Charan Sahitya Shodh Sansthan, Ajmer
The Jivanandana Of Anandaraya Makhi
Front matter
No text on this page.
KAVYAMALA 27.
THE
JIVANANDANA
OF
ANANDARAYA MAKHÍ.
EDITED BY
PANDIT DURGAPRASAD
AND
KÂS'INÁTH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE “NIRNAYA-SÂGARA” PRESS.
BOMBAY.
1891.
Price 12 Anna
.
..
( Registered according to Act XIV of 1867.)
All rights reserved by the publisher. )
काव्यमाला. २७. .. आनन्दरायमखिप्रणीता जीवानन्दनम् । जयपुरमहाराजाश्रितेन पण्डितम्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाव- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८९१ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यं १२ आणकाः।
No text on this page.
काव्यमाला।
श्रीमदानन्दरायमखिप्रणीतं
जीवानन्दनम् ।
प्रथमोऽङ्कः।
लक्ष्मीकैरवबन्धुकल्पकतरूंल्लब्ध्वाथ लब्धेप्सिते
भूयो मश्नति देवदानवगणे दुग्धाब्धिमृद्धश्रमे ।
तस्यानन्दथुना समं समुदयन्कुम्भं सुधापूरितं
बिभ्राणः स्वकरे करोतु भवतां भद्राणि धन्वन्तरिः ॥ १ ॥
अपि च।
.
प्राग्जन्मीयतपःफलं तनुभृतां प्राप्येत मानुष्यकं
तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना ।
तत्प्राप्तेरपि साधनं प्रथमतो देहो रुजावर्जित-
स्तेनारोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥ २ ॥
(नान्द्यन्ते)
सूत्रधारः-मारिष, इतस्तावत् ।
(प्रविश्य)
पारिपार्श्वक:-भाव, एपोऽस्मि ।
सूत्रधारः-
रीतिः सुखपदन्यासा शारदीया विजृम्भते ।
पूर्णचन्द्रोदयश्चायं निहन्ति ध्वान्तमामयम् ॥ ३ ॥
अपि च ।
क्रममाणेषु दिगन्ते जलधरजालेषु शङ्खधवलेषु ।
शान्तिमुपयाति सहसा कालुण्यदशा भृशं पयसाम् ॥ ४ ॥
२
काव्यमाला।
पारिपार्श्वकः-अतः किमाचरितव्यम् ।
सूत्रधारः-शृणु तावत् । अत्र तञ्जापुरे पौरजानपदा देशान्तरादाग-
ताश्च वृहदीश्वररथोत्सवदिदृक्षया संघीभूताः ।
सरसकवितानाम्नो हेम्नः कपोपलतां गता
विहरणभुवः पड्दर्शन्या विवेकधनाकराः ।
विदधति तपोलभ्याः सभ्या इमे मम कौतुकं
तदिह हृदयं नाट्येनैतानुपासितुमीहते ॥ ५ ॥
पारिपार्थकः-(सशिरःकम्पम् ।) कं पुनः प्रवन्धमवलम्व्य ।
सूत्रधारः-नन्वस्ति मम वशे सहृदयजनहृदयचन्दनं जीवानन्दनं
नाम नवीनं नाटकमिति।
पारिपार्श्वकः-कस्तस्य प्रबन्धस्य कविः ।
सूत्रधारः-विद्वत्कविकल्पतरुरानन्दरायमखी । य एप इह
गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः ।
दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ।। ६ ।।
यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रितो
येनाकारि सहस्रदक्षिणमखो यः सद्धिराश्रीयते ।
सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो-
यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः ॥ ७ ॥
पारिपार्यकः--(सबहुमानम् ।) आः, ज्ञायत एवायम् । किं त्वस्य सर्व-
लोकविदिता अप्येते गुणाः प्रबन्धनिर्वाहधूर्वहत्वमवबोधयितुं नेशते । यतः।
आराप्नोति यदेप भक्तिभरितो देवान्द्विजातीन्गुरू-
न्यच श्रयदातनोति समये नित्यादिकमंत्रिकम् ।
यद्दीनेषु दयां करोति समरे शौर्य यदालम्बते
तत्सर्व नरसिंहयन्वमुततालामस्य लीलायितम् ॥ ८ ॥
इदं तु श्रोतव्यम् ।
आनन्दरायमखिनो वाल्मीकेरिव योगिनः ।
इतरापेक्षणात्मारः स्वतः सारस्वतोदयः ॥ ९ ॥
१ अङ्कः] जीवानन्दनम् । - सूत्रधारः-(विहस्य ।) मारिप, त्वं न जानासि यत एवं ब्रवीषि । शृणु तावत् । आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित- स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी । इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया श्रीशाहावनिनायकाकृतिभृता नूनं प्रसादः कृतः ॥ १० ॥ अत एव कवीनां पूर्वेषां कथमपि च चित्तैरवहितै- गृहीता या नासीत्सरसकवितासारपदवी । असौ तामाक्रामन्हरति नरसिंहाध्वरिकुल- प्रदीपः सूरीणां श्रवणयुगजाड्यान्धतमसम् ॥ ११ ॥ पारिपार्श्वक:-श्रीशाहराज इति नाम दधत्याः सरस्वत्याः कियाना- नन्दरायमखिनि दयाविशेषः । यतः । पुष्यत्कौतुकपद्मसंभृतकरद्वन्द्वाङ्गुलीवेल्लन- द्रातिष्पीडितचन्द्रमण्डलगलत्पीयूषधारासखैः । वाग्गुम्फैबलवैरिधारितशचीधम्मिल्लमल्लीसर- स्फारामोदमदापहैश्च श्व कवयत्यानन्दरायाध्वरी ॥ १२ ॥ युक्तमुक्तं च भावेन 'शाहभूपतिरूपेण गिरां देवी जाता' इति । कथ- मन्यथानन्यसाधारणमस्य प्रागल्भ्यम् । तदिदानीमिदमुत्प्रेक्ष्यते- भत लालयितुं भुवि प्रथयितुं विद्वज्जनानाश्रिता- श्रीशाहक्षितिपात्मना क्षितिगतां मत्वा गिरां देवताम् । आसिञ्चन्नसकृत्कमण्डलुजलैरङ्गानि पर्याकुलो धाता वाहनहंसपक्षपवनस्तापं किलापोहति ॥ १३ ॥ सूत्रधारः-तन्नियोजय भूमिपरिग्रहायास्मद्वय शैलूपगणम् । पारिपार्थका-बाढम् । किं तु सन्ति कथानायकस्य जीवस्य परि- जना विज्ञानशर्मप्रभृतयः प्रतिनायकस्य च यक्ष्मणः परिजनाः पाण्डुश्वास- कासज्वरगुल्मातिसारप्रभृतयः । तेषां यद्यपि भूमिकाग्रहणपटवो नटवटवः ४ काव्यमाला। पुण्डरीककेयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति । तथापि प्रयो- गस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृप्यत इव मे हृदयम् । सूत्रधारः-यत्किचिदेतत् । महतामेषां सामाजिकानामनुग्रह एवा- साकमभीप्सितमथै समग्रयिप्यति । यतः । जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं सार्वज्ञमावहति संमदमातनोति । विद्वेपिवर्गविजयाय धृति विधत्ते किं किं करोति न महद्भजनं जनस्य ॥ १४ ॥ पारिपार्श्वकः-एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटवटुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेप्यत इति । सूत्रधारः--विकटो नाम नटवटुर्मया सह स्पर्धत इत्यतत्त्वविदो वच- नम् । शृणु तावत्। अभिनयविद्याविपये दुरहंकाराकुलीकृतो विकटः । स नटबटुमा वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा ॥ १५ ॥ (नेपथ्ये) अरे रे शैलपापसद, 'अभिभवितुं जीवमिव यक्ष्मा' इति किमसंभावित- मर्थ दृष्टान्तयसि । मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये । दुर्बलो यक्ष्महतकः कथं वाभिवुभूपति ॥ १६ ॥ मूत्रधारः-(आकर्ण्य ।) मारिप, जीवराजमन्त्रिणो विज्ञानशर्मणो भू- मिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति । तदावामप्यनन्तरकर- णीयाय सज्जीभवावः । (इति निष्क्रान्ती ।) प्रस्तावना ।
१ अङ्कः]
जीवानन्दनम् ।
(ततः प्रविशति जीवमन्त्री विज्ञानशर्मा ।)
विज्ञानशर्मा—('अरेरे शैलूषापसद-' इत्यादि पठित्वा विचिन्त्य ।) सर्वथा
राजसमीपं गत्वा तदनुज्ञया यक्ष्मणः प्रवृत्तिमुपलव्धुं चारान्प्रेषयिष्यामि ।
अथवा 'तत्प्रवृत्त्युपलम्भाय प्रेषय धारणाम्' इति मयोक्तो राजा तथा
कुर्यात् । (श्रुतिमभिनीय ।)
दिसूदञ्चति ताम्रचूडरसितं यद्भवदीर्घप्लुत-
प्रायोवर्णनिभं ब्रवीति तदिदं व्युष्टा निशाभूदिति ।
स्त्रीणां निर्गमनं विहृत्य पतिभिते विनैवाक्षरैः
क्रीडावेश्मकपाटिकाविघटन–कारपारम्परी ॥ १७ ॥
तदिदानी देव्या प्रसन्नया बुद्धया सह राजा प्रतिबुध्य निवसेत् । तदु-
पसमि । (इति पुरो दृष्टिक्षेपमभिनयन् ।)
चञ्चत्खेटकृपाणकञ्चुकशिरस्त्राकल्पदृप्यद्भटा
सादिव्यञ्जितवक्रमण्डलगतित्वङ्गत्तुरङ्गनजा।
गण्डद्वन्द्वगलन्मदाम्बुमुखरीभूतद्विरेफद्विपा
दृष्टयोर्मे कुतुकाय राजभवनद्वारोपकण्ठस्थली ॥ १८ ॥
अपि च।
प्रौढामात्यनिरुक्तमन्त्रपदवीवितम्भसंचारिणो
राज्ञो दुःसहतेजसो निशमने यद्वद्धृति द्वेषिणः ।
प्रासादप्रतिहारवेदिषु तथा स्नेहाङ्कपात्रस्थिताः
प्रत्यूषोपगमे प्रदीपमुकुलाः कान्ति त्यजन्त्यञ्जसा ॥ १९ ॥
(पुरो विलोक्य ।) का पुनरियं तपश्चरणजनितप्रभुत्वगौरवेव मामभिवर्तते ।
गाढोन्नद्धजटाकलापकपिलश्रीधूतवालातपा
बिभ्राणा भसितानुलेपधवलच्छायां तनुं पावनीम् ।
भिक्षापात्रमयूरपिच्छचयभृत्पाणिद्वया मेऽधुना
काषायाम्बरधारिणी कलयति स्वान्ते धृतिं तापसी ॥ २० ॥
(निपुणं निरूप्य ।)
अस्यामक्षिभ्रुवं नासा रदपती रदच्छदः ।
चुबुकं मन्दहासश्च धारणायामिवेक्ष्यते ॥ २१ ॥
har काव्यमाला। (ततः प्रविशति तापसीवेषा धारणा ।) धारणा-अहं खु पञ्चत्थिराआभिसेणणसंणाहं कस्स वि पुरिसस्स मुहादो सुदवन्तेण रण्णा 'इमं उत्तन्तं पुरं पविसिअ जाणीहि' त्ति पेसि- दह्मि । मए वि तावसीवेसाए तह जाणिअ रण्णो समीवे समागमीअदि । (अग्रतो दत्तदृष्टिः स्वगतम् ।) एसो विण्णाणसम्मा अमच्चो आअच्छदि।होदु । वेसेण पदारेमि णम् । जज्जवि सव्वस्सि वि कज्जे इमस्स अणुमदि विणा राआ ण पवट्टइ तह वि जं मह संसओ वट्टइ ता एअकस्स पआसो ण भवे । (इति परिकामति ।) (क) मन्त्री-(दृष्ट्वा स्वगतम् ।) इयं तापसी राजप्रहिता प्रच्छन्ना किं धारणा भवेत् । भवतु । पृच्छामि । (प्रकाशम् ।) अये तापसि, का त्वम् । कुत आगच्छसि । धारणा--(स्वगतम् ।) इमस्स पडिवअणं भासन्तरेण भणेमि । अ- प्रणहा कहं वि जाणिस्सदि इअं सेति । (प्रकाशम् ।) अहं खलु गार्गी य- क्ष्मणो राज्ञो वयस्या देव्या गृहिण्याः स्नेहसर्वस्वभाजनं तदन्तःपुरादेवा- गच्छामि । (ख) मन्त्री-(स्वगतम् ।) भवेदेवेयं धारणा तापसीवेपेण रिपुप्रवृत्तिमुपल- भ्यागतवती । अयं स्वनामानुगुणमभिज्ञो वा न वेति मां परीक्षितुं संस्कृत- (क) अहं खलु प्रत्यर्थिराजाभिषेणनसंनाहं कस्यापि पुरुषस्य मुखाच्छु- तवता राज्ञा 'इमं वृत्तान्तं पुरं प्रविश्य जानीहि' इति प्रेषितास्मि । मयापि तापसीवेषया तथा ज्ञात्वा राज्ञः समीपे समागम्यते । एप विज्ञानशर्मा अ- मात्य आगन्छति । भवतु । वेपेण प्रतारयाम्येनम् । यद्यपि सर्वस्मिन्नपि कार्यऽस्यानुमति विना राजा न प्रवर्तते तथापि यन्मम संशयो वर्तते तदे- ककस्य प्रकाशो न भवेत् । (ब) अस्य प्रतिवचनं भाषान्तरेण भणामि । अन्यथा कथमपि ज्ञा- स्थति इयं सेति ।
१ अङ्कः] जीवानन्दनम् । भाषया वेषानुगुणमपलपते प्रतिपक्षकुले च पक्षपातमात्मनः सूचयति । भ- वतु । अहमप्यजानन्निवानुनयन्पृच्छाम्येनाम् । (प्रकाशम् ।) अये तापसि, निखिलं जगतश्चरितं विज्ञातं ते समाधिनैव भवेत् । तन्मे महाप्रभावा भाग्येनासादिता भवती ॥ २२॥ धारणा-(स्वगतम् ।) मं तावसिं एव्व जाणिअ मह मुहादो पञ्चत्थि- राअप्पउत्ति सुणिदुं अणुणअप्पआरो एसो । होदु । अहं वि अजाणन्तीव पुच्छामि । (प्रकाशम् ।) कस्त्वम् । व गच्छसि । सूनृतेन ते वचनेन साधुर्भ- वानिति पृच्छामि । (क) मन्त्री—(स्वगतम् ।) इयमात्मानं गोपयति । अहमपि तथैवोत्तरयामि । (प्रकाशम् ।) कार्यविशेषेऽधिकृतं जानीहि येनैवमधिकृतस्तन्निकटे गच्छामि । धारणा—(स्वगतम् ।) एसा विपक्खजणपक्खवादिणित्ति गोपणप्पआरो एसो । (प्रकाशम् ।) केनाधिकृतोऽसि । (ख) मन्त्री-भगवति, त्वमेव जानासि । यतः प्रणिधानेन योगिनः सकल- मपि प्रत्यक्षयन्ति । धारणा—(स्वगतम् ।) कहं एवं आपडिदम् । होदु । जोइणो विअ आसिअं करिअ अमचं वञ्चेमि । (इति ध्यानारूढा तिष्ठति ।) (ग) मन्त्री:-(स्वगतम् ।) एषा खलु कृत्वा स्वस्तिकमासनं करयुगं विन्यस्य जानुद्वये नासाग्रार्पिततारका नतमजूकृत्यावलग्नं दृढम् । निःश्वासोच्छुसितोपरोधघटितस्तैमित्यपीनस्तनी चित्ते मे कृतसंयमेव कुरुते धूर्ता महत्कौतुकम् ॥ २३ ॥ (प्रकाशम् ।) परिनिष्ठितं योगाभासनं भवत्याः । (क) मां तापसीमेव ज्ञात्वा मम मुखात्प्रत्यर्थिराजप्रवृत्तिं श्रोतुमनुनय- प्रकार एषः । भवतु । अहमप्यजानतीव पृच्छामि । (ख) एषा विपक्षजनपक्षपतिनीति गोपनप्रकार एषः । (ग) कथमेतदापतितम् । भवतु । योगिन इवासिकां कृत्वा अमात्यं व- ञ्चयामि । ५.
८ काव्यमाला। धारणा-(ध्यानाद्विरम्य सस्मितम् ।) जीवस्य राज्ञो मन्त्री विज्ञानशर्मा भवान्। मन्त्री-महाप्रभावा योगसिद्धिमती भवती । तथाहि । बुद्ध्या महत्या कृतसाहचर्या देवे निजे दर्शितभूरिभक्तिः । परप्रवृत्ति विदती महिम्ना साधारणा त्वं त्वहिते हिते च ॥ २४ ॥ धारणा-(स्वगतम् ।) किं जाणिदं म्हि अमच्चेण जहत्थणामधेएण जं तावसीवण्णणव्वाजेण अहं जेव्व वण्णिदा। होदु । एव्वं भणामि । (प्रकाशम् ।) महान्खलु योगप्रभावः । (क) मन्त्री-भगवति, तव न किंचित्प्राणिनामन्तर्गतमविदितमस्ति । अत- स्त्वां प्रार्थये । कथमस्माकं राजनि यक्ष्मा मन्यते । योगिन्यास्तव दुःखितेषु कथमेपां दुःखविमुक्तिः स्यादिति चित्तपरिकर्मविशेपः करुणा भवत्येव । योगाङ्गेपु यमेपु वाङ्मनसयोर्यथार्थत्वरूपः सत्यं नाम द्वितीयो यमोऽपि तथा । अत इदं निर्विशकं प्रार्थनापूर्व पृष्टासि । धारणा-(स्वगतम् ।) जक्खराजपक्खवादविसेसे वि जोइणीए पुच्छि- दस्त जहत्युत्तरं अभणिअ असकं ठाडं त्ति मण्णइ अमच्चो । (प्रकाशम् ।) किमन्यत् । पुरान्निप्क्रमयितव्योऽयमिति मन्यते । (ख) मन्त्री-कथमेतदेतस्य संघटते सामादिषु चतुर्पूपायेप्वेकैकस्यापि प्रयो- गेण सुसाधो हि रिपुमनोरथभङ्गः । धारणा--नन्विमं दुष्करं पश्यामि । यक्ष्मणि विभौ प्रयोगं घटयन्ति न सामभेददानानि । दण्डः प्रभवेन्नु कथं प्रवलतरे रिपुजने स्वस्मात् ॥ २५ ॥ मन्त्री-यथार्थमाह भवती । किं त्विदं पक्षपातवचनम् । केनेममस्मत्प्र- बलतरं मन्यसे । (क) किं ज्ञातास्म्यमात्येन यथार्थनामधेयेन यत्तापसीवर्णनव्याजेनाह- मेव वर्णिता । भवतु । एवं भणामि । (ख) यक्ष्मराजपक्षपातविशेपेऽपि योगिन्या पृष्टस्य यथार्थोत्तरमभणित्वा न शक्यं स्थातुमिति मन्यतेऽमात्यः ।
.१ अङ्कः] जीवानन्दनम् । धारणा-(स्वगतम् ।) एसो अत्तकेरअस्स पहुणो अमच्चो । ता पहुजअ- विषअणीए मन्तविचारसिद्धीए परपक्खबलहिदि एदस्स जेव्व कहइस्सम् ।(क) (प्रकाशम् ।) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत् । शृणु तावत् । परीवारा एतस्य रोगविशेषा भीमरूपा बहवः । तथाहि । ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः । कासश्वासावतीसारसंनिपाताश्मरीत्रणाः ॥ २६ ॥ किं च । रोगा मूर्ध्नि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिकां प्रत्याष्टादश कर्णयोरपि तथा वने चतुःसप्ततिः । पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः प्राप्तौ कल्ककषायलेझबटकप्रायौषधानामपि ॥ २७ ॥ तस्माद्दर्जयो युष्माभिः । मन्त्री-(स्वगतम् ।) इयं किल भीत्या निसर्गकातरा प्रबलपरवलप्रवे- शहृदया मदीयप्रभावमजानती खबुद्ध्यनुरूपं किमपि प्रलपति । भवतु । किमनया वृथा संवादकदर्थनया । प्रस्तुतकार्यसाधनार्थमिमां तावदन्तर- यामि । (प्रकाशं सोपहासम् ।) आलोक्य शात्रवबलं बहुधारणे त्वं भीतासि संप्रति रसं प्रतिपन्नधैर्या । जीवस्य जीवितसमे मयि सत्यमात्ये भूयात्कथं बत विरोधिशिरोधिरोहः ॥ २८ ॥ धारणा--(विहस्य ।) कधं जाणिदमि अमच्चेण । ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो । अहं खु देईए बुद्धीए सहअरी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व- (क) एष आत्मीयस्य प्रभोरमात्यः । तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि । २ १० काव्यमाला। वसाओ त्ति पेसिदसि । तह जेव विचारिअ अजं पदारे, पच्छण्णे व ठिदसि । (क) मन्त्री-युज्यत एतत् । अतो राजसमीपमेव गच्छावः । धारणा-तुमं जेव्व गदुअ इमं वुत्तन्तं भणाहि । रण्णो णिवेदणादो वि तुह पुरदो कजणिवेदणं अन्भहिदम् । अहं उण दुजणसंसग्गकिदं कलुसं पक्खालेदं महाणदि बहादुं गच्छेमि । (ख) (इति निष्क्रान्ता ।) मन्त्री-(सविचारम् ।) यद्यपि कुटिलप्रकृतयः स्वामिनि निबद्धदृढभ: क्तयो दुर्जया एव परसैनिकास्तथापि किमसाध्यं बुद्धिविभवस्य । यतः । दुर्जाते सुमहत्यपि क्षितिपतेः शालीनतां संत्यज- शत्रू तुमथेप्सितं घटयितुं शक्नोत्युपायेन यः । प्रायो मन्त्रिपदं महोन्नतमतिः प्राप्तुं स एवार्हति स्त्रोत्सेकी न तु पण्डितो भुवि जनो वाचा वदन्पौरुपम् ॥ २९ ॥ अत इदानीम् । संचिन्तयामि कंचन संप्रति समयोचितं जयोपायम् । येनास्माकं श्रेयो भविता सहसा पराजयो द्विपताम् ॥ ३० ॥ (इति ध्यानं नाटयन् ।) आः, चिन्तितोऽयमवाधितोपायः । तथाहि । प्रथन्ते यास्तिस्रः प्रवलजडतीक्ष्णाः प्रकृतयो वशीकारे तासां जगति सदुपायाः परममी । क्रमात्स्नेहास्ते ते कुशलमतिभिः सद्भिरुदिता- स्तथा तीक्ष्णोपाया नियतमुपचाराश्च मधुराः ॥ ३१ ॥ (क) कथं ज्ञातास्म्यमायेन । तत्कथयामि विश्रब्धं यथार्थ शृणोत्व- मात्यः । अहं खलु देव्या बुद्धेः सहचरी राज्ञा जीवेन तापसीवेपं कृत्वा रात्रौ पुरं प्रविश्य यक्ष्मराजस्य विचारणीयो व्यवसाय इति प्रेपितास्मि । त- थैव विचार्याय प्रतारयितुं प्रच्छन्नेव स्थितास्मि । (ख) त्वमेव गत्वा इमं वृत्तान्तं भण । राज्ञो निवेदनादपि तव पुरतः कार्यनिवेदनमभ्यहितम् । अहं पुनर्दुर्जनसंसर्गकृतं कलुपं प्रक्षालयितुं महा- नदी नातुं गच्छामि।
१ अङ्कः] जीवानन्दनम् । ११ तस्मात्प्रबलजडतीक्ष्णप्रकृतीनां वातपित्तकफानां मध्ये प्रबलो यो वातः स तु बहुविधस्नेहविशेषप्रयोगेण वशीकार्यः । तदनुगतस्य पित्तस्य मधुरो- पचारेणैव सुकरो वशीकारः । उभयविरुद्धो जडो यः कफस्तत्रेतरोपायस्या- प्रसरातीक्ष्णप्रयोगेणैव स वशमानेतव्यः । एवं च तत्तत्समुचितैरुपायैः सर्वा- मयनिदानेषु वातादिषु वाधीनेषु तज्जनितानामितरेषामुन्मेष एव दूर- तोऽपास्तः । किं च । सर्वसिन्विषये निरङ्कुशतया यहुनिरोधं मनः प्रायों वायुरिव प्रकृष्टबलवत्सर्वात्मना चञ्चलम् । तत्कामादिभिरुद्धतैरुपहतं संप्रेरितैर्यक्ष्मणा तत्सौहार्दमुपेत्य यद्यपि पुनर्नः प्रातिकूल्यं चरेत् ॥ ३२ ॥ अतस्तदपि महाधिकारेण वशीकृत्य महति व्यापारे विनियोज्य तैरपि दुर्भेदं करिष्यामि । यद्यपि मद्विरोधिचेष्टोऽज्ञानशर्मा मदसंनिधाने राज्ञ उपजापेन कार्यभेदमेव जनयेत् तथापि जाग्रतिः फलकर्मैव (१)। सर्वानर्थनिदाने यक्ष्मणि तस्मिन्समूलमेव मया । उन्मूलिते ततो नः कर्तव्यं नावशिष्यते किंचित् ॥ ३३ ॥ तथाकर्तुमेव तावद्वाजनिकटमेव गच्छामि । (इति कतिचित्पदानि गत्वा पुरो विलोक्य ।) इदं तद्राजभवनम् । यावत्प्रविशामि । कः कोऽत्र भोः । (प्रविश्य ।) प्रतीहार:-मन्त्रिन्, किमाज्ञापयसि । मत्री-प्राण दौवारिक, संप्राप्तं मां राज्ञे निवेदय । पाण: -तथा । (इत्यन्तःपुरं प्रविष्टः ।) मन्त्री-(परितो विलोक्य ।) इह खलु संमृज्य शोधिनीभिश्चत्वरवेदीतलेषु रम्येषु । रचयन्ति रङ्गवल्लीरन्तःपुरचारिका एताः ॥ ३४ ॥ गृह्णन्वेत्रलतां वसत्यवसरापेक्षो जरत्कञ्चुकी राजा मामवलोकयेदिति समं वत्सेन गौस्तिष्ठति । . --- १२ काव्यमाला। - वादित्रध्वनिमण्डलीकृतगरुद्वहीं नटत्यङ्गणे देव त्वं विजयीभवेति गुणयन्नास्ते शुकः पञ्जरे ॥ ३५ ॥ (प्रविश्य ।) दौवारिकः-(मन्त्रिणं प्रति ।) स्वामिन्, भवन्तं द्रष्टुं बुद्ध्या सह देव्या भद्रासनमधिवसति राजा । मन्त्री- अतिपरिचयेऽपि राज्ञो विभेमि सहसोपगन्तुमभ्यर्णम् । येनाग्नेरिव तेजः स्फुरदस्यारान्निवर्तयति ॥ ३६ ॥ (विचिन्त्य ।) परपक्षं प्रति प्रतिविचारणाय प्रेपितां धारणां प्रतीक्षमाण इव लक्ष्यते । भवतु तदेतदहं वक्ष्यामि । (ततः प्रविशति युद्ध्या देव्या सह राजा जीवः ।) मत्री--(उपसृत्य ।) विजयतां महाराजः । राजा-इतो निपीदतु भवान् । (इति मन्त्रिणे आसनं निर्दिशति ।) मन्त्री-(आसने उपविश्य स्वगतम् ।) एप खलु गण्डूपोदकशोधितेऽपि वदने ताम्बूलरक्ताधरः स्नानापोहितचन्दनेऽपि वपुपि प्रोद्दामतत्सौरभः । निर्णिक्ते सिचये धृतेऽपि कनकाकल्पेन पीताम्बरः सोऽयं सत्यपि न प्रमाद्यति सदाचारादतिप्राभवे ॥ ३७ ॥ (प्रकाशम् ।) महाराजेन प्रहिताया धारणाया मुखात्तत्रत्यः सर्ववृत्तान्तो विदित एव । सा पुनर्दुर्जनसंसर्गदोपपरिहाराय नदी स्नातुं गता । तया च मयि संक्रमितस्तत्रत्यवृत्तान्तः । राजा-(मोत्कण्ठम् ।) कथमिव । देवी--अहं वि अवहिदसि । (क मन्त्री-(स्वगतम् ।) इयं हि देवी किमपि नियमिताप्रैः कुन्तलेः स्निग्धनीलैः परिलसदपराङ्गा धारयन्ती दुकूलम् । (क) अहमप्यवहितास्मि ।
१ अङ्कः] जीवानन्दनम् । धवलमुपरि भर्तुश्चामरं धूयमानं विरमयति करेण व्यक्तमाकर्णनाय ॥ ३८ ॥ (प्रकाशम् ।) श्रोतव्यमिदं धारणावचनम् । यक्ष्महतकः पुरान्निष्क्रामणमेवा- स्माकमिच्छतीति । राजा--किमत्र प्रतिविधातव्यम् । देवी-(सोद्वेगम् ।) दाणिं किं कुम्भो । (क) मन्त्री देविं, मा भैषीः । प्रतिविधानप्रकारोऽपि धारणया विदितः । राजा-कथमिव । मन्त्री-(कर्णे) एवमेवम् । राजा-कथमिदं धारणया निर्धारितम् । मन्त्री रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम् । देवी-(साश्वासम् ।) जइ एव्वं ता कहं अमेहिं रसगन्धआ संपा- दणिज्जेत्ति । (ख) राजा- शंभोवीर्य रसो नाम शर्वाण्या नाम गन्धकः । ताभ्यामेव प्रसन्नाभ्यां तौ ग्राह्याविति मे मतिः ॥ ३९ ॥ देवी-केण उण उवाएण ताणं पसादो संपादणिज्जो । (ग) मत्री-उपासनयैव ।. राजा–युक्तमुक्तं भवता । श्रूयते हि पुरा मृकण्डरुमापतिमुपास्य पुत्रं लेभे । तत्पुत्रोऽपि तदुपासनया मृत्युमुखान्मुक्तो दीर्घमायुरलभतेति । मन्त्री-सम्यगवगतं महाराजेन । यतः खल्वेष • पादाघातत्रुटितयमुनाभ्रान्तबावन्तरोद्य- द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम् । (क) इदानी किं कुर्मः। (ख) यद्येवं तत्कथमस्माकं रसगन्धको संपादनीयौ इति । (ग) केन पुनरुपायेन तयोः प्रसादः संपादनीयः ।
१४ काव्यमाला। - मार्कण्डेयं व्यतनुत यदा सर्वभूतैस्तदादि- स्तुत्यं मृत्युंजय इति यशः स्फारमीशः प्रपेदे ॥ ४० ॥ राजा-पुरा खलु देवदानवैरमृतार्थिभिर्महोरगयोकपरिवेष्टितविकृष्य माणमन्दरमन्थानदण्डैर्मथ्यमाने दुग्धसागरे गरलमुद्भटमुत्थितमसहमाने. भुवनेषु विनष्टप्रायेषु पलायनाभिमुखे चतुर्मुखे विगलितौजसि बिडोजर भगवानेवैप विषमनन् जगदनुचकम्पे । तथाहि । मेघाक्रान्तदिगन्तदर्शरजनीमूर्छत्तमोमेचकं तापद्रावितदेवदानवनरं यः कालकूटं गरम् । जग्ध्वा जम्व्विव वालकत्रिभुवनत्राणं ततानाञ्जसा तस्य द्राङ्महिमा न वाङ्मनसयोः पन्थानमारोहति ॥ ४१ ॥ मत्री-किमुच्यते महिमेति । श्रूयतां तावत् । त्रिपुरविजयप्रसक्ताव सक्त इव स्वयं तदर्थ कतिचित्साधनानि संपाद्य तान्यपि वितथीकृत्य स भगवान्निजमेव महिमानमभिव्यक्तवान् । तथाहि । सूर्याचन्द्रमसौ रथाङ्गयुगलं सूतो विधाता स्वयं रथ्याश्वा निगमाश्च यस्य रथमारूढेन भूमीमयम् । मेरं धन्वविपक्तवासुकिगुणं कृत्वा शरं चाच्युतं तिनस्तेन पुरः स्मितेन तु परं दग्धाः सुरद्वेपिणाम् ॥ ४२ ॥ राजा-एवमपरिमितान्याश्चर्यचरितानि देवस्य । देवी-किं अच्चरिअं । महेसरस्स जह जह जारिसो उपासनं करेदि तह तह तारिसं सो तं तं फलं पावेदि । (क) मत्री-एवमेतत् । राजा-एवमनिर्धारणीयनानास्वरूपा भगवतीपरमेतत् । परंतु भग- वतो दयारूपैवेयम् । अत एव लोकरक्षणार्थी प्रवृत्तिरेतस्याः । श्रूयतां तावत् । क्रिमाश्चर्यम् । महेश्वरस्य यथा यथा यादृश उपासनं करोति तथा तथा तादृशंस तं तं फलं प्राप्नोति ।
१ अङ्कः] जीवानन्दनम् । . १५ - भक्तिप्रहमहेन्द्रमुख्यमखभुक्प्रारब्धभूरिस्तव- प्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया । निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातया- मासाते मधुकैटभावतिवलौ सा केन वा वर्ण्यते ॥ ४३ ॥ मन्त्री-राजन् , तथ्यमेवाह भवान् । अस्याः किल भक्तवात्सल्यमन- न्यतुल्यं पश्यामि । दूरोद्भूतविषाणकोटिघटनाचूर्णीकृताम्भोधर प्रेसत्पादचतुष्टयीखुरपुटप्रक्षुण्णपृथ्वीतलम् । कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या ॥ ४४ ॥ देवी-सा खु परमेसरी बहुविहदेवआसत्तिरूआवअवा पअण्डपरक्कम- खण्डिअचण्डगुण्डधुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि च- ण्डिआणामधेएत्ति । (क) राजा-तदपि ज्ञायते । यथा खलु । शनच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिम- त्कङ्कक्रोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम् । देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुव- द्रुद्रेन्द्राग्निकृतान्तनैर्ऋतजलाधीशानिलश्रीदया ॥ ४५ ॥ मन्त्री-राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपाद- नीया सिद्धिः । किं च । सामर्थ्यसिध्यै रसगन्धकानां संयोजनार्थ सकलौषधीश्च । संपादयामोऽथ तदाश्रितस्य सर्वोषधीशस्य विधोः प्रसादात् ॥४६॥ देवी-कदम उण देसं पविसिअ उवासणिज्जा एदे । (ख) (क) सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमख- ण्डितचण्डमुण्डधूम्रलोचनरक्तवीजप्रभृतिदानवमण्डला श्रूयते चण्डिकाना- मंधेयेति । (ख) कतमं पुनर्देशं प्रविश्योपासनीयावेतौ।
१६ काव्यमाला। मन्त्री-पुण्डरीकपुरं प्रविश्य । देवी-कहं तत्थ पवेसो । (क) मन्त्री देवि शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत- स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम् । दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयस्त्वया चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमर्था यथा ॥ ४७ ।। राजा--(सोत्कण्ठम् ।) तामद्वैतां स्वरूपेण भक्तिं हृदयरञ्जिनीम् । स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः ॥ ४८ ॥ देवी-(सासूयमिव स्वगतम् ।) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सु- णिअ सुदवणाघणगज्जिदो मोरो विअ उक्कण्ठिदो अज्जउत्तो । होदु । ता मए वि सह गन्तव्वम् । (प्रकाशम् ।) अजउत्त, अहं वि आगमिस्सम् । (ख) राजा-(स्वगतम् ।) कथमनयाप्यागन्तव्यम् । (विचिन्त्य ।) भवतु । (प्रकाशम् ।) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलपितमर्थ साध- यावः । (मन्त्रिणं प्रति ।) राज्यं त्वयि समारोप्य योग्ये सर्वाङ्गसंहितम् । देव्या सह शिवं साम्बमुपास्तुं यामि तत्पुरम् ॥ ४९ ॥ मत्रीयथा रोचते देवस्य । (इति निष्क्रान्ताः सर्वे ।) इति प्रथमोऽङ्कः। (क) कथं तत्र प्रवेशः। (ख) कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः । भवतु । तन्मयापि सह गन्तव्यम् । आर्य- पुत्र, अहमभ्यागमिष्यामि। - - niary २ अङ्कः] जीवानन्दनम् । १७ द्वितीयोऽङ्कः। (ततः प्रविशति चेटः कासः ।) कास:-अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वसिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगत- वता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराज पाण्डं पृष्ट्वागच्छेति प्रेषितोऽस्मि । अतस्त्वरन्नितो युवराजसमीपं गच्छामि । अहो महाराजस्य युवराजे महती प्रीतिः । यतः । यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत् । तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते ॥ १ ॥ (पार्श्वतो विलोक्य ।) कथमियं छर्दिः । यैषा प्रवालमृदुलाधरप्रकरचारुविम्बप्रभा- हृताहृतविलोचनाञ्जनविशेषदृश्यानना । मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी तरङ्गयति कौतुकं तरुणिमश्रिया चेतसि ॥ २ ॥ (स्मरणममिनीय।) श्लथजलधरजालश्लिष्टशीतांशुबिम्बा- नभिनवमुकुराविर्भूतमुक्ताकदम्बान् । दरतरलितचक्रद्वन्द्वखेलन्मृणाला- न्ववशहृदयमस्या विभ्रमानन्वभूवम् ॥ ३ ॥ (सभयम् ।) तदियं मामवलोकयति चेदिदानी विभ्रममूल्यमनुपयुज्य मां निरु- न्धीत ततो गमनविघ्नः स्यात् । (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति ।) (प्रविश्य) छर्दिः-अए सठ, रत्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणि मं पेक्खिअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि । (क) (इति कासं हस्ते गृह्णाति ।) (क) अये शठ, रतौ मुक्ताफलं परिपणीकृत्य पुरुषायितं मया कारयित्वा इदानीं मां प्रेक्ष्यावगुण्ठितशीर्षों बद्धकटिः कुतः पलायसे । .३ १८ काव्यमाला । कास:--मुञ्च मुञ्च । (इति हस्तं धुनोति ।) छर्दि:-(दं हस्तमवलम्ब्य ।) हदास, मह पडिण्णादं दाऊण गच्छे- हि । (क) कासः-हजे, यावदागत्य दास्यामि । छर्दिः-कुदो आगमिअ । (ख) कासः-धिसूखें, नायमवसरः । पश्चात्कथयिष्यामि । छर्दि:-जइ दाणि ण कहेसि अहं वि ण मुश्चेमि । (ग) कास:---तहिं गृहाण मुक्ताफलस्य प्रतिनिधिमिमामूमिकाम् । (इत्या- लीयकं विमुच्य प्रयच्छति ।) छर्दिः-इदं होदु । कुदो आगमिअ त्ति कहेहि । (घ) कास:-किं मम वधमिच्छसि । यतः। कार्य राज्ञा मन्त्रिभिमन्त्रितं यत्सर्वेषां तत्सर्वथा गोपनीयम् । येऽभिव्यञ्जन्त्येतदुद्यत्प्रमादाः शीर्पच्छेद्यास्तन्वते तान्नरेन्द्राः ॥ ४ ॥ छदि:--जह तह होदु । एवं दाव कहेहि । (ङ) कासः-(स्तगतम् ।) अहो दास्याः स्नेहपरिपाकः । यः परमनाय संपद्यते । तथा हि । स्त्रियः स्वार्थपराः प्रायः परदुःखं न जानते । अप्रष्टव्यं यदनाक्षीगृहिणी कैकयाधिपम् ॥ ५ ॥ (प्रकाशम् ।) राजकोलीनमेतदिति न कथयामि । मुश्च । (इति त्वरयति ।) छदि:-मा भयाहि तुमं । जं मञ्जसा क्खु अहं राजकजाणं । अदो ण पआसेमि । (च) (क) हताश, मम प्रतिज्ञातं दत्त्वा गच्छ । (ग्य) कुत आगत्य । (ग) यदीदानी न कथयसि अहमपि न मुञ्चामि । (घ) इदं भवतु । कुल आगत्येति कथय । (क) यथा तथा भवतु । इदं तावत्कथय । (च) मा विभेहि बम । यन्मनपा खल्वहं राजकार्याणाम । अतो न प्रकापयामि।
२ अङ्क: जीवानन्दनम् । १९ कास:-(विहस्य ।) छर्दिका किल त्वं प्रकृत्या । तत्कुतो न प्रका- शयसि । छर्दिः-(विहस्य ।) भसणसीलस्स कुक्कुरस्स विअ तुह जाआ अहम् । होदुः । एदं कहेहि पत्थुदम् । (क) • कासः-(स्वगतम् ।) इयं राजकार्यकथननिर्बन्धान्न मुञ्चति माम् । का गतिः । (प्रकाशम् ।) हले, कथयामि । शृणु तावत् । छर्दिः-ओहिदम्हि । (ख) कासः-मया कटकप्रवेशः कर्तव्यो युवराजस्य पाण्डोर्दर्शनाय । छर्दिः-ता किं विचारीअदि । अम्हकेरभडक्कन्ते सुगमो सत्तुणो पुरे मग्गो तुज्झ । सान्दणक्खत्ते णहे इन्दुणो विअ । (ग) कास:-त्वं पुरोपरोधमानं जानासि । तत एवं ब्रवीमि । छर्दिः---किं अण्णं वि तत्थ कडए पउत्तं जं मए ण जाणीअदि। (घ) कास:-श्रूयताम् । असत्सैन्यैर्निरोधं कृतमगणयता खे पुरे सूपदिष्टं जीवोऽमात्येन योगं स किल निशमयन्प्रापदन्तर्मुखत्वम् । इत्यस्माकं निशम्य प्रभुरतिविशदं चारवनात्कुमार गत्वा पृच्छ त्वयेदं विदितमथ न वेत्याकुलः प्राहिणोन्माम् ॥ ६ ॥ छर्दिः-जुवराएण पण्डुणा विदिदं ण वेत्ति णत्थि संदेहो । जेण एदं एव्व सुणिअ सअलसामन्तचक्केण सह सिद्धसेणिो रहस्सागारे णिहा- भङ्गकसाइदलोअणो चिन्तापज्जाउलो जुवराओ चिट्ठदि । तुए वि तत्थ (क) भषणशीलस्य कुक्कुरस्येव तव जायाहम् । भवतु । एतत्कथय प्र- स्तुतम् । (ख) अवहितास्मि । (ग) तत्कि विचार्यते । अस्मदीयभटाक्रान्ते सुगमः शत्रोः पुरे मार्ग- स्तव । सान्द्रनक्षत्रे नभसि इन्दोरिव । (घ) किमन्यदपि तत्र कटके प्रवृत्तं यन्मया न ज्ञायते ।
२० काव्यमाला। गच्छीअदु । णाह, पञ्च. वि तुह वअस्सा सासा सेवातप्परा तह जेव्व वट्टन्दि । (क) कासः कथमिदं ज्ञातं त्वया । छर्दिः-तुह पुवगिहिणीए कण्ठकण्डूए परिदेवणमुहेण देइए विसू- चीए संणिहाणे सव्वं राअकज्जं णिवेदिदम् । तहिं संणिहिदथम्भन्तरिदाए मए सुदम् । (ख) कासः-कुतः कीदृशं च परिदेवनं तस्याः । छर्दिः--जं तुए मं कामअन्तेण पुव्वगिहिणीए ताए पणअभङ्गो किदो तेण कादव्वं परिदेवणं क्खु ताए । तह खु कण्ठकण्डू देवीए क- हिदवदी जं किल भट्टिणि, एदं मह दुज्जादं पण्डगिहिणीए णिवेदिदं गदम्हि । सा उण कालन्तरे एवं होदुत्ति जह तह मह अस्सुप्पमजणं किदवदी । तं जह-(ग) (स्मरणमभिनीय सभयम् , संस्कृतमाश्रित्य ।) अन्यात्याहितकर्मणो व्यपगमे कासेन भी समं संधास्येत्यवती (2) तु तत्प्रियसखान्सप्रेपयन्ती रहः । (क) युवराजेन पाण्डुना विदितं न वेति नास्ति संदेहः । येनैतदेव श्रुत्वा सकलसामन्तचक्रेण सह सिद्धसैनिको रहस्यागारे निद्राभङ्गकपायित- लोचनश्चिन्तापर्याकुलो युवराजस्तिष्टति । त्वयापि तत्र गम्यताम् । नाथ, प. शापि तव वयस्याः श्वासाः सेवातत्परास्तत्रैव वर्तन्ते । (ब) तब पूर्वगृहिण्याः कण्ठकण्डत्याः परिदेवनमुखेन देव्या विपूचि- कायाः संनिधाने सर्व राजकार्य निवेदितम् । तत्र संनिहितस्तम्भान्तरितया मया श्रुतम् । (ग) यत्त्वया मां कामयमानेन पूर्वगृहिण्यास्तस्याः प्रणयभङ्गः कृतस्तेन कर्तव्यं परिदेवनं खलु तया । तथा खलु कण्ठकण्डुर्देव्यै कथितवती य- किल भट्टिीन, एतन्मम दुर्जातं पाण्डुगृहिण्यै निवेदितुं गतास्मि । सा पुनः कालान्तरे एतद्भवन्विति यथा तथा ममाचप्रमार्जनं कृतवती । तद्यथा ।
२ अङ्कः] जीवानन्दनम् । २.१ इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्वाः सुखी- कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला ॥.७॥ . तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति । (क) कास:-(विचिन्त्य ।) मा विभेहि । ज्ञातस्तव भावः । त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्डा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम् । तेऽपि महुयैव पुष्टाः कथं मह्यं द्रुह्येयुः । छर्दिः-गच्छेहि कज्जसिद्धीए अहं वि देईए सकासं गमिस्सम् । (इति निष्क्रान्तौ।) प्रवेशकः । (ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः ।) पाण्डुः कः कोऽत्र भोः । (प्रविश्य) दौवारिक:-विजयतां देवः । (पाण्डुनिद्रालसो जृम्भते ।) दौवारिक:-(आत्मगतम् ।) एष किल आरक्तसंकुचदपाङ्गमुदगदंष्ट्र व्यादाय वक्रमुरुपाटलदीर्घजिह्वम् । उच्चैर्भुजौ वलयितौ ग्रथिताङ्गुलीको कुर्वन्सशब्दमिह जृम्भणमातनोति ॥ ८ ॥ अपि च । जृम्भावसरे दारुणमाननविम्ब सजिह्वमेतस्य । निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि ॥ ९॥ (प्रकाशम् ।) देवस्य कीदृशो मयि नियोगः । पाण्डुः-गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशयः । (गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्सनिपातान्प्रवेशयति । सर्वे प्रविश्य प्राञ्जलय- स्तिष्ठन्ति ।) (क) तत्रापि मन्दभागिन्यहं हतमनोरथा जाता। .
२२ काव्यमाला। तत्र एकः--सविचार इव दृश्यते युवराजः । तत्क्षणं जोषमास्य- ताम् । यदेपः खटामङ्गविवर्तनेन लुलितक्षौमास्तरामावस- न्वीटी भृत्यकरार्पितामगमयन्वत्रं गृहीतामपि । उत्तानस्तिमिते दृशावपि चिरादुच्चैर्वितानेऽर्पय- नत्यर्थं श्वसितोद्गमैर्विवृणुते चिन्तां निनान्तर्गताम् ॥ १० ॥ किं न पूर्वमपि । न स्नाति वारिपु चिरं त्वरितं दुकूलं वस्ते विलम्बसहनो न कदापि भुते । भूपागणं वहति किं च विपर्ययेण राजा युवैप हृदि कार्यविचारकृष्टः ॥ ११ ॥ गलगण्ड:-(दण्डेन भूमिमाघध्यन् ।) देव, सेनापतयः प्राप्ताः । पाण्डुः-(विलोक्य ।) भो भोः संनिपाताः, प्रतिराजस्य जीवस्य सकाशा- दस्मदीयराजस्य यक्ष्मणोऽधुना पराभवः संभावयिप्यत इति श्रूयते । स यथा न भवेत्तथा सैन्यैः सह संनद्धव्यं भवद्भिः । मंनिपाता:- अस्मादृशेषु बलशालिपु सैनिके राजन्नलं प्रभुपराभवचिन्तया ते । स्यात्कि वसन्तदिवसेषु विसृत्वरेषु पद्माकरस्य तुहिनाभिभवप्रसक्तिः ॥ १२ ॥ कति कत्यस्मदीयाः सैनिकाः । तत्रैकैकस्य पराक्रमवतो युद्धाय न प- प्तिमखिलं शत्रुसैन्यम् । किं पुनः सर्वेपाम् । श्रूयन्तां तावदस्मदीयाः । अष्टौ कुष्ठा दश च बलिनः प्लीहगुल्मास्तथाष्टौ पट् चोन्मादा वसति दशकं पञ्चकं च व्रणानाम् । अभेिदाः पतिधृतयो विंशतिश्च प्रमेहाः कि चाइमर्यो दश दश पुनः सन्ति सप्तातिसाराः ॥ १३ ॥ 1. भतिवृतय एकोनविंशतिः. - २ अङ्कः] जीवानन्दनम् । २३ (गलगण्डं प्रति ।) स्वामिनः कुमारस्य संनिधि प्रापय सर्वानपि सैनिकान् । गलंगण्ड:-तथा । (इति निष्क्रम्य सर्वैः सह प्रविशति ।) (सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति ।) पाण्डुः-एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते । तत्रादौ कुष्ठाः कार्या न चेतसि कुमार कदापि चिन्ता स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः । शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्य कुर्मो वयं तनुभृतामतिकुत्सनीयम् ॥ १४ ॥ उन्मादा:-सर्वे सैनिकास्तिष्ठन्तु । ज्ञायतामस्माकमभिप्रायः । कोपाध्मातककुत्स्थपुंगवकरव्याकृष्टग द्धनु यानिर्गत्वरमार्गणानलशिखादीने नंदीने भृशम् । पाठीनान्कमठैः समं विलुठतः सर्वेऽनुकुर्वन्तु ते शार्दूला इव शम्बरान्सरभसं यानद्य गृह्णीमहे ॥ १५ ॥ व्रणाः-स्वामिन्कुमार, प्रथमं पुरमेव वाधितव्यम् । तद्वाधया शिथि- लीभविष्यत्यन्तर्मुखतापि जीवस्य । अत इदानीम् प्रचण्डमदपाण्डवप्रहितकाण्डवर्गत्रुट- तरक्षुकरिकेसरिप्रियकशल्यशार्दूलकम् । अरण्यमिव खाण्डवं घनसरण्यतीतं द्रुम- वनं दहनहेतयः पुरमरेर्दहामो वयम् ॥ १६ ॥ सर्वेऽपि अर्शीभेदाः-खामिन्, यदुक्तं ब्रणैस्तदस्मभ्यमपि रोचते । तेन वयं च निरुद्धमूलद्वाराः । गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽस्सद्गृहीताः । १. समुद्रे, २. मृगभेदान्.
काव्यमाला ।
स्थातुं गन्तुं शयितुमशितुं यातुमाभाषितुं वा
नापेक्षन्ते मनसि दधतो दुःखमात्रानुभूतिम् ॥ १७ ॥
प्रमेहा:-स्वामिन् , अस्मासु विधेयेपु पुरोवर्तिषु किमर्थमन्येषां प्रस्तु-
तकार्य प्रति प्रेपणम् । तत्क्रियतामस्मदुक्तिश्रवणादरः ।
पाण्डुः-वक्तव्यानि वो विवक्षितानि ।
प्रमेहाः-
संप्रस्तावात्परिणतिमसृमांसभेदोस्थिमज्ञां
व्यातन्वन्तो वयमनुदिनं तत्पुरं शोपयामः ।
क्वान्तर्वको भवतु विधुरीभूय जीवः क्व मन्त्री
तत्साहाय्यं कलयतु भवास्तद्विपादं जहातु ॥ १८ ॥
अश्मयः-सर्वे सैनिकाः स्वस्ववलानुरूपं गर्जन्ति । स्वामिन् , न वयं
गर्जनपराः । किं तु भूतार्थवादिन्यः ।
वधिप्यते न यावत्स हितः सवैभेटैनिजैरी ।
तावन्निग्रहणीयः श्रेयस्कामेन पुरुपेण ॥ १९ ॥
तथा हि।
वेलालचिप्रसर्पत्तटविटपिसमुत्पाटनाटोपमूर्छ-
कल्लोलाकान्तपृथ्वीवलयजनलयोल्लेखसंत्रस्तलेखः ।
अम्भोधिर्मा जनीति प्रतिकलमुदयद्वारिभूरीभविष्य-
बेपत्यवाय वहिर्विघटितवडवावक्ररन्ध्रादुदश्चन् ॥ २० ॥
पाण्डुः-युक्तमुक्तं भवद्भिः ।
अतीसाराः-स्वामिनः कृपयैव भुजप्रतापं दर्शयन्तो वयं विजेप्या-
मह इति किमत्र चित्रम् । अतः किमपि ब्रूमः । विदांकरोतु स्वामी ।
नेत्र मज्जयितुं मुग्वं ग्लपयितुं जत्रुदयं व्यञ्जितुं
पार्थाम्नां गणनीयतां गमयितुं सत्त्वं भृशं लुण्ठितुम् ।
मसत्वेऽपि निज स्थिते वटयितुं पञ्चत्वमेवाङ्गिनां
शतान्नः प्रहिणोपि यत्र तरसा तत्साधयामो वयम् ॥ २१ ॥
२ अङ्कः] जीवानन्दनम् । २५ पाण्ड:---(सबहुमानम् ।) - अतिसारा इति स्पष्टं विष्टपत्रयविश्रुतम् । युष्मन्नामैव युष्माकं ब्रूतेऽतिशयितं बलम् ॥ २२ ॥ गुल्मप्लीहान:-श्रूयतां स्वामिना। अस्मासु प्रविशत्सु शात्रवपुरं पीडाकरेषु द्रुतं कार्याकार्यविवेक एव न भवेदल्पोऽपि तसिन्क्षणे । आस्तामेतदिदं वचो निशमय क्षन्तुं व्यथामक्षमो विज्ञानेन च मन्त्रिणा सह पुराज्जीवः पलायिष्यते ॥ २३ ॥ पाण्ड:--अस्सत्सैनिकोपरुद्धे पुरे पिपीलिकापि न प्रसरीसरीति, कुतः पुनरियं तस्य पलायनशङ्का । परंतु सर्वैरिदमाकर्णनीयम् । नीतिशास्त्रा- नुसारिणि मन्त्रिणि तदनुरक्त विक्रमाभिमानरक्षणैकपरे द्विजदेवपोषणैक- तानमानसे राजनि तस्मिन्निपुणं किमपि प्रतिविधानमनुसंधेयम् । अतः प्रागेवातर्कयं किंचिदत्याहितहेतुस्तदीयान्तर्मुखतेति । कुष्टेष्वेकः-(स्वगतम् ।) प्रागस्माभिः प्रेषितः शत्रुशिबिरं प्रविष्टः क- णमूलोऽद्यापि नागतः किं तैर्गृहीतः स्यात् । (ततः प्रविशत्यध्वश्रान्तः कर्णमूलः ।) कर्णमूल:-(दृष्ट्वा ।) एतत्खलु तत्तत्कार्यनिवेदनार्थमिलितान्योन्यानभिज्ञस्पैश- प्राप्तव्यावसरप्रतीक्षणकृतद्वाःपार्श्ववेद्यासिकम् । अन्तर्मन्दिरनिःसरजनवचोविज्ञाप्यमानप्रभु- व्यापारश्रवणेप्सुबाह्यमनुजं पश्यामि पाण्डोर्गृहम् ॥ २४ ॥ (द्वाःस्थं प्रति ।) गलगण्ड, कथय कर्णमूलं संप्राप्तं माम् । (गलगण्डः प्रविश्य निष्क्रम्य कर्णमूलेन सहान्तः प्रविशति ।) कर्णमूल:--(आत्मानं दृष्ट्वा स्वगतम् ।) श्रमाम्भःसंसिक्तालिकललितपुण्ड्राङ्कवदनो द्रवञ्चर्मोपानढपिहितपार्थाञ्चलपटः । १.स्पशश्वरः २६ काव्यमाला। समुद्यन्निःश्वासप्रसरपरिशुष्काधरपुटो विलक्याहं दीी सरणिमगमं पाण्डसविधम् ॥ २५ ॥ (पाण्डु दृष्या ।) कुमार, विजयी भव । पाण्डुः-भद्र, किम् । किंचिदुपलब्धं तत्र भवता प्रविष्टेन । कर्णमूलः-कि सफलो न भविष्यति कुमारनियोगो विशेपोपलम्भेन । पाण्डुः कथय । कर्णमूलः-श्रूयताम् । उपरुद्धमसत्सैनिकैः पुरम् । पाण्डुः किमेतत्परिज्ञानाय प्रेपितोऽसि । विदितं खल्विदं सर्वेपाम् । कर्णमूला-(सर्वतो विलोक्य ।) एतदेव प्रस्तोतुमयमवसरः । पाण्डुः-विस्रब्धं कथय । किं न जानासि अस्मच्छरीराण्येव कीलैते । कर्णमूल:-देव, भवदाज्ञया प्रविष्टोऽस्मि पुण्डरीकपुरम् । तत्राद्राक्ष च सन्निरीक्षणैकपरे ईक्षणे । निगमार्थश्रवणप्रसिते श्रवसी। शिवनिर्मा- ल्यगन्धसंतपितं घ्राणम् । विघसामृतास्वादनैकतानां रसनाम् । त्रेताभस्सा- वगुण्ठितां त्वचम् । धर्मार्थसंग्रहीतारौ करौ । तदर्थ कृतसंचरणौ चरणौ । चिरंतनसरस्वतीचिकुरपरिमलामोदसदनं वदनं च । तद्दर्शनेन क्वचिदपि स्थलमलभमानः स्थातुमपि नाशक्नुवम्, किं पुनर्देवस्याज्ञां परिपालयितुम् । कुष्टः-(विहस्य ।) अनासारवर्पणमजागलस्तनसमवस्थं तव गमनाग- मनं च। मंनिपात:-कुष्ठ, सावशेषमिव तव वचनम् । -स्वामिपोपितस्त्रकलेवरनिरर्थकता च । कर्णमूल:--जाग्रति मच्छिरसि महाराजपादपङ्कजरेणौ कथमेतद्भ- विष्यति । पाण्डः--ततस्ततः। कर्णमूलः-ततश्च तन्मिन्पुरे स्थानमहं विवेक्तुं चरन्समन्तात्कचिदप्यपश्यम् । त्रिवाशयेषु स्थितिमत्स्वशकं संचारितं केन च पङ्गुयुग्मम् ॥ २६ ॥ ।
२ अङ्कः]
जीवानन्दनम् ।
२७
पाण्डुः-(स्वगतम् ।) वायुसंचार्यमाणं कफपित्तयोयुगं तद्भवेत् । (प्रका-
शम् ।) ततस्ततः।
कर्णमूलः--तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच
प्रवृत्तिरुपलब्धुं शक्येति तच्च तं चोपासर्पमहम् । स च तच्च मयि दृष्टमात्रे
भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः ।
कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम् ॥ २७ ॥
भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो
रात्रि नेतुमिहागतोऽस्मि नियतं सायाह्नि भिक्षामटन् ।
स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता-
मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना ॥ २८ ॥
अनन्तरं च कार्यान्तरव्याहते च राजनि नूतनपुरुषपरिमार्गणपरे च
नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्व
कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि ।
पाण्डः-ततस्ततः ।
कर्णमूल:-तेऽपि मां भद्रेत्यामन्त्र्य समकथयन् ।
पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम् ।
आराद्धं गतवान्राजा मनोद्वारेण तिष्ठति ॥ २९ ॥
किं च ।
शत्रुनिरुद्धे च पुरे परिसर्पाशङ्कया नगरगुप्त्यै ।
नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते ॥ ३० ॥
अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम् । श्रुत्वा च कथंचि-
लब्धावकाशः स्वामिकार्यगौरवादागतोऽस्मि ।
पाण्डुः----(आकाशे लक्ष्यं बड़ा सोपहासम् ।) रे रे मन्त्रिहतक, अस्मज्जयार्थ
सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः । तर्हि पश्य।
साधितोऽपि स किं कुर्याद्रसः पथ्यक्रम विना ।
जिह्वाचापलमुद्भाव्य स एव ध्वंसयिष्यते ॥ ३१ ॥
किं च । भक्त्या त घटयित्वा चतुरोऽपि पुमर्थास्तस्य साधयितुं किलाय- मपरो यत्नस्तत्रापि प्रतिविधास्यते । कर्णमूल:-(सप्रश्रयम् ।) देव, युगविगमसमयसमसमुदितमार्तण्डमण्डल- स्येवाखण्डितप्रतापस्य तवापि कियान्स रसः शोपण इव तस्य (१) तव किं महिमातिशयः । तथाहि । दृष्ट्वा वैरिचमूसमूहमवशादुद्वेलमुज्जृम्भित- क्रोधात्संगररङ्गसीमनि भवत्यद्धा निबद्धादरे । जीवः कः क्व च तस्य मन्त्रिहतको विज्ञानशर्मा पुन- दृश्येरन्छ तृणाग्नितुल्यमहसस्तस्याल्पसारा रसाः ॥ ३२ ॥ पाण्डुः-आः, अस्त्वेतत् । भद्र, कथय कीदृशी प्रकृतीनां प्रवृत्तिः । के स्वामिनि दृढभक्ता के प्रवलाः के च दुर्बला नगरे । अरिमित्रोदासीनाः के पुनरङ्ग त्वया दृष्टाः ॥ ३३ ॥ कर्णमूलः-कथयामि देव, श्रूयताम् । तत्र प्रकृतयस्तिस्रो वातपित्तकफात्मकाः । तत्र यः प्रवलो वातः स तु स्नेहैर्वशीकृतः ॥ ३४ ॥ किं च । तदनुगतं यत्पित्तं मधुरमयैस्तद्विजेयमुपचारैः । पर्यस्तत्र कफस्तीक्ष्णोपायैर्वशं स चानीतः ॥ ३५ ॥ पाण्ड:-अथ कीदृशो मनसो वृत्तान्तः । कर्णमूल:- उद्दामबुद्धिविभवेन मनस्तु तत्र विज्ञानशर्मसचिवेन वशीकृतं सत् । कार्ये महत्यधिकृतं हितकारिराज्ञः सर्वात्मनाप्यनुसरत्यधुना तमेव ॥ ३६ ।। पाण्डः-अथ विज्ञानशर्मस्पार्धिनो ज्ञानशर्ममन्त्रिणः कीदृशः प्रकारः।
२ अङ्कः] जीवानन्दनम् । २६ . कर्णमूल:- विज्ञानमन्त्रिमन्त्रैर्विविधैरसकृद्विधूतनिजशक्तिः । स ज्ञानशर्ममन्त्री तिष्ठति केवलमसौ स्वरूपेण ॥ ३७ ॥ एवंविधविविधविचित्रचरित्रविस्मापितसकललोकस्य खामिहितकरण कतानस्य मन्त्रिणः पारे खलु वाङ्मनसोश्चरिता तानि । तथाहि । तत्तद्दुर्घटराजकार्यघटनाव्यापारपारीणया 'शक्त्या दुष्प्रसहस्य तस्य वचनैर्नानोपपत्त्यन्वितैः । निर्द्वन्द्वोऽपि स निर्गुणोऽपि च निराकारोऽपि निर्लेपनो- ऽप्याः कष्टं प्रतिपक्षतामुपगतो जीवो विचेष्टेत नः ॥ ३८ ॥ तस्मादेवंस्थिते प्रकृतिमण्डले दुर्भेये च शत्रुपक्षे महदत्याहितमाप तिष्यति । (इति भयं नाटयति ।) पाण्डु:-(विचिन्त्य ।) मा विभिहि । तत्रापि काचिदस्त्यवाधिता नीतिः कर्णमूल:--कीदृशी। पाण्डुः श्रूयताम् । यच्चञ्चलं प्रकृत्या विषयेषु मनो निसर्गदुर्दान्तम् । तत्कामादिमिरेतैर्भेदयितुं शक्यते शनकैः ॥ ३९ ॥ तस्मिन्सविषयाधिष्ठाने मनसि स्वाधीने सुकर एव कार्यशेषः । वि च याः किलाद्यास्तत्र तिस्रः प्रकृतयस्तासु यस्तीक्ष्णोपायैः संयमितवृद्धि श्लेष्मा तस्योपचयं केनाप्युपायेन विधाय तेनैव तावपि क्षोभयितुं शक्यते विज्ञानोऽयं यद्यपि स्वामिभक्तस्तत्राप्यस्यासंनिधाने विविक्ते । भेदो राज्ञस्तस्य तैस्तैरुपायैः शक्यः कर्तुं ज्ञानशर्मोपजापैः ॥ ४० ॥ एवं राजमन्त्रिणोविरोधेन विश्लिष्टे प्रकृतिमण्डलेऽचिरादेव हस्तगत महाराजस्य यक्ष्मणो जयलक्ष्मीः । कर्णमूल:--(सहर्षम् ।) साधु चिन्तिता मन्त्रिवर्येण राजतन्त्रनीतिः । पाण्डुः-भद्र, नाद्यापि महाराजनिकटगतोऽत्रायाति कासः । (प्रविश्य) गलगण्ड:-देव, महाराजपादमूलात्कासः प्राप्तः । पाण्डुः-त्वरितं प्रवेशय ।
२० काव्यमाला। (ततः प्रविशति गलगण्डेनानुगम्यमानः कासः ।) (कासो जानुभ्यां प्रणम्य किंचिदुपसर्पति ।) पाण्डः-भद्र, कीदृशो मयि राजनियोगः । कासः-(करपिहितमुखः । कर्णे ।) एवमेवम् । पाण्डुः--भद्र, तदर्थमेवेयं वद्धपरिकरता । तिष्ठ त्वमत्रैव। राजानमि- ममुदन्तमन्यमुखेन प्रापयिप्ये । (नेपथ्ये यामप्रहारध्वनिः।) पाण्डः-(श्रुत्वा सैनिकान्प्रति ।) तदहमिदानी कार्यशेपं निर्वर्त्य प्रकृत- कार्यार्थ संनयामि । भवन्तोऽपि तावत् विभ्राणास्तान्युपमितमहाभोगिभिर्वाहुदण्डै- येपां येषां दधति निजतां यानि यान्यायुधानि । म्बस्वस्थानेष्ववहितमनोवृत्तयस्त्यक्तशङ्काः सर्वे तिष्ठन्त्वरिपुरमभिव्याप्य सैन्याः प्रवीराः ॥ ४१ ॥ (इति निष्फ्रान्ताः सर्वे ।) इति द्वितीयोऽङ्कः। तृतीयोऽङ्कः। (नतः प्रविशति पधाद्वन्दं पुरुष किकरण विकनि विचारो नागरिकः।) नागरिकः-~-अङ्ग गद, कस्त्वमसि । पुरुपः----(सगतम् ।) किमहं ज्ञातोऽस्म्यनेन गद इति । नागरिक:-कि विचारयसि । यदि सत्यं गदोऽसि ततो मोक्ष्यसे । पुरुपः-नगनमः ।) नाहमनेन ज्ञातः । विभ्राणो मुखबाहुवक्षसि कृतं पुण्यं भस्मना हतोपात्तविशुद्धताम्रकलशो रुद्राक्षमाली गले । धृत्वा वैदिकवेपमाविशमिह म्बस्वामिना प्रेरितो हृद्रोगोऽहमरेरवेक्षितुमना जीवस्य राजः स्थितिम् ॥ १॥ अनन्तामनेन नागरिकण संयमितः । भवतु । एवं ब्रवीमि । (प्रकाशम् ।) आर्य, मुन्न माम् । विप्रनिकनामुपजीव्येदं जटरहतकं पुष्णामि ।
३ अङ्कः] जीवानन्दनम् । ३१ नागरिक:-अस्त्वेतत् । कुतो रात्रिसंचारः । पुरुषः-यस्यकस्यचिद्यत्किचिद्भाविफलमुक्त्वा पारितोषिकं गृहामीति । नागरिकः-किं दिवसस्ते तत्कर्मणो न पर्याप्तः । पुरुषः बाढम् । श्रूयताम् । यामो यात्यविलम्वितं दिनमुखे स्नानादिभिः कर्मभिः पश्चाद्भिक्षितुमारभे प्रतिदिनं धान्यानि वा तण्डुलान् । तैरन्नाद्युपपाद्य धूर्नटिमुखान्देवान्निवेद्यातिथी- संतश्नित एव याति दिवसः शेषः कुतः संचरः ॥ २ ॥ किंकरः-अये, युक्तमिदम् । इह तु यामादूर्व रुध्यते नगरसंचारः । पुरुषः-यदीदानी यामादूर्व कालस्तहि न संचरामि स्वप्स्यामि । किंकरः-कुत्र निद्रास्थानम् । पुरुषः-धर्मशालायाम् । नागरिक:-किमिदं राजमन्दिरं तव धर्मशाला । अत्र हि नोंकारः पुवते न गीतिरटति स्वाहेति न श्रूयते न न्यायव्यवहारतारवचसः संघीभवन्ति द्विजाः । नात्युच्चैः पृपदाज्यहोमसुरभिधूम्या जरीजृम्भते भक्ताः पञ्चजनाः स्वपन्ति परितो न स्त्री कुमारो न च ॥३॥ पुरुषः-अस्त्विदं राजमन्दिरं तथापि सुप्रवेशमस्मादृशामिति श्रु- तमस्ति । नागरिकः-सुप्रवेशमिति कस्मात्त्वया श्रुतम् । पुरुषः-आर्यमिश्रेभ्य एव । नागरिकः-हन्त, किमस्माभिरिदं कथितम् । पुरुषः-नहि नहि । अन्यजनः । नागरिका-कैस्ते कथितम् । यदिदं परिचितजनस्यापि राजशासन- मन्तरेण दुष्प्रवेशम्, किं पुनरपरिचितस्य ते । किंकर:-विसंस्थुलेवास्य वचनव्यक्तिः गृहीत इव चोरस्तरलतारक- विलोचनः पश्यन्नयं वक्तुं न शक्तः प्रत्युत्तरं ततश्चर इव लक्ष्यते ।
३२
काव्यमाला।
नागरिकः-तहिं शिक्षयतु भवानिमम् ।
किंकरः-अरे, कथय तथ्यम् । मृपावादिनस्तव वैदिकता राजशास-
नस्य न प्रतिरोधिनी । (हति कशामुद्यच्छति ।)
पुरुपः-मा ताडय । तथ्यं वदामि ।
नागरिक:-यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभा-
वयिष्यामि ।
किंकरः-प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री । तत्सं-
निधी त्वमपि नेप्यसे ।
पुरुपः-(स्वगतम् ।) तथा चेन्मम दुर्लभमेव जीवितम् । (प्रकाशं भीतिम-
भिनीय ।) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम् । (इति प्रणमति ।)
नागरिकः-दत्तभयोऽसि । कथयात्मानम् ।
पुरुपः-(उत्थाय प्राञ्जलिः ।) हृद्रोगोऽस्मि । विसृज मां दयया ।
नागरिकः-चार एवायं वैदिकवेपमवलम्व्यागतो दत्ताभयश्च ।
किंकरः-तहिं किं कर्तव्यम् ।
नागरिकः-'सर्वमिदं राजकार्य त्वया कस्मैचिदपि न कथनीयम्'
इति शपथं गृहीत्वा पुराहहिविसृज्यताम् । अथवा किमनेन वराकेण
कथनीयम् । दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः ।
किंकरः-तथा करोमि । (इति निष्क्रान्तः ।)
(नेपथ्ये कुगुटध्वनिः ।)
नागरिका-(आकर्ण्य ।) कथं रजनीविरामः ।
(पुनर्ने पथ्ये)
वैतालिक:-
पत्यावन्तं ब्रजति विगलच्चश्चरीकाञ्जनाच-
त्रासान्मालद्दलदृशमितो रागमर्कक्रमेण ।
द्रागालिदपि कुमुदिनामित्यपन्यायशङ्की
कृकुशव्दं विमृजति जवात्कुक्कुटः पूर्वमेव ॥ ४ ॥
.३ अङ्कः]
जीवानन्दनम् ।
३३
द्वितीयो वैतालिक:-
रागं मुखेन दरदर्शिततारकेण
मां व्यञ्जतीमपि समेत्य करेण गाढम् ।
आलिङ्गयते कुमुदिनीति रुषापराद्रि
यातां निशां द्रुतमनुव्रजतीव चन्द्रः ॥ ५ ॥
अपि च ।
प्रातर्जातमिति द्रुतं प्रशिथिलं वद्धा दुकूलं दृढं
धम्मिल्लं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः ।
आकृष्टांशुकपल्लवे कठिनयोरालिङ्गय वक्षोजयो-
राघ्रायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः ॥ ६ ॥
नागरिकः-तदधुना राजकार्ये चावहितस्तिष्ठामि । (इति निष्क्रान्तः ।)
शुद्धविष्कम्भकः ।
(ततः प्रविशति प्रासादाधिरूढः प्रतीहार्या धारणया दर्शितमार्गो मन्त्री।)
मत्री-संप्रति हि
सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं
पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना।
भित्तिवालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै-
रारुक्षं निटिलाक्षशैलधवलं प्रासादम_लिहम् ।। ७ ॥
(विचिन्त्य स्वगतम् ।) अहो दुरन्तता राजधर्माणाम् ।
आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधनै-
दर्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि ।
दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतले
राज्ञा धर्मपथे मतिं क्रमयता संरक्षितव्याः प्रजाः ॥८॥
किंबहुना ।
.
खश्रेयसाथै यततेऽनिशं यो राज्ञा किलानेन पृथग्विमर्शः।
स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्रे दुर्गेषु कोषेषु बलेषु कार्यः ॥९॥
२४ काव्यमाला। नितिसर्वतन्त्रेषु विगूढामोघमन्त्रेषु मन्त्रिषु विन्यस्तसमस्तकार्यभरस्य तु राज्ञो निश्चिन्ततैव । परंतु तेषां व्याकृप्यन्ते दुरन्तया चिन्तया हृदयानि । सामन्ताविनमेयुरित्युपचयः कोपस्य सिद्ध्येदिति स्थानेषु द्विषतां स्थितीरपि चराः पश्येयुराप्ता इति । स्यादायोपगमो यथेति विभवैस्तुष्टाः प्रवीरा भटा वर्तेरन्निति मा मलिम्लुचगणाभूरुद्विजेतेति च ॥ १० ॥ अहमपि राज्ञा विन्यस्तसमस्तकार्यभारतया यत्सत्यं व्याकुल एव । तथा हि। कार्येपूक्तेपु राज्ञा कतिचिदपि मया साधितान्येव पूर्व साधिप्यन्ते परस्तात्कतिचन कतिचिच्चापि साध्यन्त एव । किंचानुक्तेपु सद्यः किमपि किल कुशाग्रीययात्मीयबुध्या पर्यालोच्यैव तत्तत्समयसमुचितं कर्तुमुत्कण्ठितोऽस्मि ॥ ११ अत एव सर्वत्र तत्रतत्र व्यापते मया पुरगुप्त्यै मत्सदृश एव कोऽपि विनियुक्तो विचारनामा नागरिकः । तत्प्रकृतकार्ये व्यापृतव्यम् । कः को- ऽत्र भोः। (प्रविश्यं ।। दौवारिकः-विजयतां देवः । मत्री-भद्र, मद्वचनेनानुशासनीयाः पारा नगरालंकाराय । आलिम्पन्तां सुधाभिः पुरसदनगता मित्तयो भृत्यवर्ग रम्मास्तम्माः क्रियन्तां कपिशफलभृतः पार्श्वयोरिभूमेः । वध्यन्तां तोरणानि श्रितनवमणिमिर्दामभिः सन्तु रथ्याः संमृष्टाचाम्बुसिक्ताः प्रतिगृहमुपरि अश्यतां केतनाली ॥ १२ ॥ यतः संप्रत्येव सिद्धप्रतिज्ञो राजा समागमिप्यति । दौवारिकायदाज्ञापयत्यार्यः । (इति निष्क्रान्तः ।) मत्री-'मदृष्टिक्षेपं परियन्यावलोक्य च ।) अहो रिपूणां पुरावस्कन्दन- प्रकारः । तथा हि । पाण्टुना प्रेरिता रोगाः, .
३६ - ३ अङ्कः] जीवानन्दनम् । मूर्धानं व्याप्तुकामाः शतमथ नवतिर्लोचने चाधिचत्वा नासामष्टादशास्यं खलु चतुरधिका सप्ततिर्दृच्च पञ्च । वक्षोजौ पञ्च शूलैः सह समगणनैः कुक्षिमष्टौ च गुल्माः वार्हस्थानान्युपेतं त्रिगुणगणनया पञ्चकं च व्रणानाम् ॥ १३ ॥ अथ च खयमेव मन्त्रिभूतस्य युवराजस्य पाण्डोः पुरोपरोधवैचित्री वाचामतिवर्तते पन्थानम् । (सामर्ष सावहित्यं चाकाशे ।) साधु मन्त्रिधुरीण, साधु । अनया गुप्तप्रयोगप्रकारगौरवया धिषणया शौर्येण च दैत्यगुरुं वृषपर्वाणं चाधिशेषे । (सोपहासम् !) मयि- (इत्योक्ते विरमति ।) धारणा-(सस्मितम् ।) अमच्चस्य वाक्यसेसेण तक्कीअदि धीरोद- त्तत्तणम् । (क) अमात्यः-अस्खलितासाधारणकार्यावधारणधौरेयस्खलितानि तव म- नीषितानि भवन्ति । (इति पुरो विलोक्य ।) अहो नगरालंकारचातुरी पौराणाम् । कीर्णान्यम्वुपृषन्ति किंकरगणैरभ्यन्तरे ताडिता- न्यातोयानि निकेतकेकिनटनप्रारम्भमूलानि च । बद्धा मन्दिरमार्गसीमसु हसन्नाथापनीतांशुक- व्यक्तोरोजसलज्जसिद्धयुवतिव्याकृष्टचेलध्वजाः ॥ १४ ॥ अपि च । मन्ये रम्भाः पुरमृग़दृशामूरुसौभाग्यचौर्या- हृद्धा भृत्यैः प्रतिगृहमपि द्वारपार्थद्वयेषु । अम्भोदुर्गात्कथमपि हृता यन्त्रितोचैर्विताने तासां. वाम्बुजपरिमलग्राहिणी पद्ममाला ॥ १५ ॥ किं च । सुधालेपधवलीकृतसौधवसतयः पौरयुवतयः शारदाभ्रगतपर- माद्भुततडिल्लताविभ्रममुद्भावयन्ति । किं च, चञ्चरीकगणश्चित्रलिखितसह- कारमञ्जरीकलितोत्कलिकया संचरमाणोऽपि कदर्यमवनीपतिमुपगतो वनी- पकलोक इव निष्फल एव निवर्तते । कतिचन निकेतनानि च नूतनालि- (क) अमात्यस्य वाक्यशेषेण तय॑ते धीरोदात्तत्वम् ।
३६ काव्यमाला। खितेनाहिनकुलेनाश्वमहिषेण गोव्यानेण च भित्तिपु निर्वैरसत्त्वान्यनुकुर्वन्ति नत्वराणि तपोधनाश्रमपदस्य । (अन्यतोऽवलोक्य सहासम् ।) दृष्ट्वाकृप्टकचामुदतचिबुकां पत्या कराभ्यां वला- कामप्येणदृशं करौ विधुवतीमास्वाधमानाधराम् । आलेख्ये पुरशिल्पिना विरचितां भित्तौ बहिर्मन्दिरा- न्नार्यः सस्मितनम्रवककमलाः कर्पन्ति यूनां मनः ॥ १६ ॥ नन्विदानीमत्र नगरालंकारदर्शिनो राज्ञः समागमं प्रतीक्षमाणाः पौरा- स्तस्य परमुपचाराय संनद्यन्ति । तथा हि । स्थाप्यन्ते गृहवासवेदिपु घटाः संवेष्टितास्तन्तुभिः प्रत्यग्राम्रदलप्रसाधितमुखा विप्रैः पयःपूरिताः । कन्याभिघृतसिक्तवर्तिनिकरैर्नीराजनाभाजनैः साध्यन्ते सममेव लाजसुमनश्चित्राणि पात्राणि च ॥ १७ ॥ (विचिन्त्य ।) कथमसौ राजा लिप्सितं फलं लब्ध्वा समायास्यति । कथ- मम्य साम्बशिवप्रसादमन्तरेण लिप्सितफललाभः । कथं वा कठोराणि त- पांसि विनानेन सुलभः शिवप्रसादः । कथमनेन स्वकालविकस्वरशिरीपद- लकोमलशरीरेण सुकरा कठोरा तपश्चर्या । न चैतस्य तादृशतपश्चरणा- तेऽखिलपुरुपार्थसाधनं भगवतश्चन्द्रकलावतंसस्य निरन्तरध्यानं संभाव्यते । नलिनीदलान्तरालतरलोदविन्दुसमस्यन्दा दुनिरोधा हि चित्तवृत्तयः । तदि- दानी मदीयमन्तःकरणं दुरन्तचिन्तोदधौ निमज्य पुनरुन्मज्जति । अथवा कम्य किमसंभावितमनुकूलतामुपगते देवे । (दक्षिणभुजस्पन्दमभिनीय ।) कथ- मम्याने मम विचारः । सर्व मुघटितं भविष्यति । (नेपथ्ये) वैतालिक:- वातं प्रावृषिकं निरुथ्य सहमा गात्रप्रकम्पप्रदं संफुल्लानि विधाय चारुकमलान्यासाद्य हंसागमम् । दिष्ट्या टब्यवता प्रसादमधिकं वापीनलाधारयोः मद्यः शाग्दवासंग्ण धवलो मेवोऽम्बरं प्रापितः ॥ १८ ॥ - ३ अङ्कः] जीवानन्दनम् । मन्त्री-(श्रुत्वा सहर्षम् ।) समद्युत(?)प्राणनिरोधेन निर्धूतसकलतपोवि- लेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोबूंजटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते । (पुनर्नेपथ्ये ।) दिमण्डलस्य विमलीकरणे प्रवीणा- निर्विघ्नमुत्सृजति नीरजवन्धुरंशून् । पङ्कश्च पान्थपदयोगममृष्यमाणः संशोषमेत्य शकलीभवति क्षणेन ॥ १९ ॥ मन्त्री:-(श्रुत्वा ।) एतेनापि वचसा निरोगीकरणसमर्थान्रसान्प्रयोक्तुं राज्ञस्तस्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते । (सबहुमानम् ।) साधु रे वैतालिक, साधु । यदधुना गूढाभिप्रायेण भवता वोधितव्यं बोधितम् । तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि । (इत्युत्थाय आकाशे ।) अरे - यक्ष्महतक, भव- दीयमतःपरं पश्यामि शौण्डीर्यम् । (पुरो विलोक्य ।) कथमागत एव देवः । यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते । यैषा धम्मिल्ले घनसंनिभे सिततडिद्वल्येव मल्लीस्रना वक्वेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च । हारेण स्तनकोकयोरपि विसस्वच्छेन चायामिना पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते ॥ २० ॥ अयमपि महाराजस्तस्या अनुपदमागच्छति । संप्रति हि एतस्य विचारविगमादिदं विलसति प्रसन्नं मुखं गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम् । विषाणिन इव प्रतिद्विरददर्शनामर्षिणो गतिश्च किल मेदिनी नमयतीव धीरोद्धता ॥ २१ ॥ (ततः प्रविशति जीवो बुद्धिश्च ।) जीव:-अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः । यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन् । शोधिते च तस्मिन्म- - काव्यमाला। गवद्भक्तिर्नाम कापि कल्पलता प्रथममकरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती । अनित- रसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलपितान्रसगन्धकादीन्प्रसा- दीकृत्यार्पितवन्तौ । अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलपितं पुमर्थ लप्स्यामहे । बुद्धि:-अजउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा सजेन्व विवक्खरखवणं णिन्वहन्दि । (क) राजा-देवि, दिव्योषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्त- सामर्थ्या येते। देवी-ता एव्वं संविहाणसमत्येण केण वि होदव्वम् । (ख) राजा-विज्ञानशमैवात्र निर्वोढाः। यतः । ऋपिरेव विजानाति द्रव्यसंयोगजं गुणम् । विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधि,पिः ॥ २२ ॥ किच। महेशतेनःसंभूतो रसः कारुणिकाग्रणीः । यः स्वानिष्टमुरीकृत्य परपीडां व्यपोहति ॥ २३ ॥ तदुक्तम्- 'मूर्छित्वा हरति रुज बन्धनमनुभूय मुक्तिदो भवति । अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ २४ ॥' 'मुरगुरुगोविनहंसापायकलापोद्भवं किलासाध्यम् । चित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः ॥ २५ ॥' गन्धकस्यापि माहात्म्यमुक्तम्- 'ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके । (क) आर्यपुत्र, किमंत रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति । (ब) तदेवं मंविधानममर्थन केनापि भवितव्यम् । am ३ अङ्कः] जीवानन्दनम् । ३९ :- शुद्धो गन्धो हरेद्रोगान्कुष्ठमृत्युजरादिकान् । अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥ २६ ॥ किं च प्रतिदिनं निषेव्यमाणैरेतैः प्रियरतीनां युवतीनामनभिमतानां पुंसां जरामुपरुध्य तासामभिमते यौवने तेषां स्थापनं भवति । देवी-(सलनं सदृष्टिक्षेपं च ।) संपत्तो एसो विष्णाणणामहेओ अमञ्चो । तां णम्मालावस्स ण एसो समओ । (क) राजा-(विलोक्य ।) अये, मन्त्रिबृहस्पतिः संप्राप्तः । (सानुशयम् ।) कर्तव्यो विधिरित्थमित्थमिति मामुक्त्वा जिगीषुपिं खस्यैवोपरि राज्यतन्त्रमखिलं द्रष्टव्यमासज्य च । अद्येदं क्रियते करिष्यत इदं पश्चादकारि त्विदं प्रागेवेति दुरन्तया कृशतनुं पश्याम्यमुं चिन्तया ॥ २७ ॥ एतदनुज्ञयैव निर्विचारमानसेन मया कृतं भगवदाराधनम् । मत्री-(उपमृत्य।) स्वस्ति सफलमनोरथाभ्यां स्वामिभ्याम् । जीव:-भवत्साहाय्यमेवात्र हेतुः । बुद्धिः-एवमप्पमत्तेण चित्तवावारेण सहायत्तणं कुणन्तो दीहाऊ होइ । (ख) राजा-अत्र निषीदतु भवान् । मन्त्री-(उपविश्य ।) निर्विघ्नेन कार्यसिद्धिर्जातेति मनोरथानामुपरि व- तामहे । राजा:-तदेव वक्तुकामोऽस्मि । मत्री-अवहितोऽस्मि । राजा-त्वदुक्तमार्गेण प्रथमं पद्मासनं बद्धा तथैवोपविष्टोऽहम् । शुद्धान्तःकरणेन संततपरिध्यातार्क कोटिप्रम- प्रालेयद्युतिकोटिशीतलशिवारूढाङ्कगङ्गाधरः । (क) संप्राप्त एष विज्ञाननामधेयोऽमात्यः । तनर्मालापस्य नैष समयः (ख) एवमप्यमात्येन चित्तव्यापारेण सहायत्वं कुर्वन्दीर्घायुर्भव ।
० काव्यमाला। सानन्दाश्रुकणो दृशोः सपुलको गात्रेषु सप्रश्रय- स्तुत्युक्तिर्वदने कृताञ्जलिपुटो मूर्धन्यभूवं चिरम् ॥ २८ ॥ तदनु मयि प्रसादाभिमुखः प्रज्वलदग्निशिखाकलापकपिलजटामण्डला- टवोचिलुटज्जादवीचरवालहंसायमानचन्द्रलेखः कण्ठगतकालकूटयुतियमुनो- भयपार्श्वनिःसरनिर्झरायमाणरुद्राक्षमालिकः परिहितशार्दूलचर्मसंदर्शनभीत- मिव मृगमेकं संरक्षितुं करे विभ्राणः करान्तरे च प्रणतजनदुरदृष्टशिलाभ- अनं टकं च कंचन भगवान्काञ्चनगिरिधन्वा गिरिकन्यासमेतो मामेतद- वोचत- ध्यानेन ते प्रसन्नोऽस्मि वृणीप्व वरमर्पये । इत्युक्तवन्तं तं देवमयाचे रसगन्धकान् ॥ २९ ॥ ततस्तेन दीयमानान्रसगन्धकानग्रहीपम् । पुनश्च प्रणम्य सप्रश्रयमया- चिपम् । देवदेव, फलिन्यः फलहीना याः पुप्पिण्यो या अपुप्पिकाः । गुरुप्रसूतास्ता मुञ्चन्त्वंहसो न इति श्रुतिः ॥ ३० ॥ यस्मै ददासि तं रुग्भ्यः सर्वाभ्यः पारयामहे । इति सोमेनौषधयः संवदन्तीति च श्रुतिः ॥ ३१ ॥ अतः सर्वास्ताः सिद्धौषधयः सोमायत्ताः स च भगवतः शिरोभूषणम- चैव संनिहितः । अतः । शोधयितुं रसगन्धानकर्तुं च रसौपधानि विविधानि । दिव्यौषधीश्च सर्वा दापय मौलिस्थितेन चन्द्रेण ॥ ३२ ॥ ततश्च भगवदाज्ञया तेन सोमेन सर्वास्ता मह्यं दत्ताः । (इति मन्त्रिह- ग्नेऽनयति। मन्त्री--(महर्ष गृहीत्वा दृष्ट्वा च ।) सप्तकञ्चकादिदोपनिराकरणेन शुद्धा- नतानापर्धाभिः सह शत्रुनयाय प्रयोदयामहे । देवी-कित्तिआ ते सत्तुजणा किंणामहेआ अ कम्सि समए पुरोपरोहं किदवन्तो । (क) (क) कियन्तस्ते शत्रुजनाः किनामधेयाश्च कस्मिन्समये पुरोपरोधं कृतवन्तः। ܝܚܐ ३ अङ्कः] जीवानन्दनम् । ४१ मन्त्री-श्रूयतां तावत् । पुण्डरीकपुरं राज्ञि प्रविष्टे रन्ध्रलाभतः । स्वराजानुज्ञया पाण्डुररुधसैनिकैः पुरम् ॥ ३३ ॥ यक्ष्महतकस्यास्पच्छनोर्बहवः सैनिकाः । ग्रहण्यश्मर्यतीसारशूलार्शःपाण्डुकामलाः । विषूचिकाकुष्ठगुल्मसंनिपातज्वरादयः ॥ ३४ ॥ देवी-अमच, एत्तिअं पुरोपरोहसंरम्भं कुणन्तेण सहसैणिएण तेण जक्खहदएण अम्हाणं किं अच्चाहिदं कादव्वम् । (क) मन्त्री-देवि, पुरान्निष्क्रमयितव्या वयमित्येव तस्य हताशस्य दुरा- शाभिनिवेशः । देवी-अहो अणत्तणीणत्तणं जक्खहदअस्स । जो अम्हेसु पुरादो णि- कन्तेसु सअं कहिं ठाइस्संति अप्पणो वि णासं ण गणेदि । (ख) मन्त्री-सत्यमुक्तं देव्या । महापातकसंभूतेस्तस्य पापस्य यक्ष्मणः । वैरायितमिदं चित्रं स्वविनाशमपीच्छतः ॥ ३५ ॥ यदुक्तमभियुक्तैः- 'अपथ्यसेविनश्चौरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः ॥ ३६ ॥' इति । ये निघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ह्येवं या समभाणि भर्तृहरिणा काष्ठा परा पापिनाम् । तामेतामतिशेत एष सपरीवारस्य नाशं निज- स्योत्पश्यन्नपि निष्क्रमाय यतते यो नः पुरात्पातकी ॥ ३७ ॥ (क) अमात्य, एतावन्तं पुरोपरोधसंरम्भं कुर्वाणेन सहसैनिकेन तेन य- क्ष्महतकेनास्माकं किमत्याहितं कर्तव्यम् । (ख) अहो अनात्मनीनत्वं यक्ष्महतकस्य । योऽस्मासु पुरान्निष्क्रान्तेषु स्वयं कुत्र स्थास्यामीत्यात्मनोऽपि नाशं न गणपति । ६ ४२ काव्यमाला। अन्त्यत्र लौकिकोऽप्याभाणक:-'स्वनाशाछेदेन शत्रोरमङ्गलमापादयत्य- नात्मनीनो मूर्खः' इति । देवी-ता कहिं दाणिं एत्तिआणं रोगाणं णिग्गहो सुअरो । (क) मत्री-देवि, मा भैपीः । निखिलरोगनिसर्गवैरिणि रसे स्वाधीने का शत्रुजये संदेहः । राजा-तहि कुतो विलम्व्यते । मत्री-अहं पुनरधुना रसमोपधीभिः सह संयोजयितुं गच्छामि । दे- वेनापि विधम्यताम् । (इति निष्क्रान्ताः सर्वे ।) इति द्वतीयोऽङ्कः। चतुर्थोऽङ्कः । (ततः प्रविशति विपकः ।) विदृपकः-उत्तं खुदोआरिएण पाणेण रण्णो रसगन्धअवरप्पदाणं सु- णिअबलिअंरोसवसंगदेण जक्खहदएण पण्डणा सह किंवि मन्तूण सपरिवा- रम्स अम्हाणं रण्णो उवरि वइक्कम किंवि कादं उज्जोओ करीअदित्ति सुदव- देण विग्णाणणामहेएण मन्तिणा कज्जगदि आवेदिअमाणो अन्तेडरवेदिअ- न्तरे चिट्ठदित्ति । ता राअसमीपं गमिस्सम् । (इति परिझम्योदरं करतलेन परामृष्य ।) अहो, मुहुत्तादो पुव्वं खादिदं मातुलझफलप्पमाणाणं मोदआणं सदं वि जिण्णं जादम् । तम्सि समए धण्णकुम्भीपीणुत्तुङ्गो मह पिचण्डो ठिदो । दाणि उण तिष्णकिदो कटो विअ तगृहोदि। (विमृष्य ।) णं मज्झण्णो वट्टदि । तह हि । पत्तगदं घरहरिणो तिहाए पिवइ सीअलं सलिलम् । गन्धेण कुणइ सुहिदं चाणं विदमिस्ससकरापूवो ॥ १ ॥ अहो पमादो । राअसमीयं गमिस्सं ति महाणससमीवं गदो लि । अदो एव तह बत्तुलतणुअरगोधूमापूवसंहितसरावेहिं माहिसदहिमण्डमिस्सिद- मामविरअभाखविसेमणिविडिअभाअणेहिं परितत्तम्बरिसभज्जिदचणअच- अपरिअपिण्डएहिं फाणिअसंकलिअनवधाणासमुल्लसिदविसालामत्तेहिं दुद्ध- दहिसकरामलिलभाविदविविहपिथुअरासिसंपुण्णविसङ्कडचसअविसेसेहिं म- लिममुउलपुथवलसालितण्डुलन्नसमुच्चअविराजिदतम्ममअभण्डगणमन्त- रट्टाविदयुवष्णसवण्णम्पणिहाणपिठरहिं कित्तपरिवकचन्ताककारइलपडोल- (क) नकामदानीमतावतां रोगाणां निग्रहः मुकरः ।
३ अङ्कः] जीवानन्दनम् । ४३ कोसातईणिप्पावराअमासकदलीपणसकुन्भण्डप्पमुहसलाटुखण्डमयशाकष- ण्डमण्डिदबहुविधभाअणविसेसेहिं अ परिसोहमाणस्स महाणसस्स विसमरो गन्धो । घुमघुमाअदि मे णासाविलम् । सिलसिलाअदि तालुरसणामूले सुणिग्गत्तरं लालाजलम् । पज्जलदिव्व हणूमन्तवालग्गलग्गग्गिसिहागहिद- घरपरम्परं लङ्काउरं विअ बुभुक्खाउरं मे उदरम् । (किंचित्पुरतो विलोक्य ।) इह खु महाणसदुवारदेसे अवणदपुव्वकाओ विलोईअदि चुहिपावअपज्जल- णत्थफुक्कारपवणविकिण्णभसितलेशपुञ्जधूसरमुखो णिडिलदीसन्तविरलसेद- म्वुकणिओ करङ्गुलीलग्गहिमुपरिमलसंतप्पिदसमीवगदजणघाणेन्दिओ ईस- संकमिदेङ्गाललञ्छिदपरिधाणपडो दक्षिणकरग्गहीददग्वीसिहरतणुतरदी- सन्तविलोलिअसाअपाअवप्फो अण्णकरलम्बितेन्धणसअलो भद्दमुहो णाम पौरोगवो । ता एणं एव्व पुच्छामि । अए भद्दमुह, तुए पक्केसु भक्खवि- सेसेसु किं वि किं वि मह हत्थे दादव्वं जं भक्खिअ एवं सुटु एवं णेत्ति विआरिअ कहेमि जं सुख तं परिवेसिअ रण्णो हत्थादो पारितोसिअंगे- हृदु भवम् । (सामर्षम् ।) कहं एसो दासीएपुत्तो 'जइ तुह बुभुक्खा तदो रण्णो समीपं गदुअ भोअणं दादव्वं ति पुच्छ । अहं उदरंभरिणो तुह किं बिण दाइस्सं' ति भणिअ महाणसम्भन्तरं गदो । होदु । राअसमीपं गमिस्सम् । (इति परिक्रम्यावलोक्य च ।) कहं एत्य राअसमीवे विअणे अल- गद्देण गिह्निअ बिलं पवेसिदो मण्डूओ विअ . किं वि अणक्खरं पलवन्तो अमच्चो वेधवेओ (2) चिट्ठइ । ता सम पडिवालइस्सम् । (इति तिष्ठति ।) (क) (क) उक्तं खलु दौवारिकेण प्राणेन राज्ञो रसगन्धवरप्रदानं श्रुत्वा ब- लवद्रोषवशंगतेन यक्ष्महतकेन पाण्डुना सह किमपि मन्त्रयित्वा सपरिवार- स्यास्माकं राज्ञ उपरि व्यतिक्रमं किमपि कर्तुमुद्योगः क्रियत इति श्रुतवता विज्ञाननामधेयेन मन्त्रिणा कार्यगतिमावेद्यमानोऽन्तःपुरवेदिकान्तरे ति- ष्ठतीति । तद्राजसमीपं गमिष्यामि । अहो, मुहूर्तात्पूर्व खादितं मातुलुङ्गफल- प्रमाणानां मोदकानां शतमपि जीर्णं जातम् । यत्तस्मिन्समये धान्यकुम्भी- पीनोत्तुङ्गं मम पिचण्डं स्थितम् । इदानीं पुनस्टॅणकृतः कट इव तनूभवति । ननु मध्याह्रो वर्तते । तथाहि ।
४ काव्यमाला। (ततः प्रतिशति राजा मन्त्री च ।) राजा-(कर्ण दत्त्वा ।) कार्यपर्यालोचनयातिकान्तोऽप्यदिवसो न ज्ञातः। यत इदानीम् पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम् । गन्धेन करोति सुखितं प्राणं घृतमिश्रशर्करापूपः ॥ अहो प्रमादः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि । अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिपदधिमण्डमिश्रितमापविर- चितभक्ष्यविशेपनिविडितभाजनैः परितप्ताम्बरीपभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुलसितविशालामत्रैः दुग्धदधिशर्करासलिलभावि- तविविधपृथुकराशिसंपूर्णविपङ्कटचपकविशेषैः मल्लिकामुकुलपुजधवलशालित- ण्डुलान्नसमुच्चयायराजितताम्रमयभाण्डगणाभ्यन्तरस्थापितसुवर्णसवर्णसूपनिधा- नपिठरैः कृत्तपरिपकवृन्ताककारखेल्लपटोलकोशातकीनिष्पावराजमापकदलीप- नसकूष्माण्डप्रमुखशलाटुखण्डमयशाकपण्डमण्डितबहुविधभाजनविशेषेश्च परि- शोभमानस्य महानसस्य विसमरो गन्धः । घुमधुमायते मे नासाविलम् । सि- लसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम् । प्रज्वलतीच हनूमद्वालाम- लग्नाग्निशिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम् । इह खलु म- हानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुलीपावकप्रज्वलनार्थफूत्कारपवनवि- कीर्णभमितलेशपुलधूमरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिकः कराङ्गुलि- लग्नाहिशुपरिमलसंतर्पितसमीपगतजनवाणेन्द्रियः ईपत्संक्रमितेमाललाञ्छित- परिधानपटो दक्षिणकरगृहीतदशिखरतनुतरदृश्यमानविलोलितशाकपाक- बाप्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पीरोगवः । तदेनमेव पृ. च्छामि । अये भद्रमुख, त्वया पक्केषु भक्ष्यविशेपेषु किमपि किमपि मम हस्ते दातव्यं यदायित्वा इदं मुष्ठ इदं नेति विचार्य कथयामि यत्सुष्टु तत्परि- वेप्य राज्ञो हस्तात् पारितोषिकं गृहातु भवान् । कथमेप दास्याःपुत्रः 'यदि तब बुभुक्षा तदा राज्ञः समीपं गया भोजनं दातव्यमिति पृच्छ । अहमुदरं- भरेस्तय किमपि न दास्यामि' इति भणिया महानसाभ्यन्तरं गतः । भ- बतु । राजसमीपं गमिष्यामि । कथमत्र रानसमीपे विजने अलगर्दन गृहीत्वा ३ अङ्कः] जीवानन्दनम् । ४५ प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्घाकृतं सद्यः पञ्जरगर्भ एव चकितानुब्रामयन्तं शुकान् । कार्यव्याप्रियमाणमानवमुखं कर्पन्तमात्मोन्मुख मध्याह्रागमसूचनाय पटहो धत्ते ध्वनि ताडितः ॥ २ ॥ संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते । तथा हि । आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिर्झरां शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम् । आवर्तस्फुटपुण्डरीकमुकुलप्रेढोलनोद्गन्धिना तृप्यन्तो मरुता स्वपन्ति च नदीतीरे विलेषूरगाः ॥ ३ ॥ मत्री-अहो यौवनश्रियं पुष्णात्येष दिवसः । यतः । छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः शौरि दानवपीडिता इव सुराः पान्था भजन्ति द्रुतम् । दुष्कीर्ति क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः ॥ ४ ॥ अपि चेदानीम् धर्माम्भःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं भूयिष्ठोद्गतफूत्क्रियानिलगलन्मासृण्यबिम्बाधरम् । ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम् ॥ ५ ॥ राजा-(स्वगतम् ।) नन्वस्मिन्नवसरे स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम् । 'मनुकूलं दैवतमत्र क्रमेण मया ॥ ६ ॥ (प्रकाशम् ।) किमतःपरमाचरितव्यम् । बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो..........."तिष्ठति । तत्समयं प्रतिपालयिष्यामि । अ"" ४६ काव्यमाला। 1) मन्त्री-मध्याद इति बुभुक्षिताः परिजनाः । ततः स्नानार्थमुत्तिष्ठतु महाराजः। (राजा उत्तिष्टति मन्त्री च।) विदूपकः-(श्रुत्वा ।) एवंवादिणो मन्तिणो होदु पुण्णलोओ । (उपसत्य ।) जेदु जेदु महाराओ । (क) राजा-वयस्य, कथमागतोऽसि । विदूपकः--(मन्त्रिणं प्रति ।) अवि कुसलं अमञ्चस्स । (ख) मत्री-कथमम्यवहारसमय इति प्राप्तोऽसि । विदुपका-दाणि जेव्व णिअवरे भोअणं कदुअ आअदेण अजेण वि किं ण विण्णादं मज्झहो वट्टदित्ति । (ग) मत्री-विज्ञातमेव । श्रूयतामिदानीम् । यूना सस्पृहदृश्यमानकवरीभारोरुपीनस्तनी पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना । आसन्नां. "वारणसापनापनीतातपा- मारामक्षितिमापगातटगतां सोकूतमालोकते ॥ ७ ॥ विदूषकः--(समुखभगम् ।) अण्णस पुरिसम्स अण्णाए इत्यिआए संपकसूअणं णाम अणुइदं किं ति वण्णीअदु अजेण । जइ मज्झनो व- आणणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु । जेण सुदमेत्तेण वि मह संतोसो होदि । (घ) (क.) एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः । जयतु जयतु महाराजः । (ख) अपि कुशलममान्यस्य । (ग) इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याहो वर्तत इति । (ब) अन्यस्य पुण्यस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वऱ्याने आर्यण । यदि मव्याद्रो वर्णनाय इत्याग्रहस्तदा मानवानां संभावित पानभोजनं वर्णवनु । येन श्रुतमात्रेणापि गम संतोपो भवति ।
३ अङ्कः] जीवानन्दनम् । मन्त्री-(विहस्य ।) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतू- हली भवान् । (प्रविश्य) दौवारिकः-महाराअ, उवाअणहत्या सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति । (क) (राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः ।) विदूषकः-(आत्मगतम् ।) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो । (ख). (इति तदनुसरणं नाटयति ।) मन्त्री-एते स्वामिनं प्रणमन्ति । राजा-(आकाशे ।) अपि कुशलिनो यूयम् । मन्त्री-एते 'स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः' इति वदन्ति । विदूषकः-(स्वगतम् ।) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो । (ग) मन्त्री- कश्चित्स्वाँधमेको मणिगणमपरो भूषणबातमन्यः सौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम् । सामन्तक्षोणिपालेष्वहमहमिकयोपाहरदृष्टिपातै- देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम् ॥ ८ ॥ अपि च। हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्पिणः श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः। आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः ॥ ९ ॥ (क) महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीय. कक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति । (ख) अये, दास्याःपुत्रैः सामन्तराजैर्ममोत्साहभङ्गः कृतः । (ग) बुभुक्षितस्य ममाकुशलमिति न जानाति वयस्यः ।
काव्यमाला। . राजा-मन्त्रिन्, दत्तानि भूपतिभिरेभिरुपायनानि तेपां वशे कुरु मयाधिकृता नरा ये। एतान्सभाजयितुमर्पय तत्तदर्हा- न्युप्णीपकचुकदुकूलविभूपणानि ॥ १०॥ मन्त्री यथाज्ञापयति देवः । विदूपकः-णं वअस्स, मए वि विजई होइत्ति वाआमेत्तेण तुह उ- वाअणं दिण्णं तदो बुभुक्खिदं मं किं त्ति ण संभावेसि । (क) मन्त्री-राजन्, श्रोतव्यः कार्यशेपः । विदूपका-हुं, चिट्ठदु दासीए वच्छो कजसेसो । वअस्स, किं मह पडिवअणम् । (ख) राजा-मन्त्रिन्, व्रामणस्य प्रथमं भोजनं निवर्तयेति अन्तःपुरं गत्वा देवीं वद । अतः प्रागेव संभाव्यात्र सामन्तभूपान्वस्थानं प्रेपय । वयस्य, त्वमपि मन्त्रिणा सह गच्छ । विदूषकः-दीहाओ होइ । (ग) मत्री-विजयी भवतु देवः। (इति विपकेन सह निष्क्रान्तः ।) राजा-कः कोऽत्र भोः। (प्रविश्य) दौवारिक:-आणवेदु महाराओ । (घ राजा-मजनगृहमार्गमादेशय । दीवारिका-इदो इदो भवं । () (परिक्राम्यावलोक्य च संस्कृतमाश्रित्य ।) (क) ननु वयस्य, मयापि विजयी भवेति वाचामात्रेण तवोपायनं दत्तं तभुक्षितं मां शिमिति न संभावयसि । (ख) हुं, तिष्टतु दास्या वसः कार्यशेषः । वयस्य, किं मम प्रतिवचनम् । (ग) दीर्घायुभव । (ब) आनापयतु महाराजः । (5) इत इतो भवान।
४ अङ्क:] जीवानन्दनम् । ४९ स्नातुं ते परिचारिकाः स्तनभरश्रान्ताः शनैः सांप्रतं क्वाथोष्णानि जलानि मज्जनगृहे कुम्भीषु संगृह्णते । आयान्तीव तृषा जलार्थनमिषादासां विलासाद्गति हंसाः केशभरश्रियं च शिखिनः स्नेहादिमा याचितुम् ॥ ११ ॥ अत्र च हिरण्मयस्य गृहस्थूणस्य पार्श्वभागे अभ्यङ्गाय सुवर्णपात्रनिहितं तैलं चलत्सौरभं विस्तीर्णस्फुटकणिकारकुसुमे येनाभिभाव्यं मधु । न्यस्तं चन्दनदारुनिर्मितमिदं कूर्मासनं चासितुं यत्पृष्ठे पृथिवीव च त्रिगुणिता कौशेयशाटी स्थिता ॥ १२ ॥ अपि च नवाम्बुदश्यामलायां विपुलायतायामिन्द्रनीलमणिनिर्मितायां हर्म्य- भित्तौ प्रतिफलितवपुश्चेटीजनस्तडिलताविन्यासमवलम्बते । अत्रैव कञ्चल्या दृढसंयतस्तनभरा हारं गले कुर्वती पश्चाल्लम्बितमम्बरं च जघने काच्या दृढं बनती । खेदाम्भःकणमञ्जरी च भजती चेलाञ्चलेनानने चेटीवेकतमेयमत्र यतते कर्तुं तवाभ्यञ्जनम् ॥ १३ ॥ राजा-दौवारिक, मन्त्री विदूषकश्च कृतोचितव्यापारो न वेति वि- चार्यताम् । अहमप्यत्र स्नात्वा कृतशिवार्चनो भोजनाय यतिष्ये । दौवारिक:-~-तह । (क) (इति निष्क्रान्तः ।) राजा--(स्मृतिमभिनीय ।) अये महानुभावा शिवभक्तिः, यस्याः प्रसा- दाद्भगवन्तं साम्बं साक्षात्कृत्य तदीयकरुणाकटाक्षामृतनिःष्यन्दकन्दलिता- खिलपुमर्थोऽपि सन्संप्रति प्राकृतानर्थनिवर्तकारसगन्धकानासाद्य तावतैव कृतकृत्यंमन्यो मूढोऽहं विस्मृतवानस्मि तां भगवतीं शिवभक्तिम् । अहो धिक् प्रमादम् । नूनं सा भगवती मां कृतघ्नं मन्येत । (निःश्वस्य ।) दृङ्मात्रदर्शितनिजप्रथितप्रभावा प्रह्लादभूमसुरभूरुहमूलभूता । (क) तथा ।
५० काव्यमाला। जन्मान्तरीयतपसां परिपाकतः सा प्राप्तापि दैवहतकेन मया विमुक्ता ॥ १४ ॥ तामेव हा स्मितसुधामधुराननेन्दं भक्ति तथा निरुपमामसकृद्विचिन्त्य । स्नातुं च भोक्तुमशितुं शयितुं विहर्तु शक्नोमि नाहमधुना परितप्यमानः ॥ १५ ॥ हृदयानन्दविधात्री भक्ति तामन्तरा न मे सौख्यम् । आसारेण विना किं धर्मम्लानस्य शालिनस्तृप्तिः ॥ १६ ॥ तत्कथमहं प्राकृतमिमं व्यासङ्गं परित्यज्य तामेव परमानन्दलीलामनुभूय कृतार्थो भूयासम् । (इति सचिन्तस्तिष्ठति ।) (ततः प्रविशति स्मृतिः ।) स्मृतिः-अम्मो, भअवदीए शिवभत्तीए विओएण बलिअं उक्का- ण्टिदो राआ संपदं पहाणभोअणव्यावारं वि णाणुमण्णेदि । ता तुरिअं गदुअ भअवदीए इमं वुत्तन्तं णिवेदिअ ताए णं संयोजइहूँ यतिस्सं ति पु- ण्डरीअपुरं गदुअ तत्थ सद्धाए सेविजन्ती भअवदि दिट्टण सद्धामुहेण तह संविधाणं कदुअ आअदमि । ता राअसमीवं गदुअ एवं णिवेदेमि । (इति परिक्रम्योपपत्य ।) जेदु जेदु देवो । (क) राजा-(दृष्ट्वा ।) अये, कथमियं स्मृतिः । सखि, दिष्ट्या चिरादागतासि । स्मृतिः-देव, भअवदि शिवभत्ति उद्दिसिअ तुह एआरिसी वलिअं उकण्ठं दिट्टण-(ग्व) (संस्कृतमाश्रिन्य ।) (क) अमो, भगवन्याः शिवभक्तेवियोगेन बलबदुत्कण्ठितो राजा सांप्रतं म्नानभोजनव्यापारमपि नानुमन्यते । तत्त्वरितं गत्वा भगवत्या इदं वृत्तान्तं निवेद्य तयनं संयोजयितुं यतिष्ये इति पुण्डरीकपुरं गत्वा तत्र श्रद्धया सेव्य- मानां भगवती दृष्ट्वा श्रद्धामुखेन तथा संविधानं कृत्वा आगतास्मि । तद्रान- ममीपं गत्वा इदं निवेदयामि । जयतु जयतु देवः । (ख) देव, भगवती शिवभक्तिमुद्दिश्य तवैतादृशीं बलवदुत्कण्ठां दृष्ट्वा- ne .. ४ अङ्कः] जीवानन्दनम् । ५.१ -- यातं देव मया जवेन महता तत्पुण्डरीकं पुरं श्रद्धायै विनिवेदितं च भवदीयौत्कण्ठयमेतादृशम् । तां त्वद्विस्मृतिकोपितामिव मुहुः संप्रार्थ्य भक्ति तयै- वागत्यानुजिघृक्ष्यसे न तु यथा श्रद्धा समाधात्तथा ॥ १७ ॥ राजा-(सहर्षम् ।) कथमेतावदनुगृहीतः । अहो प्रसादातिशयो मयि भगवत्याः । कथय सखि, किमत्रैवागमनानुग्रहं करिष्यति भगवती । स्मृतिः--अध ई । (क) (ततः प्रविशति श्रद्धया सह भक्तिः ।) भक्तिः-संखि श्रद्धे, सहजनिःसङ्गनिर्मलस्वभावोऽपि देवो जीवस्तथा सर्वपुमर्थप्रसवित्रीमपि मां विस्मृत्य बुद्धिपारवश्यमापन्नो विरसविषयाभि- मुख एव संवृत्तः । श्रद्धा-अम्ब, देईए गुणमईए दुरच्चआए माआए कुडिलाए एसो अणादिसिद्धो सहावो जं विवेइणं वि पुरिसं मोहिअ विरसविसअप्पवणं करेइ । तह अ कदिदं अहिजुत्तेहिं । (ख) (संस्कृतमाश्रित्य ।) जरठापि काचिदसती संदर्य गुणान्परस्य पुरुषस्य । सङ्गं विनैव हसितैः सर्वस्खं हरति हन्त किं ब्रूमः ॥ १८ ॥ भक्तिः-भवतु । अतस्तस्मिन्मम दृढः प्रेमातिशयः । सत्यज्ञाननिधिः सदैव सहजानन्दस्वभावोऽप्ययं देवो बुद्धिवशं गतः पुरमिदं त्रातुं व्यवस्यत्यहो । अस्त्वेतव्यपयुक्तमात्मकलने तस्मान्निरस्तामयं निश्चिन्तं पुनरीशतत्परममुं कुर्यामभीष्टाप्तये ॥ १९ ॥ -- (क) अथ किम् । (ख) अम्ब, देव्या गुणमय्या दुरत्ययाया मायायाः कुटिलाया एषोऽना- दिसिद्धः स्वभावो यद्विवेकिनमपि पुरुषं मोहयित्वा विरसविषयप्रवणं करोति । तथा च कथितमभियुक्तैः ।
५२ काव्यमाला। श्रद्धा-जुजइ एवं णिरुपधिणिरवधिकरुणाए भअवदीए । ता एहि तं जेव्व अणुग्गहीदुम् । (क) राजा-अहो अमृतासारमयः कोऽप्यालापः कर्णविवरमाप्याययति । सखि, किमागतवती भगवती । स्मृतिः-को संदेहो । (ख) राजा-(पुरोऽवलोक्य ।) अहो । निरुपाधिकनिःसीमकरुणामृतवारिधिः । दिष्टया दृष्टा भगवती पुमर्थघटनापटुः ॥ २० ॥ (उत्थाय सरभसं प्रत्युद्गन्छति । श्रद्धाभक्ती परिक्रम्योपसर्पतः । राजा साटा प्रणमति ।) भक्तिः-सकलाभीष्टभाजनं भूयाः श्रद्धा-जेदु जेदु देवो । (ग) राजा-(उत्थाय ।) देवि निरुपधिकरुणानिधे, अपराधिनमपि मागेव- मनुगृहीतवत्यसीति सकलमनोरथानामुपरि वर्तामहे । अवने हि निरागसां जनानां भजतां जाग्रति देवतान्तराणि । अवनाद्विहितागसोऽपि मेऽस्तु प्रथितं ते निरुपाधिवत्सलत्वम् ॥ २१॥ उक्तं चानाभियुक्तः । प्रवहन्ती तु दया तव परिहतनीचोच्चवस्तुवेपम्या । पततु मयि स्फुटमधुना पनोरुपरीव गगनगडोमिः ॥ २२ ॥ भक्तिः-देव, भवान्मामनुसृत्य बलवदुत्कण्ठितः प्रकृतकार्यविमुखः संवृत्त इति श्रुत्वा तत्रभवन्तं सान्त्वयितुमागतास्मि । संग्रति विज्ञानमन्त्रि- मतानुसारेणैव प्रकृतशत्रुविजयाय व्याप्रियख । तदनन्तरम् निनितनिखिलविपक्षं नीरजगुरुसुस्थमपगतातरम् । अहमागल विधाम्ये परमानन्दाधिमाप्तकामं त्वाम् ॥ २३ ॥ (क) युध्यत एतन्निस्पधिनिरवधिकरणाया भगवत्याः । तदेहि तमे- वानुग्रहीतुम् । (प) का संदेहः । (ग) जयतु जयतु देवः ।
४ अङ्कः] जीवानन्दनम् । राजा-(सप्रश्रयम् ।) परमनुगृहीतोऽसि । इदं तु प्रार्थये । या प्रीतिरविवेकानामिति न्यायात्सदा मम । हृदयान्मापसर्प त्वं प्रसीद करुणानिधे ॥ २४ ॥ भक्तिः–तथा भवतु । (स्मृति प्रति ।) अयि वत्से, एतत्त्वदायत्तम् । स्मृतिः -भअवदि, अवहिदमि । (क)) भक्तिः-तथा भवतु । (इति निष्क्रान्ता ।) राजा-(सोत्कण्ठम् ।) कथं गतवती भगवती । (स्मृति प्रति ।) सखि, सर्वदा हृदि संनिहिता भव । स्मृतिः-तह । (ख) (इति निष्क्रान्ता ।) (प्रविश्य) दौवारिकः-देव, एसो अमच्चो भुत्तवन्तेण विदूसएण अणुगदो आअच्छदि । (ग) (ततः प्रविशति मन्त्री विदूषकश्च ।) मत्री-भोः, साधु भुक्तं भवता । विदूषकः-देवीए बुद्धीए साहुपडिवेसणं किदं जहमणोरहं उदरं पूरिअम् । (घ) (सहर्ष संस्कृत्यमाश्रित्य ।) भूमौ साधु वितत्य गारुडमणिश्यामं कदल्या दलं शाल्यन्यं धृतपक्वफाणितमथापूपैः सहात्रार्पितम् । धन्या एव हि सूपपायसमधुक्षीराज्यदध्यन्वितं नानाशाकयुतं फलैश्च मधुरैरेवं सदा भुञ्जते ॥ २५ ॥ मत्री-भुक्तवतोऽप्येवमिहादरश्चेत्किमुत बुभुक्षितस्य । (राजानमुपसृत्य ।) विजयतां देवः । देवानुज्ञया सर्वेऽपि सामन्ता यथाहै संभाविताः । अयमपि बटुराकण्ठमभीप्सिताभ्यवहार्येण भोजितो देव्या । तद्देवेनापि स्नानपूजनभो- जनादिविधिनिवर्त्यताम् । (क) भगवति, अवहितास्मि । (ख) तथा । (ग) देव, एषोऽमायो भुक्तवता विदूषकेणानुगत आगच्छति । (घ) देव्या बुद्ध्या साधुपरिवेषणं कृतं यथामनोरथमुदरं पूरितम् ।
५१ काव्यमाला। राजा-तत्रैवावस्थीयतां भवता । अहमपि प्रकृतमाहिक निर्वांग- च्छामि । (इति दौवारिकेश सह निम्नान्तः ।) (नेपथ्ये।) अभ्यक्तः नापिताङ्गः शुचिवसनधरो जप्यमन्त्राञ्जपित्वा देवानभ्यर्च्य भक्त्या धुमधुमितवपुश्चन्दनैश्चन्द्रमित्रैः । रज्यत्ताम्बूलपूर्णाननसरसिरुहो रम्यमारामभागं साकं देव्यप राजा प्रविशति सुलभो यत्र दोलाविहारः ॥ २६ ॥ मत्री--(आकर्ण्य ।) यत्र महाराजस्तिष्ठति तत्रैव गच्छामः । (इति विदू- पग मह परिमामति ।) (ततः प्रविशति देव्या सह राजा ।) राजा-देवि, पश्य पश्य रामणीयकमारामस्य । कीडचिक्रीडदन्तक्षतविवरगलन्नालिकेराम्बुधारा- संपूर्णावालपुष्प्यत्फलदुहुकदलीदाडिमीमातुलमा । संपुष्प्यत्पूगपाली परिमलमिलितोत्फुल्लमालत्युदञ्च- सौरभ्योच्छायलम्यश्रमशमपथिका सेयमारामसीमा ॥ २७ ॥ देवी-मल्ल अपवणनलिदतरुलदापुप्फगन्धा दिसामु विसप्पन्ति । इदो नदो परिभमन्तो भमरा कलं कुलन्दि । (क) गजा---युक्तमाह भवती। कुरखककटिका विलोकमाने तरुणपिके मृदु गायति द्विरेफे । नटति किल मुहुः कृतोपदेशा मल्लयमहीध्रभवेन मारुतेन ।। २८ ।। दषि, सर्वतश्चारय नारुसरोरुहदन्टमयमुपी चक्षुपी । कंदपांगममन्त्रपाटमुखरे घुम्कोकिले कानन- श्रीपाणिग्रहमाले मति मार्दवस्य दीप्ती नसः । बद्री पाटलकान्तिपलवमये मेरप्रमूनोत्कर: प्रनितन्य मतिं न कि वितनुते लाजवनम्याधुना ॥ २९ ॥ (क.) मलयावनचन्तितम्रतापुष्पगन्धा दिशामु विसर्पन्ति । इतस्ततः परिवन्तो नगगः कलं. नन्ति ।
४ अङ्कः] जीवानन्दनम् । ५५ मन्दारवकुलचम्पककुरवकसहकारमञ्जरीलोलः । अलिनिकरः केलि श्लथवनलक्ष्मीकेशपाश इव लसति ॥ ३० ॥ देवी-पेक्खदु भवं । (क) किअमाले टिट्टिभओ रसालरुक्खम्मि कोइलो वसइ । णीवविडवे सिहण्डी जम्बूसिहरे सुओ एको ॥ ३१ ॥ विदूषकः---(उपसृत्य ।) जेदु वअस्सो । देवि, सोत्थि भोदीए । (ख) मन्त्री-देव, विजयी भव । देवि, जयतु भवती । राजा-अत्र निषीदतु वयस्यः । इहास्यताममात्येन । मत्री-(उपविश्य उद्यानभूमिमभितो विलोक्य ।) आश्चर्यमाश्चर्यम् । इहोद्याने तादृक्पशुपतिदयासादितमहा- महिम्नस्ते सेवारसपरवशाः सर्वत इमे । यथावं पुष्प्यन्तो युगपदृतवः संनिदधते प्रसङ्गादत्राहं कतिचन वदाम्यातवगुणान् ॥ ३२ ॥ राजा-अवहिताः शृणुमस्तावत् । (पुरो विलोक्य ।) मन्निन् , पश्य पश्य । स्फुटकुटजमन्दहासा कदम्बमुकुलाभिरामरोमाञ्चा । नीलाम्बुदकुचविगलद्धनपुष्पा विहरतीव वनलक्ष्मीः ॥ ३३ ॥ एताः । पित्तसंचयोऽत्र भवति । एवं हि ऋतुचर्या भिषजो भाषन्ते । राजा-कथमिव । मन्त्री शंसन्ति भाद्रपदमाश्वयुजं च वर्षा- स्तास्वौषधिप्रचुरता सुदृशोऽल्पवीर्याः । मन्त्री-राजन्, तर्हि वर्षा (क) पश्यतु भवान् । कृतमाले टिट्टिभको रसालवृक्षे कोकिलो वसति । नीपविटपे शिखण्डी जम्बूशिखरे शुक एकः ॥ (ख) जयतु वयस्यः । देवि, स्वस्ति भवत्यै । .
काव्यमाला। . - वीर्य प्रसन्नमसुमत्लु च शीतवाता- विष्टेषु तत्र शिखिनोदयते विदाहः ॥ ३४ ॥ स एव पित्तसंचयमापादयति । राजा-शरदि कथम् । मत्री- मासौ शरत्कातिकमार्गशीपी तबाभकार्य सति पकशोपः । विलापितः पित्तचयोऽर्कभासा सपैत्तिकं व्याधिकुलं प्रसूते ॥ ३५ ॥ राजा-हेमन्ते कीदृशो रोगः । मन्त्री-श्रूयताम् । हेमन्तः पौपमावाविह भवति वलं वीर्यमप्यौपधीनां स्निग्धाश्नापः प्रसन्ना भृशगरिमभृतो याः पिबन्त्यङ्गभाजः । मन्दांशुत्वाय भानोः सहिममरुदुपस्तम्भितानेषु देहि- प्वेषु स्नेहाद्विदग्धाद्भवति हिमभराच्छेप्मणः संचयश्च ॥ ३६ ॥ राजा-कदा पुनरयं प्मिकान्व्याधीञ्जनयति । मश्री-फाल्गुनचत्रमासरूपे वसन्ते यतोऽर्करश्मिप्रविलापितः लेप्मसं- नयोऽग्मिन्नृती भवति । एवं च निःसाग रोक्ष्यभानो दधति च लघुतामोपधीनां समूहाः मंत्र ते ग्रीष्मसंज्ञां भनति किल ऋती ज्येष्ठंवैशाखरूपे । नामिन्सुर्यप्रतापग्लपित्तनुभृतां लाववाच्चापि रोक्ष्या- जन्तूनां पीयमानं जनयति सलिलं संचयं मारुतस्य ॥ २७ ॥ म संचयः प्रापि शीतवातवपरितो वातिकरोगकारी। हिन्नानभानां पयसैव नित्यं प्रकोपहेतुन्द्रयसंचयस्य ॥ ३८ ॥ गजाको मासौ प्रावृट। पत्री~आपाधावणी तथा भिपम्भिरुच्यते । राजा-कदा पुनरेपामुपशमः । •undana +- ४ अङ्कः] जीवानन्दनम् । ५७ मत्री-सोऽप्येतेषां ज्ञातव्य एव स्वामिना । तद्यथा- हेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यद्रुजः शान्तिर्वातिकरोगशान्तिरुदयेद्वात्यये केवलम् । एवं षड़तुषु स्वभावजतया व्याख्यायि तुभ्यं मया पित्तश्लेष्मनभवतां सह चयेनापि प्रकोपः शमः ॥ ३९ ॥ अपि च। रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्नः । मध्याह्नोऽप्यपराह्नो वर्षाद्याः षट् प्रकीर्तिता ऋतवः ॥ ४० ॥ एप्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः । राजा-अस्त्वेतत् । दौवारिक, आन्तःपुरिकं जनं प्रवेशय । विदूषकः-कि उक्कण्ठिदो भवं दोलाविहारस्स । (क) राजा-सारितं भवता । तथैव क्रियते । मन्त्रिविन्यस्तसमस्तकार्यभरस्य मम विहाराहते कोऽन्यो व्यापारः । मन्त्री देव्या सह दोलामधिरोहतु महाराजः । दौवारिक, पद्ममुखी चन्द्रमुखी च चेटीमानय । दौवारिकः-तथा । (इति निष्क्रम्य चेटीभ्यां सह प्रविशति ।) (राजा देवी च दोलाधिरोहणं नाटयतः ।) मन्त्री-(चेट्यौ प्रति ।) गायन्त्यौ दोलयतं भवत्यौ । प्रथमा- जअइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो । जस्स खु वि. जअपताआ सामारुणवामदक्खिणावअवा ॥४१॥(ख) विदूषकः—(सकोपम् ।) आः दासीए पुत्ति, वालिसा क्खु तुमं । जह अत्थबोधो ण होदि तह पढिदम् । (ग) (क) किमुत्कण्ठितो भवान्दोलाविहाराय । (ख) जयति मधुतुन्दिलगुणः सुरभिशरो मधुरकार्मुको वीरः । यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा ।। (ग) आः दास्याः पुत्रि, बालिशा खलु त्वम् । यथार्थबोधो न भवति तथा पठितम् ।
५८ काव्यमाला - - राजा-वयस्य, जयति भ्रमरगुणः पुष्पवाण इक्षुचापो मन्मथः यस्यार्धनारीश्वररूपा विजयपताकेति पद्यार्थः । विदूपक: (सशिरःकम्पम् ।) जुजइ । (क) द्वितीया कैरवणिद्दाभने चओरतिहाणिवारणे अ पडु । सो को विजअर देवो पेक्खन्तणिडालपुरुसमौलिमणी ॥४२॥(ख) विदृपकः-एदस्स पज्जम्स अत्थो वण्णीअदि । (ग) राजा-कथमिव । विदूपका-कैरवविआसआरी चकोरतित्तिारी भअवं तस्स तिणे- तम्रा सिहागणी चन्दो जअइ ति । (ब) मन्त्री-सम्यगुक्तः पद्यार्थो भवता । विदूषकः---(सगर्वम् ।) पुव्यपजस्म वि मह अत्थयोधो जादो जेव्व । बअम्मेण अत्यो वण्णीअदि ण वेति तुहिं ठिदम् । (क) मत्री--(विहस्य ।) का संदेहः । विपक:-अमञ्च, किं उवहससि मं । एदं सुणादु भवं । धरणीए निजगह नरणीए अनाखराए वाआए वि मह अत्यवोधो होइ । (च) (सं हसन्ति ।) (क) युध्यते । (ग) करवनिद्राभों चकोरतृष्णानिवारणे च पटुः । स कोऽपि जयति देवः पश्यन्निटालपुम्पमीलिगणिः ॥ (ग) एतस्य पद्यम्यार्थी वर्ण्यते । (ब) करवविकासकारी चकोरतृप्तिकारी भगवान् तस्य त्रिनेत्रस्य शि- सामगियन्दो जयतीनि। (छ) पुर्वपद्यस्यापि ममार्थवाधो जात एव । वयस्येनार्थी वर्ण्यते न वेति लगी स्थितम् । (च) अमान्य, किमरहममि माम् । एतन्छृणोतु भवान् । धरण्या इव मग गृहिल्या अनशगया नाचाया अपि मगार्थबोधो भवति ।
५ अङ्कः] जीवानन्दनम् । ५९ (नेपथ्ये) वैतालिका गन्धेन स्फुटकरवाकरभुवा विष्वन्विकर्पन्नली- न्स्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्यन्दते । भावी नौ विरहाधिरित्यविदितेऽप्यन्तः शुचा स्थीयते कोकेन प्रियया सहैकनलिनीनालाधिरूढेन च ॥ ४३ ॥ द्वितीयः- मोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा- रागः कोऽपि विजृम्भते घनपथे चित्ते वधूनामपि । आगाः कुपितामुपासिसिपते कान्तां विलासी जनो भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् ॥ ४४ ॥ मन्त्री-अहमपि संध्योपासनार्थ गच्छामि । विदूषकः-अहं पि । (क) राजा-अहमप्यन्तःपुरमेव गच्छामि । (इति निष्क्रान्ताः सर्व ।) इति चतुर्थोऽङ्कः । पञ्चमोऽङ्कः । (ततः प्रविशति धावन्मत्सरः ।) मत्सरः-(विचिन्त्य ।) जीवे साधयितुं रसं पशुपतेानस्य सिद्धौ स्थिते तद्विघ्नाचरणाय षट् प्रणिहिताः कामादयः पाण्डुना । ते गत्वापि वयं परैरभिभवं प्राप्ता यथा पूर्वजाः पञ्चापि व्यगलन्नहं च चकितः षष्ठः पलाय्यागतः ॥ १ ॥ इतःपरं किं करोमि मन्दभाग्यः । किं पाण्डोनिकटं व्रजामि धृतिमानेवं कृते भ्रातृभि- स्तस्याग्रे कथमस्तकार्यनिकरः संदर्शयिष्ये मुखम् ।. (क) अहमपि ।
६० काव्यमाला। राजानं यदि वानुवर्तितुमये किं राजतन्त्रेऽमुना पृष्टे चोत्तरयामि हन्त शरणं कं वा करिष्येऽधुना ॥ २ ॥ तत्सर्वथा नास्ति दैवानुकूल्यम् । (विचिन्त्य ।) भवतु । वनमेव गत्वा तप- चरणेनात्मानं कृतार्थयामि । यतः। अश्रान्तप्रवहत्तुपारतटिनीशीतालुशातोदरी- संवायासगृहीतशोपितसमित्संवर्धिताग्नित्रयाः । प्रालेयाचलकाननोटजगता विप्रास्तृतीयाश्रमे स्थित्वापुः कति वाञ्छितानि तपसामाश्चर्यया चर्यया ॥ ३ ॥ (पुरो विलोक्य ।) समन्तादालोके सवितुरुपगच्छत्युपशम गुरोदिष्टया लव्धे महत इव सेवापरिचये । तमः सर्वा मुवी स्थगयति खलानामिव मति तदम्यामत्यर्थ न भवति विवेकः सदसतोः ॥ ४ तथापि पश्यतो मम द्वावपि पुरुपौ गृह्यते । (कतिचित्पदानि गत्वा निपुणं नि- मप्य ।) हन्त, सकिंकरः कुष्ठोऽयमागच्छति । स्वजनेनाप्यनेनाहमिदानी संभाषणाय जिदेमि । तदम्य दर्शनं परिहरणीयम् । मार्गोऽपि न दृश्यते निलीय गन्तुम् । भवत्वत्रैव स्थाणुतामवलम्व्य तिष्ठामि । गते चैतरिंग- म्त्तरितपदं बजेयम् । (दति तथा स्थितः ।) (ततः प्रविशति किंकरणानुगम्यमानः कुष्टः ।) कुष्टः--(सप्रिक्षेपम् ।) किमिदं दृश्यते पश्य । किंकरः-(मान्द्रे तममि न्यजितपूर्वकायः पश्यन् ।) पक्ष्यामि न करचरणं न चात्र पश्यामि चलनमपि किंचित् । वैशिष्ट्यमयतायाः पश्यामि स्थाणुरयमतो भवति ॥ ५ ॥ कुष्टः-भद्र, वदन्ति खल्वेवं नीतिशास्त्रविदः । आक्रान्ने रिपुभिः पुरेऽन्नसलिलादीनामभावाबहि- न्लान्यानेतुमशब्दकल्पितपदन्यामास्तमम्यागताः । - 1-Mannuwr ५ अङ्कः] जीवानन्दनम् । संप्राप्ते सति संनिधिं परिजने द्राविभ्रतः स्थाणुतां लीनत्वं दधतोऽथवाधिसरणि खं साधयन्तीप्सितम् ॥ ६ ॥ अतः सम्यङ्गिरूपय । (किंकरो गत्वा मत्सरं हस्ते गृह्णाति ।) मत्सरः (स्वगतम् ।) मम खलु माशब्दकीयमवस्था संप्राप्ता । यद्यहं शब्दं कुर्या ततः स्वरेण मां जानीयुरतोऽविकटं प्रविष्टेन मलिम्लुचेन गृहीत उरभ्र इव तूष्णीमासिष्ये । (इति हस्तं विधुनोति ।) किंकरः-चोर, दृढं गृहीतोऽसि । वृथा ते हस्तधूननम् । (कुष्टं प्रति ।) आवुक, पुरुषः पुरुषः । गृहीत एष दृढं मया । कुष्ठ:-सफलो मे तर्कः । दृढबद्धमेनमत्रैवानय । किंकरः-एहि रे चोर, एहि । रक्तकरवीरमालामामुच्य कण्ठे त्वां संभावयामि । अहो तव तपःप्रभावः । गङ्गाचन्द्रादिपरिकरं विना शूली भविष्यसि । मत्सर:-(स्वगतम् ।) दग्धो मनोरथो मे बत चिन्तितमन्यदापतितम् । (हर्षमभिनीय।) मोक्ष्याम्यथवा शोकाद्देहवियोगेन भाविना दैवात् ॥ ७ ॥ (किंकरो बलान्मत्सरमाकृष्य कुष्टनिकटं गमयति ।) कुष्ठः-भद्र, दीपिकासमीपमानय क एष इति पश्यामि । साधारण- श्वेन्मोक्ष्याम एनम् । किंकरः-आर्य, ज्ञातचर इव दृश्यते । (इति दीपिकासमीपमानयति ।) कुष्ठ:-(निरूप्य।) अहो रूपमिदं मत्सरस्येव लक्ष्यते, वेषस्तु कापालि- कस्य । तथाहि । भस्मानुलेपधवलीकृतसर्वगात्रः श्वेतां वहञ्छिरसि नारकपालमालाम् । एकेन शूलमितरेण दधत्कपालं हस्तेन तिष्ठति पुरो मृगचर्मवासाः ॥ ८ ॥ भवतु । एनं संबोधयामि । सखे, कीदृशीयमवस्था ते संप्राप्ता ।
३२
काव्यमाला।
मत्सरः-(आत्मगतम् ।) हन्त, ज्ञातोऽस्म्यनेन मन्दभाग्यः । ज्ञार
स्याधुना ममात्मापलापोऽनुचितः । (प्रकाशम् ।) तस्यैवेयं दशा दैवहतकस्य
कुष्टः-(किंकरं प्रति ।) भद्र, सखायं मे मत्सरः । तन्मुञ्चैनम् । (किंक
नया कगेति ।)
कुष्ठः-सखे मत्सर, कथं गृहीता भवता कापालिकतापिशाचिका ।
मत्सरः-सखे, सत्यमाह भवान् कापालिकतापिशाचीति । या स
मामाकृप्य मरणमुखाहुरवस्थामिमां प्रापितवती ।
कुष्ठः-
सुखं मरणमप्येवंविधं तव भविष्यति ।
संगतिः स्वजनेनापि कथं तदुर्दशा परम् ॥ ९ ॥
(मत्सरस्तूष्णीमधोमुखस्तिष्ठति ।)
.
कुष्ठः-सखे,
न वदसि किमुत्तरं मे कथय कथयितुं क्षमं यदि तवेदम् ।
श्रुत्वा विचारयिष्ये त्रपया चालं भिया चालम् ॥ १० ॥
मत्सरः-सखे, मम किमुपरोधेन । किमन्यद्वनगमनाहते कर्तव्यम् ।
-
-
कापालिकताद्य कुतः कुतस्तरां ते वने गमनम् ।
मत्सर:-
सख्युपरोधेऽरिकृते सर्व संभाव्यतेऽभिमानजुषाम् ॥ ११ ॥
कुष्ठः-कि शत्रुप्पजापार्थ प्रवृत्ताः सखायस्ते निरुद्धाः ।
मत्सरः-अथ किम् ।
कुष्ठ:--कथय कीदृशो वृत्तान्तः ।
मत्सरः-~-(वगतम् ।)
कथयामि कि रहस्यं पर्यालोचितममात्यवर्यण ।
उपनापन्य कथं वा जातामाकाशचित्रतामरिपु ॥ १२ ॥
अथवा तपसितुमिच्छन्सख्युः कुष्टस्य गोपयामि यदि ।
तद्रोहम्य न किं स्यादास्थानाय स्वहस्तदानमिदम् ॥ १३ ॥
५ अङ्कः] जीवानन्दनम् । अतः सर्वमस्मै निवेदयामि । यदयमपि तस्य पाण्डोविश्वासस्थानमेवेति । (प्रकाशम् ।) सखे, तवाप्यकथनीयं नाम किमस्ति श्रूयताम् । विज्ञानप्रहितेन राजहतकेनास्मन्निसर्गद्विपो यावत्साधयितुं रसं कथमपि ध्यानस्य सिद्ध्या क्रमात् । स्वच्छन्देन च पुण्डरीकनगरी गत्वा मनोद्वारतः साम्बस्यैव महेश्वरस्य दृढया भक्त्या प्रसादात्स्थितम् ॥ १४ ॥ तदिदमाकर्ण्य मन्त्रिणा पाण्डुना एतस्य विघ्नाचरणं मनसः पारतन्त्र्यं विना नोपपद्यत इति तदर्थ कामादयः पडेव प्रभवन्तीति त एव वयं प्रेपिताः । अस्माभिश्च तत्र सखिस्नेहवशादङ्गीकृतं मनसः पारतन्न्यकरणम् । कुष्ठः- ततस्ततः । मत्सरः-ततश्च तेष्वहमेको मन्दभाग्य इमां दुरवस्थामनुभवामि । कुष्ठ:--अथ कामस्य कावस्था । मत्सरः-सखे, किं कथयामि मन्त्रिहतकस्य दुर्बुद्धिविलसितम् । श्रुत्वा पित्तकफात्मपङ्गुयुगलस्पष्टोपजापं तथा हृद्रोगस्य विमोचनं च सचिवः स्वात्किकराद्विस्मितः । (आकाशे लक्ष्यं बद्धवा।) पाण्डो साधु भवान्यदैव परमेशाराधने साधनं चेतःस्थैर्यवदुद्यतस्तदरिणा तद्देत्तुमित्यब्रवीत् ॥ १५ ॥ इतःपरमपि स वुद्धिमान्पाण्डुर्मम रसौषधसेनासंधानव्याप्ततां तां राज्ञ एकाकितां मनसश्चञ्चलतां निरूप्य प्रबलांस्तद्भदिनः कामांदीन्प्रेषयिष्यतीति मत्वा किंकरमुखेनैव स्वनागरिकाय विचाराय नगरपर्यटनमपहाय तत्रैव कामादिभेदने सावधानेन स्थेयमिति विज्ञानमन्त्रिणा समादिष्टम् । कुष्ठः-ततो विचारेण किं कृतम् । मत्सरः-तेन च तत्सदृशबुद्धिना कामः कामपि योगकलामुत्पाद्यो- पजापेन ध्यानविषयतामापादितः । कुष्ठः-हा कामस्यापि परिणतिः । अथ क्रोधस्य को वृत्तान्तः ।
६४ काव्यमाला। - मत्सर:- कमपि प्रदर्य दोपं विचारहतकेन सोऽपि च क्रोधः । अस्मास्वेव प्रत्युत झटिति परावृत्तिमेव नीतोऽभूत् ॥ १६ ॥ कुष्ठ:--हा क्रोध, त्वमपि सखीनेवाभिद्रोग्धुं प्रवृत्तः। अथ लोभः कथम्। मत्सरः -यादृशः कामः । - कुष्टः- कुष्ठः- साधु लोभ सखे साधु सम्यग्व्यवसितं त्वया । यादृशीं प्रापितोऽवस्थां कामस्त्वमपि तादृशीम् ।। १७ ॥ अथ दम्भः क । मत्सरः उपजप्तोऽपि बहुधा तैरस्माकं स केवलम् । सौहार्दमुपरुन्धानः शस्त्रवातहतोऽजनि ॥ १८ ॥ -धन्योऽसि दम्भ, धन्योऽसि । यतः सख्युरनृणतां गतोऽसि । अथ कथय किमध्यवसितं मदेन । मत्सरः-मदस्तु निगृह्य कारागारे स्थापितः । कुष्टः-ततः । मत्सर-निर्गते च पुण्डरीकनगरादाननि नर्मकर्मण्येनगुपयोक्ष्या- मह इति । कुष्ठः-मत्सर, एवंस्थिते शत्रुमण्डलादेक एव त्वं कथं निर्गतोऽसि । मत्सरः-शृणु तावत् । नहि मम स्वेच्छया ततो निर्गमो जातः । यतो रममियनन्तरं संनद्धे च सैन्ये इममेव मत्सरमत्रत्यवृत्तान्तहारिणं करियाम इति निगृह्य स्थापितोऽस्मि । कुष्ठः--तहिं सखे, तवागमनमिदानीं तत्र रससिद्धि सेनासंनाहं च गनयति । मत्सरः-एवमेतत् । समनन्तरमेव गज्ञः संनिधिमृच्छ भद्र कथय त्वं पाण्डमाविष्कुरु वामिप्रीतिगुपेहि मन्त्रकलनाकौशल्यमप्यश्लथम् ।
५ अङ्कः] जीवानन्दनम् । मा ग्लासीरिति मास्तु भीतिरिति मामुक्त्वा चमूनायका- नामग्राहमपि प्रदर्श्य नगरान्निःसारितोऽहं शनैः ॥ १९ ॥ कुष्ठ:- प्रज्ञोन्मदः स सचिवस्तदनों भविष्यति । गत्वा निवेद्यतां राज्ञे मन्त्रिणेऽहं निवेदये ॥ २० ॥ मत्सरः तप्स्यमानस्तपः सख्युरविकीर्त्यमिदं तव । कुष्ठ फलिप्यति तपः किं ते न चेत्सख्यमजीगणः ॥ २१ ॥ ग्लानिर्मनसस्तपसे प्रवर्तयति शक्तिमन्तमपि पुरुषम् । अग्लानिस्तस्य यदि क्रमाहतस्यापि साधयति कार्यम् ॥ २२ ॥ तस्मादग्लानिरेव क्रियताम् । मत्सर:-का गतिः । (इति कुष्टेन किंकरेण च सह निष्क्रान्तः ।) शुद्धविष्कम्भकः। (ततः प्रविशति पाण्डुः कुष्ठश्च ।) पाण्ड:-(सामर्षम् ।) अग्राह्यमल्पमतिभिः सचिवस्य तस्य वैयात्यमूर्जितमहो किमिति ब्रवीमि । यः प्रेषयन्किमपि ताशवाचिकं द्रा- गुन्मस्तकं निजमसूचयदूष्मलत्वम् ॥ २३ ॥ जीवसमाधिभङ्गाय प्रेषितेषु कामादिष्वपि तथाभूतेषु भक्तिमूला खल्वे- तस्याभिमतसिद्धिरिति तद्विघाताय प्रेषितो व्याक्षेपो नाम गूढचारः । स ग- तोऽपि तत्सख्या श्रद्धयापहतो व्यर्थयत्नोऽभूत् । किमतः प्रतिविधातव्यम् । कुष्ठः-मम त्वेवं प्रतिभाति । मन्त्रिणामूष्मलत्वं हि पश्यद्भिः प्रतिमन्त्रिभिः । शौर्येण प्रतिकर्तव्यं तथा चेदुचितं भवेत् ॥ २४ ॥ पाण्डुः-मैवं वादीः । परस्य मन्त्रशक्तिः स्वस्य मन्त्रशक्त्यैव प्रतिह- ९ काव्यमाला । . न्तव्या । यथा खलु शास्त्रविद आचक्षते । यो यादृशेन साधनेन प्रहरति स तादृशसाधनेनैव प्रतिहन्तव्य इति । अतो मन्त्रकृतं संविधानमुपायान्तराभावे शौर्येण प्रतिक्रियतामित्यन्तिममिदमोपयिकम् । अहमिदानीं तदुचितं प्र- तीकारमालोचयामि। कुष्टः-आलोचयतु भवान् । आकर्णयिप्यति यदा वृत्तान्तमिदं स मत्सरमुखेन दीपितरोपो हृदये देवोऽपि समागमिप्यति तदैव ॥ २५ ॥ तम्य पुरस्तादस्मदायत्तमुपायं सफलीकरिष्यामः । पाण्ड:-अस्त्वेवम् । भवानवहितस्तिष्ठतु । कुष्ठः-तथा । (इति निष्क्रान्तः ।) पाण्ड:-कः कोऽत्र भोः । (प्रविश्य ।) गलगण्ड:-आज्ञापय करणीयम् । पाण्ड:-भद्र, अपथ्यतां प्रवेशय । गलगण्ड:--(निष्क्रम्य पुनस्तया सह प्रविश्य ।) आर्य, कटकसीमनि देवः प्राप्त इति वल्लभपालो विज्ञापयति । पाण्डः-(अपथ्यतां प्रति । अपवार्य ।) अये, त्वं कनिन्महति राजकार्ये नियोजयितव्यासि । अपथ्यता-अवहिदामि । (क) पाण्डः-जीवं प्रविश्य तमपश्येप्वाहारविहारादिपु नियोजय । अपथ्यता-तह । (दनि निष्कान्ता ।) पाण्ड:-(पुरोऽवलोक्य ।) अये, देवः प्राप्तः । गलगण्ड, गच्छाग्रतः । (ततः प्रविशति राजयक्ष्मा मत्सरथ ।) पाण्डः-प्रणम्य ।) गनन्, कथमेतत् । तन्वन्पुनः पुनरपि भृकुटि टलाटे निःमीमनिःश्वमितमुञ्चलिताधगेष्टम् । (क.) अवहितास्मि । -
५ अङ्कः]
जीवानन्दनम् ।
देवस्य शंसति मुखाम्बुजमन्तरङ्गे
रूढां रुषा रिपुजने सहसैव चिन्ताम् ॥ २६ ॥
राजा-पाण्डो, विजने प्रासादे समुपविश्य सर्व बोधयिष्यामि ।
पाण्डुः-गलगण्ड, प्रासादमार्गमादेशय ।
गलगण्डः-इत इतो देवः ।
पाण्डुः-(विलोक्य ।) राजन्, आरुह्यतामयम् ।
श्रीकण्ठक्षितिधरशृङ्गभङ्गदायी प्रासादः शिखरविराजिहेमकुम्भः ।
सोपानैः स्फटिकमयैः सुखेन गम्यो रम्योऽयं भवति कलखनैः कपोतैः।।२७॥
(सर्वे प्रासादारोहणं नाटयित्वोपविशन्ति ।)
राजा-पाण्डो, किं न त्वया श्रुतो मत्सरात्परवृत्तान्तः ।
पाण्डुः-श्रुतं कुष्ठमुखात्पुरवृत्तं तं विशेषतः श्रोतुमिच्छामि ।
राजा-पाण्डो, श्रूयतां मत्सरमुखात् । ततः समुचितं प्रतीकारं विधा-
स्यसि । मत्सर, कथय ।
मत्सरः
संनद्धैः पुररक्षणे परिगतं प्राणादिभिः पञ्चभि-
स्तत्तद्देशगतैश्च यत्ननिचयैस्तद्दुष्प्रवेशं पुरम् ।
रन्ध्रान्वेषितया कथं कथमपि प्राप्ताः स्म देवाज्ञया
यत्रान्तर्मुखतामुपेत्य नियतं जीवस्तपोऽतप्यत ॥ २८ ॥
राजा-के ते प्राणादयः कतिविधाः कुत्र गताः किनामधेयाश्च ।
कानि च तानि यत्नानि कीदृशानीति सप्रकारमावेदय ।
मत्सरः-
हृदयसततावासः प्राणो महाबलविक्रमः
सकलमपि तद्यस्यायत्तं पुरं सपरिच्छदम् ।
कलितनिलयोऽपानो मूलस्थले हितकृद्विभो-
र्वसति च समानाख्यो गुल्फे बली घनशूलभृत् ॥ २९ ॥
कि च।
कण्ठोपकण्ठे निवसन्नुदानः करोत्यकुण्ठां किल राजभक्तिम् ।
व्यानस्तु सर्वत्रचरः पुरेऽस्मिन्करोति जीवे सकलानुभूतिम् ॥ ३० ॥
६८ काव्यमाला। शल्यानि यानि किल देहभृतां शरीर नानाशकेपु महती प्रथयन्ति बाधाम् । तेषां समुद्धरणकर्मणि साधनानि यन्त्राणि कानिचन संघटितानि तत्र ॥ ३१ ॥ यानि किल अभिगंदरमुखस्य रुजां गणस्य क्षाराग्निशस्त्रपरियोजनमगरक्षाम् । वस्त्यादिकर्मचटकादि च कार्यजातं कुर्वन्त्यपायरहितानि च तत्र तत्र ॥ ३२ ॥ अपि च। यद्धर्यक्षसहक्षरूक्षवदनं तत्सिहवक्राभिधं यच्चक्षस्य मुखामभीपणमुखं भल्लूकवकं हि तत् । तत्कवानननामकं प्रतिभयं यत्कङ्कतुल्याननं यन्त्रं काकमुखं तदेव यदपि ध्वासातितीक्ष्णाननम् ।। ३३ ।। विस्तीर्णानि नवद्वयागुलपरीणाहानि कण्ठे परं संनद्धानि च कीलकैः सुघटितैर्मूलेऽङ्कुशाभानि च । पर्यन्तेषु पुनर्मनुरसदृशाकाराणि तिष्ठन्त्यहो तत्र म्वस्तिकनामकानि कतिचिद्यन्त्राणि घोराणि च ॥ ३४ ॥ तान्येव सुदृढान्यस्थिलग्नशल्यापकर्पणम् । कुर्वन्ति स्वस्तिकास्यानि यन्त्राणि हि शरीरिणाम् ॥ ३५ ॥ अपि चा एकान्येकमुखान्यपि नाडीयन्त्राणि सूक्ष्मपिराणि । स्रोतोगतशल्यानां दर्शनचूषणविधौ समर्थानि ॥ ३६ ॥ एवमादिमिर्चहुविधर्यन्त्रनियहरन्यैरपि परिगुप्ततया दुर्गममपि पुरं कथंचन प्रविश्य मनमः पारतव्यकरणाय वयं यावदितस्ततः संचरितुं प्रवृत्तास्ता- वदेव विज्ञानविधेयेन विचारनाम्ना नागरिकहतकेन परिज्ञाताः । पाण्डः-तनम्नतः ।
५ अङ्कः] जीवानन्दनम् । ६९ मत्सर:-ततः कामादिषु तत्र तादृशी दुरवस्थां प्रपन्नेष्वह- मेक एव हतभाग्यतया वैरिवशं गतस्तत्कृतमवमानजातमशरणतया सह- मानस्तदीयभटैरितस्ततो विकृप्यमाणस्तदुदितवाचिकमपि निशमयंश्चारवध- विमुखैस्तैरेव कृपया विमुक्तः प्रज्वलदवमानाग्निसंतप्यमानः स्वजनमुखाव. लोकने कृतलज्जतया वचन विजनकाननसीमनि कठोरतपश्चर्यया विनिपा- तिततनुर्भतुरानृण्यं भजेयमिति पुरान्निःसरन्नन्तरा सकिंकरेण कुष्ठेन देवपा- दमूलं प्रापित इत्येतदवसानं प्रवृत्तेः श्रुत्वा देवः प्रमाणम् । राजा-कुमार, श्रुतं खलु निरवशेषमस्य मुखात् । किमत्र प्रतिवि- धेयम् । पाण्डुः-(विचिन्त्य ।) देव, किमन्यत् । सन्तु यन्त्राण्यनेकानि सन्तु वा सैनिकाः परे । त्वत्कोपाग्नौ पतङ्गत्वं भजेरनिति मे मतिः ॥ ३७ ॥ राजा-पाण्डो, सत्यमेव किं कालविलम्बेन । सर्वथा प्रविश्यान्तःको- शागारम् शस्त्रेण सर्वमपि खण्डश एव कृत्वा गृध्रव्रजाय निखिलं वलिमर्पयामि । येनौदनो दिविपदा विकलीकृतोऽभू- त्कि तस्य मे भयममी कितवा विदध्युः ।। ३८ ॥ अपि च । अमृतनिधिरयं यः सोऽपि मत्पीडितः स- न्न विसृजति मदीयेनाधिनायापि कार्यम् । निजविकटजटालीकाननस्थापितस्य प्रभवति स महेशोऽप्यस्य किं पूरणाय ॥ ३९ ॥ हन्त हन्त । स ददाति नाम गिरिशो रसमेतेपामुपासनपराणाम् । लब्धेनैतेनास्मानेते नाम प्रशमयन्ति ॥ ४० ॥ (विहस्य ।) अहो विचारचातुरी विज्ञानहतकस्य ।
काव्यमाला। (आकाशे ।) अरे विज्ञानहतक, आश्रित्य यं सततमुत्पतसि मयेन निर्वापयामि तमहं सहसैव जीवम् । पश्चाद्विनङ्यति भवानपि चाश्रयस्य नाशान्न सिध्यति किमाश्रयिणोऽपि नाशः ॥ ४१ ॥ राजा-कः कोऽत्र भोः, शस्त्रम् । (इत्युत्यातुमिच्छति ।) पाण्डुः-ननु संनिहितमेव शस्त्रम् । तथापि किंचिद्विज्ञापयामि । अस्त्येवायमन्तिमः प्रकारः । अपि तु त्रियूपायेपु सत्स्वन्त्यो न युक्त इति तान्त्रिकाः । उपायमिममेवातो मनो मे प्रयुयुक्षते ॥ ४२ ॥ राजा-कोऽयमुपायः । पाण्डुः-(कणे ।) एवमेवम् । राजा-भवतु तथा । अस्त्येवैतदनन्तरकर्तव्यम् । पाण्डुः-देव, मार्गश्रम इव दृश्यते सिद्धं च सर्व शयनादि । राजा-त्वमपि स्वकार्येऽवहितस्तिष्ठ । अहमपि भुक्त्वा निद्रास्थानं गच्छामि । (इति निष्क्रान्ताः सर्व ।) इति पनमोऽङ्कः। पष्टोऽङ्कः। (ततः प्रविशति कर्मणा सह कालः ।) काल:-वत्स कर्मन्, जीवस्य राज्ञः पुरवाधनाथ यक्ष्मराजमन्त्रिणा पाण्डना प्रयुक्तान्रोगरूपान्भटान्प्रतियुधा जेतुं विज्ञानमन्त्रिणा नियुक्तं सर- सतप्रतिभटनातं किं करोतीति जिज्ञासते मे हृदयम् । कर्म-भगवन् , सर्वानुम्यूतन्य तव किं नामाविदितमस्ति । काल:-भवानपि तादृश एव । महानवलु तव प्रभावः । तथाहि ।
६ अङ्कः] जीवानन्दनम् । ७१ त्वामज्ञातमनुग्रहाय जगतां देवी विधत्ते श्रुति- लोकः साधयतीप्सितं भवदनुष्ठानादिहामुत्र च । किं चायं समनुष्ठितेन भवता चित्तस्य शुद्धिं गत- स्तत्त्वं वेदितुमात्मनः प्रभवति त्रय्यन्तसंदर्शितम् ॥ १ ॥ अपि च । त्वं नित्यनैमित्तिककाम्यभेदात्स्थित्वा विधानेकफलानि दत्से । इन्द्रत्वमिन्द्रस्य विधेविधित्वं हरेर्हरित्वं च फलं त्वदीयम् ॥ २ ॥ कर्म-आर्य, अवाङ्मनसगोचरस्तव महिमा । सुमतिभिरनुमेयस्त्वं सहस्रांशुगत्या (सविनयम् ।। भवति भवदधीनं मद्विधानं जनानाम् । • भगवन्, किमन्यद्वीमि । परिणमयसि पुंसां दातुमर्थात्मना मां त्वयि कृतिमति पोढा विक्रियन्ते च भावाः ॥ ३ ॥ किं च । त्रैधं जनः शंसति वर्तमानं भूतं भविष्यन्तमहं पुनस्त्वाम् । ऐकध्यमापन्नमखण्डरूपमाधारमेषो जगतामवैमि ॥ ४ ॥ निमेषकाष्ठे च कलाक्षणौ च मुहूर्तरात्रिंदिवपक्षमासान् । भवत्तनूभृत्त्वयने तथान्दं युगं च मन्वन्तरमप्यरूमि ॥ ५ ॥ काल:-तदिदानीं पाण्डुविज्ञानमन्त्रिभ्यां युद्धाय नियुक्तानां भटानां विक्रमविलासानवलोक्य चक्षुपी कृतार्थयिष्यावः । पाण्डुना खलु जीवराजे प्रयुक्तो भविष्यतो रोगस्य पुरो भावी बुभुक्षाजनको भस्मकरोगस्तद्गृहीतो राजेति जानामि । आवां यथा न विद्युः सर्वेऽपि दिविस्थितावुच्चैः । उभयेषामपि युद्धं पश्यावः संलपावश्च ॥ ६ ॥ किं च, ज्ञानशर्मणोपजापितोऽपि राजा भूयो विज्ञानशर्मणा प्रत्यावृत्य पर्यवस्थापितः ।
७२
काव्यमाला।
कर्म-भगवन् , कीदृशो ज्ञानशर्मणोपजापः ।
काल:-वत्स, श्रूयताम् ।
तत्तत्कार्यविशेपसाधनविधावुक्त्वेतिकर्तव्यता
जीवस्यास्य विभोः स्वकीयपृतनासंनाहमालोकितुम् ।
निष्क्रान्ते सचिवे कदाचन भजत्येकाकितां राजनि
श्रुत्वा तत्समयं तदन्तिकभुवं स ज्ञानशर्मा ययौ ॥ ७ ॥
अनन्तरमायान्तमवलोक्य दूरादेव
अथ सुचिरवियोगात्संदिहानः सखित्वे
किमपि विवशचेता निर्भरैर्हपभारैः ।
कथमपि समुदश्रुर्वाप्पसंरुद्धकण्ठो
वचनमिदमवोचन्मत्तहंसवरेण ॥ ८ ॥
चेतः शीतलतामुपैति नयने विस्तारिणी कौतुका-
निमर्यादमुपेत्यमानिव तनो कोऽप्यन्तरानन्दथुः ।
वाह मां परिरम्भणे त्वरयतस्त्वां वीक्ष्य कस्त्वं सखे
पुण्यैः पूर्वकृतश्चिरान्मम दृशोः पन्थानमारोहसि ॥ ९ ॥
कर्म-ततस्ततः ।
काल:-ततोऽसौ जीवस्य वचनमिदमाकर्ण्य ज्ञानशर्माकथयत् ।
मोऽहं जीव विभो चिरन्तनसखस्ते ज्ञानशर्मा तथा
प्राणेवन्यतमो मुहुन्लव हिताकाझी च सर्वात्मना ।
विज्ञानस्य कुमन्त्रितैः परवति त्वय्यव्यवस्थस्थिती
शान्तस्त्वन्नगराद्विरक्तहृदयः प्रास्थामनास्थावशात् ॥ १० ॥
संप्रति हि।
दुःसामानिकयोधनः कुपदवीसंचारमासेदुप-
म्तेनापन्जलयों निराश्रयतया गज्ञो वृथा मन्जतः ।
वृने यो न हितं वचोऽप्रियमपि स्वेष्टं निगृह्याग्रहा-
स्वामिभ्यः म तु बुद्धिमत्पशुरिति प्राप्नोति मन्त्री प्रथाम् ॥ ११ ॥
६ अङ्कः] जीवानन्दनम् । ७ २ अतः किल विज्ञानशर्महतकस्य वृथा कुमन्त्रै- पोरामिमां सुमहतीं गतमापदं त्वाम् | आकर्ण्य देव हितवागुपदेशहेतो- रद्यान्तिकं तव गतोऽस्म्यनृणो बुभूपुः ॥ १२ ॥ कर्म-ततस्ततः । काल:-ततश्च राजा सरलप्रकृतितया 'सखे ज्ञानशर्मन्, चिरेण दृष्टोऽसि । त्वत्तोऽपि मे श्रेयःसंपादकः कोऽन्योऽस्ति । तत्कथय प्रस्तु- तोचितं हितम्' इति तमन्वयुक्त । कर्म-ततस्ततः। काल:-ततो ज्ञानशर्मा राजानमुपहरे स्वैरमित्थं बोधयामास । शश्चन्नश्वरमेव विश्वविदितं पापप्ररोहस्थलं मेदोमज्जवसास्थिमांसरुधिरत्वग्रोमकूपं वपुः । एतस्मिन्मलमूत्रभाण्डकुहरे हेये मनीपावतां दुःखे न्यायविदो विमोहमिह के तन्वन्ति नन्वन्तिमे ॥ १३ ॥ जगत्मोतं यस्मिन्विविध इव सूत्रे मणिगणः समस्तं यद्भासा तदपि च विभाति स्फुटमिदम् । अखण्डानन्दं यन्निरवधिकसच्चित्सुखमयं निराकारं यत्तत्त्वमसि परमं ब्रह्म न पुमान् ॥ १४ ॥ तत्तादृशः सुखघनस्य निरञ्जनस्य सर्वात्मनापि ननु हेयतरे पुरेऽस्मिन् । विज्ञानशर्मवचनैविपरीतवृत्ते- मन्ये न युक्त इव ते ममताभिमानः ॥ १५ ॥ इत्यादिभिर्बहुविधैरुपपत्तिपूर्वै- रेतैर्वचोभिरथ तेन रहः प्रयुक्तैः । कोषे बले रिपुवधे च बभूव सद्यो जीवो विरक्तहृदयो विगताभिमानः ॥ १६ ॥ ..
काव्यमाला।
कर्म-भगवन् , इत्थं ज्ञानशर्मणोपजप्तस्यापि जीवस्य राज्ञः कथमधुना
रिपुवधे प्रवृत्तिः ।
काल:-श्रूयताम् । इत्थं ज्ञानशर्मा राज्ञो रहस्युपजापं कुर्वन्सेनासं-
निवेशादागतस्य विज्ञानशर्मणो वचनमाकर्ण्य न नः परमिह स्थातव्यमिति
राजानमामय जगाम ।
कर्म-ततस्ततः ।
कालः–ततश्च निष्क्रान्ते ज्ञानशर्मणि प्रविश्य विज्ञानशर्मा राजान-
मालोक्य अये, किमयमपूर्व इव राजा पुरादिपु परित्यक्ताभिमान इव
दृश्यते । तद्वहुधा ज्ञानशर्मणोपजापितः स्यात् । भवतु । सर्वमिदं स्वय-
मेव व्यक्तीभविष्यति । (इति राजसमीपं गतः ।)
कर्म-ततस्ततः ।
काल: ---राजा च तमालोक्य सावहित्थस्तमनुसरन्निव सादरमट-
च्छत् । 'मन्त्रिन्, कथय कीदृशः पुरवृत्तान्तः परवृत्तान्तश्च' इति ।
कर्म-ततस्ततः ।
काल:
इति राज्ञा समाज्ञप्तो नयज्ञो मन्त्रिशेखरः ।
प्रत्युत्तरं तदादत्त प्रज्ञावज्ञातवाक्पतिः ॥ १७ ॥
वायत्तं पुरमेव नः समजनि स्वामिन्भवच्छासना-
त्तत्तदशनिविष्टपत्रनिचयव्यापारसंरक्षितम् ।
निर्दग्या भवतः प्रतापमहसा नूनं पतङ्गा इव
प्रत्यर्थिप्रकरा भवेयुरधुना नामावशेपाः क्षणात् ॥ १८ ॥
कर्म-ततस्ततः ।
कालः--इत्याकर्ण्य राजा ज्ञानशर्मवचोऽनुस्मरन्नुभयोर्मतयोरपि दोला-
यमानमानम इतिकर्तव्यतामव्यवस्यन्नित्यमाक्षेपमुखेन व्याजहार ।
निसर्गतो ये रिपवो हि रोगा बातादिमिम्तजनकैः समन्तात् ।
अधिष्ठिनेऽस्मिन्कुटिलः प्रवृत्त्या स्वायत्तता हन्त कथं पुरे नः ॥ १९ ॥
६ अङ्कः] जीवानन्दनम् । किं च । संरक्ष्यते निजवशंवदसेवकेन यः पाण्डुना विमतखण्डनपण्डितेन । सोऽयं प्रतापपरिदग्धपुरो विसर्प- ओयः कथं कथय संप्रति राजयक्ष्मा ।। २० ॥ कर्म-ततस्ततः । कालः-इति राज्ञो वचनमाकर्ण्य समञ्जसयुक्तिकं वचोऽब्रवीत् । रा- जन्, श्रूयताम् । वातादिजा यद्यपि सर्वरोगास्तथापि तानेव विनाशयन्ति । यथारणेतिरुचिरुद्यन्दहत्ययत्नादरणिं तमेव ॥ २१ ॥ अपन्थानं त्विति न्यायादात्मद्रोहिपु तेष्वमी । आत्मजेष्वपि न स्नेहमातन्वन्त्यधुना प्रभो ॥ २२ ।। अतस्तदधिष्ठितमपि पुरं स्वाधीनमेवेति निश्चिनु । किं च । स्वायत्ते नगरे तस्मिन्स्वामिपादप्रसादतः । जयश्रियं हस्तगतां जानातु भगवान्क्षणात् ॥ २३ ॥ कर्म-ततस्ततः । काल:-इत्थं मत्रिवरवचननिशमनेन किंचिदिव निर्वृतचेतसा राज्ञा मनिन्, 'इयतापि कालेन पुरस्य स्वायत्तत्वे किमनेन फलं पश्यसि' इति पृष्टो मन्त्री कथयामास- पुरस्य दाढ्य योगस्य सिद्धिः सर्वार्थसाधिनी । अखण्डानन्दसिद्धिश्च फलं तेनैव जायते ॥ २४ ॥ कर्म-ततस्ततः । काला-इत्याकर्ण्य क्षुद्राभिमानेन न भवतीष्टसिद्धिः । प्रत्युत हानिरेव फलम् । अतः स्वयमेव त्यक्तेष्वेतेषु सिद्धैवात्मनो दृढयोगसिद्धिरखण्डान- न्दता च । कुत एतावान्यन इति वदति राजनि पुनरपीत्थं समाहित- वान्मन्त्री- काव्यमाला । प्रारब्धरहितस्यैवं भवेदेव न संशयः । प्रारब्धपरतन्त्रं त्वां ते मुञ्चन्ति कथं पुनः ॥ २५ ॥ किन। . लथाभिमाने पुरि हन्त देवे क्षोभो भवेत्त्वत्प्रकृतिप्वकस्मात् । ततोऽवकाशं प्रतिलक्ष्य सर्वे प्रत्यर्थिनस्ते प्रवला भवेयुः ॥ २६ ॥ कि च। यक्ष्मणि जाग्रति तस्मिन्पाण्डज्वरसंनिपातपरिवारे । देवस्य कथं भविता स्थितिरिह यत्नादपि स्वरूपेण ॥ २७ ॥ इममर्थमप्रतिहतया प्रतिभया स्वयमेव विचारयतु देवः । कर्म-ततस्ततः । काल:-तत इत्यात्मनीनानि वचनान्याकर्णयन्कुतूहलाकुलितहृदयः समरयत्नकृतत्वरः मुहुर्मुहुस्तमित्थं प्रशंसन्नवोचत्- त्वयि दत्तभरस्य मेऽधुना किंबहुनानेन विचारणश्रमेण । भवते ननु रोचते यथा वा यतितव्यं हि तथैव निर्विशङ्कम् ॥ २८ ॥ कर्म-ततस्ततः । काल:-ततश्च किल यदेवं देवस्य मनसो व्याकुलीभावः स सर्वोऽपि शत्रूपजाप इति मन्तव्यम् । अतो विज्ञापयामि । तिष्ठतु दाढय मवचसि इति राजानं पर्यवस्थाप्य स्वकार्य एव व्याप्रियते । कर्म-भगवन् , ज्ञानविज्ञानयोरेकरूपयोरिव सतोः कुत इयान्विरोधः । काल:--वत्स, मोक्षे धीर्जानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । तयोविरोध इत्येतत्किमाश्चर्यकरं तव ॥ २९ ॥ कर्म-भवतु नाम तयोविरोधः । तदेवान्तरमुपलभ्य क्रियतां च द्वि- पद्भिपनापः । ज्ञानशर्मणा तु स्वामिहिनैपिणा विपक्षानुकलं पुराभिमान- शथिल्यं कथमुपदिष्टम् । काल:-नहि विपक्षानुकुलमिति न च तदीयोपनाप इति वा प्रवृत्तिरे- तस्य । किं तु वन्तु तत्त्वमुपदेष्टव्यमित्येव तस्य समावः ।
६ अङ्कः] जीवानन्दनम् । ७७ . ज्ञानमद्वैतसन्मात्रं विपक्षस्तत्र को वद । स्वरूपस्थितिरेतस्य स्मारिता पारमार्थिकी ॥ ३० ॥ मूढवदेहतादात्म्यं राजा न प्रतिपद्यताम् । वाधितं तदग्धपटन्यायेनास्त्विति तस्य धीः ॥ ३१ ॥ तदुक्तमभियुक्तैः- 'वाधितं दृश्यतामस्तेन वाधो न शक्यते । जीवन्नाखुनै मार्जारं हन्ति हन्यात्कथं मृतः ॥ ३२ ॥ किं च । मायया बहुरूपत्वे सत्यद्वैतं न नश्यति । मायिकानां हि रूपाणां द्वितीयत्वमसंभवि ॥ ३३ ॥ कर्म-भगवन् , युज्यत एतत् । काल:-एवं च ज्ञानशर्मणोपजप्तोऽपि विज्ञानशर्ममन्त्रिमन्त्रवशात्प्रो- साहितो राजा यदाचरिष्यति तदालोकयिष्यावहे । (भुवमवलोक्य ।) कथं विदूषकेण सहायमागच्छति राजा तत्रैव गच्छावः । (इति परिकामतः ।) (ततः प्रविशति राजा विदूषकश्च ।) राजा- संख्यापेततया रसानपि भृशं पट्सेवमानस्य मे तेप्वेवातिबुभुक्षुता प्रतिमुहुर्हाहा सखे जायते । एवं व्यापृतिरैच्छिकी मम यतो भुङ्गेऽन्नराशीनहं पीयन्ते च रसालमाक्षिकदधिक्षीराज्यकुल्या मया ॥ ३४ ॥ अन्नान्येव निरन्तरं विवृणुतां सर्वाणि सस्यानि भू- वारि प्रावृषि कोऽपि वर्पतु दधिक्षीरात्मकं वारिदः । सर्वोऽयं लवणाम्बुराशिरपि चेदुग्धाम्बुधियितां भुञ्जानस्य तथापि हन्त पिवतो न क्षुत्पिपासाशमः ॥ ३५ ॥ तदतिशयेन संपादनीयो मम पानभोजनविधिरिदानीम् ।
काव्यमाला। विपकः-(सद्यम् ।) अन्ज एव्व एवं करणिज्जं । जेण अहं वि ए. दस्सि कजे तुअ सहाअत्तणे दक्खो होमि । जम्मेण तु विण्णाणेण भवं मिदभोअणे सवदा सिक्खीअदि तेण विण्णत्तो वि तुमं तस्स वअणं मा करेहि । (क) राजा-साधु सखे, साधु । सम्यगुपदिष्टम् । तथा करिप्ये । काल:--वत्स, श्रुतं भवता । कर्म-श्रुतमेव । एप पाण्डुना प्रहिताभपथ्यताजननी स्वस्य बहु वु- भुक्षां न जानाति विदूपकोऽप्यजानन्नेवं भापते राजा-कः कोऽत्र भोः । विदूपका-सिक्खिदो वि मए किं तुमं पडिऊलकारिणो अमचस्स आआरणत्यं दोआरिअं आमन्तेसि । (ख) राजा-वयस्य, मा विभिहि । तव मतमेवानुसरामि । विदूपका-जइ एव्वं थिरपडिण्णो होहि । एदस्स अविह्मरणत्वं वसणन्ते मए बद्धो गण्ठी । अहं जेव्व तं आणेमि । (ग) (इति निष्क्रम्यामो- त्यन मह प्रविशति ।) अमासः-सति दौवारिके राज्ञा किमर्थं त्वं प्रहितः । विदृपक:-एत्य कजे अहं जेव्व दोवारिओ । (ब) अमासः-कीहशे कार्ये । (क) अवैतत्करणीयम् । येनाहमप्येतस्मिन्कार्ये तव सहायत्वे दक्षो भ- वामि । जाल्मेन तु विज्ञानेन भवानिमतभोजने सर्वदा शिक्ष्यते तेन विज्ञप्तोऽपि त्वं तस्य वचनं मा कुरु । (ख) शिक्षितोऽपि मया किं त्वं प्रतिकूलकारिणोऽमात्यस्याकारणार्थ दीवारिकमामन्त्रयमि। (ग) यद्येवं स्थिरप्रतिज्ञो भव । एतस्याविस्मरणार्थ बसनान्ते मया बहो अन्यिः । अहमंत्र तमानयामि । (घ) अत्र कार्यऽहमेव दीवारिकः ।
६ अङ्कः]] जीवानन्दनम् । काल:-कर्मन् , मन्त्रिणापि न विज्ञाता औपाधिकी राज्ञो बुभुक्षा । कर्म-बाढम् । विदूषकः-अमच्च, रण्णो दाणि बहुभक्खणणामहेऐ उवडिदे कजे । (क) मन्त्री-कीदृशी बहुभक्षणता । विदूपका-किमणं । बुभुक्खिदो वग्यो विअ सव्वपकिदीणं अह्माणं जीवणं भक्खिदुकामो राआ मा खु णं णिवारेहि जं पलअकालकुविदो रुद्दो विअ चिट्ठदि । (ख) मन्त्री-(विहस्य । स्वगतम् ।) राज्ञः पानभोजनसंपादने स्वस्यापि तद्भवि- ध्यतीत्येतस्य हृदयम् । (प्रकाशम् ।) गच्छाग्रतः । अहमप्यागमिष्यामि । (आकाशे दत्तदृष्टिः ।) किं न्वेतत्स्यात् । कार्यान्ववेक्षणविधौ सदसि स्थितेन येन क्षमाजनि चिरं सहितुं वुभुक्षा । भुक्त्वा च यस्य कियदप्यशनं नितान्तं तृप्तिर्भवेत्स कथमीदृशबुद्धिमेति ॥ ३६ ॥ काल:-अहं खलु प्राणिनामव्यवस्थितामवस्थां करोमि । कर्मः-वाढम् । अलमिदम् । अन्यदप्यचिन्तनीयं बुद्धिविलसित- मिति जानामि । यत्किल दृष्ट्वा दक्षकृतापराधजनितक्रोधोज्झिताङ्गी सती यः शान्तस्तपसि स्थितः स गिरिशः खं प्रत्युपात्तायुधम् । कोपोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमज्वल- ज्ज्वालाजालविजृम्भणेन सहसा भस्मीचकार मरम् ॥ ३७ ॥ काला--(विहस्य ।) शृणु तावत् । (क) अमात्य, राज्ञ इदानी बहुभक्षणनामधेये उपस्थिते कार्ये । (ख) किमन्यत् । बुभुक्षितो व्याघ्र इव सर्वप्रकृतीनामस्माकं जीवनं भक्षि- तुकामो. राजा मा खल्वेनं निवारय यत्प्रलयकालकुपितो रुद्र इव तिष्ठति ।
. काव्यमाला। मारुतं यः पिबन्नेव महपिस्तपसि स्थितः । तमहं कुम्भजन्मानं तोयराशिमपाययम् ॥ ३८ ॥ मन्त्री-अतिबुभुक्षया राक्षः किमप्याशङ्कते मे हृदयम् । यथा- हुनीतिज्ञाः- 'अतिवुभुक्षा राज्ञो राज्यच्युतिसृचिका' इति । (राजानं निम्ना) शुप्यन्त्या धृतशोपणे रसनया शश्वल्लिहन्सृकिणी किनिन्मनविलोचनः श्रमजलविद्यत्कपोलालिकः । आरुदकुटीभयंकरमुखो निःश्वासनाधरो दृष्ट्या कृणितया विलोकयति मामायान्तमेवान्तिके ॥ ३९ ॥ (उपगटा ।) जयतु जयतु देवः । राजा-उपविश्यताम् । (इन्यासनं निर्दिशति ।) विदृपक:-अम्स, मए गहिदत्यो किदो अमच्चो । (क) गजा-अमात्य, सजीक्रियतामनेनोक्तं सर्वमपि । मन्त्री- किमियमपूर्वी बुद्धिदेवस्य बिजम्मते ससंरम्भम् । ननु कुंर्वे यदिदानीमनेन दुर्मेधसा कथितम् ॥ ४० ॥ विदृपक:-~-दाणि वअम्म, तुमंजेव्व मह सरणं,जं कुविदो अमच्चो।(ख) राजा-अलं चापलेन । मन्त्री-तिष्ठ तूप्णीम् । जानामि ते दोष्टयम् । (विसको लाजतस्तिष्ठति ।) मन्त्री-(स्वगतं विचिय।) न्यादेतत्कि नात्र पश्यामि हेतुं गली न क्षुद्राज्यविभ्रंशचिदम् । अन्य श्रेयः सिद्धये बद्धकतः किं नाहं स्यां किं न मे स्वामिभक्तिः॥४१॥ पर त्वंवं निधिनामि द्विपदानमन्त्रिणा पाण्डुना कृतमिदं वैकृतमिति । (क.) वयस्य, मया गृहीतार्थः कृतोऽमात्यः । (ब) इदानी वयम्य, त्वमेव मम शरणम । याकुपिताऽमान्यः । - ६ अङ्कः] जीवानन्दनम् । ८१ भवतु । अस्य चित्तं बहुभक्षणायत्तमन्यत्र व्याक्षिपामि । स एवास्य प्रतीकारः । (प्रकाशम् ।) प्रासादस्योपरि चलतु देवः । तत्रैव संपाद्यते म- हती तृप्तिः । राजा-बाढम् । (सर्व प्रासादाधिरोहणं नाटयन्ति ।) विदूषकः-(सर्वतो विलोक्य ।) भो वअस्स, किं एवं भासिणीपाआरे अपुत्वं किं वि दीसइ । (क) राजा-अमात्य, किमिदम् । कर्म-भगवन्काल, सन्ति खलु शरीरे भासिनीप्रभृतयः सप्तत्वचः : तत्र त्वग्रूपप्रथमप्राकारे सिध्मकपद्मककण्टका नाम त्रयो रोगाः पाण्डुना प्रहिता दृश्यन्ते । तान्विदूषको राजा च न वेत्ति, अतः पृच्छति । काल:-सत्यमेवेदम् । मन्त्री-राजन्, सिध्मकपद्मककण्टकाः । विदूषकः-(सभयम् ।) वभस्स, एदाणं एढे भटा पहारं कुणन्ति तदो ते वि अह्माणं उवरि पडिस्सन्ति । ता अस्मदो सिग्धं पलाअणं करेम । (ख) मन्त्री-विदूषक, मा भैषीः । गुञ्जाफलानिलेपः प्रतियोद्धा सिध्मपद्मयोः समरे । एष हरिद्राक्षारः कण्टकहृतये मया प्रहितः ॥ ४२ ॥ राजा-सुष्टु कृतममात्येन । काल:-गुञ्जाफलानिलेपहरिद्राक्षारानौषधिविशेषान्प्रहरतो दृष्ट्वा वि- दूषको ब्रवीति । कर्म-एवमेतत् । विदूषकः-अज्ज, को एसो । (ग) (क) भो वयस्य, किमेतद्भासिनीप्राकारेऽपूर्व किमपि दृश्यते । (ख) वयस्य, एतेषामेते भटाः प्रहारं कुर्वन्ति तदा तेऽप्यस्माकमुपरि पतिष्यन्ति । तदस्माच्छीघ्रं पलायनं कुर्मः । (ग) आर्य, कं एषः । - ११ काव्यमाला। - मश्रीव्यङ्गनामा रोगः । अभिमुखमवेक्षमाणः शशरुधिरालिप्ततनुरिमं हन्तुम् । तिष्ठति मुखमावृण्वन्मजिष्ठाप्रमुखसाधनो लेपः ॥ ४३ ॥ विदपक:-कि एदं मल्लाणं आजोहणं विअ जं रत्तप्पवाहो दी- मह । (क) मन्त्री बंधेय शत्रधाराक्षुण्णं प्रवहति पुरो न रक्तं यत् । नव मृतां धिगेप प्राकारो लोहिनी नाम ॥ १४ ॥ काल:-त्वग्रप एप द्वितीयः । कर्म-तथव । विदृपकः-अहो पमादो । सुवेदाए उपरि सव्वत्थ गअकण्णा वित्यिण्णा । (ग्व) काल:-कर्मन्, श्वेतनाम्नि तृतीयत्वरप्राकारे नर्मदलं नाम रोगं पृच्छति विदृपकः । राजा-क एते संवर्तन्ते श्वेतायाम् । मग्री- देव योधन तत्रापि नियुक्तेन मया पुरा । आम्रपश्यभिधानेन लेपेनाक्रम्य भूयते ॥ ४५ ॥ विदृपक:--अम्म, परव एत्य का वि दुद्धतरङ्गिणी विअ वहइ । ता अनलीहिं गहिम पिय । (ग) मन्त्री-धिौदर्य, सर्वत्राभ्यवहारभ्रान्तिः । भ्रान्त, नेयं दुग्धनरहिणी प्रवहति विनोऽयमिन्दुप्रभः प्राकारं किल तुर्यतामुपगतं ताम्राग्यमानामति । (क) किमतन्मलानामायोधनमिव यद्रक्तप्रवाहो दृश्यत । (ब) अही प्रमादः । श्रेताया उपरि सर्वत्र गजकर्णा विस्तीर्णाः । (ग) वयस्य, पथ्यात्र कापि दाधनरगिणीव वहति । नद लिभि- हीन्या दिव। -- ६ अङ्कः] जीवानन्दनम् । ८३ संरम्भो भवतो वृथा स्मरयसि त्वं किं तृषं विस्तृतां पातुं शक्यत एष किं तव ततो मौढ्यं त्वयाविष्कृतम् ॥४६ ॥ (इति सभ्रूक्षेपं तर्जयते ।) राजा-क एनमभिसरति । मत्री-एष मया नियुक्तो महातालेश्वरः । काल:-कर्मन्, औषधविशेषोऽयम् । विदूषकः-अध वेदिणीलोहिदाणं उवरि के वि उलूठअन्तो विअ दीसन्ति । (क) मन्त्री-सर्वेऽपि कुष्ठा गलगण्डादयश्च नृत्यन्ति । कर्म-भगवन् , वेदिनीलोहिते पञ्चमीषष्ठ्यौ त्वचौ । तत्र कुष्ठादे- रुत्पत्तिः। काल:-अस्त्येतत् । विदूषकः-एत्थ उण थूलाणाम्मि सत्तमे पाआरे को वि लोह- आरभत्थिआ विअ पूरिज्जमाणसरीरो दीसइ । (ख) मत्री-स्थूलायां विद्रधिरेष शत्रुमल्लः । विदूषकः-(सभयम् । संस्कृतमाश्रित्य ।) प्राकारसप्तकमपि प्रसभं गृहीत्वा खेद्यानि सप्त च विशोष्य तथैव कोषान् । उल्लुण्ठयिष्यति रिपोनिवहो भटानां म्लायंस्त्वमन्ध इव मूढ इव स्थितोऽसि ॥ ४७ ॥ राजा-धिक प्रमादम् । हन्त विज्ञानशर्मन् , आक्रान्तमेवारि- भिरान्तरम् । (क) अथ वेदिनीलोहितयोरुपरि केऽप्युल्लुठन्त इव दृश्यन्ते । (ख) अत्र पुनः स्थूलानाम्नि सप्तमे प्राकारे. कोऽपि लोहकारभस्त्रिकेव पूर्यमाणशरीरो दृश्यते ।
८४ काव्यमाला। मन्त्री -देव, धीरो भव । यदि नाहं प्राणिप्यस्तदिदमभविष्यत् । विदूषकः----(सकोपोपहासम् ।) एदं पच्चक्खं खुवइ । तुमं उण अणु- माणेण एवं णस्थित्ति वण्णेसि । ता अच्छरितको विण्णाणसम्ममन्तिणो । वअस्स, आकण्णेहि मे वअणं । एसो अमञ्चो एव्व सव्वदुवारेसु सत्तुहिं आ- कन्तेसु भिक्खुवेसं गेलिअ पलाइस्सदि । तुह पुणो दुल्लहो मोक्खो । ता एहि । सुरङ्गादुवारेण तुमं णइस्से । (इत्युत्थाय सर्वतो विलोक्य ।) हद्धी हद्धी । किं करेमि मन्दभग्यो । जलमत्तं वि कहिं वि ण दीसइ । सत्तापि जं परि- हाओ रित्ताओ विअ दीसन्ति । (पुनदृष्टा ।) वअस्स, किं एवं इन्दजालं विअ दीसइ जं सत्तावि परिहाओ दाणिं एव्य सुक्काओ पुणो वि अपरि- मिदरसाओ दीसन्ति । कधं इमाओ उत्तरिअ गच्छम । (क) राजा-अमात्य, श्रुतमेतस्य वचनम् । मत्री- एतन्न किंचन ततस्तव मास्तु भीति- रोजायितं रिपुजनस्य निरीक्ष्य किंचित् । यत्वेयपूरणविशोपणयोः समर्थ तन्मूलमेव हि विज़म्भणमप्यरीणाम् ॥ १८ ॥ अपिना रिपवो लम्वा मार्ग रसादिपरिखाः प्रकोप्य तन्मूलम् । देव भवन्ति यथेष्टं पुरमुल्लुण्ठयितुमीशानाः ॥ ४९ ॥ (क) एतत्प्रत्यक्षं खलु वर्तते । त्वं पुनरनुमानेनैतन्नास्तीति वर्णयसि । त- दाश्रये तर्को विज्ञानशर्ममन्त्रिणः । वयस्य, आकर्णय मे वचनम् । एपोऽमात्य एव सर्वद्वारेषु शत्रुभिराक्रान्तेषु भिक्षुवेपं गृहीत्वा पलायिष्यते । तव पुन?- लभो मोक्षः। तदेहि । सुरङ्गाद्वारेण त्वां नेष्ये । हाधिक हा धिक् । किं करोमि मन्दभाग्यः । जलमात्रमपि कुत्रापि न द्रुश्यते । सप्तापि यत्परिखा रिक्ता इव दृश्यन्ते । वयस्य, किमेतदिन्द्रजालमिव दृश्यते यत्सप्तापि परिखा इदानी- गेत्र शुकाः पुनरम्यपरिमितरसा दृश्यन्ते । कथमिमा अवतीर्य गच्छामः । - ६ अङ्कः] जीवानन्दनम् । काल:-रसरक्तमांसमेदोस्थिमज्जशुक्ररूपाः परिखात्वेन निरूपिताः । कर्म-एषां वृद्धौ श्लेष्मविद्रधिरक्तविसादयो भवन्ति । कार्ये तु रौक्ष्यश्रमशोषादयः। काल:-युक्तं भवतोक्तम् । मत्री--एवमेते स्वामिकार्ये बद्धपरिकरा यतन्तु नाम । सन्त्येवैषां प्रतीकारशस्त्राण्यस्मदायत्तानि । विदूषकः-किं एसा वादाली विअ मह अक्खीहिं आउलेदि । (क) राजा-अहो प्रचण्डोऽयमनिलः । तथाहि । ताराश्यावयितुं धनान्विकिरितुं कृत्वार्कतूलोपमा- भित्त्वा पातयितुं भुवि क्षितिभृतां तुङ्गानि शृङ्गाणि च । सद्यः शोषयितुं समुद्रमवनीकर्तुं तु पांस्वात्मना द्रागुन्मूल्य च भूरुहान्भ्रमयितुं शक्तो भवत्यम्बरे ॥ ५० ॥ मन्त्री-अयमेव वृद्धिशोषहेतुः परिखाणाम् । एनमुपजीव्योत्कुप्यन्ति शुष्यन्ति च सर्वतः परिखाः । विदूषकः-किं मूढो विअ पेक्खसि । करेहि एदाणं पडीआरं । (ख) मन्त्री-अदृष्ट्वा किमेवं प्रलपसि । विदूषकः--(उष्ट्रग्रीविकया विलोक्य ।) अचरिअं अचरिअं। एत्थ सत्ता- सत्ति वट्टइ । वड्डन्तेसु सत्तुसु एदे वीरा रोअउलं पहरन्दि । (ग) मन्त्री-तत्र श्लेष्मप्रभृतीरक्तपुत्रांश्चन्द्रप्रभा प्रहरति । विदूषकः-कधं इत्थिआ वि सूराअदि । (घ) मंत्री-रक्तपुत्राणां विसर्पप्लीहप्रभृतीनाममृतगुग्गुलुच(तृ?)णपञ्चका- (क) किमेषा वातालीव ममाक्षिणी आकुलयति । (ख) किं मूढ इव पश्यसि । कुर्वेतेषां प्रतीकारम् । (ग) आश्चर्यमाश्चर्यम् । अत्र शस्त्राशस्त्रि वर्तते । वर्धमानेषु शत्रुषु एते वीरां रोगकुलं प्रहरन्ति । (ब) कथं स्त्री अपिं शूरायते ।
काव्यमाला। दयः प्रहतारः । तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः । मेदसः पुत्राणां कफकेसरिप्रभृतयः । काल:-कर्मन् , एवं वातपित्तकफेपु वात एको रसरक्तमांसादिधा- तूनां शोपकः पोपकश्च । कर्म-एवमेवैतत् । धातूनां प्रकोपे धातुकार्ये च भिपजो वदन्ति 'कटुकादयो मांसवृद्धिहेतवः' इति । 'कटुकाद्वर्धते मांसं कपायाच्छोणितो रसः लवणार्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते मधुराद्वर्धते शुक्र तिक्तान्मेदः प्रवर्धते ॥' विदृपकः-(परिवृत्यावलोकितकेन ।) अज्ज एवं होदु जुज्झदसणम् । पेक्खदु भवं पुरद्विदं अच्चरिअं । (क) राजा-आर्य, किमेतत्पश्यसि । मत्री-(विहस्य ।) पश्याम्येतत् । एतत्पङ्गुद्वितयमनिलश्चारयत्याशयेपु त्रिप्वश्रान्तं जरठगणिका काचिदेपा पुरस्तात् । आजान्वग्रप्रविततकुचा लोभयन्ती प्रसृते हन्तानाङ्करमनुगता सर्वदा देहभानाम् ॥ ५१ ॥ काल:-सम्यगुक्तं मन्त्रिणा यत्पित्तकफो पङ्ग इति भिपक्प्र- सिद्धिः । आशयेविति कफपित्तवातानामाशया विवक्षिताः । अपथ्यता जरठगणिकेति निरूपयन्ति । अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम् । कर्म-साधु निरूपितम् । राजा--किमिदमप्यरिभिरेवं कृतम् । मन्त्री का संदेहः । श्रूयताम् । पाण्डुः स्वस्य निशम्य मत्सरमुखात्तुलायितं विक्रम सेप्यों मामकवाचिकेन हृदये राज्ञा निपिद्धोऽपि सन् । (क) अद्युतद्भवतु युद्धदर्शनम् । पझ्यतु भवान्पुरःस्थितमाश्चर्यम् । Ramay अङ्कः] जीवानन्दनम् । ८७. . प्रज्ञागर्ववशान्मदीयविजये जाताभिलाषोऽब्रवी- दित्थं सान्त्वमपथ्यतां निजकुले स्नेहप्रकर्षान्विताम् ॥ १२ ॥ विदूषकः-कहं सन्तं उत्तवन्तो पाण्डू । (क) मन्त्री एवम् अप्यस्मत्कुलपक्षपातिनि पथा कामोपभोगप्रदे किं नात्मप्रभवं कुलं गणयसि प्रक्षीयमाणं शनैः । औदासीन्यमिदं कुतस्तव विनोपेक्षां यदि व्यापता त्वं नालं बलवानपि प्रभुररिः स्थातुं कुतोऽस्यानुगाः ।। ५३ ॥ अतस्त्वां विज्ञापयामि । संप्रति शत्रुपुरं प्रविशन्ती तत्तदभिमतेन तेन तेन रसेनाशयगतानस्सत्कुलकारकारसवाहिनीभिर्नाडीभिश्च पोषयन्ती रा- जानमपि स्ववशं नयन्ती भेदय विज्ञानहतकात् इत्युपदिश्य मन्दाग्निना सह प्रेषितवान् । विदूषकः-अच्चरिअं एदाए दूतत्तणं जाए पङ्गुणो वि चालिदा । पेक्ख दाणिं वि किं वि मन्तअन्ती चिट्ठदि । सुणाहि दाव तूहीओ भविअ । (ख) (ततः प्रविशन्त्यपथ्यतया सह मन्दाग्निवातकफपित्ताः ।) मन्दाग्निवातकफपित्ता-अयि रसवति, किमु वक्तव्यमस्मदीया रोगा इति । यतस्त्वत्संततिः खल्वेते । त्वयैव वशीकृतेऽस्मिन्राजनि एतत्पुरे सुकरस्तेषां प्रवेशः । वयं तु तत्र निमित्तमात्रम् । काल:-कर्मन्, रसवतीत्यपथ्यताया नामान्तरेण भवितव्यम् । कर्म-रुचिमतीत्यप्येतस्या नाम । विदूषकः-एसा ताडआ विअ भीसणा अणुवट्टदि । (ग) (क) कथं सान्त्वमुक्तवान्पाण्डुः । (ख) आश्चर्यमेतस्या दूतत्वं यया पङ्गवोऽपि चालिताः । पश्येदानीमपि किमपि मन्त्रयन्ती तिष्ठति । शृणु तावत्तूष्णीको भूत्वा । (ग) एषा ताडकेव भीषणानुवर्तते ।
// काव्यमाला। मत्री-राजा चाहं न रामलक्ष्मणाविव वर्तावहे । विदृपकः-अहं वि कोसिओ विअ । (क) राजा-(विहस्य ।) तादृक्प्रभावो महर्षिः खलु भवान् । विपकः--भो वअस्स, एसो अमचो एदाए मं बलिं दाऊण अ- प्पाणं मोचेढुं अहिलसन्तो विअ दीसइ । दाणि भवं जेव मह सरणम् । (ख) मन्त्री-वैधेय, क्षणं तूणी तिष्ठ । शृणुमः शेपमपि वचनमेषाम् । वातादयः-अयि रुचिमति, त्वां वीक्ष्य जागरूका तस्यां तस्यां रुचिप्रविष्टायाम् । स्वत एव भिद्यतेऽसौ विज्ञानादञ्जसा राजा ।। ५४ ॥ राजा- आलापादेतेपां कुलालदण्डावपट्टनादिव मे । हृदयं भ्रमतीदानी सहसा चक्रमिव किं न्येतत् ॥ ५५ ॥ विदृपकः-अण्णं किम् । दिदं खु णिगिहीदो सि तुम एदाए अप- त्यदापिसाचिआए । अहं उण छवेदो बह्मणो होमित्ति सज्झसेण इमाए विसज्जिदो हि । (ग) मन्त्री-(विहस्य ।) पड़ेदा इत्यनया संख्ययैव सूचितं वेदविज्ञानम् । राजा-किं विस्मृतं त्वया यत्प्रागेव मम मनीपितार्थ विदूपकेण बो- वितोऽसि । मन्त्री-(स्वगतम् ।) अहो त्रुटितसंघटिताया दाम्या विलसितं यदि- यन्तं कालं विम्मृतापि बुभुक्षा स्मृता सती राज्ञो हृदयमाकुलयति । (प्रकाशम् ।) तदप्यग्रे भविष्यति । देवेन तु एतद्वैरिप्रयुक्तमिति निश्चित्य तद्वशे न भवितव्यमिति बहुशः प्रार्थये । (क) अमपि कौशिक इव । (ख) भो वयस्य, एपोऽमात्य एतस्या मां बलिं दत्त्वा आत्मानं मोचयि- तुमभिलपन्निव दृश्यते । इदानी भवानेव मम शरणम् । (ग) अन्यस्किम् । दृढं खलु निगृहीतोऽसि त्वमेतया अपथ्यतापिशाचि- कया । अहं पुनः पवेदो ब्राह्मणो भवामीति साध्वसेनानया विसर्जितोऽस्मि ।
६ अङ्कः]] जीवानन्दनम् । ८९ राजा--(सबहुमानम् ।) तथ्यं पथ्यं चाह भवान् । तदहमवहितोऽस्मि । विदूषकः-को एसो विजपुञ्जो विअ धगधग्गअमाणो सव्वदो वि मह अच्छी आउलेदि । (क) मन्त्री-परिवारपरिवृतो ज्वरराज एषः । यमेनमुपरुध्य सर्वेऽपि रोगाः प्रहरन्ति । अत एवायं राजपदभागिति भिषग्व्यवहारः । कर्म-युक्तमाह मन्त्री । तथाहि । ज्वरो रोगपतिः पाप्मा मृत्युरोजोशनोऽन्तकः । क्रोधो दक्षाध्वरध्वंसी रुद्रोर्ध्वनयनोद्भवः ॥ १७ ॥ जन्मान्तर्यो मोहमयः संतापात्मापचारजः । विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ १८ ॥ काल:-कर्मन् , नानायोनिष्विति सुष्टूक्तं त्वया । पाकलस्तद्यथेभानामभितापो हयेषु च । वान्तादानामलर्कः स्यान्मत्स्येष्विन्द्रमदः स्मृतः ॥ ५९ ॥ ओषधीषु तथा ज्योतिश्चुणपा धान्यजातिषु । जलेषु नीलिका भूमावूषो नृणां ज्वरो मतः ॥ ६० ॥ राजा-पश्य सखे, पश्य । त्रिकूटाद्रेः कूटैस्त्रिभिरिव शिरोभिः प्रतिभयो दिशः पश्यन्दृग्भिः शशरुधिरसोदर्यरुचिभिः । त्रयाणां पादानां तृणतरुसमुच्छ्रायजयिना- मयं न्यासैर्भूमिं नमयति गदानामधिपतिः ॥ ६१ ॥ काल:-कर्मन् , पश्यायं यस्मिन्नुदेष्यति तस्य जनस्य । आलस्यमश्ममयतां पुलकोद्गमं च गा। करोति न रतिं वचिदातनोति । जाताश्रु जृम्भयति सप्तिविघूर्णमल्प- प्राणं तमम्वु च पिपासयतेऽनुवेलम् ॥ ६२ ॥ (क) क एष विद्युत्पुञ्ज इव धगधगायमानः सर्वतोऽपि ममाक्षिणी आकुलयति । . १२ ९० काव्यमाला। कर्म-एवमेतत् । अपि चानेनाविष्टः । यद्भक्ष्यमम्लकटुतिक्तमपेक्षते त- न स्वादु खादति च सूक्षयते हितोक्तम् । जनां विवेष्टयति हुंकृतिमादधाति वालेपु न वचन दर्शयते रुचिं च ॥ ६३ ॥ विदूपका-दिट्ठी वि ण पहुवदि णं पेखिहूँ । (क) मत्री~-एप ज्वरोऽपि यक्ष्मराजसखः । क्रोधनारोत्रकाध्मानैस्त्रिभिः पुत्रैरुपैधते भार्यया पञ्चविधया ग्रहण्यभिधया सह ॥ ६४ ॥ विदूपकः--(अन्यतो विलोक्य सभयकम्पम् ।) वअम्स, अहं दाणि ण जी- विम्स, जदो खु करगहिदखग्गखेडअसरकम्मुअपरिघमूलगदा पञ्चत्थिरा- असेणा अभिवड्डइ साअरो विअ । (ख) मन्त्री-(विलोक्य ।) एते व्रणराजपुत्रा अष्टविधा भगंदराः । एते च प. ड्डिया मूलाधिष्ठानमभिव्याप्नुवन्ति । एते च कफसंभवा दश मेहाः पित्तसं- भवः पद्भिवीतसंभवेश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः । अप- रत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते । एतान्यपि च वातपित्तकफसंनिपा- तभुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह स- जीभवन्ति । एप गुल्मोऽपि शूलमवलम्व्य विजृम्भते तथाष्टविधशूलाश्च निसन्धन्ति । काल:-कर्मन, समर्थोऽयं मन्त्री रोग विशेषपरिक्षाने । मन्त्री तथान्येऽप्यत्र बहवः प्रभवन्ति । ये किल मन्दान्युत्थोदरस्थामयमुहृद उदावर्तभेदा अशीति- वांतोत्याः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च । क) दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम् । (ब) वयस्य, अहमिदानी न जीविष्ये, यतः खलु करगृहीतखड्गग्वेटक- शरकार्मुकपरिघशलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर इव ।
॥ ६ अङ्कः] जीवानन्दनम् । चत्वारोऽक्ष्णोर्वसन्तो नवतिरपि चतुःसप्ततिर्वक्रनिष्ठा मूर्धस्थाः पशिसंख्याः क्रिमिगदनिवहोऽप्यस्ति नैके च शोफाः ॥६५॥ तथा भूतोन्मादा विंशतिः । आमवात इति कोऽपि चतुर्धा जायते निखिलरोगनिवासः । वातपित्तकफशोणितमद्यक्ष्वेडजा षड्डुदयन्ति च मूर्छाः ॥ अपि च । एते घोढा भिन्ना उन्मादाश्च प्रवर्तन्ते । अभिवर्तन्ते चामी हृद्रोगाः पञ्चधा भिन्नाः ॥ ६७ ॥ विदूषकः-पमादो पमादो । एदेहिं अरिहिं दुवाराई पाआरा प- रिखा कोसाआराई अ सव्वं वि अक्कत्तम् । किं बहुजम्पिदेण । हृदयं गुम्म करिअ अधिहिदं । तिलप्पमाणो वि देसो अणकन्तो ण दीसइ । (अञ्जलिं बद्धा ।) वअस्स, अदो वरं णत्थि मे जीविदासा । मम बह्मणीए वि- हुराए अन्धकूवणेत्ताए तुमं एव्व सुमरिअ जोअक्खेमं वहेहि । पढम एव्व एसो अणत्यो सुणाविदो सि मए । तुम उण दुम्मन्तिणो से वअणवीस- म्भेण इमं दुरवत्थं पावदो सि । पेक्ख दाव तस्स फलं एवं संवुत्तं । (क) राजा-अमात्य, संवदत्येव विदूषकवचनम् । त्वबुद्धिप्रसरोऽत्र धिग्विफलितो निक्षिप्य सर्वामपि त्वय्येवात्मधुरां मया निवसता संप्राप्तमीहक्फलम् । वैयग्र्यं हृदि सर्वथास्सि गमितो द्वाराणि कोषालयाः प्राकाराः परिखाश्च हा निखिलमप्याक्रान्तमेवारिभिः ॥ ६८॥ (क) प्रमादः प्रमादः । एतैररिभिरााण प्राकाराः परिखाः कोषागा- राणि च सर्वमप्याक्रान्तम् । किं बहुजल्पितेन । हृदयं गुल्मं कृत्वा अधिष्ठि- . तम् । तिलप्रमाणोऽपि देशोऽनाक्रान्तो न दृश्यते । वयस्य, अतःपरं नास्ति मे जीविताशा । मम ब्राह्मण्या विधुराया अन्धकूपनेत्रायास्त्वमेव स्मृत्वा यो- गक्षेमं वह । प्रथममेव एषोऽनर्थः श्रावितोऽस्ति मया । त्वं पुनर्दुमन्त्रिणो- ऽस्य वचनविश्रम्भेणेमां दुरवस्थां प्रापितोऽसि । पश्य तावत्तस्य फलमिदं संवृत्तम् ।
९२ काव्यमाला। एवं स्थिते किमन्यद्रवीमि । गात्रं में परितप्यते पदयुगं शक्नोति न स्पन्दितुं स्तब्धं चोरुयुगं भुजौ च भजतः कम्पं मुखं शुप्यति । नाम्त्यक्ष्णोविषयग्रहः श्रवणयोरप्येवमेव त्वचो- ऽप्यन्यत्कि चलतीव हृन्निजपदादाशा भ्रमन्तीव च ॥ ६९ ॥ अपि न। - ननु मे दुःखभागात्मा न धैर्यमवलम्बते । काठिन्यमिव मृत्पिण्डो धनवारिसमुक्षितः ॥ ७० ॥ किं च मया भवत्संविहितरसगन्धकौपधघटितरसायनप्रत्याशया त्वदुपदेशवशंवदचेतसा वपुपि नश्वरके ममता वृथा । विदधता शिवभक्तिरसायनं शिवशिवान्तरितं परमार्थदम् ॥ ७१ ॥ मत्री-सत्यमेतच्छिवभक्तिरसायनं परमार्थदमिति सकलैहिकसंकटवि- वटनं च । किंतु पुराभिमानो न वृथा तहान विना कथम् । चित्तस्वास्थ्यं विना तच शिवभक्तिदृढा कथम् ॥ ७२ ॥ अतो विज्ञापयामि । कृच्छेऽपि धैर्यग्रहणं रालो विजयसाधनम् । इति नीतिविदः प्राहुधैर्यमालम्व्यतां ततः ॥ ७३ ॥ किं च तव निदर्शयामि तादृशमितिहासम् । यथा । श्रेयः प्रापदगस्तिना स नहुपः शप्तोऽपि धर्यग्रहा- न्नन्वालम्व्य धृति शुभं नलहरिश्चन्द्रावपि प्रापतुः । कृत्वा छाकृतेऽरिणा प्रणयिनीचौर्येऽपि धय वह- न्बद्धा सेतुमुदन्वदम्भसि न कि रामा विजिग्ये रिपन ॥५४॥ विदूषकःवअम्स, सुदं किं दाणि वि एदम्स मन्तिणो एवं एव वअ- ६ अङ्कः] जीवानन्दनम् । ९३ णम् । संपदं एसो अत्ताणं वि ण जाणादि राजकजं कुदो उण उम्माद वा उवजावं वा सत्तुकिदम् । (क) मन्त्री-(विहस्य ।) वैधेय, किं वृथा प्रलपसि । देव, अलं धैर्यत्यागेन । एते च मत्संनिहिता रसौषधिविशेषा भवत्सेवनमेव प्रतीक्षमाणा विपक्षक्षप- णाय सज्जीभवन्ति तानेताननुगृहाण । (नेपथ्ये ।) देव, एते वयम् शिवभक्तिप्रसादेन लब्धा मन्त्रिवरेण च । सम्यक्संविहिताः सर्वे विपक्षान्विजयामहे ॥ ७९ ॥ पुरस्तादचिरादेवास्माभिर्वाध्यमानं यक्ष्माणं सामात्यं सपुत्रकलत्रं ससैन्यं च पश्य। राजा-(दृष्ट्वा ।) प्रियं प्रियम् । सर्वे यूयमप्रमत्ता विपक्षक्षपणाय यतध्वम् । (ततः प्रविशति यक्ष्मा पाण्डुश्च ।) यक्ष्मा-पाण्डो, व पुनरस्मदीया भटाः प्रहारार्थ वर्तन्ते । पाण्डुः-देव, पश्य । केचिदनुगच्छन्ति, केचित्पुरो गच्छन्ति । काल:-कर्मन् , यदुक्तं पाण्डुना तत्तथैव । यतः, अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति यः स्मृतः ।। ७६ ॥ कर्म-जानामि यादृश एष इति । नक्षत्राणां द्विजानां च राजाभूद्यो विधुः पुरा । तं प्रजग्राह यक्ष्मासौ राजयक्ष्मा ततः स्मृतः ॥ ७७ ॥ देहेषु यः क्षयकृतेः क्षयस्तत्संभवाच्च सः । रसादिशोषणाच्छोषो रोगराड्रोगरञ्जनात् ॥ ७८ ॥ यक्ष्मा-सखे पाण्डो, प्रबलेषु सामदानभेदा न प्रसरन्ति, अतोऽन्तिम एव प्रयोगः संप्रतिपत्तव्यः । तदत्र किं विलम्बेन । (क) वयस्य, श्रुतं किमिदानीमप्येतस्य मन्त्रिण इदमेव वचनम् । सांप्रत- मेष आत्मानमपि न जानाति राजकार्य कुतः पुनरुन्मादं वा उपजापं वा शत्रुकृतम् ।
काव्यमाला। शस्त्राशस्त्रि प्रसह्याथ प्रवृत्ते रणवैशसे । अजीवकमरोगं वा पुरमेतद्भविष्यति ।। ७९ ॥ तदेहि । तत्क्षमां भूमिमेव गच्छामः । (इति पाण्डुना सह निष्क्रान्तः ।) काल:-कर्मन् , पश्य पश्य विपक्षविजयाय विज्ञानमन्त्रिप्रयुक्ता- न्भटान् । राजा-वयस्य, मन्त्रिणा दर्शितेन विक्रमव्यापारेण हृदयं मम नि- वृणोति । यतः । भूपतिरससिन्दूरज्यरानुशानन्दभैरवैः साकम् । चिन्तामणिश्च शवनराजमृगाश्च जेतुमुद्यते ॥ ८० ॥ पश्य चानारोग्यचिन्तामणेरुत्तरेण । कृतसिद्धरसेश्वरः पुरस्तात्करमालम्व्य च वातराक्षसस्य । समराङ्गणमेति पूर्णचन्द्रोदय एपोऽग्निकुमारदर्शिताध्वा ।। ८१ ।। प्रतापलहेश्वर एप यश्च प्रतापयत्यत्र निजप्रतापात् । गदान्धनुर्वातमुखानशेपाल्लङ्केश्वरः शत्रुभिरग्रसह्यः ॥ ८२ ॥ वसन्तकुसुमाकरः सरभसं विधत्ते रणं सुवर्णरसभूपतिर्वशयते रुजां मण्डलम् । प्रसह्य वडवानलाभिवमिदं च चूर्ण जवा- द्विशोपयति सर्वतः प्रबलमग्निमान्धारुचिम् ।। ८३ ॥ सुदर्शन चक्रमिवामरारीन्सुदर्शनं चूर्णमिदं रणाग्रे । निहन्ति जीर्णज्वरमाशु पित्तजन्या रुजञ्चूर्णयति असह्य ॥ ८४ ॥ प्रबलानलसंकुलितं गदगहनं दुरवगाढमन्येन । हन्ति धुरि तीक्ष्णसारो वातकुटारः समृलमुन्मूल्य ।। ८५ ॥ अमकृत्सवलतः किंचिदतिमान्यविधायिनः । प्रमेहान्माद्यतो हन्ति मेहकुञ्जरकसरी ॥ ८६ ॥ गतिमन्थरताधायिवर्मवैपुल्यशालिनः । मन्विातगजान्हन्ति वातविध्वंसनो हरिः ।। ८७ ॥
६ अङ्कः] जीवानन्दनम् । विदूषकः-देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संप- हारं कुणन्ति त्ति अञ्चरिअम् । ता इन्दजालं विअ एदं मे पडिभादि । (क) राजा-धिङ्मूर्ख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य । अचिन्त्यो हि मणि- मन्त्रौषधीनां प्रभावः । अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते । (कर्ण दत्त्वा ।) मन्त्रिन्, कोऽयं कलकलाविर्भावः । मन्त्री-पश्यतु देवः । शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम् । जित्वारीनिह देव तावकभटेरापूर्यते काहला शङ्खः संप्रति शब्द्यते दृढतरं संताड्यते दुन्दुभिः ॥ ८८ ॥ अपि च । आस्फालयन्ति दृढमूरुयुगं करात्रैः कुर्वन्ति कुण्ठितधनारवमन्दहासम् । जीवोऽयमस्मदधिपो जितवानमित्रा- नित्युद्धतं युधि भटास्तव पर्यटन्ति ॥ ८९ ॥ विदूषकः-कहं एत्थ एव भग्गमणोरहदाए परुण्णो विअ जक्ख- राओ लक्खीअदि । (ख) राजा-वयस्य, सम्यनिरूपितं भवता । गण्डस्थलप्रसृमराश्रु करं करेण निष्पीडयन्कटकटाकृतदन्तपतिः । यक्ष्मा ललाटघटितभ्रुकुटिः किलाय- मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति ॥ ९० ॥ मन्त्री-न केवलां रुषं शुचं च । (क) देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं. संप्रहारं कुर्व- न्तीत्याश्चर्यम् । तदिन्द्रजालमिवैतन्मे प्रतिभाति । (ख) कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते । 1 ।
२६ काव्यमाला । विदूषकः-एसो सोएण पलवन्तो विअ दीसइ । (क) मन्त्री-शृणुमस्तर्हि प्रलापमेतस्य । चिपूचीमत्सरावप्येनमनुवर्तते । (ततः प्रविशति विपूचीमत्सराभ्यां सहितो यक्ष्मा ।) यक्ष्मा हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था । आश्चर्यमाश्चर्यम् । जीवस्य ध्वजिनीचरानतिवलाशक्नोति कः शासितुं दुवीरेयुधि पातितानि मम यैः सर्वाणि सैन्यानि च । पाण्डु, सचिवः परैरवधि वा भीतः पलायिष्ट वा नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः ॥ ९१ ॥ (मशेोकावगम् ।) भो भोः सुताः क नु गताः स्थ विना भवद्भि- जीर्णाटवीव जगती परिदृश्यते मे । आक्रम्यते च तमसा हरिदन्तरालं शोकाग्निसंवलितमुत्तपते वपुश्च ॥ ९२ ॥ (ति मनि ।) मत्सरः-समाश्वसिहि ममाश्वसिहि । यक्ष्मा--(ममावस्य।) वत्मा हे बदनाम्बुजानि मुदितो द्रक्ष्यामि केपामहं केपां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिप्ये मुदा । मानां तनुपु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के यूयं यत्समरे पररतिवलेनीमावशेपीकृताः ॥ १३ ॥ पुत्रप्रविलयावावं न सोढुं शक्यते जनैः । बसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः ।। ९४ ॥ तदिम पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि । (क) एप भोकेन प्रलपन्निव दृश्यते ।
६ अङ्कः] जीवानन्दनम् । कर्म-अहमप्येवमेव । (इत्युभी निष्क्रामतः ।) मत्सरः देवालं शोकेन द्विषि जीवति न खलु धर्मोऽयम् । यावच्छक्ति ततोऽरीन्हत्वा शोचन्ति नैव तान्वीराः ॥ ९५ ॥ अत इदानीं पुनरानीय परिभवमरिहतानामस्मदीयानामानृण्यमृच्छतु भवान् । विपूची- दाणिं खु एव दिट्ठा राअकुमारा कहिं गदा तुझे । ढज्जइ हिअ सोओ अग्गी विअ सुक्कतिणजालम् ॥ ९६ ॥ (क) यक्ष्मा- गण्डद्वयेऽपि गलितैर्नयनाम्बुपूरै- रामृष्टपत्रलतमाकुलकेशपाशम् । पाणिद्वयाहतपाटलबाहुमध्य- मस्या वपुर्मम शुचं द्विगुणीकरोति ॥ ९७ ॥ मत्सर:--राजन् , धैर्यमवलम्व्यताम् । कृतं शोकेन । संप्रति हि क- तिपये देवपादमूलोपजीविनः सैन्याः केनापि दुरपनेयप्रवृत्तयः । यक्ष्मा-ततः किम् । मत्सरः-ततश्च तत्प्रयोगेण कुण्ठितशक्तिर्भविष्यति विज्ञानमन्त्रिह तकः । तथा च वैरनिर्यातनं कर्तुमुचितमिति प्रतिभाति । यक्ष्मा-(सविमर्शम् ।) अवन्ध्योऽयं प्रयत्नः । तदर्थमेव शत्रून्मूलनाय गच्छामः । (इति विषुचीमत्सराभ्यां सह निष्क्रान्तः ।) मन्त्री-मत्सरेण कर्णेऽस्मजयार्थ किमप्युपदिष्टो यक्ष्मा निष्क्रान्तः (क) इदानी खल्वेव दृष्टी राजकुमाराः कुत्र गता यूयम् । दहति हृदयं शोकोऽग्निरिव शुष्कतृणजालम् ।। . १३
काव्यमाला।
तद्वयमपि तदिशितानुमितं पर्यालोच्य तत्प्रतिविधानाय व्याप्रियमाणा इष्टं
माधयामः।
(इति निष्क्रान्ताः सर्वे )
सप्तमोऽदः ।
(ततः प्रविशति जीवरानो विज्ञानमन्त्री च)
जीवराजः-(सहर्पम् ।)
मन्त्रिस्त्वदीयमतिकौशलनीवलेन
तीर्णो रणाम्बुधिरभूदतिदुस्तरोऽपि ।
यस्मिन्भयंकरगतिवरपाण्डमुख्यो
रोगवनः किल तिमिगिलतामयासीत् ॥ १ ॥
किं ब्रवीमि संकुलयुद्धेऽस्मदीयानां तदीयेषु प्रवृत्तमोजायितम् ।
एकत्र मण्डभेदो गुटिकाभेदः परत्र मन्दाग्निम् ।
निखिलामयजननकर निनपानं प्रथममिदमहमदर्शम् ॥ २ ॥
अथ गुलूच्यादिपञ्चभद्रकपायं निकषा यन्नवं (2) तमवलोक्य पला-
यन्त पित्तसमीरज्वराः । तदनन्तरं जगदन्तरप्रसिद्धः स्वयमनश्वरसारो य-
क्ष्मपरिक्षपणदक्षिणः सन्नपि संननाह स्वयं त्रैलोक्यचिन्तामणिविनिपाताय
संनिपातेन साकमष्टविधानामपि ज्वराणाम् ।
स्थावरजङ्गमगरलं ज्वरमामोत्थं व्रणोपजातं च ।
आरोग्यपूर्वचिन्तामणिरपि निघ्नन्मया रणे दृष्टः ॥ ३ ॥
ततः सर्वज्वरानपि निगृहीतवन्तं ज्वराङ्कुशमुत्तरेण गुल्मार्शः संग्रहिणी-
विपाटितवतो ग्रहिणीकपाटस्य पूर्वभागे
या पञ्चामृतपर्पटी ग्रहिणिकायक्ष्मातिसारज्वर-
बीरुपाण्डगदामलपित्तगदरुवनन्मान्यविध्वंसिनी ।
नामद्राक्षमहं रणे त्रियमपि व्यातन्वती पौरुषं
नामुण्डामिव चण्डमुण्डसमरप्रकान्तदोविक्रमाम् ॥ ४ ॥
७ अङ्कः] मीवानन्दनम् । or पश्चाद्भागे तस्याः अरुचिप्लीहवमिज्वरकासार्शःश्वासशूलानाम् । सूक्ष्मैलादिमचूर्ण निरवर्णयमाशु युधि निहन्तारम् ॥ ५ ॥ तदनु जलजाक्ष इव दनुजलोकस्य सिद्धवसन्तः शुक्रदोषस्य गोक्षुरका- दिचूर्णमिश्रितपयःपानविधिः पुंस्त्वदोषस्य त्रिविक्रमरसो मूत्रकृच्छ्राश्मर्यो- विष्यन्दनतैलयोगो भगंदरस्य लघुलकेश्वरः कुष्ठस्य नित्योदितरसो मूलानां विद्याधररसो गुल्मानां त्रिनेत्ररसः शूलानां महावह्निरस उदररोगाणां गि- रिकादिविधिर्गुञ्जातैललेपश्च शिरोरोगस्य चन्द्रोदयवर्तिश्च चक्षुरोगस्य सौवीरादिपकतैलनिषेकः कर्णरोगाणां सिद्धार्थत्रिफलाद्यौषधयोगविशेषपा- नविधिः कृत्योन्मादविषज्वरसर्वग्रहाणां मधुसपिर्यंतचूर्णविशेषलेहनविधिः पाण्डुहृद्रोगभगंदरशोफकुष्ठोदरार्शसां मेहकुञ्जरकेसरीप्रमेहाणां च विज- यमहोत्सवेन समुत्सारितसर्वरोगखेदाः समरजनैरप्यस्तूयन्त । ततः किम- प्यवशिष्यते कार्यमस्माकम् । मत्री-स्वामिन् , श्रूयताम् । जन्यार्णवोऽरिजनितः सुमहानिदानी तीर्णोऽप्यतीर्ण इति निश्चिनुते मनो मे । यन्मत्सरेण रणभुव्युपदिष्टकार्यः कर्णे स तत्परमितो विदधीत यक्ष्मा ॥ ६ ॥ राजा-विज्ञानसचिव यथार्थनामधेय, मत्सरेण यक्ष्मणः कर्णे किमुक्तं भवेत् । यक्ष्मा च तदाकर्ण्य किं विदध्यात् । तद्विधानेन चास्माकमुत्तिष्ठेत कीदृशमत्याहितम् । मन्त्री-(क्षणं विचिन्त्य 1) किमन्यद्वीमि । केचिदसाध्यरोगा यक्ष्माणमु- पासते तैरमान्बाधितुं यक्ष्माणं प्रति मत्सरेण संकेतितमिति शङ्के । राजा-(सवितर्कम् ।) एवमेवास्मासु यक्ष्मा यदि वक्र विधिमुपक्रस्यते तत्र कमुपायं पश्यति भवान् । मन्त्री-'भक्ताय भवते कदापि मया दर्शयिष्यते साम्वः' इति भग- वत्या तुभ्यं जातुचिदावेदितं भक्त्या इति कदाचित्कथान्तरे देवेनैव मां . . १०० काव्यमाला प्रति प्रागुक्तम् । तदिदानी तामेव भगवती भक्ति हृदि दृढमवलम्व्य भग- वदर्शनार्थ संनिधानानुग्रहः प्रार्थ्यताम् । तत एवासाध्यरोगाभिभवः सु- लभः प्रतिभाति । राजा-यद्येवमनुध्याय विध्यादिविबुधकृतनिपेवणं करोमि. मनसा शरणं शंकरम् । (इत्यनुध्यायति ।) मन्त्री-आश्चर्यमाश्चर्यम् । भक्तवत्सला भगवतश्चन्द्रचूडस्य परां को- टिमवलम्बते । यदनुध्यानमात्रमनुतिष्ठति स्वामिनि तदाविर्भावसूचनमेत- दालक्ष्यते । यत्किल शैलस्थूलशिरोभिरुग्रभुजगप्रायश्रवोभूषणे- जानुस्पशिबृहत्पिचण्डचटुलैस्तालद्रुदीर्वाङ्गिभिः । प्रावृण्नैशतमिस्रनीलतनुभिर्भरमत्रिपुण्डावितैः शूलोद्भासिभुजैः समावृतमिदं भूतैरभूद्भुतलम् ॥ ७ ॥ राजा-(ध्यानाद्विरम्य कर्णं दत्वा ।) अहो भाग्यप्रको जीवलोकस्य । यतः। 'जय विश्वपते जयेन्दुमोले जय शंभो जय शंकरेति शंसन् । परितः श्रुतिगोचरो जनानां कलुपं लुम्पति काहलीनिनादः ॥ ८ ॥ मत्री-(सहर्पम् ।) राजन् , फलितस्ते मनोरथः । पश्य । आरुद्धः स्फाटिकक्ष्माधरनिभवृपभं सार्धमद्रीन्द्रपुच्या वातावष्टम्भकुम्भोदरकरयुगलोदस्तमुक्तातपत्रः । गायगन्धर्वनृत्यत्सुरगणिकपुरोभागधोपन्मृदङ्गो गङ्गाभृत्युत्तमाङ्गे शशिशकलधरः शंकरः संनिधत्ते ॥ ९ ॥ अपि च । मौदिन्यस्लाजलीनां दरमुकुलितहडियदानन्दवाप्प- लियदण्डस्थलानामविरलपुल्लकालंकृतम्बाकृतीनाम् । वेदान्तमायभूरिन्नुतिमुखरमुखाम्भोनभाजामृपाणां पझ्या पाश्चात्यभागों झटिति निविंडितो दृश्यतामन्य शंभोः ॥१०॥ राजा-मन्त्रिन, इतः परं प्रणिपातादिना भगवन्तं प्रसाद्य स्वाभी- समर्थ प्राधयिष्ये । .
७ अङ्कः) जीवानन्दनम् । १०१ मत्री-अनितरसाधारणमेतस्य भक्ताभीप्सितप्रदानचातुर्यम् । यः प्रसादितवते पार्थाय पाशुपतमस्त्रं प्रतिपादितवान् । येन च निखिलक्ष- त्रियकुलजिघृक्षवे भार्गवाय प्रसादीकृतः परशुः । राजा-उपपन्नमिदम् । एवमपरिमितानि महान्त्याश्चर्यचरितानि देवस्य । यच्च कपिलभस्मीकृतप्रपितामहसंघसमुत्तारणकृतप्रयत्नभगीरथ- प्रसादितायाः सुरापगाया भुवमुत्तरन्त्या गर्वभञ्जनं नाम मृत्युंजयस्य चरितं तदपि परमाद्भुतमेव । मंत्री---जगत्प्रसिद्धमेवेदम् । तथाहि । वेगाकृष्टोडुचक्रानुकरणनिपुणश्वेतडिण्डीरखण्ड- श्लिष्टोमीनिमितोवींवलयविलयनाशङ्कसातङ्कदेवा । विभ्रम्याकाशगङ्गा विधिभुवनभुवः सर्वदुर्वारगर्वा निर्विण्णा धूर्जटीयोद्भटघटितजटाजूटगर्भे निलिल्ये ॥ ११ ॥ कि च । अध्वरविधावपराधिनो दक्षप्रजापतेः शिक्षणावसरे रोषसंधुक्षि- तेन नीललोहितेन विसृष्टः स्वांशभूतः प्रभूतकोपविधूतविनयमुद्रो वीरभद्र एव किं न कृतवान् । तथाहि । शूलाग्रक्षतदक्षकण्ठरुधिरैः शोणे रणप्राङ्गणे कीर्णो दन्तगणश्चपेटदलितादर्कस्य वक्रान्तरात् । वीरश्रीकरपीडनोत्सवविधावेतस्य वैश्वानर- प्रक्षिप्तोज्ज्वललाजविभ्रमकरो नालोकि लोकेन किम् ॥ १२ ॥ राजा-किमिति वर्ण्यतामयमाश्चर्यचर्यो भगवान् । क्रोधारूढभ्रुकुटिरलिके क्रूरखड्गप्रहार- श्छिन्नग्रीवत्रिदशनिकरच्छन्नसङ्ग्रामभूमिः । शक्रश्रीशद्रुहिणशरणालाभविद्राणविद्या- दानोन्निद्रः प्रणतजनताभद्रदो वीरभद्रः ॥ १३ ॥ कः पुनरस्य स्वरूपं तत्त्वतः शक्नोत्यवधारयितुं यदन्तर्वाणयः सर्वेऽपि स्वच्छन्दानुरोधात्कलयन्ति स्वरूपमेतस्य । तथाहि १०२ काव्यमाला । कर्तारं कतिचित्किलानुमिमते कार्यार्थमुादिभिः केऽप्याहुः पुरुषस्य यस्य पुरतः सृज्यं प्रकृत्या जगत् । केशः कर्मभिराशयैश्च सकलैरस्पृष्टरूपोऽखिल. प्रनोऽनादिगुरुः स ईश्वर इति व्याख्यन्ति केचित्तु यम् ॥१४॥ अपि न। श्रुतमिति निगमान्तेप्वेकमेवाद्वितीयं निरवधि परिपूर्ण ब्रह्म सच्चित्सुखात्म । विलसति किल यस्मिन्विश्वमेतत्तमिस्ते स्रजि फणिवदबोधादित्यमाहुः किलान्ये ॥ १५ ॥ मन्त्री-तत्तादृशमेनमवासनसगोचरमहिमानं पङ्कजासनपाकशासनप्र- भृतयो देवाः प्रणमन्ति भगवन्तम् । अतः सेवावसरं प्रतिपालय क्षणमात्रम् । राजा-सम्यनिरूपितममात्येन । नमदमरसहस्रमौलिमालापरिगलित वि पारिजातपुष्पैः । अलिकुलमनवाप्तदिव्यगन्धग्रहणकुतूहलि कृप्यते समन्तात् ॥१६॥ मत्री-अवसरोऽयमखिलसुरासुरगुरोः सरोरुहाकरसंवेशविद्यादेशिक- कलाशेखरस्य सेवनाय देवस्य । अत एव संभ्रान्तनन्दिकरचूर्णितयेत्रपात- भीतापगत्वरगणव्रजवनितेन । एतेन कीर्णकुसुमेन पथा महेशं सेवस्व भक्तिमददुर्लभसंनिधानम् ।। १७ ।। (ततः प्रविशति ययानिर्दिष्टः परमेश्वर्या सह परमेश्वरः ।) परमेश्वर:-अयि गिरीन्द्रगुते, अनितरसाधारणया भक्त्या जीवस्य मामनुस्मरतः । मपदि मयान्य पुरस्नत्संनिहितं सपरिवारेण ॥ १८ ॥ देवी-देव, तुरिअं तुह आगमणं एव्व दंसदि अणण्णतुल्ले भत्ति- मत्तणम् । (क) (क) देव, वरितं नवागमनमेव दर्शयत्यनन्यतुल्यं भक्तिमत्त्वम् ।
७ अङ्कः] जीवानन्दनम् । १०३ राजा-(मन्त्रिणा सह त्वरितमुपसृत्य ।) विधिहरिविषमेक्षणात्मकः सन्सृजति बिभर्ति निहन्ति यो जगन्ति । तदहममलमेकमेव सच्चित्सुखवपुष परमेश्वरं नतोऽस्मि ॥ १९ ॥ (इति प्रणमति ।) भगवान-वत्स, मन्त्रिणा सममभिमतेन युज्यस्व । जीव:-(मन्त्रिणा सहोत्तिष्ठन् । शिरस्यञ्जलिं बद्धा ।) जय जय जगदीश देवासुरावध्यतादर्पवेगोद्धृतत्वत्पदाङ्गुष्ठनिष्पीडन- स्तब्धकैलासमूलात्तदोर्विंशतिप्रस्तुतस्तोत्रपुष्यद्दयारक्षितोन्मुक्तलङ्कापते नि- प्रपञ्चाकृते जननमरणलाभपौनःपुनोदीततद्भञ्जनारब्धघोरव्रतप्रीणितत्वक्कठोरश्रवःप्रा- र्थनाजातकोपोत्थशापामिषाशीभवत्तापसत्राणकृद्रामरूपग्रह स्वेषु सानुग्रह । अनुपमितगृहीततारुण्यलक्ष्मीनिरीक्षोन्मिषद्दारुकारण्यनारीव्रतभ्रंशकुप्य- न्मुनीन्द्राभिचारोत्थितं तुङ्गनादं कुरङ्गं ज्वलज्ज्वालमग्निं कराभ्यां वहन्ह- श्यसे सद्भिरामृश्यसे कलशभवमहर्षिवातापिनिर्वापणादक्षिणोभिरापादनाविन्ध्यसंस्तम्भनासि. न्धुनाथाम्बुनिःशेषनिष्पानशक्तिप्रदायिखपादाम्बुजध्यानमाहात्म्य शंभो नमस्ते नमस्ते ॥ २० ॥ पुनः प्रसूनशरदाहिने प्रबलकालकूटाशिने कृतान्तपरिपन्थिने त्रिपुरगर्वनिर्वासिने । जटापटलयन्त्रितामरतरङ्गिणीस्रोतसे प्रपन्नभयहारिणे प्रमथनाथ तुभ्यं नमः ॥ २१ ॥ . निष्क्रियस्यापि देवस्य जगत्सृष्टयादिकर्मणि । प्रवृत्ति कुर्वती देवी प्रपद्ये भक्तवत्सलाम् ॥ २२ ॥ देवी-णाह, इमस्स मणोरहं पुच्छिअ झत्ति तं णिवत्तेहि (क) (क) नाथ, अस्य मनोरथं पृष्ट्वा झटिति तं निवर्तय । ( काव्यमाला। - भगवान् -प्रिये, किमत्र प्रष्टव्यम् । विदितमेव । यक्ष्मराजः कैश्चि- दसाध्यरोगैः सहानुगतो चिकुर्वाणो निर्मुलं छेत्तव्य इत्येतस्य मनोरथ इति तत एतस्मै योगसिद्धिमुपदिश्य निर्जितनिखिलरोगं ब्रह्मरन्ध्रस्थितचन्द्रम- पडलनिःप्यन्दमानामृताप्लुतशरीरं निजानन्दानुभवतुच्छीकृताखिलप्राकृतसु. मान्तरं सफलमनोरथमेनं कृतार्थयिष्यामि । देवी-(सहर्षम् ।) सरिसं खु एदं तुम्हकेरस्स भत्तवच्छलस्स । (क) भगवान-वत्स जीव, योगसिद्धिमुपदिशामि ते । जीव:- भगवन् , को नाम योगः कीदृशी वा तस्य सिद्धिः । भगवान्-वत्स, श्रूयताम् । योगश्चित्तवृत्तिनिरोधः । चित्तं नामा- तःकरणम् । यच्चक्षुरादिकरणद्वारा बहिर्निगच्छद्विपयाकारेण परिणमति । यत्तादात्म्यापन्नो द्रष्टापि तद्रूपाकार एव परिभाव्यते । तदुक्तम्- घ्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च । बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिसाक्षिणि ॥' इति । ध्यायतीव लेलायतीव' इति श्रुतिः । तस्य वृत्तयो नाम कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिहींधीमीरित्यायाः श्रुतीरिता आन्तराः, वाल्याश्च शब्दस्पर्शादिविषयग्राहिण्यः । सत्त्वरजस्लमोरूपगुणत्रयात्मिकानां च तामां देवासुरसंपद्रूपत्वेन द्वेवा विभाग उक्तो गीतायाम्- 'अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥' इत्यादिदैवी संपत् । 'दम्भो दोऽभिमानश्च क्रोधः पारुप्यमेव च' इत्यादिरामुरी संपत् । तत्र देवी संपत्मात्त्विकी । आसुरी तु रजस्तमःप्र- धाना । 'देवी संपट्टिमोक्षाय निबन्धायानुरी मता' । तासां च सर्वासामान्त- राणां बान्धानां च चित्तवृत्तीनां निरोपो नाम म्वविपयेभ्यः प्रतिनिवर्त्य कचित्सगुणे निर्गुणे वा वस्तुनि चित्तस्य समवस्थानम् । तच्च दृढतरवै- गन्यमत्कारनिरन्तरलेवनाम्यां मत्रलेन लभ्यते । तदुक्तम् - (क) मा वल्वेताप्मादाम्य भक्तवत्मलस्य ।
. -- ७ अङ्कः] जीवानन्दनम् । १०६ 'असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥' इति । एतादृशस्य योगस्य सिद्धिर्नाम ध्येयवस्तुसाक्षात्काररूपावस्थितिः । अन्त्री-भगवन् , एवंभूताः क इव घटते चित्तवृत्तीनिरोर्बु वैराग्येणाभ्यसनविधिना स्याच्चिरात्तन्निरोधः । जेयः शीघ्रं रिपुरपरथा न स्थितिर्नः पुरेऽतो योगे सिद्धिर्भवति च यथानुग्रहस्ते तथास्तु ॥ २३ ॥ जीव:--भगवन्, स्मृतिस्ते सकलाभीष्टं दत्ते किमुत दर्शनम् । तत्प्राप्तममितैः पुण्यैः सद्यः सिद्धिं ददातु मे ॥ २४ ॥ देवी-(सदयम् ।) देव, संकप्पादो जेव्व से जोअसिद्धी होदु त्ति अणुगेहीअदु एसो । (क) भगवान्-वत्स, देव्यैवमनुगृहीतोऽसि । संकल्पादेव ते योगसि- द्धिर्भवतु । मन्त्री-राजन्, भगवत्या भगवता च संकल्पादेवाखिलयोगसिद्धिर- नुगृहीता । तत्सर्वथा कृतार्थाः स्मः । राजा-(सप्रणामम् ।) अनुगृहीतैवेयम् । यतः । या प्रत्यक्षपदार्थमात्रविषया सा योगसंस्कारतः संस्कारान्प्रतिबध्नतीतरकृतान्धीः कापि मे जृम्भते । सूक्ष्मं यत्तु विदूरमव्यवहितं सर्वान्विशेषान्स्फुट पश्याम्येष यथावदद्य परमार्थोद्भूतया प्रज्ञया ॥ २५ ॥ आश्चर्योऽयं भगवत्प्रसादमहिमा.। भगवान्-देवि, एवं संप्रज्ञातसमाधिरेतस्य प्रादुर्भूतः, य एवमाल- म्बनामनुभवति ऋतंभरां नाम प्रज्ञाम् । अतः परं निर्वीजयोगसंज्ञमसंप्र- ज्ञातसमाधिमस्यानुगृह्णामि । (क) देव, संकल्पादेवास्य योगसिद्धिर्भवत्वित्यनुगृह्यतामेषः । - काव्यमाला। देवी-अणुगेनीअदु अप्पणिव्विसेसो एसो । (क) जीवः-(सहषाशासरोमाशम् ।) आश्चर्यमाश्चर्यम् । भगवन्करुणासमित्समिद्धे दृढनिजिसमाधियोगवहौ । प्रविलापितसर्वचित्तवृत्तिः परमानन्दघनोऽसि नित्यतृप्तः ॥ २६ ॥ भगवान्--देवि, झटिति विघटिताखिलपराग्वृत्तिः प्रत्यगात्मैक्यानु- भवरूपोऽसंप्रज्ञातसमाधिराविर्भूतो वत्सस्य । यत एवमनुभूतमर्थमनुवदति । देवी-देव, किदत्यो खु एसो जो एवंविधस्स देवाणुग्गहस्स भा- अणं जादो । (ख) भगवान् -संप्रत्येनं व्युत्थाप्य प्रकृतकार्यप्रवणं करोमि । (जीवं प्रति ।) वत्स, अन्यदपि किंचिदनुशासनीयोऽसि । जीव:-(व्युत्थाय ।) भगवन् , अवहितोऽस्मि । भगवान् प्राचीनः सचिवः प्रियस्तव सुहृयो ज्ञानशर्मा मुनिः सोऽन्यस्यापि सुदुर्लभः स भवता मान्यः सदाहं यथा । श्रेयःसंबटनाय हन्त भवतः सत्यं स एवार्हति प्रेयस्त्वैहिकमातनोतु सततं विज्ञानशर्मापि ते ॥ २७ ॥ शश्वज्ञानादभिन्नः सन्विज्ञानमपि मानय । एवं सति घटेयातां भुक्तिमुक्ती करे तव ॥ २८ ॥ राजमत्रिणी-(साष्टाङ्गं प्रणम्योत्याय 1) अनुगृहीतो स्वः । दंवी-मुमरणमेत्तसंणिहिदं णाणसम्माणं सचिवं विण्णाणेण समं मुत्तविरोहं करिअ दुवे वि मन्तिणो रणो हत्थे समप्पअन्तेण भअवदा बहुलीकि भत्तवत्सलत्तणम् । (ग) (क) अनुगृह्यतामात्मनिविशेष एपः । (ख) देव, कृतार्थः खल्वेप य एवंविधस्य देवानुग्रहस्य भाजनं जातः । (ग) स्मरणमात्रसंनिहितं ज्ञानशाणं सचिवं विज्ञानेन समं मुक्तविरोध कृत्वा द्वावपि मन्त्रिणी राज्ञा हस्ते समपर्यता भगवता बहुलीकृतं भक्तवत्सलत्वम् ।
७ अङ्कः] जीवानन्दनम् । : (नेपथ्ये ।) जीवे शिवप्रापितयोगसिद्धौ कालो जनान्ध्येन समं तमोवत् । पापो विषूच्या सह राजयक्ष्मा गदैरसाध्यैः सह नाशमेति ॥ २९ ईशानस्य निदेशात्प्राप्ता साप्यत्र शांकरी भक्तिः । चत्वारोऽपि पुमर्थाः पुंभिर्यस्याः प्रसादतो लभ्याः ॥ ३० ॥ मन्त्री-(आकर्ण्य ।) प्रियं नः प्रियम् । भगवान्काल एष एवं नः यमाचष्टे । राजा--(सहर्षोल्लासम् ।) मूर्धन्यमण्डलनिकेतसुधांशुबिम्ब- निःष्यन्दिशीतलसुधास्नुतिनिर्वृताङ्गः । मेघावृतिव्यपगमे गगनं यथाच्छं चैतन्यमावरणवर्जितमस्मि तद्वत् ॥ ३१ ॥ मन्त्री-एवमेवायं जीवो राजा भगवतोः प्रसादान्नीरोगो नित्य निराबाधो बहुकालं जीयादिति प्रार्थये । भगवान् तथैवास्तु । देवी-तह होदु । (क) राजा-(सहर्षविस्मयं मन्त्रिणं प्रति ।) मन्त्रिञ्जन्मैव दोषः प्रथममथ तदप्याधिभिर्व्याधिभिश्चे- ज्जुष्टं कष्टं बतातः किमधिकमपि तु त्वन्मतेवैभवेन । देव्या भक्त्याः प्रसादात्परमशिवमहं वीक्ष्य कृच्छ्राणि तीर्णः सर्वाणि द्राक्तदत्यद्भुतमिह शुभदं संविधानं तवेदम् ॥ ३२ मन्त्री-राजन्, बहुजन्मार्जितैः पुण्यैस्तावकैरेष तोषितः । सर्वाभीष्टं ददातीशः संविधानं किमत्र मे ॥ ३३ ॥ भगवान्-~-वत्स, किमतः परमन्यत्तव प्रियं कुर्मः । (क) तथा भवतु।
१०८ काव्यमाला। राजा-देवदेव भगवन् , सर्वमपि प्रियमाचरितमेव । सर्वेऽपि मे प्रशमिता रिपवः पुरेऽभू- दारोन्यमैक्षिपि भवन्तमुमासहायम् । योगं ततस्त्वदुपदिष्टमवाप्य जीव- न्मुक्तोऽसि ते करुणया किमतः प्रियं मे ॥ ३४ ॥ तथापीदमन्तु भरतवाक्यम् । पर्जन्यः समयेऽभिवर्पतु फलं वाञ्छानुरूपं महीं प्रौदामात्यनिरूपिते पथि महीपालाः पदं तन्वताम् । कर्णालंकृतये भवन्तु विदुपां कान्ताः कवीनां गिरो भूयादस्य कवेश्चिरायुररुजो भक्तिश्च शैवी दृढा ॥ ३५ ॥ (इति निष्मान्ताः सर्वे ।) अतिरिय श्रीमद्भारद्वाजकुलजलधिकौस्तुभस्य श्रीनरसिंहरायमन्त्रिवरनन्दनस्य श्रीमदानन्दरायमखिनः । समाप्तोऽयं ग्रन्थः। १. अब मावानन्दनप्रणेता श्रीमदानन्दरायमी नृसिंहरायाध्यरिमृनुख्यम्बकदीक्षितस्य भ्रातृव्यस्ततानगरमहीपतरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्रीशाहराजस्य म- त्रिप्रवर आमादित्यादि सर्व जीवानन्दनयतत्प्रणीतम्यैव विद्यापरिणयनाटकस्य च प्रस्ताव- नातः प्रतीयते. स च दरममहीपतिः निस्ताब्दीयमतदशशतकपूर्वार्ध आसीदिति स एवाय समयः. एतत्कृतिपु जीवानन्दनं विद्यापरिणयं चेति नाटकद्वयमस्माभिरुपलब्धम्. जीवानन्दने यद्यपि नास्ति कवित्व चमत्कारस्नथापि संविधानकमनुच्छिदं चिकित्साशा- ब्रानुलमिनि कृत्ववास्य काव्यमालायां प्रवेश:. तत्र जयपुरराजगुरुकुलप्रसूतभश्री- कृष्णकुमागणां संग्रहादकमेवान्य शुद्धं पुस्तकमुपलब्धम्. चिरं विहितेऽप्यन्वेपणे पुस्त- म्नकान्तरालामातस्मादेव पुस्तकांदतन्मुद्रणमकारीति भद्रम्.
KÂYYAMÂLÂ 28.
THE
DÚTÂNGADA
!
OF
SUBHATA.
EDITED BY
PANDIT DURGAPRASAD
AND
KÄS'INATH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE “NIRNAYA-SÂGARA” PRESS.
BOMBAY
1891,
Price 2 Annas.
( Registered according to Act IIV of 1867.) All rights reserved by the publisher.)
काव्यमाला. २८. श्रीसुभटकविप्रणीतं दूताङ्गदम्। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परवोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । , १८९.१ : (अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यं २ आणकाः ।
No text on this page.
काव्यमाला। महाकविश्रीसुभटकृतं दूताङ्गदम् । पायात्स वः कुमुदकुन्दमृणालगौरः शको हरेः करतलाम्बरपूर्णचन्द्रः । नादेन यस्य सुरशत्रुविलासिनीनां काश्थ्यो भवन्ति शिथिला जघनस्थलीषु ॥ १॥ अपि च । शंभोः कोदण्डभङ्गादविदितविभवः शक्रसूनोविनाशा- दज्ञातः सेतुबन्धादपि न परिचितः कैकसीनन्दनेन । संवादादङ्गदस्याप्यनधिगतगतिः कारणान्मर्त्यमूर्ते- भूयाद्भूत्यै जनानां जगति रघुपतेर्वैष्णवः कोऽपि भावः ॥२॥ (नान्द्यन्ते) सूत्रधारः--(परिक्रम्य नेपथ्याभिमुखमवलोक्य ।) प्रिये विलासवति, इत- स्तावत् । १. अयं सुभटकविरत्र कुमारपालदेवं वर्णयति. स च कुमारपालः १०८८ मितात्त्रिस्तसं- वत्सरादारभ्य ११७२ मितसंवत्सरपर्यन्तं गुर्जर गुजरात,देशं पालयामास. श्वेताम्बर- जैनोऽनेकग्रन्थकर्ता पण्डितवरः श्रीहेमाचार्योऽपि कुमारपालसमकालीन एव. (मुम्बई- मुद्रितसुभाषितावलीपुस्तकोपोद्धातस्य १३९ पृष्ठं विलोकनीयम्.) हेमाचार्यकृतं कुमार- पालचरितं प्राकृतनिबद्धं प्रसिद्धमेव. 'सुभटेन पदन्यासः स कोऽपि समिती कृतः । ये- नाधुनापि धीराणां रोमाञ्चो नापचीयते ॥' इति कीर्तिकौमुद्यां (१।२४) निस्तसंवत्सर- त्रयोदशशतकपूर्वभागसमुत्पन्नः सोमेश्वरदेवोऽपि सुभटकविं स्तौति. अस्मिन्ग्रन्थे न सर्वे श्लोकाः सुभटकृताः, किं तु भवभूतिराजशेखरादिकृता अपि श्लोका अत्र वर्तन्ते. परकी- यश्लोकग्रहणं च कविरेव स्वयं ग्रन्थान्ते स्वीकरोति. 'पायात्स व:-' इत्यादि प्रथम- श्लोकस्योत्तरार्ध काव्यालंकारटीकायां (२।८) नमिसाधुनोदाहृतः. २. वालिनः. ३. कैकसी रावणादीनां माता. 'नैकघी' इति पुस्तकान्तरपाठः.
२ काव्यमाला। (प्रविश्य) नटी-अजउत्त, इअलि । आणवेदु अज्जो जं करणिज । (क) मूत्रधारः-विश्वविश्वंभराभारसमुद्धरणादिवराहस्य निजभुजयुगलयि- दलितसकलवैरिवृन्दसुन्दरीनेत्रनीलोत्पलविगलितबहलबाप्पपूरप्लवमानप्रताप- राजहंसन्य महाराजाधिराजश्रीमत्रिभुवनपालदेवस्य परिपदाज्ञया प्रबन्ध- विशेपमहमुपक्रममाणोऽस्मि । भो भोः सामाजिकाः, शृणुत सावधानाः यदद्य वसन्तोत्सवे देवश्रीकुमारपालदेवस्य यात्रायां पैदवाक्यप्रमाणपारंग- तेन महाकविना श्रीसुभटेन विनिर्मितं दूताङ्गदं नाम च्छायानाटकमभि- नेतव्यम् । नटी-अजउत्त, जुत्तं ववसिदं । (ख) (नेपथ्य) तारापतौ वानरराजलक्ष्मी निहत्य यो वालिनमानिनाय । तीर्णाणयो दाशरथिः स देवः सुवेलशैलोपवनेप्वखेलेत् ॥ ३ ॥ मूत्रधारः---आर्य, प्रारब्धमेव कुशीलवैः । यदमी रामानुचरवीराणां परम्परमालापाः श्रूयन्ते । तदेहि । आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्ती ।) प्रस्तावना। (ततः प्रविशतः मुवेलशैलशिलातलासीनी रामलक्ष्मणी । सुग्रीवादिकश्च विभवतः प. शिवार: रोमः-(लक्ष्मणं प्रति ।) वत्स लक्ष्मण, (क.) आर्यपुत्र, इयमस्मि | आज्ञापयत्वार्यो यत्करणीयम् । (ग्व) आर्यपुत्र, युक्तं व्यवमितम् । १. 'गुगलागलाविदलित' इति पाठः. २. 'देव' इति पदं पुस्तकान्तरे नास्ति. ३. 'पद- वाश्यागमेन' इनि पाठ:. ४.मुग्रीवे. ५. 'विलेन' इति पाठः, ६. 'नर्तकः' इति पाठः. 5. व गमानुचराणां परम्परालापाः' इति पाटः, ८. 'मुग्रीवादिपरिवारश्च' इति पाठः. '.. 'गम:-(लम्मानमवलोक्य ।) तीऽणव:-' इनि पाठः, दूताङ्गदम् । ३. तीर्णोऽर्णवः कवलितेव कपीश्वरस्य सेनाभटैझटिति राक्षसराजधानी । यत्पौरुषोचितमिहाद्य कृतं मयात- देवस्य वश्यमपरं धनुषोऽथवास्य ॥ ४ ॥ लक्ष्मणः-आर्य, कातरजनमनोवलम्बिना दैवेन किम् । उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥५॥ अपि च । यावल्ललाटशिखरं भ्रुकुटिर्न याति यावन्न कार्मुकशिखामधिरोहति ज्या । तावन्निशाचरपतेः पटिमानमेतु त्रैलोक्यमूलविभुजेषु भुजेषु दर्पः ॥ ६ ॥ तदादिश्यतामङ्गदाय दौत्यम् । रामः-(अगदं सबहुमानमालोक्य ।) वत्स, पिता ते यद्वाली बलिनि दशकण्ठे कलितवा- न तद्वक्तुं शक्ता वयमयमुदास्ते न पुलकः । स एव त्वं व्यावर्तयसि तनुजत्वेन पितृतां ततः किं वक्तव्यं तिलकय निसृष्टार्थपदवीम् ॥ ७ ॥ अङ्गदः-(मौलिमण्डलमिलत्करयुगलेन प्रणम्य विज्ञापयति ।) देव, कि प्राकारविहारतोरणवती लङ्कामिहैवानये किं वा सैन्यमहं द्रुतं रघुपतेस्तत्रैव संपादये । १. सुग्रीवस्येत्यर्थः. २. 'इहाङ्कुरितं मयाद्य' इति पाठः. ३. अयं श्लोकः पुस्तकान्तरे नास्ति. प्रसिद्धश्च हितोपदेशादिषु. ४. 'आलोक्य समादिशति ।) महावीर अङ्गद' इति पाठः. ५. 'न शक्तास्तद्वक्तुम्' इति पाठः. ६. 'एप' इति पाठः. ७. निसृष्टार्थो दूतविशेष इत्यर्थः. ८. अस्माच्छोकादारभ्याग्रिमाङ्गदोक्तिपर्यन्तं पुस्तकान्तरे नास्ति.
है काव्यमाला । आकल्पं कुलपर्वतैरविरलैबधामि वा सागरं देवादेशय किं करोमि सकलं दोर्दण्डसाध्यं मम ॥ ८ ॥ रामः-वत्स, अज्ञानादथवाधिपत्यरभसादस्मत्परोक्षे हृता सीतेयं प्रविमुच्यतामिति वचो गत्वा दशास्यं वद । नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रवृतो यास्यसि ॥ ९ ॥ अङ्गदः-देव, संधौ वा विग्रहे वापि मयि दूते दशाननी । अक्षता वा क्षता वापि क्षितिपीठे लुठिप्यति ॥ १० ॥ रामः-साधु भो वालिनन्दन, साधु । (इति पृष्ठे हस्तं दत्वा विमजति ।) (अनादः प्रणम्य निष्कान्तः ।) मुग्रीवः----(लदाशैलशिखरमालोक्य ।) देव, पश्य पश्य सावनमिव संपश्यन्कपिवीरवरूथिनीम् । निजांसे दशकण्ठोऽयं दत्ते मत्तेभवदृशम् ॥ ११ ॥ तदागच्छत । वयमपि सुवेलशैलवनतिलकितानि जलनिधेस्तटानि पश्यामः । (इति निष्क्रान्ताः ।) (ततः प्रविशति रावणो मन्दोदरी विभीषणादिकथ परिवार: ।) गवण:---(विभीषणं प्रति ।) वत्स विभीपण, एते ते मम बाहवः मुरपतेदोर्दण्डकण्डूहराः मोऽहं सर्वजगत्पराभवको लकेश्वरो रावणः । १. 'गमः प्राद' इति पाटः. २. अयं शोकः क्षेमेन्द्रण मुत्ततिलके भवभतिनानी- दादतः. नत्र र दिनीयवाणे 'मीनयं प्रविमुन्यतां शट मरुत्युवस्य हम्नेऽधुना' इति पाठी- अनि. ३. 'माय अाद, साधु वालिनन्दन' इति पाट:. ४. "विमर्नयति' इति पाठः. '.. ते' इत्यादि श्रीलदगं पुम्नकाली नाम्नि, ६ दूताङ्गदम् । सेतोबन्धमिमं शृणोमि कपिभिः पश्यामि लङ्कां वृतां जीवद्भिस्तु न दृश्यते किमथवा किं वा नहि श्रूयते ॥ १२ ॥ भपि च । जम्भारातीभकुम्भस्थलदलनपटुश्चन्द्रहासाभिधानः खड्गः किं तापसस्य श्रवणविषयतां न प्रयातो मदीयः । यन्नासौ मेघनादप्रभृतिभटशतैर्व्यावृतां वेत्ति लङ्का तन्नूनं सत्यमेतत्प्रचलति हि मतिः प्राप्तकालस्य जन्तोः ॥ १३ ॥ यदाखण्डलदपेन्दुराहवो बाहवो मम । द्रुह्यन्ति तापसेभ्योऽपि तदरिष्टमहो महत् ॥ १४ ॥ मन्दोदरी-(स्वगतम् ।) तं जेव्व अज्ज वि गले गरलं गव्वस्त वरिसए एस । जग्गन्ति जेण रक्कसकुलम्मि सोअंकुरकुडप्पा ॥ १५ ॥ (प्रकाशम् ।) णाह, पेक्ख पेक्ख । अच्चरिअं अच्चरिअं। विलसिदसरोसवानरवरूहणीकलअलस्स कल्लोला । इह तुह विलासवासम्मि वीर विरअन्ति पडिसई ॥ १६ ॥ (क) रावणः-(सावज्ञम् ।) देवि प्रकृतिप्रियवादिनि, अलमलमनया मैट- कीटकोलाहलविभीषिकया । किमप्यपरं वक्तुकामासि । मन्दोदरी- अज वि ण कोवि दोसो रहुपहुणो देव देहि वैदेहीं । मंदोदरीअ मंडणमखंडभावं समन्भेदु ॥ १७ ॥ (ख) (क) तमेवाद्यापि गले गरलं गर्वस्य वर्षयेषः । जाग्रति येन राक्षसकुले शोकाकुरकुङमलाः ॥ नाथ, प्रेक्षस्व प्रेक्षस्व । आश्चर्यमाश्चर्यम् । विलसन्सरोषवानरवरूथिनीकलकलस्य कल्लोलाः । इह तव विलासवासे वीर विरचयन्ति प्रतिशब्दम् ।। (ख) अद्यापि न कोऽपि दोषो रघुप्रभोर्देव देहि वैदेहीम् । मन्दोदर्या मण्डनमखण्डभावं समभ्येतु ।। १. 'प्रकृति' इति पुस्तकान्तरे नास्ति. २. 'कटककोलाहलबिभीषया' इति पाठः, .. काव्यमाला। रावणः-(सकोपटासम् ।) देवि, एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयीकमिदं विमृश्य यदसौ तस्मै तदा नापिता । तातीयीकमिदं तु यत्कपिभटैद्धेऽद्य वारां निधौ संधानं दशकंधरो रचयति क्ष्मानन्दिनीमर्पयन् ॥ १८ ॥ तदवतंसयतु भवती विलासगृहम् । (इति मन्दोदरी बाप्पं विसृजन्ती निष्फ्रान्ता ।) रावणः-(विभीषणं प्रति 1) वत्स विभीषण, तवापि किमपि वक्तव्यमस्ति । विभीषणः-देव लकेश्वर, विचारय नयचक्षुपा । मनुप्यो न मनुष्यौ तौ वानरास्ते न वानराः । व्याजेन किमपि च्छन्नं देव दुर्दैवमेव ते ॥ १९ ॥ तदियं मुच्यतां राक्षसकुलकालरात्रि नकी । रावणः-(सरोपं खङ्गमादाय ।) आः पाप प्रतिपक्षपक्षपातिन् कुलाङ्गार दुगनार, एप ते चन्द्रहासेन शिरः पातयामि । (इति संरभते ।) (विभीषणश्च सभयमपसरति ।) माल्यवान्-- (अन्तराले भवन् ।) देव लकेश्वर, विचारय नयचक्षुषा किमहितमभिहितं कुमारविभीपणेन । रावणः-भोः, त्वमपीदृशः संपन्नः । (माल्यवान्मभयं तुष्णीमास्त।) रावणः--(विभीषणं प्रति ।) अरे बान्धवापसद, परिहर मे राजधानीम् । तमेव च वनेचरमनुप्रविश्य प्रकाशय नीतिनैपुण्यम् । न पुनः कथाशेष करिष्यामि । विभीषणः-न भाव्यमन्यथा भवति । (इति वदनिष्क्रान्तः ।) (ततः प्रविशति प्रहस्ताभिधः प्रतीहारः ।) प्रहम्नः-देव, रामस्य दूतोऽहमिति ब्रुवाणः कोऽपि शाखामृगो द्वारमध्यान्ते । रावणः-(सावनम् ।) प्रवेशय तावत् । १. 'मान्धवाभाम' इति पाठः, दूताङ्गदम्। ७ (ततः प्रविशति प्रहस्तेन सहाङ्गदः ।) अगद:-(रावणमवलोक्य स्वगतम् ।) स एष जगदास्कन्दकौतुकी दशकंधरः । यन्मौलिकमलारामे रामः क्षेप्ता शिलीमुखान् ॥ २० ॥ (प्रकाशम् ।। रे राक्षसाः कथयत व स रावणाख्यो रत्नं रवीन्दुकुलयोरपहृत्य नष्टः । त्रैलोक्यदीपनकरास्त्रशिखाकराले यो रामनामदहने भविता पतङ्गः ॥ २१ ॥ (बहवो राक्षसा रावणरूपं बिभ्रति ।) अगद:- रे रे रावण रावणाः कति बहूनेतान्वयं शुश्रुमः प्रागेकं किल कार्तवीर्यनृपतेदोर्दण्डपिण्डीकृतम् । एक नर्तनदापितान्नकवलं दैत्येन्द्रदासीजनै- रेकं वक्तुमपि त्रपामह इति त्वं तेषु कोऽन्योऽथवा ॥ २२ ॥ रावण:--(बहुरूपाणि संहृत्य सहेलम् ।) भो भोः शाखामृग, कस्त्वं क- स्यासि दूतः । - अङ्गद पितर्युपरते यस्तु नोद्वहेत्पैतृकी धुराम् । तेन नैवोपदेष्टव्याः स्वस्य वंशस्य पूर्वजाः ॥ २३ ॥ तथापि भवतु। रक्षोदुर्भिक्षमाधातुमवतीर्णोऽस्ति यः क्षितौ तस्य रामस्य दूतोऽहं सुतस्तस्य च बालिनः ॥ २४ ॥ अपि च । तस्य रामस्य दूतोऽहं येन मे जनको हतः । बालिनस्तस्य पुत्रोऽहं यद्वीर्यानुभवस्तव ॥ २५ ॥ १. 'सदने' इति पाठः.
८ काव्यमाला। रावण:-(अप्रति ।) -- - रोमः किं कुरुते अनन्द:- न किंचित् रावण:- अपि च प्राप्तः पयोधेस्तट कम्मात्सांप्रतम अगन्दः एवमेव हि रावण:- नतो बद्धः किमम्मोनिधिः । - क्रीडाभिः रावण: किमसौ न वेत्ति पुरतो लकेश्वरो वर्तते अनन्द:- जानात्येव विभीपणोऽस्य निकटे लङ्कापदे स्थापितः ॥ २६ ॥ रावणः-(मागम ।) रामस्याधुना कीदृशी चर्या अगदः अंडे कृत्त्वोत्तमाझं प्लवगवलपतेः पादर्मक्षस्य हन्तुः कृत्वोत्सझे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेपम् । वाणं रक्षःकुलनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्षणः कोणेनोहीक्षमाणस्त्वदनुजवचने दत्तकोऽयमास्ते ॥ २७ ॥ (गवणस्तत्रायशा नाटयन् , प्रहस्तस्य कर्ण एवमेवं कथयति ।) प्रहस्त:-यदादिशति देवः । (इति निक्रान्तः ।) (नतः प्रविशति प्रहस्तेन सह मायामैथिली ।) मैथिली-जअदु जअदु अजउत्तः । (क) (इत्यभिदधाना रावणोत्सङ्गमा- गेहति ।) रावणः-(स्वगतम ।) साधु भो मायामयि साधु, जानासि दशकण्ठ- माराधयितुम् । (क) जयतु जयत्वार्यपुत्रः । १. रामः किं कुदने' इत्यादिरहदगवणयोक्तिप्रत्युक्तिरूपः शोकः, २. सुमीवस्य. । हनामतः.
दूताङ्गदम् । अगदः-(सविषादमात्मगतम् ।) अपि नाम जानकी परायाङ्गनाच- रितमाचरेत् । भवतु । विलोकयामि तावत् । रावणः-देवि विदेहनन्दिनि, प्रतिबोध्यतां रामप्रहितोऽयं शाखामृगः। मायामैथिली-(अङ्गदं सबहुमानमवलोक्य ।) वत्स अङ्गद, मह वयणे- हिं पडिबोधेहि राहवं इम्मवर कीस खिजसि राहव तं वज णि णअरं । दिण्णाहं णिजहिअए सक्खीकिय मयणमेअस्स ॥ २८ ॥ अवि अ॥ • मयि रावणंकपंकजविलासहंसीइँ अज रहुणाहो । रक्खसभटेहि भंजिदभरतं भूसेदु णिजरजं ॥ २९ ॥ (क) अङ्गदः-(कर्णी पिधाय ।) न खलु भवती जानकी । यतः । अश्रुतपूर्वाविनया पर्याप्तालंकृता च शीलेन । सा राघवस्य पत्नी पुनाति भुवनानि गङ्गेव ॥ ३० ॥ (ततः प्रविश्य पटाक्षेपेण) राक्षसी- श्रुत्वा रघुपतेः किंचिदनिष्टं देव मैथिली । विधातुं सर्वदुःखान्तं लतापाशेन वाञ्छति ॥ ३१ ॥ रावणः-(सखेदम् ।) आः, किमेवमभिहितमनवसरे । राक्षसाः, रक्षत रक्षत जानकीम् । (इति मायामैथिली विसर्जयति ।) अङ्गदः-(सहर्षम् ।) परमार्थमैथिलीमयेन तेजसा तिरस्कृतं मायामैथि- लीमयमन्धकारम् । (क) वत्स अङ्गद, मद्वचनैः प्रतिबोधय राघवम् एषामुपरि कस्मात्खिद्यसे राघव तं व्रज निजं नगरम् । दत्ताहं निजहृदयेन साक्षीकृत्य मदनमेतस्य ॥ अपि च । मयि रावणाङ्कपङ्कजविलासहंस्यामद्य रघुनाथः । राक्षसभटैर्भञ्जितभरतं भूषयतु निजराज्यम् ॥ १. 'मैथिली स्वयम्' इति पाठः.. २ १ १० काव्यमाला। , रावणः--भो वलीमुख, किमपि वक्तुकामः । अगदः- न दोपः स्वल्पोऽपि प्रभवति तवाकृत्यकरणा- दपि कव्यादानां भवति परमं मण्डनमिव । अतः कव्यादेश त्वयि न परदारापहरणा- दनौचित्यं किंचित्तदपि विपमाः क्षत्रियरुपः ॥ ३२ ॥ रावणः----(सक्रोधम ।) आः पाप दुर्मुख, मौखर्यदर्शनेन राघवमर्षयसि न पुनर्निदर्शनेन । अगदा-किमपरमुदाहरणं विलोकय । समं प्रतिज्ञया येन तीर्खा दुस्तरमर्णवम् । वनद्रुमाः सुवेलम्य भज्यन्ते त्वद्भुजा इव ॥ ३३ ॥ रावण:-अरे विचारमूढ, पारावतैः किमयमम्वुनिधि तीर्णः कान्ताः कथं न कपिभिः क च नाम शैलाः । तदेशि दोबलमसौ यदि शौर्यरेखा- माविकरोति करवालकपोपलेऽद्य ॥ ३४ ॥ अपि च रे, रावणं न जानासि । आस्कन्धावधि कण्ठपीठविपिने प्राक्चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव झटिति त्रुट्यच्छिरासंतती । अम्मेरं गलिताश्रु गद्दपदं भुग्नं च यद्येप्वभू- द्वक्रेप्चेकमपि स्वयं स भगवास्नन्मे प्रमाणं शिवः ॥ ३५ ॥ अहन्द:- कि राघवम्य दशकंधरचन्द्रहास- वंशेऽभवन्भुवनभीतिभिदः शराम्ते । ट्रनानि यन्नव शिगंसि पुनः प्ररोह- मेष्यन्ति मृद नहि धूर्जटिपर्वणीव ।। ३६ ।।
दूताङ्गदम् । ११ रावणः-(सकोपं चन्द्रहासमादाय ।) रे अपसरापसर मेऽग्रतः, न पुनः कथाशेषं करिष्यामि। अगद:-(गन्तुमिच्छन् ।) रे नक्तंचरराज मुञ्च सहसा देवीमिमां मैथिली मिथ्या कि निजपौरुषस्य नटनप्रागल्भ्यमभ्यस्यसि । एतां पश्यसि किन किंनरगणैरुद्गीतदोर्विक्रमां सेनां वानरभर्तुरुद्भटभुजस्तम्भाग्रभीमा पुरः ॥ ३७ ।। अपि च । शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनः प्रबन्धं पश्याब्धेः सरस इव कैलाससुभट । हितं तु त्वां बूमो मम जनकदोर्दण्डविजये चलत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् ।। ३८ ।। किं च । आदौ येन सुबाहुमुख्यपिशिताहारैः समं ताडका नीता नाशमतश्च भग्नवदनश्रीस्ते स्वसाकारि च । हत्वा येन वने भवद्भटवटून्बद्धोऽम्बुधिश्च क्षणा- कर्ता त्वन्निधनस्य सैष समरे भ्रान्तिस्तवाद्यापि का ॥ ३९ ॥ अपि च । रे रे राक्षस मा म शंकरवरभ्रान्त्या विभाटीर्तयं रुष्टो मूढ तदैव यन्मतिरभूत्सीतापहारे हरः । नो चेदिष्टकपालमण्डनभृताप्याखण्ड्य मुण्डावली भक्त्या ढौकितमीश्वरेण किमहो प्रत्यर्पितं प्राभृतम् ॥ ४० ॥ अपि च । जानीमहे महेश्वरपरिचरणप्रसङ्गपरमार्थमपि भवतः । मिथ्या- भिमानिन्, आः पौलस्त्य किमेवमुत्पुलकितः स्वस्मै मुहुः श्लाघसे यत्तोषं गमितः खमौलिकमलैालेन्दुमौलिमया । १. 'तव किम्' इति पाठः.
१२
काव्यमाला ।
प्राचीनं हि विरक्षिपञ्चमशिरश्छेदापवादं स्मर-
न्देवोऽदत्त वरं तवापि कृपया कायव्रतं कुर्वतः ॥४१॥
शृणु रे दशवदन, बदनविवरविनिर्गतवाग्विभीपिकया न विभीमो वयम्।
(इनाभिधाय निष्क्रान्तोऽदः ।)
(नेपथ्ये।)
त्वयि त्रिभुवनाधीशे हन्ति वानरवाहिनी ।
मज्जो भव महावीर वीरत्वं च गतं तव ॥ ४२ ॥
रावणः-(मौत्सुक्यम् ।) अये, अस्मदनुजीविनो वध्यमाना भृशं वु-
म्पायन्ते ।
(ततः प्रविशन्ति विक्षतामा निशाचरभटाः ।)
निशाचराः-
वानरैयदि वध्याः स्मरत्वयि नाथेऽप्यसांप्रतम् ।
त्वमपि प्राणिते बुद्धि, शाश्वती मा कृथा वृथा ॥ ४३ ॥
रावणः-(सकोपं प्रहन्तं त्वरितमाय ।)
संनयतां सपदि राक्षसवीरसेना
के नाम रामहतकस्य वनौकसोऽमी ।
जागतिं यन्मम भुजे ननु चन्द्रहासः
श्यामाकृतामरवधूमुखचन्द्रहासः ॥ ४४ ॥
(गुनांवकट परिक्रामन् ।) अरावणमरामं वा जगदद्य भविष्यति । (इति वद-
निकान्तः ।।
(नतः प्रविगतो हेमाङ्गदचित्रादी गगनाथीसंचारिणी गन्धर्वो ।)
हमाङ्गदः---मग्य चित्राङ्गाद,
दिव्यास्त्र भुवःस्वस्त्रितय डमरकोड्डामरधियित्वा
टनीक्षिप्तः शिरोभिर्दशभिरधिनमा दर्शितकादशार्कः ।
काकुत्स्थेनावकीणों निजविशिवशिवायोगपीठोपहतो
ब्रह्माणाधिशेतं रजनिचरपतवारशय्यां कवन्धः ॥ ४५ ॥
दूताङ्गदम् । १३ चित्राङ्गद:--सखे, अनया गगनवीथ्या बहोः कालात्संचरावहे निर्भयमेवम् । (नेपथ्ये कलकल: ।) यद्वक्राणां दशानामिव दश ककुभः शासितुं सृष्टिरासी- द्विशत्यायश्च दोभिर्दशगुणितमिव प्राप्तवान्वीर्यवर्म । लकेन्द्रः संजितेन्द्रः समरभुवि जवाज्जानकीवल्लभेन ज्योतिदीप्रैः क्षुरप्रैः स खलु विरचितो निर्विबन्धः कबन्धः ॥४६॥ चारण:-शृणु हेमाङ्गद, चित्राङ्गद, चित्रमिवावलोकय । हेलाखण्डितचण्डहेमहरिणैर्वाणैः कुलं रक्षसां शेषीभूतविभीषणं गुणनिधौ कृत्वापि रामे स्थिते । प्रत्युज्जीवितशङ्कया यमजितो लङ्कापतेः कातरै- नों मुक्ताः कुसुमस्रजो न च सुरैरास्फालितो दुन्दुभिः ॥४७॥ चित्राङ्गद:---(सचमत्कारं हेमाङ्गदं प्रति ।) सखे हेमाङ्गद, ईडगेवाद्भुत- रसैकभाजनं भवानीपतिभक्तिभासुरः प्रबलप्रतापभरप्रणमितसकलसुरासुरो वीरवीरोत्तंसः खल्वयं नक्तंचरचक्रवर्ती । यः किल पुरा पुरारिपरिचर्या- वसरे बिभ्राणं दशवक्रता क्रममिलत्पञ्चाननीपूजया यः सर्व स्वमिव स्वमीश्वरमिति ज्ञात्वा मुखैः पञ्चभिः । शंभोरेव शिरःसु तं निजकरं व्यापारयन्वारितः पार्वत्याः कथमप्यहो न स दशग्रीवो गिरां गोचरः ॥ ४८ ॥ (कर्मप्राबल्यमीक्षमाणः । सखेदम् ।) सखे हेमाङ्गद, पश्य पश्य । इह खलु विषमः पुरातनानां भवति हि जन्तुषु कर्मणां विपाकः । हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः॥४९॥ हेमाङ्गद:--सखे, नातिचित्रमेतत् । 'यतो धर्मस्ततो जयः' इत्ययं सत्य एवं शास्त्रप्रवादः । अतोऽस्मिन्नर्थे शरीरादिभिः पुण्यापुण्यकारिणामायति- दर्शिता । अत्र रावण एवोदाहरणमापद्यते । तथाहि ।
१३ काव्यमाला। वपुमुख्यं वित्तं व्ययितमिह धर्मार्थमवनौ खलु म्फारीभूतं वलति विपरीतं नहि पुनः । वलिं कुर्वशंभोः पलभुजपतिः सत्रिभुवनां शिरःश्रेणी लेभे ननु विगमयन्नुत्पलकृते ॥ ५० ॥ (नेपथ्ये।) वाणैलाञ्छितकेतुयष्टिशिखरो मूर्छानमत्सारथि- मांसास्वादनलुब्धगृध्रविहगश्रेणीभिरासेवितः । रक्षोनाथकबन्धगादपतनक्षुण्णाक्षदण्डो हयै- हेपित्वा स्मृतमन्दुरास्थितिहतैलङ्कां रथो नीयते ॥५१॥ (पुननेपथ्ये।) सर्वा गीर्वाणवध्वो बजत निजगृहान्बद्धमाधोरण द्वा- नवगंभस्तम्भमालामय सुरकरिणं यामिका यात देवाः । भूयो दिव्यद्रुमाणां भवतु ननु वने नन्दने संनिवेशो द्वारि क्षिप्तं यदैन्द्रे दशवदनशिरः किंकरैरङ्कितस्य(?) ॥ ५२ ॥ अपि च । रणरसिकसुरस्त्रीमुक्तमन्दारदामा स्वयमयमवतीणों लक्ष्मणन्यस्तहस्तः । विरचितजयशब्दो बन्दिभिः स्यन्दनाङ्का- दिनकरकुललक्ष्मीवल्लभो रामभद्रः ॥ १३ ॥ रामः-(पुष्पकाधिरूटोऽयोध्यामागच्छन्सीतां प्रति लङ्कारणभूमि दर्शयन् ।) अत्रासीत्कणिपाशवन्धनविधिः शक्त्या भवदेवरे. गादं वक्षसि ताडिते हनुमता द्रोणाद्विरत्राहृतः । दिव्यरिन्द्रजिदत्र लक्ष्मणशरैकान्तरं लम्भितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥ ५४ ॥ इति नवरसगीभिजानकी प्रीणयन्वः पुलकितललिताङ्गः पैतृकं प्राप्य धाम ।
दूताङ्गदम् । १६ सुखयतु कुलराज्यं पालयन्नुत्कपौरः प्रकटितबहुभद्रः सर्वदा रामभद्रः ।। ५५ ॥ स्वनिर्मितं किंचन गद्यपद्यबन्धं कियत्प्राक्तनसत्कवीन्द्रैः । प्रोक्तं गृहीत्वा प्रविरच्यते स्म रसाढ्यमेतत्सुभटेन नाट्यम् ॥ १६ ॥ इति सुभटकविप्रणीतं दूताङ्गदं नाम च्छायानाटकं समाप्तम् । समाप्तोऽयं ग्रन्थः।
No text on this page.
No text on this page.