Uttarpara Jaykrishna Public Library, Hooghly

Shrimadbhagbatgita

2007/03/15

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

श्रीमद्भगवद्गीता
आनन्दगिरिकृतटीकासहितशाङ्करभाष्यसंवलिता
दैवज्ञसूर्यपण्डितविरचितपरमार्थप्रपया च
समुद्भासिता.
सा च
पुण्य पत्तने
गोन्धळेकरोपाहश्रीधरात्मजरावजीशर्मणा
विद्दद्भिः संशोध्य
स्वीये
जगद्धितेच्छनाम्नि
मुद्रणालये
मुद्रिता.
शकाब्दाः १८०८.
अश्विन बहुल पञ्चमी
प्रस्ताव्दाः १८८६.

No text on this page.

विज्ञापनम् । पुरा किलैतद्गीताशास्त्रं कालिकाताख्यराजधान्यामानन्दगिरिकतविवेच- नसंवलितभाष्येण श्रीधरस्वामिकतसुबोधिन्या च सनाथीकृत्य हिवारमङ्कित- मभूत् । परं तत्र तत्राबद्धबहुलतया लिपिवैषम्याच्च तहाचकानां पर्यालोचने क्लेशकरमुपलभ्यास्माभिस्त्रिचतुराणि पुरातनपुस्तकानि मुद्रितपुस्तकइयं च महता प्रयत्नेनार्जयित्वा तत्परिशोधनं च कारयित्वैतन्मुद्रितम् । दक्षिणा महाविद्यालयस्थप्रधानसंस्कृताध्यापका भरहाजकुलोत्पन्ना वि- इर्यगोविन्दशास्त्रिणश्चास्मदभ्यर्थनामडीकत्वैतं ग्रन्थं विषमस्थलबोधकटिप्पणी- दानपुरःसरं परिशोधयांचाः, तथैव वैराजक्षेत्रवासिनः कानडोपाभिधदामोदरशा- स्त्रिणश्चैतत्परिशोधनमकीचकुस्तेन महान्तं मोदभरं वहामः । पूर्वमस्माभिरेतद्ग्रन्थाङ्कनस्य प्रसिद्धिपत्रके श्रीधरस्वामिकतसुबोधिनीस- हितमेतत्पुस्तकं भविष्यतीति प्रसिद्धीकृतम् । परं सुबोधिन्या बहुशोऽङ्कितत्वात् तत्पुस्तकस्य चाल्पमूल्यत्वात्सौलभ्यं पण्डितसूर्यविरचितपरमार्थप्रपाख्यगीताटी- काया दौर्लभ्यमुपयुक्ततरत्वं च पर्यालोच्य सेवास्मिन्पुस्तके निवेशिता । सेवं परमार्थप्रपाभिधा टीकास्माभिर्वेदशास्त्रसंपनभाटवडेकरोपाभिधकृष्णशास्त्रिभ्यः समासादिता । अस्यां प्रकृतार्थदााय यानि श्रुतिवाक्यान्युदाहृतानि तानि राव- णकृतभाष्ययुतानि सन्ति, तेन श्रुत्यर्थपरिज्ञानमनायासेन भवति । एतद्रावणकृत- भाष्यं प्रायशो दुर्लभमेव । इयं परमार्थप्रपा बहुस्थलेषु ज्ञानेश्वरकृतभावार्थदीपिकासादृश्यमावहति, देनेयं सुबोधिनीतोऽतीवोपकारिणीति स्फुटतरमालक्ष्यते । सर्वथार्यजनानां ग्रन्थपर्यालोचने सौलभ्यमिच्छतामस्माकं कृत्यमेतत्किा यतांशेन फलितं तत्सुधीभिरेवेक्षणीयम् । पुस्तकं च सुवाच्यायसाक्षरैदृढपत्रे मुद्रितमस्ति दृष्टिजनितप्रमादाः सुधीभिः क्षन्तव्याः । आवेदिताश्चेट्विदीरत्त्य- डुनसमयमालोचयिष्यामः इति शम् । गोन्धळेकरोपाव्हयः श्रीधरात्मजो गव मीशर्मा, ...

No text on this page.

॥ श्रीगणेशाय नमः॥ नमः श्रीभगवते वासुदेवाय । श्रीमद्भगवद्गीताशांकरभाष्यस्थोपक्रमणिका। ॐ नारायणः परोऽध्यक्तादण्डमव्यक्तसंभवम् ।। अण्डस्यान्तस्त्विमे लोकाः सप्तद्दीपा च मेदिनी ॥ १. आनन्दागरिकता व्याख्या। दृष्टिं मयि विशिष्टार्थी * कृपापीयूषवार्पिणीम् ।। हेरम्ब देहि प्रत्यूहवेडव्यहनिवारिणीम् x ॥ १ ॥ यद्वक्रयङ्केरुहसंप्रमूतं निष्ठामृतं विश्वविभागनिष्ठम् ॥ साध्येतराभ्यां परिनिष्ठितान्तं तं वासुदेवं सततं नतोऽस्मि ।। २ ।। प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः ।। क्रियते शिष्यशिक्षायै गीताभाप्यविवेचनम् ॥ ३ ॥ कर्मनिष्ठाज्ञाननिष्ठेत्युपायोपेयभूतनिष्ठाद्वयमधिकृय प्रवृत्तं गीताशास्त्र व्याचिख्यासुर्भग- वान् भाष्यकारो विघ्नोपप्लवोपशमनादिप्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्यानु. स्मरणं मङ्गलाचरणं संपादयन अवशेषेणेतिहासपुराणयोाचिख्यासितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेकमेवान्तर्यामिविषयमुदाहरति नारायण इति । 'भापो नारा इति प्रोक्ता आपो वै नरमूनवः। अयनं तस्य ताः पूर्व तेन नारायणः स्मृतः' इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः । सूक्ष्मदर्शिनः पुनराचक्षते नरशब्देन चराचरात्मकं शरीर जातमुच्यते तत्र नित्यसंनिहिताश्चिदाभासा नीवा नारा इति निरुच्यते तेषामयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति । यमधिकृत्यान्त- र्यामिब्राह्मणं श्रीनारायणाख्यमन्त्राम्नायं : चाधीयते, तदनेन शास्त्रप्रतिपाद्यं विशिष्टं तत्त्वमादिष्टं भवति । ननु परस्यात्मनो मायासंबन्धादन्तर्यामित्वं शास्वप्रतिपाद्यत्वं च वक्तव्यमन्यथा कूटस्था- संगाविषयाद्वितीयस्य तदयोगात् , तथा च शुद्धतासिद्धी कथं यथोक्तपरदेवता शास्त्रांदावनुस्मयते । शुद्धस्य हि तत्वस्यानुस्मरणमभीष्टफलवदभीष्टं तत्राह परोऽव्यक्तादिति । अव्यक्तमव्याकृतं मा- येत्यनर्थान्तरं तस्मात् परो व्यतिरिक्तस्तेनासंस्ष्टष्ट ऽ यमपरः इति श्रुतेः गृहीतस्तत्वतो मायासंबन्धाभावेऽपि कल्पनया तदीयसंगतिमडी कृत्यान्तर्यामित्वादिकमुन्नेयम् । य. स्मादीश्वरस्य व्यतिरेको वितक्षितस्तस्मिन्नव्यक्ते साक्षिसिद्देऽपि कार्यलिङ्गकमनुमानमुपन्यस्यति अण्डमिति । अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भ तत्त्वमण्डमित्यभिलप्यते तदव्यक्तात् पूर्वो- तादुत्पद्यते, प्रसिद्धा हि श्रुतिस्मृतिवादेष हिरण्यगर्भस्य मूलकारणादुत्पत्तिस्तथा च कार्यलिङ्गा- दव्यक्ताभिव्यक्तिरित्यर्थः। हिरण्यगर्भ श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमान + मस्तीति म. न्वानो विराडुत्पत्तिमुपदर्शयति अण्डस्येति । उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भगदयो. लोका विरा'डात्मका वर्तन्ते कायं हि कारणस्यान्तर्भवति तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विशिष्टः मया पोों मोक्षरूए: प्रयोजनं यप्यास्ताम् पन्यहरूपो यः वेडयूटो विपसमुदागम्तनिवर्तिकाम् । + मत्र म्नायं-गा• मु० पुस्तके +क्षिन्यकदिकार्य कर्तृजन्यं कार्यव्यादित्याकारकम्। अक्षरात परतः परः २. श्रीमद्भगवद्गीता- स भगवान् सृष्ट्वेदं जगत् तस्य च स्थिति चिकीर्षुर्मरीच्यादीनग्रे सृष्ट्वा प्रा जापतीन् प्रत्तिलक्षणं धर्म ग्राहयामास वेदोक्तम् । ततोऽन्यांश्च सनकसन- न्दनादीनुत्पाद्य निवृत्तिधर्म ज्ञानवैराग्यलक्षणं ग्राहयामास । दिविधो हि वेदोक्तो धर्मः, प्रत्तिलक्षणो निदत्तिलक्षणश्च । तत्रैको जगतः विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्विरण्यगर्भसिद्धिरित्यर्थः लोकानेव पञ्चीलतपञ्चमहाभूतात्मक- विरा डात्मत्वेन व्युत्पादयति सप्तद्वीपोते । “सा पृथिवी अभवद्" इति श्रुतौ विरानो जन्म संकीति- तमित्यङ्गीकारादशेषद्वीपोपेता एथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावस्ततः संभवोऽनुकृप्यते, परमात्मा हि स्वाज्ञानद्वारा जगदशेष. मुत्पाद्य स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना खे महिनि तिष्ठतीत्यर्थः। अत्र च नारायण- शब्देनाभिधेयमुक्तं नरा एव नारा जीवास्त्वंपदवाच्यास्तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म । तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद्वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रंत्वाद ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते । तेनार्थाद्विषयविषयिभावः संबन्धोऽपि ध्वनितः । परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षोऽपि विवक्षितस्तेन च तत्कामस्या- धिकारो द्योतितः । परिशिष्टन तुशब्देन वस्तुनो वास्तवमद्वितीयत्वमावदितं, तेन च वस्तुद्वारा परमविषयत्वं तज्ज्ञाननिष्ठायास्तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वमित्यर्थादुक्तमित्यवधेयम् ॥१॥ ननु नैवं साध्यसाधनभृतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते ब्रह्मणाभ्यर्थितस्य भगवतो भूमिभा. रापहारार्थ वमुदेवेन देवक्यामाविर्भूतस्य तादयेंन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्म- योरिहानुद्यमानत्वादतो नास्य शास्त्रस्य निष्ठाद्वयं परापरविषयभावमनुभवितुमलमिति। तन्न, भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद्धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद्भूभारपरिहारस्य चार्थिकत्वादर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्त्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वादुचितमस्य निष्ठाद्वयविषयत्वमिति परिहरति स भगवान इत्यादिना धर्मद्वयमर्जुनायोपदिदेशेत्यन्तेन भायण । तत्र नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात्तथाविधशास्त्रान्तरवदित्या- शङ्कय मङ्गलाचरणस्योद्देश्यं दर्शयन्नादौ शास्त्रप्रणेतुराप्तत्वनिद्वारणार्थ सर्वज्ञत्वादिप्रतिज्ञापू. वकं सर्वजगजनयितृत्वमाह स भगवानिति । प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थिता, न च तस्यानाप्तत्वमीश्वरानुगृहीतानामाप्तत्वसिद्ध्या तस्थ परमाप्तत्वसिद्धरित्यर्थः । ननु भगवता सृष्टमपि चातुर्वर्णादिविशिष्टं हिरण्यगर्भादिलक्षणं जगन्न व्यवस्थितिमास्थातुं शक्यते व्यवस्थापकाभावान्न च परस्यैवेश्वरस्य व्यवस्थापकत्वं वैषम्यादिप्रसङ्गा. तत्राह तस्य चेति । सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य क्षत्रस्यापि क्षत्रत्वेन प्रसिद्ध धर्म तथाविधधर्ममधिगम्य सृष्टवानित्यर्थः । सृष्टस्य धर्मस्य साध्यत्वभावतया साधयितारमन्तरेणासंभवात्तस्यैव तदनुष्ठातृत्वानभ्युपगमात् प्राणिप्रभेदा- नामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याशङ्क्याह मरीच्यादीनिति । तेषां भगवता मृ. प्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकतानां स्वकीयत्वेन तदुपादान- मपपन्नमित्यर्थः । चैत्यवन्दनादिभ्यो विशेषार्थ धर्म विशिनष्टि वेदोक्तामति । ननु नैतावता जगद- शेषमपि व्यवस्थापीयतुं शक्यते प्रवृत्तिमार्गस्य पूर्वोक्तधर्म प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात्तत्राह ततोऽन्यांश्चति । निवृत्तिरूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह ज्ञाननि । विवेत. बैगग्यातिशये शमाद्यतिशयो गम्गते ततो विवेकादि तस्य गमकमित्यर्थः। धमें बहु- ।

भाष्योपक्रमणिका । स्थितिकारणं, प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मः ब्राह्मणायैर्वणि. भिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानो दीर्घेण कालेनानुष्ठातृणां कामोद- वाद्धीयमानविवेकविज्ञानहेतुकेनाधर्मेणाभिभूयमाने धर्म प्रवईमाने चाध जग- तः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णु मस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थ देवक्यां वसुदेवादंशेन कृष्णः किल संबभूव । ब्राह्मण- स्वस्य हि रक्षणेन रक्षितः स्यादैदिको धर्मस्तदधीनत्वाइर्णाश्रमभेदानाम् । स च भगवान् ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः सदा संपन्नस्त्रिगुणात्मि- विदां विवाददर्शनाज्जगतः *स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्कयाह द्विविधा होति । अतिप्रसङ्गाप्रसङ्गव्यारत्तये प्रकृतं धर्म लक्षयति प्राणिनामिति । प्रवृत्तिलक्षणो धर्मोऽभ्यु. दयार्थिनां साक्षादभ्युदय हेतुः निःश्रेयमार्थिनां परमरया निःश्रेय महेतुः, निवृत्ति लक्षणस्तु धर्मः सा- क्षादेव निःश्रेयसहेतुरिति विभागः । ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतृत्वं, ज्ञानातिरिक्तव्यवधानाभावाञ्च साक्षादित्य तम् । यद्येवं धर्मों लक्ष्यते तर्हि वर्णित्वमाश्रमित्वं चौपेक्ष्य सर्वेरेव पुरुषार्थार्थिभिट्ठावपि धर्मों यथायोग्यमनुष्ठेयावित्यनुष्ठातृनियमासिद्धिरित्याशझ्याह ब्राम- णायैरिति । अधित्वाविशेषेऽपि श्रुतिस्मृतिप-लोचनयानुष्ठानात् नियमसिन्दिरित्यर्थः ।..नित्य- नैमित्तिकषु यावज्जीवमनुष्ठानं काम्येषु करणांशे रागाधीना प्रवृत्तिरितिकर्तव्यतांशे वैधीति वि. भागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह दीर्घेणेति । अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितसिडेभंगवतो नारायणस्यादिकर्तुरनेकानर्थकलुषितशरीरपरिग्रहासंभवादन्यस्यैव कस्य चिदनाप्तस्य वैपम्यनैप॒ण्यवतो निग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्याप्तप्रणीतत्वं तत्राह अनुष्ठातृणामिति। अथवा यथोक्तशङ्कायां दीर्वेणत्यारभ्योत्तरम् । महता कालेन कृतत्रेता- त्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याहर्माभिभवादधर्माभिवृद्वेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवानेतदर्थेन चाता- दिसंरक्षणार्थ लीलामयं मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं नग्राहेत्यर्थः । 'भौमस्य ब्रह्मणो गुप्त्यै वमु- देवादजीनत्' इति स्मृतिमनुसृत्य पदद्वयमनू द्य व्याचष्टे भौमस्येति, अंशनेति । स्वेच्छानिर्मितेन. मायामयेन स्वरूपणेत्यर्थः । किलेत्यस्मिन्नर्थे पौराणिकी प्रमिहिरनू द्यते न हि भगवतो व्यतिरिक्त स्येदं जन्मेति युध्यते बहुविधागमविरोधादिति भावः । ननु वैदिकधर्ममंरक्षणार्थ भगवतो जन्म, यदा यदा हि धर्मस्येत्यादिदर्शनात् किमिदं ब्राह्मणत्वस्य रक्षणार्थीमाते तत्राह ब्राह्मणवस्य होति । अथ.पि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षगमित्याशङ्क्याह तदधीनत्वा- दिति । ब्राह्मणं हि पुरोधाय 'क्षत्रादिः प्रतिष्ठा प्रतिपद्यते याजनाध्यापन योस्तहर्मत्वात्तद्वारा च बर्णाश्रमभेदव्यवस्थापनादतो. ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः । नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्चे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसंक्तिरित्याश. हुच ज्ञानादिकृतं विशेषमाह स चेति । ज्ञानं ज्ञप्तिरर्थपरिच्छित्तिः, ऐश्वर्य्यमीश्वरत्वं स्वातन्यं, शनि- स्तदर्थानवर्तनसामर्थ्य, बलं सहायमंपत्तिः, वीर्य पराक्रमवत्वं, तेनस्तु प्रागल्भ्यमधृष्यत्वम् , एते च षड्गुणाः सर्वविषयाः सर्वदा भगवति वर्त्तन्ते तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमि- त्यर्थः । अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य स्वभावविपतिं जन्मादि संभवति, नहि भूतानामीशिता स्वतन्त्रः स्वात्मनोऽनर्थ स्वयमेव संपादयितुमर्हति न चास्य देहादि. म्यम्ने स्थिरी ।।

४ श्रीमद्भगवद्गीता- कां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्याजोऽव्ययो भूतानामीश्वरो नि- त्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवान् इव जात इव लोकानुग्रह कुर्वन् लक्ष्यते, स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं हि धर्मइयमर्जु- नाय शोकमोहमहोदधौ निमनायोपदिदेश गुणाधिकैहि गृहीतोऽनुष्ठीयमानव धर्मः प्रचयं गमिष्यतीति । तं धर्म भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध । तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणाया- ग्रहे किमपि फलमुपलभ्यते तत्राह त्रिगुणात्मिकामिति । सिसृक्षितदेहादिगतवैरूप्यसिहयमि- दं विशेषणं तस्याव्यापकत्वं वक्तुं वैष्णवीमित्युक्तम् । ईश्वरपारवश्यं तस्या दर्शयति स्वामिति । तस्याश्च प्रतिभासमात्रशरीरत्वमेव न तु वस्तुत्वमित्याह मायामिति । तस्या नानाविधकाऱ्यांकारे- ण परिणामित्वं सूचयति मूलप्रकृतिामति । ईश्वरस्य प्रकृत्यधीनत्वं वारयति वशीकृत्येति । नित्यत्वं कार्याकारविरहितत्वं, शुद्धत्वमकारणत्वं, बुद्दत्वमजडत्वं, मुक्तत्वम् अविद्याकामकर्मपारत- व्यराहित्यम् । नच नित्यत्वादयः संसारावस्थायाममन्तो मोक्षावस्थायां संभवन्तीति युक्तमित्याह खभावइति । देहग्रहे प्राधान्यं मायाया दर्शयितं पुनः स्वमाययेत्युक्तम् । “ स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः" इति श्रुतिमाश्रित्याह देहवानिति । इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते धर्मद्वयोपदेशद्वारा प्राणिवर्गस्याभ्युदयनिःश्रेयसतत्परत्वापादनं लोकानु. ग्रहः, यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते तथापि यथोक्तमाया- शक्तया देहादि गृहीत्वा प्राणिनामनग्रहमादधानो न स्वभावविपर्ययं पर्यतीत्यर्थः । ननु ' प्रयो- जनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते' इति न्यायादीश्वरस्याप्तकामतया कृतकृत्यस्य प्रयोजनाभावादन. ग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वयमुपदेष्टमुचितमिाते तत्राह सप्रयोजनेति । कल्पितभेदभाजि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्ती- त्याप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः । अर्जुनस्योपदेशापेक्षास्तीति दर्शयितुं विशिनष्टि शोके- ति । ननु भूतानुग्रहे कर्त्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते तत्राह गुणाधिकरिति । प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्नुनायोपदिदेशेति संवन्धः । अथ तथापि सुगतोपदिष्टधर्मवद- यमपि भगवदुपदिष्टो धर्मों न प्रामाणिकोपादेयतामृपगच्छेदित्याशक्य वेदोक्तत्वान्नास्य तत्तुल्य- त्वमित्युक्तमित्यभिप्रेत्य शिष्टपरिगृहीतत्त्वाच्च मैवमित्याह तं धर्ममिाते । अधर्म धर्मबुद्विवेदव्या- सस्य जातेत्याशङ्ख्याह सर्वज्ञ इति । 'कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्' इति स्मतेः सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह भगवादिति । गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्ययत्वमुपपादिमुपसंहरति तदिद मिति । पौरु- पेयस्य वचसो मूलप्रमाणाभावेनाप्रामाण्यामिति मत्वा विशिनष्टि समस्तति । शास्त्राक्षरैरेव तदर्थ- प्रतिपत्तिसंभवे किमिति व्याख्यानमित्याशङ्क्याह दुर्विज्ञयार्थमिति । ‘पदच्छंदः पदार्थोक्तिर्विग्रहो याकययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम्।। * इत्यादिक्रमेणास्य शास्त्रस्य पूर्वा- चार्य्याख्यातत्वात् किमर्थमिदमारभ्यते गतार्थत्वात्तत्राह तदर्थेति । गीताशास्त्रार्थस्य प्रकटीक- आक्षेनोऽथ समाधानं व्याख्यानं घडविधं स्मतम् । एवमपि क्वचित्पठ्यते ।

। भाष्योपक्रमणिका । नेकैर्विवतपदार्थवाक्यार्थन्यायमप्यत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमु- पलभ्याहं विवेकतोऽर्थनिर्धारणार्थ संक्षेपतो विवरणं करिष्यामि । तस्यास्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसा- रस्यात्यन्तोपरमलक्षणं तच्च *सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपाद्धर्माद्भव- ति । तथेममेव गीतार्थधर्ममुद्दिश्य भगवतैवोक्तम्-‘स हि धर्मः सुपर्याप्तो ब- ह्मणः पदवेदनः ' इत्यनुगीतासु । किञ्चान्यदपि तवैवोक्तम्-'नैव धर्मां न चाधर्मी न चैव हि शुभाशुभी ॥ यः स्यादेकासने लीनस्तूष्णीं किं चिदचि- रणार्थ पदविभागस्तदर्थोक्तिः समासद्वारा वाक्यार्थनिर्देशस्तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो रतिकारैर्दर्शितस्तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशुन्यैः समुच्चयवादिभिर्विरुद्वार्थत्वेनाने- कार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोडुमिदमारब्धव्यमित्यर्थः । येषां प्राचीने व्याख्याने बुद्धि- रप्रविष्टा तेषां संप्रतितन एतस्मिन्नसौ प्रवक्ष्यतीति कुतो नियमस्तवाह विवेक इति । पूर्वव्या- ख्याने तत्तदर्थनिर्झरणार्थोपन्यासः संकीर्णवद्भातीति न तत्र केषां चिन्मनीषा समुन्मिपति प्रकृते त्वसंप्रकीर्णतया तत्तत्पदार्थनिर्णयोपयोगिन्यायो विवियते तेनात्र मन्दमध्यमयोरपि बुद्धिरवतरती- त्यर्थः । किंचानपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतृणां प्रवृत्तिरत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाह संक्षेपत इति । नन्वनाप्तप्रणीतत्वाद्यभावेऽपि नेदं शास्त्रं व्याख्येयं विषयाद्यxनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावादित्याशङ्कय सर्वव्यापाराणां प्रयोजनार्थत्वादादी प्रयोजनमाह तस्येति । प्रसाधित- प्रामाण्यस्य व्याख्येयत्वन मनसि संनिहितस्य गीताशास्त्रस्य संक्षेपतः संग्रहः संपिण्डितत्वमेकवाक्यत्वं तेनेदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम्, अवान्तर फलं तु तत्रतत्रावान्तरवाक्यभेदेन मनो- निग्रहादि विवक्ष्यते निःश्रेयमं च द्विविधं निरतिशयसुखा विर्भावो निःशेपानर्थोच्छित्तिश्च । तत्राद्यमुदा- हरति परमिति । द्वितीयं दर्शयति सहेतुकस्यति । संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य. पुनरुत्पत्त्ययोग्यत्वं तच्च स्वापमूर्च्छीदिव्यवच्छेदार्थ विशेषणं तदेव साधयितुं सहेतुकस्येत्युक्तम् । उक्तं फलं समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्कयाभिधेयम- भिधित्समानः समाधत्ते तच्चेति । आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठात्रोच्यते प्राधान्येन त्वात्मज्ञान- निष्ठैवात्र प्रतिपाद्यत इत्यर्थः । ननु शेषिणी निष्ठा कुतो न भवति संन्यासात् कर्मनिष्ठायाः शेपत्वात्तत्राह सर्वेति । संन्यासद्वारेणासकदनुष्ठित श्रवणादेः शेषिणी निष्ठा सिद्दयति शेषत्वं च कर्म- णस्तत्र परस्पराश्रयत्वमित्यर्थः । ननु 'यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तद्' इति वाक्यशेषात समुश्चितमात्मज्ञानमत्र प्रतिपाद्यते नत्याह तथेति । सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्म निःश्रेयससाधनं प्रयोजनं प्रागुक्तं परामृशति इममवति । वक्तृभेदादभिप्रायभेदाशङ्का • वारयति भगवतैवेति । उक्तमनुगीतास्विति संवन्धः, ब्रह्मणः पदं पूर्वोक्तं निःश्रेयसं तस्य वेदनं लाभस्तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थों भवतीत्यर्थः । यज्ञदानादिवाक्यस्य तु तद्व्याख्यानावसरे तात्पर्य वक्ष्यते । कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति तत्रैवेति । धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह नैवेति । क्रियायसंबन्धाभावात्तन्निरच्या+ पूर्वाभ्याससंबन्धे. प्राप्तमर्थमाह यः स्यादिति । वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्युच्यते, किं चिदचिन्तय- * यच्च इति पाठान्तरम् । x आदिपदेन प्रयोजनाधिकारिसंवन्धा गृह्यन्ते । + तन्निर्वृत्त्या-मु. पु० पाठः । .

६ श्रीमद्भगवद्गीता- न्तयन्' 'ज्ञानं संन्यासलक्षणम्' इति च । इहापि चान्ते उक्तमर्जुना- य--' सर्वधर्मान् परित्यज्य मामेकं शरणं ब्रज' इति । अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णाश्रमांश्चोद्दिश्य विहितः स च देवादिस्थानप्राप्तिहेतुरपि सन् ईश्वरार्पणबुद्ध्यानुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः, शुद्धस- त्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिहारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसन्धाय वक्ष्यति-'ब्रह्मण्याधाय कर्माणि यतचित्ता जितेन्द्रियाः । योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मशुद्धये ॥' इमं हिप्रकारं धर्म निःश्रेयसप्रयोजनं परमार्थतत्त्वं च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतोऽभि- व्यञ्जयद् विशिष्टप्रयोजनसंबन्धाभिधेयवद्गीताशास्त्रं यतस्तदर्थविज्ञानेन समस्त- पुरुषार्थसिद्धि तस्तहिवरणे यत्नः क्रियते मया । नित्यन्तःकरणव्यापाराभावोऽभिप्रेतः, द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी केव- लमेकस्मिन्नहितीये ब्रह्मण्यासनमवस्थानं तत्र लीनस्तस्मिन्नेव समाप्तिभागी स्यात्तस्यामंप्रज्ञातसमा- धिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः । न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्त कि तु प्रकृतेऽपि शास्त्रे समाप्तयवसरे दर्शितमित्याह इहापीति। नन्वत्र नित्तिलक्षणधर्मात्मक ससंन्यासमात्मज्ञानमेव न प्रतिपाद्यते — कुरु कर्मैव तस्मात्वम् ' इत्यादी प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वाहमयोश्च प्रकृतत्वाविशेषात्तत्राह अभ्युदयार्थोऽपीति । ननु वर्णिभिराश्रामिभिश्चान- प्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकार विधानं देवादिस्थानप्राप्तिहेतृत्वेन. मोक्षं प्रति प्रतिपक्षत्वात, सत्यं, तथापि फलाभिलाषमन्तरेणेश्वरार्पणधिया कृतम्य बुद्धिशुद्धिहेतुत्वा- सस्येह वचन*मित्याह स च देवादीति । फलाभिसन्धिद्वारा कृतः मन्निति शेषः । मवृत्तिलक्षणधर्म- स्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्कयाह शुद्धे ति । प्रतिपाद्यते प्रागुक्तो धर्म इति शेषः । यदुक्तं फलाभिमन्धिवर्जितमीश्वरार्पणबुड्यानुष्ठितं कर्म बुद्धिशुद्धये भवतीति तत्र वाक्यशेषमनुकुलयति तथा चेति । शास्त्रस्य प्रयोजनं ससाधनमुक्तमनुद्य विषयं दर्शयति इममिति । दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा माध्यमाधनभाव: संबन्यो विषयेण विषयविषयित्वमिति विवक्षित्वाह विशंपत इति । एवमनुवन्वत्रयविशिष्टं शास्त्रं व्याख्यानाहमित्युपसंहरति विशिष्टेति । सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वः फलितमाह यत इति । । * कथनम्-इति कुत्र चित् ।

परमार्थप्रपाख्यटीकोपक्रमणिका । श्रीविश्वनाथो जयति । संविदानन्दसंदोहसान्द्रमिन्दीवरेक्षणम् ॥ इन्दिरामन्दिरं देवं वन्दे तं नन्दनन्दनम् ॥ १ ॥ अज्ञः सुज्ञत्वसीमामनुभवति भवान्नति रङ्कोऽपि शङ्का स्यान्मूको वावदूको वनति शिखरिणां पङ्गुरुल्लङ्ग्य सङ्घम् ।। दुःखाब्धेनोपलब्धिः स खलु विनयते यत्कृपापाङ्गसङ्गा- .दन्तर्यामी समीपे मम परमगुरुः श्रीयशोदाकिशोरः ॥ २ ॥ अम्भोधि कुम्भडिम्भश्चुलकितमकरोन्मूर्ध्नि धत्तेऽतिगुर्वी- मुर्वी दर्वीकरोऽपि प्रदहति दहनो वीते प्रावृषेण्यः ।। मेघौघो वाति वातः प्रतपति तपनो रत्नसूर्भुमिरेभि- र्लोकातीतोऽभिनीतो यदुकुलतिलकानुग्रहो निग्रहो ना ॥ ३ ॥ वाष्र्णेयब्रह्मशैलानुशतपथगा ज्ञानविज्ञानकूला पार्थस्य प्रार्थनातश्चिरममृतवहा प्रत्यगानन्दसिन्धुम् ॥ संप्राप्तार्थप्रवाहप्रपतितवितताश्वत्थमुन्मूलयन्ती गीता स्फीता निमतुः सकलकलिमलं स्वर्धनीयं धुनीते ॥ ४ ॥ निश्वासो वैश्वरूपो निगम इति जने दुर्गमो भूत्ततोऽसा- वाविर्भूता विभूतिर्नगदुपतये भारती भारताने ॥ सेयं गीताभिनीता स्वयमुपनिषदामर्थमोदाय हार्द सौहार्द केवलं नः प्रियविषयमदः किं तु विष्वग्जनस्य ॥ ५ ॥ आचार्याः सन्ति कुत्राप्यतिविमलधियो वेदशास्त्रागमानां दुष्प्रापस्तावदास्ते त्रिजगति नितरामात्मतत्त्वोपदेष्टा ।। एवं सत्यर्जुनस्याद्भुतविकलवतो वर्ण्यते किन्तु भाग्यं यस्याचार्यस्य हेतोः स्वयमुपनिषदामर्थ आविर्वभूव ॥ ६ ॥ चतुर्वेदाचार्याधिगतभगवद्भावभवनं निदानं विश्रान्तेर्यदनुमतमृक्मामयजुषाम् ॥ . अहं गीताभाप्यं तदिह रचय सूर्यविधिविद्यतोऽल्पज्ञप्रज्ञानुभवरसिकानन्दजननम्।।७।। साक्षाद्वैकुण्ठवाचो निजमजनवतां मुक्तिहेतोः प्रवृत्ताः सर्वानायाश्च गीताः ससतमथ मिथो या वियुक्ता बभूवुः ॥ ता एकत्रानुयोक्तुं सुरसरित इवान्तर्नियुक्तो विनेत्रा देवेनान्तः प्रवृत्तोस्म्यहमिह भविता तावताहं कृतार्थः ॥ ८ ॥ एतस्मिन् भगवच्छास्त्रे न यौक्तिक मताग्रहः ॥ सर्वोपनिषदध्यात्ममेतदात्मानुभूतिहत् ॥ ९ ॥ इह खलु सदनुग्रहखलनिग्रहगृहीतविग्रहः परमकारुणिकः परमात्मा दावदहनदन्दशूक शिलावर्षणवस्त्रहरणलाक्षागृहगरदानाद्यनर्थेभ्यः स्वचरणशरणानुद्दधार । ततो दनुजकुलभराकुलमव- नीतलमाकलय्य प्रथमतः पूतनादीनसुरान्निरवधीनवधीत् । अनन्तरं कंसचाणरकालयवनजरासन्धादी- श्च । संप्रत्यर्जुनं निमित्तमात्रं कृत्वा कुरुक्षेत्रे क्रूरतमं कौरवकुलं संनिहीपुरास्ते । तत्र श्रुतयः- जज्ञान एव व्यवाधत स्टधः प्रापश्यद्वीरो अभिपोस्यं रणम् ॥ अवृश्चिदद्रिमव सस्यदः सृजदस्तना- नाकं स्वपस्यया पृथुम्. ॥ अत्र चर्तुवदस्वामितभाप्यम्- यः परमेश्वरो जज्ञानः प्रादुर्भूतमात्री मायया बालदशां स्वीकुर्वाणोपि सन स्पृधः स्पर्धा कतवतः शत्रून् पूतनादीन् कंसान्तान व्यबाधत बाधि- ८. श्रीमद्भगवद्गीता- तवान् । न केवलं दैत्यानपि तु शक्रादीनां गर्वमपीत्याह । योऽद्रि पर्वतं गोवर्धनमवृश्चिदुधार । किमुदिश्य। सस्यदो धान्यदातृन्मेघाननवरतं वर्षमाणानवसृजत् विसर्जितवान् । तेन पृथु सामर्थ्यवन्तं. माकमिन्द्रलोकं स्वपस्यया मायया अस्तनात् स्तम्भितवान् स्तम्भितशक्ति मकरोत् । अथ यौवनदशा यामप्यभिपौंस्यं सर्वपुरुषार्थसाधकं रणं कुरुपाण्डवसंग्रामं वीरोऽपि सन्नपश्यत् ताटस्थ्येन दृष्टवान्न तु खयं युयुधे । अत्र वीरपदेन भीष्मपराभूतस्वभक्तपक्षपातादशस्त्रोपि * शस्त्रमग्रहीदिति सूचितम् । अथ कंसादिवधार्थ गोकुलान्मथुरामागच्छतोः कृष्णरामयोश्चरितशंसनी श्रुतिस्तैत्तिरीयकब्राह्मणे । ऋग्वयम्-" द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुपधापयेते॥ हरिरन्यस्यां भवति स्वधावान्छुको अन्यस्यां ददृशे सुवर्चाः ॥ १ ॥ पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परियातो अध्वरम् ।। विश्वान्यन्यो भुवनानि चष्ट ऋतून्यन्यो विदधज्जायते पुनः ॥ २ ॥" भाष्यम्- धनुर्यागोत्सवव्या- जेन कृष्णरामयोरानयनार्थ कंसेन प्रेषितः सुष्ठ वक़ यस्यासौ सुवर्चा अकरश्चरतो विचरतो हे विसदृशे रूपे विरूपे ददृशे दृष्टवान् । किंभूते स्वर्थे सुष्टु अर्थः प्रयोजनं ययोस्ते । न हि नृसिंहवदे- कस्यां मूर्ती किं तु अन्या अन्या पृथगवस्थिते । पुनः किंमते वत्सम् उपधापयते वत्समिति जात्यभिप्रा- येणैकवचनं तेन गोसंदोहनावसरे स्वसमीपे वर्तमानैर्गोः कृत्वा वत्सान् धापयेते पाययेते । अथ विसदृशरूपत्वमेवाह हरिरिति । अन्यस्यामन्यतमस्यां मूर्ती हरिद्वर्णत्वाद्वरिः मेघश्यामः कृष्णोऽस्ति तथा अन्यस्यां शुक्रो गौरवर्णों वलदेवोऽस्ति । किंभूता हरिः स्वभावान् स्वस्य भा स्वभा तद्वान् अ- लुप्तनिजैश्वर्यवानित्यर्थः । किंभूते रूपे पूर्वापरं चरतः प्रागपरं परिसरणं कुरुतः। परं तु न प्राकृतावित्याह । एतौ कृष्णरामौ मायया कृत्वा शिशू बाल्यदशां प्राप्तौ परमार्थतो विचार्यमाणे वयोऽवस्थारहिती एवं माययैव रजकवधादिभिः क्रीडन्तौ सन्तौ अध्वरं धनुर्यागस्थानं प्रति परिपततः समन्ततः कुवलयापीड. कंसचाणूरादिस्थानानि यातः जग्मतुः । अथ पूर्व विरूप इत्यनेनाकारतो विमहशत्वं द्यातितमिदानी सामर्थ्यतोऽप्याह अन्य इति । अन्यः कृष्णः विश्वानि सर्वाणि भुवनानि भूर्भुवःस्वरादीनि विचष्टे मं. कल्पेनैव ज्ञातवान् तथान्यो वलदेवः ऋतून् गर्भान्मत्स्याद्यवतारान् विदधगृह्णन् सन् पुनः पुनर्जायते आविर्भवतीति । एवमुभयसेनासंनाहसंनिवशे आचार्यगोत्रिसुहृयाशङ्कया कुलक्षयकृतं दोपम् ' तथा 'आचार्यान्मातुलान् भ्रातॄन् ' इत्यादिवाक्यनिर्विष्णं तथा नित्यानित्यवस्तुविवेकेनैव स्वचरणशरणं तथा 'अपि त्रैलोक्यराज्यस्य' इत्यादिनेहामुत्रार्थफलभोगविरागवन्तं तथा 'शिप्यस्तेऽहं शाधिमाम्' इति गु. रुदैवतवाक्यविश्वासेनैव मुमुक्षाजुपमर्जुनं प्रति वर्णधर्मोचितकोपदेशावमरे 'न काङ्क्ष विनयं कृष्ण इति तथा ' एतान्नं हन्तुमिच्छामि नतोपि' इति ' श्रेयो भोक्तुं भक्ष्यमपि' इत्यादिपार्थवाक्य श्रव- णात्तमुत्पन्नवैराग्यतया ज्ञानाधिकारिणमवेक्ष्य स्वरूपमप्युपादिष्टवान् तत्र द्वयाहप्राजापत्यादिवृहदा- रण्यकोपक्रान्तदैवासुरप्रज्ञानानुसारं व्यासदेवोपिधृतराष्ट्रसंनययोः प्रश्नोत्तरपूर्वकं गीताशास्त्रोपक्रममप्य कार्षीत् । धर्मक्षेत्रासादितः॥अत्र पूर्वप्रसंगस्तु युद्धोपक्रमे कृष्णार्जुनसंवादावसरे व्यासानुग्रहलब्धदि- व्यश्रवणप्रज्ञोत्कर्पः संजयः साक्षात्कृष्णमुखोद्रतानि पद्यानि+ शृण्वन् हदि संगृहीतसकलवाव्यसंदर्भः कान चित्कार्येण हास्तिनपुरं प्रत्यागतस्तं धृतराष्ट्रः पृच्छति स्म । तदुक्तं भीमपवाणे-'अथ गावल्गणि- धीमान संगरादेत्य संजयः ॥ प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यतः।।ध्यायते धृतराष्ट्राय समुपेत्यैवम- ब्रवीद्' इति । * शस्त्राग्रह गप्रतिज्ञोपि, स्वभक्तपक्षपातेन शस्त्रं गृहीतवानित्याशयः । + गीतायां न सर्वाणि पद्यानि कृष्णोक्तानीति दुगशयानां खण्डनायाह साक्षात्कृष्णमुखोद्गतानीति। .

प्रथमाध्यायः । अथ प्रथमोऽध्यायः। धृतराष्ट्र उवाच ।. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ॥ मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥ शांकर भाष्यम् । अत्र च धृतराष्ट्र उवाच धर्मक्षेत्र इत्यादि । आनन्दागिरिकृतटीका। एवं गीताशास्त्रस्य साध्यसाधनभूतनिष्ठाहयविषयस्य परापराभिधेयप्रयोननवतो व्याख्येयत्वं प्रतिपाद्य व्याख्यातुकामः शास्त्रं तदेकदेशस्य प्रथमाध्यायस्य द्वितीयाध्यायैकदेशसहितस्य xतात्पर्यमाह अत्रचेति गीताशास्त्रे प्रथमाध्याये प्रथमश्लोके कथासंबन्धप्रदर्शनपरे स्थिते सतीति यावत्। तत्रैवमक्षरयोजना। धृतराष्ट्र उवाचेति । धृतराष्ट्रो हि प्रज्ञाचक्षुर्बाह्यचक्षुरभावाबाह्यमर्थ प्र- त्यक्षयितुमनीशः सन्नभ्याशवर्तिन सज्जयमात्मनो हितोपदेष्टारं पृच्छति धर्मक्षेत्रइति । धर्मस्य तद्बुद्धेश्च क्षेत्रमभिष्टद्विकारणं यदुच्यते कुरुक्षेत्रमिति तत्र समवेताः संगता युयुत्सवो योझुकामास्ते च के चिन्मदीया दुर्योधनप्रभृतयः पाण्डवाश्चापरे युधिष्ठिरादयस्ते च सर्वे युद्धभूमौ संगता भूत्वा किमकुर्वत कृतवन्तः ॥ १ ॥ परमार्थप्रपाख्या टीका। धर्मक्षेत्रे तत्र त्यक्तजीवितानां सद्रतिप्रदे कुरुक्षेत्रे युयुत्सवो योडुमिच्छन्तः समवेता मि- लिता मामका मत्पुत्राः पाण्डवाश्च किमकुर्वत किं कृतवन्तस्तदाचवेति पृष्टः ॥ १ ॥ सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ॥ आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥२॥ आ० टी०। किमस्मदीयं प्रवलं बलं प्रतिलभ्य धीरपुरुषैर्भीमादिभिरधिष्ठितं परेषां भयमावि. रभूत, यद्वा पक्षद्वयहिंसानिमित्ताधर्मभयमासीद् येन एते युद्धादुपरमेरन्नित्येवं पुत्रपरवशस्य पुत्र स्नेहाभिनिविष्टस्य धृतराष्ट्रस्य प्रश्ने सञ्जयस्य प्रतिवचनं दृष्ट्वेत्यादि । पाण्डवानां भयप्रसंगो नास्तीत्येतत्तुशब्देन द्योत्यते प्रत्युत दुर्योधनस्यैव राज्ञो भयं प्रभूतं प्रादुर्बभूव । पाण्डवानां पाण्डुसुता- नां युधिष्ठिरादीनामनीकं सैन्यं धृष्टद्युम्नादिभिरतिधृष्टव्यहाधिष्ठितं दृष्ट्वा प्रत्यक्षेण प्रतीत्य त्रस्तहद- यो दुर्योधनो राजा तदा तस्यां संग्रामोद्योगावस्थायामाचार्य द्रोणनामानमात्मनः शिक्षितारं रक्षितारं च श्लाघयन्नुपसंगम्य तदीयं समीपं विनयेन प्राप्य भयोद्विग्नहृदयत्वेऽपि तेजस्वित्वादेव वचनमर्थसहितं वाक्यमुक्तवानित्यर्थः ॥ २ ॥ ५० टी० । राजा दुर्योधनः पाण्डवानीकं तत्सैन्यं व्यूढं व्यूहरचनया स्थितं दृष्ट्वाचार्य द्रोण- मुपसंगम्य वचनमब्रवीत् ॥ २ ॥ x अशोच्यानन्वशोचस्त्वमिति द्वितीयाध्यायस्य ११ श्लोकपर्यन्तस्येत्यर्थः ।

श्रीमद्भगवद्गीता- पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ॥ व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥ आ० टी० । तदेव वचनमुदाहरति पश्यति । एतामस्मदभ्याशे महापुरुपानपि भवत्प्रमुग्वान. परिगणय्य भयलेशशून्यामवस्थितां चमृमिमां सेनां पाण्डुपुत्रैयुधिष्ठिरादिभिरानीतां महतीमनेकाक्षी. हिणीमहितामक्षोभ्यां पश्येत्याचार्य दुर्योधनो नियुङ्क्ते, नियोगद्वारा च तस्मिन् परेषामवज्ञा विज्ञापयन् क्रोधातिरेकमुत्पादयितुमुत्महते । परकीयसेनाया वैशिष्टयाभिधानहारा परापरपक्षेऽपि त्वदीयमेव बलमिति सूचयन्नाचार्यस्य तन्निरसनं सुकरमिति मन्वानः सन्नाह व्यूढामिति। राज्ञो द्रुपदस्य पुत्रस्तव शिप्यो धृष्टद्युम्नो लोक ख्यातिमुपगतः स्वयं च शस्त्रास्त्रविद्यामंपन्नो महाम- हिमा तेन व्यूहमापाद्याधिष्ठितामिमां चमू किमिति न प्रतिपद्यसे किमिति वा मृश्यमीत्यर्थः ॥ ३ ॥ 'प० टी० । आचार्य महतीं पर्याप्तबलां पाण्डुपुत्राणां चमू सेनां पश्य न केवलं सैन्यवाहु- ल्यमुपयुज्यतइत्याह व्यढामिति । द्रुपदपुत्रेण धृष्टद्युम्नेन धीमता संनिवेशचतुरेण तत्रापि तव शिष्येण व्यूहरचनया संनिविष्टाम् ॥ ३ ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ आ० टी० । अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहनः मन्तीत्यनुप्रेक्षणीयत्वं परपक्षस्य विवक्षय. नाह अति । अस्यां हि प्रतिपक्षभूतायां सेनायां शूगः स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुना. भ्यां सर्वसंप्रतिपन्नवीर्याभ्यां तुल्या युद्धभूमावुगलभ्यन्ते । तेषां युद्धशौण्डीरं विशदीकर्तुं विशिनष्टि महवासा इति । इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यत तञ्च महदन्यैरप्रधृष्यं तद्येषां ते रानानस्तथा विवक्षन्ते। तानेव परसेनामध्यमध्यासीनान् परपक्षानुगगिणो राज्ञो विज्ञापयति युयुधान इत्यादिना सौभद्रा द्रौपदेयाश्चेत्यन्तेन ।। ४ ।। प० टी० । अत्रास्यां चम्बां शूगः पराक्रमवन्तः महेप्वामाः महान्त इपवो बाणा अस्यन्ते क्षिप्यन्ते. यैस्ते तथाविधाः मन्तो युधि मंग्रामे भीमार्जुनसमास्तत्महशबलाः मन्ति । अथ तानेवाह ययवान इति । युयुधानः सात्यकिः विराटस्तथा दुपदो द्रौपदीपिता ॥ ४ ॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५॥ आ० टी० । किं च धृष्टकेतुरिति । स्पष्टम् ।। ५ ॥ प० टी०। चेकितानो राजा कश्चित् स नरपुङवो नर श्रेष्ठः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥ सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥६॥ आ० टी० । तेषां सर्वेपामपि महावलपराक्रमभाक्तादनुपेक्ष्यत्वं पुनर्विवक्षात सर्व एवेति॥६॥ प. टी . विकान्तः पराक्रमी युधामन्युनामकः चपरमुत्तमौजा वीर्यवानेतावर्जुनस्य चकर- अकौ । उक्तंच भीष्मपर्वणि-' पृष्ठगो योर्जुनस्यापि युयुधानो महारथः।।चक्ररक्षौ च पाझाल्यो युधाम- ।

प्रथमाध्यायः । ११ - न्यूत्तमौजसौ ॥' सौभद्रोऽभिमन्युः द्रौपदेयाः द्रौपद्यां पञ्चभिर्जाताः पञ्च पुत्राः प्रतिविन्-यादयः एवमुक्ताः सर्वे महारथाः । उक्तं च-एको दशमहस्त्राणि योधयेद्यस्तु धन्विनाम् ॥ शस्त्रशास्त्रप्रवी- जश्च स महारथ उच्यते ॥ अमितान्योधयेद्यस्तु स प्रोक्तातिरथाभिधः ।। एकस्त्वकेन. यो योडा स. चारय उच्यते ॥' इति ॥ ६ ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।। नायका मम सैन्यस्य संज्ञार्थ तान् ब्रवीमि ते ॥७॥ आ० टी० । यद्येवं परकीयं बलमतिप्रभृतं प्रतीत्यातिभीतवदभिदधासि हन्त सन्धिरेव परै- रिप्यतामलं विग्रहाग्रहेणेत्याचार्याभिप्रायमाशय ब्रवीति अस्माकमिति । तुशब्देनान्तरुत्पन्नमपि स्वकीयं भयं तिरोदधानो धृष्टतामात्मनो द्योतयति । ये खल्वस्मत्पक्षे व्यवस्थिताः सर्वेभ्यः समुत्क- पपस्तान्मयोच्यमानान्निबोध निश्चयेन महचनादवधारयेत्यर्थः । यद्यपि त्वमेव त्रैवर्णिकेषु वैविद्यरद्धेषु प्रधानत्वात् प्रतिपत्तुं प्रभवसि तथापि मदीयसैन्यस्य ये मुख्यास्तानहं ते तुभ्यं संज्ञार्थमसंख्येषु तेषु मध्ये कति चिन्नामभिर्गृहीत्वा परिशिष्टानुपलक्षयितुं विज्ञापनं करोमि न त्वज्ञातं किं चित्तव ज्ञापयामीति मत्वाह द्विजोत्तमेति ।। ७ ।। प० टी० । अथ स्वकीयां सेनामाह अस्माकमिति । अस्माकं सैन्ये ये विशिष्टा विव- क्षिताः सन्ति तान्निबोध बुध्यस्व । मम सैन्यस्य नायका नियन्तारः ॥ ७ ॥ भवान् भीष्मश्च कर्णश्च कृपश्च समितिजयः ।। अश्वत्थामा विकर्णश्च *सौमदत्तिस्तथैव च ॥८॥ आ० टी. । तानेव स्वमेनानिविष्टान पुरुषधौरेयानात्मीयभयपरिहारार्थ परिगणयति भवा- दिसादिना ॥८॥ प० टी० । तानाह भवानिति । भवान्द्रोणो भीष्मः कृपः कृपाचार्यः समिति संग्राम नयतीति तथा सौमदत्तिः सामदत्तस्य पुत्रो भारश्रवाः ॥ ८ ॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥ नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥ आ० टी० । द्रोणादिपरिगणनस्य परिशिष्टपरिसंख्यार्थत्वं व्यावर्त्तयति अन्ये चेति ।.सः र्वेऽपि भवन्तमारभ्य मदीयपृतनायां प्रविष्टाः स्वीवितादपि मह्यं स्पृहयन्तीत्याह पदर्थइति । यत्तु तेषां शस्त्वमुक्तं तदिदानी विशदयति नानांत । नानाविधान्यनेकप्रकाराणि शस्त्राण्यायुधानि प्रह- रणानि प्रहरणसाधनानि येतां ते तथा । बहुविधायुधसंपत्तावपि तत्प्रयोग नैपुण्याभावे तद्वैफ- ल्यमिति चेन्नेत्याह सर्वइति ॥ ९ ॥ ५० टी० । अन्य एतदतिरिक्ता बहवः शूराः सन्ति मदर्थे मत्प्रयोजनाय त्यक्तनीविताः सं. कल्पितप्राणाः नानाशस्त्रैः प्रहरन्ति युद्धयन्ति ते तथा अत एव विशारदाः ॥९॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम ॥ पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ * सौमदतिर्जयद्रथ:-मिन्धुगजो जयद्रथः----इति वा कुत्रचित्पाठः ।

-
१२
श्रीमद्भगवद्गीता-
आ० टी० । राजा पुनरपि स्वकीयभयाभावे हेत्वन्तरमाचार्य प्रत्यावेदयति अपर्याप्त-
मिति । अस्माकं खल्विदमेकादशसंख्याकाक्षौहिणीपरिगणितमपरिमितं बलं भीष्मेण च प्रथितम-
हामहिम्ना सूक्ष्मबुद्धिना सर्वतो रक्षितं पर्याप्तं परेषां परिभवे समर्थम् । एतेषां पुनस्तदल्पं सप्तसं-
ख्यकाक्षौहिणीपरिमितं बलं भीमेन च चपलबुद्विना कुशलताविकलेन परिपालितमपर्याप्तमस्मान-
भिभवितुमसमर्थमित्यर्थः । अथवा तदिदमस्माकं बलं भीप्माधिष्ठितमपर्याप्तमपरिमितमधृष्यमक्षोभ्य-
मेतेषां पाण्डवानां बलं भीमेनाभिरक्षितं पर्याप्तं परिमितं सोढुं शक्यमित्यर्थः । अथवा तत् पाण्ड-
वानां बलमपर्याप्तं नालमस्माकमस्मभ्यं भीष्माभिरक्षितं. भीष्मोऽभिरक्षितोऽस्मै परबलनिवृत्त्यर्थमिति
तदेव तथोच्यते, इदं पुनरस्मदीयं बलमेतेपां पाण्डवानां पर्याप्तं परिभवे समर्थ भीमाभिरक्षित
भीमो दुलहदयो यस्मादस्मै परबलनिवृत्त्यर्थमभिरक्षितस्तस्मादस्माकं न किं चिदपि भयकारण-
मस्तीत्यर्थः ॥ १० ॥
५० टी० । अथ सैन्यद्वयोपन्यासकरणमाह अपर्याप्तमिाते । तदुद्दिष्टमस्माकं बलं सैन्यं
भीष्माभिरक्षितमपि अपर्याप्तमसंपूर्ण तैः सह योद्धुमसमर्थम् तथैतेषां पाण्डवानां बलं भीमाभिरक्षितं
सत् पर्याप्तं संपूर्ण योढुं समर्थम् ।। १० ॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः॥
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
आ० टी० । स्वकीयबलस्य भीष्माधिष्ठितत्वेन बलिष्ठत्वमुक्त्वा भीष्मशेषत्वेन तदनुगु-
णत्वं द्रोणादीनां प्रार्थयते अयनेप्यिति । कर्तव्यविशेषद्योती चशब्दः, समरसमारम्भसमये यो-
धानां यथाप्रधानं युद्धभूमौ पूर्वापरादिदिग्विभागनावस्थितिस्थानानि नियम्यन्ते तान्यत्रायनान्यु-
च्यन्ते सेनापतिश्च सर्वसैन्यमधिष्ठाय मध्ये तिष्ठति तेषु सर्वेषु प्रकृप्तं प्रविभागमप्रत्याख्याय भवान-
श्वत्थामा कर्णश्चेत्येवमादयो भवन्तः सर्वे ऽवस्थिताः सन्तो भीममेव सेनापति सर्वतो रक्षन्तु तस्य
हि रक्षणे सर्वमस्मदीयं बलं रक्षितं स्यात् परबलनिवृत्त्यर्थत्वेन तस्यास्माभीरक्षितत्वादित्यर्थः ॥ ११ ॥
प० टी० । तस्माद्भवद्भिरेवं कर्तव्यमित्याह अयनेविति । अयनेषु व्यूहप्रवेशमार्गेषु यथा-
भागं रणभूमि विभज्य स्थिताः सन्तः सर्वेऽपि भवन्तो भीप्ममेवाभितः समन्ततो रक्षन्तु तस्य व्यूह
प्रविष्टस्य पृष्टि रक्षन्तु ।। ११ ।।
तस्य संजनयन् हर्प कुरुटद्धः पितामहः ॥
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
आ० टी० । तमेवमाचार्य प्रति संवादं कुर्वन्तं भयाविष्टं राजानं दृष्ट्वा तदभ्यासवर्ती पि-
तामहस्तद्रुद्वयनुरोधार्थमित्थं कृतवानित्याह तस्येति । राज्ञो दुर्योधनस्य हर्ष बुद्विगतमल्लासविशे-
पं परपरिभवद्वारा स्वकीयविजयद्वारकं सम्यगुत्पादयन् भयं तदीयमपनिनीपुरुच्चैः सिंहनादं कृत्वा
शङ्वमापूरितवान् , किमिति दुर्योधनस्य हर्षमुत्पादयितुं पितामहो यतते कुरुवृद्धत्वात्तस्य कुरुराज-
त्वात् पितामहत्वाञ्चास्य दुर्योधनभयापनयनार्था प्रवृत्तिरुचिता तदुपजीवितया तद्वशत्वाच तस्य
सिंहनादे शखशब्दे च परेषां हृदयव्यथा संभाव्यते दूरादेवारिनिवहंप्रति भयजननलक्षणप्रतापत्वा-
दित्यर्थः ॥ १२ ॥
प० टी०। तस्येति । एवमित्यादिभिरुत्तेजनवाक्यैः स्ववीरांस्तीक्ष्णीकृतवतो दुर्योधनस्य हर्ष-
मुत्साहं जनयन् कुरुषु कौरवसैन्येषु वृद्धः पितामहो भीष्मः प्रतापवान् स्वयमुत्साहवान् सिंहवदट्ट-
हासं कृत्वा शङ्खं दध्मौ वादितवान् ॥ १२ ॥

प्रथमाध्यायः । १३ .. ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः॥ सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ॥ माधवः पाण्डवश्चैव दिव्यौ शखौ प्रदध्मतुः॥ १४ ॥ पाञ्चजन्यं हृपीकेशो देवदत्तं धनञ्जयः॥ पौण्ड्रं दध्मौ महाशवं भीमका वृकोदरः ॥ १५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः॥ नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः ॥ धृष्टद्युम्नो विराटश्च सात्यकिश्वापराजितः॥ १७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ॥ सोभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१८॥ आ० टी०। राजाभिप्रायं प्रतीत्य भीष्मप्रवृत्त्यनन्तरं तत्पस्तैराजभिः शङखादया वाद्यविशेषा झटिति शब्दवन्तः संपादिताः । स च शलादिप्रयुक्तशब्दस्तुमलो बहुलं भयं परेषां परिद्योतयन्नासी- दित्याह तत इति ॥ १३ ।। आ० टी० । एवं दुर्योधनपक्षे प्रवृत्तिमालक्ष्य परिसरवर्तिनौ केशवार्जुनौ श्वेतैर्हयैरतिबल- पराक्रमैयुक्ते महत्यप्रधृप्ये रथ व्यवस्थितावप्राकृतौ शवौ परितवन्तावित्याह ततःश्वतैर्हयौरीत।।१४॥ आ० टी० । तयोः शङ्कावयोर्दिव्यत्वमेवापादयति पाञ्चजन्यमिति । केशवाजुनयोयुद्धा- भिमुख्यं दृष्टा संहृष्टः सारस्येन समररसिको भीमसेनोऽपि युद्धाभिमुखोऽभूदित्याह पौण्ड्रमिति॥१५॥ आ० टी० । एतपामीदृशीं प्रत्तिं प्रतीत्य परिपालनावकाशमासाद्य राज्ञो मुधिष्ठिरस्यापि प्रवृत्ति दर्शयति अनन्तेति । ज्यायसां भ्रातृणामनुसरणमावश्यकमिति मत्वा तयोर्यवीयसोत्रोरपि प्रवृत्तिमाई नकुल इति ॥ १६ ॥ आ० टी० । अन्येषामपि तत्पक्षीयाणां राज्ञामैकमत्यं विज्ञापयन् धृतराष्ट्रस्य दुराशां स- अजयो व्युदस्यति काश्यश्चयादिना ॥ १७ ॥ आ० टी० । द्रुपद इति । परमेप्वासादिविशेषलक्षणचतुष्टयं प्रत्येकं संबध्यते ॥ १८ ॥ प० टी० । तत इत्यादितः श्लोकषटुं सुगमम् ॥१३॥१४॥१५॥१६॥१७॥१८।। स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ॥ नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९॥ आष्टी तैस्तैराजभि शङ्खानापूरयद्भिरापादितो महान् घोपस्तुमुलोऽतिभैरवो नभश्चान्तरिक्ष पृथिवीं च भुवनं लोकत्रयं सर्वमेव विशेषेणानुक्रमेण नादयन् नादयुक्तं कुर्वन् धार्तराष्ट्राणां दुर्योधना- .

श्रीमद्भगवद्गीता- - दीनांह दयान्यन्तःकरणानि व्यदारयत् विदारितवान् । युज्यते हि तत्प्रेरितशयघोपश्रवणात वेली- क्याक्रोशे तमपशृण्वतां तेषां हृदयेषु दोधूयमानत्वं तदाह सघोष इति ॥ १९ ॥ प० टी० । सघोषइति।स पाण्डवसैन्यसंभूतो घोषो धार्तराष्ट्राणां त्वदीयानां हृदयानि व्य- दारयत् व्याकुलीकृतवान् । किंभूतस्तुमुलो भयानकः । किं कुर्वन् नभश्च पृथिवीं च व्यनुनादयन् प्रतिशब्देनापूरयन् ॥ १९ ॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ॥ प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥ यावदेतान् निरीक्षेऽहं योबुकामानवस्थितान् ॥ कैर्मया सह योदव्यमस्मिन् रणसमुद्यमे ॥२२॥ आ० टी० दुर्योधनादीनां धार्तराष्ट्राणामेवं भयप्राप्ति प्रदर्श्य पार्थादीनां पाण्डवानां तद्वैप- रीत्यमिदानीमुदाहरति अथेत्यादिना । भीतिप्रत्युपस्थितेरनन्तरं पलायने प्राप्तेऽपि धैर्यमुत्पाद्य व्यवस्थितान् प्रचलितानेव परान प्रत्यक्षेणोपलभ्य हनुमन्तं वानरवरं ध्वजलक्षणत्वेनादायावस्थि- तोऽर्जुनो भगवन्तमाहेति संबन्धः । किमाहेत्यपेक्षायामिदं वक्ष्यमाणं हेतुमद्वचनमित्याह वाक्य- मिति । कस्यामवस्थायामिदमुक्तवानिति तत्राह प्रवृत्तइति । शस्त्राणामिषुप्रामप्रभृतीनां संपातः समुदायस्तस्मिन् प्रवृत्ते प्रयोगाभिमुखे मतीति यावत् । किं कृत्वा भगवन्तं प्रत्युक्तवानिति तदाह धनुरिति । महीपतिशब्देन राजा प्रज्ञाचक्षुः सञ्जयेन संबोध्यते ॥ २० ॥ आ० टी० । तदेव गाण्डीवधन्विनो वाक्यमनुक्रामति संनयोरिति । उभयोगपि सेनयोः संनिहितयोर्मध्ये मदीयं रथं स्थापयेत्यर्जुनेन सारथ्ये सर्वेश्वरी नियुज्यते किं हि भक्तानामशक्यं यद्गगवानपि तन्नियोगमनुतिष्ठति । युक्तं हि भगवतो भक्तपारवश्यम । अच्युतेतिमंबोधनतया भग- वतः स्वरूपं न कदाचिदपि प्रच्युति प्राप्नोतीत्युच्यते ॥ २१ ॥ आ. टी० । मध्ये रथं स्थापयेत्युक्तं तदेव रथस्थापनस्थानं निर्धारयति यावदिति । एतान प्रतिपक्षत्वेन प्रतिष्ठितान् भीष्मद्रोणादीनस्माभिः सार्ध योहमपेक्षावतो यावद् गत्वा निरीक्षितमहं क्षमः स्यां तावति प्रदेशे रथस्य स्थापनं कर्तव्यामित्यर्थः । किंच प्ररत्ते युद्धप्रारम्भे वह वा राजानोऽ. मुप्यां युद्धभूमावुपलभ्यन्ते तेषां मध्ये कैः सह मया योद्धव्यं न हि व चिदपि मम गतिप्रतिहतिर- स्तीत्याह कैर्मयेति ॥ २२ प० टी० । ततः किंवृत्तमित्याह अथेति । कपिध्वजोऽर्जुन श्चतुभिः श्लोकैः कृष्णं वि. ज्ञापयति ॥ २० ॥ २१ ॥ २२ ॥ योत्स्यमानानवेक्षेऽहं य एते ऽत्र समागताः ॥ धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ आ० टी० । प्रतियोगिनामभावे कथं सव युद्धौत्सुक्यं फलवद्भवेदिति तत्राह योत्स्य- मानानिति । ये के चिदेते राजानो नानादेशेभ्योऽत्र कुरुक्षेत्रे समवेतास्तानहं योत्स्यमानान् परिग- C प्रथमाध्यायः। हीतप्रहरणोपायानतितरां संग्रामममुत्सुकानुालभे तेन प्रतियोगिनां बाहुल्यमित्यर्थः । तेषामस्माभिः मह पूर्ववैराभावे कथं प्रतियोगित्वं प्रकल्प्यते तत्राह धार्तराष्ट्रस्येति । धृतराष्ट्रपुत्रस्य दुर्योधनस्य दुवः स्वरक्षणोपायमप्रतिपाद्यमानस्य युद्धाय संरम्भं कुर्वतो युद्धे युद्धभूमौ स्थित्वा प्रियं कर्तुमि- च्छवो राजानः समागता दृश्यन्ते तेन तेपामौपाधिकमस्मत्प्रतियोगित्वमुपपन्नमित्यर्थः ॥ २३ ॥ ५० टी० । धार्तराष्ट्रस्य दुर्बुद्धेः कूटकारिणो युद्धे प्रियं कर्तुमिच्छन्तो यएतेत्र समागताः सन्ति तान्यावन्निरीक्षे तावदुभयोः सेनयोर्मध्ये रथं स्थापयेति ॥ २३ ॥ सञ्जय उवाच । एवमुक्तो हृषीकेशो गुडाकेशेन भारत॥ सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ॥ उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥२५॥ आ. टी० । एवमर्जुनेन प्रेरितो भगवानहिंसारूपं धर्ममाश्रित्य प्रायशो युद्धात्तं निवर्त्त- यिप्यतीनि धृतराष्ट्रस्य मनीषां दुदूषयिषुः सञ्जयो राजानं प्रत्युक्तवानित्याह सञ्जय इति । भग- वता हि भूभारापहारार्थ प्रवृत्तस्यार्जुनाभिप्रायप्रतिपत्तिद्वारेण स्वाभिमन्धि प्रतिलभमानस्य परोक्ति- मनुमृत्य स्वाभिप्रायानुकूलमनुष्ठानमादर्शयति एवमिति ॥ २४ ॥ आ० टी० । भीष्मद्रोणादीनामन्येषां च राज्ञामन्तिके रथं स्थापयित्वा भगवान् किं क. तवानिति तदाह उवाचति । एतानभ्यासे वर्तमानान् कुरून् कुरुवंशप्रसूतान् भवद्भिः सार्थ यु हाथ संगतान पश्य दृष्टु च यैः सहात्र युयुत्सा तवोपावर्तते तैः साकं यद्धं कुरु नो खल्वतेषां शस्त्रास्त्रशिक्षावतां महीक्षितामुपेक्षोपपद्यते, सारथ्ये तु न मनः खेदनीयमित्यर्थः ।। २६ ॥ प० टी० । अथ श्रीकृष्णोपि सेनयोर्मध्ये भीष्मद्रोणप्रमुखानां सर्वेषां महीक्षितां राज्ञां व संमुख रथं नीत्वा उवाच । किमुवाचेत्याह उवाचेति । भो पार्थ एतान् समवेतान् कुरून् पश्यति ॥२४॥२५॥ तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान् ॥ आचार्यान्मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा। श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ॥२६॥ तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ॥ कृपया परयाविष्ठो विपीदन्निदमब्रवीत् ॥२७॥ आ० टी० । एवं स्थिते महानधर्मो हिंसेति विपरीतबुद्धया युद्धादुपरिरंसा पार्थस्य संप्र. वृत्तति कथयति तत्रेसादिना । सप्तम्या भगवदभ्यनुज्ञाने समरसमारम्भाय संप्रवृत्ते सतीत्येतदुच्य- ते सेनयोरुभयोरपि स्थितान् पार्थोऽपश्यदिति संबन्धः । अथशब्दस्तथाशब्दपर्यायः श्वशुरा भार्याणां जनयितारः सुहृदो मित्राणि कृतवर्मप्रभृतयः ।। २६ ।। आ० टी० । सेनाद्वये व्यवस्थितान् यथोक्तान् पितृपितामहादीनालोक्य परमपापरवशः सन्नर्जुनों भगवन्तमुक्तवानित्याह तानिति । विषीदन् यथोक्तानां पित्रादीनां हिंसासंरम्भनिवन्धन विषारमुपतापं कुर्वन्नित्यर्थः ।। २७ ।। प० टी० । ततः किं वृत्तमित्याह तत्रापश्यदिति । पितृपितृव्यान् पितामहान् वृद्धानाचार्या- * श्रीमद्भगवद्गीता- स्तथा मातृवत्पूज्यान्मातुलानिति पूज्यत्वकोटिः।अथ प्रेमास्पदमाह । भ्रातृनिति । भ्रातॄन् दुर्योधनादीन एंकोत्तरशतमितान् । अथ कृपापात्राण्याह पुत्रान् पौत्रानिति । दुर्योधनादीनां पुत्रान् पौत्रांचे त्यर्थः । अथापयशोहेतूनाह सखीनित्यादि ॥ २६ ॥ २७ ॥ अर्जुन उवाच । दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समवस्थितम् ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ॥ आ० टी० । तदेवेदंशब्दवाच्यं वननमुदाहरति दृष्ट्वति । आत्मीयं बन्धुवर्ग. युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्ति दर्शयति सीदन्तीति । देवांशस्यैवार्जुनस्यात्मविदः स्वपरदेहे- प्वात्मानात्मीयाभिमानवतस्तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसंगदर्शिनः शोको महानासी. दित्यर्थः ॥ २८॥ प० टी० । अथार्जुनः स्वनिर्वेदं कथयति दृष्ट्रमामयादि । गात्राण्यङ्गानि करचरणादीनि सीदन्ति शिथिलानि भवन्ति । मुखं च शुष्यति शुष्कं भवति ॥ २८ ॥ वेपथुश्च शरीरे मे रोमहर्पश्च जायते ॥ गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ॥२९॥ आ० टी० । अङ्गप व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तं संप्रति वेपथुप्रभृतीनि भोतिलिङ्गान्युपन्यस्यति वेपथुश्चति । रोमहर्पो रोम्गां गात्रषु पुलकितत्वम् ।। २९ ।। प० टी० । अथ करुणारसाविर्भावसात्विकानाह । सर्वशरीरे वेपथुः कम्पो भवति रोमहर्षो रोमाञ्चः । अथाङवैकल्यं दर्शयति गाण्डीवं धनुः हस्तात्स्त्रंसते निपतति । त्वक्परिदाते संतप्यते ॥ २९॥ न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥ आ० टी० । किं चाधैर्यमपि संवृत्तमित्याह नचेति ।मोहोऽपि महान् भवतीत्याहं 'भ्रमतीवे- ति । विपरीतनिमित्तप्रतीतेरपि मोहो भवतीत्याह निमितानीति । तानि विपरीतानि निमित्तानि यानि वामनेत्रस्फुरणादीनि ॥ ३० ॥ प० टी० । इतः परं कथं योद्धव्यामित्याह नचेति । न केवलमवस्थातुं न शक्नोमि कि पुनर्यो हुम् । मनसि धैर्यमवलम्ब्य योडव्यमिति चेत्तदपि नेत्याह भ्रमतीति । मनः कांदिशीक- तया प्रकृतिस्थं न भवति । किंच भो केशव मानसानि निमित्तानि भाव्यर्थसूचकानोहलोकसाधनानि विपरीतान्यनिष्टहेतून् पश्यामि ॥ ३० ॥ * दप्नेमान् स्वजनान् कृष्ण युयुत्सन् समुपस्थितान्-इति पाठान्तरम् प्रथमाध्यायः। १७ न च श्रेयोनु पश्यामि हत्वा स्वजनमाहवे ॥ न काझे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥ आ० टी० । युद्धे स्वजनहिंसया फलानुपलम्भादपि तस्मादपरिरंसा जायत इत्याह न चेति प्राप्तानां युयुत्सूनां हिंसया विजयो राज्यं सुखानि च लब्धुं शक्यानीति कुतो युद्धादुपरतिरित्याश चाह न काङ्क्षइति ॥ ३१ ॥ प० टी० । किंच श्रेयः परलोकसाधनं न पश्यामि ॥ ३१ ॥ किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ येपामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च ॥३२॥ आ० टी० । किमिति राज्यादिकं सर्वाकाक्षितत्वान्न काङ्यसे तेन हि पुत्रभ्रात्रादीनां स्वास्थ्यमाधातुं शक्यमित्याशङ्कयाह किमिति । राज्यादीनामाक्षेपे हेतुमाह येषामिति ॥ ३२ ॥ प० टी० । किंच यदर्थमेतावान् युद्धप्रसंगस्तदपि न रोचत इत्याह किंन इति । सुगमम् । भत्र युक्तिमाह येषामिति । येषामर्थे यन्निमित्तं यत्पोषणाय राज्यं काक्षितमभीप्सितं, च परं भो- गाः सुखानि काशितानि ॥ ३२ ॥ त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३३॥ आ० टी० । तानेर विशिनष्टि आचार्या इति ॥ ३३ ॥ ५० टी । त इमेऽत्र युद्धे धनानि विषयभोगोपकरणानि स्त्रीपुत्रादीनि प्राणांश्च त्यक्त्वावस्थिताः सन्ति तेषु हतेषु राज्यं केन भोक्तव्यं केवलं स्वपिण्डपोषणैकफलमित्यर्थः ॥ ३३ ॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ॥ ३४ ॥ आ० टी० । मातुला इति । श्याला भार्याणां भ्रातरो धृष्टद्युम्नप्रभृतयः । वध्येष्वपि स्वरा- ज्यपरिपन्थिप्वाततायिषु कृपाबुद्दया स्वधर्माद्युद्वात् पूर्वोक्तमोहादिवशात् प्रच्युति प्रदर्शयति एतानिति। जिघांसन्तं जिघांसीयादिति न्यायादेतेषां हिंसा न दोषायेत्याशङ्कचाह नतोऽपीति।।३४॥ ५० टी० । ननु गोत्रवात्सल्येन यद्यपि युद्धादुपरतस्तथापि तेऽस्मान् हनिष्यन्त्येवेत्या- शझ्याह. एतानिति ।। ३४ ॥ अपि त्रैलोक्यराज्यस्य हेतोः किंनु महीकृते ॥ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ॥३५॥ आ० टी० । पृथिवीप्राप्तचर्थ हि हननमेतेषामिष्यते न च तत्प्राप्तिः समीहितेति कैमुति- कन्यायेन दर्शयति अपीति । न हि महदपि त्रैलोक्यलक्षणं राज्यं लब्धं स्वजनहिंसायै मनो मदीयं स्टहयति पृथिवीप्राप्तयर्थ पुनर्बन्धुवधं न श्रद्दधामीति किं वक्तव्यमित्यर्थः । दुर्योधनादीनां शत्रूणां निग्रहे प्रीतिप्राप्तिसंभवाद्युद्धं कर्तव्यमित्याशङ्कयाह निहत्येति ॥ ३५ ॥ * न राज्यं न सुखानि च-इति पाठः कचित् ।

१.८
श्रीमद्भगवद्गीता-
प० टी० । अपीति । त्रैलोक्यराज्यस्यापि हतोरेतान् हन्तुं नेच्छामि किं पुनर्महीकते । किंभू-
तामेतान नतोपि मारयतोऽपि । स्वात्मानं हन्तुं प्रवृत्ता अपि ते न हन्तव्या इत्यर्थः। यथा दैववशा
प्राणवातायोपस्थितस्य तिर्यग्भावं प्राप्तस्य मकस्य हनने माता न यतते, तद्वदस्मदैवेन-
नोदितास्ते यत्कि चित्कुर्वन्तु, तथापि वयं तान् हन्तुं नार्हाः । तदुक्तम्-'उत्क्षेपणं गर्भगतस्य पादयोः
कि कल्पते मातुरधोक्षजागमे' इति ॥ ३५ ॥
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः॥
तस्मानार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् ॥
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३६
आ० टी०। यदि पुनरमी दुर्योधनादयो नानगृह्येरन् ,भवन्तस्तहि तैर्निगृहीता दुःखिताः स्युरि
त्याशङ्कयाह पापमवति । यदीमे दुर्योधनादयो निर्दोषानेवास्मान युद्धभूमी हन्युः, तदैतान् अग्नि दो-
गरदश्चेत्यादिलक्षणोपेतानाततायिनी निर्दोषस्व ननहिंसाप्रयुक्तं पापं पूर्वमेव पापिनः समाश्रये
दित्यर्थः । अथवा यद्यप्यते भवन्त्वातयायिनस्तथाप्येतानातशोच्यान् दुर्योधनादीन् हिमित्वा त.
स्कृतं पापमस्मानेवाश्रयदतो नास्माभिरते हन्तव्या इत्यर्थः । अथ वा गुरुभ्रातृमुहृत्प्रभृतीनेतान् हत्या
वयमाततायिनः स्याम ततश्चैतान् हत्वा तत्कृतं पापमाततायिनोऽस्मानेव समाश्रयेदिति युद्धादुप
रमणमस्माकं श्रेयस्करमित्यर्थः । फलाभावादनर्थमंभवाच्च पहिसा न
न कर्तव्येत्यपमंहरति
तस्मादिति । किंच राज्यमुग्वमुद्दिश्य युद्धमुपक्रम्य तेन च स्व जनपरिक्षये न सम्वमुपपद्यते तेन न
कर्तव्यं युद्धामित्याह स्वजनं हीति ॥ ३६ ॥
प० टी० । अस्मामु तकृपया त्वक्तयुद्धेषु सत्म ते कथं हनिप्यन्तीत्याह आततायिन
इति । अपराधराहित्येऽपि परहन्तृन् । अब स्मृतिः --'अग्निदो गरदीव शस्त्रपाणिनापहः, क्षेत्र-
दारहर श्चैव षडेते ह्याततायिनः' इति । अथ 'आततायिनमायान्तं हन्यादेवाविचार यन इत्याद्यपि
स्मृत्युक्तमस्ति, इति चेन्न । इदं चौरादिप दण्ड्येष राजनीती प्रोक्तं न पुत्रपौत्रादिषु ।। ३६ ॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः॥
कुलक्षयकृतं दोपं मित्रद्रोहे च पातकम् ॥ ३७॥
आ० टी० । कथं तर्हि परेपां कुलक्षये स्वजनहिमायां च प्रवृत्तिस्तत्राह यद्यपीति । लो
भोपहतबुद्धित्वात्तेषां कुलक्षयादिप्रयुक्तदोपप्रतीत्यभावात् प्रवृत्तिविस्तम्भः संभवतीत्यर्थः ।। ३७ ।।
प० टी० । अथ तेऽपि कथं पुत्रपौत्राचितं व्यवहारं न रक्षन्तीत्याह लोभापहतचेतस इति।
राज्यभोगेच्छयोपहतं त्यक्तस्मृति चतो येषां ते तथा 'पुत्रादपि धनभाना भीतिः' इत्युक्तत्वात् ।। ७।।
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ॥
कुलक्षयकृतं दोपं प्रपश्यद्भिर्जनार्दन ॥३८॥
आ० टी० । परंपामिवास्माकमपि प्रात्त वस्त्रम्भः संभवेदिति चेन्नत्याह कथमिाते । कुल
क्षयति । कुलक्षये भित्रद्रोहे न दोपं प्रपश्यद्भिर स्माभिस्तदोपशब्दितं पापं कथं न ज्ञातव्यं तदज्ञा.
ने तत्परिहारासंभवादतोऽस्मात्यापानिवृत्त्यर्थ तज्ज्ञानमपेक्षितमिति पापपरिहारार्थिनामस्माकं न युक्ता
युद्धे प्रवृत्तिरित्यर्थः ।। ३८ ॥
५० टी । अस्माभिः स्मरणवदिरस्नात्यापानिवर्तितुं कथं न ज्ञेयम् । किं तत्पापमित्याह
कुलेनि । किभूतैरस्माभिः कुलक्षयरुतं दोषं प्रपश्यादिः । भी जनार्दन संजिहीपों वदेति शेषः ॥३८॥

प्रथमाध्यायः । आ. कुलघ्नानां कुलस्य च ॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ॥ धर्म नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ३९ ॥ आ० टी० । कोऽसौ कुलक्षये दोषो यदर्शनाद् युप्माकं युद्धादुपरतिरपेक्ष्यते तत्राह कुले- ति । कुलस्य हि क्षये कुलसंबन्धिनश्चिरन्तना धर्मास्तत्तदग्निहोत्रादिक्रियासाध्या नाशमुपयान्ति कर्तुरभावादित्यर्थः । धर्मनाशेऽपि कि स्यादिति चेत्तत्राह धर्मइति । कुलप्रयुक्ते धर्मे कुलनाशादेव नष्टे कुलक्षयकरस्य कुलपरिशिष्टमखिलमपि तदीयोऽधर्मोऽभिभवत्यधर्मभूयिष्ठं तस्य कुलं भवती- त्यर्थः ॥ ३९ ॥ १०. टी० । अथ कुलक्षये प्रणश्यन्तीत्यादिवाक्यैर्यावदध्यायान्तं पापपर्यवसितमर्थमुक्तवान् । सनातनाः परंपराप्राप्ताः ॥ ३९ ।। अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः॥ स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः॥४०॥ ० टी० । कुलक्षयकृतेऽवशिष्टकुलस्याधर्मप्रवणत्वे को दोषः स्यादिति तत्राह अधर्म- नि । पापप्रचुरे कुले प्रस्तानां स्त्रीणां प्रदृष्टत्व किं प्रदुप्यति तत्राह स्त्रीष्विात ।। ४ ० ।। प० टी० । वर्णसंकरः सर्ववर्णानामेकीभावः ॥ ४ . ।। संकरो नरकायैव पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४१॥ भा० टी० । वर्णसंकरस्य दोपपर्यवसायितामादर्शयति संकर इति । कुलक्षयकगणां दो पान्तरं संचिनोति पतन्तीति । कुलक्षयकृतां पितरो निरयगामिणः संभवन्तीत्यव हेतुमाह लुप्तेति । पुत्रादीनां कर्तृगामभावाल्लुता पिण्डस्यो दकम्य च क्रिया येषां ते तथा, ततश्च प्रेतत्वपरावृत्ति- कारणाभावान्नरकपतनमवावश्यकमापतेदित्यर्थः ।। ४ १ ।। प० टी० । लुप्ताः लोपं प्राप्ताः पिण्डक्रियाः श्राद्धाद्या उदकक्रियास्तपणाद्याः ॥ ४१ ।।.. दोपैरतैः कुलघ्नानां वर्णसंकरकारकैः॥ उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥४२॥ आं० टी० । कुलक्षयकृतामेतेरुदाहृतैर्दोपवर्णसंकरहेभिर्जातिप्रयुक्ता वंशप्रयुक्ताश्च धर्माः सर्वे समुत्साद्यन्ते तेन कुलक्षयकारणाद् युद्वादुपरतिरेव श्रयसीत्याह दोपैरिति ।। ४२ ॥ प० टी० । उत्साद्यन्ते लुप्यन्ते ॥ ४२ ॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ॥ नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४३॥ .आ० टी० । किंच जातिधर्मेषु कुलधर्मप, चोत्सनेषु तत्तद्धर्मवनितानां मनुष्याणामनधि- रुतानां नरकपतनध्रौव्यादनर्थकरमिदमेव हेयमित्याह उत्पन्नति । यथोक्तानां मनुष्याणां नरकपा- तस्यांवश्यकत्वे प्रमाणमाहे त्यत्रशुश्रुमेति ।। ४३ ॥ प० टी० । अनुशुश्रुम श्रुतवन्तः ।। ४३ ॥

श्रीमद्भगवद्गीता- अहो बत महत्पापं कर्तुं व्यवसिता वयम् ॥ यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४४॥ आ० टी० । राज्यप्राप्तिप्रयुक्तसुखोपभोगलब्धतया स्वननहिंसायां प्रवृत्तिरस्माकं गुणदोष- विभागविज्ञानवतामतिकष्टेति परिभ्रष्टहृदयः सन्नाह अहो बतेति ॥ ४४ ॥ प० टी० । अहो बतेति । बन्धुवधसंतापकथनम् ॥ ४४ ॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः॥ धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४५॥ आ० टी० । यद्येवं युद्धे विमुखः सन् परपरिभवप्रतीकाररहितो वर्तेथास्तहि त्वां शस्त्रप- रिग्रहरहितं शत्रु शस्त्रपाणयो धार्तराष्ट्रा निगृह्णीयरित्याशङ्कयाह यदीति । प्राणत्राणादपि प्रक- यो धर्मः प्राणभृतामहिंसेति भावः ॥ ४५ ॥ ५० टी० । अथ रणोद्यमं त्यक्त्वा तूष्णीं स्थितं मां ते शस्त्रपाणयो हन्युस्तन्मे क्षेमतरं भवेत पापजनक न भवतीत्यर्थः ॥ ४५ ॥ संजय उवाच । एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ॥ विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४६॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वाण श्रीमद्भगवद्गीतास- पनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीक- प्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥१॥ आ० टी०।यथोक्तमर्जुनस्य वृत्तान्तं मञ्जयो धृतराष्ट्र राजानं प्रति प्रवेदितवान् तमेव प्रवेदनप्र. कारं दर्शयति एवमिति । प्रदर्शितेन प्रकारेण भगवन्तं प्रति विज्ञापनं कृत्वा शोकमाहाभ्यां परिभूत. मानसः सन्नर्जुनः सङ्ख्य युद्धमध्ये शरण सहितं गाण्डीवं त्यक्त्वा न योत्स्येऽहमिति ब्रुवनाध्ये स्थ- स्य संन्यासमेव श्रेयस्करं मत्वोपविष्टवानित्यर्थः।।४ ६।।इत्यानन्दगिरिकतटीकायां प्रथमाध्यायः ॥१॥ प० टी० । ततः किंवृत्तमित्याह सञ्जय एवमुक्वेति । सङ्ख्ये संग्रामे रथोपस्थे रथोपरि उपाविशत् उपविवेश || शोकेन संविग्नं कम्पितं मानसं यस्यति सः ।। ४६ ॥ अथाध्यायतात्पर्यम् । सद्यो मोक्षाधिकारी स भवति खलु यः पापभीरुर्वितृष्णस्तादृक्पार्थोस्ति तस्मान्निजकुलदननाद्राज्यभो-' गानिवृत्तः ।। मत्वैवं यादवेशोप्यनुपदमकरोद् ब्रह्मविद्योपदेशं भूभृद्धर्मानुरूपं तदिदमभिहितं त्वादि- माध्यायकत्यम् ।।१।। इति श्रीमदैवज्ञपण्डितवर्यसूर्यविरचितायां श्रीमद्भगवद्रीताटीकायां परमार्थप्रपा- यामर्जुनविषादो नाम प्रथमोऽध्यायः ॥ १ ॥ इति प्रथमाध्यायः ।

हितीयाध्यायः । २१ संजय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ॥ विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १॥ मा० टी० । अहिंसा परमो धर्मो भिक्षाशनं चेत्येवंलक्षणया बुद्धया युद्धवैमुख्य मर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यैश्वर्यमप्रचलितमवधार्य स्वस्थहृदयं धृतराष्ट्रं दृष्ट्वा तस्य दुराशामपनेप्यामीति मनी- पया सब्जयस्तं प्रत्युक्तवानित्याह संजय इति । परमेश्वरेण स्मार्यमाणो पि कृत्याको सहसा नार्जुनः सस्मार विपर्ययप्रयुक्तस्य शोकस्य दृढतरमोहहेतुत्वात्तथापि तं भगवान्नापेक्षितवानित्याह तं तथेति। तं प्रकृतं पार्थ तथा स्वजनमरणप्रसंगदर्शनेन कृपया करुणयाविष्टमधिष्ठितमश्रुभिः पूणे समा- कुले चेक्षणे यस्य तमश्रुव्याप्ततरलाक्षं विषीदन्तं शोचन्तमिदं वक्ष्यमाणं वाक्यं सोपपत्तिकं वचनं मधुनामानमसुरं सूदितवानिति मधुसूदनो भगवानुक्तवान्न तु यथोक्तमर्जुनमुपेक्षितवानित्यर्थः ॥ १ ॥ प० टी० । ततः किंवृत्तमित्यपेक्षायां संजय उवाच तं तथेति । कृपयाविष्टं स्वजनकृपया व्याप्तं विषीदन्तं विषादं प्राप्तमत एवाश्रुपूर्णे अक्षिणी यस्य तं प्रति मधुसूदनः स्वयं दैत्यहन्ता कृष्ण उवाच ।। १ ।। . श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥ अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन ॥२॥ आ०टी०। किं तद्वाक्यमित्यपेक्षायामाह श्रीभगवानिति। कुतो हेतोस्त्वा त्वा सर्वक्षत्रियप्रवरं कश्मल मलिनं शिष्टगर्हितं युद्धात् पराङ्मुखत्वं विषमे सभयस्थाने समुपस्थितं प्राप्तमनार्यः शास्त्रार्थमवि- दगिर्नुष्टं सेवितमस्वयं स्वर्गानह प्रत्यवायकारणमिह चाकीर्तिकरमयशस्करमर्जुननाम्ना प्रख्यातस्य तव नैतद्युक्तमित्यर्थः ॥ २॥ प० टी० । कुतइति । विषमे संग्रामसंकटे त्वा त्वामिदं कश्मलमज्ञानं कुतो हेतोः समुप- स्थितं प्राप्तम् । अथ तत्स्वरूपमाह । अनार्यजुष्टं न आर्या अनार्या स्तैर्जुष्टं सेवितम् आयरसेवितम एतद्विषयमज्ञानं कश्मलमिति ज्ञात्वा शिष्टैस्त्यक्तमित्यर्थः । यत इहामुत्र च गर्हितम् । तत्काथमि- त्याह । अकीर्तिकरमस्वयं चेति ॥२॥ • क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते ॥ क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥ आ० टी० । पुनरपि भगवानXनं प्रत्याह क्लैब्यामिति । क्लैब्यं लीवभावमधैर्य मा स्म गमः मा गाः हे पार्थ पृथातनय । न हि त्वयि महेश्वरेणापि कृताहवे प्रख्यातपौरुषे महामहिमन्येतदुपपद्यते क्षुद्रं क्षुद्रत्वकारणं हृदयदौर्बल्यं मनसो दुर्बलत्वमधैर्य त्यक्त्वोत्तिष्ठ युद्धायोपक्रमं कुरु हे परंतप. पर शत्रु तापयतीति तथा संबोध्यते ।। ३ ॥ प० टी० । तस्मात्कि कर्तव्यमिति भगवानाह क्लैब्यमिति । भो पार्थ त्वं छैन्यं पुमर्थ. * मा केन्यं गच्छ कौन्तेय इति पाठो मुद्रितपुस्तके ।

२.२ श्रीमद्भगवद्गीता- ॥ ति भावः, . विधुरत्वम् 'यदि मामप्रतीकारमशस्त्र शस्त्रपाणयः' इत्यादिवाक्यप्रकाशितं मा स्म गमः न प्रामुहि। यत एतत्त्वयि गाण्डीवधन्वनि न युज्यते । तर्हि किं कर्तव्यमिति चेत्तत्राह क्षुद्रमिाते । भो परंतप शत्रुतापन क्षुद्रमल्पविचाररूपं हृदयदौर्बल्यं कल्पितममतात्पन्नशोकरूपं त्यक्त्वा युद्धायोत्तिष्ठ ॥३॥ अर्जुन उवाच । कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ॥ इषुभिः प्रतियोत्स्यामि पूजाह्नवरिसूदन ॥ ४ ॥ आ० टी० । एवं भगवता प्रतिबोध्यमानोऽपि शोकाभिभूतचंतस्त्वादप्रतिबुध्यमानः सनर्जुनः स्वाभिप्रायमेव प्रकृतं भगवन्तं प्रत्युक्तवान् कथमित्यादिना । भीष्म पितामहं द्रोणं चाचार्य- सङ्ख्ये रणे हे मधुसूदन इषुभिर्यत्र वाचापि योत्स्यामीति वक्तुमनुचितं तत्र कथं वाणेयोत्स्य सायकैस्तो कथं प्रतियोत्स्यामि प्रतियोत्स्ये, तो हि पूजाही कुसुमादिभिरर्चनयोग्यौ, हे अरिसूदन सर्वानेवारीन् यत्नेन सुदितवानिति भगवानेवं संवोध्यते ॥ ४ ॥ प० टी० । अथास्तां भ्रातृपुत्रादिवधशकावकाशः श्रुतिगर्हितस्य ब्रह्मवधस्य का गतिरि- त्याशयेनार्जुनः प्राह कथमिति । भो मधुसूदन केवलदैत्यनिबर्हणाहं सङ्ख्य संग्राम भीम द्रोणं चेषुभिर्बाणैः कथं प्रतियोत्स्यामि प्रतिपक्षत्वेन कथं युद्धं करिष्यामि यतस्तौ पूनार्हा- वाचार्यत्वेन पूज्यौ न तु ब्राह्मणमात्रत्वेनावस्थितौ । अत्रार्थे शातपथी श्रुतिरपि-"तस्माद्यद्यपि राजा परमतां गच्छति,ब्रह्मैवान्तत उपनिश्रयति, स्वां योनि य: हिनस्ति, स्वा स योनिमृच्छति, म पापी- यान् भवति, यथा श्रेया म: हिंसित्वा" इति ।भाप्यम् । तस्मादिति पूर्वश्रुतौ क्षत्र एव तद्यशा दधा- तीत्यादिना राजा क्षत्रियः यद्यपि परमतां गच्छति राजसूयादिनोत्कृष्टा भवति । तथा स्वधर्माचरणे- नान्ततोऽवसाने ब्रह्मैव ब्राह्मणत्वमव उपनिश्रयति आश्रयते प्राप्नोति, एवं सति उ इति विचार्य यः क्षत्रियः स्वां योनि प्राप्तव्यस्थानमेनं ब्राह्मणं हिनस्ति घातयति, स स्वां यानि पितर मृच्छति हिनस्ति । अत एव स पापीयान् भवति । किंवत । यथा श्रेयांसं महानुभावं हिमित्वा । अथ तैत्तिरीयकेऽपि-"यावती देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति । तस्माद् ब्राह्मणेभ्यो वेदवि- यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेत्” इति । भाष्यम् । दिवे दिवे प्रतिदिवसं नमस्कुर्यात् परं तु कदापि नाश्लील विरुद्धं कीर्तयेद् उन्मर्यादं न वदत् । शेषं स्पष्टम् । एवं सति भीप्मद्रोणा दीनां वधः कभं कर्तुं शक्यत इति भावः ॥ ४ ॥ गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भक्ष्यमपीह लोके ॥ हत्वार्थकामांस्तु गुरूनिहैव भुजीय भोगान् रुधिरप्रदिग्धान् ॥ ५॥ आ० टी० । राज्ञां धर्मेऽपि युद्धे गुर्वादिवधे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य बूते गुरुनिति । गुरून् भीष्मद्रोणादीन् भ्रात्रादींश्चात्र प्राप्तान् अहिंसित्वा महानुभावान् महामाहा- त्म्यान् श्रुताध्ययनसंपन्नान् श्रेयः प्रशस्यतरं युक्तं भोक्तुमभ्यवर्तु भैक्ष्यं भिक्षाणां समूहः । भिक्षा- शनं नृपादीनां निषिद्धमपीह लोके व्यवहारभूमौ न हि गुर्वादिहिंसया राज्यभोगोऽपेक्ष्यते किं च हत्वा गुर्वादीनर्थकामानेव भुजीय न मोक्षमनुभवेयमिहैव भोगो न स्वर्गे । अर्थकामानेक . द्वितीयोऽध्यायः । २३ विशिनष्टि भोगानिति । भुजतइति भोगास्तान् रुधिरप्रदिग्धान् लोहितलिप्तानिवात्यन्तगर्हितानतो भोगान् गुरुवधादिसाध्यान् परित्यज्य भिक्षाशनमेव युक्तमित्यर्थः ॥ ५ ॥ प० टी० । अथोक्तमेव विविच्याह गुरूनिति । महानुभावान् गुरून् द्रोणादीनहत्वा लोकशास्त्रविरुद्धं गुरुवधमहत्वह लोके भक्ष्यं भिक्षया प्राप्तमन्नं • भोक्तुं श्रेय उचितम् । परंतु गुरूंन हत्वा रुधिरप्रदिग्धान् तद्वंधेिराक्तान् अर्थकामांस्तदात्मकान भोगान् इहैव लोके कथं भुजी- य । गुरुवधशङ्का कलङ्कितः कथमश्नीयाम् । परलोककथा तु दूरतोऽपास्तेत्यर्थः । श्रुतिरप्यापस्तम्बसंहि- ताम् । तस्माद् ब्राह्मणाय नापगुरेत न निहन्यान्न लोहितं कुर्यादेतावता ह्येनमा भवति" इति ।भाप्प. म् । तस्मात्कृतेच्छृयातयाद्यो निहनादति पूर्वश्रुतौ निषिद्धमस्ति।तस्माद् ब्राह्मणायेति चतुर्थ्या द्वितीया- योऽवगम्यते । ब्राह्मणं नापगुरेत सक्रोधाविर्भावेन नोद्रेित् । तथा न निहन्याद्वस्तपादाद्यभि- घातं न कुर्यात् तथा न लोहितं शस्त्रादिना रुधिराक्तं न कुर्यात् । हि यतः कारणादेतावता दुष्कर्म- णा एनसा भवति पातकेन संपद्यते ॥ ५ ॥ न चैतद्विद्मः : कतरन्नो गरीयो यहा जयेम यदि वा नो जयेयुः ॥ यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥ आ० टी० । क्षत्रियाणां स्वधर्मत्वाद् युद्ध मेव श्रेयस्करमित्याशङ्क्याह नचैतदिति । एतद- पि न जानीमा भक्ष्पयुद्वयाः कतरन्नाऽस्माकं गरीयः श्रेष्ठं किं भक्ष्यं हिंसाशुन्यत्वादुत युद्ध स्ववृ. त्तित्वादिति । मन्धिग्धा च जयस्थितिः किं माम्यमेवोभयेषां यद्वा वयं जयेमातिशयमहि यदि वा नोऽ. स्मान धार्तराष्ट्रा दुर्योधनादयो जयेयुः। जातोऽपि जयो न फलवान् यतो यान् बन्धून हत्वा न जि- जीविषामो जीवितुं नेच्छामस्ते एवावस्थिताः प्रमुख धार्तराष्ट्रा धृतराष्ट्रस्यापत्यानि तस्माद्रेक्ष्याद् युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः ॥ ६ ॥ प० टी० । अथ तेभ्योऽस्माकं जये पराजये वा मरणमेवावशिष्यत इत्याह नचैतदिति जय- पराजयव्यवस्था तु देवाधीना तथापि यद्वयं जयेम यदि वा तेऽस्मान् जयेयुरनयोः पक्षयोमध्य कतन्द्रीयः किं श्रेष्ठं तन्न विद्मो न जानीमः । यतोऽस्माकं पगजये मरणमेवावशिष्टं न पलायन- मित्य मंदिग्धं तथाम्माकं जयपक्षे सर्वघामाचार्याणां गोत्रिणां च वधो भविता । अनन्तरमस्माभिः कि जीवितव्यं पारशेषाल्लोकशास्त्रगहभियान्मर्तव्यमेवेत्याह यानवेति । यान हत्या.वयं न निजीवि- पामः न जीवितुमिच्छामस्ते धार्तराष्ट्राः प्रमुखे रणमुखेऽवस्थिताः सन्ति ॥ ६ ॥ 'कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः॥ यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७॥ आ० टी० । समधिगतसंसारदोषजातस्यातितरां निर्विण्णस्य मुमुक्षोरुपसन्नस्यात्मोपदेश संग्रहणेऽधिकारं सूचयति कार्पण्येति । योऽल्पां स्वल्पामपि स्वक्षात क्षमते स कृपणस्तद्विधत्वाद- खिलोऽनात्मविदप्राप्तपरमपुरुषार्थतया कृपणो भवति “यो वा एतदक्षरं गार्ग्यविदित्वास्मांश्लोकात् प्रतिस २४ श्रीमद्भगवद्गीता- कृपणः” इति श्रुतेः तस्य भावः कार्पण्यं दैन्यं तेन दोषेणोपहतो दूषितः स्वभावश्चित्तमस्येति विग्रहः। सोऽहं पृच्छाम्यनुयुञ्जे त्वा त्वां धर्मसंमूहचेताः धर्मो धारयतीति परं ब्रह्म तस्मिन् संमूढमविवेका गतं घेतो यस्य ममेति तथाहमुक्तः । किं पृच्छासे, यनिश्चितमैकान्तिकमनापेक्षिकं श्रेयः स्यान्न रो. गनित्तिवनेकान्तिकमनात्यन्तिक स्वर्गवदापेक्षिकं वा तन्निःश्रेयसं मे मह्यं ब्रूहि नापुत्रायाशि- प्यायेति निषेधात् न प्रवक्तव्यमिति मा संस्थाः यतः शिष्यस्तेऽ हं भवामि शाध्यनुशाधि मां निः श्रेयसं, त्वामहं प्रपन्नोऽस्मि ॥ ७ ॥ प० टी० । अथ व्याकुलचित्तः सन् श्रीकृष्णमेव पृच्छति कार्पण्येति । स्नेहानुबन्धिनां गोत्रिणां जीवरक्षणमेव कार्पण्यं तथा तद्वधे दोषस्ताभ्यामुपहतः स्वभावश्चित्तं यस्य स तथा । कारण्ये क्षात्रधर्मपरित्यागो हिंसायां च श्रौतधर्मपरित्यागः एवमुभयथा धर्मसंमूढचेताः धर्मविषये विमूढं चेतो यस्येत्यर्थः । इतः परमुभयधर्मसंरक्षणेन यछ्रेय उचितं स्यात्तन्मे निश्चितमसंदिग्धं यथा स्यात्तथा ब्रूहि । यतोऽहं ते शिष्यः अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय “आचार्य- वान् पुरुषो वेद" इति श्रुतेः ॥ ७ ॥ न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ॥ अवाप्य भूमावसपत्नमृद्ध राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥ आ० टी० । कुतो निःश्रेयसमेवेच्छसि तत्राह नहीति । यस्मान्न प्रपश्यामि। किं न प्रप- श्यसि । ममापनुद्यादपनयेद् यच्छोकमुच्छोषणं प्रतपनमिन्द्रियाणां तन्न पश्यामि । ननु शत्रून्निहत्य राज्ये प्राप्ते शोक निवृत्तिस्ते भविष्यति नेत्याह अवाप्योत। अविद्यमानः सपत्नः शत्रुर्यस्य तद् युक्तं राज्यं राज्ञः कर्म प्रनारक्षणप्रशासनादि तदिदमस्यां भूमाववाप्यापि शाकापनयकारणं न पश्या- मीत्यर्थः । तर्हि देवेन्द्रत्वादिप्राप्तौ शोकापनयस्ते भविष्यति नेत्याह सुराणामपीति। तेषामाधिपत्य- मधिपतित्वं स्वाम्यमिन्द्रत्वं ब्रह्मत्वं वा तदवाप्यापि मम शोको नापगच्छेदित्यर्थः ॥ ८ ॥ प० टी०। इदानीं त्वमेव विचार्य यद्युक्तं तत्कुरुष्वेति चेत्तत्रोवरिते प्रमेये पुनर्वदति नहोति। अस्मिन् संग्रामे कार्यद्वयं दृश्यते । तत्किम् अस्माकं जये भूलोकराज्यं तथास्माकं मरणे स्वलॊकरा. ज्यम् अनयोरुभयोर्मध्ये एकमपि तथा न दृश्यते यदस्माकं शोकमपनुद्यानाशयेत् । किंभूतं शो- कम् इन्द्रियाणामुच्छोषणं सकलेन्द्रियघातकम् । अथ भूलोकराज्यं वर्णयति । असपत्नं निष्कण्ट- कम् अई समृद्धं स्वलोकराज्यं च मुराणां त्रयस्त्रिंशत्कोटिप्रमितानां देवानामाधिपत्यम् । तत्रम. लोकराज्ये ये भोगास्ते रुधिराक्ताः । खोकभोगा अपि पुनश्चयवनात् क्षणभङ्गुरा अतः शोक- प्रदाः न तु शोकशामका इत्यर्थः ॥ ८ ॥ एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः ॥ न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९॥ आ० टी० । एवमर्जुनेन स्वाभिप्रायं भगवन्तं प्रति प्रकाशितं सञ्जयो राजानमावेदितवा- नित्याह सजयं इति । एवं प्रागुक्तप्रकारेण भगवन्तं प्रत्युक्त्वा परंतपोऽर्जुनो न योत्स्ये न संप्र. हरिष्येऽत्यन्तासह्यशोकप्रसङ्गादिति गोविन्दमुक्त्वा तूष्णीमब्रुवन् बभूव, किलेत्यर्थः ॥ ९ ॥ ५० टी० । अथाग्रे किं वृत्तमिति संजय आह एवमुक्त्वोति । स्पष्टम् ॥ ९ ॥ ..

हितीयाध्यायः । तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥१०॥ आ० टी०। तमर्नुन सेनयोर्वाहिन्योरुभयोर्मध्ये विषीदन्तं विषादं कुर्वन्तमतिदुःखितं शोकमो- हाभ्यामभिभूतं स्वधर्मान् प्रयतप्रायं प्रतीत्य प्रहसन्निवोपहासं कुर्वन्निव तदाश्वासार्थ हे भारत भरता न्वयेत्येवं संबोध्य भगवानिदं प्रश्नोत्तरं निःश्रेयसाधिगममाधनं वचनमृचिवानित्याह तमुवाचति॥१०॥ ५० टी० । अथार्जुनं विषादन न योत्स्य इति निश्चित्य तृप्णीभृतं प्रति भगवानाह तमुवा- चेति । हृषीकेश आशयज्ञः कृष्णस्तमर्जुनं प्रति प्रहसन्निव प्रहामगर्भमिव वचनमवाच । ननु विषादावसरे हासानुपक्रमेऽपि कथमुक्तं प्रहसन्निवेति, तत्रोच्यते, विषादोत्पत्तरकारणत्वाद् यतो दीनानाथवधे एव विषादात्पत्तदर्शनात् । प्रकृते तु भीष्मद्रोणकर्णदुर्योधनाद्याः शौर्येण शक्रमप्य- गणयन्तः क्षात्रधर्ममनुस्मृत्य प्रवृत्ता न तु मूर्खत्वेन तेषु कथं कृपापात्रत्वम् । तथा ते मध्या एवेति कुतो ज्ञातं स्वभुजप्रतापविश्वामादुर सहाय भूतास्मत्प्रभावात । नाद्यः, अस्मान प्रति स्वभुजप्रताप- म्यापनस्यानौचित्यात् किच अस्मत्माहायानुपयोगात । कौतुकदर्शनार्थ चेत्तीतरलोकवदकि चित्करत्वेनागमनस्य वैयथ्यात् । न द्वितीयः, वयस्यास्मन्निमित्तकत्वेन विषादानुत्पतेः । अतो यद्विपादकारणमुक्तं तत्प्रतारणमात्रं कर्मनेप्कर्म्यमार्गबहि तमित्याशयन ईपहास्यमुखो भूत्वा प्रांवा देत्यर्थः ।। १० ॥ श्रीभगवानुवाच। अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च आपसे ॥ गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः ॥ ११॥ शाङ्करभाष्यम्। 'दृष्ट्वा तु पाण्डवानीकम्' इत्यारभ्य 'न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह' इत्येतदन्तः प्राणिनां शोकमोहादिसंसारदुःखबीजभूतदोषोद्भवकारणहे. नुप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः, तथा पर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजन- संबन्धिवान्धवेष्वहमेषां ममेत इत्येवं भ्रान्तिप्रत्ययनिमित्तलेहविच्छेदादि निमि- नावात्मनः शोकमोहौ प्रदर्शितौ ‘कथं भीष्ममहं सख्ये कथं भीष्ममहं सट्ख्ये' इत्यादिना। आ० टी०। अतीतमन्दर्भस्येत्थमक्षरोत्थमर्थ विवक्षित्वा तस्मिन्नव वाक्यविभागमवगमगति दृष्ट्वा त्विति । 'धर्मक्षेत्रे कुरुक्षेत्रे' इत्यादिराद्यश्लोकस्तावदेकं वाक्यं शास्त्रस्य कथासंबन्धपरत्वेन पर्यवमानात , दृष्टेत्यारभ्य यावत्तूष्णीं बभूव हेति तावच्चैकं वाक्यम् , इत आरभ्य 'इदं वचः' इत्येतद- न्तो ग्रन्थो भवत्यपरं वाक्यमिति विभागः । नन्वाद्यश्लोकस्य युक्तमकवाक्यत्वं प्रकृतशास्त्रस्य महा- भारतेऽवतारावद्योतितत्वादन्तिमस्यापि संभवत्येकवाक्यत्वमर्जुनाश्वासार्थतया प्रवृत्तत्वात्तन्मध्यम- स्य तु कथमेकवाक्यत्वमित्याशझ्यार्थेकत्वादित्वाह माणिनामिति । शोका मानससंतापो मोहो विवेकाभावः आदिशब्दस्तदवान्तरभेदार्थः, स एव संसारस्य दुःखात्मनो बीजभूतो दोषस्तस्योद्भव कारणमहङ्कारो ममकारस्तहेतुरविद्या च तत्प्रदर्शनार्थत्वनति योजना । संगृहीतमर्थ विवृणोति तथाहीति । राज्यं राज्ञः कर्म परिपालनादि. पूजार्दा गुग्यो द्रोणादयः, पुत्राः स्वेनोत्पादिताः सौ श्रीमद्भगवद्गीता- शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षात्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्यु- द्धादुपरराम, परधर्म च भिक्षाजीवनादिकं कर्तुं प्रवटते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा. च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिस- न्धिपूर्विकैव साहङ्कारा च भवति । तत्रैवं सति धर्माधर्मोपचयादिष्टानिष्टज- न्मसुखदुः खादिप्राप्तिलक्षणः संसारोऽनुपरतो भवतीत्यतः संसारबीजभूती शोक- मोही तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानानान्यतो निवृत्तिरिति।तदुपदिदितुः सर्वलोकानुग्रहार्थ मर्जुनं निमित्तीकृत्याह भगवान् वासुदेवः अशोच्यानित्यादि । भद्रादयः, संबन्धान्तरमन्तरेण स्नहगोचरा गुरुपुत्रप्रभृतयो मित्रशब्देनोच्यन्ते, उपकारनिरपेक्षतया स्वयमुपकारिणो हृदयानुरागभाजी भगवत्प्रमुखाः सुहृदः,स्वनना ज्ञातयो दुर्योधनादयः, संबन्धिनः श्व शुरश्यालप्रभृतयो द्रुपदधृष्टद्युम्नादयः, परंपरया पितृपितामहादिष्वनुरागभाजो राजानो बान्धवा- स्तेषु यथोक्तं प्रत्ययं निमित्तीकृत्य यः स्नेहो यश्च तैः सह विच्छेदो यच्चैतेषामुपघाते पातकं या च लोकगर्दा सर्व तन्निमित्तं ययोरात्मनः शोकमोहयोस्तावेतो संसारबीजभूतौ कथमित्यादिना दर्शिता- वित्यर्थः । कथं पुनग्नयाः संसारबीजयोरर्जुने संभावनोपपद्यते न हि प्रथितमहामहिम्नो विवे- कविज्ञानवतः स्वधर्भ प्रवृत्तस्य तस्य शोकमोहावनथहेतु संभावितावित्याशक्य विवक तिरस्कारण तयोविहिताकरणप्रतिषिद्धाचरणकारणत्वादनांधायकयोरस्ति तस्मिन संभावनेत्याह शोकमो- हाभ्यामिति । भिक्षया जीवनं प्राणधारणमादिशब्दादशेषकर्मसंन्यामलक्षणं पारिवाज्यमात्माभि ध्यानमित्यादि गृह्यते । किं चाजुने दृश्यमानी शोकमाही मंमाग्बीजं शोकमाहत्वादस्मदादिनिष्ठ शाक मोहवदित्यपलब्धौ शोकमोही प्रत्येक पक्षीकृत्यानमातव्यमित्याह तथा चेति । शोकमोहादीत्यादि- शब्देन मिथ्याभिमानस्नेहगादयो xगृह्यन्ते स्वभावतश्चित्तदोपमागसँदित्यर्थः । अस्मदादीनामपि- स्वधर्म प्रवृत्तानां विहिताकर णत्वाद्यभावान्न शोकादेः संसारबीजनेति दृष्टान्तस्य माध्यविकलतति चेत्तत्राह स्वधर्म इति । कामादीनामित्यादिशब्दादवशिष्टानीन्द्रियाण्यादीयन्ते । फलाभिसन्धिस्त- द्विपयेऽभिलापः कतृत्वभोक्तृत्वाभिमानोऽहङ्कारः । प्रागुक्तप्रकारेण वागादिव्यापारे सति कि मिध्यति तबाह तत्रति । शुभकर्मानुष्ठानेनधर्मोपच यादिष्टं देवादिजन्म ततः सुखप्राप्तिः, अ. शुभकर्मानुष्ठानेनाधर्मोपचयादनिष्टं तिथंगादिजन्म ततो दुःखप्राप्तिः, व्यामिश्रकर्मानुष्ठानादुभा. भ्यां धर्माधर्माभ्यां मनुष्यजन्म ततः सुखदुःग्वे भवतः, एवमात्मकः संसार: मन्ततो वर्तत इत्यर्थः अर्जुनस्यान्येषां च शोकमोहयोः संसारबीज त्वमुपपादितमुपसंहरति इसत इति । तदेवं प्रथमाध्या- यस्य द्वितीयाध्यायैकदेशसहितस्यात्माज्ञानोत्थनिवर्तनीयशोकमोहाख्यसमारबीजप्रदर्शनपरत्वं दर्श- यित्वा वक्ष्यमाणसन्दर्भस्य सहेत कसंसागनिवर्तकसम्यग्ज्ञानोपदेशे तात्पर्य दर्शयति तयोश्चति । तर यथोक्त ज्ञानम् उपदिदिक्षरुदष्टुमिच्छन् भगवानाहेति संबन्धः । सर्वलोकानुग्रहार्थं यथोक्तं ज्ञानं भगवानुपादिदिक्षतात्ययुक्तम् अर्जुनं प्रत्येवोपदेशादित्याशक्याह अर्जुनमिति । न हि तस्यामव- स्थायामर्नुनस्य भगवता यथोक्त ज्ञानमुपदेष्टुमिष्टं किंतु स्वधर्मानुष्टानाद बुद्धिशुद्धयुत्तरकालमित्यभि- प्रत्यो निमित्तीकृत्यति । * नयोश्च तत्प्रसतश्च समापनादिनाट्यशालामुलस्तम्भोऽयम हंकारस्तद मोषां त्रयाणाम् -- इत्याधिक पुस्तकान्तरे । - गर्वादयो---इति पा.

त् हितीयाध्यायः। तत्र के चिदाहुः, सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामाबादेव केवला. कैवल्यं न प्राप्यत एव किं तय ग्रिहोत्रादिश्रौतस्मार्तसहिताज्ज्ञानात् कै- वल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं चाहुरस्यार्थस्य ‘अथ चेत्त्वमिमं धय संग्रामं नं करिष्यसि' 'कर्मण्येवाधिकारस्ते' 'कुरु कर्मैव त- स्मात्त्वम् ' इत्यादि । हिंसादियुक्तत्वाहैदिकं कर्माधर्मायेतीयमप्याशङ्का न का- • या, कथं, क्षात्रं कर्म युद्धलक्षणं,गुरुभ्रातृपुत्रादिहिंसादिलक्षणमत्यन्तरतरमपि स्वधर्म इति कृत्वा नाधर्माय, तदकरणे च 'ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि' इति ब्रुवता यावज्जीवादिश्रुति चोदितानां स्वकर्मणां पश्वा- दिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवतीति । ? सर्वकर्मसंन्यासपूर्वकादात्मज्ञानादेव केवलात कैवल्यप्राप्तिरिति गीताशास्त्रार्थः स्वाभिनेतोव्या- ख्यातः संप्रति वृत्ति कृतामभिप्रतं निरभितु मनु इति तत्रति । निवारितः शास्त्रार्थः मति सप्तम्या परामृश्यते । नेपामुक्तिमेव विवृण्वन्नादी मैद्धान्तिकमभ्यु गमं प्रत्यादिशति सर्वकर्मति । वैदिकेन कर्मणा समुच्चयं व्य इसितुं मात्रपदम् , स्मार्तेन कर्मणा समुच्च पं निगमितभववारणम् । अभ्यासमंबन्धं धुनीते केवलादिति। नैवेत्येवकारः संबध्यते । केन तर्हि प्रकारेण ज्ञानं कैवल्यप्रप्तिकारणमित्याशझ्याह किंतीति । किं तत्र प्रमापकमिन्याशङ्कये दमेव शास्त्रमित्याह इति साखति । यथा प्रयाजानु याजाग्रुपकृतमेव दर्शपूर्णमासादि स्वर्गमाधनं तथा श्रौतस्मातकोपकृतमेव ब्रह्मज्ञानं कैवल्यं साधयति विमतं से- तिकर्तव्यताकमेव स्वफलसाधकं कारणत्वाद्दर्शपूर्णमासादिवत् तदेवं ज्ञानकर्मसमुच्चयपरं शा- स्वमित्यर्थः । इतिपदमाहारेत्यनेन पूर्वेण संबध्यते । पौवापर्य गर्यालाचनायां शास्त्रस्य समु. स्वयपरत्वं न निर्धारितमित्याशङ्कयाह ज्ञापर्कचेति । न केवलं ज्ञानं मुक्तिहेतुरपि तु समृञ्चितमि- त्यस्यार्थस्य स्वधर्माननुष्ठाने पापप्राप्तिवचनसामर्थ्यलक्षणं लिङ्गं गमकमित्यर्थः । शास्त्रस्य समुच्च- यपरत्वे लिङ्गबहाक्यमपि प्रमाणमित्याह कर्मण्येवेति । तत्रैव वाक्यान्तरमुदाहरति कुरुकमति । ननु न हिंस्यात् सर्वा भूतानि२ इत्यादिना प्रतिषिद्धत्वेन हिंसादरनर्थहेतुत्वावगमात्तनुपेतं वैदिकं कर्माधर्मायेति नानृष्ठातुं शक्यते तथा च तस्य सापेक्षज्ञानेन समुच्चयो न सिद्धयतीति साय. मतमाशक्य. परिहरति हिंसा ति । आदिशब्दादृच्छिष्ठभक्षणं गृह्यत । यथोक्तशङ्का न कर्तव्येत्य- त्राकाङ्क्षापूर्वकं हेतुमाह कथामियादिना । स्वशब्देन क्षत्रियो विवक्ष्यते । युद्धाकरण क्षत्रियस्य प्रत्यवाय श्रषणात्तस्य तं प्रतिनित्यत्वनावश्यकर्तव्यत्वप्रतीतर्वादिहिसायुक्तमतिकरमपि कर्म नाधर्मायोत हेत्वन्तरमाह तदकरणे चेति । आचार्यादिहिंसायुक्तमतिकरमपि युदं नाधर्मायेति - वता भगवता श्रीतानां हिमादियुक्तानामपि कर्मणां दूरता नाधर्मत्वमिति स्पष्टमुपदिष्टं भवति सा- मान्यशास्त्रस्य व्यर्थहिंसानिषेधार्थत्वात् कविपये चोदितहिमायास्तदविषयत्वात् कृतो वैदिककर्मा: नुष्ठानानुपपत्तिरित्यर्थः । ज्ञानकर्मसमुच्चयात् कैवल्यासिद्धिरित्युपसंहर्तुमितिशब्दः । यत्तावद् ब्रह्मज्ञानं सेतिकर्तव्यताकं स्वफलमाधकं कारणत्वादित्यनुमानं तद्दूषयति तद. १ यावज्जीवममिहोत्रं जुहुयादिश्याकरिका । २ मा हिंस्यात-इति नत्र पाठः २८ श्रीमद्भगवद्गीता-- तदसत्, ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिहयाश्रययो, रशोच्यानित्या- दिना ग्रन्थेन भगवता यावत् ‘स्वधर्ममपि चावेक्ष्य' इत्येतदन्तेन ग्रन्थेन यत्पर- मार्थात्मतत्त्वनिरूपणं कृतं तत् साख्यं तहिषया बुद्धिरात्मनो जन्मादिषड्वि- क्रियाभावादकर्तात्मेति प्रकरणार्थनिरूपणाया जायते सा साख्येवुद्धिः सा येषां ज्ञानिनामुचिता भवति ते साख्याः,एतस्या बुद्धेर्जन्मनः प्रागात्मनो देहादिव्य- तिरिक्तस्य कर्तत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठाननिरू- पणलक्षणो योगः, तहिपया बुद्धिोंगेबुद्धिः सा येषां कर्मिणामुचिता भवति ते योगिनः । तथा च भगवता विभक्ते हे बुद्धी निर्दिष्टे ‘एषा ते ऽभिहिता साट्ये बुद्धिोंगे विमां शृणु' इति । तयोश्च सायबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साख्यानां विभक्तां वक्ष्यति 'पुरा वेदात्मना मया प्रोक्ता' इति ।तथा च योगबुद्ध्या- श्रयां कर्मयोगेन निष्ठां विभक्तां च वक्ष्यति कर्मयोगेन योगिनाम्' इति, एवं सां- सदिति। न हि शुक्तिकादिज्ञानमज्ञाननिवृत्तौ स्वफले सहकारि किं चिदपेक्षते, तथा च व्य- भिचारादसाधकं करणत्वमित्यर्थः । यत्तु गीताशास्त्रे समुच्चयस्यैव प्रतिपाद्यतति प्रतिज्ञातं तदपि विभागवचनविरुद्वमित्याह ज्ञानेति । सांख्यवृद्वियोगबुद्धिश्चति बुद्धिद्वयं तत्र सांख्यबृद्धयाश्रयां ज्ञाननिष्ठां व्याख्यातुं सांख्यशब्दार्थमाह अशाच्यानित्यादिनेति । अशोच्यानित्यादिना स्वधर्ममाप चावेक्ष्यत्येतदन्तं वाक्यं यावद्भविष्यति तावता ग्रन्थेन यन परमार्थभूतमात्मतत्वं भगवता निरुपितं तद यथा सम्यक व्याख्यायते प्रकाश्यते सा वैदिकी सम्यग्बहिः सख्या तया प्रकाश्यत्वेन संबन्धि प्रकृतं तत्त्वं माङ्ख्यमित्यर्थः । मांख्यशब्दार्थमुक्त्वा तत्प्रकाशिका बुद्धिं तद्वतच सांख्यान व्याकरोति तद्विपयेति । तहिपया बु. द्विः सांख्य बुद्धिरिति मंबन्धः । तानव प्रकटयति आत्मन इति । न जायते म्रियते वत्यादिप्रक.. रणार्थनिरूपणद्वारेणात्मनः षड्भावविक्रियाऽसंभवात कूटस्थोऽमाविति या बुहरुत्पद्यते मा मां ख्यबुद्धिः तत्पराः संन्यामिनः सांख्या इत्यर्थः । संप्रति योगबुद्धचा श्रयां कर्मनिष्ठां व्याख्यातुका- मो योगशब्दार्थमाह एतस्या इति । यथोक्तबुद्दयत्पत्तौ विरोधादवानुष्ठानायोगात्तस्यास्तन्निवर्तक त्वात् पूर्वमेव तदुत्पत्तेरात्मनश्च देहादिव्यतिरिक्त वाद्यपेक्षया धर्माधर्म निकृष्य तनेश्वरागधनरू पेण कर्मणा पुरुषो मोक्षाय युज्यते योग्यः संपद्यते तेन मोक्षामद्वये परंपरया माधनीभतप्राग- तधर्मानुष्ठानात्मको योग इत्यर्थः । अथ योगबुद्धिं विभनन योगिनो विभजते तादृपयति । उक्त बुडि द्वय भगवतोऽभिमति दर्शयति तथाचेति । मांख्यनुह याश्रया ज्ञाननिष्ठेत्येतदपि भगवतोऽभिमत मित्याह तयोश्चेति । ज्ञानमेव योगो ज्ञानयोगस्तेन हि ब्रह्मगा युज्यते तादात्म्यमापद्यते तेन मं- न्यासिनां निष्ठा निश्चयेन स्थितिस्तात्पर्यण परिसमाप्तिस्ता कर्मनिष्ठातो व्यतिरिक्तां निष्ठयोर्मध्ये निष्कृप्य भगवान् वक्ष्यतीति योजना। लोकेऽस्मिन् हविधा निष्ठा रा प्रोक्ता मयानघ ।। ज्ञानयोगेन सांख्यानाम' इत्येतद्वाक्यमुक्तार्थविषयमर्थतीनुवदति परेति । योगबुड्याश्रया कर्मनिष्ठेत्यत्रापि भगव- दनुमतिमादर्शयति तथाचेति । कमव योगः कर्मयोगस्तेन हि बुद्विशुद्विद्वारा मोक्षहेतुज्ञानाय पुमान युज्यते तेन निठां कर्मिणां ज्ञाननिष्ठातो विलक्षणां कर्म योगेन्त्यादिना वक्ष्यति भगवामिति १ बुद्धिद्वयाश्ययॉर्म ये इत्याः ।

हितीयाध्यायः । २९ ख्यबुद्धिं योगवुद्धिं चाश्रित्य हे निष्ठे विभक्ते भगवतेवोक्ते ज्ञानकर्मणोः कर्तृ- त्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोरेकपुरुषाश्रयत्वासंभवं पश्यता । यथैतहि- भागवचनं तथैव दर्शितं शातपथीये ब्राह्मणे, “ एतमेव प्रवाजिनो लोकमि- च्छंन्तो ब्राह्मणाः प्रव्रजन्ति” इति सर्वकर्मसंन्यासं विधाय तच्छेषेण " किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः” इति । तत्रैव च “प्राग् दारपरिग्रहात् पुरु- पश्चात्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनं पुत्रं, हिप्रकारं च वित्तं मानुष्यं देवं च, तत्र मानुष्यं वित्तं कर्मरूपं पितृलोकप्राप्तिसाधनं, विद्या च दैवं वित्तं देवलोकप्राप्तिसाधनं, सोऽकामयत ” इत्यविद्याकामवत १ एव सर्वा. णि कर्माणि श्रौतादीनि दर्शितानि, “ तेभ्यो व्युत्थाय प्रव्रजन्ती” इति व्युत्थान- मात्मानमेव लोकमिच्छतोऽकामस्य विहितम् । तदेतद्दिभागवचनमनुपपनं स्याद् यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः । न चार्जुनस्य प्रश्न उपपन्नोभवति 'ज्यायसी चेत् कर्मणस्ते' इत्यादिः, योजना । निष्ठाद्वयं बुद्धिद्वयाश्रयं भगवता विभज्योक्तमुपसंहरति एवमिति । कया पुन- रनुपपत्त्या भगवता निष्टाद्वयं विभज्योक्तमित्याशक्याह ज्ञानकर्मणारिति । कर्म हि कर्तृत्वाद्यनेक- त्ववुयाश्रय,ज्ञानं पुनरकर्तृत्वैकत्वबुद्दयाश्वयं तदुभयमित्थंविरुद्ध साधनसाध्यत्वान्नकावस्थस्यैव पुरुष- स्य संभवत्यतो युक्तमेव तयार्विभागवचनामत्यर्थः । भगवदुक्तविभागवचनस्य मूलत्वेन श्रुतिमुदाहर. ति यथेति। तत्र ज्ञाननिष्ठाविषयं वाक्यं पठति एतमेवात । प्रकृतमात्मानं नित्यविज्ञप्तिस्वभावं वे- दितुमिच्छन्त स्त्रिविधऽपि कर्मफले वैतृप्ण्यमानः सर्वाणि कर्माणि परित्यज्य ज्ञाननिष्ठा भवन्तीति पनमलकार स्वीकारेण संन्यासविधि विवक्षित्वा तस्यैव विधेः शेषेणार्थवादेन किं प्रनयेत्यादिना मो- क्षफलं ज्ञानमुक्तमित्यर्थः । ननु फलाभावात प्रजाक्षेपो नापपद्यते पुत्रशैतल्लोकजयस्य वाक्यान्तर- सिद्धत्वादित्याशय विलुपां प्रजासाध्यमनुष्यलोकस्यात्मव्यतिरेकेणाभावादात्मनश्चासाध्यत्वादाक्षेपो यु क्तिमानिति विवक्षित्वाह येपामिति । इति ज्ञानं दर्शितमिति शेषः। तस्मिन्नव ब्राह्मणे कर्मनिष्ठावा- क्यं दर्शयति तत्रैवेति । प्राकृतत्वमतत्त्वदर्शित्वेनाज्ञत्वं. म च ब्रह्मचारी सन् गुरुसमीपे यथाविधि वेदमधीत्यार्थज्ञानार्थ धर्मजिज्ञासां कृत्वा तदुत्तरकालं लोकत्र पप्राप्तिमाधनं पुत्रादित्रयं सोऽकामयत जाया मे स्यादित्यादिना कामितवानिति श्रुतमित्यर्थः । वित्तं विभनते द्विप्रकारामिति । तदेव प्र- कारहरूप्यमाह मानष्यमिति । मानुष्यं वित्तं व्याचष्टे कर्मरूपामिति । तस्य फलपर्यवसायित्व- माह पितृलोकति । दैवं वित्तं विभनते विद्याचेति । तस्यापि फलनिष्ठत्वमाह देवेति । कर्म- निष्ठाविषयत्वेनीदाहृत श्रुतस्तात्पर्यमाह अविद्येति । अज्ञस्य कामनाविशिष्टस्यैव कर्माणि सो- कामयतेत्यादिना दर्शितानीत्यर्थः । ज्ञाननिष्ठाविषयत्वेन दर्शितश्रुतेरपि तात्पर्य दर्शयति तेभ्य इति । कर्मसु विरक्तस्यैव संन्यासपूर्विका ज्ञाननिष्ठा प्रागृदाह तश्रुत्या दर्शितेत्यर्थः । अवस्थाभेदेन ज्ञान- कर्मणोर्भिन्नाधिकारत्वस्य श्रुतत्वात् तन्मूलेन भगवतो विभागवचनेन शास्त्रस्य समुच्चयपरत्वं प्रति- ज्ञातमपबाधितमिति साधितं, किंच समुच्चयो ज्ञानस्य श्रौतेन स्मान वा कर्मणा विवक्ष्यते यदि प्र. थमं तत्राह तदेतदिति । . १ आविद्यया कामवत-इति लि० प० ।

श्रीमद्भगवगीता-- एक पुरुषानुष्ठेयत्वासंभवं बुद्धिकर्मणोर्भगवता पूर्वमनुक्तं कथमर्जुनोऽश्रुतं बुद्धेश्व कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेत् मृषैव ज्यायसी चेत् कर्मणस्ते मता बु- द्विरिति, किंच यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्याद् अर्जुनस्या- पि स उक्त एवेति यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्'इति कथमुभयोरु- पदेशे सत्यन्यतरविषय एव प्रश्नः स्यात् न हि पित्तप्रशमनार्थिना वैयेन मधुरं शीतलं च भोक्तव्यमित्युपदिष्टे तयोरन्यतरत् पित्तप्रशमनकारणं बृहीति प्रश्नः संभवति । अथार्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्ये- त, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयं, मया बुद्धिकर्मणोः समुच्चय उक्तः किमर्थमित्थं त्वं भ्रान्तोऽसीति, न तु पुनः प्रतिवचवनमनुरूपं, पृष्टादन्यदेव हे निष्ठे मया पुरा प्रोक्ते इति वक्तुं युक्तम् । नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चयेऽभिप्रेते विभागवचनादि सर्व- मुपपन्न, किंच क्षत्रियस्य युद्ध स्मार्तं कर्म स्वधर्ममिति जानतस्तत् किं कर्मणि घोरे मां नियोजयसीत्युपालम्भोऽनुपपनस्तास्माद्रीताशास्त्रे ईषन्मात्रेणापि समुच्चयेऽभिप्रेते प्रश्नानपपत्ति दोषान्तरमाह न चेति । तामेवानुपपत्ति प्रकट यति एकप रुपेति । यदि समुच्चयः शास्त्रार्थो भगवता विवक्षितस्तदा ज्ञानकर्मणा रकेन पुरुषेणानुष्ठयत्वमेव त नोक्तमजुनेन च श्रुतं तत् कथं तदसंभवमनुक्तमश्रुतं च मिथ्यैव श्रोता भगवत्यारोपयेन च तदारो. पाहते किमिति मां कर्मण्येवातिकरे युद्धलक्षणे नियोजयमीइति प्रभोऽवकल्प्यते । तथा च प्रभा- लोचनया प्रष्टप्रवक्त्रोः शास्त्रार्थतया समुच्चयोऽभिप्रेतो न भवतीति प्रतिभातीत्यर्थः । किंध समुच्चयपक्षे कर्मापेक्षया बुद्धायस्त्वं भगवता पूर्वमनुक्तमजुनेन चाश्रुतं कथमसौ तस्मिन्नारोपयि- तुमर्हति ततश्चानुवादवचनं श्रोतुरनुचितमित्याह बुद्धश्चति । इतश्च ससुञ्चयः शास्त्रार्थो न संभवत्य- न्यथा पञ्नमादावर्जुनस्य प्रश्नानुपपत्तरित्याह किचति । ननु सर्वान् प्रत्युक्तोपि समुच्चयेनार्जनं प्र- त्युक्तोऽसाविति तदीयप्रश्नोपपत्तिरित्याशक्याह यदीति।एतयोःकर्मतत्त्यागयोरिति यावत्। ननु कपि- क्षया कर्मत्यागपूर्नकस्य ज्ञानस्य प्राधान्यात्तस्य श्रेयस्त्वात्तद्विपयप्रश्नोपपत्तिरिति चेन्नेत्याह नहीति।तथै- व समुच्चये पुरुषार्थसाधने भगवता दर्शिते सत्यन्यतरगोचरो न प्रभो भवतीति शेषः । समुच्चये भग- वतोक्तेऽपि तदज्ञानादर्जुनस्य प्रश्नोपपत्तिरिति शङ्कते अथेति । अज्ञाननिमिसं प्रश्नमडीक- त्यापि प्रत्याचष्टे तथापीति । भगवतो भ्रान्त्यभावेन पूर्वापरानुसन्धानसभम्वादित्यर्थः । प्रभानुरूपत्वमेव प्रतिवचनस्य प्रकटयति मयेति । व्यावर्त्यमंशमादर्शयति नत्विति । प्रतिवचनस्य प्रश्नाननुरूपत्वमेव स्पष्टयति पृष्टादिति । श्रौतेन कर्मणा समुच्चयो ज्ञानस्येति पक्षं प्रतिक्षिप्य पक्षान्तरं प्रतिक्षिपति नापीति । श्रुतिस्मृत्योर्ज्ञानकर्मणोविभागवचनमादिशब्दगृहीतं बुडेज्यायस्त्वं पञ्चमादौ प्रश्नो भगवत्प्रतिवचनं सर्वमिदं श्रौतेनेव स्मार्तेनापि कर्मणा बुढेः समुच्चये विरुद्धं स्यादित्यर्थः । द्वितीयपक्षासंभवे हेत्वन्तरमाह किंचेति । समुच्चयपक्षे प्रश्नप्रतिवचनयोरसं. भवान्नेदं गीताशास्त्रं तत्परमित्युपसहरति तस्मादिति । विशुद्धब्रह्मात्मज्ञाने स्वफलसिद्धौ न सह- कारिसापेक्षमज्ञाननितिफलत्वाद्रजतादितत्त्वज्ञानवत् , अथवा बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्य- ते अज्ञानात्मकत्वाद्रजुसर्पवादिति भावः ।

हितीयाध्यायः । श्रौतेन स्मार्तेन वा कर्मणात्मज्ञानस्य समुच्चयो न केन चिद्दर्शयितुं शक्यः । यस्य त्वज्ञानाद्रागादिदोषतो वा कर्मणि प्रत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्वविषयमेकमेवेदं सर्व ब्रह्माकर्तृ चेति, त- स्यं कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं यत्नपूर्व यथा प्रवृत्ति- स्तथैव कर्मणि प्रवृत्तस्य यत् प्रवृत्तिरूपं दृश्यते न तत् कर्म येन बुद्धेः समुश्चयः स्यात्, यथा भगवतो वासुदेवस्य क्षात्रकर्म चेष्टितं न ज्ञानेन समुच्चीयते पुरु- पार्थसिद्धये , तहत्तत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात् वदतत्त्वविन्नाहं करोमीति मन्यते न च तत्फलमभिसन्धत्ते, यथा च स्वर्गादिकामार्थिनोऽग्नि- होत्रादिकर्मलक्षणधर्मानुष्ठानायाहिताग्नेः : काम्य एवाग्निहोत्रादौ प्रदत्तस्य सौमि कृते विनष्टेऽपि कामे तदेवाग्निहोत्राद्यनुतिष्ठतोऽपि न तत् काम्यमग्निहोत्रादि- भवति, तथा च दर्शयति भगवान् 'कुर्वनपि न करोति न लिप्यते' इति तत्र तत्र । यच्च — पूर्वैः पूर्वतरं कृतं ' 'कर्मणैव हि संसिद्धिमास्थि- ननु — कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्' इति वक्ष्यमाणत्वात् कथं गीताशास्त्र समुच्चयो नास्ति तत्राह यस्य विति । चोदनासूत्रानुसारेण विधितोऽनुष्ठेयस्य कर्मणो धर्मत्वायापारमात्रस्य तथात्वाभावात्तत्त्वविदश्च वर्णाश्रमाभिमानशून्यस्याधिकारप्रतिप्रत्यभावाहागादिप्रवृत्तीनामविद्यालेशतो जायमानानां कर्माभासत्वात् कुर्याद्विद्वानित्यादि वाक्यं न समुच्चयप्रापकमितिभावः । वाशह श्चा- थे द्वितीयस्तु विविदिषावाक्यस्थकारणान्तरसंग्रहार्थः । सांसारिकं ज्ञानं व्यावर्त्तयति परमार्थेति । तदेवाभिनयति एकामति । प्रवृत्तिरूपमिति रूपग्रहणमाभासत्वप्रदशनार्थ कर्माभासममुच्चयस्तु या- दृच्छिकत्वान्न मोक्षं फलयतीति शेषम् । किंच ज्ञानिनो वागादिप्रवृत्तिन ज्ञानेन तत्फलेन समुच्चीयते फलाभिसन्धिविकलप्रवृत्तित्वादहङ्कारविधुरप्रवृत्तित्वाहा भगवत्प्रवृत्तिवदित्याह यथेति । हेतुहृयस्या- मिद्धिमाशङ्कय परिहरति तत्त्वविदिति । कूटस्थं ब्रह्मेवाहमिति मन्वानो विद्वान् प्रवृत्ति तत्फलं वा नैव स्वगतत्वेन पश्यति रूपादिवद् दृश्यद्रष्टुधर्मत्वायोगात् किं तु कार्यकरणसंघातत्वनेवै- प्रवृत्त्यादि प्रतिपद्यते ततस्तत्वविदो व्याख्यानभिक्षाटनादावहङ्कारस्य तृप्तयादिफलाभिमन्धेश्चाभा- मत्वान्नासिद्ध हेतुद्वयमित्यर्थः । ननु ज्ञानोदयात्प्रागवस्थायामिवोत्तरकालेऽपि प्रतिनियतप्रवृत्त्यादिदर्श- नान्न तत्त्वदर्शिनिष्ठ प्रवृत्त्यादेराभासत्वमिति तत्राह यथा चेति । स्वर्गादिरेव काम्यमानत्वात् काम- स्तदर्थिनः स्वर्गादिकामस्याग्निहोत्रादेरपेक्षितस्वर्गादिमाधनस्यानुष्ठानार्थमग्निमाधाय व्यवस्थितस्य तस्मिन्नेव काम्ये कर्मणि प्रवृत्तस्यार्धकृत केनापि हेतुना कामे विनष्टे तदेवाग्निहोत्रादि निवर्तयतो न तत् काम्यं भवति नित्यकाम्यविभागस्य स्वाभाविकत्वाभावात् कामोपयन्धानुपबन्धकृतत्वात् , तथा विदृषोऽपि विध्यधिकाराभावाद्वागादिप्रवृत्तीनां कर्माभासतेत्यर्थः । विद्वत्प्रवृत्तीनां कर्माभासत्वमित्यत्र भगवद नुमतिमुपन्यस्यति तथा चेति । ननु विद्वयापारेऽपि कर्मशब्दप्रयोगदर्शनात् तद्व्यापारस्य कर्माभासत्वानुपपत्तेः समुच्चयसिद्धिरिति तत्राह यच्चति । ज्ञानकर्मणोः समुच्चित्यैव संसिद्विहेतुत्वे १ विदुष इत्यधिकं-मु. पु. । २ होत्रादिकामसाधनानुष्ठानाय-इति पाठो लि० पु. । ३ सामि-इत्यर्धार्थकमव्ययम ।

३२ श्रीमद्भगवगीता- ता जनकादय' इति तत्तु प्रविभज्य विज्ञेयं, तत् कथम्, यदि तावत् पूर्वे जनकादयः तत्त्वविदोऽपि प्रटत्तकर्माणः स्युस्ते लोकसंग्रहार्थं गुणा गु- णेषु वर्तन्त इति ज्ञानेनैव संसिद्धिमास्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्म- णा सहैव संसिद्धिमास्थिता न कर्मसंन्यासं कृतवन्त इत्येषोऽर्थः । अथ न ते तत्त्वविद ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिं ज्ञानो- त्पत्तिलक्षणां वा संसिद्धिमास्थिता जनकादय इति व्याख्येयम् । एतमेवार्थ वक्ष्यति भगवान सत्त्वशुढये कर्म कुर्वन्तीति, · स्वकर्मणा तमभ्यर्थ्य सिद्धिं विन्दति मानवः' इत्युक्त्वा सिद्धिप्राप्तस्य च पुनर्ज्ञाननिष्ठां वक्ष्यति 'सिद्धि प्राप्तो यथा ब्रह्म' इत्यादिना । तस्माद्गीतासु केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्म- समुश्चितादिति निश्चितोऽर्थः । यथा चायमर्थस्तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः । तत्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्यार्जु- नस्यान्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवान् वासुदेवस्तं ततः कृपयार्जुनमु- द्दिधारयिषु*रात्मज्ञानायावतारयन्नाह । प्रतिपन्ने कुतो विभज्यार्थज्ञानमिति पृच्छति तत् कथमिति । तत्र कि जनकादयोऽपि तत्त्वविदः प्रवृत्तकर्माणः स्युराहो स्विदतत्त्रविद इति विकल्पय प्रथमं प्रत्याह यदीत । तत्त्वविच्च कथं प्रवृत्तकर्मत्वं कर्मणामकिंचित्करत्वादित्याशङ्कयाह ते लोकेति । तेषामृक्तप्रयोजनार्थमपि न प्रवृत्ति युक्ता सर्वत्राप्युदामीनत्वादित्याशङ्कयाह गुणा इति । इन्द्रियाणां विषयेषु प्रवृत्तिद्वारा तत्वविदों प्रवृत्तकर्मत्वेऽपि ज्ञानेनैव तेषां मुक्तिरित्याह ज्ञानेनति । उक्तमेवार्थ संक्षिप्य दर्शयति कर्मेति । कर्मणेत्यादौ बाधितानुसत्याभासो गृह्यते । द्वितीयमनुवदति अथेति । तत्र वाक्याथ कथयति ईश्व- रेति । विभज्य विज्ञेयत्वं वाक्यार्थस्योक्तमुपसंहरति इतिव्याख्येयमिति । कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वमित्युक्तेऽर्थे वाक्यशेपं प्रमाणयति एतमेवेति । योगिनः कर्म कुवन्तीत्यादिवाक्यमर्थतोऽ- नवदति मत्त्वेति । स्वकर्मणेत्यादौ साक्षादेव मोक्षहेतुत्वं कर्मणां वक्ष्यतीत्या शङ्कयाह स्वकर्मणति। स्वकर्मानुष्ठानादीश्वरप्रमादद्वारा ज्ञाननिष्ठा योग्यता लभ्यते ततो ज्ञाननिष्ठया मुक्तिस्तेन न साक्षात् कर्मणां मुक्तिहेतुतेत्यग्रे स्फुटीभविष्यतीत्यर्थः । तत्त्वज्ञानोत्तरकालं कर्मासंभवे फलितमपमहरति त- रमादिति । ननु यद्यपि गीताशास्त्रं तत्त्वज्ञानप्रधानमकं वाक्यं तथापि तन्मध्य श्रूयमाणं कर्म तद मङ्गीकर्तव्यं प्रकरणप्रामाण्यादिति समुच्चयसिद्धिस्तत्राह यथा चाते । अर्थशब्दनात्मज्ञानमेव के वलं कैवल्यहेतुरिति गृह्यते । वृत्तिकृतामभिप्रायं प्रत्याख्याय स्वाभिप्रेतः शास्त्रार्थः समर्थितः संप्रत्यशाच्यानित्यस्मात् प्रा. क्तनग्रन्थसन्दर्भस्य प्रागुक्तं तात्पर्यमनुद्याशोच्यानित्यादेः स्वधर्ममापे चावेक्ष्यत्येतदन्तस्य समुदायस्य तात्पर्यमाह तत्रति । * उद्दिधागिति पाठः कचित् ।

हितीयाध्यायः । ३३ अशोच्यानित्यादि। न शोच्या अशोच्या भीष्मद्रोणादयः सदृत्तत्वात् पर- मार्थरूपेण च नित्यत्वात्,तानशोच्यानन्वशोचोऽनुशोचितवानसि तेम्रियन्ते मनि- मित्तमहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनेति। त्वं प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे । तदेतन्मौढ्यं पाण्डित्यविरुद्धमात्मनि दर्शयस्युन्मत्त दवेत्यभिप्रायः । यस्माद्गतासून् गतप्राणान् मृतान् अगतासूनगतप्राणान् जी- वतश्च नानुशोचन्ति पण्डिता आत्मज्ञाः पण्डा आत्मविपया बुद्धिर्येषां ते हि पण्डिताः"पाण्डित्यं निविद्य"इति श्रुतेः । परमार्थतस्तु नित्यानशोच्याननुशो- चस्यतो मुढोऽसीत्यभिप्रायः ॥ ११ ॥ अत्र हि शास्त्रे त्रीणि काण्डान्यष्टादशसंख्याकानामध्यायानां षट्कत्रितयमुपादाय त्रैविध्यात्, तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वंपदार्थ विषयीकरोति, मध्यमषट्करूपं मध्य- मकाण्डं तत्पदार्थ गोचरयति, अन्तिमपट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक्यं वाक्यार्थमधिकरोति, तज्ज्ञानसाधनानि तत्र तत्र प्रसंगादुपन्यस्यन्ते तज़ज्ञानस्य तदधीनत्वात् तत्त्वज्ञानमेव केवलं कैवल्य, साधनमिति च सर्वत्र विगीतम्, एवं पूर्वोक्तरीत्या गीताशास्त्रार्थे परिनिश्चिते सतीति यावत्, धर्मे संमूर कर्तव्याकर्तव्यविवेकविकलं चेतो यस्य तस्य मिथ्याज्ञानवतोऽहंकारममकारवतः शोकाख्यसागरे दु- रुत्तरे प्रविश्य क्लिश्यतो ब्रह्मात्मैक्यलक्षणवाक्यार्थज्ञानमात्मज्ञानं तदतिरेकेणोद्धरणासिद्धेस्तमति- भक्तमतिस्निग्धं शोकादुमिच्छन् भगवान् यथोक्तज्ञानार्थ तमर्जुनमवतारयन् पदार्थपरिशोधने प्रवर्तयन्नादौ त्वंपदार्थ शोधपितमशोच्यानित्यादिवाक्यमाहेति योजना । यस्याज्ञानं तस्य भ्रमो यस्य भ्रमस्तस्य पदार्थपरिशोधनपूर्वकं सम्यग्ज्ञानं वाक्यादृदेतीति ज्ञा- नाधिकारिणमभिप्रेत्याह अशोच्यानियादीति । यत्तु कैश्चिदात्मा वा अरे द्रष्टव्य इत्याद्यात्मयाथात्म्य- दर्शनविधिवाक्यार्थगनन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तं तदयुक्तं, कृतियोग्यतैकार्थसमवेतश्रेयः- साधनतायाः पराभिमतनियोगस्य वा विध्यर्थस्यात्राप्रतीयमानस्य कल्पनाहत्वभावात् । न च दर्शन पुरुषतन्त्रत्वहिते विधेययागादिविलक्षणे विधिरुपपद्यते कृत्यान्तर्भूतस्यार्थित्वात् तव्यो न वि- विमधिकरोतीत्यभिप्रेत्य व्याचष्टे न शोच्या इति । कथं तेषामशोच्यत्वामत्युक्ते भीष्मादिशब्दवाच्या- मां शोच्यत्वं तत्पदलक्ष्याणां वेति विकल्प्याद्यं दूपयति सदृ त्तत्वादिति । ये भीष्मादिशब्दरुच्यन्ते ते श्रुतिस्मृत्यदीरिताविगीताचारवत्त्वान्न शाच्यतामश्नुवीरन्नित्यर्थः । द्वितीयं प्रत्याह परमार्थेति । अरजते रजतबुद्धिवदशोच्येपु. शोच्यबुद्धया भ्रान्तोऽसीत्याह तानिति । अनुशोचनप्रकारमभिनयन् भ्रान्विमेव नकटयति ते म्रियन्तइति । पुत्रभार्या दिप्रयुक्तं सुखमादिशब्देन गृह्यते, इत्यनुशोचित- वानसीति संबन्धः। विरुद्धार्थीभिधायित्वेनापि भ्रान्तत्वमर्जुनस्य साधयति त्वं प्रज्ञावतामिति । वचनानि उतृसन्नकुलधर्माणामित्यादीनि । किमतावता फालतमिति तदाह तदेतदिति । तन्मौळ्यमशो- च्येषु शोच्यदृष्टित्वमेतत् पाण्डित्यं बुद्धिमतां वचनभाषित्वमिति यावत् । अर्जुनस्य पूर्वोक्तभ्रा- न्तिभाक्त्वे निमित्तमात्माज्ञानमित्याह यस्मादिति । ननु सूक्ष्मबुद्धिभाक्त्वमेव पाण्डित्यं न त्वात्मज्ञत्वं हेत्वभावादित्याशङ्कयाह तहीति । पाण्डित्यं पण्डितभावमात्मज्ञानं निर्विद्य निश्चयेन लब्ध्वा "बाल्ये न तिष्ठासेद" इति बृहदारण्यकश्रुतिमुक्तार्थामुदाहरति पाण्डिसमिति । यथोक्तं पाण्डित्यरोहित्यं कथं ममाव- गतगित्याशङ्कय कार्यदर्शनादित्याह परमार्थतस्त्विति।यस्मादित्यस्यापेक्षितंदर्शयति अत इति ॥११॥ ५० टी० । अथार्जुनस्य ज्ञानकर्मोपदेशाद विषाद परिहरन् त्रिचत्वारिंशच्योकैभगवानाह अशा २ दुस्तरे-पा० 3 अहं कृन्यतृचवेति विधानात् । १ पाण्डियं च विरुद्धम्-इति पाठः श्रीमद्भगवद्गीता-- ध्यानिति । अशोच्यान् शोकानहोंनेव बन्धन् अनु अनुलक्षीकृत्य अशोचः शोचितवानसि 'दृष्टेमं स्वजनं कृष्ण' इत्यादिना । अनन्तरं — कुतस्त्वाकश्मलमिदम्' इत्यादिनास्माभिबोधितोऽपि प्रज्ञा- वादान् प्रज्ञया वचनचातुर्यमात्रेण शब्दान भाषसे अज्ञानप्रलपितवद्वदसि नीतादृशं भाषणं त्वयि युक्तमित्यर्थः । यतः पण्डिता ज्ञातारो गतासून गतप्राणान् तथागतासून् जीवतो बन्ध्वादीन् कथं जीविष्यन्तीति अनु न शोचन्ति ॥ ११ ॥ न वेवाहं जातु नासं न वं नेमे जनाधिपाः ॥ नचैव न भविष्यामः सर्वे वयमतः परम् ॥१२॥ कुतस्ते शोच्या यतो नित्याः। कथं,न त्वेव,जातु कदाचिदहं नासं किं त्वासमेवातीतेषु देहोत्पत्तिविनाशेषु नित्य एवाहमासमित्यभिप्रायः। तथा न त्वं नासीः किं त्वासी रेव तथा च नेमें जनाधिपा नासन्कि त्वासनेव तथा न चैव भविष्यामः, किं तु भविष्याम एव च । सर्वे वयमतोऽस्माद्देहविनाशात् परमुत्तरकालेपि विष्वपि कालेषु नित्या आत्मस्वरूपेणेत्यर्थः । देहभेदानुवृत्त्या वहुवचनं नात्मभेदाभिप्रायेण ॥ १२ ॥ आ० टी० नित्यत्वमशोच्यत्वे कारणमिति सूचितं विवेचयितुं प्रश्नपूर्वकं प्रतिजानीते कुत इसादिना । नित्यत्वमसिद्धं प्रमाणाभावादिति चोदयति कथमिति । आत्मा न जायते प्रागभावशून्य स्वान्नरविषाणवदिति परिहरति नत्ववति । किञ्चात्मा नित्यो भावत्वे सत्यजातत्वायतिरेके घटव- दित्यनुमानान्तरमाह नचैवेति । यत्तु कैश्चिदात्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति नत्वित्या- दिना श्लोकचतुष्टयेनेत्यादिष्टं तदसद्विशेषवचने हेत्वभावात् सर्वत्रैवात्मयाथात्म्यप्रतिपादनावि- शेषादित्याशयेन । 'पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना' इति त्रितयमपि व्याख्यानाङ्गं पति- पादयति नत्वियादिना । नन्वात्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धरुक्तमनुमानद्वयं प्रसि- हिविरुद्धतया कालात्योपदिष्टमिष्टमिति नेत्याह अतीतेष्विति । चराचरव्यपाश्रयस्तु स्यादिति न्यायेनात्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्माविनाशाविषयत्वान्निरुपाधिकस्य तस्य जन्मादिरा- हित्यमिति भावः । यद्यपि तवेश्वरस्य जन्मराहित्यं तथापि कथं ममेत्याशङ्कचाह तथेति । तथापि भी- मादीनां कथं जन्माभावस्तत्राह तथानेमइति। द्वितीयमनुमानं प्रपश्चयन्नुत्तरार्ध व्याचष्टे तथेयादिना। ननु देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेपि महास्वर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टा- न्त श्रुत्या जन्मविनाशावेष्टव्यावित्याशङ्काय नात्मा श्रुतेरिति न्यायेनै परिहरति त्रिप्वपीति । यावद्वि- कारन्तु विभागो लोकवदिति न्यायेर्ने भिन्नत्नाद्विकारित्वमात्मनामनुमीयते भिन्नत्वं च बहुवचेनप्रयोग- प्रमितामत्याशङ्कयाह देहति ॥ १२ ॥ प० टी० । ननु शोकः किं जीवनिमित्तको देहनिमित्तको वा, नाद्यः तेषां नित्यत्वात्, नापरस्तेषां पुरो निद्रितवद्वर्तमानत्वादित्याशक्याशोच्यत्वे हेतुमाह नत्ववाहमिति। यथाहमीश्वरो जातु कदा चित्त्वेच्छाधृतविग्रहोऽस्याविर्भावे तिरोभावे वा पूर्व नासमिति न किं त्वास- १ पक्ष भने आत्मनि साध्यबाधादाधितामत्या शयः । साध्य शन्यो यत्र पक्षस्त्वसौ बाध उदाहृतः । ( २ ) चराच. ग्व्यपाश्रयस्तुस्यानव्यपदेशाभाकस्तद्भावभादित्वात् ॥ स्थावरजंगमशरोगविषयौ जन्ममरणशब्दा मुख्यौ जीवात्मन्युपच- रिती शरीरे प्रादुर्भावांतरोभावाम्यां जावो जातो मृत इति व्यपदेशो गौण: शरीरभावभावित्वात-शाङ्करब्रह्मसूत्रभाष्यस्य (अ. . पा० ३ ० १.६) तत्र स्पष्टं द्रष्टव्यम् । 3 नान्मा थुतेनियत्वाच ताभ्य: ॥ शा०० भा० (अ २ । पा. ३ । मू. '..) द्रष्टव्यम्। ४ शा. व. भा. ( अ० । पा• 3 । म. ) द्रष्टव्यम् ।

हितीयाध्यायः । ३५ मेवानादित्वात् । नच त्वं नासीः किं त्वासीरेव । इमे जनाधिपा राजानो नासन्निति न कि त्वासन्नेव मदंशत्वात् । तथेतः परमग्रे वयं सर्वे प्राङ् निरूपिता नैव भविष्याम इति न किं तु भविष्याम एव । ननु जीवनिरूपणेऽहमितिपदेन गमनागमनरहितस्येश्वरस्य कथं प्रसंग इति चेन्न परमार्थतो विचारे जीवोऽपि मदंशत्वान्नित्योऽनादिश्चेति ज्ञात्वा पण्डिता नानुशोचन्तीत्यर्थः ॥ १२ ॥ देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ॥ तथा देहान्तरप्राप्तिधारस्तत्र न मुह्यति ॥ १३ तत्र कथमिव नित्य आत्मेति दष्टान्तमाह देहिनइति । देहोऽस्यास्तीति देही तस्य देहिनो देहव त्मनोऽस्मिन्वतमाने देहे यथा येन प्रकारेण कौमारं कुमारभावो बालयावस्था यौवने यूनो भावो मध्यावस्था जरा वयोहानिर्जीर्णा- वस्थेत्येतास्तिस्रोवस्था अन्योन्यविलक्षणास्तासां प्रथमावस्थानाशे न नाशो हिती- यावस्थोपजनने नोपजननमात्मनः किं तर्यविक्रियस्यवेकस्य हितीयतृतीयावस्था- प्राप्तिरात्मनो दृष्टा यथा तहदेव देहादन्यो देहान्तरं तस्य प्राप्तिदेहान्तरप्राप्तिरवि- क्रियस्यैवात्मन इत्यर्थः । धीरो धीमांस्तत्रैवं सति न मुह्यति न मोहमा- पद्यते ॥ १३ ॥ ननु पूर्व देहं विहायापुर्व देहमुपादायास्य विक्रियादत्त्वनोत्पत्तिविनाशवत्त्वविभ्रमः: समुद्भवेदि- ति शकते तत्रेति । अशोच्यत्वप्रतिज्ञायां नित्यत्वे हेतौ त सतीति यावत् । अवस्थाभेदे सत्यपि व- स्तुतो विक्रियाभावादात्मनो नित्यत्वमुपपन्नमित्युत्तरश्लोकेन दृष्टान्तावष्टम्भेन प्रतिपादयतीत्याह दृष्टा- न्तमिति । न केवलमागमादेवात्मनो नित्यत्वं किं त्ववस्थान्तरवजन्मान्तरे पूर्वसंस्कारानुवृत्तेश्चेत्याह दहिन इति । देहवत्त्वं तस्मिन्नहं ममाभिमानभाक्त्वं, तासामिति निर्धारणे पछी, आत्मनः श्रुतिस्मृत्य- पपत्तिभिर्नित्यत्वज्ञानं, धीमानित्यत्र धीविवक्ष्यते । एवं सतीति । तत्वता विक्रियाभावान्नित्यत्वे समधिगते. मतीत्यर्थः ॥ १३ ॥ प० टी० । एवं शोकस्य जीवनिमित्तकत्वं निवार्य देहनिमित्तकत्वं निवारयति देहिनइति देहिनो देहाभिमानिनो जीवस्य कौमारयौवनजरारूपावस्थात्रयस्यानुभयो दृष्टः यथाहं कौमारदशायां नग्नो बालिशेषु क्रीडितवान् स एवाहं यौवने सभ्यत्वमुपागतोऽस्मि । पुनः स एवाहं संप्रति दन्तायु- पालवेन स्थविरत्वं प्राप्तोस्मीत. प्रत्ययोस्ति । तदुक्तम्- 'कस्तवायं जडो मको देहो भवति राबव' इति । सथाच पुत्रव्य पूर्वावस्थातिक्रमे उत्तरावस्थाप्राप्तौ कि पित्रादीनां शोको भवति । तथैव देहान्तर- प्राप्तावशिासतोऽपि बाल: पूर्वसंस्कारवशात् रतनग्रहणरादनादिषु प्रवर्तते । एवमनुभूय धीररतत्र विष- ये न मुह्यतीत्यर्थः ॥ १३ ॥ मात्रास्पर्शास्तु कौन्तेय शीतोप्णमुखदुःखदाः॥ आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत ॥१४॥ यद्यप्यात्मविनाशनिमित्तो मोहो न संभवति नित्य आत्मेति विजानत- स्तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लोकिको दृश्यते सुरववियोग- ३६ श्रीमद्भगवद्गीता- निमित्तो मोहो दुःखसंयोगादिनिमित्तश्च शोक इत्येतदर्जुनस्य वचनमाश- डूयाह मात्रास्पर्शा इति । मात्रा आभिर्मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रि- याणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगास्ते शीतोष्णसुखदुःखदा शीतमुष्ण सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्ते इति स्पर्शा विषयाः शब्दादयः मात्राश्च स्पर्शाश्च शीतोष्णसुखदुः दुःखदाः शीतं कदा चित् सुखं कदाचिद्दुःखं त- योष्णमप्यनियतस्वरूपं सुखदुःखे पुनर्नियतरूपे यतो न व्यभिचरतोऽतस्ताभ्यां पृथक् शीतोष्णयोर्ग्रहणं, यस्मात्ते मात्रास्पर्शादयः आगमापायिन आगमापा- यशीलास्तस्मादनित्या (उत्पत्तिविलयरूपत्वादतस्तान् शीतोष्णादीस्तितिक्षस्व प्रसहस्व तेषु हर्षविषादं मा कार्षीरित्यर्थः ॥ १४ ॥ आ० टी० । आत्मनः श्रुत्यादिप्रमिते नित्यत्वे तदुत्पत्तिविनाशप्रयुक्तशोकमोहाभावेऽपि प्रकारान्तरेण शोकमोहौ स्यातामित्याशङ्कामनूद्योत्तरत्वेन श्लोकमवतारयति यद्यपीयादिना । शीतो. प्णयोस्ताभ्यां सुखदःखयोश्च प्राप्ति निमित्तीरत्य यो मोहादिदृश्यते तस्यान्वयव्यतिरेकाम्यां ढ- श्यमानत्वमाश्रित्य लौकिकविशेषणपशोच्यानित्यत्र यो विद्याधिकारी सूचितस्तस्य “ तितिक्षुः समा- हितो भूत्वा" इति श्रुतेस्तितिक्षुत्वं विशेषणमिहोपदिश्यते।व्याख्येयं पदमुपादाय करणव्यत्पत्त्या तस्ये- न्द्रियविषयत्वं दर्शयति मात्रा इसादिना । षष्ठीसमामं दर्शयन् भावव्युत्पत्त्या स्पर्शशब्दार्थमाह मात्राणामिति । तेषामर्थक्रियामादर्शयति ते शीतेति । संप्रति शब्दद्वयस्य कर्मव्युत्पत्त्या शब्दादिविषयपरत्वमुपेत्य समासान्तरं दर्शयन् विषयाणां कार्य कथयति अथवेति । ननु शीतोष्णप्रवृत्तेः सुखदुःखप्रदत्वस्य मिद्धत्वात् किमिति शीतोष्णयोः सम्वदुःवाभ्यां पृथकग्ग्रहणमिति तत्राह शीतमिति । विषयेभ्यरतु पृथक्कथनं तदन्तर्भुतयोरेव तयोः मुखदुःखहेत्वोरानुकल्यप्रातिकुल्ययोरुपलक्षणार्थम् । अध्यात्मं हि शीतमुणं वानुफूल्य प्रातिकूल्यं वा संपाद्य बाह्या विषयाः सुवादि जनयन्ति । ननु विषयेन्द्रियसंयोगस्यात्मनि सदा सत्त्वात्तत्प्रयुक्त- शीतादेरपि तथात्वात्तन्निमित्तौ हर्षविपादौ तस्मिन्नापन्नावित्याशङ्कयोत्तराई व्याचष्टे यस्मादिसा- दिना । अत्र च कौन्तेय भारतेति संवोधनाभ्यामुभयकुलशुद्धस्यैव विद्याधिकारित्वमित्येतदेव द्योत्यते ॥ १४ ॥ प० टी० । ननु न तानहं शोचामि किंतु तद्वियोगदुःखभाग्भवामीतिचेत्तत्राह मात्रास्पर्शा इति । मीयन्ते ज्ञायन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयस्तासां स्पर्शा विषय सह संब- न्धास्ते शीतोष्णादिसुखदुःखदा भवन्ति तेचागमापायित्वादनित्या अतस्तांरिततिक्षस्व सहस्व । यत- स्त्वं भारतो भरतवंशोत्पन्नोऽसि वीरोऽसि । अत्रैतदुक्तं भवति । पुत्रपौत्रादिविषया देहाथ मृग्यन्ते ऽतः सर्वोत्कृष्टो विषयो देह एवंविधमपिदेहं रणे वीरास्तृणीकुर्वन्ति पुनः किं सुदृद्वियोगं क्ष क्षणभङ्गुरे शीतोष्णादितुल्यमित्यर्थः ॥ १४ ॥ यं हि न व्यथयन्त्येते पुरुपं पुरुपर्पभ ॥ समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१५॥ शीतोष्णादीन् सहतः किं स्यादिति शृणु यहीति । यं हि पुरुष समे दुखसुरेव यस्य तं समदुःखमुख सुखदुःखप्राप्ती हर्षविपादरहितं धीरं धीमन्तं न ३७ हितीयाध्यायः । व्यथयन्ति न चालयन्ति नित्यात्मदर्शनादेते यथोक्ताः शीतोष्णादयः, स निय॑स्वरूपदर्शननिष्ठो इन्इसहिष्णुरमृतत्वायामृतभावाय मोक्षायेत्यर्थः, कल्पते समर्थों भवति ॥ १५ ॥ आ० टी० । अधिकारिविशेषणं तितिक्षुत्वं नोपयुक्तं केवलस्य तस्य पुमाहेतुत्वादिति शकते शीतेति । विवेकवैराग्यादिसहितं तन्मोक्षहेतुज्ञानद्वारा तदर्थमिति परिहरति शृण्यिात । तितिक्षमागस्य विवक्षितं लाभमुपलम्भयति यं हीति । हर्षविषादरहितमित्यत्र शमादिसाधनसंप- नत्वमुच्यते धीमन्तमिति । नित्यानित्यविवेकभागित्वमेतच्चोभयं वैराग्यादेरुपलक्षणम् । नित्यात्मद- र्शनं त्वमर्थज्ञानं साधनचतुष्टयवन्तमाधिकारणमन्द्य त्वंपदार्थज्ञानवतस्तस्य मोक्षौपयिकवाक्यार्थ- ज्ञानयोग्यतामाह स नियेति ॥ १५ ॥ प० टी० । अथ दुःखमहने तावदुपायद्वयमस्ति धैर्य विवेकश्च तत्र प्रथममाह यंहीति । एते मात्रास्पर्शा यं पुरुषं पुरुषार्थाधिष्ठानभूतं न व्यथयन्ति नाभिभवन्ति ।भो पुरुषर्षभ पुरुषश्रेष्ठ तं धीर- मविक्रिय सहनशीलं समदुःखसुखं सुखेऽस्पृहं दुःखे निर्विषादमिति पुरुषविशेपणानि स पुरुषो ऽमृतत्वाय जीवन्मुक्तत्वाय कल्पते ॥ १५ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः ॥ उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥ १६ ॥ इतश्च शोकमोहावकत्वा शीतोष्णादिसहनं युक्तं यस्मान्नासत इति । नासतोऽविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भव- नमस्तिता, न हि शीतोष्णादिसकारणं प्रमाणैर्निरूप्यमाणं वस्तु सद्भवति वि- कारो हि सः, विकारश्च व्यभिचरति, यथा घटादिसंस्थानं चक्षुषा निरूप्यमा- णं मृद्दयतिरेकेणानुपलब्धेरसत्तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरस- आ० टी० । अधिकारिविशेषणे तितिक्षुत्वे हेत्वन्तरपरत्वेनोत्तरश्लोकमवतारयति इतश्चति । इतःशब्दार्थमेव स्फुटयति यस्मादिति । यतः शीतादेः क्लेशादिहेतोरनात्मनो नास्ति वस्तुत्वं वस्तु नश्चात्मनो निर्विकारत्वेनैकरूपत्वमतो मुमुक्षोर्विशेषणं तितिक्षुत्वं युक्तभित्याह नेयादिना । कार्य- स्यासत्त्वेऽपि कारणस्य सत्त्वे नात्यन्तासत्त्वासिद्धिरित्याशङ्कच विशिनष्टि सकारणस्यति । नासत इत्युपादाय पुनर्नकारानुकर्षणमन्वयार्थम्। असतः शून्यस्यास्तित्वप्रसङ्गाभावाद् अनसक्तप्रतिषेधप्रस- क्तिरित्याशङ्कचाह न होति । विमतमतात्त्विकमप्रामाणिकत्वाद रज्जुसवित्, न हि धर्मिग्राहकस्य प्रत्यक्षादेस्तत्त्वावेदकं प्रामाण्यं कल्प्यते विषयस्य दुर्निरूपत्वादतोऽनिर्वाच्यं द्वैतमित्यर्थः । कथं पुन- रभ्यक्षादिविषयस्य शीतोष्णादिद्वैतस्य दुर्निरूपत्वेनानिर्वाच्यत्वं तत्राह विकारो होति । ततश्च विमतं मिथ्या आगमापायित्वात् संप्रतिपन्नवादिति फलितमाह विकारश्चेति । वाचारम्भणश्रुतते? तमिथ्यात्वेऽनुग्राहकत्वं दयितुं चकारः । किं घ कार्य कारणाद्भिन्नमभिन्नं वेति विकल्प्याद्यं दूषयति यथेति । निरूप्यमाणमन्तर्बहिश्चेति शेषः । विमतं कारणान्न तत्त्वतो भिद्यते कार्यत्वाद- टवदित्यर्थः । इतोऽपि कारणानेदेन नास्ति कार्यम् 'आदावन्ते च यन्नास्ति वर्तमानपि तत्तथा' इति न्यायादित्याह जम्मति.। यदि कार्य कारणादभिन्नं तदा तस्य भेदेनासत्त्वे पूर्वस्मादविशेषस्ता- दात्म्येनावस्थानं तु न युक्तं तस्यापि कारणव्यतिरेकेणाभावात् । कार्यकारणविभागविधुरे वस्तुनि ३८ श्रीमद्भगवगीता- जन्मप्रध्वंसाभ्यां प्रागृवं चानुपलब्धः, (कार्यस्य घटादोर्मदादिकारणस्य (तत्कारणस्य) च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वं, तदसत्वे सर्वाभावप्रसङ्ग इति चेन , सर्वत्र बुद्दियोपलब्धेः, सद्बुद्धिरसद्बुद्धिरिति,यहिषया बुद्धिर्न व्य- भिचरति तत्सत् यहिषया व्यभिचरति तदसद् इति सदसहिभागे बुद्धितन्त्रे स्थिते, सर्वत्र हे बुद्दी सर्वैरुपलभ्येते समानाधिकरणे,न नीलोत्पलवत्, सन् घटः सन् पटः सन् हस्तीत्येवं सर्वत्र तयोर्बुद्दयोघटादिबुद्धिर्व्यभिचरति, तथा च दर्शितं, न तु सद्बुद्धिस्तस्माद् घटादिबुद्धिविषयोऽसद् व्यभिचारात्, न तु सद्बुद्धिविषयोऽव्यभिचारात् ।घटे विनष्ट घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिर- पि व्यभिचरतीति चेत् न पटादावपि सद्बुद्धिदर्शनात् । विशेषणविषयैव कार्यकारणपरंपराया विभ्रमत्वादित्यभिप्रत्याह मृदादीति । कार्यकारणविभागविहीनं वस्त्वेव नास्तीति मन्वानश्चोदयति तदसत्त्वइति । अनुवृत्तव्यावृत्तबुद्धिद्वयदर्शनादनुवृत्ते च व्यावृत्तानां क- ल्पितत्वादकल्पितं सर्वभेदकल्पनाधिष्टानमकार्यकारणं वस्तु सिध्यतीति परिहरति न सर्वत्रेति । संप्रति सतो वस्तुत्वे प्रमाणमनुमानमुपन्यस्यति यद्विषयेति । यद्वयावृत्तेष्वनुवृत्तं तत्सत् यथा सर्प- धारादिष्वनुगतो रज्ज्वादेरिदमंशः, विमतं सत्यमव्यभिचारित्वात् संप्रतिपन्नवदित्यर्थः । व्यावृत्तस्य कल्पितत्वे प्रमाणमाह यद्विषयेयादिना । यद्वयावृतं तन्मिथ्या यथा सर्पधारादि, विमतं मिथ्या व्यभिचारित्वात् संप्रतिपन्नवदित्यर्थः, इत्यनुमानद्वयमनुमृत्य सतोऽकल्पितत्वम् असतश्च कल्पितत्वं स्थितमिाते शेषः । ननु नेदमनुमानद्वयमुपपद्यते समस्तद्वैतवैतथ्यवादिनो विभागाभावादनुमानादि- व्यवहारानुपपत्तेस्तत्राह सदसदिति । उक्ते विभागे बुद्धिद्वयाधीने स्थित सत्यनुमाना- दिव्यवहारो निर्वहति प्रातिभासिकविभागेन प्रातिभासिकविभागेन वियोगात् परमार्थस्यैव तद्धेतुत्व केव- लव्यतिरेकाभावादित्यर्थः । कुतः सदसद्विभागस्य बुद्धिद्वयाधीनत्वं बुद्धिविभागस्यापि तदाभावात्तत्राह मर्वत्रेति । व्यवहारभूमिः सप्तम्यर्थः । बाहावभागस्याप कल्पितस्यैव बोध्यविभागप्रतिभासहेतुतेति भावः । बुद्धिद्वयमनुरुध्य सदसद्विभागे सतः सामान्यरूपतया विशेषाकाङ्क्षायां सामान्यविशेषे द्वे व- स्तुनी वस्तुभूते स्यातामिति चेत्तत्राह समानाधिकरणइति । पदयोः सामानाधिकरप्यं बुद्धचोरुपचर्य- ते, सोऽयमिति सामानाधिकरण्यवरटः सन् इत्यादि सामानाधिकरण्यमेकवस्तुनिष्ठं वरतुभेदे घटपट- योरिव तदयोगादित्यर्थः । नीलमुत्पलमितिवद्धर्मधर्मिविषयतया सामानाधिकरण्यस्य मुवचत्वान्न व- स्त्वैक्यविषयत्वमिति चेन्नेत्याह न नीति। न हि सामान्यविशेषयोभेदेऽभेदे च तद्गावो भेदाभेदी च विरुद्धावतो जातिव्यक्तयोः सामानाधिकरण्यं नीलोत्पलयोरिव न गौणं किं तु व्यावृत्तमनवृत्ते कल्पित- मित्येकनिष्ठमित्यर्थः । सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशसेवमिति । तुल्यौ हि तत्रापि विकल्पदोषाविति भावः । सामानाधिकरण्यानुपपत्त्या द्वे वरतुनी सामान्यविशेषाविति पक्ष प्रतिक्षिप्य विशेषावेव वस्तुनी इतिपक्षं प्रतिक्षिपति तयोरिति । बुद्धिव्यभिचाराद्वोध्यव्यभिचारोऽपि कथं व्यावृ- नानां विशेषाणामवस्तुत्वमित्याशङ्कयाह तथाचेति । विकारो हि स इत्यादाविति शेषः। न चैकं व स्तु सामान्यविशेषात्मकमेकस्य द्वैरूप्यविरोधादित्यभिप्रेत्य सामान्यमेकमेव वस्तु तद्बुद्धेरव्यभिचाराद् , बोधस्यापि सतस्तथात्वादित्याह नत्विति । व्याभिचरतीति पूर्वेण संबन्धः । विशेषाणां व्यभिचारित्वे सतश्चाव्यभिचारित्वे फलितमुपसंहराते तस्मादिति । असत्त्वं कल्पितत्वम् । तच्छब्दार्थमेव स्कोर- यति व्यभिचारादिनि । सदबुद्धिविषयस्य सतोऽकल्पितत्वे तच्छन्दोपात्तमेव हेतुमाह अन्यभिचा- । अथ हितीयाध्यायः । सा सद्बुद्धिरतोपि न विनश्यति सद्गुद्धिवद् घटबु- द्विरपि घटान्तरे दृश्यते इति चेन पटादावदर्शनात् । सद्बुद्धिरपि नष्टे घटे. न दृश्यत इति चेन विशेष्याभावात् । सद्बुद्धिर्विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किं विषया स्यात् नतु पुनः सद्बुद्दिविषयाभा- वादेकाधिकरणत्वं घटादिविशेष्याभावेन युक्तमिति चेन सदिदमुदकमिति मरीच्यादावन्यतराभावेऽपि सामानाधिकरण्यदर्शनात् । तस्मादेहादेईन्दस्य च सकारणस्यासतो न विद्यते भाव इति । तथासतश्वात्मनोऽभावोऽवि. रादिति । सद्बुद्धिव्यभिचारद्वारा बोध्यस्यापि व्यभिचारात्तदव्यभिचारित्वहेतोरसिद्धिरिति शङ्कते घटे विनष्ट इति। सबुद्धेर्चटमात्रबुद्धिवटविषयत्वाभावान्न घटनाशे व्यभिचारोऽस्तीति परिहरति न पटादाविति। सदबुद्धेरवटविषयत्वे निरालम्बत्वायोगाद् विषयान्तरं वक्तव्यमित्याशङ्कयाह विशेष- णोते। सतोऽकल्पितत्वहेतोरव्यभिचारित्वस्यासिद्धिमुद्धृत्य विशेषाणां कल्पितत्वहेतोर्व्यभिचारित्वस्यासिद्धि शकते सदिति । यथा सद्बुद्धिघंटे नष्टे पटादौ दृष्टत्वाद् अव्यभिचारिणी अव्यभिचार: सतो दर्शि- तस्तथा घटवुद्धिरपि घटे नष्ट घटान्तरे दृष्टेत्यव्यभिचाराद घटे व्यभिचारासिद्धी विशेषान्तरेप्वपि कल्पित- त्वहेतोर्व्यभिचारो न सिध्यतीत्यर्थः । घटबुद्धेर्घटान्तरे दृष्टत्वेऽपि पटादावदृष्टत्वेन व्यभिचारात् । प. टादिविशेषेष्वपि व्यभिचारित्वसिद्धिरित्युत्तरमाह न पटादाविति। विशेषाणामेवं व्यभिचारित्वे सतो पि तदुपपत्तेरव्यभिचारित्वहेतुसिद्धितादवस्थ्यमिति शङ्कते सद्बुद्धिरिति । घटादिनाशदेशे तदुपरक्ताका- रेण सत्त्वाभानेऽपि नासत्त्वं घटाद्यभावाधिष्ठानतया भानादित्याह न विशेष्यति । यथा सर्वगता जा- 'तिरित्यत्र खण्डमुण्डादिव्यक्तचभावदेशे गोत्वं व्यञ्जकाभावान्न व्यज्यते न गोत्वाभावात् तथा सत्त्व- मपि घटादिनाशे व्यञ्जकाभावान्न भाति न स्वरूपाभावादित्युक्तमेव प्रपश्चयति सदिसादिना । सप्र- तियोगिकविशेषणत्वव्याभिचारेऽपि स्वरूपाव्यभिचाराद्युक्तं सतः सत्त्वमिति भावः । द्वयोः सतोरेव विशेषणविशेष्यत्वदर्शनात् घटसतोरपि विशेषणविशेष्यत्वे द्वयोः सत्त्वध्रौव्याद् घटादिविकल्पितत्वा- नुमानं सामानाधिकरण्यधीबाधितमिति चोदयति एकेति । अनुभवमनुसृत्य बाधितयि- षयत्वमुक्तानुमानस्य निरस्यति नेयादिना । घटादेः सति कल्पितत्वानुमानस्य दोषराहि- त्ये फलितमुपसंहरति तस्मादिति । प्रथमपादव्याख्यानपरिसमाप्तावितिशब्दः । ननु नेदं व्याख्यानं भाष्यकाराभिप्रेतं सर्वदैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात् केनापि पुनर्द- विदग्धेन.स्वमनीपिकयोत्प्रेक्षितमेतदिति चेत्, मैवं, किमिदं द्वैतप्रपश्चस्य शून्यत्वं किं तुच्छत्वं किं सद्विलक्षणत्वं, नाद्योऽनभ्युपगमात्, द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो भाष्यविरोधश्च, स- व हि शास्त्रं तद्भाप्यं च द्वैतस्य सत्यत्वानधिकरणत्वसाधनेनाद्वैतसत्यत्वे पर्यवसितामिति त्रैवि- द्यवृद्धस्तत्र तत्र प्रतिष्ठापितं तथा च प्रक्षेपाशङ्कासंप्रदायपरिचयाभावादिति द्रष्टव्यम् । आनात्मजात- स्य कल्पितत्वेनावस्तुत्वप्रतिपादनपरतया प्रथमपादं व्याख्याय द्वितीयपादमात्मनः सर्वकल्पनाधिष्टान- स्याकल्पितत्वेन वस्तुत्वप्रसाधनपरतया व्याकरोति तथेति । नन्वात्मनः सदात्मनो विशेषेषु विनाशिषु तदुपरक्तस्य विनाशः स्यादित्याशङ्कय विशिष्टनाशेऽपि स्वरूपानाशस्योक्तत्वान्मैवमित्याह सर्वत्रनि। ननु कदाचिदसदेव पुनः सत्त्वमापद्यते प्रागसतो घटस्य जन्मना सत्त्वाभ्युपगमात् स च कदाचिदसत्त्वं प्रपिपद्यते स्थितिकाले सतो घटस्य पुनर्नाशेनामत्त्वाङ्गीकारादेवं सदसतोरव्यवस्थितत्वाविशेषादुभयो- रपि हेयत्वमुपादेयत्वं वा तुल्यं स्यादिति तबाह एवमिति । तुशब्दो दृष्टशब्देन मंबध्यमानो दृष्टिम- ४० श्रीमद्भगवगीता- घमानता न विद्यते सर्वत्राव्यभिचारादित्यवोचाम, एवमात्मानात्मनोः सदसतोरुभ. योरपि दृष्ट उपलब्धोऽन्तो निर्णयः सत्सदेवासदसदेवति , त्वनयोर्यथोक्त- योस्तत्त्वदर्शिभिः, तदिति सर्वनाम सर्वच ब्रह्म तस्य नाम तदिति तद्भावस्तत्त्वं ब्र- ह्मणो याथात्म्यं तद् द्रष्टुं शीलं येषां ते तत्त्वदर्शिनस्तैस्तत्त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि इन्हा- नि विकारोऽयमसन्नेव मरीचिजलवन्मिथ्यावभासत इति मनसि निश्चित्य तिति- क्षस्वेत्यभिप्रायः ॥ १६ ॥ वधारयति, न हि प्रागसतो घटस्य सत्त्वमसत्त्वे स्थिते सत्त्वप्रातिविरोधादसत्त्वनिवृत्तिश्च सत्त्वप्रासया घेत् प्राप्तमितरेतराश्रयत्वमन्तरेणैव सत्त्वापत्तिमसत्त्वनिवृतावसत्त्वमनवकाशि भवेत्, एतेन सतोऽसत्त्वाप- त्तिरपि प्रतिनीतेति भावः । कथं तर्हि सतोऽसत्त्वमसतश्च सत्वं प्रतिभातीत्याशङ्कय तत्त्वदर्शनाभा- वादित्याह तत्त्वेति । तस्य भावस्तत्वं न च तच्छब्देन परामर्शयोग्यं किं चिदस्ति । प्रकृतं प्रति नियत- मित्याशङ्कय व्याचष्टे तदित्यादिना । ननु सदसतोरन्यथात्वं के चित् प्रतिपद्यन्ते के चित्तु तयोरुक्त- निर्णयमनुसृत्य तथात्वमेवाभिगच्छन्ति तत्र केषां मतमेषितव्यमिति तत्राह त्वमपीति ॥ १६ ॥ प० टी०। अथ द्वितीयोपायमाह नामतइति । असतः शुक्तिकारजतवदसद्रूपस्य दृश्यमात्रस्य भावो वर्तमानत्वं वक्तुं न शक्यते । तथा सतः सच्छब्दव्यपदेश्यस्यात्मनोऽभावोऽवर्तमानत्वं च वक्तुं न शक्यते। एवमसत्सतोरन्तो निर्णयस्तत्त्वदर्शिभिः स्वस्वरूपाभिज्ञईष्टः । अत्रैतदुक्तं भवति यत्रो- तरक्षणे बाधो दृश्यते तदसच्छन्दव्यपदेश्यम् । तथा यत्सर्वदाप्यवाधितं तत् सच्छन्दव्यपदेश्यम् अतोन्यदातमितिश्रुतेः । तदुक्तमध्यात्मसारे — यद्वत्क्षणार्धमवभाति मरीचिकाम्भश्चासंनिधानमपि रज्जु- भुजंगमुख्यम् ।। स्वप्नः क्षणावधि सुपुप्त्यवधीह तद्वद्विश्वं विभाति तदपि प्रवदन्ति सत्यम् ।। सर्वप्रपञ्च- विलयावसरे सुषुप्तौ यत्प्राणवाय्वनुचरं चिदिहास्ति ननम् ॥ अर्थप्रतीतिवशतोऽपि च जागरादौ त- स्मात्सदित्याभहितं खलुचित्स्वरूपम्' इति । एवमवस्थात्रयेऽप्यबाधिते सत्य ब्रह्मणि निविष्टचित्तानां . तत्वदर्शिनामसद्रूपशीतोष्णादिद्वन्द्वदुःखमहने कियानायासः । यथा स्वप्ने सर्पव्याबदष्टस्य जागरे तत्प्रतिकारासंभवादित्यर्थः ॥ १६ ॥ आविनाशि त तद्विद्धि येन सर्वमिदं ततम् ॥ विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥ १७ ॥ किं पुनस्तत्सत् यत् सदेव सर्वदास्तीत्युच्यते, अविनाशीति । अविना- शि न विनष्टुं शीलं यस्येति । तुशब्दोऽसतो विशेषणार्थः, तहिद्धि विजानीहि। किं, येन सर्वमिदं जगत्ततं व्याप्तमाकाशेनेव घटादयः । विनाशमदर्शनमभाव- मव्य यस्य , न व्येति, उपचयापचयो न यातीत्यव्ययं तस्याव्ययस्य , नैतत् संदाख्यं ब्रह्म स्वेन रूपेण व्येति निरवयवत्वादेहा. १ शीतोष्णादीनि इत्याग्भ्य निश्चित्येन्यन्तः पोठा लि. पुस्तके नास्ति । २ सदायन राह्मणा साकाशीमत्यधिक मद्रितपस्तके ।

हितीयाध्यायः । दिवनाप्यात्मीयेनात्मीयाभावाद् यथा देवदत्तो धनहान्या व्येति न त्वेवं ब्र- झ व्येत्यतोऽव्ययस्यास्य ब्रह्मणो विनाशं न कश्चित् कर्तुमर्हति न कश्चिदा- स्मानं विनाशयितुं शक्नोतीश्वरोऽपि, आत्मा हि · ब्रह्म स्वात्मनि च क्रिया- विरोधात् ॥ १७ ॥ आ० टी०। ननु सदिति सामान्यं स्वरूपं वा, प्रथमे तस्य विशेषसापेक्षतया प्रलयदशायाम- शेषविशेषविनाशे विनाशः स्यात्, न चात्मादयो विशेषास्तदापि सन्तीति वाच्यम्, आत्मातिरिक्ता- नां विशेषाणां कार्यत्वाङ्गीकारात् प्रलयावस्थायामनवस्थानादात्मनस्तु सामान्यात्मनो धर्मित्वादुक्त- दोषाद्, द्वितीये तु स्वरूपस्य व्यावृत्तत्त्वे कल्पितत्वाद्विनाशित्वमनुवृत्तत्वेन तस्यैव सामान्यतया प्रागु- क्तदोषानुपक्तिरिति मन्वानश्चोदयाते किं पुनरिति । सामान्यविशेषभावशून्यमखण्डकरसं सदेवेत्या- दिश्रुतिप्रमितं सर्वविक्रियारहितं वस्तु प्रतं सद्विवक्षितमित्युत्तरमाह उच्यत इति । आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह येनेति । अत्मनो विनाशाभावे युक्तिमाह विनाश- मिति। आत्मनो विनाशमिच्छता स्वतो वा परतो वा नाशस्तस्येप्यते नाद्य इत्याह अविनाशीति। देहा- द्वितमसदुच्यते ततः सतो विशेषणं स्वतो नाशराहित्यम् । तस्य द्योतको निपात इत्याह तुशब्द इति । आकाक्षापूर्वकं विशेष्यं दर्शयति किमित्यादिना। विमतमविनाशि व्यापकत्वादाकाशवत् न हि प्रमितमेवोदाहरणं किं तु प्रसिद्धमपीति भावः । न द्वितीय इत्याह विनाशमिति । न खल्वस्य विनाशं कतं कश्चिदहतीति संबन्धः । विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां वैराश्यमाश्रित्य व्याकरोति अदर्शनमिति । न कश्चिदस्याभावं कतुं शक्नोतीत्यत्र हेतुमाह अव्ययस्येति । ब्रह्म हि स्वरूपेण व्येति स्वसन्बन्धिना वेति विकल्प्याद्यं दूषयति नैतदिति । न हि निरवयवस्य स्वावयवाप- चयरूपव्ययः संभवतीत्यत्र वैधयं दृष्टान्तमाह देहादिवदिनि। द्वितीयं निरस्यति नापीति । तदेव न्यतिरेकदृष्टान्तेन स्पष्टयति यथेति । द्विविधेऽपि व्ययायोगे फालतमाह अतइति । किं च ब्रह्म परतो न नश्यत्यात्मत्वाद् घटवादे त्याह न कश्चिदिति । आत्मत्वहेतोरसिद्धि मुद्धरति आत्माहीति । ता- दात्म्य श्रुतिरत्र होते हेतः क्रियते । अस्तु तर्हि रवयमेव ब्रह्मात्मनो नाशकमुद्बन्धनादिदर्श- नान्नेत्याह स्वात्मनीति ॥ १७ ॥ प० टी० । अथोक्तयुक्तिपरिनिष्टितमर्थमाह अविनाशीति । तद्वस्तु सत्यमविनाशीति विडि न विद्यते विनाशो यत्य तदविनाशीत जानीहि । तत्किम् । येनाध्यासाश्रयाभूतेनाधिकरणरूपेण सर्व- मिदं दृश्यनातं ततं विस्तार प्राप्तम् । न हि सत्याश्रयव्यतिरेकेणासत्यं भासते । शुक्तिकाया असत्त्वे रजतमिवेत्यर्थः । अतोऽव्ययत्यास्य विनाशं कः कर्तुमर्हति न कोऽपीत्यर्थः ॥ १७ ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ॥ अनाशिनोऽप्रमेयस्य तस्माद् युब्यस्व भारत ॥१८॥ किं पुनस्तदसद् यत् स्वात्मसत्तां व्यभिचरतीत्युच्यते अन्तवन्त इति । अन्तो विनाशो विद्यते येषां तेऽन्तवन्तो यथा मृगतृष्णिकादी? सद्बुद्धिरनुत्ता प्रमाणनिरूपणान्ते विच्छिद्यते स तस्या अन्तस्तथेमे देहाः स्वप्नमायादेहादिवच्चान्तवन्तो नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयस्या- ' मृगतृष्णिकोदकादौ--पा. लिखित पुस्तके ।

४२ श्रीमद्भगवद्गीता- त्मनोऽन्तवन्त इत्युक्ता विवेकिभिरित्यर्थः । नित्यस्यानाशिन इति न पुनरु- क्तं , नित्यत्वस्य विविधत्वाल्लोके नाशस्य च ,यथा देहो भस्मीभूतोऽदर्शनं ग- तो नष्ट उच्यते विद्यमानोऽपि यथान्यथापरिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते तत्रानाशिनो नित्यस्येति हिविधेनापि नाशेनासंबन्धोऽस्येत्यर्थः । अन्यथा पृथिव्यादिवदनित्यत्वं स्यादात्मनस्तन्माभूदिति नित्यस्यानाशिन इ- त्याह । अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैरपरिच्छेद्यस्येत्यर्थः। नन्वागमे- 'न,मात्मनः नात्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम्, स्वतःसिद्धत्वात् सिद्धे ह्यात्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वमित्थमहमि. त्यात्मानं प्रमाये पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते, न ह्यात्मा नाम कस्य चिदप्रसिद्धो भवति । शास्त्रं त्वन्त्यं प्रमाणमतधर्माध्यारोपणमात्रनिवर्त- आ० टी० । सदसतोरनन्तरप्रकृतयोः स्वरूपाव्यभिचारित्वेन परमार्थतया सन्निर्धारितमिदा. नीममन्निर्दिधारयिपया पृच्छति किं पुनरिति । असदेवेति निर्धारितत्वात् प्रश्नस्य निरवकाशत्वमा- शकच शुन्यं व्यावर्त्य विवक्षितमसन्निर्धारयितुं तस्य मावकाशत्वमाह यत् स्वात्मेति । देहादेरना- त्मवर्गस्य प्रकृतासच्छब्दविषयतेत्याह उच्यतइति। तेषां स्वातन्त्र्यं व्युदस्यति नियस्येति । आ- काशादिव्यावृत्त्यर्थं विशिनाष्ट शरीरिण इति । परिणामनित्यत्वं व्यवच्छिनत्ति अनाशिनइति । तस्य प्रत्यक्षाद्यविषयत्वमाह अप्रमेयस्येति । देहादेरवस्तुत्वादात्मनश्चैकरूपत्वाद् युद्धे स्वधर्म प्रवृ- त्तस्यापि तव न हिमादिदोपसंभावनेत्याह तस्मादिति । ननु देहादिषु सदगुद्धेर नुवृत्तेस्तम्याविच्छेदाभा- वात् कथमन्तवत्त्वं तेषामिष्यते तत्राह यथेति। तथेमे देहाः सद्बुद्धिमाजोऽपि प्रमाणतो निरूपणायाम- वसाने विच्छेदादन्तवन्तो भवन्तीति शेपः । देहत्वादिना च जाग्रद्देहादरन्तवत्त्वं संप्रतिपन्नवदनुमातुं शक्यमित्याह स्वप्नति । शरीरादेरन्तवत्त्वेऽपि प्रवाहरु.पेणात्मनस्तत्संबन्धस्यानन्तवत्त्वमाशङ्क्याह नियस्येति । प्रवाहस्य प्रवाहिव्यतिरेकेणानिरूपणान्न तदात्मना देहाद्यभावे मंबन्धमिद्धिरित्यभिमन्धा- योक्तं विकिभिरिति । पदद्वयध्यैकार्थत्वमाशक्य निरस्यति निसस्येसादिना । नित्यत्वस्य है विष्यमिद्ध्यर्थं नाशद्वैविध्यं प्रतिज्ञातं प्रकटयति यथेसादिना । नाशस्य निरवशपत्वेन मावशषत्वेन च मिद्धे वैविध्ये फलितमाह तति । विशेषणाभ्यां कूटस्थनित्यत्वमात्मनो विवक्षितमित्यर्थः । अन्य- तरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्कचतेत्यनिष्टापत्तिमाशङ्कयाह अन्यथेति । औप- निषदत्वविशेषणमाश्रित्याप्रमेयत्वमाक्षिपति नन्विति । इतश्चात्मनो नाप्रमेयत्वमित्याह प्रत्यक्षादिन- ति । तेन चागमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते तस्मिन्नेवाज्ञानत्वसंभवाद, अज्ञातज्ञापकं प्रमाणमिति च प्रमागलक्षणादित्यर्थः । एतदप्रमेयमित्यादिश्रुतिमनुसृत्य परिहरति नेयादिना । कथं मानमनपेक्ष्यात्मनः सिद्धत्वमित्याशङ्कयोक्तं विवृणोति सिद्धहीति । प्रमित्सोः प्रमेयमिति शेषः । त- देव व्यतिरेकमुखेन विशदयति न होति । आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन्न प्रमाणमन्वेषणी यमित्याह न ह्यात्मेति । प्रत्यक्षादेरनात्मविषयत्वात्तत्र चाज्ञातज्ञातताया व्यवहारसंभवात्तत्प्रामा- ण्यस्य च व्यावहारिकत्वादिशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः। यद्यपि नात्मनि तत्प्रामाण्यं तथापि तद्वितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यंभाविनीत्याशङ्कयाह शास्त्रंत्विति । शास्त्रेण प्रत्यग्भुते १ नवागमनानमा--पूर्व स्वतः मिद्धत्वादिति पाठः क्वचित् । २. अप्रमाए-पा. पु. गुस्तके । ३ अन्यन्ताप्रमाणातद्धर्मा-पा. लि. १ पुस्तके ।

४३ हितीयाध्यायः। कत्वेन प्रमाणत्वमात्मनः प्रतिपद्यते न त्वज्ञातार्थज्ञापकत्वेन। तथा च श्रुतिः- यत् साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तर” इति । यस्मादेवं नित्योऽवि- कियश्वात्मा तस्माद् युद्धयस्व युद्धादुपरमं मा कार्षीरित्यर्थः । न ह्यत्र यु. कर्तव्यता विधीयते, युद्धे . प्रवृत्त एव ह्यसौ शोकमोहप्रतिबद्धस्तूष्णीमास्तेऽ- तस्तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते , तस्माद्युद्ध्यस्वेत्यनु- वादमात्रं न विधिः ॥ १८ ॥ ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वाद्युक्तमस्यान्तत्वमपौरुषेयतया निर्दोषत्वाञ्चागमस्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यं तस्य स्वतः सिद्धत्वेनाविषयत्वादज्ञातज्ञाप- नायोगादित्याशङ्कय स्वतो भासमानोऽपि प्रतीतो मनुष्योऽहं कर्ताहमित्यादिना मनुष्यत्वकर्तृत्वादीना- मत दर्भाणामध्यारोपणेनात्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेनात्मनो विषयत्वमनापाधव शास्त्र प्रामाण्यं प्रतिपद्यते सिद्धंतु निवर्तकत्वादिति न्यायादित्याह अतद्धर्मेति । घटादाविव स्फुरणातिशय- जकनत्वेन किमित्यात्मनि शास्त्रप्रमाण्यं नेष्टमित्याशङ्कय जडत्वाजडत्वाभ्यां विशेषादितिमत्वाह नत्वि- ति । ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह तथा चेति । साक्षादन्यापेक्षामन्तरेणापरो- क्षादपरोक्षस्फुरणात्मकं यद ब्रह्म न च तस्यात्मनोऽर्थान्तरत्वं सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात्त- मात्मानं व्याचक्षते इति योमना। अप्रमेयत्वेनाविनाशित्वं प्रतिपाद्य फलितं निगमयति यस्मादिति । स्वधर्मनिवृत्तिहेतृनिषेधे तात्पर्य दर्शयति युद्धादिति । आत्मनो नित्यत्वादिस्वरूपमुपपाद्य युद्ध कर्त- व्यत्वविधानाज़ ज्ञानकर्मसमुच्चयोऽत्र भातीत्याशङ्कचाह न हीति । युद्धचस्वेति वचनात्तत्प्रवर्तक- त्वविधिरस्तीत्याशङ्कयाह युद्धइति । कथं तर्हि कथं भीष्ममहमित्याद्यर्जुनस्य युद्धापरमपरं वचनमिति तत्राह शोकेति । यदि स्वतो युद्धे प्रवृत्तिस्तर्हि भगवद्वचनस्य का गतिरित्याशङ्कयाह तस्येति । भगवद्वचनस्य प्रतिबन्धनिवर्तकत्वे सत्यर्जुनप्रवृत्तेः स्वाभाविकत्वे फलितमाह तस्मादिति ॥ १८ ॥ ५० टी० । अथ यदर्थमिहापक्रमस्तदाह अन्तवन्तइति. नित्यस्य सर्वदैक स्वभावस्यात एवानाशिनो ऽप्रमेयस्यापरिच्छिन्नस्य शरीरिणः शरीरावच्छिन्नस्य परमात्मनः सुखदुःखयोनयो देहा- स्तत्त्वदर्शिभिरन्तवन्तः क्षणभङ्गरा उक्ता घटान्तर्गताकाशस्य घटा इव । एकस्यैव बहुभिः स्वरूपैर्नट- तो नटस्यवेत्यर्थः । यस्मादेवं तस्माद्भीष्मद्रोणादिवधविषये विगतज्वरो भूत्वा युध्यस्व युद्धं कुरुप्व । यहा इमे स्वप्नावस्थायामनुभूयमाना उच्चावचदेहा अन्तदन्तो जागृद्धवस्थायां नश्वरा वेदेन प्रतिमादिताः सन्ति । कस्याशरीरिणस्तत्तच्छरीरावस्थेन तत्तद्रोगान् भुञ्जानस्यात्मनो नित्यस्या- वस्थात्रयेऽप्यनुस्यूतस्य शेपं पूर्ववत् । तदुक्तं-'सुखं तल्पगतो येन स्वप्नदहन दिक्तटान् ॥ परिभ्रमसि हे राम स देहस्ते क्व संप्रति' ॥ श्रुतिरपि शातपथी-“अर्थतत्स्वप्नया चरति ते हास्य लोकास्तदुतेव महा- राजा भवत्युतेव महाब्राह्मण उतवोच्चावचं निगच्छति" इति । भाप्यं--स्वप्नया स्वप्नावस्थया चरति व्यवहरति तस्यात्मनो लोका भोगस्थानानि । शेषं स्पष्टम् । तदुक्तं.-- स्वमे यथा पश्यति देहादशम्' इत्यादि ॥ १८ ॥ य एनं वेति हन्तारं यश्चैनं मन्यते हतम् ॥ उभौ तो न विजानीतो नायं हन्ति न हन्यते ॥ १९॥ शोकमोहादिसंसारकारणनिवृत्त्यर्थ गीताशास्त्रं न प्रवत्तकमित्येतस्या- उक्ता- ४४ श्रीमद्भगवद्गीता- र्थस्य साक्षीभूते ऋचावानिनाय भगवान् । यत्तु मन्यसे युद्धे भीष्मादयो मया हन्यन्ते ऽहमेव तेषां हन्तेत्येषा १बुद्धिम॒पैव ते कथं य एनमिति । य एनं प्र- कृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं, यश्चैनमन्यो म- म्यते हतं देहहननेन हतोऽहमिति हननक्रियायाः कर्मभूतं, तावुभौ न विजा- नीतो न ज्ञातवन्तावविवेकेनात्मानमहंन्प्रत्ययविषयं हन्ताहं हतोऽस्म्यहमि- ति देहहननेनात्मानं यो विजानीतस्तावात्मस्वरूपानभिज्ञावित्यर्थः। यस्मान्ना- यमात्मा हन्ति न हननक्रियायाः कर्ता न च हन्यते न च कर्म भव- तीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥ आ० टी० । अविनाशि तु तद्विद्धीत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनमुत्तरार्धेन निरीश्वरवाद- स्य परिणामवादस्य वा निराकरणमात्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनाथमन्तवन्त इत्यादि वचनमिति केचित् । अस्तु नामायमपि पन्थाः, पूर्वोक्तस्य गीताशास्त्रार्थस्योत्प्रेक्षामात्र- मूलत्वं निराकर्तुं मन्त्रद्वयं भगवानानीतवानिति श्लोकद्वयत्य संगति दर्शयति शोकमाहादीति । तत्र प्रथममन्त्रस्य संगतिमाह यत्त्विति । प्रत्यक्षनिवन्धनत्वादमुष्या बुद्धेम॒पात्वमयुक्तामत्याक्षिपात कथ- मिति । प्रत्यक्षस्याज्ञानप्रसूतत्वेनाभासत्वात् त्वत्कृता बुद्धिर्न प्रमेति परिहरति य एनमिति । हन्ता चेन्मन्यते हन्तुम् ' इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे य एनमिति । हन्तारं हतं वात्मानं मन्यमानस्य कथमज्ञानमित्याशङ्कचाह हन्ताहमिति । हन्तृत्वादिज्ञानमज्ञानमित्यत्र हे तुमाह यस्मादिति । अत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतु दर्शयति अविक्रियत्वा- दिति ॥ १९ ॥ प० टी० । अथ एतान्न हन्तुमिच्छामीत्यादिना यश्चात्मनो हन्तृत्वनिमित्तं दुःखमुक्तं तदपि निनिमित्तमित्याह यएनमिति । एवमात्मनो हननक्रियायां कर्मत्वं कर्तृत्वमपि नास्ति । यहद घटेनैव घटस्फोटने तदन्तर्गताकाशस्य कर्मकर्तृभावो नास्ति । तत्र हेतुमाह नायमिति ॥ १९ ॥ न जायते म्रियते वा कदाचि- नायं भूत्वा भविता वा न भूयः॥ अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ कथमविकिय आत्मेति हितीयो मन्त्रः। न जायते नोत्पद्यते जनिल- क्षणा वस्तुविक्रिया नात्मनो विद्यतइत्यर्थः । तथा न म्रियते वा शब्दश्वार्थे, न म्रियते चेत्यन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते, कदाचि- च्छब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते न कदाचिज्जायते न कदाचिन् म्रियत इत्येवं, यस्मादयमात्मा भूत्वा भवनक्रियामनुभूय पश्चादभविता अभावं गन्ती वा- १ इन्ता धेषा-पा. लि. पम्तो ।

हितीयाध्यायः । न भूयः पुनस्तस्मान्न म्रियते यो हि भूत्वा न भविता स नियत इत्युच्यते लोके, वाशब्दानशब्दाचायमात्मा भूत्वा वा भविता देहवन भूयः पुनस्तस्मा- न जायते,यो ह्यभूत्वा भविता स जायत इत्युच्यते,नैवमात्माऽतो न जायते यस्मादेवं तस्मादजो यस्मान त्रियते तस्मानित्यश्च यद्यप्याद्यन्तयोविक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति तथापि मध्यभाविनीनां विकिया- 'णां तदर्थैः २स्वशब्दैरेव प्रतिषेधः कर्तव्य इत्यनुक्तानामपि यौवनादिसमस्तवि- कियाणां प्रतिषेधो यथा स्यादित्याह शाश्वत इत्यादिना । शाश्वत इत्यपक्षय- लक्षणा विक्रिया प्रतिषिध्यते शश्वद्भवः शाश्वतो नापक्षीयते स्वरूपेण, निर- वयवत्वानिर्गुणत्वाञ्च नापि गुणक्षयेणापक्षय विपरीतापि वृद्धिलक्ष- णा विकिया प्रतिषिध्यते पुराण इति,यो ह्यवयवागमेनोपचीयते स वर्धतेऽभि- नव इति चोच्यते, ऽयं त्वात्मा निरवयवत्वात् पुरापि नव एवेति पुराणो न वर्ध- त इत्यर्थः । तथा न हन्यते न विपरिणम्यते हन्यमाने विपरिणम्यमानेऽपिशरी- रे, हन्तिरत्र विपरिणामार्थे द्रष्टव्योऽपुनरुक्ततायै,न विपरिणमत इत्यर्थः । अ- मा० टी० । तदेव साधयितुं न जायते म्रियते वा विपश्चिदित्यादिमन्त्रान्तरमवतारयति कथमिति। मावक्रियाराहित्यप्रदर्शनेन हतुं विशदयन मन्त्रमेव पठति न जायत इति।जन्ममरणविक्रियाद्वयप्रति .धं साधयात नायमिति । अयमात्मा भूत्वा न भविता, न भूत्वा भयो भावतेति योजना । न केवलं विक्रियाद्वयमेवात्र निषिध्यते ।कन्तु सर्वमेव विक्रियाजातमित्याह अज इति । वाच्यमर्थमुक्त्वा विव- सितमर्थमाह जनिलक्षणेति । विकल्पार्थत्वं व्यावर्तयति वेति । निष्पन्नमर्थ निर्दिशति नेत्यादिना। मंबन्धमेवातिनयति न कदाचिदिति । अन्त्यांवक्रियाभावे हेतुत्वेन नायामेत्याद व्याचष्टे यस्मादि- ति । उक्तमेव व्यनक्ति योहीति । आत्मान तु भूत्वा पुनर्भवनाभावान्नास्।ि मृत्युरित्यर्थः । आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षित इत्याह वाशब्दादिति । अभूत्वेतिच्छेदः । देहवदिति व्यतिरे- कोदाहरणम् । उक्तमेवार्थ साधयाते याहीति । जन्माभावे तत्पूर्विकास्तित्वविक्रियापि नात्मनोऽस्ती- त्याह यस्मादिति । प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिद्धय- तीत्याह यस्मादिति । ननु जन्मनाशयोनिपेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्त- निषेधार्थ न एयग् यतितव्यमिति तत्राह यद्यपीति । स्वशब्दैः मध्यवातविक्रियानिषेधवाचकरिति या- वत् । आर्थिकेऽपि निषेधे निषेधस्यासद्धतया शाब्दो निषेधो न पृथगर्थवानित्याशङ्कयाह अनुक्ताना- मिति । नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति शाश्वत इसादिना । अप- क्षयो हि स्वरूपेण वा स्याद् गुणापचयतो वेति विकल्प्य क्रमेण दूपयति नेत्यादिना । पुराणपदस्या- गतार्थत्वं कथयति अपक्षयेति । तदेव स्फुटयाते योहोति । न म्रियते वेत्यनेन चतुर्थपादस्य पौनरु- क्त्यमाशङ्कच व्याचष्टे तथेसादिना । ननु हिंसाओं हन्तिः श्रूयते तत्कयं विपरिणामो निषिध्यते त- त्राह इन्तिरिति । हिंसार्थत्वसंभवे किमित्यथान्तरं हन्तरिप्यते तत्राह अपुनरुक्ततायै इति । हिमा- ' प्रतिषिभ्यन्ते ---पा• लि• • पुम्नके। २ नदगित लि• पुम्नके नास्ति ।

श्रीमद्भगवद्गीता- ॥ स्मिन् मन्त्रे षड्भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते सर्व- प्रकारविकियारहित आत्मेति वाक्यार्थः । यस्मादेवं तस्मादुभौ तौ न विजानो, त इति पूर्वेण मन्त्रेणास्य संबन्धः ॥ २ थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात्तनिषेधार्थ विपरिणामार्थत्वमेष्टव्यमित्यर्थः । पूर्वावस्थात्यागेनावस्था न्तरापत्तिर्विपरिणामस्तदर्थश्चेदत्र हन्तिरिष्यते तदा निप्पन्नमर्थमाह नेति । न जायते इत्यादिमन्त्रार्थ मुपसंहरति अस्मिन्निति । षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह सर्वेति । आत्मनः सर्ववि- क्रियाराहित्येऽपि किमायातभित्याशङ्कयाह यस्मादिति ॥ २० ॥ टी० । अथ न हन्यत इत्यनेनात्मनः षड्भावविकारशून्यत्वं यदुक्तं तदेव प्रकटयन्नाह न जायतइति । तत्र षड्डिकारास्तु । जायते, आस्त, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति एतान् क्रमेण निषेधयति न जायतइति। न जायते इति जन्मनिषेधः वाशब्दश्चार्थे । न चायं भूत्वोत्पद्म भविता भवति अस्तित्वं भजते । किंतु प्रागेव स्वतः सद्रूपइति जन्मान्तरास्तित्वलक्षणद्वितीयविकारनि- षेधः । अत्र हेतः यस्मादजः यो हिं जायते स एवं जन्मानन्तरमस्तित्वं भजते नित्यः सर्वदैकरूप इति वृद्धिप्रतिषेधः शाश्वतइति अपक्षयनिषेधः । निरवयत्वान्निर्गुणत्वाच्च पुराण इति विपरिणामप्र- तिषेधः । पुरापि नव एव न तु परिणामतो रूपान्तरं प्राप्य नवो भवतीत्यर्थः । यहा न भवितेत्यस्यानुपंग कृत्वा भूयोऽधिकं यथा भवाते तथा न भवितेति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयं वृद्धया- ग्रभावहेतुरिति न पौनरुक्तम् । एवं यदर्थे वेदवादिभिरुक्ताः पड्डिकारा निरस्तास्तं प्रस्तुतं विनाशा- यभावमुपसंहरति न हन्यते हन्यमाने शरीर इति । अत्राथै कठशाखीया श्रुतिश्च-" न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।। हन्ता चे न्मन्यते हन्तुं हतश्चन्मन्यते हतम् ॥ उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ अशरीरं शरीरेषु अनवस्थेष्ववस्थितम् ॥ महान्तं विभुमात्मानं मत्वा धीरो न शोचति" इति । गतार्थेयम् ॥ २० ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् ॥ कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २ ॥ य एनं वेत्ति हन्तारमित्यनेन मन्त्रण हननक्रियायाः कता कर्म च न भवतीति प्रतिज्ञाय 'न जायत' इत्यनेनाविक्रियत्वे हेतुमुत्क्वा प्रतिज्ञार्थमुपसं- हरति वेदाविनाशिनमिति । वेद विजानात्यविनाशिनमन्त्यभावविकारर- हितं नित्यं विपरिणामरहितं यो वेदेति संबन्धः । एनं पूर्वेण मन्त्रेणोक्तलक्ष- णमजमव्ययमुपजनापक्षयरहितं? कथं केन प्रकारेण स विहान् पुरुषोऽधि- कृतो हन्ति हननकियां करोति कथं वा घातयति हन्तारं प्रयोजयति न कथं चित् कं चित् हन्ति न कथं चित् कं चिद् घातयतीत्युभयत्राक्षेप एवार्थः प्रश्नार्थासंभवात्, हेत्वर्थस्य तुल्यत्वाहिदुपः सर्वकर्मप्रति- , अव्ययमपक्षयर्गहतं-पा. लि. १, २, पु.. २ प्रश्नासंभनात-इति लि. १,२, पुस्तके पाट: । .

. ३ हितीयाध्यायः । षेध एव प्रकरणार्थोऽभिप्रेतो भगवता?, हन्तेस्त्वाक्षेप उदाहरणार्थत्वेन, विदुषः कि २ कर्मासंभवे हेतुविशेषं पश्यन् कर्माण्याक्षिपति भगवान् कथं स पुरुष इति । ननूक्तमेवात्मनोऽविकियत्वं सर्वकर्मासंभव । कारणविशेषः,३ "सत्यमुक्तो न तु स कारणविशेषोऽन्यत्वाहिदुषोऽविक्रिय दात्मन इति । न विक्रियं स्थाणुं विदितवतः कर्म न संभवतीति चेन, विदुष आत्मत्वान 'देहादिसंघातस्य विद्वत्ता, अतः पारिशेष्यादसंहत आत्मा विहानविकिय इति तस्य विदुषः कर्मासंभवादाक्षेपो युक्तः कथं स पुरुष इति । यथा बुद्ध्या- द्याहृतस्य शब्दाद्यर्थस्याविक्रिय एव सन् बुद्धिवृत्त्यविवेकविज्ञानेनाविद्ययोपलब्धा मा कल्प्यते एवमेवात्मानात्मविवेकज्ञानेन बुद्धिवृत्त्याविद्यया : सत्यरूप- यैव परमार्थतोऽविक्रिय एवात्मा विहानुच्यते, विदुषः कर्मासंभववचनाद् यानि कर्माणि शास्त्रेण विधीयन्ते तान्यविदुषो विहितानीति भगवतो निश्व- योऽवगम्यते । ननु विद्याप्यविदुष एव विधीयते विदितविद्यस्य पिष्टपेषणव- विद्याविधानानर्थक्यात्, तत्राविदुषः कर्माणि विधीयन्ते न विदुष इति विशेषो आ० टी० । पूर्वश्लोकार्थस्यैवोत्तरत्रापि प्रतिभानात् पौनरुक्तयमाशङ्कय वृत्तानुवादपूर्वक- मुत्तरश्लोकमवतारयति य एनमित्यादिना । कर्तृत्वाद्यभिमानविरोधादद्वैतकूटस्थात्मनिश्चयसामर्थ्यात् प्राप्तं विदुषः संन्यासं विद्यापरिपाकार्थमभ्यनुजानाति वेदेति । पदद्वयस्य पूर्वमेव पौनरुक्तयमाह अविनाशिनमित्यादिना । प्रश्नोऽपि संभवात किमिति तत्रोल्लेखेन व्याख्यायते तत्राह उभयत्रे- ति । उत्तरत्र प्रतिवचनादर्शनान्नात्र प्रश्नः संभवतीत्यर्थः । विवक्षितं प्रकरणार्थ निगमयति हेत्वर्थ- स्येति । अविक्रियत्वं हेत्वर्थस्तस्य विदुषः सर्वकर्मानपेधे समानत्वादिति यावत् । यदि विदुषः सर्वक- मनिपेधोऽभिमतस्तहि किमिति हन्त्यर्थ एवाक्षिप्यते तत्राह हन्तरिति । उक्तं हेतुमाक्षप्तुं पृच्छति विदुष इति । अभिप्रायमप्रतिपद्यमानो हेतुविशेषं पूर्वोक्तं स्मारयति नन्विति । उक्तमङ्गीकृत्याक्षिपति ससमिति । विदुषो विज्ञानात्मनो ब्रह्मणश्च वेद्यस्य विरुद्धधर्मत्वेन दहनतुहिनवद्भिन्नत्वाद्विदुषः सर्वकर्मत्यागेनासौ कारणविशेषः स्यादित्याह अन्यत्वादिति । अविक्रिय दितिच्छेदः । तथापि कूटस्थमविक्रियं ब्रह्म प्रतिपद्यमानस्य कुतो विक्रिया संभवेद् ब्रह्मप्रतिपत्तिविरोधादित्याश- ऋचाह नन्विति । "अयमात्मा ब्रह्म' इत्यादिश्रुत्या समाधत्ते न विदुप इति।किंच विद्वत्ता विशिष्टस्य वा, केवलस्यं वा, नाद्यो विशिष्टस्य विद्वत्तायां विशेषणस्यापि तद्ब्रह्मसङ्गात् च विशेषणीभूतसंघात- स्याचेतनत्वाद्विद्वत्तायुक्तेत्याह न देहादीति । द्वितीये तु नीवब्रह्मविभागासिन्डिरित्याह अत इति । किञ्च प्रामाणिकविरुद्धधर्मवत्त्वस्यासिद्धत्वात् प्रातिभासिकस्य च बिम्बप्रतिविम्बयोरनेकान्त्यानेदानुमा- नायोगाज् जीवब्रह्मणोरभेदसिद्धिरित्यभिप्रेत्य फलितमाह इति तस्यति । नन्वविक्रियस्य ब्रह्मरूपतया सर्वकर्मासंभवे विदुषो विद्वत्तापि कथं सम्भवाते न हि ब्रह्मणोऽविक्रियस्य विद्यालक्षणविक्रिया- स्वीक्रिया भवितुमर्हति तत्राह यथेति । अदृष्टेन्द्रियादिसहकृतमन्तःकरणं प्रदीपप्रभावद्विषयपर्यन्तं , भगवतो-इति पा० लि० १। पुस्तके । २ कचिदिति काचनास्ति । ३ हेतुविशेषः पा० लि. २ १०. .

- श्रीमद्भगवद्गीता- तामीत्तरकालमावि किजिनुडेयं भवति, नोपपद्यते इति चेन, अनुष्ठेयस्य भावाभावविशेषोपपत्तेरग्निहोत्रादिविध्यर्थज्ञा- नोत्तरकालमग्निहोत्रादिकर्मानेकसाधनोपसंहारपूर्वकमनुष्ठेयं कर्ताहं मम कर्त, व्यमित्येवंप्रकारकविज्ञानक्तोऽविदुषो यथानुष्ठेयं भवति न तु तथा न जायत इ- त्यात्मस्वरूपविध्यर्थ नाहं कर्ता न भोक्तेत्याद्यात्मैकत्वाकर्तृत्वादिवि ज्ञाना- दन्यनोत्पद्यत इत्येप विशेष उपपद्यते । यः पुनः कर्ताहमिति वेत्त्यात्मानं तस्य ममेदं कर्तव्यमित्यवश्यंभाविनी बुद्धिः स्यात्तदपेक्षया सोऽधिक्रियत, इति तं प्रति कर्माणि संभवन्ति, स चाविहान् ,उभौ तौ न विजानीत इति वचनाद् विशेषितस्य च विदुषः कर्माक्षेपवचनात् कथं स पुरुष इति । तस्मादिशेषितस्याविक्रियात्मदर्शिनो विदुषो मुमुक्षोश्च सर्वकर्मसंन्यासे एवा- धिकारोऽत एव भगवान्नारायणः सांख्यान् विदुषोऽविदुषश्च कर्मिणः प्रविभज्य हे निष्ठे ग्राहयति 'ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्' इति । तथा च पुत्रा- याह भगवान् व्यासो ‘हाविमावथ पन्थानौ' इत्यादि । तथा च क्रियापथ- चैव पुरस्तात् पश्चात् संन्यासश्चेत्येतमेव विभागं पुनः पुनदर्शयिष्यति भग- वान् । अतत्त्वविदहंकारविमूढात्मा कर्ताहमिति मन्यते, तत्त्ववित्तु, नाहं करो. परिंगतं बुद्धिवृत्तिरुच्यत तत्र प्रतिाबाम्बतं चैतन्यमाभव्यञ्जकबाद्धवृत्त्याववेकााद्वषयज्ञानामोते व्यव- हियते तेनात्मोपलब्ध्या कल्प्यते, तच्चाविद्याप्रयुक्तामथ्यासंबन्धनिबन्धनं तथैवाध्यासेकसंबन्धेन- ब्रह्मात्मैक्याभिव्यञ्जकवाक्योत्यबुद्धिवृत्तिद्वारा विद्वानात्मा व्यपादेश्यते, न च मिथ्यासंबन्धन पारमा- थिकाविक्रियत्वविहतिरस्तत्यिर्थः । अहं ब्रह्मति बहिवृत्तमौलावस्थायामापे भावादात्मनः सावशे- षत्वमाशङ्कय तस्य यावदुराधिसत्वमेवेत्याह असत्येति । ननु कूटस्थत्यात्मनो मिथ्याविद्यावत्त्वेऽपि तस्य कर्माधिकारनिवृत्तौ कस्य कर्माणि विधीयन्ते न हि निरविकाराणां तेषां विधिरित्याशङ्कयाह विदुष इति । कांग्यविदुषो वाहेतानीति विशेषमाक्षपात नन्विति । कविधानमविदुषो विदुपश्च विद्याविधानमिति विभागे का हानिरित्याशङ्कयाह विदितेति । विद्याया विदितत्वं लब्धत्वम् । कर्मविधिर- विदुषो विदुषो विद्याविधिरित विभागासंभवे फलितमाह तत्रेति । धर्मज्ञानानन्तरमनष्ठेयस्य भावात ब्रह्मज्ञानोत्तरकालं च तदभावाद् ब्रह्मज्ञानहीन त्यैव कविधिरिति समाधत्ते नानुष्ठेयस्येति । विशेषो- पपत्तिमेव प्रपञ्चयति अग्निहोत्रादीति । नन देहादिव्यतिरिक्तात्मज्ञानं विना पारलौकिकेषु कर्मसु प्रवृत्तेरनुपपत्तेस्तथाविधज्ञानवता कर्मानुष्ठेयमिति चेत्तत्राह काहमिति । आत्मनि का भोक्तेत्येवं विज्ञानवत्त्वेऽपि ब्रह्मज्ञानविहीनत्वेनाविदुषोऽनुष्ठेयं कर्मत्यर्थः । देहादिव्यतिरिक्तात्मज्ञानवद् ब्रह्मज्ञानम- पि ज्ञानत्वावशेषात् कर्मप्रवृत्तावुपकरिष्यतीत्याशङ्कयाह नत्विति । अनुष्ठेयविरोधित्वादविक्रियात्म- ज्ञानस्येति शेषः। ननु ब्रह्मात्मैकत्वज्ञानादुत्तरकालमपि कर्ताहमित्यादेज्ञानोत्पत्तौ कर्मविधिः सावका- शः स्यादिति नेत्याह नाहमिति । कारणाभावादिति शेषः । कर्तृत्वादिज्ञानमन्यादेत्युक्तम् । अनुष्ठा- नाननुष्ठानयोरुक्तविशेषादावेदुषोऽनुष्ठानं विदुषो नेत्युपसंहरति इसेष इति । नन्वात्मविदो न चेद- नुष्ठेयं किश्चिदस्ति कथं तर्हि विद्वान् यतेत्यादिशास्त्रात्तं प्रति कर्माणि विधीयन्ते तत्राह यः पुनरिति । आत्मनि कर्तृत्वादिज्ञानापेक्षया कर्मस्वाधेकृतत्वज्ञाने तथाविधपुरुषं प्रति कर्माणि वि- १ संभवन्ति कति सिपु. नास्ति.

हितीयाध्यायः । मीति । तथा च सर्वकर्माणि मनसा सन्यस्यास्त इत्यादि । तत्र केचित् पण्डि- तमन्या वदन्ति । जन्मादिपड्भावविक्रियारहितोऽविक्रियोऽकर्तेकोऽहमात्मेति न कस्यचिज्ज्ञानमुत्पद्यते यस्मिन् सति-सर्वकर्मसंन्यास उपदिश्यते । तन्न, न जायत इत्यादिशास्त्रोपदेशानर्थक्यप्रसंगात् । यथा च शास्त्रोपदेशसाम- ाद्धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तर संबन्धिज्ञानं चोत्पद्यते, तथा शा- 'स्त्रात् तस्यैवात्मनोऽविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मान्नोपपद्यते इति प्र- ष्टव्यास्ते । करणागोचरत्वादिति चेन, मनसैवानुद्रष्टव्यमिति श्रुतेः। शास्त्राचा. ोपदेश शमदमादिसंस्कृतं मन आत्मदर्शने करणं, तथा च तदधिग- धीयन्ते स च प्राचीनवचनादविद्वानवोत निश्रीयते न खल्वकर्तृत्वादिज्ञानवतस्तद्विपरतिकर्तृत्वा- दिज्ञानद्वारा कर्मसु प्रवृत्तिरित्यर्थः । कर्मासंभवे ब्रह्मविदो हेत्वन्तरमाह विशपितस्येति। वेदाविना- शिनमित्यादिनेति शेषः । यद्यपि विदषो नारित कर्म तथापि विविदिपोः स्यादित्याशङ्कयाह तस्मादि- ति। विद्यया विरुद्धत्वादिप्यमाणमोक्षप्रतिपक्षत्वाच्च कर्मणामित्यर्थः । यद्यपि ममुक्षोराश्रमकर्माण्यपेक्षिता- नि तथापि विद्यातत्फलाभ्यासविरुद्धान्यव तान्यभ्यागतान्यन्यथा विविविदिपासंन्यासविधिविरोधादित्य- भिप्रत्योक्तेऽथै भगवतोऽनुमतिमाह अनएवेति । विदुपो विविदिपोश्च संन्यासेऽधिकारोऽविदुषस्तु कर्मणीति विभागम्येष्टत्वादित्यर्थः । अधिकारिभेदेन निष्टाद्वयं भगवता वेदव्यासेनापि दर्शितमित्याह तथा चेति । अध्ययनविधिना स्वाध्यायपाठे त्रैवर्णिकस्य प्रवृत्त्यनन्तरं तत्र क्रियामार्गो ज्ञानमार्गश्चेति हौ मार्गावधिकारिभे नावदितावित्यर्थः । आदिशब्दाद् यत्र वेदाः प्रतिाष्ठता इत्यादि गृह्यते । उक्तयोर्मार्गयोस्तुल्यतां परिहर्तमु दाहरणान्तरमाह तथेति । बुद्धिशुद्धिद्वारा कर्मतत्फलयो- राग्योदयात् पूर्व कर्ममार्गों विहितो विरक्तन्य पुनः संन्यासपूर्वको ज्ञानमार्गों दर्शितः म चतरस्मादतिशयशालीति श्रुतमित्यर्थः । उक्तविभागे पुनरपि वाक्यशेषानुकुल्यमादर्शयति एवम- वेति । अहङ्कारावमुढात्मेत्यस्य व्याख्यानं अतत्त्वविदिति । तत्त्ववित्त्विात श्लोकमवतार्य तात्पर्या संगृह्णाति नाहमिति । पूर्वेण क्रियापदेनेतिशब्दः संबध्यते । विरक्तमधिकृत्य वाक्यान्तरं पठति तथा चेति । आदिशब्दस्तस्यैव श्लोकस्य शेपसंग्रहार्थः । अविक्रियात्मज्ञानात् कर्मसंन्यास दर्शिते मीमांसकमामुत्थापयति तत्रेति । आत्मनो ज्ञानक्रियाशक्तयाधारत्वेनातिक्रियत्वाभावादविक्रियात्म- ज्ञानं संन्यासकारणीभूतं न संभवतीत्यर्थः । यथोक्तज्ञानाभावो विषयाभावाद्वा मानाभावाद्वेति विक- लप्याद्यं दृपयति नसादिना । न तावदविक्रियात्माभावो न जायते म्रियते वेत्यादिशास्त्रत्याप्तवान्य- तया प्रमाण यान्तरण कारणमानकायायोगादित्यर्थः । द्वितीयं प्रत्याह यथा चति । पारलौकिकक- मविधिसामर्थ्यसिद्धं विज्ञानमुदाहरति कर्तुश्चति । कर्मकाण्डादज्ञाते धर्मादौ विज्ञानोत्पत्तिवत् ज्ञान- काण्डादज्ञाते ब्रह्मात्मनि विज्ञानोत्पत्तिरावरुडा प्रमाणत्वाविशेपादित्यर्थः । ज्ञानस्य मनःसंयोगजन्य- त्वादात्मनश्च श्रुत्या मनोगोचरत्वानरामानात्मज्ञाने साधनमस्तीति शङ्कते करणेति। श्रुतिमाश्रित्य प- रिहरति न मनसेति । तत्त्वमस्यादिवाक्योत्थमनोवृत्त्यैव शास्त्राचार्योपदेशमनुसृत्य द्रष्टव्यं तत्त्वमिति श्रूयते, स्वरूपेण स्वप्रकाशमपि ब्रह्मात्मवस्त वाक्योत्थबुद्धिवृत्त्यभिव्यक्तं सविकल्पकव्यवहारालम्बन भवतीति मनोगोचरत्वोपचारादसिद्ध करणागोचरत्वमित्यर्थः । कथं तर्हि ब्रह्मात्मना मनाविधयत्वनि- पेधश्रुतिरित्याशङ्कयासंस्कृतमनोवृत्त्यविपया सेति मन्नानः सन्नाह शास्त्रेति । सत्यपि श्रुत्यादौ तद- नुग्राहकाभावान्नास्माकमविक्रियात्मकज्ञानमुत्पत्तुमर्हतीत्याशङ्कयाह तथेति । तस्याविक्रियस्यात्मनोऽ- * तत्त्वमस्यादिवाक्योत्थमनोवृत्तावभिव्यक्तं ब्रह्मात्मैकत्वं गविकल्पव्यवहारगोचरमित्यर्थः । (इधिक लि. पु. द्वये ।)

- श्रीमद्भगवद्गीता- मायानुमाने आगमे च सति ज्ञान नात्पद्यते इति साहसमात्रमेतत् । ज्ञानं चो- त्पद्यमानं तहिपरीतमज्ञानमवश्यं बाधत इत्यभ्युपगन्तव्यं, तच्चाज्ञानं दर्शितं हन्ताहं हतोऽस्मीत्युभी तीन विजानीत इति,अत्र चात्मनो हननक्रियायाः कर्तत्वं कर्मत्वं चाज्ञानकृतं दर्शितं, तच्च सर्वकियास्वपि समानं कर्तृत्वादेर- विद्याकृतत्वमविक्रियत्वादात्मनो , विक्रियावान् हि कर्तात्मनः कर्मभूतमन्यं प्रयोजयति कुर्विति तदेतदविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान् विदुषः कर्माधिकाराभावप्रदर्शनार्थ वेदाविनाशिनं कथं स पुरुष इत्यादिना। के पुनर्विदुषोऽधिकार, इत्येतदुक्तं पूर्वमेव ज्ञानयोगेन सां- ख्यानामिति । तथा च सर्वकर्मसंन्यासं वक्ष्यति सर्वकर्माणि मनसेत्यादिना। ननु मनसेति वचनान वाचिकानां कायिकानां च संन्यास इति चेन, सर्वकर्मा- णीति विशेषितत्वात् । मानसानामेव सर्वकर्मणामिति चेन, मनोव्यापारपूर्वक- त्वाहाकायव्यापाराणां मनोव्यापाराभावे कर्मानुपपत्तेः । शास्त्रीयाणां वाकाय- कर्मणां कारणानि मानसानि वर्जयित्वान्यानि सर्वकर्माणि धिगत्यर्थ, विमतो विकारो नात्मधर्मो विकारत्वादुमयाभिमतविकारवदित्यनुमाने पूर्वोक्तश्रुतिस्मृतिरू- पागमे च सत्येव तस्मिन्नोत्पद्यते ज्ञानमिति वचः साहसमात्रं, सत्येव माने मेयं न भातीति वदित्यर्थः । ननु यथोक्तं ज्ञानमुत्पन्नमपि हानायोपादानाय वा न भवतीति कुतोऽस्य फलवत्त्वं तत्राह ज्ञानंचेति । अवश्यमिति । प्रकाशप्रवृत्तेस्तमोनिवृत्तिव्यतिरेकेणानपपत्तिवदात्माज्ञाननिवृत्तिमन्तरेणात्मज्ञानोत्पत्तेरनु- . पपत्तेरित्यर्थः । नन्वज्ञानस्य ज्ञानप्रागभावत्वात्तन्निवृत्तिरेव ज्ञानं न तु तन्निवर्त्तकमिति तत्राह तच्चेति। कथं पुनर्भगवतापि ज्ञानाभावातिरिक्तमज्ञानं दर्शितमित्याशङ्कयाह अत्रचेति । विमतं ज्ञानाभावो न भवत्युपादानत्वान्मृदादिवदिति भावः । ननु हननक्रियायाश्च न हिंस्यादिति निषिद्धत्वात् तत्कर्तृ- त्वादेरज्ञानरुतत्वेऽपि विहितक्रियाकर्तृत्वादेर्न तथात्वमिति नेत्याह तच्चेति । न तावदात्मनि कर्तृत्वा- दिनित्यत्वम् अमुक्तिप्रसङ्गान्न चानित्यत्वमपि निरुपादानं भावकार्यस्योपादाननियमान्न चानात्मा तदु- पादानमात्मनि तत्प्रतिभानान्न चात्मैव तदुपादानं कूटस्थस्य तस्याविद्यां विना तदयोगादित्याह अविक्रियत्वादिति । कर्तृत्वाभावेऽपि कारयितृत्वं स्यादित्याशङ्कयाह विक्रियावानिति । आत्म- नि कर्तृत्वादिप्रतिभानस्यानाद्यनिर्वाच्यमज्ञानमुपादानं तन्निवृत्तिश्च तत्त्वज्ञानादित्युक्तम् , इदानी कर्तृत्व- कारयितृत्वयोरविद्याकृतत्वे भगवतोऽनुमतिं दर्शयति तदेतदिति । विदुषो यदि कर्माधिकाराभावो भगवतोऽभिमतस्तहि कुत्र तस्य जीवतोऽधिकारः स्यादिति पृच्छति क पुन रति । ज्ञाननिष्ठाय- मित्युक्तं स्मारयति उक्तमिति । तदङ्गभूते सर्वकर्मसंन्यासे च तस्याधिकारोऽस्तीत्याह तथेति । व- क्ष्यमाणे वाक्ये सर्वकर्मसंन्यासो न प्रतिभाति मानसानामेव कर्मणां विशेषणवशात् त्यागावगमादिति शङ्कते नन्विति । विशेषान्तरमाश्रित्य दूषयति न सर्वेति । मनसेतिविशेषणान्मानसेष्वेव कर्मम सर्वशब्दः संकुचितः स्यादिति शङ्कते मानसानामिति । सर्वात्मना मनोव्यापारत्यागे व्यापारान्तराणा- मनुपपत्तेः सर्वकर्मसंन्यासः सिध्यतीति परिहरति नेत्यादिना। मानसेष्वपि कर्मसु संन्यासे संकोचान्न वा- गादिव्यापारानुपपत्तिरिति शङ्कते शास्त्रीयाणामिति । अम्यानीति। अशास्त्रीयवाक्कायकर्मकारणान्यशा- स्त्रीयाणि मानसानि तानि च सर्वाणि कर्माणीत्यर्थः । वाक्यशेषमादाय दूषयति न नैवेति । न हि -

हितीयाध्यायः ।
मनसा संन्यस्यास्त इति चेन । नैव कुर्वनकारयन् इति विशेषणात् । सर्वकर्म-
सन्यासोऽयं भगवतोक्तो मरिष्यतो न जीवत इति चेन्न । नवदारे पुरे देही
आस्ते इति विशेषणानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे
आसनं संभवति । अकुर्वतोऽकारयतश्च देहे संन्यस्येति संबन्धो न देहे आस्त-
इति चेन, सर्ववात्मनोऽविक्रियत्वावधारणाद् , आसनक्रियायाश्चाधिकरणापेक्ष-
'त्वात्तदनपेक्षत्वाच्च संन्यासस्य, संपूर्वस्तु न्यासशब्द त्यागार्थो न निक्षेपार्थः।
तस्माद्गीताशास्त्रे आत्मज्ञानवतः संन्यास एवाधिकारो न कर्मणीति तत्रतत्रोपरि-
ष्टादात्मज्ञानप्रकरणे दर्शयिष्यामः ॥ २१ ॥
विवेकबुद्धया सर्वाणि कर्माण्यशास्त्रीयाणि संन्यस्य तिष्ठतीति युक्तं नैव कुर्वन्नित्यादिविशेषणस्य
विवेकबुद्धेश्च सर्वत्यागहेतोस्तुल्यत्वादित्यर्थः । भगवदभिमतसर्वकर्मसंन्यासस्यावस्थाविशेषे संकोचं
दर्शयन्नाशङ्कते मरिष्यत इति । संन्यासो जीवदवस्थायामेवात्र विवक्षित इत्यत्र लिङ्गं दर्शयन्नुत्तर-
माह न नैवेति । अनुपपत्तिमेव स्फोरयति नहीति । अन्वयविशेषा ख्यानेन लिङ्गासिद्धिं चोद-
यति अकुर्वत इति । विवेकवशा दशेषाण्यपि कर्माणि देहे यथोक्ते निक्षिप्याकुर्वन्नकारयंश्च विद्वा-
नवतिष्ठते तथा च देहे कर्माणि संन्यस्याकुर्वतोऽकारयतश्च सुखमासनमिति संबन्धसंभवाद् वि-
शेषणस्य सति देहे कर्मत्यागविषयत्वाभावाज्जीवतः सर्वकर्मत्यागो नास्तीत्यर्थः । अथवा कुर्वत इत्यादि
पूर्वव संबन्धनीयं, लिङ्गासिद्धिचोद्यं तु देहे संन्यस्येत्यारभ्योन्नेयम् । आत्मनः सर्वत्राविक्रियत्वनि-
र्धारणाद्देहसंबन्धमन्तरेण कर्तृत्वकारयितृत्वाप्राप्तेरप्राप्तप्रतिषेधप्रसंगपरिहारार्थमस्मदुक्त एव संबन्धः
साधीयानिति समाधत्ते न सर्वत्रेति । श्रुतिषु स्मृतिषु चेत्यर्थः । किं च संबन्धस्याकाङ्क्षासंनिधियो-
ग्यताधीनत्वादाकासावशादस्मदभिमतसंबन्धासद्धिरित्याह आसनेति । भवदिष्टस्तु संबन्धो न
मियत्याकाङ्क्षाभावादित्याह तदनपेक्षत्वाञ्चेति। संन्यासशब्दस्य निक्षेपार्थत्वात्तस्य चाधिकरणसापे-
क्षत्वादस्मदिष्टसंबन्धसिद्धिरित्याशङ्कयाह संपूर्वस्त्विति । अन्यथोपसर्गवैयादित्यर्थः । मनसा वि-
वेकविज्ञानेन सर्वकर्माणि परित्यज्यास्ते देहे विद्वानित्यस्यैव संबन्धस्य साधुत्वं मत्वोपसंहरति तस्मादिति।
सर्वव्यापारोपरमात्मनः सर्वकर्मसंन्यासस्याविक्रियात्मज्ञानाविरोधित्वात् प्रयोजकज्ञानवतो वैधे संन्या-
सेऽधिकारः, सम्यग्ज्ञानवतस्त्ववैधे स्वाभाविके फलात्मनीति विभागमभ्युपेत्योक्तेऽर्थे वाक्यशेषानुगुण्यं
दर्शयति इति तत्र तत्रेति ॥ २१ ॥
५० टी० । अत एव हन्तृत्वमपि न युज्यत इत्याह वेदाविनाशिनमिति । नित्यं वृद्धिशुन्यम् अव्ययमप-
क्षयशून्यम्, अजं जन्मशून्यमेभिस्त्रिभिर्विकाररेनमात्मानमविनाशिनं यो वेद ज्ञातवान् स के पुरुषं घा-
तयति च स्वयं हननक्रियाऽयोग्यत्वात् किंच प्रयोजकेऽपि तथैव । अनेन मय्यपि प्रयोनकत्वदृष्टि-
माप्नुहीत्युक्तम् । तदुक्तम्-' शुद्धो निरञ्जनोऽनन्तो बोधोऽहं प्रकृतेः परः ॥ चेष्टमानमिदं देहं पश्या-
म्यन्यशरीरवत्' इति ॥ २१ ॥
सांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ॥
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ २२॥

५२
श्रीमद्भगवद्गीता-
पुरुषवंद-
1
प्रकृतं तु वक्ष्यामः, तत्रात्मनोऽविनाशित्वं प्रतिज्ञातं तत् किमिवेत्युच्यते वासा-
सीति । वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परि-
त्यज्य नवान्यभिनवानि गृह्णात्युपादत्ते नरः पुरुपोऽपराण्यन्यानि तथा तहदेव
शरीराणि विहाय जीर्णान्यन्यानि संयाति संगच्छति नवानि देह्यात्मा
विक्रिय एवेत्यर्थः ॥ २२ ॥
आ० टी० । आत्मनोऽविक्रियत्वेन कर्मासंभवं प्रतिपाद्याविक्रियत्वहेतुसमर्थनार्थमेवोसरग्र-
न्थमवतारयति प्रकृतं त्विति । किं तत् प्रकृतमिति शङ्कमानं प्रत्याह तत्रेति । अविनाशित्वमित्यु-
पलक्षणमविक्रियत्वमित्यर्थः । तदेव दृष्टान्तेन स्पष्टायतुमुत्तरश्लोकमुत्थापयति तदिसादिना ।
आत्मनः स्वतोऽविक्रियाभावऽपि पुरातनदेहत्यागे नृतनदेहोपादाने च विक्रियावत्त्वध्रौव्यादविक्रियत्व-
मसिद्धामाते चेत्तत्राह वासांसीति । शरीराणि जीर्णानि वयोहानि गतानि त्वग्वलीपलितादिसंगता-
नीत्यर्थः । वाससां पुरातनानां परित्यागे नवानां चोपादाने त्यागोपादानकर्तृभूतलौकिकपुरुषस्याप्य-
विकारित्वेनैकरूपत्ववदात्मनो देहत्यागोपादानयोरविरुद्धमविक्रियत्वमिति वाक्यार्थमाह पुरुषव-
दिति ॥ २२॥
५० टी० । नन्वात्मनोऽविनाशित्वं निरूढमेव परं तु तदधिष्ठितदेह वधभयेन शोक इति
चेत्तत्राह वासांसीति । उत्पत्स्यमाननुतनदहानां कानवन्धत्वेनावश्यभावात्तथैव जीर्णदह नाशेऽ
पीति म दोषावकाशः ॥ २२ ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥
न चैनं क्लेदयन्त्यापो न शोपयति मारुतः ॥२३॥
कस्मादविक्रिय एवेत्याह नैनं छिन्दन्तीति। एनं प्रकृतं देहिनं न छिन्दन्ति
शस्त्राणि निरवयवत्वान्नावयबविभागं कुर्वन्ति शाखाण्यस्यादीनि, तथा नैनं दह-
ति पावकोऽग्निरपि न भस्मीकरोति, तथा न चैनं क्लेदयन्त्यापोऽपां हि सावयव-
स्य वस्तुन आद्रीभाव करणेनावयबविश्लेपापादने सामर्थ्य तन्न निरवयव आ-
त्मनि संभवति, तथा लेहवद् द्रव्यं स्नेहशोषणेन नाशयति वायुरेनं वात्मानं न
शोषयति मारुतोऽपि ॥ २३ ॥
आ० टी० । पृथिव्यादिभूतचतुष्टयप्रयुक्तं विक्रियाभाक्त्वादात्मनोऽमिद्धमविक्रियत्वमिति शङ्कते
कस्मादिति । यतो न भूतान्यात्मानं गोचरयितुमर्हन्त्यता युक्तमाकाशवत्तग्याविक्रियत्वमित्यास
आहेयादिना ॥ २३ ॥
प० टी० । नैनमिति । जेदनं नाम मृदुत्वहेतोः शिथिलीकरणं स्थाविधो न भवति ॥२३॥
अच्छेद्योऽयमदाह्योयमक्केद्योऽशोप्य एव च ॥
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ॥२४॥

- हितीयाध्यायः । ५३ यत एवं तस्मादच्छेद्योऽयमिति । यस्मादन्योऽन्यनाशहेतृनि भूतान्ये- नमात्मानं नाशयितुं नोत्सहन्ते तस्मात् नित्यो नित्यत्वात् सर्वगतः सर्वगतत्वात् स्थाणुरित्येतत् स्थिरत्वादचलोऽयमात्माऽतः सनातनश्चिरंतनो न कारणात् कु- तश्चिनिष्पन्नोऽभिनव इत्यर्थः । न तेषां श्लोकानां पौनरुक्तयं चोदनीयं यत एकेनैव श्लोकेनात्मनो नित्यत्वमविक्रियत्वं चोक्तं 'न जायते म्रियते वा' इत्या- 'दिना , तत्र यदेवात्मविषयं किं चिदुच्यते ,तदेतस्माच्छ्लोकार्थानातिरिच्यते, किं चिच्छब्दतः पुनरुक्तं किं चिदर्थत इति, दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसंगमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेवः, कथं नु नाम संसारिणाम् बुद्धिगोचरतामापन सदव्यक्तं तत्त्वं संसारनिवृत्तये स्यादिति । किं च अव्यक्तोऽयमिति । अव्यक्तः सर्वकरणाविषयत्वान्न व्यज्य- ते इत्युक्तोऽयमात्मा अत एवाचिन्त्योऽयं यद्दीन्द्रियगोचरं वस्तु तच्चिन्ता- विषयत्वमापद्यतेऽयं त्वात्मानिन्द्रियगोचरत्वादचिन्त्योऽतएवाविकार्यो यथा क्षीरं दध्यातञ्चनादिना विकारि न तथायमात्मा निरवयवत्वाञ्चाविक्रियो न हि निरवयवं किंचिदिक्रियात्मकं दृष्टमविक्रियत्वादविकार्योऽयमात्मोच्यते॥२४॥ आ० टी० । पृथिव्याविभूतप्रयुक्तच्छेदनाद्यर्थक्रियाभावे योग्यताभावं कारणमाह यत इति । पूर्वार्धमुत्तरार्धे हेतुत्वन योजयति यस्मादिति । नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति नि- सत्वादित्यादिना । न च नित्यत्वं परमाणषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेपामेवाप्रा- माणिकत्वेन व्यभिचारानवतारान्न सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तं विभुत्वेनाभिमते नभसि तदनुपलम्भान्न च विक्रियाशक्तिमत्त्वे स्थैर्यमास्थातुं शक्यं तथाविधस्य मृदादेरस्थिरदर्शना- दित्याशयेनाह स्थिरत्वादिति । स्वतो नित्यत्वेऽपि कारणान्नाशसंभवादुत्पत्तिरपि संभवितेति कृतश्चिरंतनत्वमित्याशङ्कयाह न कारणादिति । आत्मनोऽविक्रियत्वस्य न जायते म्रियते वेत्या- दिना साधितत्वात्तस्यैव पुनरभिधाने पुनरुक्तिरित्याशङ्कयाह न तेषामिति । अनाशङ्कनीयस्य चोद्य- स्य प्रसंगं दर्शयति यत इति । अतो वेदाविनाशिनमित्यादौ न शकयते पौनरुक्तचमिति विशेषः । कथं तत्र पौनरुक्तयाशङ्का समुन्मिपति तत्राह तत्रेति । वेदाविनाशिनमित्यादिश्लोकः सप्तम्या परा- मृश्यते, श्लोकशब्देन न जायते म्रियते वेत्यादिरुच्यते । नन्विह श्लोके जन्ममरणाद्यभावोऽभिलप्यते, वदेत्यादी पुनरपक्षयाद्यभावो विवक्ष्यते तत्र कथमतिरेकाभावमादाय पौनरुक्त्यं चोद्यते तत्राह किंचिदिति । कथं तर्हि पौनरुक्तयं न चोदनीयमिति मन्यसे तबाह दुर्बोधत्वादिति।पुनःपुनर्विधा- नभेदेन वस्तु निरूपयतो भगवतोऽभिप्रायमाह कथं न्विति । त्वंपदार्थपरिशोधनस्य प्रकृतत्वात्त. त्रैव हेत्वन्तरमाह किंचेति । आत्मनो नित्यत्वादिलक्षणस्य तथैवं प्रथा किमिति न भवति तत्राह अव्यक्त इति । मा तर्हि प्रत्यक्षत्वं भूदनुमेयत्वं तस्य किं न स्यादित्याशङ्कयाह अत एवेति । तदेव प्रपञ्च- यति यद्धीति । अतीन्द्रियत्वेऽाप सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशय कुटस्थेनात्मना व्या. प्तिलिङ्गाभावान्मैवमित्याह अविकार्य इति । अविकार्यत्वे व्यतिरेकदृष्टान्तमाह यथेति । किं चात्मा न विक्रियते निरवयवद्रव्यत्वाद् घटादिवदिति व्यतिरेकानुमानमाह निरवयवत्वामेति । निरवयव- न्वेऽ पि विक्रियावत्त्वे का क्षतिरित्याशङ्कयाह न हीति । सावयवस्यैव विक्रियावत्त्वदर्शनाद विक्रिया-

५४
श्रीमद्भगवद्गीता-
-
वत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः । यद्धि सावयवं सक्रिय क्षीरादि तद्दध्यादिना विकारमापद्यते न चा-
त्मनः श्रुतिप्रमितानरवयवत्वस्य सावयवत्वमतोऽविक्रियत्वान्नायं विकार्यों भवितुमलमिति फलि-
तमाह अविक्रियत्वादिति ॥ २४ ॥
प० टी० । अच्छेद्यइति । निरवयवत्वादमूर्तित्वादृद्रवत्वात्तथाविधो न भवति । छेद्यत्वादिदे-
हगतमात्मन्यारोप्यते । तदुक्तम्-'अयः पिण्डगते वहौ लोहकारस्य ताडनम् ॥आरोप्यते तथा लोहे
दाहकत्वादिवहिजम् ' इति । अग्रेऽपि तथैवास्तीत्याह निसइयादि । नित्योऽविनाशी सर्व-
गतो ऽपरिच्छिन्नः स्थाणः स्थिरस्वभावो रूपान्तरशून्यः । अचलः पूर्वरूपापरित्यागी । सनातनो
ऽनादिः । एवंभूतश्चेत्कथं नानुभूयतइत्याह अव्यक्तइति । चक्षुराद्यविषयो मनसा ज्ञातव्य इति चेद-
चिन्त्योऽत एव देहादिभिरविकार्यों विकारं न प्राप्यते ॥ २४ ॥
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५॥
तस्मादेवं यथोक्तप्रकारेणैनमात्मानं विदित्वा त्वं मनुशोचितुमर्हसि
हन्ताहमेषां मयैते हन्यन्ते इति ॥ २५ ॥
आ० टी० । आत्मयाथात्म्योपदेशमशोच्यानन्वशोचस्त्वमित्युपक्रम्य व्याख्यानमुपसंहरति
तस्मादिति । अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मादात्मा निर्धारतस्तस्मा-
त्तथैव ज्ञातुमुचितस्तज्ज्ञानस्य फलवत्त्वादित्यर्थः । प्रतिषेध्यमनुशोकमेवाभिनयति हन्ताह-
मिति ॥ २५ ॥
प० टी० । अथोपसंहरति तस्मादिति । तस्मात्कारणादेवममुना प्रकारेण निरूपितमेनमात्मानं
विदित्वानुशोचितुं नाहसि ॥ २५ ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ॥
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२६॥
आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते अथ चैनमिति । अथ चेत्यभ्यु-
पगमार्थः । एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्या प्रत्यनेकशरीरोत्पत्ति
जातो जात इति वा मन्यसे तथा प्रतितत्तहिनाशं नित्यं वा मन्यसे मृतं मृतो
मृत इति । तथापि तथाभाविन्यप्यात्मनि त्वं महाबाहो नैवं शोचितुमर्हसि
जन्मवतो नाशो नाशवतो जन्म चेत्येताववश्यंभाविनाविति ॥ २६ ॥
आ० टी० । आत्मनो नित्यत्वस्य प्रागेव सिद्धत्वादुत्तरश्लोकानुपपत्तिरित्याशङ्कयाह आत्म-
न इति । अनित्यत्वमिति छेदः, शाक्यानां लोकायतानां वा मतमिदमापरामृश्यत । श्रोतुरर्जुनस्य
पूर्वोक्तमात्मयाथात्म्यं श्रुत्वापि तस्मिन्निर्धारणासिद्धेईयोर्मतयोरन्यतरमताभ्युपगमः शङ्कितस्तदर्थों
निपातद्वयप्रयोग इत्याह अथ चेति । प्रकृतस्यात्मनो नित्यत्वादिलक्षणस्य पुनःपुनीतत्वाभिमानो
मानाभावादसंभवीत्याह लोकेति। नित्यजातत्वाभिनिवेशे पौनःपुन्येन मृतत्वाभिनिवेशो व्याहतः स्या-
दित्याशङ्कयाह तथेति । परकीयमतमनुभाषितमभ्युपेत्याहाबत महत् पापं कर्तुं व्यवसिता वयमित्या-
देस्तदीयशोकस्य निरवकाशत्वमित्याह तथापति । एवमर्जुनस्य दृश्यमानमनुशोकप्रकारं दर्शयि-
त्वा तस्य कर्तुमयोग्यत्वे हेतुमाह जन्मवत इति । जन्मवतो नाशो नाशवतश्च जन्मेत्येताववश्य
भाविनी मिथो व्याप्ताविति योजना ॥ २६ ॥

द्वितीयाध्यायः।
प० टी० । अथ देहात्मनोः साहचर्यदर्शनाद्देहेन सहजन्ममरणमङ्गीसत्यापि शोको न कार्थ
इत्याह अथचैनमिति । अथ यद्यपि नित्यं सर्वदैनमात्मानं तत्तदेहेन सह जातं मृतं वा मन्य-
से यतः पुण्यपापयोस्तत्फलभूतयोर्जन्ममरणयोरात्मगामित्वात्तथापि न त्वं शोचितुमर्हसि ॥ २६ ।।
जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च ॥
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥
तथा च सति जातस्येति । जातस्य हि लब्धजन्मनो ध्रुवोऽव्यभि-
चारी मृत्युर्मरणं ध्रुवं जन्म मृतस्य च तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽ
र्थस्तस्मिनपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥
आ० टी० । तयोरवश्यंभावित्वे सत्यनुशोकस्याकर्तव्यत्वे हेत्वन्तरमाह तथाचंति ॥२७॥
प० टी० । कुत इत्याह जातस्येति। हि यस्माज्जातस्य स्वारम्भककर्मक्षये मृत्युभ्रुवो निश्चि-
तो मृतस्य च तद्देहकतेन कर्मणा जन्मापि ध्रुवमेव, तस्मादेवमपरिहार्येऽर्थेऽवश्यंभाविनि जन्ममरण-
लक्षणेऽर्थे त्वं शोचितुं नाहसि ॥ २७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ॥
अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८॥
कार्यकारणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुं यतः
अव्यक्तादीनीति । अव्यक्तादीन्यव्यक्तमदर्शनमनुपलब्धिरादिर्येषां . पुत्र-
मित्रादिकार्यकारणसंघातात्मकानां तान्यव्यक्तादीनि भूतानि प्रागुत्पत्तेः, उत्प-
नानि च प्राट् मरणाद् व्यक्तमध्यान्यव्यक्तनिधनान्येव पुनरव्यक्तमदर्शनं निधनं म-
रणं येषां तान्यव्यक्तनिधनानि मरणादूर्द्धमव्यक्ततामेव प्रतिपद्यन्त इत्यर्थः ।
तथा चोक्तम्-'अदर्शनादापतितः पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं
स्था का परिदेवना' इति। तत्र का परिदेवना को वा प्रलापोऽदृष्टदृष्टप्रनष्टभ्रा.
न्तिभूतेष्वित्यर्थः ॥ २८ ॥
आ० टी० । आत्मानमुद्दिश्यानुशोकस्य कर्तुमयोग्यत्वेऽपि भूतसंघातात्मकानि भूतान्युद्दि-
श्य तस्य कर्तव्यत्वमाशक्याह कार्येति । समनन्तरश्लोकस्तत्र हेतुरित्याह यत इति । चाक्षुष-
दर्शनमात्रवृत्तिं व्यावर्त्तयत्ति अनुपलब्धिरिति । न हि यथोक्तसंघातरूपाणि भूतानि पूर्वमुत्पत्ते-
रुपलभ्यन्ते तेन तानि तथा व्यपदेशभाजि भवन्तीत्यर्थः । किं तन्मध्यं यदेषां व्यक्तमिष्यते तदाह
उत्पन्नानीति । उत्पत्तेरूचं मरणाच्च पूर्व व्यावहारिकं सत्त्वं मध्यमेषां व्यक्तमिति तथोच्यते जन्मा-
नुसारित्वं विलयस्य युक्तमिति मत्वा तात्पर्यार्थमाह मरणादिति । उक्तेऽर्थे पौराणिकसंमतिमाह
तथाचेति । तत्रेत्यस्यार्थमाह अदृष्येति । पूर्वमदृष्टानि सन्ति पुनर्दष्टानि तान्येव पुनर्नष्टानि तदे-
वं भ्रान्तिविषयतया घटिकायन्त्रवञ्चक्रीभूतेषु भूतेषु शोकनिमित्तस्य प्रलापस्य नावकाशोऽस्ती-
1
त्यर्थः ॥ २८ ॥

५६ श्रीमद्भगवद्गीता- प० टी० । अथ देहस्य गतिरज्ञानमालिकेति पर्यालोच्य तदुपाधिकः शोकोऽप्यज्ञानकृत इत्याह अव्यक्तादीनीति । अव्यक्त प्रधान तदेवादिरुत्पत्तेः पूर्वरूपं येषां तान्यव्यक्तादीनि भु- तानि शरीराणि कारणरूपस्थितानामेवोत्पत्तेः । तथा व्यक्तमाभिव्यक्तं मध्यं जन्ममरणान्तरालस्थिति- रूपं येषाम् अव्यक्ते निधनं लयो येपामेवंविधानामज्ञानरूपादिमध्यावसानानां नाशे का परिदेवना किं दुःखम् स्वप्ने विनष्टभ्रातृवदिव्यर्थः । एवं स्वाप्नशोकापगमे जाग्रत्येव प्रतीकारः । तद्वत्स्वाज्ञानोत्प- ने शोके तावदात्मज्ञानमेव प्रतीकारः।। २८ ॥ आश्चर्यवत् पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः ॥ आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥ दुर्विज्ञेयोऽयं प्रकृत आत्मा किं त्वामवकमुपालभे साधारणे भ्रान्तिनि- मित्ते, कथं दुर्विज्ञेयोऽयमात्मेत्यत आह आश्चर्यवदिति । आश्चर्यवदाश्चर्यम- ष्टपूर्वमहृतमकस्माद् दृश्यमानं तेन तुल्यमाश्चर्यवदाश्चर्यमिवनमात्मानं पश्यति क- श्चिदाश्चर्यवदेनं वदति तथैव चान्य आश्चर्यवच्चनमन्यः शृणोति श्रुत्वा दृष्ट्वोक्ता- प्यात्मानं १ वेद नचैव कश्चिदथ वा योऽयमात्मानं पश्यति स आयतुल्यो यो वदति यश्च शृणोति सोऽनेकसहस्रेषु कश्चिदेव भवत्यतो दुर्वाध आत्मेत्य- भिप्रायः ॥ २९ ॥ आ० टी० । अर्जुन प्रत्युपालम्भं दर्शयित्वा प्रकृतस्यात्मनो दुर्विज्ञेयत्वात्तं प्रत्युपालम्भो न संभवतीति मन्वानः सन्नाह दुर्विज्ञेय इति । तथा चात्माज्ञाननिमित्तविप्रलम्भस्य साधारणत्वाद साधारणोपालम्भस्य निरवकाशतत्याह किं त्वामेवेति । अहं प्रत्ययवेद्यत्वादात्मनो दुर्विज्ञयत्वमसि- द्वामिति शङ्कते कथमिति । विशिष्टस्यात्मनोऽहंप्रत्ययस्य दृष्टत्वेऽपि केवलस्य तदभावादस्ति दु विज्ञेयतेति श्लोकमवतारयति आहेति । आश्चर्यवदित्यायन पादनात्मविषयदर्शनस्य दुर्लभत्वं दर्शयता द्रष्टुर्दीलभ्यमुच्यते, द्वितीयेन च तद्विपयवेदनस्य दुर्लभत्वोक्त तदुपदेष्टुस्तथात्वं कथ्यते, तृत्तीयेन तदीयश्रवणम्य दुर्लभत्वद्वारा श्रोतुर्विरलता विवक्षिता, श्रवणदर्शनाक्तीनां भावेऽपि तद्वि षयसाक्षात्कारस्यात्यन्तायासलभ्यत्वं चतुर्थेनाभिप्रेतमिति विभागः । आत्मगोचरदर्शनादिदुर्ल- भत्वद्वारा दुर्बोधत्वमात्मनः साधयति आश्चर्यवदिति । संप्रत्यात्मनि दृष्टुर्वक्तुः श्रोतुः साक्षात्क- तुश्च दुर्लभत्वाभिधानेन तदीयं दुर्वाधत्वं कथयति अथवोति । व्याख्यानद्वयेऽपि फलितमाह अतइति ॥ २९ ॥ ५० टी० । तच्चातिदुर्गममित्याह आश्चर्यवदिति । अनादिजन्मकोटिषु दृश्यनातदर्श- नसंनिविष्टदृष्टिः पुमान् कश्चिच्छास्त्राचायोपदेशान्निराकाराद्वैताचदेकरसमात्मानमाश्चर्यवत्पश्यति यतः प्रागननुभूतवस्तुदर्शनं श्रवणं वाश्चर्यजनकं भवति । दृष्टान्ताभावान्मुह्यमान इत्यर्थः । तथान्यो यः कश्चिदनभिज्ञातात्मतत्त्वः शास्त्रश्रुतेन शब्दमात्रेण वदति सोऽप्याश्चर्यवन्मत्वा दृश्यद्रष्ट्राभिनिवेशेन १ प्येनं वेद-- हात पा० लि. १।२ पु० ।

हितीयाध्यायः । पत्किचिद्वदसि तस्मादस्मिन्निरूपणे सावधानतया भवितव्यमित्यर्थः । अथैतदर्थेऽथर्वशाखीया श्रुतिरपि. " श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपे बहवो यं न विद्युः ॥ आचार्यो वायकुशलोऽत्य लब्धा वाश्चर्यों ज्ञाता कुशलानुशिष्टः" इाते । भाष्यम्-यः परमात्मा सदाचार्यादपि श्रवणाय श्रवणार्थ बहुभिर्न लभ्यः बहना मुलभो न भवति किंतु दैववशात् कस्यापीत्यर्थः । तथा यं परमा- स्मानं शृण्वन्तोऽपि बहवो न विद्यु विन्दन् किंतु कश्चिदेव । तथास्यात्मनो लब्धावकुशलाचार्य आश्चर्यो भवति मुह्यति । तथाकुशलानुशिष्ट उपदिष्टो ज्ञाता शिष्योऽप्याश्चर्यो भवति ॥ २९ ॥ देहो नित्यमवध्योऽयं देहे सर्वस्य भारत ॥ तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥ अथेदानीं प्रकरणार्थमुपसंहरन् ब्रूते देहीति * । देही शरीरी नित्यं सर्वावस्थास्ववध्यो निरवयवत्वान्नित्यत्वाच्च तवावध्योऽयं देही शरीरे सर्वस्य स- वंगतत्वात् स्थावरादिपु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही न वध्यो यस्मात्तस्माद्रीष्मादीनि सर्वाणि भूतान्युद्दिश्य न त्वं शोचि- तुमर्हसि ॥ ३० ॥ आ० टी० । श्लोकान्तरमन्थापयति अथेति । आत्मनो दुर्ज्ञानत्वप्रदर्शनानन्तरभिति यावत् । वस्तुवृत्तापेक्षया शोकमोहयोरकर्तव्यत्वं प्रकरणार्थः । देहे वध्यमानऽपि देहिनो वध्यत्वाभावे फाले- तमाह यस्मादिति । हेतुभागं विभजते सर्वस्येति । फलितप्रदर्शनपरं श्लोकार्धं व्याचष्टे तत्माद्- भिष्मादीनीति ॥ ३० ॥ प० टी० । अथ प्रकृतमनुसरति देहीनिसमिति । देही शरीरचालक आत्मा नित्य नि- रन्तरमवध्यो वधार्हो न भवतीति नित्यत्वं प्रोक्तम् । एक एव सर्व य भूतजातस्य देहे वत इात । व्यापकत्वं प्रोक्तम् । तस्मात्कारणात्सर्वाणि भूतााने भ्रातृसहृदादीनि शोचितुं नाहसि । तन्नि- मित्तशोको व्यर्थः । अथ देहनिमित्तं चेत्तर्हि तस्मादधिकरणीभूतात्सत्यादात्मनः सकाशात्सर्वाणि भूतान्याविर्भवन्तीति देहानामध्यासरूपत्वं निरूपितम् । एतदेव बृहदारण्यकेऽप्याग्नात-" स य- थोर्गनाभिस्तन्तनोच्चरेद्यथाग्नेः क्षुद्रा वित्फ़लिङ्गा व्युञ्चरन्त्येवमेवास्मादात्मनः सबै प्राणः: सर्व लोकाः सवे देवाः सर्वाणि भूतानि सर्व एतदात्मनो व्युच्चरन्ति । तस्योपनिषत्सत्यस्य सत्यमिति ।माणा तेषामेष सत्यम् " इति। भाप्यम्-पूर्वम् अथ यदा सुपतो भवात न कस्य चन वेद" इत्यादिश्रुत्या सुषुप्ती मनसि परमात्मनि लीने सात तत्कल्पितः स्थममः प्रपञ्चोऽपि लीनो भवेदिति प्रति- पादितम् । अथ पुनर्जागरातस्थायां मनसि बहिर्मुखे जाते सति प्रासंस्कारर्थथा पूर्व मनःप्रपञ्च आवर्भदाते “धाता यथापूर्वमकल्पयत् ” इति श्रुतेः । एवं सपतौ प्रपञ्च लये जागरे पुनराविर्भावे च दृष्टान्तमाह । स यथेति ऊर्णा सूत्रविशेषो नाभौ यत्याः सा ऊर्णनाभिः कीटविशपः स यथा पूर्व स्वोत्पादितेन पुनस्यमानेन तन्तना उच्चरेदवं चरेत् । यावत्सर्वतन्तग्रासो भवति । तद्वन्मनः सर्वसंस्काररूपं तन्तुं ग्रसित्वा स्वयमपि लीनं भवाते । अथ पुनः प्रपञ्चोदये दृष्टान्तमाह यथेति । यथा हन्यपानादुरुमुकाग्नेः सकाशाद्युगपदेव क्षुद्रा लघीयांसः सहस्रशो विस्फालङ्गा आनेकणा व्युचर- न्त्युइच्छान्त्येवमेवास्मात्प्रशुद्धादात्मनो सकाशात्सर्वे सूक्ष्मप्रपश्वरूपाः स्थूलप्रपञ्च रूपाः सर्वे भूर्भवः त्वराद्या लोकाः सर्वे देवा इन्द्रादयः सर्वाणि भूतानि स्थावरजङ्गमा- * प्रकरणार्थ उपसंहीयते देहाति-पा. लि. १ प०। वै सत्य मनसः प्राणारतथा ૫૮ श्रीमद्भगवद्गीता-- मकानि सर्व एत आत्मानो देहा व्युञ्चरन्ति निर्गच्छन्ति । तस्य परमात्मन उपनिषद्गानसत्यस्य स. त्यमिति वदन्ति । एतदेव प्रकटीकरोति वैइति । ज्ञानव्यवहारे प्राणमुख्यप्राणादयो हिरण्यगर्भाद्याः सत्यं तेषामप्येष आत्मा सत्यं सैव सत्यत्वमा त्यर्थः । एवमुभयथापि शोकानुदय इत्यर्थः । तदुक्तम- ध्यात्ममीमांसायाम्-“ इन्द्रेन्द्राणीरतान्ते प्रविशति मनसा रेतसा साकमेतबुध्यन्तर्विश्वजातं ससक- लकरणं तेन गर्भ दधाना ॥ साऽव्यक्ते लीयमाना पुनरुदयमिता जागरादौ प्रसूते कीटे चोर्णामिवासा- बुत हुतवहतो निस्सरन्ति स्फुलिङ्गाः" इति ॥ ३० ॥ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ॥ धादि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥३१॥ इह परमार्थतत्त्वापेक्षायां शोको वा मोहो वा न संभवतीत्युक्तं, न केवलं परमार्थतत्त्वापेक्षायामेव किं तु स्वधर्ममिति । स्वधर्ममपि स्वो धर्मः क्ष- त्रियस्य धर्मो युद्धं, तमप्यवेक्ष्य त्वं न विकम्पितुं प्रचलितुमर्हसि धात्क्ष- त्रियस्य स्वाभाविकाद्धर्मादात्मस्वाभाव्यादित्यभिप्रायः, तच्च युद्धं पृथिवीजयहा- रेण धर्मार्थ प्रजारक्षणार्थं चेति परं धय॑ धर्मादनपेतं तस्माद्धाद् युद्धा- च्छेयोऽन्यत्क्षत्रियस्य न विद्यते हि यस्मात् ॥ ३१ ॥ आ० टी० । श्लोकान्तरमवतारयन् वृतं कीर्तयति इहेति । पूर्वश्लोकः सप्तम्यर्थः, यत्पार - माथिकं तत्त्वं तदपेक्षायामेव केवलं शोकमोहयोरसंभवो न भवति किं तु स्वधर्ममपि चावेक्ष्यति संबन्धः, स्वकीय क्षात्रधर्ममनुसन्धाय ततश्चलनं परिहर्तव्यमित्यर्थः । यद्धि क्षत्रियस्य धर्मादनपेतं श्रेयःसाधनं तदेव मयानुवर्तितव्यमित्याशङ्कयाह धर्मादिति । जातिप्रयुक्तं स्वाभाविकं स्वधर्ममेव विशिनष्टि क्षत्रियस्येति । पुनर्नकारोपादानमन्वयार्थम् । प्रचलितुमयोग्यत्वे प्रतियोगिनं दर्शयति स्वा- भाविकादिति। स्वाभाविकत्वमशास्त्रीयत्वमिति शङ्कां वारयितं तात्पर्यमाह आत्मेति । आत्मनः स्व- स्यार्जुनस्य स्वाभाव्यं क्षत्रिय स्वभावप्रयुक्तं वर्णाश्रमोचितं कर्म तस्मादित्यर्थः । धर्मार्थ प्रजापरिपाल- नार्थ च प्रयतमानस्य युद्दादुपरिरंसा श्रद्वातव्येत्याशझ्याह तचेति । ततोऽपि श्रेयस्करं किंचिदनुष्ठा- तुं युद्धादुपरतिरुचितेत्याशङ्कयाह तस्मादेति । तस्माद् युद्दात् प्रचलनमनुचितमिति शेषः।।३१।। प० टी० । अथास्तां तव सत्यत्वाभिमता दृश्यदृष्टिस्तथापि शोको न युज्यत इत्याह स्वध- ममपीत । स्वधर्म श्रुतिस्मृतिसिद्ध क्षत्रवर्ममवेक्ष्य सम्यग्विचार्य विकम्पितुं नाहीसे । अथ त्वमेव धर्म कथयेत्याह धादिति । क्षत्रियस्य श्रीः धान्न यायागताद्युद्वादन्यदहिंसाद्यनुष्ठानं श्रेयः श्रेयो- ननकं न विद्यते । अथ प्रागर्जुनोरक्रान्तश्रुतेस्तापर्यप्रतिपादिका श्रुतिः-"तच्छ्रेयोरूपमत्यसृजत धर्म तदेतत्क्षत्रस्य क्षत्रं यदर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान् बलीया सः समाशंसते धर्मेण यथा राज्ञैव यो वै स्वधर्मः सत्यं वैतत्तस्मात्सत्यं वदन्तमाहुर्धर्म वदतीति धर्म वो वदन्त सत्यं वद- तीतीत्येतद्वयेवैतदभयं भवति" इाते । भाष्यम्--तत्तस्मादनन्तरं श्रेयोरूपं धर्ममत्यसृजतातिसृष्टि- स्थानीयमसृजत् । तदेतद्वक्ष्यमाणम् । तत्किम्, क्षत्रस्य क्षत्रियजातेः क्षत्रं क्षात्रलक्षणों धर्मस्तस्मा- द्वात्परमुत्कृष्टं नास्ति । यतो धर्मेण कृत्वाबलीयान् दुर्बलोपि बलीयांसं समर्थमपि समाशंसते सम्य- झकारेणाक्षिपति । यथा राज्ञा स्ववशेन कृत्वा दुर्बलोपि समर्थमाक्षिपति तथेत्यर्थः । एवं वै इति निश्चयेन पूर्वोक्तो यो धर्मः स सत्यं सत्यस्य प्रापकस्तत्तस्मात्कारणात्सत्यं वदन्तं पुरुषं धर्म वदती- हितीयाध्यायः। स्थाहुः । वा इत्यथवा धर्म वदन्तं पुरुषं सत्यं वदतीत्याहुरेवं सत्यधर्मयोरेकार्थवाचकत्वमस्तीत्युक्तं हीति निश्चयेन एतद्धर्मसत्याभिधानमुभयं तद्भवति ब्रह्मरूपं भवति तत्त्वमसि तत्सद् ब्रह्मेति श्रुतेः॥३१॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपातम् ॥ सुखिनः क्षत्रियाः पार्थ लभन्ते युद्दमीदृशम् ॥३२॥ कुतश्च तद्युद्धं कर्तव्यमित्युच्यते यदृच्छयेति । यदृच्छया चाप्रार्थ- तमागतमुपपन्नं स्वर्गहारमपारतमुद्घाटितं य एतदीदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ किं न सुखिनस्ते ॥ ३२ ॥ आ टी०। युद्धस्य गुर्वाद्यनेकप्राणिहिंसात्मकर राहिंसाशास्त्रविरोधान्नास्ति कर्तव्यतेति शङ्कते कुतश्चेति । अग्नीषोमीयहिंसादिवद् युद्धमपि क्षत्रियस्य विहितत्वादनुष्ठेयं सामान्यशास्त्रतो विशेषशास्त्रस्य बलीयस्त्वादित्याह उच्यत इति । तथापि युद्धे प्रवृत्तानामैहिकामुष्मिकस्यापि सुखाभावादुपरतिरेव ततो युक्ता प्रतिभातीत्याशङ्कयाह यदृच्छयेति । चिरेण चिरतरेण कालेन च यागाद्यनुष्ठायिनः स्वर्गादिभानो भवन्ति युद्धयमानास्तु क्षत्रिया बहिर्मुखताविहीनाः सहसैव स्वर्गादिसुखभोक्तारस्तेन तव कर्तव्यमेव युद्धमिति व्याख्यानेन स्फुटयति यदृच्छयेसादिना । इहामुत्र च भाविमुखवतामेव क्षत्रि- याणां स्वधर्मभूतयुद्धसिद्धेस्तादर्सेनोत्थानं शोकमोहौ हित्वा कर्तव्यमित्यर्थः ॥ ३२॥ प० टी० । अथ श्रुत्यर्थमेवदृढीकुर्वन्नाह यदृच्छयति । भो पार्थ ईदृशं जयाजयाद्यभिनि- वेशरहितं युद्ध सुखिनः सुकृतिनः क्षत्रिया लभन्ते । अथास्य दुर्लभत्वमाह स्वर्गेति । पुनः कीदृशं स्वर्गहारम् अपावृतं निरावरणं यदृच्छयाप्रार्थनयोपपन्नं सिद्धं भवति ॥ ३२ ॥ अथ चेत्त्वमिमं धर्य संग्रामं न करिष्यसि ॥ ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ अथेति । एवं कर्तव्यताप्राप्तमपि अथ त्वमिमं धर्म्य धर्मादनपेतं वि- हितं संग्रामं युद्धं न करिष्यसि चेत् ततस्तदकरणात् स्वधर्म कीर्ति च महा- देवादिसमागमनिमित्तां हित्वा केवलं पापमवाप्स्यसि ॥ ३३ ॥ आ० टी० । स्वधर्मस्य युद्धस्य श्रद्धया करणे स्वर्गादिमहाफलप्राप्तिं प्रदर्श' तदकरणे प्र- त्यवायप्राधि प्रदर्शयन्नुत्तरश्लोकगताथशब्दार्थ कथयति एवमिति । विहितत्वं फलवत्त्वमित्यनेन प्रकारेणेत्यर्थः, अन्वयार्थः पुनश्चेद्रित्यनूद्यते, महादेवादीत्यादिशब्देन महेन्द्रादयो गृह्यन्ते ॥ ३३ ॥ ५० टी० । अथ विपक्षे दोषमाह अथचेदित्यादितः श्लोकचतुष्टयेन । अथेत्यनन्तरं मदु- क्तमनाकर्ण्य धर्म्य धर्मसाधकं संग्रामं चेन्नकरिष्यसि तार्ह स्वधर्म हित्वा स्वधर्भवहिर्मुखो भूत्वा तथे- ह लोके श्लाघनीयां कीर्तिं च हित्वा पापं परलोकप्रतिबन्धकमवाप्स्यसि । अनेन पापमेवाश्रयेदम्मा- नित्युक्तस्य परिहारः सूचितः ॥ ३३ ॥ अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ॥ संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥३४॥ अकीर्तिमिति न केवलं स्वधर्मकीर्तिपरित्यागोऽकीर्ति चापियुद्धे श्रीमद्भगवद्गीता- मूतानि कथयिष्यन्ति ते तवाव्ययां दीर्घकाला । धर्मात्मा शूर इत्येवमादिभि- र्गुणेः संभावितस्य चाकीर्तिमरणादतिरिच्यते संभावितस्य चाकीर्तेवरं म- रणमित्यर्थः ॥ ३४॥ आ० टी० । युद्वाकरणे क्षत्रियस्य प्रत्यवायमामुप्मिकमापाद्य शिष्टगहलक्षणं दीर्घकाल- माविन नाहकमपि प्रत्यवायं प्रतिलम्भयति न केवलमिति । यद्धे स्वमरणसन्देहात्तत्परिहारार्थमकी- तिरपि सोढच्या स्वात्मसंरक्षणत्य श्रेयत्करत्वाादत्याशङ्कयाह धर्मात्मेति ।मान्यानामकीर्तिर्भवति मर- णादसि दुःनहाते तात्पर्यार्थमाह संभावितस्येति ॥ ३४ ॥ प०टी० । किं च अकीर्तिमिाते । भूतानि लोकास्तेऽव्ययामाकल्पस्थायिनीमकीर्ति- मपयशः कथयियान्त । यतो यादृशतादृशस्याकार्तेर्भयं नास्ति । संभावितस्य पुरुषस्या- कीर्ति र गादप्यतिरिच्यतेऽतिशयं प्राप्नोति । जीवतो मरणसमय एवं दुःखं भवत्यकीर्तिस्तु मरगानन्तरमपि भवतीत्यर्थः ॥ ३४ ॥ भयाद्रणा दुपरतं मंस्यन्ते त्वां महारथाः॥ येयां च त्वं बहुमतो भूत्वा यास्यसि लाववम् ॥३५॥ किंच भयादिति । भयाद् कर्णादिभ्यो रणाद्युद्दादुपरतं निरतं मस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथा दुर्योधनप्रभृतयः । येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिगुणैर्युक्त इत्येवं बहुमतो भूत्वा पुनस्त्वं यास्पति लाघवं लघुभावम् ॥ ३५ ॥ अ० टी० । इतश्च न्वया युद्ध कर्तव्यामेत्याह किंचेति । प्राणिषु कृपयानाहं युद्धं क- रियामात्याशङ्कयाह भयादिति । महारथानव विशिनिष्टि येपांचति । दुर्योधनादिभिस्तवोप- हात्यतानि नाथ संग्रामे प्रवृत्तिरवश्यंभाषिनीत्यर्थः ॥ ३५ ॥ ५० टी० । अथ संभावितत्वमेवाह भयादोते । ते महारथास्त्वां भयान्निमित्तभूताद्रणा संग्रामादुपरतं परावृतं मंत्यन्ते मन्येरन् न त्वत्मरूपयति । ते के येषां बीगणां त्वं बहु यथा मवात तथा मतः समतो भूत्वा लाघव लघुत्वं यात्यसि प्राप्स्यसि ॥ ३५ ॥ अवाच्यवादांश्च बहून् वदिष्यन्ति तशहिताः ।। निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥ किंच अवाच्यवादानिति । अवाच्यवादान् अवक्तव्यवादांश्च ब- ढूननेकप्रकारान् वदिष्यन्ति तवाहिताः शत्रवो निन्दन्तः कुत्सयन्तस्तव त्व- दीयं सामर्थ्य तस्मात्ततो निन्दाप्राप्तेर्दुःखाद् दुःखतरं नु किं ततः कष्टतर- दुःखं नास्तोत्यर्थः ॥ ३६ ॥ ० टी०। इतश्च त्वं युद्वादुपरमं माकार्षीरित्याह किंचेति । ननु भीष्मद्रोणादिवधप्रयुक्तं कष्टतरं दुःबमसहमानो युद्धान्निवृत्तः स्वसामानन्दादेिशत्रुकृतं सोढुं शक्ष्यामीत्याशङ्कयाह तत इति ॥ ३६ ॥ * नितवाकवचादियुद्धनिमित्तमित्यधिक मु० पुस्तके ।

हितीयाध्यायः ।
६१
प० टी० । अवाच्यवादानिति । तवाहिताः सिद्धवैरिणो दायादा अवाच्यान् वचनानीं-
नपवादान् वदिष्यन्ति । किं भूतास्तव सामर्थ्य निन्दन्तस्ततोऽपि दुःखतरं किं नु ॥३६ ॥
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥३७॥
हतो वेति । युद्धे पुनः क्रियमाणे कर्णादिभिर्हतो वा प्राप्स्यसि
स्वर्ग हतः सन् स्वर्ग प्राप्स्यसि जित्वा कर्णादीन् शूरान् भोक्ष्यसे महीमु-
भयथापि तव लाभ एवेत्यभिप्रायः। यत एवं तस्मादुत्तिष्ठ कौन्तेय युद्धाय
कृतनिश्चयो जेष्यामि शत्रून् मरिष्यामि वेति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥
आ० टी० । तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थनिन्दा ततो निवृत्तौ शत्रनिन्देत्युभयतःपाश-
रज्जुरित्याश्कयाह युद्धे पुनरिति । जये पराजये च लाभध्रौव्याद् युद्धार्थादत्थानमावश्यकमि-
त्याह तस्मादिति । न हि परिशुद्धकुलस्य क्षत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानि-
त्याह कौन्तेयेति ।जये पराजये चेत्येतदुभयथेत्युच्यते जयादिनियमाभावेऽपि लाभनियमे फलितमाह
यत इति । कृतनिश्चयत्वमेव विशदयति जेष्यामीति ॥ ३७ ॥
प० टी० । ननु मरणवत एव स्वर्गप्राप्तिश्रवणान्न तु जयवतो जीवत इत्याह हतइति । रणे
मतस्य स्वाराज्यं जीवतः साम्राज्यमित्यर्थः ॥ ३७ ॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ॥
ततो
युद्धाय युज्यस्व
नैवं पापमवाप्स्यसि ॥ ३८॥
तत्र युद्ध स्वधर्म इत्यवं युध्यमानस्योपदेश मिमं शृणु सुखदुःव इति ।
सुखदुःखे समे तुल्ये कृत्वा रागद्देपावप्यकत्वेत्येतत् तथा लाभालाभी ज-
याजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटस्व, नैवं युद्धं कुर्वन् पापफल-
मवाप्स्यसीत्येष उपदेशः प्रासंगिकः ॥ ३८ ॥
आ० टी० । पापभीरुतया युद्धाय निश्चयं कृत्वा नोत्थातं शक्नोमीत्याशङ्कयाह तति ।
युद्धस्य स्वधर्मतया कर्तव्यत्वे सतीति यावत् । मुहृज्जीवनमरणादिनिमित्तयोः सुखदुःखयोः समताकर-
णं कथमिति तत्राह रागद्वेषाविति । लाभः शत्रुकोषादिप्राप्तिाभस्तद्विपर्ययः, न्याय्येन युद्धे-
नापरिभूतेन • परस्य परिभवो. जयस्तद्विपर्ययस्त्वजयस्तयोलीभालाभयोर्जयाजययोश्च समताकरणं
समानमेव, रागद्वेषावकत्वेत्येतद्दशयितुं तथेत्युक्तम्, यथोक्तोपदेशवशात् परमार्थदर्शनप्रकरणे युद्ध-
कर्तव्यतोक्तेः समुच्चयपरत्वं शास्त्रस्य प्राप्तमित्याशङ्कयाह एष इति । क्षत्रियस्य तव शर्मभूतयुद्ध-
कर्तव्यतानुवादप्रसंगागतत्वादस्योपदेशस्य नानेन मिषेण समुच्चयः सिद्धयतीत्यर्थः ॥ ३८ ॥
५० टी० । अथ धर्म्ययुद्धस्वरूपमाह सुखदुःखे इति । सुखदुःखे समे कृत्वा तथा तयोः
कारणीभूतौ लाभालाभी जयाजयो समौ कृत्वा हर्षविषादरहितो भूत्वा युध्यस्वेत्यर्थः । एवममुना प्रका-
रेण युद्धं कृत्वा पापं न प्राप्स्यसि ॥ ३८ ॥
एषा तेऽभिहिता सांख्ये बुद्धिोंगे विमां शृणु ॥
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥

६२ श्रीमद्भगवगीता-- शोकमोहापनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष्येत्यायः श्लो- कैरुक्तो न तु तात्पर्येण, परमार्थदर्शनं त्विह प्रकृतं तच्चोक्तमुपसंहियते एषा तेऽभिहितेति शालविषयविभागप्रदर्शनाय । इह हि दर्शितं पुनः शास्त्रविष- पविभागे उपरिष्टाज ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनामिति निष्ठाह- पविषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविभागेन सुख ग्रहिष्यन्तीत्य- त आह एषा ते इति । एषा ते तुभ्यमभिहितोक्ता सांख्ये परमार्थवस्तुविवे- कविषये बुद्धिर्ज्ञानं साक्षाच्छोकमोहादिसंसारहेतुदोषनिवृत्तिकारणं, यो- गे तु तत्प्राप्युपाये निःसंगतयाह इन्हप्रहाणपूर्वकमीश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमामनन्तरमेवोच्यमानां बुद्धिं शृणु, तांच बुद्धि स्तौति प्ररोचनार्थ बुद्ध्या यया योगविषयया युक्तो हे पार्थ कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धस्तं प्रहास्यसीश्वरप्रसादनिमित्तज्ञानप्राप्तेरित्य- भिप्रायः ॥ ३९॥ आ० टी० । ननु स्वधर्ममपि चावेश्येत्यादिश्लोकैायावष्टम्भेन शोकमोहापनयनस्य तात्प पेंणोक्तत्वात्तस्मिन्नपसंहर्तव्ये किमिति परमार्थदर्शनमुपसंव्हियते तत्राह शोकेति । स्वधर्ममपीत्या- दिभिरष्टभिः श्लोकः शोकमोहयोः स्वजनमरणगुर्वादिवशङ्कानिमित्तयोः सम्यग्ज्ञानप्रतिबन्धकयोरपन- यार्थ वर्णाश्रमतं धर्ममनुतिष्ठतः स्वर्गादि सिध्यति नान्यथेत्यन्वयव्यतिरेकात्मको लोकप्रसिद्धो न्यायो यद्यपि दर्शितस्तथापि नासौ तात्पर्येणोक्त इत्यर्थः । किं तर्हि तात्पर्येणोक्तं तदाह परमार्थेति । त्वेवाहं जात नासइत्यादि सप्तम्या परामृश्यते, उक्तम् 'न जायते म्रियते वा कदाचिन्न' इत्यादिनोपपा- दितमित्यर्थः । उपसंहारप्रयोजनमाह शास्त्रोत । तस्य वस्तुद्वारा विषयो निष्ठाद्वयं तस्य विभक्तस्य तेनैव विभागेन प्रदर्शनार्थ परमार्थदर्शनोपसंहार इत्यर्थः । ननु किमित्यत्र शास्त्रस्य विषयविभागः प्रदीते उत्तरत्रैव तद्विभागप्रवृत्तिप्रतिपत्त्योः संभवादिति तत्राह इहहीति । शास्त्रप्रवृत्तेः श्रोतृप्र- तिपत्तेश्च सौकर्यार्थमादौ विषयावेभागसूचनमित्यर्थः । उपसंहारस्य फलवत्त्वमेवमुक्त्वा तमेवोपसंहारम- यतारयति अत आहेति । परमार्थात्मतत्त्वविषयां ज्ञाननिष्ठामक्तामुपसंहृत्य वक्ष्यमाणां संगृह्णाति यो- गेत्विति । तामेव बुद्धिं विशिष्टफलवत्त्वेनााभेष्टौति बुद्धयेति । तत्रोपसंहारभागं विभजते एषेसा- दिना । बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यावर्तयति ज्ञानमिति । तस्य सहकारिनिरपेक्षम्य विशिष्ट- फलवत्त्वमाचष्टे साक्षादिति । शोकमोही रागद्वेषौ कर्तृत्वं भोक्तृत्वमित्यादिरनर्थः संसारस्तस्य हे- तुर्दोषः स्वाज्ञानं तस्य निवृत्तौ निरपेक्षं कारणं ज्ञानमज्ञाननिवृत्तौ ज्ञानस्यान्वयव्यतिरेकसमधिगत- साधनत्वादित्यर्थः । योगे त्विमामित्यादि व्याकुर्वन् योगशब्दस्य प्रकृते चित्तवृत्तिनिरोधविषयत्वं व्य- वच्छिनत्ति तत्प्राप्तीते । प्रकृतमुक्त्युपयुक्तं ज्ञानं तत्पदेन परामृश्यते ज्ञानोदयोपायमेव प्रकटयति निःसंगतयेति । फलाभिसन्धिवैधुर्य निःसंगत्वम् । बुद्धिस्तुतिप्रयोजनमाह प्ररोचनार्थमिति। अभिष्टुता हि बाहेः श्रद्धातव्या सत्यनुष्ठातारमाधिकरोति तेन स्तुतिरर्थवतीत्यर्थः । कर्भानुष्ठानविषयबुद्धया कर्म- बन्धस्य कुतो निवृत्तिन हि तत्त्वज्ञानमन्तरेण समूलं कर्म हातुं शक्यमित्याशङ्कयाह ईश्वर इति ॥३९॥ प० टी० । अथोपदिष्टं ज्ञानयोगमुपसंहरन् स्वधर्ममपीत्युक्तत्वात्कर्मयोग प्रशंसन्नाह एपेति । सम्यक ख्यायते प्रकाश्यत आत्मतत्त्वमनयेति संख्या सम्यग्ज्ञानं तस्मिन् प्रकाश्यमानमा- न

हितीयाध्यायः ।
स्मतस्त्वं साङ्ख्यं तत्र साधनीभूता या बुद्धिरेषा तइति तुभ्यमभिहिता कथिता । एवं कपिता-
यामपि सायबुद्धौ तव चेदात्मतत्त्वमपरोक्षं न भवति तद्यन्तःकरणशुद्धिद्वारात्मतत्वमपरोक्ष
कतुं कर्मयोगे विमां वक्ष्यमाणां बुद्धिं शृणुं । यया बुद्धया कर्मात्मकं बन्धं प्रकर्षेण हास्यसि
त्यक्ष्यसि ॥ ३९ ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ॥
स्वल्पमप्यस्य धर्मस्य.वायते महतो भयात् ॥४०॥
किंचान्यत् नेहाभीति । नेह मोक्षमार्गे कर्मयोगे अभिकमनाशोऽभि-
क्रमणमभिक्रमः प्रारम्भस्तस्य नाशो नास्ति यथा कृष्यादेोगविषये प्रारम्भस्य
नानैकान्तिकफलत्वमित्यर्थः । किंच नापि चिकित्सावत् प्रत्यवायो विद्यते
किं तु भवति स्वल्पमप्यत्य योगधर्मस्यानुष्ठितं त्रायते रक्षति महतः संसारभ-
याज्जन्ममरणादिलक्षणात् ॥ ४० ॥
आ० टी० । ननु कर्मानुष्ठानस्यानकान्तिकफलत्वेनाकिश्चित्करत्वादनेकानर्थकलुषितत्वेन दोष-
वत्त्वाच्च योगबुद्धिरपि न श्रद्धेयेति तत्राह किंचेति । अन्यच्च किंचिदुच्यते कर्मानुष्ठानस्याव-
श्यकत्वे तत्कारणमिति यावत् । कर्मणा सह समाधेरनुष्ठातुमशक्यत्वाद नेकान्तरायसंभवात्तत्फल-
स्य च साक्षात्कारस्य दीर्घकालाभ्याससाध्यस्यैकस्मिन् जन्मन्यसंभवादाद्योगी भ्रश्येतानथें च
निपतेदित्याशङ्कयाह नेहेति । प्रतीकत्वेनोपात्तस्य नकारस्य पुनरन्वयानुगुणत्वेन नास्तीत्यनुवादः ।
यत्तु कर्मानुष्ठानस्यानैकान्तिकफलत्वेनाकिंचित्करत्वमुक्तं तद् दूषयति यथेति । कृषिवाणिज्यादे-
रारम्भस्यानियतफलं संभावनामात्रोपनीतत्वान्न तथा कर्मणि वैदिके प्रारम्भस्य फलमनियतं युज्यते
शास्त्रविरोधादित्यर्थः । यत्तुक्तमनेकानर्थकलुषितत्वेन दोषवदनुष्टानमिति तत्राह किंचेति । इतोऽपि
कर्मानुष्ठानमावश्यकमिति प्रतिज्ञाय हेत्वन्तरमेव स्फुटयति नापीति । चिकित्सायां हि क्रियमाणा-
यां व्याध्यतिरेको वा मरणं वा प्रत्यवायोऽपि संभाव्यते कर्मपरिपाकस्य दुर्विवेकत्वान्न तथा कर्मा-
नुष्ठाने दोषोऽस्ति विहितत्वादित्यर्थः । संप्रति कर्मानुष्ठानस्य फलं पृच्छति किं त्विति । उत्तरार्ध
व्याकुर्वन्विवक्षितं फलं कथयति स्वरुपमपीति । सम्यगज्ञानोत्पादनद्वारेण रक्षणं विवक्षितं 'सर्वपाप-
प्रसक्तोऽपि ध्यायन्निमिपमच्युतम् ॥ भूयस्तपस्वी भवति पङ्क्तिपावनः इति स्मृतरित्यर्थः ॥ ४० ॥
प० टी० । अथ परमेश्वरार्पणतया कर्मणि क्रियमाण इन्द्रादिभ्यो विघ्नं नास्तीत्याह नेहा-
मिक्रमति । इह निष्कामकर्मण्यभिक्रमस्य कर्मारम्भस्य विनादिभिर्नाशो नास्ति । यतस्तत्रेश्वर एव
विवहर्ताः। तदुक्तं भागवते-' त्वां सेवतां सुरकता बहवोन्तरायाः स्वीको विलय व्रजतां परम
पदं ते ॥ नान्यस्य बर्हिषि बलिं ददतः स्वधर्म धत्ते पदं त्वमविता यदि विनमूनि ' इति । अथ
हिंसाप्रधाने कर्मणि कथमीश्वरादर इत्याह प्रत्यवाय इति । प्रत्यवायः पापं नास्ति-" अनीषोमीयं
पशुमालभेत " इत्यादिवाक्यैर्वेदबोधितत्वात् । किं चास्य परमेश्वरार्पणतया कृतस्य धर्मस्य
स्वल्पमप्युपक्रममात्रमपि कृतं महतो भयात्संसारात्रायते रक्षति न तु काम्यकर्मादि यतः पुण्य-
क्षये पुनः संसारश्रवणात् ॥ ४० ॥
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ॥
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ११ ॥

श्रीमद्भगवगीता- एवं सांख्ये बुद्धिरुक्ता योगे च वक्ष्यमाणलक्षणा सा व्यवसायेति । व्य- वसायात्मिका निश्चयस्वभावकैव बुद्धिरितरविपरीतबुद्धिशाखाभेदस्य बाधि- का सम्यक् प्रमाणजनितत्वादिह श्रेयोमार्गे हे कुरुनन्दन याः पुनरितरा बुद्धयो यासां शाखाभेदप्रचारवशादनन्तोऽपरोऽनुपरतः संसारोऽपि नित्यप्रततो विस्ती- रें भवति प्रमाणजनितविवेकबुद्धिनिमित्तवशाचोपरतास्वनन्तभेदबुद्धिषु संसा- रोऽप्युपरमते । ता बुद्दयो बहुशारखा बढ्यः शारखा यासां ता बहुशारखा बहुभे- दा इत्येतत् प्रतिशाखाभेदेन ह्यनन्ताश्च बुद्धयः केषामव्यवसायिनां प्रमाणज- नितविवेकबुद्धिरहितानामित्यर्थः ॥ ४१ ॥ आ० टी० । ननु बुद्धिद्वयातिरिक्तानि बुद्धयन्तराण्यपि काणादादिशास्त्रप्रसिद्धानि विद्यन्ते तथा च कथं बुद्धिद्वयमेव भगवतोपदिष्टमिति तत्राह येयमिति । सवैकाप्रमाणभूता बुद्धिरित्याह व्यवसायात्मिकेति । बुद्धयन्तराण्यविवेकमूलान्यप्रमाणानीत्याह बहुशाखा हीति । व्यवसायात्मि- काया बुद्धेः श्रेयोमार्गे प्रवृत्ताया विवक्षितं फलमाह इतरेति । प्रकृतबुद्धिद्वयापेक्षयेतरा विपरी- ताश्चाप्रमाणजनिताः स्वकपोलकल्पिता या बुद्धयस्तासां शाखाभेदो यः संसारहेतुस्तस्य बाधिकेति यावत् । तत्र हेतुः सम्यगिति । निर्दोषवेदवाक्योत्थत्वादुक्तमुपायोपेयभूतं वुद्दिद्वयं साक्षात्पारंपर्याभ्यां संसारहे- तुबाधकमित्यर्थः । उत्तरार्धं व्याचष्टे याः पुनरिति प्रकृतबुद्धिद्वयापेक्षयार्थान्तरत्वमितरत्वम् । ता- सामनर्थहेतुत्वं दर्शयाते यासामिति । अप्रामाणिक बुद्धीनां प्रसक्तानुप्रसक्त्या जायमानानामतीव बुद्धिपरिणामविशेषः शाखाभेदास्तेषां प्रचारः प्रवृत्तित्तद्वशादित्येतत्, अनन्तत्वं सम्यग़ज्ञानमन्तरेण निवृत्तिविरहितत्वम्, अपरत्वं कार्यस्यैव सतो वस्तभृतकारणविरहितत्वम् । अनुपरतत्वं स्फोरयात नि- त्यति । कथं तार्ह तन्निवृत्त्या पुरुषार्थपरिसमाप्तिस्तत्राह प्रमाणेति । अन्वयव्यतिरेकाख्येनानुमाने- नागमेन च पदार्थपरिशोधनपरेण परिनिप्पन्ना विवेकात्मिका या बुद्धिस्तां निमित्तीकृत्य समुत्पन्न- सम्यग्रोधानुरोधात् प्रकृता विपरीतबुद्धयो व्यावर्तन्ते तास्वसंख्यातामु व्यावृत्तामु सतीषु निरा- लम्बनतया संमारोऽपि स्थातुमशक्नुवन्नुपरतो भवतीत्यर्थः । याः पनरित्युपक्रान्ता तत्त्वज्ञानापनोद्या संसारास्पदीभूता विपरितबुद्धिर नुक्रमात ता बुद्धय इति । बुद्धीनां वृक्षस्येव कुतो बहुशाखित्वं तत्राह बहुभेदा इत्येतदिति । एकैकां बाद प्रति शाखाभेदोऽत्रान्तरविशेपस्तेन बुद्दीनामसंख्यत्वं प्रख्यातमित्याह प्रतिशाखेति । बुद्धीनामानन्यप्रसिद्धिप्रद्योतनार्थो हिशब्दः । सम्यग्ज्ञानवतां यथोक्त- बुद्धिभेदभाक्त्वमप्रासद्धमित्याशङ्ग्य प्रत्याह केपामियादिना ॥ ४ १ ॥ प० टी० । अथ तदेव प्रकटयात व्यवसायति । इह परमेश्वराराधनरूपे कर्मयोगे व्यव- सायात्मिका परमेश्वरभजनानुवृत्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका बुद्धिः सा तावदेकैव एकानष्ठेव भवति । अथाव्यवसायिनां कामात्मनां या बुद्धयस्ता बहुशाखाः कामात्कामान्तरजनका भवन्ति कामानामनन्तत्वात् जाया में स्यादथ प्रनायेयाथ वित्तं मे स्यात् " इति श्रुतेश्च ॥ ४१ ॥ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ॥ वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२॥ येषां व्यवसायात्मिका बुद्धिर्नास्ति तेषां यामिमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति ।

प० हितीयाध्यायः । केऽविपश्चितोऽल्पमेधसोऽविवेकिन इत्यर्थः । वेदवादरता इति । वेदवादरता बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रता हे पार्थ नान्यत् स्वर्गपश्वा- दिफलसाधनेभ्यः कर्मभ्योऽस्तीत्येवंवादिनो वदनशीलाः ॥४२॥ आ० टी० । यदि सांख्ययोगरूपैकैव प्रमाणभूता बुद्धिस्तर्हि सैव सर्वेषां चित्ते किमिति स्थि- ग न भवति तत्राह येपामिति । तेषामिमां पुष्पितां वाचं प्रवदन्ति तयापहृतचेतसां कामिनाम् । कामवशान्निश्चयात्मिका बुद्धिर्न प्रायः स्थिरा भवतीत्याह यामिति । इमामित्यध्ययनविध्युषात्तत्वेन प्रसिद्धत्वं कर्मकाण्डरूपाया वाचो विवक्ष्यते, वक्ष्यमाणत्वं क्रियाविशेषबहलामित्यादी द्रष्टव्यम् । किंशुको हि पुष्पशाली शोभमानोऽनुभूयते न पुनरुपभोग्यफलभागी लक्ष्यते तथेयमपि कर्मकाण्डा- त्मिका श्रूयमाणदशायां रमणीया वागुपलभ्यंत साध्यमाधनसंबन्धप्रतिभाना न त्वेषा निरतिशयफल- भागिनी भवति कर्मानुठानफलस्य नित्यत्वादिति मत्वाह पुष्पितामिति । वाक्यत्वेन लक्ष्यतेऽर्थव- त्त्वप्रतिभानाद्वस्तुतस्तु न वाक्यमर्थाभागत्वादित्याह कक्यलक्षणामिति । प्रवक्तॄणां वेदवाक्यतात्प- थपरिज्ञानाभावं सूचयति अविपश्चित इति । वेदवादा वेदवाक्यानि तानि च बहूनामर्थवादानां फ- लानां साधनानां च विशेषाणां प्रकाशकानि ते प रतिरासक्तित्तन्निष्ठत्वं तद्वत्त्वमपि तेषां विशेषणमि- त्याह वेदवादेति । कर्मकाण्डनिष्ठत्वं फलं कायति नान्यदिति । ईश्वरो वा मोक्षो वा नास्तीत्येवं बदन्तो नान्तिकाः सम्यग़ज्ञानवन्तो न भवन्तीत्यर्थः ॥ ४२ ॥ टी० ० । अथ कामिनोऽप्येतां व्यवमायबुद्धिं कथं नानुतिष्ठन्त्यतआह यामिति । यथा लोके युप्पं हि फलोद्गम सृचयत्येवं पुप्पितां फलाभिमन्धि सूचयन्त्यविपश्चितस्तात्पर्यममा- नन्तो वदन्ति समर्थयन्ति । कथम्, नान्यदस्तीतिवादिनः, एतद्व्यतिरेकेणान्यच्छ्रतितात्पर्य ना- स्तीत्यभिनिवेशवन्तोऽत एते वादेऽर्थवादे रतास्तत्रैव तात्पर्यमवधारयन्तः । यद्वा अधन्वानरति माययैप वाचं सुश्रुवामफलामपुप्पाम् ' इतिश्रुतौ पुष्पफले हि देवताध्यात्मे इति निरुतेः प्पस्थानीयदेवतोपासनाविषयां वाचं वेदवाणी प्रवदन्तीति ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ॥ क्रियाविशेपबहुलां भोगैश्वर्यगति प्रति ॥४३॥ कामात्मान इति । ते च कामात्मानः कामस्वभावाः कामपरा* इत्यर्थः । स्वर्गपराः स्वर्गः परः पुरुषार्थों येषां ते स्वर्गपराः स्वर्गप्रधाना जन्मकर्मफल- प्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत् प्रददातीति जन्मकर्मफलप्रदा तां वांचं प्रवदन्तीत्यनुपज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेस्ते बहला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थी यया वाचा बाहुल्येन प्रकाश्यन्ते, भोगैश्वर्यगति प्रति भोगश्चैश्वर्यं च भोगैश्वर्ये तयोर्गतिः प्रात्पिभोगैश्वर्यगतिस्तां प्रति साधनभूतास्ते कियाविशेषास्तद्वहु- लां तां वाचं प्रवदन्तो मूढाः संसारे परिवर्तन्त इत्यभिप्रायः ॥ ४३ ॥ - कर्मपरा-पा० लि. पुस्तके.

श्रीमद्भगवद्गीता-- आ० टी० । प्रकृतान् प्रवक्तृनविवेकिनो व्यवसायात्मकबुद्धिभाक्त्वासंभवसिद्धयर्थ विधा- न्तरेण विशिनष्टि ते चेति । तेषां संसारपरिवर्तमानपरिदर्शनार्थ प्रस्ततां वाचमेव विशिनष्टि जन्मे- ति । ननु पुंसां कामस्वभावत्वमयुक्तं चेतनस्येच्छावतस्तदात्मत्वानुपपत्तेरिति तत्राह कामपरा इति । तत्परत्वं तत्तत्फलार्थित्वेन तत्तदुपायेषु कर्मस्वेव प्रवृत्ततया कर्मसंन्यासपूर्वकाज् ज्ञानाद्बहिर्मुखत्वम् । ननु कर्मनिष्ठानामपि परमपुरुषार्थापेक्षया मोक्षोपाये ज्ञाने भक्त्याभिमुख्यमिति नेत्याह स्वर्गेति । तत्परत्वं तस्मिन्नेवासक्ततया तदतिरिक्तपुरुषार्थराहित्यनिश्चयवत्त्वम् । उच्चावचमध्यमदेहप्रभेदग्रहणं जन्मवाचो यथोक्तफलप्रदत्वमप्रामाणिकमित्याशङ्कयानुष्ठानद्वारा तदुपपत्तिरित्याह क्रियेति । क्रिया- पामनुष्ठानानां यागदानादीनां विशेषा देशकालाधिकारिप्रयुक्ताः सप्ताहानेकाहलक्षणास्ते खल्वस्यां वाचि प्राचुर्यण प्रतिभान्तीत्यर्थः । कथं यथोक्तायां वाचि क्रियाविशेषाणां बाहुल्येनावस्थानमित्याश- ङ्कय प्रकाश्यत्वेनैतद्विशदयति स्वर्गेति । तथापि तेषां मोक्षोपायत्वोपपत्तेस्तनिष्ठानां मोक्षाभिमुख्य भविष्यति नेत्याह भोगेति । यथोक्तां वाचमभिवदतां पर्यवसानं दर्शयति तद्बहुलामिति ॥ ४३ ।। प० टी० ॥ अथ तदेव प्रकटयन्नाह कामात्मान इति । कामात्मानोऽभिलाषाकुलचित्ता अत एव स्वर्गपराः स्वर्ग एव परमुल्कृष्टं येषां ते ते जन्मकर्मफलप्रदां जन्म च तत्र कर्म च फलं च प्रददाति तां भोगैश्वर्यगात प्रवदन्ति, भोगो रम्भादिः, ऐश्वर्य देवाधिपत्यं, तयोर्गतिः प्राप्तिस्ताम् । किंभूतां क्रियाविशेषबहुलां भोगैश्वर्यप्राप्तिं प्रति साधनभूता ये क्रियाविशेषास्तैर्बहुलां गुर्वीमति- प्रयाससाध्याम् ॥ ४३ ॥ भोगैश्वर्यप्रसक्तानां तयापहतचेतसाम् ॥ व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥ भोगेति । तेषां च भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यमैश्वर्य चेति भो- गैश्वर्ययोरेव प्रणयवतां तदात्मभूतानां तया क्रियाविशेषबहुलया वाचापल्ट- तचेतसामाच्छादितविवेकप्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा या बुद्धिः समाधौ समाधीयतेऽस्मिन् पुरुषोपभोगाय सर्वमिति समाधिरन्तःकरणं बु- द्विस्तस्मिन् समाधौ न विधीयते न भवतीत्यर्थः ॥ ४४ ॥ आ० टी० । ननु कर्मकाण्डनिष्ठानां कर्मानुष्ठायिनामपि बुद्धिशुद्धिद्वारेणान्तःकरणे साध्य- साधनभूतबुद्धिद्वयसमुदायसंभवादक्षतो मोक्षो भविष्यति, नेत्याह तेषां चेति । तदात्मभूतानां तयोरेव भोगैश्वर्ययोरात्मकर्तव्यत्वेनारोपितयोरभिनिविष्ठे चेतसि तादात्म्याध्यासवतां बहिर्मुखाना- मित्यर्थः । तथापि शास्त्रानुसारिण्या विवेकप्रज्ञया व्यवसायात्मिका बुद्धिस्तेषामुदेष्यतीत्याशङ्कयाह तयति। ननु समाधिः संप्रज्ञातासंप्रज्ञातभेदेन द्विघोच्यते तत्र बुद्धिद्वयावधिरप्रसक्तः सन् कर्य निषिध्यते तत्राह समाधीयत इति ॥ ४४ ॥ प० टी० । भोगैश्वर्यप्रसक्तानामिति । भोगैश्वर्ययोः प्रसक्तानां तया पुष्पितवेदवाण्या- पहृतं चतो येषां तेषां पुरुषाणां तथैव वाण्या समाधौ परमेश्वराराधनैकापचे व्यवसायात्मिका बु- द्धिर्न विधीयते नोत्पद्यते । तदुक्तम्-'सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते ॥ ध्यानस्याविस्मृतिः मम्यतममाविरभिधीयते' इति ॥ ४४ ॥ ।

हितीयाध्यायः । वैगुण्यविषया वेदा निस्वैगुण्यो अवार्जुन ॥ निईन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥ य एवं विवेकबुद्धिरहितास्तेषां कामात्मनां यत्फलं तदाह त्रैगुण्येति । त्रैगुण्यविषयास्वैगुण्यं संसारो विषयः प्रकाशयितव्यो येषां ते वेदास्वैगुण्यवि- पयास्त्वं तु निस्वैगुण्यो भवार्जुन निष्कामो भवेत्यर्थः । निईन्दः सुखदुःखहेतू सप्रतिपक्षौ पदार्थों इन्दशब्दवाच्यौ ततो निर्गतो निईन्दो भव, त्वं नित्यसत्त्व- स्थः सदासत्त्वस्थः सत्त्वगुणाश्रितो भव तथा नियोगक्षेमो ऽनुपात्तस्योपार्जन योगः, उपात्तस्य रक्षणं क्षेमः, योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करेत्यतो निर्योगक्षेमो भव, आत्मवानप्रमत्तश्च भव, एष तवोपदेशः ॥ ४५ ॥ आ० टी० । अविवेकिनामपि वेदाभ्यासवतां विवेकबुद्धिरुदेष्यतत्यिाशङ्कयाह यएवमिति । तर्हि वेदार्थतया कामात्मता प्रशस्तेत्याशङ्कयाह निस्वैगुण्य इति । भवेति पदं निईन्द्वादिविशेषणे- प्वपि प्रत्येकं संबध्यते, त्रयाणां सत्त्वादीनां गुणानां पुण्यपापव्यामिश्रकर्मतत्फलसंबन्धलक्षणः समा- हारस्वैगुण्यमित्यङ्गीकृत्य व्याचष्टे संसार इति । वेदशब्देनात्र कर्मकाण्डमेव गृह्यते तदभ्यासवतां तदर्थानष्ठानद्वारा संसारध्रौव्यान्न विवेकावसरोऽस्तीत्यर्थः । तर्हि संसारपरिवर्जनार्थ विवेकसिद्धये किं कर्तव्यमित्याशङ्कयाह त्वं त्विति । कथं निस्वैगुण्यो भवेति गुणत्रयस्य राहित्यं विधीयते नि- त्यसस्वस्थो भवेति वाक्यशेषविरोधादित्याशङ्कयाह निष्काम इति । सप्रतिपक्षत्वं परस्परविरोधिलं, पदार्थी शीतोष्णादिलक्षणौ । निष्कामत्वे द्वन्द्वान्निर्गतत्वं शीतोष्णादिसहिष्णुत्वं हेतुमुक्त्वा तत्रापि हेत्व- पेक्षायां सदा सद्गुणाश्रितत्वं हेतुमाह नियति । योगक्षेमव्यावृत्तचेतसो रजस्तमोभ्यामसंस्पृष्टे सत्त्व- मात्रे समाश्रितत्वमशक्यमित्याशङ्कयाह तथेति । योगक्षेमयोर्जीवनहेतुतया पुरुषार्थसाधनत्वान्निर्योग- क्षेमो भवेति कुतो विधिरित्याशङ्कयाह योगेति । योगक्षेमप्रधानत्वं सर्वस्य स्वारसिकामिति ततो नि- र्गमनमशक्यमित्याशङ्कयाह आत्मवानिति । अप्रमादो मनसो विषयपारवश्यशन्यत्वम् । अथ यथो- तोपदेशस्य मुमुक्षुविषयत्वादर्जुनस्य मुमुक्षुत्वमिह विवक्षितमिति नेत्याह एप इति ॥ ४५ ॥ प० टी० । ननु स्वर्गादिकं फलं न स्यात्तर्हि वेदैस्तत्साधनभूतानि कर्माणि कथं विधीयन्त इत्याशक्य तद्विधायक श्रुतिवाक्यानामन्यादृक् तात्पर्यमस्तीत्याह त्रैगुण्येति । अत्र केवलं वेदानां त्रैगुण्यविषमत्वे सिद्धे प्रस्तुतं भगवदुपदिश्यमानस्य निस्वैगुण्यस्य वेदामूलकत्वेनोपदेशानहत्वात्, ' तस्माच्छास्त्रं प्रमाणं ते ' 'तभा वेदैश्च सर्वेरहमेव वेद्यः' इत्यग्रतो भगवतैव प्रतिपादनादतोऽ- न्यथा व्याख्यायते । यथाधिकार सत्त्वादित्रिगुणसंबन्धि यत्फलं तत्रैगुण्यं तदेव विषयो निरूपणीय- त्वेन प्राप्तं येषु तथाविधा वेदाः सन्ति त्वं तु मात्त्विकफले नित्यसत्त्वस्थः सन् निस्वैगुण्यो भव । नित्यं शुद्धं च तत्सत्त्वं च तत्रस्थस्तन्निष्टः सन् तेन तत्त्वज्ञानोत्पत्तौ गुणत्रयातीतो भव । अत्र सामा- न्यतः सत्त्वस्वरूपं तु-' उपासनायां यदवञ्चकत्वं वाक्कायचित्तेषु तदेव सत्त्वम् ' इत्युक्तत्वाद्वेदेनोपास- नायां शबलशुद्धत्वभेदेन द्विधा सत्त्वं निरुक्तमस्ति, तत्रैकं स्वर्गसुखप्रापकमन्यत्तत्त्वज्ञानोत्पादकम् । एतदेव भगवताप्यने निरूपयिष्यते । तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसंगेन बध्नाति ज्ञानसंगेन चानघ' इति । श्रुतिरप्याश्वलोपनिषत्सु-" वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयो- गाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति । ब्रह्मैव लोको ब्रह्मलोकः । शेषं स्पष्टम् । तथा च शुद्धसत्वेन रजस्तमसी अभिभूय तथा तत्त्वज्ञानोत्पत्ती पुष्पफल- श्रीमद्भगवद्गीता-- २ न्यायेन सत्तोपरमोपि । ततो निस्वैगुण्यत्वमेव पर्यवसन्नमित्यर्थः । यद्वा वैगुण्यमव विपं त्रैगुण्यविष तद्यापयन्ति तिरस्कुर्वन्ति ते त्रैगुण्यविषया एवंविधा वेदाः प्रथमं निरूपितमपि त्रिगुणसंबन्धि स्व- र्गादिफलं त्रैगुण्यं तद्विषं घातकं जन्ममरणपर्यवसायित्वेन बन्धहेतुत्वात् पुनरुपनिषद्विभागैस्तद्या. पयन्ति दूषयन्ति ते तथा । श्रुतिरपि शातपथी--" पुत्रैषणायाश्च वित्तैषणायाश्च वाञ्छायार्थ भि- क्षाचर्य चरन्ति " इति । नन्वेवं ज्ञात्वापि कथं तेषां विधानमिति चेन्न गडजितिकान्यायेन कर्मप्रवृत्ती प्रलोभनमात्रत्वात् । अयमर्थः । शरीरायासद्रव्यव्ययरतिक्लेशसाधनेषु कर्मसु सहसा प्रवृत्तिर्न भवत्य- तो रोचनार्थ फलश्रुतिरुक्ता । यथा रोगातः शिशुर्मखे कटुभेषजं न गृह्णाति, तत्र शर्करा निक्षि- प्तास्तीति माता प्रलोभयति, सत शर्करामाधुर्येच्छया गृह्णाति, मातुस्तात्पर्यमारोग्ये तद्वत् । अतस्त्वं नि- स्त्रगण्यो भव । त्रैगुण्यतिरस्कारकवेदार्थ भन । अथ व्यतिरेकमुखेन त्रैगुण्यस्य विषयरूपत्वमाह निर्द्वन्द्वइत्यादि । द्वन्द्वानि शीतोष्णादीनि तदसहिष्णुत्वम् । तथाप्राप्तस्य प्राप्तिोगः प्राप्तस्य संरक्षणं क्षेमं तथासावधानत्वमेतानि दुःखहेतवो त्रैगुण्यविपये संभवन्तीति विषरूपत्वं निस्वैगुण्ये तु तदभाव इति नित्यसत्त्वस्थो धैर्यवानात्मवान् सावधानः ॥ ४५ ॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके ॥ तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥४६॥ स्वधर्ममनुतिष्ठतः' सर्वेषु वेदोक्तेषु कर्मसु यान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् किमर्थं तानीश्वरायेत्यनुष्ठीयन्त इति, उच्यते शृणु, यावानि- ति । यथा लोके कूपतडागाद्यनेकस्मिन्नुदपाने परिच्छिन्नोदके यावान् यावत्प- रिमाणः स्नानपानादिरथः फलं प्रयोजनं स सर्वोऽर्थः सर्वतःसंप्लुतोदकेऽपि योऽर्थस्तावानेव संपद्यते तत्रान्तर्भवतीत्यर्थः। एवं तावांस्तावत्परिमाण एव संप- द्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु योऽथों ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतो योऽर्थो यहिज्ञानफलं सर्वतःसंप्लुतोदकस्थानीयं तस्मिंस्तावानेव संपद्यते तत्रवान्तर्भवतीत्यर्थः यथा कृताम् विजितायाधारेयाः संयन्त्येव. मेनं सर्व तदभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति यस्तहेद यत् स वेद इति श्रुतेः। 'सर्व कर्माविलम्' इति च वक्ष्यति । तस्मात् प्राग् ज्ञाननिष्ठाधि- कारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयमपि कर्म कर्तव्यम् ॥ ४६॥ आ० टी०।ईश्वरार्पणधिया स्वधर्मानुष्टानेऽपि फलकामनाभावाद्वैफल्यं योगमार्गस्यांते मन्वानः शङ्कत स्वधर्ममिति।कर्ममार्गस्य फलवत्त्वं प्रतिनानीते उच्यत इति।किं तत्फलमित्युक्त तद्विषयश्लोकमवता- रयति शृण्विति । यथोदपाने कूपादौ परिच्छिन्नोनके स्नानाचमनादियोऽर्थों यावानु पद्यते स तावानपरि- च्छिन्ने सर्वतः संप्लुतोदके समुद्रऽन्तर्भवति, परिच्छिन्नोदकानामपरिच्छिन्नोदकांशत्वात् । तथा सर्वेषु वेदोक्तेषु कर्मसु यावानों विषयावशेषोपरक्तः सुखविशेषो जायते स तावानात्मविदः स्वरूपभूते सु. खेऽन्तर्भवति परिच्छिन्नानन्दानामपरिच्छिन्नानन्दान्तर्भावाभ्युपगमाद् एतस्यैवानन्दस्यान्यानि भतानि मात्रामुपजीवन्ति” इति श्रुतेः । तथा चापरिच्छिन्नात्मानन्दप्राप्तिपर्यवसायिनो योगमार्गस्य ' स्वधर्ममनुतिष्ठत इति मु. पुस्तके पर्वश्लोकसबन्येव दृश्यते । २ यान्यनामासम्मानि पा. मु. प.

हितीयाध्यायः । ६९ नास्ति वैफल्यमित्याह यावानिति । उक्तमर्थमक्षरयोजनया प्रकटयति यथेति । उदकं पीयतेऽस्मि- निति व्युत्पत्त्या कुपादिपरिच्छिन्नोदकविषयत्वमुदपानशब्दस्य दर्शयति पेति । कुपादिगतस्याभि- धेयस्य समुद्रेऽन्तर्भावासंभवात् कथमिदमित्याशङ्कयार्थशब्दस्य प्रयोजनविषयत्वं व्युत्पादयति फल- मिति । यत् फलत्वेन लीयते तत् फलमित्युच्यते तत् कथं तडागादिकृतं स्नानपानादि तथेत्याशझ्य तस्याल्पीयसो नाशोपपत्तरित्याह प्रयोजनमिति । तडागादिप्रयुक्तप्रयोजनस्य समुद्रनिमित्तप्रयो- जनमात्रत्वप्रयुक्तान्यस्यान्यात्मत्वानुपपत्तेरित्याशङ्कयाह तत्रेति । घटाकाशादेरिव महाकाशे परिच्छि- नोदककार्यस्यापरिच्छिन्नोदककार्यान्तर्भावः संभवति तत्प्राप्तावितरापेक्षाभावादित्यर्थः । पूर्वाधं दृष्टान्तभू- तमवं व्याख्याय दार्टान्तिकमुत्तरार्ध व्याकरोति एवमिसादिना । कर्मसु योऽर्थ इत्युक्तं व्यन- क्ति यत् कर्मफलमिति । सोऽर्थो विजानतो ब्राह्मणस्य योऽर्थस्तावानेव संपद्यत इति संबन्धः । तदेव स्पष्टयति विज्ञानेति । तस्मिन्नन्तर्भवतीति शेपः । कथं कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र प्रमाणमाह सर्वमिति । यत् किमपि प्रजाः साधु कर्म कुर्वन्ति तत् सर्व स पुरुषोऽभिसमेति प्रामो- ति यः पुरुपस्तद्वेद विजानाति यद्वस्तु सर्वेक्यो वेद तद्वेद्यमिति श्रुतेरर्थः। कर्मफलस्य सगुणज्ञानफले- ऽन्तर्भावः संवर्गविद्यायां श्रूयते कथमेतावता निर्गुणज्ञानफले कर्मफलान्तर्भावः संभवतीत्याशङ्याह सर्वमिति । तर्हि ज्ञाननिष्ठैव कर्तव्या तावतैव कर्मफलस्य लब्धतया कर्मानुष्ठानानपेक्षणादित्या- शङ्कयाह तस्मादिति । योगमार्गस्य निष्फलत्वाभावस्तच्छब्दार्थः ॥ ४६ ॥ ५० टी० । अत एव ज्ञातवेदतात्पर्य पुरुष स्तौति यावानिति । उदमुदकं पीयते यस्मि- नित्युदपानं तस्मिन् पानपर्याप्तोदके निर्झरपलवलादौ भ्रमणं कृतवतः पुरुषस्य यावानर्थः सिद्धयति तावान् सर्वतः सर्वोऽप्यर्थ एकत्र संप्लुतोदके महाहूदे सिद्धयति । एवं यावान् सर्वेषु पूर्वोत्तरमीमांसा- दिदर्शनेषु कर्मनैष्काद्यर्थी निरूपितोस्ति तावान् विजानतो विशेषेण वेदतात्पर्य जानतो ब्राह्म णभ्य ब्रह्मज्ञस्य पुरुषस्य संछुतोदकस्थानीयेषु वेदेषु सिद्धयति ॥ ४६ ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदा चन ॥ मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥४७॥ कर्मणीति । तव च कर्मण्येवाधिकारो न ज्ञाननिष्ठायां ते तव तत्र च कर्मकुर्वतो मा फलेष्वधिकारोऽस्तु कर्मफलतृष्णा मा भूत् कदाचन कस्यां चिदप्यवस्थायामित्यर्थः । यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्रा- तेर्हेतुः स्याः, एवं मा कर्मफलहेतुर्भूः यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तरा कर्मफलस्येव जन्मनो हेतुर्भवेद् यदि कर्मफलं नेष्यते किं कर्म- णा दुःखरूपेणेति । मा ते तव संगोऽस्त्वकर्मण्यकरणे प्रीतिर्मा भूत् ॥ ४७ ॥ आ० टी०। तर्हि परम्परया पुरुषार्थमाधनं योगमार्ग परित्यज्य साक्षादेव पुरुषार्थकारणमा- त्मज्ञानं तदर्थमुपदेष्टव्यं तस्मै हि स्पृहयति मनो मदीयामत्याशङ्कयाह तव चेति । तर्हि तत्फला- भिलापोऽपि स्यादिति नेत्याह मा फलेष्विति । पृर्वोक्तमेवार्थ प्रपञ्चयति मा कति । फलाभिम- न्ध्यसंभवे कर्माकरणमेव श्रद्दधामीत्याशङ्कयाह मा त इति । ज्ञानानधिकारिणोऽपि कर्मत्यागप्रसक्ति निवारयति कर्मण्येवेति । कर्मण्यवेत्येवकारार्थमाह न ज्ञानेति । न हि तत्राब्राह्मणस्यापरिपक्वकषा- यस्य मुख्योऽधिकारः सिद्ध्यतीत्यर्थः । फलैस्तार्ह संबन्धो दुर्वारः स्यादित्याह तत्रेति । कर्मण्येवाधि- कारे मतीति मप्तम्यर्थः । फलेष्वधिकागभावं स्फोरयति कर्मेति । कर्मानुष्ठानात् प्रागृर्ध्व तत्काले श्रीमद्भगवद्गीता- चेत्येतत् कदाचनेति विवक्षितमित्याह कस्यांचिदिति । फलाभिसन्धाने दोषमाह यदेति । एवं क- मफलतृष्णाद्वारेणेत्यर्थः । कर्मफलहेतुत्वं विवृणोति यदा हीति । तर्हि विफलं शात्मकं कर्म न कर्तव्यामति शङ्कामनुभाव्य दूषयति यदी सादिना । अकर्मणि ते संगो मा भूदित्युक्तमेव स्पष्टयति अकरणइति ॥ ४७ ॥ ५० टी० । अथोक्तप्रमेयपर्यवसितमर्थमाह । कर्मण्येवेति । तत्त्वज्ञानार्थिनस्ते तवेश्वरकृपया कर्मण्येवाधिकारोऽस्तु परं फलेष्वधिकारो मास्तु । स्वर्गादिफलभोगाधिकारो मास्त्वित्याशीः। तथा त्वमपि कर्मफले हेतुर्मा भूः कर्मफलभोगे हेतुनिमित्तं मा भव । तव चित्तं कर्मफलसंकल्पोऽपि न स्पृशतु । अथ साङ्गात्कर्मणः फलावश्यंभावनियम इति प्रसिद्ध फलं भविष्यत्येव तस्मात्कमैव कार्यमित्याशक्याह मेति । तेऽकर्मणि कर्माकरणे संगो निष्ठा मास्तु । स्वतृप्तिमनुद्दिश्येश्वरार्पणत्वेन भोजनसामग्री- संपादनवकर्म कार्यमित्यर्थः ॥ ४७ ॥ योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय ॥ सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥४८॥ यदि फलप्रयुक्तेन - न कर्तव्यं कर्म कथं तर्हि कर्तव्यमित्युच्यते योगस्थ इति । योगस्थः सन् कुरु कर्माणि केवलमीश्वरार्थ तत्रापीश्वरो मे तुष्यत्विति संगं त्यक्त्वा धनंजय फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशु- द्विजा ज्ञानप्राप्तिलक्षणा सिडिस्तविपर्ययजासिदिस्तयोः सिद्ध्यसिद्ध्योरपि समस्तुल्यो भूत्वा कुरु कर्माणि कोऽसौ योगो यतस्थः कुर्वित्युक्तमिदमेव तत् सिद्ध्यसिद्धयोः समत्वं योग उच्यते ॥ ४८ ॥ आ० टी० आसक्तिरकरणेन युक्ता चेत्तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यमित्याशङ्कामनू- द्य श्लोकान्तरमवतारयति यदीसादिना । वक्ष्यमाणयोगमुद्दिश्य तन्निष्ठो भूत्वा कर्माणि केशात्म- कान्यपि विहितत्वादनुष्ठेयानीत्याह योगस्थः सन्निति । कर्मानुष्ठानस्योद्देश्यं दर्शयति केवलमि- ति । फलान्तरापेक्षामन्तरणेश्वरार्थ तत्प्रसादनार्थमनुष्ठानमित्यर्थः । तीश्वरमन्तोषोऽभिलापगोचरीमतो भविष्यति नेत्याह तत्रापति । ईश्वरप्रसादनार्थ कर्मानुष्ठाने स्थितेऽपीत्यर्थः । संगं त्यक्त्वा कुर्विति पू- र्वेण संबन्धः । आकासितं पूरयित्वा सिद्धिशब्दार्थमाह फलेति । तद्विपर्ययजा सत्त्वाशुद्धिजन्या ज्ञा- नाप्राप्तिलक्षणेति यावत् । काननुतिष्ठतो योगमुद्दिश्य शेषतया प्रकृतमाकाङ्क्षापूर्वकं प्रकटयात कोऽसावित्यादिना ॥ ४८ ॥ प० टी० । तर्हि कथमित्याह योगस्थइति । योगः परमेश्वरसांनिध्यं तत्र "कृतानेश्चयो योगस्थ एवंविधो भूत्वा कर्माणि कुरु, अतएव धनंजय धनं स्वर्गादिसुखं जयति तुच्छत्वेन त्यजति तथाविधस्त्वमसीत्यर्थः । किं कृत्वा संग त्यत्वा कर्तृत्वाभिनिवेशं परित्यज्य । पुनः किं कृत्वा सिद्धयसिद्धयोः समो भूत्वा सिद्धावसि द्वौ वा हर्षविपादरहितो भूत्वा । यतः समत्वं निर्विकारत्वमेव योग इत्युच्यते ॥ ४८ ॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजयः ॥ बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥४९॥ * कर्मफलप्रयुक्तन ..-पा० म०प० ।

७१ हितीयाध्यायः । दूरेणेति । यत् पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थ कमैतस्मात् *कर्मणो दुरेणातिविप्रकर्षेण ह्यवरं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियो- गात् समत्वबुद्धियुक्तात् कर्मणो जन्ममरणादिहेतुत्वाद् धनंजय यत एवं यो- गविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ शरणमाश्रयमभयप्राप्तिका- रणमन्विच्छ प्रार्थयस्व परमार्थज्ञानशरणो भवेत्यर्थः । यतोऽवरं कर्म कुर्वाणाः कृपणा दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकान् प्रेति स कृपणः” इति श्रुतेः ।। ४९ ॥ आ० टी० । किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यं फलाभिलाषेऽपि तदनुष्ठा- नस्य सुलभत्वादित्याशय यथोक्तयोगयुक्तं कर्म स्तुवन्ननन्तरश्लोकमुत्थापयति यत् पुनरिति । अ- वरं कर्म बुद्धिसंबन्धविरुद्धमिति शेषः । बुद्धियुक्तस्य बुद्धियोगाधीनं प्रकर्ष सूचयति बुद्धीति । बु- दिसंबन्धासंबन्धाभ्यां कर्मणि प्रकर्षनिकर्षयोभीवे करणीयं नियच्छति बुद्धाविति । यत्तु फलेच्छ- यापि कर्मानुष्ठानं सुकरमिति तत्राह कृपणोत । निकृष्टं कर्मैव विशिनष्टि फलाथिनेति । कस्मात् प्रतियोगिनः सकाशादिदं निकृष्टमित्याशङ्कय प्रतीकमुपादाय व्याचष्टे बुद्धीत्यादिना । फलाभि- लाषेण क्रिययाणस्य कर्मणो निकृष्टत्वे हेतुमाह जन्मेति । समत्वबुद्धियुक्तात् कर्मणस्तद्धीनस्य क- मणो जन्मादिहेतुत्वेन निकृष्टत्वे फलितमाह यत इति । योगविषया बुद्धिः समत्वबुद्धिः । बुद्धि- शब्दस्यार्थान्तरमाह तत्परिपाकेति । तच्छब्देन समत्वबुद्धिसमन्वितं कर्म गृह्यते तस्य परिपाक- स्तत्फलभूता बुद्धिशुद्धिः । शरणशब्दस्य पर्यायं गृहीत्वा विवक्षितमर्थमाह अभयेति । सप्तमीमवि- वाक्षित्वा द्वितीय पक्षं गृहीत्वा वाक्यार्थमाह परमार्थेति । तथाविधज्ञानशरणत्वे हेतुमाह यत इति । फलहेतुत्वं विवृणोति फलेति । तेन परमार्थज्ञानशरणतैव युक्तेति शेषः । परमार्थज्ञानबहिर्मुखानां कृपणत्वेश्रुति प्रमाणयति यो वा इति । अस्थूलादिविशेषणमेतदित्युच्यते ॥ ४९ ॥ १० टी० । अत एव ज्ञानयोगं प्रशंसन्नाह दूरणति । भो धनंजय बुद्धियोगात्सकाशा फलोद्देशेन कृतं कर्म दूरेणात्यन्तमवरमपरुष्टं तथा चे चित्तशुद्धिद्वारा ज्ञानयोगमुद्दिश्यैव कर्म कर्तव्यम्।तस्मात्त्वं बुद्धौ ज्ञाने शरणं कर्मयोगमन्विच्छाश्रयेत्यर्थः । हि यस्मात्कारणात्फलहेतवः कर्मकरणे फलमेव हेतुः कारणमिति मन्वानाः पुरुषाः कृपणा विषयसुखलम्पटाः । यहा फलव्यतिरेकेण निर- र्थकं कर्मार्थ धनव्ययः कथं कर्तव्य इति तेषां कार्पण्यम् । श्रुतिरपि-“यो वा एतदक्षरमविदित्वा गाये- स्माल्लोकात्प्रेति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वा प्रैति स ब्राह्मणः" इति । भाष्यम्-“भो गार्गि वाचनवि यः पुरुष एतदक्षरं परं ब्रह्माविदित्वाज्ञात्वा फलोद्देशेन कर्म कृत्वास्मान्मनुष्य- लोकाल्लोकान्तरं प्रैति मृत्वा गच्छति स कृपणः स्वर्विषयभोगेच्छुः। तथैतदक्षरं विदित्वा प्रैति स ब्राह्मणो ब्रह्मरूपो भवति ॥ ४९ ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ॥ तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥ समत्वबुद्धियुक्तः सन् स्वधर्ममनुतिष्ठन् यत् फलं प्राप्नोति तच्छृणु बु- द्धीति । बुद्धियुक्तः समत्वकर्मविषयया बुद्धया युक्तो बुद्धियुक्तः, स जहाति * कक्तिमेतस्मात्-पा० मु. पु० ।

७२ श्रीमद्भगवद्गीता-- ॥ परित्यजसीहास्मॅिल्लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्ति- हारेण यतस्तस्मात् समत्वबुद्धियोगाय युज्यस्व घटस्व योगो हि कर्मसु कौशलं स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसियोः समत्वबुद्धिरीश्वराार्पितचेत- स्तया तत् कौशलं कुशलभावस्तद्धि कौशलं यद्वन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावानिवर्तन्ते तस्मात्समत्ववुद्धियुक्तो भव त्वम् ॥ ५० आ० टी० । पूर्वोक्तममत्ववद्धियुक्तस्य स्वधर्मानुठाने प्रवृत्तस्य किं स्यादित्याशङ्कयाह समत्वेति । बुद्धियुक्तः स्वधर्माख्यं कर्मानुतिधन्निति शेषः । बुद्धियोगस्य फलवत्त्वे फलितमाह तस्मादि- ति । पूर्वाध व्याचष्टे वुद्धीत्यादिना । नन समत्वबुद्धिमात्रान्न पुग्यपापनिवृत्तिर्युक्ता परमार्थदर्शन- वतस्तन्निवत्तिप्रसिद्धेरिति तत्राह सत्त्वेति । उत्तरार्धं व्याचष्टे तस्मादिति । स्वधर्ममनुतिष्टतो यथो. तयोगार्थ किमर्थं मनो योजनीयमित्याशङ्कयाह योगा हीति । तर्हि यथोक्तयोगसामर्थ्यादेव दर्शित- फलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्तत्याशङ्कयाह स्वधर्माख्यविति । ईश्वरार्पितचेतसस्त्वेषा कर्मसु वर्तमानास्यानुठाननिष्टस्य या यथोक्ता बद्धिस्तत्तेषु कौशलमिति योजना । कर्मणां बद्धस्वभावत्वात तदनुष्ठाने बन्धाबद्धः स्यादित्याशय कौशलमेव विशदयति तद्धीति । समत्वबुद्धिरेवं फलोवे स्थित फलितमुपसंहरति तस्मादिति ॥ ५० ॥ प० टी० । अथ ज्ञानं प्रशंसन्नाह बुद्धियुक्तइति । बुद्धिविज्ञानं तातो ज्ञानी पुरुषः स्वर्गप्रापकं तथा दुप्कृतमधमयोनिप्रापकं ते उभे जहाति त्यजति । श्रुतिरपि-" पापमकरवमित्यतः कल्याणमकरवमित्युभे उभे एप एते तरत्यमृतः साध्वमाधुनी नैनं कृतारते तपतः" इति । भाप्यम्-- अतो ज्ञानोत्पत्त्यनन्तरमहं पापमकरवमकार्पमिति तथा कल्याणं सुरूतमकरवमित्येते उभे साध्व- माधुनी सुकृतदुष्कते अमृतो मुक्तः संस्तरति उल्लङ्वयति तथैवं तत्त्वज्ञानिन पुरुपं कृताकते कृते या साध्वसाधुनी न तपतः नाकामतः न स्वाधीनं कुरुतोऽनुष्ठितेऽननुधिते फलदानाय समर्थे न भवत इत्यर्थः । तस्मात्त्वं योगाय परमेश्वरप्राप्तये युज्यस्व घटस्व । अथ योगस्य स्वरूपमाह योगः कर्मसु कौशलं बन्धजनकेषु कर्मस्वबन्धजनकत्वसंपादकत्वं कौशलम् ॥ ५० ॥ कर्मजं बुद्धियुक्ता हि फलं त्यत्वा मनीषिणः ॥ जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ यस्मात् कर्मजमिति । कर्मजं फलं त्यक्त्वेति व्यवहितेन संबन्धः। इष्टा- निष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातम्। बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तो हि तस्मात् फलं त्यत्क्वा परित्यज्य मनीषिणो ज्ञानिनो भूत्वा जन्मबन्धविनिर्मुक्ता जन्मैव बन्धो जन्मबन्धस्तेन विनिर्मुक्ता जीवन्त एव जन्मबन्धविनिर्मुक्ताः सन्तः पदं परमं विष्णोर्मोक्षाख्यं गच्छन्त्यनामयं सर्वोपद्रवरहितमित्यर्थः । अथ बुद्धियोगाधनंजयेत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतः संप्लुतोदकस्थानीया क- र्मयोगजसत्त्वशुद्धिजनितबुद्धिर्दर्शिता साक्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रव- णात् ॥ ५१ ॥ •. वा हितीयाध्यायः। आ० टी० । समत्ववृद्धियुक्तस्य सुकृतदुप्कृततत्फलपरित्यागेऽपि कथं मोक्षः स्यादित्या- शङ्कयाह यस्मादिति । समत्वबुद्धया यस्मात् कर्मानुष्ठीयमानं दुरितादि त्याजयति तस्मात् परं- परयासौ मुक्तिहेतुरित्यर्थः । मनीषिणो हि ज्ञानातिशयवन्तो बुद्धियुक्ताः सन्तः स्वधर्माख्यं कर्मानुति- ष्ठन्तस्ततो जातं फलं देहप्रदं ते हित्वा जन्मलक्षणाद्वन्धाद्विनिर्मुक्ता वैष्णवं पदं सर्वसंसारसंस्पर्श शून्य प्राप्नुवन्तीति श्लोकोक्तमर्थ श्लोकयोजनया दर्शयति कर्मजमित्यादिना । इष्टो देहो देवादिलक्षणो- ऽनिष्टो देहस्तिर्यगादिलक्षणस्तत्प्राप्तिरेव कर्मणो जातं फलं तद् यथोक्तं बुद्धि युक्ता ज्ञानिनो भूत्वा सदलादेव परित्यज्य बन्धावनिर्मुक्तिपूर्वकं जीवन्मुक्ताः सन्तो विदेहकैवल्यभाजो भवन्तीत्यर्थः । बु- द्वियोगादित्यादौ बुद्धिशब्दस्य समत्वबुद्धिरों व्याख्यातः संप्रति परंपरां परिहत्य सकृतदुष्कृतप्रहाण- हेतुत्वत्य समत्वबुद्धावसिद्धर्बुद्विशब्दस्य योग्यमर्थान्तरं कथयति अथ वेति । अनवच्छिन्नवस्तुगो- घरत्वेनानवच्छिन्नत्वं तस्याः सूचयन् बुद्धयन्तराद्विशेषं दर्शयति सर्वत इति । असाधारणं नि- मित्तं तस्या निर्दिशति कमति । यथोक्तबुद्धिशब्दार्थत्वे हेतुमाह साक्षादिति । जन्मबन्धविनिर्मोका- दिरादिशब्दार्थः ॥ ५१॥ प० टी० । अथ कौशलेन कृतानां कर्मणां मोक्षसाधनत्वमाह कर्मजमिति । व्यवसाया- त्मकबुद्धियुक्ता मनीषिणो ज्ञानिनः कर्मजं फलं त्यक्त्वा तृणवदगणय्यानामयं सर्वोपद्रवरहितं पदं गच्छन्ति । किंभूताः, जन्मबन्धविानर्मुक्ताः कर्भजफले हि पुनर्जन्मबन्धो दृश्यते तस्माद्विशे- पेण निर्मुक्ताः ॥ ५१ ॥ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ॥ तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥ योगानुष्ठानजनितसत्त्वशुद्धिजा बुद्धिः कदा प्राप्स्यत इत्युच्यते यदे- ति । यदा यस्मिन् काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालु- व्यं, येनात्मानात्मविवकबोधं कलुपीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते, तत्ते तव बुद्धिय॑तितरिष्यति व्यतिक्रमिष्यत्यतिशुद्धभावमाप्स्यत इत्यर्थः । तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेद वैराग्यं श्रोतव्यस्य श्रुतस्य च त- दा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिपद्यत इत्यभिप्रायः ॥ ५२ ॥. आ० टी० । यस्मिन् कर्मणि क्रियमाणे परमार्थलक्षणा बुद्धिरुद्देश्यतया युज्यते तस्मात् कर्मणः सकाशादितरत् कर्म तथाविधोद्देश्यभूतबुद्धिसंबन्धविधुरमतिशयेन निप्कृष्यते, ततश्च परमार्थ- बुद्धिमद्देश्यत्वेनाश्रित्य कर्मानुष्ठातव्यं परिच्छिन्नफलान्तरमुद्दिश्य तदष्टाने कार्ययप्रसंगात्, किंच परमार्थ बुद्विमुद्देश्यामाश्रित्य कर्मानुतिष्ठतः करणशुद्विद्वारा परमार्थदर्शनसिद्धी जीवत्येव दहे सुकृता- दि हित्वा मोक्षमधिगच्छति तथा च परमार्थदर्शनलक्षणयोगार्थ मनो धारयितव्यं योगशब्दितं पर- मार्थदर्शनमुद्देश्यतया कर्मस्वनतिष्ठतो नैपुण्यमिप्यते, यदि च परमार्थदर्शनमुद्दिश्य तद्यताः सन्तः समारभेरन् कर्माणि तदा तदनष्ठानननितबद्विशुद्ध्या ज्ञानिनो भूत्वा कर्मजं फलं परित्यज्य निर्मु- तबन्धना मुक्तिभाजो भवन्तीत्येवमस्मिन् पक्षे श्लोकत्रयाक्षराणि व्याख्यातव्यानि । यथोक्तबुद्धिप्रा- प्तिकालं प्रश्नपूर्वकं प्रकटयति योगेति । श्रुतं श्रोतव्यं दृष्टं द्रष्टव्यमित्यादौ फलाभिलाषप्रतिबन्धा- नोक्ता बुद्धिरुदेष्यतीत्याशङ्कयाह यदेति । विवेकपरिपाकावस्था कालशब्देनोच्यते । कालुष्यस्य दोषपर्यवसायित्वं दर्शयन् विशिष्टि येनेति । तदनर्थरूपं कालुप्यं तवेत्यन्वयार्थ पुनर्वचनम् । बु- श्रीमद्भगवद्गीता-- द्विशुद्धिफलस्य विवेकस्य प्राप्त्या वैराग्यप्राप्तिं दर्शयति तदति । अध्यात्मशास्त्रातिरिक्तं शास्त्र श्रोतव्यादिशब्देन गृह्यते । उक्तं वैराग्यमेव स्फोरयति श्रोतव्यामति । यथोक्तविवेकसिद्धौ सर्वस्मि- सनात्मविषये नैष्फल्यं प्रतिभातीत्यर्थः ॥ १२ ॥ प० टी० । अथ कदा पदप्राप्तिरित्याह यदेति ।ते बुद्धिर्यदा मोहकलिलं व्यतित- रिष्यति मोहो देहात्मबुद्धिस्तदेव कलिलं गहनं दुरतिक्रमत्वात् ते बुद्धिस्तद्विशेषात्तरिष्यत्युल्ल- ययिष्यति, तदा श्रोतव्यस्य श्रुतस्य च फलोपधानस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तदुक्तं पातञ्जले-' भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्यते स हि तत्फलभोक्तेति । यथा विजयः पराजयो वा योधेषु वर्तमानः स्वामिन्यपदिश्यते स हि तत्फलभोक्तेति । बुद्धिरेव पुरु- षार्थापरिसमाप्तबन्धस्तदर्थव्यवसायो मोक्ष ' इति ॥ १२ ॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ॥ समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३॥ मोहकलिलात्ययहारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगमवाप्स्यसीति *चेत्तच्छृणु श्रुतिविप्रतिपन्नेति । श्रुतिविप्रति- पन्नानेकसाध्यसाधनसंवन्धप्रकाशनश्रुतिभिः श्रवणैर्विप्रतिपन्ना नानाप्रति- पन्ना श्रुतिविप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिर्यदा यस्मिन् काले स्थास्य- ति स्थिरीभता भविष्यति निश्चला विक्षेपचलनवर्जिता सती समाधी समाधीयते चित्तमस्मिन्निति समाधिरात्मा तस्मिन्नात्मनीत्येतदचला तत्रापि विकल्पवर्जितेत्येतद्द्बुद्धिरन्तःकरणं तदा तस्मिन् काले योगमवाप्स्यसि विवेकप्रज्ञा समाधि प्राप्स्यसि ॥ ५३ ॥ आ० टी० । बुद्धिशुद्विविवेकवैराग्यासिद्धावपि पूर्वोक्तबृद्धिप्राप्तिकालो दर्शितो न भवतीति शकते मोहेति । प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिन्डिरित्याह शृण्विति । पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते, बुद्धेः श्रुतिविप्रातपन्नत्वं विशदयति अनेकति । नाना- श्रुतिविप्रतिपन्नत्वमेव संक्षिपति विक्षिप्तति । उक्तं हेतद्वयमनुरुध्य वैराग्यपरिपाकावस्था कालशब्दा- थः, नैश्चल्यं विक्षेपराहित्यम्, अचलत्वं विकल्पशून्यत्वं, विक्षेपो विपर्ययो, विकल्पः संशय इति विवेकः, विवेकद्वारा जाता प्रज्ञा प्रागुक्ता बुद्धिः समाधिस्तत्रैव निष्ठा ॥ ५३ ॥ प० टी० । अथैतदेव परमेश्वरप्राप्तिनिमित्तमित्याह श्रुतीति । श्रुती रोचनार्था फ्लश्रुतिस्तत्र विप्रतिपन्ना त्यक्तादरा एवंविधा ते बुद्धिः समाधौ सम्यगाधीयते चिनं यास्मन्निति समाधिः परमे- श्वररूपं तस्मिन् निश्चला रुतनिश्चयातएवाचलावितेपा सती यदा स्थास्यति स्थिता भवि- प्यति तदा योगं तत्सांनिध्यमवाप्स्यसि ॥ ५३ ॥ अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ॥ स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥५४॥ * भवाम्यामादि-पा० म०प० ।

हितीयाध्यायः । प्रश्नबीजं प्रतिलभ्यार्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया स्थितप्रज्ञस्येति । स्थिता प्रतिष्ठिताऽहमस्मि परं ब्रह्मेति प्रज्ञा यस्य स स्थितप्र- ज्ञस्तस्य का भाषा किं भाषणं वचनं कथमसौ परैर्भाष्यते समाधिस्थस्य समा- धौ स्थितस्य केशव, स्थितधीः स्थितप्रज्ञश्च स्वयं वा किं प्रभाषेत किमासी- त व्रजेत किं किं भाषणं ब्रजनं वा तस्य किं कथमित्यर्थः । स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छति * ॥५४ ॥ आ० टी० । संन्यासिनो ज्ञाननिष्ठातत्प्राप्तिवचनं प्रश्नवीनं पृच्छतोऽर्जुनस्याभिप्रायमाह लब्धति । लब्धा समाधावात्मनि समाधानेन वा प्रज्ञा परमार्थदर्शनलक्षणा येन तस्येति यावत् । ननु तस्य भाषा तत्कार्यानुरोधिनी भविष्यति किमित्यसौ विजिज्ञास्यते तत्राह कथमिति । ज्ञान- निष्ठस्य लक्षणविवक्षया प्रश्नमवतारयन् तन्निष्ठासाधनबुभुत्सया विशिनष्टि समाधिस्थस्येति । तस्यै- वार्थक्रियां पृच्छति स्थितीरिति ॥ १४ ॥ ५० टी० । अथ समाधौ स्थिरबुद्धेः स्वरूपमर्जुनः पृच्छति स्थितप्रज्ञस्येति । भाष्यते प्रोच्यतेऽनेनेति भाषा स्थितप्रज्ञः पुमान् कैर्लक्षणैरुच्यत इत्यर्थः । तथा समाधिस्थस्य च किं ल- क्षणं स्थितप्रज्ञः समाधिस्थो वा कैर्लक्षणैर्बोद्धव्यः । ननु परबुद्धेरप्रत्यक्षत्वात्कथं दर्शनमात्रेण स्वरूपं ज्ञायत इति चेत्तीतिबुद्धिमताकारेणैव मनोगतं ज्ञायते यतः-'उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति नोदिताः।। अनुक्तमप्युहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः' इत्यु- तत्वात् । अथ व्यवहारेण वा तल्लक्षणं पृच्छति स्थितधीः किं प्रभाषेत कथं वदति, किमासीत कथ- मासीनो भवति, कथं वा व्रत गच्छतीति प्रश्नार्थः । प्रश्नाक्षराणि व्याख्याय वाक्यार्थमाह स्थितप्रज्ञस्यति ॥ ५४ ॥ श्रीभगवानुवाच। प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ॥ आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५॥ यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रत्तो. यश्च कर्म- योगेन तयोः स्थितप्रज्ञस्य प्रजहातीत्यारभ्याध्यायपरिसमाप्तिपर्यन्तं स्थितप्रज्ञ- लक्षणं साधनं चोपदिश्यते । सर्वत्रैव ह्यध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनान्युपदिश्यन्ते यत्नसाध्यत्वाद् यानि यत्नसाध्यानि साधनानि लक्षणानि भव- न्ति तानि श्रीभगवानुवाच प्रजहातीति । प्रजहाति प्रकर्षेण जहाति परित्यज- ति यदा यस्मिन् काले सर्वान् समस्तान् कामानिच्छाभेदान् हे पार्थ मनो- गतान् मनसि प्रविष्टान् हुदि प्रविष्टान् सर्वकामपरित्यागे तुष्टिकारणाभावाच्छ- रीरधारणानिमित्तशेषे च सत्युन्मत्तप्रमत्तस्येव प्रतिः प्राप्तेत्यत उच्यते आत्म- * पृच्छयते--- लि• • पा० ।

श्रीमद्भगवद्गीता-- न्येव प्रत्यगात्मस्वरूप एवात्मना स्वेनैव बाह्यलाभनिरपेक्षस्तुष्टः परमार्थ- दर्शनामृतरसलाभेनान्यस्मादलंप्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठितात्मा- नात्मविवेकजा प्रज्ञा यस्य स स्थितप्रज्ञो विहांस्तदोच्यते त्यक्तपुत्रवित्तलोकै- षणः संन्यास्यात्माराम आत्मक्रीडः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥ आ० टी० । प्रतिवचनमवतारयितुं पातनिकां करोति यो होति । हिशब्देन कर्मसंन्यासका- रणीभूतविरागतासत्तिः मूच्यते, आदितो ब्रह्मचर्यावस्थायामिति यावत्, ज्ञानमेव योगो ब्रह्मात्मभा- वप्रापकत्वात्तस्मिन्निष्ठा परिसमाप्तिस्तस्यामित्यर्थः, कर्मैव योगस्तेन काण्यसंन्यस्य तन्निष्ठायामेव प्रवृत्त इति शेषः । ननु तत्कथमेकेन वाक्येनार्थद्वयमुपदिश्यते द्वैधाथै वाक्यभेदान्न च लक्षणमेव साधनं कृता- र्थलक्षणस्य तत्त्वरूपत्वेन फलत्वे साधनत्वानुपपत्तेरिति तत्राह सर्वत्रैवेति । यद्यपि कृतास्य ज्ञानिनो ज्ञानलक्षणं तद्रूपेण फलत्वान्न साधनत्वमधिगच्छति तथापे जिज्ञासोस्तदेव प्रयत्नसाध्यतया साधनं संपद्यते लक्षणं चात्र ज्ञानसामर्थ्यलब्धमनूद्यते न विधीयत विदुपो विधिनिषेधागोचरत्वात्तेन जिज्ञासोः साधना- नुष्ठानाय लक्षणानुवादादेकस्मिन्नेव साधनानुष्ठाने तात्पर्थमित्यर्थः । उक्तेऽर्थे भगवद्वाक्यमुत्थापयाते यानीति । लक्षणानि च ज्ञानसामर्थ्य लभ्यान्ययत्नसाध्यानीति शेपः । स्थितप्रज्ञस्य का भाषेति प्रथ- मप्रभस्योत्तरमाह प्रजहातीति । कामत्यागस्य प्रकों वासनाराहित्यं कामात्मनिष्त्वं कैश्चि- दिष्यते तदयुक्तं तेषां मनोनिष्ठत्वश्रुतेरित्याशयवानाह मनोगतानिति । आत्मन्येवात्मनेत्याद्युत्तरभा- गनिरत्यं चोद्यमनुवदति सर्वकामेति । तार्हे प्रवर्तकाभावाहिदषः सर्वप्रवृत्तरुपशान्तिरिति नेत्याह शरीरेति । उन्मादवानुन्मत्तो विवेकविरहितबुद्धिभ्रमभागी प्रकर्पण मदम नभवन् विद्यमानमपि विवेक निरस्यन् भ्रान्तवद्वयवहरन् प्रमत्त इति विभागः । उत्तरार्धमवतार्य व्याकरोति उच्यत इति । आ- त्मन्येत्येवकारस्यात्मनेत्यत्रापि संबन्धं द्योतयात स्वेनैवेति । बा द्यलाभनिरपेक्षत्वेन तुष्टिमेव स्पष्टय- ति परमाते । स्थितप्रज्ञपदं विभजते स्थितति । प्रज्ञाप्रतिबन्धकसर्वकामविरामावस्था तदेति निर्दिश्यत । उक्तमेव प्रपञ्च पाते सक्तति । आत्मानं जिज्ञासमानो वैराग द्वारा सर्वेपणात्यागात्मकं संन्यासमासाद्य श्रवणाद्यावृत्त्या तज्ज्ञानं प्राप्य तस्मिन्नेवासत्तया विषयवैमुख्येन तत्फलभूतां परि- तुष्टिं तत्रैव प्रति लभमानः स्थितप्रज्ञव्यपदेशभागित्यर्थः ॥ ५५ ॥ प० टी० । तत्र भगवान् क्रमेणोत्तरयति प्रजहातीति यावदध्यायसमाप्ति । भो पार्थ मनो- गतान् सर्वान् कामान् प्रजहात्यात्यन्तिकत्वेन वा तान् त्यति तर्हि । न हि निरालम्बं मनः स्थातुं शक्नोतीत्याह आत्मनीति। आत्मन्यानन्दघने आत्मना स्वयं तुष्टात्म मावानुभवेन संतुष्टोऽत एव क्षुद्रानन्देभ्यो निवृत्त एतादृशी दशा यदा तदा स्थितप्रज्ञ इत्युच्यते । अत्र प्रज्ञानशब्देन विज्ञान- मेव, स्थिरीभूतविज्ञानो जीवन्मुक्त इत्यर्थः। श्रुतिरपि–“यदा सर्वे प्रमुच्यन्ते कामा यऽस्य हदि स्थिताः।। अथ मत्योऽमृतो भवत्यत्र ब्रह्म समश्नुते इति । अत्रैव देहे ब्रह्मानन्दमनुभवति, शेषं स्पष्टार्थम् ।। ५५ ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः॥ वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥५६॥ किंच दुःखेष्विति । दुःखेष्वाध्यात्मिकादिषु प्राप्तेषु नोहिग्नं न प्रक्षु- भितं दुखःप्राप्तौ मनो यस्य सोऽयमनुद्दिग्नमनाः,तथा सुखेषु प्राप्तेषु विगता स्पृ- हा तृष्णा यस्य नाग्निरिवेन्धनाद्याधाने सुखान्यनुवर्द्धते स विंगतस्पृहः वीतरा-

द्वितीयाध्यायः ।
गभयकोधः रागश्च भयं च कोधश्च वीता विगता रागभयकोधा यस्मात् स वो-
तरागभयकोधः स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदोच्यते ॥ ५६ ॥
आ० टी०। लक्षणभेदानवादद्वारा विविदिषोरेव कर्तव्यान्तरमुपदिशति किंचेति । ज्वरशिरो-
रोगादिकतााने दुःखान्याध्यात्मिकान्यादिशब्देनाधिभौतिकानि व्याघ्रसदिप्रयुक्तान्याधिदैविकानि
चातिवातवदिनिमित्तानि दुःखानि गृह्यन्ते, ते)लब्धेष्वपि नोहिग्नं मनो यस्य स तथेति संबन्धः ।
नोद्विग्नमित्येतद्वयाचष्टे न प्रक्षुभितमिति । दःखानां भुक्तानां प्राप्तौ परिहाराक्षमस्य तदनुभवपरिभा-
वितं दुःखमुद्रेगस्तेन सहितं मनो यस्य न भवति स तथेत्याह दुःखप्राप्ताविति । मनो • यस्य नोद्वि-
ग्नमिति पूर्वेण संबन्धः। सुखान्यपि दुःखवत् त्रिवेिधानीति मत्वा तथेत्युक्तम्, तेषु प्राप्तेषु सत्सु तेभ्यो
विगता स्पडा तृष्णा यस्य स विगतस्पृह इति योजना । अज्ञस्य हि. प्राप्तानि सुखान्यनुविवर्धते
तृष्णा, विदुपस्तु नैवामेत्यत्र वैधHदृष्टान्तमाह नाग्निरिवति । यथा हि दाह्यस्येन्धनादरम्याघाते
वाइर्विवर्वते तथाज्ञस्य मुवान्युपगतान्यनुविवई मानाऽसि त गा विदपो न तान्यनविते न हि
वहिरदाह्यमुपगतमाम दग्धुं विवृद्विमधिगच्छति तेन जिज्ञासुना सुखदुःखयो तृष्णोद्वेगौ न कर्तव्यावि-
त्यर्थः । रागादयस्तु तेन कर्तव्या न भवन्तात्याह वीतेति । अनभूताभिनिवेशे विषयेषु रञ्जनात्मक-
स्तृष्णाभेदो रागः, परेणापतस्य गात्रनेत्रादिविकारकारणं भयं, क्रांधस्तु परवशीकृत्यात्मानं स्वप-
रापकारप्रवृत्तिहेतु वृत्तिविशेषः । ननु ते इात मुनिरात्मविादेत्यङ्गीकृत्याह संन्यासीति । सुखदु:-
खादिविषयतृष्णादेरागादेश्चाभावावस्था तदेत्युच्यते ॥ १६ ॥
५० टी० । अथान्यदाह दुःखेष्विति । दैवात्प्राप्तेषु दुःखेष्वनुद्विग्नमना नोद्विग्नमुद्वेगं प्राप्तं
मनो यत्य स तथा । तथा च प्राप्तषु सुखेषु विगतस्टहोऽनादरः । अत्र यथा संभवं हेतुमाह
वीतरागइति । स्पष्टम् ॥ १६ ॥
यः सर्वत्रानभिस्नेहस्ततत् प्राप्य शुभाशुभम् ॥
नाभिनन्दति न देटि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७॥
किं च यः सर्वत्रेति । यो. मुनिः सर्वत्र देहजीवितादिष्वप्यनभिस्नेहः
स्नेहवर्जितस्तत्तत्प्राप्य शुभाशुभं तत्तच्छुभमशुभं वा लब्ध्वा नाभिनन्दति न
हेष्टि शुभं प्राप्य न तुष्यति न हृष्यत्यशुभं च प्राप्य न इष्टीत्यर्थः । तस्यैव
हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति ॥ ५७ ॥
आ० टी० । लक्षणभेदमनुवादद्वारा विविदिपोरेव कर्तव्यान्तरमुपदिशति किंचेति । विवेक-
वतो विदुषो विवेकजन्या प्रज्ञा कथं प्रतिष्ठा प्रतिपद्यतामित्याङ्कयाह यः सर्वनेनि। ननु देहजीवनादौ
स्पृहा शुभाशुभप्राप्तौ हपविषादौ विदुषो विविदिपोश्चावर्जनीयाविति प्रज्ञास्थैर्यासिद्धिस्तत्राह
यो मुनिरिति । तत्तदिति शोभनवत्त्वेनाशोभनवत्त्वेन वा प्रसिद्धत्वं प्रतिनिर्दिश्यते । तदेव विभजते
शुभामिति । विषयेप्वभिषङ्गाभावः शुभादिप्राप्ती हर्षाद्यभावश्च प्रज्ञास्थैर्य कारणमित्याह तस्येति ॥१७॥
५० टी० । अथान्यदप्याह यः सर्वत्रेति । यः सर्वत्र देहादिविषयेष्वथवा सर्वावस्थास्वप्य-
नभिस्नेहः स्नेहश्न्यः । अथ तदेवाह नाभिनन्दतांति। तच्छुभाशुभं प्राप्य क्रमेणाभिनन्दति शुभं
प्राप्य न प्रशंसत्यशुभं प्राप्य न निन्दति केवलमुदासीनत्वेनातष्ठाते तस्य प्रज्ञा प्रतिष्ठितेति विाद्ध ॥१७॥

प्रकृत- ७८ श्रीमद्भगवद्गीता- यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ ५८॥ किं च यदा संहरत इति । यदा संहरते सम्यगुपसंहरते चायं ज्ञान- निष्ठायां प्रदत्तो यतिः कूर्मोङानीव सर्वशो यथा कूर्मो भयात् स्वान्यङ्गान्युप- संहरति सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणीन्द्रियार्थेभ्यः सर्वविषयेभ्य उपसंहरते तस्य प्रज्ञा प्रतिष्ठितेत्युक्तार्थ वाक्यम् ॥ ५८ ॥ आ० टी० । जिज्ञासोरेव कर्तव्यान्तरं सूचयति किंचेति । इन्द्रियाणां विषयेभ्यो वैमुख्य- स्य प्रज्ञास्थैर्ये कारणत्वादादौ जिज्ञासुना तदनुष्ठयमित्याह यदेति । मुमुक्षुणा मोक्षहेतुं प्रज्ञां प्रार्थ- यमानेन सर्वेभ्यो विपयेभ्यः सर्वाणीन्द्रियाणि विमुखानि कर्तव्यानीति श्लोकव्याख्यानेन कथयति यदेखादिना । उपसंहारः स्ववशत्वापादनं तस्य च सम्यक्त्वमतिदृढत्वम् । अयमिति स्थितप्रज्ञग्रहणं व्यावर्तयति ज्ञाननिष्ठायामिति । इन्द्रियोपसंहारस्य प्रलयरूपत्वं व्यावर्त्य संकोचा- त्मकत्वं दृष्टान्तेन दर्शयति कूर्म इति । दृष्टान्त व्याकरोति यथेति । दार्टान्तिके योजयन् ज्ञान- निष्ठापदं तत्र प्रवर्तयति एवमिति । इन्द्रियाणां विषयेभ्यो वैमुख्यकरणं प्रज्ञास्थैर्यहेतुरित्युक्त- मुपसंहरति तस्येति ॥ १८ ॥ ५० टी०। किं च यदति । योगीन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशाद्यदेन्द्रियाणि संहरते प्रत्याहरति तदा तस्य प्रज्ञा प्रतिष्ठितेति विद्धि, अथापरिपक्वमनस इन्द्रियाकर्षणे भूयान् प्रयासो भवति तथा तस्य न वेति सुखोपायेनेन्द्रियाकर्षणे दृष्टान्तमाह यथा कूर्मः कच्छपोऽङ्गानि कर- घरणादीनि स्वभावेनैवाकर्षति तद्वदलौकिकात्मसुखानुभवे मुपुप्त्यारम्भ इव स्वत एवेन्द्रियवृत्तिः॥१८॥ विषया विनिवर्तन्ते निराहारस्य देहिनः ॥ रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥ तत्र विषयाननाहरत आतुरस्यापीन्द्रियाणि' निवर्तन्ते कूर्माडानीव, संहियन्ते न तु तद्दिषयो रागः, स कथं संहियत इत्युच्यते विषया इति । यद्यपि विषयोपलक्षितानि विषयशब्दवाच्यानीन्द्रियाण्यथ वा विषया एव नि- राहारस्यानाहियमाणविषयस्य देहिनः कष्टे तपसि स्थितस्य मूर्खस्यापि निव- र्तन्ते देहिनो देहवतो रसवर्ज रसो रागो विषयेषु यस्तं वर्जयित्वा रसशब्दो रागे प्रसिद्धः२ स्वरसेन प्रवृत्तो रसिको रसज्ञ इत्यादिदर्शनात्, सोऽपि रसो रञ्जनरूपः सुक्ष्मोऽस्य यतः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वोपलभ्याहमेव तदिति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं संपद्यत इत्यर्थः। नासति सम्यग्द- र्शने रसस्योच्छेदस्तस्मात् सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्य कर्तव्य- मित्यभिप्रायः ॥ ५९ ॥ १ कर्मोऽङ्गानांव-इति १।२ पु. पाठः । २ स्वच्छन्दल:-अधिक म. पु० ।

द्वितीयाध्यायः । ७१ आ० टी० । इन्द्रियाणां विषयेभ्यो वैमुख्येऽपि तद्विषयरागानुवृत्तौ कथं प्रज्ञालाभः स्यादि- ति शङ्कते तत्रेति । व्यवहारभूमिः सप्तम्यर्थः, विषयाननाहरतस्तदुपभोगविमुखस्येत्यर्थः । रागश्चेन्नोपसंद्रियते न तर्हि प्रज्ञालाभः संभवति रागस्य तत्परिपन्थित्वादिति मत्वाह स कथमिति । रागनिवृत्त्युपायमुपदिशन्नुत्तरमाह उच्यत इति । विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिस्त- त्परावृत्तिश्चाप्रस्तुतेत्याशङ्कयाह यद्यपीति । निराहारस्येत्यस्य व्याख्यानमनाहियमाणविषयस्येति, यो हि विषयप्रवणो म भवति तस्यात्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापीन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संहियन्ते तथापि रागो विशिष्यते स च तत्त्वज्ञानादृच्छिद्यत इत्यर्थः । रसशब्दस्य माधुर्यादिषड्विधरमविषयत्वं निषेधति रसशब्द इति । वृद्धप्रयोगमन्तरेण कथं प्रसि- द्विरित्याशङ्कयाह स्वरसेनति । स्वेच्छयेति यावत्, रसिकः स्वेच्छावशवर्ती रसज्ञो विवक्षितापेक्षि- तज्ञातेत्यर्थः । कथं तर्हि तस्य निवृत्तिस्तत्राह सोऽपीति । दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति अह- मेवति । रागापगमे सिद्धमर्थमाह निर्वाजमिति । ननु सम्यग्ज्ञानमन्तरेण रागो नापगच्छति चे- सदषगमाइते रागवतः सम्यगृज्ञानोदयायोगादितरेतराश्रयतेति नेत्याह नासतीति । इन्द्रियाणां वि- षयपारवश्ये विवेकद्वारा परिहते स्थूलो रागो व्यावर्तते, ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रा- गस्य सर्वात्मना निवृत्त्युपपत्तेनेंतरेतराश्रयतेत्यर्थः । प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह तस्मादिति ॥ ५९॥ ५० टी० । ननु प्राप्तोपवासस्य जडस्य रोगाभिभूतस्य यस्य कस्यापि शब्दस्पर्शादयो विषया विनिवर्तन्त एव, एवं तस्य तथा निवृत्तविषयस्य स्थितप्रज्ञस्य च को विशेष इत्याह विषयाइति। निराहारस्य प्राप्तोपवासस्य यस्य कस्यापि देहाभिमानवतो जीवस्य विषया अप्राप्याः स्वत एव नि- मर्तन्ते परं तु रसवर्ज रसो रागोऽभिलाषस्तत्तद्विषयापेक्षा तर्ज यद्यपि दुःमाध्यत्वेन विपयेभ्यो निवृत्तिरस्ति तथापि विपर्यभवितव्यमिति संकल्पोऽस्त्यस्य, स्थितप्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयाभिलापो निवर्तत इति महान्विशेष इत्यर्थः ॥ १९ ॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः॥ इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६० ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः ॥ वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥ सम्यग्दर्शनलक्षणं प्रज्ञास्थैर्य चिकीर्षताऽऽदाविन्द्रियाणिं स्ववशे स्थाप- यितव्यानि यस्मात्तदनवस्थापने दोषमाह यतत इति । यततः प्रयत्नं कुर्वतोऽपि हि यस्मादपि कौन्तेय पुरुषस्य विपश्चितो मेधाविनोऽपीति व्यवहितेन संबन्धः, इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुरवं हि पुरुषं वि. क्षोभयन्त्याकुलीकुर्वन्त्याकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशमेव प- श्यतो विवेकविज्ञानयुक्तं मनो यतस्तस्मात् ॥ ६ ॥ तानीति । तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सना- सीत, मत्परोऽयं वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परो नान्यो- ."

श्रीमद्भगवद्गीता- ऽहं तस्मादित्यासीतेत्यर्थः । एवमासीनस्य यतेशे हि यस्येन्द्रियाणि वर्तन्तेऽभ्या- सवशात्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ आ० टी० । श्लोकान्तरमवतारयति सम्यग्दर्शनेति । मनसः स्ववशत्वादेव प्रज्ञास्थैर्यसंभ- वे किमर्थमिन्द्रियाणां स्ववशत्वापादनमित्याशङ्कचाह यस्मादिति । ननु विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते किं तत्र प्रज्ञास्थैर्य चिकीर्षता कर्तव्यमिति तत्राह यततो होति । विषयेषु भूयो दोषदर्शनमेव प्रयत्नः, हिशब्दस्य यस्मादर्थस्य समाप्तौ संबन्धं वक्ष्यति । अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति संबन्धं गृहीत्वा संबन्धान्तरमाह पुरुषस्येति । प्रमथनशीलत्वं प्रकटयति विषयेति । विक्षोभत्याकुलीकरणस्य च फलमाह आकुलीकृत्योत। प्रकाशमेवेत्युक्तं वि- शदयति पश्यत इति । विपश्चितो विदुषोऽपि प्रकाशशब्दितविवेकाख्यविज्ञानं युक्तमेव मनो हरन्ती- न्द्रियाणीति संबन्धः । हिशब्दार्थमन् य तस्मादिन्द्रियाणि स्ववशे स्थापयितव्यानीति पूर्वेण संबन्धम- मिसन्धायाह यतस्तस्मादिति ॥६०॥इन्द्रियाणां स्ववशत्वसंपादनानन्तरं कर्तव्यमर्थमाह तानीति । एव- मासीनस्य किं स्यादिति तदाह वशे हीति। समाहितस्य विक्षेपविकलस्य कथमासनमित्यपेक्षायामाह मत्पर इति । परापरभेदशङ्कामपालत्यासनमेव स्फोरयति नान्योऽहमिति । उत्तरार्ध व्याकरोति एवमिति। हिशब्दार्थ स्फुटयति अभ्यासेति । परस्मादात्मनो नाहमन्योऽस्मीति प्रागुक्तानुसन्धानस्यादरेण नैरन्तर्यदीर्घ कालानुटानसामर्थ्यादित्यर्थः, अथवा विपयेषु दोपदर्शनाभ्याससामर्थ्यादिन्द्रियाणि संय- तानीत्यर्थः ॥ ६१ ॥ प० टी० । एवं विस्मृतव्यवहारस्य स्थितप्रज्ञस्य दशामक्त्वेदानीमम्यामादिपूर्वरूपवतो दशामाह द्वितयेन यततइत्यादि । यतत आत्मप्राप्त्यर्थे प्रयत्नं कुर्वतोऽपि विपश्चित आत्मानात्म- विवेकवतः पुरुषस्योन्द्रयाणि चक्षुरादीन्यनादिविषयविक्षिप्ततया प्रमाथीनि क्षोभकाण्यात्मा- भिमखमनि मनः प्रसभमकस्माहरन्ति विषयविक्षिप्तं कुर्वन्ति तथा मनोनिग्रहव्यतिरेकेण बाह्येन्द्रिय- निग्रहो मृपैव भवत्येवं तानि सर्वाणि संयम्यान्तरािन्द्रयनिग्रहेण स्वाधीनानि कृत्वा मत्परः सन् मदाश्रयवातत्वेन मुक्तः सन्नासीत, एवमनेनापि प्रकारेणेन्द्रियाणे यस्य वशे भवान्त तस्य प्रज्ञा प्रातातेत्यर्थः । अनेन किमासीतेत्य तरमतं भवति, तदुक्तमोपनिषत्स-" यत्त विज्ञानवान् भवत्य- युकेन मनसा सह । तत्यान्द्रयाणि वश्यानि दष्टाश्वा इव मारथेः । यस्तु विज्ञानवान् भवति युक्तेन मनसा सह। तस्यान्द्रयाणि वश्यानि सदश्वा इव सारथे: " इति स्पष्टार्थेयं श्रुतिः ॥ ६० ॥ ६१ ॥ ध्य यतो विषयान् पुंसः संगस्तेषूपजायते ॥ संगात् संजायते कामः कामात् क्रोधोऽभिजायते ॥६२॥ अथेदानी पराभविष्यतः सर्वानर्थमूलमिदमुच्यते' ध्यायत इति । ध्यायत- श्चिन्तयतो विषयान् शब्दादिविषयविशेपानालोचयतः पुंसः पुरुषस्य संग आसक्तिः प्रीतिस्तेषु विषयेपूपजायते संगात् प्रीतेः संजायते समुत्पद्यते कामस्तृष्णा तस्मात् कामात् कुतश्चित् प्रतिहतात् कोधोऽभिजायते ॥ ६२ ॥ आ० टी० । समनन्तरश्लोकद्वयतात्पर्यमाह अथति । पुरुषार्थोपायोपदेशानन्तर्यमथशब्दा- र्थः । तन्निष्ठत्वराहित्यावस्थां दर्शयति इदानीमिति । पराभविप्यतो महान्तमनर्थ गमिप्यतो विवेक- विज्ञानविहीनस्येति यावत्, सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवासद्धामति वक्तुमिदमित्यु- हितीयाध्यायः । तं, विषयेषु विशेषत्वमारोपितरमणीयत्वं प्रीतिरासक्तिरिति साधारणासक्तिमानं गृह्यते तृष्णेत्युद्रिक्ता शक्तिरुक्ता प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥ क्रोधाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः॥ स्मृतिभ्रंशाहुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥६३ ॥ क्रोधाद्भवति संमोहः संमोहोऽविवेकः कार्याकार्यविषयो भवतीति संबध्यते । क्रुद्दो हि संमूढः सन् गुरुमप्याक्रोशति संमोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यादिभ्रमो भ्रंशः स्मृत्युत्प- त्तिनिमित्तप्राप्तावनुत्पत्तिस्ततः स्मृतिभ्रंशात्त बुद्धाशः कार्याकार्यविषयविवे- कायोग्यतान्तःकरणस्य बुद्धेर्नाश उच्यते, बुद्धिनाशात् प्रणश्यति तावदेव हि पुरुपो यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यं, तदयोग्यत्वे नष्ट एव पुरुपो भवत्यतस्तस्यान्तःकरणस्य बुवेर्नाशात् प्रणश्यति पुरुषार्था- योग्यो भवतीत्यर्थः ॥ ६३ ॥ आ० टी० । क्रोधस्य संमोहहेतुत्वमनभवन द्रढयति क्रुद्धो हीति । आक्रोशत्यधिक्षिपति तदयोग्यत्वमपेरर्थः । संमोहकार्य कथयति संमोहादिति । स्मृतेनिमित्तनिवेदनद्वारा स्वरूपं निरूप- यति शास्त्रेति । क्षणिकत्वादेव तस्याः स्वतो नाशसंभवान्न संमोहाधीनत्वं तस्यत्याशङ्कयाह स्मृतीति । स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति तत्राह कायति । ननु पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न प्रकल्प्यते तत्राह तावदेवेति । कार्याकार्यविवेचनयोग्यान्तःकरणाभाव सतोऽपि पुरुषस्य करणाभावादपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः । तदेतदाह पुरुपार्थेति ॥ ६३ ॥ प० टी० । एवं बाह्यन्द्रियसंयमाभावे दोपमुक्त्वाऽधुना मनःसंयमाभावे दोपमाह ध्यायत इति द्वाभ्याम् । विषयान् ध्यायतः पुंमः पुरुषस्य तेषु संग आसक्तिर्भवति । ततः सगात्कामस्तै- विषयैरवश्यं भवितव्यमिति तदर्गन आदरो भवति तत्र केन चिदन्तराये रते क्रोधो, भवति क्रो- धात्संमोहः कार्याकार्यविचाराभावस्तस्मात्स्मृतिविभ्रमः शास्त्राचार्योपदिष्टः कीदृशोऽहं किं करोमीति न स्मरति तस्माद्बुद्विनाशस्तस्मात्प्रणश्यति लोकनिन्दास्पदत्वेन जीवन्मृततुल्यो भवति । एवमनेन प्रथमतो विषयानुस्मृतिः परिहार्येत्युक्तम् । उक्तं च-'लोक एष विषयानरञ्जनं दुःग्वगर्भमपि मन्यते मुग्व- म् । आमिष बडिशगर्भमप्यही मोहतो असति यहदण्डनः, इति ॥ ६२ ॥ ६३ ॥ रागद्वेपवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यविधेयात्मा प्रसादमधिगच्छति ॥ ६४॥ सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानमथेदानी मोक्षकारणमिदमुच्यते रा- गद्देषेति । रागद्देषवियुक्तैरागश्च द्वेषश्च रागद्देषौ तत्पुरःसरा हीन्द्रियाणां प्र. . २ १ विषयविभ्रमः---पा० मु. पु. २ विमुक्त-- इति मु० पा० ८२ श्रीमद्भगवद्गीता- वृत्तिः स्वाभाविकी तत्र यो मुमुक्षुर्भवति स ताभ्यां वियुक्तैः श्रोत्रादिभिरिन्द्रि- यैर्विषयानवर्जनीयांश्चरन्नुपलभमान आत्मवश्यैरात्मनो वश्यानि वशीभूतानि तैरात्मवश्यैर्विधेयात्मेच्छातो विधेय आत्मान्तःकरणं यस्य सोऽयं प्रसादमधिगच्छ- ति प्रसादः प्रसन्नता स्वास्थ्यम् ॥ ६४ ॥ आ०टी०। विषयाणां स्मरणमपि चेदनर्थकारणं सुतरां तर्हि भोगस्तेन जीवनार्थ भुजानो विषयाननर्थ कथं न प्रतिपद्यत इत्याशय वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह सर्वानर्थस्येति । अनर्थमूलक- थनानन्तर्यमथशब्दार्थः । परिहर्तव्ये निर्णीते सति तत्परिहारोपायजिज्ञःसां दर्शयति इदानीमिति । रागद्वेषपूर्विका प्रवृत्तिरित्यत्रानुभवदर्शनार्थों हिशब्दः, शास्त्रीयप्रवृत्तिव्यासेधार्थ स्वाभाविकीत्युक्तं, तत्रेत्यधिकृतानधिकृत्य प्रयोगोऽवर्जनीयानशनपानादीन् देहस्थितिहेतूनिति यावत् । इन्द्रियाणां विष- येषु प्रवृत्तिश्चान्नयमानुपपत्त्या वर्जनीयेप्वपि सा स्यादित्याशङ्कयाह आत्मेति । अन्तःकरणाधीनत्वेऽ- पीन्द्रियाणां तदनियमात्तेषामपि नियमानुपपत्तिरित्याशङ्कयाह विधेयात्माते । ॥ ६४ ॥ प० टी० । अथैतत्कर्तुमसमर्थोऽपि तरतीति व्रजेत किमस्योत्तरमाह रागद्वेषेति । रागद्वेषवि- युक्तैरिन्द्रियैर्विषयांश्चरन् प्रसादमधिगच्छति । रागः प्रीतिरासक्तिर्दृपश्च ताभ्यां वियुक्तैरुदासीन- रिन्द्रियैर्विषयान् भुञ्जानः। अथ रागढेपवियुक्तत्वे हेतुमाह आत्मवश्यैरिति। आत्मा वश्यो येषां ता- नि सर्वत्रात्मभावनायुक्तानि तैविधेयः परिनिष्टित आत्मा मनो यस्य स तथाभृतः प्रसादं शान्ति- मधिगच्छतीत्यर्थः । तदुक्तम्-' अग्निसंगाद्यथा लोहमग्नित्वमुपगच्छति । आत्मसंगात्तथा गच्छत्यात्मता मिन्द्रियादिकम् ' इति ॥ ६ ४ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते ॥ प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥६५॥ प्रसादे सति किं स्यादित्युच्यते प्रसाद इति । प्रसादे सर्वदुःखानामा- ध्यात्मिकादीनां हानिर्विनाशोऽस्य यतेरुपजायते, किंच प्रसन्नचेतसः स्वच्छान्तः- करणस्य हि यस्मादाशु शीघ्रं बुद्धिः पर्यवतिष्ठत आकाशमिव परि समन्ताद- वतिष्ठत आत्मरूपेणैव निश्चलीभवतीत्यर्थः । एवं प्रसन्नचेतसोऽवस्थितबुद्धेः कृतकृत्यता यतस्तस्माद्रागहेषवियुक्तैरिन्द्रियैः शास्त्राविरुद्धेष्ववर्जनीयेषु गुक्तः स- माचरेदिति वाक्यार्थः ॥ ६५ ॥ आ० टी० । तथापि नानाविधदुःखाभिभूतत्वान्न स्वास्थ्यमास्थातुं शक्यमित्याशयेन पृच्छति प्रसाद इति । श्लोकार्धनोत्तरमाह उच्यत इति । सर्वदुःखहान्या बुद्धिस्वास्थ्येऽपि प्रकृतं प्रज्ञा- स्थैर्य कथं सिद्धमित्याशङ्कयाह प्रसन्नोति । बुद्धिप्रमादस्यैव फलान्तरमाह किचेति । तस्माद् बुद्धि- प्रमादार्थ प्रयतितव्यमिति शेषः । श्लोकद्वयस्याक्षरोत्थमर्थमुक्वा तात्पर्यार्थमुपसंहराति एवमिति । युक्तः समाहितो विषयपारवश्यशून्यः सन्निति यावत् ॥ ६५ ॥ प० टी० । अथ तेन किं स्यादित्याह प्रसाद इति । अस्य पुरुषस्य प्रसाद जाते सति सर्वदुःवानां हानि यते । एवं सर्वदुःखातिगत्वेन प्रसन्नमनस आशु शीघ्रं बुद्धिः पर्यवतिष्ठते नि- श्रला भवति । तदुक्तम्-'विज्ञानामृतनिर्झरावनिरिव स्वानन्दपूर्णोदधेरूमिः शाश्वतसुप्रसादसदनं भूता-

८२
हितीयाध्यायः ।
नुकम्पा प्रसूः । निर्वातस्थितसुपदीपकलिका वैराग्यभाग्यास्पदं दृश्यातीतपदावलम्बरसिका स्वान्तस्थि-
तिस्तद्विदाम् ॥ ६ ॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ॥
न चानावयतः शान्तिरशान्तस्य कुतः सुखम् ॥६६॥
सेयं प्रसन्नता स्तूयते नास्तीति । नास्ति न विद्यते न भवतीत्यर्थः;
बुद्धिरात्मस्वरूपविषयायुक्तस्यासमाहितान्तःकरणस्य । न चायुक्तस्येति । न चा-
स्यायुक्तस्य भावनात्मज्ञानाभिनिवेशस्तथा च नास्य भावयत आत्मज्ञानाभि-
निवेशं कुर्वतः शान्तिरुपशमो न विद्यते, अशान्तस्य कुतः सुखम् इन्द्रियाणां
हि विषयसेवातृष्णातो निवृत्तिर्या तत् सरखं न विषयविषया तृष्णा, दुःखमेव
हि सा, न तृष्णायां सत्यां सुखस्य गन्धमात्रमुत्पद्यत इत्यर्थः ॥ ६६ ॥
आ० टी० । किं पुनः सत्त्वशुद्वथैव यथोक्तबुद्धिः सिध्यति नेत्याह संयमिति । असमाहि-
तस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभातीत्याशय विशिनष्टि आत्मस्वरूपेति । न हि विक्षिप्तचि-
तस्यात्मस्वरूपविषया बुद्धिरुदेतमहतीत्यत्र हेतुमाह न चेति । आत्मज्ञाने शब्दादापाततो जाते
म्मृतिसन्तानानुकरणं साक्षात्कारार्थमभिनिवेशो भावनेति चोच्यते । न चासो विक्षिप्तबुद्धेः सिध्यती-
ति हेत्वर्थ विवक्षित्वाह आत्मज्ञानेति । भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिरित्याशझ्चाह
तथेति । असमाहितस्य भावनाभावादिति यावत् । आत्मन्यापाततो ज्ञात श्रवणाद्यावृत्तिरूपां स्मृ-
तिमनातन्वानस्यापरोक्षबुद्दयभावेनाननिवृत्तिः सिध्यतीत्याह उपशम इति । अनिवृत्तानर्थस्य परमा-
नन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न संभवतीत्याह अशान्तस्यति ।
तस्यापि विषयसेविनो वैषयिकं मुखं संभवतीत्याशङ्कयाह इन्द्रियाणां हीति । तृष्णाक्षयस्य
शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तं हिशब्दः । विषयसेवातृप्णयापि विषयोपभोगद्वारा सुख-
मुपलब्धमित्याशङ्कयाह दुःखमेवेति । तत्रापि हिशब्दोऽनुभवद्योती । तदेव स्पष्टयति नेसा-
दिना ।। ६६ ॥
प० टी० । इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति नास्तिबुद्धि-
रिति । अयुक्तस्यावशीर तेन्द्रियस्य बुद्धिोत्पद्यते च परं तया बुद्धयायुक्तरय भावना.
त्मभावना नास्ति । तथाभावयतो ब्रह्मभावनावर्जितस्य सुखमात्मसुखं कुतो, नास्तीत्यर्थः ।। ६६ ।।
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ॥
तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ॥६७॥
अयुक्तस्य कस्माद् बुद्धिनीस्तीत्युच्यते इन्द्रियाणामिति । इन्द्रियाणां
हि यस्माचरतां स्वविषयेषु प्रवर्तमानानां यन्मनोऽनुविधीयतेऽनुप्रवर्तते त-
दिन्द्रियविषयविकल्पनेन प्रवृत्तं मनोऽस्य यतेर्हरति प्रज्ञामात्मानात्मविवेकजा
नाशयति । कथं, वायु वमिवाम्भस्युदके जिगमिषतां मार्गादुदृत्योन्मार्गे यथा
वायुर्नावं प्रवर्तयत्येवमात्मविषयां प्रज्ञां हृत्वा मनोविषयां कल्पनां करोति ॥६७॥

.. श्रीमद्भगवद्गीता-- आ० टी० । आकाक्षाद्वारा श्लोकान्तरमुत्थापयति अयुक्तस्येति । विक्षिप्तचेतसो भावना- भावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति इन्द्रियाणामिति । यत्पदोपात्तं मनस्तत्पदेनापि गृह्यते, इन्द्रियाणां श्रोत्रादीनां विषयाः शब्दादयस्तेषां विकल्पनं मिथो विभज्य ग्रहणं तेनेति यावत् । दृष्टान्तं व्याकरोति उदक इति । यस्मात्तस्मादयुक्तस्य नोत्पद्यते बुद्धिरिति योजना ॥ ६७ ॥ प० टी० । अथ नास्ति बुद्धिरयुक्तस्येत्यत्र हेतुमाह इन्द्रियाणामिति । विषयेषु स्वैरं चरतामिन्द्रियाणां मध्य एकमिन्द्रियं यन्मनोऽनु तदनुगतमेव विधीयते प्रेयते तदस्य पुरुषस्य प्रज्ञां हरति तथा चैकस्य मनसः संयमे कृते सर्वेषां संयमः कृत एव स्यादित्यर्थः । अथ प्रज्ञाहरणे दृष्टान्तमाह वायुरिति । असावधानकर्णधाराधिष्ठितां नावं वायुर्यथेतस्ततो भ्रामयति तद्वत् ॥६॥ तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ॥ इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्टिता ॥६८॥ यततो हीत्युपन्यस्तस्यार्थस्यानेकधोपपत्तिमुक्त्वा तं चार्थमुपपायोपसं- हरति तस्मादिति । इन्द्रियाणां प्रत्तौ दोप उपपादितो यस्मात् तस्माद् यस्य यतेः हे महाबाहो निगृहीतानि सर्वशः सर्वप्रकारमानसादिभेदे रिन्द्रियाणीन्द्रि- यार्थेभ्यः शब्दादिभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ आ० टी० । यततो हीत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वाद स्ति पुनरुक्तिरित्याशङ्कय परिहरति यततो हीयादिना । ध्यायता विषयानित्यादीनामुपपत्तिवचन. मुन्नेयम् । तच्छब्दापेक्षितार्थाक्तिद्वारा श्लोकमवतारयति इन्द्रियाणामिति । असमाहितन मनसा यस्माद नुविधीयमानानीन्द्रियाणि प्रसह्य प्रज्ञामपहरन्ति त मादिति योजना ॥ ६८ ॥ प० टी० । अथोपसंहरन्नाह तस्मादिति । भो महावाही यस्मादेवं तन्मात्कारणाद्यस्य पुरुषस्य सर्वशः सर्वाणीन्द्रियाणीन्द्रियार्थभ्यो निगृहीतान्याकर्पितानि भवन्ति, तम्य प्रज्ञा प्रतिष्टिता ।। ६८ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥ योऽयं लौकिको वैदिकश्च व्यवहारः समुत्पन्न विवेकज्ञानस्य स्थितप्र- ज्ञस्याविद्याकार्यत्वादविद्यानिवृत्ती निवर्ततेऽविद्यायाश्च विद्याविरोधानिवृत्तिरित्ये- तमर्थ स्फुटीकुर्वनाह या निशेति । या निशा रात्रिः सर्वपदार्थानामविवेक- आ० टी० । आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारस्तविपरीतस्याज्ञस्य कर्मणीत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति योऽयमिति । अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत्तन्नि- वृत्तिरेव कथमित्याशङ्कयाह अविद्यायाश्चेति । स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृ- त्तिवत्तथाविधे दर्शने च मिथो विरुध्यत पराग्दर्शनस्यानाद्यात्माहरणाविद्याकार्यत्वादात्मदर्शनस्य च तन्निवर्तकत्वात्ततश्चात्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयादित्याहति योजना । सर्वप्राणिनां निशा प- * निगृहीतानि मर्वप्रकारमानमादिभेदैरिन्द्रियाणांति मु० पु० अधिकम् ।

८५ हितीयाध्यायः। करी तमःस्वभावत्वान्निशा सर्वेषां भूतानां सर्वभूतानां, किं तत्परमार्थतत्त्वं स्थितप्रज्ञस्य विषयो यथा नक्तंचराणामहरेव सदन्येषां निशा भवति तद्दन- तंचरस्थानीयानामज्ञानिनां सर्वभूतानां निशेव निशां परमार्थतत्त्वागोचरत्वा- तबुद्धीनां, तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायां प्रवुद्धो जागर्ति संयमी संयमवान् जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानि- द्रायां प्रसुप्तान्येव भूतानि जाग्रतीत्युच्यते यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः सा निशाविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेरतः कर्माण्यविद्यावस्थायामे- व चोद्यन्ते न विद्यावस्थायां, विद्यायां हि सत्यामुदिते सवितरि शार्वरमिव तमः प्रणाशमुपगच्छत्यविद्या, प्राग्विद्योत्पत्तेरविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाका- रकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते नाप्रमाणबुड्या गृह्य- माणायाः कर्महेतुत्वोपपत्तिः प्रमाणभूतेन वेदेन मम चोदितं क- तव्यं कर्मेति कर्मेति हि कर्मणि कर्ता प्रवर्तते नाविद्यामात्रमिदं व निशेवेति, यस्य तु पुनर्निशेवाविद्यामात्रामदं सर्व भेदजातमिदं दार्थाविवेककरीत्यत्र हतुमाह तमःस्वभावत्वादिति । सर्वप्राणिमाधारणी प्रसिद्धां निशां दर्शयित्वा ता- मेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति किं तदित्यादिना । स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वमित्याशङ्कयाह यथनि। तत्र हेतुमाह अगोचरत्वादिति । अतढुडीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्त वुद्धीनामप्रतिपन्नत्वात् परमार्थतत्त्वं निशेवाविदुषामि- त्यर्थः । तस्यामित्यादि व्याचष्टे तम्यामिति । निशावदुक्तायामवस्थायामिति यावत्, योगीति ज्ञानी कथ्यते। द्वितीया विभजते यस्यामिति । प्रमुत्तानां जागरणं विरुद्धभित्याशङ्कयाह प्रमुप्ता इवति। परमार्थतत्त्वमनुभवतो निवृत्ताविद्यम्य संन्यामिनो द्वैतावस्था निशेत्यत्र हतुमाह अविद्यारूपत्वादिति । परमार्थावस्था निशेत्यविदपां विदुषां तु द्वैतावस्था तथति स्थिते फलितमाह अत इति । अविद्याव- स्थायामेव क्रियाकारकफलभेदप्रतिभानादित्यर्थः । विद्यादयऽपि तत्प्रतिभानाविशेषात् पूर्वमिव क- आणि विधीयेरन्नित्याशङ्कयाह विद्यायामति । अविद्यानिवृत्तौ बाधितानुवृत्त्या विभागभानेऽपि नास्ति कर्मविधिविभागाभिनिवेशाभावादित्यर्थः । अविद्यावस्थायामेव कर्मणीत्युक्तं व्यक्तीकरोति प्रा गिति । विद्योदयात् पूर्व बाधकाभावादबाधिता विद्या क्रियादिभेदमापाद्य प्रमाणरूपया बुद्धया ग्राह्यतां प्राप्य कर्महेतुर्भवति क्रियादिभेदाभिमानस्य तहेतुत्वादित्यर्थः । न विद्यावस्थायामित्युक्तं प्र. पञ्चयति नाप्रमाणेति । उत्पन्नायां च विद्यायामविद्याया निवृत्तत्त्वात् क्रियादिभेदभानमप्रमाणमिति बुद्धिरुत्पद्यते तया गृह्यमाणा यथोक्तविभागभागिन्यप्यविद्या न कर्महेतुत्वं प्रतिपद्यते बाधितत्वेना. भासतया तहेतुत्वायोगादित्यर्थः । विद्याविद्याविभागेनोक्तमेव विशषं विवृणोति प्रमाणभूत नेति । य थोक्तेन वेदेन कामनानीवनादिमतो मम कर्म विहितं तेन मया तत्कर्तव्यमिति मन्वानः सन् कर्म. ण्यज्ञोऽधिक्रियते तं प्रति साधनविशेषवादिनो वेदस्य प्रवर्तकत्वादित्यर्थः । सर्वमवेदमविद्यामात्रं द्वैत निषेवेतेति मन्वानस्तु न प्रवर्तते कर्मणीति व्यावय॑माह नाविद्योति । विदुषो न कर्मण्यधिकार त्तस्याधिकारस्तर्हि कुत्रेत्याशङ्कयाह यस्यति । तस्यात्मज्ञस्य फलभूतसंन्यासाधिकारे वाक्यशेष प्रमाणयति तथा चति। प्रवर्तकं प्रमाणं विधिस्तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनु श्रीमद्भगवद्गीता- ज्ञानं तस्यात्मज्ञस्य सर्वकर्मसंन्यास एवाधिकारो न प्रवृत्ती, तथा दर्श- यिष्यति ' तबुद्धयस्तदात्मान' इत्यादिना, ज्ञाननिष्ठायामेव तस्याधिकारः । तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्तेरनुपपत्तिरिति चेत्, न स्वात्मविषयत्वादात्म- विज्ञानस्य, न ह्यात्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षतात्मत्वादेव तदन्तत्वाञ्च सर्वप्रमाणानां प्रमाणत्वस्य, न ह्यात्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेय- व्यवहारः संभवति, प्रमातृत्वं ह्यात्मनोनिवर्तयत्यन्तं प्रमाणं निवर्तयदेव चा- प्रमाणीभवति स्वप्नकालप्रमाणमिव । प्रबोधे लोके च वस्त्वधिगमे प्रवृत्तिहे- तत्वादर्शनात् प्रमाणस्य, तस्मान्नात्मविदः कर्मण्यधिकार इति सिद्धम् ॥ ६९॥ पपत्तेराश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते तत्रापीति । किमात्मज्ञानं विधिमपेक्षते किं वात्मा नाद्यस्तस्य स्वरूपविषयस्य यथा प्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह न स्वात्मेति । न द्वितीय इत्याह न होति । प्रवर्तकप्रमाणशाब्दतस्य विधेः साध्यविषयत्वादात्मनश्चासाध्यत्वादिति हेतुमाह आत्मत्वादेवेति। आत्मतज्ज्ञानयोर्विध्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थ विध्यपेक्षा स्यादित्याशङ्कयाह तदन्तत्वाचति । सर्वेषां प्रमाणानां प्रामाण्यस्यात्मज्ञानोदयावसानत्वात्तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वान्न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः । उक्तमेव व्यक्तीकरोति न हीति । धर्माधिगमवदात्माधिगमेऽपि किमिति यथाक्तो व्यवहारो न भवतीत्याशङ्कयाह प्रमातृत्वं होति । तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यमित्याशङ्कयाह निवर्तयदेवेति । निवर्तयदद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणमित्यत्र दृष्टान्तमाह स्वप्नति । आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह लोक चेति । व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्चयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भाद- द्वैतज्ञानमपि प्रमाणवान्न विधिमपेक्षते रज्ज्वादिज्ञानवदित्यर्थः। आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञा नमाहात्म्येनैव सिद्धत्वात्तस्य कर्मसंन्यासेऽधिकारो न कर्मणीत्युपसंहरति तस्मादिति ॥ ६९ ॥ प० टी० । अथ विषयपरावृत्तेन्द्रियस्य स्थितिमाह या निशेति । सर्वाणि भूतान्यात्मानं आत्मविषयकाज्ञानरूपा तेषां भूतानां रात्रिर्यथोलूकानां दिनमेव रात्रिरेवं तस्यां रात्रौ संयमी परावृत्तेन्द्रियो योगी जागयुद्बुद्धो भवति । तथा यस्यां जाग्रद्दशायां भूतानि जाग्रति स्वव्यवहारं कुर्वन्ति सा पश्यत आत्मदृष्टेर्मुनेर्मननशीलस्य निशा भवति तत्र व्यवहाराभा- वात् । तदुक्तम् -'आत्मा न हि स्फुरति सर्वशरीरभाजां तेषां निशा भवति सा खलु तत्र योगी । जागर्ति जाग्रति च ते व्यवहारजाते तन्न स्फुरत्युरुधियः क्षणदास्य सा ते' इति । एवं सकलोन्द्रय- परावृत्तित्वमेव स्थितप्रज्ञत्वमित्यर्थः । यहा सर्वभूतानां सर्वदेहिनां या सकलेन्द्रियोपरमरूपा निशा सुषुप्तिस्तत्रात्माकारान्तःकरणवृत्तौ सत्यामप्यात्मानं न विन्दत्यथ तस्यां तुर्यावस्थापरिणतायां संयम्या- त्मनिष्ठः पुमान् जागांत्मसुखानुभववान् भवति । “ दैवं ह्येतन्मिथुनं परमो ह्येप आन- न्दस्तस्मादेववित्स्वाप्याल्लोक्यं हैतएवं तदेव ते मिथुनेन प्रियेण धाम्ना समर्धयति" इतिश्रुतेः। वाशि- ष्ठेपि--' निद्रादौ जागरस्यान्ते यो भाव उपपद्यते । तं भावं भावयन् साक्षादद्वयानन्दमश्नुते' इति । अथ यस्यां जाग्रदवस्थायां भूतानि जाग्रति स्वव्यापारं कुर्वन्ति सा व्यवहारमपश्यत आत्मदृष्टेः पुरुषस्य निशा दृश्यप्रपञ्चास्फुरणात् ।। ६९ ॥ न जानन्त्यत हितीयाध्यायः । आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यहत् ॥ तहत् कामायं प्रविशन्ति सर्वेस शान्तिमाप्नोतिनकामकामी॥७०॥ विदुषस्त्यतैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिर्न स्वसंन्यासिनः कामकामिन इत्येतमर्थ दृष्टान्तेन प्रतिपादयिष्यन्नाह आपर्येति । आपूर्य- माणमद्भिरचलप्रतिष्ठमचलतया प्रतिष्ठावस्थितिर्यस्य तमचलप्रतिष्ठं समुद्रमा- पः सर्वतो गताः प्रविशन्ति स्वात्मस्थमविक्रियमेव सन्तं यहत्तहत्कामा विषयसंनिधावपि सर्वत इच्छाविशेषा यं समुद्रमिवापो विकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति स शान्तिं मोक्ष प्राप्नोति ने- तरः कामकामी काम्यन्त इति कामा विषयास्तान् कामयितुं शीलं यस्य स कामकामी नैव प्राप्नोतीत्यर्थः ॥७॥ आ० टी०। नन्वसंन्यासिनापि विद्यावतां विद्याफलस्य मोक्षस्य लब्धं शक्यत्वात् किमिति विदुषः संन्यासो नियम्यते तत्राह विदुष इति । आपातज्ञानवतो विवेकवैराग्यादिविशिष्टस्यैषणाभ्यः सर्वाम्योऽभ्युत्थितस्य श्रवणादिद्वारा समुत्पन्नसाक्षात्कारवतो मुख्यस्य संन्यासिनो मोक्षो नान्यस्य विषयतृप्णापरिभूतस्येत्येतदृष्टान्तेन प्रतिपादयितमिच्छन् रागद्वेषवियुक्तैस्त्विति श्लोकोक्तमेवार्थ पुनराहेति योजना । अद्भिः समुद्रस्य समन्तात् पूर्यमाणत्वे वृद्धिद्वासवती तदीया स्थितिरापतेदित्या- शङ्कयाह अचलेति । न हि समद्रस्योदकात्मकं प्रतिनियतं रूपं कदाचिद्विवर्धते हसते वा तेन तदीया स्थितिरेकरूंपैवेत्यर्थः । तत्तन्नादेयाश्चेदापः समुद्रान्तर्गच्छन्ति तर्हि तस्य विक्रियावत्त्वादप्र- तिष्ठा स्यादित्याङ्कयाह स्वात्मस्थमिति । इच्छाविशेषा विषयाणामसंनिधौ विदुपि निर्विकारे प्रवि- शन्तोऽपि संनिधाने तस्मिन् प्रविशन्तो विकारमापादयेयुरित्याशङ्कयाह विषयेति। प्रवेशं विशदयति सर्वत इति । योऽकाम इत्यादि । श्रुतेविषयविमुग्वस्य निप्कामस्य मोक्षो न कामकामुकस्येत्याह म शान्तिमिति ॥ ७० ॥ प० टी । अथेन्द्रियपरावृत्तिं दृष्टान्तेनाह आपूर्यमाणमिति । स पुरुपः शान्ति शमसुख- मामोति । स कः सर्वे कामाः सर्व विषयास्तावद्यं प्रविशन्ति तद्वत् परावृत्ता भवन्ति । किंवत्, यह- दापो नानानदीप्रवाहाः समुद्रं प्रविशन्ति । किंभूतम् आपूर्यमाणं मेधैर्बहिनिःसार्यमाणेऽप्युदकेऽर्नु- पक्षीणं तथा पुनर्वर्षमाणोत्पन्नप्रवाहयुक्तेप्यचलप्रतिष्ठमनुल्लधितमर्यादम्, एवं प्रकृतेऽपि विषयवृत्तिषु बहिनिःसृतास्वा स्थितप्रज्ञत्वादनुपक्षीणं पुनः प्रतिष्ठास्वप्यहं निवृत्तेन्द्रिय इत्यभिमानशून्यमित्यर्थः । एवं विध एवात्मसुखभाक् परं तु न कामकामी भोगकामनाशीलः ॥ ७० ॥ विहाय कामान् यः सर्वान् पुमांश्चरति निस्टहः ॥ निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥ ७१ ॥ यस्मादेवं तस्मादिहायेति । विहाय परित्यज्य कामान् यः संन्यासी स. निशेषतः कात्स्न्र्येन चरति जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः, निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य स निःस्पृहः सन् निर्मम इति ममत्व- श्रीमद्भगवद्गीता-- वर्जितः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेत्यभिनिवेशवर्जितः निरहं. कारो विद्यावत्त्वादिनिमित्तात्मसंभावनारहित इत्यर्थः, स एवंभूतः स्थितप्र- ज्ञो ब्रह्मविच्छान्तिं सर्वसंसारदुःखोपरमत्वलक्षणां निर्वाणाख्यामधिगच्छति प्रा- मोति ब्रह्मभूतो भवतीत्यर्थः ॥ ७१ ॥ आँ० टी०। यदि गृहस्थेनापि मनमा समस्तांभिमानं हित्वा कूटस्थं ब्रह्मात्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते प्राप्तं तर्हि मौढ्यादिविडम्बनमेवेन्याशङ्कयाह यस्मादिति । शब्दादिविषयप्रव- णस्य तत्तदिच्छाभेदभानिनो न मुक्तिरिति व्यतिरेकस्य सिद्धत्वात् पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः। अशषविषयत्यागे जीवनमपि कथमित्याशङ्कयाह जीवनेति। संभवद्रागद्वेषादिके देशे निवासव्यावृत्यर्थं चरतीत्येतद्व्याचष्टे पर्यटतीति । विहाय कामानित्यनेन पुनरुक्तिं परिहरति शरी रोति । निस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् कथं पुनरुक्तिमार्थिकीं न पश्यसीत्याशङ्कयाह शरीरजी- वनेति । सत्यहंकारे ममकारस्यावश्यकत्वान्निरहंकारत्वं व्याकरोति विद्यावत्त्वादीति । स शान्ति- मानातीत्युक्तमुपसहरति स एवंभृत इति । संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि लोकोक्तानि विशेषणानि यत्नमाध्यानि तत्संमतिफलंतु कैवल्यमित्यर्थः ॥ ७१ ॥ प० टी० । अथ तदेव प्रकटयति विहायति । यः पुमान् साधित पुरुषार्थः सर्वान कामान विहाय तृणोपमान कृत्वा निस्पृहश्चरति । अथ निस्पृहत्वमेवाह निर्मम इति । विषयेषु सत्स्वपि ममताभिमानशून्यः परावृत्तेपु निरहंकारोऽहं कृतकृत्य इति श्लाघाशून्य एवंविधो यो निस्पृहः स एव शान्तिमधिगच्छति नान्यः ॥ ७१ ॥ एपा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ॥ स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे साङ्ख्ययोगो नाम दितीयाध्यायः ॥ २ ॥ सषा ज्ञाननिष्ठा स्तूयते एषा ब्राह्मीति । एपा यथोक्ता ब्राह्मी ब्रह्मणि भवेयं स्थितिः सर्वकर्म संन्यस्य ब्रह्मरूपेणैवावस्थानमित्येतद् हे पार्थ नैनां स्थिति प्राप्य लब्धा विमुह्यति न मोहं प्राप्नोति स्थित्वास्यां स्थितौ ब्रायां यथो- क्तायामन्तकालेऽन्ते वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिवृतिं मोक्षमृच्छति, किमु वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाण- मृच्छतीति ॥७२॥इति श्रीमच्छंकरभगवतः कृतौ गो ताभाष्ये द्वितीयाध्यायः॥२॥ आ० टी० । तत्र तत्र संक्षेपविस्तराभ्यां प्रदर्शितां ज्ञाननिष्ठामधिकारिप्रवृत्त्यर्थत्वेन स्तो- तुमुत्तरश्लोकमवतारयति सैपेति । गृहस्थः संन्यासीत्युभावपि चेन्मुक्तिभोगिनौ किं तर्हि कष्टेन सर्वथैव संन्यासनेत्याशय संन्यासिव्यतिरिक्तानामन्तरायसंभवादपेक्षितः संन्यासो मुमुक्षोरित्याह एषेति । स्थितिमेव व्याचष्ट सर्वमिति । न विमुह्यतीति पुनर्नोऽनुकर्षणमन्वयार्थ संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति विक्षिप्तः मन् परमार्थविवेकरहितो भवतीत्यर्थः । यथो- ता ब्राह्मी स्थितिः सर्वकर्मसंन्यामपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमामायुषश्चतुर्थेऽपि भागे तृतीयाध्यायः । कृत्वेत्यर्थः । अपिशब्दमूचितं कैमुतिकन्यायमाह किम वक्तव्यमिति । तदेवं तत्त्वंपदार्थों तदैक्यं वाक्यार्थस्तज्ज्ञानादेकाकिनो मुक्तिस्तदुपायश्चेत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठा- द्वयमुपायोपेयमतमध्यायेन सिद्वम् ॥ ७२ ॥इत्यान्दगिरिकतटीकायां द्वितीयाध्यायः ॥ २ ॥ प० टी० । अथोपसंहरन्नाह एषेति । एषोक्तलक्षणा ब्राह्मी स्थितिब्रह्माकारेणावस्थितिरुप- न्यस्ता । एनां प्राप्य न मुह्यति पुनर्मोहं न प्राप्नोति अस्यामन्तकाले देहावसाने क्षणं स्थित्वापि ब्रह्मनिर्वाणमृच्छति प्राप्नोति किं पुनर्यावज्जीवमित्यर्थः ।। ७२ ॥ अथाध्यायतात्पर्यम् । शोको देहात्मबुद्धया ननु भवति मृषा येन देहातिरिक्तो देहद्रष्टैक आत्मा विभुरनुाहतो हन्तृहन्यत्वशून्यः । तस्य ज्ञानान्न शोकस्तदिह निजमनःशुद्धितः सा स्व- धर्माद्वेदोक्तः स द्वितीये भृशमिममवदत्सांख्ययोगाधिकारम् ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविर- चितायां श्रीमद्भगवद्गीताटीकायां परमार्थप्रपायां सांख्ययोगो नाम द्वितीयोऽध्यायः ॥ २ ॥ इति द्वितीयोऽध्यायः। अथ तृतीयाध्यायः। ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ॥ तत् किं कर्मणि घोरे मां नियोजयसि केशव॥१॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ॥ तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥ शास्त्रस्य प्रतिनित्तिविषयभूते हे बुद्धी भगवता निर्दिष्टे सांख्यबुद्धिर्यो- गेवुद्धि , तत्र प्रजहाति यदा कामानित्यारभ्याध्यायपरिसमाप्तेः सांख्यबुद्दया. श्रितानी संन्यास कर्तव्यमुक्त्वा तेषां तनिष्ठतयैव च कृतार्थतोक्ता एषा ब्राह्मी स्थितिरिति, अर्जुनाय च 'कर्मण्येवाधिकारस्ते' 'मा ते संगोऽस्त्वकर्मणि' इति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य, तत एव श्रेयःप्राप्तिमुक्तवान्, तदेतदालक्ष्य पर्याकुलीभूतबुद्धिरर्जुन उवाच । कथं भक्ताय श्रेयोऽर्थिने यत् आ० टी० । पूर्वोत्तराध्याययोः संबन्धं पूर्वस्मिन्नध्याये वृत्तमर्थं संक्षिप्यानुवदति शास्त्र- स्यति । गीताशास्त्रप्रारम्भापेक्षितं हतफलभृतं बुद्धिद्वयं भगवतोपदिष्टमित्यर्थः । प्रष्टुरर्जुनस्याभि- प्रायं निर्देष्टुं वृत्तमर्थान्तरं कथयति तत्रेति । अध्याययोर्बुद्धिद्वयनिर्धारणं वा सप्तम्यर्थः, पारमार्थिके तत्त्वे तज्ज्ञानं तन्निष्ठानामशेषकामत्यागिनां काममूलानां कर्मणामपि प्रतिपत्तिकर्मवत्त्यागं कर्तव्य- त्वेन भगवानुक्तवानित्यर्थः । तथापि मोक्षसाधने विकल्पसमुच्चययोरन्यतरस्य विवक्षितत्वबुद्धया सम- नन्तरप्रश्नप्रवृत्तिरित्याशङ्कयाह उक्तेति । अर्जुनस्य मनसि व्याकुलत्वं प्रश्नबीजं दर्शयितमुक्तमर्था- न्तरमनुभापते अर्जुनाय चेति । सांख्यबुद्धिमाश्रित्य कर्मत्यागमुक्त्वा पुनस्तस्यैव कर्तव्यत्वं कथं मि- थो विरुद्धं ब्रवीतीत्याशङ्कयाह योगेति । यथा सांख्यबुद्धिमाश्रितानां संन्यासद्वारा तनिष्ठानां कृतार्थतोक्ता तथा योगबुद्धिमाश्रत्य कर्म कुर्वतोऽपि कृतार्थत्वमुक्तमित्याशङ्कयाह न तत एवेति । ट्रेण ह्यवरं कर्म बुद्धियोगादिात दर्शनादिति शेषः । बुद्धिव्याकलत्वं प्रश्नबीजं प्रतिलभ्य प्रश्नं करोतीत्याह तदेतदिति । साक्षादेव श्रेयःसाधनं ज्ञानमन्येभ्यो दर्शितं तदित्युच्यते, तद्विपरीतं कर्म न . १२ १. श्रीमद्भगवद्गीता- साक्षाच्छ्रेयःप्राप्तिसाधनं सांख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टादृष्टाने- कानर्थयुक्ते पारंपर्येणाप्पनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यादिति युक्तः पर्या- कुलीभावोऽर्जुनस्य, तदनुरूपश्च प्रश्नो ज्यायसी चेदित्यादिः' प्रश्नापाकरण- वाक्यं च भगवता "क्तं यथोक्तविभागविषये शास्त्रे । केचित्त्वर्जुनस्यै प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति, यथा चात्मना संबन्धग्रन्थे गीतार्थों निरूपितस्तत्प्रतिकूलं चेह पुनः प्रश्नप्रतिवच- नयोरर्थ निरूपयन्ति । कथं, तत्र संबन्धग्रन्थे तावत् सर्वेषामाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निरूपितोऽर्थ इत्युक्तं पुनविशेषितं च यावज्जीवं श्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानान्मोक्षः प्राप्यत इत्येतदेकान्ते- नैव प्रतिषिद्धमितीह त्वाश्रमविकल्पं दर्शयता यावज्जीवं श्रुतिचोदितानामेव स्वस्या नुध्यत्वेनोक्तमेतदिति निर्दिश्यते, भगवदुक्केऽर्थे संदिह्यमानस्य निणयाका या प्रश्नप्रवृत्तेरस्ति पूर्वोत्तराध्याययोरुल्थाप्योत्थारकलक्षणा संगतिरित्यर्थः । अर्जुनत्य प्रश्ननिमित्तं पर्याकुलत्वं प्रश्नपूर्वकं प्रप- चयति कथमिसादिना । यद्धि माक्षादेव श्रेयःसाधनं सांख्यशब्दितं परमार्थतत्त्वविश्यबुद्धी निष्ठा- रूपं तदन्यस्मै श्रेयोऽथिने भक्ताय श्रावयित्वा मां पुनरभक्तमयोऽथिनमिव कर्मणि पर्वोक्तविरीते कथं भगवान्नियोकुमर्हतीत्यर्जुनस्य पर्याकुलीभावो युक्त इति संबन्धः । ज्ञाननिष्टातो वैधरीत्यं रफो- रयितुं कर्म विशिनष्टि दृष्टेति । युद्धे हि क्षत्रकर्मणि दृष्टोऽनकोऽनों गुरुभ्रातहिमादिस्तेन संबन्धेन बुद्धिशुद्धिद्वाराऽपि वर्तमाने जन्मन्येव फलमित्यनियत मम भक्तस्य श्रयोऽथिना नियोगो भगवता युक्तो न भवतीति शेषः । यथोक्तं निमित्तं प्रश्नस्य युक्तं तदनगणल्वात्तस्यति धोतकमाह तदनुरूप- वेति । ज्ञाननिष्ठानां कृतार्थतया कर्मनिष्टानां तु न तथेत्युक्ते विभागभागि शास्त्रमित्यत्र लाकऽस्मि- नित्यादिवाक्यस्यापि द्योतकत्वं दर्शयति प्रश्नेति । साक्षादेव श्रेयःगायनमन्येभ्यो भगवतोतं न तु मद्यमिति मत्वा व्याकुलीभूतः सन् एच्छतीति स्वाभिप्रायेण मंबन्ध मुक्त्वा वृत्तिकागभिप्रायं दृष- यति केचिचिति । ज्ञानकर्मणोः समुच्चयमवधारयितुं प्रश्नाङ्गाकार समुच्चयावधारणनैव प्रतिवचन- मुचितं न तथा भगवता प्रतिवचनमुक्तं तथा च प्रश्नस्य समुच्चयविषयत्वावगमात् प्रत्युतश्चासमुच्च- यविषयत्वात्तयोमिथो विरोधो वृत्तिकारमते स्यादित्यर्थः । किं च केवलं प्रश्नप्रातवचनयोरेव परमते पर- स्परविरोधो न भवत्यपि तु परेषां स्वग्रन्थेऽपि पूर्वापरविरोधोऽस्तीत्याह यथा चेति । आत्मना वृत्ति- कारोरेति यावत्, संबन्धग्रन्यो गीताशास्त्रारम्भापोदातः । इहेति । तृतीयाध्यायारम्भं परामृशति । तदेव विवृण्वन्नाकाङ्क्षामाह कथमिति । पूर्वापरविरोधं स्फोरयितुं संबन्धग्रन्थोक्तमर्थमनुवदति तत्रेति। परकीया वृत्तिः सप्तम्या समल्लिख्यते, संबन्धग्रन्थे तावदयमर्थ उक्त इति संबन्धः । तमेवार्थ विशद- यति सर्वेषामिति । सर्वकर्मसंन्यासपूर्वकज्ञानादेव केवलात् कैवल्यमित्यस्मिन्नथे शास्त्रस्य पर्यवसानान्न समुच्चयो विवक्षितस्तत्रेयाशङ्कयाह पुनरिति । उक्तो गीतार्थी वृत्तिकाररेव कर्मत्यागायोगेन विशेषित- त्वान्नाविवक्षितो भावेतुमुत्सहते तथा च श्रीतानि कर्माणि त्यक्त्वा ज्ञानादेव केवलान्मुक्तिर्भवतीत्येतन्म- तं नियमेनैव यावज्जीवश्रुतिभिर्विप्रतिषिद्धत्वान्नाभ्युपगन्तुमुचितमित्यर्थः । तथापि कथं मिथो विरोध- धीरेत्याशङ्कयाह इह त्विति । प्रथमतो हि संबन्धग्रन्थे समुच्चयो गीतार्थः प्रतिपाद्यत्वेन वृत्तिकृता १ भगवतो-पा० मु० पु० । २ युक्त तृतीयाध्यायारम्भे एवं यथोक्तविभागविषये शास्त्रे सात केचिदर्जुनस्ये ति-पा० १ लि. पुस्तके।

तृतीयाध्यायः । कर्मणां परित्याग उक्तः, तत् कथमीदृशं विरुद्धमर्थमर्जुनाय ब्रूयाद्भगवान्, श्रोता वा कथं विरुद्धमर्थमवधारयेत् । ततेतत् स्यादृगृहस्थाना- मेव श्रोतकर्मपरित्यागेन केवलादेव ज्ञानान्मोक्षः प्रतिषिध्यते न वाश्र- मान्तराणामित्येतदपि पूर्वोत्तरविरुद्धमेव, कथं, सर्वाश्रमिणां ज्ञानकर्मणोः समु- चयो गीताशास्त्रे निश्चितोऽर्थ इति प्रतिज्ञायेह कथं तबिरुद्धं . केवलादेव ज्ञा- नान्मोक्षं ब्रूयादाश्रमान्तराणाम् । अथ मतं, श्रौतकर्मापेक्षयतहचनं केवलादेव ज्ञानाच्छौतकर्मरहितागृहस्थानां मोक्षः प्रतिषिध्यत इति, तत्र गृहस्थानां विद्यमानमपि स्मात कर्माविद्यमानवदुपेक्ष्य ज्ञानादेव केवला इत्युच्यते, इत्येत- दपि विरुद्धं, कथं गृहस्थस्यैव स्मार्तकर्मणा समुच्चिताज्ज्ञानान्मोक्षः प्रति- पिध्यते न त्वाश्रमान्तराणामिति कथं विवेकिभिः शक्यमवधारयितुम् । प्रतिज्ञातः श्रौतकर्मपरित्यागश्च श्रुतिविरोधादेव न संभवतीत्युक्तं तृतीयाध्यायारम्भे पुनः संन्यासिनां ज्ञाननिष्ठा कर्मिणां कर्मानछेत्याश्रमविभागमभिदधता पूर्वप्रतिषिद्धकर्मत्यागाभ्युपगमान्मिथो विरोधो दर्शितः स्यादित्यर्थः । ननु यथा भगवता प्रतिपादितं तथैव वृत्तिकता व्याख्यातमिति न तस्यापरा- धोऽस्तीत्याशङ्कयाह तत् कामति । न हीह भगवान् विरुद्धमर्थमभिधत्ते सर्वज्ञस्य परमाप्तस्य विरुद्धार्थवादित्वायोगात् किंत तदभित्रायापरिज्ञानादेव व्याख्यातुर्विरुद्वार्थवादितेत्यर्थः । भगव- तो विरुद्धार्थवादित्वाभावऽपि श्रोतुर्विरुद्धार्थप्रतिपत्ति प्रतीला व्याचक्षाणो वृत्तिकारो नापरा- ध्यतीत्याशङ्कयाह श्रोता ति । अर्जुनो हि श्रोता सोऽपि बद्धिपूर्वकारी भगवदक्तमेवाव- धारयन्न विरुद्धमर्थमवधारयितुमर्हति तथा च परस्यैव विरुद्धार्थवादितेत्यर्थः । विरोधं परि- हरन्नाशङ्कते तत्रति । संबन्ध ग्रन्थे हि वृत्तिकारस्यैतदभिप्रतं गृहस्थानामेव सतां परिपक्वज्ञानमन्तरण यावज्जीवश्रुनिचादितामिहोत्रादित्यांगन केवलादवापातिकादात्मज्ञानान्मोक्षमवेक्ष्यमाणानां यावज्जी- वादिशास्त्रैरमी निषिध्यत न तु स्वरूपेणैव कर्मत्यागो ज्ञानान्माक्षो वा निपेडुमिप्यते तृतीये पुनरध्या- ये कर्मत्यागिनां गृहस्थम्या व्यातिरिक्तानामेव केवलादात्मज्ञानान्भाक्षो विवक्ष्यतऽतो भिन्नविषयत्वा- निषेधाभ्यनुज्ञानयोन विराधाशकत्यर्थः । विरोधान्तरेण विराधं दर्शयन्नुत्तरमाह एनदपीति । विरोध- मेवाकाङ्क्षाद्वारा साधयति कथमित्यादिना । श्रोतं कर्म गृह स्थानामवश्यमनुष्यमित्यनेनाभिप्रायेण तेषां केवलादात्मज्ञानान्माक्षो निषिध्यत न तु गृहस्थानां ज्ञानमात्रायत्तं मोक्षं प्रतिषिद्धान्येषां केवल- ज्ञानाधीनो मोक्षो विवक्ष्यते आश्रमान्तराणामपि स्मार्तन कर्मणा समच्चयाभ्युपगमादिति चोदयति अथेति । एतत्पदपगमृष्टं वचनमवाभिनयति केवलादिति । नन गृहस्थानां श्रौतकर्मराहित्येऽपि सति स्माते कर्मणि कुतो ज्ञानस्य केवलत्वं लभ्यत यन निषधोक्तिरर्थवती तत्राह तत्रात । प्रतवचनमेव सप्तम्यर्थः, प्रधानं हि श्रौतं कर्म तद्राहित्ये सति स्मार्तस्य कर्मणः सतोऽप्यसनावमभिप्रेत्य ज्ञानस्य केवलत्वमुक्तमिति युक्ता निषेधोक्तिरित्यर्थः । गृहस्थानामेव श्रोतक समुच्चयो नान्येषाम्, अन्येषां तु स्मातेनेति पक्षपाते हेत्वभावं मन्वानः सन परिहरति एतदपीति । तमेव हेत्वभावं प्रश्नहारा वि- कृणोति कमियादिना । गृहस्थानां श्रौतस्मातकर्मसमुच्चितं ज्ञानं मुक्तिहेतुरित्यभ्युपगमात् केवलस्मा- तकर्मसमुच्चितात्ततो न मुक्तिारति निषेधो यज्यते ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मु- क्तिरिति विभागे नास्ति हेतुरित्यर्थः । पक्षपाते कारणं नास्तीत्युक्त्वा पक्षपातपरित्यागे कारणमरती- ९२ श्रीमद्भगवद्गीता- किं च यदि मोक्षसाधनत्वेन स्मार्तानि कर्माण्यूर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थ- स्यापीष्यतां स्मार्तेरेव समुच्चयो न श्रीतैः । अथ श्रौतैः स्मातैश्च गृहस्थस्यैव समुच्चयो मोक्षायोर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मोक्ष इति, तत्रैवं सति गृहस्थस्यायासबाहुल्याच्छीतं स्मार्तं च बहुदुःवरूपं कर्म शिरस्या- रोपितं स्यात् । अथ गृहस्थस्यैवायासबाहुपकारणान्मोक्षः स्यान्नाश्रमान्त- राणां श्रीतनित्यकर्मरहितत्वादिति, तदप्यसत्, सर्वोपनिषत्स्वितिहासपुराण- योगशास्त्रेषु च ज्ञानाइत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानादाश्रमविकल्पसमु- चयविधानाच्च श्रुतिस्मृत्योः, सिद्धस्तार्ह सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो न मुमुक्षोः सर्वकर्मसंन्यासविधानात् ,“ पुत्रैपणाया वितैषणायाश्च लोकैषणा- याचे व्युत्थायाथ भिक्षाचर्य चरन्ति, "तस्मात् संन्यासमेषां तपसामतिरिक्त- माहुंन्यास एवात्यरेचयत्” इति “न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमा. त्याह किं चेति । गृहस्थानामपि ब्रह्मज्ञानं स्मतिरेव कर्मभिः समुच्चितं मोक्षसाधनं ब्रह्मज्ञानत्वा- दूर्ध्वरेतःसु व्यवस्थित ब्रह्मज्ञानवदिति पक्षपातत्यागे हेतुं स्फटयति यदीत्यादिना । यदि गृहस्थानां ब्रह्मज्ञानं स्मातैरेव कमभिः समुच्चितं तदीयं ज्ञानं मोक्षस्य हेतुरिति विवक्षितं तदा तान् प्रति या- वज्जीव श्रुतिर्विरुध्येत, यदि स्मारपि कर्मभिः समुच्चितं तदीयं ज्ञानं मोक्षसाधनं विवक्षितं तदा सिद्धसाध्यतेति प्रागुक्तमभिप्रेत्य चोदयति अथेति । आश्रमान्तराणां तर्हि केवलादेव ज्ञानान्मुक्ति- रिति प्रागुक्तविरोधतादवस्थ्यमित्याशङ्कयाह ऊर्ध्वरेतसां त्विति । यथोक्ते विभागे गाई- स्थ्यं क्लेश लकं कर्म बाहुल्यादनु गदेयमापद्यतेति दूषयति तत्रेति । साधनभूयस्त्वमिति न्यायमाश्रि- त्य शङ्कते अथेति । क्लेशबाहुल्योपेतं श्रोतं स्मार्तं च बहु कर्म तस्थानुष्टानादृहत्थस्य मोक्षः स्यादे- वेत्यर्थः । एवकारानिरस्यं दर्शयति नाश्रमान्तराणामिति।तेषां नास्ति मुक्तिरित्यत्र यावज्जीवादिश्रुतिवि- हितावश्यानुष्ठेयकर्मराहित्यं हेतुं सूचयति श्रौतेति । शास्त्रविरोधे न्यायस्य निरवकाशत्वमभिप्रेत्य दृषयति तदपीते । ऐकाश्रम्यस्मृत्या गार्हस्थ्यस्यैव प्राधान्यादनधिकतान्धादिविषयं कर्मसंन्यासीवधान- मित्याशङ्कयाह ज्ञानाङ्गत्वनेति । न खल्वनधिसतानामन्धादीनां संन्यासः श्रवणाद्यावृत्तिद्वारा ज्ञानाङ्गं भक्तुिमलं तेषां श्रवणाद्यभ्याससामर्थ्यादतः श्रुत्यादीनां विरोधे नास्ति गार्हस्थ्यस्य प्राधान्य- मित्यर्थः । तस्य प्राधान्याभावे हेत्वन्तरमाह आश्रमेति । "ब्रह्मचर्य समाप्य गृही भवेद् गृहाहनी भूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रबनेगृहावा वनाद्वा” इति श्रुतौ तस्याश्रमविकल्पमेके ब्रुवत इति यमिच्छेत्तमावसेदित्यादिस्मृतौ चाश्रमाणां समुच्चयेन विकल्पेन चाश्रमान्तरमिच्छन्तं प्रति वि- धानान्न गार्हस्थ्यस्य प्रधानत्वमित्यर्थः । यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं तर्हि तत्तदाश्रम- विहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते सिद्धस्तीति । यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं तथापि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षतेऽन्यथा संन्यासविध्यनुप- पत्तेरिति दूषयति न मुमुक्षोरिति । विधानमेवानुक्रामति व्युत्थायेसादिना । एषणाभ्यो वैमु- ख्येनोत्थानं तत्परित्याग आश्रमसंपत्त्यनन्तरं तत्र विहितकर्मकलापानुष्ठानमपि कर्तव्यमित्याह अथे- ति। प्रागुक्तानां सत्यादीनामल्पफलत्वान् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह तस्मादिति। अ. १- पुत्रैषणाया वित्तषणायाध लोकैषणायाश्च इति लि० पु. नास्ति । २ न्यास इति ब्रह्मन्यास एवात्यरेचय दिति लि..२ पु० आधिकाम् ।

तृतीयाध्यायः। औरयामृतका नशुः" इति च " ब्रह्मचर्यादेव प्रव्रजेत्” इत्याद्याः श्रुतयः, 'त्यज धर्ममध- मैं च उभे सत्यानृते त्यज, येन त्यजसि तं त्यज, ' 'संसारमव निःसारं दृष्ट्वा सारदिदक्षया । प्रव्रजन्त्यकृतोहाहाः परं वैराग्यमाश्रिताः' इति बृहस्प- तिः, परमात्मनि यो रक्तो योऽरक्तोऽपरमात्मनि । सर्वैषणाविनिर्मुक्तः स भक्ष्यं भोक्तुमर्हति,' 'कर्मणा बध्यते जन्तुविद्यया च विमुच्यते । तस्मात् कर्म न कु- वन्ति यतयः पारदर्शिनः' इति शुकानुशासनम् इहापि च सर्वकर्माणि मनसा संन्यस्येत्यादि, मोक्षस्य चाकार्यत्वान्मुमुक्षोः कर्मानर्थक्यं, नित्यानि प्रत्यवाय- परिहारार्थानीति चेत्, न असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः न ह्यग्निकार्याद्य- करणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणामसंन्या- सिनामपि न तावनित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्योत्पत्तिः कल्पयितुं शक्या,(युक्ता च कथमसतः सज्जायतेत्यसतः सज्जन्मासंभवश्रुतेः, यदि विहिताकरणाद संभ · व्यमपि प्रत्यवायं ब्रूयाद्देदस्तदानर्थकरो वेदोऽप्र- तिरिक्तमतिशयत्वं महाफलमिति यावत् । प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवानासीदित्युक्तेऽर्थे वाक्यान्तरं पठति न्यास एवेति । लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद्विरक्ताः संन्यासपूर्वका- दात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह न कर्मणेति । सति वैराग्ये नास्ति कर्मापेक्षा सत्यां सामन्यां कार्यापेक्षानुपपत्तेरित्याह ब्रह्मचर्यादेवेति । इत्याद्याः सर्वकर्मसंन्यासविधायिन्यः श्रुतयो भवन्तीति शे- 'पः। आत्मानमेव लोकमिच्छन्तः प्रव्रजन्तीत्यादिवाक्यसंग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति स- जेति । धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भकत्वान्ममुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः । त्यक्तत्वा- भिमानस्यापि तत्त्वतः स्वरूपसंबन्धाभावात् त्यज्यत्वमविशिष्टमित्याह येनेति । अनु- भवानुसारेण प्रमातृताप्रमुखस्य संसारस्य दाखफलत्वमालक्ष्य मोक्षहेतुसम्यगज्ञानसिद्धये ब- ह्मचर्यादेव पारिवाज्यमनुठेयमित्युत्पत्तिविधिमपन्यस्यति संसारमिति तत्त्वज्ञानमु. दिश्य ब्रह्मचर्यादेव कर्मसंन्यासे सामग्रीमभिदधानो विनियोगविधि सूचयति परमिति । ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति कर्मणेति । उक्तं फलविभागमनूद्य ज्ञान- निष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह तस्मादिति । वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽरती- त्याह इहापीति । ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुञ्चयविधिवचनमित्युक्तमिदानी मोक्षस्वभावालोचनयापि समुच्चयवचनमनुचितमित्याह मोक्षस्य चेति । 'अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसनश्चेन्द्रियार्थेषु नरः पतनमृच्छति' इति स्मृतेः। मुमुक्षणामपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते नित्यानीति । यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः संभवतीति दूषयति नासंन्यासीति । तदेव स्पष्टयति न हीति । समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः । तत्र व्यतिरे- कोदाहरणमाह यथेति । अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं संप्रति प्रतिषिद्धकरणादेव प्रत्य- वायो न त्वकरणादभावागावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह न तावदिति । ननु नित्यकर्मवि- धायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति तत्कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमा- श्रित्योच्यते श्रुत्यन्तरविरोधादिति तत्राह यदीति । विहितस्याकरणे सत्यनर्थप्राप्तेर्न नित्यकर्मविधायी ।

श्रीमद्भगवद्गीता- माणमित्युक्तं स्यात्, विहितस्य करणाकरणयोर्दुःखमात्रफलत्वात्तथा च का- रकं शास्त्रं न ज्ञापकमित्यनुपपन्नाथै कल्पितं स्यात् न चैतदिष्टं तस्मान्न संन्या- सिनां कर्माण्यतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः, 'ज्यायसीचेत् कर्मणस्ते म- ता बुद्धिः' इत्यर्जुनस्य प्रश्नानुपपत्तेश्च । यदि हि भगवता हितीयेऽध्याये ज्ञान कर्म च त्वयैकेनानुष्ठेयमित्युक्त स्यात् ततोऽर्जुनस्य प्रश्नोऽनुपपन्नो ज्यायसी चेत् कर्मणस्ते मता बुद्धिरित्यर्जुनाय चेत् बुद्धिकर्मणी त्वयानुष्ठेये इत्युक्ते या कर्मणो ज्यायसी बुद्धिः साप्युक्तैवेति 'तत् किं कर्मणि घोरे मां नियोज- यसि केशव' इत्युपालम्भो वा प्रश्नो वा न कथंचनोपपद्यते, न चार्जुनस्यैव ज्यायसी बुद्धिर्नानुष्ठेयेति भगवतोक्तं पूर्वमिति कल्पयितुं युक्तं येन ज्यायसी चेदिति प्रश्नः स्याद्, यदि पुनरेकस्य पुरुषस्य ज्ञानकर्मणोविरोधा- वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्कयाह विहितस्योत । न हि विहितल्य करण पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते धूमादिना नयनपीडादि दुःखं तु प्रत्यक्षमेवाकरणे च प्रत्यवायोत्पत्तिरुभ यथापि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः । नन्वभावत्यापि भावोत्पादनसामर्थ्य वेदः संपाद- यिष्यति तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरण फलिप्यतीति नत्याह तथा चेति । लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकाराद पूर्वशवत्वाधानायोगा-ज्ञापकमेव शास्त्रमित्य- र्थः । कारकत्वे च तस्याप्रामाण्यमप्रत्यहं स्यादित्याह कारकमिति । भवतु शास्त्रत्याप्रामाण्यमित्या- शङ्कचापौरुषेयतया दंपणागन्धितत्वान्मैवमित्याह न चीत । अनिर्वाच्यानुपलम्भस्य संवेदनमभाव- ज्ञाने कारणं समीहितसाधनज्ञान तु चरणन्यामादि प्रवृत्तिकारणमित्यङ्गीकापसहरति तस्मादिति । अकरणात् प्रत्यवायोत्पत्त्यसंभवस्तच्छदार्थः । संन्यामिना ज्ञाननिशानां कर्मसंन्यामित्वादेव कर्मासं- भवे फलितमाह अत इति । समुच्चयानपपत्तौ हत्वन्तग्माह ज्यायसीति । प्रभानुपपत्तिमेव प्रपञ्च- यति यदि हीति । समुच्चयोपदश प्रश्देशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह अर्जुनायति । 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इत्यर्जुनं प्रत्य देशात्तं प्रति ज्यायसी बुद्धि क्तिति युक्तं तत्किमित्याधुपालम्भवचनामित्याशङ्कयाह न चति । येन कल्पनेन उयायसी चेदित्यारभ्य तत् किं कर्मणात्युपालम्भात्मा प्रश्नः स्यात्तथा न युक्तं कल्पयितुम् ‘एपा तेऽभिहिता साङ्ख्ये बुद्धिः' इति वचन- विरोधाादात योजना । कस्मिन् पक्षे तार्ह प्रश्नत्यापपत्तिरित्याशङ्कयाह यदीति । भगववक्तेऽर्थे प्रष्टु- विवेकाभावात् प्रश्नः स्यादित्याशङ्कय पूर्वोक्तमेवाधिकं विवक्षया स्मारयति अविवेकत इति । भग- वतोऽपि प्रतिवचनमज्ञानानिमित्तं प्रश्नाननुरूपत्वादित्याशझ्याधिकं दर्शयति न चेति । भगवतः सर्व- ज्ञत्वप्रसिद्धिविरोधादज्ञानाधीनप्रतिवचनायोगादित्यर्थः । इतश्च समुच्चयः शास्त्रार्थो न भवतीत्याह अस्माचेति । कस्तहि शास्वाथी विवक्षितम्तबाह केवलादिति । ज्ञानकर्मणोः समच्चयानुपपत्तौ का- रणान्तरमाह ज्ञानेति । वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह कुरु कमवेति । प्राथमिकेन संबन्धअन्येन समस्तशास्त्रार्थसंग्राहकेण तद्विचारणात्मनोऽम्य संदर्भस्य नास्ति पौनरुक्त्यमिति मत्वा प्रतिपदं व्याख्यातुं प्रभैकदेशं समुत्थापयति ज्यायसी चेदिति । वेदाश्चेत् प्रमाणमिति वदेदित्यस्य निश्चयार्थत्वं व्यावर्तयति यदिति । बुद्धिशब्दस्यान्तःकरणविषयत्वं व्यवच्छिनत्ति ज्ञानमिति । पूर्वार्धस्याक्षरयोजनां कृत्वा समुच्चयाभावे तात्पर्यमाह यदीति । इष्टे भगवंतेति शेषः, एकं ज्ञानं १ ममुच्चयं न त्वयै लि., पु. ना. | २ दोपानागन्धितत्वात् --मु० पु० ।

तृतीयाध्यायः । युगपदनुष्ठानं न संभवतीति भिन्न पुरुषानुष्ठेयत्वं भगवता पूर्वमुक्तं स्यात् ततोऽ- यं प्रश्न उपपन्नो ज्यायसी चेदित्यादिरविवेकतः प्रश्नकल्पनायामपि भिन्नपुरु- पानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते, न चाज्ञाननिमित्तं भगवत्प्रतिवच. नं कल्पनीयम्, अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोर्भगवतः प्रति- वचनदर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः, तस्मात् केवलादेव ज्ञानान्मोक्ष इत्येषोऽथों निश्चितो गीतासु सर्वोपनिषत्सु च, ज्ञानकर्मणोरेकं वद निश्चि- त्येति चैकविषयेव प्रार्थनानुपपन्नोभयोः समुच्चयसंभवे, कुरु कर्मैव तस्मात्त्व- मिति च ज्ञाननिष्ठासंभवमर्जुनस्यावधारणेन दर्शयिष्यति ज्यायसी चेदिति । ज्यायसी चेद्यदि कर्मणः सकाशाते तव मताभिप्रेता बुद्धिर्ज्ञानं हे ज- नार्दन यदि बुद्धिकर्मणी समच्चिते इष्टे तदेकं श्रेयःसाधनर्मिति कर्मणो ज्याय- सी बुद्धिरिति कर्मणोऽतिरिक्त करणं बुद्धेरनुपपन्नमर्जुनेन कृतं स्यान्न हि तदेव तस्मात् फलनोऽतिरिक्तं स्यात् तथाच कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिरश्रेयस्करं च कर्म युधिति मां प्रतिपादयति , तत् किं नु कारणमिति भ- गवत उपालम्भमिव कुर्वन् तत् किं कस्मात् कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशवेति च यदाह तच्च नोपपद्यते ॥ १ ॥ अथ स्मातेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तोऽर्जुनेन चावधारि- तश्चेत् तत् किं कमणि बोरे मां नियोजयसीत्यादि कथं वचनं, किं च व्या- मिश्रेणेति । व्यामिश्रेणेव यद्यपि विविक्ताभिधायी भगवांस्तथापि मम कर्मासमुचितमिति यावत, ज्ञानकणारभीष्ट समुच्चये समुचितस्य श्रेयःसाधनस्यैकत्वात् कर्मण सकाशाज्ज्ञानस्य एथक्करणमयसमित्यर्थः । एकमपि साधनं फलतोऽतिरिक्तं किं न स्यादित्याशङ्कया ह न हीति । न च केवळात कर्मणो ज्ञानस्य केवलस्य फलतोऽतिरिक्तत्वं विवक्षित्वा पृथक्करणं समुच्चयपक्षे प्रत्येकं श्रेयःसाधनत्वानभ्युपगमादिति भावः । पूर्वार्थस्येवोतरार्धस्यापि समञ्चयपक्षे तु- ल्यानुपपत्तिरित्याह तथेति । दूग्ण ह्यवरं कर्मेत्यत्र कर्मणः सकाशाद् बुद्धिः श्रेयस्करी भगवतोक्ता कर्म च बुद्धेः सकाशाद श्रेयस्करमुक्तं तथापि तदेव कर्म कर्मण्येवाधिकारस्ते मा फलेप्विति स्निग्धं शिष्यं भक्तं च मां प्रति कुर्विति भगवान् प्रतिपादयति तत्र कारणानुपलम्भादयुक्तमतिरे कर्मणि भगवतो मन्नियोजनमिति यदर्जुनो ब्रवीति तच्च समुच्चयपक्षेऽनुपपन्नं स्यादित्यर्थः ॥ १ ॥ आ० टी० । यत्तु वृत्तिकारैरुक्तं श्रौतेन स्मातेन च कर्मणा समुच्चयो गृहस्थानां श्रेयःसाधन- मितरेषां स्मातेनैवेति भगवतातमर्जनेन च निर्धारितमिति तदेतदनुवदति अथेति । तत्रापि तत् कि- मित्याधुपालम्भवचनमनुपपन्नं कर्ममात्रममुच्चयवादिनो भगवतो नियोजनाभावादिति दुपयति तत् किमिति । इतश्च प्रश्नः समुच्चयानुसारी न भवतीत्याह किं चेति। भगवतो विविक्तार्थवाादेत्वादयुक्तं व्यामिश्रेणेत्यादिवचनामत्याशङ्कयाह यद्यपीति । यदि भगवद्वचनं संकीर्णमिव ते भाति तर्हि तेन त्वदीयबुद्धिव्यामोहनमेव तस्य विवक्षितमिति किमिति मोहयसीवेत्युच्यते तत्राह ममेति । ज्ञानकर्म- श्रीमद्भगवद्गीता- मन्दबुर्व्यािमिश्रमिव भगवद्दाक्यं प्रतिभाति तेन मम बुद्धिं मोह- यतीवेति, मम बुद्धिव्यामोहापनय य हि प्ररत्तस्त्वं कथं मोहयस्य- तो ब्रवीमि बुद्धिं मोहयसीवेति तत्र* भिन्नकर्तृकयो नकर्मणोरेकपुरुषानुष्ठा- नासंभवं यदि मन्यसे तत्रैवं सति तत्तयोरेकं बुद्धिं कर्म वेदमेवार्जुनस्य यो- ग्यं बुद्धिशक्यवस्थानुरूपमिति निश्चित्य वद ब्रूहि येन ज्ञानेन कर्मणा वान्यतरेण श्रेयोऽहमाप्नुयां प्राप्नुयाम् । यदि हि कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवतोक्तं स्यात्तत् कथं तयोरेकं वदेत्येकविषयैवार्जुनस्य शुश्रूपा स्यान हि भगवतोक्तमन्यतरदेव ज्ञानकर्मणोर्वक्ष्यामि नैव इयमिति ये- नोभयप्राप्त्यसंभवमात्मनो मन्यमान एकमेव प्रार्थयेत् ॥ २ ॥ णोमियो विरोधाद्युगपदेक पुरुषाननुष्ठयतया भिन्नकर्तृ के कथ्येते तथा च तयोरन्यतरस्मिन्नेव त्वं नियुक्तो न तु ते बुद्धिव्यामोहनमभिमतमिति भगवतो मतमनुवदति समिति । तदेकमित्यादिश्लोकार्थेनोत्तरमाह त- त्रेति। उक्त भागवतमतं सप्तम्या परामृश्यते एकमित्युक्तप्रकाराोक्तः । एकमित्युक्तमेव स्फुटयति बुद्धिमि- ति। निश्चयप्रकारं प्रकटयति इदमिति । योग्यत्वं स्पष्टयति बुद्धीति । अस्य हि क्षत्रियस्य सतोऽन्तःकर- णस्य देहशक्तेः समरसमारम्भावस्थायां चेदमेव ज्ञानं कर्म वानुगुणमिति निर्धार्य बृहीत्यर्थः । निश्चि- त्यान्यतरोक्तो तेन श्रोतः श्रेयोऽवाप्तिफलमाह येनेति । तदेकमित्यादिवाक्यस्याक्षरोत्थमर्थमुक्त्वा समु- च्चयस्य शास्त्रार्थत्वाभावे ताप्तर्यमाह यदि हीति । गुणभूतमपीत्यादिना प्रधानभूतमपि चेति वि- वक्षितं न तूभयप्राप्त्यसंभवमात्मनो मन्यमानस्यार्जुनस्यान्यतरविपया शुश्रूषा भविष्यति नेत्याह न हीति । यथोक्तभगवद्वचनाभावे द्वयप्राप्त्यसंभवबुद्धयः नान्यतरप्रार्थना संभवतीत्याह येनेति । न हि तथाविधं भगवद्वननं भवतेष्टं भगवतः समुच्चयवादित्वाङ्गीकारादतस्तदभावादुक्तबुद्धया न युक्तान्यतरप्रार्थनेत्यर्थः ॥ २ ॥ प० टी० । पूर्व कर्मण्येवाधिकारस्त इत्यादिवाक्यैः कर्मप्रशंसा कृतानन्तरं स्थितप्रज्ञ- स्ये त्यादिवाक्यैर्यावदध्यायसमातिस्तावबुद्वियोगप्रशंमा कृता । एवमुभयोः प्रशंसने संदिहानोऽर्जनः पृच्छति । ज्यायसी चेदिति द्वाभ्याम्। भो जनार्दन ते तव कर्मणः कर्मयोगात्सकाशान्मतिर्बहिर्व्याय- सी श्रेष्ठा मता ज्ञानयोगः श्रेष्ठ इत्यभिमतं चेत्तर्हि .मां घोरेऽतिप्रयासे कर्माण कथं नियोजयस्या- ज्ञापयसि । शेपं स्पष्टम् ॥ १ ॥ २ ॥ श्रीभगवानुवाच । लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥ प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच, लोकेऽस्मिन्निति । लोके- ऽस्मिन् शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां हिविधा दिप्रकार निष्ठा स्थि- तिरनुष्ठेयतात्पर्य पुरा पूर्व सर्गादौ प्रजाः सृष्ट्वा तासामभ्युदयनिःश्रेयसप्राप्तिसा. धनं वेदार्थसंप्रदायमाविष्कुर्वता प्रोक्ता मया सर्वज्ञेनेश्वरेण हेऽनघापाप

तृतीयाध्यायः ।
९७
तत्र का सा दिविधा निष्ठेत्याह ज्ञानेति । तत्र ज्ञानयोगेन ज्ञानमेव योगस्तेन
सांख्यानामात्मविषयविवेकज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तवि-
ज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा प्रोक्ता,
कर्मयोगेन कर्मैव योगः कर्मयोगस्तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रो-
तेत्यर्थः । यदि चैकेन पुरुषेणैकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं
भगवतेष्टमुक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तं कथमिहार्जुनायोप-
सन्नाय प्रियाय विशिष्टभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात्, यदि पुन-
रर्जुना ज्ञान कर्म इयं श्रुत्वा स्वयमेवानुष्ठास्यत्यन्येषां तु भिलपुरुषा-
नुष्ठेयतां वक्ष्यामीति मतं भगवतः कल्प्येत तदा रागहेपवानप्रमाणभूतो भगवान्
कल्पितः स्यात्तच्चायुक्तं, तस्मात्
न समुच्चयो ज्ञानकर्मणोः ॥३॥
आ० टी० । समुच्चयविरोधितया प्रश्नं व्याख्याय तद्विरोधित्वेनैव प्रतिवचनमुत्थापयति
प्रश्नेति । येयं व्यवहारभूमिरुपलभ्यते तत्र त्रैवर्णिका ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते ।
तेषां द्विधा स्थितिर्मया प्राक्तेति पूर्वार्ध योजयति लोकेऽस्मिन्निति । स्थितिमेव व्याकरोति अ-
नुष्ठेयेति । पूर्व प्रवचनप्रसंगं प्रदर्शयन् प्रवक्तारं विशिनष्टि सर्गादाविति । प्रवचनस्यायथार्थत्व-
शङ्कां वारयति सर्वज्ञेनेति । अर्जुनस्य भगवदुपदेशश्रवणे योग्यत्वं सूचयति अनघेति । निर्धार-
णाथै तत्रेति सप्तमी, ज्ञानं परमार्थवस्तुविषयं तदेव योगशब्दितं युज्यते अनेन ब्रह्मणेति व्युत्प-
तेस्तेन निष्ठेत्यनुवर्तते । उक्तज्ञानोपायमुपदिदिक्षुः सांख्यशब्दार्थमाह आत्मेति । तेषामेव कर्मनि-
ष्टत्वं व्यावर्तयति ब्रह्मचर्येति । तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति वेदा-
न्तेति । उक्तावशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति परमहंसेति । कर्म वर्णाश्रम-
विहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्तेन निष्ठा कर्मिणां प्राक्तत्यनषंगं दर्शयन्नाह
कर्मवेत्यादिना । एवं प्रतिवचनवाक्यस्थान्येवाक्षराणि व्याख्याय तस्यैव तात्पर्यार्थ कथयति यदि
चेति । इष्टस्यापि दुर्बोधत्वमाशङ्कयाह उक्तमिति । ज्ञानस्यापि मूलविकलतया विभ्रमत्वमाशझ्याह
वेदोचिति । तस्याशिष्यत्वबुद्धयान्यथाकथनमित्याशङ्कयाह उपसन्नायति । तथापि तस्मिन्नी-
दासीन्यादन्यथोक्तिरित्याशङ्कयाह प्रियायेति । ब्रवीति च भिन्न पुरुषकर्तृकं निष्ठाद्वयं तेन
समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः । नन्वर्जुनस्य प्रेक्षापूर्वकारित्वा ज्ञानकर्म-
श्रवणानन्तरमुभयनिर्देशानुपपत्त्या. समुच्चयानुष्ठानं संपत्स्यते तद्व्यतिरिक्तानां त ज्ञानकर्मणोमि-
नपुरुपानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते तस्यार्जुनेऽनुरागातिरेका-
दितरेषु च तदभावादिति तत्राह यदि पुनरिति। अप्रमाणभूतत्वमनाप्तत्वम् । न च भगवतो रागादि-
मत्त्वेनानाप्तत्वं युक्तं ' समं सर्वेषु भूतेषु तिष्ठन्तम् ' इत्यादिविरोधादित्याह तच्चति । निष्ठाद्वयस्य भिन्नपुरु-
षानुष्ठेयत्वनिर्देशफलमुपसंहरति तस्मादिति ॥ ३ ॥
प० टी० । ततो भगवानाह लोकेऽस्मिन्निति । लोक्यते ज्ञायतेऽनेनेति लोको मुमुक्षु.
जनस्तस्मिन् द्विविधा द्विप्रकारा निष्ठा मर्यादा पुरा द्वितीयाध्याये प्रोक्ता । तत्र सांख्यानां शुद्धा-
न्तःकरणानां ज्ञानयोगेन । तथाशुद्धान्तःकरणानां योगिनां कर्मकुशलानां कर्मयोगेन । न लेकं
प्रत्युपायद्वयकथनं किं त्वधिकारभेदादतो व्यामिश्रेणेव वाक्येनेति वक्तुं नाहसीत्यर्थः ॥ ३ ॥

- श्रीमद्भगवद्गीता- न कर्मणामनारम्भान्नैष्कर्थं पुरुषोऽश्नुते ॥ न च संन्यसतादेव सिद्धिं समधिगच्छति ॥४॥ यदर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेस्तच्च स्थितमनिराकरणात्तस्याश्च ज्ञाननिष्ठायाः संन्यासिनामेवानुष्ठेयत्वं भिन्नपुरुषानुष्ठेयत्ववचनाच्च भगवत एवमे- वानुमतमिति गम्यते, मां च बन्धकारणे कर्मण्येव नियोजयसीति विषण्णमनस- मर्जुनं कर्म नारभ इत्येवं मन्वानमालक्ष्याह भगवान् न कर्मणामनारम्भादिति । अथ वा ज्ञानकर्मनिष्ठयोः परस्परविरोधादेकेन पुरुषेण युगपदनुष्ठातुमशक्यत्वे सतीतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वं न स्वातन्त्र्येण, ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुरन्यानपेक्षेत्येतमर्थ प्रदर्शयिष्यन्नाह भगवान् न कर्म- णेति । न कर्मणामनारम्भादप्रारम्भात् कर्मणां क्रियाणां यज्ञादीनामिह जन्म- नि जन्मान्तरे वानुष्ठितानामुपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्का- रणत्वेन च ज्ञानोत्पत्तिहारेण ज्ञाननिष्ठाहेतूनां 'ज्ञानमुत्पद्यते पुंसां क्षयात् पा- पस्य कर्मणः । यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि' इत्यादिस्मरणादनार- म्भादननुष्ठानानैष्कर्म्य निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रिया- आ० टी० । किमिति भगवता बुद्धेायस्त्वं ज्यायसी चेदित्यत्रोक्तमुपक्षितमिति तत्राह यदर्जुनेनेति । किंच ज्ञाननिष्ठायां संन्यासिनामेवाधिकारो भगवतोऽभिप्रेतोऽन्यथा तदीयविभाग- वचनविरोधादिति विभागवचनसामर्थ्यसिद्धमर्थमाह तस्याश्चति । तर्हि विभागवचनानुरोधादर्जुनस्यापि संन्यासपूर्विकायां ज्ञाननिष्ठायामेवाधिकारो भविप्यति नेत्याह मां चेति । बुद्धेया॑यस्त्वमुपेत्यापीति चकारार्थः, अर्जुनमालक्ष्य भगवानाहेति संबन्धः । अन्तरेणापि कर्माणि श्रवणादिभिर्ज्ञानावाप्तिन भविष्यतीति, परबुद्धिमनरुध्य विशिनष्टि कर्मेति । विभागवचनवशादसमुच्चयश्चेदुभयोरपि ज्ञानकर्म- णोः स्वातन्त्र्येण पुरुषार्थहेतुत्वमन्यथा कर्मवज्ज्ञानमपि न स्वातन्त्र्येण पुरुषार्थ साधयेदित्याशङ्कय संबन्धान्तरमाह अथ वेति । तर्हि ज्ञाननिष्ठापि कर्मनिष्ठावन्निष्ठात्वाविशेषान्न स्वातन्त्र्येण पुरुषार्थ- हेतुरिति समुच्चयसिद्धिरित्याशङ्कयाह ज्ञाननिष्टा त्विति । न हि रज्जुतत्त्वज्ञानमुत्पन्नं फलसिद्धी सहकारिसापेक्षमालक्ष्यते तथेदमपि चोत्पन्नं मोक्षाय नान्यदपेक्षते तदाह अन्येति । यस्य चैतत् कर्म " इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशय व्याचष्टे क्रियाणामिति । ताश्च नित्यनैमित्तिकत्वेन विभजते यज्ञादीनामिति । अस्मिन्नेव जन्मन्यनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकतानां कर्मणां वा तथात्वे गृहस्थादीनामै- हिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्कयानियमं दर्शयति इहेति । नेमानि सत्त्वशुद्धिकारणा- न्युपात्तदुरितप्रतिबन्धादित्याशङ्कचाह उपात्तेति । तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं तत्राह तत्कारणवेनेति । कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह ज्ञानमिति । अनारम्भशब्द- स्योपक्रमविपरीतविषयत्वं व्यावर्तयति अननुष्ठानादिति । निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्क- Hमिति व्याचष्टे नैष्कमिति। कर्माभावावस्थां व्यवच्छिनत्ति ज्ञानयोगेनति । तस्याः साधनपक्षपा- तृतीयाध्यायः । त्मस्वरूपेणैवावस्थानमिति यावत्, पुरुषो नाश्नुते न प्राप्नोतीत्यर्थः । कर्मणा- मनारम्भानैष्कर्म्य नाश्नुत इति वचनात्तद्दिपर्ययात् तेषामारम्भानैष्कर्म्यमश्नुत इति गम्यते, कस्मात् पुनः कारणात् कर्मणामनारम्भानैष्कर्म्यं नाश्नुत इत्यु- च्यते, कारम्भस्यैव नैष्कर्योपायत्वाल ह्युपायमन्तरेणोपेय प्रासिरस्ति कर्म- योगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य श्रुताविह च प्रतिपादनाच्छु- तौ तावत् प्रकृतस्यात्मलोकस्य वेद्यस्य वेदनोपायत्वेन “तमेतं वेदानुवचनेन बाँ- ह्मणा विविदषन्ति यज्ञेन"इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादित- मिहापि च 'संन्यासस्तु महाबाहो दुःश्वमाप्तुमयोगतः । योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मशुद्धये' 'यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् इत्यादि प्रति- पादयिष्यति। ननु च 'अभयं सर्वभूतेभ्यो दत्वा नैष्कर्म्यमाचरेद्' इत्यादौ कर्तव्यक- मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति लोके च कर्मणामनारम्भाष्कर्म्यमि- ति प्रसिद्धतरमतश्च नैष्कार्थिनः किं कर्मारम्भेणेति प्राप्तमत आह न च सं- न्यसनादेवेति । नापि संन्यसनादेव केवलात् कर्मपरित्यागमात्रादेव ज्ञानर- हितात् सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्रा- नोति ॥ ४ ॥ . तित्वं व्यावर्तयति निष्क्रियेति। कर्मानुष्ठानोपायलब्धा ज्ञाननिष्टा स्वतन्त्रा पुमर्थहेतुरिति प्रकृतार्थसमर्थव्य- तिरेकवचनस्यान्वये पर्यवसानं मत्वा व्याचष्टे कर्मणामिति ।तद्विपर्ययमेव व्याचष्टे तेषामिति।उक्तेऽथे हेतुं पृच्छति कस्मादिति । जिज्ञासितं हेतमाह उच्यत इति । उपायत्वेऽपि तदभावे कुतो न नैष्कासिद्धि- रित्याशक्याह न हीति । ज्ञानयोग प्रति कर्मयोगस्योपायत्वे श्रुतिस्मृती प्रमाणयति कर्मयोगेति। श्रौतमुपायोपेयत्वप्रतिपादनं प्रकटयति श्रुताविति । यत्तु गीताशास्त्र कर्मयोगस्य ज्ञानयोगं प्रत्युपा- यत्वोपपादनं तदिदानीमुदाहरति इहापि चेति । न कर्मणामित्यादिना पूर्वार्ध व्याख्यायोत्तरार्ध व्याख्यातमाशयति नन्विति । आदिशब्देन "शान्तो दान्त उपरतस्तितिक्षुः" "संन्यासयोगाद्यतयः शुद्धसत्वाः' इत्यादि गृह्यते। तत्रैव लोकप्रसिद्विमनुकूलयति लोके चेति। प्रसिद्धतरं 'यतो यतो नि- वर्तते ततस्ततो विमुच्यते । निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि' इत्यादिदर्शनादिति शेषः।लौकि. कवैदिकप्रसिद्विभ्यां सिद्धमर्थमाह अतश्चेति । तत्रोत्तरत्वेनोत्तरार्धमवतार्य व्याकरोति अत आहे- सादिना । एवकारार्थमाह केलादिति । तदेव स्पष्टयति कर्मेति । उक्तमेव नञमनुरुप्य क्रिया- पदेन संगतिं दर्शयति न प्राप्नोतीति ॥ ४ ॥ प० टी० सम्यकचित्तशुद्ध्या ज्ञानोत्पत्तिपर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथाचित्तशुद्ध्यभावे ज्ञानानुत्पत्तिरित्यभिप्रायं प्रकटयन्नाह न कर्मणामिति । कर्मणामनारम्भाद- ननुष्ठानान्न कम्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु च "एवमेव प्रव्राजिनो लोकमीप्सन्त प्रवनन्ति" इत्यादि श्रुतेः संन्यासस्यापि मोक्षसाधनत्वातेनैवार्थसिद्धेः किं कर्मणेत्याशडक्याह न चेति । श्रु- तिरपि यजुःसंहितायाम्-“कुर्वन्नेवेह कर्माणि जिजीविषेच्छत - समाः।एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" भाष्यम्-इह मोक्षमार्ग कर्माणि कुर्वन्नेव शतं समाः शतवाणि जिजीविषेज्जीवितुमि .

१.. श्रीमद्भगवद्गीता- च्छेत्। कर्माकरणे तु मृत्युरेव श्रेयानित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदार्थः । तेन कर्म कर्तव्यमेवेत्यु- तम् । एवममुना प्रकारेण नरे मनुष्ये देहाभिमानिनि कर्म कृतवाते सति तन्मोक्षप्रापकं कर्म त्व- यि न लिप्यते फलभोगाय न भवति । इतः परमन्यथा मोक्षमार्गों नास्ति ॥ ४ ॥ न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ॥ कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥५॥ कस्मात् पुनः कारणात् कर्म संन्यासमात्रादेव केवलाज्ज्ञानरहितात् सिद्धि नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छतीति हेत्वाकाङ्क्षायामाह न हीति । न हि यस्मात् क्षणमपि किंचित् कालं जातु कदा चिदपि कश्चित्तिष्ठत्य- कर्मकृत् सन् । कस्मात् कार्यते हि यस्मादवश एवं कर्म सर्वः प्राणी प्रक- तिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिर्गुणैः । अज्ञ इति वाक्यशेषो यतो वक्ष्यति ‘गुणैर्यो न विचाल्यते' इति सांख्यानां पृथक्करणादज्ञानामेव हि कर्म- योगो न ज्ञानिनां ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात् कर्मयो- गो नोपद्यते तथा च व्याख्यातं वेदाविनाशिनमित्यत्र ॥ ५ ॥ आ० टी० । उक्तेऽर्थे बुभत्सितं हेतुं वक्तुमुत्तरश्लोकमुत्थापयति कस्मादिति। कस्मान्न कर्मसं- न्यासादेव सिद्धिमधिगच्छतीति पूर्वेण संबन्धः । कदाचित् क्षणमात्रमपि न कश्चिदकर्मकृत्तिष्ठती- त्यत्र हेतत्वेनोत्तरार्ध व्याचष्टे कस्मादिति । सर्वशब्दाज्ज्ञानवानपि गुणैरवशः सन् कर्म कार्यते ततश्च ज्ञानवतः संन्यासवचनमनवकाशं स्यादित्याशक्याह अज्ञ इतीति । तमेव वाक्यशेषं वाक्य- शेषावष्टम्भेन स्पष्टयति यत इति । आत्मज्ञानवतो गुणैरविचाल्यतया गुणातीतत्ववचनादज्ञस्यैव सत्त्वादिगुणैरिच्छाभेदेन कार्यकरणसंघातं प्रवर्तयितुमशक्तस्याजितकार्यकरणसंघातस्य क्रियासु प्रव- र्तमानत्वमित्यर्थः । ज्ञानयोगेनेत्यादिना उक्तन्यायाच्च वाक्यशेषोपपत्तिरित्याह सांख्यानामिति । ज्ञानिनो गुणप्रयुक्तचलनाभावेऽपि स्वाभाविकचलनबलात् कर्मयोगो भविष्यतीत्याशङ्कयाह ज्ञानिनां त्विति । प्रत्यगात्मनि स्वारसिकचलनासंभवे प्रागुक्तं न्यायं स्मारयति तथा चेति ॥ ५ ॥ टी० ० । अथ सत्कर्मण्युद्विग्नचित्तं जनमुपपत्त्या बोधयति नहीति । कश्चिदपि जातु कदाचिदप्यकर्मकन्न हि तिष्ठति किं तु सर्वोपि जनोऽवशोऽस्वतन्त्रः सन् प्रकृतिजैः स्वभावः नैर्गुणैः करचरणचेष्टारूपं कर्म कार्यते कर्मणि प्रयोज्यते । तत्रोद्विग्नः सन् करोत्येव परं तु स- कणि न प्रवर्तते इत्याश्चर्यम् ॥ ५ ॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ॥ इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥६॥ यस्त्वनात्मज्ञश्वोदितं कर्म नारभत इति तदसदेवेत्याह कर्मेन्द्रियाणी- ति। कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मर- निन्द्रियार्थान् विषयान् विमूढात्मा विमूढान्तःकरणो मिथ्याचारो मृषाचारः पापाचारः स उच्यते ॥ ६ ॥ प० तृतीयाध्यायः । आ० टी०। आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः शरीरेन्द्रियसंघातं नियन्तुमसमर्थस्य मूर्वस्यापि संन्याससंभवादित्याशङ्कयाह यस्त्विति । तस्य चोदिताकरणं तच्छब्देन परामृश्यते तदसदिति । मिथ्याचारत्वादिति भावः । मिथ्याचारतामेव वर्णयति करें- न्द्रियाणीति ॥ ६ ॥ प० टी० । अथ कोऽपि पुमानहं प्राप्तनैष्कर्थसिद्धिरिति ध्यानच्छलेन नेत्रे निमील्य ति- ठति सोऽपि निन्द्यते कर्मेन्द्रियाणीति । कर्मेन्द्रियाणि वाक्पाणिपादादीनि संयम्य नियम्य तूष्णी तिष्टति । मनसा त्विन्द्रियार्थान् रूपरसादीन् विषयान् स्मरति मिथ्याचारो दाम्भिकः सन्नास्ते स विमूढात्मेत्युच्यते स्वहितमजानन् व्यर्थमायुः परिकलयतीत्यर्थः ॥ ६ ॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ॥ कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥७॥ यस्त्विति । यस्तु पुनः कर्मण्यधिकृतोऽज्ञो बुद्धीन्द्रियाणि मनसा निय- म्यारभतेऽर्जुन कर्मेन्द्रियैर्वापाण्यादिभिः । किमारभते इत्याह कर्मेति। कर्म- योगमसक्तः सन् स विशिष्यते इतरस्मान्मिथ्याचारात् ॥ ७ ॥ आ० टी० । अनात्मज्ञस्य चोदितमकुर्वतो जाग्रतो विषयान्तरदर्शनध्रौव्यात् मिथ्याचारस्तेन प्रत्यवायित्वमुक्त्वा विहितमनुतिष्ठतस्तस्यैव फलाभिलापविकलस्य सदाचारत्वेन वैशिष्टयमाचष्टे यस्त्विन्द्रियाणीति । विहितमनुतिष्टतो मूर्खात् कर्म त्यजतो वैशिष्टयमक्षरयोजनया स्पष्टयति यस्त्विति ॥ ७ ॥ ५० टी० । अथाविमुढात्मानं वर्णयति यस्त्विति । यस्तु ज्ञानेन्द्रियाणि आत्मप्रवेणन मन- सा नियम्यासक्तः फलानपेक्षः सन् कर्मेन्द्रियैः कृत्वा कर्मयोगमारभते स एव विशिष्यते विशिष्टो भवति चित्तशुद्धया ज्ञानवान् भवति यस्मादेवं तस्मात्तथा भवेति तात्पर्यम् ॥ ७ ॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः॥ शरीरयात्रापि च ते न प्रसिध्येदकर्मणः॥८॥ नियतमिति । यत एवमतो नियतं नित्यं यो यस्मिन् कर्म- ण्यधिकृतः फलाय चाश्रुतं तन्नियतं कर्म तत् कुरु त्वं हे अर्जुन । यतः कर्म- ज्यायोऽधिकतरं फलतो हि यस्मात्तदकर्मणोऽकरणादनारम्भात् कथं शरीर- यात्रापि शरीरस्थितिरपि च ते तव न प्रसिध्येत् प्रसिद्धिं न गच्छेदकर्मणोऽ- करणाद् अतो दृष्टः कर्माकर्मणोविशेषो* * लोके ॥ ८ ॥ आ० टी० । कर्मानुष्ठायिनो वैशिष्टयमुपदिष्टमनूद्य तदनुष्टानमधिकृतेन कर्तव्यमिति नि- गमयति यत इति । उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति कर्मेति । इतश्च त्वया कर्तव्यं कर्मेत्याह शरीरेति । तन्नियतं तस्याधिकृतस्येति संवन्धः । स्वर्गफले दर्शपूर्णमासादावधि- कृतस्य तस्य तदपि नित्यं स्यादित्याशङ्कय विशिनष्टि फलायेति । नित्यं कर्मेति नियमेन कर्तव्यमित्यत्र हेतुमाह यत इति । हि शब्दोपात्तमुक्तमेव हेतुमनुवदति यस्मादिति । करण- * रर्थविशेषो-पा० मु० पुस्तके । :

श्रीमद्भगवद्गीता-
स्याकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति कथमियादिना । सत्येव कर्मणि देहादिचेष्टाहारा
शरीरं स्थातुं पारयति तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह अत इति ॥ ८ ॥
५० टी० । एवं वेदविहितं कर्म द्विविधमुपन्यस्तमेकमिहामुत्रफलभोगजनकमपरं नैष्कर्म्य-
जनकं तयोरुभयोर्यद्रोचते तत्कार्य परं तूभयशून्यत्वं मा भनेत्याह नियतमिति । नियतमकरणे
प्रत्यवायमनकं संध्योपासनादि कुरु । हि यस्मात् कारणादकर्मणः कर्माकरणात्सकाशात्कर्म ज्यायः
श्रेष्ठम् । कुत इत्याह अकर्मणइति । कर्मशून्यत्वात्ते शरीरयात्रापि न प्रसिध्येत् पुनरेतादृशंशरीर-
प्राप्तिन भवेदधमयोनिप्राप्तौ सर्वमपि नश्यतीत्यर्थः ॥ ८ ॥
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थ कर्म कौन्तेय मुक्तसंगः समाचर ॥९॥
यच्च मन्यसे बन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्यसत् कथं यज्ञा-
दिति । “ यज्ञो वै विष्णुः” इति श्रुतेर्यज्ञ ईश्वरस्तदर्थं यत् क्रियते तद्य-
ज्ञार्थ कर्म, तस्मात् कर्मणोऽन्यत्रा न कर्मणा लोकोऽयमधिकृतः कर्मकृत् क-
मबन्धनः कर्म बन्धनं यस्य सोऽयं कर्मबन्धनो लोको न तु यज्ञार्थादतस्तदर्थ
यज्ञार्थं कर्म कौन्तेय मुक्तसंगः कर्मफलसंगवर्जितः सन् समाचार नि-
वर्तय ॥ ९॥
आ० टी० । कर्मणा बध्यते जन्तुरिति स्मृतेर्बन्धार्थ कर्म तन्न श्रेयोऽर्थिना कर्तव्यमित्या-
शङ्कामनूद्य दूषयति यच्चेत्यादिना । कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृ-
णोति कथमित्यादिना । फलासन्धिमन्तरेण यज्ञार्थ कर्म कुर्वाणस्य बन्धाभावात् तादर्णेन कर्म
कर्तव्यमित्याह तदर्थमिति । यज्ञार्थ कर्मेत्ययुक्तं न हि कर्मार्थमेव कर्मत्याशङ्कय व्याचष्टे यज्ञो वै
विष्णुरिति । कथं तर्हि कर्मणा बध्यते जन्तुरिति स्मृतिस्तत्राह तस्मादिति । ईश्वरार्पणबुद्ध्या
कृतस्म कर्मणो बन्धार्थत्वाभावे फलितमाह अत इति ॥ ९ ॥
प० टी० । अथ सांख्याः सर्वमपि कर्म बन्धकत्वान्न कार्यमित्याहुस्तन्निषेधयति यज्ञादिति।
" यज्ञो वै. विष्णुः” इत्यादि श्रुतेः । यज्ञो विष्णुः स एवार्थः प्रयोजनं यस्य तद्यज्ञार्थात्परमेश्वरार्प-
णत्वेन कृतात्कर्मणः सकाशादन्यत्र बन्धके कर्मणि कमव बन्धनं यस्य स कर्मबन्धनो लोको जनः स-
ज्जतेऽत एव मुक्तसंगस्त्यक्तफलाभिसन्धिः सन् ॥ ९ ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ॥
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥
इतश्चाधिकृतेन कर्म कर्तव्यं सहेति । सहयज्ञा यज्ञसहिताः प्रजास्त्र-
यो वर्णास्ताः सृष्ट्वोत्पाद्य पुरा पूर्व सर्गादावुवाचोक्तवान् प्रजापतिः प्रजानां
स्रष्टा, अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिरुत्पत्तिस्तां कुरुध्वमेष वो यज्ञो
युष्माकमस्तु भवत्विष्टकामधुम् इष्टानभिप्रेतान् कामान् फलविशेषान् दोग्धी-
तीष्टकामधुक् ॥ १० ॥

तृतीयाध्यायः। १०३ आ० टी० । नित्यस्य कर्मणो नैमित्तिकसहितस्याधिकृतेन कर्तव्यत्वे हेत्वन्तरपरत्वेनानन्तर- श्लोकमवतारयति इतश्चेति । कथं पुनरनेन यज्ञेन वृद्धिरस्माभिः शक्या कर्तुमित्याशङ्कचाह एष इति ॥ १० ॥ प० टी० । एवमनुष्ठेयरहस्यमुत्क्वाधुना कर्मनिबन्धनानां लोकानां ब्रह्मवाक्योक्तां गति दर्श- यति सहयज्ञाइति । पुरा सृष्टयादौ प्रजापतिर्ब्रह्मा यज्ञेन सह वर्तन्ते ताः सह यज्ञास्तद- धिकारिण्यः प्रजा ब्राह्मणादयः सृष्ट्वा निर्मायेत्युवाच तत्कि भो प्रजा अनेन यज्ञेन कृत्वा यूयं प्रसविप्यध्वं पुत्रपौत्राद्युत्तरोत्तराभिवृद्धि • भजध्वम् । तत्र हेतुः । एष यज्ञो वो युप्माकमि- प्टकामधुगभीष्टभोगप्रदोस्तु ॥ १० ॥ देवान् भावयतानेन ते देवा भावयन्तु वः॥ परस्परं आवयन्तः श्रेयः परमवाप्स्यथ ॥११॥ कैथं देवानिति । देवानिन्द्रादीन भावयता वईयतानेन यज्ञेन ते देवा भावयन्त्वाप्याययन्तु वृष्टयादिना वो युष्मानेवं परस्परमन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं ज्ञानप्राप्तिक्रमेणावाप्स्यथ स्वर्ग वा परं श्रेयोऽवा- पस्यथ ॥ ११ ॥ आ० टी० । कथं पुनरभीष्टफलविशेषहेतुत्वं यज्ञस्य विज्ञायते न हि देवताप्रसादाढते स्व- र्गादिरभ्युदयो लभ्यते नापि सम्यग्दर्शनमन्तरेण निःश्रेयसं सेहूं पारयतीति शङ्कते कथमिति । तत्र श्लोकेनोत्तरमाह देवानिति । मुमुक्षुत्वबुभुक्षुत्वविभागेन श्रेयसि विकल्पः ॥ ११ ॥ प० टी० । अथ भोगप्रदत्वे हेतुमाह देवानिति । भो प्रजा अनेन यज्ञेन देवान् भावयत संवर्धयत । अथ संतुष्टास्ते देवा वो युष्मान् भावयन्तु फलदानैः कृत्वा संवर्धयन्तु । एवं परस्पर- भावनेन परमुल्कृष्टं श्रेयोभीष्टमर्थ प्राप्स्यथ ॥ ११ ॥ इष्टान भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः॥ तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥ किं च इष्टान् भोगानिति । इष्टानभिप्रेतान् भोगान् हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति स्त्रीपशुपुत्रादीन् यज्ञभाविता यज्ञैर्वधिनास्तोषिता इत्यर्थः । तैर्देवैर्दत्तान् भोगानप्रदायादत्वानृण्यमकत्वेत्यर्थः, एभ्यो देवेभ्यो यो भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवादिस्वापहारी॥१२॥ आ० टी० । इतश्चाधिकृतेन कर्म कर्तव्यमित्याह किंचति । कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्त्यस्मानिति तदाह इष्टानिति । यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्कय पूर्वार्ध व्याकरोति इष्टानभिप्रेतानिति । पश्वादिभिन्नयज्ञान- ष्ठानद्वारा भोगो निवर्तनीयोऽन्यथा प्रत्यवायप्रसंगादित्युत्तरार्ध व्याचष्टे तैरिति । आनृण्यमकृत्वे- त्ययमर्थः, देवानामृषीणां पितॄणां च यज्ञेन ब्रह्मचर्येण प्रजया च संतोषमनापाद्य स्वकीयं कार्यकरणसंघातमेव पोष्टुं भुझानस्तस्करो भवतीति ॥ १२ ॥ १ कथमेवं-पा० लि. १ पुस्तके । २ आप्पाययन्तः अधिकं लि० २ पुस्तके ।

१०४ श्रीमद्भगवद्गीता- प० टी० । एवं फलनिश्चयं निरूपयन्नकरणे दोषमाह इष्टानिति । यज्ञभाविता देवा वो युष्माकमिष्टान् भोगान् दास्यन्ति। अथदेवदत्तै गैः प्रमत्तत्वेन कर्मत्यागपरान्निन्दति तैरिति। तैर्देवैर्दत्ता- नन्नादिभोगान्येभ्यो देवेभ्योऽप्रदायादत्वा यो भुङ्क्त स स्तेनश्चोर एव ज्ञेयः ॥ १२ ॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ भुञ्जते ते त्वचं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥ यज्ञेति । ये पुनर्देवयज्ञादीनिवर्त्य तच्छिष्टममृताख्यमशितुं शीलं ये- षां ते यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः सर्वैः पापैश्वुल्ल्यादिपञ्चसू- नाकृतैः प्रमादकृतहिंसादिजनितेश्चान्यैर्ये त्वात्मम्भरयो भुञ्जते ते त्वचं पापं स्वयममी पापा ये पचन्ति पार्क निर्वर्तयन्त्यात्मकारणादात्महेतोरितश्वाधि- कृतेन कर्म कर्तव्यम् ॥ १३ ॥ आ० टी० । देवादिभ्यः संविभागमकृत्वा भुञ्जानानां प्रत्यवायित्वमुक्त्वा तदन्येषां सर्वदोष- राहित्यं दर्शयति ये पुनरिति । यज्ञशिष्टाशिनो ये पुनस्ते तादृशाः सन्तः सर्वकिल्बिषैर्मुच्यन्त इति योजना । तैर्दत्तानित्यादिनोक्तं निगमयति भुञ्जत इति । देवयज्ञादीनित्यादिशब्देन पितृयज्ञो मनुष्ययज्ञो भूतयज्ञो ब्रह्मयज्ञश्चेति चत्वारो यज्ञा गृह्यन्ते, चुलीशब्देन पिठरधारणाद्यर्थक्रियां कु- र्वतो विन्यासविशेषवन्तस्त्रयो ग्रावाणो विवश्यन्ते आदिशब्देन कण्डनी पेपणी मार्जुन्युदककुंभश्चे त्येते हिंसाहेतवो गृहीतास्तान्येतानि पञ्चप्राणिनां सूनास्थानानि हिंसाकारणानि तत्प्रयुक्तैः सर्वैरपि बुद्धिपूर्वकैर्दुरितर्मुच्यन्त इति संबन्धः प्रमादो विचारव्यतिरेकेणाबाद्धपूर्वकमुपनतं पादपातादिकार्य तेन प्राणिनां हिंसा संभाव्यते । आदिशब्देनाशुचिसंस्पर्शादि गृहीतं, तदुत्थैश्च पापैर्महायज्ञकारिणो मुच्यन्ते उक्तं हि, · कण्डनं पेषणं चुल्ली उदकुम्भश्च मार्जनम् । पञ्च सना गृहस्थस्य पश्चयज्ञात् प्रणश्यतीति । 'पञ्च सूना गृहस्थस्य चुल्ली पेपण्यवस्करः । कण्डनी चैव कुम्भश्च बध्यते यास्तु वाहयन्निति च, अस्यायमर्थः, या यथोक्ताः पञ्चसंख्यका गृहस्थस्य सूनास्ता यो वाहयन्नापादयन् व- तते तेन प्राणिनो बुद्धिपूर्वकं च बध्यन्ते ततप्रयुक्तं सर्वमपि पापं महायज्ञानुष्ठानात् प्रणश्यतीति महायज्ञानुष्ठानस्तुत्यर्थम् । तदनुष्ठानविमुग्वान् निन्दति ये विति । आत्मभरित्वमेव स्फोरयति ये पचन्तीति । स्वदेहेन्द्रियपोपणार्थमेव पाकं कुर्वतां देवयज्ञादिपराङ्मुखानां पापभ्यस्त्वं दर्शयति भुञ्जत इति । पाठक्रमस्त्वर्थक्रमादपबाधनीयः ॥ १३ ॥ प० टी० । अथ साधून स्तौति यज्ञशिष्टाशिन इति । वैश्वदेवादियज्ञावशिष्टं येऽश्न- न्त्यत एव साधवस्ताप दैनंदिनैः पञ्चमूनादिसर्वकिल्बिपैर्मुच्यन्ते । अथ ये पापाः पातकिनः पुरुषा आत्मकारणात् केवलं पिण्डपोपणार्थ पचन्ति पाकं कुर्वन्ति तेऽघमेव भुञ्जते । ऋक्शाखीया श्रुतिरपि- "मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वधइत्सतस्य । नार्यमणं पुप्यति नो सखायं केवलाघो भव- ति केबलादी" इति। भाप्यम्-न प्रकृष्टं चेतो यस्यासावप्रचेताः मूर्यो माघं निष्फलमन्नं विन्दते संपा- दयति । स तस्य वधइवध एवात्मघातक एवेत्यर्थः । स कः यो वैश्वदेवेनार्यमणं सूर्य न पु- प्यति न संतर्पयति । रात्रौ च सखायमुपकारकमग्निं न संतर्पयति । एवं यः केवलमत्तीति के- वलादी पिण्डपोषणाथमेव भक्षयति स केवलाघो भवति पापमेव भक्षयतीति सत्यं ब्रवीमि न वैश्व- देवार्थवादमित्यर्थः । शतपथेऽपि-" न स पाप्मनो व्यावर्तते” इति ॥ १३ ॥ १ तच्छिष्टमशन-पा० मु० पुस्तके । २पशुवधस्थानं सूना, सूनेव सूना हिंसास्थानगुणयोगात्-इति कुल्लूकभटः।

तृतीयाध्यायः । अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ॥ यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥ जगच्चक्रप्रवृत्तिहेतुर्हि कर्म कथमित्युच्यते अन्नाद्भवन्तीति । अन्नाद्भुक्ता- लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि, पर्जन्याद् वृष्टेरन्नस्य संभवोऽलसंभवः, यज्ञाद्भवति पर्जन्यः ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमु- पतिष्ठते । आदित्याज्जायते दृष्टिदृष्टेरन्नं ततः प्रजाः' इति । यज्ञोऽपूर्व स च यज्ञः कर्मसमुद्भव ऋत्विग्यजमानयोश्च व्यापारः कर्म ततः समुद्भवो यस्य यज्ञ- स्यापूर्वस्य स यज्ञः कर्मसमुद्भवः ॥ १४ ॥ आ० टी० । देवयज्ञादिकं कर्माधिकृतेन कर्तव्यमित्यत्र हेत्वन्तरमितःशब्दोपात्तमेव दर्श- यति जगदिति । ननु भुक्तमन्नं रेतोलोहितपरिणतिक्रमेण प्रजारूपेण जायते तच्चान्नं वृष्टिसंभवं प्रत्य- क्षदृष्टं तत् कथं कर्मणो जगच्चक्रप्रवर्तकत्वमिति शङ्कते कथमिति । पारंपर्येण कर्मणस्तद्धेतुत्वं साधयति उच्यत इति । उक्तेऽथै स्मृत्यन्तरं संवादयति अग्नाविति । तत्र हि देवताभिध्यानपूर्वक तदुद्देशेन प्राहिताहुतिरपूर्वतां गता रश्मिद्वारेणादित्यमारुह्य वृष्टयात्मना पृथिवीं प्राप्य व्रीहियवाद्यन्न- भावमापद्य संस्कृता भूत्वा शुक्रशोणितरूपेण परिणता प्रजाभावं प्राप्नोतीत्यर्थः । यज्ञः कर्मसमुद्भव इत्ययुक्तं स्वस्यैव स्वोद्भवे कारणत्वायोगादित्याशङ्कयाह ऋत्विगिति । द्रव्यदेवतयोः संग्राह- कश्चकारः ॥ १४ ॥ प० टी० । अथ विश्वोपकारार्थमपि कर्म कर्तव्यमित्याह अन्नादिति । अन्नाद्रेतोरूपेण परिणताद्भूतानि भवन्ति । अत्र भवन्तीत्यनेन अन्नादेव जीवन्ति वर्धन्त इत्यपि ज्ञेयम् । श्रुतिरपि ब्रह्म- वळ्याम्-“ अन्नाइयेव खल्विमानि भूतानि जायन्ते जातान्यन्नेन वर्धन्ते' इत्यादिः । अथान्नं कस्मात् पर्जन्यात्, स च यज्ञात् पर्जन्येष्टितः, यज्ञश्च कस्मात्स च कर्भसमुद्भवः । कर्म यजमानस्य सदर्भ व्यापारः ॥ १४ ॥ कर्म ब्रह्मोद्भवं विदि ब्रह्माक्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्टितम् ॥ १५॥ तञ्च, वविधं कर्म कुतो जातमित्याह कर्मेति । तच्च कम ब्रह्मोद्भवं ब- म वेदःस उद्भवो यस्य तत् कर्म ब्रह्मोद्भवं विद्धि जानीहि, ब्रह्म पुनर्वेदाख्यम- क्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तदक्षरसमुद्भवं ब्रह्म वेद इत्यर्थः। यस्मात् साक्षात्परमात्माख्यादक्षराउ पुरुषनिश्वासवत् समुद्भवं ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतमपि सन्नित्यं सदा यज्ञविधिप्रधानत्वाद् यज्ञे प्रतिष्ठितम् ॥ १५ ॥ आ० टी० । यदपूर्वहेतुत्वेन कोक्तं तत् किं चैत्यवन्दनादि किं वाग्निहोत्रादीति संदि- हानं प्रत्याह कर्मेति । किमिति कर्मणो ब्रह्मोद्भवत्वमुच्छो सर्वस्य तदुद्भवत्वाविशेषादित्याशङ्कयाह * तब कर्म ब्रह्मोद्भवमित्याह ---पा. लि. १ । २ । पुस्तके ।

श्रीमद्भगवद्गीता- ब्रह्म वेद इति । ब्रह्म तर्हि वेदाख्यमनादिनिधनमिति तत्राह ब्रह्म पुनरिति । अक्षरात्मनो वेद- स्य पुनरक्षरेभ्यः सकाशादेव समुद्भवो न संभवतीत्याशङ्कयाह अक्षरमिति । ब्रह्मेत्यक्षरमेवोक्तं, तत् कथं तस्मादेवोद्भवतीत्याशङ्कय ब्रह्मशब्दार्थमुक्तमेव स्मारयति ब्रह्मवेद इति । ननु ब्रह्मशब्दितस्य वेदस्यापि पौरुषेयत्वात् प्रामाण्यसंदेहात् कथं त्वदुक्तमग्निहोत्रादिकं कर्म निर्धारयितुं शक्यते तत्राह यस्मादिति । कथं तर्हि तस्य यज्ञे प्रतिष्ठितत्वं सर्वगतत्त्वे विशेषायोगादित्याशझ्याह सर्वगतमपीति ॥ १५ ॥ प० टी० । कर्म च ब्रह्मोद्भवं ब्रह्ममन्त्रात्मकं वाग् ब्रह्म वेदस्तस्मात् । अथ वेदोऽपि कस्मा- दित्याह अक्षरेति । न क्षरतीत्यक्षरं वैराजं ब्रह्म तस्मादुद्भूतः। श्रुतिरपि शातपथी-“यथामेरम्याहत- स्य पृथग्धूमा विनिश्चरन्त्यरेऽस्य महतो भूतस्य निःश्वसितमेतदृग्वेदो यजुर्वेदः सामवेदोऽथर्वः" इत्या- दिः । भाष्यम्-यथावदभित आहतस्य नान्तःप्रविष्टस्याइँधोऽनेरार्द्र यदेधः काष्ठं तत्रत्यागेः पृथग्भूता नानाकारा धूमा विनिश्चरन्ति, अरे मैत्रेयि तद्वदस्य महतो भूतस्य महाभूतारब्धस्य वैरान- ब्रह्मणो निःश्वसितं निःश्वासरूपमेतद्यदृग्वेदइत्यादि । ननु सर्वऽज्ञोपि ब्रह्मा मुख्यां कर्मणो गतिमप- हाय गौणी किमुपदिष्टवानित्याशङ्योपसंहारे परमप्रयोजनमपि दर्शयन्नाह तस्मादिति । तस्मात् कारणात् सर्वगतमिन्द्रसूर्यादिसर्वदेवेष्वन्तर्यामित्वेन स्थितं ब्रह्मा नित्यमनश्वरफलरूपं यज्ञे प्रतिष्ठितं प्रतिष्ठां प्राप्तं यज्ञोपायेनैव लभ्यम्-" यज्ञेन यज्ञमयजन्त देवाः” इति श्रुतेः । अथानश्वरफलदत्वे श्रुतिरप्यनिरहस्ये-" स य आत्मानमेव लोकमुपास्ते नेहास्य कर्म क्षीयते” इत्यादिः ॥ १५ ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियाशमो मोघं पार्थ स जीवति ॥ १६ ॥ एवमिति । एवमित्थमीश्वरेण वेदयज्ञपूर्वकं जगञ्चकं प्रवर्तितं नानुव- तयतीह लोके यः कर्मण्यधिकृतः सन्नघायुरघं पापमायुर्जीवनं यस्य सोऽघायुः पापजीवन इति यावत् , इन्द्रियाराम इन्द्रियैरारमणमाक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं स्था हे पार्थ स जीवति, तस्मादज्ञेनाधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थः प्रागात्मज्ञाननिष्ठायोग्यताप्राप्तेस्तादर्थेन कर्मयोगानुष्ठान- मधिकृतेनानात्मज्ञेन कर्तव्यमित्येतत् 'न कर्मणामनारम्भाद्' इत्यत आरभ्य शारीरयात्रापि च ते न प्रसिध्येदकर्मणः' इत्येवमन्तेन प्रतिपाद्य यज्ञार्थात् क- मणोऽन्यत्र' इत्यादिना 'मोघं पार्थ स जीवति' इत्येवमन्तेनापि ग्रन्थेन प्रा- सङ्गिकमधिकृतस्यानात्मविदः कर्मानुष्ठाने बहुकारणमुक्तं तदकरणे च दोषसं- कीर्तनं कृतम् आ. टी० । अधिकतेनाध्ययनादिद्वारा जगञ्चक्रमनुवर्तनीयमन्यश्वराज्ञातिलधिनस्तस्य प्रत्यवायः स्यादित्याह एवमिति । न कर्मणामनारम्भादित्यादिनोक्तमुपसंहरति तस्मादिति । जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात्तस्माज्जीवता नियतं कर्म कर्तव्य- मित्यर्थः । यद्यधिकृतेन कर्तव्यमेव कर्म तर्हि किमित्यज्ञेनेति विशिष्यते ज्ञाननिष्ठेनापि तत् कर्त- व्यमेवाधिकृतत्वाविशेषादित्याशय पूर्वोक्तमनुवदति मागिति । न हि ज्ञानकर्मणोविरोधाज् ज्ञाननिष्ठेन कर्म कर्तुं शक्यते तथा चानात्मज्ञेनैव चित्तशुद्धयादिपरंपरया ज्ञानार्थ कर्मानुष्ठेय- १ तृतीयाध्यायः । मिति प्रतिपादितमित्यर्थः । तर्हि यज्ञादित्यादि किमर्थं न हि तत्र ज्ञाननिष्ठा प्रतिपाद्यते कर्म- निष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशक्य वृत्तमर्थान्तरमनुवदति प्रतिपाद्योति । प्रासंगिकमज्ञस्य कर्मकर्तव्यतोक्तिप्रसंगागतमिति यावद् बहुकारणमीश्वरप्रसादो देवताप्रीतिश्चेत्यादि दोषसंकीर्तनं तै- दत्तानप्रदायेत्यादि ॥ १६ ॥ प० टी० । अथ पर्यवसितमर्थमाह एवमिति । एवमुक्तप्रकारेण प्रवर्तितं प्रवृत्तिरूपेणोप पादितमिहामुष्मिकफलभोगरूपम् । तथा चक्रं चकतिर्गतिकर्मा परमगतिरूपमन्नादिकार्यजातस्यात्यन्तिक. कारणमक्षरं यो नानुवर्तयति तारतम्यभावेन पुनः पुनर्न परिशीलयति ज्ञात्वापि पुनरिन्द्रियसतर्पण- निमित्तं फलभोगमपेक्षते सोऽघायुरित्यादिवाक्यौर्नन्द्यते । अघायुः पापेच्छावानिन्द्रियारामो विषय- सुखलम्पटः ॥ १६ ॥ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७ ॥ एवं स्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयमाहोस्वित् पूर्वोक्तकर्म- योगानुष्ठानोपायप्राप्यामात्मविदो ज्ञानयोगेनैव निष्ठामात्मविद्भिः सांख्यैरनुष्ठेया- मप्राप्तेनैवेत्येवमर्थमर्जुनस्य प्रश्नमाशय स्वयमेव वा शास्त्रार्थस्य विवेकप्रति- पत्त्यर्थमेव चैतमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तो ब्राह्मणा मिथ्या- ज्ञानवद्भिरवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थि- तिमात्रप्रयुक्तं चरन्ति न तेषामात्मज्ञाननिष्ठाव्यतिरेकेणान्यकार्यमस्तीत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपादयिषितमाविष्कुर्वनाह भगवान् यस्त्विति । यस्तु सांख्य आत्मज्ञाननिष्ठ आत्मरतिरात्मन्येव रतिर्न विषयेषु यस्य स आत्मरतिरेव स्याद्भवेदात्मतृप्तश्वात्मनैव तृप्तो नान्नरसादिना स मानवो मनुष्यः संन्यस्यात्मन्येव च संतुष्टः संतोषो हि बाह्यार्थलाभेन सर्वस्य भवति तमनपेक्ष्यात्मन्येव च संतुष्टः सर्वतो विगततृष्ण इत्येतद्. य ईदृश आत्मवित्तस्य कार्य करणीयं न विद्यते नास्तीत्यर्थः ॥ १७ ॥ आ० टी० । वृत्तमर्थमेवं विभज्यानूद्यानन्तरश्लोकमाशङ्क्योत्तरत्वेनावतारयति एवमिति । अर्जु- नस्य प्रश्नमित्येवमर्थमाशझ्याह, भगवानिति संबन्धः । नन्वेषाशङ्का नावकाशमासादयत्यनात्मज्ञेन कर्तव्यं कर्मेति बहुशो विशेषितत्वादित्याशङ्कयाह खयमेवेति । किमर्थ श्रुत्यर्थ स्वयमेव भगवानत्र प्रतिपादयतीत्याशङ्कयाह शास्त्रार्थस्येति । गीताशास्त्रस्य ससंन्यासं ज्ञानमेव मुक्तिसाधनमों नार्थान्तरमिति विवेकार्थमिह श्रुत्यर्थ संक्षिपति कीर्तयतीत्यर्थः । तमेव श्रुत्यथं संक्षिपति एवमिति । सिद्धं चेदात्मवेदनमनर्थकं तर्हि व्युत्थानादित्याशङ्कयापातिकविज्ञानफलमाह निवृत्तेति । ब्राह्मणग्रहणं तेषामेव व्युत्थाने मुख्यमधिकारित्वमिति ज्ञापनार्थम् । लेशात्मकत्वादेषणानां ताभ्यो व्युत्थानं सर्वेषां स्वाभाविकत्वादविधित्सितमित्याशङ्कयाह मिथ्येति । भिक्षाचर्य चरन्तीति वचनं व्युत्थानविरुद्धमि- त्याशङ्कयाह शरीरेति । तर्हि तद्वदेव तेषामग्रिहोत्राद्यपि कर्तव्यमापद्येतेत्याशङ्कच व्युत्थायिनामा- श्रमधर्मवदमिहोत्रादेग्नुष्टापकभावान्मैवमित्याह न तेषामिति । यथोक्तं श्रुत्यर्थमस्मिन् गीताशारने श्रीमद्भगवद्गीता-- स्ति। पौर्वापर्येण पर्यालोच्यमाने प्रतिपादयितुमिष्टं प्रकटीकुर्वन् कर्तव्यमेव कर्म जीवतेति नियमे 'ज्ञानयो- गेन सांख्यानाम्' इति चोद्यपरिहारमुपदर्शयति इसवमिति।आत्मनिष्ठस्य विषयसङ्गराहित्यं दृष्टं तद- नात्मज्ञेन जिज्ञासुना कर्तव्यमिति मत्वाह यस्तु सांख्य इति । किंचात्मज्ञस्य ज्ञानेनात्मनैव परि- तृप्तत्वान्नानपानादिना साध्या तृप्तिरिष्टा तेन विद्यार्थिना संन्यासिनापि नान्नरसादावासक्तिर्युक्ता कर्तु- मित्याह आत्मतृप्त इति । किंचात्मविदः सर्वतो वैतृष्ण्यं दृष्टं तदनात्मविदा विद्यार्थिना कर्तव्य- मित्याह आत्मन्येवेति । रतितृप्तिसंतोषाणां मोदप्रमोदानन्दवदवान्तरभेदः, अथवा रतिर्विषयासक्तिः, तृप्तिर्विषयविशेषसंर्पकजं सुखं, संतोपोऽभीष्टविषयमात्रलाभाधीनं सुखसामान्यमिति भेदः । नन्वात्मरते रात्मतृप्तस्यात्मन्येव संतुष्टस्यापि किंचित् कर्तव्यं मुक्तये भविष्यतीति नेत्याह य ईश इति ॥१७॥ प० टी० । एवं ब्रह्ममतं निरूप्येदानीमनुत्पन्नज्ञानं भवन्तं प्रत्यवायं कर्मोपदेशोत्पन्नज्ञानं प्रतीत्याह यस्त्विति । यस्त्वात्मरतिरात्मन्येव रतिः प्रीतिर्यस्य तथात्मन्येव तृप्तोऽवाप्तसकलकाम- त्वादत एवात्मन्येव संतुष्टो भोगापेक्षारहितस्तस्य कार्य कर्तव्यं न विद्यते ॥ १७ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥१८॥ किं च नैवेति । नैव तस्य परमात्मरतेः कृतेन कर्मणार्थः प्रयोजनम. तयकृतेनाकरणेन प्रत्यवायाख्योऽनर्थो नाकृतेनेह लोके कश्व- न कश्चिदपि प्रत्यवायप्राप्तिरूप आत्महानिलक्षणो वा नैवास्ति न चास्य सर्व- भूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यपाश्रयो व्यपाश्रयणमालम्बनं कं चिद्भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थोऽस्ति येन तदर्था क्रियानुष्ठेया स्यान्न त्वमेतस्मिन् सर्वतः संप्लुतोदक- स्थानीये सम्यग्दर्शने वर्तसे ॥ १८ ॥ आ० टी० । इतश्चात्मविदो न किं चित् कर्तव्यमित्याह किं चेति । अभ्युदयनिःश्रेयसयो रन्यतरत् प्रयोजनं कृतेन सुरतेनात्मविदो भविष्यतीत्याशङ्क्याह नैवेति । प्रत्यवायनिवृत्तये स्य- रूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशझ्याह नेत्यादिना । ब्रह्मादिषु स्थावरान्तेषु भूतेषु कं चितविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति तदर्थं तेन कर्तव्यं कर्मत्याशङ्क्याह न चेति । तत्राद्यं पदमादत्ते नैवेति । तं व्याचष्टे तस्येति । आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वं निःश्रेयसस्य च प्राप्तत्वान्न कृतं कर्मार्थवदित्यर्थः । आत्मविदा चेत् कर्म न क्रियते तर्हि तेनारुतेन तस्यानी भविष्यतीति तत्प्रत्याख्यानार्थ तस्य कर्तव्यं कर्मेति शङ्कते तहीति । द्वितीयपादेनोत्तर- माह नेयादिना । अतो न तन्निवृत्त्यर्थ कृतमर्थवदिति शेषः । द्वितीय भागं विभजते न चास्योति । व्यपाश्रयणमालम्बनं नाते संबन्धः । पदार्थमुक्त्वा वाक्यार्थमाह किंचिदिति । भूतविशेषस्या- श्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाह येनेति । तर्हि मयापि यथोक्तं तत्त्वमा- श्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशझ्याह न त्वमिति ॥ १८ ॥ । तत्र हेतुमाह नैवेति । तस्यात्मनिष्ठस्य कृतेन कर्मणार्थः सुकृतातिशयो नैवं तथाकृते च प्रत्यवायोऽपि नैव निरहंकारत्वेन विधिनिषेधातीतत्वात् । अत्र श्रुतिरपि- तदेतहचाभ्युक्तमषु नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । त- प० तृतीयाध्याय । १.९ स्यैव स्यात्पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन " इति । भाष्यम्-~-तत्तबृहदारण्यक निरूपणीयार्थऋक्शाखीयां श्रुति संमतित्वेन दर्शयति तदेतदिति । तदेतत्प्रमेयमृचा ऋग्वेदेनाभ्यु- क्तमप्यभितो निरूपितमस्ति । तत्किम्, ब्राह्मणस्य ब्रह्मज्ञस्य पुरुषस्य एष नित्या महिमा शाश्वतं सामर्थ्यम् । तत्किम्, कृतेन कर्मणा न वर्धते उत्कृष्टत्वं न प्राप्नोति नाप्यकतेन कनीयान् कनिष्ठो भव. त्येवंविधो यस्तस्यैव पदवित् पदमात्मरूपं तस्य विद् ध्यानं भवत्येवं तं परमात्मानं विदित्वा सत्कर्मणा पापकेन वा न लिप्यते। अथोपक्रान्तऋक्शाखायामपि-"हृदा तष्टेषु मनसो जवेषु यद् ब्रा- ह्मणाः संजयते सखायः। अत्राह त्वं विजहुवैद्याभिरोहब्राह्मणा विचरन्त्युत्वे इमे। ये नाङ् िन परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापयासिरीस्तन्त्रं तन्वते अप्रजज्ञयति" प्रह- यम् । रावणभाष्यम्-हृदा बुद्धिरूपेण मनसा तष्टेषु निराकतेषु मनसो जवेषु वृत्तिरूपेषु मनोजवेषु वेगेषु सत्सु यद्यस्मात्कारणाद् ब्रह्मज्ञाः ब्राह्मणाः सखायः सर्वभूतसुहृत्तमाः सन्तः सम्यक् प्रकारेण यजन्तेऽन्तर्यागं कुर्वते । तत्रान्तर्यागे क्रियमाणे किं भवतीत्याह अत्रेति अत्राहं त्वमिति पदविभागे अहेत्यत्रानुस्वारलोप छान्दसः । अहं त्वं विजहरन्तर्यागेन भेदभावनां त्यक्तवन्तः । किं भूता वेद्याभिर्वि- द्याभिज्ञानवृत्तिभिरभित उद्यं ब्रह्म यैस्ते पदार्थप्रतीतिरूपेण ज्ञातब्रह्माणः सन्तः उ इति निर्धारणे विचरन्ति अखण्डैकरसत्तेन व्यवहरन्ति। तदुक्तमागमेऽपि-स्वाधिष्ठानगते कुण्डे चिद्रूपं वहिमुज्ज्वलेत् । जुहुयात्प्रणवेनात्र त्वमहंतां निवेदयेत्। आत्मनात्मानमद्वैते भूत्वा सञ्चित्सुखात्मकः । स्थीयते यत्किय- कालं सोन्तर्यागः स्मृतो बुधैः” इति । इमे ये इति। इमे ये उक्तलक्षणाः पुरुषास्ते अर्वाङ्मनुष्यलोके न चर- न्ति न संभवन्ति । न परः पर इति सकारान्तमव्ययम् । परस्मिन् देवलोकेऽपि नोत्पद्यन्ते कृतारुतैः कर्म- भिरुत्तमाधमलोकं न गच्छन्ति । किं त्वत्रैव ब्रह्मीभतास्तिष्ठन्तीत्यर्थः । “न तस्य प्राणा उत्क्रा- मन्त्यत्रैव समलीयन्त " इति श्रुतेः । परं तु ब्राह्मणा जातिमात्रविप्रास्तथा सुतं सोममभिमृतं कुर्वन्तीति सुतेकरास्त एव सुतेकरासो याज्ञिकास्तथा भवन्ति । किं तु ते उत्तममध्यमाधमगति प्रा. भुवन्त्येवेत्यर्थः। अत्र हेतुमाह त एत इति । त एते निरूपितप्रकारा ब्राह्मणाः सुतेकराश्च वाचं खल- प्रतिपादकां वेदवाणीमभिपद्य ज्ञात्वा सिरीः सीरिणः कृषिकर्तार इव भूत्वा पापफलाशयातन्त्रं यज्ञादिकं तन्वत विस्तारयन्ति । अत एव अप्रजज्ञयो न प्रकष्टा जज्ञिर्जन्म येषां तेऽपरुष्टजन्मा- न इत्यर्थः । अथ प्रकृतमनुसरामः । तथास्य पुरुपस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थव्य- पाश्रयोऽर्थः प्रयोजनं तस्य व्यपाश्रय आश्रयः कश्चिदपि न मृग्यते परमार्थसाधने भगवत्कृपापा- त्रस्य तस्य विघ्नोपशान्त्यर्थ कोऽप्याश्रयणीयो नास्तीत्यर्थः । श्रतिरपि-"तस्य इन देवा नाभूस्था ईशते आत्मा ह्येषां संभवति" इति । तस्य पुरुषस्याभूत्या अनैश्वर्यायापकर्षणाय देवा इन्द्राद्या ने शते समर्था न भवन्ति । हि यस्मात्कारणात्स पुरुष एषां देवानामात्मान्तर्यामी प्रयोजको भवति । न हि प्रजोजकमन्तरा विघ्नकरणार्थ प्रवृत्तिरित्यर्थः ॥ १८ ॥ तस्मादसक्तः सततं कार्य कर्म समाचर ॥ ह्याचरन् कर्म परमाप्नोति पूरुषः॥ १९ ॥ यत एवं तस्मादिति । तस्मादसक्तः संसर्गवर्जितः सततं सर्वदा कार्य कर्तव्यं नित्यं कर्म समाचर निवर्तय । असक्तो हि यस्मात् समाचरनीश्वरार्थं कर्म कुर्वन् परमाप्नोति पूरुषो मोक्षमाप्नोति पुरुषः सत्त्वशुद्धिहारेणेत्यर्थः ।। १९ ॥ आ० टी० । सम्यग्ज्ञाननिष्ठत्वाभावे कर्मानुष्ठानमावश्यकमित्याह यत इति । तस्मा.

श्रीमद्भगवद्गीता-
ज्ज्ञाननिष्ठाराहित्यादिति यावत् । मोसमेवापेक्षमाणस्य कथं कर्मणि फलान्तरवति नियोगः स्यादित्या-
शक्याह असक्तो होति ॥ १९ ॥
प० टी० । यस्मादेवंभूतस्योत्पन्नज्ञानस्य कर्मोपरमो नान्यस्य तस्मात्त्वं कर्म कुर्वित्याह तस्मा-
दिति । असक्तः फलसङ्गरहितः सन् कार्य कर्म नित्यं नैमित्तिकं सततं निरन्तरं समाचर । हि प-
स्मादसक्तः सन् पुरुषः परं ब्रह्मामोति ॥ १९ ॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ॥
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥२०॥
यस्माच कर्मणैवेति । कर्मणैव हि स्मात् पूर्वे क्षत्रिया विहांसः सं-
सिदि मोक्षं गन्तुमास्थिताः प्रवृत्ता जनकादयो जनकाश्वपतिप्रभृतयो यदि ते
प्राप्तसम्यग्दर्शनास्ततो लोकसंग्रहार्थं प्रारब्धकर्मत्वात् कर्मणा सहैवासंन्य-
स्यैव कर्म संसिद्धिमास्थिता इत्यर्थः । अथाप्राप्तसम्यग्दर्शना जनकादयस्तदा
कर्मणा सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थिता इति व्याख्येयः श्लोकः।
अथ मन्यसे पूर्वैरपि जनकादिभिरप्यजानद्भिरेव कर्तव्यं कृतं कर्म तावता नावश्य-
मन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति तथापि प्रारब्धकर्मायत्तस्त्वं लोक-
संग्रहमेवापि लोकस्योन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहस्तमेवापि प्रयोजनं सं-
पश्यन् कर्तुमर्हसि ॥ २० ॥
आ० टी । यद्यपि जितेन्द्रियोऽपि विवेकी श्रवणादिभिरजस्त्रं ब्रह्मणि निष्ठातुं शक्नोति त-
थापि क्षत्रियेण त्वया विहितं कर्म न त्याज्यमित्याह यस्माच्चेति । तस्मात्त्वमपि कर्म कर्तुमर्हसीति
संबन्धः । इतोऽपि त्वया विहितं कर्म कर्तव्यमित्याह लोकेति । पूर्वार्धं विभजते कर्मणवेति । कथं
जनकादीनां कर्मणा संसिद्धिप्राप्तिरुच्यते कर्मत्यनां हि सम्यग्दर्शनवतां प्रसिहा संसिद्धिरिति । तत् कि
जनकादयोऽपि प्राप्तसम्यग्दर्शनाः स्युरुताप्राप्तसम्यग्दर्शना भवेयुरिति विकल्प्य प्रथमं प्रत्याह
यदीति । लोकसंग्रहार्थ कर्मणा सहैव संसिद्धिमास्थिता इति संबन्धः। कर्मणा सहवेत्येतद् व्याक-
रोति असंन्यस्यैव कर्मेति । तत्र हेतुमाह प्रारब्धेति । जनकादीनां सत्यपि ज्ञानित्वे प्रारब्धकर्म-
यशात् कर्मापरित्यज्यैव लोकसंग्रहार्थ प्रवर्तमानानां ज्ञानमाहात्म्यादुपपन्ना संसिद्धिरित्यर्थः । द्वितीय-
मनूद्य पूर्वार्धेनोत्तरमाह अथेत्यादिना । द्वितीयार्धव्यावामाशङ्कामुत्थापयति अथेति । अज्ञेनाकृता-
थेन कृतं कर्मेत्येतावता ज्ञानवता कृतकृत्येन न तत् कर्तव्यमित्युक्तमङ्गीकरोति तथापीति । तर्हि
मयापि ज्ञानवता कृतार्थेन कर्म न कर्तव्यमित्याशझ्यार्जुनस्य कर्तव्यमेव कमत्युत्तरार्धव्याख्यानेन
कथयति प्रारब्धोते ॥ २० ॥
प० टी० अत्राथै सदाचरं प्रमाणयति कर्मणेवोत । जनकादयो राजानोऽपि वर्णाश्रमो-
चितेन कर्मणैव कृत्वा सिद्धिं तत्त्वज्ञानरूपिणी प्राप्ताः। अथ तत्त्वज्ञानोत्पत्तावपि कर्म न त्याज्यमित्याह
लोकसंग्रहमिति । लोकसंग्रहमपि पश्यन् कर्तुमर्हसि केऽप्यल्पज्ञा वयमपि तत्त्वज्ञानिन इति मत्वा
कर्म त्यक्ष्यन्ति । तदर्थमपि कर्माचर। तदुक्तम्-'सपिरस्ति पयसागोरसस्तैलमस्ति तिलमध्य एव तत् ।
लभ्यते मथनयन्त्रकर्मणा कर्मणा हृदि गता तथैव चित्' इति ॥ २० ॥

तृतीयाध्यायः ।
१११
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः॥
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
लोकसंग्रहः किमर्थ कर्तव्य इत्युच्यते यद्यदिति । यद्यत् कर्माचरति
श्रेष्ठः प्रधानभूतस्तत्तदेव कर्माचरतीतरो जनस्तदनुगतः । किं च श्रेष्ठो यन् प्र-
माणं कुरुते लौकिकं वैदिकं च लोकस्तदनुवर्तते तदेव प्रमाणीकरो-
तीत्यर्थः ॥ २१ ॥
आ० टी० । ज्ञानवता कृतार्थन लोकसंग्रहार्थमपि न प्रवर्तितव्यमित्याशङ्कामुत्थाप्य परिहर-
ति लोकेसादिना । श्रुताध्ययनसंपन्नत्वेनाभिमतो यद्यद्विहितं प्रतिषिद्धं वा कर्मानुतिष्ठति तत्त-
देव प्राकृतो जनोऽनुवर्तते तेन विद्यावतापि लोकमर्यादास्थापनार्थ विहितं कर्तव्यमित्यर्थः । श्रेष्ठा-
नुसारित्वमितरेषामाचारे दर्शयित्वा प्रतिपत्तावपि दर्शयति किंचेति ॥ २१ ॥
प० टी० । अथ तदेव प्रकटयन्नाह यद्यदिति । श्रेष्ठः संभावितो जनो यद्यदाचरती-
तरः प्राकृतोऽपि जनस्तदेवाचरति तथा स श्रेष्ठो जनो यद्वेदशास्त्रादिकं प्रमाणत्वेन मनुते लोको-
ऽपि तदनुलक्षीकृत्य वर्तते ॥ २१ ॥
न मे पार्थास्ति कर्तव्यं विषु लोकेषु किंचन ॥
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥२२॥
यद्यत्र लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिस्तर्हि मां किं न पश्यसि
.न मे इति । न मे मम पार्थ नास्ति न विद्यते कर्तव्यं त्रिष्वपि लोकेषु किंचन
किं चिदपि कस्मान्नानवाप्तमप्राप्तमवाप्तव्यं प्रापणीयं तथापि वर्त एव च कर्म-
ण्यहम् ॥ २२॥
आ० टी० । कृतार्थस्यापि लोकसंग्रहार्थ विहितं कर्म कर्तव्यमित्युक्त्वा तत्रैव भागवतमतमु-
दाहरणत्वेनोपन्यस्यति यदीत्यादिना । अप्राप्तस्य प्राप्तये तवापि कर्तृत्वसंभवाद् न किंचिदपि
विद्यते कर्तव्यमिति कथमुक्तमित्याशङ्कयाह नानवाप्तमिति । प्रतीकमुपादाय व्याख्यानद्वारा वि-
द्यावतोऽपि कर्मप्रवृत्ति संभावयति नेसादिना । अनयार्थ पुनर्नोऽनुवादः । भगवतो मे नास्ति
कर्तव्यमित्येतदाकाङ्क्षाद्वारा स्फोरयति कस्मादिसादिना । प्रयोजनाभावे त्वयापि नानुष्ठेयं कर्मेत्या-
शङ्कय लोकसंग्रहार्थ ममापि कर्मानुष्ठानमिति मत्वाह तथापीति ॥ २२ ॥
प० टी० । एतन्न केवलं तुभ्यमुपदिशाम्यहमपि तथैवाचरामोत्याह नमेइति । भो-
पार्थ त्रिष्वपि लोकेषु भूर्भुवःप्रमुखषु, अथवा देवपितृमनुष्यलोकेषु मम कर्तव्यं किमपि नास्ति । किमु-
दिश्य कर्तव्यमित्याह नानवाप्तामति । अप्राप्तस्य प्राप्त्यर्थे प्रयत्नः कर्तव्यश्चेत्तर्हि ममानवाप्तं कि-
मपि नास्त्यवाप्तसकलकामत्वात् । अथ कामनातीतं परं ब्रह्म प्राप्तव्यमिति मनोरथस्तर्हि किम-
वाप्तव्यं तत्स्वरूपेणाहमेवास्मि । एवं विधोऽप्यहं कर्मणि वर्त एवातः परिशेषालोकसंग्रमहार्थ-
मेवेत्यर्थः ॥ २२ ॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः॥
मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३॥

११२
श्रीमद्भगवद्गीता--
यदि हि पुनरहं न वर्तेयं जातु कदा चित् कर्मण्यतन्द्रितोऽनलसः सन्
मम श्रेष्ठस्य सतो वर्स मार्गमनुवर्तन्ते मनुष्या हे पार्थ सर्वशः सर्व-
प्रकारैः ॥ २३॥
आ० टी० । लोकसंग्रहोऽपि न ते कर्तव्यो विफलत्वादित्याशङ्कयाह यदि हीति ॥ २३ ॥
प० टी० । अथ व्यतिरेकेऽनिष्टमाह यदिति । यद्यहं जातु कदाचिदप्यतन्द्रितोऽन-
लसः सन् कर्मणि न वर्तेयं कर्म नानुतिष्ठेयं तार्ह ममैव वर्त्म मार्गः सर्वशः सर्वे मनुष्या अनुवर्तन्तेऽ-
नुवर्तेरन् ॥ २३॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ॥
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥२४॥
तथा च दोष इत्याह उदिति । उत्सीदेयुविनश्येयुरिमे सर्वे लोका
लोकस्थितिनिमित्तस्य कर्मणोऽभावात् न कुर्या कर्म चेदहम्, किंच संकरस्य
च कर्ता स्यां तेन कारणेनोपहन्यामिमाः प्रजाः प्रजानामनुग्रहाय प्रवृत्तस्तदु-
पहतिमुपहननं कुर्यामित्यर्थः । ममेश्वरस्याननुरूपमापद्येत यदि पुनरहमिव
त्वं कृतार्थबुद्धिरात्मविदन्यो वा तस्याप्यात्मनः कर्तव्याभावेऽपि परानुग्रह एव
कर्तव्य इति ॥ २४ ॥
आ० टी० । श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामचितमेवेत्याशङ्कय दूपयति तथाचे-
त्यादिना । ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तरिति हेतुमाह लोकस्थितीति ।
इतश्चेश्वरेण कर्म कर्तव्यमित्याह किंचति । यदि कर्म न कुर्यामिति शेषः । संकरकरणस्य कार्य
कथयति तेनेति । प्रजोपहतिरपि प्राप्यते चेत् किं तया तव म्यादिति तत्राह प्रजानामिति ।
त्वामनाचरन्तमनुवर्ततां सर्वेषां को दोषः स्यादित्यपेक्षायामीश्वरस्य कृतार्थतया कर्मानुष्टानाभावे तद-
नुवर्तिनामपि सदभावादेव स्थितिहेत्वभावात् पृथिव्यादिभूतानां विनाशप्रसङ्ग्राद्वर्णाश्रमधर्मव्यवस्था-
नुपपत्तेश्चाधिकृतानां प्राणभृतां पापोपहतत्वप्रसंगात् पगनुग्रहार्थ प्रवृत्तिरीश्वरस्येत्युक्तं संप्रति लो-
कसंग्रहाय कर्म कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवे प्राप्ते प्रत्याह यदि पुनरिति । कृतार्थबु-
द्वित्वे हेतुमाह आत्मविदिति । यथावदात्मानमवगच्छन् कर्तृत्वाद्यभिमानाभावात् कृतार्थों भवत्ये-
वेत्यर्थः । अर्जुनादन्यत्रापि ज्ञानवति कृतार्थबुद्धित्वं कर्तव्यत्वाद्यभिमानहीने तुल्यमित्याह अन्यो
वेति । तस्य तर्हि कर्मानुष्ठानमफलत्वादनवकाशमित्याशङ्कयाह तस्यापति । कर्तव्य इत्यात्मवि-
दापि परानुग्रहाय कर्तव्यमेव कर्मेत्याहेति शेषः ॥ २४ ॥
५० टी० । नन्वसङ्गोदासीनस्य तव लोके किं प्रयोजनमित्याशङ्कय वर्णाश्रमधर्मप्रवर्तकः सन्
परमकारुणिकोऽस्मीत्याह उत्सदियुरिति । अहं चेत्कर्म न कुर्या त_मे लोका उत्सीदेयुः स्वक-
मलोपेन भ्रंशेयुः । ततश्च यो वर्णसंकरो भविष्यति तस्य कर्ताहमेव स्यां तेन मत्कृपापात्रत्वेन
स्थिताः प्रजा उपहन्यां मालिन्योपहताः कुर्याम् । यथा मार्गभ्रष्टानां रकानां व्याघचोरादिभीतेर्मा भू-
दिति कृपया कोऽपि मार्गदृष्टा भवति प्रकृतेऽपि तथैव ॥ २४ ॥

तृतीयाध्यायः । सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ॥ कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ २५ ॥ सक्ता इति। सक्ताः कर्मण्यस्य कर्मणः फलं मम भविष्यतीति के चि- दविहांसो यथा कुर्वन्ति भारत, कुर्यादिहानात्मवित्तथासक्तः सन् । तहत् किमर्थं करोति तच्छृणु चिकीर्षुर्यथा कर्तुमिच्छुलोकसंग्रहम् ॥ २५ ॥ आ० टी० । दृष्टान्तदान्तिकरूपं श्लोकं व्याकरोति सक्ता इत्यादिना । असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं वाकुर्वन्निति यावत् ॥ २५ ॥ ५० टी० । एवमस्मदृष्टान्तेन सद्भिरपि कथं न वर्तितव्यमित्याह सक्ता इति । अविद्वांसः प- ग्मार्थानभिज्ञाः कर्मजडाः कर्माण सक्ताः साङ्गात्कर्मणः फलावश्यंभावनियम इति निश्चित्य फलाशया प्रवृत्ताः सन्तो यथा कुर्वन्त्येवमसक्तोऽपि विद्वांस्तथाविधमार्गमनुल्लङ्ग्य कुर्यात् । किं भूतो लो- कसंग्रहं चिकीर्षुरिति पूर्ववत् ॥ २५ ॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ॥ जोपयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥२६॥ एवं लोकसंग्रहं चिकीर्षोर्ममात्मविदः कर्तव्यमस्त्वन्यस्य वा लोकसं- 'ग्रहमुक्त्वा ततस्तस्यात्मविद इदमुपदिश्यते नेति । बुद्दे दो बुद्धिभेदो मयेदं क- तव्यं भोक्तव्यं चास्य कर्मणः फलमिति निश्चयरूपाया बुद्धर्भेदनं चालनं बुद्धि- भेदस्तं न जनयेलोत्पादयेदज्ञानामविवेकिनां कर्मसंगिनां कर्मण्यासक्तानामा- सवतां, किं नु कुर्याजोपयेत् कारयेत् सर्वकर्माणि विहान् स्वयं तदेवाविदुषां कम युक्तोऽभियुक्तः समाचरन् ॥ २६ ॥ आ० टी० । वृत्तमन्द्योत्तरश्लोकमवतारयति एवमिति । कर्तव्यं कर्मेति शेषः । पूर्वार्धमेवं व्याख्यायोत्तरार्धं प्रश्नपूर्वकमवतार्य व्याचष्टे किंनु कुर्यादिति । सर्वकर्माणि कारयेत्तेषु प्रीति कुर्वन्निति शेपः । कथं कारयेदित्याकाङ्क्षायामाह तदेवेति ॥ २६ ॥ प० टी०।अथ कृपालुनालोकानां तत्त्वज्ञानभेव कथं नोपदिश्यत इत्याशङ्कय न ह्यज्ञानां तत्त्वोपदे- शाधिकार इत्याह नबुद्धिभेदमिति । कर्मसंगिनां कर्ममार्गप्रवृत्तानामात्मोपदेशेन बुद्धिभेदं न जनये- द्यतस्तथा कृते सत्युभयभ्रष्टता स्यात् । तर्हि किं कुर्यादित्याह योजयेदिति । युक्तः कर्मकौशलवान् विद्वानपि समाचरन् सम्यगाचरन् सन् सर्वकर्माणि योजयेत्कारयेज्जोपयेत्सेवेत वा ॥ २६ ॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ॥ अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥२७॥ १ योजयत्--मु. पु० पा० •. १५

श्रीमद्भगवद्गीता-
-
१५४
अविहानज्ञः कथं कर्मसु सज्जत इत्याह प्रकृतरिति । प्रकृतेः प्रक-
तिः प्रधानं सत्त्वरजस्तमसा गुणानां साम्यावस्था तस्याः प्रकृतेर्गुणैर्विकारः
कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः
सर्वप्रकारैरहंकारविमूढात्मा कार्यकरणसंघात आत्मप्रत्ययोऽहंकारस्तेन विविधं
मूढ आत्मान्तःकरणं यस्य सोऽयं कार्यकरणधर्मा कार्यकरणाभिमान्यविद्यया
कर्माण्यात्मनि मन्यमानस्तत्तत्कर्मणामहं कर्तेति मन्यते ॥ २७ ॥
आ० टी० । अज्ञानां कर्मसंगिनामित्युक्तं तेनोत्तरश्लोकस्य संगतिमाह अविद्वानिति । कर्तृ-
त्वमात्मनो वास्तवमित्यभ्युपगमाद्विद्वान् कथं कुर्वन्नेव तस्याभावं पश्यतीत्याशङ्कयाह प्रकृतरिति ।
कर्मस्वविदुपः सक्तिप्रकारं प्रकटयन् व्याकरोति प्रकृतरित्यादिना । प्रधानशब्देन मायाशक्तिरु-
च्यते, अविद्ययेत्युभयतः संबध्यते ॥ २७ ॥
प० टी० । अथ कर्मकरणे सर्वेषां विधिस्तुल्य एव तथा च विद्वदविदुषां को भेद इत्याह
प्रकृतरिति द्वाभ्याम् । प्रकृतगुणैः प्रकृतिकारिन्द्रियैः क्रियमाणानि सर्वाणि तान्यहमेव करोमी-
त्यहंकारेणेन्द्रियादिप्वात्माध्यासेन विमूढ आत्मा बुद्धिर्यस्य सोऽहं कर्तेति मन्यत कर्तृत्वाभि .
निविष्टो भवति तेन बध्यते ॥ २७ ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ॥
गुणा गुणेषु वर्तन्त इति मत्वा न सजते ॥२८॥
यः पुनर्मन्यते तत्त्वविदिति । तत्त्ववित्तु महाबाहो कस्य तत्त्वविद् गु-
णकर्मविभागयोर्गुणविभागस्य कर्मविभागस्य च तत्त्वविदित्यर्थः । गुणाः कर-
णात्मका गुणेषु विषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्ति न
करोति ॥२८॥
आ० टी० । अज्ञस्य कर्ममु शक्तिमुक्त्वा विदुपस्तदभावमभिदधाति यः पनरिति । तत्त्वं
याथार्थ्य वेत्तीति व्युत्पत्त्या तत्त्वविदिति तुशब्देनाज्ञाद्विशिष्टो निर्दिष्टः । प्रश्नपूर्वकं द्वितीयपाद-
मवतार्य व्याचष्टे कस्येत्यादिना । गुणानामेव गुणेषु वर्तमानत्वमयुक्तं निर्गुणत्वात्तेषामित्याश-
तय विभजते गुणा इति । कार्यकरणानामेव विषयेषु प्रवृत्तिरात्मनस्तु कूटस्थत्वान्मैवमिति ज्ञात्वा
तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २४ ॥
५० टी० । अथ ज्ञानिनो विशेष दर्शयति तत्त्वविदिति । गुणकर्मविभागयोस्तत्त्वविन्नाह
गुणात्मक इति गुणेभ्य आत्मनो विभागो विभक्तत्वम्, न मे कर्माणीति कर्मभ्योऽप्यात्मनो विभागस्त-
योस्तत्त्वं वेत्तीति तत्त्ववित् । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते स्वभावतः प्रवृत्तानीति मत्वा न
सज्जते कर्तृत्वाभिनिवेशं न करोति । तदुक्तम्-'धूलिधूमाम्बुदैर्यद्वन्मलिनं क्रियते नभः । परामृष्टस्त-
थैवात्मा विशुद्धः प्राकृतैर्गुणैः' इाते ॥ २८ ॥
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ॥
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥२९॥

तृतीयाध्यायः । ये पुनः प्रकतेरिति । प्रकृतेर्गुणैः सम्यङ् मूढाः संमोहिताः सन्तः स- ज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कर्म कुमः फलायेति, तान् कर्मसं- गिनोऽकत्स्नविदः कर्मफलमात्रदर्शिनो मन्दान् मन्दप्रज्ञान् कृत्स्नविदात्मवि- त् स्वयं न विचालयेद् बुद्धिभेदकरणमेव चालनं तन कुर्यादित्यर्थः ॥ २९ ॥ आ० टी० । विद्वानविद्वानित्युभावपि प्रकृत्य विद्वानविदुषो बुद्धिभेदं न कुर्यादित्युपसंहरति ये पुनरिति । प्रकृतेरुक्ताया गुणैदेहादिभिर्विकारैः संमूढास्तानेवात्मत्वेन मन्यमाना ये ते गुणानां तेषामेव देहादीनां कर्मसु व्यापारेषु सन्नन्ने सक्ति दृढतरामात्मीयबुद्धिं कुर्वन्तीत्याह प्रकृतेरिया- दिना । तेषामनात्मविदां स्वयमात्मविद् बुद्धिभेदं नापादयेदित्याह तानिसादिना ॥ २९ ॥ प० टी० । अथ 'न बुद्धिभेदं जनयेद्' इत्युपसंहरति प्रकृतरिति । प्रकृतेर्गुणैः सत्त्वादिभिः संमूढा मोहं प्राप्ताः सन्तो गुणकर्मसु गुणेप्विन्द्रियेषु तत्कर्मसु द्रष्टव्यश्रोतव्यादिषु च ये सज्जन्ते ता- नहाविद एकैकेन्द्रियोपासकान् कृत्स्नं वेत्तीति कृत्स्नवित्कृत्स्नं सर्वेन्द्रियचालकमात्मानं वेत्ति न स विचालयेत् कर्माण करचरणव्यापारं कुर्वतः पुरुषानपि भ्रंशं न प्रापयेत् । श्रुतिरपि शातपथी-"स योत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येपोत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एक भवति त- देतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेव कीर्ति श्लोकं विन्दते य एवं वेद" इति । भाष्यम्-पूर्वश्रुतौ प्राणन्नेव प्राणो नाम भवतीत्यादिना सर्वेन्द्रियाण्यात्मन एष कर्मनामानि भवन्तीत्युक्तं तन्न य एकैकमुपास्ते आत्मानभिज्ञः सन् एकैकेन्द्रियोपासनां करोति न स वेद न जानाति । एष एकैकेन्द्रिगुणाकृत्स्नो भवति । अथ कृत्स्नः केन प्रकारेण भवतीत्याह आत्मोति । सर्वेन्द्रियेषु स्वस्वविषयं गृहसु सत्सु पदार्थभासकोऽयमेवेत्येवोपासीत । यतोत्रात्मनि सर्वे .विषयाः प्रतीतिरूपणैकीभवन्ति । तदेतस्यात्मनः पदनीयं ज्ञातव्यं स्थानं यद्यस्मात् कारणादू अ- स्य सर्वस्य जगतोऽयमात्मा । अनेनात्मना सर्व वेद जानाति । अतो रूपरसादिसर्वपदार्थग्रहणे प्रती- तिरूपेणात्मैव ज्ञातो भवति । तत्र दृष्टान्तमाह यथेति । यथा पदेन गोपदानुसारं गच्छतो गोज्ञान- मेवं यो वेद म कीर्ति श्लोकं यशश्च विन्दते प्रामोति । तदुक्तं तैत्तिरीयकेऽपि । “अन्तः प्रविष्टः शास्ता जनानामकः सन् बहुधा विचारः। शतं शुक्राणि यत्रकं भवति । सर्वे वेदा यत्रैकं भवन्ति । अ- तो बहुप्रकारमिन्द्रियमागैर्विचरन्ति" इति । शुक्राणि इन्द्रियवृत्तयः । शेषं स्पष्टम् ॥ २९ ॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ॥ निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः॥३०॥ कथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यमित्युच्यते मयोति। मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्या- ध्यात्मचेतसा विवेकबुद्ध्याहं कर्तेश्वराय भृत्यवत् करोमीत्यनया बड्या । किं च निराशीस्त्यक्ताशीनिर्ममो ममभावश्च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरो विगतसंतापो विगतशोकः सनित्यर्थः ॥ ३० ॥ आ० टी० । यद्यपि कर्मण्यज्ञोऽधिक्रियते तथापि मोक्ष्यमाणन तेन कर्म त्यक्तव्यं मोक्षस्य कर्मासाध्यत्वान्न तु तेन कर्म कर्त शक्यं कर्मणः सापेक्षितविरोधित्वादिति शकते कथमिति । .

११६
श्रीमद्भगवद्गीता-
श्लोकेनोत्तरमाह उच्यत इति । यथोक्ते परस्मिन्नात्मनि सर्वकर्मणां समर्पणे कारणमाह अध्यात्मेति ।
विवेकबुद्धिमेव व्याकरोति अहमिति । दर्शितरीत्या कर्मसु प्रवृत्तस्य कर्तव्यान्तरमाह किं चेति ।
त्यक्ताशीः फलप्रार्थनाहीनः सन्नित्यर्थः, निर्ममो भूत्वा पुत्रभ्रात्रादिष्विति शेषः । ननु युद्ध नियोगो
नोपपद्यते पुत्रभ्रात्रादिहिंसात्मनस्तस्य संतापहेतोनियोगविषयत्वायोगादिति तत्राह विगतेति ॥३०॥
प० टी० । अथ प्रकृतमनुसरति मयीति । सर्वाणि कर्माणि मयि संन्यस्य समाध्या-
त्मचेतसान्तर्याम्यधीनोऽहं करोमीति दृष्टया निराशीरमुकं मे भूयादिति कामरहितस्तथा यन्निमित्तं
तव ज्वरः समुदितोऽभूत्तद्विपये निर्ममो ममताशुन्यो भूत्वा ततो विगतज्वरः सन् युध्यस्व ॥ ३० ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ॥
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३१॥
यदेतन्मम मतं कर्म कर्तव्यमिति सप्रमाणमुक्तं तत्तथा ये म इति । ये मदी-
यमिदं मतमनुतिष्ठन्त्यनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अ-
नसूयन्तोऽसूयां च मयि परमगुरौ वासुदेवेऽकुर्वन्तो मुच्यन्ते तेऽप्येवंभूताः
कर्मभिर्धर्माधर्माख्यैः ॥ ३१ ॥
आ० टी० । प्रकृतं भगवतो मतमुक्तप्रकारमनुस यैवानुतिष्ठतां क्रममुक्तिफलं कथयति
यदेतदिति । शास्त्राचार्योपदिष्टेऽदृष्टार्थे विश्वासवत्त्वं श्रद्दधानत्वं, गुणेषु दोपाविष्करणमसूया,
आर्यथोक्ताया मुक्तरमुख्यत्वद्योतनार्थः ॥ ३१ ॥
५० टी० । एवमनुष्ठाने गुणमाह ये मइति । इदं मे मतं ये मद्वाक्यं श्रद्धावन्तोऽनसूयन्तो
दःखास्पदे कर्मणि प्रवर्तयन्तीति दोपदृष्टिरहिताः सन्तोऽनुतिष्ठन्ति तेऽपिशनै निवत्कर्मभि-
र्मुच्यन्ते ॥ ३१ ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ॥
सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ ३२॥
ये त्विति । ये तु तहिपरीता एतन्मे मम मतमभ्यसूयन्तो निन्दन्तो ना-
नुतिष्ठन्ति नानुवर्तन्ते सर्वेषु ज्ञानेषु विविधं मूढास्ते सर्वज्ञानविमूढारतान् वि-
नष्टान् नाशं गतानचेतसोऽविवेकिनः ॥ ३२ ॥
आ० टी० । भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति ये विति । तद्विपरीतत्वं भग-
वन्मतानुवर्तिभ्यो वैपरीत्यं, तदेव दर्शयति एतदिसादिना । अभ्यसूयन्तस्तत्रासन्तमपि दोषमुद्रा-
वयन्त इत्यर्थः, सर्वज्ञानानि सगुणनिर्गुणविषयाणि, प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम् ॥ ३२ ॥
५० टी० । विपक्षे दोपमाह ये त्वेतदिति । ये तु प्रानिरूपितप्रकाररहिताः सन्तो मे मतं
नानुतिष्ठन्ति तानचेतसो भ्रान्तांस्तथा सर्वज्ञानरहितान्नष्टान् विद्धि ॥ ३२ ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ॥
प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

तृतीयाध्यायः । ११७ कस्मात् पुनः कारणात्त्वदीयं मतं नानुतिष्ठन्तः परधर्माननुतिष्ठन्ति, स्वधर्म च नानुवर्तन्ते, तत्प्रतिकूलाः कथं न बिभ्यति तच्छासनातिकमदोषात्, त- बाह सदृशमिति । सदृशमनुरूपं चेष्टते चेष्टां करोति कस्याः स्वस्याः स्वकी- यायाः प्रकृतेः प्रकृति म पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमानजन्मादावभिव्यक्तः सा प्रकृतिस्तस्याः सदृशमेव सर्वो जन्तु नवानपि चेष्टते किं पुनर्वस्तस्मात् प्रकृतिं यान्त्यनुगच्छन्ति भूतानि प्राणिनो निग्रहो निषेधरूपः किं करिष्यति मम चान्यस्य वा ॥ ३३ ॥ आ० टी० । भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति कस्मा- दिति । भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशक्याह तत्प्रतिकूला इति । राजानुशासनातिकमे दोषदर्शनाद्भगवदनुशासनातिक्रमेऽपि दोषसंभवात् तत्प्रतिकूलत्वं भयकारणमित्यर्थः । उत्तरत्वेन श्लोकमवतारयति महशमिति । सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति ज्ञानवानपीति । सर्वाण्यपि भुतान्यनिच्छन्त्यपि प्रकृतिसदृशी चेष्टां गच्छन्तीति निगमयति प्रक- तिमिति । भूतानां प्रकृतेरधीनत्वेऽपि प्रकृतिर्भगवता निग्राह्येत्याशङ्कयाह निग्रह इति । का पुन- रियं प्रकृतिर्यदनुमारिणी भूतानां चेष्टेति पृच्छति प्रकृति मेति । भगवदभिप्रेतां प्रकृति प्रकटय- ति पूर्वेति । आदिशब्देन ज्ञानेच्छादि संगृह्यते । यथोक्तः संस्कारः स्वशक्त्या प्रवर्तकश्चेत् प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्कच विशिनष्टि वर्तमानेति । सर्वो जन्तरित्युक्तं विवकिपवृत्तेरतथात्वादिभिश्चा- विशेषादिति न्यायमनुस्मरन्नाह ज्ञानवानिति । ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलि- तमाह नस्मादिति। प्रकृति यान्ति प्रकृतिसदृशीं चेष्टां गच्छन्त्यनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः । प्रकृतेर्भगवता तत्तुल्येन वा केन चिद निग्रहमाशश्यावतारितचतुर्थपादस्यार्थापेक्षितं पूरयति मम चेति ॥ ३३ ॥ प० टी० । नन सर्वे ज्ञातारोऽपि भगवद्वाक्यविश्वासादिन्द्रियाणि निगृह्य कथं स्वधर्माचरणं न कुर्वन्तीत्याह सदृशमिति । ज्ञानवानपि प्रकृतेः सदृशं चेष्टते प्राचीनकर्मसंस्काराधीनस्वभावः प्रकृति- स्तत्सदृशं तदनुरूपं यथा भवति तथा गुणदोपज्ञानवानपि चेष्टते किं पुनरज्ञश्चेष्टते इति । यतः सर्वाणि भूतानि प्रकृति यान्त्यनुवर्तन्ते । एवं सतीन्द्रियनिग्रहः किं करिष्यति प्रकृतेर्बलिष्ठत्वात्॥३३॥ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेपो व्यवस्थितौ ।। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३४॥ यदि सर्वो जन्तुरात्मनः प्रकृतिसदृशमेव चेष्टते न च प्रतिशून्यः क- श्चिदस्ति ततः पुरुपकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्ताविदमुच्यते इन्द्रि- यस्येति । इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागोऽनि- टे देष इत्येवं प्रतीन्द्रियार्थं रागद्देषाववश्यंभाविनौ तवायं पुरुपकारस्य शा- स्वार्थस्य विषय उच्यते शास्त्रार्थे प्रवृत्तः पूर्वमेव रागहेषयोर्वशं नागच्छेद्, या १ इन्द्रियस्येन्द्रियस्यति-पा० लि. प.

श्रीमद्भगवद्गीता- हि पुरुषस्य प्रकृतिः सा रागद्देषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयति तदा स्व- धर्मपरित्यागः परधर्मानुष्ठानं च भवति, यदा पुना रागहेषौ तत्प्रतिपक्षेण नि- यमयति तदा शास्त्रदृष्टिरेव पुरुषो भवति न प्रतिवशस्तस्मात्तयो रागद्देषयो- वंशं न गच्छेद् यतस्तौ त्यस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्कराविवेत्यर्थः ॥ ३४ ॥ आ० टी० । सर्वस्य भूतवर्गस्य प्रकृतिवशवर्तित्वे लौकिकवैदिकपुरुषकारविषयाभावाद्वि- धिनिषेधानर्थक्यमिति शङ्कते यदीति । ननु यस्य न प्रकृतिरस्ति तस्य पुरुषकारसंभवादर्थवत्त्वं त- द्विषये विधिनिषेधयोर्भविष्यति नेत्याह न चेति । शङ्कितदोषं श्लोकेन परिहरति इमियादिना । वीप्सायाः सर्वकरणागोचरत्वं दर्शयति सर्वेति । प्रत्यर्थ रागद्वेषयोरव्यवस्थायाः प्राप्तौ प्रत्यादिशति इष्ट इति । प्रतिविषयं विभागेन तयोरन्यतरस्यावश्यकत्वेऽपि पुरुषकारविषयाभावप्रयुक्त्या प्रा- गुक्तं दूषणं कथं समाधेयमित्याशङ्कयाह तत्रेति । तयोरित्याद्यवतारितं भागं विभजते शास्त्रार्थस्येति। प्रशांतवशत्वाज्जन्तोःव नियोज्यत्वमित्याशङ्कयाह याहीति । रागद्वेषद्वारा प्रकृतिवशवतित्वे स्व- धर्मत्यागादि दुर्वारमित्युक्तमिदानी विवेकविज्ञानेन रागादिनिवारणे शास्त्रीयदृष्टया प्रकृतिपारवश्यं परिहतुं शक्यमित्याह यदति । मिथ्याज्ञाननिबन्धनौ हि रागद्वेषो तत्प्रतिपक्षत्वं विवेकविज्ञानस्य मिथ्याज्ञानविरोधित्वादवधेयम् । रागद्वेषयोर्मूलनिवृत्त्या निवृत्ती प्रतिबन्धध्वंसे कार्यसिद्धिमभिसन्धा- योक्तं तदेति । एवकारस्यान्ययोगव्यवच्छेदकत्वं दर्शयति नेति । पूर्वोक्तं नियोगमुपसंहरति तस्मा- दिति । तत्र हेतुमाह यत इति । हिशब्दोपात्तो हेतुर्यत इति प्रकटितः स च पूर्वेण तच्छब्देन संबन्धनीयः । पुरुषपरिपन्थित्वमेव तयोः सोदाहरणं स्फोरयति श्रेयोमार्गस्येति ॥ ३४ ॥ • । नन्वेवं प्राचीनस्वभावाधीना चेत्पुरुषस्य प्रकृतिस्तार्ह विधिनिषेधवेयथ्यं स्या दित्याह इन्द्रियस्येति । मुख्यन्द्रियस्य मनस इन्द्रियस्यार्थरूपरसादिविषये रागद्वेषो व्यवस्थिताववश्य भाविनी स्याताम् । स्वानुकूलेऽर्थे विषये रागः प्रीतिः प्रतिकूले च द्वेषस्तथापि तयोर्वशं नागच्छेत् त- दशवर्ती न भवेत् । हि यस्मात् कारणात् तौ रागद्वेषावस्य मुमुक्षोर्मनसः परिपन्थिनौ क्षोभकत्वेन शत्रुवदुपस्थितौ । न हि कश्चिल्लोकेऽपि वैरिवशवर्ती भवति दुःखहेतोः प्रवृत्त्यभावाद अथ तौ प्रकृति- बलेन वशं नयतस्तथापि मदाश्रयबलेन शास्त्राचार्यबलेन च वशं न गच्छेदित्यर्थः । ननु तत्रापि प्रासंस्कार एव शरणमिति चेन्न । आत्मा वा अर द्रष्टव्यः श्रोतव्यो मन्तव्यः इत्यादिवाक्यै- रुपास्यः श्रुतिबोधितत्वात् ॥ ३४ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ॥ स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३५॥ तत्र रागहेषप्रयुक्तो मन्यते शास्त्रार्थमप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय ए वेति तदसन् श्रेयानिति । श्रेयान् प्रशस्यतरः स्वधर्मः स्वकीयधर्मो विगुणो ऽपि विगतगुणोऽप्यनुष्ठीयमानः परधर्मात् स्वनुष्ठितात् साद्गुण्येन संपादिता- दपि, स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात्, क. १ शामार्थ-पा० कचित्पुस्तके २ विव पयः-पा० लि. पु. । प. टी " तृतीयाध्यायः। स्मात् परधर्मों भयावहः नरकादिलक्षणं भयमावहति यतः ॥ ३५ ॥ आ० टी० । रागद्वेषयोः श्रेयोमार्गप्रतिपक्षत्वं प्रकटयितुं परमतोपन्यासद्वारा समनन्तरश्लो- कमवतारयति तत्रेसादिना । व्यवहारभूमिः सप्तम्यर्थः । शास्त्रार्थस्यान्यथा प्रतिपत्तिमेव प्रत्यायय- ति परधर्मोऽपीति । स्वधर्मवदित्यर्थः । अनुमानं दूषयन्नुत्तरत्वेन श्लोकमुत्थापयति तदसदिति । क्षत्रधर्माद् युद्धाद् दुरनुष्ठानां परिवाधर्मस्य भिक्षाशनादिलक्षणस्य स्वानुष्ठेयतया मयापि कर्तव्यत्वं प्राप्तमित्याशङ्कय व्याचष्टे श्रेयानिति । उक्तेऽर्थे प्रश्नपूर्वकं हेतुमाह कस्मादिसादिना । स्वधर्म- मवधूय परधर्ममनुतिष्ठतः स्वधर्मातिक्रमकतदोषस्य दुष्परिहरत्वान्न सत्त्यागः साधीयानित्यर्थः ॥३५॥ घटी। ननु धर्माविशेषाच्छमदमादिसम्पदुपेतं ब्रह्मकर्मैवानुष्ठेयम्, स्वपरहिंसाप्रधानत्वेन दुःखनिदान क्षत्रधर्म कथं प्रवर्तितव्यामत्याशङ्कयाह श्रेयानिति । मुटु यथा भवति तथानुष्ठितात्परधर्मा- च्छमदमादिसंपदपेताद् ब्राह्मणधर्मात्सकाशादुक्तप्रकारेण विगुणोऽपि स्वधर्मः श्रेयान् प्रशस्यतरः प्रोक्तः। यथा सौभाग्यादिगुणोपेतायाः परमातुः सकाशात्कुरूपापि स्वमाता हितावहा भवति । अतः स्वधर्म मरणं श्रेयः श्रुतिबोधितस्वमादिसाधनत्वात् । परधर्मस्तु भयावहः निषिद्वत्वेन निरयप्रापकत्वात् । अन्यथा वेदेन चातुर्वर्ण्य कथं करप्येत ॥ ३५ ॥ अर्जुन उवाच । अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः॥ अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३६॥ यद्यप्यनर्थमूलं ध्यायतो विषयान् रागद्देषौ ह्यस्य परिपन्थिनाविति चो- तं विक्षिप्तमनवधारितं च यदुक्तं तत् संक्षिप्तं निश्चितं चेदमेवेति ज्ञातुमिच्छन. र्जुन उवाच । ज्ञाते हि तस्मिन् तदुच्छेदाय यत्नं कुर्यादिति अथेति । अथ के- न हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्योऽयं पापं कर्म चरत्याचरति पूरुषः स्वय- मनिच्छन्नपि हे वाष्र्णेय वृष्णिकुलप्रसूत बलादिव नियोजितो राज्ञेवेत्युक्तो दृष्टान्तः ॥ ३६॥ आ० टी० । प्रागेवानर्थमूलस्योक्तत्वात् पुनस्तजिज्ञासया प्रश्नानुपपत्तिरित्याशङ्कयाह यद्यपीति । विक्षिप्तं विविधेषु प्रदेशेषु क्षिप्तं दर्शितमिति यावत, अनवधारितमनेकत्रोक्तत्वादनेकधा वा विवेककामादिभिर्विकल्पितत्वादित्यर्थः । नन्वनर्थमूलं परिहर्तव्यं तत् किमिति ज्ञातुमिप्यते तत्राह ज्ञाते होति । कुर्यामिति तज्ज्ञानमर्थवदिति शेषः । वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा प्रश्नवाक्यं व्याकरोति अर्थत्यादिना । अनिच्छतोऽपि बलादेव दुश्चारते प्रेरितत्वे दृष्टान्तमाचष्टे राज्ञवेति । विनियोज्यत्वस्येच्छासापेक्षत्वात्तदभावे तदसिन्द्विमाशङ्कय प्रागुक्तं स्मारयति राक्षेवेत्युक्त इति ॥३६॥ प०टी०।अथ तयोर्न वशमागच्छदिति यदुक्तं तदशक्यं मन्यमानोऽर्जुनः पृच्छति। अथेति । भो वाष्र्णेय वृष्णिकुलोद्भव कृष्ण पापं कर्तुमिच्छन्निव पुरुषः केन प्रयुक्तः सन् पापं चरति । किंवत् बला- दिव बलात्कारेण नियोजित इवाज्ञप्त इव यथा त्वयाहमिति सूचयन् वाणेयेति संबुद्धिः ॥ ३६ ॥ १ यदिवा स्व आत्मा तस्य धर्मोऽध्यात्मावगतिरूपो विगुणः सत्त्वादिप्राकृतगुणवियुक्तो मुक्तिहेतुत्वात् । इन्द्रि याणि पराणि तेषां धर्मः प्राकृतिकस्तस्मात्स्वनुष्ठितादपि स्वधर्मे निधनं श्रेयोऽपुनर्भवत्वात्परधर्मो भयावहोऽविद्यारूप- तया संसारहेतुत्वात्-इन्यधिक लि. पु० ।

१२० श्रीमद्भगवद्गीता- श्रीभगवानुवाच । काम एप क्रोध एप रजोगुणसमुद्भवः ॥ महाशनो महापाप्मा विदयेनमिह वैरिणम् ॥ ३७॥ शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि भगवानुवाच । ‘ऐश्वर्य- स्य समग्रस्य धर्मस्य यशसः श्रियः । वैराग्यस्याथ मोक्षस्य पण्णां भग इती- ङ्गना' । ऐश्वर्यादि षट्कं यस्मिन् वासुदेवे नित्यमप्रतिबन्धत्वेन सामस्त्येन च वर्तते ' उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यांच स वाच्यो भगवानिति' । उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवो वा- च्यो भगवानिति । काम इति । काम एष सर्वलोकवशं कुर्वन् शत्रुर्यनिमित्ता सर्वानर्थप्राप्तिः प्राणिनां स एष कामः प्रतिहतः केन चित् कोधत्वेन परिणमते ऽतः क्रोधोऽप्येष एव रजोगुणसमुद्भवो रजश्च तद् गुणश्च रजोगुणः समुद्भवो यस्य स कामो रजोगुणसमुद्भवो रजोगुणस्य वा समुद्भवः कामो ह्युद्भूतो रजः प्रव- र्तयन् पुरुषं प्रवर्तयति तृष्णया ह्यहंकारित इति दुःखिनां रजःकार्ये सेवादौ प्रट- त्तानां प्रलापः श्रूयते । महाशनो महदशनमस्येति महाशनोऽत एव महापाप्मा कामेन प्रेरितो जन्तुः पापं करोत्यतो विद्ध्येनं काममिह संसारे वैरिणम् ॥३७॥ आ० टी० । संप्रति प्रतिवचनं प्रस्तौति शृण्विति । तस्य वैररीत्यं स्फोरयति सर्वेति । अप्र- स्तुत किमिति प्रस्तूयते तत्राह यं त्वमिति । भगवच्छब्दार्थ निर्धायितुं पौगणिकं वचनमुदाहरति ऐश्वर्यस्येति । समग्रस्येत्येतत् प्रत्येकं विशेषणैः संबध्यते, अथशब्देन तद गयो ज्ञानं विवक्ष्यते । उदाहृतवचसस्तात्पर्यमाह ऐश्वर्यादीति । स वाच्यो भगवानिति संबन्धः । तत्रैव पौगणिक वाक्या- न्तरं पठति उत्पत्तिमिति । भूतानामिति प्रत्येकमुत्पत्त्यादिभिः संबध्यते कारणार्थी चोत्पत्तिप्रलयश- ब्दौ क्रियामात्रस्य पुरुषान्तरगोचरत्वसंभवादागतिर्गतिश्चेत्यागामिन्यौ संपदापदौ सूच्यत । वाक्या- न्तरस्यापि तात्पर्यमाह उत्पत्त्यादीति । वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते, समग्रैश्वर्या- दिसंपा.समुच्चयार्थश्चकारः । उक्तलक्षणो भगवान् किमुक्तवानिति तदाह काम इति । कामस्य सर्वलोकशत्रुत्वं विशदयति यनिमित्तेति । तथापि कथं तस्यैव क्रोधत्वं तदाह स एष इति । काम- कोषयोरेव हेयत्वद्योतनाथं कारणं कथयति रजोगुण इति । कारणद्वारा कामादरेव हेयत्वमुक्त्वा कार्यद्वारापि तस्य हेयत्वं सूचयति रजोगुणस्यति । कामस्य पुरुषप्रवर्तकत्वमेव न रजोगुणजनकन्वमि. त्याशङ्कयाह कामो हीति । तत्रैवानुभवानुसारिणी लोकप्रसिद्धि प्रमाणयति तृष्णथा हीति । तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति महाशन इति । बहुविषयत्वप्रयुक्तं कर्म निर्दिशति अत इति । सर्वविषयत्वेऽपि कुतोऽस्य पापत्वमित्याशङ्कयाह कामेनेति । कामस्योक्तवि- शेषणवखे फलितमाह अत इति ।। ३७ ॥ ० । अत्रोतरं भगवानाह कामएष इति । यदा विवेकिनोऽपि पुरुषस्य सत्त्वगुणः प्रच्छन्नो भवति तदा रजोगुणः प्रादुर्भवति । तस्मात्कामक्रोधावुत्पद्येते तयोः क्रमेण स्वरूपमाह प०टी

तृतीयाध्यायः ।
१२१
महाशन इति । तत्र कामो महाशनो दुप्पूरत्वात् क्रोधस्तु महापाप्माति–रत्वादनयोरुभयो-
१यत्वं व्याञ्जतम् । एवमेनं कामं क्रोधं वा वैरिणं विद्धि । तथा च शत्रुरेव पापे प्रवर्तयति
न तु मेत्रम् । तथा त्वं बन्धुसुहृद्विषयकामेन स्वधर्मत्यागरूपेण पातके प्रवर्तस इत्यर्थः ॥ ३७ ॥
धूमेनावियते वह्निर्यथादर्शो मलेन च ॥
यथोल्बेनाटतो गर्भस्तथा तेनेदमावृतम् ॥३८॥
कथं वैरीति दृष्टान्तेः प्रत्याययति धूमेनेति । धूमेन सहजेनावियते व-
ह्निः प्रकाशात्मकोऽप्रकाशात्मकेन यथा वादर्शो मलेन च यथोल्बेन गर्भवष्ट-
नेन जरायुणावृत आच्छादितो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥
आ० टी० । उत्तरश्लोकमवतारयति कथमिति । अनेकदृष्टान्तोपादानं प्रतिपत्तिसौकर्यार्थम् ।
सहनस्य धूमस्य प्रकाशात्मकवादि प्रत्यावरकत्वसिद्धयर्थं विशिनष्टि अप्रकाशात्मकेनेति ॥ ३८ ॥
५० टी० । अथ सत्त्वप्रच्छादने दृष्टान्तत्रयमाह धूमेनेति । यथार्दैन्धनोपाधिप्रसृतेन धूमे-
नाग्निरावियते यथा वा प्रतिविम्बदर्शक आदर्शी मलेनाच्छिद्यते । यथोल्बेन गर्भावरणीभूतेन चर्मणा
गर्भ आवियते तथा तेन कामेन क्रोधेन चेदं सत्त्वोत्पन्नं ज्ञानमाव्रियते ॥ ३८ ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ॥
कामरूपेण कौन्तेय दुप्पूरेणानलेन च ॥३९॥
किं पुनस्तदिदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते आवृतमिति ।
आवृतमेतेन ज्ञानं ज्ञानिनो नित्यवैरिणा ज्ञानी हि जानात्यनेनाहमनर्थे प्रयु-
क्तः पूर्वमेवातो दुःखी च भवति नित्यमेव, अतोऽसी ज्ञानिनो नित्यवैरी न
तु मूर्वस्य स हि कामं तृष्णाकाले मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते जा-
नाति तृष्णयाहे दुःखित्वमापादित इति न पूर्वमेवातो ज्ञानिन एव नित्यवैरी ।
किंरूपेण कामरूपेण काम इच्छेव रूपमस्येति कामरूपस्तेन दुष्पूरेण दुः-
खेन पूरणमस्येति दुष्परोऽतस्तेनानलेन नास्थालं पर्याप्तिर्विद्यत इत्यनल-
स्तेन ॥ ३९॥
आ० टी० । सामान्यतो निर्दिष्टं विशेपतो निर्देष्टुमाकाहापूर्वकमनन्तरश्लोकमवतारयति किं
पुनरिति । कामस्य ज्ञानं प्रत्यावरणसिद्ध्यर्थ ज्ञानिनो नित्यवैरिणेत्यादिविशेपणम् । प्रतीकमादाय
व्याचष्टे आवृतमित्यादिना। ज्ञानिनां प्रति वैरित्वेऽपि नित्यवैरित्वं कामस्य कथमित्याह ज्ञानी होति।
अनर्थप्राप्तिमन्तरेण कामस्य प्रसंगावस्था पूर्वमवेत्युच्यते, अतःशब्देन कामप्रसक्तिरेव परामृश्यते,
नित्यमेवेत्युत्पत्त्यवस्था कार्यावस्था च कामस्य कथ्यते । ननु सर्वस्यापि कामात्मता न प्रशस्तति कामो
नित्यवैरी भवति ततः कुतो ज्ञानिविशेषणमित्याशङ्कयाह न विति।अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति
स हीति । कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता, अझं प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे
फलितमाह अत इति । स्वरूपतो नित्यवरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः ।
आकाङ्काद्वारा प्रकृतं वैरिणमेव स्फोरयति किं रूपेणेसादिना ॥ ३९ ॥

१२१ श्रीमद्भगवद्गीता- ५० टी० । अथ तदेव विविच्याह आवृतमिति । पूर्व कामक्रोधौ पृथनिरूपितावथैकत्वे- नाह । यतः काम एव केनाप्याक्षिप्तः सन् क्रोधत्वेन परिणमति । एवमेकेन कामरूपेण ज्ञानमावृतम् । किं- भूतेन ज्ञानिनः पुरुषस्य नित्यवैरिणा । अज्ञस्य भोगावसरे कामः सुखहेतुर्दुःखहेतुर्भवति परिणामे दुःखरूपः । ज्ञानिनस्त्वनानुसन्धानेन नित्यं दुःखहेतुत्वान्नित्यवैरिणेत्युक्तम् । किभूतेन दुप्पूरेणानलेन च दुष्पूरेण दुर्भरेण विषयाप्राप्तावनलेनानिरूपेण अथ कामस्य स्वरूपं दुप्पूरत्वं च निरूपयितुं शा- तपथी श्रुतिरपि-"एतावान्वै कामी नेत्संश्च नातो भूयो विन्देत्तस्मादप्येतयकाकी कामयते जाया मे स्यादथ प्रजायेयाथवित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्योकृत्स्नतः" इति । भाष्यम्-पूर्वश्रुत्या निरूपितः काम एतावानेतादृशः। अत्र नेदिति निपातो निषेधार्थे । स कामः सन्न भवति तथाप्यतः कामात्सकाशाद्भूयो महत्तरं न विन्दते न जानाति यत एवं तस्मात्कामात्प्रथममेकाकी मातृगादेक एवात्पहोऽनतरं जाया मे स्यादिति कामयते अथानन्तरं प्रजायेय प्रजात्वेन भूयासम् “आत्मावै पुत्रनामासि" इति श्रुतेः । तत्पोषणार्थ वित्तं मे स्यात्तदर्थ सेवा कृप्यादिकर्म कर्तव्यमित्येतावान् काम इति पूर्वेणान्वयः । अथ कामस्य दु. प्पूरत्वमाह स यावदिति । स कामयानः पुरुष एतेषां पूर्वोक्तानां कामानां मध्ये यावदेकै काम न प्राप्नोति तावदह अकृत्स्न एव अकृतार्थ इति मन्यते इयमेव तस्याकृत्स्नता ॥ ३९ ॥ इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते ॥ एतर्विमोहयत्येप ज्ञानमात्य देहिनम् ॥४०॥ किमधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्येत्यपेक्षायामाह ज्ञाते हि शत्रोरधिष्ठाने सुखेन शत्रुनिबर्हणं कर्तुं शक्यत इति इन्द्रियाणीति । इन्द्रियाणि मनो बुद्धिश्वास्य कामास्याधिष्ठानमुच्यते, एतैरिन्द्रियादिभिराश्रयर्वि- मोहयति विविधं मोहयत्येष कामो ज्ञानमात्याच्छाद्य देहिनं शरीरिणम् ॥४०॥ आ० टी' । कामस्य निराश्रयस्य कार्यकरत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति किम- धिष्ठान इति । कामस्य नित्यवैरित्वेन परिजिहीर्षितस्य किमित्यधिष्टानं ज्ञाप्यते तत्राह ज्ञाते हीति। इन्द्रियादीनां कामाधिष्ठानत्वं प्रकटयति एतरिति । नन्वेताभिरिति वक्तव्ये कथमेतरित्युच्यते तत्राह इन्द्रियादिभिरिति ॥ ४० ॥ प० टी० । अथ कामोन्मूलनप्रकारं निरुरूपपिपुस्तदधिष्टानमाह इन्द्रियाणीति।अस्य काम- स्याधिष्ठानमाश्रयीभूतास्त्रयो भवन्ति । दर्शनादाविन्द्रियाणि, संकल्पे मनः, प्रादुर्भावे बुद्धिः, एतै- स्त्रिभिरधिष्ठानभूतैः कृत्वा ज्ञानमावृत्य देहिनं जीवं विमोहयन्ति ॥ ४० ॥ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥४१॥ यत एवं तस्मादिति । तस्मात्त्वमिन्द्रियाण्यादौ पूर्व नियम्य वशीकृत्य भरतर्षभ । पाप्मानं पापाचारं कामं प्रजहि परित्यज हि यस्माद् एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रत आचार्यतश्चात्मादीनामवरोधः विज्ञा- तृतीयाध्यायः। १२३ नं विशेषतस्तदनुभवस्तयोज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनं नाशस्तनाशं प्र- जहि ह्यात्मनः परित्यजेत्यर्थः ॥४१॥ आ० टी० । तेषां कामाश्रयत्वे सिद्धे साश्रयस्य तस्य परिहर्तव्यत्वमाह यत इति । तस्मा- दिन्द्रियादीनामाश्रयत्वादिति यावत्, पूर्व कामनिरोधात् प्रागवस्थायामित्यर्थः । तेषु नियमितेषु मना- बुद्धयोनियमः सिध्यति तत् प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः, पापमूलतया कामस्य सच्छब्दवाच्यत्वमुन्नेयम् । कामस्य परित्यज्यत्वे वैरित्वं हेतुस्तमेव हेतुं साधयति ज्ञानेति । ज्ञान- विज्ञानशब्दयोरर्थभेदमावेदयति ज्ञानमियादिना ॥ ४ १ ॥ प•टी । अथ क्रमेणास्योपरमप्रकारमाह तस्मादिति। यस्मादयं बुद्धिपर्यन्तगतिस्तस्मात्कारणादादौ प्रथमत इन्द्रियाणि चक्षुरादीनि नियम्य विषयपराङ्मुखानि कृत्वैनं पाप्मानमत्युग्रं कामं प्रजहि. घातय । किंभूतं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रोत्थं विज्ञानमनुभवस्तयोः प्रतिबन्धकीभूतम् ।। ४ १।। इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः॥ मनसस्तु परा बुद्धियाँबुद्धेः परतस्तु सः॥४२॥ इन्द्रियाण्यादौ नियम्य कामं शत्रु जहीत्युक्तं तत्र किमाश्रयः कामं ज- पादित्युच्यते इन्द्रियाणीति । इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्य परिच्छिन्नं चापेक्ष्य सौक्षम्यान्तरस्थत्वव्यापित्वाद्यपेक्ष्य पराणि प्रकष्टान्याहुः प- ण्डितास्तथेन्द्रियेभ्यः परं मनः संकल्पविकल्पात्मकं, तथा मनसस्तु परा बु- दिनिश्चयात्मिका, तथा यः सर्वदृश्येभ्यो बुद्ध्यन्तेभ्योऽन्तरोयं देहिनमिन्द्रिया- 'दिभिराश्रयैर्युक्तः कामो ज्ञानावरणहारेण मोहयतीत्युक्तं बुद्धेः परतस्तु सः स वुद्धेर्द्रष्टा परमात्मा ॥ ४२ ॥ आ० टी० । पूर्वोक्तमन्द्य कामत्यागस्य दुष्करत्वं मन्वानो रसोऽप्यस्येत्यत्रोक्तमेव स्पष्टीकतुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति इन्द्रियाणीत्यादिना । पश्चेति ज्ञानेन्द्रियवत् कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते । किमपेक्षया तेषां परत्वं तत्राह देहमिति । तथापि केन प्रकारेण परत्वं तदाह सौम्येति । आदिशब्देन कारणत्वादि गृह्यते । इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्ति- पूर्वकं परत्वं कथयति तथेति । मनसि दर्शितं न्यायं बुद्धावतिदिशति तथा मनसस्त्पिति । यो बुद्धे- रित्यादि ब्यांचष्टे तथेयादिना। आत्मनो यथोक्तविशेपणस्याप्रस्तत्वमाशङ्कयाह यं देहिनमिति ॥४२॥ प० टी० । अथेन्द्रियाद्यधिष्ठानत्रयगतः कामो जेतुं न शक्यतेऽतस्तेभ्योऽपि विविक्तमात्मानं दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराण्युत्कृष्टान्याहुः सूक्ष्मत्वादर्थ- प्रकाशकत्वाच्च । तत एवार्थादतिरिक्तत्वमुक्तं भवति इन्द्रियेभ्यश्च संकल्पात्मकं मनः परमुत्कष्टं तत्प्र- वर्तकत्वात् । मनसस्तु बुद्धिनिश्चयात्मिका परा निश्चयपूर्वकत्वात् संकल्पस्य । यस्तु बुद्धेः परतस्त- साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । अत्राथै कठशाखीया श्रुतिः-"इन्द्रियेभ्यः परा ह्या ह्यर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः । एवं सर्वेषु भूतेषु गूढोल्मा न. प्रकाशते । दृश्यते त्वय्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः" इति ॥ ४२ ॥ नाशकरमात्मनः इति लि. पु० । नाशस्तनाशनं मु० द्वितीयपु० । २ बुद्धर्यः इति मु० पु..

१२४ श्रीमद्भगवद्गीता- एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना ॥ जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥४३॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन- संवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३ ॥ ततः किम् एवमिति । एवं बुद्धेः परमात्मानं बुध्वा ज्ञात्वा संस्तभ्य सम्य- क् स्तम्भनं कृत्वा स्वेनैवात्मना संस्कृतेन मनसा सम्यक् समाधायेत्यर्थः । जह्येनं शत्रु महाबाहो कामरूपं दुरासदं दुःरवेनासद आसादनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ॥ ४३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादश्रीशंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये कर्मप्रशंसायोगोनाम तृतीयोऽध्यायः॥३॥ आ० टी० । इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात कामजयो भवतीत्युपमहरति एवमित्यादि- ना । सस्कृत मना मनःसमाधान हतारात सूचयांत सस्तभ्यांत । प्रहत शत्रुमव विशनाष्ट काम- रूपमिति । तस्य दुरासदत्वे हेतुमाह दुर्विज्ञरति । अनेको विशपरतादृशो महाशनत्वादिस्तदनेनो- पायभूता कर्मनिष्ठा प्रधान्यनोक्ता उपेया तु ज्ञाननिष्ठा गणत्वनेति विवक्तव्यम् ॥ ४३ ॥ ॐतत्सत् इत्यानन्दगिरिकृतटीकायां तृतीयाध्यायः ॥३॥ प० टी० । अथोक्तार्थमुपसंहरति एवमिति । भो महाबाहो पुरुषार्थिन् एवममुना प्रकारेण बुद्धेः परं बुद्धयतिरिक्तं तत्साक्षिणं परमात्मानं बुध्वात्मनैवंभृतनिश्चयात्मिकया बुद्ध यात्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपं दुराग दुर्भयं शत्रु जहि मारय । अथ तदेव बृहदारण्यके प्रथमतो दैवासुरसंग्रामव्याजेन द्वयाहप्राजापत्यादिदशभिः कष्डिकाभिः प्रतिपादितं तत्रोपमहा- रश्रुतिस्तु " अथ हेममासन्यं प्राणमचस्त्वं न उगायति तथति तभ्य एप प्राण उद्गायत्ते विदुरननवो- द्गात्रात्येप्यन्ताति तमभिहत्य पाप्मनाविध्यन्त्स यथाश्मानमृत्वा लाष्टा विध्वसतवहव विध्वंसमाना विश्व- चा विनेशुस्ततो देवा अभवन् परामुरा भवत्यात्मना परास्य विपन भ्रातृव्या भवति य एवं वेद" इत्या- दिः। भाप्यम्-अथानन्तरं हशब्दो वृत्तान्तझोतनार्थः । मोवप्रयत्नारते देवा इममामन्यं समीपे च वर्तमान सर्वेन्द्रियचालकं मुख्यत्राणं वक्ष्यमाणेन्द्रशब्दव्यपदेश्यं प्रत्युचुस्त्वं न उद्गायति । त्वं नोऽ-- स्मदर्थमुद्गानं कुरु । तस्योद्गानमवाग्जप्रणवरूपं तेन सोऽपि पूर्ववदुदगायत्। तदुक्तं छान्दोग्ये "अथा- ध्यात्मम् । एव मुख्यप्राणस्तमद्गीथमुपामातामिति" इति । अथ त प्राणमुद्गातार ज्ञात्वा कामक्रोधाद्यमुरा- स्तमभिहत्याविध्यन वधितवन्तो विध्वंसमाना विशीर्गमानाश्च विश्वञ्चापे विश्वस्मिन्नञ्चन्ति ते विश्वञ्चो नानागतयो विनेशविनाशं प्राप्ताः । अत्र दृष्टान्तमाह । यथाश्मानं पापाणमृत्वा प्राप्य लोष्टः पाःमुपिण्डोः विध्वंसते तथैव मुख्यप्राणाभिहतास्ते दैत्या नाशं प्राप्ता इत्यर्थः। अत्रैतदुक्तं भवति । प्राण- नं जीवनं करोतीति प्राणो वागाद्यधिदैवतानां शत्युत्पादको हिरण्यगर्भः । तथा कामादीनां प्रसरस्तु बुद्धिपर्यन्तमेव । तदने कामादीनामभाव एवं संभवतीत्यर्थः । ततो दैत्यनाशानन्तरं देवाः परासुरा अभवन् । अत्र मध्यमपदलोपी समासः । पराभता असुरा यैस्ते परासुरा विजयवन्त इत्यर्थः । एवमुक्त- चतुर्थाध्यायः । १२५ प्रकारं दैवासुरसंग्रामं वेद स आत्मना भवति कामादीन् परास्य पराभूय स्वनात्मना कृत्वा संपद्यते न कामाद्यैः । एवमात्मज्ञानसंपत्तौ जातायां तस्य द्विपन द्वेष्टापि भ्रातृव्यो भवतीति । अयमेवार्थः सामवेदे कल्मापसानोपपादितः-'हाउ ३ सञस्तर ३ दुस्तरान् ३दानेनादानं ३हाउ३ अहमस्मि प्रथ- माजा ऋतस्या हाउ ३ सेतूंस्तर ३ दुस्तरान् ३ अक्रोधेन क्रोधम्" इत्यादिः । भाप्यम्-यथा जल प्रवाहप्रतिबन्धकाः सेतवो भवन्ति तद्वदखण्डैकरसानुभवे चत्वारः सेतवः सन्ति । ते तु अदानक्रोध- श्रद्धान्तानि । ताश्चतुरः सेतूंस्तर उल्लङ्वय । तत्र प्रथमसेतोरुल्ने उपायमाह दानेनेति । यद्र- ह्मार्पणत्वेन दीयते तद्दानशब्दव्यपदेश्यम् नतोऽन्यज्जायापुत्रार्थ यद्वययोक्रियते तददानमेवं दानेन कृत्वा अदानं तर । अदानमपि ब्रह्मार्पणत्वेन गणयेदित्यर्थः । यतोहमृतस्य सत्यस्य ब्रह्मणः प्र- थमजा प्रथमं शबलत्वेनोपस्थितो हिरण्यगर्भोऽस्मि । यत्किचिद्दीयते तत्सर्वं मदर्पणमेव भवतीत्यर्थः । तथैव क्रोधलक्षणं द्वितीयसेतुमक्रोधेन शमया कृत्वा तरेति । अत्र पूर्वदेवेभ्योऽमृतस्य नाभा इत्या- दिश्रुतयोऽस्माभिः शत श्लोकभाप्ये सम्यग्व्याख्याताः सन्ति । तदुक्तम्-'कमो न वाचां शिरसो न शूलं न चित्ततापो न तनोविमर्दः । न चापि हिंसादिरनर्थयोगः श्लाघ्या परं क्रोधजयेऽहमेका' इति। अथा- ध्यायतात्पर्यम । यज्ञाद्यं वर्णधर्मोचितमपि नियतं कर्भ शर्मप्रदं स्यान्न त्याज्यं कार्यमेतद्विगुणमपि यतो ऽकर्मणः कर्मशस्तम् । जीवन्मयः कदाचित्करचरणयुतो नैव तिष्ठत्यकर्मा तस्माच्छ्यान स्वधर्मो यदु- पतिगदितश्चित्तशुद्ध तृतीथे ॥३॥ इति दैवज्ञपण्डितविरीचतायां परमार्थप्रपायां तृतीयाध्यायः॥३॥ इति तृतीयाध्यायः ॥३॥ अथ चतुर्थोऽध्यायः । श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥ एवं परंपराप्राप्तमिमं राजर्पयो विदुः ॥ स कालेनेह महता योगो नष्टः परंतप ॥२॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ॥ भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥ योऽयं योगोऽध्याययेनोक्तो ज्ञाननिष्ठालक्षणः ससंन्यासः स कर्मयोगो- पायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो नित्तिलक्षणश्च, गीतासु च सर्वास्वयमेव योगो विवक्षितो भगवतोऽतः परिसमाप्तं वेदार्थ मन्वानस्तं वंश- कथनेन स्तौति श्रीभगवान् । इममध्यायइयेनोक्तं योगं विवस्वत आदित्या- य सर्गादौ प्रोक्तवानहं जगत्परिपालयितणां क्षत्रियाणां बलाधानाय तेन यो- गवलेन युक्तास्ते समर्था भवन्ति ब्रह्म परिरक्षितुं ब्रह्मक्षत्रे परिपालिते जग- परिपालयितुमलमव्ययमव्ययफलत्वान ह्यस्यसम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं - १२६ श्रीमद्भगवद्गीता- फलं व्येति स च विवस्वान् मनवे प्राह मनुरिक्ष्वाकवे स्वपुत्रायादिराजाया- प्रवीत् ॥ १ ॥ एवमिति । एवं क्षत्रियपरंपराप्राप्तमिमं राजर्षयो राजानश्च ते ऋष- यश्च राजर्षयो विदुरिमं योगं, स योगः कालेनेह महता दीर्घेण नष्टो विच्छि- नसंप्रदायः संवृत्तो हे परंतप आत्मनो विपक्षभूताः परे उच्यन्ते तान् शौर्यते- जोगभस्तिभिर्भानुरिव तापयतीति परंतपः शत्रुतापन इत्यर्थः ॥ २ ॥ दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं च पुरु- पार्थसंवन्धिनं स एवायमिति । स एवायं मया ते तुभ्यमद्येदानीं योगः प्रो- तः पुरातनः, भक्तोऽसि मे सखा चासीति रहस्यं हि यस्मादेतदुत्तमं योगं ज्ञा- नमित्यर्थः ॥ ३ ॥ आ० टी० पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्तव्यशेषाभावाद् ऊक्तयोगस्य कृत्रिमत्वशङ्कानिवृत्तये वंशकथनपूर्विका स्तति भगवानुक्तवानित्याह श्रीभगवानिति । तदेतद्भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति योऽयमिति । उक्तमेव योग विभज्यानु- वदति ज्ञानेति । संन्यासेनेतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य कर्माख्यो योगो हेतुरतश्चो- पायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः । उक्ते योगद्वये प्रमाणमुपन्यस्यति यस्मिन्निति । अथवा ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फुटयति यस्मिन्निति । प्रवृत्त्या लक्ष्यते ज्ञायते कर्मयोगो निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः । यद्यपि पूर्वस्मिन्नध्यायहये यथोक्तनिष्ठाद्वयं व्याख्यातं तथापि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्कयाह गीतासु चेति । कथं तर्हि समनन्तराध्यायस्य प्र- वृत्तिरत आह अत इति । वंशकथनं संप्रदायोपन्यासः संप्रदायो देशश्च, अकृत्रिमत्वशङ्कानिवृत्त्या योगः स्तुतौ पर्यवस्यति । गुरुशिष्यपरंपरोपन्यासमेवानुक्रामति इममिति । इममित्यस्य संनिहितं विषयं दर्शयति अध्यायेति । योगं ज्ञाननिष्ठालक्षणं कर्म योगोपायलभ्यमित्यर्थः । स्वयमकतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसंभवाद्भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह विवस्व- त इति । अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यं किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति तदाह जगदिति । कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं तदाह तेनेति । युक्ताः क्षत्रिया इति शेपः, ब्रह्मशब्देन ब्राह्मणत्वनातिरुच्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं तेन च ब्राह्मणत्वं तथापि कथं रक्षणीयं जगदशेष रक्षितमित्याशङ्कयाह ब्रह्मेति । ताभ्यां हि कर्मफलभूतं जगदनुष्ठानद्वारा रक्षतुं शक्यमित्यर्थः । योगस्याव्ययत्वे हेत्वन्तरमाह अव्ययफलत्वादिति । ननु कर्मफलवदुक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते नेत्याह न होति । अपुनरावृत्तिश्रुति- प्रतिहतमनुमानं न प्रमाणीभवतीति भावः । भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यतीत्याश- झ्याह स चेति । स्वपुत्रायेत्युभयत्र संबध्यते, आदिराजायेक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशि- ष्ठचमुच्यते ॥ १॥ आ० टी० । यथोक्ते योगे परंपरागते विशिष्टजनसंमतिमुदाहरति एवमिति । तस्य कथं १ परंपरया प्राप्त-पा० लि. पुस्तके । २ चिल संपन्धिनमित्यन्तः पाठो २ श्लोक संबद्धएव दृदयते । ।

चतुर्थाध्यायः ।
संप्रति वक्तव्यत्वं तदाह स कालेनेति। पूर्वार्ध व्याकरोति एवमित्यादिना। ऐश्वर्यसंपत्तिमत्त्वं राजत्वं
तेषामेव सूक्ष्मानिरीक्षणक्षमत्वमृषित्वमिहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते । परंतपेति
संबोधनं विभजते आत्मन इति ॥ २ ॥
आ० टी० । किमिति वर्तमाने काले प्रकृतो योगः संप्रदायरहितोऽभूदित्याशझ्याधिकार्य-
भावादित्याह दुर्बलानिति । तदेव दौर्बल्यं प्रकृतोपयोगित्वेन व्याकरोति अजितन्द्रियानिति । य-
द्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रातलभ्य कामक्रोधादिभिरभिभूयमानो योगो नष्टो विच्छिन्न.
संप्रदायः संजातस्तथापि योगाढते पुरुषार्थी लोकस्य लभ्यते चेत् किमनेन योगोपदेशेनेत्याशङ्कय
यथाक्तयोगाभावे परमपुरुषार्थाप्राप्तमॆवमित्याह लोकं चेति । पूर्वो योगो विच्छिन्नसंप्रदायोऽधुना
त्वन्ययोगो मदर्थमुच्यते भगवतेत्याशङ्कयाह स एवेति । कस्मादन्यस्मै कस्मै चित् पुरातनो योगों
नोक्तो भगवतेत्याशङ्कयाह भक्तोऽसीति । उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह रह-
स्यं हीति । अनादिवेदमलत्वाद् योगस्य पुरातनत्वं भक्तिः शरणबुद्धया प्रीतिस्तया यक्तो निजरू-
पमवेक्ष्य भक्तो विवक्षितः समानवयाः स्निग्धः सहायः सखेत्युच्यते । एतदिति कथं योगो विशेष्यते
तत्राह ज्ञानमिति ॥ ३ ॥
५० टी० । द्वितीयतृतीयाध्यायाभ्यां ज्ञानकर्मयोगी निरूप्येदानी ब्रह्मार्पणत्वेनैव कर्म मो.
क्षप्रापकं भवतीति निरूपणार्थ चतुर्थाध्यायस्य प्रवृत्तिस्तत्र वक्ष्यमाणमप्रमेयं यदुपदेशात्परंपरया बहु-
भिरनुष्ठितमित्याह इममितित्रिभिः । इमं वक्ष्यमाणं योगमव्ययमनुपक्षीणं पूर्व विवस्वते प्रोक्तवान् ।
ततस्तमेव योगं विवस्वान् सूर्यो मनवे प्राह मनुारक्ष्वाकवेऽब्रवीत् । एवमिक्षवाकोः सूर्यवंशप्रधानीभूता-
द्राज्ञः सकाशात्परंपरया प्राप्तं राजर्षयो राजान ऋषयश्च विदुव्रतवन्तः । श्रुतिरपि-"तद्वैतत्पश्यन्नृ-
षिर्वामःप्रतिपेदेऽहं मनुरभवङ् सूर्यश्च" इति। स एवायं पुरातनयोगो महता कालेन नष्ट उज्झितोऽभूत्सोऽयं
योग इति कारणान्मया तेऽद्य प्रोक्तो वक्तुमुपक्रान्तः । इतीति किं यतस्त्वं मद्भक्तः सन् सखा भवसि
सखित्वलक्षणा भक्तिस्त्वयि वर्तत इत्यर्थः । अथान्यत्रास्यानिर्वाच्यत्वमाह । किं भूतो योगः, उत्तम
रहस्यमेकान्तवेद्यमित्यर्थः ॥ १ ॥ २ ॥ ३ ॥
अर्जुन उवाच ।
अपरं भवतो जन्म परं जन्म विवस्वतः ॥
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥
भगवता विप्रतिषिद्धमुक्तमिति मा भूत् कस्यचिद्गुद्धिरिति परिहा-
रार्थ चोद्यमिव कुर्वनर्जुन उवाच अपरमिति । अपरमर्वाग् वसुदेवगृहे भ-
वतो जन्म परं पूर्व सर्गादौ जन्मोत्पत्तिर्विवस्वत आदित्यस्य तत् कथमेत-
हिजानीयामविरुद्धार्थतया यस्त्वमेवादी प्रोक्तवानिमं योगं स एव त्वमिदानी
मह्यं प्रोक्तवानसीति ॥ ४ ॥
आ० टी० । भगवति लोकस्यानीश्वरत्वशङ्का निवर्तयितुं चोद्यमुगावयति भगवतेति । परि.
हारार्थ भगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येतिशेषः, भगवतो नि-
जरूपमुपेत्यनेदं चोद्यं किंतु लीलाविग्रहं गृहीत्वेति वक्तुं चोद्यमिवेत्युक्तम् । एतच्छब्दार्थमेव
स्फुटयति यस्वमिति ॥ ४ ॥

१२८
श्रीमद्भगवद्गीता-
प० टी० । अथ संदिहानोऽर्जुनः पृच्छति अपरमिति । भवतस्तव जन्मापरमाधुनिक तथा
विवस्वतः सूर्यस्य जन्म परं प्राचीनम्, एवं सत्यादौ त्वं प्रोक्तवानिति कथं विजानीयाम् ॥ ४ ॥
श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ॥
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥
या वासुदेवेऽनीश्वरासर्वज्ञाशाला मूर्खाणां तां परिहरन् श्रीभगवानु-
वाच । यदर्थो ह्यर्जुनस्य प्रश्नो बहूनीति । बहूनि मे मम व्यतीतान्यतिक्रान्ता-
नि जन्मानि तव च हेऽर्जुन तान्यहं वेद जाने सर्वाणि न त्वं वेत्थ न जा-
नीषे परंतप धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वादहं पुनर्नित्यशुद्धबुद्धमुक्तसत्यस्व-
भावत्वादनावरणज्ञानशक्तिरिति वेदाहं हे परंतप ॥ ५ ॥
आ० टी० । भगवत्यज्ञानां मनुष्यत्वशङ्कां वारयितुं प्रतिवचनमवतारयति या वासुदेव इति।
अन्यथा प्रश्ने कथमाशङ्कान्तरं परिहत् भगवद्वचनमित्याशङ्कय प्रतिवचनयोरेकार्थत्वमाह यदर्थो हीसि।
यस्य शङ्कितस्य विरोधस्य परिहारार्थस्तस्य प्रश्नस्तमेव परिहारं वक्तुं भगवद्वचनमित्यर्थः। अतीतानेकजन्म-
वत्त्वं ममैव नासाधारणं किंतु सर्वप्राणिसाधारणमित्याह तव चेति । तानि प्रमाणाभावान्न प्रतिभान्तीत्याश-
कचाह तानीति । ईश्वरस्यानावृतज्ञानत्वादित्यर्थः । किमिति तर्हि तानि मम न प्रतीयन्ते तवावृत-
ज्ञानत्वादित्याह न त्वमिति । परान् परिकल्प्य तत्परिभवार्थ प्रवृत्तत्वात्तव ज्ञानावरणं विज्ञेयमित्याह
परंतपेति । अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि ज्ञानवैषम्ये हेतुमाह धर्मात ।
आदिशब्देन रागलोभादयो गृह्यन्ते । ईश्वरस्यातीतानागतर्वतमानमर्वार्थविषयज्ञानत्वे हेतुमाह
अहमिति ॥ ५ ॥.
प० टी० । तत्र भगवानाह बहूनीति । मम तव जन्मानि च बहूनि व्यतीतानि व्यतिक्रा-
न्तानि । तर्हि को विशेष इत्याह तानीति । तानि सर्वाणि जन्मान्यहं वेद त्वं च न वेत्थ न ज्ञात-
वान् । अयमर्थः ममेश्वरस्य जन्म स्वेच्छाविर्भावमात्रम् अत एवालुप्तज्ञानशाक्तित्वात्सर्वाणि वेद्मि तव
जीवस्य तु कर्मवशादेहधारिणो लुप्तज्ञानशक्तित्वान्न प्राक्तनजन्मज्ञानम् ॥ ५ ॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ॥
प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥
कथं तहिं तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्मेत्युच्यते अजोऽपीति ।
अजोऽपि जन्मरहितोऽपि संस्तथाव्ययात्माक्षीणज्ञानशक्तिस्वभावोऽपि सन
तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानामीश्वर ईशनशीलोऽपि सन् प्रकृति मायां
मम वैष्णवीं त्रिगुणात्मिकां यस्या वशे सर्व जगद् वर्तते यया मोहितः सन्
स्वमात्मानं वासुदेवं न जानाति तां प्रकृति स्वामधिष्ठाय वशीकृत्य संभवामि
देहवानिव भवामि जात इवात्ममायया न परमार्थतो लोकवत् ॥ ६ ॥

चतुर्थाध्यायः ।
आ० टी० 1 ईश्वरस्य कारणामावाज्जन्मैवायुक्तमतीतानेकजन्मवत्वं
वाज्जन्मैवायुक्तमतीतानेकजन्मवत्वं तु दूरोत्सारितमिति
शकते कथमिति। वस्तुतो जन्माभावेऽपि मायावशाज्जन्म संभवतीत्युत्तरमाह उच्चत इति । पारमार्थि-
कजन्मायोगे कारणं पूर्वार्धेनानूद्य प्रातिभापिकजन्मसंभवे कारणमाह प्रकृतिमिति। प्रकृतिशब्दस्य
स्वरूपविषयत्वं प्रत्यादेष्टमात्ममाययेत्युक्तम् । वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति अजो-
ऽपीत्यादिना । प्रातिभाषिकजन्मसंभव कारणकथनपरमुत्तराधं विभजते प्रकृतिमित्यादिना । प्रक-
तिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति मायामिति । तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्व-
माह ममेति । तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति वैष्णवीमिति । मायाशब्दस्यापि
प्रज्ञानामसु पाठाद्विज्ञानशक्तिविषयत्वमाशङ्कयाह त्रिगुणात्मिकामिति । तस्याः कार्यलिङ्गकमनु-
मानं सूचयति यस्या इति । जगतो मायावशवर्तित्वमेव स्फटयति ययेति । यथा लोके कश्चिज्जा-
तो देहवानालक्ष्यते एवमहमपि मायामाश्रित्य तया स्ववशया संभवामि तेन मायामयमीश्वरस्य जन्मे-
त्याह तां प्रकृतिमित्यादिना । संभवामीत्युक्तमेव विभजते देहवानिति । अस्मादेरिव तवापि पार-
मार्थिकत्वाभिमानो जन्मादिविषये स्यादित्याशङ्कय प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह
न परमार्थत इति । आवृतज्ञानवतो लोकस्य जन्मादिविषय परमार्थत्वाभिमानः संभवतीत्याह
लोकवदिति॥ ६ ॥
प० टी० । अथ स्वस्येश्वरत्वं प्रकटयन्नाह अजोऽपीति । अजोऽनत्पत्तिधर्माव्ययोऽविनाश-
धर्मा भूतानामीश्वरः कर्मपारतन्त्र्यरहितः सन् संभवामि सम्यक्प्रकारेणालुप्तसर्वज्ञत्वादिगुणः सन् भवामि ।
नन्वीश्वरत्वे लिङ्गदेहादिशून्यस्य कथं जन्मत्याह प्रकृतिमिति । स्वां स्वस्मिन्नध्यातां शुद्धसत्त्वात्मिका
प्रतिमवष्टभ्याधिष्टाय स्वेच्छाविर्भूतशुद्धसत्वात्मक मूल्वतरामि। तदुक्तम्-'सतो हि मायया जन्म
जायते न तु तत्त्वतः । असतो मायया जन्म तत्त्वतो न हि युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया
वापि जायते' इति ॥ ६ ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्.॥७॥
तञ्च जन्म कदा किमर्थं वेत्युच्यते यदेति । यदा यदा हि धर्मस्य ग्ला-
निर्हानिर्वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदयनिःश्रेयससाधनस्याभावो भवति
भारत, अभ्युत्थानं समुद्भवोऽधर्मस्य तदा तदात्मानं सृजाम्यहं मायया ॥ ७ ॥
आ०. टी० । यदीश्वरस्य मायानिबन्धनं जन्मेत्युक्तं तस्य प्रश्नपूर्वकं कालं कथयति तच्चे-
सादिना । चातुर्वण्य चातुराश्रम्य च यथावदनुष्टीयमान नास्त धर्महानिरिति मन्वानो विशिनष्टि
वर्णेति । वर्णैराश्रमस्तदाचारैश्च लक्ष्यते ज्ञायते धर्मस्तस्येति यावत् । धर्महानौ समस्त पुरुषार्थभङ्गो
भवतीत्यभिप्रेत्याह पाणिनामिति । न च यथोक्तसर्वधर्मस्य हानिः माटुं शक्तो भवानित्याह भार-
तेति । न केवलं प्राणिनां धर्महानिरेव भगवतो मायाविग्रहस्य परिग्रहे हेतुरपि तु तेपामधर्मप्रवृत्तिर-
पीत्याह अभ्युत्थानमिति । यदा यदेति पूर्वण संबन्धः ॥ ७ ॥
प० टी० । अथावतरणावसरमाह यदेति । यदा धर्मस्य ग्लानिरुच्छित्तिस्तथाधर्मस्या-
भ्युत्थानमभ्युदयस्तदात्मानं सृजामि स्वयं स्वेच्छयाविर्भवामि ॥ ७ ॥
परित्राणाय साधनां विनाशाय च दुष्कृताम् ॥
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥८॥

१३. श्रीमद्भगवद्गीता-- किमर्थ परित्राणायति । परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्था- नां विनाशाय च दुष्कृतां पापकारिणाम् । किं च धर्मस्य संस्थापनार्थाय स- म्यक् स्थापनं तदर्थ संभवामि युगे युगे प्रतियुगम् ॥ ८ ॥ आ० टी० । यथोक्ते काले कृतकृत्यस्य भगवतो मायाकते जन्मनि प्रश्नपूर्वक प्रयोजन- माह किमर्थमित्यादिना । यथा साधूनां रक्षणमसाधूनां निग्रहश्च भगवदवतारफलं तथा फलान्तर- मपि तस्यास्तीत्याह किंचेति । धर्मे हि स्थापिते जगदेव स्थापितं भवत्यन्यथा भिन्नमर्यादं जगद- संगतमापद्यतेत्यर्थः ॥ ८ ॥ प० टी० । किमर्थमित्याह परित्राणायेति । साधूनां स्वमार्गवर्तिनां परित्राणाय विधेभ्यो रक्षणाय तथा दुष्टं कर्म कुर्वन्ति ते दुष्कृतस्तेषां विनाशाय । एतदपि किमर्थम् धर्मसंस्थापनार्थाय, धर्म- संस्थापनमेवार्थः प्रयोजनं तस्मै युगे युगे तत्तदवसरेऽन्यथा जातिसंकरः स्यात् । श्रुतिरपि--" ससेतु- विधरणमेषां लोकानामसंभेदाय" इति । अत्र तुल्यदृष्टेः परमेश्वरस्य साधुसंरक्षणं खलनिबर्हणमयुक्तमिति नाशङ्कनीयं यथाहुः-' लालने ताडने मातुर्न वैषम्यं यथार्भके । तद्वदेव महेशस्य नियन्तर्गुणदोषयोः' इति ॥ ८॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः॥ त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥ जन्मेति। तज्जन्म मायारूपं, कर्म च साधूनां परित्राणादि, मे मम दि- व्यमप्राकृतमैश्वरमेवं यथोक्तं यो वेत्ति तत्त्वतस्तत्त्वेन यथावत्यक्त्वा देहमिमं पुनर्जन्म पुनरुत्पत्तिं नैति न प्राप्नोति मामेत्यागच्छति स मुच्यतेऽर्जुन॥ ९ ॥ आ० टी० । मायामयमीश्वरस्य जन्म न वास्तवं तस्यैव च जगत्परिपालनं कर्म नान्यस्येति जानतः श्रेयोऽवाप्तिं दर्शयन् विपक्षे प्रत्यवायं सूचयति तज्जन्मेयादिना । यथोक्तं मायामयं क- ल्पितमिति यावत्, वेदनस्य यथावत्त्वं वेद्यस्य जन्मादेरुक्तरूपानतिवर्तित्वं यदि पुनर्भगवतो वारतवं जन्म साधुजनपरिपालनादि चान्यस्यैव कर्म क्षत्रियस्यति विवश्यते तदा तत्त्वापरिज्ञानप्रयुक्तो जन्मा- दिः संसारो दुर्वारः स्यादिति भावः ॥ ९ ॥ प०टी० । एवं विधानामीश्वरजन्मकर्मणां ज्ञाने फलमाह जन्मेति । जन्म स्वेच्छाकतं कर्म पालनरूपं तत्त्वतोऽनुग्रहार्थमेवेति यथावत्परमेश्वरस्वरूपं वत्ति स वर्तमानं देहं त्यक्त्वा पुनर्जन्म नैति किं तु मामेति मामेव प्राप्नोति ॥ ९ ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः॥ बहवो ज्ञानतपसा पूता मद्भावमागताः ॥१०॥ नैष मोक्षमार्ग इदानी प्रत्तः किं तर्हि पूर्वमपि वीतरागेति । वी- तरागभयकोधा रागश्च भयं च क्रोधश्च रागभयकोधा वीता विगता येभ्यस्ते वी- तरागभयकोधा मन्मया ब्रह्मविद ईश्वराभेददर्शिनो मामेव च परमेश्वरमुपाश्रि- ताः केवलज्ञाननिष्ठा इत्यर्थः। बहवोऽनेके ज्ञानतपसा ज्ञानमेव च परमात्मविषयं .. चतुर्थाध्याय । १३ तपस्तेन ज्ञानतपसा पूताः परां शुद्धिं गताः सन्तो मद्भावमीश्वरभावं मोक्षमा- गताः समनुप्राप्ताः । इतरतपोनिरपेक्षा ज्ञाननिष्ठेत्यस्य.लिङ्गं ज्ञानतपसेति विशे- षणम्॥ १० ॥ आ० टी० । संप्रति प्रस्तुतमोक्षमार्गस्य नूतनत्वेनाव्यवस्थितत्वमाशङ्कय परिहरति नैष इति । मन्मयत्वस्य मद्भावगमनेनापौनरुक्त्यं दर्शयति ब्रह्मविद इति । आत्मनो भिन्नत्वेन भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति ईश्वरेति । अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे मामेवेति । तदुपाश्रयत्वमेव विशदयति केवलेति । मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा ज्ञानतपसा पूता इति किमर्थ पुनरुच्यते तत्राह इतरेति ॥ १० ॥ प० टी० । अथ कथमेतावतैव त्वत्प्राप्तिः स्यादत आह वीतरागेति । वीता अतिक्रान्ता रागभयक्रोधा येभ्यस्तेऽत एव मन्मया मदेकचित्ता भूत्वा मामेवोपाश्रिताः सन्तो मत्प्रसादालन्धेन ज्ञानतपसा ज्ञानमात्मानात्मविवेकरूपं तपश्च तन्निमित्तरूपं कर्म तेन बहवो योगिनः पुनाः शुद्धाः सन्तो मगावं मत्सायुज्यमागताः ॥ १० ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥ तव तर्हि रागद्देषो स्तः येन केभ्यश्चिदेवात्मभावं प्रयच्छसि न सर्वेभ्य इत्युच्यते ये यथेति । ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तांस्तथैव तत्फलदानेन भजाम्यहमनुगृहाम्यहमित्यतस्तेषां मो- क्षं प्रत्यनर्थित्वाद् न टेकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत् संभवत्यतो ये य- कलार्थिनस्तांस्तत्फलप्रदानेन, ये यथोक्तकारिणस्त्वफलार्थिनो मुमुक्षवश्व तान् ज्ञानप्रदानेन, ये ज्ञानिनः संन्यासिनो मुमुक्षवश्च तान् मोक्षप्रदानेन, तथा- नातिहरणेनेत्येवं यथा येन प्रकारेण मां प्रपद्यन्ते ये तांस्तथैव भजामीत्यर्थः । न पुना रागद्देपनिमित्तं मोहनिमित्तं वा कंचिद्भजामि सर्वथापि सर्वावस्थस्य ममेश्वरस्य वर्त्म मार्गमनुवर्तन्ते ये मनुष्या यत्फलार्थितया यस्मिन् कर्मण्यधि- कृता ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्वप्रकारः ॥ ११ ॥ आ० टी० । ईश्वरः सर्वेभ्यो भूतेभ्यो मोक्षं प्रयच्छति चेत् प्रागुक्तविशेषणवैयर्थ्य यदि तु केभ्यश्चिदेव मोक्षं प्रयच्छेत्तर्हि तस्य रागादिमत्त्वादनीश्वरत्वापत्तिरिति शकते तव तीति । ये मुमुक्षवस्तेभ्यो मोक्षमीश्वरो ज्ञानसंपादनद्वारा प्रयच्छति फलान्तरार्थिभ्यस्तु तत्तदुपायानुष्ठानेन तत्त- देव ददातीति नास्य रागद्वेषाविति परिहरति उच्यत इति । मुमुक्षूणामीश्वरानुमारित्वेऽपि फला- न्तरार्थिनां कुतस्तदनुसारित्वमित्यांशङ्य फलमत उपपत्तेरिति न्यायनै तत्फलस्येश्वरायत्तत्वात्तद- नुवर्तित्वमावश्यकमित्याह ममेति । भगवद्वचनभागिनां सर्वेषामेव कैवल्यमेकरूपं किमिति नानुगृह्यते तत्राह तेषामिति । अभ्युदयनिःश्रेयसार्थित्वं प्रार्थनावैचित्र्यादेकस्यैव किं न म्यादित्याशङ्कय पर्या- येण तदनुपपत्ति साधयति न हीति । मुमुक्षूणां फलार्थिनां च विभागे स्थिते सत्यनुग्रहविभागं फलि- १ शांक. ब्र० भा. (अ. 3 पा० २ सू. २५) द्राव्यम् ।

श्रीमद्भगवद्गीता- तमाह अत इति । फलप्रदानेनानुगृहामीति संबन्धः । नित्यनैमित्तिककर्मानुष्ठायिनामेव फलार्थित्वा- भावे सति मुमुक्षुत्वे कथं तेष्वनुग्रहः स्यादिति तत्राह ये यथोक्तेति । ज्ञानप्रदानन भजामीत्युत्त- रत्र संबन्धः । सन्ति केचित्त्यक्तसर्वकर्माणो ज्ञानिनो मोक्षमेवापेक्ष्यमाणास्तेष्वनुग्रहप्रकार प्रकटयति ये ज्ञानिन इति । कोचदार्ताः सन्तो ज्ञानादिसाधनान्तररहिता भगवन्तमेवातिमुत्प्रहर्तुमनुवर्तन्ते । तेषु भगवतोऽनुग्रहविशेष दर्शयति तथेति । पूर्वार्धव्याख्यानमुपसंहरति इसेवमिति । भगवतोऽनु- ग्रहे निमित्तान्तरं निवारयति न पुनरिति । फलार्थित्वे मुमुक्षुत्वे च जन्तूनां भगवदनुसरणमावश्य- कामेत्यत्तराध विभजते सर्वथापीति । सर्वावस्थत्वं तेन तेनात्मना परस्य॑वेश्वरस्यावस्थानं, मागों ज्ञानकर्मलक्षणः । मनुष्यग्रहणादितरेपामीश्वरमार्गानुवतित्वपर्युदासः स्यादित्याशङ्कयाह यत्फलेति । सर्वप्रकारैर्मम मार्गमनवर्तन्ते होते पूर्वेण संबन्धः ॥ ११ ॥ टी। ननु तर्हि त्वय्यपि वैपम्यमस्ति यतस्त्वदेकशरणानामेवात्मभावं ददासि न कामा- त्मनामित्यत आह ये यथेति । ये उपासकाः पुरुपा यथा यददिश्य मां प्रपद्यन्ते शरणं प्रजन्ति अहमपि तांस्तथैव भजामि तं तमुद्देशं पूर्णीकरोमि । तदुक्तम्-' सुरद्रुमो यहदुपाश्रितार्थद' इति । अथ त तदुदेशप्रवर्तकोऽप्यहमेवमवेत्याह ममेति । सर्वशः सर्वे मनुष्या मम वर्त्म मार्गमनुलक्षीक- त्य वर्तन्ते सर्वान्तर्यामित्वेन तत्तद्गुणविशिष्टबुद्धीनां प्रेरकोऽप्यहमेवास्मि ॥ ११ ॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः॥ क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥ यदि तवेश्वरस्य रागादिदोषाभावस्तदा सर्वप्राणिष्वनुजिघृक्षायां तुल्या- या सर्वफलप्रदानसमर्थे च त्वयि सति वासुदेवः सर्वमिति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात्त्वामेव सर्वे न प्रतिपद्यन्त इति शृणु तत्र कारणं, काटून्त इ. ति । अभिलषन्तः कर्मणां सिद्धि फलनिष्पत्तिं प्रार्थयन्तो यजन्ते इहास्मिन् लोके देवता इन्द्राग्न्याद्याः, अथ योऽन्यां देवतामुपास्तेऽन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्” इति श्रुतेस्तेषां हि भिन्नदेवतायाजिनां फ- लाकाक्षिणां क्षिप्रं शीघ्रं हि यस्मान्मानुषे लोके मनुष्यलोक हि शास्त्राधि- कारः क्षिप्रं हि मानुपे लोके इति विशेषणादन्येष्वपि कर्मफलसिद्धिं दर्शय- ति भगवान्मानुषे लोके वर्णाश्रमादिकाणीति विशेषः, तेपां च वर्णाश्रमा- यधिकारिणां कर्मणां फलसिद्धिः क्षिप्रं भवति कर्मजा कर्मभ्यो जाता ॥१२॥ आ० टी० । अनुग्राह्याणां ज्ञानकर्मानुरोधेन भगवता तेप्वनुग्रहविधानात्तस्य रागद्वेषौ यदि न भवतस्तार्हि तस्य रागाद्यभावादेव सर्वेषु प्राणिप्वनग्रहेच्छा तुल्या प्राप्ता न च तस्यां सत्यामेव फलस्याल्पीयसः संपादने सामर्थ्य न तु भगवतो महतो मोक्षाख्यस्य फलस्य प्रदानेऽशक्तिरिति युक्तमप्रतिहतज्ञानच्छा क्रियाशाक्तमतस्तव सर्वफलप्रदानसामर्थ्यात्तथा च यथोक्तानुजिघृक्षायां सत्यां त्वयि च यथोक्तसामर्थ्यवति सति सर्वे फल्गुफलादभ्युदयाद्विमुखा मोक्षमेवापेक्षमाणा ज्ञानेन त्वा- मेव किमिति न प्रतिपद्येरनिति चोदयति यदीति । मोक्षापेक्षामावात्तदुपायभूतज्ञानादपि वैमुख्या- इगवत्माप्त्यभावे हेतुमभिदधानः समाधत्ते शृण्विति । कर्मफलसिद्विमिच्छता किमिति मानुषे लोके ..

चतुर्थाध्यायः । १३३ देवतापूजनमिष्यते तत्राह क्षिमं हीति । कर्मफलसंपत्यार्थिनां यष्टयष्टव्यविभागदर्शिनां तदर्शन- कारणमात्मज्ञानमित्यत्र बृहदारण्यकश्रुतिमुदाहरति अथेति । अविद्याप्रकरणोपक्रमार्थमथेत्युक्तम् । उपायनं भेददर्शनमित्यनूद्य कारणमात्मज्ञानं न तत्रेति दर्शयति नेति । यथास्मदादीनां हलवहना- दिना पशुरुपकरोत्येवमज्ञो देवादीनां यागादिभिरुपकरोतीत्याह यथेति । किमिति ते फलाकाइक्षिणो भिन्नदेवतायाजिनो ज्ञानमार्ग नापेक्षन्ते तत्रोत्तरार्धमुत्तरत्वेन योजयति तेषामियादिना । यस्माद्- यथोक्तानामधिकारिणां कर्मप्रयुक्तं फलं लोकविशेष झटिति सिध्यति तस्मात्तेषां मोक्षमार्गादस्ति वैमुख्यमित्यर्थः । मानुषलोकविशेषणं किमर्थमित्याशङ्कयाह मनुष्यलोके हीति । लोकान्तरेषु तर्हि कर्मफलसिद्धिर्नास्तीत्याशङ्कय क्षिप्रविशेषणस्य तात्पर्यमाह क्षिप्रमिति । क्वचित् कर्मफलसि- द्धिरविलम्बेन भवत्यन्यत्र तु विलम्बेनेति विभाग को हेतुरित्याशङ्कय सामग्रीभावाभावाभ्यामित्याह मा- नुप इति । मनुष्यलोके कर्मफलसिद्धेः शैवयात्तदभिमुखानां ज्ञानमार्गवैमुख्यं प्रायिकमित्युपसंहरति तेषामिति ॥ १२॥ ५० टी० । अथ तदेव प्रकटयन्नाह द्वाभ्यां काङ्क्षन्त इति । केऽपि कर्मणां सिद्धिं का क्षन्तः सन्तो देवता इन्द्रादीन्यजन्ते, तेषां होति निश्चयेन कर्मजा सिद्धिरिहैव मनुष्यलोंके कि शीघ्रं भवति न तु जन्मान्तरविलम्बेन यतो यद्देवतार्पणं कुर्वन्ति तेन तद्देवतां तर्पयाम्यहमेव संतर्पितो भूत्वा तत्तद्देवतारूपेण कामान् पूरयामीत्यर्थः ॥ १२ ॥ चातुवर्ण्य मया सृष्टं गुणकर्मविभागशः॥ तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥१३॥ मानुष एव लोके वर्णाश्रमादिकर्माधिकारो नान्येषु लोकेष्विति नि- 'यमः किंनिमित्त इति, अथ वा वर्णाश्रमादिप्रविभागोपेता मनुष्या मम व- मांनुवर्तन्ते सर्वश इत्युक्तं कस्मात् पुनः कारणानियमेन तवैव वानुवर्तन्ते नान्यस्येत्युच्यते चातुर्वर्ण्यमिति । चातुर्वण्य चत्वार एव वर्णाश्चातुर्वण्य मये- श्वरेण सृष्टमुत्पादितं " ब्राह्मणोऽस्य मुखमासीद् ” इत्यादिश्रुतेः, गुणकर्मवि- भागशो गुणविभागशः कर्मविभागशव गुणाः सत्त्वरजस्तमांसि तत्र.सात्त्विक- स्य सत्त्वप्रधानस्य ब्राह्मणस्य शमो दमस्तप इत्यादीनि कर्माणि सत्त्वोपसर्ज- नरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तमउपसर्जनरजःप्रधा- नस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रू- षैव कर्मेत्येवं गुणकर्मविभागशश्चातुर्वर्ण्य मया सृष्टमित्यर्थः । तच्चेदं चातुर्वर्ण्य नान्येषु लोकेष्वतो मानुषे लोके इति विशेषणम् । हन्त तर्हि चातुर्वर्ण्यस्य स- गादेः कर्मणः कर्तृत्वात्तत्फलेषु युज्यसेऽतो न त्वं नित्यमुक्तो नित्येश्वर इ- त्युच्यते तस्येति । यद्यपि मायासंव्यवहारेण तस्य कर्मणां कर्तारमपि सन्तं त- थापि मां परमार्थतो विद्धयकर्तारमत एवाव्ययमसंसारिणं च मां विद्धि ॥१३॥ १ तस्येति । ---इति नास्ति बहुषु पुस्तकेषु ।

श्रीमद्भगवद्गीता- आ० टी० । मनुष्यलोके चातुर्वर्ण्य चातुराश्रम्यमित्यनेन द्वारेण कर्माधिकारनियमे कारणं पृच्छति मानुष एवेति । आदिशब्देनावस्थाविशेषा विवक्ष्यन्ते । प्रकारान्तरेण वृत्तानुवादपूर्वक चोद्यमुत्थापयति अथ वेसादिना। प्रश्नद्वयं परिहरति उच्यत इति । तर्हि तव कर्तृत्वभोक्तृत्वसंभ- वादस्मदादितुल्यत्वेनानीश्वरत्वमित्याशङ्कयाह तस्येति । ईश्वरस्य विषमसृष्टिं विदधानस्य सृष्टिवैष- म्यनिर्वाहकं कथयति गुणेति । गुणविभागेन कर्मविभागस्तेन । चातुर्वर्ण्यस्य सृष्टिमेवोपदिष्टां स्प- प्टयति तत्रेयादिना । प्रश्नहयप्रतिविधानं प्रकृतमुपसंहरति तच्चेदमिति । मनुष्यलोके परं वर्णा- श्रमादिपूर्वके कर्मण्यधिकारस्तत्रैव वर्णादेरीश्वरेण सृष्टत्वान्न लोकान्तरेषु तत्र वर्णादेरीश्वरमेव चा- तुर्वण्याश्रमादिविभागभागिनोऽधिकारिणोऽनुवर्तन्ते तेनैव वर्णादेस्तद्वयापारस्य च सृष्टत्वात्तदनुवर्त- नस्य युक्तत्वादित्यर्थः । तस्येत्यादि द्वितीयभागापोह्यं चोद्यमन्द्रवति हन्वेति । यदि चातर्वादि- कर्तृत्वादीश्वरस्य प्रागुक्तो नियमोऽभिमतस्तर्हि तद्विषयसृष्टयादेस्तन्निष्ठव्यापारस्य च धर्मादेनिवर्त- कत्वात्तत्फलस्य कर्तृगामित्वात् कर्तृत्वभोक्तृत्वयोस्त्वयि प्रसंगात् नित्यमुक्तत्वादि ते न स्यादित्यर्थः। मायया कर्तृत्वं परमार्थतश्चाकर्तृत्वमित्यभ्युपगमान्नित्यमुक्तत्वादि सिध्यतीत्युत्तरमाह उच्यत इति । मायाप्रवृत्तेन संव्यवहारेण चातुर्वर्ण्योदेस्तत्कर्मणश्च यद्यपि कर्ताहं तथापि तथाविधं मां परमार्थतो- ऽकर्तारं विद्धीति योजना । अकर्तृत्वादेवाभोक्तृत्वसिद्धिरित्याह अत एवेति ॥ १३ ॥ ५० टी० । अथ वैषम्यपरिहारार्थमाह चातुर्वर्ण्यमिति । चतुर्णा वर्णानां भावश्चातुर्वर्ण्यम् । ब्रह्मक्षत्रविशुद्ररूपं गुणकर्मविभागशो मयैव सृष्टम् । गणाः सत्त्वादयः कर्म वर्णाश्रमोचितं तद्विभा- गेन तत्तद्वर्णोचितेन निर्मितं विरारूपेण । तस्य चातुर्वर्ण्यस्य विरारूपेणैव कर्तारं मां विद्धि जानीहि । तथाव्ययमक्षरं शुद्धस्वरूपमसंगमकर्तारं विद्धि । अत्र शातपथी श्रुतिः--"तदेतद ब्रह्म- क्षत्रविट्शूद्रस्तदाग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येपु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शुद्रेण शूद्रः” इति । भाप्यम्--ब्रह्मक्षत्रविटशद्र इति यच्चातुर्वर्ण्य तदेतत् । तत्कि तत्तेप्वग्निना वैश्वान नरापरपर्यायेण विरारूपेण समष्टिना दवेष ब्रह्माभवत्, स एव मनुष्यपु, क्षत्रियोऽभवत् तथा देवेषु पड्डिधेन वसुरुद्रादित्यादिना वैश्येन मनुष्येषु वैश्योऽभवत्, तथा देवेष्वेकविधेन पूषसंज्ञकेन शूद्रेण मनुष्येषु शूद्रोऽभवत् । तथा-"ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृत" इत्यपि ॥१३॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्टहा ॥ इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥ नेति । येषां तु कर्मणां कतारं मां मन्यसे परमार्थतस्तेषामकतैवाहं यतो न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेनाहंकाराभावाद् न च तेषां कर्मणां फलेषु मे स्पृहा तृष्णा येषां तु संसारिणामहं कर्तेत्यभिमानः कर्मसु स्पृहा तत्फलेषु च तान् कर्माणि लिम्पन्तीत्येवं युक्तं तदभावान मां कर्माणि लिम्पन्तीत्येवं योऽन्योऽपि मामात्मत्वेनाभिजानाति नाहं कर्ता न मे कर्मफ- ले स्पृहेति स कर्मभिर्न बध्यते तस्यापि न देहायारम्भकाणि कर्माणि भव- न्तीत्यर्थः ॥ १४ ॥ आ० टी० । ईश्वरस्य कर्तत्वभोक्तृत्वयोवस्तुतोऽभावे कर्मतत्फले संबन्धवैधुर्य फलतीत्याह येषां विति । कर्मतत्फलसंस्पर्शशून्यमीश्वरं मां पश्यतो दर्शनानुरूपं फलं दर्शयति न मामिति ।

.. पू. चतुर्थाध्यायः । १३५ तानि कर्माणीति येषां कर्मणामहं कर्ता तवाभिमतस्तानीति यावत् । देहेन्द्रियाद्यारम्भकत्वेन तेषां कर्मणामीश्वरे संस्पर्शाभावे तस्य तत्कारणावस्थायामहङ्काराभावं हेतुं करोति अहङ्काराभावादिति । कर्मफलतृष्णाभावाञ्चेश्वरं कर्माणि न लिम्पन्तीत्याह न चेति । उक्तमेव प्रपञ्चयति येषां त्विति । तदभावात् कर्मस्वहं कर्तेत्यभिमानस्य तत्फलेषु स्पृहायाश्चाभावादित्यर्थः । ईश्वरस्य कर्मनिपेऽपि क्षेत्रज्ञस्य किमायातमित्याशङ्कयोत्तरार्ध व्याचष्टे इसेवमिति । अभिज्ञानप्रकारमभिनयति नाहमि- ति । ज्ञानफलं कथयति स कर्मभिरिति । कर्मासंबन्धं विदुषि विशदयति तस्यापीति ॥ १४ ॥ प० टी० । अथ विद्धयकर्तारमव्ययमित्येव विविच्याह नमामिति । मां कर्माणि सृष्टया- दिकर्तृत्वरूपाणि न लिम्पन्त्यसंगत्वात् । अत एव न मे कर्मफले स्पृहा वाञ्छापि । अवाप्तसकल- कामेन मया किमुद्दिश्यैतत्कर्म कर्तव्यमित्यर्थः । यथा सूर्यों जगद्व्यापारहेतुत्वेऽपि तत्कर्मणा न लिप्यते । एवमित्युक्तप्रकारेण यो मामभिजानाति सोऽपि कर्मभिर्न बध्यते किं पुनरहमित्यर्थः ॥१४ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ॥ कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥ एवमिति नाहं कर्ता न मे कर्मफले स्पृहेत्येवं ज्ञात्वा कृतं कर्म प (रप्यतिकान्तैर्मुमुक्षुभिः, कुरु तेन कर्मैव त्वं न तूष्णीमासनं नापि संन्यासः कर्तव्यस्तस्मात्वं पूर्वैरप्यनुष्ठितत्वाद् यद्यनात्मज्ञत्वं तदात्मशुद्ध्यर्थं तत्त्वविच्चे- लोकसंग्रहार्थं पूर्वैर्जनकादिभिः पूर्वतरं कृतं नाधुनातनं कृतं निर्वर्तितम् ॥१५॥ आ० टी० । तव कर्मतत्फलसंवन्धाभावे तथा ज्ञानवतश्च तदसंबन्धे ममापि किं कर्मणेत्याशङ्कय कणि कर्तृत्वाभिमानं तत्फले स्पृहां चाकृत्वा मुमुक्षुवत् त्वया कर्म कर्तव्यमेवत्याह नाहमियादिना। एवमिति । नाहं कर्तेत्येवमादि परामृश्यते, तेन पूर्वैर्मुमुक्षुभिरनुष्ठितत्वेन हेतुनेत्यर्थः । कर्मवत्येवकारा- धमाह नेत्यादिना । त्वंशब्दस्य क्रियापदेन संबन्धः । तस्मादित्युक्तमेव स्फुटयति पूर्वैरिति । य- दुक्तं किं मम कर्मणेति तत्र त्वमज्ञो वा तत्त्वविद्वा यद्यज्ञस्तदा चित्तशद्धयर्थं कुरु कर्मत्याह यदी- ति। द्वितीयं प्रत्याह तत्त्वविदिति । कुरु कर्मेति संबन्धः । पूर्वैराचरितमित्येतावता किमिति विवेकवता मया तत् कर्तव्यमित्याशङ्कयाह जनकादिभिरिति । ते तदैव संपाद्य कर्म कृतवन्तो न तदिदानीमप्रामाणिकत्वादनुष्ठयमित्याशङ्कयाह पूर्वतरामति ॥ १५ ॥ प० टी० । अथ प्रकृतमनुसरति एवमिति । एवममुना प्रकारेण मदीयं कर्तृत्वाद्यभिमान- शून्यत्वं ज्ञात्वा मुमुक्षुभिर्माक्षमिच्छद्भिः पूर्वेः पुरातनैरपि कर्म कृतम् । तस्मान्वमपि प्रस्तुतं कर्मव कुरु । यतः पूर्वेः पूर्वतरमनादिसिद्धं कृतम् । अनेन विशिष्टाचारोऽपि प्रमाणमिति सचितम् ॥१५॥ किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ॥ तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१६॥ तत्र कर्म चेत् कर्तव्यं त्वद्दचनादेव करोम्यहं किं विशेषितेन पूर्वैः पृ- वतरं कृतमित्युच्यते यस्मान्महहैषम्यं कर्माकर्मणि कथं किं कर्मेति । किं कर्म किं चाकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन् कर्मादिविषये मोहिता मोहं गता अ- तस्ते तुभ्यमहं कर्माकर्म च प्रवक्ष्यामि यज् ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसेऽ- ..

१३६ श्रीमद्भगवद्गीता- शुभात् संसारात् न चैतत्त्वया मन्तव्यं, कर्म नाम देहादिचेष्टा लोकप्रसिद्ध- मकर्म नाम तदक्रिया तुष्णीमासनं किं तत्र बोद्धव्यमिति ॥ १६ ॥ आ०टी०। कर्मविशेषणमाक्षिपति तत्रेति । मनुष्यलोकः सप्तम्यर्थः । कर्मणि महतो वैषम्य- स्य विद्यमानत्वात्तस्य पूर्वैरनुष्ठितत्वेन पूर्वतरत्वेन च विशेषितत्वे तस्मिन् प्रवृत्तिस्तव सुकरेति युक्तं विशेषणमिति परिहरति उच्यत इति । कणि देहादिचेष्टारूपे लोकप्रसिद्ध नास्ति वैषम्यमिति शकते कथमिति । विज्ञानवतामपि कर्मादिविषये व्यामोहोपपत्तेः सुतरामेव तव तद्विषये व्यामो- हसंभवात्तदपोहार्थमाप्तवाक्यापेक्षणादस्ति कर्मणि वैषम्यमित्युत्तरमाह किं कर्मेति । तत्ते कर्मेत्यत्राका- रानुबन्धेनापि पदं छेत्तव्यम् । कर्मादिप्रवचनस्य प्रयोजनमाह यज्ज्ञात्वेति । तत्कर्माकर्मचेति सं- बधः, अतो मेधाविनोऽपि यथोक्ते विषये व्यामोहस्य सत्त्वादित्यर्थ । कर्मणोऽकर्मणश्च प्रसिद्धत्वात्त- द्विषये न किंचिद्बोदव्यमिति चोद्यमनूद्य निरस्यति न चेति ॥ १६ ॥ प० टी० । अथ कर्मणो दुर्जेयत्वमाह किं कर्मेति त्रिभिः। कर्म वेदबोधितं कीदृशं तथा तत्समाप्तिरूपमकर्म नैष्क कीदृशमित्यत्र कवयः पण्डिता आप मोहिताः किं पुनर्भवादृशा इत्यर्थः। यस्मादेवं तस्मात्ते मुमुक्षवेऽनुष्ठेयं कर्म प्रवक्ष्यामि । तत्किम्, यन् ज्ञात्वाशुभान्संसारान्मो- श्यसे ॥ १६ ॥ कर्मणो ह्यपि बोडव्यं बोडव्यं च विकर्मणः ॥ अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥ कस्माद् उच्यते कर्मण इति । कर्मणः शास्त्रविहितस्य हि यस्माद- प्यस्ति बोद्धव्यं बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य तथाकर्मणश्च तृष्णींभावस्य बोद्धव्यमस्तीति विष्वप्यध्याहारः कर्तव्यो यस्माद् गहना विषमा दुर्जेया कर्मण इत्युपलक्षणार्थं कर्मादीनां कर्माकर्मविकर्मणां गतिर्याथात्म्य तत्त्वमित्यर्थः ॥ १७ ॥ आ० टी० । तत्र हेत्वाकाङ्क्षापूर्वकमनन्तरं श्लोकमवतारयति कस्मादिति । त्रिष्वपि कर्माकर्मविकर्मसु बोद्धव्यमस्तीति यस्मादध्याहारस्तस्मान्मदीयं प्रवचनमर्थवदिति योजना । बो- व्यसद्भावे हेतुमाह यस्मादिति । त्रितयं प्रकृत्यान्यतमस्य गहनत्ववचनमयुक्तमित्याशङ्कयान्य- तमगहनस्योपलक्षणार्थत्वमुपेत्य विवक्षितमर्थमाह कर्मादीनामिति ॥ १७ ॥ प० टी० । अथ गहनत्वमेवाह कर्मण इति । मोक्षनिरूपणे तावत्कर्माकरणे विकर्मणो ऽनुपक्रान्तत्वात्कर्मणो वेदविहिताकि भवतीति बोद्धव्यं तत्वतो ज्ञातव्यम् । तस्मिन् वक्ष्यमाण- प्रकारेण द्विधा ज्ञाते सति विनश्वरफलं कर्म विकर्म स्वर्गप्रापकं तस्मारिक भविष्यतीति बोद्धव्यं तथाकर्मणस्तत्समाप्तिरूपान्नैष्कात्कि भवतीीते बोद्धव्यं । यतः कर्मणो गतिर्गहना । तदु- तं टिप्पणिकासु-'कर्माकर्मविकर्ममर्मसु धिया बोद्धव्यमेवादितः कर्म स्याद्विधिपूर्वकं तु मनसा सर्वेन्द्रियव्यापृतिः । तद्देधा सफलं फलेन रहितं त्वाद्यं विकर्म रमृतं बन्धादन्यदकर्मशुद्धिकरणान्नै- ष्कर्म्यतामागतम्' इति । अस्यार्थः सुधिया पुरुषेणादितः प्रथमतः कर्माकर्मविकर्मणां मर्म- रहस्यं बोद्धव्यं ज्ञातव्यम् । तत्र कर्म किं नामेत्याह । विधिपूर्वकं यथा भवति तथा मनसा सह सर्वेन्द्रियव्यापृतिः । मत्त्वसंपश्नेन मनसा साकं सन्द्रियाणां ज्ञानकमन्द्रियाणां या व्यापृतिा- चतुर्थाध्यायः । १३७ पारस्तत्कौत्यक्तम् । यज्ञोपकरणं दर्शनं तत्प्रतिपादकं वेदश्रवणं होमधूमाघ्राणं यज्ञपात्रस्य दर्शनं पुरोडाशास्वादनं यज्ञसामग्रीसंपादनार्थ हस्तपादक्रिया ऋतौ मार्याभिगमनं दक्षिणस्यां दिशि मलो- न्सर्ग इत्यादिविध्युक्त इन्द्रियव्यापारः कर्मशब्देनोच्यते । अथ तत्कर्म द्विधा सफलं स्वर्गप्रापर्क फलेन रहितं मोक्षप्रापकं च । उभयत्र विधिस्तुल्य एव परं तु संकल्पकतो भेदस्तत्राद्यं स्वर्ग- मापकं विकर्म विनश्वरफलं कुतो बन्धहेतुत्वात् । तथान्यन्मोक्षप्रापकं कर्माकर्म । यतश्चित्त शुद्धि- करणानन्तरं स्वयमुपरमं प्राप्तं सन्नैष्कर्म्यतामागतं ज्ञानपदत्वं प्राप्तमित्यर्थः ॥ १७ ॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः॥ स बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥ किं पुनस्तत्त्वं कर्मादेर्यद्वोद्धव्यं वक्ष्यामीति प्रतिज्ञातमुच्यते कर्मणीति । कर्मणि कर्म क्रियत इति व्यापारमात्रं तस्मिन् कर्मण्यकर्म कर्माभावं यः पश्ये- दकर्मणि च कर्माभावे कर्तृतन्त्रत्वात् प्रवृत्तिनिवृत्त्योर्वस्त्वप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारोऽविद्याभूमावेव कर्म यः पश्येद् यः पश्यति स बुद्धि- मान् मनुष्येषु स युक्तो योगी च कृत्स्नकर्मकृत् समस्तकर्मकच्च स इति स्तूयते कर्माकर्मणोरितरेतरदर्शी । ननु किमिदं विरुद्धमुच्यते कर्मण्यकर्म यः पश्येदित्यकर्मणि च कर्मेति, न हि कर्माकर्म स्यादकर्म वा कर्म तत्र विरुद्धं कथं पश्येद् द्रष्टा, नन्वकर्मैव परमार्थतः सत्कर्मवदवभासते मूढदृष्टेलोकस्य तथा कर्मैवाकर्मवत् तत्र यथाभूतदर्शनार्थमाह भगवान् कर्मण्यकर्म यः पश्ये- आ० टी० । उत्तरश्लोकमाकाङ्क्षापूर्वकमुपादत्ते किं पुनरिति । प्रथमपादस्याक्षरोत्थमर्थ कथयति कर्मणीसादिना । द्वितीयपादस्यापिशब्दप्रकाशितमर्थ निर्दिशति अकर्मणि चेति । कर्माभावे यः कर्म पश्यतीति संबन्धः । प्रवृत्तरेव कर्मत्वानिवृत्तेस्तदभावत्वात्तत्र कथं कर्मदर्शनमि- त्याशङ्कय द्वयोरपि कारकाधीनत्वेनाविशेषमाभिप्रेत्याह कर्तृतन्त्रत्वादिति । प्रवृत्ताविव निवृत्तावपि कर्मदर्शनमविरुद्धमिति शेषः । ननु निवृत्तेर्वस्त्वधीनत्वात् कारकनिबन्धनाभावान्न तत्र कर्मदर्शनं युज्यते तत्राहं वस्त्विति । क्रियाकारकफलव्यवहारस्य सर्वस्याविद्यावस्थायामेव प्रवृत्तत्वाद्वस्तुसंस्प- शशुन्यत्वात् प्रवृत्तिवन्निवृत्तावपि यः कर्म पश्यति स मनुप्येषु बुद्धिमानिति संबन्धः । कर्मण्यकर्मा- कर्मणि च कर्म पश्यतो बुद्धिमत्त्वं युक्तत्वं समस्तकर्मकृत्त्वं च कथमित्याशक्याह इति स्तूयत इति । श्लोकस्य शब्दोत्थेऽर्थे दर्शिते तात्पर्यार्थापरिज्ञानान्मिथोविरोधं शङ्कते नन्विति । कथमिदं विरुद्धमित्याशक्याह कर्मणीति । विषयसप्तमी वा स्यादधिकरणसप्तमी वेति विकल्प्याद्येऽन्याकारं ज्ञानमन्यावलम्बनमिति स्पष्टो विरोधः स्यादित्याह न हीति । अन्यस्यान्यात्मतायोगात् कर्माकर्म- णोरभेदासंभवादकर्माकारं कर्मावलम्बनं ज्ञानमयुक्तमित्यर्थः । द्वितीयं दूषयति तत्रेति । कर्मण्य- धिकरणे ततो विरुद्धमकर्म कथमाधेयं द्रष्टा द्रष्टुमीष्टे न हि कर्माकमोमियोविरुद्वयोराधाराधेयभावः संभवतीत्यर्थः । विषयसप्तमीमभ्युपेत्य सिद्धान्ती परिहरति नन्वकर्मवेति । लोकस्य मूढदृष्टविवेकव- जितस्य परमार्थतो ब्रह्माकर्माक्रियमेव सद् भ्रान्त्या कर्मसहितं क्रियावदिव प्रतिभातीत्यक्षरार्थः । पर- स्पराध्याममुपेत्योक्तं तथेति । यथा खल्वकर्म ग्रहल कर्मवदुषलगते तथा कर्म सकिययेव दैतमक्रिये श्रीमद्भगवद्गीता- दित्यादि, अतो न विरुद्ध बुद्धिमत्त्वाद्युपपत्तेश्च 'बोद्धव्यमिति च यथाभूतं द- र्शनमुच्यते, न च विपरीतज्ञानादशुभान्मोक्षणं स्याद् यज्ज्ञात्वा मोक्षस्यशु- भादिति चोक्तं, तस्मात् कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस्तहिपर्ययग्र- हणनिवृत्त्यर्थ भगवतो वचनं 'कर्मण्यकर्म य' इत्यादि, न चात्र कर्मा- धिकरणमकर्मास्ति कुण्डे बदराणीव नाप्यकर्माधिकरणं कर्मास्ति कर्माभावत्वादकर्मणोऽतो विपरीते गृहीते एव कर्माकर्मणी लौकिकै- र्यथा मृगतृष्णिकायामुदकं शुक्तिकायां वा रजतं, ननु कर्म कमैव सर्वेषां न क चिद् व्यभिचरति तब नौस्थस्य नावि गच्छन्त्यां तटस्थेष्वगतिकेषु न- गेषु प्रतिकूलगतिदर्शनाद् दूरेषु चक्षुषोऽसंनिकृष्टेषु गच्छत्सु गत्यभावदर्श- ब्रह्मण्यधिष्ठाने संसृष्टं तहद्भातीत्यक्षरयोजना । कर्माकर्मणोरितरेलराध्यासे सिद्धे सम्यग्दर्शनसिद्धयर्थ भगवतो वचनमुचितमित्याह तत्रेति । यथा यदिदं रजतमिति प्रतिपन्नं तदिदानी शुक्तिशकलं पश्यति भ्रमसिद्धरजतरूपविषयानुवादेन तदधिष्ठानं शक्तिमात्रमुपदिश्यते तथा भ्रमसिद्धकर्माद्यात्म. कविषयानुवादेन तदधिष्ठानं कर्मादिरहितं कूटस्थं ब्रह्म भगवता व्यपदिश्यते तथा च भगवद्वचनम- विरुद्धमित्याह अत इति । इतश्चाध्यारोपितकर्माद्यनुवादपूर्वकं तदधिष्ठानस्य कर्मादिरहितस्य नि- विशेषस्य ब्रह्मणो भगवता बोध्यमानत्वान्न तत्र विरोधाशङ्कावकाशो भवतीत्याह बुद्धिमत्त्वादिति । कूटस्थाद् ब्रह्मणोऽन्यस्य सर्वस्य मायामात्रत्वाद् अन्यज्ञानाद् बुद्धिमत्त्वयुक्तत्वसर्वकर्मकृत्त्वानामनुपप- तेरत्र च बुद्धिमानित्यादिना बुद्धिमत्त्वादिनिर्देशात् ब्रह्मज्ञानादेव सदुपपत्तेः सर्वविक्रियारहितं ब्रह्म- ज्ञानमेव विवक्षितमित्यर्थः । बोधशब्दस्य सम्यग्ज्ञाने प्रसिद्धत्वात् कर्माकर्मविकर्मणां स्वरूपं बोद्ध- व्यमस्तीति वदता सम्यग्ज्ञानोपदेशस्य विवक्षितत्वादपि कूटस्थं ब्रह्मात्राभिप्रेतमित्याह बोद्धव्य- मिति । फलवचनपर्यालोचनायामपि कूटस्थं ब्रह्मात्राभिप्रेतं प्रतिभातीत्याह न चेति । सम्यग्ज्ञा- नाधीनफलमत्र न श्रुतमित्याशङ्कयाह यज्ज्ञात्वेति । अध्यारोपापवादार्थ भगवद्वचनविरुद्धमित्युपपा- दितमुपसंहरति तस्मादिति । तद्विपर्ययेत्यत्र तच्छब्देन प्राणिनो गृह्यन्ते । विषयसप्तमीपरिग्रहेण परिहारमभिधायाधिकरणसप्तमीपक्षे दर्शितं दूपणमङ्गीकारेण परिहरति न चेति । व्यवहारभूमिरत्रे- त्युच्यते, योग्यत्वे सत्यनुपलब्धेरित्यर्थः । अकर्माधिकरणं कर्म न संभवतीत्यत्र हेत्वन्तरमाह कर्माभावत्वादिति । न हि तुच्छस्याधिकरणत्वं क्वचिदृष्टमिष्टं वेत्यर्थः । निरूप्यमाणे कर्माकर्मणो- रधिकरणाधिकर्तव्यभावासंभवे फलितमाह अत इति । शास्त्रपरिचयविरहिणामध्यारोपमुदाहरति यथेति । कर्माकर्मणोरारोपितत्वमुक्तममृश्यमानः शङ्कत्ते नन्विति । कर्म कर्मैवेत्यत्राकर्म चाकमैवेति द्रष्टव्यं, विमतं सत्यमव्यभिचारित्वाद् ब्रह्मवदित्यर्थः । तत्र कर्म तत्त्वतो नाव्यभिचारि कर्मत्वानी- स्थस्य तटस्थवृक्षगमनवदित्यव्यभिचारित्वं कर्मप्यसिद्धमिति परिहरति तत्रति । अकर्म च तत्त्वतो नाव्यभिचारि कर्माभावत्वाद् दूरप्रदेशे चैत्रमैत्रादिषु गच्छत्स्वेव चक्षुषा संनिधानविधुरेषु दृश्यमा- " कर्मदर्शनं सक्रिये पतप्रपञ्च चितिमत्सु चैत्रादिषु गत्यभावदर्शनवत् कर्माभावस्य विपरीतदर्शनं यन हेतुना संभवति तेन तस्य विपरीतदर्शनस्य निरसनाथ भगवद्वचनमिति दार्टान्तिकं निगमयति चतुर्थाध्यायः। नादेवमिहाप्यकर्मण्यहं करोमीति कर्मदर्शनं कर्मणि चाकर्मदर्शनं विपरीतदर्श- नं येन तनिराकरणार्थमुच्यते कर्मण्यकर्म यः पश्येदित्यादि, तदेतदुक्तप्रतिवचन- मप्यसरुदत्यन्तविपरीतदर्शनभावितया मोमुह्यमानो लोकः श्रुतमप्यसकत्तत्त्वं विस्मृत्यमिथ्याप्रसंगमवतार्यावतार्य चोदयतीति पुनः पुनरुत्तरमाह भगवान् दुर्विज्ञेयत्वं चालक्ष्य वस्तुनो 'अव्यक्तोऽयमचिन्त्योऽयं न जायते म्रियते' इत्यादि- नात्मनि कमीभावः श्रुतिस्मृतिन्यायप्रसिद्ध उक्तो वक्ष्यमाणश्च' तस्मिन्नात्मनि कर्मभावेऽकर्मणि कर्मविपरीतदर्शनमत्यन्तनिरूढं यतः किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः' देहाद्याश्रयं कर्मात्मन्यध्यारोप्याहं कर्ता ममैतत् कर्म म- यास्य कर्मणः फलं भोक्तव्यमिति च तथाहं तूष्णीं भवामि येनाहं निरायासो- ऽकर्मा सुखी स्यामिति कार्यकरणाश्रयव्यापारोपरमं तत्कृतं च सुवित्वमात्म- न्यध्यारोप्य न करोमि किं च तूष्णीं सुखमासमित्यभिमन्यते लोकस्तत्रेदं लो- कस्य विपरीतदर्शनापनयनायाह भगवान् कर्मण्यकर्म यः पश्येदित्यादि । अ- व च कर्म कमैव सत् कार्यकरणाश्रयं कर्मरहितेऽविकिय आत्मनि सर्वैरध्य- एवमित्यादिना । ननुकर्मतदभावयोरारोपितत्वादविक्रियस्य ब्रह्मणो ज्ञानमात्राभिप्रेतं चेदव्य- तोऽयमचिन्त्योऽयं न जायते म्रियते वेत्यादिना पौनरुक्त्यं प्राप्तं तत्रैव ब्रह्मात्मनो निर्विकारत्वस्यो- तत्वादिति तत्राह तदेतदिति । तदेतदात्मनि शङ्कितं सक्रियत्वमसळदुक्तप्रतिवचनमपि निर्वि- कारात्मवस्त्वपेक्षयात्यन्तविपरीतदर्शनं मिथ्याज्ञानं तेन भावित्वं तत्संस्कारप्रचयवत्त्वं ततोऽतिशयेन मोहमापद्यमानो लोकः श्रुतमपि तत्त्वं विस्मृत्य पुनर्यत्किचित् प्रसङ्गमापाद्य सक्रियत्वमेवात्मनश्चो- दयतीति पुनः पुनस्तत्त्वभूतमुत्तरं भगवानभिधत्ते वस्तुनश्च दुर्विज्ञेयत्वात् पुनः पुनः प्रतिपादनं तत्त- द्मनिराकरणार्थमुपयुज्यते तथा च नास्ति पुनरुक्तिरित्यर्थः । असदुक्तप्रतिवचनमेवानुवदति अव्यक्तोऽयमिति । कर्माभाव उक्त इति संबन्धः । उक्तस्य न जायते म्रियते वा विपश्चिदित्यादि श्रुतौ प्रकृतस्मृतावसंगत्वादिन्यायेन च प्रसिद्धत्वमस्तीत्याह श्रुतीति । न केवल मुक्त: कर्माभावः किं तु सर्वकर्माणि मनसा संन्यस्येत्यादौ वक्ष्यमाणश्चेत्याह वक्ष्यमाणश्चेति । ननु कर्मणां देहादिनि- वर्तकत्वेन त्रैविध्यात् कूटस्थस्वभावस्यात्मनोऽसंगत्वात्तदव्यापाररूपस्य कर्मणोऽप्रसिद्धत्वात् न त- स्मिन्नकर्मणि विपरीतस्य कर्मणो दर्शन सिध्यतीत्याशङ्कयाह तस्मिमिति । कर्मव विपरीतं तरय दर्शनमिति यावद, अहं कर्तेत्यात्मसमानाधिकरणस्य व्यापारस्यानुभवास् कर्मभ्रमस्तावदात्मन्यत्य- न्तरूढोऽस्तीत्यर्थः । आत्मनि कर्मविभ्रमोऽस्तीत्यत्र हेतुमाह यस इति । आत्मना निष्क्रियत्वे कुतस्तस्मिन् यथोक्तो विभ्रमः संभवेदित्याशङ्क्याह देहेति । इदानीमात्मन्यकर्मभ्रममदाहरति तथे- त्यादिना । यथा शुक्तौ स्वाभाविकमरूप्यत्वं रूप्यत्वमारोपितं तदभावोऽप्यारोप्याभावत्वादारोप- पक्षपाती तथात्मनोऽपि स्वाभाविकमविक्रियत्वं पुमरध्यस्तं तदभावत्वात् कर्माभावोऽप्यध्यरत एवेति मन्वानः सन्नुपसंहरति तत्रेदमिति । आत्मनि कर्मादिविभ्रमे लौकिके सिद्धे सत्येवं कर्मणीत्यादि- वचनं तत्परिहारार्थ भगवानुक्तवानित्यर्थः । संप्रत्युक्तेथे श्लोकाक्षरसमन्वयं दर्शयितं कर्मणीत्यादि व्याचिख्यामिकां करोति अत्र चोति । व्यवहारभूमी कार्यकारणाधिकरणं कर्म स्वेनैव रूपेण - श्रीमद्भगवद्गीता- १४. स्तं यतः पण्डितोऽप्यहं करोमीति मन्यतेऽत आत्मसमवेततया सर्वलोकप्रसि- द्धे कर्मणि नदीकूलस्थेष्विव वृक्षेषु गतिः प्रातिलोम्येनातोऽकर्म कर्माभावं य- थाभूतं गत्यभावमिव वृक्षेषु यः पश्येदकर्मणि च कार्यकरणव्यापारोपरमे क. संवदात्मन्यध्यारोपिते तूष्णीमकुर्वन् सुखमासे इत्यहंकाराभिसन्धिहेतुत्वात्त- स्मिनकमणि च कर्म यः पश्येद् य एवं कर्माकर्मविभागज्ञः स बुद्धिमान् पण्डितो मनुष्येषु स युक्तो योगी कृत्स्नकर्मकञ्च सोऽशुभान्मोक्षितः कृतक- त्यो भवतीत्यर्थः । अयं श्लोकोऽन्यथा व्याख्यातः कैश्चित्, कथं, नित्यानां किल कर्मणा- मीश्वरार्थेऽनुष्ठीयमानानां तत्फलाभावादक कर्माणि वृत्त्या, ते- पां चाकरणमकर्म तच्च प्रत्यवायफलत्वात् कर्मोच्यते गौण्यैव वृत्त्या, नत्र नित्ये कर्मण्यकर्म यः पश्येत् फलाभावाद् यथा धेनुरपि गौरगौरुच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्दन्, तथा नित्याकरणे त्वकर्मणि कर्म यः पश्येन्नरकादि- प्रत्यवायफलं प्रयच्छतीति । नैतद् युक्तं व्याख्यानमेवज्ञानादशुभान्माक्षानुप- तान्युच्यन्ते गौण्या व्यवस्थितं सदात्मन्यविक्रिये कार्यकरणारोपणद्वारेण सर्वैरारोपितमित्यत्र हेतुमाह यत इति । अवि- वेकिनां तु कर्तृत्वाभिमानः सुतरामिति वक्तमपिशव्दः । आत्मनि कर्मरहिते करािप दृष्टान्तमाह नदीति । एवमात्मनि कर्मारोपमुपपाद्य प्रथमपादं व्याचष्टे अत इति । आरोपवशादात्मनिष्ठत्वेन कर्मणि सर्वलोकप्रसिद्ध कर्माभावं यः पश्येत् स बुद्विमानिति संबन्धः, अकर्मदर्शनस्य यथाभूतत्वं सम्यक्त्वम् । तत्र दृष्टान्तमाह गत्यभावमिवेति । द्वितीयपादं व्याकरोति अकर्मणि चेति । अध्यारोपमभिनयति तूष्णीमिति । अकर्मणि कर्मदर्शने युक्तिमाह अहंकारेति । पूर्वार्धेनोक्तमनूद्यो- तरार्ध विभजते य एवमिति । आत्मनि कार्यकरणसंघातममारोपद्वारेण तद्व्यापारमात्रे कणि शुक्तिकायामिव रजतमारोपिते विषये तदभावमकर्म वस्तुतो यो रनताभाववदनुभवत्यकर्मणि च संघातव्यापारोपरमे तद्वारा स्वात्मन्यहं तूष्णीमासे मुखमित्यारोपिते गोचरे कर्माहंकारहेतुकं यस्त- त्वतो मन्यते स रूप्यतदभावविभागहीनशक्तिमात्रवदात्ममात्रं कर्मतदभावविभागशून्यं कूटस्थं पर- मार्थतोऽवगच्छन् बुद्धिमानित्यादिस्तुतियोग्यतां गच्छतीत्येवं स्वाभिप्रायेण श्लोकं व्याख्यायात्र वृत्ति- कारव्याख्यानमुत्थापयति अयमिति । अन्यथा व्याख्यानमेव प्रश्नद्वारा प्रकटयति कथमित्यादिना। ईश्वरार्थेनानुष्ठाने फलाभाववचनं व्याहतमिति मत्वाह किलेति । नित्यानामकर्मत्वमप्रसिद्धमित्या- शक्य फलराहित्यगुणयोगात्तेष्वकर्मत्वव्यवहारः सिद्ध्यतीत्याह गोण्येति । नित्यानामकरणं मुख्य- वृत्त्यैवाकर्म वाच्यमित्याह तेषां चेति । तत्र कर्मशब्दस्य प्रत्यवायाख्यफलहेतुत्वगुणयोगाद् गौण्यैव वृत्या प्रवृत्तिरित्याह तच्चेति । पातनिकामेवं कृत्वा श्लोकाक्षराणि व्याचष्टे तत्रेत्यादिना । अक- मणि चेत्यादि व्याकरोति तथेति । स बुद्धिमानित्यादिपूर्ववत् । परकीयं व्याख्यानं व्युदस्यति नैतदिति । नित्यं कर्माकर्म नित्याकरणं कति ज्ञानाद् दुरितनिवृत्त्यनुपपत्तेर्भगवद्वचनं वृत्तिकारमते बाधितं स्यादित्यर्थः । “धर्मेण पापमपनुदति" इति श्रुतर्नित्यानुष्ठानाद दुरितनिबर्हणप्रसिडेरतदनुष्ठानस्य १४१ चतुर्थाध्यायः । पत्तेर्यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति भगवतोक्तं वचनं बाध्येत । कथं, नित्याना- मनुष्ठानादशुभान् स्यान्नाम मोक्षणं न तु तेषां फलाभावज्ञानान हि नित्या- नां फलाभावज्ञानमशुभमुक्तिफलत्वेन चोदितं नित्यकर्मज्ञानं वा न च भगवतैवे. होक्तम् । एतेनाकर्मणि कर्मदर्शनं प्रत्युक्तं न ह्यकर्मणि कर्मेति दर्शनं कर्तव्य- तयेह चोद्यते, नित्यस्य तु कर्तव्यतामात्रं न चाकरणानित्यस्य प्रत्यवायो भव- तीति विज्ञानात् किं चित् फलं स्यान्नापि नित्याकरणं ज्ञेयत्वेन चोदितं नापि कर्माकमेंति मिथ्यादर्शनादशुभान्मोक्षणं न च बुद्धिमत्त्वं युक्तता कृत्स्नकर्म- कदित्यादि च फलमुपपद्यते स्तुतिर्वा, मिथ्याज्ञानमेव हि साक्षादशुभरूपं कु- तोऽन्यस्मादशुभान्मोक्षणं, न हि तमस्तमसो निवर्तकं भवति । ननु कर्मणि यदकर्मदर्शनमकर्मणि वा कर्मदर्शनं न तन्मिथ्याज्ञानं किं तर्हि गौणं फलान्तराभावात्तदकर्मेति ज्ञात्वानुष्ठाने क्रियमाणे कथमशुभक्षयो नेति शङ्कते कथमिति । ' क्षेत्र- स्येश्वरज्ञानाद्विशद्धिः परमा मता' इति स्मरणात् कर्मणात्यन्तिकाशुभक्षयाभावेऽप्यङ्गीकृत्य परिहरति नित्यानामिति । नित्यानुष्टानादशुभक्षयेऽपि नास्मिन् प्रकरणे तद्विवक्षितं यज्ज्ञात्वा मोक्ष्यसेऽशु- भादिति ज्ञानादशुभक्षयस्य प्रतिज्ञातत्वान्न च तज्ज्ञानफलाभावविषयमेषितव्यमित्याह न त्विति । अशुभस्य फलाभावाज्ञानकार्यत्वाभावाद् न फलाभावज्ञानात् क्षयः सिद्धयतीत्यर्थः । किं चातीन्द्रि- योऽर्थः शास्त्रान्निश्चीयते न च नित्यकर्मणां फलाभावज्ञानादशुभनिवृत्तिरित्यत्र शास्त्रमस्त्रीत्याह न हीति । नित्याकरणं कर्मेति ज्ञानमपि नाशुभनिवृत्तिफलत्वेन चोदितमस्तीत्याह नित्यकर्मेति । भगवद्वचनमेवात्र प्रमाणमित्याशक्याह न चेति । साधारणमेव यज्ज्ञात्वेत्यादि भगवतो वचनं न तु नित्यानां फलाभावं ज्ञात्वेति विशेषविषयमित्यर्थः । अशुभमोक्षणासंभवप्रदर्शनेन कर्मण्य- कर्मदर्शननिराकरणन्यायेनाकर्मणि कर्मदर्शनं निराकरोति एतेनेति । नामादिषु फलाय ब्रह्मदृष्टि- पदकर्मण्यपि फलार्थ कर्मदृष्टिविधानाच्चाशुभमोक्षणानुपपत्तिरित्याशङ्कयाह न हीति । अत्र हि श्लोके नित्यस्य कर्तव्यतामात्रं परमते विवक्षितमतश्चाकर्मणि कर्मदर्शन विधीयते तत्फलायेति क- ल्पना परस्य सिद्धन्ताविरुद्धत्याह निसस्य विति । परमतेऽपि नित्यस्य कर्तव्यतामात्रमत्र श्लोके न विवक्षितं किं तु नित्यानुष्ठाने प्रवृत्तिसिद्धयर्थ नित्याकरणात् प्रत्यवायो भवतीति ज्ञानमपि कर्त- व्यत्वेनात्र विवक्षितमेवेत्याशङ्कयाह न चेति । न तावत् प्रवृत्तिरस्य विज्ञानस्य फलं नियोगादेव तदुपपत्तेर्नापि फलान्तरमनुपलम्भादतोऽफलत्वादकरणात् प्रत्यवायो भवतीति ज्ञानं नात्र कर्तव्यत्वेन विवक्षितमित्यर्थः । किं चाकरणे कर्मदृष्टिविधावकरणस्यालम्बनत्वेन प्रधानत्वाज ज्ञेयत्वं वक्तव्यं तव तुच्छत्वादनुपपन्नमित्याह नापीति । अकरणस्यासतो नामादिवदाश्रयत्वेन दर्शनासंभवेऽपि सामानाधि- करण्येनेदं रजतमितिवद्दर्शनं भविष्यत्यिाशङ्कयाह नापि कर्मेति । आदिशब्देन सर्वोत्कर्षादि गृह्यते, फलवत्त्वं स्तुतिर्वा सम्यग्ज्ञानस्य युक्तं न मिथ्याज्ञानस्यानुपपत्तरित्यर्थः । स्यने मिथ्याज्ञान- मपि फलवदुपलब्धमित्याशङ्कय मिथ्याज्ञानस्याशुभाविरोधित्वान्न तस्मात्तन्निवृत्तिरित्याह मिथ्या- मानमेवेति । अशुभादेवाशुभानिवृत्तौ दृष्टान्तमाह न हीति । अविवेकपूर्वकमिदं रजतमिति सद- सतोः सामानाधिकरण्यान्मिथ्याज्ञानं युक्तं कर्माकर्मणोस्तु विवेकेन भासमानयोः सामानाधिकरप्याधीनं ज्ञानं सिंहदेवदत्तयोरिव गौणं न मिथ्याज्ञानमिति शङ्कते नन्विति । कर्माकर्मेति दर्शने फलाभायो १ भगवनवमुक्तम्----पा० लि. पु० ।

१४२ श्रीमद्भगवद्गीता-- फलभावाभावनिमित्त 'न'कर्माकर्मविज्ञानादपि गोणात् फलस्याश्रवणानापि श्रु- तहान्यश्रुतपरिकल्पनया कश्चिदिशेषो लभ्यते स्वशब्देनापि शक्यं वक्तुं नि- त्यकर्मणां फलं नास्त्यकरणाच्च तेषां नरकपातः स्यादिति तत्र व्याजेन पर- व्यामोहरूपेण कर्मण्यकर्म यः पश्येदित्यादिना किंतवंब्याचक्षाणेन भगवतो- तं वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यान चैतच्छयरूपेण वाक्ये- न रक्षणीय वस्तु, नापि शब्दान्तरेण पुनः पुनरुच्यमानं वस्तु सुबोधं स्यादि- त्येवं वक्तुं युक्तं, कर्मण्येवाधिकार इत्यत्र हि स्फुटतर उक्तोऽर्थो न पुनर्वक्त- व्यो भवति सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव न निष्प्रयोजनं बोद्ध- व्यमित्युच्यते, न च मिथ्याज्ञानं बोहव्यं भवति तत्प्रत्युपस्थापितं चावस्थाभा- सम् । नापि नित्यानामकरणादभावात् प्रत्यवाय त्पत्तिर्नासतो वियते भाव इति वचनात् कथमसतः सज्जायतेति च दर्शितम् असतः सज्जन्मप्रतिषेधादतः गुणोऽकर्म कर्मति दर्शने तु फलाभावो गुणस्तन्निमित्तमिदं ज्ञानं गौणमित्याह फलेति । यथोक्तज्ञा- नस्य गौणत्वेऽपि प्रामाणिकफलाभावान्न तद्गौणतोचितेति दूषयति नेयादिना । कर्माकर्मत्यादि- गौणविज्ञानोपन्यासव्याजेन नित्यकर्मकर्तव्यतया विवक्षितत्वाद् गौणज्ञानस्याफलत्वमदूषणमित्याश- याह नापीति । झानादशुभमोक्षणस्य श्रुतस्य हानिरश्रुतस्य नित्यानुष्ठानस्य कल्पनेत्यनेन व्यापारगौरवेण न कश्चिद्विशेषः सिध्यतीत्यर्थः । उक्तमेव प्रपश्चयति स्वशब्देनेति । नरकपातः स्यादतो विधेरेवानुष्ठेयानि तानीति शेषः । यथोक्तवाचकशब्दप्रयोगादेवापेक्षितार्थसिद्धिसंभवे भगवतो व्याजवचनकल्पनमनुचितमित्याह तत्रेति । प्रहते श्लोके वृत्तिकृतां व्याख्यानेन परमाप्तस्यैव भगवतो विप्रलम्भकत्वमापादितमिति तदीयं व्याख्यानमुपेक्षितव्यमिति फलितमाह तत्रैवमिति । नित्यकर्मा- नुष्ठानसिद्धयर्थ व्याजरूपमिति भगवद्वचनमुचितमित्याशङ्कय स्वशब्देनापीत्यादि प्रागुक्तपरिपाट्या- पि तदनुष्ठानबोधनसंभवान्मैवमित्याह न चैतदिति । वस्तुशब्देन नित्यकर्मानुष्ठानमुच्यते । यथा- त्मप्रतिपादनं सुबोधत्वसिद्धयर्थ पौनःपुन्येन क्रियते तथा नित्यानामपि कर्मणामनुष्ठानं कर्मण्यकमें- त्यादिशब्दान्तरेणोच्यमानं सुबोधं स्यादिति भगवतः शब्दान्तरं युक्तमित्याशय तस्य नित्यानुष्ठा- नवाचकत्वाभावान्मैवमित्याह नापीति । किं च पूर्वमेव नित्यानुष्टानस्य स्पष्टमुपदिष्टत्वान्न तस्य सुबोधनार्थ शब्दानारमपेक्षितमित्याह कर्मण्यवति । कर्माकर्मादिविज्ञानव्याजेन नित्यकर्मानुष्ठानकर्त- व्यतायां तात्पमित्येतन्निराकृत्य कर्माकर्मादिदर्शनं गौणमिति पक्षे दूषणान्तरमाह सर्वत्र चेति । लोके वदे च यथा प्रशस्तं देवतादितत्त्वं यच्च कर्तव्यमनृष्टानाहमग्निहोत्रादि तदेव बोद्धव्यमि- त्युच्यते, न निष्फलं काकदन्तादि कर्मण्यकर्मदर्शनमकर्मणि च कर्मदर्शनं गौणत्वादेवाप्रशस्तमकर्त- व्यं च नातस्तद्वोद्धव्यमिति वचनमहतीत्यर्थः । किं च कर्मादेमायामात्रत्वाद गौणमपि तद्विपयं ज्ञानं मिथ्याज्ञानमिति न तस्य बोदव्यत्वासद्धिरित्याह न चेति । मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्यदित्याशङ्कयाह वस्त्वाभासत्वान्मवामत्याह तत्प्रत्युपस्थापितं चेति । यत्पुनरकरणस्य प्रत्यवायहेतुत्वमकरणे गाण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति तहषयति नापीति । अकरणात् प्रत्यवायो भवतीत्यत्र श्रुतिस्मृतिविरोधमभिधाय युक्तिविरोधमभिदधाति अस- १ चावस्वाभामिति लिखित ११२ पु. पा. ।

चतुर्याध्यायः । १४३ सदुत्पत्तिं ब्रुवतासदेव सद्भवेत् सच्चाप्यसद्भवेदित्युक्तं स्यात्, तच्चाप्ययुक्तं सर्व- प्रमाणविरोधान च निष्फलं विदध्यात् कर्मशास्त्रं दुःखरूपत्वाद् दुःरवस्य च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेस्तदकरणे च नरकपाताभ्युपगमेऽनर्थायैवोभय- यापि करणेऽकरणे च शास्त्रं निष्फलं कल्पितं स्यात् स्वाभ्युपगमविरोधश्च नित्यं निष्फलं कर्मेत्यभ्युपगम्यते मोक्षफलायेति ब्रुवतस्तस्मायथाश्रुत एवार्थः कर्मण्यकर्मेत्यादेस्तथा च व्याख्यातोऽस्माभिः श्लोकः ॥ १८ ॥ त इति । असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नं निरस्तसमस्ततत्त्वस्य किं चित्त- स्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यप्रसंगादित्याह तच्चेति । यत्तु नित्यानां फलराहित्यं तत्राकर्म- शब्दप्रयोगे निमित्तमिति तन्निरस्यति न चेति । न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्य- नुपपत्तिरपि तु धात्वर्थस्य क्लेशात्मकत्वात्तत्र श्रुतफलाभावेनैव विधिरवकाशमासादयेदित्याह दुःखेति । दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात्तद्विषयो विधिः स्यादिति चेने त्याह दुःखस्य चेति । स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थ दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्कयाह तदकरणे चेति । फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नि- त्यानि कर्माण्यनुष्ठेयानीत्याशङ्कयाह स्वाभ्युपगमेति । वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति तस्मादिति । कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्कयाह तथा चेति ॥ १८ ॥ प० टी० । अथैतदेव विविच्याह कर्मणीति । वेदविहित कर्मणि योऽकर्म नैष्कर्य पश्येत् । तथाकर्मणि नैष्कर्ये निमित्तभूतं कर्मैव पश्येत् । एवं मिथः कार्यकारणरूपत्वं पश्येत् । स एव व्यवसायात्मकबुद्धिमान् स एव कृत्स्नकर्मकृत् मुक्ती सर्वकर्मफलानामन्तर्भूतत्वात् ॥ १८ ॥ यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः॥ ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥१९॥ तदेतत् कर्मण्यकर्मादि यथोक्तदर्शित्वं स्तूयते यस्येति । यस्य यथोक्त- दर्शिनः सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि समारभ्यन्त इति समारम्भाः कामसंकल्पवर्जिताः कामैस्तत्कारणैश्च संकल्पैर्वर्जिता मुधैव चेष्टामात्रा अनु- ठीयन्ते प्रत्तेन चेल्लोकसंग्रहार्थ निटत्तेन चेज्जीवनमात्रार्थ तं ज्ञानाग्निदग्ध- कर्माणं कर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निस्तेन ज्ञानाग्निना दग्धानि शुभा- शुभलक्षणानि कर्माणि यस्य तमाहुः परमार्थतः पण्डितं बुधाब्रह्मविदः॥१९॥ आ० टी० । कर्मण्यकर्मदर्शनं पूर्वोक्तं स्तोतुमुत्तरश्लोकं प्रस्तौति तदेतदिति । यथोक्तद- शित्वं पूर्वोक्तदर्शनसंपन्नत्वम् । समारम्भशब्दस्य कर्मविषयत्वं न रूल्या किंतु व्युत्पत्येत्याह समा- रभ्यन्त इतीति । कामसंकल्पवर्जितत्वे कथं कर्मणामनुष्ठानमित्याशझ्याह मुधैवेति । उद्देशन- लाभावे तेषामनुष्ठानं यादृच्छिकं स्यादित्याशक्य प्रवृत्तेन निवृत्तेन वा तेषामनुष्ठानं यादृच्छिकं स्या- दिति विकल्प्य क्रमेण निरस्यति प्रवृत्तेनेसादिना । ज्ञानाप्रीत्यादि विभजते कर्मादाविति । यथो- क्तज्ञानं योग्यमेव दहति नायोग्यमिति विवक्षितत्वात्तस्मिन्नाग्निपदम् । यथोक्तविज्ञानविरहिणामपि वैशे- १ कर्मण्यकर्मादिदर्शनं-पा. मु. पु० ।

१४४ श्रीमद्भगवद्गीता- पिकादीनां पण्डितत्वप्रसिद्धिमाशक्य तेषां पण्डिताभासत्वं विवक्षित्वा विशिनष्टि परमार्थत इति ॥१९॥ प० टी० । अथैवं पश्यतः पुरुषस्य स्वरूपमाह यस्येति पञ्चभिः । यस्य पुरुषस्य स- म्यगारभ्यन्त इति समारम्भाः कर्माणि काम्यत इति कामः फलं तत्संकल्पेन वर्जिता भवन्ति तं प- ण्डितमाहः किं भूतम् । ज्ञानामिदग्धकर्माणम् । ज्ञानामिना निर्दग्धानि भर्जितबीजानि कर्माणि यस्य ॥ १९ ॥ त्यक्त्वा कर्म फलासंगं नित्यतृप्तो निराश्रयः॥ कर्मण्यभिप्रवृत्तोऽपि नैव किंचित् करोति सः॥२०॥ यस्त्वकर्मादिदर्शी सोऽकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमा- प्रार्थचेष्टः सन् कर्मणि न प्रवर्तते यद्यपि प्राग्विवेकतः प्रत्तो यस्तु प्रारब्ध- कर्मा सन्नुत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् स कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येव स कुतचिनिमित्तात् कर्मपरित्यागासंभवे सति कर्मणि तत्फले च संगरहिततया स्वप्रयोजनाभावाल्लोकसंग्रहार्थ पूर्वतत् कर्म- णि प्रवृत्तोऽपि नैव किंचित् करोति । ज्ञानाग्निदग्धकर्मत्वात् । तदीयं कर्मा- कमैव संपद्यत इत्येतदर्थ दर्शयिष्यन्नाह त्यक्त्वेति । त्यक्त्वा कर्मस्वभिमानं फलासंगं च यथोक्त ज्ञाने नित्यतृप्तो निराकाङ्क्षो विषयेष्वित्यर्थो निराश्रय आश्रयरहित आश्रयो नाम यदाश्रित्य पुरुषार्थ सिसाधयिषति, दृष्टादृष्टेष्टफ- लसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं कर्म परमार्थतोऽकर्मैव तस्य नि- कियात्मदर्शनसंपन्नत्वात् । तेनैवंभूतेन स्वप्रयोजनाभावात् ससाधन कर्म प- रित्यक्तव्यमेवेति प्राप्ते ततो निर्गमासंभवाल्लोकसंग्रहचिकीर्षया शिष्टविगह- णापरिजिहीर्षया वा पूर्ववत् कर्मण्यभिप्रदत्तोऽपि निष्क्रियात्मदर्शनसंपन्नत्वा- जैव किं चित् करोति सः ॥ २० ॥ आ० टी० । विवेकात् पूर्व कमणि प्रवृत्तावपि सति विवेके तत्र न प्रवृत्तिरित्याशङ्याङ्गी- करोति यस्त्विति । विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसंभ- वेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभ्यासः संभवतीत्यर्थः । सत्यपि विवेके तत्तत्साक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशझ्याह यस्तु प्रारब्धेति । त्यक्त्वेत्यादि समनन्तरश्लो- कमवतारयितं भूमिकां कृत्वा तदवतारणप्रकारं दर्शयति स कुतश्चिदिति । लोकसंग्रहादिनिमित्तं विवक्षितं कर्म परित्यागासंभवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किंचिदिति संबन्धः प्रवृत्तो न करोति कर्मेति कथमच्यते तत्राह खप्रयोजनाभावादिति । कथं तर्हि कर्मणि प्रवर्तते तत्राह लोकेति । प्रवृत्तेरर्थक्रियाकारित्वाभावं पश्वादिभिश्चाविशेषादिति न्यायेन व्यावर्तयति पूर्ववदिति । कथं तर्हि विवेकिनामविवेकिनांच विशेषः स्यादित्याशक्य कर्मादौ संगासंगाभ्या- मित्याह कर्मणीति । उक्तेऽर्थे समनन्तरश्लोकमवतारयति ज्ञानामीति । एतमर्थ दर्शयिष्य- १ विदुषा-मंपन्नन्यान- इत्यन्तो प्रन्यो--मु० पु. नास्ति । । कणि १४५ चतुर्थाध्यायः। निमं श्लोकमाहेति योजना । यथोक्तं ज्ञानं कूटस्थात्मदर्शनं तेन स्वरूपभूतं सुखं साक्षादनुभूय कर्मणि तत्फले च संगमपास्य विषयेषु निरपेक्षश्चेष्टते विद्वानित्याह सक्त्वेसादिना । इष्टसाध- नसापेक्षस्य कुतो निरपेक्षत्वामेत्याशक्य विशिनष्टि निराश्रय इति । यदाश्रित्येति यच्छब्देन फलसाधनमुन्यते आश्रयरहितमित्यत्यार्थं सष्टयति दृष्टेति । तेन ज्ञानवता पुरुषेणैवभूतेन त्यक्त्वा कर्मफलासंगमित्यादिना विशोपेतेनेत्यर्थः । ततः ससाधनात् कर्मणः सकाशादिति यावत् । निर्गमासं- भवे हेतुमाह लोकेत्यादिना । पूर्ववज्ज्ञानोदयात् प्रागवस्थायामिवेत्यर्थः । अभिप्रवृत्तोऽपि लोक- दृष्टयेति शेपः, नैव करोति किं चिदिति स्वदृष्टयेति द्रष्टव्यम् ॥ २० ॥ प० टी० । किं च त्यक्वेति । कर्मफलानामासमन्तात्संगं त्यक्त्वा निजानन्देन नित्यतृप्तो- ऽत एव निराश्रय आश्रयणीयरहित एवावेधो योऽभितः सर्वकर्मप्रवृत्तोऽपि नैव किंचित्करोति कर्तृत्वाभिमानशून्यो भवति तस्य कर्माकर्मतामेति ॥ २० ॥ निराशर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः॥ शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिपम् ॥२१॥ यः पुनः पूर्वोक्तविपरीतः प्रागेव कारम्भाद् ब्रह्मणि सर्वान्तरे प्रत्य- गात्मनि निष्क्रिये संजातात्मदर्शनः स दृष्टादृष्टेष्ट विषयाशीविवर्जिततया दृष्टाद- प्टार्थे कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म संन्यस्य शरीरयात्रामात्रचेष्टो य. तिर्ज्ञाननिष्ठो मुच्यत इत्येतमर्थ दर्शयितुमाह निरिति । निराशीनिर्गता आशि- षो यस्मात् स निराशीः, यतचित्तात्मा चित्तमन्तःकरणमात्मा बाह्यः कार्यकर- णसंवातस्तावुभावपि यती संयती येन स यतचित्तात्मा, त्यक्तसर्वपरिग्रहस्त्य- क्तः सर्वः परिग्रहो येन स त्यक्तसर्वपरिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनं के- वलं कर्म तत्राप्यभिमानवजितं कर्म कुर्वन्नाप्नोति न प्राप्नोति किल्बिषमनिष्ट- रूपं पापं धर्म च धर्मोऽपि ममुक्षोरनिष्टरूपत्वात् किल्बिषमेव बन्धापादकत्वा- त् । किं च शारीरं केवलं कर्मेत्यत्र किं शरीरनिर्वर्त्य शारीरं कर्माभिप्रेतमाहो स्विच्छरीरस्थितिमात्रप्रयोजनं शारीरं कर्मेति किं चातो यदि शरीरनिर्वयं शा- आ० टी० । सत्यपि विक्षेपके कर्मणि कूटस्थात्मानुसंधानस्य सिद्ध कैवल्यहेतुत्वे विक्षपा- भावे सुतरां तस्य तदेतत्वसिद्धिरित्यभिप्रेत्याह यः पुनरिति । पूर्वोक्तविपरीतत्वं लोकसंग्रहादिनिर- पेक्षत्वं, तदेव वैपरीत्यं स्फोरयति प्रागेवेति । ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथमित्याश- एक्याह शरीरेति । तर्हि तथाविधचेष्टानिविष्टचेत स्तया सम्यगृज्ञानाहि मावस्य कुतो मुक्तिरित्याश- कय यथोपदिष्टचेष्टायामनादरान्नैवमित्याह ज्ञाननिष्ट इति । इति दर्शयितुमिमं श्लोकं प्राहाते पूर्ववत् । आशिपः प्रार्थनाभेदास्तृणाविशेपाः । आशिषां विदुषो निर्गतत्वे हेतमाह यतेति । चिन- वदात्मनः संयमनं कथमित्याशङ्कयाह आत्मा बाह्य इति । द्वयोः संयमने सत्यत्तिद्धमार्थमाह सक्तेति । सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था म्यादित्याशङ्कयाह शरीरामिति । मात्रशब्देन पौनरुत्यादनर्थक केवलं पदमित्याशङ्कयाह तत्रापीति । शारीरं केवलमित्यादौ शरीरपदार्थ स्फु- टीकर्तुमुभयथा संभावनया विकल्पयति शारीरमिति। शरीरानवयं शारीरामत्यस्मिन पक्षे कि दूषण- ११

१४६
श्रीमद्भगवद्गीता--
रीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरमित्युच्यते यदा शरीरनिवर्त्य
कर्म शारीरमभिप्रेतं स्यात्तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कु-
वनाप्नोति किल्बिषमिति ब्रुवतो विरुद्दाभिधानं प्रसज्येत 'शास्त्रीयं च कर्म दृ-
टादृष्टप्रयोजनं शरीरेण कुर्वन्नाप्नोति किल्बिषमित्यपि त्रुवतोऽप्राप्तप्रतिषेधप्रसंगः
शारीरं कर्म कुर्वनिति विशेषणात् केवलशब्दप्रयोगाच्च वाङ्मनसनिवर्त्य कर्म
विधिप्रतिपेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन्नाप्नोति किल्बिषमित्युक्तं स्यात् त-
त्रापि वाङ्मनोभ्यां विहितानुष्ठानपक्षे किल्बिषप्राप्तिवचनं विरुद्धमापयेत, प्रति-
पिद्धसेवापक्षेऽपि भूतार्थानुवादमात्रमनर्थकं स्याद् , यदा तु शरीरस्थितिमात्रप्र-
योजनं शारीरं कर्माभिप्रेतं भवेत्तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधशाल.
गम्यं शरीरवाङ्मनोनिर्वय॑मन्यदकुर्वस्तरेव शरीरादिभिः शरीरस्थितिमात्रप्र-
योजनं केवलशब्दप्रयोगादहं करोमीत्यभिमानवर्जितः शरीरादिचेष्टामात लो-
कदृष्ट्या कुर्वन्नाप्नोति किल्बिषमेवंभूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसंभवा-
त् किल्विषं संसारं नाप्नोति ज्ञानाग्निदग्धसर्वकर्मत्वादप्रतिबन्धेने मुच्यत एवेति
पूर्वोक्तसम्यग्दर्शनफलानुवाद एवैपः । एवं शारीरं केवलं कर्मेत्यस्यार्थस्य परि-
ग्रह निरवयं भवति ॥ २१ ॥
शरीरस्थितिमात्रं शारीरमित्यस्मिन् वा पक्षे किं फल मिति पूर्ववादी पृच्छति किंचात इति । शरीर
निर्वयं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दृषणमाह उच्यत इति । शरीरेण यन्निवयं तत् किं
प्रतिषिद्धं विहितं वा, प्रथमे विरोधः स्यादित्याह यदेति । प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते
प्रतिषेधशास्त्रविरोधः स्यादित्यर्थः । द्वितीये विहितकरणे सन्यनिष्टप्राप्त्यभावादप्राप्तप्रतिषेधः स्या-
दित्याह शास्त्रीयंचेति । दृष्टप्रयोजनं कारीर्यादिकं कर्मादृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिक
कर्मेति विभागः । शरीरनिर्वयं कर्म शारीरमभिमतमिति पक्षे दूषणान्तरमाह शारीरमिति । वाचा
मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिरित्याशङ्कयाह तत्रापीति । वाङ्म-
नोभ्यां विहितानुष्ठाने वा प्रतिषिद्धकरणे वा किल्विषप्राप्तिः संन्यासिनः स्यादिति विकल्प्याद्ये
जपध्यानविधिविरोधः स्यादित्युक्त्वा द्वितीयं दृषयति प्रतिषिद्धति । शरीरनिर्वत्यं कर्म शारी-
रमिति पक्षमेवं प्रतिक्षिप्य द्वितीयपक्षे लाभं दर्शयति यदा विति । अन्यदेहस्थितिप्रयोजनात्
कर्मणः सकाशादिति शेषः । तत्रापि विदुषः स्वदृष्टया न प्रवृत्तिरिति सूचयति लोकेति । विद्वा-
नुक्तया रीत्या वर्तमानो नामोति किल्विषमित्यत्र विवक्षितमर्थमाह एवंभूतस्येति । विधिनिषेध-
गम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः । शारीरं केवलं कर्म कुर्वन्नामोति किल्बिषमित्य-
स्योक्तेन प्रकारेण परिग्रहे शारीरं केवलमिति विशेषणद्वयं निर्दोष सिध्यतीति फलितमाह
एवमिति ॥ २१ ॥
प. टी. । किं च निराशीरिति । निराशीरमुकं मे भूयादित्याशीविरहितः । यतं नि.
यतं चित्तमात्मा शरीरं च यस्य स तथा । त्यक्ताः सर्वे परिग्रहा बन्धहेतवो येन स केवलं शा-
रीरं कर्म शरीरनिवाहमात्ररूपं कर्म कुर्वन् किल्बिषं परिग्रहादिदोपं न प्रामोति ॥ २१ ॥

चतुर्थाध्यायः । १४७ यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२॥ त्यक्तसर्वपरिग्रहस्य यतेन्नादेः शरीरस्थितिहेतोः परिग्रहस्याभावाद् या- चनादिना शारीरस्थितौ कर्तव्यतायां प्राप्तायाम् ' अयाचितमसंस्कृप्तमुपपनं यदृच्छ- या' इत्यादिना वचनेनानुज्ञातं यतेः शरीरस्थितिहेतोरनादेः प्राप्तिहारमाविष्कुर्वन्नाह यहच्छेति । यदृच्छालाभसंतुष्टोऽप्रार्थितोपनतो लाभो यदृच्छालाभस्तेन संतुष्टः संजातालंप्रत्ययो, इन्दातीतो इन्हैः शीतोष्णादिभिर्हन्यमानोऽविषण्ण- चित्तो हन्दातीत उच्यते, विमत्सरो विगतमत्सरो निरबुद्धिः समस्तुल्यो यह- च्छया लाभस्यापि सिद्धावसिद्धौ च य एवंभूतो यतिरनादेः शरीरस्थितिहेतो- लाभालाभयोः समो हर्षविषादवर्जितः कर्मादावकर्मादिदर्शी यथाभूतात्मद- ननिष्ठः शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकमणि शरीरादिनिर्वयं नैव किंचित् करोम्यहं 'गुणा गुणेषु वर्तन्ते' इत्येवं सदा संपरिचक्षाण आत्मनः क- तृत्वाभावं पश्यन्नैव किंचिद्भिक्षाटनादिकं कर्म करोति लोकव्यवहारसामान्यद- र्शनेन तु लौकिकैरारोपितकर्तत्वे भिक्षाटनादी कर्मणि का भवति भिक्षाट- नादिचेष्टास्वप्यकर्तृत्वायनुसन्धानमेव विदुषः स्वानुभवेन तु शास्त्रप्रमाणादि- जनितेनाकतैव स एवं पराध्यारोपितकर्तृत्वं शरीरस्थितिमात्रप्रयोजनं भिक्षाट- नादिकं कर्म कृत्वापि न निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानामिना दग्धत्वादित्यनुवाद एवैपः ॥ २२ ॥ आ० टी० । पूर्वश्लोकेन संगति दर्शयनुत्तरश्लोकमुत्थापयति सक्तनि । अन्नादेरित्यादिश- ब्देन पादुकाच्छादनादि गृह्यते, याचनादिनेत्यादिपदेन सेवाकृष्याधुपादीयते, भिक्षाटनार्थमुद्योगात प्राक्काले केनापि योग्येन निवेदित भैक्ष्यमयाचितमभिशस्तं पतितं च वयित्वा संकल्पमन्तरेण पश्च भ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भक्ष्यमसंकृप्तसिद्धमन्नं भक्तजनैः स्वसमीपमुपानीतमुपपन्नं यह छया स्वकीयप्रयत्नव्यतिरेकणेति यावत्, आदिशब्दन ‘माधूकरमसंक्लप्तं प्राक् प्रणीतमयाचितम् । तत्तत्कालोपपन्नं च भैश्यं पञ्चविधं स्मृतम्' इत्यादि गृह्यते, आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम् । परोकमर्पपूर्विका स्वत्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह निरेति । संक्षेपतो दर्शितमर्थ विशदयति य एवंभृत इति । तथापि प्रकृतस्य गतेभिक्षाटनादौ कर्तृत्वं प्रतिभाति तदभावे भिक्षाटनाद्यभावे न जीवनाभावप्रसङ्गादित्याशङ्कयाह लोकेति । लो- किकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषापि सामान्येन दर्शनात् तद- नुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद्विद्वानपि लोकदृष्टया भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः । कथं तर्हि तस्याकर्तृत्वं तत्राह स्वानुभवेनेति । यदृच्छेत्यादिपादत्रयं व्याख्याय कृत्वापीत्यादिच- तुर्थपादं व्याचष्टे स एवमिति । भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि क मन्तिरेण निबद्धत्वं भविष्यतीत्याशङ्याह बन्धेति । ज्ञानाग्निदग्धत्वादित्येवं शारीरं केवलमित्यादा-

१४८
श्रीमद्भगवद्गीता--
युक्तस्यायमनुवाद इति योजना, यथोक्तस्य कर्मणो युक्तया महाविरोधाभ्युपगमसूचनार्थोऽपि-
शब्दः ॥ २२ ॥
प० टी० । किं च यदृच्छति । अप्रार्थितोपस्थितो लाभो यहच्छालाभस्तेन संतुष्टः सोऽपि
निर्वाहमात्रपर्याप्तः " मा गृध्रः कस्य चिद्वनम्” इति श्रुतेः । द्वन्द्वानि शीतोष्णादीन्यतीतो विम-
त्सरोऽन्यशुभद्वेषरहितः सिद्धावासही समो हर्षविषादरहितः स एव पूर्वोत्तरदशयोर्यथायथं कर्म कुर्वन्
बन्धं न प्रामोति ॥ २२ ॥
गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः ।।
यज्ञायाचरतः कर्म समग्रं प्रविलोयते ॥२३॥
त्यक्त्वा कर्मफलासंगमित्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा
निष्क्रियब्रह्मात्मदर्शनसंपन्नः स्यात् तदा तस्यात्मनः कर्तृकर्मप्रयोजनाभाव-
दर्शिनः कर्मपरित्यागे प्राप्ते कुतश्चिनिमित्तात्तदसंभवे सति पूर्ववत्तस्मिन् क-
मण्यभिप्रत्तोऽपि नैव किंचित् करोति स इति च काभावः प्रदर्शितो, य-
स्थैवं कर्माभावो दर्शितस्तस्यैव गतसङ्गस्य सर्वतोऽतिवृत्तासक्तेर्मुक्तस्य निवृत्तध-
माधर्मादिवन्धस्य ज्ञानावस्थितचेतसो ज्ञाने एवावस्थितं चेतो यस्य सोऽयं
ज्ञानावस्थितचेतास्तस्य यज्ञाय यज्ञनिर्वृत्त्यर्थमाचरतो निर्वतयतः कर्म समग्रं
सहाग्रेण कर्मफलेन वर्तत इति समग्रं कर्म तत्समग्रं प्रविलीयते विन-
श्यतीत्यर्थः ॥ २३ ॥
आ० टी० । गतसङ्गम्येत्यादिश्लोकस्य व्यवहितेन संबन्धं वक्तुं वृत्तं कीर्तयति त्यक्तति। अने-
न श्लोकेन 'नैव किंचित् करोति स' इत्यत्र कर्माभावः प्रदर्शित इति संबन्धः । कस्य काभावप्रदर्श-
नमित्याशङ्कयाह यःप्रारब्धति । प्रारब्धकर्मा सन् योऽवतिष्टते तस्य कर्माभावः प्रदर्शितश्चेद्वि-
रोधः स्यादित्याशयावस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह यदेति । नन ज्ञानवतः क्रियाकारकफ-
लाभावदर्शिनः कर्मपरित्यागध्रौव्यात कर्माभाववचनमप्राप्तप्रतिषेधः स्यादित्याशङ्कयाह आत्मन इति ।
लोकसंग्रहादिनिमित्तं प्रागेवोक्तमविद्यावस्थायामिव पूर्ववदित्युक्तम् । एवं वृत्तमन्द्योत्तरश्चाकमवतार-
यति यस्येति । यथोक्तस्यापि विद्यावता मक्तस्य भगवत्प्रीत्यर्थ कर्मानुष्टानोपलग्भात्ततो बन्धारम्भः
संभाव्यतेत्याशङ्कयाह यज्ञायेति । धर्माधर्मादीत्यादिशब्देन रागद्वेपादिमंग्रहः, तस्य बन्धनत्वं
करणव्युत्पत्त्या प्रतिपत्तव्यं, यज्ञनिवृत्त्यर्थं यज्ञशब्दितस्य भगवतो विष्णानारायणस्य प्रीतिसंपत्त्यर्थ-
मिति यावत् । ज्ञानमेव वाञ्छतो ज्ञान त्य प्रतिबन्धकं कर्म पारेशङ्कितं परिहरति कर्मेति । समग्रे-
णत्यङ्गीकृत्य व्याचष्ट सहेयादिना ॥ २३ ॥
प० टी० । किं च गनमंगस्येति । गतसंगस्य रागादिभिर्विमुक्तत्य । ज्ञानावस्थितमात्म-
ज्ञानकतत्परं चेतो यस्यैवंभूतस्य यज्ञाय परमेश्वरार्थ यागार्थ वा कर्माचरतः समग्रं सवासनं
पविलीयतेऽकर्मतामापद्यते ॥ २३ ॥
ब्रह्मार्पणं ब्रह्म हविब्रह्मानौ ब्रह्मणा हुतम् ।।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥

चतुर्थाध्यायः । १४९ ब्रह्मेति । कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भमकुर्वन् समग्रं प्रविलीयते इत्युच्यते यतो ब्रह्मार्पणं येन करणेन ब्रह्मविद्धविरग्नावर्ष- यति तद्ब्रह्मैवेति पश्यति तस्यात्मव्यतिरेकेणाभावं पश्यति यथा शुक्तिकायां रज- ताभावं पश्यति तदुच्यते ब्रह्मैवार्पणमिति यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्म अर्पणमित्यसमस्त पदे, यदर्पणवुद्ध्या गृह्यते लोके तदस्य ब्रह्मविदो ब्रह्मवेत्य- र्थः । ब्रह्म हविस्तथा यद्धविढया गृह्यमाणं तब्रह्मैवास्य तथा ब्रह्मानाविति स- मस्तं पदमग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा क; ब्रह्मेव कर्तेत्यर्थः। यत्तेन हुतं हवनक्रियापि तद् ब्रह्मैव, यत्तेन गन्तव्यं फलं तदपि ब्रह्मैव, ब्रह्मकर्मसमा- धिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिर्यस्य स ब्रह्मकर्मसमाधिरतेन ब्रह्मक- मसमाधिना ब्रह्मैव गन्तव्यमेवं लोकसंग्रहं चिकीर्षुणापि क्रियमाणं कर्म पर- मार्थतोऽकर्म ब्रह्मवद्ध युपमृदितत्वात् निटत्तकर्मणोऽपि सर्वकर्मसंन्यासि- नः सम्यग्दर्शनस्तुत्यर्थ यज्ञत्वसंपादनं ज्ञानस्य सुतरामुपपद्यते यदर्पणाधि- यज्ञे प्रसिद्धं तदस्याध्यात्मं ब्रह्मैव परमार्थदर्शिन इति, अन्यथा सर्वस्य ब्रह्मत्वेऽ. पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं तस्माद् ब्रह्मैवेदं सर्वमित्यभि- ० टी० । 'नामुक्त क्षीयते कम इति स्मृतिमाश्रित्य शङ्कत कस्मादिति । समस्तत्य कि- याकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधतत्वाद् ब्रह्मविदा ब्रह्ममात्रत्य कर्म प्रविलीयते सर्पमिति युक्तमित्याह उच्यत इति । ब्रह्मविदो ब्रह्मैव सर्वाक्रेयाकारक.फलजातं द्वैतमित्या हेतु- त्वेनानन्तरश्लोकमवतारयति यत इति । अर्पणशब्दस्य करणाविषयत्वं दर्शयन्नणं ब्रह्मेति पदहय- पक्षे सामानाधिकरण्यं साधयति यनेति । यद्रजतं सा शक्तिरितिवद बाधायामिदं सामानाधिकरप्यमि- त्याह तत्यति । तत्र दृष्टान्तमाह यथेति । उक्तेऽर्थे पदद्वयमवतारयति तदुच्यत इति । उक्तमेवार्थ स्पष्टयति यथा यदिति । समाससंख्यां व्यावर्तयति ब्रह्मेति । पद द्वयपक्ष विवक्षितमर्थ कथयति यदर्पणेति । ब्रह्महविरिति पदद्वयमवतार्य व्याचष्टे ब्रह्मेत्यादिना । यणबुड्या गृ. ह्यते तद् ब्रह्मविदो ब्रह्मवेति यथोक्तं तथेहापत्याह तथेति । अस्यति भी ब्रह्मविद मधिकरोति । पर्ववदसमासमाशङ्कय व्यावर्तयन् पदान्तरमवतार्य व्याकरोति तथेति । प्रामुक्तासमासवदिति व्यतिरेकः । तत्र विवक्षितमर्थमाह अग्निरपीति । ब्रह्मणेति पदस्याभिमतमर्थमाह ब्रह्मणेति । की हयत इति संबन्धः । कर्ता ब्रह्मणः सकाशाद्व्यतिरिक्तो नात्तीले तदभिरतमित्याह ब्रहवेति । हुतमित्यस्य विवक्षितमर्थमा ह यत्तेनेति । ब्रह्मैव तनत्यादभागं विभजते ब्रह्मवेयादिना । ब्रह्म कर्मेत्या- यवतार्य व्याकरोतिब्रह्मोति। कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् । एवं ब्रह्माणमन्त्रस्या- क्षरार्थमुक्त्वा तात्पर्यार्थमाह एवमिति । निवृ तकर्माणं संन्यासिनं प्रति कथमत्य मन्त्रत्य प्रवृत्तिरित्याश- इचाह निवृत्तेति। यथा बाह्ययज्ञानुष्टानासमर्थत्याज्ञत्यसंकलात्मकयज्ञो दृष्टलधाज्ञानत्य यज्ञत्वसंपादनं स्तुत्यर्थ उतरामुपपद्यते तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाद्वेत्यर्थः । ज्ञानत्य यज्ञत्वसपादनम- भिनयति यदपणादीति । केन प्रमाणेनात्र यज्ञत्वसंपादनमगवतमित्यारक्य अर्पणादीनां वि- शेषतो ब्रह्मत्वाभिधानानुपपत्त्येत्याह अन्यथेति । ज्ञानस्य यज्ञत्वे संपादित फलितमाह तस्मादिति। आत्मैवेदं सर्वमित्यात्मन्यतिरेकेण सर्वस्यावस्तुत्वं प्रतिपाद्यमानस्य कर्माभाव हेक्तरमाह कारकेति।

१५० श्रीमद्भगवद्गीता- जानतो विदुषः सर्वकर्माभावः कारकवुद्ध्यभावाच, नहि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टं सर्वमेवाग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसंप्रदानादिकार- कवुद्धिमत् कर्वभिमानफलाभिसन्धिमच्च दृष्टं नोपमृदितक्रियाकारककर्मफलभेद- बुद्धिमत् कर्तृत्वाभिमानफलाभिसन्धिरहितं च इदं तु ब्रह्मबुद्धयुपमृदितार्पणादि- कारकक्रियाफलभेदबुद्धिमत् कर्मातोऽकर्मैव तत् तथा च दर्शितं 'कर्मण्यभि- प्ररत्तोऽपि नैव किंचित् करोति सः । गुणा गुणेषु वर्तन्ते' 'नैव किंचित् करोमीति युक्तो मन्येत तत्त्वविद्' इत्यादिभिस्तथा च दर्शयंस्तत्र तत्र क्रिया- कारकफलभेदवुयुपमर्द करोति, दृष्टा च काम्याग्निहोत्रादौ कामोपमर्दैन का- म्याग्निहोत्रादिहानिस्तथा मतिपूर्वकामतिपूर्वकत्वादीनां कर्मणां कार्यवि- शेपस्यार त्वं दृष्टं तथेहापि ब्रह्मबुद्दयुपमृदितार्पणादिकारकक्रियाफलभेद- बुद्धेर्वाह्यचेष्टामात्रेण कर्मापि विदुषोऽकर्म संपद्यतेऽत उक्तं समग्रं प्र- विलीयत इति । अत्र केचिदाहुर्यब्रह्म तदर्पणादीनि ब्रह्मैव किलार्प- णादिना पञ्चविधेने कारकात्मना व्यवस्थितं सत्तदेव कर्म करोति तत्र नार्पणादिबुद्धिर्निवर्तते किंत्वर्पणादिषु ब्रह्मबुद्धिराधीयते, यथा प्रतिमादौ विष्ण्वादिबुढिर्यथा च नामादौ ब्रह्मबुद्धिरेवं, सत्यमेवमपि स्याद् यदि ज्ञानयज्ञस्तुत्यर्थ प्रकरणं न स्याद् अत्र तु सम्यग् दर्शनं ज्ञानयज्ञशब्दितमनेका- कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्यादित्याशक्याह न हीति । उक्तमेवान्व- यव्यतिरेकाभ्यां द्रढयति सर्वमेवेति । इन्द्रायेत्यादिना शब्देन समर्पितो देवताविशेषः संप्रदानं का- रकमादिशब्दाद् ब्रीह्यादिकरणकारकं तद्विषयबुद्धिमत्कर्तास्मीत्यभिमानपूर्वकं मोक्षफलमस्येति फला- भिसन्धिमच्च कर्म दृष्टमिति योजना । अन्वयमुक्त्वा व्यतिरकमाह नेसादिना । उपमृदिता क्रिया- दिभेदविषया बुद्धिर्यस्य तत्कर्म तथा कर्तृत्वाभिमानपूर्वको मोक्षे फलमस्येति योऽभिसन्धिस्तेन रहि- तं च न कर्म दृष्टमित्यन्वयः । तथापि ब्रह्मविदो भासमानकर्माभावे किमायातमित्याशडक्याह इदमिति । यदिदं ब्रह्मविदो दृश्यमानं कर्म तदहमस्मि ब्रह्मेति बुद्धचा निराकतकारकादिभेदविपयत्रुद्धिमदत- च कर्मव न भवति तत्त्वज्ञाने सति व्यापकं कारकादिव्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति तत्त्व- विदः शरीरादिचेष्टाकर्माभावः कर्म व्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः । ज्ञानवतो दृश्यमानं क कर्मैवेत्यत्र भगवदनुमतिमाह तथा चेति । ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुप- मर्दात् पुनर्भविष्यतीत्याशङ्क्याह तथा च दर्शयन्निति । अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते तथापि तस्य कर्माकर्मवेत्यत्र दृष्टान्तमाह दृष्टा चेति । विद्वत्कर्मापि कर्मत्वाविशेषादितर- कर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह तथेति । इदं कर्मैव कर्तव्यमस्य च फलं भोक्तव्यमिति मतिस्तत्पूर्वकाण्यतत्पूर्वकाणि च कर्माणि तेषामवान्तरभेदसंग्रहार्थमादिपदम् । दान्तिकमाह तथेति। सप्तम्या विद्वत्प्रकरणं परामृष्टं षष्ठ्यो समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति अत इति । ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा स्वयूथ्यव्याख्यानमनुवदति अत्रेति । प्रसिद्धोद्देशेनाप्रसिद्ध- , कर्तृकर्मकरणसंप्रदानाधिकरणरूपेण पञ्चविधेनेत्यर्थः ।

चतुथाध्यायः । न यज्ञशब्दितान् क्रियाविशेषानुपन्यस्य 'श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ' इति ज्ञानं स्तौति । अत्र च समर्थमिदंवचनं ब्रह्मार्पणमित्यादिज्ञानस्य यज्ञत्व- संपादनेऽन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनामेव विशेषतो ब्रह्मवाभिधानमनर्थक स्याद् ये त्वर्पणादिषु प्रतिमायां विष्णुदृष्टिवद् ब्रह्मदृष्टिः क्षिप्यते नामादिष्वि- व चेति ब्रुवते न तेषां ब्रह्मविद्योक्तेह विवक्षिता स्यादर्पणादिविषयत्वाज्ज्ञा- नस्य, नच दृष्टिसंपादनज्ञानेन मोक्षफलं प्राप्यते 'ब्रह्मैव तेन गन्तव्यम्' इति चो- च्यते विरुद्धं च सम्यग्दर्शनमन्तरेण मोक्षफलं प्राप्यत इति प्रकृतविरोधश्च स- म्यग्दर्शनं च प्रकृतं 'कर्मण्यकर्म यः पश्येद्' इत्यत्रान्ते च सम्यग्दर्शनं तस्यैवो- पसंहारात् 'श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः' 'ज्ञानं लब्धा परां शान्तिम्' इ- त्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वनुपक्षीणोऽध्यायः। तत्राकस्मादर्पणादी ब्रह्म- दृष्टिरप्रकरणे प्रतिमायामिव विष्णुदृष्टिरुच्यत इत्यनुपपन्नं तस्माद् यथाव्या- ख्यातार्थ एवायं श्लोकः ॥ २४ ॥ विधानस्य न्याय्यत्वादप्रसिद्धोद्देशेन प्रसिद्धविधानं कथमित्याशङ्क्याह ब्रह्मवति । किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसंप्रतिपत्तिं सूचयति । कर्तृकर्मकरणसंप्रदानाधिकरणरूपेण पश्चविधेन बहीव व्यवस्थितं कर्म करोतीत्यङ्गीकारात्तदप्रसिद्धयभावात्तदनुवादेनार्पणादिष्वविरुद्धस्तदृष्टिविधिरित्यर्थः । दृष्टिविधिपक्षे सिद्धान्ताद्विशेष दर्शयति तत्रेति । अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्ट यति यथेयादिना । दृष्टिविधाने विधेयदृष्टे मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यादित्यभिप्रेत्य परिहरति ससमेवमिति । विधिसितदृष्टिस्तुतिपरमेव प्रकरणं न ज्ञानस्तुतिपरमि- त्याशङ्ग्य प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति अत्र खिति । किं च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्य प्रतिभातीत्याह अत्र चेति । नन्वर्पणादिषु ब्रह्मदृष्टि कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत्तत्राह ये त्विति । यथा ब्रह्मदृष्टया नामादिकमुपास्यं तथार्पणादिषु ब्रह्मदृष्टिकरणे सत्यर्पणादिकमेव प्राधान्येन ज्ञेयमिति ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः । किं च ब्रह्मैव तेन गन्तव्यमिति ब्रह्मप्राप्तिफलाभिधा- नादपि दृष्टिविधानमश्लिष्टमित्याह न चेति । न चार्पणाद्यालम्बना दृष्टिब्रह्म प्रापयत्यप्रतीकाल- म्बनान्नयतीति न्यायविरोधादिति भावः । दृष्टिविधानेऽपि नियोगबलादेव स्वर्गवददृष्टो मोक्षो भ- विष्यतीत्याशङ्क्याह विरुद्धं चेति । ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः । दृष्टिनियोगान्मोक्षा भवतीत्ये- तत्प्रकरणविरुद्धं चेत्याह प्रकृतति । तदेव प्रपश्चयति सम्यग्दर्शनं चेति । अन्ते च सम्यग्दर्शन प्रकृतमिति संबन्धः । तत्र हेतुः तस्यैवेति । सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किंचिद- न्यदुक्तमिति प्रकरणस्यातद्विषयत्वामित्याशझ्याह श्रेयानिति । प्रकरणे सम्यग्ज्ञानविषये सत्यनु. पपन्नो दर्शनविधिरिति फलितमाह तति । ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासंभवे स्वकीयव्या- ख्यानं व्यवस्थितमित्युपसंहरति तस्मादिति ॥ २४ ॥ ५० टी० । अथोपक्रान्तप्रभेयमुपसंहरनाह ब्रह्मार्पणमिति । अर्पणं चित्तस्य दानसंकरपो २ अन्या-क्वचित्पाठः ।

- १५२ श्रीमद्भगवद्गीता- यत्तद् ब्रह्मरूपत्वाद् ब्रह्मैव । तथा हविः समिसिलाज्यादि वैराजब्रह्मणो व्यष्टिरूपत्वाद् ब्रह्मव । अ- निरपि वैश्वानरापरपर्यायं ब्रह्मव । तस्मिन् येन पुरुषेण हतं सोऽपि ब्रह्मव । इति ज्ञात्वा येन क्रि- यते तेन ब्रह्मैव गन्तव्यं प्रातव्यम् । किंभूतेन ब्रह्मकर्मसमाधिना । ब्रह्मार्पणं कर्म ब्रह्मकर्म त- स्मिन् सनायश्चिकाव्यं यत्य तेन ॥ २४ ॥ दैवमेवापरे यज्ञं योगिनः पर्युपासते॥ ब्रह्मानावपरे यज्ञं यज्ञेनैवोपजुहति ॥२५॥ तत्राधुना सन्यग्दर्शनस्य यज्ञत्वं संपाये तत्स्तुत्यर्थमन्येऽपि यज्ञा उ- पक्षिप्यन्ते देवमेवेत्यादिना । दैवमेव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञस्त- मेवापरे यज्ञं योगिनः कर्मिणः पर्युपासते कुवन्तीत्यर्थः । ब्रह्माग्नेो “सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्म यत्साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तर' इत्यादिवचनोक्तमशनायादिसर्वसंसारधर्मवर्जितं "नेति नेतीति " निरस्ताशेषविशेषं ब्रह्मशब्देनोच्यते विष्ण्वाख्यं, ब्रह्म च तदग्निश्च स होमाधिकरणत्वविवक्षया ब्रह्मानिस्तस्मिन् ब्रह्मानावपरेऽन्ये ब्रह्मविदो यज्ञ यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं परमा- थतः परमेव ब्रह्म सन्तं वुयायुपाधिसंयुक्तमध्यस्तसर्वोपाधिधर्मकमाहुतिरूपं यज्ञेनेवालनेवोक्तक्षणेनोपजुह्वति प्रक्षिपन्ति सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपणेव यदर्शनं स तस्मिन् होमस्तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिन इत्यथः॥२५ आ० टी० । ज्ञान य यज्ञत्वं संपाद्य पूर्वश्लोके स्थिते सत्यधुना तत्यैव ज्ञ नस्य स्तुत्यर्थ यज्ञान्तरनिदेशार्थमुत्तरग्रन्यप्रवात्तरित्याह तत्रेति । सर्वत्य श्रेयःसाधनत्य मख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादी यज्ञद्वयमादर्शयतिवमवेति । प्रतीकमादाय दैवयज्ञं व्याचष्टे देवा इति । सम्यग्ज्ञा- नाख्यं यज्ञ विभजो प्रसारमाविति । तत्र ब्रह्मशब्दार्थ श्रुत्यवष्टम्भेन स्पष्टयात सत्यमिति । यद- जमनन्तं विपरीतमपरिच्छिन्नं ब्रह्म तस्य परमानन्दत्वन परमपरुपार्थत्वमाह विज्ञानमिति । तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकमित्याशङ्कयाह यत्माक्षादिति। जीवब्रह्मविभागे कथम- परिच्छिन्नत्वामेत्याशङ्कय विशेिनाटे य आत्मेति । पर त्यैवात्मत्वं सर्वत्मादेहाडेरव्याळतान्तादा. न्तरत्वेन सावयाते सर्वान्तर इति । विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादि. शब्दार्थः निषेधमुखं ब्रह्मविषयमनिपटाक्यमशेपमेवार्थतो निवभाति अशना- योत । ब्रह्मन्यनिशब्दप्रयोगे निमित्तमाह सहोमेति । बुद्दयारूढतया सर्वस्य दाहकत्वाद्विलयस्य वा हेतुत्वादति द्रष्टव्यम् । यज्ञशब्दस्यात्मनि त्वंपदार्थ प्रयोगे हेतुमाह आत्मनामस्विति । आ- धाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोावर्तयाते परमार्थत इति । कथं तर्हि होमो न हि तस्यैव तत्र होमः संभवतीत्याशङ्कयाह बुद्धयादीति । उपाधिसंयोगफलं कथयति अध्यस्तति । उपाध्य- ध्यासद्वारा तहांच्यासे प्राप्तमथं निर्दिशति आहुतीति । इत्थंभूतलक्षणां तृतीयामेव व्याकरोति पाधिधर्मकर्माकाहाति--पा० लि. २१० । १ प्रतिपाद्य-पा० १-लि. प० । 7 १५३ चतुर्थाध्यायः। उक्तति । अशनायादिसर्वसंसारधर्मवजितेन निर्विशेषेण स्वरूपेणेति यावत् । आत्मनो ब्रह्मणि होम- मेव प्रकटयति सोपाधिकस्येति । पर इत्यस्यार्थ स्फोरयति ब्रह्मेति ॥ २५ ॥ प० टी० । अथ इज्यते यस्मिन्निति यज्ञ इति व्युत्पत्त्या यज्ञत्वेनोपपादितं ब्रह्मानुभवल- क्षणं ज्ञानं तत्सर्वयज्ञेभ्यः श्रेष्ठमिति दर्शयितुं तथा तदधिकारिभेदाबहुप्रति वक्तुं द्वादशयज्ञानाह देवमित्यादितोऽष्टभिः । देवमिति । अपरे योगिनः कर्मकुशला दैवं यज्ञं पर्युपासते देवसंबन्धी दैवो देवा इन्द्रसूर्यवरुणादय इज्यन्ते यस्मिन्निति दैवस्तं यज्ञं परितः सर्वत्र देवेषु ब्रह्मबुद्धिराहि- त्येनोपासत इत्यर्थः । अपरे ज्ञानयोगिनस्तु यज्ञेन ज्ञानयज्ञेन कृत्वा यज्ञं कर्मरूपं ब्रह्मरूपेऽनो जुह्वति प्रविलापयन्तीत्यर्थः ॥ २५ ॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुहुति ॥ शब्दादीन् विपयानन्य इन्द्रियाग्निषु जुइति ॥२६॥ सोऽयं सम्यग्दर्शनलक्षणो यज्ञो देवयज्ञादिषु यज्ञेषु प्रक्षिप्यते ब्रह्मार्पणमि- त्यादिश्लोकैः। श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परंतप' इत्यादिस्तुत्यर्थ श्रोत्रा- दीनीति । श्रोत्रादीनीन्द्रियाण्यन्ये योगिनः संयमाग्निषु प्रतीन्द्रियं संयमो भि- द्यत इति बहुवचनम्, संयमा एवाग्नयस्तेषु जुह्वतीन्द्रियसंयममेव कुर्वन्तीत्यर्थः । शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति' इन्द्रियाण्येवाग्नयस्तेष्विन्द्रिया- निषु जुपति श्रोत्रादिभिरविरुद्धविषयग्रहणं हामं मन्यन्ते ॥ २६ ॥ आ० टी०। उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु यज्ञेषु ब्रह्मार्पणमित्यादिश्लोकैरुपक्षिप्यमाणत्वं दर्शयति सोऽयमिति । उपक्षेपप्रयोजनमाह श्रेयानिति । संप्रति यज्ञद्वयमुपन्यस्यति श्रोत्रादी- नीति । बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निप्विति बहुवचनमित्याशङ्कयाह प्रतीन्द्रियमिति । संयमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति संयमा इति । विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति संयमयज्ञं संक्षिप्य दर्श- यति इन्द्रियति । श्रोत्रादीन्द्रियानिषु शब्दादिविषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षण- स्य सर्वसाधारणत्वमाशङ्कय प्रतिषिद्धान् वयित्वा रागद्वेपरहितो भूत्वा प्राप्तान विषयान् भुञ्जते तैस्तैरिन्द्रियैरिति विवक्षितं होमं विशदयति श्रोत्रादिभिरिति ॥ २६ ॥ प० टी० । स्पष्टार्थम् ॥ २६ ॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ॥ आत्मसंयमयोगाग्नौ जुद्दति ज्ञानदीपिते ॥२७॥ किं च सर्वाणीति । सर्वाणीन्द्रियकर्माणीन्द्रियाणां कर्माणीन्द्रियकर्मा- णि तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुचनप्रसारणादीनि तानि चापर आत्मसंयमयोगानावात्मनि संयम आत्मसंयमः स एव योगानिस्त- स्मिन्नात्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति ज्ञानाग्निदीपिते लेहेनेव प्रदोपिते वि- वेकविज्ञानेनोज्ज्वलभावमापादिते जुह्वति प्रविलापयन्तीत्यर्थः ॥ २७ ॥ . २.

श्रीमद्भगवद्गीता- आ० टी० । यज्ञान्तरं कथयति कि चेति । इन्द्रियाणां कर्माणि श्रवणमननादीन्यात्मनि मंयमो धारणाध्यानसमाधिलक्षणः । सर्वमपि व्यापार निरुध्यात्मनि चित्तसमाधानं कुर्वन्तीत्याह विवेकेति ॥ २७ ॥ १० टी० । सर्वाणीति । अपरे ध्याननिष्ठाः श्रोत्रादिज्ञानेन्द्रियाणां वागादीनां कर्माणि वचनादीनि तथा मुख्यप्राणानां पश्चानां कर्माणि बहिर्निर्गमनादीनि तथोपप्राणानां नागादीनां पश्चाना- मुद्गारादीनीत्येवंरूमाणि कर्माण्यात्मनो मनसः संयमरूपो योगो ध्यानैकाग्यं स एवाग्निस्तस्मिन् ज्ञानेन स्वानुभवरूपेण दीपिते प्रज्वलिते ध्येयं सम्यग् ज्ञात्वा, तत्र सर्वाणि कर्माण्युपरमन्तीत्यर्थः ॥ २७ ॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ॥ स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥२८॥ द्रव्येति । द्रव्ययज्ञास्तीर्थेषु द्रव्यविनियोगं यज्ञवुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः, तपोयज्ञास्तपो यज्ञो येषां तपस्विनां ते तपोयज्ञाः, योगयज्ञाः प्राणा- यामप्रत्याहारादिलक्षणो योगो यज्ञो येषां ते योगयज्ञास्तथापरे स्वाध्यायज्ञा- नयज्ञाश्च स्वाध्यायो यथाविधि ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञा ज्ञानय- ज्ञा ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः स्वाध्याययज्ञा ज्ञानयज्ञाश्च यतयो यतनशीलाः संशितव्रताः सम्यक् शितानि तनूकतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः ॥ २८ ॥ आ० टी० । यज्ञपटकमवतारयति द्रव्येति । तत्र द्रव्ययज्ञान पुरुषानुपादाय विभजते तीर्थेष्विति । तपस्विनां यज्ञबुद्धया तपोऽनुतिष्टतां नियमवतामित्यर्थः । प्रत्याहारादीत्यादिशब्दन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते, यथाविधि प्राङ्मुखत्वपवित्रपाणित्वाद्यङ्गविधिमनतिक्र- म्येति यावत्, व्रतानां तीक्ष्णीकरणमतिदृढत्वम् ॥ २८ ॥ प० टी० । अथान्यान् पश्च यज्ञानाह द्रव्ययज्ञा इति । द्रव्यदानमेव यज्ञो येषां ते द्रव्य- यज्ञा, अपरे तपांसि कळू चान्द्रायणादीनि यज्ञो येषां ते, योगयज्ञास्तथापरे स्वाध्यायो वेदपाठ- लक्षणो यज्ञो येषां ते तथा ज्ञानं शास्त्रोत्थं शास्त्रश्रवणं स एव यज्ञो येषां ते एवं पञ्चयाज्ञिकाः । किं- भूता यतयः, यतन्ते ते यतयः प्रयत्नशीलास्तथा सम्यक् प्रकारेण शितानि तीक्ष्णीकृतानि व्रतानि पूर्वोक्तानि येस्ते संशितव्रता एवं नवयज्ञाः ॥ २८ ॥ अपाने जुहृति प्राणं प्राणेऽपानं तथापरे ॥ प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥२९॥ किं च अपान इति । अपानेऽपानस्तौ जुह्वति प्रक्षिपन्ति प्राणं प्रा- णत्तिं पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः। प्राणेऽपानं तथापरे जुह्वति रेचका- ख्यं च प्राणायाम कुर्वन्तीत्येतत्, प्राणापानगती रुडा मुरखनासिकाभ्यां वायोनि- र्गमनं प्राणस्य गतिस्तद्दिपर्ययेणाधोगमनमपानस्य ते प्राणापानगती एते रुवा चतुर्थाध्यायः । निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः कुम्भकाख्यं प्राणायाम कुर्वन्तो- त्यर्थः ॥ २९॥ आ० टी० । प्राणायामाख्यं यज्ञमुदाहरति किं चंति । प्राणायामपरायणाः सन्तो रेचक पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह प्राणेति ॥ २९ ॥ प० टी० । अथान्यद्यज्ञत्रितयमाह अपान इति । अपानेऽधोवृत्तौ प्राणमूर्ध्ववृत्तिं पूरकेण जुह्वति। पूरककाले प्राणमपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोरूर्वाधोगतीरुध्वा रेचककालेऽपाने प्राणाञ् जुह्वति । एवं रेचकपूरककुम्भकैः प्राणवायुं वशीकुर्वन्तः प्राणायामपरायाणाः प्राणायाम एव परमयनं गतियैषां ते । तदुक्तम्-'यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् । वायुवाकायदृष्टीनां स्थिरता च तथा तथा' इति । श्रुतिरप्यथर्ववहयाम् “आत्मा देवानां भुवनस्य गर्भो यथावशं चरति एप देवः । घोपा इदं यस्य शृण्वीत रूपं तस्मै वाताय हविषा विधेम' इति । भाष्यम्-तस्मै वाताय प्राणमुख्याय " वायुर्वं गौतम सूत्रं तथा वायुर्वे क्षेपिष्ठा देवता तथा वायो त्वमेव प्रत्यक्षं ब्रह्मासि " इत्यादिश्रुतेर्वाताय हिरण्यगर्भाय हविषा हविर्द्रव्येण यथोचिताहाररूपेण कृत्वा विधेम परिचरेम । विदधतिः परिचरणकर्मा । तस्मै कस्मै, यस्य इदमनुभयमानं रूपं घोपा अनाहतध्वनयस्तथा शृण्वीत श्रवणविषयीकुर्वीत यथैप प्राणलक्षणो देवो वशं चरति वशवर्ती भवति । किंभूतो देवः, देवानामात्मान्तर्यामी न केवलं देवानां भुवनस्य गर्भो बीजरूपः ॥ २९ ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुहुति ॥ सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मपाः ॥३०॥ किं च अपर इति । अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः प्राणान् वायुभेदान् प्राणभेदेष्वेव जुह्वति यस्य यस्य वायोर्जयः क्रियते इतरान वायुभेदास्तस्मिन् जुह्वति ते तत्र प्रविष्टा इव भव- न्ति सर्व इति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञयथोक्तः क्षपितो नाशितो कल्मपो येषां ते यज्ञक्षपितकल्मपाः ३० ॥ आ० टी० । प्राणापानयोर्गती श्वासप्रश्वामौ निरुध्य कि कुर्वन्तीत्यपेक्षा यामाह किं चेति। प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनः पुनर्वायुजपं कुर्वन्तीत्यर्थः । आहारस्य परिमितत्वं हितत्वमे- ध्यत्वोपलक्षणार्थम् । प्राणानां प्राणपु होममेव विभजते यस्यति । जितेषु वायुभेदेप्वजितानां तेषां होमप्रकारं प्रकटयति ते तत्रति । प्रतान् यज्ञानुपमंहरति सर्वेऽपीति ॥ ३० ॥ प० टी० । अपर इति । अपर आहारसंकोचमभ्यस्यन्तः स्वयमेव जीर्यमाणेषु प्राणे- प्विन्द्रिये पु प्राणांस्तत्तदिन्द्रियरूपान् जुद्दति । अथोपमहरति सर्व इति । सर्वेऽप्यते निरूपितप्रकारा यज्ञविदो याज्ञिका एव भवन्ति । किंभूता यज्ञक्षापेतकल्मपा यज्ञैः क्षपितं कल्मपं मनोवेगलक्षणं पापं यस्ते ॥ ३० ॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ॥ नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥ एवं यथोक्तान यज्ञान् निवर्त्य यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञ- १५६ श्रीमद्भगवद्गीता- शिष्टं यज्ञशिष्टं च तदमृतं च यज्ञशिष्टामृतं तद् भुञ्जत इति यज्ञशिष्टामृतभुजो यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधि चोदितमन्नममृताख्यं भुञ्जत इति यज्ञशिष्टामृतभुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरंतनं मुमु- क्षवश्येत् कालातिकमापेक्षयेति शब्दसामर्थ्याद् गम्यते नायमिति । नायं लोकः सर्वप्राणिसाधारणोऽप्यस्ति यथोक्तानां यज्ञानामेकोऽपि यज्ञो यस्य नास्ति सो- यज्ञस्तस्य कुतोऽन्यो विशिष्टसाधनसाध्यः कुरुसत्तम ॥ ३१ ॥ आ० टी० । यथोक्तयज्ञनिर्वर्तनानन्तरं क्षीणे कल्मषे किं स्यादित्याशङ्कयाह एवमिति । यथोफानां यज्ञानां मध्ये केन चिदपि यज्ञेनाविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति नायमिति पादान्तरेण । कथं यथोक्तयज्ञानुष्ठायिनामवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिरित्याशङ्कच मुमुक्षुत्वे सति चित्तशुद्विद्वारेत्याह मुमुक्षवश्वेदिति । तत् किमिदानीं साक्षादेव मोक्षो विवक्षितः, तथा च गतिश्रुतिविरोधः स्यादित्याशङ्कय गतिनिदर्शसामर्थ्यात् क्रममुक्तिरत्राभिप्रेतत्याह कालातीति । तृतीयं पादं व्याचष्टे नायमिति । विवक्षितं कैमुतिकन्यायमाह कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिदरनिरस्तेत्यर्थः । यथाक्तऽर्थे बुन्हिसमाधानं कुरुकुलप्रधानस्यार्जुनस्यानायास- लभ्यमिति वक्तुं कुरुमत्तमेत्युक्तम् ॥ ३१ ॥ ५० टी० । अथ द्वादशानां यज्ञानां फलमाह यज्ञति। यज्ञानन्तरं शिष्टं विशिष्टं सर्वफलापे- क्षयोत्तमं यदमृतं सोमचक्राद्गलितमात्मसुखं वा तद्गुञ्जते ते तथाविधाः सन्तः सनातनं नित्यं ब्रह्म यान्ति तदतिरिक्तं सर्व फलं नश्वरमित्यर्थः । अथोक्तयज्ञाकरणे दोपमाह नायमिति । अयज्ञस्यो- तयज्ञष्वेकमप्यकुर्वाणस्यायं मनुष्यलोकोऽपि नास्ति कुतोऽन्यः किं पुनरुत्तमलोकः, अधमयोनिषु पततीत्यर्थः ॥ ३१ ॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ॥ कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥३२॥ एवमिति । एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञा वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे हारे वेदहारणावगम्यमाना ब्रह्मणो मुखे वितता उच्य- न्ते, तद्यथा वाचि हि प्राणं जुहुम इत्यादयः । कर्मजान् कायिकवाचिक- मानसकर्मोद्भवान् विद्धि तान् सर्वाननात्मजान् निर्व्यापारो ह्यात्मा अत एवं ज्ञात्वा मोक्ष्यसेऽशुभात्, न मद्दयापारा इमे नियापारोऽहमुदासीन इत्येवं ज्ञा- त्वास्मात् सम्यग्दर्शनाद् मोक्ष्यसे संसारबन्धनादित्यर्थः ॥ ३२ ॥ आ० टी० । उक्तानां यज्ञानां वेदमूलकत्वनोत्प्रेक्षानिबन्धनत्वं निरस्यति एवमिति । आ- त्मव्यापारमाध्यत्वमुक्तकर्मणामाशङ्कय दूषयति कर्मजानिति । आत्मनो निर्व्यापारत्वज्ञान फलमाह एवमिति । कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वमित्याशङ्कयाह वेदद्वारेणेति । आ- स्मनोऽवगम्यमानत्वमेवोदाहरति तद्यथेति । “एतद्ध स्म वै तत् पूर्व विद्वांस आहुः" इत्युपक्रम्याध्ययना- द्याक्षिप्य हेत्वाकाङ्क्षायामुक्तं वाचि हीति । ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपसंहारोऽत्र विवक्षि- तः, "प्राणे वा वाचं यों ह्येव प्रभवः स एवाप्यय" इति वाक्यमादिशब्दार्थः, ज्ञानशक्तिमतां क्रियाश- चतुर्थाध्यायः । क्तिमतां वान्योऽन्योत्पत्तिप्रलयत्वात्तदभावेनाध्ययनासिद्धिरित्यर्थः । कर्मणामात्मव्यापारजन्यत्वाभावे हे. तुमाह निर्व्यापारो हीति । तस्य च निर्व्यापारत्वं फलवत्वाज्ज्ञातव्यमित्याह अत इति । एवं ज्ञा- नमेव ज्ञापयन्नुक्तं व्यनाक्त नेत्यादिना ॥ ३२ ॥ प० टी० । अथ ज्ञानयोगं स्तोतुमन्यान्यज्ञानुपसंहरति एवमिति । एवममुना प्रकारेण ब- ह्मणो मुखे ब्रह्ममुखान्निःसृते वेदे बहुविधा वितता विस्तृता विस्तारेण कथिताः सन्ति, तान् सर्वान् कर्मनान् विद्धि कर्मणा कृत्वा निष्पन्नान् जानीहि तस्मात् कर्म कर्तव्यमेव, एवं कर्मणि कृते सति चित्तशुद्धिद्वारा ज्ञात्वा ज्ञानमुत्पाद्य विमोक्ष्यसे मोक्ष प्राप्नोषि ॥ ३२ ॥ श्रेयान् द्रव्यमयाद् यज्ञाज ज्ञानयज्ञः परंतप ॥ सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥ ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं संपादितं यज्ञाश्चाने. कविधा उपदिष्टास्तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते कथं श्रेयानिति । श्रे- यान् द्रव्यमयाद् द्रव्यसाधनसाध्याद् यज्ञाज्ज्ञानयज्ञो हे परंतप द्रव्यमयो हि यज्ञः फलस्यारम्भको न ज्ञानयज्ञः फलस्यारम्भकोऽतः श्रेयान् प्रशस्यतरः कथं यतः सर्वं कर्म समस्तमखिलमप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्वतः संप्लुतो- दकस्थानीये परिसमाप्यतेऽन्तर्भवतीत्यर्थः “ यथा कृताया विजितायाधरेयाः संय- न्त्येवमेनं सर्व तदभिसमेति यत् किं चित् प्रजाः साधु कुर्वन्ति यस्तद्देद यत् स वेद" इति श्रुतेः ॥ ३३ ॥ आ० टी०। कर्मयोगेऽनेकधाभिहिते सर्वस्य श्रेयःमाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानमनाद्रियमाणमर्जुनमालक्ष्य वृत्तानुवादपूर्वकमुत्तरश्लोकस्य तात्पर्यमाह ब्रह्मेयादिना । सिद्धेति । सिद्धं पुरुषार्थभतं पुरुषापेक्षितलक्षणं प्रयोजनं येषां यज्ञानां तैरनन्तरोपदिष्टैरिति यावत् । प्रश्नपूर्व- कं स्तुतिप्रकारं प्रकटयति कथमित्यादिना । ज्ञानयज्ञस्य द्रव्ययज्ञात् प्रशस्यतरत्वे हेतुमाह श्रेयानिति । द्रव्यसाधनसाध्यादित्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषाद द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति द्रव्यमयो हीति । फलस्याभ्युदयस्येत्यर्थः, न फलारम्भको न कस्य चित् फलस्योत्पादकः किं तु नित्यमिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः । तस्य प्रशस्यतरत्वे हेत्वन्तरमाह यंत इति । समस्तं कर्मेत्यग्निहांत्रादिकमुच्यते अखिलमविद्यमानं खिलं शेषोऽस्येत्यनल्पं महत्तरमिति यावत्, सर्वमखिलमिति पदद्वयोपादानमसंकोचार्थम् । सर्व कर्म ज्ञानेऽन्तर्भवतीत्यत्र छान्दोग्यश्रुति प्रमाणयति यथेति । चतुरायके हि द्यूते कश्चिदायश्चतुरङ्कः सन् कृतशब्देनोच्यते तस्मै विजिताय कृताय तादर्सेनाधरेयास्तस्मादधस्तादाविनस्त्रियकाङ्का- स्वेताद्वापरकलिनामानः संयन्त्यायाः संगच्छन्ते चतुरङ्के खल्वाये त्रिद्वयेकाङ्कायानामन्तर्भावो भव- ति महासंख्यायामवान्तरसंख्यान्तर्भावावश्यंभावादेवमेनं विद्यावन्तं पुरुषं सर्व तदाभिमुख्यन समेति संगच्छते किं तत् सर्व यद्विदृषि पुरुषेऽन्तर्भवति तदाह यत्कि चिदिति । प्रजाः सर्वा यत् किमपि साधु कर्म कुर्वन्ति तत् सर्वमित्यर्थः । एनमभिसमेतीत्युक्तं तमेव विद्यावन्तं पुरुषं विशिनष्टि यस्तदि- ति । किं तदित्युक्तं तदेव विशदयति यत् स इति । स एको यत्तत्त्वं वेद तत्तत्वं योऽन्योपि ना- नाति तमेनं सर्व साधु कर्माभिसमेतीति योजना ।। ३३ ।।

श्रीमद्भगवद्गीता-- प० टी० । ज्ञानयोगं स्तौति श्रेयानिति । द्रव्यमयाद्यज्ञाज् ज्ञानयज्ञः श्रेयान् द्रव्यं स्वर्गा- दिविषयभोगलक्षणं तन्मयस्तत्प्रसादको यो यज्ञस्तस्माज़ ज्ञानयज्ञः श्रेयानतिशयेन श्रेयःसाधकः परमसुखप्रापकः । अथैतदेव विविच्य कथयति सर्वमिति। कर्म द्वेधा खिलमखिलं चेति तत्र खिलं दुष्टफ- लजनकमखिलं ज्ञानजनकमेवं सर्वमखिलं कर्म ज्ञाने परिसमाप्यते ज्ञाने पर्यवसितं भवति. खिलं तु तद्विपरीतमज्ञानपर्यवसायीत्यर्थः ॥ ३३ ॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ॥ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥ तदेतद्दिशिष्टं ज्ञानं तर्हि केन प्राप्यत इत्युच्यते तहिद्दीति । तदिद्धि विजानीहि येन विधिना प्राप्यत इत्याचार्यानभिगम्य प्रणिपातेन प्रकर्पण नीचैः पतनं प्रणिपातो दीर्घनमस्कारस्तेन कथं बन्धः कथं मोक्षः का विद्या का चावि- येति परिप्रश्नेन सेवया गुरुशुश्रूषयवमादिना प्रश्रयेणावर्जिता आचार्या उ- पदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनो ज्ञानवन्तोऽपि के चिद् यथावत्तत्त्वदर्शनशीलाश्च न भवन्त्यपरे तु भवन्त्यतो विशिनष्टि तत्त्व- दर्शिन इति । ये सम्यग्दर्शिनस्तैरुपदिष्टं ज्ञानं कार्यक्षम भवति नेतरदिति भगवतो मतम् ॥ ३४॥ आ० टी० । यदेवं प्रशस्यतरमिदं ज्ञानं तर्हि केनोपायेन तत्प्राप्तिरिति पृच्छति तदेत. दिति । ज्ञानप्राप्ती प्रत्यासन्नमपायमुपदिशति उच्यत इति । तद्विज्ञानं गुरुभ्यो विहि गुरव प्रणिपातादिभिरुपायैरावर्जितचेतसो वदिप्यन्तीत्याह तद्विद्धीति । उपदेष्टुत्वमुपदेशकर्तृत्वम् । परोक्षज्ञानमात्रेण न भवतीत्याह उपदेश्यन्तीति । तदिति प्रेक्षितं ज्ञानसाधनं गृह्यते येन विधिनति विशेषदर्शनात् । यद्वा येनाचार्यावर्जनप्रकारेण तदुपदेशवशादपेक्षितं ज्ञानं लभ्यते तथा तज्ज्ञानमा- चार्येभ्यो लभस्वेत्यर्थः । तदेव स्फुटयति आचार्य इति । एवमादिनेत्यादिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण संबन्धः । उत्तरार्धं व्याचष्टे प्रश्रयणेति । प्रश्रयो भक्तिश्र- द्धापूर्वको निरतिशयोऽवनतिविशेपः, यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः । विशेष- णस्य पौनरुक्त्यपरिहारार्थमर्थभेदं कथयति ज्ञानवन्तोऽपीति । ज्ञानिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह ये सम्यगिति । बहुवचनं चैतदाचार्यविषयं बहुभ्यः श्रोतव्यं बहुधा चेति सामान्यन्यायाभ्यनुज्ञानार्थं न त्वात्मज्ञानमधिकृत्य आचार्यबहुत्वं विवक्षितं तस्य तत्वसाक्षात्कारवदाचार्यमात्रापदेशादेवोदयसंभवात् ॥ ३४ ॥ प० टी० । एवं भूतात्मज्ञाने साधनमाह तद्विद्धीति द्वाभ्याम् । तत्त्वदर्शिनो ज्ञानिनोऽपरो- ससाक्षात्कारवन्तस्ते तुभ्यं ज्ञानमुपदेश्यन्ति तद्विद्धि तादृशं जानीहि ॥ ३४ ॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ॥ येन भूतान्यशेपेण द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥ तथा च सतीदमपि समर्थ वचनं यदिति । यज्ज्ञात्वा यज्ज्ञानं तैरुप-

१५९
चतुर्थाध्यायः ।
दिष्टमधिगम्य प्राप्य पुनर्भूयो मोहमेवं यथेदानी मोहं गतोऽसि पुनरेवं न या-
स्यसि हे पाण्डव, किं च येन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्ता-
नि द्रक्ष्यसि साक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीति, अथो अ-
पि मयि वासुदेवे परमेश्वरे चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्ध द्र-
क्ष्यसीत्यर्थः ॥ ३५ ॥
आ० टी० । विशिष्टैराचार्यैरुपदिष्टे ज्ञाने कार्यक्षमे प्राप्ते सति समनन्तरवचनमपि योग्य-
विषयमर्थवद्भवतीत्याह तथा चेति । अतस्तस्मिन् विशिष्ट ज्ञाने त्वदीयमोहापोहहेतौ निष्ठावता
भवता भवितव्यमिति शेषः । तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि येनेति । यज्ज्ञात्वे-
त्ययुक्तं ज्ञानायोगादित्याशङ्कय प्राप्त्यर्थत्वमाधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति अधिगम्येति ।
इतश्चाचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यमित्याह किं चेति । जीवे चेश्वरे
चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे भेदवादानुमतिः स्यादित्याशङ्कयाह क्षेत्रज्ञेति । मूलप्रधाना-
भावे कथं तदेकत्वदर्शनं स्यादित्याशङ्कयाह सर्वेति ॥ ३५ ॥
५० टी० । कीदृशमित्याह यदिति । एवमुक्तप्रकारेण यज्ज्ञात्वा न पुनर्बन्धादिविषादरूपं
मोहं यास्यसीति । अथ तस्य ज्ञानस्य मोहनिवर्तकत्वमाह येनेति । येन शेषेण सर्वात्मकत्वरूपेण
ज्ञानेन कृत्वा भूतानि पितृपुत्रसुहृद्वन्ध्वादीनि मय्यात्मनि व्यापके समष्टिरूपेण पश्यसि ॥ ३५ ॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः॥
सर्व ज्ञानप्लवेनैव ऋजिनं संतरिष्यसि ॥३६॥
किं चैतस्य ज्ञानस्यमाहात्म्यम् अपीति । अपि चेदसि पापेभ्यः पाप-
रुद्भ्यः सर्वेभ्यः सकाशादतिशयेन पापरुत् पापकत्तमो यदसि भवसि, सर्व
ज्ञानप्लवेनैव ज्ञानमेव प्लवं ज्ञानप्लवं कृत्वा जिनं जिनार्णवं पापं संतरिष्यसि,
धर्मोऽपीह मुमुक्षोः पापमुच्यते ॥ ३६ ॥
आ० टी० । ज्ञानस्य प्रकारान्तरेण प्रशंसां प्रस्तौति किं चेति । पापकारिभ्यः सर्वेभ्यः स-
काशादतिशयेन पापकारित्वमेकस्मिन्नसंभावितमपि ज्ञानमाहात्म्यप्रसिद्धयर्थमङ्गीकृत्य ब्रवीति अपि
चेदिति । ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यमिदानी प्रकटयति सर्वमिति । अधर्मे
निवृत्तेऽपि धर्मरूपप्रतिबन्धान् ज्ञानवतोऽपि मोक्षः संभवतीत्याशङ्कयाह धर्मोऽपीति । इहेत्यध्यात्म-
शास्त्रं गृह्यते ॥ ३६ ॥
प० टी० । ननूपदेशाज्ज्ञानप्राप्ती सत्यां मोहनिवृत्तिर्भवति तत्पूर्व मोह एवास्तीत्याशङ्क्याह
अपीति । त्वं चेत्पापेभ्यो हिंस्रेभ्यः पापकृत्तमोऽस्यतिशयेन पापकर्तासि तथापि सर्व वृजिन
पापसमुद्रं ज्ञानप्लवेन ज्ञाननौकया सम्यक्प्रकारेण तरिष्यसि । अयमर्थ:-"सत्यं ज्ञानमनन्तं ब्रह्म" इति
श्रुतेर्ज्ञानं हि परमात्मस्वरूपं तत्सत्यं तदतिरिक्तं सर्वमसत्यम् । एवं पितृपुत्रसुद्धन्ध्वादिसकलप्रपञ्चस्य
मिथ्यात्वाज्ज्ञानैकनाश्यत्वम् । यथा स्वामब्रह्महत्यायां जागरे प्रायश्चित्तादर्शनात् ॥ ३६ ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ॥
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥३७॥

श्रीमद्भगवद्गीता- ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते यथेति । यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निर्भस्मसाद् भस्मीभावं कुरुतेऽर्जुन एवं ज्ञानमेवाग्निानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजं करोती. त्यर्थः, न हि साक्षादेव ज्ञानानिस्तानि कर्माणीन्धनवद्भस्मीकर्तुं शक्नोति, त- स्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणमित्यभिप्रायः । सामर्थ्याद् येन कर्मणा शरीरमारब्धं तत् प्रवृत्तफलत्वादुपभोगेनैव क्षीयतेऽतो यान्यप्रदत्त- फलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि चातीतानेकजन्मकृतानि च तान्येव सर्वाणि भस्मसात् कुरुते ॥ ३७ ॥ आ० टी० । ज्ञाने सत्यपि धर्माधर्मयोरुपलम्भात् कुतस्तयोस्ततो निवृत्तिरित्याशकच ज्ञा- नस्य धर्माधर्मनिवर्तकत्वं दृष्टान्तेन दर्शयितुमनन्तरश्लोकमवतारयति ज्ञानमिति । योग्यायोग्य- विभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति यथेति । दृष्टान्तानुरूपं दान्तिकमाचष्टे ज्ञा- नानिरिति । योग्यविषयेऽदाहकत्वमग्नेरप्रतिबन्धापेक्षयेति विवक्षित्वा विशिनष्टि सम्यगिति । दार्टान्तिकं व्याचष्टे ज्ञानमेवेति । ननु ज्ञानं साक्षादेव कर्मदाहक किमिति नोच्यते, निर्बीज करोति कर्मेति किमिति व्याख्यानमित्याशङ्कयाह न हीति । ज्ञानस्य स्वप्रमेयावरणाज्ञानापा- करणे सामर्थ्यस्य लोके दृष्टत्वादविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयन् तज्जन्यकर्तृत्वभ्रम कर्मबीजभूतं निवर्तयति तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति न तु साक्षात् कर्मणां निवर्तकं ज्ञानमज्ञानस्यैव निवर्तकमिति ब्याप्तेस्तदनिवृत्तौ तु पुनरपि कर्मोद्भवसंभवादित्यर्थः । ज्ञानस्य सा- क्षात् कर्मनिवर्तकत्वाभावे फलितमाह तस्मादिति । सम्यग़ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्म- निवर्तकमिष्टं चेदारब्धफलस्यापि कर्मणो निवृत्तिप्रसंगात् ज्ञानोदयसमकालमेव शरीरपातः स्यादि- त्याशङ्कयाह सामर्थ्यादिति । ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिरुपदिष्टं ज्ञानं फलव- दिति भगवदभिप्रायस्य बाधितत्वप्रसंगादाचार्यलाभान्यथानुपपत्त्या प्रवृत्तफलकर्भसंपादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः । कथं तर्हि प्रारब्धफलं कर्म नश्यतीत्याशक्याह येनेति । तर्हि कथं ज्ञानामिः सर्वकर्माणि भस्मसात् करोतीत्युक्तं तत्राह अत इति । ज्ञानादारब्धफलानां कर्मणां निवृत्यनुपपत्तेरनारब्धफलानि यानि कर्माणि पूर्व ज्ञानोदयादस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि प्राचीनेषु चानेकेषु जन्मस्वर्जितानि तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्त- यतीत्यर्थः ॥ ३७ ॥ प० टी० । अथोक्तप्रमेयं लौकिकदृष्टान्तेन द्रढयति यथेति । यथा समिद्धः प्रदीप्तोऽनि- रेधासि काष्ठानि भस्मसात् कुरुते तथा ज्ञानाग्निः प्रारब्धव्यतिरिक्तानि सर्वकर्माणि भस्मसात्कुरुते । समिद इति पदेन ज्ञानानिः प्रतिपदं वृद्धि प्रापितः सन् भस्मसात्कुरुते ॥ ३७ ॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥ तत स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥३८॥ यत एवमतो न हीति । न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शु- द्धिकरमिह विद्यते हि यस्मात् तज्ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयो- चतुथोध्यायः । ११ गेन समाधियोगेन च संसिद्धः संस्कृतो योग्यतामापनो मुमुक्षुः कालेन महता- त्मनि विन्दति लभत इत्यर्थः ॥ ३८ ॥ आ० टी० । नन्वन्येनैव परमपरिशुद्धिकरण केन चिदश्वमेधादिना परमपुरुषार्थसिद्धेरलमा- त्मज्ञानेनेत्याशङ्याह यत इति । पूर्वोक्तेन प्रकारेण ज्ञानमाहात्म्यं यतः सिद्धमतस्तेन ज्ञानेन तुल्यं परिशुद्धिकरं परमपुरुषार्थोपयिकमिह व्यवहारभूमौ नास्तीत्यर्थः । तत्पुनरात्मविषयं ज्ञानं स- वेषां किमिति झटिति नोत्पद्यते तत्राह तज्ज्ञानं खयमिति । महता कालेन यथोक्तेन साधनेन योग्यतामापन्नस्तदधिकृतः स्वयं तदात्मनि ज्ञानं विन्दतीति योजना, सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः ॥ ३८ ॥ प० टी० । अत एव ज्ञानेन दुःसाध्यं किमपि नास्तीत्याह न हीति । इह तपोयोगादिषु मध्ये ज्ञानतुल्यं पवित्रं शोधकमन्यन्न विद्यते । तदाह तत्स्वयमिति सार्धेन । तज्ज्ञानं योगसंसिद्धो योगेन कर्मयोगेन योग्यतां प्राप्तः कालेन परिपक्वावस्थायां स्वयमेवानायासेनात्मन्येव शुद्धे मनस्येव विन्दति प्राप्नोति, परं तु नान्यतः कुतश्चिदानीयते । श्रुतिरपि-“मनसैवानुद्रष्टव्यमेतदप्र- मेयं ध्रुवम्” इति । तथा “ मनसैवाप्तव्यम्” “नेह नानास्ति किं चन" इति । भाप्यम्-एतदा- त्माख्यं वस्त्वप्रमेयमतर्यमपि मनसैव ध्रुवं स्थिरं यथा भवति तथानुवेलं द्रष्टव्यं नान्येन । तदुक्तं पश्चाशीतौ-" राहुरदृश्योऽपि सदा शशिबिम्बस्थः प्रकाशते जगति । तद्वद्विशुद्धात्मा चित्ते प्रका- शमेति स्वयं ह्यात्मा" इति ॥ ३८ ॥ श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः॥ ज्ञानं लब्धा परां शान्तिमचिरेणाधिगच्छति ॥३९॥ येनकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते श्रद्धावानिति । श्र- हावान् श्रद्धालुलभते ज्ञानं श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानोऽत आ- ह तत्परो गुरूपासनादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावांस्तत्परोऽप्यजिते- न्द्रियः स्यादित्यत आह संयतेन्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्ये- न्द्रियाणि स संयतेन्द्रियो योगी य एवंभूतः श्रद्धावांस्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते प्रणिपातादिस्तु बाह्यानैकान्तिकोऽपि भवति मायावि- त्वादिसंभवाद् न तु तथा तच्छ्रद्धावत्त्वादावित्येकान्ततो ज्ञानलब्ध्युपायः । किं पुनर्ज्ञानलाभात् स्यादित्युच्यते ज्ञानं लब्धा परां मोक्षाख्यां शान्तिमुपरतिमचि- रेण क्षिप्रमेवाधिगच्छति सम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्वशास्त्रन्याय- प्रसिद्धः सुनिश्चितोऽर्थः ॥ ३९ ॥ आ० टी० । कर्मयोगेन समाधियोगेन च संपन्नस्य ज्ञानोत्पत्तावन्तरङ्गसाधनमुपदिशति येने- ति । ज्ञानलाभे प्रयोजनमाह ज्ञानमिति । न केवलं श्रद्धालुत्वमेव सहायं ज्ञानलाभे हेतुरपि तु तात्पर्यमपीत्याह श्रद्धालुत्वेऽपीति । मन्दप्रस्थानत्वं तात्पर्यविधुरत्वं, न च तस्योपदिष्टमपि ज्ञा- नमुत्पत्तुष्टेि तेन तात्पर्यमपि तत्र कारणं भवतीत्याह अत आहति । अभियुक्तो निष्ठावान्, उपासनादावित्यादिशब्देन श्रवणादि गृह्यते । न केवलं अन्दा तात्पर्य नेत्युभयमेव ज्ञानकारणं किं तु १६२ श्रीमद्भगवद्गीता- संयतेन्द्रियत्वमपि तदभावे श्रद्धादेरकिंचित्करत्वादित्याशयेनाह श्रद्धावानिति । उक्तसाधनानां ज्ञाने- न सहकान्तिकत्वमाह य एवंभूत इति । तद्विद्धि प्रणिपातेन' इत्यादी प्रागेव प्रणिपातादेनिहे- तोरुक्तत्वात् किमितीदानी हेत्वन्तरमुच्यते तत्राह प्रणिपातादिस्त्विति । तहि बहिरङ्गमिदं पुनर- न्तरङ्ग, न च तत्र ज्ञानेन प्रतिनियमो मनस्यन्यथा कृत्वा बहिरन्यथाप्रदर्शनात्मना मायावित्वस्य संमवाद्विप्रलम्भकत्वादेरपि संभावनोपनीतत्वादित्यर्थः । मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि संभ- वादनकान्तिकत्वमविशिष्टमित्याशङ्कयाह न त्विति । न हि मायया विप्रलम्भेन वा श्रद्धातात्पर्य- संयमा नियोगतोऽनुष्ठातुमर्हन्तीत्यर्थः । उत्तरार्ध प्रश्नपूर्वकमवतार्य व्याकरोति किं पुनरियादिना । सम्यग्ज्ञानादभ्यासादिसाधनानपेक्षान्मोक्षो भवतीत्यत्र प्रमाणमाह सम्यग्दर्शनादिति । शास्त्रश- ब्देन “तमेव विदित्वा" "ज्ञानादेव तु कैवल्यम्" इत्यादि विवक्षितं, न्यायस्तु ज्ञानादज्ञानविवृत्तेरज्ज्वादौ प्रसिद्धत्वादात्मज्ञानादपि निरपेक्षादज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यादित्येवं लक्षणम् ॥ ३९ ॥ प० टी० । किं च श्रद्धावानिति । गुरूपदिष्टेऽथै आस्तिक्यं श्रद्धा तद्वान् तत्परस्तदे- कनिष्ठोऽत एव संयतेन्द्रियश्च ज्ञानं लभते नान्य एवं ज्ञानं लब्ध्वाचिरेण परां शान्ति मोक्षम- धिगच्छति प्राप्नोति ॥ ३९ ॥ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥ अत्र संशयो हि न कर्तव्यः पापिष्ठो हि संशयः कथमित्युच्यते अज्ञ- श्वेति । अज्ञश्चानात्मज्ञश्वाश्रद्दधानच संशयात्मा च विनश्यति, अज्ञाश्रद्दधानी यद्यपि विनश्यतस्तथापि न तथा यथा संशयात्मा स तु पापिष्ठः सर्वेषां, कथं, नायं साधारणोऽपि लोकोऽस्ति तथा न परलोको न सुरवं तत्रापि संशयो- पपत्तेः संशयात्मनः संशयचित्तस्य तस्मात् संशयो न कर्तव्यः ॥ ४० आ० टी० । उत्तरश्लोकस्य पातनिकां करोति अनि । यथोक्तसाधनवानुपदेशमपेक्ष्याचि रेण ब्रह्म साक्षात्करोति साक्षात्कृतब्रह्मत्वेऽचिरेणैव मोक्ष प्राप्नोतोत्येषोऽर्थः सप्तम्या परामृश्यते । सं- शयस्याकर्तव्यत्वे हेतुमाह पापिष्ठा होति । उक्तं हेतुं प्रश्नपूर्वमुत्तरश्लोकेन साधयति कथमिति । अज्ञादश्रद्दधानाञ्च संशयचित्तस्य विशेषमादर्शयति नायमिति । द्वितीयविभागविभजनार्थ भूमिका करोति अज्ञति । अज्ञादीनां मध्ये संशयात्मनो यत्पापिष्ठत्वं तत् प्रभद्वारा प्रकटयति कथमिति। लोकद्वयस्य तत्प्रयुक्तसुखस्य वाभावे हेतुमाह तत्रापति । संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवा- रत्वादित्यर्थः । संशयस्यानर्थमूलत्वे स्थिते फलितमाह तस्मादिति ॥ ४० ॥ प० टी० । अथ ज्ञानरहितं निन्दति अज्ञ इति । अज्ञो गुरूपदिष्टार्थानभिज्ञः कथं चिज्ज्ञाने जातेऽप्यश्रद्दधानो नास्तिक्यवान् कथं चिज्जातायामपि श्रदायां ममेदं सिद्धयेन वेति संशयात्मै- वंविधः पुरुषो नश्यति । अथ नाशस्वरूपमाह नायमिति । संशयात्मनः संशयरूप आत्मा मनो यस्य तथाभूतस्यायं लोको नास्त्यज्ञत्वात्, न परोऽश्रद्दधानत्वात्, न सुखं न विश्रान्तिः संश- यात्मत्वात् ॥ ४० ॥ योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ॥ आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय॥४१॥ ॥

चतुर्थाध्यायः । कस्मात् योगेति । योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणं कथं योगसंन्यस्तकर्मत्याह ज्ञानेनात्मेश्वरकत्वदर्शनलक्षणेन संछिन्नः संशयो यस्य स ज्ञानसंछिनसंशय य एवं योगसंन्यस्तकर्मा तमात्मवन्तमप्रमत्तं गु- णचेष्टारूपेण दृष्टानि न कर्माणि निवनन्त्यनिष्टादिरूपं फलं नारभन्ते हे धनं. जय ॥ ४१ ॥ आ० टी० । यद्यपि संशयः सर्वानर्थहेतुत्वात् कर्तव्यो न भवति तथापि निवर्तकाभावे तद- करणमस्वाधीनमिति शकते कस्मादिति । श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकमित्युत्तरमाह ज्ञाने- नेति । संशयरहितस्यापि कर्माण्यनर्थहेतवो भवन्तीत्याशङ्कयाह योगेति । विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वमित्याशङ्कयाह आत्मवन्तमिति । परमार्थदर्शनतः संशयो- च्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तावप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहे- तवो न भवन्तीत्याह न कर्माणीति । कर्मयोगादेव कर्मसंन्यास्यानुपपत्तिमाशङ्कयाद्यं पादं विभज- ते परमार्थेति । तच्च वैधसंन्यासपक्षे परोक्षं फलसंन्यासपक्षे त्वपरोक्षमिति विवेकः । यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव सति संशय न सिध्यति संशयवतस्तदयोगादिति शङ्कते कथामिति । द्वितीयं पादं व्याकुर्वन् परिहरति आहेत्यादिना । पाठक्रमादर्थक्रमस्य बलीयस्त्वादादौ द्वितीय पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीतेत्याह एवमिति । सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यतीत्यभि- संधाय आत्मवन्तं व्याकरोति अप्रमत्तमिति । न कर्माणीत्यादिफलोक्ति व्याचष्टे गुणचेष्टेति । अ- निष्टादीत्यादिशब्देनेष्टं मिश्रं च गृह्यते ॥ ४ १ ॥ ५० टी० । अथ प्रागुक्तां कर्मज्ञानमयीं द्विविधां ब्रह्मनिष्ठामुपसंहरन्नाह द्वाभ्यां योग- संन्यस्तकर्माणमिति । योगेन परमेश्वराराधनरूपेण यस्मिन् मन्यस्तानि कर्माणि येन तं तथा ज्ञानेनाकात्मबोधेन संछिन्नः संशयो देहाभिमानलक्षणो यस्य तमात्मवन्तं प्रमादशून्यं सावधान कर्माणि लोकसंग्रहार्थ कृतानि न बभ्रन्ति तदुक्तम्-' यथा पर्वतमादीप्तं न श्रयन्ति मृगहिनाः। तद्वद् ब्रह्मविदो दोषा नाश्रयन्ति कदा च न' इति ॥ ४१ ॥ तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः॥ छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्रीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं- वादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः॥ ४ ॥ यस्मात् कर्मयोगानुष्ठानादशुद्धिक्षयहेतुकज्ञानसंछिन्नसंशयो न नि- बध्यते कर्मभि नाग्निदग्धकर्मत्वादेव यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवा- न् विनश्यति तस्मादिति । तस्मात् पापिष्ठमज्ञानसंभूतमज्ञानादविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग् दर्शनं ज्ञा- नं तदेवासिः खडस्तेन ज्ञानासिनात्मनः स्वस्यात्मविषयत्वात् संशयस्य न

१६४
श्रीमद्भगवद्गीता-
हि परस्य संशयोऽपरण छेत्तव्यतां प्राप्तो येन स्वस्येति विशेष्यतेऽत आत्मविष-
योऽपि स्वस्यैव भवति ज्ञानासिना छित्त्वैनं संशयं स्वविनाशहेतुभूतं योग स-
म्यग्दर्शनोपाय कर्मानुष्ठानमातिष्ठ कुर्वित्यर्थः । उत्तिष्ठ चेदानी युद्धाय भारते-
ति॥ ४२ ॥
इति श्रीभगवद्गीताभाष्ये पूज्यपादश्रीशंकरभगवतः
कृती ब्रह्मयज्ञप्रशंसा नाम चतुर्थोऽध्यायः ॥४॥
आ० टी० । तस्मादित्यादिसमनन्तरश्लोकगतं तत्पदापेक्षितमर्थमाह यस्मादिति । सतां
कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भात् विदुष्यपि तेषां तद्भानमनपबाधमित्याशङ्कयाह ज्ञानामीति ।
ननु संदिहानस्य तत्प्रतिबन्धान कर्मयोगानुष्ठानं नापि तहेतुकज्ञानं तत्रापि संशयावतारादि-
त्याशङ्कयाह यस्माच्चेति । श्लोकाक्षराणि व्याचष्टे तस्मादिसादिना । पापिष्ठमिति संशयस्य
सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रमृतत्वादपि तस्य हेयत्वमविवेकस्यानर्थकरत्वप्र-
सिद्धेरित्याह अविवेकादिति । न च तस्य चैतन्यवदात्मनिष्टत्वादत्याज्यत्वं शङ्कितव्यमित्याह
हृदीति । शोकमोहाभ्यामभिभूतस्य पुंमो मनसि प्रादुर्भवतः संशयस्य प्रबल प्रतिबन्धकाभावेनैव
प्रध्वंसः सिध्येदित्याशङ्कयाह ज्ञानासिनेति । स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानन समुच्छेद-
संभवात् किमिति स्वस्यति विशेषणमित्याशङ्कयाह आत्मविपयत्वादिति । स्थाण्वादिविषयः
संशयस्तद्विपयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठो व्यावय॑ते प्रकृते त्वात्मविषयस्तदाश्रयश्च संशय-
स्तथाविधेन ज्ञानेनापनीयते तेन विशेषणमथवदित्यर्थः । तदेव प्रपञ्चयति न हीति । आत्माश्रय-
त्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् तद्विषयस्य तद्विपयेणैव तस्य तन निवृत्तिर्विवक्षिते-
त्युपसंहरति अत इति । संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति छित्त्वैनमिति । अग्निहोत्रा-
दिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि युद्धात पुनरुपरिरंसेवेत्याशङ्कयाह उत्तिष्ठति । भरतान्वये
महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिात मन्वानः सन्नाह भारतति । तद-
नेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादावकर्मादिदर्शनादात्मनः सम्यग्ज्ञा-
नात् प्रणिपातादेवहिरङ्गादन्तरङ्गाच्च श्रद्धादेरुद्भूतादशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता स्वस्मा-
दुत्कृष्टे तस्मिन्नसंशयानस्याधिकारादशेषदोपवन्तं संशयं हित्वोत्तमस्य ज्ञाननिष्ठापरस्य कर्मनिष्ठेति
स्थापितम् ॥ ४२ ॥
इसानन्दगिरिकृतगीताटीकायां चतुर्थाध्यायः ॥४॥
प० टी० । तस्मादज्ञानेति । यस्मादेवं तस्मादात्मनोऽज्ञानसंभूतं हृत्स्थं हृदिस्थं संशयं
ज्ञानासिनात्मज्ञानखडगन छित्त्वा योगं कर्मयोगं क्षात्रधर्मोचितमातिष्ठाश्रय तदर्थमुत्तिष्ठ भार-
तति संबुद्विरुत्तेजनार्थम् ॥ ४२ ॥
अथाध्यायतात्पर्यम् । बाह्यं कर्मागमोक्तं द्विविधमपि विनश्यत्फलं तद्विकर्म स्यात्तञ्चाकर्म
यत्स्यादमृतफलमतः कर्मनैष्कर्म्ययोस्तु । अन्योऽन्यं साहचर्य भवति तदखिलं मामिहोद्दिश्य कार्य
तबै ब्रह्मार्पणं स्याद्विविधयजनतः प्राह पार्थ चतुर्थे ॥ १ ॥
इति श्रीमद्दवज्ञपण्डितमूर्यवि० भ० टी० परमार्थप्रपायां ब्रह्मार्पणयोगो नाम चतुर्थोऽध्यायः ॥ ४॥
इति चतुर्थोऽध्यायः ॥ ४ ॥

पञ्चमाध्यायः । १६५ अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ॥ यच्छेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ ३ ॥ 'कर्मण्यकर्म यः पश्येद्' इत्यारभ्य ‘स युक्तः कृत्स्नकर्मकृत्' 'ज्ञानाग्निदग्ध- कर्माणं' 'शारीरं केवलं कर्म कुर्वन्' 'यदृच्छालाभसंतुष्टो' 'ब्रह्मार्पणं ब्रह्म ह- विः' 'कर्मजान् विद्धि तान् सर्वान्' 'सर्व कर्माखिलं पार्थ' 'ज्ञानाग्निः सर्वकर्मा- णि' 'योगसंन्यस्तकर्माणम्'इत्यन्तैर्वचनैः सर्वकर्मसंन्यासमवोचद्भगवान, 'छित्त्वै. नं संशयं योगमातिष्ठ' इत्यनेन वचनेन योगं चकर्मानुष्ठानलक्षणमनुतिष्ठेत्युक्तवान् तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत् परस्परविरोधादेकेन सह कर्नुमशक्यत्वात् कालभेदेन चानुष्ठानविधानाभावादर्थादेतयोरन्यतरकर्तव्यता- आ० टी० । पूर्वोत्तराध्याययाः संबन्धमभिदधानो वृत्तानुवादपूर्वकमर्जुनप्रश्नस्याभिप्राय प्रदर्शयितुं प्रक्रमते कर्मणीसादिना । इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारितेत्याह स युक्त इति । ज्ञानवन्तं सर्वाणि कर्माणि लोकसंग्रहार्थ कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माण कर्मप्रयुक्तफलसंबन्धविधुरं विवेकवन्तो वदन्तीति । ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान् विवक्षितवानित्याह ज्ञानानीति । निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म शरीरस्थितावपि संगरहितः सन् समाचरन् धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवानित्याह शारीरमिति । यदृच्छेत्या- दावपि संन्यामः सचितस्तद्धर्मफलायोपदेशादित्याह यदृच्छति । ज्ञानस्य यज्ञत्वसंपादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यामो दर्शितो ज्ञाननिष्ठस्येत्याह ब्रह्मार्पणमिति । ज्ञानयज्ञस्तुत्यर्थं विहि- तान्नानाविधान् यज्ञानन्द्य तेषां देहादिव्यापारजन्यत्ववचनेनात्मनो निर्व्यापारत्वविज्ञानफलाभि- लाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मसंन्यामेऽधिकारो ध्वनित इत्याह कर्मजानिति । समस्तस्यैवावशेपवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसंन्यासः सूचित इत्याह सर्वमिति । तद्विद्वीत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्य प्राप्तेन ज्ञानेनातिशयमाहात्म्यवता सर्वकर्मणां निवृत्तिरेवेति वदता च ज्ञानार्थिनः संन्यासेऽधिकागे दर्शितो भगवतेत्याह ज्ञानाग्निरिति। ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात् कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं वशीतकार्यकरण- संघातवन्तं प्रातिभासिकानि कर्माणि न निवधन्तीत्यपि द्विविधः संन्यासो भगवतोक्त इत्याह योगेति । कर्मणीत्यारभ्य योगसंन्यस्तकर्माणमित्यन्तैरुदाहृतवचनैरुक्तं संन्यासमुपसंहरति इसन्तै- रिति । तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता चादरणीयत्वात् कर्मानुष्ठानमनादेयमापन्नमि- त्याशङ्कयोक्तमर्थान्तरमनुवदति छित्त्वैनमिति । कर्मतत्त्यागयोरुक्तयोरेकेनैव पुरुषेणानुष्ठेयत्वसंभवान्न विरोधोऽस्तीत्याशङ्कय युगपट्ठा क्रमेण वानुष्ठानमिति विकल्प्याद्यं दूषयति उभयोश्चेति । द्वितीय प्रत्याह कालभेदेनेति । उक्तयोईयोरेकेन पुरुषेणानुष्ठेयत्वासंभवे कथं कर्तव्यत्वसिद्धिरित्याश- कन्याह अदिति । द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्यामनुष्ठानानुपपत्तेरित्यर्थः । अन्यतरम्य - १६६ श्रीमद्भगवद्गीता-- .. प्राप्ती सत्यां यत् प्रशस्यतरमेतयोः कर्मानुष्ठानकर्मसंन्यासयोस्तत् कर्तव्यं नेत- रदित्येवं मन्यमानः प्रशस्यतरबुभुत्सयार्जुन उवाच संन्यासं कर्मणां कृष्णे. त्यादिना । ननु चात्मविदो ज्ञानयोगेन निष्ठां प्रतिपादयिष्यन् पूर्वोदाहृतैर्वचनै- भगवान् सर्वकर्मसंन्यासमवोचन त्वनात्मज्ञस्यातश्च कर्मानुष्ठानकर्मसंन्यासयोर्भि- 'पुरुषविषयत्वादन्यतरस्य प्रशस्यतरत्वत्रुभुत्सया प्रश्नोऽनुपपन्नः, सत्यमेवं त्वद- भिप्रायेण प्रश्नो नोपपद्यते प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः, कथं, पूर्वोदाहृतैर्वचनैर्भगवता कर्मसंन्यासस्य कर्तव्यतया विवक्षितत्वात् प्रा- धान्यमन्तरेण च कर्तारं तस्य कर्तव्यत्वासंभवादनात्मविदपि कर्ता पक्षे प्रा- मोऽनूयत इति न पुनरात्मवित्कर्तृकत्वमेव संन्यासस्य विवक्षितमित्येवं मन्वा- नस्यार्जुनस्य कर्मानुष्ठानकर्मसंन्यासयोरविइत्पुरुषकर्तृकत्वमप्यस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधादन्यतरस्य कर्तव्यत्वे प्राप्ते प्रशस्यतरं च कर्तव्यं नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः, प्रतिवचनवाक्यार्थनिरूपणेना- कर्तव्यत्वे कतरस्येति कुतो निर्णयो द्वयोः संनिधानाविशेषादित्याशङ्क्याह यत् प्रशस्यतरमिति । भगवता कर्मणां संन्यासो योगश्चोक्तो न च तयोः समुञ्चित्यानुष्ठानं तेनान्यतरस्य श्रेष्ठस्यानुष्ठेयत्व सबुभुत्सया प्रश्नोपपत्तिरित्युपसंहरति इयेवमिति । नायं प्रष्टुरभिप्रायः कर्मसंन्यासकर्मयोगयोर्भि- अपुरुषानुष्ठेयत्वस्योक्तत्वादेकस्मिन् पुरुपे प्राप्त्यभावादिति शकते नन्विति । चोद्यमङ्गीकृत्य परिहरति सत्यमेवामिति । कीदृशस्तर्हि प्रष्टुरभिप्रायो येन प्रश्नप्रवृत्तिरिति पृच्छति कथमिति। एकस्मिन् पुरुषे कर्मतत्त्यागयोरस्ति प्राप्तिरिति प्रटुरभिप्रायं प्रतिनिर्देष्टुं प्रारभते पूर्वोदाहतैरिति । क्या "स्वर्गकामो यजेत" इति स्वर्गकामोद्देशेन यागो विधीयते न तु तस्यैवाधिकारो नान्यस्येत्यपि प्र- तिपाद्यते वाक्यभेदप्रसंगात्तथानात्मवित्कर्ता संन्यासपक्षे प्राप्तोऽनूद्यते नचात्मवित्कर्तृकत्वमेव संन्यास- विधिदर्शनात् तस्मात् कर्मतत्त्यागयोरविद्वत्कर्तृकत्वमस्तीति मन्वानस्यार्जुनस्य प्रश्नः संभवतीति मावः । भवतु संन्यासस्य कर्तव्यत्वविवक्षा तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिरित्याश- स्क्याह प्राधान्यमिति । तथापि कथमेकस्मिन् पुरुषे तयोरप्राप्तावुक्ताभिप्रायेण प्रभवचनं प्र- कल्प्यते तत्राह अनात्मविदिति । आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवदितरस्यापि सति वैराग्ये तत्त्यागस्यावश्यकत्वात् तत्र कर्तासौ प्राप्तोऽत्रानूद्यते तथा च कर्मतत्त्यागयोरेकस्मिन् विदुषि प्राप्तेर्व्यक्तत्वादुक्ताभिप्रायेण प्रश्नप्रवृत्तिरविरुद्वेत्यर्थः । संन्यासस्यात्मवित्कर्तृकत्वमेवात्र वि- वक्षितं किं न स्यादेत्याशय कर्जन्तरपयुदासः संन्यासविधिश्चेत्यर्थभेदे वाक्यभेदप्रसंगान्मैवमि- साह न पुनरिति । इति शब्दो वाक्यभेदप्रसंगहेतुद्योतनार्थः । ततः किमित्याशक्य फलितमाह एवमिति । कर्मानुष्ठानकर्मसंन्यासयोरविद्वत्कर्तृकत्वमप्यस्तीत्येवं मन्वानस्यार्जुनस्य प्रशस्यतरविविदि- पया प्रश्नो नानुपपन्न इति संबन्धः । तयोः समुच्चित्यानुष्ठानसंभवे कथं प्रशस्यतरविविदिषे- स्थाशक्याह पूर्वोक्तेनेति । उभयोश्चेत्यादावुक्तप्रकारेण कर्मतत्त्यागयोमिथोविरोधान्न समु- चित्यानुष्ठानं सावकाशमित्यर्थः । भवतु तर्हि यस्य कस्यचिदन्यतरस्यानुष्ठेयत्वमिति कुतो यथोक्ता- भिप्रायेण प्रश्नप्रवृत्तिरित्याशङ्कयाह अन्यतरस्येति । उभयप्राप्ती समुच्चयानुपपत्तावन्यतरपरिग्रहे विशेषस्यान्वेष्यत्वादुक्ताभिप्रायेण प्रभोपपत्तिरित्यर्थः । इतश्चाविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः पञ्चमाध्यायः । १६७ पि प्रष्टुराभिप्राय एवमेवेति गम्यते, कथं, 'संन्यासकर्मयोगी निःश्रेयसकरी, 'तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते' इति प्रतिवचनमेतन्निरूप्यं किम. नेनात्मवित्कर्तृकयोःसंन्यासकर्मयोगयोनिःश्रेयसकरत्वंप्रयोजनमुत्क्वा तयोरेव कु- तश्चिहिशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वमुच्यत आहो स्विदनात्मवि- स्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभयमुच्यत इति,किंचातो यथात्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयाोर्नःश्रेयसकरत्वं तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशि- प्टत्वमुच्यते यदि वानात्मवित्कर्तृकयोः संन्यासकर्मयोगयोस्तदुभयमुच्यत इत्यत्रोच्यते' आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरसंभवात्तयोनिःश्रेय. सकरत्ववचनं तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमित्ये- तदुभयमनुपपन्नं यद्यनात्मविदः कर्मसंन्यासस्तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः संभवेतां तदा तयोनिःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासाहि- शिष्टत्वाभिधानमित्येतदुभयमुपपद्येत, आत्मविदस्तु संन्यासकर्मयोगयोरसंभ- वात्तयोनिःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगो विशिष्यत इति चानुप- पन्नमत्राह,किमात्मविदः संन्यासकर्मयोगयोरप्यसंभव आहोस्विदन्यतरस्यासंभवो यदा चान्यतरस्यासंभवस्तदा किं कर्मसंन्यासस्योत कर्मयोगस्येत्यसंभवे कारणं च वक्तव्यमिति, अत्रोच्यते आत्मविदो निवत्तमिथ्याज्ञानत्वादिपर्ययज्ञानमूलस्य कर्मयोगस्यासंभवः स्याज्जन्मादिसर्वविकियारहितत्वेन निष्क्रियमात्मानमात्मत्वे- न यो वेत्ति तस्यात्मविदःसम्यग्दर्शनेनापास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपाव- व तरः श्रेयानिति प्रष्टुरभिप्रायो भातीत्याह प्रतिवचनेति । किं तत् प्रतिवचनं कथं वा तन्निरूपणमिति पृच्छति कथमिति । तत्र प्रतिवचनं दर्शयति संन्यासेति । तन्निरूपणं कथयति एतदिति । तदुभयं निःश्रेयसकरत्वं कर्मयोग्यस्य श्रेष्ठत्वं चेत्यर्थः । गुणदोषविभागविवेकार्थ पृच्छति किं चेति । अतोऽस्मिन्नाचे पक्षे किं दूषणमस्मिन् वा द्वितीये पक्षे किं फलमिति प्रश्नार्थः । नत्र सिद्धान्ती प्रथमपक्षे दोपमादर्शयति अत्रेयादिना । तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति यदीसादिना । निःश्रेयसकरत्वोक्तिरित्यत्र पारंपर्येणेति द्रष्टव्यं, विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वादस्य च शुद्धिद्वारा ज्ञानार्थत्वादित्यर्थः । आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोरसंभवे दर्शिते चोदयति अत्राहेति । चोदयिता निर्धारणार्थ विमृशति किमित्यादिना । अन्यतरासंभवेऽपि संदेहात् प्रश्नोऽव- तरतीत्याह यदा चेति । यस्य कस्यचिदन्यतरस्यासंभवो भविष्यतीत्याशङ्कय कारणमन्तरेणासंभवो भवन्नतिप्रसंगः स्यादिति मन्वानः सन्नाह असंभव इति । आत्मविदः सकारणं कर्मयोगासमवं सिद्धान्ती दर्शयति अति । संग्रहवाक्यं विवृण्वन्नात्मवित्त्वं विवृणोति जन्मादीति । तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं तदिदानी व्यनक्ति सम्यगिति । विपर्ययज्ञानमूलस्येत्यादिनोक्तं प्रपश्चयति निष्क्रियति । यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति संबन्धः। वैपरीत्यं स्फोरयन कर्मयोगमेव विशिनष्टि मिथ्याज्ञानेति। मिथ्या च तदज्ञानं चेत्यनाद्यनिर्वाच्यमज्ञानं १६८ श्रीमद्भगवद्गीता- स्थानलक्षणं सर्वकर्मसंन्यासमुक्त्वा तहिपरीतस्य मिथ्याज्ञानमूलककर्तृत्वाभि- मानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्येह शास्त्रे तत्र तत्रात्म- स्वरूपनिरूपणप्रदेशपु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधादभावः प्रतिपाद्यते यस्मात्तस्मादात्मविदो निबत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न सं- भवतीति युक्तमुक्तं स्यात्, केषु केषु पुनरात्मस्वरूपनिरूपणप्रदशेष्वात्मविदः काभावः प्रतिपाद्यत इत्यत्रोच्यते, अविनाशि तु तहिद्दीति प्रकृत्य ‘य एनं वेत्ति हन्तारं' 'वेदाविनाशिनं नित्यम्' इत्यादौ तत्र तत्रात्मविदः कर्माभाव उच्यते। न- नु च कर्मयोगोऽप्यात्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यत एव तद्यथा 'तस्मायुद्धस्व भारत, 'स्वधर्ममपि चावेक्ष्य' 'कर्मण्येवाधिकारस्ते' इत्यादावतश्च कथमात्मविदः कर्मयोगस्यासंभवः स्यादित्यत्रोच्यते सम्यग्ज्ञानमिथ्याज्ञानतत्का- यविरोधाज् ‘ज्ञानयोगेन सांख्यानाम्' इत्यनेन सांख्यानामात्मतत्त्वविदामनात्मवि- स्कर्तृककर्मयोगनिष्ठातो निष्क्रियात्मस्वरूपावस्थानलक्षणाया ज्ञानयोगनिष्ठायाः पृथक्करणान् कृतकृत्यत्वेनात्मविदः प्रयोजनान्तराभावात् 'तस्य कार्य न विद्यते' इति कर्तव्यान्तराभाववचनाच्च न कर्मणामनारम्भात्' 'संन्यासस्तु महाबाहो' 'दुः- खमाप्तुमयोगतः' इत्यादिवचनाचात्मज्ञानाइत्वेन कर्मयोगस्य विधानाद्, 'यो- गारूढस्य तस्यैव शमः कारणमुच्यते' इत्यनेन चोत्पन्नसम्यग्दर्शनस्य क- तन्मूलोऽहं कतॆत्यात्मनि कर्तृत्वाभिमानस्तज्जन्यस्तस्यति यावत् । यथोक्तं मंन्यासमुक्त्वा यथोक्तकर्म- योगस्थासंभवप्रतिपादने हेतुमाह सम्यगज्ञानेति । कुत्र तदभावप्रतिपादनं तदाह इहेति । उक्तं हेतुं कृत्वात्मज्ञस्य कर्मयोगसंभवे फलितमाह यस्मादिति । इह शास्त्र । तत्र तत्रंत्यादावुक्तमेव व्यक्तीकत पृच्छति केषु केष्विति। तानव प्रदेशान् दर्शयति अत्रंति । आत्मस्वरूपानरूपणप्रदेशेषु संन्यासप्रतिपादनादात्मविदः संन्यासो विवक्षितश्चत्तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति प्रकरणा- विशेषादिति शङ्कत ननु चेति । आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमदाहरति • तद्यथति । प्रकरणादात्मविदोऽपि कर्मयोगस्य संभवे फलितमाह अतश्चेति । आत्मज्ञानोपायत्वेनापि प्रकरण- पाठसिद्धीज्ञानादृर्व न्यायविरुद्धं कम कल्पयितुमशक्यमिति पारहरति अत्रोच्यत इति । सम्यग़ज्ञानमि- याज्ञानयोस्तत्कार्ययोश्च भ्रमनिवृत्तिभ्रममद्भावयोर्मियोर्विरोधात् कर्तृत्वादिभ्रममूलं कर्म सम्यगज्ञानादृवं न संभवतीत्यर्थः । आत्मज्ञस्य कर्मयोगासंभवे हेत्वन्तरमाह ज्ञानयोगेनेति । इतश्चात्मविदो ज्ञानादूर्ध्व कर्मयोगो न युक्तिमानित्याह कृतकृत्यत्वनति । ज्ञानवतो नास्ति कर्मत्यत्र कारणान्तरमाह तस्येति। ताह ज्ञानवता कर्मयोगस्य हेयत्ववज्जिज्ञासुनापि तस्य त्याज्यत्वं ज्ञानप्राप्त्या तस्यापि पुरुषार्थ- सिद्धेरित्याशङ्कय जिज्ञासोरस्ति कर्मयोगापेक्षत्याह न कर्मणामिति । स्वरूपोपकार्यङ्गमन्तरेणा- ङ्गिस्वरूपानिष्पत्तेर्सानार्थिना कर्मयोगस्य शुद्धयादिद्वारा ज्ञानहतोरादेयत्वमित्यर्थः । तर्हि ज्ञानव- तामापे ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यतामित्याशङ्कयाह योगारूढस्येति । उत्पन्नसम्यग्ज्ञान- स्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसंभवान्न तम्य शरीरस्थितिस्तदस्थितौ च कुतो जीवन्मु- पञ्चमाध्यायः । १६९ र्मयोगाभाववचनात् 'शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् इति च शरीर- स्थितिकारणातिरिक्तस्य कर्मणो निवारणाद् 'नैव किंचित् करोमीति युक्तो मन्ये- त तत्त्वविद् इत्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मस्वात्म- याथात्म्यविदः करोमीति प्रत्ययस्य समाहितचेतस्तया सदा कर्तव्यत्वोपदेशा- दात्मतत्त्वविदः सम्यग्दर्शनेन विरुद्धो मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्नेऽपि न संभावयितुं शक्यते यस्मात्तस्मादनात्मवित्कर्तृकयोरेव संन्यासकर्मयोग- योनिःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वक. मसंन्यास लक्षचात् सत्येव कर्तृत्वविज्ञाने कर्मेकदेशविषयत्वाद् यमनियमादि- सहितत्वेन च दुरनुष्ठेयत्वात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधानमित्ये- वं प्रतिवचनवाक्यार्थनिरूपणेनापिपूर्वोक्तः प्रष्टुरभिप्रायो निश्चीयत इति स्थितम् । 'ज्यायसी चेत्कर्मणस्ते' इत्यत्र ज्ञानकर्मणोः सहासंभवे यच्छेय एतयोस्तन्मे ब्रूहि' इत्येवं पृष्टोऽर्जुनेन भगवान् ज्ञानयोगेन सांख्यानां निष्ठा पुनः कर्मयोगेन यो- क्तिस्तदभावच कस्योपदेष्टुत्वं उपदेशाभावे च कुतो ज्ञानोदयः स्यादित्याशङ्कयाह शारीरमिति । विदुपोऽपि शरीरस्थितिरास्थिता चत्तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि तस्य स्यादित्याशायाह नैवेति । तत्वविदित्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सबै वाकर्तव्यत्वापदेशादिति संबन्धः । यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन् कर्तृ त्वाभिमानोऽपि स्यादिति तत्राह शरीरति । आत्मयाथात्म्यविदस्तेप्वपि नाहं करोमीति प्र- त्ययस्य नैव किं चित करोमीत्यादावकर्तृत्वोपदेशान्न कर्तृत्वाभिमानसंभावनेत्यर्थः । यथोक्तोप शानुमंधानाभावे विदपाऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यादित्याशङ्कयाह आत्मतत्त्वति । यद्यपि विद्वान् यथोक्तमुपदेशं कदाचिन्नानुसंधत्ते तथापि तत्त्वविद्यावि- रोधान्मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य संभावयितमशक्यमित्यर्थः । आत्मवित्कर्तृकयोः मंन्यासकर्मयोगयोरयोगात्तयोनिःश्रेयसकरत्वमन्यतरस्य विशिष्टत्वमित्येतदयुक्तमिति मिद्धत्वाद् द्वि. तीयं पक्षमङ्गीकरोति यस्मादियादिना तदीयाञ्च कर्मसंन्यासात् कर्मयोगस्य विशिष्ट- त्वाभिधानमिति संवन्धः । ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानस्तस्मादुत्कृप्यते कथं तस्मात् कर्मयोगस्योत्कृष्टत्ववाचो युक्तियुक्तति तत्राह पृक्तिति । वैलक्षण्यमेव स्पष्टयति ससेवेति । स्वाश्रमविहित श्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मकदेशविषयसन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं "नैतादृशं ब्राह्मणस्यास्ति वित्तम्" इत्यादिस्मृतिविरुद्वमित्याशङ्कयाह यमनियमादीति। 'आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् । प्रीतिः प्रमादो माधुर्यमक्रोधश्च यमा दश' 'दानमि- ज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ । व्रतोपवासौ मौनं च स्नानं च नियमा दश' इत्युक्तर्यमनिय- मैरन्यैश्चाश्रमधर्मविशिष्टत्वनानुष्टातुमशक्यत्वादुक्तसंन्यासात् कर्मयोगस्य विशिष्टत्वाक्तिर्युक्त्यर्थः । न हि कश्चिदिति न्यायेन कर्मयोगस्येतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह सुक रत्वेन चंति । प्रतिवचनवाक्यार्थालोचनात् सिद्धमर्थमुपसंहरति इसेवमिति । संन्यासकर्मयोगामि- १ स्थितं ज्यायमीति मु० पु । २२

श्रीमद्भगवद्गीता-
गिनां निष्ठा प्रोक्तति निर्णयं चकार न च संन्यसनादेव केवलात् सिद्धिं समधिग-
च्छतीति वचनाज ज्ञानसहितस्य तस्य सिद्धिसाधनत्वमिष्टं कर्मयोगस्य च
विधानाज् ज्ञानरहितस्य संन्यासः श्रेयान् किं वा कर्मयोगः श्रेयानित्येतयोवि-
शेषबुभुत्सयार्जुन उवाच, संन्यासं परित्यागं कर्मणां शास्त्रीयाणामनुष्ठा-
नविशेषाणां शंससि कथयसीत्येतत् पुनर्योगं च तेषामेवानुष्ठानमवश्यं कर्त-
व्यं शंसतो मे कतरच्छ्रेय इति संशयः किं कर्मानुष्ठानं श्रेयः किं वा तद्धान-
मिति प्रशस्यतरं चानुष्ठेयमतश्च यच्छ्रेयः प्रशस्यतरमेतयोः कर्मसंन्यासकर्मानुष्ठान-
योर्यदनुष्ठानाच्छ्योऽवाप्तिर्मम स्यादिति मन्यसे तदेकमन्यतरत् सहकपुरुषानु-
ठेयत्वासंभवान्मे ब्रूहि सुनिश्चितमभिप्रेतं तवेति ॥ १ ॥
थोविरुद्धयोः समुच्चित्यानुष्ठानुमशक्ययोरन्यतरस्य कर्तव्यत्वे प्रशस्यतरस्य तद्गावातद्गावस्य चानिर्धारि-
तत्वात्तन्निर्दिधारयिषया प्रश्नः स्यादिति प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथापूर्वमुपदिष्टस्तथा
प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धेत्यर्थः । ननु तृतीये यथोक्तप्रश्नस्य
भगवता निर्णीतत्वान्नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्कय विस्तरेणोक्तमेव संबन्धं पुनः सं-
क्षेपतो दर्शयति ज्यायसी चेदिति । सांख्ययोगयोभिन्न पुरुषानुष्ठेयत्वेन निर्णीतत्वान्न पुनः प्रश्न-
योग्यत्वमित्यर्थः । इतोऽपि न तयोः प्रश्नविषयत्वमित्याह न चेति। एवकारविशेषणज्ञानसहितसंन्या-
सस्य सिद्धसाधनत्वं भगवतोऽभिमतं छिच्वनं संशयं यांगमातिष्ठ' इति च कर्मयोगम्य विधानात्तस्यापि
सिद्धसाधनत्वमिष्टं ततश्च निर्णीतत्वान्न प्रश्नस्तद्विषयः सिध्यतीत्यर्थः । केनाभिप्रायेण तर्हि प्रश्नः
स्यादित्याशङ्कय ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वभुत्सयेत्याह ज्ञानरहित इति । प्र-
ष्टुरभिप्रायमेव प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति संन्यासमिति । तर्हि द्वयं त्वयानुष्टेय-
मित्याशङ्कय तदशक्तरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थ तदिदामति निश्चित्य वक्तव्यमित्याह यच्छ्य
इति । काम्यानां प्रतिपिद्वानां च कर्मणां परित्यागो मयोच्यते न सर्वपामित्याशय कमण्यकर्मेत्या-
दौ विशेषदर्शनान्मैवमित्याह शास्त्रीयाणामिति । अस्तु तर्हि शास्त्रीयाशास्त्रीययारंशपयोपि
कर्मणोस्त्यागो नेत्याह पुनरिति । तर्हि कर्मत्यागस्तद्योगश्चेत्युभयमादर्शितव्यामत्याशय विरोधा-
न्मैवमित्यभिप्रेत्याह अत इति । द्वयोरेकेणानुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जाय-
ते तमेव संशयं विशदयति किं कर्मति । प्रशस्यतरचुभुत्सा किमर्थत्याशङ्कयाह प्रशस्थतरं चेति ।
तस्यैवानुष्ठेयत्वे प्रश्नसावकाशत्वमाह अतश्चेति । तदेव प्रशस्यतरं विशिनाष्ट यदनुष्ठानादिति ।
तदेकमन्यतरमस्मै बृहीति संबन्धः । उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते तत्राह
महोति । कर्मतत्त्यागयोमिथो विरोधादित्यर्थः ॥ १ ॥
प० टी० । अथ परस्पराविरुद्धयोः कर्मसंन्यासकर्मयोगयोः सदुपदेशात्संदिहानोऽर्जुनः
पृच्छति संन्यासमिति । भो कृष्ण प्रथमं कर्मणां संन्यासं शंससि पुनरनन्तरमेव योगं शंससि उप-
दिशसि तातयोर्मध्ये यच्छ्रेयः श्रेष्टं तदेकं सुनिश्चितं यथा भवति तथा ब्रूहि ॥ १ ॥
श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ॥
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥२॥

पञ्चमाध्यायः । १७१ स्वाभिप्रायमाचक्षाणो निर्णयाय श्रीभगवानुवाच । संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तावुभावपि निःश्रेयसकरी निःश्रेयसं मोक्ष कुर्वाते ज्ञानोत्पत्तिहेतुत्वेनोभौ यद्यपि निःश्रेयसकरौ तथापि तयोस्तु निःश्रेयस- हेत्वोः कर्मसंन्यासात् केवलात् कर्मयोगो विशिष्यते इति कर्मयोगं स्तौति ॥२॥ आ० टी० । प्रश्नमेवमुत्थाप्य प्रतिवचनमुत्थापयति स्वाभिमायमिति । निर्णयाय तदद्वारेण परस्य संशयनिवृत्त्यर्थमित्यर्थः । एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौर्यमभिप्रेत्य प्रशस्यतरत्वमभिधि- सुभगवान् प्रतिवचनं किमुक्तवानित्याशङ्कयाह संन्यास इति । उभयोरपि तुल्यत्वशङ्का वारयति तयोस्त्विति । कथं तार्ह ज्ञानस्यैव माक्षोपायत्वं विवक्ष्यते तत्राह ज्ञानोत्पत्तीति । तर्हि द्वयो- रापि प्रशस्यत्वमप्रशस्यत्वं वा तुल्यमित्याशङ्कयाह उभाविति । ज्ञानसहायस्य कर्मसंन्यासस्य कर्म- योगापेक्षया विशिष्टत्वविवक्षया विशिष्टि केवलादिति ॥ २ ॥ प० टी० । अत्रोभयोरपि श्रेष्ठत्वे एकं श्रेयो ब्रूहीति प्रश्नं भगवानाह संन्यास इति । संन्यासः कर्मयोगश्च तावभावधिकारिभेदेन निःश्रेयसकरौ भवतः, न ह्यकं प्रत्युभयोपदेशः । अयमर्थः । न ह्यात्मतत्त्वज्ञ प्रति कर्मयोगोपदेशः, किं तु देहात्माभिमानिनं भवादशं बन्धुवधशोकाकुलं प्रति योगमातिष्ठेति ब्रवीमि कर्मयोगिनः शुद्धचित्तस्यात्मतत्त्वज्ञाने सति कर्ममंन्यासः संभवत्येवमुभाव- पि भूमिकाभेदेन निःश्रेयससाधने समुच्चितावेव तथापि तयोर्मध्ये प्रस्तुतः कर्मसंन्यासात्सकाशात्क- मयोगो विशिष्यते विशिष्टो भवति ॥ २ ॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ॥ निईन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते॥३॥ कस्मादित्याह ज्ञेय इति । ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्या- सीति यो न इष्टि किं चिन्न काङ्क्षति दुःरवसुरवे तत्साधने चैवंविधो यः कर्म- णि वर्तमानोऽपि स नित्यसंन्यासीति ज्ञातव्य इत्यर्थः । निईन्दो इन्दवजितो हि यस्मान्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते ॥ ३ ॥ आ० टी० । कर्म हि बन्धकारणं प्रसिद्ध तत् कथं निःश्रेयसकरं स्यादिति शङ्कते कस्मा- दिति । अकात्मविज्ञानात् प्रागपि सर्वदासौ संन्यासी ज्ञेयो या रागद्वेषी क्वचिदपि न करोतीत्याह इत्याहेति । यथानुष्ठीयपानानि कर्माणि संन्यासिनं न निवनन्ति कृतानि च वैराग्येन्द्रियसयमादी- नि फलाभिसन्धिरहितानि तथैवानभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निवभन्ति नि- वर्तयन्ति च संचितं दुरितमित्यभिप्रेत्याह निर्द्वन्द्वो हीति । कर्मयोगिनो नित्यसंन्यासित्वज्ञानमन्य- थाज्ञानत्वान्मिथ्याज्ञानमित्याशङ्कयाह एवंविध इति । कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातु- मुचितमित्यर्थः । रागद्वेपरहितस्यानायासेन बन्धप्रध्वंससिद्धश्च युक्तं तस्य सन्यासित्वमित्याह निर्द्वन्द्व इति ॥ ३ ॥ प० टी० । अथ कर्मकुशलस्योभयोरप्यनुष्ठानं सहैव भवतीत्याह ज्ञेय इति । स परुषः कर्म कुर्वन्नपि नित्यसंन्यासी ज्ञेयः । स कः, यो न द्वेष्टि न काङ्क्षति रागद्वपराहित्येन कृतः कर्मयोगः म एव कर्मसंन्यासो भवितुमर्हति । हि यस्मात्कारणान्निईन्द्वः निर्गतानि द्वन्द्वानि रागद्वेषसुखदःखजय- पराजयादीनि यस्मात्तथाविधः सुखं यथा भवति तथा बन्धाद्विमुच्यते । यथा प्रस्तुतं क्षात्रधर्मे श- १७२ श्रीमद्भगवद्गीता- त्रुटेपेण राज्यलोभेन वा प्रवृत्तस्य बन्धो भवति । तद्व्यतिरिक्तस्य बन्धाभावः । तथा च स्वत एवं तत्संन्यासः परिणतो भवतीत्यर्थः ॥ ३ ॥ सांख्ययोगौ पृथग बालाः प्रवदन्ति न पण्डिताः ॥ एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ ४॥ संन्यासकर्मयोगयोभिन्नपुरुषानष्ठेययोविरुद्धयोः फलेऽपि विरोधी युक्तो न तूभयोनिःश्रेयसकरत्वमेवेति प्राप्त इदमुच्यते सांख्ययोगाविति । सांख्ययोगी पृथ- विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिता पण्डितास्तु ज्ञानिन एकं फलमवि- रुद्धमिच्छन्ति कथमेकमपि सांख्ययोगयोः सम्यगास्थितः सम्यगनुष्ठितवानित्य- थः । उभयोविन्दते फलमुभयोस्तदेव हि निःश्रेयसं फलमतो न फले विरो- ऽस्ति ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगशब्दयोः फलकत्वं कथमिहाप्रकृतं ब्रवीति नैप दोषो यद्यप्यर्जुनेन संन्यासं कर्मयोगं च केव- लमभिप्रेत्य प्रश्नः कृतो भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेपं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददो सांख्ययोगाविति तावेव सं- न्यासकर्मयोगी ज्ञानतदुपायसमबुद्धित्वादिसंयुक्ती सांख्ययोगशब्दवाच्याविति भगवतो मतमतो नाप्रकृतप्रक्रियेति ॥ ४ ॥ आ० टी० । यदुक्तं संन्यामकर्मयोगयोनिःश्रेयमकरत्वं तदाक्षिपति संन्यामति । तत्रोत्तरत्वेनोत्तरश्लोकमवतारयति इति प्राप्त इति । विवेकिनस्तार्ह कथं वदन्तीत्याकाक्षायामाह ए. कमिति । संख्यामात्मसमीक्षामहतीत सांख्यं सन्यामो योगस्तु कर्मयोगम्तावुभावपि पृथगित्यस्यार्थ माह विरुद्धति । शास्त्रार्थविकशन्यत्वं बालत्वम् । उत्तरार्धमवतारायतुं भूमिका कराति पण्डि- तास्त्विति । ज्ञानिनो योगिनश्रेति शेपः । द्वयोरविरुद्धफलत्वमेव प्रश्नपर्वकं प्रकटयति कथमित्या दिना । एक साधनमनुष्ठितातो द्वारा फवं भवतीति विरुद्धमित्याशवाह उभयारिनि । मां- ख्ययोगयोः । संन्यामकर्मानुष्ठानयोस्तत्वज्ञानद्वारा निःश्रेयसफलत्वान्न विरुद्धफलत्वशल्यः । सांख्ययोगयोरेकफलत्यवचनं प्रकरणाननगुणामति शकते नन्विति । अमरुतत्वमभिद्धमिति परिहरति नप दोप इति । संन्यामं कर्मणामित्यादिना संन्यासं कर्मयोगं चाजीहत्य प्रश्ने संन्यासः कर्मयागश्रे- त्यादिना तथैव प्रतिवन च कथं सांख्ययोगयोरेकफलत्वमप्रकृतं न भवतीत्युच्यते तत्राह यद्यपीति । प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुपपत्तिरित्याशङ्कचाह भगवांस्त्विति। त- दधरित्यागेनेत्यत्र तत्पदेन प्रष्ट्रा प्रतिनिर्दिष्टौ कमसंन्यामकर्मयोगावच्यते, सांख्ययोगाविति शब्दान्तर वाच्यतया तयाग्व संन्यासकर्मयोगयोरत्यागेन स्वाभिप्रतं च विशेष संयोज्य भगवान् प्रतिवचनं मंदाविति योजना । यदुक्तं स्वाभिोतं च विशपं संथाज्यति तदेव व्यक्तीकरोति तावति । समबुद्वित्वादीत्यादिशब्देन ज्ञानोपायभतं शमादिरादीयते । प्रस्तयारव संन्यासकर्मयोगयोरुपादाने फलितमाह अल इति । सांख्ययोगावित्यादिश्लोकव्याख्यानसमाप्तिरितिशब्दार्थः ॥ ४ ॥ प० टी० । अथ पूर्वप्रश्नत्त्वज्ञानत इति दर्शयति सांख्ययोगाबिनि । सांख्ययोगी पथगिति बाला वदन्ति न पण्डिताः । शख्यिशो ज्ञाननिष्टार्थनाची । कर्मसंन्यासो योगश्च कर्मयोग पञ्चमाध्यायः । १७३ रतो पृथक् स्वतन्त्रफलाविति बाला अज्ञा एव वदन्ति न तु पण्डिता ज्ञातार इत्यर्थः । तत्र ह्येन- योरेकमपि सम्यगाश्रितवानुभयोः फलं प्राप्नोति । अनासक्त्या कर्मयोगमनुतिष्ठन् शुद्धचित्तः सन् ज्ञानद्वारोभयोः कैवल्यमेव फलं न पृथक्फलत्वमित्यर्थः ॥ ४ ॥ यत् सांख्यः प्राप्यते स्थानं तद योगैरपि गम्यते ॥ एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥ एकस्यापि सम्यगनुष्ठानात् कथमुभयोः फलं विन्दत इत्युच्यते यदि- ति । यत् सांख्याननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तद्योगैरपि ज्ञानप्राप्त्युपायत्वेनेश्वरे समर्प्य कर्माण्यात्मनः फलमनभिसंधायानुतिष्ठन्ति ये ते योगिनस्तैरपि परमार्थज्ञानसंन्यासप्राप्तिहारेण गम्यत इत्यभिप्रायोऽत एकं सांख्यं च योगं च यः पश्यति स पश्यति फलैकत्वात् सम्यक् पश्यतीत्यर्थः ॥५॥ आ. टी । प्रश्नपूर्वकं श्लोकान्तरमवतारयति एकस्यापीति । के चिदेव तयोरेकफलत्वं पश्यन्तीत्याशङ्कय तेपामेव सम्यगदर्शित्वं नेतरेषामित्याह एकमिति । तिष्ठत्यस्मिन्न च्यवते पुनरि- ति व्युत्पत्तिमाश्रित्याह मोक्षायमिति । योगशब्दार्थमाह ज्ञानप्राप्तीति । ये हि जिज्ञासवः सर्वाणि कर्माणि भगवतप्रीत्यर्थत्वेन तपां फलाभिलापमकृत्वा ज्ञानप्राप्ती बुद्विशुद्धिद्वारेणोपायत्वेनानुतिष्टन्ति तेऽत्र योगा विवक्ष्यन्ते । अचप्रत्ययस्य मत्वर्थत्वं गृहीत्वोक्तं योगिन इति । सर्वोऽपि द्वैतप्रपश्चो न वस्त भूतो मायाविलामत्वादात्मा त्वविक्रियोऽद्वितीयो वस्तु सन्निति प्रयोजकज्ञानं परमार्थज्ञानं तत्पूर्व- कमन्यामहारेण कर्मिभिरपि तदेव स्थानं प्राप्यमित्येकफलत्वं संन्यामकर्म योगयोरविरुहमित्याह तैर- पांति । फलैकत्व फलितमाह अत इति ॥ ५ ॥ प० टी० । यन्मांख्यरिति । सांख्यैर्ज्ञाननिष्ठैः संन्यामिभिर्यत्स्थानं कैवल्यं प्रकर्षेण साक्षादाप्यते तदेव योगैः कर्मयोगनिद्वारा प्राप्यतेऽतः सांख्य योगं चैकमेव फलत्वेन यः ५श्यति स एव पश्यति परमार्थद्रष्टा नान्यः ॥ ५ ॥ संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ॥ योगयुक्तो मुनिब्रह्म न चिरेणाधिगच्छति ॥६॥ एवं तर्हि योगात् संन्यास एव विशिष्यते, कथं तर्येवमुक्तं तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यत इति, शण तत्र कारणं, त्वया पृष्टं केवलं कर्मसंन्यासं कर्मयोगं चाभिप्रेत्य तयोरन्यतरः कः श्रेयानिति तदनुरूपं प्रतिवच- नं मयोक्तं कर्मसंन्यासात् कर्मयोगो विशिष्यत इति ज्ञानमनपेक्ष्य, ज्ञा- नापेक्षस्तु संन्यासः सांख्यमिति मयाभिप्रेतः, परमार्थयोगश्च स एव यस्तु कर्म- योगो वैदिकः स च तादाद्योगः संन्यास इति चोपचयंते कथं तादर्थ्य- मित्युच्यते संन्यासस्तु पारमार्थिको हे महाबाहो दुःवमाप्तुं प्राप्तुमयोगतो योगेन विना योगयुक्तो वैदिकेन कर्मयोगेनेश्वरसमर्पितरूपेण फलनिरपेक्षेण तेन युक्तो श्रीमद्भगवद्गीता- मुनिर्मननादीश्वररूपस्य मुनिर्ब्रह्म परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्या- सो ब्रह्मोच्यते न्यास इति ब्रह्म “ब्रह्म हि पर” इति श्रुतेः। ब्रह्म परमार्थसंन्यासं परमात्मज्ञाननिष्ठालक्षणं न चिरेण क्षिप्रमेवाधिगच्छति प्राप्नोत्यतो मयोक्तं कर्म- योगो विशिष्यत इति ॥ ६ ॥ आ० टी० । यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयोऽवाप्तिरिष्टा तर्हि सं- न्यासस्यैव श्रेयस्त्वं प्राप्तमिति चोदयति एवं तीति । संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रशस्य- त्ववचनमनुचितमित्याह कथं तौति । पूर्वोक्तमेवाभिप्रायं स्मारयन् परिहरति शृण्विति । कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति त्वयेसादिना । केवलं विज्ञानरहितमिति यावत्, तयोरन्यतरः कः श्रेयानिति इतिशब्दोऽध्याहर्तव्यः । त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य तद्रहितात् केवलादेव संन्यासाद् योगस्य विशिष्टत्वमिति यथोक्तमित्याह तदनुरूपमिति । ज्ञानापेक्षः संन्यासस्तर्हि कीदृगित्याशङ्ग्याह ज्ञानेति । तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते तत्राह यस्त्विति । तादात् परमार्थज्ञानशेपत्वादिति यावत् । तदेव तादर्थ्य प्रश्नपूर्वकं प्रसाधयात कथमिसादिना । कर्मानुष्ठानाभावे बुद्धिशुद्धच- भावात् परमार्थसंन्यासस्य सम्यग़ज्ञानात्मनो न प्राप्तिरिति व्यतिरेकमुपन्यस्यान्वयमुपन्यस्यति योगेति । पारमार्थिकः सम्यगज्ञानात्मकः । सामग्यभावे कार्यप्राप्तिरयुक्तेति मत्वाह दुःखमिति । योगयुक्तत्वं व्याचष्टे वैदिकेनेति । ईश्वरस्वरूपस्य सविशेषस्येति शेपः । ब्रह्मेति व्याख्य यं पदमुपादाय व्याचष्टे प्रकृत इति । तत्र ब्रह्मशब्दप्रयोगे हेतुमाह परमात्मेति । लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्मशब्दप्रयोगे तैत्तिरीयकति प्रमाणथति न्यास इति । कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते द्वयोरपि परत्वाविशेपादित्याह ब्रह्म हीति । ब्रह्मशब्दस्य सं- न्यासविषयत्वे फलितं वाक्यार्थमाह ब्रह्मेत्यादिना । नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिरतितरां परिपक्वकषायस्य करणानि सर्वतो व्यापृतानि निरस्ताशेषकूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्तीति । कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह अत इति ॥ ६ ॥ प० टी० । यदि कर्मयोगिनोऽप्यन्ततः संन्यासेनैव ज्ञाननिष्टा तादित एव संन्यासः कर्तुं युक्त इत्याह संन्यास इति । भो महाबाहो अयोगतः कर्मयोगं विना संन्यासः प्रातुं दुःखहेतुर- शक्योऽतो योगयुक्तः सन् मुनिर्मननशीलो न चिरेण शीघ्रमेव ब्रह्माधिगच्छत्यपराक्षं जाना- ति न तु तद्विधुरः ॥ ६ ॥ योगयुक्तो विशुद्वात्मा विजितात्मा जितेन्द्रियः॥ सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७॥ योगेति । यदा पुनरयं सम्यग्दर्शनप्राप्युपायत्वेन योगेन युक्तो विशु- द्धात्मा विशुद्धचित्तो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक्चेतनो य- स्य स सर्वभूतात्मभूतात्मा सम्यग्दीत्यर्थः । स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वनपि न लिप्यते योगयुक्तो न कर्मभिर्बध्यत इत्यर्थः ॥ ७ ॥ १ अर्श आदिभ्योऽच इति पा० सूत्र. विहितस्येत्यर्थः ।

पचमाध्यायः । आ० टी० । ननु पारिव्राज्यं परिगृह्य श्रवणादिसाधनमसरूद नुतिष्ठतो लब्धसम्यग्बोधस्या- पि यथापूर्व कर्माण्युपलभ्यन्ते तानि च बन्धहेतवो भविष्यन्तीत्याशङ्कय श्लोकान्तरमवतारयति यदा पुनरिति । सम्यग्दर्शनप्राप्त्युपायत्वेन यदा पुनरयं पुरुपो योगयुक्तत्वादिविशेषणैः सम्य- ग्दर्शी संपद्यते तदा प्रातिभासिकी प्रवृत्तिमनुसृत्य कुर्वन्नपि न लिप्यत इति योजना । योगेन नि- त्यनैमित्तिककर्मानुष्ठानेनति यावत् । आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्यामकलुषितं सत्त्वं सिध्यतीत्याह विशुद्धेति । बुद्विशुद्धौ कार्यकरणसंघातस्यापि स्वाधीनत्वं भवतीत्याह विजितेति । तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वमित्याह सर्वभूतति । सम्यग्दर्शिनस्तर्हि कर्मानुष्ठानं कु- त्रत्यं तदनुष्ठाने वा कुतो बन्धविश्लेपसिद्धिरित्याशङ्कयाह स तत्रेति। सम्यग्दर्शनं सप्तम्यर्थः ॥ ७ ॥ प० टी० । अथोक्तप्रमेयं दृढीकुर्वन् कर्मलोपाभावक्रममाह योगयुक्त इति । योगेन कर्मयोगेन युज्यते निष्पद्यतेऽसौ योगयुक्तोऽत एव विशुद्ध आत्मा चित्तं यस्यात एव तद्वशवर्ती विजित आत्मा देहो येनात एव तत्संसक्तानि नितानीन्द्रियाणि येन स तथाभूतः सर्वभूतानामात्मभूत आत्मा यस्य सर्वभतेषु समत्वदर्शी तादृशः पुमान् कर्म कुर्वन्नपि न लिप्यते न बध्यते ॥ ७ ॥ नैव किंचित् करोमीति युक्तो मन्येत तत्त्ववित् ॥ पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन श्वसन्॥८॥ प्रलपन् विसृजन् गृह्णन्नुन्मिपन्निमिषन्नपि ॥ इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥ नैवेति । न चासी परमार्थतः करोतीत्येतन्नैव किंचित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयेत्तत्त्वविदात्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्व- वित् परमार्थदर्शीत्यर्थः । कदा कथं वा तत्त्वमवधारयन् मन्येतेत्युच्यते पश्यनि- ति । मन्येतेति पूर्वेण संबन्धः । यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कमस्व- कर्मैव पश्यतः सम्यग्दानिस्तस्य सर्वकर्मसंन्यास एवाधिकारः कर्मणोऽ- भावदर्शनान हि मृगतृष्णकायामुदकवुद्ध्या पानाय प्रवृत्त उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥ ८ ॥ ९ ॥ आ० टी० । कर्माण्यङ्गीकृत्य तैरस्य विदुषो बन्धो नास्तीत्युक्तमिदानी वस्तुतस्तस्य कर्मा- ण्येव न सन्तीत्याह न चेति । लोकदृष्टया विदुषोऽपि कर्माणि सन्तीत्याशङ्कय स्वदृष्टया तदभाव- मभिप्रेत्याह नैवेति । सार्धं समनन्तरश्लोकमाकाङ्क्षापूर्वकमुत्थापयति कदेखादिना । चक्षुरादिज्ञा- नेन्द्रियैर्वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैरन्तःकरणचतुष्टयेन च तनचेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिरिन्द्रियाणामवेत्यनुसंदधानो नैव किं चित् करोमीति विद्वान् प्रतिपद्यते इत्यर्थः । यथोक्तस्य विदुपो विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकमभिलपति यस्येति । अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसंभवात् कुतः संन्यासेऽधिकारः स्यादित्याशङ्कयाह न हीति ॥ ८ ॥ ९ ॥ प० टी० । अथ कुर्वनपि न लिप्यत इत्यनेन कर्तृत्वाभिमानशून्यत्वमुक्तमित्याह नैव- किंचिदिति द्वाभ्याम् । कर्मयोगेन युक्तः शुद्धचित्तः क्रमेण तत्त्वविद्भूत्वा ज्ञानकर्मेन्द्रियप्राणव्यापा- १७६ श्रीमद्भगवद्गीता- ररूपमहं किं चिन्न करोमीति मन्येत । अथ तदेवाह । पश्यन् शृण्वन् स्पृशन् जिवनम्नन्निति ज्ञाने- न्द्रियकृत्यम् । तथा गच्छन् प्रलपन गृहन्निति कमंन्द्रियकृत्यम् । तथा स्वपन श्वमन् उन्मिपन्नि- मिषन्निति प्राणकृत्यम् । एतत्सर्वमप्यहं किमपि न करोमीति मन्येत । नन क्रियमाणं कार्यमेतदहं करोमीति यः कश्चिज्जानात्येव स कथमेवं मन्यतेत्याशक्याह इन्द्रियाणीति । इन्दति जानाती- तीन्द्रः परमात्मा तत्संबुहानीन्द्रियाणि चक्षुरादीनीन्द्रियार्थेषु रूपरसादिपु वर्तन्ते प्रवर्तन्ते, अथ वा वृत्तिरूपेण तिष्ठन्तीति धारयन् स्थिरीकुर्वन् ॥ ८ ॥ ९ ॥ ब्रह्मण्याधाय कर्माणि संगं त्यक्या करोति यः॥ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥ ब्रह्मेति । यस्तु पुनस्तत्त्ववित् प्रटत्तश्च कर्मयोगे ब्रह्मणीश्वर आधाय नि- क्षिप्य तदर्थ करोमीति भृत्य इव स्वाभ्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फले सं- गं त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन संवध्यते पद्मपत्रमि- वाम्भसोदकेन ॥ १० ॥ आ० टी० । तर्हि विद्यावानिवाविद्यावानपि कर्मणि न प्रवर्तत पापोपहतिसंभवादित्याश झ्याह यस्विति । यथा भृत्यः स्वाम्यर्थ कर्माणि करोति न स्वफलमपेक्षते तथैव यो विद्वान् मोक्षेऽपि संगं त्यक्त्वा भगवदर्थमेव सर्वाणि करोति न स्वकर्मणा बध्यते न हि पद्मपत्रमग्भसा संबध्यते तद्वदित्यर्थः ॥ १० पष्टी। ब्रह्मणीति । अर्थ प्रतीतिरूपे ब्रह्माण कर्माणि दर्शन श्रवणादीन्याधायारोप्य संगं कर्तृत्वाभि- मानं त्यक्त्वा यः करोति स पापेन बन्धहेतना न लिप्यते श्रुतिरपि शातपथी- "वदन वाक पश्यंचक्षुः शृण्व- न श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामानि" इति । तथात्मैवास्य कर्मात्मना हि कर्म करोतीति स्पष्टम् । तथा ऋगारण्यकेऽपि कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गंन्धानाजिघ्रति येन वाचं व्याकरोति येन वा स्वादु चास्वाद विजानाति यदेतदृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं मेधा धृतिर्मनीषा ज्योतिः स्मृतिः संकल्पः क्रतुरमुः कामो वश इति सर्वाण्येतानि प्रज्ञानस्य नामधेयानि भवन्ति" इत्यादि । स्पष्टार्थेयं श्रुतिः । अत्रैतदुक्तं भवति पश्यन् शृण्वन्नित्यादिषु बुद्धिप्राणकर्माणि कर्तृत्वाभिमानशून्यत्वे दृष्टान्तत्वेन योजितानि । तथा हि स्वपन् स्वापं निद्रां कुर्वन्नित्यत्र निद्रा तु मनसो निरिन्द्रियप्रदेशावस्थानं तदेकस्मादसंकल्पितमेव भवति तथैव श्वासोच्छ्रासनिमेपोन्मेषा अपि भवन्ति तद्वद्दर्शनस्पर्शनादिकर्माण्युक्तरीत्यावधारयन् अत एव तत्त्व- विदिति विशेषणम् । एवं कर्मणि वर्तमानोऽपि कर्मभिर्न लिप्यते इत्यत्र दृष्टान्तमाह पद्मपत्रमिवेति । स्पष्टम् । तदुक्तम्- स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् ॥ तत्स्थः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ' ॥ १० ॥ कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।। योगिनः कर्म कुर्वन्ति संगं त्यक्त्वात्मशुद्धये ॥ ११ ॥ कायेनेति । केवलं सत्त्वशुद्धिमात्रफलमेव तस्यैव कर्मणः स्यात् यस्मा- पञ्चमाध्यायः। १७७ त् कायेन देहेन मनसा बुद्धया च केवलैरिन्द्रियैर्ममत्ववर्जितेरपीश्वरायैव क- म करोमि न फलायेति ममत्ववुद्धिशून्यैरिन्द्रियैरपि, केवलशब्दः कायादिभि- रपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति संगं त्यक्त्वा फलविषयमात्मशुद्धये सत्त्वशुद्धय इत्यर्थः ॥ ११ ॥ आ० टी० । अविदुषस्तर्हि कृतेन कर्मणा किं स्यादित्याशङ्कयाह केवलमिति । अज्ञस्ये- श्वरार्पणबुद्दयानुष्ठितं कर्म बुद्धिशुद्धिफलमित्यत्रैव हेतुमाह यस्मादिति । केवलशब्दस्य प्रत्येक संबन्धे प्रयोजनमाह सर्वव्यापारेष्विति ॥ ११ ॥ प० टी० । एवं बन्धकत्वाभावमुक्त्वा मोक्षहेतुत्वं सदाचारेण दर्शयति कायेनेति । कायेन स्नानोपवासादि मनसा ध्यानादि बुद्ध्या तत्त्वनिश्चयादि केवलैः कर्माभिनिवेशरहितैरिन्द्रियैः श्रवण- कीर्तनादिलक्षणं कर्मफलं संगं त्यक्त्वा चित्तशुद्धये योगिनः कर्म कुर्वन्ति ॥ ११ ॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ॥ अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२॥ युक्त इति । तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव यस्माञ्च युक्त ई- श्वराय कर्माणि करोमि न मम फलायेत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्ति मोक्षाख्यामाप्नोति नैष्ठिकी निष्ठायां भवां सत्त्वशुद्धिज्ञानप्रा- प्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनरयुक्तोऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन कामकारेण कामप्रेरित- तयेत्यर्थः । मम फलायेदं करोमि कर्मेत्येवं फले सक्तो निबध्यतेऽतस्त्वं युक्तो भवेत्यर्थः ॥ १२ ॥ आ० टी० । कर्मणश्चित्तशुद्धिफलत्वे तादर्सेन कर्मानुष्ठानमेव तव कर्तव्यमिति यस्मादि- त्यस्यापेक्षितं वदन् फलितमाह तस्मादिति । इतश्च संगं त्यक्त्वा कर्मानुष्ठानं त्वया कर्तव्यमि- त्याह यस्माच्चेति । युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्ति यस्मादाप्नोति तस्माञ्च त्वया संगं त्यक्त्वा कर्म कर्तव्यमिति योजना । विपक्षे दोपमाह अयुक्त इति । युक्तत्वं व्याकरोति ईश्वरायेति । फलं परित्यज्य कर्म कुर्वन्निति शेषः । नैष्ठिकी शान्तिरित्येतदेव विशदयति सत्त्वति । द्वितीयमध विभजते यस्त्विति । असमाधाने दोषादर्जुनस्य नियोगं दर्शयति अतस्त्वमिति ॥१२॥ प० टी० । अथ चित्तशुद्धेः फलमाह युक्त इति । कर्मफलं त्यक्त्वा युक्तः शुद्धचित्तः पुमा- नैष्ठिकीमात्यन्तिकी शान्ति मोक्षं प्राप्नोति । अथायुक्तस्य गतिमाह अयुक्तो बहिर्मुखः कामकारेण कामतः प्रवृत्त्या फले सक्तः सन्निबध्यते ॥ १२ ॥ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ॥ नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥ १ लाभायेदं-पा. मु. पु० । २3 १७८ श्रीमद्भगवद्गीता- सर्वेति । यस्तु परमार्थदर्शी स सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या कर्मादावकर्मसंदर्शनेन संत्यज्येत्यर्थः, आस्ते तिष्ठति सुखं त्य- क्तवाङ्मनःकायचेष्टो यतिर्निरायासः प्रसन्नचित्त आत्मनोऽन्यत्र निरत्तबाह्य- सर्वप्रयोजन इति सुरवमास्त इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । वास्त इत्याह नवहारे पुरे सप्तशीर्षण्यान्यात्मन उपलब्धिहाराण्यर्वाग् हे मुत्रपुरीषविस- गर्थे तैहारैर्नवहारं पुरमुच्यते, शरीरं पुरमिव पुरमात्मैकस्वामिकं तदर्थप्रयोजनै- श्चेन्द्रियमनोवुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः परिरिवाधिष्ठितं तस्मिनव- हारे पुरे देही सर्व कर्म संन्यस्यास्ते इति । किं विशेषणेन सर्वो हि देही संन्यस्य संन्यासीव देह एवास्ते तत्रानर्थकं विशेषणमुच्यते, यस्त्वज्ञो देही देहेन्द्रियसंघातमात्रात्मदशी स सर्वोऽपि गेहे भूमावासने वास इति मन्यते न हि देहमात्रात्मदर्शिनो गेह इव देह आस इति प्रत्ययः संभवति, देहादिसं- घातव्यतिरिक्तात्मदर्शिनस्तु देह आस इति प्रत्यय उपपद्यते परकर्मणां च परस्मिन्नात्मन्यविद्ययाध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उ- पपद्यते, उत्पन्नविवेकविज्ञानस्य सर्वकर्मसंन्यासिनोऽपि गेह इव देह एव न- वहारे पुरे आसनं प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानो- त्पत्तदेह एवास्त इत्यस्त्येव विशेपणफलं विहद विहत्प्रत्ययभेदापेक्षत्वाद् यद्यपि कार्यकरणकर्माण्यविद्ययात्मन्यध्यारोपितानि संन्यस्यास्त इत्युक्तं तथाप्यात्मसम- वायि तु कर्तृत्वं कारयितृत्वं च स्यादित्याशङ्क्याह नैव कुर्वन् स्वयं न च कार्यकरणानि कारयन् क्रियासु प्रवर्तयन्, किं यत्तत् कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायि सत् संन्यासान्न संभवति यथा गच्छतो गतिर्गमनव्यापा- रपरित्यागे न स्यात्तइत्, किं वा स्वत एवात्मनो नास्तीत्यत्रोच्यते नास्त्यात्मनः स्वतः कर्तृत्वं कारयितृत्वं चोक्तं 'ह्यविकार्योऽयमुच्यते' 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यत' इति, “ ध्यायतीव लेलायतीवा” इति श्रुतेः ॥ १३ ॥ आ० टी० । तर्हि फले सक्तिं त्यक्त्वा सर्वैरपि कर्तव्यमिति कर्मसंन्यासस्य निरवकाशत्व- मित्याशझ्याविदुषः सकाशाद्विदुषो विशेषं दर्शयति यस्त्विति । सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति आस्त इति । वृत्ति लभमानोऽपि शरीरतापेनाध्यात्मिकादिना तप्यमानस्तिष्ठतीति चे- नेत्याह मुखमिति । कार्यकरणसंघातपारवश्यं पर्युदस्यति वशीति । आसनस्यापेक्षितमधि- करणं निर्दिशति नवेति । देहसंबन्धाभिमानाभासवत्वमाह देहीति । मनसा सर्वकर्मसंन्यासेऽपि लो- कसंग्रहार्थ बहिः सर्व कर्म कर्तव्यमिति प्राप्तं प्रत्याह नैवेति । तान्येव सर्वाणि कर्माणि परित्य- ज्यानि विशिनष्टि नियमिति। तेषां परित्यागे हेतुमाह तानीति । यदुक्तं सुखमास्त इति तदुपपादयति

पञ्चमाध्यायः ।
१७९
सक्तेति । जितेन्द्रियत्वेति कायवशीकारस्याप्युपलक्षणं, हे श्रोत्रे हे चक्षुषी द्वे नासिके वागे-
केति सप्तशीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि । अथापि कथं नवहारत्वमधोगताभ्यां
पायूपस्थाम्यां सहेत्याह अर्वागिति । शरीरस्य पुरसाम्यं स्वामिना पौरैश्चाधिष्ठितत्वेन दर्शयति
आत्मेसादिना । यद्यपि देहे जीवनत्वाद्देहसंबन्धाभिमानामासवानवतिष्टते तथापि प्रवासीव परगेहे
तत्पूजापरिभवादिभिरप्रहृष्यन्नविषीदन् व्यामोहादिरहितश्च तिष्ठतीति मत्वाह तस्मिन्निति ।
विशेषणमाक्षिपति किमिति । तदनुपपत्तिमेवादर्शयति सर्वो हीति । सर्वसाधारणे देहावस्थाने
संन्यस्य देहे तिष्ठति विद्वानिति विशेषणमकिंचित्करमिति फलितमाह तत्रेति । विशेषणफलं
दर्शयन्नुत्तरमाह उच्यत इति । किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते किं वा विवेकिन
प्रतीति विकल्प्याद्यमङ्गीकरोति यस्त्विति । अज्ञत्वं देहित्वे हेतुः । तदेव दहित्वं स्फुटयति
देहेति । संघातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्यादिति चेन्नेत्याह न होति । द्वितीयं
दूषयति देहादीति । गृहादिषु देहस्यावस्थानेनात्मावस्थानभ्रमव्यावृत्त्यर्थ देहे विद्वानास्त इति
विशेषणमुपपद्यते, विवेकवतो देहेऽवस्थानप्रतिभाससंभवादित्यर्थः । ननु विवेकिनो देहावस्थानप्र-
तिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसंगाभावात् तत्त्यागेन कुतस्तस्य देहेऽ-
वस्थानमुच्यते तत्राह परकर्मणां चेति । ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मा-
त्मतां मन्यमानस्य कुतो देहेऽवस्थानमास्थातुं शक्यते तत्राह उत्पन्नेति । तत्र हेतुमाह प्रारब्धेति।
यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपमुक्तस्य शेषादनुपभुक्तादेहादिसंस्कारोऽनुवर्तते तदनुवृ.
स्या च तत्रैव देहे विशेषविज्ञानमवस्थानविषयमुपपद्यतेऽतो विवेकवतः संन्यासिनो देहेऽवस्थान-
व्यपदेशः संभवतीत्यर्थः । अविद्वत्प्रत्ययापेक्षया विशेषणासंभवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणमर्थ-
वदित्युपसंहरति देह एवेति । देहे स्वावस्थानविषयो विद्वत्प्रत्ययस्तदविषयश्चाविद्वत्प्रत्ययस्तयोरेवं
भेदे विद्वत्प्रत्ययापेक्षया विशेषणमर्थवादित्युपसंहरन्नेव हेतुं विशदयति विद्वदिति । आरोपितकर्तृत्वाद्य-
भावेऽपि स्वगतकर्तृत्वादि दुर्वारमित्याशङ्कामन्द्य दूषयति यद्यपीसादिना । क्रियासु प्रवर्तयन्नास्त इति
पूर्वेण संबन्धः, पूर्वस्यापि शतुरेवमेव संबन्धः । कर्तृत्वं कारयितृत्वं चात्मनो नेत्यत्र विचारयति किमि-
ति । यत् कर्तृत्वं कागयतृत्वं च तत् किं देहिनः स्वात्मसमवायि सदेव संन्यासान भवतीत्युच्यते यथा
गच्छतो देवदसस्य स्वगतैव गतिस्तत्स्थित्या त्यागान्न भवत्यथ वा स्वारस्येन कर्तृत्वं कारयितृत्वं
चात्मनो नास्तीति वक्तव्यमाद्ये सक्रियत्वं द्वितीये कूटस्थत्वमित्यर्थः । द्वितीयं पक्षमाश्रित्योत्तरमाह
अत्रेति । उक्तेऽर्थे वाक्योपक्रममनुकूलयति उक्तं हीति । तत्रैव वाक्यशेषमपि संवादयति शरीर-
स्थोऽपीति । स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति ध्यायतीवेति । उपाधिगतैव सर्वा विक्रिया नात्मनि
स्वतोऽस्तीत्यर्थः ॥ १३ ॥
प० टी० । एवं तावञ्चित्तशुद्धिमुपन्यस्य कर्मसंन्यासापेक्षया कर्मयोगो विशिष्यत इति पूर्व-
मुक्तमिदानी शुद्धचित्तस्य संन्यासः श्रेयानित्याह सर्वकर्माणीति । वशी जितचित्तः सर्वकर्माणि
विवेकयुक्तेन मनसा संन्यस्य स्वत एवोपरतानि कृत्वा सुखं यथा भवति तथास्ते वर्तते ।
कुत्रास्त इत्याह नवद्वारेति । नेत्रकर्णनासाद्वन्द्वानि मुखमेकं चेति सप्त पायपस्थं चेति द्वे एवं नवद्वारे
पुरवदहंभावशून्ये देहे देहीव तिष्ठति । यथा कश्चिन्नवद्वारे नगरे तिष्ठन्नपि नागरधर्मान स्पृशति
तद्वदहंकाराभावाच्छुद्धचित्तो न कुर्वन्ममकार
काराभावाच्च न कारयन्, अशुद्धचित्तस्तु करोति कार.
यति च ॥ १३ ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ॥
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

१८.
श्रीमद्भगवद्गीता--
किं च न कर्तृत्वमिति । न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथ-
घटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथा-
दिकृतवतस्तत्फलेन संयोगं न कर्मफलसंयोगं, यदि किं चिदपि स्वतो न क-
रोति न कारयति च देही कस्तर्हि कुर्वन् कारयंश्च प्रवर्तत इत्युच्यते, स्वभा-
वस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकतिर्माया प्रवर्तते दैवी हीत्यादिना
वक्ष्यमाणा ॥ १४ ॥
आ० टी० । आत्मनो यदुक्तं कारयितृत्वं नास्तीति तत् प्रपञ्चयति नेत्यादिना । यद्यपि लोकस्य
कर्तृत्वं न सृजतीति नास्तीति कारयितृत्वं तथापि रथशकटादीनि कुर्वन् भवति कर्तेत्याशङ्कयाह न
कर्माणीति । तथापि भोजयितृत्वेन विक्रियावत्त्वं दुप्परिहारमित्याशङ्कयाह न कर्मेति । कस्य तर्हि
प्रवर्तकत्वं तदाह स्वभावस्त्विति । कुर्विति कर्तृत्वं लोकस्य न सृजत्यात्मति संबन्धः । रथादीनां
कर्मत्वं साधयति ईप्सितति । आत्मनो देहादिस्वामित्वेन प्रभुत्वं रथादिकृतवतो लोकस्य रथादि-
फलेन संबन्धमपि न सृजत्यात्मेत्यात्मनो भोजयितत्वं प्रत्याचष्टे नापीति । चतुर्थपादं शङ्कोत्तरत्वे-
नावतारयति नेति । स्वभाववादस्तीत्याशङ्कय व्याकरोति अविद्यालक्षणेति । प्रतविद्याभावत्वं
व्युदसितुं मायेत्युक्तं सा च सप्तमे वक्ष्यते तेन प्रधानविलक्षणेत्याह दैवी हीति ॥ १४ ॥
प० टी० । ननु 'जानामि धर्म न च मे प्रवृत्तिः' इत्यादिवाक्यैरस्वतन्त्रस्य पुरुषस्य नैव कुर्वन्न
कारयन्नित्यादिना स्वतन्त्रत्वं कथमुक्तम्, अथास्तामीश्वरस्यैव प्रयोजकत्वमिति चेत्तर्हि सदसत्कार्य-
प्रवर्तकत्वेनास्मदादिवत्तस्यापि विषमत्वं स्यादित्याह न कर्तृत्वमिति द्वाभ्याम् । प्रभुरीश्वरोऽपि लो-
कस्य जीवलोकस्य कर्तृत्वं कर्माणि कर्मफलसंयोगं वा न मृजति न प्रयोजयति । तर्हि स्वतन्त्रः
स्यादित्याह स्वभाव इति । अनाद्यविद्यागुणोत्पन्नसदसत्संस्कारः स्वभावः स एव लोकेषु प्रवर्तते
प्रवृत्तिजनको भवति स एवेश्वरानुग्रहो निग्रहो वेति कल्प्यते ॥ १४ ॥
नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः ॥
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५॥
नेति । परमार्थतस्तु नादत्ते न च गृह्णाति भक्तस्यापि कस्य चित्
पापं न चैवादत्ते सुकृतं विभुक्तैः प्रयुक्तं विभुः, किमर्थं तर्हि भक्तैः पूजा-
दिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यत इत्याह अज्ञानेनाटतं ज्ञानं
विवेकविज्ञानं तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं ग-
च्छन्त्यविवेकिनः संसारिणो जन्तवः ॥ १५ ॥
आ० टी० । कर्तृत्वभोक्तृत्वैश्वर्याण्यात्मनोऽविदालतानीत्युक्तमिदानीमीश्वरे संन्यस्तसमस्त-
व्यापारस्य तदेकशरणस्य दुरितं सुकृतं वा तदनुग्रहार्थ भगवानादत्ते मदेकशरणो मत्प्रीत्यर्थ कर्म
कुर्वाणो दुष्कताद्यनुमोदनेनानुग्राह्यो मयेति प्रत्ययभाक्त्वादित्याशङ्कय सोऽपि परमार्थतो नास्यास्त्य-
विक्रियत्वादित्याह परमार्थतस्त्विति । पूर्वार्धगतान्यक्षराणि व्याख्यायाकाङ्क्षापूर्वकमुत्तरार्धमवतार्य
व्याचष्टे किमर्थमित्यादिना । कथं तर्हि भक्तानामनग्राह्यत्वमीश्वरस्यानुग्रहीतृत्वमिति प्रसिद्धि-
स्तत्राह अज्ञानेनेति ॥ १५ ॥

पचमाध्यायः । १८१ प० टी० । अत एवाह नादत्त इति । विभुर्व्यापको गगनवत्सर्वपमः परमेश्वरः कस्य चि- त्पापं सुकृतं वा नादत्ते नाददाति परिपूर्णत्वादवाप्तसकलकामत्वात् । किं त्वज्ञानेन ज्ञानमावृतं तेन हेतुना जन्तवोऽज्ञा जीवा मुह्यन्ति ततः सदसहा कर्म कुर्वन्तीत्यर्थः ॥ १५ ॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः॥ तेषामादित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥ ज्ञानेनेति । ज्ञानेन तु येनाज्ञानेनाटत्त्या मुह्यन्ति जन्तवस्तदज्ञानं येषां जन्तूनां विवेकज्ञानेनात्मविषयेण नाशितमात्मनो भवति तेषां जन्तूनामा- दित्यवद् यथादित्यः समस्तं रूपजातमवभासयति तद्दज् ज्ञानं ज्ञेयं च वस्तु सर्व प्रकाशयति तत् परमार्थतत्त्वम् ॥ १६ ॥ आ० टी० । तर्हि सर्वेषामनाद्यज्ञानावृतज्ञानत्वाद् व्यामोहाभावाच्च कुतः संसारनिवृत्तिरिति तत्राह ज्ञानेनेति । सर्वमिति पूर्णत्वमुच्यते, ज्ञेयस्यैव वस्तुनस्तत्परमिति विशेषणम् । तद्वयाचष्टे परमार्थतत्त्वमिति ॥ १६ ॥ प० टी० । ज्ञानिनस्तु न मुह्यन्तीत्याह ज्ञानेनेति । तत्पूर्वमुक्तं ज्ञानावरकमज्ञानं येषामा- मन ईश्वरस्य ज्ञानेन नाशितं तेजसा तमोवदभिभूतं तेषां ज्ञान तत्परमीश्वरं प्रकाशयति किंव- दादित्यवद् यथादित्यतेजः सकलतमस्तिरस्कृत्यादित्यं प्रकाशयति तद्वत् । यद्वात्रादित्यदृष्टान्तेनै तदु- क्तं भवति । यथा सूर्यकरा एव मेघत्वमवलम्ब्य सूर्यमेव छादयन्ति परं त्वादित्यकृतं दिवसस्य दि- मत्वं न लुम्पन्ति । तदुक्तम्-'घनच्छन्नदृष्टिर्घनच्छन्नमर्क यथा निष्प्रभं मन्यते चातिमूढः' इति । इदमेवाज्ञानस्यावरणशक्तेरुदाहरणम् । एवमात्मविषयकमज्ञानमात्मानमेवावृणोति । परं त्वनभूयमानं चित्संवित्सुखरूपत्वं नाच्छादयति अयमेव ज्ञानोपाय इत्यर्थः। श्रुतिरपि वाजसनेयसंहितासु-"ईशा वा- स्यमिदं सर्व यत्कि च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ' इति । भाष्यम्-जगत्यां पृथिव्यामिदं शुक्तिरजतवत्पुरोदृश्यमानं यत्कि चित्सर्वं नामरूपकात्मकं गच्छतीति जगन्नश्वरमसत्यमीशा सत्यत्वाद्यैश्वर्यवता परमेश्वरेण कृत्वा वास्यं वसआच्छादने आच्छादनीयं तिर- स्कार्यम् । अत्र तिरस्करणसामर्थ्यमीशेति पदेन द्योतितम् । यथा दीपेन तमस्तिरस्क्रियते न तु तमसा दीप इत्यर्थः । ततस्तेन जगदाभासेन त्यक्तेन दूरतोऽपास्तेनरुत्वावशिष्टं कस्य परब्रह्मणः मुखं भुञ्जीथाः स्वित् परं तु विषयसुखं मा गृधः गृधु अभिकाङ्क्षायां माभिकाङ्क्षयेत्यर्थः ॥ १६ ॥ तहुदयस्तदात्मानस्तनिष्ठास्तत्परायणाः॥ गच्छन्त्यपुनरावृत्तिं ज्ञाननिधूतकल्मषाः ॥ १७॥ तदिति । यत् परं परमार्थतत्त्वज्ञानं प्रकाशितं तस्मिन् गता बुद्धिर्येषां तद्बुद्धयस्तदात्मानस्तदेव परं ब्रह्मात्मा येषां ते तदात्मानस्तनिष्ठा नि- ष्ठाभिनिवेशस्तात्पर्य सर्वाणि कर्माणि संन्यस्य ब्रह्मण्येवावस्थानं येषां ते त- निष्ठास्तत्परायणाश्च तदेव परमयनं परा गतिर्येषां भवति ते तत्परायणाः केव- १ तत्परमात्मतत्त्वं परमार्थतत्त्वम् -लि. १ पु० पा० । ते १८२ श्रीमद्भगवद्गीता- . आ० टी० लात्मरक्य इत्यर्थः । ते गच्छन्त्येवंविधा अपुनरावृत्तिं पुनर्देहसंबन्धं न गृह्णन्ति ज्ञाननिषूतकल्मषा यथोक्तेन ज्ञानेन निर्धूतो निरत्तो नाशितः कल्मषः पापा- दिसंसारकारणदोषो येषां ते ज्ञाननिधूतकल्मषा यतय इत्यर्थः ॥ १७ ॥ । विदुषां विविदिषूणां चान्तरङ्गाणि विद्यापरिपाकसाधनानीत्युपदि- दिक्षुरुत्तरश्लोकस्यापेक्षितं पूरयति यत्परमिति । तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि बाह्यं विषयमपोह्य गता प्रवृत्ता श्रवणमनननिदिध्यासनैरसकदनुष्ठितैर्बुद्धिः साक्षात्कारलक्षणा येषां ते त- थेति । प्रथमविशेषणं विभजते तस्मिन्निति । तर्हि बोडा जीवो बोद्धव्यं ब्रह्मेति जीवब्रह्मभेदाभ्यु पगमो नेत्याह तदात्मान इति । कल्पितं बोधृबोद्धव्यत्वं वस्तुतस्तु न भेदोऽस्तीत्यङ्गीकृत्य ब्या- चष्टे तदेवेति । ननु देहादावात्माभिमानमपनीय ब्रह्मण्येवाहमस्मीत्यवस्थानं तत्तदनुष्ठीयमानकर्म- प्रतिबन्धान सिध्यतीत्याशक्य विशेषणान्तरमादत्ते तनिष्ठा इति । तत्र निष्ठाशब्दार्थ दर्शयन् विवक्षितमर्थमाह निष्ठेसादिना । तथापि पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येवा- वस्थानं सेहुँ पारयति तत्राह तत्परायणाश्चेति । यथोक्तानामधिकारिणां परमपुरुषार्थस्योक्तब्रह्मान- तिरेकान्नान्यत्रासक्तिरिति तात्पर्यार्थमाह केवलेति । ननु यथोक्तविशेषणवतां वर्तमानदेहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानमास्थातुं शक्यते तत्राह ते गच्छन्तीति । सति संसारकारणे दुरितादौ संसारप्रसरस्य दुर्वारत्वान्नापुनरावृत्तिसिद्धिरित्याशङ्कयाह ज्ञानेति । उक्तीव- शेषसंपत्त्या दर्शितफलशालित्वमाश्रमान्तरेप्वसंभावितमिति मन्वानो विशिनष्टि यतय इति ॥ १७ ॥ प० टी० । अथेश्वरोपासनया मोक्षाधिकारिणां निष्ठामाह तदुद्धय इति । तस्मिन्नीश्वरे नि- श्चयात्मिका बुद्धिर्येषां ते तथा तद्विपये आत्मा प्रयत्नो येषां ते तथा तस्मिन्नेव निष्ठा पर्यवसानं येषां ते तथा तदेव परायणमाश्रयो येषां ते तथाविधा ज्ञाननिधूतकल्मषाः सन्तोऽपुनरावृत्तिं गच्छन्ति॥१७॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ॥ शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥१८॥ येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्ती- त्युच्यते विद्येति । विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ विद्या- स्मनो बोधो विनयश्चोपशमस्ताभ्यां विद्याविनयाभ्यां संपन्नो विद्याविनयसं- पन्नो विहान् विनीतश्च यो ब्राह्मणस्तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनो विद्याविनयसंपन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके मध्यमायां च राजस्यां गवि संस्कारहीनायामत्यन्तमेव केवलतामसे हस्त्यादौ च सत्त्वादिगुणस्तज्जैश्च संस्कारैस्तथा राजसैस्तथा तामसैश्च सं- स्कारैरत्यन्तमेवास्पृष्टं सममेकमविक्रियं ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः सम- दार्शनः । नन्वभोज्यानास्ते दोषवन्तः 'समासमाभ्यां विषमे समे पूजाते' इति स्मृतेन ते दोषवन्तः ॥ १८ ॥ १ अस्यार्थ:--समाय तुल्याय पूजायां विषमे प्रकारे उपचारे कृते सति, एवं विषमाय न्यनाय समे प्रकारे कृते मति स पूजको हीयत इहलोकात्परलोकाच्च च्यवते भ्रष्टो भवतीति यावादिति ।

पञ्चमाध्यायः । १८३ आ० टी० । यदपुनरावृत्तिसाधनं तत्त्वज्ञानं तदेव प्रश्नहारेण विवृणोति येषामित्यादिना । विद्या वेदार्थविज्ञानमित्यङ्गीकृत्य विनयं व्याचष्टे विनय इति । उपशमो निरहकारत्वमनाद्धत्यं प- दार्थमेवमुक्त्वा वाक्यार्थ दर्शयति विद्वानिति । गवीत्याद्यनूद्य वाक्यार्थ कथयति विद्येति । हस्त्यादौ पण्डिताः समदर्शिन इत्युत्तरत्र संबन्धः । तत्र तत्र प्राणिभेदेषु तत्तद्गुणैस्तत्तन्निमित्तसं- स्कारैश्च संस्पृष्टत्वसंभवान्न ब्रह्मणः समत्वमित्याशङ्कयाह सत्त्वादीति । तज्जैश्चेत्यत्र तच्छब्देन सत्त्वमेव गृह्यते सात्त्विकसंस्कारैरिव राजससंस्कारैरपि सर्वथैवासंस्पृष्टं ब्रह्मेत्याह तथेति । राजसैरिव तामसैरपि संस्कारब्रह्मात्यन्तमेवास्पृष्टमित्याह तथा तामसैरिति । ब्रह्मणोऽद्वितीयत्वं कूटस्थत्वम- संगत्वं चोक्तेऽर्थे हेतुरिति मत्वा समशब्दार्थमाह सममिति । समदर्शित्वमेव पाण्डित्यं तवयाचष्टे ब्रह्मेति सात्त्विकेषु राजसेषु तामसेषु चासमेषु समत्वदर्शनमनुचितमिति शङ्कवे न- विति । सर्वत्र समदर्शिनस्तच्छब्देन परामृश्यन्ते तेषां दोषवत्त्वादभोज्यान्नत्वमित्यत्र प्रमाणमाह समासमाभ्यामिति । समानामध्ययनादिभिः समानधर्मकाणां वस्त्रालंकारादिपूजया विषमे प्रतिपत्ति- विशेषे क्रियमाणे सत्यसमानां चासमानधर्मकाणां कस्य चिदेकवेदत्वमपरस्य द्विवेदत्वमित्यादिधर्मवतां प्रागुक्ततया पूजया समे प्रतिपत्तिविशेषे पूजयिता पुरुषविशेषं ज्ञात्वा प्रतिपत्तिमकुर्वन् धनाद्धर्माच हीयते तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैतीत्यर्थः । उत्तरत्वेनोत्तरश्लोकमवतारय- ति न ते दोषवन्त इति ॥ १८ ॥ प० टी० । अथ सदाचारपर्यवसितं समदर्शित्वमाह विद्येति । पण्डिता ज्ञानिनो ब्राह्मणा- दिषु समदर्शिनो भवन्ति सर्वत्रात्मदर्शिनो बाह्याकारं न गणयन्तीत्यर्थः ॥ १८ ॥ इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ॥ निर्दोपं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥ कथं इहेति । इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वशी- कृतः सर्गो जन्म येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनोऽन्तःकरणं निर्दोष यद्यपि दोषवत्सु श्वपाकादिषु मूडैस्तद्दोषैर्दोषवदिव वि- भासते तथापि तद्दोपैरसंस्पृष्टमिति निर्दोषं हि दोषवर्जितं हि यस्मान्नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य, वक्ष्यति च भगवानिच्छादीनां क्षेत्रधर्म- त्वमनादित्वाग्निर्गुणत्वादिति च नाप्यन्त्यादिविशेषा आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेरतः सर्वं ब्रह्मेकं च तस्माद् ब्रह्मण्येव ते स्थितास्तस्मान दोषगन्धमात्रमपि तान् स्पृशति देहादिसंघातात्मदर्शनाभिमा- नाभावात् देषां देहादिसंघातात्मदर्शनाभिमानवहिषयं तु तत् सूत्रं “समासमा- भ्यां विषम समे पूजात” इति पूजाविषयत्वविशेषणाद् दृश्यते हि ब्रह्मवित् षडङ्गविश्चतुर्वेद विदिति पूजादानादौ गुणविशेषसंबन्धः कारणं ब्रह्म तु सर्व- गुणदोषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम् ॥ १९ ॥ आ० टी० । स्मृत्यवष्टम्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं कथं नास्तीति प्रति- ज्ञामात्रेण सिध्यतीति शङ्कत कथमिति । स्मृतेर्गतिमग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति

१८४
श्रीमद्भगवद्गीता-
।
इहैवेति । सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मना-
मशेषदोपराहित्ये हेतुमाह निर्दोष हीति । वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदशिनो
विशिनष्टि येषामिति । ननु ब्रह्मणो निर्दोषत्वमसिद्धं दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्वोपलम्भसं-
भवात्तत्राह यद्यपीति । यस्मात् तन्निर्दोषं तस्मात्तस्मिन् ब्रह्मणि स्थितैर्निदोषैः सर्गो जित इति संब-
न्धः । ब्रह्मणो गुणभूयस्त्वादल्पीयान् दोषोऽपि स्यादित्याशङ्क्याह नापीति । चेतनस्य गुणवि-
शेषे विशिष्टत्वमनिष्टं निर्गुणत्वश्रवणादित्ययुक्तं, बुद्धिसुखादीनां परिशेषादात्मधर्मत्वस्य कैश्चिनिश्चि-
तत्वादित्याशङ्क्याह वक्ष्यति चेति । आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति अनादित्वादिति।
चकारो वक्ष्यतीत्यनेन संबन्धार्थः । गुणदोपवशादात्मनो भेदाभावेऽपि भेदोऽन्त्यविशेषेभ्यो मविष्य-
तीति प्रसंगादाशक्य दूषयति नापीति । प्रतिशरीरमात्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं तेषां च
सत्त्वे प्रतिशरीरमात्मनो भेदसिद्धिरिति परंपराश्रयत्वमभिप्रेत्य हेतुमाह प्रतिशरीरमिति । आत्मनो
भेदकाभावे फलितमाह अत इति । समत्वमेव व्याकरोति एकं चेति । ब्रह्मणो निर्विशेपत्वेनैकत्वा-
ज्जीवानां च भेदकाभावेनैकत्वस्योक्तत्वादेकलक्षणत्वादेकत्वं जीवब्रह्मणोरेष्टव्यमित्याह तस्मादिति ।
जीवब्रह्मणोरेकत्वे जीवानां ब्रह्मवन्निर्दोषत्वं सिध्यतीत्याह तस्मान्नेति । तच्छव्दार्थमेव स्फोरयति
देहादीति । यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं तर्हि कथं गौतमसूत्रमित्याशङ्क्याह देहादिसं-
घातेति । सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह पूजेति । यदि चतुर्वेदानामेव सतां पूजया
वैषम्यं यदि वा चतुर्वेदानां पडङ्गविदां ब्रह्मविदां च पूजया साम्यं तदा तेषामुक्तपूजाविषयाणां केषां
चिन्मनोविकारसंभवे कर्ता प्रत्यवतीत्यविद्वद्विषयत्वं
सूत्रस्य
प्रतिभातीत्यर्थः । तत्रैव चानुभवमनुकूल-
त्वेनोदाहरति दृश्यते हीति । देहादिसंघाताभिमानवतां गुणदोपसंवन्धसंभवात्तद्विषयं सूत्रमित्युक्त-
मिदानी ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासंबन्धान्न तद्विषयं सूत्रमित्यभिप्रेत्याह ब्रह्म विति॥१९॥
५० टी० । अथ तेषां फलमाह इहैवेति । येषां पुरुषाणां साम्ये समत्वे मनः स्थितं स्थिरी-
भूतं तैः समदर्शिभिरिहैव देहे जीवद्भिः सर्गः संसारो जितः । हि यस्मात्कारणाद् ब्रह्मसममविषमं तथा
निर्दोषं वैषम्यदोषसाधनीभूततत्तद्देहाद्युपाधिभिरस्पृष्टं निर्वाधं वा तस्मात्ते ब्रह्मणि स्थिताः " समो
मशकेन समो नागेन' इति श्रुतेः ॥ १९ ॥
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्रह्मणि स्थितः ॥२०॥
नेति । कर्मविषयं च समासमाभ्यामित्यादीदं तु समत्वदर्शनं सर्वकर्मसं-
न्यासिविषयं प्रस्तुतं सर्वकर्माणि मनसेत्यारभ्याध्यायपरिसमाप्तः, यस्मानिर्दोष
समं ब्रह्मात्मा तस्माद् न प्रहृष्येद् न हर्ष कुर्यात् प्रियमिष्टं प्राप्य लब्धा नो-
हिजेत् प्राप्यैव चाप्रियमनिष्टं लब्ध्वा देहमात्रात्मदार्शनां हि प्रियाप्रियप्राप्ती ह-
पविषादौ कुर्वाते न केवलात्मदर्शिनस्तस्य प्रियाप्रियप्राप्त्यसंभवात् । किं च
सर्वभूतेष्वेकः समो निदोष आत्मेति स्थिरा निर्विचिकित्सा वुद्धिर्यस्य स
स्थिरबुद्धिरसंमूढः संमोहवर्जितश्च स्याद् यथोक्तब्रह्मविद् ब्रह्मणि स्थितोऽकर्म-
कृत् सर्वकर्मसंन्यासीत्यर्थः॥ २० ॥

पञ्चमाध्यायः ।
१८५
आ० टी० । इतश्च नेदं सूत्रं ब्रह्मविद्विषयमित्याह किित । तत्रैव पूजापरिभवसंभवा-
दित्यर्थः । ननु यत्र समत्वदर्शनं तत्रैव त्विदं सूत्रं न तु कर्मिण्यकर्मिणि वेति विभागोऽस्ति तत्राह
इदं त्विति । समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह सर्वकर्माणीति । अध्यायप-
रिसमाप्तेः सर्वकर्माणीत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात्तद्विषयमिदं समत्वदर्शनं गम्यते
तत्र च निरहंकारे निरवकाशं सूत्रमित्यर्थः । नन्विष्टानिष्टप्राप्तिम्यां हर्षविषादी विद्वानपि कुर्वन्निर्दोष
ब्रह्मणि कथं स्थितिं लभेतेत्याशङ्कयाकाक्षितं पूरयन्नुत्तरश्लोकमुत्थापयति यस्मादिति । आत्म-
ज्ञाननिष्ठावतो विदुषो हर्षविषादनिमित्ताभावान्न तावुचितावित्याह स्थिरबद्धिरिति । ननु हर्ष-
विषादनिमित्तत्वं प्रियाप्रिययोः सिद्धमिति कथं तत्प्राप्त्या होडगो न कर्तव्याविति नियुज्यते त-
त्राह देहेति । विदुपोऽपि प्रियाप्रियप्राप्तिमामादेव हर्षविषादी दुर्वारावित्याशङ्कयाह न केव-
लेति । अद्वितीयदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्ययोगान्न तन्निमित्तौ हर्पविषादावित्यर्थः ।
इत्यपि विदुषो हर्षविषादावसंभावितावित्याह किं चेति । निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः
संमोहेन हाँदिहतुना रहितो यथोक्ते सर्वदोषरहिते ब्रह्मण्यहमस्मीति विद्यावानशेषदोषशन्ये तरिम-
न्नेव ब्रह्मणि स्थितस्तदनुरोधात् कर्माण्यमृप्यमाणो नैव हर्षविषादभागी भवितुमलमित्यर्थः ॥ २० ॥
५० टी० । अथ ब्रह्मणि स्थिरीभूतस्य परीक्षामाह न प्रहप्यदिति । स एव ब्रह्मवित्सन
ब्रह्माणि स्थितो यः प्रियं प्राप्य न प्रहृष्येत्तथाप्रियं प्राप्य नाहिजेदुद्वेगं न प्राप्नुयादत एवं
स्थिरबुद्धिरसंमूढः प्रियवाप्रियत्वरहितः ॥ २० ॥
बाह्यस्पर्शप्वसत्तात्मा विन्दत्यात्मनि यत् सुखम् ॥
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥
बाह्येति । किं च ब्रह्मणि स्थितो बाह्यस्पर्शेषु वाह्याश्च ते स्पर्शाश्च
वाह्यस्पर्शाः स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु वाह्यस्पर्शेष्वासक्त
आत्मान्तःकरणं यस्य सोऽयमसक्तात्मा विषयेषु प्रीतिवर्जितः स विन्दति ल.
भते आत्मनि यत् सुखं तदिन्दतीत्येतत्, स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः
समाधिब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन् व्यापृत आत्मान्तःक-
रणं यस्य स ब्रह्मयोगयुक्तात्मा सुरवमक्षयमश्नुते प्राप्नोति तस्माद् बाह्यविषयप्री-
तेः क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुरवार्थीत्यर्थः ॥ २१ ॥
आ० टी० । शब्दादिविषयप्रीतिप्रतिबन्धान्न कस्यचिदपि ब्रह्माणि स्थितिः सिध्यदित्याश-
याह किं चेति । न केवलं पूर्वोक्तरीत्या ब्रह्मणि स्थितो हर्पविषादरहितः किं तु विद्यान्तरे-
णापीत्यर्थः । यावद्यावद्विषयेषु रागरूपमावरणं निवर्तते तावत्तावदात्मस्वरूपमुग्वमभिव्यक्तं भ-
वतीत्याह बाह्येति । न केवलमसक्तात्मा शमवशादेव सुखं विन्दते किं तु ब्रह्मसमाधिना समाहि-
तान्तःकरणः सुखमनन्तं प्राप्नोतीत्याह स ब्रह्मेति । तत्र पूर्वाध व्याचष्टे वाह्याश्चेति । समा-
धिसम्यगृज्ञानद्वारा निरतिशयसुग्वप्राप्तिमुत्तरार्धव्याख्यानेन कथयति ब्रह्मणीसादिना । शब्दा-
दिविषयविमुखस्यानन्तसुखाप्तिसंभवात्तदर्थिना प्रयत्नेन विषयवैमुख्यं कर्तव्यमिति शिष्यशिक्षार्थमाह
तस्मादिति ॥ २१ ॥

॥
१८६
श्रीमद्भगवद्गीता-
५० टी० । अथ बुद्धिस्थैर्यहेतुमाह बाबति । बहिरिन्द्रयैः स्पृशन्ति ते स्पर्शा बाह्यन्द्रिय-
विषयास्तेष्वसक्त आत्मा मनो यस्य स तथाभूत आत्मन्यन्तःकरण उपशमात्मकं यत्सुखं विन्दति
प्राप्नोति तेन ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं
निरतिशयसुखमश्नुते प्रामोति ॥ २१ ॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ॥
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२॥
इतश्च निवर्तयेद् ये हीति । ये हि यस्मात् संस्पर्शजा विषयेन्द्रियसं-
स्पर्शेभ्यो जाता भोगा भुक्तयो दुःखयोनय एव तेऽविद्याकृतत्वाद् दृश्यन्ते ह्या-
ध्यात्मिकादीनि दुःखानि तनिमित्तान्येव यथेह लोके तथा परलोकेऽपीति
गम्यते । एवशब्दान संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्ध्या विषयमृगतृ-
ष्णिकाया इन्द्रियाणि निवर्तयेन केवलं दुःखयोनय आद्यन्तवन्तश्चादिर्विष-
येन्द्रियसंयोगो भोगानामन्तश्च तहियोग एवात आद्यन्तवन्तोऽनित्यामध्यक्षण-
भावित्वादित्यर्थः । कौन्तेय न तेषु रमते बुधो भोगेषु विवेक्यवगतपरमार्थ-
तत्त्वोऽत्यन्तमूढानामेव हि विषयेषु रतिदृश्यते यथा पशुप्रभृतीनाम् ॥ २२ ॥
आ० टी० । तत्रैव हेत्वन्तरपरत्वेनोत्तरश्लोकमुदाहरति इतश्चेति । विषयेभ्यः सकाशादि-
न्द्रियाणीति शेषः । वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति ये हीति । ननु विषयेन्द्रियसंप्रयो-
गसंभूतेषु भोगेषु जन्तूनामभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वमित्याशङ्कयाविवकिनां तेष्वासंगे-
ऽपि न विवेकिनामित्याह आद्यन्तवन्त इति । यस्मादाधिव्याधिजरामरणादिसहितेभ्यः समागमना-
दिक्लेशरूपभागिम्यश्च विषयेन्द्रियसंबन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते तस्मात्ते दुःखहेतवो
भवन्तीति योजना । अविद्याकार्यत्वादुःखानां कुतो भोगजन्यत्वमित्याशक्य भोगानामविद्याप्रयुक्त-
त्वात्तन्निबन्धनत्वं दुःखानां युक्तमित्यभिप्रेत्याह अविद्योत। भोगानां दुःखयोनित्वे मानवमनुभवमुप-
न्यस्यति दृश्यन्ते हीति । ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि नामुष्मिकाणां तथात्वमनुभवाभा-
वादित्याशड्रेक्यावधारणासामर्थ्यसिद्धमर्थमाह यथेति । पूर्वार्धस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह नेसा-
दिना । इतश्च विषयेभ्यः सकाशादिन्द्रियाणि निवर्तयितव्यानीत्याह न केवलमिति । आद्यन्तव-
स्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वादुपेक्षणीयत्वं भोगानां सिध्यनि । अस्ति हि तेषां क्षणभङ्गुरत्वं
क्षणिकविषयाकारमनोवृत्तिव्यङ्गयत्वादिति मन्वानः सन्नाह अत इति । बुद्धिपूर्वकारिणां विवेकवतां
भोगेषूपेक्षोपलब्धेश्च तेषामाभासत्वं प्रतिभातीत्याह न तेष्विति । प्रतीकोपादानमाद्यमिदं पुना-
ख्यानमिति न पुनरुक्तिः । ननु केषां चिद्भोगेष्वभिरुचिरुपलभ्यते तत्राह अत्यन्तति ॥ २२ ॥
प० टी० । अथैतदेव सुखशब्दव्यपदेश्यं नान्यदित्याह ये हीति। सम्यक् स्पृशन्तीति स्पर्शा
विषयास्तेभ्यो जाता ये भोगा विषयसुखभोगास्ते दुःखयोनय एव दुःखकारणीभूताः परिणति-
विरसत्वात् । यद्वा दुःखं योनिः कारणं येषां तेऽर्जुनेऽपि दुःखरूपत्वादत एव आद्यन्तवन्त उत्पत्ति-
नाशधर्मकत्वाद्दुःखरूपा एवातस्तेषु बुधो ज्ञाता न रमते विषसंपृक्तान्नवत्यजति तदुक्तम्- लोक
एप विषयानुरञ्जनं दुःखगर्भमपि मन्यते सुखम् । आमिषं बडिशगर्भमप्यहो मोहतो असति यद्वद-
ण्डन ' इति ॥ २२ ॥

पचमाध्यायः ।
शक्कोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ॥
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥
अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्तिहेतुर्दुर्निवार्यश्चेति
तत्परिहारे यत्नाधिक्यं कर्तव्यमित्याह भगवान् शक्नोतीति । शक्नोत्युत्सहत
इहैव जीवनेव यः सोदु प्रसहितुं प्राक् पूर्व शरीरविमोक्षणादामरणादित्य-
र्थः । मरणसीमाकरणाज्जीवतोऽवश्यंभावी हि कामकोधोद्भवो वेगोऽनन्तनिमि-
त्तवान् हि स इति यावन्मरणं तावन विश्रम्भणीय इत्यर्थः । काम इन्द्रियगो-
चरप्राप्त इष्टे विषये श्रूयमाणे स्मर्यमाणे चानुभूते सुखहेतौ या गाँधस्तृष्णास
कामः, क्रोधश्चात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु
वा यो इषः स क्रोधस्तौ कामक्रोधावुद्भवो यस्य वेगस्य स कामकोधोद्भवो
वेगः, रोमाञ्चनहष्टनेत्रवदनादिलिङ्गोऽन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगो
गावप्रकम्पप्रस्वेदसंदष्टौष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगस्तं कामक्रोधोद्ध-
वं वेगं य उत्सहते सोढुं सहितुं शक्तः स युक्तो योगी सुरवी चेह
लोके नरः ॥ २३॥
आ० टी० । उत्तरश्लोकस्य तात्पर्यमाह अयं चेति । श्रेयोमार्गप्रतिपक्षत्वं कष्टतमत्वे हेतुस्त-
त्रैव हेत्वन्तरमाह सर्वेति । प्रयत्नाधिक्यस्य कर्तव्यत्वे हेतुं सूचयति दुर्निवार्य इति । प्रसिद्ध हि
कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं येन मातरमपि चाधिरोहति पितरमपि हन्ति तमवश्यं परिहर्त
व्यं दर्शयति शनातीति । यथोक्तं वेगं बहिरनर्थरूपेण परिणामात् प्रागेव देहान्तरुत्पन्नं यः सोहूँ
क्षमते तं स्तौति स युक्त इति । मरणसीमाकरणस्य तात्पर्यमाह मरणेति । प्रसिद्धौ हिशब्दः ।
तत्र हेतुमाह अनन्तति। व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवतीत्याशङ्क्याह इति यावदि-
ति । कामक्रोधोद्भवं वेगं व्याख्यातमादौ कामं मनोविकारविशेषत्वेन व्याचष्टे काम इति । कथम-
स्य मनोविकारविशेषत्वं तदाह इन्द्रियेति । कामो गर्धिस्तृष्णेति पर्यायाः सन्तः शब्दा मनोविकार-
विशेषे पर्यवस्यन्तीत्यर्थः । क्रोधश्च मनोविकारविशेषस्तद्वदित्याह क्रोधश्चेति । तमेव क्रोधं स्पष्टयति
आत्मन इति । एवं कामक्रोधी व्याख्याय तयोरुत्कटत्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्य
ति ताविति । यथोक्तवेगावगमोपायमुपदिशति रोमाञ्चनहटनेत्रेत्यादिना । उभयविधवेग यो जी
वन्नेव सोढुं शक्नोति तं परुषं धौरेयत्वेन स्तौति तमित्यादिना ॥ २३ ॥
प० टी० । अथ सुखप्राप्त्यभिव्यञ्जकसामग्रीमाह शनोतीति । यः पुरुष इहैव वर्तमाने
देहे कामक्रोधोद्भवं वेगं सोढुं शक्नोति । कामक्रोधाभ्यामुद्भवो यस्यासौ मनोवेगस्तत्सहनशीलः । तदपि
नैरन्तर्येणेत्याह मागिति । शरीरविमोक्षणात् प्राग यावद्देहपातमित्यर्थः । एवंभूत एव युक्तः म
एव नरः पुरुषार्थी सुखी च भवति ॥ २३ ॥
योऽन्तःसुखोऽन्तरारामस्तथान्तज्योतिरेव यः॥
स योगी ब्रह्मनिर्वाणं ब्रह्मभृतोऽधिगच्छति ॥२४॥

१८८ श्रीमद्भगवद्गीता- कथंभूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतीत्याह भगवान् य इति । योऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखस्तथान्तरे चात्मन्यारामः क्रीडा यस्य सोऽ- न्तरारामस्तथैवान्तरात्मैव ज्योतिः प्रकाशो यस्य सोऽन्तज्योतिरेव य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मणि नितिं मोक्षमिह जीवन्नेव ब्रह्मभूतः सनधिगच्छति प्राप्नोति ॥२४॥ आ० टी० । ज्ञानस्याभ्यन्तरमात्रमात्मनिष्टत्वं दर्शयन् प्रकृतं ब्रह्मविदमेव विशिनष्टि क- थंभूतश्चेति । यथान्तरेव सुखं न बायैर्विपयैस्तथान्तरेव ज्योतिर्न श्रोत्रादिभिरतो विषयान्तरविज्ञा- नरहित इत्याह तथेति । यथोक्तविशेषणसमाधिमान् जीवन्नेव मुक्तिमधिगच्छतीत्याह स योगीति । आत्मन्यन्तरेव सुखमिति बाह्यविषयनिरपेक्षत्वं विवक्षितभन्तरारामत्वं चेन्द्रियादिविषयापेक्षामन्त- रेण क्रीडाप्रयुक्तफलभाक्त्वमभिमतमिन्द्रियादिजन्यप्रकाशशून्यत्वमात्मज्योतिष्ट्रमिष्टं यथोक्तविशेषां णमंपन्नः समाहितश्च जीवन्नेव ब्रह्मभावं प्राप्नाति ब्रह्मणि परिपूर्णे निवृति सर्वानर्थनिवृत्त्युपलक्षित- स्थितिमनतिशयानन्दाविर्भावलक्षणां प्राप्नोतीत्याह य ईदृश इति ॥ २४ ॥ प० टी० । अथ न केवलं कामक्रोधसहनमात्रेण मोसोऽपि तु योन्तरिति । यः पुरुषो- न्तःसुख आत्मसम्ववांस्तथान्तरारामः क्रीडा यस्य न बहिः म तथान्त ज्योतिर्दृष्टिर्यस्य न वहिन यातादौ स योगी ब्रह्मभतः सन् ब्रह्मण्येव निर्वाणं लयं प्राप्नोति "तदेव सन्तस्तद् तद्भवाम" इति श्रुतेः ॥ २४ ॥ लभन्ते ब्रह्मनिर्वाणमृपयः क्षीणकल्मपाः॥ छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥२५॥ किं च लभन्त इति । लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीणपापादिदोपाश्छिन्नदैधाश्छिन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हित आनुकल्ये रता अहिंसका इत्यर्थः ॥ २५॥ आ० टी० । मुक्तिहेतोञ्जनस्य साधनान्तरमाह किं चेति । यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते ततश्च श्रवणाद्यावृत्तः सम्यग दर्शनं जायते ततो मुक्तिरप्रयत्नेन भ- वतीत्याह लभन्न इति । ज्ञानप्राप्त युपायान्तरं दर्शयति छिन्नेति । श्रवणादिना संशयनिरमनं कार्यकरणनियमनं च दयालुत्वेनाहिंसकत्वमित्येतदपि सम्यग्ज्ञानप्राप्ती कारणमित्यर्थः । अक्षरव्या- ख्यानं स्पष्टत्वान्न व्याख्यायत ॥ २५ ॥ प० टी० । अत्राधिकारिण आह लभन्त इति । ऋषयः सम्यग्दर्शनाः क्षीणकल्मषाः शुद्ध- चित्ताश्छिन्नं वैध संशयो 1पां ते यतात्मानः संयत आत्मा मनो येषां ते तथा सर्वेषां भूतानामुच्चा- वचरूपाणां तारतम्यवज्यं हिते रता एवंविधा ब्रहानिर्वाणं लभन्ते ॥ २५ ॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ॥ अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ ॥

पञ्चमाध्यायः। १८९ किं च कामेति । कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामकोधी ता- भ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उ- भयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते, विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यग्दर्शिना- मित्यर्थः ॥ २६॥ आ० टी० । पूर्व कामक्रोधयोवैगः सोढव्यो दर्शितः संप्रति तावेव त्याज्यावित्याह किं चेति । ननु दर्शितविशेपवतां मृतानामेव मोक्षो न तु जीवतामिति चेन्नेत्याह अभित इति । अस्मदादीना- मपि तर्हि प्रभृतकामादिप्रभावविधुराणां किमिति मोक्षो न भवतीत्याशङ्कय सम्यग़ज्ञानवशेप्याभा- वादित्याह विदितति । उक्तंऽथै श्लोकाक्षराणामन्वयमाचष्टे कामक्रोधेसादिना ॥ २६ ॥ प० टी० । किं च कामेति । कामक्रोधाभ्यां परमवैरिभ्यां वियुक्तानां यतचेतसां नियमित- मनसां यतीनां संन्यासिना विदितात्मनां ज्ञातात्मतत्त्वानामभिनीवतां मृतानां वा ब्रह्मनिर्वाणं वर्तते ।। २६ स्पर्शान् कृत्वा बहिबाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७॥ सम्यग्दर्शननिष्ठानां संन्यासिनां सद्योमुक्तिरुक्ता कर्मयोगश्वेश्वरार्पितसर्व भावनेश्वरे ब्रह्मण्याधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षायेति भगवान् पदे पदेऽब्रवीदक्ष्यति च अथेदानीं ध्यानयोगं सम्यग्दर्श- नस्यातरङ्ग विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयान् श्लोकानुपदिशति स भ- गवान् वासुदेवः स्पानिति । स्पर्शान् शब्दादीन् कृत्वा बहिर्बाह्यान् श्रोत्रा- दिदारेणान्तर्बुद्दो प्रवेशिताः शब्दादयो विपयास्तानचिन्तयतः शब्दादयो बाह्या वहिरेव कृता भवन्ति तानेवं वहिः कृत्वा चक्षुश्चवान्तरे भ्रवोः कृत्वेत्यनुषज्यते तथा प्राणापानी नासाभ्यन्तरचारिणी समौ कृत्वा ॥ २७ ॥ आ० टी० । वृत्तमन्द्योत्तरश्लोकत्रयस्य तात्पर्यार्थमाह सम्यगदर्शनति । ईश्वरार्पितसर्व भावनेति भगवति परस्मिन्नीश्वरे समर्पितः सर्वेषां देहेन्द्रियमनमां भावश्चेष्टाविशेषो न क चिदपि बहिस्तेषां व्यापारस्तेनेत्यर्थः । कर्मयोगस्य तत्फलस्य चाभिधानानन्तरमित्यथशब्दार्थः । स्वतो बाह्यानां विषयाणां कुतो बहिप्करणमित्याशङ्कयाह श्रोत्रादीति । तेषां बहिप्करणं काष्टगित्या- शङ्कयाह तामिति ॥ २७ ॥ प० टी० । अथ तमेव योग संक्षेपेणाह स्पर्शानिति द्वाभ्याम् । बाह्यान् विषयान् रूपर- मादीन् बहिःस्मरणविषयान् कृत्वा दूरतो विसृज्य तथा भ्रुवोरन्तरे भ्रमध्ये चक्षुः कृत्वात्यन्तं नेत्रनिमीलनेन निद्रा भवत्युमीलनेन च बहिः प्रसरति तदुभयदोपपरिहारार्थमर्धनिमीलनेन भ्रू- मध्ये दृष्टिं निधायेत्यर्थः । तदुक्तं योगमार्तण्डे । 'भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी । न रोगो १ सम्यग्दर्शनेत्यारम्य-वक्ष्यति चेत्यन्तो ग्रन्थः पूर्वश्लोकसंबन्धे क्वचिदृश्यते ।

१९. श्रीमद्भगवद्गीता- मरणं तत्र न निद्रा क्षुत्तृडादय ' इति । तथा नासाभ्यन्तरचारिणी प्राणापानौ समौ रुत्वा कुम्भ- यित्वेत्यर्थः ॥ २७ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥२८॥ यतेन्द्रिय इति । यतेन्द्रियमनोबुद्धिर्यतानि संयतानीन्द्रियाणि मनोबुद्धिश्व यस्य स यतेन्द्रियमनोबुद्धिर्मननान् मुनिः सन्यासी मोक्षपरायण एवं देहसंस्था- नो मोक्षपरायणो मोक्ष एव परमयनं परा गतिर्यस्य सोऽयं मोक्षपरायणो मुनि- र्भवेत् । विगतेच्छाभयकोधः इच्छा च भयं च कोधश्च इच्छाभयकोधास्ते वि- गता यस्मात् स विगतेच्छाभयकोधो य एवं वर्तते सदा संन्यासी मुक्त एव स न तस्य मोक्षोऽन्यः कर्तव्योऽस्ति ॥ २८ ॥ आ० टी० । विषयप्रावण्यं परित्यज्य चक्षुरपि भ्रुवोर्मध्ये विक्षेपपरिहारार्थ कृत्वा प्राणा- पानी नासाभ्यन्तरचरणशीली समौ न्यूनाधिक्यवनिता कुम्भकेन निरुद्धौ कृत्वा करणानि सर्वा- ण्येवं संयम्य प्राणायामपरो भूत्वा किं कुर्यादित्यपेक्षायामाह यतेन्द्रियेति । इन्द्रियादिसंयमं कृत्वा मोसमेवापेक्षमाणो मननशीलः स्यादित्यर्थः । ज्ञानातिशयनिष्ठस्य सर्वदेच्छादिशून्यस्य संन्यासिनो मुक्तेरनायाससिद्धत्वान्न तस्य किं चिदपि कर्तव्यमस्तीत्याह विगतेति । पूर्वार्धाक्षराणि व्याकरोति यतेखादिना । द्वितीयार्धाक्षराणि व्याचष्टे विगतेसादिना ॥ २८ ॥ प० टी० । अनेनोपायेन क्रमेण यतेन्द्रियमनोबुद्धिमुनिर्मननशीलो मोक्ष एव परमयनं गति- यस्य तथात एव विगतेच्छाभयक्रोधः सन् सदैव मुक्तो जीवन्मृतो वा मुक्तः स्यादित्यर्थः । तदुक्तं टिप्पणिकासु ‘परावृत्तं चित्तं यदि भवति बाह्यन्यवहृतेरसत्यायाः सत्यं कलयति तदाभ्यासवशतः । क्षुधातः संविष्टः क्षणमनुभवन् स्वाममशनं मृषा मत्वा बोधे पुनरपि च भोक्तुं प्रयतते ' । अथ निरू- पितार्थविषये सर्वशाखोक्ताः श्रुतयश्च-"तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरात- तम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत्पग्मं पदम्' अत्र रावणभाष्यम् । विष्णो- ापनशीलस्यापि परमात्मनस्तत्परमं पारमार्थिकं पदमभिव्यक्तिस्थानं दिवि मूर्ध्नि भ्रूमध्ये वर्तते । "त्रिपादस्यामृतं दिवि" इति श्रुतेः सत्यज्ञानानन्दात्मकं विष्णोः पदम् तत्किम् । सूरयो महानुभावाश्च क्षुराततं विस्तृतमिव कृत्वा सदाव्यवधानेन पश्यन्ति निरन्तरं साक्षात्कुर्वन्ति । यहा चक्षुरर्थप्रकाश- मिव एवकारार्थ आततमपरिच्छिन्नमेव यथा स्यात् तथा पश्यन्ति । तत्तस्माद्विप्रासो विप्राः श्रेष्ठ- मतयो विपन्यवो मेधाविनो जागरां चक्रुरिति जागृवांसो दृश्यप्रपश्चाद्दीर्घस्वप्नात सकाशाज्जागरं प्राप्ता इत्यर्थः। प्रोक्तवदनुभूयमानपदं समिन्धते समृद्धिं नयन्ति सर्वात्मकत्वेन पश्यन्ति । अत्रैतदुक्तं भवति अभ्यासदशायां सुषुम्नाविवरण भ्रूमध्यप्रापितया दृष्टया पश्यन्ति । व्यवहारदशायां तु सकलविषय- प्रतीतिरूपेण तदेव पश्यन्तीत्यर्थः । अथैतदर्थे सामारण्यके अन्या श्रुतिरपि-" चित्रं देवानामुदगा. दनीकं चक्षुमित्रस्य वरुणस्यानेः । आमा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च' इति । भाष्यम्-' द्योतयन्त्यर्थान् प्रकाशयन्ति ते देवाश्चक्षुराद्यास्तेषां मध्ये चित्र विचित्रं रूपरसगन्धशब्द- ग्राहकमनीकं तेजः समूहरूपमुदगादुदयं प्राप्तम्। किं भूतम् , मित्रस्य चक्षुषोऽधिदैवतस्य सूर्यस्य तथा वरुणस्य रसनाधिदैवतस्यामेर्वागाधिदैवतस्य चक्षुः प्रकाशकम् । तच्छक्तिप्रदमित्यर्थः । अथैवंविधोऽपि न जीवत्वरूपेण परिच्छिन्नः किं तु द्यावापृथिवी द्यावापृथिव्यन्तरिक्षमाकाशं च पञ्चमाध्यायः । आमा आपूरितवान् व्यापक इत्यर्थः । तथा सूर्यस्तत्प्रकाशश्च ज्ञापकः । यतो जगतो जङ्गमस्य तस्थुषः स्थावरस्य चान्तर्यामी। अथ प्राणापानावित्यत्र शातपथी श्रुति:-"तस्मादेकमेव व्रतं चरेत्प्राण्याश्चैवा- पान्याञ्च नेन्मा पाप्मा मृत्युरामवद् इति या चरेत्समापयिषन् नो एतस्यै देवतायै सायुज्य सलो- कतां जयति य एवं वेद"। भाष्यम्-अथातो ब्रतमीमांसेत्यादिना चक्षुरादिव्रतमात्मज्ञानोपयोगि न भव- तीत्युपक्रम्य तस्मादित्युपसंहरति तस्मात्कारणादेकमेव व्रतं चरेत् । तत्किम् प्राण्याच्चैवापान्याञ्चेति प्राणाज्जातः प्राण्योऽपानाज्जातोऽपान्यो योऽयमभ्यासस्तस्मात्प्राणायामव्रतं चरेदित्यर्थः । अथ तत्कि कारणमित्याह । नदिति निपातो निषेधार्थे । पाप्मा घातको मृत्युर्मा इति माने दानुवत् नागच्छतीति । अथेति निश्चित्य यद्येतद्वतं चरेत्तर्हि समापयिषेत् समाप्ति नेतुमिच्छेद् यावत्प्राणायामः सिध्येत्ता- वन्न त्यजेदित्यर्थः । तेन व्रतेन उ इति निर्धारणेन एतस्यै इति चतुर्थ्या पश्चम्योंभिहितः एतस्या मुख्यप्राणदेवतायाः सायुज्यं सलोकतां जयति प्राप्नोति य एवं वेद तथा “अन्तश्चरति रोचनास्य प्राणा- दपानति " इत्यादिसामारण्यकमपि दर्शनीयम् ॥ २८ ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ॥ सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्रीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा- र्जुनसंवादे संन्यासयोगो नाम पञ्चमाध्यायः ॥ ५ ॥ एवं समाहितचित्तेन किं विज्ञेयमिति चोद्यते भोक्तारमिति । भोक्तारं यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमीश्वरं सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनि- रपेक्षतयोपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिमृच्छति प्राप्नोतीति ॥२९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशंकरभगवत्पूज्यपाद- कृतौ श्रीमद्भगवद्गीताभाष्ये कर्मसंन्यासयोगो नाम पञ्चमोऽध्यायः ॥ ५॥ आ० टी० । अधिकारिणो यथोक्तस्य कर्तव्याभावे ज्ञातव्यमपि नास्तीत्याशङ्कय परिहरति एवमिसादिना । प्रसिद्ध भोक्तारं व्यवच्छिनत्ति सर्वलोकेति । ततो ह्यस्य बन्धविपर्ययाविति न्यायेन सर्वफलदातृत्वं दर्शयति सुहृदमिति । उक्तेश्वरज्ञाने फलं कथयति ज्ञात्वति । यज्ञेषु तपःसु च द्विधा भोत्तृत्वं व्यनक्ति कर्तृरूपणेति । हिरण्यगर्भादिव्यवच्छेदार्थ विशिनष्टि महान्तमिति । स्वपरिकरोपकारिणं राजानं व्यावर्तयति प्रत्युपकारेति । ईश्वरस्य ताटस्थ्यं व्युदस्यति सर्व- नामिति । तर्हि तत्र तत्र व्यवस्थितकर्मतत्फलसंसर्गित्वं स्यादित्याशङ्कयाह सर्वकर्मेति । न च तस्य बुद्धितवृत्तिसंबन्धोऽपि वस्तुतोऽस्तीत्याह सर्वप्रययेति । यथोक्तेश्वरपरिज्ञानफलममिदधाति मां नारायणमिति । तदेवं कर्मयोगस्यामुख्यसंन्यासापेक्षया प्रशस्तत्वेऽपि ततो मुख्यसंन्यासस्या- श्रीमद्भगवद्गीता- धिक्यात्तद्वतो बुद्धिशुद्धयादियुक्तस्य कामक्रोधोद्भवं वेगमिहेव सोढुं शक्तस्य शमदमादिमतो योगा- धिकृतस्य त्वं पदार्थाभिज्ञस्य परमात्मानं प्रत्यक्त्वेन जानतो मुक्तिरिति सिद्धम् . ॥ २८ ॥ इत्यानन्द- गिरिकृतटीकायां पञ्चमाध्यायः ॥ ५ ॥ प० टी० । अथ महाकार्य विघ्नानां बाहुल्यान्मनोबुद्दीन्द्रियनिग्रहोप्याश्रयं विना कर्तुम- शक्य इत्याह भोक्तारमिति । सर्वभूतानां सुहृदं परमप्रेमास्पदमन्तामिणं मां ज्ञात्वा शान्ति मोक्ष- मृच्छति प्राप्नोति । अथ तदेवाह किं भूतं सर्वयज्ञानां तपसां वा भोक्तारं सर्वदेवान्तर्यामित्वात् सर्व- लोकमहेश्वरम् । सर्वलोकानां भूर्भुवःस्वरादीनां महान्तमीश्वरं निरतिशयैश्वर्यवन्तम् मां ज्ञात्वेति ॥२९॥ अथाध्यायतात्पर्यम् । ज्ञानं संपाद्य सम्यक् क्रमविरमवतः कर्मणो या समाप्तिः संन्यासः कर्मयोगः स यदमलधियः कर्मकौशल्यमाभ्याम् । ब्रह्मण्याधीयते यत्सुकृतशतनुपः कर्म सर्वेन्द्रियो- त्थं प्राणायामेन चित्तं व्रजति परपदं पश्चमे प्रोक्तमेतत् ॥५॥ इति परमार्थप्रपायां पञ्चमाध्यायः ॥५॥ इति पञ्चमोऽध्यायः। अथ षष्ठाध्यायः। श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्य कर्म करोति यः॥ स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥१॥ अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रत्यन्तरङस्य सूत्रभूताः श्लोकाः स्पर्शान् कृत्वा बहिरित्यादय उपदिष्टास्तेषां वृत्तिस्थानीयोऽयं षष्ठोऽ- ध्याय आरभ्यते तत्र ध्यानयोगस्य बहिरडं कर्मेति यावद्ध्यानयोगारोहणसमर्थ- स्तावद् गृहस्थेनाधिकृतेन कर्तव्यं कर्मेत्यतस्तत् स्तोति अनाश्रित इति । ननु किमर्थं ध्यानयोगारोहणसीमाकरणं यावतानुष्ठेयमेव विहितं कर्म यावज्जीवं 'नारुरुक्षाच्नेयोगं कर्म कारणमुच्यत' इति विशेपादारूढस्य च शमेनैव संबन्ध- आ० टी० । ध्यानयोगप्रस्तावानन्तरं तद्योग्यताहेतुकर्मणः स्तुति भगवानुक्तवानित्याह श्रीभगवानिति । पूर्वोत्तराध्याययोः सङ्गतिमभिदधानो वृत्तमनु द्याध्यायान्तरमवतारयति अतीतेति । मम्यग्दर्शनप्रकरणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति सम्यगिति । संग्रहविवरणयोरतीतानन्त- राध्याययोर्युक्तं हेतुहेतुमत्त्वमिति भावः । अध्यायसंबन्धमभिधायानाश्रितः कर्मफलमित्यादिश्लोक- द्वयस्य तात्पर्यमाह तत्रेति । कर्मयोगस्य संन्यासहेतोमर्यादा दर्शयितुं साङ्गं च योगं विचारयितु- मध्याये प्रवृत्ते सतीति सप्तम्यर्थः । संन्यासिना कर्तव्यं कर्मेत्येवं प्रतिभासं व्युदस्यति गृहस्थेनेति । कर्तव्यत्वं स्तुतियोग्यत्वमतःशब्दार्थः । समुच्चयवादी सीमाकरणमाक्षिपति नन्विति । यावज्जीव- श्रुतिवशाद् ध्यानारोहणसामर्थ्य सत्यपि कर्मानुष्ठानस्य दुर्वारत्वादिति हेतुमाह यायतेति । भार्या- वियोगादिप्रतिबन्धाद्यावज्जीवश्रुतिचोदितकर्माननुष्ठानवद्वैराग्यप्रतिबन्धादपि तदननुष्ठानसंभवाद- गवतो विशेषवचनाच न यावज्जीवं कर्मानुष्ठानप्रसक्तिरिति परिहरति नारुरुक्षोरिति । उक्तमेवार्थ षष्ठाध्यायः॥ १९३ करणादारुरुक्षोरारूढस्य च शमः कर्म चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात्त- दारुरुक्षोरारूढस्येति शमकर्मविषयभेदेन विशेषणं विभागकरणं चानर्थकं स्यात् तत्राश्रमिणां कश्चिद् योगमारुरुक्षुर्भवत्यारूढश्च कश्चिदन्ये नारुरुक्षवो न चारू- ढास्तानपेक्ष्यारुरुक्षोरारूढस्य चेति विशेषणं विभागकरणं चोपपद्यत एवेतिचेन्न तस्यैवेति वचनात् पुनयोगग्रहणाच्च योगारूढस्येति य आस्त्रीत् पूर्व योगमारु- रुक्षुस्तस्यैवारूढस्य शम एव कर्तव्यं कारणं योगफलं प्रत्युच्यत इत्यतो न या- वज्जीवं कर्तव्यत्वप्राप्तिः कस्य चिदपि कर्मणः, योगविभ्रष्टवचनाञ्च गृहस्थस्य चेन् कर्मणो योगो विहितः पष्ठेऽध्याये स योगविभ्रष्टोऽपि कर्मगति कर्मफलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यादवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारभ्यत्वेऽपि स्वं फलमारभत एव नित्यस्य च कर्मणो वे- भाग- व्यतिरेकद्वारेण विवृणाति आरुरुक्षोरियादिना। आरोढुमिच्छतीत्यारुरुक्षुरित्यत्रारोहणेच्छाविशेषण- मारोहणं कृतवानित्यत्र पुनरिच्छाविषयभूतमारोहणं विशेषणमेव शमकर्मविषयया देन विशेपणं मर्यादाकरणानङ्गीकरणे विरुद्धमापद्येत, तयोरेवं विभागकरणं च वतमीमानङ्गीकारेण युज्यतेत्यर्थः । विशेषणविभागकारणयोरन्यथोपपत्तिमाशक्यते तत्रति । व्यवहा- रभूमिः सप्तम्यर्थः पठी निधारणे । भवत्वधिकारिणां त्रैविध्यं तथापि प्रलंत विशेपणादौ किमायात- मित्याशक्य तृतीयापेक्षया सदपपतिरित्याह तानपक्ष्यति । आरुरुक्षोगरूढत्य च भेदे तस्यैवति प्रकृतपरामर्शानपत्तिारति पयति न नस्यति । कारुरुसुं पुरुषमपेक्ष्यारुरुक्षोगिति विशेषणं तम्य च कर्मारोहणकारणमनारदं च पुरुषमस्याटल्यात विशेषणं तस्य च शमः संन्यासो योगफल- प्राप्ती कारणांत विशेषणविभागकरणयोरुपपत्तिस्तदारुरुक्षागर दस्य च भिन्नत्वात् प्रकृतपरामर्शि- नस्त ब्छब्दस्यानुपपत्तेन यानित्यं विशेषणाापपादनमित्यर्थः । किं च योगमारुरुक्षोस्तदारोहणे कार की युक्त्वा पुनर्योगारूति योगशब्दप्रयोगाद यो योगं पामारुरुक्षुरासीत्तस्यैवापेक्षितं योगमारूढस्य तत्फलमाप्ती कर्मसंन्यामः शमशब्दवाच्या तत्वन कर्तव्य इति वचनादारुरुक्षोरा- रूदत्य चाभिन्नत्वप्रत्यभिज्ञानान्न तयाभिन्नत्वं शाङ्गतुं शक्यमित्याह एनगिति । यत्तु यावज्जीवश्रु- तिविरोधायोगारोहणमामाकरणं कर्मणोऽनुनितमिति तत्राह उच्यत इति । पूर्वोक्तरीत्या कर्मत- त्यागयोविभागोपपत्तौ अंतरन्यविषयत्वाद् योगमारूदत्य गमुक्षानिका मानम्य नित्यनैमित्तिककर्म- स्वपि परित्यागमिद्धिरित्यर्थः । इतश्च यावज्जीवं कर्म कर्तव्यं न भवतीत्याह योगेति । संन्यासिनो योगभ्रष्टस्य विनाशशका पचनान्न यावज्जीवं कर्म कर्तव्यं प्रतिभातीत्यर्थः । ननु योगभ्रष्टशब्देन गृहस्थस्यैवाभिधानात्तस्यैवास्मिन्नध्याये योगविधानाद्योगाराहरणयोग्यत्व सत्यपि यावज्जीवं कर्म कर्त- व्यमिति नेत्याह गृस्थस्येति । तेनापि ममक्षुणा कृतस्य कर्मणा मोक्षातिरिक्तफलानारम्भकत्वाद् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यतीति शङ्का सावकाशेत्याशङ्कयाह अवश्य हीति । अपौरुपेयान्नि- दोपावेदात् फलदायिनी कर्मणः स्वाभाविकी शक्तिरवरा ब्रह्मभावस्य च स्वतःसिद्धत्वान्न कर्मफल- वत्त्वमतो मोक्षातिरिक्तस्यैव फलस्य कारम्भकमिति कर्मिणि योगभ्रष्टऽपि कर्मगतिं गच्छतीति निरवकाशा शद्देत्यर्थः । ननु मुमुक्षुणा काम्यप्रतिषिद्वयोरकरणात् कृतयोश्च नित्यनैमित्तिकयो- रफलत्वात् कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वं तंत्राह नियस्य चेति । चकारेण नै- २५.

-- १९४ श्रीमद्भगवद्गीता- दप्रमाणावबुद्धत्वात् फलेन भवितव्यमित्यवोचामान्यथा वेदस्यानर्थक्यप्रसंगादि- ति, न च कर्मणि सत्युभयविभ्रष्टवचनमर्थवत् कर्मिणो विभ्रंशकारणानुपपत्तेः, कर्म कृतमीश्वरे संन्यस्येत्यतः कर्तरि कर्म फलं नारभत इति चेन्नेश्वरे संन्यास- स्याधिकतरफलहेतुत्वोपपत्तेः, मोक्षायैवेति चेत् स्वकर्मणां कृतानामीश्वरे न्यासो मोक्षायैव न फलान्तराय,योगसहितो योगाश्च विभ्रष्ट इत्यतस्तं प्रति नाशाशङ्का युक्तैवेतिचेन्न एकाकी पतचित्तात्मा निराशीरपरिग्रहः' 'ब्रह्मचारिवते स्थित' इति कर्मसंन्यासविधानात्, न चात्र ध्यानकाले स्त्रीसहायत्वाशङ्का येनैकाकित्वं वि- धीयते न च गृहस्थस्य निराशीरपरिग्रह इत्यादिवचनमनुकूलमुभयभ्रष्टप्रश्नानु- पपत्तेश्व, अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तं प्रतिषिद्धं च निरग्नेरक्रियस्य च संन्यासित्वं योगित्वं चेति चेन ध्यानयोगं प्रति बहिरङ्ग- स्य सतः कर्मणः फलाकाङ्क्षा संन्यासस्तुतिपरत्वान केवलं निरग्निराक्रिय एवं मित्तिकं कर्मानुकृष्यते । वेदप्रमाणकत्वेऽपि नित्यनैमित्तिकयोरफलत्वे दोषमाह अन्यथेति । कर्मणो- ऽनुष्ठितस्य फलारम्भकत्वध्रौव्यादृहस्थो योगभ्रष्टोऽपि कर्मगति गच्छतीति न तस्य नाशाशङ्केति शेषः । इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवतीत्याह न चेति । ज्ञानं कर्म चेत्युभयं ततो भ्रष्टोऽयं नश्यतीति वचनं गृहस्थे कर्मणि सति नार्थवद्भवितुमलं तस्य कर्मनिष्ठम्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्यावश्यकत्वादित्यर्थः । कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फलानारम्भकत्वादत्ति विभ्रंशकारणमिति शङ्कते कर्मेति । राजाराधनबुद्धया धनधान्यादिसम- पणस्याधिकफलहेतुत्वोपलम्भादश्विरे समर्पणं न भ्रंशकारणमिति दूषयति नेसादिना । अ- धिकफलहेतुत्वेऽपि मोक्षहेतुत्वमिप्यतामिति शङ्कते मोक्षायेति । तदेव चोद्यं विवृणोति वकर्मणामिति । सहकारिसामर्थ्यात्तस्य फलान्तरं प्रत्युपायत्वासिद्धिरिति हेतुं सूचयति योगेति । ध्यानसहितस्य संन्यासस्य मोक्षोपयिकत्वे कुता योगभ्रष्टमधिकृत्य नाशाशङ्केत्याशङ्कयाह योगाच्चेति । सहकार्यभावे सामग्यभावात् फलानुपपत्तर्युक्ता नाशाशङ्केत्यर्थः । ध्यानसहितमीश्वरे क- मसमर्पणं मोक्षायेत्यत्र प्रमाणाभावाद गृहस्थो योगभ्रष्टशब्दवाच्यो न भवतीति दूषयति नेति। गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरमाह एकाकीति । न खल्वेतानि विशेषणानि गृहस्थसमवायी- नि संभवन्ति तेन तस्य ध्यानयोगविध्यभावान्न तं प्रति योगभ्रष्टशब्दवचनमुचितमित्यर्थः । एका- कित्ववचनं गृहस्थम्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविप्यतीत्याशङ्कयाग्निहोत्रादिव- यानस्य पत्नीसाधनत्वाभावादप्राप्तप्रतिषेधप्रसङ्गान्मैवमित्याह न चात्रेति। विशेषणान्तरपर्यालोच- नयापि नायमेकाकिशब्दो गृहस्थपरो भवितुमर्हतीत्याह न चेति । किं च गृहस्थस्यैवैकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रत्युभयभ्रष्टप्रश्नो नोपपद्यत इत्याह उभयेति । न हि गृहस्थं प्रत्यु- भयस्माज्ज्ञानात् कर्मणश्च विभ्रष्टत्वमुपेत्य प्रष्टुं युज्यते तस्य ज्ञानाद् भ्रंशेऽपि कर्मणस्तदभावादनुष्ठी- यमानकर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भादतो यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिरित्यर्थः । ननु भगवता संन्यासस्य प्रतिपिद्धत्वाद् गृहस्थम्यैव योगविधानात्तस्यैव योगभ्रष्टशब्दवाच्यत्वमिति शकते अनाश्रित इसनेनेति । भगवद्वाक्यं न प्रतिषेधपरमिति परिहरति न ध्यानोति । स्तुतिपरत्वमेव स्फोरयति न केवलमिति । मत्त्वशुद्धयर्थमनुतिष्ठन्निति संबन्धः । वाक्य- पष्टाध्यायः । १९५ संन्यासी योगी च किं तर्हि कर्म्यपि कर्मफलासंगं संन्यस्य कर्मयोगमनुतिष्ठन सत्त्वशुद्धयर्थ संन्यासी योगी च भवतीति स्तूयते न चैकेन वाक्येन कर्म- फलासंगसंन्यासस्तुतिश्चतुर्थाश्रमप्रतिषेधश्वोपपद्यते, न च प्रसिद्ध निरनेर- क्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्या- सिलं योगित्वं च प्रतिषेधति भगवान् स्ववचनविरोधाच, सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन कारयन्नास्ते मौनी संतुष्टो येन केन चिदनिकेतः स्थिरम- तिविहाय कामान् यः सर्वान् पुमांश्वरति निस्पृहःसर्वारम्भपरित्यागीति च तत्र तत्र भगवता स्ववचनानि दर्शितानि तैर्विरुध्येत । चतुर्थाश्रमविप्रतिषेधस्तस्मा- न्मुनेयोगमारुरुक्षोः प्रतिपनगाहस्थ्यस्याग्निहोत्रादिकर्मफलनिरपेक्षमनुष्ठीयमानं ध्यानयोगारोहणसाधनलं बुद्धिशुद्धिहारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते अनाश्रितो न आश्रितोऽनाश्रितः किं कर्मफलं कर्मणः फलं कर्मफलं यत्तदनाश्रितः कर्मफलतृष्णारहित इत्यर्थः । यो हि कर्मफले तृष्णा- बान् स कर्म फलमाश्रितो भवत्ययं तु तहिपरीतोऽतोऽनाश्रितः कर्मफलमेवं- भूतः सन् कार्य कर्तव्यं नित्यं काम्यविपरीतमग्निहोत्रादिकं करोति निर्वत- यति यः कश्चित, य ईदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यत इत्येवमर्थमाह, स संन्यासी च योगी चेति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च. योगी च योगश्चित्तसमाधानं स यस्यास्ति स योगी चेत्येवं गुणसंपन्नोऽयं मन्तव्यो न केवलं निरग्निरकिय एव संन्यासी योगी चेति मन्तव्यः । निर्गता. अग्नयः कर्माङ्गभूता यस्मात् स निरग्निरक्रियश्वानग्निसाधना अप्यविद्यमानाः क्रियास्तपो- स्योभयपरत्वमाशङ्कय वाक्यभेदप्रसंगान्मैवमित्याह न चेति । इतोऽपि भगवतः संन्यासाश्रमप्रतिषेधोऽ- भिप्रेतो न भवतीत्याह न च प्रसिद्धमिति । तस्य प्रसिद्धं सन्यासित्वं योगित्वं चेति संबन्धः । प्रसिद्ध त्वमेव व्याकरोति श्रुतीति । इतोऽपि संन्यासाश्रमं भगवान्न प्रतिषेधतीत्याह स्ववचनेति । विरोधमेव साधयति सर्वकर्माणीयादिना । अनाश्रित इत्यादिवाक्यस्य यथाश्रुतार्थत्वानुपपत्तेः स्तुतिपरत्वमुपपादितमुपसंहरति तस्मादिति । कर्मफलसंन्यासित्वमत्र मुनिशब्दार्थः । स्तुतिपरं वा- क्यमक्षरयोजनार्थमुदाहरति अनाश्रित इति । कर्मफलेऽभिलाषी नास्तीत्येतावता कथं तदनाश्रित- त्ववाचोयुक्तिरित्याशङ्कय व्यतिरेकमुखेन विशदयति यो हीति । कार्यमित्यादि व्याकरोति एवंभूतः सनिीत । कथं कर्मिणः संन्यासत्वं योगित्वं च कर्मित्वविरोधादित्याशङ्कयाह य ईदृश इति । स्तु- तेरत्र विवक्षितत्वान्नानुपपत्तिश्चोदनीयेति मन्वानः सन्नाह इत्येवमिति । न निरग्निरित्यादेरर्थमाह न केवलमिति। अग्रयो गार्हपत्याहवनीयान्वाहार्यपचनप्रभृतयः । नन्वनग्नित्वे सिद्धमक्रियत्वमग्निसाध्यत्वात क्रियाणां तथा च न निरमिरित्यतावतैवापेक्षितसिद्धेर्न चाक्रिय इत्यनर्थकमर्थपुनरुक्तरिति तत्राह अन- १ आन्याहार्यो ब्राह्मणेभ्यो दक्षिणात्वेन देयश्चर्यत्र गन्यते दक्षिणामिरित्यर्थः ।

१९६ श्रीमद्भगवद्गीता-- दानादिका यस्यासावक्रियः । ननु च निरग्नेरक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्ध कथमिह साग्नेः सक्रियस्य संन्यासित्वं योगित्वं चाप्रसिद्धमुच्यते इति, नैष दोषः कयाचिगुणवत्त्योभयस्य संपिपादयिषितत्वात् तत् कथं कर्मफलसंकल्पसंन्यासात् संन्यासित्वं योगाठत्वेन च कर्मानुष्ठानात् कर्मफलसंकल्पस्य वा चित्तविक्षेपहेतोः परित्यागाद्योगित्वं चेति ॥ १ ॥ नीति । उत्तरश्लोकस्य तात्पर्य दर्शयितुं व्यावामाशङ्गां दर्शयति ननु चेति । प्रसिद्धं परित्य- ज्याप्रमिद्विरुपादीयमाना प्रमिन्द्रिविरुद्धति चोद्यं ढपयति नैष दोष इति । उभयस्य सानी सक्रिये च मंन्यामित्वत्य योगित्वस्य चत्यर्थः । गुणवृत्त्योभयसंपादनं प्रश्नपूर्वकं प्रकटयति तत् कथमित्यादिना ॥ १ ॥ प० टी० । पूर्वाध्याये तयोस्तु कर्ममन्यामात कर्मयोगोविशिप्यते' इत्यादिना वर्णाश्रमोचित- कर्मयोगेन शद्वान्तःकरणब ध्यानयोगमाघनीभतं वायुधारणारूपं कर्मयोग निरूपयितुमिच्छन् सिंहा- वलोकन्यायेन पुनः कर्मसंन्यासकर्मयोगयोः सोपपतिक माहचर्य दर्शयति अनाश्रित इति द्वाभ्याम् । कर्मफलमनाश्रितोऽनपक्षमाणः माता कार्यतया विहितं कर्म यः कराति म एव संन्यासी योगी च । कर्मफलानपेक्षतमेव कर्भमन्याः, विहिताचरणमेव कर्मयोगः. एतदन्यथात्वं निपधति 'न निरग्निर्न चाक्रिय ' इति । अयगः काशिदालान्तःकरणः शाब्दप्रतीतिमात्रेणाई मुक्त इति मत्वाग्निहोत्रा- दिकं त्यजति स निमिनिीताऽग्निर्य मान्यतया तहदवशीकृतान्तःकरणः करचरणचेष्टारहितः सन मृषा नेत्रे निमीत्य मिथ्याचारस्तिष्ठति सोऽभियालयाविधः संन्यासी योगी वा न भवतीत्यर्थः ।।१।। यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ॥ न ह्यसंन्यस्तसंकल्पो योगी अवति कश्चन ॥२॥ गौणमुभयं न पुनर्मुख्यसंन्यासित्वं योगित्वं चाभिमतमित्येतमर्थ दर्श- यितुमाह यं संन्यासमिति । यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसंन्यास संन्यासमिति प्राहुः श्रुतिस्मृतिविदो, योगं कर्मानुष्ठानलक्षणं तं परमार्थसंन्या- सं विद्धि जानीहि हे पाण्डव । कर्मयोगस्य प्रत्तिलक्षणस्य तद्दिपरीतेन नि. वृत्तिक्षणेन परमार्थसंन्यासेन कीदृशं सामान्यमढ़ीकृत्य तद्भाव उच्यत इत्यपे- क्षायामिदमुच्यते अस्ति परमार्थसंन्यासेन सादृश्यं कर्तृहारकं कर्मयोगस्य यो हि परमार्थसंन्यासी स त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं संकल्प प्रवृत्तिहेतुकामकारणं संन्यस्यत्ययमपि कर्मयोगी कर्म कुर्वाण एव फल- विपयं संकल्पं संन्यस्यतीत्येतमर्थ दर्शयन्नाह न हि यस्मादसंन्यस्तसंकल्पोऽसं- न्यस्तोऽपरित्यक्तः फलविषयसकल्पोऽभिसन्धिर्येन सोऽसंन्यस्तसंकल्पः क- श्वन कश्चिदपि कर्मी योगी समाधानवान् भवति न संभवतीत्यर्थः । फलसं- कल्पस्य चित्तविक्षेपहेतुत्वात्तस्माद्यः कश्चन कर्मी स संन्यस्तफलसंकल्पो भ- पष्टाध्यायः । १९७ वेत् स योगी समाधानवान् भवति न विक्षिप्तचित्तो भवति चित्तविक्षेपहेतोः फलसंकल्पस्य संन्यस्तत्वादित्यभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात् क- मफलसंकल्पस्य वा चित्तविक्षेपहेतोः परित्यागाद्योगिलं चेति संन्यासिवं चेत्य- भिप्रेतमुच्यते', एवं परमार्थसंन्यासकर्मयोगयोः कर्तृहारकं संन्याससामान्यम- पेक्ष्य 'यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव' इति कर्मयोगस्य स्तुत्यर्थ संन्यासत्वमुक्तम् ॥ २ ॥ आ० टी । संभवति मुख्य मंन्यासिवादी किमिति गौणमुभयमभीष्टमित्याशडक्य मुख्यस्य कर्मण्यसंभवाद्गौणमेव स्तुतिमिद्वयर्थं तदिष्टमित्यभिप्रेत्याह न पुनरिति । चित्तव्याकुलत्वहेतुका- मनात्यागाञ्चित्तममाधानमिद योगित्वं कर्मिणोऽपि युक्तं संन्यासित्वं तु तग्य विरूहमिति शङ्कमानं प्रत्युक्तेऽथै शोकमवतारयति इसतमिति । परमार्थसंन्यासं प्राहुरिति संन्वधः, इतीत्थं संन्यासस्य प्रामाणिकाभ्युपगतत्यादितीनिशब्दा याज्या योगं फलतृष्णां परित्यज्य समाहितचेतस्तयति शेषः । यदुक्तं संन्यासित्वं योगित्वं च गृहस्थस्य गोणमिति तदुत्तरार्धयो ननया प्रकटयितुमुत्तरार्धमुत्थापयति कर्मयोगस्येति । कर्मयोगस्य परमार्थमन्यामेन कर्तृवारकं सान्यमुक्तं व्यक्तं करोति योहीति । त्य- तानि सर्वाणि कर्माणि साधनानि च येन म तथोक्तस्तस्य भावातत्ता तया सर्वकर्मविषयं तत्फलवि- पयं च संकल्पं त्यजतीत्यर्थः। संकल्पत्यागे तत्कार्यकामत्यागस्तत्त्याग तजन्यप्रवृत्तित्यागश्च सिद्धयती- त्यभिसंधाय विशिष्टि प्रवृत्तीनि । कर्मिण्यपि यथोक्तसंकल्पसंन्यासित्वमस्तीत्याह अयमपीति । तदपरित्यागे व्याकुलंचततया कर्मानुष्टान यैव दुःशकवादित्यर्थः । उक्तमव साम्यं व्यक्तीकुर्वन व्यतिरेकं दर्शयति इत्येतमिति । फलसंकल्पापरित्याग किमिति ममाधानवत्ताभावरतत्राह फलेति । व्यतिरेकमुखेनोक्तमर्थमन्वयमुनापमंहगति तस्मादिति । हिशब्दार्थन्य यस्मादित्युक्तस्य तस्मादि- त्यनेन संवन्धः । कर्मिणं प्रति वक्तिविधी हेतुहेतुमद्रावमाभिप्रेत्य द्वितीयविधौ हतमाह चित्तवि- क्षेपेति । पूर्वश्लोके पूर्वोत्तगर्धाभ्यामुक्तमनुवदति एवमिति ॥ २ ॥ प० टी० । अथ साहचयं प्रकटयन्नाह यमिति । भो पाण्डव इत्युक्तप्रकारेण यं संन्यास प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुस्तं योगं विद्धि हि यस्मात्कारणादसंन्यस्तसंकल्पो न संन्यस्ताः संकल्पा येन स तथा कर्मनिष्ठो ज्ञाननिष्ठा वा तत्र कर्मनिष्ठस्त्वसंन्यस्तफलसंकल्पो ज्ञाननिष्टश्चासंन्यस्तचि- त्तविक्षेपरूपसंकल्प एवंविधः कश्चिद्योगी न भवति अत्र भगवदभिमतः संन्यामशब्दाभस्तु सम्यक प्रकारेण न्यसनचित्त शुद्विद्वारा ज्ञानमुत्पाद्य स्वत एव कोपरमः कर्मसंन्यासो न तु कर्मत्यागः । तदुक्तमध्यात्ममीमांसायाम्-'सम्यक न्यासः समाप्तिर्विमलतरधियः कर्मणां संविदाप्तौ संन्यासो यह- दध्वा स्वयमुपरमति ग्रामवक्त्रं प्रवेश्य । रम्भा तावद्विवृद्धि भजति फलभरं यावदुच्चैः प्रसूते हास पश्चात्तथैवामृतमभिलपतो ज्ञानमुत्पाद्य कर्म ' इति । भाप्यम्-सम्यकप्रकारेण विमलतरधियः शुद्धा- न्तःकरणस्य पुंसः संविदाप्तौ ज्ञानप्राप्तौ सत्यां कर्मणां या समाप्तिः संपूर्णता सैव संन्यासशब्दवाच्या न तु कर्मत्यागः । अत्र दृष्टान्तमाह यद्वदिति । यथाध्वा मार्गः पथिकं ग्रामवक्त्रं ग्रामद्वारं प्रवेश्य स्वयमुपरमति पथिकेन ग्रामप्राप्तिव्यतिरकेणान्तरेणैव मार्गो न त्यज्यते किं तु मार्गों ग्रामद्वारं दर्श- यित्वा स्वत एवोपरमति पुनदृष्टान्तान्तरमाह रम्भेति । रम्भा कदली तावदेवोच्चै वृद्धिं भजति यावत्फ- लभरं प्रसूते पश्चात्फलभरप्रसवानन्तरं हासमुपरमं भजति तथैवामृतं मोक्षमभिलपतो मोक्षार्थिनः पुरु- षस्य कर्म ज्ञानमुत्पाद्य स्वयमुपरमति ॥ २ ॥ योगाइन्वेनेयाग्भ्य -..उन्यो अत्यन्तो प्रन्यो दि. १।२ पम्त के नामित ।

१९८ श्रीमद्भगवद्गीता- आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ॥ योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥ ध्यानयोगस्य फलनिरपेक्षः कर्मयोगी बहिरट्रसाधनमिति तं संन्यास- त्वेन स्तुत्वाधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति आरुरुक्षोरिति । आ- रुरुक्षोरारोढुमिच्छतोऽनारूढस्य ध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्यारुरुक्षोर्मुनेः कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोर्योगं कर्म कारणं सा- धनमुच्यते, योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वत्य साधनमुच्यत इत्यर्थः । यावद्यावत् कर्मभ्य उपरमते तावत्ताव- निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते, तथा सति स झटिति योगारूढो भवति, तथा चोक्तं व्यासेन, ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता शमता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्वोपरमः क्रियाभ्य' इति ॥३॥ आ० टी० । परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वमापद्येत तेनेतरस्यापि कृतत्वसिद्धेरित्याशङ्कयोक्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह ध्यानयोगस्येति । भा- विन्या वृत्त्या मुनर्योगमारोढुमिच्छोरिप्यमाणस्य योगारोहणस्य कर्म हेतुश्चेदपेक्षितं योगमारूढस्यापि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लप्तशक्तित्वादित्याशङ्कयाह योगारूढस्येति । अनारूढस्येत्येतस्यैवार्थ स्फुटयति ध्यानेति । मुनित्वं कर्मफलसंन्यासिन्यौपचारिकमित्याह कर्मफ- लेति । साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायामिति शेषः, तस्येति प्रकृतस्य कर्मिणो ग्रहणम् , एवकारो भिन्नक्रमः शमशब्देन संबध्यते । कस्यान्ययोगव्यवच्छेदेन शमो हेतुरिति तत्राह योगारू- ढत्वस्येति । सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति यावद्यावदिति । सर्वकर्मनिवृत्तावायासाभावाद्वशीकृतस्येन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यतीत्यर्थः । सर्व- कोपरमस्य पुरुषार्थसाधनत्वे पौराणिकी संमतिमाह तथा चेति । एकता सर्वेषु भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वमिति प्रतिपत्तिः, समता तेष्वेवोपाधिकाविशेषेऽपि स्वतो निर्विशेषत्वधीः, सत्यता तेषा- मेव हितवचनं, शीलं स्वभावसंपत्तिः,स्थितिः स्थैर्य, दण्डनिधानमहिंसनम्, आर्जवमवक्रत्वं । क्रियाभ्यः सर्वाभ्यः सकाशादुपरतिश्चेत्येतदुक्तं सर्व यथा यादशमेतादृशं नान्यद् ब्राह्मणस्य वित्तं पुमर्थसाधनमस्ति तस्मादेतदेवास्य निरतिशयं पुरुषार्थसाधनमित्यर्थः ॥ ३ ॥ ५० टी० । अथ कर्मज्ञानयोरवधिमाह आरुरुक्षोरिति । यमनियमादिसोपानमार्गेणारोढ- मूर्ध्वगति प्राप्तुमिच्छोः पुरुषस्य कर्म कारणमुच्यते आरोहणावधि कर्म कर्तव्यं चित्तशोधकत्वात् । अशुद्धचित्तस्य च विक्षेपजनकत्वात् तथा तस्यैवारूढदशां प्राप्तस्य ध्याननिष्ठस्य ज्ञानपरिपाका शमो विक्षेपोपरमः कारणम् ॥ ३ ॥ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ॥ सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥४॥ मिन्लोरनाम्दस्य-.-पा. लि. पु. ।

पष्ठाध्यायः॥ १९९ अथेदानी कदा योगारूढो भवतीत्युच्यते यदेति । यदा समाधीयमान- चित्तो भवति योगो हीन्द्रियार्थेष्विन्द्रियाणामाः शब्दादयस्तेष्विन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या नानुषज्जतेऽ- नुषंगं कर्तव्यताबुद्धिं न करोतीत्यर्थः। सर्वसंकल्पसंन्यासी सर्वान् संकल्पानिहामु- त्रार्थकामहेतून् संन्यसितुं शीलमस्येति स सर्वसंकल्पसंन्यासी योगारूढः प्रा- तयोग इत्येतत्तदा तस्मिन् काले योगारूढ उच्यते । सर्वसंकल्पसंन्यासीति व- चनात् सर्वाश्च कामान् कामात्मकान् सर्वाणि च कर्माणि सन्यस्येदित्यर्थः । संकल्पमूला हि सर्वे कामाः 'संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः' । काम जानामि ते मूलं संकल्पात्त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि' इत्यादिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति, “स यथाकामो भवति तक्रतुर्भवति तत्कर्म कुरुते” इत्यादिश्रु- तिभ्यो 'यद्यद्धि कुरुते कर्म तत्तत् कामस्य चेष्टितम्' इत्यादिस्मृतिभ्यश्च न्यायाच न हि सर्वसंकल्पसन्यासे कश्चित् स्पन्दितुमपि शक्तस्तस्मात् सर्वसंकल्पसं- न्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भ- गवान् ॥४॥ आ० टी० । योगप्राप्ती कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरमवतारयति अथेति । समाधानावस्था यदेत्युच्यते, अतएवोक्तं समाधीयमानचित्तो योगीति शब्दादिषु कर्मसु चानुषंगस्य योगारोहणप्रतिबन्धकत्वात्तदभावस्य तदुपायत्वं प्रसिद्धमिति द्योतयितुं हीत्युक्तम् । सर्वेषामपि संकल्पानां योगारोहणप्रतिबन्धकत्वमभिप्रेत्य सर्वसंकल्पसंन्यासीत्यत्र विवक्षितमर्थमाह सर्वानिति । सर्वसंकल्पसंन्यासेऽपि सर्वेषां कामानां कर्मणां च प्रतिबन्धकत्वसंभवे कुतो योगप्रा- प्तिरित्याशङ्कयाह सर्वेति । सर्वसंकल्पपरित्यागे यथोक्तविध्यनुष्ठानमयत्नसिद्धमिति मन्वानः सन्नाह संकल्लेति । मूलोन्मूलने च तत्कार्यनिवृत्तिरयत्नमुलभेति भावः । तत्र प्रमाणमाह संकल्पमूल इति । तत्रान्वयव्यातरेकावभिप्रेत्योक्तमुपपादयति कामेति । सर्वसंकल्पाभावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात्तन्निवृत्तिप्रयुक्तामपि निवृत्तिमुपन्यस्यति सर्वकामति । यदुक्तं कर्म- णां कामकार्थत्वं तत्र श्रुतिस्मृती प्रमाणयति स यथेति । स पुरुषः स्वरूपमजानन् यत्फलकामो भवति तत्साधनमनुष्ठेयतया बुद्धौ धारयतीति तत्क्रतुर्भवति यच्चानष्ठेयतया गृह्णाति तदेव कर्म ब- हिरपि करोतीति कामाधीनं कर्मोक्तमिति श्रुत्यर्थः । कामजन्यं कर्मेत्यन्वयव्यतिरेकसिद्धमिति द्योत- यितुं स्मृतौ हिशब्दः । न्यायमेव दर्शयति न हि सर्वसंकल्पेति । स्वापादावदर्शनादित्यर्थः । नित्यनैमित्तिककर्मानुष्ठानं दूरनिरस्तमिति वक्तुमपिशब्दः । श्रुतिस्मृतिन्यायसिद्धमर्थमुपसंहरति तस्मादिति ॥ ४ ॥ प० टी० । अथ योगारूढस्य स्वरूपमाह यदेति । यदा यस्मिन् काले इन्द्रियार्थेषु रूप- रसादिषु तथा तत्कारणीभूतेषु कर्मसु चेष्टासु न सज्जत आसक्तिं न करोति । अथ न केवलं कमें- १ कुरुते जन्तुः-पा० लि. पु० ।

श्रीमद्भगवद्गीता- न्द्रियनिरोधमात्रमित्याह सर्वेति । सर्वविषयभोगनिमित्तीभूताः संकल्पास्तान संन्यस्तुं शीलं यस्य स तदा तस्यामवस्थायां योगारूढ इत्युच्यते नान्यः ॥ ४ ॥ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ॥ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥ उद्धरेदिति । यदेवं योगारूढस्तदा तेनात्मा नोवृतो भवति संसारादनर्थ- वातादत उहरेत् संसारसागरे निमग्नमात्मनात्मानं तत उद् ऊर्ध्व हरेद् उद्धरेद् योगारूढतामापादयेदित्यर्थः । नात्मानमवसादयेनाधो नयेन्नाधोगमयेदात्मैव हि यस्मादात्मनो बन्धुन ह्यन्यः कश्चिद् बन्धुर्यः संसारमुक्तये भवति । बन्धुरपि ता- वन्मोक्ष प्रति प्रतिकूल एव स्नेहा दिवन्धनायतनत्वात्तस्मायुक्तमवधारणमात्मैव यात्मनो बन्धुरिति आत्मैव रिपुः शत्रुर्योऽन्योऽपकारी बाह्यः शत्रुः सोऽप्यात्म- प्रयुक्त एवेति युक्तमेवावधारणमात्मैव रिपुरात्मन इति ॥ ५ ॥ आ० टी० । योगारूढत्य किं स्यादित्याशङ्कयाह यदेवमिति । योगागेलस्य दृष्टादृष्टो- पायैरवश्यकर्तव्यतायै मुक्तिहेतुत्वं तद्विपर्ययस्याधःपतनहेतुतं च दवति अन इति । तत्र हेतु- माह आत्मैव हीति । उहरणापेक्षामात्मनः सूचयति संपारेति । संसारार्थ हरणं कीहगित्याश- याह योगाकहनामिति । योगप्राप्तावनास्था तु न कर्तव्यत्याह नान्मानमिति । योगप्राप्त्यु- पायश्चेन्नानुष्ठीरात तदा योगाभाव संमारपरिहारासंग पाहात्माधा नीतः स्गादियोः । नन्वात्मानं सं- सारे निमग्नं तदा या बन्धुस्तस्मादुद्वरिष्यति नेत्याह आन्भव होति । कुतोऽवधारणमन्यस्यापि प्रसिद्धस्य बन्धोः मंगवात्तत्राह न हीति । अन्या बन्धुः गन्नपि गंगारमुलय न भवतीत्येतदुपपा- दयति बन्धुरपीति । खेहादीत्यादिशब्दात्तदनुगुणप्रवृत्तिविषयत्वं गृह्यत । आत्मातिरिक्तस्यापि श- घोरपकारिणः मुनामिहत्वाइवधारणमनुचितामत्वाशायाह योऽन्य इति ॥ ५ ॥ प०टी० । अतो विषयत्यागे मोक्ष आमतौ च बन्ध इति पर्यालाच्य रागादिस्वभावं त्यने- दित्याह उद्धरदिति। विवक युक्तेनात्मना मनमा कृत्वात्मानं जीवदशापन्नं समारादहरत परं तु नावसा- दयेन्नाधः पातयत् रह रस्मात्कार गादात्मनो बन्धुरुपकारको रिपुरपकारक आत्मेव स्वयंमव नान्यः 'मन एव मनुष्याणां कारणं बन्धमाक्षयोः' इत्युक्तत्वात ॥ ५ ॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः॥ अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥ आत्मैवात्मनो बन्धुरात्मैव रिपुरात्मन इत्युक्तं तत्र किंलक्षण आत्मा- त्मनो बन्धुः किंलक्षणो वात्मात्मनो रिपुरित्युच्यते बन्धुरिति । बन्धुरा- मात्मनस्तस्य तस्यात्मनः स आत्मा बन्धुपैनात्मनात्मैव जित आत्मकार्यकर- णसंघातो येन जितो वगीकृतो जितेन्द्रिय इत्यर्थः । अनात्मनस्त्वजितात्म- षष्ठाध्यायः। २.१ नस्तु शत्रुत्वे शत्रुभावे वर्तेतात्मैव शत्रुवद् यथा नात्मा शत्रुरात्मनोऽपकारी तथा- स्मात्मनोऽपकारे वर्तेतेत्यर्थः ॥ ६ ॥ आ० टी० । उक्तमनूद्य प्रश्नपूर्वकं श्लोकान्तरमवतारयति आत्मैवसादिना । एकस्यैवा- त्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च लक्षणभेदमन्तरेणायुक्तमिति चोदिते वशीकृतसंघातस्यात्मानं प्रति बन्धुत्वमितरस्य शत्रुत्वमित्यविरोधं दर्शयति बन्धरियादिना । वशीकृतसंघातस्य विक्षेपाभा- वादात्मनि समाधानसंभवादुपपन्नमात्मानं प्रति बन्धुत्वमिति साधयति तस्येति । अवशीकृतसंघा- तस्य पुनर्विक्षेपोपपत्तेरात्मनि समाधानायोगादात्मानं प्रति शत्रुभावे प्रसिद्धशत्रुवदात्मैव शत्रुत्वेन वर्तेतेत्युत्तरार्धं व्याकरोति अनात्मन इति । दृष्टान्तं व्याचष्टे यथेति । उक्तदृष्टान्त वशादवशी- कृतसंघातः स्वस्य हितानाचरणादात्मानं प्रति शत्रुरेवेति दार्टान्तिकमाह तथेति ॥ ६ ॥ ५० टी० । अथात्मनो बन्धुत्वं रिपुत्वं च प्रकटयन्नाह बन्धुरिति । तस्य पुरुषस्यात्मा मन आत्मनो जीवस्य बन्धुः सुहृदुक्तः । तस्य कस्य, येन पुरुपेणात्मनैव स्वेनैवात्मा कार्यकरणसंघातरूपो जीवो जितो वशीकृतोऽथानात्मनोऽजितात्मनः पुरुषस्य शत्रुत्व आत्मैव स्वयमेव वर्तते नान्यः ॥६ ॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः ॥ शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ ७॥ जितात्मन इति । जितात्मनः कार्यकरणादिसंघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः प्रशान्तस्य परमात्मा समाहितः साक्षादात्मभा- वेन वर्तत इत्यर्थः । किं च शीतोष्णसुखदुःरवेषु तथा मानेऽवमाने च मानावमा- नयोः पूजापरिभवयोः समः स्यादित्यध्याहारः ॥ ७ ॥ आ० टी० । कथं संयतकार्यकरणस्य बन्धुरात्मेति तत्राह जितात्मन इति । जितकार्यकर- णसंघातस्य प्रकर्षणोपरतबाह्याभ्यन्तरकरणस्य परमात्मा विक्षेपेण पुनः पुनरनभिभूयमानो निरन्तरं चित्ते प्रथत इत्यर्थः । जितात्मानं संन्यस्तसमस्तकर्माणमाधिकारिणं प्रदर्य योगाङ्गानि दर्शयति शीतति । समः स्यादित्यध्याहारः । पर्वाधं व्याचष्टं जितेसादिना । न केवलं तस्य परमात्मा साक्षादात्मभावेन वर्तते किं तु शीतोष्णादिभिरपि नासौ चाल्यते तत्त्वज्ञानादित्युत्तराध विभजते किं चेति । तेषु समः स्यादिति संबन्धः ॥ ७ ॥ प० टी० । अथ जितात्मनस्तास्मन्बन्धुत्वं प्रकटयति जितान्मन इति । जित आत्मा मनो येन तस्य प्रशान्तस्य रागादिरहितस्य परं केवलमात्मा शीताप्णादिपु सत्स्वपि तथा मानावमानयो- रुपस्थितयोः सतोरपि समाहितः स्वात्मनिष्ठो भवति नान्यस्य ॥ ७ ॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ॥ युक्त इत्युच्यते योगी समलोटाश्मकाञ्चनः ॥ ८॥ ज्ञानेति । ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानं, वि- ज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणं ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः •२ श्रीमद्भगवद्गीता- - संजातालंप्रत्यय आत्मान्तःकरणं यस्य स ज्ञानविज्ञानतृप्तात्मा कूटस्थोऽप्रक- म्पो भवतीत्यर्थः । विजितेन्द्रियश्च य ईदृशो युक्तः समाहित इति स उच्यते कथ्यते, स योगी समलोप्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सं समलोष्टाश्मकाञ्चनः ॥ ८ ॥ आ० टी० । चित्तसमाधानमेव विशिष्टफलं चदिष्टं तर्हि कथंभूतः समाहितोव्यवद्रियते तत्रा- ह ज्ञानेति । परोक्षापरोक्षाभ्यां ज्ञानविज्ञानाभ्यां संजातालंप्रत्ययोऽक्रियो हर्षविषादकामक्रोधादि- रहितो योगी युक्तः समाहित इति व्यवहारभागी भवतीति पादत्रयव्याख्यानन दर्शयति ज्ञानमि- सादिना । स च योगी परमहंसपरिव्राजकः सर्वत्रोपेक्षाबुद्धिरनतिशयवैराग्यभागीति कथयति स योगीति ॥ ८॥ प० टी० । अथ योगारूढमुपपाद्योपसंहरति ज्ञानविज्ञानेति । ज्ञानं शास्त्रगुरूपदिष्टं वि- ज्ञानमनुभवस्ताभ्यां तृप्तो निरपेक्ष आत्मा चित्तं यस्यातः कूटस्थो निर्विकारोऽत एव विजितेन्द्रियोऽत एव समलोप्टाश्मकाञ्चनो मृत्पिण्डपाषाणमुवर्णेषु समः हयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्युच्यते ॥ ८ ॥ सुहृन्मित्रायुदासीनमध्यस्थद्वेप्यबन्धुषु ॥ साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥ किं च सुहृदिति । सुहृदित्यादिश्लोकार्धमेकपदं । सुहृदिति । प्रत्युपकारमन- पेक्ष्योपकर्ता, मित्रं लेहवद्, अरिः शत्रुः, उदासीनो न कस्य चित् पक्षं भज- ते, मध्यस्थो यो विरुद्धयोरुभयोहितैषी, इष्य आत्मनोऽप्रियो, बन्धुः संबन्धीत्येषु साधुषु शास्त्रानुवर्तिष्वपि च पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः। कः किं कर्मेत्यव्यापृतबुद्धिरित्यर्थः । विशिष्यते विमुच्यत इति वा पाठान्तरं योगा- रूढानां सर्वेषामयमुत्तम इत्यर्थः ॥ ९ ॥ आ० टी० । योगारूढस्य प्रशस्तत्वमभ्युपेत्य योगस्याङ्गान्तरं दर्शयति किं चेति । पद- च्छेदः पदार्थोक्तिरिति व्याख्यानाङ्गं संपादयति सहृदितीति । अरिर्नाम परोक्षमपकारकः प्रत्यक्षम- प्रियो द्वेप्य इति विभागः । समबुद्धिरिति व्याचष्टे कः किमिति । प्रथमो हि प्रश्नो जातिगोत्रा- दिविषयो द्वितीयो व्यापारविषयः । उक्तप्रकारेणाव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वोपायविमोक्षो वा सिध्यतीत्याह विशिष्यत इति । पाठद्वयेऽपि सिद्धमर्थ संगृह्य कथयति योगारूढानामिति ॥९॥ ५० टी० । अथ समबुद्धित्वमेव विशिनष्टि सुहृदिति । सुहृत्स्वभावेनैव हिताशंसी, मित्रं स्नेहवशेनैवोपकारकः, अरिर्घातक उदासीनो विवदमानयोरुभयोरप्युपेक्षकः, मध्यस्थस्तयोरुभयोरपि हिताशंसी टेष्टुं योग्यो द्वेष्यः, बन्धुः संबन्धी, साधवः सदाचाराः, पापा दुराचारा एतेषु समा रागद्वेषराहता बुद्धियस्य स विशिष्यते विशिष्ठो भवति ॥ ९ ॥ १ पदच्छेदः पटायोनिविग्रहां वाक्ययोजनम् । आक्षेपश्च समाधानं व्याख्यानं पांडधं मतम् ।। १ ॥

पष्टाध्यायः । २.३ योगी युजीत सततमात्मानं रहसि स्थितः॥ एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१०॥ योगीति । अत एवमुत्तमफलप्राप्तये योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदात्मानमन्तःकरणं रहस्येकान्ते गिरिगुहादौ स्थितः सन्नेकाक्यसहा. यो रहसि स्थित एकाकी चेति विशेषणात् संन्यासं कृत्वेत्यर्थः। यतचित्तात्मा चित्तमन्तःकरणमात्मा देहश्च संयतो यस्य स यतचित्तात्मा निराशीतितृष्णो- ऽपरिग्रहश्व परिग्रहरहित इत्यर्थः । संन्यासित्वेऽपि सति त्यक्तसर्वपरिग्रहः सन् युजीतेत्यर्थः ॥ १० ॥ आ० टी० । यथोक्तविशेषणवतो योगारूढेषत्तमत्वे योगानुष्ठाने प्रयतितव्यमित्यङ्गाभिधा- नानन्तरं प्रधानमभिदधाति अत एवमिति । आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योंगस्य सूच- यति सततमिति । तस्यैव पञ्चाङ्गान्युपन्यस्यति रहसीसादिना । सर्वदेत्यादरदीर्घकालयोरुपलक्ष- णम । प्रत्यगात्मानं व्यावर्तयति अन्तःकरणमिति । गिरिगुहादावित्यादिशब्देन योगप्रतिबन्धक- दुर्ननादिविधुरो देशो गृह्यते । विशेषणद्वयस्य तात्पर्यमाह रहसीति । योगं युञानस्य संन्या- सिनो विशेपणान्तराणि दर्शयति यतेति । सति संन्यासित्वे किमित्यपरिग्रहणमर्थपुनरुक्तरित्या- शङ्कय कौपीनाच्छादनादिप्वपि शक्तिनिवृत्त्यर्थमित्याह संन्यासित्वेऽपीति ॥ १० ॥ १० टी० । एवं योगारूढत्वदशां निरूप्येदानीं 'योगी युञ्जीत' इत्यादितस्तथा ' स योगी परमो मत' इत्यन्ततश्चतुर्विशतिभिः श्लोकैः साङ्गमभ्यासयोगं निरूपयति योगीति । योगशास्त्रे ता. यद्योगत्रयमुपदिष्टम् । तत्र प्राणापानयोगो मनःपवनयोगो जीवब्रह्मणोोगश्च एतत्क्रमेण योगत्रयं प्राप्तुमिच्छुरात्मानं मनः सततं युञ्जीत समाहितं कुर्यात् । अथ चित्तक्षोभकाभावसामग्रीमनुवदति रहस्येकान्ते एकाकी संगशून्यो यतं नियमितमात्मा शरीरं येन निराशीनिराकाङ्क्षोऽपरिग्रहः परिग्र. हशुन्यः ॥ १० ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ अथेदानी योगं युञ्जत आसनाहारविहारादीनां योगसाधनत्वेन नियमो प्राप्तयोगस्य लक्षणं तत्फलादि चेत्यत आरभ्यते, तत्रासनमेव तावत् प्रथममुच्यते शुचाविति । शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरमचलमात्मन आसनं नात्युच्छ्रितं नातीवोच्छ्रितं ना- प्यतिनीचं तच्च चेलाजिनकुशोत्तरं चैलमजिनं कुशाश्चोत्तरे यस्मिन्नासने तदासनं चैलाजिनकुशोत्तरं पाठक्रमादिपरीतोऽत्रानुकमश्चैलादीनाम् ॥११॥ आ० टी० । योग योगाङ्गानि चोपदिश्योत्तरसंदर्भस्य तात्पर्यमाह अथेति । योगस्वरू- पकतिपयतदङ्गप्रदर्शनानन्तर्यमथशब्दार्थः । विहारादीनामित्यादिशब्दन यथोक्तासनादिगतावान्तर- भेदग्रहणं, तत्फलादि चेत्यादिशब्देन योगफलं सम्यग्ज्ञानं च तत्फलकैवल्यं ततो भ्रष्टस्यात्य- वक्तव्यः, .. श्रीमद्भगवद्गीता- न्तिकविनष्टत्वमित्यादि गृह्यते । एवं समुदायतात्पर्य दर्शिते किमासीनः शयानस्तिष्ठन् गच्छन् कुर्वन् वा युञ्जीतेत्यपेक्षायामनन्तरश्लोकतात्पर्यमाह तत्रति । निर्धारणे सप्तमी प्रथमं योगानुष्ठानस्य प्र. धानमासीनः संभवादिति न्यायादिति यावत् । विविक्तत्वं देवा विभजते स्वभावत इति । आसन- स्यास्थैर्य तत्रोपविश्य योगमनुतिष्ठतः समाधानायोगाद् योगासिद्धिरित्यभिसंधाय विशिनष्टि अच- लनमिति । आस्यतेऽस्मिन्निति व्युत्पत्तिमनुश्रित्याह आसनमिति । आत्मन इति परकीयासनव्यु- दासार्थ, पतनभयपरिहारार्थ नात्युच्चमित्युक्तं, नाप्यतिनीचमिति भूतलपाषाणादिसंश्लेषे वातक्षोभा- मिमान्दयादिसंभावितदेशनिरासार्थ, चैलं वस्त्रमजिनं चर्म पशूनां तच्च मृगस्य कुशा दर्भास्ते चो- तेरे यस्मिन्नुपरिष्टादारभ्य तत्तथोक्तम् । प्रथमं चैलं ततोऽजिनं ततश्च कुशा इति प्रतिपन्नक्रममा- पातिकं क्रममतिक्रम्यादौ कुशास्ततोऽजिनं ततश्चैलमिति क्रमं विवक्षित्वाह विपरीतोऽवेति ॥ ११॥ प० टी । अथासननियमं दर्शयति शुचौ देश इति द्वाभ्याम् । शुचौ पवित्रे तीदिसंनि- हिते देशे शीतलतरुच्छायाम्बुप्रवाहमनोरमे प्रदेश आत्मनः स्वस्य स्थिरमचलं मूषककीटकाद्युप- द्रवशून्यं यथा भवति तथासनं प्रतिष्ठाप्य किं भूतं नात्युच्छ्रितं नात्युच्च कदापि पतनसंभवात् तथा नातिनीचं भपंघटनेन गात्रोपद्रवादतो मध्यस्थमित्यर्थः । अथासनरचनामाह चैलेति । चैलं वस्त्रम्, अ- जिनं व्याघ्रादिचर्म, चैलाजिने कुशेभ्य उत्तरे उपरि स्थिते यस्मिन् कुशानामुपरि चर्म तदुपरि वस्त्रमित्यर्थः ॥ ११ ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः॥ उपविश्यासने युज्याद्योगमात्मविशुद्धये ॥१२॥ तत्रेति। प्रतिष्ठाप्य किं तत्र तस्मिन्नासने उपविश्य योगं युज्यात् । कथं, सर्वविषयेभ्य उपसंहत्यैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रिया संयता यस्य स यतचित्तेन्द्रियक्रियः। स किमर्थ योगं युज्यादित्याहात्मविशुद्धयेऽन्तःकरणस्य शुद्धयर्थमित्येतत् ॥ १२ ॥ आ० टी० । यथोक्तमारनं संपाद्य किं कर्तव्यामिति प्रश्नपूर्वकं कर्तव्यं तन्निर्दिशति प्रति छाप्येति । योगं युनानत्येतिकर्तव्यताकला एछति कथमिति । सर्वेभ्यो विषयभ्यः सका- शात् प्रत्याहृत्य मनमा यदेकस्मिन्नेव ध्यय विपये समाधानं, यञ्चित्तस्यन्द्रियाणां च बाह्यक्रियाणां संयमनं तदभयं कृत्वा योगमनुतिष्टेदित्याह मवेति । आसने यथोक्ने स्थित्वा यथोक्तया रीत्या योगा- नुष्ठानस्य प्रश्नपूर्वकं फलमाह स किमर्थमित्यादिना ॥ १२ ॥ प० टी० । तत्र तस्मिन्नासने उपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगं युज्यात् किं भूतो यताश्चित्तेन्द्रियक्रिया येन स तथात्मना मनसः शुद्धय उपशान्तये ॥ १२ ॥ समं कायशिरोग्रीवं धारयन्नचलं स्थिरः॥ संप्रेक्ष्य नासिकायं स्वं दिशश्चानवलोकयन् ॥३३॥ बाह्यसाधनमासनमुक्तमधुना शरीरस्य धारणं कथमित्युच्यते सममिति । समं कायशिरोग्रीवं कायश्च शिरव ग्रीवाच कायशिरोग्रीवं तत् समं धारयन्नचलं च समं पष्ठाध्यायः। २०५ धारयतश्चलनं न संभवत्यतो विशिनष्टि अचलमिति । स्थिरः स्थिरो भूत्वेत्यर्थः। स्वं नासिकाग्रं संप्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वेवेतीवशब्दो लुप्तो द्रष्टव्यो न हि स्व- नासिकाग्रसंप्रेक्षणमिह विधित्सितं किं तर्हि चक्षुषोर्टष्टिसंनिपातः स चान्तःकरण- समाधानापेक्षो विवक्षितः स्वनासिकाग्रसंप्रेक्षणमेव चेदिवक्षितं मनस्तत्रैव समा- धीयेत नात्मन्यात्मनि हि मनसः समाधानं वक्ष्यत्यात्मसंस्थं मनः कृत्वेति तस्मादिवशब्दलोपेनाक्ष्णोदृष्टिसंनिपात एव संप्रेक्ष्येत्युच्यते दिशश्चानवलो- कयन् दिशां चावलोकनमकुर्वन्नित्येवमन्तरा कुर्वन्नित्येतत् ॥ १३ ॥ आ० टी० । उक्तमनूद्यानन्तरश्लोकस्यापुनरुक्तमर्थमाह वाद्येति । समत्वमृजुत्वं कायः शरीर- मध्यम् । अवलमिति विशेषणमवताय तस्य तात्पर्यमाह सममिति । कार्यकरणयोर्विषयपारव- श्यशून्यत्वमचलत्वं स्थैर्यम् । किमितीवशब्दलोपोऽत्र कल्प्यते स्वनासिकाग्रसंप्रेक्षणमेव योगाङ्गत्वेनात्र विधित्सितं किं न स्यादित्याशङ्कयाह न हीति । तर्हि किमत्र विवक्षितमिति प्रश्नपूर्वकमाह कि तीति । दृष्टिसंनिपातो दृष्टेश्चक्षुषो रूपादिविषयप्रवृत्तिराहित्यम् । कथमसावनायासेन सिध्यति तत्राह स चेति । समाधानस्य प्राधान्येनात्र विवक्षितत्वाद् दृष्टेबहिर्विषयत्वेन तद्गङ्गप्रसंगात्तस्या विषयेभ्यो व्यावृत्यान्तरे च संनिपातो विवक्षितो भवतीत्यर्थः । तथापि कथं स्वनासिकाग्रसंप्रेक्षणमत्र श्रुतमविवक्षितमित्याशङ्कयाह स्वनासिकेति । तत्रैव मनःसमाधाने का हानिरित्याशङ्कय वाक्यशेष- विरोधान्मैवमित्याह आत्मनि हीति । किं तर्हि संप्रेक्ष्येत्यादी विवक्षितमित्याशङ्कयाह तस्मादिति । दक्षिणोत्तरचक्षुषोर्या दृष्टिस्तस्या बाह्याद्विषयाद्वैमुख्येनान्तरेव संनिपतनमत्र स्वकीयं नासिकाग्रं नासिकान्तं संप्रेक्ष्यति विवक्षितमित्यर्थः । तत्रैवोत्तरमपि विशेषणमनुकुलमित्याह दिशश्चेति । अनव- लोकयन्नासीदित्युत्तरत्र संबन्धः, अन्तरा दिशामवलोकनमपि योगप्रतिबन्धकमिति तत्प्रतिषेधः ॥१३॥ ५० टी० । अथ चित्तैकाग्योपयोगिनी देहधारणामाह सममिति द्वाभ्याम् । कायं देहम- ध्यः शिरश्च ग्रीवा चेति समाहारः कायशिराग्रीवं सममवक्रं यथा भवति तथा धारयन् धारणां कुर्वन् आसीतेत्युत्तरेणान्वयः । अयमर्थः । योगशास्त्रप्रकारेणासनोपवेशे गुदलिङ्गान्तरे स्थितादाधारचक्रान्मू- लबन्धादिवन्धत्रयसिद्धावाधिव्याधिमनीवेगोपशमे सति कायग्रीवाशिरमां समत्वं स्थाणुवद्रुजुत्वमच- लत्वं च भवति । एवं देहधारणामुक्त्वा दृष्टिधारणामाह दिश इति । दिशः समन्ततोऽनवलोकयन्न- पश्यन् तर्हि देहदृष्टिरवशिष्टा तामपि निषेधयति । स्वं नासिकाग्रं संप्रेक्ष्य अनेन चित्तैकाग्योपलक्षण- मुदितम् ॥ १३ ॥ प्रशान्तात्मा विगतभीब्रह्मचारिव्रते स्थितः॥ मनः संयम्य मच्चित्तो युक्त आसीत मत्परः॥ १४ ॥ प्रशान्तति । किं च प्रशान्तात्मा प्रकर्षण शान्त आत्मान्तःकरणं यस्य सोऽयं प्रशान्तात्मा विगतभीविगतभयो ब्रह्मचारिव्रते स्थितो ब्रह्मचारिणो व्रतं ब्रह्मचारिव्रतं ब्रह्मचर्य गुरुशुश्रूषाभिक्षाभुक्त्यादि तस्मिन् स्थितस्तदनुष्ठाता भवेदित्यर्थः । किं च मनः संयम्य मनसो उत्तीरुपसंहत्येत्येतन् मच्चित्तो मयि परमेश्वरे चित्तं यस्य सोऽयं मञ्चित्तो युक्तः समाहितः सन्नासीतोपविशेद श्रीमद्भगवद्गीता- - मत्परोऽहं परो यस्यसोऽयं मत्परो भवति कश्चिद् रागी स्त्रीचित्तो न तु स्त्रियमेव परत्वेन गृह्णाति, किं तर्हि राजानं महादेवं वायं तु मञ्चित्तो मत्परश्च ॥ १४ ॥ आ० टी० । योगं युञानस्य विशेषणान्तराणि दर्शयति किं चेति । अन्तःकरणस्य प्रशान्ती रागद्वेषादिदोषराहित्यं, तस्याश्च प्रकर्षा रागादिहेतोरप निवृत्तिः, विगतभयत्वं सर्वकर्मपरित्यागे शा- स्त्रीयनिश्चयवशान्निःसंदिग्धबुद्धित्वं, भिक्षाभुक्त्यादीत्यादिशब्देन त्रिषवणस्नानशौचाचमनादि गृह्यते । विशेषणान्तरमाह किं चे ति । उपसंहृत्य योगनिष्ठो भवेदिति शेषः । मनोवृन्युपसंहारे ध्यानमपि न सिध्येत्तस्य तदृत्त्यावृत्तिरूपत्वादित्याशङ्कयाह माञ्चत्त इति । विषयान्तरविषयमनोवृत्त्युपसंहारेणा- त्मन्येव तन्नियमनान्न ध्यानानुपपत्तिरित्यर्थः । मच्चित्तत्वेनैव मत्परत्वस्यसिद्धत्वाद् मत्पर इति एथग् विशेषणमनर्थकमित्याशङ्कयाह भवतीति । अन्तःकरणशुद्धिर्योगस्यावान्तरफलम् ॥ १४ ॥ प० टी० । अथ मनोधारणामाह प्रशान्तात्मेति । प्रशान्तो निःसंकल्प आत्मा चित्तं यस्य विगतभीनिरस्तभयो निर्जने एकाकिना कथं स्थातव्यमिति भयशून्यः। यहा विगतभीरित्युपलक्षणम् । "वीरित्येतत्सर्वं मन एव" इति श्रुतेर्मनोधर्मरहितः । अथावसरमाह ब्रह्मचारिणां यहृतं तत्र स्थितः संन्या सग्रहणात्पूर्वमेवेत्यर्थः । अवंविधमाह। कार्ये प्रवृत्तस्याश्रयव्यतिरेकेण विनोपशमः कथं स्यादित्याह मच्चित्त इति । मयि चित्तं यस्य निरन्तरं मत्स्मरणवान् न हि तावदेव मत्प्रयोजनमित्याह मत्पर इति। अहमेव परं प्राप्तव्यं पदं यस्य स तथा। तदुक्तमकुलागमे 'सुखासने समासीनस्तत्त्वाभ्यासं समाचरन् । सदाभ्यासेन तत्कुर्यात्परतत्त्वप्रकाशनम् ॥१॥आसनं प्राणसंरोधः प्रत्याहारोऽथ धारणा।ध्यानं समाधिरेता- नि योगाङ्गानि वरानने ॥२॥ एकान्ते विजने रम्ये गुहायां पण्यभूमिके। रहिते मशकैर्दशैर्देवायतनकेऽपि वा ॥ ३ ॥ सिद्धक्षेत्रे महातीर्थे ध्यानसिन्हिः प्रजायते । तत्र सिद्धासनं बड़ा ऋजुकायं तु कारयेत् ॥४॥ ऊर्ध्व मेदादधो नाभेः कन्दो ग्रन्थिरिव स्थितः । तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥ ५ ॥ श्रुतिरपि शातपथी-" हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते" इति । अत्रपुराततमिति हृदयाकाशे नाडीभिर्निर्मितं स्थानम्, शेषं स्पष्टम् । तथा ' प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ६ ॥ सिनीवाली चानुमतिः पूषा चैव यशस्विनी। अलम्बुका कुहूश्चैव शङ्खिनी दशमी तथा ॥ ॥ एतन्नाडीमयं चक्रं तिस्त्रस्तत्र प्रवाहिकाः । इडा च पिङ्गला चैव सुषुम्ना प्राणवहिकाः । इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥८॥ सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयो मताः । पूरयेद्दामनाड्या च रेचयेदन्यया ततः ॥९॥ तथैवपूरयेद्भूयः पूरयेत्कुम्भवत्ततः । एवमभ्यासयोगेन नाडीशुद्धिः प्रजायते ॥ १० ॥ चन्द्राङ्गे प्राणम- भ्यस्य सूर्याङ्गे पानमभ्यसेत् । शीतांशुसूर्ययोर्मध्ये चिन्तयेत्परमेश्वरम् ॥ ११ ॥ सुषुम्नान्तर्गतं देवं चिद्रूपं भावयेत्सदा । प्रणवं तारकं ब्रह्म नित्यं ध्यायन्ति योगिनः ॥ १२ ॥ तद्वयाने तत्क्षणात्सि- दिनीयते नात्र संशयः । प्रणवाभ्यासतो योगी मया तुल्यो वरानने ॥ १३॥' योगमार्तण्डे-- योनि- स्थानकमा मूलघाटतं कृत्वा दृढ़ विन्यसेन्मेढ़े पादमथैवमेव नियतं धृत्वा समं विग्रहम् । स्थाणुः संयमितन्द्रियोऽचलदृशा पश्ये इ भ्रुवोरन्तरं चैतन्मोक्षकपाटभेदजनक सिद्धासनं प्रोच्यते ॥ १ ॥ वामो- रूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढौ । अङ्गुष्ठौ हृदये निधाय चुबुकं नासाग्रमालोकयदेतद् व्याधिविकारनाशि यमिनां पद्मासनं प्रोच्यते ॥२॥ आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ ३ ॥ अपानप्राणयोरेक्यं क्षयो मूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४॥ पाणिभागेन संपीड्य योनिमाकुञ्चयेद्गुदं । अपानमूलमाकृष्य मूलबन्धं निगद्यते ॥ ५ ॥ उदरे पश्चिमे भागे नामेरूवं निगद्यते । उडियानो ह्ययं बन्धः कण्ठदुःग्वौघनाशनः ॥ ६ ॥ बभ्रातीह शिरोजालमधो याति षष्ठाध्यायः। नभोजलम् । ततो जालन्धरं बन्धं कण्ठसंकोचलक्षणम् ॥ ७ ॥ जालन्धरकते बन्धे कण्ठसंकोचलक्षणे। न पीयूषं पतत्यनौ न च वायुः प्रकुप्यति ॥ ८ ॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवो- रन्तरर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ९ ॥ युक्तासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेका- न्ते जपेदोङ्कारमव्ययम् ॥ १० ॥ भूर्भुवःस्वरिमे लोकाः सोमसूर्याग्निदेवताः। यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ११ ॥ आसनेन रुनं हन्ति प्राणायामेन पातकम् । विकारं मानसं योगी प्रत्याहारेण मुञ्चति ॥ १२ ॥ धारणार्थ मनोधैर्य ध्यानं निश्चलमद्रुतम् । समाधेक्षिमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥ १३ ॥ प्राणायामाद्विषट्वेन प्रत्याहारः प्रकीर्तितः । प्रत्याहारद्विषट्रेन धारणा जा- यते शुभा ॥ १४ ॥ धारणा द्वादश ध्यानं प्रोक्तं ध्यानविशारदैः । ध्यानद्वादशकेनैव समाधिरभि- धीयते ॥ १५ ॥ १४ ॥ युञ्जन्नेवं सदात्मानं योगी नियतमानसः ॥ शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५॥ अथेदानी योगफलमुच्यते युञ्जनिति । युजन् समाधानं कुर्वन्नेवं यथो- तन विधानेन सदा योगी नियतमानसो नियतं संयतं मानसं मनो यस्य सो- ऽयं नियतमानसः स शान्तिमुपरति निर्वाणपरमां निर्वाणं मोक्षस्तत्परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमां मत्संस्थां मदधीनतामधिग- च्छति प्राप्नोति ॥ १५ ॥ आ० टी० । संप्रति परमफलकथनपरत्वेनानन्तरश्लोकमादत्ते अथेति । योगस्वरूपं तदङ्ग- मासनमपि तत्कर्तृविशेषणमित्यस्यार्थस्य प्रकथनानन्तरमित्यथशब्दार्थः, आत्मानं युञ्जन्निति संबन्धः, आत्मशब्दो मनोविषयः, यथोक्तो विधिरासनाादेः, उक्तविशेषणत्रयद्योतनार्थ सदेत्युक्तं, योगी ध्यायी संन्यासीत्यर्थः । मनःसंयमस्य योग प्रत्यसाधारणत्वं दर्शयति नियतेति । शान्तिशब्दितो- परतेः सर्वसंसारनिवृत्तिपर्यवसायित्वं मत्वा विशिनष्टि निर्वाणेति । यथोक्ताया मुक्तेर्ब्रह्मस्वरूपाव- स्थानादनन्तरत्वमाह मत्संस्थामति । मदीनां मदात्मिकामित्यर्थः ॥ १५ ॥ ५० टी० । अथ योगाभ्यासफलमाह युञ्जनिति । एवममुना प्रकारेण योग्यभ्यासरत आत्मानं मनः समाहितं कुर्वन्नियतं स्वाधीनं मानसं यस्य तथाविधः सन् शान्त संसारोपरममाधि- गच्छति । किंभृतां, निर्वाणं परमं प्राप्तव्यस्थानं यस्याम्, माय संस्था स्थितियया सा मदाकारेण सं. स्थानमित्यर्थः । श्रतिरपि तैत्तिरीके.-" युञ्जानः प्रथमं मनस्तत्त्वाय सविता धिय" इति । भाष्यम्- प्रथमं प्रारम्भे मनो युञ्जानः स्वाधीनं कुर्वाणोऽनन्तरं तत्त्वायात्मप्राप्तये धियो बुद्धीर्युञ्जानः पुरुषः सविता स्वयमात्मैव भवति ॥ १५ ॥ नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः॥ न चातिस्वप्नशीलस्य जातो नैव चार्जुन ॥ १६ ॥ इदानीं योगिन आहारादिनियम उच्यते नात्यश्नत इति । नात्यश्नत आत्मसंमितमानपरिमाणमतीत्यानतोऽत्यनतो न योगोऽस्ति, न चैकान्तमन- श्रतो योगोऽस्ति “ यदुह वा आत्मसंमितमन्नं तदवति तन हिनस्ति, यद्भूयो - २.८ श्रीमद्भगवद्गीता- हिनस्ति तद् यत् कनीयो न तदवति” इति श्रुतेः । तस्माद् योगी नात्मसं. मितादनादधिकं न्यूनं वाश्नीयादथ वा योगिनो योगशास्त्रे परिपठितादनपरि- माणादतिमात्रमनतो योगो नास्ति । उक्तं हि अर्धमशनस्य सव्यञ्जनस्य तु- तीयमुदकस्य तु वायोः संचरणार्थं तु चतुर्थमवशेषयेद् ' इत्यादि परिमाणं तथा न चातिस्वप्नशीलस्य योगो भवति नैव चातिमात्रं जाग्रतो योगो भवति चार्जुन ॥ १६ ॥ आ० टी० । आहारादीत्यादिशब्देन विहारजागरितादि चोच्यते, आत्मसंमितमन्नपरिमाण- मष्टग्रासादि आहारनियमे शतपथश्रुति प्रमाणयति यदिति । तदन्नं भुज्यमानं यदु ह वा इति प्र- सिद्धया श्रुत्यानूदितमवति, अनुष्ठानयोग्यतामापाद्यानुष्ठानद्वारेण भोक्तारं रक्षति न पुनस्तदन्नमस्यान- र्थाय भवतीत्यर्थः । यत् पुनरात्मसंमिताद भयोऽधिकतरं शास्त्रमतिक्रम्य भुज्यते तदात्मानं हिनस्ति भोक्तुरनाय भवति यच्चान्नं कनीयोऽल्पतरं शास्त्रनिश्चयाभावादद्यते तदन्नमनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते तस्मादत्यधिकमत्यल्पं चान्नं योगमारुरुक्षता त्याज्यमित्यर्थः । श्रुतिसिद्धमर्थ निगमयति तस्मादिति । नेत्यादेर्व्याख्यानान्तरमाह अथ वेति । किं तदनपरिमाणं योगशास्त्रोक्तं यदधिकं न्यूनं वाभिव्यवहरता योगानुपपत्तिरित्याशङ्कयाह उक्तं हीति । 'पूरयेदशनेनार्ध तृतीयमुदकेन तु । वायोः संचरणार्थाय चतुर्थमवशेषयेद' इति वाक्यमादिशब्दार्थः । यथा नात्यन्तमश्नताऽनश्नतश्च योगो न संभवति तथात्यन्तं स्वपतो जाग्रतश्च न योगः संभवतीत्याह तथेति ॥ १६ ॥ प० टी० । अथाभ्यासनिष्ठस्याहारादिनियममाह । नात्यश्नत इति द्वाभ्याम् । अति अत्यन्तम- भाति जेमात तस्य तथैकान्तमत्यन्तमनश्नत उपोषितस्य तथात्यन्तं स्वप्नशीलस्य निद्रासक्तस्या- थवात्यन्तं जाग्रतो योगो दुःखहा दुःखोपशमाय न भवति ॥ १६ ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ॥ युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७॥ कथं पुनर्योगी भवतीत्युच्यते युक्तेति । युक्ताहारविहारस्य युक्तचेष्टस्य आ- हियत इत्याहारोऽन्नं विहरणं विहारः पादकमस्ती युक्ती नियतपरिमाणौ यस्य स युक्ताहारविहारस्तस्य, युक्तचेष्टस्य तथान्या च युक्ता नियता चेष्टा यस्य कर्मसु, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्चावबोधश्च ती नियतकालौ यस्य तस्य युक्ताहारविहारस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःख- हा दुःरवानि सर्वाणि हन्तीति दुःखहा सर्वसंसारदुःरवक्षयकृद् योगो भवती- त्यर्थः ॥ १७ ॥ आ० टी० । आहारनिद्रादिनियमविरहिणो योगव्यतिरेकमुक्त्वा तन्नियमवतो योगान्वयं व्याचष्टे कथं पुनरियादिना । अन्नस्य नियतत्वमर्धमशनस्येत्यादि, विहारस्य नियतत्वं योजनान्न- परं गच्छेदित्यादि, कर्मसु चेष्टाया नियतत्वं वाङनियमादि, रात्रौ प्रथमतो दशघटिकापरिमिते काले जागरणं मध्यतः स्वपनं पुनरपि दशघटिकापरिमिते जागरणमिति स्वप्नावबोधयोर्नियतकालत्वम्, एवं षष्ठाध्यायः । २.९ प्रयतमानस्य योगिनो भवति । योगस्य फलमाह दुःखहेति । सर्वाणीत्याध्यात्मिकादिभेदभिन्नानी- त्यर्थः । यथोक्तयोगमन्तरेणापि स्वप्नादौ दुःखनिवृत्तिरस्तीति विशिनष्टि सर्वेति ।विशुद्धविज्ञानद्वारेति शेषः ॥ १७ ॥ प० टी० । किं तु युक्तेति । युक्तो नियमित आहारो भोजनं विहारश्चेष्टा यस्य तथा कर्मसु कार्येषु ॥ १७ ॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निःस्टहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८॥ अथाधुना कदा युक्तो भवतीत्युच्यते यदेति । यदा विनियतं चित्तं वि. शेषेण नियतं संयतमेकाग्रतामापन्नं चित्तं हित्वा बाह्यचिन्तामात्मन्येव केवले- ऽवतिष्ठते स्वात्मनि स्थितिं लभत इत्यर्थः । निःस्पृहः सर्वकामेभ्यो निर्गता दृष्टा- दृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्युच्यते तदा तस्मिन् काले ॥ १८ ॥ आ० टी० । सफलस्य साङ्गस्य योगस्योक्त्यनन्तरं यदा होत्यादावतकालानुवादेन युक्तं लक्षयितुमनन्तरश्लोकप्रवृत्ति दर्शयति अथाधुनेति । विशेपेण संयतत्वमेव संक्षिपति एकाग्रतामिति । आत्मन्येवेत्येवकारार्थ कथयति हित्वेति । केवलत्वमद्वितीयत्वम् । तात्मस्थिति विवृणोति स्वात्म- नीति । चित्तस्य हि कल्पितस्यात्मैव तत्त्वं तत् पुनरन्यतः सर्वतो निवारितमधिष्ठाने निमग्नं तिष्ठ- तीति भावः । तस्यामवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृप्णो युक्तो व्यवाहियत इत्याह नि:- स्टह इति ॥ १८ ॥ प० टी० । तथा युक्तनिद्राप्रबोधस्य पुरुषस्य परीक्षामाह यदेति । विनियतं निरुद्धं चित्त- मात्मन्येवावतिष्ठते । यदा च सर्वकामेभ्यो निःस्टहो भवति तदा युक्तो निष्पन्नयोग इत्युच्यते ॥१८॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥ योगिनो यतचित्तस्य युजतो योगमात्मनः ॥ १९॥ तस्य योगिनः समाहितं यचित्तं तस्योपमोच्यते यथेति । यथा दीपः प्रदीपो निवातस्थो निवाते वातवर्जिते स्थाने स्थितो नेते न चलति सोपमो- पमीयतेऽनयेत्युपमा योगज्ञेश्चित्तप्रचारदर्शिभिः स्मृता चिन्तिता। योगिनो य- तचित्तस्य संयतान्तःकरणस्य युजतो योगमनुतिष्ठत आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥ १९॥ आ० टी० । उपमा योगिनश्चित्तस्थैर्यस्योदाहरणमित्यर्थः । उपमाशब्दस्य प्रदीपविषयत्व- सिद्धयर्थ करणव्युत्पत्ति दर्शयति उपमीयत इति । योगिनो यथोक्तविशेषणवतश्चित्तस्थैर्यस्येति शेषः ॥ १९॥ १ नेङ्गते नैजति----मु. पु. ।

२१०
श्रीमद्भगवद्गीता-
५० टी० । अथात्माकारतया स्थितस्योपमानमाह यथेति । वातशून्यं स्थानं निवातं तत्र
स्थितो दीपो यथा नेङ्गते न घलति तत्रत्यं पदार्थमात्रं स्पष्टतया प्रकाशयति । प्रकृत सोपमा हु-
टन्तिः स्मृतः । कस्य, आत्मनो योगं युञ्जतोऽभ्यस्यतो योगिनो विक्षेपशून्यचित्तस्य ॥ १९॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया ॥
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥२०॥
यत्रेति । एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सद् यत्र
यस्मिन् काल उपरमते चित्तमुपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचार
योगसेवया योगानुष्ठानेन यत्र चैव यस्मिंश्च काल आत्मना समाधिपरिशुद्धे-
नान्तःकरणेनात्मानं परं चैतन्यं सर्वतो ज्योतिःस्वरूपं पश्यनुपलभमानः स्व
एवात्मनि तुष्यति तुष्टिं भजते ॥ २० ॥
आ० टी० । द्विविधः समाधः संप्रज्ञातोऽसंप्रज्ञातश्च, ध्येयकाकारसत्त्ववृत्तिभेदेन कथंचि-
ज्ज्ञायमाना संप्रज्ञातः समाधिः, कथमपि पृथगज्ञायमाना सैव सत्त्ववृत्तिरसंप्रज्ञातः समाधिस्तत्र सामा-
न्येन समाधिलक्षणमभिधायासंप्रज्ञातस्य समाधेरधुना लक्षणं विवक्षन्नाह एवमिति । काले समाध्यु-
पलक्षिते, एवकारस्तुप्यतीत्यनेन संबध्यते । चकारस्य संबन्धमाह यस्मिंश्चेति । कालस्तु पूर्ववत् ।
कर्मकारकत्वेन निर्दिष्टमात्मानं तत्पदार्थत्वेन व्याचष्टे परमिति । आत्मनीत्यस्य त्वंपदार्थविषयत्व-
माह स्व एवेति । परमात्मानं प्रतीच्येव तद्भावेनापरोक्षीकुर्वन्नतुष्टिहेत्वभावात्तुप्यत्येवेत्यर्थः, तस्मिन्
काले यागसिद्धिर्भवतीति शेषः ॥ २० ॥
प० टी० । अथ निष्पन्नयोगस्वरूपमाह यत्रेत्यादिचतुर्भिः । यत्र यस्यामवस्थायां योग-
मेवया निरन्तराभ्यासेन निरुद्धं विक्षेपरहितं सदुपरमते उपरमं विषयेभ्यो व्यावृत्ति प्राप्नोति । यत्र
चात्मनैव शुद्धान्तःकरणेनात्मानं पश्यन् ज्ञानदृष्टयानुभवन्नात्मन्येव सुग्वस्वरूप तुष्यति मुखरूप-
तया तिष्ठति तं विद्यादिति चतुर्थेनान्वयः ॥ २० ॥
सुखमात्यन्तिकं यत्तबुद्धिग्राह्यमतीन्द्रियम् ॥
वैत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥२१॥
किं च सुखमिति । सुखमात्यन्तिकमत्यन्तमेव भवतीत्यात्यन्तिकम-
नन्तमित्यर्थः । यत्तद्बुद्धिग्राह्यं बुद्ध्यैवेन्द्रियनिरपेक्षया गृह्यत इति बुद्धिग्राह्यम-
तीन्द्रियमिन्द्रियगोचरातीतमविपयजनितमित्यर्थः । वेत्ति तदीदृशं सुरखमनुभ-
वति यत्र यस्मिन् काले न चैवायं विहानात्मस्वरूपे स्थितस्तस्मान्नैव च-
लति तत्त्वतस्तत्त्वस्वरूपान्न प्रच्यवत इत्यर्थः ॥ २१ ॥
भा० टी० । योगसिद्धिकालं प्रकारान्तरेण प्रकटयति किं चेति । बुद्धिशब्दः स्वानुभववि-
षयः । इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेरतीन्द्रियमिति पुनरुक्तमित्याशङ्कयाह । अविषयेति पद-
च्छेदः । न चेत्यादि । अपेक्षितपूरणम् आत्मस्वरूप इति । तस्मात्तत्त्वत इति संबन्धः, नैवेत्येवकारसं-
बन्योक्तिः, चकारः सप्तम्या संबन्धनीयः । यत्रेति पूर्ववत् संबन्धः ॥ २१ ॥

पष्ठाध्यायः । प० टी० । अथात्मसुखस्य विषयसुखातिरिक्तसत्त्वमुत्कृष्टत्वं च दर्शयति मुखमिति । भयं योगी यदात्यन्तिकं सर्वोत्कृष्टं सुखं वेत्त्यनुभवति तद्बुद्धिग्राह्यम् । केवलं बुद्धचैवात्माकारया ग्राह्य- मनुभवनीयं । न तु विषयेन्द्रियजसुखवदित्याह अतीन्द्रियमिति । विषयन्द्रियसंबन्धातीतम् । तथा सुषुप्तौ तथा चातीन्द्रियपदेन विषयसुखाद्वैलक्षण्यं दर्शितम् । आत्यन्तिकपदेनो कृष्टत्वं दर्शित- मित्यर्थः । अथ पुनरुत्कर्षमेव व्यक्ति यत्रेति । यत्र यस्मिन् सुखे तत्त्वतो निश्चयेन स्थितः स्थिरीभूतः सन्नैव चलति सुखान्तरं नापेक्षते परमानन्दे क्षुद्रानन्दानामन्तर्भूतत्वात् । तदुक्तमध्यात्म- मीमांसायाम्-' जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नांश्च कुर्वन् श्राम्यत्सर्वेन्द्रियेभ्योऽधिगतमपि सुखं विस्मरन्याति निद्राम् । विश्रामायात्मरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि सौख्यं सर्वोत्तम स्यात्परिणतिविरसादिन्द्रियोत्थात्सुखाच्च ॥ १ ॥' इति ॥ २१ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥ यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥ यमिति । किं च यं लब्धा यमात्मलाभं लब्धा प्राप्य चापरमन्य- ल्लाभान्तरं ततोऽधिकमस्तीति न मन्यते न चिन्तयति । किं च यस्मिनात्म- तत्त्वे स्थितो दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महतापि न विचा- ल्यते ॥ २२ ॥ आ० टी० । प्रकारान्तरेण प्रकृतं योगं विशिनष्टि किं चेति । आत्मलाभान्नपरं विद्यते इति स्मृत्वा व्याचष्टे यमात्मलाभामिति । लाभान्तरं पुरुषार्थभूतं, ततस्तस्मादात्मलाभादिति यावत, तं विद्यादित्युत्तरत्र संबन्धः । यस्मिन्नित्याद्यवतारयति किं चेति । अपरिपक्वयोगा यथा दर्शितन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन् स्थितो योगी तं योग विद्यादिति पूर्ववत् ॥ २२ ।। प० टी० । अथ तदेव प्रकटयति यदिति । यत्सुखं लब्ध्वा ततः सकाशादपरं लाभमधिकं न मन्यते तस्यैव निरतिशयत्वात् । यथा सषुप्तिसुख प्राप्तः कश्चिद्भोजनार्थं प्रबोधनीयः प्रत्यवायश्र- वणात् । श्रुतिरपि-"तस्मादायतं न बोधयेद्दर्भिपज्यं हास्य भवति" इति । भाप्यम्-यस्मात्सुषुप्तौ- निरतिशयं सुखं भवति तस्मात्कारणादायतं विस्तृतहस्तपादनिद्रितं पुरुष न बोधयेज्जागरं न प्राप- येत् । हि यतोऽस्य जागरं प्रापितस्य दुर्भिषज्यमप्रतिकारं दुःखं भवति । किं च यस्मिन् सुखे स्थितः स्थिरीभूतः सन् गुरुणा महतााप रोगशोकादिदःखेन न विचाल्यते स्वावस्थां न प्राप्यते ॥ २२ ॥ तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् ॥ स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥२३॥ तमिति । यत्रोपरमते इत्याद्यारभ्य यावद्भिर्विशेषणेविशिष्ट आत्मावस्था- विशेषो योग उक्तस्तं विद्याद् विजानीयाद् दुःखसंयोगवियोगं दुःरवैः सं- योगो दुःखसंयोगस्तेन वियोगो दुःखसंयोगवियोगस्तं दुःखसंयोगवियोग योग इत्येवसंज्ञितं विपरीतलक्षणेन विद्याद् विजानीयादित्यर्थः । योगफलमुपसं- हृत्य पुनरन्वयारम्भेण योगस्य कर्तव्यतोच्यते, निश्चयानिर्वेदयोर्योगसाधनत्व- १ यलम्वति पाठः प. टी. धृतः ।

२१२ श्रीमद्भगवद्गीता- विधानार्थ स यथोक्तफलो योगो निश्चयेनाध्यवसायेन योक्तव्योऽनिर्विण्णचेतसा न निविण्णमनिर्विणं किं चेतस्तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः॥ २३ ॥ आ० टी० । तं विद्यादित्याद्यपेक्षितं पूरयन्नवतारयति यत्रेति । तमित्यात्मावस्थाविशेष परा- मृशति दुःखसंयोगस्य वियोगो वियोगसंज्ञितो युज्यते स कथं योगसंज्ञितः स्यादित्याशङ्कयाह विपरीतेति । इयं हि योगावस्था समुत्खातनिखिलदुःखभेदेति दुःखसंयोगाभावो योगसंज्ञामर्हतीत्यर्थः। उपसंहृतयोगफले किमिति पुनर्योगस्य कर्तव्यत्वमुच्यते तत्राह योगफलमिति । प्रकारान्तरेण यो- गस्य कर्तव्यत्वोपदेशारम्भोत्रान्वारम्भः योगं युञ्जानस्तत्क्षणादुक्तां संसिद्धिमलभमानः संशयानो विवर्ते- तेति तन्निवृत्त्यर्थ पुनः कर्तव्योपदेशोऽर्थवानिति मत्वाह निश्चयेति । तयोः साधनत्वविधानमेवाक्षर- योजनया साधयति स यथेति । इह जन्मनि जन्मान्तरे वा सेत्स्यतीत्यध्यवसायेन योक्तव्यः कर्तव्यः ॥ २३ ॥ ५० टी० । एवंभूतो योऽवस्थाविशेषः स एव योगशब्दव्यपदेश्य इत्याह तं विद्यादिति । तं योगसंज्ञितं विद्याद् योगोऽत्र परमात्मक्षेत्रयोोजनम् यथा सुषुप्तौ परमात्मा क्षेत्रज्ञेनाश्लिष्यते श्रुतिरपि-" एवमेवायं शारीर आत्मा प्राज्ञेन आत्मना संपरिष्वक्तो न बाह्यं किं च न वेदनान्तरम्" इति । भाप्यम्-एवमेव सुषुप्तिवच्छारीरः शरीरावच्छिन्नः परमात्मा क्षेत्रज्ञेन जीवेन परिप्वक्त आ- लिङ्गितो बाह्यमान्तरं वा किं चिन्न वेद न जानाति । अथ किंभूतं योग, दुःखसंयोगवियोगं दुःखेन सह संयोगो यैस्ते दुःखसंयोगा विषयास्तेषां वियोगो यस्मिन्ननेन विषयसुखमपि दुःस्वपक्षान्तर्भूत- मिति सूचितम् । अथ योगनिर्वाहार्थमाह सेति । एवं स योगो निश्चयेन नियमेन योक्तव्योऽभ्यस नीयः। अथ यद्यप्यभ्यासेन शीघं सिाद्धर्भवति तथापि दुःखं न मन्त्रीतेत्याह अनिर्विष्णचेतमेति । न निर्वेदं प्राप्तं चेतो यस्य तेनानुद्विग्रान्तःकरणेनेत्यर्थः ॥ २३ ॥ संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेपतः ।। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥२४॥ किं च संकल्पेति । संकल्पप्रभवान् संकल्पः प्रभवो येषां कामानां ते संकल्पप्रभवाः कामास्तान् कामांस्त्यक्त्वा परित्यज्य सर्वानशेषतो निर्ले- पेन किं च मनसेव विवेकयुक्तेनेन्द्रियग्राममिन्द्रियसमुदाय विनियम्य नियमन रुत्वा समन्ततः समन्तात् ॥ २४ ॥ आ० टी० । इतश्च योगस्य कर्तव्यत्वमिति प्रतिनानीते कि चेति । केन क्रमेण कर्तव्यत्व मित्यपेक्षायामाह संकल्पेति । संकल्पः शोभनाध्यासः । सर्वानित्युक्त्वा पुनरशेपत इति पुनरुक्तिरि- त्याशङ्कयाह निलेपनेति । यथा शेषो न भवति तथा सर्वेषां कामानां शोभनाध्यासाधीनानां त्या- गस्य योगानुष्ठानशेषत्ववद्विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्त- व्यमित्याह किं चेति ॥ २४ ॥ प० टी० । एवमभ्यासयोगमुक्त्वाधुना राजयोगं वक्तुमारभते संकल्पेत्यादितः। संकल्पात् प्र- भव उत्पत्तियेषां ते तथाभूता ये कामास्तान् सर्वानशेषतस्तन्मूलभूतवासनाभिः सह त्यक्त्वा। तत्रापि कारणमाह मनसेति । समन्ततः प्रसरन्तं ज्ञानकर्मेन्द्रियाणां नामं समूहं मनसैव नियम्य न तु वायुधार- पष्ठाध्यायः । २१३ णादिप्रयासैः । तदुक्तम्-'न याह चेतस्त्वमितस्ततोपि देहेन्द्रियाद्येनं कुरुष्व कर्म । त्वं यत्र कुत्राप्युप- विश्य नित्यं विचारयस्व स्वनिदानमन्तः' इति ॥ २४ ।। शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ॥ आत्मसंस्थं मनः कृत्वा न किं चिदपि चिन्तयेत् ॥२५॥ शनैरिति । किंच शनैः शनैर्न सहसोपरमेदुपरतिं कुर्यात्, कया बुद्ध्या, किंविशिष्टया धृतिगृहीतया धृत्या धैर्येण गृहीतया धैर्येण युक्तयेत्यर्थः । आत्मनि संस्थितमात्मैव सर्व न ततोऽन्यत् किंचिदस्तीत्येवमात्मसंस्थं मनः कृत्वा न किं चिदपि चिन्तयेद्, एष योगस्य परमोऽवधिस्तत्रैवमात्मसंस्थं मनः कर्तु प्रत्तो योगी ॥ २५ ॥ आ० टी० । कामत्यागद्वारेणेन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शसितारं प्रत्याह शनैः शनैरिति । सहसा विषयेभ्यः सकाशादुपरमे मनसो न स्वास्थ्यं संभवतीत्यभिप्रेत्याह न सहसेति । तत्र साधनं धैर्ययुक्ता बुद्धिरित्याह कया इत्यादिना । भूम्यादीरव्याकृतपर्यन्ताः प्रकृतीरष्ट पूर्वत्र पूर्वत्र धारणं कृत्वोत्तरोत्तरक्रमेण प्रविलापयेदिति भावः । अव्यक्तमात्मनि प्रविलाप्यात्ममात्रनिष्ठं मनो विधाय चिन्तयितव्याभावादतिस्वस्थो भवेदित्याह आत्मेति । तत्र संस्थितिमेव मनसो विवृणोति आत्मैवेति । योगविधिमुपक्रम्य किमिदमुक्तमित्याशङ्कयाह एष इति । यन्मनमो नैश्चल्यमिति शेषः । ननु मनसः शब्दादिनिमित्तानुरोधेन रागद्वेषवशादत्यन्तचञ्चलस्यास्थिरस्य तत्र तत्र स्वभाधेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं चेति तत्राह तत्रेति । योगप्रारम्भः सप्तम्यर्थः, एवंशब्देन मनसैवेत्या- दिरुक्तप्रकारो गृह्यते ॥ २५ ॥ ० । अथास्यापि निर्वाहमाह शनैः शनैरिति । धृति/रता तया गृहीतया नियमितया निश्चयात्मिकया बुद्धया कृत्वा संकल्पात्मकं मनो बलादात्मसंस्थं कृत्वात्मातिरिक्तं न किं चिदपि चिन्तयेत् ।, एवं शनैः शनैरभ्यासक्रमेण न सहसोपरमेद्वाह्यप्रपञ्चादुपरमं प्राप्नुयात् । सदक्तं योगसारावल्याम-' असमर्थों यदाभ्यासे राजयोगं तदाचरेत् । येन स्यात्तुरीयावस्था सा पक्कैवोन्मनी भवेत् ॥ १ ॥ प्रसह्य संकल्पपरंपराणां संछेदने संततसावधानः । आलम्बनाशादपचीय- मानं शनैः शनैः शान्तिमुपैति चेतः ॥ २ ॥ प्रकाश्यमाने परमात्मभानी नश्यत्यविद्यातिमिरे समस्ते । अहो बुधा निर्मलदृष्टयोऽपि किं चिन्न पश्यन्ति जगत्स्वरूपम् ॥ ३ ॥' ॥ २५ ॥ यतो यतो निश्चलति मनश्चञ्चलमस्थिरम् ॥ ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥ यत इति । यतो यतो यस्मायस्मानिमित्ताच्छब्दादेनिश्चलति निर्ग- छति स्वभावदोषान्मनश्चञ्चलमत्यर्थ चलमत एवास्थिरं ततस्ततस्तस्मात्त- स्माच्छब्दादेनिमित्तानियभ्य तत्तनिमित्तं याथात्म्यनिरूपणेनाभासीकत्य वैराग्य- भावनया चैतन्मन आत्मन्येव वशं नयेदात्मवश्यतामापादयेत् ॥ २६ ॥ प० टी० २१४ श्रीमद्भगवद्गीता- आ० टी० । स्वाभाविको दोषो मिथ्याज्ञानाधीनो रागादिः शब्दादेर्मनसो नियमन कप मित्याशङ्कयाह तत्तन्निमित्तमिति । याथात्म्यनिरूपणं. क्षयिष्णुत्वदुःखसंमिश्रत्वाद्यालोचनं तेन तत्र तत्र वैराग्यभावनया तत्तदाभासीकत्य ततस्ततो नियम्यैतन्मन इति संबन्धः ॥ २६ ॥ प० टी० । अथैतावतापि रजोगुणप्रचुरं मनो यद्यात्मप्रवणं न भवेत्तर्हि प्रत्याहरेण वशं नयेदित्याह यतो यत इति । स्वभावतश्चपलं बलाज्जलक्षिप्ततुम्बिकावहार्यमाणमस्थिरं मनो यं यं विषयं प्रति निश्चलति निर्गच्छति ततस्ततो विषयान्नियम्य प्रत्याहृत्यात्मन्येव वशं नयेत् । तदुक्तं वासिष्ठे-'हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च । अङ्गान्यङ्गः समाक्रम्य जयेदादौ स्वकं मनः ॥ १ ॥ चित्तमेकं न शक्नोति जेतुं स्वातन्त्र्यवर्ति यत् । ध्यानवाता वदन्मूढः स किं लोके न लज्जते ॥ २ ॥' इति । तथा चोक्तं विष्णुपुराणे । विषयेभ्यः समाहृत्य विज्ञातात्मा मनो मुनिः । चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ ३ ॥ आत्मभावं नयत्येनं तब्रह्मध्यायनं मुने । विकार्य- मात्मनः शक्त्या लोहमाकर्षको यथा ॥ ४ ॥ ' ॥ २६ ॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ॥ उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७॥ प्रति । एवं योगाभ्यासबला योगिन आत्मन्येव प्रशाम्यति मनः प्रशा- न्तमनसं प्रकर्षण शान्तं मनो यस्य स प्रशान्तमनास्तं प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमं निरतिशयमुपैत्युपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेश- रजसमित्यर्थः । ब्रह्मभूतं जीवन्मुक्तं ब्रह्मैव सर्वमित्येवं निश्चयवन्तं ब्रह्मभू- तमकल्मषं धर्माधर्मादिवर्जितम् ॥ २७ ॥ आ० टी० । मनसो वशीकरणेनोपशमे किं स्यादित्याह एवमिति । योगाभ्यासो विषय- विवेकद्वारा मनोनिग्रहाद्यावृत्तिः, प्रशान्तमात्मन्येव प्रलीनमिति यावत्, मनस्तद्वृत्त्योरभावे स्वरूप- भूतसुखाविर्भावस्य स्वापादौ प्रसिद्धिं द्योतयितुं हिशब्दः । मोहादिक्लेशप्रतिबन्धाद्योगिनि यथोक्त- सुखाप्राप्तिमाशङ्कय मनोविलयमुपेत्य परिहरति प्रशान्तति । तस्यास्मदादिविलक्षणत्वमाह ब्रह्मभ- समिति । अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वमित्याशङ्कयाह ब्रह्मैवेति । धर्माधर्म- प्रतिबन्धादयुक्ता यथोक्तसुखप्राप्तिरित्याशङ्कयोक्तम् अकल्मपमिति ॥ २७ ॥ प० टी० । एवं रजोगुणक्षये सति स्वत एवात्मसुखप्राप्तिरित्याह प्रशान्तमिति । एवं- विधमेनं योगिनं प्रत्युत्तमं सुखं सर्वोत्कृष्टमात्मसुखं स्वत एवोपैत्यधितिष्ठति । किंभूत योगिनं प्रशान्तमनसमत एव शान्तरजसमत एव ब्रह्मभूतमकल्मपं निरस्तमोहजालम् ॥ २७ ॥ युञ्जन्नेवं सदात्मानं योगी विगतकल्मपः॥ सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥२८॥ युञ्जान्नति । युञ्जनेवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदात्मानं युञ्जन् विगतकल्मषो विगतपापः सुखेनानायासेन ब्रह्मसं- षष्ठाध्यायः । २१५ स्पर्श ब्रह्मणा परेण संस्पर्शो यस्य तद् ब्रह्मसंस्पर्श सुरखमत्यन्तमुत्केष्टं सुखं नि- रतिशयं सुखमश्नुते व्याप्नोति ॥ २८ ॥ आ० टी० । उत्तमं सुखं योगिनो भवतीत्युक्तं तदेव स्फुटयति युञ्जभिति । क्रमो ययोक्तो मनसैवेन्द्रियग्राममित्यादिः, योगान्तरायो रागद्वेषादिः, सदात्मानं युञ्जन्निति संबन्धः ॥२८॥ ५० टी० । ततश्च कृतार्थो भवतीत्याह युञ्जन्नेवमिाते । एवममुना प्रकारेणात्मानं मनो युञ्जन् वशीकुर्वन् योगी गतकल्मषोऽज्ञानशून्यो भवति । तथाविधः सन् सुखेन सुखोपायेन ब्रह्मणः संस्पर्शोऽविद्यानिवर्तकोऽपरोक्षसाक्षात्कारस्तदेवात्यन्तमात्यान्तिकं मुखं परमानन्दमभुते जीवन्मुक्तो भवतीत्यर्थः ॥ २८॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ इक्षते योगयुक्तात्मा सर्वत्र समदशनः ॥ २९ ॥ इदानीं योगस्य यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकारणं तत् प्रदश्यते सर्वेति । सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वमात्मानं सर्वभूतानि चा- स्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतान्यात्मन्येकतां गतानीक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं विक्रियारहितं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः ॥ २९ ॥ आ० टी० । पापपदमुपलक्षणं पुण्यस्यापि संस्पर्शस्तादात्म्यमेकरसमुत्कर्षों विषयासंस्पर्शी योगमनुतिष्ठतो ब्रह्मभुतस्य सर्वानर्थनिवृत्तिनिरतिशयमुखप्राप्तिलक्षणो द्विविधो मोक्षो हेतुना केन स्यादिति शङ्कमानं प्रत्याह इदानीमिति । स्वमात्मानमीक्षत इति संबन्धः । सर्वभूतान्यपि तहि शेषणत्वेन पश्यति चेन्न शुद्धवस्तुज्ञानमिति नाविद्यानिवृत्तिरित्याशङ्कयाह सर्वभूतानीति । उक्त दर्शने चित्तसमाधानमुपायं दर्शयति योगेति । विषमेषूपाधिषु तदनुरोधाद्विषममेव दर्शनमुपदर्शित- दर्शनप्रतिबन्धकं प्रत्युदस्यति सर्वत्रेति ॥ २९ ॥ प० टी० । एवं निरन्तरमन्तर्ध्यानावस्थस्य देहानबन्धेनात्मानुभवमुक्त्वाधुना कदापि बाह्य- दृष्टेः सर्वात्मकत्वेनात्मप्रतीतिमीशावास्योपनिषदुक्तां दर्शयति सर्वभूतस्थमिति । योगेनाभ्यसनेन युक्तः समाहित आत्मा मनो यस्यैवविध आत्मानं समष्टिरूपं सवभूतेषु स्थूलव्यष्टिरूपेष्वन्तर्यामित्वेन तिष्ठन्तमीक्षते पश्यति तथा सर्वभृतान्यात्मनि स्थूलसमष्टिरूपे जलतरङ्गवत्तादात्म्येन पश्यति । अत एव सर्वत्र समदर्शनः सर्वभूतेषु समं तारतम्यविवर्जितं दर्शनं प्रतीतिर्यस्य स तथा । श्रुतिश्च-“यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं न तदा विचिकित्सति" इति । भाष्यम्-यः पुरुषः सर्वाणि भूतान्यात्मन्येव पश्यति । जले तरङ्गानिव तथा सर्वभूतेप्वात्मानमेव पश्यति । तरङ्गेषु जलमिव । एवंभूतश्चेत्तदा न विचिकित्सति तारतम्यविचारं न करोतीत्यर्थः ॥ २९ ॥ यो मां पश्यति सर्वत्र सर्व च मयि पश्यति ॥ तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥ १ अत्यन्तमन्तमतीत्य वर्तत इत्यत्यन्तम्----पा० लि. । २ विक्रियारहितम् -लि. १ पु० नास्ति ।

श्रीमद्भगवद्गीता- एतस्यात्मकत्वदर्शनस्य फलमुच्यते यो मामिति । यो मां पश्यति वा- सुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु पश्यति सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति तस्यैवमात्मैकत्वदर्शिनोऽहमीश्वरो न प्रणश्यामि न परो- क्षतां गमिष्यामि, स च मे न प्रणश्यति स च विहान् मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति तस्य च मम चैकात्मकत्वात् । स्वात्मा हि नामा- स्मनः प्रिय एवं भवति ॥ ३० ॥ आ० टी० । उक्तस्यैकत्वज्ञानस्य फलविकल्पत्वशङ्कां शिथिलयति एतस्येति । तत्रैक- त्वदर्शनमनुवदति यो मामिति । तत्फलमिदानीमुपन्यम्यति तस्येति । ज्ञानानुवादभागं विभजते यो मामिति । तत्कलोक्तिभागं व्याचष्टे तस्यैवमिति । अनेकत्वदर्शिनोऽपीश्वरो नित्यत्वान्न प्रण- श्यतीत्याशङ्याह नेति । अहं परमानन्दो न तं प्रति परोक्षो भवामीत्यर्थः । स चेत्यादि व्याचष्टे विद्वानिति । विद्वानिवाविद्वानीश्वरस्य न नश्यतीत्याशङ्कयोक्तं नेयादिना। अविदुषश्च स्वरू- पेण सतोऽपि व्यवहितत्वादविद्यया नष्टप्रायतेत्यर्थः । ईश्वरस्य विदुषश्च परस्परमपरोक्षत्वे हेतुमाह तस्य चेति । आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वं तत्राह स्वात्मेति ॥ ३० ॥ प० टी० । अथ सूक्ष्मसमष्टिरूपेण सर्वात्मकत्वेनात्मप्रतीतिमाह यो मामिति । यः पुरुषो मां सूक्ष्म समष्टिरूपं हिरण्यगर्भ सर्वत्र सूक्ष्मव्यष्टिरूपेषु सूक्ष्मशरीरेषु पश्यति सर्व व्यष्टिरूपं मयि समष्टिरूपे पश्यति । तस्य पुरुषस्याहं न प्रणश्यामि सदैवानुभवारूढस्तिष्ठामि । स च पुरुषो मे न प्रणश्यति मत्कृपाकटाक्षशरण एव तिष्टतीत्यर्थः ॥ ३० ॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥ सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥ यस्माच्चाहमेव सर्वात्मकत्वदत्येितत् पूर्वश्लोकार्थं सम्यग्दर्शनमनद्य तत्फलं मोक्षोऽभिधीयते सर्वेति । सर्वथा सर्वप्रकारैर्वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते नित्यमुक्त एव स न मोक्ष प्रति केन चित् प्रतिबध्यत इत्यर्थः ॥ ३१ ॥ आ० टी०। विद्वदीश्वरयोरेकत्वानुवादेन विद्याफलं विवृणोति यस्माचेति । तस्मादेक- त्वदर्शनार्थ प्रयतितव्यामेति शेपः । पूर्वार्धनानुद्योत्तरार्धेन फलविधिरिति मत्वाह इसेतदिति । रागादिरहितस्य यमनियमादिसंस्कारवतः स्वैरप्रवृत्त्यसंभवेऽपि तामङ्गीकृत्य ज्ञानं स्तौति सर्वथेति । प्रतिभासतोऽपि यथेष्टचेष्टाङ्गीकारे कुतो ज्ञानवतो नित्यमुक्तत्वं प्रातीतिकदुराचारप्रतिबन्धादित्याश- याह न मोक्षमिति ॥ ३१ ॥ ५० टी० । अथैतदनन्तरं सर्वदृश्यजातमात्माकारेण पश्यतीत्याह । यः सर्वभूताकारेण स्थित- मेकत्वमास्थितः सन् भजत्यनुवर्तते म वर्तमानोऽपि नामरूपाकारेण स्थितोऽपि माय वर्तते मदाकारो भवति । श्रुतिरपि-" यास्मन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एक- त्वमनुपश्यतः" इति । भाष्यम्-यस्य विजानतो विज्ञानवतः पुरुषस्य सर्वाणि भूतात्मकं विश्वमात्मै. ' प्रकाश एन प्रिय एव भवति-- पा० १ लि. पु. ।

षष्ठाध्यायः । २१७ वाभूत् । भूतभावनाराहित्येनात्माकारमेव जातं तस्यैकत्वमद्वैतमनुपश्यतः को मोहो मायाविलासरूप- मज्ञानं कुतस्तथा तत्प्रयुक्तः शोकश्च कुत इत्यर्थः ॥ ३१ ॥ आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ॥ सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२॥ किं चान्यद् आत्मेति । आत्मौपम्येनात्मा स्वयमेवोपमीयत इत्युपमा तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन सर्वत्र सर्वभूतेषु समं तुल्यं प- श्यति योऽर्जुन स च किं समं पश्यतीत्युच्यते यथा मम सुखमिष्टं तथा सर्व- प्राणिनां सुखमनुकूलं, वा शब्दश्वार्थे यदि वा यच्च दुःखं मम प्रतिकूलमनिष्टं यथा तथा सर्वप्राणिनां दुःखमनिष्टं प्रतिकूलमित्येवमात्मौपम्येन सुखदुःखे अ- नुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति न कस्य चित् प्रतिकूलमाचर- त्यहिंसक इत्यर्थः । य एवमहिंसकः सम्यग्दर्शननिष्ठः स योगी परम उत्कृष्टो मतोऽभिप्रेतः सर्वयोगिनां मध्ये ॥ ३२ ॥ आ० टी० । स्वैराचरणस्याप्रतिबन्धकत्वकथनात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रत्य- प्रतिबन्धकत्वप्रसक्तावुक्तं किं चेति । अन्यदपि किं चिदुच्यते, परमयोगिनो निर्देशद्वारा योगमाहा- त्म्यमित्यर्थः । उपमैवौपम्यमात्मा च तदौपम्थं च तेन सर्वभूतेषु यः समं पश्यतीत्युक्तं, तदेव समद- र्शनं प्रश्नपूर्वकं विवृणोति किमियादिना । विकल्पार्थत्वं वारयति वाशब्द इति । उपदर्शितस- मदर्शनफलमभिलषति न कस्य चिदिति । किमपेक्षया तस्य परमत्वं तत्राह सर्वेति ॥ ३२ ॥ प० टी० । अथैतादृशस्यापि पुरुषस्य लोकव्यवहारवच्चेष्टमानस्य दशामाह आत्माप- म्येनेति । यः पुरुषः सर्वत्र सर्वभूतेषु मुखं दुःखं वात्मौपम्येन पश्यति यथा मे आत्मसुखमिष्टं संसारदुःखमनिष्टं तथैव सर्वत्र भूयादिति पश्यति स परमश्चरमदशां प्राप्तो योगी मतः ॥ ३२ ।। ॥ अर्जुन उवाच ॥ योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ॥ एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥३३॥ एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःसंपाद्यतामालक्ष्य शुश्रूषुर्भुवं तत्प्राप्त्युपायमर्जुन उवाच योऽयमिति । योऽयं योगस्त्वया प्रो- तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे च- ञ्चलत्वान्मनसः किं स्थिरामचलां स्थितिं प्रसिद्धमेतत् ॥ ३३ ॥ आ० टी० । मनश्चञ्चलमस्थिरमित्युपश्रुत्य निर्विशेषे चित्तस्थैर्य दाशकमिति मन्वानस्तदु- पशमबुभुत्सया पृच्छतीति प्रश्नमुत्थापयति एतस्येति । तत्प्राप्त्युपायं शुश्रूषुरिति मन्वानो मन- * दुपशय-मु.पु.

२१८ श्रीमद्भगवद्गीता- सश्चञ्जलत्वेऽपि तन्निग्रहद्वारा योगस्थैर्य संपाद्यतामित्याशङ्कयाह एतस्येति । प्रसिद्धमिति संबन्धः ॥ ३३ ॥ प० टी० । अर्थतस्य योगस्य दुःसाध्यत्वं मन्यमानोऽर्जुनः प्राह योऽयमिति । मनसः साम्येन विक्षेपशून्येन योऽयं योगः केवलमात्माकारावस्थानुरूपरत्वया प्रोक्त एतस्याहं शाश्वती स्थिति न पश्यामि कुतो मनसश्चञ्चलत्वादनेकविक्षेपैरस्थिरत्वाद्, अत एव मधुसूदनेति संबुद्धिः, यतो मध्वादिदैत्यनिबर्हणे शक्तोऽसि परं त्वस्मन्मनो निगृहीतुं कुण्ठितशक्तिः सन्नकिं चित्करानस्माने- वोपदिशसीत्यर्थः ॥ ३३ ॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् ॥ तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥ चञ्चलमिति । चञ्चलं हि मनः कृष्ण इति कृषतेविलेखनार्थस्य रूपं भक्तजनपापादिदोषाकर्षणात् कृष्ण, हि यस्मान्मनश्चञ्चलं न केवलमत्यर्थ चञ्चलं प्रमाथि च प्रमथनशीलं प्रमश्नाति शरीरमिन्द्रियाणि च विक्षिपति पर- वशीकरोति, किं च बलवत् प्रबलं न केन चिनियन्तुं शक्यं दुर्निवारत्वात्, किं च दृढं तन्तुनागवदच्छेद्यं तस्यैवभूतस्य मनसोऽहं निग्रहं रोध मन्ये वायो- रिव यथा वायोर्दुष्करो निग्रहस्ततोऽपि मनसो दुष्करं मन्य इत्यभिप्रायः॥३४॥ आ० टी० । मनसश्चञ्चलत्वेऽपि कृष्णपदपरिनिप्पत्तिप्रकारं सूचयति कृष्ण इनीति । कथं कर्षकत्वमाप्तकामस्य भगवतः संभवतीत्याशङ्कयाह भक्तेति । ऐहिकामुष्मिकसर्वसंपदामाक- पणशीलत्वाच्चेति द्रष्टव्यम् । प्रमश्वाति क्षोभयति । तदेव क्षोभकत्वं प्रकटयति विक्षिपतीति । दुर्निवारत्वमभिप्रेताहिषयादाक्रटुमशक्यत्वं विशेषणान्तरमाह किं चेति । अच्छेद्यत्वं विशेषणान्तर- माह किं च दृढमिति । तन्तुनागो वरुणपाशशब्दितो जलचारी पदार्थोऽत्यन्तदृढतया छेत्तुमशक्यत्वेन प्रसिद्धो विवक्षितः । वायोरित्युक्तं व्यनक्ति यथेति ॥ ३४ ॥ प० टी० । अथ पुनः प्रश्नार्थमेव प्रकटयति चञ्चलमिति । भो कृष्ण तस्य मनसो नि- अहं निरोधं मुदुष्करं मुतगं दःखेन कर्तुमशक्यं मन्ये । कस्येव वायोरिव । यथाकाशे दोधूयमानस्य वायोः : कुम्भादिषु निरोधः कर्तुं न शक्यते । न हि वायोगेकवावस्थानं युज्यते तद्वत् । अथ तस्य दुनिग्रहत्वं चतुर्भिः प्रकाररुपन्यस्यति चञ्चलमिति । चञ्चटमेकत्रानवस्थितम् प्रमाथि, प्रमथनशीलं देहेन्द्रियक्षोभक, बलवद्विचारेणापि जेतुमशक्यम् । दृढमनादिविषयवासनानुविद्वतया वैराग्यादिना दुर्भद्यम् ॥ ३४ ॥ ॥ श्रीभगवानुवाच ॥ असशय महाबाहा मना दुर्निग्रह चलम् ॥ अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५॥ श्रीभगवानुवाच एवमेतद् यथा ब्रवीष्यसंशयं नास्ति संशयो मनो दु.

षष्ठाध्यायः । २१९ . निग्रहं चञ्चलमित्यत्र हे महाबाहो किं त्वभ्यासेन त्वभ्यासो नाम चित्तभूमी कस्यां चित् समानप्रत्ययारत्तिश्चित्तस्य वैराग्येण च गृह्यते, वैराग्यं नाम दृष्टा- दृष्टेषु भोगेषु दोषदर्शनाभ्यासाद् वैतृष्ण्यं विषयेषु वितृष्णा वैराग्यं तेन च वै. राग्येण गृह्यते विक्षेपरूपः प्रचारश्चित्तस्यैवं तन्मनो गृह्यते निगृह्यते निरुध्यत इत्यर्थः ॥ ३५॥ आ० टी० । प्रश्नमङ्गीकृत्य प्रतिवचनमुत्थापयति श्रीभगवानिति । कुत्र संशयराहित्य तत्राह मन इति । कथं तर्हि मनोनिरोधो भवति तत्राह किं त्विति । अभ्यासस्वरूपं सामान्येन निदर्शयति अभ्यासो नामेति । कस्यां चिच्चित्तभूमावित्यविशषिता ध्येयो विषयो निर्दिश्यते, समा- नप्रत्ययावृनिर्विजातीयप्रत्ययानन्तरितेति शेषः, चित्तस्येति षष्टीप्रत्ययस्य तद्विकारत्वद्योतनार्थम् । वैराग्यस्वरूपं निरूपयति वैराग्यमिति । तेषु वैतृष्ण्यं वैराग्यं नामेति संवन्धः । तत्र हेतुं सूच- यति दोषेति । विषयेषु वितृष्णाविषयषु दोषदर्शनमभ्यस्यते तेन वैतृप्ण्यं जायते तेन निगृह्यमा- णम् । निगृह्यमाणं निर्दिशति विक्षेपेति । तस्मिन् गृहीते निरुद्धे । मनोनिरोधेऽस्य किं स्यादित्य- पेक्षायामाह एवमिति । अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुहवृत्तिकं मनो विषयवि- मुखमन्तर्निष्ठं भवतीत्यर्थः ॥ ३५ ॥ प० टी० । अथ द्विप्रकारं निग्रहोपायमुपदिशन् भगवानाह अमंशयमिति । चञ्चलत्वादि- स्वभावं मनो निगेडुमशक्यमिति यद्वदसि तदसंशयं निःसंदिग्धमेव । तथापि अभ्यासेन वैराग्येण च गृह्यते वशीक्रियते । तत्राभ्यामो नाम निरन्तरमात्मानुध्यानं वैराग्यं च विषयवरस्यम् । नन्वेतत्परस्परा- श्रयमिति प्रतिभाति यतो मनसि निगृहीतेऽभ्यासो वैराग्यं वा सिध्यति तथाभ्यामवैराग्याभ्यां मनो निगृह्यत इति चेत्सत्यम् । एतस्योभयस्य विचाराधीनत्वात् तत्प्रश्नोत्तरं भगवता प्रागेव दत्तं शनैः शनैरुपरमदिति तदेव 'अभ्यासेन च कौन्तेय वैराग्यण च गृहाते' इत्यनेन स्मारितम् । तथाहि । तत्र पर मार्थप्राप्तौ तावदात्मविचार एवं शरणमिति द्रष्टव्यः श्रोतव्या मन्तव्य इति । तद्यथा वेदाहमेतमि- त्यादिश्रुतयो वदन्ति, तत्रात्मा देहेन्द्रियादिविलक्षणस्तष्तृत्वान्न हि घटद्रष्टा घट एव संभवति । अथ स कीढगस्तीति विचारे तावद् परसादिग्राहकत्व प्रतिक्षणमन्वपणीयः स एव प्रस्तुतमभ्यासः । तथोत्पत्तेरनन्तरमेतावत्ममयं मया सुखदुःखयामध्ये किमधिकमनुभूत भिति परामर्श वाल्यपोगण्ड- कैशोरयौवनवार्धकाद्यवस्थासु बहुतरं दुःखमेव स्मथते । तथा विषयलाभार्थं प्रयत्नो भूयान् प्राणपर्य- वसायी वातः स दःग्वरूपो भोगसमयस्तु निमेषमात्रं तावदेव मुगं तदपि मत्स्यामिपन्यांयन परिण- तिविरसत्वादुःखपर्यवसाय्येवेति विचारेण वैराग्यप्रकारः । किं च चञ्चले विषयलोलुऽपि मनस्य- भ्यासो विरागश्च संभवति । तदुक्तं योगशास्त्रे यत्रैव याति चपलं ननु चित्तमेतत्तत्रैव भाति परमेश्वर एव साक्षात् । प्राग्दःखदाऽथ विरमे विरमः पदार्थस्त्वात्मा चिरं सुखद इत्यनिशं विचिन्त्य' इति । अत एव कौन्तेय महाबाहो इति संबुद्ध्या विवेकत्यागयोर्ग्रहणम् । वयं त्वात्मभावस्थाः साहा- व्यं करिष्याम एवेत्यर्थः ॥ ३५ ॥ असंयतात्मना योगो दुप्प्राप इति मे मतिः ॥ वश्यात्मना तु यतता शक्योऽवाप्तुमुपायदः॥ ३६ ॥ असंयतेति । यः पुनरसंयतात्मा तेनासंयतात्मनाभ्यासवैराग्याभ्यामसंयत २२. श्रीमद्भगवद्गीता- - आत्मान्तःकरणं यस्य सोऽयमसंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःस्व- संप्राप्य इति मे मतिः । यस्तु पुनर्वश्यात्माभ्यासवैराग्याभ्यां वश्यत्वमापादित आत्मा मनो यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्न कुर्वता शक्योऽवाप्तुं योग उपायतो यथोक्तादुपायात् ॥ ३६ ॥ आ० टी० । संयतात्मनो योगप्राप्तिः सुलभेत्युक्त्वा व्यतिरेकं दर्शयति यः पुनरिति । व्यतिरेकोपन्यासपरं पूर्वार्धमनूद्य व्याकरोति असंयतेति । पूर्वोक्तान्वयव्याख्यानपरमुत्तरार्ध व्याचष्टे यस्त्वित्यादिना । अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादावास्थावता भवितव्यमित्याह यत. तेति । उपायो वैराग्यादिपूर्वको मनोनिरोधः ॥ ३६ ॥ १० टी० । अथोभयप्रकारविधुरस्य योगो दुःसाध्यस्तथा तदुभयोपेतस्य सुसाध्य इत्याह असंयतात्मनेति । अभ्यासवैराग्याभ्यामसंयत आत्मा चित्तं यस्य तेन योगो दुप्प्रापः प्राप्नुमश- क्यस्तथाभाभ्यां वश्यो वशवर्ती आत्मा यस्य तेन यतता प्रयत्नं कुर्वता पुरुषेणोपायतोऽभ्यासवैराग्य- रूपादाप्तुं प्राप्तुं शक्य इति मे मतिर्ममाभिमतम् ॥ ३६ ॥ ॥ अर्जुनउवाच ॥ अयतिः श्रद्धयोपेतो योगाचलितमानसः॥ अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥ तत्र योगाभ्यासाडीकरणेन परलोकेहलोकप्राप्तिनिमित्तानि कर्माणि सं- न्यस्तानि योगसिद्धिफलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तमिति योगी योगमार्गान्मरणकाले चलितचित्त इति तस्य नाशमाशङ्क्यार्जुन उवाच अय- तिरिति । अयतिरप्रयत्नवान् योगमार्गे श्रद्धयास्तिक्यबुद्दया योगतो योगादन्त- कालेऽपि चलितं मानसं मनो यस्य स चलितमानसो भ्रष्टस्मृतिः सोऽप्राप्य योगसंसिद्धि योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति ॥ ३७ ॥ आ० टी० । प्रश्नान्तरमुत्थापयति तत्रेसादिना । मनोनिरोधस्य दुःखसाध्यत्वमाशय परिहते सति प्रष्टा पुनरवकाशं प्रतिलभ्योवाचेति संबन्धः । लोकद्वयप्रापककर्मसंभवे कुतो यो. गिनो नाशाशङ्केत्याशङ्कयाह योगाभ्यासेति । तथापि योगानुष्ठानपरिपाकपरिप्राप्तिसम्यग्दर्शन- सामर्थ्यान्मोसोपपत्तौ कुतस्तस्य नाशाशङ्केति चेन्मेवमनेकान्तरायवऽवाद योगस्येह जन्मनि प्रायेण संसिद्धरसिद्धिरित्यभिसंधायाह योगसिद्धीति । अभ्युदयनिःश्रेयसबहिर्भावो नाशो योगमार्गे त- त्फलस्य सम्यग्दर्शनस्यादर्शनादिति शेषः । तार्ह ततो बहिर्मुखत्वमेवात्यन्तिकं संवृत्तमित्याशङ्कयाह श्रद्धयति । तर्हि योगमार्गमाश्रयते नेत्याह योगादिति । मरणकाले व्याकुलेन्द्रियस्य ज्ञानसा- धनानुष्ठानावकाशाभावाद युक्तं ततश्चलितमानसत्वमित्याशङ्कयाह भ्रष्टेति । गम्यत इति गतिः पुरु- पार्थः, सामान्यप्रश्नमन्तर्भाव्य विशेषप्रश्नो द्रष्टव्यः ॥ ३७ ॥ प० टी० । अथोभयशन्यत्वेन शिथिलाभ्यासवतः का गतिरित्यर्जुनः पृच्छति अयति- रिति । प्रथमं श्रद्वयोपेत ईश्वरार्पणतया कर्म कुर्वाणः सन् योगे प्रवृत्तो न तु मिथ्याचारतया षष्ठाध्यायः। २२१ परं तु न सम्यग्यतते । योगसामग्रीविकलः सन् योगाच्चलितं विषयासक्तं मानसं यस्य स तथाभूतो योगसंसिद्धिमप्राप्य कां गतिं गच्छति ॥ ३७ ॥ कच्चिन्नोभयविभ्रष्टश्छिन्नाधमिव नश्यति ॥ अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८॥ एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ॥ बदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥ कच्चिदिति । कच्चित् किं नोभयविभ्रष्टः कर्ममार्गाद् योगमार्गाच्च वि- भ्रष्टः संश्छिन्नाभ्रमिव नश्यति किं वा न नश्यत्यप्रतिष्ठो निराश्रयो हे महा- बाहो । विमूढः सन् ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ॥ ३८ ॥ एतदिति । एतन्मे मम संशयं कृष्ण छेत्तुमपनेतुमर्हस्यशेषतस्त्वदन्य- स्त्वत्तोऽन्य ऋषिर्देवो वा छेत्ता नाशयिता संशयस्यास्य न हि यस्मादुपपद्यते न संभवत्यतस्त्वमेव छेत्तुमर्हसीत्यर्थः ॥ ३९ ॥ आ० टी० । प्रश्नमेव विवृणोति कच्चिदिति। प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्याङ्गीकृत्य व्या- चष्टे किमिति । उभयविभ्रष्टत्वं स्पष्टयति कर्मयादिना। वायुना छिन्नं विशकलितमभ्रं यथा नश्यति तद्वदित्याह छिन्नेति । नाशाशङ्कानिमित्तमाह निराश्रय इति । कर्ममार्गरूपावष्टम्भा- भावेऽपि ज्ञानमार्गावष्टम्भस्तस्य भविष्यतीत्याशङ्कयाह विमूढः सन्निति । न हि कर्मिणं प्रतीयमा- शङ्का युक्ताभिलाषं त्यक्त्वेश्वरे समार्वाक् कर्मानुतिष्ठतो निरुपचारेण तदभ्रंशवचनासंभवात् सर्वकर्मसंन्यासिनस्तु विहितानां त्यागात् ज्ञातोपायाञ्चाविच्युतेरनर्थप्राप्तिशङ्का युक्तेति भावः ॥ ३८ ॥ आ० टी० । यथोपदर्शितसंशयापाकरणार्थमर्जुनो भगवन्तं प्रेरयन्नाह एतदिति । मत्तोऽन्यः कश्चिदपिर्वा देवो वा त्वदीयं संशयं छेत्स्यतीत्याशङ्कयाह त्वदन्य इति । अन्यस्य संशयच्छेत्तु- रभावे फलितमाह अत इति ॥ ३९ ॥ ५० टी । प्रश्नाभिप्रायं विशदयन् पुनराह कच्चिदिति द्वाभ्याम् । पूर्व श्रद्वया कर्मणामी- श्वरार्पणतया स्वर्गादिफलभ्रष्टः पुनर्योगाञ्चलितत्वादनधिगतमोक्ष एवमुभयविभ्रष्टः संश्छिन्नाभ्रमिवा प्रतः पृष्ठतो वा सहायीभूताभ्रान्तराभावान्मध्यस्थितमभ्रं यथा विलीयते तद्ब्रह्मणः पथि मोक्ष- मार्गे विमूढोऽत एवाप्रतिष्ठो निराश्रयः कच्चिन्नश्यति । एतदेनं मे संशयं छेत्तुं भो कृष्ण त्वमेवाई- सीति प्रश्नः । शेषं स्पष्टम् ॥ ३८ ॥ ३९ ॥ ॥ श्रीभगवानुवाच ॥ पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ॥ न हि कल्याणकृत् कश्चिदुर्गति तात गच्छति ॥४०॥ पार्थेति । हे पार्थ नैवेह लोके नामुत्र परस्मिन् वा लोके विनाश- स्तस्य विद्यते नास्ति नाशो नाम पूर्वस्माद्धीनजन्मप्राप्तिः स तस्य योगभ्रष्टस्य ॥ २२२ श्रीमद्भगवद्गीता- नास्ति, न हि यस्मात् कारणात् कल्याणकृच्छुभकृत्कश्चिदुर्गतिं कुत्सितां गतिं हे तात तनोत्यात्मानं पुत्ररूपेणेति पिता तात उच्यते पितैव पुत्र इति पुत्रोऽपि तात उच्यते शिष्योऽपि पुत्रतुल्य उच्यते, यतो न गच्छति ॥ ४ ॥ आ० टी० । योगिनो नाशाशङ्कां परिहरन्नुत्तरमाह भगवानिति । यदक्तमुभयभ्रष्टो योगी नश्यतीति तत्राह पार्थेति । तत्र हेतुमाह न हीति । योगिनो मार्गद्वयाद्विभ्रष्टस्यैहिको नाशः शिष्ट- गहालक्षणो न भवतीति श्रद्धादेः सद्भावात्तथापि कथमामुप्मिकनाशशन्यत्वमित्याशङ्कच तद्रूपनिरू- पणपूर्वकं तदभावं प्रतिज्ञानीते नाशो नामति । तत्र हेतुभागं विभजते न हीसादिना । उभयभ्रष्ट- स्यापि श्रद्धेन्द्रियसंयमादेः सामिकतश्रवणादेश्च भावादुपपन्नं शुभकृत्त्वम् । तातेति कथं पुत्रस्थानीय- शिष्यः संबोध्यते पितुरेव तातशब्दत्वादित्याशङ्कयाह तनोतीति । तेन पुत्रस्थानीयस्य शिष्यस्य तातेति संबोधनमविरुद्वमित्यर्थः । न गच्छति कुत्सितां गति कल्याणकरत्वादिति नाशाभावः ।। ४० ॥ ५० टी० । अत्रोत्तरं भगवानाह पार्थेति । तस्य पुरुषस्येहामुत्र वा नाशो नास्ति इह लोके ऽधमयोनिप्राप्ति शः अमुत्र च निरयप्राप्तिर्नाशः । एवमुभयत्र नाशो नास्ति । कुतः भो तात तनोत्यात्मानं पुत्ररूपेणेति तातः पुत्र एवमर्जुनस्य परमप्रेमास्पदत्वात्तातेति संबुद्धिः । हि यस्मात्का- रणात्कल्याणकृत्पूर्वमीश्वरार्पणतया कर्म कुर्वन् कश्चिदपि दुर्गति न गच्छति ॥ ४० ॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः॥ शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ११ ॥ किं त्वस्य भवति प्राप्येति । योगमार्गेषु प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृतामश्वमेधादियाजिनां लोकास्तत्र चोपित्वा वासमनुभूय शाश्वतीनित्याः समाः संवत्सरास्तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥ आ० टी० । योगभ्रष्टस्य लोकद्वयेऽपि नाशाभावे किं भवतीति पृच्छति किं त्विति । तत्र लोकेनोत्तरमाह प्राप्यति । कथं संन्यासीति विशेप्यते तत्राह सामर्थ्यादिति । कर्मणि व्याप्टतस्य कर्मिणो योगमार्गप्रवृत्त्यनुपपत्तिस्तत्प्रवृत्तावपि फलाभिलापविकलस्येश्वर समर्पितसर्वकर्मणस्तदंशाश- कानवकाशादित्यर्थः । समानां नित्यत्वं मानुपसमाविलक्षणत्वं, वैराग्यभावविवक्षया विभूतिमतां गृहे जन्मति विशिष्यते ॥ ४ १ ॥ प० टी० । किं तर्हि तत्र प्रथममल्पकालयोगभ्रष्टस्य गतिमाह प्राप्यति । स योगभ्रष्टः पुण्यकृतामश्वमेधयाजिनां लोकान् प्राप्य तत्र शाश्वतीः समा बहुतरसंवत्सरानुषित्वा भुक्त्वा शुचीनां सदाचारपरायणानां श्रीमतां धनिनां गेहे जायते उत्पद्यते ॥ ४१ ॥ अथ वा योगनामेव कुले भवति धीमताम् ॥ एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥ तथेति । अथवा श्रीमतां कुलादन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतद्धि जन्म यद्दरिद्राणां योगिनां कुले षष्टाध्यायः। २२.३ दुर्लभतरं दुःखेन लभ्यतरं पूर्वमपेक्ष्य लोके जन्म यदीदृशं यथोक्तविशेषणे कुले यस्मात् ॥ ४२ ॥ आ० टी० । श्रद्धावैराग्यादिकल्याणाधिक्ये पक्षान्तरमाह अथ वेति । योगिनामिति कर्मि- णां ग्रहणं माभूदिति विशिनष्टि धीमतामिति । ब्रह्मविद्यावतां शुचीनां दरिद्राणां कुले जन्म दुर्लभं प्रमादकारणाभावादित्याह एतद्धीति । किमपेक्ष्यास्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वं तदा- ह पूर्वमिति । यद्यपि विभूतिमतां शुचीनां गृहे जन्म दुःखलभ्यं तथापि तदपेक्षयेदं जन्म दुःख- लभ्यतरं यदीदृशं शुचीनां दरिद्राणां विद्यावतामिति विशेषणोपने कुले लोके जन्मलक्षणमित्यर्थः । यदुत्तमतरं जन्मोक्तं तस्योत्तमत्वे हेत्वन्तरमाह यस्मादिति ॥ ४२ ॥ ५० टी० । अथ चिराभ्यस्तयोगभ्रंशे पक्षान्तरमाह अथ वेति । अथ वा योगिनां योगनि- ष्ठानां तथा धीमतां ज्ञानिनामेव कुले जायते न तु पूर्वोक्तानामनारूढयोगानाम् । एतदीदृशं यज्जन्म तहुर्लभतरं मोक्षहेतुत्वात् ॥ ४२ ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥ यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥ तत्रेति । तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेहिक, यतते च यत्नं करोति ततस्तस्मात् पूर्वकृतात् संस्काराद्भूयो बहुतरं संसिद्धी संसिद्धिनिमित्तं हे कुरुनन्दन ॥ ४३ ॥ आ० टी० । बुद्धयेत्यात्मविषययेति शेषः। पूस्मिन् देहे भवं तत्रानुष्ठितसाधनाविशेषयुक्तमि- त्यर्थः । तर्हि यथोक्तजन्मनि साधनानुष्ठानमन्तरेणैव बुद्धिसंबन्धः स्यादित्याशङ्कयाह यतते चेति । प्रयत्नः श्रवणाद्यनुष्ठानविषयः ॥ ४३ ॥ प० टी० । तत्र किं भवत्यिाह सार्धेन तत्रेति । तत्र योगिनां कुले तं पौर्वदेहिक प्राक संस्कारागतं बुद्धिसंयोगं लभते । ततस्तेन बुद्धिसंयोगेन संसिहौ मोक्षसाधने यतते बहुतरं प्रयत्न करोति ॥ ४३ ॥ पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः॥ जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥ कथंभूतं पूर्वदेहवुद्धिसंयोगम् इति तदुच्यते पूर्वेति । यः पूर्वजन्मनि कृतोऽभ्यासः स पूर्वाभ्यासस्तेनैव बलवता हियते संसिद्धौ हि यस्मादवशोऽपि स योगभ्रष्टो न कृतं चेद् योगाभ्यासजात् संस्काराद् बलवत्तरमधर्मादिलक्षणं कर्म तदा योगाभ्यासजनितेन संस्कारेणाहियतेऽधर्मश्चेद्बलवत्तरः कृतस्तेन योगजोऽपि संस्कारोऽभिभूयत एव तत्क्षये तु योगजः संस्कारः स्वयमेव का- र्यमारभते न दीर्घकालस्थस्यापि विनाशस्तस्यास्तीत्यतो जिज्ञासुरपि योगस्य २२४ श्रीमद्भगवद्गीता- स्वरूपं ज्ञातुमिच्छन् योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः सामर्थ्यात् सोऽपि शब्दब्रह्मवेदोक्तकर्मानुष्ठानफलमतिवर्तते कर्मानुष्ठानलक्षणमतिकामत्यपाकरि- प्यति किमुत बुद्ध्या योगं तन्निष्ठोऽभ्यासं कुर्यात् ॥ ४४ ॥ आ० टी० । यदि पूर्वसंस्कारोऽस्येच्छामुपनयन् प्रवर्तयति तथा चाप्रवृत्तिरनिच्छया स्यादि- त्याशङ्कयाह पूर्वेति । स हि योगभ्रष्टः समनन्तरजन्मकृतसंस्कारवशादुत्तरस्मिन् जन्मनि अनिच्छ- अपि योगं प्रत्येवाकृष्टो भवतीत्यर्थः । तत्र कैमुतिकन्यायं सूचयति जिज्ञासुरिति । पूर्वार्धे विभजते पूर्वेति । तस्मान्नेच्छया तस्य प्रवृत्तिरिति शेषः । योगभ्रष्टस्याधर्मादि प्रतिबन्धेऽपि तर्हि पूर्वा- भ्यासवशाद् बुद्धिसंबन्धः स्यादित्याशझ्याह नेसादिना। यदि योगभ्रष्टेन योगाभ्यासजनितसं- स्कारप्राबल्यात् प्रबलतरधर्मप्रभेदरूपं कर्म न कृतं स्यात्तदा तेन संस्कारेण वशीकृतः सन्निच्छादि- रहितोऽपि बुद्धिसंबन्धभाग् भवतीत्यर्थः । विपक्षे योगसंस्कारस्याभिभूतत्वान्न कार्यारम्भकत्वमित्याह अधर्मश्चेदिति । योगजसंस्कारस्याधर्माभिभूतस्य कार्यमकृत्वैवाभिभावकप्राबल्ये प्रणाशः स्यादि- त्याशङ्कयाह तत्क्षयेत्विति । कालव्यवधानान्निवृत्तिं शङ्कित्वोक्तं नेति । तृणजलौकादृष्टान्तश्रुत्या संस्कारस्य दीर्घतायाः समधिगतत्वादिति भावः । कैमुतिकन्यायोक्तिपरमुत्तरार्ध बिभजते जिज्ञासुरपी- सादिना । अत्रापि संन्यासीति विशेषणं पूर्ववदवधेयमित्याह सामर्थ्यादिति । न हि कर्मी कर्ममार्गे प्रवृत्तस्ततो भ्रष्टः शङ्कितुं शक्यते अतः संन्यासी पूर्वोक्तैर्विशेषणैः विशिष्टो योगभ्रष्टोऽभीष्टः सोऽपि वैदिकं कर्म तत्फलं चातिवर्तते किमुत योगं बुड्वा तन्निष्ठः सदाभ्यासं कुर्वन् कर्म तत्फलं चातिवर्तते किमिति वक्तव्यामति योजना । योगनिष्ठस्य कर्म तत्फलातिवर्तनं ततोऽधिकफलावाप्तिर्विवक्ष्यते॥४४॥ प० टी० । तत्र हेतुमाह पूर्वेति । तेनैव पूर्वाभ्याससंस्कारेणावशोऽपि कुतश्चिदन्तरायादनि- च्छन्नपि ह्रियते बलात्कारेण विषयेभ्यः परावर्त्य ब्रह्मनिष्ठः क्रियते । तदुक्तं विष्णुपुराणे 'अनिष्प- नसमाधिस्तु परब्रह्मोपलब्धिमान् । यद्यन्तरायदोषेण दुष्यते ह्यस्य मानसे । जन्मान्तरैरस्य सतो मुक्तिः पूर्वस्य जायते । विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि । प्राप्नोति योगी योगाग्निदग्धकर्मा च योऽचिराद् ' इति । अथ योगसामर्थ्यमाह जिज्ञासुरिति । योगस्वरूपं जिज्ञासुरपि योगप्रविष्ट- मात्रोऽपि शब्दब्रह्मातिवर्तते शब्दात्मकं ब्रह्म शब्दब्रह्म वेदस्तदुक्तफलानि स्वर्गादीन्यतिवर्तते, अ- तिक्रामति तेभ्योऽधिकं फलं प्राप्य मुच्यत इत्यर्थः। एवं मन्दप्रयत्नोऽपि योगी परां गतिं याति ॥४४॥ प्रयत्नाद् यतमानस्तु योगी संशुद्धकिल्बिपः ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥ कुतश्च योगित्वं श्रेय इति प्रयत्नादिति । प्रयत्नाद्यतमानोऽधिक- तरं यतमान इत्यर्थः। तत्र योगी विहान् संशुद्धकिल्बिषो विशुद्धकिल्बिषः सं- शुद्धपापोऽनेकेषु जन्मसु किं चित् किं चित् संस्कारजातमुपचित्य तेनोपचिते- नानेकजन्मकृतेन संसिद्धोऽनेकजन्मसंसिद्धस्ततो लब्धसम्यग्दर्शनः सन् याति परां प्रकृष्टां गतिम् ॥ ४५ ॥ आ० टी० । योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुमुत्तरश्लोकमवतारयति कुतश्चेति । मृदुप्र- यनोऽपि क्रमेण मोक्ष्यते चेदधिकप्रयत्नस्य क्लेशहेतोरकिंचित्करत्वमित्याशङ्कच हेत्वन्तरमेव प्रकटयति मयत्नादिति । तत्र योगविषये प्रयत्नातिरेके सतीत्यर्थः, ततः संचितसंस्कारसमुदायादिति यावत् षष्ठाध्यायः । २२५ समुत्पन्नसम्यग्दर्शनवशात् प्रष्टा गतिः संन्यासिना लभ्यते तेन शीघ्रं मुक्तिमिच्छन्नाधिकप्रयत्नो भवेदल्पप्रयत्नस्तु चिरेणैव मुक्तिभागीत्यर्थः ॥ ४५ ॥ प० टी० । किं पुनः प्रयत्नाादेत्याह अथेति । अथ प्रयत्नादुत्तरोनरमधिकयोगेन यतमानो यत्नं कुर्वन् योगेनैव संशुद्धकिल्विषो विधूतपापः सोऽप्यनेकेषु जन्मसूपचितेन योगेन सांसद्धः सम्य- ग्ज्ञानी भूत्वा श्रेष्ठां गति यातीति किं वक्तव्यमित्यर्थः ॥ ४५ ॥ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ॥ कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥ यस्मादेवं तस्मात् तपस्विभ्य इति । तपस्विभ्योऽधिको योगी ज्ञानि- भ्योऽपि, ज्ञानमत्र शास्त्रार्थपाण्डित्यं तद्दन्योऽपि मतो ज्ञातोऽधिकः श्रेष्ठ इति कर्मिभ्योऽग्निहोत्रादि कर्म तहयोऽधिको योगी विशिष्टो यस्मात्तस्मा- योगी भवार्जुन ॥ ४६॥ आ० टी० । सम्यगज्ञानद्वारा मोक्षहेतुत्वं योगस्योक्तमनूद्य योगिनः सर्वाधिकत्वमाह य- स्मादिति । योगस्य सर्वस्मादुत्कर्पदवश्यकर्तव्यत्वाय योगिनः सर्वाधिक्यं साधयति तपस्विभ्य इति । योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्योऽधिकत्वमित्याशङ्कयाह ज्ञानमिति । योगिनः सर्वाधिकत्व फलितमाह तस्मादिति ॥ ४६ ॥ ५० टी०। तपस्विभ्य इति । तपस्विभ्यः कृळूचान्द्रायणादितपोनिष्ठेभ्यो, ज्ञानिभ्यः शास्त्र- विद्यः कर्मिभ्य इष्टापूर्तकारिभ्योऽपि योगी श्रेष्ठोऽभिमतस्तस्मात्त्वं योगी भव ॥ ४६ ।। योगिनामपि सर्वपां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥४७॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्गीतासूपनिषत्स ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा- र्जुनसंवादे ध्यानयोगो नाम पष्ठाध्यायः ॥ ६ ॥ योगिनामिति । योगिनामपि सर्वेपां रुद्रादित्यादिध्यानपराणां मध्ये म- द्रतेन मयि वासुदेवे समाहितेनान्तरात्मनान्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो मां स मे मम युक्ततमोऽतिशयेन युक्तो मतोऽभिप्रेत इति ॥४७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादश्रीमदाचार्यश्री- शंकरभगवतः कृतौ श्रीभगवद्गीताभाष्येऽभ्यासयोगो नाम षष्ठाध्यायः ॥ ६ ॥ आ० टी० । नन्वादित्यो विराडात्मा सत्रं कारणमक्षरमित्येतेषामुपासका भूयांसो योगिनो गम्यन्ते तेषां कतमः श्रेयानिष्यत तत्राह योगिनामिति । या भगवन्तं मगुणं निगुणं वा यथाकेन २२६ श्रीमद्भगवद्गीता-- चेतसा श्रद्दधानः सन्ननवरतमनसंधत्ते स युक्तानां मध्येऽतिशयेन युक्तः श्रेयानीश्वरस्याभिप्रेतो न हि तदीयोऽभिप्रायोऽन्यथा भवितुमर्हतीत्यर्थः । तदनेनाध्यायेन कर्मयोगस्य संन्यासहेतोमर्यादां दर्शयता साङ्गं योगं विवृण्वता मनोनिग्रहोपायोपदेशेन योगभ्रष्टस्यात्यन्तिकनाशशङ्कां च शिथिलयता त्वंप- दार्थाभिज्ञस्य ज्ञाननिष्ठत्वोक्त्या वाक्यार्थज्ञानान्मुक्तिरिति साधितम् ॥ ४७ ॥ इत्यानन्दगिरिकृतगीताभाष्यटीकायां षष्टाध्यायः ॥ ६ ॥ प० टी० । अथ यमनियमपरायणानां योगिनामपि मद्भक्तः श्रेष्ठ इत्याह योगिनामिति । मद्गतेन मय्यासक्तेनान्तरात्मना मनसा यो मां परमेश्वरं श्रद्धया युक्तः सन् भजते स योगयुक्तेषु श्रेष्ठो मे मतोऽतो मद्भक्तो भवेति भावः । यतो मद्भक्तो मत्प्रसादेन सकलसाधनयोगपद्यवान् स्वत एव भवतीत्यर्थः । श्रुतिरपि-“योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमतये" इति । भाष्यम्-शुनःशेष प्राणापानयोोंगे मनःपवनयोोंगे दुःसाध्ये सति यतस्तत्र विघ्नकर्तृभिः काम- क्रोधादिभिः सह पुनः पुनर्वाजे संग्रामे समुपस्थिते सति वयं त्वामिन्द्रं परमात्मानं हवामहे आह्वयामः । किमर्थम्, ऊतये रक्षणार्थम् निर्वाहार्थमित्यर्थः । किंभूतं त्वाम्, तवस्तरम् अतिशयेन रक्षितारम् । किं- भूता वयम्, सखायः परमप्रेमास्पदत्वेनानुग्राह्याः । तदुक्तम्-' एह्यहि बुद्धे भवतीति शान्त्यै गच्छाशु गोविन्दपदारविन्दम् । यद्यन्तरा त्वां विपया निहन्यः क्रोश त्वमम्भोरुहलोचनेति ' ॥ ४७ ॥ अथाध्यायतात्पर्यम् । प्रोक्तो विज्ञानयोगः स्थिरमनसि सदात्मानुसंधानरूपो नो चेदभ्यास- योगो बहिरुपविशते चामनादिक्रमेण । अन्तर्योगानुवृत्तौ स्वयमुपरमते दृश्यतः प्राप्य तोपं वैराग्या- भ्यासयोगात्परिहरति शनैवेगमित्याह षष्ठे ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भ० गी० टी० पर० प्रपायामभ्यासयोगो नाम पछाध्यायः ॥ ६ ॥ इति षष्ठाध्यायः ॥ ६ ॥ अथ सप्तमाध्यायः। श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः॥ असंशयं समग्रं मां यथा ज्ञास्यसि तच्छणु ॥१॥ “योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मांस मे युक्ततमो मतः” इति प्रश्नबीजमुपन्यस्य स्वयमेवेदृशं मदीयं तत्त्वमेवं मद्तान्त- रात्मा स्यादित्येतहिवक्षुर्भगवानुवाच मयीति । मयि वक्ष्यमाणविशेषणे परमे- श्वर आसक्तं मनो यस्य स मय्यासक्तमना हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन् मदाश्रयोऽहमेव परमेश्वर आश्रयो यस्य स मदाश्रयो यो हि कश्चित् पुरुषार्थेन केन चिदर्थीभवति स तत्साधनं कर्माग्निहोत्रादि तपो दानं वा सप्तमाध्यायः । २२७ किं चिदाश्रयं प्रतिपद्यतेऽयं तु योगी मामेवाश्रयं प्रतिपद्यते हित्वान्यत् साध- नान्तरं मय्येवासक्तमना भवति । यस्त्वमेवंभूतः सन्नसंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसंपन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयम- न्तरेणैवमेव भगवानिति तच्छृणूच्यमानं मया ॥ १ ॥ आ० टी० । कर्मसंन्यासात्मकसाधनप्रधानं त्वंपदार्थप्रधानं वा प्रथमपटुं व्याख्याय मध्य- मषटमुपास्यनिष्ठं तत्पदार्थनिष्ठं वा व्याख्यातुमारभमाणः समनन्तराध्यायमवतारयाते योगिना- मिति । अतीताध्यायान्ते मद्गतेनान्तरात्मना यो भजते मामिति प्रभवीजं प्रदर्य कादशं भगवतस्तत्त्वं कथं वा मद्गतान्तरात्मा स्यादित्यर्जुनस्य प्रश्नहये जाते स्वयमेव भगवानपृष्टमेव तहक्तुं इच्छन्नुक्त- वानित्यर्थः । परमेश्वरस्य वक्ष्यमाणविशेषणं सकलजगदायतनत्वादिनानाविधविभूतिभागित्वं तत्रास- क्तिर्मनसो विषयान्तरपरिहारेण तन्निष्ठत्वम् । मनसो भगवत्येवासक्ती हेतुमाह योगमिति । विष- यान्तरपरिहारे हि गोचरमालोच्यमानो भगवत्येव प्रतिष्ठितो भवतीत्यर्थः । तथापि स्वाश्रये पुरुषो मनः स्थापयति नान्यत्रेत्याशङ्कयाह मदाश्रय इति । योगिनो यदीश्वराश्रयत्वेन तस्मिन्नेवासक्त- मनस्त्वमुपन्यस्तं तदुपपादयति यो हीति । ईश्वराख्याश्रयस्य प्रतिपत्तिमेव प्रकटयति हित्वेति । अस्तु योगिनस्त्वदाश्रयप्रतिपत्त्या मनसस्त्वय्येवासक्तिस्तथापि मम किमायातमित्याशङ्कय द्वितीया व्याचष्टे यस्त्वमेवमिति । एवंभूतो यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमना यस्त्वं स त्वं तथाविधः सन्नसंशयमविद्यमानः संशयो यत्र ज्ञाने तद्यथा स्यात्तथा मां समग्रं ज्ञास्यसीति संबन्धः । समग्र मित्यस्यार्थमाह समस्तमिति । विभूति नाविधैश्वर्योपायसंपत्तिर्बलं शरीरगतं सामर्थ्य शक्तिर्मनोगत प्रागल्भ्यमैश्वर्यमीशितव्यविषयमीशनसामर्थ्यम्, आदिशब्देन ज्ञानेच्छादयो गृह्यन्ते । असंशयमिति पदस्य क्रियाविशेषणत्वं विशदयन् क्रियापदेन संबन्धं कथयति संशयमिति । विना संशयं भगव- त्तत्त्वपरिज्ञानमेव स्फोरयति एवमेवेति । भगवत्तत्त्वे ज्ञातव्ये कथं मम ज्ञानमुपदेश्यति न हि त्वा- मृते तदुपदेष्टा कश्चिदस्तीत्याशङ्कयाह तच्छृण्विति ॥ १ ॥ ५० टी० । पूर्वाध्यायान्ते मद्गतेनान्तरात्मनेत्यादिनाभ्यासयोगेन कृत्वा देहावच्छेदेनान्तर्या- मित्वेन स्थितस्य स्वस्वरूपस्य प्रतीतिमभिधायेदानीं सर्वात्मकत्वेनावस्थितस्य प्रतीतिसाधनोपायं दर्श- यन् स्वमायावैभवमैश्वर्यं च प्रकटीकरोति मयीति । मयि परमेश्वर आसक्तमत्यादृतं मनो यस्य स तथा मदाश्रयोऽहमेवाश्रयो यस्य मदेकशरणः सन् योगं युअन्नभ्यस्यन्नसंशयं यथा भवति तथा मां समग्रं विभूतिबलशक्त्यैश्वर्यादिसहितं यथा ज्ञास्यसि तदिदं भया वक्ष्यमाणं शृणु सर्वा- पेक्षया योगाभ्यासो हि महत्तरं कार्य तदाश्रयव्यतिरेकेण निर्विघ्न न सेत्स्थतीति कृत्वा ममाश्रयम- वलम्ब्य प्रवृत्तस्य सुखोपायेन योगसिद्धिर्भवतीत्यर्थः ॥ १ ॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ॥ यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥ ज्ञानमिति । तच्च महिषयं ज्ञानं ते तुभ्यमहं सविज्ञानं विज्ञानसहितं स्वानु- भवसंयुक्तमिदं वक्ष्यामि कथयिष्याम्यशेषतः कात्स्न्येन तज्ज्ञानं विवक्षितं स्तौति श्रोतुरभिमुखीकरणाय यज् ज्ञात्वा यज् ज्ञानं ज्ञात्वा नेह भूयः पुनर्ता- २२८ श्रीमद्भगवद्गीता- तव्यं पुरुषार्थसाधनमवशिष्यते नावशेषो भवतीति तत्त्वज्ञो यः स सर्वज्ञो भवती- त्यर्थः ॥ २ ॥ आ० टी० । ज्ञास्यतीत्युक्त्या परोक्षज्ञानशङ्कायां तन्निवृत्यर्थं तदक्तिप्रकारमेव विवृणोति तञ्चेति । इदमपरोक्षं ज्ञानं चैतन्यम् । तस्य सविज्ञानत्य प्रतिलम्भे किं स्यादित्याशङ्कयाह यज्ज्ञा- त्वेति । इदमा चैतन्यस्य परोक्षत्वं व्यावय॑ते, तदव सविज्ञानमिति विशेषणेन रफटयति । अशेषतोऽ नवशेषेण । तवेदनफलोपन्यासन श्रोतारं तच्छ्रवणप्रवणं करोति तज्ज्ञानमिति । एकविज्ञानेन सर्वविज्ञान श्रुतिमाश्रित्योत्तरार्धतात्पर्यमाह यजज्ञात्वेति ॥ २ ॥ प० टी। ज्ञानमिति । ज्ञानं शास्त्रोत्थं विज्ञानं मद्विपयानुभवस्तेन सहितमशेषतः साकल्येन वक्ष्यामि, यज्ज्ञात्वेह श्रेयोमागेऽन्यज्ज्ञातव्यं नावशिष्यते । मम साकल्येन सर्वात्मकत्वे ज्ञाते सति तदतिरिक्तं किं ज्ञातव्यमस्तीत्यर्थः ॥ २ ॥ मनुष्याणां सहस्रपु कश्चिद्यतति सिद्धये ॥ यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥३॥ अतो विशिष्टफलत्वाइलभतरं ज्ञानं कथमित्युच्यते मनुष्याणामिति । मनुष्याणां मध्ये सहस्रेष्वनेकेषु कश्चिद्यतति प्रयत्न करोति सिद्धये सिद्ध्यर्थ तेषां यततामपि सिद्धानां सिद्धा एव हि ते ये मोक्षाय मोक्षमार्गे यतन्ते तेषां कश्चिदेव मां वेत्ति तत्त्वतो यथावत् ॥ ३ ॥ आ० टी० । भगवत्तत्त्वज्ञानस्य विशिष्टफलत्वमुक्त्वा फलितमाह अत इति । ज्ञानस्य दु- लभत्वं प्रश्नपूर्वकं प्रकटयति कथमित्यादिना । सहस्त्रशब्दस्य बहुवाचकत्वमुपेत्य व्याकरोति अ- नेविति । मिद्धय सत्त्वशुद्विद्वारा ज्ञानोत्पत्त्यर्थमित्यर्थः । सिद्धयर्थ यतमानानां कथं सिहत्वमित्या- शङ्कचाह सिद्धा एवंति । सर्वेषामेव तेषां ज्ञानोदयात्तस्य सुलभत्वमित्याशङ्याह तपामिति ॥३॥ प० टी० । अथैतन्य दुर्लभत्वमाह मनुष्याणामिति । असंख्यातानां जीवानां मध्ये मनु- प्याणां सहस्त्रेषु कश्चिद्विरलः सुकृतातिशयशाली मिद्वय स्वात्मज्ञानाय प्रवर्तते, तथा प्रयत्नं कुर्वता मपि सिद्धानां सहस्रगु कश्चिन्मदनुग्रहपात्रं मां तत्वतो याथातथ्येन वेत्ति एतादृशमतिदुर्लभं तुभ्य- महं वक्ष्यामीत्यर्थः ॥ ३ ॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ अहंकार इतीयं मे भिन्ना प्रकृतिरष्टया ॥४॥ अतः श्रोतारं प्ररोचनेनाभिमुखीकृत्याह भूमिरिति । भूमिरिति पृथि- बीतन्मात्रमुच्यते न स्थूला 'भिन्ना प्रकृतिरष्टवा' इति वचनात् तथा भ्वादयोऽपि तन्मात्राण्येवोच्यन्ते आपोऽनलो वायुः खं मनो मन इति मनसः कारणमहंकारो गृह्यते बुद्धिरित्यहंकारकारणं महत्तत्त्वमहंकार इत्यविद्यासंयुक्तमव्यक्तं यथा विषसंयुक्तमन्नं विषमुच्यते एवमहंकारवासनावदव्यक्तं मूलकारणमहकार इत्युच्य- सप्तमाध्यायः । २२९ ते प्रवर्तकत्वादहंकारस्याहंकार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके इतीयं यथोक्ता प्रतिमें ममैश्वरी मायाशक्तिरष्टधा भिन्ना भेद मागता ॥ ४ ॥ आ० टी० । ज्ञानार्थं प्रयत्नस्य तद्वारा ज्ञानलाभस्य तद्भयद्वारेण मुक्तेश्च दुर्लभत्वाभि- धानस्य श्रोतृप्ररोचनं फलमिति मत्वाह श्रोतारमिति । आत्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्ना- दावपरां प्रकृतिमुपन्यस्यति आहेति । भूमिशब्दस्य व्यवहारयोग्यस्थूलपृथिवीविषयत्वं व्य वर्तयति भूमिरितीति । तत्र हेतुमाह भिन्नति । प्रकृतिसमभिव्याहाराद्गन्धतन्मात्रं स्थूलपृथिवीप्रकृति- रुत्तरविकारो भूमिरित्युच्यते न विशेप इत्यर्थः । भूमिशब्दवदवादिशब्दानामपि सूक्ष्म भूतविषयावमाह तथेति । तेषामपि प्रकृतिसमानाधिकृतत्वाविशेषात्तन्मात्राणां पूर्वपूर्वप्र तीनामत्तरोत्तरविकाराणां न विशेषत्वसिद्धिरित्यर्थः । मनःशब्दस्य संकल्पविकल्पात्मककरणविषयत्वमाशङ्कयाह मन इतीति । न खल्वहंकाराभावे संकल्पविकल्पयोरसंभवात्तदात्मकं मनः संभवतीत्यर्थः । निश्चयलक्षणा बुद्धिरि- त्युपगमाद्बुद्धिशब्दस्य निश्चयात्मककरणावपयत्वमाशङ्कयाह बुद्धिरितीति । न हि हिरण्यगर्भ- समष्टिबुद्धिरूपमन्तरेण व्याष्टबुद्धिः सिध्यतीत्यर्थः । अहंकारस्याभिमानविशेषात्मकत्वनान्तःकरणप्र- भेदत्वं व्यावर्तयति अहंकार इति । अविद्यासंयुक्तमित्यविद्यात्मकमित्यर्थः । कथं मूलकारणस्याहं- कारशब्दत्वमित्याशङ्कयोक्तमर्थ दृष्टान्तेन स्पष्टयति यथेयादिना । मूलकारणत्याहंकारशब्दत्वे हे- तुमाह प्रवर्तकत्वादिति । तस्य प्रवर्तकत्वं प्रपञ्चयति अहंकार एवेति । सत्यवाहंकारे ममकारो भवति तयोश्च भावे सर्वा प्रवृत्तिरिति प्रसिद्धमित्यर्थः । उक्तां प्रकृतिमुपसंहरति इतीयमिति । इयमित्यपरोक्षा साक्षिदृश्यति यावत्, ऐश्वरी तदाश्रया तदैश्वीपाधिभृता । प्रकृतये महदाद्याका- रेणेति प्रकृतिस्विगुणं जगदपादानं प्रधानमिति मतं व्यदस्यति मायेति । तस्यास्तकार्याकारण पारणामयोग्यत्वं द्यातयति शक्तिरिति । अष्टधेति । अष्टभिः प्रकारैसिंते यावत् ॥ ४ ॥ टी० । एवं निरूपणीयाथै श्रोतारमभिमुखीकृत्येदानी प्रतिद्वारा सृष्टयादिकर्तृत्वनेश्व- रतत्त्वं प्रतिज्ञातं निरूपयिप्यन् परापरभेदेन प्रकृतिद्वयमाह भमिरिति द्वाभ्याम । भूम्यादानि पञ्च सूक्ष्माणि तन्मात्रारूपाणि भूतानि, मनःशब्देन तत्कारणीभृताऽहंकारः, बुद्धिशब्देन तत्कारणीभूतं महत्तत्वम , अहंकारशब्देन प्रथमाध्यामरूपा तत्कारणमविद्यत्येवं प्रकृतिर्मायाष्टधाप्टप्रकारा भि- नतिपदेन त्रयोदशाध्याय 'महाभूतान्यहंकार' इत्यादिचतुर्विंशतितत्वात्मना वक्ष्यमाणायाः प्रते- रत्रैवान्तर्भाव इत्यक्तम् ॥ ४ ॥ अपरेयमितस्तन्यां प्रकृतिं विदि मे पराम् ।। जीरभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५॥ अपरेति । अपरा न परा निकृष्टाशुद्धानर्थकरी संसाररूपा बन्धनात्मि- केयमितोऽन्या यथोक्तायास्त्वन्यां विशुद्धां प्रकृतिं ममात्मभृतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो यया प्रत्येदं धार्यते जगदन्तःप्रविष्टया ॥ ५ ॥ आ० टी० । अचेतनवर्गमेकीकतुं प्रकृतेरेष्टधा परिणाममभिधाय विकारावच्छिन्नं कार्यक- रूपं चेतनवर्गमेकीकतुं पुरुषस्य चैतन्यस्य विद्याशक्त्यवच्छिन्नस्यापि प्रकृतित्वं कथयितुमुक्तां प्रक- तिमनूद्य दर्शयति अपरेति । निकृष्टत्वं स्पष्टयति अनर्थकरीति । अनर्थकरत्वमेव स्फोरयति प०

२३.
श्रीमद्भगवद्गीता-
संसारेति । कथंचिदप्यनन्यत्वव्यावृत्त्यर्थस्तुशब्दः । अन्यामत्वन्तविलक्षणामिति यावत् । अन्यत्वमेव
'स्पष्टयति विशुद्धामिति । प्रकृतिशब्दस्यात्र प्रयुक्तस्यार्थान्तरमाह ममेति । प्रकृष्टत्वमेव भोक्तृत्वे-
न स्पष्टयति जीवभूतामिति । प्रकृत्यन्तरादस्याः प्रकृतेरवान्तरविशेषमाह ययेति । न हि जीवर-
हितं जगद्धारयितुं शक्यमित्याशयेनाह अन्तरिति ॥ ५ ॥
प० टी० । इदानीं परापरत्वविभागमाह अपरेयमिति । इयमष्टधा निरूपिता प्रकृतिरपरा
निकृष्टा जडत्वादितः सकाशात्परामुत्कृष्टामन्यां जीवभूतां जानीहि । परत्वे हेतुः यया चेतनया क्षे-
प्रज्ञरूपया स्वकर्महारेणेदं जगद्धार्यते ॥ ५ ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥
एतदिति । एतद्योनीन्येते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनी येपां
भूतानां तान्येतद्योनीनि भूतानि सर्वाणीत्येवमुपधारय जानीहि, यस्मान्मम
प्रकृतिर्योनिः कारणं सर्वभूतानामतोऽहं कत्लस्य जगतः प्रभव उत्पत्तिः
प्रलयो विनाशस्तथा प्रतियहारेणाहं सर्वज्ञ ईश्वरो जगतः कारणमित्यर्थः॥६॥
आ० टी० । उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयति एतद्योनीति । प्रकृति-
द्वयस्य जगत्कारणत्वे कथमीश्वरस्य जगत्कारणत्वं तदुपगतमित्याशङ्कयाह अहमिति । एतद्योनी-
त्युक्ते समनन्तरप्रकृतजीवभूतप्रकतावेतच्छब्दस्याव्यवधानात् प्रवृत्तिमाशङ्कय व्याकरोति एतदिति ।
सर्वाणि चेतनाचेतनानि जनिमन्तीत्यर्थः । सर्वभूतकारणत्वेन प्रकृतिद्वयमङ्गीलतं चेत् कथमहमित्याद्यु-
तमित्याशङ्कयाह यस्मादिति । मम प्रकृती परमेश्वरस्योपाधितया स्थित इत्यर्थः । तर्हि प्रते-
इयं कारणमीश्वरश्चेति जगतोऽनेकविधकारणाङ्गीकरणं स्यादित्याशङ्कयाह प्रतीति । अपरप्रकृति-
रचेतनत्वात् परप्रकृतेश्चेतनत्वेऽपि किंचिज्ज्ञत्वादीश्वरस्यैव सर्वकारणत्वं युक्तमित्याह सर्वज्ञेति ॥६॥
प० टी० । अथ तदेवाह एतद्योनीनीति । एतत्परापरनामकं प्रतिद्वयमेव योनिः का-
रणं येषां तानि सर्वाणि स्थावरजङ्गमात्मकानि भूतानीत्यवधारय बुध्यस्व तत्र जडा प्रकृतिदेहरूपेण
परिणमते चेतना तु मदंशभूता भोज्यत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते मदीये प्रकृती
मत्तः संभूतेऽतोऽहमेव कृत्स्नस्य सप्रकृतिकस्य जगतः प्रभवः प्रकर्षेण भवत्यस्मादिति प्रभवः पर-
मकारणमहमित्यर्थः । तथा प्रलीयतेऽनेनेति प्रलयः संहर्ताप्यहमेवात्र । ऋक्शाखीया श्रुतिः-" य
इमा विश्वा भुवनानि जुह्वदृषिोता न्यषीदत्पिता नः। स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरा-
नाविवेश" इति । भाष्यम्-'य इमेति त्रयोदशर्च सूक्तं वैश्वकर्मदैवत्यं त्रैष्टुभम्' इति सर्वानुक्रमः ।
य इमेति । यो विश्वकर्मा परमेश्वर इमा इमानि विश्वा भूतानि जुत् प्रलयकाले प्राप्ते एथिव्यादी-
निमान्सप्तलोकान् स्वात्मन्याहुतिप्रक्षेपवत्संहरन् ऋषिरतीन्द्रियार्थद्रष्टा सर्वज्ञो होता संहाररूपस्य
होगस्य कर्ता नोऽस्माकं पिता जनको निषसाद स्वरूपेण स्थितवान् लोकान् संहृत्य स्वयमेक एवा-
सीत् । आत्मा वा इदमग्र एक एवासीत्सदैवसौम्येदमग्र आसीदित्यादिश्रुतेश्च । स तादृशः परमेश्वर
आशिषा बहुस्यां प्रजायेयेत्येवंरूपया पुनः सिसूक्षया द्रविणमिच्छमानो धनोपलक्षितजगद्भोगमा-
काङ्खमाणः प्रथमच्छत् प्रथमं मुख्यं निष्प्रपञ्चं पारमार्थिक रूपमावृण्वन् अवरान् स्वसृष्टान् प्राणि-
हृदयप्रवेशानाविवेश जीवरूपेणाविष्टवान् । अत्र सृष्टिकाले प्रथमच्छत्पदेन भूतेष्वात्मानं जुव्हवामीति
वाजसनेयब्राह्मणार्थों दर्शितः। ब्राह्मणं च । हन्ताव्हं भूतेष्वात्मानं जुव्हवामि भूतान्यात्मनीति
तत्सर्वेषु भूतेष्वात्मानं हुत्वेति ॥ ६ ॥

सप्तमाध्यायः । २३१ मत्तः परतरं नान्यत् किंचिदस्ति धनंजय ॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७॥ मत्त इति । यस्मादेतत्ततो मत्तः परमेश्वरात् परतरमन्यत् कारणा- न्तरं किंचिनास्ति न विद्यतेऽहमेव जगत्कारणमित्यर्थः । हे धनंजय यस्मादेव तस्मान्मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतमनुस्यूतमनुगतमनु- विद्धं ग्रथितमित्यर्थः । दीर्घतन्तुषु पटवत् सूत्रे च मणिगणा इव ॥ ७ ॥ आ० टी० । प्रधानात् परतोऽक्षरात् पुरुषवत् परमात्मनोऽपि परादन्यत् परं स्यादित्याश- च प्रतिद्वयद्वारा सर्वकारणत्वमीश्वरस्योक्तमुपजीव्य परिहरति यस्मादिति । नान्यदस्ति पर- मित्यत्र हेतुमाह मयीति । परतरशब्दार्थमाह अन्यदिति । स्वातन्त्र्यव्यावृत्त्यर्थमन्तरशब्दो निषेध- फलं कथयति अहमेवेति । सर्वजगत्कारणत्वेन सिद्धमर्थ द्वितीयार्धव्याख्यानेन विशदयति यस्मा- दिति । अतो दीर्धेषु तिर्यक्षु च पटघटितेषु तन्तुषु पटस्यावगतिरवगम्यते तद्वन्मय्येवानुगतं जग- दित्याह दीर्घति । यथा च मणयः सूत्रेऽनुस्यूतास्तेनैव ध्रियन्ते तदभावे विप्रकीर्यन्ते तथा मय्ये- वात्मभूतेन सर्व व्याप्तं ततो निकृष्टं विनष्टमेव स्यादिति श्लोकोक्तं दृष्टान्तमाह सूत्रेति ॥ ७ ॥ प० टी० । यस्मादेवं तस्मान् मत्त इति । मत्तः सकाशात् परतरमुत्कृष्टमन्यत्किं चिदपि ना- स्ति । यद्भासते तदवरमेव । पूर्व प्रभवलयनिमित्तमहमेवास्मीत्युक्तमिदानी स्थितिनिमित्तमहमेवास्मी- त्याह मयीति । इदं सर्व विचित्रं भूतजातं मयि प्रोतम् । किमिव सूत्रे मणिगणा इव । गणशब्देन विचित्रवर्णप्रमाणाकृतयो मणय एकस्मिन् सूत्रे प्रोतास्तिष्ठन्ति तहत् ॥ ७ ॥ रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः॥ प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८॥ केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते रस इति । रसोऽहमपां यः सारः स रसस्तस्मिन् रसभूते मय्यापः प्रोता इत्यर्थः, एवं सर्वत्र यथाहमप्सु रस एवं प्रभास्मि शशिसूर्ययोः, प्रणव ओङ्कारः सर्ववेदेषु त- स्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः, तथा खे आकाशे शब्दः सारभूत- स्तस्मिन् मयि खं प्रोतं, तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिषु तस्मिन् मयि पुरुषाः प्रोताः ॥ ८ ॥ आ० टी० । अबादीनां रसादिषु प्रोतत्वप्रतीतेस्त्वय्येव सर्व प्रोतमित्ययुक्तमिति मत्वा पृच्छति केनेति । तत्रोत्तरमुत्तरग्रन्थेन दर्शयति उच्यत इति । सारो मधुरो हेतुरिति यावत् । रसोऽहमिति कथं तत्राह तस्मिन्निति । अप्सु यो रसः सारस्तस्मिन्मयि मधुररसे कारणभूते प्रोता आप इतिवदुत्तरत्र सर्वत्र व्याख्यानं कर्तव्यमित्याह एवमिति । उक्तमर्थ दृष्टान्तं कृत्वा प्रभा- स्मीत्यादि व्याचष्टे यथेति । चन्द्रादित्ययोर्या प्रभा तद्भूते मयि तो प्रोतावित्यर्थः । तत्र वाक्यार्थ कथयति तस्मिनिति । प्रणवभूते तस्मिन् वेदानां प्रोतत्ववदाकाशे यः सारभूतः शब्दस्तद्रूपे परमे- श्वरे प्रोतमाकाशमित्याह तथेति । पौरुषं नृष्वितिभागं पूर्ववद्विभजते सथेसादिना । पुरुषत्वमेव

२३२
श्रीमद्भगवद्गीता-
विशदयति यत इति । पुंस्त्वसामान्यात्मके परस्मिन्नीश्वरे प्रोतास्तद्विशेषास्तदुपादानत्वेन तत्व-
भावत्वादेत्यर्थः ॥ ८ ॥
५० टी० । अथ जगत्स्थितिहेतुत्वमाह रसोहमिति पञ्चभिः । अप्सूदकेषु रसोऽहमस्मि
रसतन्मात्रतया विभूयाश्रयत्वेन स्थितोऽस्मि । तथा शशिसूर्ययाः प्रभास्मि चन्द्रकै वा प्र.
काशरूपया विभूत्यात्म । एवमुत्तरत्रापि द्रष्टव्यम् । सर्ववेदेषु दैखरीरूपेण प्रणवो वाग्न ॐकारो-
ऽत्मि, खे आक.शे शब्दतन्मात्ररूपोऽस्मि, नृषु पुरुषेषु पौरुषमुद्योगरूपोऽस्मि ॥ ८ ॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ॥
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥९॥
पुण्य इति । पुण्यः सुरभिर्गन्धः पृथिव्यां चाहं तस्मिन् मयि गन्धभू-
ते पृथिवी प्रोता, पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितमवादिषु
रस.दः पुण्यत्वोपलक्षणार्थमपुण्यत्वं तु गन्धादीनामविद्याधर्माद्यपेक्षं संसारिणां
भूतविशेपसंसर्गनिमित्तं भवति तेजो दीप्तिश्चास्मि विभावसावग्नी तथा जीवन
सर्वभूतेषु येन जीवन्ति सर्वाणि भूतानि तज्जोवनं तपश्चास्मि तपस्विषु त-
स्मिस्तपसि मयि तपस्विनः प्रोताः ॥ ९ ॥
आ० टी० । मयि सर्वमिदं प्रोतमित्यस्यैव परिपूरणार्थ प्रकारान्तरमाह पुण्य इति । पृथि-
व्यां पुण्यशब्दितो यः सुरभिगन्धः मोऽहमस्मीत्यत्र वाक्यार्थ कथयति तस्मिन्निाते । कथं पृथिव्यां
गन्धस्य पुण्यत्वं तत्राह पश्यत्वमिति । यत्तु पृथिव्यां गन्धस्य स्वाभाविकं पुण्यत्वं दर्शितं तदबा-
दिषु रमादेः स्वाभावि : पण्यत्वस्योपलक्षणार्थमित्याह एथिव्यामिति । प्रथमात्पन्नाः पञ्चापि गुणाः
पुण्या एव सिद्धानिमिव भाग्यत्वादिति भावः । कथं तर्हि गन्धादीनामपुण्यत्वप्रतिभानं तत्राह
अपण्यत्वं विति। तव स्फटयात संसारिणामिति । गन्धादयः स्वकार्य तैः सह परिणममानाः
प्राणिनां पापादिवशाइपण्याः संपद्यन्त इत्यर्थः । पञ्चाग्नेस्तेजस्तइते मयि प्रोतोऽग्निरित्याह तेज इति ।
जीवनभते च माय सर्वाणि भतानि प्रोतानीत्याह तथेति । जीवनशब्दार्थमाह येनेति । अन्नरसेना-
मृताख्येनेत्यर्थः । तपश्चास्मीत्यादेस्तात्पर्यमाह तस्मिन्निति । चित्तैकाग्र्यमनाशकादि वा तपस्त-
दात्मनीश्वरे प्रोतास्तपस्विनो विशेषणाभावे विशिष्टस्य वस्तुनोऽभावादित्यर्थः ॥ ९ ॥
प० टी० । किं च पुण्योऽविकृतो गन्धो गन्धतन्मात्रं पृथिव्यामहमस्मि विभावसावनौ य-
दीप्तं तेजस्तदहम् । सर्वभुतेषु जीवनं प्राणधारणमायुरहमित्यर्थः । तपस्विषु वानप्रस्थादिषु तपो
इन्द्रसहिष्णुत्वरूपेणाहमस्मि ॥ ९ ॥
बीजं मां सर्वभूतानां विद्वि पार्थ सनातनम् ॥
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥
वीजमिति । बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं
चिरंतनं किंच बुद्धिविवेकशक्तिरन्तःकरणस्य बुद्धिमतां विवेकशक्तिमता-
मस्मि तेजः प्रागल्भ्यं तद्दतां तेजस्विनामहम् ॥ १० ॥

सप्तमाध्यायः । २३३ आ० टी० । ननु सर्वाणि भूतानि स्वकारणे प्रोतानि कथं तेषां त्वयि प्रोतत्वं तत्राह वीजमिति । बीजान्तराद्यपेक्षयानवस्थां वारयति सनातनमिति । चैतन्यस्याभिव्यंजक तत्त्वनिश्चय- सामर्थ्य बुद्धिस्तद्वतां या बुद्धिस्तद्भूते मयि सर्वे बुद्धिमन्तः प्रोता भवन्तीत्याह किं चेति । प्रागल्भ्य- वतां यत् प्रागल्भ्यं तद्भूते मयि तद्वन्तः प्रोता इत्याह तेज इति । तद्धि प्रागल्भ्यं यत्परा- भिभवसामर्थ्य परैश्चाप्रधृप्यत्वम् ॥ १० ॥ ५० टी० । किं च सर्वभूतानां चराचराणां बीजमकरोत्पादनसामर्थ्य सनातनं नित्यमुत्तरोत्तरं सर्वकार्येष्वनुस्यूतं तदहमस्मि तथा बुद्धिमतां बुद्धिः प्रज्ञाहमस्मि तेजस्विनां तेजः प्रागल्भ्य- महमेवास्मि ॥ १० ॥ बलं बलवतां चाहं कामरागविवर्जितम् ॥ धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ बलमिति । वलं सामर्थ्यमोजो वलवतामहं तच्च वलं कामरागविव- जितं कामश्च रागश्च कामरागौ कामस्तृष्णा संनिकृष्टेषु विषयेषु रागो रञ्जना प्राप्तेषु विपयेषु ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थ बलं सत्त्व- महमस्मि न तु यत् संसारिणां तृष्णारागकारणं, किं च धर्माविरुद्धो धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामो यथा देहधारणमात्राद्यर्थोऽशनपाना- दिविषयः कामोऽस्मि हे भरतर्षभ ॥ ११ ॥ आ० टी० । यच्च बलवतां बलं तद्भुते मयि तेषां प्रोतत्वमित्याह वलमिति । कामक्रोधा- दिपूर्वकस्यापि बलस्यानुमति वारयति तच्चेति । कामरागयोरेकार्थत्वमाशङ्कयार्थभेदमावेदयति काम- स्तृष्णेयादिना । विशेषणमामर्थ्यसिद्ध व्यावर्त्य दर्शयति न खिति । शास्त्रार्थाविरुद्धकामभूते मयि तथाविधकामवतां भूतानां प्रोतत्वं विवक्षित्वाह किं चेति । धर्माविरुद्ध काममुदाहरति यथेति ॥११॥ प० टी० । किं च बलवतां कामरागविवर्जितं बलमहमस्मि । तत्र कामाऽप्राप्ते वस्तुन्याभि- लाषो राजसः, रागः पुनरभिलपितेऽर्थे प्राप्तेऽभिरञ्जनात्मकस्तृप्णापरपर्यायस्तामसस्ताभ्यां वर्जितम् । यद्वा बलवतां पुरुषार्थवतां वीराणां बलं शौर्य कामेप विपयेषु रागः प्रीतिस्तद्विवर्जितम् । निःसंगत्वेन स्वधर्माचरणरूपमित्यर्थः । भूतेषु धर्माविरुद्धः स्वदारेषु पुत्रोत्पत्तिमात्रोपयोगी कामो मदनरूपे. णास्मि ॥ ११ ॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये॥ मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ १२॥ किं च ये चैवेति । ये चैव सात्त्विकाः सत्त्वनित्ता भावाः पदार्थी राजसा रजोनिर्वृत्तास्तामसास्तमोनिवृत्ताश्च ये के चित् प्राणिनां स्वकर्मवशाज जायन्ते भावास्तान् मत्त एव जायमानानित्येवं विद्धि सर्वान् समस्तानेव य- यपि ते मत्तो जायन्ते तथापि न त्वहं तेषु तदधीनस्तद्दशो यथा संसारिणस्ते पुनर्मयि महशा मदधीनाः ॥ १२ ॥ ३० २३४ श्रीमद्भगवद्गीता- आ० टी० । चिदानन्दयोरभिव्यञ्जकानां भावानामीश्वरात्मत्वाभिधानादन्यषामतदात्मत्वप्रा- प्तावुक्तं किं चेति । प्राणिनां त्रैविध्ये हेतुं दर्शयन् वाक्यार्थमाह ये के चिदिति । तर्हि पितुरिव पुत्राधीनत्वं ततो जायमानानां तदधीनत्वं तवापि स्यादिति विक्रियावत्त्वदूप्यत्वप्रसक्तिरित्याशङ्कयाह यद्यपीति । मम परमार्थत्वात्तेपां कल्पितत्वान्न तद्रुणदोपौ मयि स्यातामित्यर्थः । तेपामपि तद्वदेव स्वतन्त्रतासंभवात् किमिति कल्पितत्वमित्याशङ्कचाह ते पुनरिति । त्रिविधानां भावानां न स्वात- ज्यमीश्वरकार्यत्वेन तदधीनत्वात्तथा च कल्पितस्याधिष्ठानसत्ताप्रतीतिभ्यामेव तद्वत्त्वात्तन्मात्रसि- द्विरित्यर्थः ॥ १२ ॥ प० टी० । किं च ये चान्ये सात्त्विका भावाः शमदमादयो राजसा हर्षदादयस्तामसाः शोकमोहादयः प्राणिनां स्वकर्मवशाज्जायन्ते । तान् सर्वान्मत्त एव जातान् विद्धि मदीयप्रकृतिगुण- कार्यत्वात् । अथादितस्तेषु तेषु पदार्थेषु कारणात्मना तत्तद्रूपेण वर्तमानोऽप्यसंगत्वेन तिष्ठामी- त्याह न त्वहमिति । तेषु पदार्थेषु नाहं तहान् स्पृशामि । अथ वा ते प्रातिभासिकत्वान्मयि न सन्ति शुक्तिकायां रजतमिव ॥ १२ ॥ विभिर्गुणमयीवरेभिः सर्वमिदं जगत् ॥ मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३॥ एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोपबीजप्ररोहकारणं मां नाभिजानाति जगदित्यनुक्रोशं दर्शयति भगवान् । तच्च किंनिमित्तं जगतोऽज्ञानमुच्यते त्रिभिरिति । त्रिभिर्गुणमयभावैर्गुणवि- कारै रागद्देषमोहादिप्रकारे वैः पदारेभिर्यथोक्तैः सर्वमिदं प्राणिजातं जगन्मो- हितमविवेकतामापादितं सन्नाभिजानाति मामेभ्यो यथोक्तभ्यो गुणेभ्यः परं व्यतिरिक्तं विलक्षणं चाव्ययं व्ययरहितं जन्मादिसर्वभावविकारवजित- मित्यर्थः ॥ १३ ॥ आ० टी० । सतीश्वरस्य स्वातन्त्र्ये नित्यशुद्धत्वादौ च कुतो जगतस्तदात्मकस्य संसारित्वमित्या- शङ्कय तदज्ञानादित्याह एवंभूतमपीति । यद्यप्रपञ्चोऽविक्रियश्च त्वं कस्मात्त्वामात्मभूतं स्वयंप्रकाशं सर्वो जनस्तथा न जानातीति मत्वा शङ्कते तच्चति । श्लोकेनोत्तरमाह उच्यत इति । एभ्यः परमि- त्यप्रपञ्चकत्वमुच्यते, अव्ययमिति सर्वविक्रियाराहित्यम् ॥ १३ ॥ दी। अथैतदेव प्रकटयन्नाह त्रिभिरिति । एभिर्गुणैः सत्त्वरजस्तमोभिस्त्रिभिर्भावैः प्रकृतेः स्वभावरिदं सर्व जगन्मोहितम् । यतो मामेभ्यो गुणेभ्यः परमधिकरणरूपं बाधरहितं नाभि- जानाति । प्रातिभासिकरजतार्थ धावमानः शुक्तिकां न वेत्तीत्यर्थः ॥ १३ ॥ दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४॥ कथं पुनर्दैवीमेतां त्रिगुणात्मिकां वैष्णवीं मायामतिकामन्तीत्युच्यते दै- बोति । देवी देवस्य ममेश्वरस्य विष्णोः स्वभावभूता हि यस्मादेषा यथोक्ता सप्तमाध्यायः॥ २३५ गुणमयी मम माया दुरत्यया दुःखेनात्ययोऽतिक्रमणं यस्याः सा दुरत्यया तत्रैवं सति सर्वधर्मान् परित्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायामेतां सर्वभूतचित्तमोहिनी तरन्त्यतिकामन्ति संसारबन्धनान्मुच्यन्त इत्यर्थः ॥ १४ ॥ आ० टी० । यथोक्तानादिसिद्धमायापारवश्यपरिवर्जनायोगाज्जगतो न कदा चिदपि तत्त्वबो- धसमुदयसंभावनेत्याशङ्कते कथं पुनरिति । भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः संभव- तीति परिहरति उच्यत इति । कथं दुरत्ययत्वेन तदत्ययः स्यादिति तत्राह मामेवेति । प्रधानस्येव स्वातन्त्र्यं मायाया व्युदस्यति देवस्यति । स्वातन्त्र्ये मायात्वानुपपत्तिं हिशब्दद्योतितां हेतुं करोति यस्मादिति । अनुभवसिद्धा सा नाकस्मादपलापमहतीत्याह एषेति । जगतस्तत्त्वप्रतिबन्धकीभूता गुणाः सत्त्वादयः । ममेति प्रागुक्तमेव मायायाः संबन्धमन्द्य विधित्सितं दुरत्ययत्वं विभजते दुःखे- नति । मामवेत्यादि व्याचष्टे तति । तस्मिन् मायारूपे यथोक्तरीत्या दुरत्यये सतीति यावत्, मामेवेत्येवकारेण मायाया वेद्यकोटिनिवेशाभावो विवक्ष्यते, सर्वात्मना कर्मानुष्ठानादिव्यग्रतामन्तरेणे- त्यर्थः । मायातिकमे मोहातिक्रमो भवतीति मत्वा विशिनष्टि सर्वेति । मायातत्प्रयुक्तमोहयोरतिक्रमे- ऽपि कथं पुरुषस्य पुरुषार्थसिद्धिरित्याशङ्कयाह संसारोति ॥ १४ ॥ प० टी० । कथं पुनर्मायामतिक्रामन्तीत्याह देवीति । एपा नानाविधनगदुपादानकारणत्वेन प्रतीयमानात एव गुणमयी दैव्यलौकिकसामर्थ्यवती यतो मम माया मदाश्रयवर्तिनी मदधीन- त्वादन्येपां दुरत्यया दुःखेनापि नाशयितुमशक्या । तर्हि मोक्षोपायप्रयासो व्यर्थः स्यादित्याह मामे- वेति । ये मामेवेश्वरं नान्यं प्रपद्यन्ते शरणं व्रजन्ति त एवैतामुक्तलक्षणा मायां तरन्ति नान्ये मद- नुग्रहेण मत्साक्षात्कारात्स्वत एव नश्यन्तीत्यर्थः । अथ दैवी मम मायेत्यत्र तैत्तिरीयकश्रुतिः- "देवीमहं नितिं वन्दमानः पितेव पुत्रं दासये वचोभिः' इति । भाप्यम-निति राक्षसी मायां देवीं सामर्थ्य- वतीमहं वन्दमानः पुरस्कुर्वाणोऽनन्तरं वचोभिरुपनिपद्विभागैर्दासये दासत्वेन नियोजयामि । विवत्, पि- ता पुत्रमिव स्वाज्ञावशवर्तिनी करोमीत्यर्थः । अथ दरत्ययेत्यत्र ऋक्शाखीया श्रुतिः-"चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृपणा निषेदतुर्यत्र देवा दधिरे भागधेयम् । एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे । तं पाकेन मनसा पश्यमन्तितस्तं माता रेहळि स उ रेहळि मातरम् ॥२॥” रावणभाप्यम्-चत्वारः कपर्दा उत्कर्षा यस्याः सा चतुष्कपर्दा पूर्वोपक्रा- न्ता माया । अथ तानेवोत्कर्षानाह यवतिरित्यादि । युवतिः सदा तरुणी कदापि वाधकं न प्राप्नोत्य- यमेक उत्कर्षः । तथा सुपेशा सुतरां पेशा पेशला कुशलाघटितबटनापटीयसी । तदुक्तम् " यथा स्वप्नमहतॆ स्यात्संवत्सरशतभ्रमः । तथा मायाविलासोऽयं जायते जाग्रति भ्रमः” इति । अयं द्वितीय उत्कर्पः । तथा घृतप्रतीका घृतवन्मिष्टं प्रतीकमुपक्रमा यस्याः सा परिणाम विपोपमेत्यर्थः । अयमेव तृतीय उत्कर्षः। तथा वयुनानीति, वयुनानि ज्ञानानि वस्ते छादयति तद्विपरीतस्वभावत्वात् । तर्हि चतुरुत्कर्पवती मायैवास्ति कथमीश्वरप्रसिद्धिरित्याह तस्यामिति । तस्यामुक्तलक्षणायां मायायां सुपणा सुपर्णी शोभनपतनौ जीवेश्वरौ पक्षिणाविव वृपणौ सदसत्कलवर्पिता । द्विवचनस्यावाछन्दसीत्यात्वम् । निपेदतुर्निपण्णौ स्थितौ । कुतो ज्ञातमेतदत आह यत्रेति । यत्र भागधेयमर्थप्रकाशमामर्थ्य द्योतयन्त्य- र्थान्प्रकाशयन्ति । ते देवाश्चक्षुराद्या दधिरे धृतवन्तः । अनेन ज्ञानतिरोधानका मायायाः सकाशादी- श्वरस्य वैलक्षण्यं द्योतितम् । अथ सुपर्णाविति द्विवचननेश्वरस्य हैनिध्यमापन्नं तत्परिहरति एक इति । वस्तुतः सुपर्ण एक एव स समुद्रमाविवेश समुन्दयति तिरोधत्त एवंविधं प्रपञ्चमाविवेश । "तत्सृष्ट्वा तदेवानुप्राविशद् इति श्रुतेः । स इदं भुवनं स्थूलप्रपञ्चरूपं विचष्टे ज्ञातवान् । तं पाकेन परिपक्वेन २३६ - श्रीमद्भगवद्गीता- बुद्धिरूपेण मनसान्तितोभ्यन्तरतो यावदपश्यमद्राक्षं तावत्तं सुपर्ण माता माया रेहाळ । लिह आस्वादने विसर्गेति च विसृनति त्यजति ।तथा उ इति निश्चितं सुपर्णो मातरं विसृजति । द्विवचनं तु तादात्म्यविषयकम् । अत एवाग्रतो वक्ष्यति “सुपर्ण विप्राः कवयो वचो भिरेकं सन्तं बहुधा कल्पय- न्ति" इत्यादि । अथ 'मामेव ये प्रपद्यन्त' इत्येतस्मिन्नर्थ तैत्तिरीयकसंहितास्वपि.--"यत्ते देवी निर्ऋतिराबब- न्ध दामग्रीवास्वविचर्च्यम् । इदं ते तद्दिप्याम्यायुपो न मध्यादथाजीवः पितुमद्धि प्रमुक्त" इति । भा- प्यम्--भो परमेश्वर ते देवी तव स्त्रीत्वेनाभिमता। पतिश्च पत्नी वा भवतामिति श्रुतेः । उत्कर्ष- वती वा निक्रतिः राक्षसी माया ग्रीवासु मन्यासु यदिदं दाम बन्धनरज्जुमासमन्ताद्वबन्ध जीवानां बन्धनं कृतवती तत् ते इति त्वया कृत्वा द्विप्यामि दुरीकरोमि नाशयामीत्यर्थः । अस्य दुरत्यय- स्वमाह । किंभूतं दाम, आयुपो मध्याज्जीवता पुरुषेणाविचY विचरणशीलं विचर्च्य तथावि- धं न भवत्यविचाल्यमित्यर्थः । अथ बन्धननाशानन्तरं पितुशब्देन अन्नं पितुमज्जीवः । अन्नादि- विषयासक्तो जीवः प्रमुक्तो भवति मुक्तदशां प्राप्नोति । नकारो निश्चयार्थः । एवमीश्वरानुसंधानेन मायाभिभवे मोक्षोपायः सुकर एवेत्यर्थः ॥ १४ ॥ न मां दुप्कृतिनो मूढाः प्रपद्यन्ते नराधमाः॥ माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥ यदि त्वां प्रपन्ना मायामेतां तरन्ति कस्मात्त्वामेव सर्वे न प्रपद्यन्ते इत्युच्यते न मामिति । न मां परमेश्वरं दुष्कृतिनः पापकारिणो मूढाः प्रपद्य- न्ते नराधमा नराणां मध्येऽधमा निकृष्टास्ते च माययापहतज्ञाना आसुरं भावं हिंसानृतादिलक्षणमाश्रिताः ॥१५॥ आ० टी० । भगवन्निष्टाया मायातिक्रमहंतुत्वे तदेकनिष्ठत्वमेव सर्वेषामुचितमिति पृच्छति यदीति । पापकारित्वेनाविवकभयस्तया हिंसानृतादिभ्यस्त्वाद्यसां जन्तूनां न भगवन्निष्ठत्वसि- द्विरित्याह उच्यत इति । मौढ्यं पापकारित्वे हेतुरत एव निरप्टाः समुपितमिव तिरस्कृतं ज्ञानं स्वस्वरूपचैतन्यमेपामिति ते तथा ॥ १५ ॥ प० टी० । अथ मदप्राप्तिनिमित्तं मार्यवेत्याह न मामिति । नरेषु येऽधमास्ते मां न प्रप- द्यन्त न भजन्ति । तत्र हेतुः मूढा विवेकशून्याः, तत्कतो, दुष्कातनः पापशीला अतो माययापह- तज्ञानाः सन्त आसुरं भावमाश्रिताः सन्ति शास्त्राचार्योपदंशतः प्राप्तज्ञाना अपि तदावरकीभूतमायातो दम्भदाभिमानपारुष्याद्यभिनिवेशवन्तो मां न भजन्तीत्यर्थः । तदुक्तम्-'दुःसंकल्पविकल्पकूलयुगुला धैयद्रुमोन्मूलिनी कल्लोलैरभिमानमत्सरमुखैः पतिः परीतार्मिका । आवर्तर्ममतादिभिः परिवृता दुःश्वक- धारान्विता पूर्णा मोहपयस्विनीव निभृतं चेतःस्थितिर्मायिनाम् ॥ १५ ॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ॥ आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥ चतुरिति । ये पुनर्नरोत्तमाः पुण्यकर्माणश्चतुर्विधाश्चतुष्प्र- कारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्यकर्माणो हे अर्जन आर्त सप्तमाध्यायः । २३० आर्तिपरिगृहीतस्तस्करव्याघ्ररोगादिनाभिभूतोऽभिभवमापन्नो जिज्ञासुर्भगवत्त- त्वंज्ञातुमिच्छति योऽर्थार्थी धनकामो ज्ञानी विष्णोस्तत्त्वविच्च हे भरतर्षभ।।१६॥ आ० टी० । केषां तर्हि तन्निष्ठता सुकरेति तत्राह ये पुनरिति । ते भजन्ते भगवन्तमिति शेषः । ये त्वां भजन्ते ते किं सर्वे मायां तरन्ति नैवं प्रार्थनावैचित्र्यादित्याह चतुर्विधा इति । आपन्नस्तन्निवृत्तिामच्छन्निति शेषः । तत्त्वविदिति । शब्दज्ञानवानात्मतत्त्वसाक्षात्कारमात्रार्थी मु- मुक्षुरित्यर्थः ॥ १६ ॥ ५० टी० । अथ भजनसुरूततारतम्येन चातुर्विध्यमाह चतुर्विधा इति । पूर्वजन्मनि कृतसु- कृतसमूहाः सुकृतिनो मां भजन्ति । तदुक्तम्-'अनेकजन्मसाहौस्तपोदानसमाधिभिः । नराणां क्षीण- पापानां कृष्णे भक्तिः प्रजायते' इति । अथोद्दिष्टं चातुर्विध्यमाह आतेति । तत्रा? रोगाद्यभिभूतः स यदि पूर्वकृतपुण्यपुञ्जस्तदा मां भनत्यन्यथा क्षुद्रदेवोपासनेन संसरति । ननु भगवतो मोक्षकदातृत्व- प्रसिद्दया क्षुद्रफलार्थं भजनमसंभावितमिति चेन्न ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ' इति प्रतिज्ञातत्वात् । श्रुतिरपि-“यदि क्षतायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । तमाहरामि निर्ऋते- रुपस्थादस्पार्शमेनं शतशारदाय '' इति । भाप्यम्-क्षतायुरपमृत्युमान् गजेन्द्रादिः' परेत इहलोकाल्लो- कान्तरं नीतः स्वबन्ध्वादिः, मृत्योरन्तिकं यमसमीपं नीतो गुरुबालकादिः । एवकारेण बुद्धिपूर्वकं नीतो न प्रमादेन तं प्राणिनं नितेरुपस्थाद यमसमीपतोऽप्याहरामि गुरुवालकवद्बलात्कारेणानयामि । अथ स पुनरपि मरिष्यति चेन्नेत्याह । एनं मृत्योर्मोचितं पुरुषं शतशारदाय शतवर्षपर्यन्तं जीवनाय । यहा शतशब्दोऽनन्तसंख्यावाची । अमृतत्वायास्पार्शमभयकरण स्टशामि । तथा जिज्ञासुरात्मज्ञानेप्मु- स्तथार्थार्थी अर्थमिहामुत्रफलभोगमर्थयते स तथा तथा ज्ञान्यात्मवित् । नन्वात्माविदः कृतकृत्यता पुनर्भजनं कुत इति चेन्न । यत्प्रसादादात्मज्ञत्वोपकारः स कथं कृतज्ञेन विस्मयते । तदक्तम्-- विस्मयते कृतविदा कथमार्तबन्धो इत्यादि ॥ १६ ॥ तेपां ज्ञानी नित्ययुक्त एकभक्तिर्विशिप्यते ॥ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७॥ तेपामिति । तेषां चतुणी मध्ये ज्ञानी तत्त्ववित्त्वान्नित्ययुक्तो भवत्येक- भक्तिश्चान्यस्य भजनीयस्यादर्शनादतः स एकभक्तिार्वशिष्यते विशेषमाधि- क्यमापद्यतेऽतिरिच्यत इत्यर्थः । प्रियो हि यस्मादहमात्मा ज्ञानिनोऽतस्तस्या- हमत्यर्थ प्रियः प्रसिद्ध हि लोके आत्मा प्रियो भवतीति तस्माज् ज्ञानिन आत्मत्वाहासुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्यात्मैवेति ममात्यर्थ प्रियः ॥ १७ ॥ आ० टी० । चतुर्विधानां तेपां सुकृतिनां भगवदभिमुखानां तुल्यत्वमाशङ्कयाह तेषामिति । तस्य विशिष्यमाणत्वे हेतुमाह प्रियो हीति । नित्ययुक्तत्वं भगवत्यात्मनि सदा समाहितचेतस्त्वम- सारे संसारे भगवानेव सारः सोऽहमस्मीत्येकस्मिन्नद्वितीये स्वस्मादत्यन्तमभिन्ने भगवति भक्तिः स्ने- हविशेषोऽस्येत्येकभक्तिः । तस्याधिक्ये हेतुं विवृणोति प्रियो हीसादिना । भगवतो ज्ञानिनश्च परस्परं प्रेमास्पदत्वे प्रसिद्धि प्रमाणयति प्रसिद्ध हीति । आत्मनो ज्ञानिनं प्रति प्रियत्वेऽपि भगवती वासुदेवस्य कथं तं प्रति प्रियत्वमित्याशझ्याह तस्मादिति । अहं ज्ञानिनो निरुपाधिकप्रेमास्पद २३८ श्रीमद्भगवद्गीता- परमपुरुषार्थत्वेनात्मत्वेन च गृहीतत्वादित्यर्थः । ज्ञानिनोऽपि भगवन्तं प्रति प्रियत्वं प्रकटयति स चेति ॥ १७ ॥ प० टी० । तेषामिति । तेषां चतुर्णा मध्ये ज्ञानी तत्त्वविदेकभक्तिरव्यभिचारिण्या भक्त्या युक्तो विशिष्यते विशेष प्राप्नोति । यावत्पर्यन्तं जीवन्मुक्तो भवति तावत्पर्यन्तं सिध्यादिविवाभावमुदि- श्य भक्तिं न त्यजतीत्यर्थः । अथ तस्य प्रेमानुबन्धमाह प्रिय इति । हीति निश्चयेन ज्ञानिनः पुरु- पस्याहमत्यन्तं प्रियो निरतिशयप्रेमास्पदम् । श्रुतिरपि-" तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्य- स्मात्सर्वस्मादन्तरतरं यदयमात्मा" तथा आत्मनस्तु कामाय सर्व प्रियं भवति" इति । स्पष्टार्थम् । च परं सोऽपि मम प्रियोऽनुग्राह्यत्वात् ॥ १७ ॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ॥ आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥ न तातादयस्त्रयो वासुदेवस्य प्रियाः । न, किं तर्हि उदारा इति । उदारा उत्कृष्टाः सर्व एवैते त्रयोऽपि मम प्रिया एवेत्यर्थः । न हि कश्चिन्मद्भक्तो मम वासुदेवस्याप्रियो भवतीति ज्ञानी त्वत्यर्थं प्रियो भवतीति विशेषः । तत् कस्मादित्याह ज्ञानी त्वात्मैव नान्यो मत इति मे मम मतं निश्चयः, आ- स्थित आरोढुं प्रवृत्तः स च ज्ञानी हि यस्मादहमेव भगवान् वासुदेवो ना- न्योऽस्मीत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म गन्तव्यमनुत्तम गतिं गन्तुं प्रवृत्त इत्यर्थः ॥ १८ ॥ आ० टी० । ज्ञानी चेदत्यर्थमीश्वरस्य प्रियो भवति तर्हि विशेषणसामर्थ्यादितरेपामप्रि- यत्वं प्राप्तमिति शङ्कते न तीति । तेपां भगवन्तं प्रति प्रियत्वमत्र विवक्षितमित्याह नेति । अ- त्यर्थमिति विशेषणस्य तर्हि किं प्रयोजनमिति पृच्छति किं तीति । सर्वेषां भगवदभिमुखत्वा दु- त्कर्षेऽपि ज्ञानिनि तदतिरेकमङ्गीकृत्य विशेषणमित्याह उदारा इनि । किं तत्र प्रमाणमित्याशङ्कये- श्वरज्ञानमित्याह मे मतमिति । ज्ञानी त्वात्मैवेत्यत्र हेतुमाह आस्थित इति । सर्वशब्दस्य ज्ञ नि- व्यतिरिक्तविषयत्वमाह त्रयोऽपीति । ज्ञानिव्यतिरिक्तानां भगवदभिमुखत्वेऽपि ज्ञानाभावापराधान्न भगवत्प्रीतिविषयतत्याशङ्कयाह न हीति । कस्तार्ह ज्ञानवति सति विशेषस्तत्राह ज्ञानी त्विति । तमेव विशेपं प्रश्नपूर्वकं प्रकटयति कस्मादिसादिना । सर्वमात्मानं पश्यतोऽप्यपक्षपातिनस्तस्य तव कथं यथोक्तो निश्चयः स्यादित्याशयास्थित इत्येतद्व्याकरांति आरोढमिति । आरोहे हेतु सूचयति स च ज्ञानीति । आरोढुं प्रवृत्तत्वमेव स्फुटयति मामेवेति ॥ १८ ॥ प० टी० । तार्ह किमितरे त्रयस्त्वद्भक्ताः संसरन्ति न हि न हीत्याह उदारा इति । र्तीिदयस्त्रयोऽप्युदारा मदर्पणपराः सन्तो मोक्षभागिन एव भवन्ति । ज्ञानी त्वात्मैव मत्स्वरूप एवेति मन्मतम् । सर्वविघ्नानां मूर्ध्नि पदं दत्वा मद्भावमागत इत्यर्थः । श्रुतिरपि शातपथी-" य एवं वेदाहं ब्रह्मास्मीति स इद सर्व भवति तस्य हन देवाश्च नाभूत्या ईशत आत्मा ह्येपाः स भवति" इति । भाप्यम्-यो ब्रह्माहमस्मीत्येवं वेद स इदं सर्वं भवति सर्वा- त्मको भवतीत्यर्थः । होति निश्चयेन तस्य पुरुषस्याभूत्या अनैश्वर्याय च्यावनाय देवा इन्द्रादयोऽपि ने-

सप्तमाध्यायः।
२३९
शते समर्था न भवन्ति । कुत एषामिन्द्रादीनामपि स आत्मान्तर्यामित्वेन प्रवर्तको भवतीत्यर्थः । एवं
स युक्तात्मा पुरुषो मामेवानुत्तमां गतिमात्यन्तिकगतिस्वरूपमास्थित आश्रितः ॥ १८ ॥
बहूनां जन्मनामन्ते ज्ञानवान मां प्रपद्यते ॥
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९॥
ज्ञानी पुनरपि स्तूयते बहूनामिति । बहूनां जन्मनां ज्ञानार्थसंस्कारार्ज-
नाश्रयाणामन्ते समाप्तौ ज्ञानवान् प्राप्तपरिपाकज्ञानो मां वासुदेवं प्रत्यगात्मानं
प्रत्यक्षतः प्रतिपद्यते। कथं, वासुदेवः सर्वमिति । य एवं सर्वात्मानं मां प्रतिपद्यते
स महात्मा न तत्समोऽन्योऽस्त्यधिको वातः सुदुर्लभो मनुष्याणां सहस्रे-
ष्वित्युक्तम् ॥ १९ ॥
आ० टी० । उत्तरश्लोकस्य गतार्थत्वं परिहरति ज्ञानीति । ज्ञानार्थसंस्कारो वासना तत्त-
ज्जन्मनि पुण्यकर्मानुष्ठानजनिता बुद्धिशुद्धिस्तदाश्रयाणां तद्वतामनन्तानां जन्मनामिति यावत् ।
ज्ञानवत्त्वं प्राक्तनेष्वपि जन्मसु संभावितमित्याशङ्कयाह प्राप्तेति । ज्ञानवतो भगवत्प्रतिपत्ति प्रश्नहा-
रा विवृणोति कथमिति । यथोक्तज्ञानस्य तद्वतश्च दुर्लभत्वं सूचयति य एवमिति । महत् सर्वो-
कृष्टमात्मशब्दितं चित्तमस्येति । महात्मत्वे फलितं हेतुमाह अत इति । तत्र वाक्योपक्रमानुकूल्यं
कथयति मनुष्याणामिति ॥ १९ ॥
प० टी० । एवंभूतो भक्तो दुर्लभ इत्याह बहूनामिति । बहूनां शुभाचारवतां जन्मनामन्ते
चरमे जन्मनि वासुदेवः सर्वमिति ज्ञानवान् सर्वात्मकदृष्टया मां प्रपद्यते भजति । स महात्मापरि-
च्छिन्नदृष्टिः स च दुर्लभः । अयमर्थः । वासयति छादयति मायया विश्वमिति वासुस्तथा स्वप्रकः-
शेन दीव्यतीति देवस्तथाविधः सूत्रात्मा स एव सर्वमिति ज्ञानवान् । तदुक्तम्-- अहमेव परं ब्रह्म
वासुदेवाख्यमव्ययम् । इति स्या निश्चितो मुक्तो बद्ध एवान्यथा भवेद् ' इति । तदेवं कामिनोऽपि
सन्तः कामप्राप्तये परमेव भजन्ति ते कामान् प्राप्य शनैर्मुच्यन्त इत्युक्तम् ॥ १९ ॥
कामैस्तैस्तैर्हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः॥
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
आत्मैव सर्वो वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते कामैरिति । का-
मैस्तैस्तैः पुत्रपशुस्वर्गादिविषयैर्ट तज्ञाना अपहतविवेकविज्ञानाः प्रपद्यन्तेऽन्य-
देवताः प्राप्नुवन्ति वासुदेवादात्मनोऽन्या देवतास्तं तं नियमं देवताराधने प्र-
सिद्धो यो यो नियमस्तं तमास्थायाश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जित-
संस्कारविशेषेण नियता नियमिताः स्वयात्मीयया ॥२०॥
आ० टी० । किमिति तर्हि सर्वेषां प्रत्यग्भते भगवति यथोक्तज्ञानं नोदेतीत्याशङ्कय न मामि-
त्यत्रोक्तं हृदि निधाय ज्ञानानुदये हेत्वन्तरमाह आत्मैवेति । कामै नाविधैरपहृतीववेकविज्ञानस्य
देवतान्तरनिष्ठत्वमेव प्रत्यग्भूतपरदेवताप्रतिपत्त्यभावे कारणमित्याह कामैरिति । देवतान्तरनिष्ठत्वे
हेतुमाह तं तमिति । प्रसिद्धो नियमो जपोपवासप्रदक्षिणानमस्कारादिः। नियमविशेषाश्रयणे कारण-
माह प्रकृयति ॥ २० ॥

२४. श्रीमद्भगवद्गीता- - प० टी० । अथ तदितरानाह कामैस्तैस्तैर्हतज्ञाना इति चतुर्भिः । तैस्तैः पुत्रकलत्रभित्रश- त्रुनयादिविषयैः कामैरपहृतविवेकाः सन्तोऽन्या महिलक्षणाः सर्वेश्वर्यसवज्ञत्वसर्वान्तर्यामित्वादिसाम- र्थ्यवर्जिताः क्षुद्रा भूतप्रेतयक्षादिदेवता भजन्ति । किंकृत्वा, तत्तद्देवताराधने यो यो नियम उपवा- सादिलक्षणस्तं तं नियममास्थाय स्वीकृत्य तत्रापि स्वकीयया प्रकृत्या पूर्वाभ्यासवासनया नियता वशीकृताः सन्तो देवताविशेषं भजन्ति तेषां मध्ये ॥ २० ॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ॥ तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥ य इति । तेषां च कामिनां यो यः कामी यां यां देवतातनुं श्रद्धया संयुक्तो भक्तश्च सन्नचितुं पूजयितुमिच्छति तस्य तस्य कामिनोऽचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ययैवं पूर्व प्ररत्तः स्वभावतो यो यो यां देवतातनुं श्रद्दयाचितुमिच्छतीति ! २१ ॥ आ० टी० । तत्तद्देवताप्रसादात् कामिनामपि सर्वेश्वरे सर्वात्मके वासुदेवे क्रमेण भक्तिर्भवि- प्यतीत्याशङ्कयाह तेषां चेति । स्वभावतो जन्मान्तरीयसंस्कारवशादियथः । भगवीद्वहितया स्थिरया श्रहया संस्काराधीनया देवताविशेषमाराधयतोऽपि भगवद नुग्रहादेव फलप्राप्तिरित्याह यो यो या- मिति ॥ २१ ॥ प० टी० । यो य इति । यो यो भक्तो यां यां तनुं देवतारूपां मयान्तर्यामिणा कृत्वा मद्रूपां श्रद्धयार्चितुमिच्छति । तस्य तस्य भक्तस्य तत्तन्मृतिविषयां तामेव श्रद्धामचलां दृढामहं भक्तानामन्तर्यामित्वेन विदधामि करोमि ॥ २१ ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते ॥ लभते च ततः कामान् मयैव विहितान् हितान् ॥२२॥ स तयेति । स तया महिहितया श्रद्धया युक्तः संस्तस्या देवताया- स्तन्वाराधनमीहते चेष्टते लभते च ततस्तस्या आराधिताया देवतातन्वाः का- मानीप्सितान मयेव परमेश्वरेण सर्वज्ञेन कर्मफलविभागवतया विहितानिर्मि- तांस्तान् हि यस्मात्ते भगवता विहिताः कामास्तस्मात्तानवश्यं लभते इत्यर्थः । हितानिति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यं न हि कामा हिताः कस्य चित् ॥ २२ ॥ ० । ईहते निवर्तयतीत्यर्थः । आराधितदेवताप्रसादात् फलप्राप्तौ किमीश्वरेणेत्याशय सर्वज्ञस्यतस्य कर्मफलविभागाभिज्ञस्य तत्तद्देवताधिष्ठातृत्वात्तस्यैव फलदातृत्वमित्याह सर्वज्ञेनेति। “ए- को बहूनां यो विदधाति कामान्" इत्यादिश्रुतिमाश्रित्य हि तानिति पदद्वयं व्याचष्टे यस्मादिति।हितानि- त्येकं पदमिति पक्षं प्रत्याह हितानिति। मुख्यत्वसंभवे किमित्यौपचारिकत्वमित्याशङ्कयाह न होति॥२२॥ .

सप्तमाध्यायः॥ २४१ प० टी० । स तयेति । स भक्तस्तया श्रद्धया युक्तः संस्तस्यास्तनोराराधनमीहते करोति ततो ये संकल्पितास्तान कामान् मयैव विहितान् दत्तानन्तर्यामित्वेन प्रयुक्ताद्देवताविशेषाल्लभन्ते । तदेवं यद्यपि सर्वा अपि देवता ममैव तनवोऽतस्तदाराधनमपि वस्तुतो ममाराधनमेव ॥ २२ ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ॥ देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥ अन्तेति । यस्मादन्तवत्साधनव्यापारा अविवकिनः कामिनश्च तेऽतो- न्तवहिनाशि तु फलं तेषां तद्भवत्यल्पमेधसामल्पप्रज्ञानां देवान् देवयजो यान्ति देवान् यजतीति देवयजस्ते देवान यान्ति मद्भक्ता यान्ति मामप्ये- वं समानेऽप्यायासे मामेव न प्रतिपद्यन्तेऽनन्तफलायाहो खलु कष्टं वर्तन्त इत्यनुकोशं दर्शयति भगवान् ॥ २३ ॥ आ० टी० । प्रेक्षापूर्वकारिणि कामानां हितत्वाभावे हेतुमाह यस्मादिति । किं च ये का- मिनस्ते न विवेकिनस्ततश्चाविवेकपूर्वकत्वात् कामानां कुतो हितत्वाशङ्केत्याह अविवेकिन इति । कामानामानन्त्यफलत्वेन हितत्वमाशङ्कयाह अत इति । तेषामविवेकपूर्वकत्वमतःशब्दार्थः, तुशब्दो- ऽवधारणार्थः । कामफलस्य विनाशित्वे किामेति कामनिष्ठत्वं जन्तूनामित्याशङ्कय प्रज्ञामान्द्यादित्याह अल्पेति । किं तर्हि साधनमनन्तफलायेत्याशङ्कय भगवद्भक्तिरित्याह मद्भक्ता इति । अक्षरार्थमुक्त्वा श्लोकस्य तात्पर्यार्थमाह एवमिति । देवताप्राप्तौ भगवत्प्राप्तौ चेति शेषः, मामेवेत्यादौ देवताविशेष मतिपद्यन्तेऽन्तवत् फलायेति वक्तव्यम् । उक्तवैपरीत्ये कारणमविवेकातिरिक्तं नास्तीत्यभिप्रेत्या- ह अहो खल्विति ॥ २३ ॥ प० टी० । अहमेव तत्तत्फलदाता तथापि साक्षान्मद्भक्तानां तेषां च फलवैषम्यं भवतीत्याह अन्तवदिति । अल्पमेधसां परिच्छिन्नदृष्टीनां मया दत्तमपि तत्फलमन्तवद्भवति विनाशि भवति । सदेवाह । देवान् यजन्ति ते देवयजस्तेऽन्तवतो देवान् यान्ति मद्भक्तास्ते मामनाद्यन्तं परमानन्दं प्रामु- वन्ति । श्रुतिरपि शातपथी-" स यो हैतानन्तवत उपास्तेन्तवन्तः स लोकं जयत्यथ यो हैतान- नन्तानुपास्तेऽ नन्त स लोकं जयति" इति । जयति प्राप्नोति शेप स्पष्टम् ॥ २३ ॥ अव्यक्तं व्यक्तिमापनं मन्यन्ते मामबुद्धयः ॥ परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥ किं निमित्तं वामेव न प्रपद्यन्ते इत्युच्यते अव्यक्तमिति । अव्यक्तमप्र- काशं व्यक्तिमापनं प्रकाशं गतमिदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तमबुद्धयोऽविवेकिनः परं भावं परमात्मस्वरूपमजानन्तोऽविवेकिनो ममाव्ययं व्ययरहितमनुत्तमं निरतिशयं मदीयं भावमजानन्तो मन्यन्त इत्यर्थः ॥ २४ ॥ आ० टी० । भगवद्गजनस्योत्तमफलत्वेऽपि प्राणिनां प्रायेण तन्निष्टत्वाभावे प्रश्नपूर्वकं निमि- तं निवेदयति किं निमित्तमित्यादिना । अप्रकाशं शरीरग्रहणात् पूर्वमिति शेषः । इदानी लीला- विग्रहपरिग्रहावस्थायामित्यर्थः । प्रकाशस्य तर्हि कादाचित्कत्वं भगवति प्राप्तं नेत्याह नियति । ३१ २४२ श्रीमद्भगवद्गीता- . कथं तर्हि भगवन्तमागन्तुकप्रकाशं मन्यन्ते तत्राबुद्धय इत्युत्तरं तद्विवृणोति परमिति । परमनुत्तम- मिति विशेषणद्वयं सोपाधिकनिरुपाधिकभावार्थम् ॥ २४ ॥ प० टी० । ननु च समाने प्रयासे महति च फलविशेपे सति सर्वेऽपि देवान्तरं हित्वा कि- मिति त्वामेव न भजन्तीत्याह अव्यक्तमिति । अव्यक्तं प्रपञ्चातीतं मनुष्यमत्स्यकूर्मादिदेहधारित्वेन व्यक्तिमापन्नं प्राप्तमित्यल्पबुद्धयो मन्यन्ते । तत्र हेतुः, मम परं भावं तात्त्विकस्वरूपमजानन्तः । कथं भूतं भावमव्ययम् , अनुत्तमं न विद्यते उत्तमं यस्माज्जगद्रक्षणार्थमाविर्भूतं शुद्धसत्त्वरूपमुत्कृष्ट- फलदातारमनानन्तस्तत्कालफलदं देवतान्तरमुपासते तेषामन्तवत्फलं भवति ॥ २४ ॥ नाहं प्रकाशः सर्वस्य योगमायासमारतः॥ मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥ तदज्ञानं किंनिमित्तम् इत्युच्यते नाहमिति । नाहं प्रकाशः सर्वस्य लोकस्य केषांचिदेव मद्भक्तानां प्रकाशोऽहमित्यभिप्रायः, योगमायासमारतः योगो गुणानां युक्तिर्घटनं सैव माया योगमाया तया योगमायया समारतः संछन्न इत्यर्थः । अतएव मूढो लोकोऽयं नाभिजानाति मामजमव्ययम् ॥२५॥ आ० टी. । अविवेकरूपमज्ञानं भगवन्निष्ठाप्रतिबन्धकमुक्तं तस्मिन्नपि निमित्तं प्रश्नपूर्वक- मनाद्यज्ञानमुपन्यस्यति तदज्ञानमियादिना । त्रिभिर्गुणमयैरित्यनौपाधिकरूपस्याप्रतिपत्तौ कारण- मुक्तमत्र तु सोपाधिकस्यापीति विशेष गृहीत्वा व्याचष्टे नाहमिति । तर्हि भगवद्भक्तिरनुपयुक्तेत्या- शङ्कयाह केषां निदिति । सर्वस्य लोकस्य न प्रकाशोऽहमित्यत्र हेतुमाह योगेति । अनाद्यनिर्वा- च्याज्ञानाच्छन्नत्वादेव मद्विपये लोकस्य मौढ्यं ततश्च मदीयस्वरूपविवेकाभावान्मान्नष्ठत्वराहित्यमि- त्याह अत एवेति ॥ २५ ॥ प० टी० । तेषां स्वाज्ञाने हेतुमाह नाहमिति । सर्वस्य लोकस्य नाहं प्रकाशोऽन्तर्यामित्वेन वर्तमानोऽपि परतत्त्वप्रकाशको न भवामि किं तु मद्भक्तानामेव यतोऽयं लोको योगमायासमावृतः सन् मूढोस्त्यतो मामजमव्ययं न जानाति । यद्वा सर्वस्य लोकस्य ज्ञानरूपः प्रकाशोऽचिन्त्यैश्वर्यया योग- मायया समावृतोऽस्मि परं तु नाहं समावृतो यतो योगमाया तु स्वाश्रयाव्यामोहिनी यथा शराव- स्थितेन कलुपोदकेन प्रतिबिम्बप्रकाश एवावियते न सूर्यः । अत एव मूढो लोक एवंविधमभितो वर्तमानं न जानाति । अत एवान्तवत्फलं लभते । मद्भक्तस्त्वजमनादिमव्ययमनन्तं मां जानात्यतोऽ नश्वरं फलं लभत इत्यर्थः । तदुक्तं टिप्पणिकासु-' चित्सवित्सुखरूप आत्मनि कथं मायावृतत्वं भवेन्मार्त- ण्डस्तमसाब्रियेत किमहो किं त्वीक्षणं पश्यतां । अज्ञानेन विधीयते जलमुचेवार्कस्तदुक्तं द्विधा विक्षेपा- वरणाभिधं मुनिवरौहस्य शक्तिद्वयम् ' इति । अत्र ऋक्शाग्वीया श्रुतिरपि-" अजस्य नाभावध्येक- मर्पितं यस्मिन विश्वानि भुवनानि तस्थुः । न तं विदाथ य इमा जजानान्याप्माकमन्तरं बभव । नीहारेण प्रावृता जल्या चामतृप उक्थशासश्चरन्ति" इति सार्धऋक् । भाप्यम्-अजस्य जन्मरहितस्य महाभूतात्मकस्य विराजो नाभौ मध्ये हिरण्यगर्भाख्यमेकं लिङ्गदेहमर्पितं न्यस्तमिब स्थितम् । यस्मिन् लिङ्गदेहे विश्वानि सर्वाणि भुवनानि भूर्भुवःस्वरादीनि तस्थुः सूत्रे मणिगणा इव तिष्ठन्ति । तमित्युत्त- रेणान्वयः । हे नरास्तं विश्वकर्माणमीश्वरं यूयं न विदाथ न विजानीथ । स को, य इमा इमानि जनान मुश्मशरीरेण प्रविश्योत्पादितवान् । । देवदत्तोऽहं यज्ञदत्तोहमित्याकारेण वयं न जानीम इति यदु- च्यते तदमत्, न ह्यहंप्रत्ययगम्यं जीवरूपं विश्वकर्मणः परमेश्वरस्य तत्त्वम्, किं तु युष्माकमहंप्रत्यय- - सप्तमाध्यायः । २४३ गम्यानाम् । अन्यदहंप्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमीश्वरतत्त्वं बभूव भवति विद्यते । नीवरू- पवत्तदपि कुतो न विद्म इति चेच्छ्यताम् । नीहारेण प्रावृता यूयं नीहारसदृशेनाज्ञानेन प्रावृता आच्छन्ना अतो न जानीथ । यथा नीहारो नात्यन्तमसदृष्टरावरकत्वात् । काष्ठपाषाणाद्यवान्तरभेदं बो- डुमशक्यत्वात् । एवमज्ञानमपि नात्यन्तमसदीश्वरतत्त्वावरकत्वात् । नापि सद्बोधमात्रनिवर्त्यत्वात् । ईदृ- शेनाज्ञानेन भवन्तः सर्वे जीवाः प्रावृता न केवलं प्रावृतत्वं किं च जल्प्याः देवोऽहं मनुष्योऽहमित्याद्यनृत- जल्पपराः किं चासुतृपः केनाप्युपायेनासूस्तर्पयन्त्युदरंभरा इत्यर्थः । न तु पारमेश्वरतत्त्वं विचारितवन्तः। किं च न केवलमिहलोकभोगमात्रतृप्ता उक्थशासो नानाविधेषु यज्ञेषक्थं स्वर्गादिफलं शंसन्तः पृथिव्यां चरन्ति ॥ २५ ॥ वेदाहं समतीतानि वर्तमानानि चार्जुन ॥ भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ यया योगमायया समारतं मां लोको नाभिजानाति नासौ योगमाया मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिवध्नाति यथान्यस्यापि माया- विनो मायाज्ञानं तहद् यत एवमतो वेदाहमिति । अहं तु वेद जाने समती- तानि समतिकान्तानि भूतानि तथा वर्तमानानि चार्जुन भविष्याणि च भू- तानि वेदाहं मां तु वेद न कश्चन मद्भक्तं मच्छरणमेकं मुक्त्वा मत्तत्त्ववेद- नाभावादेव न मां भजते ॥ २६ ॥ आ० टी० । मायया भगवानावृतश्चेत्तस्यापि लोकस्येव ज्ञानप्रतिबन्धः स्यादित्याशङ्कयाह ययेति । न हीयं माया मायाविनो विज्ञानं प्रतिबध्नाति मायात्वाल्लौकिकमायावत, अथवा नेश्वगे मायाप्रतिबद्धनानो मायावित्वाल्लोकिकमायाविवदित्यर्थः । भगवता मायाप्रतिवद्धज्ञानन्वाभावेन म- र्वज्ञत्वमप्रतिबद्धं सिद्धमित्याह यत इति । लोकस्य मायाप्रतिबहविज्ञानत्वादेव भगवदाभिमुख्यश- न्यत्वमित्याह मां त्विति । कालत्रयपरिच्छिन्नसमस्तवरतपरिक्षाने प्रतिबन्धो नेश्वरस्यास्तीति द्योत- नार्थस्तुशब्दः । मां विति लोकस्य भगवत्तत्त्वज्ञाने प्रतिबन्धं द्योतयति । तर्हि तद्गतिविफलेत्या- शङ्कयाह मद्भक्तमिति । तर्हि सर्वाऽपि तद्भक्तिद्वारा त्वां ज्ञास्यति नेत्याह मत्तत्त्वति । विवेकवतो मगजनं न तु विवेकशून्यसर्वस्यापीत्यर्थः ॥ २६ ॥ प० टी० । तदेवं स्वस्य सर्वोत्तमत्वमनावृतशक्तित्वं दर्शयति वेदाहमिति । समतीतान्यति- क्रान्तानि वर्तमानानि तथा भविष्याण्येवं त्रिकालवर्तीनि भृतानि स्थावरजङ्गमात्मकानि सर्वाण्यहं वेद जानामि मायाश्रयत्वान्मम तस्याश्याश्रयव्यामोहकत्वाभावात, मां च कोऽपि न वेद न वत्ति । मन्मा- यामाहितत्वात्, मायायाः स्वाश्रयाधीनत्वमन्यमोहकत्वं प्रसिद्धमेव ॥ २६ ॥ इच्छा।पसमुत्थेन द्वन्द्वमोहेन भारत ॥ सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२१॥ केन पुनस्त्वत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्व- भूतानि त्वां न विन्दन्तीत्यपेक्षायामिदमाह इच्छेति । इच्छाइपसमुत्थेनेच्छा श्रीमद्भगवद्गीता- च हेपश्वेच्छाहेषौ ताभ्यां समुत्तिष्ठतीतीच्छाहेषसमुत्थस्तेनेच्छाद्देषसमुत्थेन । केनेति विशेषापेक्षायामिदमाह इन्दमोहेनेति । इन्हनिमित्तो मोहो इन्हमोह- स्तावेवेच्छाद्देषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखत तुविषयौ यथाकालं सर्वभूतैः संबध्यमानी इन्दशब्देनाभिधीयते तत्र यदेच्छाद्देषो सुखदुःखत तुसं- प्राप्त्या लब्धात्मको भवतस्तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनहारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः, न हीच्छाहेष- दोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानमुत्पद्यते बहिरपि किमु वक्तव्यं ता- भ्यामाविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इत्यतस्ते- नेच्छाइषसमुत्थेन इन्हमोहेन भारत भरतान्वय सर्वभूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मन्युत्पत्तिकाल इत्येतद् यान्ति गच्छन्ति हे परंतप मोहवशान्येव सर्वभूतानि जायमानानि जायन्त इत्यभिप्रायः॥ २७ ॥ आ० टी० । भगवत्तत्त्वविज्ञानप्रतिबन्धकं मूलाज्ञानातिरिक्तं प्रश्नद्वारेणोदाहरति केनेसा- दिना । पुनःशब्दात् प्रतिबन्धकान्तरविवक्षा गम्यते अपरोक्षमवान्तरप्रतिबन्धकमिदमा गृह्यते । विशेषमाकाङ्क्षापूर्वकं निक्षिपति केनेति । विशेषापेक्षायामिति द्वन्द्वशब्देन गृहीतयारपीच्छाद्वे- पयोर्ग्रहणम् । द्वन्द्वशब्दार्थोपलक्षणार्थमित्यभिप्रेत्याह तावेवेति । तयोरपर्यायमेकत्रानुपपत्तिं गृ- हीत्वा विशिनष्टि यथाकालमिति । न च तयोरनधिकरणं किंचिदपि भूतं संसारमण्डले संभवती- त्याह सर्वभूतैरिति । तथापि कथं तयोर्मोहहेतुत्वमित्याशङ्कयाह तत्रेति । तयोराश्रयः सप्तम्यर्थः । उक्तमेवार्थ कैमुतिकन्यायेन प्रपञ्चयति न हीति । पूर्वभागानुवादपूर्वकमुत्तरभागेन फलितमाह अत इति । प्रत्यगात्मन्यहङ्कारादिप्रतिबन्धप्रभावतो ज्ञानोत्पत्तेरसंभवोऽतःशब्दार्थः । कुलप्रयुक्तमहिना स्वरूपशक्त्या च युक्तस्यैव यथोक्तप्रतिबन्धप्रतिविधानसामर्थ्य मिति द्योतनाथं भारत परंतपति संबोधनद्वयम् । तत्त्वज्ञानप्रतिवन्धे प्रकृतभवान्तरकारणमुपसंहरति मोहेति ॥ २७ ॥ प० टी० । तदेवं जीवानां मायामोहितत्वेन परमेश्वराज्ञानमुक्तं तस्यैवाज्ञानस्य दृढत्वे का- रणमाह इच्छाद्वेषति । सृज्यत इति सर्गस्तस्मिन् सगै स्थूलदेहोत्पत्तौ सत्यां तदनुकूले इच्छा प्रति- कूले द्वेषस्ताभ्यां समुत्पन्नो यः शीतोष्णसुग्वदुःखादिद्वन्द्वनिमित्तो मोहो विवेकभ्रंशस्तेन सर्व- भूतानि संमोहमहमेवसुखी चेति गाढतमाभिनिवेशं प्राप्नुवन्त्यतस्तानि मज्ज्ञानाभावान्मां न भजन्तीति भावः ॥ २७ ॥ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ॥ ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥२८॥ यत एवमतस्तेन इन्दमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मामात्मभूतं न जानन्त्यतएवात्मभावेन मां तु न भजन्ते के पुनरनेन इन्हमो- हेन निर्मुक्ताः सन्तस्त्वां विदित्वा यथाशास्त्रमात्मभावेन भजन्त इत्यपेक्षितमर्थ सप्तमाध्यायः। २४५ दर्शयितुमुच्यते येषामिति । येषां तु पुनरन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणस्तेषां पु- ण्यकर्मणां ते इन्दमोहनिर्मुक्ता यथोक्तेन इन्दमोहेन निर्मुक्ता भजन्ते मां पर- मात्मानं दृढव्रता एवमेव परमार्थतत्त्वं नान्यथेत्येवं सर्वपरित्यागव्रतेन निश्चित- विज्ञाना दृढव्रता उच्यन्ते ॥ २८ ॥ आ० टी० । जायमानभूतानां मोहपरतन्त्रत्वे फलितमाह यत इति । भगवत्तत्त्ववेदनाभावे तन्निष्ठत्ववैधुर्य फलतीत्याह अत एवति । यदि सर्वाणि भूतानि जन्म प्रतिपद्यमानानि संमूढानि सन्ति भगवत्तत्त्वपरिज्ञानशून्यानि भगवद्गजनपराङ्मुखानि तर्हि शास्त्रानुरोधेन भगवद्भजनमुच्यमान- मधिकार्यभावादनर्थकमापद्यतेति शङ्कते के पुनरिति । अनेकेषु जन्मसु सुकृतवशादपाकृतदुरि- तानां द्वन्द्वप्रयुक्तमोहविरहिणां ब्रह्मचर्यादिनियमवतां भगवद्गजनाधिकारित्वान्न शास्त्रविरोधोऽस्तीति परिहरति उच्यत इति । तुशब्दद्योत्यमर्थमाह पुनरिति । मुक्तेरक्त्विसिद्धयर्थ समाप्तप्रायमिन्यु- क्तम् । प्रकृतोपयोगं पुण्यस्य कर्मणो दर्शयितुं विशिनष्टि सत्त्वेति । उभयविधशुद्धेईन्द्वनिमित्त- मोहनिवृत्तफलमाह ते द्वन्द्वेति । मोहनिवृत्तेर्भगवन्निष्ठापर्यन्तत्वमाह भजन्त इति । तेषां नानापरि- ग्रहवतां भगवद्गजनप्रतिहतिमाशङ्कयाह दृढेति ॥ २८ ॥ प० टी० । कुतस्तहि के चन भजन्तो दृश्यन्ते तत्राह येपामिति । येषां मुकताचरणवतां सद्गतिप्रतिवन्धकं पापमन्तं गतं नाशं प्राप्तं ते द्वन्द्वनिमित्तेन मोहेन निर्मुक्ताः सन्तो मां भजन्ते " नैनं पाप्मा तपति" इतिश्रुतेः ॥ २८ ॥ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ॥ ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥२९॥ ते किमर्थ भजन्त इत्युच्यते जरेति । जरामरणमोक्षाय जरामरणयो- मोक्षार्थ मां परमेश्वरमाश्रित्य मत्समाहितचित्ताः सन्तो यतन्ति प्रयतन्ते ये ते यद् ब्रह्म परं तहिदुः कृत्वं समस्तमध्यात्मं प्रत्यगात्मविषयं वस्तु तद्दिदुः कर्म चाखिलं समस्तं विदुः ॥ २५ ॥ आ० टी० । यथोक्तानामधिकारिणां भगवद्गजनफलं प्रश्नद्वारा दर्शयति ते किमर्थमिति । जरामरणादिलक्षणो यो बन्धस्तद्विश्वेषार्थ भगवद्भजनमित्यर्थः । संप्रति सगुणस्य सप्रपश्चस्य मध्यमा- नुग्रहार्थ ध्येयत्वमाह मामाश्रियति । जरादिसंसारनिवृत्त्यर्थ निर्गुणं निष्प्रपश्चं मामुत्तमाधिकारिणो जानन्तीत्युक्तं 'मामेव ये प्रपद्यन्त' इत्यादावित्याह जरेति । मध्यमाधिकारिणं प्रत्याह मामिति । परमेश्वराश्रयणं नाम विषयविमुखत्वेन भगवदेकनिष्ठत्वमित्याह मत्समाहितोत । प्रयतनं भगव- निष्ठासिद्धयर्थ बहिरङ्गानां यज्ञादीनामन्तरङ्गानां च श्रवणादीनामनुष्ठानम् । प्रागुक्तं जगदुपादानं परं ब्रह्म कथं ब्रह्म विदुरित्यपेक्षायां समस्ताध्यात्मवस्तुत्वेन सकलकर्मत्वेन च तद्विदुरित्याह कृत्स्नमिति ॥ २९॥ प० टी० । अथ सुकताचरणेऽपि मदाश्रयव्यतिरेकेण विरागस्तत्त्वावबोधो वा न भवतीत्याह जरेति । अत्यन्तदुःखरूपयोर्जरामरणयोदेहधर्मयोर्मोक्षाय नाशाय मां परमात्मानमाश्रित्य यतन्ते

२४६
श्रीमद्भगवद्रीता--
योगाभ्यासादिप्रयत्नं कुर्वन्ति ते तत्परं ब्रह्म विदुस्तज्ज्ञानोपायरूपं कृत्स्नं समग्रमध्यात्मं च विदुस्त-
था तन्निमित्तभूतमखिलं फलाभिसंधिरहितं कर्म च विदुः ॥ २९ ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ॥
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा-
र्जुनसंवादे विज्ञानयोगो नाम सप्तमाध्यायः ॥ ७ ॥
साधीति । साधिभूताधिदेवमधिभूतं चाधिदैवं चाधिभताधिदेवं तेन
सहाधिभूताधिदेवेन वर्तते इति साधिभूताधिदैवं मां ये विदुः साधियज्ञं च स-
हाधियज्ञेन साधियज्ञं ये विदुः प्रयाणकाले मरणकालेऽपि च ते मां विदुर्युक्त-
चेतसः समाहितचित्ता इति ॥ ३० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादभगवच्छ्रीशंकरभगवतः कृती
श्रीभगवद्गीताभाष्ये ज्ञानविज्ञानयोगो नाम
सप्तमोऽध्यायः ॥ ७ ॥
आ० टी० । न केवलं भगवन्निष्ठानां सर्वाध्यात्मिककर्मात्मकब्रह्मवित्त्वमेव किं त्वधिभूतादि-
सहितं तद्वेदित्वमपि सिद्धयतीत्याह साधिभूतेति । अध्यात्म कर्माधिभतमधिदेवमधियज्ञं चेति पश्चकं
कर्म तद् ब्रह्म ये विदस्तेषां यथोक्तज्ञानवतां समाहितचेतमामापदवस्थायामपि भगवत्तत्त्वज्ञानमप्रति-
हतं तिष्ठतीत्याह प्रयाणेति । अपि चेति निपाताभ्यां तस्यामवस्थायां करणग्रामस्य व्यग्रतया ज्ञा-
नासंभवेऽपि मयि समाहितचित्तानामुक्तज्ञानवतां भगवत्तत्त्वज्ञानमयत्नलभ्यमिति द्योत्यते । तदनेन
सप्तमेनोत्तममधिकारिणं प्रति ज्ञेयं निरूपयता तदर्थमेव सर्वात्मकत्वादिकमुपदिशता प्रतिद्वयद्वारण
सर्वकारणत्वादिति च वदता तत्पदवाच्यं तल्लक्ष्यं चोपेक्षितम् ॥ ३० ॥
इत्यानन्दगिरिकृतगीताभाप्यटीकायां सप्तमाध्यायः ॥ ७ ॥
प० टी० । न चैवभूतानां योगभ्रंशशङ्कापीत्याह साधिभृतेति । अधिभूताधिदेवैः सह वर्तमानं
मां ये विदुस्ते प्रयाणकाले निर्वाणसमयेऽपि युक्तचेतसस्तत्स्मरणवन्तः सन्तो मां विदुर्मा ज्ञात्वा तनुं
त्यजन्ति । न तु देहान्तवेदनाभिर्व्याकुलीक्रियन्त, किं तु मत्प्रसादात्सावधानाः सन्तस्तनुं
त्यजन्तीत्यर्थः ॥ ३० ॥
अथाध्यायतात्पर्यम् । चित्संविद्रूपतोऽन्तहृदयमनुगतो भासते प्रत्यगात्मा बाह्यं भूम्यादिभूतेप्वति-
शयितगुणैः संप्रविष्टो विभाति । वेदप्वोझाररूपः सवितरि महमा वीर्यवत्यूजितेन प्राप्तस्तं वेत्ति योऽसौ
मम तनुरिति तत्सप्तमेनोक्तमास्ते ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां
परमार्थप्रपायां विज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥
इति सप्तमाध्यायः ॥ ७ ॥

अष्टमाध्यायः ।
२४७
अथ
अष्टमाध्यायः।
अर्जुन उवाच ।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ॥
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ॥
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥
ते ब्रह्म तहिदुः कृत्लमित्यादिना भगवतार्जुनस्य प्रश्नबीजान्युपदिष्टा-
न्यतस्तत्प्रश्नार्थमर्जुन उवाच ॥ १ ॥ २ ॥
आ० टी० । सप्तमाध्यायान्ते 'येषां त्वन्तगतं पापम्' इत्यादिना येषां ब्रह्मादीनामनुसंधानमुक्तं
यच्च प्रयाणकाले भगवतः स्मरणं दर्शितं तदिदं जिज्ञासमानः सन् एच्छतीति प्रश्नसमुदायमवतार-
यति ते ब्रह्मति । प्रश्नबीजानि तद्विषयभूतानि ब्रह्मादीनि वस्तूनीति यावत् । बुभुत्सितविषय-
प्रतिलम्भानन्तरं तेषां प्रश्नद्वारा निर्णयार्थमाह अत इति । यदुक्तं ते ब्रह्म तद्विदुरिति, तत् किं
सोपाधिकं निरुपाधिकं वा ब्रह्मशब्दस्योभयत्रापि संभवादिति मत्वाह किं तदिति । यच्चोक्तं कृ-
स्नमध्यात्ममिति तत्रात्मानं देहमधिकृत्य तस्मिन्नधिष्ठाने तिष्ठतीत्यध्यात्मशब्देन श्रोत्रादिकरणग्रामो
वा प्रत्यग्भूतं ब्रह्मैव वा विवक्षितमित्याह किमध्यात्ममिति । “विज्ञानं यज्ञं तनुते कर्माणि तनुते
ऽपि च" इति श्रुतौ कर्मणो द्वैविध्यनिर्धारणात् कर्म चाखिलमित्यत्र कीटक् कर्म गृहीतमिति पृच्छति
किमिति।क्षराक्षराभ्यां कार्यकारणाभ्यामतीतस्य भगवतो न किंचिद्वेद्यमस्तीति सूचयति पुरुषोत्तमेति ।
साधिभूताधिदैवमित्यत्राधिभूतशब्देन पृथिव्यादिषु भूतेषु वर्तमानं किंचिदेव गृह्यते किं वा समस्तमेव
कार्यमिति निर्दिधारयिषया पृच्छति अधिभूतमिति । अधिदैवमिति च दैवतविषयमनुध्यानं वा दैव-
तेष्वादित्यमण्डलादिषु वर्तमानं चैतन्यं वा निवृक्षितमिति प्रभान्तरं प्रस्तौति अधिदेवमिति ॥ १ ॥
आ० टी० । साधियज्ञं चेत्यत्राधियज्ञशब्देन यज्ञमधिकृतो विज्ञानात्मा वा परदेवता वेति
प्रश्नान्तरं प्रतिकरोति अधियज्ञ इति । स च कथं केन प्रकारण ब्रह्मत्वेन चिन्तनीयः किं तादा-
त्म्येन किं वात्यन्ताभेदेनेत्याह कथमिति । सर्वथापि स किमस्मिन् देहे वर्तते ततो बहिर्वा, देहे चेत्
स कोऽत्र बुद्धयादिस्तयतिरिक्तो वेति जिज्ञासया ब्रूते कोऽत्रेति । अधियज्ञः कथं कोऽत्रेति
न प्रश्नभेदकः कथमिति किंतु प्रकारभेदविवक्षयेति द्रष्टव्यम् । यत्तु समाहितचित्तानामुत्क्रमणका-
लेऽपि भगवदनुसंधानं सिध्यतीति तदयुक्तमुत्क्रमणदशायां करणग्रामवैयग्याञ्चित्तसमाधानानुप-
पत्तिरित्याभप्रेत्याह प्रयाणेति ॥ २ ॥
प० टी० । एवं पूर्वाध्यायान्ते भगवदुपक्रान्तमध्यात्मप्रमुखसप्तप्रकाराणां स्वरूपं जिज्ञासु-
रर्जुनः पृच्छति किं तदिति द्वाभ्याम् । तत्र पूर्वपद्यं स्पष्टार्थम् ॥ १ ॥
प० टी० । अधियज्ञ इति । अत्र देहे यो यज्ञो वर्तते तस्मिन्कोऽधियज्ञोऽधिष्ठाता प्रयो-
जकस्तत्फलदाता च क इति प्रभस्योत्तरं भगवानाह ॥ २ ॥

२४८ श्रीमद्भगवद्गीता- भूतभावस्तस्योद्भवो श्रीभगवानुवाच ॥ अक्षरं परमं ब्रह्म स्वभावोऽध्यात्ममुच्यते ॥ भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥३॥ एषां प्रश्नानां यथाक्रम निर्णयाय भगवानुवाच अक्षरमिति । अक्षरं न क्षरतीति परमात्मा, एतस्य वा अक्षरस्य प्रशासने गार्गि” इतिश्रुतेः, ओङ्का- रस्य चोमित्येकाक्षरं ब्रह्मेति परेण विशेषणात्तद्ग्रहणं परममिति च निरतिशये ब्रह्मण्यक्षर उपपन्नतरं विशेषणं तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभाव इति स्वो भावः स्वभावोऽध्यात्ममुच्यते । आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रदत्तं परमार्थब्रह्मावसानं वस्तु स्वभावोऽध्यात्ममुच्यतेऽध्यात्मश- ब्देनाभिधीयते । भूतभावोद्भवकरो भूतानां भावो भूतभा- वोद्भवस्तं करोतीति भूतभावोद्भवकरो भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गों विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः स्वस्य द्रव्यस्य वितरणं परित्यागः स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्यर्थः । इत्येतस्माद्वीजभू- तादृष्ट्यादिकमेण स्थावरजङमानि भूतान्युद्भवन्ति ॥ ३ ॥ आ० टी० । व्याख्यातप्रश्नसप्तकस्य प्रतिवचनं भागवतमवतारयति एषामिति । क्रमेण कतानां प्रभानां क्रमेणैव प्रतिवचने प्रष्टुरभीष्टं प्रतिपत्तिसौकर्य च सिध्यतीति बुध्यमानो विशिनष्टि यथाक्रमामति । तत्र प्रश्नत्रयं निणेतुं भगवद्वचनमुदाहरति अक्षरमिति । किं तद्ब्रह्मेति प्रभस्य प्रतिवचनमक्षरं ब्रह्मपरममिति । तत्राक्षरशब्दस्य निरुपाधिके परस्मिन्नात्मन्यविनाशित्वव्याप्तिम- त्वसंबन्धात् प्रवृत्ति व्युत्पादयति अक्षरामियादिना । कथं पुनरक्षरशब्दस्य यथोक्ते परमात्मनि वृद्धप्रयोगमन्तरेण व्युत्पत्त्या प्रवृत्तिराश्रीयते । व्युत्पत्तेरर्थान्तरेऽपि संभवादित्याशङ्कय द्यावापृथिव्या- दिविषयनिरङ्कशप्रशासनस्य परस्मादन्यस्मिन्नसंभवात्तथाविधप्रशासनकर्तृत्वेन श्रुतमक्षरं ब्रह्मवेत्याह एतस्येति। रूढियोगमपहरतीति न्यायांदोङ्कारे वर्णसमुदायात्मन्यक्षरशब्दस्य रूल्या प्रवृत्तिरा- श्रयितुमुचितेत्याशङ्कयाह ओङ्कारस्यति । प्रतिवचनोपक्रमे प्रक्रान्तमोङ्काराख्यमक्षरमेवोत्तरत्र वि- शेषितं भविष्यतीत्याशङ्कय परमविशेषणविरोधान्न तस्य प्रक्रमः संभवतीत्याह परममिति चेति । किमध्यात्ममिति प्रश्नस्योत्तरं स्वभावोऽध्यात्ममित्यादि तयाचष्टे तस्यैवेति । स्वकीयो भावः स्वभावः श्रोत्रादिकरणग्रामः स चात्मनि देहेऽहंप्रत्ययवेद्यो वर्तत इत्यमुं प्रतिभासं व्यावर्त्य स्वभावपदं गृ- हाति स्वो भाव इति । एवं विग्रहपरिग्रहे स्वभावोऽध्यात्ममुच्यते इत्यस्यायमों निष्पन्नो भवती- त्यनुवादपूर्वकं कथयति स्वभाव इति । तस्यैव परस्येत्यादिनोक्तं न विस्मर्तव्यमिति विशिनष्टि परमार्थेति । परमेव हि ब्रह्म देहादौ प्रविश्य प्रत्यगात्मभावमनुभवति तत् सृष्ट्वा तदेवानुप्राविशदिति श्रुतेरित्यर्थः । किं कर्मेति प्रश्नस्योत्तरमुपादत्ते भूतेति । भूतान्येव भावास्तेषामुद्भवः समुत्पत्तिस्तां करोतीति व्युत्पत्ति सिद्धवत् कृत्य विधान्तरेण व्युत्पादयति भूतानामिति । भावः सद्भावो वस्तुभा- , अवय वप्रसिद्धेः समुदायप्रसिद्धिर्बलोसीति न्यायस्वरूपम् ।

अष्टमाध्यायः । २४९ वोऽतएव भूतवस्तूत्पत्तिकर इति वक्ष्यति वैदिकं कर्मात्रोक्तविशेषणं कर्मशब्दितमिति । विसर्गश- ब्दार्थ दर्शयन् विशदयति विसर्ग इसादिना । कथं पुनर्यथोक्तस्य यज्ञस्य सर्वेषु भूतेषु सृष्टिस्थिति- प्रलयहेतुत्वेन तदुद्भवकरत्वमित्याशक्य 'अग्रौप्रास्ताहुतिः' इत्यादिस्मृतिमनुस्मृत्याह एतस्माद्धीति ॥३॥ प० टी० । अक्षरमिति। न क्षरतीत्यक्षरं परमं जगतो मूलकारणं यत्राकाशादिकमप्येतत्प्रोतम् । श्रुतिरपि शातपथी-" सहोवाचैतद्वैतदक्षरं गार्गि ब्राह्मणाभिवदन्त्यस्थूलमत एवाहूस्वमदीर्घमलोहित- मच्छायमतमोबाद्यनाकाशमसंगमस्पर्शमगन्धमरसमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणमनामागोत्र मजरममरमभयममृतमरजोऽशब्दमविवृतम्" इत्यादि स्पष्टार्थम् । अध्यात्मस्वरूपमाह खभाव इति । स्व- स्यैव ब्रह्मण एवांशतो जीवरूपेण भवनं स्वभावः स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तमानोऽ- ध्यात्मशब्देनोच्यते । यद्वा इन्दति जानातीन्द्रोऽन्तरात्मा तमधिरत्य वर्तत इतीन्द्रियमध्यात्ममित्यध्या- त्मविदः । भूतानां जरायुजादीनां भावो वर्तमानत्वेन स्थितिरुद्व उत्पत्तिस्तौ करोति यो विसी देवतोदेशेन द्रव्यत्यागरूपो यज्ञः कर्मशब्देनोच्यते ॥ ३ ॥ अधिभूतं क्षरो भावः पुरुपश्चाधिदैवतम् ॥ अधियझोऽहमेवात्र देहे देहभृतां वर ॥४॥ अधिभूतमिति । अधिभूतं प्राणिजातमधिभवतीति, कोऽसौ क्षरः क्षरतीति क्षरो विनाशी भावो यत्किंचिज्जनिमस्त्वित्यर्थः । पुरुपः पूर्णमनेन सर्वमिति पुरि शयनाद्दा पुरुषः, आदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानामनुग्राह- कः सोऽधिदैवतमधियज्ञः सर्वयज्ञाभिमानिनी देवता विष्ण्वाख्या “ यज्ञो वै वि- ष्णुः” इति श्रुतेः, स हि विष्णुरहमेवात्रास्मिन् देहे यो यज्ञस्तस्याहमधियज्ञो यज्ञो हि देहनिर्वय॑त्वेन देहसमवायीति देहाधिकरणो भवति देहभृतां वर ॥४॥ आ० टी० । संप्रति प्रश्नत्रयस्योत्तरमाह अधिभूतमिति । अधिभूतं च किं प्रोक्तमित्यस्य प्रतिवचनम् अधिभृतं क्षरो भाव इति । तत्राधिभूतपदमन्द्य वाच्यमर्थ कथयति अधिभूतमिसादि- ना । तस्य निर्देशमन्तरेण निर्मातुमशक्यत्वात प्रश्नद्वारा तन्निर्दिशति कोऽसाविति । कार्यमात्र- मत्र संगृहीतमिति वक्तुमुक्तमेव व्यनक्ति यत् किंचिदिति । अधिदैव किमिति प्रश्ने पुरुपश्चेत्यादि- प्रतिवचनं तत्र पुरुषशब्दमनूद्य मुख्यमर्थ तस्योपन्यस्याते पुरूप इति । तस्यैव संभावितमर्थान्तरमाह पुरि शयनाद्वेति । वैरानं देहमासाद्यादित्यमण्डलादिषु दैवतेषु योऽन्तरवस्थितो लिङ्गात्मा व्यष्टि- करणानुग्राहकोऽत्र पुरुपशब्दार्थः स चाधिदैवतमिति स्फुटयति आदिसति । अधियज्ञः कथमित्या- दिप्रश्नं परिहरन्नधियज्ञशब्दार्थमाह अधियज्ञ इति । कथमुक्तायां देवतायामधियज्ञशब्दः स्यादि- त्याशङ्कय श्रुतिमनुसरन्नाह यज्ञो वै इति । परैव देवताऽधियज्ञशब्दनोच्यते सा च ब- ह्मणः सकाशादत्यन्ताभेदेन प्रतिपत्तव्येत्याह स हि विष्णुरिति । शास्त्रीयव्यवहारभूमिरत्रेत्युक्ता । देहसामानाधिकरण्याद्वात्रेत्यस्य व्याख्यानम् अस्मिन्निति । किमधियज्ञो बहिरन्तर्वा देहादिति संदे- हो मा भूदित्याह देह इति । ननु यज्ञस्य देहाधिकरणत्वाभावात् कथं तथाविधयज्ञाभिमानिदेवतात्वं भगवता विवक्ष्यते तत्राह यज्ञो हीति । एतेन तस्य बुद्दयादिव्यतिरिक्तत्वमुक्तमवधेयं । न हि परा देवता दर्शितरीत्याधियज्ञशब्दिता बुद्धयादिप्वन्तर्भावमनुभावयितुमलं देहान् बिभ्रतीति देहभृतः सर्वे प्राणिनस्तेषामेष वरः श्रेष्ठो युक्तं हि भगवता साक्षादेव प्रतिक्षणं संवादं विदधानस्यार्जुनस्य सर्वेभ्यः श्रेष्ठचम् ॥ ४ ॥ ३२ २५० श्रीमद्भगवद्गीता- प० टी० । आधिभूतमिति । क्षरो नश्वरो भावो देहादिपदार्थों भूतं प्राणिनमधिकृत्य वर्तते तदधिभूतम् द्रष्टव्यश्रोतव्यादि वा पुरुषो वैराजः सूर्यमण्डलवर्ती-" यदेतन्मण्डलं तपति यश्चास्मिन् मण्डले पुरुषः” इति श्रुतेः । स्वस्वांशभूतसर्वदेवतानामधिपतिरधिदैवमुच्यते अत्रास्मिन् देहेऽन्तर्यामि- त्वेन स्थितोऽहमेवाधियज्ञः । यज्ञादिकर्मप्रवर्तकस्तत्फलदाता । ननु तबध्यात्माधियज्ञयोः को भेद इति चेन्न । अन्तर्यामिणोऽसंगत्वादिगुणैर्जीववैलक्षण्यं तादात्म्येनेति श्रुतिनोदितम् । श्रुतिश्च-" द्वा सुवर्णा सयुना सखाया सम्रानं वृक्षं परिपस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचा- कशीति" । अभिचाकशीति । रावणभाष्यम्-अत्र लौकिकपक्षिद्वयदृष्टान्तेन जीवपरमात्मानौ स्तूयते। यथा लोके द्वौ सुपी सुपतनौ शोभनगमनौ सयुना समानयोगी सखाया समानख्यानौ समानं वृक्षमेकं देहाकारवृक्षं परिपस्वनाते आश्रयतः । तयोरन्य एकः पिप्पलं फलं स्वादुतरमत्ति । अ- परोऽनश्नन्नभिचाकशीत्यभिपश्यति । तद्द्वी सुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुना समानयोगौ । बोगो नाम संबन्धः स च तादात्म्यलक्षणः स एवात्मा जीवात्मनः स्वरूपम् एवमन्यस्यापीत्यैकात्म्ये । अतएव समानख्यानौ यस्य यादृशं ख्यानं स्फुरणं परमात्मनस्तदेवेतरस्याप्यत एव सखायौ एकरूपप्रका- शावित्यर्थः अथाधियज्ञस्वरूपमन्तकाले च स्वरूपप्राप्तिस्तदेतत्प्रश्नद्वयं बहुश्रुतिसंमतं पुनर्व्याख्यास्यति तत्र घोराङ्गिरसप्रतिपादितमधियज्ञमन्तकालप्राप्तिं चोपदिशन्नाह अधियज्ञोऽहमेवेति । भो देहभृतां वर अत्र देहेऽहमेवाधियज्ञो यज्ञं शारीरयागमधिकृत्य वर्ततेऽसावधियज्ञोऽन्तर्यागवतः पुरुपस्यान्तर्या- मित्वेन वर्तमानस्तत्प्रवर्तकस्तत्फलसंपादकोऽप्यहमेवेत्यर्थः । उक्तं च टिप्पाणकामु 'अध्यात्मादित्रया- भिज्ञो व्यवहारं करोति यः । शारीरं स च यज्ञोऽस्य तं यज्ञं पुरुषं विदुः ॥१॥ संस्कृतान्नस्य यान् ग्रासानेवंवित्पुरुषोऽश्नुते । ता एवाहुतयः प्रोक्ता जाठरे जातवेदसि ॥ २ ॥ पिपासितोऽम्भः पिबति सोमपानमथास्य तत् । यज्ञस्योपसदश्चेष्टा मृतिश्चावभृथोऽस्य च' ॥३॥ इति । श्रुतिरपि छान्दोग्योप- निषत्सु " स यदशिशिपति यत्पिपासति यन्न रमते ता अस्य दीक्षाः। अथ यदनाति यत्पिबति यद्र- मते यदुपसदैरेत्यथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतं शस्त्रैरेव तदेत्यथ यत्तपो दानमार्जव- महिंसासत्यवचनामति ता अस्य दक्षिणास्तस्मादाहुः सोप्यत्यसोप्टेति पुनरुत्पादनमेवास्य तन्मरण- मेवावभृथस्तद्वैतदोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एवं स बभूव सोऽन्तवेलाया- मेत त्रयं प्रतिपद्येताक्षितमेवास्य च्युतमसि प्राणशंसितमसि इति तत्र द्वे ऋचौ भवतः । आदित्प्रत्नस्य रेतस उद्दयं तमसस्परि। ज्योतिप्पश्यन्त उत्तरम्' इति । भाप्यम्--शारीरयज्ञसंपादी पुरुष आत्मानं यज्ञ- मनुमन्यते सोऽत्र तच्छब्देनोच्यते । स यदशिशिपति क्षुत्क्षामः सन्नशितुं भोक्नुमिच्छति तथा पिपा- सति तृषार्दितः सन् पातुमिच्छत्यत एव यन्न रमते क्षुत्पिपासाननितदुःखमनुभवति ता अस्य यज्ञपुरुप- स्य दीक्षा यतो दीक्षायामनशनादिना क्लेशानुभव एव यज्ञस्तु दीक्षोपसदस्तुतशस्त्रदक्षिणादिभिः सं पद्यते । तत्र दीक्षा व्रतविशेषः । अथोपसद आह अथति । स यज्ञपुरुषो यदभाति जेमति तथा य- ज्जलं पिबति तथा रमतेऽन्नपानादिना सुखमनुभवति तैरुपसदैरोति वर्तते यत उपसदस्नु यज्ञजनित- सुखानुभवरूपाः । अथ स्तुतशस्त्रानाह युद्धसतीति यज्ञपुरुपो यहमति विनोदकथाभिरीपदास्यमुखो- पक्रमं कुरुते, तथा जक्षति हमति तथा मैथुनमृतुकाले भार्यामनुगच्छति तानि स्तुतशस्त्राणि द्वादश- स्तोत्राणि द्वादशशस्त्राणि" इतिश्रुतेः।स्तुतं नामस्तोत्रगुद्गातः स्तावकवाक्यसदर्भस्तथा होतृपव्यमानऋक्सं- दर्भ उक्थापरपर्यायः शस्त्रशब्देनोच्यते ऋक्शाखीयब्राह्मणऽपि । “अथानुस्तुतशस्त्रयोरेवैकाहिकं प्रातः सवनम्" इत्यादि तैःस्तुतशस्त्रैरेति वर्तते । अथ दक्षिणामाह यत्तप इत्यादिना प्रसिद्धास्य दक्षिणा धर्मपुष्टिकरत्वात् । अर्थतस्य यज्ञपुरुषस्य चरमदेहोत्पत्तिं श्रुत्यन्तरोक्तामाह तस्मादिति । यस्मादेवं यज्ञपुरुषस्वरूपं तस्मादन्यशाखोक्ताः श्रुतय आहुः सोप्यत्यसोष्टेति । तस्य पुरुषस्य तदेहातिक्रमे तन्माता मोप्यति प्रसविष्यति तथासोष्ट प्रासूतेत्युपक्रममात्रं दर्शितम्, तदत्र प्रागेवोक्तम्-" तस्य अष्टमाध्यायः । वैतस्य हृदयस्य पश्च देवताः सुखयस्तथा पश्च ब्रह्मपुरुषान्यो वेद तस्य कुले वीरो जायते प्रतिपद्यते स्वर्ग लोकम्" इति । अत्र वीरशब्देन षड्रिपुजयशीलः प्रोच्यते । तथा बृहदारण्यकेऽपि-" तस्मा- त्पुत्रमनुशिष्टं लोक्यमाहुस्त्वं ब्रह्म त्वं यज्ञस्त्वं लोक" इति । पित्रा पृष्टः सन् स पुत्रः प्रत्याह 'ब- माहं यज्ञोऽहं लोक' इति । इयमेव चरमदेहोत्पन्नस्य यज्ञपुरुषस्य परीक्षा । अनेन प्रकारेण पुनरु- त्पादनं जन्मास्य तद्देहपरित्याग एवावभृथो यज्ञान्तस्नानम् । अथोपसंहरन्नाह तद्वैतहीति । एतन्निरू- पितप्रमेयं घोरनामपूर्वक आंगिरस आचार्यो भगवते कृष्णाय देवकीपुत्रायोक्त्क पुनरुवाच । तत्किम्, स यज्ञपुरुषोऽपिपास एव बभूव पिपासा रसादिसकलविपयेच्छा तद्रहितो बभूव भवति । अनन्तरं सोऽन्तवेलायां प्राणलयसमये भगवदुपदिष्टं यजुर्मन्त्रत्रयं प्रतिपद्यते प्रामोति । तत्किम्, अक्षितमसीति प्रथमः । अच्युतमसीति द्वितीयः । प्राणशंसितमसीति तृतीयः । भाष्यम्- निर्याणकाले यज्ञपुरुषः स्वात्मानं वदति । भो जीव त्वमसितमपरिच्छिन्नमखण्डैकरसमसि, तथाच्युत- मप्रच्युतस्वभावमसि, तथा प्राणः श्वासवायुस्तेन शंसितं तनूकतमसि लुप्तप्राणापानादिरसि । एवं- विधस्तत्त्वमसीति महावाक्यसंदर्भः । अत्रास्मिन्नर्थे हे ऋचौ भवतस्ते यथा । आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा ॥ १ ॥ उद्दयं तमसस्परि ज्योतिप्पश्यन्त उत्तरम् । देवं देवत्रासूर्यमगन्म ज्योतिरुत्तमम् ॥२॥ भाप्यम्-आदिति समन्तात् । इदेवकारार्थे प्रत्नस्य पुराण- स्य चिरंतनस्य रेतसो बीजभूतस्य जगत्कारणस्य ब्रह्मणो ज्योतिः प्रकाशं वासरमहरहः पश्यन्ति पर इति लिङ्गविपर्यासः । ब्रह्मणो ज्योतिर्निवृत्तचक्षुपो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाधननिरुद्वान्तः- करणा आ समन्ततो ज्योतिः पश्यन्तीत्यर्थः । तत्किम् ज्योतिर्दिवि मूनि स्वर्गे वा यदिध्य- ते दीप्यते । येन ज्योतिपाढ्यः सविता तपति चन्द्रमा भाति विशुद्विद्योतते तारागणा भान्ति तदि- त्यर्थः । उद्वयमिति । उदूर्ध्व ज्योतिः स्वप्रकाशं तेनो वयं पश्यन्तः सन्तोऽप्यगन्म प्राप्तवन्तः । किंभूतं तेजः, तमसः परि तमसोऽज्ञानात् परि परित उत्कृष्टम् । देव द्योतमानं देवत्र दवेपु मध्य आमूर्य सूर्य मर्यादीकृत्य द्योतमानम् । उत्तमं निरतिशयम् । तदुक्तं नारायणोपनिषत्सु- तस्यैवंविदुपो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिलोमानि बहिर्वेदः शिखा हृदयं यूपः काम आज्यं मनः पशुस्तपोऽग्निर्दमः शमयिता दक्षिणा वाग्योता प्राण उद्गाता चक्षुरध्व- युमनो ब्रह्मा श्रोत्रमनीयावद्धियते सा दीक्षा यदनाति तद्ववियत्पिवति तदस्य सोमपानं यद्रमते तदु- पसद " इत्यलमति विस्तरेण ॥ ४ ॥ अन्तकाले च मामेव स्मरन् मुक्खा कलेवरम् ॥ यः प्रयाति स मदावं याति नास्त्यत्र संशयः ॥५॥ अन्तकाल इति । अन्तकाले च मरणकाले मामेव परमेश्वरं विष्णु स्मरन् मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति स मद्भावं वैष्णवं तत्त्वं याति नास्ति न विद्यतेऽत्रास्मिन्नर्थे संशयो याति वा न वेति ॥ ५ ॥ आ० टी० । यत्तु प्रयाणकाले चेत्यादि चोदितं तत्राह अन्तकाले चेति । मामेवेत्यवधा- रणेनाध्यात्मादिविशिष्टत्वेन स्मरणं व्यावय॑ते विशिष्टस्मरणे हि चित्तविक्षेपान्न प्रधानरमरणमपि स्यान्न च मरणकाले कार्यकरणपारवश्याद्भगवदनुस्मरणासिद्धिः सर्वदैव नैरन्तर्येणादरधिया भगवति समर्पितचेतसस्तत्कालेऽपि कार्यकरणजातमगणयतो भगवदनुसंधानसिद्धेः शरीरे तस्मिन्नहंममाभि- २५२ श्रीमद्भगवद्गीता- मानाभावादिति यावत् । प्रयातीत्यत्र प्रकृतशरीरमपादानम् । “ब्रह्म वेद ब्रह्मैव भवति" इत्यादिश्रु- तिमाश्रित्याह नास्तीति । व्यासेध्यं संशयमेवाभिनयति याति वेति ॥ ५ ॥ प० टी० । अन्तकाल इत्यनेनान्तकाले ज्ञानोपायं दर्शयति । मामेवोक्तलक्षणमन्तर्यामिरूपं परमेश्वरं स्मरन्देहं त्यक्त्वा प्रकर्पणाचिर्मागेण याति स मद्भावं मद्रूपतां प्राप्नोत्यत्र संशयो नास्ति न केवलं मां स्मरन् मद्गावं प्रामोतीति नियमः ॥ ५ ॥ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ॥ तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥ न महिषय एवायं नियमः किं तर्हि यं यमिति । यं यं वापि यं यं भावं देवताविशेषं स्मरंश्चिन्तयंस्त्यजति परित्यजत्यन्ते प्राणवियोगकाले क- लेवरं तं तमेव स्मृतं भावमेवैति नान्यं कौन्तेय सदा सर्वदा तद्भावभावितस्त- स्मिन् भावस्तद्भावः स भावितः स्मर्यमाणतयाभ्यस्तो येन स तद्भावभावितः सन् ॥ ६॥ आ० टी० । अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिनियमवदन्यमपि तत्काले देवादि- विशेषं ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयात नेयादिना । कथं पुनरन्तकाले पर- वशस्य नियतविषयस्मृतिर्भवितुमुत्सहते तत्राह संदति । देवादिविशपस्तस्मिन्निति सप्तम्यर्थः, भावो भावना वासना स भावो भावितः संपादितो येन पुंमा स तथाविधः सन् यं यं भावं स्मरति तं तमेव देहत्यागादूर्व गच्छतीति संवन्धः ॥ ६ ॥ प० टी० । किं तीत्याह यं यमिति । यं यं भावं देवतान्तरं वाप्यन्यमन्तकाले स्मरन् देहं त्यजति तं तमेव च स्मर्यमाणं भावं प्राप्नोति यथा जाग्रति स्मरणारूढं पदार्थ निद्रायामनुभवति । कि भूतः, सदा निरन्तरं तद्भावेन स्मरणारूढपदार्थन भावितो वासितचित्तः ॥ ६ ॥ तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ॥ मय्यर्पितमनोबुद्धिमिवैप्यस्यसंशयः ॥७॥ तस्मादिति । यस्मादेवमन्त्या भावना देहान्तरप्राप्ती कारणं तस्मात् सर्वेषु कालेषु मामनुस्मर यथाशास्त्रं युध्य च युध्यस्व स्वधर्म कुरु मयि वासु- देवेऽपिते मनोबुद्धी यस्य तव स त्वं मर्पितमनोबुद्धिः सन् मामेव यथास्मृत- मेष्यस्यागमिष्यस्यसंशयो न संशयोऽत्र विद्यते ॥ ७ ॥ आ० टी० । सततं भावना प्रतिनियतफलप्राप्तिनिमित्तान्त्यप्रत्ययहेतुरित्यङ्गीकृत्यानन्तरलो- कमवतारयति यस्मादिति । विशेषणत्रयवतो भगवदनुस्मरणस्य भगवत्प्राप्तिहेतुत्वं भाति तस्मा- दित्युच्यते सर्वेषु कालेष्वादरनैरन्तर्याभ्यां सहेति यावत्, भगवदनुस्मरणे विशेषणत्रयसाहित्यं यथा- शास्त्रमिति द्योत्यते । भगवदनुसंधानं कर्तव्यमुक्त्वा तेन सह स्वधर्ममपि कुरु युद्धमित्युपदिशता भ- १ प्रतिषेध्यमित्यर्थः ।

अष्टमाध्यायः ।
२५३
गवता समुच्चयो ज्ञानकर्मणोरङ्गीकृतो भातीत्याशङ्कयाह मयीति । मनोबुद्धिगोचरं क्रियाकारकफ-
लनातं सकलमपि ब्रह्मैवेति भावयन युद्वयस्वेति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्याभावाभि-
लापान्नात्र समुच्चयो विवक्षित इत्यर्थः । उक्तरीत्या स्वधर्ममनुवर्तमानस्य प्रयोजनमाह मामेवेति ।
उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति असंशय इति ॥ ७ ॥
प० टी० । ननु तदा विवशस्य कथं स्मरणोद्यमः संभवतीत्याह तस्मादिति । यस्मादेव
तस्मात्कारणात् सर्वेषु कालेषु सुखदुःखभोगसमयेषु मामनुस्मरानुवेलं स्मरणारूढं कुरु । तेन निरन्त-
रानुध्यानसंस्कारेणान्तकालेऽपि स्वत एव स्मरणं भविष्यति न हि चित्तशुद्विमन्तरेण स्मरणं भवत्य-
तो युध्यस्व संग्रामरूपं स्वधर्माचरणं कुरु । एवमवसाने मर्पितमनोबुद्धिः सन्नसंशयं निश्चितं
मामेवैष्यसि । देहान्तकाले मदाकार एव संकल्पो निश्चयो मय्येव । एवं कृते सति भक्तपक्षपातिनं
मामेवैप्यसि । अत्र मामेवेत्येवकारादन्ययोगव्यवच्छेदः । तस्मादहमेवान्तर्यामित्वेन स्वस्मरणे प्रवर्तये ।
किं तु देहावसानदुःखं विस्मार्य स्वाभिमुखमाकर्षयामीत्यर्थः । तदुक्तम्-' स्पर्शाश्माप्यश्मसारं नयति
कनकतां चान्तिकं चुम्बकाश्मा सूतेऽग्निं सूर्यकान्तो द्रवति तदपरश्चन्द्रसूर्याभिमुख्यात् । हन्त्यन्नं स-
निधानाद्विपमतिगहनो ह्यस्ति वस्तुप्रभावो जीवानां मुक्तिरेवं भवति भगवतः किं पुनर्भावनातः' इति।
अधियज्ञस्वरूपं पूर्वलिखितमस्ति ॥ ७ ॥
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ॥
परमं पुरुपं दिव्यं याति पार्थानुचिन्तयन् ॥ ८॥
किं च अभ्यासेति । अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते
एकस्मिन् तुल्यप्रत्ययात्तिलक्षणो विलक्षणप्रत्ययान्तरितोऽभ्यासः स चासौ
योगस्तेन युक्तं तत्रैव व्यापृतं प्रवृत्तं योगिनश्चेतस्तेन चेतसा नान्यगामिना ना-
न्यत्र विपयान्तरे गन्तुं शीलमस्येति नान्यगामि तेन नान्यगामिना परमं निर-
तिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं दिव्यं याति गच्छति हे पार्थ अ-
नुचिन्तयन् शास्त्राचार्योपदेशमनुध्यायनित्येतत् ॥ ८ ॥
आ० टी० । इतश्च पूर्वश्लोकोक्तार्थानुष्ठायी भगवन्तमन्तकाले प्राप्नोतीत्याह किंचेति । अभ्यास
विभजते मयांति । न हि चित्तसमर्पणस्य विषयभूतं भगवताऽर्थान्तरं वस्तु सदस्तीति मन्वानो वि-
शिनष्टि चित्तेति । अन्तरालकालेऽपि विजातीयप्रत्ययेषु विच्छिद्य विच्छिद्य जायमानेप्वपि सजा-
तीयप्रत्ययावृत्तिग्योगिनोऽपि स्यादित्याशङ्कयाह विलक्षणेति । अभ्यासाख्येन योगेन युक्तत्वं चे-
तसो विवृणोति तत्रैवेति । तृतीयया परामृष्टोऽभ्यासयोगः सप्तम्यापि परामृश्यते । ननु प्रारूतानां
चेतस्तथेत्याशय विशिनाष्ट योगिन इति। तच्चेच्चेतो विषयान्तरं परामशेन्न तर्हि परमपुरुषार्थप्रा-
प्तिहेतुः स्यादित्याशङ्कयाह नान्यगामिनेति । प्रामादिकं विषयान्तरपारवश्यमभ्यनुज्ञातुं ताच्छी-
ल्यप्रत्ययात्तेन तात्पर्यादपरामृष्टान्तरेण परमपुरुषनिष्ठेनेत्यर्थः । तदेव पुरुषस्य निरतिशयत्वं यद-
परामृष्टाखिलानर्थत्वमनतिशयानन्दत्वं तच्च प्रागेव व्याख्यातं नेह व्याख्यानमपेक्षते । “यश्चासावादि-
त्ये” इत्यादिश्रुतिमनुसृत्याह दिवीति । तत्र विशेषतोऽभिव्यक्तिरेव भवन, पूर्वोक्तेन चेतसा यथोक्तं
पुरुषमनृचिन्तयन् याति तमेवेति संबन्धः । अनुचिन्तयन्नित्यत्रानुशब्दार्थ व्याचष्टे शास्त्रेति । चि-
न्तयान्निति व्याकरोति ध्यायन्निति ॥ ८ ॥

२५४ श्रीमद्भगवद्गीता- १० टी० । संततस्मरणस्याभ्यासोऽन्तरङ्गं कारणमित्याह अभ्यासेति । अभ्यासो नाम स्त्री- पुत्रवित्तादिभ्यो मनसः प्रत्याहाररूपः । योगो नाम मयि योजनम् । तेन युक्तं समाहितं तेन तथा- भूतेन चेतसात एव नान्यगामिना पदार्थान्तरपराङ्मुखेन दिव्यं द्योतनात्मकं परमेश्वरमनुचिन्तयन् परमं पुरुष परमात्मानं याति प्रामोति ॥ ८ ॥ कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद् यः॥ सर्वस्य धातारमचिन्त्यरूपमादित्यवर्ण तमसः परस्तात्॥९॥ किंविशिष्टं च पुरुष यातीत्युच्यते कविमिति । कविं कान्तदर्शिनं सर्वज्ञं पुराणं चिरंतनमनुशासितारं सर्वस्य जगतः प्रशासितारमणोः सूक्ष्मा- दप्यणीयांसं सूक्ष्मतरमनुस्मरेदनुचिन्तयेद् यः कश्चित् सर्वस्य कर्मफलजातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं विभज्य दातारमचिन्त्यरूपं नास्य रूपं नियतं विद्यमानमपि केन चित् चिन्तयितुं शक्यते इत्यचिन्त्यरूपस्तमादित्यव- र्णमादित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तमादित्यवर्ण तमसः परस्ताद- ज्ञानलक्षणान्मोहान्धकारात् परं तमनुचिन्तयन् यातीति पूर्वेणैव संवन्धः ॥ ९ ॥ आ० टी० । किविशिष्टं पुरुषमनुचिन्तयन्निति संबन्धः, चकारात् कया वा नाड्यो- त्क्रामन्नित्यनुकृप्यते, तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति उच्यत इति । क्रा- न्तदर्शित्वमतीतादेरशेषस्य वस्तुनो दर्शनशालित्वम् । तेन निप्पन्नमर्थमाह सर्वज्ञमिति । चिरंतन- मादिमतः सर्वस्य कारणत्वादनादिमित्यर्थः सूक्ष्ममाकाशादितः सूक्ष्मतमं तदुपादानत्वादित्यर्थः । यो यथोक्तमनुचिन्तयेत् स तमेवानुचिन्तयन् यातीति पूर्वेणैव संबन्ध इति योजना । ननु विशिष्टनात्या- दिमतो यथोक्तमनुचिन्तनं फलवद्भवति न त्वस्मदादीनामित्याशङ्कयाह यः कश्चिदिति । फलमत उ- पपसे रिति न्यायेनाह सर्वस्यति । एतदप्रमेयं ध्रुवमिति श्रुतिमाश्रित्याह अचिन्यरूपमिति । न हि परस्य किं चिदपि रूपादि वस्तुतोऽस्ति अरूपवदेव होति न्यायात् कल्पितमपि नास्मदादिभिः शक्यते चिन्तयितुमित्याह नास्येति । मूलकारणादज्ञानात्तत्कार्याच्च पुरस्तादुपरिष्टाद्वयवस्थितं पर- मार्थतो ज्ञानतत्कार्यास्टष्टमित्याह तमसइति । ९ ॥ टी० । अथ चिन्तनीयं पुरुषं विशिनष्टि कविमिति द्वाभ्याम् । कवि सर्वज्ञं पुराणमना दिसिद्धमनुशासितारं नियन्तारमणोः सूक्ष्मादप्यणीयांसम् । सर्वस्य स्थूलसूक्ष्मप्रपश्चस्य धातारमाश्रय- भूतम् । सूक्ष्मत्वादेवाचिन्त्यरूपं तमसः प्रकृतेः परस्ताद्वर्तमानम् । आदित्यवत् स्वपरप्रकाशरूपो वर्णः स्वरूपं यस्यैवंभूतं पुरुषम् ॥ ९ ॥ प्रयाणकाले मनासाचलेन भक्त्या युक्तो योगबलेन चैव ॥ भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम्॥१०॥ किंच प्रयाणकाल इति । प्रयाणकाले मरणकाले मनसाचलेन १ फलमत उपपत्तेः । अ. ३। पा. २। सू. ३८। शाङ्कग्ब्रह्मसूत्रभाध्ये द्रष्टव्यम् ।

अष्टमाध्यायः । २५५ प्रचलनवर्जितने भक्त्या युक्तो भजनं भक्तिस्तया युक्तो योगबलेन चैव यो- गस्य बलं योगवलं तेन समाधिजसंस्कारप्रचयजनितं स्वचित्तस्थैर्यलक्षणं योगबलं तेन च युक्त इत्यर्थः । पूर्व हृदयपुण्डरीके वशीकृत्य चित्तं तत ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण ध्रुवोर्मध्ये प्राणमावेश्य स्थापयित्वा स- म्यगप्रमत्तः सन् स एवंबुद्धिमान् योगी कविं पुराणमित्यादिलक्षणं तं परं पुरुषमुपैति प्रपद्यते दिव्यं द्योतनात्मकम् ॥ १० ॥ आ० टी० । इतश्च भगवदनुस्मरणं सफलत्वादनुष्ठेयमित्याह किं चेति । कदा तदनुस्मरणे प्रयत्न रेकोऽभ्यर्थ्यते तत्राह प्रयाणकाल इति । कथं तदनुस्मरणमित्युपकरणकलापप्रेक्ष्यमाणं प्रत्याह मनसेति । योऽनुस्मरेत् स किमुपति तत्राह स तमिति । मरणकाले क्लेशबाहुल्येऽपि प्रा. चीनाभ्यासप्रसादासादितबुद्धिवैभवो भगवन्तमनुस्मरन् यथास्मृतमेव देहाभिमानविगमानन्तरमुपाग- च्छतीत्यर्थः । भगवदनुस्मरणस्य साधनं मनसैवानुद्रष्टव्यमिति श्रुत्युपदिष्टमाचष्टे मनसेति । तस्य चञ्चलत्वान्न स्थैर्यमीश्वरे सिध्यति तत् कथं तेन तदनुस्मरणमित्याशङ्कयाह अचलेनेति । ईश्वरानु- स्मरणे प्रयत्नेन प्रवर्तितं विषयविमुखं तस्मिन्नेवानुस्मरणयोग्यपौनःपुन्येन प्रवृत्त्या निश्चलीकृतं तत- चलनविकलं तेनेति व्याचष्टे प्रचलनेति । संप्रत्यनुस्मरणाधिकारिणं विशिनष्टि भक्त्येति । पर- मेश्वरे परेण प्रेम्णा सहितो विष यान्तरविमुखोऽनुस्मर्तव्य इत्यर्थः । योगवलमेव स्फोरयति समाधिजे- ति । योगः सनाधिश्चित्तस्य विषयान्तरवृत्तिनिरोधेन परस्मिन्नेव स्थापनं तस्य बलं संस्कारप्रचयो ध्येयकाय्यकरणं तेन तत्रैव स्थैर्यमित्यर्थः । चकारसूचितमन्वयमन्वाचष्टे तेन चेति । यत्तु कया ना- ड्योत्क्रमणंयातीति तत्राह पूर्वमिति । चित्तं हि स्वभावतो विपयेषु व्यापृतं तेभ्यो विमुखीकृत्य हृदये पुण्डरीकाकारे परमात्मस्थाने यत्नतः स्थापनीयम् । अथ यदिदमस्मिन् ब्रह्मपुरे " इत्यादि- श्रुतेस्तत्र चित्तं वशीकृत्यादावनन्तरं कर्तव्यमुपदिशति तत इति । इडापिङ्गले दक्षिणोत्तरे नाड्यौं हृदयान्निःसृते निरुध्य तस्मादेव हृदयाग्रादूर्ध्वगमनशीलया सुषुम्नया नाड्या हार्द प्राणमानीय क- ण्ठावलम्वितं स्तनसदृशं मां सखण्डं प्रापय्य तेनाध्वना ध्रुवोर्मध्ये तमावेश्याप्रमादवान् ब्रह्मरन्ध्राद्वि- निष्क्रम्य कविं पुराणमित्यादिविशेषणं परम पुरुपमुपगच्छतीत्यर्थः । भूमिजयक्रमणेत्यत्र भुम्यादीनां पश्चानां भूतानां जयो वशीकरणं तस्य तस्य भृतस्य स्वाधीनचेष्टावैशिष्ट्यं तवारेणेत्येतदुच्यते । स तमित्यादि व्याचष्टे स एवमिति ॥ १० ॥ प० टी० । प्रयाणकालेऽन्तकाले भक्त्या युक्तः संस्तन्निर्वाहितयोगवलेनाचलेन मनसा सम्यक सुषुम्नाविवरेण भ्रुवोर्मध्ये प्राणमावेश्यानुस्मरेत् स तं पुरुपं दिव्यमुपैति ॥ १० ॥ यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः॥ यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्य॥११॥ योगमार्गानुगमनेनैव ब्रह्मविद्यामन्तरेणापि ब्रह्माप्यत इत्येवं प्राप्त इद- मुच्यते । पुनरपि वक्ष्यमाणेनोपायेन प्रतिपित्सितस्य ब्रह्मणो वेदविदनादिविशे- षणविशेष्यस्याभिधानं करोति भगवान् यदक्षरमिति । यदक्षरं न क्षरतीत्यक्षरम- विनाशि वेदविदो वेदार्थज्ञा वदन्ति “ यदेतदक्षरं गार्गि ब्राह्मणा अभि- श्रीमद्भगवद्गीता- वदन्ति" इति श्रुतेः सर्वविशेषनिवर्तकत्वेनाभिवदन्त्यस्थूलमनण्वित्यादि। किंच विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यद्यतयो यतनशीलाः संन्यासिनो वीतरागा विगतो रागो येभ्यस्ते वीतरागा यच्चाक्षरमिच्छन्तो ज्ञातुमिति वा- क्यशेषः । ब्रह्मचर्य गुरौ चरन्तीति तत्ते पदं यदक्षराख्यं ब्रह्माख्यं पदं पदनीयं ते तुभ्यं संग्रहेण संग्रहः संक्षेपस्तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि “ स योह तद्भगवन् मनुष्येषु प्रयणान्तमोकारमभिध्यायीत कतमं वाव स तेन लोकं ज- यतीति तस्मै सहोवाच एतदै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार” इ- त्युपक्रम्य यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुपमभिध्यायीत इत्यादिनी वचनेन “ अन्यत्र धर्मादन्यत्राधर्माद् ” इति चोपक्रम्य “ सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद्ददन्ति । यदिच्छन्तो ब्रह्मचर्य च- रन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतदक्षरम् इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत् प्रतीकरूपेण च परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योङ्कारस्योपासनं कालान्तरे मुक्तिफलमुक्तं यत्त- देवेहापि वक्तव्यं “ कविं पुराणमनुशासितारं” “यदक्षरं वेदविदो वदन्ति” इति चोपन्यस्तस्य च परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्योङ्कारस्य कालान्तरमुक्तिफलमुपासनं योगधारणासहितं वक्तव्यम् ॥ ११ ॥ आ० टी० । येन केनचिन्मन्त्रादिना ध्यानकाले भगवदनुस्मरणे प्राप्ते सत्यभिधानत्वे निय- न्तुं स्मर्तव्यत्वेन प्रकृतपरमपुरुषस्य त्रैविद्यवृद्धप्रसिद्धया प्रामाणिकत्वमाह पुनरपीति । उपायो वक्ष्यमाण ओङ्कारः । अविपये प्रतीचि ब्रह्मणि वेदार्थविदामपि कथं वचनमित्याशङ्कयाविषयत्वमित्ये- तावतैवेति मत्वा श्रुतिमुदाहरति तद्वेति । तथापि तस्मिन्नविषये सर्वविशेषशून्य वचनमनुचितमित्याश याह सर्वेति । न केवलं विद्वदनुभवसिद्धं यथोक्तं ब्रह्म किं तु मुक्तोपमृप्यतया मुक्तानामपि प्र- सिद्धमित्याह किंचेति । केपां पुनः संन्यासित्वं तदाह वितरागा इति । ज्ञानार्थ ब्रह्मचर्यविधानादपि ब्रह्म ज्ञेयत्वेन प्रसिद्धमित्याह यच्चेति । कथं तर्हि यथोक्तं ब्रह्म मम ज्ञातुं शक्यमित्याकुलित- चेतसमजुनं प्रत्याह तत्ते पदमिति । वक्ष्यमाणेनोपायेनेत्युक्तं व्यक्तीकुर्वन्नाकारद्वाग ब्रह्मोपासनं श्रुत्यु- क्तमनुक्रामति स यो हेति । सत्यकामेनाभिध्यानफलं जिज्ञामुना भगवन्निति पिप्पलादः संबोध्या- भिमुखीक्रियते, निपातौ तु प्रसिद्धमर्थमवद्योतयन्तावभिध्यानस्य फलत्वेन कर्तव्यत्वमावेदयतः । मनु- प्येषु मध्ये स योऽधिकृतो मनुष्यस्तत्प्रसिद्धमभिध्यानं यथा सिध्यति तथा सर्ववेदमारभृतमोङ्कारमाभि- मुख्यन ध्यायीत तच्चाभिध्यानमाप्रयाणादिति न्यायेन मरणान्तमनुष्टेयं स चैवमनुतिष्ठन् प्रकृतेनाभि- ध्यानेन लोकानां जेतव्यानां बहुत्वात् कतमं लोकं जयतीति प्रश्ने प्रष्टवते सत्यकामाय पिप्पलाद- नामा किलाचार्यः प्रतिवचनं प्रोवाच । तत्र प्रथममभिध्येयमोङ्कारं परापरब्रह्मत्वेन महीकरोति एतद्वा इति । त्रिमात्रेणाकारोकारमकारात्मकेनेति यावत् । योऽभिध्यायीत तमेव यथाभिध्यातं पुरु- १ प्रणवो धनुः शगे यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरबत्तन्मयो भवेदित्यादिना-अधिकं मु० पु० । २ आप्रयाणात्तत्रापि हि दृटम्-अ. ४। शाइग्ब्रह्म दृष्टयम् ।

अष्टमाध्यायः। २५७ पमधिगच्छतीत्यादिवचनेनोपासनमोङ्कारस्योक्तमित्यर्थः । प्रश्नश्रुतिवत् कठवल्ली च तत्रैवार्थे प्रवृत्तेत्या- ह अन्यत्रेति । अव्यवधानेनोपनिषदां व्यवधानेन च कर्मश्रुतीनां परस्मिन्नात्मनि पर्यवसानं दर्शयति सर्व इति । तपसामपि सर्वेषां चित्तशुद्धिद्वारा तत्रैव पर्यवसानमित्याह तपांसीति । तस्यैव च ज्ञानार्थमष्टाङ्गं ब्रह्मचर्य तत्र तत्र विहितमित्याह यदिच्छन्त इति । तस्य पदनीयस्य ब्रह्मणः सं- क्षेपेण कथनमोङ्कारद्वारकमिति कथयात ओमिसेतदिति । ओमित्येतदित्युदाहृतवचनानां तात्पर्य दर्श- यति परस्येति । तस्य वाचकरूपेण वा तस्यैव प्रतीकरूपेण वा विवक्षितस्योपासनं यथोक्तैर्वचनरुक्त- मिति संबन्धः । ननु परस्मिन् ब्रह्मणि तत्त्वमस्यादिवाक्यादेव प्रतिपत्तिरधिकारिणो भविष्यति कि- मित्युपासनमोङ्कारस्योपन्यस्यते तत्राह परेति । यद्यपि विशिष्टस्याधिकारिणो विनैवोपासनमुपनिष- यो ब्रह्मणि प्रतिपत्तिरुत्पद्यते तथापि मन्दानां मध्यमानां च तहेतुत्वेनोङ्कारो विवक्षितस्तच्चो- पासनं ब्रह्मदृष्टया श्रुतिभिरुपदिष्टमित्यर्थः । तस्य क्रममुक्तिफलत्वादनुष्ठेयत्वं सूचयति कालान्तरे- ति । भवत्येवं श्रुतीनां प्रवृत्तिस्तावता प्रकृते किमायातमित्याशङ्कयाह उक्तं यदिति । तदेवेहापि वक्तव्यमित्युत्तरेण संबन्धः । उपासनमेवोपास्योपन्यासद्वारा स्फोरयति कविमियादिना । पूर्वोक्तरू- पेणेत्यभिधानत्वेन प्रतीकत्वेन चेत्यर्थः । श्रौतस्योपासनस्यानूद्यमानस्य सोपस्करत्वं संगिरते यो- गति ॥ ११ ॥ प० टी० । अथाभ्यासेन प्राप्तव्यं स्थानं वक्तुं प्रतिजानीते यदक्षरमिति । वेदविदो वेदार्थ- ज्ञा याज्ञवल्क्यादयो यदक्षरमिति वदन्ति न भरतीत्यक्षरमस्थूलमनण्वहूस्वमित्यादिश्रुत्या प्राइनिरू- पितम् । तथा यहीतरागा विरागवन्तो यतयः प्रयत्नशीला विशन्त्यात्माकारतया तिष्ठन्ति तथा यदिच्छन्तो ज्ञातुमिच्छन्तो गुरूपदिष्टं ब्रह्मचर्य चरन्ति तत्ते तुभ्यं पदं पद्यते गम्यतेऽनेनेति पदं संग्रहण संक्षेपेण प्रवक्ष्ये ॥ ११ ॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ॥ मूर्ध्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२॥ प्रसक्तानुप्रसक्तं च यत्किंचिदित्येवमर्थ उत्तरो ग्रन्थ आरभ्यते स- वेति । सर्वहाराणि सर्वाणि च तानि हाराणि च सर्वहाराण्युपलब्धौ तानि स- र्वाणि संयम्य संयमनं कृत्वा मनो हदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारतामापाद्य तत्र वशीकतेन मनसा हृदयादूर्ध्वगामिन्या नाड्योर्ध्वमा- रुह्य मूर्धन्याधायात्मनः प्राणमास्थितः प्रत्तो योगधारणां धारयितुम् ॥ १२ ॥ आ० टी०तर्हि कथम् 'अनन्यचेताः सततम्' इत्यादि वक्ष्यते तत्राह प्रसक्तेति ।ओङ्कारोपासनं प्रसक्तं तदनन्तरं तत्फलमनुप्रसक्तं तद्द्वारा चापुनरावृत्त्यादि वक्तव्यकोटिनिविष्टमित्यर्थः । उक्तेऽर्थे समनन्तरग्रन्थमुत्थापयति इसवमर्थ इति । श्रोत्रादीनां कुत्र द्वारत्वं तत्राह उपलब्धाविति । तेषां संयमनं विषयेषु प्रवृत्तानां दोषदर्शनद्वारा तेभ्यो वैमुख्यापादनम् । कोऽयं मनसो हृदये निरोधस्त- त्राह निःप्रचारमिति । मनसो विषयाकारवृत्ति निरुध्य हदि वशीकृतस्य कार्य दर्शयति तत्रेति । ऊर्ध्वमित्यत्रापि हृदयादिति संबध्यते सर्वाण्युपलब्धिद्वाराणि श्रोत्रादीनि संनिरुध्य वायुमपि सर्वेभ्यो निगृह्य हृदयमानीय ततो निर्गतया सुषुम्नया कण्ठभूमध्यललाटक्रमेण प्राणं मूर्धन्याधाय योगधार- णामारूढो ब्रह्म व्याहरन् मां च तदर्थमनुस्मरन् परमां गतिं यातीति संबन्धः ॥ १२ ॥ ३३

२५८
श्रीमद्भगवद्गीतायाः
प० टी० । अथ प्रतिज्ञातमर्थ साङ्गमाह सर्वद्वाराणीति द्वाभ्याम् । सर्वहाराणीन्द्रियद्वाराणि
संयम्य विषयेभ्यः प्रत्याहृत्य न केवलं नेत्रमीलनमात्रेण किं तु मनो हदि निरुध्य बाह्यविषयान-
स्मरन्नित्यर्थः मूर्ध्नि भ्रमध्ये स्वस्य प्राणानाधायारोप्य योगधारणां स्थैर्यमास्थित आश्रितः । श्रुतिरपि
ऋक्शाखायाम्-"युवा सुवासाः पारेवीत आगात्स उ श्रेयान् भवति जायमानः। तं धीरासः कवय उ-
नयन्ति स्वाध्यो३मनसा देवयन्तः” इति । भाष्यम्-बाल्यवार्धकाधैर्देहविकारविरहितो युवा मुख्य-
प्राणो सुष्टु वासः प्रावरणं यस्य सत्त्वाकारान्तःकरणवृत्तिप्रतिबिम्बितः परिवीतः शरीरावृतः सन्नगा-
ज्जीवदशां प्राप्त उइति निश्चयेन स जायमानः प्रादुर्भूतः सन् श्रेयान् सत्कर्मनिरतो भवति । स
स्वाध्यः सुखेनाराध्यस्तमेवंविधं धीरासो दृढव्रताः कवयः क्रान्तदार्शनो ज्ञानिनो देवयन्तो देवत्वं
प्रानुमिच्छन्तो मनसा सह उन्नयन्ति । सुषुम्नाविवरणोर्ध्व नयन्ति । अत्राथें ब्राह्मणमपि-"युवा सु-
वासाः परिवीतआगादित्युत्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृत” इत्यादि ।
अथर्ववेदेऽप्याम्नातम्-“शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःमृतका । तयोर्ध्वमायन्नमृतत्व-
मेति विष्वगेता उत्क्रमणे भवन्ति” इति । भाप्यम-शरीरान्तर्बाह्ये नाड्यः सन्ति तासां मध्ये
हृदयस्थव्यापारार्थमेकाधिक शतं नाड्यः सन्ति तासां मध्ये एका नाडी मूर्धानमभिलक्षीकृत्य निःसृता
निगता तया नाड्योर्ध्वमायन् गच्छन् प्राणाऽ मृतत्वेमीत मुक्तो भवति उत्क्रमणे प्राणोत्क्रमण तु
एता उक्तनाड्यो विष्वक् सर्वा अपि मूर्धानमभिनिस्सरन्ति । एवमुत्क्रान्तिसमये स्मर्तव्योऽहमित्युप-
दिष्टम् ॥ १२ ॥
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ १३॥
ओमिति । तत्रैव च धारयन् ओमित्येकाक्षरं ब्रह्म ब्रह्मणोऽभिधानभूत-
मोङ्कारं व्याहरनुच्चरंस्तदर्थभूतं मामीश्वरमनुस्मरन्ननुचिन्तयन् यः प्रयाति म्रि-
यते स त्यजन् परित्यजन् देहं शरीरं त्यजन् देहमिति प्रयाणविशेपणार्थ देह-
त्यागेन प्रयाणमात्मनो न स्वरूपनाशेनेत्यर्थः । स एवं त्यजन् प्रयाति गच्छति
परमां प्रकृष्टां गतिम् ॥ १३ ॥
आ० टी० । यथोक्तयोगधारणार्थ प्रवृत्तो मूर्धनि प्राणमाधाय धारयन् हि किं कुर्यादित्या-
शङ्कयानन्तरश्लोकमवतारयति तत्रैवेति । एकं च तदक्षरं चेत्येकाक्षरमोमित्येवंरूपं तत् कथं ब्रह्मति
विशिष्यते तत्राह ब्रह्मण इति । यः प्रयातीति मरणमुक्त्वा त्यजन् देहमिति ब्रुवता पुनरुक्तिराश्रिता
स्यादित्याशङ्कय विशेषणार्थ विवृणोति देहति । एवमोकार मुच्चारयन्नथं चाभिध्यायन् ध्याननिष्ठः स
पुमानित्यर्थः । परमामिति गतिविशेषणं क्रममुक्तिविवक्षया द्रष्टव्यम् ॥ १३ ॥
प० टी० । अथ जाप्यं किमित्याह ओमिति । ओमित्येकाक्षरं यस्य तदेकाक्षरं ब्रह्मैका-
क्षरात्मको वेदो मात्रात्रयेण पूर्वोक्तयजुर्मन्त्रत्रयात्मैकस्तयाहरन्नुच्चारयंस्तथा तदर्थरूपं मामनुस्मरन् यो
जीवो देहं त्यजन् प्रकर्षणाचिर्मार्गेण यात्युत्क्रमते स परमां गतिं याति ॥ १३ ॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः॥
तस्याहं सुलभः
पार्थ नित्ययुक्तस्य
योगिनः :॥१४॥

अष्टमाध्यायः ।
२५९
किंच अनन्यति । अनन्यचेता नान्यविषये चेतो यस्य सोऽयमनन्य.
चेता योगी सततं सर्वदा यो मां परमेश्वरं स्मरति नित्यशः सततमिति नै-
रन्तर्यमुच्यते नित्यश इति दीर्घकालत्वमुच्यते न षण्मासं संवत्सरं वा किं
तर्हि यावज्जीवं नैरन्तर्येण यो मां स्मरतीत्यर्थः। तस्य योगिनोऽहं सुलभः सुरवेन
लभ्यः पार्थ नित्ययुक्तस्य सदा समाहितस्य योगिनो यत एवमतोऽनन्यचेताः
सन् मयि सदा समाहितो भवेत् ॥ १४ ॥
आ० टी० । ननु वायुनिरोधविधुराणामुदीरितया रीत्या स्वेच्छाप्रयुक्तोत्क्रमणासंभवादुर्लभा
परमा गतिरापतेदिति तत्राह किं चेति । इतश्च भगवदनुस्मरणे प्रयतितव्यमित्यर्थः । सततं नित्यश
इति विशेषणयोरपुनरुक्तत्वमाह सततमियादिना । उक्तमेवापोनरुक्त्यं व्यक्तीकरोति नेसादिना ।
जितासुरिच्छया देहं त्यजति तदितरस्तु कर्मक्षयेणैवेति विशेष विवक्षयन्नाह यत इति ॥ १४ ॥
प० टी० । एवं मद्भक्तस्य तादृशी दशामहमेव संपादयाममत्याह अनन्यति । सततमनवरतं
नान्यन्मदतिरिक्तं चेतसि यस्य स तथाभूतः सन् यो जीवद्दशायां नित्यशो मां स्मरति तस्य नित्य-
युक्तस्य समाहितमनमोऽहं सुलभः मुखेन प्राप्यो नान्यस्य ध्यानादिक्लेशराहित्येनापि स्वयमाविर्भय
प्रकटो भवामीत्यर्थः ॥ १४ ॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ॥
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥
तव सौलभ्येन किं स्यादित्युच्यते शृणु तन्मम सोलभ्येन यद्भवति
मामुपेत्येति । मामुपेत्य मामीश्वरमुपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं न
प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म न प्राप्नुवन्ति तद्दिशेपणमाह दुःखालयं दु:-
खानामाध्यात्मिकादीनामालयमाश्रयम् आलीयन्ते यस्मिन् दुःखानि तद्दुः-
खालयं जन्म न केवलं दुःखालयमशाश्वतमनवस्थितस्वरूपं च नाप्नुवन्तीदृशं
पुनर्जन्म माहात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः ॥१५॥
आ० टी० । अनन्यचेतसं ममाहितचेतसं प्रतीश्वरस्य सौलभ्यमेवांमत्युच्यते किं त्वां प्राप्ता-
स्त्वय्येवावतिष्ठन्ते किं वा पुनरावर्तन्ते चन्द्रलोकादिवेति संदेहात पृच्छति तवेति । तत्रोत्तरश्लो-
केन निश्चयं दर्शयति उच्यत इति । ईश्वरोपगमनं न सामीप्यमात्रमिति व्याचष्टे मद्भावमिति ।
पुनर्जन्मनोऽनिष्टत्वं प्रश्नद्वारा स्पष्टयति किमियादिना । महात्मत्वं प्रष्टसत्त्ववैशिष्टयं यतयस्तस्मि-
नवेश्वरे समुत्पन्नसम्यग्दर्शिनो भृत्वेति शेषः ॥ १५ ॥
प० टी० । सुलभत्वे किं भवतीत्याह मामिति । एवमुक्कलक्षणा महात्मानो महानुभावा
मां परमात्मानं प्राप्य दुःखालयं सर्वदुःखनिदानमशाश्वतं नश्वरं पुनर्जन्म न प्राप्नुवन्ति, यतस्ते
परमां सिद्धिं गताः ॥ १५ ॥
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ॥
मामुपेत्य तु कौन्तय पुनर्जन्म न विद्यते ॥१६॥

२६. श्रीमद्भगवद्गीतायाः ये पुनर्मां न प्राप्नुवन्ति ते पुनरावर्तन्ते के पुनस्त्वत्तोऽन्यत् प्राप्ताः पु- नरावर्तन्त इत्युच्यते आब्रह्मेति । आब्रह्मभुवनाद्भवन्ति यस्मिन् भूतानीति भुवनं ब्रह्मभुवनं ब्रह्मलोक इत्यर्थः । आब्रह्मभुवनात् सह ब्रह्मभुवनेन लोकः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः हे अर्जुन मामेकमुपेत्य तु कौन्तय पुनर्जन्म पुनरुत्पत्तिर्न विद्यते ॥ १६ ॥ आ० टी० । भगवन्तमुपगतानामपुनरावृत्तौ ततो विमुखानामनुपजातसम्यग्धियां पुनरावृ- त्तिरर्थसिद्धेत्याह ये पुनरिति। “अपाम सोमममृता अभूम” इति श्रुतेः । स्वर्गादिगतानामपि समानैवाना- वृत्तिरित्याशङ्कते के पुनरिति । अर्थवादश्रुतौ कर्मिणाममृतत्वस्यापेक्षिकत्वं विवक्षित्वा परिहरति उच्यत इति । एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनादिलोक एषां प्राप्तानामपुन रावृत्तिरिति विभागोक्तिरप्रामाणिकत्वादेव हेयेत्यवधेयम् । तर्हि तद्वदेवेश्वरं प्राप्तानामपि पुनरावृत्तिः शङ्कयते नेत्याह मामिति । यावत्संपातश्रुतिवदीश्वरं प्राप्तानां निवृत्ताविद्यानां पुनरावृत्तिरप्रामाणिकी- त्यर्थः ॥ १६ ॥ प० टी० । अथावान्तरसिद्धया शाश्वतं सुखदं च देहमपेक्षमाणानां पुनरावृत्तिरस्तीत्याह आब्रह्मेति । ब्रह्मणो भुवनं वासस्थानं ब्रह्मलोकस्तमभिव्याप्य ये लोका महर्लोकाद्या अपि पुनरा- वर्तिनो भवन्ति । ननु ‘तपस्विनो दानशीला वीतरागास्तितिक्षवः । त्रिलोक्या उपरि स्थान लभन्ते शोकवर्जितम् ' इति पुराणोक्तत्वात्कथमुक्तं पुनरावर्तिन इति चेत्तत्रोच्यते । सुग्वेन चिरकालजीवित- मपेक्ष्य सामवेदोक्तबृहद्रथंतरवैरूपवैराजशार्कररैवतनौन्धसकालेयाद्यष्टसामात्मिकामासंदी सस्तोमा म- हतीमृचमुपास्य साम्राज्यभौज्यस्वाराज्यवैराज्यादिक्रमेण पारमेष्ट्यं सत्यलोकं प्राप्तासोऽप्यायुरहो- रात्रनिद्रानागरादिलौकिकव्यवहारत्वात्पुनरावर्तन्त एव । श्रुतिरपि शातपथी-" यो वा एतदक्षरमवि- दित्वा गार्ग्यस्मिल्लोके जुहोति ददाति तपस्यत्यपि बहूनि वर्षसहस्राण्यन्तवानेवास्य स लोको भवति" इति । भाप्यम्-अत्र वाचक्नवी प्रति याज्ञवल्क्यो वदति । भो गार्गि गर्गकन्ये वाचनवि यः पुरुष एतदनुभूयमानमक्षरं परं ब्रह्माविदित्वा ज्ञात्वास्मिँल्लोके जुहोति होमं करोति ददाति तुलाभारेण तपस्यति कृच्छ्र चान्द्रायाण दिनैव यल्लोकार्थमेतावानुपायः स लोकोऽस्य पुरुषस्य बहून्यनेकानि वर्षसहस्राणि भुज्यमानोऽप्यन्तवानेव पुनश्चयवनाय भवति । अथोक्तप्रमेयप्रतिपादकमृक्शाखीयं ब्राह्मणं च " अथात ऐन्द्रो महाभिषेकस्ते देवा अब्रुवन् सप्रजापतिका अयं वै देवतानाम् " इत्यादि । तथा- पस्तम्बसाहतास्वपि “सुपर्णोऽसि गरुत्मान् त्रिवृते शिरोगायत्रचक्षः" इत्यादि । ग्रन्थविस्तरभयान्न लि. ख्यते शतश्लोकभाप्यऽस्माभिः सविस्तरं प्रोक्तमस्ति । अथ चोत्पन्नतत्त्वज्ञानिनस्ते मद्रपतां प्राप्य विस्मृतसकलव्यवहाराः संसरणवीजभूतं जीवत्वं परिहाय ब्रह्मरूपास्तेषां पनर्जन्म नास्तीत्याह माम- पत्यति । तथा च विस्मृतसकलव्यवहारत्वमेव मत्प्राप्त्यभिव्यञ्जकम् । श्रुतिरपि-" स यथा सोन्ध- वखिल्यदुदके प्रास्तउदकमेवानविलीयेत नाहस्योदग्रहणायैवस्याद्" इति । तथा " न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त" इति ॥ १६ ॥ सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ॥ रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥१७॥ ब्रह्मलोकसहिता लोकाः कस्मात् पुनरावर्तिनः कालपरिच्छिन्नत्वात्

अष्टमाध्यायः
प.
कथं सहस्रति । सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तं पर्यवसानं यस्या-
हस्तदहः सहस्रयुगपर्यन्तं ब्रह्मणः प्रजापतेविराजो विदुः, रात्रिमपि युगस-
हस्रामहःपरिमाणमेव के विदुरित्याह तेऽहोरात्रविदः कालसंख्याविदो जना
इत्यर्थः ॥ १७ ॥
आ० टी० । यस्य स्वाभाविकी वंशप्रयुक्ता च शुद्धिस्तस्यैवोक्तेऽर्थे बुद्धिरुदेतीति मत्वा
संबुद्धिद्वयं ब्रह्मलोकसहितानां पुनरावृत्तौ हेतुं प्रश्नद्वारा दर्शयति ब्रह्मेति । उक्तमेव हेतुमाकाङ्क्षा-
पूर्वकमुत्तरश्लोकेन साधयति कथमित्यादिना । यथोक्ताहोरात्रावयवमासर्वयनसंवत्सरावयवं शतस-
ङ्ख्यायुरवच्छिन्नत्वात् प्रजापतेस्तदन्तर्वर्तिनामपि लोकानां यथायोग्यकालपरिच्छिन्नत्वेन पुनरावृत्ति-
रित्यभिप्रेत्य व्याचष्टे सहस्रसादिना ॥ १७ ॥
टी० ० । अथ सत्यलोकव्यवहारमाह सहस्रति । यद् ब्रह्मणो यस्य ब्रह्मणः सहस्त्रयुगानि
पर्यन्तोऽवसानं यस्यैवंविधमहर्दिनं विदुः । तथैव युगसहस्त्रान्तां रात्रि विदुरेवमहोरात्रं सोपपत्ति-
कत्वेन ये विदुस्ते जना अहोरात्रविदः । छान्दोग्येऽपि “सहस्त्रयुगपर्यन्तमहामं यदुच्यते' इति ।
अयमर्थः । कृतत्रेताद्वापारकालसंज्ञकै.श्चतुर्भिश्चरणैरेकैकं महायुगं तानि सहस्रमितानि ब्रह्मणो दिन
तावत्येव रात्रिस्तत्र सूर्यदर्शनादर्शननिमित्ते दिनरात्री भवत एवं सत्यलोकस्य सर्वलोकापेक्षयोच्चैः
स्थितत्वात्तत्रत्याः सहस्त्रयगपर्यन्तं सूर्य पश्यति तावदेव तेषां जाग्रदवस्थानन्तरं तावत्कालमेव
तेषां सुषुप्तिस्तत्र न पश्यन्ति । उक्तं च-'यदातदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते ।
भवति तावदयं शयितश्च तद्युगसहस्त्रयुगं युनिशं विधेः' इति । एवं मेरुशिरसि स्थितानां देवानां
सौरवर्षमितमहोरात्रं पितॄणां तु चान्द्रमासेन मितम् । तथा लङ्कायमकोटिसिद्धपुरस्थितानां नित्यं त्रि-
शदटीतुल्यं दिनं तावत्येव रात्रिः । एवमेतेषु नित्यं चरकालाभावादिनरात्र्योः समत्वम् । इतरदेशेषु
चरवशाद्दिनरात्र्योहासवृद्धी भवेताम् । तेन प्रतिदेशं भिन्नाहोरात्रिव्यवस्था एवं यावत् षट्षष्टि-
मिता अक्षांशाश्चतुर्विंशतिर्लम्बांशा भवन्ति ततोऽनन्तरं चरादिव्यवहाराभावः । श्रुतिरपि ऋग्वेदे-
" आपान्यदेत्यभ्यान्यदेति विश्वरूपे अहनी संचरते । परिक्षितोस्तमोअन्यागुहाकराद्यौदुपाःशोशुच-
तारथेन " इति । भाष्यम्-विश्वरूपे बहुरूपे अहनी अहोरात्रे संचरेते सहाव्यवधानेन चरतः
अहश्च कृष्णमहरर्जुनं चेत्युक्तत्वादुभयोरहः शब्दवाच्यत्वम् । तयोर्मध्ये अन्यद्रात्रिरुपमहरपति
प्रतिलोमं गच्छति । अन्यद्दिवाख्यमहरभ्येत्याभिमुख्येनागच्छति । परिक्षितोः पर्यायेण निवसतोः
प्राणिनामायुः क्षपयतोर्वा तयोरन्या रात्रिस्तमस्तमोरूपा गुहा पदार्थगृहनं करोति अन्योषाः शोशु-
चता शोभमानेन रथेन अद्यौत् प्रकाशयति । एवं पितृदेवसत्यलोकादिपु स्वस्वाहोरात्रपरिभाषया
मासवर्षादकल्पना । तथा च स्ववर्षपरिभाषया ब्रह्मणः शतवर्षमायुः स महाकल्पः । तदुक्तम्-'श-
तायुः शतानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः। यतोऽनादिमानेष कालस्ततोऽहं नवे-
दयत्र पद्मोद्भवा ये गतास्तान्' इत्यादि मनसि धृत्वोक्तं पुनरावर्तिन इति । तथाहोरात्रावद इत्यनेन
महाकल्पावान्तरकल्पमनुयुगचरणशकवर्षायनर्तुमासपक्षाहोरात्रयामनाडीविनाडीप्राणत्रुट्यादिकालावय-
वाभिज्ञत्वेन गोलज्ञा इत्युक्तम् ॥ १७ ॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८॥

२६२ श्रीमद्भगवद्गीतायाः यत एवं कालपरिच्छिन्नास्तेऽतः पुनरावर्तिनो लोकाः प्रजापतेरहनि यद्भवति रात्रौ च तदुच्यते अव्यक्तेति । अव्यक्तादव्यक्तं प्रजापतेः स्वापा- वस्था तस्मादव्यक्ताद् व्यक्तयो व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्त्यभिव्यज्यन्ते अह्न आगमोऽहरागमस्तस्मिन्नहरागमे काले ब्रह्मणः प्रबोधकाले तथा राज्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वा व्यक्त- यस्तत्रैव पूर्वोक्तेऽव्यक्तसंज्ञके ॥ १८ ॥ आ० टी । अक्षरार्थमुक्त्वा तात्पर्यार्थमाह यत इति । यतः प्रजापतेरहस्तद् युगसहस्त्रपरि- मितं या च तस्य रात्रिः सापि तथेति कालविदामभिप्रायमनुसृत्य ब्राह्मस्याहोरात्रस्य कालपरि- माणं दर्शयित्वा तत्रैव विभज्य कार्य कथयति प्रजापतेरिति । अव्यक्तमव्याकृतमिति शङ्कां वार- यति अव्यक्तमियादिना । जातिप्रतियोगिभूता व्यक्ती-वर्तयति स्थावरेति । असदुत्पत्तिमसक्ति प्रत्यादिशति अभिव्यज्यन्त इति । पूर्वोक्तमव्यक्तसंज्ञकं स्वापावस्थं ब्रह्म प्रजापतिशब्दितं तस्मि- निति यावत् ॥ १८ ॥ प० टी० । अथ यदर्थमेतावानुपक्रमस्तदाह अव्यक्तादिति द्वाभ्याम् । कार्यस्याव्यक्तरूपं कारणात्मकं तस्मादव्यक्तात्कारणरूपात्सकाशात्सर्वा नानारूपकर्मात्मका व्यक्तयः स्वरूपाण्यहरागमे ब्रह्मणो जाग्रदवस्थोपलक्षिते दिनारम्भे प्रभवन्ति प्रादुर्भवन्ति । तथा तस्यैव सुषुप्त्युपलक्षित रा- ध्यागमे तत्रैवाव्यक्तसंज्ञके विलीयन्ते । यस्य कस्य चित्कार्यस्य स्वकारणे लय इति प्रसिद्धम् । अस्मिन्नर्थे शातपथ्यः श्रुतयः पूर्वदर्शिता एव । इदानीमृकशाखीयाः श्रुतयश्च-"ऋतं च सत्यं चाभी- हात्तपसोऽध्यजायत।ततो रात्र्यजायत ततः समुद्रोअर्णवःममुद्रादर्णवादधि।संवत्सरोऽनायताहोरात्राणि- विदधद्विश्वस्यमिषतोवशी । सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षम- थो स्वः' इति । भाप्यम्-ऋतं सत्यसंकल्पः, सत्यं यथार्थभाषणम् । अभीडादभितः प्रकाश- मानात्परमेश्वरादधिनायते । अधिकत्वेनोत्कर्षेण जायते प्रथमं जगत्त्रष्टव्यमिति संकल्पः । अनन्तरं बहुस्यां प्रजायेयेति सत्यप्रतिज्ञा समुत्पन्नेत्यर्थः। किंभतादभीद्धात्तपसस्तपोरूपात् सृष्टयर्थ लेपं कृत- वतः । “स तपोऽतप्यत स तपस्तप्वा' इति श्रुतेः । ततो रात्रिरजायत रात्रिशब्दन काल उपलक्षितः सृष्टेनिमित्तभूतः कालोऽप्याविर्भूतः । ततोऽनन्तरं समुदयति व्याप्नोति समुद्र आकाशदिगादिपदार्थ आसीत् । ततोऽर्णवः सागर आसीत् । ततः पूर्वोक्तप्रकारेण रूपकालात्मवत्सरः सृष्टयादी तावद- होरात्रनिमित्तभूतः समयोपाधिरूपः संवत्सरात्मकः प्रजापतिरजायत “ स एव संवत्सरः प्रजापतिः पोडशकल" इति श्रुतेः । ततोऽहोरात्रिकं धाता स्रष्टा यथापूर्व प्राचीनदिनादौ यथा : कल्पयत्त- थैवाद्यतनेदिनादावकल्पयत् कल्पितवान् । किं तत् । अहोरात्राणि तत्कारणीभूतौ सूर्याचन्द्रमसौ दिवं प्रथिवीमन्तरिक्षमाकाशं स्वः स्वलोकं च । किंभूतः, मिपतो जागरादौ पश्यतो विश्वस्य सर्व- लोकस्य वशी वशवर्ती । स्वत एव यथापूर्व दर्शयतीत्यर्थः । अनया दृश्यप्रपञ्चस्य काल्पनिकत्वमुप- पादितम् । तथा नवो नवो भवति जायमानोऽझांकेतुरुषसामेत्यग्रम ” इति । भाप्यम्-जाय- मानः प्रादुर्भूतोमकेतुः सूर्य उपसां प्रातःकालानामग्रमुदयाचलमस्तकमेत्य प्राप्य नवो नवो भवति नवीन एवोत्पद्यते । तथा कण्वोपनिषत्सु “ अथैष श्चोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च ग- च्छति प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्मङ स एवाद्य स उश्च" इति । भा- प्यम्-पूर्वश्रुतौ चक्षुरादिकमात्मानुभवेनोपयुज्यते किं त्वसदेवविषयीकरोतीत्यत्रोपपत्तिश्रुतिरेव द- र्शयति तदैप श्लोको भवतीति । तत्तत्रार्थे एप श्लोको वेदोपजीव्यः प्रसिद्धो मन्त्रोऽस्तत्यिाह अष्टमाध्यायः । २६३ इति । सूर्यो यत्रास्तं गच्छति यतश्चोदयं प्राप्नोति तत्कि वस्विति विचार्यमाणे एष सूर्यः प्राणान् मुख्यप्राणात् सूत्रात्मनः सकाशादुदेति उदयं प्रामोति । ततस्तस्मिन् प्राणेऽस्तमेति लयं प्रामोति । एवं सति द्योतयन्त्यर्थान् प्रकाशयन्ति देवाश्चक्षुराद्यास्तमुदयास्तलक्षणं धर्म नैसर्गिक चक्रिरे मे- निरे । कथं स एव सूर्योऽद्य समुदितस्तथा स एव श्व उत्तरदिन इति । अत्रैतदुक्तं भवति प्रत्यह- मनुभूयमानौ सूर्योदयास्तौ न पारमार्थिको किं त्वापेक्षिको नेत्रगतावुदयास्तौ सूर्ये कल्प्येते न वस्तुतो नाहमुदितोऽस्तमितो वेत्ति सूर्यों वेत्ति । तदुक्तम् ‘विचार्यमाणे तरणाविवाहनि' इति । एवं सत्युदितानु- दितहोमव्यवस्थाप्यापक्षिकी ॥ १८ ॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ॥ राज्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥१९॥ अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थ बन्धमोक्षशास्त्रप्रवृत्तिसाफ- ल्यप्रदर्शनार्थम् अविद्यादिक्लेशमूलकर्माशयवशाच्च वशो भूतग्रामो भूत्वा प्रलीयत इत्यतः संसारे वैराग्यप्रदर्शनार्थ चेदमाहे भूतग्राम इति । भूतग्रामो भूतसमु- दायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन् कल्प आसीत् स एवायं नान्यो भूत्वा पुनरहरागमे प्रलीयते पुनः पुना राश्यागमेऽहःक्षयेऽवशोऽस्वतन्त्र एव पार्थ प्र- भवति जायते स एवाहरागमे ॥ १९ ॥ आ० टी० । ननु प्रबोधकाले ब्रह्मणो यो भूतग्रामो भूत्वा तस्यैव स्वापकाले विलीयते तस्मादन्यो भूयो भूयो ब्रह्मणोऽहरागमे भूत्वा पुना रात्र्यागमे परवशो विनश्यति तदेवं प्रत्यवान्तरकल्पं भूतग्रामविभागो भवेदित्याशङ्यानन्तरश्लोकतात्पर्यमाह अकृतेति । प्रतिकल्पं प्राणिनिकायस्य भिन्नत्व सत्यकृताभ्यागमादिदोषप्रसङ्गासत्परिहारार्थ भूतग्रामस्य प्रतिकल्पमैक्यमास्थयमित्यर्थः । यदि स्थावरजङ्गमलक्षणप्राणिनिकायस्य प्रतिकल्पमन्यथात्वं तदेकस्य बन्धमोक्षान्वयिनोऽभावात् का- ण्डद्वयात्मनो बन्धमोक्षार्थस्य शास्त्रस्य प्रवृत्तिरफला प्रसज्येतातस्तत्साफल्यार्थमपि प्रतिकल्पं प्राणि- वर्गस्य नवीनत्वानुपपत्तिरित्याह बन्धेति । कथं पुनर्भूतसमुदायोऽस्वतन्त्रः सन्नवशो भूत्वा प्रविलीयते तत्राह अविद्यादीति । आदिशब्देनास्मितारागद्वेषाभिनिवेशा गृह्यन्ते । यथोक्तं क्लेशपञ्चकं मूलं प्रति प्रतिलभ्य कल्पं प्रतिलभ्य धर्माधर्मात्मककर्मराशिरुद्भवति तद्वशादेवास्वतन्त्रो भूतसमुदायो जन्म- विनाशावनुभवतीत्यर्थः । प्राणिनिकायस्य जन्मनाशाभ्यासोक्तेरथसिद्धमर्थमाह इत्यत इति । संसारे विपरिवर्तमानानां प्राणिनामस्वातन्त्र्यादवशानामेव जन्ममरणप्रबन्धसंबन्धादलमनेन संसारेणेति वैतृष्ण्यं तस्मिन् प्रदर्शनीयं तदर्थ चेदं भूतानामहोरात्रमावृत्तिवचनामत्यर्थः, समनन्तरवाक्यमिदमा पराम- श्यते । रात्र्यागमे लयमनुभवतोऽहरागमे च प्रभवं प्रतिपद्यमानस्य प्राणिवर्गस्य तुल्यं पारवश्यमि- त्याशयवानाह अह्न इति ॥ १९ ॥ प० टी० । एवं ये जीवास्तावद्राच्यागमेऽव्यक्ते स्वकारणे लीना भवन्ति त एव पुनर्दिवसा- रम्भे देहधारिणो भवन्तीत्याह भूतग्राम इति । यो भूतग्रामो रात्र्यागमे स्वकारणेऽव्यक्ते लीयमानो ऽभूत् स एवायं दिनादौ भूत्वा भूत्वा भूयः प्रादुर्भावं प्राप्य पुना रात्र्यागमे प्रलीयतेऽवशः कर्म- परतन्त्रः सन् । पुनरहरागमे प्रभवति देहधारित्वमवलम्बते । तदुक्तमकुलागमे ‘बाहमुखं पश्यति १ चेदमुच्यते तदाह-पा० लि. ।

२६४ श्रीमद्भगवद्गीतायाः दृश्यजातमन्तर्मुखं पश्यति चित्स्वरूपम् । मध्ये तयोः स्वप्नमया हि सृष्टिरनादिरेवं मनसः स्वभावः' इति ॥ १ ॥ टिप्पणिकासु । अनिर्मिताः केन चिदीश्वरेण स्वामाः पदार्थाः प्रभवन्त्यकस्मात् । तस्मिन् क्षणे तज्जनितो जनस्य सत्यानुभूत्या सुखदुःखभोगः । अनिर्मितः पूर्ववदाविरास्ते तद्वत्प्रपञ्चः स च जागरादौ । आसीत्पुरा चास्तमितः सुषुप्तावनादिसंस्कारवशं हि चेतः' इति ॥ १९ ॥ परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः॥ यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ यदुपन्यस्तमक्षरं तस्य प्राप्त्युपायो निर्दिष्ट ओमित्येकाक्षरं ब्रह्मेत्या- दिनाथेदानीमक्षरस्यैव स्वरूपनिर्दिदिक्षयेदमुच्यते पर इति । अनेन योगमार्गे- णेदं गन्तव्यमिति परस्तस्मादिति परो व्यतिरिक्तोऽभिन्नः कुतस्तस्मात् पूर्वो- क्तादव्यक्तात्, तुशब्दोऽव्यक्ताक्षरस्य विवक्षितस्य व्यक्ताईलक्षण्यविशेषणार्थः, भावोऽक्षराख्यं परं ब्रह्म । व्यतिरिक्तले सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तहि- निवृत्त्यर्थमाह अन्य इति । अन्यो विलक्षणः स चाव्यक्तोऽनिन्द्रियगोचरः परस्त- स्मादित्युक्तं, कस्मात् पुनः परः पूर्वोक्ताद् भूतग्रामवीजभूतादविद्यालक्षणाद- व्यक्तादन्यो विलक्षणो भाव इत्यभिप्रायः । सनातनश्चिरंतनो यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥ २० ॥ आ० टी० । अक्षरं ब्रह्म परममित्युपक्रम्य तदनुपयुक्तं किमिदमन्यदुक्तमित्याशङ्कय वृत्त- मन्द्यानन्तरग्रन्थसंगतिमाह यदुपन्यस्तमिति । अक्षरस्वरूपे निर्दिदिक्षिते तस्मिन् पूर्वोक्तयोगमार्ग- स्य कथमुपयोगः स्यादित्याशङ्कय तत्प्राप्त्युपायत्वेनेत्याह अनेनेति । गन्तव्यमिति योगमार्गोक्ति- रुपयुक्तात शेषः, पूर्वोक्तादव्यक्तादिति संबन्धः । परशब्दस्य व्यतिरिक्तविपयत्वे तुशब्देन वैलक्षण्य- मुक्त्वा पुनरन्यशब्दप्रयोगात् पौनरुक्त्यमित्याशङ्कयाह व्यतिरिक्तत्व इति । तुना द्योतितं वैलक्षण्य- मन्यशब्देन प्रकटितं यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यमालक्ष्यते ततश्चाव्यक्ताद्भिन्नत्वेऽपि ब्रह्मणस्तेन सादृश्यमाशङ्कते तन्निवृत्त्यर्थमन्यपदमित्यर्थः, यहा परशब्दस्य प्रकृष्टवाचिनो भावविशे- षणार्थत्वे पुनरुक्तिशर्केव नास्तीति द्रष्टव्यम् । अनादिभावस्याक्षरस्याविनाशित्वमर्थसिद्धं समर्थयते यः स भाव इति । सर्व हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति स तु विनाशहेत्वभावान्न विनष्टु- महतीत्यर्थः ॥ २० ॥ प० टी० । अथ सर्वकारणीभूतस्य परमेश्वरस्य सकलव्यवहारातीतस्य शाश्वतत्वमाह पर इति । तस्मात्कार्यकरणसंघातरूपादव्यक्तात्सकाशात्पर उत्कष्टस्तत्कारणीभूतस्तस्मादन्यस्तद्विलक्षण- चाव्यक्तश्चक्षुराद्यगोचरः सनातनोऽनादियों भावश्चालकः पदार्थोऽस्ति स सर्वेषु भूतेषु नश्यत्सु न विनश्यति “योऽवशिष्यते सोऽस्म्यहम्” इति स्मृतेः । तदुक्तमथर्ववल्लीषु । 'इन्द्रियेभ्यः परं मनो म- नसः सत्त्वमुत्तमम् । सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् । अव्यक्तात्परः पुरुषो व्यापको लिङ्ग एव च । यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति' इति । ऋक्शाखायामपि- 'अपश्यमस्य म- हतो महित्वममर्त्यस्य मासु विक्षु । नानाहनूविभृते संभरते असिन्वती वश्यती मूर्यत्त' इति । भाष्यम्-अस्य महतः सर्वोत्कृष्टस्य महित्वं व्यापकत्वम् अपश्यमद्राक्षम् । किंभूतस्य मासु म- रणधर्मिकासु विक्षु प्रजास्वमर्त्यस्य सनातनस्य येनेत्यध्याहारः । येन महित्वेन कृत्वा नानाहनूप्रा- ।

अष्टमाध्यायः। २६५ त- +। णिनामुत्तरावरे हनू शिप्रे विभृते भरणकृते दन्तैः संभरेते परिपूर्ण असिन्वती निद्वया ग्रास कलयन्स्यो वप्सती दन्तैचूर्णयन्त्यौ भूरि यथा भवति तथा अत्तो भक्षयन्त्यौ गिलन्त्यौ । अचेतननानाशरीरेषु य- द्रक्षणादि कर्म तदन्तर्गतेनैकेनैव पुरुषेणेत्यर्थः ॥ २० ॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥ यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥२१॥ अव्यक्त इति । योऽसावव्यक्तोऽक्षर इत्युक्तस्तमेवाक्षरसंज्ञकमव्यक्त भावमाहुः परमां प्रकृष्टां गतिं यं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय त- हासस्थानं परमं प्रकृष्टं मम विष्णोः परमं पदमित्यर्थः ॥ २१ ॥ आ० टी० । यथोक्तेऽव्यक्त भावे श्रुतिसंमतिमाह अव्यक्त इति । तस्य परमगतित्वं सा- धयति यं प्राप्यति । योऽसावव्यक्तो भावोऽत्र दर्शितः स “येनाक्षरं पुरुषं वेद सत्यम्" इत्यादि- श्रुतावक्षर इत्युक्तस्तं वाक्षरं भावं परमां गति "पुरुपान्न परं किं चित् सा काष्ठा सा परा गतिः' इत्याद्याः श्रुतयो वदन्तीत्याह योऽमाविति । परमपुरुषस्य परमगतित्वमुक्तं व्यनक्ति यं भावमिति । द्विप्णोः परमं पदम्' इति श्रुतिमत्र संवादयति तद्धामेति ॥ २१ ॥ प० टी। अथाविनाशित्वे प्रमाणं दर्शयति अव्यक्त इति । योऽयं पूर्वमव्यक्तः सना- तनो भाव उक्तः सोऽक्षर इत्युच्यते । न क्षरतीत्यक्षरस्तमक्षरं परमां गतिमाहुः । तं कम्, यं प्राप्य योगिनो न निवर्तन्ते तन्ममैवं परमं सर्वोत्कृष्टं धाम स्वरूपम् । माय ज्ञाते तज्ज्ञातमित्यर्थः ॥२१॥ पुरुपः स परः पार्थ अक्त्या लभ्यस्त्वनन्यया ॥ यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ तल्लब्धेरुपाय उच्यते पुरुष इति । पुरुपः पुरि शयनात् पूर्णत्वाहा स परः पार्थ परो निरतिशयो यस्मात् पुरुषान परं किंचित् स भक्त्या लभ्यस्तु ज्ञानलक्षणयानन्ययात्मविषयया यस्य पुरुपस्यान्तःस्थानि मध्यस्थानि कार्य- भूतानि कार्य हि कारणस्यान्तर्वति भवति येन पुरुपेण सर्वमिदं जगत्ततं व्याप्तमाकाशेनेव घटादि ॥ २२ ॥ आ० टी० । ननु व्यक्तादतिरिक्तस्य तद्विलक्षणस्य परमपुरुषस्य प्राप्तौ कश्चिदसाधारणो हेतुरेषितव्यो यस्मिन् प्रेक्षापूर्वकारी तत्प्रेक्षया प्रवृत्तो निर्वृणोति तत्राह तल्लब्धेरिति । परस्य पुरुषस्य सर्वकारणत्वं सर्वव्यापकत्वं च विशेषणद्वयमुदाहरति यस्येति । निरतिशयत्वं विशदयति यस्मा- दिति । तुशब्दोऽवधारणार्थः । भक्तिर्भजनम् । सेवाप्रदक्षिणप्राणायामादिलक्षणां तां व्यावर्तयति ज्ञानेति । उक्ताया भक्तेविषयतो वैशिष्टयमाह अनन्ययेति । कोऽसौ पुरुषो यद्विपया भक्तिस्तत्प्रा- प्तौ पर्याप्तेत्याशङ्कचोत्तरार्धं व्याचष्टे यस्येति । कथंभूतानां तदवस्थत्वं तत्राह कार्य हीति । “स प- र्यगाद् ” इति श्रुतिमाश्रित्याह येनेति ॥ २२ ॥ प० टी० । अथ तमेव विशिनष्टि पुरुष इति । स एव पर उत्कृष्टः पुरुषः महिमातो ज्यायांश्च पूरुषः” इति श्रुतेः । स चाहं पुरुषेऽनन्ययाव्यभिचारिण्या भक्त्या लभ्यः । एतावानस्य श्रीमद्भगवद्गीतायाः पुनः स क इत्याह । यस्यान्तर्यन्मध्ये सर्वाणि भतानि सन्ति तथा येन सर्वमिदं दृश्यजातं तादात्म्यभावेन ततं विस्तारितं जले तरङ्गा इवेत्यर्थः ॥ २२ ॥ यत्र काले वनारत्तिमात्तिं चैव योगिनः॥ प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ प्रकतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां त- ब्रह्मप्रतिपत्तय उत्तरो मार्गो वक्तव्य इति यत्र काल इत्यादि विवक्षितार्थसम- र्पणार्थमुच्यते। आरत्तिमार्गोपन्यास इतरमार्गस्तुत्यर्थः। यत्रेति । यत्र काले प्र- याता इति व्यवहितेन संबन्धः। यत्र यस्मिन् काले त्वनारत्तिमपुनर्जन्मात्ति तहिपरीतां चैव, योगिन इति कर्मिणश्वोच्यन्ते कर्मिणस्तु गुणतः 'कर्मयोगेन योगिनाम्' इति विशेषणात् तत्र विभज्यन्ते योगिनः, यत्र काले प्रयाता मृता योगिनोऽनारत्तिं यान्ति यत्र काले च प्रयाता मृता आत्ति यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ आ० टी० । ननु ज्ञानायत्ता परमपुरुषप्राप्तिरुक्ता न च ज्ञानं मार्गमपेक्ष्य फलाय कल्पते विदुषो गत्युत्क्रान्तिनिषेधश्रुतेस्तथाच मार्गोंक्तिरयुक्तत्याशङ्कय सगुणाशरणानां तदुपदेशोऽर्थवानि- त्यभिप्रेत्याह प्रकृतानामिति । वक्तव्य इति यत्र काल इत्याधुच्यत इति संबन्धः । स चेद्वक्तव्यस्त- हि किमित्यध्यात्मादिभावेन सविशेषं ब्रह्म ध्यायतां फलाप्तये मूर्धन्यनाडीसंबद्धे देवयाने पथ्यु- पास्यत्वाय वक्तव्ये कालो निर्दिश्यते तत्राह विवक्षितेति । सोऽर्थों मार्गस्तदुक्तिशेपत्वेन कालोक्ति- रित्यर्थः । पितृयानमागोपन्यासस्तार्ह किमिति क्रियते तत्राह आवृत्तिमिति । मार्गान्तरस्यावृत्तिफ- लत्वादस्य चानावृत्तिफलत्वात्तदपेक्षया महीयानयमिति स्तुतिर्विवक्षितेति भावः । योगिन इति ध्यायि- नां कर्मिणां च तन्त्रेणाभिधानमित्याह योगिन इति । कथं कर्मिषु योगिशब्दो वर्ततामित्याशङ्कया- नुष्ठानगुणयोगादित्याह कर्मिणस्त्विति । गुणतो योगिन इति संबन्धः । तत्रैव वाक्योपक्रमस्या- नुकूल्यमाह कर्मयोगेनेति । अवशिष्टान्यक्षराणि व्याचक्षाणो वाक्यार्थमाह यत्रेति। योगिनो ध्यायि- नोऽत्र विवक्षिताः, य आवृत्तावाधिकृता योगिनः कर्मिण इति विभागः । कालप्राधान्येन मार्गद्वयो- पन्यासमुपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानमवतारयति तं कालमिति ॥ २३ ॥ प० टी० । अथ 'यं प्राप्य न निवर्तन्ते' इति पूर्वमुक्तं तत्र मदुपासकानां योगिनां च पुनरा- वृत्त्यनावृत्युपलक्षकं तारतम्यभावेन मार्गद्वयमस्तीत्याह यत्रेति । भो भरतर्षभ योगिनो यत्र यस्मिन् काले प्रयातास्त्यक्तदेहाः सन्तोऽनावृत्तिमपुनर्जन्मावृत्तिं च पुनर्जन्म यान्ति प्रामुवन्ति तं कालं वक्ष्यामि ॥ २३ ॥ अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ॥ तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥ तं कालमाह अग्निज्योतिरिति । अग्निः कालाभिमानिनी देवता तथा ज्योतिर्देवतैव कालाभिमानिनी अथ वा अग्निज्योतिषी यथाश्रुते एव देवते अष्टमाध्यायः। २६७ भूयसां तु निर्देशो यत्र काले तं कालमित्याम्रवणवत्, यथाहर्देवताहरभिमानिनी शुक्लः शुक्लपक्षदेवता तथा षण्मासा उत्तरायणं तत्रापि देवतैव मार्गभूतेति स्थितोऽन्यत्र न्यायस्तत्र तस्मिन् मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासका ब्रह्मोपासनपरा जनाः क्रमेणेति वाक्यशेषो, न हि सयोमुक्ति- भाजां सम्यग्दर्शननिष्ठानां गतिरागतिर्वा क्वचिदस्ति “ न तस्य प्राणा उत्क्रा- मन्ति” इति श्रुतेः । ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्मभूता एव ते क्रमेण तु गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥ आ० टी० । यथोपक्रमं व्याख्याय यथाश्रुतं व्याख्याति अथ वेति । कथं तर्हि देवताना- मभिनेत्रीणां ग्रहणे कालप्राधान्येन निर्देशः श्लिप्यते तत्राह भूयसां त्विति । मार्गद्वयेऽपि कालाद्य- भिमानिन्यो देवताः कालशब्देनोच्यन्ते कालाभिमानिनीनां भूयस्त्वात् कालशब्देन सर्वासां देवता- नामुपलक्षणत्वं विवक्षित्वा कालकथनमित्यर्थः । यथाम्राणां भूयस्त्वाद्विद्यमानेष्वपि द्रुमान्तरेषु आम्ररेव वनं निर्दिश्यते तद्वदित्युदाहरणमाह आम्रति । ननु मार्गचिहानां भोगभूमीनां वा तत्तच्छब्दैरुपा- दानसंभवे किमिति देवताग्रहणमित्याशङ्कयातिवाहिकास्तल्लिङ्गादिति न्यायेनोत्तरमाह इति स्थित इति । तेषामग्न्यादीनां समीपमिति समीप्ये तत्रेति सप्तमी । ब्रह्म कार्योपाधिकं परं वा ब्रह्म परं- परया मुक्त्यांलम्बनमत एव क्रमेणेत्युक्तम् । निर्गुणमप्रपञ्चं ब्रह्मास्मीति विद्यावतो व्यवच्छिनत्ति ब्रह्मापा- सनेति । ननु ब्रह्मशब्दस्य मुख्यार्थत्वार्थ परब्रह्मविदामेवेयं गतिरुच्यते न बादर्यधिकरणविरोधा- दित्याह न हीति ॥ २४ ॥ प० टी० । तत्र प्रथमं स्वोपासकानामवसानेऽचिर्मार्गमाह अग्निरिति। तत्राचिर्मागोपलक्षकाः पञ्च सन्ति । तत्र संस्काराग्निदेवा दीप्तो धूमितश्च । एवमर्चिर्मार्गे दीप्तोऽग्निः । तत्र श्रुतिः-" अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठं ते नम उक्त विधेम” इति । भाष्यम्-तत्र मुमुक्षुर्यावज्जीवमग्निशुश्रूषया प्रसादितमग्निं स्वनिर्याणे प्रार्थयते । भो देव दीप्यमानाने अस्मान् सुपथाचिर्मार्गेण नय । किमर्थ, राये मुक्तिलक्षणाय धनाय । तथा भो विद्वन् ज्ञानवन् विश्वानि सर्वाणि वयुनानि ज्ञानानि देहीत्यध्याहारः । अथास्मिन्नर्थेऽस्म- ज्जुहुराणमस्मत्प्रतिबन्धकमेनः पातकं युयोधि नाशय । इतः परं ते तुभ्यं भूयिष्ठां मनोवाक्कायैः कृतामन्ते निर्याणे नमउक्तिं नमस्कारोक्तिं विधम । यथाक्रमणसमये ज्योतिः प्रकाशकं रूपम् । श्रुतिरपि-"तस्य हैतस्य हृदयस्याग्रं प्रपद्योतत्तेन प्रपद्योतेनैप आत्मा निष्कामति चक्षुष्टो वा भूर्भो वा" इति । स्पष्टार्थम् । तथाहरादीनां त्रयाणामर्चिा!पलक्षणानां कालोपाधीनामहःशुक्लपक्षोत्तरा- यणानामभिमानिन्यो देवताः सन्ति ता एवोत्तरोत्तरमचिर्मार्गप्रापका भवन्ति तत्राचिर्मार्ग प्रयाता ब्रह्मविदो जीवास्त्यक्तदेहाः सन्तो ब्रह्म गच्छन्ति । अत्र शातपथी श्रुतिः-" ये चामी अरण्ये श्राद्ध सत्यमुपासते तेऽचिरभिसंभवन्त्यषिोहरहापूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् पष्मासानुदढादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषामिह न पुनरावृत्तिरस्ति" इति। भाष्यम्-अ- रण्ये वानप्रस्थदशां प्राप्ताः श्रद्धागुरुशास्त्रविश्वासाः सत्यं ब्रह्मोपासते तेऽनिर्मार्गेऽधिकारणो भ- वन्ति । तमेव मार्गमाह । अचिस्तेजोऽहर्दिनमापूर्यमाणपक्षः शुक्लपक्ष: मकरसंक्रमादितः षण्मा- १ अतिवाहिकास्तलिङ्गात्-अ० ४ । पा० ३। सू० ४ । शाङ्कर ब्रह्म प्रष्टव्यम् ।

श्रीमद्भगवद्गीतायाः सान् आदित्यः सूर्य उदगति तदुत्तरायणं तेभ्यो मासेभ्यो देवलोकं तस्मादादित्यलोकं तस्मादपि वैद्युतं विद्युल्लोकं तस्मादपि मानसः पुरुषो लिङ्गदेहावृतो जीवो ब्रह्मलोकान् सत्यलोकान् गमयति प्राप्नोति । ते तेषु ब्रह्मलोकेषु परा उत्कृष्टास्तत्त्वज्ञानवन्तः परावतो दूरदेशादागता ये वसन्ति ते- पामिह संसारे न पुनरावृत्तिरस्ति । ब्रह्मलोकप्राप्तावप्युत्पन्नतत्त्वज्ञानिन एव न परावर्तन्त इत्यर्थः । इदं देवयानम् ॥ २४ ॥ धूमो रात्रिस्तथा कृष्णः पण्मासा दक्षिणायनम् ॥ तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते ॥२५॥ धूम इति । धूमो रात्रि—माभिमानिनी च देवता तथा कृष्णः कृष्णप- क्षदेवता षण्मासा दक्षिणायनमिति च पूर्ववद्देवतैव तत्र चन्द्रमसि भवं चान्द्र- मसं ज्योतिस्तत्फलमिष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयादिह नि- वर्तते पुनः ॥ २५॥ आ० टी० । प्रकृतं देवयानं पन्थानं स्तोतुं पितृयानमुपन्यस्यति धूम इति । अत्रापि मा- गचिहानि भोगभूमि च व्यवच्छिद्यातिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते धृमेत्यादिना । तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, इष्टादीत्यादिशब्दन पूर्तदत्ते गृह्यते । कृतात्ययऽनुशयवानिति न्यायं सूचयति ततक्षयादिति । आरोहावरोहयोरभ्यासवाचिना पनःशब्देन संसारस्यानादित्वं सूच्यते ॥ २५ ॥ प० टी० । अथ पितृयानमाह धूम इति । पूर्वोक्तमार्गाद्विपरीते धूममार्गे रात्रिकृष्ण- पक्षदक्षिणायनाभिमानिदेवताभिः पितृलोकं प्राप्यते ततस्तत्रारोहणमार्गेण योगी चान्द्रमसं ज्योतिः प्राप्य पुनरवरोहणमार्गेण निवर्तते पुनरावर्तते । श्रुतिरपि-“अथ य यज्ञेन दानेन तपसा लोकं यजन्ति ते धूममभिमभवन्ति धूमाद्रात्रि रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान् पण्मासान् दक्षिणादित्य- एति मासेभ्यः पितृलोकं पितृलांकाचन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तास्तत्र देवा यथा सोमं राना- नमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवेत्यथेममेवाकाशमभिनिप्पद्यन्त आका- शाद्वायुं वायोवृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्याग्नं भवन्ति त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदि दन्दशकम् । भाप्यम-तत्र चन्द्रमिति । चन्द्रं प्राप्यान्नं भवन्ति देवानामन्नत्वेन परिणमन्ति । यथा देवाः सोमं राजानमाप्यायस्वापक्षीयस्वति मन्त्रेण भक्षयन्ति तथैनानपि भक्षयन्ति तत- स्तेषां भासतानां यदा तत्पर्यवेत्यवराहणमार्गेण निष्क्रमणं भवति अथ तदाकाशमभिनिष्पद्यन्ते अन्त- रिक्षलोके प्रादुर्भवन्त्याकाशाद्वायुं वायोवृष्टिं वृष्टेः पृथिवीं तत्रान्नमोपधीत्वं प्राप्य ते एवममुना प्रकारे णानुवर्तन्ते कीटादियोनि प्राप्नुवन्ति ततोऽप्यधमाधमयोनि गच्छन्ति । तैत्तिरीयकेऽपि-"प्रजानन्तः प्रति गृह्णन्ति पूर्व प्राणमङ्गेभ्यः परियाचरन्तम् । सुवर्ग याहि पथिभिर्देवयानरोपधीषु प्रतितिष्ठ शरीरैः” इति भाप्यम्-पूर्व योगिनः प्रजानन्तस्तत्त्वज्ञानवन्तोऽङ्गेभ्यःशरीरेभ्यः पर्याचरन्तमुद्गच्छन्तं प्राणं प्रतिगृह्णन्ति स्वाधीनं कुर्वन्ति स्वेच्छया देहं त्यजन्ति । भो चेतस्त्वं तु देवयानः पथिभिरचिरादिमागैः सुवर्ग स्वर्ग सत्य- लोकं याहि, अथ वा तत्कर्तुमशक्तचेत्तर्हि कर्मणा पितृलोकेप्सुः पितृयानेन कृत्वा पुनः शरीरैरवरो- हणमार्गप्राप्तरोषधीषु प्रतितिष्ठ अन्नत्वेनपरिणतो भव परं तुभयमार्गपरिभ्रष्टो मा भवेत्यर्थः । ऋ- कुशाग्वायामपि "ढे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेनत्समेति यद- न्तरा पितरं मातरं च" इति । भाप्यम्-पितॄणां देवानामुतापि मनुष्याणां वे मृती द्वौ मार्गी देवयानपितृ- अष्टमाध्यायः। २६९ V ॥ यानाख्यावहमशृणवमश्रौषम् यद्विश्वं पितरं पालकत्वेन पितृभूतां द्यां तथा धारकत्वेन मातृभूतां पाथवीमन्तराद्यावापृथिव्योर्मध्ये भवति तदिदं विश्वभग्निना संस्कृतं सदेतदेव लोकं पितृलोकं च गच्छंस्ताभ्यां मार्गाभ्यां समेति गच्छति ॥ २५ ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ॥ एकया यात्यनारत्तिमन्ययावर्तते पुनः ॥ २६ ॥ शुक्लेति । शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे ज्ञानप्रकाशकत्वात् शुक्ला तदभावात् कृष्णा, एते शुक्लकृष्णे हि गती जगत इत्यधिकृतानां ज्ञान- कर्मणोन जगतः सर्वस्यैवैते गती संभवतः शाश्वते नित्ये संसारस्य नित्यत्वा- नित्ये मते अभिप्रेते तत्रैकया शुक्लया यात्यनात्तिमात्तिमन्ययेतरयावर्तते पुन- भूयः ॥ २६ ॥ आ० टी० । राठ्यादौ मृतानां ब्रह्मविदामब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थमभिमानिदेवताग्रहणाय मार्गयोनित्यत्वमाह शुक्लेति । ज्ञानप्रकाशकत्वाद्विद्याप्राप्यत्वादर्चिरादिप्रकाशोपलक्षितत्वाच्च शुक्ला देवयानाख्या गतिस्तदभावान ज्ञानप्रकाशकत्वाभावामाद्यप्रकाशोपलक्षितत्वादविद्याप्राप्यत्वाच्च कृ- प्णा पितृयानलक्षणा गतिस्तयोर्गत्योः श्रुतिस्मृतिप्रसिद्धचर्चा हिशब्दः । जगच्छब्दस्य ज्ञानकर्मा- धिकृतविषयत्वेन संकोचे हेतुमाह न जगत इति । अन्यथा ज्ञानकर्मोपदेशानर्थक्यादित्यर्थः । तयो- नित्यत्व हेतुमाह संमारस्यति । मार्गयोर्यावत् संसारभावित्वे फलितमाह तत्रेति । क्रममुक्तिरना- वृत्तिः, भूयो भोक्तव्यकर्मक्षये शेपकर्मवशादित्यर्थः ॥ २६ ॥ प० टी० । तदेवं निवृत्तिकर्मोपासनया क्रममुक्ति तथा काम्यकर्मभिः स्वर्गभोगानन्तरमावृत्ति- मुक्त्वेदानीमुपसंहग्न्नस्पष्टमाचष्टे शुक्लकृष्णे इति । शुक्लार्चिरादिगतिः प्रकाशरूपिणी कृष्णा धूमादिगतिस्तमोरूपिणी एते गती मार्गी ज्ञानकर्माधिकारिणो जगतः शाश्वत अनादी संमत संसारस्यानादित्वात् । तयोरेकया शुक्यानावृत्ति मोक्षं गच्छति । अन्यया कृप्णया तु पुन- रावर्तते ॥ २६ ॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ॥ तस्मात् सर्वेपु कालेषु योगयुक्तो भवार्जुन ॥२७॥ नैते इति । नैते यथोक्ते सृनी मार्गों पार्थ जानन् संसारायैकान्या मोक्षाय चेति योगी न मुह्यति न कश्चन कश्चिदपि तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भवार्जुन ॥ २७ ॥ आ० टी० । गतेरुपास्यत्वाय तद्विज्ञानं स्तौति नैते इति । योगस्य मोहापोहकत्वे फलि- तमाह तस्मादिति । ज्ञानप्रकारमनुवदति संसारायेति । मोक्षाय क्रममुक्त्यर्थमित्यर्थः । योगी ध्याननिष्ठो गतिमपि ध्यायन्नव मुह्यति केवलं कर्म दक्षिणमार्गप्रापकं कर्तव्यत्वेन न प्रत्येतीत्यर्थः । योगस्यापुनरावृत्तिफलत्वे नित्यकर्तव्यत्वं सिद्धमित्युपसंहरति तस्मादिति ॥ २७ ॥ प० टी० । अथ मार्गज्ञानफलमाह नते इति । भो पार्थ योगी सन्नेते सृती मार्गौ जानन् श्रीमद्भगवद्गीतायाः काश्चदपि न मुह्यति सुखबुद्धया स्वर्गादिसुखं न कामयते । किं त्वात्मनिष्ठ एव भवति । तस्मात्स- वेषु कालेषु भोजनादिसमयेष्वपि योगयुक्तो जीवब्रह्मणोरक्ये परिणिष्ठितो भव ॥ २७ ॥ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ॥ अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥२८॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन. संवादे तारकब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८ ॥ शृणु योगस्य माहात्म्यं वेदेष्विति । वेदेषु सम्यगधीतेषु यज्ञेषु च सा- गुण्येनानुष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु यदेतेषु पुण्यफलं प्रदिष्टं शास्त्रेणात्येत्यतीत्य गच्छति तत् सर्वं फलजातमिदं विदित्वा सप्तप्र- निर्णयहारेणोक्तं सम्यगवधार्यानुष्ठायेह योगी परमुत्कृष्टमैश्वरं स्थानमुपैति प्र- तिपद्यते, आयमादौ भवं कारणं ब्रह्मेत्यर्थः ॥ २८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यपूज्यपादश्रीशंकरभगवतः कृती श्रीभगवद्गीताभाष्ये ब्रह्माक्षरनिर्देशो नामाष्टमोऽध्यायः ॥ ८ ॥ आ० टी० । श्रद्धाविवृद्धयर्थ योगं स्तौति शृण्विति । पवित्रपाणित्वप्राङ्मुग्वत्वादिसाहित्यम- ध्ययनस्य सम्यक्त्वमङ्गोपाङ्गोपेतत्वमनुष्ठानस्य सागुण्यं तपसां शास्त्रोक्तानां मुतप्तत्वं मनोबुद्धयाद्यै- काग्यपूर्वकत्वं दानस्य च सम्यक्त्वं देशकालपात्रानुगुणत्वमिदं विदित्वेत्यत्रदंशब्दार्थमेव स्फुटयति सप्तेति । यद्यपि 'किं तद् ब्रह्म' इत्यादौ अधियज्ञः कथं कोऽत्र' इत्यत्र प्रश्नद्वयं प्रतिभासानुसारेण कै- श्चिदुक्तं तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियत- त्वान्न सप्तेति विरुध्यते । न चेदं वेदनं मायान्तकं किंत्वनुष्ठानपर्यन्तमित्याह सम्यगिति । प्रकृतो ध्याननिष्ठो योगीत्युच्यते।ऐश्वरं विष्णोः परमं पदं तदेव तिष्ठत्यस्मिन्नशेषमिति स्थानं योगानुष्ठानादशे- षफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यामिति भावः । तदनेन सप्तप्रश्नप्रतिवचनेन यो- गमार्ग दर्शयता ध्येयत्वेन तत्पदार्थों व्याख्यातः ॥ २८ ॥ इसानन्दगिरिकृतगीताटीकायामष्टमोऽध्यायः ॥ ८ ॥ प० टी० । अथ सर्वोपायापेक्षया ज्ञानयोगिन एवोत्तमपदप्राप्तिर्नान्यस्येत्याह वेदष्विति । वेदेष्वध्ययनादिभिर्यागेषु ज्योतिष्टोमादिषु तपस्सु रुचान्द्रायणादिषु दानेषु तुलाभारादिषु यडूममार्गप्रापकं पुण्यफलं प्रदिष्टं तद्योगी विदित्वा ज्ञानी भूत्वा सर्वमप्यतिक्रम्याद्यं परमुत्कृष्टं स्थानं प्रागुक्तं विष्णोः पदं प्राप्नोति ॥ २८ ॥ अथाध्यायतात्पर्यम्-गृहत्यात्मप्रकाशानिनविषयमतोऽध्यात्ममत्रेन्द्रियं स्यात्सूर्याद्यं तत्प्रवृत्ति नवमाध्यायः । प्रजनयति ततश्चाधिदैवतदुक्तम् । रूपाद्यं चाधिभूतं यदनुगतमनुध्येयमात्मस्वरूपं तेनान्ते तस्य तिष्ठाम्यहमभिमुखमित्यष्टमे स्पष्टमाह ॥ ८ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां सप्तप्रश्नार्थनिर्णयो नामाष्टमोऽध्यायः ॥ ८ ॥ इसष्टमाध्यायः ॥ ८॥ अथ नवमाध्यायः। श्रीभगवानुवाच । इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ॥ ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥ अष्टमे नाडीदारेण धारणायोगः सगुण उक्तस्तस्य च फलमग्यचिरा- दिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेवानात्तिरूपं निर्दिष्टं तत्रानेनैव प्र- कारण मोक्षप्राप्तिफलमधिगम्यते नान्यथेति तदाशङ्काव्याविवृत्सयो भगवानु- वाच इदमिति । इदं ब्रह्मज्ञानं वक्ष्यमाणमुक्तं च पूर्वेष्वध्यायेषु तद्रुद्धौ सं- निधीकत्येद मित्याह, तुशब्दो विशेषनिर्धारणार्थः, इदमेव तु सम्यग्ज्ञानं साक्षा- म्मोक्षप्राप्तिसाधनं 'वासुदेवः सर्वमिति' “आत्मैवेदं सर्वम्” “एकमेवाहिती- यम्” इत्यादिश्रुतिस्मृतिभ्यो “ नान्यदथ येऽन्यथातो विदुरन्यराजानस्तेऽक्षय्य- लोका भवन्ति” इत्यादिश्रुतिभ्यश्च ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्यनसूयवेऽसूयारहिताय । किं तज्ज्ञानं किंविशिष्टं विज्ञानसहित- मनुभवयुक्तं यज्ज्ञानं ज्ञात्वा प्राप्य मोक्ष्यसेऽशुभात् संसारबन्धनात् ॥ १ ॥ आ० टी० । अतीतेनागामिनोऽध्यायस्यागतार्थत्वं वक्तुं वृत्तमनुवदति अष्टम इति । नाडी सुषुम्नाख्या धारणाख्येनाङ्गेन युक्तो योगः सगुणः सर्वद्वारसंयमनादिगुणस्तेन सहित इत्यर्थः । तत्फलोत्यर्थमनन्तराध्यायारम्भमाशङ्कयाह नस्य चेति । अग्निरचिरित्यादिनोपलक्षितेन क्रमवता देवयानेन यथेति यावत् । ज्ञानानन्तरमेव यथोक्तफललाभादलमनेन मार्गेणेत्याशङ्कयाह काला- न्तर इति । अचिरादिमार्गेण ब्रह्मप्राप्तौ मक्तेमार्गायत्तत्वात् “नतस्य” इत्यादिश्रुतिविरोधः स्यादित्या- शयेन शङ्कते तत्रेति । वृत्तोऽर्थः सप्तम्यर्थः । उक्ताशङ्कानिवृत्त्यर्थमनन्तराध्यायमुत्थापयति तदाश- केति । संप्रयुक्तत्वेनापरोक्षत्वाभावेऽपि पूर्वोत्तरग्रन्थालोचनया बुद्धिसंनिधानादिशब्देन ब्रह्मज्ञानं गृही- तमित्याह तबुद्धाविति । प्रकृताज्ञानाज्ज्ञानस्य वैशिष्ट्यावद्योती तुशब्द इत्याह तुशब्द इति । निपातार्थमेव स्फुटयति इदमेवेति । तस्मिन्नर्थे संवादकत्वेन श्रुतिस्मृती दर्शयति वासुदेव इति । अद्वैतज्ञानवद् द्वैतज्ञानमपि कंपांचिन्मोक्षहेतुरित्याशङ्कयाह नान्यदिति । द्वैतज्ञानं मोक्षाय न क्षम- १ व्यावृत्तीच्छमा-पा० । ल७ प. २ प्राध्य. लि. पु. नास्ति ।

२७२ श्रीमद्भगवद्गीतायाः मित्यत्र श्रुतिमुदाहरति अथेति । अविद्याप्रकरणोपक्रमार्थोऽथशब्दः, अतो द्वैतादन्यथा भिन्नत्वे. नेत्यर्थः । विदुस्तत्त्वमिति शेषः। द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्य- त्वान्न क्षेमप्राप्तिहेतुरिति चकारार्थः । असूया गुणेषु दोषाविष्करणं तद्रहिताय ज्ञानाधिकृतायेत्यर्थः । ज्ञानं ब्रह्म चैतन्यं तद्विषयं वा प्रमाणज्ञानं तस्य तेनैव विशेपितत्वानुपपत्तिमाशङ्कय व्याकरोति अनुभवेति । विज्ञानमनुभवः साक्षात्कारस्तेन सहितमित्यर्थः । उक्तज्ञानं प्राप्तस्य किं स्यादित्या- शङ्कयाह यज्ज्ञानमिति ॥ १ ॥ प० टी० । एवं पूर्वाध्याये ‘भूतग्रामः स एवायम्' इत्यादिवाक्यैदृश्यप्रपञ्चजातस्य नश्वरत्वगार्भितं मिथ्यात्वं दर्शयित्वेदानीं तदेवोपपत्त्या दृढीकर्तुं तथा योगवैभवतः स्वस्य सत्यत्वं दर्शयितुं नवमाध्या- यप्रवृत्तिः । तत्र प्रथमं वक्ष्यमाणप्रमेयस्यातिरहस्यत्वेन दुर्लभत्वमाह इदमित्यादित्रिभिः । कृपया वक्तुं प्रवृत्ते मय्यनसूयवे देहधारित्वादिदोपदृष्टिरहिताय ते तुभ्यं विज्ञानसहितं ज्ञानं वक्ष्यामि ज्ञानं शास्त्राचार्योपदिष्टं विज्ञानमनुभवरूपम् । यदिदं गुह्यतममप्रकाश्यप्रमेयं स्वधर्माचरणादि ततोऽपि देहादिव्यतिरिक्तात्मस्वरूपं गुह्यतरं ततोऽपि परमात्मनः साक्षाद्दर्शनं गुह्यतमम् । तदेवाह यदिति । यज्ञात्वाशुभाडुःखप्रदात्प्रपश्चान्मोक्ष्यसे परमात्मप्रतीतौ प्रपश्चातीतो भविष्यसि ॥ १ ॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ॥ प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुमव्ययम् ॥२॥ तच्च स्तौति राजविद्येति । राजविद्या विद्यानां राजा दीप्त्यतिशयत्वाद् दीप्यते हीयमतिशयेन ब्रह्मविद्या सर्वविद्यानां राजगुह्यं तथा गुह्यानां राजा प- वित्रं पावनमिदमुत्तमं सर्वेषां पावनानां शुद्धिकारणानामिदं ब्रह्मविज्ञानमुत्कृष्ट- तममनेकजन्मसहस्रसंचितमपि धर्माधर्मादि समूलं कर्म क्षणमात्राइस्मीक- रोति यतोऽतः किं तस्य पावनत्वं वक्तव्यम् । किं च प्रत्यक्षावगमं प्रत्यक्षण सुरखादेरिवावगमो यस्य तत् प्रत्यक्षावगममनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टं श्येनयाग इव न तथात्मज्ञानं धर्मविरोधि किंतु धर्म्य धर्मादनपेतमेवमपि स्याद् दुःसंपाद्यमित्यत आह सुसुरखं कर्तुं यथा रत्नविवेकविज्ञानं तत्राल्पाया- सानां कर्मणां सुखसंपाद्यानामल्पफलत्वं दृष्टं दुष्कराणां च महाफलत्वं दृष्ट- मितीदं तु सुरवसंपाद्यत्वात् फलक्षयाद् व्यतीति प्राप्तौ तत्राहाव्ययं नास्य फलतः कर्मवद् व्ययोऽस्तीत्यव्ययमतः श्रद्धेयमात्मज्ञानम् ॥ २ ॥ आ० टी० । तदाभिमुख्यसिद्धये तज़ज्ञानं स्तौति तच्चेति । ब्रह्मविद्या विद्यानां राजा श्रेष्ठेत्यत्र हेतुमाह दीप्तीति । कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वं तदाह दीप्यते हीति । दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदामिति भावः । उत्कृष्टतमं शुद्धि- कारणं ब्रह्मज्ञानमित्येतदुपपादयति अनकेति । तत्र श्रुतिस्मृती प्रमाणयितव्ये न शास्त्रैकगम्यमिदं ज्ञानं किंतु प्रत्यक्षप्रमेयमित्याह किंचेति । प्रत्यक्षमवगम्यमानमस्मिन्निति तथा, यद्वावगम्यत इत्य- वगमः फलं प्रत्यक्षोऽवगमोऽस्यति दृष्टफलत्वं ज्ञानस्योच्यते । धम्यमित्येतद्वयाकरोति अनपेत- मिति । धर्मस्येव तस्य क्लेशसाध्यत्वमाशङ्कयाह एवमपीति । तत्र विषयं विवेकज्ञानं संप्रयोगादुप- नवमाध्यायः । २७३ देशापेक्षादनायासेन दृष्टं तथेदं ब्रह्मज्ञानमित्याह यथेति । अव्ययमितिविशेषणमाशङ्कापूर्वकं विवृ- णोति तत्रेत्यादिना । व्यवहार भूमिः सप्तम्यर्थः । ज्ञानस्याक्षयफलत्वे फलितमाह अत इति ॥ २ ॥ प० टी० । अथ प्रतिपाद्यप्रमेयस्यापि दुर्लमत्वं तारकत्वं चाह राजविद्येति । विद्यानाम- ध्यात्मविद्यानां राजा तथा गुह्यानां गुह्यार्थानां राजातिश्रेष्ठमित्यर्थः । पवित्रं शोधकम् उत्तममुत्कृ- टतमम् आत्मप्राप्तावन्तरङ्गकारणम् प्रत्यक्षावगमम् प्रत्यक्षेण प्रतीत्यावगमयितुं योग्यम् धर्म्य धर्मादनपेतं सर्वधर्मफलत्वात् कर्तुमनुष्ठातुं सुसुखं सुखेन शक्यम् न तु कायद्रव्यक्लेशजनकम् अव्ययमक्षयफलत्वात् ॥ २ ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ॥ अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥३॥ अश्रद्दधाना इति । ये पुनरश्रद्दधानाः श्रद्धाविरहिता आत्मज्ञानस्य धर्मस्या- स्य स्वरूपे तत्फले च नास्तिकाः पापकारिणोऽसुराणामुपनिषदं देहमात्रात्मदर्श- नमेव प्रतिपना असुतृपः पापाः पुरुषाः परंतपाप्राप्य मां परमेश्वरं म- त्प्राप्तौ नैवाशति मत्प्राप्तिमार्गसाधनभेदभक्तिमात्रमप्यप्राप्येत्यर्थः । निवर्तन्ते निश्चयेनावर्तन्ते क मृत्युसंसारवमनि मृत्युयुक्तः संसारो मृत्युसंसारस्तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गस्तस्मिन्नेव वर्तन्त इत्यर्थः ॥ ३ ॥ आ० टी० । आत्मज्ञानाख्ये धर्मे श्रद्धावतां तन्निष्ठानां परमपदप्राप्तिमुक्त्वा ततो विमुखानां संसारप्राप्तिमाह ये पुनरिति । आत्मज्ञानतत्फलयो स्तिकानेव विशिनष्टि पापेति । उक्तानामात्म- भरीणां भगवत्प्राप्तिसंभावनाभावादप्राप्य मामित्यप्रसक्तप्रतिषेधः स्यादित्याशङ्कयाह मत्प्राप्ता- विति ॥ ३ ॥ प०टी० । एवं चेत्तर्हि सर्वेऽपि मुक्ता भवेयुरित्याह अश्रद्दधाना इति । अस्य धर्मस्येति कर्म- णि षष्ठीद्वयम् । इमं धर्ममश्रद्दधाना आस्तिक्यादननुटातारः पुरुषा मामप्राप्य मृत्युसंसारवर्त्मनि निवर्तन्त भयः संसरन्ति ॥ ३ ॥ मया ततमिदं सर्व जगदव्यक्तमूर्तिना ॥ मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥४॥ इति ज्ञानस्तुत्यार्जुनमभिमुखीकृत्याह मयेति । मया मम यः परो भावस्तेन ततं व्याप्तं सर्वमिदं जगदव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिस्तेन मयाव्यक्तमूर्तिना करणागोचरस्वरूपेणेत्यर्थः । त- स्मिन्मय्यव्यक्तमतौं स्थितानि मत्स्थानि सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि न हि निरात्मकं किंचिद्भूतं व्यवहारायावकल्पतेऽतो मत्स्थानि मयात्मना- त्मवत्त्वेन स्थितान्यतो मयि स्थितानीत्युच्यते, तेषां भूतानामहमेवात्मेत्यतस्तेषु २७४ श्रीमद्भगवद्गीता- स्थित इति मूढबुद्धीनामवभासतेऽतो ब्रवीमि न चाहं तेषु भूतेष्ववस्थितो मू- तवत् संश्लेषाभावेनाकाशस्याप्यन्तस्तमो ह्यहम् ॥ ४ ॥ भा० टी० । स्तुतिनिन्दाम्यां ज्ञाननिष्ठां महीकृत्य ज्ञानं व्याख्यातुमारभते स्तुसेति । सो- पाधिकस्य व्याप्त्यसंभवमभिप्रेत्य विशिनष्टि ममेति । अनवच्छिन्नस्य भगवद्रूपस्य निरुपाधिकत्वमेव साधयति करणेति । व्याप्यव्यापकत्वेन जगतो भगवतश्च परिच्छेदमाशङ्कयाह तस्मिमिति । त- थापि भगवतो भूतानां चाधाराधेयत्वेन भेदः स्यादित्याशङ्कयाह न हीति । निरात्मकस्य व्यवहारा- नहत्वे फलितमाह अत इति । ईश्वरस्य भूतात्मत्वे तेषु स्थितिः स्यादित्याशङ्कयाह तेषामिति । तस्य तेषु स्थित्यभावं व्यवस्थापयति मूर्तवदिति ॥ ४ ॥ प० टी० । तदेवं वक्तव्यतया प्रस्तुतस्य राजविद्याराजगुह्याख्यधर्मस्य स्तुत्या स्तोतारमभिमुखी- कृत्य तदेव ज्ञानं कथयति मयोत द्वाभ्याम् । इदमिदंत्वेन भासमानं पुनर्जगद्गत्वरं सर्व नामरूपकात्मकं दृश्यजातं मयाधिकरणरूपेण कृत्वा ततं विस्तारं प्राप्तं । किंभूतेन मयाव्यक्तमूर्तिना न व्यक्ता ज्ञाता मूर्तिः स्वरूपं यस्यैवंविधेनाज्ञातेन मया निमित्तभूतेन मदज्ञानान्मय्येवाविर्भूतम् अज्ञाततया शुक्त्या- रजतमिवेत्यर्थः । तदुक्तं वासिष्ठे-'मदज्ञानोदितं विश्वं मय्येव लयमागतम्' इति । अथ मयेतितृतीय- या परमात्मनो जगत्कारणत्वे प्राप्ते तद्वयतिरेकेण निषेधयति मत्स्थानीति । कारणं हि कार्यमभि- व्याप्य तिष्ठतीति न्यायेन यद्यपि सर्वभूतानि मयि तिष्ठन्तीति प्रतिभाति तथापि तेषु भूतेप्वहं न व्यवस्थितः । यथा यद्यपि शुक्तौ रजतं प्रतीयते तथापि रजते शुक्क्यंशो न प्रतीयते । यदि प्रती- येत तर्हि संभ्रम एव न स्यादित्यर्थः ॥ ४ ॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ भूतभृन्न च भूतस्थो ममात्मा भूतभावनः॥५॥ नेति । न ह्यसंसर्गि वस्तु व चिदाधेयभावेनावस्थितं भवत्यत एवासं- सगिलान्मम न च मत्स्थानि भूतानि ब्रह्मादीनि पश्य मे योगं युक्तिघटनं मे ममैश्वरं योगमात्मानमीश्वरस्येदमैश्वरं माहात्म्यमित्यर्थः । तथा च श्रुतिरसंस- गित्वादसंगतां दर्शयति “असंगो न हि सज्जते” इति इदं चाश्चर्यमन्यत् पश्य भूतभृदसंगोऽपि सन् भूतानि बिभर्ति न च भूतस्थो यथोक्तेन न्यायेन दर्शितत्वाद् भूतस्थत्वानुपपत्तेः। कथं पुनरुच्यते असी ममात्मेति विभज्य देहा- दिसंघातं तस्मिनहङ्कारमध्यारोप्य लोकबुद्धिमनुस्मरन् व्यपदिशति ममात्मेति। न पुनरात्मन आत्मान्य इति लोकवदजानंस्तथा भूतभावनो भूतानि भावयत्यु- त्पादयति वर्धयति वा भूतभावनः ॥ ५ ॥ आ० टी० । संश्लेषाभावेऽपि किमिति नाधेयत्वमत आह न हीति । परमेश्वरस्य भृतेषु स्थित्यभावेऽपि भूतानां तत्र स्थितिरास्थितेति कुतोऽसंगत्वं तत्राह अतएवेति । न चेत्यत्र चकारो- रणार्थः । भूतानामीश्वरेणैव स्थितिरित्यत्र हेतुमाह पश्येति । आत्मनोऽसंगत्वस्वरूपमित्यत्र प्रमाणमाह तथा चेति। असङ्गश्चेदीश्वरस्तार्ह कथं मत्स्थानि भूतानीत्युक्तं कथं च तथोक्तांश्च मत्स्थानीति तद्विरूडमुदीरितमित्याशङ्कयाह इदंचेति । तर्हि भूतसंबन्धः स्यादिति नेत्याह न चेति । यथोक्तेन ..

नवमाध्यायः ।
२७५.
न्यायेन असङ्गत्वेनेति यावत्, असङ्गतया वस्तुतो भूतासंबन्धेऽपि कल्पनया तदविरोधान्न मिथोविरोधोऽ-
स्तीति भावः । आत्मनः सकाशादात्मनोऽन्यत्वायोगात् कुतः संबन्धोक्तिरित्याशङ्कयाह असाविति।
यथा लोको वस्तुतत्त्वमजानन् भेदमारोप्य ममायमिति संबन्धमनुभवति न तथेह संबन्धव्यपदेश
आत्मनि स्वतो भेदाभावादतो भेदेऽसत्येव लोके संबन्धबुद्धिदर्शनमनुसरन् भगवानात्मनो देहादिसं-
घातं विभज्याहङ्कारं तस्मिन्नारोप्य असौ ममात्मेति भेदं व्यपदिशति तथा च संघातस्य ममेति व्यप-
देशात्ततो निकृष्टस्य स्वरूपस्यात्मशब्देन निर्देशान्न भूतस्थोऽसावित्यर्थः । पूर्वोक्तासंगत्वाङ्गीकारे-
णैवात्मा भूतानि भावयतीत्याह तथेति ॥ ५ ॥
प० टी० । अथैतदेव प्रकटयन्नाह न चेति । च परं भूतानि मत्स्थानि न भवन्ति । तथा
च पूर्व मत्स्थानि सर्वभूतानीति यदुक्तं तत्र नेति निषेधेन प्रातिभासिकत्वं द्योतितम् । तथा च भ्रम-
निवृत्तिकाले शुक्तिकायां रजतं नास्त्येव । तदुक्तम् 'सौम्याम्भसि यथा वीचिर्न चास्ति न च नास्ति च।
तथा जगद्ब्रह्मणीदं शून्याशुन्यपदं गतम्' इति । अथाधिकरणं विना भ्रमोत्पत्तिर्नास्तीसाह पश्यति ।
दृश्यजाते प्रतीतेऽपि मे ऐश्वरं योगमीश्वरेण सह जात ऐश्वरो योग आध्यासिकः संबन्ध इति
पश्य । तदेवाह भूतभूदिति । ममात्मा मत्स्वरूपं भूतभृदधिकरणरूपेण भूतानि बिभर्ति परं न
भूतस्थोऽसंगत्वात् । न ह्याकाशे भूतानि तिष्ठन्त्याकाशो वा भूतेप्विति केनापि प्रतीयते । तथा
ममात्मा भूतभावनो भूतानि भाव्यन्ते कल्प्यन्ते यस्मिन् स तथा ॥ ५ ॥
यथाकाशस्थितो नित्यं
वायुः
सर्वत्रगो
महान् ॥
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥
यथोक्तेन श्लोकहयेनोक्तमर्थ दृष्टान्तेनोपपादयन्नाह यथेति । यथा
लोके आकाशस्थित आकाशे स्थितो नित्यं सदा वायुः सर्वत्र गच्छतीति स-
र्वत्रगो महान् परिमाणतस्तथाकाशवत् सर्वगते मय्यसंश्लेषेणैव स्थितानि म-
स्थानीत्येवमुपधारय जानीहि ॥ ६ ॥
आ० टी० । सृष्टिस्थितिसंहाराणामसंगात्माधारत्वं 'मया ततमिदम्' इत्यादिश्लोकद्वयेनोक्तोऽर्थ-
स्तदृष्टान्तेनोपपादयन्नादौ दृष्टान्तमाहेति योजना । सदेत्युत्पत्तिस्थितिसंहारकालो गृह्यते । आका-
शादेर्महतोऽन्याधारत्वं कथमित्याशङ्कयाह महानिति । तथा सर्वगामित्वात् परिमाणतो महान् वा-
युराकाशे सदा तिष्ठति तथाकाशादीनि महान्त्यपि सर्वाणि भूतान्याकाशकल्पे पूर्णे प्रतीच्यसंगे पर-
स्मिन्नात्मनि संश्लेषमन्तरेण स्थितानीत्यर्थः ।। ६ ॥
प० टी० । अथासंश्लिष्टयोरप्याधाराधेयभावं दृष्टान्तेन द्रढयति यथेति । अवकाशं वि-
नावस्थानानुपपत्तेनित्यमाकाशस्थितो महान् सर्वगोऽपि वायुनिरवयवेनाकाशेन सह न संश्लिप्यते । तथा
सर्वाणि भूतानि माय वर्तमानान्यपि मयि न संश्लिप्यन्ते इत्युपधारय जानीहि । तदुक्तम् - 'यथा वि-
शुद्ध आकाशे सहसैवाभ्रमण्डलम् । भूत्वा विलीयते तद्वदात्मनीहाखिलं जगद् ' इति ॥ ६ ॥
सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् ॥
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७॥

-
श्रीमद्भगवद्गीता-
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः॥
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८॥
एवं वायुराकाश इव मयि स्थितानि सर्वभूतानि सर्वाणि भूतानि स्थि-
तिकाले तानि सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकामपरां निकृष्टां
यान्ति मामिका मदीयां कल्पक्षये ब्राह्मे प्रलयकाले पुन यस्तानि भूतान्युत्प-
त्तिकाले कल्पादौ विसृजाम्युत्पादयाम्यहं पूर्ववत् ॥ ७ ॥
एवमविद्यालक्षणां प्रकृति स्वां स्वीयामवष्टभ्य वशीकृत्य विसृजामि
पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायमिमं वर्तमानं कृत्वं समग्रमव-
शमस्वतन्त्रमविद्यादिदोषैः परमवशीकृतं प्रकृतेर्वशात् स्वभाववशात् ॥ ८ ॥
आ० टी० । आकाशे वाय्वादिस्थितिवदाकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि
चेताह प्रलयकाले ततोऽन्यत्र तिष्ठेयुरित्याशङ्कयाह एवमिति। प्रकृतिशब्द स्य स्वभाववचनत्वं व्या-
वर्तयति त्रिगुणात्मिकामिति । सा चापरेयमिति प्रागेव सूचितेत्याह अपरामिति । तस्याश्चेश्वरा-
धीनत्वेनास्वातन्त्र्यमाह मदीयामिति । प्रलयकाले भृतानि यथोक्तां प्रकृति यान्ति चेदुत्पत्तिकालेऽपि
सतस्तेषामुत्पत्तेरीश्वराधीनत्वं भूतसृष्टेन स्यादित्याशङ्कयाह पुनरिति ॥ ७ ॥
आ० टी० । तार्ह कीदृशी प्रकृतिः सा च कथं सृष्टावुपयुक्तेत्याशङ्कयाह एवमिति ।
संसारस्यानादित्वद्योतनाथ पुनः पुनरित्युक्तम् । भूतसमुदायस्याविद्यास्मितादिदोषपरवशत्वे हेतमाह
स्वभाववशादिति ॥ ८ ॥
प० टी० । तदेवासंगत्वेऽपि जगत्कारणत्वं जगतश्च मिथ्यात्वसहचरितं नश्वरत्वं मायया
कृत्वा भवतीत्याह सर्वभृतानीति द्वाभ्याम् । भो कौन्तेय कल्पक्षये कल्पप्रलये सर्वभूतानि मामिका
मत्संबन्धिनी प्रकृति यान्ति । तथा कल्पादौ पुनस्तानि विमृनामि कुतः प्रतवंशात् प्राचीनकर्म-
निमित्तस्वभावबलाद् ॥ ७ ॥ ८ ॥
न च मां तानि कर्माणि निबध्नन्ति धनंजय॥
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥
तर्हि तस्यैव परमेश्वरस्य भूतग्रामं विषमं विदधतस्तन्निमित्ताभ्यां धर्मा-
धर्माभ्यां संबन्धः स्यादितीदमाह भगवान् न च मामिति । न च मामीशं
तानि भूतग्रामस्य विषमविसर्गनिमित्तानि कर्माणि निवप्नन्ति धनंजय तत्र
कर्मणामसंबद्धत्वे कारणमाह उदासीनवदासीनं यथोदासीन उपेक्षकः कश्चित्
तहदासीनमात्मनोऽविक्रियत्वमसंसक्तं फलसंगरहितमभिमानवर्जितमहं करो-
मीति तेषु कर्मस्वतोऽन्यस्यापि कर्तत्वाभिमानाभावः फलसंगाभावश्चाबन्ध-
कारणमन्यथा कर्मभिर्बध्यते मृढः कोशकारवदित्यभिप्रायः ॥ ९ ॥

नवमाध्यायः । २७७ आ० टी० । यदि प्रारूतं भूतग्राम स्वभावादविद्यातन्त्रं विषमं विदधासि तर्हि तव विषम- सृष्टिप्रयुक्तं धर्मादिमत्त्वमित्यनीश्वरत्वापत्तिरिति शङ्कते तीति । तत्रेति सप्तम्या परमेश्वरो निरु- च्यते । ईश्वरस्य फलसंगाभावात् कर्तृत्वाभिमानाभावाच्च कर्मासंबन्धवदीश्वरादन्यस्यापि तदुभयाभावो धर्माद्यसंबन्धे कारणमित्याह अतोऽन्यस्येति । यदि कर्मसु कर्तृत्वाभिमानो वा कस्यचित् कर्मफल- संयोगो वा स्यात्तत्राह अन्यथेति ॥ ९ ॥ प० टी० । नन्वेवं नानाविधानि कर्माणि कुर्वतस्तवापि जीववद्बन्धः कथं न स्यादित्याह नचेति । तानि सृष्टयादीनि कर्माणि मां न निबध्नन्ति । कर्मासक्तिर्हि बन्धहेतुः । अवाप्तसकलका- मत्वान्मम नास्ति । किंभूतं मामुदासीनवदासीनं वर्तमानम् । ननूदासीनत्वे कर्तृत्वानुपपत्तेः कर्तृत्वे चो- दासीनत्वानुपपत्तेरत उदासीनवदित्युक्तम् ॥ ९ ॥ मयाध्यक्षण प्रकृतिः सूयते सचराचरम् ॥ हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥ तत्र भूतग्राममिमं विसृजाम्युदासीनवदासीनमिति च विरुद्धमुच्यते त- त्परिहारार्थमाह मयेति । मया सर्वतो दृशिमात्रस्वरूपेणाविक्रियात्माध्यक्षेण मम माया त्रिगुणात्मिकाविद्यालक्षणा प्रकृतिः सूयत उत्पादयति सचराचरं ज- गत् । तथा च मन्त्रवर्णः एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूता- न्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च” इति साक्षिमात्रेण हेतुना निमित्तेनानेनाध्यक्षत्वेन कौन्तेय जगत् सचराचरं व्यक्ता- व्यक्तात्मकं विपरिवर्तते सर्वावस्थासु दृशिकमलापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिरहमिदं भोक्ष्ये पश्यामीदं शृणोमीदं सुखमनुभवामि दुःखमनुभ- वामि तदर्थमिदं करिष्याम्येतदर्थमिदं करिष्य इदं ज्ञास्यामीत्याद्यवगतिनिष्ठा- वसानेनैव योऽस्याध्यक्षः । “ परमे व्योमन् ” इत्यादयश्च मन्त्रा एतमर्थ दर्श- यन्ति । ततश्चकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमावस्य परमार्थतः सर्वभोगान- भिसंबन्धिनोऽन्यस्य चेतनान्तरस्याभावे भोक्तुरन्यस्याभावात् किं निमित्तेयं सृष्टिरित्यत्र प्रश्नप्रतिवचने अनुपपने “ कोऽद्धा वेद क इह प्रावोचत् कुत आयातः कुत इयं विसृष्टिः” इत्यादिमन्त्रवर्णेभ्यो, दर्शितं च भगवताज्ञाने- नाटतं ज्ञानं तेन मुह्यन्ति जन्तव इति ॥ १० ॥ आ० टी० । ईश्वरे खष्ट्रत्वमौदासीन्यं च विरुद्वमिति शङ्कते तत्रेति । पूर्वग्रन्थः सप्तम्य- र्थः । विरोधपरिहारार्थमुत्तरश्लोकमवतारयति तदिति । तृतीयाद्वरं समानाधिकरणमित्यभ्युपेत्य व्या- चष्टे मयेसादिना । प्रकृतिशब्दार्थमाह ममेति । तस्या अपि ज्ञानत्वं व्यावर्तयति त्रिगुणेति । पराभिप्रेतं प्रधानं व्युदस्यति अविद्येति । साक्षित्वे प्रमाणमाह तथा चेति । मूर्तित्रयात्मनो भेद वारयति एक इति । अखण्डजाड्यं प्रत्याह देव इति । आदित्यवत्ताटस्थ्यं प्रत्यादिशति सर्वभूते- ष्विति । किमिति तार्ह सर्वोपलभ्यते तत्राह गृह इति । बुद्धयादिवत् परिच्छिन्नत्वं व्यवच्छिन- ।

२७८ श्रीमद्भगवद्गीता- त्ति सर्वव्यापीति । तर्हि नभोवदनात्मत्वं नेत्याह सर्वभूतेति । तर्हि तत्र तत्र कर्मतत्फलसंबन्धित्वं स्यात्तत्राह कर्मेति । सर्वाधिष्ठानत्वमाह सर्वेति । सर्वेषु भूतेषु सत्तास्फूर्तिप्रदत्वेन संनिधिर्वात्रोच्यते न केवलं कर्मणामेवायमध्यक्षोऽपि तु तद्वतामपीत्याह साक्षीति । दर्शनकर्तृत्वशङ्का शातयति चे- तेति । अद्वितीयत्वं केवलत्वम् । धर्माधर्मादिराहित्यमाह निर्गुण इति । किं बहुना सर्वविशेषशून्य इति चकारार्थः । उदासीनस्यापीश्वरस्य साक्षित्वमानं निमित्तीकृत्य जगदेतत् पौनःपुन्येन सर्गसंहारा- वनुभवतीत्याह हेतुनेति । कार्यवत्कारणस्यापि साक्ष्यधीना प्रवृत्तिरिति वक्तुं व्यक्ताव्यक्तात्मकमित्युक्तं, सर्वावस्थास्वित्यनेन सृष्टिस्थितिसंहारावस्था गृह्यन्ते । तथापि जगतः स्वर्गादिभ्यो भिन्ना प्रवृत्तिः स्वाभाविकी, नेश्वरायत्तेत्याशङ्कयाह दृशीति । न हि दृशा व्याप्यत्वं विना जडवर्गस्य कापि प्रवृ- त्तिरिति हिशब्दार्थः । तामेव प्रवृत्तिमुदाहरात अहमिसादिना। भोगस्य विषयोपलम्मभावासंभवा- नानाविधां विषयोपलब्धि दर्शयति पश्यामीति । भोगफलमिदानी कथयति सुखमिति । विहि- तप्रतिषिद्धाचरणनिमित्तं सुखं दुःखं चेत्याह तदर्थमिति । न च विमर्शपूर्वकं विज्ञानं विनानुष्ठानमि- त्याह इदमिति । इत्याद्या प्रवृत्तिरिति संबन्धः । सा च प्रवृत्तिः सर्वा दृक्कर्मत्वमुररीकृत्यैव विवृ- णोतीत्युक्तं निगमयति अवगतीति । तत्रैव च प्रवृत्तेरवसानमित्याह अवगतिरवसान इति । पर- स्याध्यक्षत्वमात्रेण जगच्चेष्टेत्यत्र प्रमाणमाह योऽस्यति । अस्य जगतो योऽध्यक्षो निर्विकारः स परमे प्रकृष्ट हार्दै व्योम्नि स्थितो निर्विकारो न परमे प्रकृष्टे हार्दै व्योम्नि स्थितो दुर्विज्ञेय इत्यर्थः । ईश्वरस्य साक्षित्वमात्रेण खट्टत्वे स्थिते फलितमाह ततश्चेति । किंनिमित्तास्येयं सृष्टिर्न तावद्रोगार्था परस्य परमार्थतो भोगासंबन्धित्वात्तस्य सर्वसाक्षिभूतचैतन्यमात्रत्वान्न चान्यो भोक्ता चेतनान्तराभा- वादीश्वरस्यैकत्वादचेतनस्याभोक्तृत्वान्न च सृष्टिरपवर्गार्था तद्विरोधित्वान्नैवं प्रश्नो वा तदनुरूपं प्रति वचनं वा संयुक्तं परस्य मायानिबन्धने सगै तस्यानवकाशत्वादित्यर्थः । परस्यात्मनो दुर्विज्ञेयत्वे श्रुतिमुदाहरति कोऽद्धति । तस्मिन् प्रवक्तापि संसारमण्डले नास्तीत्याह क इहेति । जगतः मृ- ष्टिकर्तृत्वेन परस्य ज्ञेयत्वमाशमय कूटस्थात्ततो न सृष्टिीतेत्याह कुत इति । न हीयं विविधसृष्टि- रन्यस्मादपि कस्माच्चिदुपपद्यतेऽन्यस्य वस्तुनोऽभावादित्याह कुत इति । कथं तर्हि सृष्टिरित्याश- याज्ञानाधीनेत्याह दर्शितं चेति ॥ १० ॥ प० टी० । अथैतदेवोपपादयति मयति । मयाध्यक्षेणाधिष्ठात्रा रुत्वा प्रकृतिः सचराचरं विश्वं सूयते जनयति । अनेनैव मदधिष्ठानरूपेण हेतुना निमित्तभूतेनेदं जगद्विपरिवर्तते पुनः पुनर्जायते सांनिध्यमात्रेणाधिष्ठातृत्वं कर्तृत्वमुदासीनत्वं चाविरुद्धमिति भावः । अत्रैतदुक्तं भवति । सत्याश्रय. व्यतिरेकेणासत्यावस्थानमेव नोपपद्यते । शुक्तिकया विना रजतस्येवैवं सति रजतोत्पत्तिस्थितिविना. शान् शुक्तिर्न स्पृशति तद्वत्प्रकृतेऽपीत्यर्थः । अथादितो निरूपिताथै ऋक्शाखीयश्रुतिसंदर्भ:--"किं स्विदासीदधिष्ठानमारम्भणं कतमं स्वित्कथासीत् । यतो भूमिं जनयन्विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः ॥ १ ॥ नासदासीनो सदासीत्तदानीं नासीद्रजो नोव्योमापरोयत् । किमावरीवः कुहकस्य शर्मन्नम्भःकिमासीद्गहनं गभीरम् ॥ २ ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अन्हसीत्प्रकेतः । आ- नीदवा तं स्वधया तदेकं तस्माद्धान्यं न परः किं च न स ॥३॥” इति । आसां क्रमेण रावणभाष्यम्- किं स्विदासीदिति पूर्वमन्त्रे जगत्प्रलयकाले जगत्संहृत्य पश्चासिसृक्षायां द्यावापृथिव्योरुत्पादनवे- लायामधिष्ठानं किं स्विदासीत् किं न किंचिदित्यर्थः । तथारम्भणं कतमं स्विद् आरभ्यतेऽ नेनेत्यारम्भणमुपादानकारणं कतमद्भवेत्तदपि नेत्यर्थः । यद्यपि संभवदारम्भणं कथमासीत्कथमभूतिक सदसद्वा भवेदित्यर्थः । उभयमपि नोत्पद्यते । सञ्चेदद्वैतत्वभङ्गः असञ्चेत्तदात्मकयोावापृथिव्यो- रुपादानानहत्वात् । “नान्यत्किं च न मिषत्" इत्यादिश्रुतेश्च । यतो यस्मादधिष्ठानादारम्भणाच विश्वचक्षाः सर्वद्रष्टा परमेश्वरो भूमि जनयन् वर्तते तथा द्यां दिवं व्यौ!त् व्यवृणोत्सृष्टवान् । म- नवमाध्यायः । २७९ हिना स्वमहित्वेन । अथैतस्य प्रश्नोत्तरस्य प्रतिपादिकां श्रुतिमाह नासदिति । अनया सृष्टेः प्राङ् निरस्तसमस्तप्रपञ्चलयावस्था निरूप्यते । प्रलयदशायामवस्थितं यदस्य जगतो मूलकारणं तदसच्छ- शविषाणवन्नीरूपाख्यं नासीत् । न हि तादृशात्कारणादस्य सतो जगत उत्पत्तिः संभवति तथा नो सदासीत् । परमार्थसतः परमात्मनोऽन्यत्सदस्तीत्युच्यमाने द्वैतत्वप्रसंगः । नापि व्यवहारसत् अग्रे व्यवहाराभावस्य वक्षमाणत्वात् । तस्मादुभयविलक्षणमनिर्वाच्यमेवासीदित्यर्थः । अथ व्याव- हारिकसत्त्वं निषेधयति तदानीमिति । लोको रजांस्युच्यत इति यास्कः । अत्र सामान्यापेक्षमेक- वचनम् । एवं व्यवहारसत्ता पृथिव्यादीनामभावादित्यर्थः । तथा व्योमान्तरिक्षं तदपि नासीत् । पर इति सकारान्तं परस्तादित्यर्थे वर्तते । व्योम्नः परस्ताद्दयुलोकप्रभृतिसत्यलोकान्तं यदस्ति तदपि नासी- दित्यर्थः । अनेन ब्रह्माण्डमपि निषिद्धं भवति । यत एतद्भासमानं भूतजातं पूर्व नासीत् किं तु शु- क्तिकारजतवन्मध्यएवोत्पन्नमिति श्रुत्या निरूपितम् । नत्वासीदिति धातोस्तदानीमित्यव्ययस्य च भूतकालवाचित्वायोमादीनामसंभवेऽपि किंचित्कालआसीदितिचेन्न आनीदवातमिति श्रुत्या तस्यापि निवेधात् । अतः सकलमपि दृश्यनातं प्रानिरूपितसदसद्विलक्षणोपादानकं प्रातिमासिकमिति पर्यवसन्नम् । अथैतस्य ज्ञानैकनाश्यत्वेन प्रातिभासिकत्वं दृढीकुर्वन्नाह किमावरीव इति प्रागुक्तं दृश्यजातं शर्मन्निति शर्मण्यबाधिते ब्रह्मणि किमावरीवः किमावरकं भवति वा नेत्यर्थः । अनेन यत्सदसद्विलक्षणमासीत्तत्स्वाश्रयाव्यामोहकमित्युक्तम् । यथा कुहकस्येन्द्रजालिकस्य गहनं गभीरम- क्षोभ्यमम्मस्तेन मायया रचितमम्भो मध्य एवोत्पन्नं सत्कुहकस्यावरकं भवति वा नेत्यर्थः । किं च न मृत्युरिति । तदानीं शर्मणि केवलस्वरूपे मृत्युर्जन्ममरणात्मको बन्धोऽमृतं मोक्षो वा नासीत् । यथा सूर्य राज्या अहश्च प्रकेतो ज्ञानं नास्ति तद्वत् । तार्ह किं त्वानीदिति । एकमवातमप्राणं शुद्धं ब्रह्मैवासीत् । “ अप्राणो ह्यमना" इति श्रुतेः । तथा अप्राणमनामगोत्रमिति च । एवं तत्स्वधया स्व- स्मिन् ध्रियते कल्पते सा स्वधा तया कृत्वासीत् कर्तृरूपेणासीदित्यत्र आनदिति धातुः प्रयुक्तः । एवं मायाशवलितं सूत्रात्मसंज्ञमासीदित्युक्तम् । हेतिनिश्चयेन तस्मादन्यत्कि च किमपि नास नासीत् परस्तादग्रेऽवसानेपि तदेव ॥ १० ॥ अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् ॥ परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥ अवेति । एवं मां नित्यशुद्धमुक्तस्वभावं सर्वजन्तूनामात्मानमपि सन्त- मवजानन्त्यवज्ञां परिभवं कुर्वन्ति मां मूढा अविवेकिनो मानुषीं मनुष्यसंव- धिनी तनुं देहमाश्रितं मनुष्यदेहेन व्यवहरन्तमित्येतत् परं प्रकृष्टं भावं पर- मात्मतत्त्वमाकाशकल्पमाकाशादप्यन्तरतममजानन्तो मम भूतमहेश्वरं सर्वभू- तानां महान्तमीश्वरं स्वमात्मानं ततश्च तस्य ममावज्ञानभावनेनाहता वरा- कास्ते ॥ ११ ॥ आ० टी० । सर्वाध्यक्षः सर्वभूताधिवासो नित्यमुक्तश्चेत्त्वं तर्हि किमिति त्वामेवात्मत्वेन भे- देन वा सर्वे न भजन्ते तत्राह एवमिति । विपर्यस्तबुद्धित्वं भगवदवज्ञायां कारणमित्याह मूढा इति । भगवतो मनुष्यदेहसंबन्धात्तस्मिन् विपर्यासः संभवतीत्याह मानुषीमिति । अस्मदादिवदेहतादात्म्या- भिमानं भगवतो व्यावर्तयति मनुष्येति । भगवन्तमवजानतामविवेके मूलाज्ञानं हेतुमाह परमिति । ईश्वरावज्ञानात् किं भवतीत्यपेक्षायां तदवज्ञानप्रतिबद्धबुद्धयः शोच्या भवन्तीत्याह ततश्चेति । भग- २८. श्रीमद्भगवद्गीता- वदवज्ञानादेव हेतोरवजानन्तस्ते जन्तवोवराकाः शोच्याः सर्वपुरुषार्थबाह्याः स्युरिति संबन्धः । तत्र हेतुं सूचयति तस्येति । प्रकृतस्य भगवतोऽवज्ञानमनादरणं निन्दनं वा तस्य भावनं पौनःपुन्यं तेना हतास्तज्जनितदुरितप्रभावात् प्रतिबद्धबुद्धय इत्यर्थः ॥ ११ ॥ प० टी० । अथ प्रागुक्तं स्वकीयमध्यक्षत्वं प्रकटयन् जगत्कारणीभूतमायागतं मौन्यं जीवे- प्वनुवर्तत इत्याह अवजानन्तीति । मम परमुत्कृष्टं भावं तत्त्वं प्रकटमप्यजानन्तो मूढाः सर्वभूत- महेश्वरं मामवनानन्त्यवमन्यन्ते । महच्छब्देन सर्वभूतनिवासत्वे सति तदन्तर्यामित्वेनेश्वरं नियन्तारं न गणयन्ति । कथमवाङ्मनसगोचरं चिन्मानं ज्ञास्यन्तीत्याह । मानुषीमिति । किंभूतं मां मानुषीं तनुमाश्रितम् । भक्तानुकम्पया ज्ञातुं सुलभां शुद्धसत्त्वमयी मनोहारिणी मनुष्याकारां मूर्तिमधिष्ठाया- विर्भूतम् । तदुक्तम् “विश्वप्रकाशमपि योजनपट्सहस्रविस्तारमुक्तमृपिभिर्याद हाकविम्बम् । मवि- तस्तिमितमीक्षत एतदेव पश्यन्ति मर्त्यमिव विश्वविभुं विमूढाः" इति। श्रुतिरपि ऋग्वेदे । “मया सोऽन्न- मत्ति यो विपश्यति यः प्राणिति यईशृणोत्युक्तम् । अमन्तवो मां तउपक्षियन्ति श्रुधिश्रुतश्रद्धिवन्ते वदामि" इति । भाष्यम्-अमृणस्य ब्रह्मरूपस्य महर्षेः कन्यावाङ्नानी ब्रह्मरूपिणी वदति । योऽन्नमत्ति स भोक्तृत्वशक्तिरूपया मयैव कृत्वान्नमत्ति तथा यो मनोभिरामं विषयं पश्यति । सादरमवलोकयति यश्च प्राणिति श्वासोच्छ्रासादिकं करोति य ई अयं शृणोति स मयैव कृत्वा एवं सति य ईदृशी- मन्तर्यामिरूपेणावस्थितामुपकारिणी न जानन्ति ते माममन्तवोऽमन्यमाना अजानन्तो मद्विषयज्ञानर- हिताः सन्त उपक्षियन्ति उपक्षीणाः संसारेण दीना यातायातयातनाभिर्दीना भवन्ति । हे श्रुतवि- श्रुतसखे श्रुधि मया वक्ष्यमाणं शृणु । किं तच्छ्रोतव्यम् । श्रद्धिवं श्रधिः श्रद्धा तया युक्तं श्रद्द- धानेन लभ्यमित्यर्थः । ईदृशं ब्रह्मात्मकं वस्तु ते वदामि ॥ ११ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ॥ राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः॥ १२ ॥ कथं मोघाशेति । मोघाशा वृथाशा आशिपो येषां ते मोघाशास्तथा मोधकर्माणो यानि चाग्निहोत्रादीनि तैरनुष्ठीयमानानि कर्माणि तानि च तेपां भगवत्परिभवात् स्वात्मभूतस्यावज्ञानान्मोघान्येव निष्फलानि कर्माणि भव- न्तीति मोधकर्माणस्तथा मोघज्ञाना मोघं निष्फलं ज्ञानं येषां ते मोघज्ञाना ज्ञानमपि तेषां निष्फलमेव स्याद् विचेतसो विगतविवेकाश्च ते भवन्तीत्यभि- प्रायः । किं च ते भवन्ति राक्षसी रक्षसां प्रकृति स्वभावम् आसुरीमसुराणां च प्रकृतिं मोहिनी मोहकरी देहात्मवादिनीं श्रिता आश्रिताश्छिन्धि भिन्धि पिब खाद परस्वमपहरेत्येवंवदनशीलाः क्रूरकर्म कुर्वाणा भवन्तीत्यर्थः । “अ- सूर्या नाम ते लोका” इति श्रुतेः ॥ १२ ॥ आ० टी० । भगवन्तमवजानतां प्रश्नपूर्वकं शोच्यत्वं विशदयति कथमिति । भगवन्निन्दाप- राणां न काचिदपि प्रार्थनार्थवतीत्याह वृथेति । ननु भगवन्तो निन्दन्तोऽपि नित्यं नैमित्तिकं वा कर्मानु- तिष्ठन्ति, तदनुष्ठानाच्च तेषां प्रार्थनाः सार्था भावप्यन्तीति नेत्याह तथेति।परिभवस्तिरस्करणं, अवज्ञानम- नादरणम् । तेषामपि शास्त्रार्थाज्ञानवतां तद्द्वारा प्रार्थनार्थवत्त्वमित्याशङ्कयाह तथा मोघेति । तथापि यौक्तिकविवेकवशात्तत्प्रार्थनासाफल्यमित्याशङ्कयाह विचेतस इति । न केवलमुक्तविशेषण- नवमाध्यायः । २८१ बत्त्वमेव तेषां किंतु वर्तमानदेहपातादनन्तरं तत्तदतिकरयोनिप्राप्तिश्च निश्चितत्याह किं चेति । मोहकरीमिति प्रकृतिद्वयेऽपि तुल्यं विशेषणं, छिन्धि भिन्धि पिब खादस्वेति प्राणिहिंसारूपो रक्षसां स्वभावोऽसुराणां स्वभावस्तु न देहि नो जुहुधि परस्वमेवापहरेत्यादिरूपः, मोहो मिथ्याज्ञानम् । उक्त- मेव स्फुटयति छिन्धीति ॥ १२ ॥ प० टी० । अथ तेषां मूढत्वमेव प्रकटयति मोघाशा इति । मोघा निष्फला क्षुद्रदेवतोपा- सनया क्षणभङ्गुरा क्षुद्रफलाशा येषां ते, अत एव महिमुग्वत्वान्मोघानि सान्तानि कर्माणि येषां ते, तथा मोघं कुतर्काश्रितं ज्ञानं येषां ते विचेतसो विक्षिप्तचेतसः । अथ सर्वत्र हेतुमाह राक्षसीमि- यादि । राक्षसी तामसी हिंसाप्रचुरामासुरी कामक्रोधदर्पबहुलां मोहिनी बुद्धिभ्रंशकरी प्रकृति स्व- भावमाश्रिताः सन्तो मामवजानन्तीति पूर्वेणान्वयः । तदुक्तम्- काचियामोहमूर्तिः परपुरुषरता राक्षसी प्रादुरासीत्सा गर्भिण्यकोचं विषममजनयत्पश्चभूताभिधानम् । यात्येकं नीचमार्गरतिजडमपरं धावतीतस्ततोऽन्यद्वाह्यान्तःशून्यमन्यद्दहति तदपरं किं पुनस्तत्समाजे' इति ॥ १२ ॥ महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः॥ भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ महेति । ये पुनः श्रद्दधाना भगवद्भक्तिलक्षणे मोक्षमार्गे प्रसत्ता महात्मानस्त्वक्षुद्रचित्ता मामीश्वरं पार्थ दैवीं देवानां प्रति शमदमदयाश्रद्धादि- लक्षणामाश्रिताः सन्तो भजन्ति सेवन्तेऽनन्यमनसोऽनन्यचित्ता ज्ञात्वा मां भूतादिं भूतानामाश्रयमादिकारणं वियदादीनां प्राणिनां चादिकारणमाश्रयम- व्ययम् ॥ १३ ॥ आ० टी० । के पुनर्भगवन्तं भजन्ते तानाह ये पुनरिति । महान् प्रकृष्टो यज्ञादिभिः शो- धित आत्मा सत्त्वं येषामिति व्युत्पत्तिमाश्रित्याह अक्षदति । तुशब्दोऽवधारणे । प्रकृति विशिनष्टि शमेति । अन्यस्मिन् प्रत्येक ते मयि परस्मिन्नेव मनो येषामिति व्युत्पत्त्या व्याकरोति अनन्य- चित्ता इति । अज्ञाते सेवानुपपत्तेः शास्त्रोपपत्तिभ्यामादौ ज्ञात्वा ततः सेवन्त इत्याह ज्ञात्वेति । अव्ययमविनाशिनम् ॥ १३ ॥ प० टी० । के तर्हि त्वामाराधयन्तीत्याशङ्कय वेधा मदुपासकाः सन्तीत्याह महात्मान इति। महान् कामक्रोधजयशील आत्मा मनो येषां ते महात्मानो दैवी मोक्षसाधनीभूतां प्रकृति स्वभावं श्रिताः सन्तोऽनन्यमनसोऽव्यभिचारिण्या भक्त्योपेता मद्भक्ता मां सगुणब्रह्मत्वेन भनन्ति ज्ञानिनस्तु मामव्ययमनाद्यन्तं भूतादिस्थूलप्रपञ्चकारणीभूतं निर्गुणब्रह्मरूपं ज्ञात्वा भजन्ति ॥ १३ ॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः॥ नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥१४॥ कथं सततमिति । सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तो यजन्तश्चेन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैर्धमैः प्रयतन्तश्च दृढव्रता दृढं ३६ २८२ श्रीमद्भगवद्गीता- स्थिरमचाञ्चल्यं व्रतं येषां ते दृढव्रता नमस्यन्तश्च मां हृदयेशयमात्मानं भक्ता नित्ययुक्ताः सन्त उपासते सेवन्ते ॥ १४ ॥ आ० टी० । भजनप्रकारं पृच्छति कथमिति । तत्प्रकारमाह सततमिति । सर्वदेति श्रव- णावस्था गृह्यन्ते, कीर्तनं वेदान्तश्रवणं प्रणवजपश्च, व्रतं ब्रह्मचर्यादि, नमस्यन्तो मां प्रति चेतसा प्रहीभवन्तो भत्त्या परेण प्रेम्णा नित्ययुक्ताः सन्तः सदा संयुक्ताः ॥ १४ ॥ प० टी० । अथ भक्तानां भजनप्रकारमाह सततमिति । सततं निरन्तरं कीर्तयन्तो मन्नाम- घोष कुर्वन्तस्तथा दृढव्रता निश्चितसंकल्पाः सन्तो यतन्तः प्रयत्नं कुर्वन्तो भक्त्या न तु दम्भेन । मद्विभूतीर्मूर्तीनिमस्यन्तो नमस्कारं कुर्वन्तो नित्ययुक्ता नियमवन्त उपासते ॥ १४ ॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ॥ एकत्वेन एथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥ ते केन केन प्रकारेणोपासत इत्युच्यते ज्ञानेति । ज्ञानयज्ञेन ज्ञानमेव भगवहिषयं यज्ञस्तेन ज्ञानयज्ञेन यजन्तः पूजयन्तो मामीश्वरं चान्येऽन्यामुपा- सनां परित्यज्योपासते तच्च ज्ञानमेकत्वेनैकमेव परं ब्रह्मेति परमार्थदर्शनेन य- जन्त उपासते केचिच्च पृथक्त्वेनादित्यचन्द्रादिभेदेन स एव भगवान् विष्णु- रादित्यादिरूपेणावस्थित इत्युपासते केचिद् वहुधावस्थितः स एव भगवान् सर्वतोमुखो विश्वरूप इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेणो- पासते ॥ १५॥ आ० टी० । उपासनप्रकारभेदप्रतिपित्सया पृच्छति ते केनेति । तत्प्रकारभेदोदीरणार्थ श्लोकमवतारयति उच्यत इति । इज्यते पूज्यते परमेश्वरोऽनेनेति प्रकृते ज्ञाने यज्ञशब्दः, ईश्वरं चेति चकारोऽवधारणे । देवतान्तरध्यानत्यागमपिशब्दसूचितं दर्शयति अन्यामिति । अन्ये च ब्रह्मनिष्ठा- मिति यावत् । ज्ञानयज्ञमेव विभनते तच्चेति । उत्तमाधिकारिणामुपासनमुक्त्वा मध्यमानामधिकारि- णामुपासनप्रकारमाह केचिच्चेति । तेषामेवाहं यज्ञः स्मार्तः किंच स्वधाहं पितृभ्यो यद्दीयते तत्स्वधा तथाहमापधं सर्वप्राणिभिर्यदद्यते । प्रकारान्तरेणोपासनमुदीरयति केचिदिति । बहुप्रकारेणा- ग्न्यादित्यादिरूपेणेति यावत् ॥ १५ ॥ प० टी० । अथ ज्ञानिनः कथं भजन्त इत्याह ज्ञानयज्ञेनेति । अन्ये च ज्ञानयज्ञेन सर्वत्रा- त्मदर्शनरूपेण मां यजन्त एकत्वेन स्थलसमष्टिरूपेण पृथक्त्वेनेन्द्रादिविभूतिरूपेण बहुधा सर्वदेहिषु वा मां विश्वतोमुखं विश्वरूपमुपासते । श्रुतिश्च-" हंसः शुचिषद्वसुरन्तरिक्षसहोता वेदिषदतिथिई- रोणसत् । नृषद्वरसहतसयोमसदब्जा गोजा ऋतना अद्विजा ऋतं बृहत्" इति । भाष्यम्-एत- सर्व व्यष्टिरूपं मिलित्वा ऋतं बृहत् समाष्टरूपं सत्यं ब्रह्मैवास्ति । तदेवाह हंस इति । हंसो जीवो ब्रह्मैव तथा शुचौ ज्ञाने ज्ञेयत्वेनास्तीति शुचिषद् वसुः स्थूलप्रपञ्चरूपो विराडप्यन्तरिक्षसदाकाशे वर्तमानः सोऽपि । यहा वसुर्यज्ञः, तथा जुहोतीति होता सोऽपि ब्रह्मैव तथा वेदिषदुत्तरवेद्यां वर्तमानोऽ- तिधिरग्निः सोऽपि तथा दुरोणे यज्ञार्थस्थापिते द्रोणकलशे वर्तमानं दुरोणसत्, तथा नृषु मनुष्येषु तिष्ठतीति नृपद्वरेषु देवेषु तिष्ठतीति वरसत्, तथा ऋते प्राणे तिष्ठतीति ऋतसद्योनि तिष्ठतीति व्यो-

नषमाध्यायः।
२८३
मसत्, तथान्जा उदकजा जीवा गोना भूमिना ऋतजा वायुना अदिना पर्वतजाश्चेति सर्व
ब्रह्मरूपम् ॥ १५ ॥
अहं ऋतुरहं यज्ञः स्वधाहमहमौषधम् ॥
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
यदि बहुभिः प्रकारैरुपासते कथं त्वामेवोपासत इत्यत आह अह-
मिति । अहं श्रौतकर्मभेदोऽहमेवाहं यज्ञः स्मार्तः । किं च स्वधानमहं पि-
तृभ्यो यद्दीयते तत् स्वधा तथाहमौषधं सर्वप्राणिभिर्यदद्यते तदोषधशब्दवाच्य-
बीहियवादिसाधनमथवा स्वधेति सर्वप्राणिसाधारणमन्नमौषधमिति व्याध्युपश-
मार्थ भेषजं मन्त्रोऽहं यत् पितृभ्यो देवताभ्यश्च हविर्दीयतेऽहमेवाज्यं हविश्वाह-
मग्निर्यस्मिन् हूयते सोऽप्यमिरहमेवाहं हुतं हवनकर्म च ॥ १६ ॥
आ० टी० । भगवदेकविषयमुपासनं तर्हि न सिध्यतीति शङ्कते यदीति । प्रकारभेदमादाय
ध्यायन्तोऽपि भगवन्तमेव ध्यायन्ति तस्य सर्वात्मकत्वादित्याह अत आहेति । क्रनुयज्ञशब्दयोरन-
योरपौनरुक्त्यं दर्शयन् व्याचष्टे श्रीत इति । क्रियाकारकफलज्ञानं भगवदतिरिक्तं नास्तीति
समुदायार्थः ॥ १६ ॥
प० टी० । अथ सर्वरूपत्वं प्रपश्चयति अहमिति चतुर्भिः। तत्रापि बाह्यकर्मरूपत्वमादौ
वदति । क्रतुः श्रीतो ज्योतिष्टोमादिर्यज्ञः स्मार्तः पञ्चयज्ञादिः स्वधा पित्रर्थ श्राद्धादिरौषधमोषधि-
प्रभवं भेषजमन्नं वा मन्त्रः पुरोऽनुवाक्यादिराज्यं होमसाधनमग्निराहवनीयादिर्हतं होम एतत्सर्व-
महमेव ॥ १६ ॥
पिताहमस्य जगतो माता धाता पितामहः॥
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेवच ॥ १७॥
किं च पितेति । पिता जनयिताहमस्य जगतो माता जनयित्री धाता
कर्मफलस्य प्राणिभ्यो विधाता पितामहः पितुः पिता वेद्यं वेदितव्यं पवित्र
पावनमोङ्कारश्च ऋक्साम यजुरेव च ॥ १७ ॥
आ० टी० । इतश्च भगवतः सर्वात्मकत्वमनुमन्तव्यमित्याह किं चेति । पवित्रं पूयतेऽनेनेति
व्युत्पत्त्या परिशुद्धिकारणं पुण्यं कर्मेत्याह पावनमिति । वेदितव्ये ब्रह्मणि वेदनसाधनमोङ्कारस्तत्र
प्रमाणमृगादि च चकारादथर्वाङ्गिरसो गृह्यन्ते ॥ १७ ॥
प० टी० । किं च सूक्ष्मप्रपञ्चरूपोऽप्यहमस्मीत्याह द्वाभ्यां पितेति । पिता लिङ्गरूपो बीज-
प्रदत्वान्माता मानाश्रयत्वाद्धाता कर्मफलदाता वेद्यं ज्ञेयं वस्तु पवित्रं शोधकम् ॐकारो वाग्जो
ऽवाग्जश्चाहमृगादिवेदत्रयी चाहमेव ॥ १७ ॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥१८॥

- २८४ श्रीमद्भगवद्गीता- किंच गतिरिति । गतिः कर्मफलं भर्ता पोष्टा प्रभुः स्वामी साक्षी प्रा. णिनां कृतारुतस्य, निवासो यस्मिन् प्राणिनो निवसन्ति शरणमार्तानां प्रपन्ना- नामार्तिहरः सुदृत् प्रत्युपकारानपेक्ष उपकारी प्रभव उत्पत्तिर्जगतः प्रलयः प्रलीयते यस्मिन्निति प्रलयस्तथा स्थानं तिष्ठत्यस्मिन्निति निधानं निक्षेपः कालान्तरोपभोग्यं बीजं प्ररोहकारणं प्ररोहधर्मिणामव्ययं यावत् संसारभावित्वा- दव्ययं नयबीजं किंचित् प्ररोहति नित्यं च प्ररोहदर्शनाबीजसंततिर्न व्यतीत्येव गम्यते ॥ १८॥ आ० टी० । भगवतः सर्वात्मकत्वे हेत्वन्तरमाह किं चेति। गम्यत इति प्रकृतिविलयपर्यन्तं कर्मफलं गतिरित्याह कर्मेति । पोष्टा कर्मफलस्यैव प्रदाता । कार्यकरणप्रपश्चस्याधिष्ठानमित्याह निवास इति । शीर्यते दुःखमस्मिन्निति व्युत्पत्तिमाश्रित्याह शरणमिति । प्रभवत्यस्माज्जगदिति व्युत्पत्तिमादायोक्तम् उत्पत्तिरिति । कारणस्य कथमव्ययत्वमित्याशङ्कयाह यावदिति । कारणम- न्तरेणापि कार्य कदाचिदुदेष्यति किं कारणेनेत्याशङ्कयाह न हीति । मा भुत्तहि संसारदशायामेव कार्योत्पत्तिरित्याशङ्कयाह निसं चेति । कारणव्यक्ते शमङ्गीकृत्य तदन्यतमव्यक्तिशून्यत्वं पूर्वका- लस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि बीजेति ॥ १८ ॥ प० टी० । किं च गतिरिति । गम्यतेऽनेनेति गतिश्चरणव्यापारहेतुर्भर्ता पोषयिता प्रभु- नियन्ता साक्षी शुभाशुभद्रष्टा निवासो भोगस्थानं शरणं रक्षकः मुहत्प्रियतमः प्रष्ट उत्तमो भवश्वरमदहो यस्मात् प्रकर्षेण लयोऽपुनर्भयो यस्मात् निधीयते यस्मिन्निति निधानं बीनं कारणे सञ्चाव्ययमविनाशि । न तु ब्रह्यादिवीजवन्नश्वरमित्यर्थः ॥ १८ ॥ तपाम्यहमहं व निगृह्णाम्युत्सृजामि च ॥ अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९॥ किं च तपामीति । तपाम्यहमादित्यो भूत्वा कैश्चिद्रश्मिभिस्तपाम्यह वर्ष कैश्चिद्रश्मिभिरुत्सृजाम्युत्सृज्य पुनर्निगृह्णामि कश्चिद्रश्मिभिरष्टभिर्मासैः पुन- रुत्सृजामि प्रावृष्यमृतं चैव देवानां मृत्युश्च मर्त्यानां सद् यस्य यत् संब- न्धितया विद्यमानं तदिपरीतमसच्चैवाहमर्जुन न पुनरत्यन्तमेवासद्भगवान् स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तविकृतिप्रकारकत्वपृथक्त्वादिविज्ञानयज्ञैर्मा पूजयन्त उपासते ज्ञानविदस्ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥ १९ ॥ आ० टी० । इतश्च सर्वात्मत्वे भगवतो न विवदितव्यमित्याह किं चेति । 'आदित्याज्जा- यते वृष्टिः' इति स्मृतिमवष्टभ्य व्याचष्टे कैश्चिदिति । वर्षात्सर्गनिग्रहावेकस्यैकस्मिन् काले विरुद्वा- वित्याशकचाह अष्टभिरिति । ऋतुभेदेन वर्षस्य निग्रहोत्सर्गावेककर्तृकावविरुद्धावित्यर्थः । यस्य का- रणस्य संबन्धत्वेन यत् कार्यमभिषज्यते तदिह सदित्युच्यते कारणसंबन्धनानभिव्यक्तं कारणमेवान- भिव्यक्तनामरूपमसदिति व्यवहियते तदेतदाह सदिति । शून्यवादं व्युदस्यति न पुनरिति । भगवतोऽत्यन्तासत्त्वे कार्यकारणकल्पना निधिष्ठाना न तिष्ठेदित्यर्थः । तर्हि यथाश्रुतं. कार्यस्य सत्त्वं

नवमाध्यायः ।
२८५
क्रमप्राप्तः
कारणस्य चासत्त्वमास्थ्यमित्याशङ्कच वाशब्देन निषेधति कायति । तार्ह कार्यस्यात्यन्तिकं सत्वं
वाचारम्भणश्रुतेनापतिरस्यात्यन्तिकमसत्त्वं
कुतस्तु खलु इत्यादिश्रुतरित्यर्थः । उक्तैर्ज्ञानय-
ज्ञैर्भगवदभिध्यानाभिनिविष्टवुद्धीनां किं फलमित्याशङ्कय सद्यो वा क्रमेण वा मुक्तिरित्याह
ये इति ॥ १९ ॥
प० टी० । अथ स्थूलप्रपश्चरूपोऽप्यहमेवेत्याह तपामीति । कदाचित्प्रलयकाले द्वाद-
शादित्यरूपेण तपामि भूतजातं शोषयामि । श्रुतिरपि नारायणोपनिषत्सु “आई ज्वलति ज्योतिरह-
मस्मि ज्योतिर्वलति ब्रह्माहमास्मि' इत्यादि । भाष्यम्-प्रलयकाले आर्द्र शुक्रशोणितोद्भवं प्रा-
णिजातं ज्वलति द्वादशादित्यरूपेण संकर्षणमुखानलेन दह्यते तदा ज्योतीरूपस्तैजसो विराडस्मि
अथ यदा ज्योतिः सोऽपि ज्वलति तदा लिङ्गरूपं ब्रह्माहमस्मि तथा वर्ष पर्जन्यं निगृह्णाम्याकर्ष-
याम्याकर्षणं करोमि पुनः सृष्टिकाले वर्ष पर्जन्यमुत्सृजामि मुच्चामि अमृतं जीवनमहमेव मृत्युः
। एवमुपसंहरति सदिति । सव्द्यवहारसत् स्थूलप्रपश्चरूपमसत् सूक्ष्मप्रपश्चरू-
पमहमेव ॥ १९ ॥
वैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्२०
विद्येति । ये पुनरज्ञाः कामकामास्त्रविद्या ऋग्यजुःसामविदो याज्ञि-
कास्ते मां वस्वादिवेदरूपिणमिष्ट्वा संपूज्य यज्ञशेपं सोमपाः सोमं पि.
बन्तीति सोमपास्तेनैव सोमपानेन ते पूतपापाः शुद्धकिल्बिषा यज्ञैरग्निष्टोमा-
दिभिरिष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिस्तां प्रार्थयन्ते
ते च पुण्यं पुण्यफलमासाद्य संप्राप्य सुरेन्द्रलोकं शतकतोः स्थानमश्नन्ति भु-
जते दिव्यान् दिवि भवान् प्राकृतान् देवभोगान् देवानां भोगास्तान् ॥ २० ॥
आ० टी० । भगवद्गाक्तानामपि निष्कामानामेव मुक्तिरिति दर्शयितुं सकामानां पुंसां संसा-
रमवतारयति ये पुनरिति । तिस्रो विद्या अधीयन्ते विदन्तीति वा ते विद्या वेदविदस्तदाह -
गिति । वस्वादीत्यादिशब्देन सवनद्वयेशानादित्या रुद्राश्च गृह्यन्ते शुद्धकिल्बिपा निरस्तपापा -इति
यावत् ॥ २० ॥
प० टी । अथैकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखमित्यादिप्रकारेण ये न भजन्ति तेषां ज.
न्ममृत्युप्रवाहो दुरि इत्याह द्वाभ्याम् विद्या इति । ऋग्यजुःमामलक्षणास्तिस्त्रो विद्यास्तास्तु
कर्मफलप्रशंसनभागस्वैविद्यं तदनुष्ठातारविद्याः यज्ञावशेषीभूतं वल्लीरूपं सोमं पिबन्ति ते सोमपाः
पूतपापाः शोधितकल्मषाः सन्तो मामिन्द्रादिदेवतारूपिणमिष्ट्वा पूजयित्वा स्वर्गलोकप्राप्तिं प्रार्थयन्ते
ते पुण्यं पुण्यफलप्रदं सुरेन्द्रलोकमासाद्य प्राप्य दिवि स्वर्गे दिव्यान् देवोपभोग्यान् भोगानश्नन्ति
भुञ्जते ॥ २० ॥
तेतं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ॥
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥

२८६ श्रीमद्भगवद्गीता- ते तमिति । ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्ण क्षीणे पुण्ये म- र्त्यलोकमिमं विशन्त्याविशन्ति एवं हि यथोक्तेन प्रकारेण केवलं वैदिकं क- मानुप्रपन्नास्ते गतागतं गतं चागतं च गतागतं गमनागमनं कामकामाः कामान् कामयन्त इति कामकामा लभन्ते गतागतमेव न तु स्वातन्त्र्यं कचिल्लभन्त इत्यर्थः ॥ २१॥ आ० टी० । तर्हि स्वर्गप्राप्तेरपि भगवत्प्राप्तितुल्यतेत्याशङ्कयाह ते तमिति । पुण्ये स्वर्गप्राप्तिहेताविति यावत्, प्रसिद्धार्थों हिशब्दः, त्रयाणां होत्रादीनां वेदत्रयविहितानां धर्माणां समाहारस्त्रिधर्म तदेव त्रैधर्म्य तदनुप्रपन्नास्तदनुगता इति यावत् । कामकामानां गमनागमनद्वारा कामितत्फलाप्तिश्चेदिष्टमेव चेष्टितमित्याशङ्कयाह गतेति ॥ २१ ॥ प० टी० । ततः किं भवतीत्याह ते तमिति । ते तमुक्तप्रकारं स्वर्गलोकं विशालं स्थूलफ- लदं भुक्त्वा पुण्ये क्षीणे सति मर्त्यलोकं विशन्ति देवदेहं त्यक्त्वा पुनर्लिङ्गदेहेन गभं प्रविशन्ति । एवममुना प्रकारेण त्रयीधर्म त्रय्या दर्शितं फलप्रशंसनरूपं धर्ममनुलक्षीकृत्य प्रवृत्ता याज्ञिकाः का- मान् विषयान् कामयन्ते ते कामकामाः सन्तो गतागतं यातायातं लभन्ते । श्रुतिरपि शातपथी "आत्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्यकर्म क्षीयते । अस्माद्योवात्मनो यद्यत्कामयते तत्तत्मजते” इति । भाष्यम्-अन्यदेवतोपासनया नावरं फलं प्राप्यत इति पूर्वमुक्तं त- स्मादात्मानमेव लोकं लोक्यते प्राप्यते सर्वमनेनेति लोकस्तमेवात्मानमुपासीत नान्यम् । स य आत्मा- नमुपास्ते तस्य हेति निश्चयेन कर्म न क्षीयते भोगेनोपक्षीणं न भवति किं तु ज्ञानमुत्पाद्य मोक्ष प्रापयाते । अथ स विषयसुखापेक्षश्चेत्तार्ह तदप्यात्मन एव प्राप्यत इत्याह अस्मादिति । अस्मा- दात्मनः सकाशाद्यद्यत्कामयते तत्तत्सृजते सिध्यादिकमुत्पादयति किं पुनरन्यत् । तदुक्तं टिप्पणि- कासु-" यत्सत्यं तदुपासितव्यममुना सत्यं यतो लभ्यतेऽसत्योपासनया तथैव च फलं स्वप्नोत्थराज्या- दिवत् । आयासे सदृशेऽपि तुच्छफलदे मार्गे प्रवृत्तिः कथं माया वैभवमेतदेव तदिदं भक्त्या हरे- वाप्यते ॥ २१ ॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते॥ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥ अनन्या इति । ये पुनर्निष्कामाः सम्यग्दर्शिनोऽनन्या अपृथग्भूताः परं देवं नारायणमात्मत्वेन गताः संतश्चिन्तयन्तो मां ये जना : संन्यासिनः पर्युपासते तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं वहामि प्रापयाम्यहं ज्ञानी त्वात्मैव मे मतं स च मम प्रियो यस्मात्तस्मात्ते ममात्मभूताः प्रियाश्चेति नन्वेषामपि भक्तानां योगक्षेम वहत्येव भगवान् सत्यमेवं वहत्येव किं त्वयं विशेषोऽन्ये ये भक्तास्ते स्वात्मार्थ स्वयमपि योगक्षेममीहन्तेऽनन्यदर्शिनस्तु नात्मार्थ योगक्षेममीहन्ते न हि ते जीविते मरणे वात्मनो ग्रन्थि कुर्वन्ति केवलमेव भगवच्छरणास्तेऽतो भगवा- नेव तेषां योगक्षेमं वहतीति ॥ २२ ॥ १

नवमाध्यायः।
२८७
आ० टी० । फलमनभिसन्धाय त्वामेवाराधयतां सम्यग्दर्शननिष्ठानामत्यन्तनिष्कामानां कथं
योगक्षेमौ स्यातामित्याशङ्कयाह ये पुनरिति । तेषां योगक्षेमं वहामीत्युत्तरत्र संबन्धः । ये-
म्योऽन्यो न विद्यत इति व्युत्पत्तिमाश्रित्याह अष्टथगिति । कार्यस्येव कारणे कर्मतादात्म्यं व्या-
वर्तयति परमिति । अहमेव वासुदेवः सर्वात्मा न मत्तोऽन्यत् किंचिदस्तीति ज्ञात्वा तमेव प्रत्यक्षं सदा
ध्यायन्त इत्याह चिन्तयन्त इति । प्राकृतान् व्यावर्त्य मुख्यानधिकारिणो निर्दिशति संन्यासिन
इति । पर्युपासते परितः सर्वतोऽनवच्छिन्नतया पश्यन्तीत्यर्थः । नित्याभियुक्तानां नित्यमनवरतमाद-
रेण ध्याने व्यापूतानामित्याह सततेति । योगं च क्षेमं च योगक्षेमं । तत्रापुनरुक्तमर्थमाह योग
इति । किमर्थ परमार्थदर्शिनां योगक्षेमं वहामीत्याशङ्कयाह ज्ञानी त्विति । अतस्तेषां योगक्षेमं
वहामीति संबन्धः । सम्यगदर्शननिष्ठानामेव योगक्षेमं वहति भगवानिति विशेषणममृप्यमाणः शङ्कते
नन्विति । अन्येषामपि भक्तानां भगवान् योगक्षेमं वहतीत्येतदङ्गीकरोति ससमिति । तर्हि भक्तेषु
ज्ञानिषु च विशेषो नास्तीति पृच्छति किं त्विति । तत्र विशेष प्रतिज्ञाय विवृणोति अयमित्या-
दिना । योगक्षेममुद्दिश्य स्वयमीहन्ते चेष्टां कुर्वन्तीति यावत् । आत्मविदां स्वार्थयोगक्षेममुद्दिश्य
चेष्टाभावं स्पष्टयति न हीति । ग्रन्थिरपेक्षा कामानामित्येतत् । ज्ञानिनां तर्हि सर्वज्ञानास्थेत्याश-
कन्याह केवलमिति । तेषां तदेकशरणत्वे फलितमाह अत इति । इतिशब्दो विशेषशब्देन
संबध्यते ॥ २२ ॥
प० टी०। एवं क्षुद्रदेवतोपासकानां प्रयासवैयर्थ्यमुक्त्वा स्वोपासकानां सुखोपायप्राप्ति दर्श-
यति अनन्या इति । न विद्यते मत्तोन्यद्देवतान्तरं येषां तेऽनन्याः सन्तो ये जनाश्चिन्तयन्तः के
वलं स्मरन्तो न तु द्रव्यव्ययकायक्लेशं कुर्वाणा मामुपासते तेषां नित्यं निरन्तरमभियुक्तानामभितो
मद्योगदर्शिनामहं योगक्षेमं वहामि । अप्राप्तस्य प्राप्तियोगः प्राप्तस्य निर्विवतया रक्षणं क्षेमं निर्व-
हामि ॥ २२ ॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः॥
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ २३ ॥
ये इति । नन्वन्या अपि देवतास्त्वमेव चेत्तद्भक्ताश्च त्वामेव भजन्ते
सत्यमेवं येऽन्यदेवताभक्ता अन्यासु देवतासु भक्ता अन्यदेवताभक्ताः सन्तो य-
जन्ते पूजयन्ति श्रद्धयास्तिक्यबुद्दयान्विता अनुगतास्तेऽपि मामेव कौन्ते-
य यजन्त्यविधिपूर्वकमविधिरज्ञानं तत्पूर्वकमज्ञानपूर्वकं यजन्त इत्यर्थः ॥२३॥
आ० टी० । तत्तद्देवतात्मना परस्यैवात्मनः स्थित्यभ्युपगमाद्देवतान्तरपराणामपि भगवच्छ-
रणत्वाविशेषात्तदेकनिष्ठत्वमकिंचित्करमिति मन्वानः शङ्कते नन्विति । उक्तमङ्गीकृत्य परिहरति
ससमित्यादिना । देवतान्तरयाजिनां भगवद्याजिभ्यो विशेषमाह अविधीति । तद्व्याकरोति
अविधिरिति ॥ २३ ॥
प० टी० । ननु पूर्वमुक्तं मामिष्ट्वा स्वर्गतिं प्रार्थयन्त इति तर्हि त्वत्पूजनादधिगतस्वर्गाः पुनः
कथं स्वर्गाच्यवन्त इत्याशङ्कयाह येऽपीति द्वाभ्याम् । येऽन्यदेवताभक्ता इन्द्रादिदेवतोपासका
येऽपि श्रद्धयान्विताः सन्तो यजन्ते तेऽपि तदन्तर्यामित्वेन स्थितं मामेव यजन्ति । परं त्वविधिपूर्वकं
यजन्ति मोक्षप्रापकमद्वैतोपासनं विधिस्तदितरमविधिस्तत्पूर्वकं यजन्ति ॥ २३ ॥

२८८ श्रीमद्भगवद्गीता- अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ॥ न तु मामभिजानन्ति तत्त्वेनातभ्यवन्ति ते ॥२४॥ कस्मात्तेऽविधिपूर्वकं यजन्ते इत्युच्यते यस्माद् अहमिति । अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभु- वे च मत्स्वामिको हि यज्ञोऽधियज्ञोऽहमेवात्रेति चोक्तं तथा न तु मामभि- जानन्ति तत्त्वेन यथावदतश्चाविधिपूर्वकमिष्ठा यागफलात् च्यवन्ति प्रच्यव- न्ते ते ॥२४॥ आ० टी० । ननु वस्वादित्येन्द्रादिज्ञानपूर्वकमेव तद्भक्तास्तद्याजिनो भवन्तीति कथमविधि- पूर्वकं तेषां यननमिति शङ्कते कस्मादिति । देवतान्तरयाजिनां यननमविधिपूर्वकमित्यत्र हेत्वर्थत्वेन श्लोकद्वयमुत्थापयति उच्यत इति । सर्वेषां द्विविधानां यज्ञानां वस्वादिदेवतात्वेनाहमेव भोक्ता स्वे- नान्तर्यामिरूपेण प्रभुश्चाहमेवेति प्रसिद्धमेतदिति हिशब्दः । प्रभुरेव चेत्युक्तं विवृणोति मत्स्वा- मिको हीति । तत्र पूर्वाध्यायगतवाक्यं प्रमाणयति अधियज्ञोऽहमिति । तथापि देवतान्तरयाजिनां यजनमविधिपूर्वकमिति कुतः सिद्धं तत्राह तथा इति । ममैव यज्ञेषु भोक्तृत्वे प्रभुत्वे च सतीति यावत् । तयो क्तृप्रभवो वस्तत्वं तेन भोत्कृत्वेन प्रभुत्वेन च मां यथावद् यतो न जानन्त्यतो भोक्तृ- त्वादिना ममाज्ञानान्मय्यनर्पितकर्माणश्चावर्तन्ते कर्मफलादित्याह अतश्चति ॥ २४ ॥ प० टी० । एतदेव विविच्याह अहमिति । हि यस्मात्कारणादहमेव सर्वयज्ञानां भोक्ता प्रभुः फलदाता च । एवं सति मां तत्त्वेन याथातथ्येन नाभिनानन्त्यतस्ते घ्यवन्ति पुनर्मर्त्यलोके विशन्ति । अत्रैतदुक्तं भवति । देवर्षिपितृपूर्वकास्तावन्नश्वरनामरूपोपेता देहविशेषा मदुपाधयस्तत्तल्लो- के वसन्ति तत्र तत्र सर्वेपामन्तर्याम्यहमेवास्म्येवंविधं मामज्ञात्वा पृथक्त्वेन तत्तदुपाध्युद्देशेन यत्कृतं यजनं तेनाहमेव संतर्पितो भवामि ततो मत्संतर्पणशेषेण तेऽपि संतर्पिता भवेयुः । तथा च मामह- यानन्दमखण्डैकरसमुद्दिश्य यदुपासनं स एव विधिस्तथा मूढानां यदुपाध्युपासनमेवाविधिस्तत्पूर्वकं यजनं नश्वरफलं स्यात् । अत्र श्रुतिरपि शातपथी-“अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽ- हमस्मीति न स वेद यथा पशुविम्” इति । स्पष्टोऽर्थः । तथा “ अथो अयं वात्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यनते तेन देवानां लोकोथ यदऽनुब्रूते तेन ऋषीणामथ यत्प्रजामिच्छते यत्पितृ- भ्यो निपूणाति तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्प- शुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयाङ्स्यापिपीलिकाभ्य उपजीवन्ति ते- न तेषां लोको यथा हवै स्वाय लोकायारिष्टमिच्छन् देवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमासितम्” इति । भाप्यम्-अथो अनन्तरं वा इति प्रकारान्तरेणोच्यते । तत्किम्, अय- मात्मा सर्वेषां भूतानां लोकः संतर्पणस्थानं तथा च सोऽधिकारी ऋत्विग् यज्जुहोति मन्त्रपूर्वकं हवि- रग्नौ तिपति । तथा यद्यजते स्वातन्त्र्येण यज्ञकर्ता यहा श्रौतस्मार्तप्रकारेण तेन देवानामिन्द्रसूर्या- दीनां लोक आत्मा संतर्पितो भवति । अथ यदनुबूते स्वाध्यायमधीते तेन ऋषीणां यत्पितॄणामृणप- रिहारिणी प्रनामिच्छते इच्छति अथवा यत्पितृभ्यो निपृणाति श्राद्धे ददाति तेन पितॄणां तथा मनु- प्यान् वासयते आवासं कृत्वा ददाति तथा यदेभ्यो मनुष्येभ्योऽशनमन्नं ददाति तेन मनुष्याणां लोकेऽथ पशुभ्यो महिषीबलीवादिभ्यस्तृणोदकं विन्दति तेन तेषाम् । तथा यदस्य गृहेषु श्वा- पदाः श्वमानीरादयो वयांसि पक्षिणः काककलविङ्कादयः पिपीलिका मर्यादाकत्य कीटविशेषा नवमाध्यायः । २८९ . उपजीवन्ति तेन तेषां लोक आत्मैव संतर्पितः स्यात् । यथा वै इति निश्चयेन स्वाय लोकाय परमा- त्मने ऽविष्टि कुशलं वाञ्छति । एवमेतदेव विदितं ज्ञातमिति वदन्ति तथा मीमांसितं विचारित- मेतदन्यदज्ञातमविचारितं चेत्यर्थः । तदुक्तं टिप्पणिकासु 'सुरर्षिपितृमानवप्रभृति दत्तमेवंविदा तदाहुरमृतप्रदं यदभवत्तदात्मार्पणम् । अदायि पदलब्धये क्रतुभुनामनेवंविदा गतं गतपरिश्रमप्रदमस- त्यसतर्पणात् ॥ १।.' तथा 'एकोऽनेकैः स्वरूपैनटति नटवरो दर्शयन् हावभावांस्तत्तद्रूपान् पृथग- भिलषितेष्वत्र सामाजिकेषु । कस्मै चित्कश्चिदर्थ वितरति मुदितस्तेन संतर्पितः स्यादेकः सर्वान्तरा. त्मार्पणमखिलतनुभ्योऽर्पितं स्यात्तथैव ॥ २ ॥' इति । ऋग्वदेडपे । 'हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम” इति। भाष्यम्- 'हिरण्यगर्भ इति दशर्च सूक्तं त्रैष्टुभम्' इति सर्वानुक्रमः । तत्र प्रथमा हिरण्यगर्भ इति । हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भोऽये प्रपञ्चोत्पत्तेः प्राक समवर्तत । मायाध्यक्षा- त्सिमृक्षोः परमात्मनः सकाशात्ममजायत । यद्यपि परमात्मैव हिरण्यगर्भस्तथापि तदुपाधिभूतानां वियदादीनां सूक्ष्मभूतानां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्यत्पन्न इत्युच्यते । स च जातो जातमात्र एवैको ऽद्वितीयः सन् भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिरीश्वर आसीत् । न केवलं पतिरासीत् किं तु पृथिवों द्यां दिवं च दाधार धारयत्येवं सति तं सर्वात्मकमपहाय कस्मै देवाय हविषा कृत्वा विधेम परिचरेम सर्व ब्रह्मार्पणमेव भवतीत्यर्थः ॥ २४ ॥ यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रताः ॥ भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥२५॥ यान्तीति । येऽप्यन्यदेवताभक्तिमत्त्वेनाविधिपूर्वकं यजन्ते तेपामपि यागफलमवश्यंभाविकं कथं, यान्ति गच्छन्ति देवव्रता देवेषु व्रतं नियमो भ- क्तिश्च येषां ते देवव्रता देवान् यान्ति पितॄनग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ता भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्या भूतानां पूजका यान्ति मद्याजिनो मद्यजनशीला वैष्णवा मामेव यान्ति समानेऽप्यायासे मामेव न भजन्तेऽज्ञानात्तेन तेऽल्पफलभाजो भवन्तीत्यर्थः ॥ २५॥ आ० टी० । यद्यन्यदेवताभक्ता भगवत्तत्वाज्ञानात् कर्मफलाच्चयवन्ते तहि तेषां देवतायन- नमकिंचित्करमित्याशङ्कयाह येऽपीति । देवतान्तरयानिनामनावृत्तिफलाभावेऽपि तत्तद्देवतायागानु- रूपफलप्राप्तिध्रौव्यान्न तदकिंचित्करमित्यर्थः । देवतान्तरयाजिनामावश्यकं तत्फलमाशङ्कापूर्वकमुदा- हरति कथमिसादिना । नियमो बल्युपहारप्रदक्षिणप्रवीभावादिरित्यर्थः । देवतान्तराराधनस्यान्तव- त्फलमुक्त्वा भगवदाराधनस्यानन्तफलत्वमाह यान्तीति । भगवदाराधनस्यानन्तफलत्वे देवतान्तरा- राधनं त्यक्त्वा भगवदाराधनमेव युक्तमायाससाम्यात् फलातिरेकाच्चेत्याशङ्कयाह समानेऽपीति । अज्ञानाधीनत्वेन देवतान्तराराधनवतां फलतो न्यूनतां दर्शयति तेनेति ॥ २५ ॥ ५० टी० । एवमुपक्रान्तप्रमेयस्य फलितमर्थमाह यान्तीति । देवेविन्द्रादिषु व्रतं नियमो येषां ते देवानन्तवतो यान्ति तथा पितृव्रता नियमेन पण्णवतिश्राद्धकर्तारः पितॄन्यान्ति भूतेषु विना- यकमातृकादिष्विज्या येषां ते भूतानि यान्ति । तथा मां सर्वात्मकं यजन्ते मद्याजिनो मां यान्ति म- ३

२९.
श्रीमद्भगवद्गीता-
दूपतां प्राप्नुवन्ति । तथा च मत्संतर्पणेन सर्वे देवाः संतर्पिता भवन्तीत्यर्थः । तदुक्तम्-‘स्मृत्या लोकेषु
वर्णाश्रमविहितमदो नित्यकाम्यादिकर्म सर्व ब्रह्मार्पणं स्यादिति निगमगिरः संगिरन्तेऽतिरम्ये । यन्ना-
सानेत्रनिहाकरचरणाशिरःश्रोत्रसंतपणेन तुप्येदादिश्च साक्षात्तरूरिव सकलो मूलसंतपणेन ॥ २५ ॥
पत्रं पुष्पं फलं तोयं यो मे भत्तया प्रयच्छति ॥
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥
पत्रमिति । न केवलं मद्भक्तानामनावृत्तिलक्षणमनन्तफलमुक्तं सुखारा-
धनश्वाहं कथं, पत्रं पुष्पं फलं तोयमुदकं यो मे मह्यं भक्त्या प्रयच्छति तदहं
पत्रादि भक्त्योपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहतमश्नामि गृह्णामि प्रयता-
त्मनः शुद्धबुद्धेः ॥ २६॥
आ० टी० । अनन्तफलत्वाद्भगवदाराधनमेव कर्तव्यमित्युक्तं सुकरत्वाच्च तथेत्याह न केव-
लमिति । भगवदाराधनस्य सुकरत्वमेव प्रश्नपूर्वकं प्रपश्चयति कथमिसादिना । यदि पुष्पादिकं
भक्तिपूर्वकं मदर्थमर्पितं तेनायं शुद्धचेतास्तपस्वी मामाराधयतीत्यहमवधारयामीत्याह पत्रमित्या-
दिना ॥ २६ ॥
प० टी० । तदेव पित्रादिप्राप्त्यर्थ कायक्लेशाथं व्ययादिना भूयानायासोऽस्ति मत्प्राप्तिस्तथा
नेत्याह पत्रमिति । तस्य प्रयतात्मनः शुद्धचित्तस्य पुरुषस्य तत्पत्रपुष्पादिकमहमश्नामि गृह्णामि
नान्यस्य । तस्य कस्य, यो मे मह्यं भक्त्या भावेन प्रयच्छति न दम्भेन । तत्किम्, भक्त युपतम् ।
भक्त्या भजनेनार्जवेनानीतं न तु चलात्कारेण चौर्येण वा । तस्मादवाप्तसकलकामोऽहं मक्यैव लम्यो
नोपचारैरित्यर्थः ॥ २६ ॥
यत् करोपि यदश्नासि यजुहोषि ददासि यत् ॥
यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥२७॥
यदिति । एवमतो यत् करोषि यदाचरसि शास्त्रीयं कर्म स्वतः प्राप्त
यदनासि यत् खादसि यज्जुहोपि हवनं निवर्तयसि श्रीतं स्मार्त वा यद्ददा-
सि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्मयपात्ररत्नादि यत्तपस्यसि कौन्तेय तत्
कुरुष्व मदर्पणं मत्समर्पणम् ॥ २७ ॥
आ० टी० । तदाराधनस्य सुकरत्वे तदेवावश्यकमित्याह यत इति । स्वतः शास्त्राढते
प्राप्तं गमनादीति यावत् । यदभासि य कंचिद्भोगं भुक्षे । हवनस्य स्वतस्त्वं वारयति श्रौतमिति ।
मत्समर्पणं तत् सर्व मह्यं समर्पयेत्यर्थः ॥ २७ ॥
प० टीः । तदेवं पत्रपुष्पाद्यर्पणार्थ मत्प्रतिमाविभूतिगवेषणप्रयासो मास्त्वित्याह यदिति ।
स्वभावतः शास्त्रतो वा करचरणव्यापारेण यत्किचित्कर्म करोषि यदनासि भोक्तुमिच्छसि जुहोप्य-
नौ क्षिपसि ददासि तपस्यसि च तत्सर्वं मदर्पणं कुरु । संकल्पमात्रेणैव मदर्पणं भवति न पुनदर्श-
नाद्यपेक्ष्येत्यर्थः ॥ २७ ॥

नवमाध्यायः। २९१ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥ एवं कुर्वतस्तव यद्भवति तच्छृणु शुभाशुभफलैरिति । शुभाशुभफलैरेवं शुभाशुभे इष्टानिष्टफले येषां तानि. शुभाशुभफलानि कर्माणि तैः शुभाशुभ- फलैः कर्मबन्धनैरेवं मत्समर्पणं कुर्वन् मोक्ष्यसे सोऽयं संन्यासयोगो नाम संन्यासश्चासौ मत्समर्पणतया कर्मकर्तृत्वाद्योगश्चासाविति तेन संन्यासयोगेन युक्त आत्मान्तःकरणं यस्य तव स त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः क- मबन्धनजीवन्नेव पतिते चास्मिन् शरीरे मामुपैष्यस्यागमिष्यसि ॥ २८ ॥ आ० टी० । किमतो भवति तदाह एवमिति । भगवदर्पणबुड्या सर्वकर्म कुर्वतो जीवन्मु- तस्य प्रारब्धकर्मावसाने विदेहकैवल्यमावश्यकमित्याह शुभेसादिना । भगवदर्पणकारणान्मुक्तिः संन्यासयोगाच्चेति साधनद्वयशङ्कां शातयति सोऽयमिति ॥ २८ ॥ प० टी० । तत्फलमाह शुभाशुभरिति । एवममुना प्रकारेण मदर्पणधिया क्रियमाणानां कर्मणां कर्मबन्धनैष्कर्म्यनिबन्धनैः शुभाशुभफलैरिष्टानिष्टैमोक्ष्यसे विमुक्तो भविष्यसि । यथायौ भ- नितबीनानामङ्करोत्पादकत्वं नास्ति तथैव ब्रह्मार्पणधिया कृतानां कर्मणां फलजनकत्वं नास्तीत्यर्थः । ततश्च संन्यासयोगेन प्रागुक्तेन युक्त आत्मा चित्तं यस्यैवंविधस्त्वं विमुक्तो जीवन्मुक्तदशां प्राप्य मामुपैयसि ॥ २८ ॥ समोऽहं सर्वभूतेषु न मे द्वेप्योऽस्ति न प्रियः ।। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥ रागद्देपवांस्तर्हि भगवान् यतो भक्ताननुगृह्णाति नेतरानिति तन स- मोऽहमिति । समस्तुल्योऽहं सर्वभूतेषु न मे इष्योऽस्ति न प्रियोऽग्निवदहं दू- रस्थानां यथाग्निःशीतं नापनयति समीपमुपसर्पतामपनयति तथाहं भक्ताननुगृ- हामि नेतरान् ये भजन्ति तु मामीश्वरं भक्त्या मयि ते स्वभावत एव न मम रागनिमित्तं मयि वर्तन्ते तेषु चाप्यहं स्वभावत एव वर्ते नेतरेषु नैतावता तेषु हेपो मम ॥२९॥ आ० टी० । भगवतो रागद्वेषवत्त्वेनानीश्वरत्वमाशय परिहरति रागेसादिना । तर्हि भगवद्भजनमकिंचित्करमित्याशङ्कयाह अग्निवदिति । तत्प्रपश्चयति यथेति । भक्तानभक्तांश्चानुगृह्ण- तोऽननुगृह्णतश्च भगवतो न कथं रागादिमत्त्वमित्याशकचाह ये भजन्तीति । ये हि वर्णाश्रमादि- धर्मा भजन्ति ते तेनैव भजनेनाचिन्त्यमाहात्म्येन परिशुद्ध बुद्धयो मयि मत्समीपे वर्तन्ते मदभिव्य- क्तियोग्यचित्ता भवन्ति, तुशब्दोऽस्य विशेषस्य द्योतनार्थः, तेषु च समीपे समक्षं तेषामहमपि.स्वभा- वतो वर्तमानस्तदनुग्रहपरो भवामि, यथा व्यापकमपि सावित्रं तेजः स्वच्छे दर्पणादौ प्रतिफलति १ स्वान्येव कर्मबन्धनानि तैः कर्मबन्धन-पा० लि. पु.

२९२ श्रीमद्भगवद्गीता- - तथा परमेश्वरोऽवर्जनीयतया भक्तिनिरस्तसमस्तकलुपसत्त्वेषु पुरुषेषु संनिधत्ते दैवी प्रकृतिमाश्रिता भजन्तीत्युक्तत्वादित्यर्थः ॥ २९ ॥ प० टी० । तर्हि भक्तेभ्य एव मोक्षं ददासि नाभक्तभ्यस्तेन तवापि रागद्वेषप्रयुक्तं वैषम्यं स्यादित्याह समोऽहमिति । अहं सर्वभूतेषु समः समस्वभावोऽस्म्यतो मे मम द्वेष्यः प्रियो वा क- श्चिदपि नास्ति किं तु ये मां भक्त्या भजन्ति ते मय्यनुग्राह्यत्वेन वर्तन्ते अहमपि तेष्वनुग्राहकत्वेन वर्ते,ये तु न भजन्ति ते यथावस्थिता एव तिष्ठन्ति, मयि तु रागद्वेषव्यवस्था नास्तीत्यर्थः । ये यथा मां प्रपद्यन्ते' इति पूर्वमेवोक्तम् । यथा मार्गे स्थितं वृक्ष केऽपि फलार्थिनः केऽपि पुप्पार्थिनः केऽपिच्छाया- थिनः श्रयन्ते ते स्वस्वाभिमतं लभन्ते वृक्षस्य तु नोभयत्रापेक्षोपेक्षा वा । श्रुतिरपि ऋग्वेदे-" या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमाः। शिक्षा सखिभ्यो हविपि स्वधा वः स्वयं यजस्व तन्वं वृधानः" इति । भाप्यम्-भो विश्वकर्मन् विश्वानि सर्वाणि कर्माणि यदमिति विश्वकर्मा परमे- श्वररतस्य संबुद्धिस्ते तव या यानि परमाण्युत्कष्टानि धामानि देवशरीराणि तथा यान्यवमान्य- परुष्टानि पश्वादिशरीराणि तथा यानि मध्यमा मध्यमानि मनुष्यशरीराणि सन्ति तेषु मध्ये सखि- भ्यः स्वानुकूलेभ्यः शिक्षा ज्ञानापेदशस्तथा हविधि प्रलयकाले होतव्यत्वेन प्राप्ते स्वप्रतिकूले जीव- जाते वो युस्माकं स्वधा स्वस्मिन् ध्रियत आरोप्यते सा स्वधा मायाज्ञानमिति स्वयमेव प्राप्तमस्ति । त्वं तु तन्वं शरीरं वृधानो वर्धमानः प्रकटीकुर्वाणो यजस्व भजस्व अनुग्राहयस्वेत्यर्थः ॥ २९ ॥ अपि चेत् सुदुराचारो भजते मामनन्यभाक् ॥ साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः॥३०॥ शृणु मद्भक्तेमाहात्म्यम् अपि चे दिति । अपि चेद् यद्यपि सुष्टु दुराचा- रः सुदुराचारोऽतीवकुत्सिताचारोऽपि भजते मामनन्यभाग नान्यभाक्तिः सन् साधुरेव सम्यग्दृत्त एव स मन्तव्यो ज्ञातव्यः सम्यग् यथावद् व्यवसितो हि यस्मात् साधुनिश्चयः सः ॥ ३० ॥ आ० टी० । प्रकृतां भगवद्भक्तिं स्तुवन् पारीय मामपि तत्राधिकागेऽस्तीति सचयति शृ- ग्विति । सम्यग्वृत्त एव भगवदको ज्ञातव्य इत्यत्र हेतुमाह सम्यगिति ॥ ३० ॥ प० टी० । अपि च मद्रवितयः प्रभाव इत्याह अपि चेति । सुतरामत्यन्तं दुराचारोऽ- पि संश्चेन्मां भजते । किंमतोऽनन्यभाक् । मत्तो नान्यद्देवतान्तरं भनते । तत्पापपरिहारसमर्थ मय्यध्यवसायं कृतवान् ॥ ३० ॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति ॥ कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥ क्षिप्रमिति । उत्सृज्य च बाह्यां दुराचारतामन्तः सम्यग्व्यवसायसाम- यात् क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्त एव शश्वन्नित्यं शान्ति चोपशमं निगच्छति प्राप्नोति शृणु परमार्थ कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु न मे मम भक्तो मयि समर्पितान्तरात्मा मद्भक्तो न प्रणश्यतीति ॥ ३१॥ ॥

नवमाध्यायः । २९३ आ० टी० । हेत्वर्थमेव प्रपश्चयति उत्सृज्येति । भगवन्तं मनमानस्य कथं दुराचारता प- रित्यक्ता भवतीत्याशङ्कयाह क्षिप्रमिति । सति दुराचारे कथं धर्मचित्तत्वं तदाह शवदिति । उप- शमो दुराचारादुपरमः । किमिति तद्भक्तस्य दुराचारानुपरतिरुच्यते दुराचारोपहतचेतस्तया किमि त्यसौ न नझ्यतीत्याशङ्कयाह गृण्विति ॥ ३१ ॥ प० टी० । अथ तदेव सहेतुकमाह क्षिपमिति । मगजनेन क्षिप्रं तत्कालमेव धर्मात्मा भवति शुद्धचित्तः सन् शाश्वती शान्ति निगच्छति प्राप्नोति । तदुक्तम्-‘विकर्म यच्चोत्पतितं कथं चिडुनो- ति सर्व हदि संनिविष्टः' इति । अत्रार्थे संदिहानमर्जुनं प्रोत्साहयन्नाह न मे भक्त इति । मद्भक्तो मद्- जनशीलत्वाद्विधूतकल्मषः सन्न प्रणश्यतीति प्रतिजानीहि प्रतिज्ञां कुरु । अत्रोदाहरणमुद्धवोऽभूद्यतो मुनिशापेन सर्वयादवकुलसंहारेऽप्यात्यन्तिकभक्तियोगान्नाशं न प्राप्तवानित्यर्थः । ' नानोऽस्ति यावती शक्तिः, इत्यादिना नाममात्रस्यैतादृक् सामथ्यं किं पुनरनन्यभजनस्येति तात्पर्यम् ॥ ३१ ॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः॥ स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥३२॥ किं च मां हीति । मां हि यस्मात् पार्थ व्यपाश्रित्य मामाश्रित्याश्रयत्वे- न गृहीत्वा येऽपि स्युर्भवेयुः पापयोनयः पापानि योनिउँपां ते पापयोनयः पापजन्मानः । के त इत्याह स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति गच्छन्ति परां गतिं प्रकृष्टां गतिम् ॥ ३२ ॥ आ० टी० । इतश्च भगवद्भक्तिर्विधातव्येत्याह किंचेति । न मे भक्तः प्रणश्यतीत्यत्र हेतु- माचक्षाणा भक्त्यधिकारे जातिनियमो नास्तीत्याह मां हीति ॥ ३२ ॥ प० टी० । अथ नहि मद्गक्तिः कुलाचाराद्यपेक्षत इति प्रतीतिमुत्पादयन्नाह मामिति । भो पार्थ हीति निश्चयेन मां व्यपाश्रित्यानन्यतया मदाश्रयं प्राप्य ये पापयोनयः स्युः पापाधिका- रिणी योनिरुत्पत्तिर्यपां ते तथाविधास्तेऽपि परां गतिं यान्ति । अत्राथै प्रतीतिमुत्पादयति स्त्रिय इति । अनृतं साहसं माया मुर्वत्वमतिलुब्धता' इत्यादिनिमर्गदोषोपहताः स्त्रियो गोपिकास्तत्रापि जार- बुद्ध्या संगतास्तथा वैश्याः कृप्यादिना गोपरक्षणकर्तारो नन्दगोपप्रमुखास्तथा शूद्रास्तत्परिचारका अपि मदाश्रयेण परमां गति यान्तीति वस्तुमहिमा तावदलौकिक इति पूर्वमेव सदृष्टान्तमुक्तं स्पर्शा- श्माप्यश्मसारमिति । श्रुतिरपि तैत्तिरीयके “त्वामग्ने यजमाना अनुन्विश्वा वमूनि दधिरे वार्याणि । त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिना विवत्रुः” इति । भाप्यम्-भो अग्ने वैश्वानर विश्वरूप विश्वं वैश्वानरो विराडिति परिभाषोक्तेः । त्वामनुग्रून् प्रतिदिवसान् यजमाना यजन्तः पूजयन्तो वार्याणि वारयितुं योग्यान्यदेयान्यपि विश्वा विश्वानि सर्वाणि वसूनि धनानि दधिरेऽ- पितवन्तो यत उशिजो मेधाविनो मोक्षार्थिनो वसतिमपेक्षमाणा वा गोमन्तं धनप्रचुरं व्रजं गोकुलाख्यं घोषं विवब्रुवरयांचक्रुः । किमुद्दिश्य, त्वया सह त्वत्संनिधानेन द्रविणं विषयभोगमिच्छमाना अपे- क्षमाणास्तावतैव कृतार्थाः । ऋग्वेदेएि-“ता वां वास्तून्युप्मसि गमध्ये यत्र गावो भुरिशृङ्गा अयासः। अत्राह तदुरुगायस्य कृष्णः परमं पदमवभाति भूरि" । भाप्यम्-चां वयमुप्मास त्रिविधतापप्राप्तौ सत्यां तानि वास्तूनि गृहाणि गमध्यै गन्तुं प्राप्तुमयासो गन्तारः । तानि कानि, यत्र येषु गृहेषु भूरि- शृङ्गा गावः सन्ति । शृङ्गा इत्युपलक्षणं तेन महाप्रमाणा महौधस्का इत्यर्थः । अहेत्यव्ययमेवकारार्थे । अत्रात्रैव गेहेषु तस्योरुगायस्य उरुभिवेदीयमानस्य विष्णोभूरि महत्तरमलुप्तशक्तिमत् परमं २९४ श्रीमद्भगवद्गीता- पदं पारमार्थिक रूपं कृष्णो यादवोऽस्तीति वैदेरुच्यत इत्यर्थः । सामसंहितास्वपि--"प्र सो अमे तवो- तिभिः सुवीराभिस्तरति वानकर्मभिः यस्य त्वमावितथ" इति । भाप्यम्-भो अमे विश्वरूप स. पु. रुषस्तवोतिभिस्तव रक्षणैः कृत्वा संसारं प्रतरति । किंभूताभिरूतिभिः, मुवीराभिः सुतरां शक्ताभिरत एव वाजकर्मभिर्वाजस्य बलस्य कर्मभिः कारणरूपाभिः । यद्रक्षणेन कृत्वा सकलविघमूर्ध्नि पदं धस इत्यर्थः । स कः पुरुषो यस्य त्वमवितथसख्यं प्राप्तोऽसि । अत्राथै रैवतं सामापि “ रेवतीर्न सधमाद इन्द्रे सन्तु तुविवाजाः क्षुमन्तो याभिर्मदेम" इति । भाष्यम्---इन्द्रे परमात्मनि भगवाते सधमादेऽ- ऽस्माभिः सह हर्षयुक्ते सति क्षुमन्तो नयन्तश्चारयन्तो वयं याभिगोभिर्मदेम हृप्येम । ता गावो रेवतीः क्षीराज्यादिधनव यस्तुविवानाः प्रभूतबलाश्च सन्तु । एतस्य गानं सामदर्पणे----रारेवतीशब्द आ- त्वम् त्राधाद्रावामार्गाः । एतान्युदातकर्पणानि षटक्षमन्त इति नकारलोपः। ईहाऔहोहोइडा एत- एव स्तोमाः षट् ॥ ३२ ॥ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥३३॥ किं पुनरिति । किं पुनर्ब्राह्मणाः पुण्याः पुण्ययोनयो भक्ता राजर्पयस्त- था राजानश्च ते ऋषयश्चेति राजर्षयो यत एवमतोऽनित्यं क्षणभरमसुरवं च सुखवर्जितं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ॥ ३३ ॥ आ० टी० । यदि पापयोनिः पापाचारश्च त्वद्भक्त्या परां गतिं गच्छति तर्हि किमुत्तमना- तिनिमित्तेन संन्यासादिना किं वा सहृत्तेनेत्याशङ्कयाह किं पुनरिति । उत्तमजातिमतां ब्राह्मणा- दीनामतिशयेन परा गतिर्यतो लभ्यतऽतो भगवद्भजनं तैरकान्तेन विधातव्यमित्याह यत इति । मनुष्यदेहातिरिक्तेपु पश्वादिदेहेषु भगवद्गजनयोग्यताभावात् प्राप्ते मनुष्यत्वे तद्गजने प्रयतितव्यमि- त्याह दुर्लभमिति ॥ ३३ ॥ प० टी० । सत्यवं सत्कुलाचारवतः किं पुनरित्याह किं पुनरिति । ब्राह्मणा वेदविदः पुण्याः सदाचारवन्तस्तत्रापि भक्ता मद्जनशीलास्तथा राजानश्च ते ऋषयश्च जनकाद्याः पृथग्वा राजान ऋषयश्चेति परां गति यान्तीति किं चित्रम् । एवं त्वमपि राजर्षिरस्यतो मां भजस्वेत्यर्थः । तदुक्तं बोधसुधाकरे-'अयमृत्तमोऽयमधमो जात्या रूपेण संपदा वयमा । श्लाघ्योऽश्लाघ्यो वेत्थं न वेत्ति भगवाननुग्रहावसरे ॥१॥ अन्तस्थभावभोक्ता यतोऽन्तरात्मा यथा महामेघः । खदिरश्चम्पक इति वा प्रवर्षणे किं विचारयति' इति । श्रुतिरपि शातपथी-"तद्यो यो देवानां प्रत्यबुध्यत स एव तद- भवत्तया ऋषीणां तथा मनु-याणाम्" इति । भाप्यम्-उदात्माख्यं वस्तु देवानां मध्ये यो यः प्रत्य- बुध्यत ज्ञातवान् स एव तदभवब्रह्मरूपोऽभवत् तथैव ऋषीणां मनुष्याणां च तथा चात्मप्राप्ती न जात्यादितारतम्यमित्यर्थः । ऋकशाखायामपि--" सर्वे नन्दन्ति यशसा गतेन सभासाहेन सख्या सखायः" इति । भाप्यम्-न तस्य प्रतिमास्ति तस्य नाम महद्यश इति श्रुतेर्यशसा परमात्मना गतेन प्राप्तेन सर्वे देहिनो नन्दन्ति परमानन्दाप्लुता भवन्ति । किंभूतेन सभासाहेन सभामिन्द्रियसभा लौकिकव्यवहारं वा सहते आक्रमते तथाविधेन । पुनः किंभूतन, सख्योपकारकेण । किंभूताः सर्वे सम्वायः सर्वभुतसूहत्तमास्तथा च सर्वभूतसुहत्तमत्वमेवात्मप्राप्तनिदानं नतूत्तमाधमत्वमिति रावण- भाप्यम् । ब्राह्मणं त्वेतां श्रुतिमधिदविकस्थित्या व्याकरोति यशो वै सोमो राजेत्यादिना । अथ नवमाध्यायः । २१५ प्रकृतमनुसरामः । अस्मिन्नर्थे मा विलम्ब कुर्वित्याह अनियमिति । इममनित्यं क्षणभरमसुखं दुःखै- कनिदानं लोकं मर्त्यलोकं मनुष्यदेहं प्राप्य मां परमात्मानं भजस्व नित्यं मदनुसंधानमेव मद्भजनम्, अत्र विलम्बो मास्त्वित्यनित्यानि पदानि । अतोऽप्यग्रेऽधमयोनिप्राप्ती किं च लप्स्यतीत्यर्थः । श्रुतिरपि सामसंहितासु-"आवो राजानमध्वरस्य रुतारं सत्ययजं रोदस्योः । अग्निं पुरा तनयित्नोरचिताद्धि- रण्यरूपमवसे कृणुध्वम्" इति । भाष्यम्-भो यजमाना अणुचित्ताःसर्वेन्द्रियोपरमरूपान्मरणात्तनयित्नो- सकस्मिकाशविरूपात्पुरा पूर्व जीवदशायामवाग्निं प्रकाशमानं हिरण्यरूपं हिरण्यगर्भमीश्वरं राजानं स्वामिनं कृणुध्वं कुरुध्वं । किमर्थमवसे रक्षणार्थ मरणे जाते सति पश्चान्न किमपि चलतीत्यर्थः । अथ तस्य स्वामित्वे कोऽतिशय इत्याह । किंभूतं सेदस्योर्मायाविलासरूपयोावापृथिव्योहोतारं होमक- रिं “य इमा विश्वा भुवनानि जुव्हद् " इतिश्रुतेः । अत एव रुद्रं क्रूरम् । अथ न केवलं क्रूरं स- त्ययज सत्यस्यानन्दरूपस्य संगमयितारम् । तथाध्वरस्येति षष्टया द्वितीयार्थोऽवगम्यते तथा च संप्राप्त्यै कृतयागाद्यनुष्ठानं पुरुषमावो रक्षितवान् ॥ ३३ ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ॥ मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ ३४ ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभग- वद्रोतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजगुह्ययोगो नाम नवमोऽध्यायः ॥१॥ कथं मन्मना इति । मयि मनो यस्य तव स त्वं मन्मना भव तथा मद्भक्तो भव मद्याजी मयजनशीलो भव मामेव च नमस्कुरु मामेवेश्वरमे- प्यस्यागमिष्यसि युक्त्वा समाधाय चित्तमेवमात्मानं मामेवमहं हि सर्वेषां भूतानामात्मा परा च गतिः परमयनं तं मामेवंभूतमेष्यसीत्यतीतेन पदेन सं- बन्धः, मत्परायणः सन्नित्यर्थः ॥ ३४ ॥ इति श्रीमत्पर हंसपरिव्राजकाचार्यश्रीशंकरभगवतः कृती श्रीभगवद्गी- ताभाष्ये राजविद्याराजयोगो नाम नवमोऽध्यायः ॥ ९ ॥ आ० टी० । भगवद्भक्तरित्यंभावं पृच्छति कथमिति । ईश्वरभनने इतिकर्तव्यतां दर्श- यति मन्मना इति । एवं भगवन्तं भजमानस्य मम किं स्यादित्याशङ्कयाह मामेवेति । समाधाय भगवत्येवति शेषः । एवमात्मानमित्येतद्विवृणोति अहं हीति । अहमेव परमयनं तवेति मत्प- रायणस्तथाभृतः सन् मामेवात्मानमेप्यसीति संबन्धः । तदेवं मध्यमानां ध्येयं निरूप्य नवमेनाध- मानामाराध्याभिधान मुग्वेन निजेन पारमार्थिकेन रूपेण प्रत्युक्तेन ज्ञानं परमेश्वरस्य परमाराधनमित्य- भिदधता सोपाधिकं तत्पदवाच्यं निरुपाधिक च तत्पदलक्ष्यं व्याख्यातम् ।। ३४ ।। इसानन्दगिरिकृतगीताभाष्यटीकायां नवमोऽध्यायः ॥ ९ ॥ प० टी० । अथ भजनप्रकारमाह मन्मना इति । मयि मनो यस्यासौ मन्मनाः संकल्पो मदाकार एव तथाविधो भव । मम भक्तो भव नान्यस्य क्षुद्रस्य । मद्याजी भव मदर्थमेव यजस्व २९६ श्रीमद्भगवद्गीता- तथा तारतम्यविवर्जनेन मां सर्वत्रावस्थितं नमस्कुरु । तदुक्तम्-"विसृज्य स्मयमानान् स्वान् दृशं बीडां च दैहिकी | प्रणमेद्दण्डवदूमावाश्वचाण्डालगोखरम्” इति । युक्तो योगयुक्तो भूत्वा मामेवात्मानं परमानन्दरूपमेष्यासि प्राप्स्यसि । तदुक्तम्-" विलिखितमिवरूपं चित्तभित्तौमुरारेः सुमन इव मनोयै- रपितं तत्पदाब्जे । प्रतिपदमुदयद्भिः सात्विकरङ्किताङ्गास्त इह भवपयोधेः पारमुल्लङ्घयन्ति " इति ॥ ३४ ॥ अथाध्यायतात्पर्यम् । विश्वाभासः किलासौ मदधिकरणकः स्यान्मदज्ञानकार्य यन्मिथ्या तद्धि सत्याश्रयमिति नियमो नैव मिथ्याश्रितं सत् । सत्ये सत्यं भ्रमान्ते न भजात सहसावस्थिति मय्य- संगे तत्स्पर्टी वा कदाचिन्न भवति नवमेनोक्तमेतद्रहस्यम् ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां राजविद्याराजगुह्य- योगो नाम नवमोऽध्यायः ॥ ९ ॥ इति नवमाध्यायः ॥९॥ : अथ दशमाध्यायः। श्रीभगवानुवाच । भूय एव महाबाहो शृणु मे परमं वचः॥ यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ सप्तमाध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिता नवमे च, अथेदानी येषु येषु भावेषु चिन्त्यो भगवांस्ते ते भावा वक्तव्याः, तत्त्वं च भगवतो वक्त- व्यमुक्तमपि दुर्विज्ञत्वादित्यतो भगवानुवाच भूय इति । भूय एव भूयः पुर्ने- हे महाबाहो शृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचो वाक्यं, यत् परमं ते तुभ्यं प्रीयमाणाय मइचनात् प्रीयसे त्वमतीवामृतमिव पि- बस्ततो वक्ष्यामि हितकाम्यया हितेच्छया ॥ १ ॥ आ० टी० । अध्यायद्वये सिद्धमर्थ संक्षेपतोऽनुभापते सप्तम इति । तत्त्वं सोपाधिकं निरु- पाधिकं च, विभूतयः सविशेपनिर्विशेषरूपप्रतिपत्त्युपयोगिन्यः । उत्तराध्यायस्याध्यायद्वयेन संबन्धं वदन्नध्यायान्तरमवतारयति अथेति । वक्तव्याः सविशेषध्याने निर्विशेषप्रतिपत्तौ च शेषत्वेनेति शेषः । ननु सविशेषं निर्विशेषं च भगवतो रूपं प्रागेव तत्र तत्रोक्तं तत् किमिति पुनरुच्यते तत्राह उक्तमपीति । तद्यदि तत्र तत्र तत्त्वमुक्तं तथापि पुनर्वक्तव्यं दुर्विज्ञेयत्वादिति यतो मन्यतेऽत इति योजना । प्रकृष्टत्वं वचसः स्पष्टयति निरतिशयति । तदेव वचो विशिनष्टि यत्परममिति । सझदुक्तरर्थसिद्धरमदुक्तिरनार्थकत्याशङ्याह प्रीयमाणायति । ततो वक्ष्यामि तुभ्यमिति पूर्वेण संबन्धः ॥ १ ॥ १ भयः पुनः----लि. १ पु. नास्ति दशमाध्यायः। २९७ प० टी० । एवं द्वितीयाध्यायमादीकृत्याध्यायाष्टके क्रमेण देहादिव्यतिरिक्तात्मस्वरूपदर्श. नपूर्वकं तत्प्राप्युपायभूतकर्मनैष्काभ्यासभक्तियोगांस्तदधिकारिणश्च निरूप्य स्थूलसूक्ष्मप्रपञ्चमि. थ्यात्वदर्शनप्रसंगेन स्वसत्यत्वं च प्रकटयन् मुख्यप्राणापरपर्यायमपञ्चीकृतभूतविग्रहहिरण्यगर्भात्मकं स्वस्वरूपं निरूपितमिदानीं मध्यमप्राणापरपर्यायं पञ्चीकृतभूतविग्रहं स्थूलव्यष्टिसमष्टयाकारं वि- राडात्मकस्वरूपं दर्शयितुं दशमैकादशाध्याययोः प्रवृत्तिस्तत्र दशमे व्यष्टयपरपर्याया विभूतिनिरू- प्यते । तत्रालौकिकसामर्थ्यवती व्यष्टिरेव विभूतिः सा च विश्वरूपाङ्गोद्भूतदेवदेवर्पिगन्धर्वसिद्धावता- रपक्षिसमयछन्दःपशुमनुप्योरगवृक्षादिरूपैरनन्तास्ति, तत्र श्रुतिस्मृतिप्रसिद्धाः कियन्त्योऽपि दर्श- यितुं भगवानुपक्रमते भूय इति । महाबाहो इति संबुद्ध्यार्जुनस्य स्वाज्ञानोद्भूतप्रपञ्चनये परम- पुरुषार्थाधिष्ठानमुक्तम् । भुय एव पुनरपि मे वचः शृणु । भूयःपदेन सप्तमनवमप्रोक्ताः काश्चिद्वि- भूतयः सन्तीति सूचितम् । किंभूतं वचः, परमं परमार्थनिरूपकं यदमृतोपमं ते तुभ्यं प्रीयमाणाय प्रीति प्राप्तवते हितकाम्यया हितेच्छया वक्ष्यामि ॥ १ ॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः॥ अहमादिहि देवानां महीणां च सर्वशः॥२॥ किमर्थमहं वक्ष्यामीत्यत आह न म इति । न मे विदुर्न जानन्ति सुरग- णाः, किं ते न विदुः, मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम, अथ वा प्रभवं प्रभवनमुत्पत्तिं वा नापि महर्पयो भृग्वादयो विदुः कस्मात्ते न विदुरित्यु- च्यतेऽहमादिः कारणं हि यस्माद्देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥ २ ॥ आ० टी० । हितं दुर्विज्ञेयं तत्त्वज्ञानं कश्चिदन्योऽपि परमं वचो मह्यं वक्ष्यति तेन च मम तत्त्वज्ञानं भविष्यत्यतो भगवद्वचनमकिंचित्करमिति शङ्कित्वा परिहरति किमर्थमित्यादिना । इन्द्रा- दयो भृग्वादयश्च भगवत्प्रभावं न विन्दन्तीत्यत्र प्रश्नपूर्वकं हेतुमाह कस्मादिति । निमित्तत्वेनोपा- दानत्वेन च यतो देवादीनां भगवानेव हेतुरतस्तद्विकारास्ते न तस्य प्रभाव विदुरित्यर्थः ॥ २ ॥ ५० टी० । अथ स्ववचनस्यातिरहस्यत्वेन दुर्जेयत्वमाह । न मे विदुरिति । मे प्रभचं ली- लया प्रादुर्भावं सुरगणास्तथा महर्पयो भृग्वादयोऽपि न विदुर्न जानन्ति । कुत इत्याह अहमिति । हि यस्मात्कारणादहं सर्वशः सर्वेषां देवानां महीणां चादिः कारणम् । अनादिसिद्धतया प्रा- चीनान्मत्तः सकाशाद्देवर्षीणामुत्पात्तः । श्रुतिरपि-" मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत" इति । तथा-" सप्तर्षयः प्रविहिताः शरीरे” इति । तथा कण्वा आप- तस्या सप्तऋपयः सप्त तीरे वागष्टमी" इति । भाप्यं तु-तीरे मुखसमीपे नेत्रोत्रनासाजिदारूपसप्तेन्द्रियरूपाः सप्तर्षय इत्यर्थः ॥ २ ॥ यो मामजमनादिं च वेति लोकमहेश्वरम् ॥ असंमूढः स मर्येषु सर्वपापैः प्रमुच्यते ॥३॥ किं च यो मामिति। यो मामजमनादिं च यस्मादहमादिर्हि देवानां म- हर्षीणां च न ममान्य आदिविद्यतेऽतोऽहमजोऽनादिश्वानादित्वमजत्वे हेतुस्तं मामजमनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तमीश्वरम- ३८ २९८ श्रीमद्भगवद्गीता- संमूढः संमोहवर्जितः स मत्र्येषु मनुष्येषु सर्वपापैः सर्वैः पापैर्मतिपूर्वामति- पूर्वकृतेः प्रमुच्यते प्रमोक्ष्यते ॥ ३ ॥ आ० टी० । इतश्च कश्चिदेव भगवत्प्रभावं वेत्तीत्याह किं चेति । कोऽसौ प्रभावो भगव- तो वं बहवो न विदुरित्यपेक्षायां पारमार्थिकं प्रभावं तदधीनफलं च कथयति यो मामिति । पद. हयापोनरुच्यमाह अनादित्वमिति ॥ ३ ॥ प० टी० । अथ स्वज्ञाने फलमाह यो मामिति । सर्वकारणत्वादेव न विद्यते आदिः कारणं यस्य तमनादिमत एवाजं जन्मरहितं सर्वलोकानां भूर्भुवःस्वमहर्जनस्तपोमुख्यानां महान्तमी- श्वरं चालकमेवंविधं मां यो वत्ति स मत्र्येष्वसंमूढो मोहरहितः सन् सर्वपापैः प्रमुच्यते ॥ ३ ॥ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः॥ सुखं दुःखं भवोआवो भयं चाभयमेव च ॥४॥ अतश्चाहं महेश्वरो लोकानां, बुद्धिरिति । बुद्धिरन्तःकरणस्य सूक्ष्माद्यर्था- वबोधनसामर्थ्य तइन्तं बुद्धिमानिति हि वदन्ति, ज्ञानमात्मादिपदार्थानामवबो- धः, असंमोहः प्रत्युपपनेषु बोद्धव्येषु द्रव्येषु विवेकपूर्विका प्रवृत्तिः, क्षमाल- ष्टस्य ताडितस्य वाविकृतविचित्तता, सत्यं यथादृष्टस्य यथाश्रुतस्य चात्मानुभ- वस्य परवुद्धिसंकान्तये तथैवोच्चार्यमाणा वाक् सत्यमुच्यते, दमो बाह्येन्द्रियो- पशमः, शमोऽन्तःकरणस्योपशमः, सुखमावादो, दुःखं संतापो, भव उ- द्भवोऽभावस्तहिपर्ययः, भयं च त्रासोऽभयमेव च तद्दिपरीतम् ॥ ४ ॥ आ० टी० । भगवतो लोके महेश्वरत्वे हेत्वन्तरमाह अतश्चेति । मुमुक्षुभिराराध्यत्वसिद्धये बन्धमोक्षसाधनं पुरस्कृत्याशेषं जगत् प्रकृत्यधिष्ठातृत्वलक्षणं सोपाधिकं भगवत्प्रभावमाभिधत्ते बुद्धि- रित । सूक्ष्मादीत्यादिशब्देन सूक्ष्मतरः सूक्ष्मतमश्चार्थों गृह्यते । उक्तं सामर्थ्य बुद्धिरित्यस्मिन्नर्थे प्र- सिद्धिं प्रमाणयति तद्वन्तमिति । आत्मादीति तदवबोधवन्तं हि ज्ञानिनं वदन्ति, अन्तःकरणस्यो- पशमो विषयेभ्यो व्यावृत्तिरिति शेषः ॥ ४ ॥ प० टी० । लोकमहेश्वरतामेव दर्शयति बुद्धिानमिति त्रिभिः । बुद्धिः सारासारविचा- रनैपुण्यम्, ज्ञानमात्मविषयम्, असंमोहोऽव्याकुलीभावः, क्षमा सहिष्णुत्वम्, सत्यं यथार्थभाष- णम्, दमो बाह्येन्द्रियनिग्रहः, शमोऽन्तःकरणसंयमः, मुखमनुकूलवेदनम्, दुःखं तद्विपरीतम्, भव उद्भवः, अभावस्तद्विपरीतः, भयं त्रासः, अभयं तहिपतिम् ॥ ४ ॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः॥ भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥५॥ अहिंसेति । आहिंसापीडा प्राणिनां, समता समचित्तता, तुष्टिः सन्तो- पः पर्याप्तबुद्धिाभेषु, तप इन्द्रियसंयमपूर्वकं शरीरपीडनं, दानं यथाशक्ति १ तद्धि फलं च--पा. लि. प. ।

दशमाध्यायः। २९९ संविभागः, यशो धर्मनिमित्ता कीर्तिः, अयशस्त्वधर्मनिमित्ता कीर्तिः, भवन्ति भावा यथोक्ता बुद्ध्यादयो भूतानां प्राणिनां मत्त एवेश्वरात् पृथग्विधा नाना- विधाः स्वकर्मानुरूपेण ॥ ५॥ आ० टी० । यथाशक्तीति । पात्रे श्रद्धया स्वशक्तिमनतिक्रम्यार्थानां देशकालानुगुण्येने प्रतिपादनमित्यर्थः । उक्तानां बुद्धयादीनां साश्रयाणामीश्वरादुत्पत्तिं प्रतिजानीते भवन्तीति । ना- नाविधत्वे हेतुमाह स्वकर्मेति ॥ ५ ॥ प० टी० । अहिंसेति । अहिंसा परपीडानवृत्तिः, समता रागद्वेपराहित्यम्, तुष्टिवलब्धन संतोषः, तपः शारीरादि, दानं न्यायगतस्य धनस्य पात्रार्पणम्, यशः सत्कीतिरयशोऽपयश एवमेते बुद्धयादयस्तद्विपररीताश्च भूतानां पृथग्विधानां भावाः प्राणिनां स्वभावाः सर्वे मनःकोश- रूपान्मत्तः सकाशादुद्भवन्ति । श्रुतिरपि-" कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृति- ही रित्येतत्सर्व मन एव" इति ॥ ५ ॥ महर्षयः सप्त, पूर्वे चत्वारो,मनवस्तथा ॥ मदावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥ किं च महर्षय इति । महर्पयः सप्त भृग्वादयः पूर्वेऽतीतकालसंबन्धिन- श्वत्वारो मनवस्तथा सावर्णा इति प्रसिद्धाः, ते च मदावा मद्तभाक्ना वैष्ण- वेन सामयेनोपेता मानसा मनसैवोत्पादिता मया जाता उत्पन्ना येषां मनूनां महर्षीणां च सृष्टिोंक इमाः स्थावरजङमाः प्रजाः ॥ ६ ॥ आ० टी० । कथंचिदपि तेषामात्मातिरेकेणाभावान्मत्त एवेत्युक्तं न केवलं भगवतः सर्वप्र- कृतित्वमेव किंतु सर्वज्ञत्वप्सर्वेश्वरत्वरूपमधिष्ठातृत्वमपीत्याह किं चेति । आद्या भृग्वादयो वसि- ठान्ताः सर्वज्ञा विद्यासंप्रदायप्रवर्तकास्तथेति मनूनामपि पूर्वत्वेनाद्यत्वमनुकृप्यते । के ते मनवस्त- त्राह सावर्णा इति । इति प्रसिद्धाः पुराणेषु प्रजानां पालकाः स्वयमीश्वराश्चेति शेषः । महर्षीणां मनूनां च तुल्यं विशेषणं ते चेति । मयि सर्वज्ञे सर्वेश्वरे गता भावना येषां ते तथा । भावनाफल- माह वैष्णवेनेति । वैष्णव्या शक्त्याधिष्ठितत्वेन ज्ञानेश्वर्यवन्त इत्यर्थः । तेषां जन्मनो वैशिष्टय- माचष्टे मानसा इति । मन्वादीनेव विशिनष्टि येषामिति । विद्यया जन्मना च संततिभूता मन्वा- दीनामस्मिल्लोके सर्वाः प्रजा इत्यर्थः ॥ ६ ॥ प० टी० । अथ सृष्टिकर्तारोपि मत्त एवोद्भूता इत्याह महर्पय इति । सप्त महर्षयो ‘भगं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं च महातेजाः सोऽमृजन्मनसा सुतान् ' तेभ्योऽपि चत्वारः सनकादयस्तथा मनवश्चतुर्दश स्वायंभुवादयो मदावा मत्सामर्थ्यवन्तो हिरण्यगर्भात्मनो मम मानसाः संकल्पमात्राजाता येषां पुत्रपौत्रादिरूपा इमाः प्रजा लोके वर्तन्ते । इत्यनेन ब्रह्मा- दिस्तम्बपर्यन्तं या सृष्टिः सा सांकल्पिकी काल्पनिका न कार्यकरणसंघातरूपा “यथा पूर्वमकल्पय- त्" इति श्रुतेः ॥ ६ ॥ १ जङ्गमलक्षणा:-पा. मु.पु. ।

श्रीमद्भगवद्गीता- . एतां विभूतिं योगं च मम यो वेत्ति तत्वतः ॥ सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७॥ एतामिति । एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनमथवा योगैश्वर्यसामर्थ्य सर्वज्ञत्वं योगजं योग उच्यते मम मदीयं योगं यो वेत्ति तत्त्वतस्तत्त्वेन यथावदित्येतत् सोऽविकम्पेनाप्रचलितेन योगेन स. म्यग्दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते नात्र संशयो नास्मिन्नर्थे संशयोऽस्ति ॥ ७ ॥ आ० टी० । सोपाधिक प्रभावं भगवतो दर्शयित्वा तज्ज्ञानफलमाह एतामिति । बुद्धया- धुपादानत्वेन विविधा भूतिर्भवनं वैभवं सर्वात्मकत्वं तदाह विस्तारमिति । ईश्वरस्य तत्तदर्थसंपा- दनसामर्थ्य योगस्तदाह आत्मन इति । योगस्तत्फलमैश्वर्यं सर्वज्ञत्वं सर्वेश्वरत्वं च मदीयं शक्ति- ज्ञानलेशमाश्रित्य मन्वादयो भृग्वादयश्चेशते जानते च तदाह अथवति । यथा तौ विभूतियोगी तथा निरङ्गशत्वेनेति वेदनस्य निरङ्कशत्वं दर्शयति यथावदिति । सोपाधिकं ज्ञानं निरुपाधिकज्ञाने द्वारमित्याह सोऽविकम्पनेति । उक्तेऽथै प्रतिबन्धाभावमाह नास्मिन्निति ॥ ७ ॥ ५० टी० । अथोक्तपरंपरायास्तत्त्वज्ञानस्य फलमाह एतामिति । एतां भग्वादिलक्षणां म- द्विभूति योगमैश्वरलक्षणं तत्त्वतो यो वेत्ति सोऽविकम्पेन स्थिरण ममैश्वर्येण युज्यते युक्तो भवति नात्र संशयो नार्थवादोऽयमित्यर्थः ॥ ७ ॥ अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ॥ इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८॥ कीदृशेनाविकम्पेन योगेन युज्यत इत्युच्यते अहमिति । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिमत्त एव स्थितिनाशक्रियाफलोपभो- गलक्षणं विक्रियारूपं सर्व जगत् प्रवर्तत इत्येवं मत्वा भजन्ते सेवन्ते मां बुधा अवगतपरमार्थतत्त्वार्था भावसमन्विता भावो भावना परमार्थतत्त्वाभि- निवेशस्तेन समन्विताः संयुक्ता इत्यर्थः ॥ ८॥ आ० टी० । कथं तावकविभूत्यैश्वर्यज्ञानमुक्तयोगस्य हेतुरिति मत्वा पृच्छति कीदृशेनेति । उक्तज्ञानमाहात्म्यात् प्रतिष्ठिता भगवन्निष्ठा । सिद्धचतीत्याह उच्यत इति । प्रभवत्यस्मादिति प्रभवः सर्वप्रकृतिः सर्वात्मत्याह उत्पत्तिरिति । सर्वज्ञात् सर्वश्वरान्मत्तो निमित्तात् सर्वस्थितिनाशादि भवति मयान्तर्यामिणा प्रेर्यमाणं सर्व यथास्वं मर्यादामनतिक्रम्य चेष्टते तदाह मत्त इति । इत्थं मम स- र्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्तीत्याह इत्येव- मिति । संसारासारताज्ञानवतां भगवद्भजनेऽधिकारं द्योतयति अवगतेति । परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरावभिनिवेशाख्यौ भवतस्तेन संयुक्तत्वं च भगवद्गजने भवति हेतुरित्याह भावेति ॥ ८ ॥ ५० टी० । यथा विभूतियोगयोर्ज्ञानेन तत्त्वज्ञानं भवति तद्दर्शयति अहमिति चतुर्भिः। अहं सर्वस्य भग्वादिमन्वन्तप्रपश्यस्य प्रभवः कारणं तथा मत्तः सकाशात्सर्व प्रवर्तते व्यवहार इति म- त्वानुभवेन ज्ञात्वा भावसमन्विताः प्रीतियुक्ता बुधा ज्ञानिनो मां भजन्ते ॥ ८ ॥ . भी

दशमाध्यायः।
३०
०१
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ॥
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥
किंच मच्चित्ता इति । मच्चित्ता मयि चित्तं येषां ते मच्चित्ता मद्गत-
प्राणा मयि गताः प्राप्ताश्चक्षुरादयः प्राणा येषां ते मद्गतप्राणा मय्युपसंह-
तकरणा इत्यर्थः । अथवा मद्गतप्राणा मद्तजीवना इत्येतद्बोधयन्तोऽवगम-
यन्तः परस्परमन्योऽन्यं कथयन्तो ज्ञानबलवीर्यादिधर्मेंविशिष्टं मां तुष्यन्ति च
परितोषमुपयान्ति रमन्ति च रतिं च प्राप्नुवन्ति प्रियसंगत्येव ॥ ९ ॥
आ० टी० । न केवलमुक्तमेव भगवद्गजने साधनान्तरं चास्तीत्याह किं चेति । ईश्वरात् प्र-
तीचः प्रागुक्तादन्यत्र चित्तप्रचारराहित्यं भगवद्गजनोपायमाह मयीति । चक्षुरादीनां भगवतोऽप्रा-
तिस्तदगोचरत्वात्तस्येत्याशङ्कयाह मय्युपसंहतेति । भगवदतिरेकेण जीवनेऽपि नादरस्तदपि मय्येवा-
र्पितं भक्तानामित्याह अथवेति । आचार्येभ्यः श्रुत्वा वादकथया परस्परं भगवन्तं सब्रह्मचारिणो
बोधयन्ति तदपि भगवद्गजनसाधनमित्याह बोधयन्त इति । आगमोपपत्तिभ्यां भगवन्तमेव विशि-
टधर्माणं शिष्येभ्यो गुरवो व्यपदिशन्ति तदपि भगवद्भजनमवेत्याह कथयन्त इति । भक्तानां तु-
टिरती स्वरसतः स्यातामित्याह तुप्यन्तीति । मनोरथपूर्त्या रतिप्राप्ती कामुकसंमतमुदाहरणमाह
प्रियति ॥ ९ ॥
प० टी० । प्रीतिपूर्वकं भजनमाह मच्चित्ता इति । मय्येव चित्तं येषां ते मच्चित्ता अन्तर्नि-
ष्ठा मयि गताः प्राणा इन्द्रियाणि येपां ते बहिरपि मद्रूपं जगत्पश्यन्तः । एवमनुभूतमर्थ परस्परं
श्रुतिवाक्यैर्बोधयन्तस्तथा भत्त्या मां कथयन्तः कीर्तयन्तः सन्तस्तुप्यन्ति तेन रमन्ति निर्वृति
लभन्ते ॥९॥
तेषां
सततयुक्तानां
भजतां प्रीतिपूर्वकम् ॥
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥
ये यथोक्तैः प्रकारैर्भजन्ते मां भक्ताः सन्तः प्रीतिपूर्वकं, तेषामिति ।
तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्ववाद्यैषणानां भजतां सेवमाना-
नां, किमर्थित्वादिना कारणेन नेत्याह प्रीतिपूर्वकं प्रीतिः स्नेहस्तत्पूर्वकं मां भ-
जतामित्यर्थः । ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं
तेन योगो बुद्धियोगस्तं बुद्धियागं येन बुद्धियोगेन सम्यग्दर्शनलक्षणेन मां पर-
मेश्वरमात्मभूतमात्मत्वेनोपयान्ति प्रतिपद्यन्ते ॥ १० ॥
आ० टी० । यदुक्तं सोऽविकम्पनेत्यादि तदर्थ भूमिकां कृत्वा तदिदानीमुदाहरति ये यथो-
तेति । नित्याभियुक्तानामनवरतं भगवत्यैकाग्यसंपन्नानामित्यर्थः । पुत्रादिलोकत्रयहेत्वर्थित्वेन वा ग-
मैदासत्वेन वा प्रत्यहं जीवनोपायसिद्धये वा भजनमिति शङ्कित्वा दूपयति किमित्यादिना । प्रा-
गुक्तां ज्ञानाख्यां भक्ति स्नेहेन कुर्वतामित्यर्थः । तेभ्योऽहं तत्त्वज्ञानं प्रयच्छामीत्याह ददामीति ।
उक्तबुद्धिसंबन्धस्य फलमाह येनेति ॥ १० ॥

३०२ श्रीमद्भगवद्गीता- प० टी० । एवंभूतानां ज्ञानप्रदोऽहमेवेत्याह तेषामिति । तेषां पूर्वोक्तानां सततयुक्तानां मय्यासक्तानां प्रीतिपूर्वकं भजतां च तं बुद्धियोगं ददामि । येन ज्ञानयोगेन ते मामुपयान्ति ॥ १० ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः॥ नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥ के ते ये मच्चित्तादिप्रकारैर्मा भजन्ते किमर्थं कस्य वा तत्प्राप्तिप्रति. बन्धहेतो शकं बुद्धियोगं तेषां त्वद्भक्तानां ददासीत्याकाङ्क्षायामाह तेषामिति । तेषामेव कथं नाम श्रेयः स्यादित्यनुकम्पार्थ दयाहेतोरहमज्ञानजमविवेकतो जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयाम्यात्मभावस्थ आत्मनो भावोऽन्तः- करणाशयस्तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसाद- स्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञाव- र्तिनापि विरक्तान्तःकरणाधारेण विषयव्याटत्तचित्तरागद्देषाकलुषितनिवातापकार- कस्थेन नित्यप्रवृत्तकाग्रध्यानजनितसम्यगदर्शनभास्वता ज्ञानदीपेनेत्यर्थः॥११॥ आ० टी० । ध्यानजन्यप्रकर्षकाष्ठागतान्तःकरणपरिणामे निरस्ताशेषविशेषभगवद्रूपप्राप्ति- हेतौ बुद्धियोगे प्रश्नपूर्वकं भक्तानधिकारिणो दर्शयति के त इति । भगवत्प्राप्तेर्बुद्धिसाध्यत्वे सत्यनि- त्यत्वापत्तेस्त्वं भक्तेभ्यो बुद्धियोगं ददासीत्ययुक्तमिति शङ्कते किमर्थमिति । तेषां बुद्धियोगं किमर्थ ददासीति संबन्धः । भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगस्तेन नास्ति तत्प्राप्तेरनित्यत्वमित्या- शकचाह कस्येति । भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति इत्याकाङ्क्षायामिति । अ- विवेकोऽनाद्यज्ञानं ततो जातं मिथ्याज्ञानं तदुभयमेकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्य चित्तदन्तर्भूतस्य युक्तं तेनाहं नाशयामीत्युक्तं केवलचैतन्यस्य जडबुद्धिवृत्तेरिवाज्ञानाद्य- नाशकत्वमाशङ्कच विशिनष्टि आत्मोते । तस्याशयस्तन्निष्ठो वृत्तिविशेषो वाक्योत्थबुद्धिवृत्त्यभिव्यक्त- श्चिदात्मा सहायसामर्थ्यादज्ञानादिनिवृत्तिहेतुरित्यर्थः । बुद्धित्वबोधस्थाज्ञानादिनिवर्तकत्वमुक्त्वाबोधे- डबुद्धेस्तन्निवर्तकत्वमिति पक्षान्तरमाह ज्ञानेति । देहाद्यव्यक्तान्तानात्मवर्गातिरिक्तवस्तुगोचरत्वमाह विवेकेति । भगवति सदा विहितया भक्त्या तस्य प्रसादोऽनुग्रहः स एव स्नेहस्तेनासेचनद्वारा स्वोत्पत्तिमाह भक्तीति । मय्येव भावनायामभिनिवेशो वातस्तेन प्रेरितोऽयं जायते, न हि वातप्रे- रणमन्तरेणादौ दीपस्योत्पत्तिरित्याह मद्भावनोते । ब्रह्मचर्यमष्टाङ्गमादिशब्देन शमादिग्रहः । तेन हेतुनाहितसंस्कारवती या प्रज्ञा तथाविधवर्तिनिष्ठश्चायं न हि वर्त्यतिरेकेण दीपो निर्वय॑ते तदाह ब्रह्मचर्येति । न चाधाराहते दीपस्योत्पत्तिरदृष्टत्वादित्याह विरक्तेति । यद्विषयेभ्यो व्यावृत्तं चित्तं रागाद्यकलुषितं तदेव निवातमपकारकं तत्र स्थितत्वमस्य दर्शयति विषयेति । भास्वतेति विशेषणं विशदयति नियति । सदातनं चित्तैकाम्यं तत्पूर्व ध्यानं तेन जनितं सम्यग्दर्शनफलं तदेव भास्तद्वता तत्पर्यन्तेनेत्यर्थः । तेनाज्ञाने सकार्ये निवृत्ते भगवद्भावः स्वयमेव प्रकाशीभवतीति मत्वा व्याख्यातमेव पदमनुवदति ज्ञानेति ॥ ११ ॥ ५० टी० । ननु ज्ञानदातृत्वमुपदेशाद्भवति स च साक्षाद्दर्शनाभावात्कथं युज्यत इत्याह ते- षामिति । तेषां प्रीतिपूर्वकं भजतामनुकम्पया कृपया ज्ञानाजातं तमः संसाराख्यमहमेव नाशयामि । ०

दशमाध्यायः।
३०३
कुतः, स्थित आत्मभावस्थो बुद्धौ वर्तमानः केन भास्वता प्रकाशवता ज्ञानदीपेन अत्र श्रुतिरप्यथ-
वैवल्लीषु “ नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्त-
स्यैष आत्मा विवृणुते तनूं स्वाम्” इति । भाष्यम्-अयमात्मा प्रवचनेन प्रकृष्टं वचनं प्रवचनमुपदे-
शस्तेन लभ्यो न मेधया युक्त्या लभ्यो नापि बहुना श्रुतेन शास्त्रश्रवणेन । किंत्वेष आत्मा यं पुरुषं
वृणुतेऽनुकम्प्यत्वेन गणयति तस्यैष आत्मा स्वां तनू स्वस्वरूपं विवृणुते सत्वान्तःकरणवृत्तिस्थितो
विवरयति प्रकाशयति । तदुक्तं वासिष्ठे-' न शास्त्रैर्नापि गुरुणा दृश्यते परमेश्वरः । दृश्यते स्वात्म-
नैवात्मा स्वया सत्त्वस्थया धिया' इति । टिप्पणिकासु-आदर्श प्रतिरूपदर्शकमयी शक्तिनिसर्गस्थि-
ता, द्रष्टा तत्र मलापकर्षणविधि संपाद्यते केवलम् । तद्वञ्चित्परिणामरूपमनसः शाबल्यसंशोधने,
सत्कर्मेश्वरभक्तितः स्वत इहवात्मप्रकाशो भवेत्' इति । ऋग्वेदेऽपि-" यस्तित्याज सचिविदं सखायं न
तस्य वाच्यपि भागो अस्ति। यदी शृणोति न हि प्रवेद सुकृतस्य पन्थाम्" इति । रावणभाष्यम्-अत्र
सचिशब्दः सखिवाची । सचीन सखीन् परमप्रेमास्पदं विषयान् वेत्तीति सचिवित्तमुपकारकम् । अत एव
सखायं परमात्मानं यः पुरुषस्तित्याज त्यक्तवान् आत्मबहिर्मुख इत्यर्थः । तस्य पठनात्मिकायामपि
वाचि सत्यत्वभागो नास्ति किं पुनर्जल्पनायाम्। तथा ईमित्यव्ययम्। बहिर्मुखं यच्छृणोति शास्त्रश्रवणं
करोति तदलकमलीकमसत्यम् । हियस्मात्कारणात् सुरूतस्य सत्यस्य ब्रह्मणः पन्थां पन्थानं मार्ग
न वेद न जानाति । तथा “ मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु” इति ।
भाप्यम्-जनासो जना अभितः सर्वप्रकारेण मुह्यन्तु मोहं प्राप्नुवन्तु परंत्विह शरीरेऽस्माकं
मुमुक्षूणामिन्द्रापरपर्यायः परमात्मा सूरिरुपदेष्टास्तु ॥ ११ ॥
अर्जुन उवाच ।
परं ब्रह्म परं धाम पवित्रं परमं भवान् ॥
पुरुपं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२॥
यथोक्तां भगवतो विभूतिं योगं च श्रुत्वार्जुन उवाच परमिति ।
परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान पुरुषं
शाश्वतं नित्यं दिव्यं दिवि भवमादिदेवं सर्वदेवानामादौ भवं देवमजं विभुं
विभवनशीलम् ॥ १२ ॥
आ० टी० । निरस्ताशेषविशेषं निरुपाधिकं सोपाधिकं च सर्वात्मत्वादि भगवतो रूपं तद्वि-
फलं च श्रुत्वा निरुपाधिकरूपस्य प्राकृतबुद्धचनवगाह्योक्तिपूर्वकं मन्दानुग्रहार्थं सर्वदा सर्वबुद्धिमायं
सोपाधिकं रूपं विस्तरेण श्रोतुमिच्छन् पृच्छतीत्याह यथोक्तामिति । परं ब्रह्म भवानिति लक्ष्य-
निर्देशः, तस्य लक्षणार्थ परं धामेत्यादिविशेषणत्रयम् । धामशब्दस्य स्थानवाचित्वं व्यावर्तयन्
व्याचष्टे तेज इति । तस्य चैतन्यस्य परमत्वं जन्मादिराहित्येन कौटस्थ्यं प्रकृष्टं पावनमत्यन्तशुद्ध-
त्वमुच्यते यदेवं लक्षणं परमं ब्रह्म तद्भवानेव नान्य इत्यर्थः । कुतस्त्वमेषमज्ञासीरित्याशयाप्तवाक्या-
दित्याह पुरुषमिति । दिवि परमे व्यानि भवतीति दिव्यस्तं सर्वप्रपश्चातीतं दीव्यति द्योतत इति
देवः स चादिः सर्वमूलत्वादत एवाजस्तं त्वां सर्वगतमाहुरिति संबन्धः ॥ १२ ॥
प० टी० । एवं भगवदुक्तमवधार्यार्जुनः प्राह परं ब्रह्मेति सप्तभिः ॥ १२ ॥

३ ०४ श्रीमद्भगवद्गीता- आहुस्त्वामृपयः सर्वे देवर्पिनारदस्तथा ॥ असितो देवलो व्यासः स्वयं चैव ब्रवीपि मे ॥१३॥ ईदृशमाहुः कथयन्ति त्वामृषयो वसिष्ठादयः सर्वे देवर्षि रदस्तथा- सितो देवलोऽप्येवमाह व्यासश्च, स्वयं चैव त्वं चैव ब्रवीषि मे मह्यम् ॥ १३ ॥ आ० टी० । उक्तविशेषणं त्वामृषयः सर्वं यस्मादाहुस्तस्मात्तद्वचनात्त्वयोक्तं ब्रह्मत्वं युक्त- मित्याह ईदृशमिति । ऋषिग्रहणेन गृहीतानामपि नारदादीनां विशिष्टत्वात् पृथगग्रहणम् । अ- सितो देवलस्य पिता । किमन्यस्त्वं स्वयमेवात्मा मुक्तरूपं मह्यमुक्तवानित्याह स्वयं चेति ॥ १३ ॥ प० टी० । परं ब्रह्मादिभिर्नवभिर्विशेषणैरुपेतं त्वां सर्वे ऋषय आहुस्तेषु विशेषतो नारदो देवपिराह असितो देवलश्चाहं ततोऽपि विशेषेण व्यासः प्राह तथा नेमे विदुः सुरगणा इत्यादिवाक्यमा प्रति स्वयमपि ब्रवीषि ॥ १३ ॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव ॥ न हि ते भगवन् व्यक्तिं विदुर्दैवा न दानवाः ॥ १४ ॥ सर्वमिति । सर्वमेतद् यथोक्तमृपिभिस्त्वया चैतदृतं सत्यमेव मन्ये यन्मां प्रति वदसि भाषसे हे केशव न हि ते तव भगवन् व्यक्तिं प्रभवं विदुर्न देवा न दानवाः ॥ १४ ॥ आ० टी० । ऋपिभिस्त्वया चोक्तत्वादुक्तं सर्व सत्यमेवेति मम मनीपेत्याह सर्वमिति । किं तदित्याशङ्कयात्मरूपमित्याह यन्मामिति । देवादिभिः सर्वेरुच्यमानतया तद्रूपे विशिष्टवक्त- ग्रहणमनर्थकमित्याशङ्कयाह न हीति । प्रभवो निरुपाधिकस्वभावः, यदा देवादीनामपि दुर्विज्ञयं तव रूपं तदा का कथा मनुष्याणामित्यर्थः ॥ १४ ॥ प० टी० । एवं यद्वदसि तत्सर्वमृतं सत्यं मन्ये । तत्किम, भो भगवंस्ते व्यक्ति स्वरूपं देवा दानवाश्च हीति निश्चयत्रुद्धचा न विदुरिति ॥ १४ ॥ स्वयमेवात्मनात्मानं वेत्थ वं पुरुषोत्तम ॥ भूतभावन भूतेश देवदेव जगत्पते ॥ १५॥ यतस्त्वं देवादीनामादिस्तः स्वयमिति । स्वयमेवात्मनात्मानं वेत्थ जा- नासि त्वं, कथंभूतं निरतिशयज्ञानेश्वर्यबलादिशक्तिमन्तमीश्वरं पुरुषोत्तम तानि भावयतीति भूतभावनस्तत्संबुद्धौ हे भूतभावन भूतेश भूतानामीश हे देवदेव जगत्पते ॥ १५ ॥ आ० टी० । कश्चिदेव महता कष्टेनानेकजन्मसंसिद्धो जानाति त्वदनुगृहीतस्तद्रूपमित्यभि- प्रेत्याह यत इति । स्वयमेवोपदेशमन्तरेणेत्यर्थः, आत्मना प्रत्येकेनाविषयतयेति यावत् । आत्मानं इति । भू- दशमाध्यायः॥ ३.५ निरुपाधिक रूपम् । न च तव सोपाधिकमपि रूपमन्यस्य गोचरे तिष्ठतीत्याह निरतिशयति । पुरुषश्चासावुत्तमश्चेति क्षराक्षरातीतपूर्णचैतन्यरूपत्वं संबोधनेन बोध्यते । सर्वप्रकृतित्वं सर्वकर्तृत्वं च कथयति भूतानीति । सर्वेश्वरत्वमाह भूतानामिति । उक्तं ते सोपाधिकं रूपं देवादीनामाराध्यता- मधिगच्छतीत्याह देवेति । जगतः सर्वस्य स्वामित्वेन पालयितृत्वमाह जगदिति ॥ १५ ॥ प० टी० । किं तु स्वयमेवात्मना स्वरूपेण प्रमाणान्तरागोचरमात्मानं वेत्थ जानासि । अत एव पुरुपोत्तमेतिसंबुद्धिः । श्रुतिरंपि-" एतावानस्य महिमातो ज्यायांश्च पूरुपः तानि भाव्यन्ते कल्प्यन्ते यस्मिन्निति भूतभावन भूतेश पृथिव्यादिमहाभूतस्वामिन् ॥ १५ ॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ॥ याभिविभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ वक्तु मिति । वक्तुं कथयितुमर्हस्यशेपेण दिव्या ह्यात्मविभूतय आत्मनो विभूतयो यास्ता वक्तुमर्हसि याभिर्विभूतिभिरात्मनो माहात्म्यविस्तरैरिमाँल्लो- कांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ आ० टी० । यस्मादस्मदृशामगोचरस्तवात्मा जिज्ञासितश्च तस्मात्त्वयैव तद्रूपं वक्तव्यमि- त्याह वक्तुमिति । दिव्यत्वमप्राकृतत्वम् । संप्रत्यन्वयमन्वाचष्टे आत्मन इति । वक्तव्या विभूती- विशिनष्टि याभिरिति । यहाग लोकान् पूरयित्वा वर्तसे ता विभूतीरशेषेण वक्तुमर्हसीत्यर्थः ॥१६॥ ५० टी० । दिव्या देवरूपिण्य आत्मविभूतयोऽशेषेण विस्तरेण वक्तुमर्हसि । याभिर्विभू- तिभिरिमाल्लोकान् भूर्भुवःस्वरादीन् व्याप्य तिष्ठमि ॥ १६ ॥ कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ॥ केषु केषु च भावेष चिन्त्योऽसि भगवन्मया ॥ १७॥ कथमिति । कथं विद्यां विजानीयामहं हे योगिस्त्वां सदा परि- चिन्तयन् केषु केषु च भावेषु वस्तुपु चिन्त्योऽसि ध्येयोऽसि भगवन् मया ॥ १७ ॥ आ० टी० । किमर्थ विभूतीः श्रोतुमिच्छसीत्याशङ्कयाह ध्यानसौकर्यप्रकारप्रश्नेन फलं कथ- यति कथमिति । योगो नामैश्वयं तदस्यास्तीति योगी तस्य संवुद्धौ हे योगिन्नहं स्थविष्ठमतिस्त्वां केन प्रकारेण सततमनुसंदधानो विशुद्ध वुद्धिर्भूत्वा निरुपाधिकं त्वां विजानीयामिति प्रश्नः । प्रभा- न्तरं प्रस्तौति केषु केविति । चेतनाचेतनभेदादुपाधिबहुत्वाच्च बहुवचनम् ॥ १७ ॥ प० टी० । भो योगिन्नचिन्त्यैश्वर्य त्वां व्यष्टिरूपेण स्थितमहं केन कथं प्रकारेण विद्यां विजानीयां, केषु केषु भावेषु स्वकीयावासस्थलेषु मया चिन्त्योऽसि, तत्तद्भावदर्शनेन तव स्मरणं भवि- प्यतीत्यर्थः ॥ १७ ॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन ॥ भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८॥ - ३९ '२०६ श्रीमद्भगवद्गीता- विस्तरेणेति । विस्तरेणात्मनो योगं योगैश्वर्यशक्तिविशेषं विभूतिं च वि- स्तरं ध्येयपदार्थानां हे जनार्दन अदतेर्गतिकर्मणोरूपम् । असुराणां देवप्रतिपक्ष- भूतानां जनानां नरकादिगमयितृत्वाज्जनार्दन अभ्युदयनिःश्रेयसपुरुषार्थप्रयोजन सर्वैर्जनैर्याच्यत इति वा, भूयः पूर्वमुक्तमपि कथय तृप्तिहिं परितोषो यस्मानास्ति मे मम शृण्वतस्त्वन्मुखनिःसृतवाक्यामृतम् ॥ १८ ॥ आ० टी० । प्रकृतप्रश्नमुपसंहरति विस्तरेणेति । अर्दतेर्गतिकर्मणो जनार्दनेति रूपं त- झुत्पादयति असुराणामिति । प्रकारान्तरेण शब्दार्थ व्युत्पादयति अभ्युदयेति । ननु पूर्वमेव स- प्तमे नवमे च विभूतिरैश्वयं चेश्वरस्य दर्शितं तत् किमिति श्रोतुमिप्यते तत्राह भूय इति । अमृतम- मृतप्रख्यमित्यर्थः ॥ १८ ॥ प० टी० । पूर्व सप्तमादिषु सामान्यतः कथिता एव परं तु भूयो विस्तरेण कथयतस्ते वच- नामृतं शृण्वतो मे तृप्तिर्नास्ति ॥ १८ ॥ श्रीभगवानुवाच । हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ॥ प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१९॥ हन्त त इति । हन्तेदानीं ते तव दिव्या दिवि भवा आत्मविभूतय आत्मनो मम विभूतयो यास्ताः कथयिष्यामीत्येतत् प्राधान्यतो यत्र यत्र प्रधाना या या विभूतिस्तां तां प्रधानां प्राधान्यतः कथयिष्याम्यहं कुरुश्रेष्ठ अशेपतस्तु वर्षशतेनापि न शक्यते वक्तुं यतो नास्त्यन्तो विस्तरस्य मे विभूतीना- मित्यर्थः ॥ १९॥ आ० टी० । प्रष्टारं विश्रम्भयितुं भगवानुक्तवानित्याह श्रीभगवानिति । हन्तेत्यनुमति व्या- वर्त्य निज्ञासावच्छिन्नं कालं दर्शयति इदानीमिति । दिवि भवत्वमप्राकृतत्वमस्मद्गोचरत्वं । वाक्या- न्वयं द्योतयति यास्ता इति । सर्वविभृतीनां वक्तव्यत्वप्राप्तावुक्तं यत्रेति । किमित्यनवशेषतो विभूतयो नोच्यन्ते तत्राह अशेषतस्त्विति । तत्र हेतुर्यत इति ॥ १९ ॥ प० टी० । ततः श्रीभगवान् वक्तुमुपक्रमते इन्तेति । हन्तेत्यादरेण ते तुभ्यं दिव्या आत्म- विभूतयः प्राधान्यतो मुख्यत्वेन कथयिष्यामि हि यस्मात् कारणानो कुरुश्रेष्ठ मे विस्तरस्यान्तो नास्ति ॥ १९॥ अहमात्मा गुडाकेश सर्वभूताशयस्थितः ॥ अहमादिश्च मध्यं च भूतानामन्त एव च ॥२०॥ तत्र प्रथममेव तावच्छृणु अहमिति । अहमात्मा प्रत्यगात्मा गुडाकेश गुडाका निद्रा तस्या ईशो गुडाकेशो जितनिद्र इत्यर्थः, घनकेश इति वा स-

३०७
दशमाध्यायः ।
वेषां भूतानामाशयेऽन्तर्हदि स्थितोऽहमात्मा प्रत्यगात्मा नित्यं ध्येयस्तदशक्तेन
चोत्तरेषु भावेषु चिन्त्योऽहं चिन्तयितुं शक्यो यस्मादहमेवादिभूतानां कारणं
तथा मध्यं च स्थितिरन्तः प्रलयश्चैवं च ध्येयोऽहम् ॥ २० ॥
आ० टी० । विभूतिप्रदर्शने प्रस्तुते सत्यादावेव पारमार्थिकं पारमेश्वरं रूपं दर्शयितुं श्रो-
तुरर्जुनस्य मनःसमाधानार्थमर्थयते तत्रति । सोपाधिकमपि काल्पनिकं परस्य रूपं पश्चाद्वक्ष्यमाणं
श्रोतुश्चित्तसमाधानं च कर्तव्यमेवेत्याह तावदिति । आशेरतेऽस्मिन् विद्याकर्मपूर्वप्रज्ञा इत्याशयो
हृदयं सर्वेषां भूतानां हृदयेऽन्तः स्थितो यः प्रत्यगात्मा सोऽहमेवेति वाक्यार्थमाह सर्वेषामिति ।
यस्तु मन्दो मध्यमो वा परमात्मानमात्मत्वेन ध्यातुं नालं तं प्रत्याह तदशक्तेनेति । वक्ष्यमाणादि-
त्यादिषु परस्य न ध्येयत्वमन्यदेव कारणं किंचित्तत्र तत्र ध्येयमित्याशङ्कयाह यस्मादिति । सर्व-
कारणत्वेन सर्वज्ञत्वेन सर्वश्वरत्वेन च परस्य ध्येयत्वमञप्सितं नान्यस्य कस्यचित् कारणस्यादित्या-
दिषु ध्येयतेत्यर्थः । उक्तध्यानाशक्तेभ्यो वक्तव्यं विभूतियोगमुपदिशति एवं चेति । तत्र तत्र प्रधा-
नत्वेन परस्य ध्येयत्वम् ॥ २० ॥
प० टी० । अथ विभूतिनिरूपणे तावत्स्वकीयं मूलभूतस्वरूपमाह अहमिति सपादेन । भो
गुडाकेश नितनिद्र अतति ब्याप्नोतत्यिहमात्मा हिरण्यगर्भः । किं भूतः, सर्वभूताशयस्थितः सर्वा-
णि महाभूतानि विद्यन्ते यस्मिन्निति सर्वभूतो विराट् तत्राशयत्वेन लिङ्गरूपेण स्थितः “ अजस्य
नाभावध्येकमर्पितम्" इत्यादिश्रुतयः प्राङनिरूपिता एव । अथ तदेवाह अहमेव भूतानामादिर्म-
ध्यं चान्तश्च । मय्येव भूतानां जन्मस्थितिलयाः सलिले तरङ्गाणामिव भवन्ति । चपरमादित्यानां
देवानामपि 'अदित्या ऋभवोऽस्वप्ना' इत्यमरोक्तेः । यतोऽहं विष्णुापनशीलो मयैव समष्टिरूपेण कृत्वा
देवा अपि व्यवहरन्तीत्यर्थः । यहा । सर्वादिषु त्यशब्दोऽमृर्तवाची श्रुतिसिद्धस्तेन सर्वेषामादिभूतानि
त्यान्यमुर्तानि महदादीनि तेषामादित्यानां व्यापनशीलो विष्णुर्वैकुण्ठवास्यहमस्मीति स्वकीयं सगुणं
रूपान्तरं प्रकटीकृतम् । पुस्याकारो द्विवचने क्लीवे भम्नीति, यथा द्वावित्यत्र द्वा विश्वानीत्यत्र विश्वा
योऽमावादित्य पुरुषः । श्रुतिश्च "अहं रुद्रभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरु-
णो भाबिभर्म्यहमग्निमहमश्विनाभाम्” इति । भाष्यम्-अत्रसर्वानुक्रमस्तावत् अहमित्येकर्च सूक्तं अ.
म्भृणस्य महषैर्दुहिता वाङनाम्नी ब्रह्म विदुषी स्वात्मानमस्तीपीत् । अतः सा ऋषिः सञ्चित्सुखात्मकः
सर्वगतः परमात्मा देवतानेन ह्येषा तादात्म्यमनुभवन्ती सर्वस्याधिष्ठानत्वेन स्वात्मानं स्तौति ।
तत्र प्रथमाहं रुद्रेभिरिति । अहं ब्रह्मरूपा रुद्रेभीरुद्ररेकादशभिश्चरामि, तथा वसुभिरष्टभिश्चरामि,
इत्थंभूते तृतीया, तदात्मना चरामि । तथादित्यैादशभिर्विश्वेदेवश्चान्तर्यामित्वेनापि
रामीत्याह अहमिति । मित्रावरुणा मित्रं वरुणं चेति 'द्विवचनस्या वा छन्दसि' इति द्वितीयाया आ-
कारः । परिभाषास्वएि-" पुस्याकारो द्विवनने क्लीवे भूम्रीति यथा हावित्यत्र हा, विश्वानीत्यत्र विश्वा-
योऽसावादित्ये पुरुपः सोसावहम् ' इतिश्रुतेः उभा उभौ मित्रावश्विनो देवौ च बिभर्मि ॥ २० ॥
आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् ॥
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥
आदित्यानामिति । आदित्यानां हादशानां विष्णुर्नामादित्योऽहं ज्यो-
तिषां रविरंशुमान् प्रकाशयितॄणामंशुमान् रश्मिमान् मरीचिर्नाम मरुतां मरु-
रेवताभेदानामस्मि नक्षत्राणामहं शशी चन्द्रमाः ॥ २१ ॥

३.०
श्रीमद्भगवद्गीता-
आ० टी० । एवंशब्दार्थमेव दर्शयति आदिसानामियादिना ॥ २१ ॥
प० टी० । अथ विभूतीर्वर्णयन् प्रत्यक्षदेवरूपिणीं विभूतिं दर्शयति ज्योतिषामिति ।
ज्योतिषां तैजसपदार्थानामन्यादीनां मध्येऽशुमान् स्वकरप्रसरेण त्रिलोकीप्रकाशको रविः सूर्योs-
हम्, मरुतां मरुद्गणानां देववैश्यानां मध्ये मरीचिरहम्, तथा नक्षत्राणां तारकाणां मध्ये शशी
चन्द्रोऽहम् ॥ २१ ॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ॥
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥२२॥
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ॥
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥
वेदानामिति । वेदानां मध्ये सामवेदोऽस्मि देवानां रुद्रादित्यादीनां
वासव इन्द्रोऽस्मि इन्द्रियाणामेकादशानां मनश्चास्मि चक्षुरादीनां संकल्पविक-
ल्पात्मकं मनश्वास्मि भूतानामस्मि चेतना कार्यकरणसंघातेऽभिव्यक्ता बुद्धे-
त्तिश्चेतना ॥ २२ ॥
रुद्राणामिति । रुद्राणामेकादशानां शंकरश्चास्मि वित्तेशः कुवेरो यक्षरक्ष-
सां यक्षाणां रक्षसां च वसूनामष्टानां पावकश्चास्म्यग्निर्मेरुः शिखरिणां
शिखरवतामहम् ॥ २३ ॥
आ० टी० । मन्त्रब्राह्मणसमुदायानामृगादीनां मध्ये सामवेदोऽस्मीति । ध्यानान्तरमुदाहरति
वेदानामिति । संघाते जीवाधिष्ठिते यावत् पञ्चत्वं सर्वत्र व्यापिनी चैतन्याभिव्यञ्जिकेति
शेषः ॥ २२ ॥
५० टी० । वेदानामिति । ऋगादिचतुर्णा वेदानां मध्ये सामवेदोऽस्मि । सामात्मकः सामवेदः
सा चामश्चेति विग्रहात् सा ऋक अमो गीतरूपः स्वरस्तयोमिथुनं साम । ब्राह्मणं च-'सैव नाम -
गासीदमो नाम साम सा वा ऋक्सामोपावदन मिथुनं संभवाव प्रजात्या इति नेत्यवत्सिाम ज्यायान्वा
अतो मम महिमा” इति ।भाप्यम्-माचामश्चतिऋगिमौ द्वौ पदार्थो तत्र सेति तच्छब्देन ऋगेव प्रोक्ता अ-
मश्च गीतिरूपः स्वरस्तत्र कण्वा अपि । तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर
एव स्वमिति । एतं सा ऋक सामोपममीपं गत्वा इत्यवदत् । इति किम् अवां प्रजात्यै प्रजायै मिथुन
दाम्पत्यं संभवावति । ततः साम नेत्यवान्निषेधं चकार । यतः साम ज्यायानादिभूतम् अतो मम
महिमा मत्सामर्थ्यमधिकं वर्तते किमेकया ऋचा । अतस्ते व ऋचौ भूत्वा उपावदतामित्यादि । एवं
ऋगाद्यपेक्षया सान उपजीव्यत्वेनाधिकत्वमित्युक्तम् । यहा सामसंबन्धिन्यो यास्ताः सर्वा ईश्व.
रस्तावकत्वेन पावमान्यो भवन्ति । अथातः पावमानामोह इति श्रुतेः । एवं ताः पठनमात्रेण पापह-
च्यो भवन्ति । तत्पावमानीभिरहं पुनामीति परिशिष्टोक्तेस्तनापि सामवेदस्य विभूतित्वम् । तथा दे-
वानां मध्ये वासव इन्द्रोऽहम् । तथा इन्द्रियाणामेकादशानां मध्ये मनोऽहम् ।भूतानां संबन्धिनी चेतना
ज्ञानशक्तिरहम् ॥ २२ ॥
प० टी० । रुद्राणामेकादशानां मध्ये शंकरोऽहमस्मि । तथा यक्षरक्षसामतिराणां मध्ये
॥ २३ ॥

दशमाध्यायः। ३०९ वित्तेशः कुबेरोऽहम् । तथा वसूनां मध्ये पावकोऽग्निनामाहम् । तथा शिखरिणां पर्वतानां मध्ये मेरुरहम् ॥ २३ ॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ॥ सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥२४॥ पुरोधसामिति । पुरोधसां राजपुरोहितानां मुख्यं प्रधानं मां विद्धि जा- नीहि हे पार्थ बृहस्पतिं स हीन्द्रस्येति मुख्यः स्यात् पुरोधाः सेनानीनां सेना- पतीनामहं स्कन्दो देवसेनापतिः सरसां यानि देवरवातानि सरांसि तेषां सरसां सागरोऽस्मि भवामि ॥ २४ ॥ आ० टी० । पुरोहितेषु बृहस्पतेर्मुख्यत्वे हेतुमाह स हीति ॥ २४ ॥ ५० टी० । पुरोधसामिति । पुरोधसां देवपुरोहितानां मध्ये मां बृहस्पति मुख्यं विद्धि, तथा सेनानीनां देवसेनाधिपतीनां मध्ये स्कन्दोऽहम्, तथा सरसां जलाशयानां मध्ये सागरोऽहम् ॥२४॥ महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ॥ यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥२५॥ महर्षीणामिति । महपीणां भृगुरहं गिरां वाचां पदलक्षणानामेकमक्षर- मोङ्कारोऽस्मि । यज्ञानामिति । यज्ञानां जपयज्ञोऽस्मि, स्थावराणां स्थितिमतां हिमालयः ॥ २५ ॥ आ० टी० । एकमित्योङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वमुच्यते । जप- यज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्यमुपेत्याह यज्ञानामिति । शिखरवतामुच्छ्रितानां पर्व- तानां मध्ये मेरुरहमित्युक्तेऽपि स्थितिशीलानां तेपामेव हिमवान् पर्वतराजोऽस्मीत्यर्थभेदं गृहीत्वाह स्थितिमतामिति ॥ २५ ॥ प०टी० । तथा महीणां सप्तानां मध्ये भृगुरस्मि । गिरां चतुर्विधवाणीनां मध्ये एकमक्षरमो- झारोऽहम् । यज्ञानां ज्योतिष्टोमानां मध्ये जपयज्ञोऽहं स्थावगणां मध्ये हिमालयोऽहम् ॥ २५ ॥ अश्वत्थः सर्ववृक्षाणां देवीणां च नारदः॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ॥ ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ अश्वत्थ इति । अश्वत्थः सर्वक्षाणां देवर्षीणां च नारदो देवा एव सन्त ऋषित्वं प्राप्ता मन्त्रदर्शित्वादेते देवर्षयस्तेषां नारदोऽस्मि गन्धर्वाणां चि-

३१०
श्रीमद्भगवद्गीता-
प्ररथो नाम गन्धर्वोऽस्मि सिद्धानां जन्मनैव धर्मज्ञानवैराग्यश्वर्यातिशयं प्राप्तानां
कपिलो मुनिः ॥ २६ ॥
उच्चैरिति। उच्चैःश्रवसमश्वानां उच्चैःश्रवा नामाश्वस्त मां विद्धि जानीह्य-
मृतोद्भवममृतनिमित्तमथनोद्भवम् । ऐरावतमिरावत्या अपत्यं गजेन्द्राणां
हस्तीश्वराणां तं मां विद्धीत्यनुवर्तते । नराणां मनुष्याणां च नराधिपं राजानं
मां विद्धि जानीहि ॥ २७ ॥
आ० टी० । सर्ववृक्षाणामित्यत्र सर्वशब्देन वनस्पतयो गृह्यन्ते ॥ २६ ॥ २७ ॥
५० टी० । अश्वत्थ इति । सर्ववृक्षाणां मध्येऽश्वत्थः पिप्पलो मद्विभूतिः, देवाः सन्तो य-
ऋषयस्तेषु नारदोऽहम्, गन्धर्वाणां मध्ये चित्ररथः, उत्पत्तित एवाधिगतपरमार्थानां सिद्धानां
कपिलोऽहम् ॥ २६ ॥
प० टी० । उच्चैःश्रवसमिति । अमृतोद्भवं क्षीरोदमथनोद्भूतमुच्चैःश्रवसं सप्तमुखमश्वं
मद्विभूतिं विद्धि । गजेन्द्राणां मध्ये चतुईन्तमैरावतं मद्विभूतिं विद्धि ॥ २७ ॥
आयुधानामहं वचं धेनूनामस्मि कामधुक् ॥
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ॥
पितृणामर्यमा चास्मि यमः संयमतामहम् ॥ २९॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ॥
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥३०॥
आयुधानामिति । आयुधानामहं वजं दधीच्यस्थिसंभवं मां विद्धि धे-
नूनां दोग्ध्रीणामस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री सामान्या वा
कामधुक् । प्रजनः प्रजनयितास्मि कन्दर्पः कामश्चास्मि, सर्पाणां सर्पभे-
दानामस्मि वासुकिः सर्पराजः ॥ २८ ॥
अनन्त इति । अनन्तश्चास्मि नागानां नागविशेषाणां नागराजः, वरुणो
यादसामहमब्देवतानां राजाहं, पितृणामर्यमा नाम पितृराजश्वास्मि, यमः सं-
यमतां संयमनं कुर्वतामहम् ॥ २९ ॥
प्रह्लाद इति । प्रह्लादो नाम चास्मि दैत्यानां दितिवंश्यानां, कालः कलय-
तां कलनं गणनं कुर्वतामह, मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाहं, वैनते-
यश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम् ॥ ३० ॥

दशमाध्यायः । ३१७ आ० टी० । प्रजनयतीति व्युत्पत्तिमाश्रित्याह प्रजनयितेति सर्पा नागाश्च जातिभेदा- द्विद्यन्ते ॥ २८ ॥ २९ ॥ ३० ॥ प० टी० । आयुधानामिति । आयुधानां शस्त्राणां मध्ये वजमहम्, धेनूनां मध्ये समु- त्पन्नां कामधेनुं मद्विभूतिं विद्धि, प्रजनो विधिवत्प्रजोत्पत्तिहेतुः कन्दर्पोहऽमस्मि । सर्पाणां सवि- पाणां मध्ये वासुकिरस्मि ॥ २८ ॥ प० टी० । नागानां निर्विषाणां मध्येऽनन्तो मद्विभूतिः, यादसां जलाधिवासिनां वरुणोहम, पितॄणां मध्येऽर्यमास्मि ॥ २९ ॥ प० टी० । प्रहाद इति । दैत्यानां मध्ये प्रहादो मद्विभूतिः कलयतामाक्रमवतां वस्तूनां मध्ये कालोऽहम् । मृगाणां श्वापदानां मध्ये मृगेन्द्रः सिंहोऽहम् । पक्षिणां मध्ये वैनतेयो विनतासुतो गरुडोऽहम् ॥ ३० ॥ पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥ झपाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥३१॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ॥ अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२॥ पवनइति । पवनो वायुः पवतां पावयितृणामस्मि, रामः शस्त्रभृता- महं शस्त्राणां धारयितृणां दाशरथीरामोऽहं, झपाणां मत्स्यादीनां मकरो नाम जातिविशेपोऽहं, स्रोतसां स्रवन्तीनामस्मि जाह्नवी गङ्गा ॥ ३१ ॥ सर्गाणामिति । सर्गाणां सृष्टीनामादिरन्तश्च मध्यं चैवाहमुत्पत्तिस्थि- तिलयानामहमर्जुन भूतानां जीवाधिष्ठितानामेवादिरन्तश्चेत्यायुक्तमुपक्रम इह नु सर्वस्यैव सर्गमात्रस्येति विशेषः, अध्यात्मविद्या विद्यानां मोक्षार्थत्वात् प्र- धानमस्मि, वादोऽर्थनिर्णयहेतुत्वात् प्रवदतां प्रधानमतः सोऽहमस्मि प्रवक्तृहा- रेण वदनभेदानामेव वादजल्पवितण्डानामिह ग्रहणं प्रवदतामिति ॥ ३२ ॥ आ० टी० । अहमादिश्चेत्यादावुक्तमेव पुनरिहोच्यते तथा च पुनरुक्तिरित्याशङ्कयाह भू- तानामिति । सर्गशब्देन सृज्यन्त इति सर्वाणि कार्याणि गृह्यन्ते । अध्यात्मविद्येति । आत्मन्य- तःकरणपरिणतिरविद्यानिवर्तिका गृहीता, प्रवदतां संबन्धी वादो वीतरागकथा तत्त्वनिर्णयाव- साना । यदा प्रवदतामिति लक्षणया कथाभेदोपादानं तदा निर्धारणे पष्टीत्याह प्रवक्रिति ॥३१॥३२॥ प० टी० । पवन इति । प्लवतां वेगवतां मध्ये पवनः शस्त्रभृतां वीराणां मध्ये रामो दाशरथिरहम् । झषाणां मत्स्यानां मध्ये मकरो यादोविशेषः । स्रोतसां प्रवाहाणां मध्ये जाहवी मद्विभूतिः ॥ ३१ ॥ प० टी० । सर्गाणामिति । सृज्यन्त इति सर्गा आकाशादयस्तेषामादिमूलमन्तः पर्यन्तो मध्यं स्थितिरहमेव । विद्यानां चतुर्दशानां मध्ये आत्मप्रतिपादिकाध्यात्मविद्याहम् । अन्यासां तु स्वस्वमताभिनिवेशेन मत्सरादिजनकत्वात् । उक्तं च-रे रे मत्सर जीव वत्सरशतं येन त्वया निर्जितं, शास्त्राणामिदमूर्जितं प्रयततां त्वद्वंशविछित्तये । यस्मात्तगुरुतामपास्य च कृथाः स्वान्यायुधान्यन्यथा, १२ श्रीमद्भगवद्गीता- स्वीयं स्थापयितुं मतं परमतच्छेदं कथं कुर्वते ' इति । अत एवाह वादः प्रवदतामिति । प्रवदता परस्परं विवादजल्पवितण्डरूपाः कथाः कुर्वतां मध्ये तत्त्वबुभुत्सोः कथारूपो वादोऽहम् ॥ ३२ ॥ अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ॥ अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥ मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ॥ कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिःक्षमा॥३४॥ अक्षराणामिति । अक्षराणां वर्णानामकारो वर्णोऽस्मि इन्दः समासो- ऽस्मि सामासिकस्य समाससमूहस्य । किं चाहमेवाक्षयोऽक्षीणः कालः प्रसिद्धः क्षणलवाख्यः, अथवा परमेश्वरः कालस्यापि कालोऽस्मि धाताई कर्मफलस्य विधाता सर्वजगतो विश्वतोमुखः सर्वतोमुखः ॥ ३३ ॥ मृत्युरिति । मृत्युईि विधो धनादिहरः प्राणहरश्च तत्र यः प्राणहरः सर्व- हरः स उच्यते सोऽहमित्यर्थोऽथवा पर ईश्वरः प्रलये सर्वहरणात् सर्वहरः सोऽहमुद्भव उत्कर्षोऽभ्युदयस्तत्प्राप्तिहेतुश्चाहं, केषां भविष्यतां भाविकल्याणा- नामुत्कर्पप्राप्तियोग्यानामित्यर्थः, कीर्तिः श्रीर्वाक् च नारीणां स्मृतिमेंधा धृतिः क्षमेत्येता उत्तमाः स्त्रीणामहमस्मि यासामाभासमात्रसंबन्धेनापि लोकाः कृता- र्थमात्मानं मन्यन्ते ॥ ३४ ॥ आ० टी० । सर्वहरशब्दस्य मुख्यमर्थान्तरमाह अथवति । भाविकल्याणानामित्युक्तमेव स्पष्टयति उत्कर्षति । कीर्तिर्धार्मिकत्वनिमित्ता ख्यातिः, श्रीलक्ष्मीः, कान्तिः शोभा, वाग्वाणी सर्वस्य प्रकाशिका स्मृतिश्चिरानुभूतस्मरणशक्तिः, मधा ग्रन्थधारणशक्तिः, धृतिधैर्य, क्षमा मानाप- मानयोरविकृतचित्तता । स्त्रीपु कीर्त्यादीनामुत्तमत्वमुपपादयति यासामिति ॥ ३३ ॥ ॥ ३४ ॥ टी० । अक्षराणां स्वरवर्णानां मध्येऽकारः प्रथमः स्वरस्तस्य सर्वत्रानुस्यूतत्वात् स चाहम् । सामासिकस्य तत्पुरुषादिसमाससमूहस्य द्वन्द्वो रामकृष्णावित्युभयपदप्रधानोऽहम् । अक्षयो ऽनाद्यन्तः कालोऽहमेव । विश्वतोमुखो विराइ धाता कर्मफलदाता ॥ ३३ ॥ प० टी० । मृत्युरिति । सर्वहरः सर्वसंहारको मृत्युरहम्, भविष्यतां भाविनां प्राणिना- मुद्भवो वर्तमानकल्पानन्तरमागामिकल्पे प्राण्युद्भवकर्ताहमेव, नारीणां स्त्रीलिङ्गवाचकानां मध्ये की- यादयः सप्तदेवता यदर्जनेन लोकः श्लाव्यो भवति ता मद्विभूतयः । तत्र कीर्तिर्नाम सद्भिर्या गीयते न नटविटादिभिः । श्रीः शोभा वाग्वाणी यया सर्वप्राणिनां व्यवहारश्चलति सा चतुर्विधा परा पश्यन्ती मध्यमा वैखरी च चत्वारि वाक्परिमिता पदानति श्रुतेः । तासां पृथक स्वरूपं तु बृहस्पतेः प्रथमं वाचो अग्रमिति श्रुत्या दर्शितं मंडलब्राह्मणेऽपि सैषा त्रय्येव विद्या तपतीति वाग्वै तत्पश्यन्ती वदतीति । एवं ताल्वोष्टपुटसंयोगाज्जाता वैखरी । तदुक्तं शतश्लोके.-'यो वर्णोच्चारहेतोर्घटयति रसना- मिति । साढेधा । राष्ट्री मन्द्रा च । तत्र राष्ट्रसंबन्धाज्जाता राष्ट्री देशभाषेत्यर्थः । मन्द्रा मननगम्या वेद- दशमाध्यायः । ३१३ वाणी यद्वाग्वदन्त्यविचेतनानीति श्रुतेः । एवं साम निश्वासरूपत्वान्मद्विभूतिरित्यर्थः । एताः श्रुतयः शतश्लोकभाष्येऽस्माभिः सम्यग्व्याख्याता इह तु विस्तरभयान्न लिखिताः ॥ ३४ ॥ रहत्साम तथा सानां गायत्री छन्दसामहम् ॥ मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥ बृहत्सामेति । बृहत्साम तथा साम्नां मोक्षप्रतिपादकसामवेदवि- शेषः प्रधानमस्मि, गायत्री छन्दसामहं गायच्यादिच्छन्दोविशिष्टानामृचां गा- यत्री ऋगहमित्यर्थः । मासानामिति । मासानां मार्गशीर्षोऽहमृतूनां कुसुमा- करो वसन्तः ॥ ३५॥ आ० टी० । वेदानां सामवेदोऽस्मीत्युक्तं तत्रावान्तरविशेपमाह बृहदिति । छन्दसां मध्ये गायत्री नाम यच्छन्दस्तदहमित्ययुक्तं छन्दसामुग्भ्योऽतिरकेण स्वरूपाभावादित्याशङ्कचाह गाय- ध्यादति । द्विजातद्धितीयजन्मजननीयत्वादित्यर्थः । मार्गशीर्पो मृगशीण युक्ता पौर्णमास्यस्मिन्नि- ति मार्गशीर्षो मासः सोऽहं पक्कसस्याट्यत्वादित्याह मासानामिति । वसन्तो रमणीयत्वादिति शेषः ॥ ३५ ॥ प० टी० । वृहदिति । साम्नां चतुर्दशाधिकाप्टसहस्रसंमितानां मध्ये ईश्वरस्तावकानि कानि चित्पावमान्यानि रथन्तरादीनि सन्ति तेषु बृहत्साम मद्विभूतिः । एतदग्रिमाध्याये स्पष्टं नि- रूपयिष्यामः । तथा छन्दसामुप्णिगादीनां मध्ये गायत्री प्रथमा । गायन्तं त्रायते सा गायत्री चतुर्विंशत्यक्षरा ततश्चतुरक्षरवृद्धयोप्णिगादिच्छन्दसां निप्पत्तिः सापि परमेश्वरप्रतिपादिकेति मद्वि- भूतिरुक्ता । तथा हि, “तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । अत्र कण्व- संहिताभाष्यकारस्तु तत्सवितुरिति विश्वामित्रः सावित्रीगायत्रीति षष्ट्या परिणाम्यते, तस्य सवितुः सर्वस्य प्रसवदातुरादित्यान्तर्गत पुरुषस्य योऽसावादित्ये पुरुष इति श्रुतेः । देवस्य द्योतमानस्य हिर- ण्यगीपाध्यवच्छिन्नस्य विज्ञानानन्दस्वभावस्य ब्रह्मणो वरेण्यं सर्वोत्कृष्टं भर्गस्तेजो धीमहि ध्यै चिन्तायाम्, अस्य छान्दमं संप्रमारणं ध्यायागश्चिन्तयामः । यद्दा किंभूतं भर्गः, सवितुः सूर्यस्यापि वरेण्यमुपजीव्यं यदादित्यगतं तेज' इत्युक्तत्वात् । तस्य कस्य. यो नोऽस्माकं धियो धीः प्रचोदयात् । चुदप्रेरणे प्रकण प्रेरयति । तस्य सवितुः संबन्धि वरेण्यं वीर्य तेजो ध्यायाम इति संबन्धः । अ- त्रैतदुक्तं भवति । सत्यज्ञानानन्दात्मकः सविता सर्वजगदुपादानाश्रयतया जगत्कर्ता सर्वोपाधिभि- श्चिक्रीडिपुवुस्तत्तदुपाधिधर्मान् विजिगीषुः स्वकमनीयत्वादिमहिम्नो दिदर्शयिषुः स्वयं वशीकृतमायः सर्वात्मनामात्मभूतोऽन्तर्यामी देवोऽस्माकं धियो धीः प्रचोदयात् ‘ददामि बुद्धियोगं तम्' इति भगवदुक्तेः। तस्य सवितुर्दैवस्यात्मभूतं वरेण्यं ध्यातॄणां संसार क्लेशमूलभर्नकं भर्गस्तेजः परं ज्योतिः सततं ध्या- याम इत्यर्थः । तथा मासानां द्वादशानां मध्ये मार्गशीर्पोऽहं । मासास्तावच्चान्द्रमानेन भवन्ति चन्द्र- नक्षत्रनामकाश्च यथा यस्यां पौर्णिमास्यां चित्रानक्षत्रं स चैत्रमासः । तद्वद्विशाखाद्यैर्वैशाखादयः प्रकृते तु मृगशिरःसंबन्धान्मार्गशीर्ष एवं मृगशिरःस्वामी चन्द्रस्तथा मासा इत्युक्तत्वान्मासेशोपि स एव पूर्णिमास्वामी च स एव । एवं मासनक्षत्रतिथीनामेकदैवतत्वेन पुण्य- तमत्वमतो मद्विभूतिरित्यर्थः । यद्वा मृगशिरः पूर्णिमासंबन्धेन वर्षादिरभिहितस्तस्मिन्नेवाग्रहायणी. त्यभिधानात्, आग्रहायणं यस्यां साग्रहायणीत्यर्थः । अत एवाग्रहायणिक इति मार्गशीर्पनाम, अतो स्वनामनक्षत्रसमाननाथा

श्रीमद्भगवद्गीता-
ऽस्य मासस्य मुख्यत्वाद्विभूतित्वम् । तथा शिशिरादिषण्णामृतूनां मध्ये कुसुमाकरो वसन्तोऽस्मि
सर्वेषामानन्दकरत्वाद्विषुवाश्रयत्वाच्च ॥ ३५ ॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ॥
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥
सृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः॥
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७॥
द्यूतमिति । द्यूतमक्षदेवनादिलक्षणं छलयतां छलस्य कर्तणामस्मि, ते-
जस्विनां तेजोऽहं, जयोऽस्मि जेतृणां, व्यवसायोऽस्मि व्यवसायिनां, सत्त्वं स-
त्ववतां सात्त्विकानामहम् ॥ ३६ ॥
वृष्णीनामिति । वृष्णीनां यादवानां वासुदेवोऽस्म्ययमेवाहं त्वत्सखा,
पाण्डवानां धनंजयस्त्वमेव मुनीनां मननशीलानां सर्वपदार्थज्ञानिनामप्यह
व्यासः, कवीनां कान्तदर्शिनामुशना कविरस्मि ॥ ३७ ॥
आ० टी० । द्यूतमुक्तलक्षणं सर्वस्वापहारकारणमन्यायापदेशेन पराभिप्रेतं निघ्नतां स्वाभि-
प्रेतं वा संपादयतामित्याह छलस्येति । तेजोऽप्रतिहताज्ञा, उत्कर्षो जयः, व्यवसायः फलहेतुरु-
द्यमः, धर्मज्ञानवैराग्यादि सत्त्वकार्य सत्त्वम्, उशना शुक्रः, कविशब्दोऽत्र यौगिको न रूढः पौन-
रुत्यात् ॥ ३६ ॥ ॥ ३७ ॥
५० टी० । द्यूतमिति । छलयतामन्योन्यवञ्चनपराणामुत्कष्टमोहकशक्तिरूपं दगृतम् । येन
धर्मादयोऽपि मोहिताः सन्तः किंचिन्न विदुः सा मद्विभूतिः । जतॄणां जयोऽस्मि । व्यवसायिनामु-
द्यमवतां व्यवसायोऽहम् । सात्त्विकानां सत्त्वगुणोऽहम ॥ ३६ ॥
प० टी० । वृष्णीनामिति । यादवानां मध्ये वसुदेवस्यापत्यं वासुदेवो बलभद्रोऽस्मि । अ-
न्यथैकस्यैव मुख्यत्वं विभूतित्तं च नोपपद्यते । पाण्डवानां मध्ये धनंजयस्त्वं मद्विभूतिः, मुनीनां
वेदार्थमननशीलानां मध्ये वेदव्यासोऽस्मि कवीनां क्रान्तदर्शिनां मध्ये उशना भृगुपुत्रः
कविः शुक्रः ॥ ३७॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीपताम् ॥
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
दण्ड इति । दण्डो दमयतां दमयितृणामस्म्यदान्तानां दमनकारणं,
नीतिरस्मि जिगीषतां जेतुमिच्छतां, मौनं चैवास्मि गुह्यानां गोप्यानां, ज्ञानं
झानवतामहम् ॥ ३८
आ० टी० । अदान्तानुत्पथान् पथि प्रवर्तयतां दण्डोऽनुत्पथप्रवृत्तौ निग्रहे हेतुरित्यर्थः,
नीतिायो धर्मस्य जयः पापस्य प्रणाशकः मौनं वाचः संयमत्वमुत्तमा वा चतुर्थाश्रमवृत्तिः श्रवणा-
दिद्वारा परिपक्वसमाधिजन्यं सम्यग्ज्ञानं ज्ञानम् ॥ ३८ ॥

दशमाध्यायः ।
३१५
प० टी० । दण्ड इति । दमनकर्तृणा संबन्धी दण्डोऽस्मि । येनासंयताः संयता भवन्ति ।
जेतुमिच्छता संबन्धिनी नीतिरस्मि । गुह्यानां गोपनीयानां मौनमवचनमस्मि तथा ज्ञानवतां ज्ञा-
नमस्मि ॥ ३८ ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत् स्यान्मया भूतं चराचरम् ॥३९॥
यच्चापीति । यच्चापि सर्वभूतानां बीजं प्ररोहकारणं तदहमर्जुन, प्रकर-
णोपसंहारार्थ विभूतिसंक्षेपमाह न तदस्ति भूतं चराचरं चरमचरं वा मया
विना यत् स्याद्भवेन्मयापकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यादतो
मदात्मकं सर्वमित्यर्थः ॥ ३९ ॥
आ० टी० । जाड्यमात्रप्रतिविम्बितं चैतन्यं बीजं किमिति स्थावरं जङ्गमं वा त्वदतिरेकेण
न भवति तत्राह मयति । तस्यापि स्वरूपेण सत्त्वमाशङ्कयोक्तं शून्यं हीति।आत्मनोपऽकर्षादित्यर्थः ।
मयैव सच्चिदानन्दस्वरूपेण सर्वस्य सिद्धरित्यतःशब्दार्थः ॥ ३९ ॥
प० टी० । यच्चेति । सर्वभूतानां बीजं प्ररोहकारणं तदहमस्मि । तदेव द्रढयति । चराचरं
न तदस्ति यन्मया विना स्यान्मध्यतिरकेण भवति । यतोऽन्नरूपोऽहमन्नाद्रेतो रेतसः सर्वम् ॥३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एप तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥
नान्तोऽस्तीति । नान्तोऽस्ति मम दिव्यानां विभूतीनां विस्तराणां पर-
न्तप न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनामियत्ता शक्या वक्तुं ज्ञातुं वा
केन चित् । एप तूद्देशत एकदेशेन प्रोक्तो विभूतेविस्तरो मया ॥ ४० ॥
आ० टी० । दिव्यानां विभुतीनां परिमितत्वशङ्कां वारयति नेयादिना । तदेवोपपादयति
न हीति । कथं तर्हि विभूतविस्तरो दर्शितस्तत्राह एषत्विति ॥ ४० ॥
प० टी० । इदानीमुपसंहरन्नाह नान्त इति । भो परंतप मम दिव्यानां विभुतीनामन्तो
नास्ति किं त्वेप विभूतीनां विस्तरो मयोद्देशतः संक्षेपतः प्रोक्तः ॥ ४० ॥
यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा ॥
तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥४१॥
यद्यदिति । यथल्लोके विभूतिमविभूतियुक्तं सत्त्वं वस्तुजातं श्रीम-
दृर्जितमेव वा श्रीलक्ष्मीस्तया सहितमुत्साहोपेतं वा तत्तदेवावगच्छ खं जा-
नीहि ममेश्वरस्य तेजोऽशसंभवं तेजसोऽश एकदेशः संभवो यस्य तत्तेजोऽ-
शसंभवमित्यवगच्छ त्वं जानीहि ॥ ४१ ॥

३१६ श्रीमद्भगवद्गीता- आ० टी० । अनुक्ता अपि परस्य विभूतीः संग्रहीतुं लक्षणमाह यदयदिति । वस्तु प्रा- णिनातं श्रीमत् समृद्धिमहा शोभावहा कान्तिमहा सप्राणं बलवर्जितं तदाह उत्साहेति । संभवत्य- स्मादिति संभवस्तेजसश्चैतन्यस्येश्वरशक्ताशस्तेजोऽशः संभवोऽस्येति तेजोंऽशसंभवं तदाह तेजस इति ॥ ४ १ ॥ प० टी० । अथ विभूतीनां साधारणलक्षणमाह यदिति । यद्यद्विभूतिमदश्वर्ययुक्तं सत्त्वं प्रा- णिविशेषः श्रीमच्छोभातिशयशाल्यूजितं केनापि भावेनातिशयितं तत्तन्मम तेजोंऽशसंभव- मवगच्छ ॥ ४१ ॥ अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥४२॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्म- पर्वणि श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योग- शास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥ अथवेति । अथ वा बहुनैतेनैवमादिना किं ज्ञातेन तवार्जुन स्यात् सावशेषेण शेपतस्त्वमिममुच्यमानमर्थं शृणु विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वे- दं कृत्स्नं जगदेकांशेनकावयवेनेकपादन सर्वभूतस्वरूपेणेत्येतत्तथा च म- न्त्रवर्णः “पादोऽस्य सर्वा भूतानि ” इति स्थितोऽहम् इति ॥ ४२ ॥ इति श्रीभगवद्रीताभाष्ये शंकरभगवतः कृती विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥ आ० टी० । सर्वेषां सुगमत्वायावयवस्य विभृतिमुक्त्वा भक्तानुग्रहार्थ साकल्येन तामाह अथवेति । पक्षान्तरपरिग्रहार्थपथवेत्युक्तम् । बहुना विस्तीर्णतेन संज्ञातन सावशेषेण तव शक्तस्य न किं चित् फलं स्यादित्याह बहुति । न हि विभूतियुकाम ज्ञातामु सर्व ज्ञायते कामां चिदेव वि- भूतीनामुक्तत्वादित्यर्थः । तर्हि कनापदेशेनाल्पाक्षरण सर्वार्थो ज्ञातुं शक्यते तत्राह अशेपत इति । विशेषतः स्तंभनं विधरणं सर्वभूतस्वरूपेण सर्वप्रपञ्चोपादानशक्त्युपाधिकेनकेन पादेन कृत्स्नं जगद् वि- धृत्य स्थितोऽस्मीति संवन्धः । तत्रैव श्रुति प्रमाणयति तथा चेति । तदनेन भगवतो नानाविधवि- भूतीध्येयत्वेन ज्ञेयत्वेन चोपदिश्यन्ते, सर्वप्रपञ्चात्मकं ध्ययं रूपं दर्शयित्वा "त्रिपादस्यामृतं दिवि" इति प्रपश्चाधिकं निरुपाधिकं तत्त्वमुपदिशता परिपूर्णः सच्चिदानन्दैकतानस्तत्पदलक्ष्योऽथी निर्धारितः॥४२॥ इति दशमोऽध्यायः ॥ १० ॥ प० टी० । अथ किमनेन परिच्छिन्नदर्शनेन वृक्षन्यायेन समष्टिव्यष्टयात्मकोऽहमेवेत्याह अथ- वेति । अथवा बहुना पृथक्त्वन ज्ञातेन तव किं कार्यम् । किं त्विदं कृत्स्नं समग्रं जगच्चराचरं एकांशेनै- कदशमात्रेण विष्टभ्याभिव्याप्य स्थितोऽहमेवास्मि । पादोऽस्य विश्वाभूतानीति श्रुतेः। ऋग्वेदे च-"कि १ अन्यन मंज्ञानेन पा. ।

एकादशाध्यायः । ३१७ स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा एच्छतेव तद्यदध्यतिष्ठद्गुवनानि धारयन् " भाप्यम्-पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति तदेवानयोः प्रश्नकथनव्याजेनोच्यते । लोको हि प्रौढं प्रासादं निर्यमाणः कस्मिंश्चित्प्रौढवने कंचिन्महान्तं वृक्षं छित्त्वा तक्षणादिना स्तंभादिकं संपादयति । इह तु परमेश्वरः प्रेरयिता। जगत्वष्टारो यतोऽस्माद्वनाद्यं वृक्षमादाय द्यावापृथिवी निष्टताः द्यावापृथिव्यौ निप्पादितवन्तस्तद्वनं किं स्वित्किनामकं स्यात् तथा उ इति निर्धारणे कः स वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे मनीषिणो मनस ईश्वरास्तदुभयं मनसा जिज्ञासायुक्तेन पृच्छ- तेव पृच्छतैव किंचेश्वरो भुवनानि धारयन् यत्स्थानमध्यतिष्ठदपि पृच्छत एतस्य सर्वस्याप्युत्तरं ब्रह्म- वनं ब्रह्मवृक्षः समष्टिव्यष्टिरूपेण ब्रह्मैवासीदित्यादिकम् । अनेनाग्रिमाध्यायसंगतिरपि दर्शिता॥४२॥ अथाध्यायतात्पर्यम् । अत्यन्तोत्कर्पशाली ननु सततमिहामुत्रसर्वोत्तमोऽहं त्वेकैकोत्कर्षभाजः सु- रमुनिमनुजश्वापदाद्यास्त एते । व्यष्टीरूपा मदंशा इति खलु भवता पूजनीयाः क्रमेण तेन द्रक्षस्यथो मामिह मयि दशम प्राह पार्थ परात्मा ॥ १० ॥ इति श्रीमदै० पर० प्रपा० विभूतियो० दशमाध्यायः ॥ १० ॥ इति दशमाध्यायः ॥ १० ॥ अथ एकादशाध्यायः। अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ॥ यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥ भगवतो विभूतय उक्तास्तत्र च 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थि- तो जगत्' इति भगवताभिहितं श्रुत्वा यज्जगदात्मरूपमाद्यमेश्वरं तत् साक्षात् कर्तुमिच्छन्नर्जुन उवाच । मदनुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यमध्यात्म- संज्ञितमात्मानात्मविवेकविपयं निरतिशयं यत्त्वयोक्तं वचो वाक्यं तेन वचसा मोहोऽयं विगतो ममाविवेकबुद्धिरपगतेत्यर्थः ॥ १ ॥ आ० टी० । तेन तेनात्मना भगवदनुसंधानार्थमुक्त्वा विभूतीर नुवदति भगवत इति । परस्य सोपाधिकं निरुपाधिकं च चिद्रूपं ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधिकमैश्वरं रूपमशेषजग- दात्मकं विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्ननन्तरप्रश्नोपयोगित्वेन वृत्तं कीर्तयति तत्र चेति । यदेतदशेषप्रपञ्चात्मकमखिलस्यैतस्य जगतः कारणं सर्वज्ञं सर्वेश्वर्यवद्रूपमुक्तं तदिदं श्रुत्वा तस्य सा- क्षात्कारं थियाचयिपुरादौ पृष्टवानित्याह श्रुत्वेति । मयि करुणां निमित्तीर त्योपकारोऽनुग्रहस्तदर्थ- मिति वचसो विशेषणम् । निरतिशयत्वं परमपुरुषार्थसाधनत्वम् । अशोच्यानित्यादित्वंपदार्थप्रधान- वाक्यं मोहस्यायमित्यात्मसाक्षिकत्वं दर्शयति । अविवेकबुद्धिरज्ञानविपर्यासात्मिका ॥ १ ॥ प० टी० । पूर्वाध्यायान्ते विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदित्युक्तं तर्हि तादृग्रूपं कीदग्भविष्यतीते द्रष्टुमपेक्षमाणोऽर्जुनः प्रार्थयन् पृच्छति मदनुग्रहायेति चतुर्भिः । ममानुग्रहाय - ३१८ श्रीमद्भगवद्गीता- शोकनिवृतये परमं रहस्यं गुह्यं गोप्यमध्यात्मसंज्ञितमात्मानात्मविवेकरूपं देही नित्यमवध्योऽयमिति तथाव्यक्तं व्यक्तिमापन्नमिति तथा मया ततमिदं विश्वमिति तथा समोऽहं सर्वभूतेप्वित्यादियद्वच उक्तं तेन मे मोहो विगतो निःशेषो गतः ॥ १ ॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ॥ त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥२॥ किंच भवेति । भव उत्पत्तिरप्ययः प्रलयो भूतानां तो भवाप्ययौ श्रुतौ विस्तरशो मया न संक्षेपतस्त्वत्तः त्वत्सकाशात् कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तदक्षिणी यस्य तव स त्वं कमलपत्राक्षः हे कमलप- त्राक्ष माहात्म्यमपि चाव्ययमक्षयं श्रुतमित्यनुवर्तते ॥ २ ॥ आ० टी० । सप्तमादारभ्य तत्पदार्थनिर्णयार्थमपि भगक्दुक्तं वचो मया श्रुतमित्याह किं- घति । तो भूतानामुत्पत्तिप्रलयौ त्वत्तः श्रुतावित्याभ्यां संबध्यते, महात्मनस्तव भावी माहात्म्यं पा- रमार्थिकं सोपाधिकं वा सर्वात्मत्वादिरूपं श्रुतमिति परिणम्यानुवृत्ति द्योतयितुमपि चेत्युक्तम् ॥ २ ॥ प० टी० । भवाप्ययाविति । ततस्त्वत्तः सकाशाद्भूतानां भवाप्ययावुत्पत्तिप्रलयौ 'अहं कृ- स्नस्य जगतः प्रभवः प्रलय' इत्यादिवाक्यैर्विस्तरा विस्तरेण मया श्रुतौ । अव्ययमविनाशि माहात्म्यं सामर्थ्यमपि श्रुतम् । विश्वमृष्टयादिकर्तृत्वेऽप्यकर्तृत्वं सर्वनियन्तृत्वेऽप्यसंगत्वं विचित्रफलदातृत्वेऽप्युदासी- नत्वलक्षणं माहात्म्यमित्यर्थः ॥ २ ॥ एवमेतद् यथात्थ त्वमात्मानं परमेश्वर ॥ द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥ एवमिति । एवमेतनान्यथा यथा येन प्रकारेणात्य कथयसि त्वमात्मानं परमेश्वरं तथापि द्रष्टुमिच्छामि ते तव ज्ञानेश्वर्यशक्तिबलवीयतेजोभिः संपन्न- मैश्वरं वैष्णवं रूपं पुरुषोत्तम ॥ ३ ॥ आ० टी० । त्वदुक्तेऽर्थे विश्वामाभावान्न तस्मिन् दिदृक्षा किं तु कृतार्थीवुभूपयेत्याह एव- मेतदिति । येन प्रकारेण सोपाधिकेन निरुपाधिकेन चेत्यर्थः । यदि ममाप्तत्वं निश्चित्य महाक्यं ते मानं तर्हि किमिति मदुक्तं दिदृक्षते कृतार्थीवभुपयेत्युक्तं मत्वाह तथापीति । चतुर्भुनादिरूपनि- वृत्त्यर्थमाह ऐश्वरमिति । तद्व्याचष्टे ज्ञामेयादिना ॥ ३ ॥ प० टी० । एवमिति । विष्टभ्याहमिदं कृत्स्नमितीदानीमात्मानं त्वं यदात्थ यद्वक्ष्यासि । एतत्ते ऐश्वरं ज्ञानेश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नं रूपं द्रष्टुमिच्छामि । पुरुषोत्तमेति संबुद्ध्या अ- लौकिकदर्शनकौतूहलदिदृक्षास्तीति सूचितम् । श्रुतिरपि वामदेव्येन सानोपदिशति-"कया नश्चित्र आ- भुवती सदा वृधः सखा । कया शचिष्टया वृता" इति । भाष्यम्-वामदेवः सदा वृधः सदा वर्धमानः सम- ष्टिरूपः परमात्मा चित्रश्चायनीयः पूजनीयः। यहा विचित्रालतिमयः सखा मित्रभुतः परमात्मा कया एकादशाध्यायः । ३१९ उती उत्या संतपणेन कर्मणा वा नो अस्मानानुभवत् आमिमुख्येनाभवत् । अनुभवगोचरो भवे- त्यादिवाक्यरेतादृग्रूपदर्शने वेदोऽपि वामदेवस्य मनोरथं प्रकटीकरोति किं पुनरहमित्यर्थः । तदुक्तं ह. रिवंशे-'भाण्डीरे सुखमासीनं विहरन्तं जनार्दनम् । वामदेवभरद्वाजौ द्रष्टुं प्राप्तौ जगन्मयम् । तथा यान्तौ समालोक्य विज्ञाय च तदीप्सितम् । उभयोर्दर्शयामास विश्वरूपं स्ववर्मणि । ततस्तावूचतुः कृष्णं सर्वदेवालकं विभुम् । त्वमादिः सर्वभूतानां मध्यमन्तस्तथा भवान् । यान्येव वस्तुजातानि लोकजा- तानि माधव । तव गात्रेषु पश्यामस्त्रिमूर्तीः सर्वदेवताः । जितषड्वैरिणः शान्ता दान्ता योगेश्वरेश्वराः । त्वामीदृशं ते पश्यन्ति नान्य इत्येव विद्महे, इति । अथ वामदेवस्य साम्नः प्रवृत्तिरापस्तम्बशाखायां विश्वेभिर्देवैः एतना जयामि जागृतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साना वपटकारेण वजे- णेति । अत्र सामगायने स्तोमस्तामादिलक्षणमस्माभिः सामभाष्ये प्रोक्तम् । तत्रैव भरद्वाजोऽपि कर्म- णां फलदाता च फलदः कर्म कुर्वताम् । निषेद्धा दुष्टसत्त्वानां ग्रहदैत्योग्ररक्षसाम्' इति । श्रुतिरपि र- क्षोहणमिति सूक्तेन एतदप्यग्रे निरूप्यते ॥ ३ ॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ॥ योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥४॥ मन्यस इति । मन्यसे चिन्तयसि यदि मयार्जुनेन तच्छक्यं द्रष्टुमि- ति प्रभो स्वामिन् योगेश्वर योगिनो योगास्तेपामीश्वरो योगेश्वरः हे योगेश्वर यस्मादहमतीवार्थी द्रष्टुं ततस्तस्मान्मे मम मदर्थं दर्शय त्वमात्मानमव्ययम् ॥४॥ आ० टी० । द्रष्टुमयोग्ये कुतो दिवक्षेत्याशङ्कयाह मन्यस इति । प्रभवति सृष्टिस्थितिसंहा- रप्रवेशप्रशासनेभ्य इति प्रभुः । लक्षणया योगशब्दार्थमाह योगिन इति । तत इत्यादि व्याचष्टे यस्मादिति ॥ ४ ॥ प० टी । अथैतद्रुपदर्शनं केवलमनुग्रहैकलभ्यमित्याह मन्यस इति । योगेश्वर योगिन एव योगास्तेपामीश्वरस्ततस्तात्मानं दर्शय ॥ ४ ॥ श्रीभगवानुवाच । पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥ एवं चोदितोऽर्जुनेन भगवानुवाच पश्य म इति । पश्य मे मम पार्थ रूपाणि शतशोऽथ सहस्रशोऽनेकश इत्यर्थः, तानि च नानाविधान्यनेकप्रका- राणि दिवि भवानि दिव्यान्यप्राकृतानि च नानावर्णाकृतीनि च नानानीलपी- तादिप्रकारा वर्णा विलक्षणास्तथाकृतयोऽवयवसंस्थानविशेषा येषां रूपाणां तानि नानावर्णाकृतीनि च ॥ ५ ॥ आ० टी० । अर्जुनमतिभक्तं सखायं प्रार्थितप्रतिश्रवणेनाश्वासयितुमाह एवमिति ॥ ५ ॥ प० टी० । अथ भगवानप्यलौकिकं रूपं दिदृक्षन्तमर्जुनं संमुखीकरोति पश्येसादिच- तुर्भिः । भो पार्थ मे शतशः सहस्रशश्च रूपाणि पश्य । शतशो मुख्यविभूतिरूपाणि सहस्रशोऽवा- - ३२० श्रीमद्भगवद्गीता- न्तररूपाणि । सहस्त्रशब्दोऽनन्तसंख्यावाची वा । नानाविधानि नानाप्रकाराणि । तदेवाह । नानावर्णाः शुक्कादयो नानाकृतय आकारा येषां तानि ॥ ५ ॥ पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा ॥ बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥ पश्यादित्यानिति । पश्यादित्यान् हादश वसूनष्टौ रुद्रानेकादशाश्विनी हौ मरुतः सप्तसप्तगणान् एतांस्तथा च 'बहून्यन्यान्यप्यदृष्टपूर्वाणि मनुष्य- लोके त्वया त्वत्तोऽन्येन वा केनचित् पश्याश्चर्याणि रूपाण्यद्भुतानि भारत॥६॥ आ० टी० । दिव्यानि रूपाणि पश्यत्युक्तं तान्येव लेशतोऽनुक्रामति पश्यादिसानिति । तान् मरुतस्तथा पश्येति संबन्धः । नानाविधानीत्युक्तं तदेव स्फुटयति बहूनाति । अदृष्टपूर्वाणि पूर्वमदृष्टानि । नानावर्णाकृतीनीत्युक्तं व्यनक्ति आर्थर्याणीति ॥ ६ ॥ ५० टी० । अथ तान्येवाह पश्यति । द्वादशादित्यानष्टवसून् । द्वावश्विनौ । एकोनप- चाशन्मरुतस्तथान्यान्यदृष्टपूर्वाणि पूर्वमदृष्टान्यत एवाश्चर्यजनकानि । मे रूपाणीति पूर्वमुक्तं तर्हि मत्तः पृथङ् न तिष्ठन्तीति तान्यन्वेष्टुं देशतः कालतो वा प्रयासो नास्तीत्याह ॥ ६ ॥ इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ॥ मम देहे गुडाकेश यच्चान्यदृष्टुमिच्छसि ॥७॥ न केवलमेतावदेव इहैकस्थमिति । इहैकस्थमेकस्मिन् स्थितं जगत् कृत्स्नं समस्तं पश्यायेदानीं सचराचरं सह चरेणाचरेण वर्तते मम देहे गुडा- केश यच्चान्यज्जयपरायजयादि यच्छङ्कसे यहा जयेम यदि वा नो जयेयुः' इति यदवोचस्तदपि द्रष्टुं यदीच्छसि ॥ ७ ॥ आ० टी० । न केवलमादित्यवस्वाद्येव मद्रूपं त्वया द्रष्टुं शक्यं किं तु समस्तं जगदपि मद्दे- हस्थं द्रष्टुमर्हसीत्याह नेयादिना । सप्तमीद्वयं मिथः संवध्यते समासान्तर्गतापि सप्तमी तत्रैवानीता यदीच्छसि तीहैव पश्यति संबन्धः ॥ ७ ॥ प० टी० । इहैकस्थमिति । इह पुरोवर्तिनि बीजं मां सर्वभूतानामित्युक्तत्वात् सकलबीज- भूते मनुष्याकृतिके मम देहे कृत्स्नं सर्व जगदेकस्थमेकत्रस्थितमद्याधुनैव पश्य । तदुक्तम्-'पार्थों रथ- द्विभुजस्वरूपं ददर्श देहं खलु विश्वरूपम् । न विश्वरूपे ददृशे रथस्थं यद्विश्वरूपस्य निदानमे- तद् इति । यतः पूर्व स्वशरीरान्तार्कण्डेयमुनयेऽनन्तरं शरीरैकदेशे जनन्यै विश्वरूपं दर्शितवान् । त- दुक्तमारण्यके पर्वणि काम्यकवनोपविष्टं कृष्णसाहितं युधिष्टिर प्रति मार्कण्डेयेन-'ततः कदाचित्प- श्यामि तस्मिन् सलिलविप्लवे। न्यग्रोधं सुमहान्तं वै तच्छाखायां नराधिप । उपविष्टं तु पर्यङ्के पूर्णे- न्दुसदृशाननम् । फुल्लपद्मविशालाक्षं बालं श्रीवत्सलाञ्छनम् । ततो बालेन तेन स्वं सहसा विवृतं मुखम् । तस्याहमवशोवक्त्रं दैवयोगात्प्रवेशितः । तत्र प्रविष्टस्तत्कुक्षावपश्यन्निखिलं जगत् । यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः । स एष पुरुपव्याघ्र संवन्धी ते जनार्दनः । अस्यैव वर- .

एकादशाध्यायः । ३२१ दानेन स्मृतिर्न प्रजहाति माम् । दीर्घमायश्च कौन्तेय स्वछन्दमरणं च वै । स एष कृष्णो वार्ष्णेयः पुराणः पुरुषोत्तमः। आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः । भागवतेऽपि-सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः । साद्रिद्वीपाब्धिभूगोलं सवाय्वनीन्दुतारकम्' इति । एवं सति किं पुनः सकलदेह इत्यर्थः । अथ किं पुनर्भूते जातमित्याह यच्चेति । यच्चान्यत्कारणीभूतं ब्रह्मादिदेवताविशेषादिकं वा द्रष्टुमिच्छसि तदपि पश्येत्यर्थः। अथ शतशोऽथ सहस्रश इत्यत्र श्रुतिरपि-“सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्त्वात्यतिष्ठद्दशाङ्गुलम्" इति । भाष्यम्-सहस्रशीर्षेति षोडशर्च सूक्तं, नारायणो नाम ऋषिः, अन्त्या त्रिष्टुप्, शेषा अनुष्टभः, अव्यक्तादिमहदादिचेतनो यः पुरुषः स देवतेति सर्वानुक्रमस्तत्र प्रथमा सहस्रशीति । सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्त्रशीर्षाः सहस्रशब्दस्योपलक्षणत्वात् । अनन्तैः शीर्षः शिरोभिर्युक्त इत्यर्थः। यानि सर्वप्राणिनां शिरांसि तानि सर्वाण तदेहान्तःपातित्वात्तदीयान्येवेति सहस्त्रशीर्पत्वम्, एवं सहस्रा- सत्वं सहस्रपादत्वं च । स पुरुषो भूमिं ब्रह्माण्डगोलरूपां विश्वतः सर्वतो वृत्त्वा परिवेष्टय दशा- कुलपरिमितं देशमत्यतिष्ठत् अतिक्रम्य व्यवस्थितः । दशा गुलमित्युपलक्षणं तेन ब्रह्माण्डाद्वहिरपि सर्व- तो व्याप्यावस्थित इत्यर्थः । यद्वा ॐभूः ॐभुवः स्वः ॐमहः अंजनः ॐतपः सत्यं ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । अमापो ज्योतीरसोऽमृतं ब्रह्मभू- र्भुवः सुवरोमिति दशप्रणवात्मकगायत्र्युपदिष्टप्रदेशं दशाङ्गुलमत्यतिष्ठदिति केचित् ॥ ७ ॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ॥ दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८॥ किं तु न तु मामिति । न तु मां विश्वरूपधरं शक्यसे द्रष्टुमनेन प्रा- कतेन चक्षुपा येन तु शक्यसे द्रष्टुं दिव्येन तद्दिव्यं ददामि ते तुभ्यं चक्षुस्तेन पश्य मे मम योगमैश्वरमीश्वरस्य ममैश्वरं योगं योगशक्त्य- तिशयमित्यर्थः ॥ ८ ॥ आ० टी० । मन्यसे यदीत्युक्तमनुवदति किं त्विति । सप्रपञ्चमनवच्छिन्नं मां स्वचक्षुषा न शक्नोषि द्रष्टुमित्याह न विति । कथं तर्हि त्वां द्रष्टुं शक्नुयामित्याशङ्कयाह येनेति । दिव्यस्य चक्षुषो वक्ष्यमाणयोगशत्यतिशयदर्शने विनियोगं दर्शयति तेनेति ॥ ८ ॥ प० टी० । अथैतादृगद्भुतरूपदर्शनं चर्मचक्षुषा कथं स्यादित्याह नखिति ।अनेन वर्तमानेनैव स्वचक्षुषा मे ऐश्वरमलौकिकं योगं द्रष्टुं न शक्यसे तर्हि तुभ्यमहमन्तर्यामी दिव्यं सत्त्वाकारान्तः- करणवृत्तिसहकृतं ज्ञानात्मकं चक्षुर्ददामि, ततः पश्य, यथाञ्जनसंस्कारेणातीन्द्रियमपि निधानं दृ- श्यते तथैवेत्यर्थः । दैवात्मकृष्णाञ्जनदिव्यदृष्टिरितिपूर्वमेवोक्तम् । टिप्पणिकास्वपि-'देवकीतनय सेवकी- कृतं यैर्मनागपि मनो विनोदतः। अञ्जनीभवति कञ्जलोचनस्तादृशो गतिनिधानसाधने' इति । एवमेवा- न्यैरपि दिव्यदृष्टिदानपूर्वकं कृष्णदेहावयवेषु विश्वरूपं दृष्टमित्युद्योगपर्वणि पाण्डवदौत्येन कौरवसमां प्रति भगवद्याने प्रोक्तम्-‘विदुरेणैवमुक्त तु केशवः परवीरहा । दर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् । एकोऽहामिति यन्मोहान्मन्यसे मां सुयोधन । परिभूय तु दुर्बुद्धे गृहीतुं मां चिकीर्षसि । इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । इहादित्याश्च रुद्राश्च तथैव च महर्षयः । एवमुक्त्वा जहा- साच्चैः केशवः परवीरहा । तस्यास्यात्स्मयतः शौरेवियुद्रूपा महात्मनः । अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः । तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् । प्रादुरास्तां तथा दोर्ध्या संकर्षणधन- स्वचक्षुषा स्वकीयेन ३२२ श्रीमद्भगवद्गीता- अयौ । भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः । अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्तथा । आ- विर्बभूवुः कृष्णाङ्गात्समुद्यतमहायुधाः। शङ्खचक्रगदाशक्तीः शाङ्गलाङ्गलनन्दकम् । अदृश्यान्युद्यतान्येव सर्वप्रहरणानि च । नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः । नेत्राभ्यां वक्षसश्चैव श्रोत्राभ्यां च समन्ततः । प्रादुरासन् महारौद्राः सधूमाः पावकार्चिषः । रोमकूपेषु च तथा सूर्यस्येव मरीचयः । तं दृष्ट्वा महदाश्चर्य केशवस्य महात्मनः । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः । ऋते भीष्मं च द्रोणं च विदुर सञ्जयं तथा । प्रादात्तेषां स भगवान् दिव्यं चक्षुर्जनार्दनः । तदृष्ट्वा महदाश्चर्य माधवस्य सभातले । देवदुन्दुभयो नेदुः पुष्पवर्ष पपात च' इति ॥ ८ ॥ सञ्जय उवाच । एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः॥ दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९॥ एवं तं यथोक्तप्रकारेणोक्त्वा ततोऽनन्तरं राजन् धृतराष्ट्र महांश्चासौ योगेश्वरश्च महायोगेश्वरो हरिनारायणो दर्शयामास दर्शितवान् पार्थाय पृथासु- ताय परमं रूपं विश्वरूपमैश्वरम् ॥ १ ॥ आ० टी० । इमं वृत्तान्तं धृतराष्ट्राय सञ्जयो निवेदितवानित्याह सञ्जय इति । मदीयं विश्वरू- पाख्यं रूपं न प्राकृतेन चक्षुषा निरीक्षितुं क्षमं किंतु दिव्येनेत्यादि, यथोक्तप्रकारः, अनन्तरं दि- व्यचक्षुषः प्रदानादिति शेषः । हरत्यविद्यां सकार्यामिति हरिः । यदीश्वरस्य मायोपहितस्य परममु- कृष्टं रूपं तद्दर्शयाम्बभूवेत्याह परममिति ॥ ९ ॥ प० टी० । अथ प्रकृतमनुसरामः । एवमुक्त्वा भगवानर्जुनाय रूपं दर्शितवान् तच्च रूपं दृष्वाऽर्जुनः श्रीकृष्णं विज्ञापितवानितीमं वृत्तान्तं धृतराष्ट्रं प्रति सञ्जय उवाच एवमुक्त्वति पड़भिः । श्लोकैः । भो राजन् धृतराष्ट्र महायोगेश्वरी हरिः महान्तश्च ते योगेश्वराश्च महायोगेश्वराः । योगो हि जीवब्रह्मैक्यं तत्रेश्वराः समर्थाः शुकवामदेवयाज्ञवल्क्यप्रभृतयस्तेषामपीश्वरः कृष्णः पार्थाय परमं पारमार्थिक रूपमैश्वरमघटितघटनापटीयो दर्शयामास ॥ ९ ॥ अनेकवक्रनयनमनेका तदर्शनम् ॥ अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १०॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥ अनेकेति । अनेकवक्रनयनम् अनेकानि वक्राणि नयनानि च यस्मि- न् रूपे तदनेकवक्रनयनम् अनेकाद्भुतदर्शनम् अनेकान्यद्भुतानि विस्मापका- नि दर्शनानि यस्मिन् रूपे तदनेकाद्भुतदर्शनं रूपं तथानेकदिव्याभरणम् अ- नेकानि दिव्याभरणानि यस्मिस्तदनेकदिव्याभरणं तथा दिव्यानेकोद्यतायुधं एकादशाध्यायः । ३२३ दिव्यान्यनेकान्युद्यतान्यायुधानि यस्मिंस्तदिव्यानेकोयतायुधं दर्शयामासेति पूर्वेण संबन्धः ॥ १० ॥ किं च दिव्येति । दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाण्यम्बरा- णि वस्त्राणि च ध्रियन्ते येनेश्वरेण तं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपन दिव्यगन्धा अनुलेपनं सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवमनन्तं नास्यान्तोऽस्तीत्य- नन्तस्तं विश्वतोमुखं सर्वभूतात्मत्वात् तं दर्शयामासार्जुनो ददर्शेति वा- ध्याहियते ॥ ११ ॥ आ० टी० । तदेव रूपं विशिनष्टि अनेकेति । दिव्यान्याभरणादीनि हारकेयूरादीनि भूषणा- न्युद्यतान्युच्छ्रितानि ॥ १० ॥ आ० टी० । उक्तरूपवन्तं भगवन्तं प्रकारान्तरेण विशिनष्टि किंचेति । अध्याहारोऽपि पद- संघटनासंभवात् ॥ ११ ॥ ५० टी० । ततोऽनेकवक्रनयनमित्यादितः श्लोकद्वयं रूपवर्णनाथं स्पष्टार्थम् । अथ वैश्वरू- पतेजसो दृष्टान्ताभावं दर्शयति ॥ १० ॥ ११ ॥ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ॥ यदि भाः सदृशी सा स्यादासस्तस्य महात्मनः॥१२॥ या पुनर्भगवतो विश्वरूपस्य भास्तस्या उपमोच्यते दिवीति । दिव्यन्त- रिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य युग- पदुत्थिता भाः सा यदि सदृशी स्यात् तस्य महात्मनो विश्वरूपस्य भासो यदि वा न स्यात् ततोऽपि विश्वरूपस्यैव भा अतिरिच्यत इत्यभिप्रायः॥१२॥ आ० टी० । ननु प्रकृतस्य भगवतो रूपस्य दीप्तिरस्ति न वा न चेत् काष्ठादिसाम्यं यद्यस्ति कादशी सेत्याशङ्कयाह या पुनरिति । सा यदि स्यात्तगासः सदृशी सेति योजना असंभाविता- भ्युपगमार्थों यदिशब्दः, स्याच्छब्दो निश्चयार्थः । सा कथं सदृशी संभवति न तु भवत्येवति विवक्षित्वाह यदि वेति ॥ १२ ॥ प० टी० । दिवाति । तस्य महात्मनो विश्वरूपस्य भासो दीप्तेः सदृशी समाना भा दी- प्तिस्तयेव स्यात् । तर्हि कथम्, यदि दिव्याकाशे सूर्यसहस्रस्य युगपदेकवार मुत्थिता उदिता स्यादित्यभृतोपमालंकारः ॥ १२ ॥ तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ॥ अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥ किं च तत्रैकस्थमिति । तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितमेक- १ आयुधान्यस्या दीनि-पा. लि. पु.

३२४ श्रीमद्भगवद्गीता- स्थं जगत् कृत्स्नं प्रविभक्तमनेकधा देवपितृमनुष्यादिभेदैरपश्यद् दृष्टवान् देवदेवस्य हरेः शरीरे पाण्डवोऽर्जुनस्तदा ॥ १३ ॥ आ० टी० । न केवलमुक्तमेवार्जुनो दृष्टवान् किं तु तत्रैव विश्वरूपे सर्व जगदेकस्मिन्नवस्थितम नुभूतवानित्याह किं चेति । तदा विश्वरूपस्य भगवद्रूपस्य दर्शनं दर्शयामीत्यर्थः ॥ १३ ॥ प० टी० । तत्रेति । तत्र देवदेवस्य शरीरेऽनेकधा प्रविभक्तं भिन्नभिन्न नामरूपकात्मक कृत्स्नं समयं जगदेकस्थमेकाश्रयं तदा तस्मिन्नवसरे पाण्डवोऽर्जुनोऽपश्यत् ॥ १३ ॥ ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः॥ प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥ नत इति । ततस्तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टो हृष्टानि रो- माण्यस्य सोऽयं हृष्टरोमा चाभवद्धनञ्जयः प्रणम्य प्रकर्षेण नमनं कृत्वा प्रड्डी- भूतः सन् शिरसा देवं विश्वरूपधरं कृताञ्जलिनमस्कारार्थ संपुटीकृतहस्तः सनभाषतोक्तवान् ॥ १४॥ आ० टी० । विश्वरूपधरस्य भगवतस्तस्मिन्नेकीभूतजगतश्चोक्तविशेषणस्य दर्शनानन्तरं किमक- रोदित्यपेक्षायामाह तत इति । आश्चर्यबुद्धिविस्मयो रोम्णां हृष्टत्वं पुलकितत्वं, प्रको भक्तिश्र- द्धयोरतिशयः ॥ १४ ॥ प० टी० । ततः किमासीदित्याह तत इति । ततो दर्शनानन्तरं धनञ्जयोऽर्जुनोऽद्भुतदर्शनो- त्पन्नेन विस्मयेनाविष्टो व्याप्तः । एवमद्भुतरसाविर्भावेन हृदयरामाश्चाङ्कितः सन् देवं कृष्णं शिरसा प्रणम्य कृताञ्जलिः सन्नभापत ॥ १४ ॥ अर्जुनउवाच । पश्यामि देवांस्तव देव देहे सर्वास्तथा भूतविशेपसङ्कान् ॥ ब्रह्माणमीशं कमलासनस्थमपश्चि सर्वानुरगांश्च दिव्यान् ॥१५॥ कथं यत्त्वया दर्शितं विश्वरूपं तदहं पश्यामीति स्वानुभवमाविष्कुर्वन्न- र्जुन उवाच पश्यामीति । पश्याम्युपलभे हे देव तव देहे देवान् सर्वांस्तथा भूतविशेषसवान् भूतविशेषाणां स्थावरजङमानां नानासंस्थानविशेपाणां सङ्का भूतविशेषसङ्घास्तान किं च ब्रह्माणं चतुर्मुखमीशमीशितारं प्रजानां कमलास- नस्थं पृथिवीपनमध्ये मेरुकर्णिकासनस्थमित्यर्थः । ऋषीश्च वशिष्ठादीन्, स- र्वानुरगांश्च वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥ आ० टी० । कथं भगवन्तं प्रत्यर्जुनो भाषितवानिति पृच्छति कथमिति । तत्प्रभमपेक्षितं परयन्नवतारयति यत्त्वयेति । भूतविशेषसमातेषु देवतानामन्तर्भावेऽपि पृथक्करणमुल्कृष्टाद् ब्रह्मणः एकादशाध्यायः। ३२५ सर्वदेवतात्मत्वेऽपि तेभ्यो भेदकथनं तदुत्पादकत्वादिति मत्वाह किंचेति । ऋषीणामुरगाणां च किं- चिद्वैषम्यात् पृथक्त्वं, दिव्यानित्युभयेषां विशेषणम् ॥ १५ ॥ प० टी० । किमभाषतेत्याह पश्यामीति सप्तदशभिः । भो देव दीप्यमान तव देहे स्वर्ग- स्थान् देवान् पश्यामि । तथा भूमिस्थान् सर्वान् भूतविशेषाणां जरायुजाण्डजादीनां सङ्घान् समूहां- स्तथा दिव्यन्तरिक्षवर्तमानानुषीन् पुलस्त्यक्रत्वादीस्तथा पाताले स्थितानुरगांश्च पश्यामि । किं च । सत्यलोकनिवासिनं ब्रह्माणं तथा कैलासनिवासिनमीश्वरं पश्यामि । किं च कमलया लक्ष्म्या सहासने गरुडासने स्थितो विष्णुस्तमपि वैकुण्ठवासिनं पश्यामीति दिव्यदृष्टिदानस्य फलमुक्तम् । (अत्र शोध- पर्ण नास्ति) ॥ १५॥ अनेकबाहूदरवक्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् ॥ नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥१६॥ किं च अनेकेति । अनेकबाहूदरवक्रनेत्रम् अनेके वाहव उदाराणि वक्रा- णि नेत्राणि च यस्य तव स त्वमनेकबाहूदरवक्रनेत्रस्तमनेकबाहूदरवक्रनेत्रं पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्तरूपमनन्तानि रूपाण्यस्येत्यनन्तरूपस्तम- नन्तरूपं नान्तमन्तोऽवसानं न मध्यं मध्यं नाम इयोः कोट्योरन्तरं न पुनस्त- वादि तव देवस्य नान्तं पश्यामि न मध्यं पश्यामि न पुनरादि पश्यामि हे विश्वेश्वर हे विश्वरूप ॥ १६ ॥ आ० टी० । यत्र भगवद्देहे सर्वमिदं दृष्टं तमेव विशिनष्टि अनेकेति । आदिशब्देन मूलमुच्यते । नान्तं न मध्यमित्यत्रापि पश्यामीत्यस्य प्रत्येकं संबन्धं सूचयति नान्तं पश्यामीति ॥ १६ ॥ प० टी० । अथ विश्वरूपं वर्णयति अनेकेति द्वाभ्याम् । भो विश्वेश्वर ते विश्वरूपं विश्वा- त्मकं रूपं यहा 'विश्वं विष्णुर्वषट्कार' इत्यादिना विश्वं विष्णुस्वरूपं रूपे शरीरे यस्य तथाविधं ते इति त्वां पश्यामि । किं भूतम्, अनेकबाहदरबक्रनेत्रम् अनकेपा बादरवक्रनेत्राण्येव बाहूदरव- क्रनेत्राणि यस्य । सर्वतः समन्ततोऽनन्तरूपमसंख्यातरूपमेव सर्व पश्यामि । परं त्वेतत्रितयं न पश्यामि । तत्किम्, ते अन्तं पर्यवसानं मध्यं स्थितिमवसानमादिमाविर्भावं पूर्व कमलासनस्थमिति पदेन सामान्यतो विष्णोः स्वरूपं यदृष्टुमित्युक्तं तदेव गदाचक्राद्यायुधोपलक्षणं यथा पुराणेषु श्रुतमभूत्तथा “ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् इति श्रुतिप्रातपादितं त्रिविक्रमाकारण दृष्टमित्याह ॥ १६ ॥ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ॥ पश्यामि खां दुर्निरीक्ष्यं समन्तादीप्तानलार्कद्युतिमप्रमेयम्॥१७॥ किं च किरीटिनमिति । किरीटिनं किरीटं नाम शिरोभूषणविशेषस्तद् यस्यास्तीति स किरीटी तं किरीटिनं तथा गदिनं गदा यस्य विद्यत इति गदी तं गदिनं तथा चक्रिणं चक्रमस्यास्तीति चक्री तं चकिणं च तेजोराशि तेजःपुञ्ज ३२६ श्रीमद्भगवद्गीता- - सर्वतोदीप्तिमन्तं सर्वतो दीप्तिर्यस्यास्तीति सर्वतोदीप्तिमांस्तं सर्वतोदीप्तिमन्तं प- श्यामि त्वां दुनिरीक्ष्यं दुःखेन निरीक्ष्यो दुनिरीक्ष्यस्तं समन्ततः सर्वत्र दीप्तानलार्क- द्युतिमनलश्चार्कश्वानलार्की दीप्तावनलाौं दीप्तानलार्को तयोर्दीप्तानलार्कयोर्यु- तिरिव द्युतिस्तेजो यस्य तव स त्वं दोप्तानलार्कद्युतिस्तं त्वां दीप्तानलार्कद्युतिम् अप्रमेयं न प्रमेयमप्रेमेयमशक्यपरिच्छेदमित्यर्थः ॥ १७ ॥ आ० टी० । विश्वरूपवन्तं भगवन्तमेव प्रकारान्तरेण प्रपश्चयति किंचेति । परिच्छिन्नत्वं व्यावर्तयति सर्वत इति । दुनिरीक्ष्यं पश्यामीत्यधिकारिभेदादविरुद्धम् । पुरतो वा पृष्ठतो वा पार्श्व- तो वा नास्य दर्शनं किं तु सर्वत्रेत्याह समन्तत इति । दीप्तिमन्तं दृष्टान्तेन स्पष्टयति दीमेति ॥१७॥ प० टी० । किरीटिनमिति । किरीटिनं मुकुटवन्तं गदिनं गदाहस्तं चक्रिणं सुदर्शनवन्तं प- श्यामि । अनेनोर्ध्वहस्ताभ्यां क्रमेण गदाचक्रे तथाधरहस्ताभ्यां पद्मशखौ बिभ्राणमेवं चतुर्भुज त्रि- विक्रमरूपं पश्यामीत्युक्तम् । तथा त्वां सर्वतस्तेनोराशिं तेमःसमूहरूपदीप्तिमन्तम् प्रसरप्रकाशं समन्ता- दुनिरीक्ष्यं द्रष्टुमशक्यं दीप्तानलार्कातिं ज्वलदग्निसूर्ययोदीप्तिर्यस्य । अप्रमेयं मनसाप्यतय॑म् । अ- यमर्थः-त्रिविक्रमस्वरूपं तु स्वरूपेणैव चरणविक्षेपमात्रव्याप्तब्रह्माण्डकटाहं तादृशमपि तव देहे पश्यामि किं पुनरन्यत् । एतदेव मनसि निधाय महापुराणेप्युक्तम्-'क्वाहं तमोमहदहंखचराग्निवा :- संवेष्टिताण्डघटसप्तवितस्तिकायः' इत्यादि ॥ १७ ॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ॥ त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुपो मतो मे॥१८॥ इत एव ते योगशक्तिदर्शनादनुमिनोमि त्वमिति । त्वमक्षरं न क्षरती- ति परमं परं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिस्त्वमस्य विश्वस्य समस्तस्य ज- गतः परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानं परमाश्रय इत्यर्थः । किं च त्वमव्ययो न च तव व्ययो विद्यत इत्यव्ययः शाश्वतधमगोप्ता शश्वद्भवः शा- श्वतो नित्यो धर्मस्तस्य गोप्ता शाश्वतधर्मगोप्ता सनातनश्चिरंतनस्त्वं पुरुषः परो मतोऽभिप्रेतो मे मम ॥ १८ ॥ आ० टी० । सप्रपञ्चे भगवद्रपे प्रकृते प्रकरणविरुद्धत्वमक्षरमित्यादिनिरुपाधिकवचनमित्याश- याह इत एवेति । योगशक्तिरेश्वर्यातिशयः, न क्षरतीति निष्प्रपश्चत्वमुच्यते, परमपुरुषार्थत्वात् परमार्थत्वाच ज्ञातव्यत्वम् । यस्मिन् द्यौः पृथिवीत्यादौ प्रपञ्चायतनस्यैव ततो निकृष्टस्य ज्ञातव्यत्व- श्रवणात् कुतो ब्रह्मणो ज्ञातव्यत्वं तत्राह त्वमस्यति । निष्प्रपञ्चस्य ब्रह्मणो ज्ञेयत्वे हेत्वन्तरमाह किंचेति । अविनाशित्वात्तवैव ज्ञातव्यतातिरिक्तस्य नाशित्वेन यत्वादित्यर्थः । ज्ञानकर्मात्मनो धर्म- स्य नित्यत्वं वेदप्रमाणकत्वं धर्मस्यापनयनार्थाय संभवामीत्युक्तत्वाद गोप्ता रक्षिता ॥ १८ ॥ प० टी० । अथाप्रमेयत्वमेवाह त्वमक्षरमिति । नक्षरतीत्यक्षरं परं ब्रह्म त्वमेव परममा- त्यन्तिकं वेदितव्यं मुमुक्षभिर्ज्ञातव्यं यस्मिन् ज्ञाते सर्वमिदं विज्ञातं भवतीत्यर्थः । त्वमस्य दृश्यमान- १ दीप्तीचतावनलाकौंचदीप्तानलाौं -पा.

एकादशाध्यायः । ३२७ स्य विश्वस्य परमुत्कृष्टं निधानं निधीयते यस्मिन् प्रकृष्ट आश्रयः । अव्ययो नित्यः शाश्वता ये मोक्षप्रापका धर्मास्तेषां गोप्ता रक्षिता निर्वाहकः सनातनः पुराणः । एवंविधस्त्वं पुरुपः पुरुषो- त्तमो मे मतः ॥ १८ ॥ अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ॥ पश्यामि त्वां दीतहुताशवकं स्वतेजसा विश्वमिदं तपन्तम्॥१९॥ किं च अनादीति । अनादिमध्यान्तमादिश्च मध्यं चान्तश्च न वि- द्यते यस्य सोऽयमनादिमध्यान्तस्तं त्वामनादिमध्यान्तमनन्तवीर्य न तव वीर्य- स्यान्तोऽस्तीत्यनन्तवीर्यस्तं त्वामनन्तवीर्य तथानन्तबाहुमनन्ता बाहवो यस्य तव स त्वमनन्तबाहुस्तं त्वामनन्तबाहुं शशिसूर्यनेत्रं शशिसूर्यौ नेले यस्य तव स त्वं शशिसूर्यनेत्रस्तं त्वां शशिसूर्यनेतं चन्द्रादित्यनयनं पश्यामि त्वां दीप्तहुताशवकं दीप्तश्चासौ हुताशश्च तहत् वैकं यस्य तव स त्वं दीप्त- हुताशवक्रस्तं त्वां दीप्तहुताशवकं स्वतेजसा विश्वं समस्तमिदं तपन्तं संतापयन्तम् ॥ १९॥ आ० टी० । भगवतो रूपं विश्वरूपाख्यं रूपमेव पुनर्विवृणोति किंचेति । हुतमभातीति हुताशो वह्निः ॥ १९ ॥ । किं च स्वजनमात्रहिंसाभयाद्रणान्निवृत्तेन कालरूपपरमेश्वरदर्शनप्रार्थनया त्रैलोक्यहिंसापि मयैव कारितेति मन्यमानः पश्चात्तापमनुवदन्नाह अनादीति । न विद्यन्ते आदि- मध्यान्ता यस्य । अनन्तवीर्यमनन्तशक्तिम् । अनन्ता बाहवो यस्य । शशिसूर्यनेत्रं सांमुख्येन वर्त- मानौ पूर्णचन्द्रसूर्यो नेत्रे यस्य । यद्वा शशिसूर्ययोरपि नेत्रीभूतम् । दीप्तहुताशो ज्वलदग्निर्वकं मुखं यस्य । स्वतेजसा इदं विश्वं तपन्तं संतापयन्तम् । जगत्संहारं कर्तुमिव प्रवृत्तं पश्यामि ॥ १९ ॥ द्यावाप्रथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः॥ दृष्ट्वाद्भुतं रूपमिदं तवो लोकत्रयं प्रव्यथितं महात्मन्॥२०॥ द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरं यन्तरिक्ष व्याप्तं त्वयैकेन विश्वरूपधरेण दिशश्च सर्वा व्याप्ता दृष्वोपलभ्यागुतं विस्मापकं रूपमिदं तवो- ग्रं क्रूर लोकवयं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे म- हात्मन्नक्षुद्रस्वभाव ॥ २० आ० टी० । प्रकृतभगवद्रूपस्य व्याप्ति व्यक्ति द्यावाप्टथिव्योरितीति । तस्यैव भयंकर- त्वमाचष्टे दृष्ट्वति ॥ २० ॥ प० टी० । द्यावाप्रथिव्योरिति । द्यावाष्टथिव्योरन्तरमन्तरिक्षं त्वयैकेनैव व्याप्तम् । तथा स- प० टी० ॥ १ सव-पा० लि. प० ।

३२८
श्रीमद्भगवद्गीता-
ो दिशश्च व्याप्ताः । भो महात्मन् विश्वरूप एवमेतादृशमुग्रं तव रूपं दृष्ट्वा लोकत्रयं प्रव्यथितम् ।
प्रकर्षेण संहारं प्राप्तमिवेति पश्यामि । श्रुतिरपि वाजसनेयसंहितासु-“परीत्य भूतानि परीत्य लोकान्
परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश" । भाष्यम्-ऋतस्य
सत्यस्य परब्रह्मणः प्रथमजां प्रथमजातां शबलत्वेनोपस्थितां तनुमुपस्थायाधिष्ठाय आत्मना स्वरूपेण
कृत्वात्मानमभितः संविवेश प्रविष्टवान् । किं कृत्वा, भूतानि पृथिव्यादीनि परीत्याभिव्याप्य
लोकान् भूर्भुवः स्वरादीन् दिशश्च प्रदिशश्चेति तद्वत् ॥ २० ॥
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भताःप्राञ्जलयो गृणन्ति ॥
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा स्तुवन्ति त्वां स्तुतिभिः पुष्क-
लाभिः॥२१॥
अथाधुना पुरा यहा जयेम यदि वा नो जयेयुरित्यर्जुनस्य संशय आ-
सीत् तन्निर्णयाय पाण्डवजयमैकान्तिकं दर्शयामीति प्रवृत्तो भगवांस्तं प-
श्यन्नाह अमी हीति । किं च अमी हि युध्यमाना योद्धारस्त्वां सुरसचा
येऽत्र भूभारावतारायावतीर्णा वस्वादिदेवसङ्घा मनुष्यसंस्थानास्त्वां विशन्ति
प्रविशन्तो दृश्यन्ते तत्र केचिद्रीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वामन्ये
पलायनेऽप्यशक्ताः सन्तो युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तान्युपलक्ष्य
स्वस्त्यस्तु जगत इत्युक्त्वा महर्षिसिद्धसङ्घा महर्षीणां च सिद्धानां च
सङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः संपूर्णाभिः ॥ २१ ॥
आ० टी० । अमी हीत्यादि समनन्तरग्रन्थस्य तात्पर्यमाह अथेति । तं भगवन्तं पाण्डवजयमै-
कान्तिकं दर्शयन्तं पश्यन्नर्जुनो ब्रवीतीत्याह तं पश्यन्निति। विश्वरूपस्यैव प्रपश्चनार्थमनन्तरग्रन्थजात-
मिति दर्शयति किंचेति । असुरसङ्या इति पदं स्थित्वा भूभारभूता दुर्योधनादयस्त्वां विशन्ती-
त्यपि च वक्तव्यम् । उभयोरपि सेनयोरवस्थितेषु योडुकामेप्ववान्तरविशेपमाह तत्रेति । समरभूमी
समागतानां द्रष्टुकामानां नारदप्रभृतीनां विश्वविनाशमाशङ्कमानानां तं परिनिहीर्षतां स्तुतिपदेषु
भगवद्विषयेषु प्रवृत्तिप्रकारं दर्शयति युद्ध इति ॥ २१ ॥
५० टी० । तदेवाह अमीहीति । सुरसङ्घा देवसमूहास्त्वामतिभीषणं दृष्ट्वेतः परं क्व ग-
न्तव्यमिति व्याकुलचित्तास्त्वामेव प्रविशन्ति । तथा महर्षयश्च सिद्धसङ्घा गन्धर्वचारणादयस्त्वां त्रि-
लोकीप्रभु मत्वा स्वस्तीत्याशीर्वचनमुक्त्वा त्वां पुष्कलाभिर्दीर्घाभिः स्तुतिभिः स्तुवन्ति । एतदर्थे नौधसं
सामास्ति-"तं वोदस्समृषीषहं वसोर्मदानमन्धसः । अभिवत्सं न स स्वरेषु धेनव इन्द्रं गीर्भिर्न वाम"
इति । भाष्यम्-नौधा ऋपिः इन्द्रं परमात्मानं स्तौति । हे ऋत्विग्यजमाना दस्सं दर्शनीयं ऋषीषहं
ऋषीशा बाधकास्तेषामभिभवितारम् । पुनः कीदृशं, वसोर्दुःखस्य वासयितारमाच्छादकम् । तथा-
न्धसः सोमलक्षणस्यान्नपानेन मदानं मोदमानं तादृशमिन्द्रं गीभिः स्तुतिलक्षणाभिर्वाग्भिरभिनवामहे-
ऽभिष्टुमोऽभितः शब्दयामः । कुत्र सस्वरेषु दिवसेषु वयमभिष्टुमः, तत्र दृष्टान्तः वत्सं यथा नवप्रसू-
तिका धेनवः सस्वरेषु सुष्टु अस्यन्ते प्रीयन्ते गावोऽत्रेति सस्वराणि गोष्ठानि तेषु वत्समभिलक्ष्य श-
ब्दयन्ति तद्वत्परमप्रेमास्पदं त्वामित्यर्थः ॥ २१ ॥

एकादशाध्यायः ।
३२९
रुद्रादित्या वसवो ये च साध्या विश्वेऽखिनो मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२॥
किंचान्यत् रुद्रेति । रुद्रादित्या वसवो ये च साध्या रुद्रादयो गणाः
विश्वेऽश्विनौ विश्वेदेवा अश्विनी च देवो मरुतश्च वायव ऊष्मपाश्च पितरो
गन्धर्वयक्षासुरसिद्धसङ्घा गन्धर्वा हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयोऽसुरा
विरोचनप्रभृतयः सिद्धाः कपिलादयस्तेषां सङ्घा गन्धर्वयक्षासुरासेद्धसङ्घास्ते
वीक्षन्ते पश्यन्ति त्वा त्वां विस्मिता विस्मयमापन्नाः सन्तस्तएव सर्वे ॥ २२ ॥
आ० टी० । दृश्यमानस्य भगवद्रूपस्य विस्मयकरत्वे हेत्वन्तरमाह किंचेति । तत्र चोक्ता
रुद्रादयः सर्वे विस्मयमापन्नास्त्वां पश्यन्तीति संबन्धः ॥ २२ ॥
प० टी० । अथ केऽप्यतिचकितत्वेन स्तोतुमशक्तास्तुणी तस्थुरित्याह रुद्रादिसा इति । रुद्रा
एकादश, आदित्या द्वादश, वसवोऽष्टौ, य च साध्या विश्वेदेवा अश्विनी मरुद्गणा ऊष्म पिबन्ति
ते उप्मपाः पितरः, गन्धर्वयक्षास्तथासुरासिद्धसङ्घा अद्भुतदर्शनाद्विस्मिताः सन्तस्त्वां वीक्षन्ते
तूष्णीमवलोक्य स्थिताः ॥ २२ ॥
रूप महत बहुवत्रनेत्रं महाबाहा बहुबाहूरुपादम् ॥
बहूदरं बहुदंष्ट्राकरालं दृष्टा लोकाः प्रव्यथितास्तथाहम् ॥२३॥
यस्मात् रूपमिति । रूपं महदतिप्रमाणं ते तव बहुवक्रनेत्रं बहूनि
वक्राणि मुखानि नेत्राणि चतूंपि च यस्मिंस्तदूपं बहुवक्रनेत्रं हे महाबाहो
बहुवाहरुपादं बहवो बाहब ऊरवः पादाश्च यस्मिन् रूपे तद्बहुवाहरुपाद,
किं च बहूदरं वहून्युदराणि यस्मिन्निति तद् बहूदरं बहुदंष्ट्राकरालं बति-
भिर्दष्ट्राभिः करालं विकृतं तद् बहुदंष्ट्राकरालं दृष्ट्वा रूपमीदृशं लोका
लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन तथाहमपि ॥ २३ ॥
आ० टी० । लोकत्रयं प्रव्याथतमित्युक्तमुपसंहरति यस्मादिति । ईदृशं यस्मात्ते रूपं तस्मा-
क्वां दृष्ट्वेति योजना । भयेन लौकिकवदहमपि व्यथितो व्यथां पीडां देहेन्द्रियप्रचलनं प्राप्तोऽस्मी-
त्याह तथेति ॥ २३ ॥
प० टी० । एवं स्थितिरूपेण विश्वरूपं दर्शयन्निदानी संहाररूपेण पश्यति । अतिभयान-
करूपदर्शनेन तदुदरवर्तिनां लोकानां स्वस्य च भयं नाटयति रूपमिति । ते तव रूपं करालमत्य-
ल्वणं दृष्ट्वा लोकाः कौरवसैनिकाशूर्गीकृतैरुत्तमाङ्गैरित्यादिवक्ष्यमाणवाक्यैः प्रथिता नाशं पर्यवसिता
इति च दृष्ट्या एते दैवान्नष्टा एव परं तु मया क्षात्रधर्मप्रतिष्ठापकजगदुरुवाक्यमविगणय्य व्यर्थं संग्रा-
मादुपरतमित्यहमपि प्रव्यथितोऽरमीत्यर्थः ॥ २३ ॥

३३०
श्रीमद्भगवद्गीता-
नभःस्टशं दीप्तमनेकवर्ण व्याताननं दीप्तविशालनेत्रम् ॥
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामिशमं च विष्णो२४
तत्रेदं कारणं नभःस्पृशमिति । नभःस्पृशं घुस्पर्शमित्यर्थः, दीप्तं प्रज्व-
लितमनेकवर्णमनेकवर्णा भयंकरा नानासंस्थाना यस्मिस्त्वयि तं त्वामनेकवर्ण
व्यात्ताननं व्यात्तानि विटतान्याननानि मुखानि यस्मिंस्त्वयि तं त्वां व्यात्तान-
नं दीप्तविशालनेतं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि
यस्मिंस्त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः
प्रभीतोऽन्तरात्मा मनो यस्य मम सोऽहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्य न
विन्दामि न लभे शमं चोपशमं मनस्तुष्टिं हे विष्णो ॥ २४ ॥
आ० टी० । अर्जुनस्य विश्वरूपदर्शनेन व्यथितत्वे हेतुमाह तत्रेति ॥ २४ ॥
प० टी० । किं च नम इति । नभोऽन्तरिक्षं स्पृशतीति नभःस्पृक् तन्नभःस्पृशम् । दीप्तं
प्रज्वलितमनेकवर्णम्, व्यात्तं प्रसारितमाननं यस्येति । दीप्तानि प्रज्वलितानि विशालानि नेत्राणि
यस्य । विष्णो व्यापक एवंविधं त्वां दृष्ट्वा प्रव्यथितोऽन्तरात्मा मनो यस्यैवं विधोऽहं धृति धैर्यमुप-
शमं वा न विन्दामि ॥ २४ ॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि ॥
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगनिवास॥२५॥
कस्माद् दंष्ट्राकरालानीति । दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि
ते तव मुखानि दृष्टुवोपलभ्य कालानलसंनिभानि प्रलयकाले लोकानां दाहको-
ऽग्निः कालानलस्तन्निभानि कालानलसदृशानि दृष्ट्वेत्येतद्दिशः पूर्वापरविवेकेन न
जाने दिङ्मूढोऽस्म्यतो न लभे न चोपलभे च शर्म सुरखमतः प्रसीद प्रसन्नो
भव देवेश जगन्निवास ॥ २५ ॥
आ० टी० । दृश्यमानेऽपि भगवद्देहे परितोपाद्यभावे कारणान्तरं प्रश्नपूर्वकमाह कस्मादिति ।
दृष्ट्वेत्येवकारेण प्राप्तिावय॑ते ॥ २५ ॥
प० टी० । अथ भयातिशयेन स्वस्य कांदिशीकत्वम नुवदति दंगेति । दंष्ट्राभिः करालानि
भयानकानि । कालानल: संकर्षणमुखानलस्तत्सदृशानि ते मुखानि दृष्ट्वाहं दिशो न जाने प्राग-
परादिभागेन दिशां ज्ञानं सूर्येण कृत्वा भवति सोऽपि तव नाभिभूतोऽस्तीत्यर्थः । ततः परं किं
भवतीति व्याकुलचित्तत्वेन शर्म विश्रमं न लभे । अथ भयोपशमस्त्वयैव विधेय इत्याह प्रसीदेति ।
स्पष्टम् ॥ २५ ॥

३३१ एकादशाध्यायः । अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्गैः ॥ भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः॥२६॥ येभ्यो मम पराजयशङ्का प्रागेवासीत् सा चापगता यतः अमी चेति। अमो च त्वां धृतराष्ट्रस्य पुत्रा दुर्योधनप्रभृतयस्त्वरमाणा विशन्तीति व्यवहितेन सं- बन्धः। सर्वे सहैव संहता अवनिपालसङ्घरवनि पृथ्वीं पालयन्तीत्यवनिपालास्तेषां स। किं च भीष्मो द्रोणः सूतपुत्रः कर्णस्तथासौ सहास्मदीयैरपि धृष्टद्युम्नप्रभृ- तिभिर्योधमुख्यैर्योधानां मुख्यैः प्रधानैः सह ॥ २६ ॥ आ० टी० । अस्माकं जयं परेषां पराजयं च दिदृक्षन्तं पश्यामीत्याह येभ्य इति । तत्र हेतु- त्वेन श्लोकमवतारयति यत इति ॥ २६ ॥ प० टी० । अथान्यदपूर्व पश्यामीत्याह अमीचेति पञ्चभिः । तत्र रणे मरिप्यमाणानां भ- क्तानां च भाविनी दृश्यमानां गात प्रथमतो निरूपयामि । तत्र भीष्मो द्रोणः सूतपूत्रः कर्णस्ते धर्य- युद्धकर्तारो भगवद्भक्ताश्च तथाविधैरेवास्मदीयैर्योधमुख्यैः शिखण्डिधृष्टद्युम्नादिभिः सहापुनर्भवप्रदं त्वां विशन्ति ॥ २६ ॥ वाणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि॥ केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥२७॥ किं च वक्राणीति । वक्राणि मुखानि ते तव त्वरमाणास्त्वरायुक्ताः स- न्तो विशन्ति किं विशिष्टानि दंष्ट्राकरालानि मुखानि भयानकानि भयंकराणि । किं च केचिन्मुखानि प्रविष्टानां मध्ये विलग्ना दशनान्तरेषु दन्तान्तरेषु मां- समिव भक्षितं संदृश्यन्त उपलभ्यन्ते चूर्णितैश्चूर्णीकृतैरुत्तमाः शिरोभिः।।२७॥ आ० टी० । न केवलं दुर्योधनादीनामेव पराजयः किं तु भीप्मादीनामपीत्याह किं चेति । भगवद्रूपस्योग्रत्वे हेत्वन्तरमाह किं चेति । प्रविष्टानां मध्य केचिदिति सबन्धः ॥ २७ ॥ प० टी० । तथामी कुटकारित्वेनाततायित्वेनात्रैव प्रसिद्धा धृतराष्ट्रस्य पुत्रा दुर्योधन- दुःशासनादय एकोत्तरशतं तथाविधैरेवावनिपालानां सः सह त्वरमाणा यातनाथ वेगवत्तरास्तव वक्राणि विशन्ति । किंभूतानि वक्राणि दंप्टाकरालान्यत एव भयानकानि तत्र केचिदुष्क- तिनचूर्णीकृतैरुत्तमाङ्गः शिरोभिर्दशनान्तरेषु दन्तसन्धिषु विलग्नाः संश्लिष्टा दृश्यन्ते ॥ २७ ॥ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ॥ तथा तवामी नरलोकवीरा विशन्ति वक्राण्यभितो ज्वलन्ति॥२८॥ १ शङ्कायासीत्-पा० लि. पु० ।

श्रीमद्भगवद्गीता-
-
कथं प्रविशन्ति मुखानीत्याह यथा नदीनामिति । यथा नदीनां स्त्र-
वन्तीनां वहवोऽनेकेऽम्वूनां वेगाऽम्बुवेगास्त्वराविशेषाः समुद्रमेवाभिमुखाः प्र-
तिमुखा द्रवन्ति प्रविशन्ति तथा तहत्तवामी भीष्मादयो नरलोकवीरा मनु-
ष्यलोकपाला विशन्ति वक्राण्यभितो ज्वलन्ति प्रकाशमानानि ॥ २८ ॥
आ० टी । उभयोरपि सेनयोरवस्थितानां राज्ञां भगवन्मुखप्रवेशनं निदर्शनेन विशदयति
कथमित्यादिना ॥ २८ ॥
५० टी० । अथोभयत्र दृष्टान्तमाह यथेति । यथा बहवो नानामार्गप्रवृत्ता नदीनामम्बुवेगाः
प्रवाहाः समुद्रमेव द्रवन्ति प्रविशन्ति प्रविश्य च समुद्राकारा भवन्ति तथा तवाभिमुखा अनुकुला नरलोक-
वीरा उत्साहशालिनो भीष्मद्रोणादयरत्वां विशन्ति । तथा ये त्वनिविज्वलन्ति अभितो जाज्वल्य-
मानानि वक्राणि विशन्ति ॥ २८ ॥
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ॥
तथैव नाशाय विशन्ति लोकास्तवापि यत्राणि समृद्धवेगाः ॥२९॥
ते किमर्थं प्रविशन्ति कथं चेत्याह यथेति । यथा प्रदीप्तं ज्वलनमग्निं
पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्धवेगास्तथैव समृद्ध उ-
द्भूतो वेगो गति]पां ते समृद्दवेगास्तथैव नाशाय विशन्तो लोकाः प्राणिनस्त-
वापि वक्राणि समृद्धवेगाः ॥ २९ ॥
आ० टी० । प्रवेशप्रयोजनं तत्प्रकारविशेपं चोदाहरणान्तरेण स्फोरयति ते किमर्थ-
मियादिना ॥ २९ ॥
प० टी० । ते तथा बुद्धिपूर्वकं, समृद्रो वगो येषां ते शलभा नाशाय मृत्यव प्रदीप्त ज्वलन
विशन्ति तथैव लोकास्तदनुर्तिनाऽपि तव वक्राणि विशन्ति ।। २९ ।।
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैचलद्भिः ।।
तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥३०॥
त्वं पुनः लेलिह्यस इति । लेलिह्यसे आस्वादयसि ग्रसमानोऽन्तः
प्रवेशयन् समन्तात् समन्ततो लोकान् समग्रान् समस्तान् वदनैवक्तवल-
द्भिर्दीप्यमानस्तेजोभिरापूर्य संव्याप्य जगत समनं सहाग्रेण समस्तमित्येतत् ।
किं च भासो दीप्तयस्तवोग्राः ऋगः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्या-
पनशील ॥ ३० ॥
आ० टी० । योडुकामानां राज्ञां भगवन्मुखप्रवेशप्रकारं प्रदर्थ तस्यां दशायां भगवतस्तद्भा-
सां च प्रवृत्तिप्रकारं प्रत्याययति त्वं पुनरिति । भगवत्प्रवृत्तिमेव प्रत्याय्य तदीयभासां प्रवृत्ति प्रकट-
यति किं चेति ॥ ३० ॥

एकादशाध्यायः। ३३३ प० टी० । लेलिह्यस इति । समग्रॉन् लोकान् समन्ततो वदनैर्वलदिर्घसमानो गिलन् सन् पुनरतृप्तो लेलिह्यसे सृक्किणीः स्पृशसि भो विष्णो व्यापनशील तव भासो दीप्तयस्तेजोभिः स्फुरणैः समस्तं जगद्व्याप्य तीव्राः सत्यः प्रतपन्ति तापयन्ति । अत्र ऋग्वेदश्रुतिरपि-" रक्षोहणं वाजिनमाजिघर्मि मित्रं प्रतिष्ठमुपयामि शर्म । शिशानो आनः क्रतुभिः समिद्धः से नो दिवा सरिपः पातु नक्तम् ॥ १ ॥ अयोदंष्ट्रो अर्चिपा यातुधानानुपस्पृश जातवेदः समिद्धः । अजिव्हया मुरदेवान् रभस्व क्रव्यादो त्यपिधत्स्वासन्' ॥ २ ॥ भाष्यं-रक्षोहणामिति पञ्चविंशत्तूचं सूक्तं भरद्वाजऋषिः अनुक्रान्तं च रक्षोहणं पञ्चाधिधविंशतिः संहाराभिहरणे परित्वाग्नेरित्येपा जप्येति सर्वानुक्रमः । तत्र प्रथमा रक्षाहणमिति । रक्षसां हन्तारं वाजिनं बलवन्तं चाग्निमाजिघर्मि आय वैश्वानराख्य विश्वरूपमीश्वरम् आनिघमि घृतेन जुहोमि प्रदीप्तं तीक्ष्णीलतमित्यर्थः । शरणमुपयामि । सोऽयमग्निः शिशानो ज्वालाभिस्तीक्ष्णीभूतः क्रतुभिः कर्मपरैः पुरुषैः प्रज्वालितः । किं च सोऽग्निर्नोऽस्मान् दिवा- अहर्निशोहिंसकाद्रक्षसः सकाशात्पातु रक्षतु । अथ द्वितीया हि जातवेदः वैश्वानरेश्वरत्वं समिद्धः सम्य- ग्दीप्तः अयोदंष्ट्र: लोहशलाकावतीक्ष्णदंष्ट्रः सन् यातुधानानर्चिषा ज्वालयोपस्पृश दहेत्यर्थः । किं च त्वं मूरदेवान् मूलदेवान् राक्षमान् जिव्हया ज्वालया रभस्व मारयस्वेत्यर्थः । मारयित्वा च क्र. व्यादो मांसभक्षकान् वृक्ति छित्वा आसन् आस्ये पिधत्स्व आच्छादय ॥ ३० ॥ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ॥ विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रत्तिम्॥३१॥ यत एवमुग्रस्वभावोऽतः आख्याहीति । आख्याहि कथय मे मह्यं को भवानेवमुग्ररूपोऽतिक्रूराकारो नमोऽस्तु ते तुभ्यं हे देववर देवानां प्रधान प्रसीद प्रसादं कुरु विज्ञानुं विशेपेण ज्ञातुमिच्छामि भवन्तमाद्यमादौ भवमायं न हि यस्मात् प्रजानामि तव त्वदीयां प्रत्तिं चेष्टाम् ॥ ३१ ॥ आ० टी० । भगवद्रूपस्याउँनेन दृष्टपूर्वत्वात्तस्य तस्मिन्न जिज्ञासेत्याशङ्कयाह यत इति । उपदेशं शुश्रूपमाणेनोपदेशकर्तुः प्रीभवनं कर्तव्यमिति सूचयति नमोऽस्त्विति । क्रौर्यत्यागं समर्थयते प्रसादमिति । त्वमेव मां जानीपे किमर्थमित्थमिदानीमर्थयस मदीयां चेष्टां दृष्ट्वा तथैव प्रतिपद्यस्वत्याशकचाह न हीति ॥ ३१ ॥ ५० टी० । अथ भविष्यदर्थदर्शनादाश्चर्यवान् पुनः पृच्छति आख्याहीति । उग्ररूपो भवान् क इति मे आख्याहि कथयस्व ते तुभ्यं नमोस्तु हे देवघर प्रमन्नो भव भवन्तमाद्यं पुरुषविशे- षेण ज्ञातुमिच्छामि । यतो दृष्टेऽपि रूपे तव प्रवृत्ति किमर्थं प्रवृत्तोऽसीति तव चेष्टां न जानामि ॥३१॥ श्रीभगवानुवाच । कालोऽस्मि लोकक्षयकृत् प्ररो लोकान् समाहर्तुमिह प्रवृत्तः॥ ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताःप्रत्यनीकेपु योधाः३२ कालोऽस्मीति । कालोऽस्मि लोकक्षयकृत् लोकानां क्षयं करोतीति लोकक्षयकृत् प्रटरो वृद्धिं गतो यदर्थ प्रवृद्धस्तच्छृणु लोकान् समाहर्तु संह- ३३४ श्रीमद्भगवद्गीता- तुम् इहास्मिन् काले प्रवृत्त ऋतेऽपि विनापि त्वा त्वां न भविष्यन्ति भी- ष्मद्रोणकर्णप्रभृतयः सर्वे येभ्यस्तवाशङ्का येऽवस्थिताः प्रत्यनीकेष्वनीकमनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेष्वनीकेषु योधा एव योद्धारः ॥ ३२ ॥ आ० टी० । यदर्था च स्वप्रवृत्तिः तत् सर्व भगवानुक्तवानित्याह भगवानिति । कालः क्रियाशक्तयुपहितः परमेश्वरः, अस्मिन्निति वर्तमानयुद्धोपलक्षितत्वं कालस्य विवक्षितम् । लोक- संहारार्थ त्वत्प्रवृत्तावपि नासावर्थवती प्रतिपक्षाणां भीष्मादीनां मत्प्रवृत्ति विनापि संहर्तुमशक्यत्वा- दित्याशङ्कयाह ऋतेऽपति ॥ ३२ ॥ प० टी० । एवं प्रार्थितः सन् भगवानाह काल इति । प्रकर्षेण वृद्धो वृद्धि प्राप्तो लोकक्षय- कृज्जगद्भक्षकः कालः सन् लोकान् समाहर्तुमेव प्रवृत्तोऽस्मि । तदेवाह ये प्रत्यनीकेषु अनीकान्यनी- कानि प्रति प्रत्यनीकं भूयस्सेनासु येऽवस्थिताः संमुखीभूता योधाः सुभटास्ते सर्वे न भविष्यन्ति न जी- विष्यन्ति तर्हि मम गतिः केत्याह त्वा इति । त्वामृते त्वां विना न मे भक्तः प्रणश्यतीत्युक्तत्वात्॥३२॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुक्ष्व राज्यं समृद्धम्।। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥ यस्मादेवं तस्मात्त्वमिति । तस्मात्त्वमुत्तिष्ठ भीष्मद्रोणप्रभृतयोऽतिरथा अजेया देवैरप्यर्जुनेन जिता इति यशो लभस्व केवलं पुण्यर्हि तत् प्राप्यते जित्वा शत्रून् दुर्योधनप्रभृतीन् भुव राज्यं समृदमसपत्नमकण्टकं मयैवैते निहता निश्चयेन हताः प्राणैर्वियोजिताः पूर्वमेव निमित्तमात्रं भव त्वं हे सव्यसाचिन् सव्येन वामेनापि हस्तेन शराणां क्षेपात् सव्यसाचीत्युच्य- तेऽर्जुनः ॥ ३३॥ आ० टी० । तवौदासीन्येऽपि प्रतिकूलानीकस्था मत्प्रातिकूल्यादेव भविप्यन्तीत्येवं यस्मा- निश्चितं तस्मात्त्वदौदासीन्यमकिंचित्करमित्याह यस्मादिति । उत्तिष्ठ युद्धायोन्मुखी भवेत्यर्थः । य- शोलाभमभिनयति भीष्मेति । किं तेनापुमर्थनेत्याशङ्कचाह पुण्यैरिति । राज्यभोगेऽपेक्षिते किमन- पेक्षितेनेत्याशङ्कयाह जित्वेति । भीष्मादिप्वातरथेषु कुतो जयाशङ्का इत्याशङ्कयाह मयैवैत इति । तर्हि मृतमारणार्थं न मे प्रवृत्तिस्तत्राह निमित्तेति । सव्यसाचिपदं विभजते वामेनेति ॥ ३३ ॥ प० टी० । अत एवाह तस्मादिति । तस्मात्कारणात् त्वं युद्धायोत्तिष्ठ । तत्फलं देवैरपि दुर्जया भीष्मद्रोणादयो ऽर्जुनन निर्जिता इति यशो लभस्व । ततः शत्रून् जित्वा समृद्ध देशबलको- शदुर्गाद्युपेतं राज्यं भुन । अथ शत्रुजये एवमेवोद्दिश्य बृहत्सामापि परमेश्वरं स्तोतीत्याशयो नृहरेः तथा हि औ हो इत्वामिद्विहवामहाएसातौवाजास्थाकारावाःतुवाऔहोवावृत्रायिषुवाइन्द्राःसप्ततिं ना- रात्वां काष्ठाऔहोवासूअर्वाताउहुवाहाउअसाअत्र तु औहोईति च संबुद्दौ विकल्प हाउगद्यत इति उहग्रन्थोक्तेः। तथा अदीर्घ दीर्घवत्कुर्यादिति सामशिक्षासु गानक्रमो दर्शितः । अथ संहितापाठस्तु । स्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्रसप्ततिं नरस्त्वां काष्ठास्ववत इति । भाष्य- भो इन्द्र परमात्मन् वयं नरो मनुष्याः कारवस्तोतारोवाजस्य बलस्य सातौ लाभे काङ्क्षमाणे त्वा- मिच्छामेव हवामहे आहूयाम आकारयाम इत्यर्थः । तथा वृनेष्वावरकेषु उपस्थितेषु सत्सु त्वा- एकादशाध्यायः। - मेवाव्हयामः । तथा अर्वतः संग्रामस्य काष्ठासु मर्यादासु व्यूहरचनया धर्म्ययुद्धेषु त्वामेव सप्तति भ- क्तपक्षपातिनं प्रभुमाव्हयामो नान्यमित्यर्थः । आपस्तम्बशाखायां च—'इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पश्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण सहजानिति । भाप्यम्-इन्द्रेण परमा- त्मना देवेन कृत्वा पृतनाः शत्रुसेना जयामि । तत्रानुष्ठानमाह बृहता साना तदुपासनया । किं भूतेन त्रैष्टुभेन चतुश्चत्वारिंशदक्षरेण छन्दसा तथा पश्चदशस्तोमेन । ब्राह्मणं च पञ्चभ्यो हि करोति स तिसृभिः स एकयेति । अयमर्थः । एकं सूक्तं त्रिरावर्तनीयं तत्र प्रथमावृत्तौ प्रथमाद्याऋचस्विर- भ्यासः द्वितीयावृत्तौ मध्यमायास्त्रितीयावृतादुत्तमायाः सोयं पञ्चदशस्तोमस्तेन एवमनयोपासनया वषट्कारो वजीभय शत्रून् हिनस्ति । प्रकृते तु शत्रवः सहजास्तानित्यर्थः । सायनभाष्यकारैराधि- दैविकाभिप्रायेण बाह्यसंग्रामविषयो दर्शितः । रावणमाप्ये तु अध्यात्मरीत्याभ्यन्तरसंग्रामविषयो दर्शितः । वोटभाष्ये तूभयमपि । अत्रार्थे ऋक्शाखायाः श्रुतिरपि- "संसृष्टं धनमुभयं समाकृतम- स्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजिता सो अपनिलयन्ताम्" । भाप्यम्- अस्मभ्यमस्मदर्थ परमेश्वरेण समाकृतं यथायोग्यमुभयं धनं संसृष्टं सम्यकप्रकारेणानिर्मितमध्या- त्मिकमधिदैवतं च । तयोर्दातारौ द्वौ । अध्यात्मिकस्य दाता वरुणः प्रकाशकः परमात्मा । अन्य- स्य मन्युरिन्द्रो बृहस्पतिरिति श्रुतेरिन्द्र ऐश्वर्यवान् देवतासु इन्द्रः । अथोभयधनस्य फलमाह, भियमिति । येन धनेन हृदयेषु प्राणिनामन्तःकरणेषु शत्रवः षट् सपत्ना भियं दधानाः सन्तः स्वत एव युद्धं विनापि अपनिलयस्तां नाशं प्राप्नुवन्तीत्यध्यात्मपक्षे । अपरत्र तु हृदयेषु स्वान्तःकरणेषु भियं दधानाः सन्तः स्वत एव युद्धं विनापि अपनिलयन्तां नाशमायान्त्विति । अथ प्रकृतमनुसरामः एवं शत्रुपराजये तव प्रयासो नास्ति । कुतः एते पूर्व मयैव निहताः सन्तीति त्वयैव दृष्टम् । अतः परं भो सव्यसाचिन्न र्जुन त्वं निमित्तमात्रं भव । अत्रैतदुक्तं भवति । पूर्वमहं रुद्रं निमित्तमात्रं कृत्वा स्वनिर्मिते धनुषि कल्पान्तकालानलसमः स्वयंबाणो भूत्वा दुर्जयमपि त्रिपुरमधाक्षम् । संप्रति त्वां नि- मित्तमात्रं कृत्वा यतो जगत्सृष्टिप्रलयसमर्थसंकल्पानामस्माकं कुरुकुलदलने कियानायासोस्तीत्यर्थः । श्रुतिरपि-" अहं रुद्राय धनुरातनोमि ब्रह्मद्विषेशखेहंतवाउ"-भाष्यम् अहं रुद्राय महादे- वार्थ मेरुतुल्यमलौकिकं धनुरातनोमि विस्तारयामि किमुद्दिश्य । ब्रह्मद्विषे ब्रह्मद्वेष्टारं शत्रु त्रिपुरं दैत्यं हन्तवे हन्तुं नाशयितुम् । तदुक्तम् ' रथःक्षोणी यन्ता' इत्यादि ॥ ३३ ॥ द्रोणं च भीष्मंच जयद्रथं च कर्ण तथान्यानपि योधवीरान् ॥ मयाहतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणेसपत्नान३४ द्रोणं चेति । द्रोणं च येषु येषु योधेष्वर्जुनस्याशङ्कासीत् तांस्तान् सर्वान् व्य- पदिशति भगवान् मया हतानिति, तत्र द्रोणभीष्मयोस्तावत् प्रसिद्धमाशङ्का- कारणं द्रोणो धनुर्वेदाचार्यों दिव्यास्त्रसंपन्नः आत्मनश्च विशेषतो गुरुगरिष्ठो भीष्मः स्वच्छन्दमृत्युर्दिव्यास्वसंपन्नश्च परशुरामेण इन्हयुद्धमगमन च परा- जितः तथा जयद्रथोऽपि यस्य पिता तपश्वरति मम पुत्रस्य शिरो भूमौ पात- यिष्यति यस्तस्यापि शिरः पतिष्यतीति कर्णोऽपि वासवदत्तया शक्त्या त्वमो- घया संपन्नः सूर्यपुत्रः कानीनो यतोऽतस्तन्नाम्नैव निर्देशः मया हतांस्त्वं जहि श्रीमद्भगवद्गीता- - निमित्तमात्रेण मा व्यथिष्ठास्तेभ्यो भयं मा कार्युध्यस्व जेतासि दुर्योधन- प्रभृतीन् रणे युद्धे सपलान् शत्रून् ॥ ३४ ॥ आ० टी० । मयैवेत्यादिनोक्तं प्रपञ्च यति द्रोणं चेति । किमिति कतिचिदेवात्र द्रोणादयो गण्यन्ते तत्राह येष्विति । द्रोणादिषु कुतः शङ्केत्याशङ्कय द्वयोः शानिमित्तत्वमाह तत्रेयादिना। जयद्रथेऽपि शानिमित्तत्वमाह तथेति । दिव्यास्त्रसंपन्न इति संबन्धः । तत्र शङ्कायां कारणान्तर- माह यस्येति । कणेऽपि तत्कारणत्वं कथयति कर्णोऽपीति । पूर्ववदेव संबन्धः । हेत्वन्तरमाह वास- वेति । सा खल्वमोघा पुरुषमेकमत्यन्तसमर्थ घातायत्वैव निवर्तते । जन्मनापि तस्य शङ्कनीयत्वमाह सूर्येति । कुन्ती हि कन्यावस्थायां मन्त्रप्रभावं ज्ञातुमादित्यमाजुहाव ततस्तस्यामेवावस्थायामयमुद्द- भूव तदाह कानीन इति । एतदेवाभिप्रेत्य कर्णग्रहणमित्याह यत इति । उक्तेष्वन्येषु च न त्वया शङ्कितव्यमित्याह मयति ॥ ३४ ॥ ५० टी० । द्रोणं चेति । द्रोणं भीष्मं जयद्रथं कर्ण च तथान्यानपि योधेषु वीरान् मया संहारकालरूपेण हतानपहृतशक्तीन् जाहि मारय परं तु मा व्यथिष्ठा मा भैपीः । निर्भयः सन्यु- ध्यस्व । रणे संग्रामे सपत्नान् शत्रून् जेसि जेतासि जेप्यसि ॥ ३४ ॥ सञ्जय उवाच । एतच्छृत्वा वचनं केशवस्य कृताञ्जलिँपमानः किरीटी ॥ नमस्त्य भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥३५॥ एतच्छत्वेति । एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्य भूयः पुनरेवाहोक्तवान् कृष्णं सगददं सह गद्गदया वाचा मन्दशब्देन भयाविष्टस्य दुःरवाभिघा- तात् स्नेहाविष्टस्य च हर्षोद्भवाद् अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः ततश्च वाघोऽपाटवं मन्दशब्दवं यत् स गद्गदस्तेन सह बर्तत इति सग- द्रदं वचनमाहेति वचनक्रियाविशेपणमेतत्, भीतभीतः पुनर्भयाविष्टचेताः सन् प्रणम्य प्रवीभूत्वाहेति व्यवहितेन संबन्धः, अत्रावसरे संजयवचनं सा- भिप्रायं कथं द्रोणादिष्वर्जुनेन निहतेष्वजेयेषु चतुर्पु निराश्रयो दुर्योधनो निहत एवेति मत्वा धृतराष्ट्रो जयं प्रति निराशः सन् संधिं करिष्यतीति ततः शान्तिरु- भयेषां भविष्यतीति तदपि नाश्रीपीत् धृतराष्ट्रो भवितव्यवशात् ॥ ३५ ॥ आ० टी० । पराजयाभावात् करिष्यति सन्धिमिति बुध्या सञ्जयो राज्ञे वृत्तान्तमुक्तवा- नित्याह सञ्जय इति । पूर्वोक्तवचनं कालोऽस्मीत्यादि विश्वरूपदर्शनदशायामर्जुनस्य भगवता संवा- दवचनं किमिति सञ्जयो राज्ञे व्यजिज्ञापयदित्याशङ्कच तदुक्तेस्तात्पर्यमाह तत्रेति । तमेवाभिप्रायं प्रश्नद्वारा विशदयति कथमित्यादिना । तर्हि सञ्जयवचनं श्रुत्वा किमिति राजा सन्धिं न कार- यामासेति तत्राह तदपीति ।। ३५ ।।

एकादशाध्यायः । प० टी० । अथ धृतराष्ट्रं प्रति सञ्जय उवाच । एतदिति । किरीटी अर्जुन एतत्कशेवस्य वचनं श्रुत्वा वेपमानः कम्पमानः सन् कृताञ्जलिर्भूत्वा सगद्दं कम्पितस्वरं यथा भवति तथा भी- तभीतः सन् प्रणम्य दण्डवत्पतित्वा भूयः पूर्वोपन्यस्तं भक्ताभक्तकोटिद्वयगतिं कृष्णं प्रत्याह।। ३५ ॥ अर्जुन उवाच । स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहष्यत्यनुरज्यते च ॥ रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥३६॥ स्थान इति । स्थाने युक्तं कें, तव प्रकीर्त्या त्वन्माहात्म्यकीर्तनेन श्रुतेन हृषीकेश यज्जगत् प्रदृष्यति प्रहर्षमुपैति तत् स्थाने युक्तमित्यर्थः। अ- थवा विषयविशेषणं स्थान इति, युक्तो हर्षादिविषयो भगवान् यत ईश्वरः सर्वात्मा सर्वभूतसुदृच्चेति तथानुरज्यतेऽनुरागं चोपैति तच्च विषय इति व्याख्ये- यं, किं च रक्षांसि भीतानि भयाविष्टानि दिशो द्रवन्ति गच्छन्ति तच्च स्थाने विषये सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसङ्घाः सिद्धानां समुदायाः कपिला- दिनां तच्च स्थाने ॥ ३६ ॥ आ० टी० । किं तदर्जुनो भगवन्तं प्रति सगद्गदं वचनमुक्तवानिति तदाह अर्जुन इति । विष- यविशेषणत्वमेव व्यनक्ति युक्त इति । भगवतो हर्षादिविषयत्वं युक्तमित्यत्र हेतुमाह यत इति । तव प्रकीर्त्या हर्षवदनुरागं च गच्छति जगदित्याह तथेति । तच्चेत्यनुरागगमनम् । रक्षःसु जगदेकदेश- भूतेषु प्रतिपक्षेषु कुतो जगतो भगवति हर्षानुरागावित्याशङ्कयाह किं चेति । इतश्च जगतो भग- वति हर्षादि युक्तमित्याह सर्व इति ॥ ३६ ॥ प० टी० । स्थान इति । तवाद्भुतसामर्थ्य भक्तवात्सल्यरूपया कीर्त्या त्वदनुपथं जगत्प्र- हृप्यति संतुष्टं भवति त्वद्विश्वासेनानुर ज्यतेऽनुरागं प्राप्नोतीति स्थाने युक्तमेव । एतदुभयमवलोक्य सर्वे सिद्धसवाः कापिलादयस्त्वां नमस्यन्तीति स्थाने युक्तमेव ॥ ३६ ॥ कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रे ॥ अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥३७॥ भगवतो हर्षादिविषयत्वे हेतुं दर्शयति कस्माच्चेति । कस्माच हेतोस्ते तुभ्यं न नमेरन् न नमस्कुर्युहे महात्मन् गरीयसे गुरुतराय यतो ब्रह्मणो हिर- ण्यगर्भस्याप्यादिकर्ता कारणमतस्तस्माद् आदिकत्र कथमेव ते' न नमस्कुर्यु- रतो हर्षादीनां नमस्कारस्य च स्थानं त्वम) विषय इत्यर्थः। हे अनन्त देवेश हे जगनिवास त्वमक्षरं तत्परं यद्देदान्तेषु श्रूयते किं तत् सदसत् यद् विद्यमानं १ कथमेते-पा. लि. ४३ ३३८ श्रीमद्भगवद्गीता तत् सदसच्च यन्नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्हारेण सदसदित्युपचर्यते परमार्थतस्तु सदसतः परं तद् यदक्षरं वेद विदो वदन्ति त- त्वमेव नान्यदित्यभिप्रायः॥ ३७ ॥ आ० टी० । उक्तेऽर्थे हेत्वर्थत्वेनोत्तरश्लोकमवतारयति भगवत इति। महात्मत्वमक्षुद्रचेतस्त्व- म् । गुरुतरत्वान्नमस्कारादियोग्यत्वमाह गुरुतरायति। तत्रैव हेत्वन्तरमाह यत इति । महात्मत्वादिहे- तूनामुक्तानां फलमाह अत इति । तत्रैव हेत्वन्तराणि सूचयति हे अनन्तति । अनवच्छिन्नत्वं सर्वदेव- नियन्तृत्वं सर्वजगदाश्रयत्वं च तव नमस्कारादियोग्यत्वे कारणमित्यर्थः । तत्रैव हेत्वन्तरमाह त्वमिति । तत्र मानमाह यदिति । कथमेकस्यैव सदसद्रूपत्वं तत्राह ते इति । कथं सतोऽसतश्चाक्षरं प्रत्युपाधि- त्वं तदाह यवारेणेति । तत् परं यदित्येतद्वयाचष्टे परमार्थतस्त्विति । अनन्तत्वादिना भगवतो नम- स्कारादियोग्यत्वमुक्तम् ॥ ३७ ॥ ५० टी० । तत्र हेतुमाह । कस्मादिति । भो महात्मन् महाशब्दव्यपदेश्य भोऽनन्त देवेश जगन्निवास ते सिद्धाः कपिलादयस्ते तुभ्यं वा कस्माद्धेतोर्न नमेरन् नमस्कारं न कुर्युः । किं भूताय तुभ्यम् । ब्रह्मणो जगत्त्रष्टुरपि गरीयसे श्रेष्ठतमाय । आदिकत्रे च । किं पुनरन्यस्य । यद्यस्मात् कारणात् त्वमक्षरं ब्रह्म सद् व्यक्तम् असदव्यक्तम् ताभ्यां परं मूलकारणम् ॥३७॥ त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ॥ वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥३८॥ पुनरपि स्तौति त्वमिति । त्वमादिदेवो जगतः स्रष्तृत्वात् , पुरुषः पुरि शयनात् पुराणश्चिरन्तनस्त्वमेवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयतेऽस्मि- न् जगत् सर्वं महाप्रलयादाविति । किं च वेत्तासि वेदितासि सर्वस्यैव वे- यजातस्य यच्च वेयं वेदनाह तच्चासि परं च धाम परमं पदं वैष्णवं व्याप्तं विश्वं समस्तं हेऽनन्तरूपान्तो न विद्यते तव रूपाणाम् ॥ ३८ ॥ आ० टी० । संप्रति जगत्त्रष्टुत्वादिनापि तद्योग्यत्वमस्तीति स्तुतिद्वारा दर्शयति पुनरपीति । जगतो द्रष्टा पुरुषो हिरण्यगर्भ इति पक्षं प्रत्याह पुराण इति । स्रष्टुत्वं निमित्तमेवेति तटस्थेश्वरवा- दिनस्तान् प्रत्युक्तं त्वमेवेति । महाप्रलयादावित्यादिपदमवान्तरप्रलयार्थम् । ईश्वरस्योभयथा कार- णत्वं सर्वज्ञत्वेन साधयति किं चेति । वेद्यवेदितृभावेनाद्वैतानुपपत्तिमाशङ्कयाह यञ्चेति । मुत्त याल- म्बनस्य ब्रह्मणोऽर्थान्तरत्वमाशङ्कित्वोक्तं परं चेति । यत् परमं पदं तदपि च त्वमेवेति संबन्धः। तस्य पूर्णत्वमाह बयेति । व्याप्यव्यापकत्वेन भेदं शङ्कित्वा कल्पितत्वात्तस्य मैवमित्याह अनन्तेति ॥३८॥ प० टी० । तदेवाह त्वमिति । आदिभूतो देवः स्थूलसूक्ष्मप्रपञ्चकारणीभूतः सूत्रात्मा त्वमेव स एव पुराणः पुरुपो हिरण्यगर्भस्त्वमेव । ततो विश्वस्य चराचरस्य निधानं लयस्थानं विराडाख्यं त्वमेव । ततो जीवरूपेण वेत्ता त्वमेवासि भोऽनन्तरूप समाप्टिरूप परं धाम निवासस्थानं ब्रह्माण्ड त्वया ततं विस्तारितं तदपि त्वमेव एवमेक एव त्वं निरूपितप्रकारैर्वर्तस इत्यर्थः । श्रुतिरपि-"यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सं- एकादशाध्यायः। ३३९ प्रश्नु भुवना यन्त्यन्ये इति । भाष्यम्-यो नोऽस्माकं पिता बीजरूपः सूत्रसंज्ञो जनिता निर्मापकः सूक्ष्मभूतरूपो हिरण्यगर्भस्ततः स्थूलभूतैर्विदधातीति विधाता विराट् ततो विश्वा विश्वानि सर्वाणि धामानि शरीराणि भुवनानि भूर्भुवःस्वरादीनि जीवरूपेण यो वेदैवं यो देवानामुक्तस्वरूपाणां ना- मधा सूत्रादिनामप्रकारैरनेकोऽप्येक एव । तमेवंविधं भुवना भुवनानि चराचरादीनि प्रश्नयन्ति कीदृशः परमेश्वर इति प्रश्नं कुर्वन्तीत्यर्थः । अथोक्तार्थवैलोम्येन श्रुतिरेव प्रश्नोत्तरं वदति “एक- पास्यो द्विपदो विचक्रमे द्विपात्रिपादमभ्येति पश्चात् । चतुष्पादेति द्विपदामभिस्वरे संपश्यन् पनीरुपतिष्ठमानः" इति । भाष्यम्-जीवो ब्रह्मकपादमित्युक्तत्वादेकपाज्जीवो भूयोऽभ्यासादिना द्वि- पदो विरादूपं प्रचक्रमे प्राप्नोति । पश्चादनन्तरं द्विपादाबैराजं ब्रह्म मे पादं हिरण्यगर्भाख्यम् । 'त्रिपा- दूर्ध्वउदैद्' इति श्रुतेः । तदपि चतुष्पात्पूर्ण ब्रह्मेति । एवं द्विपदां मनुष्याणामभिस्वरे हृद- याकाशे एकपादादिपतीः संपश्यन् साक्षित्वेन पश्यन्नुपतिष्ठमानोऽस्ति स एव परमेश्वर इत्यर्थः ॥३८॥ वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ३९ किं च वायुरिति । वायुस्त्वं यमश्वाग्निवरुणोऽपां पतिः शशाङ्कश्चन्द्रमाः प्रजापतिस्त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहो ब्र- ह्मणोऽपि पितेत्यर्थः । नमो नमस्ते तुभ्यमस्तु सहस्रकत्वः पुनश्च भूयो- ऽपि नमो नमस्ते बहुशो नमस्कारक्रियाभ्यासात्तिगणनं कृत्वसुचोच्यते । पुनश्च भूयोऽपीति श्रद्धाभत्यतिशयोदपरितोषमात्मनो दर्शयति ॥ ३९ ॥ आ० टी० । तस्य सर्वात्मत्वे हेत्वन्तरमाह किं चेति । कश्यपादिशब्देन विराड्दक्षादयो गृह्यन्ते । पितामहो ब्रह्मा तस्य पिता सूत्रात्मान्तर्यामी चेत्याह ब्रह्मणोऽपीति । सर्वदेवतास्त्वमेवे- त्युक्तं फीलतमाह नम इति । सहस्रकृत्व इति कृत्वसुचो विवक्षितमर्थमाह बहुश इति । पुनरुक्ति- तात्पर्यमाह पुनश्चेति । श्रद्धाभक्तयोरतिशयात् कृतेऽपि नमस्कारे परितोषाभावो बुद्धेरात्मनोऽलंप्र- त्ययराहित्यं तद्दर्शनार्थं पुनरुक्तिरित्यर्थः ॥ ३९ ॥ प० टी० । अथानन्तरूपत्वमेव प्रकटयति वायुरिति । वाय्वादिभिः सप्तभिः प्रकारैस्त्वमे- वासि तस्मै ते तुभ्यं नमो नमोस्तु, आदरे वीप्सा । अथ किं पुनः सप्तरूपात्मने सहस्त्रकृत्वः सहस्त्र- प्रकारात्मने भूयोऽपि नमो नमः ॥ ३९ ॥ नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ॥ अनन्तवीर्यामितविक्रमस्त्वं सर्व समाप्नोपि ततोऽसि सर्वः॥४०॥ तथा नमः पुरस्तादिति । नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यमथ पृष्ठ- तोऽपि च नमोऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्वान- न्तवीर्यामितविक्रमः अनन्तं वीर्यमस्यामितो विक्रमो यस्य वीर्य सामर्थ्य विक्रमः पराक्रमः वीर्यवानपि कश्चित् शस्त्रादिविषये न पराकमते मन्दपरा- १ शयापरितोष-पा० लि. ।

श्रीमद्भगवद्गीता ॥ क्रमो वा त्वं त्वनन्तवीर्योऽमितविक्रमश्रेत्यनन्तवीर्यामितविक्रमः सर्वं समस्तं जगत् समाप्नोषि सम्यगेकेनात्मना व्याप्नोष्यतस्तस्मादसि भवसि सर्वस्त्वया विना भूतं न किंचिदस्तीत्यर्थः ॥ ४० ॥ आ० टी० । विधान्तरेण भगवन्तं स्तुत्या नमस्कुर्वन्नभिमुखीकरोति तथेति | यस्यां दिशि सवितोदेति सा पूर्वा दिगुच्यते तस्यां व्यवस्थितं सर्वं त्वमेव तस्मै ते तुभ्यं नमोऽस्त्वित्याह नम इति । अथशब्दः समुच्चये । पश्चादपि स्थितं सर्वं त्वमेव तस्मै ते तुभ्यं नमोऽस्त्वित्याह अथेति । किं बहु- ना यावन्तो दिशस्तत्र सर्वत्र यद्वर्तते तदशेपं त्वमेव तस्मै तुभ्यं प्रतीभावः स्यादित्याह नमोऽस्त्वि- ति । फलितं सर्वात्मत्वं सूचयति हे सर्वेति । वीर्यविक्रमयोर्न पौनरुक्त्यमित्याह वीर्यमियादिना । वीर्यवतो विक्रमाव्यभिचारादर्थपौनरुक्त्यमाशङ्कयाह वीर्यवानिति । भगवाते लोकतो विशेषमाह त्वं त्विति । उक्तं सर्वात्मत्वं प्रपञ्चयति सर्वमिति । सप्रपञ्चत्वं वारयति त्वयेति ॥ ४० ॥ ५० टी० । अथापरिच्छिन्नायापि तुभ्यं नमस्कार इति रथन्तरसामाभिप्रायेण नम- स्करोति नम इति । भो सर्वात्मक पुरस्तादग्रतः पृष्ठतश्च ते तुभ्यं नमः किं पुनः दिग्द्वयसंस्थिताय सर्वतः सर्वदिक्षु स्थिताय नमोऽस्तु । अथ न केवलं दृश्यमात्रत्वेन स्थितोऽसीत्याह भो स्वामिन्ननन्तवीर्यः सन्नमितविक्रमबलौन सा समेतः । श्रुतिश्च-"विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि" इति । भाप्यम्-नुकमिति निपातोऽवधारणार्थः तस्य विष्णोर्वीर्याणि प्रवोचं ब्रवीमि यः पृथि- व्यन्तरिक्षसंबन्धीनि रजांसि लोकान् विममे निर्मितवान् एवं त्वं सर्व समाप्नोषि अन्तर्बहियाप्नोषि ततस्तेन कारणेन सर्वोऽसि सर्वात्मकोऽसि । “तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाह्यतः” इति श्रुतेः । तथा रथन्तरं सामापि “अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुषः" इति साहेतापाठः। सामगानं च "अभित्वा शूरनो नुमो वाआदुग्धा इव धेनवः । ईशानमस्यजगतः सुवादृशाम् आईशानमयिदातास्थुषावहाउअस्'। भाप्यम्-भो इन्द्र परमात्मन् शूर शत्रुनिबर्हण वयं त्वामा अभितः समन्ततो नुमः नमस्कुर्मः । कथं भूतं त्वाम् अस्य जगतो जंगमस्य तस्थुषः स्थावरस्यापीशानं निया- मकम् । क इव वयम्, अदुग्धा अकृतदोहना धेनव इवाक्षारण पूर्णाः सत्यः वत्सानि विस्मृत्य त्वां यान्ति तथा वयमपि सर्व विषयजातं विस्मृत्य त्वामेव सर्वगतं नमस्कुर्मः । स्वदृशं जगत्प्रकाशकमीशानमपि पादस्यावृत्तिरादरार्था । तथापस्तंबोऽपि “अग्निना देवेन पृतना जयामि गायत्रेण च्छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषटकारेण वजेण पूर्वजान् भ्रातृव्यानधरान्पातयामि' इति । भाप्यम्-अग्निना विश्वरूपेण देवेन दीप्यमानेन कृत्वा पृतनाः शत्रुसेना जयामि गायत्रेण चतुर्विंशत्यक्षरेण त्रिवृता स्तो- मेन ब्राह्मणतिमृभ्यो हिकरोति स प्रथमया' इत्यादि । अयमर्थः । सूक्तत्रयगतानामृचां गानं त्रिभिः पर्यायैः कृतं तत्र प्रथमे पर्याये त्रिषु सूक्तेप्वाद्यास्तिस्त्र ऋचः, द्वितीये मध्यमतिसृभ्य इति तृतीयार्थे पश्चमी हिंकरोति गायति शेषं स्पष्टम् ॥ ४० ॥ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ॥ अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥४१॥ यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराधाद्धेतोः सखेति सखा समानवया इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभमभिभूय प्रसह्य यदुक्तं हे कृष्ण हे १ अपराद्धोऽतः सखति-पा० लि. ।

एकादशाध्यायः। ३४१ आ० यादव हे सरवेति चाजानताज्ञानिना मूढेन किमजानतेत्याह महिमानं मा- हात्म्यं तवेदमीश्वरस्य विश्वरूपं तवेदं महिमानमजानतेति वैयधिकरण्येन सं. बन्धस्तवेदमिति पाठो यद्यस्ति तदा सामानाधिकरण्यमेव मया प्रमादाद् वि- क्षिप्तचित्ततया प्रणयेन वापि प्रणयो नाम लेहस्तनिमित्तो विश्रम्भस्तेनापि कारणेन यदुक्तवानस्मि ॥४१॥ टी० ० । अज्ञाननिमित्तमपराधं क्षमापयति यत इति । इदंशब्दार्थमाह विश्वरूपमिति। न हीदमित्यस्य महिमानमित्यस्य च सामानाधिकरण्यं लिङ्गव्यत्ययादित्याह तवेति । पाठान्तरसं- भावनायां सामानाधिकरण्योपपत्तिमाह तवेयादिना । यदुक्तवानस्मि तदहं क्षामये त्वामिति संबन्धः ॥ ४१ ॥ ५० टी० । इदानी स्वापराधं क्षमापयन्नाह सखेति द्वाभ्याम् । त्वां प्राकृतः सखेति मया प्रसभं तिरस्कारेण यदुक्तं तत्कथम्, हे कृष्ण हे यादव हे सखे इत्येकवचनेन सग्वेति शिलोपे जाते सन्धिश्छान्दसः । किंभूतेन मया इदमनुभूयमानं तव महिमानमनानता अथ तिरस्कारप्रकारानाह प्रमादात्प्रश्रयेणानवधानेन वा प्रणयेन प्रीत्या वा ॥ ४ १ ॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ॥ एकोऽथवाप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम् ॥४२॥ यच्चेति । यच्चावहासाथै परिहासप्रयोजनायासत्कृतः परिभूतोऽसि भवसि, क विहारशय्यासनभोजनेषु विहरणं विहारः पादव्यायामः शयनं शय्यासनमास्थायिका भोजनमदनमित्येतेषु विहारशय्यासनभोजनेष्वेकः परो- क्षः सन् असत्कृतोऽसि परिभूतोऽस्यथवा हे ऽच्युत तत्समक्षं तच्छब्दः क्रियाविशेषणार्थः प्रत्यक्ष वासत्कृतोऽसि तत्सर्वमपराधजातं क्षामये क्षमा कारये त्वामहमप्रमेयं प्रमाणातीतम् ॥ ४२ ॥ आ० टी० । यदयुक्तमुक्तं तत् क्षन्तव्यमित्येव न किं तु यत्परीहासार्थ क्रीडादिषु त्वयि ति- रस्करणं कृतं तदपि सोढव्यमित्याह यच्चेति । विहरणं क्रीडा व्यायामो वा शयनं तल्पादिकमा- सनमास्थायिका सिंहासनादेरुपलक्षणमंतेषु विषयभूनेष्विति यावत् । एकशब्दो रहसि स्थितमेका- किनं कथयतीत्याह परोक्षः सन्निति । प्रत्यक्ष परोक्ष वा तदसत्करणं परिभवनं यथा स्यात्तथा यन्मया त्वमसत्कृतोऽसि तत् सर्वमिति योजनामङ्गीकृत्याह तच्छब्द इति । क्षमा कारयितव्येत्यत्रा- परिमितत्वं हेतुमाह अप्रमेयमिति । वाचनिकं मदीयमपराधजातं त्वया क्षन्तव्यमित्युक्तमिदानी मदीयोऽपराधो न त्वया गृहीतव्यो गृहीतोऽपि सोढव्य इत्याह यत इति ॥ ४२ ॥ प० टी० । यति । यद्वावहासार्थ परिहासनिमित्तं विहारे क्रीडायामेकत्र शयने सभासांनवेशे भोजने च पलावसत्कृतोऽस्यवज्ञातोऽसि । किं भूतस्त्वमथ वा एकलः रहसि स्थितस्तत्सर्वमपराधजातं त्वामप्रमेयमचिन्त्याप्रमेयप्रभावं क्षमापये क्षमां कारयामि । अयमर्थः । सामवेदे बृहद्रथन्तरादिपावमान्यस्तुतिभिः प्रसन्नाद्भगवतो यशो लभस्वेत्यादि नश्वरं फलं न-

॥
श्रीमद्भगवद्गीता
वृणे किं त्वपराधमेव क्षमापये तेन पुनश्चतुर्भुजरूपदर्शनान्मुक्ति प्राप्नुयां यतः कृतापराधस्यैव पुंसो
नश्वरफलप्राप्तिरित्याशयोऽर्जुनस्य । श्रुतिरपि वाजसनेयारण्यके । अथातः पवमानानामेवाभ्यारोहः
स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेदसतो मा सद्गमय तमसो ज्योतिर्ग-
मयमृत्योर्मामृतं गमयेति" । भाप्यम्-अथात ईश्वरस्य स्तावकवाक्योपक्रमात्पवमानानां पावमान्यश्रुती-
नामभ्यारोह उत्कर्षः । वै यस्मात्स प्रस्तोता परमेश्वस्य प्रकण स्तोता सन् सामरूपं परमेश्वरं
स्तौति । स यत्र यदा प्रस्तुयात् स्तुतिं कुर्यात् तदैतानि त्रीणि यजूंषि जपेत् । तान्याह । अ-
सतो मा सद्गमय ॥ १ ॥ तमसो मा ज्योतिर्गमय ॥२॥ मृत्योर्मामृतं गमय ॥३॥ भाष्यम्-असतो-
ऽसपात्प्रपश्चान्मां सद्गमय ब्रह्म बोधय । तथा तमसोज्ञानान्मां ज्योतिः प्रकाशरूपं गमय । तथा
मृत्योः संसारान्माममृतं गमयेति । तैत्तिरीयकेऽपि-“ यथा मध्ये समुद्रस्य प्लवमन्वर्जेयुस्ताहक तदनु-
सर्गबृहद्रथन्तराभ्यां मित्वा प्रतिष्ठां गच्छति" । यथा समुद्रस्य मध्य पतिताः पूर्व नौकामन्वर्जेयुः श्रय-
न्ति तादृक्तदनुत्सर्ग तन्निविशेष बृहद्रथन्तराभ्यामज्ञानाब्धि मित्वा स्वल्पं ज्ञात्वा प्रतिष्ठां ब्रह्मणि स्थिति
गच्छन्ति । अथ नश्वरं फलमिन्द्रादिस्तुतिभिर्लभ्यते । श्रुतिरपि । “अथ यानीतराणि स्तोत्राणि तेष्वा-
त्मनेऽन्नाद्यमागायेत्तस्मात्तदुत्तेषु वरं वृणीत यं कामं कामयते तमागायदिति" । भाप्यम्-अथे-
त्यनन्तरं यानीतराणि पावमान्यश्रुत्यातरिक्तानि स्तोत्राणि स्तुतिवाक्यानि तेप्वात्मने स्वात्मार्थ-
मन्नाद्यं फलमागायेत् प्रार्थयेत् । तस्मात्प्रसन्नाद्देवताविशेषाद्यं कामं कामयते यद्वरं वृणीत तदा
गायत् प्रामुयात् ॥ ४२ ॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ॥
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव ४३
यतस्त्वं पितासीति । पितासि जनयितासि लोकस्य प्राणिजातस्य
चराचरस्य स्थावरजङमस्य न केवलं त्वमस्य जगतः पिता पूज्यश्च पूजा)
यतो गुरुगरीयान् गुरुतरः कस्माद्गुरुतरस्त्वमित्याह न च त्वत्समस्त्वत्तुल्यो-
ऽन्योऽस्ति न हीश्वरारं संम्भवत्यनेकेश्वरत्वव्यवहारानुपपत्तेस्त्वत्समएव ताव-
दन्यो न सम्भवति कुत एवान्योऽभ्यधिकः स्यात् कस्माल्लोकत्रयेऽपि सर्वस्मि-
नप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा न विद्यते प्रतिमा यस्य तव प्रभा-
वस्य स त्वमप्रतिमप्रभावः हे ऽप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः ॥४३॥
आ० टी० । गुणाधिक्यात् पूजार्हत्वं धर्मात्मज्ञानसंप्रदायप्रवर्तकत्वेन शिक्षयितृत्वाद गुरुत्वं
गुरूणामपि सूत्रादीनां गुरुत्वाद्रीयस्त्वं तदेव प्रश्नद्वारा साधयति कस्मादिति । ईश्वरान्तरं तुल्य
भविष्यतीत्याशङ्कयाह न हीति । ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात्तदैकमत्ये हेत्वभावान्नानामतित्वे
चैकस्य सिसृक्षायामन्यस्य संजिहीर्षासंभवाद्यवहारलोपादयुक्तमीश्वरनानात्वमित्यर्थः । अभ्यधिका-
सत्त्वं कैमुतिकन्यायेन दर्शयति त्वत्सम इति । तत्र हेतुमवतार्य व्याकरोति अप्रतिमेसादिना॥४३॥
प० टी० । अथ क्षमापने बीजमाह पितेति । पितोत्पादकः पूज्यः पूजनीयः गुरुरुपदेष्टा
ततोऽपि गरीयान् । दृष्टान्ताभावं कथयति । अप्रतिमप्रभावः । त्वत्सदृशोऽन्यः परमेश्वरो नास्ति कुत.
स्त्वत्तोऽधिकः । श्रुतिरपि । रथन्तरसामोत्तरा । “न त्वा वामन्यो दिव्यो न पार्थिवो न जातो न जनि-
प्यते” इति । अत्र वामिति विना । शेष स्पष्टार्थम् ॥ ४३ ॥

एकादशाध्यायः ।
३४३
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्॥
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥४४॥
यत एवं तस्मादिति । तस्मात् प्रणम्य नमस्कृत्य प्रणिधाय प्रकर्षण
नीचैधृत्वा कायं शरीरं प्रसादये प्रसादं कारये त्वामहमीशमोशितारमीड्यं स्तु-
त्यं त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते सर्व सवेव सख्युरपराधं यथा वा
प्रियः प्रियाया अपराधं क्षमते एवमर्हसि हे देव सोढुं प्रसहितुं क्षन्तु-
मित्यर्थः ॥ ४४ ॥
आ० टी० । निरतिशयप्रभावत्वं हेतुं कृत्वाप्रतिमेत्यादिना प्रसादये प्रणामपूर्वकं त्वामि-
त्याह यत इति । प्रसादनानन्तरं भगवता कर्तव्यं प्रार्थयते त्वं पुनरिति । प्रिय इव प्रियाया इती-
वकारोऽनुपज्यते प्रियायाहसीति छान्दसः सन्धिः । क्षन्तुं मदपराधजातमिति शेषः ॥ ४ ४ ॥
प० टी० । यद्येवं तस्मात्कायं प्रणिधाय दण्डवन्निपात्य त्वामहं प्रसादये प्रसन्नं
करोमि किं भूतमीशं नियन्तारमीड्यं स्तुत्यम् । अनेन प्रकारेण त्वमप्यपराधं सोढुमर्हसि ।
कस्य क इव । पिता पुत्रस्येव । सख्युः सखेव प्रियः सुहृत् प्रियार्थ प्रियाय । अथ
नश्वरफलार्थ श्रुतिः-"त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सूहवम्" इत्यादिः। अथ प्रमेयसंग्रहश्लोकश्च ।
युद्धानध्यवसायिनोऽपि भगवद्भूमानभिज्ञस्य मे तद्वाक्यास्तमितादरस्य नृहरिप्रोक्ता इमा आशिषः । युक्ता
यन्मृतमारणाप्तयशसां साम्राज्यभोगश्चिरादास्तामित्यपराधनातमधुना श्लाघ्यं हरेर्दर्शनम् ॥१॥४४॥
अदृष्टपूर्व हपितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ॥
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥४५॥
अदृष्टपूर्वमिति । अदृष्टपूर्व न कदाचिदपि दृष्टपूर्वमिदं विश्वरूपं तव
मयान्यैर्वा तदहं दृष्ट्वा हृषितोऽस्मि भयेन च प्रव्यथितं मनो मेऽतस्तदेव मे
मम दर्शय हे देव रूपं यन्मत्सुखं प्रसीद देवेश जगनिवास जगतो नि-
वासो जगनिवासो हे जगनिवास ॥ ४५ ॥
आ० टी० । हेतूक्तिपूर्वकं विश्वरूपोपसंहारं प्रार्थयते अदृष्टेति । हृपितो हृष्टस्तुष्ट इति
यावत् । भयेन तद्धेतुविकृतदर्शनेनेत्यर्थः ॥ ५५ ॥
५० टी० । अथ क्षमाप्य प्रार्थयते । अदृष्टपूर्वमिति द्वाभ्याम् । पूर्व जन्म जन्मान्तरेऽपि न
दृष्टमित्यदृष्टपूर्व विश्वरूपान्तश्चतुर्भुजं रूपं दृष्ट्वा मादृशानामयमलभ्यलाभ इति हृषितोऽस्मि । अ-
नन्तरं दंष्ट्राकरालानि रूपाणि दृष्ट्वा भयेन मे मनः प्रव्यथितम् । अतः परं भो देवेश जगन्निवास
प्रसीद प्रसन्नो भव । प्रसादे किं याचनीयमित्याह । तदेव प्रथममुपलब्धं हर्षजनकं चतुर्भुजं रूपं मे
इति मां दर्शय । तावतैव कृतार्थः स्यामित्यर्थः ॥ ४५ ॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ॥
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥

श्रीमद्भगवद्गीता किंच किरीटिनमिति । किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्त- मिच्छामि त्वां प्रार्थये त्वां द्रष्टुमहं तथैव पूर्ववदित्यर्थः । यत एवं तस्मात्तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन सहस्रबाहो वार्तमानिकेन विश्वरूपेण भव विश्वमूर्ते उपसंहत्य विश्वरूपं तेनैव रूपेण वसुदेवपुत्ररूपेण भवेत्यर्थः ॥४६॥ आ० टी० । तदेव दर्शयेत्युक्तं किं तदित्यपेक्षायामाह किरीटिनमितीति । चक्रं हस्ते यस्य तमिति व्युत्पत्तिं गृहीत्वाह चक्रेति । मदीयेच्छाफलपर्यन्ता कर्तव्येत्याह यत इति । चतु- र्भुजत्वे कथं सहस्त्रबाहुत्वं तत्राह वार्तमानिकनेति । सति विश्वरूपे कथं पूर्वरूपभाक्त्वं तत्राह उपसंहसेति ॥ ४६ ॥ प० टी० । अथोपक्रमे दृष्टपूर्व कीदृशमित्याह किरीटिनमिति । मुकुटवन्तं गदिनं चक्रिणं चेत्युपलक्षणं तेन सर्वायुधयुतमिति ज्ञयम् । अत्रायमर्थः । विश्वरूपदर्शनोपक्रमे दिव्यदृष्टया यच्च- तुर्भुनं तेजोरूपमिति मनोरमं रूपं दृष्टं तद्वैकुण्ठं विना नान्यत्रानुभवगोचरं भवतीति पूर्व पुराणा- दिभ्यः श्रुतमासीत्तदप्रयासतो मयात्र दृष्टमिति हर्पजनकं तथानन्तरं दंष्ट्राकरालमन्युग्रं यत्तद्यजन- कमतस्तदेव किरीटा पस्कृतं रूपं द्रष्टुमिच्छामि न तु भयजनकम् तस्मानो विश्वमूर्ते सहस्त्रबाहो तेनैव चतुर्भुजेन रूपेण भवाविर्भव । अथ विश्वरूपदर्शनात् प्राक् निरन्तरमर्जुनश्चतुर्भुजमेव रूपं दृष्टवानिति चेत्तर्हि ‘पश्यामि देवांस्तव देव देहे' इत्यत्र किरीटिनं गदिनं चक्रिणं चेति पुर्नवक्तुं न युज्यते किं च चतुर्भुजं रूपं हि दैवं न मानुषं तथा च प्रथमतो दैवरूपप्रतीतौ ‘यच्चावहासार्थ- मसत्कृतोऽसी' ति न युज्यते किं च अवजानान्त मां मूढा मानुषी तनुमाश्रितं तथा दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दनेत्युपक्रमोपसंहाराभ्यां सर्वमनुष्यसाधारणस्य द्विभुनरूपस्यैव निर्देशात् ॥४६॥ श्रीभगवानुवाच । मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ॥ तेजोमयं विश्वमनन्तमाद्यं यन्मे बदन्येन न दृष्टपूर्वम् ॥४७॥ अर्जुनं भीतमुपलभ्योपसंहृत्य विश्वरूपं प्रियवचनेनाश्वासयन् श्रीभ. गवानुवाच मयेति । मया प्रसन्नेन प्रसादो नाम त्वय्यनुग्रहबुद्धिस्तद्दता प्र- सन्नेन मया तव हेऽर्जुन इदं परं रूपं विश्वरूपं दर्शितमात्मयोगादात्मन ऐश्वर्यस्य सामर्थ्यात्तेजोमयं तेजःप्रायं विश्वं समस्तमनन्तमन्तरहितमादौ भवमायं यद्रूपं मे मम त्वदन्येन त्वत्तोऽन्येन केनचिन दृष्टपूर्वम् ॥ ४७ ॥ आ० टी० । अर्जुनेन स्थाने हृषीकेशेत्यादिनोक्तस्य भगवतो वचनमवतारयति अर्जुनमिति। भगवत्प्रसादैकोपायलभ्यं तदर्शनमित्याशयेनाह मयेति ॥ ४७ ॥ प० टी० । अथाश्वासयन् भगवानाह मयति त्रिभिः । त्वया यदुक्तं प्रव्यथितान्तरात्मा धृतिं न विन्दामीति ताकस्मिकाद्भुतभयानकरूपदर्शनेन भयमुत्पद्यते प्रकृते तु प्रसन्नेन मया १ तेनैव पूर्वरूपेण-पा. लि. ।

एकादशाध्यायः। दिव्यदृष्टिदानपूर्वकं तव तुभ्यमात्मयोगान्निनमायावैभवेन परमुत्कृष्टं रूपं दर्शितम् । अत एव चतु- भिर्विशेषणैराह तेजोमयं विश्वमनन्तमाद्यं यत्त्वदन्येन केनाप्यदृष्टपूर्वम् ॥ ४७ ॥ न वेदयज्ञाध्ययनैन दानैर्न च क्रियाभिर्न तपोभिरुग्रैः॥ एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥ आत्मनो मम रूपदर्शनेन कृतार्थ एव त्वं संवत्त इति ततः स्तौति न वे- देति । न वेदयज्ञाध्ययनैन दानश्चतुर्णामपि वेदानामध्ययनैर्यथावद् यज्ञाध्ययनैश्च वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथग् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोप- लक्षणार्थम्, तथा न दानस्तुलापुरुषादिभिर्न च क्रियाभिरग्निहोत्रादिभिः श्रीता- दिभिर्नापि तपोभिरुग्रैश्चान्द्रायणादिभिरुग्रैरिरवंरूपो यथा दर्शितं विश्वरूपं यस्य सोऽहमेवरूपः शक्यो न शक्योऽहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन कु- रुप्रवीर ॥ ४८ ॥ आ० टी० । तच्छब्देन प्रकृतं दर्शनं परामृश्यते वेदाध्ययनात् पृथग यज्ञाध्ययनग्रहणं पुनरुक्तरयुक्तमित्याशङ्कयाह न वेदेति । न च वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतमध्यय- नस्यार्थावबोधान्तत्वादिति वाच्यं, स्याक्षरग्रहणान्ततया वृद्धैः साधितत्वादिति भावः । श्लोकपूरणा- र्थमसहितकरणं त्वत्तोऽन्येन मदनुग्रहविहीनेनेति शेषः ॥ ४८ ॥ प० टी० । अथास्य दुर्लभत्वमाह न वेदयज्ञैरिति । वेदा ऋगादयो यज्ञा अश्वमेधादयः अध्ययनं शास्त्रपठनं तैः, नापि तुलापुरुषादिदानैर्न च क्रियाभिः श्रौतस्मातकर्मभिः तपाभिः कृ- च्छूचान्द्रायणादिभिः नृलोके मनुष्यलोके अर्जकभूमौ त्वदन्येन द्रष्टुमशक्यः कुरुप्रवीरेति निर्भयत्वेऽपि भयोत्पत्तिरयुक्तति सूचितम् ॥ ४८ ॥ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीहङ्ममेदम् ॥ व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥४९॥ मा ते व्यथेति । मा ते व्यथा माभूत्ते भयं मा च विमूढभावो विमूढ चित्तता दृष्ट्वोपलभ्य रूपं घोरमीटर यथावद्दर्शितं ममेदं व्यपेतभीर्विगतभयः प्रीतमनाश्च सन् पुनर्भूयस्त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तवेष्टं रूप- मिदं प्रपश्य ॥ ४९॥ आ० टी० । विश्वरूपदर्शनमेवं स्तुत्वा यद्यस्माद् दृश्यमानाद विभषि तर्हि तदुपसंहरामी- त्याह मा ते व्यथेति । बहुतिथमनुभूतत्वमभिप्रेत्य तदेवेत्युक्तं इदमिति ॥ ४९ ॥ १ तुलापुरुषादिभिः-नास्ति लि. ।

श्रीमद्भगवद्गीता।
प० टी० । अत एवाह मा ते व्यथेति । इदं घोरं भयानकं मे रूपं दृष्ट्वा ते व्यथा
भयाभङ्गरत्वं विमूढभावो भ्रान्तत्वं मास्तु । अतः परं व्यपेतभीः प्रीतमनाः सन् तदेव पूर्वानुभूतं
पुनः पय ॥ ४९॥
संजय उवाच ।
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ॥
आश्वासयामास च भीतमेनं
भूत्वा पुनः : सौम्यवपुर्महात्मा॥५०॥
इत्यर्जुनमिति । इत्येवमर्जुनं प्रति वासुदेवस्तथाभूतं वचनमुक्त्वा स्वकं
वसुदेवगृहे जातं रूपं दर्शयामास दर्शितवान् । भूयः पुनराश्वासयामास चा-
श्वासितवान् भीतमेनं भूत्वा पुनः सौम्यवपुः प्रसन्नदेहो महात्मा ॥ ५० ॥
आ० टी०। प्रत्यक्षयोग्यत्वं तदिदं वृत्तं राज्ञे सूतो निवेदितवानित्याह सञ्जय इति । तथा
भूतं वचनं मया प्रसन्नेनेत्यादिचतुर्भुनं रूपं किं तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन प्रसन्नदेह-
हवेन चार्जुनं प्रत्याश्वासनं भगवतो युक्तमित्यत्र हेतु माह महात्मेति ॥ ५० ॥
प० टी० । पुनः सञ्जय आह इतीति । इत्युक्तप्रकारं वासुदेव उक्त्वा स्वकं रूपं चतुर्भुज
दर्शयामास । पुनरनन्तरं महात्मा विष्णुर्विश्वरूपः सौम्यवपुर्मनुष्याकतिर्भूत्वा भीतमेनमर्जुनमाश्वा-
सयामास ॥ ५० ॥
अर्जुनउवाच ।
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ॥
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥५१॥
दृष्ट्द मिति । दृष्ट्दं मानुषं रूपं मत्सखं प्रसनं तव सौम्यं जनार्दन इ-
दानीमधुनास्मि संवत्तः संजातः किं सचेताः प्रसन्नचित्तः प्रकृति स्वभावं
गतश्चास्मि ॥ ५१ ॥
आ० टी० । एवं भगवदाश्वासितः सन्नर्जुनस्तं प्रत्युक्तवानित्याह अर्जुन इति ।। ५१ ॥
५० टी० । पुनरर्जुनः प्राह दृष्ट्दमिति । मानुषं मनुष्यैर्द्रष्टुं योग्यं सचेताः प्रसन्नचित्तः
संवृत्तो जातोऽस्मि प्रकृति स्वास्थ्यं च गतस्मि ॥ ५१ ॥
श्रीभगवानुवाच ।
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ॥
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्किणः॥५२॥

एकादशाध्यायः।
३४७
सुदुर्दर्शमिति । सुदुर्दर्श सुष्टु दुःस्वेन दर्शनमस्येति सुदुर्दर्शमिदं रूपं दृ-
टवानसि यन्मम देवादयोऽप्यस्य मम रूपस्य नित्यं सर्वदा दर्शनकाक्षिणो
दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तो न द्रक्ष्यन्ति चेत्यभिप्रायः ॥ ५२ ॥
आ० टी० । उपास्यत्वाय विश्वरूपं स्तोतुं भगवदुक्तिमुत्थापयति भगवानिति । त्वद्य-
तिरिक्तानामिदं रूपं द्रष्टुमशक्यमित्येतद्विशदयति देवादय इति ॥ ५२ ॥
५० टी० । पुनर्भगवान् । सुदुर्दर्श सुतरां दुःखेनापि द्रष्टुमशक्यं मम रूपं यदृष्टवानसि,
अस्य रूपस्य देवा अपि नित्यं दर्शनमिच्छन्ति मनोरथमात्रं कुर्वन्ति परं तु न प्राप्नुवन्ति ।। ५२ ॥
नाहं वेदेन तपसा न दानेन न चेज्यया ॥
शक्य एवंविधो द्रष्टुं दृष्टवानसि यन्मम ॥ ५३॥
कस्मानाहमिति । नाहं वेदैर्ऋग्यजुःसामाथर्ववेदैश्चतुर्भिरपि न तप-
सोग्रेण चान्द्रायणादिना न दानेन गोभूहिरण्यादिना न चेज्यया यज्ञेन पूज-
या वा शक्य एवंविधो यथादर्शितप्रकारो द्रष्टुमन्यैरशक्यो दृष्टवानसि मां
यथा त्वम् ।। ५३ ॥
आ० टी० । दर्शनोपायाभावाद् दुर्दर्शत्वमिति शङ्कयते कस्मादिति । वेदादिषूपायेषु
सत्स्वपि भगवानुक्तरूपो न शक्यो द्रष्टुमित्याह नाहमिति । तर्हि दर्शनायोग्यत्वं द्रष्टुमशक्यत्व-
मित्याशङ्कयाह दृष्टवानिति ॥ १३ ॥
५० टी० । नाहं वेदैरिति । गतार्थम् ॥ ५३ ॥
भक्त्या त्वनन्यया शक्यो ह्यहमेवंविधोऽर्जुन ॥
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
कथं पुनः शक्य इत्युच्यते भक्त्येति । भक्त्या तु किंविशिष्टयेत्याह अ-
नन्ययापृथग्भूतया भगवतोऽन्यत्र पृथङ् न कदाचिदपि भवति सा त्वनन्या
भक्तिः सर्वैरपि करणैर्वासुदेवादन्यन लभ्यते यया सानन्या भक्तिस्तया शक्योऽह-
मेवंविधो विश्वरूपप्रकारो हेऽर्जुन ज्ञातुं शास्त्रतो न केवलं ज्ञातुं शास्त्रतो द्रष्टुं
च साक्षात् कर्तुं तत्वेन तत्त्वतः प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ॥ ५४ ॥
आ० टी० । केनोपायेन तर्हि द्रष्टुं शक्यो भगवानिति पृच्छति कथमिति । शास्त्रीयज्ञा-
नद्वारा तदर्शनं सफलं सिध्यतीत्याह उच्यत इति । न भक्तिमात्रं तत्र हेतुरिति तुशब्दार्थ स्फुट-
यति किमियादिना । अनन्यभक्तिमेव व्यनक्ति सर्वेरिति ॥ ५४ ॥
प० टी० । किं तु भोऽर्जुन एवंविधोऽहमनन्ययाव्यभिचारिण्या भक्त्या तत्त्वेन ज्ञातुं
शास्त्रतः प्रत्यक्षतः प्रवेष्टुं तादात्म्येन शक्यो नान्यथा ॥ १४ ॥

३४८
श्रीमद्भगवद्गीता।
..
मत्कर्मकृन्मत्परमो मद्भक्तः संगवर्जितः॥
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीमद्भगवद्रीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन-
संवादे विश्वरूपदर्शनं नामैकादशोऽध्यायः ॥ ११ ॥
अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽथों निःश्रेयसार्थोऽनुष्ठेयत्वेन स-
मुश्चित्योच्यते मत्कर्मकदिति । मत्कर्मकन्मदर्थ कर्म मत्कर्म तत् करोतीति
मत्कर्मकृत् मत्परमः करोति भृत्यः
स्वामिकर्म न त्वात्मनः परमा प्रेत्य गन्तव्या
गतिरिति स्वामिनं प्रतिपद्यते, अयं तु मत्कर्मरुन्मामेव परमां गति प्रतिपद्यते
इति मत्परमोऽहं परमः परा गतिर्यस्य सोऽयं मत्परमस्तथा मद्भक्तो मामेव
सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजत इति मद्भक्तः सवर्जितो धनमित्र-
पुत्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्कः प्रीतिः स्नेहवर्जितो निर्वैरो निर्गतवैरोऽतः
सर्वभूतेषु शत्रुभावरहित आत्मनोऽत्यन्तापकारस्तेष्वपि य ईदृशो मद्भक्तः स
मामेत्यहमेव तस्य परा गतिर्नान्या कदाचिद्भवतीत्ययं तवोपदेश इष्टो म-
योपदिष्टो हे पाण्डवेति ॥ ५५ ॥
इति श्रीमद्भगवद्गीताभाष्ये शंकरभगवतः कृतौ
विश्वरूपदर्शनं नामैकादशोऽध्यायः ॥ ११ ॥
आ० टी० । भक्त्या खिति विशेषणादन्येषामहेतृत्वमाशङ्कयाह अधुनेति । समुच्चित्य संक्षिप्य
पुनीकत्येति यावत् । मत्कर्मदित्युक्ते मत्परमत्वमार्थिकमिति पुनरुक्तिरित्याशङ्कयाह करोतीति ।
भगवानेव परमा गतिरिति निश्चयवतस्तत्रैव निष्ठा सिध्यतीत्याह तथेति । न तत्रैव सर्वप्रकारैर्भजनं
धनादिस्नेहाकृष्टत्वादित्याशङ्कयाह संगेति । द्वेषपूर्वकानिष्टाचरणं वैरमनपकारिषु तद्भावेऽपि भवत्ये-
वापकारिष्विति शङ्कित्वाह आत्मन इति । एतच्च सर्व संक्षिप्यानुष्ठानार्थमुक्तमेवमनुतिष्ठतो भग-
वत्प्राप्तिरवश्यंभाविनीत्युपसंहरति अयमिति । तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य
सर्वेश्वरस्य मत्कर्मकदित्यादिन्यायेन क्रममुक्तिफलमभिध्यानमभिवदता तत्पदवाच्योऽर्थो व्यव-
स्थापितः ॥ ५५ ॥ इसानन्दगिरिकृतटीकायामेकादशाध्यायः ॥ ११ ॥
प० टी० । अत्र रहस्यं शृण्वित्याह मत्कर्मकृदिति । मदर्थ कर्म करोतीति मत्कर्मकृत् ।
अहमेव परमः पुरुषार्थों यस्य । मथि भक्तो मदाश्रितः । पुत्रकलत्रादिषु संगवर्जितः । सर्वभूतेषु
निरो भवति स मां प्राप्नोति नान्यः । तदुक्तमस्माभिक्तिशते–'नानारङ्गैरनङ्गायुधमभिालखताश्च-
त्रिणाऽभ्यासलभ्यं सौरभ्यं नैव तस्मिन् न च सरथहयं मण्डलं चण्डरश्मेः । तीव्र तेजस्त्रिलोकी-
तिनिरनिरसनं तहदानन्दसान्द्रं संन्यासाभ्यासभाजो न सुलभमपि तु श्रीयदूत्तंसभक्त्या ॥१॥१५॥
इति परमार्थप्रपायामेकादशाध्यायः ॥ ११ ॥

एकादशाध्यायः । अथाध्यायतात्पर्य तु-मानुष्यं मन्यसे चेन्माये तदिदमये भूर्भुवःस्वर्महोऽन्तःस्वीकारं वैभव चाभयममृतगतिं द्रष्टुमिच्छास्ति ते चेत् । तत्पश्यारातिवर्ग निहतमिह मया दत्तया दिव्यदृष्टया ब्रह्मा- दीन् देवदेवानिति यदुपतिना प्रोक्तमेकादशेऽस्मिन् ॥ ११ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां विश्वरूपाख्यमध्य- मप्रमाणनिरूपणं नामैकादशोध्यायः ॥ ११ ॥ इसेकादशाध्यायः ॥ ११ ॥ हादशाध्यायः । अर्जुनउवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ॥ ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१॥ हितीयप्रभृतिष्वध्यायेषु विभूत्यन्तेषु परमात्मनो ब्रह्मणोऽक्षरस्य वि- ध्वस्तसर्वविशेषणस्योपासनमुक्तं सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेरीश्वर- स्य तव चोपासनं तत्र तत्रोक्तं विश्वरूपाध्याये त्वैश्वरमायं समस्तजगदात्म- रूपं विश्वरूपं त्वदीयं दर्शितमुपासनार्थमेव त्वया तच्च दर्शयित्वोक्तवानसि मत्कर्मकदित्यायतोऽहमनयोरुभयोः पक्षयोर्विशिष्टतरवुभुत्सया त्वां पृच्छामी- त्यर्जुन उवाच एवमिति । एवमित्यतीतानन्तरश्लोकेनोक्तमर्थ परामशति । एवं सततयुक्तानैरन्तर्येण भगवत्कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः। ये भक्ता अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्या- यन्ति ये चाप्यक्षरमिति ये चान्येऽपि त्यक्तसवैषणाः संन्यस्तसर्वकर्माणो यथावि- शेषितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमरणगोचरं यद्धि लोके करणगोचर तयक्तमुच्यते अजेर्धातोस्तत्कर्मकत्वादिदं त्वक्षरं तहिपरीतं शिष्टेश्वोच्यमानै- विशेषणैर्विशिष्टं तद् ये चापि पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः केऽतिशयेन योगविद इत्यर्थः ॥ १ ॥ आ० टी० । अशोच्यानित्यादिषु विभूत्यध्यायावसानेप्वध्यायेषु निरुपाधिकस्य ब्रह्मणो क्षेयत्वेनानुसंधानमुक्तमिति वृत्तं कीर्तयति द्वितीयेति । अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्य ब्रह्मणो ध्येयत्वेन प्रतिपादनं कृतमित्याह सर्वेति । सर्वस्यापि प्रपञ्चस्य योगो घटना जन्मस्थिति- भङ्गप्रवेशनियमनाख्या तत्रैश्वर्य सामर्थ्य तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्त्वाद्युपहितस्य भगवतो ध्यानं तत्र तत्र प्रसङ्गमापाद्य मन्दमध्यमयोरनुग्रहार्थमुक्तमित्यर्थः । एकादशे वृत्तमनुवदति विश्वरूपेति । अध्यायान्ते भगवदुपदेशमनुवदति तच्चेति । अतीतानन्तरश्लोकेनोक्त-

३५.
श्रीमद्भगवद्रीता-
मर्थ परामृशति मत्कर्मकृदिति । यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुमध्यायान्तरमवतार-
यन्नादौ प्रश्नमुत्थापयति अत इति । सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य चोकत्वादित्यर्थः ।
एवं शब्दार्थमुक्त्वा तमनूद्य सततयुक्ता इति भागं विभजते एवमिति । ये भक्ता इत्यनूद्य व्याचष्टे
अनन्येनेति । मन्दमध्यमाधिकारिणः सगुणशरणानुक्त्वा निर्गुणनिष्ठानुत्तमाधिकारिणो निर्दिशति
ये चेति । यथा विशेषितमनिर्देश्यं सर्वत्रगमचिन्त्यं कूटस्थमित्यादिवक्ष्यमाणविशेषणविशिष्टमित्यर्थः,
न क्षरत्यश्नुते वेत्यक्षरम् । अव्यक्तमित्येतद्याचष्टे निरस्तेति । करणागोचरत्वं व्यतिरेकद्वारा स्फो-
रयति यद्धीति । यथा विशषितमित्युक्तं स्पष्टयति शिष्टश्चेति । पूर्वार्धगतक्रियापदस्यानुषङ्गं
मूचयति तदिति । सर्वे तावदेते योगं समाधिं विन्दन्तीति योगविदः । के पुनरतिशयेनैषां मध्ये
योगविदो योगिन इति पृच्छति के अतिशयेनेति ॥ १ ॥
प० टी० । पूर्वाध्यायान्ते मत्कर्मकन्मत्परम इत्यनेन सर्वोपायैरगम्यस्य विश्वरूपस्वरूपस्य
ज्ञाने दर्शने प्राप्तौ वा श्रेष्ठोऽधिकारी प्रोक्तः पूर्व तु ज्ञानी त्वात्मैव मे मतं तथा स योगी परमो
मतस्तथा ब्रह्मविदामोति परमिति श्रुतेश्च योग-ज्ञानादिसंपदुपेतः श्रेष्ठ उक्तस्तयोर्मध्ये कस्य श्रे-
ष्ठत्वमिति प्रश्नव्याजेन परं ब्रह्म जिज्ञासुरर्जुनः पृच्छति एवामिति । एवमुक्तप्रकारेण सर्वकर्मार्पणा-
दिना सततयुक्तास्त्वन्निष्ठा ये भक्तास्त्वां विश्वरूपं सर्वशं सर्वशक्तिं पर्युपासते ध्यायन्ति । येचाप्य-
क्षरं ब्रह्माव्यक्तं निर्विशेषमुपासते तेषामुभयेषां मध्ये योगवित्तमाः के इति प्रश्नः ॥ १ ॥
श्रीभगवानुवाच ।
मय्यावश्य मनो ये मां नित्ययुक्ता उपासते ॥
श्रद्धया परयोपेतास्ते मे
युक्ततमा
मताः ॥२॥
श्रीभगवानुवाच । ये त्वक्षरोपासकाः सम्यग्दर्शिनो निवृत्तषणास्ते
तावत्तिष्ठन्तु तान् प्रति यहक्तव्यं तदुपरिष्टाहक्ष्यामः ये त्वितरे मयीति । मयि
विश्वरूपे परमेश्वरे आवेश्य समाधाय मनो ये भक्ताः सन्तो मां सर्वयोगेश्वराणाम-
धीश्वरं सर्वज्ञं विमुक्तरागादिल्लेशतिमिरदृष्टिं नित्ययुक्ता अतीतानन्तराध्यायान्तोक्त-
श्लोकार्थन्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृष्टयोपेता मे मम
मता अभिप्रेता युक्ततमा इति नैरन्तर्येण हि ते मश्चित्ततयाहोरात्रमतिवाहयन्त्य-
तो युक्तं तान् प्रति युक्ततमा इति वक्तुम् ॥ २ ॥
आ० टी० । किमनयोर्योंगयोर्मध्ये सुशक्यो योगो वा पृच्छति किं वा साक्षान्मोक्षहेतुरिति
विकल्प्य क्रमेणोत्तरं भगवानुक्तवानित्याह श्रीभगवानिति । यदि द्वितीयस्तथाविधयोगस्य वक्ष्यमाण-
त्वात् प्रष्टव्यतेत्याह ये बक्षरेति । यद्याद्यस्तत्राह ये विति । सर्वयोगेश्वराणां सर्वेषां योगम-
धितिष्ठतां योगिनामित्यर्थः । विमुक्ता त्यक्ता रागाद्याख्या शनिमित्तभूता तिमिरशब्दितानाद्यज्ञा-
नकता दृष्टिरविद्या मिथ्या धीर्यस्य तमिति विशिनष्टि विमुक्तेति । नित्ययुक्तत्वं साधयति अती-
तेति । तत्रोक्तो योऽर्थी मत्कर्मकदित्यादि तस्मिन्निश्चयेनापनयोगमनन्तस्य नियमेनानुष्ठानं तेनेत्यर्थः ।
उपासते मयि स्मृति सदा कुर्वन्तीत्यर्थः । उक्तोपासकानां युक्ततमत्वं व्यनक्ति नैरन्तर्येणेति । तदेव
स्फुटयति अहोरात्रमिति । अहि च रात्रौ चातिमात्रमतिशयेन मामेव विषयान्तरविमुखाश्चि-
न्तयन्तीत्यर्थः ॥ २॥

३५१ हादशाध्यायः । ५० टी० । तत्र भगवानुत्तरयति मयीति द्वाभ्याम् । मयि परमेश्वरे सर्वज्ञादिगुणोपेते मन आवेश्यकानं कृत्वा नित्ययुक्ता मदर्थकर्मानुष्ठानादिना मनिष्ठाः सन्तः परया श्रद्धयास्तिक्यबुद्धचो- पेतास्ते युक्ततमा इति मे मताः ॥ २ ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ॥ सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३॥ संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः॥ ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४॥ किमितरे युक्ततमा न भवन्ति न किं तु तान् प्रति यहक्तव्यं तच्छृणु ये त्वक्षरमनिर्देश्यमव्यक्तमव्यक्तत्वादशब्दगोचरमिति न निर्देष्टुं शक्यतेऽतोऽनिर्दे- श्यमव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तादुपास- त उपासनं नाम यथाशास्त्रमुपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्य तैलधारावत् समानप्रत्ययप्रवाहण दीर्घकालं यदासनं तदुपासनमाचक्षते । अ- क्षरस्य विशेषणमाह सर्वत्रगं व्योमवद्याप्यचिन्त्यं चाव्यक्तत्वादचिन्त्यं यद्धि करणगोचरं तन्मनसापि चिन्त्यं तहिपरीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमान- गुणमन्तोपं वस्तु कूटरूपं कूटसाक्ष्यमित्यादी कूटशब्दः प्रसिद्धो लोके तथा चाविद्याद्यनेकसंसारबीजमन्तदोष मायां प्रकृत्यादिशब्दवाच्यतया 'मायां तु प्रक- तिं विद्यान्मायिनं तु महेश्वरं' 'मम माया दुरत्यया' इत्यादौ प्रसिद्धं यत्तत् कूटं त- स्मिन् कूटे स्थितं तदध्यक्षतयाथवा राशिरिव स्थितं कूटस्थमत एवाचलं यस्मा- दचलं तस्माद् ध्रुवं नित्यमित्यर्थः ॥ ३ ॥ संनियम्येति । संनियम्य सम्यङ् नियम्य संहृत्येन्द्रियग्राममिन्द्रियसमु- दायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिर्येषामिष्टानिष्टप्राप्तौ ते समबुद्ध्यस्ते य एवंविधास्ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता न तेषां व- क्तव्यं किं चिन् मां ते प्राप्नुवन्तीति ज्ञानी लात्मैव मे मतमित्युक्तत्वान हि भ- गवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम् ॥ ४ ॥ आ० टी० । वक्ष्यामस्तदुपरिष्टादित्युक्तं प्रश्नपूर्वकं प्रकटयति किमियादिना । पूर्वेभ्यः फलतो विशेषार्थस्तुशब्दः । अव्यक्तत्वमनिर्देश्यत्वे हेतुरित्याह अव्यक्तबादिति । यतोऽव्यक्तमतो- ऽनिर्देश्यमिति योजना । निरुपाधिकेऽक्षरे कथमुपासनेति पृच्छति उपासनमिति । शास्त्रतोऽक्षरं ज्ञात्वा तदुपेत्यात्मत्वेनोपगम्योपासते तथैव तिष्ठन्ति पूर्णचिदेकतानमक्षरमात्मानमेव सदा भावयन्सी- त्येतदिह विवक्षितमित्याह यथेति । अव्यक्तत्वमेवाचिन्त्यत्वेऽपि हेतुरित्याह यद्धीति । कूटस्थश-

३५२
श्रीमद्भगवद्गीता-
ब्दस्योक्तार्थत्वं वृद्धप्रयोगतः साधयति कूटरूपमिति । आदिपदमनृतार्थम् । प्रकृते किं तदमृत कू-
टशब्दितभित्याह तथाचेति । उक्तरीत्या कूटशब्दस्यानृतार्थत्वे यदनेकस्य संसारस्य बीजं निरूप्य-
माणं नानाविधदोषोपेतं तद्धेयं तमुव्याकृतं मायां तु प्रकृति मम मायेत्यादौ मायाशब्दिततया प्रसि-
द्धमविद्यादि तदिह कूटशब्दितमित्यर्थः । तत्रावस्थानं केन रूपेणेत्याशङ्कायामाह तदध्यक्षतयेति ।
कूटस्थशब्दस्य निष्क्रियत्वमर्थान्तरमाह अथवेति । पूर्वमुपजीव्यानन्तरविशेषणद्वयप्रवृत्तिमाह
अत एवेति ॥ ३॥
आ० टी० । कथमक्षरमुपासते तदुपासने वा किं स्यादिति तदाह संनियम्येति. । तुल्या
हर्षविषादरागद्वेपादिरहिता सम्यग्ज्ञानेनाज्ञानस्यापनीतत्वात् परंपरापेक्षयोरसंभवं विवाक्षित्वाह ते य
इति । सर्वेभ्यो भूतेभ्यो हिते रताः सर्वेभ्यो हितमेव चिन्तयन्तस्तदेवाचरन्ति ज्ञानवतां यथा ज्ञानं
भगवत्प्राप्तेरर्थसिद्धत्वादनुवादमात्रमित्याह नत्विति । ज्ञानिनो भगवत्प्राप्तिः सिद्धैवेत्यत्र प्रमाणमाह
ज्ञानी विति। ज्ञानवतां भगवत्प्राप्तौ तएव युक्ततमा वक्तव्याः । कथं सगुणब्रह्मोपासकान् युक्त-
तमानुक्तवानसीत्याशङ्कयाह न हीति ॥ ४ ॥
प० टी० । तीतरे किं न श्रेष्ठा इत्याह ये विति । ये त्वनिर्देश्यं निर्देष्टुमशक्य-
मत एवाक्षरमव्यक्तं च सर्वत्रगं व्यापकमचिन्त्यं चिन्तयितुमशक्यम् । कूटे मायाप्रपञ्चेऽधिष्ठान-
त्वेन स्थितम् । अचलं वृध्यादिरहितं स्वरूपं सर्वत्र समदर्शिनः पुरुषा इन्द्रियग्रामं संनियम्य पर्युपा-
सते ते मामेव प्राप्नुवन्ति । उभयोः फले विसंवादोऽस्तीत्यर्थः ॥ ३ ॥ ४ ॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५॥
किं तु क्लेशोऽधिकतरो यद्यपि मत्कर्मादिपराणां क्लेशोऽधिकतरस्त्वक्षरा-
त्मनां परमार्थदर्शिनां देहाभिमानपरित्यागनिमित्तोऽव्यक्तासक्तचेतसामव्यक्त
आसक्तं चित्तं येषां तेऽव्यक्तासक्तचेतसस्तेषामन्यक्तासक्तचेतसामव्यक्ता हि
यस्माद् या गतिरक्षरात्निका दुःवं देहवद्भिदेहाभिमानवद्भिरवाप्यतेऽतः क्लेशोऽ-
धिकतरः ॥ ५ ॥
आ० टी० । सगुणोपासकेष्वपि कथामित्याह किंत्विति । अक्षरोपासनस्य दुष्करत्वादुपासना-
न्तरस्यमुकरत्वादित्यभिप्रेत्याह क्लेश इति । अधिक एवेतरेभ्यो द्वैतदर्शिभ्यः कामिभ्य इति शेषः ।
तेषां क्लेशस्याधिकत्वे हेतुं मत्वा विशिनष्टि देहेति । अव्यक्तमत्यन्तसूक्ष्मं निर्विशेषमक्षरं तस्मिन्नास-
तमभिनिविष्टं चेतो येषां तेषामिति यावत् । अक्षरोपासकानां क्लेशस्याधिकतरत्वे भगवानेव हेतुमाह
अव्यक्तेति । दुःखं दुःखेन कृच्छ्रेणेति यावत्, अतो देहाभिमानत्यागादित्यर्थः ॥ ५ ॥
प० टी० । तत्रापि पूर्वः श्रेष्ठ इत्याह क्लेश इति । अव्यक्तेऽक्षरआसक्तं चेतो येषां तेषां
शोऽधिकतरः, हि यस्मादव्यक्तविषया गतिदेहवद्भिदेहाभिमानिभिर्दुखं यथा स्यात्तथा प्राप्यते ॥५॥
ये त सर्वाणि कर्माणि मयि संन्यस्य मत्पराः॥
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥६॥

हादशाध्यायः । तेपामहं समुद्धर्ता मृत्युसंसारसागरात् ॥ भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ॥ ७॥ अक्षरोपासकानां यतनं तदुपरिष्टाहक्ष्यामः ये विति । ये तु सर्वाणि कर्माणि मयीश्वरे संन्यस्य मत्परा अहं परो येषां ते मत्पराः सन्तोऽनन्येनैवा- विद्यमानमन्यदालम्बनं विश्वरूपं देवमात्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्ये- नैव केवलेन योगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते ॥ ६ ॥ तेषां किं, तेषामिति । तेपां मदुपासनैकपराणामहमीश्वरः समुद्धर्ता कुत इत्याह मृत्युसंसारसागरात् मृत्युयुक्तः संसारो मृत्युसंसारः स एव साग- रवत् सागरो दुरुत्तरत्वात् तस्मान्मृत्युसंसारसागरादहं तेषां समुद्दा भवामि न चिरात् किं तर्हि क्षिप्रमेव हे पार्थ मय्यावशितचेतसां मथि विश्वरूपे आवे- शितं समाहितं चेतो येषां ते मध्यावेशितचेतसस्तेपाम् ॥ ७ ॥ आ० टी० । ते कथं वर्तन्ते तत्राह अक्षरति । यद्यक्षरोपासका मामेवानुवन्तीति विशि- प्यन्ते तत् किं सगुणापासकास्त्वां नामुवन्ति न तपामपि क्रमेण मत्प्राप्तरित्याह ये विति । तुशब्दः शानिवृत्त्यर्थः ॥ ६ ॥ आ० टी० । तेषां भगवड्यायिनां किं फलतीति शङ्कामनुभाष्य फलमाह तेपामियादिना । समुद्धर्ता सम्यगृवं नेता ज्ञानावष्टम्भदानेनेत्यर्थः । मृत्युरज्ञानं मरणाद्यनर्थहेतुत्वात्तेन कार्यतया युक्तः संसारः ॥ ७ ॥ प० टी० । मद्भक्तानां त्वयामेन प्राप्तिर्भवतीत्याह येविति । तथा तेपामिति । मयि आवेशितं प्रवेशितं चित्तं यस्तेषां पुरुषाणां मृत्युमंसारसागरादहमचिरेण समुद्धर्ता भवामि । मृत्युः संसरणं संसारो जन्म । एवं जन्ममरणरूपात्सागरात् । तेषां कपां, ये तु सर्वाणि कर्माणि मयि सं- न्यस्य समर्प्य मत्परा मदेकनिष्ठाः सन्तः न विद्यतेऽन्यो भजनीयो यस्मिन्नित्यनन्ययोगस्तेन मां ध्यायन्त उपासते उपासनां कुर्वते तेषामिति । अत्रायमर्थः-दुःसाध्यं कर्माश्रयं विना न सि- ध्यति । यथा तरणाभ्यासरतोऽपि बाहुभ्यां भागीरथी तितीपास्तुंबिकाश्रयेण भवितव्यम्, अन्यथा श्रान्तहस्तपादःसन् मध्य एव निमज्जति । एवं कर्मयोगज्ञानवानपि मदाश्रयं विना ब्रह्मसायुज्यं न प्रामोति, यतः सिध्यादिविक्षेपशतैः पुननिवर्तते । तदुक्तं महापुराण--' तथा न ते माधव तावकाः क्व- चिद्भश्यन्ति. मार्गात्त्वयि बहसवदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो' इत्यादि ॥ ६ ॥ ७ ॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ॥ निवसिप्यसि मय्येव अत ऊर्ध्व न संशयः॥ ८॥ यत एवं तस्मात् मय्येवेति । मय्येव विश्वरूप ईश्वरे मनः संकल्पविकल्पा- त्मकमाधत्स्व स्थापय मय्येव व्यवसायं कुर्वती बुद्धिमाधत्स्व निवेशय ततस्तेन किं

श्रीमद्भगवद्गीता-
स्यादिति शृणु निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवास क
रिष्यस्येवातः शरीरपाताज़ न संशयः संशयोऽत्र न कर्तव्यः॥ ८ ॥
आ० टी० । भगवदुपासना विशिष्टफलेत्येवं यतः सिद्धमतो भगवन्निष्ठायां प्रयतितव्यमि-
त्याह यत इति । असंहिताकरणं श्लोकपूरणार्थम् । मनोबुद्धयोर्मगवत्यवस्थापने प्रश्नपूर्वकं फलमाह
तत इति । भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति संशयोऽत्रेति ॥ ८ ॥
प० टी० । यद्येवं तर्हि मय्येवेति । संकल्पविकल्पात्मकं मनो मय्येवाधत्स्व स्थिरीकुरु ।
तथा बुद्धि व्यवसायात्मिकां मयि निवेशय प्रवेशय । अत ऊर्ध्वमतोऽनन्तरं मय्येव निवसिष्यसि
मदाकारो भविष्यसि । तदुक्तम्-'चेतो मत्तमतंगजं मदभरभ्रान्तं भ्रमन्तं दिशो दुःसंकल्पविकल्पदन्त-
दलितप्रोद्दामधैर्यद्रुमम् । उद्यद्गाढतरप्रबोधनिगडं भूयः समानामितुं धात्रा योजितभद्भुतं नरहरे-
रालानमङ्घ्रिद्वयम् ॥ ८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ॥
अभ्यासयोगेन ततो मामिच्छाप्तुं धनंजय ॥९॥
अथेति । अथैवं यथावोचाम तथा मयि चित्तं समाधातुं स्थापयितुं
स्थिरमचलं कर्तुं न शक्नोषि चेत्ततः पश्चादभ्यासयोगेन चित्तस्यैकस्मिन्नाल-
म्बने सर्वतः समाहृत्य पुनः पुनः स्थापनमभ्यासस्तत्पूर्वको योगः समाधानल-
क्षणस्तेनाभ्यासयोगेन मां विश्वरूपमिच्छ प्रार्थयस्वाप्तुं प्राप्तुं हे धनंजय ॥ ९ ॥
आ० टी० । तत्प्रदर्शनपूर्वकं भगवत्प्राप्तावुपायान्तरमाह अथेत्यादिना ॥ ९ ॥
५० टी० । अथोक्तोपायाशक्तत्वे पुनरुपायान्तरमाह अथेति । अथ मयि चित्तं स्थिर
निश्चलं समाधातुं कर्तुं न शक्नोपि तर्हि प्रत्याहृत्य मदनुस्मरणरूपोऽभ्यासस्तेन मामातुं प्राप्तुमिच्छ
प्रयत्नं कुरु ॥९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ॥
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥१०॥
अभ्यासेऽपीति । अभ्यासेऽप्यसमर्थोऽस्यशक्तोऽसि तर्हि मत्कर्मपरमो
भव मदर्थ कर्म मकर्म तत्परमो भव मत्कर्मप्रधान इत्यर्थः । अभ्यासेन
विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सत्त्वशुद्धिं योगं ज्ञानप्रा-
तिहारेणावाप्स्यसि ॥ १० ॥
आ० टी० । एकमालम्बनं स्थलं प्रतिमादिसमाधानं ततोऽभ्यन्तरे विश्वरूपे चित्तकाम्यं
द्वैताभिनिवेशादभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनरुपायान्तरमाह अभ्यासेऽपीति । अभ्यास-
योगेन विना भगवदर्थ कर्माणि कुर्वाणस्य किं स्यादित्याशङ्कयाह अभ्यासेनेति । सिद्धिर्ब्रह्मभावः।
अपिरिहावधिसूचनार्थः ॥ १० ॥

हादशाध्यायः। ३५५ १० टी० । यदि पुनः अभ्यास इति । मदनुस्मरणरूपेऽभ्यासे यद्यसमर्थोऽसि तर्हि मदर्थ यानि कर्माणि तपोदानव्रतादीनि तान्येव परमं यस्य तदेकनिष्ठो भव । एवं विधानि कर्माणि मदर्थ कुर्वन्नपि सिद्धि प्राप्स्यसि ॥ १० ॥ अथैतदप्यशक्तोऽसि कर्तु मद्योगमाश्रितः ॥ सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥ अथैतदिति । अथ पुनरेतदपि यदुक्तं मत्कर्मपरमत्वं तत् कर्तुमशक्तो ऽसि मयोगमास्थितो मयि क्रियमाणानि कर्माणि संन्यस्य यत्करणं तेषाम- नुष्ठानं मद्योगस्तमाश्रितः सन् सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यास सर्वकर्मफलत्यागं ततोऽनन्तरं कुरु यतात्मवान् सनित्यर्थः ॥ ११ ॥ आ० टी० । भगवत्कर्मपरत्वमप्यशक्यमिति शङ्कते अथेति । बहिर्विषयाकष्टचेत- स्त्वादित्यर्थः । तर्हि भगवत्प्राप्त्युपायत्वेन संयताचत्तो भूत्वा कर्मफलसंन्यासं कुर्वित्याह मद्योगमिति ॥ ११ ॥ ५० टी० । यदि पुनः अथेति । यद्येतदपि कर्तुमशक्तोऽसि तर्हि मद्योगं मदेकशरणत्वमास्थित आश्रितः सन् सर्वेषामावश्यकानां कर्मणां फलानि नियतचित्तो भूत्वा परित्यज । अत्रैतदुक्तं भवति । मया तावदीश्वरप्रेरणया यथाशक्ति कर्माणि कर्तव्यानि फलं पुनर्दष्टमदृष्टं वा परमेश्वराधीनोऽहमि- त्येवं मयि भारमारोप्य फलाभिलाषं परित्यज्य वर्तमानो मत्प्रसादात्कृतार्थों भविष्यसि ॥ ११ ॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाडयानं विशिष्यते ॥ ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥ इदानीं सर्वकर्मफलत्यागं स्तौति श्रेयो हि प्रशस्यतरं ज्ञानं कस्मादवि- वेकपूर्वकादभ्यासात्तस्मादपि ज्ञानाज् ज्ञानपूर्वकं ध्यानं विशिष्यते ज्ञानवतो ध्यानादपि कर्मफलत्यागो विशिष्यत इत्यनुपज्यते । एवं कर्मफलत्यागात् पूर्व विशेपणवतः शान्तिरुपशमः सहेतुकस्य संसारस्यानन्तरमेव स्यानतु काला- न्तरमपेक्षतेऽज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्ती सर्वकर्मणां फलत्यागः श्रेयःसाधनमुपदिष्टं न प्रथममेवातश्च श्रेयो हि ज्ञानमभ्यासादुत्त- रोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते संपन्नसाधनानुष्ठानाशक्ताव- नुष्ठेयत्वेन श्रुतत्वात् केन साधम्र्येण स्तुतिः “यदा सर्वे प्रमुच्यन्ते” इति सर्व- कामप्रहाणादमृतत्वमुक्तं तत्प्रसिद्ध कामाश्च सर्वे श्रौतस्मातसर्वकर्मणां फलानि तत्त्यागे च विदुषो ध्याननिष्ठस्यानन्तरैव शान्निरिति सर्वकामत्यागसामान्यं १ संयतचित्तः सनितीहार्थ:-पा० लि. !

३५६ श्रीमावद्गीता- सर्वकर्मफलत्यागस्यास्तीति तत्सामान्यात सर्वकर्मफलत्यागस्तुतिरिय प्ररीच- नार्था' । यथागस्त्येन ब्राह्मणन समुद्रः पीत इदानींतना अपि ब्राह्मणा ब्रा- ह्मणत्वसामान्यात् स्तूयन्ते एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयःसाधनत्वम- भिहितम् । अत्र चात्मेश्वरभेदमाश्रित्य विश्वरूप ईश्वरे चेतःसमाधानलक्षणो योग उक्त ईश्वरार्थ कर्मानुष्ठानादि च 'अथैतदप्यशक्तोऽसि' इत्यज्ञानकार्यसूचना- नाभेददार्शनोऽक्षरोपासकस्य कर्मयोग उपपद्यते इति दर्शयति, तथा कर्मयोगिनो- ऽक्षरोपासनानुपपत्तिं दर्शयति भगवान् 'ते प्राप्नुवन्ति मामेव' इत्यक्षरोपासकानां कैवल्यप्राप्ती स्वातन्त्र्यमुक्त्वेतरेपां पारतन्ध्यमीश्वराधीनतां दर्शितवांस्तेपामहं समुद्धतेति । यदि हीश्वरस्यात्मभूतास्ते मता अभेददर्शिवादक्षररूपा एव ते इति समुद्धरणकर्मवचनं तान् प्रत्यपेशलं स्याद्यस्माच्चार्जुनस्यात्यन्तमेव हितैपी भगवांस्तस्य सम्यग्दर्शनान्वितं कर्मयोगं भेददृष्टिमन्तमेवोपदिशति न चात्मान. मीश्वरं प्रमाणतो बुड्वा कस्यचिद् गुणभावं जिगमिपति कश्चित् विरोधात्, तस्मादक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वेपणानाम् 'अद्देष्टा सर्वभूतानाम्' इत्यादिधर्मपूर्ण साक्षादमृतत्वकारणं वक्ष्यामीति प्रवर्तते ॥ १२ ॥ आ० टी० । उत्तरश्लोकतात्पर्यमाह इदानीभिति । ज्ञानं शब्दयुक्तिभ्यामात्मनिश्चयः, अभ्यासो ज्ञानार्थश्रवणाभ्यासो निश्चयपूर्वको ध्यानाभ्यामा वा तस्य विशिष्यमाणत्वे साक्षात्कारो हेतुस्त्यागस्य विशिष्टत्वे हेतुमाह एवमिति । प्रीणातृ भगवानिति तस्मिन् कर्मसंन्यासपूर्वकमि- त्यर्थः । पूर्वविशेषणवतो नियतचित्तस्य पुंसो यथोक्तत्यागादित्यर्थः । अनन्तरमेवेत्युक्तं व्यक्ति न त्विति । न तु कर्मफलत्यागस्य सद्यः शान्तिकरत्वे सम्यग्धीरेव तथेति श्रुतिस्मृतिप्रसिद्धिविरु- ध्येत तत्राह अज्ञस्येति । दीघेण कालेनादरनैरन्तर्यानुष्ठिताद्वयानाहस्तुसाक्षात्कारद्वारा संसारदु:- खोपशान्तेस्तथाविधादयानात्त्यागस्य विशिष्टत्वोक्तेस्तदीयस्तुतिरत्रेप्टेत्याह अतश्चेति । तत्र हेतुमाह संपन्नेति । संपन्नानि प्राप्तानि साधनान्यक्षरोपासनादीनि तेषां मध्ये पूर्वपूर्वस्यानुष्टानाशक्तावुत्तरो- त्तरस्यानुष्ठेयत्वेनोपदेशात्त्यागे चोपदेशपर्यवसानादित्यर्थः । त्यागे विशिष्टत्ववचनस्य केन स्वधर्मेण तं प्रति स्तुतित्वमिति पृच्छति केनेति । उत्तरमाह योति । अमृतत्वमुक्तम् अथ मत्यो मृतो भ- वतीति शेषादिति शेपः । कामप्रहाणस्यामृतत्वार्थत्वमथाकामयमान इत्यादावपि सिद्धमित्याह त- दिति । कामत्यागस्यामृतत्वहेतुत्वेऽपि कथं कर्मफलत्यागस्य तदेतुत्वमित्याशङ्कयाह कामाश्चेति । कर्मफलत्यागादेव शान्तिश्चज् ज्ञाननिष्ठोपेक्षितेत्याशङ्कयाह तत्त्यागे चेति । तथापि कथमज्ञस्य कर्मफलत्यागस्तुतिन्त्यिाशङ्कयाह इति सर्वेति । विद्यावतस्त्यागवदविद्वत्त्यागस्यापि त्यागत्वाविशेषा- द्विशिष्टत्वोक्तिर्युक्तेति स्तुतिमुपसंहरति इति तत्सामान्यादिति । किमर्था स्तुतिरित्याशङ्कय त्यागे रुचिमत्पाद्य प्रवर्तयितमित्याह प्ररोचनार्थेति । त्यागस्ततिं दृष्टान्तेन स्पष्टयति यथेति । फलत्या- गः श्रेयाहेतुश्चेत् कर्मत्यागादपि फलत्यागसिद्धेरलं कर्मानुष्ठानेनेत्याशङ्कयाह एवं कर्मेति । फला- भिलाषं त्यक्त्वा कर्मानुष्ठानस्यार्पितस्येश्वरे श्रेयोहेतुतया विवक्षितत्वान्नानुष्ठानानर्थक्यमित्यर्थः । वोधनार्थी-पा० लि. ।

३५७
हादशाध्यायः ।
संप्रत्यद्वेष्टत्याद्यवतारयितुं वृत्तं कीर्तयति अत्र चेति । तयोश्चेदात्यन्तिकोऽभेदो न तश्विरे मनः-
समाधानरूपो योगोऽत्यन्ताभेदे ध्यातृध्येयत्वाभावात् न चात्यन्ताभेदे कर्मानुष्ठानं तत्फलत्यागो वा प-
रस्परं तद्योगादित्यर्थः । भगवदुक्तिसामर्थ्यादपि कर्मयोगादिना भेददृष्टिमतो भवतीत्याह अथेति ।
अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शितेत्याह तथेति । अक्षरो-
पासकाः सम्यग्धीनिष्ठा यथाज्ञानं भगवन्तमेवाप्नुवन्ति न तथा कर्मिणः साक्षात्तदाप्ता अपि ते तथा
च कर्मिणो नाक्षरोपासनसिद्धिरित्यर्थः । इतश्चाक्षरोपासनं कर्मानुष्ठानं न चैकत्र युक्तमित्याह अक्ष-
रेति । नन्वक्षरोपासकवदन्येपामपीश्वरात्मताविशेषात् कुतस्तदधीनत्वं तत्राह यदीति । कर्मयोग-
स्याक्षरोपास्तेश्च युगपदेकत्रायोगे हेत्वन्तरमाह यस्मात्रेति । कुरु कर्भवेत्यादाविति शेपः । किंचा-
क्षरोपासको वाक्यादीश्वरमात्मानं चेति नासौ क्रियायां गुणत्वेन कर्तृत्वमनुभवति गुणत्वेश्वरत्वयोरेक-
त्र व्याघातादतोऽपि नाक्षरोपासनं कर्मानुष्ठानं चैकत्र युक्तमित्याह न चेति । अक्षरोपास्तिकर्मयो-
गयोरेकत्रायोगे फलितमाह तस्मादिति । अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येनायोगाद-
क्षरनिष्ठानामेवेदमुच्यतेऽविरुद्धांशस्य तु सर्वार्थत्वमिष्टमेवेत्यर्थः ॥ १२ ॥
५० टी० । अथ फलत्यागप्रशंसामाह श्रेय इति । केवलं करचरणव्यापाररूपादभ्यासा-
त्सम्यग ज्ञानं श्रेयः श्रेष्टं तस्मादपि भक्तिपूर्वकं ध्यानं निर्विपयैकाग्र्यं विशिष्यते तस्मात्कर्मफलत्यागः
स्वत एवोपरमात्कर्मफलराहित्यम् । तस्माच्छान्तिः सर्वोपरमतो मत्प्रसादात्परात्मसुखम् ॥ १२ ॥
अद्वेटा सर्वभूतानां मैत्रः करुण एव च ॥
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ १३॥
अद्देप्टेति । अहेष्टा सर्वभूतानां न इष्टात्मनो दुःखहेतुमपि न किंचिद्-
इष्टि सर्वाणि भूतान्यात्मत्वेन हि यस्मात्पश्यति मित्रभावो मैत्री मित्रतया वा
वर्तते इति मैत्रः करुण एव च करुणा कृपा दुःखितेषु दया तहान् करुणः
सर्वभूताभयप्रदः संन्यासीत्यर्थः । निर्ममो ममेति प्रत्ययवर्जितो निरहंकारो नि-
ताहंप्रत्ययः। समदुःखेति । समदुःखसुरवः समे दुःखसुरवे हेपरागयोरप्रवर्तके यस्य
समदुःखसुखः क्षमी क्षमावानाकुष्टोऽभिहतो वाविक्रिय एवास्ते ॥ १३ ॥
आ० टी० । सर्वेषां भूतानां मध्ये यो दुःखहेतुस्तं विद्वानपि द्वेष्टयवेत्याशङ्कयाह आत्मन
इति । तत्र हेतुः सर्वाणीति । सर्वभूतानामित्युभयतः संबध्यते, ममप्रत्ययवर्जितो देहेऽपीति शेषः,
व्रतस्वाध्यायकृताहंकारः । निष्क्रान्तत्वमाह निर्गतति ॥ १३ ॥
प० टी० । अथ प्रसादजनकान् धर्मानाह अद्वेष्टेयष्टभिः । तत्रापि प्रथमं युग्मम । सर्वभूता-
नामद्वेष्टा द्वेषशून्यस्तख़ुदासीनः स्यादित्याह मैत्र इति । तत्रोत्तमानामतिपूज्यत्वेनाप्रसक्तः समेषु
मैत्रः अपकृष्टेषु करुणः एवं सति तेषु निर्ममो ममताशून्यः तथा सत्यहङ्कारशून्यः किं च समे सुख-
दुःखे यस्य क्षमी क्षमावान् ॥ १३ ॥
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः॥
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥१४॥

३५८ श्रीमद्भगवद्गीता- संतुष्ट इति । संतुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे चोत्प- नालंप्रत्ययस्तथा गुणवल्लाभे विपर्यये च संतुष्टः सततं योगी समाहितचित्तो यतात्मा संयतस्वभावो दृढनिश्चयो दृढः स्थिरो निश्चयोऽध्यवसायो यस्यात्मत- त्वविषये स दृढनिश्चयो मय्यर्पितमनोबुद्धिः संकल्पात्मकं मनोऽध्यवसायलक्षणा बुद्धिस्ते मय्येवार्पिते स्थापिते मनोबुद्धी यस्य संन्यासिनः स मय्यर्पितमनो- बुद्धिर्य ईदृशो मद्भक्तः स मे प्रियः ॥ १४ ॥ आ० टी० । अक्षरोपासकस्याज्ञानतो विशेषणान्तराण्याह संतुष्ट इति । सततमिति सर्वत्र संबध्यते, कार्यकरणसवातः स्वभावशब्दार्थः, स्थिरत्वं कुतर्कादिनानभिभवनीयत्वं, मद्भक्तो मदजनपरो ज्ञानवानिति यावत् ॥ १४ ॥ प० टी० । संतुष्ट इति । सततं निरन्तरं लाभेऽलाभे वा संतुष्टः प्रसन्नचित्तः योगी अप्रमत्तो यतात्मा संयतचित्तः दृढः अचलः मद्विषयो निश्चयो यस्य मयि अर्पिते मनोबुद्धी यस्य एवंविधो यो मद्भक्तः स मे प्रियः सखा ॥ १४ ॥ यस्मान्नोद्विजते लोको लोकान्नोहिजते च यः॥ हर्षामर्षअयोद्वेगैर्मुक्तो यः स च मे प्रियः॥१५॥ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय इति सप्तमेऽध्याये सू- चितं तदिह प्रपञ्च्यते यस्मादिति । यस्मात् संन्यासिनो नोदिजते नोइगं ग- च्छति न संतप्यते न संतुभ्यते लोको लोकालोहिजते च यः हर्षामर्षभ- योइगैः हर्षश्चामर्षश्च भयं चोदेगश्च तैहर्षामर्षभयोईगैर्मुक्तो हर्षः प्रियलाभेऽन्तः- करणस्योत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गः, तथामर्षोऽभिलषितप्रतिघोतेऽस- हिष्णुता भयं त्रास उद्देग उद्दिमता तैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ आ० टी० । ज्ञानवतो भगवत्प्रियत्वे प्रमाणमाह प्रियो हीति । किमर्थ तर्हि पुनरुच्यते तत्राह तदिति । उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणमित्याह यस्मादिति । न केवलमुडेगं प्रत्यपादानत्वमेव संन्यासिनो नानुपपन्नं किं तु तत्कर्तृत्वमपीत्याह तथेति । असहिष्णुता परकीय- प्रकर्षस्येति शेषः। वासस्तस्करादिदर्शनाधीनः, उद्विग्नत्वमचेतनाञ्चेतनाधीनस्य लोकादिति यावत्॥१५॥ प० टी० । किं च यस्मादिति । स मे प्रिय इत्युक्ते स कः यस्माल्लोको नोद्विजते सर्व- भूतेष्वीश्वराधिष्ठानान्वीक्षणात् तदुक्तम्-'नोन्मत्तात्पिशुनाज्जनाद्विरमते सर्वात्मभूतः पुमांस्तस्मात्सर्व- सुहत्तमादपि जनो नाशङ्कते कश्चन । अत्युप्रै लजन्तुभिर्जलनिधिर्नवाधिमेतिक्षणं नो यादांसि भजन्ति भीतिमुदधेरत्युर्जितात्सर्वतः' इति । किं च हर्षामर्षभयोद्वेगों मुक्तः हर्षः स्वार्थलाभ उत्साहः, अमर्षः परलाभे असहमानत्वम्, भयं त्रासः उबैगो भयादिनिमित्तचित्तक्षोभः ॥ १५ ॥ १ अभिलषितप्रतिघाते, लि. पु. नास्ति.

हादशाध्यायः ।
३५९
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥१६॥
अनपेक्ष इति । देहेन्द्रियविषयसंबन्धादिष्वपेक्षा यस्य नास्ति स विष-
येष्वनपेक्षो निःस्पृहः शुचिर्बाह्याभ्यन्तरेण च शौचेन संपन्नो दक्षः प्रत्युत्पनेषु
कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः । उदासीन इति । उदासीनो न कस्य-
चिन्मित्रादेः पक्षं भजते यः स उदासीनो यतिर्गतव्यथो गतभयः सर्वारम्भप-
रित्यागी आरभ्यन्त इत्यारम्भा इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि
सर्वारम्भास्तान् परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी यो मद्भक्तः स
मे प्रियः ॥ १६॥
आ० टी० । निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणमित्याह अनपेक्ष इति । आदिपदमपे-
क्षणीयसर्वसंग्रहार्थ, प्रतिपत्तव्येषु प्रतिपत्तिं कर्तव्येषु कर्तुं चेत्यर्थः । परैस्ताडितस्यापि गता व्यथा
भयमस्येति व्युत्पत्तिमाश्रित्याह गतेति ॥ १६ ॥
प० टी० । किं च अनपेक्ष इति । अनपेक्षो यदृच्छोपस्थितेऽप्यर्थे निस्पृहः शुचिर्वाह्याभ्य-
न्तरशौचसंपन्नो दक्षोऽनलस उदासीनः पक्षपातशून्यो गतव्यथ आधिशून्यः । सर्वेषां दृष्टादृष्टा-
र्थानामारम्भान् परित्यक्तुं शीलं यस्यैवंभूतः स मे प्रियः ॥ १६ ॥
यो न हृष्यति न द्वेष्टिन शोचति न काङक्षति॥
शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥१७॥
किं च योनेति । यो न हृष्यतीष्टप्राप्तौ न देष्ट्यनिष्टप्राप्तौ न शोचति
प्रियवियोगे न चाप्राप्तं काङ्क्षति शुभाशुभे पुण्यपापे कर्मणी परित्यक्तुं शील-
मस्येति शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ १७ ॥
आ० टी० । न च क्षमीत्यनेन पौनरुत्यं प्रत्युत्पन्नायामपि व्यथायामपकर्तृप्वनपकर्तृत्वं
क्षमित्वमित्यभ्युपगमावेषहर्षादिराहित्यमपि ज्ञानिनो लक्षणमित्याह किं चेति । सर्वारम्भपरित्यागी-
त्यनेन विहिलकाम्यत्यागस्योक्तत्वाद्विहितादन्यत्र मासकोचीति विशिनष्टि शुभाशुभेति । वैषम्य-
बुद्धचभावादपि ज्ञानिनो विशेषामित्याह सम इति ॥ १७ ॥
प० टी० । किं च यो न हृष्यतीति । प्रियं प्राप्य न हृष्यति अप्रियं प्राप्य न द्वेष्टि
गते मृते वा न शोचति । अप्राप्तं न काङ्क्षति शुभाशुभे पुण्यपापे त्यक्तुं शीलं यस्य। शेषं
पूर्ववत् ॥ १७ ॥
तुल्यनिन्दास्तुतिौनी संतुष्टो येन केन चित् ॥
अचिकेत: स्थिरमतिर्भक्तिमान में प्रियो नरः॥१८॥

श्रीमद्भगवद्गीता-
सम इति । समः शत्रौ मित्रे च तथा मानापमानयोः पूजापरिभवयोः
शीतोष्णसुखदुःरवेषु समः सर्वत्र च संगवर्जितः ॥ १८ ॥
आ० टी० । सम इति । अद्वेष्टेत्यादिना द्वेपादिविशेषाभाव उक्तः, संप्रति सर्वत्रैवाविकत.
चित्तत्वमुच्यते सर्वत्र चेतने स्त्रियादावचेतने च चन्दनादावित्यर्थः ॥ १८ ॥
प० टी० । किं च द्वाभ्याम् समः शत्रौ चेति । तुल्यानन्दास्तुतिरिति । शत्रौ मित्रे च
समः समस्वभावः । तदुक्तम्-' संवर्धकं छेत्तुमुपागतं वा छायादिभिर्विश्रमिणं करोति । वृक्षो यथा
तद्वदरौ च मित्रे समस्वभावो हरिदासवर्यः' इति । तथा मानापमानयोः शीतोष्णसुखदुःखादिद्वन्द्वेषु
समो हर्पविषादरहितः संगविवर्जितः क्वचिदप्यनासक्तः ॥ १८ ॥
तुल्यनिन्दास्तुतिौनी संतुष्टो येन केन चित् ॥
अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥१९॥
किं च तुल्यनिन्देति । तुल्यनिन्दास्तुतिः निन्दा च स्तुतिश्च निन्दास्तुती
नुल्ये यस्य स तुल्यनिन्दास्तुतिौनी मीनवान् संयतवाक् संतुष्टो येन केन
चित् शरीरस्थितिमात्रेण । तथा चोक्तं येन केन चिदाच्छन्नो येन केनचिदा-
श्रितः । यत्र क चन शायी स्यात्तंदेवा ब्राह्मणं विदुः' इति । किं चानिकेतो
निकेत आश्रयो निवासो नियतो न विद्यते यस्य सोऽयमनिकेतो 'नागार' इत्या-
दि स्मृत्यन्तरात् । स्थिरमतिं स्थिरा परमार्थविपया मतिर्यस्य स स्थिरमतिर्भ-
क्तिमान् मे प्रियः ॥ १९ ॥
आ० टी० । वाग्यतत्वादिविशेषणमपि ज्ञाननिष्ठस्याम्तीत्याह किं चेति । निन्दा दोषसकी-
तनं, स्तुतिर्गुणगणनम्, देहस्थितिमात्रफलेनान्नादिना ज्ञानिनः संतुष्टत्वे स्मृति प्रमाणयति तथा
चेति । नियतनिवासराहित्यमपि ज्ञानवतो विशेपणमित्याह किं चेति । न कुड्यां नोदके संगो
न चैले न त्रिपुष्करे । नासने वसने नान्ने यस्य वै मोक्षवित्तु स' इति स्मृतिमुक्तेऽर्थे प्रमाणयति
नेयादिना ॥ १९ ॥
प० टी० । तुल्य इति । निन्दया नं कुप्यति, स्तुत्या न श्लाघते, मौनी संयतवाक्, येन
केन चिद्यथालाभेन संतुष्टः । न विद्यते निकतनं नियमितं स्थलं यस्य । स्थिरमतिर्व्यवसितचित्तः
तथा सति भक्तिमान् स मे प्रियः ॥ १९ ॥
ये तु धामृतमिदं यथोक्तं पर्युपासते ॥
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥२०॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिपत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन-
संवादे भक्तियोगो नाम हादशोऽध्यायः ॥ १२ ॥

हादशाध्यायः ।
अद्देष्टा सर्वभूतानामित्यादिनाक्षरस्योपासकानां निवृत्तस(षणानां सं-
न्यासिना परमार्थज्ञाननिष्ठानां धर्मजातं प्रकान्तमुपसंन्हियते ये विति । ये तु
संन्यासिनो धामृतं धर्मादनपेतं धयं च तदमृतं च तदमृतत्वहेतुत्वादिदं यथो-
क्तमहेष्टा सर्वभूतानामित्यादिना पर्युपासतेऽनुतिष्ठन्ति श्रद्दधानाः सन्तो मत्प-
रमा यथोक्तोऽहमक्षरात्मा परमो निरतिशयो गतिर्येषां ते मत्परमा मद्भक्ताश्वो-
तमा परमार्थज्ञानलक्षणां भक्तिमाश्रितास्तेऽतीव मे प्रियाः प्रियो हि ज्ञानिनो-
ऽत्यर्थमिति यत् सूचितं तद् व्याख्यायेहोपसंहृतं भक्तास्तेऽतोव मे प्रिया इति
यस्माद्धामृतमिदं यथोक्तमनुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव मे प्रियो
भवति तस्मादिदं धामृतं मुमुक्षुणा यत्नतोऽनुष्ठेयं विष्णोः प्रियं परं धाम जि.
गमिषुणेति वाक्यार्थः ॥ २० ॥
इति श्रीभगवद्गीताभाष्ये पूज्यपादशंकरभगवतः कृतौ भक्तियोगो
नाम हादशोऽध्यायः ॥ १२ ॥
आ० टी० । पुनः पुनर्भक्तर्ग्रहणमपवर्गमार्गस्य परमार्थज्ञानस्योपायार्थम् । अद्वेष्टेत्यादि
धर्मजातं ज्ञानवतो लक्षणमुक्तं तदुपपादितमनूद्योपसंहारश्लोकमवतारयति अद्वेष्टेयादिना । चतुर्थपादस्य
तात्पर्यमाह प्रियोहीति । यद्यपि यथोकं धर्मजातं ज्ञानवतो लक्षणं तथापि जिज्ञासूनां ज्ञानोपाय-
त्वेन यत्नादनुष्ठेयमिति वाक्यार्थमुपसंहरति यस्मादिति । तदेवं सोपाधिकाभिध्यानपरिपाकान्निरुपा-
धिकमनुसंदधानस्याद्वेष्टा सर्वभूतानामित्यादिधर्मविशिष्टस्य मुख्यस्याधिकारिणः श्रवणाद्यावर्तयतस्त-
स्वसाक्षात्कारसंभवात्ततो मुक्तयुपपत्तेस्तहेतुवाक्यार्थधीविषयोऽन्वययोग्यस्तत्पदार्थोऽनुसंधेय इति
सिद्धम् ॥ २० ॥ इत्यानन्दगिरिकतटीकायां द्वादशाध्यायः ॥ १२ ॥
प० टी० । अथोपसंहरन्नाह येत्विति । उक्तं धर्मसंबन्ध्यमृतं मोक्षसाधनत्वाद्यथोक्तं
यथावदुक्तं श्रद्दधाना श्रद्धावन्तो मत्परमा अहमेव परमो येषां ते तेऽतीव मे प्रियाः ॥ २० ॥
अथाध्यायतात्पर्य तु । नानाविक्षेपविग्नैरुपहतमनसालम्बशून्येन भयो ह्यव्यक्तोपास्तिमेके विद-
धति सुचिरं लौकिकाचार्यतान्ये । भक्ति योगेश्वराणामपि परमगुरौ कुर्वते स्वात्मलब्ध्यै तत्क्लेशे तार-
तम्यं विशदमभिहितं द्वादशाध्यायमध्ये ॥ १ ॥
इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां परमार्थप्रपायां भक्तियोगो नाम द्वादशोऽध्यायः ॥१२॥
इति द्वादशाध्यायः ॥ १२ ॥
त्रयोदशाध्यायः।
श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ॥
एतद् यो वेत्ति तं: प्राहुः क्षेत्रज्ञ इति तद्विदः॥१॥

३६२ श्रीमद्भगवद्गीता- सप्तमेऽध्याये सूचिते हे प्रकृती ईश्वरस्य त्रिगुणात्मिकाष्टधा भिनापरा संसारहेतुत्वात् परा चान्या जीवभूता क्षेत्रज्ञलक्षणेश्वरात्मिका याभ्यां प्रकृति- भ्यामीश्वरो जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृति- यनिरूपणहारेण तहत ईश्वरस्य तत्त्वनिर्धारणार्थ क्षेत्राध्याय आरभ्यते । अती- तानन्तराध्याये चाद्देष्टा सर्वभूतानामित्यादिना यावदध्यायपरिसमाप्ति तावत्तत्त्व- ज्ञानिनां संन्यासिनां निष्ठा यथा ते वर्तन्ते इत्येतदुक्तं, केन पुनस्ते तत्त्वज्ञानेन युक्ता यथोक्तधर्माचरणाद् भगवतः प्रिया भवन्तीत्येवमर्थश्वायमध्याय आरभ्यते, प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगा- पवर्गार्थकर्तव्यतया देहेन्द्रियायाकारण संह्रियते सोऽयं संघात इदं शरीरं त- देतद् भगवानुवाच इदमिति । इदमिति सर्वनाम्नोक्तं विशिनष्टि शरीरमिति । हे कौन्तेय क्षतत्राणात् क्षयात् क्षरणात् क्षेत्रवहास्मिन् कर्मफलनिवृत्तेः क्षेत्र- मितीतिशब्द एवंशब्दपदार्थकः क्षेत्रमित्येवमभिधीयते कथ्यते एतच्छरीरं क्षेत्रं यो वेत्ति विजानात्यापादतलमस्तकं ज्ञानेन विषयीकरोति स्वाभाविकेनौ- पदेशिकेन वा वेदनेन विषयीकरोति विभागशस्तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इतीतिशब्दः एवंशब्दपदार्थक एवं पूर्ववत् । क्षेत्रज्ञ इत्येवमाहुः । के तहिदस्तौ क्षेत्रक्षेत्रज्ञो ये विदन्ति तहिदः ॥ १ ॥ आ० टी० । प्रथममध्यमयोः षट्कयोस्त्वंतत्पदार्थावुक्तौ अन्तिमस्तु पट्को वाक्यानिष्ठः सम्यग्धीप्रधानोऽधुनारभ्यते तत्र क्षेत्राध्यायमन्तिमपटकाद्यमवतितारयिपुर्व्यवहितं वृत्तं कीर्तयति सप्तम इति । प्रकृतिद्वयस्य स्वातन्यं वारयति ईश्वरस्यति । भूमिरित्यादिनोक्ता सत्त्वादिरूपा प्रल- तिरपरेत्यत्र हेतुमाह संसारेति । इतस्त्वन्यामित्यादिनोक्तां प्रकृतिमनुक्रामति परा चेति । परत्वे हेतुं सूचयति ईश्वरात्मिकेति किमर्थमीश्वरस्यप्रकृतिद्वयमित्याशङ्कय कारणत्वार्थमित्याह याभ्यामिति । वृत्तमनूद्य वर्तिष्यमाणाध्यायारम्भप्रकारमाह तत्त्रेति । व्यवहितेन संबन्धमुक्त्वाऽव्यवहितेन तं वि- वक्षुरव्यवहितमनुवदति अतीतति । निष्ठोक्तति संबन्धः । निष्ठामेव व्याचष्ट यथेति । वतन्ते ध- मजातमनुतिष्ठन्ति तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तामति योजना । अव्यवहितमेवमनूद्य तेनोत्तरस्य संबन्धं संगिरते केनेति । तत्त्वज्ञानोक्तरुक्तार्थेन समुच्चयार्थश्चकारः । जीवानां सुखदुःखादिभेदभाजां प्रतिक्षेत्रं भिन्नानां नाक्षरेणैक्यमित्याशङ्कय संसारस्यात्मधर्मत्वं निराकृत्य संघातनिष्ठत्वं वक्तुं संघातो- त्पत्तिप्रकारमाह प्रकृतिश्चेति । भोगश्चापवर्गश्चार्थों तयोरेव कर्तव्यतयेति यावत् ! नन्वनन्तरश्लोके शरीरनिर्देशात् तस्योत्पत्तिर्वक्तव्या किमिति संघातस्योच्यते तत्राह सोऽयमिति । उक्तेऽर्थे भगवद्व- चनमवतारयति तदेतदिति । तत्र द्रष्टुत्वेन संघातदृश्यादन्यमात्मानं निर्दिशति इदमिति । उक्तं प्रत्यक्षदृश्यविशिष्टं किंचिादेति शेषः । शरीरस्यात्मनोऽन्यत्वं क्षेत्रनामनिरुतया ब्रते क्षतेति । क्षयो नाशः क्षरणमपक्षयः । यथा क्षेत्रे बीजमुप्तं फलति तद्वदित्याह क्षेत्रवद्वति । क्षेत्रपदादुपरि- स्थितामतिपदं क्षेत्रशब्दविषयमन्यथा वैयर्थ्यादित्याह इतिशब्द इति । क्षेत्रमित्येवमनेन क्षेत्र- । सेहन्यते संयुक्ता दृश्यते-पा० लि. पु० । इत्यय युक्तःपाठ:

त्रयोदशाध्यायः । शब्देनेत्यर्थः । दृश्यं देहमुक्त्वा ततोऽतिरिक्तं द्रष्टारमाह एतदिति । 'स्वाभाविकं मनुष्योऽहमिति ज्ञानमोपदेशिकं देही नात्मा दृश्यत्वादित्यादिविभागशः स्वतोऽतिरिकत्वेनेत्यर्थः । क्षेत्रमित्यत्रेतिश- ब्दवदत्रापीतिशब्दस्य क्षेत्रज्ञशब्दविषयत्वमाह इतिशब्द इति । क्षेत्रज्ञ इत्येवं क्षेत्रज्ञशब्देन तं प्राहुरिति संबन्धं प्रवक्ष्यन् प्रश्नपूर्वकमाह के इसादिना ॥ १ ॥ ५० टी० । पूर्वाध्याये सगुणनिगुणोपासनाभेदेन ब्रह्मप्राप्तावधिकारिद्वयमुक्तं तत्र क्रमेण मुक्तेः 'सुखसाध्यत्वं च दर्शितं तत्रापि सुखरूपसाधनवतः सगुणोपासकस्य धर्माः श्लोकाष्टकेनोपदिष्टाः । अथ क्लेशरूपसाधनवतो निर्गुणोपासकस्य बहुसामग्रीसाध्यतत्त्वज्ञानपूर्विका प्राप्तिरिति दर्शयितुं प्रथ- मतः क्षेत्रक्षेत्रज्ञयोः स्वरूपं भगवानुपदिशति इदमिति । इदं भोगायतनं शरीरं संसारतरुप्ररोहभू- मिकत्वात्क्षेत्रमित्यभिधीयते नामनिर्देशः क्रियते । अथ सामान्यतः क्षेत्रज्ञस्वरूपमाह एतदिति । एतत्क्षेत्रं यो वेत्ति जानाति तं क्षेत्रज्ञमिति तद्विदः प्राहुः । अनेन देहातिरिक्तः क्षेत्रज्ञः कश्चिदस्ती- ति मूचितम् । यतोऽन्वयव्यतिरेकाभ्यां देहस्य घटादिवज्जाड्यनिश्चयेन स्वकीयद्रतृत्वं 'न संभवति । मृतशरीरे दाहदुःखानभिज्ञत्वदर्शनात् । एवं यथा घटद्रष्टा घटाद्विन्नो भवति तथा देहद्रष्टापीत्यर्थः ॥ १ ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ॥ क्षेत्रक्षेत्रज्ञयोनिं यत्त ज्ञानं मतं मम ॥२॥ एवं क्षेत्रक्षेत्रज्ञावुक्तौ किमेतावन्मात्रेण ज्ञानेन ज्ञातव्याविति नेत्युच्यते क्षेत्रज्ञमिति । क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरमसंसारिणं विद्धि जानीहि योऽसौ सर्वक्षेत्रेष्वेकः क्षेत्रज्ञो ब्रह्मादिस्तम्बपर्यन्तानकक्षेत्रोपाधिप्रविभक्तस्तं नि- रस्तसोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धीत्यभिप्रायः। हे भारत य- स्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरमन्यदवशिष्टमस्ति त- स्मात् क्षेत्रक्षेत्रज्ञयोज्ञेयभूतयोर्यज् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयी क्रियेते तज् ज्ञानं सम्यग्ज्ञानमिति मतमभिप्रेतमित्यभिप्रायो ममेश्वरस्य विष्णोः । ननु सर्वक्षेत्रेष्वेक एव ईश्वरो नान्यस्तयतिरिक्तो भोक्ता विद्यते चेत्तत ईश्व- आ० टी० । दृश्यानां दुःखादीनां भेदकानां यावद्देहभाविनामनात्मधर्मत्वासिद्धये द्रष्टारं दे- हादन्यमुक्त्वा सांख्यानामिव तावन्मात्रेण मुक्तिनिवृत्तये तस्य सर्वदेहेप्वक्येक्तिपूर्वकं स्वेन परमार्थे- नाक्षरेणैक्यं वृत्तमनृद्य प्रश्नद्वारा दर्शयति एवमित्यादिना । यथोक्तलक्षणं दृश्याद्देहान्निकृष्टं द्रष्टा- रमित्यर्थः, चापीतिनिपाती जीवस्याक्षरत्वज्ञानस्य देहादन्यत्वज्ञानेन समुच्चयार्थी भिन्नक्रमौ न क्षे- त्रज्ञं सांख्यवंद् दृश्यादन्यदेव विद्धि किं तु मां चापि विद्वीति संबध्यते । यः सर्वक्षेत्रेप्वेकः क्षेत्रज्ञस्तं मामेव विद्वीति संवन्धं सूचयति सर्वेति । स्तत्तत्क्षेत्रोपाधिकभेदभाजस्तत्तच्छब्दधीगोचरस्य कथं तद्विपरीतब्रह्मत्वधीरित्याशङ्कयाह ब्रह्मादीति । उत्तरार्ध विभजते यस्मादिति । तदेव विशिनष्टि क्षेत्रेति । न च भेदविषयत्वान्न सम्यग्ज्ञानं तदिति युक्तं तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मो- क्षौपयिकत्वेन सम्यक्त्वसिद्विरिति भावः । जीवेश्वरयोरेकत्वमुक्तमाक्षिपति नन्विति । जीवेश्वरयोरे- कत्वे जीवस्येश्वरे वा तस्य जीवे वान्तर्भावो नाद्यो जीवस्य परस्मादन्यस्याभावे संसारस्य निराल- म्बनत्वानुपपत्त्या परस्यैव तदाश्रयत्वप्रसङ्गादित्यर्थः । “अनश्नन्नन्यो अभिचाकशीति" इति श्रुतेन तस्य संसारितेत्याशक्य द्वितीयं दूषयति ईश्वरेति । जीवे चेदीश्वरोऽन्तर्भवति तदापि ततोऽन्यसंसार्यभा- - ३६४ श्रीमद्भगवद्गीता- रस्य संसारित्वं प्राप्तमीश्वरव्यतिरेकेण वा संसारिणोऽन्यस्याभावात् संसाराभा- वप्रसस्तच्चोभयमनिष्ट' बन्धमोक्षतहेतुशास्त्रानर्थक्यप्रसङ्गात् ' प्रत्यक्षादिप्रमाण- विरोधाच्च, प्रत्यक्षेण तावत् सुखदुःखत तुलक्षणः संसार उपलभ्यते'जगद्दचि- श्योपलब्धेश्व धर्माधर्मनिमित्तः संसारोऽनुमीयते' सर्वमेतदनुपपन्नमात्मेश्वरैकत्वेन' ज्ञानाज्ञानयोरन्यत्वेनोपपत्तेः, दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञानाज्ञाने' तथा च तयोविद्याविद्याविषययोः फलभेदोऽपि विरुद्धो निर्दिष्टः। 'श्रेयश्च प्रेयश्चेति विद्याविषयः श्रेयः प्रेयस्त्वविद्याकार्यमिति, तथा च व्यासः 'हाविमावथ पन्थानी' इत्यादि, इमौ हावेव पन्थानावित्यादि चेह च हे निष्ठे उक्ते 'अविद्या च सह कार्येण विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽव- गम्यते, श्रुतयस्तावद् इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिस्तमेवं विहानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय, आनन्दं ब- ह्मणो विहान विभेति कुतश्चन, अविदुषस्त्वथ तस्य भयं भवय॑विद्यायामन्तरे वात्तस्य च संसारानिष्टः संसारो जगत्यस्तं गच्छदित्यर्थः । प्रसङ्गहयस्येष्टत्वं निराचष्टे तच्चेति । संसाराभावे तयोरन्यः पिप्पलं स्वाहत्तीत्यादिनिबन्धशास्त्रस्य तन्द्रे तुकर्मविषयकर्मकाण्डस्य चानर्थक्य- मीश्वराश्रिते च संसारे तदभोक्तृत्वश्रुतेानकाण्डस्य मोक्षत तुज्ञानार्थस्यानर्थक्यमतो न प्रसङ्ग- योरिष्टतेत्यर्थः । संसाराभावप्रमङ्गस्यानिष्टत्वे हेत्वन्तरमाह प्रसक्षादीति । तत्र प्रत्यक्षविरोध प्रकट- यति प्रत्यक्षेणेति। आदिशब्दोपात्तमनुमानविरोधमाह जगदिति। विमतं विचित्रहेतुकं विचित्रकार्य- त्वात् प्रासादादिवदित्यर्थः । प्रत्यक्षानुमानागमविरोधादयुक्तमैक्यमित्युपसंहरति सर्वमिति । एक्येऽपि संसारित्वमविद्यातो विद्यातोऽसंसारित्वमिति विभागान्नानुपपत्तिरित्युत्तरमाह नेयादिना। तयोः स्वरूपतो विलक्षणत्वे श्रुतिमाह दरमिति । अविद्या या च विद्येति प्रसिद्धे एते विद्याविद्ये दूरं वि- परीते अत्यन्तविरुद्धे इत्यर्थः । विषची नानागती भिन्नफले इत्यर्थः । स्वरूपता विरोधवत् फलतोऽ- पि सोऽस्तीत्याह तथेति । फलभेदोक्तिमेव व्यनक्ति विद्येति । तयोडैिधाविलक्षणत्वे वेदव्यासस्यापि संमतिमाह तथा चेति । उक्तेऽर्थे भगवतोऽपि संमतिमुदाहरति इह चेति । द्वयोरपि निष्ठयोस्तु- ल्यमुपादेयत्वमिति शङ्का शातयति अविद्या चेति । अविद्या सकार्या हातव्येत्यत्र श्रुतीरुदाहरति श्रुतयस्तावदिति । इहेति जीवदवस्थोच्यते, चेच्छब्दोऽविद्योदयदीर्लभ्यद्योती, अवेदीदहं ब्रह्मेति विदितवानित्यर्थः । अथ विद्यानन्तरमेव सत्यमवितथं पुनरावृत्तिवर्जितं कैवल्यं स्यादित्याहं अथेति । अविद्याविषयेऽपि श्रुतिमाह न चेदिति । जन्ममरणादिरूपा संमृतिविनष्टिस्तस्या महत्त्वं सम्यगज्ञानं विना निवतीयेतुमशक्यत्वम् । विद्याविषये श्रुत्यन्तरमाह तमेवमिति । परमात्मानं प्रत्यक्त्वेन यः सा- क्षात्कृतवान् स देहे जीवन्नेव मुक्तो भवतीत्यर्थः । विद्यां विनापि हेत्वन्तरतो मुक्तिमाशङ्कयाह नेति। भयहेतुमविद्यां निराकुर्वती तज्जं भयमपि निरस्यति विद्वान् इति । अत्र वाक्यान्तरमाह विद्वानिति अविद्याविपये वाक्यान्तरमाह अविदुष इति । प्रतीच्यकरसे स्वल्पमिति भेदं मन्यमानस्य भेदह. १ तस्य समागनिष्टोप्योते-पा० लि. पु० ।

त्रयोदशाध्यायः। ३६५ वर्तमाना, ब्रह्म वेद ब्रह्मैव भवति, अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानामात्मविद्यः स इदं सर्व भवति यदा चर्मवद् ” इत्याद्याः सहस्रशः । स्मृतयश्च 'अज्ञानेनाटतं ज्ञानं तेन मुह्यन्ति जन्तवः' 'इहैव तैर्जितः सो येषां साम्ये स्थितं मनः, समं पश्यन् हि सर्वत्र' इत्याद्याः । न्यायतश्च सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति । अज्ञानतस्तत्र पतन्ति केचिज् ज्ञाने फलं पश्य यथा विशिष्टम् । तथा च देहादिष्वनात्म्य बुद्धिरविहान् रागद्देषादियुक्तो धर्माधर्मानुष्ठानकज् जायते म्रियते चेत्यवगम्यते देहादिव्यतिरिक्तात्मदर्शिनो रागद्देषादिप्रहाणापेक्षया धर्माधर्मप्रवृत्त्युपशमान्मु- च्यन्त इति न केन चित् प्रत्याख्यातुं शक्यं न्यायतस्तत्रैवं सति क्षेत्रज्ञस्येश्वर- स्यैव सतोऽविद्याकृतोपाधिभेदतः संसारित्वमिव भवति यथा देहायात्मत्वमा- टयनन्तरमेव संसार ध्रौव्यमित्यर्थः । तत्रैव श्रुत्यन्तरमाह अविद्यायामिति । तन्मध्ये तत्परवशतया स्थि तास्तु तमजानन्तो देहाद्यभिमानवन्तो मूढाः संसरन्तीत्यर्थः । विद्याविषये श्रुत्यन्तरमाह ब्रह्मेति । अविद्याविषये श्रुत्यन्तरमाह अन्योऽसाविति । भेददृष्टिमनद्य तन्निदानमविद्येत्याह नेति । स च मनुष्याणां पशुवद्देवादीनां प्रेप्यतां प्राप्नोतीत्याह यथेति । विद्याविषये वाक्यान्तरमाह आत्मवि- दिति । इदं सर्व प्रत्याभूतं पूर्ण ब्रह्मेत्यर्थः । ज्ञानादेव तु कैवल्यमित्यत्र श्रुत्यन्तरमाह यदति । न खल्वाकाशं चर्मवन्मानवो वष्टयितुमीष्ट तथा परमात्माप्रत्यक्त्वेनानुभूय न मुच्यते इत्यर्थः, आ- दिशब्देनानुक्ताविद्याविद्याफलभंदार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति सहस्रश इति । विद्याविद्याविषये स्मृतीरुदाहरति स्मृतयश्चेति । तत्रविद्याविषयं वाक्यमाह अज्ञानेनेति । विद्याविषयं वाक्यद्वयं दर्शयति इहेयादिना । विद्याफलमनर्थव्वस्तिरविद्याफलमनाप्तिरित्येतदन्व- यव्यतिरेकाख्यन्यायादपि मिध्यतीत्याह न्यायतश्चेति । तत्रैव पराणसंमतिमाह सोनिति । उद- पानं कृपं, यथात्मज्ञान विशिष्टं फलं स्यात्तथा पश्यति योजना । न्यायतश्चेत्यन्वयव्यतिरेकाख्य- न्यायमुक्तं विवृणोति तथा चेति । तत्रादावन्वयमाचष्ट देहादिष्विति । अनाद्यनिर्वाच्याविद्यावृत- श्चिदात्मा देहादावनात्मन्यात्मबुद्धिमादधाति तयुक्तो रागादिना प्रर्यते तत्प्रयुक्तश्च कर्मानुतिष्ठति तत्कर्ता च यथाकर्म नृतनं देहमादत्ते पुरातनं त्यजतीत्यवमविद्यावत्त्वे संसारित्वं सिद्धामित्यर्थः । व्य- तिरेकमिदानी दर्शयति देहादीति । श्रुतियुक्तिभ्यां भेदे ज्ञान रागादिध्वस्त्या कोपरमादशेषसंसा- रासिद्धिरित्यविद्याराहित्ये बन्धध्वस्तिरित्यर्थः । उक्तान्वयादेरन्यथासिद्धिं शिथिलयति इति नेति । उक्तमन्वयादिवादिना केनचिदपि कायतो न शक्यं प्रत्याख्यातुं तदन्यथासिद्विसाधकाभावादित्यर्थः । अन्वयादेरनन्यथामिद्धत्वे चोद्यमपि प्राचीनं प्रति नीतमित्याह तत्रेति । ज्ञानाज्ञानयोरुक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयारैक्येऽपि बुद्दयाद्युपाधिभेदादाविद्यकमात्मनः सं- सारित्वमाभासरूपं प्रातिभासिकं सिध्यतीत्यर्थः । आत्मनो ब्रह्मता स्वतश्चेदहमित्यात्मभावेन ब्रह्म- तापि भावादित्याशङ्कयाह यथेति । देहाद्यतिरिक्तस्यात्मनो वैदिकपक्षे स्वतस्त्वेऽपि तस्मिन्नहमिति भात्येव तदतिरिक्तत्वं न भाति किं त्वविद्यातो देहाद्यात्मत्वमेव विपरीतं भासते तथात्मनो ब्रह्मत्वे स्वाभाविकेऽपि तस्मिन् ब्रह्मत्वं न भात्यविद्यातोऽब्रह्मत्वमेव तस्य भातीत्यर्थः । आत्मनो देहाद्या- त्मत्वमाविद्यकं भातीत्युक्तमनुभवेन स्पष्टयति सर्वेति । अतस्मिंस्तद्बुद्धिरविद्यासतेत्यत्र दृष्टान्त- माह यथेति । पुरस्थिते वस्तुनि वस्तुतः स्थाणावविद्यया पुमानिति निश्चयो जायते तथा देहा- श्रीमद्भगवद्गीता- त्मनः'सर्वजन्तूनां हि प्रसिद्धो देहादिष्वनात्मस्वात्मभावो निश्चितोऽविद्याकतो' यथा स्थाणौ पुरुषनिश्चयो न चैतावता पुरुषधर्मः स्थाणौ भवति स्थाणुधर्मो वा पुरुषस्य तथा न चैतन्य धर्मो देहस्य देहधर्मो वा चैतन्यस्य, एवं सुखदुः- खमोहात्मकत्वादिरात्मनो न युक्तोऽविद्याकृतत्वाविशेषाजरामृत्युवनातुल्यत्वा- दिति चेत्, स्थाणुपुरुषो ज्ञेयावेव सन्तौ ज्ञात्रान्योन्यस्मिन्नध्यस्तावविद्यया दे- हात्मनोस्तु क्षेयज्ञात्रोरेवेतरतराध्याप्त इति न समो दृष्टान्तोऽतो देहधर्मो ज्ञेयोऽ पि ज्ञातुरात्मनो भवतीति चेनचितन्यादिप्रसंगार्यदि हि ज्ञेयस्य देहादेः क्षे- अस्य धर्माः सुखदुःखमोहेच्छादयोऽपि केन ज्ञातुरात्मनो भवन्त्यविद्याध्या- पिता जरामरणाद्यास्तु न भवन्तीति विशेपहेतुर्वक्तव्यो'न भवन्तीत्यस्त्यनुमा- नमविद्याध्यारोपितत्वाज्जरादिवदिति' हेयत्वादुपादेयत्वाच्चेत्यादि' तत्रैवसति कर्तृत्वभोक्तत्वलक्षणः संसारो ज्ञेयस्थो ज्ञातर्यविद्ययाध्यारोपित इति न तेन ज्ञातुः किंचिद् दुष्यति' यथा बालरध्यारोपितेनाकाशस्य तलमलवत्त्वादिना, एवं च सति सर्वक्षेत्रेष्वपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्वं गन्धमात्र- मपि नाशङ्कयं' न हि कचिदपि लोकेऽविद्याध्यस्तेन धर्मेण कस्यचिदुप- दावनात्मन्यात्मधीरविद्यातो निश्चितेत्यर्थः । देहात्मनोरैक्यज्ञाने देहधर्मस्य जरादेरात्मन्यात्मधर्मस्य च चैतन्यस्य देहेऽपि नियमः स्यादित्याशङ्कयाह न चेति । स्थाणौ पुरुषत्वं भ्रान्त्या भातीत्येतावता पुरुषधर्मः शिरःपाण्यादिर्न स्थाणोर्भवति तद्धर्मों वा ऋज्वादिर्न पुंसो दृश्यते मिथ्याध्यस्ततादात्म्या- द्वस्तुतो धर्माव्यतिकरादिति । दृष्टान्तमुक्त्वा दार्टान्तिकमाह तथेति । जरादेरनात्मधर्मत्वेऽपि सुखा- देरात्मधर्मत्वमिति केचित्तान् प्रत्याह सुखेति । कामसंकल्पादिश्रुतेरनात्मधर्मत्वज्ञानादित्यर्थः । किं च विमतोनात्मधर्मोऽविद्याकृतत्वाज्जरादिवन्न च हेत्वसिद्धिरतस्मिस्तद्बुद्धिविषयत्वेन स्थाणौ पुरुषत्व- वदविद्याकृतत्वस्योक्तत्वादिति मत्त्वाह अविद्येति । स्थाणौ पुरुषत्ववदाविद्यत्वं देहादेरयुक्तं दृष्टान्त- दार्टान्तिकयोवैषम्यादिति शङ्कते नेति । तदेव प्रपश्चयति स्थाण्वियादिना । ज्ञेयस्य ज्ञेयान्तरे- ऽध्यासादत्र चोभयो यत्वव्यापकव्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिरित्यर्थः । देहात्मबुद्धेर्ध- मत्वाभावे फलितमाह अत इति । उपाधिधर्माणां सुखादीनां उपहिते जीवे वस्तुत्वमयुक्तमतिप्रस- ङ्गादिति परिहरति नेत्यादिना । अतिप्रसङ्गमेव प्रकटयति यदीति । सुखादीनामात्मधर्मत्वं चेदु- पाधिधर्मत्वादचैतन्यं जरादिकं चात्मनो दुर्वारं स्यादित्यर्थः । सुखादिरात्मधर्मो नेति पक्षेऽपि नास्ति विशेषहेतुरित्याशङ्कयाह नेति । तदेवानुमानं स्मारयति अविद्यति । विमतं नात्मधर्मः आगमा- पायित्वात् संमतवदित्यनुमानान्तरमाह हेयत्वादिति । आदिशब्दाद् दृश्यत्वजडत्वादि गृह्यते । सुखादीनां जरादिवदात्मधर्मत्वाभावे तस्य वस्तुतोऽसंसारित्वे फलितमाह तत्रेति । आरोपितेनाधिष्ठा- नस्य वस्तुतोऽस्पर्शे दृष्टान्तमाह यथेति । पराभिन्नस्यात्मनः संसारित्वमध्यस्तमिति स्थिते यत् पर- स्य संसारित्वापादनं तदयुक्तमित्याह एवंचेति । आत्मनि संसारस्यारोपितत्वात्तदभिन्ने परस्मिन्नाश- दैव तस्यायुक्तेत्येतदुपपादयति न हीति । स्थाणौ पुरुषनिश्चयवदात्मनो देहाद्यात्मत्वनिश्चयस्याध्यस्तते- संसारवत्-पा० क्वचित् ।

त्रयोदशाध्यायः। कारोऽपकारो वा दृष्टो, यत्तुक्तं न समो दृष्टान्त इति तदसत् कथमविद्याध्यास- मात्रं हि दृष्टान्तदाष्टान्तिकयोः साधर्म्य विवक्षितं' तन व्यभिचरति, यत्तु ज्ञातरि व्यभिचरतीति मन्यसे तस्याप्यनैकान्तिकत्वं दर्शितं 'जरादिभिरविद्याव- त्वात् क्षेत्रज्ञस्य संसारित्वमिति चेन, अविद्यायास्तामसत्वात्तामसो हि प्रत्यय आवरणात्मकत्वादविद्याविपरीतग्राहकः संशयोपस्थापको वाग्रहणात्मको वा' विवेकप्रकाशभावे तदभावात्तामसे चावरणात्मके तिमिरादिदोषे सत्यग्रहणादे- रविद्यात्रयस्योपलब्धेः 'अत्राहैवं तर्हि ज्ञातृधर्मोऽविद्या न' करणे चक्षुषि तैमिर- कत्वादिदोपोपलब्धेर्यत्तु मन्यसे धर्मोऽविद्या तदेव चाविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वं तत्र यदुक्तमीश्वर एवं क्षेत्रज्ञो न संसारीत्येतदयुक्तमिति तन्न' यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनान विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वादिदोषो ग्रहीतुश्चक्षुषः संस्कारेण तिमिरेऽपनीते ग्रही- : त्ययुक्तम्। दृष्टान्तस्य ज्ञेयमात्रविषयत्वादितरस्य ज्ञेयज्ञातृविषयत्वादित्युक्तमनुवदति यत्त्विति । वै- म्यं दूपयति तदसदिति। तर्हि केन सममिति पृच्छति कथमिति। अभीष्टसाधर्म्य दर्शयति अविद्येति । तस्योभयत्रानुगतिमाह तन्नेति । ज्ञेयान्तरे ज्ञेयस्यारोपनियमाञ् ज्ञातरि नारोपः स्यादित्याशङ्कयाह यत्तिति । नायं नियमो ज्ञातरि जराद्यारोपस्योक्तत्वादित्याह तस्यापीति । ज्ञेयस्यैव ज्ञेयान्तरेऽध्यास- नियमस्येति यावद् अतो ज्ञातरि नारोपव्यभिचारशद्वेत्यर्थः। आत्मन्यविद्याध्यासे तत्राविद्यायाः स्वाभावि- कत्वात्तदधीनत्वं संसारित्वमपि तथा स्यादिति शङ्कत अविद्यावत्त्वादिति । काविद्याविपरीतग्रहादिर्वा- नाद्यनिर्वाच्याज्ञानं वा, नाद्यो विपरीतग्रहादस्तमःशब्दितानिर्वाच्याज्ञानकार्यत्वात्तन्निष्ठस्यात्म- धर्मयोगादित्याह नेसादिना । तदेव प्रपञ्चयति तामसो हीति । आवरणात्मकत्वं वस्तुनि सम्यक् प्र. काशप्रतिबन्धकत्वं विपरीतग्रहणादेरविद्याकार्यत्वं विद्यापोहत्वेन साधयति विवेकेति । न च कारणा- विद्यानाद्यनिर्वाच्यात्मधर्मः स्यादिति युक्तमनिर्वाच्यत्वादेव तस्यास्तद्धर्मत्वस्य दुर्वचत्वादिति भावः । किंच विपरीतग्रहादेरन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि नात्मधर्मतत्याह तामसे चेति । तमः- शब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकस्तिमिरकाचादिदोषस्तस्मिन् सत्यज्ञानं मिथ्याधीः संशयश्चेति, त्रयस्योपलम्भादसति तस्मिन्न प्रतीतेरन्वयव्यतिरेकाम्यां विपरीतज्ञानादेदोषाधीनत्वाधिगमान्न केवला- त्मधर्मतेत्यर्थः । दोषस्य निमित्तत्वाद् भावकार्यस्योपादाननियमादनिर्वाच्याविद्यायाश्चासंमतेरात्मैव विपर्ययादेरुपादानमिति चोदयति अत्राहेति । विपरीतग्रहादेदोषोत्थत्वं सप्तम्यर्थः । अग्रहादित्रि- तयमविपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गान्नात्मा तदुपादानं किंतु दोषस्य चक्षुरादिधर्मकत्वग्रह- णादग्रहणादेरपि दोषत्वात् करणधर्मत्वं करणमाविद्योत्थमन्तःकरणं न च तद्धेतुरविद्या सिद्देति वा- च्यमज्ञोऽहमित्यनुभवात् स्वापे च परामर्शात्तदवगमात् कार्यलिङ्गकानुमानादागमाञ्च तत्प्रसिद्धेरिति- परिहरति नेसादिना । संग्रहीतुं चोद्यपरिहारयोश्चोद्यं विवृणोति यत्त्विति । अविद्यावत्त्वेऽपि ज्ञातु- रसंसारित्वादुट्यातदन्तोरसवदविद्या किं करिष्यतीत्याशङ्कयाह तदेवेति।मिथ्याज्ञानादित्वमेवात्मनः संसा- रित्वमिति स्थिते फलितमाह तत्रेति। न करेणैव चक्षुषीत्यादिनोक्तमेव परिहारं प्रपश्चयति तन्नेसादिना। तिमिरादिदोषस्तकृतो विपरीतग्रहादिश्च न ग्रहीतुरात्मनोऽस्तीत्यत्र हेतुमाह चक्षुष इति । तद्गते- नाश्चनादिसंस्कारेण तिमिरादौ पराकते देवदत्तस्य ग्रहीतुर्दोषाद्यनुपलम्भान्न तस्य तद्धर्मत्वमतो विमतं श्रीमद्भगवद्गीता- तुरदर्शनाम्न ग्रहीतुर्धर्मों यथा तथा सर्ववैवाग्रहणविपरीतसंशयप्रत्ययास्तन्निमि- त्ताः करणस्येव कस्य चिद् भवितुमर्हन्ति न ज्ञातुः क्षेत्रज्ञस्य 'संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवन ज्ञातृधर्मत्वं'संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वं 'सर्वकरण- वियोगे च कैवल्ये सर्वबादिभिरविद्यादिदोषवत्त्वानभ्युपगमादात्मनो यदि क्षेत्रज्ञस्याग्गुष्णवत् स्वो धर्मस्ततो न कदाचिदपि तेन वियोगः स्यादविक्रियस्य च व्योमवत् सर्वगतस्यामर्त्यस्यात्मनः केनचित् संयोगवियोगानुपपत्तेः 'सिद्ध क्षेत्रज्ञस्य नित्यमेवेश्वरत्वमनादित्वान्निर्गुणत्वादित्यादीश्वरवचनाच्च । नन्वेवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति'न'सर्वैरभ्युपगतत्वात् सवैयात्मवादिभिरभ्युपगतो दोपो नैकेन परिहर्तव्यो भवति, कथमभ्युपगत इति मुक्तात्मनां संसारसंसारित्वव्यवहाराभावः सर्वैरेवात्मवादिभिरिष्यतेन च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिरभ्युपगता 'तथा नः क्षेत्रज्ञानामीश्वरैकत्वे सति शास्त्रानर्थक्यं भवत्वविद्याविषये चार्थवत्त्वं यथा ईतिनां सर्वेषां बन्धावस्थाया- मेव शास्त्राद्यर्थवत्त्वं न मुक्तावस्थायामेवमदैनवादिनामपि'नन्वात्मनो बन्धमुक्ता- तत्त्वतो नात्मधर्मों दोषत्वात्तत्कार्यत्वाहा संमतवदित्यर्थः । किंच विपरीतग्रहादिस्तत्त्वतो नात्मधर्मो वेद्यत्वात् संप्रतिपन्नवदित्याह संवेद्यत्वानेति । किंच यद्वेद्यं तत् स्वातिरिक्तवेद्यं यथा दीपादीति व्याप्तेविपरीतग्रहादीनामपि वेद्यत्वादतिरिक्तवेद्यत्वे संवेदिता न संवेद्यधर्मवान्वेदि- तृत्वाद्यथा देवदत्तो न स्वसंवेद्यरूपादिमानित्यनुमानान्तरमाह संवेद्यत्वादेवेति । किंत्र विपरीत- ग्रहादयस्तत्त्वतो नात्मधर्मा व्यभिचारित्वात् कृशत्वादिवदित्याह मवेति । उक्तमेव विवृण्वन्नात्मनो विपरीतग्रहादिः स्वाभाविको वागन्तुको वति विकल्प्याद्यं दूषयति आत्मन इति । अतो निर्मोक्षोऽवि- द्यातज्जध्वस्तेरसद्भावादिति भावः । आगन्तुकोऽपि स्वतश्चेदमुक्तिः परतश्चेत्तत्राह अविक्रियस्येति । विभुत्वादविक्रियत्वादमूर्तत्वाच्चात्मा व्योमवन्न केनचित् संयोगविभागावनुभवति न हि विक्रियाभावे व्याम्नि वस्तुतः संयोगविभागावसङ्गत्वाच्चात्मनस्तदसंयोगान्न परतोऽप्येतस्मिन्विपरीतग्रहादित्यर्थः । तस्यात्मधर्मत्वाभावे फलितमाह सिद्धमिति । आत्मनो निर्धर्मकत्वे भगवदनुमतिमाह अनादित्वा- दिति । इश्वरत्वे सत्यात्मनोऽसमारित्वं विधिशास्त्रस्याध्यक्षादश्चानर्थक्यात्तात्त्विकमेव तस्य संसारित्व- मिति शङ्कते नन्विति । विद्यावस्थायां वा शास्त्रानर्थक्यमिति विकल्प्याद्यं प्रत्याह सबैरिति । विदुषो मुक्तस्य संसारतदाधारत्वयोरभावस्य सर्ववादिसंमतत्वात्तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयमित्यर्थः । संग्रहवाक्यं विवृणोति सर्वैरिति । अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायमाह कथमिसादिना । तर्हि मुक्तान् प्रति विधिशास्त्रस्याध्यक्षादेशानर्थक्यमित्याशङ्कयाह न चेति । न हि व्यवहारातीतेषु तेषु गुणदोषाशङ्केत्यर्थः। द्वैतिनां मते मुक्तात्मस्विवास्मत्पक्षेऽपि क्षेत्रज्ञस्येश्वरत्वे तं प्रति च शास्त्राद्यानर्थक्यं विद्यावस्थायामास्थितमिति फलितमाह तथेति । द्वितीयं दूषयति अ- विद्येति । तदेव दृष्टान्तेन विवृणोति यथेति । एवमद्वैतिनामपि विद्योदयात् प्रागर्थवत्त्वं शास्त्रादे- रिति शेषः । द्वैतिभिरद्वैतिनां न साम्यमिति शङ्कते नन्विति । अवस्थयोवस्तुत्वे तन्मते शास्त्राद्य- १ प्रत्यक्षादेः--पा० कचित् ।

त्रयोदशाध्यायः । ३६९ वस्थे परमार्थत एव वस्तुभूते हैतिनां नः सर्वेषामतो हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यादतिनां पुन,तस्यापरमार्थत्वादविद्याकृतत्वाइन्धावस्था- याश्चात्मनो परमार्थत्वे निर्विषयत्वाच्छास्त्रायानर्थक्यामिति चेलात्मनोऽवस्थाभे- दानुपपत्तेः यदि तावदात्मनो बन्धमुक्तावस्थे,युगपत् स्यातां क्रमेण वा, युगप- तावहिरोधान संभवतः स्थितिगती इवैकस्मिन् क्रमभावित्वे च निर्निमित्तत्वे ऽनिर्मोक्षप्रसंगोऽन्यनिमित्तत्वे च स्वतोऽभावादपरमार्थत्वप्रसंगस्तथा च सत्य- भ्युपगमहानिः, किं च बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्व प्रकल्प्यानादिमत्यन्तवती च तच्च सर्वप्रमाणविरुद्धं तथा मोक्षावस्था दिम- त्यनन्तवती च तावत् प्रमाणविरुद्धवाभ्युपगम्यते, न चावस्थावतोऽवस्थान्तरं गच्छतो नित्यत्वमुपपादयितुं शक्यमथानित्यत्वदोषपरिहाराय बन्धमुक्ताव- स्थाभेदो न कल्प्यते ईतिनामपि शास्त्रानर्थक्यदोषोऽपरिहार्य एवेति समान- त्वान्नाईतवादिना परिहर्तव्यो दोप,न च शास्त्रानर्थक्यं यथा प्रसिद्धाविहत्पुरुषविए- यत्वाच्छास्त्रस्या विदुषां हि फलहेत्वोरनात्मनोरात्मदर्शनं न बिदुपां विदुपां हि फल- र्थवत्त्वे फलितमाह अत इति । सिद्धान्ते तु नावस्थयोर्वस्तुतेति वैषम्यमाह अद्वैतिनामिति । व्यावहा- रिकं द्वैत तत्तन्मतेऽपि स्वीकृतमित्याशङ्कचाह अविद्येति । कल्पितद्वैतेन व्यवहारान्न तस्य वस्तुते- त्यर्थः । बन्धावस्थाया वस्तुत्वाभावे दोपान्तरमाह बन्धेति । आत्मनस्तत्त्वतोऽवस्थाभेदो ईतिनामपि नास्तीति परिहरति नेति । अनुपपत्ति दर्शयितुं विकल्पयति यदीति । तत्राद्यं दूषयति युगप- दिति । द्वितीयेऽपि क्रमभाविन्योरवस्थयोनिनिमित्तत्वं सनिमित्तत्वं वेति विकल्प्याद्ये सदा प्रसङ्गा- द्वन्धमोक्षयोरव्यवस्था स्यादित्याह कमेति । कल्पान्तरं निरस्यति अन्यति । बन्धमोक्षावस्थे न पर- माथै अस्वाभाविकत्वात् स्फटिकलौहित्यवदिति स्थिते फलितमाह तथा चेति । अवस्थयोर्वस्तुतत्त्वो- पगमादित्यर्थः । इतश्चावस्थयोर्न वस्तुत्वमित्याह किं चेति । अवस्थयोर्वस्तुत्वमिच्छता तयोर्योगपद्या- योगाद्वाच्ये क्रमे बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्त्यमिति स्थिते बन्धस्यादित्वकृतं दोपमाह बन्धेति । तस्याश्चाळताभ्यागमतविनाशनिवृत्तयेऽनादित्वमेष्टव्यमन्तवत्त्वं च मुत्यर्थमास्थेयं तच्च यदनादिभा- वरूपं तन्नित्यं यथात्मेति व्याप्तिविरुदमित्यर्थः । मोक्षस्य पाश्चात्त्यतं दोपमाह तथेति । सा हि ज्ञानादिसाध्यत्वादादिमती पुनरावृत्त्यनङ्गीकारादनन्ता च तच्च यत्सादिभावं रूपं तदन्तवद्यथा पटा- दीति व्याप्त्य॒न्तरविरुद्धमित्यर्थः । किं च क्रमभाविनीभ्यामवस्थाभ्यामात्मा संबध्यते न वा, प्रथमे पूर्वा- वस्थया सहैवोत्तरावस्थां गच्छति चेदुत्तरावस्थायामपि पूर्वावस्थावस्थानादनिर्मोक्षः, यदि पूर्वावस्था त्यक्त्वोत्तरावस्थां गच्छति तदा पूर्वत्यागोत्तराप्त्योरात्मनः सातिशयत्वान्नित्यत्वानुपपत्तिरित्याह न चेति । आत्मनोऽवस्थाद्वयसंबन्धो नास्तीति द्वितीयमनद्य दृपयति अर्थयादिना । तर्हि पक्षद्वयेऽपि दो- पावशेषान्नाद्वैतमतानुरागे हेतुरित्याशङ्कयाविद्याविषये चेत्युक्तं विवृणोति न चेति । तदेव स्फुटय- ति अविदुपां हीति । फलं भोकृत्वं कर्तृत्वे हेतुः, यहा फलं देहविशंपो हेतुरदृष्टं तयारनात्मनो भोक्ताहं कर्ताहं मनुष्योऽहमित्यादावात्मदर्शनमधिकारकं तेनाविद्वद्विषयं विधिनिषेधशास्त्रमित्यर्थः । विदुषामपि मनुष्योऽहमित्यादिव्यवहारात्तद्विपयं शास्त्रं किं न स्यादित्याशङ्कयाह नेति । भोक्तृत्व- कर्तृत्वाभ्यां ब्रह्मण्यादिमतो देहधर्माभ्यां चात्मनोऽन्यत्वं पश्यतो न विधिनिषेधाधिकारित्वमुक्तफला- श्रीमद्भगवद्गीता- हेतुभ्यामात्मनोऽन्यत्वदर्शने सति तयोरहमित्यात्मदर्शनानुपपत्तेः, न ह्यत्यन्तमूढ उन्मत्तादिरपि जलाग्न्योश्छायाप्रकाशयो(कात्म्यं पश्यति किमुत विवेकी'तस्मान्न विधिप्रतिषेधशास्त्रं तावत् फलहेतुभ्यामात्मनोऽन्यत्वदर्शिनो भवति'नाहि देवदत्त त्वमिदं कुर्विति कस्मिंश्चित् कर्मणि नियुक्त विष्णुमित्रोऽहं नियुक्त इति तत्रस्थो नियोगं श्रृण्वनपि प्रतिपद्यते 'नियोगविषयविवेकाग्रहणातूपपद्यते प्रतिपत्तिस्तथा फलहेत्वोरपि। ननु प्रारुतसंबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषया फलहेतु- भ्यामन्यात्मत्वदर्शनेऽपि सतीष्टफलहेतोः प्रवर्तितोऽस्म्यनिष्टफलहेतोश्च निवर्तितो- ऽस्मीति यथा पितृपुत्रादीनामितरेतरात्मान्यत्वदर्शने सत्यप्यन्योऽन्यनियोगप्रतिपे- धार्थप्रतिपत्ति' व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोरात्माभिमानस्य प्रसिद्धत्वात्'प्रतिपननियोगप्रतिषेधार्थो हि फलहेतुभ्यामात्मनोऽन्यत्वं प्रतिपद्यते न पूर्व 'तस्मादिधिप्रतिषेधशास्त्रमविहद्दिषयमिति सिद्धम् । ननु स्वर्गकामो दावात्मात्मीयाभिमानासंभवादित्यर्थः । आत्मनो देहादेरन्यत्वदर्शिनो न देहादावात्मधीरियेतदुपपा- दयति न हीति । विदुषो न विधिनिषेधाधिकारितेत्युक्तमुपसंहरति तस्मादिति । शास्त्रस्याविद्व- द्विषयत्वमिव विद्वाद्वेषयत्वमपि मन्तव्यमुभयोरपि शास्त्रश्रवणाविशेषादित्याशङ्कयाह न हीति । त- त्रस्थो यस्मिन् देशे देवदत्तः स्थितस्तत्रैव वर्तमानः सन्नित्यर्थः । ननु देवदत्त नियुक्त विष्णुमित्रोऽपि कदाचिन्नियुक्तोऽस्मीति प्रतिपद्यते, सत्यं नियोगविषयानियोज्यादात्मनो विवेकाग्रहणान्नियोज्यत्व- भ्रान्तेरित्याह नियोगेति। अविवेकिनो नियोज्यधीर्भवतीति दृष्टान्तमुक्त्वा फले हेतौ चात्मदृष्टिविशि- ष्टस्याविदुषः संभवत्येव विधिनिषेधाधिकारित्वमेवं दार्टान्तिकमाह तथेति । विधिनिषेधशास्त्रमावद्व- द्विषयमिति वदता शास्त्रानर्थक्यं समाहितं संप्रति शास्त्रस्य विद्वाद्विपयत्वेनैवार्थवत्त्वं शक्यसम- र्थनमिति शङ्कते नन्विति । प्रकृतिरविद्या ततो जातो यो देहादावभिमानात्मा संबन्धो वि. द्योदयात् प्रागनुभूतस्तदपेक्षया विधिना प्रवर्तितो निषेधेन निवर्तितोऽस्मीति विधिनिषेधविषया सत्यामपि विद्यायां धीर्युक्तवेत्यर्थः । विदुषोऽपि पूर्वमाविद्यकं संबन्धमपेक्ष्य विधिनिषेधविषयां धियमुक्तामेव व्यक्तीकरोति इष्टेति । नन्वविदुपो मिथ्याभिमानवन्न विदुषः सोऽनुवर्तते तथा चावि- द्यासंबन्धापेक्षया विदुपो यथोक्ता धीरिति तत्राह यथोति । पिता पुत्रो भ्रातेत्यादीनां मिथोऽन्यत्वं- दृष्टावप्यन्योन्यनियोगार्थस्य निषेधार्थस्य च धीईष्टा पितरमाधिकृत्य विधौ निषेधे वा तस्य तदनुष्ठाना- शक्तौ पुत्रस्य तद्विषया धारिष्टा “अथातः संप्रति यदा प्रेष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक" इत्यादि संप्रतिपत्त्या श्रुत्याशेषानुष्ठानस्य पुत्रकार्यताप्रतिपादनात् पुत्रं चाधिकृत्य विधिनिषेध- प्रवृत्तौ तस्य तदशक्ती पितुस्तथा धीरुपगता तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषो हेतुफलाभ्या- मन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यकदेहादिसंबन्धादविरुद्धा विधिनिषेधार्था धीरित्यर्थः । पुत्रादीनां मिथ्याभिमानान्मियो नियोगधीर्युक्ता तत्त्वदर्शिनस्तु तदभावान्न देहादिसंबन्धाधीना नियोगधीरिति परिहरति नेयादिना । किं च सर्वापेक्षा यज्ञादिस्तुतेरश्ववदिति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्य दृष्ट- साध्यत्वोक्तविधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात् पूर्वमिति कुतो विदुषस्तदनुष्ठानमित्याह प्रतिपन्नति । सत्यदृष्टेः सम्यग्धीदृष्टेरसति चाशुदबुद्धेस्तदभावादन्वयव्यतिरेकाभ्यां विविदिषावाक्याच्च विधिनिषेधा- नुष्ठानात् पूर्व न सम्यग्धीरित्याह न पूर्वमिति । विधिनिषेधयोर्विद्वद्विषयत्वायोगे फलितमाह तस्मादिति।

1 त्रयोदशाध्यायः। ३७१ यजेत कलर्जन भक्षयेदित्यादाबात्मव्यतिरेकदर्शिनामप्रवृत्ती केवलदेहाद्यात्मह- ष्टीनां चातः कर्तुरभावाच्छास्त्रानर्थक्यमिति चेन, यथा प्रसिद्दित एवं प्रत्ति- निवृत्त्युपपत्तेः ईश्वरक्षेत्रकत्वदर्शी ब्रह्मवित्तावन्न प्रवर्तते 'तथा नैरात्म्यवा- द्यपि नास्ति परलोक इति न प्रवर्तते' यथाप्रसिद्धस्तु विधिप्रतिषेधशास्त्रश्र- वणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्मविशेषानभिज्ञः कर्मफलसंजाततृष्णः श्रधानतया च प्रवर्तत इति सर्वेषां नः प्रत्यक्षमतो न शास्त्रानर्थक्यं विवेकि- नामप्रत्तिदर्शनात्तदनुगामिनामप्रटत्तौ शास्त्रानर्थक्यमिति चेन'कस्य चिदेव विवेकोपपत्तेरनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्याद्यथैवेदानी च विवेकि- नमनुवर्तन्ते मूढा' रागादिदोषतन्त्रत्वात् प्रवृत्तेभिचरणादौ च प्रवृत्तिदर्शनात स्वाभाव्याच प्रटत्तेः' स्वभावस्तु प्रवर्तत इत्युक्तं' तस्मादविद्यामात्र संसारो शास्त्रस्याविद्वद्विपयत्वेनोक्तमर्थवत्त्वमाक्षेपसमाधिभ्यां प्रपश्चयितुमाक्षिपति नन्विति। चकारादूर्ध्वमप्रवृत्ति- रिति संबद्धयते। आत्मनो देहायतिरेकं पश्यतां देदाद्यभिमानरूपाधिकारहेत्वभावाद्विधितोयागादावप्रवृ. त्तिनिषेधाच्चाभक्ष्यभक्षणादेन निवृत्तिरतस्तेषां प्रवृत्तिनिवृत्त्योरभावे देहादावात्मत्वमनुभवतामपि न ते युक्त तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावादित्यर्थः । विदुपामविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितमाह अत इति । आत्मनो देहाद्यतिरिक्तं परोक्षमपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिनि- वृत्त्युपपत्तेर्न शास्त्रानर्थक्यमित्युत्तरमाह नेसादिना । प्रसिद्धिरत्र शास्त्राभिमता । एतदेव विवृण्वन् ब्रह्मविदो वा नैरात्म्यवादिनो वा परोक्षज्ञानवतो वा प्रवृत्तिनिवृत्ताविह वक्ष्यसीति विकल्प्याद्यं दूष- यति ईश्वरेति । न निवर्तते चेत्यपि द्रष्टव्यम् । द्वितीयं निरस्यति तथेति । पूर्ववदत्रापि संबन्धः । तृतीयमङ्गीकरोति यथेति । विधिनिषेधाधीनां प्रसिद्धिमनुरुन्धानः सन्निति यावत्, चकारान्निवर्तते चैत्यनुकृप्यते । ब्रह्मविदं नैरात्म्यवादिनं च त्यक्त्वा देहाद्यतिरिक्तमात्मानं परोक्षमपरोक्षं च देहाद्यात्मत्वं पश्यतो विधिनिषेधाधिकारित्वे सिद्धे फलमाह अत इति । विध्यन्तरेण शास्त्रार्थानर्थक्यं चोदयति विवेकिनामिति । दृष्टा हि तेषां विधिनिषेधयोरप्रवृत्तिन हि देहा- दिभ्यो निष्कृष्टमात्मानं दृष्टवतां तयोरधिकारस्तेन तान् प्रति शास्त्रं नार्थवन्न च देहाद्यात्मत्वदृश- स्तत्राधिक्रियन्ते तेषां यद् यदाचरतीति न्यायेनं विवेकिनोऽनुगच्छतां विध्यादावप्रवृत्तेरतोऽधिकार्य- भावाद्विध्यादिशास्त्रस्य तदनुसारिशिष्टाचारस्य चानर्थक्यमित्यर्थः । किं सर्वेषां विवेकित्वादधिकार्य- भावादानर्थक्यं शास्त्रस्योच्यते किं वा कस्य चिदेव विवेकित्वेऽपि तदनुवर्तित्वादन्येषामप्रवृत्तेरानर्थ- क्यं चोद्यते तत्र प्रथमं प्रत्याह न कस्य चिदिति । मनुष्याणां सहस्रविति न्यायेनोक्तमेव स्फुट- यति अनेकेष्विति । तत्रानुभवानुरोधेन दृष्टान्तमाह यथेति । द्वितीयं दूषयति न चेति । किं च वि- वेकिनामप्रवृत्तावन्येपामप्यप्रवृत्तिरित्याशङ्कां निरसितुं श्येनादौ तदप्रवृत्तावपीतरप्रवृत्तेरित्याह अ- भिचरणादौ चेति । अविवेकिनां रागादिद्वारा प्रवृत्त्यास्पदं सर्व संग्रहीतुमादिपदम् । इतश्च विवे- किनां प्रवृत्त्यभावेऽपि नाज्ञस्याप्रवृत्तिरित्याह स्वाभाव्याचेति । प्रवृत्तेःस्वभावाख्याज्ञानकार्यत्वे भगव- द्वाक्यमनुकूलयति स्वभावस्त्विति । प्रवृत्तेरज्ञाननन्यत्वे विधिनिषेधाधीनप्रवृत्तिनिवृत्त्यात्मकवन्ध- स्याविद्यामात्रत्वादविद्वद्विषयत्वं शास्त्रस्य सिद्धमिति फलितमाह तस्मादिति । दृष्टमेवानुसरनविद्वा- १ यद्यदाचरतिश्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।।

- - ३७२ श्रीमद्भगवद्गीता- यथादृष्टविषय एव'न क्षेत्रज्ञस्य केवलस्याविद्या तत्कार्य च'न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समथै नयुषरदेशं स्नेहेन पीकर्तुं शक्नोति मरीच्युदकं' तथा विद्या क्षेत्रज्ञस्य न किं चित् कर्तुं शक्नोत्यतश्चेदमुक्त क्षेत्रज्ञं चापि मां विद्धि' 'अज्ञानेनातं ज्ञानम्' इति च,अथ किमिदं संसारिणामिवाहमेवं ममैवेदमिति पण्डितानामपि' शूण्विदं 'तत् पाण्डित्यं यत् क्षेत्र एवात्मदर्शनं' यदि पुनः क्षे- वज्ञमविकियं पश्येयुस्ततो न भोगं कर्म चाकाङ्क्षयुर्मम स्यादिति' विक्रियैव भोगकर्मणी, अथैवं सति फलार्थित्वादविद्दान प्रवर्तते विदुषः पुनरविक्रिया- त्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्ती कार्यकरणसंघातव्यापारोपरमे निवृत्तिरुपचर्यते इदं चान्यत् पाण्डित्यं कस्य चिदस्तु'क्षेत्रज्ञ ईश्वर एवं क्षेत्रं चा- न्यत् क्षेत्रज्ञस्य विषयः'अहं तु संसारी सुरखी दुःखी मुढो जातो मृतो वियुक्तः क्षीणो वृद्धोऽहं ममैवेत्येवमादयः सर्वे आत्मन्यध्यारोप्यन्ते संसारोपरमश्च मम कर्तव्य क्षेत्रक्षेत्रज्ञविज्ञानेन'ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेने- न्यया दृष्टस्तद्विषयस्तदाश्रयःसंसारस्तथा च प्रवृत्तिनिवृत्त्यात्मकसंसारस्याविद्वद्विषयत्वात्तहेतुविधिशास्त्र स्यापि तद्विपयत्वमित्यर्थः । नन्वविद्या क्षेत्रज्ञमाश्रयन्ती स्वकार्य संसारमपि तस्मिन्नावते तेनास्यैव शास्त्राधिकारित्वं नेत्याह नेति । अविद्यादेः शुद्धे क्षेत्रज्ञे वस्तुतोऽसंबन्धेऽपि तत्तस्मिन्नारोपितं तमेव दुःखाकरोतीत्यत्राह न चेति । तदेव दृष्टान्तेन दर्शयति न हीति । क्षेत्रज्ञस्य वस्तुतोऽविद्यामंबन्धे भगवद्वचोऽपि द्योतकमित्याह अत इति । क्षेत्रज्ञेश्वरयारक्ये किमित्यसावात्मानमहमिति बुध्यमानोऽपि स्वस्येश्वरत्वमीश्वरोऽस्मीति न बुध्यते तत्राह अज्ञानेनेति । आत्मनो वस्तुतः संसारासंस्पर्श विद्वद- नुभवविरोधः स्यादिति चोदयति अथेति । एवमित्याभिजात्यादिवैशिष्टयमुक्तम्, इदमा क्षेत्रकलत्रादि, पण्डितानामपि प्रतीतं संसारित्वमिति शेपः । कि पाण्डित्यं देहादावात्मदर्शनं किं वा कुटस्थात्मह- टिराहो संसारित्वादिधीरिति विकल्प्याद्यं निराकुर्वन्नाह शृण्विति । तच्च वस्तुतो संसारित्वाविरोधि प्रातिभासिकं तु संसारित्वमिष्टमिति शेषः । द्वितीयं दूपयति यदीति । न हि कूटस्थात्मविषयं संसा- रित्वं प्रतीयते येन वस्तुतोऽसंसारित्वं विरुध्यते कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेरनवकाशित्वादि- त्यर्थः । आत्मानमक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्यातामित्याशङ्कयाह विक्रियति । अविक्रि- यात्मबुद्धेभीगकर्माकाङ्क्षयोरभावे कम्य शास्त्रे प्रवृत्तिरित्याशङ्कयाह अथति । फलार्थित्वाभावाद्विदुषो न कर्मणि प्रवृत्तिरित्येवं स्थिते सत्यनन्तरमविद्वान् फलार्थित्वात्तदुपाये कर्मणि प्रवर्तते शास्त्रेधिकारी- त्यर्थः । विहुमो वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात्तस्य निवृत्तिनिष्ठत्वासिद्धिरित्याश- शाह विदुप इति । तृतीयमुत्थापयति इदं चेति । सिद्धान्तादविशेषमाशङ्कय क्षेत्रस्य क्षेत्रज्ञाद् वस्तुतोभिन्नत्वन तद्विषयत्वाङ्गीकारान्मैवमित्याह क्षेत्रं चेति । अहंधीवेद्यस्यात्मनो वस्तुत्रः संसारित्व- स्वीकाराच्च सिद्वान्तादेदोऽस्तीत्याह अहंत्विति । संसारित्वमेव स्फोरयति सुरवीति । संसारित्वस्य वस्तुत्वे तदनिवृत्त्या पुमासिद्धिरित्याशङ्कयाह संसारेति । कथं तदुपरमस्य हेतुं विना कर्तव्यत्व- मत्याशङ्कयाह क्षेत्रेति । क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिमुत्पादये- दित्याशङ्कयाह ध्यानेनेति । संसारित्वमात्मनो बुध्यमानस्य तद्रहितादीश्वरादन्यत्वं वक्तव्यमिति १ संसारस्य • पा.लि.पु.।

त्रयोदशाध्यायः। ति' यश्चैवं बुध्यते यश्व बोधयति नासो क्षेत्रज्ञ' इत्येवं मन्वानो यः स पण्डिता- पसदः संसारमोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीस्यात्महा' स्वयं मूढोऽन्यांश्च व्यामोहयति शास्त्रार्थसंप्रदायरहितत्वात् श्रुतहानिमश्रुतकल्पनां च कुर्वस्तस्मादसं- प्रदायवित् सर्वशास्त्रविदपि मूर्ववदेवोपेक्षणीयः, यत्तूक्तमी रस्य क्षेत्रकत्वे संसारित्वं प्राप्नोति क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणोऽभावात् संसारभावप्रसंग' इत्येतो दोषी प्रयुक्ती 'विद्याविद्ययोर्वेलक्षण्याभ्युपगमादिति' कथमविद्यापरिक- ल्पितदोषेण तद्दिषयं वस्तु पारमार्थिकं न दुष्यतीति तथा च दृष्टान्तो दर्शितो मरीच्यम्भसोपरदेशो न पड़ी क्रियत इति ' संसारिणोऽभावात् 'संसाराभावप्रसं- गदोषोऽपि संसारसंसारिणोरविद्याकल्पितत्वोपपत्त्या प्रत्युक्तो नन्वविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोपस्तत्कृतं च दुःखित्वादिप्रत्यक्षमुपलभ्यते' न 'ज्ञेयस्य वमितिशब्दः । तदेवान्यत्वमुपपादयति यश्चति । मम संसारिणोऽसंसारीश्वरत्वं कर्तव्यमित्येवं यो बुध्यते यो वा तथाविधं ज्ञानं तव कर्तव्यमित्युपदिशति से क्षेत्रज्ञादीश्वरादन्यो ज्ञेयोऽन्यथोपदेशान- र्थक्यादित्यर्थः । आत्मा संसारी परस्मादात्मनोऽन्यस्तस्य ध्यानाधीना ज्ञानेनेश्वरत्वं कर्तव्यमित्येतज़ ज्ञानं पाण्डित्यमिति मतं दृपयति एवमिति । " अयमात्मा ब्रह्म ” इत्यात्मनो ब्रह्मत्वश्रुतिवि- रोधादित्यर्थः । ननु संसारस्य वस्तुत्वाङ्गीकारात्तत्प्रतीत्यवस्थायां कर्मकाण्डस्यार्थवत्त्वं संसारित्व- निरासेनात्मनो ब्रह्मत्वे ध्यानादिना साधिते मोक्षावस्थायां ज्ञानकाण्डस्यार्थवत्त्वं तत्कथं यथोक्त- ज्ञानवान् पण्डितापसदत्वेनाक्षिप्यते तत्राह संसारेति । करोमीति मन्यमानो यः स पण्डितापसद इति पूर्वेण संबन्धः । कर्मकाण्डं हि कल्पितं संसारित्वमधिकृत्य साध्यमाधनसंबन्धबोधपदार्थवादिष्टं ज्ञानकाण्डमपि तथाविधं संसारित्वं पराळत्याखण्डैकरसे प्रत्यगब्रह्मणि पर्यवस्यदर्थवद्भवेदित्यर्थः । किं चात्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वा ब्रह्मत्वं कल्पयन्नात्महा भृत्वा लोकद्वयबहिर्भूतः स्या- दित्याह आत्महति । ननु क्षेत्रज्ञं चापि मां विद्वीत्यनेन सर्वक्षेत्रान्तर्यामी परो जीवादन्यो निरुच्यते न जीवस्येश्वरत्वमत्र प्रतिपाद्यते तत् कथमित्थमाक्षिप्यते तत्राह स्वयमिति । किं च तत्वमसीतिवत् प्रसिद्धक्षेत्रज्ञानुवादेनाप्रसिद्धं तस्येश्वरत्वमिहोपदेशतः श्रुतं तस्य हानिमश्रुतस्य च जीवेश्वरयोस्तात्त्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढा न स्यादित्याह श्रुतंति । ननु के चन व्याख्यातारो यथोक्तं पाण्डित्यं पुरस्कृत्य क्षेत्रनं चापीत्यादिश्लोक व्याख्यात- वन्तः तत् कथमुक्तं पाण्डित्यमास्थातामूढत्वं तत्राह तस्मादिति । क्षत्रज्ञं चापीत्यत्र क्षेत्रज्ञेश्वर- योरैक्यं स्वाभीष्टं स्पष्टयितुं प्रत्युक्तमेव चाद्यमनुद्रवति यत्तूक्तमिति । तात्विकमेकत्वमतात्त्विकं संसा- रित्वमित्यङ्गीकृत्योक्तमेव समाधि स्मारयति एताविति । ईश्वरस्य संसारित्वं संसार्यभावेन संसाराभा- वश्चेत्युक्तौ दोषौ विद्याविद्ययोर्वेलक्षण्येऽपि कथं प्रत्युक्ताविति पृच्छति कथमिति । कल्पितसंसारेण कल्पनाधिष्ठानमद्वयवस्तु वस्तुतो न संबद्धमिति परिहरति अविद्येति । तद्विषयं कल्पनास्पदम- धिष्ठानमिति यावत् । कल्पितेनाधिष्ठानस्य वस्तुतोऽसंस्पर्शे दृष्टान्तं स्मारयति तथा चेति । ईश्वरस्य संसारित्वाप्रसङ्गं प्रकटीकृत्य प्रसंगान्तरनिरासमनुस्मारयति संसारिण इति । न तावदविद्या संसारं संसारिणं च कल्पयन्ती स्वतन्त्रा तत्त्वव्याघातात् पारतन्त्र्ये चाश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे सं- सारित्वमिति शङ्कते नन्विति । न चाविद्यावत्त्वमविद्याकृतमनवस्थानादिति भावः । यत्तूत्खातदंष्ट्रो- रगवदविद्या किं करिष्यतीति तत्राह तत्कृतं चेति । अविद्यातजयो यत्वान्नात्मधर्मतत्युत्तरमाह - ३७४ श्रीमद्भगवद्गीता- क्षेत्रधर्मत्वात् ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः यावत् किंचित् क्षेत्रज्ञस्य दोषजातमविद्यमानमासंजयति तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव न क्षेत्रज्ञधर्म- त्वं न च तेन क्षेत्रज्ञो दुष्यति'ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः यदि हि संसर्गः स्याज् ज्ञेयत्वमेव नोपपद्येत 'यद्यात्मनो धर्मोऽविद्यावत्त्वं दुःखित्वादि च'कथं भीः प्रत्यक्षमुपलभ्यते' कथं वा क्षेत्रज्ञधर्मः' ज्ञेयं च सर्व क्षेत्र'ज्ञातैव क्षेत्रज्ञ'इ- त्यवधारितेऽविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षो. पलभ्यत्वमिति विरुद्धमुच्यते विद्यामात्रावष्टम्भात् केवलमत्राह सांविद्या कस्ये- ति यस्य दृश्यते'त व कस्य दृश्यत इत्यत्रोच्यते अविद्या कस्य दृश्यत इति प्रश्नो निरर्थकः कथं 'दृश्यते चेदविद्या तइन्तमपि पश्यसि 'न च तहत्युपलभ्य- माने सा कस्येति प्रश्नो युक्तो'न हि गोमत्युपलभ्यमाने गावः कस्येति प्रश्नो र्थवान् भवेत्, ननु विषमो दृष्टान्तो गवां तह्तश्च प्रत्यक्षत्वात् संवन्धो- ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः'न तथा विद्या तहांश्च प्रत्यक्षो यतः प्रश्नो निरर्थकः स्यादप्रत्यक्षेणाविद्यावता अविद्यासंबन्धे ज्ञाते किं तव स्यादविद्याया नेयादिना । तदेव प्रपञ्चयति यावदिति । ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदो- पवत्तेत्याशङ्कयाह न चेति । क्षेत्रस्यापि ज्ञेयत्वान्न तेन चितो वस्तुतः स्पर्शोऽस्तीत्युपपादयति यदीति । धर्मधर्मित्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिरित्याशङ्कयाह यदीति । आत्मधर्मस्यात्मना ज्ञे- यत्वे स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यादित्यर्थः । किं च विमतं न क्षेत्रज्ञाश्रितं तद्वेद्यत्वा- द्रूपादिवदित्याह कथं वेति । किं च महाभूतानीत्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावान्नाविद्यादेा- तृधर्मतेत्याह ज्ञेयं चेति । किं चैतद्यो वेत्तीत्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयान्न तत्र ज्ञेयं किंचित् प्रविशतीत्याह ज्ञातैवेति । क्षेत्रक्षेत्रज्ञयोरेवं स्वाभाव्ये सिद्धे सिद्ध क्षेत्रधर्मत्वमविद्यादेरित फलित- माह इसवधारित इति । विरोधाच्च न क्षेत्रज्ञधर्मत्वमविद्यादेरित्याह क्षेत्रज्ञेति । विरुद्धवादित्वे मूलं दर्शयात अविद्येति । मात्रपदस्य व्यावर्त्य मानयुक्त्याख्यमवष्टम्भान्तरमिति वक्तुं केवलपदम् । ययाविद्यया विरुद्धमपि निर्वोढुं शक्यते तस्याः स्वातन्त्र्याभावाच्चितोऽ- न्यस्याविद्यमानत्वेन तदाश्रयत्वात्तस्याविद्यास्वभावतया तदाश्रयत्वव्याघातादाश्रयजिज्ञासया पृच्छ- ति अत्राहति । आश्रयमानं पृच्छते तद्विशेषो वा, प्रथमे प्रश्नस्यानवकाशित्वं मत्वाह यस्येति । अविद्या दृश्यादृश्या वा, दृश्यत्वे पारतन्यात् किं चिन्निष्ठत्वेनैव तदृदृष्टेर्नाश्रय- मात्रं प्रष्टव्यमदृश्यत्वे वाप्रकाशत्वादसिद्धिरेव स्यादित्यर्थः । द्वितीयमालम्बते कस्यति । अवि- द्यया दृश्यमानत्वादाश्रयविशेषस्यात्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशतेत्युत्तरमाह अति । प्रश्नानर्थक्यं प्रश्नद्वारा स्फोरयति कथमित्यादिना । तथापि कथं प्रश्नासिद्धिस्तत्राह न चेति । तदेव दृष्टान्तेन स्पष्टयति नहीति । दृष्टान्तदार्टान्तिकयोवैषम्यं चोदयति नन्विति । अज्ञानाश्रयस्य परोसत्वेऽपि प्रश्ननैरर्थक्यमित्याह अप्रत्यक्षणेति । अविद्यावतोऽप्रत्यक्षत्वेऽपि तेना- विद्यासम्बन्धे सिद्धे प्रष्टुस्तव प्रश्नानर्थक्यसमाधिर्न कश्चिदित्यर्थः । अबुद्धपराभिसन्धिः शङ्कते अवि- द्याया इति । अविद्यावतस्तत्परिहारान्नान्येन प्रयतितव्यमित्याह यस्यति । ममैवाविद्यावत्त्वात्त- त्परिहारे मया प्रयतितव्यामिति शङ्कते नन्विति । तर्हि प्रश्नानर्थक्यमिति सिद्धान्ते स्वाभिसंधि- त्रयोदशाध्यायः । ३७५ अनर्थहेतुत्वात् परिहर्तव्या स्याद' यस्याविद्या स तां परिहरिष्यति ननु ममैवावि- या 'जानासि तयविद्यां तद्दन्तं चात्मानं जानामि न तु प्रत्यक्षर्णानुमानेन चेज्जा- नासि कथं संबन्धग्रहणं न हि तव ज्ञातुज्ञेयभूतयाविद्यया तत्काले संबन्धो ग्रहीतुं शक्यते 'अविद्याया विषयत्वेनैव ज्ञातुरुपयुक्तत्वान च ज्ञातुरविद्यायाश्च संबन्धस्य यो ग्रहीता ज्ञानं चान्यत् तद्दिपयं संभवत्यैनवस्थाप्राप्तेयदि ज्ञातापि ज्ञेयसंबन्धो ज्ञायेतान्योऽज्ञाता कल्प्यः स्यात्तस्याप्यन्यस्तस्याप्यन्य इत्यनव- स्थापरिहार्या 'यदि पुनरविद्या ज्ञेयान्यहा ज्ञेयं ज्ञेयमेव तथा ज्ञातापि ज्ञातैव न ज्ञेयं भवति यदा चैवर्मविद्या दुःखित्वाद्येनं ज्ञातुः क्षेत्रज्ञस्य किंचिद् दुष्यति नन्वयमेव दोषो यद् दोपवत् क्षेत्रविज्ञातृत्वं न विज्ञानस्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णतामात्रणाग्नेस्तप्तिक्रियोपचारस्तथैईथात्र भगवता क्रियाकारकफलात्मत्वाभाव आत्मनि स्वत एव दर्शितः अविद्याध्यागोपितैरेव क्रियाकारकाद्यात्मन्युपचर्यते'तथा तत्र तत्र ‘य एनं वेत्ति हन्तारं' 'प्रकृतेः क्रिय- माणानि गुणैः कर्माणि सर्वशः' 'नादत्ते कस्यचित् पापम्' इत्यादिप्रकरणेषु दर्शितस्तथैव च व्याख्यातमस्माभिस्तदुत्तरेषु च प्रकरणेषु दर्शयिष्यामो, हन्त तात्मनि क्रियाकारकफलात्मतायाः स्वतोऽभावेऽविद्यया चाध्यारोपितत्वे'क- मण्यिविहत्कर्तव्यान्येव न विदुपामिति प्राप्तं 'सत्यमेवं प्राप्तमेतदेव' च नै हि देहभृता शक्यमित्यत्र दर्शयिष्यामः । सर्वशास्त्रार्थोपसंहारप्रकरणे च 'समासेनैव कौन्तेय निष्ठा ज्ञानस्य परा' इत्यत्र विशेषतो दर्शयिष्यामः अलमिह बहुप्रप- ञ्चेनत्युपसंन्हियते ॥ २॥ माह जानासीति । आत्मानमविद्यावन्तं जानन्नपि तद्विषयाध्यक्षाभावात् पृच्छामीति शङ्कते जाना- मीति । अविद्यावतोऽप्रत्यक्षत्वं वदता तस्याहमविद्यावानविद्याकार्यवत्त्वाद् व्यातरेकेण मुक्तात्मवाद- त्यनुमेयत्वमिष्टमित्यभ्युपेत्य दूषयति अनुमानेनेति । आत्मनो.विद्यासंबन्धग्रहे कानुपपत्तिरित्याशङ्कय ज्ञातैवात्मा स्वस्याविद्यासंबन्धं बुध्यतेऽन्यो वा ज्ञातेति विकल्प्याद्यं दूपयति न हीति । तत्काले स्वस्याविद्या प्रति ज्ञातृत्वावस्थायामिति यावत् । अविद्याविपयत्वेन गृहीतत्वात् तज्ज्ञातृत्वेनैवोपयु- तस्यात्मनस्तस्याः स्वात्मनि कुतः संबन्धज्ञातृत्वमेकस्य कर्मकर्तृत्वविरोधादित्याह अविद्ययति । द्वितीयं निरस्यति न चेति । यो ग्रहीता स न संभवतीति संबन्धः । तद्विषयमिति ज्ञातुरविद्या- याश्च संबन्धस्तच्छब्दार्थः । अनवस्थामेव प्रपञ्चयति. यदीति । आत्मनः स्वपरत्वायोगात्तस्मिन्न- विद्यासंबन्धस्य प्रामाणिकत्वान्नित्यानुभवगम्यत्वे स्थिते फलितमाह यदि पुनरिति । यदा चैवं तदैतदध्याहार्य ज्ञातुरात्मनो न किंचिद्दुष्यतीत्येतदमृष्यमाणः शङ्कते नन्विति । किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं ज्ञानस्वरूपत्वं वा, नाद्यस्तदनभ्युपगमात्तत्प्रयुक्तदोषाभावाद, द्वितीये ज्ञातृत्वस्यौ- पचारिकत्वान्न तत्कृतो दोषोऽस्तत्यिाह नेसादिना । असत्यामपि क्रियायां क्रियोपचारं दृष्टान्तेन .. १ मम स्याद् पा. लि.।

३७६ श्रीमद्भगवद्गीता- स्फुटयति यथेति । आत्मनि वस्तुतोऽविक्रियाभावे भगवदनुमति दर्शयति यथात्रेति । गीताशास्त्रं स- प्तम्यर्थः। स्वत एवात्मनि क्रियाद्यात्मत्वाभावो भगवता शास्त्रे यथोक्तस्तथैव व्याख्यातमस्माभिरिति संव- न्धः । कथं तर्हि क्रियादिरात्मनि भाति तत्राह अविद्येति। यथा वस्तुतो नास्त्यात्मनि क्रियादिरुपचारात्तु भाति तथा तत्र तत्रातीतप्रकरणेषु भगवता कृतो यत्न इत्याह तथेति । न केवलमतीतष्वेव प्रकर- णेषु वास्तवक्रियाद्यभावादात्मन्याध्यासिकी तद् द्विरुक्ता किंतु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवद्- भिप्रायदर्शनं भविष्यतीत्याह उत्तरेषु चेति । आत्मनि वास्तवक्रियाद्यभावेऽध्यासाच्च तत्सिद्धौ कर्मकाण्डस्याविद्वदधिकारित्वप्राप्तौ विद्वान्यजेत ज्ञात्वा कारभेतेत्यादिशास्त्रविरोधः स्यादितिशङ्कते हन्तेति । शास्त्रस्य व्यतिरेकविज्ञानाभिप्रायत्वदर्शनायाद्यतीतात्मधीविधुरस्यैव कर्मकाण्डाधिकार- तेत्यङ्गीकरोति सत्त्वमिति । कथमज्ञस्यैव कर्माधिकारित्वमुपपन्नमित्याशङ्कचाह एतदेव चेति । ज्ञानिनो ज्ञाननिष्ठायामेवाधिकारो निष्ठान्तरे त्वज्ञस्यैवेत्युपसंहारप्रकरणे विशेषतो भविष्यतीत्याह सर्वेति । तदेवानुक्रामति समासेनेवि । जीवब्रह्मणोरैक्याभ्युपगमे न किंचिदवद्यमित्युपसंहरति अलमिति ॥ २ ॥ प० टी० । अथ विशेपतः क्षेत्र निरूपयति क्षेत्रज्ञमिति । चपरं देहाभिमानित्वेन शारी- रभोगं भुजानं क्षेत्रज्ञमपि वस्तुतः सर्वक्षत्रेषु सूत्रवदनुगतं मां विद्धि तत्त्वमसीति श्रुत्या लक्षितेन चिदंशेन मद्रूपस्योक्तत्वात् । तदुक्तम्-कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते इति । एवमुपाधिद्वयपरित्यागे पूर्णबोधस्वरूपमेव मद्रूपम् । तत्पदलक्षणस्य त्व- पदलक्ष्येण सहैकत्वमित्यर्थः । अथ ज्ञानस्वरूपं दर्शयति । क्षेत्रक्षेत्रज्ञयो।लक्षण्येन यज्ज्ञानं तज्ज्ञान- मिति मतमभिमतम् । तस्मादात्मानात्मविवेको ज्ञानमित्युक्तं भवति ॥ २ ॥ तत् क्षेत्रं यच्च याहक च यद्विकारि यतश्च यत् ॥ स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥३॥ इदं शरीरमित्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकोऽयमु- पन्यस्यते तत् क्षेत्रं यच्चेत्यादि। व्याचिख्यासितस्य ह्यर्थस्य संग्रहोपन्यासो न्याय्य इति यन्निार्दष्टमिदं शरीरम् इति तत् क्षेत्रमिति तच्छब्देन परामृशति यच्चेदं निर्दिष्टं क्षेत्रं यद् यादृक् यादृशं स्वकीयैर्धर्मेश्वशब्दः समुच्चयार्थो यहिकारि यो विकारो यस्य तद्यहिकारि यतो यस्मात् यत् कार्यमुत्पद्यते इति वाक्यशेषः। स च यः क्षेत्रज्ञो निर्दिष्टः स यत्प्रभावः ये प्रभावा उपाधिकृताः शक्तयो यस्य स यत्प्रभावश्च तत् क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं यथाविशेषितं तत् समासेन संक्षेपेण मे मम वाक्यतः शृणु श्रुत्वावधारयेत्यर्थः ॥ ३ ॥ आ० टी० । एवं श्लोकद्वयं व्याख्याय श्लोकान्तरमवतारयति इदमिति । कुत्र संग्रहोक्ति- रुपयुज्यते तत्राह व्याचिख्यासितस्येति । प्रतिपत्तिमौकर्याथ संग्रहोक्तिरर्थवतीत्यर्थः । वक्ष्यमा- गेऽथै श्रोतुर्मनःसमाधानार्थ मूत्रितवाक्यार्थोपायविवरणप्रतिज्ञामभिप्रेत्याह यनिर्दिष्टमिति । इदं शरीरमिति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति प्रकृतार्थत्वात्तस्येति योजना । तत् क्षेत्रं ज्ञातव्य- मित्यध्याहारः । यच्चेति । येन रूपेण रूपवदिति तदेव क्षेत्र विशेप्यते तस्य क्षेत्रस्य स्वकीया धर्मा जन्मादयस्तर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति । चशब्दपञ्चकस्येतरतेरसमुच्चयार्थत्वमाह चशब्द इति । ॥

त्रयोदशाध्यायः ।
३७७
विकारित्वेनापि हेयत्वं सूचयति यद्विकारीति । यत् कार्य तत्सर्व यस्मादुत्पद्यते तत्कारणत्वात्तज़
ज्ञातव्यमित्याह यत इति । क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति स चेति। ज्ञातव्यमिति संबन्धः। चक्षुरा-
द्युपाधिकृतदृष्टयादिशक्तिवशात्तस्य ज्ञातव्यत्वं सूचयति यत्प्रभाव इति । तेनोक्तन प्रभावेण तस्य
ज्ञातव्यतेति शेषः। कथं यथा विशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुमित्याशङ्कय भगवद्वाक्या-
दित्याह तदिति ॥ ३ ॥
प० टी० । तदेतत्प्रपञ्चयिष्यन् प्रतिनानीते तत्क्षेत्रमिति । तत्क्षेत्रं यत्स्वरूपतो जडदृष्टया-
दिस्वभावं यादग् यादृशं चेच्छादिधर्मकं यद्विकारीन्द्रियादिविकारैर्युक्तं यतश्च प्रकृतिपुरुष-
संयोगाद्भवति । यदिति । यदिति यः स्थावरजङ्गमादिभेदैभिन्नमित्यर्थः । स च क्षेत्रज्ञो यः स्वरूपतः
प्रभावतश्चरितैश्वर्ययोगेन यैः प्रभावैः संपन्नस्तत्सर्व मे मत्तः समासेन संक्षेपतः शृणु ॥ ३ ॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ॥
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥४॥
तत् क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं विवक्षितं स्तौति श्रोतबुद्धिप्ररोचनार्थ ऋषिभिरि-
ति । ऋषिभिर्वसिष्ठादिभिबहुधा बहुप्रकारं गीतं कथितं छन्दोभिश्छन्दांसि ऋगा-
दीनि तैमन्त्रच्छन्दोभिर्विविधैर्नानाप्रकारैः पृथग् विवेकतो गीतं, किं च ब्रह्मसू-
त्रपदैश्चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते ब्रह्म-
ति तानि ब्रह्मसूत्रपदेन सच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं गीतमित्यनुवर्तते
"आत्मेत्येवोपासीत” इत्यादिभिर्हि ब्रह्मसूत्रपदैरात्मा ज्ञायते हेतुमद्भिर्युक्तियुक्तैर्वि-
निश्चितैर्न संशयरूपैनिश्चितप्रत्ययोत्पादकैरित्यर्थः ॥ ४ ॥
आ० टी० । श्लोकान्तरस्य तात्पर्यमाह तदिसादिना । विवक्षितं जिज्ञासितमित्यर्थः ।
स्तुतिफलमाह श्रोत्रेति । न केवलमाप्तक्तिरेव क्षेत्रादियाथात्म्यं संभावितं किंतु वेदवाक्यादपीत्याह
छन्दोभिश्चेति । ऋगादीनां चतुर्णामपि वेदानां नानाप्रकारत्वं शाखाभेदाद् दृष्टं न केवलं श्रुतिस्मृति-
सिद्धमुक्तं याथात्म्यं किं तु यौक्तिकं चेत्याह किंचेति । कानि तानि सत्राणीत्याशङ्कयाह आत्मेसेवेति।
आदिपदेन "ब्रह्मविदाप्नोति परमथ योन्यां देवताम्' इत्यादीनि विद्याविद्यासूत्राण्युक्तानि । आत्मेतिक्षे-
त्रज्ञोपादानं तच्च क्षेत्रोपलक्षणम् 'अथातो ब्रह्मजिज्ञासा' इत्यादीन्यपि सूत्राण्यत्र गृहीतान्यन्यथा छन्दो-
भिरित्यादिना पौनरुत्त्यादिति मत्त्वा विशिनष्टि हेतुमद्भिरिति ॥ ४ ॥
प० टी० । अथ कैविस्तरेणोक्तस्यायं संक्षेप इत्याह ऋषिभिरिति । ऋषिभिर्याज्ञवल्क्यव-
सिष्ठादिभिरष्टाङ्गयोगधारणावैराग्यनित्यनैमित्तिककर्मव्रतोपवासादिमर्यादया बहुधा गीतं निरूपितम् ।
छन्दोभिदैविविधैर्मन्त्रब्राह्मणादिरूपैर्नानायजनीयदेवतादिरूपेण गीतम्। ब्रह्मणः सूत्रैः पदैश्च। ब्रह्म
सूत्र्यते यैः पदैः "विज्ञानमानन्दं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म यतोवा इमानि भूतानि जायन्त' इत्यादिभिरुप-
निषद्विभागैर्हेतुमद्भिः "सदेवसौम्येदमग्र आसीत्कथमसतः सज्जायेत"इत्यादियुक्तिमद्भिर्विनिश्चिताथैः॥४॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ॥
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥५॥

३७८ श्रीमद्भगवद्गीता- स्तुल्याभिमुखीभूतायार्जुनायाह भगवान् महाभूतानीति । महाभूतानि महान्ति च तानि भूतानि सर्वविकारव्यापकत्वाइतानि च सूक्ष्माणि स्थू- लानि त्विन्द्रियगोचरशब्देनाभिधायिष्यन्तेऽहङ्कारो महाभूतकारणमहंप्रत्ययल- क्षणोऽहङ्कारकारणं बुद्धिरध्यवसायलक्षणा तत्कारणमव्यक्तमेव च न व्यक्तमव्यक्त- मव्यक्तमव्याकतमीश्वरशक्तिर्मम माया दुरत्ययेत्युक्तम्। एवशब्दः प्रकृत्यवधा- रणार्थः । एतावत्येवाष्टधा भिन्ना प्रकृतिः, चशब्दो भेदसमुच्चयार्थः, इन्द्रियाणि दश श्रीवादीनि पक्ष बुद्धयुत्पादकत्वाद्वृद्धीन्द्रियाणि वाक्याण्यादीनि पञ्च कर्मनिवर्तकत्वात् कर्मेन्द्रियाण तानि दशैकं च किं तन् मन एकादशं संक- रूपाद्यात्मकं पञ्च चेन्द्रियगोचराः शब्दादयो विषयास्तान्येतानि संख्या श्चतुर्वि- शतितत्त्वान्याचक्षते ॥ ५ ॥ आ० टी० । क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय किं तदिति जिज्ञासवे यथोद्देशं क्षेत्रं नि- दिशति स्तुयेति । महत्त्वे हेतुमाह सर्वेति । भूतशब्देन स्थूलानामपि विशेषाभावाद् आहे का हानि- रित्याशङ्कयाह स्थूलानीति । अहङ्कारोऽहंप्रत्ययलक्षण इति संबन्धः । भूतानां प्रातीतिकत्वेनाभिमा- नमात्रात्मत्वं मत्वाहकारं विशिनष्टि महाभूतेति । महतः परमित्यादौ प्रसिद्धं महच्छब्दार्थमहङ्का- रहेतुमाह अहंकारेति । ईश्वरशक्तिरित्युक्ते चैतन्यमपि शकते तदर्थमाह ममेति । अवधारणरूपम- र्थमेव स्फुटयति एतावसवेति । पञ्चतन्मात्राण्यहंकारो महदव्याळतमित्यष्टधा भिन्नत्वं मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयश्चकारार्थः । दशेन्द्रियाण्येव विभज्य व्युत्पादयति श्रोत्रेयादिना । तदेव प्रश्नद्वारा स्फुटयति किं तदिति । शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते । उक्तेषु तन्मात्रादिषु तत्रान्तरीयसंमतिमाह तानीति ॥ ५ ॥ ५० टी० । तत्र प्रथमं क्षेत्रस्वरूपमाह महाभूतानीति द्वाभ्याम् । महाभूतानि भूम्यादीन्य- नुभवगोचरत्वात्प्रथममुपन्यस्यति । अहंकारस्तत्कारणीभूतः स त्रिविधः सात्त्विकादिभेदेन स च क्रमेण ज्ञानशक्किक्रियाशक्तिद्रव्यशक्त्युत्पादकस्तत्रतामसाहंकारादाकाशा दिद्रव्यशक्तीनां शब्दादितन्मात्रा- णामुत्पत्तिरनन्तरं बुद्धिर्विज्ञानात्मकं महत्तत्त्वम् अव्यक्तं मूलप्रकृतिः इन्द्रियाणि बाह्यानि दश एक मनः इन्द्रियगोचराश्च पश्च तन्मात्रारूपा एवं शब्दादय आकाशादविशेषगुणतया व्यक्ताः सन्त इन्द्रियविषयाः पञ्च तदेवं चतुर्विंशतितत्त्वान्युक्तानि ॥ ५ ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ॥ एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥६॥ अथेदानीमात्मगुणा इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्मा एव न तु क्षेत्रज्ञस्येत्याह भगवान् इच्छाहेष इति । इच्छा यज्जातीयं सुखहेतुमर्थमु. पलब्धवान् पूर्व पुनस्तज्जातीयमुपलभ्यमानस्तमादातुमिच्छति सुखहेतुरिति १ सूक्ष्माणि न स्थूलानि-पा० मु० पु० ।

प्रयोदशाध्यायः ।
३७.९
सेयमिच्छान्तःकरणधर्मो ज्ञेयत्वात् क्षेत्र तथा इषो यज्जातीयमर्थ दुःखहेतुत्वे.
नानुभूतवान् पूर्व पुनस्तज्जातीयमुपलभ्यमानस्तं हेष्टि सोऽयं देषो ज्ञेयत्वात्
क्षेत्रमेव तथा सुखमनुकूलं प्रसन्नं सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव, दुःखं प्रति-
कूलात्मकं ज्ञेयत्वात्तदपि क्षेत्र, संघातो देहेन्द्रियाणां संहतिस्तस्यामभिव्यक्ता-
न्तःकरणरत्तिस्तप्त इव लोहपिण्डेऽग्निरात्मचैतन्याभासरसविद्धा चेतना सा
च क्षेत्रं ज्ञेयत्वाद् धृतिर्ययावसाद प्राप्तानि देहेन्द्रियाणि ध्रियन्ते सा च ज्ञेय-
त्वात् क्षेत्र, सर्वान्तःकरणधर्मोपलक्षणार्थमिच्छादिग्रहणम् । यत उक्तं तदुपसंह-
रति। एतत् क्षेत्र समासेन सविकारं सह विकारेण महदादिनोदाहृतमुक्तं यस्य
क्षेत्रभेद तातस्य संहतिरिदं शरीरं क्षेत्रमित्युक्तं तत् क्षेत्र व्याख्यातं महाभूता-
दिभेदभिन्नं धृत्यन्तम् ॥ ६॥
आ० टी. 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त | पोडशकश्च विकारः' इति
पठन्ति, अव्यक्ताहङ्कारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति शब्दादीनामेव ग्रहणे कर्मेन्द्रिया-
णां विषयानुक्तर्वैरूप्यप्रसङ्गात् क्षेत्रनिरूपणस्य च प्रकृतत्वात् स्वरूपनिर्देशनैव तत् क्षेत्रं यच्च याहक
चेति व्याख्यातमिदानीमिच्छादीनामात्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन यद्विकारीत्येतन्नि-
रूपयन्मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति अथेति । सर्वज्ञोक्तिविरोधाद्धेयं वैशेषिकमतमिति म-
त्वोक्तं भगवानिति । उपलब्धजातीयस्योपलम्यमानस्यास्यादानेच्छायां हेतुमाह मुखेति । इतिशब्दो
हेत्वर्थः । सखहेतुत्वात्तस्मिन्निच्छेत्यर्थः । इच्छां सुखतद्धेतुविषयत्वेन व्याख्यायात्मधर्मत्वं तस्या व्युद-
स्यति सेयमिति । तथापि कथं क्षेत्रान्तर्भूतत्वं तत्राह ज्ञेयत्वादिति । इच्छावद् द्वेषोऽपि
धर्मो बुद्धेरित्याह तथेति । कोऽसौ द्वेषो यस्य बुद्धिधर्मत्वं तत्राह यज्जातीयमिति । तस्यापीच्छाव-
क्षेत्रान्तर्भावमाह सोऽयमिति । इच्छाद्वेषवद् बुद्धिधर्मः सुखमपीत्याह तथेति । तस्यापि स्वरूपोक्या
क्षेत्रान्तःपातित्वमाह अनुकूलमिति । दुःश्वस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह दुःखमिति ।
देहेन्द्रियात्मवादी व्युदसितुं क्षेत्रान्तर्भुतमेव संघातं विभजते देहेति। विज्ञानवादं प्रत्याह तस्यामिति ।
तप्ते लोहपिण्डे वट्तेरभिव्यक्तिवदुक्तसंहतो बुद्धिवृत्तिरभिव्यज्यते तत्र चाग्निरभिव्यक्तो लोहपिण्डमेवामि-
बुद्धचा ग्राहयति तथात्मचैतन्यं बुद्धिवृत्तावभिव्यक्तं तामेवात्मनया बोधयत्यतस्तदाभासानुविद्धा सैव
चेतनेत्युच्यते सा च मुख्यचेतनं प्रतिज्ञेयत्वादतद्रूपत्वात् क्षेत्रमेवेत्यर्थः । धृतिस्वरूपोत्या क्षेत्रत्वं त-
स्या दर्शयति धृतिरित्यादिना। नन्वन्येऽपि सङ्कल्पादयो ये मनोधर्माः सन्ति ते किमित्यत्र क्षेत्रत्वेन
नोच्यन्ते तत्राह सर्वेति । तस्योपलक्षणार्थत्वे हेतुमाह यत इति । इच्छादिवदस्मिन्नवसरे सङ्कल्पादी-
नामपि दर्शितत्वं सिद्धवत्कृत्य प्रकरणविभागार्थ यतो भगवदुक्तं क्षेत्रमुपसंहरत्यतो युक्तमिच्छादिन-
हस्य सर्वानुक्तबुद्धिधर्मोपलक्षणार्थत्वमित्यर्थः । विरक्तस्य ज्ञानाधिकाराय वैराग्याथ क्षेत्रं व्याख्यात-
मित्यनुवदति यस्येति । क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्येत्यर्थः। संहतिः समष्टिशरीरम् ॥६॥
प० टी०। इच्छेति । इच्छादयः प्रसिद्धाः संघातः शरीरचेतना ज्ञानात्मिका मनोवृत्तितिधैर्यम्।
एते चेच्छादयो दृश्यत्वान्नात्मधर्मा अपि तु मनोधर्मा अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत्सं-
कल्पादीनाम् । श्रुतिरपि-"कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरवृतिही( रित्येतत्सर्व मन
एवेति"। अनेन यादगिति पूर्वप्रतिज्ञाताः क्षेत्रधर्मा दर्शिताः एतत्क्षत्रं सविकारं महदादिविकारसहितं
संक्षेपेण तुभ्यं मयोक्तमिति क्षेत्रोपसंहारः ॥ ६ ॥

३८. श्रीमद्भगवद्गीता- अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ॥ आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७॥ क्षेत्रज्ञो वक्ष्यमाणविशेषणो यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानादम. तत्वं भवति तं ज्ञेयं यत्तत् प्रवक्ष्यामीत्यादिना सविशेषणं स्वयमेव वक्ष्यति भग- वानधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणं यस्मिन् सति तज् ज्ञेय- विज्ञानयोग्योऽधिकतो भवति यत्परः संन्यासी ज्ञाननिष्ठ उच्यते, तममानि- त्वादिगणं ज्ञानसाधनत्वाज् ज्ञानशब्दवाच्यं विदधाति भगवान् अमानित्वमिति। अमानित्वं मानिनोऽभावोऽमानित्वम् आत्मनः श्लाघनं तदभावोऽमानित्व, मद- म्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वं तदभावोऽदम्भित्व,महिंसाहिंसनं प्राणिना- मपीडन, क्षान्तिः परापराधप्राप्तावविक्रिया, जैवमृजुभावोऽवकत्वमाचार्योपासनं मोक्षसाधनोपदेष्टुराचार्यस्य शुश्रूपादिप्रयोगेण सेवनं, शौचं कायमलानां मृ- ज्जलाभ्यां प्रक्षालनमन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचं, स्थैर्य स्थिरभावो मोक्षमार्गव कृतव्यवसायित्व,मात्मविनिग्रह आ. मन उपकारकस्यात्मशब्दवाच्यस्य कार्यकरणसंघातस्य विनिग्रहः स्वभावेन सर्वतः : प्रदत्तस्य सन्मार्गएव निरोध आत्मविनिग्रहः ॥ ७ ॥ आ० टी० । ननूक्त क्षेत्रे क्षेत्रज्ञो वक्तव्यस्तं हित्वा किमित्यन्यदुच्यते तत्राह क्षेत्रज्ञ इति । अनादिमदित्यादिना वक्ष्यमाणविशेषणं क्षेत्रनं स्वयमेव भगवान् विवक्षितविशेषणसहितं ज्ञेयं यत्तदित्यादिना वक्ष्यतीति संबन्धः । किमिति क्षेत्रज्ञो वक्ष्यते तत्राह यस्येति । ज्ञेयं यत्तदित्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह अधुनेति । अमानित्वादिलक्षणं विदधातीत्युत्तरत्र संबन्धः । ज्ञानसाधन- समुदायबोधनं कुत्रोपयुज्यते तत्राह यस्मिन्निति । योग्यमधिकृतमेव विवृणोति यत्पर इति । एतज़ ज्ञानमिति वचनात् कमिदं ज्ञानसाधनमित्याशङ्कयाह तमिति । तद्विधानस्य वक्तृद्वारा दाय सू- चयति भगवानिति । अमानित्वादिनिष्ठस्यान्तधियो ज्ञानमिति नियमार्थमाह अमानित्वमिति । मानस्तिरोहितोऽवलेपः स चात्मन्युत्कोरोपहेतुः सोऽस्येति मानी न मान्यमानी तस्य भावाऽमानित्व- मिति व्याकराति अमानित्वमित्यादिना। प्रतियोगिमुखनादम्भित्वं विवृणाति अदम्भित्वमिति । वा- ङ्मनोदेहेरपीडनं प्राणिनामहिंसनम्, तदेवाहिंसेत्याह अहिंसेति । परापराधस्य चित्तविकारकारणस्य प्राप्तावेवाविकृतचित्तत्वेनापकारसहिष्णुत्वं क्षान्तिरित्याह शान्तिरिति । अवक्रत्वमकौटिल्यं यथा हृ. दयव्यवहारः सदैकरूपप्रवृत्तिनिमित्तत्वं चेत्यर्थः । 'उपनीय तु यः शिष्यम्' इत्यादिनोक्तमाचार्य व्यव- च्छिनत्ति माक्षेति । शुश्रूपादीत्यादिपदं नमस्कारादिविषयम् । बाह्यमाभ्यन्तरं च द्विप्रकार शौचं क्रमे- ण विभजते शौचमित्यादिना । मनसो रागादिमलानामिति संबन्धः । तदपनयोपायमुपदिशति प्र- तिपक्षेति । रागादिप्रतिकूलस्य भावनाविषयेषु दोषदृष्टया प्रवृत्तिस्तयेति यावत् । स्थिरभावमेव वि- शदयति मोक्षेति । आत्मनो नित्यसिद्धस्यानाधेयातिशयस्य कुतो विनिग्रहस्तत्राह आत्मन इति॥७॥ प० टी० । इदानीमुक्तलक्षणात्क्षेत्राद्विविक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यन् ३८.१ प्रयोदशाध्यायः । तज्ज्ञानसाधनान्याह अमानित्वमिति पञ्चभिः । अमानित्वं स्वगुणश्लाघाराहित्यम् । तदुक्तम्- 'मानापमाने दुःखी स्यान्नैव साधारणो जनः । अतो दुःखनिदानत्वान्मानं योगी परित्यजेत्' इति । तथाद- म्भित्वं दम्भराहित्यम् ।तदुक्तम्-'कृतं दम्भाददम्भाहा कर्म तुल्यश्रमं भवेत्। श्रमैकफलमाद्यं स्याद् द्वितीयं सुखसाधनम् 'इति । तथा अहिंसा परपीडानिवृत्तिः । तदुक्तम्-‘स्वयं विभेति हिंस्त्रेभ्यस्तान्पापान्वनि तै- हतैः । सुखी स्यामिति विज्ञाय परपीडां विवर्जयेद्' इति । शान्तिः सहिष्णुता । आर्जवमवक्रता । आ- चार्योपासनं सद्गुरुसेवा । "आचार्यवान्पुरुषो वेद" इति श्रुतेः । तदुक्तं शतश्लोके-' यद्यप्युद्दामबुद्धिः पठनपारिणमद्वेदशास्त्राक्षरार्थो न ह्याचार्य विनासौ तदपि परिचिनोत्येतदुक्तं रहस्यम् । ब्रूते नामापि यद्यप्यजिरनिवसतामन्यवक्राच्छ्रुतानि प्रायस्तं तं पदार्थ न हि कथकमृते वेत्युपोद्गायकोपि'इति । 'शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम्' इति । स्थैर्य तदेक- निष्ठता । आत्मविनिग्रहः शरीरसंयमः । एतज्ज्ञानमिति प्राक्तमिति पश्चमेनान्वयः ॥ ७ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ॥ जन्ममृत्युजराव्याधिदुःखदोपानुदर्शनम् ॥ ८॥ किं च इन्द्रियेति । इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विराग- भावो वैराग्यमनहङ्कारोऽहङ्काराभाव एव च जन्ममृत्युजराव्याधिदुःखदोषानुद- शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादिदुःखा- न्तेषु प्रत्येकं दोपानुदर्शनमालोचनं जन्मनि गर्भवासयोनिद्दारा निःसरणं दोपस्तस्यानुदर्शनमालोचनं तथा मृत्यौ दोपानुदर्शनं तथा जरायां प्रज्ञाश- तितेजोनिरोधदोपानुदर्शनमालोचनं परिभूतता चेति तथा व्याधिषु शिरो- रोगादिषु दोषानुदर्शनं तथा दुःरवेष्वध्यात्माधिभूताधिदेवनिमित्तेष्वथ वा दुःखा- न्येव दोपो दुःखदोपस्तस्य जन्मादिष्ट नुदर्शनं दुःखं जन्मदुःखं जरादुःखं मृत्युदुःखं व्याधयो दुःखनिमित्तत्वाज्जन्मादयो दुःखं न पुनः स्वरूः पेणैव दुःखमित्येवं जन्मादिषु दुःखदोषानुदर्शनाद् देहेन्द्रियविषयभोगेषु वैराग्यमु. पजायते ततः प्रत्यगात्मनि प्रत्तिः करणानामात्मदर्शनायैवं ज्ञानहेतुत्वाज ज्ञान- मुच्यते जन्मादिदुःखदोषानुदर्शनम् ॥ ८ ॥ आ० टी० । न केवलममानित्वादीन्येव ज्ञानस्यान्तरङ्गसाधनानि किं तु वैराग्यादीन्यपि तथा- विधानि सन्तीत्याह किं चेति । दृष्टादृष्टप्वनेकार्थेषु रागे तत्प्रतिबद्धं ज्ञानं नोत्पद्यत इति मत्त्वा व्याकरोति इन्द्रियति । आविर्भूतो गर्वोऽहङ्कारस्तदभावोऽपि ज्ञानहेतुरित्याह अनहंकार इति । इन्द्रियार्थेषु वैराग्यमुक्तमुपपादयति जन्मेति । प्रत्यकं दोपानुदर्शनमित्युक्तं तत्र जन्मनि दोपानुदर्श- नं विशदयति जन्मनीति । यथा जन्मनि दोषानुमन्धान तथा मृत्यौ दोपस्य सर्वमर्मनिकन्तनादे- रालोचनं कार्यमित्याह तथेति । जन्मनि मृत्यौ च दोषानुमन्धानवज्जरादिप्वपि दोषानुसंधानं कर्त- १ दृष्टानविकार्येषु-पा०लि. पु. ।

श्रीमद्भगवद्गीता- ध्यमित्याह तथेति । व्याधिषु दोषस्यासह्यतारूपस्यानुसन्धानं दुःखेषु त्रिविधेष्वपि दोषानुसन्धान प्रसिद्ध व्याख्यानान्तरमाह अथवेति । यथा जन्मादिषु दुःखान्तेषु दोषदर्शनमुक्तं तथा तेप्वेव दु:- खाख्यदोषस्य दर्शनं स्फुटयति दुःखमियादिना । कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वं तत्राह दुःखेति । जन्मादिषु दोषानुदर्शनकृतं फलमाह एवमिति । वैराग्ये सत्यात्मदृष्टयर्थ कर- णानां तदाभिमुख्येन प्रवृत्तिरिति वैराग्यफलमाह तत इति । जन्मादिदुःखदोषानुदर्शनं ज्ञानहेतुषु किमित्युपसङ्ख्यातमित्याशङ्कय वैराग्यद्वारा धीहेतुत्वादित्याह एवमिति ॥ ८ ॥ ५० टी० । किं च इन्द्रियार्थेषु रूपरसादिविषयेषु वैराग्यं वैतृष्ण्यम् । तथा एतावानहमस्मीत्य- हंकाराभावः । जन्मादिदुःखदोपयोरनुपदं दर्शनं पुनः पुनरालोचनम् । तदुक्तम्-'आरम्भाहपुराम- यैरुपहतं ज्ञात्वापि नोपेक्षसे कञ्चिल्लमहुताशवेश्मनि सुखं स्थातुं चिरं वाञ्छसि । त्यक्ष्यस्येवधनापदी- नमसम्याक्रोशमानः क्षणाद्भश्यद्वैर्यविवेकसंपदभितो व्यामूढाचित्तः सखे ॥ ८ ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥९॥ किं च असक्तिरिति । असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीति- मात्रं तदभावोऽसक्तिरनभिष्वङ्गोऽभिष्वङ्गाभावोऽभिष्वङ्गो नाम शक्तिविशेष एवानन्यात्मभावनालक्षणो यथान्यस्मिन् सुखिनि दुःखिनि चाहमेव सुखी दुःखी च जीवति मृते चाहमेव जीवामि मरिष्यामि चेति । केत्याह पुत्रदा- रगृहादिषु । पुत्रेषु दारेषादिग्रहणादन्येष्वप्यत्यन्तेष्टेषु दासवर्गादिषु तच्चोभयं ज्ञा- नार्थत्वाज् ज्ञानमुच्यते नित्यं च समचित्तत्वं तुल्यचित्तता, क, इष्टानिष्टोपप- त्तिषु इष्टानामनिष्टानां चोपपत्तयः संप्राप्तयस्तास्विष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता, इष्टोपपत्तिषु न हृष्यति न कुप्यति चानिष्टोपपत्तिषु तच्चैतनि- त्यं समचित्तत्वं ज्ञानम् ॥ ९ ॥ आ० टी० । ज्ञानस्यान्तरङ्गमेव हेत्वन्तरमाह किं चेति । नन्वसक्तिरेवाभिप्वङ्गाभावस्तथा च पुनरुक्तिरित्याशङ्कयाभिष्वङ्गोक्तिद्वारा निरस्यति अभिष्वङ्गो नामेति । अन्यस्मिन्नेव पुत्रादाक्न्य- त्वधिया तद्गते सुखादावात्मनि तद्भावनाख्यं शक्तिविशेपमेवोदाहरति यथेति । उक्तविशेषणयो- राकाथाद्वारा विषयमाह केसादिना । उक्तविशेषणयोनिशब्दस्योपपत्तिमाह तश्चेति । सदा हर्ष- विषादशून्यमनस्त्वमपि ज्ञानहेतुरित्याह निसं चेति । तदेव विभजते इष्टेति । तस्य ज्ञानहेतुत्वं निग- मयति तच्चैतदिति ॥९॥ ५० टी०। किं च असक्तिरिति । पुत्रादिष्क्सक्तिः प्रीतित्यागोऽनभिष्वङ्गः पुत्र दार- गृहादिगतसुखदुःखयोः स्वस्मिन्नारोपणम् । श्रुतिरपि शातपथी "आत्मवेदमग्र आसीदेक एव सोऽकामय- त जाया मे स्यादथ प्रजायेयाथवित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वैकामो नेत्संश्च नातो भूयो विन्देदिति"। भाष्यम्-अग्रे वयोवस्थातः पूर्वमिदमयमात्मा देहमात्रत्वेनैक एवासीत् स जाया मे स्यादित्य कामयताभिलषितवान् अनन्तरं प्रजायेय प्रजारूपेण स्यामिति अथ तनिर्वाहाथ मे वित्तं स्या- त्रयोदशाध्यायः। दिति सोऽकामयत तदर्थ कर्म कुर्वीयेति एवमेतावान्वै कामो नेत्सत्सनभवति परिणामे दुःखरूपत्वात् तथापि अतो जायादिप्रपश्चादन्यदूयो महत्तरं न विन्देत् न जानाति बाह्यगार्हस्थ्येन मोहितत्वात् । अथैतदपेक्षयान्तरं गार्हस्थ्यं श्रेय इत्याह श्रुतिः । तथा इष्टानिष्टोपपत्तिषु सर्वदा समचित्तत्त्वम् ॥९॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी॥ विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१०॥ किं च मयि चेति । मयि चेश्वरेऽनन्ययोगेनापृथक्समाधिना नान्यो भगवतो वासुदेवात् परोऽस्त्यतः स एव नो गतिरित्येवं निश्विताव्यभिचा- रिणी बुद्धिरनन्ययोगस्तेन भजनं भक्तिर्न व्यभिचरणशीलाव्यभिचारिणी सा च ज्ञानं विविक्तदेशसेवित्वं विविक्तः स्वभावतः संस्कारेण वाशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितोऽरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशस्तं सेवितुं शीलमस्येति विविक्तदेशसेवी तद्भावो विविक्तदेशसेवित्वं विविक्तेषु हि दे- शेषु चित्तं प्रसीदति यतस्तत आत्मादिभावना विविक्ते उपजायतेऽतो विवि- क्तदेशसेवित्वे ज्ञानमुच्यते, अरतिररमणं व जनसंसदि जनानां प्रारूतानां संस्कारशून्यानामविनीतानां कलहोन्मुखितचित्तानां संसत् समवायो जनसंसल संस्कारवतां विनीतानां संसत्तस्या ज्ञानोपकारकत्वादतः प्राकृतजनसंसद्यरतिव्र- नार्थत्वाज् ज्ञानम् ॥ १० ॥ आ० टी० । साधनान्तरमाह किं चेति । अनन्ययोगमेव संक्षिप्तं व्यनक्ति नेत्यादिना । उक्तधीद्वारा जाताया भक्तेर्भगवति स्थैर्य दर्शयति नेति । तत्रापि ज्ञानशब्दस्तद्धेतुत्वादिगाह सा चेति । देशस्य विविक्तत्वं द्विविधमुदाहरति विविक्त इति । तदेव स्पष्टयति अरण्यति । उक्तदेशसेवित्वं कथं ज्ञाने हेतुस्तत्राह विविक्तेष्विति । आत्मादीत्यादिशब्देन परमार्थवाक्यार्थचो- च्यते । नन्वरतिविषयत्वेनाविशेषतो जनसंसन्मानं किमिति न गृह्यते तत्राह तस्या इति । सतः सङ्गस्तु भेषनमित्युपालम्भादित्यर्थः ॥ १० ॥ प० टी० । किं च मयीति । मयि परमेश्वरेऽनन्ययोगेन सर्वात्मदृष्टयाव्यभिचारिण्ये- कान्तभाक्तिः । विविक्तश्चित्तशुद्धिप्रसादकरो यो देशस्तत्र निवासे शीलं यस्य प्राकृतानां जनानां संसदि सभायामरतिः ॥ १० ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ॥ एतज् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥११॥ किं च अध्यात्मेति । अध्यात्मज्ञाननित्यत्वमात्मादिविषयं ज्ञानमध्या- स्मज्ञानं तस्मिन् नित्यभावो नित्यत्वममानित्वादीनां ज्ञानसाधनानां भावनाप- श्रीमद्भगवद्गीता- रिपाकनिमित्तं तत्त्वज्ञानं तस्यार्थो मोक्षः संसारोपरमस्तस्यालोचनं तत्त्वज्ञाना- र्थदर्शनं, तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादित्येतदमा- नित्वादितत्त्वज्ञानार्थदर्शनान्तमुक्तं, ज्ञानमिति प्रोक्तं ज्ञानार्थत्वाद् अज्ञानं यदेत- स्माद् यथोक्तादन्यथा विपर्ययेण मानित्वं दम्भित्वं हिंसा क्षान्तिरनार्जवमि- त्याद्यज्ञानं विज्ञेयं परिहरणाय संसारप्रवृत्तिकारणत्वादिति ॥ ११ ॥ आ० टी० । साधनान्तरमाह किं चेति । आत्मादीत्यादिशब्दोऽनात्मार्थस्तद्विषयं ज्ञानं विवेकस्तन्नित्यत्वं तत्रैव निष्ठावत्त्वं विवेकनिष्ठो हि वाक्यार्थज्ञानसमर्थों भवति तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वं तन्निमित्तं तत्त्वज्ञानमैक्यसाक्षात्कारः । तत्फलालोचनं किमर्थ- मित्याशङ्कयाह तत्त्वेति । प्रवृत्तिः स्यादित्यतस्तत्त्वज्ञानार्थदर्शनमर्थवादति शेषः । ज्ञानस्यान्त- रङ्गहेतुमुक्तमुपसंहरति एतदिति । किमिति तस्य विज्ञेयत्वमित्याशङ्कयाह परिहरणायेति । तत्र हेतुः संसारेति । तस्य प्रवृत्तिरुत्पत्तिस्तद्धेतुत्वान्मानित्वादि त्याज्यं ज्ञात च त्याज्यत्वे तेन तस्य ज्ञे- यतेत्यर्थः । इतिशब्दः साधनाधिकारसमाप्तयर्थः ॥ ११ ॥ प० टी० । किं च अध्यात्मोत । आत्मानमधिकृत्य वर्तत इत्यध्यात्मज्ञानं तस्मिन्नित्य- त्वं नित्यभावस्तत्त्वंपदार्थशुद्धिनिष्ठत्वमित्यर्थः । न त्वज्ञानस्यार्थः प्रयोजनं मोक्षस्तस्य दर्शनं सर्वोत्कृष्ट- त्वालोचनम् । एतदमानित्वमदम्भित्वमित्यादिविंशतिप्रकारं ज्ञानं ज्ञानसाधनं प्रोतम् । अतोऽन्यथास्मा- द्विपरीतं मानित्वादि यदेतदज्ञानमिति ज्ञानविरोधित्वात्। अतः सर्वथा त्याज्यामित्यर्थः ॥ ११ ॥ ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ॥ अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२॥ यथोक्तेन ज्ञानेन ज्ञातव्यं किमित्याका कायामाह ज्ञेयं यत्तदित्यादि । ननु यमा नियमाश्चामानित्वादयो न तैर्तेयं ज्ञायते न ह्यमानित्वादि कस्य चि- इस्तुनः परिच्छेदकं दृष्टं, सर्वत्रैव यहिषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छे- दकं दृश्यते, न ह्यन्यविपयेण ज्ञानेनान्यदुपलभ्यते 'यथा घटविषयेण ज्ञानेना- गिनैष दोषो ज्ञाननिमित्तत्वाज् ज्ञानमुच्यते इति ह्यवोचाम ज्ञानसहकारि- कारणत्वाच्च ज्ञेयमिति 'ज्ञेयं ज्ञातव्यं यत्तत् प्रवक्ष्यामि प्रकर्षेण यथावक्ष्यामि किं आ० टी० । उत्तरग्रन्थमवतारयति यथोक्तति । अमानित्वादीनां ज्ञानत्वमाक्षिपंति नन्वि- ति । वस्तुपरिच्छेदकत्वाज् ज्ञानत्वमाशङ्कयाह नहीति । परिच्छेदकत्वाज़ ज्ञानत्वं ज्ञानत्वात् परिच्छे- दकत्वमित्यन्योन्याश्रयादित्यभिप्रेत्याह सर्वत्रेति । स्वार्थस्यैव ज्ञानं परिच्छेदकमित्येतचीतरेकद्वारा विशदयति नहींति । व्यतिरेकदृष्टान्तमाह यथेति । अमानित्वादीनां ज्ञानत्वमाक्षिप्त प्रतिक्षिपति नैष दोष इति । तत्र हेतुत्वेनोक्तं स्मारयति ज्ञानेति । तेषु ज्ञानशब्दे हेत्वन्तरमाह ज्ञानेति । अमानि- त्वादीनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति ज्ञेयमिति । प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा प्ररोचनं कृत्वा तेन श्रोतुराभिमुख्यमापादयितुं प्ररोचनफलोक्तिपरमनन्तरवाक्यमित्याह किमित्यादिना । प्रवचनफलोक्ति--पा० लि. प. ।

त्रयोदशाध्यायः । ३८५ फलं तदिति प्ररोचनेन श्रोतुरभिमुखीकरणायाह यज्ज्ञेयं ज्ञात्वामृतत्वमश्नुते न पुनर्पियत इत्यर्थः । अनादिमद् आदिरस्यास्तीत्यादिमन्नादिमदनादिमत्, किं तत् परं निरतिशयं ब्रह्म ज्ञेयमिति प्रकृतम् । अत्र केचिद् 'अनादि मत्परमिति पदं छिन्दन्ति बहुव्रीहिणोक्तेऽर्थे मतुप आनर्थक्यमनिष्टं स्यादित्यर्थविशेषं च दर्शयन्ति, अहं वासुदेवाख्या परा शक्तिर्यस्य तन्मत्परमिति, सत्यमेवमपुनरुक्तं स्या- दर्थश्चेत् संभवति न त्वर्थः संभवति ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञाप- यिषितवान सत्तनासदुच्यत इति विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्चेति विप्रतिषिद्धं तस्मान्मतुपो बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः । अमृतत्वफलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुरवीकृत्याह न सत्तज् ज्ञेयमुच्यत इति नाप्यसत्तदुच्यते । ननु महता परिकरबन्धेन कण्ठरवेणोडुष्य ज्ञेयं प्रवक्ष्या- मीत्यननुरूपमुक्तं न सत्तन्नासदुच्यत इति'न, अनुरूपमेवोक्तं कथं सर्वासु ह्युप- निपत्सु ज्ञेयं ब्रह्म “नेति नेत्यस्थूलमनणु” इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते नेदं तदिति वाचोऽगोचरत्वात् ,ननु तदस्ति यहस्त्वस्तिशब्दनोच्यते, अथास्ति- शब्देन नोच्यते नास्ति तज् ज्ञेयं विप्रतिषिद्धं च ज्ञेयं तदस्तिशब्देन नोच्यत इति तदेव विशिनष्टि अनादिमदिति । आदिमत्त्वराहित्यमव्याकृतस्यापि । ततो विशेष दर्शयति किं तदि- ति।भोक्तुरपि भोग्यात् परत्वमित्यतो विशिनाष्टिब्रह्मेति । अनादीत्येकं पदं मत्परमितिचापरमिति पदच्छे- दान्न पुनरुक्तिरिति मतान्तर मुत्थापयति अत्रेति । एकपदत्वसंभवे किमिति पदद्वयमित्याशङ्कयाह बहु- व्रीहिणेति । आदिरस्य नास्तीति यो बहुव्रीहिणोक्तोऽर्थस्तस्मिन्नादिमत्त्वनिपधे नास्ति मतुपोऽर्थवत्त्व- मिति मतुबानर्थक्यमनिष्टं स्यादिति मत्त्वा पदं छिन्दन्तीति पूर्वेण संबन्धः । आदिरस्य नास्ती- त्यनादीत्युक्त्वा मत्परमित्युच्यमाने कोऽर्थः स्यादित्याशङ्कयाह अर्थेति । उक्तव्याख्यानस्यायुक्तत्वा- नायं पुनरुक्तिसमाधिरित्याह सत्यमिति । अर्थासंभवं समर्थयते ब्रह्मण इति । तथापि विशिष्टशक्ति- मत्वं किं न स्यादित्याशङ्कयाह विशिष्टेति । तथापि मतुपो बहुव्रीहिणा तुल्यस्यार्थस्य कथं नान- र्थक्यं तत्राह तस्मादिति । अनादिमत्परं ब्रह्मेत्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः संप्रति ब्रह्मणो ब्रह्मवादेव कार्यकारणात्मकत्वप्राप्तावुक्तानुवादद्वारा न सदित्याद्यवतारयति अमृतत्वेति । सत्कार्यमाभिव्यक्तनामरूपत्वादसत्कारणं तद्विपर्ययादिति विभागः । ज्ञेयप्रवचनमनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलामत्याक्षिपति नन्विति । निर्विशेपस्य वस्तुनो ज्ञेयत्वात्तद्विपयं प्रवचनं प्रक्रमानुकूल- मित्युत्तरमाह नेसादिना । अनिर्वाच्यत्वेन न सत्तन्नासदित्युच्यमाने कथमिदमनुरूपमिति पृच्छति कथमिति । ब्रह्मात्मप्रकाशस्य सिद्धत्वात्तदर्थ विधिमुखेनोपदेशायोगादध्यस्तात्तद्धर्मनिवृत्तये निषेधद्वा- रोपदेशस्य वेदान्तेषु प्रसिद्धेरारोपितविशेषनिषेधरूपमिदं प्रवचनमुचितमिति परिहरति सर्वास्विति । ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह वाच इति । ब्रह्मणोऽस्तिशब्दावाच्यत्वे नरविषाण- वन्नास्तित्वमित्यनिष्टमाशङ्कते नन्विति । एवमुत्सर्गेऽपि ब्रह्माण किमायातमित्याशङ्कयाह अथेति । ज्ञेयस्यास्तिशब्दावाच्यत्वे व्याघातश्चेत्याह विप्रतिषिद्धं चेति । अस्तिशब्दवाच्यत्वादवस्तु ब्रह्मेत्य- श्रीमद्भगवद्गीता- च'न तावनास्ति 'नास्तिबुद्धयविषयत्वात् । ननु सर्वा बुद्धयोऽस्तिनास्तिबुद्ध्यनु- गता एव तत्रैवं सति ज्ञेयमप्यस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यानास्तिवुद्ध्यनुगत- प्रत्ययविषयं वा स्यानातीन्द्रियत्वेनोभयबुद्धयनुगतप्रत्ययाविषयत्वाद् यद्दीन्द्रिय- गम्यं वस्तु घटादिकं तदस्तिबुद्दयनुगतप्रत्ययविषयं वा स्यानास्तिवुद्ध्यनुगतप्र- त्ययविषयं वा इदं तु ज्ञेयमतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वान घटादिवदुभ- यबुद्ध्यनुगतप्रत्ययविषयमित्यतो न सत्तनासदित्युच्यते, यत्तूक्तं विरुद्धमुच्यते 'ज्ञेयं यन्न सत्तनासदुच्यते इति न विरुद्धम् “अन्यदेव तहिदितादथो अविदिता- दधि” इतिश्रुतेः । श्रुतिरपि विरुद्धार्थेति चेद् यथा यज्ञाय शालामारभ्य को हि तहेद यद्यमष्मिल्लोकेऽस्ति वा न वेतीत्येवमिति चेन, विदिताविदिताभ्याम- न्यत्वश्रुतेरवश्यविज्ञेयार्थप्रतिपादनपरत्वात् । यद्यमुष्मिन्नित्यादि तु विधिशे- पोऽर्थवाद उपपत्तेश्च सदादिशब्दब्रह्म नोच्यत इति सर्वो हि शब्दोऽर्थप्रका- शनाय प्रयुक्तः श्रूयमाणश्च श्रोतृभिर्जातिक्रियागुणसंबन्धहारेण संकेतग्रहणं सव्यपेक्षो प्रत्याययति नान्यथादृष्टत्वात्, तद् यथा गौरश्व इति वा जातितः, पचतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतो, धनी गोमानिति च सं- बन्धतो, न तु ब्रह्म जातिमदतो न सदादिशब्दवाच्यं 'नापि गुणवद्येन गुण- त्राप्रयोजकत्वमाह न तावदिति । नास्तिबुद्धिविषयत्वमेवावस्तुत्वे निमित्तमतस्तदभावाद् ब्रह्मणो नाव- स्तुतेत्येतदेव व्यक्तीकर्तुं चोदयति नन्विति। सर्वासां धियामस्तिधीत्वेव नास्तिधीत्वेन वानुगतत्वेऽन्यतर- धीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वं दुर्वारमिति फलितमाह तत्रेति। ब्रह्मणो घटादिवलक्षण्याद्भयबु- इयविषयत्वेऽपि नानिर्वाच्यतेत्याह नेत्यादिना। घटादरिन्द्रियग्राह्यस्योभय बुन्हिविषयत्वेऽपि ब्रह्मण- स्तदग्राह्यस्य नोभयधीविषयत्वं तथापि नानिर्वाच्यत्वं सच्चिदेकतानस्य शब्दप्रमाणादविषयत्वेन दृष्ट- त्वादित्युक्तमेव प्रपञ्चयात यद्धीति । परोक्तं विरोधमनुवदति यत्त्विति । श्रुत्यवष्टम्भेन निराचष्टे न विरुद्धमिति । सापि विरुद्धार्थत्वानुमानं बोधकत्वस्याविरोधापेक्षत्वादिति शङ्कते श्रुतिरिति । त- स्याविरुद्धार्थत्वेनाप्रामाण्ये दृष्टान्तमाह यथेति । प्राचीनवंशं करोतीति पारलौकिकफलयज्ञानुष्ठानार्थ शालानिर्माणं प्रस्तुत्य को हि तद्वेदेत्याद्या परलोकसत्त्वे संदिहाना यथा विरुद्धार्थी श्रुतिरप्रमाणमेवं विदिताविदितान्यत्वश्रुतिरपीत्यर्थः । नेयं श्रुतिविरुद्धत्वेनामानतया हातव्या ब्रह्मण्यद्वितीये प्रत्यक्ता- प्रतिपादनेन मानवादित्युत्तरमाह न विदितेति । यत्तु विरुद्धार्थत्वे को हीत्युदाहृतं तदंसदर्थवादस्य विधिशेपस्य स्वार्थे तात्पर्यादित्याह यदीति । यत्र जात्यादिमत्वं तत्र वाच्यत्वं यथा गवादी न ब्रह्मणि जात्यादिमत्त्वमतस्तस्यावाच्यत्वान्निषेधेनैव बोध्यत्वमित्याह उपपत्तेश्चति । नोच्यत इति । निषधेनैव तस्पोपदेश इति शेषः । जात्यादिमतोऽर्थस्यैव वाच्यत्वं तत्रैव सङ्गतिग्रहादिति प्रपञ्चयति सर्वो हीति । अश्रुतस्य जात्यादिद्वारेणाज्ञातसङ्गतर्वाशब्दस्य न बोधकत्वमदृष्टेरित्याह नान्यथेति । जात्यादः सच्छन्दविषयत्वमुदाहरति तद्यथयादिना । ब्रह्मणस्त्वगोत्रत्वमवर्णत्वमित्यादिश्रुते - त्यादिमत्त्वाभावान्न शब्दवाच्यतेत्याह न त्विति । केवलो निर्गुणश्चेति श्रुतेर्गुणद्वारा ब्रह्मणो न १ सदसदादिशब्दैः-पा० लि. पु० ।

त्रयोदशाध्यायः। ३८५ शब्देनोच्यते निर्गुणत्वान्नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् “निष्कलं निष्क्रिय शान्तम्" इति श्रुतेः । न च संबन्ध्यैकत्वादइयत्वादविषयत्वादात्मत्वाचन के. न चिच्छब्देनोच्यत इति युक्तं “यतो वाचो निवर्तन्ते” इत्यादिश्रुतिभ्यश्च ॥१२॥ वाच्यतेत्याह नापीति । केवलं निर्गुणमिति निष्क्रियत्वे मानमाह निष्कलमिति। ब्रह्मणोऽद्वितीयत्व स्याशपोपनिषत्सु सिद्धत्वाद्विशिष्टस्य संबन्धस्य तस्मिन्नसिद्धेर्न तस्य वाच्यतेत्याह न चेति । ब्रह्म- ण्यभिधावृत्त्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह अद्वयवादिति । ब्रह्मणो वाच्यत्वे श्रुतिमपि संवादयात यतइति ॥ १२ ॥ प० टी०। एभिः साधनैर्यज्ज्ञेयं तदाह ज्ञेयमितिपद्भिः।यज्ज्ञेयं तत्ते प्रवक्ष्यामि श्रोतुरवधानसिद्धये। ज्ञानफलमाह यदिति । यद्वक्ष्यमाणं ज्ञात्वामृत मोक्षमभुते प्राप्नोति किं तद् आदिमन्न भवतीत्यनादिमत् परं निरतिशयं ब्रह्म, यहा मत्परं मत्तः परं निर्विशषं ब्रह्म । तदेवाह न सदिति । तद्ब्रह्म न सन्नाप्यसन विधिमुखेन प्रमाणस्य विषयः सदित्युच्यते निषेधविपयस्त्वसत् । इदं तु तदुभयविलक्षणम- तिविषयत्वात् ॥ १२ ॥ सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥ सर्वतःश्रुतिमल्लोके सर्वमात्य तिष्ठति ॥ १३ ॥ सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिहा- रेण तदस्तित्वं प्रतिपादयंस्तदाशङ्कानिवृत्त्यर्थमाह सर्वत इति । सर्वतःपाणिपा- दं तत् सर्वत्र पाणयः पादाश्चास्येति सर्वतःपाणिपादं तज् ज्ञेयं सर्वप्राणिकरणो- पाधिभिः क्षेत्रज्ञास्तित्वं विभाव्यते क्षेत्रज्ञश्च क्षेत्रोपाधित उच्यते क्षेत्रं च पा- णिपादादिभिरनेकधा भिन्नं क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्येति' तदपनयनेन ज्ञेयत्वमुक्तं न सत्तनासदुच्यते इत्युपाधिकृतं मिथ्यारूपमप्यस्ति- त्वाधिगमाय ज्ञेयधर्मवत्परिकल्प्योच्यते सर्वतःपाणिपादमित्यादि । तथाहि सं- प्रदायविदां वचनम् 'अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपच्यते' इति।सर्वत्र स- वैदेहावयवत्वेन गम्यमानाः पाणिपादादयो ज्ञेयशक्तिसद्भावनिमित्तस्वकार्या इ- ति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्येत्युपचारत उच्यन्ते तथा व्याख्येयमन्यत् सर्वतः- पाणिपादं तज् ज्ञेयं, सर्वतोऽक्षिशिरोमुखं सर्वत्राक्षीणि शिरांसि मुरवानि च यस्य तत् सर्वतोऽक्षिशिरोमुखं, सर्वतःश्रुतिमन् सर्वत्र श्रुतिमच्छृतिः श्रवणेन्द्रियं तद् यस्य तच्छृतिमल्लोके प्राणिनिकाये सर्वमावत्य संव्याप्य तिप्टंति स्थितिं ल- भते ॥ १३ ॥ आ० टी० । सर्वविशेषरहितस्यावाङ्मनसगोचरस्यादृप्टेटष्टेश्च विपरीतस्य प्राप्ते ब्रह्मणः शून्यत्वे प्रत्यक्त्वनेन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पितद्वैतसत्तास्फूर्तिप्रदत्वेनेश्वरत्वेन च सत्त्वं दर्शयन्नादौ १ अद्यस्या-पा० लि. पु. ।

३८८ श्रीमद्भगवद्गीता- देहादीनां प्रवृत्तिमतां रथादिवदचेतनानां प्रेक्षापूर्वकप्रवृत्तिमत्त्वाच् चेतनाधिष्ठितत्वम नुमिमानस्तत् प्रत्यक्चेतनं ब्रह्मत्याह सच्छन्दति । तदस्तित्वमिति तच्छब्दो ज्ञेयब्रह्मार्थः । तदाशङ्कति तच्छब्देना- सत्त्वमुच्यते । ननु सर्वदेहेषु पाणिपादमस्येति कथं पाणीनां च पादानां च देहस्थत्वेनात्मधर्मत्वं तत्राह सर्वेति । करणप्रवृत्ती रथादिप्रवृत्तिवत् प्रेक्षापूर्वक प्रवृत्तिमत्त्वाच्चेतनाधिष्ठातृपूर्विकेत्यर्थः । उक्तप्रवृत्त्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वमित्याशङ्कय चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वाच्चेतनास्तित्व तदस्तित्वमेवेत्याह क्षेत्रज्ञश्चेति । तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्त्वमित्याश- कयाह क्षेत्रं चेति । अतश्योपाधितस्तस्मिन् विशेषोक्तिरिति शेषः । कथं तर्हि न सत्तन्नासदिति नि- विशेषत्वोक्तिरित्याशङ्कयाह क्षेत्रेति । पाणिपादादिमत्त्वमौपाधिकं मिथ्या चेज् ज्ञेयप्रवचनाधिकारे कथं तदुक्तिरित्याशङ्कयाह उपाधीति । मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगीत्यत्र वृद्धसंमतिमाह तथा हीति । पाणिपादादीनामन्यगतानामात्मधर्मत्वेनारोप्य व्यपदेशे को हेतुरिति चेत् तत्राह सर्व- वेति । ज्ञेयस्य ब्रह्मणः शक्तिसंनिधिमात्रेण प्रवर्तनसामर्थ्य तत्सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादय इति कृत्वेति योजना । सर्वतोऽक्षीत्यादा वुक्तमतिदिशति तथेति । तन ज्ञेयं यथा सर्वतः पाणिपादमिति व्याख्यातं तथेत्युक्तमेव स्पष्टयति सर्वत इति । सर्वतोऽक्षीत्यादेरक्षरार्थमाह सर्वतोऽक्षीति । आक्षिश्रवणवत्त्वमवशिष्टज्ञानेन्द्रियवत्त्वस्य पाणिपादमुखवत्त्वं चावशिष्टकर्मेन्द्रियव- स्वस्य मनोबुद्दयादिमत्त्वस्य चोपलक्षणम् । एकस्य सर्वत्र पाण्यादिमत्त्वं साधयति सर्वमिति ॥ १३ ॥ ५० टी० । अथ प्रमाणविषयीभूतस्य सतो विचित्रशक्तित्वं दर्शयन्नाह सर्वत इति पञ्चभिः। तज ज्ञानं क्रियाशक्तिमद् ब्रह्म सर्वतः समन्ततः पाणिपादा यस्य सर्वतोऽक्षीण शिरांसि यस्य सर्वतः श्रु- तिमच्छ्रवणयुक्तं सल्लोके सर्वमावृत्य व्याप्य तिष्ठति । श्रुतिरपि--"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वता- बाहुरुत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रै-वाभूमी जनयन् देव एकः” इति । भाप्यम्-अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ठानाद्यभावेऽपि स्रष्टुं शक्नोतीत्याह विश्वतश्चक्षुः सर्वता व्याप्तचक्षुः उतापि च विश्वतोमुखः स तथा विश्वतोबाहुः उतापि विश्वतस्पात् । स एव परमेश्वरः स्वस्मिन् त्रैलोक्यमुत्पादयति कथमित्युच्यते । बाहुभ्यां दिवमं धमति । धमतिर्गतिकर्मा । सम्यक प्रेरयति । तथा पतत्रैर्गमनशीलैः पादः पृथिवीं संधमति, उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं द्यां पृथिवीं च जनयन् देवो द्योतमानः परमेश्वर एकोऽमहाय एवं वर्तते ॥ १३ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ असक्तं सर्वभृच्चैध निर्गुणं गुणभोक्तृ च ॥१४॥ उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणानुज्ञेयस्य तहनादाङ्का माभूदि- त्येवमर्थः श्लोकारम्भः सन्द्रियेति । सर्वेन्द्रियगुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यान्यन्तःकरणे च बुद्धिमनसी ज्ञेयोपाधित्वस्य तुल्यत्वात् सर्वेन्द्रियग्रहणेन गृह्येते, अपि चान्तःकरणोपाधिहारेणैव श्रोत्रादी- नामप्युपाधित्वमित्यतोऽन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैरध्यवसायसं- कल्पश्रवणवचनादिभिरवभासत इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारा- पृतमिव तज्ज्ञेयामित्यर्थः । “ध्यायतीव लेलायतीव” इति श्रुतेः । कस्मात् पुनः कारणान व्यापृतमेवेति गृह्यत इत्यत आह सर्वेन्द्रियविवर्जितं सर्वकरणरहित

प्रयोदशाध्यायः ।
३८९
मित्यर्थः । अतो न करणव्यापारातं तज्ज्ञेयम् । यस्त्वयं मन्त्रः-“अपाणिपादो
जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” इत्यादिः सर्वेन्द्रियोपाधिगुणानु-
गुण्यभजनशक्तिमत् तज्ज्ञेय मित्येवं प्रदर्शनार्थो न तु साक्षादेव जवनादिक्रिया-
वत्त्वप्रदर्शनार्थः। “अन्धो मणिमविन्दद्" इत्यादिमन्त्रार्थवत्तस्य मन्त्रस्यार्थः । य-
स्मात् सर्वकरणवर्जितं ज्ञेयं तस्मादसक्तं सर्वसंश्लेषवर्जितं, यद्यप्येवं तथापि सर्व-
भृच्चैव सदास्पदं हि सर्व सर्वत्र सद्बुद्ध्यनुगमान हि मृगतृष्णिकादयोऽपि निरा-
स्पदा भवन्त्यतः सर्वभृत् सर्व बिभर्तीति स्यादिदं चान्यज् ज्ञेयस्य सत्त्वाधिग-
महारं निर्गुणं सत्त्वरजस्तमांसि गुणास्तैर्वर्जितं तज् ज्ञेयं तथापि गुणभोक्त च
गुणानां सत्त्वरजस्तमसां शब्दादिहारेण सुखदुःरवमोहाकारपरिणतानां भोक्तृ
चोपलब्धृ तज् ज्ञेयमित्यर्थः ॥ १४ ॥
आ० टी०। आगेपाढते साक्षादेव ज्ञेयस्य पाण्यादिमत्त्वमाशङ्कयाह उपाधीति । इन्द्रि-
यविशेषणीभूतसर्वशब्दाज़ ज्ञयोपाधित्वन्यायाविशेपाच्चात्र बुद्धचादरपि ग्रहणमित्याह अन्तःकरणे
चति । श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारत्वादपि तयोरिह ग्रहणमित्याह अपि चेति ।
तयोरपीहोपादाने फलितमाह इत्यत इति । अक्षरार्थमुक्त्वा वाक्यार्थमाह सर्वेति । उपाधिद्वारा
कल्पितव्यापारवत्त्वे मानमाह ध्यायतीति । कल्पितमेवास्य व्यापारवत्त्वं न वास्तवमित्यत्र भगवता-
पि संमतिमाकाङ्क्षाद्वारा दर्शयति कस्मादियादिना । सर्वकरणराहित्ये फलमाह अत इति । साक्षादेव
ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् कुतोऽस्य करणव्यापारैरव्यापारैरव्या पृतत्वमि-
त्याशङ्कयानवादपूर्वकं मन्त्रत्य प्रकृतानुगुणत्वमाह यस्त्विति । करणगुणानुगुण्यभननमन्तरेण साक्षा-
देव जवनादिक्रियावत्त्व प्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यादित्याशङ्कय तदसंभवान्नैवमित्याह
अन्ध इति । अथवादस्य श्रुतेऽर्थे तात्पर्याभावान्न प्रकृतप्रतिकुलतत्यर्थः । सर्वकरणराहित्यं तद्वचा-
पारराहित्यस्योपलक्षणमित्यङ्गीलत्योक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गवर्जितत्वमाह यस्मादिति
वस्तुतः सर्वसंगाभावेऽपि सर्वाधिष्ठानत्वमाह यद्यपीति । स्वमत्तामात्रणाधिठानतया सर्व पुष्णातीत्ये-
तदुपपादयति सदिति । विमतं सति कल्पितं प्रत्येकं सदनुविधीबाध्यत्वात प्रत्येकं चन्द्रभेदानुवि-
दुधीबोध्यं चन्द्रभेदवदित्यथः । सर्व सदास्पदमित्यप्युक्तं मृगतृप्णिकादीनां तदभावादित्याशङ्कयाह न
हीति । तेपामपि कल्पितत्वेन निरधिष्ठानत्वायोगान्निरूप्यमाणे तदधिष्टानं सदेवेति सर्वस्य सति क-
ल्पितत्वमविरुद्धमित्यर्थः । सर्वाधिष्ठानत्वेन ज्ञेयस्य ब्रह्मणोऽस्तित्वमुक्तमुपसंहरति अत इति ।
इतश्च ज्ञेयं ब्रह्मास्तीत्याह स्यादिदं चेति । न हि तस्योपलब्धृत्वमसत्त्वे सिध्यतीत्यर्थः ॥१४॥
प० टी० । किं च सर्वेन्द्रियति । सर्वेषां चक्षुरादीनामिन्द्रियाणां गुणेषुरूपाद्याकारासु वृत्तिषु
तत्तदाकारेण भासत इति तथा सर्वेन्द्रियैर्वनितं च। श्रुतिरपि-"अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः
स शृणोत्यकर्ण,” इति । स्पष्टार्था । असक्तं संगशून्यम् । तथापि सर्व बिभर्तीति सर्वभृच्च तदेव निर्गुणं
सत्त्वादिगुणरहितम् । गुणानां सत्त्वादीनां भोक्तृ पालकम् ॥ १४ ॥
बहिरन्तश्च भूतानामचरं चरमेव च ॥
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५॥

३९. श्रीमद्भगवद्गीता- किंच बहिरन्तरिति । बहिस्त्वक्पर्यन्तं देहमात्मत्वेनाविद्याकल्पितमपे- क्ष्य तमेवावधिं कृत्वा बहिरुच्यते । तथा प्रत्यगात्मानमपेक्ष्य देहमेवावधिं कृ. त्वान्तरुच्यते । बहिरन्तश्चेत्युक्ते मध्येऽभावे प्राप्त इदमुच्यते चरमेव च यच्च- राचरं देहाभासमपि तदेव ज्ञेयं यथा रज्जुसर्याभासः, यद्यचरं चरमेव च व्यव- हारविषयं सर्व ज्ञेयं किमर्थमिदमिति सर्न ज्ञेयमित्युच्यते 'सत्यं, सर्वाभासं तत् तथापि व्योमवत् सूक्ष्ममतः सूक्ष्मत्वात् स्वेन रूपेण तज्ज्ञेयमप्यविज्ञेयमविदुषां -विदुषां त्वात्मैवेदं सर्व ब्रह्मवेदं सर्वमित्यादिप्रमाणतो हि संविज्ञातमविज्ञाततया 'दूरस्थं वर्षसहस्रकोट्याप्यविदुषामप्राप्यत्वादन्तिके च तदात्मत्वाद् विदुषाम्॥१५॥ आ० टी० । इतोऽपि ज्ञेयं ब्रह्मास्तीत्याह किं चेति । बाहरिति व्याख्येयमादाय व्याचप्टे त्वगिति । भूतभ्यो बहिर्वाह्यं विषयाद्यात्मकमित्यर्थः । कथमनात्मन एवात्मत्वं कल्पनयेत्याह आ- त्मत्वेनेति । अन्तःशब्दार्थमाह तथेति । भूतानां चराचराणामन्तर्मध्ये प्रत्यग्भूतमित्यर्थः । द्वितीयं पादमवतार्य व्याचष्टे वहिरियादिना । यन्मध्ये भूतात्मकं नानाविधदेहात्मना भासमानं तदपि ज्ञेयान्तर्भूतं न त्वमदित्यर्थः । कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वं तत्राह यथेति । अधिष्टाने रज्ज्वां कल्पितसादेरन्तर्भाववदेहाभासस्यापि ज्ञेयान्तर्भावान्नासत्त्वं मध्ये ज्ञेयस्य शङ्कितव्यमित्यर्थः । सर्वात्मकं चेज़ ज्ञेयं सारेदमिति किमिति न गृह्येतति शङ्कते यदीति । इदमिति ग्राह्यत्वयोग्यत्वाभा- वान्नेत्याह उच्यत इति । सर्वतस्त्वात्मनाभासतस्तदयोग्यत्वं कथमित्याशङ्कयाह सत्यमिति । सू- मत्वेऽपि किं स्यादित्याशङ्कयाह अत इति । सूक्ष्मत्वमतीन्द्रियत्वं तस्याविज्ञेयत्वे कुतस्तज्ज्ञानान्मुक्ति- स्तत्राह अविदुषामिति। विशेषणफलमाह विदुपां त्विति । विदुषां हि तेषामात्मत्वेन ज्ञातं चत् कथं दूरस्थत्वमित्याशङ्कयाह अविज्ञाततयेति । कथं तर्हि तस्य प्रत्यक्त्वं तत्राह अन्तिक चेति । विद्वद- विद्वद्भेदापेक्षया "दूरात् सुदूरे तदिहान्तिके च" इति श्रुतिस्तदर्थोऽत्र प्रसङ्गादनूदित इत्यर्थः ॥ १५ ॥ प० टी० । किं च बहिरन्तश्चेति । भूतानां चराचराणां बहिर्वाह्यतोऽन्तश्च तदेव सुवर्ण- मिव कुण्डलादीनाम् । अचलं स्थावरजङ्गमं भूतजातं तदेव कारणात्मकत्वात्कार्यस्य । एवमपि सूक्ष्मत्वा- दूपादिगुणातीतत्वादविज्ञेयम् । इदं तदित्याकारेण ज्ञानाहं न भवत्यत एवाविदुषामतिदूरतः स्थि- तम् । विदुषां पुनः प्रत्यगात्मत्वादान्तके नित्यं संनिहितम् । यद्वा व्यापकत्वादटान्तर्गताकाशवहरे- न्तिकेऽपि तदेव । श्रुतिरपाशावास्योपनिषत्सु–“तदेजति तन्ननति तद्दूरे तदन्तिके । तदन्तरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः” इति । भाष्यम्-तदारमाख्यं वस्त्वेजति ‘एज़ कम्पने' कम्पते। तथा तन्नैनति निष्कम्पमस्ति । “अनेनदेकं मनसो जवीयः" इति तत्रैवोक्तम् । तथा दूरेऽन्तिके च तदेव व्यापकत्वात् । अतएव तदस्य जगतोऽन्तरस्ति तदु तथा सर्वस्यास्य बाह्यतः । यथा घटान्तर्बहिरेक आकाशोऽस्ति॥१५॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ॥ भूतभर्तृ च तज् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१६॥ किंच अविभक्तमिति । अविभक्तं च प्रतिदेहं व्योमवत् तदेकं भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितं देहेष्वेव विभाव्यमानत्वाद् भूतभर्तृ च भू-

३९१
प्रयोदशाध्यायः ।
तानि बिभर्तीति तज् ज्ञेयं भूतभर्तृ च स्थितिकाले प्रलयकाले ग्रसिष्णु ग्र-
सनशीलम्, उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सीदेमि-
थ्याकल्पितस्य ॥ १६ ॥
आ० टी० । ज्ञेयस्यास्तित्वे हेत्वन्तरमाह किं चेति । तद्धि प्रतिदेहं नभोवदेकं तद्भेदे
मानाभावाद् भिन्नत्वे च घटवदनात्मत्वापातादतोऽद्वितीयम् सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीत्यतिसाहसमि-
त्याह अविभक्तं चेति । कथं तर्हि देहभेदे भेदधीरित्याशय कल्पनयेत्याह भूतेष्विति । तत्र हेतुः
देहेष्विति । कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्तीत्याह भूतेति । निमित्तापादानतया तेषां प्रलये
प्रभवे च कारणत्वाच्च तदस्तीत्याह प्रलयेति । तार्ह कार्यकारणत्वस्य वस्तुत्वान्नाद्वैतमित्याशङ्क्याह
यथेति ॥ १६ ॥
प० टी० । किं च अविभक्तमिति । भूतेषु नानारूपात्मकेषु कारणात्मनाविभक्तमेकं तर-
गावर्तकल्लोलेप्वेकं जलमिवास्ति । यथा वा तरङ्गादीनामुत्पत्तिस्थितिलयानामुदकमेवाश्रयस्तहबूत-
भत स्थितिकाले पोपकं, ग्रसिष्णु संहारकाले ग्रसनशीलं, सृष्टिकाले प्रभविष्णु नानाकार्यात्मना प्रभ-
वनशीलं तदेव ज्ञेयम् ॥ १६ ॥
ज्योतिषामपि तज्योतिस्तमसः परमुच्यते ॥
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्टितम् ॥ १७॥
किंच सर्वत्र विद्यमानं सन्नोपलभ्यते चेज् ज्ञेयं तमस्तर्हि न, किं तार्ह
ज्योतिपामपीति । ज्योतिपामादित्यादीनामपि तज ज्ञेयं ज्योतिरात्मचैतन्यज्यो-
तिपेद्धानि ह्यादित्यादीनि ज्योतींषि दीप्यन्ते “ येन सूर्यस्तपति तेजसेद्धस्तस्य
भासा सर्वमिदं विभाति ” इत्यादि श्रुतिभ्यः। स्मृतेश्च इहैव ' यदादित्यगतं तेज'
इत्यादेस्तमसोऽज्ञानात् परमस्पृष्टमुच्यते ज्ञानमिति । ज्ञानादेर्युःसंपादनवुया
प्राप्तावसादस्योत्तम्भनार्थमाह ज्ञानममानित्वादि । ज्ञेयं यत्तत् प्रवक्ष्यामीत्या-
दिनोक्तं ज्ञानगम्यं ज्ञेयमेव ज्ञातं सज् ज्ञानफलमिति ज्ञानगम्यमुच्यते ज्ञायमा-
नं तु ज्ञेयं तदेतत्रयमपि हृदि बुद्धी सर्वस्य प्राणिजातस्य विष्ठितं विशेपेण
स्थितम्
आ० टी० । इतोऽपि ज्ञेयस्यास्तित्वमित्याह किं चेति । हेत्वन्तरमेव स्फोरयितुं शकते
सर्वत्रेति । न तत्तमो मन्तव्यमित्राह नेति । तर्हि किं तस्य रूपमिति पृच्छति किं तीति । तत्रो-
त्तरं ज्योतिषामिति । सूर्यादीनां बुद्धयादीनां च प्रकाशकत्वादस्ति ज्ञेयं ब्रह्मत्याह ज्योतिषा-
मिति । तदेवोपपादयति आत्मति । तत्र श्रुतिद्वयं प्रमाणयति येनेति । उक्तेऽर्थे वाक्यशेषमपि
दर्शयति स्मृतेश्चेति । ज्ञेयस्यातमस्त्वेऽपि तमःस्पृष्टत्वमाशङ्कयोक्तं तमस इति । उत्तरार्धस्य तात्पर्य-
माह ज्ञानादरिति । उत्तम्भनमुद्दीपनं प्रकटीकरणमिति यावत्, ज्ञानममानित्वादि, करणव्युत्पत्त्येति
शेषः । ज्ञानगम्यं ज्ञेयमिति पुनरुक्तिं शङ्कित्वोक्तं ज्ञेयमिति । उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं
प्रकटयति तदेतदिति ॥ १७ ॥

श्रीमद्भगवद्गीता- १७ प० टी० । किं च ज्योतिपामिति । ज्योतिषां सूर्याग्निचन्द्रादीनां ज्योतिः प्रकाशकम् । न हि सूर्येण सूर्यो ज्ञायते किं तु चित्प्रयुक्तेन चक्षुषेत्यर्थः । आत्मज्योतिरेवायं पुरुषस्तथा “यस्य भासा सर्वमिदं विभाति" इतिश्रुतेः । यद्वा ज्योतिषां सूर्यादीनां मध्ये ज्योतीरूपत्वेन स्थितम् “येन मूर्य- स्तपति योसावादित्यो हिरण्मयः पुरुषः सो सावहम्" इत्यादिश्रुतेः । किं च तमसोऽज्ञानात्परं पर- स्तात् “आदित्यवर्ण तमसः परस्ताद" इतिश्रुतेः। ज्ञानं बुद्धिवृत्त्यभिव्यक्तं तदेवं रूपाद्याकारेण ज्ञेयम् । यञ्चोक्तं ' ज्ञानस्याभ्यन्तरे ज्ञेयं माधुर्य पयसो यथा' इति । ज्ञानगम्यममानित्वादिज्ञानसाधनगम्यम् । सर्वभूतजातस्य हृदि विष्टितं विशेषेणाप्रच्युतरूपेण नियन्तृत्वेन स्थितम् ॥ १७ ॥ इति क्षेत्र तथा ज्ञानं ज्ञेयं चोक्तं समासतः॥ मद्भक्त, एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८॥ तत्रैव विभाव्यते । यथोक्तार्थोपसंहारार्थोऽयं श्लोक आरभ्यते इति क्षेत्रमिति । इत्येवं क्षेत्रं महाभूतादि घृत्यन्तं'तथा ज्ञानममानित्वादि तत्त्वज्ञानार्थ- दर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत्तद्' इत्यादि 'तमसः परमुच्यते' इत्येवमन्तमुक्तं समा- सतः संक्षेपत' एतावान् सर्वो हि वेदार्थो गीतार्थश्चोपसंहृत्योक्तोऽस्मिन् सम्यम् दर्शने कोऽधिक्रियत इत्युच्यते मद्भक्तो मयीश्वरे सर्वज्ञे परमगुरौ वासुदेवे स. मर्पितसर्वात्मभावोयत् पश्यति शणोति स्पृशति वा सर्वमेव भगवान् वासुदेव इत्येवंग्रहाविष्टबुद्धिर्मद्भक्तः सन्नेतद्यथोक्तं सम्यग् दर्शनं विज्ञाय मद्भावाय मम भावो मद्रावः परमात्मभावस्तस्मै परमात्मभावायोपपद्यते युज्यते मोक्षं गच्छति ॥१८॥ आ० टी० । तत्रानुभवमनुकूलयति तत्रैवेति । तमर्थशुद्धयर्थ सविकारं क्षेत्रं पदवाक्यार्थ- विवेकसाधनं चामानित्वादि तत्पदार्थ च शुद्धं तद्भावाक्तयर्थमुक्त्वा तेषां फलमुपसंहरति यथोक्तति । पूर्वार्ध विभनते इसवमिति । वक्तव्यान्तर सति किमिति त्रितयमेव संक्षिप्योपसंहृतं तत्राह एता. वानिति । उत्तरार्धमाकाङ्क्षाद्वारावतारयति अस्मिन्निति। ईश्वरे समर्पितसर्वात्मभावमेवाभिनयति यत् पश्यतीति । विज्ञाय लब्ध्वेत्यर्थः ॥ १८ ॥ प० टी० । उक्तक्षेत्रादिकमुपसंहरन्नाह इतीति । इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानममानित्वादि तत्त्वज्ञानार्थदर्शनान्तं ज्ञेयमनादि मत्परं ब्रह्मेत्यादि हृदि सर्वस्य विष्ठितमित्यन्तं व- शिष्ठादिभिर्विस्तरेणोक्तम् । मया तु समासेन संक्षेपेणोक्तम् । एतत्तु पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति । तदुक्तम् ‘अग्नौ वपद् घृतं सर्वमग्निरेव भवेद्यथा । वि- दितं विदितं वेद्यं संविदेव भवेत्तथा । कर्पूरो दीपसंसर्गादीप एव भवेद्यथा । वेद्यवेदनसंसर्गात्संविदेव भवेत्तथा । संविदितं संविदितं संविन्मयमेव भवति संवेद्यम् । अग्नावाहितमाहितमग्निमयं किं न जायते काष्ठम्' इति ॥ १८ ॥ इति क्षेत्र तथा ज्ञानं शेषं चोक्तं समासत महक एतदिज्ञाय मजाकायोफ्पयते ॥१९॥ प्रमात परवरदियाना उभावपि ।

. त्रयोदशाध्यायः । तत्र सप्तम ईश्वरस्य हे प्रकृती उपन्यस्ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे एत- योनीनि भूतानीति चोक्तं क्षेत्रक्षेत्रज्ञप्रकृतिहययोनित्वं कथं भूतानामित्ययमर्थोऽ- धुनोच्यते प्रकृतिमिति । प्रकृति पुरुषं चैवेश्वरस्य प्रकृती ती प्रकृतिपुरुषावुभा- वप्यनादी, न विद्यते आदिर्ययोस्तावनादी नित्यत्वादीश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुं प्रकृतिइयवत्त्वमेव हीश्वरस्येश्वरत्वं 'याभ्यां प्रकृतिभ्यामीश्वरो जगदुत्पत्तिस्थितिप्रलयहेतुस्ते हे अनादी सत्यौ संसारस्य कारणं, न आदी अ- नादी इति तत्पुरुषसमासं केचिदर्णयन्ति तेन हि केवलेश्वरस्य कारणत्वं सि- ध्यति, यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगनेश्वरस्य ज- गतः कर्तृत्वं तदसत्, प्राक् प्रकृतिपुरुषयोत्पत्तेरीशितव्याभावादीश्वरस्यानी- श्वरत्वप्रसङ्गात्' संसारस्य निनिमित्तत्वे आनिर्मोक्षत्वप्रसाच्छास्त्रानर्थक्यप्रसङ्गा- द् बन्धमोक्षाभावप्रसङ्गाच नित्यत्वे पुनरीश्वरप्रकृत्योः सर्वमेतदुपपन्नं भवेत् कथं, विकारश्च गुणांश्चैव वक्ष्यमाणान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःख- मोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृतिसंभवान् प्रकृतिरीश्वरस्य वि- कारकारणं शक्तिस्त्रिगुणात्मिका माया सा संभवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि जानीहि प्रकृतिसंभवान् प्रकृतिपरिणामान् ॥१९॥ आ० टी० । प्रकृतिमित्यादि वक्ष्यमाणमनन्तरपूर्वग्रन्थसंबन्धीत्याशङ्कय व्यवहितेन संबन्धार्थ व्यवहितमनुवदति तत्रेति । तयोश्च प्रकृत्योरुक्तं भूतकारणत्वमित्याह एतदिति । भूतानामिव प्रक- त्योरपि प्रकृत्यन्तरापेक्षयानवस्थानान्न भृतयोनितति शकते क्षेत्रेति । तत्राकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थमात्मनो विक्रियावत्त्वादिदोषनिरासाथं च प्रकृतिपुरुपयोरनादित्वं क्षेत्रत्वेनोक्ता- नां विकारभावत्वं च दर्शयति अयमर्थ इति । स च यो यत्स्वभावश्चेत्युद्दिष्टं व्याचष्टे प्रकृतिमिति । ईश्वरस्यापरा प्रकृतिरत्र प्रकृतिशब्देनोक्ता परा तु प्रकृति वाख्या पुरुपशब्देन विवक्षितेति व्या- करोति ईश्वरस्येति । तयोरनादित्वं व्युत्पादयति नेयादिना । तत्र युक्तिमाह निसत्वादीश्वरस्येति । ईश्वरस्योक्तप्रकृतिद्वयवत्त्वं कथमित्याशङ्कयाह प्रकृतीति । तस्य जगज्जन्मादौ स्वातन्त्र्यमेवेश्वरत्वं न प्रकृतिद्वयवत्त्वमित्याशङ्कयाह याभ्यामिति । प्रकृत्योरनादित्वं कुत्रोपयुक्तमित्याशङ्कयाह त इ- ति । मतान्तरमाह नेसादिना । तयोभूलकारणत्वाभावे कस्य तदेष्टव्यमित्याशङ्कयाह तेन हीति । प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धमीश्वरस्य तथात्वं न स्यादित्याह यदीति । प्रकृतिद्वयस्य कार्यत्वपक्षं प्रत्याह तदसदिति । किं च प्रकृतिद्वयमनपेक्ष्येश्वरस्य संसारहेतुत्वे स्वातन्त्र्यान्मुक्तानामपि ततः संसाराप्तेरनिषेधान्मोक्षशास्त्राप्रामाण्यान्न तस्यैव संसारहेतुतेत्याह संसारस्येति । निनिमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वमिति यावत् । किं च कार्यत्वे प्रकृत्योस्तदुदयात् पूर्व बन्धाभावे साहिश्लेषात्मनो मोक्षस्याभावात् कदाचिदुभयाभावे पुनस्तदप्रसङ्गान्न प्रकृतिद्वयस्य कार्यतेत्याह मन्धेति । प्रकृत्योर्मूलकारणत्वे नानुपपत्तिरित्याह निसत्व इति । स्वपक्षे दोषाभाव प्रश्नपूर्वक १ यत्प्रभावाचेत्युद्दिष्टं-पा० लि. पु० ।

श्रीमद्भगवद्गीता-
प्रपञ्चयति कथमित्यादिना । संभवः सत्ताप्रापको हेतुः । प्रकृतेरनादित्वे विकाराणां गुणानां च
तत्कार्यत्वादात्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यतीति भावः ॥ १९ ॥
प० टी० । तदेवं क्षेत्रं यच्चयादृश्वेत्येतावत्प्रपश्चितामदानीं यद्विकारि यतश्च यत् स च यो
यत्प्रभावश्चैवं पूर्वप्रतिज्ञातमेव प्रकृतिपुरुषयोः संसारहेतुत्वकथनेन प्रपञ्चयति प्रकृतिमिति । संसार-
हेतुभूतयोः प्रकृतिपुरुपयोः सादित्वेन तयोरपि प्रकृत्यन्तरेण भाव्यमित्यनवस्थापत्तिः स्यादतस्ता-
वुभावप्यनादी विद्धि । तयोः सादित्वं कल्पशतैरपि वक्तुं न शक्यते । “आनीतवातं स्वधया तदे-
कमि" त्यादिश्रुतिभिर्भूतार्थस्यैवोक्तत्वात । अथ जगत्प्रादुर्भावहेतुत्वं प्रकटयति विकारानिति ।
विकारान् देहेन्द्रियादीन् गुणांश्च सत्त्वादिपरिणामान् सुखदुःखमोहादीन् प्रकृतेः संभूतान् विद्धि ॥१९॥
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥
पुरुपः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥२०॥
के पुनस्ते विकारा गुणाश्च प्रकृतिसंभवाः कार्येति। कार्यकरणकर्तृत्वे कार्य
शरीरं करणानि तत्स्थानि त्रयोदशदेहस्यारम्भकाणि भूतानि विषयाश्च प्रकृतिसंभ-
वा विकाराः पूर्वोक्ता इह कार्यग्रहणेन गृह्यन्ते गुणाश्च प्रकृतिसंभवाः सुखदुःख-
मोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते तेषां कार्यकरणानां कर्तृत्व-
मुत्पादकत्वं यत्तत्कार्यकरणकर्तृत्वं तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणमारम्भ-
कत्वेन प्रकृतिरुच्यते एवं कार्यकरणकर्तृत्वेन संसारस्य करणं प्रकृतिः, कार्यका-
रण कर्तृत्व इत्यस्मिन्नपि पाठे कार्य यद्यस्य विपरिणामस्तस्य कार्य वि-
कारो विकारि कारणं तयोविकारविकारिणोः कार्यकारणयोः कर्तृत्व इति ता-
न्येव कार्यकारणान्युच्यन्ते, अथवा पोडशविकाराः कार्य सप्त प्रकृतिविकृतयः
कारणं तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिरुच्यते आरम्भ-
कत्वेनैव पुरुषश्च संसारस्य कारणं यथा स्यात्तदुच्यते पुरुषो जीवः क्षेत्रज्ञो भो-
तेति पर्यायः सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुरुच्यते, कथं पुन-
रनेन कार्यकारणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारण-
त्वमुच्यते इत्यत्रोच्यते कार्यकारणसुखदुःवरूपेण हेतुफलात्मना प्रकृतेः
परिणामाभावे पुरुपस्य चैतन्यस्यासति तदुपलब्धृत्वे कुतः संसारः स्याद् यदा
पुनः कार्यकारणहेतुफलात्मना परिणतया तया प्रकृत्या भोग्यया पुरुषस्य तहि-
परीतस्य भोक्तृत्वेनाविद्यारूपः संयोगः स्यात्तदा संसारः स्यादित्यतो यत् प्रकृति-
पुरुपयोः कार्यकारणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वमुक्तं त-
द्युक्तमुक्तम् । कः पुनरयं संसारो नाम, सुखदुःश्वसंभोगः संसारः पुरुषस्य च
सुखदुःखानां संभोक्तृत्वं संसारित्वमिति ॥ २० ॥

। त्रयोदशाध्यायः । ३९५ आ० टी० । विकाराणां गुणानां प्रकृतेश्च स्वरूपमाकाङ्क्षाद्वारा निर्णतुमुत्तरश्लोकपूर्वार्घ पा- तयति के पुनरिति । पुरुपस्यानादित्वळतबन्धहेतुत्वमाह पुरुष इति । पूर्वार्ध व्याचष्टे कार्य- मियादिना । ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपश्चकं मनो बुद्धिरहङ्कारश्चति त्रयोदशकरणानि । तथापि भूतानां विषयाणां च ग्रहणात् कथं तेषां प्रकृतिकार्यतेत्याशङ्कयाह देहेति । तथापि गुणानामिहाग्रह- णान्न प्रकृतिकार्यत्वं तत्राह गुणाश्चेति । उक्तरीत्या निष्पन्नमर्थमाह एवमिति । पाठान्तरममूद्य व्याख्यापूर्वकमर्थाभेदमाह कार्येत्यादिना । व्याख्यान्तरमाह अथवेति । एकादशेन्द्रियाणि पश्च विषया इति पोडशसंख्यक विकारोऽत्र कार्यशब्दार्थः महदहङ्कारो भृततन्मात्राणीति प्रकृतिविकृत- यः सप्त कारणं, तेपामारम्भकत्वेन कर्तृत्वेन हेतुगश्रयो मूलप्रकृतिरित्यर्थः। उत्तरार्धस्य तात्पर्यमाह पुरुषश्चेति । तस्य परमात्मत्वं व्यवच्छिनात्ते जीव इति । तस्य प्राणधारणनिमित्तस्य तदर्थ श्वेतनमा- ह क्षेत्रज्ञ इति । तस्यानोपाधिकत्वं वारयति भोक्तेति । तयोः संसारकारणत्वमुपपादयितुं शकते कथमिति । अन्वयव्यतिरेकाभ्यां तयास्तथात्वामित्याह अत्रेति । तत्र व्यतिरेकं दर्शयति काति । न हि नित्यमुक्तस्यात्मनः स्वतः संस.रोऽस्तीत्यर्थः । इदानीमन्वयमाह यदेति । अन्वयादिफलमुपसं- हरति अत इति । आत्मनोऽविक्रियस्य संसरणं नोचितमित्याक्षिपति कः पुनरिति । सुखदुःखान्य- तरसाक्षात्कारो भोगः स चाविक्रियस्यैव द्रष्टुः संसारस्तथाविधं भोक्तृत्वमस्य संसारित्वमित्युत्तरमाह सुखेति । श्लोकव्याख्यासमाप्तावितिशब्दः ॥ २० ॥ प० टी० । अथ पुरुपस्यापि तथात्वं दर्शयति कार्यकारणेति । पुरुषो जीवस्तत्कृतमुग्वदः- ग्वादिकार्य शरीरं कारणानि सुखदुःखानि साधनानीन्द्रियाणि तेषां कर्तृत्वे तदाकारपरिणामे प्रकृति- हेतुः पुरुषस्तुसुखदुः खानां भोक्तृत्व हेतः । अयं भावः । यद्यप्यचेतनायाः प्रकृतेः स्वतः कर्तृत्वं न संभवति तथा पुरुषस्याप्यविकारिणो भोक्तृत्वं न संभवति तथा कर्तृत्वं नाम क्रियानिवर्तकत्वं तत्त्व- चतनस्यापि चेतनादृष्टवशात्मभवति । यथाग्नरूप्रज्वलनं वायोरितर्यक्लवनं वत्साहटात्स्तन्यपयसः क्षरणमित्यादि । अतः पुरुषमंनिधानात् प्रकृतेः कर्तृत्वमुच्यते भोक्तत्वं मुखदुःखसंवेदनं तच्च चेतना- धर्म एवेति प्रकांतसंनिधानात् पुरुषस्य भोक्तृत्वमिति ॥ २० ॥ पुरुपः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ॥ कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु ॥२१॥ यत् पुरुषस्य सुखदुखानां भोक्तृत्वं संसारित्वमित्युक्त तस्य तत् किंनि- मित्तमित्युच्यते पुरुष इति । पुरुषो भोक्ता प्रकृतिस्थः प्रकतावविद्यालक्षणायां कार्यकारणरूपेण परिणतायां स्थितः प्रकृतिस्थः प्रकृतिमात्मत्वेन गत इत्येवं हि यस्मात् तस्माद् भुक्त उपलभत इत्यर्थः। प्रकृतिजा प्रकृतितो जातान् सुखदुःखमोहाकाराभिव्यक्तान् गुणान् सुरखी दुःखी मूढः पण्डितोऽहमित्येवं सत्यामप्यविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ आत्मभावः संसा- रस्य स प्रधानकारणं जन्मनः “ स यथा कामो भवति तत्क्रतुर्भवति" इत्यादिश्रु- तेस्तदेतदाह कारणं हेतुर्गुणसंगो गुणेषु सङ्गोऽस्य भोक्तुः, सदसद्योनिजन्मसु सत- १ संख्याको विकारोत्र---पा० क्वचित् ।

- ३.९६ श्रीमद्भगवद्गीता- भासतश्च योनयः सदसद्योनयस्तासु सदसद्योनिषु जन्मानि तानि सदसद्योनि- जन्मानि तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गोऽथ वा सदसद्यो- निजन्मस्वस्य संसारस्य कारणं गुणसङ्ग इति संसारपदमध्याहार्यम् । सद्योनयो देवादियोनयोऽसोनयः पश्चादियानयःसामर्थ्यात् सदसयोनयो मनुष्ययोनयोऽप्य- विरुद्धा द्रष्टव्याः । एतदुक्तं भवति प्रकृतिस्थत्वाख्याविद्यागुणेषु च सङ्गः कामः संसारस्य कारणमिति, तच्च परिवर्जनायोच्यते, अस्य च नित्तिकारणं ज्ञानवै- राग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धं तच्च ज्ञानं पुरस्तादुपन्यस्तं क्षेत्रक्षेज्ञविषयं यज् ज्ञात्वामृतमश्नुत इत्युक्तं चान्यापोहेनातद्धर्माध्यारोपेण च ॥ २१ ॥ आ० टी० । श्लोकान्तरं प्रश्नोत्तरत्वेनावतारयति यदिति । निमित्तं वक्तुमादौ संसारित्व- मस्यावियेत्याध्यासादित्याह पुरुष इति । यस्मात् प्रकृतिमात्मत्वेन गतस्तस्माद्गुक्त इति योजना । गुणविषयं भोगमभिनयति सुखीति । अविद्याया भोगहेतुत्वात् किं कारणान्वेषणयेत्याशङ्कयाह ससामपीति । सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह स यथेति । उक्तेऽथै द्वितीयार्धमव- तार्य व्याचष्टे तदतदियादिना। साध्याहारं योजनान्तरमाह अथवेति । सदसद्योनीविविच्य व्याचष्टे सयोनय इति । योनिद्वयनिर्देशान्मध्यवर्तिन्यो मनुष्ययोनयोऽपि ध्यनिता इत्याह साम- र्थ्यादिति । सङ्गस्य संसारकारणत्वे नाविद्यायास्तत्कारणत्वमेकस्मादेव हतोस्तदुपपत्तरित्याशङ्कया- ह एतदिति । अविद्योपादानं सङ्गो निमित्तमित्युभयोरपि कारणत्वं सिध्यतीत्यर्थः । द्विविधहतक्ते- विवक्षितं फलमाह तच्चेति । साङ्गस्याज्ञानस्य स्वतोनिवृत्तेस्तन्निवर्तकं वाच्यमित्याशङ्कयाह अस्येति । वैराग्ये सति संन्यासस्तत्पूर्वकं च ज्ञानं साङ्गज्ञाननिवर्तकमित्यर्थः । उक्त ज्ञान मानमाह गीतेति । अध्यायादौ चोक्तं ज्ञाननुदात्तमित्याह तच्चेति । तदव ज्ञानं यजज्ञात्वेत्यादिना न सत्त- नासदित्यन्तेनान्यनिषेधेन सर्वतः पाणिपादमित्यादिना चातधर्माध्यासनोक्तमित्याह यज् ज्ञात्वेति॥२१॥ प० टी० । तथाप्यकारणं जन्मरहितस्य भोक्तृत्वं कथामत्याह पुरुप इति । हि यस्मात कारणात् प्रकृतिस्थस्तत्कायें देहे स्थितोऽतस्तन्जनितान् सुखदुःखादीन् भुङ्क्ते । अस्य च पुरुषस्य सतीषु देवयोनिप्वसतीषु तिर्यगादियानिषु यानि जन्मानि तेषु गुणसङ्गः शुभाशुभकर्मकारिभिरि- न्द्रियैः सङ्गः कारणामित्यर्थः ॥ २१ ॥ उपद्रष्टानुमन्ता च अर्ता भोक्ता महेश्वरः।। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥२२॥ तस्यैव पुनः साक्षानिर्देशः क्रियते उपद्रष्टेति । उपद्रष्टा समीपस्थः सन् द्रष्टा स्वयमव्यापृतो यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्योऽव्याप- १ कारणगवेषणया --पा. लि. पु.

त्रयोदशाध्यायः । ३९७ तो यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणामीक्षिता तहत् कार्यका- रणव्यापारेष्वव्याप्तोऽन्यो विलक्षणस्तेषां कार्यकारणानां सव्यापाराणां सामीप्येन द्रष्टुत्वादुपद्रष्टा, अथवा देहचक्षुर्मनोवुद्ध्यात्मानो द्रष्टारस्तेषां बाह्यो द्रष्टा देह- स्तत आरभ्यान्तरतमश्च प्रत्यक् समीपे आत्मा द्रष्टा यतः परोऽन्तरो नास्ति द्रष्टा सोऽतिशयसामीप्येन द्रष्टुत्वादुपद्रष्टा स्यात्, यज्ञोपद्रष्ट्रवहा सर्वविषयीकर- णादुपद्रष्टानुमन्ता चानुमोदनमनुमननं कुर्वत्सु तक्रियासु परितोषस्तत्कनुमन्ता चाथवानुमन्ता कार्यकरणप्रत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकुलो विभाव्यते तेनानुमन्ताथवा प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयतीत्यनुमन्ता, भर्ता भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैत- न्यात्मपरार्थेन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपावधारणं तच्चैतन्या- त्मकृतमेवेति भर्तात्मेत्युच्यते भोक्ताग्न्युष्णवनित्यचैतन्यस्वरूपेण बुद्धेः सुरवदुः- खमोहात्मकाः प्रत्ययाः सर्वविषयविषयाश्चैतन्यात्मग्रस्ता इव जायमाना विभक्ता विभाव्यन्त इति भोक्तात्मोच्यते महेश्वरः सर्वात्मत्वाच्च स्वतन्त्रत्वाच्च महान् ईश्वरश्चेति महेश्वरः परमात्मा देहादीनां बुद्दयन्तानां प्रत्यगात्मत्वेन कल्पिता- नामविद्यया परम उपद्रष्टुत्वादिलक्षण आत्मेति परमात्मा सोऽन्तः परमात्मेत्य- नेन शब्देन चाप्युक्तः कथितः श्रुतौ, कासावस्मिन् देहे पुरुपः परोऽव्यक्ता- दुत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृत इति यो वक्ष्यमाणः 'क्षेत्रज्ञं चापि मां विद्धि'इत्युपन्यस्तो व्याख्यायोपसंहतश्च तमेतं यथोक्तलक्षणमात्मानम् ॥ २२॥ आ० टी० । प्रकृतस्यैव मोक्षहेतोमा॑नस्य साक्षान्निर्देशायोत्तरश्लोकमुत्थापयति तस्यति । कार्यकारणानां व्यापारवतां समीपे स्थितं संनिधिमात्रेण तेषां साक्षीत्येवमर्थत्वेनापद्रष्टेति पदं व्याचष्टे समीपस्थ इति । लौकिकस्यैव द्रष्टुरस्यापि स्वव्यापाराविष्टतया निष्क्रियत्वविरोधमाशङ्कयाह स्वयमिति । स्वव्यापारादते संनिधिरेव द्रष्टुत्वं दृष्टान्तन स्पष्टयति यथेति । उपद्रष्टेत्यस्यार्था- न्तरमाह अथवेति । बहूनां द्रष्टुत्वेऽपि कस्योपद्रष्टुत्वं तत्राह तेपामिति । उपोपसर्गस्य सामीप्या- थत्वेन प्रत्यूगर्थत्वात्तत्रैव सामीप्यावसानात् प्रत्यगात्मा च द्रष्टा चेत्युपद्रष्टा सर्वमाक्षी प्रत्यगात्मे- त्यर्थः । उक्तमेव व्यनक्ति यत इति । यथा यजमानस्य ऋत्विनां च यज्ञकर्मणि गुणं वा दोपं वा सर्वयज्ञाभिज्ञः सन्नुपद्रष्टा विषयीकरोति तथायमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीत्युपद्रष्टेति पक्षान्तरमाह यज्ञेति । अनुमन्ता चेत्येतद् व्याकरोति अनुमन्तेति । ये स्वयं कुर्वन्तो व्यापारयन्तो यावन्ति तेषु कुर्वत्सु सत्सु या तेषां क्रियास्तामु पार्श्वस्थस्य परितोपोऽनुमननं तच्चानुमोदनं तस्य संनिधिमात्रेण कर्ता यः सोऽनुमन्तेत्यर्थः । व्याख्यान्तरमाह अथवेति । तदेव स्फटयति कार्येति । अर्थान्तरमाह अथवेसादिना। भति पदमादाय भरणं किं नामेति पृच्छति भर्तेति । तद्रूपं नि- रूपयन्नात्मनो भर्तृत्वं साधयति देहेति । भोक्तेत्युक्त क्रियावत्त्वे प्राप्ते भोगश्चिदवसानेति न्यायन विभनते अग्नीति । विशेषणान्तरमादाय व्याचष्टे महेश्वर इति । परमात्मत्वमुपपादयति देहादी- श्रीमद्भगवद्गीता- नामिति। अविद्यया कल्पितानामिति संबन्धः, परमत्वं प्रकृष्टत्वं, सः पूर्वोक्तविशेषणवानिति यावत् । परमात्मशब्दस्य प्रतात्मविषयत्वे श्रुतिमनुकूलयति अत इति । तस्य ताटस्थ्यं प्रश्नद्वारा प्रत्याचष्टे केति । कस्मात् परत्वं तदाह अव्यक्तादिति । तत्रैव वाक्यशेषानुकूल्यमाह उत्तम इति । सोऽस्मिन् देहे परः पुरुष इति संबन्धः। शोधितार्थयोरैक्यज्ञानं प्रागुक्तं फलोक्तद्या स्तौति क्षेत्रज्ञं चेति ॥ २२ ॥ प० टी० । तदनेन प्रकारेण प्रकृत्यविवेकादेव पुरुषस्य संसारो न तु स्वरूपत इत्याशयेनाह उपद्रष्टेति । अस्मिन् प्रकृतिकायें देहे वर्तमानेऽपि पुरुषः परो भिन्न एव न तद्गणैर्युज्यत इत्यर्थः । तथानुमन्तानुमोदितैव सन्निधिमात्रेणानुग्राहकः । तथा ऐश्वरेण रूपेण भर्ता विधारक इति चोक्तः । भोक्ता पालक इति च । अत्र शातपथी श्रुतिः- “अदृष्टो द्रष्टाऽश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता नान्योस्ति द्रष्टा नान्योस्ति श्रोता नान्योस्ति मन्ता नान्योस्ति विज्ञातैष त आत्मान्तर्याम्यमृ- तोतोन्यदातमि''ति । भाष्यम्-अदृष्टो दर्शनायोग्यः सन् द्रष्टा विश्वसाक्षी एवं सर्वत्रतदपेक्षयाऽन्यो द्रष्टा नास्ति नापि श्रोता मन्ता विज्ञातापि एवंविध एपोन्तर्यामी आत्माऽमृतो नित्यमुक्तः अत आ- त्मनः सकाशादन्यदार्तम् । अन्यदात्मनोविलक्षणं दृश्यजातमार्त बाधितम् । शुक्तिकारजतवदित्यर्थः । किंभूतो महेश्वरः । महांश्चासावीश्वरश्च ब्रह्मादीनामधिपतिः परमआत्मान्तर्यामी चोक्तः। श्रुतिरपि-"एष भूताधिपतिरेष लोकेश्वर एप लोकपालः" इति। अत्राधिपतिरीश्वर ईश्वरो नियन्ता लोकपालो भर्ता।॥२२॥ य एवं वेति पुरुषं प्रकृति च गुणैः सह ॥ सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२३॥ य एवमिति । य एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षादात्मभावेनाय- महमिति प्रकृतिं च यथोक्तामविद्यालक्षणां गणैः स्वविकारः सह निवर्तिताम- भावमापादितां विद्यया सर्वथा सर्वप्रकारेण वर्तमानोऽपि स भूयः पुनः पतितेऽ- स्मिन् विइच्छरीरे देहान्तराय नाभिजायते नोत्पद्यते देहान्तरं न गृह्णातीत्यर्थः। अपि शब्दात् किमु वक्तव्यं स्वस्त्तस्थो न जायत इत्यभिप्रायः । ननु यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तस्तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणा- मुत्तरकालभाविनां च यानि चातिक्रान्तान्यनेकजन्मकृतानि तेषां फलमदत्त्वा नाशो न युक्त इति स्युस्त्रीणि जन्मानि कृतविप्रनाशो हि न युक्त इति यथा फले प्रत्तानामारब्धजन्मनां कर्मणां, न च कर्मणां विशेषोऽवगम्यते तस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मान्यारभेरन् संहतानि वा सर्वाण्येकं जन्मा- रभेरन् अन्यथा कृतविनाशे सति सर्वत्रानाश्वासप्रसंगः शास्त्रानर्थक्यं च स्यादि. त्यत इदमयुक्तमुक्तं न स भूयोऽभिजायत इति, न, “क्षीयन्ते चास्य कर्माणि” “ब्रह्म विद ब्रह्मैव भवति" "तस्य तावदेव चिरमिषीकानूलवत् सर्वकर्माणि प्रदूयन्ते" इत्यादिश्रुतिशतेभ्य उक्तो विदुषः सर्वकर्मदाहः, इहापि चोक्तो यथैधांसीत्यादिना १ शोधितार्थयोस्तत्त्वंपदार्थयोरैक्यज्ञान-पा० लि० पु० ।

प्रयोदशाध्यायः । ३९९ सर्वकर्मदाहो वक्ष्यति चोपपत्तेश्चाविद्याकर्मक्लेशबीजनिमित्तानि हि कर्माणि फलारम्भकाणि जन्मान्तराङ्कुरमारभन्त इहापि च साहाराभिसन्धीनि कर्माणि फलारम्भकाणि नेतराणीति तत्र तत्र भगवतोक्तं 'बीजान्यग्न्युपदग्धानि- न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः' इति । अस्तु ताव ज्ञानोत्पत्तेरुत्तरकालकृतानां कर्मणां ज्ञानेन दाहो ज्ञानसहभावित्वात् न विह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां ज्ञानेन दाहो न त्वतीतानामनेकजन्मान्तर- कृतानां दाहो युक्तः, न सर्वकर्माणीतिविशेषणात्, ज्ञानोत्तरकालभाविनामेव सर्वकर्मणामिति चेन, सोचत्वे कारणानुपपत्तेः, यत्तूक्तं यथा वर्तमानशरीरज- न्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रत्तान्येव सत्यपि ज्ञाने तथानारब्धफलानामपि कर्मणां क्षयो न युक्त इति तदसत्, कथं तेषां मुक्ते- षुवत् प्रवृत्तफलत्वात् यथा पूर्व लक्ष्यवेधाय मुक्त इषुर्धनुपो लक्ष्यवेधोत्तरकालम- प्यारब्धवेगक्षयात् पतननैव निवर्तत एवं शरीरारम्भ कर्म शरीरस्थितिप्रयोजने निवृत्तऽप्यासंस्कारवेगक्षयात् पूर्ववर्तत एव यथा स एवेषुः प्रतिनिमित्ताना- रब्धवेगस्त्वमुक्तो धनुषि प्रयुक्तोऽप्युपसंहियते तथानारब्धफलानि स्वाश्रयस्थान्ये- व ज्ञानेन निर्बीजीक्रियन्त इति पतितेऽस्मिन् विइच्छरीरे 'न स भूयोऽभिजायत' इति युक्तमेवोक्तमिति सिद्धम् ॥ २३ ॥ आ० टी० । यथोक्तप्रकारेण, मोवेश्वरादिसर्वकल्पनाधिष्ठानत्वेनेत्यर्थः । साक्षादपरोक्षत्वेनेति यावत्, यथोक्तामनाद्यनिर्वाच्या सर्वामर्थोपाधिभूतामित्यर्थः। विद्यया प्रागुक्तैकत्वगोचरया प्रकृतिमविद्या- रूपां सकार्यामभावमापादितां यो वेत्तीति संबन्धः । सर्वप्रकारेण विहितेव निषेधेन चेत्यर्थः । पुनर्नका- रोऽन्वयार्थः । निपातसूचितं न्यायमाह अपीति । न स भूयोऽभिजायत इत्युक्तमाक्षिपति नन्विति । ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपत्य नाक्षेपः स्यादित्याशङ्कयाह यद्यपीति। त- थापि स्युस्त्रीणि जन्मानीतिसंबन्धः । वर्तमानेदेहे ज्ञानात् पूर्वोत्तरकालीनानां कर्मणां फलमदत्त्वा नाशा- योगाजन्मद्वयमावश्यकमतीतानेकदेहेष्वपि कृतकर्मणां ' नाभुक्तं क्षीयते कर्म' इत्येव स्मृतेरदत्वा फलमनाशादस्ति तृतीयमपि जन्मेत्याह प्रागिति । फलदानं विनापि कर्मनाशे दोषमाह कृतेति । न युक्त इति कृत्वा फलमदत्त्वा कर्मनाशो नेति शेषः, विमतानि कर्माणि.फलमदत्त्वा न शीयन्ते वै- दिककर्म त्वादारब्धकर्मवदिति मत्वाह यथेति । नाशो न ज्ञानादिति शेषः। नन्वनारब्धकर्मणां ज्ञाना- न्नाशो युक्तोऽप्रवृत्तफलवत्त्वादारब्धकर्मणां तु प्रवृत्तफलवत्त्वेन बलवत्त्वान्न ज्ञानात् तन्निवृत्तिरित्याह न चेति । अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वमनुपयुक्तमिति भावः । कर्मणां फलमदत्त्वा नाशाभावे फलितमाह तस्मादिति । ननु कर्मणां बहुत्वात्तत्फलेषु जन्मसु कुतस्त्रित्वमार- म्भकर्मणां त्रिःप्रकारत्वादिति चेन्नानारब्धत्वेनैकप्रकारत्वसम्भवात् तत्राह संहतानीति । नास्ति ज्ञान- स्यैकान्तिकफलत्वमिति शेषः । उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषमनुभाप्य तस्यातिप्रसञ्जक- त्वमाह अन्यथेति । सर्वत्रेत्यारब्धकर्मस्वपीति यावत् । फलजनकत्वानिश्चयोऽनाश्वासः कर्मणा श्रीमद्भगवद्गीता- फलार- जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोपान्तरमाह शास्त्रेति । अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्त- रारम्भकत्वध्रौव्ये फलितमाह इत्यत इति । श्रुत्यवष्टम्भेन परिहरति नेयादिना । ज्ञानादनारब्ध- कर्मदाहे भगवतोऽपि संमतिमाह इहापीति । ज्ञानाधीनसर्वकर्मदाहे सर्वधर्मान् परित्यज्येति वाक्य- शेपोऽपि प्रमाणीभवतीत्याह वक्ष्यति चेति । ज्ञानादनारब्धाशेषकर्मक्षये युक्तिराप वक्तुं शक्येत्याह उपपत्तेश्चेति । तामेव विवृणोति अविद्येति । अज्ञस्याविद्यास्मितारागद्वेषाभिनिवेशाख्यलेशात्मका- नि सर्वानर्थबीजानि तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि यानि तु विदुपो विद्यादग्धक्लेशबीजस्य प्रतीतिमात्रैशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवदर्थक्रियासामर्थ्याभावादित्यर्थः । प्रतीतिमात्रदेहानां . कर्माभासानां न म्भकता तस्मिन्नर्थे भगवतोऽपि समातमाह इहापीति । तत्त्वज्ञानाचं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति बीजानीति । ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गी- करोति अस्त्विति । विरोधिग्रस्तानामेवोत्पत्तिरिति हेतुमाह ज्ञानेति । अस्मिञ् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहो विरोधिनं विना प्रवृत्तिरित्याह नत्विति । श्रुतिस्मृतिविरो- धान्नैवमिति परिहरति नेयादिना । सर्वशब्दश्रुतेः संकोचं शङ्कते ज्ञानेति । प्रकरणादिसङ्कोचका- भावान्नैवमित्याह नेति । आक्षेपदशायामुक्तमनुमानमनुवदति यत् त्विति । आभासत्वादिदमसाधक- मिति दूपयति तदसदिति । व्याप्त्यादिमत्त्वे कथमाभासत्वमिति पृच्छति कथमिति । प्रवृत्तफलत्वो- पाधिना हेतोळप्तिभङ्गादाभासत्वधीरित्याह तेषामिति । तदेव प्रपञ्चयति यथेत्यादिना । धनुषः सकाशादिपर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये न पतति तथा प्रबल प्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगाढते न क्षयो न च तत्त्वज्ञानं तादृक् प्रतिवन्धकमुत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिब- न्धकशक्तित्वादित्यर्थः । यत्र ज्ञानेनादाह्यत्वं तत्र प्रवृत्तफलत्वमित्यन्वयेऽपि यत्राप्रवृत्तफलत्वं तत्र ज्ञानदाह्यत्वमिति न व्यतिरेकसिद्धिरित्याशझ्याह स एवेति । प्रवृत्ती निमित्तभूतो नारब्धा वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि साभासान्तःकरणनिष्ठानीति यावत् । विमतानि तत्त्वधीनिमित्तनिवृत्तीनि तत्कृत- कारणनिवृत्तत्वाद्रज्जुसर्पादिवदिति व्यतिरेकसिद्धिरिति भावः । विद्रुपोवर्तमानदेहपाते देहान्तरे हे- त्वभावात्तत्त्वधीरेकान्तिकफलेत्युपसंहरति पतित इति ॥ २३ ॥ प० टी० । एवं प्रकृतिपुरुपज्ञानिनं म्तौति यएवमिति । एवमुपद्रष्टुत्वादिरूपेण यः पुरुष वेत्ति तथा गुणैः सह सुग्वदुःखादिपरिणामसहितां प्रकृति चति स पुरुषो विधिमति लभ्य वर्तमानोऽपि पुननाभिजायते मुच्यत इत्यर्थः ॥ २३ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥२४॥ अत्रात्मदर्शने उपायविकल्पा इमे ध्यानादय उच्यन्ते ध्यानेनेति । ध्या- नेन ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंत्दृत्य मनश्च प्रत्यक्चेतयितर्येकाग्रतया यञ्चिन्तनं तत्, तथा ध्यायतीव कः ध्या- यतीब पृथिवी ध्यायन्तीव पर्वताइत्युपमोपादानात् तैलधारावत् संततोऽवि. च्छिन्नप्रत्ययो ध्यानं तेन ध्यानेनात्मनि बुद्धी पश्यन्त्यात्मानं प्रत्यक्चेतनमात्म- १ जन्मारम्भकाणि-पा० लि. पु० २ प्रतिभास-पा० लि. प.

त्रयोदशाध्यायः। ना ध्यानसंस्कृतेनान्तःकरणेन केचिद् योगिनः, अन्ये सांख्येन योगेन सांख्य नाम इमे सत्त्वरजस्तमांसि गुणा मया दृश्या अहं तेभ्योऽन्यस्तयापारस्य सा- क्षिभूतो नित्यो गुणविलक्षण आत्मेति चिन्तनमेष सांख्यो योगस्तेन पश्यन्त्या- स्मानमात्मनेति वर्तते, कर्मयोगेन कमैव योग ईश्वरार्पणवुद्दयानुष्ठीयमानं घटन. रूपत्वं योगार्थाद् योग उच्यते गुणतस्तेन सत्त्वशुद्धिज्ञानोत्पत्तिहारेण चापरे॥२४॥ आ० टी० । ज्ञेयं यत्तदित्यादिना तत्पदार्थस्त्वंपदार्थश्चानन्तरमेव बोधितो तयोरैक्यं च 'क्षे- त्रज्ञं चापि मां विद्धि' इत्युक्तमिदानी तदृष्टिहेतून्यथाधिकारं कथयति अत्रेति । ध्यानाख्यसाधनं किंरू. पमिाते पृच्छति ध्यानं नामेति । तद्रूपं वदन्नुत्तरमाह शब्दादिभ्य इति । एकाग्रतयोपसंहत्येति संबन्धः। यचिन्तनं प्रत्यक्चेतयितरीति पूर्वेणान्वयः । किं तच्चिन्तनमित्युक्त दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति तथोत । विवक्षितध्यानानुरोधेनेति यावत्, आत्मानं पश्यन्ति परमात्मतयेति शेषः । केचिदित्युत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति अन्य इति । सांख्यशब्दितं साधनं किं नामेत्युक्ते विचारजन्यं ज्ञानं तदेव ज्ञानहतुतपोयोगतुल्यत्वाद्योगशद्विहेतारनेन गोण्या वृत्त्या योगशब्दितं कर्मत्याह सांख्यामिति । अधमानधिकारिणः संगिरते कर्मेति । चित्तकाम्यं योग- स्तादर्थ्य कर्मणः शुद्धिहेतोरस्ति तेन गोण्या वृत्त्या योगशब्दितं कर्मत्याह गुणत इति । अपरे पश्य- त्यात्मानमात्मनेति पूर्ववदनुपङ्गमङ्गीकृत्याह तेनेति ॥ २४ ॥ प० टी० । अथैवंविधविवेकनात्मज्ञाने साधनविकल्पानाह ध्यानेनेति द्वाभ्याम् । ध्याने- नाकारप्रकृत्यात्मनि देह एवात्मना मनसैवात्मानं केचित्पश्यन्ति । श्रुतिरपि- “श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्यति सर्वस्यात्मा भवति" इति । स्पष्टोऽर्थः । तथान्येऽधिकारिणः सांख्येन योगेन प्रकृतिपुरुपवैलक्षण्यालोचनेन पश्यन्ति । श्रुतिरपि ऋग्वेदे-“ पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः । समुद्रे अन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति वेधसः ” इति । भाष्यम्- असुरस्य बलवतः परमेश्वरस्य माययाक्तं व्याप्तमत एव पतङ्गमनेकदेहपतनशीलं क्षेत्रज्ञं विपश्चि- तो ज्ञानवन्तः प्रथमसंकल्पात्मकेन मनसानन्तरं हृदा निश्चयात्मकबुद्धिरूपेणैवमात्मनैवात्मानं पश्य- न्तीत्यर्थः । तमेव कवयः क्रान्तदर्शिनोऽन्तः समुद्रे विचक्षते । समुद्रयति व्यामोतीति समुद्रः प्रप- श्वस्तस्मिन् पश्यन्ति क्षीरान्तबृतमिवेत्यर्थः । तत्र वेधसो हिरण्यगर्भस्य मरीचीनां प्रकाशानां पदं स्थान- मिच्छन्ति पदार्थप्रतीतिरूपेण गवेषयन्ति । अपरे कर्मयोगेन चित्तशुद्धिद्वारा पश्यन्ति, एवं यथाधिकारं विकल्पोक्तिः ॥ २४ ॥ अन्ये वेवमजानन्तः श्रुत्वान्येभ्य उपासते ॥ तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२५॥ अन्ये विति । अन्ये त्वेतेषु विकल्पेष्वन्यतरेणाप्येवं यथोक्तमात्मानम- जानन्तोऽन्येभ्य आचार्येभ्यः श्रुत्वेदमेव चिन्तयतेत्युक्ता उपासते श्रद्धधानाः सन्तश्चिन्तयन्ति तेऽपि चातितरन्त्येवातिकामन्त्येव मृत्यु मृत्युयुक्तं संसारामित्ये- तच्छ्रुतिपरायणाः श्रुतिः श्रवणं परमयनं गमनं मोक्षमार्गप्रत्तौ परं साधनं येषां ते श्रुतिपरायणाः केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिता इत्यभिप्रायः।

४.२ श्रीमद्भगवद्गीता- किमु वक्तव्यं प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युमतितरन्तीत्यभिप्रायः॥२५॥ आ० टी० । अधमतमानधिकारिणो मोक्षमार्गे प्रवृत्ति प्रति लम्भयति अन्ये त्विति । आ- चार्याधीनां श्रुतिमेवाभिनयति इदमिति । उपासनमेव विवृणोति श्रद्दधाना इति । परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह तेऽपीति । तषां मुख्याधिकारित्वं व्यावर्तयति श्रुतीति । तेऽपी- त्यादिना सूचितमर्थमाह किमिति ॥ २५ ॥ प० टी० । अथातिमन्दाधिकारिणां निस्तारोपायमाह अन्ये त्विति । अन्ये सांख्ययोगादि- मार्गेणवंभूतमुपद्रष्टेत्यादिलक्षणमात्मानं साक्षात्कर्तृमजानन्तस्तेऽन्येभ्य आचार्येभ्य उपदेशतः श्रु- त्वोपासते ध्यायन्ति । तेऽपि श्रुतिपरायणा आचार्योपदेशश्रवणसादरा मृत्युमतितरन्त्येव ॥ २५॥ यावत् संजायते किंचित् सत्त्वं स्थावरजङ्गमम् ॥ क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतपः ॥२६॥ अत्र क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनं यज् ज्ञात्वामृतमश्नुत इत्युक्तं तत् कस्माद्धेतोरिति तहेतुप्रदर्शनार्थ श्लोक आरभ्यते यावदिति । यावद् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु किमविशेषणेत्याह स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तज्जायत इत्येवं विद्धि जानीहि हे भरतर्षभ । कः पुनरयं क्षेत्रक्षेत्रज्ञयोः संयोगोऽभिप्रेतो न तावद् रज्ज्वेव घटस्यावयवसंश्लेषहारकः संबन्ध- विशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवत्याकाशवनिरवयवत्वान्नापि समवा- यलक्षणस्तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमादित्युच्यते क्षेत्रक्षेत्रज्ञयोर्विषयविपयिणोभिन्नस्वरूपयोरितरेतरतधर्माध्यासलक्षणः संयोगः क्षे- प्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनो रज्जुशुक्तिकादीनां तद्दिवेकज्ञानाभावाद- ध्यारोपितसर्परजतादिसंयोगवत् सोऽयमध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगो मिथ्या- ज्ञानलक्षणो यथाशास्त्र क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राग दर्शितरूपात् क्षे- त्रान्मुजादिवेषीकां यथोक्तलक्षणं क्षेत्रसँ प्रविभज्य न सत्तनासदुच्यत इत्यनेन निरस्तसर्वोपाधिविशेष ज्ञेयं ब्रह्म स्वरूपेण यः पश्यति क्षेत्रं च मायानिर्मितहस्ति- स्वप्नदृष्टवस्तुगन्धर्वनगरादिवदसदेव सदिवावभासत इति । एवं निश्चितविज्ञानो यस्तस्य यथोक्तसम्यग्दर्शनविरोधादवगच्छति मिथ्याज्ञानं तस्य जन्महेतोरपग- मात् । य एवं वेत्ति पुरुषं प्रकृतिं च गुणेः सह' इत्यनेन विहान भूयो नाभिजायत इति सम्यग्दर्शनफलमविद्याया निवर्तकं सम्यग्दर्शनं फलमविद्यादिसंसारबीज- निवृत्तिहारेण जन्माभाव उक्तः, जन्मकारणं चाविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसं- योग उक्तः॥ २६॥ आ० टी० । ऐक्यधीर्मुक्तिहेतुरित प्रागुक्तमनूद्य प्रश्नपूर्वकं निज्ञासितहेतुपरत्वेन श्लोकमव- तारयति अत्र क्षेत्रेति । सर्वस्य प्राणिजातस्य क्षेत्रक्षेत्रज्ञसंबन्धाधीना यस्मादुत्पत्तिस्तस्मात् क्षेत्रज्ञा- प्रयोदशाध्यायः। स्मकपरमात्मातिरकेण प्राणिनिकायस्याभावादैक्यज्ञानादेव मुक्तिरित्याह कस्मादिति । क्षेत्रक्षेत्र- ज्ञसंबन्धमुक्तमाक्षिपति कः पुनरिति । क्षेत्रज्ञस्य क्षेत्रेण संबन्धः संयोगो वा समवायो वेति विकल्प्याद्यं दूषयात न तावदिति । द्वितीय निरस्यति नापीति । वास्तवसंबन्धाभावेऽपि तयोर- ध्यासस्वरूपः सोऽस्तीति परिहरति उच्यत इति । भिन्नस्वभावत्वे हेतुमाह विषमेति । इतरेतरत्र क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जायादेरारोपरूपो योगस्तयारित्याह इतरेति । तत्र निमित्तमाह क्षेत्रेति । अविवेकादारोपितसंयोगे दृष्टान्तमाह रज्ज्विति । उक्तं संबन्धं निगमयति सोऽयमिति । तस्य निवृत्तियोग्यत्वं सूचयति मिथ्योते । कथं तर्हि मिथ्याज्ञानस्य निवृत्तिरित्याशङ्कयाह यथेति । योऽयं विज्ञानमयः प्राणेष्वि- त्यादि त्वंपदार्थविषयं शास्त्रमनुस्मृत्य विवेकज्ञानमापाद्य महाभूतादिष्वत्यन्तात क्षेत्रादुपद्रष्टुत्वादिलक्षणं प्रामुक्त क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तब्रह्मस्वरूपेण ज्ञेयं योऽनुभवति तस्य मिथ्या- ज्ञानमपगच्छतीति संबन्धः । कथमस्य निर्विशेषत्वं क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वादित्याशङ्कया- ह क्षेत्रं चेति । बहुदृष्टान्तोक्तेर्बहुविधत्वं क्षेत्रस्य द्योत्यते । उक्तज्ञानान्मिथ्याज्ञानापगमे हेतुमाह यथोक्तेति । तथापि कथं पुरुषार्थसिद्धिः कालान्तरे तुल्यनातीयमिथ्याज्ञानोदयसंभवादित्याशङ्कया- ह तस्येति । सम्यग्ज्ञानादज्ञानतत्कार्यनिवृत्त्या मुक्तिरिति स्थिते फलितमाह य एवमिति । उत्तर- ग्रन्थमवतारयितुं व्यवहितं वृत्तं कर्तियति नेत्यादिना । अविद्यानाद्यनिर्वाच्यमज्ञानं मिथ्याज्ञानं. तत्संस्कारश्चादिशब्दार्थः । व्यवहितमनूद्याव्यवहितमनुवदति जन्मेति ॥ २६ ॥ प०टी० । अथान्ये सांख्यन योगेन ध्यायन्तीति पूर्वमुक्तं तदेव प्रकटयन्नाह यावदिति । याव- त्किचित्सत्त्वं वस्तुमात्रं स्थावरं जङ्गमं पा समुत्पद्यते तत्सर्व क्षेत्रक्षेत्रज्ञयोोगादविवेकलतादात्माध्या- साद्भवाति जानीहि प्रकृतिपुरुपयोगाद्वाद्वितत्त्वमित्यादि ॥ २६ ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ॥ विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥ अतस्तस्या अविद्याया निवर्तकं सम्यग्दर्शनमुक्तमपि पुनः शब्दान्तरे- णोच्यते समं सर्वेष्वित्यादि । सममिति । समं निर्विशेपं तिष्ठन्तं स्थितिं कुर्व- न्तं सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिपु कं परमेश्वरं देहेन्द्रियमनोबुद्ध्य- व्यक्तात्मनोऽपेक्ष्य परं परमश्वासावीश्वरश्वेशनशीलश्वेति परमेश्वरस्तं सर्वेषु भूतेषु समं तिष्ठन्तम्।तानि विशिनष्टि विनश्यत्स्विति । तं च परमेश्वरमविनश्यन्त- मिति भूतानां परमेश्वरस्य चात्यन्तवैलक्षण्यप्रदर्शनार्थम् । कथं सर्वेषां हि भाव- विकाराणां जनिलक्षणो भावविकारो मूलं जन्मोत्तरभाविनोऽन्ये सर्वे भाववि- कारा विनाशान्ता विनाशात् परो न कश्चिदस्ति भावविकारो भावाभावात् सति हि धर्मिणि धर्मा भवन्त्यतोऽन्त्यभावविकारानुवादिनः पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धा भवन्ति सह कार्यैस्तस्मात् सर्वभूतलक्षण्यमत्यन्तमेव परमेश्वरस्य सिद्धं निर्विशेषत्वमेकत्वं च कथं च य एवं यथोक्तं परमेश्वरं पश्यति स पश्यति । ननु सर्वोऽपि लोकः पश्यति किं विशेषेणेति, सत्यं पश्यति किंतु विप.

४.०४ श्रीमद्भगवद्गीता- रीतं पश्यत्यतो विशिनष्टि स एव पश्यतीति । यथा तिमिरदृष्टिरनेकं चन्द्रं पश्यति तमपेक्ष्यैकचन्द्रदर्शी विशिष्यते स एव पश्यतीति तथैवेहाप्येकमविभक्तं यथोक्त- मात्मानं यः पश्यति स विभक्तानेकात्मविपरीतदर्शिभ्यो विशिष्यते स एव पश्यती- तीतरे पश्यन्तोऽपि न पश्यन्ति विपरीतदर्शित्वादनेकचन्द्रदर्शिवदित्यर्थः ॥२७॥ आ० टी० । व्यवधानाव्यवधानाभ्यां सर्वार्थमलत्वादज्ञानस्य तन्निवर्तकं सम्यग्ज्ञानं वक्तव्य- मित्याह अत इति । तस्यासकृदुक्तत्वात् तदुक्तार्थप्रवृत्तिथेत्याशङ्कयातिमूक्ष्मार्थस्य शब्दभेदेन पुनः- पुनर्वचनमधिकारिभेदानुग्रहायेति मत्वाह उक्तमिति । सर्वत्र परस्यैकत्वात् नोत्कर्षापकर्षवत्त्वमित्याह सममिति । परमत्वमीश्वरत्वं चोपपादयति देहोति । आत्मा जीवस्तमित्यादिनान्वयोक्तिः । आश्रय- नाशादाश्रितस्यापि नाशमाशझ्याह स चेति । अविनश्यन्तमिति विशिनष्टीति संबन्धः । उभयत्र विशेषणद्वयस्य तात्पर्यमाह भूतानामिति । नाशानाशाभ्यां वैलक्षण्येऽपि कथमत्यन्तवैलक्षण्यं सवि- शेषत्वभिन्नत्वयोस्तुल्यत्वादिति शङ्कते कथमिति । भूतानां सविशेषत्वादिभावऽपि परस्य तदभावाद- त्यन्तवलक्षण्यमिति वक्तुं जन्मनो भावविकारे सादित्वमाह सर्वेषामिति । तत्र हेतुमाह जन्मेति । न हि जन्मान्तरेणोत्तरे विकारा युज्यन्ते जन्मवतस्तदुपलम्भादित्यर्थः । विनाशानन्तरभाविनोऽपि वि- कारस्य कस्य चिदुपपत्तेन तस्यान्त्यविकारत्वमित्याशङ्कयाह विनाशादिति । तस्यान्त्यविकारत्वे सिद्धे फलितमाह अत इति । तेषां जन्मादीनां कार्याणि कादाचित्कमत्त्वानि तदधिकरणानि तैः सहेति यावत् । परमेश्वरस्य भूतेभ्योऽत्यन्तवैलक्षण्यमुक्तमुपसंहरति तस्मादिति । निर्विशेषत्वं सर्वभाववि- कारविरहितत्वं कूटस्थत्वमेकत्वमद्वितीयत्वम् । यः पश्यतीत्यादि व्या चष्टे य एवमिति । उक्तवि- शेषणमीश्वरं पश्यन्नैव पश्यतीत्युक्तमाक्षिपति नन्विति । ईश्वरपराङमुग्वस्यानात्मनिष्ठस्य तद्दर्शित्वेऽ- पि विपरीतर्शित्वादीश्वरप्रवणस्यैव सम्यग्दर्शित्वमिति विवक्षित्वा विशपणमिति परिहरति सत्यमिति। उक्तमेव दृष्टान्तेन विवगोति यथेत्यादिना । यः पश्यतीत्यादरर्थमुपमहरति इतर इति । परवस्तु- निष्टेभ्यो व्यतिरिक्ता इत्यर्थः ॥ २७ ॥ टी० । एवमविवेकात् कृतं संसारोद्भवमुक्त्वा तन्निवृत्त ये विविक्तात्मविषयं सम्यग्दर्शनमाह सममिति । सर्वेपु स्थावरजङ्गमेषु भूतेषु समं सद्रूपेण वर्तमानमीश्वरं यः पश्यति स एव पश्यति नान्यः । श्रुतिरपि शातपथी-" यद्वेव समः प्लुपिणा समो मशकन समो नागेन एभिस्त्रिभिलाकैः समोऽनेन सर्वेण तस्मादेव सामानते साम्नः सायुज्य सलोकतां जयति य एवं वेद ' इति । भाप्यम्- पूर्व साचा- मश्चति व्युत्पस्या सामस्वरूपमुक्तमिदानीं यद्वति विकल्पेन समत्वमेव सामत्याह । तत्र लुषिणाति- सूक्ष्मजीवेन समः समो मशकेनेत्यादि य एवं वेद स सानः परमेश्वरस्य सायुज्यं जयति । अथ किं- भूतषु विनश्यत्सु । किंभूतमीश्वरमविनश्यन्तम् । यथा घटादिषु नष्टेषु तदन्तर्गत आकाशो न नश्यति। अपश्यमस्य महतो महित्वम्" इत्यादिश्रुतयः पूर्व व्याख्याताः ॥ २७ ॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ॥ न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥२८॥ यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्येति श्लोक आर- भ्यते समं पश्यन्निति । समं पश्यन्नुपलभमानो हि यस्मात् सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतयावस्थितमीश्वरम् अतीतानन्तरश्लोकोक्तलक्षणमित्यर्थः। समं ० अत्र त्रयोदशाध्यायः । पश्यन् किं न हिनस्ति हिंसां न करोत्यात्मना स्वेनैव स्वमात्मानं ततस्तस्माद- हिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम् । ननु नैव कश्चित् प्राणी स्वयं स्वमात्मानं हिनस्ति कथमुच्यतेऽप्राप्तं न हिनस्तीति यथा न पृथिव्यामग्निश्चे- तव्यो नान्तरिक्ष इत्यादि, नैष दोषः, अज्ञानामात्मतिरस्करणोपपत्तेः । सर्वो ह्य. ज्ञोऽत्यन्तप्रसिद्ध साक्षादपरोक्षादात्मानं तिरस्कृत्यानात्मानमात्मत्वेन परिगृप तमपि धर्माधर्मैः कृत्वोपात्तमात्मानं हत्वान्यमात्मानमुपादत्ते नवं तं चैव हत्वान्य- मेवं तमपि हत्वान्यमित्येवं नवमुपात्तनुपात्तमात्मानं हन्तीत्यात्महा सर्वोऽज्ञो यस्तु परमार्थात्मासावपि सर्वदाविद्यया हत इव विद्यमानफलाभावादिति सर्व आत्महना एवाविहांसो यस्त्वितरो यथोक्तात्मदर्शी स तूभयथात्मनात्मानं न हिनस्ति ततो याति परां गतिं यथोक्तं फलं तस्य भवतीत्यर्थः ॥ २८ ॥ आ० टी० । प्रकृतसम्यग्ज्ञानेन किमित्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तदेतो पुरुष प्रवर्तयितुं श्लोकान्तरमित्याह यथोक्तस्येति । यस्मादित्यस्य ततःशब्देन संबन्धः । सर्वभूतेषु तुल्य- तयावस्थितं पूर्वोक्तलक्षणमीश्वरं निर्विशेषं पश्यन्नात्मानमात्मना यस्मान्न हिनस्ति ततस्तस्मान्मोक्षाख्यां परां गतिं यातीति योजना । तत्र पादत्रयेण ज्ञानादज्ञानध्वस्त्या ध्वस्तिरनर्थस्योक्तज्ञानमिथ्याज्ञानयो- रावरणयो शे सर्वोत्कृष्टां गतिं परमपुरुषार्थ परमानन्दमनुभवति विद्वानिति चतुर्थपादार्थः । न हि- नस्त्यात्मनात्मानमिति यथाश्रुतमादाय चोदयति नन्विति । न पृथिव्यामिति प्राप्तिद्वारा निषेधवन्ना- न्तरिक्ष न दिवीति प्राप्त्यभावाच्च यन्निषेधो मुख्यो नेप्यते तथहापि प्राप्ति विना निषेधो न युक्तिमा- नित्याह यथेति । अज्ञानामात्मनैवात्महिसासंभवाद्विदुपां तद्भावोक्तिर्युक्तेति समाधत्ते नैप दोष इति । संग्रहवाक्यं विवृणोति सर्वो हीति । अनात्मशब्दो देहादिविषयः । अविदुपामारोपितात्महन्तृत्वं निग- मयति इत्यात्महति । तथापि पारमार्थिकस्यात्मना हननाभावान्न तपां सर्वेषामात्महन्तृत्वमित्याश- याह यस्त्विति । उक्तरीत्या सर्वेप मविदुपामात्महन्तृत्वं सिद्धमित्युपसंहरति सर्व इति । आत्मनेवा- त्महननमविदुपां दृष्टं तदिह विद्वद्विपय शक्यं निषेठांमत्याह यस्त्वितर इति । उभयथापीति । आरापानारोपाभ्यामित्यर्थः । ज्ञानादनर्थभ्रमभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तमित्याह तत इति ॥ २८ ॥ प० टी० । अथ पूर्वोक्तप्रकारस्य प्रयोजनमाह सममिति । सर्वत्र सर्वभूतेषु समवस्थित- मीश्वरं समं स्वसदृशं पश्यन् तारतम्यवनितं वा पश्यन्नात्मना सर्वात्मना मनोवाकार्यरात्मानं न हिन- स्ति हिंसां न करोति ततस्तेनानुष्ठानेन परां गति याति । श्रुतिरपि- “ यदैतमनुपश्यत्यात्मानं देव- मञ्जमा । ईशानं भृतभव्यस्य न तदा विचिकित्सति" इति । भाप्यम्-यदैतमनुभवसिद्धं यतो देव द्योत- मानं भूतस्यातिक्रान्तस्य भव्यस्य भविप्यतो वा भूतजातस्येशानं नियामकमञ्जसा साक्षात्पश्यति तदा न विचिकित्सति हिंसावज्ञानिन्दारूपां विचिकित्सां न करोति ॥ २८ ॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ॥ यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥ सर्वभूतस्थमीशं समं पश्यन्न हिनस्त्यात्मनात्मानमित्युक्तं तदनुपपन्न ।

१.६ श्रीमद्भगवद्गीता- सगुणकर्मवैलक्षण्यभेदभिन्नेष्वात्मस्वित्येतदाशङ्क्याह प्रकृत्यैवेति । प्रकृत्या प्रक- तिर्भगवतो माया त्रिगुणात्मिका, मायां तु प्रकातं विद्यादिति मन्त्रवर्णस्तया प्र- कृत्यैव च नान्येन महदादिकार्यकारणाकारपरिणतया तान्येव कर्माणि वाड्मन:- कायारभ्याणि क्रियमाणानि निवर्त्यमानानि सर्वशः सर्वप्रकारैर्यः पश्यत्युपलभते तथात्मानं क्षेत्रज्ञमकर्तारं सर्वोपाधिविवर्जितं पश्यति स परमार्थदर्शीत्यभिप्रायः । निर्गुणस्याकर्तुनिर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिरित्यर्थः ॥ २९॥ आ० टी० । श्लोकान्तरं शङ्कोत्तरत्वेनावतारयितुमनुवदति सति । प्रतिदेहं धर्माध- दिमत्त्वेनात्मनो भेदभानान्न सम्यग् दर्शनमिति शङ्कते तदिति । स्वगुणैः सुखदुःखादिभिः स्वक- मंभिश्च धर्माधर्माख्यलक्षण्यात् प्रतिदेहं भेदे तद्विशिष्टेष्वात्मसु कथं साम्येन दर्शनमित्येतदाशङ्कय परिहरतीत्याह एतदिति । प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति प्रतिरिति । मायाशब्द- स्य संवित्पर्यायत्वं प्रत्याह त्रिगुणेति । उक्ता परस्य शक्तिक्षयेत्यत्र श्रुतिसमतिमाह मायां विति । अन्येन केन चित् क्रियमाणानि न भवन्ति कर्माणीत्येवकारार्थमाह नान्येति । किं तदन्यन्निध्य- मित्युक्ते सांख्याभिप्रेता प्रधानाख्या प्रकृतिरित्याह महादादीति । सर्वप्रकारत्वं काम्यत्वनिषिद्ध- त्वादिना प्रकारबाहुल्यमात्मानमुक्तविशेषणं यः पश्यतीति पूर्वेण संबन्धः । स पश्यतीत्ययुक्तं पुनरुक्ते- रित्याशङ्कयाह स परमार्थेति । आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनमयुक्तमित्युक्तस्य कः स- माधिरित्याशङ्कयाह निगुर्णस्यति ॥ २९ ॥ प० टी०। प्रथमोपायस्य फलमाह प्रकृयेति । सर्वशः सर्वप्रकारैः कर्माणि देहेन्द्रियादिरूपेण परिणतया प्रकृत्यैव क्रियमाणानीति यः पश्यति स एवात्मानमकर्तारं कर्तृत्वाभिमानशून्य पश्यति॥२९॥ यदा भूतप्टथग्भावमेकस्थमनुपश्यति ॥ तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥ पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति यदेति । यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वमेकस्मिन्नात्मनि स्थितमेकस्थ- मनुपश्यति शास्त्राचार्योपदेशतो मत्त्वात्मानं प्रत्यक्षत्वेन पश्यत्यात्मैवेदं सर्व- मिति, तत एव च तस्मादेव च विस्तारमुत्पत्तिमनुपश्यत्यात्मनः प्राण आ- मन आशात्मनः स्वर आत्मन आकाश आत्मनस्तेज आत्मन आप आ- मन आविर्भावतिरोभावावात्मनो भृरात्मनोऽन्नमित्येवमादिप्रकारविस्तारं यदा पश्यति तदा ब्रह्म संपद्यते ब्रह्मैव भवति तदा तस्मिन् काल इत्यर्थः ॥ ३० ॥ आ० टी० । प्रकृतेविकाराणां च सांख्यवत् पुरुषादन्यत्वप्रसक्तौ प्रत्याह पुनरपीति । उप- देशजनितं प्रत्यक्षदर्शनमनुवदति आत्मेति । भूतानां विकाराणां नानात्वं प्रकृत्या सहात्ममात्रतया प्रलीनं पश्यति न हि भूतपृथक्त्वं सत्यां प्रकृती केवले परस्मिन्विलापयितुं शक्यत इत्यर्थः । परि- पूर्णादात्मन एव प्रकृत्यादेविशेषान्तस्य स्वरूपलाभमुपलभ्य तन्मात्रतां पश्यतीत्याह तत एवेति । उक्तमेव विस्तारं श्रुत्यवष्टम्भेन स्पष्टयति आत्मन इति । ब्रह्मसंपत्ति म पूर्णत्वेनाभिव्यक्तिरपूर्णत्व- हेतोः सर्वस्यात्मसात्कृतत्वादित्याह ब्रह्मैवेति । ज्ञानसमानकाले मुक्तिरिति सूचयति सदोति॥३०॥ 5 प्रयोदशाध्यायः । ४.७ ५० टी० । एवं समत्वात्कर्तृदर्शनेन ब्रह्मप्राप्तिमुक्त्वाधुना जगत एकत्वदर्शनादाह यदेति । यदा नानानामरूपवतां भूतानां पृथग्भावं पृथगवस्थानमेकस्थमेकस्मिन् समष्टिरूपेण तिष्ठतीत्येक- स्थमनुवेलं पश्यति । एकस्मिन् सूत्रे नानामणीनामिवेत्यर्थः । ततस्तनैकरूपेण परमेश्वरेण सह विस्तारं पश्यति जलेन तरङ्गाणामिव तदा ब्रह्म संपद्यते ब्रह्मैव भवति ॥ ३० ॥ अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः॥ शरीरस्थोऽपि कौन्तय न करोति न लिप्यते ॥३१॥ एकस्यात्मनः सर्वदेहात्मत्वे तद्दोषसंबन्धे प्राप्तमिदमुच्यते अनादीति । अनादित्वादनादेर्भावोऽनादित्वमादिकारणं तद्यस्य नास्ति तदनादि यद्ध्यादिमत् तत् स्वेनात्मना व्यत्ययं त्वनादित्वानिरवयव इति कृत्वा न व्येति तथा निर्गुण- त्वात् सगुणो हि गुणव्ययाद् व्यत्ययं तु निर्गणत्वाञ्च न व्यतीति परमात्मायमव्ययो नास्य व्ययो विद्यत इत्यव्ययो यत एवमतः शरीरस्थोऽपि शरीरेष्वात्मन उपल- ब्धिर्भवतीति शरीरस्थ उच्यते तथापि न करोति तदकरणादेव तत्फलेन न लि- प्यते यो हि कर्ता स कर्मफलेन लिप्यतेऽयं त्वकर्तातो न फलेन लिप्यत इत्यर्थः । कः पुनर्देहेषु करोति लिप्यते च यदि तावदन्यः परमात्मनो देही करोति लिप्यते च तत इदमनुपपन्नमुक्तं क्षेत्रज्ञेश्वरैकत्वं क्षेत्रज्ञं चापि मां वि- दीत्यायथ नास्तीश्वरादन्यो देही कः करोति लिप्यते चेति वाच्यं परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्बोध्यं चेति भगवत्प्रोक्तमौपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्याहतबौद्धैश्च तत्रायं परिहारो भगवता स्वेनैवोक्तः स्वभावस्तु प्र- वर्तते' इत्यविद्यामात्र स्वभावो हि करोति लिप्यत इति व्यवहारो भवति न तु परमार्थत एकस्मिन् परमात्मनि तदस्त्यत एकस्मिन् परमार्थसांख्यदर्शने स्थि- तानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्मा- धिकारो नास्तीति तत्र तत्र दर्शितं भगवता ॥ ३१ ॥ आ० टी० । परिपूर्णत्वेन सर्वात्मत्वे प्राप्तमात्मनो देहादि न तेन कर्तृत्वादिना तद्वत्त्वं दृष्टं हि पवित्रस्यापि पश्चगव्यादेरपवित्रसंसर्गात् तद्दोषेण दुष्टत्वमित्याशङ्कामनूद्योत्तरत्वेन श्लोकमवतारयति एकस्येति । अनादित्वमेव साधयति आदिरिति । तथापि किं स्यादित्याशङ्कय कार्थत्वकृतव्यया- भावः सिध्यतीत्याह यद्धीति । तथापि गुणापकर्षहारको व्ययो भविष्यति नेत्याह तथेति । निरवयवत्वादेव सावयवद्वारकस्य निर्गुणत्वाद् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यादित्याशङ्कयाह परमात्मेति । परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह यत इति । स्वमहिम्नि प्रतिष्ठस्य कथं शरीरस्थत्वं तत्राह शरीरेष्विति । सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्या- त्मना वा न करोति कूटस्थत्वाद्देहादेश्च कल्पितत्वादित्यर्थः । कर्तृत्वाभावेऽपि भोक्तृत्वं स्यादित्याश- कयाह तदकरणादिति । तदेवोपपादयति यो होति । परस्य वर्तृत्वादेरभावे कस्य तदिष्टमिति पृच्छति कः पुनरिति । परस्मादन्यस्य कस्य चिज्जीवस्य कर्तृत्वादीत्याशङ्काम नुवदति यदीति ।

श्रीमद्भगवद्गीता-
तस्मिन् पक्षे प्रक्रमभङ्गः स्यादिति दूषयति तत इति । ईश्वरातिरिक्तजीवानङ्गीकारानोपक्रमविरोधोऽ-
स्तीति शङ्कते अथेति । तार्ह प्रतीतकर्तृत्वादेरधिकरणं वक्तव्यमिति पूर्ववाद्याह क इति । परस्यैव
कर्तृत्वाद्याधारत्वान्नास्ति वक्तव्यमित्याशङ्कयाह परो वेति । नास्तीति वाच्यमिति पूर्वेण संबन्धः। न
हि कर्तृत्वादिभाक्त्वे परस्यास्मदादिवदीश्वरत्वमिति भावः । परस्यान्यस्य वा कर्तृत्वादावविशिष्टे श-
रीरस्थाऽपीत्यादि श्रुतिमूलमपि ज्ञातुं वक्तुं चाशक्यत्वात् त्याज्यमेवेति परीक्षकसंमत्योपसंहरति सर्व-
थेति । परस्य वस्तु नोऽकर्तुरभोक्श्चाविद्यया तदारोपादादेयमेव भगवन्मतमिति परिहरति स्नेति ।
तमेव परिहारं प्रपञ्चयति अविद्यति । व्यावहारिके कर्तृत्वादावविशिष्टे पारमार्थिकमेव किं नेप्यते त-
त्राह न विति। वास्तवकर्तृत्वाद्यभावे लिङ्गमुपन्यस्यति अत इति ॥ ३१ ॥
५० टी० । अथ समत्वदर्शनेऽपि संसारावस्थायां देहसंबन्धनिमित्तैः कर्मभिस्तत्फलैश्च सुख-
दुःखादिभिर्वेषम्यं दुष्परिहरमित्याह अनादित्वादिति । अयं परमात्मा शरीरस्थोपि न करोत्यक-
तवास्ति । न तत्फलैलिप्यते कुतोऽनादित्वान्निर्गुणत्वाच्च । यदुत्पत्तिमन्नश्यति तथा यगुणवत्तद्रुणक्षय
उपक्षीणं भवति परमात्मा त्वनादिनिर्गुणश्चातोऽव्ययोऽविकारोऽतो न लिप्यते ॥ ३१ ॥
यथा सर्वगतं सौम्यादाकाशं नोपलिप्यते ॥
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२॥
किमिव न करोति न लिप्यत इत्यत्र दृष्टान्तमाह यथा सर्वगतमिति ।
यथा सर्वगतं सर्वव्याप्यपि सत् सौक्ष्म्यात् सूक्ष्मभावादाकाशं खं नोपलिप्यते न
संवध्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥
आ० टी० । सूक्ष्मभावाद अप्रतिहतस्वभावत्वादित्यर्थः । न संबध्यते पनादिभिरिति
शेषः ॥ ३२ ॥
प० टी० । अत्र दृष्टान्तमाह यथेति यथा । सर्वत्र पङ्कादिस्थितमाकाशं सौम्यादसंगत्वा-
पहकादिभिर्नोपलिप्यते तथा सर्वत्रोत्तमेऽधमे वा देहेऽवस्थितोऽप्यात्मा दैहिकैगुणैदोपैर्वा न लिप्यते
न युज्यत इत्यर्थः ॥ ३२ ॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः॥
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥३३॥
किं च यथा प्रकाशयतीति । यथा प्रकाशयत्यवभासयत्येकः कत्लं लो-
कमिमं रविः सवितादित्यस्तथा तइन्महाभूतादिधृत्यन्तं क्षेत्रमेकः सन् प्रकाश-
यति कः क्षेत्री परमात्मेत्यर्थः। रविदृष्टान्तोऽत्रात्मन उभयार्थोऽपि भवति रविवत्
सर्वक्षेत्रेष्वेक आत्मालेपकश्चेति ॥ ३३ ॥
आ० टी० । न करोति न लिप्यते चेत्यत्र द्रष्टुत्वेन दृश्यधर्मशून्यत्वं हेतुमाह किं चेति । दृ-
प्टान्तेन विवक्षितमर्थ दर्शयति रवीति । उभयविधमर्थमेव स्फटयति रविवदिति ॥ ३३ ॥
प० टी०। एवमसंगत्वाल्लेपो नास्तीत्याकाशदृष्टान्तेनोक्तं प्रकाशकत्वाच्च प्रकाश्यधर्मेन युज्यत
इति दृष्टान्तेनाह यथेति । स्पष्टम् । उक्तं च-'यद्वत्सवितर्युदिते करोति कर्माणि जीवलोकोऽयम्। न च
तानि करोति रविन कारयति तदात्मापि' इति ॥ ३३ ॥

चतुर्दशोध्यायः।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ॥
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः॥१३॥
समस्ताध्यायार्थोपसंहारार्थोऽयं श्लोकः क्षेत्रक्षेत्रज्ञयोरिति । क्षेत्रक्षेत्रज्ञयो-
यथाव्याख्यातयोरेवं यथाप्रदर्शितप्रकारेणान्तरमितरेतरवैलक्षण्यविशेषं ज्ञानच-
क्षुषा शास्त्राचार्योपदेशजनितमात्मप्रत्यायिकं ज्ञानं चक्षुस्तेन ज्ञानचक्षुषा भूतप्र-
कृतिमोक्षं च भूतानां प्रकृतिरविद्यालक्षणाव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणमभा-
वगमनं च ये विदुर्विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुन-
देहमाददतीत्यर्थः ॥ ३४ ॥
इति श्रीमत्पूज्यपादशंकरभगवतः कृती गीताभाष्ये त्रयोदशोऽध्यायः॥१३॥
आ० टी० । अध्यायाथ सफलमुपसंहरति समस्तेति। विशेपकोटस्थ्यपरिणामादिलक्षणं तदेव-
ममानित्वादिनिष्टतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्त्या परिपूर्णपरमानन्दाविर्भावलक्षण-
पुरुषार्थसिद्धिरिति सिद्धम्॥३४॥ इसानन्दगिरिकृतगीताभाष्यटीकायां त्रयोदशोऽध्यायः॥१३॥
प० टी० । अध्यायार्थमुपसंहरति क्षेत्रेति । एवमुक्तप्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं परस्परवैल-
क्षण्यं ज्ञानलक्षणेन चक्षुपा ये विदुस्तथा भूतानां प्रकृतिस्तस्याः सकाशान्मोक्षोपायं ध्यानादिकं च
ये विदुस्ते परं पदं यान्ति ॥ ३४ ॥
अध्यायतात्पर्य तु-क्षेत्रक्षेत्रज्ञयांगे प्रकृति पुरुषयोरन्तरं ज्ञानहेतोस्तत्त्वान्युक्तान्यथाद्या गुणवि-
कृतिमयी कर्तृकार्यत्वहेतुः । भोकृत्वे हेतुरात्मा सुखतदितर योरेक एवाखिलेषु क्षेत्री भास्वानिव त्रि-
सहितदशम पुप्रकृत्योर्विचारः ॥ १ ॥
इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां प्रकृतिपुरुपविवेको
नाम त्रयोदशोऽध्यायः ॥ १३ ॥
अथ
चतुर्दशोऽध्यायः।
श्रीभगवानुवाच ।
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्॥
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥१॥

श्रीमद्भगवद्गीता-
-
सर्वमुत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तं तत् कथमिति तत्प्र-
दर्शनार्थ 'परं भूयः' इत्यादिरध्याय आरभ्यते, अथवेश्वरपरतन्त्रयोः क्षेत्रक्षेत्र-
ज्ञयोर्जगत्कारणत्वं न तु सांख्यानामिव स्वतन्त्रयोरित्येवमर्थ प्रकृतिस्थत्वं गुणेषु
च सङ्गः संसारकारणामित्युक्तं कस्मिन् गुणे कथं संगः के वा गुणाः कथं वा
बधन्तीति गुणेभ्यश्च मोक्षणं कथं स्यान्मुक्तस्य च लक्षणं वक्तव्यमित्येवमर्थं
च श्रीभगवानुवाच परमिति । परं ज्ञानमिति व्यवहितेन संबन्धः । भूयः पुनः
पूर्वेषु सर्वेष्वध्यायेष्वसकृदुक्तमपि प्रवक्ष्यामि तच्च परं परवस्तुविषयत्वात्, किं
तत्, ज्ञानं सर्वेषां ज्ञानानामुत्तममुत्तमफलत्वाज् ज्ञानानामिति, नामानित्वादी-
नां किं तर्हि यज्ञादिज्ञेयवस्तुविपयाणामिति तानि न मोक्षायेदं तु मोक्षायेति
परोत्तमशब्दाभ्यां स्तौति श्रोतृवुद्धिरुच्युत्पादनार्थम् । यज् ज्ञात्वा यज् ज्ञानं
ज्ञात्वा प्राप्य मुनयः संन्यासिनो मननशीलाः सर्वे परां सिद्धिं मोक्षाख्यामितोऽ-
स्मादेहबन्धनादूर्ध्व गताः प्राप्ताः ॥ १ ॥
आ० टी०। क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वमज्ञातं ज्ञापयितुमध्यायान्तरमवतारयन्न-
ध्याययोरुत्थाप्योत्थापकत्वरूपां सङ्गतिमाह सर्वमिति । विधान्तरणाध्यायारम्भं सूचयति अथवेति ।
तदेव वक्तुमुक्तमनुवदति ईश्वरेति । प्रकृतिस्थत्वं पुरुपस्य प्रकृत्या सहैक्याध्यासस्तस्यैव गणेषु
सङ्गोऽभिनिवेशः। पविधामाकाङ्क्षां निक्षिप्य तदुत्तरत्वेनाध्यायारम्भे पूर्ववदेव पूर्वाध्यायसंबन्धसिद्धिरि-
त्याह कस्मिन्निति । पूर्वोक्तेनार्थेनास्याध्यायस्य समुच्चयार्थश्चकारः । परमित्यस्य भाविकालार्थत्वं
व्यावर्तयितुं सङ्गतिमाह परमिति । भूयःशब्दस्याधिकार्थत्वमिह नास्तीत्याह पुनरिति । पुनःश-
ब्दार्थमेव विवृणोति पूर्वविति । पुनरुक्तिस्तीत्याशङ्कय सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनमर्थवदित्याह
तच्चेति । विशेप्यं प्रश्नद्वारा निर्दिशति किं तदिति । निर्धारणार्थी षष्ठीमादाय तस्य प्रकर्ष दर्श-
यति सर्वेपामिति । परमुत्तममिति पुनरुक्तिमाशङ्कच विषयफलभेदान्मैवमित्याह उत्तमेति । ज्ञानं
ज्ञेयभित्यादी ज्ञानशब्देनामानित्वादीनामुक्तत्वात्तन्मध्ये च ज्ञानस्य साध्यत्वेनोत्तमत्वान्न तस्य वक्त-
व्यतेत्याशङ्कयाह ज्ञानानामिति । नामानित्वादीनां ग्रहणमिति शेषः । इतिशब्दादूर्ध्व पूर्ववदेव शेषो
द्रष्टव्यः । यथोक्तज्ञानापेक्षया कुतस्तज़ज्ञानस्य प्रकर्पस्तत्राह तानीति । स्तुतिफलमाह श्रोतृवृद्धी-
ति । ज्ञानं ज्ञात्वा ज्ञानस्य ज्ञेयत्वोपगमादनवस्थेत्याशङ्कयाह प्राप्यति । मुनिशब्दस्य चतुर्थाश्रम-
विषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतस्तेषां मुक्तिरित्याशङ्कयाह मननेति । सिद्धानत्वं परामिति
विशेषणाद्वयावर्त्य मुक्तित्वमाह मोक्षाख्यामिति । देहाख्यस्य बन्धनस्याध्यक्षत्वमाह
अस्मादिति ॥ १ ॥
प० टी०। पूर्वाध्याये 'महाभूतान्यहंकारः इत्यादिवाक्यैः क्षेत्रस्वरूपमेवोक्तं नोत्पत्तिस्तथा क्षे-
त्रस्य विकारत्वमेव दर्शितं न तु वैचित्र्यकारणं तथा क्षेत्रज्ञानां सूक्ष्मव्यष्टिरूपेण निरूपणं न सम-
टिरूपेणातस्तत्सर्वं चतुर्दशे वक्तुं भगवानुपक्रमते परं भूय इति द्वाभ्याम् । परं परमार्थसाधकं ज्ञायतेऽ.
नेनेति ज्ञानमुपदेशरूपं पूर्व सूत्रप्रायं प्रोक्तमपि भूयः प्रवक्ष्यामि । किंभूतं ज्ञानानां तपःकर्मादिवि-
षयाणां मध्ये उत्तमं मोक्षहेतुत्वात्, तदेवाह यदिति । यज्ज्ञात्वा सर्वे मुनयो. मननशीला याज्ञव-
ल्ल्यवामदेवाद्याः परमामात्यन्तिकी सिद्धिं गताः ॥ १ ॥

चतुर्दशाध्यायः। इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः॥ सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥२॥ अस्याश्च सिद्धेरैकान्तिकत्वं दर्शयति इदमिति । इदं ज्ञानं यथोक्तमुपा- श्रित्य ज्ञानसाधनमनुष्ठायेत्येतन्मम परमेश्वरस्य साधर्म्य मत्स्वरूपतामागताः प्राप्ता इत्यर्थो न तु समानधर्मनां साधर्म्य क्षेत्रज्ञेश्वरयोर्भदानभ्युपगमाद् गी- ताशास्ले फलवादश्वायं स्तुत्यर्थमुच्यते, सर्गेऽपि सृष्टिकालेऽपि नोपजायन्ते नोत्पद्यन्ते प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां नापद्यन्ते न च्यवन्तीत्यर्थः ॥२॥ आ० टी० । ज्ञानफलस्य कर्मफलवलक्षण्यमाह तस्याश्चेति । कथं ज्ञानाश्रयणं तहेतुश्रवणा- दिमामग्रीसंपत्तिद्वारेत्याह ज्ञानेति । साधये गोगवययोरिव विद्वदीश्वरयोरपि भेदः स्यादित्याश- याह मत्स्वरूपतामिति । साधर्म्यस्य मुख्यत्वे भेदध्रौव्याद्गीताशास्त्रविरोधः स्यादित्याह न वि- ति । ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च नात्र सारूप्यमिष्टमित्याह फलति । सारूप्ये धीफलं हित्वा ध्यानफलमप्रस्तुतं प्रसज्यतेत्यर्थः । ईश्वरात्मतां गतानामेवावान्तरसर्गादौ जन्माद्यभावेऽपि म- हासर्गादौ तद्भविष्यतीत्याशङ्कयाह सर्गेऽपीति ॥ २ ॥ प० टी० । ज्ञानफलमाह इदमिति । इदं वक्ष्यमाणं ज्ञानमुपाश्रित्यानडाय मम साधर्म्य सारूप्यं प्राप्ताः सन्तः सर्गे आदिमर्गे ब्रह्मादि पत्तद्यमानेष्वपि नोपजायन्त नात्पद्यन्ते । महाप्रलयेपि न व्यथ- न्ति प्रलयदुःखानि नानभवन्ति ॥ २ ॥ मम योनिर्महब्रह्म तस्मिन् गर्भ दधाम्यहम् ॥ संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ क्षेत्रक्षेत्रज्ञसंयोग ईदृशो भूतकारणमित्याह ममेति । मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतियोनिः सर्वभूतानां सर्वकार्येभ्यो महत्वाद् भरणाच्च स्वविकाराणां महद् ब्रह्मेति योनिरेव विशिष्यते तस्मिन् महति ब्रह्मणि योनौ गर्भ हिरण्यगर्भस्य जन्मनो वीजं सर्वभूतजन्मकारणं वीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिइयशक्तिमानीश्वरोऽहमविद्याकामकपिाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण तं संयोजयामीत्यर्थः । संभव उत्पत्तिः सर्वभूतानां हिरण्यग- भोत्पत्तिहारेण तन्मूलकारणात् ततस्तस्माद् योनेर्मूलकारणाद् गर्भाधानाद भवति ॥ ३॥ आ० टी० । ज्ञानस्तुत्या तदभिमुखायाव्यवहितचेतसे विवक्षितमर्थमाह क्षेत्रेति । स्वरूपत्वे- न स्वभूतत्वं वारयति मदीयेति । ईश्वरी चिच्छक्तिं व्यावर्तयति त्रिगुणात्मिकेति । सांख्येय- प्रकृतिरपि मदीयेति व्यावर्तिता । योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रत्युपादानत्वमभि- प्रेतमित्याह सर्वभूतानामिति । प्रकृतेमहत्त्वं साधयति सर्वेति । सर्वकार्यव्याप्तिमादाय योनावेव ४१२ श्रीमद्भगवद्गीता- ब्रह्मशब्दो न लिङ्गवैषम्यान्महद् ब्रह्मेत्यर्थान्तरं किं चिदित्याशङ्कयाह योनिरिति । तस्मिन्नित्यादि व्याचष्टे तस्मिभिति। ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वमिति वक्तुमुपक्रम्य किमिदमन्यदा- दर्शितमित्याशङ्कयाह क्षेत्रेति । गर्भशब्देनोक्तसंयोगस्य फलं दर्शयति संभव इति । 'आदिकर्ता स भूतानाम्' इति स्मृत्या हिरण्यगर्भकार्यत्वावगमाद् भूतानां कथं यथोक्तगर्भाधाननिमित्तत्वमित्याश- ङ्कयाह हिरण्यगर्भति ॥ ३ ॥ ५० टी० । तदेवं श्रोतारमभिमुखीकृत्य परमेश्वराधीनप्रकृति पुरुपयोः सर्वभूतोत्पत्तिहेतुत्वं न तु स्वतन्त्रयोरिति विवक्षितमर्थ कथयति ममेति । मम योनिर्गर्भस्थानं महब्रह्म देशतः कालत- श्चापरिच्छिन्नं महäहणात् स्वकार्याणां वृद्धिहेतुभूतं ब्रह्मैवंविधं मायाख्यं तस्मिन् गर्भ हिर- ण्यगर्भरूपं दधामि । ततो गर्भाधानात् सकाशात् सर्वभूतानां ब्रह्मादीनां संभवो भवति ॥ ३ ॥ सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः॥ तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥४॥ सर्वयोनिष्विति । देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय मूर्तयो देहसंस्थानलक्षणा मूर्छिताङ्गावयवा मूर्तयः संभवन्ति यास्तासां मूर्तीनां ब्रह्म स- र्वावस्थं योनिः कारणमहमीशो वीजप्रदो गर्भाधानस्य कर्ता पिता ॥ ४ ॥ आ० टी० । ननु कथमुक्तकारणानुरोधेन हिरण्यगर्भोद्भवमभ्युपेत्य भूतानामुत्पत्तिरुच्यते देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य संभवात्तत्राह सर्वयोनिप्विति । तत्र तत्र हेत्वन्तर- प्रतिभासे कुतोऽस्य हेतुत्वमित्याशङ्कय न तद्रूपणास्यैवावस्थानादित्याह सर्वावस्थामिति ॥४॥ ५० टी० । न केवलं सृष्टयुपक्रममधिष्ठिताभ्यां प्रकृतिपुरुषाभ्यामयं भूतात्पत्तिप्रकारोऽपि तु सर्वदैवेत्याह सर्वयोनिप्विति । सर्वयोनिषु मनुष्यपशुपक्ष्यादिषु याः स्थावरजङ्गमात्मिका मूर्तय उत्पद्यन्ते तासां महदब्रह्म योनिरुत्पत्तिस्थानं मातृरथानीयमित्यर्थः । अहं बीजप्रदो गभाधानकर्तातएव पिता निपेक्ता । श्रुतिरपि-"सहतावानास यथा स्त्रपुमा मौ संपरिप्वक्तौ संमीटितौ स इममेवात्मानं द्वेधा पातयतः पतिश्च पत्नी चाभवताम्" इत्यादि । भाप्यम् -मृष्टिक्रमे पूर्व द्वितीयमैच्छदित्युक्तं स तेन सहैतावानेताहगासीत् । एतावान् कथं यथा स्त्रीपुमांसौ संपरिप्वक्तौ समीलितावनन्तरं सृष्टयर्थ मात्मा इममेव मायासंवलितमात्मानं द्वेधा द्विःप्रकारमपातयद् अपलष्टमकरोत् । ततः पतिश्च पत्नी चाभवतां मिथुनमभूदित्यर्थः । “ मिथुनं संभवाव प्रजात्या ” इति ब्राह्मणमपि ॥ ४ ॥ सत्त्वं रजस्तम इति गणाः प्रकृतिसंभवाः॥ निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। ५॥ के गुणाः कथं निवनन्तीत्युच्यते सत्त्वमिति। सत्त्वं रजस्तम इत्येवं- नामानो, गुणा इति पारिभाषिकः शब्दो न झूपादिवद् द्रव्याश्रिता न च गुण- गुणिनोरन्यत्वमत्र विवक्षितं तस्माद् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रत्यविद्या- त्मकत्वात् क्षेत्रझं निवदन्तीव तमास्पदीरुत्यात्मानं प्रतिलभन्त इति निबन्धन्ती- त्युच्यते । तेऽत्र प्रकृतिसंभवा भगवन्मायासंभवा निवदन्तीव हे महाबाहो म- १ निबध्नन्तीत्युपचर्यते-पा० लि. पु० ।

चतुर्दशोध्यायः। ४१३ हान्तौ समर्थतरावाजानुप्रलम्बी बाहू यस्य स महाबाहुः हे महाबाहो देहे शरीरे देहिनं देहवन्तमव्ययमव्ययत्वं चोक्तमनादित्वादिश्लोके । ननु न देही लिप्यते इत्युक्तं तत् कथमिह निबनन्तीत्यन्यथोच्यते, परिहतमस्माभिरिवशब्देन निबनन्तीवेति ॥ ५॥ आ० टी० । एवं क्षेत्रक्षेत्रज्ञसंयोगाजगदुत्पत्ति दर्शयता ब्रह्मैवाविद्यया संसरतीत्युक्तमि- दानीमध्यायादावुक्तमाकाक्षाद्वयं पूर्वमन्द्यानन्तरश्लोकेनोत्तरमाह के गुणा इति । सत्त्वादिषु कथं गुणशब्दप्रवृत्तिरित्याशङ्कय परतन्त्रत्वादित्याह गुणा इति । रूपादिष्विव गुणशब्दः सत्त्वादिषु द्र- व्याश्रितत्वं निमित्तीकृत्य किं न स्यादित्याशक्य प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वान्नैवमित्याह न रूपादिवदिति । गुणानां प्रकृतेश्च पृथगुक्तेरन्यत्वे कुतस्तेषां प्रकृत्यात्मत्वमित्याशङ्कयाह न च गुणे- ति । अत्यन्तभेदे गवाश्ववत्तद्वावासंभवादित्यर्थः । भेदाभेदे च तद्भावासंभवाद्विशेषात् कुतस्तेषु गुण- परिभाषेत्याशङ्कयाह तस्मादिति। क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुमाह अविद्येति । के गुणा इत्यस्यो- त्तरमुक्तं कथं बध्नन्तीत्यस्योत्तरमाह क्षेत्रमिति । तदेवोपपादयति तमास्पदीकृसेति । संभवत्य- स्मादिति संभवः प्रकृतिः संभवो यपां त तथेति । प्राकृतानां गुणानां प्रकृत्यात्मकत्वमाह ते चेति। सांख्येयां प्रकृति प्रधानाख्यां व्यावर्त यति भगवदिति । इवकारानुबन्धेन नितरां बध्नन्ति स्वविकार- वत्तयोपदर्शयन्तीति । क्रियापदं व्याख्याय महाबाहुशब्दं व्याचष्टे महान्ताविति । देहवन्तं देहमा- त्मानं मन्यमानं देहस्वामिनमित्यर्थः । कूटस्थस्य कथं बध्यमानत्वमित्याशङ्कय कुर्यान्मेरावणुधियमि- तिन्यायन मायामाहात्म्यमिदमित्याह अव्ययमिति । स्वतो धर्मतो वा व्ययराहित्यामित्यपेक्षायामाह अव्ययत्वं चेति । लिप्यते न स पापेनेत्यनेन विरुदमिदं निबध्नन्तीति वचनमिति शङ्कते नन्विति । इ- वकारानुबन्धेन क्रियापदं व्याचक्षाणैरस्माभिरस्य चोद्यस्य परिहतत्वान्नैवमित्याह परिहतमिति ॥५॥ ५० टी० । इदानीं प्रकृतिसंयोगेन पुरुषस्य संसारं प्रपञ्च यति सत्त्वमित्यादितश्चतुर्भिः । सत्त्वं रजस्तम इति त्रयो गुणाः प्रकृतिसंभवा गुणानां साम्यावस्था प्रकृतिस्तस्याः सकाशात्पृथक्त्वन गुणा- नामभिव्यक्तिरव संभवशब्दार्थः । एवं ते प्रकृतिकार्ये देहतादात्म्येन स्थितं देहिनं चिदंशं वस्तुतोऽव्ययं निर्विकारमप्यहंकाराभिमानान्निबध्नन्ति स्वकार्यमुखदुःखादभिः सह योजयन्ति । श्रुतिरपि तैत्ति- रीयके “अनामेकां लोहित शुक्लकृष्णां बहीं प्रनां जनयन्ती सरूपाम् । अजो टेको जुपमाणोऽनुशेते जहात्येनां भुक्तभोगामनोऽन्यः” इति।भाप्यम्-नन्वेकस्माज्जगदुपादानतः कथं कार्यवैचित्र्यमित्याशक्य कारणमपि तथैवास्तीत्याह अजामिति । अनामनादिमकामेव गुणत्रयरूपिणी यतो लोहितशुक्ल- कृष्णां रजःपत्त्वतमोमयीमतो विचित्रत्वाद्बह्वीं पृथङ्नामरूपकात्मिकां प्रजां जनयन्ती सरूपां यथाकर्म समानरूपाम् । अथ तच्छ बलत्वशुद्धत्वभावेन क्षेत्रज्ञपरमात्मनोः स्वरूपमाह अज इति। एवं- विधां तामनुलक्षीकृत्य तत्कार्याणि विषयान् जुपमाणो भुञ्जानोऽजो जीवः शेते निद्रित इव व्यामूढदशां प्राप्नोति, अथान्यस्तद्विलक्षणोऽज एनामुक्तलक्षणां भुक्ता भोगा यया सा भुक्तभोगा तामनां जहाति त्यजति न स्पृशति यथा कश्चिद्विप्रः स्वप्ने शूद्रत्वं प्राप्तः पुनर्जाग्रद्दशायां स्वकीयं शुद्धस्वरूपं प्राप्नोति तहदित्यर्थः ॥ ५ ॥ तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम् ॥ सुखसड़ेन बध्नाति ज्ञानसंगेन चानघ ॥६॥ तत्र सत्त्वमिति । तत्र सत्त्वादीनां सत्त्वस्यैव तावल्लक्षणमुच्यते निर्मल- श्रीमद्भगवद्गीता- त्वात् स्फटिक इव मणिः प्रकाशकमनामयं निरुपद्रवं सत्त्वं तन्निबधाति, क- थं सुखसङ्गेन सुख्यहमिति विषयभूतस्य सुखस्य विषयिण्यात्मनि संश्लेषापादा- नं मृपेव सुखेन संजननमिति, सैपाविद्या न हि विषयधर्मों विषयिणो भवती- च्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्म इत्युक्तं भगवतोऽविद्ययैव स्वकीय- धर्मभूतया विषयविषय्यविवेकलक्षणयाऽस्वात्मभूते सुखे संजयतीवासक्तमिव करोत्यसुखिनं सुखिनमिव तथा ज्ञानसंगेन च देहिनं ज्ञानमिति सुरवसाहच. र्यात् क्षेत्रस्यैवान्तःकरणस्य धर्मो नात्मन आत्मधर्मत्वे संगानुपपत्तेर्बन्धानुपप- तेश्च सुख इव ज्ञानादौ संगो मन्तव्योऽनघाव्यसन ॥ ६ ॥ आ० टी०। किंलक्षणो गुणः केन बध्नातीत्यपेक्षायामाह तलेति । निर्धारणार्थतया सप्तमी व्याचष्टे तत्र सत्त्वादीनामिति । पुनस्तत्रेत्यनुवादमात्रं निर्मलत्वं स्वच्छत्वमावरणवारणक्षमत्वं त- स्मात् प्रकाशकं चैतन्याभिव्यञ्जकं निरुपद्रवमिति निर्मलं सत् सुखस्याभिव्यञ्जकमित्यर्थः । केन द्वारे- ण तदात्मानं निबध्नातीति पृच्छति कथमिति । सुखसङ्गेन बध्नातीत्युत्तरं तदेव विवृणोति मुख्यहमि- सादिना । सुखर पाभिव्यञ्जकमत्त्वपरिणामोऽत्र विषयभूत सुग्वमुच्यते । संश्लेपापादनमेव विशद- यति मृपैवेति । किमिति मृणैवति विशेपणं सङ्गस्य वस्तुत्वसंभवादित्याशङ्कयाह सैपेति । नन्वि- च्छासंगोऽभिनिवेशश्चेत्येकोऽयस्तत्रेच्छादेरात्मधर्मत्वात् किमविद्ययंत्याशङ्कय मनोधर्मत्वादिच्छादेर्ना- त्मधर्मतत्याह न हीति । इच्छादेरनात्मधर्मत्वे किं प्रमाणमित्याशकचाह इच्छादि चेति । तस्यात्म- धर्मत्वासंभवे फलितमाह अत इति । संजयतीव सत्त्वमति शेपः । इवकारप्रयोग हेतुमाह अवि- धयति । तस्या वस्तुतो नात्मसंवन्धस्तथापि संबन्धान्तराभावादस्वातन्त्र्यासात्मधर्मत्वमापाद्येष्टत्वमाच. ष्टे स्वकीयेति । वृत्तिमदन्तःकरणस्य विषयत्वादात्मनः साधकत्वेन तद्विपयत्वेऽपि तदविवेकरूपावि- येति तत्स्वरूपमाह विपयति । यथोक्तविद्यामाहात्म्यामिदं यदस्वरूपे ताहमें च शक्तिसंपादनमि- त्याह अस्वति । तदेव स्फटयति आसक्तमिवेति। प्रकारान्तरण सत्त्वस्य निवन्धनत्वमाह तथेति । ज्ञायतेऽनेनेति सत्त्वपरिणामो ज्ञानं तेन ज्ञान्यहमिति विपरीताभिमानेन सत्त्वमात्मानं निबध्नातीत्याह ज्ञानमियादिना । विपक्ष दोपमाह आत्मेति । स्वाभाविकत्वेन प्रात्तत्वात्तत्र स्वतः संयोगात्तद्वारा बन्धे च तन्निवृत्त्यनुपपत्तेर्नात्मधर्मत्वमित्यर्थः । ज्ञानेश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववदाविद्यकत्वं मू. चयति सुख इवति । पापादिदोषहीनस्यैवात्र शास्त्रऽधिकार इति द्योतयति अनघति ॥ ६ ॥ प० टी०। अथ सत्त्वस्य लक्षणं बन्यकत्वं प्रकाशकत्वं चाह तत्रेति । तत्र तेषां गुणानां मध्ये सत्त्वं स्फटिकशिलावन्निर्मलत्वात्प्रकाशकम् । अनामयं शान्तोपद्रवम् । अत एव स्वकार्येण सुखेन यः संगस्तेन प्रकाशकत्वाञ् ज्ञानसंगस्तेन च देहिनं बध्नाति अहं सुखी ज्ञानी चेत्यभिमानिनं करोति ॥ ६ ॥ रजो रागात्मकं विद्धि तृष्णासङसमुद्भवम् ॥ तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥७॥ रजो रागात्मकमिति । रजो रागात्मकं रुजनाद्रागो गैरिकादिवद्रागात्म- कं विद्धि जानीहि तृष्णासङसमुद्भवं तृष्णा प्राप्ताभिलाष आसङ्गः प्राप्ते विषये चतुर्दशोध्यायः । ४१५ मनसः प्रीतिलक्षणः संश्लेषः तृष्णासङसमुद्भवं तृष्णासंगयोः समुद्भवं तृष्णासं- गसमुद्भवं तन्निबनाति तद्रजः कौन्तेय कर्मसंगेन दृष्टादृष्टार्थेषु कर्मसु संज- ननं तत्परता कर्मसंगस्तेन निवनाति रजो देहिनम् ॥ ७ ॥ आ० टी० । रजस्तार्ह किंलक्षणं वा पुरुषं निबध्नातीत्याशङ्कयाह रज इति । रज्यते संसृज्यतेऽनेन पुरुषो दृश्यैरिति रागोऽसावात्मास्येति रागात्मकं रजो जानीहीत्याह रञ्जनादिति । समुद्भवत्यस्मादिति समुद्भवस्तृप्णा चासङ्गश्च तृप्णासङ्गौ तयोः समुद्भवस्तमिति विग्रहं गृहीत्वा कार्य- द्वारा रजो विवक्षुस्तृष्णासङ्गयोरर्थभेदमाह तृष्णेयादिना। रजसो लक्षणमुक्त्वा निबन्धनप्रकारमाह तद्रज इति । कर्मसङ्ग विभजते दृष्टति । अकर्तारमेव पुरुषं करोमीत्यभिमानेन प्रवर्तयतीत्यर्थः ॥ ७ ॥ प० टी० । रजः स्वभावमाह रजइति । रजो रागात्मकं रञ्जनरूपं विद्धि जानीहि । किंभूतं तृष्णासंगसमुद्भवमप्राप्ताभिलाषस्तृप्णा प्राप्तप्रीतिः सगस्तयोस्तृप्णासंगयोः समुद्भवो यस्मात्तद्रजो देहिनं रष्टादृष्टार्थेषु कममु संगेनासक्त्या नितरां बध्नाति ॥ ७ ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ॥ प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८॥ तमस्त्विति । तमस्तृतीयो गुणोऽज्ञानजमज्ञानाज्जातमज्ञानजं विद्धि मो- हनं मोहकरमविवेककरं सर्वदेहिनां सर्वेपां देहवतां प्रमादालस्यनिद्राभिः प्र- मादश्वालस्यं च निद्रा च प्रमादालस्यनिद्रास्ताभिस्तत्तमो निवनाति भारत ॥८॥ आ० टी० । तमस्तर्हि किंलक्षणं कथं वा पुरुपं निबध्नाति तत्राह तमस्त्विति । गुणानां प्रकृतिसंभवस्तत्त्वाविशेपेऽपि तमसोऽज्ञानजत्वविशेपणं तद्विपरीतस्वभावानापत्तेरिति मत्वाह अज्ञाना- दिति । मुह्यति हिताहितेना विविच्येत्यनेनेति मोहनं विवेकप्रतिबन्धकमिति । कार्यद्वारा तमो नि- दिशति मोहनमित्यादिना । लक्षणमुक्त्वा तमसो बन्धनकरत्वं दर्शयति प्रमादेति । कार्यान्तरास- क्ततया चिकीर्पितस्य कर्त यस्याकरणं प्रमादः, निरीहतयोत्साहप्रतिबन्धस्त्वालस्य, स्वापो निद्रा ताभिरात्मानमाविकारमेव तमोऽपि विकारयतीत्यर्थः ॥ ८ ॥ प० टी० । तमोलक्षणमाह तम इति । तमोऽज्ञानाज्जातमावरकस्य शक्तिप्रधानात्प्रकृत्यं- शाज्जातं वित्ध्यतः सर्वेषां देहिनां मोहन मोहननकम् । अतएच प्रमादालस्यनिद्राभिर्बध्नाति । तत्र प्रमादोऽनवधानता । आलस्यमनुद्यमः । निद्रा चित्तस्यावसादो लयस्तैः ॥ ८ ॥ सत्त्वं सुखे संजयति रजः कर्मणि भारत ॥ ज्ञानमाटत्त्य तु तमः प्रमादे संजयत्युत ॥९॥ पुनर्गुणानां व्यापारः संक्षेपत उच्यते सत्त्वमिति । सत्त्वं सुरवे संजयति संश्लेषयति रजः कर्मणि हे भारत संजयतीति वर्तते ज्ञानं स्वकृतं विवेकमा- वृत्त्याच्छाद्य तु तमः स्वेनावरणात्मना प्रमादे संजयत्युत प्रमादो नाम प्राप्त- कर्तव्याकरणम् ॥ ९ ॥ आ० टी० । उक्तानां मध्ये कस्मिन् कार्य कस्य गुणस्योत्कर्षस्तत्राह पुनरिति । सुखसाध्ये श्रीमद्भगवद्गीता- विषये समुत्कृप्यते सत्त्वमित्याह सत्त्वमिति । सञ्जयतीत्यस्यार्थमाह संश्लेषयतीति । कर्मणि साध्ये रजः समुत्कृष्यत इत्याह रज इति । प्रमादे प्राधान्यं तमसो दर्शयति ज्ञानमिति ॥ ९ ॥ प० टी० । अथ सत्त्वादीनामेव स्वस्वकार्यकरणे सामर्थ्यातिशयमाह सत्त्वमिति । दुःखशो- कादिकारणे सत्यपि सत्त्वं सुखे संजयति संश्लेषयति देहिनं सुग्वाभिमुखमेव करोति । तथैव दुःखा- दिकारणे सत्यपि रजः कर्मण्येव संनयति । तमस्तु तत्संगेऽपि ज्ञानमावृत्त्य प्रमादे संजयत्यनवधानं करोति ॥९॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत ॥ रजःसत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १०॥ उक्त कार्य कदा कुर्वन्ति गुणा इत्युच्यते रज इति । रजस्तमश्चोभा- वप्यभिभूय सत्त्वं भवत्युद्भवति वर्धते यदा तदा लब्धात्मकं सत्त्वं स्वकार्य ज्ञानसुरवाधारभते हे भारत तत् तथा रजोगुणः सत्त्वं तमश्चवोभावप्यभिभूय वर्धते यदा तदा कर्मतृष्णादि स्वकार्यमारभते तम आख्यो गुणः सत्त्वं रजश्वो- भावप्यभिभूय तथैव वर्धते यदा तदा ज्ञानावरणादि स्वकार्यमारभते ॥ १० ॥ आ० टी० । इतरेतराविरोधेन वा सत्त्वादयो गुणा युगपदुकृप्यन्ते विरोधेन वा क्रमेण वेति संदेहात् पृच्छति उक्तमिति । सत्त्वोत्कर्षार्थिनामितराभिभवार्थ क्रमपक्षमाश्रित्योत्तरमाह उच्य- त इति । सत्त्वाभिवृद्धिमेव विवृणोति तदेति । रजस्तमसोस्तिरोधानदशायामिति यावत् । रजसो वृद्धिप्रकारं तत्कार्य च कथयति तथेति । तमसोऽपि वृद्धिं तत्कार्य च निर्दिशति तम इति ।।१०॥ ० । अथ द्वयोरुपरमे एकस्योत्कर्षमाह रजस्तम इति । रजस्तमश्चाभिभूय पराभूय सत्त्वं भवत्यदृष्टवशादुद्रिक्तं भवत्यतः स्वकार्य सुखादी संजयतीत्यर्थः । एवं रजोऽपि सत्त्वं तमश्चेति गुणद्वयमभिभूयोद्भवति । अतः स्वकार्ये तृष्णासंगादी संनयति । एवं तमोऽपि सत्त्वं रजश्चोभावपि गुणावभिभूयोद्भवति । अतः स्वकार्य प्रमादालस्यादौ संजयतत्यिर्थः ॥ १० ॥ सर्वहारेपु देहेऽस्मिन् प्रकाश उपजायते॥ ज्ञानं यदा तदा विद्याद्विरदं सत्त्वमित्युत ॥११॥ यदा यो गुणः समुद्भूतो भवति तदा तस्य किं लिङमुच्यते सर्वहारे- ष्विति । सर्वहारेष्वात्मन उपलब्धिद्दाराणि श्रोत्रादीनि सर्वाणि करणानि तेषु हारेष्वन्तःकरणस्य वुद्धेर्वृत्तिः प्रकाशो देहेऽस्मिन् प्रकाशशब्दवाच्यः सर्वहारे- धूपजायते तदेव ज्ञानं यदैवं प्रकाशो ज्ञानाख्य उपजायते तदा ज्ञानप्रकाशेन लिङ्गेन विद्यादिवृद्धमुद्भूतं सत्त्वमित्युतापि ॥ ११ आ० टी० । उत्तरश्लोकत्रयस्याकाङ्क्षां दर्शयति यदेति । सत्त्वोद्भवलिङ्गदर्शनार्थमनन्तरं श्लोकमुत्थापयति उच्यत इति । सर्वद्वारेष्वित्यादि सप्तमी निमित्ते नेतव्या, उतशब्दोऽपिशब्दपर्या- योऽप्यतिशयार्थः ॥ ११ ॥ ५० टी० । अथ सत्त्वादीनामुपलब्धिप्रकारमाह सर्वद्वारेष्विति । अस्मिन्नात्मनो भोगायतने प० टी० ४१५ चतुर्दशाध्यायः । शरीरे सर्वद्वारेषु श्रोत्रादिषु शब्दादिप्रकाशे सति यदा ज्ञानं स्वरूपस्फुरणमुत्पद्यते तदा सत्त्वं विवृद्ध वृद्धि प्राप्तमिति विद्यात् ॥ ११ ॥ लोभःप्रवृत्तिरारम्भः कर्मणामशमः स्टहा॥ रजस्येतानि जायन्ते विटद्धे भरतर्षभ ॥१२॥ रजस उद्भूतस्येदं चिन्हं, लोभ इति । लोभः परद्रव्यादिष्विच्छा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भ उद्यमः कस्य कर्मणामशमोऽनुपशमः, हपरागादिप्रवृत्तिः स्पृहा सर्वसामान्यवस्तुविषया तृष्णा, रजसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥ १२ ॥ आ० टा० । अतिशयेनोद्भुतस्य रजसो लिङ्गमाह रजस इति । उपक्रमपर्यायस्यारम्भस्य विषयं पृच्छति कस्येति । काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति कर्मणामिति । अनुपशमो बाह्यान्तःकरणानामिति शेषः।लोभाशुपलम्भाद्रजोवृद्धिबोहव्येतिभावः॥१२॥ प० टी० । अथ रजोवृद्धरुपलब्धिमाह लोभ इति । बहुधा धनागमे जायमानेऽपि पुनः पुनर्वर्धमानोऽभिलापो लोभः, प्रवृत्तिस्तु क्रियमाणेच्छा, कर्मणामारम्भश्च, अशम इदं कृत्वेदं करिष्यामीति संकल्पविकल्पानामनगरमः, दृष्टमात्रेषञ्चावचेपु वस्तुषु जिघृक्षा स्पृहा । एतानि लिङ्गा- नि रजसि प्रवृद्धे सति संभवन्ति ॥ १२ ॥ अप्रकाशोऽप्रतिश्च प्रमादो मोह एव च ॥ तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥१३॥ अप्रकाश इति । अप्रकाशोऽविवेकोऽत्यन्तमप्रत्तिश्च प्रवृत्त्यभावस्तत्का- यं प्रमादो मोह एव चाविवेको मूढतेत्यर्थः । तमसि गुणे विवृद्ध एतानि लि- ङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥ आ० टी० । उद्भूतस्य तमसो लिङ्गमाह अप्रकाश इति । सर्वथैव ज्ञानकर्मणोरभावो विशे- षणाभ्यामुक्तस्तत्कार्यमिति तच्छब्दो दर्शिताविवेकार्थः । प्रमादो व्याख्यातः मोहो वेदितव्यस्यान्य- थावेदनम् । तस्यैव मौढ्यान्तरत्वमाह अविवेक इति । अविवेकातिशयादिना प्रवृहं तमो ज्ञेय- मिति भावः ॥ १३ ॥ प० टी० । अथ तमोलिङ्गमाह अप्रकाश इति । अप्रकाशो विवेकभ्रंशः, अप्रवृत्तिरनुद्यमः, प्रमादः कर्तव्यार्थानुसंधानराहित्यम् , मोहो मिथ्याभिनिवेशस्तमसि विवृद्ध एतानि लिङ्गानि जायन्ते १३ यदा सत्वे प्रटद्धे तु प्रलयं याति देहभृत् ॥ तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥१४॥ मरणहारेणापि यत् फलं प्राप्यते तदपि सङरागहेतुकं सर्व गौणमेवेति दर्शयन्नाह यदेति । यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते

૧૮
श्रीमद्भगवद्गीता-
देहभृदात्मा तदोत्तमविदां महदादितत्त्वविदामित्येतल्लोकानमलान् मलरहितान
प्रतिपद्यते प्राप्नोतीत्येतत् ॥ १४ ॥
आ० टी० । सात्त्विकादीनां भावानां पारलौकिकं फलविभागमुदाहरति मरणेति । संगः
सक्ती रागस्तृष्णा तद्बलादनुष्ठानद्वारा लभ्यमानमित्यर्थः । गौणं सत्त्वादिगुणप्रयुक्तमिति यावत् ।
तत्र सत्त्वगुणवृद्धिकृतफलविशेषमाह यदेति । मलरहितान् रजस्तमसोरन्यतरस्योद्भवो मलं तेन र-
हितानागमसिद्वान् ब्रह्मलोकादीनित्यर्थः ॥ १४ ॥
प० टी० । अथ मरणसमये विवृद्धानां सत्त्वादीनां फलविशेषमाह यदेति । सत्त्वे प्रवृढे सात
यदा जीवः प्रलयं मृत्युं प्राप्नोति तदोत्तमविदामुत्तमं मुख्यप्राणं हिरण्यगर्भ विदन्त्युपासते त उत्तम-
विदस्तेषां लोकान् सिद्धयाविर्भावसुखानि प्रामुयात् ॥१४॥
रजसि प्रलयं गत्वा कर्मसंगिषु जायते॥
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५॥
रजसि गुणे विद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु स कर्मास-
क्तियुक्तेषु मनुष्येषु जायते तथा तहदेव प्रलीनो मृतस्तमसि विहे मूढयोनि-
षु पश्वादियोनिषु जायते ॥ १५ ॥
आ० टी० । रजःसमुद्रेके मृतस्य फलविशेष दर्शयति रजसीति । जायते शरीरं गृह्णातीत्य-
। यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्मलोकादिषु मनुष्यलोके च देवादिषु मनुष्येषु च
जायते तथैवेत्याह तद्वदिति ॥ १५ ॥
प० टी०। रजसीति । रजोगुणवृतौ सत्यां प्रलयं मृत्यु प्राप्य कर्मासक्तेषु मनुष्येषु जायते ।
तथा तमसि प्रवृद्धे सति प्रलीनो मृतः सन् मूढयोनिषु पश्वादिषु जायते ॥ १५ ॥
कर्मणः
सुकृतस्याहुः
: सात्त्विकं निर्मलं फलम् ॥
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥१६॥
अतीतश्लोकार्थस्यैव संक्षेप उच्यते कर्मणः सुकृतस्य सात्त्विकस्येत्यर्थः।
आहुः शिष्टाः, सात्त्विकमेव निर्मलं फलमिति रजसस्तु फलं दुःखं राजसस्य
कर्मण इत्यर्थः । कर्माधिकारात् फलमपि दुःखमेव कारणानुरूप्याद्राजसमेव
तथाज्ञानं तमसस्तामसस्य कर्मणोऽधर्मस्य पूर्ववत् ॥ १६ ॥
आ० टी० । भावानां फल मुक्त्वा सात्त्विकादीनां कर्मणां फलमाह अतीतेति । सुकृतस्य
शोभनस्य कृतस्य पुण्यस्येत्यर्थः । सात्त्विकस्याशुद्धिरहितस्यति यावत्, सात्त्विकं सत्त्वेन निर्वृत्तं नि-
मलं रजस्तमःसमुद्भवान्मलान्निष्क्रान्तम् । रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिस्तत्राह कर्मेति ।
दुःखमेव दुःखबहुलं सुखमेवेत्यर्थः । कथामित्थं व्याख्यायते तत्राह कारणेति । पापमिश्रस्य पुण्यस्य
रनो निमित्तं यथोक्तं युक्तमित्यर्थः । अज्ञानमविवेकप्रायं दुःखं तामसाधर्मफलमित्याह तथेति ॥१६॥
प० टी० । इदानी सत्त्वादीनां स्वानुरूपकर्मद्वारेण विचित्रफलहेतुत्वमाह कर्मण इति ।
सकृतस्य सात्त्विकस्य कर्मणः फलं सात्त्विकं सत्त्वप्रधानं सुखं तथा निर्मलं प्रकाशबहुलं फलमाहुः ।
शेष स्पष्टम् ॥ १६॥

S चतुर्दशाध्यायः । ४१९ सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च ॥ प्रमादमोहौतमसो भवतोऽज्ञानमेव च ॥ १७॥ किं च गुणेभ्यो भवति सत्त्वादिति । सत्त्वाल्लब्धात्मकात् संजायते स- मुत्पद्यते ज्ञानं रजसो लोभ एव च प्रमादमोही चोभी तमसो भवतोऽज्ञान- मेव भवति ॥ १७ ॥ आ० टी० । विहितप्रतिपिद्धज्ञानकर्माणि सत्त्वादीनां लक्षणानि संक्षिप्य दर्शयति किं चेति । ज्ञानं सर्वकरणद्वारकमज्ञानं विवेकाभावः ।। १७ ।। प० टी० । सत्त्वादिति । स्पष्टम् ॥१७॥ ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।। जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः॥१८॥ किं च ऊर्ध्वमिति। उर्ध्व गच्छन्ति देवलोकादिषूत्पद्यन्ते सत्त्वस्थाः स- त्त्वगुणवृत्तस्था, मध्ये तिष्ठन्ति मनुष्येपूत्पद्यन्ते राजसाः, जघन्यगुणटत्तस्था जघन्यश्वासी गुणश्च जघन्यगुणस्तमस्तस्य वृत्तं निद्रालस्यादि तस्मिन् स्थिता जघन्यगुणवृत्तस्था मूढा अधो गच्छन्ति पश्वादिपूत्पद्यन्ते तामसाः ॥ १८ ॥ आ० टी० । सात्त्विकादिज्ञानकर्मफलान्युक्त्वानुक्तसंग्रहार्थं सामान्येनोपसंहरति किं चेति । वक्ष्यमाणफलद्वागपि सत्त्वादिषु ज्ञानमित्यर्थः। सत्त्वगुणस्य वृत्तं शोभनं ज्ञानं कर्म वा तत्र तिष्टन्तीति तथा राजसा रजोगुणनिमित्ते ज्ञाने कर्मणि वा निरताः ॥ १८ ॥ प० टी० । अथ सत्त्वादिवृत्तिशीलानां फलभेदानाह ऊर्ध्वमिति । सत्त्वेऽविरतं तिष्ठन्ति ते सत्त्व- स्थाः सत्त्वप्रधाना उर्ध्व गच्छन्ति । उत्तरोत्तरं शतगुणानन्दान्मनुप्यपितृदेवलोकान् गच्छन्ति । राज- सास्तृप्णाकुला मध्ये मनुष्यलोक एव तिष्ठन्ति । जघन्यो निन्द्यगुणस्तमस्तदृत्तस्थास्तामसा अधोऽ- न्धतामिस्त्रासु योनिपुत्पद्यन्ते ॥ १८ ॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ॥ गुणेभ्यश्च परं वेत्ति मनावं सोऽधिगच्छति॥१९॥ पुरुषस्य प्रकृतिस्थत्वस्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु सुरखी दुःखी मूढोऽहमस्मीत्येवंरूपो यः सङ्गस्तत्कारणं पु- रुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्येति समासेन पूर्वाध्याये यदुक्तं तदिह सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवा इत्यत आरभ्य गुणस्वरूपं गु- णवृत्तत्वं स्ववृत्तेन च गुणानां बन्धकत्वं गुणवृत्तनिबद्धस्य च पुरुषस्य या ग- तिरित्येतत् सर्व मिथ्याज्ञानमज्ञानमूलं च बन्धकारणं विस्तरेणोक्तमधुना सम्यम् दर्शनान् मोक्षो वक्तव्य इत्याह भगवान् नान्यमिति । नान्यं कार्यकारणविष-

४२.
श्रीमद्भगवद्गीता-
याकारपरिणतेभ्यो गुणेभ्यः कर्तारमन्यं यदा द्रष्टा विहान् सन्नानुपश्यति गुणा
एव सर्वावस्थाः सर्वकर्मणां कर्तार इत्येवं पश्यति गुणेभ्यश्च परं गुणव्यापारसा-
क्षिभूतं च निर्गुणं वेत्ति मद्भावं मम भावं वासुदेवत्वं वासुदेवः सर्वमित्येवं प-
श्यन् स द्रष्टाधिगच्छति ॥ १९ ॥
आ० टी० । कस्मिन् गुणे कथमित्यादिप्रश्नान् प्रत्याख्याय गुणेभ्यो मोक्षणं कथमिति
प्रत्याख्यानार्थ वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग़ज्ञानं प्रस्तौति पुरुषस्यसादिना । पुरु
पस्य या गतिः सा चेति शपः । माक्षी गुणेभ्यो विश्लेपपूर्वको ब्रह्मभावः । सम्यग्ज्ञानोक्तिपरं श्लोकं
व्याख्यातुं प्रतीकमादत्ते नान्यमिति । सत्त्वादिकार्यविपयस्य गुणशब्दस्य विवक्षितमर्थमाहं कायति ।
विद्यानन्तर्यमनुशब्दार्थः । अक्षरार्थमुक्त्वा पूर्वार्धस्यार्थिकमर्थमाह गुणा एवेति । सर्वावस्थास्तत्का-
र्यकरणाकारपरिणता इति यावत्, सर्वकर्मणां कायिकवाचिकमानसानां विहितप्रतिषिद्धानामित्यर्थः। परं
व्यतिरिक्तम् । व्यतिरेकमेव स्फोरयति गुगेति । निगुणं ब्रह्मात्मानमित्यर्थः । मद्भगावं ब्रह्मतामसौ प्राप्नो-
ति ब्रह्मभावोऽस्याभिव्यज्यत इत्यर्थः ॥ १९ ॥
प० टी० । एवं गुणप्रवाहरूपं संसारं व्यावथैदानीम् 'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमाग-
ताः' इति पूर्व प्रतिज्ञातमनुस्मग्न् मोक्ष प्रापकज्ञानोपायमाह नान्यमिति द्वाभ्याम् । यदा द्रष्टा विवे-
की भूत्वा बुद्दयाद्याकारेण परिणतेभ्यो गुणभ्यः सकाशादन्यं कर्तारं न पश्यत्यपि तु गुणा एवं
कर्माणि कुर्वन्तीति पश्यति तथा गुणेभ्यः परं व्यतिरिक्तं तत्साक्षिणमात्मानं वत्ति स तु मगावं ब्रह्मा-
धिगच्छति ॥ १९ ॥
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ॥
जन्ममृत्युजरादुःखैविमुक्तोऽमृतमश्नुते ॥२०॥
कथमधिगच्छतीत्युच्यते गुणेति । गुणानेतान् यथोक्तानतीत्य जीव-
नेवातिकम्य मायोपाधिभूतांस्त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् , ज-
न्ममृत्युजरादुःस्वैः, जन्म च मृत्युश्च जरा च दुःखानि च तैर्जीवन्नेव मुक्तः सन्
विहानमृतमश्नुते एवं मद्भावमधिगच्छतीत्यर्थः ॥ २
आ० टी० । अनर्थबातरूपमपोह्य विद्वान् ब्रह्मत्वं प्राप्नोत्येतत्प्रश्नद्वारा विवृणोति कथमि-
सादिना । यथोक्तानित्येतदेव व्याचष्टे मायेति । मायैवोपाधिस्तद्भूतान् तदात्मनः सत्त्वादीननर्थरू-
पानित्यर्थः । समुद्भवन्तीति समुद्भवा देहस्य समुद्भवा देहसमुद्भवास्तानिति व्युत्पत्तिं गृहीत्वा व्याचष्टे
देहोत्पत्तीति । यो विद्वानविद्यामयान् गुणान् जीवन्नेवातिक्रम्य स्थितस्तमेव विशिनाष्टि
जन्मेति । पुरस्ताद्विस्तरेणोक्तस्य प्रसङ्गादत्र संक्षिप्तस्य सम्यग् ज्ञानस्य फलमुपसंहरति
एवमिति ॥ २० ॥
प० टी। ततश्च गुणकृतसर्वानर्थनिवृत्या कृतकृत्यो भवतीत्याह गुणानिति ! देहाकारः स-
मुद्भवः परिणामो येषां ते देहसमुद्भवास्तानेतांस्त्रीन् गुणानतीत्याक्रम्य जन्ममृत्युज़रादुःखैर्विमुक्तः सन्न-
मतं मोक्षमभुते ॥ २० ॥

चतुर्दशाध्यायः । ४२.१ अर्जुन उवाच । कैलिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो॥ किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥२१॥ जीवन्नेव गुणानतीत्यामृतमश्नुत इति प्रश्नबीज प्रतिलभ्यार्जुन उवाच कैरिति । कैलिङ्गैश्चितस्त्रीनेतान् व्याख्यातान् गुणानतीतोऽतिकान्तो भवति प्रभो किमाचारः कोऽस्याचार इति किमाचारः कथं केन च प्रकारेण एतांस्त्रीन् गु- णानतिवर्तते ॥ २१ ॥ आ० टी० । सम्यग्धीफलं गुणातिक्रमणपूर्वकममृतत्वमुक्तं श्रुत्वा मुक्तस्य लक्षणं वक्तव्यमि- ति प्रकृतं विवक्षितत्वात् प्रश्नमुत्थापयति जीवन्नेवेति । ये व्याख्याताः सत्त्वादयो गुणास्तत्परिणाम- भूतानध्यासानतिक्रान्तः सन् कलिङ्गीतो भवतीति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वमनुष्ठेयानि पश्चा- दयत्नलभ्यानि लिङ्गानि, कानि तानीति पृच्छति कैरिति । यथेष्टचेष्टाव्यावृत्त्यर्थं प्रश्नान्तरं कि- माचार इति । ज्ञानस्य गुणात्ययोपायस्योक्तत्वादुपायप्रकारजिज्ञासया प्रश्नान्तरं कथमिति ॥२१॥ प० टी० । एवमेतच्छ्रत्वा गुणातीतस्य लक्षणं गुणात्ययोपायं च जिज्ञामुरर्जुनः पृच्छति कैरिति । भो प्रभो एतानुक्तंप्रकारांस्त्रीन गुणान् कैरात्मन्युत्पन्नलिङ्गैश्चिन्हैरतीतो भवति तथाविधः किमाचारः कीदृश आचारो यस्यति किमाचारः कथं वर्तत इत्यर्थः । कथं च केनोपायेन तांस्त्रीन् गु- णानतीतोऽतीत्य वर्तत इति प्रश्नः ॥ २१ ॥ श्रीभगवानवाच । प्रकाशं च प्रवृत्तिं च मोहमव च पाण्डव ॥ न टेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२॥ गुणातीतस्य लक्षणं गुणातीतत्वोपायश्चार्जुनेन पृष्टोऽस्मिन् श्लोके प्र- नयाथै प्रतिवचनं भगवान् यत्तावत् कैलियुक्तो गुणातीतो भवति तच्छृणु प्रकाशमिति । प्रकाशं च सत्कार्य प्रवृत्तिं च रजःकार्य मोहमेव च तमःकार्य- मित्येतानि न दृष्टि संप्रटत्तानि सम्यग्विषयभावेनोद्भूतानि मम तामसः प्र- त्ययो जातस्तेनाहं मूढस्तथा राजसी प्रवृत्तिममोत्पन्ना दुःखात्मिका तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् कष्टं मम वर्तते योऽयं मत्स्वरूपावस्था- नाद् भ्रंशस्तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वमापादयन् सुरवेन च संजनयन् मां बध्नातीति तानि इष्टाऽसम्यग्दर्शित्वेन तदेवं गुणातीतो न इष्टि संप्रवृत्तानि यथा च सात्त्विकादिपुरुषः सात्त्विकादिकार्याण्यात्मानं प्रति प्र- काश्य निवृत्तानि काङ्क्षति न तथा गुणातीतो निसत्तानि काङ्क्षतीत्यर्थः। एतन

४.२२
श्रीमद्भगवद्गीता-
न्धः,
परप्रत्यक्षं लिहूं किं तर्हि स्वात्मप्रत्यक्षत्वादात्मविषयमेवैतल्लक्षणं न हि
स्वात्मविषयं देषाकाङ्क्षां चापरः पश्यति ॥ २२ ॥
आ० टी० । प्रश्नस्वरूपमन्द्य तदुत्तरं दर्शयति गुणातीतम्येति । पृष्टो भगवानिति संव-
कि वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थमित्युपलक्षणं प्रश्नत्रयामिाते द्रष्टव्यम् । उत्तर-
मवतार्यानन्तरश्लोकतात्पर्यमाह यत्तावदिति । तानि सम्यग्दर्शी न द्वेष्टीत्युक्तमेव स्पष्टयितुं निषे-
ध्यमसम्यग्दर्शिनो द्वेषं तेषु प्रकटयात ममेयादिना । सम्यग्दर्शिनः संप्रवृत्तेषु प्रकाशादिषु द्वेषाभा-
वमुपसंहरति तदेवमिति । न निवृत्तानीत्यादि व्याचष्टे यथा चेति । तेषामनात्मीयत्वं सम्यक्पश्य-
नात्मानुकूलप्रतिकूलतारोपणेन नोद्विनते तेभ्यश्च न स्पृहयतीत्यर्थः । स्वानुभवसिद्धं गुणातीतस्य लक्षण-
मुक्तमित्याह एतन्ने त । परप्रत्यक्षत्वाभावं प्रपञ्चयति न हीति । आश्रयो विषयः ॥ २२ ॥
प०टी०।तत्रोत्तरं भगवानाह प्रकाशं चेति सप्तभिः।तत्र प्रथममेकेन गुणातीतस्य लक्षणमाह
प्रकाशं चेति । सर्वद्वारेषु देहेऽस्मिन्निति पूर्वोक्तं सत्त्वकार्य प्रवृत्तिश्च रजःकार्य मोहस्तमःकार्यमित्यु-
पलक्षणार्थमेतत् । सत्त्वादीनां सर्वाण्यपि कार्याणि यथायथं संप्रवृत्तानि स्वतःप्राप्तानि सन्ति दुःखबुद्दया
न द्वेष्टि निवृत्तानि च सन्ति च न काङ्क्षति गुणातीतः स उच्यत इति चतुर्थेनान्वयः ॥ २२ ॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ॥
गुणा
वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ॥ २३॥
अथेदानी गणातीतः किमाचार इति प्रश्नस्य प्रतिवचनमाह उदासीने-
ति । उदासीनवद्यथोदासीनो न कस्यचित् पक्षं भजते न तथायं गुणातीतत्वो-
पायमार्गेऽवस्थित आसीन आत्मविद्गुणैर्यः संन्यासी न विचाल्यते विवेकदर्श-
नावस्थातस्तदेतत् स्फुटीकरोति । गुणाः कार्यकारणविषयाकारपरिणता अन्योऽ-
न्यस्मिन् वर्तन्त इति योऽवतिष्ठति । छन्दोभङभयान् परस्मैपदप्रयोगः। योऽनु-
तिष्ठतीति पाठान्तरम् । नेते न चलति स्वरूपावस्थ एव भवतीत्यर्थः ॥२३॥
आ० टी० । कैलिङ्गैरित्यादि परिह य द्वितीयं प्रश्नं परिहरति अथोति । दृष्टान्तं व्याचष्टे
यथेति । उपेक्षकस्य पक्षपातत्वायोगादित्यर्थः । आत्मविदात्मनः कौटस्थ्यज्ञानेनासीनो निवृत्तकर्तृत्वा-
भिमानोऽप्रयतमानो भवतीति दार्टान्तिकमाह तथेति । गुणातीतत्वोपायमार्गो ज्ञानमेव । शब्दादिभि-
विषयैरस्य कूटस्थत्वज्ञानात् प्रच्यवनमाशङ्कयाह गुणैरिति । उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तक-
त्वमित्येतत् प्रपञ्चयति तदेतदिति । योऽवतिष्ठति स गुणातीत इत्युत्तरत्र संबन्धः । अवपूर्वस्य
तिष्ठतरात्मनेपदे प्रयोक्तव्ये कथं परस्मैपदमित्याशङ्कयाह छन्दोभङ्गेति । पाठान्तरे तु बाधितानु-
वृत्तिमात्रमनुष्ठानं कारणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिर्न ममेति पश्य-
नचलतया कूटस्थदृष्टिमात्मनो न जहातीत्याह नेङ्गत इति ॥ २३ ॥
प० टी० । तदेवं स्वसंवेद्यस्य लक्षणमुक्त्वा किमाचार इति द्वितीयप्रश्नोत्तरमाह उदासी
नवदिति विभिः। उदासीनवत्साक्षितया तटस्थवदासीनः स्थितो गुणैर्गुणकार्यैः सुखदुःखादिभिर्यो न
चाल्यतेऽपित गुणा एव स्वकार्येषु वर्तन्ते एतैर्मम संबन्धो नास्तीति विवेकन यस्तूप्णीमवतिष्ठतीति ।
परस्मैपदमार्षम् । नेङ्गते न चलति ॥ २३ ॥

चतुर्दशाध्यायः ।
४२.३
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः॥
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥२४॥
किं च समदुःवेति । समदुःखसुरवः समे दुःखसुरवे यस्य स समदुःख-
सुखः स्वस्थः स्वात्मनि स्थितः प्रसन्नोऽविक्रियः समलोष्टाश्मका चनो लोष्टं चा-
श्मा च काञ्चनं च समानि यस्य स समलोष्टाश्मकाञ्चनस्तुल्यप्रियाप्रियः प्रि-
यं चाप्रियं च प्रियाप्रिये समे यस्य सोऽयं तुल्यप्रियाप्रियो धीरो धीमान् तुल्यनि-
न्दात्मसंस्तुतिः निन्दा चात्मसंस्तुतिश्च तुल्ये निन्दात्मसंस्तुती यस्य यतेः
स तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥
आ० टी० । गुणातीतस्य लिङ्गान्तरमाह किंचेति । तयोः समत्वं रागद्वेषानुत्पादकतया
स्वकीयत्वाभिमानानास्पदत्वं प्रसन्नत्वं स्वास्थ्यादप्रच्युतिरविक्रियत्वम् । विद्वदृष्टया प्रियाप्रिययोरसं-
भवेऽपि लोकदृष्टिमाश्रित्याह मियं चेति । प्रियाप्रियग्रहणेन गृहीतानां काञ्चनादीनां ब्राह्मणपरिवा-
जकवत् पृथगग्रहणम् । निन्दा दोषाक्तिरात्मसंस्तुतिरात्मनो गुणकीर्तनम् ॥ २४ ॥
प० टी० । अपि च समदुःखमुलेति। समे दुःख सुखे यस्य । यतः स्वस्थः स्वरूप एव स्थितः।
समानि लोष्टाश्मकाञ्चनानि यस्य शेषं स्पष्टम् ॥ २४ ॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः॥
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५॥
किं च मानापमानयोरिति । मानापमानयोस्तुल्यः समो निर्विकारस्तुल्यो
मित्रारिपक्षयोः, यद्यप्युदासीना भवन्ति केचित्स्वाभिप्रायेण तथापि पराभिप्रा-
येण मित्रारिपक्षयोरिव भवन्तीति, अयं तु तुल्यो मित्रारिपक्षयोरित्याह सर्वार-
म्भपरित्यागी दृष्टार्थानि कर्माण्यारभन्ते इत्यारम्भाः सर्वानारम्भान् परित्यक्तुं
शीलमस्येति सर्वारम्भपरित्यागी देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरि-
त्यागीत्यर्थः । गुणातीतः स उच्यते । उदासीनवदित्यादि गुणातीतः स उच्यते
इत्येतदन्तमुक्तं यावद्यत्रसाध्यं तावत्संन्यासिनानुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः
स्थिरीभूतं तु स्वसंवेद्यं सद्गुणातीतस्य यतेर्लक्षणं भवतीति ॥ २५ ॥
आ० टी० । इतश्च गुणातीतः शक्यो ज्ञातुमित्याह किंचेति । मानः सत्कारस्तिरस्कारोऽप-
मानः, परदृष्टया यो सखिशत्रू तयोः पक्षयोनिर्विशेषो न कस्यचित् पक्षे तिष्टतीत्याह तुल्य इति ।
विदुषो मित्रादिबुद्धयभावात्तुल्यो मित्रारिपक्षयोरित्ययुक्तमित्याशङ्कयाह यद्यपीति । सर्वकर्मत्यागे
देहधारणमपि निमित्ताभावान्न स्यादित्याशङ्कयाह देहेति । उक्तविशेपणो गुणातीतो ज्ञातव्य इत्याह
गुणोति । यदुक्तमुपेक्षकत्वादि तद्विद्योदयात् पूर्व यत्र साध्यं विद्याधिकारिणा ज्ञानसाधनत्वेनानुष्ठेयमु-
त्पन्नायां तु विद्यायां जीवन्मुक्तस्योक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धं लक्षणत्वेन तिष्ठतीत्युक्ते धर्म-
नाते विभागं दर्शयति उदासीनवदिसादिना ॥ २५ ॥

४२४ श्रीमद्भगवद्गीता- प० टी० । अपि च मानापमानयोस्तुल्य इति । सर्वान् दृष्टानारम्भानुद्यमानपि त्यक्तुं शीलं यस्य । तथाविधो गुणातीत उच्यते ॥ २५ ॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते ॥ स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥२६॥ अधुना कथं च श्रीन् गुणानतिवर्तत इति प्रश्नस्य प्रतिवचनमाह मां चेति । मां चेश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वाव्यभि- चारेण कदाचित् यो व्यभिचरति न, भक्तियोगः भजनं भक्तिः सैव योगस्तेन विवेकज्ञानात्मकेन भक्तियोगेन ज्ञानसमुद्भवेन सेवते स गुणान् समतीत्यैतान यथोक्तान् ब्रह्मभूयाय भवनं भूयः ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते स मर्थो भवतीत्यर्थः ॥ २६ ॥ आ० टी० । प्रश्नद्वयमेवं परिहृत्य तृतीयं प्रश्नं परिहरति अधुनेति । मच्छब्दस्य संसारि- विषयत्वं व्यावर्तयति ईश्वरामिति । तत्रैव नारायणशब्दान्मूर्त्यभेदो व्यावय॑ते । तस्य ताटस्थ्यं व्यवच्छिनत्ति सर्वेति । मुख्या मुख्याधिकारिभेदेन विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यव- च्छेत्तुमव्याभिचारणत्युक्तम् तद्व्याचष्टे चेति । भजनं परमप्रेम स एव युज्यतेऽननति योगः । तेन सेवते पराश्चित्ततां विना सदानुसंदधातीत्यर्थः । स भगवदनुकृतसम्यग्धीसंपन्नो विद्वान् जीवन्नेवेत्यर्थः ॥ २६ ॥ प० टी० । कथं चैतान गुणानतिवर्तत इत्यस्य प्रश्नोत्तरमाह मामिति । मामीश्वरम- व्यभिचारणैकान्तभक्तियोगेन यः सेवते स एवैतान् गुणान सम्यक प्रकारेणातीत्य ब्रह्मभूयाय ब्रह्म- भावाय कल्पते योग्यो भवति ॥ २६ ॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ॥ शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥ कुत एतदित्युच्यते । ब्रह्मणः परमात्मनो हि यस्मात् प्रतिष्ठाहं प्रतितिष्ठ- त्यस्मिन्निति प्रतिष्ठाहं प्रत्यगात्मा कीदृशस्य ब्रह्मणोऽमृतस्याविनाशिनोऽव्ययस्या- विकारिणः : शाश्वतस्य च नित्यस्य धर्मस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्यानन्दरू- पस्यैकान्तिकस्याव्यभिचारिणोऽमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा सम्यग् ज्ञानेन परमात्मतया निश्वीयत इति तदेतद्ब्रह्मभूया- य कल्पत इत्युक्तम् । यया चेश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रति- ष्ठिते प्रवर्ततेसाशक्तिब्रह्मैवाहं शक्तिशक्तिमतोरनन्यत्वादित्यभिप्रायोऽथवा ब्रह्म शब्दवाच्यत्वात् सविकल्पकं ब्रह्म तस्य ब्रह्मणो निर्विकल्पकोऽहमेव नान्यः प्र- तिष्ठाश्रयः किंविशिष्टस्यामरणधर्मकस्याव्ययस्य व्ययरहितस्य किं च शाश्वतस्य ४२५ चतुर्दशाध्यायः। च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुरवस्य तज्जनितस्यैकान्तनियतस्य च प्रतिष्ठाहमिति वर्तते ॥ २७ ॥ इति श्रीमत्पूज्यपादशंकरभगवतः कृती गीताभाष्ये चतुर्दशोऽध्यायः ॥ १४ ॥ आ० टी० । विद्वान् ब्रह्मवेत्यत्र हेतुं प्रच्छति कुत इति । तत्रोत्तरमाह उच्यत इति । ब- ह्मशब्दस्यासति बाधके मुख्यार्थग्रहणमभिप्रेत्याह परमात्मन इति । तं प्रति प्रत्यगात्मनो यत् प्र- तिष्ठात्वं तदुपपादयति प्रतितिष्ठतीति । यद् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति तत् किं विशेषणमि- त्यपेक्षायामुक्तममृतस्येत्यादि । तत्रामृतशब्देनाव्ययशब्दस्य पुनरुक्ति परिहरति अविकारिण इति । नित्यत्वमपक्षयराहित्यं तेन पूर्वाभ्यामपौनरुक्त्यम् । प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मण्यनपत्ति- माशङ्कयाह ज्ञानेति । अथेन्द्रियसंचन्धोत्थं सुखं व्यावर्तयितुमैकान्तिकस्येत्युक्तम् । अक्षरार्थमुक्त्वा वाक्यार्थमाह अमृतादीति । प्रतिष्ठा यस्मादिति पूर्वेण मंबन्धः । तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेनेति योजना । अस्य श्लोकस्य पूर्वश्लोकेनैकवाक्यतामाह तदेतदिति । विव- क्षितं वाक्यार्थ प्रपञ्च यति ययति । सा शक्तिब्रह्मैवेति कथं सामानाधिकरण्यं तत्राह शक्तीति । व्याख्यानान्तरमाह अथवेति । विशेषणानि पूर्ववदपौनरुक्तानि नेतव्यानि । तदनेनाध्यायेन क्षेत्रक्षेत्र- ज्ञसंयोगस्य संसारकारणत्वं पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वमित्येत- दुपपादयता मुमुक्षोयत्नसाध्यं गुणैरचाल्यत्वादि मुक्तस्यायत्नसिद्धं लक्षणमिति निर्धारितः ॥ २७ ॥ इसानन्दगिरिकृतगीताटीकायां चतुर्दशोऽध्यायः ॥ १४ ॥ प० टी० । अथ मनुष्यवेषधारित्वेन मुढानां स्वेश्वरत्न देहनिरासार्थमाह ब्रह्मण इति । चिदा- नन्दमात्ररूपस्य ब्रह्मणोऽहं प्रतिष्ठा प्रतिमा घनीभावः,यथा घनीभूतं तेन एव सूर्याकारं भवति यथा च घनीभूतः परिमल एवं कर्पूराकारो भवति तद्वदित्यर्थः । किंभूतस्य ब्रह्मणः अव्ययस्य नित्यस्यामृतस्य मोक्षस्य नित्यमुक्तत्वात् तथा तत्साधनस्य शाश्वतस्यानश्वरफलदस्य धर्मस्य शुद्धसत्त्वात्मकत्वात् तथै- कान्तिकस्याखण्डस्य सुखस्य च प्रतिष्ठाहं परमानन्दरूपत्वात् । अतो मत्सेविनो मद्भावस्यावश्य- भावित्वाद्युक्तमुक्तं ब्रह्मभूयाय कल्पत इति । तदुक्तमध्यात्ममीमांसायामारम्भे–'कृष्णाकारेण साक्षा- दिह हि विन यते सूत्रसंज्ञः परात्मा ज्योतिर्विश्वप्रकाशं व्रजति दिनकराकारतां यद्ददत्र । यत्स्वे गा- त्रेऽथ वक्रेऽर्जुनजननिकतेऽदर्शयद्विश्वरूपं तं नत्वा स्वानुभूतिप्रदमुपनिषदां हार्दमर्थं ब्रवीमि' इति ॥ २७ ॥ अथाध्यायतात्पर्यम्-एकोपादानकत्वेऽप्यतनुविधमद्यैर्गुणैर्विश्वमेते बध्नन्त्यज्ञानजन्तून् च मदनुचरीस्तोपलोभप्रमादैः । स्वीकुर्वन् शुद्धसत्त्वं जयति तदितरो यः समामेति सत्यं प्रोक्तः सम्यक् चतुभिः समधिकदशमेऽसौ. गुणातीतयोगः ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां गुणातीतयोगो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ " ॥ श्रीमद्भगवद्गीता- पञ्चदशोऽध्यायः। श्रीभगवानुवाच । उर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ॥ छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥ यस्मान्मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलमतो भक्ति- योगेन मां ये सेवन्ते ते मत्प्रसादाज् ज्ञानप्राप्तिक्रमेण गुणातीता मोक्षं गच्छ- न्ति किमु वक्तव्यमात्मनस्तत्त्वं सम्यग् विजानन्त इत्यतो भगवानर्जुनेनापृष्टो- प्यात्मनस्तत्वं विवक्षुरुवाच ऊर्ध्वमूलमित्यादि । तत्र तावद् वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति विरक्तस्य हि संसाराद्भगवत्तत्त्वज्ञानेऽधिकारो नान्यस्येति ऊर्ध्वमूलमिति । ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वानित्य- त्वान्महत्वाच्चोर्ध्वमुच्यते ब्रह्माव्यक्तमायाशक्तिमत्तन्मूलस्येति सोऽयं संसारक्ष ऊर्ध्वमूलः श्रुतेश्व'ऊर्ध्वमूलोऽर्वाक्शाखः'इति। पुराणे च 'अव्यक्तमूलप्रभवस्तस्यै- वानुग्रहोत्थितः। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः। महाभूतप्रशारवश्व विषयैः पत्रवांस्तथा । धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः। आजीव्यः सर्वभूतानां ब्र- मरक्षः सनातनः। एतद् ब्रह्मवनं चैव ब्रह्मा चरति नित्यशः। एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश्चात्मरतिं प्राप्य तस्मानावर्तते पुनः' इत्यादि । तमूर्ध्वमूलं संसारं मायामयं वृक्षमधःशारखं महदहङ्कारतन्मात्रादयः शाखा इवास्याधो भवन्तीति सोऽयमधःशारवस्तमधःशाखं न श्वोऽपि स्थाते- त्यश्वत्थस्तं क्षणप्रध्वंसिनमश्वत्थं प्राहुः कथयन्ति श्रुतिवादा अव्ययं संसारं मायामयमनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षोऽव्ययोऽनाद्यनन्तदेहादिस- तानाश्रयो हि सुप्रसिद्धस्तमव्ययं तस्यैव संसारवक्षस्येदमन्य हिशेषणान्तरं छन्दांसि यस्य पर्णानि छन्दांसि छादनादृग्यजुःसामलक्षणानि यस्य संसार- वृक्षस्य पानीव पर्णानि यथा वृक्षस्य रक्षणार्थानि पर्णानि तथा वेदाः संसा- रवृक्षपरिरक्षणार्था धर्माधर्मतद्धेनुफलप्रकाशनार्थत्वाद् यथाव्याख्यातं संसारवृक्ष समलं यस्तं वेद स वेदविहेदार्थविदित्यर्थः । नहि संसारवृक्षादस्मात् समूला ज्ञेयोऽन्योऽणुमात्रोऽप्यवशिष्टोऽस्त्यतः सर्वज्ञः स यो वेद वेदार्थविदिति समूल- वृक्षज्ञानं स्तौति ॥ १॥ आ० टी० । ज्ञानेन गुणात्यये दर्शिते नाशित्वे तेषां विना ज्ञानेनानत्ययादनाशित्वे तेनापि त- पञ्चदशाध्यायः । योग्यत्वान्न ज्ञानं गुणात्ययहेतुरित्याशङ्कां निरस्य साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुब्रह्म- त्वस्य परमपुरुषार्थतां च विवक्षुरध्यायान्तरमारभते यस्मादिति । कर्मिणो ज्ञानिनश्च ये शास्त्रेऽधिकता- स्तत्र कर्मिणां कर्मानुकूलं फलमीश्वरायत्तं 'फलमत उपपत्ते रिति न्यायाज्ज्ञानिनामपि तत्फलमीश्वरा- यत्तमेव ततो ह्यस्य बन्धविपर्ययावित्युक्तत्वाद् यस्मादेवं तस्माद्ये भक्त्याख्येन योगेन मामेव सेवन्ते ते मत्प्रसादद्वारा ज्ञानं प्राप्य तेन गुणातीता मुक्ता भवन्तीति स्थितमित्यर्थः । ये त्वात्मनस्तत्वमेव संदेहाद्यपोहेन जानन्ति ते ज्ञानेन गुणातीताः सन्तो मुक्तिं गच्छन्तीति किमु वक्तव्यमित्यर्थः । सि- हमर्थमाह किमु वक्तव्यमिति । आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुकूलमतोऽर्जुनेन किं तदित्यपृष्टमपि तत्वं भगवानुक्तवान् प्रभाभावेऽपि तस्य तद्वयुत्पादनाभिमानादित्याह अत इति । तत्त्वेति वक्ष्यते । किमिति संसारो वर्ण्यते तत्राह तत्रोते । अध्यायादिः सप्तम्यर्थः । वैराग्यमपि किमिति मृग्यते तत्राह विरक्तस्योते । इति वैराग्याय संसारवर्णनमिति शेषः । नाशभावनायै वृक्षरूपकं बन्धहेतोर्दर्शयति ऊर्ध्वमूलमिति । कथं कालतः सूक्ष्मत्वं तदाह कारणत्वादिति । तदेव कथं कार्यापेक्षया नियतपूर्वभावित्वादनादित्वादित्याह नियत्वादिति । सर्वव्यापित्वाच्चोत्कर्ष संभा- वयति महत्त्वाचति । ऊर्ध्वमुच्छूितमुत्कृष्टमिति यावत् । तस्य कूटस्थस्य कथं मूलत्वमित्याश- झ्याह अव्यक्तेति । स्मृतिमूलत्वेन श्रुतिमुदाहरति श्रुतश्चेति । अर्वाञ्च्यो निकृष्टाः शाखा इव म- हदाद्या यस्य स तथा । प्रकृते संसारवृक्षे पुराणसंमतिमाह पुराणे चेति । अव्यक्तमव्याकतं तदेव मूलं तस्मात् प्रभवनं प्रभवो यस्य स तथा तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वादुत्थितः संव- र्धितः । तस्य लौकिकवृक्षमाधर्म्यमाह बुद्धीयादिना । वृक्षस्य हि शाखाः स्कन्धादुद्भवन्ति संसारस्य च बुद्धेः सकाशान्नानापरिणामा जायन्ते तेन बुहिरेव स्कन्धस्तन्मयस्तत्प्रचुरोऽयं संसारतरुरिन्द्रि- याणामन्तराणि छिद्राणि कोटराणि यस्य स तथा महान्ति भूतानि पृथिव्यादीन्याकाशान्तानि विशाखस्तम्बो यस्य तथाऽऽजीव्यत्वमुपजीव्यत्वं ब्रह्मणाधिष्ठितो वृक्षो ब्रह्मवृक्षस्तथापि ज्ञानं विना छेत्तुमशक्यतया सनातनश्चिरन्तन एतच्च ब्रह्मणः परस्यात्मनो वनं वननीयं संभजनीयमत्र हि ब्रह्म प्रतिष्ठितं तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतमथवास्य ब्रह्मवृक्षस्यानवच्छिन्नस्य संसारमण्डलस्य तदेतद् ब्रह्म वनमिव वनं वननीयं संभननीयं न हि ब्रह्मातिरिक्त संसारस्यास्पदमस्ति ब्रह्मैवाविद्यया संसरतीत्यभ्युपगमादित्यर्थः । अहं ब्रह्मेति दृढज्ञानेनोक्तं संसारवृक्षं छित्त्वा प्रतिबन्ध- काभावादात्मनिष्ठो भूत्वा पुनरावृत्तिरहितं कैवल्यं प्रामातीत्याह एतदिति । अधःशाखमित्येत- द्वयाचष्टे महदिति । आदिशब्देनेन्द्रियादिसंग्रहः। संसारवृक्षस्यातिचञ्चलत्वे प्रमाणमाह माहुरिति । क्षणध्वंसिनोऽव्ययत्वं विरुद्धमित्याशङ्कयाह संसारोत । तदेवोपपादयति अनादीति । छादनं रक्षणं प्रावरणं वा कर्मकाण्डानि खल्वारोहावरोहफलानि नानाविधार्थवादयुक्तानि संसारवृक्षं रक्षन्ति त- निष्ठं दोषं चावृण्वन्ति तेन तानि छन्दांसि पर्णानीव भवन्तीत्यर्थः । तदेव प्रपश्चयति यथेति । उ- तेऽर्थे हेतुमाह धर्मेति । कर्मकाण्डानां वेदानामिति शेषः । कर्मब्रह्माख्यसर्ववेदार्थस्य तत्रान्तर्भा- वमुपेत्य व्याचष्टे वेदार्थोति । समूलसंसारवृक्षज्ञाने कुतूहलं हित्वा मूलमेव निष्कृप्य ज्ञातुं शक्य- मिति तज्ज्ञानार्थ प्रयतितव्यमिति मत्वा तज्ज्ञानस्तुतिरत्र विवक्षितेत्याह न हीति ॥ १ ॥ प० टी० । पूर्वाध्यायान्ते मां च योऽव्यभिचारेणेत्यादिना मामीश्वरमेकान्तभक्त्या भनतस्तद- नुग्रहलब्धज्ञानेन गुणत्रयविस्तारोपरमद्वारा ब्रह्मीभावो भवतीत्युक्तं तत्र न हि विषयिणां वैराग्य- मन्तरेणैकान्तभक्तिरुदेत्यतो गुणत्रयविचित्रविस्तारात्मकस्थूलप्रपञ्चस्य रक्षदृष्टान्तेन कुठारवटैराग्यना- श्यत्वं दर्शयन्नथोपनिषदुक्तं संसारवृक्षं सार्धश्लोकद्वयेन रूपकालंकारण वर्णयन भगवानाह अल- मूलमिति । ऊर्ध्वः सर्वोत्कृष्टः क्षराक्षरातीतः पुरुषो मूलकारणं यस्य । अथार्वाचीनाः कार्योपा- धयो हिरण्यगर्भप्रमृतयः शाखा यस्य तं । श्वः प्रबोधोत्तरकालं न तिष्ठतीत्यश्वत्थं प्राहुः । प्रबोधस्य १२८ श्रीमद्भगवद्गीता- दुःसाध्यत्वादव्ययं प्रवाहरूपेण चिरकालावस्थायिनम् । अथ वृक्षसाधर्म्यमाह छन्दांसीति । यस्य प्रपञ्चवृक्षस्य छन्दांसि वेदाः पर्णानि प्रवृत्तिमार्गेण धर्माधर्मप्रतिपादकानि छायास्थानीयानि भवन्ति तदनुर्तिनामापातरमणीयत्वेन विश्रमजनकत्वाद, एवं यः पुरुषस्तमश्वत्थं वेद स एव वे- दवित् । अयमर्थः । वेदे तावदुपक्रमे मन्त्रात्मकविभागेन विषयैषिणां फलप्रलोभनेन प्रपश्चवृक्षस्य प्रशंसनं कृतम् । उपसंहारे तूपनिषद्विभागेन मुमुक्षूणां वैराग्योपदेशैरतस्य दुःखरूपत्वनोपरमः प्रशं- सितोस्तीति, वेदविदित्यनेन वेदतात्पर्यज्ञ इति सचितम् । यहा अनेन श्लोकेन रथूलप्रपश्वरूपः शिरः- पाण्यादिलक्षणः पुरुषविधः स्थूलशरीररूपो विरावृक्षत्वेन वर्ण्यते । स च लौकिकवृक्षवदधोमूलोर्ध्व- शाखो नास्ति किं तूर्ध्वमूलमधःशाखं प्राहुः ऊर्ध्व मलमादिकारणं सक्ष्मदेहरूपं हिरण्यगर्भाख्यं यस्य अथेन्द्रादिदेवोत्पत्तिहेतवो हस्तपादादिरूपाः शाखा यस्य यतो गुणप्रवृद्धा विषयप्रवाला इत्यग्रे प्रोक्त- मतश्छन्दांसि वासना एव संसारतरोः पर्णान्याच्छादनस्थानीयानि । दुःखरूपेऽपि संसारतरुः फलवासना- भिः सुखरूपइवावभासत इत्यर्थः। श्रुतिरपि-अर्वाग्विलश्चमसऊर्ध्वबुध्नस्तस्मिन्यशो निहितं विश्वरूपम्। तस्या सप्तऋषयः सप्ततीरे वागष्टमी ब्रह्मणा संविदाना" इति । भाप्यम्-तस्य विराजश्चमस: शिरोदेशे ऊ- बुध्नः उर्ध्व बुध्नः महद्यश इति श्रुतेः । यशः परात्मस्वरूपं निहितं निगूढतया स्थापितमस्तत्यित्र प्रमाणमाह तस्येति । तस्य तीरे समीपे सप्तर्षय आसते स्थितिं गच्छन्ति व्यापारं कुर्वन्ति ते सप्तर्पयो ज्ञानेन्द्रियाणि हे नेत्रे द्वे श्रुती हे नासे सप्तमी रसनेति तत्र वागष्टमी कमन्द्रियमपां प्रवर्तकः मूत्रात्मा तत्समीपे तत्प्रकाशन प्रवर्तत इत्यर्थः । तदेवाह ब्रह्मणेनि । किं भता वाग ब्रह्मणा कृत्वा संविदाना संवदन्ती । तथाथर्ववल्लीषु । "ऊर्ध्वमुलमर्वाक शाख एकोऽश्वत्थः सनातनः। तदेव शुक्रं तद ब्रह्म तदे. वामृतमुच्यते । तस्मिन् लोकाः श्रिताः सर्वे तदुनात्येति कश्चन " इति । अत्र शुक्र शबलं ब्रह्म तहु- तत् कश्च नात्येत्यतिलङ्गम्य न गच्छति तदन्तत एव तिष्ठति शेपं प्राग्व्याख्यातम् ॥१॥ अधश्चोर्ध्व प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः॥ अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥२॥ तस्यैव संसारवृक्षस्यापरावयवव्यापारकल्पनोच्यते अधोमनुष्यादिभ्यो या- वत् स्थावरमूवं च यावद् ब्रह्मा विश्वमृजो धर्म इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि तस्य वृक्षस्य शारखा इव शारवाः प्रसृताः प्रगता गुणप्रवृद्धा गुणः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूलीकता उपादानभूतर्विषयप्रवाला विषयाः शब्दादयः प्रवाला इव देहादिकर्मफलेभ्यः शारवाभ्योकुरीभवन्तीव तेन विष- यप्रवालाः शारवाः संसारवृक्षस्य परममूलमुपादानं कारणं पूर्वमूर्ध्वमुक्तमचेदानी कर्मफलजनितरागद्देषादिवासनामूलानीव धर्माधर्मप्रवृत्तिकारणान्यवान्तरभा- वीनि तान्यधश्च देहाद्यपेक्षया मूलान्यनुसंततान्यनुप्रविष्टानि कर्मानुबन्धी- नि कर्म धर्माधर्मलक्षणमनुबन्धः पश्चाद्भावी येषामुतिमनुभवन्तीति तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतोऽत्र हि मनुष्याणां धर्माधिकारः प्रसिद्धः॥२॥ आ० टी० । अवयवसंबधिन्यपरा प्रागुक्तादतिरिक्ता कल्पनेति यावत् । आमनुष्यलो-

।
•.
पञ्चदशाध्यायः।
४२९
कादाविरिश्चरित्यधःशब्दार्थमाह मनुष्यादिभ्य इति । तस्मादेवारभ्यासत्यलोकादित्यूर्ध्वशब्दार्थमा-
ह यावदिति । शाखाशब्दार्थ दर्शयति ज्ञानोति । तेषां हेत्वनुगुणत्वेन बहुविधत्वं सूचयति यथेति ।
प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वमङ्गरत्वं स्फोरयति देहादीति । ऊर्ध्वमूल.
मित्यत्र संसाररक्षस्य मूलमुक्तं किमिदानीमधश्च मूलानीत्युच्यते तत्राह संसारेति । अनुप्रविष्टत्वं
सर्वेषु लिङ्गेष्वनुगततया संततत्वमविच्छिन्नत्वम् गगादीनां च कर्मफलजन्यत्वं प्रकटयति कमेति । क-
मणां रागादीनां मिथो हेतुहेतुमत्त्वं तेषां तथात्वेनानवच्छिन्नतया प्रवृत्तिविशेषतो मनुष्यलोके भ-
वतीत्यत्र हेतुमाह अत्र हीति । कर्मव्युत्पत्त्या प्राणिनिकायो लोकः मनुष्यश्चासौ लोकश्चेत्यधिकतो
ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः ॥ २
प० टी० । अथ तस्य शाखाविस्तारमाह अधश्चोर्ध्वमिति । अधो देवपितृमनुष्यलोका-
द्या उर्ध्व महर्जनस्तपोलोकमुख्याः शाखाः प्रसृताः विस्तृताः सन्ति । किं भूता गुगप्रवृद्धा यथायोग्यं
सत्त्वरजस्तमोभिजलसेकादिभिरिव प्रवृद्धा वृद्धि प्राप्तास्तथा विषया रूपरसादय एवं प्रवालाः
पल्लवाश्च प्रसृताः सन्ति । अधः पाताले मूलानि यक्षरक्षास्यनुततानि सम्यक् तानि विस्तृतानि
मनुष्यलोके तु कर्मानुबन्धीनि कर्माधीनानि तेषामेव कर्माधिकारित्वान्मनुष्यलोके कर्मकत्वेतरलोकेषु
तत्फलं भुञ्जत इत्यर्थः ॥ २ ॥
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्यमेनं सुविरूठमूलमसङ्गशस्त्रेण दृढेन छित्वा ॥३॥
यस्त्वयं वर्णितः संसारवृक्षो न रूपेति । न रूपमस्येह यथा वर्णितं
तथा नैवोपलभ्यते स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वाद् दृष्टनष्टस्वरूपो
हि स इत्यत एवानन्तो न पर्यन्तो निष्ठा समाप्तिा विद्यते तथा न चादि.
रित आरभ्यायं प्रत्त इति न केनचिद्गम्यते न च संप्रतिष्ठा स्थितिमध्य-
मस्य न केनचिदुपलभ्यतेऽश्वत्थमेनं यथोक्तं सुविरूढमूलं सुष्टु विरूढानि वि.
रोहं गतानि मूलानि यस्य तमेनं सुविरूढमूलमसशस्त्रणासङः पुत्रवित्तलोकै-
षणादिभ्यो व्युत्थानं तेनासशस्त्रेण दृढेन परमात्माभिमुखनिश्चयदृढीकृतेन पु.
नःपुनर्विवेकाभ्यासाश्मनिशितन छित्त्वा संसारकै सबीजमुद्धृत्य ॥ ३ ॥
आ० टी० । पुनःपुना रागादिना प्रवृत्तत्वेनानादित्वान्न संसारवृक्षः स्वयमुच्छिद्यते न चो-
च्छेत्तुं शक्यते कनापीत्याशङ्कयाह यस्त्विति । यथापूर्व वर्णितं यथा च लोके प्रसिद्ध तथास्य रूप-
मिह शास्त्रादनुमीयते तथा चास्य ज्ञानापनाद्यत्वं युक्तमित्याह यथेति । तस्याप्रमितत्वे हेतुमाह
स्वप्नेति । तस्य स्वप्नादिसमत्वे दृष्टनष्टस्वरूपत्वं हतुं करोति दृष्टेति । इत्यमेयतेति शेषः । तमेवामे-
यत्वं हेतुं कृत्वावसानमपि तस्य तथा न भातीत्याह अतएवेति । ज्ञानं विना भ्रान्तिवासनाकर्मणा-
मन्योन्यनिमित्तत्वान्नावसानमस्तीत्यर्थः । इदं प्रथमत्वमपि नास्य परिच्छेतुं शक्यमित्याह तथेति ।
आद्यन्तवन्मध्यमपि नास्य प्रामाणिकमित्याह मध्यमिति । संसारवृक्षस्यांश्वत्थशब्दितस्य क्षणभङ्गरस्य
स्वयमेवोच्छेदसंभवात्तदुच्छेदार्थ न प्रयतितव्यमित्याशङ्कयाह अश्वत्थमिति । व्युत्थानं वैराग्यपूर्वक
पारिवाज्यम् । दृढीकतत्वमेव विवेकपूर्वकत्वेन स्फुटयति पुनःपुनरिति ॥ ३ ॥

४३. श्रीमद्भगवद्गीता- ५० टी० । अथ तस्य दुईयत्वमाह नरूपमस्येति द्वाभ्याम् । इह संसारेऽस्य स्थूलप्रपञ्च- तरो रूपं स्वरूपं तथा लौकिकदृष्टया नोपलभ्यते यथा ज्ञानदृष्टयेत्यर्थः । दिव्यं ददामि ते च- क्षरित्युक्तत्वात् च परमस्यान्तः पर्यवसानं तथा प्रतिष्ठा स्थितिरादिराविर्भावश्च नोपलभ्यते । अ- थास्योपरमप्रकारमाह अश्वत्थमिति । एनं निरूपितप्रकार सुविरूढमूलं प्रकारान्तरेणानुच्छे द्यमश्वत्थं दृढेन तीक्ष्णेनासंगशस्त्रेण वैराग्यकुठारेण छित्त्वा ॥ ३ ॥ ततः पदं तत् परिमार्गितव्यं यस्मिन् गतान निवर्तन्ति भूयः॥ तमेव चायं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥ तत इति । ततः पश्चाद् यतः पदं वैष्णवं तत् परिमार्गितव्य परिमार्ग- णमन्वेषणं ज्ञातव्यमित्यर्थः । यस्मिन् पदे गताः प्रविष्टा न निवर्तन्ति नावर्त-- न्ते भूयः पुनः संसाराय । कथं परिमार्गितव्यमित्याह तमेव च यः पदशब्देनोक्त आद्यमादी भवं पुरुषं प्रपद्येत्येवं परिमार्गितव्यं तच्छरणतयेत्यर्थः । कोऽसौ पुरुष इत्युच्यते यतो यस्मात् पुरुषात् संसारमायातक्षप्रवृत्तिः प्रसृता निःस- तैन्द्रजालिकादिवन् माया पुराणी चिरंतनी ॥ ४ ॥ आ० टी० । उद्धृत्य किं कर्तव्यं तदाह तत इति । पश्चादश्वत्थादूर्ध्व व्यवस्थितमित्यर्थः । किं तत् पदं यदन्विष्य ज्ञातव्यं तदाह यस्मिन्निति । येन सर्व पूर्ण पुरीषु वा शयानं पुरुषं प्रपद्ये शरणं गतोऽस्मीत्यर्थः । विवर्तवादानुरोधिनं दृष्टान्तमाह ऐन्द्रेति ॥ ४ ॥ ५० टी० । किं कर्तव्यमित्याह तत इति । ततस्तस्मात्संसारतरोः परमुत्कृष्टं मूलभूतं यत्पदं स्थानं प्रागुक्तं विष्णोः परमं पदं परब्रह्माख्यं तत्परितः सर्वत्र स्थितं मागित- व्यम् । सुषुम्नाविवरोपलक्षितेन मार्गेण बोद्धव्यम् । तल्कि पदं यस्मिन् गताः प्रविष्टाः सन्तो भूयो न निवर्तन्ते परावृत्ति न प्रामुवन्ति । अथ किमाकारेण प्रविष्टा इत्याह तमेवेति । तमेवाद्यं ज्यायांसं दृश्यजातस्य मूलभूमिरूपं प्रपद्ये शरणं व्रजामि । तं कं यतः पुराण्यनादिप्रवाहरूपा प्रपञ्चवृत्तिः प्रमृता विस्तृता तमधिकरणरूपमित्यर्थः । अथ क्रमेण श्रुतयश्च तत्र असंगशस्त्रेण दृढेन छित्त्वेत्यत्र आश्वलोपनिषदुक्ता श्रुतिः-" न कर्मणा न प्रनया धनेन त्यागेनैक अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते तद्यतयो विशन्ति" इति । भाष्यम्-एके योगिनस्त्यागेन परेणोत्कृष्टेन वैराग्ये- णामृतत्वं मोक्षमानशुः प्रापुः । परं तु न कर्मणा फलाभिसन्धिरुतेन न प्रजया । "नापुत्रस्य लोको- स्ति" इति श्रुतेः । धनेन तुलापुरुषादिषु व्ययीकतेन । अथ तत्कि नामामृतत्वं यद्यतयः संन्या- सिनो विशन्ति कथं ज्ञात्वा विशन्ति । नाकं स्वर्गमलौकिकगुहायां हृदयाकाशे निहितं निधिवगोपित- मपि विभ्राजतेऽर्थप्रकाशकत्वेन शोभते । ततः पदं तत्परिमागितव्यमित्यत्र शातपथी श्रुतिः-“तदप्येते श्लोकाः अणुपथावितरः पुराणोमाङ्स्टष्टोनुवित्तो मयैव तेन धीरा अपि यन्ति ब्रह्मविद उत्क्रम्य स्वर्ग लोकमितो विमुक्ताः । तस्मिन् शुक्लमुतनीलमाहुः पिङ्गल' हरितं लोहितं च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्तेजसः पुण्यकञ्च इति । भाष्यम्-तत्रार्थे श्लोका वेदोपजीव्या मन्त्रा अपि सन्तीति । याज्ञवल्क्यो वदति ते कथम् । अणुः सूक्ष्मः सुषुम्रोपलक्षितः पन्था मार्गौस्ति वितरो विशिष्टतरः पुराणोनादिसिद्धः मां स्टष्टः मया प्राप्त अनन्तरं मयैवानुवित्तमनुष्ठितंतेन मार्गेण -

पञ्चदशाध्यायः।
कृत्वा धौरा अभ्यासयोगिनः ब्रह्मविद् उर्ध्व क्रम्य स्वर्ग लोकं भ्रूमध्यं यान्ति गच्छन्ति किं भूता
इतः प्रपश्चाद्विमुक्ताः, तस्मिन्नाडीसंदर्भमाह शुलमित्यादि एष पन्या अयं मार्गों न केवलं मयैवानु-
ष्ठितः किं तु ब्रह्मणाप्यनुष्ठितोऽनुष्ठितस्तेन ब्रह्मविद्वेदार्थवेत्ता पुण्यरुदनुष्ठाता तैनसः प्रकाशात्मा
एति प्राप्नोति नान्यः ॥ ४ ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिटत्तकामाः॥
द्वन्दैविमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्॥५॥
कथंभूतास्तत् पदं गच्छन्तीत्युच्यते निर्मानेति । निर्मानमोहा मानश्च
मोहश्च मानमोहौ तौ निर्गतौ येभ्यस्ते निर्मानमोहा मानमोहवर्जिता जित-
सदोषाः सङ्ग एव दोषः सङ्गदोषो जितः सङदोषो यैस्ते जितसङ्गदोषा अ-
ध्यात्मनित्याः परमात्मस्वरूपालोचने नित्यास्तत्परा विनिवृत्तकामाः विशेषतो
निर्लेपेन निवृत्ताः कामा येषां ते विनिवृत्तकामा यतयः संन्यासिनो इन्दैः प्रि-
याप्रियादिभिविमुक्ताः सुखदुःखसंज्ञैः परित्यक्ता गच्छन्त्यमूढा मोहवर्जिताः
पदमव्ययं तद्यथोक्तम् ॥ ५ ॥
आ० टी० । पारमार्गणपूर्वकं वैष्णवं पदं गच्छतामङ्गान्तराण्याकाङ्क्षापूर्वकं कथयति कथ-
मियादिना । मानोऽहङ्कारः मोहस्त्वविवेकः जितसङ्गदोषा शत्रुमित्रसन्निधावपि द्वेषप्रीतिवर्जिता
इत्यर्थः । तत्परत्वं श्रवणादिनिष्ठत्वं, संन्यासिनो वैराग्यद्वारा त्यक्तसर्वकर्माण इत्यर्थः । आदिशब्देन तद्धे-
तुग्रहः, मोहजितत्वमुक्तहेतुतः संजातसम्यग्धीत्वम् ॥ ५ ॥
प० टी० । अथ इतो विमुक्ता इति श्रुत्यर्थ प्रकटयन्नाह निर्मानमोहा इति । निर्गतौ
मानमोहावहंकारमिथ्याभिनिवेशावेभ्यः जितः पुत्रादिसंगदोषो यैस्ते। अध्यात्मज्ञान निष्ठाः परिनिष्ठि-
ता विशेषेण निवृत्तः कामो येभ्यस्ते । सुखदुःखसंज्ञा शीतोष्णादीनि तैर्विमुक्ता एवं विधास्तदव्ययं
पदं गच्छन्ति नान्ये ॥ ५ ॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः॥
यद् गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६॥
तदेव पदं पुनर्विशिष्यते नेति । तद्दामेति व्यवहितेन धाम्ना संबन्धः
धाम तेजोरूपं पदं न भासयते सूर्य आदित्यः सर्वावभासनशक्तिमत्त्वेऽपि
सति तथा न शशाडूश्चन्द्रो न च पावको नाग्निरपि यद्धाम वैष्णवं पदं गत्वा
प्राप्य न निवर्तन्ते यच्च सूर्यादिभिर्न भासयते तद्धाम पदं परमं विष्णोर्मम .
पदम् ॥ ६॥
आ० टी० । तच्चेत् पदं वेद्यं कर्तुरन्यत् कौते द्वैतापासोऽवेद्यं चेदपुमर्थत्वात् प्रेप्सितत्वा-
सिद्धिरित्याशङ्कयाह तदेवेति ॥ ६ ॥

श्रीमद्भगवद्गीता- प० टी० । अथ पदं विशिनष्टि न तदिति । तत्पदं परं ब्रह्म सूर्यः शशाङ्कः पावकोऽग्नि- ी न भासयते न प्रकाशयति । " यद्भासा सर्वमिदं विभाति " इति श्रुतेः सूर्यादीनामपि तत्प्रकाश- भास्यत्वात् । यञ्च गत्वा प्राप्य योगिनो न निवर्तन्ते न परावर्तन्ते तन्मम परं धामेति ज्ञेयम् ॥६॥ ममैवांशो जीवलोके जीवभूतः सनातनः ॥ मनःषष्टानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥ यद् गत्वा न निवर्तन्त इत्युक्तम् । ननु सर्वाहि गतिरागत्यन्ता संयोगा- विप्रयोगान्ता इति प्रसिद्धं हि कथमुच्यते तद्धामगतानां नास्ति नित्तिरिति शृणु तत्र कारणं ममैवेति । ममैव परमात्मनो नारायणस्यांशो भागोऽवयव एक- देश इत्यनर्थान्तरं जीवलोके जीवानां लोके संसारे जीवभूतो भोक्ता कर्तेति प्रसिद्धः सनातनः पुरातनो यथा जलसूर्यकः सूर्यांशो जलनिमित्तापाये सूर्य, मेव गत्वा न निवर्तते तथाऽयमप्यंशस्तेनैवात्मना संगच्छत्येवमेव यथा वा घटा- ग्रुपाधिपरिच्छिन्नो घटाद्याकाश आकाशांशः सन् घटादिनिमित्तापाये आकाश प्राप्य न निवर्तत इत्येवमत उपपन्नमुक्तं यद् गत्वा न निवर्तन्त इति । ननु नि- रवयवस्य परमात्मनः कुतोऽवयव एकदेशांश इति सावयवत्वे च विनाशप्रस- झोवयवविभागानेष दोषोऽविद्याकृतोपाधिपरिच्छिन्न एकदेशोऽश इव कल्पितो दर्शितश्चायमर्थः क्षेत्राध्याये विस्तरशः। स च जीवो मदंशकत्वेन कल्पितः कथं संसरत्युत्क्रामतीति चेदित्युच्यते मनःषष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृती स्थितानि कर्पत्याकर्षति ॥ ७ ॥ आ० टी० । उक्तमनूद्याक्षिपति यद्गतेति । तत्र प्रसिद्धि प्रमाणयति संयोगा इति । गम- नस्यागमनान्तत्वप्रसिद्धेरप्युक्तं यद्गत्वेत्याग्रुपसंहरति कथमिति । आक्षेपं परिहरति शृण्विति । भगवत्प्राप्तेनिवृत्यं तत्त्वाभावः सप्तम्यर्थः । जीवस्य परांशत्वेऽपि कथमुक्तदोषसमाधिरित्याशङ्कय प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे यथेति । अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेणोक्तदोषसमा- धिं दर्शयति यथा वेति । आक्षेपसमाधिमुपसंहरति अत इति । परस्य निरवयवत्वात्तदंशत्वं जीव- स्यायुक्तमिति शङ्कते नन्विति । तस्य निरवयवत्वं साधयति सावयवत्वे चेति । वस्तुतो निरंशस्यापि परस्य कल्पनया जीवोंऽशो भविष्यतीति परिहरति नैप दोष इति । वस्तुतस्तु जीवस्य नांशत्वं प- रमात्मतावन्मात्रतया दर्शितत्वादित्याह दर्शितश्चेति । यदि परस्यांशत्वेन कल्पितो जीवो वस्तुतस्तदा- त्मैव न तर्हि तस्य संसारत्वम् उत्क्रान्तिति शङ्कवे कथमिति । जीवस्य संसरणमुत्क्रमणं चोपपाद- यितुमुपक्रमते उच्यत इति ॥ ७ ॥ प० प्र० । ननु सुषुप्तौ सर्वेषां ब्रह्मप्राप्तौ सत्यां कथं पुनः परावृत्तिरित्याशङ्कयाह । ममैवेति पञ्चभिः । ममैवांशो योयमविद्यया जीवभूतः सनातनः सवर्दा संसारित्वन प्रसिद्धः स मन एव षष्ठं येषां तानि पश्च ज्ञानेन्द्रियाणि सुषुप्तौ कर्षत्याकर्षयति श्रुतिरपि-"तानि यदा गृह्णात्यथ हैतत्स्वपिति ४३२ पञ्चदशाध्यायः। नामतगृहीत एव प्राणो भवति गृहीता वाग् गृहीत: चक्षुर्गृहीत: प्रोत्रम्" इत्यादिः। सष्टार्थम् । किम- तानीन्द्रियाणि प्रकृतिस्थानि प्रकृतौ तिष्ठन्ति तानि स्वोपाधिभूतानि । अयमर्थः-अविद्यावृतत्वेन सा- नुशयस्य जीवस्य सप्रकृतिके मयि लयोऽतः पुनरावृत्तिः । निरस्ताविद्यस्य जीवस्य शुढे माय- लयोऽतो मुक्तिः । 'अव्यक्ताव्यक्तयः सर्वाः' इत्यादि पूर्वमेवोक्तम् ॥ ७ ॥ शरीरं यदवाप्नोति यच्चाप्युक्रामतीश्वरः ॥ गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८॥ कस्मिन् काले, शरीरमिति । यचापि यदा चाप्युक्रामतीश्वरो देहा- दिसंघातस्वामी जीवस्तदा कर्षतीति श्लोकस्य हितोयपादोऽर्थवशात् प्राथ- म्येन संबध्यते, यदा च पूर्वस्माच्छरीराच्छरीरान्तरमाप्नोति तदा गृहीत्वै- तानि मनःपष्ठानीन्द्रियाणि संयाति सम्यग् याति गच्छति । किमिवेत्याह वायुः पवनो गन्धानिवाशयात् पुष्पादेः ॥ ८ ॥ आ० टी० । स्वस्थाने स्थितानामिन्द्रियाणां जीवेनाकर्षणस्य कालं पृच्छति कस्मिन्निति । जीवस्योत्क्रान्तिनेश्वरस्येत्याशङ्कयेश्वरशब्दार्थमाह देहादीति । उत्क्रान्त्यनन्तरभाविनी गतिरित्ये- तदर्थवशादित्युक्तम् । अवशिष्टानि श्लोकाक्षराण्याचष्टे यदा चेति ॥ ८ ॥ प० टी० । अथ जीवस्य शरीरान्तरप्राप्ति दृष्टान्तेनाह शरीरमिति । यद्यदा पूर्वस्माच्छरी- रादुत्क्रामति यदा च शरीरान्तरं प्राप्नोति तदेश्वर इन्द्रियचालकोऽन्तर्याम्येतानीन्द्रियाणि गृहीत्वैव सम्यक् प्रकारेण याति । क इव, आशयाद्वायुर्गन्धानिव आशयाद्गन्धाश्रयीभूतात्पुप्पादेः सका- शाद्गन्धान गन्धवतः सूक्ष्मानंशान् गृहीत्वा वायुर्यथा याति तथा सत्यपि शरीरेऽर्थग्राहकाण्य- ध्यात्मरूपाणीन्द्रियाणि गृहीत्वा याति । आत्मा तु सर्वत्रानुस्यूतस्तस्य गमनागमनं न संभवति किं तु, तदंशीभूतसूक्ष्मभूतेन्द्रियप्राणावस्थात्मकं लिङ्गशरीरमेव गच्छत्यागच्छतीत्यर्थः ॥ ८ ॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥ अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥ कानि पुनस्तानीति श्रोत्रमिति । श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं जिव्हा घ्राणमेव च मनश्च षष्ठं प्रत्येकमिन्द्रियेण सहाधिष्ठाय देहस्थो विषयान् शब्दादीनुपसेवते ॥ १ ॥ आ० टी० । मनःपष्ठानीन्द्रियाण्येव प्रश्नद्वारा विशेपतो दर्शयति कालीति ॥ ९ ॥ प० टी० । अथ शरीरान्तर्वर्तमानदशायामात्मनो विपयोपभोगप्रकारमाह श्रोत्रमिति । अयमात्मा मन अधिष्ठाय स्वाश्रयमात्रेण प्रवर्त्य तत्तग्राहकोपलक्षिताञ् शब्दादीन् विषयानुपसेवतेऽहं- १ जिव्हेति नास्तिं लि. पु.। .

४३४ श्रीमद्भगवद्गीता- काराध्यासेन सेवते । श्रुतिरपि-"अन्यत्रमना अभूवन्नादर्शमन्यत्रमना अभूवन्नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति" इत्यादिः । स्पष्टार्थम् ॥ ९ ॥ उक्रामन्तं स्थितं वापि भुजानं वा गुणान्वितम् ॥ विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥१०॥ उक्रामन्तमिति । एवं देहगतं देहाद् उक्रामन्तं परित्यजन्तं देहं पूर्वोपात्ते स्थितं वा देहे तिष्ठन्तं भुजानं वा शब्दादींश्योपलभमानं गुणान्वितं सुखदुःखमोहाख्यैर्गुणैरन्वितमनुगतं संयुक्तमित्यर्थः । एवंभूतमप्येनमत्यन्तं दर्श- नगोचरप्राप्तं विमूढा दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तयानेकधा मूढा नानुप- श्यन्त्यहो कष्टं वर्तत इत्यनुकोशति च भगवान् ये तु पुनः प्रमाणजनितज्ञा- नचक्षुपस्त एनं पश्यन्ति ज्ञानचक्षुषो विविक्तदृष्टय इत्यर्थः ॥ १० ॥ आ० टी० । शरीरमित्यादिश्लोके देहादात्मनोऽतिरेकमुक्त्वा श्रोत्रं चक्षुरित्यादौ स्वाभिल- पिते विपये यथायथं करणानां प्रवर्तकत्वात् किमिति सर्व न पश्यन्तीत्याशङ्कयाह एवमिति । संनिहिततमत्वेन दर्शनयोग्यमपि विपयपरवशादात्मानं सर्वे न पश्यन्तीति भगवतोऽनुक्रोशं दर्शयति एवंभूतामिति । तर्हि केपामात्मदर्शनं तदाह ये तु पुनरिति ॥ १० ॥ प० टी० । अथैतदेव प्रकटयन्नाह उक्रामन्तमिति । विमूढास्तु परमात्मानं प्रायो नष्टमिव म- न्यन्ते, वेत्यथ वा, उक्रामन्तमितो देहाद्गच्छन्तं मन्यन्ते । तदुक्तम्-' हृदयाकाशमात्रस्य विनाशे' देहनाशतः। व्यर्थं भूतानि शोचन्ति नष्ट आत्मेति शङ्कया' इति । तथा देहाकारेण स्थितं भुञ्जानं गुणा- न्वितं वानुवेलं पश्यन्ति । अथ ज्ञानरूपं चक्षुर्यपां ते तत्त्वदर्शिनः स्वगृहादन्यगृहं प्रति नीयमानस्य घटस्य तदावृताकाशवल्लिङ्गदेहावृतमात्मानमुक्रामन्तमनुवलं पश्यन्ति । तथा भ्रमत्कुलालचक्रीलक- वस्थितं पश्यन्ति तथा प्रतिगरूपदेवतादर्शितनैवेद्यवद्गुञ्जानं पश्यन्ति तथा काश्मीरोदरप्रतिफ- लितजपाकुसुमारुण्ययोगवत्सत्त्वादिगुणान्वितं पश्यन्ति । तथाचोक्रान्तावात्मनो व्यापकत्वाद्गमनागमनं न संभवति किं तु लिङ्गदेहाधिष्ठितं मन एव गच्छतीति पूर्व व्याख्यातमेव । श्रुतिरपि-" यत्ते यम वैवस्वतं मनो जगाम दूरकम् । तत आवर्तयामसीह क्षयाय जीवसे” इति । भाप्यम्-तत्र पूर्व सनातिनाम्नो राज्ञश्चत्वारः सुरध्वादयः सहोदराः पुरोहिता आसंस्तेषु सुबन्धुः कैश्चिद् द्वेषिभि- विप्रैराभिचारकेण हतस्ते पुनर्जीवयितुं त्रयो बन्धव इमं मन्त्रं पठन्ति यत्त इति । भो सुबन्धो यत्ते मनो दूरकं दूरं यथा भवति तथा वैवस्वतं सूर्यस्य पुत्रं यमं प्रति जगाम तत्ते मन इह मृतशरीर आवर्तयामसि पुनरावर्तयिष्यामि क प्रयोजनाय क्षयाय पुनरिह वसतये तथा जीवसे चिरका- लजीवनाय ॥ १०॥ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ॥ यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११॥ के चित्तु यतन्तः प्रयत्नं कुर्वन्तो योगनश्च समाहितचित्ता एनं प्रकृतमा- पञ्चदशाध्यायः स्मानं पश्यन्त्ययमहमस्मीत्युपलभन्ते आत्मनि स्वस्यां बुद्धाववस्थितं यत- न्तोऽपि शास्त्रादिप्रमाणैरकृतात्मानोऽसंस्कृतात्मानस्तपसेन्द्रियजयेन च दुश्चरि- तादनुपरता अशान्तदात्मानः प्रयत्नं कुर्वन्तो नैनं पश्यन्त्यचेतसोऽविवे- किनः ॥ ११ ॥ आ० टी० । ज्ञानचक्षुःशब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तं तत्किमिदानी शास्त्रमात्रेण न्यायानुगृहीतेनात्मानं पश्यन्ति नेत्याह केचित्त्विति । प्रयत्नः श्रवणमननात्मकः शा- स्त्रादिप्रमाणैर्यतन्तोऽपीति संबन्धः । असंस्कृतात्मत्वं प्रकटयति तपसेति । दुश्चरितादविरतिफलं कथयात अशान्तेति । अशुद्धबुद्दीनामविवकिनां सदपि श्रवणादि न फलवदिति मत्वाह प्रयत्नामिति ॥ ११ ॥ प० टी० । अथ ज्ञानचक्षुपोऽपि द्वेषानुभविनः शास्त्रविज्ञानवन्तश्चेति दर्शयति यतन्त इति । स्वरूप प्राप्त्यर्थ यतन्तः प्रयत्नं कुर्वन्तो यामिन एवमात्मानमात्मनि देहान्तहृदयाकाशेऽव- स्थितं पश्यन्ति । तथाकृतात्मानोऽनधिगततत्त्वार्था अत एवाचेतसोऽल्पबुद्धयः शास्त्रपठनादिभिरुपा- यैर्यतन्तोऽप्येनं न पश्यन्ति ॥ ११ ॥ यदादित्यगतं तेजो जगदासयतेऽखिलम् ॥ यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ॥ १२॥ यत् पदं सर्वस्यावभासकमप्यग्न्यादित्यादिकं ज्योतिर्भावभासयते य- प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखा न निवर्तन्ते यस्य च पदस्योपाधिभेद- मनुविधीयमाना जीवा घटाकाशादय इवाकाशस्यांशास्तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवाश्चतुर्भिः श्लोकैर्विभूतिसंक्षेपमाह भगवान् यदिति । यदादित्यगतमादित्याश्रयं किं तत् तेजो दीप्तिः प्रकाशो जगद्भासय- ते प्रकाशयत्यखिलं समस्तं यच्चन्द्रमसि यच्च शशभृति तत्तेजोऽवभासकं व- तते यच्चानी हुतवहे तत्तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस्त- ज्ज्योतिः । अथवा यदादित्यगतं तेजश्चैतन्यात्मकं ज्योतिश्चन्द्रमसि यच्चाग्नौ तत्तेजो विधि मामकं मदीयं मम विष्णोस्तज्ज्योतिः । ननु स्थावरेषु जङ्गमेषु च तत्समा चैतन्यात्मकं ज्योतिस्तत्र कथमिदं विशेषणं यदादित्यगतमि- त्यादि, नैष दोषः सत्त्वाधिक्यादाधिक्योपपत्तेरादित्यादिषु हि सत्त्वमत्यन्तप्र- काशमत्यन्तभास्वरमतस्तत्रैवाविस्तरं ज्योतिरिति तहिशिष्यते, न तु तत्रैव तद- धिकमिति यथा हि लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखमावि- र्भवत्यादीदी त स्वच्छे स्वच्छतरे तारतम्येनाविर्भवति तद्दत् ॥ १२ ॥ आ० टी० । अनन्तरश्लोकचतुष्टयस्य वृत्तानुवादद्वारा तात्पर्यार्थमाह यत्पदमिति । जीवा-

४३६
श्रीमद्भगवद्गीता-
-
त्मत्वेन चिद्रूपत्वमुक्त्वा तदीयचैतन्येनादित्यादीनामवभासकत्वाच्च ब्रह्मणश्चिद्रूपत्वमित्याह यदा-
दिसति । चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे यदिसादिना । आदि-
त्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकमित्यर्थः । ब्रह्मणः सर्वज्ञत्वेन चिद्रूपत्वमत्र
विवक्षितमिति व्याख्यान्तरमाह अथवेति । चैतन्यज्योतिषः सर्वत्राविशेषादादित्यादिगतविशेषण-
मयुक्तमिति शङ्कते नन्विति । सर्वत्र सत्त्वेऽपि क्वचिदवाभिव्यक्तिविशेपाद्विशेषणमिति परिहरति
नैष दोष इति । तदेव प्रपञ्चगति आदिसादिप्विति । सर्वत्र चैतन्यज्योतिपस्तुल्यत्वेऽपि क्वचि-
देवाभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति यथा हीति ॥ १२ ॥
५० टी० । अथ ' न तद्भासयते सूर्यः' इत्यादीनां विभूतीनामपि प्रमाणान्तरागोचरस्यात्मनो
दर्शकत्वमनभिमतं किं पुनः शास्त्राभ्यासप्रयत्नस्येति सूचयन सूर्यादीनां स्वप्रकाश्यत्वं दत्तसामर्थ्य-
वत्वं च निरूपयन्नाह यदिति । दिवा त्रैलोक्यप्रकाशकमादित्यगतं यत्तेजस्तथा रात्री चन्द्रस्य ज्यो-
स्नारूपमग्रेर्दीपरूपं यत्तेजस्तन्मामकं मदीयं विद्धि जानीहि । “योऽसावादित्यः पुरुषः सोऽसावहम्
इतिश्रुतेः । तैत्तिरीयकेऽपि-"यास्ते अग्ने सूर्ये ऋच उद्यतो दिवमातन्वन्ति रश्मिभिः। ताभिः सर्वाभित्रचे
जनाय नस्कृधि" । भाष्यम्-भो अग्ने सर्वेश्वर उद्यतः सदोदितस्य ते तव या ऋचो दीप्तयः सूर्ये
वर्तमानाः सत्यो रश्मिभिः किरणैर्दिवं स्वर्गमातन्वन्ति व्याप्नुवन्ति, ताभिः सर्वाभिः ऋग्भिोंऽस्मभ्यं
जनाय ऋचे दीप्तये कुरु । तद्राह्मणेऽपि “शूषो ह वै वाष्र्णेय आदित्येन समाजगाम" इति । शूपः शोष-
णशक्तिमांस्तनोरूपया विभूत्या वाणेयः कृष्ण आदित्येन समाजगामेति स्पष्टम् ॥ १२ ॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ॥
पुष्णामि चौपधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥
किं च गामिति । गां पृथिवीमाविश्य प्रविश्य धारयामि भूतानि ज-
गदहमोजसा बलेन यद्दलं कामरागविवर्जितमैश्वरं जगद्दिधारंणाय पृथिव्यां
प्रविष्टं येन गुर्वी पृथिवी नाधः पतति न विशीर्यते, तथा च मन्त्रवर्णः “ येन
द्यौरुग्रा पृथिवी च दृढेति सदाधार पृथिवीम् ” इत्यादिश्चातो गामाविश्य भूतानि
चराचराणि धारयामीति युक्तमुक्तम् । किंच पृथिव्यां जाता ओषधीः सर्वा
बीहियवाद्याः पुष्णामि पुष्टिमती रसस्वादुमतीश्च करोमि सोमो भूत्वा रसा-
त्मकः सोमः सर्वरसात्मको रसस्वभावः सर्वरसानामाकरः सोमः स हि सर्वा
ओषधीः स्वात्मरसानुप्रशोन पुष्णाति ॥ १३ ॥
आ० टी० । इतश्च सर्वात्मत्वं प्रकृतपदस्य युक्तमित्याह किं चेति । ईश्वरो हि पृथिवी देवता-
रूपेण पृथिवीं प्रविश्य भृतशब्दितं जगदैश्वरेणैव बलेन बिभर्ति । ततो गुर्वपि पृथिवी विदीर्य नाधो-
निपततीत्यत्र प्रमाणमाह तथा चेति । परस्यैव हिरण्यगर्भात्मनावस्थानान्न मन्त्रयोरन्यपरतेति भावः।
देवतात्मना द्यावापृथिव्योरुग्रत्वमुद्धरणत्वसामर्थ्य तथापीश्वरायत्तमेव स्वरूपधारणं तदपेक्षया दुर्ब-
लत्वादिति द्रष्टव्यम् । ईश्वरस्य सर्वात्मत्व हेत्वन्तरमाह किं चेति । रसात्मकसोमरूपतापत्तावपि
कथमोपधीरीश्वरः सर्वाः पुष्णातीत्याशङ्कयाह सर्वेति ॥ १३ ॥

पञ्चदशाध्यायः। ४३५ प० टी । अथ चन्द्राग्न्योरन्नान्नादस्वरूपेण स्वदत्तसामर्थ्यमनुवदन्त्याः सामवेदश्रुतस्तात्पर्य- माह गामाविश्येति द्वाभ्याम् । अहं रसात्मको रसरूपया विभूत्या सोमो भूत्वा गां एथिवीं वा- विश्य सर्वा ओपधीर्धान्यफलवतीः पुष्णामि वर्धयामि तत ओजसान्नादिसामर्थ्येन भूतानि धारयामि पोपयामि "ओषधीभ्योऽन्नमन्नात्पुरुपः” इति श्रुतेः ॥ १३ ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः॥ प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ किं चाहमिति । अहमेव वैश्वानर उदरस्थोऽभ्यन्तर्भूत्वायमग्निर्वैश्वानरो “योऽयमन्तः पुरुषे येनेदमन्नं पच्यते” इत्यादिश्रुतेर्वैश्वानरः सन् प्राणिनां प्राण- वतां देहमाश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि चतुर्विधं चतुःप्रकारमन्नमशनं भोज्यं च भक्ष्यं चोष्यं ले- यं च भोक्ता वैश्वानरोऽग्निर्भोज्यमन्नं सोमस्तदेतदुभयमग्नीपोमो सर्वमिति प- श्यतोऽन्नदोषलेपो न भवति ॥ १४ ॥ आ० टी० । भगवतः सर्वात्मत्वे हेत्वन्तरमाह किं चेति । अहमेवेत्यहंशब्देन परो लक्ष्यते, भूत्वा पचामीति संबन्धः । परस्यैव जाठरात्मना स्थितौ श्रुति प्रमाणयति अयमिति । बाह्यं भौममग्निं व्यावर्तयति योऽयमिति । देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति येनेति । जाठ- रात्मना परः स्थितश्चेत्तस्य देहाश्रितत्वं सिद्धमिति न पृथग्वक्तव्यमित्याशङ्कय “पुरुपविधं पुरुषेऽन्तः प्रतिष्ठितं वेद" इति श्रुतिमाश्रित्याह प्रविष्ट इति । परस्य जाठरात्मनोऽन्नपाके सहकारिकारणमाह प्राणेति । संयुक्तत्वं संधुक्षितत्वम् । अन्नस्य चातुर्विध्यं प्रकटयति भोज्यमिति । भोक्तरि वैश्वानर- दृष्टि ज्ये सोमदृष्टिरेवं भोक्तृभोज्यरूपं सर्व जमदग्निसोमात्मना भुक्तिकाले ध्यायतो भोक्तुरन्नकतो दोषो नेति प्रासङ्गिकं सफलं ध्यानं दर्शयति भोक्तेति ॥ १४ ॥ प० टी० । अथाग्नी दत्तं सामर्शमाह अहमिति । प्राणिनां सर्वदेहिनां देहमाश्रितो जाठरो वैश्वानरोऽनिर्भूत्वा प्राणापानाभ्यां भस्त्रावायुभ्यामिव समायुक्तो दीप्तीकृतः संश्चतुर्विधमन्नं लेह्यपेय- चोप्यभक्ष्यादिकं पचामि पाकं नयामि । श्रुतिरपि सामवेद-"हाउ ३ अहमन्नं ३ अहमन्नादः ३ अहं- विधास्य३” इत्यादिः। भाष्यम्-तत्र हाउ स्तोमाक्षरम् । तदुक्तम्-औ हो इति च संबुद्धौ विकल्पे हा- उ कीर्तितमिति । अत्र मनुप्यदेवात्मविभागेनान्नत्रयमन्नादत्रयमस्तीति त्रिरावृत्त्या विकल्पार्थो निरू- पितः, विधास्यो धर्ता । अथैतदर्थज्ञापिका शातपथी श्रुतिरपि-“अथ यत्कि चेदमाद्रं तद्रेतसोऽ तदु सोम एतद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमनिरन्नादः' इति । भाप्यम्-सृष्टिक्रमकथना- नन्तरं यत्किचेदं सर्वमाद्र शुक्रशोणितोद्भवं प्राणिजातं तद्रेतसः शुक्रादसृजत सृष्टवान् । अथ रेतसः खरूपमाह तदिति । तदु तदेतावत्सर्व रेतः सामे वर्तते एवं रतसः कारणमन्नमन्नादश्च भवति तथा च सोम एवान्नमग्निरन्नादश्च । तैत्तिरीयकेऽपि-“यः कामयेतान्नवानन्नादः स्यामित्यग्निनैवान्नमवरुन्धे सोमेना- नाद्यमन्नवानेवान्नादो भवति' इति । भाष्यम्-यः पुरुषोऽहमन्नवानन्नादश्च स्यामिति कामयत सोऽग्निना- न्युपासनयान्नमवरुन्धे आक्रामति पाकं नयति सोमेन चान्नाद्यं प्राप्नोत्येवमन्नवानेवान्नादो भवतीत्यर्थः । तथा भृगुवल्लयामपि-"अर्थतन्साम गायन्नास्से' इत्येतत्सर्वं श्रुतिरहस्यं भगवतैव प्र- कटीकृतम् ॥ १४ ॥ iऽमृनत श्रीमद्भगवद्गीता- सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ॥ वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकद्वेदविदेव चाहम् ॥१५॥ किंच सर्वेति । सर्वस्य प्राणिजातस्याहमात्मा सन् हदि वुद्धी संनि- विष्टोऽतो मत्त आत्मनः सर्वप्राणिनां स्मृतिर्ज्ञानं च तदपोहनं च येषां पुण्यकर्मिणां च • पुण्यकर्मानुरोधेन ज्ञानस्मृती भवतस्तथा पापकर्मिणां पापकर्मानुरूपेण स्मृतिज्ञानयोरपोहं चापायनमपगमनं च, वेदैश्च सर्वैरह- मेव च परमात्मा वेद्यो वेदितव्यो वेदान्तकृद् वेदान्तार्थसंप्रदायकदित्यर्थः । वेदविद्देदार्थविदेव चाहम् १५ ॥ आ० टी० । इतश्च सर्वात्मत्वेन सर्वव्यवहारास्पदत्वमीश्वरस्येत्याह किं चेति । प्राणिजातं ब्रह्मादिपुत्तिकान्तमात्मतया बुद्धौ संनिविष्टत्वं तद्गुणदोषाणामशेषेण द्रष्टुत्वमतो बुद्धिमध्यस्थगुणदो- घद्रष्टुत्वादिति यावत् । मत्तः सर्वकर्माध्यक्षाज्जगद्यन्त्रसूत्रधारादित्यर्थः । प्राणिनां स्मृतिज्ञानयोस्त- दुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यादित्याशङ्कयाह येपामिति । स्मृतिर्जन्मान्तरादावनु- भूतस्य परामर्शो देशकालस्वभावविप्रकृष्टस्यापि ज्ञानमनुभवो, धर्माधर्माभ्यां विचित्रं कार्य कुर्वतो नेश्वरस्य वैषम्यमिति भावः । वेदवेद्यं परं ब्रह्म भगवतोऽन्यदिति शङ्कां वारयति वेरिति । वे- दात्मनां पौरुषेयत्वं परिहरति वेदेति । तदर्थसंप्रदायप्रवर्तकत्वार्थ तदर्थयाथातथ्यज्ञानवत्त्वमाह वेदार्थेति ॥ १५ ॥ प० टी० । अथ न केवलमन्नान्नादिविभूतिरूपेण देहमात्रे तिष्ठामि किं तु माक्षित्वादपी- पीत्याह सर्वस्येति । अहं सर्वस्य प्राणिजातस्य हृद्याकाशे संनिविष्टोऽन्तर्यामित्वेन प्रविष्टः । कुतो ज्ञातमित्याह मत्त इति । यतो मत्तः, सकाशात्पूर्वानुभूतार्थविषया स्मृतिर्भवति ततो ज्ञानं विषयन्द्रिय- संयोगजं वर्तमानमपोहनं च तयोः प्रमोषः, अथोपसमीपे ऊह्यते तक्यते यत्पूर्व दृष्टमासीत्तदैवेदमि- त्याकारण । अथैतदनुभवरूपज्ञानाभावेऽन्यमुपायमाह वेरिति । सर्ववदैः संहिताब्राह्मणारण्यक- रूपैरहमेवातद्वयावृत्त्या वेद्यो ज्ञातव्योऽस्म्येवकारेण क्षुद्रदेवताव्युदासः । परं तु न साहात्वर्तव्य इत्याह वेदान्तकृदिति । वेदान्तानुपनिषदः करोतीति वेदान्तकृद् उप समीपेऽर्वागेव निपीदन्ति पर्य- वस्यन्तीत्युपनिषदस्तदेव कथयति नति नेति । न ह्यस्मात्परमस्तीत्यादिवाक्यैस्तथा च वेदान्तप्वहमेष निमित्तीभूत इत्यर्थः । अथैतवेदवाक्योक्तपरमरहस्योपदेष्टा परमगुरुरहमेवास्मीत्याह वेदविदिति । यहाहमेव वेदविन्न तु वेदो मां वेत्ति । येनेदं सर्व विजानाति तं केन विजानीयाद् ' इतिश्रुतेः ॥ १५ ॥ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ॥ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ भगवत ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेप उक्तो विशिष्टोपाधि- कृतो यदादित्यगतं तेज इत्यादिना, अथाधुना तस्यैव क्षराक्षरोपाधिप्रविभक्त- तया निरुपाधिकस्य केवलस्य स्वरूपनिर्दिधारयिषयोत्तरश्लोका आरभ्यन्ते तत्र

पञ्चदशोध्यायः।
४३१
सर्वमेवातीतानागतानन्तराध्यायार्थजातं त्रिधा राशीकत्याह हाविमाविति । हा-
विमौ पृथग्राशीकृती पुरुषावित्युच्येते लोके संसारे क्षरश्च क्षरतीति क्षरो विना-
श्येको राशिरपरः पुरुषोऽक्षरस्तद्दिपरीतो भगवतो मायाशक्तिः क्षराख्यस्य पुरु-
पस्योत्पत्तिबीजमनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षरः पुरुष उच्यते ।
की तो पुरुषावित्याह स्वयमेव भगवान् क्षरः सर्वाणि भूतानि समस्तं विका-
रजातमित्यर्थः, कूटस्थः कूटो राशिरिव स्थितः, अथवा कूटो मायावञ्चना
जिलं कुटिलता वेति पर्यायाः, अनेकमायादिप्रकारेण स्थितः कूटस्थः संसार-
बीजानन्त्यान्न क्षरतीत्यक्षर उच्यते ॥ १६ ॥
आ०.टी० । उत्तरश्लोकानां तात्पर्य वक्तुं वृत्तं कीर्तयति भगवत इति । विशिष्टोपाधिरा-
दित्यादिः । संप्रत्यध्यायसमाप्तेरुत्तरसंदर्भस्य तात्पर्यमाह अथेति । न केवलं निरुपाधिकात्मस्वरूप-
निर्धारणायोत्तरग्रन्थः किं तु सर्वस्यैव गीताशास्त्रस्यार्थनिर्णयार्थमित्याह तत्रोति । क्षराक्षरोपाधिभ्या
परमात्मना च राशित्रयमुक्तेन सर्वात्मत्वेनाशुयादिदोपप्रसक्तायुक्तं द्वाविमाविति । पुरुपोपाधित्वात्
पुरुषत्वं न साक्षादिति विवक्षितत्वादाह पुरुपाविति । परं पुरुषं व्यावतयति भगवत इति । तत्र
कार्यलिङ्गकमनुमानं सूचयति क्षराख्यस्यति । मायाशक्ति विना भोक्तृणां कर्मादिसंस्कारादेवोक्तका-
योत्पत्तिरित्याशक्य तस्य निमित्तत्वेऽपि मायाशक्तिरुपादानमिति मत्वाह अनेकति । कामकर्मा-
दीत्यादिशब्देन ज्ञानं गृह्यते प्रकृति पुरुपं चैवेति प्रकृतयोरिह ग्रहणमिति शङ्कामाकाङ्क्षाद्वारा नि.
वारयति को ताविति । कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति संपिण्डितमर्थमाह अनेकेति ।
• तस्य कथमक्षरत्वं विना ब्रह्मज्ञानमनाशादित्याह संसारति ॥ १६ ॥
प० टी० । अथ वेदेन क्षराक्षरातीतत्वेन वेद्यं स्वकीयं सूत्रात्मरूपमाह द्वाविति । इमा-
वनुभूयमानौ द्वौ पुरुपौ लोके प्रसिद्धी । तावाह क्षरश्चाक्षरेति । तत्र सर्वाणि भूताति शरीराणि नश्व-
रत्वात्क्षर इत्युच्यन्ते । कूटे स्थूलप्रपञ्चे तिष्ठति कुटस्थश्चेतनारूपः सोऽक्षर इत्युच्यते ॥ १६ ॥
उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः ॥
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥१७॥
• उत्तम इति । आभ्यां क्षराक्षराभ्यां विलक्षणः क्षराक्षरोपाधियदोपे
णास्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभाव उत्तम उत्कृष्टतमः पुरुषस्त्वन्योऽत्यन्तवि-
लक्षण आभ्यां परमात्मेति । परमश्वासौ देहाद्यविद्याकृतात्मभ्योऽन्नमयादिभ्यः
पञ्चकोशेभ्य आत्मा च सर्वभूतानां प्रत्यक्चेतनः परमात्मेत्युदाहृत उक्तो वे-
दान्तेषु स एव विशिष्यते यो लोकत्रयं भूर्भवःस्वराख्यं स्वकीयया चैतन्यबल-
शक्त्याविश्य प्रविश्य विभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयत्यव्ययो नास्य
व्ययो विद्यत इत्यव्यय ईश्वरः सर्वज्ञो नारायणाख्य ईशनशीलः ॥ १७ ॥

४४०
श्रीमद्भगवद्गीता-
आ० टी० । कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति. आभ्यामिति । वैल-
क्षण्यफलमाह क्षरेति । उपाधिद्वयरुतगुणदोषास्पर्शे फलितमाह नित्येति । आभ्यां क्षराक्षराभ्या-
मिति यावत्, उत्तमोऽन्य इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्टयर्थम् । जडवर्गस्यान्य-
त्वकृतं स्वातन्त्र्यं निरस्यति स एवेति । लोकत्रयमित्युपलक्षणं सर्व जगदपि विवक्षितं चैतन्यमेव
बलं तत्र शक्तिीया तयेति यावत् । जगद्धारणे परस्य व्यापारान्तरं वारयति स्वरूपति । न चा-
स्यान्यो धारयिता स्वतोऽचलत्वादित्याह अव्यय इति।"संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते
विश्वमीशः" इति श्रुत्यर्थ गृहीत्वाह ईश्वर इति ॥ १७ ॥
प० टी०। अथ ताभ्यामतीतं पुरुपोत्तममाह उत्तम इति । अन्यस्तद्विलक्षण उत्तमः पुरुषो
भवति स एव परमात्मेत्युदाहृतः प्रोक्तः । य आसमन्तादाविश्य लोकत्रयं बिभर्ति "तत्सृष्ट्वा तदेवा-
नुप्राविशत्" इति श्रुतेः । अव्ययो निर्विकारः सन्नीश्वरो नियन्ता सूत्रात्मा ॥ १७ ॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः॥
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥१८॥
तस्य नामनिर्वचनप्रसिद्धार्थवत्त्वं नाम्नो दर्शयनिरतिशयोऽहमीश्वर
इत्यात्मानं दर्शयति भगवान् यस्मादिति । यस्मात् क्षरमतीतोऽहं संसारमाया-
वृक्षमश्वत्थाख्यमतिकान्तोऽहमक्षरादपि संसारवृक्षवीजभूतादपि चोत्तम उत्क-
टतम ऊर्ध्वतमो वातः क्षराक्षराभ्यामुत्तमत्वादस्मि भवामि लोके वेदे च प्र-
थितः प्रख्यातः पुरुषोत्तम इत्येवं मां भक्तजना विदुः कवयः काव्यादिषु च
पुरुषोत्तम इत्यनेनाभिज्ञानेनाभिगृणन्ति ॥ १८ ॥
आ० टी० । किं च लोकवेदयोर्भगवतो नामप्रसिद्ध्या सिद्धमप्रपञ्चत्वमित्याह यथेति । अ-
श्वकर्णादिवदस्य नानो रूढत्वादर्थविशेषाभावाद्गवतोऽपि लौकिकेश्वरवदीश्वरत्वं सातिशयमिति ने-
त्याह तस्येति । यस्मादित्यस्यापेक्षितं निक्षिपति अत इति । उत्तमः पुरुष इति वाक्यशेषः ॥१८॥
प० टी० । इदृशं पुरुषोत्तमत्वमात्मनो नामनिर्वचनेन दर्शयति यस्मादिति । यस्मात्क्षरं
जडमतिक्रान्तोऽहं नित्ययुक्तत्वात् । अक्षराच्चेतनवर्गादप्युत्तमश्च नियन्तृत्वाद् अतो लोके वेदे च
पुरुषोत्तमो देहाभिमानिनो जीवस्य पुरुष इति संज्ञा तस्मादुत्तमः पुरुषोऽहमिति लोके प्रसिद्धः ।
अथ न हि निर्मूला प्रसिद्धिरिति न्यायेन "एतावानस्य महिमाऽतो ज़्यायांश्च पूरुषः” इति वेदे-
च प्रथितः प्रख्यातः । तदुक्तमथर्ववेदेपि-'इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादपि महा-
नात्मा महतो ऽव्यक्तमुत्तमम् । अव्यक्तात्परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तु-
रमृतत्वं च गच्छति" इति स्पष्टार्थम् ॥ १८ ॥
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ॥
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९॥

पञ्चदशाध्यायः।
अथेदानीं यथानिरुक्तमात्मानं यो वेद तस्येदं फलमुच्यते यो मा-
मिति । यो मामीश्वरं यथोक्तविशेषणमेवं यथोक्तेन प्रकारेणासंमूढः सं.
मोहवर्जितःसन् जानात्ययमहमस्मीति पुरुषोत्तमं स सर्ववित् सर्वात्मना सर्व वे-
त्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मचिन्तया हे भारत।।१९॥
आ० टी० । आत्मनोऽप्रपञ्चत्वं ज्ञानफलोत्या स्तौति अथेति । यथोक्तविशेषणं सवात्म-
त्वादिविशेषणोपेतमिति यावत् । क्षराक्षरातीतत्वं यथोक्तप्रकारः संमोहवर्जितः संमोहेन देहादिष्वा-
त्मात्मीयत्वबुद्ध्या रहित इत्यर्थः । भगवन्तं जानतः सर्ववित्त्वं तस्यैव सर्वात्मना मेयत्वादित्याह स
सर्वविदिति । सर्वात्मनि मय्येवासक्तचित्तत्वेनेत्यर्थः ॥ १९ ॥
प० टी० । तज्ज्ञानस्य फलमाह य इति । एवं निरुक्तप्रकारेणासंमूढो निश्चितमतिः सन्
यो मां पुरुषोत्तमं जानाति स सर्वभावेन सर्वप्रकारेण मामेव भजति ततः सर्ववित् सर्वज्ञा
भवति ॥ १९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥२०॥
इति श्रीमहाभारते शतसाहस्रया संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु-
नसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अस्मिन्नध्याये भगवत्तत्त्वज्ञानं मोक्षफलमुक्त्वाथेदानीं तत् स्तौति
गुह्यतममिति । इत्येद् गुह्यतमं गोप्यतममत्यन्तं रहस्यमित्येतत् किं तच्छास्त्रं
यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते तथाप्ययमेवाध्याय इह शास्त्रमित्युच्यते
स्तुत्यर्थ प्रकरणात् सर्वो हि गीताशास्त्रार्थोऽस्मिन्नध्याये समासेनोक्तो न केवलं,
सर्वश्च वेदार्थ इह परिसमाप्तो 'यस्तं वेद स वेदवित्' 'वेदैश्च सर्वैरहमेव वेद्य'
इति चोक्तमिदमुक्तं कथितं मया हेऽनघ । एतच्छास्त्रं यथादर्शितार्थ बुद्ध्वा बु-
द्धिमान् स्याद्भवेद् नान्यथा कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृत-
कत्यो विशिष्ट जन्मप्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्व भगवत्तत्त्वे विदिते
कृतं भवेदित्यर्थः। न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः। सर्व
कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति चोक्तम् ‘एतद्धि जन्मसामग्र्यं ब्राह्म-
णस्य विशेषतः। 'प्राप्यैतत् कृतकृत्त्यो हि हिजो भवति नान्यथा' इति च मानव
वचनं यत एतत् परमार्थतत्त्वमतः श्रुतवानसि ततः कृतार्थस्त्वं भारतेति ॥२०॥
इति श्रीपूज्यपादशंकरभगवतः कृती गीताभाष्ये पुरुषोत्तमयोगो नाम
पञ्चदशोऽध्यायः॥ १५ ॥

- १४२ श्रीमद्भगवद्गीता- आ० टी० । अध्यायार्थमन्द्योपसंहारश्लोकमवतारयति अस्मिन्नित्ति । सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन्नध्याये तत्प्रयोगः स्यादित्याशङ्कयाह यद्यपीति । संनिहितमध्यायं स्तोतुमपि कुतस्तत्र शास्त्रशब्दस्तदर्थाभावात्तत्राह सर्वो हीति । गीताशास्त्रार्थस्य सर्वस्यात्र संक्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति किं तु वेदार्थस्यापि सर्वस्थानसमाप्तयुक्तं शास्त्रपदमित्याह नेति । तत्र गमकमाह यस्तामिति । भगवत्तत्त्वज्ञाने कृतकृत्यतेत्येतदु- पपादयति विशिष्टेति । नान्यथेत्युक्तं प्रपञ्चयति न चेति । सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वान्न कर्तव्यसमाप्तिरित्याशङ्कयाह सर्वमिति । तत्त्वज्ञान कृतार्थतेति तत्र मनोरपि संमतिमाह एतद्धीति । भारतेति संबोधनतात्पर्यमाह यत इति । तदनेनात्मनो देहाद्यतिरिक्तत्वं चिद्रूपत्वं सर्वात्मत्वं कार्य- कारणविनिर्मुक्तत्वेनाप्रपञ्चत्वं तस्याखण्डैकरसब्रह्मात्मत्वज्ञानादशेपपुरुषार्थपरिसमाप्तिरित्युक्तम् ॥२०॥ इत्यानन्दगिरिकतगीताभाष्यटीकायां पञ्चदशाध्यायः ॥ १५ ॥ प० टी० । अथाध्यायार्थमुपसंहरति इतीति । इत्यनेन संक्षेपप्रकारेण गुह्यतममतिरहस्यं सं- पूर्ण शास्त्रमेव मयोक्तं न पुनरध्यायमानं भोऽनघ शुद्धान्तःकरण एतद् बुध्वा सम्यग्ज्ञात्वा यः कोऽ- पि बुन्द्रिमांस्तत्त्वज्ञानवान् कृतकृत्यश्च स्यात् किं पुनर्भवानित्यर्थः ॥ २० ॥ अथाध्यायतात्पर्यम्-ब्रह्माख्यं मूलमूर्ध्व शिरसि विनयतेऽर्वावरा यादिशाखास्त्रैगुण्यौः पल्लवाः स्युर्विवयपरिणतिर्वासनाः पणजालम । वृक्षस्थूले प्रपञ्चे पुरुषवरमुपाश्रित्य मूलं विदित्वाऽसंगेन- च्छिन्धि शेषं हरिरिति दशमे पञ्चयुक्ते जगाद ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भग- चद्गीताटीकायां परमार्थप्रपायां पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥ इति पञ्चदशाध्यायः ॥ १५ ॥ .. पोडशोऽध्यायः। श्रीभगवानुवाच ॥ अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ॥ दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥ दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमेऽध्याये सूचितास्तासां विस्तारप्रदर्शनायाभयं सत्त्वसंशुद्धिरित्यादिरध्याय आरभ्यते, तत्र संसारमोक्षाय दैवीप्रकतिर्निवन्धनायासुरी राक्षसी चेति दैव्यादानाय प्रदर्शनं क्रियते इतरयोः परिवर्जनाय श्रीभगवानुवाच अभयमिति । अभयमभीरुता सत्त्वसंशुद्धिः सत्त्व- स्यान्तःकरणस्य संव्यवहारेषु परवञ्चनमायान्तादिपरिवर्जनं शुद्धभावेन व्यवहा- र इत्यर्थः, ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रत आचार्यतश्चात्मादिपदार्थानामवग- मोऽवगतानामिन्द्रियाद्युपसंहारेणैकाग्रतया स्वात्मसंवेद्यतापादनं योगस्तयोर्ज्ञान- योगयोर्व्यवस्थितिय॑वस्थानं तनिष्ठतैषा प्रधाना दैवी सात्त्विकी संपद् यत्र च

षोडशाध्यायः।
४४३
येषामधिकतानां या प्रकृतिः संभवति सात्त्विकी सोच्यते, दानं यथाशक्ति सं-
विभागोऽन्नादीनां, दमश्च बाह्यकरणानां, उपशमोऽन्तःकरणस्योपशमं शान्ति
वक्ष्यति, यज्ञश्च श्रौतोऽग्रिहोत्रादिः, स्मार्तश्च देवयज्ञादिः, स्वाध्याय ऋग्वेदाद्य-
ध्ययनमदृष्टार्थ, तपो वक्ष्यमाणं शारीरादि, आर्जवमृजुत्वं सर्वदा ॥ १ ॥
आ० टी० । व्यवहितेन संवन्धं वदन्नध्यायान्तरमवतारयति देवीति । दैवी सूचिता र -
ससीमासुरी चैव प्रकृति मोहिनीमित्यादाविति शेषः । प्रकृतीनां विस्तरेण दर्शनं कुत्रोपयोगीत्याश-
कय विभज्योपयोगमाह संसारेति । अतीत चाध्याये कर्मानुबन्धीन्यधश्च मूलान्यनुसंततानीत्यत्र
कर्मव्यङ्गया वासनाः संसारस्यावान्तरमलत्वेनोक्तास्ता मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः
सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ता आविस्तितीर्घभगवानुक्तवानित्याह भगवानिति ।
अभीरुता शास्त्रोपदिष्टेऽथै संदेहं हित्वानुष्ठाननिष्ठत्वं, परवञ्चना परस्य व्याजेन वशीकरणम्, माया
हृदयेऽन्यथा कृत्वा बहिरन्यथा व्यवहरणम्, अनृतमयथादृष्टं कथनमादिपदेन विप्रलम्भविभ्रमादिग्रहः।
उक्तमथ संक्षिप्याह अशुद्धेति । एषेत्यभयाद्या ज्ञानादिस्थित्यन्ता त्रिधोक्तेति यावत् । तामेव सात्त्विकी
प्रकृति प्रकटयति यत्रेति । ज्ञाने कर्मणि वाधिकृतानामभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी
संपदित्यर्थः । महाभाग्यानामत्युत्तमा दैवी संपदक्ता संप्रति सर्वेषां यथासंभवं संपदं व्यपदिशति दा-
नमिति । बाह्यकरणविशेषणे कारणमाह अन्तःकरणस्येति । देवयज्ञादिरित्यादिशब्देन पितृयज्ञो
भूतयज्ञो मनुष्ययनश्चेति त्रयमुक्तम् । ब्रह्मयज्ञस्य स्वाध्यायेन पृथक्करणात् ॥ १ ॥
प० टी० । पूर्वाध्या यान्ते 'एतद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च' इत्युक्तं तर्हि क एतद बुद्ध्वा क-
तकृत्यो भवत्यबुद्ध्वा च कः संसारी भवतीति विवेक्तुं देवासुरसंपत्तिकथनाय पोडशाध्यायप्रवृत्ति-
स्तत्र प्रथमं तत्त्वज्ञानाधिकारिणं निरूपयितुं भगवान् देवी संपत्तिमाह अभयमिति त्रिभिः। अभयं
भयरहित्य, सत्त्वस्य चित्तशुद्धिः प्रसन्नता, ज्ञानयोग आत्मज्ञाने व्यवस्थितिः परिनिष्ठा, दानं स्व-
भाज्यस्यान्नादेर्यथोचितं संविभागः, दमो बाह्येन्द्रियसंयमः यज्ञो यथाधिकारं दर्शपौर्णमासादिः,
स्वाध्यायो ब्रह्मयज्ञादिभिर्जपयज्ञः, तपः शारीरादि त्रिविधं वक्ष्यमाणम्, आर्जवमवक्रता ॥ १ ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ॥
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥२॥
किं च अहिंसति । अहिंसाहिंसनं प्राणिनां पीडावर्जनं, सत्यमप्रिया-
नृतवर्जनं यथाभूतार्थवचनम् , अक्रोधः परैराकष्टस्याभिहतस्य वा प्राप्तस्य को-
धस्योपशमनं, त्यागः संन्यासः पूर्व दानस्योक्तत्वात्, शान्तिरन्तःकरणस्योपश-
मः, अपैशुनमपिशुनता परस्मै पररन्ध्रप्रकटीकरणं पैशुनं तदभावोऽपैशुनं, दया
भूतेषु दुःखितेषु, अलोलुप्त्वमिन्द्रियाणां विषयसन्निधावविक्रिया, मार्दवं मृदु-
ताक्रौर्य, हीर्लज्जा, अचापलमसति प्रयोजने वाक्पाणिपादादीनामव्यापा-
रयितृत्वम् ॥ २॥

४४४
श्रीमद्भगवद्गीता-
आ० टी० । दैवी संपदमाभिजातस्य विशेषणान्तराणि दर्शयति किं चति । त्यागशब्देन
यागदानं कस्मान्नोच्यते तत्राह पूर्वमिति । लज्जाकार्यनिवृत्तिहेतुगऱ्यानिमित्ता मनोवृत्तिः ॥ २ ॥
प० टी० । अहिंसेति । अहिंसा परपीडानिवृत्तिः, सत्यं यथार्थभाषणम्, अक्रोधस्ताडित-
स्यापि चित्ताक्षोभः । तदुक्तम्-'क्रुद्धे स्मेरमुखावधारणमथाविष्टे प्रसादक्रमो व्याक्रोशे विनयोक्तिरात्म-
दरितोच्छेदोत्सवस्ताडने ' इति । त्याग औदार्यम्, शान्तिश्चित्तोपरतिः, अपैशूनं परापवादवर्जनम्,
दीनेषु भूतेषु दया, अलोलुप्त्वम् अत्र वर्णलोपश्छान्दसः अलोलुपत्वं, मार्दवं मृदुत्वमक्रूरता, ही-
रकार्यप्रवृत्तौ लोकलज्जा, अचापलं व्यर्थक्रियाराहित्यमेकत्रावस्थितिर्वा ॥ २ ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥
भवन्ति संपदं देवीमभिजातस्य भारत ॥३॥
किं च तेज इति । तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः, क्षमाकृष्टस्य
ताडितस्य वान्तर्विक्रियानुत्पत्तिरुत्पन्नायां विक्रियायां प्रशमनमक्रोध
इत्यवोचाम, इत्थं क्षमाया अक्रोधस्य च विशेषः, धृतिर्देहेन्द्रियेष्ववसादं प्रा-
प्लेषु तस्य प्रतिषेधकोऽन्तःकरणत्तिविशेषो येनोत्तम्भितानि करणानि देहश्च
नावसीदन्ति, शौचं हिविधं मृज्जलाभ्यां कृतं बाह्यमाभ्यन्तरं च मनोबुद्ध्योनॆर्मल्यं
मायारागादिकालुष्याभाव एवं हिविधं शौचम्, अद्रोहः परजिघांसाभावोऽहिं-
सनं, नातिमानितात्यर्थ मानोऽतिमानः स यस्य विद्यते सोऽतिमानी तद्भावोऽति-
मानितात्मनः पूज्यतातिदायभावनाभाव इत्यर्थः । भवन्त्यभयादीन्येतदन्तानि सं-
पदमभिजातस्य किं विशिष्टां संपदं देवी देवानां संपदं ताममिलक्ष्य जातस्य
देवीविभत्यर्हस्य भाविकल्याणस्येत्यर्थो हे भारत ॥ ३ ॥
आ० टी० । दैवी संपदं प्राप्तस्य विशेषणान्तराण्यपि सन्तीत्याह किं चंति । व्यावर्त्य
कीर्तयति नेति । अध्यात्माधिकारादिति शेपः । क्षमाक्रोधयारेकार्थत्वेन पोनरुक्तयमाशङ्कय परि-
हरति उत्पन्नायामिति । तयोरेवं विशेपान्न पौनरुक्तयं फलतीत्याह इत्थमिति । वृत्तिविशेषमेव
विशदयति येनेति । शौचत्य दैविध्यमेव प्रकटयति मज्जलेत्यादिना । नैर्मल्यमेव स्फोरयति
मायेति । उक्तमुपसंहरति एवमिति । अतिमानित्वाभावमेव व्यक्ति आत्मन इति । कस्यैतानि
विशेषणानीत्यपेक्षायामाह भवन्तीति । साधकस्य मनुष्यदेहस्थस्यैव कथं दैवीं संपदमभिलक्ष्य जात.
त्वमित्याशङ्कयाह दैवीति ॥ ३ ॥
५० टी । तेज इति । तेनः प्रागल्भ्यम्, क्षमा परिभवादिषु क्रोधप्रतिबन्धः, धृतिश्चित्तस्थि-
रीकरणम्, शौचं बाह्यान्तरशुद्धिः, अद्रोहो द्वेषराहित्यम्, नातिमानिता स्वस्मिन् पूज्यताभिमानरा-
हित्यम् । एतान्यभयादीनि षड्विंशतिलक्षणानि दैवी संपदमभिलक्ष्य जातस्य निप्पन्नस्य भवन्ति ॥३॥
दम्भो दोऽभिमानश्च क्रोधः पारुष्यमेव च ॥
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥४॥

४४५ षोडशाध्यायः । अथेदानीमासुरी संपदुच्यते, दम्भो धर्मध्वजित्वम् , दो धनस्वजनादि- निमित्तः, उत्सेकोऽतिमानः, पूर्वोक्तः क्रोधश्च, पारुष्यमेव परुषवचनं यथा काणं चक्षुष्मान्, विरूपं रूपवान्, हीनाभिजनमुत्तमाभिजन इत्याद्यज्ञानं चाविवेक- ज्ञानं मिथ्याज्ञानं कर्तव्याकर्तव्यादिमिथ्याप्रत्ययविषयमभिजातस्य पार्थ किम- भिजातस्येत्याह असुराणां संपदासुरी तामभिजातस्येत्यर्थः ॥ ४ ॥ आ० टी० । आदेयत्वेन दैवीं संपदमुक्त्वा हेयत्वेनासुरीं संपदमाह अथेति । उत्सेको मदो महदवधीरणे हेतुः, आत्मन्युत्कृष्टत्वाध्यारोपोऽतिमानः, क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रकृति- हेतुनेत्रादिविकारलिङ्गोऽन्तःकरणवृत्तिविशेषः । परुषो निष्ठुरः प्रत्यक्षरुक्षवाक् तस्य भाव. पारुष्यं, तदुदाहरति यथेति । तामभिजातस्य दम्भादीन्यज्ञानान्तानि भवन्तीत्यनुपज्यते ॥ ४ ॥ ५० टी० । अथासुरी संपदमाह दम्भइयादितः । दम्भो धर्मध्वजित्वम्, दो धनविद्यानिमित्त- श्रितोत्सेकः, अभिमानोऽहंभावः, क्रोधः कोपातिशयः, पारुप्यं निष्टुरत्वम्, अज्ञानमविवेकः आसु- रीमित्युपलक्षणम् । असुराणां राक्षसानां संपत्तिस्तामभिलक्ष्य जातस्यैतानि दम्भादिनि भवन्ति ॥ ४ ॥ दैवी संपद् विमोक्षाय निबन्धायासुरी मता ॥ मा शुचः संपदं देवीमभिजातोऽसि पाण्डव ॥५॥ अनयोः संपदोः कार्यमुच्यते दैवीति । दैवी संपद् या सा विमोक्षाय संसारबन्धनात्, निबन्धाय नियतो धन्धो निबन्धस्तदर्थमासुरी संपन्मताभिप्रेता तथा राक्षसी, तत्रैवमुक्ते सत्यर्जुनस्यान्तर्गतं भावं किमहमासुरीसंपयुक्तः किंवा देवीसंपयुक्त इत्येवमालोचनारूपमालक्ष्याह भगवान मा शुचः शोकं मा कार्षीः संपदं दैवीमभिजातोऽसि हे पाण्डव अभिलक्ष्य जातोऽसि भावि- कल्याणस्त्वमसीत्यर्थः ॥ ५ ॥ आ० टी० । अनयोरिति । कार्य फलविभागः । आसुरीत्युपलक्षणं राक्षसी चेति द्रष्टव्य- मित्याह तथेति । फलविभागे संपदोरेवमुक्त प्रतीत्यार्जुनस्याभिप्रायं भगवतो वचनमित्याह तत्रेति । तत्राभिजात्यं हेतुं करोति पाण्डवेति ॥ ५ ॥ प० टी० । अथ तयोः संपदोः कार्य दर्शयति दैवी संपदिति । दैवी या संपत्तया युक्तो मयोपदिष्टे तत्वज्ञानेऽधिकारी स्यात् । आसुर्या संपदा युक्तो नित्यसंसारी एतच्छत्वा किमहमत्रा- धिकारी न वेति संदिहानमर्जुनमाश्वासयन्नाह हे पाण्डव त्वं मा शुचः शोकं माकापीः यतस्त्वं देवा संपदमभिजातोऽसि ॥ ५॥ द्वौ भूतस लोकेऽस्मिन् दैव आसुर एव च ॥ दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥६॥ , प्रत्ययइति पा. लि..

श्रीमद्भगवद्गीता-
हौ भूतेति । हौ दिसंख्याको भूतसौँ भूतानां मनुष्याणां सर्गों सू-
ष्टिभूतसौ सृज्येते इति सौँ भूतान्येव सृज्यमानानि दैवासुरसंपद्युक्तानि
है। भूतसर्गावित्युच्येते, “इया ह प्राजापत्या देवाश्चासुराश्व” इति श्रुतेः। लोकेऽ-
स्मिन् संसार इत्यर्थः । सर्वेषां हैविध्योपपत्तेः कौ तौ भूतसर्गावित्युच्यते प्र-
कृतावेव दैव आसुर एव च । उक्तयोरेव पुनरनुवादे प्रयोजनमाह देवो भूतसर्गो-
ऽभयं सत्त्वसंशुद्धिरित्यादिना विस्तरशो विस्तरप्रकारैः प्रोक्तः कथितो न त्वा-
सुरो विस्तरशोऽतस्तत्परिवर्जनार्थमासुरं पार्थ मे मम वचनादुच्यमानं विस्तरशः
शृण्ववधारय ॥ ६॥
आ० टी० । निर्दयानां रक्षसां संपत्तृतीयास्ति सा कस्मान्नोक्तेत्याशङ्कयासुर्यामन्त वादि-
स्याह द्वाविति । भूतानां वैविध्ये मानत्वेनोद्गीथब्राह्मणमुदाहरति द्वया हति । संपट्टययुतेभ्योऽति-
रिक्तानामपि प्राणिभेदानां संभवात् कुतो भूतानां द्वित्वनियतिरित्याशझ्याह सर्वेषामिति ॥ ६ ॥
प० टी० । अथेयमासुरी संपत्सर्वथैव त्याज्यत्येतदर्थमासुरी- संपदं प्रपञ्चयितुमाह द्वाविति ।
द्वौ द्विप्रकारौ भूतानां सर्गी मे मत्तः शृणु असुरराक्षसप्रकृत्यारेकत्वाद्वावित्युक्तम्, अतो 'राक्षसी-
मासुरीं चैव प्रकृति मोहिनी श्रिताः' इति नवमाध्यायोक्तप्रकृतित्रैविध्येनाविरोधः । स्पष्ट-
मन्यत् ॥ ६॥
प्रवृत्तिं च निरत्तिं च जना न विदुरासुराः ॥
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७॥
अध्यायपरिसमाप्तेरासुरी संपत् प्राणिविशेषणत्वेन प्रदश्यते प्रत्यक्षी-
करणेन च शक्यतेऽस्याः परिवर्जनं कर्तुमिति, प्रवृत्तिमिति प्रवृत्तिं च प्रव-
तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिस्तां निवृत्तिं च तद्दिपरीतां यस्मा-
दनर्थहेतोनिवर्तितव्यं सा निवृत्तिस्तां च जना आसुरा न विदुर्न जानन्ति
न केवलं प्रवृत्तिनिवृत्ती एव न विदुर्न शौचं नापि चाचारो न सत्यं तेषु वि-
द्यते अशौचा अनाचारा मायाविनोऽनृतवादिनो ह्यासुराः ॥ ७ ॥
आ० टी० । नन्वध्यायशेषेणासुरसंपदर्शनमयुक्तं तस्यास्त्याज्यत्वेन पङ्कप्रक्षालनन्यायाव-
तारादित्याशङ्कयाह प्रयक्षीकरणेनेति । वर्मनीयामासुरी संपदं विवृणोति प्रवृत्तिं चेति । तां वि-
हितां प्रवृत्ति न जानन्तीत्यर्थः । तां च निषिद्धां क्रियां न जानन्तीति संबन्धः । न शौचमित्यादे-
स्तात्पर्यमाह अनाचारोति । शौचसत्ययोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगु-
पादानम् ॥ ७ ॥
१० टी० । अथासरी विस्तरशो निरूपयति प्रवृत्तिमियादितो द्वादशभिः । असुरस्व-
भावा जना धर्मे प्रवृत्तिमधर्मे निवृत्तिमिति न जानन्ति । अतः शौचमाचारः सत्यं च ते-
षु नास्ति ॥ ७ ॥

षोडशाध्यायः ।
४४५
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ॥
अपरस्परसंभूतं किमन्यत् कामहैतुकम्॥ ८॥
किं च असत्येति । असत्यं यथा वयमनृतप्रायास्तथेदं जगत् सर्वम-
सत्यमप्रतिष्ठं च नास्य धर्माधर्मी प्रतिष्ठातोऽप्रतिष्ठं चेति त आसुरा जना ज-
गदाहुरनीश्वरं न च धर्माधर्मसव्यपेक्षकोऽस्य शासितेश्वरो विद्यत इत्यतोऽनी-
श्वरं जगदाहुः । किं चापरस्परसंभूतं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसं-
योगाज्जगत् सर्व संभूतं किमन्यत् कामहैतुकं कामहेतुकमेव कामहैतुक-
मन्यज्जगतः कारणं न किं चिददृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः
काम एव प्राणिना कारणमिति लोकायतिकदृष्टिरियम् ॥ ८ ॥
प० टी० । ननु वेदोक्तयोर्धर्माधर्मयोः प्रवृत्तिनिवृत्ती कथं न विदुः कथं वा धर्माधर्मयोरनङ्गी-
कारे जगतः मुखदुःखादिव्यवस्था स्यात् कथं वा शौचाचारविपयामीश्वराज्ञामतिवर्तेरन्नीश्वरानङ्गीकारे
च कुतो जगदुत्पतिः स्यादित्याशङ्कयाह अससमिति । तेऽसुरा जगदसत्यमप्रतिष्ठमनीश्वरं चाहुः ।
न विद्यते सत्यं ब्रह्म वेदादिशब्दब्रह्म वेदादि यस्मिन् कुत्रापि प्रामाण्यं न मन्यन्त इत्यर्थः । अत
एव नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थितियस्मिन् । स्वाभाविकं जगद्वैचित्र्यमाहुः । अत एव ना-
स्तीश्वरः कर्ता व्यवस्थापकश्च यस्य तादृशं जगदाहुः । तर्हि कुतोऽस्य जगत उत्पत्ति वदन्ती-
त्याह अपरस्परसंभूतम् । अपरःशब्दः सकारान्तः । अपरश्च परश्च अपरस्परं स्त्रीपुरूपं मिथुनं तस्मा-
संभवतीति । किंभूतं कामहैतुकम् । कामः कन्दों हेतुर्यस्य न तु मुप्रजार्थम् । अतो मिथुनाद-
न्यत् किमस्य कारणं न कि चिदित्यर्थः । एतां लोकायतिकानां दृष्टि दर्शनमवष्टभ्याश्रित्य नष्टो
नाशकवानात्मा येषां मतेऽत एवाल्पबुद्धयो दृष्टान्तमात्रमतय उग्रं संसारभयावहं कर्म
येषां ते तथा जगतः क्षयायाधःपाताय प्रभवन्त्युद्भवन्त्यत एवाहिताः, यहा 'प्रवृत्तिं च निवृत्ति
च ' इत्यादिना ये स्वमार्गबहिर्भूतास्त एवासुरशब्देनोक्ता न तु लोकायतिकाः । यतो 'दम्भो
दर्पोऽभिमानश्च' इत्यादिना आसुरलक्षणस्योक्तत्वाद् एवं त आत्मवत्सर्व जगदपि मन्यन्त इत्याह ।
असत्यमिति । असत्यं सत्यवादरहितं द्यूतवञ्चकाद्युपेतम् । अप्रतिष्ठं महत्वरहितं निर्लज्जत्वलोकाप-
वादभयवर्जितम् । अनीश्वरमितीश्वरनिग्रहभयवर्जितम् । नापि कर्तृत्वसापेक्षं किं त्वपरस्परसंभूत-
मिति पूर्ववत् । कामहैतुकं चेति पित्रादिभक्तिरहितम् ॥ ८ ॥
आ० टी० । असुराणां जनानां विशेषणान्तराण्यपि सन्तीत्याह किं चेति । विद्यत इत्या-
हुरिति पूर्वेण संबन्धः । शास्त्रैकगम्यमदृष्टं निमित्तीकस्य प्रकृत्यधिष्ठात्रात्मकेन ब्रह्मणा रहितं जग-
दिप्यते चेत् कथं तदुत्पत्तिरित्याशङ्कयाह किं चेति । किमन्यदित्यादेराक्षेपस्य तात्पर्यमाह न
किं चिदिति ॥ ८॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः॥
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥९॥

१४८
श्रीमद्भगवद्गीता-
एतामिति । एतां दृष्टिमवष्टभ्याश्रित्य नष्टात्मानो नष्टस्वभावा विभ्रष्ट-
परलोकसाधना अल्पबुद्धयो विषयविषयाल्पैव बुद्धियेषां तेऽल्पबुद्धयः प्रभ-
वन्त्युद्भवन्त्युग्रकर्माणः क्रूरकर्माणो हिंसात्मकाः क्षयाय जगतः प्रभवन्तीति
संबन्धः । जगतोऽहिताः शत्रव इत्यर्थः ॥ ९ ॥
आ० टी. । यथोक्ता दृष्टिब्रह्मदृष्टिवदिष्टैवेत्याशङ्कयाह एतामिति । प्रागुपदिष्टामेतां
लोकायतिकदृष्टिमवलम्ब्येति यावत् । नष्टस्वभावत्वमेव स्पष्टयति विभ्रष्टति । विषयबुद्धरल्पत्वं दृ-
एमात्रोद्देशेन प्रवृत्तत्वं, जगतः प्राणिजातस्येति यावत् ॥ ९ ॥
प० टी० । एतां दृष्टि दृष्टमात्रप्रतीतिमवष्टभ्याङ्गीकृत्य नष्टात्मानो विधिनिषधवजिता अत
एवाल्पबुद्धय उग्रकर्माणो जीवहिंसाद्यासुरतपोनिष्ठाः । तदुक्तम्-'स्त्रष्टारं सुखसंपदामपि वपुर्द्रष्टार-
मन्तर्गतं स्वात्मानं परिहाय मूढधिषणो देहात्मवादो जनः । पिण्डं पोपयति प्रतिक्षणपरद्रोहानृतैरेव
तद्राद्धान्तैरपराद्धमस्ति किमहो बौद्धादिकानामिह ' इति ॥ ९ ॥
काममाश्रित्य दुप्पूरं दम्भमानमदान्विताः॥
मोहाद् गृहीत्वा सद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥१०॥
ते च काममिति । काममिच्छाविशेपमाश्रित्यावष्टभ्य दुष्पूरमशक्यपू-
रणं दम्भमानमदान्विता दम्भश्व मानश्च मदश्च दम्भमानमदास्तैरन्विता मो-
हादविवेकतो गृहीत्वोपादायासद्ग्राहानशुभनिश्चयान् प्रवर्तन्ते लोकेऽशुचि-
व्रता अशुचीनि व्रतानि येषां तेऽशुचिव्रताः ॥ १० ॥
आ० टी० । तानेव दुराचारानसुरान् प्रकारान्तरेण विशिनष्टि ते चेति ॥ १० ॥
प० टी० । अथान्यानप्याह काममिति । दुःखेन पूरयितुमशक्यं काममभिलाषमाश्रित्या-
ङ्गीकृत्य दम्भमानमदादिभिरुपायैरन्विताः सन्तः क्षुद्रदेवताराधनादो प्रवर्तन्ते । किं कृत्वा असद्ग्राहान्
गृहीत्वा सत्परं ब्रह्म गृह्णन्ति ते सदग्राहास्तदितरं स्वर्गादिसुखं गृह्णन्ति तेऽसद्ग्राहा ये मन्त्रास्तान्
गृहीत्वामुकमन्त्रेणैतां देवतामाराधयामीति संकल्पास्तथान्येऽशुचिव्रता मद्यमांसाद्याहार एव व्रतं
नियमो येषां ते ॥ १० ॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः॥
कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥
किं च चिन्तेति । चिन्तामपरिमेयां च न परिमातुं शक्यतेऽस्याश्चि-
न्ताया इयत्ता सापरिमेया तामपरिमेयां प्रलयान्तां मरणान्तामुपाश्रिताः
सदा चिन्तापरा इत्यर्थः । कामोपभोगपरमाः, काम्यन्त इति कामाः शब्दा-
दयस्तदुपभोगपरमाः, अयमेव परमः पुरुषार्थो यः कामोपभोग इत्येवं निश्चि-
तात्मान एतावदिति निश्चिताः ॥ ११ ॥

४४३
।
षोडशाध्यायः ।
आ० टी० । तानेव विधान्तरेण विशिनष्टि किं चेति । चिन्तामात्मीययोगक्षेमोपायालोचना-
त्मिकामपरिमेयविषयत्वात् परिमातुमशक्यामाश्रिता इति संबन्धः । एष कामोपभोगः परमयनं सु-
खस्येत्येतावत् पारत्रिकं तु नास्ति सुखमिति निश्चयवन्त इत्याह एतावदितीति ॥ ११ ॥
प० टी० । किं च चिन्तामिति । प्रलयो मरणमेवान्तः पर्यवसानं यस्यास्तां परिमातुमश.
क्यां चिन्तां मनोरथसंततिमुपाश्रिताः कामा विषयास्तेषामुपभोग एव परमात्यन्तिकं प्राप्यं येषां
ते एतावान्पुरुषार्थ इति कृतनिश्चयाः । श्रुतिरपि-" स यावदप्येतेषामेकैकं न प्रामोत्यकृत्स्न एव
तावन्मन्यते तस्योत्स्नता" इति । भाष्यम्-तस्य पुरुषस्य, उइति निर्धारणे, अकृत्स्नता सकल-
प्राप्तिराहित्यम् । तस्य कस्य य एपां पूर्वोक्तानां विषयाणां मध्ये यावदेकै विषयं न प्राप्नोति तावद-
हमकृत्स्न एवेति मन्यतेऽहमप्राप्तसकलार्थ एवेति मन्यते ॥ ११ ॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः॥
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान् ॥ १२॥
आशापाशेति । आशापाशशतैराशा एव पाशास्तच्छतैराशापाशश-
तेबद्धा नियन्त्रिताः सन्तः सर्वत आकृष्यमाणाः कामक्रोधपरायणाः कामक्रोधौ
परमयनं पर आश्रयो येषां ते कामक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थ
कामभोगप्रयोजनाय न धर्मार्थमन्यायेनार्थसंचयानर्थप्रचयानन्यायेन परस्वा-
पहरणादिनेत्यर्थः ॥ १२ ॥
आ० टी० । आसुरानेव पुनर्विशिनष्टि आशेति । अशक्योपायार्थविषयानवगतोपा-
यार्थविषया वा प्रार्थना आशास्ताः पाशा इव पाशास्तेषां शतैर्बडा इव श्रेयसः प्रच्याव्येत ततो
नीयमाना इत्याह आशा एवेति ॥ १२ ॥
प० टी० । किं च आशापाशशतैरिति । आशा एव पाशा बन्धनरज्जवस्तेषां शतानि ते-
बंद्राः । तदुक्तम्-'आशानाम मनुष्यस्य का चिदाश्चर्यशृङ्वला । यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति
पगुवद्' इति । तथा कामक्रोधौ परमयनं गतिर्येषां ते कामभोगार्थ विषयभोगार्थमन्यायेन द्यूतचौर्या-
दिनार्थसंचयान् द्रव्यसंग्रहानीहन्तेऽपेक्षन्ते ॥ १२ ॥
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् ॥
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥
ईदृशश्च तेषामभिप्रायः, इदमिति । इदं द्रव्यमद्येदानी मया लब्ध-
मिदं चान्यत् प्राप्स्ये मनोरथं मनस्तुष्टिकरमिदं चास्तीदमपि मे भविष्यत्यागा-
मिनि संवत्सरे पुनर्धनं तेनाहं धनी विख्यातो भविष्यामि ॥ १३ ॥
आ० टी० । तेषामभिप्रायोऽपि विवेकाविरोधीत्याह ईदृशश्चति । द्रव्यं गोहिरण्यादि।
।इ-
दमन्यबुद्धौ प्रार्थ्यमानत्वेन विपरिवर्तमानमित्येतत् ॥ १३ ॥

४५० श्रीमद्भगवद्गीता- प० टी० । अथान्यायेनाप्यर्थलाभे केवलं मनोराज्यमेव कुर्वन्तीत्याह इदमिति चतुर्भिः। मनोरथं मनसः प्रियशेषं प्राप्स्ये प्राप्स्यामि । शेषं स्पष्टम् । एषां त्रयाणां श्लोकानामित्यज्ञानावमो- हिताः पतन्ति नरकेऽशुचाविति चतुर्थेनान्वयः ॥ १३ ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि ॥ ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ १४ ॥ असौ मयेति । असी देवदत्तनामा मया हतो दुर्जयः शत्रुः, हनिष्ये चान्यान्वराकान् परानपि किमेते करिष्यन्ति तपस्विनः सर्वथापि नास्ति म- तुल्य ईश्वरोऽहमहं भोगी सर्वप्रकारेण च सिद्धोऽहं संपन्नः पुत्रैः पौत्रैर्नत- भिर्न केवलं मानुपोऽहं बलवान् सुखी चाहमेवान्ये तु भूमिभारायावतीर्णाः।।१४॥ आ० टी० । यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुरपि न संभवतीत्याह असाविति । स्त्वत्तो विहीनानां त्वया परिभवेऽपि त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवतीत्वाशङ्कयाह सर्वथेति । ऐश्वर्यातिरेकेऽपि कुतस्तेषां भोगसामर्थ्यमित्याशङ्कयाह अहमिति । सिद्धत्वमेव स्फुटयति संपन्न इति । बलवानोजस्वी, सुखी रोगरहितः ॥ १४ ॥ प० टी० । किं च असाविति । असौ वर्तमानः शत्रुर्मया हतोऽअपरान् भविष्यतोऽपि शत्रून् हनिष्ये । सिद्धार्थः कृतार्थः । तदुक्तम्-'मृषा मनोरथश्रेणीमाधुर्यान्मोहितो दिवा । रात्रौ स्वाप्नं सुखं मुझनरो जयति जीवितम्' इति ॥ १४ ॥ आव्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ॥ यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५॥ आढ्य इति । आढ्यो धनेनाभिजनेनाभिजनवान् सप्तपुरुषं श्रोत्रियत्वा- दिसंपन्नस्तेनापि न मम तुल्योऽस्ति कश्चित् कोऽन्योऽस्ति सशस्तुल्यो मया, किं च यक्ष्ये यागेनाप्यन्यानभिभविष्यामि दास्यामि नटादिभ्यो मोदिष्ये हो- तिशयं प्राप्स्यामीत्येवमज्ञानेन विमोहिता अज्ञानविमोहिता विविधमविवेक- भावमापन्नाः॥ १५॥ आ० टी० । विद्यावृत्तधनाभिजनैर्मत्तुल्यो नास्तीत्याह आख्य इति । तथापि यागदाना- भ्यां तत्फलेन वा कश्चिदधिको भविष्यतीत्याशङ्कयाह किं चेति । न च तेपामेषोऽभिप्रायः साधी- यानित्याह इसेवमिति ॥ १५ ॥ ५० टी० । किं च आन्य इति । आब्यो धनसमृद्धः, अभिजनवान् कुलीनः, मया सदृशः कोऽस्ति कोऽपि नास्तीत्यर्थः । अथासामर्थेऽपि व्यर्थमनोरथानाह यक्ष्ये इति । यक्ष्ये यागं करिष्ये, दास्यामि तुलाभारादिदानं करिष्ये, एवं लोकोत्तरकरणेन मोदिप्ये हर्ष प्राप्स्यामीत्यज्ञानेन विमो- हिता मिथ्याभिनिवेशं प्रापिताः ॥ १५ ॥ . नेत्याहेति लि. पा.।

-, पोडशाध्यायः । ४५३ अनेकचित्तविभ्रान्ता मोहजालसमारताः ।। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥ अनेकेति । अनेकचित्तविभ्रान्ता उक्तप्रकारैरनेकैश्चित्तैर्विविधं भ्रान्ता अनेकचित्तविभ्रान्ता मोहजालसमारता मोहोऽविवेकोऽज्ञानं तदव जालमि- वावरणात्मकत्वात्तेन समारताः प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तस्ते- नोपचितकल्मषाः पतन्ति नरकेऽशुचौ वैतरण्यादौ ॥ १६ ॥ आ० टी० । उक्तप्रकारविपर्ययेण कृत्यासत्यविवेकविकलानां किं स्यादित्यक्षायामा अनेकेति । कामा विषयास्तेषां भोगेषु तत्प्रयुक्तेषूपभागेप्विति यावत् ॥ १६ ॥ ५० टी० । किं च अनेकेति । अनेकेषु व्यर्थमनोरथेषु प्रवृत्तं चित्तमनेकचित्तं तेन विशेपतो भ्रान्तास्तेषामुद्वारः कदापि नास्तीत्याह मोहजालसमावृता इति । यथा सूत्रमयजालान्तःप्रवि- टानां मत्स्यानामनिर्गमस्तथा मोहजालसमावृतानां कामभोगेषु प्रकर्षेण सक्ता अशुचौ कल्मषरूपे नरके पतन्ति । अत्रैतदुक्तं भवति-" तुल्या व्यवहतिः सर्वा स्वप्नजागृदवस्थयोः । एकस्यावसरेऽन्यस्य यन्मिथ्यात्वं प्रतीयते" इति वैतथ्योपनिपटुक्तम् । श्रुतिभिः स्वामव्यवहारदृष्टान्तन जागृव्यवहार- स्यापि मिथ्यात्वं दर्शितमासीदिदानी तस्य स्वरूपेणैव मिथ्यात्वं मनोरथरूपत्वेन भगवता विस्तरेण प्रकटीकृतम् । तत्र मनोरथो द्वेधा संभावितोऽसंभावितश्च, तत्र दैनंदिनान्नपानादिविषयभोगमनो- रथः संभावितः सोऽपि दैवाधीनत्वात्साक्षिकः । असंभावितस्तु राज्यप्राप्त्यादिसकलभोगैनोरञ्जनम् । एवमस्य मिथ्याभूतत्वं जानन्तोपि मनोरथपरंपरामातन्वन्ति तेषामुद्धारः कदापि नास्तीत्यर्थः । स- दुक्तं टिप्पणिकासु-स्वामं सुखं दुःखमसत्यमेव तथापि तस्यानुभवस्तदानीम् । तथैव शुक्तौ रजतस्य मिथ्या मनोरथोत्थं तु विना न भतिम् ॥ १ ॥ सर्वतस्तनुभृतामखिलोऽपि स्यान्मनोरथमयो व्यवहारः। युक्तितस्त्वनुभवादनुवेलं तन्मृपात्वमुदितं मुनिवर्यैः ॥ २ ॥' इति । तदुक्तं विष्णुपुराणे सौभर्याख्याने- 'मनोरथानां न समाप्तिरस्ति वर्षायुतैरप्यथवापि लक्षैः । पूर्णेषु पूर्णेषु पुनर्नवानामुत्पत्तयः सन्ति मनो- स्थानाम् ।। १ ॥ पदभ्याङ्गता यौवनतश्च जाता दारश्च संयोगमिताः प्रसूताः । दृष्टाः सुतास्तत्तनयप्र- सृति द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥२॥ यज्जीवतो नैव मनोरथानामन्तोऽस्ति विज्ञातामदं मयाद्य । 'मनोरथासक्तिपरस्य चित्तं न जायते वे परमार्थसंगति ॥ ३ ॥ इति' ॥१६॥ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ॥ यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १७॥ आत्मति । आत्मसंभाविताः सर्वगुणविशिष्टतयात्मनैवात्मनि संभा- विता आत्मसंभाविता न साधुभिः, स्तब्धा अप्रणतात्मानो धनमानमदान्विता धननिमित्तो मानो मदश्च ताभ्यां धनमानमदाभ्यामन्विता यजन्ते नामयज्ञैर्ना- ममात्रैर्यज्ञैस्तैर्दम्भेन धर्मध्वजितयाविधिपूर्वकं विहिताङ्केतिकर्तव्यतारहितैः॥ १७॥ आ: टी० । ननु तेषामपि केषां चिदैदिके कर्मणि यागदानादौ प्रवृत्तिप्रतिपत्तेरयुक्तं वैतर- ४५२ - श्रीमद्भगवद्गीता- ण्यादौ पतनमिति चेत्तत्राह आत्मेति | आसुरीसंपदमभिजातैरधर्मजातमेव संचीयते प्रवृत्तेरपि वैदि- कणि नैव पुण्यमित्युक्तम् ॥ १७ ॥ ५० टी० । आत्मेति । आत्मना स्वेनैव संभाविताः पूज्यतां नीता नान्यैः कैश्चित् । ताव- तैव स्तब्धा अनम्रा धनमानाभ्यां मदो गर्वस्तेनान्विताः सन्तो दम्भेन यज्ञैर्यजन्ते न परमार्थबुद्धया। त- थापि यज्ञफलं प्राप्स्यन्त्येवेति चेत्तत्राह अविधिपूर्वकमिति । द्रव्यपात्राद्यशुद्धिरविधिस्तत्पूर्वकं कर्म- फलाय न भवतीत्यर्थः ॥ १७ ॥ अहङ्कारं बलं दर्प कामं क्रोधं च संश्रिताः॥ मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥१८॥ अहमिति । अहंकारमहंकरणमहंकारो विद्यमानैरविद्यमानैश्च गुणैरात्म- न्यध्यारोपितैर्विशिष्टमात्मानमहमिति मन्यते सोऽहंकारोऽविद्याख्यः कष्टतमः सर्व- दोषाणां मूलं तं परिगृह्य तथा वलं पराभिभवनिमित्तं कामरागान्वितं दर्प द- ो नाम यस्योद्भवे धर्ममतिकामतीति सोऽयमन्तःकरणाश्रयो दोपविशेषः कामं रूयादिविषयं क्रोधमनिष्टविषयमेतानन्यांश्च महतो दोपान् संश्रिताः। किं च ते मामीश्वरमात्मपरदेहेषु स्वदेहे च तद्बुद्धिकर्मसाक्षिभूतं मां प्रदिपन्तो मच्छा- सनातिवर्तित्त्वं प्रदेषस्तं कुर्वन्तोऽभ्यसूयकाः सन्मार्गस्थानां गुणेष्वसहमानाः॥१८॥ आ० टी० । ब्रह्मज्ञानात् पुनर सुरा दूरादेवोद्विजन्त इत्याह अहंकामिति । अहंकारमेव स्फोरयति विद्यमानेरिति । अध्यारोपितवैशिष्टयविषयत्वादहङ्कारस्याविद्यामूलत्वेनाविद्यात्मत्व- माह अविद्याख्य इति । विवे किभिस्तस्यातियत्नादेव हेयत्वं सूचयति कष्टतम इति । तदेव स्पष्ट यति सर्वेति । तत्संश्रिता इति संवन्धः । कार्यकारणसामर्थ्य मुक्तविशेषणं बलमहकार एव महद वधारणापर्यन्तत्वेन परिणतो दर्पस्तं व्याकरोति दो नामेखादिना । अन्यांश्च दोषान्मात्सर्यादीन्न केवलमुक्तमेव तेषां विशेषणं किं तु कष्टतममस्ति विशेषणान्तरमित्याह किं चेति । यद्यपीश्वरं प्रति द्वेषस्तेषां संभाव्यते तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः न हि तत्र भोक्तारमन्तरेणे- श्वरस्यावस्थानमित्याशङ्कयाह तबुद्धीति । तपामीश्वरं प्रति वेपमेव प्रकटयति मच्छासनेति । ईश्वरस्य शासनं श्रुतिस्मृतिरूपं तदन्तवर्तित्वं तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम् ॥ १८ ॥ ५० टी० । तदेव प्रपञ्चयति अहंकारमिति । अहङ्कारादीन् संश्रिता आत्मपरदेहेषु चिदं- शत्वेनावस्थितं मां द्विपन्तोऽविधिपूर्वकं यजन्तो मृपैव स्वदेहं क्लेशयन्ति । पश्वादिहिंसायां च परदेहमतएवोभय मेव द्विषन्तोऽभ्यसूयकाः सन्मागवर्तिनां गुणदोपारोपकाः ॥ १८ ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ॥ क्षिपाम्यजस्त्रमशुभानासुरीष्वेव योनिषु ॥ १९॥ १ वर्मनि लि. पा० । २ क्षो दीयस्यापि वित्तादौ प्राप्ते ह्यधर्मो हृष्यति हृष्टो दृप्यात दृप्तो हि धर्ममतिकामतीति प्रतराित काचलि. पा.।

षोडशाध्यायः । ४५३ तानहमिति । तानहं सर्वान् सन्मार्गप्रतिपक्षभूतान् साधुद्देषिणो बिष- तश्च मां क्रूरान् संसारेष्वेव नरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपाम्यजस्रं संततमशुभानशुभकारिण आसुरीष्वेव क्रूरकर्मप्राया- सु व्याघ्रसिंहादियोनिषु क्षिपामीत्यनेन संबन्धः ॥ १९ ॥ आ० टी० । तेषामुक्तविशेषणवतामासुराणां किं स्यादिति तदाह तानिति । भगवतो नैर्घ- ण्यप्रसङ्गं प्रत्यादिशति अधर्मेति ॥ १९ ॥ प० टी० । तेषां कदाचिदप्यासुरयोनिप्रच्युतिर्न भवतीत्याह तानिति द्वाभ्याम् । तान् मां द्वि- षतः क्रूरान् नराधमान् मनुष्ययोनिप्वप्यधमान् संसारेषु जन्ममृत्युमार्गेषु तत्राप्यासुरीषु योनिषु व्या- घसर्पवृश्चिकादिहिस्खयोनिप्वजस्त्रं निरन्तरं क्षिपामि ॥ १९ ॥ आसुरीं योनिमापन्ना मूटा जन्मनि जन्मनि ॥ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ २० ॥ आसुरीमिति । आसुरीं योनिमापन्नाः प्रतिपन्ना मूढा जन्मनि जन्म- न्यविवेकिनः प्रतिजन्म तमोबहुलास्वेव योनिषु जायमाना अधो गच्छन्ति ते मूढा मामीश्वरमप्राप्यानासाद्यैव हे कौन्तेय ततस्तस्मादपि यान्त्यधमां निरुष्टतमां गतिं मामप्राप्येवेति न मत्प्राप्तौ काचिदप्याशङ्कास्त्यतो मच्छिष्ट- साधुमार्गप्राप्तिमप्राप्येत्यर्थः ॥ २ ॥ आ० टी: । ननु तेपामपि क्रमेण बहूनां जन्मनामन्ते श्रेयो भविष्यति नेत्याह आसुरी- मिति । तेपामीश्वराप्राप्तिशङ्काभावे कथं तन्निपेधः स्यादित्याशङ्कयाह मामित्यादिना । यस्मादा- सुरी संपदनर्थपरंपरया सर्व पुरुषार्थपरिपन्थिनी तस्माद् यावत् पुरुषः स्वतन्त्रो न कांचित् पारवश्यकरी योनिमापन्नस्तावदेव तेनासौ परिहरणीयेति समुदायार्थः ॥ २० ॥ प० टी० । अथासुरयोनिसंस्कारवशान्नीचनीचतरयोनिपूत्पद्यन्ते इत्याह आसुरीमिति । आ- सुरी योनिमापन्नाः प्राप्ता जन्मजन्मनि मूढा ज्ञानलवशून्या भवन्ति । अतो मामप्राप्याधमां गतिं यान्ति । श्रुतिरपीशावास्योपनिषत्सु-" आमुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के वात्महनो जनाः” इति । भाप्यम्-ये लोका आसुर्या नाम अमुराणामंशभूता आसुर्यास्ते अ- म्धेन तमसा निबिडतराज्ञानेन वृता आच्छन्नाः सन्ति । अथ ते के ये आत्महन आत्मघातकाः पश्वादिहिंसारतास्ते प्रेत्य देहं त्यक्त्वा तान् पूर्वोक्तान् लोकानभिगच्छन्ति यतः पुनर्निस्तारो ना- स्तीत्यर्थः ॥ २० ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ॥ कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ २१ ॥ सर्वस्या आसुर्याः संपदः संक्षेपोऽयमुच्यते, यस्मिस्त्रिविधे सर्व आसु.

श्रीमद्भगवद्गीता- रीसंपद्भेदोऽनन्तोऽप्यन्तर्भवति यत्परिहारेण परिहृतश्च भवति यन्मूलं सर्व- स्यानर्थस्य तदेतदुच्यते त्रिविधमिति । त्रिविधं नरकहारं विप्रकारं नरकस्य प्राप्तिहारं नाशनमात्मनो यद्द्वारं प्रविशन्नेव नश्यत्यात्मा कस्मै चित् पुरुषा- थाय योग्यो न भवतीत्येतदुच्यते हारं नाशनमात्मन इति किं तत् कामः को- धस्तथा लोभस्तस्मादेतत्त्रयं त्यजेद् यत एतद् हारं नाशनमात्मनस्तस्मात् कामादित्रयमेतत् त्यजेत् त्यागस्तुतिरियम् ॥ २१ ॥ आ० टी० । कथमासुरी संपदनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्यतेत्याशङ्कयाह सर्वस्यति । संक्षेपोक्तिफलमाह यस्मिन्निति । कामादौ त्रिविधे सर्वस्यासुरसंपदइँस्यान्तीवेऽपि कथमसौ परिहियते तत्राह यत् परिहारेणति। कामादिपरिहारेणासुरीसंपद्भेदपरिहारेऽपि कथं सर्वान- र्थपरिवर्जनमित्याशङ्याह यन्मूलमिति । कथमात्मनो नित्यस्य नाशशङ्केति तत्राह कस्मै चिदिति। त्रिविधमपि सामान्यतो दर्शितमाकाङ्क्षाद्वारा विशेषतो दर्शयति किं तदिति । तस्मादिति व्याचष्टे यदिति । कामादित्यागे सत्यनाचरणश्रेयःप्रतिबन्धनिवृत्ती स्यातामिति भावः ॥ २१ ॥ ५० टी० । अथोक्तानामसुरदोगाणां मध्ये सकलदोषमूलभूतं दोपत्रयं सर्वथा वर्जनीयमि- स्याह त्रिविधमिति । इदं प्रोच्यमानं नरकस्य निरयप्राप्तेज्रं त्रिविधमस्ति । तत्किम् । कामः क्रोधस्तथा लोभः । तत्र कामनया विषयीक्रियतेऽसौ कामोभिलाषःतस्य प्रयत्नादप्राप्ती क्रोध प्राप्तौ च प्राणादप्यधिक यत्नेन संरक्षणं लोभः, एतत्रयम् । किंभूतमात्मनो नाशनमधमयोनिप्रापक तस्मात्सर्वप्रयत्नेनैतत्रयं त्यजेत् ॥ २१ ॥ एतैर्विमुक्तः कौन्तेय तमोहारैस्त्रिभिर्नरः ॥ आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्. ॥ २२ ॥ एतैरिति । एतर्विमुक्तः कौन्तेय तमोहोरस्तमसो नरकस्य दुःखमोहात्म- कस्य हाराणि कामादयस्तरेतैस्त्रिभिर्विमुक्तो नर आचरत्यनुतिष्ठति किमात्मनः श्रेयो यत्प्रतिबद्धः पूर्व नाचरति तदपगमादाचरति ततस्तदाचरणतया यौति परां गतिं मोक्ष प्रतीति ॥ २२ ॥ आ० टी० । न केवलं श्रेयः समाचरन्नासुरी च संपदं वर्नयन्मोक्षमेव सम्यग्धोद्वारा ' लभते किंतु लौकिकमपि मुवमित्यपेरर्थः ॥ २२ ॥ प० टी० । त्यागे च विशिष्टफलमाह एतरिति । तमसो नरकस्य द्वारभूतैरतैस्त्रिभिः का- मादिभिर्मुक्तो नर आत्मनः श्रेयःसाधनं तपोयोगाद्याचरति । ततः परां शान्ति याति ॥ २२ ॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ॥ न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥ १ त्यागस्ततिरियमित्यधिकं लि० पु० । २ तदाचरणादिति पा. लि. । :

षोडशाध्यायः।
४५५
सर्वस्यैतस्थासुरीसंपत्परिवर्जनस्य श्रेयआचरणस्य शास्त्रं कारणं शा-
स्वप्रमाणादुभयं शक्यं कर्तुं नान्यथातो यः शास्त्रेति । यः शास्त्रविधि शाखें
वेदस्तस्य विधि कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यमुत्सृज्य त्यक्त्वा
वर्तते कामकारतः कामप्रयुक्तः सन् न स सिद्धिं पुरुषार्थयोग्यतामाप्नोति । ना-
प्यस्मॅिल्लोके सुखं नापि परां प्रकृष्टां गतिं स्वर्ग मोक्षं वा ॥ २३ ॥
आ० टी० । आसुर्याः संपदो वर्जने श्रेयसश्च करणे किं कारणं तदाह सर्वस्येति । तस्य
कारणत्वं साधयति शास्त्रेति । उक्तमुपजीव्यानन्तरश्लोकं प्रवर्तयति अत इति । शिष्यतेऽनुशिष्यते
बोध्यतेऽनेनापूर्वोऽर्थ इति शास्त्रं तच्च विधिनिषेधात्मकमित्युपेत्य व्याचष्टे कर्तव्येति । कामस्य क-
रणं कामकारस्तस्माद्धेतोरित्युपेत्य कामाधीना शास्त्रविमुखस्य प्रवृत्तिरित्याह कामेति। कामाधीनप्रवृ-
त्तेः सदा पुमार्थयोगस्य सर्वपुरुषार्थासिद्धिरित्याह नापीति ।। २३ ।।
प० टी० । कामादित्यागश्च स्वधर्माचरणं विना न भवतीत्याह य इति । शास्त्रविधि वेद-
धर्ममुत्सृज्य यः कामकारतः स्वेच्छाचरणन वर्तते स सिद्धिं तत्त्वज्ञानं न प्राप्नोति । न सुखं तत्त्वज्ञान-
स्य फलरूपमात्मसुखं तत्फलरूपां परां गति मोक्षं न प्राप्नोति ॥ २३ ॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थिता ॥
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ २४ ॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि
श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु-
नसंकादे दैवासुरसंपविभागयोगो नाम षोडशोऽध्यायः ॥ १६॥
तस्मादिति । तस्माच्छास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्य-
व्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायामतो ज्ञात्वा बुद्ध्वा शास्त्राविधानोक्तं विधि-
विधानं शास्त्रमेव विधानं शास्त्रविधानं कुर्यान कुर्यादित्येवंलक्षणं तेनोक्तं स्व-
कर्म यत्तत् कर्तुमिहाहसीहेति कर्माधिकारभूमिप्रदर्शनार्थमिति ॥ २४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य शंकरभगवतःपूज्यपादकृती
गीताभाष्ये संपहिभागो नाम षोडशोऽध्यायः ॥ १६ ॥
आ० टी० । शास्त्राढते कर्मणो निष्फलत्वे फालतमाह तस्मादिति । कर्तव्याकर्तव्यो धर्मा-
धर्मी तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यामित्याशङ्कयाह अत इति । स्वकर्म क्षत्रियस्य यु-
खादि, इतिशब्दोऽध्यायसमाप्त्यर्थः । तदनेनाध्यायेन प्राग्भवीयकर्मवासनानुसारेणाभिव्यज्यमानसा-
त्त्विकादिप्रकृतित्रयविभागेन दैव्यासुरीति संपवयमादानहानाभ्यामुपदिश्य कामक्रोधलोभानपहाय
पुरुषार्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम् ॥ २४ ॥
इसानन्दगिरिकृतगीताभाष्यटीकायां षोडशाध्यायः ॥ ६ ॥

४५६ श्रीमद्भगवद्गीता- प० टी० । फलितमर्थमाह तस्मादिति । इदं कार्यमित्यस्यां व्यवस्थायां ते तव श्रुतिस्मृति- रूपं शासनाच्छास्त्रं प्रमाणं नान्यत् । अतः शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि तन्मूलकत्वात्सत्त्व- शुद्धिपूर्वकं तत्त्वज्ञानं ते भविष्यतीत्यर्थः ॥ २४ ॥ अथाध्यायतात्पर्यम्-दैवी संपद्विमुक्त्यै शमदमसमताक्षान्तिवैराग्यरूपा कामक्रोधाभिमानानृत- कपटमयी चासुरी बन्धहेतुः । उत्पत्तिर्देवसंपद्यनुजनुरुदिता मामकानां जनानां त्वं मा भैषीः किरीटि- न्निति मधुरिपुणा षोडशे प्रोक्तमासीत् ॥ १ ॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटी- कायांपरमार्थप्रपायां दैवासुरसंपत्तिविवेको नाम पोडशोऽध्यायः ॥ १६ ॥ इति षोडशाध्यायः ॥ १६ ॥ सप्तदशाध्यायः। अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ॥ तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥ तस्माच्छास्त्रं प्रमाणं त इति भगवहाक्याल्लब्धप्रश्नबीजोऽर्जुन उ. वाच ये शास्त्रेति । ये केचिद् अविशेपिताः शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृ- तिशास्त्रचोदनामुत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्दयान्विताः श्रद्धयस्तिक्यबुद्दयान्विताः संयुक्ताः सन्तः श्रुतिलक्षणं स्मृतिलक्षणं वा कं चिच्छास्त्रविधिमपश्यन्तो वृद्धव्यवहारदर्शनादेव ये श्रद्दधानतया देवादीन् पूज- यन्ति त इह शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता इत्येवं गृह्यन्ते । ये पुनः कंचिच्छास्त्रविधिमुपलभमाना एव तमुत्सृज्य यथाविधि देवादीन् पूजय- न्ति त इह 'ये शास्त्रविधिमुत्सृज्य यजन्ते' इति न परिगृह्यन्ते कस्मा- च्छूद्धयान्वितत्वविशेषणाद्देवादिपूजाविधिपरं किंचिच्छास्त्रं पश्यन्त एव तदुत्म- ज्याश्रद्दधानतया तद्दिहितायां देवादिपूजायां श्रद्धयान्विताः प्रवर्तन्त इति न शक्यं परिकल्पयितुं यस्मात्तस्मात् पूर्वोक्ता एव 'ये शास्त्रविधिमुत्सृज्य यज- न्ते श्रद्धयान्विताः' इत्यत्र गृह्यन्ते येषामेवंभूतानां निष्ठा त्ववस्थानं का कृष्ण सत्त्वमाहो रजस्तमः किं सत्त्वनिष्ठावस्थानमाहो स्विद् रजोऽथ वा तम इति ॥ १ ॥ आष्टी । आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिरुक्ता संप्रत्यास्तिकानामेव शास्त्रानभि- ज्ञानां गतिीजज्ञासया एच्छतीत्याह तस्मादिति । यजन्त इति यागग्रहणं दानादेरुपलक्षणम् । यदि वेदोक्तं विधिमपश्यन्तस्तमुत्सृजन्ति कथं तार्ह श्रद्दधाना यागादि कुर्वन्ति न हि मानं विना श्राद्धया सप्तदशाध्यायः। ४५५ यागादि कर्तुं शक्यमित्याशङ्कयाह श्रुतीति । ननु शास्त्रीय विधिं पश्यन्तोऽपि केचित्तमुपेक्ष्य स्वो- स्प्रेसया यागादि कुर्वन्तो दृश्यन्त तेषामेह 'ये शास्त्रावविमुत्सृज्य' इति ग्रहो भविष्यात नेत्याह ये पुनरिति । तेषामत्रापरिग्रहे प्रश्नपूर्वकं हेतुमाह कस्मादिति । शास्त्रज्ञानं तदुपेक्षावतां ग्रहेऽपि विशेषणमविरुद्वमित्याशङ्कय व्याघातान्मैवामत्याह देवादीति । अश्रद्दधानतया तदुत्सृज्योति संबन्धः । शास्त्रोक्तं विधिमधिगच्छतामपि तमवधीर्य स्वेच्छया देवपूजादौ प्रवृत्तानामासुरेष्वेवान्तर्भावो यस्मादनन्तराध्याये सिद्धस्तस्मादास्तिकाधिकारे तेषां प्रसङ्गा नास्तीत्युपसंहरति यस्मादिति । पूर्वो- ताः शास्त्रानभिज्ञा वृद्धव्यवहाररानुसारिण इति यावत । तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्य- वस्यतीति पृच्छति तेषामिति । का निष्ठेत्यतद्विवृणोति सत्त्वमिति ॥ १ ॥ ५० टी० । पूर्वाध्यायान्ते 'यः शास्त्रविधिमुत्सृज्य' इत्यादिना शास्त्रविधिमुल्लन्ध्य प्रवृत्तस्य सिद्विस्तिीत्युक्तं तदेव पृच्छन्नजुन आह ये शास्त्रविधिमिति । ये शास्त्रविधि विधिनिषेधात्म- कमुल्लङ्य दुःखबुद्ध यालस्याद्वानादृत्य केवलं लौकिकाचारपरंपरया श्रद्धां विना यजन्ते तेषां का निष्ठा क आश्रयः सत्त्वमाहो स्विद्रजस्तमो वा । 'यनन्ते सात्त्विका देवान्' इत्यादिवत् फलोपधानं नैव वेति प्रश्नार्थः ॥ १ ॥ श्रीभगवानुवाच । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ॥ सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥२॥ एतदुक्तं भवति या तेपां देवादिविषया पूजा सा किं सात्त्विक्याहो स्वि- द्राजस्युत तामसीति सामान्यविषयोऽयं प्रश्नो नाप्रविभज्य प्रतिवचनमहतीति त्रिविधेति श्रीभगवानुवाच । त्रिविधा विप्रकारा भवति श्रद्धा यस्यां निष्ठायां त्वं पृच्छसि देहिनां सा स्वभावजा जन्मान्तरकतो धर्मादिसंस्कारो मरणका- लेऽभिव्यक्तः स्वभाव उच्यते ततो जाता स्वभावजा सात्त्विको सत्त्वनिता देवपूजादिविषया, राजसो रजोनिवृत्ता यक्षरक्षःपूजादिविषया, तामसी तमोनि- इत्ता प्रेतपिशाचादिपूजाविषयैवं त्रिविधा तामुच्यमानां श्रद्धां शृणु ॥ २ ॥ आ० टी० । कार्याणां कारणैर्व्यपदेशमाश्रित्य तात्पर्यमाह एतदिति । विशेषनिष्ठमुत्तरं सामान्येन वक्तं न शक्यमित्याशयेन परिहरति सामान्येति । किमिति श्रद्धात्रैविध्य प्रश्नानुपयुक्त- मुच्यते तत्रांह यस्यामिति । श्रद्धापूर्विकायां क्रियायामिति यावत् । श्रद्धात्रैविव्ये हेतुमाह सा स्वभावजेति । स्वभावशब्दार्थ प्रकोपयोगितया कथयति जन्मान्तरेति । कथं त्रिविधेत्यपेक्षाया- माह सात्त्विकीसादिना । कथमुक्ता श्रद्धा स्वभावजेति तत्राह तामिति ॥ २ ॥ प० टी० । ननु शास्त्रविधेरुल्लङयनं शास्त्रार्थमबुद्ध्वा बुद्ध्वा वा, नाद्यो यजनासंभवा- नापरः श्रद्धानुत्पत्तेरास्तिक्यबुद्धिर्हि श्रद्धा न चासौ शास्त्रज्ञानवतां शास्त्रविरुद्ध संभवतीति पयर्या- लोच्य भगवानाह त्रिविधेति । देहिनां मनुष्याणां स्वभावजा श्रद्धा त्रिविधा भवति । प्राचीन- संस्कारः स्वभावस्तस्माज्जाता स्वभावना । स्वभावमन्यथाकतुं समर्थ शास्त्रोत्थज्ञानं तत्तु तेषां नास्त्य- तः केवलं सत्त्वरजस्तमःप्रधानप्राचीन संस्कारेण श्रद्धा त्रिविधा तां शृणु ॥ २ ॥ । ५८

४५८.
श्रीमद्भगवद्गीता-
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ॥
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥३॥
सैवं त्रिविधा भवति सत्त्वेति। सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणा-
नुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति भारत । यद्येवं ततः किं स्यादि-
त्युच्यते श्रद्धामयः श्रद्धाप्रायस्त्वयं पुरुषः संसारी जीवः कथं यो यच्छ्रद्धो
या श्रद्धा यस्य जीवस्य स यच्छूद्धः स एव तच्छ्रद्धानुरूप एव स जीवः ॥३॥
आ० टी० । प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धाया
निमित्तमित्युक्तमिदानीमुपादानं तस्या दर्शयति सत्त्वमिति ।विशिष्टचित्तोपादाना श्रद्धा । तत्रैविध्यं
त्रिविधति पूर्वार्धस्यार्थः । कथं निष्टायां सात्त्विकादिप्रश्नद्वारा श्रद्धायास्पैविध्यनिरूपणमुपयुक्तमिति
मन्वानः शङ्कते यद्येवमिति । श्रद्धेयं विषयमभिध्यायंस्तया तत्रैव वर्तत इति मन्वानः परिहरति
उच्यत इति । श्रद्धामयत्वं प्रश्नपूर्वकं कथयति कमिति । श्रन्हा खल्वधिकृते पुरुप प्राचुयेंण प्र-
कृतेऽपि तस्य श्रद्धामयत्वसिद्धिरित्यर्थः ॥ ३ ॥
प० टी० । तामेवाह सत्त्वानुरूपेति । सर्वस्य प्राणिनः श्रद्धा सत्त्वानरूपा विशिष्ट संस्कारो-
पस्कृतान्तःकरणानुरूपा वक्तव्या यत आस्तिक्यबुद्धिः सत्त्वमन्तरेण नोत्पद्यते । तथा सति गुणप्रा-
धान्यवशात्रिविधा भवति । एवमयं पुरुषः संसारी श्रद्दामयस्त्रिविधया श्रद्धया विविक्त इति । तदाह
यो यच्छूद्धः यादृशी श्रद्दा यस्यासी यच्छूद्धस्तादृश्या श्रद्वया युक्तः स एव सः ॥ ३ ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ॥
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥४॥
ततश्च कार्येण लिलेन देवादिपूजया सत्त्वादिनिष्ठानुमेयेत्याह यजन्त
इति । यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठा देवान् , यक्षरक्षांसि राजसाः,
प्रेतानू भूतगणांश्च सप्तमातृकादींश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥
आ० टी० । तथापि कथं सत्तादिनिष्टा यथोक्तस्य पुरुषस्य ज्ञातुं शक्येत्याशङ्कयाह त-
तश्चेति । अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वादिति यावद्, देवा वस्वादयो, यक्षाः कुबेरादयो,
रक्षांसि नैर्ऋतादयः, स्वधर्मात् प्रच्युता विप्रादयो देहपातादूवं वायुदेहमापन्नाः प्रेता एभ्यश्च यथा-
यथमाराध्यदेवादयः सात्त्विक राजसतामसान् प्रकामान् प्रयच्छन्तीति सामर्थ्यादवगन्तव्यम् ।। ४ ॥
प० टी० । यजन्ते सात्विका देवानिति स्पष्टम् ॥ ४ ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः॥
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः॥५॥

सप्तदशाध्यायः।
४५९
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गे तत्र कश्चि-
देव सहस्रेषु पूजादितत्परः सत्त्वनिष्ठो भवति बाहुल्येन तु रजोनिष्ठास्तमो-
निष्ठाश्चैव प्राणिनो भवन्ति, कथमशास्त्रेति । अशास्त्रविहितं न शास्त्रविहितम-
शास्त्रविहितं घोरं पीडाकरं प्राणिनामात्मनश्च तपस्तप्यन्ते निर्वर्तयन्ति ये
तपो जनास्ते च दम्भाहङ्कारसंयुक्ता दम्भश्चाहङ्कारश्च दम्भाहङ्कारी ताभ्यां सं.
युक्ता दम्भाहङ्कारसंयुक्ताः कामश्च रागश्च कामरागी तत्कृतं बलं कामरागवलं
तेनान्विताः कामरागबलैर्वान्विताः ॥ ५ ॥
आ० टी० । ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते कुतः कार्यलिङ्गकानुमानेनेति
तत्राह एवमिति । सत्यादिनिष्ठानां जन्तूनामवान्तरविशेष प्रचुरत्वाप्रचुरत्वरूपं दर्शयति तत्रेसा-
दिना । राजसानां च तामसानां च प्राचुर्य प्रश्नद्वारा विवृणोति कथमित्यादिना । कामश्च काम्यमान-
विषयो, रागश्च तद्विपयभोगामिलापस्तत्कृतं तन्निमित्तमिति यावत् ॥ ५ ॥
प० टी० । अथाविहितं कर्म दर्शयति अशास्त्रविहितमिति द्वाभ्याम् । शास्त्रेणाविहित-
मननुज्ञातं घोरं भयावहं श्मशाने ननत्वेनानुष्ठीयमानं. घोरसाधनादि ये जनास्तपस्तप्यन्तेऽनुतिष्ठ-
न्ति । दम्भो धर्मध्वजित्वम्, अहंकारो गर्वस्ताभ्यां संयुक्ताः कामोऽभिलाषो राग आसक्तिलमा-
ग्रहस्तैरन्वितास्तान सुरनिश्चयान्विहीत्युत्तरेणान्वयः ॥ ५ ॥
कर्पयन्तः शरीरस्थं भूतग्राममचेतसः॥
मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥
कर्षयन्त इति । कर्पयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदा-
यमचेतसोऽविवेकिनो मां चैव तत्कर्मबुद्धिसाक्षिभूतमन्तःशरीरस्थं कर्षयन्तो
मदनुशासनाकरणमेव मत्कर्षनं तान्विद्ध्यासुरनिश्चयान् आसुरो निश्चयो येषां त
आसुरनिश्चयास्तान् परिहरणार्थ विद्दीत्युपदेशः ॥ ६ ॥
आ० टी० । रजोनिष्टान् प्राधान्येन प्रदर्श्य तमोनिष्ठान् प्राधान्येन दर्शयति कर्पयन्त
इति । कथं शरीरादिसाक्षिणमीश्वरं प्रति कशीकरणं प्राणिनां प्रकल्प्यते तत्राह मदनुशासनेति ।
तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्रोपयुज्यते तत्राह परिहरणार्थमिति ॥ ६ ॥
५० टी० । तददाहरति कर्पयन्त इति ।। शरीरस्थं शरीरान्तर्गत भूम्यादिभूतग्रामं प्रा-
णाचारोपवासादिभिः कर्षयन्तः कृशं कुर्वन्तः । चपरं मामन्तर्यामित्वेन स्थितं दुःखसाक्षिणं कुर्व-
न्तोऽत एवाचेतसो दैवप्राप्यमित्यनानन्तस्तानासुरनिश्चयानासुरोऽतिब्रो निश्चयो येषां ते तथा-
विधान् विद्धि ।। ६ ॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः॥
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥७॥

श्रीमद्भगवद्गीता-
आहाराणां च रस्यलिग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विक-
राजसतामसपुरुषप्रियत्वदर्शनमिह कियते यतो रस्यलिग्धादिष्वाहारविशेषेष्वा-
त्मनःप्रीत्यतिरेकेण लिडेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद्ध्वा रजस्तमो-
लिङ्गानामाहाराणां परिवर्जनार्थ सत्त्वलिङ्गानां चोपादानार्थ तथा यज्ञादीनामपि
सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनमिह राजसतामसान् बुद्ध्वा कथं नु नाम
परित्यजेत सात्त्विकानेवानतिष्ठेदित्येवमर्थमाह आहारस्त्विति । आहारस्वपि
सर्वस्य भोक्तुस्विविधो भवति प्रिय इष्टस्तथा यज्ञस्तपस्तथा दानं तेपामाहारा-
दीनां भेदमिमं वक्ष्यमाणं शृणु ॥ ७ ॥
आ० टी० । उत्तरश्लोकपूर्वार्धतात्पर्यमाह आहाराणामिति । रस्यादिवर्गस्य सात्त्विक-
पुरुषप्रियत्वं कट्वादिवर्गस्य राजसप्रियत्वं यातयामादिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्रोपयुज्यते
तत्राह रस्यति । श्लोकोत्तरार्धतात्पर्यमाह तथेति । आहारत्रैविध्यवदिति यावत् । कथमतेषां
प्रत्येकं त्रैविध्यं तत्राह तेषामिति ॥ ७ ॥
प० टी० । अथ सात्त्विकादीनामाहारादिभेदमाह आहार इसादितस्त्रयोदशभिः । सर्व-
स्यापि जनस्य य आहारोऽन्नादिः स तु यथायथं विविधः प्रियो भवति । तथा यज्ञतपोदानानि च
त्रिविधानि भवन्ति । तेषां वक्ष्यमाणमिमं भेदं त्रिविध शृणु ॥ ७ ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ॥
रस्याः स्निग्धाः स्थिरा हृद्या आहाराःसात्त्विकप्रियाः॥८॥
आयुरिति । आयुश्च सत्त्वं च बलं चारोग्यं च सुखं च प्रीतिश्च तासां
विवर्धना आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनास्ते च रस्या रसोपेताः लिग्धाः
खेहवन्तः स्थिराश्चिरकालस्थायिनो देहे, हृद्या हृदयप्रिया आहाराः
सात्त्विकस्येष्टाः ॥ ८ ॥
आ० टी० । सात्त्विकप्रीतिविषयमाहारविशेषमुदाहरति आयुरिति । आयुनविनं, सत्त्वं चि.
तस्थैर्य, वीर्य वा बलं कार्यकारणसामर्थ्यम्, आरोग्यं नीरोगता, सुग्वमन्तराह्लादः, प्रीतिः परेषा-
मपि संपन्नानां दर्शनात् परमो हर्पस्तासां विवर्धनाः विवर्धयन्तीति व्युत्पत्तेरसोपेता रसंयितव्याः
सरसा देहे चिरकालस्थायित्वं चिरशरीरोपकारहेतुत्वम् ॥ ८ ॥
प० टी० । तच्च राजसतामसाहारपरित्यागेन सात्त्विकाहारयज्ञादिसेवया सत्त्ववृत्तौ यत्नः
कर्तव्य इत्येतदर्थं निरूप्यते । तत्राहारत्रैविध्यमाह आयुरिति त्रिभिः । आयुर्जीवितम्, सत्त्वमु-
त्साहः, बलं शक्तिः आरोग्यं रोगराहित्यम्, सुखं चित्तप्रसादः, प्रीतिराभिरुचिः आयुरादीनां विव-
र्धना वृद्धि करास्ते च रस्याः मुरसाः स्निग्धाः स्नेहयुक्ता न रूक्षा इत्यर्थः । देहे रसांशेन चिरकाला-
वस्थायिनो हृद्या दृष्टमात्रा एव हृदयंगमा एवंभूता आहारा भक्ष्यभोज्यादयः सात्वि-
कस्य प्रियाः ॥ ८ ॥

सप्तदशाध्यायः ।
४६०
कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः :॥
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९॥
कट्विति । कटुरम्लो लवणोऽत्युष्णोऽतिशब्दः कटादिषु सर्वत्र योज्योऽ-
तिकटुरतितीक्ष्ण इत्येवं कटुम्ललवणात्युष्णतीक्ष्णरूलविदाहिन एवंविधा आ-
हारा राजसस्येष्टा दुःखशोकामयप्रदा दुःखं च शोकं चामयं च प्रयच्छन्तीति
दुःरवशोकामयप्रदाः ॥ ९ ॥
आ० टी० । राजसप्रीतिविषयमाहाराविशेषं दर्शयति कद्विति । कटुस्तिक्तः कटुकस्य
तीक्ष्णशब्देनोक्तत्वाद्, रूक्षो विस्नेहो, विदाही सन्तापकः । आतिशब्दस्य सर्वत्र योजनमेवाभिनयति
अतिकवरिति । दुःखं तात्कालिकी पीडा, इष्टवियोगजं दुःखं, शोकः, आमयो रोगः ॥ ९ ॥
प० टी० । कट्ठम्लेति । तत्रातिशब्दः कटवादिषु सप्तसु संबध्यते । अतिकटुर्निम्बादिः
अत्यम्लोऽम्लवेतसादिः, अतिलवोत्युप्णश्च, प्रसिद्धः । अतितीक्ष्णो मरीचादिः, अतिरूक्षः कङ्गुका-
द्रवादिः, अतिविदाही सर्पपादिरेवमत आहारा राजसप्रियाः ॥ ९॥
यातयामं गतरसं पूति पर्युषितं च यत् ॥
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥
यातयाममिति । यातयामं मन्दपक्कं निर्वीर्यस्य गतरसेनोक्तत्वाद् गत-
रसं रसवियुक्तं पूति दुर्गन्धि पर्युषितं च पकं सद् रात्र्यन्तरितं च यद् उच्छि-
एमपि च भुक्ताशिष्टमप्यमध्यमयज्ञार्ह भोजनमीदृशं तामसप्रियम् ॥ १० ॥
आ० टी० । तामसप्रियमाहारमुदाहरति यातयाममिति । ननु निर्वीय यातयाममुच्यते
न पुनः सामिपक्वमिति नेत्याह निर्वीर्यस्येति ॥ १० ॥
प० टी० । यातयाममिति । यातो यामो प्रहरो यस्य पक्कौदनादि शैत्यावस्थां प्राप्तम्, ग-
तरसं निष्पीडितरसं, पूति दुर्गन्धि, पर्युपितं पूर्वेयुः पक्वम्, उच्छिष्टमन्यभुक्तावशेषम्, अमेध्य-
ममक्ष्यं कलादि । एवंभूतं भोजनं तामसस्य प्रियम् ॥ १० ॥
अफलाकाक्षिभिर्यज्ञो विधिदृष्टो य इज्यते ॥
यष्टव्यमेवेति मनःसमाधाय स सात्त्विकः ॥११॥
अथेदानीं यज्ञस्त्रिविध उच्यते अफलेति । अफलाकाङ्गिभिरफलार्थि-
भिर्यज्ञो विधिदृष्टः शास्त्रचोद नादृष्टो यो यज्ञ इज्यते निर्वय॑ते यष्टव्यमेवेति
यज्ञस्वरूपनिर्वर्तनमेव कार्यमिति मनः समाधाय नानेन पुरुषार्थो मम कर्तव्य
इत्येवं निश्वित्य स सात्त्विको यज्ञ उच्यते ॥ ११ ॥

श्रीमद्भगवद्गीता- - प० आ० टी० । हानादानार्थमाहारत्रविध्यमेवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति अ- थेति । तत्र साविकं यज्ञं ज्ञापयति अफलेति । फलाभिसन्धि विना यज्ञस्वरूपमेव भाव्यमिति बुद्ध्वा शास्त्रतोऽनुष्ठीयमानो यज्ञः सात्त्विक इत्यर्थः ॥११॥ टी० । अथ यज्ञोऽपि त्रिविधस्तत्र सोपाधिकं यज्ञमाह अफलाकाइक्षिभिरिति त्रिभिः । 'कुर्वन्नेवेह कर्माणि इत्यादिविधिना यष्टव्यमवेति इष्टो यज्ञः फलाकाङ्क्षारहितैः पुरुषैर्मनः समाधाय शुद्धं कृत्वा य इज्यतेऽनुष्ठीयते स सात्त्विकः ॥ ११ ॥ अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ॥ इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ १२॥ अभिसंधायेति । अभिसंधायोद्दिश्य फलं दम्भार्थमपि चैव यदि- ज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसं रजोगुणनिर्वयं राजसं जानीहि ॥१२॥ आ० टी० । राजसं यज्ञं हानार्थ दर्शयतिअभिसन्धायेति । स्वर्गाद्युद्दिश्य धार्मिकत्वख्या- पनार्थं च यद्यजनं क्रियते तं यज्ञ रजमा निर्वृत्तं त्याज्यमवगच्छेत्यर्थः ॥ १२ ॥ प० टी० राजसं यज्ञमाह अभिसंधायेति । फलमभिसंधायोद्दिश्य दम्भार्थ महत्त्वख्याप- नार्थ य इज्यते तं राजसं यज्ञं विद्धि ॥ १२ ॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ॥ श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥ विधिहीनमिति । विधिहीनं यथाचोदितविधिविपरीतम्, अमृष्टानं ब्रा- ह्मणेभ्यो न सृष्टं न दत्तमनं यस्मिन् यज्ञे सोऽसृष्टान्नस्तमसृष्टान्नं, मन्त्रहीनं म- न्वतः स्वरतो वर्णतश्च वियुक्तं मन्त्रहीनम्, अदक्षिणमुक्तदक्षिणारहितं, श्रद्धावि- रहितं यज्ञं तामसं परिचक्षते तमोनिदृत्तं कथयन्ति ॥ १३ ॥ आ० टी० । तामसं यज्ञं हानार्थमेवोदाहरति विधीति ॥ १३ ॥ प० टी० । तामसमाह विधिहीनमिति । विधिहीनं शास्त्रोक्तविविशून्यम्, न सृष्टं निष्पा- दितं ब्राह्मणेभ्योऽन्नं यस्मिन् मन्त्रैः स्वशाखोक्तहीनम् । यथावद्दक्षिणारहितं श्रया चैवविध तामसं परिचक्षते ।। १३ ॥ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ॥ ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४॥ अथेदानीं तपस्त्रिविधमुच्यते देवेति । देवाश्च हिजाश्च गुरवश्व प्राज्ञाश्च देवहिजगुरुप्राज्ञास्तेषां पूजनं शौचमार्जवमृजुलं ब्रह्मचर्यमहिंसा च शरीर- सप्तदशाध्यायः । ४६३ निर्वत्यै शारीरं शरीरप्रधानैः सर्वैरेव कार्यकरणैः कादिभिः साध्यं शारीरं तप उच्यते पचैते तस्य हेतव इति हि वक्ष्यति ॥ १४ ॥ आ० टी० । सात्त्विकादिभावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति अ- थेति । तत्र शारीरं तपो निर्दिशति देवेति । देवा ब्रह्मविष्णुशिवादयः, द्विनाः, पूज्यत्वाद द्विजो- तमा गुरवः पित्रादयः, प्राज्ञाः पण्डिता विदितवेदितव्यास्तेषां पूजनं प्रणामशुश्रूषादि. शौच मृज्ज- लाभ्यां शरीरशोधनम्, आर्जवमृजत्वं विहितप्रतिषिद्धयोरेकरू पप्रवृत्तिनिवृत्तिमत्त्व, ब्रह्मचर्य मैथुनास- माचरणम्, अहिंसा प्राणिनामपीडनम् । शरीरमात्रनिर्वय॑त्वमस्य तपसो संभवतीति मत्त्वा विशिनष्टि शरीरेति । कथं कादिसाध्यत्वे तपसः शारीरत्वं शारीरत्वे वा कथं कादिसाध्यत्वमित्याश- कयाह पञ्चेति ॥ १४ ॥ प० टी० । अथ कायवाङ्मनोविभागेन तपस्वैविध्यमाह देवद्विजेति । प्राज्ञो गुरुव्यति- रिक्तः अन्येऽपि तत्त्वविदो देवब्राह्मणादिपूजनशौचादिकं च शारीरं शरीरनिर्वयं तप उच्यते ॥१४॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ॥ स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥१५॥ अनुद्देगेति । अनुहेगकरं प्राणिनामदुःखकरं वाक्यं सत्यं प्रियं हि- तं च यत् प्रियहिते दृष्टादृष्टार्थे अनुद्देगकरत्वादिभिर्धर्मेर्वाक्यं विशिष्यते । वि- शेषणधर्मसमुच्चयार्थश्वशब्दः । परप्रत्यायनार्थ प्रयुक्तस्य वाक्यस्य सत्यप्रियहिता- नुद्देगकरत्वादीनामन्यतमेन दाभ्यां विभिर्वा हीनता स्याद्यदि न तस्य वाङ्म- यं तपस्त्वं तथा सत्यवाक्यस्येतरेषामन्यतमेन हाभ्यां त्रिभिर्वा हीनतायां न वा- ङ्मयतपस्त्वं तथा प्रियवाक्यस्यापीतरेषामन्यतमेन हाभ्यां विभिहीनस्य न वा- ङ्मयतपस्त्वं तथाहि न वाक्यस्यापीतरेषामन्यतमेन हाभ्यां त्रिभिर्वा वियुक्तस्य न वाङ्मयतपस्त्वं किं पुनस्तत्तपो यत् सत्यं वाक्यमनुहेगकर प्रियं हितं च यत् तत् परमं तपो वाङ्मयं यथा शान्तो भव वत्स स्वाध्यायं योगं वानु- तिष्ठ तथा ते श्रेयो भविष्यति स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तप उच्यते ॥ १५॥ आ० टी० । संप्रति वाङ्मय तपो व्यदिशति अनुद्वेगकरमिति । सत्यं यथादृष्टार्थवचनं, प्रियं श्रुतिसुखं, हितं परिणामपथ्यम् । प्रियहितयोविधान्तरेण विभागमाह प्रियेति । कथमत्र वि- शेषणविशेष्यत्वं तदाह अनुद्वेगेति । विशेषणानां धर्माणामनुद्वेगकरत्वादीनां विशेषणवाक्येन समु- दितानां परस्परमपि समुच्चयद्योती चकार इत्याह विशेषणेति । किमिति वाक्यमेतैविशेप्यते किमिति वा तेषां मिथः समुच्चयस्तत्राह परोति । यद्यपि विधायकवाक्यमात्रस्याविशषितस्य वाङ्मयतपस्त्वा- नुपपत्तिस्तथापि. सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङमयत्वमित्याशङ्कयाह तथेति । त- थापि परिणामपथ्यं. वाक्यमात्रं तथा भविष्यति नेत्याह तथा हितति । कीटक् तर्हि तयोवीङ्मय- १ इतरेषामिति-लि. नास्ति।

श्रीमद्भगवद्गीता-
'-
1.
त्वमिति प्रश्नपूर्वकं विशदयति किं पुनरिति । विशिष्ट वाङ्मये तपसि दृष्टान्तमाह यथेति । प्राङ्-
मुखत्वं पवित्रपाणित्वमित्यादिविधानमनतिक्रम्य स्वाध्यायस्यावर्तनमपि वाङ्मये तपस्यन्तर्भवतीत्याह
स्वाध्यायेति । वाक्प्राचुर्येण प्रस्तुतास्मिन्निति वाङ्मयं वाक्प्रधानमित्यर्थः ॥ १५ ॥
प० टी० । अथ वाङ्मयं तप आह अनुद्वेगकरमिति । परस्योद्वेगजनकं न भवति तथा-
विधं वाक्यं सत्यं यथार्थभाषणम् । तदपि दुःखपर्यवसाय न भवतीत्याह प्रियमिति । प्रियं च
तद्वितं च । प्रियं सुश्राव्यं परिणामे हितं च । तथा च मनुः--'सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रयात्सत्य-
मप्रियम्' इति । स्वाध्यायाभ्यसनं स्वशाखाध्ययनाभ्यासः । एतद्वाङ्मयं तप उच्यते ॥१५॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ॥
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६॥
मन इति। मनःप्रसादो मनसः प्रशान्तिः स्वच्छतापादनं मनसः प्रसादः
सौम्यत्वं यत् सौमनस्यमाहुर्मुखादिप्रसादकार्यान्तःकरणस्य रत्तिः, मौनं
वाक-
संयमोऽपि मनः संयमपूर्वको भवतीति कार्येण कारणमुच्यते मनःसंयमो मौ-
नमित्यात्मविनिग्रहो मनोनिरोधः सर्वतः सामान्यरूप आत्मविनिग्रहो वाग्विष-
यस्यैव मनसः संयमो मौनमिति विशेपः भावसंशुद्धिः परर्व्यवहारकालेऽमाया-
वित्वं भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥
आ० टी० ! मानसं तपः संक्षिपति मन इति । प्रशान्तिफलमेव व्यक्ति स्वच्छतेति ।
मनसः स्वाच्छ्यमनाकुलता नैश्चिन्त्यमित्यर्थः । सौमनस्यं सर्वेभ्यो हितैपित्वमहिताचिन्तनं च । तत्
कथं गम्यते तत्राह मुखादीति । तस्य स्वरूपमाह अन्तःकरणस्येति । ननु मौनं वानियमनं
वाङ्मये तपस्यन्तर्भवति तत् कथं मानसे तपसि व्यपदिश्यते तत्र वाचः संयमस्य कार्यत्वान्मनः
संयमस्य कारणत्वात् कार्येण कारणग्रहणान्मानसे तपास मौनमुक्तामत्याह वागिति । यद्वा मौनं
मुनिभावो मनम् आत्मनो मनसो विनिग्रहो निरोधः । नन्ववं मौनस्य मनोनिग्रहस्य च मनःसंयम-
त्वेनैकत्वात् पौनरुत्यं नेत्याह सर्वत इति । भावस्य हृदयस्य संशुद्धीरागादिमलविकलतेति व्याचष्टे
परैरिति । मानसं मनसा प्रधानेन निवर्त्यमित्यर्थः ॥ १६ ॥
प० टी० अथ मानसं तप आह मन इति । मनःप्रसादो, मनसः स्वास्थ्यम् साम्यत्वम-
क्रूरता । मौनं मुनीवो मननमित्यर्थः । आत्मविनिग्रहो विषयेभ्यः प्रत्याहारः । भावसंशुद्धियं-
वहारे मायाराहित्यमेतन्मानसं तपः । श्रुतिरपि “तमेतं वेदानुवचनेन विविदिपन्ति ब्रह्मचर्यण
तपसा श्रद्धया यज्ञेनानाशकेन" इति । भाप्यम्-तमेतमात्मानं वेदानुवचनेनोपनिषद्विभागेन विवि-
दिषन्ति वेदितुं ज्ञातुमिच्छन्ति । तथा ब्रह्मचर्येण शारीरेण तपसा श्रन्हयास्तिक्यबुद्धया। यज्ञेन
सात्त्विकेन अत एवानाशकेन नश्वरफलाभिसंधिरहितेन ॥ १६ ॥
श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः॥
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७॥

--
सप्तदशाध्यायः॥
४६५
यथोक्तं कायिकं वाचिकं मानसं च तपस्तप्तं नरैः सत्त्वादिभेदेन कथं
त्रिविधं भवतीत्युच्यते श्रद्धयास्तिक्यबुद्ध्या परया प्रकृष्टया तप्तमनुष्ठितं तपस्त-
त् प्रकृतं त्रिविधं प्रिकारम् अधिष्ठानं नरैरनुष्ठातृभिरफलाकाक्षिभिः फ-
लाकाङ्क्षारहितैर्युक्तैः समाहितैर्यदीदृशं तपस्तत् सात्त्विकं सत्त्वनिर्वृत्तं परि-
चक्षते कथयन्ति शिष्टाः ॥ १७ ॥
आ० टी० । त्रिविधस्य तपसो यथासंभवं सात्त्विकादिभावेन तत्रैविध्यमाकासाद्वारा
निक्षिपति यथोक्तमिति । अधिष्ठानं देहवाङमनोनिर्वयमित्यर्थः । समाहितः सिद्धचसिद्धयोनिर्विकार-
रिति यावत् ॥ १७ ॥
प० टी० । अथ सात्विकादिभेदेन पुनस्पैविध्यमाह श्रद्धयेति । तत्रिविधं शरीरवाङ्मनो-
विभागेन कथितं तपोऽफलाक क्षिभिस्तथा युक्तरेकाग्रान्तःकरणैर्नरैस्तप्तमनुष्ठितं तत्सात्त्विकं
परिचक्षते ॥ १७ ॥
सत्कारमानपूजार्थ तपो दम्भेन चैव यत् ॥
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८॥
सत्कारेति । सत्कारः साधुकारः साधुरयं तपस्वी ब्राह्मण इत्येवमर्थ
मानो माननं प्रत्युत्थानाभिवादनादिस्तदर्थं पूजा पादप्रक्षालनार्चनातिशयितृत्वा-
दिस्तदर्थं च तपः सत्कारमानपूजार्थ दम्भेनैव च क्रियते तपस्तदिह प्रोक्तं क-
थतं राजसं चलं कादाचित्कफलत्वेनाध्रुवम् ॥ १८ ॥
आ० टी०। राजसं तपो निर्दिशति सत्कारेति । साधुकारमेवास्फोरयति साधुरिति ।
दम्भेन चैव नास्तिक्येन केवलधर्मध्वजित्वनेत्यर्थः । तदिह प्रोक्तमस्मिन्नेव लोके फलप्रदमित्यर्थः । का-
दाचित्कफलत्वं क्षणिकफलत्वमध्रुवमनियतमनैकान्तिकफलमिति यावत् ॥ १८ ॥
प० टी० । सत्कार इति । सत्कारः साधुरयं तापस इति, मानः प्रत्युत्थानाभिवन्दनादिस्त-
दर्थम् । दम्भेन प्रसिद्धेन यत्कृतम् । चलमनित्यफलम् अध्रुवं क्षणिकं तद्रानसं तपः ॥ १८ ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ॥
परस्योत्सादनार्थ वा तत्तामसमुदाहृतम् ॥ १९॥
मूढेति । मूढग्राहेणाविवेकनिश्चयेनात्मनः पीडया क्रियते तत्तपः पर-
स्योत्सादनार्थ विनाशार्थ वा तत्तामसं तप उदाहृतम् ॥ १९ ॥
आ० टी० । तामसं तपः संगृह्णाति मूटेति । मूढोऽत्यन्ताविवेकी तस्य ग्राहो नामाग्रहोऽभिनि-
वेशस्तेनेत्याह अविवेकेति । आत्मनः स्वस्य देहादेरित्यर्थः ॥ १९ ॥
प० टी० । मूढग्राहेणेति । मूढत्वे सति ग्राह आग्रहस्तेन, आत्मनः शरीरस्योपवासादिपी.
डया, परस्योत्सादनं जारणमारणोच्चाटनाद्याभिचारिकं तत्तामसम् ॥ १९ ॥

श्रीमद्भगवद्गीता।
दातल्यमिति यहानं दीयतेऽनुपकारिणे ॥
देशे काले च पात्रे च तहानं सात्त्विकं स्मृतम् ॥२०॥
॥
इदानी दानभेद उच्यते दातव्यमिति । दातव्यमित्येवं मनः कृत्वा य-
दानं दीयतेऽनुपकारिणे प्रत्युपकारासमर्थाय समर्थायापि निरपेक्षं दीयते देशे
पुण्ये कुरुक्षेत्रादौ काले संक्रान्त्यादौ पात्रे च षडङ्गविहेदपारग इत्यादौ तद्दा-
नं सात्त्विकं स्मृतम् ॥ २० ॥
आ० टी० । क्रमप्राप्तं दानस्य गुणनिमित्तभेदमाह इदानीमिति । दातव्यमित्येवं मनः
कृत्वा दानमेव मया भाव्यं न फलमित्यभिसंधायेत्यर्थः ॥ २०
प० टी० । अथ त्रिविधं दानमाह दातव्यमिति त्रिभिः । अवश्यं दतव्यमवेति नियमेन
यद्दीयतेऽनुपकारिणे प्रत्युपकारासमर्थाय काले ग्रहणादौ, देशे कुरुक्षेत्रादौ, पात्रं षडङ्गवेदपारगे,
अत्र सप्तम्या चतुर्थी ज्ञेया ।
। तपःश्रुतादिसंपन्नाय ब्राह्मणायेत्यर्थः । यदेवंभूतं दानं
तत्सात्विकम् ॥ २० ॥
यत्तु प्रत्युपकारार्थ फलमुद्दिश्य वा पुनः॥
दीयते च परिक्लिष्टं तदानं राजसं स्मृतम् ॥ २१ ॥
यत्त्विति । यत्तु दानं प्रत्युपकारार्थ काले त्वयं मां प्रत्युपकरिष्यतीत्येव-
मर्थ फलं वास्य दानस्य मे भविष्यत्यदृष्टमिति तदुदिश्य पुनर्दीयते च परि-
क्लिष्टं खेदसंयुक्तं तद्राजसं स्मृतम् ॥ २१ ॥
५० टी० । राजसमाह यत्त्विति । कालान्तरेणायमाप मां प्रत्युपकरिष्यतीति स्वर्गादि-
लोकमुद्दिश्य वा । परिक्लिष्टं क्लेशयुक्तं वा यद्दीयते तद्राजसं दानम् ॥ २१ ॥
अदेशकाले यदानमपात्रेभ्यश्च दीयते ॥
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२॥
अदेशेति । अदेशकालेऽपुण्ये देशे म्लेच्छाशुच्यादिसंकीर्णेऽकाले पुण्य-
हेतुत्वेनाप्रख्याते संक्रान्त्यादिविशेपरहितेऽपात्रेभ्यश्च मर्वतस्करादिभ्यो देशा-
दिसंपत्तौ वासत्कृतं प्रियवचनपादप्रक्षालनपूजादिरहितमवज्ञातं पात्रपरिभव-
युक्तं च तदानं तामसमुदाहृतम् ॥ २२ ॥
आ• टी० । राजसतामसदानविभजनं स्पष्टार्थम् ॥ २१ ॥
प० टी० । तामसमाह अदेशकालेति । अदेशेऽशुचिस्थलेऽकाले सूलकादावपात्रेभ्यो वि-
टनटादिभ्यो यद्दीयते । असत्कृतं सत्काररहितम् । अवज्ञातं पादप्रक्षालनादिरहितं तत्तामसम् ॥२२॥
॥ २२ ॥

सप्तदशाध्यायः॥
४६७
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः॥
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३
यज्ञदानतपःप्रभृतीनां साद्गुण्यकरणायायमुपदेश उच्यते ॐतदिति ।
ॐतत्सदित्येष निर्देशो निर्दिश्यतेऽनेनेति निर्देशस्त्रिविधो नामनिर्देशो ब्रह्मणः
स्मृतश्चिन्तितो वेदान्तेषु ब्रह्मविद्भिाह्मणास्तेन निर्देशेन त्रिविधेन वेदाश्च
यज्ञाश्च विहिता निर्मिताः पुरा पूर्वमिति निर्देशस्तुत्यर्थमुच्यते ॥ २३ ॥
आ० टी० । विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यादित्याशङ्कयाह यज्ञति ।
'ॐमिति ब्रह्म' इत्यादिश्रुतेः ओमिति तावद् ब्रह्मणो नामनिर्देशः, 'तत्त्वमसि' इति श्रुतेः तदित्यपि
ब्रह्मणो नामनिर्देशः, 'सदेव सौम्येदम्' इति श्रुतेः सदित्यपि तस्य नामेति मत्वाह ओमिति। कथं नि-
दशेन तेषां विधानमित्याशङ्कयाह निर्दिश्यत इति। यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्नामन्यतमो-
चार गादवैगुण्यं सिध्यतीति भावः । कर्मसागुण्यकारणं त्रिविघनाम स्तौति ब्राह्मणा इति । पूर्व सर्गादौ
निर्माणं च प्रजापतिकर्तृकम् ॥ २३ ॥
प० टी० । ननु चैवं विचार्यमाणे सर्वमापे यज्ञतपोदानादि राजसं तामसं वा विगुणत्वात्कृतमपि
व्यर्थत्वमापद्यतेत्याशक्य तस्य विगुणस्यापि सगुणत्वोपपादनप्रकारं दर्शयितुमाह ॐमिति । ब्रह्मणः
परमात्मना निर्देशो नामव्यपदेशस्त्रिविधः स्मृतः । स कः ॐतत्सदिति । एवं तेन त्रिविधेन ब्रह्मणा
यज्ञकर्मकारस्तथा वेदा विधिमार्गप्रवर्तकास्तथा यज्ञाः कर्मरूपाः पुरा पूर्वसृष्टचादौ विहिता निर्मिताः ।
तत्र मिति ब्रह्मणा नाम । तदुक्तं छान्दोग्योपनिषत्तु “अथ खलु य उद्गीथः स प्रणवो यः
प्रणवः स उद्गीथस्तथा । ॐमित्येकाक्षरमुपासीतोम्" इति । तदुक्तं 'नोद्गीथेन समं किं चिच्छो-
धकं जगति स्मृतम् । यं विनाम्नायवर्गोऽपि स्वकार्य न प्रवर्तते' इति । तथा सर्वानुक्रमकारः शा-
कलोऽपि 'प्रजापतिरोङ्कारः सर्वदैवत्यः पारमेष्ठयो ब्राह्मो दैव आध्यात्मिकः' इति । भाष्यम्-प्रजा-
पतिर्देवता ॐमितिशब्दः सर्वदेवतास्वभिधायकत्वेन सर्वदैवत्यः परमोत्कृष्टस्थाने तिष्ठतीति पारमे-
ष्ठयो ब्राह्मो ब्रह्मदैवत्य आध्यात्मिकः शरीरवर्तिप्रत्यगात्मनोऽभिधायको वेति । तथा ब्राह्मणेऽप्या-
म्नातम् “तानि शुक्राण्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति ताने-
कधा समभरन् तदेतदोम्" इति । भाप्यम् --'तदेव शुक्रं तद्ब्रह्म' इत्यादिश्रुतेः । शुक्राणि शबलबह्माणि
हिरण्यगर्भादीन्यभितोऽतपन् तपश्चक्रुः । तेभ्योभितस्तप्तभ्यस्तपः कुर्वाणेभ्यः सकाशाद् ये वर्णा अ.
जायन्तेत स्पष्टम् । तथा च ॐमिति नामनिर्देशेन वेदा विहिताः, तदित्यनन ब्राह्मणाः,
सदित्यनेन.यज्ञाः ॥ २३ ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ॥
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥२४॥
तस्मादोमित्युदाहृत्योच्चार्य यज्ञदानतपःक्रियाः यज्ञादिस्वरूपाः क्रियाः
प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशी-
लानाम् ॥ २४ ॥

१६८
श्रीमद्भगवद्गीता ।
आ० टी० । यस्माद् ब्राह्मणादीनां कारणं यस्माच्च ब्रह्मणो निर्देशस्तस्मादित्युपसंहरात
तस्मादिति । ब्रह्मवादिनामित्यत्र ब्रह्म वेदः ।। २४ ॥
५० टी० । यज्ञोपक्रान्तमर्थमाह तस्मादिति । यस्मादेवं ब्रह्मणो निर्देशस्तस्मात्कारणा-
'दोमित्युदाहृत्योच्चार्य वेदविधानोक्तब्रह्मवादिनां मोक्षार्थिनां यज्ञदानतपसां क्रियाः सततं निर-
न्तरं प्रवर्तन्ते ॥ २४ ॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाक्षिभिः॥२५॥
तदिति । तदित्यनभिसंधाय तदिति ब्रह्माभिधानमुच्चार्यानभिसंधाय च
कर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियास्तपःकियाश्च यज्ञतपःकिया' दानक्रि-
याश्च त्रिविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः कियन्ते निवर्त्यन्ते मोक्षकाक्षिभिः
मोक्षार्थिभिर्मुमक्षुभिः ॥ २५ ॥
आ० टी० । ओशब्दस्य विनियोगमुक्त्वा तच्छब्दस्य विनियोगमाह तदित्यादिना ॥ २५॥
प० टी० । अथ द्वितीयनामनिर्देशं स्तौति तदित्युदाहृत्येति पूर्वस्यानुपङ्गः तदिति । ना-
मनिर्देशमुच्चार्य चित्तशुध्यर्थं प्रवृत्तैमोक्षकाक्षिभिः फलमनाभिमंधाय यज्ञतपःक्रियास्तथा दानक्रिया-
च क्रियन्ते ॥ २५ ॥
सद्भावे साधुआवे च सदित्येतत् प्रयुज्यते ॥
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥२६॥
ओतच्छब्दयोर्विनियोग उक्तोऽथेदानीं सच्छब्दस्य विनियोगः कथ्यते
सद्भाव इति । सतः सद्भावे यथा विद्यमानस्य पुत्रस्य जन्मनि, तथा साधुभावे
ऽसवृत्तस्यासाधोः सद्वृत्तता साधुभावस्तस्मिन् साधुभावे च सदित्येतदभि-
धानं ब्रह्मणः प्रयुज्यते तवोच्यतेऽभिधीयते प्रशस्ते कर्मणि विवाहादौ च तथा
सच्छब्दः पार्थ युज्यते प्रयुज्यत इत्येतत् ॥ २६ ॥
आ० टी० । वृत्तमन्द्यानन्तरश्लोकतात्पर्यमाह ओतच्छब्दयोरिति ॥ २६ ॥
५० टी०। अथ सच्छब्दस्य प्राशस्त्यमाह सद्भाव इति । सद्भावेऽस्तित्वे देवदत्तस्य पुत्रादिकम-
स्तीत्येतस्मिन्नर्थे साधुभावे च साधुत्वे देवदत्तस्य पुत्रादि श्रेष्ठमित्येतस्मिन्नर्थे सदित्येतत्पदं प्रयुज्यते ।
तथा प्रशस्ते विवाहादिमाङ्गलिके कृत्ये सच्छब्दो युज्यते ॥ २६ ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ॥
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥

सप्तदशाध्यायः । यज्ञे यज्ञकर्मणि या स्थितिस्तपसि च या स्थितिर्दाने च या स्थितिःसा च सदित्युच्यते विहद्भिः, कर्म चैव तदर्थीयं यज्ञदानतपोऽर्थीयमथ वा य- स्याभिधानत्रयं प्रकृतं तदर्थीयमीश्वरार्थीयमित्येतत् सदित्येवाभिधीयते तदेतद् यज्ञदानतपआदिकर्म सात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रय- प्रयोगेण सगुणं सात्त्विकं संपादितं भवति ॥ २७ ॥ आ० टी० । प्रकारान्तरेण सच्छब्दस्य विनियोगमाह यज्ञ इति । नामत्रयोच्चारणेन साद्- गुण्यं सिध्यतीति प्रकरणार्थमुपसंहरति तदेतदिति ॥ २७ ॥ ५० टी० । किं च यज्ञ इति। यज्ञे तपसि दाने च स्थितिस्तात्पर्येणावस्थानं तदपि सदित्युच्यते । यस्य नेदं नामत्रयं स एव परमात्मेत्यर्थः । तथा तदर्थीयं यज्ञदानतपोनिमित्तं पूजोपहारगृहाङ्गणपरि- मार्जनोपलपनध्वजपताकादि तथोद्यानक्षेत्रधनार्जनादि यत्कर्म क्रियते तदपि सदित्येवाभिधीयत । तस्मादवमिति प्रशस्तं नामवयं तस्मादतत्सर्वकर्मसाद्गुष्यार्थ कर्तियेदिति तात्पर्यार्थः । नायमर्थवादः, किं तु ब्रह्मणो नामनिर्देशस्यातिप्राशस्त्याद्विधिरेव कल्प्यते ॥ २७ ॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्॥ असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥२८॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु- नसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥१७॥ अश्रद्धयेति । तत्र च सर्वत्र श्रद्धाप्रधानतया सर्व संपाद्यते यस्मा- त्तस्माद् अश्रदया हुतं हवनं कृतं दत्तं च ब्राह्मणेभ्योऽश्रद्धया, तपस्तप्तमनुष्ठि- तमश्रद्धया, तथाश्रद्धयैव कृतं यत् स्तुतिनमस्कारादि तत् सर्वमसदित्युच्यते मत्प्राप्तिसाधनमार्गबाह्यत्वात् पार्थ न च तद् बदायासमपि प्रेत्य फलाय नापीहार्थ साधुभिर्निन्दितत्वादिति ॥ २८ ॥ इति श्रीमच्छङ्करभगवतः कृतौ गीताभाष्ये श्रद्धात्रयविभागो नाम सप्तदशोऽध्यायः ॥ १७ ॥ आ० टी० । अश्रद्धान्वितस्यापि कर्मणो नामत्रयोच्चारणादवैगुण्ये श्रद्धाप्राधान्यं न स्या- दित्याशङ्कचाह तत्र चेति । सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते सर्वयज्ञादि सगुणमिति शेषः । तस्यासत्त्वं साधयति मत्प्राप्तीति । ऐहिकामुप्मिकं वा फलमश्रद्धितेनापि कर्मणा संपत्स्यते कुतोऽ- स्यासत्त्वमित्याशङ्कयाह न चेति । तस्योभयविधफलाहेतुत्वे हेतुमाह साधुभिरिति । निन्दन्ति हि साधवः श्रद्धारहितं. कर्मातो नैतदुभयफलीपगिकमित्यर्थः, तदनन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभानां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वै- श्रीमद्भगवद्गीता। कशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशन परिहरतां परिशुद्धबुद्दीनां श्रवणादिसामग्री संजाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम् ॥ २८ ॥ इसानन्दगिरिकृतगीताभाष्यटीकायां सप्तदशोऽध्यायः ॥ १७ ॥ ५० टी : । अथाश्रद्धाकृतं सर्व निन्दति अश्रद्धयेति । असद्भावे श्रद्धया हुतं होमः दत्तं दानं तप्तं निर्वतितं तपः यच्चान्यदपि पूर्वोक्तवत्कृतं तत्सर्वमसदित्युच्यते । यतः प्रेत्य लोकान्तरे न फलमिति विगुणत्वात् । नेह चास्मिन् लोके फलति अयशस्करत्वात् । तस्माद्रजस्तमःप्रधानां श्रद्धां त्यक्त्वा सत्त्वमयों श्रद्धां श्रयेदित्यध्यायतात्पर्यम् ॥ २८ ॥ अथाध्यायतात्पर्यम्-प्राक् संस्कारानुरूपं विधिविधुरधियः श्रद्धया संयजन्ते दानाहार- क्रियाद्यैस्त्रिविधगुणवशात्तत्फलं ते लभन्ते । तद्वैगुण्यं निहन्तुं प्रभवति तदाँतत्सदेषा त्रिवर्णी तेन ब्रह्मार्पणं स्यादिदमिति दशमे सप्तयुक्ते निरुक्तम् ॥ १ ॥ ॐ तत्सत् ॥ इति श्रीवदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां श्रन्हाविवको नाम सप्त- दशोऽध्यायः ॥ १७ ॥ इति सप्तदशोऽध्यायः ॥१७॥ अथ अष्टादशोऽध्यायः। अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ॥ त्यागस्य च हृषीकेश एथक् केशिनिषूदन ॥१॥ सर्वस्यैव गीताशास्त्रस्यार्थोऽस्मिन्नध्याय उपसंहृत्य सर्वश्च वेदार्थो वक्त व्य इत्येवमर्थोऽयमध्याय आरभ्यते सर्वेषु यतीतेष्वध्यायेषु पूर्वोक्तोऽर्थोऽस्मिन्न- ध्यायेऽवगम्यतेऽर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषं बुभुत्सुरुवाच संन्या- सस्येति । संन्यासस्य संन्यासशब्दार्थस्येत्येतद्धे महाबाहो तस्य भावस्त- त्वं याथात्म्यमित्येतद् इच्छामि वेदितुं ज्ञातुं त्यागस्य च त्यागशब्दार्थस्येत्ये- तद् हृषीकेश पृथग् इतरेतरविभागं केशिनिषूदन केशिनामा कश्चिदसुरस्तं निषूदितवान् भगवान् वासुदेवस्तेन तन्नाम्ना संबोध्यतेऽर्जुनेन ॥ १ ॥ आ० टी० । पूर्वरध्यायविस्तरेण यतस्ततो विक्षिप्ततयोक्तमर्थ सुखप्रतिपत्त्यर्थ संक्षेपेणोपसं- हृत्याभिधातुमध्यायान्तरमवतारयति सर्वस्यैवेति । उपसंहृत्य वक्तव्य इति संबन्धः । किं चोपनिषत्सु यतस्ततो विस्तृतस्यार्थस्य बुद्धिसौकर्यार्थमस्मिन्नध्याये संक्षिप्ताभिधानं कर्तव्यमुपनिषदां गीतानां चै- कार्थत्वादित्याह सर्वश्चेति । कथं सर्वोऽपि शास्त्रार्थोऽस्मिन्नध्याये संक्षिप्योपसंड्रियते तत्राह सर्वेषु हीति । ननु वेदार्थश्चेदशेषतोऽत्रोपसबिहीर्षितस्तर्हि किमिति त्यागेनैके संन्यासयोगादिति च अष्टादशाध्यायः । ४७३ वेदार्थकदेशविषयं प्रश्नप्रतिवचनेत त्राह अजुनस्त्विति । पृथगनयोस्तत्त्वं वदितुमिच्छामीति विशेषणा- दएथगर्थस्तयोरस्तीति गम्यते बुभुत्सितस्य प्रष्टव्यत्वादेकदेशे तदभावादुक्तप्रश्नोपपत्तिरिति भावः ॥१॥ प०टी० । अन्तर्यामिस्वरूपेण गुरुणा येन दर्शितम् । निजस्वरूपं तं वन्दे गोविन्दमजमद्वयम् ॥१॥ पूर्व पश्चिमाध्याये सर्वकर्माणि मनसा संन्यस्येति तथा संन्यासयोगयुक्तात्मा विमुक्तो मामुपप्यसि' इत्यादिवाक्यैः कर्मसंन्यासः प्रशंसितोऽनन्तरं सर्वकर्मफलत्यागं ततः कुर्वित्यादिना फलमात्रत्यागेन क- मानुष्ठानमुपदिष्टं तत्परस्परविरुद्धमिति संदेहे तयोस्तत्त्वं जिज्ञासुरर्जुनः पुनः पृच्छति स्म संन्यासस्येति। भो हृषीकेश सर्वेन्द्रियेश स्वामिन् सन्यासस्य फलत्यागस्य च तत्त्वं रहस्यं पृथग्वेदितुं पृथकप्रकारेण ज्ञातुमिच्छामि । केशिनानो हयातर्दैत्यस्य युद्धे वर्तमानवामबाहुप्रसारप्रवेशनेन तं निषूदितवान् नाशितवानत एव महाबाहो इति संबुद्धिः । केश्यादिमहादैत्यदारणसमर्थस्य तवास्मत्संदेहापाकरणे कियानायास इत्यर्थः ॥ १॥ श्रीभगवानुवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥२॥ तत्र तत्र निर्दिष्टौ संन्यासत्यागशब्दौ न निलुण्ठितार्थौ पूर्वेष्वध्यायेष्व- तोऽर्जुनाय पृष्टवते तनिर्णयाय भगवानुवाच काम्येति । काम्यानामश्वमेधादी- नां कर्मणां न्यासं परित्यागं संन्यासं संन्यासशब्दार्थमनुष्ठेयत्वेन प्राप्तस्याननुष्ठान कवयः पण्डिताः केचिहिदुर्विजानन्ति नित्यनैमित्तिकानामनुष्ठीयमानानां सर्वक- मणामात्मसंबन्धितया प्राप्तस्य फलस्य त्यागः सर्वकर्मफलत्यागस्तमाहुः क- थयन्ति त्यागं त्यागशब्दार्थ विचक्षणाः पण्डिताः ॥ २ ॥ आ० टी० । ननु पूर्वप्वध्यायेषु तत्र तत्र संन्यासत्यागयोरुतत्वात् किमिति पुनस्तौ पृ- च्छचते ज्ञाते तदयोगात् तत्राह तत्र तत्रेति । न निलुण्ठितार्थो न निकृष्टार्थी न विविक्तार्थावित्यर्थः। बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् प्रष्टरभिप्रायं प्रश्न प्रतिपद्य भगवानुत्तरमुक्तवानित्याह अत इति । पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोरर्थभेदं कथयति काम्यानामिात ॥ २ ॥ ५०.टी । एतत्प्रश्नोत्तरं भगवानाह काम्यानामिति । काम्यानीष्टसाधनानि ज्योतिष्टोमादीनि तेषां सम्यक् फलैः सह न्यासः परित्यागस्तं कवयः पण्डिताः संन्यासं विदु नन्ति तथा काम्यातिरि- कानां सर्वेषां कर्मणां नित्यनैमित्तिकानामवान्तरफलत्यागं विचक्षणाः कुशलास्त्यागं प्राहुः । अत्रैतदुक्तं भवति । नित्यान्यकरणे प्रत्यवायसाधनानि संध्यावन्दनादीनि । नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि ना- तेष्टयादीनि । प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि । उपासनानि सगुणब्रह्मविषयमान- सव्यापाररूपाणि शाण्डिल्यविद्यादीनि । एतेषां नित्यादीनां बुद्धि शुद्धिः परमप्रयोजनम् । उपासनानां तदैकाग्र्यं विविदिषन्ति यज्ञेनेत्यादिश्रुतेः तपसा कल्मषं हन्तीत्यादिस्मृतेश्च । नित्यनौमत्तिक योरुपासनानां चावान्तरफलं पितृलोकसत्यलोकप्राप्तिः कर्मणा पितृलोको विद्यया देवलोको वै लो. काना श्रेष्ठ इति श्रुतेः । सर्वकर्मफलत्यागं प्राहुः ॥ २॥ तु ४७२ श्रीमद्भगवद्गीता। त्याज्यं दोपवदित्येके कर्म प्राहुर्मनीषिणः ॥ यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥३॥ यदि काम्यकर्मपरित्यागः फलपरित्यागो वार्थो वक्तव्यः सर्वथा परि- त्यागमात्र संन्यासत्यागशब्दयोरेकोऽयों घटपटशब्दाविव जात्यन्तरभूतार्थी। ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्तीत्याहुः कथमुच्यते तेषां फलत्यागो यथा वन्ध्यायाः पुत्रत्यागो, नैष दोषः,नित्यानामपि कर्मणां भगवता फलवत्त्वस्येष्टत्वात् वक्ष्यति भगवान् अनिष्टमिष्टमिति न तु संन्यासिनामिति च संन्यासिनामेव हि केवलं कर्मफलासंबन्धं दर्शयन्नसंन्यासिनां नित्यकर्मफलप्राप्तिर्भवत्यत्या- गिनां प्रेत्येति दर्शयति, त्याज्यं दोषेति । त्याज्यं त्यक्तव्यं दोषवद दोपोऽस्या- स्तीति दोषवत् किं तत् कर्म बन्धहेतुत्वात् सर्वमेवाथवा दोपो यथा रागादि- स्त्यज्यते तथा त्याज्यमित्येके कर्म प्राहुर्मनीषिणः पण्डिताः सांख्यादिदृष्टि- माश्रिता अधिकतानां तु कर्मिणामपीति, तत्रैव यज्ञदानतपःकर्म न त्याज्यमि. ति चापरे कर्मिण एवाधिकृतास्तानपेक्ष्यते विकल्पा न तु ज्ञाननिष्ठान व्युत्था. यिनः संन्यासिनोऽपेक्ष्य ज्ञानयोगेन सांख्यानां निष्ठा मया पुरा प्रोक्तति कर्मा- धिकारादपावृत्ता येन तान् प्रति विहिता चिन्ता । ननु कर्मयोगेन योगिनामित्यधिकृताः पूर्व विभक्तनिष्ठा अपीह सर्वशास्त्रोपसंहारप्रकरणे यथा विचार्यन्ते सांख्या अपि ज्ञाननिष्ठा विचार्यतामिति न तेषां मोहक्लेशदुःखनिमित्तत्यागाननुपपत्तेर्न कायकोशनिमित्तानि दुःखानि सांख्या आत्मनि पश्यन्तीच्छादीनां क्षेत्रधमत्वेनैव दर्शितत्वाद् अतस्ते कायक्लेशदुःखभयात् कर्म परित्यजन्ति नापि कर्माण्यात्मनि पश्यन्ति येन नियतं कर्म मोहात् परित्यजेयुगुणानां कर्म नैव किंचित्करोमीति हि ते संन्यस्यन्ति सर्वकर्माणि मनसा संन्यस्येत्यादिभिर्हि तत्त्व- विदः संन्यासप्रकार उक्तस्तस्माद्येऽन्येऽधिकृताः कर्मण्यनात्मविदो येषां च मो- हात् त्यागः संभवति कायक्लेशभयाच्च त एव तामसास्त्यागिनो राजसाश्चेति निन्दते कर्मिणामनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थः सर्वारम्भपरित्यागी मौ- नी संतुष्टो येन केनचिदनिकेतः स्थिरमतिरिति गुणातीतलक्षणे च परमा- र्थसंन्यासिनो विशेषितत्वाद्, वक्ष्यति च ज्ञानस्य या परा निष्ठेति तस्माज्ज्ञान- निष्ठाः संन्यासिनो नेह विवक्षिताः कर्मफलत्याग एवं सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यास उच्यते न मख्यःसर्वकर्मसंन्यासःसर्वकर्मसंन्यासासंभ- तथा न ते अष्टादशाध्यायः॥ वे च नहि देहभृतेति हेतुवचनान्मुख्य एवेति चेन्न, हेतुवचनस्य स्तुत्यर्थत्वाद् यथा त्यागाच्छान्तिरनन्तरमिति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्ति- मन्तमर्जुनं प्रति विधानात् तथेदमपि न हि देहभृता शक्यमिति कर्मफलत्या- गस्तुत्यर्थ न सर्वाणि कर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्त इत्यस्य पक्षस्यापवादः केनचिद्दर्शयितुं शक्यस्तस्मात् कर्मण्यधिकतान् प्रत्येवैष संन्यासत्यागविकल्पः । ये तु परमार्थदर्शिनः सांख्यास्तेषां ज्ञाननिष्ठायामेव स- वकर्मसंन्यासलक्षणायामधिकारो नान्यत्रेति न ते विकल्पास्तिथोपपादितम- स्माभिर्वेदाविनाशिनमित्यस्मिन् प्रदेशे तृतीयादौ च ॥ ३ ॥ आ० टी० । तत् किमिदानी संन्यासत्यागशब्दयोरात्यन्तिकं भिन्नार्थत्वं तथा च प्रसिद्धिवि- रोधः स्यादित्याशङ्कयावान्तर भेदेऽपि नात्यान्तकभेदोऽस्तीत्याह यदीति। पुत्राभावाद्वन्ध्यायास्तत्त्या- गायोगवन्नित्यनैमिात्तककर्मणामफलानां फलत्यागानुपपत्तेरुक्तस्त्यागशब्दार्थों न सिव्यतीति शङ्कते नन्विति । नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात्तत्त्यागसंभवादुक्तस्त्यागशब्दार्थः सं- भवतीति समाधत्ते नैष दोष इति । भगवता तेषां फलवत्त्वनिष्टमित्यत्र वाक्यशेषमनुकूलयति वक्ष्यतीति । तर्हि संन्यासिनामसंन्यासिनां च नित्याद्यनुष्ठायिनामविशेषेण तत् फलं स्यादिति चेन्नै- बेत्याह न त्विति । वक्ष्यतीत्यनुकर्षणं चकारार्थः । प्रसक्तस्य वचसोऽर्थ प्रकृतोपयोगित्वेन संगृह्य स्मारयति संन्यासिनामिति । काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलाषाहते कर्तव्यानी- त्युक्तं पक्ष प्रतिपक्षनिरामेन द्रढयितुं विप्रतिपत्तिमाह साज्यमिति। कर्मणः सर्वस्य दोषवत्त्वे हेतुमाह बन्धेति । दोषवदित्येतदृष्टान्तत्वेन व्याचष्टे अथवोते । कर्मण्यनधिकृतानामकर्मिणामेव कर्म त्या- ज्यं कर्मिणां तत्यागे प्रत्यवायादित्याशङ्कयाह अधिकृतानामिात । न हि तेषामपि कर्म त्यजतां प्र- त्यवायो हिंसादियुक्तस्य कर्मणोऽनुष्ठाने परं प्रत्यवायाांदाते भावः । सांख्यादिपक्षसमाप्तावितिशब्दः । मीमांसकपक्षमाह तत्रैवेति । कर्माधिकृतेष्ववति यावत्, कर्म नित्यं नैमित्तिकं च । काम्यानां कर्म- णामित्यारभ्य श्लोकाभ्यां कर्मिणोऽकर्मिणोऽधिकृताननधिकृतांश्चापेक्ष्य दर्शितविकल्पानां प्रवृत्तिरित्या- शङ्कयाह कर्मिण इति । एवकारव्यवच्छेद्यमाह नविति । तदेव स्फुटयति ज्ञानेति । कमाधिकृता- नां ज्ञाननिष्ठातो विभक्तनिष्ठावत्त्वेन पूर्वीक्तानामपि शास्त्रार्थोपसंहारे पुनर्विचार्यत्ववज्ज्ञातनिष्ठा- नामपि विचार्यत्वमत्राविरुद्धामेति शङ्कते नन्विति । सांख्यानां परमार्थज्ञाननिष्ठानां नात्र विचा- यतेत्युत्तरमाह न तेषामिति । ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्म- त्यागसिद्धर्विचार्यत्वं नेत्याह न कायेति । तत्र क्षेत्राध्यायाक्तं हेतूकरोति इच्छादीनामिति । स्वात्मनि सांख्यादीनां क्लेशाद्यप्रतिपत्तौ फलितमाह अत इति । ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्म- नि कर्माणि पश्यतां तत्यागो युक्तस्तेषां कायक्लेशादिकरत्वान्नेत्याह नापीति । अज्ञानां माहमाहा- त्म्यान् नियतमपि कर्म त्यक्तुं शक्यं न तत्त्वविदां स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावा- दिति मत्त्वाह मोहादिति । कथं तर्हि तेषामात्मनि कर्माण्यपश्यता प्राप्त्यभावे त. गुणानामिति अविवेकप्राप्तानां कर्मणां विदामित्युक्तं स्मारयन्नप्राप्तप्रतिषेधं प्रत्यादिशति सर्वेति । तत्त्वविदामत्राविचार्यत्वे फलितमाह तस्मादिति । येऽनात्मविदस्त एवेत्युत्तरत्र संबन्धः । कर्मण्यधिकतानामनात्मविदां कर्मत्यागसंभा- वनां दर्शयति येषां चेति। तन्निन्दा कुत्रोपयुक्तेत्याशङ्कयाह कर्मिणामिति । किं च परमार्थसंन्या- त्यागः संन्यासस्तत्राह त्यागस्तत्व-

श्रीमद्भगवद्गीता।
सिनां प्रशस्यत्वोपलम्मान्न निन्दाविषयत्वमित्याह सर्वोति । किं चात्रापि सिद्धि प्राप्तो यथेत्यादिना
ज्ञाननिष्ठाया वक्ष्यमाणत्वात्तद्गता नेह विचार्यतेत्याह वक्ष्यतीति । कर्माधिकतानामेवात्र विवक्षितत्वं
न ज्ञाननिष्ठानामित्युपसंहरति तस्मादिति । नन मंन्यासशब्देन सर्वकमसंन्यासस्य ग्राह्यत्वात्तथाविध-
संन्यासिनामिह विवाक्षतत्वं प्रतिभाति तत्राह कर्मेति । संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणं
गौणमुख्ययोमुख्य संप्रत्ययादन्यथा तदसंभवे हेतूक्तिवैयर्थ्यादप्राप्तप्रतिषेधादिति शङ्कते सर्वेति ।
नेदं हेतुवचनं सर्वकर्मसंन्याससंभवसाधकं कर्मफलत्यागस्तुतिपरत्वादिति परिहरति नेसादिना । एतदेव
दृष्टान्तेन स्पष्टयति यथेति । दृष्टान्तेऽपि यथाश्रुतार्थकत्वं किं न स्यादित्याशङ्कयाह यथोक्तेति ।
न हि फलत्यागादेव ज्ञानं विना मुक्तिर्युक्ता मुक्तेना॑नैकाधीनत्वसाधक श्रुतिस्मृतिविरोधाद् अद्वेष्ट-
त्यादिना चानन्तरमेव ज्ञानसाधनविधानानर्थक्यात्त्यागस्तुतिरेवात्र ग्राह्येत्यर्थः । दृष्टान्तगतमर्थं दाटी-
न्तिके योजयति तथेति । प्रागुक्तपक्षापवादविवक्षया हेतूने ख्यार्थत्वमेव किं न स्यादित्याशङ्कय
तदपवादे हेत्वभावान्मैवमित्याह न सर्वेति । न चेयमेव हतूक्तिस्तदपवादिकान्यथासिद्धेरुक्तत्वादिति
भावः । मुख्यसंन्यासापवादासंभवे संन्यासत्यागविकल्पस्य कथं सावकाशतेत्याशङ्कयाह तस्मादिति
ज्ञाननिष्ठान् प्रत्युक्तविकल्पानुपपत्तौ कुत्र तेषामधिकारस्तत्राह ये त्विति । संन्यासिनां विकल्पानहत्वे.
न ज्ञाननिष्ठायामेवाधिकारस्य भूयःसु प्रदेशेषु साधितत्वान्न साधनीयत्वापेक्षेत्याह तथेति ॥ ३ ॥
प० टी० । अथास्मिन्नथै मतान्तरमुपन्यस्यति साज्यमिति । यज्ञे हिंसादिदोषवत्कर्म ब-
न्धकं भवतीति त्याज्यमित्येके मनीषिणः सांख्या वदन्ति तथापरे मीमांसका “ अग्नीषोमीयं पशुमा-
लभेत" इत्यादिश्रुतिबलाद्यज्ञदानतपःकर्म न त्याज्यमिति वदन्ति ॥ ३ ॥
निश्चयं
शृणु
मे तत्र त्यागे भरतसत्तम ॥
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः॥४॥
तत्रैतेषु विकल्पभेदेषु निश्चयं शृण्ववधारय
तत्र त्यागे
त्यागसंन्यासविकल्पे यथा दर्शिते भरतसत्तम भरतानां साधुतम त्यागो हि
त्यागसंन्यासशब्दवाच्यो हि योऽर्थः स एक एवेत्यभिप्रेत्याह त्यागो हीति
पुरुषव्याघ्र त्रिविधस्त्रिप्रकारस्तामसादिप्रकारैः संप्रकीर्तितः शास्त्रेषु सम्यक् क-
थितो यस्मात्तामसादिभेदेन त्यागसंन्यासशब्दवाच्योऽर्थोऽधिकृतस्य कर्मिणो-
ऽनात्मज्ञस्य त्रिविधः संभवति न परमार्थदर्शिन इत्ययमों दुर्ज्ञानो हि य-
स्माद् अत्र तत्त्वं नान्यो वक्तुं समर्थस्तस्मानिश्चयं परमार्थशास्त्रार्थविषयमध्यवसा-
मे
मम वचनात्
यमैश्वरं शृणु ॥ ४॥
आ० टी० । कर्माधिकृतान् प्रत्येवोक्तविकल्पप्रवृत्तावपि कुतो निर्धारणसिद्धिस्तत्राह तत्रेति।
तमेव निश्चयं दर्शयितुमादौ त्यागगतमवान्तरविभागमाह त्यागो हीति । ननु त्यागसंन्यासयोरु-
भयोरपि प्रकृतत्वाविशेषे त्यागस्यैवावान्तरविभागाभिधाने संन्यासस्योपेक्षिकत्वमापद्येत नत्याह
सागो हीति । सात्विको राजसस्तामसश्चेत्युक्तेऽर्थे त्रैविध्यऽपि स्वयमेव निश्चयसंभवात्किमत्र भाग-
वतेन निश्चयेनेत्याशङ्कयाह यस्मादिति । भगवतोऽन्येनोक्तविभागे तत्त्वानिश्चयाद्भागवतनिश्चयस्य
श्रोतव्यतेति निगमयति तस्मादिति ॥ ४॥

अष्टादशाध्यायः। ४.७५ प० टी० । एवं मतभेदमुपन्यस्य स्वमतं कथयितुमाह निश्चयमिति । तत्रैवं विप्रतिपन्ने त्यागे मे वचनान्निश्चयं शृणु । हि यस्मात् कारणानो पुरुषव्याघ्र पुरुषार्थसाधनशील हीति निश्चयेन त्याग- स्त्रिविधः संप्रकीर्तितस्तामसादिभेदेन सम्यक्प्रकारेणाग्रे निरूपितोऽस्ति ॥ ४ ॥ यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥५॥ कः पुनरसौ निश्चय इत्याह यज्ञ इति । यज्ञो दानं तप इत्येतत्रिविधं कर्म न त्याज्यं न त्यक्तव्यं कार्य करणीयमेव तत् कस्माद् यज्ञो दानं तपश्चैव पावनानि विशुद्धिकारणानि मनीषिणां फलानभिसंधीनामित्येतत् ॥ ५ ॥ आ० टी० । तमेव भगवतो निश्चयं विशेषतो निर्धारयितुं प्रश्नपूर्वकमनन्तरश्लोकप्रवृत्ति द- यति कः पुनरिति । यज्ञादीनां कर्तव्यत्व हेतमाह यज्ञ इति । न केवलं न त्याज्यं किं तु क- तव्यमेवेत्याह कार्यमिति । प्रतिज्ञातमेवं विभज्य हेतुं विभनते कस्मादिति ॥ ५ ॥ प० टी० । तत्रादौ त्यागस्य स्वरूपं दर्शयति यज्ञदानतप इति द्वाभ्याम् । यज्ञदान- तपोरूपं कर्म न त्याज्यं किं तु तत्कार्यमेव कुतो यज्ञो दानं तपश्च मनीषिणां ज्ञानवतां कर्तुं पाव- नानि चित्तशोधकानि ॥ ५ ॥ एतान्यपि त कर्माणि सङ्गं त्यक्त्वा फलानि च ॥ कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥ एतान्यपीति । एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनान्युक्तानि सलमासक्ति तेषु त्यक्त्वा, फलानि च तेषां परित्यज्य कर्तव्यानीत्यनुष्ठेयानीति मे मम निश्चितं मतमुत्तमं निश्चयं शृणु मे तत्रेति प्रतिज्ञाय पावनत्वं च सहे- तुकमुक्त्वैतान्यपि कर्माणि कर्तव्यानीत्येतनिश्चितं मतमुत्तममिति प्रतिज्ञाता- थोपसंहार एव नापूर्वार्थ वचनमतान्यपीति प्रकृतसंनिकष्टार्थतोपपत्तेः सास- इस्य फलार्थिनो बन्धहेतव एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानीत्यपिशब्द- स्यार्थो न त्वन्यानि कर्माण्यपेक्ष्यैतान्यपोत्युच्यते । अन्ये वर्णयन्ति नित्यानां कर्मणां फलाभावात् सर्वं त्यक्त्वा फलानि चेति नोपपद्यते । एतान्यपीति यानि काम्यानि कर्माणि नित्येभ्योऽन्यान्येतान्यपि कर्तव्यानि किमुत यज्ञदान- तपांसि नित्यानीति, तदसत्, नित्यानामपि कर्मणां फलवत्त्वस्योपपादितत्वाद् यज्ञो दानं तपश्चैव पावनानीत्यादिवचनेन नित्यान्यपि कर्माणि बन्धहेतुत्वाश- या जिहासोर्मुमुक्षोः कुतः काम्येषु प्रसङ्कः 'दूरेण ह्यवरं कर्म' इति च निन्दि- तत्वाद् 'यज्ञार्थात् कर्मणोऽन्यत्र' इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चित-

४७६
श्रीमद्भगवद्गीता।
त्वात् ' त्रैगुण्यविषया वेदाः 'विद्या मां सोमपाः। क्षीणे पुण्ये मर्त्य-
लोकं विशन्ति इति च दूरेण व्यवहितत्वाच्च न काम्येष्वेतान्यपीति व्यपदेशः॥६॥
आ० टी० । प्रतिज्ञातमर्थमुपसंहरत एतान्यपीति । उपसंहार श्लोकाक्षराणि व्याकरोति
एतानीसादिना। अक्षरार्थमुक्त्वा तात्पर्यार्थमाह निश्चयमिति । प्रकृतार्थोपसंहारे गमकमाह ए-
तान्यपीति । अपिशब्दस्य विवक्षितमर्थ दर्शयति सासङ्गस्येति । व्यावयं कीर्तयति न विति ।
एतान्यपीत्यादिवाक्यं न नित्यकर्मविषयमिति मतमुपन्यस्यति अन्य इति । न चदिदं नित्यकर्मविष-
यं किंविषयं तीत्याशङ्कय वाक्यमवतार्य व्याकरोति एतानीयादिना। नित्यानामफलत्वमुपेत्य
यच्चोद्यं तदयुक्तमिति दूषयति तदसदिति । यत्तु काम्यान्यपि कर्तव्यानीति तन्निरस्यति नित्या-
न्यपीति । किं च काम्यानां भगवता निन्दितत्वान्न तेषु मुमुक्षोरनृष्ठानमित्याह रेणति । किं च मु-
मुक्षोरंपक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्यानुष्ठानमित्याह यज्ञादिति ।
काम्यानां बन्धहेतुत्वं निश्चितमित्यत्रैव पूर्वोत्तरवाक्यानुकूल्यं दर्शयति त्रैगुण्यति । किं च पूर्वश्लाके
यज्ञादिनित्यकर्मणां प्रस्तत्वादेतच्छब्देन संनिहितवाचिना परामर्शात् काम्यकर्मणां च 'काम्यानां कर्म-
णाम' इति व्यवहितानां संनिहितपरामर्शकैतच्छब्दाविषयत्वान्न काम्यकर्माण्येतान्यपीति व्यपदे-
शमहन्तीत्याह दूरति ॥ ६ ॥
५० टी० । केन प्रकारेण कृतानि पावनानि भवन्तीन्याह एतानीति । एतानि यज्ञदानतपो-
रूपाणि कर्माणि संगं त्यक्त्वा फलानि चैहिकामुष्मिकाणि त्यक्त्वा केवलमीश्वरार्पणतया कर्तव्यानी-
ति मे मतं निश्चितमसंदिग्धम् । उत्तमत्वांदतदेवादरणीयमित्यर्थः ॥ ६
नियतस्य त संन्यासः कर्मणो नोपपद्यते ॥
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७॥
नियतस्येति । तस्मादज्ञस्याधिकृतस्य मुमुक्षोनियतस्य तु नित्यस्य सं-
न्यासः परित्यागः कर्मणो नोपपद्यतेऽज्ञस्य पावनत्वस्येष्टत्वान्मोहादज्ञानात्तस्य
नियतस्य परित्यागो नियतं चावश्यं कर्तव्यं त्यज्यते चेति विप्रतिषिद्धमतो
मोहनिमित्तः परित्यागस्तामसः परिकीर्तितो मोहश्च तम इति ॥ ७ ॥
आ० टी० नित्यकर्मणामवश्यकर्तव्यत्वमुक्तमुपजीव्यापेक्षितं पूरयन्ननन्तरश्लोकमवतारयति
तस्मादिति । ननु कश्चिन्नियतमपि कर्म त्यजन्नुपलभ्यत तत्राह मोहादिति । अज्ञानं पावनत्वापरि-
ज्ञानम् । अज्ञस्य नित्यकर्मत्यागो मोहादित्येतदुपपादयति नियतं चेति । नित्यकर्मत्यागस्य मोहक-
तत्वे कुतस्तामसत्वमित्याशङ्कयाह मोहश्चेति ॥ ७ ॥
प० टी०।अथ त्यागत्रैविध्यमाह नियतस्यति । काम्यस्य कर्मणो बन्धकत्त्वात्तत्संन्यासो युक्तः
नियतस्य नित्यस्य तु कर्मणः संन्यासस्त्यागो नोपपद्यते न युज्यते सत्त्वशुद्धिद्वारा मोक्षहेतुत्वात ।
मोहादज्ञानात्तस्य नित्यस्य कर्मणो यस्त्यागः स तामसः परिकीर्तितः ॥ ७ ॥
दुःखमित्येव यत् कर्म कायक्लेशभयात्त्यजेत् ॥
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥

अष्टादशाध्यायः । ४७७ किं च दुःखमिति । दुःखमित्येव यत् कर्म कायक्लेशभयाच्छरीरदुःख- भयात्त्यजेत् स कृत्वा राजसं रजोनिवर्त्य त्यागं नैव तत्त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेलैव लभते ॥ ८ ॥ आ० टी० । इतश्च नित्यकर्मत्यागो नाज्ञस्य संभवतीत्याह किं चौते । ननु मोहं विनैव दुःखात्मकं कर्म कायक्वंशभयात्त्यजति करणानि हि कार्यं जनयन्ति श्राम्यन्ति च तथा च न तत्त्या- गस्तामसो युक्तस्तत्राह दुःखमिसेवेति । यत् कर्म दुःखात्मकमशक्यसाध्यमित्येवालोच्य ततो निव- तते देहस्यन्द्रियाणां च क्लेशात्मनो भयात्त्यजति स तत् त्यक्त्वा रजानिमित्तं त्यागं कृत्वापि न तत्फलं मोक्षं लभते किंतु कृतेनैव रानसेन त्यागेन तद नुरूपं नरकं प्रतिपद्यते इत्याह दुःखमिसेवयादिना । कर्मत्यागस्तामसा राजसश्चेति द्विविधो दर्शितः ॥ ८ ॥ प० टी०। राजसं त्यागमाह दुःखमिति । अथ कर्ता कर्म दुःख दुःखसाध्यमिति मत्वा काय- क्लेशभयाद्यस्त्यजेत् स राजसं त्यागं कृत्वा ज्ञानविनिष्ठालक्षणं त्यागफलं नैव लभेत् ॥ ८ ॥ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ॥ संगं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥९॥ कः पुनः सात्त्विकस्त्यागः, कार्यमिति । कार्य कर्तव्यमित्येव यत् कर्म नियतं नित्यं क्रियते निर्वय॑ते हे ऽर्जुन सढुं त्यक्त्वा फलं चैव । नित्यानां कर्मणां फलवत्त्वे भगवचनं प्रमाणमवीचामाथ वा यद्यपि फलं न श्रूयते नित्यस्य कर्मणस्तथापि नित्यं कर्म कृतमात्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोत्यात्मन इति कल्पयत्येवाज्ञस्तत्र तामपि कल्पनां निवारयति फलं त्यक्त्वे- त्यनेनातः साधूक्तं सङ्गं त्यक्त्वा फलं चेति स त्यागो नित्यकर्मसु सङ्गफलपरि- त्यागः सात्त्विकः सत्त्वनिटत्तो मतोऽभिमतः। ननु कर्मपरित्यागस्त्रिविधः सं- न्यास इति च प्रकृतस्तत्र तामसो राजसश्वोक्तस्त्यागः कथमिह सङ्गफलत्याग- स्तृतीयत्वेनोच्यते यथात्र ये ब्राह्मणा आगतास्तत्र पडङ्गविदो ही क्षत्रियस्त.. तीय इति तहलेष दोष स्त्यागसामान्यन स्तुत्यर्थलादस्ति हि कर्मसंन्या- सस्य फलाभिसंधित्यागस्य च त्यागत्वसामान्यं तत्र राजसतामसत्वेन क. मत्यागनिन्दया कर्मफलाभिसंधित्यागः सात्त्विकत्वेन स्तूयते 'स त्यागः सात्त्विको मतः' इति ॥ ९ ! आ० टी० । संप्रति सात्त्विकं त्यागं प्रश्नपूर्वकं वर्णयति कः पुनरिति । कर्तव्यमित्यवे. त्येवकारेण नित्यस्य भाव्यान्तरं निषिध्यते नित्यानां विध्युद्देश फलाश्रवणात् तेषां फलं त्यक्त्वत्ययु- कमित्याशङ्कयाह नित्यानामिति । फलं त्यक्त्वेत्यस्य विधान्तरेण तात्पर्यमाह अथवेति । न हि विधि- ना कृतं कर्मानर्थक विध्यानर्थक्यात्तेन श्रौतफलाभावेऽपि नित्यं कर्म विधिताऽनुष्ठितं नात्मानमजानन्न- १ तन्निवर्तने लि. पा.

४७६ श्रीमद्भगवद्गीता । । नुपहतमनस्त्वोत्या तस्मिन् कर्मण्यात्मसंस्कारं फलं कल्पयति तदकरणे प्रत्यवायस्मृत्या तत्करण कर्तुरात्मनस्तन्निवृत्तिं करोतीति वा नित्ये कर्मण्युक्तां कल्पनामनुनिष्पादितफलकल्पनांच फलं त्यक्त्वेत्यस्य भगवान्निवारयतीत्यर्थः । नित्यकर्मस फलत्यागोक्तेः संभवे फलितमाह अत इति । कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य त्यागो हीति त्रैविध्यं प्रतिज्ञाय प्रतिज्ञानुरोधेन द्वे विधे व्युत्पाद्य तृतीयां विधां तद्विरोधेन व्युत्पादयतो भगवतोऽकौशलमापतितमिति शङ्कते नन्विति । प्रक्रमप्रतिकू- लमुपसंहारवचनमन चितमित्यत्र दृष्टान्तमाह यथेति । पूर्वोत्तरविरोधेन प्राप्तमकौशलं प्रत्यादिशति नेप दोष इति । कर्मत्यागपालत्यागयोस्त्यागत्वेन सादृश्यात् कर्मत्यागनिन्दया तत्फलत्यागस्तुत्यर्थ- मिदं वचनमित्युपगमान्न विरोधोऽस्तीत्युक्तमेव व्यक्तीकुर्वन्नादौ त्यागसामान्यं विशदयति अस्तीति । सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते तत्रेति ॥ ९ ॥ प० टी० । सात्त्विकं त्यागमाह कार्यमिति । कार्यमवश्यकर्तव्यत्वेन प्राप्तमित्येव मत्त्वा नियतं नित्यं कर्म संगं फलं च त्यक्त्वा यक्रियते स त्यागः सात्त्विको मतः । अत्रैतदुक्तं भवति । वेदबोधि- तस्य कर्मणः प्रयोजनद्वयं दर्शितमस्ति स्वर्गादीष्टप्राप्तिः संसाराद्यनर्थपरिहारश्च तत्रेप्टप्राप्तिर्मीनस्य वडिशामिषप्राप्तिरिव दुःखगर्भात्सुग्वेनावस्थानमेवानर्थपरिहारः । तथाचोभयोर्मध्येऽवश्यकत्वेन किमनु- ष्टेयमिति विचारेऽनर्थपरिहार एवानुष्ठातुं श्रेयानिति भगवतो हार्दम् ॥ ९ ॥ न द्वेष्ट्यकुशलं कर्म कुशले नानुपज्जते॥ त्यागो सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १०॥ यस्त्वधिकृतः सङ्गं त्यक्त्वा फलाभिसंधिं च नित्यं कर्म करोति तस्य फलरागादिनाकलुषी क्रियमाणमन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं वि- शुद्ध्यति तद् विशुद्धं प्रसनमात्मालोचनक्षमं भवति तस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्यात्मज्ञानाभिमुखस्य क्रमेण यथा तनिष्ठा स्यात्तइक्तव्यमि- त्याह न दृष्टयकुशलमशोभनं काम्यं कर्म शरीरारम्भहारेण संसारकारणं कि- मनेनेत्येवं कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितनिष्ठाहेतुत्वेन मोक्षकारणमिदमित्येवं नानुषज्जते तत्रापि प्रयोजनमपश्यन्ननुषङ्गं प्रीतिं न क- रोतीत्येतत्, कः पुनरसी त्यागी पूर्वोक्तेन सङ्गफलपरित्यागेन तहांस्त्यागी यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च, नित्यकर्मानुष्ठायी स त्यागी । कदा पुनर- सावकुशलं कर्म न हेष्टि कुशले च नानुषज्जत इत्युच्यते सत्त्वसमाविष्टो यदा सत्त्वेनात्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः संयुक्त इत्येतद् । अ- त एव च मेधावी मेधयात्मज्ञानलक्षणया प्रज्ञया संयुक्तस्तद्दान्मेधावी मे- धावित्वादेव छिन्नसंशयश्छिन्नोऽविद्यारुतः संशयो यस्यात्मस्वरूपावस्थान- मेव परं निःश्रेयससाधनं नान्यत् किं चिदित्येवं निश्चयेन छिन्नसंशयो योऽधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्क- अष्टादशाध्यायः । तात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन संबुद्धः स स- वकर्माणि मनसा संन्यस्य नैव कुर्वनकारयन्नासीनो नैष्कर्म्यलक्षणां ज्ञाननि- ष्ठामश्नुत इत्येतत् पूर्वोक्तस्य कर्मयोगस्य प्रयोजनमनेन श्लोकेनोक्तम् ॥ १० ॥ आ० टी० । एवं पूर्वापरविरोधं पराकृत्यानन्तरश्लोकतात्पर्यमाह यस्त्विति । फलरागा- दिनेत्यादिशब्देन कर्मस्वरूपासङ्गो गृह्यतेऽन्तःकरणमकलुषीक्रियमाणमितिच्छेदः । विशुद्धेऽन्तःकरणे किं स्यादित्याशङ्कयाह विशुद्धमिति । मलविकलत्वं विशुद्धत्वं संस्क्रियमाणत्वं प्रसन्नत्वमिति भेदः। क्रमेण श्रवणाद्यावृत्तिद्वारेणेत्यर्थः । तन्निष्ठेत्यात्मज्ञाननिष्टोक्ता । काम्यकर्मणि त्याज्यत्वेन द्वेपमभिनयति किमिति । उभयत्र द्वेषं प्रीति च न करोतीति सामान्यनोक्तं कर्तारं प्रभपूर्वकं विशेपतो निर्दिशति कः पुनरिति । त्यागीत्युक्तं त्यागिनमाभव्यनक्ति पूर्वोक्तनोते । कर्मणि सङ्गस्य तत्फल- स्य च त्याग्नेति यावत् । उक्तमव त्यागिनं विवृणाति यः कर्मणीति । तत्फलं त्यक्त्वति संबन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुरिति न द्वष्टि नित्ये नैमित्तिके च मोक्षहेतु- रिति न प्रीयते । तत्र कालविशेष पृच्छात कदंति । नित्यादिकर्मणा फलाभिसन्धिर्वजतेन क्षपि- तमलसंपन्नत्वं यथार्थग्रहणसामर्थ्य मुद्बुध्यते तेन समावेशदशायामुक्तप्रीतिद्वेषयोरभावो भवतीत्याह उच्यत इति । चतुर्थपादं व्याकराति अत एवेति । समुद्रुहयथार्थग्रहणमामर्थ्ये समाविष्टत्वादि- त्यर्थः । छिन्नसंशयत्वमेव विशदयति आत्मेति । परं निःश्रेयसं तम्य च साधनं सम्यग्ज्ञानमवेति योजना । न द्वेष्टीत्यादिना श्लोकेनोक्तमर्थ संक्षिप्यानुवदति योऽधिकृत इति । पूर्वोक्तप्रकारेणेति कर्मणि तत्फले च सङ्गत्यागेनेत्यर्थः, कर्मात्मयोगस्यानुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठान- द्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वन संबुद्ध इति संबन्धः । परस्य निष्क्रियत्वे हेतुमाह जन्मादीति । उक्त- ज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति स सर्वति ॥ १० ॥ ५० टी० । अथैवभूतसात्त्विकत्यागपरिनिष्ठितस्य लक्षणमाह न द्वेष्टीति । त्यक्तरजस्तमस्कः सत्त्वेन समाविष्टः. प्रविष्ट एवंविधस्त्याग्यकुशलं देहपीडाकरं कर्म न द्वेष्टि एतदकामिति मनुते तथा कुशले निदाघे मध्याहस्नानवदेहमुखावहे कर्मणि नैव सज्जते एतत्सुखकरमिति प्रीति न कुरुते । अनेन कायक्लेशभयात्त्यजेदित्यादिवद्रजौराहित्यं दर्शितम् । यतो मेधावी बुद्धिमान् दैहिक- सुखदुःखे अमन्यमानोऽतएव मन्मतावलम्बननच्छिन्नसंशयः ॥ १० ॥ न हि देहभूता शक्यं त्यक्तुं कर्माण्यशेषतः॥ यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥ यः पुनरधिकृतः सन् देहात्माभिमानित्वेन देहभृदज्ञोऽबाधितात्मकर्तृत्व- विज्ञानतयाहं कर्तेति निश्चितबुद्धिस्तस्याशेषकर्मपरित्यागस्याशक्यत्वात् कर्मफ- लल्यागेन चोदितकर्मानुष्ठान एवाधिकारो न त्याग इत्येतमर्थ दर्शयितुमाह न हीति । न हि यस्मादेहभृता देहं बिभर्तीति देहभृद्देहात्माभिमानवान् देहभृदु- च्यते न हि विवेकी स हि वेदाविनाशिनमित्यादिना कर्तृत्वाधिकारानिवर्ति- तोऽतस्तेन देहभृताज्ञेन न शक्यं त्यक्तुं संन्यसितुं कर्माण्यशेषतो निःशेषेण । । भपितंकल्मषस्य लि. पा.

४८. श्रीमद्भगवद्गीता। तस्माद्यस्त्वज्ञोऽधिकतो नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफला- भिसन्धिमात्रसंन्यासी स त्यागीत्यभिधीयते कर्म्यपि सन्निति स्तुत्यभिप्रायेण तस्मात् परमार्थदर्शित्वेनैवादेहभृता देहात्मभावरहितेनाशेषकर्मसंन्यासः शक्यते कर्तुम् ॥ ११ ॥ आ० टी० । आत्मज्ञानवतः सर्वकर्मत्यागसंभावनामुक्त्वा तद्धीनस्य तदसंभवे हेतु वचत्वेना- नन्तरश्लोकमवतारयति यः पुनरिति । न बाधितमात्मनि कर्तृत्वविज्ञानमस्येत्यज्ञस्तथा तस्य भावस्त- त्ता तयेति यावत्, एतमर्थ दर्शयितुमज्ञस्य सर्वकर्मसंन्यासासंभवे हेतुमाहेति योजना । यस्मादित्यस्य तस्मादित्युत्तरेण संबन्धः । विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेष कर्माधिकारः स्यादित्याश- कयाह न हीति । कर्तृत्वाधिकारस्तत्पूर्वकं कर्मानुष्ठानं तस्मादिति यावत् । ज्ञानवतो देहधारणऽपि तदभिमानित्वाभावोऽतःशब्दार्थः । अज्ञस्य सर्वकर्मत्यागायोगमुक्तं हेतूकत्य फलितमाह तस्मादि- ति । कर्मानुष्ठायिनस्त्यागित्वोक्तिग्युक्त्याशङ्कयाह कर्मीति । कर्मिणाऽपि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थमित्यर्थः । कस्य तर्हि सर्वकर्मत्यागः संभवतीत्याशङ्कय विवेकवैराग्यादिमतो देहाभि- मानहीनस्येत्युक्तं निगमयति तस्मादिति ॥ ११ ॥ प० टी० । तदेवाह न हीति । देहभृता देहाभिमानवता दैहिकव्यवहाराय करचरणव्या- पारं कुर्वताशेषतः कर्माणि त्यक्तुं न हि शक्यम् । कायक्लशभयात्कथं त्यक्तुं शक्यन्त इत्यर्थः । न हि कश्चित्क्षणमपीति पूर्वमेवोक्तम् ॥ ११ ॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥ भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१२॥ किं पुनस्तत् प्रयोजनं यत् सर्वकर्मपरित्यागात् स्यादित्युच्यते अनि- ष्टुं नरकतिर्यगादिलक्षण, मिष्टं देवादिलक्षणं, मिश्रमिष्टानिष्टसंयुक्तं मनुष्यलक्षणं चैव त्रिविधं त्रिप्रकारं कर्मणो धर्माधर्मलक्षणस्य फलं वाह्यानेककारकव्या- पारनिष्पन्नं सदविद्यारुतमिन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसपीव फल्गुतया लयमदर्शनं गच्छतीति फलमिति फलनिर्वचनं तदेतदेवलक्षणं फलं भवत्यत्यागिनामज्ञानां कर्मिणामपरमार्थसंन्यासिनां प्रेत्य शरीर पातादूर्ध्वम् । न तु परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचिन्न हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं नोन्मूलयति कदाचिदित्यर्थः।।१२॥ आ० टी० । उक्ताधिकारिणः सर्वकर्मसंन्यासासंभवेऽपि फलाभावे कुतस्तस्य कर्तव्यतेति शङ्कते किं पुनरिति । गौणस्य मुख्यस्य वा संन्यासस्य फलं पिटच्छिषितमिति विकल्पयति उच्य- त इति । सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स चामुख्यसंन्यासस्तस्य फलमाह अनिष्टमिति । मुख्य तु संन्यासे सर्वकर्मत्यागे सम्यगधीद्वारा सर्वसंसारोच्छित्तिरव फलितमित्याह न त्विति । पादत्रयं व्याकरोति अनिष्टमित्यादिना । तिर्यगादीत्यादिपदमवशिष्टनिकृष्टयोनिसंग्रहार्थ, अष्टादशाध्यायः। ४८५ देवादीत्यादिपदं विशिष्टोत्कृष्टयोनिग्रहणायति विभागः । फलशब्दं व्युत्पादयति बाह्यति । करण- द्वारकमनेकविधत्वमुक्त्वा मिथ्यात्वमाह अविद्यति । तत्कृतत्वेन दृष्टिमात्रदेहत्व दृष्टान्तमाह इन्द्रेति। प्रतीतितो रमणीयत्वं सचयति महामोहेति । अविद्योत्थानां चाविद्याश्रितत्वादात्माश्रितत्वं वस्तुतो नास्तीत्याह प्रसगिति । उक्तं फलं कर्मिणामिप्यते चेदमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथ- मिष्टमित्याशङ्कयाह अपरमार्थेति । फलाभिसन्धिविकलानां कर्मिणां देहपातादूर्ध्व कर्मानुराधिफलमा- वश्यकमित्यर्थः । कर्मिणामव सतामफलाभिसन्धीनाममुख्यसंन्यासित्वात्तदीयामुख्यसंन्यासस्य फल- मुक्त्वा चतुर्थपादं व्याचष्टे न त्विति । अमुख्यसंन्यासमनन्तरप्रकृतं व्यवच्छिनति परमार्थेति । तेषां प्रधानं धर्ममुपदिशति कवलेति । क्वचिद्दश काले वा नास्ति यथोक्तं फलं तेपामिति संबन्धः । तर्हि परमार्थसंन्यासोऽफलत्वान्नानुष्टीयतेत्याशक्य तस्य माक्षावसायित्वान्मैवमित्याह न हति ॥ १२ ॥ प० टी०एवंभूतस्य कर्मफलत्यागस्य फलमाह अनिष्टमिति। अनिष्टं नारकित्वम्, इष्टं देवत्वम्, मिश्रं मनुप्यत्वम् । एवं त्रिविधं पापस्थापुण्यम्य मिश्रस्य च कर्मणो यत्फलं प्रसिद्ध तत्सर्वमत्यागिनां सका- मानामेव प्रेत्य परत्र भवति तेषां त्रिोवेधकर्मसंभवात् न तु संन्यासिनां क्वचिदपि भवति । संन्या- सशब्देनात्र फलत्यागिना गृह्यन्त 'अनाश्रितः कर्मफलं कार्य कर्म करोति यः' इत्येवमादौ फलत्यागिषु संन्यासिप्रयोगदर्शनात् ॥ १२ ॥ पञ्चेमानि महाबाहो कारणाणि निबोध मे ॥ सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥ अतः परमार्थदर्शिन एवाशेपकर्मसंन्यासित्वं संभवत्यविद्याध्यारोपित- त्वादात्मनि क्रियाकारकफलानां न त्वज्ञस्याधिष्ठानादीनि क्रियाकर्तणि कारका- ण्यात्मत्वेन पझ्यतोऽशेपकर्मसंन्यासः संभवति । तदेतदुत्तरः श्लोकदर्शयति प- ञ्चेति । पञ्चेमानि वक्ष्यमाणानि हे महावाहो कारणानि निवर्तकानि निबोध मे ममेति,उत्तरत्र चेतःसमाधानार्थं वस्तुवैपम्यप्रदर्शनार्थं च तानि च कारणानि ज्ञा- तव्यतया स्तौति सांख्ये ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन् शास्त्रे तत्सांख्यं वेदान्तः कृतान्त इति तस्यैव विशेपणं कृतमिति कर्मोच्यते तस्यान्तः परिस- माप्तिर्यत्र स कृतान्तः कर्मान्त इत्येतद् ‘यावानर्थ उपदाने' 'सर्व कर्मा- खिलं पार्थ ज्ञाने परिसमाप्यते' इत्यात्मज्ञाने संजाते सर्वकर्मणां निरत्तिं दर्श- यत्यतस्तस्मिन्नात्मज्ञानार्थे सांख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्यर्थं सर्वकर्मणाम् ॥ १३ ॥ आ० टी० । नन्वपरमार्थसंन्यासवदविशेपादनानां परमार्थसंन्यासोऽपि किं न स्यात्त्यागस्य सुकरत्वात्तत्राह अतः परमार्थेति । तस्य सम्यगदर्शनादविद्यानिवृत्तौ तदारापितक्रियाकारकादिनि- वृत्तरिति हेत्वर्थः । विद्यावतः सर्वकर्मसंन्यासित्वसंभावनामुक्त्वैवकारव्यावर्त्य दर्शयति न त्विति । अविदुपोऽशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेप्वधिष्ठानादिप्वात्मदान हेतुमाह क्रियेति. । कथमधिष्ठानादीनां क्रियाकर्तृत्वं कथं वा विदषस्तप्वात्मत्वीरित्याश- .

व-
४८२
श्रीमद्भगवद्गीता।
यानन्तरश्लोकचतुष्टयस्य तात्पर्यमाह सदेतदिति । कर्मार्थानामधिष्ठानादीनामप्रामा-
णिकत्वाशङ्कामादावुद्धरति पञ्चति उत्तरत्रेत्यधिष्ठानादिषु वक्ष्यमाणाप्वित्यर्थः ।
स्तूनां तेषामेव वैषम्यं निर्दिदर्शयिपितं न हि चतः समाधानाढते ज्ञातुं शक्यं तत् । साङख्यशब्द
व्युत्पादयति ज्ञातव्या इति । आत्म त्वंपदार्थस्तत्पदार्थों ब्रह्म तयोरैक्यधीस्तदुपयोगिनश्च श्रवणाद-
यः पदार्थास्ते संख्यायन्ते व्युत्पाद्यन्ते । कृतान्तशब्दस्य वेदान्तविषयत्वं विभजत कृतमियादिना ।
वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्व वाक्योपक्रमानुकूल्यं दर्शयति यावानिति । उदपान क-
पादौ यावानर्थः स्नानादिस्तावानर्थः समुद्र संपद्यतेऽतो यथा कृपादितं कार्य सर्व समुद्रेऽन्तर्भ-
वति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावज़ ज्ञानवतो ब्राह्मणस्य ज्ञानऽन्तर्भवति, ज्ञानं प्रा-
प्तस्य कर्तव्यानवशेषादित्यर्थः । तत्रैव वाक्यान्तरमनुक्रामति सर्वमिति । उदाहृतवाक्ययोस्तात्पर्य-
माह आत्मेति । आत्मज्ञानेसति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वमित्याशङ्कयाह अत
इति । तानि मद्दचनतो निबोधेति पूर्वेण संबन्धः ॥ १३ ॥
५० टी० । ननु भुजिक्रियां कुर्वतस्तृप्तिर्भवतीत्यनुभवे कर्म कुर्वतः फलं कथं न भवेदित्या-
शक्य संगत्यागिनो निरहङ्कारस्य सतः कर्मठोपो नास्तीत्युपपादयितुमाह पञ्चमानीति । सर्वक-
मणां सिहये निप्पत्तये इमानि वक्ष्यमाणानि पञ्च कारणानि मे मत्तः मकाशान्निबोध जानीहि । आ-
त्मनः कर्तृत्वाभिमाननिवृत्त्यर्थमतानि ज्ञातव्यानीत्यवं तेषां स्तुत्यर्थमाह सांख्य इति । किं भूतानि सां-
ख्ये कृतान्ते प्रोक्तानि संख्यायन्ते परिगण्यन्त तत्वानि यस्मिन्निति सांख्यं कृन्तातः सिद्धान्तस्तस्मिन्
वेदान्तासिद्धान्ते इत्यर्थः ॥ १३ ॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ॥
विविधाश्च पृथक् चेष्टा देवं चैवात्र पञ्चमम् ॥१४॥
कानि तानीत्युच्यते अधिष्ठानमिति । अधिष्ठानमिच्छाहेपसुखदुःरवज्ञा-
नादीनामभिव्यक्तेराश्रयोऽधिष्ठानं शरीरं तथा कर्ता उपाधिलक्षणो भोक्ता करणं
च श्रोत्रादिकं शब्दाद्युपलब्धये पृथग्विधं नानाप्रकारं हादशसंख्यं विविधाश्च
पृथक्चेष्टा वायवीयाः प्राणापानाद्या देवं चैव देवमेवात्रतेषु चतुर्यु पञ्चमं पञ्चा-
नां पूरणमादित्यादि चक्षुराद्यनुग्राहकम् ॥ १४ ॥
आ० टी० । कार्थान्यविटानादीनि मानमूलत्वाज ज्ञेयानीत्युक्तमिदानी प्रश्नहर्वकं 'विशेष-
तस्तानि निर्दिशति कानीयादिना । प्रतीकमादाय व्याकराति अधिष्टानमिति । उपाधिलक्षणो
बुद्वयादिरुपाधिस्तल्लक्षणस्तत्स्वभायो बुद्दयाधनुविधागी तहर्ममात्मनि पश्यन्नुपाहितस्तत्प्रधान
इत्यर्थः । तत्र कार्यलिङ्गकमनुमानं मचयति शब्दादाति । ज्ञानन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि
मनोबुद्धिश्चेति द्वादशसंख्यत्वम् चेष्टाया विविधत्वं तदेव स्पष्टयति वायवीया इति । पथक्त्वमसंकी-
र्णत्वं न हि प्राणापानादिचेप्टानां मिथः संकरोस्ति । दैवं विशदयति आदित्यादीति ॥ १४ ॥
प० टी० । तान्याह अधिष्ठानमिति । अधिष्ठानं शरीरं कर्ता जडग्रन्थिरहङ्कारः पृथग्विधं
बहुविध करणं चक्षुरादि विविधा अनेकप्रकाराश्चेष्टाः प्राणापानादिव्यापारा एतेष्वेव पञ्चमं देवं
चारादीनामधिदेवं सूर्यादिसर्वप्रेग्कोऽन्तर्यामी वा ॥ १४ ॥

अष्टादशाध्यायः। ४८३ शरीरवाङ्मनोभियंत कर्म प्रारभते नरः॥ न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१५॥ शरीरेति । शरीवाल्मनोभियंत कर्म त्रिभिरेतैः प्रारभते निवर्तयति नरो न्याय्यं वा धर्म्य शास्त्रीयं, विपरीतं वाशास्त्रीयमधर्म्य, यच्चापि निमि- पितचंष्टादि जीवनहेतुस्तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरी- तयोरेव ग्रहणेन गृहीतं, पञ्चते यथोक्तास्तस्य सर्वस्यैव कर्मणो हेतवः कार- णानि । ननु अधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि कारणानि, कथमुच्यते शरीरवाट्मनोभिः प्रारभ्यत इति, नेप दोपः विधिप्रतिषेधलक्षणं सर्व कर्म श- रीरादित्रयप्रधानं तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं विधैव राशीकृत- मुच्यते शरीरादिभिरविष्टानादिभिरारभ्यत इति फलकालेऽपि तत्प्रधानभुज्यते इति पञ्चानामेव हेतुत्वं न विरुध्यते ॥ १५ ॥ आ० टी० । पक्षानामधिष्टानादीनामुक्तानां सर्वकर्ममिह व्यर्थत्वं स्फुटयति शरीरति । ननु जीवनकृतं निमिपान्मपादिकर्मान्तरं माधारणमस्ति तत् कथं गशिद्दयकरणमिति तत्राह यचति । अधिछानादीनां कर्ममाह तत्वं प्रतिज्ञाय शारीगदित्रिविधमहतुत्वाक्तिर युक्तति शाइते नन्विति । पूर्वापरविराध परिहरति नप दाप इति । ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विविनि पधबाह्यत्वान्न दहादिनिर्वया नीत्याशङ्कयाह तदङ्गतयेनि । तस्य देहादित्रयस्य प्रधानस्याङ्ग चक्षुरादि तन्निप्पाद्यन्वन जीवनरुत दर्शनादिप्रधानकर्मण्यन्तभूतमिति वैविध्यमविरुद्धमित्यर्थः । द- हाद्यारम्भ त्रिविध कर्मणि मर्वकर्मान्तरभावेऽपि कथं पञ्चानामवाधिष्ठानादीनां तत्र हेतुत्वं फलोपभो- गकाल कारणान्तरांपेक्षामंभवादित्यशङ्कय जन्मकालभाविना भांगकालभाविनश्च सर्वस्य कारणस्य तप्वेवान्तभावान्मैवमित्याह फलति ॥ १५ ॥ प० टी० । एतपामेव सर्वकर्महे तत्वमाह शरीरेति । नरः शरीरवाइमनोभिन्याय्यं धर्म्य विए- रीतमधम्यं वा यत्कर्म प्रारभते तस्य हतव उक्ताः पञ्च ॥ १५ ॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः॥ पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥ तत्रेति । तत्रेति प्रकृतेन संवध्यते, एवं सति, एवं यथोक्तः पञ्चभि- हेतुभिर्निवत्यै सति कणि तत्रैवं सतीति दुर्मतित्वस्य हेतुत्वेन संबध्यते तत्रै तेपामात्मानमन्यत्वेनाविद्यया परिकल्पितेः क्रियमाणस्य कर्मणोऽहमेव कर्तेति कतारमात्मानं केवलं शुद्ध तु यः पश्यत्यविहान् कस्माद्देदान्ताचार्योपदेशन्या- यैरकृतबुद्धित्वादसंस्कृतबुढित्वाद्योऽपि देहादिव्यतिरिक्तात्मवाद्यन्यमात्मानमेव केवलं कर्तारं पश्यत्यसावप्यकृतबुद्धिरेवातोऽकृतवुद्धित्वान स पश्यत्यात्मन- ૪૮૪ श्रीमद्भगवद्गीता। । स्तत्त्वं कर्मणो वेत्यर्थोऽतो दुर्मतिः कुत्सिता विपरीता दुष्टाजस्रं जननमरण- प्रतिपत्तिहेतुभूता मतिरस्येति दुर्मतिः स पश्यन्नपि न पश्यति, यथा तैमिरि- कोऽनेकं चन्द्रं, यथा वाभ्रेषु धावत्सु चन्द्रं धावन्तं, यथा वा वाहन उपवि- ष्टोऽन्येषु धावत्स्वात्मानं धावन्तम् ॥ १६ ॥ आ० टी० । क्रियाकर्तृत्वमधिष्टानादीनामापाद्याविदुषस्तेप्वात्माष्टमनुवदति तत्रेति । तत्प- दपरामर्शयोग्यं प्रकृतं सर्व कर्म । प्रतीकमादाय पूर्वेण सहाक्षरार्थ कथयति एवमिति । अधिष्ठाना- दीनामुक्तरीत्या कर्तृत्वे सत्यन्यगतं कर्तृत्वमात्मनो यतोऽध्यारोप्य पश्यति दुर्मतिरित्यात्मनि कर्तृत्वं पश्यन्नित्याह तत्रैवमिति । कर्तारमित्यादि व्याचष्टे तयादिना । तेष्वधिष्ठानादिषु तैरधिष्ठानादि- भिरारोपितात्मभावैरित्यर्थः । अकर्तारमात्मानं कर्तारं पश्यतीत्यत्र प्रश्नद्वारा हेतमाह कस्मादिति । ननु शास्त्रसंस्कृतबुद्धिरेवातिरिक्तात्मवादी कर्तृत्वं तस्यानुमन्यत नासौ कर्तृत्वमात्मनि पश्यन्नपि भव- त्यकृतबुद्धिस्तत्राह योऽपीति । तस्यापि शास्त्रपूर्वकमाचार्योपदेशेन तदनुमारिन्यायश्चानाहि तबुद्धि- त्वादकतबुद्धित्वं सिद्धमित्यर्थः । कौटस्थ्यमात्मनस्तत्त्वं याथात्म्यं कर्मणाऽपि तत्त्वमविद्याकृताधि- ष्ठानादिकृतत्वेनात्मास्पर्शित्वमात्मकर्मणोस्तत्त्वदर्शनाभावोऽतःशब्दार्थः । दुष्टत्वं स्पष्टीकर्तु दुर्मतित्वं विवृणोति जननेति । अहं कर्तेत्यात्मदर्शनवताऽपि नाविदुपस्तदर्शनमस्तीत्यत्र दृष्टान्तमाह यथेति । तिमिरोपहतचक्षुरने चन्द्रं पश्यन्नपि तत्त्वतो न तं पश्यत्येवमविद्वानात्मानं कर्तारं पश्यन्नपि तत्त्व- तो न तं पश्यतीत्यर्थः । अधिष्ठानादिप्वविद्यया संबद्वात्मनः स्वात्मनि तद्तक्रियारोपे दृष्टान्तमाह यथा वेति । अन्येषु वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारमविवेकाद- भिमन्यत तथाधिष्टानादिपु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमाना दुर्मतिरित्यर्थः ॥ १६ ॥ प० टी० । ततः किमत आह तत्रेति । तत्र सर्वस्मिन कर्मण्यत पञ्च हेतव इत्येवं मति के वलं निरुपाधिमसङ्गमात्मानं यः कर्तारं पश्यति स शास्त्राचार्योपदेशाभ्यामळतबुद्धित्वादुमतिरसौ स- म्यन पश्यति ॥ १६ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ॥ हत्वापि स इमाँल्लो कान हन्ति न निबध्यते ॥१७॥ कः पुनः सुमतियः सम्यक् पश्यतीत्युच्यते यस्येति । यस्य शास्त्राचा- योपदेशन्यायसंस्कृतात्मनो न भवत्यहंकृतोऽहं कर्तेत्येवंलक्षणो भावो भाव- नाप्रत्यय एत एव पञ्चाधिष्ठानादयोऽविद्ययात्मनि कल्पिताः सर्वकर्मणां कारो नाहमहं तु तद्व्यापाराणां साक्षिभूतो “ अप्राणो ह्यमनाः शुभ्रोऽक्षरात् परतः परः, केवलो ऽविक्रियः” इत्येवं पश्यतीत्येवं बुद्धिरेन्तःकरणं यस्यात्मन उपाधि- भूता न लिप्यते नानुशायिनी भवतीदमहर्मकार्प तेनाहं नरकं गमिष्यामीत्येवं यस्य बुद्धिर्न लिप्यते स सुमतिः स पश्यति हत्वापि स इमाँल्लोकान् सर्वान प्राणिन इत्यर्थः । न हन्ति हननकियां न करोति न निबध्यते नापि तत्कार्ये- १ त्यतबुद्धि----पा० लि. पु० । २ पापमकार्ष-पा० लिं० २ पु० ।

, अष्टादशाध्यायः । ४८५ णाधर्मफलेन संबध्यते । ननु हत्वापि न हन्तीति विप्रतिपिद्दमुच्यते यद्यपि स्तुतिः, नैष दोषः लौकिकपारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः, देहाद्यात्मवुद्ध्या हन्ताहमिति लौकिकी दृष्टिमाश्रित्य हत्वापीत्याह यथा दर्शितां पारमार्थिकी दृष्टिमाश्रित्य न हन्ति न निबध्यत इति तदुभयमुपपद्यत एव । नन्वधिष्ठानादि- भिः संभय करोत्येवात्मा कर्तारमात्मानं केवलं त्विति केवलझाब्दप्रयोगानैप दोषः आत्मनोऽविक्रियस्वभावत्वेऽधिष्ठानादिभिः संहतत्वानुपपत्तेः, विक्रियावतो ह्यन्यैः संहननं संभवति संहत्य वा कर्तृत्वं स्यान्न त्वविक्रियस्यात्मनः केनचित संहननमस्तीति न संभूय कर्तृत्वमुपपद्यतेऽतः केवलत्वम् आत्मनः स्वाभाविक- मिति केवलशब्दोऽनुवादमात्रम् अविक्रियत्वं चात्मनः श्रुतिस्मृतिन्यायप्रसिद्धम् अविकार्योऽयमुच्यते 'गुणेरेव कर्माणि क्रियन्ते' शरीरस्थोऽपि न क- रोतीत्याद्यसकदुपपादितं गीतास्वव तावत् । श्रुतिषु च “ ध्यायतीव लेलाय- आ० टी० । विपरीतदृष्टेमतित्व शिष्ट्वा सम्यगदृष्टः सुमतित्वं प्रश्नपूर्वकमाह कः पुन- रियादिना । अहं कतॆत्यात्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीरित्याशङ्कयाह एते इति । कथं तहकर्तृत्वधारात्मनीत्याशङ्काधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वादित्याशङ्कयाह अहं त्विति । आत्मना न स्वतोऽस्ति क्रियाशक्तिमत्त्वमित्यत्र प्रमाणमाह अप्राणोहीति । नापि तस्य स्वतो ज्ञान- शक्तित्वमित्याह अयना इति । उपाधिद्वयासंबन्धे शुद्धत्वं फलितमाह शुभ्र इति । कारणमंत्र- न्धादशुद्धिमाशङ्कयोक्तं अक्षरादिति । कार्यकारणयोगत्मास्पर्शितत्वन पार्थक्य सहिती चत्वमाशङ्कय तयोराविद्यकपारवश्यत्वान्मैवमित्याह केवल इति । जन्मादिसर्वविक्रियाहितत्वेन कोटस्थ्यमाह अ- विक्रिय इति । बुद्धिर्यस्येत्यादि व्यावष्टं बुद्धिरिति । नानुशायिनी नानुशयवती न शशालिनी- त्यर्थः । द्वितीयपादस्याक्षरार्थमुक्त्वा वाक्याथमाह इदमिति । पापं कर्म इदमा परामृश्यते । लोका. नां प्राणमंबन्धाभावे कतो हिंसेत्याशङ्कयाह प्राणिन इति । विरुद्धार्थक्तिया स्तुतिरपि न चुक्तात शकते नन्विति । विरोधं परिहते नैष दोष इति । लौकिकदृष्टिमवष्टभ्याह हत्वापीति । निर्देश विशदयति देहादीति । तात्त्विकी दृष्टिमास्थाय न हन्तीति निर्देशमुपपादयति यथेति । नाहं कर्ता किंतु कर्तृतद्वयापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः मन् कार्यकारणासम्ब- न्धोऽद्वितीयोऽविक्रिय इत्यवं पारमार्थिकदृष्ट प्रथादर्शित्वं द्रष्टव्यम् । हत्वापीत्येतन्न हन्तीत्यादि चो- भयं दृष्टिद्वयावष्टम्भादपपन्नमित्युपसंहरति तदुभयमिति । केवलमेवात्मानं कर्तारं पश्यन् दुर्मतिरि- त्यत्रात्मविशेषणसमर्पककेवलशब्दमामर्थ्यादात्मना विशिष्टस्य कर्तृत्वमिति शङ्कत नन्विति । आत्मनो वैशिष्टचायोगान्न विशिष्टस्यापि कर्तृत्वमिति दूषयति नप दोप इति । अविक्रियस्वाभाव्यऽपि कथमात्मनोऽसंहतत्वमित्याशङ्कयाह अविक्रियोति । अविष्ठानादिभिरात्मनः संहननऽपि न कर्तृत्वम- विक्रियस्य क्रियान्वयव्याघातादित्याह संहत्येति । संहतत्वानुपपत्ति व्यक्तीकरोति नत्विति । असं- हतत्वे फलितमाह इति नेति । कथं तर्हि कंवलत्वमात्मनि केवलशब्दादक्तं तदाह तत इति । कर्तृत्व- मात्मनोऽभ्युपपन्नं नास्याविक्रियत्वमुपैतत्यिाशङ्कयाह अविक्रियत्वं चेति। तत्र स्मृतिवाक्यान्युदाहरति अधिकार्योऽयमिति । नायं हन्ति न हन्यत इत्यादिवाक्यमादिशब्दार्थः । उक्तवाक्यानामात्माविक्रियत्वे तात्पर्य सूचयति अर्सकृदिति । निष्कलं निष्क्रियं शान्तमित्यादि वाक्यं श्रुतावादिशब्दार्थः, यानि वा- १ कर्तृत्वतदव्यापारयो:--पा० लि. १ पु० । । .

श्रीमद्भगवद्गीता । तीव”इत्येवमाद्यासु,न्यायतश्च निरवयवमपरतन्त्रमविकियमात्मतत्त्वमिति राजमा- र्गः, विक्रियावत्त्वाभ्युपगमेऽप्यात्मनः स्वकीयैव विक्रिया स्वस्य भवितुमर्हति नाधिष्ठानादीनां कर्माण्यात्मकतकाणि स्युनहि परस्य कर्म परणाकृतमागन्तुम- हति, यत्त्वविद्ययागमितं न तत्तस्य तथा रजतत्वं यथा वा तलमलवत्त्वं बा- लैर्गमितमविद्यया नाकाशस्य तथाधिष्ठानादिविक्रियापि तेपामेवेति नात्मनस्त- माद् युक्तमुक्तम् । अहंकृतत्वबुद्दिलेपाभावाद विहान हन्ति न निबध्यत इति नायं हन्ति न हन्यत इति प्रतिज्ञाय न जायत इत्यादिहेतुवचनेनाविकियत्व- मात्मन उक्त्वा वेदाविनाशिनमिति विदुपः कर्माधिकारनिटत्तिं शास्त्रादौ संक्षेपत उक्त्वा मध्ये प्रसारितां च तत्र तत्र प्रसंगं कृत्वेहोपसंहरति शास्त्रार्थपिण्डीकरणा- य विहान हन्ति न निबध्यत इति । एवं च सति देहभृत्त्वाभिमानानुपपत्ताव- विद्याहताशेपकर्मसंन्यासोपपत्तेः संन्यासिनामनिष्टादि विविध कर्मणः फलं न भवतीत्युपपन्नं तहिपर्ययाचतरपां भवतीत्येतच्चापरिहार्यमित्यप गीताशास्त्रस्यार्थ उपसंहृतः स एप सर्ववेदार्थसारो निपुणमतिभिः पण्डितैर्विचार्य प्रतिपत्तव्य इति तत्र तत्र प्रकरणविभागेन दर्शितोऽस्माभिः शास्त्रन्यायानुसारेण ॥ १७ ॥ क्यानि तैरात्मनोऽविक्रियत्वं दर्शितमिति योजना, न्यायतश्च तदर्शितमिति पूर्वेण संवन्तः । न्यायमेव दर्शयति निरवयवमिति । न तावदात्मा स्वता विक्रियते निरवयवत्वादाकाशवन्नापि परतोऽसङ्गस्या- कार्यस्य पराधीनत्वायोगादित्यर्थः । किंचात्मनः स्वनिष्ठा वा विक्रियाधिष्टानादिानेष्टा वा, नाद्यः स्वनिष्ठविक्रियानुपपत्तेरात्मनो दर्शितत्वादित्याशयेनाह विक्रियावृति । सा · चायुक्तत्युक्तमिति शेपः । द्वितीयं दपयति नेयादिना । अधिष्ठानादिकृतमपि कर्म तद्योगादात्मन्यागच्छतीत्याश- य तदागमनं वास्तवमाविद्यं वति विकप्ल्याद्यं दृषयति न हीति । द्वितीयं निरस्यति यत्त्विति । आत्मन्यविद्याप्रापितं कर्म नात्मीयमित्यतद दृष्टान्ताभ्यामुपपादयति यथेसादिना । आत्मनोऽवि क्रियत्वेन कर्तृत्वाभावे फलित माह तस्मादिति । नन प्रांगवात्मनोऽविक्रियत्वं प्रतिपादितं तदिह क- स्मादुच्यते तवाह नायमिति । शास्त्रादौ प्रतिज्ञाय हेतुपूर्वकं संक्षिप्योक्त्वा मध्ये तत्प्रमङ्गं कृत्वा प्रसारिता कर्माधिकारनिवृत्तिमिहापसंहरतीति संबन्धः । प्रतिज्ञातस्य हेतुनापपादितस्यान्ते निगमनं किमर्थमित्याशङ्कयाह शास्त्रार्थति । कर्माधिकागे विदुषो नति स्थिते तस्य दहाभिमानाभाव सत्य- विद्योत्थसर्वकर्मत्यागासिद्धरनिष्टमिष्टं मिश्रं चति त्रिविधं कर्मफलं संन्यासिनां नेति प्रागुक्तं युक्तमेवेति परमप्रकृतमुपसंहरति एवं चेति । य पुनरविद्वांसा देहाभिमानिनम्तषां त्रिविधं कर्मफलं संभवत्येव- ति हेतुवचनमिदमर्थ निगमयति तद्विपर्ययाचेति । अधिष्ठानादिकृतं कर्म नात्मरुतमविदुषामेव कर्मा- धिकारो देहाभिमानित्वेन तत्त्यागायोगाद्देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृनिरित्युपसंहृतमर्थ संक्षिप्याह इत्येष इति । उक्तश्च गीतार्थी वेदार्थत्वादुपादेय इत्याह स एप इति । कथमयमों वेदार्थोऽपि प्रतिपत्तुं शक्यते तत्राह निपुणेति । भाष्यकता मानयुक्तिभ्यां विभज्यानुक्तत्वान्नास्वार्थ- स्योपादेयत्वमित्याशङ्कयाह तत्रेति ॥ १७ ॥ ले पाभावे-पा० लि. पु. ।

अष्टादशाध्यायः। ४८. प० टी० । कस्तर्हि पश्यतीत्याह यस्यति । अहमित्यहंकारेण कृतो निष्पादितो भावः स्व- भावः कर्तृत्वाभिनिवेशा यस्य नास्ति शरीरादीनामेव कर्मकर्तृत्वालोचनादित्यर्थः । अत एव यस्य बुद्धिर्न लिप्यते इष्टानिष्टबुद्दया कर्मसु न सज्जते स एवंभूता देहादिव्यतिरिक्तात्मदर्शी इमान् लो- कान् सर्वान् प्राणिनो लोकदृष्टया हत्वापि विविक्ततया स्वदृष्टया न हन्ति न च तत्फलैर्निबध्यते वन्धं न प्राप्नाति किं पुनः सत्त्वशुद्धिद्वारापरोक्षज्ञानात्पत्तिहेतुभिस्तस्य बन्धाशकेत्यर्थः ॥ १७ ॥ ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ॥ करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥ .. अथेदानीं तेषां कर्मणां प्रवर्तकमुच्यते ज्ञानमिति । ज्ञानं ज्ञायतेऽनेनेति सर्व विषयमविशेषेणोच्यते, तथा ज्ञेयं ज्ञातव्यं तदपि सामान्येनैव सर्वमच्यते, तथा परिज्ञातोपाधिलक्षणोऽविद्याकल्पितो भोक्ता, इत्येतत्रयमेषामविशेषेण सर्व- कर्मणां प्रवर्तिका त्रिविधा विप्रकारा कर्मचादना ज्ञानादीनां हि त्रयाणां सं- निपाते हानोपादानादिप्रयोजनः सर्वकारम्भः स्यात्ततः पञ्चभिरधिष्ठानादिभि- रारब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणादिषु संगृह्यते इत्येत- दुच्यते करणं क्रियतेऽनेनेति बाह्यं श्रोत्रादि, अन्तस्थं वुझ्यादिकर्मेप्सिततमं कर्तुः क्रियया व्याप्यमानं, कर्ता करणाणां व्यापारयितोपाधिलक्षण इति त्रि. विधस्त्रिप्रकारः कर्मसंग्रहः संगृह्यतेऽस्मिन्निति संग्रहः कर्मणः संग्रहः कर्मसं- ग्रहः कमैषु हि विपु समवैति तेनायं त्रिविधः कर्मसंग्रहः ॥ १८ ॥ आ० टी०। शास्त्रार्थोपसंहारानन्तर्यमथेत्युक्तामेदानीमिति प्रवर्तकोपदेशापेक्षावस्थोक्ता क- मणां, येषु विदुपां नाधिकारोऽविदपां चाधिकारस्तषामित्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्या ज्ञानमा- त्रार्थत्वमाह झालमिति । ज्ञयशव्दम्यापि तद्वदव ज्ञातव्यमात्रार्थत्वमाह तथेति । उपाधिलक्षणत्वं तन्प्रधानत्वमुपहितत्वं तस्यावस्तुत्वार्थमविद्याकल्पितविशेषणमतदेव वयं सर्वकर्मप्रवर्तकमित्याह इसेत- दिति । सर्वकर्मणां प्रवर्तकभित्यध्याहर्तव्यम् चोदनेति । क्रियायाः प्रवतकं वचनमिति " भा. प्यानुसारेण चोदनाशब्दार्थमाह प्रवर्तिकेति । सर्वकर्मणामिति पूर्वण संवन्धः, त्रैविध्यं ज्ञानादीनां प्रागुक्तं, कर्मणां चादनति विग्रहः । तपां सवकर्मप्रवर्तकत्वमनभवन साधयति ज्ञानादीनामिति । हानोपादानादीत्यादिपदेनापेक्षा विवक्षिता । करणमित्यादतात्पर्यमाह तत इति । ज्ञानादीनां प्रवर्त- कत्वादित्यर्थः । उक्तऽर्थे श्लोकभागमवतारयति इसेतदिति । बाह्यमन्तम्थं च द्विविधं करणं करण- व्युत्पत्त्या कथयति करणमिति । उक्तलक्षणं कमैव स्फुटयति करिति । स्वतन्त्रो हि कर्ता* स्वा- तत्र्यं च कार कान्तराप्रयाज्यस्य तत्त्रयोक्तृत्वमित्याह कतति । कथमुक्त त्रिविध कर्म संगृह्यते तत्राह कर्मेति । कर्मणो हि प्रसिद्ध कारकाश्रयत्वमिति भावः ॥ १८ ॥ प० टी० । ब्रह्मण्याधाय कर्माणि संगं त्यक्त्वा करोति यः' इत्यादि पूर्वोक्तमस्ति नदेवोपपादयितुं कर्मचोदनायाः कश्रियस्य च कर्मफलानां त्रिगुणात्मकत्वान्निगुणस्यात्मन- "स्वतन्त्रः कता-इति पाणिनिमूत्रात् ।

श्रीमद्भगवद्गीता।
स्तत्संबन्धो नास्तीत्यभिप्रेत्याह ज्ञानमिति । ज्ञानमिष्टसाधनमिति बोधः, ज्ञेयमिष्टसाधनं
कर्म, परिज्ञाता एवंभूतज्ञानाश्रयः, एवं त्रिविधा कर्मचोदना चोद्यते प्रवर्त्यतेऽनयेति चोदना ज्ञाना-
दित्रयं कर्मप्रवृत्तिहेतुरित्यर्थः । यहा चोदनोपदेशः तदुक्तम्-' चादना चोपदेशश्च विधिश्चैकार्थवा-
चिनः ' इति । ततश्चायमर्थः-उक्तलक्षणं त्रिगुणात्मकं ज्ञानादित्रयमवलम्ब्य कर्मविधिः प्रवर्तत इति
ज्ञानं करणं साधकतमं कर्म च कर्तुरभीप्सिततमम् । कर्ता च क्रियानिवर्तकः कर्म संगृह्यतऽस्मि-
निति कर्मसंग्रहः ॥ १८ ॥
ज्ञानं कर्म च कर्ता च विधैव गुणभेदतः॥
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९॥
अथेदानी क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगु-
णभेदतस्त्रिविधो भेदो वक्तव्य इत्यारभ्यते ज्ञानं कर्म चेति । ज्ञानं ज्ञायतेऽनेने-
ति, कर्म च, कर्म किया, न कारकं पारिभाषिकमीप्सिततमं कर्म, कर्ता च
निर्वर्तकः क्रियाणां विधवावधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुण-
भेदतः सत्त्वादिभेदेनेत्यर्थः, प्रोच्यते कथ्यते गुणसंख्याने शास्त्रकापिलमपि
गुणसंख्यानं शास्त्रं कापिले तदपि गुणभोक्तविषये प्रमाणमेव परमार्थ-
ब्रह्मैकत्वविषये यद्यपि विरुध्यते तथापि ते हि कापिला गुणगौण-
व्यापारनिरूपणेऽभियुक्ता इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेनोपादीयत
इति न विरोधः। यथावद्यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेद-
जातानि गुणभेदकृतानि शृणु वक्ष्यमाणेऽर्थे मनः समाधिं कुर्वित्यर्थः ॥ १९ ॥
आ० टी० । अनन्तर श्लोकनवकतात्पर्यमाह अथेति । ज्ञानादिप्रस्तावानन्तर्यमथशब्दार्थः ।
इदानी प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायामित्यर्थः । तपां गुणभेदात् त्रैविध्ये हेतुमाह गुणात्मकत्वा-
दिति । वक्तव्यो वक्ष्यमाणश्लोकनवकेनति शेपः । एवं स्थिते प्रथममवान्तरभेदप्रतिज्ञा क्रियत इत्याह
इसारभ्यत इति । कर्तुगीप्सततमं कर्मेति यत्तत् परिभाप्यतेतन्नात्र कर्मशब्दवाच्यमित्याह नति ।
गुणातिरेकेण विधान्तरं ज्ञानादिषु नेति निर्धारयितुमवधारणमित्याह गुणेति । ज्ञानादीनां प्रत्येकं ग-
णभेदप्रयुक्त त्रैविध्ये प्रमाणमाह प्रोच्यत इति । ननु कापिल पातञ्जलमित्यादि शास्त्र विरुद्धार्थ-
स्वादप्रमाणं कथमिह प्रमाणीक्रियते तत्राह तथापीति । विषयविशेषविरोधेऽपि प्रकृतेऽर्थे प्रामाण्य-
मविरुद्वमित्यर्थः । यद्याप कापिलादयो गुणवृत्तविचारे गौणव्यापरस्य भोगादेर्निरूपणे च निपणास्त-
थापि कथं तदीय शास्त्रमत्र प्रमाणीकृतमित्याशङ्कयाह ते हीति । ज्ञानादिषु प्रत्येकमवान्तर भेदो व-
क्ष्यमाणोऽर्थस्तस्य तन्त्रान्तरेऽपि प्रसिद्विकथनं स्तुतिस्तादर्थेन कापिलादिमतोपादानमिहोपयोगीत्यर्थः ।
तृतीयपादस्याविरुद्धार्थत्वं निगमयति नेति । यथावदित्यादि व्याचष्टे यथान्यायमिति ॥ १९ ॥
प० टी० । ततः किमत आह ज्ञानमिति । गुणाः सम्यकार्यभेदेन ख्यायन्ते प्रतिपाद्यन्ते
यस्मिन्निति गुणसंख्यानं सांख्यशास्त्रं तस्मिन् ज्ञानं च कर्म च कर्ता च प्रत्येकं सत्त्वादिगुणभेदेन
त्रिधैवोच्यते तान्यपि ज्ञानादीनि वक्ष्यमाणानि यथावच्छृणु त्रिधैवेत्येवकारेण गुणत्रयोपाधिव्यतिरेके-
णात्मनः स्वतः कर्मादिप्रतिषेधार्थम् ॥ १९ ॥

॥ अष्टादशाध्यायः । ४८ सर्वभूतेषु येनैकं भावमव्ययमीक्षते ॥ अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥२०॥ ज्ञानस्य तु तावविविधत्वमुच्यते सर्वेति । सर्वभूतेष्वव्यक्तादिस्था- वरान्तेषु भूतेषु येन ज्ञानेनैकं भावं वस्तु भावशब्दो वस्तुवाच्येकमात्मवस्त्वि- त्यर्थः । अव्ययं न व्येति स्वात्मना तद्धर्मणा वा कूटस्थं नित्यमित्यर्थः, ईक्षते येन ज्ञानेन पश्यति तं च भावमविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तदात्मवस्तु व्योमवनिरन्तरमित्यर्थः । तज्ज्ञानमहैतात्मदर्शनं सात्त्विकं सम्यग दर्शन विद्धीति ॥ २० आटी । ज्ञानादीनां प्रत्येकं त्रैविध्यं ज्ञातव्यं प्रतिज्ञाय ज्ञानत्रैविध्यार्थ श्लोकत्रयमव. तारयति ज्ञानस्येति । तत्र सात्त्विकं ज्ञानमुपन्यस्यति सर्वेति। भूतानि कार्यकारणात्मकान्युपाधिजा- तानि, अद्वितीयमखण्डेकरमं प्रत्यगात्मभतमवाधितं तत्त्वं ज्ञेयत्वेन विवक्षितमित्याह एकमिति । वि. वक्षितमव्ययत्वं संक्षिपति कटस्थति । प्रतिदेहम विभक्तमित्युक्तं व्यनक्ति विभक्तेष्विति । तज्ज्ञान- मित्यादिव्याकरोति अद्वतेति ॥ २० ॥ ५० टी० । अथ सात्त्विकं ज्ञानमाह सर्वभूतेष्विति । सर्वेषु भूतेषु ब्रह्मादिस्थावरान्तेषु वि. भक्तषु नामरूपकर्मभिः परस्परं व्यावृत्तेवा भक्तमनुस्यूत घटपटादिप्वाकाशमिकमद्वितीयमव्ययं निर्विकारं भावं सद्पं परमात्मतत्वं यनक्षत आलोचयति तज्ज्ञानं सात्त्विकं विद्धि सात्त्विकादिसंपादन- माहारादिकं पवं प्रोक्तमेव । श्रुतिरपि शातपथी-' यद्वैतन्न पश्यति पश्यन्नैतदृष्टव्यं न पश्यति न हि द्रष्टुईष्टविपरिठापा विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येद् " इति । भाष्यम् --अविनाशी अर वायमात्मानुच्छित्तिधमी मात्रासंसर्गस्तस्य भवतीति पूर्वश्रुत्यात्मनोऽवि- नाशित्वं वृत्तीनां च तदाश्रयवर्तित्वमुत्तं तदेव द्रढयति । एतमात्मानं यद्वा प्रकारान्तरेणेन्द्रियादिना न पश्यति किं त्वात्मनैवात्मानं पश्यति । अथ तथात्वेनात्मानं पश्यन्नप्येतत्पुरोवर्तिपदार्थवदृष्टव्यमि- न्याकारण न पश्यति हि यस्मात्कारणादात्मद्रष्टुः पुरुपस्य दृष्टेविपरिलोपो न विद्यते कुतोऽवि- नाशितवाद् एकपदार्थज्ञान नष्टे सात पदार्थान्तरज्ञानं भवति । प्रकृतेर्द्वितीयस्याभावादृष्टविपरिलोपो विपर्यासा न संभवति । यतस्तद्वितीयं तस्माद्वितीयं तद्वितीयं नास्ति । यत्तदात्मनः सकाशाद्विमा तं यत्पश्येत्तस्मादात्नातिरिक्तं न किमपि पश्येदित्यर्थः ॥ २० ॥ पृथक्त्वेन तु यज्ज्ञानं नानाभावान् एथग्विधान् ॥ वैत्ति सपु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥ पृथक्त्वेनेति । यानि हैतदर्शनान्यसम्यग्भूतानि राजसानि तामसानि चेति न साक्षात् संसारोच्छित्तये भवन्ति, पृथक्त्वेन तु भेदेन प्रतिशरीरमन्यत्वेन यज् ज्ञानं नानाभावान् भिन्नानात्मनः पृथग्विधान् पृथक्प्रकारान् भिनलक्ष- जानित्यर्थः । वेत्ति विजानाति यज् ज्ञानं सर्वेषु भूतेषु ज्ञानस्य कर्तृत्वासंभवा. येन ज्ञानेन. वेत्तीत्यर्थः । तज्ज्ञानं विद्दि राजसं रजोनिदृत्तम् ॥ २१ ॥ ६९

४१०
श्रीमद्भगवद्गीता।
आ० टी० । द्वैतदर्शनान्यपि कानि चिद्भवन्ति सत्त्वनिर्धत्तानि सम्यश्चीत्याशङ्कयाह यानीति।
तेषामसम्यक्त्वे हेतुमाह राजसानीति । प्रतिदेहमन्यत्वेन भिन्नात्मनो येन ज्ञानेन जानाति तज् ज्ञानं
राजसमिति व्याचष्टे भेदेनेति । पृथक्त्वं पृथग्विधत्वं च पुनरुक्तमित्याशङ्कय हेतुहेतुमत्त्वेन विभाग वि.
वक्षित्वाह भिन्नति । ज्ञानस्य ज्ञानकर्तृत्वमयुक्तमित्याशङ्कयाह येनेति ॥ २१ ॥
प० टी० । सजसमाह पृथक्त्वेनेति । सर्वेषु भूतेषु देहेषु नानाभावान् क्षेत्रज्ञानहं मुख्यहं
दुःखीत्यादिप्रतीत्या वस्तुत एव पृथग्विधान् येन ज्ञानेन वेत्ति तद्राजसं ज्ञानं विद्धि ॥ २१ ॥
यत्तु कृत्स्नक्देकस्मिन् कार्ये सक्तमहैतुकम् ॥
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ २२॥
यत्त्विति । यत्तु ज्ञानं कृत्लवत् समस्तवत् सर्वविषयमिवैकस्मिन् कार्ये देहे
बहिर्वा प्रतिमादौ सक्तमतावानेवात्मेश्वरो वा नातः परमस्तीति यथा नग्नक्षपणका-
दीनां शरीरान्तर्वर्ती देहपरिमाणो जीव ईश्वरो वा पापाणादाव दिमात्रम् इत्येवम्
एकस्मिन् कार्ये सक्तमहतुकं हेतुवर्जितमयुक्तिकं निष्प्रमाणकमतत्त्वार्थवद् अ-
यथाभूतार्थवद्यथाभूतोऽर्थस्तत्त्वार्थः सोऽस्य ज्ञेयभूतोऽस्तीति तत्त्वार्थवदत-
त्त्वार्थवदहैनुकत्वादेवाल्पं चाल्पविषयत्वादल्पफलत्वाहा तत्तामसमुदाहृतं ताम-
सानां हि प्राणिनामविवेकिनामीदृशं ज्ञानं दृश्यते ॥ २२ ॥
आ० टी० । यत्त्विति । सक्तमेव व्यनक्ति एतावानिति । एकस्मिन् कार्ये ज्ञानस्य स-
क्तत्वमेव दृष्टान्तेन साधयति यथेसादिना । यनियुक्तिकं तदेव ज्ञानस्याभासत्वं कारणमित्याह
अहैतुकत्वादिति । स्वरूपतो विषयतश्चाभासत्वं फलतो वेत्याह अल्पमिति । तामसं ज्ञानमुक्तलक्ष-
णमित्यज्ञानानुभवं प्रमाणयति तामसानां होते ॥ २२ ॥
प० टी० । तामसमाह यत्त्विति । एकस्मिन् कार्ये देहे प्रतिमादौ वा समा। एतावानीश्वर
एवेत्यभिनिवेशयुक्तम् । अहैतुकं निरुपपत्तिकम् अतत्त्वार्थवत् परमार्थावलम्बनशून्यम् । अत एवाल्पं
तुच्छं यदेवंभूतं ज्ञानं तत्तामसमुदाहृतम् ।। २२ ॥
नियतं सङ्गरहितमरागद्वेपतः कृतम् ॥
अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते ॥ २३ ॥
अथ कर्मणां त्रैविध्यमुच्यते नियतमिति । नियतं नित्यं सरहितमास-
क्तिवर्जितमरागदपतः कृतं रागप्रयुक्तेन इषप्रयुक्तेन च कृतं तद्दिपरीतं कृल-
मरागद्देषतः कृतमफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णस्तहिपरी-
तेनाफलप्रेप्सुना क; कर्म यत्तत् सात्त्विकमुच्यते ॥ २३ ॥
आ० टी० । त्रिविध कर्म वक्तुमनन्तरश्लोकत्रयमित्याह अथेति । तत्र सात्त्विकं कर्म नि-
रूपयति नियतमिति ॥ २३ ॥

अष्टादशाध्यायः ।
1
.
प० टी० । इदानी त्रिविधं कर्माह नियतमिति त्रिभिः । नियतं. नित्यतया विहितं संगरं-
हितमभिनिवेशशून्यमरागद्वेषतः कृतं पुत्रप्रीत्या तदभ्युदयार्थ शत्रुद्वेषात्तदपकर्षार्थ यन्न भवति ।
फलं प्राप्नुमिच्छतीति फलप्रेप्मुस्तहि रक्षणेन कृतं कर्म सात्त्विकमुच्यते ॥ २३ ॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ॥
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
यत्त्विति । यत्तु कामेप्सुना कर्मफलप्रेप्सुनेत्यर्थः । कर्म साहङ्कारेणेति न
तत्त्वज्ञानापेक्षया किं तर्हि लौकिकश्रोत्रियनिरहङ्कारापेक्षया, यो हि परमार्थ-
निरहङ्कार आत्मविन तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिरस्ति सात्त्विक-
स्यापि कर्मणोऽनात्मवित् साहङ्कारः कर्ता किमुत राजसतामसयो, लोकेऽनात्म-
विदपि श्रोत्रियो निरहङ्कार उच्यते निरहङ्कारोऽयं ब्राह्मण इति तस्मात्तदपेक्ष-
येव साहकारेण वेत्युक्तम्, पुनःशब्दः पादपूरणार्थः । क्रियते बहुलायासं कर्म
महतायासेन निर्वय॑ते तत् कर्म राजसमुदाहृतम् ॥ २४ ॥
आ० टी० । राजसं कर्म निर्दिशति यत्त्विति । फलप्रेप्सुना का यत् कर्म क्रियते तद्रा-
जममित्युत्तरत्र संबन्धः । तत्त्वज्ञानवता निरहङ्कारण साहङ्कारेणातत्त्वज्ञेन क्रियते करीत. विवक्षा
वारयति साह कारणेति । तत्वज्ञानवता निरहङ्कारेण कृत कर्मापेक्ष्य साहङ्कारेणाज्ञेन कृतमेतत्
कर्मेति न विवक्ष्यत चेत्तर्हि किमव विवक्षितमिति पृच्छति किं तीति । यो हि दुरितरहितः श्रो-
त्रियो लोका दनपतस्तस्य यदहकारवनितं कर्म तदपेक्षयेदं साहङ्कारेण कृतं कर्मेत्युक्तमित्याह लौ-
किकति । ननु तत्त्वज्ञानवत। निरहङ्कारस्य कर्मकर्तृत्वमपेक्ष्य साहकारेणेत्यादि कि नप्यते तत्राह
यो हीति । विशपणान्तरवशादेव तत्त्वविदो निवारितत्त्वान्न तदपक्षमिदं विशेषणमित्यर्थः । साह-
झारम्यैव राजस कर्मणि कर्तृत्वमित्येतत् कैमुतिकन्यायेन साधयति सात्त्विकस्येति । नन्वात्मवि-
दोऽन्यस्य निरहवारत्वायोगात् कथं तदंपेक्षया साहङ्कारणेत्युक्तं तत्राह लोक इति ।।. २४ ॥
प० टी० । राजसमाह यत्त्विति । कामेप्सुना फलप्राप्तिमिच्छता साहंकारेण मत्समः को-
ऽन्यः श्रोत्रियाऽस्तीति निगृढाहंकारेण क; बहुलायासमतिकृशं यथा भवति तथा यत्कृतं
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ॥
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५॥
अनुबन्धमिति । अनुबन्धं पश्चाद्भावि यहस्तु सोऽनुबन्ध उच्यते तं
'चानुबन्धं, क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयोऽर्थक्षयो वा स्यात्तं क्षयं,
हिंसां प्राणिपीडां चानपेक्ष्य, च पौरुषं पुरुषकारं शक्नोमीदं कर्म समापयितुमि-
त्येवमात्मसामर्थ्यम्, इत्येतान्यनुबन्धादीन्यनपेक्ष्य पौरुपान्तानि मोहादविवेकत
आरभ्यते कर्म यत्तत् तामसं तमोनिवृत्तमुच्यते ॥ २५ ॥
तद्रानसम् ॥ २४ ॥

श्रीमद्भगवद्गीता । आ० टी० । संप्रति तामसं कर्मोदाहरति अनुबन्धमियादिना ॥ २५ ॥ ५० टी० । तामसमाह अनुबन्धमिति । अनुवध्यत इत्यनुबन्धस्तं भावि शुभाशुभं क्षयं व्ययं हिंसां स्वपरपीडनं पौरुपं स्वसामर्थ्य चानपक्ष्याविगणय्य केवलं मोहादेव यत्कर्मारभ्यते दत्ता- मसम् ॥ २५ ॥ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः॥ सिद्ध्यसिद्धयोनिर्विकारः कर्ता सात्त्विक उच्यते॥२६॥ मुक्तेति । मुक्तसंगो मुक्तः परित्यक्तः संगो येन स मुक्तसंगोऽनहंवादी नाहंवदनशीलो धृत्युत्साहसमन्वितो धृतिर्धारणमुत्साह उद्यमस्ताभ्यां समन्वि- तः संयुक्तो धृत्युत्साहसमन्वितः, सिद्दयसियोः क्रियमाणस्य कर्मणः फल- सिद्धावसिद्धौ च सिद्धयसिद्धयोनिर्विकारः केवलं शास्त्रप्रमाणप्रयुक्तः फलरागा- दिनाऽयुक्तो' यः स निर्विकार उच्यते एवंभूतः कर्ता यः स सात्त्विक उच्यते ॥२६॥ आ० टी० । इदानी कर्तृत्रविध्यं ब्रुवन्नादौ सात्विकं कर्तारं दर्शयति मुक्तेति । सङ्गो नाम फलाभिसन्धिर्वा कर्तृत्वाभिमानो वा, नाहंवचनशीलः कर्ताहमिति वदनशीलो न भवतीत्यर्थः, धारणं धैर्यम्। क्रियमाणस्य कर्मणो यदि फलानभिमान्भम्तर्हि नानपानवियम्भः संभवदित्याशङ्कयाह केवलमिति । फलरागादिनेत्यादिशब्देन कर्मरागो गृह्यते । अयुत इति छेदः ॥ २६ ॥ प० टी० । अथ त्रिविधं कर्तारमाह मुक्तसंग इत्यादित्रिभिः । मुक्तांगम्त्यक्ताभिनिवेशः, अनहवादी गर्वश्वाघारहितः, धृतिधैर्यमुत्साहोऽनुढगस्ताभ्यां समन्वितः सिद्धावमिट्टी निर्विकारो हपवि- पादरहित एवंभूतः कर्ता सात्त्विकः ॥ २६ ॥ रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः॥ हर्पशोकान्वितः कर्ता राजसः परिकीर्तितः ॥२७॥ रागीति । रागी रागोऽस्यास्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी, लुब्धः परद्रव्येषु संजाततृष्णस्तीर्थादौ च स्वद्रव्यापरित्यागी, हिंसात्मकः परपीडकस्वभावोऽशुचिर्बाह्यान्तःशौचवजितो, हर्पशोकान्वित इष्टप्राप्ती ह- घोऽनिष्टप्राप्ताविष्टवियोगे च शोकस्ताभ्यां हर्षशोकाभ्यां समन्वितः संयुक्त- स्तस्यैव च कर्मणः संपत्तिविपत्त्योहपशोको स्यातां ताभ्यां समन्वितः संयुक्तो यः कर्ता स राजसः परिकीर्तितः ॥ २७ ॥ आ० टी० । राजसं कर्तारं कथयति गगीति । कर्मविषयो रागः, कर्मफलप्रेप्सुरिति फलरागस्य पृथक् कथनात् स्वाभिप्रायाप्रकटीकरणपूर्वकं परपीडनं परवृत्तिविच्छेदनं तेन स्वार्थपर इत्यर्थः ॥ २७ ॥ १ शास्त्रप्रमाणप्रयुक्तो न फलरागादिना यः पा० लि २ पु० ।

अष्टादशाध्यायः । ४९३ प० टी० राजसमाह रागीति । रागी पुत्रादिप्रीतिमान् कर्मफलप्रेप्सुः कर्मफलकामी लुब्धः स्वर्गसुखलम्पटः सन् हिंसात्मको हिंसायामात्मा मनो यस्याशुचिः शौचरहितः लाभालाभयोर्हर्ष- शोकाभ्यामन्वितः कर्ता राजसः ॥ २७ ॥ अयुक्तः प्राकृतः स्तब्धः शठो नेप्कृतिकोऽलसः॥ विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥ अयुक्त इति । अयुक्तोऽसमाहितः प्राकृतोऽत्यन्तासंस्कृतबुद्धिर्वाल- समः, स्तब्धो दण्डवन नमति कस्मै चित्, शठो मायावी शक्तिगृहनकारी, नैष्कृतिकः परवृत्तिच्छेदनपरो, इलसोऽप्रत्तिशीलः कर्तव्येष्वपि, विपादी स- वंदावसनस्वभावो, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः सदा मन्दस्वभावो यदद्य श्वो वा कर्तव्यं तन्मासेनापि न करोति, यश्चवंभूतः स कर्ता तामस उच्यते ॥ २८ ॥ - आ० टी० । दीर्घ मूत्रयितुं शीलमस्येति व्युत्पत्ति गृहीत्वा विवक्षितमर्थमाह कर्तव्याना- मिति । एवं क्रियमाणे सत्यनिष्टमिदं कथंचिदापयेत यदा पुनरवं क्रियत तदा त्वनिष्टमव संभावनो- पनीतमिति चिन्तापरंपरायां मन्थरप्रवृत्तिरित्यर्थः । तदेव स्पष्टयति यदद्यति ॥ २८ ॥ ५० टी० । तामसमाह अयुक्त इति । अयुक्तो नियमरहितः, प्रारूतो विवेकशन्यः, स्तब्धा- ऽविनीतः, शठो मायावी, नेप्कृतिकः परन्ध्रमचकः, अलमः किंचिन्न कगात, विषादी कुशव्ययादिना पश्चात्तापी, सचनात्मत्रं दार्च मूत्रं यस्मिन देशकालाधनेकविधां मूचनां कृत्वाद्य श्वः परश्वः कर्तव्यमिति विलम्ब यति म ताम!: कर्ता ॥ २८ ॥ बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु प्रोच्यमानमशेपेण पृथक्त्वेन धनंजय ॥ २९ ॥ बुद्देर्भेदमिति । बुद्धर्भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतस्त्रिवि- धं शृण्विति सूत्रोपन्यासः, प्रोच्यमानं कथ्यमानमोपेण निरवशेषता यथावत् पृथक्त्वेन विवेकतो धनञ्जय दिग्विजये मानुपं देवं च प्रभूतं धनमजयत् ते नासौ धनंजयोऽर्जुनः ॥ २१ ॥ आ० टी० । ज्ञानादीनां प्रत्येकं त्रैविध्यमुक्त्वा वृत्तिमत्या बुद्धेस्तद्वत्तेश्च धृत्याख्यायास्त्रै- विध्यं सूचयति बुद्धेरिति । सूत्रविवरणं प्रतिजानीते प्रोच्यमानमिति । अर्जुनस्य धनञ्जयत्वं व्युत्पा- दयनि दिगिति ॥ २९ ॥ ५० टी० । अथ बुद्धेधृतेश्च त्रैविध्यमाह बुद्धेरिति । स्पष्टार्थम् ॥ २९ ॥ . १ असमाहित चेता:--पा० लि. पु० ।

श्रीमद्भगवद्गीता। प्रतिं च निवृत्तिं च कार्याकार्ये भयाभये ॥ बन्धं मोक्षं च या वेति बुद्धिः सा पार्थ सात्त्विकी ॥३०॥ प्रवृत्तिं चेति । प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः निवृत्ति च निवृत्तिमीक्षहेतुः संन्यासमार्गः बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्म संन्यासमार्गावित्यवगम्यते कार्याकार्ये विहितप्रतिषिद्धे कर्तव्याकर्तव्ये कर- णाकरणे इत्येतत्, कस्य देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणां, भयाभये विभेत्यस्मादिति भयं तहिपरीतमभयं भयं चाभयं च भयाभये दृष्टादृष्टयोर्भया- भययोः कारणे इत्यर्थः, बन्धं सहेतुकं मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिः सा पार्थ सात्त्विकी तत्र ज्ञानं बुद्धेर्वृत्तिर्बुद्धिस्तु वृत्तिमती धृतिरपि वृत्ति- विशेष एव बुद्धेः ॥ ३ ॥ आ० टी० । तत्रादौ सात्त्विकी बुद्धि निर्दिशति प्रवृत्तिं चेति । प्रवृत्तिराचरणमात्रम् अना- चरणमात्रं च निवृत्तिरिति किं नेप्यते तत्राह बन्धेति । यस्मिन् वाक्ये बन्धमोक्षावृच्यते तस्मिन्नेव प्रवृत्तिनिवृत्त्योरुक्तत्वात कर्ममार्गस्य बन्धहेतत्वान्मोक्षहेतुत्वाञ्च सन्यासमार्गस्य तावेवात्र ग्राह्यावि- त्यर्थः । करणाकरणयोनिर्विषयत्वायोगाढिपयापक्षामवतार्य योग्यं विषयं निर्दिशति कस्यति । अनिष्ट. साधनं भयमिष्टसाधनमभयमिति विभनंत भयेति । बन्धादिज्ञानमात्रस्य बुद्दयन्तरऽपि संभवगदिश- पणम् । ननु बुद्धिशब्दितस्य ज्ञानस्य प्रांगव त्रैविध्यप्रतिपादनात् किमिति बुद्धग्दिानीं त्रैविध्यं प्रति. ज्ञाय व्युत्पाद्यत तत्राह ज्ञानमिति । तर्हि जानन गतत्वान्न पुनधृतिव्युत्पादनीयेत्याशझ्याह धृतिरपीति । विशंपशब्दन ज्ञानादव्यावृत्तिरिष्टा ॥ ३० ॥ ५० टी० । तत्र प्रथमं बुद्धस्त्रैविध्यमाह प्रवृत्ति चति त्रिभिः । शास्त्रविहितविषयां देशका लोचितां च धर्मे प्रवृत्ति निवृत्तिभधर्म दशकालानुसारं वयोवृत्तानुमारं वा कार्यमकार्यमिति अकार्ये भयं कार्यऽभयम् बन्धं संसारबन्धं मोसमुद्धारप्रकारं च या वत्ति सा बुन्डिः सात्त्विकी ॥ ३० ॥ यया धर्ममधर्म च कार्य चाकार्यमेव च ॥ अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥ ३१ ॥ ययेति । यया धर्म शास्त्रचोदितमधर्म प्रतिषिद्धं कार्य चाकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावन यथावत् सर्वतो निर्णयेन न प्रजानाति या बुद्धिः सा पार्थ राजसी ॥ ३५ ॥ आ० टी० । कार्याकार्ययोर्धर्माधर्माभ्यां पौनरुक्त्यं परिहरति पूर्वोक्त इति । पूर्व- श्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे निर्दिष्टे तयोरेवात्रापि नहान्न धर्माधर्माभ्यां पूर्वपर्यायाभ्यां गतार्थतेत्यर्थः। या बुद्धिर्यया बुद्दया बोद्धा निर्णयेन न जानातीत्यर्थः॥३१॥ १.स्त्रविषयवन्धहेतु:-पा० लि. ' पु० ।

अष्टादशाध्यायः ।
४१५
प० टी० । राजसीमाह ययति । अयथावत् संदेहास्पदत्वेनेत्यर्थः । स्पष्टमन्यत् ॥ ३१ ॥
अधर्म धर्ममिति या मन्यते तपसारता ॥
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ३२॥
अधर्ममिति । अधर्म प्रतिषिद्ध धर्म विहितमिति या मन्यते जानाति
तमसाहता सती सर्वार्थान् सर्वानेव ज्ञेयपदार्थान्विपरीतानेव जानाति बुद्धिः सा
पार्थ तामसी ॥ ३२ ॥
आ० टी० । धर्मशब्दो नपुंसकलिङ्गोऽपीत्यभिप्रेत्य धर्ममित्युक्तं तमसावृताविवेकेन वेष्टि-
तेत्यर्थः । कार्याकार्यादीनुक्ताननुक्तांश्च संग्रहीतुं सर्वार्थानित्युक्तं तद्वयाचष्टं सर्वानेवेति । विप-
रीतांश्चेति चकारमवधारणे गृहीत्वा विपरीतानेवेत्युक्तम् ॥ ३२ ॥
प० टी० । तामसीमाह अधर्ममिति । या तमसाज्ञानेन वृता सत्यधर्ममेव धर्म पश्यति यथा
लक्षशो गोमक्षिकामारणनैकोऽश्वः सुखी स्यादिति मन्यते यद्वा पोश्चल्येन परसंतुष्टिधर्म इति मन्यते
सर्वार्थान् पुत्रमिवादीन् विपरीतान् प्रतिकुलकर्तन पश्यति मा तामसी । अत्र बुद्धिरव्यवसायान्मिका-
न्तःकरणवृत्तिर्न तु निश्चयामिका यतः सैकविधा न त्रिधा तदुक्तम् ‘व्यवसायात्मिका बुद्धिरकेह
कुरुनन्दन' इति । तर्हि कथमन्येषामिच्छाद्वषादीनामनुद्देश इति चेत्सत्यम् । धर्माधर्मप्रवृत्तौ बुद्धेघृतेर्वा प्रा-
धान्यमितिज्ञेयम् ॥ ३२ ॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः॥
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥३३॥
धृत्येति । धृत्या ययाव्यभिचारिण्येति व्यवहितेन संबन्धः, धारयते किं
मनःप्राणेन्द्रियक्रियाः मनश्च प्राणाश्चेन्द्रियाणि च तेषां क्रियाश्चेष्टास्ता उच्छा-
स्त्रमार्गप्ररत्तेर्धारयति धृत्या हि धार्यमाणा उच्छास्त्रमार्गविषया न भवन्ति। योगे-
नेति । योगेन समाधानेनाव्यभिचारिण्या नित्यसमाधानानुगतयेत्यर्थः । एतदु-
तं भवत्यव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियकिया धार्यमाणा योगेन धारय-
तीति यैवंलक्षणा धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
आ टी०। इदानीं धृतित्रैविध्यं व्युत्पिपादयिषुरादौ सात्त्रिकी धृतिं व्युत्पादयति धृत्येति।निर्दि-
ष्टानां चेष्टानां कथं धृत्या धारणं तत्राह ता इति ।साधयति तदेवानुभवेन धृत्या हीति। ध्रियतेऽनयेति
धृतिर्यत्नविशेषस्तया धृत्या धार्यमाणा यथोपदिष्टाश्चेष्टाः शास्त्रमतिक्रम्य नार्थान्तरावगाहिन्यो भवन्ती-
त्यर्थः। धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि योगेनेति । ननु धृतेनियमेन समाध्यनुगतत्वं कथमक्त-
क्रियाधारणोपयोगीत्याशङ्कयाह एतदिति । उक्तक्रिया धार्यमाणा योगेन ब्रह्मणि समाधानेनैका-
ग्येणाव्यभिचारिण्याविनाभूतया धृत्या धारयत्यय तदविनाभावाभावे नियमेन तद्धारणासिद्धे-
रित्यर्थः ॥ ३३ ॥

१९६
श्रीमद्भगवद्गीता।
५० टी० । अथ धृतेस्त्रैविध्ये सात्त्विकी धृतिमाह धृसेति । योगेन चिन्तैकाग्येण हेतुनाव्य-
भिचारिण्या विषयान्तरमधारयन्त्या यया धृत्या मनसः प्राणानामिन्द्रियाणां च क्रिया धारयते नियच्छ-
ति सा धृतिः सात्त्विकी ॥ ३३ ॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ॥
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ३४ ॥
ययेति । यया तु धर्मकामार्थान् धर्मश्च कामश्चार्थश्च ते धर्मकामार्था-
स्तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यकर्तव्यरूपानेव धारयते
हे अर्जुन प्रसड़ेन यस्य यस्य धर्मादेर्धारणप्रसस्तेन तेन प्रसङ्केन फलाकाङ्क्षी
च भवति यः पुरुषस्तस्य धृतिर्या सा पार्थ राजसी ॥ ३४ ॥
आ० टी० । राजमीं धृति दर्शयति यया विति । तेषां धारणप्रकारमभिनयति मनसी-
ति । फलाकाक्षीति कस्य विशेषणं तत्राह यः पुरुप इति ॥ ३४ ॥
प० टी० । राजसीमाह ययेति । यया धृत्या धर्मकामार्थान् प्राधान्येन धारयति न वि-
मुश्चति तत्प्रसंगेन च फलाकाङ्क्षी च भवति सा राजसी धृतिः ॥ ३४ ॥
यया स्वप्नं भयं शोकं विपादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा तामसी मता ॥ ३५॥
ययेति । यया स्वप्नं निद्रां भयं नाशं शोक सन्तापं, विपादमवसाद,
विषण्णवदनतां मदं विषयसेवाम् आत्मनो बहु मन्यमानो मत्त एव मदमेव मनसि
नित्यमेव कर्तव्यरूपतया कुर्वन विमुञ्चति धारयत्येव दुर्मेधा कुत्सितमेधाः पु-
रुषो यस्तस्य धृतिर्या सा तामसी मता ॥ ३५ ॥
आ० टी० । तामसी धृति व्याचष्टे ययेति । शोकं प्रियवियोगनिमित्तं संतापं विषण्णता-
मिन्द्रियाणां ग्लानिर्विपयंसेवा कुमार्गप्रवृत्तरुपलक्षणमुक्तं, स्वप्नादिमदान्तं सर्वमेव कर्तव्यतयात्मनो
बहु मन्यमाना मनसि नित्यमेव कुर्वन् दुर्मेधा न विमुञ्चति किं तु धारयत्येवेति योजना ॥ ३५ ॥
प० टी० । तामसीमाह यया स्वप्नमिति । दुष्टाविवेकबहुला मेधा यस्यासौ दुधाः पु-
रुपो यया धृत्या स्वप्नं स्वप्नस्थपदार्थ दर्शनेन भविष्यं चिन्तयति तथा भयं शोकं विपादं मदं च न वि-
मुञ्चति स्थिरीकरोति सा तामसी धृतिः ॥ ३५ ॥
सुखं त्विदानी त्रिविधं
शृणु
मे भरतर्षभ ॥
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६॥
यत्तदने विषमिव परिणामेऽमृतोपमम् ॥
तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७॥

अष्टादशाध्यायः।
गुणभेदेनं क्रियाणां कारकाणां च त्रिधा भेद उक्तोऽथेदानी फलस्य सु-
खस्य त्रिविधो भेद उच्यते सुखमिति । सुखं त्विदानी त्रिविधं शृणु समाधान
कुर्वित्येतन्मे मम भरतर्षभ अभ्यासात् परिचयादाटत्तेरमते रति प्रतिपद्यते
यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं दुःखोपशमं च निगच्छति
निश्चयेन प्राप्नोति ॥ ३६ ॥
यदिति । यत् सुखमने पूर्व प्रथमसंनिपाते ज्ञानवैराग्यध्यानसमाध्यार-
म्भेऽत्यन्तायासपूर्वकत्वादिषमिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरि-
पाकजं सुखममृतोपमं तत् सुखं सात्त्विकं प्रोक्तं विद्भिरात्मनो बुद्धिरात्मवु-
द्धिरात्मबुद्धेः प्रसादो नैर्मल्यं सलिलवत् स्वच्छता ततो जातमात्मबुद्धिप्रसाद-
जमात्मविषया वात्मावलम्वना बुद्धिरात्मबुद्धिस्तत्प्रसादे प्रकर्षाहा जातमित्ये-
तत्तस्मात् सात्विकं तन्मतम् ॥ ३७ ॥
आ० टी० । वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह गुणेत्यादिना । क्रियमाणं कारकाणां गुण-
तस्वैविध्योक्त्यनन्तरं फलस्य मुखस्य त्रैविध्योक्त्यवसरे सतीत्याह इदानीमिति । हेयोपादेयभेदार्थ
त्रैविध्यं समाधानमैकाग्यं मम वचनादिति शेषः । यत्रेत्युभयत्र संबध्यते तत्रिविधं सुखमिति
पूर्वेण संबन्धः ॥ ३६ ॥
आ० टी०। तत्र सात्त्विकं मुखमादेयत्वेन दर्शयति यत्तदिति । प्रथमसंनिपातं विभनते
ज्ञानेति । कुतस्तस्य दुःखात्मकत्वं तत्राह अत्यन्तति । दुःखात्मकत्वे दृष्टान्तमाह विषमिवेति ।
ज्ञानादिपरिपाकावस्थापरिणामस्तस्मिन् सति ततो जातमिति योजना । तत्रैव हेत्वन्तरमाह आत्मन
इति । आत्मबुद्धिशब्दार्थान्तरमाह आत्मविषयेति । अन्तः करणनैर्मल्याहा सम्यग्ज्ञानप्रकर्षाढा
जातत्वादिति तच्छब्दार्थः ॥ ३७ ।।
प० टी० । अथ त्रिविधं सुखमाह मुखमिति द्वाभ्याम् । इदानी त्रिविधं सुखं मे मत्तः
शृणु तत्र सात्त्विकं सुखमाह अभ्यासादिति । यत्र यस्मिन् मुखेऽभ्यासान्निरन्तरानुसन्धानाद्रमते रम-
माणो दुखान्तं दुःखावसानं निगच्छति नितरां प्राप्नोति । तथा यदने प्रारम्भे मनःप्रत्यावृत्तिकरणेन
विषमिव दुःखमिव लगति परिणामे त्वमृतोपमं परमानन्दसदृशं भवति यच्चात्मबुद्धिप्रसादजमात्म-
विषया व्यवसायत्मिका बुद्धिस्तया यः प्रसादः प्रसन्नता ततो जातं तत्सात्त्विकं सुखम् ॥३६॥३७॥
विषयेन्द्रियसंयोगाद् यत्तदोऽमृतोपमम्॥
परिणामे विषमिव तत् सुखं राजसं स्मृतम् ॥ ३८॥
विषयेति । विषयेन्द्रियसंयोगायत् सुखं जायते प्रथमं प्रथमक्षणेऽमृतो-
पमममृतसमं परिणाम विषमिव बलवीयरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वाद-
धर्मतजनितनस्कादिहेतुत्वाच्च परिणामे तदुपभोगविपरिणामान्ते विषमिव तत्
सुरवं राजसं स्मृतम् ॥ ३८॥

श्रीमद्भगवद्गीता। आ० टी० । राजसं सुखं हेयत्वाय कथयति विषयति । बलं सङ्घातसामर्थ्य, वीर्य पराक्र- महतं यशः, रूपं शरीरसौन्दर्य, प्रज्ञा श्रुतार्थग्रहणसामर्थ्य, मेधा गृहीतार्थस्याविस्मरणेन धारणश- क्तिः, धनं गोहिरण्यादि, उत्साहस्तु कार्य प्रत्युपक्रमादिः, एतेषां नाशकत्वाद्वैपयिकं सुखं विषस- ममित्यर्थः । तत्रैव हेत्वन्तरमाह अधर्मेति ॥ ३८ ॥ प० टी० । राजसमाह विषयेति । यद्विपयेन्द्रियसंयोगादग्रे प्रारम्भेऽमृतोपमं परिणामे वि- रसत्वाद्विषोपमं मत्स्यग्रस्तबडिशामिपमिवतत्सुखं राजसम् ॥ ३८ ॥ यदने चानुबन्धे च सुखं मोहनमात्मनः ॥ निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९॥ यदने चेति । यदग्रे चानुबन्धे चावसानोत्तरकाले च सुखं मोहकरमा- स्मनो निद्रालस्यप्रमादोत्थं निद्रा चालस्यं च प्रमादश्च तेभ्यः सनुत्तिष्ठतीति निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ आ० टी० । तामसं सुखं त्यागार्थमेवोदाहरति यदने चेति । अनुबन्धशब्दार्थमाह अव- सानेति । मोहनं मोहकरम् । तदुत्पत्तिहेतुमाह निद्रेति ॥ ३९ ॥ १० टी० । तामसमाह यदन इति । अग्रे प्रथमे क्षणे अनुवध्यतेऽनेनेत्यनुबन्धः परिणाम स्तस्मिन्नात्मनोऽन्तःकरणस्य मोहनं व्यामोहकम् । तस्यावस्थानियममाह । निद्रालस्यं प्रमादो- ऽनवधानता । निद्रायां सुषुप्तिसुखं स्वाप्नविषयभोगसुखं वालस्येऽङ्गविमदोद्भवं प्रमाद उन्मत्वावस्था तत्रोत्पन्नं यत्सुखं तत्तामसमुदाहृतं उदाहरणत्वेन निरूपितम् ॥ ३९ ॥ न तदस्ति एथिव्यां वा दिवि देवेषु वा पुनः ॥ सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ॥ ४० ॥ अथेदानीं प्रकरणोपसंहारार्थः श्लोक आरभ्यते नेति । न तदस्ति त- नास्ति पृथिव्यां वा मनुष्यादि सत्त्वं प्राणिजातमन्यहाप्राणिजातं दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः प्रकृतितो जाते रेभिस्त्रिभिर्गुणैः सत्त्वादिभिर्मुक्तं परि- त्यक्तं यत् स्याद्भवेन तदस्तीति पूर्वेण संबन्धः । सर्वः संसारः क्रियाकारकफ- ललक्षणः सत्त्वरजस्तमोगुणात्मकोऽविद्यापरिकल्पितः समूलोऽनर्थ उक्तो वृक्षरू- पकल्पनया चोर्ध्वमूलमित्यादिना तं चासङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत् परिमार्गितव्यमिति चोक्तं तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृ- त्यनुपपत्तो प्राप्तायां यथा तन्निवृत्तिः स्यात्तथा वक्तव्यं सर्वश्च गीताशास्त्रार्थ उ- पसंहर्तव्य एतावानेव च सर्वो वेदः स्मृत्यर्थश्च ॥ ४० ॥ १ सर्व इत्यारभ्य कस्मिंश्चित्युस्तके उत्तरश्लोकसंबंद्धोऽयं ग्रन्थो दृश्यते, एवं प्रकरणार्थ-इत्यारभ्यानन्दगिरिटीका सामपि ।

अष्टादशाध्यायः । ४९९ आ० टी० । क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यमुक्त्वा सं- सारान्तर्भूतमेव किश्चित् गुणत्रयास्टष्टमपि क्वचिद्भविष्यतीत्याशङ्कयाह अथेति । संसारस्य सर्वस्यैव गुणत्रयसंस्टष्टत्वं प्रकरणम्, अन्यद्वाप्राणीत्यत्राप्राणिशब्देन प्रसिद्ध या स्थावरादि गृह्यते । प्रकर- णार्थमुपसंहृतमनुवदति सर्व इति । तस्यानेकात्मकत्वेन हयत्वं सूचयति क्रियेति । निर्गुणादात्मनो वैलक्षण्याच तस्य हेयतेत्याह सत्त्वेति । अनर्थत्वाच्च तस्य त्याज्यत्वमनर्थत्वं चाविद्याकल्पितत्वेनाव- स्तुत्वादित्याह अविद्यति । न केवलमष्टादशे संसारो दर्शितः, किं तु पञ्चदशेऽपीत्याह वृक्षेति । चकारात् सर्वः संसार इत्यनुकृप्यते । संसारध्वस्तिसाधनं सम्यगज्ञानं च तत्रैवोक्तमित्याह असङ्गेति । वृत्तमन्द्यानन्तरसंदर्भतात्पर्यमाह तत्र चेति । उक्तो विनिवर्तयिपितः संसारः सतिसप्तम्या पराम- श्यते, सर्वो हि संसारो गुणत्रयात्मको न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिर्य- क्ता प्रकृतेनित्यत्वादित्याशङ्कायां स्वधर्मानुष्ठानात्तत्त्वज्ञानोत्पन्ना गुणानामज्ञानात्मकानां निवृत्तिर्यथा भवति तथा स्वधर्मजातं वक्तव्यमित्युत्तरग्रन्थप्रवृत्तिरित्यर्थः । तत्तद्वर्णप्रयुक्तधर्मजातमुपदेशे चोपसंहा- रप्रकरणप्रकोपः स्यादित्याह सर्वश्चेति । उपसंहृते गीताशास्त्रार्थे यद्यपि सर्वो वेदार्थः स्मृत्यर्थश्च सर्व उपसंहृतस्तथापि मुमुक्षुभिरनुष्ठेयमस्ति वक्तव्यमवशिष्टमित्याशङ्कयाह एतावानिति । अनुष्ठेयपरि- माणनिर्धारणवदुक्तशङ्कानिवर्तन शास्त्रार्थोपसंहारश्चेत्येतदुभयं चकारार्थः ॥ ४० ॥ प० टी० । अथानुक्तमपिं संगृह्णन् प्रकरणार्थमुपसंहरति न तदस्तीति । यदेभिः सत्त्वादिभि- स्त्रिभिर्गुणैर्मुक्तं सत्त्वं प्राणिनातं तत्तादृशं पृथिव्यां मनुप्येषु नास्ति दिवि देवप्वपि नास्ति यावच्छरी. रजातं तावत्रिगुणात्मकमवास्तीत्यर्थः ॥ ४० ॥ ब्राह्मणक्षवियविशां शूद्राणां च परंतप ॥ कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥ पुरुषार्थमिच्छद्भिरनुष्ठेय इत्येवमर्थ ब्राह्मणक्षत्रियविशामित्यादिरारभ्यते ब्राह्मणेति । ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशस्तेषां ब्राह्मणक्षत्रि- यविशां शूद्राणां च शूद्राणामसमासकरणमेकजातित्वे सति वेदेऽनधिकारात् हे परंतप कर्माणि प्रविभक्तानीतरेतरविभागेन व्यवस्थापितानि, केन स्वभावप्रभ- वैर्गुणैः स्वभाव ईश्वरस्य प्रकृतिस्त्रिगुणात्मिका माया सा प्रभवो येषां गुणानां ते स्वभावप्रभवास्तैः शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनामथ वा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणं तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः वैश्यस्वभावस्य तमउपसर्जनं रजःप्रभवः शूद्रस्वभावस्य रजउपस- र्जनं तमः प्रभवः प्रशान्त्यैश्वर्येहामूढस्वभावदर्शनाच्चतुर्णाम् । अथवा जन्मान्त- रकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेनाभिव्यक्तः स्वभावः स.प्रभवो येषां गुणानां ते स्वभावप्रभवा गुणा गुणप्रादुर्भावस्य निष्कारण- त्वानुपपत्तेः स्वभावः कारणमिति कारणविशेषोपादानम्, एवं स्वभावप्रभवैः प्रकातिप्रभवैः सत्त्वरजस्तमोभिर्गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रवि- ..

५ श्रीमद्भगवद्गीता। भक्तानि । ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि कंथमुच्यते सत्त्वादिगुणप्रविभक्तानीति, नैष दोषः शास्त्रेणापि ब्राह्म- णादीनां सत्त्वादिगुणविशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि न गुणा- नपेक्षयेति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानीत्युच्यन्ते ॥ ४१ ॥ आ० टी० । संप्रति वर्णचतुष्टयस्यानुष्ठेयं धर्मजातं संकीर्णमिति सूत्रमुपन्यस्यति ब्राह्मणेति । उपनयनसंस्कारवत्त्वे सति वेदाधिकारित्वं समानमिति त्रयाणां समासकरणमितरेषामसमासे हेतुमाह शूद्राणामिति । एकजातित्वमुपनयनवजितत्वं कर्मणामसङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रक- टयति केनेसादिना । स्वभावप्रभवैर्गुणैरित्यस्यार्थान्तरमाह अथ वेति । उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति प्रशान्तीति । स्वभावशब्दस्यार्थान्तरमाह अथ वेति । किमिति गुणाभिव्यक्तरुक्तवास- नाधीनत्वं तत्राह गुणेति । ननु नास्ति गुणप्रादुर्भावस्य निष्कारणत्वं प्रकृतिजैर्गुणैरिति प्रकृतेर्गुण- कारणत्वामिधानादत आर स्वभाव इति । वासनाकारणमिति गुणव्यक्तेनिमित्तकारणत्वं विवक्षितं प्रकृतिस्तूपादानमिति भावः । उक्तमुपसंहरति एवमिति । स्वभावप्रभवैः सत्त्वादिगुणैाह्मणादीनां कर्माणि प्रविभक्तानीत्युक्तमाक्षिपति नन्विति । शास्त्रस्य धर्मविभागहेतोः सत्त्वादिविशेषापेक्षयैव विभागज्ञापकत्वादुमयत्र विभागहेतुत्वोक्तिरविरुद्वेति परिहरति नैप दोष इति ॥ ४ १ ॥ प० टी० । यद्येवं प्राणिजातं त्रिगुणात्मकं तस्य कथं मोक्ष इत्यपेक्षायां स्वस्वाधिकार- विहितैः कर्मभिः परमेश्वराराधनावाप्तज्ञानेन मोक्ष इति सकलगीतार्थ संगृह्य दर्शयितुं प्रकारान्तरमा- रभते ब्राह्मणेति । हे परंतप शत्रुतापन ब्राह्मणादीनां चतुर्णा वर्णानां कर्माणि प्रविभक्तानि प्रकर्षण विभागतो विहितानि विभागोपलक्षणमाह स्वभावप्रभवर्गुणैरिति । स्वभावः सात्त्विकादिः प्रभवत्यावि- र्भवति येभ्यस्तैर्गुणैरुपलक्षणभूतैः । यद्वा स्वभावः पूर्वजन्मसंस्कारस्तस्मात्प्रादुर्भूतैस्तत्र सत्त्वप्रधाना ब्राह्मणाः, सत्त्वोपसजनरजःप्रधानाः क्षत्रियाः, तमउपसर्जनरजःप्रधाना वैश्याः, रजउपसर्जनतमःप्रधानाः शूद्राः, तदुक्तम् ' चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ' इति ॥ ४१ ॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ॥ ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥४२॥ कानि पुनस्तानि कर्माणीत्युच्यते शम इति । शमो दमश्च यथा व्या- ख्यातार्थों, तपो यथोक्तं, शारीरादि शौचं व्याख्यातं, शान्तिः क्षमा, आर्जव- मृजुतैवं च, ज्ञानं विज्ञानम् , आस्तिक्यमस्तिभावः श्रद्दधानता परमार्थेष्वाग- मार्थेषु, ब्रह्मकर्म ब्राह्मणजातेः कर्म ब्रह्मकर्म स्वभावजं यदुक्तं स्वभावप्रभवे- र्गुणैः प्रविभक्तानीति तदेवोक्तं स्वभावजामिति ॥ ४२ ॥ आ० टी० । प्रविभक्तानि कर्माण्येव प्रश्नद्वारा विविच्य दर्शयति कानीत्यादिना । अ- न्तःकरणोपशमः शमो दमो बाह्यकरणोपरतरित्युक्तं स्मारयति यथेति । त्रिविधं तपः सप्तदशे'द- र्शितमित्याह तप इति । शौचमपि बाह्यान्तरभेदेन प्रागेवोक्तमित्याह शौचमिति । क्षमा नामाक-

अष्टादशाध्यायः।
4
.
ष्टस्य ताडितस्य वा मनसि विकारराहित्य, ज्ञान शास्त्रीयपदार्थज्ञान, विज्ञानं शास्त्रार्थस्य
स्वान-
भवपर्यन्तत्वापादनं त्रिधा व्याख्यातम् । स्वभावशब्दार्थमुपेत्याह यदुक्तमिति ॥ ४२ ॥
प० टी० । तत्र ब्राह्मणस्य स्वाभाविकानि कर्माण्याह शमो दम इति । शमश्चित्तोपरमः,
दमश्चेन्द्रियोपरमः, तपः पूर्वोक्तं शारीरादि, शांचं बाह्याभ्यन्तरतः, क्षान्तिः क्षमा, आर्जवमवक्रता, ज्ञानं
शास्त्रीयं, विज्ञानमनुभवः, आस्तिक्यमास्ति परलोक इति निश्चयः, एतहाह्मणस्य स्वभावसिद्ध
कर्म ॥ ४२ ॥
शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ॥
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥४३॥
शौर्यमिति । शौर्य
शूरस्य
भावस्तेजः : प्रागल्भ्यं, धृतिर्धारणं सर्वावस्था-
स्वनवसादो भवति यथा, धृत्योत्तम्भितस्य दाक्ष्यं दक्षस्य भावः सहसा प्रत्यु-
त्पनेषु कार्येष्वव्यामोहेन प्रवृत्तिः, युद्धे चाप्यपलायनमपराङ्मुखीभावः शत्रुभ्यः,
दानं देयेषु मुक्तहस्तता, ईश्वरभावः ईश्वरस्य भावः प्रभुशक्तिप्रकटीकरणमी-
शितव्यान् प्रति, क्षात्रं कर्म क्षत्रियजातेविहितं कर्म क्षात्रं कर्म स्वभावजम् ॥४३॥
आ० टी० । शूरस्य भावो विक्रमो बलवत्तरानपि प्रहत्तुं प्रवृत्तिः, प्रागलभ्यं परैरधर्षणी-
यत्वं महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्तवृत्तिभूतिरिति व्याचष्टे सर्वावस्थास्विति । दक्षस्य
भावमेव विभजते सहसति । स्वभावस्तु पूर्ववत् ॥ ४३ ॥
५० टी० । अथ क्षत्रियाणामाह शौर्यमिति । शौर्य पराक्रमः, तेजः प्रागल्भ्यम्, धृतिधैर्यम् ,
दाक्ष्यं दक्षत्वम् कौशलमित्यर्थः । युद्धेऽपलायनमपराड्मुखता, दानमौदार्यम्, ईश्वरभावो नि-
यामकत्वशक्तिरेतत्क्षत्रकर्म ॥ ४३ ॥
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् ॥
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥४४ ॥
कृषीति । कृषिगोरक्ष्यवाणिज्यं कृषिश्च गोरक्ष्यं च वाणिज्यं च कृषि-
गोरक्ष्यवाणिज्यं कृषि मेविलेखनं गां रक्षतीति गोरक्षस्तद्भावो गोरक्ष्यं पाशुपा-
ल्यं वाणिज्यं वणिकर्म कयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म
स्वभावजं परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
आ० टी० । वैश्यशूद्रयोः कर्म विवक्षयानुवदति कृषीति । स्पष्टार्थः ॥ ४४ ॥
५० टी० । अथ वैश्यशूद्रयोराह कृषीति । कृषिर्लाङ्गलादिभिभूमिकर्षणं, गारक्षतीति
गोरक्षस्तस्य भाको गोरक्ष्यं पशुपालनम्, वाणिज्यं क्रयविक्रयादि, एतद्वैश्यस्य, तथा त्रिवर्गस्य
परिचीत्मकं सेवनात्मकं शूद्रस्य ॥ ४४ ॥

१५.२ श्रीमद्भगवद्गीता। स्व स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः॥ स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥४५॥ एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्गप्राप्तिः फलं स्वभावतो वर्णा आश्रमादयश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनूभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते इत्यादि- स्मृतिभ्यः पुराणे च वर्णानामाश्रमाणां च लोकफलभेदविशेषस्मरणात् कार- णान्तरात्त्विदं वक्ष्यमाणं फलं शृणु स्वे स्वे इति । स्वे स्वे यथोक्तलक्षणभेदे कर्मण्यभिरतस्तत्परः संसिद्धिं स्वकर्मानुष्ठानादशुद्धिक्षये सति कार्येन्द्रियाणां ज्ञानाधिष्ठानयोग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरोऽधिकृतः पुरुषः किं स्वकर्मानुष्ठानादेव साक्षात् संसिद्धिं न कथं तर्हि स्वकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति तच्छृणु ॥ ४५ ॥ आ० टी० । शमादिपरिचर्यान्तकर्मणां विभज्योक्तानामभ्युदयं फलमादावुपन्यस्यति एते- पामिति । स्वभावतो विहितत्वादेव मोक्षापेक्षामन्तरणानुष्ठानादित्यर्थः । तत्र प्रमाणमाह वर्णा इति । शेषशब्देन भुक्तकर्मणोऽतिरिक्तं कर्मानुशयशब्दितमुच्यते, प्रत्येक देशादिभिर्विशिष्टशब्दः संबध्यते, आदिशब्देन तद्यथान्नफलार्थे निर्भितेच्छाया मन्धाद्यनूत्पद्यत एवं धर्म चर्यमाणमर्था अनूत्पद्यन्ते न धर्महानिर्भवतीति स्मृतिर्गृह्यते । इतश्चोक्तानां कर्मणां स्वर्गफलत्वं युक्तमित्याह पुराणे चेति । उक्तं. हि यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम्। तद्वर्णवन्धमुक्तोऽसौ लोकानाप्नोत्यनुत्तमान्' इति 'यस्त्वेतां नियतश्चयां वानप्रस्थश्चरेन्मुनिः । स दहत्यनिवद्दोपान् जयलोकांश्च शाश्वतान् ' इति मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुसंकल्पितबुद्धियुक्तः । अनिन्वनज्योतिरिव प्रशान्तः स ब्रह्मलो- कान् श्रयते द्विजातिः, इति च । “सर्व एत पुण्यलोका भवन्ती" इति श्रुतिश्चकारार्थः । यदि पुनर्मोक्षा- पेक्षयोक्तानि कर्माण्यनुष्ठीयेरंस्तदा मोक्षफलत्वं तेषां सेत्स्यतीत्याह कारणान्तरादिति । तदेव का- रणान्तरं यन्मोक्षापेक्षया तेषामनुष्ठानं मोक्षोपायषु सात्त्विकेपु ब्राह्मणधर्मे पु क्षत्रियादीनामनधिका- राद् ब्राह्मणानामेव मोक्षो न क्षत्रियादीनामित्याशङ्कयाह स्त्रे स्व इति । यथा स्वे कर्मण्यभिरतस्य बुद्धिशुद्विद्वारा ज्ञाननिष्ठायोग्यताप्राप्ता प्राप्तज्ञानस्य मोक्षोपपत्तेाह्मणातिरिक्तस्यापि ज्ञानवतो मुक्तिरिति मत्वा पूर्वार्ध व्याचष्टे स्वे स्त्रे इसादिना । संसिद्विशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वध- मनिष्ठत्वमात्रेण तल्लाभे तादर्णेन संन्यासादिविधानानर्थक्यमिति मन्वानः शङ्कते किमिति । न तावन्मात्रेण साक्षान्मोक्षो ज्ञाननिष्ठायोग्यता चेति परिहरति नेति । तर्हि कथं स्वधर्मनिष्ठस्य संसि- द्विरिति पृच्छति कथं तौति । उत्तरार्धेनोत्तरमाह स्वकर्मेति । तच्छृणु तं प्रकारमेकाग्रचेतो भूत्वा, श्रुत्वावधारयेत्यर्थः ॥ ४५ ॥ ५० टी० । अथ ब्राह्मणादिकर्मणो ज्ञानहेतुत्वमाह स्वे स्वे कर्मणीति सार्धेन । स्ते स्वे १ काचत् कारणान्तरादित्यतः प्राक्तनो ग्रन्थः पूर्वशोकसंवद्धः । एवं टाकायां यदिपुनरित्यतः पूर्वी ग्रन्थोपि । कारणान्तरात्विदं वक्ष्यमाणं फलं तत उच्यते-इति पा० लि. पु. कचित ।

अष्टादशाध्यायः । ५०३: वर्णोचितकर्मण्यभिरतः श्रद्धया प्रवृत्तः सन्नरः संसिद्धिं लभते । स्वकर्मनिरतः पुरुषो यथा येन प्रका- रेण सिद्धि प्राप्नोति तन्मया वक्ष्यमाणं शृणु ॥ ४५ ॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ॥ स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः॥४६॥ यत इति । यतो यस्मात् प्रवृत्तिरुत्पत्तिश्चेष्टा वा यस्मादन्तर्यामिण ई- श्वराद् भूतानां प्राणिनां स्याद् येनेश्वरेण सर्वमिदं ततं जगद्व्याप्तं स्वकर्मणा पूर्वोक्तेन प्रतिवर्ण तमीश्वरमभ्यर्च्य पूजयित्वाराध्य केवलं ज्ञाननिष्ठायोग्यताल- क्षणां सिद्धिं विन्दति मानवो मनुष्यः ॥ ४६ ॥ आ० टी० । तमेव प्रकारं स्फुटयति यत इति । यतःशब्दार्थ यस्मादित्युक्तं व्यक्तीकरोति यस्मादिति । प्राणिनामुत्पत्तिर्यस्मादीश्वरात्तेषां चेष्टा च यस्मादन्तर्यामिणो येन च सर्व व्याप्तं मृदेव घटादि कार्यस्य कारणातिरिक्तस्वरूपाभावात्तं स्वकर्मणाभ्यर्च्य मानवः संसिद्धि विन्दतीति संवन्धः । न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षान्मोक्ष उपलभ्यते तस्य ज्ञानैकलभ्यत्वात् किंतु तन्निष्ठानां शुद्धबुद्दीनां कर्मसु फलमपश्यतामीश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञा- ननिष्ठायोग्यतावतां ज्ञानप्राप्या मुक्तिरित्यभिप्रेत्याह केवलमिति ॥ ४६ ॥ प० टी० । यत इति । यतो यस्मादन्तर्यामिरूपाद्भूतानां देहानां चेष्टा भवति । येन का- रणात्मनेदं दृश्यमानं सर्व ततं विस्तारितं तमीश्वरं कर्मणा वर्णाश्रमोचितेनाभ्याराध्य मानवः सिद्धि विन्दति लभते । अस्मिन्नर्थे पूर्व बढ्यः श्रुतय उपन्यस्ताः सन्ति ॥ ४६ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्टितात् ॥ स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४७॥ यत एवमतः श्रेयानिति । श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मो विगु- णोऽपीत्यपिशब्दो द्रष्टव्यः, परधर्मात् स्वनुष्ठितात् स्वभावनियतं स्वभावेन नियतं यदुक्तं स्वभावजमिति तदेवोक्तं स्वभावनियतमिति यथा विषजातस्येव कमर्विषं न दोषकर तथा स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषं पापं स्व- भावनियतं कर्म कुर्वाणो विपजात इव कृमिः किल्विषं नाप्नोतीत्युक्तम् ॥४७॥ आ० टी० । स्वधर्मानुष्ठानस्य बुद्धि शुद्धयादिद्वारा मोक्षावसायित्वात्तदनुष्ठानमावश्यकमित्या- ह यत इति । ननु युद्धादिलक्षणं स्वधर्म कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेया- निति तत्राह स्वभावेति । स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावनमित्यधस्तादुक्तमित्याह यदुक्तमिति । निग्रहत्मिकमपि विहितं कर्म कुर्वन् पापं नाप्नोतीत्यत्र दृष्टान्तमाह यथेति । इतश्च विहितं कर्म दोषवदपि कर्तव्यं प्रकारान्तरासंमवादित्युक्तानुवादपूर्वकं कथयति स्वभावेसादिना ।

श्रीमद्भगवद्गीता। न हि कमिर्विषज़ो विषनिमित्तं मरणं प्रतिपद्यते तथा पापाधिकृतः पुरुषो दोषवदपि विहितं कर्म कुर्वन् पापं नामोतीत्युक्तमित्यर्थः ॥ ४७ ॥ ५० टी० । अथ स्वधर्म प्रशंसन्नाह श्रेयानिति । सम्यगनुष्ठितादपि परधर्मात्सकाशाद्विगुणो लौकिकदृष्टया गुणरहितोऽपि स्वधर्मः श्रेयान् श्रेयस्करः । यथा हिंसाप्रधानत्वेन विगुणोऽपि क्षात्र- धर्मः परधर्माब्राह्मणधर्मादुत्कृष्टादपि श्रेयान् यतः स्वभावेन पूर्वोक्तन स्वधर्मे नियतं नियमेनोक्तं कर्म कुर्वन् किल्बिषं पातकं न प्राप्नोति ।। ४७ ॥ सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ॥ सर्वारम्भा हि दोपेण धूमेनाग्निरिवाटताः॥४८॥ परधर्मश्च भयावह इत्यनात्मज्ञश्च न हि कश्चित् क्षणमप्यकर्मकत्तिष्ठती- त्यतः सहजमिति । सहजं सह जन्मनैवोत्पन्नं सहजं किं तत् कर्म कौन्तेय सदोषमपि त्रिगुणत्वान त्यजेत् सर्वारम्भा आरभ्यन्त इत्यारम्भाः प्रकरणात्स- मकर्माणीत्येतत् प्रकरणाद् यः कश्चिदारम्भः स्वधर्मः परधर्मश्च ते सर्वे सदोषा हि यस्मात्रिगुणात्मकत्वमत्र हेतु स्त्रिगुणात्मकत्वाद्दोषेण धमेन सहजेनाग्निरिवा- वृताः सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषानैव- मुच्यते, भयावहश्च परधर्मो न च शक्यतेऽशेषतस्त्यक्तुमज्ञेन कर्मवता तस्मान्न त्यजेदित्यर्थः । किमशेषतस्त्यक्तुमशक्यं कर्मेति न त्यजेत् किं वा सहजस्य क- मणस्त्यागे दोपो भवतीति, किं चातो यदि तावदशेषतस्त्यक्तुमशक्यमिति न आ० टी० । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैरनुष्टीयतामतो न पापप्राप्तिरित्याशङ्कयाह परेति । उक्तमित्यनुवर्तते । तर्हि पापप्राप्तिशङ्कापरिहर्तुमकर्मनिष्ठत्वमेव सर्वेषां स्यादित्याशङ्कच ज्ञा- नाभावान्नवमित्याह अनात्मज्ञ इति । पूर्ववदत्रापि संबन्धः । प्रकारान्तरासंभवकृतं फलमाह अत इति । सह जायत इति सहज स्वभावनियतं नित्यं कर्म तद्विहितत्वादनिर्दोषमपि' हिंसात्मकतया सदोषमित्यत्र हतुमाह त्रिगुणेति । सत्त्वादिगुणत्रया रब्धतया हिंसादिदोषवदपि कर्म विहितमत्या- ज्यमित्यर्थः । कर्मणां दोषवत्वं प्रपञ्चयति सवैति । आरम्भशब्दस्य कर्मव्युत्पत्त्या स्वपरकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुमाह प्रकरणादिति । दोषेणेत्यादि व्याचष्टे यः कश्चिदिति । ते सर्वे दोषेणा- वृता इति संबन्धः । सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मादित्युक्तं हेतुमेवाभिनयति त्रिगुणा- त्मकत्वमिति । स्वभावनियतस्य कर्मणों दोषवत्त्वात्तत्त्यागद्वारा परधर्ममातिष्ठमानस्यापि नैव दोषा- द्विमोक्षः संभवति न च परधर्मोऽनुष्ठातुं शक्यते भयावहत्वान्न च तर्हि कर्मणाशेषतोऽनुष्ठानमे- वाज्ञस्याशेषकर्मत्यागायोगादतः सहज कर्म सदोषमपि न त्याज्यमिति वाक्यार्थमाह सहजस्यति । सहजं कर्म सदोषमपि न त्यजेदित्यत्र विचारमवतारयति किमिति । न हि कश्चिदिति न्यायादिति शेषः । दोषो विहितनित्यत्यागे प्रत्यवायः । सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वादुक्तसन्देहे प्रयो- जनं पृच्छति किशात दति । तत्राद्यमन्द्य फलं दर्शयति यदीति । अशक्यानुष्ठानस्य गुणत्वेन १ तद्विहितत्वानिर्दोषमापि-पा० मु. पु. ।

अष्टादशाध्यायः । ५०५ त्याज्यं सहजं कर्मैवं तयशेषतस्त्यागे गुण एव स्यादिति सिद्धं भवति सत्य- मेवमशेषतस्त्याग एव नोपपद्यत इति चेत्, किं नित्यप्रचलितात्मकः पुरुषो यथा सांख्यानां गुणाः किं वा कियेव कारकं यथा बौद्धानां पञ्चस्कन्धाः क्षणप्र-. ध्वंसिनः, उभयथापि कर्मणोऽशेषतस्त्यागो न भवत्यथ तृतीयोऽपि पक्षो यदा करोति तदा सक्रियं वस्तु यदा न करोति तदा निष्क्रिय वस्तु तदेव तत्रैवं सति शक्यं कर्माशेषतस्त्यक्तुम् अयं त्वस्मिस्तृतीये पक्षे विशेषो न नित्यप्र- चलितं वस्तु नापि कियैव कारकं किं तर्हि व्यवस्थिते द्रव्येऽविद्यमाना कियो- त्पद्यते विद्यमाना च विनश्यति । शुद्ध द्रव्यं शक्तिमदवतिष्ठत इत्येवमाहुः का- णादास्तदेव च कारकमित्यस्मिन् पक्षे को दोप इति, अयमेव तु दोषो यत- स्त्वभागवतं मतमिदं, कथं ज्ञायते, यत आह भगवान्नासतो विद्यते भाव इ- त्यादि, काणादादीनां ह्यसतो भावः सतश्चाभाव इतीदं मतमभागवतत्वेऽपि न्यायवच्चेत्को दोप इति चेदुच्यते, दोपवत्त्विदं सर्वप्रमाणविरोधात् कथं यदि ता- वद यणुकादि द्रव्यं प्रागुत्पत्तेस्त्यन्तमेवासदुत्पन्नं च स्थितं कं चित् कालं पुनरत्यन्तमेवासत्त्वमापद्यते तथा च सत्यसदेव सज्जायतेऽभावो भावो भवति भावश्चाभाव इति तत्राभावो जायमानः प्रागुत्पत्तेः शशविषाणकल्पः समवा- प्रसिद्धत्वात् प्रसिद्धं हि महोदधिमगस्त्यस्य चुटकीकृत्य पिचतो गुणवत्त्वं तदाह एवं तीति । अ- शेषकर्मत्यागस्य गुणवत्यपि प्रागुक्तन्यायन तदयोगात्तदस्याशक्यानुष्ठानतेति शङ्कत ससमिति। चोद्य- मंव विवृण्वन्नाद्यं विभजते किमिति । सत्त्वादिगुणवदात्मना नित्यप्रचलितत्वनाशपतस्तन न कर्म त्यक्तुं शक्यं नापि रूपविज्ञानवदनासंस्कारमंज्ञानां क्षणध्वंसिनां स्कन्धानामिव क्रियाकारकभेदाभावात कार- कस्यैवात्मनः क्रियात्वमित्युक्ते काशपतस्यक्तुं शक्यमुभयथापि स्वभावसङ्गादित्याह उभयथेति । पक्षद्वयानुरोधेनाशेषकर्मत्यागायोगे वैशेषिकश्योदयति अथेति । कदाचिदात्मा मक्रियो निष्क्रियश्च कदाचिदिति स्थिते फलितमाह तत्रेति । उक्तमव पक्षं पूर्वोक्तपक्षद्वयाद्विशेषदर्शनेन विशदयति अयं त्विति । आगमापायित्व क्रियायातहतो द्रव्यस्य कथं स्थायितेत्याशङ्कयाह शुद्धनिति । क्रियाश- क्तिमत्त्वऽपि क्रियावत्त्वाभाव कथं कारकत्वं क्रियां कुर्वन् हि कारणं कारकमित्यभ्युपगमादित्याशङ्कयाह तदेवेति । क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं परस्पराश्रयादित्यर्थः । वैशपिकपक्षे दोषाभावादस्ति सवः स्वीकार्यतेत्युपसंहराते इत्यस्मिन्निति । भगवन्मतानुसारित्वाभावादस्य पक्षस्य त्याज्यतेति दृषयति अयमेवति । भगवन्मतानुसारित्वमस्याप्रामाणिकमिति शङ्कत कथमिति । भगवद्वचनमुदाहरन् चरमपक्ष- स्य तदनुगुणत्वाभावमाह यत इति । परेपामपि मतमेतदनुगणमेव किं न स्यादित्याशङ्कयाह काणा- दादीनां हीति । भगवन्मानगणत्वाभावेऽपि न्यायानगुणन्वेन दोषरहितं काणादादीनां मतमुपादयमेव न हि काणादमतं विरोधादपेक्षणीयमिति शङ्कते अभागवतत्वेऽपीति । न्यायवत्त्वमसिद्धमिति दूषयति उच्यत इति । सर्वप्रमाणानु मारिणो मतस्य न ताद्वरोधितत्यातिपति कथमिति । वैश- पिकमतस्य संवप्रमाणविरोधं प्रकटयन्नादौ तन्मतमनुवदति यदीति । असतो जन्म सतश्च नाश इति स्थिते फलितमाह तथा चेति । उक्तमेव वाक्यं व्याकरोति अभाव इति । सदेवासत्त्वमापद्यत इत्युको व्याचष्टे भावश्चति । इति मतमिति शेषः । तत्रैवाभ्युपगमान्तरमाह तत्रेति । प्रकृतं मतं ५०६ श्रीमद्भगवद्गीता। य्यसमवायिनिमित्ताख्यं कारणमपेक्ष्य जायत इति, न चैवमभाव उत्पद्यते कारणं चापेक्षत इंति शक्यं वक्तुमसतां शशविषाणादीनामदर्शनाद्भावात्मकाश्चेद् घटादय उत्पद्यमानाः किंचिदभिव्यक्तिमात्र कारणमपेक्ष्योत्पद्यन्त इति शक्यं प्रतिपत्तुं, किंचासतश्च सद्भावे सतश्वासद्भावे न कचित्प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात् सत् सदेवासदसदेवेति निश्चयानुपपत्तः, किंचोत्पद्यतइति यणुकादेव्यस्य स्वकारणसत्तासंबन्धमाह प्रागुत्पत्तश्चासत् पश्चात् स्वकार- णव्यपारमपेक्ष्य स्वकारणैः परमाणुभिः सत्तया च समवायलक्षणेन संबन्धेन संवध्यते संवद्धं सत् कारणसमवेतं सद्भवति, तत्र वक्तव्यं कथमसतः सत् कारणं भवेत् संबन्धो वा केनचित् स्यानहि वन्ध्यापुत्रस्य सत्तासंबन्धो वा कारणं वा केनचित् प्रमाणतः कल्पयितुं शक्यं, ननु नैव वैशेषिकैरभाव- स्य संबन्धः कल्प्यते इयणुकादीनां हि द्रव्याणां स्वकारणेन समवायलक्षणः संबन्धः सतामेवोच्यत इति न संबन्धात् प्राक् सत्त्वानभ्युपगमानहि वैशे- षिकः कुलालदण्डचकादिव्यापारात् प्राग घटादीनामस्तित्वमिष्यते न च मृद एव घटाद्याकारप्राप्तिमिच्छन्ति ततश्चासत एव संवन्धः पारिशेष्यादिप्टो भव- ति, नन्वसतोऽपि समवायलक्षणः संवन्धो न विरुद्धः, न वन्ध्यापुत्रादीनामदर्श- सप्तम्यर्थः । इत्यभ्युपगम्यत इति शेषः । परकीयमभ्युपगमं दूषयति न चेति । एवामति परपरिभाषा- नुसारणेत्यर्थः । अदर्शनादुत्पत्तेरपेक्षायाश्चेति शेषः । कथं तर्हि त्वन्मतेऽपि घटादीनां .कारणापेक्षाणामु- त्पत्तिर्न हि भावानां कारणापेक्षोत्पत्तिा युक्तति तत्राह भावेति । घटादीनामस्मत्पक्षे प्रागपि कार- णात्मना सतामेवाव्यक्तनामरूपाणामभिव्यक्तिसामग्रीमपेक्ष्य पथगभिव्यक्तिसंभवान्न किचिदनवद्यमि- त्यर्थः । असत्कार्यवादे दोपान्तरमाह किं चेति । परमते मानमयव्यवहारे क्वचिदपि विश्वामा न क- स्यचिदित्यत्र हेतुमाह सत्सदेवेति । न हि सत्तथैवति निश्चितं तस्यैव पुनरसत्त्वप्राप्तरिष्टत्वान्न वा- सत्तथैवेति निश्चयस्तथैव सत्त्वप्राप्तरुपगमादतो यन्मानन सदमदा निर्णीतं तत्तथति विश्वासाभावा- न्मानवैफल्यमित्यर्थः । इतश्चासत्कार्यवादो न युक्तिमानित्याह किंचेति । तदव हेत्वन्तरं स्फोरायतुं परमतमनुवदति उत्पद्यत इतीति । परकीयं वचनमव व्याचष्ट प्रागिति । संबन्धं सदित्यनेन कारणासंबन्धे सति कार्यस्य संवन्धो भवतीत्युक्तं तदेव स्फुटयात कारणेति । परमत- मेवमनुभाष्य दूषयति तत्रोत । कार्यस्यासतोऽपि कारणं संभवति तस्य च कार्येण संबन्धः सिध्यती- त्याशङ्कचाह न हीति । असत्त्वादेवासतः संबन्धाभाव कारणस्य सतोऽपि न तन संबन्धोऽनुमातुं शक्यते सदसतोः संबन्धासंभवादित्यर्थः । कार्यस्यात्यन्तासत्त्वानभ्युपगमात् कारणसंबन्धः स्यादिति शङ्कते नन्विति । सतामेव यणुकादीनां कारणमंबन्धं शङ्कित्वा दृषयति न संबन्धादिति । अन- भ्युपगममेव विशदयति न हीति । सदेव कारणं कार्याकारमापद्य कार्यव्यवहारं निर्वर्तयतीत्यभ्युपग- मान्नास्ति संबन्धानुपपत्तिरित्याशयापराद्धान्तान्मवमित्याह न चेति । कार्यस्य कारणंसंबन्धात् पूर्व सत्त्वाभावे परिशेषसिद्धमर्थ दर्शयति ततश्चेति । तत्र चानुपपत्तिरुक्तति शेषः । संबन्धिनोः सदसतो- रसंयोगेऽपि समवायः सदसोर्भवदिति तत्य नित्यत्वादन्यतरसंबन्ध्यभावेऽपि स्थितेरावश्यकत्वादिति अष्टादशाध्यायः । ९०.७ नाद घटादेरेव प्रागभावस्य स्वकारणसंबन्धो भवति न वन्ध्यापुत्रादेरभावस्य तुल्य त्वेऽपीति विशेपोऽभावस्य वक्तव्य एकस्याभावो इयोरभावः सर्वस्याभावः प्राग- भावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभाव इति लक्षणतो न केनचिहिशेषो द-- शयितुं शक्योऽसति च विशेषे घटस्य प्रागभाव एव कुलालादिभिर्घटभावमा- पद्यते संवध्यते च भावेन कपालाख्येन कारणेन संबद्धश्च सर्वव्यवहारयोग्यश्च भवति । ननु घटस्यैव प्रध्वंसाभावोऽभावत्वे सत्यपीति प्रध्वंसाद्यभावानां न कचियवहारयोग्यत्वं दृष्टं दृष्टं च प्रागभावस्यैव यणकादिद्रव्याख्यस्योत्पत्त्या- दिव्यवहारार्हत्वमित्येतदसमञ्जसमभावत्वाविशेषादत्यन्तप्रध्वंसाभावयोरिव । ननु नैवास्माभिः प्रागभावस्य भावापत्तिरुच्यते किं तर्हि भावस्यैव हि भावाप- त्तिर्यथा घटस्य घटापत्तिः पटस्य पटापत्तिः, एतदष्यभावस्य भावापत्तिवदेव प्रमाणविरुद्धं सांख्यस्यापि यः परिणामपक्षः सोऽप्यपूर्वधर्मोत्पत्तिविनाशाडीकर- णाशेषिकपक्षान्न विशिष्यतेऽभिव्यक्तितिरोभावाङ्गीकरणेऽप्यभिव्यक्तितिरोभा- वयोर्विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधः । एतेन कारणस्यै- शङ्कत नन्विति । मदसतार्मिथः संबन्धस्यादृष्टत्वान्नति निराचष्ट न वन्ध्यति । घटादिप्रागभाव- स्यात्यन्ताभावत्वाभावाद्वन्ध्या पत्रादिविलक्षणतया स्वकारणसंबन्धः सिध्यतीत्याशङ्कचाह घटादेरिति । उभयत्राभावाविशंपेऽपि कस्यचित कारणसंबन्धो नेतरस्येति विशेष हेत्वभावान्न प्रागभावस्य कार- णमंबन्धः संभवतीत्यर्थः । घटादिप्रागभावम्य सप्रतियागिकत्वं वन्ध्यापुत्रादेनैवमिति विशेषमाशङ्कय दृपयति एकस्यति । प्रागभावस्यैव प्रध्वंमाभावादेगपि मप्रतियोगिकत्वाविशेषे स्वकारणेन संबन्धा- विशेषः स्यादित्यर्थः । प्रागभावप्रध्वंमाभावाविशपाभाव फलितमाह असति चेति । कपालशब्दो घटकारणीभतमृदवयवविपयः, सर्वो व्यवहागे घटाश्रितो जन्मनाशादिव्यवहारः प्रध्वंसाभावस्तु घटस्यैवाभावत्व सत्यपि न घटत्वमापद्यत नापि कारणन संबध्यंत न चात्पत्त्यादिव्यवहारयोग्या भ- वतीत्येतदयुक्तं प्रागभावनास्य विशेषाभावादित्याह नन्विति । असमञ्जममित्यनेनेतिशब्दः संबध्यते । असमञ्जमान्तरमाह प्रध्वंसादीति । अन्योन्याभावात्यन्ताभावावादिपदार्थी । क्वचिदिति देशकाल- योहणं, व्यवहारे। जन्मादिरव, प्रागभावी नोत्पत्त्यादव्यवहारयोग्योऽभावत्वात् प्रध्वंसादिवदि- त्यर्थः । प्रागभावस्य बटाभावानभ्युपगमादनुमानं सिद्धमाधनमिति शत नन्विति । अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिरित्यनिष्टं स्यादिति दूषयति भावस्यैवेति । तदापत्तर योग्यत्वे दृष्टान्तमाह यथेति । अभावस्य भावापात्तरनिष्टंति दान्तिक स्पष्टयति एतदपीति । आरम्भवादोक्तदोपं परिणामवादऽपि संचारयति सांख्यस्येति । धर्मः परि- । असतोऽपूर्वपरिणामस्यात्पत्तः सतश्च पूर्वपूर्वपरिणामस्य नाशादसदसदेव सच्च सदे- वेति व्यवस्थात्रापि दुर्घटत्यर्थः । ननु कार्य कारणात्मना प्रागपि सदेवाव्यक्तं कारकव्यापारा- यज्यते तेन व्यक्त्यव्यत्योर्जन्मनाशव्यवहागन्मतान्तरात् तद्विशेषसिद्धिस्तत्राह अभिव्यक्तीति । कारकव्यापागंत् प्रागनभिव्यक्तिवदभिव्यक्तः सत्त्वमसत्त्वं वा सत्त्वे कारकव्यापारवैयत्तिद्विषयप्रमाण- विरोधी द्वितीये पक्षान्तरक्दत्यन्तासतस्तन्निर्वय॑त्वायोगे स एव दोषः कारकव्यापारादू व्यक्तिवदव्य- तर सत्वंस एत्र दोषोऽसत्त्वेपि सतोऽमत्त्वाङ्गीकारात् मानमयव्यवहारे न क्वापि विश्वासः सत्स- तम्य पणामः

५०८
श्रीमद्भगवद्गीता ।
व संस्थानमुत्पत्त्यादीत्येतदपि प्रत्युक्तं पारिशेष्यात् सदेकमेव वस्त्वविद्ययोत्प-
त्तिविनाशादिधर्मेनटवदनेकधा विकल्प्यत इतीदं भागवतं मतमुक्तं नासतो
विद्यते भाव इत्यस्मिन् श्लोके सत्प्रत्य यस्याव्यभिचाराद् व्यभिचाराच्चेतरेपामि-
ति । कथं तर्हि आत्मनोऽविक्रियत्वेनाशेषतः कर्मणस्त्यागो नोपपद्यत इति
यदि वस्तुभूता गुणाः यदि वाविद्याकल्पितास्तद्धर्मकर्म तदात्मन्यविद्याध्यारो-
पितमेवेत्यविहान्न हि कश्चित् क्षणमप्यशेषतस्त्यक्तुं शक्नोतीत्युक्तं विहांस्तु
पुनर्विद्ययाविद्यायां नित्तायां शक्नोत्येवाशेषतः कर्म परित्यक्तमविद्याध्यारो-
पितस्य शेषानुपपत्तेर्नहि तैमिरिकदृष्ट्याध्यारोपितस्य हिचन्द्रादेस्तिमिरापग-
मे शेषोऽवतिष्ठत एवं च सतीदं वचनमुपपन्नं सर्वकर्माणि मनसेत्यादि स्वे स्वे
कर्मण्यभिरतः संसिद्धिं लभते नरः, स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति
मानव' इति च ॥ ४८ ॥
देवासदसदेवेत्यनिर्धारणादित्यर्थः । सांख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तमित्याह एते-
नेति । कारणस्यैव कार्यरूपापत्तिरुत्पत्तिस्तस्यैव तद्रूत्यांगन स्वरूपापत्तिाश इत्येतदपि न पूर्वरूपे
स्थिते नष्टे च परस्य पररूपापत्तरनुपपत्तेन च प्राप्तिरूपं स्थितेन नष्टन वा त्यक्तुं शक्यमित्यर्थः । आ-
रम्भवादे परिणामवादे च उत्पत्त्यादिव्यवहारानुपपत्तौ परिशेपायातं दर्शयात पारिशेप्यादिति ।
एकस्यानेकविधविकल्पानुपपत्तिमाशङ्कयाह अविद्ययेति । अस्यापि मतस्य भगवन्मतानुरा-
धित्वाभावादविशिष्टा त्याज्यतेत्याशङ्कयाह इतीदामिति । उक्तमेव भगवन्मतं विशदयति सत्ययय-
स्योत । सदेकमेव वस्तु स्यादिति शेषः । इतरे पां विकारप्रत्ययानां रजतादिवदर्थव्यभिचारादवि-
द्यया तदेव सहस्त्वनेकधा विकल्प्यत इत्याह व्यभिचारानेति । इति मतं श्लोके दर्शितमिति संव-
न्धः । आत्मनश्चेदविक्रियत्वं भगवतेष्टं तर्हि सर्वकर्मपरित्यागोपपत्तः सहजस्यापि कर्मणस्त्यागसिद्धि-
रिति शकते कथमिति । किं कार्यकारणात्मनां गुणानामकल्पितानां कल्पितानां वा कर्म धर्मत्वनेष्टं द्विवापि
निःशेषकर्मत्यागो विदपोऽविदुपो वा नाद्य इत्याह यदीयादिना । अविद्यारोपितमेव गुणशब्दितका-
थकारणारोपद्वारा कर्मेति शेषः । द्वितीयं प्रत्याह विद्वांस्त्विति । आरोपशंपवशाद्विदुषोऽपि नाशे-
षकर्मत्यागसिद्धिरित्याशङ्कयाह अविद्येति । तामेवानुपपत्ति दृष्टान्तेन स्पष्टयति न हीति । विदु-
षोऽशेषकर्मत्यागे पाञ्चमिकमपि वचाऽनुकूलमित्याह एवं चेति । अविदुषः सर्वकर्मत्यागायोगे च प्रक-
ताध्यायस्थमेव वाक्यमनुगुणमित्याह स्व स्वे इति । वाक्यान्तरमपि तत्रैवार्थ युक्तार्थमित्याह
स्वकर्मणेति ॥ ४८ ॥
प० टी० । तदेवाह सहजमिति । भो कौन्तेय सहज स्वभावविहितं कर्म सदोषमपि न
त्यजेत् । हि यस्मात् कारणात् सर्वारम्भाः सर्वकर्माणि दोषेण लौकिकेनावृता व्याप्ताः सन्ति । अत्र
दृष्टान्तमाह धूमेनेति । यथा प्रकाशके होमा वाग्नौ धूमलक्षणो दोषोऽस्ति तथाप्यग्निः “अग्रिमी-
के” इत्यादिश्रुतिभिः स्तूयमानः सेव्यत एव तथैव ब्राह्मणादिधर्मेषु दैन्यनिष्क्रियत्वगोपीडनाधि-
कार्यरूपा दोपाः सन्ति तथापि शास्त्रविहितत्वात्त एवानुष्ठेया नान्य इत्यर्थः ॥ ४८ ॥

५०.९ अष्टादशाध्यायः । असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ॥ नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥४९॥ या च कर्मजा सिद्विरुक्ता ज्ञाननिष्ठायोग्यतालक्षणा तस्याः फलभताने- कर्म्यसिद्धिर्ज्ञाननिष्ठालक्षणा वक्तव्येति श्लोक आरभ्यते असक्तवुद्धिरिति । अस- क्ता सङ्करहिता बुद्धिरन्तःकरणं यस्य सोऽसक्तबुद्धिः सर्वत्र पुत्रदारादिष्वास- क्तिनिमित्तेषु जितात्मा जितो वशीकृत आत्मान्तःकरणं यस्य स जिता- त्मा विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात् स विगतस्पृहो य एवं- भूत आत्मज्ञः स नैष्कर्म्यसिद्धि निर्गतानि कर्माणि यस्मानिष्क्रियमात्म- संबोधात् स निष्कर्मा तस्य भावो नैष्कर्म्य नैष्कर्म्य च तत् सिद्धिश्च सानै- ष्कर्म्यसिद्धिः नैष्कर्म्यस्य वा सिद्धिः । निष्क्रियात्मस्वरूपावस्थानलक्षणस्य सिद्धिनिष्पत्तिस्ता नैष्कर्यसिद्धिं परमां प्रकृष्टां कर्मजसिद्धिविलक्षणां सद्योग- त्यवस्थानरूपां संन्यासेन सभ्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसंन्यासेना- धिगच्छति प्राप्नोति ॥ ४९ ॥ आ० टी० । विदुपः सर्वकर्मत्यागो नाविदुपस्तथेत्युक्तम् इदानीमुक्तमनद्यानन्तरश्लोकतात्पर्य- माह या च कर्मजेति । चाऽवधारणार्थो भिन्नक्रमा वक्तव्य इत्यत्र संबध्यते । साधनान्युपदिशन्नै- कर्नामिद्धिं व्यपदिशति असक्तति । पुत्रादिविषय चेतमः मङ्गाभावेऽपि तत्यास्वाधीनत्वमाश- कयाह जितात्मेति । असक्तिमुक्त्वा स्टहाभावं वदतोऽपुनरुक्तिरिष्टंत्याशङ्कयाह देहति । उक्तमनद्य तत्फलं लम्भयति य एवमिति । कर्मणां निर्गतौ हेतुमाह निष्क्रियेति । सम्यग्ज्ञानार्थत्वन नैक- >सिद्विशब्दं व्याख्यायाान्तरमाह नैष्कर्म्यस्यति । प्रकर्पमव प्रकटयति कर्मति । मंन्यासस्य श्रुतिस्मृत्योः सम्यग्दर्शनसाधनत्वप्रसिद्धरयुक्तं तादात्म्यमित्याशङ्कय पक्षान्तरमाह तत्पूर्वकेणेति ॥४९॥ ५० टी० । अथ स्वधर्माचरणेऽपि गुगदोपविवेकमाह असक्तबुद्धिरिति । असक्ता सर्वत्र गृहादिषु संगशून्या बुद्धिर्यस्य जितात्मा निरहंकारः विगतस्प्टहः कर्मफलानपेक्षः पुरुषः पूर्वोक्तन कर्मासक्तिसात्त्विकत्यागलक्षणेन संन्यासेन नैष्कासद्धि सर्वकर्मनिवृत्तिलक्षणां सत्त्वशुद्धिमाधि- गच्छति ॥ ४९ ॥ सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ॥ समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥५०॥ तथा चोक्तं सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते इति पुर्वोक्तेन स्वकर्मानुष्ठानेनेश्वराभ्यर्चनस्वरूपेण जानतां प्रागुक्तलक्षणां सिद्धिं प्राप्तस्योत्पन्नात्मविवेकज्ञानस्य केवलात्मज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धि- आ० टी । संन्यासान्नैष्कर्म्यप्राप्तिरित्यत्र वाक्योपक्रमानुकुल्यमाह तथा चेति । ज्ञानस्य प्रतियोग्यतावतो जातसम्यग्धियस्तत्फलप्राप्तौ मुक्तावुक्तायां वक्तव्यशेषो नास्तीत्याशङ्कयाह पूर्वो- . श्रीमद्भगवद्गीता। येन क्रमेण भवति तदक्तव्यमित्याह सिद्धिमिति । सिद्धि प्राप्तः स्वकर्मणेश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धि प्राप्त इति तदनुवाद उत्तरार्थः, किं तदुत्तरं यदर्थोऽनुवाद इत्युच्यते यथा येन प्र- कारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानमाप्नोति तथा तं प्रकारं ज्ञान- निष्ठाप्राप्तिक्रमं मे मम वचनानिबोध त्वं निश्चयेनावधारयेत्येतत् किं विस्तरे- ण नेत्याह समासेनैव संक्षेपेणैव हे कौन्तेय यथा ब्रह्म प्राप्नोति तथा निबोधेति अनेन प्रकारेण या प्रतिज्ञाता ब्रह्मप्राप्तिस्तामिदंतया दर्शयितुमाह निष्ठा ज्ञा- नस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिरित्येतत्, कस्य ब्रह्मज्ञानस्य या परा परिसमाप्तिः, कीदृशी सा यादृशमात्मज्ञानं, कीटक तत् यादृझ आत्मा कीदृशोऽसौ यादृशो भगवतोक्त उपनिषहाक्यैश्च न्यायतश्च । ननु विषयाकारं ज्ञानं न विषयो नाप्याकारवानात्मेष्यते क्वचित्, ननु “आदित्यवर्णो भारूपः स्वयं ज्योतिः” इत्याकारवत्त्वमात्मनः श्रूयते, न तमोरूपत्वप्रतिषेधार्थत्वात्तेषां वाक्यानां द्रव्यगुणाद्याकारप्रतिषेधे आत्मनस्तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थान्यादित्यवर्ण- मित्यादिवाक्यानि, अरूपमिति च विशेषतो रूपप्रतिपेधादविषयत्वाच्च “न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च नैनम् । अशब्दमस्पर्शम् तेनेति । क्रमाख्यं वस्तु तदित्युच्यते । सिद्धि प्राप्त इत्युक्तमव कस्मादनद्यते तन्नाह तदनुवाद इति । उत्तरमेव प्रश्नपूर्वकं स्फोरयति किं तदियादिना । ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरणाक्ती दुबधित्वमाशङ्कय परिहरति किमिति । चतुर्थपादस्य पूर्वेणासङ्गतिमाशङ्कयाह यथेति । निष्ठायाः सापेक्षत्वात् प्रांतसंवन्धि प्रतिनिर्देष्टव्यमित्याह कस्यति । या ब्रह्मज्ञानस्य पग निष्ठा सा प्रक- तस्य ज्ञानस्य निष्ठेत्याह ब्रह्मेति । तस्य परा निष्ठा न प्रसिद्धति कृत्वा साधनानष्ठानाधीनतया साध्येति मत्वा पृच्छति कीदृशीति । प्रसिद्धमात्मज्ञानमनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञातत्याह यादृश:- मिति । तत्रापि प्रसिद्धिसिहति शङ्कते कीगिति । अथैनैव विशेपा हाति. न्यायेनोत्तरमाह या- दृश इति । तस्मिन्नपि विप्रतिपत्तेरप्रसिद्धिमाभसन्धाय पृच्छति कीदृश इति । भगवद्वाक्यान्युपनि- पद्वाक्यानि वाश्रित्य परिहरति यादृश इति । न जायते म्रियते वेत्यादीनि वाक्यानि कूटस्थत्वम- सङ्गमित्यादिन्यायः । ज्ञानस्य विषयाकारत्वादात्मनश्चाविषयत्वादनाकारत्वाच्च तदाकारकज्ञानायो- गादात्मप्रसिद्धावपि नात्मज्ञानप्रसिद्धिरिते शङ्कते नन्विति । आकारवत्त्वमात्मनः श्रुतिसिद्धमिति सिद्धान्ती शङ्कते नन्वादित्यति । उक्तवाक्यानामन्यार्थत्वदर्शनन पूर्ववादी पारहरति नेसादिना . संग्रहवाक्यं प्रपञ्चयति द्रव्येति । इतश्चाकारवत्त्वमात्मनो नास्तीत्याह अरूपमिति । यदात्मनो वि- घयत्वाभावात्तद्विषयं ज्ञानं न संभवतीत्युक्तं तद पादयति आवपयत्वाचेति । आत्मनोऽविषमत्वे श्रुतिमुदाहरति नेयादिना । संदृशे सम्यग्दर्शनविषयत्वाय यस्यात्मनो रूपं न तिष्ठतीत्यर्थः । लदेव करणागोचरत्वेनोपपादयति नेति । शब्दादिशून्यत्वाच्चात्मा विषयो न भवतीत्याहे अशब्द इति । आत्मनो विषयत्वाकारवत्त्वयोरभावे फलितमाह तस्मादिति । ज्ञानस्यात्माकारत्वाभावे सत्यात्मज्ञानाति अष्टादशाध्यायः। ५१.१ इत्यायैस्तस्मादात्माकारं ज्ञानमित्यनुपपन्नम् । कथं तात्मनो ज्ञानं सर्वं हि य- हिषयं ज्ञानं तत्तदाकारं भवति निराकारश्वात्मत्युक्तं ज्ञानात्मनोश्चोभंयोनिराका- रत्वे कथं तद्भावनानिष्ठेति, न,अत्यन्तनिर्मलत्वस्वच्छत्वसूक्ष्मत्वोपपत्तेरात्मनो बुद्धे: श्वात्मसमनैर्मल्याद्युपपत्तेरात्मचैतन्याकाराभासत्वोपपत्तिवद्ध्याभासं मनस्तदाभा- सानोन्द्रियाणीन्द्रियाभासश्च देहोऽतो लौकिकैर्देहमात्र एवात्मदृष्टिः क्रियते । देहचै तन्यवादिनश्च लोकायतिकाश्चैतन्यविशिष्टः कायः पुरुष इत्याहुः,तथान्ये इन्द्रियचै- तन्यवादिनोऽन्ये, मनश्चैतन्यवादिनस्ततोऽप्यन्तरमव्यक्तमव्याकृताख्यमविद्यावस्थ- मात्मत्वेन प्रतिपन्नाः केचित् प्रकृतिचैतन्यवादिनः, सर्वत्र हि वुयादिदेहान्ते आत्मचैतन्याभासतात्मभ्रान्तिः कारणमित्यतश्चात्मविपयं ज्ञानं न विधातव्यं किं तर्हि नामरूंपाद्यनात्माध्यारोपेण निवृत्तिरेव कार्या नात्मचैतन्यविज्ञानं सर्वैरभ्यु- पगम्यतेऽविद्याध्यारोपितसर्वपदार्थाकाररव विशिष्टतया गृह्यमाणत्वादिति अत एव विज्ञानवादिनो बौदा विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः प्रमाणा- व्यपदेशासिद्धिरित्येकदेशी शङ्कते कथं तीति।कात्रानुपपत्तिरित्याशङ्कयाह सर्व हीति । आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यादित्याशङ्कयाह निराकारश्चति । आत्मनो विषयराहित्यं च- कारार्थः। आत्मवत्तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यतीत्यत्राह ज्ञानोते। तच्छब्दनात्मज्ञानं गृह्यते। तस्य भावना पौनःपुन्यनानुसन्धानं, तस्य निष्ठा समाप्तिरात्मनि साक्षात्कारदाळ न चैतत् सर्वमात्मना ज्ञानस्य वा निराकारत्व सिध्यतीत्यर्थः । ज्ञानात्मनाः साम्योपन्यासेन सिद्धान्ती समाधत्ते नेयादिना । यथाक्तसाम्यानुमारादात्मचैतन्याभासव्याप्ताज्ञानपरिणामवती बुद्धिः साभासबुद्धिः साभासबुद्धिव्याप्त मनः साभासमनोव्याप्तानीन्द्रियाणि माभासन्द्रियव्याप्तः स्थूलो देहस्तत्र लौकिकभ्रान्ति प्रमाणयति अत इति । आत्मदृष्ट दहमात्रे दृष्टत्वात्तत्र चैतन्याभासव्याप्तिरिन्द्रियद्वारा कल्प्यत इन्द्रिय च तदृष्टिदर्शनाच्चैतन्याभासवत्त्वं मनोहारा सिध्यति मनसि चात्मदृष्टेश्चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्य- ते बुद्धौ वात्मदृष्टरज्ञानद्वारा चैतन्याभाससिद्धिरित्यर्थः । देहे लौकिकमात्मत्वदर्शनं न्यायाभावादुपे- क्षितमित्याशक्याह देहति । तथापि कथमिन्द्रियाणां न्यायहीनमात्मत्वमित्याशझ्याह तथेति । तथापि मनसो यदात्मत्वं तन्न्यायशन्यमित्याशङ्क्याह अन्य इति । बुद्धेरात्मत्वमिाते न्यायोपेत- मिति सूचयति अन्ये बुद्धीति । दहादी वृदयन्तं परमात्मत्वबुद्धिर्नान्यत्रति नियमं वारयति ततो- ऽपीति । तत्र हि साभासेऽन्तयामिाण करणोपासकानामात्मधीरस्तीत्यर्थः । बुद्ध्यादौ देहान्ते लो- किकपरीक्षकाणामात्मत्वभ्रान्ती साधारणकारणमाह सर्वत्रति । आत्मज्ञानस्य लौकिकपरीक्षकप्रसि- द्वत्वादेव विधिविपयत्वमपि परेष्टं पगस्तमित्याह इत्यत इति । ज्ञानस्य विधेयत्वाभावे कि कर्तव्यं दृष्टव्यादिवाक्यरित्याशक्याह किं तींति । आत्मज्ञानस्याविधेयत्वे प्रागुक्तमतःशब्दितं हतुं विवृणाति अविद्येति । देहेन्द्रियमनाबुद्दयव्यक्तरुपलभ्यमानैः सहोपलभ्यमान चैतन्य नान्यथा तेपामुपलम्भी जडत्वादित्यत्र विज्ञानवादी भ्रान्ति प्रमाणयाते अतएवेति । सर्व ज्ञयं ज्ञानव्याप्तमेव ज्ञायते तेन ज्ञानातिरिक्तं नास्त्यव वस्तु समतं हि स्वप्नदृष्टं वस्तु ज्ञानाति- रिक्तं नास्तीति ते भ्राम्यन्तीत्यर्थः । ज्ञानस्यापि ज्ञेयत्वाज्ज्ञातृ वस्त्वन्तरभेष्टव्यमित्याशङ्कयाह प्रमाणा- न्तत । ज्ञानस्य स्वनैव ज्ञयत्वोपगमनेनातिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्ना इति संबन्धः । ब्रह्मा- ५,१२ श्रीमद्भगवद्गीता। न्तरनिरपेक्षतां च स्वसंविदितत्वाभ्युपगमेन, तस्मादविद्याध्यारोपणनिराकरण. मात्रं ब्रह्मणि कर्तव्यं न तु ब्रह्मविज्ञाने यलोऽत्यन्तप्रसिद्धत्वादविद्याकल्पितनाम. रूपविशेषाकारापहतबुद्धित्वादत्यन्तप्रसिद्ध सुविज्ञेयमासन्नतरमात्मतत्त्वमप्य. प्रसिद्धं दुर्विज्ञेयमतिदूरमन्यदिव च प्रतिभात्यविवेकिनां बाह्याकारनिवृत्तवुद्धी. नां तु लब्धगुर्वात्मप्रसादानां नातःपरं सुखं सुप्रसिद्ध सुविज्ञेयमासनमस्ति तथाचोक्तं 'प्रत्यक्षावगमं धर्म्यम्' इत्यादि, केचित्तु पण्डितंमन्या निराकारत्वा. दात्मवस्तु नोपैति बुद्धिरतो दुःसाध्या सम्यग्ज्ञाननिष्ठेत्याहुः, सत्यमेवं गुरुसं- प्रदायरहितानामश्रुतवेदान्तानामत्यन्तवहिर्विषयासक्तबुद्दीनां सम्यक्प्रमाणेष्व- कृतश्रमाणां, तहिपरीतानां तु लौकिकग्राह्यग्राहकहैतवस्तुनि सद्बुद्धिनितरां- दुःसंपाद्यात्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्यानुपलब्धेः, यथा चैतदेवमेव ना- न्यथेत्यवोचाम उक्तं च भगवता ' यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः' इति । तस्माद् वाह्याकारभेदबुद्दिनिवृत्तिरेवात्मस्वरूपालम्बने कारणं न- ह्यात्मा नाम कस्यचित् कदाचिदप्रसिद्धः प्राप्यो हेय उपादेयो वाप्रसिद्धे हि तस्मिन्नात्मनि स्वार्थाः सर्वाः प्रवृत्तयो व्यर्थाः प्रसज्येरन् । न च देहायचेत- त्मविज्ञानस्य सिद्धत्वनाविधेयत्व फलितमाह तस्मादिति । यत्न आत्मभावन ब्रह्मणस्त ज्ञानस्य चात्य- न्तप्रसिद्धत्वे कथं ब्रह्मण्यन्यथा प्रथा लौकिकानामित्यत्राह अविद्यति । यथा प्रतिभासदर्विज्ञेयत्वादिरू- पमेव ब्रह्म किं न भ्यात्तत्राह वाद्येति।गुरुप्रसादःशुश्रृपया तोपितबुद्धराचार्यस्य करुणातिरकात्तत्त्वं बुद्धय- तामिति निरवग्रहाऽनुग्रहः, आत्मप्रसादस्त्वधिगतपदशक्तितात्पर्य वाक्यस्य श्रौतयुक्त्यनुसन्धानादात्मनो मनमो विषयव्याप्तस्य प्रत्यगेकाग्रतया तत्प्रावण्यमिात विकः । आत्मज्ञानस्यात्मद्वारा प्रसिद्धत्व वाक्योपक्रमं प्रमाणमिति तथाचेनि । आत्मनो निराकारत्वात्तस्मिन् बुद्धेरप्रवृत्तः सम्यग्ज्ञाननिष्ठा न संपाद्येति मतमुत्थापयति केचित्त्विति । बहिर्मुखानामन्तसुखानां वा ब्रह्मणि सम्यग़ज्ञाननिष्ठा दुःसाध्येति विकल्प्याद्यमनद्याङ्गीकरोति ससमिति । पूर्वविशेषणमुत्तरोत्तरविशेषण हेतुत्वेन योजनी- यम् । द्वितीयं दूषयति तद्विपरीतानामिति । अद्वैतनिष्ठ नां द्वैतविपये सम्यग्बुद्धरतिशयन दुःसंपा द्यत्वे हेतुमाह आत्मेति । तद्व्यतिरकण वस्त्वन्तरस्यासत्त्वं कथमित्याशङ्कयाह यथा चेति । अद्वैतमव वस्त द्वेतं त्वाविद्यकं नान्यथा तात्विकमित्येतदेव यथा स्यात्तथाक्तवन्तो वयं तत्र तत्रा- ध्यायेप्विति योजना । अन्तर्निष्टानामद्वैतदर्शिनां द्वैते नास्ति सद्बुद्धिरित्यत्र भगवतोऽपि संमति- माह उक्तं वेति । परमतं निराकृत्य प्रकृतमुपसंहरन्नात्मनो निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणमित्याशङ-क्याह तस्मादिति । नन्वात्मा कथंचित् सम्यग्ज्ञानक्रियासाध्यश्चेत्तस्य हेयोपादे- यान्यतरकोटिनिवेशात् प्राप्त स्वर्गादिवत् क्रियासाध्यत्वनाप्रसिद्धत्वं नत्याह न हीति । आत्मत्वादेव प्रसिद्धत्वन प्राप्तत्वादनात्मवत्तस्य हयोपादेयत्वयोरयोग न क्रिया साध्यतेत्यर्थः। आत्मनश्चेत क्रिया- सिद्धत्वात्तदा सर्वप्रवृत्तीनामभ्युदयनिःश्रेयार्थानामात्मार्थत्वायोगादार्थनोऽभावेऽर्थत्वमप्रामाणिकं स्या- दित्याह अप्रसिद्ध हीति । न प्रवृत्तीनां स्वार्थत्वं देहादीनामन्यतरस्यार्थित्वेन तादादित्याशक्य ध- यादिवदचेतनस्यार्थित्वायोगान्नैवमित्याह न चेति । ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोरन्हत- अष्टादशाध्यायः। ५१.१ नार्थत्वं शक्यं कल्पयितुं, न च सुरवार्थ सुखं दुःस्वार्थ वा दुःखमात्मावगत्य- वसानार्थत्वाच्च सर्वव्यवहारस्य । तस्माद्यथा स्वदेहस्य परिच्छेदाय न प्रमाणा- न्तरापेक्षा ततोऽप्यात्मनोऽन्तरतमत्वात्तदवगति प्रति न प्रमाणान्तरापेक्षेत्यात्म.. ज्ञाननिष्ठा विवेकिनां सुप्रसिद्देति सिद्धं, येषामपि निराकारं ज्ञानमप्रत्यक्षं ते- पामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानमत्यन्तं प्रसिद्धं सुखादिवदेवेत्यभ्युप- गन्तव्यं, जिज्ञासानुपपत्तेश्चाप्रसिद्ध चेज् ज्ञानं ज्ञेयवज्जिज्ञास्येत यथा ज्ञेयं घ- टादिलक्षणं ज्ञानेन ज्ञाना व्याप्तुमिच्छति तथा ज्ञानमपि ज्ञानान्तरेण ज्ञाता व्यामिच्छेन्न चैतदस्त्यतोऽत्यन्त प्रसिद्ध ज्ञानं ज्ञाताप्यत एवं प्रसिद्ध इति, तस्माज् ज्ञाने यलो न कर्तव्यः किं त्वनात्मबुद्धिनिटत्तावेव तस्माज् ज्ञाननिष्ठा ससंपाद्या ॥ ५ ॥ रार्थत्वान्न स्वार्थत्वं तत्राह न चेति । प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेरर्थि- त्वेनात्मा भिध्यतीत्यर्थः । किं च सर्वापेक्षान्यायादात्मावगत्यवसानः मयों व्यवहारः, न चात्मन्यप्र- सिद्ध यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वनात्मप्रसिद्धिरेष्टव्येत्याह आत्मति । नन्वात्माप्रसिद्धोऽपि प्र- माणद्वारा प्रसिध्यति तत्प्रमाणादेवेति न्यायात्तत्राह तम्पादिति । मानमयादिसर्वव्यवहारस्यात्मा- वगत्यन्तत्वोपगमात् प्रागव प्रमाणप्रवृत्तरात्मप्रा सरप्टव्यत्वादित्यर्थः । आत्मावगतरेवं स्वाभा- विकत्वं विवेकवतामागेपनिवृत्त्या ज्ञानानछा सुप्रसिद्धेत्युपसंहरति इत्यात्मेति । नन्वनाकारा- मवानमिमीमहे बुद्धिमिति वदतां तमनाकारमप्रत्यक्षमिच्छतां प्रागविगतेरप्रसिद्धमेव ज्ञानं नेत्याह येपामिनि । मुत्रादिवन्नित्यानुभवगम्यं ज्ञानं नानुमेयं विषयावगत्या तदनुमितावितरेतरा- श्रयादिति भावः । इतश्च ज्ञानं प्रभिद्धमन्यथा तत्र निनामाप्रसङ्गान्न च ज्ञाने जिज्ञासा प्रसिद्धा प्र- सिद्धे च तदयोगादित्याह जिज्ञासति । तदेव प्रपञ्चति अप्रसिद्धं चेदिति । दृष्टान्तमेव व्याचष्टे यथेति । दान्तिकं विवृणोति तथेति । इष्टापत्ति निराचष्टे न चेति । ज्ञानस्य ज्ञानान्तरेण ज्ञेय- त्वमेतन्छब्दार्थः । अनवस्थापत्तरित्ययः । ज्ञाने जिज्ञासानुपपत्तौ फलितमाह अत इति । प्रसिद्धेऽपि ज्ञाने. ज्ञातर्यात्मनि किमा यातं तदाह ज्ञातापीति । ज्ञानस्य विना ज्ञातारमपर्यवसानादित्यर्थः । ज्ञा- 'नम्य प्रसिद्धत्वे तत्र भावनापर्याया विधिनास्तीत्याह तस्मादिति । कुत्र तर्हि प्रयत्नाख्या भावने- त्पाशङ्कयाह किं त्विति । अविपये निराकार चात्मनि ज्ञाननिष्ठाया दुःसंपाद्यस्वभावे फलितं निगमयति तस्मादिति ॥ ५० ॥ प० टी० । एवंभूतस्य परमहंसस्य ज्ञाननिष्ठया ब्रह्मभावनाप्रकारमाह सिद्धिमिति ष- इभिः । नैष्कर्म्यसिद्धि प्राप्तः । यथा यन प्रकारण ब्रह्म प्रानाति तथा मे मत्तो निर्बाध संक्षेपेण जानीहि । या वक्ष्यमाणा ज्ञानस्य परा सोन्टष्टा निटा मर्यादा ॥ ५० ॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ॥ शब्दादीन् विपयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥५१॥ ६५.

श्रीमद्भगवद्गीता . सेयं ज्ञानस्य परा निष्ठोच्यते कथं कार्येति, बुद्ध्याध्यवसायात्मिकया विशुद्धया मायारहितया युक्तः संपन्नो धृत्या धैर्येणात्मानं कार्यकरणसंघातं नि- यम्य च नियमनं कृत्वा वशीकृत्य शब्दादीञ् शब्द आदिर्येषां ते शब्दार्दय- स्तान् विषयांस्त्यक्त्वा सामर्थ्याच्छरीरस्थितिमात्रान् केवलान् मुक्त्वा ततोऽधि- कान् सुखार्थीस्त्यक्त्वेत्यर्थः । शरीरस्थित्यर्थत्वेन प्राप्तेषु च रागद्देषौ व्युदस्य च परित्यज्य ॥ ५१ ॥ आ० टी० । ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापितामन्य श्लोकान्तरमवतारयितुं पृच्छति सेयमिति। सेयं ब्रह्मज्ञानस्य परा निष्ठा समारोपिता तद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिानसंतानरूपोच्यते सा कार्या मुसंपाद्यति यदुक्तं तत् कथं केनोपायनेति प्रश्नार्थः । पृष्टमुपायभेदमुदाहरति बुद्धयेति । अध्यवसायो ब्रह्मात्मनिश्चयः, मायारहितत्वं संशयविपर्ययशून्यत्वम् । शब्दादिसमस्तविषयत्यागे देहस्थितिरपि दुःस्था स्यादित्याशङ्कयाह सामर्थ्यादिति । विषयमात्रत्यागे देहस्थित्यनुपपत्त ननि- ष्ठासिद्धिप्रसङ्गादित्यर्थः । देहस्थित्यर्थत्वेनानुज्ञातेप्वर्थेषु प्राप्तरागादिज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति शरीरोति । पारेत्यज्य विविक्तसेवी स्यादिति संबन्धः ॥ ११ ॥ ५० टी० । तामेवाह बुद्धयति । एवंभूतः पुरुपो ब्रह्मभूयाय कल्पत इति तृतीयेनान्वयः । किंभूतो विशुद्वया व्यवसायात्मिकया बुद्वचा युक्तो धृत्या सात्त्विकयात्मानं बुद्धि नियम्य नि- श्चलां कृत्वा शब्दादीन् विषयान् परगोष्टीदर्शनादीस्त्यक्त्वा तद्विपयौ रागद्वेपौ स्वस्तुतिनिन्दाप्र- युक्तौ व्युदस्य त्यक्त्वा ॥ ५१ ॥ विविक्तसेवी लघ्वाशी यतवाकायमानसः॥ ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ततो विविक्तसेव्यरण्यनदीपुलिनगिरिगुहादीन् देशान् सेवितुं शी- लमस्येति विविक्तसेवी लघ्वाशी लघ्वशनशीलो विविक्तसेवालघ्वशनयोर्निद्रा- दिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वाद् ग्रहणं, यतवाकायमानसो वाक् च कायश्च मानसं च यतानि नियतानि संयतानि यस्य ज्ञाननिष्ठस्य स ज्ञान- निष्ठो यतिर्यतवाक्कायमानसः स्यादेवमुपरतसर्वकरणः सन् ध्यानयोगपरो ध्या- नमात्मस्वरूपचिन्तनं योग आत्मस्वरूपविषय एवैकाग्रीकरणं तो ध्यानयोगी परत्वेन कर्तव्यौ यस्य स ध्यानयोगपरो, नित्यं नित्यग्रहणं मन्त्रजपाद्यन्यक- तव्याभावदर्शनार्थं वैराग्यं विरागभावो दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रि- तो नित्यमेवेत्यर्थः॥ ५२ ॥ आ० टी० 1 बुद्धेर्वेशारा यत्नेन कार्य करणनियमनं देहस्थितिहेत्वतिरिक्तविषयत्यागः देह- स्थित्यर्थेष्वपि तेषु रागद्वेषवर्जनमित्युपायनेदे सिद्धे सत्युपायान्तराण्यपि यत्नसाध्यानीत्याह तत इति। ॥

अष्टादशाध्यायः। ५१५ - 'चित्तकाम्यप्रसादार्थ विविक्तसेवित्वं व्याकरोति अरण्योते । निद्रादिदोषनिवृत्यर्थ लघ्वाशित्वं विश- दयति लध्विति । लघु परिमितं हितं मेध्यं चाशितुं शीलमस्येति तथोच्यते । विशेषणयोस्तात्पर्य विशोति विविक्तेति । निद्रादीत्यादिशब्दादालस्यप्रमादादयो बुद्धिविक्षेपका विवक्षिताः। वक्ष्यमा- णध्यानयोगयोरुपायत्वेन विशेषणान्तरं विभनते वाक् चेति । वागादिसंयमस्यावश्यकत्वद्योतनार्थ स्यादित्युक्तम् । संयतवागादिकरणग्रामस्यानायासेन कर्तव्यमुपदिशति एवमिति । मन्त्रजपादीत्या- दिपदेन प्रदक्षिणप्रणामादयो ध्यानयोगप्रतिबन्धका गृहीताः । उक्तयोरेव ध्यानयोगयोरुपायत्वेनोक्तं विरागभावं विभजते दृष्टेति । सम्यक्त्वमेव व्यनक्ति निसमिति ॥ ५२ ॥ प० टी० । किं च विविक्तेति । विविक्तं विवेकहेतुभूतमेकान्तस्थलं सेवते तथा लघ्वाशी सात्त्विकप्रमितान्नभोजी । एतैरुपायैर्यतवाक्कायमानसः संयतवाग्देहचित्तो भूत्वा ध्यानेन चित्तैकाग्येण तादात्म्येन यो जीवब्रह्मयोगस्तत्परो भूत्वा वैराग्यं पुनर्विषयविक्षेपराहित्यं सम्यनैष्ठिकत्वे- नोपाश्रितः ॥ १२ ॥ अहङ्कारं बलं दर्प कामं क्रोधं परिग्रहम् ॥ विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥ किं चाहंकरणमहंकारो देहेन्द्रियादिष तद् बलं सामर्थ्य कामरागादि- युक्तं नेतरच्छरीरादिसामर्थ्य स्वाभाविकत्वेन त्यागस्याशक्यत्वाद् दर्पो नाम हपानन्तरभावी धर्मातिकमहेतुः, 'दृष्टस्तृप्यति तृप्तो धर्ममतिकामति' इति स्मर- णात्, तं च काममिच्छां क्रोधं देपं च परिग्रहमिन्द्रियमनोगतदोपपरित्यागे शरीरधारणप्रसटेन धर्मानुष्ठाननिमित्तेन वा वाह्यः परिग्रहः प्राप्तस्तं च विमुच्य परित्यज्य प्ररमहंसपरिव्राजको भूत्वा देहजीवनमात्रेऽपि निर्गतममभावो निर्म- मोऽतएव शान्त उपरतो यः संहतायासो यतिीननिष्ठो ब्रह्मभूयाय ब्रह्मभव- नाय कल्पते समर्थो भवति ॥ ५३ ॥ आ० टी० । ज्ञाननिष्ठस्य यतेविशेपणान्तरं समुच्चिनोति कि चेति । नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति अहंकरणमिति । सामान्यमात्रै बलशब्दादुपलभ्यमान किमिति विशेषच चुनमित्याशङ्कयाह स्वाभाविकत्वेनेति । उक्त दर्षे मानमाह हृष्ट इति । वैराग्यशब्देन ल- ब्धस्यापि कामत्यागस्य पुनर्वचनं प्रकृष्टत्वख्यापनार्थमहंकारादित्यागे परिग्रहप्राप्त्यभावात्तत्यागोक्ति- रयुक्तत्याशङ्कयाह इन्द्रियेति । परिग्रहाभाव ममत्वविपयाभावान्निर्ममत्वं कथमित्याशङ्कयाह देहेति । अहंकारममकारयोरभावेन प्राप्तामन्तःकरणोपरतिमनुवदति अत एवेति । उक्तमन्द्य जीवन्नेवासौ ब्रीभवतीति फलितमाह यः संहतेति । ज्ञाननिष्ठपदावं स शब्दो द्रष्टव्यः ब्रह्मणो भवनमनुस- न्धानपरिपाकपर्यन्तं साक्षात्करणं तदमिति यावत् ॥ ५३ ॥ प० टी० । अथ विक्षेपकारणोन्मूलनप्रकारमाह अहंकारमिति । अहमेतादृग्विरक्तोऽस्मीत्य- हंकारं बलं दुराग्रहं दर्प योगबलादुन्मार्गप्रवृत्तिलक्षणं प्रारम्भे कामं क्रोधं परिग्रहं च विमुच्य विशे- १ सामथ्र्यमाले-पा: मु० पु.। .

५१६ श्रीमद्भगवद्गीता। घेण मुक्त्वा बलात्कारेण प्राप्तेषु निर्ममो ममताशून्यः शान्तः परामुपशान्ति प्राप्त एवंमूतो योगी ब्रह्मभूयाय ब्रह्माहमस्मीति नैश्चल्येनावस्थानाय कल्पते योग्यो भवति ॥ १३ ॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ ५४॥ अनेन क्रमेण ब्रह्मभूतो ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभा- वो न शोचति किं चिदर्थवैवल्यमात्मनो वा वैगुण्यं चोद्दिश्य न शोचति न सं- तप्यते न काति न ह्यप्राप्तविषयाकाड़ा ब्रह्मविद उपपद्यतेऽतो ब्रह्मभूतस्यायं स्वभावोऽनूद्यते न शोचति न काङ्कतीति । न हृष्यतीति वा पाठः । समः सर्वेष्वात्मौपम्येन सर्वेषु भूतेषु सुखं दुःखं वा सममेव पश्यतीत्यर्थो नात्मस- मदर्शनमिह तस्य वक्ष्यमाणत्वाद् भक्त्या मामभिजानातीति चे, एवंभूतो ज्ञा- ननिष्ठो मद्भक्तिं मयि परमेश्वरे भक्ति भजनं परमामुत्तमां ज्ञानलक्षणां चतुर्थी लभते चतुर्विधा भजन्ते मामित्युक्तम् ॥ ५४ ॥ आ० टी० । अपेक्षितं पूरयन्नुत्तरश्लोकमवतारयति अनेनेति । बुद्दया विशुद्धयेत्यादिरत्र क्रमः, ब्रह्मप्राप्तो जीवन्नेव निवृत्ताशेषानों निरतिशयानन्दब्रह्मात्मत्वेनानुभवन्नित्यर्थः । अध्यात्म प्रत्यगात्मा तस्मिन् प्रसादः सर्वाननिवृत्त्या परमानन्दाविर्भावः स लब्धा येन जीवन्मुक्तेन स तथा। न शोचतीत्यादौ तात्पर्यमाह न हीति । प्राप्तव्यपरिहार्याभावनिश्चयादित्यर्थः । स्वभावानुवादमुप- पादयति ब्रह्मभूतस्येति । तस्याप्राप्तविषयाभावान्नापि परिहार्यापरिहारप्रयुक्तः शोकः परिहार्यस्यै- वाभावादित्यर्थः । पाठान्तरे तु रमणीयं प्राप्य प्रमोदते तदभावादित्यर्थः । विवक्षितं समदर्शनं वि- शदयति आत्मेति । ननु सर्वेषु भूतेप्वात्मनः समस्य निर्विशेषस्य दर्शनमात्राभिप्रतं किं नेप्यते तत्राह नात्मेति । उक्तविशेषणवतो जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवतीत्याह एवंभूत इति । श्रवणमनननिदिध्यासनाभ्यासवतः शमादियुक्तस्याभ्यस्त श्रवणादिभिब्रह्मात्मन्यप- रोक्षं मोक्षफलं ज्ञानं सिध्यतीत्यर्थः । आादिभक्तित्रयापेक्षया ज्ञानलक्षणां भक्ति चतुर्थीमित्युक्ताम् । तत्र सप्तमस्थवाक्यमनुकूलयति चतुर्विधा इति ॥ ५४ ।। प० टी० । तथाविधत्वस्य फलमाह ब्रह्मभूत इति । ब्रह्मण्यवस्थितः प्रसन्नचितः सन् न शोचति । न चाप्राप्तं काङ्क्षति देहाभिमानाभावात् । अतएव सर्वेषु भूतेषु समो न केवलं तारतम्य- वर्जितः किं तु परामुल्कृष्टां मद्भक्तिं लभते सर्वभतेषु मद्भावनया भजते ॥ ५४ ॥ भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः॥ ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ५५॥ १ जानातीति, य-पा० मु० २ पुस्तके अष्टादशाध्यायः॥ ५१. ततो ज्ञानलक्षणया भक्त्या मामभिजानाति यावानहमुपाधिकृतविस्त- रभेदो यश्चाहं विध्वस्तसर्वोपाधिभेदोऽभिमत उत्तमपुरुष आकाशकल्पस्तं मामहैतं चैतन्यमात्रैकरसमजमजरममरमभयमनिधनं तत्त्वतोऽभिजानाति ततो. मामेवं तत्त्वतो ज्ञावा विशते तदनन्तरं मामेव मात्र ज्ञानानन्तरप्रवेशकिये भिने विवक्षिते, ज्ञात्वा विशते तदनन्तरमिति, किं तर्हि फलान्तराभावाज् ज्ञा- नमात्रमेव क्षेत्रज्ञं चापि मां विद्धीत्युक्तवात् । ननु विरुद्धमिदमुक्तं ज्ञानस्य या परा निष्ठा तया मामभिजानातीति, कथं विरुद्धमिति चेदुच्यते, यदैव यस्मिन् विषये ज्ञानमुत्पद्यते ज्ञातुस्तदैव तं विषयमभिजानाति ज्ञातेति न ज्ञाननिष्ठां ज्ञानारत्तिलक्षणामपेक्षत इति ततश्च ज्ञानेन नाभिजानाति ज्ञानावृत्त्या तु ज्ञान- निष्ठयाभिजानातीति, नैप दोषो ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रति- पक्षविहीनस्य यदात्मानुभवनिश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापाच्छास्त्रा- चार्योपदेशेन ज्ञानोत्पत्तिपरिपाकहेतुं सहकारिकारणं बुद्धिविशुद्ध्यायमानित्वा- दिगुणं चापेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्नादिकारकभेदबुद्धिनि- बन्धनसर्वकर्मसंन्याससहितस्य स्वात्मानुभवनिश्चयरूपेण सा परा ज्ञाननिष्ठे- 4 आ० टी० । ननु समाधिसाध्येन परमभक्त्यात्मकेन ज्ञानेन किमपूर्वमवाप्यते तत्राह तत इति । भक्त्या समाधिजन्यया मां ब्रह्माभिमुख्येन प्रत्यक्तया जानाति व्यानातीत्यर्थः । तदेव ज्ञान भाक्तपराधीनं विवृणोति यावानिति । आकाशकल्पत्वमनवच्छिन्नत्वमसङ्गत्वं च । चैतन्यस्य विषयसा- पेक्षत्वं प्रतिक्षिपति अद्वैतामिति ।य तु द्रव्यबोधात्मत्वमात्मनो मन्यन्ते तान् प्रत्युक्तं चैतन्यमात्रेति । आत्मनि तन्मात्रेऽपि धर्मान्तरमुपेत्य धर्मधर्मित्वं प्रत्याह एकरसमिति । सर्वविक्रियाराहित्योत्या कौटस्थ्यमात्मनो व्यवस्थापयति अजरमिति । उक्तविक्रियाभावे तत्वज्ञानासंबन्ध हेतुमाह अ- भयामिति । तत्त्वज्ञानमनूद्य तत्फलं विदेहकैवल्यं लम्भयति तत इति । तत्त्वज्ञानस्य तस्मादनन्तर- प्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह नात्रेति । भिन्नत्वाभावे का गतिभेदोक्तरित्याशङ्कचौपचारि- कत्वमाह किं तौति । प्रवेश इति शेषः । ब्रह्मप्राप्तिरेव फलान्तरमित्याशङ्कय ब्रह्मात्मनोभैदाभा- वान्न ज्ञानातिरिक्ता तत्प्राप्तिरित्याह क्षेत्रज्ञं चेति । ज्ञाननिष्ठया परया भक्त्या मामभिजानातीत्युक्त- माक्षिपति नन्विति । विरुद्धत्वं स्फोरयितुं पृच्छति कथमिति। विरोधस्फुटीकरणं प्रतिनानीते उच्य- त इति । तत्र ज्ञानस्योत्पत्तिरेव विषयाभिव्यक्तिरित्याह यदेति । एवकारनिरस्यं दर्शयति न ज्ञा- नति । इत्यावयोः सिद्धमिति शेषः । ज्ञानस्योत्पत्तरेव विषयाभिव्यक्तत्वेऽपि कथं प्रकते विरोधीत्या- शङ्कयाह ततश्चेति । विरुद्धमिति शेषः । शङ्कितं विरोधं निरस्यति नैष दोप इति । उक्तमेव हेतुं प्रपश्चयंति शास्त्रेति । यो हि शास्त्रानुसार्याचार्योपदेशस्तेन ज्ञानोत्पत्तिः “आचार्यवान् पुरुषो वेद" इति श्रुतेः । तस्याश्च परिपाकः संशयादिप्रतिबन्धध्वंसस्तत्र हेतुभूतमुपदेशस्थैव सहकारि कारणं यद् बुद्धिशुद्धयादि तदपेक्ष्य तस्मादेवोपदेशाज्जनितं यदेक्यज्ञानं तस्य कारकभेदबुद्धिनिबन्धनानि यानि सर्वाणि कर्माणि तेषां संन्यासेन सहितस्य फलरूपेण स्वात्मन्येव सर्वप्रकल्पनारहिते यदवस्थानं सा ज्ञानस्य परा निष्ठति व्यवद्वियते प्रामाणिकरित्यर्थः । यदि यथोक्ता परा ज्ञाननिष्ठा कथं तर्हि सा

५.१८
श्रीमद्भगवद्गीता।
त्युच्यते सेयं ज्ञाननिष्ठार्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्तिरित्युक्ता तया
परया भक्त्या भगवन्तं तत्त्वतोऽभिजानाति यदनन्तरमेवेश्वरक्षेत्रज्ञभेदबुद्धिर-
शेषतो निवर्ततेऽतो ज्ञाननिष्ठालक्षणया भक्त्या मामभिजानातीति वचनं
न विरुध्यते । अत्र च सर्व निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिल-
क्षणं न्यायप्रसिद्धमर्थवद्भवति, " विदित्वा व्युत्थायाथ भिक्षाचर्य चरन्ति त-
स्मानयासमषां तपसामतिरिक्तमाहुास एवात्यरेचयत् ” इति संन्यासः कर्म-
णां न्यासो वेदानिशं च लोकममुं च परित्यज्य त्यज धर्ममधर्म चेत्यादि इह च
दर्शितानि वाक्यानि, न च तेषां वाक्यानाम् आनर्थक्यं युक्तं न चार्थवादत्वं
स्वप्रकरणस्थत्वात् प्रत्यगात्माविकियस्वरूपनिष्ठत्वाञ्च मोक्षस्य, न हि पूर्वसमुद्र
जिगमिपोः प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा समानमार्गत्वं संभवति प्र-
त्यगात्मविषयप्रत्ययसंतानकरणाभिनिवेशश्च ज्ञाननिष्ठा सा च प्रत्यक्समुद्रगम-
नवत्
कर्मणा सहभावित्वेन विरुध्यते पर्वतसर्पपयोरिवान्तरवान्विरोधः प्रमाण-
विदा निश्चितस्तस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्येति सिद्धम् ॥ ५५॥
परम-
चतुर्थी भक्तिरित्युक्तति तत्राह सेयमिति । यथोक्तया भक्त्या भगवत्तत्त्वज्ञानं सिध्यतीत्याह
तयेति । तत्त्वज्ञानस्य फलमाह यदनन्तरमिति । ज्ञाननिष्ठारूपाया भगवद्क्तेस्तत्त्वज्ञानातिरेकात्त-
त्फलस्य चाज्ञाननिवृत्तेस्तन्मात्रत्वाद् वेदोक्तश्चौपचारिकत्वात् प्रकृतं वाक्यमविरुद्वमुपसंहरति
अत इति । औपदेशिकैव यज्ञानस्य सर्वकर्मसंन्या नसहितस्य स्वरूपातस्थानात्मकस्य
पुरुषार्थोपथिकत्वमित्वन्मिन्नर्थ मानमाह अत्र चति । तदेव शास्त्रमदाहरति विदित्वेसॉदिना । दर्शि-
तानि वाक्यानि सर्वकर्माणि मनसेत्यादीनि । नन्वषां वाक्यानामविवक्षितार्थत्वान्नास्ति स्वार्थ प्रामा-
ण्यमित्याशङ्कयाध्ययनविध्युपात्तत्वार वेदवाक्यानां तदनुरोधित्वाच्चतरेषां नैवमित्याह न चेति । त-
थापि सोऽरादीदित्यादिवन्न स्वाथै मानतेत्याशङ्कयाह न चार्थवादत्वमिति । इतश्च मुमुक्षोरपेक्षितमो-
क्षौपयिकज्ञाननिष्ठस्य संन्यासेऽधिकारो न कर्मनिष्टायामित्याह प्रसगिति । ज्ञाननिष्ठस्य कनिष्ठा-
विरुद्धेत्यत्र दृष्टान्तमाह न हीति । ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया तस्याः सहभावित्वं वि-
रुद्वमिति दान्तिकमाह प्रयगात्मेति । कथं ज्ञानकर्मणाविरोधधीरित्याशङ्कय कर्मणां ज्ञाननिवर्त्य-
त्वस्य श्रुतिस्मृतिसिद्धत्वादित्याह पर्वतेति । अन्तरत्वादनुभयोरेकधर्मिनिष्टत्वेन साङ्क भावसंपादक-
भेदवानित्यर्थः । ज्ञानकर्मणारसमुच्चये फलितमुपसंहरति तस्मादिति ॥ ५५ ॥
प० टी० । ततश्च भक्येति । तया सर्वात्मकत्वभावनरूपया भक्त्याहं यावान् विश्वव्यापी
यश्च परमानन्दस्वरूप एवंभूतं मामभितः स्थावरजङ्गमेप्वनुवर्तमानं जानाति ततश्च मां तत्त्वतश्चि.
संविद्रूपेण ज्ञात्वा तदनन्तरं तत्त्वज्ञानोपरमे मां विशते मदाकारो भवति ॥ ५५ ॥
सर्वकर्माण्यपि सदा कुर्वाणो मढ्यपाश्रयः॥
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥५६ ॥

अष्टादशाध्यायः। स्वकर्मणा भगवतोऽर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायो- ग्यता यनिमित्ता ज्ञाननिष्ठा मोक्षफलावसाना स भगवद्भक्तियोगोऽधुना स्त- यते शास्त्रार्थोपसंहारप्रकरणे शास्त्रार्थनिश्चयदायाय, सर्वेति । सर्वकर्माणि प्रति- षिद्धान्यपि सदाकुर्वाणोऽनुतिष्ठन् मद्यपाश्रयोऽहं वासुदेव ईश्वरो व्यपाश्रयो यस्य स मइयपाश्रयो मय्यर्पितसर्वात्मस्वभाव इत्यर्थः । सोऽपि मत्प्रसादान्म- मेश्वरस्य प्रसादादवाप्नोति शाश्वतं नित्यं वैष्णवं पदमव्ययम् ॥ ५६ ॥ आ० टी० । तर्हि ज्ञाननिष्ठस्यैव मोक्षसंभवान्न कर्मानुष्ठानमिद्धिरित्याशङ्कयाह स्वकर्मणेति तामेव सिद्धिप्राप्ति विशिनष्टि ज्ञानेति । ज्ञाननिष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपे कर्तव्य- मित्यर्थः । ज्ञाननिष्ठायोग्यतापि कमर्थत्याशङ्कय ज्ञानानेष्ठासिहयर्थत्याह यन्निमित्तेति । ज्ञाननिष्ठापि कुत्रोपयुक्तेत्यंत्राह मोक्षेति । स्वकर्मणा भगवदर्चनात्मनो भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विवयत्वे विध्यपेक्षितां स्तुतिमवतारयति स भगवदिति । ज्ञाननिष्ठा कर्मनिष्ठेन्युभयं प्रतिज्ञाय तत्र तत्र विभागंन प्रतिपादितं किमितीदानी कमनिष्ठा पुनःस्तुत्या कर्तव्य तयोच्यते तत्राह शाखायेति । तत्र तत्रोक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशादिहोपसंहारः सर्वशास्त्रार्थनिश्चयस्य दृढतां द्योतयतीत्यर्थः। यद्यपि कस्यचित् कर्मानुष्ठायनो बुद्धिशद्धिद्वारा कैवल्य मिध्यति तथापि पापबाहुल्यादकर्मानुष्ठा- यिनोऽपि कस्य चिद् बुद्धिशुद्वयभावे कैवल्यासिद्धिरित्याह सर्वकर्माणीति । सर्वशब्दानुरोधादीश्व- राराधनस्तुतिपरत्वेन श्लोक व्याचष्टे प्रतिपिद्धान्यपीति । नित्यनैमित्तिकवदित्यपेरर्थः । निषिद्धाच- रणस्य प्रामाणिकत्वं व्यावर्तयति सदेति । अनुतिष्ठन्वैष्णव पदमाप्नोतीति संवन्धः । पापकर्मकारिणो यथोक्तपदप्राप्तौ पापस्यापि मोक्षफलत्वमुपगतं स्यादित्यत्राह मद्यपाश्रय इति । तस्यैव तात्पर्यमाह मयीति । तर्हि ज्ञानस्य मोक्षहतुत्वमुपक्षितं स्यादित्यवाह सोऽपीति । प्रसादोऽनुग्रहः सम्यग् ज्ञा- मोदयः पदं पदनीयम् उपनिपत्तात्पर्यगम्यमव्ययमपक्षयरहितम् ॥ १६ ॥ प० टी० । अथ बुद्ध्या विशुद्धयेत्याद्युक्तमोक्षप्रकारस्यातिप्रयासलाध्यत्लान्मुगम प्रकारमाह सर्वकर्मेति । सदा निरन्तरं मद्यपाश्रयः, अहमेवाश्रय आश्रयणीयो नतु स्वर्गादि फलं यस्य स सर्व- कर्माणि नित्यनैमित्तिकादीनि कुर्वाणोऽपि सन् मत्प्रसादान्नित्यं सर्वोत्कृष्टं च पदं स्थानमवाप्नोति । श्रु- तिरपि ऋक्संहितासु-" अहमेव स्वयमिदं वदामि जुष्टं देवेभिसामानुपेभिः। यं कामं कामयेयन्तमुग्रं कृप्योमि तं ब्रह्माणं तमृषि तं सुमेधाम्" इति । भाप्यम्-अहमेव स्वयमिदं ब्रह्माख्यं वस्तु वदामि इदं ब्रह्म स्वयमेवास्मीति वदामीत्यर्थः । देवेभिर्देवैरिन्द्रादिभिर्नुष्टं सेवितम् । उतापि मानुषभिर्मनुष्यैः सेवितम् । अथ तदेव प्रकटयन्नाह ईदृग्वस्त्वात्मकोऽहं स्वां मायामधिष्ठाय धृतमानुषवेषा सती यं काम कामयेयं पुरुषं रक्षितुमहं वाञ्छामि तं पुरुषमुग्रं कृणोमि सर्वेभ्योऽभ्यधिकं रुद्रं करोमि रुद्रपदवीं प्रापयामि तमेव ब्रह्माणं स्वष्टारं करोमि तमेव ऋषिमतीन्द्रियद्रष्टारं करोमि तमेव सुमेधां शोभन- प्रज्ञं ज्ञानिनं करोमि ॥ ५६ ॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ॥ बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥ यस्मादेवं तस्माच्चेतसा विवेकबुझ्या सर्वकर्माणि दृष्टादृष्टार्थानि मयी

श्रीमद्भगवद्गीता।
श्वरे संन्यस्य यत् करोषि यदश्नासीत्युक्तन्यायेन मत्परोऽहं वासुदेवः परो यस्य
तव स त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः बुद्धियोगमपि समाहितबुद्धित्वं
बुद्धियोगस्तं बुद्धियोगमुपाश्रित्याश्रयोऽनन्यशरणत्वं मच्चित्तो मय्येव चित्तं यस्य
स मच्चित्तः सततं सर्वदा भव ॥ ५७ ॥
आ० टी० । परमेश्वरप्रसादस्यैवं माहात्म्यं यतः सिद्धं तस्मात्तत्प्रसादार्थ भवता प्रयति-
तव्यमित्याह यस्मादिति । भगवत्प्रसादासादितसम्यग्ज्ञानादेव मुक्तिन कर्ममात्रादिति । ज्ञानं विवे-
कबुद्धिः । आश्रयशब्दार्थमाह अनन्यति ॥ १७ ॥
प० टी० । यस्मादेवं तस्मात्त्वमपि तथा भवेत्याह चेतसेति । चेतसा सह सर्वकर्माणि माये
संन्यस्य समय मत्परः अहमेव परः परमो यस्य तथाविधः सततं भव ततश्च व्यवसायात्मकबृद्धिया-
गमुपाश्रित्य मञ्चित्तः मदाकारं चित्तं यस्य तथाविधो भवत्यनेन विशते तदनन्तरमित्येव पर्यायेणो-
कमित्यर्थः ॥ ५७ ॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ॥
अथ चेत्त्वमहङ्कारान्न
श्रोष्यसि विनक्ष्यसि ॥ ५८॥
मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादा-
त्तरिष्यस्यतिक्रमिष्यसि । अथ चेद् यदि त्वं मदुक्तमहङ्कारात् पण्डितोऽहमिति
न श्रोष्यसि न ग्रहीष्यप्ति ततस्त्वं विनङ्ख्यसि विनाशं गमिष्यसि ॥ ५८ ॥
आ० टी० । किमतो भवति तदाह मचित्त इति । भीत्यापि प्रवर्ततेति मन्वानो वि-
पर्यये दोपमाह अथ चेदिति ॥ १८ ॥
५० टी० । अतो यद्भविष्यति तच्छृणु माञ्चित्त इति । प्रागुक्तरीत्या मच्चित्तस्त्वं मत्प्रसादात्
सर्वदुर्गाणि, आधिदैविकादीनि सर्वदःखानि तरिप्यमि । अथ विपक्षे दोपमाह अथति । अथ चेद्यदि
त्वमहंकाराज् ज्ञातृत्वाभिमानान्मदुक्तमतन्न श्रीप्यसि तर्हि विनश्याम पुरुपार्थाद्भश्यस अधमां यानि प्रा-
प्स्यसि । अत्र भगवतो हार्द तु कुरुकुलदलने खदं वदाच्छेदेह निर्वेदम् । यन्मनुपेधमजनुपदत्सेधनुषो
तिलाञ्जलिं यस्मादिति ॥ १८ ॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे॥
मिथ्यैव व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५९॥
इदं च त्वया न मन्तव्यं स्वतन्त्रोऽहं किमर्थ परोक्तं करिष्यामीति
यदि चैतत् त्वमहङ्कारमाश्रित्य न योत्स्य इति न युद्धं करिष्यामीति मन्यसे
चिन्तयसि निश्चयं करोपि मिथ्येव व्यवसायो निश्चयस्ते तव यस्मान् प्रकृतिः
क्षत्रस्वभावस्त्वां नियोक्ष्यति ॥ ५९ ॥

अष्टादशाध्यायः । ५२. आ० टी० । स्वातन्त्र्ये सति भीतेरवकाशो नास्तीत्याशङ्कयाह इदं चेति ॥ ५९॥ ५० टी० । कामं विनक्ष्यामि नतु बन्धुभिः संयोत्स्य इति चेदित्याह यदिति । यद्यदि मदुक्त- मनाढत्य केवलमहंकाग्मवलम्ब्य युद्धं न करिष्यामीति मन्यस तर्येष व्यवसायश्चित्तोडेगो मिथ्या निरर्थक एवं यतः प्रकृतिस्त्वां नियोक्ष्यति प्रवर्तयिष्यत्येव तस्या अपि मदधीनत्वादिति भावः ॥१९॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ॥ कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥६॥ यस्माच्च स्वभावजेन शौर्यादिना कौन्तेय यथोक्तेन निबद्धो निश्चयेन बद्धः स्वेनात्मीयेन कर्मणा कर्तुं नेच्छसि यत् कर्म मोहादविवेकतः करिष्य- स्यवशोऽपि परवश एव तत् कर्म ॥ ६ ॥ आ० टी० । इतश्च त्वया युद्वान्न वैमुख्यं कर्तमुचितमित्याह यस्माञ्चेति । स्वभावनेन कर्मणा निवतस्त्वमिति संबन्धः । इताऽपि त्वया युद्ध कर्तव्यमेवेत्याह यस्मादिति ॥ ६० ॥ प० टी० । किं च स्वभावजेनेति । स्वभावः क्षत्रियत्वप्रापकः पूर्वकर्मसंस्कारस्तस्माज्जातेन स्वकीयेन कर्मणा शौर्यादिना पूर्वोक्तेन निवडो नियन्त्रितः सन् यदि मोहादित्युपलक्षणं कर्म कर्तु नेच्छास तथाप्यवशः सन कर्म करिष्यस्यव-' प्रामस्कारपरंपरापरिणतं प्राया मनः प्राणिनां कस्तस्य प्रकात निरस्य महनां कर्नान्यथा स्यान्नरः । दौर्गन्ध्यं लशुनादिकस्य सहनं यत्नात्समुत्सारयन् सौ- रभ्यं वितनोति कः सुरभितां कर्पर मुख्यम्य वा' इति । तदेवं सांख्यमीमांसकादिमतेन प्रकृतिपारतव्यं स्वभावपारतन्यं च निरूप्य युहानादरी निषिद्धः ॥ ६० ॥ ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति ॥ भ्रामयन् सर्वभूतानि यन्वारूढानि मायया ॥६१॥ यस्मादीश्वर ईशनशीलो नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशेऽर्जुन शुक्लान्तरात्मस्वभावो विशुद्धान्तःकरण इति, 'अहश्च कृष्णम- हरर्जुनं च' इति दर्शनात्, तिष्ठति स्थितिं लभते स कथं तिष्ठतीत्याह भ्रामयम् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानीव यन्त्राण्यारूढान्यधिष्ठितानीवेतीव. शब्दोऽत्र द्रष्टव्यो यथा दारुकृतपुरुषादीनि यन्त्रारूढानि मायया छाना भ्रा. मयंस्तिष्ठतीति संबन्धः ॥ ६१ ॥ आ० टी० । अर्जुनशब्दस्योक्तार्यत्वे श्रुतिमुदाहरति अहश्चेति । अहश्च कृष्णमहरर्जुनं च वितति रजसा वद्याभिः इत्यत्र किञ्चिदहस्तावत् कृष्णमस्वच्छङ्कलुषितमिष लक्ष्यते किं चित् पुनर- र्जुनमंतिस्वच्छं शुद्रस्वभावमुपलभ्यते एवम नशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनादुक्तार्थ- १ इत्तश्च खया युद्धान्न वैमुख्यं कर्तुमुनितामगाह मिश्योरे। पा० कचित् । २ पुनराहार्नुनमिति-कामेत् ।

श्रीमद्भगवद्गीता। स्वमुचितमित्यर्थः । यन्त्रारूढानीवेति कथमुच्यते तत्राह इवशब्द इति । तदेव प्रपञ्च यति यति । दारुमयानि यन्त्राणि यथा लौकिको मायावी मायया भ्रामयन्वर्तत तथेश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठतीत्यर्थः ॥ ६१ ॥ प० टी० । इदानी मयाध्यक्षण प्रकृतिः सूयते सचराचरमिति स्वमतमुद्दिश्य स्त्राश्रयवर्ति- त्वं चाह ईश्वर इति । भा अर्जन सर्वभूतानां हृद्दश ईश्वरोऽन्तर्यामित्वेन तिष्ठति किं कुर्वन् सर्व- भूतानि जीवान् यन्त्राणि शरीराण्यारूढान्यधिष्ठितानि मायया स्वशक्त्या भ्रामयन् संनिधि- मात्रेण व्यापारयन् न तु स्वयमित्यर्थः । श्रातरपि कण्वशाग्वारण्यके “यो वै स संवत्सरः प्रजापतिः पोडशकलोऽयमेवंवित्पुरुषस्य वित्तमेव पञ्चदशकला आत्मैवास्य पोडशी कला स वित्तेनैवाथ पूर्यते ऽपक्षीयत तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तस्तस्मात्सर्वज्यानि जीयत आत्मना चेज्जीवति प्रधिनागा- दित्याहुः" इति । भाप्यम्-य इति पूर्वोक्तः संवत्सरः कालरूप: पोदशकल: प्रजापतिरयमपि त- निदिध्यासनात्तद्रूप एव पूर्वोक्त एवंवित्पुरुषः सोऽपि षोडशकल: प्रजापतिस्तस्यवित्तं पञ्चपञ्चसूक्ष्म- भतेन्द्रियप्राणात्मकं लिङ्गदेहं ता एव पञ्चदशकला आत्मैवास्य पाडशी कला स प्रागुक्तन वित्तेन पूर्यतेऽपक्षीयत च प्रवृत्तिमार्गेण पूर्यते निवृत्तिमार्गणापक्षीयते च उपरमं प्राप्नोति तदा पोडशी कलावशिष्टा भवति तत्र तदेतन्नभ्यं नाभी भवं नाभ्यमत्रछान्दसः प्रयोगो नभ्यमिति । यद्वा म- ध्यप्रदेशोपस्थितं स्थिरं वस्तु विवक्षितं तेन नभसि हृदयाकाशऽवस्थितं नभ्यम् तत्किम् यदयमात्मा "अजस्य नाभावध्येकमर्पित" इति श्रुतः। अयमर्थः यथा कलालचक्रस्य मध्यछिद्र स्थितः कीलकश्च- कचलनेऽपि न चलति तदेव नभ्यं तथा वित्तं प्राडिमरूपितलिङ्गदहं प्रधिः चक्रपरिधिवबाह्यपरिधि- स्थानीयम् तस्माद्वित्ताद्यद्यपि सर्वज्यानि सर्वस्वहान जीयते प्राप्नोति तथाप्यात्मना चेत्संपद्यते तदा जीवति जीवन्मुक्तो भवति अथ प्रधिना शरीरेण चेत्संपद्यते तदागाद गमनं करोति ॥ ६१ ॥ तमेव शरणं गच्छ सर्वभावेन भारत ॥ तत्प्रसादात्परां शान्तिं स्थान प्राप्स्यसि शाश्वतम्॥६२॥ तमेवेश्वरं शरणमाश्रयं संसारातिहरणार्थं गच्छाश्रय सर्वभावेन सर्वा- स्मना हे भारत ततस्तत्प्रसादादीश्वरानुग्रहात् परां प्रकृष्टां शान्ति परामुपरति स्थानं च मम विष्णोः परमं पदमवाप्स्यास शाश्वतं नित्यम् ॥ ६२ ॥ आ० टी० । ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्तं कैवल्यार्थम्यापि पुरुषकारस्थानर्थ- क्यमित्याशङ्कयाह तमेवेति । सर्वात्मना मनोवृत्त्या वाचा कर्मणा चेत्यर्थः। ईश्वरस्यानुग्रहातत्त्वज्ञानो- त्पत्तिपर्यन्तादिति शेषः। मुक्तास्तिष्ठन्त्यस्मिन्निति स्थानम् ॥ ६२ ॥ प० टी० । एवमन्वयव्यतिरेकाभ्यां प्रकृतेस्तदनुरूपसंस्काराणां वा ईश्वराधीनत्वात्सर्वत्र म एव शरणमिति ज्ञात्वा मदुक्तमनुसरत्याह तमेवेति । तमेव मामीश्वरमन्तर्यामिणं सर्वभावेन सर्वा- त्मना शरणं व्रज । तत्प्रमादात्पगमुत्कृष्टां शान्ति निवृति शाश्वतं नित्यं स्थानं च प्राप्स्यसि । तद्- क्तम्-स्थलं वपुः परिधिरान्तरमस्य सूक्ष्म देवालयं तदिह देवगतिः परात्मा। तत्पूजनोपकरणान्यग्विल- न्द्रियाणि कृत्वा तमं शरणं वन नीव नान्यमिति ॥ ६२ ॥ गमना- अष्टादशाध्यायः। इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ॥ विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥ इत्येतत्ते तुभ्यं ज्ञानमाख्यातं कथितं गुह्याद् गोप्याद् गुह्यतरमतिशयेन गुह्यं रहस्यमित्यर्थः । मया सर्वज्ञेनेश्वरेण विमृश्य विमर्शनमालोचनं कृत्वैतद्य- थोक्तं शास्त्रमशेषेण समस्तं यथोक्तं चार्थजातं यथेच्छसि तथा कुरु ॥ ६३ ॥ आ० टी० । शास्त्रमुपसंहर्तुमिच्छन्नाह इति ते ज्ञानमिति । ज्ञानं करणव्युत्पत्त्या गीता- शास्त्रम्, यथच्छसि तथा कुरु, ज्ञानं कर्माप्युपदिष्टं तदनुतिष्टत्यर्थः ।। ६३ ॥ प० टी० । अथ सर्वगीतार्थमुपसंहरन्नाह इतीति । इत्यवं प्रकारेण ते तुभ्यं मया करुणार्ण- चेन ज्ञानमात्मविवकरूपमाख्यातम् । किभूतं गुह्यान्मन्त्रादिरहस्यादपि गुह्यं गौप्यतमम् । एतदशेषे- ण पूर्वापरवाक्यानुसंधानपूर्वकं विमृश्य विचार्य यथेच्छमि मोक्षमार्गमपेक्षम तथैवाक्तमुपायं कुरु ॥६॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः ॥ इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४॥ तथा भूयोऽपि मयोच्यमानं शृणु सर्वगुह्यतमं सर्वगुह्येभ्योऽत्यन्तगुह्य- तमं रहस्यमुक्तमप्यसकद्भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचो वाक्यं न भयात् नाप्यर्थकारणादा वक्ष्यामि तहीष्टः प्रियोऽसि मे मम दृढमव्यभिचारे- गति कृत्वा ततस्तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परं ज्ञान प्राप्तिसाधनम् तद्धि सर्वहितानां हिततमम् ॥ ६४ ॥ आ० टी० । गीताशास्त्रम्य पौर्वापर्येण विमर्शनद्वारा तात्पर्यार्थ प्रतिपत्तुमसमर्थ प्रत्याह भू- योऽपीति । किमर्थमिच्छन् पुनः पुनरभिदधामीत्याशङ्कयाह न भयादिति । हितमिति साधारणनि- देश कथं परमित्यादिविशेषणमित्याशङ्कयाह तहीति ॥ ६४ ।। प० टी० । अथोक्तप्रकारेणोपायं कर्तुमशक्तमजुनं प्रति पग्मकारुणिकः परमात्मा संक्षेपेण सर्वगीतार्थमारं वक्तुमुपक्रमते सर्वगृह्यतममिति त्रिभिः। सर्वेभ्यो गुह्येभ्योऽपि परमं गुह्यतमं वक्ष्यमाणं में वचः शृणु । न त्वगादासीनस्य परमात्मनम्तव मयि कथमतावान्ममतानुबन्ध इत्याह इष्ट इति । यतस्त्वं दृढमतिदृढसंकल्प इति म इष्टोऽभीष्टः संमतोऽसि ततस्तेन कारणेन ते हितमुपकार वक्ष्यामि ।। ६४ ॥ मन्मना अव मद्भक्तो मद्याजी मां नमस्कुरु ॥ मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५॥ किं तदित्याह मदिति । मन्मना भव मच्चित्तो भव मद्भक्तो भव मड़- जतो भवं मद्याजी मयि यजनशीलो भव मां नमस्कुरु नमस्कारमपि ममैव

५२४
श्रीमद्भगवद्गीता ।
कुछ। तत्रैवं वर्तमानो वासुदेवएव सर्वसमर्पितसाध्यसाधनप्रयोजनो मामेवे-
ष्यस्यागमिष्यसि सत्यं ते तव प्रतिज़ाने सत्यां प्रतिज्ञा करोम्येतस्मिन्वस्तुनी-
त्यर्थो यतः प्रियोऽसि मे । एवं भगवतः सत्यप्रतिज्ञत्वं बुध्वा भगवद्भक्तेरवश्य-
म्भाविमोक्षफलमवधार्य भगवच्छरणैकपरायणो भवेदिति वाक्यार्थः ॥ ६५ ॥
आ० टी० । तदेव प्रश्नद्वारा विवृणोति किं तदिसादिना । उत्तरार्ध व्याचष्टे तत्रेति ।
एवमुक्तया रीत्या वर्तमानस्त्वं तस्मिन्नेव वासुदेवे भगवत्यर्पितमर्वभावो मामवागमिप्यसीति संबन्धः ।
सत्यप्रतिज्ञाकरणे हेतुमाह यत इति । इदानी वाक्याथ श्रेयोऽर्थिनां प्रवृत्त्युपयोगित्वेन संगृह्णाति
एवमिति ॥ ६५ ॥
प० टी । तत्किमित्याह मन्मना इति । यदान्तदृष्टिर्भवमि तदा मन्मना अहमेव मनमि
यस्यासौ मन्मना न विषयान्तरम् । चित्तभिती चित्रन्यस्तमिव मां कवित्यर्थः । बाह्यदृष्टी भक्तो भव
नवप्रकारभक्तियुक्तो भव । कर्मणि क्रियमाण मद्याजी मद्यजनशीला भव । तत्र कर्माङ्गदवतास्वन्तर्या-
मित्वेन स्थितं मामेव नमस्कुरु । अनेनापायेन मामवैप्यास प्राप्स्यमति न प्ररोचनामात्रं किं तु सत्यं
यथा तथा प्रतिजाने प्रतिज्ञां करोमि यतस्त्वं मद्रूपत्वान्मे प्रियोऽसि परमप्रेमास्पदमसि ॥ ६५ ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ॥
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥
कर्मयोगनिष्ठायाः परमरहस्यमीश्वरशरणतामुपसंहत्याथेदानी कर्मयोग-
निष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तविहितं वक्तव्यमित्याह सर्वधर्मान् सर्वे च
ते धर्माश्च सर्वधर्मास्तान् धर्मशब्देनाबाधर्मोऽपि गृह्यते नष्कर्म्यस्थ विवक्षित-
त्वात् “ नाविरतो दुश्चरिताहिमुच्यते” इति त्यज धर्ममधर्म चेत्यादिश्रुतिस्मृ-
तिभ्यः सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणीत्येतन्मामेकं सर्वात्मानं सर्वभूत-
स्थमीश्वरमच्युतं गुरुं जन्ममरणविवर्जितमहमेवेत्येवमेकं शरणं व्रज न मनो-
ऽन्यदस्तीत्यवधारयेत्यर्थः । अहं तु त्वामेवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्मा-
धर्मबन्धनरूपेभ्यो मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन । उक्तं च 'नाझया-
म्यात्मभावस्थो ज्ञानदीपेन भास्वता' इत्यतो मा शुचः शोकं मा कार्षी-
रित्यर्थः ॥ ६६ ॥
आ० टी । वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह कर्मयोगति । धर्मविशेषणादधर्मानुज्ञां वारयति
धर्मेति । ज्ञाननिष्ठन मुमुक्षुणा धर्माधर्मयोस्त्याज्यत्वं श्रुतिस्मृती उदाहरति नाविरत इति । मामक-
मित्यादेस्तात्पर्यमाह न मत्तोऽन्यदिति । अर्जुनस्य क्षत्रियत्वादक्तसन्यासद्वारा ज्ञाननिष्ठायां भ-
ख्यानधिकारेऽपि तं पुरस्कृत्याधिकारिन्यस्तस्योपदिदिक्षुत्वादविरोधमभिप्रेत्याह अहं त्विति । उक्तेऽर्थे
दाशमिकं वाक्यमनुकूलयति उक्तं चेति । ईश्वरस्य त्वदीयबन्धननिरमनद्वारा तत्पालयितृत्वाता ते
शोकावकाशोऽस्तीत्याह अत इति ॥ ६६ ॥

अष्टादशाध्यायः। ५२५ प० टी० । अतो गुह्यतममाह सर्वधर्मानिति । मद्भक्त्यैव सर्व भविष्यतीति दृढविश्वासेन विधिकैयं त्यक्त्वा मामेकमद्वितीयं शरणं व्रज मदेकशरणो भवैवं वर्तमानस्य कर्मत्यागभवं पापं भविष्यतीत्याह मा शुच इति । शोकं मा कार्यितोऽहं त्वां मदेकशरणं सर्वपापेभ्यो मोचयिष्यामि यथा घनैकशरणस्य चातकस्य घनादेवाभीष्टसिद्धिरित्यर्थः । अनन स्वमामर्थ्यातिशयो दर्शितः, एत- दर्थेऽस्माभिः पूर्व व्याख्यातम्। "अहमेव स्वयमिदं वदामि" इति श्रुतिरपि दर्शिता, यहा पूर्वश्लोके सेव्य- मेवकभावत्वेन मन्मना भवत्यादयो मत्प्रापकाश्चत्वारो धर्माः प्रोक्तास्तान् सर्वधर्मान् परित्यज्यागेव- मुक्त्वा ततो मामेकमखण्डैकरसं शरणं व्रज मज्ज्ञानात्सकलविकारराहित्येन मदाकारतां भजैवं जाते सत्यहमात्मैव अयमहीं इमिति भेदभावनोद्भूतेभ्यः पापेभ्यो दुःवहेतुभ्या मोचयिष्यामि, तदुक्तम्- 'दग्धाखिलविकारश्चेद ब्रह्मज्ञानाग्निना मुनिः। वर्तमानः श्रुतमधिं नैव स्याद्विधिकिकर' इति मा शुचः, अनन्तरं शोकः क्वास्तीत्यर्थः । तदक्तम्--स्वान्तैकान्तमुपागते यदुपती शान्त्या समं क्रीडितुं निर्यात बहिरन्तरङ्गगतिभिस्तत्राष्टभिः सात्त्विकैः । प्राणापानगती मनागुपरते स्वानन्दपूर्ण मनः श्रुत्वा गा- नमनाहतध्वनिभवं न त्वं न चाहं जगत् ॥१॥ एतदर्थे–'यस्मिन् सर्वाणि भूतान्यात्मैवाहिनानतः" इति श्रुतिः पूर्व सभाप्या दर्शिता ॥ ६६ ॥ तात्पर्यनिर्णायकं भाष्यम् । अस्मिन् हि गीताशास्त्रे परं निःश्रेयससाधनं निश्चितं किं ज्ञानं किं कर्म वाहोस्विदुभयमिति कुतः संदेहः यज् ज्ञात्वामृतमश्नुते, 'ततो मां त- त्वतो ज्ञात्वा विशते तदनन्तरम्' इत्यादीनि वाक्यानि केवलाज् ज्ञानानिः- श्रेयंसप्राप्तिं दर्शयन्ति, 'कर्मण्येवाधिकारस्ते ' ' कुरु कमैवेत्येवमादीनि कर्म- णावश्यकर्तव्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः कर्तव्यतोपदेशात् समुचित- योरपि निःश्रेयसहेतुत्वं स्यादिति भवेत् संशयः । किं पुनरत्र मीमांसाफलम् । नन्वेतदेवैषामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणम्, अतो विस्तीर्णतरं मीमांस्यमेतदात्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वं भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसानत्वात् क्रियाकारकफलभेदबुद्धिरविद्ययात्मनि नित्यप्रत्ता मम आ० टी० । पूर्वापरालोचनातो गीताशास्त्र व्याख्यायोपसंहृत्य तत्तात्पर्यार्थ निर्धारितमपि विचारहाग निर्धारयितं विचारमवतारयति अस्मिनिति । किंशब्दार्थमेव त्रेधा विभजते ज्ञानमिति । निमित्ताभावे संशयस्याभासत्वान्न निरस्यतामिति मत्वा पृच्छति कुत इति । तत्तदर्थावद्योतकानेक- वाक्यदर्शनं तन्निमित्तमित्याह यज़ ज्ञात्वति । कर्मणामवश्यकर्तव्यत्वोपलम्भात्तेभ्योऽपि निःश्रेयसप्राप्ति- र्भातीत्याह कर्मण्येवेति । तथापि समुच्चयप्रापकं नास्तीत्याशङ्कयाह एवमिति । सत्यां सामग्र्यां कार्यमवश्यंभावीत्युपसंहरति इति भवेदिति । संदिग्धं सफलं च विचार्यमिति स्थिते सति फलं सं- दिग्धमपि न विचार्यमिति बुद्धया पृच्छति किं पुनरिति । प्रत्येकं ज्ञानकर्मणोः समुच्चितयोर्वा मुक्ति प्रति परमसाधनतेत्यवधारणमेव विचारफलमिति परिहरति नन्विति । संदेहप्रयोजनयोर्विचारप्रयो- जक्योर्भावात् विचारद्वारा परममुक्तिसाधनं निर्धारणीयमिति निगमयति अत इति । एवं विचारमव- तार्य सिद्धान्तं संगृह्णाति आत्मेति । संग्रहवाक्यं विवृण्वन्नादावात्मज्ञानापोह्यामविद्यां दर्शयति क्रियेति । आश्रयोक्त्या तदनादित्वमाह आत्मनीति । तामेवाविद्यामनाद्यविद्योत्थामनात्मिकां प्रपञ्च- ३ मंशयः-पा. लि. ११० ।

५:२६ श्रीमद्भगवद्गीता। कर्माहं कर्तामुष्मै फलायेदं कर्म करिष्यामीती यमविद्यानादिकालप्रवृत्ता, अस्या अविद्याया निवर्तकमयमहमस्मि केवलोऽकांकियोऽफलो न म- तोऽन्योऽस्ति कश्चिदित्येवंरूपमात्मविषयं ज्ञानमुत्पद्यमानं कर्मप्रवृत्तिहेतुभू- ताया भेदबुद्धेनिवर्तकत्वात् । तुशब्दः पक्षहयव्यावृत्त्यर्थो न केवलेभ्यः कर्मभ्यो न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिरिति पक्षहयं निवर्तयति । अ- कार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः, न हि नित्यं वस्तु कर्मणा ज्ञानेन वा कियते, केवलज्ञानमप्यनर्थकं तर्हि नाविद्यानिवर्तकत्वे सति दृष्टकैवल्यफ- लावसानत्वादविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वं रज्ज्वादि- विषये सद्यज्ञानतमसो निवर्तकप्रदीपप्रकाशफलबद् विनिवृत्तसादिविकल्प- रज्जुकैवल्यावसानं हि प्रकाशफलं ज्ञानं तथा दृष्टार्थानां च छिदिकियाग्निम- न्थनादीनां व्यापृतकादिकारकाणां इधीभावाग्निदर्शनादिफलाद न्यफले कर्मा- न्तरे वा व्यापारानुपपत्तियथा तथा ज्ञाननिष्ठा क्रियायां सुदृष्टार्थायां व्यापृतस्य ज्ञात्रादिकारकस्यात्मकैवल्यफलादन्यफले कर्मान्तरे वा प्रतिरनुपपन्नेति न ज्ञाननिष्ठा कर्मसहितोपपद्यते, ज्ञाननिष्ठा भुजिकियाग्निहोत्रादिक्रियावत् स्या- दिति चेल कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः, कैवल्यफले हि ज्ञाने यति ममेति । अनाद्यविद्याकार्यत्वात् प्रवाहरूपणानादित्वमस्या विवक्षिका विशिनष्टि अनादीति । तत्र कारणाविद्यानिवर्तकत्वमात्मज्ञानस्योपन्यस्यति अस्या इति । .. ननु नेदमुत्पन्न ज्ञानं निवर्तयत्यविरोधेनोत्पन्नत्वान्न चानुत्पन्नमलब्धात्मकस्याथक्रियाकारित्वाभावात्तत्राह उत्पद्य- मानमिति । कथं तस्य कारणाविद्यानिवर्तकत्वमित्याशङ्कय कार्याविद्यानिवर्तकत्वदृष्टेरित्याह क- मेति । आत्मज्ञानस्येत्यादिसंग्रहवाक्ये तुशब्दयोग्यविशेषाभावादानर्थक्यमाशङ्कयाह तुशब्द इति । पक्षद्वयव्यावर्तकत्वमेवास्य स्फुटयति नेयादिना । इतश्च कर्मामाध्यता मुक्तरित्याह अकार्यत्वाच्चे- ति । “एष नित्यो महिमा " इति श्रुतेनित्यत्वेन मोक्षस्याकार्यत्वान्न तत्र हेत्वपक्षेत्युपपादयति न हीति । ज्ञानेनापि मोक्षो न क्रियते चेत्तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तमिति कुतस्तस्य तत्र हेतुत्वीरित्याशङ्कते केवलेति । ज्ञानानर्थक्यं दूषयति नेति । तदेव प्रपञ्चयति अविद्यति । यद- क्तमविद्यानिवर्तकज्ञानस्य कैवल्यफलावमायित्वं दृष्टमिति तत्र दृष्टान्तमाह रज्ज्वादीति । उक्त विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानं तत्राह विनिवृत्तति । प्रदीपप्रकाशस्य सर्प- भ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवदात्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावमानमिति दार्टा- न्तिकमाह तथेति । ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तर प्रवृत्तिसंभवात् कर्मसहितैव सा कैवल्या- वसायिनीति चेत्तत्राह दृष्टार्थायामिति । कर्मसाहित्यं ज्ञाननिष्टाया दृष्टान्तेन साधयन्नाशङ्कते भुजी- ति । भुजिक्रियाया लौकिक्या वैदिक्याश्चाग्निहोत्रादिक्रियायाः सहानुष्ठानवदग्निहोत्रादिक्रियाया ज्ञाननिष्ठायाश्च साहित्यमित्यर्थः । भुजिफले तृप्णाख्ये प्राप्तेऽपि स्वर्गादौ तद्वेतौ चाग्निहोत्रादावार्थ- त्वदृष्टेर्युक्तं तत्र साहित्यं न तथा मुक्तिफलज्ञाननिष्ठालाभ स्वर्गादौ तद्वेतौ वा कर्मण्यथित्वं तेन शान. निष्ठाकर्मणोन माहित्यमिति परिहरति नेयादिना । संग्रहवाक्यं विवृणोति कैवल्यति । ज्ञाने फ- अष्टादशाध्यायः । ५२.० प्राप्ते सर्वतः संपुतोदके फले कूपतडागादिक्रियाफलार्थित्वाभाववत् फलान्तरे तत्साधनभूतायां वा कियायामर्थित्वानुपपत्तेः, नहि राज्यप्राप्तिफले कर्मणि व्यांपृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारोपपत्तिस्तहिपयं चार्थित्वं, तस्मान्न कर्म- णोऽस्ति निःश्रेयससाधनत्वं न च ज्ञानकर्मणोः समुच्चितयोर्नापि ज्ञानस्य कै- वल्यफलस्य कर्मसाहाय्यापेक्षाविद्यानिवर्तकत्वेन च विरोधात्, नहि तमस्तमसो निवर्तकमतः केवलमेव ज्ञानं निःश्रेयससाधनमिति न नित्याकरणे प्रत्यवाया- प्राप्तः कैवल्यस्य च नित्यत्वाद्यत्तावत् केवलज्ञानात् कैवल्यप्राप्तिरित्येतत्त- दसत्, यतो नित्यानां कर्मणां श्रुत्युक्तानामकरणे प्रत्यवायो नरकादिप्राप्तिल- क्षणः स्यात् । नन्वेवं तर्हि कर्मभ्यो मोक्षो नास्तीत्यनिर्मोक्षप्रसङ्ग एव, नैष दोषो, नित्यत्वान्मोक्षस्य नित्यानां कर्मणामनुष्ठानात् प्रत्यवायस्याप्राप्तिः प्रति- पिद्धस्य चाकरणादनिष्टशरीरानुपपत्तिः काम्यानां च प्रवर्जनादिष्टशरीरानुपप- त्तिर्वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतितेऽस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावादात्मनो रागादीनां चाकरणात् । स्वरूपाव- लवति लब्धे फलान्तरे ताहेतौ च नार्थितेत्यत्र दृष्टान्तमाह सर्वत इति । सर्वत्र संलुतं व्याप्त मुदक- मिति समुद्रोक्तिस्तत्फलं स्नानादि तस्मिन् प्राप्ते तडागादिनिर्माणक्रियायां तदधीन च स्नानादौ क- स्य चिदर्थित्वं तथा प्रकृतेऽपीत्यर्थः । निरतिशयफले ज्ञाने लब्धे सातिशयफले कर्मणि नार्थित्वमि- त्येतदृष्टान्तन स्फुटयात न हीति । कर्मणः सातिशयफलत्वमुक्तमुपजीव्य फलितमाह तस्मान्नेति । ज्ञानकर्मणोः साहित्यसंभवमपि पूर्वोक्तं निगमयति न चेति । न हि प्रकाशतमसोरिव मिथो विरुद्धयो- स्तयाः साक्षादकस्मिन् फले साहित्यमित्यर्थः । ननु ज्ञानमेव मोक्षं साधयदात्मसहायत्वेन कीपेक्षते क रणस्योपकरणापेक्षत्वात्तत्राह नापीति । ज्ञानमुत्पत्तौ यज्ञाद्यपेक्षमपि नोत्पन्नं फले तदपक्ष सो- त्पत्तिनान्तरीयकत्वन मुक्तस्तन्मात्रायत्तत्वादित्यर्थः । यदुक्तमितिकर्तव्यत्वन ज्ञानं कर्मापेक्षमिति त- त्राह अविद्यति । ज्ञानस्याज्ञाननिवर्तकत्वात्तत्र कर्मणो विरुद्धतया सहकारित्वायोगान्न फले तदपे- क्षेत्यर्थः । कर्मणाऽपेि ज्ञानवदज्ञाननिवर्त कल्वे कथं विरुद्धतत्याशङ्कयाह न हीति । केवलस्य समु- ञ्चितस्य वा कर्मणो मोक्षे साक्षादनन्वये फलितमाह अत इति । केवलज्ञानं मुक्तिसाधनभित्युक्तं तन्निधयन्नाशङ्कत नेयादिना । निषेध्यमनद्य नअर्थमाह यत्तादिति । नित्याकरणे प्रत्यवायाप्रा. तरिति हेतुं प्रपञ्चयति यत इति । ज्ञानवतोऽपि नित्यानुष्ठानस्यावश्यकत्वान्न कवलज्ञानस्य कैव. ल्यहततेत्यर्थः । कैवल्यस्य च नित्यत्वादित्यस्य व्यावयं दर्शयति नन्विति । यदि नित्यनैमित्तिक- कर्माणि श्रौतान्यकरण प्रत्यवायकारीण्यवश्यानुष्ठेयान्येवं तर्हि तभ्यः समच्चितभ्योऽसमुच्चितेभ्यश्च मोक्षो नत्युक्तत्वात् केवलज्ञानस्य वा तद्धेतुत्वादनिबन्धना मुक्तिन सिध्यदित्यर्थः । कैवल्यस्य चेत्यादि व्याकुर्वन्ननिर्मोक्षप्रसङ्गं प्रत्यादिशति नैष दोप इति । मुक्तनित्यत्वेनाय नमिहर्न तदभावशङ्केत्युक्तं प्रपञ्चयात नित्यानामिति । काम्यकर्मवशादिष्टशरीरापत्ति शङ्कित्वोक्तं काम्यानां चेति । आरब्ध- कर्मवशात्तर्हि देहान्तरं नत्याह वर्तमानति । तर्हि देहान्तरं शेपकर्मणा स्यादित्याशङ्कय कर्माशय- स्यैकभविकत्वान्नेत्याह पतितेऽस्मिन्निति । रागादिना कर्मान्तरं ततो देहान्तरं च भविष्यतीत्याश- इयाह सगादीनां चेति । आत्मनः स्वरूपावस्थानमिति संबन्धः । अतीतासङ्ग्यजन्मभेदेवर्जितस्य ।

५२८ श्रीमद्भगवद्गीता। .. स्थानमेव कैवल्यमित्ययत्नसिद्धं कैवल्यमिति । अतिकान्तानेकजन्मान्तरक- तस्य स्वर्गनरकादिप्राप्तिफलस्यानारब्धकार्यस्योपभोगानुपपत्तेः क्षयाभाव इति चेन्न, नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः प्रायश्चि- त्तवहा पूर्वोपात्तदुरितक्षयार्थत्वं नित्यकर्मणाम् , आरब्धानां चोपभोगेनैव कर्मणां क्षीणत्वादपूर्वाणां च कर्मणामनारम्भेऽयत्नसिद्धं कैवल्यमिति न, “ तमेव विदित्वातिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय” इति विद्याया अन्यः पन्धा मोक्षाय न विद्यत इति श्रुतेश्चर्मवदाकाशवेष्टनासंभववदविदुषो मोक्षा- संभवश्रुतेर्ज्ञानात् कैवल्यमाप्नोतीति च पुराणस्मृतेरनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च यथा पूर्वोपात्तानां दुरितानामनारब्धफलानां संभवस्तथा पुण्यानामप्यनारब्धफलानां संभवस्तथा पुराणस्मृतेरनारब्धफलानां स्यात् संभव- स्तेषां च देहान्तरमकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः, धर्माधर्महेतूनां च राग- हेपमोहानामप्युत्पन्नात्मज्ञानादुच्छेदानुपपत्तेधर्माधर्मोच्छेदानुपपत्तिः, नित्याना च कर्मणां पुण्यलोकफलश्रुतेर्वर्णाश्रमाश्च स्वकर्मनिष्ठाः पुण्यलोका भवन्तीत्या- दिस्मृतेश्च कर्मक्षयानुपपत्तिः । ये बाहुर्नित्यानि कर्माणि दुःखरूपत्वात् पूर्व- कर्मणो नानाफलस्यानारब्धस्य भोगेनाक्षयात् ततो देहान्तरारम्भादेकभविकत्वस्याप्रमाणिकत्वा- म्न मुक्तरयत्नसिद्धतेति चोदयति अतिक्रान्तेति । नोक्तकर्मनिमित्तं देहान्तरं शतिव्यमित्याह नेति । नित्यनैमित्तिककर्माणि श्रौतान्यवश्यमनष्ठेयानि तदनुष्ठाने च महानायासस्ततो दुःखोपभोग- स्तस्योक्तानारब्धकर्मफलभोगत्वापगमान्न ततो देहान्तरमित्याह निसेति । नित्यादिना दुरितनिवृत्ताव प्यविरोधान्न मुक्तनिवृत्तिस्ततो देहान्तर मित्याशङ्कय सुकृतस्य नित्यादेरन्यत्वेनारब्धत्वं च न्यायवि- रुद्धस्य तस्यासिद्धत्वात्ततो देहान्तरायोगान्नित्यादेरनन्यत्वे च न तस्य फलान्तरमिति मत्वा यथा प्रायश्चित्तमुपात्तदुरितनिर्वहणार्थं न फलान्तरापेक्षं तथेदं सर्वमपि नित्यादिकापात्तपापनिराकरणार्थ त- स्मिन्नेव पर्यवस्यन्न देहान्तरारम्भकमिति पक्षान्तरमाह प्रायश्चित्तवदिति । तथापि प्रारब्धवशादेव देहा- न्तरं शङ्कते नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन संभवादित्याशङ्कयाह आरब्धेति । पुर्वानितकर्मणामेव क्षीणत्वेऽपि कानि चित्पूर्वकर्माणि देहान्तरमारभेरन्नित्याशङ्कयाह अपूर्वेति । विना ज्ञानं कर्मणैव मुक्तिरिति पक्षं श्रुत्यवष्टम्भेन निराचष्टे नेयादिना । विद्यतऽयनायति श्रुतेरिति संबन्धः । एवकारार्थ विवृण्वन्नेत्यादिभागं व्याकरोति अन्य इति । “यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःवस्यान्तो भाविष्यति' इति श्रुतिमर्थतोऽनुवदति चर्मवदिति । श्रीतार्थे स्मृति संवादयति ज्ञानादिति । किं च त्वदीयन्यायस्यानग्राह्यमानहीनत्वेनाभासतया पुण्यकर्मणामनारब्ध- फलानां क्षयाभावे दहान्तरारम्भसंभवान्न ज्ञानं विना मुक्तिरित्याह अनारब्धेति । तथाविधानां कर्मणां नास्ति संभावनेत्याशङ्कयाह यथेति । अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिरिति तत्राह सेषां चेति । इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिरिति तत्राह धर्मेति । कर्मणा पितृलोक इति श्रुतिमाश्रित्य कर्मक्षये हेत्वन्तरमाह निसानामिति । स्मृत्यापि यथोक्तमर्थं समर्थयते वर्णा इति । प्रत्य कर्मफलमनुभयः ततः शेषेण विशिष्टजात्यादिभाजो जन्म प्रतिपद्यत इत्येतदादिपदार्थः । यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वमिति तदिदानीमनुवदति ये विति । नित्याननुष्ठीयमा- अष्टादशाध्यायः। ५२६ कृतदुरितकर्मणां फलमेव न तु तेषां स्वरूपव्यतिरेकेणान्यत् फलमस्त्यश्रुतत्वा' ज्जीवनादिनिमित्ते च विधानादिति न, अप्रवृत्तानां च फलदानासंभवाद् दुःखैफलविशेषानुपपत्तिः कर्मणां स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति तदसत्, न हि मरणकाले फ- लदानायानकुरीभूतस्य कर्मणः फलमन्यदारब्धे जन्मन्युपभुज्यत इत्यु- पपत्तिः, अन्यथा स्वर्गफलोपभोगायाग्निहोत्रादिकारब्धे जन्मनि नरक- फलोपभोगानुपपत्तिर्न स्यात्तस्य दुरितदुःखविशेषफलत्वानुपपत्तेश्च अनेकेषु हि दुरितेषु संभवत्स्वभिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमा- त्रफलेषु कल्प्यमानेषु इन्दरोगादिवाधानिमित्तं दुःखं न हि शक्यते कल्प- यितुं नित्यकर्मानुष्ठानायासदुःखमेव पूर्वोपात्तदुरितफलं न शिरसा पाषा- णवहनादिदुःखमिति । अप्रकृतं चेदमुच्यते नित्यकर्मानुष्ठानायासदुःखं पूर्वकृत- दुरितकर्मफलमिति, कथम् , अप्रसूतफलस्य पूर्वकृतदुरितस्य क्षयो नोपपद्यत इति प्रकृतं तत्राप्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखमाह भ- वान प्रसूतफलस्येत्यर्थः, सर्वमेव पूर्वकृतं दुरितं तत्प्रसूतफलमेवेति मन्यते भवांस्ततो नित्यकर्मानुष्ठानायासदुःखमेव फलमिति विशेपणमयुक्तं नित्यकर्म- नान्यायासपर्यन्तानीति शेपः । तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलमाशङ्कय वि- ध्युद्देशे तदश्रवणान्मेवमित्याह न त्विति । विध्युद्देशे फलाश्रुतौ तत्कामनाया निमित्तस्याभावान्न नित्या- नि विधीयरन्नित्याशङ्कयाह जीवनेति । न नित्यानां विध्यमिद्विरिति शेपः । अनुभाषितं दूपयति नेसा- दिना। तदेव विवृण्वन्निपेध्यमनूद्य नअर्थमाह यदुक्तमिति । अप्रवृत्तानामित्यादिहेतुं प्रपञ्चयति न हीति । कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठायासदुःखं भुज्यतां कानुपपत्तिरित्याशङ्कयाह अन्यथेति । य- दुक्तं दुःखफलविशेषानुपपत्तिश्च स्यादिति तदुपपादयति तस्येति । संभावितानि तावदनन्तानि संचितानि दुरितानि च नानादःखफलानि यदि तानि नित्यानुष्ठानायासरूपं दुःखं तन्मात्रफलानिकल्पेरंस्तदा तेष्वेवं कल्प्यमानेषु सत्स्वनित्यस्यानुष्टितस्यायासमासादयतो यो दुरितक्रतो दुःखविशेपो न तत्फलं दुरितफलानां दुःखानां बहुत्वादतो नित्यं कर्म यथाविशेषं तं दुरितकृतदुःखविशेषफलक मित्ययुक्त मित्यर्थः । किं च नित्यानुष्ठानायामदुःखमात्रफलानि चेहुरितानि कल्पन्ते तदा द्वन्द्वशब्दितरागा- दिवाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः सुकृतफलत्वस्य चामंभवादनपत्तिरेवोदीरितवा- धायाः स्यादित्याह द्वन्द्वति । इतश्च नित्यानुष्ठानायासदःवमेव दुरितफलमित्ययुक्तमित्याह नित्येति। दुःखमिति न शक्यते कल्पयितुमिति पूर्वेण संबन्धः । यदि तदेव तत्फलं न तर्हि शिरसा पाषाण- वहनादिदुःखं दरितकृतं न च तत्कारणं सुकृतं दुःखस्यातत्कार्यत्वादतस्तदाकस्मिकं स्यादित्यर्थः । नित्यानुष्ठानायासदुःखमुपात्तदुरितफलमित्यतदप्रकृतत्वाच्चायुक्तं वक्तुमित्याह अप्रकुतं चेति । तदेव प्रपञ्चयितुं पृच्छति कथमिति । तत्रादौ प्रकृतमाह अप्रसूतेति । तथापि कथमस्माकमप्रकृतवादित्वं तत्राहं, तत्रेति । प्रसूतफलत्वमप्रसूतफलत्वमिति प्राचीनदुरितगतविशेषानुपगमादविशेषेण सर्वस्यैव तस्य प्रमृतफलत्वान्नित्यानुष्ठानायासदुःखफलत्वसंभवान्नाप्रकृतवादितति शङ्कते सर्वेति । पूर्वोपात्तदु- . श्रीमद्भगवद्गीता। विध्यानर्थक्यप्रसइश्वोपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किंच श्रुतस्य नित्यस्य कर्मणो दुःवं चेत् फलं नित्यकर्मानुष्ठानायासादेव तन द- श्यते व्यायामादिवत्तदन्यस्येति कल्पनानुपपत्तिः जीवनादिनिमित्ते च विधा- नानित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वानुपपत्तिः, यस्मिन् पाप- कर्मनिमित्ते यहिहितं प्रायश्चित्तं न तु तस्य पापस्य तत्फलमथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तं दुःखं फलं जीवनादिनिमित्तमपि नित्यक- मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव तत्फलं प्रसज्येत नित्यप्राय- श्चित्तयोर्नैमित्तिकत्वाविशेषात् । किं चान्यन्नित्यस्य काम्यस्य चाग्निहोत्रादे- रनुष्ठानायासदुःखस्य तुल्यत्वान्नित्यानुष्ठानायासदुःखमेव पूर्वकृतदुरितस्य फल न तु काम्यानुष्ठानायासदुःखमिति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत, तथा च सति नित्यानां फलाश्रवणात्तद्दिधानान्यथानुपपत्तेश्च नित्या- नुष्ठानायायसदुःखं पूर्वकृतदुरितफलमित्यर्थापत्तिकल्पना चानुपपन्ना एवंवि- धानान्यथानुपपत्तेरनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानां विरो- रितस्यापि शेपेणारब्धफलत्वे विशेषणानर्थक्यमिति परिहरति तत इति । दुारतमात्रस्यारव्यफलत्वे- नानारब्धफलस्य तस्योक्तफलविशेषवत्त्वानुपपत्तेरित्यर्थः । पूर्वोपात्तदुरितमारब्धफलं चेद्गागेनैव तत्क्ष. यसंभवात्तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यामिति दोषान्तरमाह नित्येति । इतश्च नित्यानुष्ठानाया- सदुःखं नोपात्तदुरितफलमित्याह किंचेति । तदेव स्फोरयति श्रुतस्येति । यथा व्यायामगमनादि. कृतं दुःखं नान्यस्य दुरितस्येप्यते तत्फलत्वसंभवात्तथा नित्यस्यापि श्रुत्युक्तस्यानष्ठितस्यायासपर्य- न्तस्य फलान्तरानुपगमादनुष्ठानायासदुःखमेव चेत् फलं तर्हि तस्मादेव तद्दर्शनात्तस्य न दुरित- फलत्वं कल्प्यं नित्यफलत्वसंभवादित्यर्थः । दुःखफलत्व नित्यानामननुष्ठानमेव श्रेयः स्यादित्याश- याह जीवनादिति । नित्यानां दुरितफलत्वानुपपत्ती हेत्वन्तरमाह प्रायश्चितवदिति । दृष्टान्त प्रपञ्चयति यस्मिन्निति । तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिरिति शेषः । सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलं किं तु तदनुष्टानायामदुःखं तस्य पापस्य फलमिति श- ते अथोते । प्रायश्चित्तानुष्ठानायासदःखस्य निमित्तभूतपापफलत्वे जीवनादिनिमित्तमित्याद्यनुष्ठाना- यासदुःखमपि जीवनादरेव फलं स्यान्न पात्तदुरितस्येति परिहरति जीवनादीति । प्रायश्चित्तदुःग्वस्य तन्निमित्तपापफलत्ववज्जीवनादिनिमित्तं कर्म कृतमपि दुःख जीवनादिफलमित्यत्र हेतुमाह नित्यति । इतश्च नित्यानुष्ठानायासदुःवमेवोपात्तदुरितफलमित्याशङ्ग्य वक्तुमित्याह किं चेति । काम्यानुष्ठा- नायासदुःखमपि दरितफलमित्युपगमात् प्रसङ्गस्यष्टत्वमाशङ्कयाह तथा चेति । विहितानि तावन्नित्यानि न च तेषु फलं श्रुतं न च विना फलं विधिस्तन दुरितनिर्वहणानि नि- त्यानीत्यर्थापत्त्या तेषु च सा युक्ता काम्यानुष्ठानादपि दुरितनिवृत्तिसंभवादित्यर्थः । किं च नित्यान्यनुष्ठानायासदुःखातिरिक्तफलानि विहितत्वात् काम्यवदित्यनुमानात्तेषां दुरितनिवृत्त्यर्थतेत्याह एवमिति । काम्यादिकर्म दृष्टान्तयितुमेवमित्युक्तम् । स्वाक्तिव्यावाताच्च नित्यानुष्ठानाद दुरितर्फल- भोगोक्तिरयुक्तत्याह विरोधाचति । तदेव प्रञ्चयति विरुद्धं चेति । इदंशब्दार्थमेव ..विशदयति अष्टादशाध्यायः। ५३.४ .. धाच्च । विरुद्धं चेंदमुच्यते नित्यकर्मण्यनुष्ठीयमानेऽन्यस्य कर्मणः फलं भुज्यन इत्यभ्युपगम्यमाने स एवोपभोगो नित्यस्य कर्मणः फलमिति नित्यस्य कर्मणः फलाभाव इति विरुद्धमुच्यते किं च काम्याग्निहोत्रादावनुष्ठीयमाने नित्यमप्य- ग्निहोत्रादि तन्त्रेणैवानुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफल- मुपक्षीणं स्यात्तन्त्रत्वाद्, अथ काम्याग्निहोत्रादिफलमन्यदेव स्वर्गादि तदनु- ष्ठानायासदुःखमपि भिन्नं प्रसज्येत, न च तदस्ति दृष्टविरोधात् न हि काम्या- नुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं भिद्यते, किं चान्यदविहितम- प्रतिषिद्धं च कर्म तत्कालफलं न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलं भवेद्यदि भवेत् तदा स्वर्गादिष्वप्यदृष्टफलशासने चोद्यमो न स्याद् अग्निहो- त्रादीनामेव कर्मस्वरूपाविशेषेऽनुष्ठानायासदुःखमात्रेणोपक्षयः काम्यानां च स्व- र्गादिमहाफलत्वमङ्केतिकर्तव्यतायाधिक्ये त्वसति तत्फलकामित्वमात्रेणेति न शक्यं कल्पयितुं तस्मान नित्यानां कर्मणामदृष्टफलाभावः कदाचिदप्युपपद्यते । नित्येति । अन्यस्य कर्मणो दुरितस्येति यावत् । स एवेति । यदनन्तरं यद्भवति तत्तस्य कार्यमिति नियमादित्यर्थः । इतश्च नित्यानुष्टान दुरितफलभोगो न सिध्यतीत्याह किं चेति । काम्यानुष्ठानस्य नित्यानुष्ठानस्य च योगपद्यान्नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि मुक्तत्वसंभवा- दिति हेतुमाह तन्त्रत्वादिति । नित्यकाम्यानुष्ठानयोर्योगपद्येऽपि नित्यानुष्ठानायासदुःखादन्यदेव काम्यानुष्ठानफलं श्रुतत्वादिति शङ्कते अथेति । काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखाद्भिन्नं- चर्हि काम्यानुठानायासदःखं नित्यानुष्ठानायासदःखं च मिथा भिन्नं स्यादित्याह तदनुष्ठानेनि । प्रसङ्गस्येष्टत्वमाशङ्कय निराचष्टं न चेति । दृष्टविरोधमेव स्पष्टयति न हीति । आत्माज्ञानवदग्नि- होत्रादीनां माले साक्षादन्वयो नेत्यत्रान्यदपि कारणमस्तीत्याह किं चान्यदिति । तदेव कारणं विवृणो- ति अविहितमिति । यत्कर्म मर्दनभोजनादि तन्न शास्त्रे विहितं निषिद्धं वा तदनन्तरफलं तथानुभ- वादित्यर्थः । शास्त्रीयं कर्म तु नानन्तरफलमानन्तर्यस्याचोदितत्वादतो ज्ञाने दृष्टफले नादृष्टफलकर्म महकारि भवति, नापि स्वयमेव दृष्टफले माक्षे कर्मप्रवृत्तिः क्षमति विवक्षित्वाह नत्विति । शास्त्री- यस्याग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनामनन्तरमनपलब्धिर्विरुध्येत ततस्तेप्वपि तथाविधंफलापेक्ष- या प्रवृत्तिरनिहोत्रादिषु न स्यादित्याह तदेति । किं च नित्यानामग्निहोत्रादीनां दृष्टफलं तेषामेव काम्यानां ताकफलं न च हेतु विना तद्विभागो भावीत्याह अग्निहोत्रादीनामिति । फलकामित्वमात्रेणेति । न स्यादिति पूर्वेण संबन्धः । यानि नित्यान्यनि- होत्रादीनि यानि च काम्यानि तेषामुभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषामनुष्ठाना- यासदुःखमात्रेण क्षयो न फलान्तरमस्ति, तेपामेव काम्यानामङ्गाद्याधिक्याभावऽपि फलकामित्वमधि- कारिण्यस्तीत्येतावन्मात्रेण स्वर्गादिमहाफलत्वमित्ययं विभागो न प्रमाणवानित्यर्थः । उक्तविभागायो गे फलितमाह तस्मान्नेति । ना- १ कर्मणानुष्टीयमानेनान्यस्य-पा० काचित् ।

५३२ श्रीमद्भगवद्गीता। अतश्चाविद्यापूर्वकस्य कर्मणोऽविद्यैव शुभस्याशुभस्य वाक्षयकारणमशेषतो न नित्यकर्मानुष्ठानमविद्याकामबीजं हि सर्वमेव कर्म, तथाचोपपादितम् अविह- हिषया सर्वकर्मसंन्यासपार्वका ज्ञाननिष्ठा उभौ तौ न विजानीतो वेदाविनाशिनं नित्यं ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनामज्ञानां कर्मसङ्गिनां तत्ववित्तु गुणा गुणेषु वर्तन्त इति मत्त्वा न सज्जते सर्वकर्माणि मनसा संन्यास्यास्ते नैव किचिंत् करोमीति युक्तो मन्येत तत्त्वविदर्थादज्ञः करोमीत्यारुरुक्षोः कर्मकारणमारूढस्य योगस्थस्य शम एव कारणमुदारास्त्रयोऽप्यज्ञा ज्ञानी त्वात्मैव मे मतमज्ञाः कर्मिणो गतागतं कामकामा लभन्ते अनन्याश्चिन्तयन्तो मां नित्ययुक्ता यथोक्तमात्मा- नमाकाशकल्पमकल्मषमुपासते ददामि बुद्धियोगं तं येन मामुपयान्ति ते अर्थान कर्मिणोऽज्ञा उपयान्तीति भगवत्कर्मकारिणो ये युक्ततमा अपि कर्मिणोऽज्ञास्ते उत्तरोत्तरहीनफलत्यागावसानसाधना अनिर्देश्याक्षरोपासकास्त्वष्टा सर्वभूता- काम्यवन्नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगादर्थेनात्मविद्यैवाभ्युपग न्तव्येत्याह अतश्चेति । शुभाशुभात्मकं कर्म सर्वमविद्यापूर्वक चदशंपतस्तार्ह तस्य क्षयकारणं विद्ये- त्युपपद्यते न तत् सर्व कर्माविद्यापूर्वकमिति सिद्धमित्याशङ्कयाह अविद्येति । तत्र हिशब्दद्योतितां युक्ति दर्शयति तथेति । इतश्चाविद्वद्विपयं कर्मत्याह अविद्वादिति । अधिकारिभेदन निष्ठाद्वयमित्य- त्र वाक्योपक्रममनुकूलयन्नात्मनि कर्तृत्वं कर्मत्वं वागेपयन् न जानात्यात्मानमिति वदता कर्म ज्ञान- मूलमिति दर्शितमित्याह उभाविति । आत्मानं याथातायन जानन् कर्तृत्वादिरहितो भवतीति ब्रुव- ता कर्मसंन्यासे ज्ञानवतोऽधिकारित्वं सूचितमित्याह वेदति । निष्ठाद्वयमधिकारभेदन बोद्धव्यभित्य- त्रैव वाक्यान्तरमाह ज्ञानेति । न बुद्धिभेदं जनयेदित्यत्र चाविद्यामूलत्वं कर्मणः सूचयता कर्मनिष्ठा विद्वद्विषयानुमोदितत्याह अज्ञानामिति । यदुक्तं विद्विषया संन्यासपूर्विका ज्ञाननिष्ठेति तत्र त- त्ववित्तु महाबाहो गुणकर्मविभागयोरित्यादि वाक्यसमुदाहरति तत्त्वावत विति । तत्रैव वाक्यान्तरं पठति सर्वेति । विदुषो, ज्ञाननिष्ठेत्यत्रैव पाश्चमिकं वाक्यान्तरमाह नवेति । तत्रैवार्थमिद्धमर्थं क- थयति अज्ञ इति । मन्यत इति संबन्धः । अज्ञस्य चित्तशुद्धयर्थ कर्म शुद्धचित्तस्य कर्मसंन्यासो ज्ञानप्राप्ती हेतुरित्यत्र वाक्यान्तरमाह आरुरुक्षोरिति । यथोक्त विभागे साप्तमिकं वाक्यमनुगुणमित्याह उदारा इति । एवं त्रयीधर्ममित्यादि नावमिक' वाक्यमविद्वद्विपयं कर्मेत्यत्र प्रमाणयति अज्ञा इते । विदुषः संन्यासपूर्विका ज्ञाननिष्ठेत्यौव नावमिकं वाक्यान्तरमाह अनन्या इति । मामित्य- तयाचष्टे यथोक्तमिति । तेषां सततयुक्तानामित्यादि दाशमिकं वाक्यं तत्रैव प्रमाणयति ददामीति। विद्यावतामेव भगवत्प्राप्तिनिर्देशादितरेषां तदप्राप्तिः सूचितेत्यर्थसिद्धमर्थमाह अर्थादिति । ननु भगवत्कर्मकारिणां युक्ततमत्वात् कर्मिणोऽपि भगवन्तं यान्तीत्याशङ्कयाह भगवदिति । ये मत्कर्मक दित्यादिन्यायेन भगवत्कर्मकारिणस्ते यद्यपि युक्ततमास्तथापि कर्मिणोऽज्ञाः सन्तो न भगवन्तं सहसा गन्तुमर्हन्तीत्यर्थः । तेषामज्ञत्वे गमकं दर्शयति उत्तरोत्तरेति । चित्तसमाधानमारभ्य फलत्यागपर्यन्तं पाठक्रमेणोत्तरोत्तरं हीनसाधनोपादानादभ्यासासमर्थस्य भगवत्कर्मकारित्वाभिधानाद्भगवत्कर्मकारिणाम- १ नवमाध्यायभवमित्यर्थः ।

अष्टादशाध्यायः। नामित्यध्यायपरिसमाप्त्युक्तसाधनाः, क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनानां चा- धिष्ठानादिपञ्चहेतुकसर्वकर्मसंन्यासिनामात्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञान- निष्ठायां वर्तमानानां भगवत्तत्त्वविदामनिष्टादिकर्मफल एवं परमहंसपरिवा- जकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति भवत्येवमन्येषाम- ज्ञानां कर्मिणामसंन्यासिनामित्येष गीताशास्त्रोक्तस्य कर्तव्याकर्तव्यार्थस्य वि- भागः । अविद्यापूर्वकत्वं सर्वस्य कर्मणोऽसिद्धमिति चेन ब्रह्महत्यादिलक्षण- वद् यद्यपि शास्त्रावगतं नित्यं कर्म तथाप्यविद्यावत एव भवतीति यथा प्रति- षेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्मानर्थकारणमविद्याकामादिदोषतो भ- वत्यन्यथा- प्रवृत्त्यनुपपत्तेस्तथा नित्यनैमित्तिककाम्याद्यपीति । व्यतिरिक्तात्म- न्यज्ञाने प्रवृत्तिनित्यादिकर्मस्वनुपपन्नेति चेन्न, चलनात्मकस्य कर्मणोऽनात्म- कर्तृकस्याहंकरोमीति प्रवृत्तिदर्शनात् । देहादिसंघातेऽहंप्रत्ययो गीणो न मिथ्ये- ति चेन, तत्कार्येष्वपि गौणत्वोपपत्तेरात्मीये देहादिसंघातेऽहंप्रत्ययो गौणो य- थात्मीयपुत्र आत्मा वै पुत्रनामासीति, लोके चापि मम प्राण एवायं गौरिति तद्दत्, ज्ञत्वं विज्ञातमित्यर्थः । ये त्वक्षरमानिर्देश्यामित्यादिवाक्यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननि- ष्ठाया निर्धारयति अनिर्देश्यति । उक्तसाधनास्त संन्यासपूर्वकज्ञाननिष्ठायामधिक्रियेरन्निति शेषः । किं च त्रयोदशे यान्यमानित्वादीनि चतुर्दशे च प्रकाशं च प्रवृत्ति चेत्यादीनि पञ्चदशे च यान्यसङ्ग- त्वादीन्युक्तानि तैः सर्वेः साधनैः सहिता भवन्त्यनिर्देश्याक्षरोपासकास्ततोऽपि ते ज्ञाननिष्ठायामेवाधि- क्रियेरन्नित्याह क्षेत्रति । निष्ठाद्वयमाधिकारिभेदेन प्रतिष्ठाप्य ज्ञाननिष्ठानामनिष्टमिष्टं मिश्रितमिति त्रिविधं कर्मफलं न भवति किं तु मुक्तिरेव कर्मनिष्ठानां तु त्रिविधं कर्मफलं न मुक्तिरिति शास्त्रार्थ- विभागमभिप्रेतमुपसंहरति अधिष्ठानादीति । यदुक्तमविद्याकामबीजं सर्व कर्मेति तत्र स्य कर्मणोऽविद्यापूर्वकत्वानुपपत्तेरित्याक्षिपति अविद्येति । दृष्टान्तेन समाधत्ते नेति । तत्राभिमत- प्रतिज्ञां विभजते ब्रह्महत्येति । उक्तं दृष्टान्तं व्याचष्टे यथेति । अविद्यादिमतो ब्रह्महत्यादि कर्मेत्य- त्र हेतुमाह अन्यथेति । दार्शन्तिकं गृह्णाति तथेति । तान्यप्यविद्यादिमतो भवन्तीत्यविद्यादिपूर्वक. त्वं तेषामेषितव्यमित्यर्थः । पारलौकिकमसदेहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगान्न तेषामविद्यापूर्वक- तेति शङ्कते व्यतिरिक्त इति । सत्यपि व्यतिरिकात्मज्ञान पारमार्थिकात्मज्ञानाभावान्मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेरविद्यापूर्वकत्वं तेषामप्रतिहतमिति परिहरति नेयादिना। कर्मणश्चलनात्मकत्वान्ना- कर्तृकत्वं तस्य निष्क्रियत्वाद् देहादिसंघातम्य तु सक्रियत्वात्तत्कर्तृकं कर्म युक्तं तथापि संघातेऽहं ममाभिमानद्वाराहं करोमीत्यात्मनो मिथ्याधीपूर्विका कर्मणि प्रवृत्तिर्दृष्टा तेनाविद्यापूर्वकत्वं तस्य युक्त- मित्यर्थः । यदक्तं देहादिसंघातेऽहमभिमानस्य मिथ्याज्ञानत्वं तदाक्षिपति देहादीति । अहंधियो गौणत्वे तत्पूर्वककर्मस्वपि गौणत्वापत्तेरात्मनोऽनर्थाभावात्तन्निवृत्त्यर्थं हत्वन्वेषणं न स्यादिति दूषय- ति नेति । एतदेव प्रपश्चयन्नादौ चोद्यं प्रपश्चयति आत्मीयेति । तत्र श्रुत्यवष्टम्भेन दृष्टान्तमाह यथेति । दर्शितश्रुतेरात्मीये पुत्रेऽहंप्रत्ययो गौणस्तथा संघातेऽप्यात्मीयेऽहंप्रत्ययस्तथा युक्त इत्यर्थः । भेदधीपूर्वकत्वं गौणधियो लोके प्रसिद्धमित्याह लोके चेति । लोकवेदानुगे- १ तत्राभिमतां प्रतिज्ञां बिभजते यद्यपाति । –कचित्पाठः । शास्त्रावगत- ५३४ श्रीमद्भगवद्गीता। नैवं मिथ्याप्रत्ययो मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोरगृह्यमाणविशेषयोर्न गौणप्रत्यय- स्य मुख्यकार्यार्थत्वमधिकरणस्तुत्यर्थत्वात्, लुप्तोपमाशब्देन यथा सिंहो देवद- तोऽग्निर्माणवक इति सिंह इवाग्निरिव कौर्यपैडल्यादिसामान्यवत्त्वाद्देवदत्त- माणवकाधिकरणकस्तुत्यर्थमेव न तु सिंहकार्यमग्निकार्य वा गौणशब्दप्रत्यय- निमित्तं किंचित् साध्यते मिथ्याप्रत्ययकार्यत्वं त्वनर्थमनुभवति गौणप्रत्ययस्य विषयं च जानाति नैवं सिंहो देवदत्तः स्यालायमग्निर्माणवक इति, तथा गौणेन देहादिसंघातेनात्मना कृतं कर्म न मुख्येनाहंप्रत्ययविषयेणात्मना कृतं स्यान हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यान च क्रौर्येण पै- इल्येन वा मुख्यसिंहान्योः कार्य किंचित् क्रियते स्तुत्यर्थेनोपक्षीणत्लात् स्तूय- मानौ च जानीतो नाहं सिंहो नाहमग्निरिति न सिंहस्य कर्म ममाग्नेश्चेति तथा न संघातजं कर्म मम मुख्यस्यात्मन इति प्रत्ययो युक्ततरः स्यान पुनरहं कर्ता मम कर्मेति । यच्चाहुरात्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा करोतीति न, धेनात्मीये संघातेऽहंधीरप गौणी स्यादिति दान्तिकमाह तद्वदिति । मिथ्याधियोऽपि भेदधीपूर्वकत्वसंभवादात्मीयसंघातऽहंधियो मिथ्यात्वमव कि न स्यादित्याशङ्कयाह नैवमिति । भेदधी- पूर्वकत्वाभावे कथं मिथ्याधीरुदेतीत्याशङ्कयाह मिथ्योते अधिष्ठानाराप्ययोविवेकाग्रहात्तदुत्पतिरित्यर्थः । देहादावहंधियो गौणतेति चोद्ये विवृते तत्कार्यप्वपीत्यादिपरिहारं विवृणोति नेत्यादि । हेतभागं वि- भजते यथेति । सिंहो देवदत्त इति वाक्यं देवदत्तः सिंह इवत्युपमया देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तमग्निर्माणवक इत्यपि वाक्यं माणवकोऽमिरिवेत्युपमया माणावकस्य पैङ्गल्याधिकरणस्य स्तुत्यर्थमेव न तथा मनुष्याऽहामति वाक्यस्य अधिकरणस्तुत्यर्थता भातीत्यर्थः । देवदत्तमाणवकयोर- धिकरणत्वं कथमित्याशङ्कयाह क्रोर्येति । किं च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्य न किंचिद्देवदत्ते साध्यते नापि माणवके किंचिदकार्य मिथ्याधीकार्य त्वनर्थमात्मानुभवत्यतो न देहादा- वहंधी¥णीत्याह न त्विति । इतोऽपि देहादौ नाहंधीhणीत्याह गौणेति । यो देवदत्तो माणवको वा गोण्या धियो विषयस्तत्परो नैप सिंहो नायमग्निरिति जानाति नैवमविद्वानात्मनः संघातस्य च सत्यपि भेदे सङ्यातस्यानात्मत्वं प्रत्येत्यतो न सवातेऽहंशब्दप्रत्यायो गौणावित्यर्थः । सङ्ग्वाते तयो- hणत्वे दोषान्तरं समुच्चिनाति तथेति । तथा सत्यात्मनि कर्तृत्वादिप्रतिभासासिद्धिरिति शेषः । गौणेन कृतं न मुख्येन कृतमित्युदाहरणेन स्फुटयति न हीति । यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्य मुख्याभ्यां सिंहाग्निभ्यां न क्रियते तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य माण- वकनिष्ठपैङ्गल्येन मुख्यानेरिव च सवातगतेनापि जडत्वेनात्मनो मुख्यस्य किंचित् कार्य कृतं भविष्यतीत्याशङ्कयाह न चेति । देहादावहंधियो गौणत्वायोगे हेत्वन्तरमाह स्तूयमानावि- ति । देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्वयापारवत्त्वाभावधीवदात्मनोऽपि मुख्यस्य स- याता दधीद्वारा तदीयव्यापारराहित्यमात्मनि दृष्टं स्यादित्यर्थः । व्यावर्त्य दर्शयति न घु- नरिति । सङ्घातेऽहंधियो मिथ्याधीत्वमपि न तत्कृतमात्मनि कर्तृत्वं किं चात्मीयैज्ञीनेच्छा- प्रयत्नैरस्य कर्तृत्वं वास्तवमिति मतमनुवदति यञ्चेति । ज्ञानादिकतमपि कर्तृत्वं मिथ्याधी- १ पैडल्याश्रयस्यत्यर्थः।

अष्टादशाध्यायः। ५३५ तेषां मिथ्याप्रत्ययपूर्वकत्वात् मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलज- नितसंस्कारपूर्वका हि स्मृतीच्छाप्रयत्नादयो यथास्मिन् जन्मनि देहादिसंघा ताभिमानरागद्देषादिकृती धर्माधर्मी तत्फलानुभवश्च ततोऽतीतेऽतीततरेऽपि जन्मनीत्यनादिरविद्याकृतः संसारोऽतीतो नागतश्चानुमेयः, ततश्च सर्वकर्मसंन्या- साज् ज्ञाननिष्ठायामात्यन्तिकः संसारोपरम इति सिद्धम् । अविद्यात्मकत्वाच्च देहाभिमानस्य तनिवृत्ती देहाद्यनुपपत्तेः संसारानुपपत्तिः देहादिसंघाते आत्मा- भिमानोऽविद्यात्मकः न हि लोके गवादिभ्योऽन्योऽहं मत्तश्चान्ये गवादय इति जानन् तेष्वहमिति प्रत्ययं मन्यते कश्चिदजानस्तु मन्यते स्थाणी पुरुषविज्ञान- वद् अविवेकतो देहादिसंघाते कुर्यादह मिति प्रत्ययं नहि विवेकतो जानन् । यत्त्वात्मा वै पुत्रनामासीति पुत्रेऽहंप्रत्ययः स तु जन्यजनकसंबन्धनिमित्तो गौणो गोणेन चात्मना भोजनादिवत् परमार्थकार्य न शक्यते कर्तुं गौणसिं- हाग्निभ्यां मुख्यसिंहाग्निकार्यवत् । अदृष्टविषयचोदनाप्रामाण्यादात्मकर्तव्यं गौ- गैर्देहेन्द्रियात्मभिः क्रियत इति चेन, अविद्याकृतात्मकत्वात् तेपां गौणा आ- कृतमेव ज्ञानं मिथ्यावीकार्यत्वादिति दृपयति न तेपामिति । तदेव प्रपञ्चयति मिथ्यति । मिथ्याज्ञानं निमित्तं कृत्वा किचिदिष्टं किंचिदनिष्टमित्यारोप्य तद्वारानुभूते तस्मिन् प्रेप्सानिहासा- भ्यां क्रियां निवर्त्य वेष्टमनिष्टं च फलं भुक्त्वा तेन संस्कारेण तत्पर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्तीति युक्तं कर्तृत्वस्य च मिथ्यात्वमित्यर्थः । अतःतानागतनन्मनारिख वर्तमानेऽपि जन्मनि कर्तृत्वा- दिसंसारस्य वस्तुत्वमाशङ्कयाह यथेति । विमतौ कालावविद्याकृतसंमारवन्तौ कालत्वाद्वर्तमानकालव- दित्यर्थः । संसारस्याविद्यालतत्वे फलितमाह ततश्चति । तस्याविद्यकत्वन विद्यापोह्यत्व हेत्वन्तरमाह अविद्येति । कुताऽस्याविद्याकृतत्वं धर्माधर्मकृतत्वसंभवादित्याशङ्याह दहादीति । आत्मनो ध- मर्मादिकर्तृत्वस्याविद्यकत्वान्नाविद्यां विना कर्मिणां देहाभिमानः संभवत्यतश्चात्मनः संघातऽहमभिमान- स्याविद्यया विद्यमानंतत्यर्थः । आत्मनो दहाद्यभिमानस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयन् व्य- तिरेकं दर्शयति न हीति । अन्वयं दर्शयन व्यतिरेकमनुवदति अजानन्निति । पुत्रे पितुरहंधीवदा- त्मीये देहादावहंधी\णीत्युक्तमनुवदति यस्त्विति । तत्र दृष्टान्तश्रृंतर्गौणात्मविषयत्वमुक्तमङ्गीकरोति सत्वृिति। तर्हि देहादावपि तथैव स्वकीये स्यादहंधीगणिीत्याशङ्कयाह गोणनेति। न हि स्वकीयन पुत्रादि- ना गौणात्मना पितुभीननादिकार्य क्रियते तथा दहादरपि गौणात्मत्व तेन कर्तृत्वादिकायमात्मना न वास्तवं सिद्धमित्यर्थः । गौणात्मना मुख्यात्मना नास्ति वास्तवं कार्यमित्यत्र दृष्टान्तमाह गोणेति । न हि गौणेन सिंहेन देवदत्तेन मुख्यसिंहकार्य क्रियते नापि गौणानिना माणवकेन मुख्याग्निकार्य दाहपाकादि तथा देहादिना गौणात्मना मुख्यात्मनो न वास्तवं कार्य कर्तृत्वादि कर्तु शक्यमित्यर्थः । स्वर्गकामादिवाक्यप्रामाण्याद आत्मनो देहाद्यतिरेकज्ञानस्य च केवलस्याकर्तृत्वा- तकर्तव्यं कर्म गौणैरेवदहाद्यात्माभिः संपाद्य तेन हि सत्यव श्रौतातिरेकज्ञाने दहादावात्मत्वमा- मनो मुख्यं युक्तमिति चादयति अदृष्टति । न देहादीनामात्मत्वं गौणं तदीयात्मत्वस्याविद्यकत्वेन सिंडत्वादतो न गौणात्मभिरात्मकर्तव्यं कर्म क्रियते किंतु मिथ्यात्मभिरिति परिहरति नाविद्येति । तदेव विवृण्दन्ननथं स्फुटयति गौणा इति । कथं तर्हि देहादिविषयात्मत्वप्रथत्याशझ्याविद्यातत्या- श्रीमद्भगवद्गीता। स्मानो देहेन्द्रियादयः, किं तार्ह मिथ्याप्रत्ययेनैवासङस्यात्मनः सङ्गात्मत्वमापा- द्यते तद्भावे भावात्तदभावे चाभावादविवेकिनां ह्यज्ञानकाले बालानां दृश्यते दीर्घोऽहं गौरोऽहमिति । देहादिसंघातेऽहंप्रत्ययो भवति न तु विवेकिनामन्यो- ऽहं देहादिसंघातादिति ज्ञानवतां तत्काले देहादिसंघातेऽहं प्रत्ययो भवति तस्मान्मिथ्याप्रत्ययाभावेऽभावात् तत्कृत एव न गौणः, पृथग् गृह्यमाणविशे- पसामान्ययोर्हि सिंहदेवदत्तयोरग्निमाणवकयोर्वा गौणः प्रत्ययः शब्दप्रयोगो वा स्यान्नागृह्यमाणसामान्यविशेषयोः यथा शुक्तिरजतयोः यत्तूक्तं श्रुतिप्रामा- ण्यादिति न, तत्प्रामाण्यदृष्टविषयत्वात् । प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये- ऽग्निहोत्रादिसाध्यसाधनसंबन्धे श्रुतेः प्रामाण्यं न प्रत्यक्षादिविषयेऽदृष्टदर्श- नार्थविषयात्वात् प्रामाण्यस्य । तस्मान दृष्टमिथ्याज्ञाननिमित्तस्याहंप्रत्ययस्य देहादिसंघाते गौणत्वं कल्पयितुं शक्यं न हि श्रुतिशतमपि शीतोऽग्निरप्रकाशो वेति ब्रुवत् प्रामाण्यमुपैति यदि ब्रूयात् शीतोऽग्निरप्रकाशो वेति तथाप्यर्थान्तरं श्रुतेर्विवक्षितं कल्प्यं प्रामाण्यान्यथानुपपत्ते तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं कर्मणो मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेन ब्र. दिहतुं विभजते किं तहीति देहादीनामनात्मनामेव सतामात्मत्व मिथ्याप्रत्ययकृतमित्य- त्रान्वयव्यतिरेकावुदाहरति तद्राव इति । उक्ते न्याये शास्त्रीयसंस्कारशून्यानामनुभवं प्रमाणयति अविवेकिनामिति । व्यतिरकेऽपि दर्शिते शास्त्रााभज्ञानामनुभवमनुकूलयति नन्विति । अन्वय- व्यतिरेकाभ्यामनुभवानुसारिभ्यां सिद्धमर्थमुपसंहरति तस्मादिति । तत्कृत एव देहादावहंप्रत्यय इति शेषः । किं च व्यवहारभूमौ भेदगृहस्य गौणत्वव्यापकत्वात्तस्य प्रकृतेऽभावान देहादावंश- ब्दप्रत्ययौ गौणावित्याह एथगिति । अदृष्टविषयचादेनाप्रामाण्यात् कर्तरात्मनो व्यतिरेकावधारणा- तस्येदहादावहंममाभिमानस्य गौणतेत्युक्तमनु पदति यत्त्विति । श्रुतिप्रामाण्यस्याज्ञातार्थविषयत्वा- न्मानान्तरसिद्ध व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावान्न तदवष्टम्भेन देहादावात्माभिमानस्य गौणते- त्युत्तरमाह न तदिति । श्रुतिप्रामाण्यस्यादृष्टविषयत्वं स्पष्टयति प्रत्यक्षादीति । अज्ञाताथज्ञा- पकं प्रमाणमिति स्थिते न ज्ञाते श्रुतिप्रामाण्यमित्याह अदृष्टेति । अज्ञातसाध्यसाधनसंवन्धबोधिनः शास्त्रस्यातिरिक्तात्मन्यौदासीन्ये फलितमाह तस्मादिति । अन्वयव्यतिरेकाभ्यां दृष्टी मिथ्याज्ञान. निमित्तो देहादिसङ्घातोऽहंप्रत्ययस्तस्यति यावत् । अन्यविषयत्वाच्चोदनाया अतिरिक्तात्मविषयते- त्युक्तमिदानीं तद्विषयत्वाङ्गीकारेऽपि न तन्निवाटुं शक्यं प्रत्यक्षविराधादित्याह न होति । अपौरु- षेयायाः श्रुतेरसंभावितदोषाया मानान्तरविरोधेऽपि प्रामाण्यमप्रत्याख्येयमित्यभिप्रेत्याह यदीति । स्वार्थ बोधयन्त्याः श्रुतेरविरोधापेक्षत्वाद्विरुद्धार्थवादित्व तत्परिहाराय विवक्षितमर्थान्तरमविरुद्धं तस्याः स्वीकर्तव्यं विराधे तत्प्रामाण्यानुपपत्तेरित्याह तथापीति । अविरोधमवधार्य श्रुत्यर्थकल्पना न युक्तेति व्यावर्त्यमाह न त्विति । अविद्यावत्कर्तृत्वं कर्मेति त्वयोपगमादुत्पन्नायां विद्यायामविद्याभावे तदध:- नकर्तुरभावादन्तरेण कर्तारमनुष्ठानासिद्धौ कर्मकाण्डाप्रामाण्यमित्यध्ययनविधिविरोधः स्यादिति शङ्कते कर्मण इति । कर्मकाण्डश्रुतेर्विद्योदयात पूर्व व्यावहारिकप्रामाण्यस्य तात्त्विकप्रामाण्या- १ मिथ्याप्रयत्नवकतकलात्-पा० क्वचित् । २ स्वाध्यायोध्येतव्य इत्याकारकः । .

अष्टादशाध्यायः। ह्मविद्यायामर्थवत्त्वोपपत्तेः । कर्मविधिश्रुतिवद् ब्रह्मविद्याविधिश्रुतेरप्रामाण्यप्रसंग इति चेन्न, बाधकप्रत्ययानुपपत्तेर्यथा ब्रह्मविद्याविधिश्रुत्यात्मन्यवगते देहादिसं- घातेऽहंप्रत्ययो बाध्यते तथात्मन्येवात्मावगतिर्न कदाचित् केनचित् कथंचिदपि बाधितुं शक्या फलाव्यतिरेकावगतेः यथाग्निरुष्णः प्रकाशश्चेति । न च कर्मविधि- श्रुतेरप्रामाण्यं, पूर्वपूर्वप्रत्तिनिरोधेनोत्तरोत्तरापूर्वापूर्वप्रवृत्तिजननस्य प्रत्यगात्मा- भिमुख्यप्रवृत्त्युत्पादनार्थत्वान्मिथ्यात्वेऽप्युपायस्योपेयसत्यतया सत्यत्वमेव स्याद्य- थानुवादानां विधिशेषाणां लोकेऽपि बालोन्मत्तादीनांपयआदि पाययितव्ये चूडाव- धनादिवचनं प्रकारान्तरस्थानां च साक्षादेव प्रामाण्यसिद्धिः प्रागात्मज्ञानाद् देहाभिमानप्रत्यक्षादिप्रामाण्यवत् । यत्तु मन्यते स्वयमव्याप्रियमाणोऽप्यात्मा संनिधिमात्रेण करोति तदेव च मुख्यं कर्तृत्वमात्मनो यथा राजा युध्यमानेषु योधेषु युध्यत इति प्रसिद्ध स्वयमयुध्यमानोऽपि संनिधानादेव जितः पराजि- तश्चेति तथा सेनापतिर्वा नैव करोति क्रियाफलसंवन्धश्च राजसेनापत्तेश्च दृष्टः, यथा च ऋत्विकर्म यजमानस्य, तथा देहादीनां कर्मात्मकृतं स्यात् तत्फल- भावेऽपि संभवाब्रह्मकाण्डश्रुतेश्च तात्तिकप्रामाण्यस्य ब्रह्मविद्याननकत्वनोपपन्नाध्ययनविधिविरोध इति . परिहरति न ब्रह्मेति । कर्मकाण्डश्रुतेस्तात्त्विकाप्रामाण्याभावे ब्रह्मकाण्डश्रुतेरपि तदसि- द्विरविशेषादिति शङ्कत कर्मेति । उत्पन्नाया ब्रह्मविद्याया बाधकाभावेन प्रमाणत्वातहेतुश्रुतस्तात्त्विकं प्रामाण्यामति दूषयति न बाधकेति । ब्रह्मविद्याया बाधकानुपपत्तिं दृष्टान्तेन साधयति यथेति । देहादिसंघातवदित्यपेरर्थः । लौकिकावगतेरिवात्मावगतेरपि फलाव्यतिरेकमुदाहरणेन स्फोर- यति यथेति । फलमज्ञाननिवृत्तिः कर्मविधिश्रुतिवदित्युक्तं दृष्टान्तं विघटयति न चेति । अनादिका- लप्रवृत्तस्वाभाविकप्रवृत्तव्यक्तीनां प्रतिबन्धेन योगाद्यलौकिक प्रवृत्तिव्यक्तीजनयति, कर्मकाण्डश्रुतिस्त- ज्जननं च चित्तशुद्धिद्वारा प्रत्यगात्माभिमुख्यप्रवृत्तिमुत्पादयति, तथा च कर्मविधिश्रुतीनां पारंपर्यण प्रत्यगात्मज्ञानार्थत्वात तात्त्विकप्रामाण्यसिद्धिरित्यर्थः । नन्वेवमपि श्रुतेमिथ्यात्वादाभासवदप्रामाण्यामिति चन्नेत्याह मिथ्यात्वेऽपीति । स्वरूपेणासत्यत्वेऽपि सत्यापेयद्वारा प्रामाण्यमित्यत्र दृष्टान्तमाह य- थेति । मन्त्रार्थवादतिहासपुराणानां श्रृंतऽर्थ प्रामाण्याभावऽपि शपिविष्यनुराधेन प्रामाण्यवत् प्रकृ- तेऽपि श्रुतेः स्वरूपणासत्याया विषयसत्यतया सत्यत्वं गतायाः प्रामाण्यमविरुद्वमित्यर्थः । वाक्यस्य शेषिविध्यनुरोधेन प्रामाण्यं नालौकिकमित्याह लोकेऽपीति । कर्मकाण्डश्रुतीनामुक्तरीत्या परंपरया प्रामाण्येऽपि साक्षात्प्रामाण्यमुपक्षितमित्याशङ्कयाह प्रकारान्तरेति । आत्मज्ञानोदयात् प्रागवस्था प्रकारान्तरं, तत्र स्थितानां कर्मकाण्डश्रुतीनामज्ञातसंवन्धबोधकत्वन साक्षादेव प्रामाण्यमिष्टमित्यर्थः । ज्ञानात् पूर्व कर्मश्रुतीनां व्यावहारिकप्रामाण्ये दृष्टान्तमाह प्रागिति । प्रतीचि कर्तृत्वस्याविद्यकत्वे- ऽपि श्रुतिप्रामाण्यमप्रत्यूहमित्युक्तं संप्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वमुत्थापयति यत्त्विति। स्वव्यापाराभावे संनिधिमात्रेण कुतो मुख्यकर्तृत्वमित्याशङ्कय दृष्टान्तमाह यथेति । स्वयमयध्यमा- नत्वे कथं तत्फलवत्त्वमित्याशङ्कय प्रसिद्विवशादित्याह जित इति । कायिकव्यापाराभावऽपि कर्तृ- त्वस्य मुख्यत्व दृष्टान्तमाह सेनापतिरिति । तस्यापि फलवत्त्वं राजवदविशिष्टमित्याह क्रियति । अन्यकर्मणान्यस्य संनिहितस्य मुख्य कर्तृचे वैदिकमुदाहरणमाह यथा चेति । कथमृत्विनां कर्म ६८.

५३०
श्रीमद्भगवद्गीता।
स्यात्मगामित्वात, यथा वा भ्रामकस्य लोहभ्रामयितृत्वादव्यामृतस्यैव मुख्यमेव
कर्तृत्वं तथा चात्मन इति तदसत्, अकुर्वतः कारकत्वप्रसङ्गात् । कारकमनेक-
प्रकारमिति चेन, राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात् राजा तावत्
स्वव्यापारेणापि युध्यते योधानां योधयितृत्वेन धनदानेन च मुख्यमेव कर्तृत्व
तथा जयपराजयफलोपभोगेन, तथा यजमानस्यापि धनत्यागेन दक्षिणादानेन
च मुख्यमेव कर्तृत्वं तस्मादव्यामृतस्य कर्तृत्वोपचारो यः स गौण इत्यवग-
म्यते । यदि मुख्यमन्यत् कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्र-
भृतीनां तदा संनिधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत यथा भ्रामणेन न
तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यते तस्मात् संनिधिमात्रेणापि
कर्तृत्वं गौणमेव । तथा च सति तत्फलसंबन्धोऽपि गौण एव स्यान गौणेन
मुख्य कार्य निर्वय॑ते तस्मादसदेवैतद्दीयते देहादीनां व्यापरेणाव्यापृत आत्मा-
कर्ता भोक्ता च स्यादिति भ्रान्तिनिमित्तं तु सर्वमुपपद्यते यथा स्वप्ने मायायां
चैवं न च देहायात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्व-
भोक्तृत्वायनर्थ उपलभ्यते । तस्माद् भ्रान्तिप्रत्ययनिमित्त एवायं संसारभ्रमो
न तु परमार्थ इति सम्यग्दर्शनादत्यन्तमेवोपरम इति सिद्धम् ।
यजमानस्येत्याशङ्कयाह तत्फलस्येति । स्वव्यापारात संनिधरेवान्यव्यापारहेतामुख्यकर्तृत्वे दृष्टा-
न्तमाह यथा वेति । क्रियां कुर्वत् कारणं कारकमित्यङ्गीकारविरोधान्नैतदिति दूषयति तदसदिति ।
कारकविशेषविषयत्वेनाङ्गीकारोपपत्तिरिति शङ्कत कारकमिति । स्वव्यापारमन्तरेण न किंचिदपि
कारकमिति परिहरति न राजेति । दर्शनमेव विशदयात राजति । यथा राज्ञो युद्धे योधयितृत्वेन
धनदानेन च मुख्यं कर्तृत्वं तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वमित्याह तथेति । यदुक्तमृत्विकर्म
यजमानस्यति तत्राह यजमानस्यापीति । स्वव्यापारादेव मुख्यं कर्तृत्वमिति स्थिते फलितमाह
यस्मादिति । तदेव प्रपश्चयति यदीति । तर्हि संनिधानादेव मुख्यं कर्तृत्वं राजादीनामुपगतमिति
नेत्याह न तथेति । राजादीनां स्वव्यापारवत्त्वे पूर्वोक्तं सिद्धमित्याह तस्मादिति । राजप्रभृतीनां संनि-
धेरेव कर्तृत्वस्य गौणत्वे जयादिफलवस्वस्यापि सिद्ध गौणत्वमित्याह तथा चेति । तत्र पूर्वोक्तं हेतु-
स्वेन स्मारयति नेति । अन्यव्यापारणान्यस्य मुख्यकर्तृत्वाभावे फलितमुपसंहराते तस्मादिति ।
कथं तर्हि त्वयात्मनि कर्तृत्वादि खीळतं न हि वृद्धेस्तदिष्टं कर्ता शास्त्रार्थवत्त्वादिति न्यायात्तत्राह
भ्रान्तीति। कर्तृत्वाद्यात्मनि भ्रान्तमित्येतदुदाहरणेन स्फोरयति यथेति । मिथ्याज्ञानकृतमात्मनि कर्तृ-
त्वादीत्यत्र व्यतिरकं दर्शयति न चेति । उक्तव्यतिरेके फलं कथयति तस्मादिति । संसारभ्रमस्या-
विद्यारुतत्वे सिद्ध परमप्रकृतमुपसंहरति इति सम्यगिति ।
इदं ते नातपस्काय नाभक्ताय कदाचन ॥
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥६७॥

अष्टादशाध्यायः। सर्व गीताशास्त्रार्थमुपसंहृत्यास्मिन्नध्याये विशेषतश्चान्ते इह शास्त्रार्थ- दाक्य संक्षेपत उपसंहारं कृत्वाथेदानी शास्त्रसंप्रदायविधिमाह इदमिति । इदं शास्त्रं ते तव हिताय मयोक्तं संसारविच्छित्तयेऽतपस्काय तपोरहिताय न वाच्यामिति व्यवहितेन संबध्यते तपस्विनेऽप्यभक्ताय गुरुदेवभक्तिरहिताय क- दाचन कस्यांचिदप्यवस्थायां न वाच्यं भक्तस्तपस्यपि स वशुश्रुषुर्यो भवति तस्मा अपि न वाच्यं न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वाभ्यसूयत्यात्म- प्रशंसादिदोषाध्यारोपणेन ममेश्वरत्वमजानन सहतेऽसावप्ययोग्यस्तस्मा अपि न वाच्यं भगवत्यनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवेऽनसूयवे च वाच्यं शास्त्रमिति सामर्थ्यागम्यते तत्र मेधाविने तपस्विने वेत्यनयोर्विकल्पदर्शना- च्छुश्रूषाभक्तियुक्ताय तपस्विने भक्ताय मेधाविने वा वाच्यं शुश्रूषाभक्तिवियु- क्ताय न तपस्विने नापि मेधाविने वाच्यं भगवत्यसूयायुक्ताय समस्तगुणवते. ऽपि न वाच्यं गुरुशुश्रूषाभक्तिमते च वाच्यमित्येष शास्त्रसंप्रदायविधिः ॥६७॥ शास्वतात्पर्याथविचारद्वारा निर्धार्यानन्तरश्लोकमवतारयति सर्वमिति । प्रकृते त्वष्टादशा- ध्याये गीताशास्त्रार्थ सर्व प्रतिपत्तिसौकर्यार्थमुपसंहृत्यान्ते च सर्वधर्मान् परित्यज्येत्यादौ विषयस्य संक्षमेणोपसंहारं कृत्वा संप्रदायविधिवचनस्यावसरे सतीदानीमिति योजना । किमिति विस्तरेणोपसं- हतः शास्त्रार्थः संक्षिप्योपसंहियते तत्राह शास्त्रार्थति । संक्षेपविस्ताराभ्यामुक्तेऽर्थे सर्वेषां दृढतया बुद्धिमधिराहतीत्यर्थः । हितायेत्येतदेव व्याचष्टे संसारेति । कदाचनेति सर्वैः संबध्यते । प्रतिषेधसा- गर्थ्यसिद्धमर्थ कथयति भगवतीति । अर्थसिद्धेऽर्थे स्मृत्यन्तरमनुसृत्य मेधावित्वमन्तर्भावयति तति । विकल्पदर्शनात्तेषु मेधावित्वमपि प्रविशतीत्यर्थः । विकल्पपक्षे कथमधिकारिप्रतिपत्तिरिति तत्राह शुश्रूषेति । ताभ्यां युक्ताय भगवत्यमूयारहिताय तपस्विने वाच्यमिति संबन्धः । तद्युक्ताय शुश्रूषा- भक्तियुक्ताय भगवत्यनसूयारहितायेत्यर्थः । तपस्वित्वं मेधावित्वं वा निरपेक्षमधिकारिविशेषणमिति शतां शातयति शुश्रूषेति । भगवद्विषयासयाराहित्ये तात्पर्य सुचयति भगवतीति । कस्मै तर्हि वाच्यमेतदित्याशय पूर्वोक्तसर्वगुणसंपन्नायेत्याह गुरुशुश्रूषेति । अनुक्तेतरविशेषणोपलक्षणार्थमुभय- ग्रहणं मेधाविनस्तपस्वित्वं नातीवापेक्षते सर्वमन्यद्बाधकामावादपेक्षितमवेति मावः ॥ १७ ॥ ५० टी० । एवं गीतार्थतस्वमुपदिश्य तत्संप्रदायप्रवर्तने नियममाह इदमिति । इदं गीता- तत्व ते त्वयातपस्काय स्वधर्मानुष्ठानहीनाय न वाच्यं न वाभक्ताय परमेश्वरभक्तिशून्याय न चा- शुश्रूषवे परिचर्यामकुर्वते तथा यो मां परमेश्वरमभ्यसूयति मनुष्यदृष्टया दोषारोपेण निन्दति तस्मै न वाच्यम् । श्रुतिरपि नैरुक्ती-"विद्या हवै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकाया- नृजवेऽयताय न मा बूया अवीर्यवती स्याम्" इति । भाप्यम्-विद्या औपनिषदध्यात्मविद्या एतद्वक्तुं ब्राह्मणं ब्रह्मनिष्ठं प्रतीत्याभिमुख्यन समक्षं जगाम प्राप्ता । तत्कि मा इति मां त्वं गोपाय । वक्ष्य- मागाय पुरुषायेति चतुर्थ्या द्वितीयोक्ता । तं पुरुष प्रति गुप्तं कुरु न कथयेत्यथः । यतोऽहं ते शेव. धिनिरवधिरास्मि । चतुर्विधपुरुषार्थसाधनत्वात् । यथानिधिगुप्तः क्रियत इत्यर्थः । किंलक्षणायेत्याह । असूयकाय निन्दकाय । अनुजवे सदावक्राय । अयताय नियमशून्याय । मामात्मविद्या न ब्रूया न कथय । एवं सति यदि ब्रूषे तवीर्यवती स्यां । त्वय्यपि सामर्थ्य न स्थास्यतीत्यर्थः ॥ ६७ ।।

५४० श्रीमद्भगवद्गीता य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ॥ भक्तिं मयि परां कृत्वा मामेवैप्यत्यसंशयः॥६८॥ संप्रदायस्य कर्तुः फलमिदानीमाह य इति । य इमं यथोक्तं परमं निः- श्रेयसाथै केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गुप्तं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्स्वभिधास्यति वक्ष्यति ग्रन्थतोऽर्थतश्च स्थापयिष्यतीत्यर्थः। यथा त्वयि मया । भक्ते पुनर्ग्रहणात्तद्भक्तिमात्रेण केवलेन शास्त्रसंप्रदाने पात्रं भवतीति गम्यते । कथमभिधास्यतीत्युच्यते भक्तिं मयि परां कृत्वा भगवतः परमगुरोर- च्युतस्य शुश्रूषा मया कियत इत्येवं कृत्वेत्यर्थः । तस्येदं फलं मामेवैष्यति मुच्यत एवात्र संशयो न कर्तव्यः॥ ६८ ॥ आ० टी० । शास्त्रसंप्रदायप्रवृत्त्यर्थमुत्तरश्लोकप्रवृत्ति दर्शयति संप्रदायति । य इत्यध्या- पको निर्दिश्यते । परमत्वं ग्रन्थस्य निगतिशयपुरुषार्थसाधनत्वमित्याह परममिति । गौप्यत्वमस्य रह- स्यार्थविषयत्वाद्यथोक्तसंवादस्य ग्रन्थतोऽर्थतश्च भक्तेषु स्थापन दृष्टान्तमाह यथेति । माय वासुदवे भगवति, अनन्यभक्त त्वयि यथा मया ग्रन्थोऽर्थतः स्थापितस्तथा मद्भक्तेष्वन्यप्वपि यो ग्रन्थमिम स्थापयिष्यति तस्येद फलमित्युत्तरत्र संबन्धः । नाभक्तायेति भक्तरधिकारिविशेषणत्वोक्तमद्रक्तप्विति पुनर्भक्तिग्रहणमनर्थकमित्याशङ्कयाह भक्तरिति । शुश्रूषादिसहकारिराहित्यं केवलशब्दाथा, यद्यपि मात्रशब्देन मूचितमेतत्तस्यापीतरेण स्फुटीकतमिति न विरोधः । प्रश्नपूर्वकमभिधानप्रकारमभिनयति कथमियादिना । भगवति भक्तिकरणप्रकारं प्रकटयति भगवत इति । यच्छब्दापक्षितं पूरयति तस्येति । मामेवैष्यत्यवेत्यन्वयं गृहीत्वा व्याचष्टे मुच्यत एवेति ॥ ६८ ॥ टी० ० । एतैदोपविरहितेभ्यो भक्तेभ्यो गीताशास्त्रोपदेष्टुः पलमाह य इति । य आ. चार्य इदं परमं गुह्यं गोप्यं गीतार्थतत्त्वं मद्भक्तेषु जिज्ञासया प्राप्तेषु सत्स्वभिधास्यति वक्ष्यति साभिप्रायं निरूपयिष्यति । स माय जगदीश्वर परामव्यभिचारिणी भक्तिं कृत्वासंशयः सन् मा- मेव प्राप्नोति । आत्माख्यदक्षिणादातुः किमन्यत् फलं वाच्यमित्यर्थः । श्रुतिरपि ऋग्वदे-" आवि- रभून्महि माघोनमेषां विश्वं जीवन्तमसौ निरमोचि । महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षि- गाया अदर्शि" इति । अत्र रावणभाष्यम् । एषामाचार्याणां माघोनं महि आविरभूत् । इन्दति जा- नातीति व्युत्पत्त्या मघोन इन्द्रस्य परमात्मन इदं माघोनं महि महत्त्वमाविरभूत् । कुत इत्याह मंहीति। महित्वं ज्योतिर्ज्ञानं च पितृभिरस्माभिर्दत्तं सदागात् प्राप्तं तेप्वाचार्येषु परिणतं येन ज्योतिषा विश्वं जीवं सर्व जगत् तमसोऽज्ञानान्निरमोचि निर्मोचितम् । अथ कथमस्माभिस्तेभ्य एवार्पितमित्याह तैः उरुनिरवधिकफलो दक्षिणायाः पन्था मार्गोऽदर्शि दृष्टः । मोक्षार्थिभ्य आत्माख्यदक्षिणाया मा- र्गस्य फलं निरवधिकमिति ज्ञातमित्यर्थः । अत एव सावधिकफला दक्षिणामग्रिमश्रुत्याह' उच्चा- दिवाति ॥१८॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः॥ भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥६९॥ प० अष्टादशाध्यायः। ५.४१ किंच न च तस्माच्छास्त्रसंप्रदायकृतो मनुष्येषु मनुष्याणां मध्ये •क- श्चिन्मे मम प्रियरुत्तमोऽतिशयेन प्रियकृत्तमोऽन्यः प्रियकत्तमो नास्त्येवेत्यर्थो वर्तमानेषु, न च भविता भविष्यत्यपि काले, तस्माद् हितीयोऽन्यः प्रियक- त्तरो भुवि लोकेऽस्मिन् भविता ॥ ६९ ॥ आ० टी० । ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात्तनिष्ठस्य मुमुक्षोर्नास्ति विद्यासं- प्रदाने प्रवृत्तिरित तत्राह किंचेति । इतश्च विद्यासंप्रदानं मुमुक्षुणा यथोक्तविशेषणवता कर्तव्यमि- त्यर्थः । वर्तमानेषु मध्ये त्वत्ताऽन्यो नास्त्येव प्रियकृत्तमो नाप्यतीतषु तादृक् कश्चिदासीदिति शेषः । तस्माद्विद्यासंप्रदायकर्तुः सकाशादित्यर्थः । ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वसंप्रदायप्रवक्तः श्रेष्ठतमत्वा- दुचिता विद्यासंप्रदाने प्रवृत्तिरितिभावः ॥ ६९ ॥ प० टी० । अथैतमेवाभिप्रायमाह न च तस्मादिति । तस्मान्मदुक्तं गुह्यमात्मतत्त्वं मद्- लेभ्यो दातुः पुरुषात्सकाशादन्यः कश्चिदपि मे प्रियकृत्तमो नचास्ति न वर्तते । कालान्तरऽप्ये- ताप्रियकरो भुवि न भविता । अनेन बहुजननरुतमुहतसामग्रीसंनाहव्यतिरकणैतादरवक्ता न भविष्यतीति तस्य दुर्लभत्वमुक्तम् । तथा सर्वभननापेक्षयेदं भजनं मम परमप्रीतये भवतीत्यर्थः।।६९॥ अध्येप्यते च य इमं धर्म्य संवादमावयोः॥ ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥ योऽप्यध्येष्यते च पठिष्यति य इमं धर्म्य धर्मादनपेतं संवादरूपं ग्रन्थमावयोस्तेनेदं कृतं स्याज, ज्ञानयज्ञेन विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञो मानसयज्ञाहिशिष्टतम इत्यतस्तेन ज्ञानयज्ञेन गीताशास्त्रस्याध्ययन स्तूयते फलविधिरेव वा देवतादिविषयज्ञानयज्ञफलतुल्यमस्य फलं भवतीति ते- नाध्ययनेनाहमिष्टः पूजितः स्यां भवेयमिति मे मम मतिर्निश्चयः ॥ ७० ॥ आ० टी० । संप्रदायप्रवक्तः सर्वाधिकं फलं स वक्ता विष्णुरित्युक्तो न स विश्वाधिदैवत- मिति न्यायेनोक्त्वा संप्रत्यध्यतुर्विवक्षितं फलमाह योऽपीति । यथोक्तस्य शास्त्रस्य योऽप्यध्यता तेनेदं कृतं स्यादिति संबन्धः । तदेवाह अध्यप्यत इति । तेनेदं कृतमित्यत्रदंशब्दार्थ विशदयति ज्ञानेति । तेनाहमिष्टः स्यामिति संबन्धः । चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य 'श्रयान् द्रव्यम- याद यज्ञाज् ज्ञानयज्ञः' इति विशिष्टत्वाभिधानात्तेनाहमिष्टः स्यामित्यध्ययनस्य स्तुतिरभिमतेत्याह विधीति । पक्षान्तरमाह फलेति । फलविधिमवं प्रकटयति देवतादीति । यद्विज्ञानयज्ञस्य फलं कैवल्यं तेन न तुल्यमस्याध्यतुः संपद्यते तच्च देवताद्यात्मत्वमित्यर्थः । कथमध्ययनादेव सर्वात्मकं फलं लभ्यते तस्मात्सर्वमभवदिति श्रुतिस्तत्राह तेनेति । तेनाध्येत्रा ज्ञानयज्ञतुल्येनाध्ययनेन भग- वानिष्टस्तथा च तज्ज्ञानादुक्तं फलमविरुद्धमित्यर्थः ॥ ७० ॥ टीं । अथ गीताशास्त्रस्य पठनफलमाह अध्येप्यते चेति । आवयाः कृष्णार्जुनयो- रिमं धयं धर्मादनपेतं. संवादं योऽध्येप्यते जपरूपेण पठिप्यति । तस्य जपयज्ञफलेन भवित- श्रीमद्भगवद्गीता। ठयम् । परं तु तेन पुंसा सर्वयज्ञेभ्यः श्रेष्ठेन ज्ञानयज्ञेनाहमिष्टः स्यां ज्ञानयज्ञेन संतर्पितो भवेय. मिति मे मतिर्मम संमतम् । यद्यप्यसौ गीतार्थमबुध्वाजपि तथापि मत्प्रसादकर एव । यतो गीता- रूपछन्दषिदेवतायुतो मालामन्त्रः । तत्र छन्दास्यनुष्टुबादीनि, ऋषिवेदव्यासः, देवता श्रीकृष्णस्तत्र मन्त्रशब्दार्थस्तु–मन्तारं त्रायतेऽसौ मन्त्र इति व्युत्पत्त्या जपमात्रेणैव सिद्धिदो भवति नहि तत्र मन्त्रार्थो मृग्यते । तथा च यद्देवताको मन्त्रस्तन मन्त्रेण सा देवता प्रीयते । प्रकृते तु चित्तशुद्धि- द्वाराहं प्रीतः सन् स्वरूपं दर्शयामीत्यर्थः ॥ ७० ॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः ॥ सोऽपि मुक्तः शुभाँल्लोकान् प्राप्नुयात्पुण्यकर्मणाम्॥७॥ अथ श्रोतुरिदं फलं श्रद्धावान् श्रद्दधानोऽनसूयश्वासूयावर्जितः सनि- मं ग्रन्थं शृणुयादपि यो नरोऽपिशब्दात् किमतोऽर्थज्ञानवान् सोऽपि पापा- न्मुक्तः शुभाँल्लोकान् प्राप्नुयात् पुण्यकर्मणामग्रिहोत्रादिकर्मवताम् ॥ ७१ ॥ आ० टी० । प्रवक्तुरध्येतुश्च फलमुक्त्वा श्रोतुरिदानी फलं कथयति अथेति ॥ ७१ ॥ ५० टी० । अथ श्रवणफलमाह । श्रद्धावानिति । यो नरः श्रद्धायुक्तः सन् केवलं शृणु- यादपि कश्चित्किमर्थमयमुच्चैर्नपत्यबद्धं वेति दोषदृष्टया शृणोति तन्निवृत्त्यर्थमाह बनसूयश्चेति । अ. म्यारहितः शृणुयात्सोऽपि सर्वैः पापैर्मुक्तः सन्नश्वमेधादिपुण्यकृतां लोकान् प्राप्नुयात् ॥ ७१ ।' कच्चिदेतच्छ्रतं पार्थ त्वयैकाग्रेण चेतसा ॥ कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥ ७२ ॥ शिष्यस्य शास्त्रार्थग्रहणविवेकबुभुत्सया पृच्छति तद्ग्रहणे ज्ञाते पुना- हयिष्याम्युपायान्तरेणापीति प्रष्टुरभिप्रायो यत्नान्तरमास्थाय शिष्यः कृतार्थः कर्तव्य इत्याचार्यधर्मः प्रदर्शितो भवति । कच्चित् किमेतन्मयोक्तं श्रुतं श्रवणे- नावधारितं पार्थ किं त्वयैकाग्रेण चेतसैकचित्तेन किं वा प्रमादितं कश्चिदज्ञा- नसंमाहोऽज्ञाननिमित्तः संमोहो वैचित्तभावोऽविवेकता स्वाभाविकः किं प्रन- ष्टो यदर्थोऽयं शास्त्रश्रवणायाससंभवस्तव मम चोपदेष्तृत्वायासः प्रदत्तस्ते तुभ्यं धनंजय ॥ ७२ ॥ आ० टी० । आचार्येण शिष्याय यावदज्ञानसंशयविपर्यासस्तावदनेकधोपदष्टव्यामिति दर्शयि- तुं भगवान नं प्रति प्रष्टवानित्याह शिष्यस्येति । प्रष्टुराभिप्रायं प्रकटयति तद्ग्रहण इति । शिष्य- अदुक्तं गृहीतुं नेष्टे तर्हितं प्रत्यौदासीन्यमाचार्यस्योचितं तस्य मन्दबुद्धित्वादित्याशङ्कयाह यवान्तर- मिति । कच्चिदिति कोमलप्रश्ने । तमेव व्याचष्टे किमेतदिति। द्वितीयं किंपदं पूर्वस्य व्याख्यानतया संबध्यते कचिदिति । द्वितीयं प्रश्नं विभजते किं प्रनष्ट इति । मोहप्रणाशस्य प्रसंग दर्शगति पदर्थ इति ॥ ७२ ॥ - अष्टादशाध्यायः । ५४३ १० टी० सम्यग्बोधानुत्पत्तो पुनरुपदेश्यामत्यिाशयेनाह कश्चिदितिअज्ञानसंमोहस्ते प्रनष्टः कञ्चिदिति प्रभाविपर्ययः, स्पष्टमन्यत् ॥ ७२ ॥ अर्जुन उवाच । नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ॥ स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ ७३॥ अर्जुन उवाच नष्टो मोहोऽज्ञानजं तमः समस्तसंसारानर्थहेतुः सागर इव दुस्तरः, स्मृतिश्वात्मतत्त्वविषया लब्धा यस्या लाभात् सर्वग्रन्थीनां विप्र- मोक्षः, त्वत्प्रसादात्तव प्रसादान्मया त्वत्प्रसादमाश्रितेनाच्युत, अनेन मोहनाशप्र- प्रतिवचनेन सर्वशास्त्रार्थज्ञानफलमेतावदेवेति निश्चितं दर्शितं भवतीति । यदुताज्ञानसंमोहनाश आत्मस्मृतिलाभश्चेति तथा च श्रुतावनात्मविच्छो- चामीत्युपन्यस्यात्मज्ञाने सर्वग्रन्थिविप्रमोक्षो भिद्यते हृदयग्रन्थिस्तत्र को मोहः कः शोक एकलमनुपश्यत इति च मन्त्रवर्णः । अथेदानी त्वच्छासने स्थि- तोऽस्मि गतसंदेहो मुक्तसंशयः करिष्ये वचनं तवाहं त्वत्प्रसादात् कृतार्थो न में कर्तव्यमस्तीत्यभिप्रायः ॥ ७३ ॥ आ० टी० । प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसंदेहविपर्यासरहितस्येष्टस्य भगवदनुग्रहप्राप्ति 'कथनेन भगवन्तं परितोषयिष्यन्नर्जुनो विज्ञापितवानित्याह अर्जुन इति । अज्ञानोत्थस्याविवेकस्य नष्ट स्वमेव स्पष्टयात समस्त इति । स्वयं ज्योतिषि प्रतीचि ब्रह्मण्यविद्याभ्रमं विघातयति। नाविदितं प्र- काशयतीति मत्त्वाह स्मृतिश्चेति । स्मृतिलाभे किं स्यादिति चेत्तदाह यस्या इति । मोहनाश- स्मृतिप्रतिलम्भे वासाधारणकारणमाह त्वत्प्रसादादिति । प्रकृतेन प्रश्नप्रतिवचनन लब्धमर्थ कथ यति अनेनेति । यदुक्तं स्मृतिप्रतिलम्भादशेषतो हृदयग्रन्थीनां विप्रमोक्षः स्यादिति तत्र प्रमाणमाह तथा चेति । ज्ञानादज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति भिद्यत इति । भगवदन्ग्रहादज्ञा- नरुतमोहहानं तदनन्तरमात्मज्ञाने प्रतिलब्ध त्वदाज्ञाप्रतिज्ञोऽहमित्युत्तरार्ध व्याकरोति अथेति । तव वचनं करिष्येऽहमित्यत्र तात्पर्यमाह अहमिति ॥ ७३ ।। प० टी० । कृतार्थः सन्नर्नुन उवाच नष्ट इति । आत्मविषयो मोहो नष्टः । यतः अय- महमस्मीति स्वरूपानुमंधानरूपा स्मृतिस्त्वत्प्रसादान्मया लब्धा अतः स्थितोऽस्मि युहायात्थितोऽस्मि गतः स्वधर्मविषये संदेहो यस्य सोऽहं तवाज्ञां करोमि ॥ ७३ ॥ इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ॥ संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४॥ परिसमाप्तः सकलाम्नायशास्त्रार्थोऽथेदानी कथासंबन्धप्रदर्शनार्थ संजय --

५४४
श्रीमद्भगवद्गीता।
उवाच इत्येवमहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमं . यथोक्तमश्रीषं
श्रुतवानस्मि अद्भुतमत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥ ७४ ॥
आ० टी० । शास्त्रार्थे समाप्ते सत्यस्यामवस्थायां संजयवचनं कुत्रोपयुक्तमिति तदाह परि-
समाप्त इति । वासुदेवस्य सर्वज्ञस्य सर्वेश्वरस्य कृतार्थस्य पार्थस्य प्रथासुतस्यार्जुनस्य महात्मनोऽक्षुद्र-
बुद्धेः सर्वाधिकारिगुणसंपन्नस्य सम्यग्वादं संवादं गुरुशिष्यभावेन प्रश्नप्रतिवचनाभिधानमिममनुकान्त-
मद्भुतं विस्मयकरं रोमाणि हर्षन्ति पुलका भवन्त्यनेनेति रोमहर्षणमाहादकं यथोक्तं श्रुतवानस्मी-
त्याह इत्येवमिति ॥ ७४ ॥
प० टी० । तदेवं धृतराष्ट्रं प्रति श्रीकृष्णार्जुनसंवादं कथायित्वा प्रस्तुतां कथामनुसंदधानः
संनयः प्राह इत्यहमिति । अद्भुतमपूर्वाश्चर्यकरमत एव रोमहर्षणं रोमाञ्चकरं संवादमश्रीषं ।
श्रुतवानहम् । स्पष्टमन्यत् ॥ ७४ ॥
व्यासप्रसादाच्छ्रतवानेतद्गुह्यमहं परम् ॥
योगं योगेश्वरात् कृष्णात्साक्षात्कथयतः स्वयम् ॥७५॥
तं चेमं व्यासप्रसादात् ततो दिव्यचक्षुर्लाभात् श्रुतवान् ज्ञातवानेतं सं-
वादं गुह्यमहं परं योगं योगार्थत्वाद् ग्रन्थोऽपि योगस्तं संवादमिमं योगेश्वरात्
कृष्णात् साक्षात् कथयतः स्वयं न परंपरातः ॥ ७५ ॥
आ० टी० । प्रकृष्टं संवादं कथमश्रौषीरिति चेत्तत्राह तं चेति । एतत्पदं संवादपरत्वात-
लिङ्गत्वेन नेतव्यमित्याह एतमिति । परमपुरुषार्थोपयिकत्वात् परत्वं परं गुह्यमतिशयेन गुह्यं रह-.
स्यमिति वा योगो ज्ञानं कर्म च तदर्थत्वादयं संवादो योग उक्तः, अथवा चित्तवृत्तिनिरोवस्य योग-
स्याङ्गत्वादयं संवादो योग इत्याह संवादमिति । योगानामीश्वरो योगेश्वरस्तदनुग्रहहेतुत्वाद्योगत-
त्फलयोस्ततः साक्षादव्यवधानेन श्रुतवान् न परंपरयेत्याह योगेश्वरादिति । स्वयं स्वन परमेश्वरे-
णातिरस्कृतज्ञानेश्वर्यरूपेण कथयतो व्याचक्षाणादित्यर्थः ॥ ७९ ॥
प० टी० अथात्मन ईदृशश्रवणासंभावनामाह व्यामेति । मत्सेवया प्रसन्नेन भगवता
व्यासेन मामलौकिक मञ्चक्षुःश्रवणादिकं दत्तं तेनाहं श्रुतवानस्मि । किं तदित्याह । परं योग। परत्व-
मेवाह । योगेश्वराच्छ्रीकृष्णात्स्वरूपं स्वयमेव वा साक्षात्स्वमुखेनार्जुनं प्रति कथयतः श्रुतवान् ।
तदुक्तं महाभारते भीष्मपर्वाण संजयेन धृतराष्ट्र प्रति- नमस्तस्मै भवत्पित्रे पाराशर्याय धीमते ।
यस्य प्रसादाद्दिव्यं मे प्रज्ञाविज्ञानमुत्तमम् । दृष्टिश्चातीन्द्रिया राजन् दूराच्छ्रवणमेव हि । परचि-
त्तस्य विज्ञानमतीतानागतस्य च । च्युतोपपत्तिर्विज्ञानमाकाशे च गति सदा । शस्त्रैरसंगो युद्ध च
वरदानान्महात्मनः । प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च । शृणु तत्ष्टथिवीपाल मा च शोके.
मनः कृथाः ॥ ७५ ॥
राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ॥
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥

है अष्टादशाध्यायः ।। '५४५ राजन् धृतराष्ट्र संस्मृत्य संस्मृत्य संवादमिममद्भुतं केशवार्जुनयोः पु- ण्यं श्रवणादपि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥ आ० टी० । यथोक्तं संवादं भगवतः श्रुत्वा किमुपेक्षसे नेत्याह राजनिति । पुण्यत्वं साधयति श्रवणादपीति ॥ ७६ ॥ प० टी० । अथ व्यासप्रसादसामर्थ्यमेवानुवदति राजनिति । राजन् धृतराष्ट्र इममद्भुतं के- शवार्जुनयोः संवादं संस्मृत्य सकृच्छ्रुतमपि स्मरणारूढं कृत्वा पुनर्यथावत्संस्मृत्य । माय निष्पन्नोऽयं गीतार्थसंग्रह इति हृप्यामि रोमाञ्चितो भवाम्येतावतैव कृतकृत्योऽस्मीति हर्ष प्राप्नोमि ॥ ७६ ॥ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः॥ विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥७७॥ तच्च संस्मृत्य रूपमत्यद्भुतं हरेविश्वरूपं विस्मयो मे महान् हे राजन् दृष्यामि च पुनः पुनः ॥ ७७ ॥ आ० टी० । यनु विश्वरूपाख्यं रूपं सगुणमर्जुनाय भगवान् दर्शितवान् ध्यानार्थ तदिदा- नीं स्तौति तच्चेति ॥ ७७ ॥ प० टी० । किं च तच्चेति । तञ्चामृतं हररूपं विश्वरूपमुभयवाक्यैः श्रुतं न च दृष्टं तथाविधमपि प्रथममक्षरतः संस्मृत्य पुनरर्थं च संस्मृत्य मे महान् विस्मयो भवति । अहो कथम - नस्थ भाग्यं यद्दवैरपिद्रष्टुमशक्यं परमात्मनः समष्टिरूपं साक्षात्कृतवांस्तथा सकलागमागोचरोऽपि परमात्मा रूपया पारमार्थिक स्वरूपं दर्शितवानिति सविस्मयत्वनाद्भुतरसस्याविर्भावेन रोमहर्षाद्यष्ट- मात्त्विकोद्रेकशाली पुनः पुनर्भवामीत्यर्थः । तदेवं विश्वरूपदर्शने 'द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि योधवीरान्, । मया हतांस्त्वं जहि मा व्यथिष्टा' इत्यादिभगवद्वाक्यानि, 'अमी च त्वां धृतराष्ट्रस्य पुत्राः संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः' इत्यर्जुनवाक्यानि च त्वया मन्मुखाच्छु- तान्यव ।। ७७ ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः॥ तत्र श्रीविजयो भूतिधुंवा नोतिर्मतिर्मम ॥७८॥ इति श्रीमहाभारते शतसाशस्त्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीभगवद्गीतासू- पनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षयोगो नामाप्टादशोऽध्यायः ॥१८॥ . तथा : ' ५४६ श्रीमद्भगवद्गीता। किं बहुना यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानामीश्वरस्तत्प्रभावत्वा- त् सर्वयोगबीजश्च कृष्णो यत्र पार्थो यस्मिन् पक्षे धनुर्धरो गाण्डीवधन्वा तत्र श्रीस्तस्मिन् पाण्डवानां पक्षे विजयस्तत्रैव भूतिः श्रियो विशेषविस्तारो भूति- ध्रुवाव्यभिचारिणी नीतिनर्य इत्येवं मतिर्ममेति ॥ ७८ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्य- स्य पूज्यपादश्रीमच्छङ्करभगवतः कृतौ गीताभाष्ये मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥ १८ ॥ आ० टी० । द्वयोरपि कृष्णार्जुनयोनरनारायणयोः संवादस्य प्रामाण्यार्थ पर मुत्कर्ष दर्शय- ति किं बहुनेति । कथं सर्वेषां योगानामीश्वरो भगवानिति तत्राह तत्प्रभवत्वादिति । सर्वयोगो ज्ञानं कर्म च तस्य बीजं शास्त्रीय ज्ञानवैराग्यादि तद्धि भगवदधीनं तदनुग्रहविहीनस्य तदयोगादतो योगतत्फलयोर्भगवदनुग्रहायत्तत्वाद्भगवतो योगेश्वरत्वमित्यर्थः । श्रीलक्ष्मीविजयः परम उत्कर्षः, राज्ञो धृतराष्ट्रस्य स्वपुत्रेपु विजयाशां शिथिलीकृत्य पाण्डवेषु जयप्राप्तिमैकान्तिकीमुपसंहरति इ- सेवमिति । उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् कर्मनिष्ठा परंपरया ज्ञाननिष्ठाहेतुः, ज्ञान- निष्ठा तु साक्षादेव मोक्षहेतुरिति शास्त्रार्थमुपसंहर्तुमितीत्युक्तम् ॥७८॥ काण्डत्रयात्मकं शास्त्रं पदवाक्यार्थगोचरम् । आदिमध्यान्तपटकेपु व्याख्यया गोचरीकृतम् ॥ १ ॥ संक्षेपविस्तराभ्यां यो लक्षणैरुपपादितः । सोऽर्थोऽन्तिमेन सांक्षिप्य लक्षणेन विवक्षितः ॥ २ ॥ गीताशास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं श्रीकण्ठापरनामवन्मुनिकृतं निष्टाद्वयद्योतितम् । निष्ठा यूत्र मतिप्रसादजननी साक्षात्कृतं कुवती मोक्षे पर्यवसायिनी प्रतिदिनं सेवध्वमेतद बुधाः॥ ३ ॥ प्राचामाचार्यपादानां पदवीमनुगच्छता । गीताभाष्ये कृता टीका टीकतां पुरुपोत्तमम् ॥ ४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशुद्धानन्दपूज्यपाद शिष्यभगवदानन्दगिरिविरचिते श्रीगीता- भाग्यविवंचनेऽष्टादशोऽध्यायः ॥ १८ ॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ।। प० टी० । अतः परं तव पुत्राणां जीवनसंदेहः किं पुनाराज्यप्राप्तिरिति मनमा विचार्य पाण्डवेभ्यः सर्वस्तं दत्वा श्रीकृष्णं शरणं गत्वा प्राणमंरक्षण कार्यमित्याशयेनाह यति । यत्र येषां पक्षे योगमायश्वर: कृष्णो वर्तते । टिप्पणिकामु-कषणेन मनोभूमेनिवृत्तिः फलमाप्यते । कृष्णनाना अष्टादशाध्यायः । ५.४७ समाम्नातस्तस्मात्त्वं देव ईदृश इति । यत्र च तत्पक्षपातसाधितसकलपुरुषार्थः पार्थों धनुर्धरो गाण्डी- वधन्वा परमेश्वरस्य विभूतिर्वर्तते तत्रैव श्रीराज्यलक्ष्मीस्तत्रैव विजयस्तत्रैव भूतिरुत्तरोत्तरैश्वर्य तत्रैव ध्रुवाचला नीतिर्नयमार्गः । न त्वन्यायिनां तव पुत्राणां लाक्षागृहे गरदानभ्रातृजायावस्त्राहरणादिकूटका- रिपामिति मे मतिनिश्चयः । तदुक्तं भारते आदिपर्वणि धृतराष्ट्रं प्रति संजयेन ' तव पुत्रा दु. रात्मानः प्रतप्ताश्चैव मन्युना । लुब्धा दुर्वृत्तभूयिष्ठा न तान् शोचितुमर्हसि ' इति । तथारण्यकेऽपि द्रौपदीहरणे भग्नो युधि राजा जयद्रथः । शिव प्रसाद्य तपसा ययौ च जयमर्जुनात् । इति राजा ब्रवीद्देवं नेति देवस्तमब्रवीत् । ऋतेऽर्जुनं महाबाहुर्देवैरपि दुरुत्सहम् । यमाहुरनितं देवं शङ्खचक्रग- दाधरम् । प्रधानं शास्त्रविदुपं तेन कृष्णेन रक्षितम्' इति ॥ ७८ ॥ अथ संजयस्य धृतराष्ट्रस्य च हार्द व्यावर्ण्यते । यो लाक्षावेश्मदाहादतिविषमविषाद्विप्रशापादनान्ते दुष्टद्यूतात्सभीयां युवतिपरिभवात्संजुगोप स्वभक्तान् ।। दूतः सूतश्च यत्वा स युधि निजजने किं करिष्यत्युपेक्षा सत्येवं तावकानां त्रिगुणहतधियां जीवितेच्छाधुनापि ॥ १ ॥ उपनिपदुपदेशतक्षिणबाणेर्ददि वसतोऽपि जघान यः सपत्नान् ॥ स्वचरणशरणस्य पाण्डुसूनोः स च किमु न प्रभवेनिहन्तुमेतान् ॥ २ ॥ कृष्णोऽखिलप्रलयहेतुरचिन्त्यशक्तिः शप्तपु तेन तनयेपु कियान पुमर्थः ।। पार्थस्य वा निहतमारणके तु पुण्यं पुण्यर्यशो भवति संजय नार्जवन ॥ ३ ॥ रणे मरणमस्ति चेच्छरणमागतैः किं भवेत्ततोऽपि यदि जीवनं किमु तदच्युतोक्तिर्मुषा ।। अथापि यदि जीव्यते वरमतो मृति भुनामिदं मनसि चिन्तयन् कुरुपिताथ नूप्णीमभूत् ॥ ४ ॥ अथाध्यायतात्पर्यम्- अध्यायैर्यश्च सप्ताधिकदशभिरभिप्राय उक्तः क्रमेण संन्यासत्यागपूर्वस्त्रिविधमतिधृतिज्ञानकर्तृक्रियादिः ॥ ब्रह्मप्राप्तेरुपायः पुनरपि गदितोऽष्टादशे संग्रहार्थ पार्थस्तेनोदतिष्ठन्ननु समरकृत त्यक्तसंदेहजातः ॥ १ ॥ जगति समवतीर्णामत्रसाक्षादपणां सदसि द्रुपदकन्यां कुर्वतां वस्त्रशून्याम् ॥ रणभुवि निहतानामप्यभूदुद्धतानां यदुपतिविमुखानां रौरवः कौरवाणाम् ॥ १ ॥ रणशिरसि शरीधैर्धार्तराष्ट्रानमोघेस्तदनुगजनभीष्मद्रोणकर्णाश्च हत्त्वा ॥ कलितविजयलक्ष्मीदवंशोपदेशादधिगतपरमार्थः पार्थ आसीकृतार्थः ॥ २ ॥ छन्दःसंदर्भगर्भप्रभुगहनगिरामृग्यजुःसाममीमा- मीमांसामांसलान्तःकरणपरिणमत्संगतीनां गतिः क्व ।। 'क्कास्माकं धीरधारा तदपि रचयितुं भाप्यमुद्योगभानां प्रागल्भ्यं डिम्भवाचामिव कुतुकरताः सन्तुमर्हन्तु सन्तः ॥ ३ ॥ अभिप्रायः प्रायः सकलानेगमानामाधगतः सुधीभिर्यर्य स्युर्भगवदनुकम्पाश्रयवशात चिरं सान्द्रानन्दानुभवरसिकास्तत्र सुजनाः सुविश्रान्ति यांति प्रमभमपरे नेह विवृतौ ॥ ४ ॥ गभीराभिप्रायान् सुगमवचनैरुहृतवतां कवीनां स्वग्रन्थे भवति बहुविम्तारणमयम् ॥ - ५४८ श्रीमद्भगवद्गीता। कृते सूत्रप्राये दुरधिगमता दूषणमतः सविस्तारः श्लाघ्यः शमयति हि यः संशयभरम् ॥ ५ ॥ विदित्वा वेदार्थ दशवदनवाणीपरिणतं शतश्लोकव्याख्यां परमरमणीयामकरवम् ॥ ततो गीताभाप्यं निखिलनिगमार्थंकनिलयं विधिज्ञार्यः सूर्यो नृहरिकरुणापाङ्गशरणः ॥ ६ ॥ गोदोदक्तटपूर्णतीर्थनिकटे पार्थाभिधानं पुरं तत्र ज्योतिषिकान्वये समभवच्छ्रीज्ञानराजाभिधः । तत्सूनुर्निगमागमार्थनिपुणः सर्याभिधानः कविः कृष्णप्रेरणया तदर्पणधिया गीतार्थभाप्यं व्यधात् ॥७॥ इति श्रीमदैवज्ञपण्डितसूर्यविरचितायां भगवद्गीताटीकायां परमार्थप्रपायां सकलगीता- थसंग्रहे ब्रह्मार्पणसंन्यासयोगो नामाष्टादशोऽध्यायः ॥ १८ ॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ।। समाप्तम्.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shrimadbhagbatgita

Author
Not Available
Title
Shrimadbhagbatgita
File name
Shrimadbhagbatgita
Text
OCR done
Citation
1886
Published
2007/03/15
Publisher
Jagadditya, Kolkata
Language
Sanskrit
Pages
562
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Bhagabatgita
Keywords
Mahabharat
DLI number
292831
Barcode
4990010200606.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
5mFjhuvgEsc
Download PDF

Shrimadbhagbatgita