक्यवचनत्वात् । न च भूतत्वे सतीत्येवं विशेषणीयमिति वाच्यम् ; तथात्वेऽपि नित्यत्वस्याशक्यवचनाच्छ्रुत्या स्मृवे- बांधादिति दिक। एवं परमाणुदेशेन कालपरमाणौ ज्ञाते ततः पुराणायुक्त- रीत्या द्विपरार्धावधिराध्यात्मिको ज्ञेयः । इति कालो निरूपित इत्याहुः । एवं कालमुक्त्वा तस्यादित्यगतिमेयत्वेन सूर्यमण्डलान्तस्थोऽपि स एवेत्यु- किरणावल्या समेतम् । १५५ दिशश्च नारायणः । ऊर्ध्वं च नारायणः । अधश्च नारायणः । अन्तर्बहिश्च नारायणः। नारायण एवेद सर्वम् , पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णः", "ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासन सन्निविष्टः । केयूरवान्म- करकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्रः", “य आदित्ये तिष्ठ- नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यम- यत्येष स आत्मान्तर्याम्यमृतः" इति छान्दोग्याग्निपुराणबृहदारण्यकीयान्त- मिब्राह्मणवचनैर्निरूपित परब्रह्मखरूपो नारायण एव । न च शरीरादिक- थनात्कश्चित्ताशो जीव एव भविष्यतीति शक्यम् । तत्र जडजीवाभ्यामन्त- यामिणो भेदेनैव प्रतिपादनात् । भगवतः स्वरूपस्याप्राकृताकारत्वात् । विशे- षपरिज्ञानायान्तस्तद्धर्मोपदेशाधिकरणभाष्यं तत्प्रकाशश्च द्रष्टव्यौ । दिगादीनामाह-दिशश्चेत्यादिना । निखिलप्रपञ्चस्य नारायणात्मकत्वं निगमय्य सर्वस्य तद्रूपत्वात्तस्य व्यापकत्वमाह-अन्तर्बहिश्च नारायण इति । "अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः", "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यत्रारूढानि मायया", "अहमात्मा गुडाकेश सर्वभूताशयस्थितः", "देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः" इत्यादिमहानारायणोपनिषदीताभागवतवचनस्तस्यैव सर्वत्र व्यापकत्वस्य स्फु- टत्वात् । एतावता तस्यैव सर्वकर्तृत्वसर्वरूपत्वसर्वव्यापकत्वनिरूपणेनासत्कार्यवाद 'निरस्य पुनरपि मन्दमध्यमानामर्थे स्थूणानिखननन्यायेन तमेव सिद्धान्तं दृढ- यितुं पुरुषसूक्तोक्तप्रकारेण सत्कार्यवादमुपदिशति-नारायण एवेदं सर्वमि- ति । इदं सर्व पुरोदृश्यमानमखिलं यादृशं दृश्यते तादृशं नारायण एव परं ब्रह्म तत्तद्रूपतयाऽऽविर्भूतमिति ब्रह्मविदाम्प्रतीतिः। अन्यथा प्रतीतिस्त्वविदुषाम् । न हि तया पदार्थास्तादृशा भवन्ति, सकामलानामामयापगमे इव । यतः "सर्वं खल्विदं ब्रह्म" इति श्रुतिरेव तथा निरूपयति । अत्र “इदमस्तु सन्नि- कृष्टे समीपवर्ति" इति वाक्यादिदं शब्दस्य प्रत्यक्षवाचकत्वेन श्रुतावपीदमि- , a श्रीमदाथर्वणनारायणोपनिषद्भाव्यम्- यद्भूतं यच्च भाव्यम् । यम् । अत्रैवकारोऽप्यन्यप्रकारकत्वव्यवच्छेदकः । भूतभविष्ययोराह-यद्भूतं यच्च भाव्यमिति । यच्चाने सजातं, यच भवति, भविष्यति च तत्सर्वं नारा- यणरूपमेवेति ब्रह्मवादः “पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्" इति मन्त्र- वर्णात् । भागवते तु "इदं हि विश्वं भगवानिवेतरो यस्मिञ्जगत्स्थाननिरोधस- म्भवाः" इत्यत्र जगत्पश्यतामधिकारिणां त्रैविध्यमुदितम् । तत्र ये "इदं विश्वं भगवान्' इति पश्यन्ति त एवोत्तमाधिकारिणः, ये च 'इदं भग- वानिव' इति पश्यन्ति ते मध्यमाधिकारिणः, ये च पुनः 'इदं विश्वं भगवा- नितरः' इति पश्यन्ति ते हीनाधिकारिणः । अत उत्तमाधिकारिणां भगव- दूपत्वेनैव विश्वप्रतीतिरित्यवधेयम् । कर्तृत्वादिधर्मविशिष्टस्य लोके विकारि- त्वस्य तल्लिसत्वादिविशिष्टस्य च प्रतीयमानत्वेन परब्रह्मणोऽकर्तृत्वमेव वरमिति शङ्कापकं क्षालयितुं ब्रह्मणः कर्तृत्वादेरणाकृतत्वेन लोकन्यायस्य तत्र प्रवेष्टुमश- इत्यर्थः । पुरुष एवेदमिति । यदिदं वर्तमानं जगत् तत्सर्वं पुरुष एव, यद्भूतमतीतकल्पादौ यज्जगद्यच भविष्यं कल्पान्तरेषु तदपि पुरुष एव । एवं च यथास्मिन्कल्पे वर्तमाना सर्वेऽपि पदार्थी भगवदंशरूपास्तथैव पूर्वमासन् कल्पान्तरेष्वपि भविष्यन्ति चेति ज्ञेयम् । इदं हीति । प्रथमस्कन्धे पञ्चमाध्याये “इदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाः” । इति । “विश्वमनूध भगवत्त्वं विधीयते, तथा सति सर्वत्र भगवदृष्टिश्चेत्कृतार्थो भवतीति कार्य भगवत्त्वेन निरूपितम् "सर्वं खल्विदं ब्रह्म तज्जलान्” इति श्रुतिः 'हि'शब्देन सूचिता । उत्तममध्यमाधमाधिकारिभेदेन त्रेधात्र निरूपणं कर्तव्यम् । तत्रोत्तमे निरूपितम् । मध्यमे त्वे- वम्-इदं विश्वं भगवानिव, न तु भगवान् । तेनात्र सन्मननादिकं कर्तव्यं नाऽऽस- क्तिरिति । निकृष्टे तु-इदं विश्वम् भगवानितरः अस्मादन्यः । अतः प्रपञ्चदर्शी बहिर्मुखो भ्रष्टो भवतीति । एवं प्रकारत्रयेण निरूपणीयम् । नन्वेकस्य जगतः कथं त्रिरूप- त्वम् ? तत्राह-यतो जगत्स्थाननिरोधसम्भवा इति । तत्र जगतः स्थितिर्भवत्येवेति भगवानेव जगतीति स्वाधारत्वाद्भगवतः, भगवानेव जगत् । मध्यमे तु भगवतः सकाशाजगदुद्भवः । तेन कार्यकारणयोस्तादात्म्यात्कार्यात्मना भेदः कारणात्मनाऽभेद इति "भेदसहिष्णुरभेदस्तादात्म्यम्” इति वचनाजगद्भगवानिवेति । मूढे तु भगवतः किरणावल्या समेतम् । १५७ अथ निष्कलो, निष्कलङ्को, निरञ्जनो, क्यत्वाद्ब्रह्मणश्च सर्वविरुद्धधर्माश्रयत्वेन श्रुतिशतैरुपदिष्टत्वाच्च, तस्य कर्तृत्वादि- विशिष्टत्वेऽप्यविकारित्वं निर्लेपत्वादिकं च सदावर्तमानमेवेत्युपदेष्टुं तस्याप्रा- कृतगुणान्निगमयति-निष्कल इति । लौकिककलाकलापरहितः, अप्राकृते निर्गुणे ब्रह्मणि कलादीनामप्यप्राकृतत्वात् । प्राकृतत्वे ब्रह्मणोऽपि प्राकृतत्वा- पत्तेः । सर्वथा कलादिराहित्ये चानेकश्रुतिबाधः प्रसज्यते । कथम् ? इत्थम्- "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इत्यत्र कलायाः, “आ- सीनो दूरं व्रजति शयानो याति सर्वतः” 'न तस्य कार्य कारणं च विद्यते, न तत्समश्चाभ्यधिकश्च दृश्यते, परास्य शक्तिर्विविधैव श्रूयते खाभाविकी ज्ञान- बलक्रिया च” इत्यादौ क्रियायाः, "अविनाशी वाऽरे अयमात्मा अनुच्छित्ति- धर्मा" इत्यत्र गुणस्य च स्पष्टमुक्तत्वात् । निर्लेपत्वे द्वितीयं हेतुं लक्षयति- निरञ्जन इति । मायानभिभूतः । तस्यास्तच्छक्तित्वात् । माया हि भगवतः शक्तिः, सर्वभवनसामर्थ्यरूपा "तस्मान्मायामेतां शक्तिं विद्याद्य एतां शक्तिं वेद स पाप्मानं तरति स मृत्यु तरति स संसार तरति सोऽमृतत्वङ्गच्छति महतीं श्रियमश्नुते” इति नृसिंहपूर्वतापिन्युपनिषच्छ्रुतेः। श्रुत्यर्थस्तु-तस्मा- दिति पूर्वोक्तकारणात् , मायाम्-"मायया च निषेवितम्" इत्यादिभागवत- वाक्येन मुख्यद्वादशशक्तिमध्यगणिताम् , एतां भगवदीयां शक्तिम् “परास्य शक्तिर्विविधैव श्रूयते” इति श्रुत्यानन्तविधशक्तिविशिष्टस्य भगवतः सर्वभवन- सामर्थ्यरूपां शक्तिम् , विद्याजानीयात् । यो भक्तः, एतां भगवदीयां मायां शक्तिं भगवतः सर्वभवनसामर्थ्यरूपां वेद जानाति स भक्तः पाप्मानं तत्कृत- मोहाभावेनाद्यम् , तरति-उत्तीर्णो भवति । मायायाः शक्तित्वज्ञापनेन पाप- तरणरूपमेकं फलमुक्त्वा द्वितीयं प्रथयति-स मृत्युं तरतीति । "मृत्युर- त्यन्तविस्मृतिः” इति भागवतवाक्यनिरूपितात्यन्तखरूपविस्मारकं मृत्यु तरति । पाप्मतरणानन्तरं स्वरूपविस्मरणस्थानवकाशात् । एवं द्वितीयमुक्त्वा तृतीयमाह-स.संसारं तरतीति । यो हि मायां भगवच्छक्तित्वेन जानाति, : १५८ श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- निर्विकल्पो, निराख्यातः, शुद्धो, देव, यः पूर्वोक्तफलत्रयविशिष्टो भक्तः सोऽमृतत्वं मोक्षाख्यं फलं गच्छति मुक्तिं प्राप्नोति । एवं मुक्तिपर्यन्तं फलचतुष्टयं प्रतिपाद्य भगवतः "मुक्तोपसुप्यव्यप- देशात्" इति वैयासन्यायेन मुक्तैरेवोपसृप्यत्वेन भजनानन्दानुभवार्थ भगवत्कृ- पयाऽलौकिकतनुप्राप्त्यनन्तरं महाराजोपचारादिना भगवतः सेवनाय सेवौप- यिक्याः श्रियः प्राप्तिं निगमयति-महतीं श्रियमश्नुत इति । महती सेवी- पयिकी लक्ष्मी प्राप्नोति इति श्रुत्यर्थः । निर्विकल्प इति । विकल्परहितः “यः सर्वज्ञः सर्ववित्" इति श्रुत्या तस्य स्वभावसर्वज्ञत्वात् । निष्कलङ्को निर- अनो निर्विकल्प इति त्रयं श्रीमत्पुरुषोत्तमचरणानां पण्डितकरभिन्दिपाले न दृश्यते । निराख्यात इति । वाचामगोचरः “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन" इति श्रुत्या तस्य प्राकृतेन्द्रियाग्राह्यत्वात् । न च “अदृश्योऽग्राह्यः” इत्यादिवचनात्तस्य सर्वथा- ऽग्राह्यत्वे "मनसैवानु द्रष्टव्यम्" इति श्रुतौ मनसा "इत्थं गजेन्द्रमुपवर्णित- निर्विशेषं ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिला- स्मकत्वात्तत्राखिलामरमयो हरिराविरासीत्” इति भागवते च स्तुतिरूपवाचा ग्राह्यत्वस्य व्यक्तमुक्तत्वेन तद्विरोधापत्तेः । निर्दोषत्वं निगमयति-शुद्ध इति । मलविक्षेपाज्ञानादिसर्वदोषरहितः "सन्मात्रो नित्यः शुद्धो बुद्धो निरअनः" "शुद्धोऽबाध्यस्वरूपः", "निर्दोषपूर्णगुणविग्रह आत्मतत्रो निश्चेतनात्मकशरी- रगुणैश्च हीनः । आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च त्रिविधभेदविवर्जि- तात्मा” इत्यादिश्रुतिपञ्चरात्रप्रमाणैस्तस्य स्वभावनिर्दुष्टत्वात् । य एतादृशः स एव देव इति निगमयितुं तस्य देवत्वं निरूपयति-देव इति । "दिवो दा- नाद्वा दीपनाद्वा घुस्थानो वा भवतीति देवः” इति प्राह निरुक्तकारः । अथवा देवो दशविधलीलाविशिष्टः, सर्वभक्तोद्धारैकप्रयत्नवत्त्वात् । दशविधलीलाविशि- टत्वं “सोऽश्नुते तु सर्वान्कामान्सह ब्रह्मणा विपश्चिता" इतिश्रुत्या भक्तानां काम- भोजनार्थ क्रीडाकरणात् , क्रीडायामेव जयेच्छाकरणात् , भक्तैः सह व्यवहारकर- णात् , भक्तेषु खमाहात्म्येच्छादिद्योतनात् , “न पारयेऽहं निरवद्यसंयुजां ख- किरणावल्या समेतम् । १५९ एको नारायणोऽस्ति न द्वितीयोऽस्ति कश्चन । य एवं वेद विष्णुरेव स भवति स विष्णुरेव भवति । खप्नेऽपि प्रियमेव पश्यन्तीति खप्नकरणाद्वा तन्निकटगमनाचेति श्रीमत्प्रभुच- रणा निरूपयाञ्चक्रुः। तादृशखतन्त्रक्रीडाशील एक एवेत्युपदिशति–एको नारायणोऽस्तीति । "न तत्समश्चाभ्यधिकश्च दृश्यते” इति श्रुत्या एकः समाधिकरहितो नारा- यणः “नारायणो वा इदमग्र आसीन ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमा स एकाकी नर एव" इति महोपनिषदुक्तमूलखरूपत्वात् । अन्यस्य तादृशत्वाभावख्यापनायाह-न द्वितीयोऽस्ति कश्चन इति । तद्भिन्नः कोऽप्यन्यस्तादृशो नास्ति, तस्य “एक- मेवाद्वितीयं ब्रह्म' इति श्रुत्याऽद्वितीयत्वात् "दिव्यो ह्यमूर्तः पुरुषः स बाह्या- भ्यन्तरो बजः, अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः” इति श्रुत्या परात्प- रत्वाच । पूर्वोक्तं निखिलधर्मविशिष्टं नारायणाख्यं परं ब्रह्मेति ज्ञानवतः फल- मुपदिशति य एवं वेदेति । यो भक्त एतादृशधर्मविशिष्टं नारायणं वेद जानाति । ज्ञानानन्तरं तस्य किं भवतीत्याह-स विष्णुरेव भवतीति । स तादृशज्ञानवान्भक्तो विष्णुरे "पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धवि- पर्ययो" इति ब्रह्मसूत्रेण भगवदिच्छया तिरोहितानन्दस्य पुनराविर्भावेन “अहं , पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्ययाविति । ब्रह्मसूत्रे तृतीयस्य द्वितीये पादे पञ्चमं सूत्रम् । तत्र जीवस्य भगवदंशत्वात्तत्रापि भगवदेश्वर्यैरपि भाव्यम् , तन्न सम्भवति, अत आह-पराभिध्यानादिति । भगवतोऽभिध्यानमभितो ध्यानं स्वस्यैतस्य च भोगेच्छा तस्माद्धेतोः, ऐश्वर्यादिकं तिरोहितं तेन च बन्धविपर्ययौ। तत्र, ऐश्वर्यतिरोभावात् दीनत्वम्-अन्यानुरञ्जनाभावात् । पराधीनत्वं च परोक्तकरणात् । वीर्यतिरोभावात्सर्वदुःख- सहनम् । इदं चानुभवसिद्धम् । यशस्तिरोभावात्सर्वहीनत्वम् । “यथा पुष्पस्य सम्पुष्पि- तस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति, यथाऽसिधारां कर्तेव हितामवक्रामयेधु- वेयुवे ह वा विह्वयिष्यामि कर्त पतिष्यामीत्येवममृतादात्मानं जुगुप्सेत्” अत्र कर्मगन्धो यशः, , , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- एतयजुर्वेदशिरोऽधीते । अमित्यग्रे व्याहरेत् , नम इति पश्चात् , नारायणायेत्युपरिष्टात् । अमित्येकाक्षरम् , नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि मनुरभवं सूर्यश्च” इति श्रुत्युक्तप्रकारेण व्यापनशीलो भवति "आनन्दांशाभि- व्यक्तौ तु तत्र ब्रह्माण्डकोटयः। प्रतीयेरन्परिच्छेदा व्यापकत्वं च तस्य तत्" इति श्रीमदाचार्यचरणोपदेशात् । तदेतद्यथा तथोपपादितं "शास्त्रदृष्ट्या तूपदेशो वामदेववत्" इति सूत्रभाष्ये प्रकाशे चेति विशेषजिज्ञासुभिस्ततोऽवधेयम् । बीप्सात्र नैर्गुण्यसम्पत्तिरूपफलदायख्यापनाय । एतावदुपनिषद्भागस्य यजुर्वे- दशिरोरूपत्वमाह-एतद्यजुरिति । नैर्गुण्यप्राप्त्यनन्तरं स्मर्तु जसू कीर्तयितुं सेवितुं च भगवतो नारायणस्य मन्त्रमुपासनश्चाह-ओमिति । ओङ्कारोचारणं प्राक् , ततो नम इत्युक्त्वा नारायणायेति सततमावर्तयेत् । अष्टाक्षराणि गणयति–ओमिति । अष्टा- क्षरस्य नारायणपदत्वं व्यनक्ति-एतदिति । न च नैर्गुण्यसम्पत्सिद्ध्यनन्तरं स्मरणाद्यर्थ मन्त्रस्य सेवनस्य च किम्प्रयोजनमिति शक्यम् “मुक्तोपसुप्यव्यप- देशात्” इति सूत्रेण मुक्तैरेव भगवतः सेव्यत्वेन सिद्धान्तितत्वेन भगवत्सेवा- याश्च "मधुविटुसेवानुरक्तमानसामभवोऽपि फल्गुः" भगवदीयत्वेनैव परिस- माप्तसर्वार्थाः” इत्यादिवाक्यैर्मुक्तेर्गरीयस्त्वेन तस्याः फलरूपत्वेन च व्यक्त- यस्कन्धे नवमाध्याये "युक्तं भगैः स्वैरितरत्र चाध्रुवैः ख एव धामन् रममाणमीश्वरम्" इत्यत्र सुबोधिन्यां "ऐश्वर्यादयः षड्गुणा मूर्तिमन्तो भगवन्तमावेष्टय तिष्ठन्ति । ते चैश्वर्यादयो भगवदेकनिष्ठा नान्यत्राऽऽविष्टा भवन्ति । इतरत्र पार्षदादिषु अध्रुवैः । चकाराद्राजादिष्वपि । एतावता भगवच्छब्दप्रयोगः सर्वत्र । तथापि ध्रुवा ऐश्वर्यादयो भगवत्येव" इत्युक्तम् । शास्त्रदृष्टयेति । तत्र कारण एव लय उक्तः। अतः पुनरपि तिरोहितानामैश्वर्याणां प्रादुर्भावः सम्भवति । यजुरितीति । "शेषे यजुःशब्दः" इति पूर्वतत्रीयन्यायेन "ऋक्सामभिन्नमत्रत्वं यजुष्टम्” इति तल्लक्षणम् । स्तोमाक्षरेष्वपि तत्त्वान्नातिव्याप्तिः। शेषपदेनक्सामभेदे बोधनीये तयोरनवत्तौ तदभयलक्षणानसन्धानाधीनमेतज्ज्ञानमिति प्रतिपत्तिगौरवम । स्वतन्त्रलक्षणे त किरणावल्या समेतम् । मन्त्रं, अनपब्रुवः , एतदै नारायणस्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षर पदमध्येत्यनपब्रुवः सर्वमायुरेति, मुक्तत्वात् । “नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः", "परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया। गृहीतचेता राजर्षे आख्यानं यदधीतवान्" इत्यादी निर्गुणगणगृहीतचेतस्त्वेन भगवतो निरूपणात् । तस्य सेवीपयोगिका प्राकृ- ततनुसम्पादकत्वस्याप्यने वक्ष्यमाणत्वाच्च । अतो निर्गुणा भगवत्स्मरणादौ खभावत एव प्रवर्तन्ते । ततो भगवत्कृपयाऽप्राकृततनुसिद्धिः। मनं लक्ष- यित्वा तदध्ययनफलं वक्तुमग्रिमं वदति-यो ह वै नारायणस्येति । यः पूर्वोक्तो निर्गुणो भक्तो नारायणस्य परब्रह्मणः अष्टाक्षरं पदम् अष्टाक्षरं कपटरहितः * सत्यवाक्, “सत्यं वद” इति श्रुतेः; अध्येति पठति स भक्तः परमायुरेति “भद्रं कर्णेभिः शृणुयाम देवाः, भद्रं पश्येमाक्षि- भिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः”, “तज्जन्म तानि कर्माणि तदायुस्तन्मनोवचः। नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वरः" इति श्रुतिभागवतप्रतिपादितं भगवत्सेवौपयिकमायुः प्राप्नोति, भगवदीयानां फल- विलम्बहेतुभूतस्य चिरजीवितत्वस्थानपेक्षणात् । इदं यथा तथोपपादितं मया गोपालपूर्वतापिनीभाष्ये पीयूषलयां च श्रुतिब्याख्यान एवेति ततोऽवगन्त- म्लेच्छित वै नापभाषित वै म्लेच्छो ह वा एष यदपशब्दः" इति श्रुतेर्वाग्योगविदध्येति पठति गुरूपसत्तिपूर्वकं स वक्ष्यमाणं फलं विन्दतीत्यर्थः । अध्येतीति पदेन सद्गुरुशरणगमन- पूर्वकत्वं योयते । यतः खल्वयमष्टाक्षरो मत्रः। गुरूपसत्तिरहितानां फलामावस्तु शास्त्रेषु प्रसिद्ध एव । विस्तरस्तु "उपदेशशङ्कानिरासवादे", "उपदेशमीमांसायां" च द्रष्टव्यः । सर्वमायुरेतीति । सर्व पूर्णम् । तत्र श्रुतिं प्रमाणयन्ति-भद्रमिति । देवहितम् , तृतीयासमासः। देवेन दशविधलीलाविशिष्टेन श्रीपूर्णपुरुषोत्तमेन । हितं स्थापितं तत्सेवोप- यिकम् । तच्चायुः “शतमिन्नु शरदो अन्ति देवा यत्रा नश्वका जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मानो मध्यारीरषतायुर्गन्तोः" इति मत्रोक्तमेव । तेनाल्पायुष्वनिरासेन दीर्घकालं भगवत्सेवामेवेच्छन्ति भक्ता इति ध्येयम् । “सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत ।

श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । व्यम् । द्वितीयं फलं विशिनष्टि-प्राजापत्यमिति । प्रजापतिर्ब्रह्मा तस्यैश्चर्य पारमेष्ट्यमैश्वर्यं प्राप्नोति । तृतीयं लक्षयति-रायस्पोषमिति । रायस्पोषं धनरक्षकत्वम् , नैर्गुण्यसिद्ध्यनन्तरं तत्कृपालब्धधनस्य तत्सेवेतरत्राविनियोजको भवति । महाराजोपचारादिषु तस्यापेक्ष्यत्वेन तदर्थमेव भगवता वितीर्णत्वात् , निर्गुणानां लौकिकभोगासम्भवाच । रायस्पोषमिति प्रयोगश्छान्दसः। यद्यपि "न पारमेष्ट्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसि- द्धीरपुनर्भवं वा मय्यर्पितात्मेच्छति मद्विनान्यत्", "सालोक्यसार्टिसामीप्यसा- रूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः", "मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लु- तम्" इत्याद्यनेकवचनैर्निर्गुणभक्तानां भगवत्स्वरूपेतरानपेक्षत्वेऽपि "हृतात्मा हृतप्राणाँश्व भक्तिरनिच्छतोऽपि गतिमण्वी प्रयुङ्क्ते” इत्यादिवाक्यैर्भक्तिखभा- वादेव प्राप्यते । परं न ते तत्र रमन्ते तदीयं तदर्थमेव नियुञ्जते । न चेदमु- पासनमपि कामनापरमिति शङ्यम् । प्रथमं भगवन्माहात्म्यज्ञानेन “स विष्णु- रेव भवति" इति श्रुत्यैव तस्य निर्गुणत्वमुपदिश्यावृत्त्या मुहुदृढीकृत्य च ततो निर्गुणजीवकर्तव्यत्वेनोपासनस्योपदिष्टत्वेनाशाप्राप्तसविषयकज्ञानरूपमनोवृत्ति- त्वलक्षणस्य तादृशजीवविषये सर्वथाऽसम्भाव्यत्वेनास्य भक्तिरूपत्वात् । न हि नामसाम्यमात्रेण काचित्क्षतिः । चतुर्थ फलं स्पष्टयति-गौपत्यमिति । गो- धनवान्भवति । तस्य भगवदुपयोगित्वात् । अथवा गाव इन्द्रियाणि तेषाम- धीशत्वं गोखामित्वं प्रानोति । तत्तु विषयानभिमुखत्वपूर्वकेन्द्रियाणां भगव- त्खरूपैकपरत्वसम्पादनसामर्थ्यवत्त्वम् । तत्प्रकारश्च यथा तथोपपादितो भाग- वतेऽम्बरीषप्रसङ्गे “स वै मनः कृष्णपदारविन्दयोर्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेमन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये । मुकुन्दलिङ्गालय- दर्शने दृशौ तद्धृत्यगात्रस्पर्शऽङ्गसङ्गम् । प्राणं च तत्पादसरोजसौरभे श्रीमत्तु- लस्यां रसना तदर्पिते । पादौ हरेः क्षेत्रपदानुसपणे शिरो हृषीकेशपदाभिव- न्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः” 4 किरणावल्या समेतम् । १६३ ततोपासनयाऽमृतत्वमश्नुते, ततोऽमृतत्वमश्नुत इति । एवं फलचतुष्टयं प्रतिपाद्य तैस्तैः पदार्थैर्भगवतो भजनं तत्फलं चोपपाद- यति-ततोपासनयेति । फलचतुष्टयलाभानन्तरमुपासनया भगवतः सेव- नया । फलमाह-अमृतत्वमश्नुत इति । मरणधर्मरहितं साक्षालीलोपयो- ग्यप्राकृतं देह व्याप्नोति । न चात्राप्राकृतदेहविषये मानाभावः शयः । श्रीम- द्भागवत एव “देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्” इत्यत्र देहेन्द्रियासु- हीनत्वप्रकटनेन लौकिकदेहाभावस्य स्फुटमुक्तत्वात् , वैकुण्ठपुरवासित्वख्याप- नेनाप्राकृतस्यापि तस्य साग्रहं प्रतिपादितत्वाच । न हि प्राणाद्यभावेन कथं देहस्यैव सम्भव इति वाच्यम् । अलौकिकस्य भगवच्चरणरेणुजत्वेन तस्मिन्प्रा- णादिरूपेण ब्रह्मण एव स्थितेस्तैत्तिरीयोपनिषदि सिद्धान्तितत्वात् । तथा हि- तत्र “आत्मत आविर्भावतिरोभावौं", "स आत्मानं खयमकुरुत" इत्यादिश्रु- त्युक्तात्मरूपसृष्टावन्नमयत्वादीनि विज्ञानमयान्तानि भगवतो विभूतिरूपाणि निरूप्यन्ते। अतस्तादृशभक्तदेहेऽन्नमयत्वादिचतुर्धाप्रकारेण प्रविश्याप्राकृतभक्तै- रानन्दमयः परमात्मा क्रीडतीति निगमनानालौकिकविग्रह कापि वाधप्र- सक्तिः । न चात्रान्नमयादारभ्यानन्दमयान्तानां जीवकोशत्वं विभावनीयम् । जीवकोशरूपाणामेतेभ्यः पार्थक्येन निरूपणात् । नत्विदं विसम्वादीव भा- तीति चेत्, शृणु, बृहन्नारायणोपनिषदि “अन्नमय आत्मा मे शुध्यन्ताम्" इत्यारभ्य “आनन्दमय आत्मा मे शुधन्ताम्" इत्यन्तं शोध्यत्वलिङ्गकानां पञ्चानामपि सर्वत्र “मे'इत्युक्त्वा प्रतिशरीरं भिन्नतयोपदिष्टत्वात् । इह तु सर्वत्रकस्यैव सर्वरूपत्वनिरूपणेन चतुर्णा विभूतिरूपत्वस्थानन्दमयस्य च पर- ब्रह्मत्वस्य बाधायोगाच । युक्तं चैतत् । अन्नमयानि विभूतिरूपाणि प्राप्य "एतमानन्दमयमात्मानमुपसङ्कामति" इति श्रुत्या जीव आनन्दमयो भूत्वा- ऽऽनन्दमयं ब्रह्म प्राप्नोति । अन्नमयादिप्राप्तेरपि “अस्माल्लोकात्त्य एतमन्न- मयमात्मानमुपसङ्कामति" इति श्रुती मर्त्यलोकातिक्रमणानन्तरमेव श्रावित- त्वेनैतेषां जीवकोशरूपत्वस्थासम्भाव्यत्वात् । श्रुत्यन्तरे च "अन्नात्प्राणा भवन्ति श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- एतत्सामवेदशिरोऽधीते। प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवखरूपं पश्यति । भूतानां, प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रमयोनिः, स वा एप पुरुषः, पञ्चधा पश्चात्मा येन सर्वमिदं प्रतिष्ठितम् । पृथिवी चान्तरिक्षं च चौथ दिशश्चावान्तरदिशश्च स वै सर्वमिदं जगत् सभूतं सभव्यम्" इत्यादिनाऽन्नादि- पञ्चविधस्सोक्तरीत्या पश्चात्मकस्य पुरुषस्य सर्वप्राप्तिसर्वात्मकत्वबोधनपूर्वक "ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान्" इत्यनेन तज्ज्ञा- नवतां मुक्तिनिरूपणेन जीवकोशानामेतेभ्यः पार्थक्यस्य सिद्धावेषां चतुर्णा च विभूतिरूपत्वे पञ्चमस्यानन्दमयस्य परमात्मत्वे बाधकानुपस्थित्या लीलास्थ- भक्तानामप्राकृतदेहविषये नावकाशः कस्यापि शक्षाकलङ्कानुगमस्येति दिक् । अत्र विशेषजिज्ञासुभिरानन्दमयाधिकरणं चिन्तनीयम् । एतावदुपनिषद्भागस्य सामवेदशिरोरूपत्वं निगमयति-एतदिति । अमृतत्वलाभानन्तरं यद्भवति तदुपदिशति----प्रत्यगानन्दमिति । अप्रा- कृतविग्रहविशिष्टदिव्यभक्तप्रत्यक्षानन्दमात्रकरपादमुखोदरादिखरूपम् । गौणं वा तद्भवेदिति शङ्कां परिहरति-ब्रह्मेति । सर्वाधिकत्वाद्ब्रह्म "एकमेवाद्वितीयं ब्रह्म” इति श्रुतिनिरुक्तं सजातीयादित्रिविधभेदशून्यम् । तस्य भक्तपापनाश- कत्वात्तत्त्वं व्याकरोति-पुरुषमिति । "सर्वान्पाप्मन औषत्तस्मात्पुरुषः" इति बृहदारण्यकीयपुरुषविधब्राह्मणोक्तखरूपम् । तस्य भक्तमनोरथपूरकत्वं व्यन- क्ति-प्रणवमिति । प्रकर्षेण नवः प्रणवस्तमिति व्युत्पत्त्या भक्तानां नित्यनू- तनमनोरथपूरणाय नित्यनवस्वरूपं "क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रम- णीयतायाः” इति वाक्यात् । तस्य साक्षात्कारमुपदिशति-पश्यतीति । पूर्व- निरूपितं दिव्यदृशैकश्यं त्रिविधभेदशून्यमानन्दाकारं पुरुष नित्यनवखरूपं रामणीयकधाम, आसेचनकया दृशा भगवन्तं दृग्विषयीकरोति । “तदा- किरणावल्या समेतम् । अकार उकारो मकार इति । ता अनेकधा समभवत तदेत- दोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । अथ ॐनमो नारायणायेति जपन्नुपासको वैकुण्ठभुवनं सेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शने" इति वाक्यात्ततो नेत्रं न परावर्तते। खरूप- खैव तथात्वात् । तदैव च सकलबन्धनिवृत्तिः "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" इति श्रुतेः। प्रासङ्गिकमोङ्कारस्य नामसृष्टित्वं कथयति-अकार इति । अनेकवर्णात्मकत्वं निरूपयति-ता इति । मात्राः। वर्णानां तद्रूपत्वमाह-तदेतदिति । यथे- दमखिलं जगद् ब्रह्मरूपं तथा सर्वमपि वर्णजातमोङ्काररूपमेव “वदेः प्रणव एवाग्रे" इति वाक्यात् । एतेन नामरूपात्मकनपञ्चकर्तवं मायादिसम्बन्धर- हितस्य ब्रह्मण एवेति सिद्धान्तितम् । प्रणवोचारफलं लक्षयति-यमिति । यं शास्त्रबोधितं प्रणवमुक्त्वोचार्य । योगीति । प्रणवप्रतिपाद्ये भक्तमनोरथपू- रकखरूपे निरुद्धचेताः। जन्मसंसारबन्धनादिति । जन्म च संसारच जन्मसंसारौ तयोर्वन्धनं तस्मात् । मुच्यत इति । मुक्तो भवति । मुहुर्न तौ प्रतिबन्धकौ भवत इति यावत् । एवं प्रासङ्गिकं प्रतिपाद्य कृतभगवत्साक्षात्कारस्य यद्भवति तदुपदिशति- अथों नमो नारायणायेति । प्रासङ्गिकाद्भिन्नप्रक्रमत्वसूचनायाथेति । ॐ नमो नारायणायेत्यष्टाक्षरं जपन् । उपासक इति । कृतभगवत्साक्षात्कारः संयोगे भगवत्सेवां कुर्वन् । वैकुण्ठेति । विगताकुण्ठासात्त्विकादिगुण- त्रयकृतरोधो यस्मात्तद्विकुण्ठं विकुण्ठमेव वैकुण्ठम् “मन्निकेतं तु निर्गुणम्" इति भगवद्वाक्यान्निर्गुणमिति यावत् । भुवनमिति । वैकुण्ठाख्यं परं A श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- गच्छति । तदिदं पुण्डरीकं विज्ञानधनं तस्मात्तडिदाभमात्रम् । ब्रह्मणः “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः", "न तद्भासयते सूर्यो न शशाङ्को न पावकः ।", “यद्गत्वा न निवर्तन्ते तद्धाम परमं मम” इति श्रुतिगीतावाक्यैर्लक्षितं धाम । गच्छतीति । निरस्तसमस्त- बन्धो भगवनिकेतनं प्रयाति । धामखरूपं संक्षेपेणाह--तदिदमिति । तत् "ता वां वास्तून्युष्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः। अत्राह तदु- रुगायस्य वृष्णः परमं पदमवभाति भूरि", "अव्यक्तोऽक्षर इत्याहुस्तमाहुः परमां गतिम्", "यं प्राप्य न निवर्तन्ते तद्धाम परमं मम” इति वाक्यैर्वेदगीतादि- शास्त्रप्रसिद्धम् । इदं दिव्यदृष्टिमद्भक्तजनप्रत्यक्षम् “दिवीय चक्षुराततम्", "सदा पश्यन्ति सूरयः” इति श्रुतेः। तस्य स्वरूपमाह--पुण्डरीकमिति । कमलाकारं हृदि प्रवेशे तु अप्राकृतभक्तहृदयस्यैव कमलरूपत्वं "दहरं पुण्डरीकं वेश्म” इति श्रुतौ "दहर उत्तरेभ्यः" इति व्याससूत्रे च तथैव निरूपणात् । भवद्धेनो लौकिकगृहादिवजडत्वं निवारणायाह-विज्ञानघनमिति । "प्र- ज्ञानं ब्रह्म' इति श्रुतिनिरूपितं सच्चिदानन्दकं तैत्तिरीयोपनिषनिरूपितं गणि- तानन्दस्वरूपम् । ज्ञानघनत्वादेव तस्याचिरांशुलताप्रभत्वं प्रथयति-तस्मा- तडिदाभमात्रमिति । यतो ज्ञानघनं तस्माद्विद्युत्प्रभं वयंप्रकाशरूपम् । , तद्विष्णोरिति । यदानन्दमयं ब्रह्मणः पदं सदा पश्यन्ति सूरयो भक्ता वेदान्तज्ञान- रहस्यसम्पुटाः "ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः" इति श्रीमदाचार्यचरणोक्तेः । तच्च वैकुण्ठाख्यं धामाक्षरब्रह्मस्वरूपमिति निरूपयन्ति-न तदिति । "वैये च सात्वतपते- श्वरणं प्रविष्टे' इति भागवतवाक्यात्पदभूतं "प्रभुत्वेन हरेः स्फूतौं लोकवत्त्वेन तूद्भवः" इति निबन्धीयवाक्यात् लोकात्मकत्वेन च प्रसिद्ध लोकप्रसिद्धाः सूर्यादयो न भासयन्ते यद्गत्वा च योगिनो न निवर्तन्ते तत्परमं सर्वोत्कृष्टं मम पुरुषोत्तमस्य धाम परमं ज्योतीरूपं सर्वप्र- काशकमध्यात्मज्ञानस्वरूपं "न यत्र माया” इति निरूपणान्ममाधिष्ठानभूतं सर्वात्ममूलं निरु- पममहिमात्मकं ज्ञेयम । तदेव श्रीमदगोकलमपि "गोकलं वनवैकण्टम" इति श्रतः "भमा- किरणावल्या समेतम् । ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरुच्यते इति । "न तत्र सूर्यो भाति", "न तद्भासयते सूर्यो न शशाङ्को न पावकः ।" इत्या- दिशास्त्रप्रामाण्यात् । भगवद्धामखरूपमुपदिश्य तद्धामवासिनं "आपो नारा इति प्रोक्ताः" इत्यादिवाक्यविषयरूपाद्भागवतादौ नरभूजलायनत्वेनोपदिष्टा- श्वांशरूपत्वाधावर्तयितुं मूलखरूपं नारायणं ब्रह्मत्वेनोपदिशति-ब्रह्मण्य इति । ब्रह्मैव ब्रह्मण्यः परात्परः “अक्षरात्परतः परः" इति श्रुतेः। तमेव विशिनष्टि-देवकीपुत्र इति । “तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्ख- गदायुदायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभ- गम् । महाईवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दामकाशय- गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत", "वसुदेवगृहे साक्षाद्भगवान्पुरुषः परः” इत्यादिवचोभिरुपदिष्टकृष्णखरूपः। श्रीमदाचार्यचरणा अपि दशमसु- बोधिन्यां “यथा पूर्णेन्दुप्राकट्यास्थानं प्राच्येव तथा पूर्णशक्तेः पुरुषोत्तमस्य प्राकट्यस्थानं देवक्येवेति सिद्धान्तः” इत्याज्ञापयाञ्चक्रुः। मधुसूदनरूपत्व- माह-ब्रह्मण्यो मधुसूदन इति । ब्रह्म ब्रह्मा तस्य मोहाभावप्रदानेन हित- कर्ता ब्रह्मण्यः । तादृशो भजनप्रतिवन्धदूरीकरणाय मधुनानोऽसुरस्य सूदनः संहारकः, भक्तवत्सलत्वात् । तस्य कमलनयनत्वमाह-ब्रह्मण्यः पुण्डरी- काक्ष इति । ब्रह्म वेदस्तस्य हयग्रीवनमासुरहरणसमये पुनरानयनेन हितकर्ता ब्रह्मण्यः। तादृशः पुण्डरीकाक्षः कमलनयनः, यथा कमलं स्वभावतस्तापहारी तथायमपि चिरविरहतापसन्तप्तमानसानां भक्तानां खगन्तपातेन त्रिविध- तापापनोदनसमर्थो भक्तदुःखासहिष्णुत्वादिति स्फुटयितुमत्र पुण्डरीकाक्षत्व- निरूपणम् । सर्वप्रवेशस्थानत्वमाह-ब्रह्मण्यो विष्णुरिति । तादृशो विष्णुः सर्वदेवाधारभ्यापिपीलिकान्तस्य प्रपञ्चस्य प्रवेशस्थानम् “सर्वे देवाः संविश- न्तीति विष्णुः", "परे देवे सर्व एकाकीभवन्ति” इति श्रुतेः । तस्य च्युति- , श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- सर्वभूतस्थमेकं वै नारायणं, कारणं, पुरुष, अकारणं, परं ब्रह्म इति । य एवं वेद नारायणसायुज्यमवाप्नोति, रहितत्वमाह-अच्युत इति । सर्वदैकरसः, आप्तकामत्वात् । एवं स्वरूपं निरूप्य तद्धर्मानाह-सर्वभूतस्थमिति । पूर्व ब्रह्मण्य इति श्रुत्या प्रकाशित सर्वभूतेषु विराजमानं "अन्तर्बहिश्च यत्सर्वं व्याप्य नारायणः स्थितः” इति श्रुतेः। अद्वितीयत्वं लक्षयति-एकमिति । “एकमेवाद्वितीयं ब्रह्म”, “न तत्समचाभ्यधिकश्च दृश्यते” इति श्रुतिभ्याम् । एतावदुपनिषत्प्रतिपाद्यगुण- वत्त्वं निगमयति-वै नारायणमिति । निश्चयेन नारायणाख्यं मूलपुरुष, तदितरत्र तथा बुद्धिभ्रान्तानामित्युद्धाटनाय “वै” इत्यव्ययस्य श्रुतावुपादा- नम् । पुनरपि धर्मानाह-कारणमिति । त्रिविधस्यापि जगतोऽभिन्ननिमि- तोपादानकारणम् । निराकारत्वनिवारणायाह-पुरुषमिति । तस्य कारणा- भावमुपदिशति-अकारणमिति । खकारणरहितम् , अजत्वम् । परमकाष्ठा- पन्नत्वं व्यनक्ति-परं ब्रह्मेति । गणितानन्दादक्षरात्परमगणितानन्दं ब्रह्मैव । एवं भगवन्माहात्म्यज्ञानेन निर्गुणो भवति, ततः स्मरणकीर्तनादिना सेवया चाप्राकृतं देहं प्राप्नोति, ततो भक्त्या भगवन्तं पश्यन्ति, ततो वैकुण्ठं गच्छती- सेवं वैकुण्ठगमनपर्यन्तप्राप्तकक्षस्य ब्रह्मवरूपज्ञानेन यद्भवति तदाह--य इति । पूर्वोक्तां कक्षामापन्नो भक्तः । एवं पूर्वोक्तप्रकारकखरूपं नारायणं वेद जानाति । भगवत्स्वरूपज्ञानिनः फलमुपदिशति-नारायणसायुज्यमवाप्नो- तीति । नारायणस्य परब्रह्मणः “सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता" इति तैत्तिरीयश्रुतिनिरूपितं विविधरसभोगचतुरेण ब्रह्मणा सह सर्वकामाशन- रूपं सायुज्यं लभते । तेन "माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । हो श्रुतेः । सर्वभ्रतस्थमितीति । "सर्वभतस्थमात्मानम" "सर्वभतार्थमेकं नारायणम" किरणावल्या समेतम् । श्रीमन्नारायणसायुज्यमवाप्नोति । एतदथर्वशिरोऽधीते । प्रातरधी- यानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायम्प्रातरधीयानो पापोऽपापो भवति । मध्यन्दिनमा- दित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । सर्ववेद- पारायणपुण्यं लभते । इत्युपनिषत् ॥ भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथा” इति निबन्धीयकारिकया श्रीमदा- चार्यचरणैनिीत एव सकलवेदान्तसिद्धान्त इति सुधीभिर्विज्ञेयम् । आवृत्ति- रत्रेतः परं फलाभावबोधनाय । एतावदुपनिषद्भागस्याथर्वशिरोरूपत्वं निगम- यति-एतदिति । अस्या उपनिषदः पाठफलं निरूपयति-प्रातरिति । अग्रे स्पष्टम् ॥ समाप्तिमङ्गलम् । न मे निष्ठा मोक्षे न च विविधभोगे न च गृहे कलत्रे वा राये न च मणिमये भूषणगणे। परं काझे कामं कमलनयनं कामकदनम् घनश्याम वामं भजतु भजनीयं मम मनः ॥ १॥ वाणी ते गुणवर्णने च रसनाप्युच्छिष्टभोगे सदा बाहू मन्दिरमार्जनादिषु पुनः सङ्गस्त्वदीयैश्च मे चक्षुस्त्वन्मुखदर्शने तुलसिकामोदे च नासा यथा भूयात्ते भजने तथा कुरु दयां श्रीकृष्णचन्द्रप्रभो! ॥२॥ महापातकेति । “नाम्नोऽस्ति यावती शक्तिर्नामनिर्हरणे विभोः। तावत्कर्तुं न शक्नोति पातकं पातकी जनः" इत्युक्तेः । वेदपारायणेति । यं यं कामयते कामं तं तं वेदेन साधयेत् । असाध्यं नास्ति यत्किञ्चिद्ब्रह्मणो हि फलं महत्” इति वाक्यात् । “संहिता नयते सौर्य पदं च शशिनः पदम् । क्रमश्च नयते सूक्ष्मं यत्तत्पदमनामयम्” इति श्रीयाज्ञवल्क्यवाक्योक्तं श्रीमदाथर्वणनारायणोपनिषद्भाष्यम्- NEEDS खवालचपलालापश्रवणोत्सुकमानसाः। कृपयन्तु निजाचार्या मायाप्ततमोहराः ॥३॥ केनाऽपि न निरुद्धोऽहं निजाचार्यकृपाबलात् । यत्सत्यं भयराहित्याद्विवृतं स्फुरितं हृदि ॥ ४ ॥ इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रचन्द्रिकाच्छिन्नस्वान्तध्वान्तस्य तदासस्य श्रीमगोस्वामिमुरलीधरतनुजनुषः शुद्धाद्वैतकेसरि-शुद्धाद्वैतभूषण- शुद्धाद्वैतसहस्रांशु-शुद्धाद्वैतवाचस्पति-वेदान्तसुधाकर- वेदान्तविद्यालङ्कार-पण्डितेन्द्र-पण्डितमण्डलेश्वर- सर्वतत्रस्वतत्रेत्यादिविरुदालङ्कृतस्य गोखा- म्यनिरुद्धस्य कृतौ श्रीमदाथर्वणनारा- यणोपनिषदो वेदान्तविद्या- लङ्काराख्यं भाष्यं समाप्तिमगमत् । - इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ श्रीकृष्णचरणद्वन्द्वं वागीशवचनं तथा । निधाय हृदये व्याख्या यथामति कृता मया ॥ भवेदियं चेद्विदुषां लेशतो मोदहेतवे । मस्से सौभाग्यमेतद्धि यतस्ते सारभोगिनः ॥ श्रावणस्यासिते पक्षे एकादश्यां बुधे दिने । सप्ताष्टग्रहभूवर्षे पूरिता किरणावली ॥ इति श्रीमदखण्डभूमण्डलाचार्यचक्रवर्तिजगहुरुश्रीमदल्लभाचार्यचरणकमल- सेवानुरक्तमानसेन विद्यावागीशश्रीमदनिरुद्धाचार्यचरणाश्रितेन शुक्लोपनाम्ना श्रीमदोङ्कारजिच्छर्मतनुजनुषा हरिशङ्करेण कृता वेदान्तविद्यालङ्कारकिरणावली सम्पूर्णतामाप ॥ ॥ श्रीकृष्णार्पणमस्तु॥

Shreemadarthvarnnarayanopnishad

Author
Hari Shankar Sastri
Title
Shreemadarthvarnnarayanopnishad
File name
Shreemadarthvarnnarayanopnishad
Text
OCR done
Citation
1943
Published
30.05.06
Publisher
Mumbai Nirayan Sagar
Language
Sanskrit
Pages
178
Library
University Liberey Allahabad
Classification
Sanskrit(literature)
DLI number
487389
Barcode
5990010097048.00
Scanning centre
IIIT, Allahabad
VMLT id
5WA0zJTlubg
Download PDF

Shreemadarthvarnnarayanopnishad