Svclrc
Sri Bashya Vimarsana Pariksha
Front matter
सावजनान एवायमशा बन्धव भ्यसूयाममर्ष विद्वेषं वाप्यधिवहतीति । ते च ते च विद्वांसः स्वस्वमतप्र तिभटभूतानां निबन्धानां प्रत्याख्याने परिकरमाबध्नन्तीति च युक्तं नामै तत् । " येन केन प्रकारेण प्रसिद्धः पुरुषो भवे" दित्युक्तरीत्या यथा कश्चिदपि प्रख्यातिमाधिजिगमिषवः कतिपये तु सर्वथाप्यसम्बद्धान्विष- यान स्वैरमभिलिख्य महत्तमानां पूर्वाचार्याणां दिव्यसूक्तिषु दूषणाभासानु द्भावयन्त स्तथाविधान लेखान पत्रिकासु च प्रकाशयन्तश्चारिताथ्यमभिम न्यन्ते । एतादृशानां च प्रक्रियां प्रेक्षण प्राञ्च एव महान्तः स्वयं स्वादु समगिरन्त "स्वहस्तेनोरिक्षप्तस्स खलु निजगात्रेषु बहुळं गळद्भिर्जम्बा ले गंगनतलमालिम्पति जडः" इति । आस्तां नामैतत् । भगवता बादरायणेन मुनिवरेण प्रणीतस्य शारीरकमीमांसादर्शन स्य भूयांस एव प्राञ्चो महान्तो भाव्याणि बभाषिरे । तेषु चान्यतमं वि शिष्टाद्वैतसिद्धान्तनिर्धारणधुरन्धरेण भगवद्रामानुजमुनिसार्वभौमेन विरचि तं श्रीभाष्यम् । प्रायशोऽन्येषु भाष्येषु मनागपि दृष्टिमविक्षिपन्तोऽस्मिन्नेव श्रीभाष्ये करकरां दृशं दिशन्तो बहवो यत्किमपि दूषणमनुद्धाट्य वर्तितुमश क्नुवानाः श्वेतानि पत्राणि शितीनि कुर्वन्तस्स्वा स्वात्मन्यानन्दममन्दमनुभव न्तीति कोप्येष पन्थास्तत्र तत्र प्रसर्पति । अमुमेव पन्थानमासेवमानश्श्री मानशोकनाथभट्टाचार्यनामा कोपि कोविदः श्रीभाध्यविमर्शननामकं कमपि लघीयांसं निबन्धं निर्माय संस्कृतसाहित्यसम्मेलनस्य दशमधिवेशने पठि तवानथ तत्सम्बन्धिन्यास्संस्कृतसाहित्यपरिषन्नानन्याः पत्रिकाया दशमवर्षी यदशमसंचिकायां प्राचीकशञ्च । श्रीरामानुजभाष्यदूषणतत्परेणानेन लघीयसा लेखेन यद्यपि न का पि हानिः श्रीभाष्यस्य श्रीभाष कृतां तन्मतानुयायिनां वा , तथापि लेख कस्य तस्य वैदुष्यातिशयो विस्मयनीयस्तत्र विद्योतत इति तमिमं विश्वतः .
- - प्रचिख्यापयिषवो वयं दुर्वादिगर्वनिर्वापणनिपुणानां सदर्थसमर्थनैका- न्तसमर्थानां च श्रीकांचीप्रतिवादिभयंकरमठाधीश्वराणां जगद्गुरु - श्रीम दनन्तार्यस्वामिचरणानां चरणारुणनळिनोपकण्ठे तमिमं पूर्वपक्षलेखमुपह निर्मलालोकभूम्ना तमःप्रसृतिर्निरसनीयेति प्रार्थयामहि । तैरेतैर्गुरुचरणैः परमकृपया सद्यः प्रसादितं तदेतत् कृतिरत्रं श्रीभाष्यविमर्शनपरीक्षासमाख्यं विद्वज्जनमनोविनोदाय सम्मुद्रय प्रकाशय न्तो वयमज्जगदुपकारकेष्वन्यतमा भवाम इत्यात्मनि प्रमोदमनुभवामः । यद्यपि परीक्षामन्थेस्मिन् पूर्वपक्षग्रन्थस्य भागास्तत्र तत्रोदाहृतास्स न्ति , अथापि कृत्स्नस्य तद्ग्रन्थस्यानुवाचनमप्यावश्यकं स्यादित्याशय्य सोप्यत्र साकल्येन प्रकाशितोस्त्यन्तत इति प्रेक्षन्तामन्तवाणयः । पूर्वपक्षग्रन्थस्य तावत्प्रमेयमेतावदेव श्रीभाष्योपक्रमानबद्ध मागळिकश्लोकद्वये अथ "भगवबोधायनकृतां विस्तीर्णां ब्रह्मसूत्र वृत्ति पूर्वाचार्यास्सश्चिक्षिपुः . तन्मतानुसारेण सूत्राक्षराणि व्याख्या स्यन्ते" इत्यस्मिन्वाक्ये च भाष्यलक्षणं न समन्वेतीति; जिज्ञासाधिकरणस्य परमतात्पर्य विशिष्टाद्वैते वा उताद्वैते वेति विचारयितुमुपक्रम्य, शमदमा दिसाधनचतुष्टयसम्पत्त्यनन्तरमेव ब्रह्मजिज्ञासा समुत्पद्यत इत्यद्वैतभाष्य काराणां विवरणमेव सूत्रकोटौ प्रविष्टं , न तु कथमपि विशिष्टाद्वैतभा ज्यस्योत्थानमपि सम्भवतीति चोपसबढे । तदिदमखिलमाचार्यचरणैरिह मधुरगभीरमनोहरशब्देस्सम्यगेव परीक्षितम् , अपार्थवृन्दमपाकृतम् , परमार्थश्च विशदीकृत इति सुधि यस्स्वयं विज्ञास्यन्तीति कृतमनेन विपुलवाग्विसर्गेण । इति सविनयमावेदयिता जगद्गुरु श्रीस्वामिचरणनळिनोपजीवी , वैदिकग्रन्थवर्धनीसभाकार्यदर्शी श्रीवैष्णवदासः ।
--
श्रीभाष्यविमर्शन परीक्षा ।
[ श्रीकाञ्ची प्रतिवादिभयङ्करसिंहासनाधीश्वर--जगद्गुरु
श्रीमदनन्ताचार्यस्वामिभिरनुगृहीता।]
ver...
मङ्गलाचरणम् ।
देवः श्रीमानखिलजगतामादिकर्ता स्वयम्भूः
भक्तापायप्रशमनविधौ बद्धदीक्षो दयालुः ।
अज्ञानान्ध्यप्रशमनपटुश्चादिवक्ता श्रुतीनां
वाचामीशस्तुरगवदनो मानसे संनिधत्ताम् ।।
यतिपतिभगवद्रामानुजकृतवेदान्तसूत्रसद्भाप्ये ।
उद्भावयन्ति दोषान् केचित् , तन्निरसनार्थ उद्योगः ।।
अशोकनाथभट्टार्यनामभाजा विपश्चिता ।
श्रीरामानुजभाप्यस्य व्यधीयत विमर्शनम् ॥
सभायां पठितं तेन पत्रिकायां च मुद्रितम् ॥
तस्यैतस्य परीक्षायां प्रवृत्तास्म स्सतां मुदे ॥
सचायं विमर्शनविलेखकस्तत्रादौ-
“लोकायतजैनसौगत वैशेषिकनैयायिक पातञ्जलकापिलाद्वैतविशि
ष्टाद्वैतादिदर्शनेषु विशिष्टाद्वैतदर्शनमेव शाङ्कराद्वैतदर्शनस्य प्रबल
प्रतिपक्षतया ऽवतिष्ठत इति तमेव विषयमधिकृत्य किञ्चिदिवात्र
प्रस्तावयामः "
इति लिखन् विशिष्टाद्वैतसिद्धान्तस्य शाङ्कराद्वैतदर्शनप्रबलप्रतिपक्षभूतत्वमेव प्रकृतश्रीभाप्यविमर्शनप्रवृत्तौ निदानमिति प्रकटयन् स्वस्य शाङ्करसिद्धान्त पक्षपातित्वं स्फुटीकरोति । एवमभिनिवेशवशीकृतचेतसाऽनेन कृतं श्रीभाष्य विमर्शनं वस्तुतो न्यायानुसारि युक्तियुक्तं प्रमाणानुगुणं च भवति वेति परी चिक्षिषामहे वयमिदानीम् । वस्तुतस्तु द्वैतसिद्धान्तो यथा शाङ्कराद्वैतदर्शनस्य प्रतिपक्षभूतो न तथा विशिष्टाद्वैतसिद्धान्तः । यतो विशिष्टाद्वैतसिद्धान्तवादिनामपि अद्वैत मभिमतमेव । अद्वैतसमर्थनप्रक्रियामात्रमेव भिन्नं शाङ्कराद्वैतवादिनां विशि ष्टाद्वैतवादिनां च । शाङ्करमते ब्रह्मभिन्नस्य कृत्स्नस्य मिथ्यात्वमङ्गीकृत्य अद्वैतमुपपाद्यते । विशिष्टाद्वैतिभिस्तु कृत्स्नस्य जगतस्सत्यत्वमनुभवानुगुणमङ्गीकुर्वद्भिरेव प्रमाणसिद्ध शरीरशरीरिभावरूपं वैशिष्ट्यं चिदचिद्भयां ब्रह्मणोऽङ्गीकृत्या द्वैतमुपपाद्यत इति विशेषः । ब्रह्मणो येनकेनापि वैशिष्ट्यं तु शाङ्करमतेप्य ङ्गीकर्तव्यमेव भवति; शुद्धस्य नित्यमुक्तस्वप्रकाशचिन्मात्रैवपुषो ब्रह्मणो जगदुपादानत्वानुषपत्त्या मायाशब्दिताविद्यावैशिष्ट्याभ्युपगमस्यावश्यक त्वात् । इयांस्तु विशेषः । विशिष्टाद्वैतिनश्शास्त्रप्रतिपन्नसर्वशरीरकत्वरूपचिद चिद्वैशिष्ट्यं ब्रह्मणोऽङ्गीकुर्वन्ति; शाङ्कराद्वैतिनस्तु युक्तिप्रमाणविरुद्धमविद्या वैशिष्ट्यमिति । विशिष्टाद्वैतिभिब्रह्मण्यङ्गीक्रियमाणं चिदचिद्वैशिष्ट्यं च नापूर्वतया तैः कल्पितम् , अन्तर्यामिब्राह्मणादिप्रतिपन्नं सकलजगदन्त यामित्वमेव चिदचिद्वैशिष्ट्यमित्युच्यते । सर्वान्तर्यामित्वं च सर्वसम्प्रति पन्नमेव ब्रह्मणः । तस्यैव च शब्दान्तरमात्रं चिदचिद्वैशिष्ट्यमिति । इत्थं सर्वसम्प्रतिपन्नार्थमादायैव शास्त्रोदितस्याद्वैतस्योपपादनात्सर्वानुभवविरुद्धं जगतो मिथ्यात्वं तैन कल्प्यत इति पुनर्विशेषान्तरम् । अशकम-शीभाप्योपकसाथ-"मालिकोकदयं भाप्यतामह- ।
श्रीभाष्यविमर्शन परीक्षा । ति न वेति संक्षेपत आलोचयाम" इत्याधुपक्रम्य; तत्रेदं प्रस्तूयते । स भगवान् रामानुजो मुनिब्रह्मसूत्राणि व्याचिख्यासुः प्रारिप्सितस्य प्रबन्ध स्याविनपरिसमाप्तिप्रचयगमनार्थं स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपं गुरूपा सनरूपं च मङ्गलमारचयन् श्रोतृमनस्समाधानार्थं शास्त्रार्थसंक्षेपं च कुर्वन् प्रेक्षावत्प्रवृत्त्यङ्गभूतविषयप्रयोजनादिकं च प्रदर्शयन् अखिले त्यादिकं पाराशर्ये त्यादिकं च श्लोकद्वयं भाष्यादावकरोत् । ब्रह्ममीमांसाशास्त्रस्य प्रतिपाद्यमुपाय उपेयं च । सिद्धोपाय उपेयं च ब्रह्म । साध्योपायो भक्तिः । तत्र प्रथमश्लोके अखिलेत्यादिभि स्सप्तम्य न्तैः पदै सिद्धोपायरूपमुपेयरूपं च ब्रह्मोच्यते । शेमुषी भक्तिरूपेति सा ध्योपायस्वरूपमुच्यते । पाराशर्येत्यादद्वितीयश्लोके विषयप्रयोजनसम्बन्धा उक्ताः। तत्र भाष्यरूपस्य ग्रन्थस्य परमविषयो ब्रह्म । अवान्तरविषयस्तु पाराशर्यवचांसि । तेषामवान्तरविषयश्चोपनिषदः । तदिदं सर्व "पाराशर्थ वचस्सुधागुपनिषदग्धाब्धिमध्यो ता" मिति पदद्वयेनोक्तम्। मुक्तिः परम प्रयोजनम् । सम्यज्ज्ञानमवान्तरप्रयोजनम् । तत्र "संसाराऽनी" त्यादिपदेन मुक्तिरूपं परमप्रयोजनमुक्तम् । प्रतिपाद्यप्रतिपादकभावरूपसम्बन्धश्चार्थल ब्धः । शास्त्रप्रतिपाद्यप्रधानफलरूपमुक्तिश्चात्र संक्षेषेण प्रतिपादिता । इत्थमनयोश्श्लोकयोस्संक्षपेण सूत्रप्रतिपाद्यार्थप्रतिपादकत्वात् प्रारि प्सितभाष्यग्रन्थाविघ्नपरिसमाप्त्याद्यर्थतया तदुपयोगित्वेन च भाष्यान्तर्गत त्वमिति प्राश्चः । सूत्रार्थो वर्ण्यते यत्र वाक्यैस्सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः" || इति भाप्यलक्षणम् । श्लोकद्वयं चेदं सूत्रतात्पर्यार्थपरत्वाद्भाष्यलक्षणलक्षि तम् । भाग्यलक्षणशून्यस्यापि ग्रन्थभागस्य भाष्योपयोगित्वे तदन्तर्भावो युक्त इति च प्राचामभिप्रायः । ८ भक्तिरूपा॥ - .... इति, तत्रादौ अखिलभुवनजन्म पाराशर्य पिबन्त्वन्वहम् ।। ' इति च मा ङ्गलिक श्लोकद्वयं भाष्यतामहति न वेति संक्षेपत आलोचयामः । तथा हि भाप्यलक्षणं लिङ्गादिसंग्रहटीकायामुक्तं भरतेन सूत्रार्थों वर्ण्यते यत्र पदैस्सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ।। इति । सूत्रोक्तार्थप्रपञ्चकत्वं भाष्यत्वमित्यपि संक्षेपलक्षणम् । अत्र तु मङ्गळाचरणार्थं प्रयुक्तश्लोकद्वये सूत्रानुसारिभिः पदैस्सूत्रार्थ वर्णनं क्रियते भगवता श्रीभाष्यकारेणेति कथमपि कैश्चिन्न वर्णयितुं शक्यते । नापि वा तत्र स्वपदानां वर्णना दृश्यते । अतः श्लोकद , यं न सूत्रारूढम् । किं तु सूत्रमेव प्रतिभाति ।। ' इति । अत्र भाष्यलक्षणश्लोके वाक्यैस्सूत्रानुकारिभि रिति सूत्रानु सारिभि " रिति च पाठद्वयम् । तथा "पदैः यत्रेति सप्तम्या घटकत्वार्थकत्वात् यद्धटकीभूतैस्सूत्रानुकारिभिस्सूत्रानुसारि भिर्वा पदैर्वाक्यैर्वा सूत्रार्थो वर्ण्यते, स्वपदानि च वर्ण्यन्ते , तद्भाष्यमित्यर्थी लभ्यते।अत्र स्वपदं भाष्यपरम्। यत्रेत्यस्य वाक्यरित्यनेनान्वयेऽस्यार्थस्यलाभः। वर्ण्यत इत्यनेनान्वयेपि फलतोयमेवार्थो लभ्यते । चकारस्य समुच्चयार्थक त्वात् , सूत्रार्थवर्णनपरसूत्रानुकारिपदघटितत्वे सति स्वपदविवरणपरपदघ टितत्वं भाष्यलक्षणं फलितम् । सूत्रानुकारित्वं च वाक्यस्यांशत एव; कात्स्न्य न भाष्यवाक्यस्याविकलसूत्रानुकारित्वे सूत्रार्थवर्णनस्यैवासम्भवात् । “सू त्रानुकारिभिः पदै " रिति पाठे च भाष्यघटकानां सूत्रार्थवर्णनपराणां सर्वे षामेव पदानां सूत्रानुकारित्वमविवैक्षितम् । सर्वेषामेव पदानां तथात्वविव क्षायां पूर्वोक्तदोषप्रसङ्गात् । वर्णनं नाम बोधजनकशब्दप्रयोगः , संशयवि पर्ययाचतिवर्तिनिश्चयात्मकं ज्ञानं यावद्भिः पदैवाक्यैर्वा प्रयुक्तैर्भवति ताव तां शब्दानां वर्णनरूपत्वं भवति । साक्षात्परम्परया वा बोधोपयोगिनामपि वाक्य " रिति च । , ध्यायावतरणम्,अधिकरणावतरणमित्याद्यवतरणानि प्रत्याधकरण घोल्लेखः, विप्रतिपत्तिप्रदर्शनम्, पूर्वपक्षकथनम्, सिद्धान्तकथनम्, डनमित्यादिकम्। सर्वमिदं सूत्रार्थबोधसामग्रीत्वेन सूत्रार्थवर्णनरूपं रीरेऽन्तर्भवति । अवतरणिकाद्यभावे हि सत्रार्थबोधो न सुखेन भव संक्षेपतश्शास्त्रार्थस्य ग्रन्थादौ वर्णनमपि बहुपरिश्रमसाध्यमहत्तमग्र प्रवृत्तौ कारणम् , प्रतिपाद्यार्थस्य संक्षेपतो ज्ञाने सति तदर्थज्ञान तत्वज्ञाने तदर्थ बहुप्रयाससाध्ये बृहग्रन्थाध्ययने प्रवृत्तिस्स्यात्। विषयप्रयोजनसम्बन्धादीनां प्रेक्षावत्प्रवृत्त्यङ्गत्वं तान्त्रिकैरभ्युपे गां ग्रन्थादौ प्रदर्शनं च शिष्टाचारसिद्धम् , युक्तियुक्तञ्च । इष्टं मां लोके समासव्यासधारणम् " इति ह्यच्यते । पूर्वोक्तं सूत्रार्थवर्णनपरस्त्रानुकारिपदवत्त्वे सति स्वपदविवरण वरूपं भाष्यलक्षणं "अखिले" त्याद्याद्यपधद्वयघटिते - श्रीभाष्येऽक्ष द्धटकानि सर्वाणि पदानि सूत्रार्थवर्णनपरस्त्रानुकारिपदरूपाणि स्व परपदरूपाणि च तदेव भाप्यमिति विवक्षणं त्वसम्भवि । तथा दुटकीभूतपदत्वव्यापकं सूत्रार्थवर्णनपरस्त्रानुकारिपदत्वस्वपदवर्णन भियं तद्भाष्यमिति स्यात् , तच्चायुक्तम् ; सूत्रार्थवर्णनपरपदेषु नपरपदत्वस्य तेषु च सूत्रा र्थिवर्णनपरपदत्वस्य चाभावेनोभयस्य भा भूतपदत्वव्यापकत्वासम्भवात् । अन्यतरस्य तद्वयापकताविवक्षायां त्रार्थवर्णनमात्ररूपे सूत्रव्याख्यानेऽतिव्याप्तिः । यस्मिन् ग्रन्थभागे र्णनं न क्रियते स्वपदवर्णनमात्रमस्ति तत्रातिव्याप्तिश्च । अत्र स्वपदे र्णनरूपत्वविवक्षया द्वितीयातिव्याप्तिवारणसम्भवेपि प्रथमातिव्याप्ति शक्यम् । किंचैवं स्वपदे सूत्रार्थवर्णनपरत्वविशेषणे, यानि पदानि HTTETCशातिराना . यावद्भिः पदैस्संशयविपर्ययाद्यतीतो निश्चयरूपो भवेत् तावत्पदसाधारणं सूत्रार्थवर्णनपरत्वमास्थेयम् , अन्यथा विप्रतिपत्तिपूर्वपक्षसिद्धान्तपूर्वपक्ष खण्डनादिपरभाष्यभागेप्ववतरणिकादिभागेषु चाव्याप्तयापत्तेः । एवंच यत्र यत्र भाष्यभागे भाष्यत्वव्यवहारस्तत्तद्भिन्नत्वमपि शून्यत्वप्रतियोगि कोटौ निवेशनीयम व्यवहारानुसारेणैव लक्षणस्य शिक्षणीयत्वात् । अन्यथा तु "अथ शब्दानुशासनम्" इत्यादेवैयाकरणमहाभाष्यग्रन्थभागस्य भाष्यत्वं भज्येत । न खलु तस्य ग्रन्थभागस्य सूत्रार्थवर्णनपरत्वं वा तादृश स्वपदवर्णनपरत्वं वाऽस्ति । न च तस्य भाष्यान्तर्गतत्वं केनापि नाङ्गीक्रिय ते । “यथा चायमर्थ सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसाया प्रदर्शयिष्यामः । वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्' किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान् सूत्रकारः" इत्यादिशङ्करभाष्य भागस्य सूत्रार्थवर्णनपरत्वं वा स्वपदवर्णनरूपत्वं वा नास्तीति तत्राव्याप्तिश्च। मङ्गळप्रतिज्ञावतरणिकादिरूपस्यापि ग्रन्थभागस्य भाप्यत्वमस्तीत्येव प्राचा सिद्धान्तः । मंगळविचारः। यत्तु " केचित् खल्वत्र प्रारिप्सितस्य ग्रन्थस्याविघ्नसमाप्तिप्रचयग- मनार्थ स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपं मङ्गलमपेक्षितमेवेत्याहुः ; तत्रापि मङ्गळस्य विघ्नध्वंस एव फलम्, समाप्तिस्तु बुद्धिप्रतिभादिकारण कलापादिति युक्तं मुक्तावळीवचनमुत्पश्यामः । " इत्याह श्रीभाष्यविमर्शनकर्ता- तत्र वदामः ; मङ्गळस्य फलं न समाप्तिः, अपि तु विघ्नध्वंसः, समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापाद्भवति, तस्मादविघ्नसमाप्तिरूपफलाथ मङ्गळा- - श्रीभाष्यविमर्शन परीक्षा । - चरणमिति कथनमयुक्तमिति श्रीभाष्यविमर्शनकर्तुरभिप्रायोऽवगम्यते । समा- तेस्साक्षान्मङ्गळफलत्वाभावपि समाप्तिम्प्रति मङ्गळस्यापेक्षा तु केनापि न निवारयितुं शक्यते , समाप्तिसामग्रीमध्ये बुद्धिप्रतिभादेरिव विघ्नाभावस्या- प्यन्तर्भावात् । अन्यथा विघ्नसद्भावपि समाप्त्यापत्तेः। बुद्धिप्रतिभादिमानपि पुरुषो विघ्नेषु सत्सु न खलु ग्रन्थं समापयितुं शक्नोति । तस्मात्समाप्तस्सा क्षान्मङ्गलफलत्वाभावपि तत्र मङ्गलापेक्षास्त्येव , मङ्गलस्य विघ्नाभावं प्रति कारणत्वात् । एतावता मङ्गलस्य समाप्ति प्रति प्रयोजकत्वं सिद्ध्यति । " मङ्गळस्य विघ्नध्वंस एव फलं समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापादि। त्यादिमुक्तावळी कारादिकथनं तु मङ्गळत्वेन समाप्तित्वेन कार्यकारणभावो ङ्गळत्वेन विघ्नध्वंसत्वेन कार्यकारणभावो वेति विचिकित्सायां मङ्गळत्वेन नध्वंसत्वेन तत्कल्पनमेव युक्तमित्यभिप्रायकम् । फलायोगव्यवच्छिन्नं कारणं करणमिति मते कार्यकारणयोर्मध्ये व्यापाराजीकारेण मङ्गळस्य स- माप्तिकारणतायां विघ्नध्वंसस्य द्वारत्वावश्यकतया मङ्गळस्य कारणत्वासम्भ वात् । अत एव ह्यनुमिति प्रति व्याप्तिज्ञानं करणमिति प्राचीनमतं निरा कृत्य परामर्शस्यैव कारणत्वमङ्गीकृतं नवीननेयायिकैः। अविघ्नसमातिरूपवि शिष्टफलं प्रति विशेषणसम्पादकतया मङ्गळस्योपयोगस्तु स्पष्ट एव । यदप्ययमाह- न खलु विशिष्टाद्वैतिभिः श्रीभाष्यकारस्य विघ्नसद्भावः कल्प्यत। तन्मते हि भगवदनन्तावतारस्य श्रीमद्रामानुजाचार्यस्य दुरितजन्य विघ्नेनाभिभूतत्वशङ्का सर्वथाऽनवकाशैव। एतदुक्तं भवति; नहि स्वत स्सिद्धविघ्नविरहवता लोकातिशायिना पुरुषेण कृतस्य मङ्गळस्य नि फलत्वापत्तिः । विघ्नशङ्कया तदाचरणादिति चेन्न; विघ्नसद्भावो १ " इति , "। इति च । तत्र वदामः । भगवान्भाष्यकारो रामानुजोऽनन्तावतार इति सत्य- मेतत् । मङ्गळाचरणं तु स्मृत्याचारसिद्धत्वादेव। मुमुक्षयोपि हि फलसङ्गत्या गपूर्वकं कर्माण्याचरन्तो न फलाय किमप्यनुतिष्ठन्ति , अपि तु शास्त्रविहित मित्येव। भगवदाज्ञारूपशास्त्रसिद्ध कर्म सर्वेषामेवानुष्ठेयम्। फलाभिसन्धिमतामि व तद्रहितानामपि तदनुष्ठानं सर्वसम्प्रतिपन्नम् । गीतं हि भगवता कृष्णेन- सत्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथा सक्तश्चिकीर्षल्लोकसङ्ग्रहम् ।। न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तस्समाचरन् । " लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि अविदुषामिव विदुषामपि लोकसंग्रहार्थ सर्व कर्म कर्तव्यं भवती ति भगवता भाष्यकारेण स्मृत्याचारसिद्धमङ्गळाचरणं युक्तमेव । सक्षात्सर्वे श्वरोपि भगवान् लोकसंग्रहार्थ कर्मानुतिष्ठतीति स्थिते नित्यानां मुक्तानां च किमु वक्तव्यन् । उक्तं च भगवता कृष्णेन " न मे पास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥” इति । किञ्च भगवान्रामचन्द्र इव भाष्यकारोपि मानुष्यकाभिनयं कुर्वन् शि ष्टाचारसिद्धं सर्वं कर्मानुतिष्ठतीति स्थिते विघ्नशङ्कातदभावादिकुंतर्काणां नास्त्येवावकाशः । भगवान्रामचन्द्रो हि स्वावतारकृत्यसम्पत्त्यै सर्वदा मानु- ध्यकाभिनयमेवाकरोत् । उक्तिश्च भगवतो रामचन्द्रस्य तथा- आत्मानं मानुषं मन्ये रामं दशरथात्मजम् इति । भगवान्भाष्यकारोपि स्वावतारकृत्यसम्पत्त्यर्थ मानुष्यकाभिनयमेव सर्वदाऽकरोन्मुक्त्वा कांश्चन प्रसङ्गान् । न खलु भगवानामानुजोऽहमव तारविशेष इात स्वयमेव कदाचिदवददितीतिहासेषु कुत्राप्यस्ति । तस्मात्तस्य मङ्गळाचरणं युक्तमेव । श्रीभाष्यकारस्य जीवन्मुक्तत्ववादस्त्वग्रे निराकरि प्यते । यदप्युक्तम्- नापि वा मङ्गळमेव सर्वत्र विघ्नध्वंसे कारणम् । विघ्नध्वंसविशेषे विनायकस्तवपाठादीति सिद्धान्तमुक्तावळ्यां प्रति पादितत्वात् । नच विनायकस्तवपाठस्य मङ्गळत्वं वाच्यम् ; विना यकस्तवस्य मङ्गळत्वेपि तदनुकूलकण्ठाभिघातरूपस्य पाठस्य मङ्गळ त्वाभावात् । एवं हि पूतिकूष्माण्डीभूते खलु मङ्गळे तत्र प्रेक्षावतां प्रवृत्तिरेव नोपपन्ना भवति ॥ इति, अत्र वदामः- मङ्गळस्येव विनायकस्तवपाठस्यापि कचित् विघ्नध्वंस विशेषे कारणत्वमास्तां तृणारणिमणिन्यायेन, तावता मङ्गळस्य विघ्नध्वंस जनकतायां को नाम दोषस्समापतति । स्वस्य मुक्तावळीपाठित्वं ज्ञापयता ऽनेनापि हि · विघ्नध्वंसविशेषे विनायकम्तवपाठादी' ति मुक्ताबळीग्रन्थ भागमुदाहरताऽयमर्थस्स्वीकृतः । नच भगवता रामानुजेन विघ्नध्वंसार्थ बि नायकस्तवपाठादिरेव कुतो नाहत इति शङ्का युज्यते, तथा सति तिन्त्रिणीफल वक्रतान्यायापातात् । केवलं लोकसङ्ग्रहाथमेव तम्य मङ्गळाचरणं न विघ्न ध्वंसार्थमिति च पूर्वमुक्तम् । आशीर्नमस्क्रियावस्तुनिर्देशरूपेषु त्रिविधमङ्गळेप्याशीरूपं मङ्गळं शब्दरूपम्, नमस्क्रिया च वाचिकी कायिकी मानसिकी च । तासु वाचिकी शब्दरूपा, वस्तुनिर्देशस्तु शब्दरूप एव, स्तुतेरप्यत्रैव कुत्रचिदन्तीवो वाच्य । स्तुतिश्च गुणप्रकाशकशब्दः । तस्याश्च मन्त्रस्येवानुसंहिताया वा ठ्यमानाया वा फलजनकत्वं वाच्यम् , न त स्वरूपतः । तथाच स्तति .
पाठस्य विनध्वसजनकत्वं वा पठ्यमानस्तुतेस्तथात्वं वेति विनिगमनाविरहात.. स्तुतेरपि विघ्नध्वंसजनकत्वमक्षतम् । एतेन "विनायकस्तवस्य मङ्गळत्वेपि.. तत्पाठस्य मङ्गळत्वाभावादि" ति समाहितम् । विनायकम्तवपाठस्येव पठ्य मानविनायकस्तवस्य मङ्गळत्वसम्भवात् । विनायकस्तवपाठस्य मङ्गळत्व मस्तु वा मा वा, विनायकस्तवपाठस्येव मङ्गळस्यापि विघ्नध्वंसजनकत्वं त्वक्षतमेवेति न काप्यनुपपत्तिः । यदपि अथ मङ्गळं यद्येकान्तेनापेक्षितं भवेत् . तदा सू. त्रान्तभूतेनाथशब्देन ब्रह्मशब्देन च तस्य गतार्थता स्यात् , भगवता भाष्यकारेणैवोच्यते " ब्रह्मशब्देन स्वभावतो निरस्तनिखिलदोषोऽ नवधिकातिशयासंख्येयकल्याणगुणः पुरुषोत्तमोऽभिधीयते " इति । अथशब्दश्चानन्तर्यार्थोपि श्रुत्या मङ्गळप्रयोजनो भवतीति शास्त्रसं- मतम् । तथाच स्मयते- “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गळिकावुभौ ॥” इति । मोहरागाद्यखिलदोषसंजननी दुरत्ययाऽविद्यापि यस्य खलु ब्रह्मणः साक्षात्कारेण विनिवर्तते, तस्यैव ब्रह्मणः प्रतिपादनपरे ब्रह्ममीमांसा, भाष्ये पृथनिवेशितं मङ्गळं पुनरुक्ततामेवापद्यते ।" इति-; तदपि न क्षोदक्षमम्,सूत्रान्तर्गतेनाऽथशब्देन ब्रह्मशब्देन च सूत्रात्मकग्रन्थस्य निर्विघ्नपरिसमाप्तिरूपप्रयोजननिर्वाहेपि भाष्यस्यनिर्विघ्नपरिसमाप्तिरूपं प्रयोजन कथं सेत्स्यति। भाष्यादौ हि " अखिले" त्यादिश्लोकद्वयं संयोजितमस्ति , न सूत्रारम्भे । माङ्गळिकशब्दघटितसूत्र-व्याख्यानरूपत्वेन भाष्यस्यापि निर्विघ्नसमाप्ति-भविष्यतीतिचेत् , तद्व्याख्यानतट्टीकादेरपि तथा स्यात् । ब्रह्मणो निरस्तनिखिलदोषत्वात्तत्प्रतिपादकभाप्यस्य विघ्नासंभवा- न्मङ्गळमनावश्यकमिति वादस्तु परिहास्यः । तथा सति रघुवंशमाघादि- काव्यानामपि भगवच्चरितरूपत्वात् तत्रापि मङ्गळवैयर्थ्यप्रसङ्गात् । प्रायः खलु प्राञ्चः कवयः पुराणादिप्रसिद्धानामुदात्तचरितानां पुरुषविशेषाणामेव - स्लड - - भूता इति षष्टं भगवद्गीतासु- " यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ।। इत्यादौ । यत्तु जीवन्मुक्तपुरुषो हि भगवान् भाष्यकार इत्यवश्यमेवारी- कर्तव्यं विशिष्टाद्वैतिभिः । अतीन्द्रियार्थप्रतिपादनेऽतत्वविदां येषांके- षांवाऽनधिकारात् । लोकसंग्रहार्थ मननमुखेनैव वेदान्तार्थपरीक्षारूपं भाष्यं तैरत्र विरच्यते । मङ्गळममङ्गळं वा अमुक्तस्यैव बिघ्नध्वंसे बिना ध्वंसे वा तथाचार्थात् ग्रन्थस्य परिसमाप्तावसमाप्तौ वा नियामकं भवतीति युक्तम् । न ताभ्यां मङ्गळामङ्गळाभ्यां तत्वज्ञानिनां किमपि प्रयोजनम् , सङ्कल्पद्वारेणैव तेषाभिष्टसाधनसामर्थ्यदर्शनात् । तदुक्तं भगवता बादरायणेन, ' सङ्कल्पादेव तच्छुते ' रिति । अतो मुक्त- स्य भाप्यकारस्य ग्रन्थरचनावसरे मङ्गळस्य नियतोपस्थितिकत्वकल्प नेन भाष्यकृतो मुक्त वमपि व्याहन्येत वदामः विशिष्टाद्वैतिभिर्जीवन्मुक्तिरेव नाङ्गीक्रियत इति भाष्यकारस्य जीवन्मुक्तत्वं न तेऽङ्गीकुर्वन्ति । अपि तु नित्यमुक्तत्वम् , नित्यस्यादिशेषस्य सोऽवतारः अतीन्द्रियार्थप्रतिपादने येषांकेषामपि नाधिकार इति तु युक्तमेव । न लोकसंग्रहार्थम् , अपि तु लोकानुग्रहार्थ भाष्यं भगवता रामानुजेन विरचितमिति म- न्तव्यम् । नित्यमुक्तावतारोपि भगवान् भाष्यकारो न सङ्कल्प शक्तया किमपि कार्य मानुषावतारे कतुमैच्छत् , तथा सति तदवतारस्यैवानावश्यकत्वास ङ्गात् , अवतारेण साध्यं सर्वमंपि हि सङ्कल्पमात्रेण साध्यं तस्य, भगवदव तारेष्वप्ययमेव न्यायः। भगवानपि हि स्वावतारेषु न स्वीयया परया शक्तया " इतिः-- हि । . , किमपि कार्य सम्पादयति विशेषप्रसङ्गमन्तरा, रावणवधादीनां स्वसङ्कल्प मात्रेण साधयितुं शक्यत्वेपि युद्धादिकरणदर्शनात् । भगवतो भाष्यकृतो मङ्ग ळाचरणं स्मृत्याचारानतिलङ्घनेन लोकसङ्ग्रहार्थमिति पूर्वमेवोक्तम् । यत्तु- "एवमेव विषयं मनसि निधायाद्वैताचार्यभगवत्पादैः स्वरचित शारीरकमीमांसाभाष्ये पृथङ्मङ्गळं न निवेशितमिति मन्यामहे " इति । . तत्र वदामः भगवता शङ्कराचार्यग भाष्यादौ मङ्गळानाचरणं जीवब्रह्मभेदानभ्युपगमेन नन्तव्याभावादिति प्राञ्चः । व्याख्यातृभिस्तु नमस्काराद्यभावात्कुग्रन्थत्वं भाष्यम्याशङ्कय युष्म दस्मदित्यादिग्रन्थे प्रत्यगनुसन्धाननऽर्थान्मङ्गळमपि कृतमिति समाहित मस्ति । अयं त्वपूर्व एव कश्चिद्भाष्यकाराणामाचरणस्य समालोचायता समु त्पन्नः, किमयमद्वैतभाष्यकारमेकं मुक्त्वा सर्वेप्यन्ये न भाष्यकारा इति मन्यतः यत्त्वयमाह- “अथ मा भवतु मङ्गळं शाङ्करभाष्ये, अध्याससमर्थन तु विद्यते तत्र । भाप्यकारेण हि सौत्रपदसूचितानामेवानां निरू पणं कर्तव्यम्, अध्यासः पुनरथातो ब्रह्मजिज्ञासेति सूत्रघटकेन के- नापि पदेन स्पष्टं न सूच्यते । तथाच शङ्करभगवत्पादानामध्यास भाप्यं कथं वा सूत्रारूढमिति शङ्कात्र समापतति । इदमेवचात्र समा धानम् । 'अथातो ब्रह्मजिज्ञासे' त्यत्र ब्रह्मशब्देनैवान्त करणस्य चैत न्ये आरोपोपि सूच्यत एव । तथाहि ब्रह्मशब्दम्य कर्तृत्वादिविग ळितचैतन्यस्वरूपमर्थः, कर्तृत्वाधिष्ठानचैतन्येऽभावश्च कर्तृत्वादीनां चैतन्ये कल्पितत्वमन्तरेण न सम्भवति । यद्यत्र प्रतीयते तत्तत्र तदै वाविद्यमानमिति वर्णयितुं शक्यते, याद तत्तत्र कल्पितम् , तदा रज्जौ प्रतीयमानस्सर्पः कल्पितत्वान्न रज्जौ वर्तते; एवं कर्तृत्वस्यापि चैतन्येऽभावो यदि कल्पितत्वेनैव सम्भवति, तर्हि कर्तृत्वादिविगाळ तचैतन्यबोधकेन ब्रह्मपदेन कथं कर्तृत्वाद्यारोपोपि न सूच्यते? एवं श्रीभाष्यविमर्शन परीक्षा । १३ तत्र वदामः ब्रह्मशब्दः च ब्रह्मपदसूचितत्वादध्यासस्य, अध्यासभाष्यं सूत्रारूढमिति बहुशो विचारितत्वादद्वैतिभिर्नात्र पुनर्वयं पिष्टं पेषयामः । " इति-- अध्यासस्सूत्रघटकेन ब्रह्मशब्देन सूच्यत इति वदन् ब्रह्मशब्दस्य कर्तृत्वादिविगळितचैतन्यस्वरूपार्थकत्वमयं वदति, ब्रह्मशब्दस्य योगन वा रूढ्या वा कर्तृत्वादिविगळितचैतन्यस्वरूपमर्थ इति वयं पृच्छामः! बृहते (तो) मनिन्प्रत्ययान्तान्निष्पन्नोयं बृहत्त्वं च परममहत्त्वमिति केचित् , निरतिशयोत्कर्ष एवेत्यपरे। बृहति बृहयतीति द्विधा तावद्व्युत्पत्तिः, बृहत्त्वे सति बृंहणत्वं तदर्थः । सङ्कोचकाभःवान्निरतिशयबृहत्त्वे सति बृहणत्वं योगलभ्यो ब्रह्मशब्दार्थः । बृहत्त्वातॄहणत्वाच्च तद्ब्रह्मेत्यभिधीयते” इति चोपबृंहणम् । कर्तृत्वादि विगळितचैतन्यं कथमत्र लभ्यते ? कर्तृत्वादिविगळितचैतन्ये ब्रह्मशब्दरूढि ग्राहकं प्रमाणं च न किमपि स्पष्टमुपलभामहे । ब्रह्मण एव जगन्निमित्त- कारणत्वात्कर्तृत्वसामान्यरहितत्वं च न सम्भवति । अङ्गीकृतं च भगवता शङ्कराचार्थेणापि ब्रह्मणः कर्तृत्वं " प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् इत्यधिकरणे--- " ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यत " " अभिध्याप- दशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति" इत्यादिषु । कर्तृत्वादिविगळितचैतन्य- स्य ब्रह्मशब्दार्थत्वाङ्गीकारोपि वा कथमध्यासस्य कर्तृत्वरहितं ब्रह्मेत्युक्ते नियमेनाध्यासमन्तरा तद्राहित्यं न सम्भवतीति ज्ञानं भवति?, घटः कर्तृत्वाभाववानित्यादा विव तद्बोधस्य सम्भवात् । न हि तत्र कर्तृत्वाभावः कल्पितत्वप्रयुक्तः । तद्वदनापीति कुतो न धीस्स्यात् ? अनुपपत्तिप्रतिसन्धाने हि कल्पित स्वादिस्फुरणम् । अस्तु वा ऽध्यासस्य ब्रह्मपदसूचितत्वादध्यासनिरूपणपरभाप्यभाग- सरा सवाल ब्रह्मपदेन सूचना ? न PTITETIT inा नेता ना AT अत्र ख्यासितस्येदमादिमं सूत्रम् " इत्यादिभाष्यग्रन्थस्य कथं सूत्रार्थवर्णनपर- त्वम् ? अभावे च कथं तस्य भाप्यत्वम् । यत्तु- 'वस्तुतस्तु भाष्यकळेबरे मङ्गळविनियोजनेन न केवलं भाष्य कारस्य विनाप्रतियोगित्वं वैयथ्यमापयेत, किन्तु भाष्यस्य भाष्यत्व- मपि वितथं स्यात् । इति । विघ्नाप्रतियोगित्वं विघ्नप्रतियोगित्वाभावः । तत्र प्रतियोगित्वं कीदृशं विवक्षितम्? निरूपकत्वादिरूपं तु न सम्भवति । आधेयत्वरूपत्वे चासाङ्गत्यम्, न खलु विघ्नोऽनुयोगी पुरुषस्य क्वचित् , येन विघ्ननिरूपिताधे यत्वाभावो भाष्यकारनिष्ठ इति युज्येत । आधारत्वार्थकता तु प्रतियोगित्व शब्दस्य न सम्भवति । भाष्यकारनिष्ठस्य विघ्नसामान्याभावस्य वैयर्थ्य नाम निष्प्रयो- जनत्वम् । अस्तु नाम निष्प्रयोजनत्वं विघ्नाभावस्य, को नाम तत्र दोषः ? न खलु सर्वेषामत्यन्ताभावानां स्वतस्सिद्धानां किमपि प्रयोजनं स-पादनीयम्। इदं तु निष्प्रयोजनत्वं तस्यामप्यवस्थायामापद्यते, यदि भाप्यकारस्य भाष्य करणप्रवृत्तिरेव न स्यात् । स्वतस्सिद्धविघ्नविरहवता पुरुषेण कस्यचिद्ग्रन्थ- स्यारम्भे विघ्नशङ्कया कृतस्यापि मङ्गळस्य निष्फलत्वं दृश्यते खलु, तद्वद त्रापि भविष्यति । भाष्यकारेण च मङ्गळं स्मृत्याचारसिद्धं लोकसङ्ग्रहार्थं कृतमिति पूर्वमेवोक्तम्। सूत्रार्थवर्णनपरसूत्रानुकारिपदघटितत्वे सति स्वपदवर्ण- नपरपदघंटितत्वरूपभाष्यलक्षणं श्रीभाष्येपि सम्यक्सम्पद्यत इत्यपि पूर्व मेवोक्तम् । ननु भामतीप्रभृतिषु प्रभूतमेव मङ्गळं दृश्यत इति कथं वा तेषां ग्रन्थानां प्रामाण्यमितिचेदुच्यते । भामती नाम वाच- स्पतिमिश्रकृतटीका शङ्करभाष्यविषयिणी । न हि खलु श्रीभाष्यं सर्व था तदनुरूपम् । श्रीभाष्यविवरणादिषु श्रुतप्रकाशिकादिषु मङ्गळं दृश्यते चेत्तदानीं न कोपि दोषः । परन्तु श्रीभाष्ये तस्यान्तर्भाव एतेन-" इति-; दशनन टकद्रामडादाभरवकृत मूलभाष्यम्, श्राभाप्य पुनस्तषामन्य तरस्य टीकारूपमिति शङ्का संजायते । " इति कुचोदितानि निरस्तानि वेदितव्यानि । टीकास्वेव मङ्गळं कर्तव्यं 'भाष्य इति केनायं नियमः परिकल्पितः । यस्मिन्ग्रन्थे मङ्गळमस्ति तन्न प्यमिति वा किमर्थोयं केन च परिकल्पितो नियमः ? मङ्गळदर्शनमात्रेण त्रार्थवर्णनपरे श्रीभाष्ये भाष्यान्तरटीकात्वशङ्कासम्भवकथनं तु परिहा. यम् । प्रत्यक्षतो भाग्यलक्षणदर्शनेपि कस्यचिद्भाप्यान्तरटीकात्वशङ्का जा- तेचेदान्तस्स एव चिकित्सनीयः, न तेन भाष्यस्य भाष्यत्वं व्याहन्यत । यत्तक्तम्- 'ननु संप्रदायसंरक्षणार्थ मङ्गळं भाष्ये निवेशनीयमेव, शिष्टाचारोपरोधादिति चेन्न, शिष्यशिक्षार्थ कृतस्य मङ्गळस्य ग्रन्थ कळेबरेऽयोजनेनाप्यभीष्टसिद्धेः । तदयुक्तम्- सर्वेपि प्राञ्चो ग्रन्थकाराः मङ्गळस्य ग्रन्थे संयोजनं शिप्य शेक्षार्थमित्याहुः। अयं तु मङ्गळस्य शिष्यशिक्षार्थत्वं कथयति । मङ्गळा वरणमात्रेण शिष्याणां हृदयेप्वस्माभिरपि ग्रन्थारम्भे माळाचरणं कर्तव्य मेति बुद्धिः कथमुत्पद्येत? गुरुणा मङ्गळं कृतमित्येव शिप्यैः कथं ज्ञायेत? न ते गुरुणा कृतमित्यस्माभिरपि कर्तव्यमिति जानीयुः। अत एव ग्रन्थे. नाऽसंयोजितं मङ्गळं शिष्यशिक्षायै न कल्पत इति भगळस्य मन्थेन संयोजनमेव शिप्यशिक्षार्थं भवतीति ग्रन्थकृतः प्राहुः । एतेन "एवं हि पक्षद्वयमेवात्र सम्प्राप्तम् --- मङ्गळपरिवर्जन तत्परिरक्षणं वा; तयोरन्यतर एव पक्षोऽत्र समाश्रय णीयः । तत्र द्वितीयपक्षाङ्गीकारेण श्रीभाष्यं. श्रीटीका भवतीत्यतो भाष्यकळेबरान्मङ्गळस्यैव परिवर्जनं साधीय इति मन्यामहे ।" इति परास्तम् । स्मृत्याचारसिद्धमङ्गळाचरणावश्यकतायास्तद्धटितस्यापि ग्रन्थस्य भाष्यलक्षणलक्षितत्वाक्षतेश्च निरूपितत्वात् । यदपि-- " एतेनैव भगवबोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृत्ति १६ श्रीभाप्यविमर्शन. परीक्षा । इति . , पूर्वाचार्यास्संचिक्षिपुः; तन्मतानुसारेण सूत्राक्षरराणि व्याख्यास्यन्त' इति वाक्यद्वयस्यापि प्रत्याख्यानं व्याख्यातमेव, शिष्टाचारसिद्ध त्वान्मङ्गळस्य तन्निवेशने तावदनुकूलतर्कसद्भावः कथमपि कल्प यितुं शक्यते । अत्रपुनरनुगुणा युक्तिः काचिदपि न दृश्यते, प्रति ज्ञारूपत्वाद्वाक्यद्वयस्येति तयोरपि परिवर्जनमवस्थितमेव । अपि चैतेन विशिष्टाद्वैतभाष्यं खलु बोधायनवृत्तिववृत्तिरूपं, न तु पुन र्भाप्यमेव (यथाबहूनांसम्मतं) इत्यनतिदुर्बला नवीना काचिच्छकेह निरर्गळमवकाशते ।" अत्र वदामः ‘भगवबोधायने" त्यादिवाक्यद्वयेन श्रीभाप्यस्य भाष्या न्तरेभ्यो वैलक्षण्यम् , नवीनग्रन्थनिर्माणप्रयोजनं च प्रतिपाद्यत इति स्पष्टम् । तदिदं प्रेक्षावत्प्रवृत्तिहेतुभूतं ग्रन्थादावावश्यकमेव । ब्रह्मसूत्रकारस्य भगवतो वेदव्यासस्य साक्षाच्छिप्थप्रशिष्यत्वाबोधायनस्य तत्प्रणीताया वृत्ते स्सूत्रकृदाशयाविष्कारपटीयस्त्वं तदनुसारितयाऽस्य भाष्यस्य भाष्यान्तरेभ्यो वैलक्षण्यं प्रातपाद्यमानं प्रेक्षावतां प्ररोचनाय भवतीति तत्प्रवृत्त्युपयोगि, वृत्तिमन्थद्रामिडभाप्यादीनामतिविस्तृतातिसंक्षिप्तत्वकथनमुखेनाद्यतनानाम - कार्यकरत्वप्रतिपादनात् तत्परित्यागेन भाप्याध्ययने प्रेक्षावतां प्रवृत्तौ तदप्यु पयोगि । प्रेक्षावत्प्रवृत्त्युपयोगिविषयप्रयोजनादिकथनवदिदमपि ग्रन्थादावा वश्यकमेव । “अथ शब्दानुशासम्" इत्यादेर्महाभाष्यग्रन्थभागस्य प्रयो जनप्रदर्शनपरत्वं व्याख्याकारैरुक्तम् । तस्य च महाभाष्यान्तर्गतत्वं सर्व सम्मतम् : तद्वदस्यापि वाक्यद्वयस्य भविष्यति । प्रतिज्ञावाक्यसामान्यस्य भाष्यबहिर्भावाङ्गीकारे, 'यथा चायमर्थस्सर्वेषां वेदान्तानां तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः" इत्यादिशाङ्करभाष्यवाक्यानामपि तथा त्वप्रसङ्गोऽपरिहार्यः । श्रीमतदीताभाष्ये खल अद्वैताचार्यभगवत्पादैरपि- 11 अण्डस्यान्तस्विमे लोकाः सप्तद्वीपा च मेदिनी ॥' इति मङ्गळमुपक्षिप्तम्, तथाच स भगवान् सृष्ट्वेदं जगदि' त्वादिनोपोद्घातश्च भाष्यातया विनियोजित इति कथं न भाष्यस्य वैययापत्तिरितिचेदुच्यते, नायं दोषः । सूत्रभाष्य एव सूत्रानुसारि पदैर्भाष्यकृता सूत्रार्थवर्णनम् , स्वकृतसङ्ग्रहवाक्यानां च विभाग वर्णनं कर्तव्यम्, न त्वन्यत्र । अत एव श्रीमद्भगवद्गीताभाष्ये वैदिक संहितोपनिषदादीनां च भाष्य मङ्गळोपोद्घातादिकं न दोषायेति तत्र मङ्गळं क्षोदक्षममिति मन्यामहे । तथा च श्रीमद्भगव द्गीताभ प्ये ' नारायणः परो व्यक्ता दिति श्लाि न माळरूपः , तच्छास्त्रप्रतिपादितभगवत्स्वरूपवर्णनार्थमेव प्रयुक्तत्वात् । अध्यास भाष्यवच्छारीरकभाप्यस्योपोद्धातश्चापि गीतानां सारसंक्षेप इति कृत्वा तस्य प्रामाण्यं सर्वथा यथापूर्वमव्याहतमेवेत्याशयो द्वैतिनामिति प्रकृतं विषयमुपसंहरामः । " अत्र चायं मङ्गळम्य भाष्यलक्षणरहितत्वेन भाष्याघटकत्वे श्रीम- च्छाङ्करभगवद्गीताभाष्ये " नारायणः परोव्यक्तादि" त्यादिग्रन्थस्य माळ- रूपस्य कथं तद्भाष्यघटकत्वभित्याशङ्क्य · सूार्थो वर्ण्यत ' इत्यादि भाष्यलक्षणस्य सूत्रभाष्यमात्रविषयत्वाद्भगवद्गीताभाष्यघटकभागस्य तादृश लक्षणशून्यत्वेपि न दोष इति समाधानमुक्तवा, समाधानान्तरमपि कथयितुं प्रवृत्तो ' नारायण ' इत्यादिश्लोको न मङ्गळरूपः- तच्छास्त्रप्रतिपाद्यार्थसारसंक्षेपरूपः, यथा शारीरकभाप्यस्याध्यासभाष्यम् इति इति; अपि तु लिखतीव । अत्र वदामः---; 'सूत्रार्थो वर्ण्यत" इत्यादिलक्षणं सूत्रपदघटित त्वात् सत्यं सूत्रभाष्याणामेवेति प्रथमं समाधानं युक्तमेव । “न मङ्गळरूप" इत्यादिद्वितीयसमाधानं तु न युक्तम् , शास्त्रप्रतिपाद्यभगवत्स्वरूपवर्णन परत्वेपि मङ्गळरूपत'यां बाधकाभावात् । 'अण्डम्यान्तस्त्विमे लोका" . . इत्यादिभागस्तु न शास्त्रप्रतिपाद्यार्थसंक्षेपरूपः, तस्यार्थस्य भगवद्गीतायां प्रतिपादनादर्शनात् । अण्डमध्ये चतुर्दशानां लोकानां सत्त्वं सप्तद्वीपाया भूमेस्तत्र वर्तमानत्वं च भगवद्गीतायां कुत्राप्यध्याये प्रतिपाद्यमानं न दृश्यते। तस्मात्तस्य सारसंक्षेपरूपत्वाद्भाप्यान्तर्गतत्वमिति समाधानं अयुक्तम् । अध्यासभाष्यस्य उपोद्धातरूपस्य शास्त्रार्थसारसंक्षेपरूपत्वाद्भाष्यान्तर्गतत्व मिति लिखन्नयं अखिलेत्यादिश्लोकद्वयस्य पूर्त्या शास्त्रार्थसारसंक्षेपरूपस्य भाप्यान्तर्गतत्वं कुतो नानुमन्यत इति न जानीमः । ब्रह्मणो जगज्जन्मादि कारणत्व मखिलेत्यादिना “फलमत उपपत्ते" रित्यादिशास्त्रार्थो विनते त्यादिना "शास्त्रयोनित्वादि" त्यादिशास्त्रार्थः श्रुतिशिरसी त्यादिना साध नाध्यायार्थः शेमुषी भक्तिरूपेत्यादिना च प्रतिपाद्यत इति स्पष्टम् । द्वितीय श्लोके संपाराग्नी त्यादिना फलस्वरूपं प्रतिपाद्यत इत्यपि स्फुटम् । अध्यास भाष्यं यद्युपोद्धातरूपतया भाप्यान्तर्भावमर्हति, तर्हि 'भगवद्बोधायन त्यादिग्रन्थेनोपोद्धातरूपेण किमपराद्धम् । किंच सूत्रभाष्य एव मङ्गळं न कर्तव्यम् , गीताभाप्ये कर्तुं शक्यत इति “ नारायणः परोव्यक्तादि" ति मङ्गळाचरणं न दोषायेति वदन्नयं भगवच्छङ्कराचार्यस्य जीवन्मुक्तत्वं विघ्न रहितत्वं वा नाभ्युपगच्छतीत्यनुमीयते । अन्यथा तु भगवतो रामानुजस्य जीवन्मुक्तत्वाद्विप्नाभावात्सङ्कल्पमात्रादेव सर्वकार्यसाधनसामर्थ्याच्च मङ्गळा- चरण मनुचितमित्याद्याक्षेपास्सर्वेपि कृत्यावदस्यैव शिरसि नूनं पतेयुः । पूर्ववृत्तविचारः यदाहायम्- " अथात्रावसरप्राप्तं जिज्ञासाधिकरणस्य किं विशिष्टा द्वैत एव परमतात्पर्यमुताद्वैत इति विषयमवलम्ब्य किञ्चिदिह लेखनी व्यापारयामः । तदर्थं श्रीभाप्यमेव प्रथममनुसरामः ।" इति, इदमस्य प्रतिज्ञामात्रमिति मन्यामहे । यत उपरितनेऽस्य लेखे कुत्रापि विशिष्टाद्वैताद्वैतविचारस्य नाममात्रमपि न दृश्यत । अस्ति तु पूर्ववृत्त - वचारमात्रमुत्तरत्र । न हि कमविचारस्य ब्रह्मविचारः पूर्ववृत्तं वा साधन तुष्टयं वेति विचार एवाद्वैतविशिष्टाद्वैतविचारो भवति ? अथ यदाहायम् "जिज्ञासाधिकरण उपक्रमपतयस्तावत् 'अत्रा यमथशब्द आनन्तर्ये भवति, अतश्शब्दो वृत्तस्य हेतुभाने। अधी तसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञान- तया संजातमोक्षामिलापस्यानन्तस्थिरफलब्रह्मजिज्ञासाह्यनन्त रभाविनी' ति । अत्र खलु 'अधीतसागसशिरस्के ' त्यादिना ब्रह्मजिज्ञासायास्स्वाध्यायानन्तर्य सामान्यतः परिसूच्यते । 'अधिग ताल्पास्थिरफलकेवलकर्पज्ञाने ' त्यादिना नित्यानित्यवस्तुविवेक रूपसाधनानन्तर्यमुपदिश्यते । नित्यानित्यवस्तुनोविवेकेनैव इहामुत्रा र्थभोगविरागस्समुत्पद्यते। ततो मुमुक्षुत्वम् । एतदपि पुनः संजात मोक्षा भलाषस्थे' ति पदेन गतार्थं भवति" इति । "अधीतसाङ्गसशिरस्कवंदस्य " इत्यादिना ब्रह्मजि साप्रवृत्तिक्रमः प्रदर्श्यते। स्वाध्यायानन्तर्यस्य ब्रह्मजिज्ञासायां वर्तमानत्वेपि तत्प्रदर्शनार्थमस्य वाक्यस्य प्रवृत्तिः । अधिगताल्पास्थिरफलकेवलक ज्ञानतये " त्यादिनाऽद्वैत्यङ्गीकृत वृत्तेषु नित्यानित्य वस्तु विवेक रूपं पूर्ववृत्तं तिपाद्यत इति कथनं तु परिहास्यम् । साङ्गसशिरस्कवेदाध्ययनेन मणो ब्रह्मज्ञानस्यचानन्ताक्षयफलवत्त्वापातप्रतीतौ तन्निर्णयार्थ प्रथमतः मविचारे प्रवृत्तस्य पुरुषस्य कर्माल्पास्थिरफलत्वनिर्णये जातेऽवशिष्टब्रह्मज्ञाना ताक्षयफलत्वनिर्णयार्थं ब्रह्मविचारे स्वभावत एव प्रवृत्तिर्भवतीति तस्य क्यस्याभिप्रायः । तत्र नित्यानित्यवस्तुविवेकस्य का वा प्रसक्तिः । त्यानित्यवस्तुविवेको नाम यन्नित्यं तत्सुखं यदनित्यं तन्न सुखमिति त्यानित्ययो-स्सत्यासत्ययोस्सुखदुःखत्वनिश्चयः । एतादृशो निश्चया हि न अत्र ब्रूमः ।
२० श्रीभाष्यविमर्शन परीक्षा । कर्मविचारेण भवितुमर्हति, कर्मस्वरूपज्ञानं तन्मूलकमनित्याल्पफलकत्वज्ञानं च कर्मविचारेण भवितुमर्हति ।तदेव च " अधिगताल्पास्थिरफलकेवलकर्म ज्ञानतये" ति वाक्येनोच्यते । यद्यपि भगवता शङ्कराचार्येण नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयं पूर्ववृत्तमुक्तम् । तत्र नित्यानित्यवस्तुविवेक इति शब्दस्वरूपपर्यालोचने नित्या नित्ययोर्वस्तुनोविवेको विविक्ततया ज्ञानमेवार्थस्स्वरसतो लभ्यते । नित्यः प्रत्यागात्मा, अनित्या देहन्द्रियाविषयादयः । तद्विषयकं विविक्ततया ज्ञान- इहामुत्रफलभोगविरागं प्रति हेतुश्च भवति । अथापि ब्रह्मविचारात्पूर्वमता दृशस्य ज्ञानस्यासम्भवात्तस्य पूर्ववृत्तत्वानुपपत्तिं पर्यालोच्य व्याख्याकारै नित्यानित्यवस्तुविवेकशब्दस्य नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु-नित्या नित्यवस्तुधर्मः, नित्यानित्ययोधर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तु विवेक इत्यर्थोऽङ्गीकृतः । स्पष्टं चेदं भामत्याम् । एतादृशो निश्चयश्च साझा ध्ययनवतश्शुद्धान्तःकरणस्य भवतीति परिमळकारः । कर्मणोऽल्पास्थिर फलत्वनिश्चयस्तु न पूर्वोक्तनित्यानित्यवस्तुविवेकरूप इति तु स्पष्टम् । किश्च "नित्यानित्यवस्तुनोर्विवकेनैव इहामुत्रार्थभोगविरागस्समुत्प स्यत" इति लिखन्नयं महाशयो नित्यानित्ययोर्वस्तुनोर्विवेक इति व्युत्पत्ति मभिप्रेतीव । सा च भामत्यादिविरुद्धाऽनुपपन्ना चेति स्पष्टं विदुषाम् । एतेन " नित्यानित्यवस्तुनोविवेकेन" इत्यारभ्य · गतार्थ भवती त्यन्तं परास्तम्। " अधिंगताल्पास्थिरफलकेवलकर्मज्ञ नतये' त्यादि भाष्यवाक्यस्य पराभिमतनित्यानित्यवस्तुविवेकपरत्वासम्भवस्य पूर्वमुक्त त्वात् . तन्मूलकस्येहामुत्रार्थभोगविरागस्य पूर्ववृत्ततायास्तद्भाष्याभिप्रेतत्वस्य सुतरामसम्भवात् । मुमुक्षुत्वमात्रं ब्रह्मविचारप्रवृत्तावपेक्षितमपि न ब्रह्म विचारपूर्ववृत्ततयाऽर्थशब्दविवक्षितत्वमिति स्पष्टं भाप्यवेदिनाम् । अथशब्द स्य प्रक्रान्तक्रियानन्तर्यवाचित्वेन प्रक्रान्तत्वस्य च स्वपूर्ववाक्यस्थधातु तात्पर्यविषयत्वरूपतयः मुमुक्षुत्वस्य तथात्वाभावेनाऽथशब्दार्थान्तर्गतत्वा .. . यदप्ययमाह "अथेदानीमद्वैतभाष्यं पर्यालोच्यते चेत्तत्रापि अथातश्शब्दयोा ख्यानं समानमेव । तथा हि 'तत्राऽथशब्द आनन्तर्यार्थः परिगृह्य ते.... स्वाध्यायानन्तर्य तु समानम् । तस्मास्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति , उच्यते- नित्यानित्यवस्तु विवेकः, - इहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षु त्वं च । तस्मादथशब्देन यथोक्तसाधन सम्पत्त्यानन्तर्य मुपदिश्यते । अतश्शब्दो हेत्वर्थः " इति । अथशब्द उभयत्रैवा नन्तर्याभिधेयवचनः, तत्र हि अद्वैतभाष्यस्य साधनचतुष्टयानन्तर्य मेवाभिप्रायः । विशिष्टाद्वैतभाप्यस्यापि तथेति प्रतीयते। अद्वैतभाष्ये खल साधनचतुष्टयी कण्ठोक्ता निरूपिता । विशिष्टाद्वैतभाप्ये पुन रिहामुत्रार्थभोगविरागः, शमदमादिसाधनसम्पच्चेति साधनद्वयं शब्दतो न निरूपितम् , किन्तु अर्थादेव । एवं हि अथातश्शब्द व्याख्याने श्रीभाप्यस्य न कोपि तादृशो विशिष्टविशेषः प्रतीयते।'' इति । अत्र ब्रूमः- उभयोभीप्ययोरथशब्दस्यानन्तर्यार्थकत्वमङ्गीकृतमिति स- त्यम् , परं त्वद्वैतभाष्यकाराभिप्रायेण साधनचतुष्टयानन्तयमथशब्दार्थः विशिष्टाद्वैतभाष्यकाराभिप्रायेण कर्मविचारानन्तर्यमथशब्दार्थ इत्ययमेको विशेषः । ' चैत्रेण पच्यते अथ भुज्यत ' इत्याद्यनुसोरणाथशब्दस्य प्रक्रान्त क्रियानन्तर्ये शक्तेस्तान्त्रिकैरङ्गीकृतत्वेन, शाङ्करपक्षे प्रक्रान्तक्रियाया अभावे- नाऽथशब्दस्य लाक्षणिकता श्रीभाप्यकारपक्षे तस्य मुख्यार्थतेत्यपरो विशेषः अधिगताल्पास्थिरफलकेवलकज्ञानतये" त्यादिवाक्येन नित्यानित्यवस्तुविवेकस्सूच्यत इति लेखकस्य कथन तु पूर्वमेवास्माभिनि राकृतम् । एवमतश्शब्दोपि शाङ्करपक्ष लाक्षणिक प्रकृतपरामशिनोऽत शब्दस्य तद्यथेह कर्मचितो.. लोक: इत्यादि . N क्षीयते" ४ -- ? परामर्शितत्वस्य मुख्यत्वासम्भवात् ; स्यतो वेद एवामिहोत्रादीनां श्रेयस्सा धनानामनित्यफलतां दर्शयति 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवा मुत्र पुण्यचितो लोकः क्षीयत ' इत्यादिः, तथा ब्रह्मविज्ञानादपि पर पुरुषार्थं दर्शयति ॥ ब्रह्मविदामोति परम्" इत्यादिः , "तस्मात् " इति हतश्शब्दव्याख्यानरूपं शाङ्करभाष्यम् । यत्तु भामत्यां 'अत्र च ब्रह्म पदेन तत्प्रमाणं वेद उपस्थापितः । स च योग्यत्वात् । तद्यथेह कर्मचितः' इत्यादिः अत इति सर्वनाम्ना परामृश्य हेतुपञ्चम्या निर्दिश्यत'' इति वेदस्य बुद्धिस्थत्वसम्पादनप्रयत्नः कृतः ; स तु विफल एव, परब्रह्मवाचिना ब्रह्म शब्देन तत्प्रमाणभूतवेदस्य कथमुपस्थापनम् ? न हि ब्रह्मस्मरणमात्रेण तत्प माणभूतो वेदस्स्मृतो भवति । एकसम्बन्धिज्ञानगपरसम्बन्धिस्मारकभिति न्यायेन हि ब्रह्मशब्देन वेदोपस्थापनमभिप्रेतम् । प्रमाणप्रमेयभावसम्बन्धस्य स्मारकसम्बन्धत्वाङ्गीकारासम्भवात् । अन्यथा वेदप्रमाणकानामलौकिकाना मर्थानां मध्ये कस्यापि पदार्थस्य स्मरणे सति वेदस्य स्मरणप्रसङ्गात् । च सूत्रे ब्रह्मशब्दो वेदवाची । श्रीभाष्यकारपक्षे त्वतश्शब्दो मुख्यार्थः , अथशब्दार्थानन्तर्यस्यैव हेतुतया तेन परामर्शात् , आनन्तर्य स्य चाव्यवहितपूर्वप्रकृतत्वात् ; तस्मादयमपि श्रीभाष्यस्य विशेष इति मन्त व्यम्। यदुच्यते तदेतद्रामानुजमतानुसारिणः प्रतिक्षिपन्ति । तथाहि- इयं नाम विशिष्टता विशिष्टाद्वैतभाष्यस्य यद्विशिष्टाद्वैतमते कर्मस्व रूपज्ञानविशिष्टकर्मफलानित्यत्वज्ञानं ब्रह्मविचारसाधनम् । अद्वैत मते तु कर्मफलानित्यत्वज्ञानमेव तद्घटकमिति । इदमेवात्रालोचनी यम् । कर्मस्वरूपविचारोपि ब्रह्मविचार पूर्ववृत्त इति विशिष्टाद्वैत भाष्यसिद्धान्तः किमस्ति सूत्रारूद इति । तत्रादावयमेव प्रश्नो भवितुमर्हति-- कुत्रनामाल्पास्थिरफलवकर्मस्वरूपविचार उपवर्ण्यत इति । न तावज्जैमिनीये कर्मविचार; तत्र हि कर्मस्वरूपमेव विचार्यते न तु पुनः कर्मफलानां नित्यत्वानित्यत्वादिकमपि । तद्धि ब्रह्ममीमां न . .
१ । सायास्तृतीयाध्यायचतुर्थपादेन खलु विचार्यते । यदितावद्ब्रह्ममीमां. सातृतीयाध्यायचतुर्थपादप्रतिपादितमेव साधनमथातोब्रह्मजिज्ञासे त्यत्राथशब्दार्थानन्तर्यप्रतियोगितया विवक्षणीयम्, तर्हि इयमेका महती शङ्का समुन्मिपति , यत्कथंनाभ कर्मस्वरूपविचारो ब्रह्मवि- चारसाधनतयाऽथशब्दार्थविवरणावसरे विवक्षितुं शक्यत इति । विदितमेवेदं सर्वेषां यज्जैमिनीयकर्मविचारो द्वादशलक्षणरूपो ब्रह्म- मीमांसातृतीयाध्यायचतुर्थपादे तदनन्तरं वा न वर्तत इति । अतो त्रेदं वक्तव्यम् यजैमिनीयकर्मविचारोपि ब्रह्ममीमांसातृतीयाध्याय चतुर्थपादेन कथञ्चन सङ्गच्छत इति श्रीभाष्यकाराशय इति । युक्तं च तत्, अत एवोक्तं श्रुतप्रकाशिकायां- ' अर्थक्रमावस्लमीमांसा तृतीयलक्षणचतुर्थपादेन कर्मविचारस्सङ्गतः। पतिपतिसौकर्य लक्षणक्रमात्तु कर्मविचारस्य पूर्वभाव ' इति । स्पष्टमिदं गमयनि श्रुतप्रकाशिकाविवरणं, यदथातोब्रह्मजिज्ञासति प्राथमिकी प्रतिज्ञा। अथाते धर्मजिज्ञासेत्यादिकं तु ब्रह्ममीमांसातृतीयाध्यायचतुर्थपाद शेषतामेतीति । तदिदं सिद्धम् – यजैमिनीयकर्मविचारोपि तृती याध्याय चतुर्थपादशेषत्वात् साधनाध्यायगम्य इति ब्रह्मविचारपूर्व तन इति श्रीभाष्यमतं युक्तमेवेति । "..-- अत्रोच्यते--- नैमिनीयकर्मविचारशास्त्रे कर्मफलानां नित्यत्वानित्यत्वा- दिकं न विचार्यते, कर्मस्वरूपमेव विचायते, तस्मात्कर्मविचारेण कर्मणा मल्पास्थिरफलत्वज्ञानं कथं सम्भवतीति पूर्वपक्षी प्रत्यवतिष्ठते । आवृत्ति विधाचादिभिः कर्मणामल्पास्थिरफलत्वं सिद्ध्यतीति वयं ब्रूम :, न त्वल्पास्थि रफलत्वविचारः कर्ममीमांसाशास्त्रे क्रियत इति । आवृत्तिविधानं तावत् दाक्षायणयज्ञेन यजेत सुवर्गकामः " इति श्रूयते । अत्र च दाक्षायण- यज्ञनामकं किमपि म्वतन्त्रं कर्म विधीयते वा दर्शपूर्णमास एव गुणो विधी यते वेति विचार्य, आवृत्तिरूपगुणो विधीयत इति ।
आवृत्तानावृत्तकर्मणोर्गौरवलाघवाभ्यां फले तारतम्यं च ‘'फलस्य कर्मनिष्पत्तेः तेषां लोकवत्परिमाणतः फलविशेष- स्स्यात् " इत्यर्थवादाधिकरणोक्तरीत्या सिध्यति । अनेन न्यायेन कर्मफलानां न्यूनाधिकभावसिध्याऽल्पास्थिरत्वादिसिद्धिः । एवं गुरुलधुभूतानां दर्शपूर्ण मासज्योतिष्टोमवाजपेयामिहोत्रप्रभृतीनां कर्मणां स्वर्गः फलत्वेन श्रूयते । कर्मगौरवलाघवानुसारेण स्वर्गे तारतम्यमावश्यकम् । तत्र च कर्मभेदाङ्गविनि योगप्रयुक्त्यतिदेशादिभिरमिहोत्रदर्शपूर्णमासज्योतिष्टोमवाजपेयादीनां गौर वलाघवसिद्धिः। एवं पूर्वमीमांसागतैर्बहुभिायैः कर्मणामनित्यत्वज्ञानं भवतीति बोध्यम् । यत्तु- कर्मफलानां नित्यानित्यत्वविचारो ब्रह्ममीमांसातृतीयाध्याय चतुर्थपादे क्रियत इत्ययमाह; तन्न, तत्र पादे तद्विचारादर्शनात् । शङ्कर भाष्यानुसारेण तस्मिन्पादे सप्तदशाधिकरणानि भवन्ति । प्रथमाधिकरणे किमात्मज्ञानं क्रत्वर्थमुत पुरुषार्थमिति विचारः । स्वतन्त्रतया पुरुषार्थसाधनं भवतीति पुरुषार्थमिति सिद्धान्तः । द्वितीयाधिकरणे ऊर्ध्वरेतसामप्याश्रमित्वं साधितम् । तृतीयाधिकरणे स एष रसानां रसतम'' इत्यादिश्रुतीनामुपा सनविध्यर्थत्वं स्थापितम् । चतुर्थे आख्यानानां पारिप्लवार्थत्वं निरस्य सन्नि हितविद्यापतिपत्त्युपयोगित्वं साधितम् । पञ्चमे- विद्याया अग्नीन्धनाद्यन- पेक्षत्वमुक्तम् । षष्ठे विद्याया उत्पत्तौ सर्वाश्रमकर्मापक्षोक्ता । सप्तमे- 'न ह वा एवंविदि किञ्चनानन्नं भवती" त्यादीनामर्थवादत्वं स्थापितम् । नष्टमे चाश्रममात्रनिष्ठस्यापि नित्यकर्माणि कर्तव्यान्येवेति साधितम् । नवमे धुरादीनामपि ब्रह्मविद्यायामधिकारस्समर्थितः । दशमे- प्रतिपन्नोर्ध्वरेतो वस्य न पुनः पूर्वाश्रमं प्रति निवृत्तिस्सम्भवतीत्युक्तम् । एकादशे नैष्ठिक विकीर्णितायां प्रायश्चित्तं नास्तीत्युक्तम् । द्वादशे चोर्ध्वरेतसां स्वाश्रमेभ्यः युतानां बहिष्कार उक्तः। त्रयोदशे चाङ्गोपासनानामृत्विकर्मत्वं स्थापितम् । १ बाल्यं धार्मिकत्वाद्यनाविष्करणरूपमिति स्थापितम् । षोडशे- प्रतिबन्ध काभावे विहैव विद्योत्पद्यते, तत्सत्त्वे त्वमुत्रेयुक्तम् । सप्तदशे मुक्तिरूपे फले उत्कर्षापकर्षकृतः कोपि प्रतिनियमो नास्तीत्युक्तम् । तदेवं पादे तस्मि न कुत्राप्यधिकरणे कर्मफलनित्यत्वानित्यत्वविचारो नास्त्येव । एतेन - "यदितावदि" त्यारभ्य “न वर्तत' इत्यन्तं निरस्तम् , पूर्व मीसांसायां कर्मफलाल्पास्थिरत्वसिद्धरस्माभिनिरूपितत्वात् । यत्तु "अतोत्रेदं वक्तव्य " मित्यादिना कर्मविचारस्य ब्रह्ममीमांसा तृतीयाध्यायचतुर्थपादेन सङ्गतेः श्रीभाष्यकाराभिप्रेतत्ववर्णनम् , तदिष्टमेवा स्माकम् , पक्षविशेषे तथा निर्वाहस्यापि प्राचीनैराचार्यैः कृतत्वात् । श्रुतपको शिकायां कर्मब्रह्मविचारयोरेकशास्त्रत्वे प्रथममुभयभागसाधारणप्रतिज्ञाया एवं कर्तव्यत्वात्कथं " अथातो धर्मजिज्ञासे " ति पूर्वभागमानसाधारणप्रतिज्ञा कृतेत्याशक्य तत्समाधानतया त्रयः पक्षाउक्ताः। तत्र-अथातो ब्रह्मजिज्ञासे त्येवोभयभागसाधारणप्रतिज्ञा । कर्मविचारस्तु ब्रह्ममीमांसातृतीयलक्षणचतुर्थ पादेन सङ्गतः । ब्रह्मविचारान्तर्भावपि कर्मविचारस्य पृथकरणमुपपद्यते यथा निग्रहान्तर्भूतळलजात्योराह्निकभेदेन पृथगुक्तिः । पृथक्करणं तु बहुप्रन्य प्रतिपाद्यत्वात् । तत्र च पूर्वभाविस्वमुपजीव्योपजीवकभावादिनिबन्धन मिति - प्रथमः पक्षः। एवं कर्मविचारस्य तृतीयलक्षण चतुर्थपादेन सङ्गतिसत्त्वेपि पूर्वभावित्वं प्रतिपत्तिसौकर्यलक्षणक्रमाद्भवति । अयमेवार्थः श्रुतप्रकाशिकाकारैः " अर्थ क्रमादि " त्यादिग्रन्थेन वर्णितः । न चैतावता कर्मविचारपूर्ववृत्तत्वं परित्य क्तमिति भवति। कृत्स्नं मीमांसाशास्त्रमेकम्, तत्र कर्मविचारो ब्रह्मविचारश्चेति भागद्वयम् । कर्मविचारकरणानन्तरमेव च ब्रह्मविचारे पुरुषस्य स्वाभाविकी प्रवृत्तिर्भवतीति तस्य पूर्ववृत्तत्वम् । सङ्गतिर्हि अनन्तराभिधानप्रयोजकजिज्ञा साजनकस्मृतिप्रयोजकसम्बन्धः । कर्मविचारशारीरकतृतीयाध्यायचतुर्थपाद योस्सऋतिस्समानविषयत्वात् , कर्मविचारपतिपादितक्रत्वङ्गभूतोद्गीथादिवि- चारः खलु शारीरकतृतीयाध्याय चतुर्थपादे क्रियते । ब्रह्मविद्यायाः कर्मा त्वं न वेति विचारः, ब्रह्मविद्याया गृहस्थेषु सर्वकर्मापेक्षत्वम्, अब्रह्मविद्यानि ष्ठानामपि कर्मावश्यकत्वम्, उद्गीथाधुपासनानामृस्विकर्तृकत्वम्, इत्यादिकं त स्मिन्पादे चिन्तितम । कर्मस्वरूपादिविचारानन्तरमेव तेषां विचारः कर्तव्यतया प्राप्तः , कर्मविचारशेषत्वादस्य विचारस्य, अथापि ब्रह्मज्ञानं विना ब्रह्मदृष्ट्यो पासनस्य विचारे कूते बोधो न भवितुमहतीति ब्रह्मस्वरूपादिनिरूपणानन्तरं तृतीयाध्याय चतुर्थपादे कृतमुद्रीथाद्युपासननिरूपणम् । प्रतिपत्तिसौकर्यमत्र बहुधा विवक्षितम् । ब्रह्मविचारो हि कर्मविचारोक्तकृत्स्नन्यायसापेक्षः , तदुक्त न्यायानुपजीव्यैवान ब्रह्मविचारस्य कृतत्वात्, ततश्च कर्मविचारसापेक्षत्वं ब्रह्म विचारस्य कर्मविचारस्य पूर्वभावित्वं च स्पष्टम् , कर्मविचारोक्तन्यायपरिज्ञान मन्तरा ब्रह्मविचारोक्तार्थप्रतिपत्तेरसम्भवात् । एवं ब्रह्मज्ञानं प्रतिबन्धकपापनि रसनेन भवति, तच्चानभिसंहितफलेनानुष्ठितेन कर्मणा।तदर्थ कर्मस्वरूपादिनिश्च योऽपेक्षितः , स च कर्मविचारजन्य इति कर्मविचारस्य पूर्वभावित्वं तत्सापे क्षत्वं ब्रह्मविचारस्य । एवं शारीरकतृतीयाध्यायचतुर्थपादे क्रियमाण उद्गीथा युपासमादिविचारश्च कर्मस्वरूपज्ञानसापेक्ष इति कर्मविचारस्य पूर्वभावित्वम्। कर्मविचारेण कर्मस्वरूपादिनिश्चये जात एव ब्रह्मविचारोक्तार्थप्रतिपत्तिस्सुखेन भवितुमर्हतीति प्रतिपत्तिसौकर्यलक्षणक्रमाकविचारस्य ब्रह्मविचारपूर्वभावि त्वमिति तात्पर्यम् । य- यदपि-" इदमेकमस्वारस्यं सर्वेषां पुरतः स्फुरति सर्वोपि जैमिनीयकर्मविचारः कथं वा ब्रह्ममीमांसातृतीयाध्यायचतु. र्थपादशेषता नेय इति " ....इति ।
मपेिक्षत्वम्,अब्रह्मविद्यानिष्ठानामप्याश्रमकर्मानुष्ठानस्थावश्यकत्वम्,कर्मसमृदय र्थानि काङ्गाश्रयभूतोद्गीथाधुपासनानि, एवमन्यदन्यच्च विचारितमस्ति । कर्मस्वरूप-तत्फल-तदितिकर्तव्यताद्यज्ञाने किं कर्मापक्षितम् ? किश्च न, कथं च तस्कर्तव्यम् ? कानि पुनस्तदजानीत्यादिनिश्चयो न भवितुमर्हति। जै- मिनीयं द्वादशलक्षणात्मक शास्त्रं प्रमाणलक्षणमारभ्य समाप्तिपर्यन्तं सङ्गति क्रमादिविशिष्टम् । पूर्णतया तदध्ययनेनैव च कर्मस्वरूपादिनिश्चयः पूर्णो भवतीति कृत्स्नस्यापि कर्मविचारस्यापेक्षास्त्येव,- इतिशारीरकतृतीयचतुर्थपा दशेषत्वं स्पष्टमिति न किमप्यस्वारस्यमिति । यदपि “ अपरं चेदमस्वारस्यं यद्गृहस्थानां कर्मविचारान न्तरं ब्रह्मविचारः, नैष्ठिकादीनां शमदमाद्यनन्तरमेव ब्रह्मविचार इति सर्वेषामधिकारिणामेकं साधनं न नियम्यत इति । अत्र ब्रूमः । यथा गृहस्थानामग्निहोत्रादिकर्माणि अनुष्ठेयानि ब्रह्मविद्या निष्ठानाम् तथैव नैष्ठिकादीनामपि तदाश्रमोचितकर्माण्यनुष्ठेयान्येव ब्रह्मविद्याङ्गतया, नैष्ठिकादीनां ब्रह्मविद्या कर्मसा- मान्यनिरपेक्षेत्युक्तं कुत्रापि, " अत एव चाग्नीन्धनाद्यनपेक्षा " इति सूत्रे हि अनयाधानपूर्वकामिहोत्रदर्शपूर्णमासादिकानपेक्षैव प्रोक्ता, न तु कर्मसामान्यानपेक्षा । तत्र ह्येव भाष्यम् --"तेषु विद्या केवलस्वाश्रम विहितकर्मापेक्षेत्यर्थः " इति । अत एव हि सूत्रकार. ." अमीन्धनाधन पेक्षा " इत्याह , न तु सर्वकर्मानपेक्षेति । एतावता नैष्ठिकादीनां कर्म - विचारानावश्यकता न सिद्धयति । नैष्ठिकादीनामपि कर्मविचारापेक्षाऽत्येव । येषां पक्षे स्वाध्यायाध्ययनविधिरर्थज्ञानपर्यन्तस्तेषां कर्मविचारसर्वेवामेवाधी तवेदानां प्राप्तः । शमादिसम्पत्तिरपि मीमांसाश्रवणसापेक्षेति निरूपितं भा- -इति । न खलु .
ध्यकृतैव । " अपि च नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवण मन्तरेण न सम्पत्स्यन्ते, फलकरणेतिकर्तव्यताधिकारिविशेषनिश्चया हते कर्मस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोध- त्वात् " इति । तदेवं द्वेषापि नैष्ठिकादीनामपि कर्मविचारापेक्षायां सर्वेषा मेवाधिकारिणां कर्मविचारानन्तरमेव ब्रह्मविचारपाप्तिः । एतेन- "अत्रानुसन्धेयानि श्रीभाष्यवाक्यानीमान्येव " इत्यारभ्य स्वोक्तार्थ श्रीभाष्यग्रन्थगतानां केषाञ्चिद्वाक्यानां प्रमाणतयोद्धार समाहितः , उदाहृतवाक्यमध्य एव तेषु विद्या केवलस्वाश्रमविहित कर्मापेक्षा इत्यर्थः । इति वाक्यस्य नैष्ठिकादीनामपि स्वाश्रमविहितकर्मा वश्यकताप्रतिपादकस्य विद्यमानतया तद्भाव्यस्य एतदभीष्टार्थप्रमाणत्वासम्म वात् । तेन विपरीतफलस्यैव च सिद्धेः । यदप्युक्तम्- "अपरं खल्वस्वारस्यमिदमेव- यदेवताधिकरणे देव तानां ब्रह्मविचारेऽधिकारो यस्साधितः स (ब्रह्मविचारो) यदि जैमि नीयकर्मविचारानन्तरमेव कर्तव्य इति विवक्ष्यते, तर्हि देवतान कर्मानधिकारप्रतिपादकमुत्तरमीमांसागतं देवताधिकरणं निरालम्बन स्यात् , एतदुक्तं भवति । जैमिनीयकर्मविचारो हि 'स्वाध्यायोऽध्ये तव्य' इति विधिप्रयुक्तः, देवतानां वेदाध्ययनानधिकारिणां कथमपि नायं ,विधिःप्राप्त इति ब्रह्मविचारस्य जैमिनीयकर्मविचारानन्तर्यविव क्षायां उत्तरमीमांसागतं देवताधिकरणमत्यन्तमसङ्गतं स्यादिति" इति; अत्र वदामः-शारीरके देवताधिकरणे देवतानां ब्रह्मविद्यास्वधिकारोऽस्ति न वेत्येव चिन्तितम् ; न तु ब्रह्मविचारेऽधिकारोस्ति न वेति । अन्या च ब्रह्मविद्या, अन्यश्च ब्रह्मविचारः। तथा च तत्रत्यं भाष्यम्, "तत्प्रसनेनेदानीं ब्रह्मविद्यायां देवानामप्यधिकारोऽस्ति नास्तीति विचार्यत इति ।
। तन्मूलकदुःखाभावाद्दुःखजिहासारूपार्थित्वं न सम्भवति, शरीराद्यभावा देव विवेकविमोकादिसाधनसप्तकानुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यमपि न सम्भवतीति पूर्वपक्षयुक्तिः । देवादीनां शरीरादिसद्भावेनाध्यात्मिकादितापत्र याभिघातेन तजिहासाया ब्रह्मणि निरस्तनिखिलदोषगन्धे समस्तकल्याण गुणाकरे भोग्यत्वज्ञानेन तत्प्राप्तीच्छायाश्च सम्भवेन चार्थित्वं सम्भवति , सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तायाश्शास्त्रसिद्धत्वेन सम्भवतीति सिद्धान्त युक्तयः । देवादीनामत्रैवर्णिकानामुपनयनाभावेनाध्ययनसिद्धस्वाध्याय लब्ध विद्यत्वाभावात् , विद्याङ्गभूतकर्मानुष्ठानयोग्यताभावाच्च कथं ब्रह्मविद्यास्वधि कार इति चेत् इदमत्र समाधानम्--उपनयनाभावपि ब्रह्मोपासने यज्ञादिकर्मसु च देवादीनामधिकारस्सम्भवति , उपनयनस्य वेदाध्ययनाङ्गत्वेपि ब्रह्मविद्याय ज्ञादिकर्मणोरङ्गत्वाभावात् ; अध्ययनाभावपि देवादीनां पूर्वजन्मविशेषाधीत स्वाध्यायतदर्थस्मरणयोस्सुकृतविशेषेण सम्भवात् ; शूद्रादीनामिव देवा- दीनां विद्याकर्मणोरधिकारस्य कुत्राप्यप्रतिषेधाच्च । . भन्यथा सत्रमासत नच 'वसन्ते ब्राह्मणोऽग्निमादधीत' इत्यादिश्रुतिभिर्ब्राह्मणादीनामेवामया धानविधानाद्देवादीवां ब्राह्मण्याद्यभावेनाग्न्याधानासम्भवाद्यज्ञादिकनिधिकार इति वाच्यम् ; मनुष्यकर्तृकस्याधानस्यैव त्रैवर्णिकाद्यधिकारिकत्वनियमात् । देवा वै विश्वसृजः प्रथमास्सत्रमासत इत्यादिषु देवादीनां क्रत्वनुष्ठानप्रतिपादनविरोधात् । ब्रह्मा बृहस्पतिः क्षत्रमिन्द्रः" " मरुतो वै देवानां विश: " इत्यादिश्रुतिभिर्देवा- दिष्वपि क्षत्रियत्वादिजातिसद्भावप्रतिपादनेनाधानस्यापि सम्भवाच्च । इतिहासपुराणादिषु ब्रह्मादीनां यागाद्यनुष्ठानं च सुप्रसिद्धम् । तस्माद्देवादी नामप्यर्थित्वसामर्थ्ययोस्सद्भावाद्ब्रह्मविद्यास्वधिकारसम्भव इति । देवादीना . कर्माधिकारश्च पूर्वपक्षप्रकरणे “न ह्यशरीराणां देवादीनां विवेकविमोका दिसाधनसप्तकानुष्टहीतब्रह्मोपासनोपसंहारसामर्थमस्ती " त्युक्तया , सिद्धान्तकथनावसरे "सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया सम्भवति' इति संक्षेपण विवेकाधनुगृहीतब्रह्मोपासनोपसंहारसामर्थ्यसद्भावकथनाच भाष्यकारस्याभिमत इति स्पष्टम् । विवेकादिसाधनसप्तकमध्ये हि कर्मणो प्यन्तर्भावोस्ति । उक्तं हि साधनसप्तकविवरणावसरे "पञ्चमहायज्ञाद्यनु- ठानं शक्तित. क्रिये" ति वाक्यग्रन्थोदाहरणमुखेन यज्ञादीनामेव क्रिया शब्दार्थत्वम्। श्रुतप्रकाशिकायां च देवताधिकरणप्रथमसूत्रभाप्यव्याख्याने सर्वमिदं स्पष्टम् । एतेन-" तर्हि देवतानां कर्मानधिकारप्रतिपादकमुत्तरमीमांसागतं देवताधिकरणं निरालम्बनं स्यात् " इत्युक्तिः परास्ता , अस्माभिर्देवादीनां कर्माधिकारसद्भावस्वीकारात् । शङ्करभाष्येपि देवादीनां कर्मानधिकारस्स्पष्ट तया नोक्तः । अस्तु वा भगवतश्शङ्कराचार्यस्थानभिमतो देवादीनां कर्म स्वधिकारः । तावता न श्रीभाष्यकारपक्षे कोपि दोषः प्रसज्येत । कर्मणां विविदिषामात्रोपयोगमङ्गीकुर्वतश्शङ्कराचार्यस्य तथाभिप्रायस्स्यादपि, ब्रह्म विद्यायाः कर्माङ्गकत्वमङ्गीकुर्वतश्श्रीभाष्यकारस्य तु नायमभिप्राय इति स्पष्टं तद्ग्रन्थेषु । यत्त्वयमन्ते । अतो वयं प्रतीमः अथातो ब्रह्मजिज्ञासेत्यत्र शमदमादिसाधनचतुष्टयसम्पत्त्यनन्तरमेव ब्रह्मजिज्ञासा समुत्पद्यत इत्यद्वैत भाष्यकाराणां विवरणमेव सूत्रकोटौ प्रविष्टमिति, न कथमपि विशिष्टाद्वैत भाष्यस्योत्थानमपि सम्भवतीति शम् इत्याह । ब्रह्मविचारं प्रति शमदमादिसाधनचतुष्टय सम्पत्तेः पूर्वभावित्वे कदापि कस्यापि ब्रह्मजिज्ञासायां प्रवृत्तिरेव न सम्भ बति,। नित्यस्यात्मनोऽनित्यानां देहेन्द्रियादीनां च विवेक इति वा नित्या नित्यवस्तगतसखत्वदःखत्वनिर्णय इति वा शब्दार्थाङ्गीरे ब्रह्मविचारात्पूर्व -- " वदामः , १ ॥ तादृशनिर्णयासम्भवात् । यदि ब्रह्मविचारात्पूर्वमेव नित्यस्य प्रत्यगात्मनोऽनि त्यानां देहादीनां च विवेको-निश्चयः स्यात् , व्यर्थस्तर्हि ब्रह्मविचार आप द्यते । नित्यम्- सत्यम्- आस्थागोचरः , अनित्यम्-अनृतम्-अनास्था गोचरः , तद्धर्मी सुखत्वदुःखत्वरूपौ, तन्निश्चयश्च सत्यासत्ययोस्सुखत्व दुःखत्वनिश्चयः । तत्र चेदं सत्यमिदमसत्यमिति निश्चयो ब्रह्मविचारात्पूर्व न सम्भवत्येव । यदि पुनर्यत्सत्यं तत्सुखं यदसत्यं तदसुखमिति सामान्यतो निश्चयो विवक्षितः, न तावता ब्रह्मविचारे नियमेन प्रवृत्तिस्सम्भवति । न खलु किं सत्यं किमसत्यमिति निश्चयार्थं ब्रह्मविचार एव सर्वोपि प्रवर्तत इति वक्तुं शक्यते । सन्ति च शास्त्रान्तराणि बहूनि । तत्राप्यन्वेषणं सत्या सत्ययोवस्तुनोः कर्तुमर्हत्येव पुरुषः । साङ्ख्यादिशास्त्राणा मतत्वावेदक- त्वात्तत्र न प्रवर्तत इति चेत् , तेषामतत्वावेदकत्वनिश्चयोपि ब्रह्ममीमांसा साध्य इति न ब्रह्मविचारात्पूर्व तत्सम्भवः । शमदमादिविचारश्च ब्रह्ममीमांसा यामेव शमदमायुपेतस्स्थादि' त्यादिना क्रियते, ततश्च तस्यापि पूर्वमसम्भवः। नित्यानित्यवस्तुविवेकाभावे तन्मूलकस्येहामुत्रार्थभोगविरागस्याप्यसम्भवः । तन्मूलकं च मुमुक्षुत्वं सुतरां न सम्भवति । इत्थं साधनचतुष्टयस्य ब्रह्म विचारात्पूर्वमसम्भवात्तत्पूर्ववृत्तत्ववर्णनपरस्य शाङ्करभाष्यस्यानुत्थानं या श्रीभाष्यस्यानुत्थानं वा इति पश्यत्वयम् । स्वाध्यायोऽध्येतव्य" इति विधिप्रयुक्ताध्ययनगृहीतसाङ्गसशिरस्क कृत्लस्वाध्यायवतः कर्मब्रह्मज्ञानानन्त स्थिरफलापातप्रतीतिमतस्तन्निर्णयार्थ स्वभावत एव कर्मविचारे पुरुषस्य प्रथम प्रवृत्त्या कर्मविचारस्य पूर्ववृत्तत्वमप्रतिहतमिति स्पष्टं विवेचकानाम् ।। वङ्गेष्वशोकनाथाख्यो भट्टाचार्योस्ति कश्चन । निबन्धमलिखत्कंचित्स श्रीभाष्यविमर्शनम् ।। काञ्चीनिवासी श्रीवादिभीकरार्यान्वयोद्भव अनन्तार्यसुधीस्तस्य परीक्षामकरोदिमाम 8.Y.
No text on this page.
A- ॥ इति , [ निबन्धकः - श्रीमदशोकनाथभट्टाचार्यः एम् ए ] लोकायत जैनसौगतवैशेषिक नैयायिकपात जलकापिलाद्वैत विशिष्टा द्वैतादिदर्शनेषु विशिष्टाद्वैतदर्शनमेव शांकराद्वैतदर्शनस्य प्रबलप्रतिपक्षत यावतिष्ठत इति तमेव विषयमधिकृत्य किञ्चिदिवात्र प्रस्तावयामः । तत्रादौ अखिलभुवनजन्मस्थेमभङ्गादिलीले बिनतविविधभूतवातरक्षकदीक्षे । श्रुतिशिरसि विदीप्ते ब्रह्मणि श्रीनिवासे भवतु मम परास्मन शेमुषी भक्तिरूपा पाराशर्यवचस्सुधामुपनिषदुग्धाब्धिमध्योद्धृतां संसाराग्निविदीपनव्यपगतप्राणात्मसजीवनीम् । पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थितां आनीतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वन्वहम् ॥ इति च मागळिकश्लोकद्वयं भाष्यतामहति न वेति संक्षेपत लोचयामः । तथाहि भाष्यलक्षणं लिङ्गादिसंग्रहटीकायामुक्तं भरतेन सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदु " रिति ।। सूत्रोक्तार्थप्रपञ्चकत्वं भाज्यत्वभित्यपि संक्षेपलक्षणम् । गळाचरणार्थं प्रयुक्ते श्लोकद्वथे सूत्रानुसारिभिः पदैः सूत्रार्थवर्णनं क्रियते भगवता श्रीभाष्यकारेणेति कथमपि कैश्चिन्न वयितुं शक्ये त । नापि बा तत्र स्वपदानां वर्णना दृश्यते । अतः श्लोकद्वयं न सूत्रारूढम् , किन्तु सूत्रमेवेति प्रतिभाति । केचित् खल्वत्र प्रारिप्सितस्य प्रबन्धस्याधिनसमाप्तिप्रचयगमना र्य स्मृत्याचारसिद्धमिष्टदेवतोपासनरूपमङ्गळमपेक्षितमेवेत्याहुः । तत्रापि मंगळस्य विन्नध्वंस एव फलं समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापा आ अत्र तु म .. " एवं हि पू दिति युक्तं मुक्तावळीवचनमुत्पश्यामः । न खलु विशिष्टाद्वैतिभिः श्रीभाष्यकारस्य विघ्नसद्भावः कल्प्यते । तन्मते हि भगवदनन्ताव तारस्य श्रीमद्रामानुजाचार्यस्य दुरितजन्यविन्नेनाभिभूतत्वशंका सर्वथा अनवकाशैव । एतदुक्तं भवति । न हि स्वतस्सिद्धविघ्नविरहवता लोकातिशायिना पुरुषेण कृतस्य मंगळस्य निष्फलत्वापत्तिः विन्ना शंकया तदाचरणादिति चेन्न , विघ्नसद्भावो विनाशंका वाऽमुक्तपक्ष एव कल्पयितुं युज्यते । जीवन्मुक्तस्य पुनर्भाष्यकारस्य कुतस्तदाशं का? सत्यां तु तदाशंकायां भाष्यकारस्य गौरवहानिः प्रसज्येत । नापि वा मंगळमेव सर्वत्र विघ्नध्वंसे कारणम् , विघ्नध्वंसविशेषे विनायकस्तवपाठादीति सिद्धान्तमुक्तावल्यां प्रतिपादितत्वात् । न च वि नायकस्तवपाठस्य मंगळत्वं वाच्यम् , "विनायकस्तवस्य मंगळत्वेपि तदनुकूलकण्ठाभिघातरूपस्य तत्पाठस्य मंगळवाभावात् । तिकूष्माण्डाभूते खलु मंगळे , तत्र प्रेक्षावतां प्रवृत्तिरेव नोपपन्ना भवति । अथ भंगळं यद्येकान्तेनापेक्षितं भवेत् , तदा सूत्रान्तर्भूते " शब्देन ब्रह्मशब्देन च तस्य गतार्थता स्यात् । भगवता भा ध्यकारणवोच्यते " ब्रह्मशब्दन स्वभावतो निरस्तनिखिलदोषो ऽनवधिकातिशया संख्येयकल्याणगुणगणः पुरुषोत्तमो भिधीयते "। इति । अथशब्दश्च आनन्तर्यार्थोपि श्रत्या मंगळप्रयोजनो भवतीति शाखसम्मतम् । तथा च स्मयते ओंकारश्चाथशब्दश्च द्वावेतो ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्मांगळिकावुभा मोहरागाद्यखिलदोषसंजननी दुरत्ययाऽ विद्यापि यस्य खलु ब्रह्मणः साक्षात्कारेण विनिवर्तते , बस्यैव ब्रह्मणः प्रतिपादनपरे ब्रह्ममीमां साभाध्ये पृथनिवेशितं मंगळं पुनरुक्ततामेवापद्यते । ना थ । " विति ।। , जीवन्मुक्तपुरुषो हि भगवान् भाष्यकार इत्यवश्यमेवोरीकर्त व्यं विशिष्टाद्वैतिभिः; अतीन्द्रियार्थप्रतिपादने अतत्त्वविद येषां के षां वा अनधिकारात् । लोकसंग्रहार्थं मननमुखेनैव वेदान्तार्थपरी क्षारूपं भाष्यं तैरत्र विरच्यते । मंगलममंगलं वा अमुक्तस्यैव वि घ्नध्वंसे विनाध्वंसे वा तथा चार्थात् ग्रन्थस्य परिसमाप्तावसमाप्तौ वा नि यामकं भवतीति युक्तम् । न ताभ्यां मंगळामंगळाभ्यां तत्त्वज्ञानिनां कि मपि प्रयोजनम् , संकल्पद्वारेणैव तेषाभिष्टसाधनसामर्थ्यदर्शनात् । तदुक्तं भगवता बादरायणेन " संकल्पादेव तच्छ्रुते” रिति । ( ४ - ४ - ८) अतो मुक्तस्य भाष्यकारस्य ग्रन्थरचनावसरे मंगळस्य नियतोपस्थितिक त्वकल्पनेन भाष्यकृतो मुक्तत्वमपि व्याहन्येत । एवमेव विषयं मनसि निधायाद्वैताचार्थभगवत्पादैः स्वरचितशारीरकमीमांसाभाष्ये पृथक मंग ळं न निवेशितामिति मन्यामहे । अथ मा भवतु मंगळं शांकरभाष्ये अभ्याससमर्थनं तु विद्यते तत्र । भाष्यकारेण हि सौत्रपदसूचितानामेवार्थानां निरूपणं कर्तव्यम् अध्यासः पुन " रथातो ब्रह्मजिज्ञासे रथातो ब्रह्मजिज्ञासे” ति सूत्रघटकेन केनापि पदे न स्पष्टं न संसूच्यते। तथा च शंकरभगवत्पादानामध्यासभाष्यं कथं बा सूत्रारूढमिति शंकात्र समापतति । इदमेवात्र समाधानम् । अथा तो ब्रह्मजिज्ञासत्यत्र ब्रह्मशब्देनैवान्तःकरणस्य चैतन्ये आरोपोपि सू च्यत एव । तथाहि ब्रह्मशब्दस्य कर्तृत्वादिविगळितचैतन्यस्वरूपमर्थः । कर्तृत्वाधिष्ठानचैतन्ये कर्तृत्वादीनां चैतन्ये कल्पित त्वमन्तरेण न सम्भवति । यत् यत्र प्रतीयते तत्तत्र तदैवाविद्यमानमि ति वर्णयितुं शक्यते , यदि तत्तत्र कल्पितम् , तदा रज्जौ प्रती यमानस्सर्पः कल्पितत्वान्न रज्जो वर्तते , एवं कर्तृत्वस्यापि चैतन्ये अभावो यदि कल्पितत्येनैव सम्भवति , तर्हि कर्तृत्वादिविगाळितचैत न्यबोधकेन ब्रह्मपदेन कथं कर्तृत्वाद्यारोपोपि न सूच्यते ; एवं च , अभावश्च .
, भाष्य ब्रह्मपदसूचितत्वादध्यासस्य , अध्यासभाध्यं सूनारूढमिति बहुशो वि चारितत्वाद्वैतिभिर्मात्र पुनर्वयं पिष्टं पेषयामः । वस्तुतस्तु भाष्यकळेबरे मंगळविनियोजनेन न केवलं भाष्य कारस्य विनाप्रतियोगित्वं वैयर्थ्यमापद्येत , किन्तु भाष्यस्य स्वमपि वितथं स्यात् । ननु भामतीप्रभृतिषु प्रभूतमेव मंगळं दृश्यत इति कथं वा तेषां ग्रन्थानां प्रामाण्यमिति चेदुच्यते , भामती नाम वाचस्पतिमि श्रकृता टीका शांकरभाष्यविषयिणी । न हि खलु श्रीभाष्यं सर्व था तदनुरूपम् । श्रीभाष्यविवरणादिषु श्रतप्रकाशिकादिषु मंगळं श्यते चेत् , तदानीं न कोपि दोषः। परं तु श्रीभाष्ये तस्यान्त र्भावदर्शनेन टंकद्रमिडादिभिरेव कृतं मूलं भाष्यं , श्रीभाष्यं पुनस्ते षामन्यतरस्य टीकारूपमिति शंका सञ्जायते । ननु सम्प्रदायसंरक्षणार्थ मंगळं भाष्ये निवेशनीयमेव शिष्टा चारोपरोधादिति चेन्न , शिष्यशिक्षार्थ कृतस्य मंगळस्य ग्रन्थकळेब रेऽयोजनेनाप्यभीष्टसिद्धेः । एवं हि पक्षद्वयमेवात्र सम्प्राप्तम् - मंगळपरिवर्जन तत्परिरक्ष णं वा। तयोरन्यतर एव पक्षोत्र समाश्रयणीयः । तत्र द्वितीयप क्षांगीकारेण श्रीभाष्यं "श्रीटीका" भवतीत्यतो भाष्यकळेबरान्मंग ळस्यैव परिवर्जनं साधीय इति मन्यामहे । एतेनैव ॥ भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्तिं पूर्वाचा स्सिंचिक्षिपुः । तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते” इति वाक्यद्वयस्यापि प्रत्याख्यानं व्याख्यातमेव । शिष्टाचारसिद्धत्वान्मंगळस्य तन्निवेशने तावदनुकूलतर्कसद्भावः कथमपि कल्पयितुं शक्यते । अत्र पुनरनुगुणा युक्तिः काचिदपि न दृश्यते । प्रतिज्ञारूपत्वाद्वाक्यद्वयस्येति तयोरपि परिवर्जनमवस्थितमेव । अपि चैतेन विशिष्टाद्वैतभाष्यं खल बोधायनवृत्तिवदृत्तिरूपं , न तु पुनर्भाष्यमेव ( यथा बहूनां सम्मतम् ) इत्यनतिदुर्बला नवीना काचित् शङ्कह निरर्गळमवकाशते । ननु श्रीमद्भगवद्गीताभाष्ये खलु अद्वैताचार्यभगवत्पादैरपि नारायणः परोऽन्यक्तादण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी" ।। इति मंगळमुपक्षिप्तम् , तथा च " स भगवान् सृष्ट्वेदं जगदि " त्यादिनोपोद्घा तश्च भाष्यांगतया विनियोजित इति कथं न भाष्यस्य वैयर्थ्यापत्तिरिति चेदुच्यते , नाय दोषः। सूत्रभाष्य एव सूत्रानुसारिपदैर्भाष्यकृता सूत्रा र्थवर्णनं , स्वकृतसंग्रवाक्यानां च विभागवर्णनं कर्तव्यम् , नत्वन्यत्र । अत एव श्रीमद्भगवद्गीताभाष्ये वैदिकसंहितोपनिषदादीनां च भाष्ये मंग लोपोद्घातादिकं न दोष येति तत्र मंगळं क्षोदक्षमामिति मन्यामहे । तथा च श्रीमद्भगवद्गीताभाष्ये “ नारायणः परोऽव्यक्ता " दिति श्लोको न मंगळरूपः , तच्छास्त्रप्रतिपादितभगवत्स्वरूपवर्णनार्थमेव प्रयुक्तत्वात् । अध्यासभाष्यवत् शारीरकभाष्यस्य उपोद्घातश्चापि गीतानां सारसंक्षेप इति कृत्वा तस्य प्रामाण्यं सर्वथा यथापूर्वमव्याहतमेवेत्याशयोद्वैतिनामिति प्रकृतं विषयमुपसंहरामः । अथात्रावसरप्राप्तं जिज्ञासाधिकरणस्य किं विशिष्टाद्वैत एव परम तात्पर्यमुताद्वैत इति विषयमवलम्व्य किञ्चिदिव लेखनी व्यापारयामः । तदर्थं श्रीभाष्यमेव प्रथममनुसरामः । जिज्ञासाधिकरणे उपक्रमपङ्क्तयस्तावत् आनन्तर्ये भवति। अतशब्दो वृत्तस्य हेतुभावे अधीतसांगसशिर स्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया सातमोक्षाभिलाषस्य अनन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी" ति । अत्र खलु “ अधीतसांगसशिरस्कवेदस्ये" त्यादिना ब्रह्मजिज्ञासा मायायानन्तरर्स सामान्यतः परिसच्यते। अधिगताल्पास्थिर अत्रायमथशब्द ६ श्रीभाष्यविमर्शनम् । । " अथातः । फलकेवलकर्मज्ञाने” त्यादिना नित्यानित्यवस्तुविवेकरूपसाधनानन्तर्यामु पदिश्यते । नित्यानित्यवस्तुनोविवेकेनैव इहामुत्रार्थभोगविरागः समुत्प द्यते। ततो मुमुक्षुत्वम् । एतदपि पुनः सञ्जातमोक्षाभिलाषस्ये" ति पदेन गतार्थ भवति । अथेदानीमद्वैतभाष्यं पालोच्यते चेत्तत्रापि ब्दयोाख्यानं समानमेव । तथाहि तत्राथशब्द आनन्तर्य्यार्थः परिगृह्यते । स्वाध्यायानन्तर्य तु समानम् । तस्मात् किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते ---- नित्यानित्यवस्तुविवेकः , इहामुत्रार्थभोगविरागः , शमदमा दिसाधनसम्पत् , मुमुक्षुत्वं च । तस्मादथशब्देन यथोक्तसाधनसम्प त्यानन्तर्यमुपदिश्यते । . अतश्शब्दो हेत्वर्थः ।" इति । अथशब्द उभयत्रैवानन्ताभिधेयवचनः । तत्र हि अद्वैतभाष्यस्य साधनचतुष्टयानन्तर्यमेवाभिप्रायः । विशिष्टाद्वैतभाष्यस्यापि तथेति अद्वैतभाष्ये खलु साधनचतुष्टयी कण्ठोक्ता निरूपिता , विशिष्टाद्वैतभाष्ये पुनरिहामुत्रार्थभोगविरागः शमदमादिसाधनसम्पञ्चेति साधनद्वयं शब्दतो न निरूपितं , किं तु अर्थादेव । एवं हि " अथातः शब्दव्याख्याने श्रीभाष्यस्य न कोपि तादृशो विशिष्टविशेषः प्रतीयते । तदेतद्रामानुजमतानुसारिणः प्रतिक्षिपन्ति । तथाहि इयं नाम विशिष्टता विशिष्टाद्वैतभाष्यस्य यद्विशिष्टाद्वैतमते कर्मस्वरूपज्ञानविशिष्ट कर्मफलानित्यत्वज्ञानं ब्रह्मविचारसाधनम । अद्वैतमते तु कर्मफलानित्य त्वज्ञानमेव तद्घटकमिति । इदमेवात्रालोचनीयम कर्मस्वरूपविचारोपि ब्रह्मविचारपूर्ववृत्त इति विशिष्टाद्वैतभाष्यसिद्धान्तः किमस्ति सूत्रारूढ इति । तत्रादावयमेव प्रभो भवितुमर्हति कुत्र नामाल्पास्थिरफलबत् का तीरी शिवार प्रतीयते । -- -- Fin 2 - हि कर्मस्वरूपमेव विचार्यते न तु पुनः कर्मफलानां नित्यत्वानित्यत्वादिक मपि । तद्धि ब्रह्ममीमांसायास्तृतीयाध्यायचतुर्थपादेन खलु विचार्यते। यदि तावद्ब्रह्मामीमांसातृतीयाध्यायचतुर्थपादप्रातिपादितमेव साधनमथातो ब्रह्मजिज्ञासत्यत्र अथशब्दार्थानन्तर्यप्रतियोगितया विवक्षणीयम् , तर्हि इयमेका महती शंका समुन्मिपति , यत् कथं नाम कर्मस्वरूपविचारोपि ब्रह्मविचारसाधनतया अथशब्दार्थविवरणावसरे विवक्षितुं शक्यत इति । विदितमेवेदं सर्वेषां यज्जैमिनीयकर्मविचारो द्वादशलक्षणरूपो ब्रह्ममी मांसातृतीयाध्यायचतुर्थपादे तदनन्तरं वा न वर्तत इति । अतोऽत्र इदं वक्तव्यम् यज्जैमिनीयकर्मविचारोपि ब्रह्ममीमांसातृतीयाध्यायचतुर्थपादेन कथञ्चन संगच्छत इति श्रीभाष्यकारस्याशय इति । युक्तञ्च तत् । अत एवोक्तं श्रुतप्रकाशिकायाम् - अर्थक्रमात् ब्रह्ममीमांसा तृतीयलक्षणचतुर्थपादेन कर्मविचारः संगतः। प्रतिपत्तिसौकर्यलक्षणक्र मात्तु कर्मविचारस्य पूर्वभाव " इति । स्पष्टमिदं गमयति श्रुतप्रकाशिकाविवरणं, यदथातो ब्रह्मजिज्ञा सेति प्राथमिकी प्रतिज्ञा ; अथातो धर्मजिज्ञासेत्यादिकं तु ब्रह्ममीमांसा तृतीयाध्यायचतुर्थपादशेषतामेतीति । तदिदं सिद्धम - यज्जैमिनीय कर्मविचारोपि तृतीयाध्यायचतुर्थपादशेषत्वात साधनाध्यायगम्य इति ब्रह्मविचारपूर्वतन इति श्रीभाष्यमतं युक्तमेवेति । इदमेकमस्वारस्यं सर्वेषां पुरतः स्फुरति , यत् सर्वोपि जैमि नीयकर्मविचारः कथं वा ब्रह्ममीमांसातृतीयाध्यायचतुर्थपादशेषतां नेय इति । अपरं चेदमस्वारस्यम , यद् गृहस्थानां कर्मविचारानन्तरं ब्रह्म विचारः नैष्ठिकादीनां शमदमाद्यनन्तरमेव ब्रह्मविचार इति सर्वेषां अधिकारिणामेकं साधनं न नियम्यत इति । अत्रानुसन्धेयानि श्रीभाष्यवाक्यानीमान्येव अत एव चानी धनाद्यनपेक्षेति ( न , सू , ३ -४-२५) सूत्रे . तथा च , - विद्यावन्त ऊर्ध्वरेतस आश्रमिणः सन्तीत्युक्तमूर्ध्व रेतस्सु च शब्दे हि " (ब्र , सू, ३-४ १७ ) इत्यादिभिः सूवैः। इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदनिका विद्या न सम्भवतीत्याशक्याह अत एव चाग्नीन्धनाद्यनपेक्षेति । यत ऊर्ध्वरेतस आश्रमिणो विद्या सम्बन्धित्वेन श्रुत्या परिगृह्यन्ते . अत एवोर्ध्वरेतस्सु विद्यामोन्ध नाद्यनपेक्षा। आधान - पूर्वकाग्निहोत्रदर्शपूर्णमासादिकर्मानपेक्षा तेषु विद्या , केवलस्वाश्रमविहितकर्मापेक्षा” इत्यर्थः । " सर्वापेक्षा च यज्ञादिश्रुतेरश्वव” दिति (ब्र , सू, ३ ४ २६ ) सूत्रे- " यदि विद्या यज्ञाचनपेक्षवामृतत्वं साधयति तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति । यज्ञादिश्रतिरपि विविदिषन्ति (वृ , ४ ४ २२) इति शब्दात् कर्मणो वेदनांगत्वं न प्रतिपादयति । अत आहा सर्वापेक्षेति । अग्निहोत्रादि - सर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु । कुतः ? यझादिश्रुतेः । अतः कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिक सर्वकर्मापेक्षा विद्या । अपरं खल्वस्वारस्यमिदमेव यद्देवताधिकरणेन देवतानां ब्रह्मविचारेऽधिकारो यः साधितः , स ( ब्रह्मविचारो) यदि जैमि नीयकर्मविचारानन्तरमेव कर्तव्य इति विवक्ष्यते , तर्हि । देवतानां कर्मानधिकारप्रतिपादकमुत्तरमीमांसागतं देवताधिकरणं निरालम्बन स्यात् । एतदुक्तं भवति । जैमिनीयकर्मविचारो हि " स्वाध्यायोध्ये तव्य" इति विधिप्रयुक्तः। देवतानां वेदाध्ययनानधिकारिणां कथमपि नायं विधिः प्राप्त इति ब्रह्मविचारस्य जैमिनीयकर्मविचारानन्तर्यविव क्षायां उत्तरमीमांसागतं देवताधिकरणमत्यन्तमसंगतं स्यादिति । अतो वयं प्रतीमः --- यदथातो ब्रह्मजिज्ञासेत्यत्र शमदमादि साधनचतुष्टयसम्पत्तयनन्तरमेव ब्रह्मजिज्ञसा समुत्पद्यत इत्यद्वैतभाष्य कारणां विवरणमेव सूत्रकोटौ प्रविष्टमिति , न कथमपि विशिष्टा द्वैतभाष्यम्योत्थानमपि सम्भवतीति शम । - Tournal SZAKEcoasharamhankarpa Nenacaturewar Lamma न. नाम 69 १ ३ १२ ८ पुस्तकानि वैदिक माया। नाम रु आ१८. भेद बादःतत्क्रतुन्याय १. श्रीसूक्तभाष्यम्. २ विचारच २. पुरुषसूक्तभाष्यम् १९. दृश्यत्वानुमाननिरास ३. तैचिरीयोपनिषद्भाष्यम् ३ वादःमोक्षकारणतावादश ४. सन्ध्यावन्दनायम् ८२०. कार्याधिकरणबादःभा१ ० १ वेदान्त अन्थाः । २१. कार्याधिकरणवादःभार १ ५. शतदूषणी भा-१ ६२२. कार्याधिकरणतत्वम् ६. शतदृषणी भा-२ मीमांसा ग्रन्थाः। ७. शतदृषणी भा--३ ८. शतदुषणी भा ४ ३ १२१२३. भाट्टरहस्यम् २. भगवद्गीता प्रतिपदा २५. मीमांसापादुका थविवरणसहिता २ २२५. मीमांसाकौस्तुभःभा १ १ १०. अगवद्गीता-दरवरमुनि २६. मीमांसाकौस्तुभःभा४ ६ ४२७. मीमांसाकौस्तुभःभा ५ १ ६ व्याख्यासहिता १६ गीतार्थसंग्रह:-रक्षया २८. सेश्वरमीमांसा ११४ न्यायसन्थाः । सहितः २९. प्रामाण्यवाद: १२. तत्वनिर्णयः ३०. अवच्छेदकतानिरुक्तिः ० १५ (शैववैष्णववादः) ३१. बाधगादाधरी १३. सिद्धान्तचिन्तामणिः • १२:३२. मूलगदाधरीये। १५. पाराशर्यविजयः शब्दखण्ड: (प्रथमाध्यायप्रथमपाद:) १३३. शतकोटिः १५. यतिलिङ्गसमर्थनम् ४३४. उपाधिवादः- १६. प्रपन्नपारिजातः १ : ४, गदाधरस्य அச்சில் 29 1650). O 0 2 2 வ மரD. 10. TI- 58. தத்வமஸி ३९. व्युत्पत्तिवादः 59. ஏகமேவாத்லி தீயம் வதம். గం.సవ్యభిచారిసౌవన్య 161. மோக்ஷர். నిను కి 3: | 8. T[T[Fgfisfs: 23. HarxT57- ६३. संसारचक्रम् भा-२ s ? ४२. पदवाक्यरक्षाकरः ६४. युगलांगुलीयम् 2 83,57387 84. : [3] సుప సంహారపగోధ c. ox=.) ( 38( Tc0- 79 TTTT: | 8. 2. TFYfiqaTFS; ० १४६६. काञ्चीमाहात्म्यम् ४५. तत्वचिन्तामणों E2. 'కాళీ మాహాత్యమ్ TFFA : Sc. HTHIT : [457$A } अवयवग्रन्थः दिव्यप्रबन्ध व्याख्यान ग्रन्थाः । TETITIFgr: | 69. திருப்பல்லாண்டு, १६. सात्वतसंहिता பெரியாழ்வார் திரு R மொழி வியாக்கியா ४७. ईश्वरसंहिता सम्प्रदाय अन्याः । 70. பெருமான் திருயொ N வியாக்கியானம். () ४८. मुमुक्षुप्पडिरहस्यम् 8,71. திருச்சந்த விருத்த) ४९. श्रीवचनभूषणम् வியாத்பொனார் 11 72. திருமாலைவியாக்கியா ५०. श्रीवादिभीकरवैभवम् 012 (Ta] 4/73. திருப்பள்ளி யெழுச் ) வியாக்கியானம் 4? - *furfig frmi41 74, அமலனாதி பிரான் வியாக்கியா 10 F [farf) 175. கண்ணிநுண்சிறுத்த! பு வியாக்கியானம் 0 8 உ. சூவாய 76 திருப்பாவை, நாச்சியார் திரு அணாவைபவம்(0 ON, இவற்றின் வியாக்யானம் 13. అవైభవమ్ அச்சிடப்பட்டு வருகின்றன. இது னர். } னம் ... .. ( 6 ஜம் .... - 54. அருளிச்செயற்பாஹைஸ்பம் 4 ॐ १ ११ ११ 0 ४८. वारमीनिमावदीपः १०१. यतिराजवैभव ६ ७९. लक्ष्मीमहस्रनामस्तोत्रम् ११ ०२. उपनयन गायत्री मी ८०. सुभाषित कौस्तुभ. ८१. सप्तभङ्गीतरजिणी मांसापरीक्षा १०११०३. चक्रधारणप्रसाणसंग्रह . [जैनग्रन्थः] १०४.श्रीरामानुजसम्प्रदाय ८२. सर्वदर्शनशिरोमणिः ३ की प्राचीनता ८३. भस्मधारणविवार: ७५ विशिष्टाद्वैतसिद्धान्त परतत्वा निर्णय सारसंग्रह 8.sairagrseen १०६. चकधारण क्यों fUTU098 करना चाहिये 36 / 01181ol of P B. Mutt 97 History, as १०७. सन्ध्यावन्दनविधि 88. Unp V१७-300 48१८८. व्रतोत्सवानिर्णय ८९. दुर्यादिभूनगर ११०९. तत्वोबोधन ११०.मिथ्याआक्षेपोंकानिरास २ Fo...ssgcate 0.09 १११. तिरुप्पल्लाण्डु 91. RT CAMEForwace ११२. ऊर्ध्वपुण्ड्धारणविधि ११ १३.श्रीपराशरविशिष्टपरम ९२. बद्धबानल: ९३. अन्तयाप्तिपहिच्याति धर्मशाल विचारः २११४.श्रीशाशिल्य विशि- टपरमधर्मशास्त्र ९४. ऐकशालचमीमांसा छपता है Fx.cabSSR) ११५.तप्तमुद्राधारण पर नि ३ ९६. सुदर्शनमीमांसा णयसिन्धुकारका फैसला • १० 97. UNOQ estar १११६.दिव्यदेश विवेचन 2-8,११७. बम्बई का दिव्यदेश छपताहै ९८. श्रीवैष्णवमतदूषणोद्धार [यन्त्रस्थ ११८. वैदिकस देस्वभाविशेषाका १ * F. 36saas damd sogo११९. अद्वैत विवेचन । (यस्थः) 63 प्राप्तिस्थानम् --- Sarolor छपता १ छ ॥ मजुभाषिणी ॥ 2 एतनानी काचन संस्कृतभाषामयी साप्ताहिकी संवादपत्रिका प्रा2 शुक्रवासरं श्रीसुदर्शनयन्त्रालयादवतरति । शार्वरिसंवत्सरे कृतावतार अस्या सम्प्रति अष्टाविंशं वयः प्रचलति । अस्यास्सम्पादका: श्रीक. ० प्रतिवादिभयंकरसिंहासनाधीश्वराः श्रीजगद्गुरु श्रीमदनन्ताचार्य स्वामिन अस्यां सनातनधर्मसम्बन्धिनो नानाविधा उपन्यासाः, नानादेशवृत्तान्ता आख्यायिकाः, शास्त्रार्थाः, अन्ये च सामयिकास्समुचितविषयाः भरला संस्कृतवाण्या प्रकाश्यन्ते । विदुषां विद्यार्थिनां च सैषा सुतरामुपयोगाहीं अस्या चार्षिकमनिममूल्यम्-रूप्यत्रयमात्रम् । अन्यान् विवक्षितविषयानाधि पत्रद्वारा जानन्तु जिज्ञासवः । मुखविलासः-मजुभाषिणीकार्यालयः। श्रीसुदर्शप्रेस । कजीवरम । (मदरास) -- - ॥ वैदिक सर्वस्वम् ॥ एतन्नामकं हिन्दीभाषामयं श्रीवैष्णवधर्ममर्मप्रकाशकं सनातनधर्म संरक्षणबद्धश्रद्धं आवश्यकदेशवृत्तान्त प्रकाशनपरं पूर्वपुण्यपुरुषचरित्रादि प्रख्यापनप्रवीणं व्रतोत्सवादिनिर्णयनिपुणं नवीन-आक्षेपसमाधानादि लेख प्रचुरं अन्यान्यविविधविचित्रविषयविन्याससुभगं मासिकपत्रं श्रीसुदर्शन मुद्रालयात्प्रतिमासमवतरति । अस्मिन् द्राविडदिव्यप्रबन्धानुवादाः द्राविड रहस्यप्रबन्धानुवादाश्च प्रकाश्यन्त इति विशिध्य वेदितव्यम् । श्रीवैष्णवा. नामवश्यसंग्राह्यमिदं पत्ररत्नमित्यत्र नास्ति सन्देहः । अस्य च सम्पादकाः त एव श्रीमदनन्ताचार्यस्वामिपादाः। वार्षिकमप्रिममूल्यम्-सार्थ रूप्यद्वयम् प्राप्तिस्थानम-वैदिक सर्वस्व कार्यालय,श्रीसुदर्शन प्रेस