Svi-ksri-chennai
Shriidaqs-ind-aamuurtistotran'
Front matter
No text on this page.
WAPWAPARStreet Royapettab, Madras-000014. ॥ श्रीः॥ श्रीदक्षिणामूर्तिस्तोत्रं श्रीमच्छङ्कराचार्यविरचितम् श्रीस्वयम्पकाशयतिविरचितलघुतत्त्वसुधा- निधिव्याख्यया समेतम्-( आदी) तथाग्रे-तदेव स्तोत्रं श्रीरामतीर्थयतिविरचितमानसोल्लास[ संग्रह वृत्तान्त- [विलास]नामकव्याख्यासमलङ्कृतश्रीमन्सुरेश्व- राचार्यविरचितभावार्थवार्तिकसंशोभितं च संशोध्य पण्डित-ज्येष्ठाराममुकुन्दजीशर्मणा मुम्बय्यां निर्णयसागराख्यमुद्राक्षरयन्त्रालये मुद्रापितं सद्विजयते संवत् १९५९ शके १८२५.
No text on this page.
Di... andra", Professor of Saoskrit (Retd) 7. Srikrishnapuran Street. Royapettab, Madras-OUNDIN लघुतत्त्वसुधाव्याख्यासमेतदक्षिणामूर्ति विषयसूची- स्तोत्रस्य - १ प्रथमश्लोकस्तयाख्याच सर्वजगद. १७ सप्तमलो. द्या. प्रत्यगात्मपरम- विष्टानगीथर पराभेदज्ञान श्रुतिगुवाश्वरप्रसाद- ५ द्वितीयश्लोकावतरणिका लभ्यम ७ द्वितीयश्लोकस्तयाख्याच आत्मवज-, १८ अष्टमचोकावतरणिका गदुत्पत्त्यादिकारणम् ८ तृतीयो० घ्या. असद्वादनिराक- १९ अटमश्नोकस्तयाख्या च सा व्यव- रणम् हारो माययात्मसाक्षात्कागन्तम ११ चतुर्थश्लो० या० आत्मसत्ताप्रका २० नवमशो. या० अधिकाग्भिदे. शाभ्यामेव जगत. सत्ताप्रकाशी नात्मसाक्षात्कारसाधनभेदनिम्प- १४ पञ्चमश्लो० न्या. चार्वाकादिमत- णम खण्डनम् १५ पटश्लो० घ्या. शून्यवादिमतनिरा- २२ दशमशा० व्या० एतस्तात्रपाठगह- करणम फलानि . मानसोल्लाससंग्रहवृत्तान्तविलासव्याख्यासहितभावार्थ- वार्तिकयुतदक्षिणामूर्तिस्तोत्रस्य विषयानुक्रमणिका-- ०४ मङ्गलम् पाधिक वा । सर्वान्मन्त्र गौण भु न्यं वा। ०५ विषयप्रयोजने २७ जीवस्य कादश ज्ञानमीश्वग्वनी- अस्य प्रकरणत्वस्फुटीकरणम् वत्वसन्मित्वज्ञानजनकम् २६ ब्रह्मणः अस्तित्वप्रकाशत्वाधिष्टानप्र- तत्र साधन किमिति साधानवि- नाः (तत्प्रतिव्यक्तिभिन्नमभिन्न वे. षयक प्रश्नः त्यादिरूपा) तत्र फल किमिति फलविषयक ईशत्वं जीवत्वमात्मत्व च किरूपमि- प्रश्न. (तत्फलं यनसाध्य न वा । तिप्रश्नाः। ईशत्व ताटस्थ्येनाधिष्टा जीवेश्वरयोरैक्यविषयक. प्रा. नत्वेन वा । जीवत्वंस्वाभाविक सो. (तदेकन्व गाण मुख्य वा) " २ २८ जीवस्य सर्वकर्तृत्वं सर्वात्मत्व च : " कथमिति शङ्का ईश्वरत्वादेः मायामयत्वोपसंहारः " तत्र प्रमाणम् गुरुमूर्तिदक्षिणामूर्तिपदयोा- ख्यानम् ३९ प्रथमश्लोकव्याख्यादिसमाप्तिः ." सर्वकर्ता सर्वान्मा च जीवः कथं स्यादिति शङ्का तत्रोत्तरत्वेन मूलश्लोकः प्रथमः तयाख्याच २९ ईश्वरः( सत्तास्फुरणयोर्निरपेक्षाधि- ठानम् ) स एवात्मा आत्मन: परिणामित्वनिरासः ३० आत्मान्तःस्थमेव विश्वं बहिष्टमि- व मायावशाद्भासत ३१ जगत्सत्ता आत्मकायत्ता ३२ जगत्स्फुरणमात्मेकायत्तम् १३ विश्वदर्शन मायिकम् आत्मसत्तास्फुरणे नित्ये अद्वैतज्ञानोदयप्रकारः तत्र साधनानि ३४ जीवस्य कीदृश जानमिति प्रश्नो- त्तरम् ३५ जीवेश्वरभाव: मायानिबधनः , जीवत्वे दृष्टांतः न स्वतंत्रो जीवो नाम कश्चित् ३६ परात्मनः सर्वात्मत्वसाधनम् सर्वस्य ज्ञानस्य स्वप्रकाशत्वमे- " जगतःपरमाणूपादानकन्ववादिन- शेषिकस्य मतम् ४० नेश्वरः कार्यहेतुः ईश्वरस्य कर्तृत्वमंतरा नान्यथा कारणत्वमिति प्रतिपादनाय स- मवाय्यादिकारणत्रयनिरूपणम् ४१ ईश्वरस्य कार्योत्पत्तिनिमित्तत्व- साधनम् ईश्वरस्य जगदुपादानत्वसाधनम् ४२ प्रधानकारणवादिसांख्यमतम् सत्त्वरजस्तमोगुणानां लक्षण त. स्कार्याणि च ४३ द्वितीयो मूलश्लोकस्तयाख्या च ४५ परमाणुकारणवादिवैशेषिकमत- खण्डनम् ४७ प्रकाशसन्मात्रस्याकाशवदमूर्त स्य जगत्कार्यकारणत्वम् सर्वाः कल्पनाः सन्मात्रस्फुरण. विवर्ताः इति आरम्भपरिणाम- वादयोः खण्डनम् ४८ ज्ञानक्रियाशक्त्योरुपाधिना चेत. नाश्रयत्वम् ४९ चेतनमन्तरा कार्यमुत्पद्यते इति सांख्यशकानिराकरणम् ज्ञान द्विधा-सामान्यविशेषभेदान् तत्र विशेषज्ञानमनेकधेति साध नम् . कत्वं च ज्ञानस्य स्वप्रकाशवानगीकारे बाधकम् ३७ क्रियायाः स्वरूपम् क्रियायाः सत्त्वं तत्कार्य च सर्वज्ञत्व किचिज्ज्ञत्वं चैकत्रास्ति ३८ जीवेषु तारतम्ये हेतुः ५० चार्वाककाणादबौद्धसांख्यन्यायक देशि-गौतम-प्राभाकर-भाट- वेदांति-पौराणिकमतानि ५१ काणादस्यषट्पदार्थवादिनः मतम् नव द्रव्याणि चतुर्विशति गुणाश्च ५२ संस्कारभेदाः त्रयः ५३ कर्माणि पश्च सामान्य द्विधा विशेषाः समवायसम्बन्धः नवद्रव्येषु नित्यत्वानित्यवादि- भेदनिरूपणम् । ५४ वैशेषिकमतोपसहारः सांख्यमतनिरूपणम् " " " मायया सृष्टेः प्राकू स्थितमपी. श्वरान पृथगिति जगतो माया- मयत्वम् ५९ जगदीश्वरयोः कार्यकारणत्वे व्य- क्यानंत्यं नेति खण्डनम् तत्र विश्वामित्रादियोगिदृष्टातः ६. ईश्वरस्य निर्व्यापारस्य सृष्टिस्थि- तिसहारकारणत्व कथमिति श- कायाः समाधानम् तनिष्ठं ज्ञातृत्व व्यापारानपेक्षम् " स्वातत्यकेवलेच्छाशक्तयः ईश्वर- स्य परानपेक्षाः स्वातंत्र्यमीश्वरस्यान्यादृशम् तदिच्छापूर्वक एव जगत्सृष्टगा- दिः ६१ ईश्वरस्य निमित्तत्वे कर्तृत्वेन वि कारित्वादिदोषः नित्यज्ञानेच्छावानीश्वरः ततः वि. लक्षणशरीरः जीव इति नोक्त- दोष इति चेत्सर्वदा जगत्सृष्टयाप- त्तिरिति शकासमाधानम् ६२ सर्वदा प्रवृत्तौ ससारनाशस्तस्य न स्यादित्यादिकम् स्वमतं परमतनिराकरण एव निर्दु टमिति द्वितीयमूलश्लोकव्याख्या- धुपसहारः " " तत्र सृष्टिक्रमः " " साहंकारिकाणा खादीनां रवरू- पम् ५५ भूतसूक्ष्माणामधिष्टातृदेवताः सात्त्विकाहंकारकार्यम् तेषां विषयाः अतःकरणाधिष्ठातृदेवताः ज्ञानेंद्रियाणि तदधिष्ठातृदेवताश्च ५६ राजसाहकारकार्यम् सविषयकमंद्रियविभागः तदधिष्ठातृदेवता. ,, सांख्यमतोपसहारः ,, तत्र पंचविशनितत्त्वोपन्यास. ५७ पौराणिकमतम् त्रिंशत्तत्त्वानि शैवमतम् षट्रिंशत्तत्त्वानि ५८ वेदांतिमतम्-ईश्वरे च जगत् " ६३ तत्त्वम्पदार्थयोर्वाक्यार्थप्रकाश- नाय प्रश्नाः तृतीयश्लोकस्तब्याख्या च ६४ भावेष्वात्मस्फुरणे कुत आगल्य संगते भावेषु तत्संक्रमः कथम् " ४ ७४ तत्त्वम्पदार्थयोः सादृश्ययोगसब- न्धो न तयोः कार्यकारणभावरूपसब- " न्धो न तयोः जातिव्यक्तिभावरूपसब- न्धो न ७५ गुणगुणित्वलक्षणसंबन्धो न उपासनाकर्मत्वसंबन्धो न अन्यतरभावकल्पनाविषयत्वस- " " बन्धो न " " . ६४ प्रतिबिम्बभावेन सहते इत्यस्योत्त- रम् ६५ भावानां मिथ्यात्वस्फुटीकरणम् सक्रमणेन सगते इति द्वितीयप्र- नोत्तरम् सच्चिदानन्दसेत्तास्फूर्तिकत्वं भा- वानाम् ६६ विषयस्फूर्तिरात्मधर्म एव न वि- षयधर्मः ६७ सहजाज्ञानवशाल्लोकानांप्रत्यक्षा- द्वितीयानन्दाप्रतीतिः जीवेश्वरयोर्भेदेनभानेऽधिक नि. मित्तम् ६८ तनिवारणाय तत्त्वमस्यादिवा- क्यार्थोपदेशः तत्त्वम्पदयोर्वाच्यार्थलक्ष्यार्थाः ६९ तत्रादौ वाच्यार्थः ततो लक्ष्यार्थः ७. तत्र सबंधत्रयम् ततोखंडार्थस्तयोः लक्षणा त्रिविधा ७१ अत्र जहदजहालक्षणेव ,, सामानाधिकरण्यलक्षणम् १२ तत्त्वम्पदयो. सामानाधिकरण्य समृष्टार्थपरत्वेन न एतदर्थ नवधा सबन्धानां खण्ड- नम् आत्मनो निरशत्व निर्विकारत्व- मिति चूर्णवद्वीजवद्वा नानुप्र- वशः ७३ नत्त्वम्पदार्थयोः स्तोतृस्तुत्यभाव- ७६ त्वम्पदार्थशोधनप्रकारः अंतरात्मभ• मृक्ष्मस्य च पनको- शादुद्धरणग्रकारः ७६ प्रतिशरीरं भेद उपाधिना ७८ जीवेश्वरयोस्तटस्थस्वरूपलक्षणा- भ्यामैक्ययोग्यता । " , ७९ तटस्थलक्षणम् स्वरूपलक्षणम् ८० एकप्रकाशत्व सवात्मत्व च पार- दृश्यम् ,, विद्यमानदेवमनुष्यादिभेदो न स- त्यः जीवोपि सर्वात्मा तत्त्वमस्यादिवाक्यर्थज्ञानफलम जीवब्रह्मणोरेकत्वज्ञानफलम् ८१ तदभ्यासहवाकरण समूल ससा- रनाशः अनेनोल्लासेन सर्ववेदान्ताना सम- न्वय ऐक्य च दर्शितम् तृतीयश्लोकव्याख्यादिसमाप्ति सबन्धो न ६ " " - " - ८१ श्लोकत्रयेणोक्ततत्त्वम्पदार्थस- मन्वयदृढीकरणायारब्धश्लोक- त्रयमध्ये चतुर्थश्लोकोपोद्धातः- अद्वैततत्त्वे सर्वभावानां खतस्स- त्तास्फुरणे नेत्यस्य खण्डन चतुर्थश्लोकेन ८२ चतुर्थश्लोकस्तव्याख्या च ८३ ईश्वरस्यैव स्वप्रकाशत्वसाधनम् विषयाणां सत्त्वमपि प्रकाशवत्प- राधीनम् ८४ तस्यैव स्फुटीकरणम् ८', विषयाः स्वप्रकाशका न , ईश्वरस्य कर्तृत्वं ज्ञातृत्वं च नि- विकारत्वेन ८: आत्मनो ज्ञातृत्वोपाधिज्ञानशक्ति- रन्तःकरणम् ८७ जीवभावमापन्नस्योपाधिद्वाराव- स्थात्रययोगानुभवनिरूपणम् ८८ नाडीस्वरूपं तत्सख्या तत्परिमा- णानि मूलाधारलक्षण तदुपस्कराश्च ८९ कुण्डलिनीमूलभूतमूलाधारात्सुषु- म्नानाडीनिर्गमः , सुषुम्नालक्षणम् , इडापिङ्गलयोर्लक्षणम् नाडीचक्रम् २० अथोर्ध्वमुखा नाड्यः- स्वाधिष्ठानागान्धारीहस्तिजिह्वे निर्गत्य नासिकान्त गते मणिपूरकचक्रस्वरूपम् मणिपूरकात्पूषालम्बुसे निर्गत्य कर्णद्वयान्तं गते मणिपूरकाच्छुक्ला नाडी निर्गत्य भ्रमध्यान्तं गता ९१ मणिपूरकात्सरस्वती जिह्वान्तं. मणिपूरकाद्विश्वोदरी चतुर्विधम- नमत्ति उदरस्था पयस्विनी कण्ठे स्थिता क्षुतं कु- रुते अथाधोमुखा नाड्यः- राकासिनीवालीकुहूनाड्यः तत्कृ- त्यानि पुनरूलनाडी- शहिनी मूर्ध्नि कमलेऽमृत यति नाडीचक्रानिर्गता बहुनाडीनां मध्ये मुषुम्नैव ब्रह्म रन्ध्र गता ९० जाग्रदवस्थालक्षणम् ९.३ स्वप्नावस्थालक्षणम् , सुषुप्त्यवस्थालक्षणम् आत्मा मायासमाच्छन्नः १४ सर्वदा स्वप्रकाशचिदानन्द एवा- त्मेत्यत्र लिङ्गम् , सुखलक्षणम ९५ सत्तास्फूर्ता ईश्वरस्यैव ईश्वरस्य लक्षण तटस्थम् ९६ जगतोऽसत्यत्व जडत्व च प्रत्यगात्मत्वमीश्वरस्य अहङ्कारविधा-- ९. तत्त्वम्पदार्थभानसाधनशुद्धाह- कारोदाहरणम् सर्वप्राणिसाधारण तृतीयाहकार- निरूपणम् अहकारत्रैविध्योक्तिफलम् , , " ६ " " " चाकिमतम् " ९७ अन्यस्यान्यात्मन्यभिव्यक्तिमार्यया , विज्ञानवादिनो मतम् मायानिवृत्ती यत्नः कार्यः पश्चस्कन्धसमुदायवादिबौद्धमतम् चतुर्थश्लोकव्याख्यादिसमाप्तिः बाह्यस्कन्धसमुदायः अध्यात्मस्कन्धपश्चकसमुदायः २८ खण्डनाय मतान्तराणि निरू- स्कन्धाः- प्यन्ते- ११३ रूपस्कन्धः विज्ञानस्कन्धः १०० प्राणात्मवादिमतम् सज्ञास्कन्धः इन्द्रियात्मवादिमतम् संस्कारस्कन्धः १०१ बौद्धस्य क्षणिकविज्ञानवादिनो वेदनास्कन्धः मतम् ११४ मोक्षपदार्थः शून्यवादिनो मतम् पञ्चस्कन्वातिरिक्त आत्मा नास्ति १०२ तेषां खण्डनाय मूलश्लोकस्तया- उभयविधसघाते स्वगतातिशयः ख्याच ११५ तदेतद्वौद्धमतखण्डनाय षष्श्लो- चार्वाकमतखण्डनम् १०४ प्रत्यक्षातिरिक्तमनुमानमभ्युपेयम् । ११६ तयाख्यानम् १०५ इन्द्रियात्मवादिमतखण्डनम् शून्यवादखण्डनम् १०६ प्राणात्मवादिमतखण्डनम् ११८ पंचस्कन्धसमुदायात्मवादखण्ड- ५०७ क्षणिकविज्ञान त्मवादिबौद्धमतख- नम् ण्डनम् क्षणिकात्मवादिबौद्धमतखण्डनम १०८ देहबुद्धयादिसंघातात्मवादिमत- १२० आत्मनो विषयत्वनिराकरणम खण्डनम् १२१ राहुग्रस्तेतिमूलश्लोकाक्षरार्थस्या- जैनस्य वेदांतिन एकदेशिनः सां थतो वर्णनम् ख्यादेश्च मते देहविलक्षणस्य सर्वावभासक आत्मा ईश्वर आत्मत्वे परिमाण किमिति मायास्वरूपम् शङ्कानिराकरणम् १२० प्रबोधसमये प्रत्यभिज्ञायमाना १०९ देहपरिमाणात्मवादे दोषः त्मस्वरूपम् ५१० अल्पपरिमाणेऽपि प्रतीयमान आत्मा सदैकरूप इद्रियागोचरश्च आत्मा व्यापक एव आत्मनः सावयवत्वपरिच्छेदवि- पञ्चमश्लोकव्याख्यादिसमाप्तिः कारित्वाभावाः १२३ प्रपंचधर्मविलक्षण आत्मा ११२ शून्यवादिकृतं बौद्धवादखण्डनम् ." जगदन्तःपातित्वमात्मनो न . " , १२३ षष्टश्लोकव्याख्यादिममामिः १३८ अन्यथाख्यातिवादिनां मतगे प्रथममतखण्डनम् १२४ प्रत्यभिज्ञाप्रमाणम तेषामेव द्वितीयमतखण्डनम प्रत्यभिज्ञा केत्याक्षेपः १३९ आत्माख्यातिपक्षखण्डनम १२. सप्तमश्लोकस्तयाख्यानं च मायामयत्वस्य दातिक उप- १२६ का वा प्रत्यभिज्ञेति प्रश्न उत पादनम् आक्षेप इति विकल्प जगतोऽधिष्टाने श्रान्तिसिद्धत्वम १२७ आत्मनः स्थायित्वम् १४० निणांतविवृत्तवादेन जातविद्य य प्रत्यभिज्ञान प्रत्यक्षं प्रमाणम अविद्यामात्रबाधे आत्मावभास १२८ स्मृत्यप्रामाण्यम् १४१ तत्र प्रमाणानि १२९ स्मृत्यन्यथानुपपत्तिरात्मस्थैर्य प्र- सप्तमश्लोकव्याख्यादिसमाप्ति माणम् १३. वेदितात्मा नित्यः उक्तयावत्स्तोत्रार्थस्योपसहाग- १३१ आत्मनः सदाऽप्रमुषितत्वम् ईश्वरस्य द्वे शक्ती बन्धमोक्षापा- याऽष्टमश्लोकोत्थापनम् दिके १४२ ब्रह्मणः एकत्वे सर्वात्मने न कथ व्यवहार मायाविद्ययो. कार्यम बन्धः मोक्षश्च कस्य १३२ केयं विद्या केन हेतुना बन्धः प्रत्यभिज्ञास्वरूपम् मायाया लक्षणं किम् १३३ विद्यया अविद्यामात्रबाध एषां प्रश्नानामुनरितानामपि पु. मोहापमरणमेव अभिव्यक्तिकार- नस्सक्षेपेणोत्तरम् णम् १४३ अत्र उक्तार्थे पुनःपुनरुक्त पि विद्यया आत्मावभास स्वतः न पौनरुक्त्यदोषोभ्यासार्थत्वे सिद्धः अष्टमश्लोकस्तयाख्या च आवरणतिरोधानमेव मानकृत्यम् अविद्यानिवृत्तेःप्राक् सर्वव्यवहार. १३६ वेदांतवाक्यजनितवृत्तिरूपप्रमाण एकोयनेकधा व्यवहारास्पदम मोहनिवृत्त्या बन्धनिवृत्तिः ईश्वरस्यैवानेकधा विभावना देहात्मनोः परस्पराध्यासनिबन्ध- १४. एकम्मिपितृपुत्रादिभाव' क- न एव संसारबन्धः पित एव न नियतः परमात्मनि भेदप्रतीति कत्पितैव १३७ शुक्तौ रजतस्य मायामयत्वम् मिथ्यात्वलक्षणम् तस्य रजतस्य असत्त्वमपि न मायालक्षणमपीदमेव " " अध्यासे दृष्टान्तः " - " त्तिः फलम् .. " १४५ बाधो नाम १५४ सर्व जगदष्टमूर्त्यात्मकम् १४६ वेदान्तशास्त्रप्रामाण्यनिरूपण मि- महेश्वरविग्रहः षट्रिशत्तत्त्वात्मक थ्यात्वपि सर्वस्य तञ्चाध्यात्माधिदैवभेदेन षट्रिश- सर्वस्य मायामयत्वदृढीकरणम् त्तत्वं द्विविधम् विवर्तस्वरूपम् आद्यं चतुर्दशभुवनात्मकं द्वितीय मायास्वरूपम् मायायाः साक्षालक्षणम् देहपिडात्मकम् १४८ मायापरवशान्प्रति शोचनम् षटत्रिशत्तत्त्वानि पिण्डे ब्रह्माण्डे- मनसो मोक्षः परमानन्दलाभे पि सर्वत्र, तच्च सर्वमष्टमूर्त्यान्म- कम् कारणम् जाग्रत्स्वप्नसुषुप्त्यवस्था. १५५ पिण्डे ब्रह्माण्डसपादने निमित्तम १४२ मनसो भेदभ्रान्तिभिः ससार तथोपासनया पिण्डे ब्रह्माण्डसप- नात्मनः आत्मनः कर्मलेशलेपो न तत्र प्रमाण तैत्तिरीयश्रुति. आत्मनिष्ठ कर्तृत्वादिकमौपाधि- १५६ ब्रह्माण्डोदरस्थभूरादिसप्तलो- कम् कानां षट्चक्रेषु स्थितिरिति १.० आत्मा सोपाधिकोप्यसङ्गत्वकूट संपत्त्यनुक्रमेणोपासना कार्या स्थत्वादिस्वभावः सपूर्णपिण्डे भूलॊकादिसंस्थानवि- विक्षेपावभासोपि न पारमार्थिकः शेषसपादनप्रकार:- (शरीरे में- मायया भ्रामितो जीवः रुकुलपर्वतगङ्गानद्यादिकल्पनाप्र. १.१ ससाधनस्तत्त्वज्ञानद्वारको मोक्ष. कारेणोपासनार्थः) मायिकभेदबोधिनी श्रुतिः १५७ शरीरे प्राणात्मना ब्रह्माण्डवायुः अष्टम लोकव्याख्यादिसमाप्ति १५८ प्राणों दशधा तयं च अग्नीषोमरूपोदानकृत्यानि १५२ एवंविधमायानिवृत्तिः कथमिति व्यानसमानकृत्यानि प्रश्नः १५९ नागादिपश्चवायुकृत्यानि कल्पितविग्रहस्येश्वरस्य (षट्रिश- प्राणापानौ चन्द्रार्कत्वेन ध्येया त्तत्त्वाधिष्ठानाष्टमूर्तः) उपासना पुरुषः लम्बनत्वम् १६० देहे भूरम्भआदिलोकोपासनाफ- १५३ अष्टावेव मूर्तयः कुत उपादीयन्ते लममनस्कत्वम् नान्या इति प्रश्नोत्तरत्वेन नवम यमाः (मनस्साध्या.) श्लोकस्तयाख्या च १६१ नियमाः (कायसाध्याः) " " ९ " " , -- " योगे साधनान्तरम् ३ - " १६१ आसनानि-( ब्राह्मवैष्णवरौद्रयो- १६७ प्रणवस्वरूपक्रमः न्यासनानि) १६८ प्रणवे पञ्चाक्षरी १६२ निरालम्बनयोगे त्वासनादिविशे- एतत्पश्चाक्षरीदेवताः षाः १६९ सर्वसिद्धिर्गुरुदेवतानुग्रहात् प्राणायामाः प्रणवार्थः प्रत्याहारः १७० नवमश्लोकव्याख्यादिसमाप्ति 1६३ धारणा ध्यानम् समाधिद्वयम् अथ दशमोल्लास:- एतत्स्तोत्रफलम् 1:४ प्राणायामफलम् १७१ इति दक्षिणामूर्तिस्तोत्रसमाप्तिः अस्य मोक्षो मुख्य फलम् वशीकृतचित्तप्राणस्य योगिन- विवानि १७२ ईश्वरत्व नाम स्वस्येश्वरत्वप्राप्तावेव यतिनव्यम् पञ्चभूतजयः १६५ पृथिव्याख्यप्रथमभूमिकाजय- १७३ नत्रानुषङ्गिकाष्टसिद्धिनामानि पर्यन्तस्य योगस्य लक्षणम् १७४ अणिमासिद्धिलक्षणम् जलाख्यद्वितीयभूमिकाजयपर्य- । महिमासिद्धिलक्षणम् न्तस्य योगस्य लक्षणम् लघिमासिद्धिलक्षणम् तेजसाख्यतृतीयभूमिकाजयपर्य- गरिमासिद्धिलक्षणम् न्तस्य योगस्य लक्षणम् १७५ प्राप्तिसिद्धिलक्षणम् ६: वाय्वाख्यतृतीयभूमिकाजय प्राकाम्यसिद्धिलक्षणम् पर्यन्तस्य योगस्य लक्षणम् अथवा प्राकाश्यसिद्धिलक्षणम् आकाशाख्यचतुर्थभूमिकाजयप ईश्वरत्वसिद्धिलक्षणम् यन्तस्य योगस्य लक्षणम् १७६ वशित्वसिद्धिलक्षणम् वशीकृतमनोयोगचिहानि तत्फ- एतत्स्तोत्रफले मोक्ष एवेन्छा काया 1६७ प्रणवाभिव्यक्तिप्रकारः १७७ एतत्स्तोत्रेऽधिकारिण:- प्रत्यह प्राणिनां श्वाससंख्या दशमलोकव्याख्यादिसमाप्तिः , " - " -- . "
No text on this page.
श्रीदक्षिणामूर्तिस्तोत्र- स्वयम्प्रकाशयतिविरचितलघुतत्त्व- सुधाव्याख्यासमेतम्. मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः । आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्ति स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १॥ कैवल्यानन्दयोगीन्द्रशुद्धानन्दयतीश्वरौ । नत्वारभे लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥ २॥ इह खलु सर्वज्ञो भगवान्भाष्यकारो लोकानुग्रहकप्रयोज- नकृतशरीरपरिग्रहः सकलवेदान्तदुग्धाब्धेः न्यायमन्दरेण विचारनिर्मन्थनादाविर्भूताद्वैतामृतस्य विन्यासकलशभूतं श्रीदक्षिणामूर्तिस्तोत्रं सकललोकानुजिघृक्षया भोक्तृजीवभो- ग्यजगद्भोगप्रदपरमेश्वरमोक्षप्रदगुरूणामत्यन्ताभेदबोधकं स- कृत्पाठश्रवणार्थमननादिमात्रेण परमपुरुषार्थप्रापकमारभमा- णस्तस्य वेदान्तसारभूतनवनीतपिण्डात्मकत्वेन तदीयविषया- दिभिरेव तद्वत्तासिद्धिमभिप्रेत्य, आदौ प्रतीचस्सकलजगदधि- ष्ठानत्वेन परमेश्वरतां दर्शयन् दक्षिणाशामुखं परमेश्वरं म- नसा पूजयति-विश्वमिति- विश्व दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गत श्रीदक्षिणामूर्तिस्तोत्रं- पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवादयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥१॥ 'विश्व'विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत्, 'निजान्तर्गतं' निजं स्वीयम् अन्तः मध्यं गतं प्राप्त, प्रत्यक्स्व- रूपे स्थितमिति यावत् । निर्विकारे नीरन्धेऽतिस्वच्छेऽसङ्गे सूक्ष्मे प्रतीचि जगतस्तद्विपरीतस्य स्थितौ तत्सदृशं दृष्टान्त- माह-'दर्पणदृश्यमाननगरीतुल्यम्' इति । दर्पणे आदर्श नीरन्ध्रे असङ्गे स्वच्छे सूक्ष्मे निर्विकारे प्रतिबिम्बिता सती दृश्यमाना अवलोक्यमाना या नगरी पुरी चतुर्दशसन्निवेशा सप्तवापीयुक्ता नानोपवनदक्षिणोत्तरतोतिमनोहरमार्गद्वयवि- भूषिता मङ्गलदीपिकाद्वयविराजिता अनेकक्रीडाशिखरियुता नानाविधजनसङ्खला क्वचिद्धट्टमार्गप्रदेशयुता च, तत्तुल्यं तत्समानम् । तदुक्तं भारतीतीर्थैः- निश्छिद्रदर्पणे भाति वस्तुगर्भ बृहज्जगत् । सच्चित्सुखे तथा नानाजगद्गर्भमिदं वियत् ॥ इति । वासिष्ठेऽपि शिलोपाख्याने इदमुक्तं- द्यौः मा वायुरथाकाशः पर्वतास्सरितो दिशः। सन्ति तस्यां शिला सा च सुषिरा न मनागपि ॥ अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि । विद्यतेन्तर्जगद्वन्दं व्योम्नीव विततोनिलः ॥ इति । ननु प्रतीचोन्तरे यदि सदा विश्वं तिष्ठति तर्हि रागादि- वदन्तरेवानुभूयेतेत्याशङ्कयाह-आत्मनीत्यादिना । 'आ- १ 'चित्कष्ट' 'चिदष्ट' इति पाठान्तरे. २ पञ्चदश्यां १३-९९. ३निर्वाणप्रकरणे ४६ अध्याये, - - लघुतत्वसुधाव्याल्यासमेतम्. स्मनि' स्वप्रकाशे प्रतीचि विषये आश्रये च माया अविद्या सूर्ये पेचकादीनामन्धकारप्रतीतिवन्मामहंनजानामीतिभ्रमा- नुभवसिद्धा तया 'मायया' 'बहिः' स्वस्माद्बाह्यदेशे 'उद्भू- तमिव' आविर्भूतमिव 'पश्यन्' अवलोकयन् ,' 'यः' इत्युत्त- रत्र सम्बन्धः। अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे दृष्टा- न्तमाह-यथानिद्रयेति॥'यथा निद्रया' स्वानं जगत् साक्षिणि स्वस्मिन्नध्यस्ततया स्थितमपि स्वस्मादहिस्स्थितमिवानुभवति तद्वदेवेदं जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्तत- या स्थितमेव स्वाध्यस्तदेहादितादात्म्याध्यासवशात् स्वस्मा- द्वहिरिव पश्यति । अन्यथा जडस्य जगतः प्रत्यक्चैतन्येन सह संयोगाद्यन्यतमसम्बन्धासम्भवेन प्रतीचस्सकाशाजग- दानं न स्यात् । तस्मात्तत्राध्यस्तमेव तत् । तथा च प्रत्य- गात्मानं प्रकृत्य श्रुतिर्भवति- पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् । आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥ एतस्माजायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुयोतिरापः पृथिवी विश्वस्य धारिणी॥ मय्येव सकलं जातं मयि सर्व प्रतिष्ठितम् । मयि सर्व लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ इति । यथा स्वमप्रपञ्चोयं मयि मायाविजृम्भितः । एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः ॥ इति पुराण- वचनं च । ततः प्रतीच्येव जाग्रत्प्रपञ्चोध्यस्तोनुभूयते भ्रा- न्त्या बहिरिवेति भावः। कैवल्योपनिषदि.
श्रीदक्षिणामूर्तिस्तोत्रं- ननु स्वात्मनि प्रपश्चोध्यस्तश्चेद्वाध्येतानच कदाचिदपिबा- धोनुभूयते । अतोनात्मन्यध्यस्तः, किन्तु बहिः परमार्थत एव स विद्यत इत्याशङ्कय यथा स्वमप्रपञ्चोध्यस्तोपितदा सत्य इव भाति,प्रबोधसमये बाध्यते, तथैवायमपि जाग्रत्प्रपञ्चः तत्त्व- ज्ञानात्पूर्व सत्यत्वेन भातोप्याचार्येण परमदयालुना साक्षात्प- रमेश्वरावताररूपेणोपदिष्टतत्त्वमस्यादिमहावाक्यजन्यप्रत्य- ग्ब्रह्मैक्यसाक्षात्कारसमये समूलं बाधितस्सन् प्रत्यगभिन्नाद्वि- तीयब्रह्ममात्रतया परिशिष्यत इत्यभिप्रेत्याह-यस्साक्षादित्या दिना। 'य'अध्यस्तप्रपञ्चाधिष्ठानभूतःप्रत्यगात्मा,'प्रबोधसम- ये'गुरूपदिष्टमहावाक्यात् ज्ञानोत्पत्तिकाले, अद्वयं' सर्वप्रपञ्च- स्य समूलस्य बाधितत्वेन वियदादिद्वयरहितं, 'स्वात्मानमेव' वियदाद्यधिष्ठानभूतब्रह्माभिन्नं सच्चिदानन्दात्मकं प्रत्यञ्चमेव, 'साक्षात्कुरुते' सच्चिदानन्दात्मकं ब्रह्माहमस्मीत्यप्रतिबन्धे- नाव्यवधानमनुभवति; 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत्' इत्यादिश्रुतेः । तस्मै' उक्तरूपाय, 'श्रीगुरुमूर्तये' श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया त्रिविधपरिच्छेदशून्यो ज्ञा- नोपदेष्टा पुरुषः, तन्मूर्तये तद्रूपेणावस्थिताय, 'श्रीदक्षिणा- मूर्तये' दक्षिणा दक्षिणदिगभिमुखा मूर्तिर्विग्रहो यस्य तस्मै । परमाद्वैतविज्ञानं कृपया वै ददाति यः। सोयं गुरुर्गुरुस्साक्षाच्छिव एव न संशयः॥ इत्यादिवचनशतेभ्यो ज्ञानोपदेष्टा गुरुस्साक्षात्परमेश्वर एव। अथवा-श्रीमती सच्चिदानन्दात्मिका गुर्वी अतिमहत्तरा मूर्तिस्वरूपं यस्य स तथा, तस्मै श्रीगुरुमूर्तये। श्रिया अनाद्य- चिन्त्यमायाशक्त्या दक्षिणः सृष्टिस्थित्यन्तविरचनानिपु- १.उ.६-५-१५.
लघुतत्वसुधाब्याख्यासमेतम्. णश्चासौ परमार्थतोऽमूर्तिश्च आकारविशेषरहितः, 'अस्थूल- मनप्' इत्यादि श्रुतेः । स दक्षिणामूर्तिः तस्मै 'इदं' 'नमः' प्रहीभावोस्त्विति शेषः । प्रह्रीभावश्च स्वात्मनः पर- मेश्वरे एकत्वेन समर्पणम् । अत्र च पूर्वार्धेन त्वम्पदार्थ उक्तः, उत्तरार्धे श्रीगुरुमूर्तये श्रीदक्षिणामूर्तय इति पदद्व- येन मूर्तिद्वययुक्तस्तत्पदार्थ उक्तः। स्वात्मानमव्यमिति पदव- यसामानाधिकरण्येन यत्तच्छब्दाभ्यां च प्रत्यग्ब्रह्मैक्य- लक्षणो वाक्यार्थ उक्तः। सकलवेदान्तप्रसिद्धोयमेवार्थः उत्तरश्लोकैः प्रपञ्च्यते ॥ दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं विश्वं यथा निद्र- या तथात्मनि मायया बहिरुद्भूतमिव पश्यन् यः प्रबोधसम- येवयं स्वात्मानमेव साक्षात्कुरुते तस्मै इदं नम इत्यन्वयः॥ एवमेवास्यार्थो वार्तिककारेण सङ्ग्रह्योक्तः- ईश्वरो गुरुरात्मेति मूर्तिभेदाद्विभागिने। व्योमवद्याप्तदेहाय दक्षिणामूर्तये नमः ॥ इति ॥१॥ नन्वात्मनि प्रपञ्चस्यावस्थानं नोपपद्यते, तदकारणत्वात् । तथाहि-किमात्मा जगदारम्भकः उत तदाकारपरिणामी? नाद्यः; एकस्य विभोश्चिद्रूपस्य जडप्रपञ्चारम्भकत्वासम्भवात्। नापि द्वितीयः, निरवयवनिर्विकारचिद्रूपस्य परिणामासम्भ- वात् । ततो नित्याश्चतुर्विधाः परमाणवो जगदारम्भका इति तेष्वेव तस्य स्थितिः । यद्वा-प्रधानमेव जडं त्रिगुणात्मकं जगदाकारपरिणामि, तत्रैवेदं जगत्परमार्थतोस्ति न तु चिदा- त्मनि इति नैयायिकानां साङ्यानां वा मतमाशङ्कय-न १.उ.५-८-८ श्रीदक्षिणामूर्तिस्तोत्रं- तावत्परमाण्वारम्भवाद उपपद्यते, निरवयवानां तेषां सर्वात्म- ना संयोगे प्रथिमानुपपत्तेः, भिन्नयोर्गवाश्ववत्कार्यकारणभा- वायोगात् ,पूर्वमसतश्च कार्यस्य शशविषाणवदुत्पत्त्यनुपपत्ते, अत्यन्तभिन्नकार्यारम्भे कार्ये गुरुत्वादितद्वैगुण्यापत्तेः, पर- माणुसद्भावे प्रमाणाभावात्, कार्यद्रव्यस्य स्वन्यूनपरिमाणा- रब्धत्वनियमस्य स्थूलतूलपिण्डारब्धतन्त्वादावदर्शनाच्च।ना- पि प्रधानपरिणामवादः, तस्य चेतनानधिष्ठितस्य कार्योत्पादे स्वतोऽसामर्थ्यात् , लोके रथादेश्चेतनाधिष्ठितस्यैव प्रवृत्तिद- र्शनात्, तत्सद्भावे प्रमाणाभावात्, 'अजाम्' इत्यादिश्रुते. श्व तेजोबन्नादिप्रकृत्यव्याकृतपरत्वाच्च । किं तु श्रुतौ 'सत्यं ज्ञानमनन्तं ब्रह्म' 'तस्माद्वा एतस्मादात्मन आकाशसम्भू तेः ' 'सदेव सोम्येदमग्र आसीत् तदैक्षत बहुस्यां प्रजाये. येति' 'यतो वा इमानि भूतानि जायन्ते' 'यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते' इत्यादिषु सहस्रशः परमात्मन एव चेतनाजगदुत्पत्तिश्रवणा- त्, विलक्षणयोरपि कार्यकारणभावस्य गोमयवृश्चिकपुरुषके- शलोमादौ दर्शनात् ,आरम्भपरिणामव्यतिरेकेण तत्त्वतोन्य- थाभानलक्षणविवर्तरूपप्रकारस्यापि कार्योत्पादे स्वमप्रपञ्च- शुक्तिरजतादौ दर्शनात्,* अत्र विवर्तवादस्य विवक्षितत्वात्, + 'सर्व तं परादाद्योन्यत्रात्मनस्सर्व वेद' ईत्यादिश्रुतौ आत्म- . १. उ. ४-५. २..२-१. ३छा..६.२. ते. 'उपादानसमसत्ताककार्यापत्तिः परिणामः, उपादानविषमसत्ताककार्यापति- विवर्त इति' इति ख. ग. कोशयोरधिकः पाठः भियं हेतुः क. कोशे नास्ति ६.उ. ४-४-५ लघुतत्त्वसुधाग्याख्यासमेतम्. नोन्यत्र जगद्वेदनस्य निन्दितत्वात्, घटोस्ति पटोस्ति घटस्स्फुरति पटस्स्फुरतीति सत्तास्फुरणानुविद्धतयाऽनुभू- यमानस्य जगतो मृदनुविद्धघटस्य मृत्कार्यत्ववत् सत्तास्फुर- णात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव जगदुत्पत्त्यादिकारण- मित्यभिप्रेत्याह-बीजस्यान्तरिवेति ॥ बीजस्यान्तरिवाङ्कुरो जगदिदं प्रानिर्विकल्प पुनर्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीक- तम् । मायावीव विजृम्भयत्यपि महायोगीव य- स्स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणा- मूर्तये ॥२॥ 'इदम्' अनुभूयमानं सर्व 'जगत्' 'प्राक्' उत्पत्तेः 'निर्विकल्प' भोत्तृभोग्यादिविकल्परहितमात्ममात्रमेवासीत्; 'आत्मा वा इदमेक एवाग्र आसीत्' 'सदेव सोम्येदमन आसीत्' इत्यादिश्रुतेः । तत्र दृष्टान्तमाह-बीजस्येति । 'बीजस्यान्तः' मध्ये 'अङ्कुर इव' । उपलक्षणमेतत्-पल्लवप- त्रपुष्पफलशाखाविटपात्मकवृक्षो यथा उत्पत्तेः पूर्व निर्विक- ल्पं बीजमात्रमासीत्तद्वत् ।'पुनः' पश्चात् सृष्टिसमये, 'माया. कल्पितदेशकालकलनावैचित्र्यचित्रीकृत'मायया ईश्वराधिष्ठि- तया कल्पितौ यौ देशकालौतयोश्च कलना सम्बन्धस्तद्वैचित्र्ये- ण चित्रीकृतं नानाविधभेदभिन्नतया विभक्तम् ; 'तनामरू- पाभ्यामेव व्याक्रियते' इति श्रुतेः । ननु कथमीश्वरस्य बाह्यसाधनरहितस्य जगदुत्पादकत्वम् ? लोके कुलालादेर्बा- १ऐ. . 1-1... २छा.उ.१.२.
श्रीदक्षिणामूर्तिस्तोत्रं- ह्यसाधनवत एव कार्यकरत्वदर्शनादित्याशङ्कय, ईश्वरस्थाना- धनिर्वचनीयमायाशक्त्युपहितस्य स्वेच्छामात्रेणैवैन्द्रजालि- कवद्देवर्षिपित्रादियोगिवच्चोपपद्यते जगदुत्पादकत्वमित्यभि- प्रेत्याह-मायावीवेत्यादिना । 'यः'परमेश्वरो मायावीव'लो- कप्रसिद्धैन्द्रजालिकमायाविवत् 'महायोगीव' विश्वामित्रादि- महायोगिवच्च स्वेच्छया' स्वसङ्कल्पमात्रेण, 'विजृम्भयति' इदं जगदुत्पादयति, 'इन्द्रो मायाभिः पुरुरूप ईयते' 'तदात्मा- नस्वयमकुरुते' 'सच्च त्यच्चाभावत् , इति श्रुतेः। नापि मायया तस्य सद्वितीयत्वम्, तस्या अपि कल्पितत्वात् । नापि तस्य कारणत्वेन विकारित्वम् , जगत्कारणत्वस्यानाद्य- निर्वचनीयमायाघटिततया कल्पितत्वेनोपलक्षणत्वेनापि तत्र विकारानापादकत्वात्। ततश्च तत्र कस्यापि दोषस्याभावात् ब्रह्मैव प्रत्यगभिन्नं सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः। तस्मै........नमः ॥२॥ नन्वसदेव जगतः कारणं, पिण्डादिनाशादेव घटाद्युत्पत्तिदर्श- नात् , जागराधकालीनकार्यस्य चासत्पूर्वकत्वदर्शनात् , तट्ट- ष्टान्तेन जगतोपि तथात्वानुमानात्, 'असद्वा इदमग्र आसीत्' इति श्रुतेश्चेत्यसद्वादमाशङ्कयाह यस्यैवेति ॥ यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भास- *ग-उपलक्षणस्य. 'यावत्कार्यमवस्थायिभेदहतोरुपाधिता। कादाचिस्कतया भेदधीहेतुरुपल. क्षणम् ॥, इति क. ग. कोशयोरधिकः पाठः॥ १वृ. उ. ४-५.१९. २ ते. उ. २-७. ३ तै. उ. २-१.. ४ तै. उ. २.७.
लघुतत्त्वसुधाब्याख्यासमतम्. ते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रि- तान् । यत्साक्षात्करणाद्भवेन पुनरावृत्तिर्भवाम्भो- निधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्त- ये ॥३॥ 'यस्य' प्रत्यगभिन्नस्य परमेश्वरस्य स्वरूपभूतं 'सदात्मकं' सद्रूपं 'स्फुरणमेव' चैतन्यमेव 'असत्कल्पार्थगम्' असत्कल्पाः असत्तुल्याः स्वतस्सत्तारहिताः अनिर्वचनीयाः ये अर्थाः विय- दाद्याः तान् गच्छतीत्यसत्कल्पार्थगम् , अनिर्वचनीयविय- दादिपदार्थनिष्ठमिति यावत्, 'भासते' प्रकाशते । अयं भावः: जगतोऽसत्कारणत्वे घटोऽसन् पटोऽसन् इत्यसत एव सर्वत्रानुवृत्तिस्स्यात्, न तु सतः। किञ्च-तस्यासतोऽस्व- प्रकाशत्वेन तत्र वर्तमानजगतः आन्ध्यमपि स्यात् । जगच्च सदनुविद्धं प्रकाशते । तथा च स्वतस्सत्त्वप्रकाशरहितं जगत् तदधिष्ठानभूतात्मसत्ताप्रकाशाभ्यामेव सत्ताप्रकाशवद्भवती- ति तत्राध्यस्तत्वेन तत्कारणकमेव जगत् । नापि पिण्डादि- नाशस्य घटादिकारणत्वम्, अनुगतमृदादेरेव कारणत्वात् । जागराधकालीनस्य कार्यस्य चासत्पूर्वकत्वं नास्मत्सम्मतम् । सुषुप्तिकालीनसद्रूपात्मनः कारणत्वाङ्गीकारात्, सुषुप्तावात्म- सत्त्वस्य चसाधयिष्यमाणत्वात् । 'असदा इदमग्र आसीत्' इति श्रुतिश्चानभिव्यक्तसत्कारणपरा, 'कथमसतस्सज्जायेते' इति श्रुत्यैवासद्वादस्य प्रतिषेधादिति । अथवा-ननु घट- स्सन् पटस्सन् इत्येवं सत्त्वेनप्रतीयमानस्य जगतः कथमस- कल्पत्वमध्यस्तत्वेनोच्यते? इत्याशङ्कयाह-यस्यैवेत्यादिना। १ छा.उ.६२. २छा.उ.६.२.२.
१. श्रीदक्षिणामूर्तिस्तोत्रं- सत्कारारूपाषष्ठानात्मसत्तैवाऽरोपितजगन्निष्ठतया प्रतीय- ते, न तु तस्य स्वतस्सत्त्वम् ; 'अथात आदेशो नेति नेति" 'नेह नानास्ति किं चने' इत्यादिश्रुत्या प्रपञ्चस्य प्रतिषेधात्, भ्रान्त्यापि तत्प्रतीत्युपपत्तेश्च । तस्यासद्विलक्षणत्वाङ्गीकारा- न शशविषाणसमत्वम् । ततोऽपरोक्षप्रतीतिरप्युपपद्यत इति तात्पर्यार्थः । अक्षरार्थस्तु पूर्ववत् । येयमसत्येप्रपञ्चे सत्यत्वबु- द्धिरनात्मनि देहादौ चात्मत्वबुद्धिरियमेव सकलसंसारनिदान- म्।अस्याश्च निवृत्तिर्गुरूपदिष्टतत्त्वमस्यादिमहावाक्यजन्या- परोक्षज्ञानेन मूलाज्ञाननिवृत्त्यैवेत्यभिप्रायेणाह-साक्षादित्या- दिना। 'यो' गुरुरूपः परमेश्वरः 'आश्रितान्' विधिवदुपस- मान् 'तत्त्वमसीति वेदवचसा' यजगत्कारणंसदद्वितीयं ब्रह्म तत्त्वमसि नततो भिन्नोसीति वेदवचसा वेदवाक्येन 'साक्षात्' अपरोक्षत्वेन तत्त्वं बोधयति ज्ञापयतीत्यर्थः ननु कथं किञ्चिज्ज्ञ- त्वसर्वज्ञत्वादिविरुद्धधर्मकयोर्जीवेश्वरयोरभेदमयोग्यं वेदो बोधयति? इति चेदुच्यते-सोयं देवदत्त इत्यादिवाक्यं तदेतद्दे- शादिविरुद्धांशं त्यक्त्वाऽविरुद्धांशं पिण्डमात्रमादाय भागत्या- गलक्षणया यथाऽभेदं बोधयति, तथा तत्त्वमस्यादिमहावाक्य- मपिजीवेश्वरयोर्मायान्तःकरणोपाधि तन्निमित्तकिञ्चिज्ज्ञत्वस- वज्ञत्वादिविरुद्धांशं त्यक्त्वा उभयत्रानुगताविरुद्धचिन्मात्रादा- नेनाभेदं बोधयति । अत्रमहावाक्यार्थविषये याया अनुपप- त्तयः परैरुद्भावितास्तास्सस्सर्वैराचार्यैस्सर्वत्र पराक्रम्य निर- स्ता इति नास्माभिस्तत्र यत्यते, संग्रहव्याख्याने प्रवृत्तत्वात्। नन्वेवं वाक्यजन्यज्ञानानिवृत्तोपि संसारः सुषुप्तिप्रलययोरि- व पुनरपि कदाचिदुद्भवेदित्याशङ्कयाह-यत्साक्षादित्यादि- ना । 'यत्साक्षात्करणात्' यस्य स्वप्रकाशनिष्प्रपञ्चसच्चिदान- .
तपशुपाल्पाल्पासमेतम्. न्दस्वरूपस्य ब्रह्मणस्साक्षात्करणात् अपरोक्षतया सोहमस्मी- तिज्ञानात् 'भवाम्भोनिधौ' संसारसमुद्रे पुनः' भूयः आवृत्तिः, आवर्तनमागमनं 'न भवेत्' न स्यात्, 'तरति शोकमात्म- वित्' 'ब्रह्म वेद ब्रौव भवति' 'न स पुनरावर्तते' इत्या दिश्रुतिशतेभ्यः। सुषुप्तिप्रलययोर्मूलाज्ञानस्य विद्यमानत्वात् पुनरुत्थानम् , तस्य महावाक्यजन्यज्ञानेनात्र नष्टत्वान्न मुक्तस्य पुनरुत्थानमिति भावः । तस्मै....नम इति ॥३॥ नच जगतः कथमात्मसत्ताभानाभ्यां तद्वत्त्वम् ? आत्म- वत्स्वत एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्कयम्, आ- त्मवजगतस्स्वतस्सत्त्वे तबदेवोत्पत्तिविनाशानुपपत्ते, तद्वदेव करणाद्यनपेक्षया सर्वदा भानप्रसङ्गाच्च, न स्वतस्सत्ताप्रका- शौ भवतो जगतः, किन्तु आत्मसत्ताप्रकाशाभ्यामेव जगतो- पि सत्ताप्रकाशौ ॥ नन्वेवं तर्हि सर्वस्य जगतः आत्मन्यध्य- स्तत्वे भवन्मते कथं करणाद्यपेक्षा? प्रकाशरूपात्मसम्बन्धादेव सर्व सर्वदा किमिति न भायात्। सर्वगतचैतन्यस्याविरोधेना- ज्ञानावृतत्वे वा कथं कादाचित्कं जगतोभानम् ? आज्ञानस्य चै- तन्यातिरिक्तनिवर्तकाभावात्तस्य चाविरोधित्वादित्याशङ्कया- ह-नानाच्छिद्रेति ॥ नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिस्स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥ १ छां. ७-१-३. २ मुण्ड. ३-२-१. ३ कालाग्नि. २.
श्रीदक्षिणामूर्तिस्तोत्र- 'नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वर' नानाच्छि- द्रस्य अनेकरन्ध्रयुक्तस्य घटस्य कुम्भस्य उदरे अन्तः स्थितो वर्तमानो यो महादीपस्तस्य प्रभेव भास्वरं भासनशीलं दीप- वत्तमोविरोधिलक्षणप्रकाशस्वभावं, यस्य' परमेश्वरस्य घटव- दनेकच्छिद्रयुक्ते देहे अन्तःकरणे प्रतिबिम्बितस्य साक्षित्वेना- वस्थितस्य स्वरूपभूतं 'ज्ञान' चैतन्यं 'चक्षुरादिकरणद्वारा' च- क्षुश्श्रोत्रादीनि यानि करणानि विषयोपलब्धिसाधनानि त- द्वारा तच्छिद्रेण 'बहिः' विषयदेशे 'स्पन्दते' गच्छति । इ. न्द्रियाणां विषयसम्प्रयोगे तद्वारा चैतन्योपाध्यन्तःकरणे ग- च्छति सति तत्प्रतिबिम्बितं चैतन्यमपि गच्छति, गत्वा तं विषयं भासयतीत्यर्थः । अयमभिप्रायः-चैतन्यं तु स्वतोऽ- ज्ञानाविरोध्यप्यन्तःकरणे प्रतिबिम्बितं सत्तद्विरोधि । अत एवान्तःकरणधर्माः रागादयस्स्वसत्तायां सर्वदा भासन्ते । घटपटादिविषयश्च बिम्बचैतन्ये ब्रह्मण्येवाध्यस्तस्तिष्ठति । अन्तःकरणेन चक्षुरादिद्वारा विषयदेशं गच्छता घटाद्यधि- छानबिम्बचैतन्यमुपाधीयते । तथा चैकोपाधिसम्बन्धादन्त:- करणे प्रतिबिम्ब्यावस्थितेन साक्षिचैतन्येन घटाद्यधिष्ठानचै- तन्यमेकीभवति । ततस्साक्षिचैतन्येन तदज्ञाने निवृत्ते घटा दिविषयो भासते न सर्वदा । अतोऽज्ञानावरणभङ्गार्थ चक्षु- राद्यपेक्षेति न कोपि दोषः। केचित्तु-अचिद्रूपात्मनिष्ठज्ञानेन घटादिविषयो भासत इति वदन्ति । तन्न; आत्मनिष्ठज्ञानस्य जडस्य स्वप्रकाशस्य वा घटादिविषयेण संयोगादिसम्बन्धाभावात, स्वरूपसम्ब- न्धस्य चातिप्रसक्तत्वात् ॥ केचित्तु विषयनिष्ठस्फुरणेन घटा- दिभानमिति कथयन्ति । तदपि न; विषयनिष्ठस्यात्मना सह लघुतत्वसुधाग्याल्यासमतम्, सम्बन्धाभावेन अहं जानामीति सम्बन्धप्रत्ययानुपपत्तेः ।त- स्मादस्मदुक्तप्रकारेण स्वप्रकाशसाक्षिचैतन्यसम्बन्धादेव घटा- दिविषयभानमिति । तदेतदाह-जानामीत्यादिना । घटा- दिकमहं जानामीति घटादिविषयसम्बद्धतया 'भान्त' प्रका- शमान 'तमेव' साक्षित्वेनावस्थितं परमेश्वरमेव 'अनु' पश्चात् 'एतत्' विविधशब्दप्रत्ययगम्यं समस्त' सर्व जगत् 'भाति' प्रकाशते । अनुभानमपि न तस्य स्वतः, किन्तु अग्निं दहन्त- मन्वयो दहतीतिवदध्यासादेवेत्यर्थः । तथा च श्रुतिः–'त- मेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति' इति तस्मै...नमः॥४॥ अत्रं केचित्-सर्वमेतदभित्तिचित्रं, देहव्यतिरिक्तात्मन ए- वाभावात्, देहस्यैव गच्छामि तिष्ठामि स्थूलोहं कृशोहमि- त्यात्मत्वानुभवादिति वदन्ति ॥ अन्ये केचित् तान् हस्तेन वारयन्त आहुः -जीवात्मनिर्गमे शरीरमरणस्य दर्शनात्, वच्मि पश्यामि शृणोमीत्यादिबुद्धिदर्शनादिन्द्रियाण्येवात्मे- ति ॥ ततोप्यन्ये केचिदीषच्छुद्धबुद्धयश्चक्षुरादीन्द्रियनाशेपि प्राणसत्त्वे जीवनदर्शनात्, अन्यथाऽदर्शनात्, बुभुक्षितोहं पिपासितोहमित्यादिप्रतीतेश्च, प्राण एवात्मेति फणन्ति ॥ इ- तरे तु प्राणस्य बाह्यवायुवजडत्वेन भोक्तृत्वाद्यसम्भवात् म- न एव चेतनं भोक्तृ चात्मेति वदन्ति ॥ योगाचारस्तु-मम- मन इति भिन्नतया प्रतीयमानस्यात्मत्वासम्भवात् , क्षणिक- विज्ञानमहमिति प्रतीयमानं बुद्धिशब्दापरपर्यायं संसारीति ज- पति ॥ तद्धिकृत्यान्यः कश्चिद्विद्युदभ्रनिमेषादिवत्क्षणिक- स्य तस्यात्मत्वानुपपत्तेः, सुषुप्तौ तस्याप्यभावादन्यस्याप्यनुप- १मुण्ड. २. २. १०. २ १५ श्रीदक्षिणामूर्तिस्तोत्रं- लब्धेश्शून्यमेवात्मेत्युद्गिरति ॥ एते च स्वस्वपक्षदाायेत- स्वतश्च यां काश्चिच्छुतिमादायोदाहरन्ति ॥ अन्ये चैतदन्य- थात्मस्वरूपं फणन्ति ॥ सर्वे ते दैवोपहतचित्ता भ्रान्तास्सक- लश्रुतिस्मृतीतिहासपुराणन्यायविद्वत्प्रत्यक्षविरुद्धार्थपरिणा- हकाः । नैतेषां मार्ग आत्मनश्श्रेयोर्थिभिस्स्वमेप्यनुसरणीय- इत्यभिप्रेत्याह-देहं प्राणमपीति ॥ देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शू- न्यं विदुः स्त्रीवालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहा- व्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्री- दक्षिणामूर्तये ॥५॥ 'देह' सशिरस्कं पिण्डं, 'प्राण' पञ्चवृत्तिकं मुखनासिकस- चारिणम्, 'इन्द्रियाणि' चक्षुरादीनि तत्तद्गोलकवृत्तीनि रूपा- दिग्राहकाणि, 'चलां' क्षणिकां सन्ततोदयां 'बुद्धिं' विज्ञानं, 'शून्य' तुच्छम्, चकारात्तार्किकाद्यभिमतात्मानम्, 'वादिन:- चार्वाकादयः, 'स्त्रीबालान्धजडोपमाः' स्त्रीबालान्धजडवद्धि- वेकविज्ञानरहिताः, अत एव 'भ्रान्ताः' तत्त्वमन्यथा प्रतिप- द्यमानाः, 'अहमिति विदुः' आत्मत्वेन जानन्ति, अन्यानुप- दिशन्ति चेत्यर्थः। नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकास्स- न्तोन्यथान्यथातत्त्वं प्रतिपद्यन्ते ? इति चेदीश्वरानुग्रहाभा- वात् । ये त्वास्तिकारश्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भ- गवन्तं परमेश्वरं सेवन्ते, तेषां परमेश्वरप्रसादाझैतादृशो व्या- १५ लघुतत्त्वसुधाव्याख्यासमेतम्. मोह इत्यभिप्रेत्याह-मायेत्यादिना । 'मायाशक्तिविलास- कल्पितमहाव्यामोहसंहारिणे' भगवतः परमेश्वरस्यानाद्यनि- वचनीया या मायाशक्तिः परव्यामोहिका तस्याः विलासेनै- कदेशेन कल्पितो यो महाव्यामोहः महाननन्तोपरिमाणो व्यामोहो देहाद्यात्मत्वभ्रमः,तं संहर्तु नाशयितुं शीलमस्येति स तथोक्तः। तस्मै....नमः। तथा चोक्तं श्रीभागवते- येषां स एव भगवान्दययेदनन्त- स्सर्वात्मनाश्रितपदो यदि निळलीकम् ॥ ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमितिधीश्श्वसृगालभक्ष्ये ॥ इति ॥ ५॥ ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भाच्छून्यमेवात्मेति यदुक्तं, तस्य किं समाधानम् ? इत्याशङ्कय, सुषुप्तावात्मास्ति- त्वं साधयन् समाधत्ते-राहुग्रस्तेति ॥ राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना- सन्मात्रःकरणोपसंहरणतो योभूत्सुषुप्तः पुमान । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥ ६॥ 'यः पुमान्' प्रत्ययूपः परमेश्वरः 'करणोपसंहरणतः' विशेष- विज्ञानहेतुचक्षुरादिकरणानामुपसंहारात् 'सन्मात्रः' पूर्णा- नन्दादिरूपेण स्फुटमप्रकाशमानतया केवलं सन्मात्रेणावस्थि- तस्सन् ‘सुषुप्तोभूत्' सुप्तिं प्राप्तोभूत् । करणाभावेपि पूर्णान- न्दभानवतो मुक्तात्मनस्सकाशात्सुषुप्तात्मनो वैषम्यमाह- मायासमाच्छादनादिति । माययाऽऽत्माविद्यया समाच्छा- दनादावरणात् , सन्मात्र इति सम्बन्धः। स्फुटमप्रकाशमान- १ स्कं. ३-७-४२.
ar यः . श्रीदक्षिणामूर्तिस्तोत्रं- स्य स्वरूपतस्सत्त्वे दृष्टान्तमाह-राहुग्रस्तेति । 'राहु ग्रस्तदि- वाकरेन्दुसदृशः' राहुणा सैहिकेयेन ग्रस्तौ गृहीतौ यौ दिवा- करेन्दू सूर्यचन्द्रौ तत्सदृशः तत्समानस्सन् , सुषुप्तोभूदिति सम्बन्धः । यथा राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न प्रकाशत इत्येतावता दिवाकरस्य चन्द्रमसो वा नासत्त्वम् तद्वत्करणानामुपसंहारान्माययावृतत्वाच्च सुषुप्तौ स्फुटमा- त्मा न भासत इत्येतावता नात्मनोसत्त्वमित्यर्थः॥ ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावे- पि चक्षुषाऽविशेषतस्सर्वैर्ग्रहणादस्ति सत्त्वम् । न तद्वदात्म- नः केनचित्सत्त्वमनुभूयत इत्याशङ्कय, सुषुप्तावात्मनोप्य- विशेषतो भानं साधयति-प्रागस्वाप्समित्यादिना । सुषुप्तिकालीनात्मा 'प्रबोधसमये' सुषुप्तित उत्थानसमये, 'प्रत्यभिज्ञायते' । कथम्? 'प्राक्' योहम् 'अस्वाप्स' स इ- दानी जागर्मीति । न च तदाननुभूतस्य प्रत्यभिज्ञानं सम्भ- वति, अन्यत्र देवदत्तादननुभूते प्रत्यभिज्ञानादर्शनात् । न च तदा करणेनात्मानुभवः, इन्द्रियादिकरणानां सुषुप्तावभावा- त् । अतस्स्वप्रकाशस्यात्मनस्सत्त्वान तदा शून्यत्वम् नापि तस्य क्षणिकत्वम् ; नापि जडत्वम्। उक्तयुक्तरेव ॥ सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति । पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपिति प्रबुद्धः॥ 'सता सोम्य तदा सम्पन्नो भवति' इत्यादिश्रुतिश्चात्मन- स्सच्चिदानन्दरूपत्वेन सुषुप्ताववस्थानं दर्शयति । आत्मनस्सु- खरूपत्वं चोत्थितेन तेनानुसन्धीयते सुखमहमस्वाप्समिति । अतो न कोपि दोष इतिभावः॥ ६॥ कैवल्योपनिषत्. २ छां. ६-८-१.
लघुतत्त्वसुधाब्याख्यासमेतम्. इदानीं मुजादिषीकामिव देहादिभ्यो विविच्य सच्चिदान- न्दरूपं प्रत्यगात्मानं प्रदर्य, तस्य परमेश्वराभेदं श्रुतिगुर्वीश्व- रप्रसादलभ्यं प्रदर्शयन्नाह-बाल्यादिष्विति ॥ बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तस्स्फुरन्तं सदा। स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥णा 'बाल्यादिषु' बाल्यं शैशवं, तदादिषु शैशवकौमारयौवन- मध्यवयस्स्थाविररूपासु, 'जाग्रदादिषु' जाग्रत्स्वप्नसुषुप्तिमूर्छा- जन्मजरामरणरूपासु 'तथा' अन्यास्वप्यवान्तरासु दर्शन- श्रवणादिरूपासु कर्तृत्वभोक्तृत्वादिरूपासु च ' सर्वास्ववस्था- सु' दशासु 'व्यावृत्तासु' परस्परं व्यावर्तमानासु 'अनुवर्तमानम्' अनुगततया सर्वास्ववस्थासु वर्तमानम् । अयं भावः- यो ह्यसत्यजडानानन्दरूपासु सर्वास्ववस्थासु व्यावर्त्तमानासु योहं सुप्तौ स्वममद्राक्षं सोहमिदानीं जागर्मीति अवस्थात्रये, योहं बालो युवा चाभूवं सोहमिदानी वृद्धोस्मीति बाल्यादि- ष्वपि च सत्त्वेनानुवर्तमानोनुभूयते, तथा द्रष्टुत्वेनाभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं तत्सकलसाक्षित्वेन यश्चिद्रूप- स्सदानुवर्तमानोनुभूयते, तथा प्रियत्वेनाभिमतवित्तपुत्रपि- ण्डादिषुव्यावर्त्तमानेषुच यस्स्वयं सदा प्रीतिविषयः सर्वशेषि- त्वेन निरतिशयप्रीतिविषयतया आनन्दरूपत्वेनानुवर्तमानो- नुभूयते,तद्वदेवाहम्बुद्धिविषयतयात्मत्वेनाभिमतेषु देहादिभो- क्रन्तेषु व्यावर्तमानेषु यश्च स्वयमहम्बुद्धिमव्यभिचरन् सदा आत्मत्वेनानुवर्तमानोनुभूयते, ततस्सद्रूपत्वं चिद्रूपत्वमानन्द- श्रीदक्षिणामूर्तिस्तोत्रं- रूपतया प्रियत्वम् अहम्बुद्धिविषयतया प्रत्यक्त्वं च यः कदापि न व्यभिचरति स एव त्वम्पदलक्ष्यार्थ आत्मेति । तथा च तापनीयश्रुतिः–'तं वा एतमात्मानं जाग्रत्यस्वममसुषुप्तं स्वमेऽजाग्रतमसुषुप्तं सुषुप्तेऽजाग्रतमस्वमं तुरीयेऽजाग्रतमस्व- ममसुषुप्तमव्यभिचारिणं नित्यानन्दसदैकरसं ह्येव चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेद्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टी' इति । एतदेवाह-अहमि- त्यन्तस्स्फुरन्तं सदेति । 'अन्तः' शरीरादिषु मध्ये 'अहमि- ति' अहम्बुद्धिविषयत्वेन 'सदा' सर्वेष्वपि कालेषु 'स्फुरन्तं- भासमानम् , उपलक्षणमेतत्, सत्त्वेन प्रियत्वेन च सदा स्फुर- न्तमित्यपि द्रष्टव्यम् । एवम्भूतं प्रत्यगात्मानं 'यः' परमेश्व- रः, 'स्वात्मानमेव' स्वं 'सत्यं ज्ञानमनन्तं ब्रह्म' 'विज्ञानमाल- न्दं ब्रह्म' इत्यादिषु श्रुतिषु सच्चिदानन्दात्मकत्वेन त्रिविधपरि च्छेदशून्यतया च प्रसिद्धः परमेश्वर एवात्मा स्वरूपं यस्य प्रत्य गात्मनः, न तु कादिरूपेण प्रतीयमानः आत्मा सः स्वात्मा प्रत्यगात्मा, तं स्वात्मानं ब्रह्माभिन्नमिति यावत् , 'भद्रया' शोभनया 'मुद्रया' करकलितज्ञानमुद्रया 'भजतां' स्वभक्ता- नां 'प्रकटीकरोति' तेषां प्रत्यगात्मानं ब्रह्मस्वरूपत्वेनाप्रकटं प्रकट करोति स्फोरयति । तस्मै...नमः॥ बाल्यादिषु तथा जाग्रदादिष्वपि सर्वास्ववस्थासु व्यावृ. त्तास्वनुवर्तमानं सदाऽन्तरहमिति स्फुरन्तं भजतां प्रत्यगा- त्मानं यो भद्रया मुद्रया स्वात्मानं प्रकटीकरोति तस्मै...नम इत्यन्वयः॥७॥ ननु ब्रह्मव्यतिरिक्त चेत्किमपि न वस्त्वस्ति, तर्हि कथं १ नृसिंहोत्तरता.२ खण्डे. २ तै. उ.२-१. वृह.५-९-२८.
लघुतत्वसुधान्यास्यासमेतम्, परमार्थोपदेशादिव्यवहारः ? न हि जातु कश्चित्तत्र बद्धोस्ति, येन बन्धनिवृत्तये विद्योपदेशस्स्यात्, बन्धहेतोः कस्याप्य- भावात् । नापि विद्यावतो मुक्तिस्सम्भवति, तद्धेतुगुरुशा- स्त्रादीनामभावादित्याशङ्कय अनाद्यनिर्वचनीयपरमात्माध्य स्तमायावशादेव सर्वो व्यवहारो ब्रह्मसाक्षात्कारपर्यन्तं घटत इत्यभिप्रेत्याह-विश्व पश्यतीति ॥ विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धत- शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः। स्वने जाग्रति ता य एष पुरुषो मायापरिभ्रामित; तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥८॥ 'पुरुषः' पूर्णः 'यः' श्रुत्यन्तप्रसिद्धः परमेश्वरो 'माया- परिभ्रामितः' स्वोपाधिभूतमायया मलिनसत्त्वप्रधानया का- र्यकारणसङ्घाताकारेण परिणतया स्वेन प्रविष्टया परिभ्रामि- तः बहुविधं भ्रमं प्रापितः 'एषः' सर्वप्राण्यपरोक्षजीवस्सन् संसारित्वेन भावितः, 'विश्वं' जगत् 'भेदतः' बहुभेदभिन्न- तया भ्रमेण 'पश्यति' अवलोकयति । भेदमेव दर्शयति- कार्यकारणतयेत्यादिना । अयमर्थः यद्यपि परमार्थतो ब्रह्मव्यतिरिक्तं किमपि नास्त्येव, 'नेह नानास्ति किञ्चन' इत्यादिना श्रुत्या निषेधात; तथापि अनाद्यनिर्वाच्याविद्या- वशान्मुधैव भ्रान्तो जीवः प्रपञ्चं बहुभेदभिन्नं पश्यति, नि- द्रापरवश इवानेकविधं स्वप्नम् । तस्य च वस्तुतो ब्रह्मैव सन्तमात्मानं निखिलानर्थसङ्कुलया मायया भ्राम्यतः स्व- भ्रान्तिसिद्धगुरुशास्त्रन्यायादिभ्यः विद्योत्पत्तावविद्या सवा- १६.३-९-२८.
२० श्रीदक्षिणामूर्तिस्तोत्र- सना निवर्तते, निद्राणस्येव स्वामव्याघ्रदर्शनसमुपजातभयेन प्रबुद्धस्य स्वमः । ततस्संसारान्मुक्तः स्वस्वरूपे सच्चिदानन्दा- त्मनि निरतिशयमहत्त्वसम्पन्न एव रममाणोवतिष्ठते ।तदुक्तं सर्वजात्ममुनिभिः- तस्माद्ब्रह्माविद्यया जीवभावं प्राप्य स्थित्वा तावकेतु स्वरूपे। त्वच्चित्तेन स्पन्दितं विश्वजात*माकाशादि क्षमावसानं च प- श्येः ॥ स्वीयाविद्याकल्पिताचार्यवेदन्यायादिभ्यो जायते तस्य विद्या विद्याजन्मध्वस्तमोहस्य तस्य स्वीये रूपेवस्थिति- स्स्वप्रकाशे ॥ इति ततस्सर्वस्य परमार्थतो ब्रह्ममात्रत्वेपि मा- यावशाभान्त्या सर्वमुपपद्यत इति । कार्य जन्यम् , कारणं ज- नकम्, स्वं गृहक्षेत्रधनादि, स्वामी तद्वान् देवदत्तादिः, शि- ष्यः विद्याग्रहणार्थ विधिवद्गुरुमुपसन्नः, आचार्यः विद्योपदे- ष्टा, पिता निषेक्ता, पुत्रस्तच्छुक्रसम्भवः, इत्यादिरूपेण वि- श्वं यः पश्यति तस्मै....नम इति सम्बन्धः॥८॥ इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्यु- पासनंक्रममुक्तिदायकम् , उत्तमाधिकारिणां श्रोतव्यादिश्रुति- सिद्धवेदान्ततद्विषयब्रह्मविचारस्साधनमित्यभिप्रेत्याह-भू- रम्भांसीति ॥ भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्। नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्मा- द्विभोस्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणा मूर्तये ॥ ९॥ 'भूः' पृथिवी, 'अम्भांसि' जलानि, 'अनल' अग्निः, 'अनि- * जीवजातमिति मुद्रितसंक्षेपशारीरककोशपाठः २१ लघुतत्त्वसुधाग्याख्यासमेतम्. लो' वायुः, 'अम्बरम्' आकाशः, 'अहर्नाथः' सूर्यः, 'हिमां- शुः' चन्द्रः, 'पुमान्' सकलकर्मविद्याधिकारी जीवः, 'इति' एवम्प्रकारेण, 'यस्यैव' परमेश्वरस्य सर्वज्ञस्य सर्वशक्तेः स- चिदानन्दाद्वयस्य सदाशिवस्यैव 'मूर्त्यष्टकं' मूर्तीनां विग्रह- भूतानामष्टकम् 'आभाति' आ समन्ताद्भाति। अयमर्थः- पासकस्स्वदेहे वर्तमानपञ्चभूतानि व्यष्टिभूतानि समष्टिभूतैः प्राणापानौ च सूर्यशशाङ्काभ्यामेकीकृत्य, पञ्चभूतात्मकशरी राभिमानिनं स्वात्मानमष्टमूर्तिपरमेश्वरेणैकीकृत्य, सकल- व्यापी अष्टमूर्त्यात्मकस्सदाशिवोस्मीति चिन्तयेत् । ततो भावनातिशयेन तत्सायुज्यं प्राप्य सर्वैश्वर्यसम्पन्नोन्ते तत्प्र- सादासादिततत्त्वज्ञानेन तत्त्वसाक्षात्कारेण विमुच्यत इति । 'विमृशतां' तत्त्वं विधिवद्गुरुश्रुतिभ्यो युक्त्या चानिशं वि- चारयतां पुरुषाणां 'परस्मात्' सर्वकारणात् 'विभोः' विवि- धप्रपञ्चात्मना भवतः विवर्तमानात् 'यस्मात् ' सर्वाधिष्ठाना- त् सच्चिदानन्दात्मकात्परमेश्वरादन्यत् पृथक् कञ्चन' कि- श्चिदपि न विद्यते न भवति,सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन तन्मात्रत्वात् । तथा चोक्तं महिम्नस्तवे- त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिछिन्नामेवं त्वयि परिणतां बिभ्रति गिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ॥ इति । श्रुतिश्च- 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु । १ श्लो. २७. २ तै. उ. ४-२४. - श्रीदक्षिणामूर्तिस्तोत्रं- 'यस्मात्परं नापरमस्ति किश्चिद्यस्मानाणीयोन ज्यायोस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूण पुरुषेण सर्वम् । इत्याद्याः । स्तब्धः निश्चलः, दिवि स्वप्रकाशेस्वरूपे।तथा चोक्तरूपब्रह्मात्मज्ञानादुत्तमाधिकारिणामिहैव सच्चिदानन्दा- द्वयपरशिवरूपेणावस्थानलक्षणा मुक्तिरासाद्यते, 'अत्र ब्रह्म समव॑ते' इत्यादिश्रुतेरिति भावः । तस्मै ज्ञानोपदेष्ट्रे गुरुरू- पाय दक्षिणामूर्तये परमेश्वराय नमोस्त्विति ॥९॥ इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणामवश्यं- भावि फलं कीर्तयन् स्तोत्रमुपसंहरति-सात्मत्वमिति ॥ सर्वात्मस्वमिति स्फुटीकृतमिदं यस्मादमुष्मि- स्तवे तेनास्य श्रवणात्तदर्थमननाद्धयानाच सङ्की- र्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वर- वं स्वतस्सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्या- हतम् ॥ १०॥ 'इति उक्तप्रकारेण 'अमुष्मिंस्तवे' अस्मिन् स्तोत्रे 'इदं' श्रुतिषु 'इदं सर्व यदयमात्मा' इत्यादिषु श्रूयमाणं 'सर्वा- त्मत्वं' प्रत्यगात्मनस्स्वरूपत्वं — स्फुटीकृतं ' स्फुटमावेदितं 'यस्मात्' 'तेनास्य' स्तोत्रस्य 'श्रवणात्' गुरुतो विधिवच्छ्र- वणात् 'तदर्थमननात्' श्रुतस्यार्थस्य युक्तिभिरनुचिन्तनात् 'ध्यानात्' श्रवणमननाभ्यां निर्णीतस्य तथैव सोहं सर्वात्मा परमेश्वरोस्मीति विजातीयप्रत्ययतिरस्कारेण सजातीयप्रत्य- यैकविषयीकरणात् 'सङ्कीर्तनात्' सम्यक्परेभ्यः कथनाच्च तै. उ. ४-१२. २ कठो. ६-१४. ३ वृ. ४.५-७, १ लघतत्वसुधाग्याल्यासमेतम् । 'सर्वात्मत्वमहाविभूतिसहितं' सर्वात्मत्वमेव महाविभूतिः महती सिद्धिरणिमाद्यपेक्षया, तस्य त्रिविधपरिच्छेदशून्यत्वा- त्, तया सहितं युक्तम् 'ईश्वरत्वं' सत्यज्ञानानन्दलक्षणपरमे- श्वरत्वं, 'तत्' श्रुतिप्रसिद्धं 'स्वतः' एव नित्यं विद्यमानं 'स्यात्' भवेत्, अधुना ज्ञायत इत्यर्थः । 'पुनः' भूयः 'अ ष्टधा' अष्टप्रकारेण 'परिणतं' मायापरिणामरूपम् 'ऐश्वर्य च' अणिमादिकम् 'अव्याहतं' क्वचिदप्यप्रतिहतं 'सिध्येत्'-'स एकधा भवति त्रिधा भवति' ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुपतिष्ठन्ते' इत्यादिश्रुत्यु- तं सर्व भवेदित्यर्थः ॥१०॥ एवमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः। यथामति तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगी- न्द्रपादकमलभृङ्गायमाणस्वयम्प्रकाशयतिविर- चितश्रीदक्षिणामूर्तिस्तोत्रव्याख्यालघु तत्त्वसुधाख्या समाप्ता ॥ १ छां. ७-२६. २ छां. ८-२.
२५ श्रीदक्षिणामूर्तिस्तोत्रवार्तिक, श्रीदक्षिणामूर्तये नमः. मानसोल्लासनामकं श्रीदक्षिणामूर्तिस्तोत्रवार्तिकं, वृत्तान्ताख्यव्याख्यानसमेतम्. मङ्गलं दिशतु मे विनायको मङ्गलं दिशतु मे सरस्वती। मङ्गलं दिशतु मे महेश्वरी- मङ्गलं दिशतु मे सदाशिवः ॥ १ ॥ प्रोद्यच्छाखमहावदुमतले योगासनस्थं प्रभु प्रत्यक्तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमाणाननम् । मुद्रां तर्कमयीं दधानममलं कर्पूरगौरं शिवं हृद्यन्तः कलये स्फुरन्तमनिशं श्रीदक्षिणामूर्तिकम् ॥१॥ नत्वाद्यान् शङ्काराचार्यमुख्यान्सर्वान् गरीयसः । मानसोल्लासवृत्तान्तं वर्णयामि यथामति ॥२॥ इह हि भगवान् भाष्यकारः श्रीमच्छङ्कराचार्यनामा मन्द- मतीन् तत्त्वजिज्ञासूननुग्रहीतुं दक्षिणामूर्तिस्तोत्रव्याजेन समस्तवेदान्तरहस्यमाविश्वकार दशभिः पद्यबन्धैः । तच्छि- प्यैर्विश्वरूपाचार्यैः सुरेश्वरापरनामभिः तत्पद्यबन्धार्थतत्त्वं तात्पर्यतो मानसोल्लासनाम्ना वार्तिकात्मना ग्रन्थसन्दर्भेणा- * ख.-वरो. खि.-महेश्वरी.
वृत्तान्ताख्यम्याख्यासमेतम्. २५ विष्कृतम् । तमिमं ग्रन्थं यथाशक्ति विवृणोमि । तत्र शि- ष्टाचारसंरक्षणाय कृतमङ्गलाचरणद्योत्योऽयमाद्यश्लोकः-म- झालं दिशत्वित्यादि ॥१॥ आत्मलाभात्परो लाभो नास्तीति मुनयो विदुः। तल्लाभार्थ कविस्स्तौति खात्मानं परमेश्वरम् ॥२॥ अस्य स्तोत्रस्य वेदान्तशास्त्रप्रकरणरूपत्वात्, तस्य च शा- पैकदेशसम्बद्धत्वादिलक्षणत्वात्तद्दर्शनाय शास्त्रीये विषयप्र- योजने तावदाह-आत्मलाभादित्यादिना ॥ आत्मा प्रत्यक्त- मः सर्वसाक्षी, तस्य लाभः परागर्थसम्भेदनेनोद्धृत्य ब्रह्मरूपे- णावगतिः, तल्लाभात् परोन्यो वोत्कृष्टो वा लाभो नास्तीति मुनयः आपस्तम्बादयो विदुः, 'आत्मलाभान्न पर विद्यते* इत्यादिभिः स्मृतिवचनैः उक्तवन्त इत्यर्थः । अतो निरस्ता- ज्ञानतत्कार्यप्रपञ्चब्रह्मात्मनावस्थानं प्रयोजनं 'ब्रह्म वेद ब्रह्मैव भवति।' इत्यादिशास्त्रसिद्धमुक्तम् ॥ इदानीं विषयमाह-त- ल्लाभार्थमिति । स्वात्मानं परमेश्वरमिति सामानाधिकरण्या- तत्त्वम्पदार्थैक्यं शास्त्रविषयो दर्शितः ॥२॥ स्वेच्छया सृष्टमाविश्य विश्वं यो मनसि स्थितः । स्तोत्रेण स्तूयतेऽनेन स एव परमेश्वरः ॥३॥ एवं शास्त्रीयविषयप्रयोजने स्वरूपतो निर्दिश्य, इह स्तोत्रे सम्पादयितुमस्य प्रकरणत्वं स्फुटयति-स्वेच्छयेति ॥ स्वेच्छा नाम स्वशक्तिर्मायाख्या, तया सृष्टं चिदात्मनि विवर्तितं वि- श्वं स्थूलं सूक्ष्मं च समष्टिव्यष्टिरूपं क्रमेणाविश्य सूर्यबिम्ब- मिवोदकुम्भे तत्सन्निहिते कुड्यादौ वाऽऽभासद्वारा प्रविश्य *भाप. ध. १-२२-२. मु. उ. ३-२-९.
२६ मानसोसालाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं.- यो मनसि वृत्तिमदन्तःकरणे स्थितः तत्र विशेषरूपेणाभिव्य- क्तिमुपगतः, स एव परमेश्वरोऽनेन स्तोत्रेण स्तूयते, स्वाध्य- स्तप्रपञ्चव्युदासेन चिदेकरसतया प्रत्यगभेदेन प्रतिपाद्यत इ. त्यर्थः। तथैवं सति शास्त्रैकदेशसम्बद्धत्वमस्योपपादितम्॥३॥ अस्ति प्रकाशत इति व्यवहारः प्रवर्तते । तचास्तित्वं प्रकाशत्वं कस्मिन्नर्थे प्रतिष्ठितम् ।। ४॥ इदानी शास्त्रकार्यान्तरे स्थितत्वमस्य लक्षणं सम्प्रदर्श- यन् तत्राधिकारिणमुपस्थापयति-अस्ति प्रकाशत इतीति।।इह यादृच्छिकानेकपूर्वजन्मकृतपुण्यपुञ्जपरिपाकवशाद्विवेकवैरा- ग्यसम्पन्नः शमादिगुणयुक्तश्च सन्नापातालोचनया सर्वपदार्थेषु दृश्येषु व्यवहारकाले अवभासमानमस्तित्वंप्रकाशत्वंचन दृश्य- धौं, दृश्यत्वव्यावृत्तावपि अस्तित्वप्रकाशत्वयोरव्यावृत्तेरित्य- वगम्य, किन्धर्मावेतौ सर्वदृश्येष्वनुगतावित्यनध्यवसितमतिः कश्चिच्छिष्यः प्रष्टोपस्थाप्यते । एवमुत्तरेष्वपि प्रश्नेष्वापातद- र्शननिबन्धनत्वं योज्यम् । तत्रायमक्षरार्थः-अस्ति प्रकाश- त इति सर्वपदार्थेषु व्यवहारः प्रवर्तत इति त्वविवादम् । त- च्चास्तित्वं प्रकाशत्वं च कस्मिन्नर्थेऽन्यनिरपेक्षं प्रतिष्ठितं पर्य- वसितमिति पृच्छन्तं 'वक्तुमारभते गुरुः' इति वक्ष्यमाणेनान्व- यः॥४॥ किं तेषु तेषु वार्थेषु किं वा सर्वात्मनीश्वरे ईश्वरत्वं च जीवत्वं सर्वात्मत्वं च कीदृशम् ॥ ५॥ तत्र जिज्ञासानिमित्तं संशयमेवाह-किं तेष्विति ॥ यत्र- यत्र तदुभयमुपलभ्यते तत्रैव प्रतिष्ठितं प्रतिव्यक्ति किं भिन्न परिमाणवदित्येका संशयकोटिः, किंवा विशेषोल्लेखमन्तरे- वृत्तान्ताख्यव्याख्यासमेतम्. णानयोः प्रतिव्यक्ति स्वरूपभेदानवगमात् सामान्यमिव त- तद्व्यक्तिषु सर्वानुस्यूते एकस्मिन् तदुभयं प्रतिष्ठितमिति द्वि- तीया कोटिः। तस्य 'सर्वात्मनीश्वरे' इति विशेषनिर्देशः 'ई- शा वास्यमिदं सर्वम् *' 'तस्य लोकः स उ लोक एव ।' इ- त्यादिश्रुत्या आपातदर्शननिबन्धनः । पुनरपि श्रुत्यापातद- निकृतं संशयान्तरनिबन्धनं प्रश्नमुथ्थापयति-ईश्वरत्वं चेति। किमीश्वरत्वं जगत्कर्तुमहाराजकुलालादिवत्ताटस्थ्येन?, किं वा रज्ज्वादिवत् स्वाध्यस्तस्य सत्तादिप्रदत्वेनाधिष्ठातृतया वा? । तथा जीवत्वमपि प्रत्यगात्मनः खाभाविक? किंवा प- रोपाधिनिबन्धनमिति? । तथा सर्वात्मत्वं च कीदृशं गौणं मुख्यं वा? इति विमर्श इत्यर्थः ॥५॥ जानीयात्तत्कथं जीवः किं तज्ज्ञानस्य साधनम् । ज्ञानात्तस्य फलं किं स्यादेकत्वं च कथं भवेत्॥६॥ पुनःप्रश्नान्तरं-जानीयादिति॥यदि सत्तादिप्रदत्वेनाधि- छातृत्वमेवेश्वरत्वं, परोपाधिनिमित्तं च जीवत्वं सुवर्णादेरिव स्वविकारैर्मुख्यमेव च सर्वात्मत्वं भवत् , तत्सर्व जीवस्तत्त्वतः कथं जानीयात्? कीदृशेन ज्ञानेनावगन्ता भवेदित्यर्थः । त- स्य तादृशज्ञानस्य च किं साधनं? केन साधनेन तदुत्पद्यत इ- त्यर्थः। तस्य जीवेश्वरतत्त्वस्य ज्ञानाकिं फलं स्यात्? स्व- र्गादिवत् प्रयत्नसिद्धम् , अप्रयत्नसिद्धं वा कण्ठगतचामीकरव- दित्यर्थः । किं च-जीवेश्वरयोरेकत्वं च तादात्म्यं कथं भ- वेत्? विरुद्धस्वभावत्वात् गौणं श्रूयमाणमेकत्वं, किं वा वि- रोधस्याभासत्वात् मुख्यमेवेति ॥६॥ *ई. उ... कृ. उ. ६-४-१३.
२८ मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- सर्वज्ञस्सर्वकर्ता च कथमात्मा भविष्यति । शिष्यं प्रतीत्थं पृच्छन्तं वक्तुमारभते गुरुः ॥७॥ जीवेश्वरयोरैक्यायोगे तदेव विरुद्धधर्मत्वमुपन्यस्यति- सर्वज्ञ इति ॥ आत्मा जीवः किञ्चिज्ज्ञः किञ्चित्कर्ता सर्वकर्ता परमेश्वरः कथं भविष्यति । यद्वा सर्वज्ञः सर्वकर्ता च स- श्रीश्वरः कथं तद्विपरीतात्मा भविष्यति? इति योजना । ए- षां प्रश्नानामुत्तरं वक्तुं स्तोत्रमुत्थापयति-शिष्यमिति । इत्थं पृच्छन्तं शिष्यं प्रति प्रतिवचनं क्रमेण वक्तुं गुरुरारभत इति योजना ॥७॥ "विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया। यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवादयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥१॥" तत्रास्ति प्रकाशत इत्यादिसाश्लोकेन कृतप्रश्नस्य सा- क्षादुत्तरत्वेनाद्यश्लोकमुपादत्ते-विश्वं दर्पणेति ॥ एषास्या- क्षरयोजना-तस्मै श्रीदक्षिणामूर्तये इदं नमः नमस्करण- मस्त्विति क्रियाकारकयोजना । दक्षिणाभिमुखा मूर्तिर्यस्य स दक्षिणामूर्तिः शिवः । श्रीमांश्च श्रीरित्युच्यते । तथा च श्री- स्तत्त्वबोधात्मिका आविष्कृता शोभा अस्मिन्नस्तीति श्रीमान्, स चासौ दक्षिणामूर्तिश्चेति श्रीदक्षिणामूर्तिः, तस्मै इत्यर्थः । तस्य विशेषणं श्रीगुरुमूर्तय इति । गृणाति तत्त्वज्ञानमुप- दिशति शिष्येभ्य इति गुरुः, श्रीमांश्चासौ गुरुश्च पूर्ववल्लक्ष- णया श्रीगुरुः, तस्य मूर्तिरिव मूर्तिर्यस्य स तथा । तस्मै । अनेन स्वोपदेष्टगुर्वात्मना चास्य ध्येयत्वं विवक्षितम् । देव- वृत्तान्ताख्यव्याख्यासमेतम्. २९ तारूपेण गुरुरूपेण च गृहीतमूर्तिद्वयायेत्युक्तं भवति। तच्छ- ब्दापेक्षितं यच्छब्दं वदन् विश्वस्य सत्तास्फुरणयोनिरपेक्षम- धिष्ठानं य ईश्वरः स एष दक्षिणामूर्तिणुर्वात्मेति प्रश्नोत्तरं प्र- कटयति-विश्वमित्यादिना यो निजान्तर्गतं विश्वमात्मनि मायया बहिरुद्भूतमिव पश्यन् प्रबोधसमये स्वात्मानमेवाद- यं साक्षात्कुरुत इति सम्बन्धः। निजमित्यसाधारणं स्वप्रका- शसदात्मकं स्वस्वरूपमुच्यते । तस्मिन्नन्तर्गतं तत्सत्ताप्रकाश- व्याप्तं, तस्मिन्नध्यस्तमिति यावत् । विश्वं भूतभौतिकरूपं विषयजातम् । मायया अनाद्यनिर्वाच्यया स्वावभास्यया स्वात्मनि कल्पितया । बहिः स्वात्मनः पृथक् इदन्तास्पदत- या। उद्भूतमिवेति वशब्दो विद्वदृष्टया प्रयुक्तो न प्रतीत्यभि- प्रायेण । वस्तुगत्यानुद्भूतमेवोद्भूतं पश्यन्नित्युक्तं भवति । इवशब्दार्थ दृश्यस्य मायामयत्वं तत्त्वज्ञाननिवर्त्यत्वेनोपपा- दयति-प्रबोधेति । प्रबोधसमयः आचार्योपदिष्टमहावा- क्यार्थसाक्षात्कारसमयः तस्मिन् । स्वात्मानमेव सत्ताप्र- काशात्मकमेव । एवकारार्थ स्वयमेवाह-अद्वयमिति । द्व- यशब्दवाच्यविश्वशून्यं प्रविलीनप्रपञ्चं स्वात्मानमसाधारण- स्वस्वरूपं साक्षात्कुरुते अहमस्म्यद्वयानन्दप्रकाशात्मेति । त- स्मै इत्यर्थः । स्वात्मनि वस्तुतोऽसतोपि तत्रत्यस्येवावभासे दृष्टान्तमाह-दर्पणदृश्यमाननगरीतुल्यमिति । विश्वविशे- षणमेतत् । अनेनात्मनो विश्वाकारपरिणामशता निरस्ता । बहिरविद्यमानस्यापि बहिरवभासे दृष्टान्तं वदन् प्रबोधनिव- य॑त्वमपि तेनैव द्रढयति-यथा निद्रयेति । यथा कश्चित् सुप्तो निजान्तर्गतमेव वासनामयं विश्वं निद्रया बहिर्विषय- त्वेन उद्भूतमिव पश्यन् प्रबोधसमये जाग्रदवस्थागमनसमये स्वात्मानमेवाद्वयं स्वप्नोपलब्धप्रपञ्चरहितं साक्षात्कुरुते तथे- ३० मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- त्यर्थः । अत्र विश्वं पश्यन्नद्वयमात्मानं साक्षात्कुरुत इति शतृनिर्देशो न लक्षणार्थः, नापि हेत्वर्थः, किन्तु तिष्ठन्गाय- तीतिवत् क्रियाद्वयनैरन्तर्यद्योतनार्थः । यदा-लक्षणार्थोय शता; पूर्व यः स्वसम्बन्धिविश्वदर्शनेन सद्यः संसारीव लक्षितःस एव प्रबोधसमये विद्याबाधितविश्वः स्वात्मान- मेवाद्वयं साक्षात्कुरुत इति द्रष्टव्यम् ॥१॥ अस्यार्थः- अन्तरस्मिन्त्रिमे लोका अन्तर्विश्वमिदंजगत् । बहिर्वन्माययाऽऽभाति दर्पणे प्रतिबिम्बितम् ।। ८॥ उदाहृतं मूलश्लोकं तात्पर्यतो वार्तिकश्लोकैर्व्याख्यातुमार- भते-अस्यार्थ इति ॥ तत्र प्रथमपादार्थ श्रुतिमुदाहृत्य व्याचष्टे-अन्तरस्मिन्नि- ति ॥ इमे प्रसिद्धाः प्रत्यक्षादिप्रमाणसिद्धाः लोकाः विश्वश- ब्दनिर्दिष्टाः अस्मिन् परमात्मनि अन्तर्मध्ये वर्तन्ते, न ततो बहिः स्वतन्त्रतयेत्यर्थः । उक्तमेवार्थ प्रकटयति-अन्तर्वि- श्वमिदं जगदिति । विश्व सर्वमेवेदं जगत् अन्तः, नात्र स- कोचकारणमित्यर्थः । 'ब्रह्मैव भूतानां ज्येष्ठम्। तेन कोर्हति स्पर्धितुम्।ब्रह्मन्देवास्त्रयस्त्रिशत्।ब्रह्मन्निन्द्रप्रजापती।ब्रह्मन् ह विश्वा भूतानि । नावीवान्तस्समाहिता।'* इति श्रुतिवा- क्यशेषः । इदं विश्वं दर्पणे प्रतिबिम्बितमिव दर्पणान्तर्गतमि- वान्तस्स्थमेव विश्वं मायया बहिर्वत् आभातीति योजना॥८॥ स्वप्ने खान्तर्गतं विश्वं यथा पृथगवेक्ष(गिवेक्ष्योते । तथैव जाग्रत्कालेपि प्रपञ्चोयं विविच्यताम् ॥९॥ * है. ब्रा. २-८-८.
वृत्तान्ताख्यव्याख्यासमेतम्, इदानीं यथा निद्रयेति दृष्टान्तार्थमाह-स्वप्न इति ॥नि- गदव्याख्यातं पद्यमेतत् ॥९॥ स्वप्ने स्वसत्तैवार्थानां सत्ता नान्येति निश्चिता। को जाग्रति विशेषोस्ति जडानामाशुनाशिनाम१० स्वप्नदृष्टान्तेनैव सत्तास्फुरणयोः आत्मैकायतनत्वमुक्तमि- त्याह-स्वमे स्वसत्तैवेति ॥ स्वप्ने दृश्यमानार्थानां या सत्ता सा स्वसत्तैवात्मसत्तैव निश्चिता नान्या सामान्यात्मिका का- यात्मिका वा । तथाहि-न तावत् स्वमे बाह्यार्थानुपलभते द्रष्टेति श्लिष्यते, तदुपलम्भकारणानामिन्द्रियाणामुपरतत्वात्, 'स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय' इति श्रुतेः, स्वप्नदृष्टदेशकालवस्तूनां जाग्रति संवादादर्शनाच्च । त- स्मात्स्वप्ने देहनाड्यन्तस्थितो न बाह्यार्थान् पश्यति, नापि ब- हिर्निर्गत्य पश्यति, तथा सति वस्तुदर्शनदेशेपि जागरणप्रस इस्स्यात् । देशान्तरगतं तत्रत्यवस्त्ववलोकिनमात्मानं मन्य- मान एव विनाप्रत्यागमनंसुप्तदेहदेशेपि प्रबुध्यमान उपलभ्य ते। अतो न बहिर्गत्वोपलभ्यत इति । अन्तस्तु यथाप्रदर्श- नयोग्यदेशकालनिमित्तविरहान वास्तवं दृश्यमस्ति । तदभावे च न सत्तासामान्य कार्य वान्यत् सद्रूपं सम्भाव्यते। 'अथ स्थान रथयोगान् पथः सृजते' इति श्रुतिर्वासनोभृतिनि- 'मित्तदर्शनमात्रविषया, औचित्यायोगेन परमार्थत्वानुपपत्तेः। तस्माजाग्रदर्शनवासनाऽन्तस्स्थैव सती निद्रादोषात् बहिरि वावभासत इति युक्तोऽयं जाग्रद्विषयदर्शनस्य मिथ्यात्वे ह- ष्टान्तः। तस्मादारोपितस्याधिष्ठानसत्ताव्यतिरेकेण सत्ताऽनि- रूपणात् अधिष्ठानभूतात्मसत्तैव स्वप्ने सर्वस्य सत्ता, न पृथ- १ बृ. उ. ६-३-९. २ बृ. उ. ६-३-१०.
१२
मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक-
गिति सिद्धं दृष्टान्तोकमर्थं दान्तिके योजयन्ननुमानं सूच-
यति-को जाग्रतीति; जाग्रदृष्टार्थाः सर्वे आत्मसत्तयैव स-
त्तावन्तः. तस्मिन्नेवाव्यभिचारेणोपलभ्यमानत्वात् स्वामार्थ-
वत् । तथा विमताः स्वसत्तारहिताः, जडत्वात् स्वामार्थवत् ।
न चासिद्धौ हेतू विमताः अन्यसत्तयैव सत्तावन्तः, तथा
इमे जडाः, अव्यभिचरितेर्थे उपलभ्यमानत्वे सति व्यभिचा-
रित्वात् आशुतरविनाशित्वाद्वा, रज्ज्वा सर्पधारादण्डमाला-
दिवत् स्वमार्थवच्चेत्यर्थः ॥ १०॥
स्वप्ने प्रकाशो भावानां स्वप्रकाशान हीतरः।
जाग्रत्यपि तथैवेति निश्चिन्वन्ति विपश्चितः।।११।।
एवं दृश्यसत्ताया अधिष्ठानपर्यवसायित्वं व्युत्पाद्य तत्स्फु-
रणस्यापि तत्पर्यवसायित्वं व्युत्पादयति-स्वमे प्रकाश
इति ॥ 'आत्मनवायं ज्योतिषास्ते' 'अत्रायं पुरुषस्वयं ज्यो-
तिः' इति श्रुतेश्च स्वमे भावानां दृश्यानामर्थानां प्रकाशः
स्वप्रकाशादधिष्ठानात्मप्रकाशान हीतरः स्वतन्तः; स्वतस्स-
त्ताहीनस्य स्वतस्स्फुरणस्याप्यभावादित्यर्थः । अत्राप्यनुमान-
माह-जाग्रत्यपीति । विमताः
जाग्रदृश्याः
अन्याधीनप्रका-
शाः, अन्यस्मिन् भासमान एव सति भासमानत्वात्,
स्वमदृश्यवदिति विपश्चितो निश्चिन्वन्तीत्यर्थः । न चाप्रयो-
जकत्वं शङ्कथम् ,दृश्यानामप्यनन्याधीनप्रकाशत्वेसति इन्द्रि-
याद्यनपेक्षणात् तत्सृष्टिवैयर्थ्यप्रसङ्गादिति द्रष्टव्यम् ॥ ११ ॥
निद्रया दर्शितानर्थान्न पश्यति यथोथ्थितः ।
सम्यग्ज्ञानोदयादूर्ध्व तथा विश्वं न पश्यति ॥१२॥
इत्तान्ताख्यव्याख्यासमेतम्. सदेवं मायावस्थमेव मायिक विश्वदर्शनं, न विश्वस्यान्य- निरपेक्षसत्तास्फुरणे स्त इति पूर्वार्धव्याख्यानेन प्रतिपायेदा- नीमुत्तरार्ध व्याचक्षाणः आत्मसत्तास्फुरणयोरव्यभिचारा- नित्यत्वं सूचयति-निद्रया दर्शितानिति ॥ (यस्य) सर्वाधिष्ठानस्य प्रत्यगात्मनो ब्रह्मणो याथात्म्यज्ञानोदयादि- त्यर्थः ॥१२॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजन्मनिमखममद्वैतं बुध्यते तदो ॥ १३ ॥ उक्तेर्थे वृद्धस्मृतिं संवादयन् अद्वैतसाक्षात्कारोदयप्रकार सूचयति-अनादीति ॥ 'अनादिमायया सुप्त इति' स्वतो जीवस्य ज्ञान न सम्भाव्यत इति सूचयति । 'यदा प्रबुध्यते' इत्युक्त्यान्यतोपि प्रबोधस्य दुर्लभत्वं द्योतयति । तथा च श्रुतिः- 'श्रवणायापिबहुभिर्योनलभ्यः शृण्वन्तोपि बहवो यन्न विधुः। आश्चर्योवक्ता कुशलोस्य लब्धाआश्चर्यो ज्ञाता कुशलानुशिष्टैः' इति । स्मृतिरपि-'आश्चर्यवत् पश्यति कश्चिदेनमें' इत्या- दि । यदैवं जीवः प्रबुध्यते आचार्योपदेशतो वेदान्तवाक्यात् प्रबोधं लभते तदाऽद्वैतमात्मतत्त्वं प्रबुध्यते साक्षात्करोति । किंलक्षणमद्वैतम्? अजम् आगन्तुकप्रबोधवज्जाग्रदवस्थाव- र्जितम् । अनिद्रं निद्रोपलक्षितमू सुषुप्तिरहितम् । अस्वमं स्वमाख्यमध्यावस्थाविरहितम् । अत एवावस्थात्रयद्वैतशून्य- स्वात् अद्वैतमित्यर्थः ॥ १३ ॥ श्रुत्साचार्यप्रसादेन योगाभ्यासवशेन च । ईश्वरानुग्रहेणापि खात्मबोधो यदा भवेत् ॥ १४ ॥ १ अजमनिदेति... गौ. का. १-१६.पा.३. क. उ. २-७.४.गीता. २-२९.।
. , मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- उदाहतस्मृतौ यदातदेत्यनयोरर्थमाह-श्रुत्याचार्येति वार्तिकद्वयेन ॥ आचार्यप्रसादेनानुग्रहेण, असम्भावनारहि- तस्वार्थया श्रुत्या, योगाभ्यासो निदिध्यासनं तद्वशेन तद- नुष्ठानप्रभावेण, ईश्वर प्राक्सेवितोन्तर्यामी श्रवणादिना चा- राध्यमानः परमात्मा,तस्यानुग्रहः। उपासकचित्ते स्वतत्त्वावि- करणं, तेन।अपिशब्दः उक्तसर्वसाधनसमुच्चयार्थः । तथाच श्रुतयः-वेदान्तविज्ञानसुनिश्चितार्थाः आचार्यवान् पुरुषो वेद' 'ततस्तु तं पश्यते निष्कलं ध्यायमानः 'यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूं स्वाम्' इति । एतैस्साधनैः यदा सम्पद्यते पुरुषस्तदा प्रबुद्धयत इति स्मृत्युक्तयदाशब्दो व्याख्यातः ॥ १४ ॥ भुक्तं यथान्नं कुक्षिस्थं स्वात्मत्वेनैव पश्यति । पूर्णाहन्ताकवलितं विश्वं योगीश्वरस्तथा ॥१५॥ तदाशब्दार्थमद्वैतबोधं विवृणोति-भुक्तमिति ॥ स्फुटा- थमेतत् । अनेन 'जानीयात्तत् कथं जीवः' इति प्रश्नस्या- द्वैतप्रत्यगात्मरूपेण जानीयादित्युत्तरमुक्तं वेदितव्यम् । Qत्याचार्येतिपूर्वश्लोकेन 'किन्तत् ज्ञानस्य साधनम्' इत्यस्योत्तरमुक्तं द्रष्टव्यम्। अस्य ज्ञानस्य फलं तृतीयश्लोकेन संसारनिवृत्तिलक्षणं वक्ष्यति ॥ १५ ॥ यथा स्वमे नृपो भूत्वा भुक्त्वा भोगान्यथेप्सितान। चतुरङ्गावलोपेतःशत्रु जित्वा रणाङ्गणे ॥ १६ ॥ एवं श्लोकस्य पदशः प्राप्तमर्थमाविष्कृत्यार्थिकमर्थमावि- कुर्वन् 'ईश्वरत्वं च जीवेत्वम्' इत्याद्यवशिष्टप्रश्नानामुत्तर ..ते. उ. ४-१२.। २. छा.उ. ६-१४-२. । ३. मु- उ. ३.१.१८.18. मु उ.३-२-३ ५.-योगे.
वृत्तान्ताख्यव्याख्यासमेतम्. माह-यथा स्वप्न इत्यादिना ॥ चिदात्मनो जीवेश्वरभावो मायानिबन्धन इत्यत्र दृष्टान्त उच्यते-स्वप्ने कश्चिद्यथा नृपात्मतामात्मनोनुभूय स्वातन्त्र्यं मन्यते तद्वत् परान् स्व- वशीकृत्य जगत्पतितया स्वातन्त्र्यावस्थापत्तिश्चिदात्मन ईश्वरत्वमित्यर्थः ॥ १६ ॥ पश्चात्पराजितो भूत्वा वनं प्राप्य तपश्चरन् । मुहूर्तमात्रमात्मानं मन्यते कल्पजीविनम् ॥१७॥ जीवत्वे दृष्टान्तमाह-पश्चादिति ॥ परतन्त्रोप्राप्ताभि- लाषो जीव इत्यर्थः ॥ १७ ॥ तथैव जाग्रत्कालेपि मनोराज्यं करोत्यसौ। कालनद्योघवेगेन क्षीणमायुर्न पश्यति ॥ १८ ॥ यथा स्वप्ने जीवभावः तथा जाग्रद्दशायामपि अस्ति दृष्टान्त इत्याह-तथैवेति ॥ १८ ॥ मेघच्छन्नोंशुमालीव मायया मोहितोधिकम् । किञ्चित्कर्ता च किञ्चिज्ज्ञो लक्ष्यते परमेश्वरः।।१९॥ आयुःक्षयादर्शनमस्याज्ञत्वमीश्वरवैपरीत्यमुक्तम्, ईश्वर एव सन् मायापरवशतया जीवो भवति, न जीवो नाम कश्चित्स्वतन्त्रोस्तीत्येतदृष्टान्तेनोपपादयति–मेघच्छन्न इ- ति ॥ १९॥ यद्यत्करोति जानाति तस्मिंस्तस्मिन्परेश्वरः। राजा विद्वान स्वसामर्थ्यादीश्वरोयमितीर्यते॥२०॥ स्वममनोरथस्य जीवदृष्टान्तस्य दार्टान्तिकमुक्त्वा स्वप्नेश्व- रदृष्टान्तस्य दार्टान्तिकमाह-यद्यत्करोतीति ॥ यो यद्यत्
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं-
स्वसामर्थ्यात् स्वातन्त्र्येण करोति तस्मिंस्तस्मिन् क्रियमाणे
परेश्वरः परमेश्वरो राजा, तथा स्वसामर्थ्याचघजानाति
तस्मिंस्तस्मिन् स विद्वान् स्वतन्त्रज्ञानवानीश्वरोयमितीर्यते
इति योजना ॥ २०॥
ज्ञानक्रिये शिवेनैक्यात्सङ्कान्ते सर्वजन्तुषु ।
ईश्वरत्वं च जीवानां सिद्धं तच्छक्तिसङ्गमात्।।२१।।
मायिकमीश्वरत्वं जीवत्वमन्यसापेक्षं व्युत्पाद्य सर्वात्मत्वं
चिदात्मनो व्युत्पादयन् 'सर्वात्मत्वं च कीदृशम्' इत्यस्य
प्रश्नस्योत्तरमाह-ज्ञानक्रिये इति ॥ सर्वजन्तुषु ये ज्ञानक्रिये
ज्ञातृत्वं कर्तृत्वं च ते स्वातन्त्र्येण ज्ञातृकर्तृशिवेनैक्यात्तेषु
सङ्क्रान्ते, अग्न्यैक्यादिवायापिण्डे दग्धृत्वम् । अतः ईश्वरश-
क्तियोगात् जीवानामीश्वरत्वं सिद्धम् । ईश्वर एव सर्वात्मेति
सिद्धं तस्य सर्वात्मत्वमित्यर्थः ॥२१॥
अयं घटोयं पट इत्येवं नानाप्रतीतिषु ।
अर्कप्रमेव ज्ञानं तत्स्वयमेव प्रकाशते ॥ २२ ॥
सर्वजन्तुष्वविशिष्टं यत् ज्ञानं तस्य स्वप्रकाशत्वमेकत्वं
च साधयति-अयमिति ॥ स्वज्ञानं स्वस्य द्रष्टुः स्वरूपभूतं
ज्ञानं स्वयमेव प्रकाशते स्फुरतीत्यर्थः ॥ २२॥
ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत् ।
न चेदस्य क्रिया काचित् व्यवहारः कथं भवेत्।।२३
ज्ञानस्यास्वप्रकाशत्वाभ्युपगमे बाधकमाह-ज्ञानं न
चेदिति ॥ भवत्वेवं ज्ञानमीश्वरस्य, तस्यामूर्तस्य कुतः क्रिये-
त्यत आह-न चेदिति । ईश्वरः कर्तेति व्यवहारसिद्धये
क्रियापि यादृशी तादृश्यस्याङ्गीकार्येत्यर्थः ॥ २३ ॥
वृत्तान्ताख्यव्याख्यासमेतम्.
क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी।
स्पन्दमाने बहिर्जाने तदकरवदुद्भवेत् ॥२४॥
तर्हि किंस्वरूपा क्रियेत्यपेक्षायामाह-क्रिया नामेति ।।
परिस्पन्दश्चलनं, परिणामोवस्थान्तरापत्तिः। एवंस्वरूपि-
णी क्रिया प्रसिद्धा शरसुवर्णादिष्वित्यर्थः । सा अमूर्तेष्वप्यु-
पाधिवशात् भातीत्याह-स्पन्दमान इति । इन्द्रियद्वा-
रकमनोवृत्तिद्वारा ज्ञाने बहिः स्पन्दमाने तदकुरवत्तस्य
ज्ञानस्याङ्कुरवत् कार्यमिव पूर्वोक्ता क्रियोद्भवेत्, ज्ञानव्या-
तेर्थे अतिशयहेतुक्रिया ज्ञानाश्रयायत्तप्राणाधिष्ठितस्थूलोपा-
धिनिबन्धना भवेदित्यर्थः । अन्तर्यामीश्वरसन्निधानायत्त-
त्वात् 'प्राणादिचेष्टायाः, सर्वजन्तुषु प्रतीयमाना चेष्टापी-
श्वरस्यैवेत्यर्थः॥ २४ ॥
उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया।
करोति गच्छत्युन्माटि छिनत्तीति प्रतीयते ॥२५॥
इदानी क्रियाकार्य दर्शयन् क्रियासद्भावं साधयति-
उत्पाद्येति ॥ यद्वा-परिस्पन्दरूपां क्रियामुक्त्वापरिणामरू-
पामुदाहरति-उत्पाद्येति ॥ उत्पाद्यादीनां यथासङ्ख्यमुदा-
हरणं-करोतीत्यादि । उन्माष्टिं मार्जनेन संस्करोतीत्यर्थः ।
इति कर्मकारकव्यपाश्रया परिणामक्रिया प्रतीयत इत्यर्थः
॥२५॥
शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते ।
देवतिर्यनुष्येषु किश्चिज्ज्ञस्तारतम्यतः ॥ २६ ॥
इदानीं सर्वज्ञत्वकिंचिन्ज्ञत्वे एकस्मिन्नप्युपाधिभेदेनाप्य-
वतिष्ठते इत्युपपादति-शिव इति ॥ २६ ॥
११
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं-
स्वसामर्थ्यात् स्वातन्त्र्येण करोति तस्मिंस्तस्मिन् क्रियमाणे
परेश्वरः परमेश्वरो राजा, तथा स्वसामर्थ्याचघजानाति
तस्मिंस्तस्मिन् स विद्वान् स्वतन्त्रज्ञानवानीश्वरोयमितीर्यते
इति योजना ॥ २०॥
ज्ञानक्रिये शिवेनैक्यात्सङ्कान्ते सर्वजन्तुषु ।
ईश्वरत्वं च जीवानां सिद्धं तच्छक्तिसङ्गमात्॥२१॥
मायिकमीश्वरत्वं जीवत्वमन्यसापेक्षं व्युत्पाद्य सर्वात्मत्वं
चिदात्मनो व्युत्पादयन् 'सर्वात्मत्वं च कीदृशम्' इत्यस्य
प्रश्नस्योत्तरमाह-ज्ञानक्रिये इति ॥ सर्वजन्तुषु ये ज्ञानक्रिये
ज्ञातृत्वं कर्तृत्वं च ते स्वातन्त्र्येण ज्ञातृकर्तृशिवेनैक्यात्तेषु
सङ्कान्ते, अग्न्यैक्यादिवायापिण्डे दग्धृत्वम् । अतः ईश्वरश-
क्तियोगात् जीवानामीश्वरत्वं सिद्धम् । ईश्वर एव सर्वात्मेति
सिद्धं तस्य सर्वात्मत्वमित्यर्थः ॥२१॥
अयं घटोयं पट इत्येवं नानाप्रतीतिषु ।
अर्कप्रमेव ज्ञानं तत्स्वयमेव प्रकाशते ॥ २२ ॥
सर्वजन्तुष्वविशिष्टं यत् ज्ञानं तस्य स्वप्रकाशत्वमेकत्वं
च साधयति-अयमिति ॥ स्वज्ञानं स्वस्य द्रष्टुः स्वरूपभूतं
ज्ञानं स्वयमेव प्रकाशते स्फुरतीत्यर्थः ॥ २२॥
ज्ञानं न चेत्स्वयं सिद्धं जगदन्धं तमो भवेत् ।
न चेदस्य क्रिया काचित् व्यवहारः कथं भवेत्॥२३
ज्ञानस्यास्वप्रकाशत्वाभ्युपगमे बाधकमाह-ज्ञानं न
चेदिति ॥ भवत्वेवं ज्ञानमीश्वरस्य, तस्यामूर्तस्य कुतः क्रिये-
त्यत आह-न चेदिति । ईश्वरः कर्तेति व्यवहारसिद्धये
क्रियापि यादृशी तादृश्यस्याङ्गीकार्येत्यर्थः ॥ २३ ॥
वृत्तान्ताख्यव्याख्यासमेतम.
क्रिया नाम परिस्पन्दपरिणामस्वरूपिणी।
स्पन्दमाने बहिर्जाने तदङ्कवद्भवेत् ॥ २४॥
तर्हि किंस्वरूपा क्रियेत्यपेक्षायामाह-क्रिया नामेति ॥
परिस्पन्दश्चलनं, परिणामोवस्थान्तरापत्तिः। एवंस्वरूपि-
णी क्रिया प्रसिद्धा शरसुवर्णादिष्वित्यर्थः । सा अमूर्तेष्वप्यु-
पाधिवशात् भातीत्याह-स्पन्दमान इति । इन्द्रियद्वा-
रकमनोवृत्तिद्वारा ज्ञाने बहिः स्पन्दमाने तदकुरवत्तस्य
ज्ञानस्याङ्कुरवत् कार्यमिव पूर्वोक्ता क्रियोद्भवेत् , ज्ञानव्या-
सेर्थे अतिशयहेतुक्रिया ज्ञानाश्रयायत्तप्राणाधिष्ठितस्थूलोपा-
धिनिबन्धना भवेदित्यर्थः । अन्तर्यामीश्वरसन्निधानायत्त-
त्वात् 'प्राणादिचेष्टायाः, सर्वजन्तुषु प्रतीयमाना चेष्टापी-
श्वरस्यैवेत्यर्थः ॥ २४॥
उत्पाद्यप्राप्यसंस्कार्यविकार्योपाश्रया क्रिया।
करोति गच्छत्युन्माटि छिनत्तीति प्रतीयते ॥२५॥
इदानी क्रियाकार्य दर्शयन् क्रियासद्भावं साधयति-
उत्पाद्येति ॥ यद्वा-परिस्पन्दरूपां क्रियामुक्त्वापरिणामरू-
पामुदाहरति-उत्पाद्येति ॥ उत्पाद्यादीनां यथासङ्ख-यमुदा-
हरणं-करोतीत्यादि । उन्माष्टिं मार्जनेन संस्करोतीत्यर्थः ।
इति कर्मकारकव्यपाश्रया परिणामक्रिया प्रतीयत इत्यर्थः
॥ २५॥
शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते ।
देवतियङ्गनुष्येषु किश्चिज्ज्ञस्तारतम्यतः ॥ २६ ॥
इदानीं सर्वज्ञत्वकिंचिज्ज्ञत्वे एकस्मिन्नप्युपाधिभेदेनाप्य-
वतिष्ठते इत्युपपादति-शिव इति ॥ २६ ॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- जरायुजोण्डजश्चैव स्वेदजः पुनरुद्भिदः। एते चतुर्विधा देहाःक्रमशो न्यूनवृत्तयः ॥ २७ ॥ तारतम्यत इत्युक्त; किङ्कतं जीवेषु तारतम्यमित्यपेक्षायां तत्तच्छरीरोपाधिकृतं तदित्याह-जरायुज इति ॥ अत्रापि 'पुरुषत्वेवाविस्तराम्' इति श्रुतेर्जरायुजेष्वपि ज्ञानादिता- रतम्यं द्रष्टव्यम् ॥ २७ ॥ ब्रह्मादिस्तम्बपर्यन्ता स्वप्नकल्पैव कल्पना। साक्षात्कृतेनवच्छिन्ने प्रकाशे परमात्मनि ।। २८॥ ईश्वरत्वादेर्मायामयत्वमुपपादितमुपसंहरति-ब्रह्मादी- ति ॥ अनवच्छिन्नप्रकाशे परमात्मनि साक्षात्कृते सति सर्व- कल्पना जाग्रति प्रबोधे विलीयमानस्वप्नवत् सहसैव विली- यमानत्वात् स्वमतुल्यैवेत्यर्थः ॥२८॥ अणोरणीयान्महतो महीयानिति वेदवाक् । रुद्रोपनिषदप्येवं स्तौति सर्वात्मकं शिवम् ॥२९॥ उक्ते सर्वात्मत्वे प्रमाणमाह-अणोरणीयानिति ॥२९॥ ईश्वरो गुरुरात्मेति मूर्तिभेदेविभागिने । व्योमवद्याप्तदेहाय दक्षिणामूर्तये नमः॥ ३०॥ गुरुमूर्तये दक्षिणामूर्तय इति पदद्वयस्यार्थमाह-ईश्वर इति ॥ इदं नम इत्यस्यात्मसमर्पणं प्रह्वीभाव विवक्षन् 'आ- त्मेति मूर्तिभेदे' इत्युवाच । तथा चेश्वरो गुरुरात्मेत्येवं मूर्तिभेदभिन्नाय दक्षिणामूर्तये नम इत्यर्थः । मूर्तित्रयकृतप- १ ऐत. ण्य. २. ३. २.५। (१) मूर्तिभेदाद्विभेति-मूर्तित्रयविभेति च पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. रिच्छेदशङ्काव्यावृत्तये व्योमवद्व्याप्तदेहायेति विशेषणं, व्यापकायेत्यर्थः ॥३०॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके। प्रबन्धे मानसोल्लासे प्रथमोल्लाससंग्रहः ॥ ३१ ॥ प्रथमश्लोकव्याख्यामुपसंहरति—इतीति ॥ ३१ ॥ इति श्रीमानसोल्लासवृतान्ते प्रथमोल्लासः समाप्तः॥१॥ उपादानं प्रपञ्चस्य संयुक्ताः परमाणवः । मृदन्वितो घटस्तस्माद्भासते नेश्वरान्वितः ॥ १ ॥ मायया बहिरिवोद्भूतं स्वागतं विश्वं पश्यन्निति विश्वस्या- त्मनिमायाध्यस्तत्वमुक्तं; तन्नोपपद्यते, विश्वस्यात्मन्यसत्योपा- दानकत्वादितिवादिनः केचित्प्रत्यवतिष्ठन्ते; तेषांमतमुत्तरश्लो- केन निराकर्तुमुपन्यस्यति–उपादानमित्यादिना ॥ अत्र वैशे- पिका मन्यन्ते-प्रपञ्चस्य कार्यद्रव्यात्मकस्य परस्परं संयुक्ताः परमाणवो निरवयवाः परमसूक्ष्मद्रव्यविशेषाः उपादानम् आश्रयविशेषाः । तद्गतगुणविशेषाश्च तदुपादानकाः । कर्मा- पि मूर्तद्रव्यसमवेतत्वात्तदुपादानकमेव । नित्यद्रव्यगुणजा- तिविशेषसमवायास्तु नित्या एवेति न तेषां कारणापेक्षा । एतदतिरिक्तं च भावरूपं न किंचिदस्ति, अभावश्च भावप्र- योगिको न स्वतन्त्र इति । नेश्वरोपादानकः प्रपञ्चः, नापि मायामय इति, प्रपञ्चस्य ईश्वरानुपादानत्वं साधयन्ति- मृदन्वित इति । अयमर्थः-विमताः, अचेतनोपादानकाः अचेतनान्विततया भासमानत्वात्; यः स्वसत्तायां यदन्वि- तो नियमेन भासते स तदुपादानको दृष्टः, यथा मृदन्वि- ४० मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- ततयावभासमानो घटो मृदुपादानकः, तथा चेमे, तस्मात्त- थेति । तस्मादीश्वरान्विततया कस्याप्यवभासादर्शनात् नेश्व- रोपादानकः प्रपञ्च इत्यर्थः ॥१॥ परमाणुगता एव गुणा रूपरसादयः। कार्ये समानजातीयमारभन्ते गुणान्तरम् ॥२॥ कारणगतगुणविशेषैरेव कार्यगुणोत्सत्तेः तत्रापि नेश्वरः कार्यहेतुरित्याह-परमाणुगता इति ॥ समानजातीयमिति विशेषगुणाभिप्रायम् , व्यणुकादिपरिमाणस्य परमाण्वादिग- तसङ्ख्यायोनित्वाङ्गीकारात् , परत्वापरत्वयोर्दिक्कालपिण्डसं- योगयोनित्वाङ्गीकाराच्च ॥२॥ कार्यं यत्र समन्वेति कारणं समवायि तत् । चक्राचं साधनं यत्तु घटस्यासमवायि तत् ॥३॥ भावकार्याणां कारणं त्रिविधं प्रसिद्धं, समवायिकारणं निमित्तकारणमसमवायिकारणंचेति । तेषु त्रिविधेष्वपि कार- णेष्वीश्वरस्य कर्तृतारूपनिमित्तविशेषत्वमन्तरेणान्यः कारण- त्वप्रकारो नास्तीति कथयितुं कारणभेदानां लक्षणान्याह- कार्य यत्रेति ॥ यस्मिन् समवायसम्बद्धं कार्य जायते तत्स- मवायिकारणं, तदेवोपादानशब्दवाच्यं चेत्यर्थः । यत्पुनः समवायेतरसम्बन्धसम्बद्धं कार्योत्पत्तिकारणं तन्निमित्तमिति विवक्षित्वा उदाहरति-चक्राद्यमिति ।न समवायि तदसम- वायि, निमित्तमित्यर्थः॥३॥ समवायिनि तिष्ठेद्यत् समवाय्याश्रये तथा । कार्येऽवधृतसामर्थ्य कल्प्यतेऽसमवायि तत्॥ ४ ॥ असमवायिकारणलक्षयति-समवायिनीति ॥ स्वका- वृत्तान्ताख्यव्याख्यासमेतम्. यस्य समवायो यस्मिन् तत्समवायि, तस्मिन्यत् तिष्ठेत, यथा-तन्तुसंयोगः पटसमवायिकारणेषु तन्तुष्वित्यर्थः । अनेन कार्यैकार्थसमवायलक्षणा प्रत्यासत्तिरुक्ता । तथा समवा य्याश्रये यत्तिष्ठेदिति योजना । स्वकार्यसमवायिकारणस्याश्र- ये इत्यर्थः । अनेन कारणैकार्थसमवायरूपा प्रत्यासत्तिरुक्ता । यथा-तन्तुगता रूपादयः पटगतरूपाश्रयेण सहकार्थसमा- श्रया इत्यस्योदाहरणम्। अन्यथासिद्धतन्तुत्वादौ प्रसङ्गवार- णायाह-कार्य इति । अवधृतसामर्थ्यमनन्यथासिद्धमि- त्यर्थः॥४॥ निमित्तं कारणं तेषामीश्वरश्च कुलालवत् । एवं कारणत्रयं कार्यापेक्षितं स्वरूपतो निर्दिश्य तत्रेश्वर- स्यापि सर्वकार्योत्पत्तिनिमित्तकारणत्वमेष्टव्यमिति तत्सद्भावं साधयति-निमित्तमिति॥अन्येषु निमित्तेषु सत्स्वपीश्वरोपि निमित्तं तेषां सर्वेषां कार्याणां चाङ्गीकार्यम्, चेतनेनाधिष्ठात्रा विना अचेतनप्रवृत्तेरयोगात् ; यथा-चक्रादिषु कारणान्त- रेषु सत्स्वपि कुलालादिना विना घटादिकार्यानुत्पत्तिरित्यक्ष- रार्थः । विमतं, चेतनाधिष्ठिताचेतनकारणकं, कार्यत्वात् , घटादिवदित्युक्तं भवति ॥ यत्कार्य जायते यस्मात्तस्मिन् तत्पतितिष्ठति ॥५॥ मृत्तिकायां घटस्तन्तौ पटस्वर्णेङ्गुलीयकम् । यस्मादेवं युक्तियुक्ता कल्पना, तस्माच्चेतनस्य जगदुपादा- नत्वं सर्वात्मत्वमिति कल्पनं व्यापकोपलब्धिविरुद्धमित्युप- संहरति यत्कार्यमिति ॥ यस्मादुपादानाद्यत् कार्य जायते तत्तस्मिन् प्रतितिष्ठति ॥ ५॥ यथा-मृत्तिकायां घट इत्यु- मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- दाहरणम् । तथा च सर्वस्य कार्यस्याचेतनप्रतिष्ठत्वोपलम्भ- विरुद्धं चेतनोपादानकत्वकल्पनमित्यर्थः ॥ इति वैशेषिकाः प्राहुस्तथा नैयायिका अपि ॥६॥ केषामियं कल्पनेत्यपेक्षायामाह-इति वैशेषिका इति॥६॥ रजस्सत्त्वं तमश्चेति प्रधानस्य गुणास्त्रयः। इदानीं सायकल्पनामाह-रज इत्यादिना ॥ प्रधानप्र- कृतिः 'माया प्रधानमव्यक्तम्' इत्यत्र वक्ष्यमाणलक्षणम् । तस्य प्रधानस्य रजस्सत्त्वं तमश्चेति त्रयो गुणाः। 'त्रिगुणमविवेकि- विषयः' इत्यादौ साङ्ख्यशास्त्रे निर्दिष्टं प्रधानस्य गुणत्रया- त्मकत्वमित्यर्थः॥ रजो रक्तं चलं तेषु सत्त्वं शुक्लं प्रकाशकम् ॥७॥ तमः कृष्णं चावरकं सृष्टिस्थित्यन्तहेतवः। तत्रोक्तमेव गुणानां लक्षणमाह-रजो रक्तमिति ॥ तेषु गुणेषु मध्ये रक्तं रञ्जनात्मकम् । उपष्टम्भकमिति यावत्। तथा चलं चलनस्वभावं यत्तद्रजोगुणमित्यर्थः । एवमुत्तरत्रापियो- जना । शुक्लं शुद्धं लघु प्रकाशकं सर्वार्थसाधकं सत्त्वम् ॥७॥ तमः कृष्णं गुरुत्वोपेतं मलिनस्वभावं चावरकम् । अविवेककर- मित्यर्थः । एषां सद्भावं साधयति-सृष्टिस्थित्यन्तहेतव इति। रजोगुणः सृष्टिहेतुः, सत्त्वं स्थितिहेतुः, तमः प्रलयहेतुरिति योजना । कथमेषां सृष्ट्यादिहेतुत्वम् ? इत्यस्योत्तरमुत्तरत्र भविष्यति॥ इति साङ्ख्याच भाषन्ते तेषां दूषणमुच्यते ॥८॥ अस्मिन्मते निमित्तत्वेनापि न चेतनापेक्षा जगत इत्यु- १ मा. २-३१. २. साथसततौ. ११.
वृत्तान्तायथ्याख्यासमेतम्. पसंहरति-इति साङ्खयाश्च भाषन्त इति ॥ चकारादन्येपि ये स्वभाववादिनः,शून्यवादिनः, शैवाः, योगा, पौराणिका- श्च ते । गृह्यन्ते । तेषां सर्वेषां दूषणमुच्यत इत्युत्तरश्लोको- थ्थापनमेतत् ॥ ८॥ "बीजस्यान्तरिवाकरो जगदिदंप्रानिर्विकल्पं पुन मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यस्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये।।२॥" अत्र 'सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्' 'आत्मा- वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्' इत्यादिश्रुति- माश्रित्य जगत्कारणत्वमस्मिन् पद्ये निरूप्यते। अतः स्वबुद्धि मात्रोत्प्रेक्षितं मतान्तरं श्रुतिविरुद्धमित्यभिप्रायः । अस्यैषाऽ- क्षरयोजना-इदं जगत्प्रागुत्पत्तेः पूर्व निर्विकल्पं जातिगुण- क्रियादिविकल्परहितं सन्मात्रमासीदिति शेषः । सन्मात्रं च ब्रह्मेति पूर्वमुपपादितम् । तत्र दृष्टान्तमाह-बीजस्या- न्तरिवाङ्कुर इति। न हि बीजावस्थायां तस्मिन्नविद्यमानोडु- रोनेकसहकारिसन्निधानानन्तरंजायत इतीप्यते, कुटजबीजा- दपि वटाङ्कुरोत्पत्तिप्रसङ्गात् ॥ तस्य तत्रासामर्थ्यान्न प्रसङ्ग इति चेत्, कुतोऽसामर्थ्यमवगतम् ? कुटजबीजादूटाङ्कुरोत्प- त्यदर्शनादिति चेत् तर्हि वटबीजादपि वटाङ्कुरोत्पत्त्यदर्श- नात् तस्यापि तत्र कुतः सामर्थ्यमवगम्येत? तदन्वयव्यतिरे- काभ्यां तदवगमइति चेत्-तर्हि वटाङ्कुरजननात्माङ्गिन्यमेना- १ छा . उ. ६-१। २ ऐ. उ-१-१।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- न्वितानामनन्यथासिद्धानां सर्वेषामेव भावानां तदुपादानत्व- प्रसङ्गः ॥ तत्र यदन्वितं कार्य सदा दृश्यते तदुपादानम्, इतरदुत्पत्तिमात्रे निमित्तमिति नातिप्रसङ्ग इति चेत्-एवं तर्हि बीजान्वितस्याङ्करस्य वाप्यदर्शनात् न बीजमुपादानं सिद्ध्यति॥ बीजावयवानामेवोपादानत्वं न बीजावयविनः इति चेत्-ते किमकुरावयवेभ्योन्ये, त एव वा?।आये न तेषाम- कुरे अनुगतिः।द्वितीये त्वस्मन्मतापत्तिः,बीजावयवानामेव बी- जसंस्थानपरित्यागेनाङ्कुरात्मतापत्तिरिति अस्माभिरङ्गीक्रिय- ते। अतःसर्वेपि संस्थानविशेषाः कार्यशब्दवाच्याःसर्वानुगता- वयवात्मना स्थिता एव तत्रतत्र सहकारिविशेषेणाविर्भावति- रोभाववत्तया विभाव्यन्त इत्यनिच्छद्भिपि अच्छमतिभि- रङ्गीकार्यम् । तथा च सर्वेषु विशेषेषु कार्यकारणभावाद्या- त्मना विभाव्यमानेषु, इदम् अयं तदित्याद्युल्लेखयोग्यं यंद- व्यभिचारि सन्मात्रमनुगम्यमानमस्ति तदेव सर्वस्योपादानं; तच्च ब्रह्मैव नान्यदिति बीज इवाङ्कुरो जगदिदं स्वान्तर्गतं यो विजृम्भयति तस्मै नम इत्यन्वयः । तर्हि यथा बीजस्याङ्कु- रजनने सलिलधामतेजआद्यनेकसहकार्यपेक्षा दृष्टा, तथास्य- ब्रह्मणो जगजनने किमस्ति, उत नास्ति? अस्ति चेतू–'एक- मेवाद्वितीयं 'नान्यत् किञ्चन मिषत्' इति श्रुतिविरोधः । नास्ति चेत्-दृष्टविरोध इत्यत आह–पुनरिति । पुनः सृष्टिकाले प्रावे मायया 'देवात्मशक्ति स्वगुणैर्निगूढाम' इत्यादिश्रुतौ ब्रह्मणः शक्तित्वेन निर्दिष्टतया कल्पिता ये देशाः कालाश्च । उपलक्षणमेतत् तत्तत्कार्यसाधनानामपि । तेषां कलना सम्बन्धविशेषः, तस्माद्यद्वैचित्र्यं तेन चित्रीकृतं विविधविशेषावस्थापन्नमित्यर्थः ॥ एतेन ब्रह्मणः कारणत्वस्य छा. उ.1.1. २ऐ. उ-1.१.
वृत्तान्ताख्यव्याख्यासमेतम्. मायामयत्वोपपादनादारम्भवादः, परिणामवादः, स्वभाववा- दश्च निराकृतः ॥ शून्यवादश्च सद्रूपोपादानत्वाङ्गीकारादेव निरस्तो वेदितव्यः॥ननु कार्यस्यापि मायाकल्पितत्वे प्रागिति च पुनरिति च कथं निर्देश इति चेत् नैष दोषः, परप्रत्याय- नार्थतया यथाव्यवहारं प्राप्तानुवादमात्रत्वात् । एवं सति न श्रुतिविरोधो नापि दृष्टविरोधः, परमार्थस्य सहकारिणो. नङ्गीकारादिति सर्वमनवद्यम् । मायासहकारितस्य कारण- त्वं कोपलब्धमित्यत उदाहरणमाह-मायावीवेति । माया- वी लोकप्रसिद्ध ऐन्द्रजालिकः । स यथा मणिमन्त्रादिप्रयो- गसद्धुभ्यमाणमायामात्रसहायो रथगजतुरगाद्यनेकं जगत्सृज- ति तथायमीश्वर इत्यर्थः। दृष्टान्तान्तरमाह-अपि महायो- गीत्र यस्स्वेच्छयेति । अपिः दृष्टान्तयोमिथस्समुच्चयार्थः । बाह्यसहकारिसाधनहीनास्सङ्कल्पमात्रसहकारिणो यथा यो- गिनः विश्वामित्रादयो विचित्रं जगद्भोगक्षममारचितवन्त इति पुराणादिषु प्रसिद्धं; तथैवेक्षणमात्रेण स्वेच्छापरपर्यायेण भगवानपि विचित्रं जगत्सृजेदिति नात्रासम्भावना कार्ये- त्यर्थः ॥२॥ अस्थायमभिप्रायः- अङ्करादिफलान्तेषु कार्येष्वस्तित्वमिष्यते । कुत आगत्य सम्बद्धा वटबीजेषु ते कणाः॥ ९॥ श्लोकव्याख्यां प्रतिजानीते-अस्यायमभिप्राय इति ॥ यदुक्तमणुकारणं जगदिति तद्व्यापकविरुद्धोपलब्धिपरा- हतमिति उपपादयति-अङ्कुरादीति ॥ कार्येषु सर्वेष्वन्वि- ४६ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- ततया उपलभ्यमानस्योपादानत्वमिति स्थिती, सर्वत्र सत्ता- मात्रस्यान्वयदर्शनात्, परमाण्वादेस्तददर्शनात् , सच्छब्द- वाच्यं ब्रह्मोपादानं, नाण्वादय इति वार्तिकश्लोकतात्पर्या- र्थः । पूर्वार्धाक्षरार्थस्तु स्पष्ट एव । वटबीजेषु चरमकार्यभू. तेषु ते कणाः परमाणुलक्षणाः कुत आगत्य सम्बद्धाः? तेषां व्यणुकमात्रेऽन्वयसम्भवेपि सर्वकार्यानन्वयात् न ते उपादानमित्यर्थः । व्यणुकादीनांतु व्यणुकाद्यन्वयित्वे नास्ति प्रमाणम् । तथा सति पिण्डान्वितो घट उपलभ्येत, शकलेषु घटः, कपालेषु वा पिण्डः । नैतदस्ति; पूर्वावस्थावि- नाशमन्तरेणोत्तरावस्थाप्राप्त्ययोगात्, नष्टस्य चानुपादान- त्वात् । नश्यत्पूर्वावस्थावयवानाम् उत्तरावस्थोपादानत्वे चरमकार्यस्यापि परमाणव एवोपादानमिति प्रसज्येत । तेषां चातीन्द्रियत्वात् तदाश्रितं कार्यमप्रत्यक्षं स्यात् । तस्मात् सर्वकार्यान्वयिन उपादानत्वम्, तच्च सन्मानं ब्रह्मैवेत्युत्तरा- धतात्पर्यार्थः ॥ ननु कार्यार्थिना यदुपादीयते मुख्यतया तदुपादन प्रसिद्धं, तच्च बीजायेव, न ब्रह्मसत्ता, तत्कथं तस्योपादानत्वमिति चेत्-तुल्यमेतत् परमाणुवादेपि । न ह्यतीन्द्रियाः परमाणवः कार्यार्थिभिरुपादीयन्ते, विकार्यन्ते वा, किन्तु बीजायेवेति ॥ ननु तदारब्धोवयवी बीजमुपादी- यत इति चेत्-तीहापि सद्विवों बीजमुपादीयत इति तुल्यम् । ततस्तु बीजेप्यन्वयदर्शनमस्ति न परमाणूनाम् , इत्यस्त्यधिका युक्तिरित्यलं विस्तरेण ॥९॥ कारणान्तर्गतं कार्यमिति सर्वैश्व सम्मतम् । तस्मात्सत्ता स्फुरत्ता च सर्वत्राप्यनुवर्तते ॥ १०॥ उक्तमेव स्पष्टयति-कारणान्तर्गतमिति ॥ उपादाना- वृत्तान्ताख्यव्याख्यासमेतम्. न्तर्गतमित्यर्थः । प्रकाशमाना सत्ता सर्वत्र कार्यमानेनुवर्तत इति सैवोपादानं सिद्धमित्यर्थः ॥१०॥ पुष्पे फलत्वमापने क्षीरे च दधितां गते। विजातीयाः प्रवर्तन्ते गुणा रूपरसादयः॥ ११ ॥ पूर्वपूर्वकार्यस्योत्तरोत्तरोपादानत्वे बाधकमाह-पुष्पे फ- लत्वमिति ॥ उपादानगतगुणाः कार्ये समानजातीयं गुणान्तर- मारभन्त इति सम्मतम् । तदिह पुष्पफलयोः क्षीरदनो- श्वोपादानोपादेयभावे समानस्वभावा एवोभयत्र गुणास्स्युः; न च तथा दृश्यन्ते । तस्मात् पूर्वापरभावेपि न पूर्व कार्य- मुत्तरकार्योपादानमित्यर्थः ॥ ११ ॥ कारणं कार्यमंशोंशी जातिव्यक्ती गुणी गुणः। किया क्रियावानित्याद्याः प्रकाशस्यैव कल्पनाः१२ ननु प्रकाशसन्मात्रस्याकाशवदमूर्तस्य कथं कार्यारम्भ- कत्वमिति चेत् । न कथञ्चिदिति ब्रूमः ॥ कथं तर्हि कारण- त्वाभ्युपगम इति चेत् । सर्वकल्पनारूपविवाधिष्ठानत्वेन रज्ज्वा इव सर्पधारादिकारणत्वमित्याह-कारणं कार्यमि- ति ॥ बीजं कारणम् , अङ्कुरः कार्य, पटोशी, तन्तवोंशाः, गोत्वादिर्जातिः, सास्नादिमल्लक्षणाः पिण्डा व्यक्तयः, पटादिर्गुणी, रूपादिर्गुणः,चलनं क्रिया, तदाश्रयत्वेनाभिमतः क्रियावान् बाणचक्रादिः, आदिशब्दाद्विशेषो, विशेषी, समवायः, समवायी, विशेषणं, विशेष्यं, सदृशः, सादृश्यमि- त्यादि गृह्यते। एताः कल्पनाः व्यवहाराः प्रकाशस्यैव सन्मा- त्रस्फुरणस्यैव विवर्तरूपा इत्यर्थः । आरम्भवादे वा, परि- णामवादे वा, परमार्थतः कार्यकारणभावनिरूपणासम्भवात्, , ४८ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- वादान्तरस्यातितुच्छत्वात् स्वप्रकाशचिद्रूपे चिदात्मनि माया- विजृम्भितं जगदित्यभिप्रायः ॥ १२ ॥ चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञानक्रिये जगत्क्लप्तौ दृश्यते चेतनाश्रये ॥१३॥ नन्वेवमपि परमाणवो वा प्रधानं वा सञ्चेतनं भविष्यति 'स एषोणिमैतदात्म्यमिदं सर्व' 'तम आसीत्तमसा गूढम्' इति च श्रुत्योः परमाणुप्रधानयोः सर्वकारणत्वावगमादिति चेत्तत्राह-चैतन्यमिति ॥ नेष्यते वैशेषिकैः, साङ्खयैश्चेति शेषः । न युज्यते च; यतो जगत्कारणे ईक्षणपूर्विका सृष्टिः श्रुतौ श्रूयते तदैक्षत' इति । न च तत्तटस्थेश्वरस्य कर्तुः मित्तभूतस्येति युक्तम् 'बहुस्यां प्रजाये' इत्यात्मन एव बहुभवनाशंसनश्रवणात् । एतेन च प्रधानपरमाण्वोरना- त्मत्वाङ्गीकारादेवानुपपन्नमिति उदाहृते श्रुती न तद्विषये इति ॥ ननु तवेश्वरः कूटस्थोभिमतः, तस्य कथं ज्ञातृत्वक- र्तृत्वे स्यातामित्याशङ्कच, ते अपि तस्यैव मायाशक्तियोगात् स्यातां नान्यस्येत्यभिप्रेत्याह-ज्ञानक्रिये इति ॥ अचेतने क्वाप्यनयोरदर्शनात् , चेतने कुलालादौ दर्शनात् जगत्क- तावपि ते चेतनाश्रये एवाङ्गीकार्ये इत्यर्थः । तथाच जग- कारणस्येश्वरस्य कार्यकारणोपाध्यावेशात् कुलालजीवस्येव कार्यकारणतत्संस्कारात्मकमायोपाध्यावेशात् ज्ञानक्रियेशकी भविष्यत इत्युक्तम् । तथाच वैयासिकन्यायसूत्रं-'यथा च तक्षोभय 'इति ॥ १३ ॥ कालरूपक्रियाशक्त्या क्षीरात्परिणमेदधि। ज्ञातृज्ञानज्ञेयरूपं ज्ञानशक्क्या भवेजगत् ॥१४॥ १. छा-उ.६.७। २. ऋग्वे-१०। ३. छा-उ-६-२। ४. ब-सू-२-३-४०।
वृत्तान्तास्यपाल्यासमेतम्. ननु चेतननिरपेक्षमपि कार्य जायमानं दृश्यते, यथा दुग्धं स्वयमेव दध्यात्मना परिणमत इति साङ्यशङ्कामपा- करोति-कालरूपेति ॥ 'यः सर्वेषु भूतेषु तिष्ठन्' इति श्रुतेः सर्वगतस्यान्तर्यामिण ईश्वरस्य या कालाख्या क्रिया- शक्तिस्तदधिष्ठितात् क्षीरात् दध्यात्मना परिणामः, न क्षीर- स्वभावात् तथा सति सदा परिणामप्रसङ्ग इत्यर्थः । एतेन कालोपीश्वरस्यैव शक्त्याकारभेद इति सूचितम् । तथा च श्रूयते–'परास्य शक्तिर्विविधैव श्रूयते' इति । इदानीं ज्ञानरूपां शक्तिं विविच्य तस्याः जगद्धेतुत्वमाह-ज्ञा- तृज्ञानेति । ज्ञानं नाम जगत्कर्तुरीक्षणव्यवहारप्रवर्तिका मा- यावृत्तिः साऽऽभासेत्युच्यते । सा च स्वाश्रयस्य मायाशब- लितस्यं ज्ञातृत्वं सम्पादयति, स्वरूपतो ज्ञानात्मना वर्तते, ज्ञेयं च सृज्यं जगदवभासयन्ती तदाकाराकारिततया ज्ञेयरूपा च भवति । तथा चैवंविधया ज्ञानशक्त्या जगद्- वेदित्यर्थः॥ १४॥ ज्ञानं द्विधा वस्तुमात्रद्योतकं निर्विकल्पकम् । सविकल्पं तु संज्ञादिद्योतकत्वादनेकधा ॥ १५ ॥ उक्तां ज्ञानशक्तिं सामान्यविशेषात्मना विभजते-ज्ञानं द्विधेति । वस्तुमात्रद्योतकं 'बहु स्याम' इति सामान्याका- रेण सृज्यसमस्तवस्तूल्लेखीत्यर्थः । पुनराकाशादिभूत भौतिक- प्रकारेणानेकधा सृज्यार्थविशेषद्योतकत्वात्तदेव सविकल्पक- त्वं संयातीति योजना ॥१५॥ सङ्कल्पसंशयभ्रान्तिस्मृतिसादृश्यनिश्रयाः । ऊहोनध्यवसायश्च तथान्येनुभवा अपि ॥ १६ ॥ १ पृ. उ. ३. ७. १५। २. श्वेता. उ.६-८।३ तै- २-६॥
५ . मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- ज्ञानस्य स्वरूपतो भेदाभावेपि ज्ञेयाकारावभासनिबन्ध- नो भेदो भवतीत्यभिप्रेत्य द्योतकत्वादनेकवेत्युकं, तल्लोका- नुभवेन प्रपञ्चयति-सङ्कल्पेति ॥ इदमिदानीं करिष्य इत्येवमाकारा मनोवृत्तिः सङ्कल्पः । अनिर्धारितानेककोटिक ज्ञानं संशयः। सादृश्यमिदमनेन सदृशमित्येवमाकारा वृत्तिः। अहो दृष्टसाधम्र्येण वैधय॒ण वान्यस्योत्प्रेक्षा । अनध्यवसायो दृश्यमानेपि वस्तुनिअनिश्चयमात्ररूपा वृत्तिः,यथा किन्नामार्य वृक्ष इत्येवमाकारा । अन्ये प्रसिद्धार्थाः। यथायं विशेषो लोकदृष्टस्तथानुभवा अप्यन्ये यथार्थविषयाः प्रमारूपाः प्रत्य- क्षादिभेदेनानेकविधा भवन्तीत्यर्थः ॥ १६ ॥ प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः । अनुमानश्च तचापि साङ्ख्याःशब्दञ्च ते अपि।।१७।। न्यायैकदेशिनोप्येवमुपमानञ्च के चन । अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ॥१८॥ अभावषष्ठान्येतानि भाहा वेदान्तिनस्तथा । सम्भवैतिह्ययुक्तानि तानि पौराणिका जगुः॥१९॥ तदेवं वादिविप्रतिपत्त्युपन्यासेन विवृणोति-प्रत्यक्षमित्या- दिना ॥ चार्वाकाः दृष्टमात्रतत्त्वबुद्धयः, ते प्रत्यक्षमेवैकमि- न्द्रियार्थसन्निकर्षोत्पन्नं यथार्थज्ञानं प्रत्यक्षमिति वदन्ति ॥ कणादः षट्दार्थतत्त्ववादी । सुगतो बुद्धः क्षणिकज्ञानात्म- वादी । तावेतौ अनुमानं व्याप्तिपक्षधर्मताविशिष्टलिङ्गज्ञान- लक्षणं तच्चापि प्रत्यक्षमपीति द्वे प्रमाणे इच्छतः ॥ साङ्ख्याः पञ्चविंशतितत्त्ववादिनःशब्दमाप्तवाक्यलक्षणं प्रमाणं,ते अपि प्रत्यक्षानुमाने अपीति त्रीणि प्रमाणानीच्छन्ति ॥१७॥न्यायै-
4RH ROAD. MADRAS.
वृत्तान्ताल्ययाख्यासमेतम्.
कदेशिनोप्येवं त्रीण्येवेच्छन्ति॥के चननैयायिकाः गौतमीयाः
उपमानं च पूर्वोक्तत्रयापेक्षया चतुर्थमतिदेशवाक्यार्थज्ञानस-
हकृतसादृश्यविशिष्टपिण्डज्ञानलक्षणं प्रमाणमिच्छन्ति ।
प्रभाकरो मीमांसकैकदेशी अनुपपद्यमानार्थदर्शनेन तदुपपा-
दकमर्थान्तरकल्पनमापत्तिरित्युक्तलक्षणार्थापत्त्या सहैतानि
प्रत्यक्षादीनि चत्वारीति पञ्च प्रमाणान्याह॥१८॥ एतान्युक्तम-
माणानि,अभावाख्यं प्रमाणमनुपलब्धिलक्षणं षष्ठं येषाम् , एवं
षट्माणानीति भाट्टमतानुसारिणो मीमांसकाः; तथा वेदा-
न्तिनोपि व्यवहारकाले आहुरिति योज्यम् ॥ तान्युक्तानि षट्-
माणानि सम्भवैतिह्याभ्यां युक्तानि अष्टौ प्रमाणानीति पौरा-
णिका जगुः । सम्भवो नाम खार्या द्रोणाढकसम्भावनोपना-
यकं मानम् । ऐतिचं त्वस्मिन् वटे यक्षोस्तीत्युपदेशपरम्प-
रामात्रजन्य ज्ञानमिति भेदः॥ १९॥
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् ।
समवायश्च काणादाः पदार्थान्षट्चक्षते ॥२०॥
प्रमाणेषु वादिनां तत्त्वभेदे विप्रतिपत्तिमुक्त्वा तत्प्रसङ्गेन
तेषां प्रमेयतत्त्वविप्रतिपत्तिं दर्शयन् आदौ वैशेषिकमतमुपन्य-
स्यति-द्रव्यमित्यादिना॥ गुणवच्च द्रव्यम् ॥ जातिमात्राश्र-
यत्वे सत्यस्पन्दात्मा गुणः॥चलनात्मकं कर्म ॥ नित्यमनेका-
नुवृत्ति सामान्यम् ॥ नित्यद्रव्यमात्राश्रिता विशेषाः॥ नित्य-
सम्बन्धः समवायः॥ एवंलक्षणभेदभिन्नान् षट्पदार्थान् का-
णादाः प्रचक्षत इत्यर्थः ॥२०॥
नव द्रव्याणि भूतानि दिकालात्ममनांसि च ।
चतुर्विशतिरेव स्युर्गुणाःशब्दादिपञ्चकम् ॥ २१ ॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक-
परिमाणं च सङ्ख्या च द्वौ संयोगविभागको ।
स्वभावतः पृथक्त्वं च गुरुत्वं द्रवता पुनः।। २२ ।।
परत्वं चापरत्वं च स्नेहसंस्कार इत्यपि ।
धीद्देषसुखदुःखेच्छा धर्माधर्मप्रयत्नकाः॥ २३ ॥
तत्र द्रव्याणि भिनत्ति-नवेति ॥ भूतानि पृथिव्यादीनि
पञ्च, दिक्कालात्ममनांसि चत्वारि, एवमेतानि नव द्रव्याणी-
त्यर्थः ॥ गुणान् भिनत्ति-चतुर्विंशतिरेव स्युगुणा इति ।
तानेव विभजते-शब्दादीति । आदिपदेन स्पर्शरूपरसगन्धा
गृह्यन्ते । परिमाणमणुईस्वं महद्दीर्घमिति चतुर्विधम् । स-
जया एकत्वादिलक्षणा । संयोगो विभागश्चेति द्वौ । पृथक्त्वं
पृथग्व्यवहारासाधारणकारणं द्रव्यगतम् । सोप्येको गुणः ।
तस्य स्वभावत इति अधिकालापः आकाशादेरुपाधिप्रयुक्त-
भेदवतोपि न स्वप्रतियोगिकभेदान्तरमस्तीति दर्शयितुम् ।
गुरुत्वद्रवत्वे प्रसिद्धे ॥२२॥ परत्वमपरत्वं चेति द्वौ गुणौ। स्ने-
होऽपामसाधारणो गुणः । संस्काराख्यो गुण अपरः । धीर्बु-
द्धिः द्वेषोऽसहिष्णुतालक्षण आत्मगुणविशेषः। सुखदुःखेच्छाः
प्रसिद्धाः । धर्मो विहितक्रियाजन्योतीन्द्रियो गुणः । अधर्मः
प्रतिषिद्धक्रियाजन्यः तादृशः । प्रयत्न उत्साहः ॥ इति चतु-
विंशतिः गुणाः॥२३॥
संस्कारस्त्रिविधो वेग इष्वादेर्गतिकारणम् ।
दृष्टश्रुतानुभूतार्थस्मृतिहेतुश्च भावना ॥ २४ ॥
स्थितस्थापकता नाम पूर्ववस्थितिकारणम् ।
आकृष्टशाखाभूर्जादौ स्पष्टमेवोलक्ष्यते ॥ २५ ॥
वृत्तान्ताख्यव्याख्यासमेतम्. एतेषु संस्काराख्यं गुणं विभज्योदाहरणेन प्रत्यायय- ति-संस्कारस्त्रिविध इति ॥ धनुर्मुक्तेष्वादेर्गतिकारणं गुणो वेगाख्यसंस्कार इत्यर्थः। दृष्टमित्यनुमानादेरुपलक्षणम्। दृष्ट- श्रुताभ्यामनुभूतार्थविषयस्मृतिहेतुर्गुणो भावनेत्यर्थः ॥२४॥ स्थितस्थापकतेति ॥ स्पष्टार्थः ॥ २५ ॥ उत्क्षेपणमवक्षेपो गमनं च प्रसारणम् । आकुञ्चनमिति प्राहुः कर्म पञ्चविधं बुधाः ॥ २६ ॥ कर्मविभागग्रन्थोपि स्पष्टार्थः ॥ २६ ॥ सामान्यं दिविधं प्रोक्तं परं चापरमेव च । परं सत्तैव सर्वत्र तदनुस्यूतवर्तनम् ।। २७ ।। द्रव्यत्वं गुणतेत्यादि सामान्यमपरं तथा। सामान्यं विभज्य व्याचष्टे-सामान्यमित्यादिना ॥२७॥ सत्तायाः परत्वं नाम व्यापकत्वमित्यभिप्रेत्याह-तदनुस्यूत- वर्तनमिति ॥ विशेषाः स्युरनन्तास्ते व्यावृत्तिज्ञानहेतवः ॥२८॥ विशेषाः स्युरिति च स्पष्टम् ॥ २८॥ रूपस्येव घटे नित्यः सम्बन्धः समवायकः। नित्यः सम्बन्धः समवायक इति स्वार्थे तद्धितः। तस्यो- दाहरणं-रूपस्येव घट इति ॥ कालाकाशदिगात्मानो नित्याश्च विभवश्चते॥२९॥ चतुर्विधाः परिच्छिन्ना नित्याश्च परमाणवः । उक्तानां नवानां द्रव्याणां नित्यानित्यविभागमाह-का- लेति ॥
मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- इति वैशेषिकमते पदार्थाः षटकीर्तिताः ॥ ३०॥ वैशेषिककल्पनां संक्षेपत उपन्यस्य उपसंहरति-इति वै- शेषिकेति ॥ २९ ॥३०॥ माया प्रधानमव्यक्तमविद्याज्ञानमक्षरम् । अव्याकृतं च प्रकृतिः तम इत्यभिधीयते ॥ ३१ ॥ मायायां ब्रह्मचैतन्यप्रतिबिम्बानुषङ्गतः। महत्कालपुमांसः स्युः महत्तत्त्वादहकृतिः॥३२॥ तामसात्स्युरहकारात्खानिलाम्यम्बुभूमयः। इदानीं साङ्ख्यकल्पनां सेश्वरामुपन्यस्यति मायाप्रधा- नमित्यादिना ॥मायादिशब्दैःमूलप्रकृतिरभिधीयते श्रुतिस्मृ- तिपुराणेष्वित्यर्थः॥३१॥ मायायांब्रह्मचैतन्यस्य मायाधिष्ठातु- रीश्वरचैतन्यस्य यः प्रतिबिम्बः सङ्कमः तदनुषङ्गतः तत्संस- महिना महत्तत्त्वं कालः पुमानिति त्रयः पदार्थाः स्युर्जाय- न्त इत्यर्थः । कालो गुणक्षोभकः । पुमान् कार्योपाधि वः। तत्र कालो ब्रह्मचैतन्यस्यावस्थाविशेषः प्रकृतिसमावेशकृतः। जीवः संसारी पुमान् स्वतन्त्रोनादिरपि । महत्तत्वं प्रकृतेः प्रथमविकारमवष्टभ्य भोक्तृत्वेनोत्थित इत्यर्थः । महत्तत्त्वाद- हङ्कतिरहङ्कारो जायत इति शेषः । सोहङ्कारस्त्रिविधः ताम- सः सात्त्विको राजसश्चेति ॥ ३२ ॥ तत्र तामसादहङ्कारात् खादयः सूक्ष्मभूतविकल्पाः स्युरित्यर्थः । शब्दः स्पर्शश्च रूपं च रसो गन्धोप्यनुक्रमात्॥३॥ इन्द्रियाणां च विषया भूतानामपि ते गुणाः। खादीनां साहङ्कारिकाणां स्वरूपं क्रमेणाह-शब्दः स्पर्श- वृत्तान्तास्यव्याख्यासमेतम्. श्चेति ॥ ते शब्दादयः इन्द्रियाणां विषयाः भूतानामपिमहतां गुणा भवन्तीत्यर्थः॥ देवाः सदाशिवश्रेशो रुद्रो विष्णुश्चतुर्मुखः॥३४॥ उक्तानां भूतसूक्ष्माणामधिष्ठातृदेवानाह-देवा इति ॥य- थाक्रममेते योज्याः॥ ३३ ॥ ३४॥ सात्त्विकात्स्यादहङ्कारादन्तःकरणधीन्द्रियम् । मनो बुद्धिरहङ्कारचित्तं करणमान्तरम् ॥ ३५ ॥ सात्त्विकाहङ्कारकार्यमाह-सात्त्विकादिति ॥ धीन्द्रिय बुद्धीन्द्रियम् । अन्तःकरणानि धीन्द्रियाणि चेत्यन्तःकरण- धीन्द्रियमिति योजना । अन्तःकरणानि विभजते-मनो बुद्धिरिति ॥ ३५॥ संशयो निश्चयो गर्वः स्मरणं विषया अमी। चन्द्रः प्रजापती रुद्रः क्षेत्रज्ञ इति देवताः॥३६ ॥ तेषां विषयान् क्रमेण निर्दिशन् तत्तद्विषयसाधनत्वं तेषां लक्षणं सूचयति-संशय इति ॥ चतुर्णामन्तःकरणानां देव- ताः क्रमेणाह-चन्द्र इत्यादिना ॥३६ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं ज्ञानेन्द्रियं विदुः । दिग्वातसूर्यवरुणनासत्या इति देवताः ।। ३७॥ बुद्धीन्द्रियाणि विभजते-श्रोत्रमिति ॥ एषामपि क्रमेण देवता आह-दिगिति ॥ ३७॥ राजसात्स्युरहङ्कारात्कमेंन्द्रियसमीरणाः । कर्मेन्द्रियाणि वाक्पाणिःपादःपायुरुपस्थकम्।।३८|| मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक वचनादानगमनविसर्गानन्दसंज्ञकाः। विषया देवतास्तेषां वह्नीन्द्रोपेन्द्रमृत्युकाः ॥ ३९ ॥ राजसाहङ्कारकार्यमाह-राजसादिति ॥ कर्मेन्द्रियाणि च समीरणश्चेति विग्रहः। कर्मेन्द्रियाणि सविषयाणि विभजते कर्मेन्द्रियाणीति । तेषां देवता आह-देवता इति । वि- षया इत्येतावानंशः पूर्वेण सम्बध्यते, शेष उत्तरेण ॥३८॥३९॥ प्राणोपानः समानचोदानव्यानौ च वायवः । इदानीं समीरणान्विभजते-प्राणोपान इति ॥ भूतैस्तु पञ्चभिः प्राणैः चतुर्दशभिरिन्द्रियैः॥ ४०॥ चतुर्विंशतितत्त्वानि साङ्ख्यशास्त्रविदो विदुः। एषां प्रचयशिष्टसङ्ख्यामनुक्रामन् उक्तमुपसंहरति-भूतै- स्त्विति ॥ अस्य मते मायाब्रह्मादीनां तन्मात्रान्तानां कारण- त्वेनानुगमान्न पृथक्तया गणनेति द्रष्टव्यम् । अनेनानीश्वर- सालयमतमप्यर्थादुक्तं वेदितव्यम् ॥ तत्रेयान्विशेषः-मू- लप्रकृतिः स्वतन्ता । विकृतयश्च महदाद्याः सप्त प्रकृतिवि- कृत्यात्मकाः । तत्र सात्विकाहङ्कारादन्तःकरणं सर्वाणि ज्ञा- नेन्द्रियाणि च जायन्ते, राजसात्कर्मेन्द्रियाणि, तामसात्पञ्च तन्मात्राणि, तेभ्यः पञ्च महाभूतानि । प्राणास्तु न तत्त्वा- न्तरं, किन्विन्द्रियाणां साधारणवृत्तयः । पुरुषाः अनन्ताः न प्रकृतयो न विकृतयः । कस्य चित्कालश्च भूतं भवद्भवि- प्यदिति व्यवहीयमाणपदार्थव्यतिरेकेण न स्वतन्त्रोस्तीति । तथा च मूलप्रकृतिरेका, प्रकृतिविकृत्यात्मकाः सप्त महदाद- यः, एकादशेन्द्रियाणि पञ्च महाभूतानि चेति षोडश विका- पृत्तान्ताल्पल्याल्यासमेतम्. रा इति चतुर्विंशतितत्त्वानि पुरुषः पञ्चविंशक इति तेषाम्म- तम्॥ महान्कालः प्रधानं च मायाविद्ये च पूरुषः॥ ४१ ॥ इति पौराणिकाः प्राहुत्रिंशत्तत्त्वानि तैः सह । इदानी पौराणिकमतमाह-महान् काल इति । महान् प्रकृतेराद्यो विकारः । प्रधानं मूलप्रकृतिः। स्वाश्रयमव्यामो- हयन्ती कर्तुरिच्छामनुसरन्ती माया, तद्विपरीता त्वविद्येति भेदः । कालपूरुषो व्याख्यातौ । यद्वा-कालः ईश्वरस्य चे- टा।तथा चोक्तं-'योयंकालस्तस्य तेव्यक्तबन्धोचेष्टामाहुश्चे- ष्टते येन विश्वम् इति॥ अव्यक्तं प्रधान, तस्य बन्धुः प्रवर्त- का अव्यक्तबन्धुः, तस्य सम्बोधनम् हे अव्यक्तबन्धो। पूरुषः परमात्मनोंशः । तदप्युक्तं-'एकस्यैव ममांशस्य जीवस्यैव महामते' इति, 'ममैवांशो जीवलोके जीवभूतस्सनातनः' इति च ॥४०॥४१॥ एतैः षद्धिः पूर्वोक्तैश्चतुर्विंशतितत्त्वैश्च सह त्रिंशत्तत्त्वानि पौराणिकाः प्राहुरित्यर्थः ॥ बिन्दुनादौ शक्तिशिवौशान्तातीतौ ततः परम्।।४२ षट्त्रिंशत्तत्त्वमित्युक्तं शैवागमविशारदैः । शैवमतमाह-बिन्दुः सर्वाधिष्ठानं सदाशिवाख्यं निर्गुणं तत्त्वम् । नादः तस्यैव प्रणवात्मना सर्वार्थस्फोरकत्वेनाभिव्य- क्त स्वरूपान्तरम् । शक्तिर्मायाविद्याभ्यामन्या सर्वाधिष्ठान- सामर्थ्यम् । शिवः शक्तिमानीश्वरो लीलाविग्रहधारी। शा- न्तातीतौ तस्यैवावस्थाविशेषौ । तथा च श्रुतिः-'तस्यैते तनुवौ घोरान्या शिवान्यो' इति । ततः पूर्वोक्तत्रिंशत्तत्त्वात् २.सं-५-७-३. १भगव-१५-७.
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- परमेले पाशित्तत्त्वमिति शैवागमविशारदैरुक्तमिति योज- ना । शैवागमविशारदग्रहणेनास्याः कल्पनायाः मूलमिदं सर्वे विकल्पाः प्रागासन बीजेङ्कर इवात्मनि॥४३॥ इच्छाज्ञानक्रियारूपमायया ते विजृम्भिताः । किंबहुना-यैस्तैर्थिकैर्ये विकल्पाः कृतास्ते सर्वे एकस्यैव परब्रह्मणो मायाविलासाः न परमार्था इति 'बीजस्यान्तरिवा- कुर' इत्यनेनोच्यते इति श्रीतं मतमनुसरति-सर्वे विकल्पा इति ॥ क्रिया प्रयत्नः इच्छादिभिर्निरूप्यत इति तथा। यथा कश्चित् कविः काव्यमिच्छया प्रमेयं कल्पयित्वा विचा- रयति, तथेश्वरोपि तत्तदृष्यादिरूपमास्थाय तत्तदागमनिर्माणं करोति; किंचित् ज्ञानाद्यथादृष्टं लोके वेदे चानुसन्धाय करोति-यथा वेदव्यासादिरूपेण महाभारतादीन् ग्रन्थान् । किञ्चित् प्रयत्नेनापि-यथा महाराजादिरूपेण महानगरदु- र्गादि कल्पयति, स एवेश्वरः तथा मायया सहजशक्तिरू- पया अनिर्वचनीयया। ते पूर्वोक्ताः कल्पनाप्रकारास्तेनेश्वरेण विजृम्भिताः प्रकटिता न परमार्था इत्यर्थः । यैर्यथा वर्णित जगत्तत्त्वं तथैव चेत् परमार्थ, तर्हि वादिनां विवादोन स्यात्, दृश्यते च सः, इत्यतो न परमार्थकल्पनेति भावः । विमतं, प्रागुत्पत्तेः नेश्वरात् परमार्थतः पृथक् सत्, ततोत्यन्ता. विविक्तलक्षणत्वात् , यदेवं तदेवं, यथा बीजावस्थोडर इति ।। इच्छाज्ञानक्रियापूर्वा यस्मात्सर्वाः प्रवृत्तयः॥४४॥ सर्वेपि जन्तवस्तस्मादीश्वरा इति निश्चिताः।
ईश्वराजगतः पृथक्त्वाभावमुत्पत्तेः प्रागवस्थायामुपपाध स्थित्यवस्थायामपि तदुपपादयति-इच्छाज्ञानेति । यस्मात् सर्वेषां सर्वाःप्रवृत्तयः इच्छाज्ञानक्रियापूर्वाः ॥४२॥४३॥४४॥ तस्मात्सर्वेपि जन्तवः ईश्वरा एव निश्चिताः, इच्छाज्ञानप्र- यत्नानां मायाशबलितादीश्वराख्यादन्यत्राचेतनेष्वनुपपत्तेः, परोपाधिभेदपरामर्शमन्तरेण स्वतश्चेतनभेदे प्रमाणाभावात् सर्वजन्तूनां सिद्धमीश्वरादभिन्नत्वम् । तथा च तद्गतेच्छादे- मायामयत्वात्तन्निमित्तस्य सर्वस्यापि प्रपञ्चस्य युकं माया- मृयत्वमिति भावः॥ बीजादृक्षस्तरोर्जीजं पारम्पर्येण जायते॥४५॥ इति शङ्कानिवृत्त्यर्थं योगिदृष्टान्तकीर्तनम्। विश्वामित्रादयः पूर्वे परिपक्कसमाधयः॥४६॥ उपादानोपकरणप्रयोजनविवर्जिताः। खेच्छया ससृजुः स्वर्ग सर्वभोगोपबृंहितम्॥१७॥ ईश्वरोनन्तशक्तिवात्स्वतन्त्रोन्यानपेक्षतः । स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च ॥४८॥ ननु बीजाङ्कुरयोरिव जगदीश्वरयोः यदि कार्यकारणता, तदा वृक्षबीजव्यक्त्यानन्त्यवदीश्वरजगद्व्यत्यानन्त्यं भ- वेत् ; तच्चानिष्टं 'न जायते वियते वा विपश्चित्' 'अवि- कार्योयमुच्यते' इति श्रुतिस्मृतिविरोधात् ॥ तस्मादयं दृष्टान्तोनुपपन्न इत्याशङ्कामुद्भाव्य योगिदृष्टान्तेन प्रत्याच- टे-बीजादिति ॥ योगिदृष्टान्ततात्पर्यमुदाहरणेन स्पष्ट- १ कठो. २-१८॥ २भगव. २-२५॥
मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- यति-विश्वामित्रादय इति ॥ दृष्टान्तदान्तिकश्लोकार्थः स्पष्टः॥४५॥४६॥४७॥४८॥ न कारकाणां व्यापारात्कर्ता स्यानित्य ईश्वरः। नापि प्रमाणव्यापारात् ज्ञाताऽसौ स्वप्रकाशकः ४९ निर्व्यापारः कथमीश्वरः सृष्टिस्थितिसंहारान कुर्यादित्या- शङ्कयाह-नकारकाणामितिकारकव्यापारयितृत्वं हि विकारः। स ईश्वरे नास्ति, विकारिणोऽनित्यत्वात्, ईश्वरस्य च नि- त्यत्वात् । किन्तु, सन्निधिसत्तामात्रेण राजादिवदयस्कान्तादि वद्वा निर्व्यापार एव कारकप्रयोक्ता कर्ता चेत्यर्थः । तथेश्व- रस्य ज्ञातृत्वमपि लोकविलक्षणं व्यापारानपेक्षमित्याह-ना- पीति । स्वप्रकाशक इति । हेतुगर्भ विशेषणम् ॥ ४९ ॥ ज्ञातृत्वमपि कर्तृत्व स्वातन्त्र्यं तस्य केवलम् । याचेच्छाशक्तिवैचित्रीसास्य स्वच्छन्दकारिता ५० उपसंहरति-ज्ञातृत्वमिति ॥ स्वातन्त्र्यं परानपेक्षमित्य- र्थः । केवलं स्वगतविकारानपेक्षमित्यर्थः । इच्छाशक्तिरपीश्व- रस्य परानपेक्षाअप्रतिहता चेति कथयति-या चेति॥ ५० ॥ यया कर्तुमथाऽकर्तुमन्यथा कर्तुमर्हति । स्वतन्त्रमीश्वरेच्छां के परिच्छेत्तुमिहेशते ॥५१॥ स्वच्छन्दकारित्वमेव विशदयति-ययेति ॥ ५१ ॥ श्रुतिश्च सोकामयतेतीच्छया सृष्टिमीशितुः । तस्मादात्मन आकाशस्सम्भूत इतिचाब्रवीत् ॥५२ ..हते. १च्छां का..
वृत्तान्ताख्यव्याख्यासमेतम्. ईश्वरस्येच्छापूर्वक एव जगत्सृष्ट्यादिव्यापार इत्यत्र प्रमा- णमाह-श्रुतिश्चेति ॥५२॥ निमित्तं चेद्भवेदस्य जगतः परमेश्वरः। विकारित्वं विनाशित्वं भवेदस्य कुलालवत् ॥५३॥ तेदवं स्वात्मनि स्थिते तत्त्वान्यत्त्वाभ्यामनिर्वचनीये नामरू- पे स्वमायावेशवशाळ्याकुर्वन्नीश्वरो जगतः उपादानं निमित्तं वा अविकारितया मायावीव महायोगीवेति च दृष्टान्ताभ्यां स्वमतमुपपादितम् । तच्च सर्वशाखोपनिषदेकवाक्यतोपनिब- द्धत्वादाचीनलौकिकप्रमाणाबाध्यमेवेति सिद्धमेव तस्य प्रा- बल्यम् । इदानीं तटस्थत्वमीश्वरस्य कुलालस्येव निमित्तत्व- मिति मंते दूषणमाह-निमित्तं चेदिति ॥ अस्य जगतः प- रमाणूपादानकस्य निमित्तं कर्ता चेदीश्वरः कुलालवत् भवेत् परमार्थतः तदा विकारित्वं क्रियावत्त्वं तस्य प्रसज्येत । न हि स्वयं क्रियाहीनोन्यं विकारयितुमीष्टे । क्रियावत्त्वे च श- रीरित्वाद्विनाशित्वमवश्यं भवेत् । न हि विक्रियमाणं च नित्यं चेति मां प्रत्युदाहरणमस्ति । तस्मात् परमार्थतः क- र्तृत्वे विकारित्वादिदोषप्रसङ्गो दुर्वार इत्यभिप्रायः ॥ ५३ ॥ बुद्ध्यादयो नव गुणा नित्या एवेश्वरस्य चेत् । नित्येच्छावान् जगत्सृष्टौ प्रवर्तेतैव सर्वदा ॥ ५४॥ भगवत ईश्वरस्य नित्यज्ञानेच्छादिमत्त्वस्य धर्मिग्राहकप्र- माणसिद्धत्वात्तेन च शरीरवैलक्षण्यसिद्धे!क्तदोषावकाश इति चेत्तत्राह-बुद्ध्यादय इति॥नव गुणा इति जीवात्माभिप्रा. यम्।तेषामपीश्वरेण जगत्सर्गादावुपादीयमानत्वादीश्वरस्येत्यु- कमायद्वा-तत्तद्रव्योपाधौ यावन्तोगुणाः यस्य द्रव्यस्य निर्दि- ६
१२
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं-
ष्टास्ते तद्र्व्यव्यक्तिषु सर्वासु समा एव । यथा पृथिव्याश्चतु-
दश गुणाः सर्वपृथिवीव्यक्तिषुतावन्तो नन्यूनाः नाप्यधिकार,
तथात्मत्वावच्छिन्नात्मद्रव्यस्याप्यात्मत्वोपाधौ सर्वत्र चतुर्द-
शगुणविशेषवत्तया भवितव्यम् । तथा चेश्वरस्याप्यात्मद्रव्या-
न्तःपातित्वात् बुद्ध्यादयो नव विशेषगुणाः स्युरित्यापाद्यव-
चनमेतद्रष्टव्यम्। ते चेदीश्वरस्य नित्या निरपेक्षाश्च तदादोष
प्रसञ्जयति-नित्येच्छावानिति ॥ ५४॥
प्रवृत्त्युपरमाभावात्संसारो नैव नश्यति ।
मोक्षोपदेशो व्यर्थस्स्यादागमोपि निरर्थकः ॥५५॥
अस्तु तर्हि सर्वदा प्रवृत्तिः, ततः किं स्यादित्यत आह-
प्रवृत्तीति ॥ मास्तु संसारनाशः तत्राह-मोक्षोपदेश इति ।
न केवलं मोक्षोपदेशवैयर्थ्यमात्रं, शास्त्रप्रणयनं च निरर्थक
स्यादित्याह-आगमोपि निरर्थक इति ॥ ५५ ॥
तस्मान्मायाविलासोयं जगत्कर्तृत्वमीशितुः ।
बन्धमोक्षोपदेशादिव्यवहारोपि मायया ॥ ५६ ॥
परमते दुष्टत्वे ज्ञापिते स्वमतं तेन न बाध्य सिद्धमित्यु-
पसंहरति-तस्मादिति ॥ अस्मन्मते बन्धादेरपि मायिक-
त्वात् मोक्षोपदशोपि मायिक एवाभ्युपगम्यते। तस्य स्वरूप-
तोमायिकत्वेपि सत्यार्थविषयत्वादस्मन्मोक्षशास्त्रस्य प्रामाण्य
मारोपितं वर्णादिवन्न विरुध्यत इति सर्वमवदातम्॥५६॥
इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके।
प्रबन्धे मानसोल्लासे द्वितीयोल्लाससङ्ग्रहः ॥५७ ॥
द्वितीयश्लोकव्याख्यामुपसंहरति-इतीति ॥ ५७ ॥
इति श्रीमानसोल्लासवृत्तान्ते द्वितीयोल्लासः समाप्तः ॥२॥
वृत्तान्ताख्यव्याख्यासमेतम्. सत्तास्फुरत्ते भावेषु कुत आगत्य सङ्गते । बिम्बादिदर्पणन्यायादित्थं पृच्छन् प्रबोध्यते ॥१॥ सर्वार्थद्रष्टुत्वेनोपलक्षितः चिदात्मा त्वम्पदार्थ इति प्रथम- श्लोकार्थः, सर्व जगत् स्वात्मन्यापीय स्वयमेव विश्वं स्वमा- यया विजृम्भयन् सर्वानुस्यूतसदात्मत्वेनोपलक्षितश्चिदात्मा तत्पदार्थ इति द्वितीयश्लोकार्थः इति तात्पर्यमुपवर्ण्य इदानीं पदार्थद्वयैक्यवाक्यार्थप्रकाशनपरं तृतीयश्लोकं व्याख्यातुं प्रश्नानुत्थापयति–सत्तास्फुरत्ते इति ॥ यदुक्तं सत्तास्फु- रत्तेन दृश्यधौं किन्तु द्रष्ट्रधर्माविति' तत्रेदं पृच्छामि-यदि दृश्येषु ते न स्तः कथं तर्हि तेषूपलभ्येते? इति । द्रष्टुनिष्ठे एव सती भासेते इति चेत्तर्हि किं दर्पणादाविव मुखादि दृश्येषु- प्रतिबिम्बभावमाचरतः? इति ॥ एतच्च नोपपद्यते ॥ अमूर्त- योस्तयोः प्रतिबिम्बभावानुपपत्तेः । अत एव चायःपिण्डा- दावग्नेरिव सङ्क्रमोप्यनुपपन्नः । अतः कथं सर्वसत्तास्फुरणरूपं ब्रह्म आत्मेति पृच्छन् शिष्यो निषिध्यते उत्तरश्लोकेनेत्यर्थः॥२॥ 'यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते सा. क्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ॥ यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥ यस्यैव चिदात्मन एव स्फुरणं स्वरूपप्रकाशः सदात्मकं सन्मानं सदा सर्वानुस्यूतं भासते स्वयमेव स्फुरति सचिदा- मा दक्षिणामूर्तिःतस्मै नम इत्यन्वयः । स्फुरणविशेषणम्- असत्काथकमिति । असत्तुल्योनात्यन्तमसन्नेवार्थो विषयो यस्य तत्तथा, अनिर्वचनीयविषयाकारमित्यर्थः । नतु विषयो ६४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- भासमानः,सन्, आगमापायित्वात् , शुक्तिरजतवत् नाप्यत्य- न्तमसन्, अपरोक्षप्रतिभासात् अर्थक्रियाकारित्वाच्च, माया- विनिर्मितनद्यादिवदित्यर्थः। तथा च विषयाणांचिदात्मव्यति- रेकेण स्वरूपानिरूपणाच्चिदात्मनि मायाकल्पितान् विषयाका- रान् दृग्दृश्यादिविवेकज्ञानेनाभिभूय स्वयमद्वयं प्रत्यस्तमित- समस्तविशेषाकारमात्मानमनुभवन् 'तत्त्वमसि' इति वेद- वचसाय आश्रितान् उपासकानामत्मजिज्ञासूनूसाक्षात् बोध- यति तस्मै श्रीगुरुमूर्तये इत्यन्वयः।ज्ञाननिवर्त्यत्वादपिप्रपञ्चरू- पो बन्धोऽज्ञानकल्पितः, न परमार्थ इत्यभिप्रेत्याह-यत्सा- क्षात्करणादिति । भवाम्भोनिधौ अम्भोनिधिवदपारे अगाधे दुस्तरे भवे संसारे न पुनरावृत्तिः । पुनः संसाराभाव इत्यर्थः॥३॥ इदमत्राकूतम्- श्लोकव्याख्यामारभते-इदमत्राकूतमिति॥अभिप्रेतमि- - त्यर्थः॥ असत्कल्पेषु भावेषु जडेषु क्षणनाशिषु । अस्तित्वं च प्रकाशत्वं नित्यात्सङ्कामतीश्वरात् ॥२॥ यदुक्तं भावेष्वात्मसत्तास्फुरणे कुतः आगत्य सङ्गते, प्रति- बिम्बभावेन वा सङ्क्रमणेन वा सङ्गते इति । तत्र १ किं भावेषु पृथग्दर्पणादयः पिण्डादिवद्विद्यमानेषु कथं सङ्गते इति पृच्छ- सि१२ किं वा भावानामेव स्वतः सत्तास्फुरणसम्भवे किमात्म- सत्तास्फुरणसङ्गमेनेति? १ तत्राद्यं प्रत्याह-असत्कल्पेष्विति॥ असत्कल्पत्वे हेतुर्जडेविति।विमतम्,अनिर्वचनीयं सद्विलक्षण- मिति वा, जडत्वाच्छुक्तिरजतवदित्यर्थः । जडत्वे हेतुः क्ष- णनाशिष्विति । विप्रतिपन्नं,जडं,दृष्टनष्टस्वरूपत्वात्,शुक्तिर- वृत्तान्तास्यव्याल्यासमेतम्. जतवदित्यर्थः । एवंविधेषु भावेषु नित्यादीश्वरादस्तित्वं च प्रकाशत्वं च सङ्कामद्विषयस्थमिव विषयाकारमवभासेते रजतात्मनेव शुक्तिसत्तास्फुरणे इत्यर्थः । अत्र सङ्क्रमणशब्दो विशेषाकारावभासाभिप्रायः, न प्रवेशाभिप्रायः; न हि रजते समारोपिते शुक्तिसत्ता सङ्कामति, समारोपितस्याधिष्ठानन्य- तिरेकेण स्वरूपाभावात् तद्वदिदमपीति भावः ॥२॥ आत्मसत्तैव सत्तेषां भावानां न ततोधिका । तथैव स्फुरणं चैषां नात्मस्फुरणतोधिकम् ॥ ३ ॥ भावानां मिथ्यात्वमुक्तं स्पष्टयति-आत्मसत्तैवेति ॥ य- दि दर्पणादिवत् पृथक्सत्सु भावेषुप्रतिबिम्बःसङ्कामो वा आ- स्मसत्तास्फुरणयोस्स्यात्। तदा मुखवियुक्तदर्पणवच्छीतकाय: पिण्डवद्वा भावाः पृथगवभासेरन् ,नावभासन्ते । अतः आ- त्मसत्तास्फुरणाधिकसत्तास्फुरणाभावात् पार्थगर्थ्याभावे सति न प्रतिबिम्बः सङ्कमो वा कस्यचित्कापीत्यभिप्रायः ॥ ३॥ ज्ञानानि बहुरूपाणि तेषां च विषया अपि । अहङ्कारेनुषज्यन्ते सूत्रे मणिगणा इव ॥ ४ ॥ २ द्वितीयं निराकरोति-ज्ञानानीति॥ यानि बहुरूपाणि बहुप्रकाराणि ज्ञानानि, तेषां ये विषयास्ते सर्वे अहङ्कारे सा- भासान्तःकरणवृत्तिविशेषेनुषज्यन्ते अथ्यन्ते सूत्रे मणिगणा इवेति योजना । तथा च सच्चिदात्मनि तादात्म्याध्यासपरि- निष्पन्नान्तःकरणव्याप्त्यैव विषयसत्तास्फुरणे, न स्वत इत्य- भिप्रायः। पूर्वत्र परमार्थदृष्टिमाश्रित्य विषया एव न सन्ति यत्रात्मसत्तास्फुरणसङ्गम इत्युक्तम् । अनेन व्यवहारदृष्टिमा- श्रित्य साभासान्तःकरणप्रणालिकया आत्मसत्ताद्यनुगम- मानसोल्लासात्यत्रीदक्षिणामूर्तिस्तोत्रवार्तिक- मन्तरेण न बाह्यविषयेषु सत्तादिरस्तीत्युक्तमिति विशेषो द्रष्टव्यः॥४॥ प्रकाशाभिन्नमेवैतदिश्वं सर्वस्य भासते। लहरीबुबुदादीनां सलिलान पृथस्थितिः॥५॥ तस्माद्यद्यदधीनसत्तास्फूर्तिमत्तत्तस्मिन् परिकल्पितं, यथा जलाधीनसत्तास्फूर्तिमबुद्बुदादि जले कल्पितम्, तथेमे भा- वाः सच्चिदात्माधीनसत्तास्फूर्तिकास्तस्मिन् परिकल्पिता इति सिद्धं सच्चिदात्मनोस्तत्त्वम्पदार्थयोरद्वितीयत्वं परमार्थमित्युप- संहरति-प्रकाशाभिन्नमिति ॥ सर्वस्य व्यवहर्तुः प्राणिमात्र- स्येत्यर्थः ॥५॥ जानामीत्येव यज्ज्ञानं भावानाविश्य वर्तते । ज्ञातं मयेति तत्पश्चाद्विश्राम्यत्यन्तरात्मनि ॥ ६ ॥ विषयस्फूर्तिरात्मधर्म एव, न विषयधर्म इत्येतदुपपादय- ति-जानामीति ॥ यत् ज्ञानं जानामीत्यत्र सर्वकर्मत्वेनो- ल्लिख्यमानं भावान्विषयानाविश्य वर्तते, तत् ज्ञानं पश्चाद- न्तरात्मनि मया ज्ञातमिति विश्राम्यति पर्यवस्थती- त्यर्थः ॥ ६॥ घटादिकानि कार्याणि विश्राम्यन्ति मृदादिषु । विश्वं प्रकाशाभिन्नत्वाद्विश्राम्येत्परमेश्वरे ॥७॥ तत्र दृष्टान्तमाह-घटादिकानीति ॥ दार्शन्तिकमाह- विश्वमिति । अयं भावः-यद्यपि इदमहं जानामि, विज्ञा- तमिदमयेति च सविषयं ज्ञानं विभाव्यत इति समानमेव ॥ तथापि प्रथमप्रयोगे कर्तुः क्रियया कर्मव्याप्तिमात्रं विवक्षि- तमिति भावानाविश्येत्युक्तम् ; द्वितीये तु सकर्मकायाः वृत्तान्ताख्यव्याख्यासमंतम्. क्रियायाः स्वसमवेतत्वेनानुसन्धानस्य विवक्षितत्वात् परमा- त्मनि विश्राम्येदित्युक्तमिति । यस्य यत्कार्य तदन्योपरततया भासमानमपि स्वकारण एव विश्राम्यति, कार्य च कारणा- नात्यन्तभिन्नमिति दृष्टान्तदाान्तिकयोरभिप्रायः॥ यद्वा-विषयगतप्रकाशस्यात्ममात्रात्मकतामुक्त्वा प्रका- श्यस्य विषयस्यापि ज्ञानप्रकाशानुविद्धतयैव नियमेनोपल- म्भात्तदेकात्मत्वमिति प्रकाशात्मन्यध्यस्तत्वादेव प्रकाशवैशि- ष्टयेन भानं विषयाणामित्यभिप्रेत्य दृष्टान्तं सदार्टान्तिकमा- ह-घटादिकानीति ॥ यथातथाशब्दौ पूर्वोत्तरार्धयोरध्या- हर्तव्यौ ॥ ७॥. खगतेनैव कालिम्ना दर्पणं मलिनं यथा । अंज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥८॥ यद्येवमद्वितीयमेव तत्त्वं, तर्हि कथं सर्वो लोको न प्रत्येतीत्याशङ्कय सहजदोषवशादित्यभिप्रेत्य दृष्टान्तेनोपपा- दयति-स्वगतेनैवेति ॥ यथा दर्पणगतेन कालिन्ना दर्पण- स्वभावःआच्छाद्यते, तथा स्वगतेनानाद्यनिर्वचनीयेनअज्ञाने- नात्मयाथार्थ्यमाच्छाद्यते । तेनाच्छादनेन जन्तवो मुह्यन्ति, मोहं मिथ्याज्ञानं द्रष्टुदृश्यकार्यकारणादिविभागं परमार्थविष- यकं प्रामुवन्तीत्यर्थः ॥ ८॥ घटाकाशो महाकाशो घटोपाधिकृतो यथा । देहोपाधिकृतो भेदो जीवात्मपरमात्मनोः ।।९।। एवं सर्वस्य भेदव्यवहारस्य मूलमज्ञानमित्युक्त्वा जीवेश्वर- भेदभाने त्वधिक निमित्तं दृष्टान्तेनाह-घटाकाश इति ॥ यथा स्वभावतोनवच्छिन्ने आकाशे घटमुपाधि निमित्तीकृत्य मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- घटेन क्रोडीकृतत्वेनांशं कल्पयित्वा घटाकाश इत्येको भागो व्यपदिश्यते, घटाद्वहिष्ठापेक्षया महाकाश इति,न परमार्थतः आकाशस्यामूर्तस्य केनचित् परिच्छेदः सम्भवति; तथा जी- वात्मपरमात्मनोहोपाधिकृतो भेदो द्रष्टव्यः, निरंशे पर- मात्मन्यवच्छेदस्य परमार्थतोनुपपत्तेः । तथा च देहेनाहं मनुष्य इत्यादिप्रकारेण विशेष्यमाणः स एव चिदात्मा जीवात्मेत्युच्यते, स एव तेनाविशेष्यमाण ईश्वर इति । देहादेश्वोपाधेश्चिदात्मन्यध्यासमन्तरेण सम्बन्धानिरूपणान्न जीवेश्वरयोर्वास्तवो भेदः सम्भवतीत्यभिप्रायः । जीवस्य परमात्मांशत्वतद्विकारत्वास्वतन्त्रत्वपक्षाः अग्रे निरसिण्य- न्ते ॥९॥ तत्त्वमस्यादिवाक्यैस्तु तयोरैक्यं प्रदर्श्यते । सोयं पुरुष इत्युक्ते पुमानेको हि बुध्यते ॥१०॥ यस्मादारोपितदेहाद्युपाधिनिबन्धनोभेदप्रतिभासःतस्मा- देव तादात्म्योपदेशो जीवपरयोर्भेदांशबाधन श्रुत्योपदिश्यत इत्याह-तत्त्वमस्यादिवाक्यैरिति ॥ प्रदर्श्यते ज्ञाप्यते, न तु विधीयते, अन्यस्यान्यात्मत्वविधानायोगात् सिद्धमेवै- क्यं विरुद्धांशापोहेन प्रकटीक्रियत इत्यर्थः । तत्र लोके प्रसिद्धं दृष्टान्तमाह-सोयमिति ॥१०॥ यजगत्कारणं तत्त्वं तत्पदार्थः स उच्यते। देहादिभिःपरिच्छिन्नो जीवस्तु त्वम्पदाभिधः॥११॥ वाक्यार्थप्रत्ययोत्पत्तिप्रकारं वक्तुं प्रथमं वाक्यनिविष्टयोः पदयोर्वाच्यार्थलक्ष्यार्थभेदं कथयति-यजगदिति ॥अधिदै- वावस्थविक्षेपशक्तिप्रधानमायादिशब्दवाच्याज्ञानतत्कार्यभू-
वृत्तान्ताख्यव्याख्यासमेतम्.
तभौतिकप्रपञ्चोपहिततया परोक्षत्वादिधर्मविशिष्टः चिदात्मा
तत्पदवाच्यार्थ इत्यर्थः। त्वम्पदवाच्यमाह-देहादिभिरिति ।
अध्यात्मावस्थावरणशक्तिप्रधानाविद्यादिशब्दवाच्याज्ञानत-
कार्यदेहदयप्रपञ्चोपहिततया अपरोक्षत्वादिधर्मविशिष्टश्चि-
दात्मा त्वम्पदवाच्यार्थ इत्यर्थः ॥ ११॥
तद्देशकालावस्थादौ दृष्टः स इति कथ्यते ।
तथैतदेशकालादौ दृष्टोऽयमिति कीर्त्यते ॥ १२ ॥
परोपाधिविशिष्टस्य वाच्यार्थत्वेदृष्टान्तमाह-तद्देशकाले-
ति॥ स्पष्टार्थः ॥ १२॥
मुख्यं तदेतदैशिष्ट्यं विसृज्य पदयोर्दयोः ।
पुम्मानं लक्षयत्येकं यथा सोयंपुमान्वचः॥ १३ ॥
वाच्यांशे विरुद्धांशपरित्यागेनोभयानुगताविरुद्धांश उभ-
यत्र लक्ष्यार्थ इति मत्वा लक्षणयाऽखण्डवाक्यार्थबोधनं सो-
यं देवदत्त इति वाक्यदृष्टान्तनोपपादयति-मुख्यमिति ।।
तद्वैशिष्ट्यं स इति पदनिर्दिष्टं परोक्षदेशकालादिवैशिष्ट्यम् । एत-
द्वशिष्टयं अयमिति पदनिर्दिष्टमपरोक्षदेशकालादिवैशिष्टयम् ।
मुख्यं वाच्यं विसृज्यानुगतमुभयत्र पुम्मात्रम् ॥ १३ ॥
प्रत्यक्त्वं च पराक्त्वं च त्यक्त्वा तत्त्वमसीति वाक् ।
तथैव लक्षयसैक्यं जीवात्मपरमात्मनोः ॥१४॥
यथा सोयं देवदत्त इति वाक्यं लक्षयत्यखण्डम् एवं
तत्त्वमसिवाक्यमपि स्वपदार्थगतविरुद्धांशप्रहाणेनानुगत-
चिन्मात्रांशमादायाखण्डं तत्त्वं लक्षयेदित्याह-प्रत्यक्त्वं
चेति ॥१४॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं.- सामानाधिकरण्याख्यः सम्बन्धः पदयोरिह । विशेषणविशेष्यत्वं सम्बन्धः स्यात्पदार्थयोः॥१५॥ एतच्च सम्बन्धत्रयोपेतं सद्वाक्यार्थ बोधयतीति सम्बन्ध- त्रयं व्युत्पादयति सामानाधिकरण्याख्य इति ॥ पदयोः सामानाधिकरण्याख्यः सम्बन्धः । सामानाधिकरण्यलक्षणं वक्ष्यति । पदार्थयोर्वाच्ययोः विशेषणविशेष्यत्वं सम्बन्धः । यथा सोयमयं स इति परस्परभेदभ्रमव्युदासाय विशेषणवि- शेष्यभावः, तथा तत्त्वम्पदार्थयोरपीत्यर्थः ॥ १५ ॥ लक्ष्यलक्षणसंयोगादाक्यमैक्यं च बोधयेत् । वाच्यांशयोर्विरोधे सति पदयोः सामानाधिकरण्यं श्रूय- माणं यदा नोपपद्यते, तदा लक्षणया वाच्यार्थैकदेशमादाय सामानाधिकरण्ये सत्यखण्डार्थसिद्धिरित्यभिप्रेत्याह-लक्ष्य- लक्षणसंयोगादिति ॥ प्रत्यक्चैतन्यपदयोर्लक्ष्यलक्षणभावः सम्बन्धो लक्ष्यलक्षणसंयोगशब्दार्थः ॥ गङ्गायां घोष इतिवन्न जहल्लक्षणा भवेत् ॥ १६ ॥ नाजहल्लक्षणापि स्याच्छेतो धावतिवाक्यवत् । तत्र लक्षणा त्रिविधा, जहल्लक्षणा अजहल्क्षणा जहदज- हल्लक्षणा चेति प्रसिद्धा । तत्र का लक्षणेह वाक्यार्थबोधे ग्राह्येत्याकाङ्क्षायां तृतीयां परिशेषयितुं इतरे द्वे अपि निरस्य- ति–गङ्गायां घोष इतिवदिति ॥ वाच्यार्थमशेषतः परित्य- ज्य तत्सम्बन्धिन्यर्थान्तरे वृत्ति हल्लक्षणोच्यते, यथा गङ्गा- पदं स्ववाच्यं प्रवाहमशेषं परित्यज्य तत्सम्बद्धतीरं लक्षय- ति, तद्वदिह लक्षणा न सङ्गच्छते, जडाजडात्मसम्भेदात्मक- स्याशेषवाच्यस्य परित्यागे तत्सम्बन्धिनः पदार्थस्यान्यस्य ल- वृत्तान्ताख्यव्याख्यासमेतम्. क्षणीयस्याभावाच्छून्यपर्यवसायि वाक्यं स्यात्। तच्चानिष्टम्, असिपदेन सन्मात्रवाचिना समभिव्याहारविरोधादित्यभिप्रा- यः॥१६॥ अजहल्लक्षणाप्यत्र न स्यात् यथा श्वेतोधावतीत्युक्ते गुणवाचिनाश्वेतशब्देन तदाश्रयद्रव्यं वाच्यार्थगुणापरित्यागे- न लक्ष्यते, नैवमिह वाच्यार्थापरित्यागेन तत्सम्बन्धिनि वृ- त्तिरित्येवंलक्षणा अजहत्स्वार्थापि सम्भवति; विरोधस्य ता- दवस्थ्यात्, ऐक्यवाक्यार्थासिद्धौ सामानाधिकरण्यबाधप्र- सङ्गाच्चेत्यभिप्रेत्याह-नाजहल्लक्षणापि स्यादिति ॥ तत्त्वमस्यादिवाक्यानां लक्षणा भागलक्षणा।। १७॥ सोयं पुरुष इत्यादिवाक्यानामिव कीर्तिता । परिशेषांजहदजहल्लक्षणैवात्रोचितेति सदृष्टान्तमाह-तत्त्व- मसीति ॥ उभयोः पदार्थयोः जडांशपरित्यागेन सर्वानुगत- चिन्मानं लक्षणया समादायाखण्डवाक्यार्थ बोधयति तत्त्व- मसिवाक्यम् ॥१७॥ यथा सोयं पुरुष इति वाक्यं तदेतद्देश- कालशाबल्यांशं परित्यज्योभयावस्थानुस्यूतं पुरुषस्वरूपमात्र- मादायाखण्डमर्थ बोधयति तद्वदित्यर्थः॥ भिन्नवृत्तिनिमित्तानांशब्दानामेकवस्तुनि ॥१८॥ प्रवृत्तिस्तु समानाधिकरणत्वमिहोच्यते । सामानाधिकरण्यं पदयो सम्बन्ध इत्युक्तम्। तस्य लक्षण- माह-भिन्नवृत्तीति ॥ पर्यायशब्दव्यावृत्त्यर्थ भिन्नवृत्तिनि- मित्तानामित्युक्तम् । वृत्तिः प्रवृत्तिः । घटः पटः स्तम्भ इत्या- द्यनेकार्थनिष्ठशब्दव्यावृत्तये एकवस्तुनीत्युक्तम् ॥ १८ ॥ परस्यांशो विकारोवाजीवोवाक्येन नोच्यते॥१९॥ जीवात्मना प्रविष्टत्वात्स्वमायासृष्टमूर्तिषु ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- निरंशो निर्विकारोसौ श्रुत्यायुक्त्या च गम्यते॥२०॥ घटाकाशो विकारो वा नांशो वा वियतो यथा । नन्वेतत्पदयोः सामानाधिकरण्यं संसृष्टार्थपरत्वेपि सङ्ग- च्छते, अतः किमित्यप्रसिद्धमखण्डार्थपरत्वमास्थीयत इति चेत् , तत्र वक्तव्यं-किं तत्त्वम्पदार्थयोः कराङ्गुल्यादिवत् अं- शांशिभावः संसर्गः१, किंवा भूम्यूपरवत् विकारविकारित्वं २, किंवात्यन्तभेदेपि स्तोतृस्तुत्यभावः३,अथवासादृश्ययोगः४, कार्यकारणभावोवा ५,जातिव्यक्तिभावो वा६, गुणगुणित्वल- क्षणो वा७,उपासकगतोपासनाकर्मत्वं वा ८, अन्यतरस्यान्यत- रभावकल्पनाविषयत्वं वा ९तत्र १,२-नाद्यावित्याह-पर- स्यांश इति।। कथं जीवः परमात्मनोंशोविकारोवान भवति ? 'ममैवांशो जीवलोके जीवभूतस्सनातनः' इति स्मृतौ जीवस्य परमात्मांशत्वावगमात्, 'सर्व एत आत्मानो व्युच्चरन्ति' इति श्रुतौ विकारत्वावगमाञ्चेति चेत् ॥मैवम् ।। प्रवेशश्रुतिविरोधा- दित्याह-जीवात्मनेति । तत्सृष्ट्वा। तदेवानुप्राविशत् ' 'अने- न जीवनात्मनानुप्रविश्य' 'स एष इह प्रविष्ट आ नखाग्रेभ्यः' 'स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत' 'अन्तः प्रविष्टः शास्ता जनानाम्' ' अन्तः प्रविष्टं कर्तारमे- तम' इत्याद्यनेकश्रुतिषु स्रष्टुरीश्वरस्य स्वसृष्टेषु संघातेष्ववि- कृतस्यैवप्रवेशः श्रूयते।अतोनेन प्रवेशवाक्यसन्दोहेनाविरोधा- य मायातत्कार्योपाधिकल्पितावच्छेदभेदमाश्रित्यांशस्मरणं वि- कारापत्तिश्रवणं चौपचारिक व्याख्येयमित्यभिप्रायः॥१९॥ १भग.गी-१५-७॥ २ बृ. 3-४-१-२०. माध्यन्दिनपाठे। ३ ते. उ-२.६। ४ छा. उ-६-३-२४ ५ ६. उ-३-४-७॥ ६ऐ. उ-१-१. भा-३.११॥ ते.
वृत्तान्ताल्पव्याख्यासमेतम. ननु प्रवेशश्रुतेरपि घटे चूर्णवत् फले बीजवद्वा प्रवेश: ईश्वरस्य सृष्टेषु कार्येष्वित्यङ्गीकारेशादिप्रमाणाविरोध इति चेत्॥ एतदप्यसत् ॥ निरंशत्वनिर्विकारत्वश्रुतियुक्तिविरोधा- दित्याह-निरंश इति ॥ "निष्कलं निष्क्रिय शान्तं निरवचं निरञ्जनमें' 'नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययम्' इत्यादि- श्रुतिभिः, 'अच्छेद्योयमदाह्योयमविकार्योयमुच्यते' इति स्मृतिभिश्च निरंशो निर्विकारोऽसावीश्वरात्मा गम्यते ज्ञायत इत्येका योजना । युक्त्या च निरंशो निर्विकारश्चासौ गम्यत इत्यपरा । युक्तिश्च जगत्कर्तुस्तावत् सावयवत्वे तस्यान्यपूर्व- त्वनियमात् सृज्यकोटिपतितत्वेन जगत्कर्तृत्वव्याहतेः सर्वज्ञ- त्वसर्वशक्तित्वायोगादनीश्वरत्वापत्तिः । जगत्कनवस्था च कञन्तराभ्युपगमे स्यात् । ‘स कारणं कारणाधिपाधिपो न चास्य कश्चिजनिता न चाधिपः' इति ईश्वरविषयश्रुतिबा- धप्रसङ्गाच्च । तथा विकारोपीश्वरे न युज्यते । विकारो नाम परिणामः परिस्पन्दोवा परस्परसम्बन्धकृतातिशययोगो वा । सर्वथापि नोपपद्यते, अमूर्ते निरवयवे सन्मात्रे सर्वप्रकारस्यापि विकारस्यानुपपत्तेरिति ॥ २०॥ विभुनोंश- विकारयोरभावे दृष्टान्तमाह-घटाकाश इति । विमतो, नांशविकारवान्, विभुत्वादाकाशवदित्यर्थः ॥ वमिन्दोसीतिवदाक्यं न खलु स्तुतितत्परम्।।२१॥ इदानी ३ तृतीयं विकल्पमपाकरोति त्वमिन्द्रोसीति । यथाऽनिन्द्र एव सन् कश्चिदिन्द्रत्वारोपणेन स्तूयते त्वमि- न्द्रोसीति, यथाऽनीश्वर एव सन् जीवः ईश्वरत्वारोपणेन भग. गी-२-२५। श्वे. उ-६-१९। २मु. उ-१-१-। वे.-६-९।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- स्तूयते तत्त्वमसीति, एवमेतद्वाक्यं स्तुतिपरमिति न खलु वाच्यमिति योजना । 'सदेव सौम्येदमग्र आसीदेकमेवाद्वि- तीयम्' 'ऐतदात्म्यमिदं सर्वम् ' इत्युपक्रमोपसंहारयोनिरङ्कु- शाद्वितीयत्वश्रवणविरोधाजीवस्येश्वराद्भेदाभावे सति स्तुति- कल्पनाया अनवकाशादित्यर्थः ॥ २१ ॥ न सादृश्यपरं वाक्यमनिर्माणवकादिवत् । न कार्यकारणत्वस्य साधनं मृद्धटादिवत् ॥ २२ ॥ ४ चतुर्थ पक्षप्रतिक्षिपति-न सादृश्यमिति ॥गुणावयव- क्रियाणामन्यतमभूयस्त्वसामान्यं सादृश्यं तदीश्वरे निर्गुणे निरवयवे निष्क्रिये कुतस्त्यमिति, अतः ‘अग्निर्माणवकः' इत्यादिवन्न सादृश्यपरमिदं वाक्यमित्यर्थः॥ ५ पञ्चमं पक्षमपक्षिपति-न कार्यकारणत्वस्येति ॥अंय. मर्थः-निरवयवत्वादेकद्रव्यत्वाच्चारम्भकत्वानुपपत्तेः, का- रूयैकदेशविकल्पासहत्वाच्च परिणामानुपपत्तेः, संघातादि- वादस्य दुरापास्तत्वान्न मृद्धटवत् कार्यकारणभावो जीवेश्वर- योरिति न तत्परत्वं सामानाधिकरण्यस्येति ॥ २२ ॥ न जातिव्यक्तिगमकं गौः खण्ड इतिवद्धचः। गुणगुण्यात्मकं वाक्यं नैतन्नीलोत्पलादिवत् ॥२३॥ ६ षष्ठं दूषयति-न जातीति॥ जीवरूपव्यक्तिषु ईश्वरो जातिरिति कल्पनायामीश्वरस्य गोत्वादिवदचेतनत्वे सत्य- नीश्वरत्वापत्तेः। ईश्वरो हि सकलविषयज्ञानेच्छाप्रयत्नवा- निति धर्मिग्राहकप्रमाणतस्सिद्धम् । अतो नेदं वाक्यं जातिव्यक्तिपरमित्यर्थः॥ १छा. उ-६-२-१। २ छा उ-६-८-७ ।
वृत्तान्ताल्यव्याख्यासमेतम्. ७ नापि सप्तम इत्याह-गुणगुण्यात्मकमिति । ईश्वरस्य जीवगुणकत्वे तेन विशेष्यमाणस्य तद्वत् संसारित्वापत्तेः स- र्वज्ञत्वादिसाधकप्रमाणव्याकोपः । जीवस्य वेश्वरगुणकत्वे संसारित्वबाधान्नित्यमुक्तत्वापत्तौ तस्य श्रेयस्साधनविधायि- शास्त्रमनर्थकमापद्यतेत्यर्थः ॥ २३ ॥ नोपासनापरं वाक्यं प्रतिमास्वीशबुद्धिवत् । न चौपचारिकं वाक्यं राजवदाजपुरुषे ॥२४॥ जीवात्मना प्रविष्टोसावीश्वरः श्रूयते यतः। ८नाप्यष्टम इत्याह-नोपासनापरमिति॥वेदोपासीतेत्य- तदादिक्रियान्वयाभावात् , उपासनाप्रकरणपाठाभावात् , अ- सीतिपदसमभिव्याहरेण स्वरूपमात्रपर्यवसाननिश्चयात्, क्रि- यान्तराध्याहारानुपपत्तेश्च नोपासनापरमपीदं वाक्यमित्यर्थः। ९ नवममुपचारपक्षं प्रतिक्षिपति—न चौपचारिकमिति ॥ पुनःपुनः परिचोदनापूर्वकं नवकृत्वोभ्यासस्य उपचारपक्षेऽ- सङ्गतेः, न [पचारप्रयोगेप्याक्षेपाद्यवकाश इत्यतो नोपचार- परमपीदमित्यर्थः ॥ २४॥ तृतीयादिषु समस्तपक्षेषु साधारणं दूषणमाह-जीवात्म- नेति ॥ प्रवेशश्रुतिशतेन ईश्वरस्यैव सङ्घातप्रवेशवशाज्जीवत्व- व्यपदेशभाक्त्वं न ततोर्थान्तरं जीव इति निश्चये सति स्तो- तृस्तोतव्यत्वादिभेदकल्पनानवकाशात् प्रकारान्तरासम्भवे स- ति जीवत्वाभिमतस्यात्मनः उपाधिकृतजीवत्वापोहेन तस्य स्वाभाविकब्रह्मत्वबोधकमेवेदं वाक्यमित्यर्थः ॥ देहेन्द्रियमनोबुद्धिप्राणाहङ्कारसंहतौ ॥२५॥ आत्मसङ्कलनादज्ञैरात्मत्वं प्रतिपाद्यते । वह्निधीः काष्ठलोहादौ वह्निसङ्कलनादिव ।। २६ ॥
मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- ननु ब्रह्म चेत्सर्वस्यात्मा तर्हि कथमहं ब्रह्मेति नित्यमात्मा न प्रतिभासते, मनुष्योहमित्याद्यात्मनैव कस्मात्प्रतिभासत इ- त्याशङ्कयोपाध्यविवेकनिबन्धनभ्रमवशादित्यभिप्रेत्य उपा- ध्यपोहेन त्वम्पदार्थशोधनप्रकारमारभते-देहेन्द्रियेत्यादिना ॥ अज्ञैरज्ञानावृतनिजतत्त्वै वैदेहादीनां संहतौ सङ्घाते आत्म- सङ्कलनादात्मचैतन्यव्यापनात्, आविर्भावादिति यावत्, आत्मत्वं प्रतिपाद्यते सङ्घात आत्मेति ज्ञायते न ब्रह्मेत्यर्थः । उक्केथै बुद्धिसाम्याथै दृष्टान्तमाह-वह्निधीरिति ॥२५॥२६॥ देहमन्नमय कोशमाविश्यात्मा प्रकाशते । स्थूलो बालः कृशः कृष्णो वर्णाश्रमविकल्पवान २७ प्राणकोशेपि जीवामि क्षुधितोस्मि पिपासितः। संशितो निश्चितोमन्ये इति कोशे मनोमये॥२८॥ विज्ञानमयकोशस्थो विजानामीति तिष्ठति। आनन्दमयकोशाख्ये त्वहङ्कारे पुरा कृतैः ॥ २९ ॥ पुण्यैरुपासनाभिश्च सुखितोस्मीति मोदते । इदानीं स्थूलारुन्धतीदर्शनन्यायेन मुजादिषीकाग्रहण- न्यायेन वान्तरात्मनः सूक्ष्मस्योद्धरणप्रकारमाह-देहमन्नम- यंकोशमिति॥अयमर्थः-अहमवभासो हि प्रत्यगात्मानमवगा- हत इत्यविवादम् । स च स्थूलत्वादिभिदृश्यधर्मेंविशिष्टविष- ये वर्तमानो न शुद्धम् आत्मानमवगाहते । अतः परिच्छिन्नो जीवात्मा कथं व्यापकः परमात्मा भवितुमर्हतीत्यसम्भावना जायते । ततश्चाहङ्कारगृहीतस्येदमंशविशिष्टस्याहङ्कारसाक्षि- त्वेनेदमंशप्रहाणेनोद्धरणे सत्यहङ्कारनिरपेक्षः स्वयम्प्रकाशमा न आत्मा शुद्धः परिपूर्णः परमात्मैवेति ज्ञातुं शक्यत इति ।
, वृत्तान्ताख्यव्याख्यासमेतम्. (उद्धरणप्रकारमाह) तत्रान्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमय इति पञ्चकोशाः अहमवभासविषय- तया प्रसिद्धाः । तेभ्योन्यः तत्साक्षी प्रत्यगात्मेति शुद्धः आत्मा निर्विशेषः सिध्यति। कथम् ? । स्थूलोहं ब्राह्मणोहं ब्रह्म- चार्यहमिति विशिष्टविषयोहङ्कारोतिबहिष्ठः॥२७॥क्षुधितोस्मि पिपासित इति प्राणधर्मविशेषविषयः ततोभ्यन्तरः। उपलक्ष- णमेतत् पश्यामि शृणोमीत्यादीन्द्रियधर्मवैशिष्टयविषयत्व- स्य । संशितः संशयवान् निश्चयवानस्मीति मनोधर्मविशि- ष्टात्मविषयःप्राणमयादप्यान्तरो मनोमयकोशावगाही॥२८॥ अहमिदं जानामि करोमि चेत्येवमादिप्रकारेण मनसोप्यभ्य- न्तरं विज्ञानमयकोशमवगाहते । येनाहङ्कारेणात्मचैतन्यख- चितेनेतरकोशाः अवभास्यन्ते सोहङ्कारः आनन्दमयकोशः, तस्मिन् आनन्दमयकोशाख्ये । तस्य विज्ञानमयकोशान्तर्ग- तस्यानन्दमयत्वे सुखविशेषावयवत्वं निमित्तमाह-पुरा कृतैः पुण्यैरुपासनाभिश्चेति ॥ एवं कञ्चकितः कोशैः कञ्चकैरिव पञ्चभिः॥३०॥ परिच्छिन्न इवाभाति व्याप्तोपि परमेश्वरः । एवं कोशपञ्चकमनूद्य तत्कृतपरिच्छेदव्युदासेन तदनुस्यू- तसाक्षिरूपात्मा स्वयं परिपूर्णत्वादीश्वर एवेत्यात्मतत्त्वमा- वेदयति एवं कचकित इति ॥ यथा सलिलमाविश्य बहुधा भाति भास्करः॥३१॥ तथा शरीराण्याविश्य बहुधा स्फुरतीश्वरः । तदेवमात्मनः परिच्छेदावभासस्योपाधिनिबन्धनत्वात् स्वतोपरिच्छिन्नः परमात्मैवेति प्रतिपाद्य तस्य प्रतिशरीरं भेदप्रतिभासोप्युपाधिनिबन्धनो न स्वत इत्येतदृष्टान्तेनोप- मानसोल्लासांख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- पादयति-यथा सलिलमिति॥यथा बहुषु जलभाजनेषु प्रती- यमानस्य भानुबिम्बस्य जलोपाधिपरामर्शमन्तरेण स्वतोभेदो न निरूपणपथमवतरति ॥२९॥३०॥३१॥, तथानेकेषु देहेषु स्फुरतः आत्मबिम्बस्यापि देहोपाधिपरामर्शमन्तरेण स्वतो भेदोन निरूपणपथमर्हति। अतः सर्वशरीरेषु परमार्थत एक ए- वात्मा परिपूर्णश्चेति सिद्धम् । एतेनेदमपिनिरस्तं-, यदाहुः-- एकात्मत्वपक्षे एकस्मिन् सुखिनि सर्वे सुखिनस्स्युरित्यादि । जलगतप्रतिबिम्बानामन्यतमे कम्पनादिमत्तया विभाव्यमा- नेप्यन्येषां तद्वत्ताया अभावस्य निश्चयात् यथा धर्मव्यवस्था एवं जीवेष्वपि व्यवस्थोपपत्तेः । जीवेश्वरयोरेकत्वेपि धर्म- भेदव्यवस्थाया अयमेव दृष्टान्तः, यथा प्रतिबिम्बे चलनादि- मति न भानुश्चलनादिमान् भवति, एवं जीवे कर्तृत्वादि- संसारधर्मवत्तया भासमानेपि न परमात्मा तद्धर्मवान् भवतीति॥ कारणत्वं च कार्यत्वं तटस्थं लक्षणं तयोः॥३२॥ शाखायां चन्द्र इतिवन्नैव मुख्यमिदं मतम् । तदेवमात्मनः परिच्छिन्नत्वमनेकत्वमीश्वरादन्यत्वं चो- पाधिवशात् प्रतिभासते, न वस्तुतस्तत्रैते धर्माः सन्तीति प्रतिपाद्येदानीं जीवेश्वरयोस्तटस्थस्वरूपलक्षणप्रदर्शनद्वारा तयोरैक्यस्य वाक्यार्थत्वयोग्यतां सम्भावयति कारणत्वमि- त्यादिना ॥ तयोस्तत्त्वमर्थयोः । कारणत्वं तत्पदार्थस्य तटस्थलक्षणं,कार्यत्वं त्वम्पदार्थस्येति योज्यम् । तथा च श्रुतिः-कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः' इति । भूतभौतिकप्रपञ्चकारणत्वं तत्पदार्थोपलक्षणं, देहेन्द्रियादिस- १.महानारायणोपनिषदि ध्याये । .
वृत्तान्ताख्यव्याख्यासमेतम्. वातरूपकार्याध्यक्षत्वं त्वम्पदार्थोपलक्षणमित्यर्थः ॥ ३२ ॥ उक्तलक्षणमिदमुभयोस्सद्भावसम्भावनामात्रहेतुः,नस्वरूपप- र्यवसायीत्येतदृष्टान्तेन स्पष्टयति-शाखायामिति ॥ महाप्रकाशमित्युक्तं स्वरूपं चन्द्रलक्षणम् ।। ३३ ॥ सच्चिदानन्दरूपत्वं स्वरूपं लक्षणं तयोः। स्वरूपपर्यवसायि लक्षणं सदृष्टान्तमाह-महाप्रकाशमि- ति ॥ यथा प्रकृष्टप्रकाशचन्द्र इति चन्द्रस्वरूपलक्षणं, नैत- द्विशिष्टार्थपरं, चन्द्रप्रातिपदिकार्थमात्रबुभुत्सया कृतप्रश्नस्यो- तरत्वेनास्य प्रवृत्तेः; वैशिष्ट्यपरत्वे अबुभुत्सितार्थविषयपर- त्वेनानवधेयवचन्तापत्तेः । यः प्रकृष्टप्रकाशः स चन्द्र इ- ति निर्देशे यत्तच्छब्दयोः सामानाधिकरण्येनैकार्थत्वनियमात् प्रकृष्टप्रकाशचन्द्रपदयोः स्वरूपमात्रपर्यवसानस्यावश्यम्भा- वाच्चन्द्रस्वरूपलक्षणमखण्डचन्द्रप्रातिपदिकार्थमात्रं बोधय- तीति युक्तम् ॥३३॥ तथा च तयोस्तत्त्वम्पदार्थयोःसच्चिदा- नन्दरूपत्वं स्वरूपलक्षणम्, अनृतजडदुःखपरिच्छेद्यविरो धिसच्चिदानन्दानन्तरूपता तत्त्वम्पदार्थस्वरूपमित्यर्थः ॥ एकलक्षणयोरैक्यं वाक्येन प्रतिपाद्यते ॥ ३४ ॥ तथा च कार्यकारणलक्षणोपाधिद्वयप्रहाण्या विरोधाभासे बाधिते सति सच्चिदानन्दानन्तस्वभावमात्रे भेदलेशस्याप्य- भावादेकलक्षणयोगित्वेनैकवाक्यार्थप्रतिपत्तियोग्यतानयोर्यु- तेति वाक्यार्थमाह-एकलक्षणयोरिति ॥ ३४॥ तस्मादेकप्रकाशलं सर्वात्मत्वमिति स्थितम् । एतावता 'साक्षात्तत्त्वमसीति वेदवचसा' इति द्वितीयः पादो व्याख्यातः । इदानीमुक्तवाक्यार्थतत्त्वमनूद्य तृतीय ८० मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- पादं व्याचष्टे तस्मादित्यादिना ॥ एकप्रकाशत्वम् , एकत्वं प्रकाशत्वं च, एकरूपप्रकाशत्वमिति वा । इदमेव सर्वात्मत्वं 'तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्' इति श्रुतौ उक्तं, नानेकरूपापत्तिः, इति स्थितं निश्चितमित्यर्थः ।। देवतिर्यम्मनुष्याणां प्रकाशान पृथस्थितिः॥३५॥ जीवप्रकाशाभिन्नखात्सर्वात्मेत्यभिधीयते । कथमेतन्निश्चीयते देवमनुष्यादिभेदस्य विद्यमानत्वादि- त्याशङ्कय प्राक्, प्रतिपादितमर्थ ज्ञापयति-देवेति॥३५॥जी- वोपि परमेश्वरप्रकाशात्मपृथक्स्वरूपाभावात् सर्वात्मेत्याह- जीवेति ॥ . एवं प्रकाशरूपत्वपरिज्ञाने दृढीकृते ॥३६॥ पुनरावृत्तिरहितं कैवल्यं पदमश्नुते । एवं वाक्यार्थतत्त्वमनूद्य तद्विज्ञानफलमाह-एवं प्रका- शेति॥ सकृत्प्रसक्तमात्रोपि सर्वात्मत्वे यदृच्छया ।।३७ ।। सर्वपापविनिर्मुक्तः शिवलोके महीयते । एवं जीवब्रह्मणोरेकत्वज्ञानमाहात्म्यं कैमुतिकन्यायेनाह- -सकृदिति । यदृच्छया प्राचीनपुण्ययोगेनाकस्मिकतद्विष- यमतिप्राबल्येन सर्वात्मत्वे ॥३६॥३७॥ सकृत्प्रसक्तमात्रोपि पुमान् सर्वपापविनिर्मुक्तः शिवलोके महीयते पूज्यते, शिव- वत्पूज्यो भवतीत्यर्थः । सर्वभावविनिर्मुक्त इति पाठे तु सर्व- विषयभावनाविनिर्मुक्त इत्यर्थः ॥ वृह. ३-४-१०।
वृत्तान्ताल्यव्याख्यासमेतम्. - सर्वात्मभावना यस्य परिपक्का महात्मनः ॥३८॥ संसारतारकः साक्षात्स एव परमेश्वरः । सकृत्सर्वात्मेश्वरभावावगमस्य घेदृशं फलं, तदभ्यासस्य दृढतायां सकारणसंसारनाश इति किमु वक्तव्यमित्याह- सर्वात्मभावना यस्येति ॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके ॥ ३९॥ प्रबन्धे मानसोल्लासे तृतीयोल्लाससङ्ग्रहः ।। तृतीयश्लोकव्याख्यामुपसंहरति ॥ इतीति ॥ ३८॥ ३९ ॥ इति मानसोल्लासवृत्तान्ते तृतीयोल्लासःसमाप्तः ॥३॥ खतःसन्तः प्रकाशन्ते भावा घटपटादयः। नेश्वरस्य समावेशादित्यस्योत्तरमुच्यते ॥१॥ तदेवं त्रिभिःश्लोकैः तत्त्वम्पदार्थों संशोध्य तदैक्यं वा- क्यार्थः प्रतिपादितः । एष सर्ववेदान्तानां समन्वयः प्रथमः शास्त्रार्थो दर्शितः । इदानीमुक्त समन्वयार्थे ब्रह्मात्माऽद्वैते तत्त्वे विरोधशङ्का प्रत्यक्षादिप्रमाणाभासनिबन्धनां वादिम- तिविलासनिबन्धनां च प्रतिक्षिप्य तमेवोक्तं समन्वयार्थ दृढीकर्तुमुत्तरश्लोकत्रयं प्रववृते । तत्र- आत्मसत्तैव सत्तैषां भावानां न ततोधिका । तथैव स्फुरणं चैषां नात्मस्फुरणतोधिकम् ॥ इति यदुक्तं पूर्व सर्वभावानां स्वतस्सत्तास्फुरणराहित्यं, तद- नुभवविरुद्धं, घटोस्ति घटःस्फुरतीति चानुभवात् बाधा- दर्शनाचेति प्रथममाशङ्कते-स्वतः सन्त इति ॥ स्वत एव १.मा, उ.-।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- सन्तः स्वत एव प्रकाशन्ते, नेश्वरस्य समावेशात् तस्यादर्श- नात्, तत्कल्पनायां प्रमाणाभावाच्चेति । अस्याक्षेपस्योत्तर- त्वेन उत्तरश्लोकमवतारयति-अस्योत्तरमुच्यत इति ॥१॥ "नानाच्छिद्घटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥४॥" नाना अनेकानि छिद्राणि यस्मिन् स नानाच्छिद्रः स चासौ घटश्चेति तथा, तस्योदरे मध्ये स्थितो यो महादीपो- ऽक्षुद्रदीपःतस्य प्रभावत् भास्वरमनन्याधीनालुप्तप्रकाशस्वरू- पम्,यस्य चिदात्मनोऽनेकच्छिद्रवति देहे स्थितस्य ज्ञानं स्वरूप- भूतं चक्षुरादिकरणद्वारा तत्तदिन्द्रियच्छिद्रमार्गेण बहिः विषयेषु रूपादिषु स्पन्दते गच्छति । यथा घटच्छिद्रेभ्यो विप्रसृताः दीपप्रभास्तत्सन्निहितान्विषयान् प्राप्य तदाकाराः सत्यः तद्गततमः अभिभवन्ति, तथा देहच्छिद्रगतेन्द्रियद्वारा प्रसरन्मनोवृत्त्यवभासकतया तदात्मकतामापन्नानि चिदा- त्मस्वरूपाणि ज्ञानानि स्फुरणस्वभावानि तत्तदर्थं प्राप्य तदाकाराकारितानि विषयगताज्ञाततामभिभवन्ति, विष- यप्रकाशशब्दवाच्यानि भवन्तीत्यर्थः । यस्य ज्ञानमेवम्प्रकारेण बहिःस्पन्दते तस्मै...इति सम्बन्धः। उक्तमर्थ श्रुत्या द्रढय- ति-जानामीति । अहमिदं जानामीति स्वगतेन निरपेक्ष- प्रकाशरूपेण विषयमवभासयन् यः स्वयमेव भासते तमेव भान्तं प्रकाशमानम् अनु अनुसृत्य एतत्समस्तं जगत् भाति, न स्वत इत्यक्षरयोजना । तथा च श्रुतिः–'न तत्र वृत्तान्ताख्यव्याख्यासमेतम्. सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयम- ग्नि'इति सर्वप्रकारप्रकाशविषयत्वोक्त्या स्वप्रकाशत्वं प्रत्य- ब्रह्मणः उपपाद्य 'तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभौति' इति भासमानात्मप्रकाशानुविद्धमेतत्सर्व जगदवभासत इति निर्धारयति । तथा चैतत् समस्तं जगद- ग्निं दहन्तमयो ददतीतिवचं भान्तमनु सर्व भातीत्युच्यते, तदेवैकं सर्वविषयभानं, न पुनर्विषयेषु भानान्तरं स्वतः पर- तो वोपपद्यत इति तात्पर्यार्थः ॥ ४ ॥ अस्यायं भावः- श्लोकव्याख्यां प्रतिजानीते-अस्यायं भाव इति । अहमित्यनुसन्धाता जानामीति न चेत्स्फुरेत् । कस्य को वा प्रकाशेत जगच्च स्यात्सुषुप्तवत् ॥२॥ तत्र 'जानामीति तमेव भान्तम्' इति तृतीयपादभावार्थ वर्णयन् ईशसंसर्ग विना विषयसत्तास्फुरणयोरङ्गीकारे बाध- के वक्तुमीशस्य स्वप्रकाशसद्रूपतां साधयति-अहमित्यनुस- न्धातेति ॥ जानामीत्यनुसन्धाता अहमिति न चेत् स्फुरेदि- ति सम्बन्धः । यद्वा-जानामीत्यस्मिन्नवभासे अहमित्यनु- सन्धाता चेन्न स्फुरेदिति सम्बन्धः, तदा जगदान्ध्यं प्रस- ज्येतेत्युत्तरार्धार्थः॥ एतदुक्तं भवति-विषयाः यदि स्वत ए- व प्रकाशेरन्, तदाहं जानामीति ज्ञानाश्रयत्वेन विषयानुस- न्धातुः स्फुरणं न स्यात् । तदभावे च शिलाघनपिहितगु- हागतप्रदीपवन्मया विदितोयमिति कस्यापि नावभासेत । त- था च सुषुप्ताविवाप्रकाशमानस्य जगतः स्फुरणाभावात् न तयवहारप्रसङ्ग इत्यतोन्याधीनस्फुरणं जगतोभ्युपेयम् । य- १,२ मुण्ड. २-२-१०।
८४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- दधीनश्चास्य प्रकाशः स नित्यप्रकाशरूप एवाऽऽस्थेयः,तस्या- पि प्रकाश्यत्वेनवस्थाप्रसङ्गादिति ॥२॥ प्रागचं चासतां सत्त्वं वर्तमानेपि न स्वतः। तस्मादीशे स्थितं सत्त्वं प्रागूलत्वविवर्जिते ॥३॥ विषयाणां प्रकाशवत् सत्त्वमपि पराधीनमित्यत्र युक्ति- माह ॥ यद्वा-विषयाणामनन्याधीनप्रकाशत्वे विषयत्वानु- पपत्तिप्रसङ्गमापाद्यानन्याधीनसत्तायामपि तमापादयति- प्रागूर्व चेति । विमता भावाः, न स्वतः। सत्तावन्तः, कदाचि. देवोपलभ्यमानत्वात् , शुक्तिरजतादिवदित्यर्थः । तथा च प्र- काशवत् सत्ताप्यन्याधीना भावानामिति सिद्धमित्याह-त- स्मादिति । अनन्याधीनसत्तावत्त्वेस्यात्मवदनन्याधीनप्रका- शत्वापत्तौ विषयत्वानुपपत्तिरिति । ईश्वरस्य तु न पागूर्व चासत्त्वशङ्का अप्रकाशत्वशङ्का वा स्यात्, सर्वभावानामाग- मापायावधित्वेन तस्य सदा सत्त्वात्, सर्वावस्थसाक्षिप्रत्य- गात्मरूपेण सदा प्रकाशमानत्वाच्चेति भावः ॥३॥ स्वयमेव प्रकाशेरन् जडा यदि विनेश्वरम् । सर्व सर्वस्य भासेत न वा भासेत किञ्चन ॥४॥ विषयत्वान्यथानुपपत्त्यैवेश्वराधीना सत्ता स्फुरत्ता च वि- षयाणामास्थयेत्युक्तम् । इदानीं तदेव स्फुटयति-स्वयमे- वेति ॥ विनेश्वरमिति । स्वतस्सिद्धप्रकाशस्वग्राहकमनपेक्ष्ये-- त्यर्थः॥४॥ तस्मात्सर्वज्ञमज्ञं वा जगत्स्यादेकरूपकम् । तुल्ये स्वयम्प्रकाशत्वे जडचेतनयोमिथः॥५॥ तुल्यमेव प्रसज्येरन् ग्राह्यग्राहकतादयः।
वृत्तान्ताल्यव्याख्यासमेतम्. सर्व सर्वस्य भासतां मा वा भासिष्ट, किं तत इति चेत्त- बाह-तस्मात्सर्वज्ञमिति ॥ यदि सर्व सर्वस्य सदा भासेत, तदा सर्वः सर्वज्ञः स्यात्। यदि नैवं भासेत, तदा सर्वोप्यज्ञ- स्यादिति योजना ॥५॥ विषयाणामप्यात्मवत् स्वयम्प्रकाशत्वे दूषणान्तरमाह- . तुल्य इति॥ इन्द्रियाणामनियमाच्चाक्षुषाः स्यू रसादयः॥६॥ ग्राह्यग्राहकव्यवस्थानङ्गीकारे दोषमाह-इन्द्रियाणामि- ति ॥ सर्वस्य सर्वग्राह्यत्वे सर्वग्राहकत्वे चक्षुरपि रसादिग्राह- कं स्यात् रसादयोपि चक्षुाहकाः स्युरित्यर्थः। तस्माद्विष- यविषयिव्यवहारनियमस्य सर्वप्रकाशकत्ववादे विरोधप्रसङ्गा- त्, स्वतस्सत्तायां विषयाणां स्वरूपाव्यभिचारित्वप्रसङ्गात्। अन्याधीनसत्तास्फूर्तिकाः विषयाः । अन्यश्च स्वतस्सत्ता- स्फुरणवानीश्वर एव नान्य इति सिद्धमिति पर्यवसितोर्थो बोद्धव्यः॥६॥ मलिनामलिनादर्शपश्चात्याग्भागतुल्ययोः । क्रियाशक्तिज्ञानशक्त्योरन्तःकरणभागयोः॥७॥ प्रतिबिम्बे स्फुरनीशः कर्ता ज्ञातेति कथ्यते । नन्वीश्वरो भावेषु सत्ताप्रकाशयोर्व्याप्रियते? न वान चेत्, न सत्ता भावानामीष्टे, सन्निदधतोप्याकाशवदकिश्चित्करत्वा- त् व्याप्रियते चेत्, विकारित्वापत्तौ अनित्यत्वादनीश्वरत्वप्र- सङ्ग इति चेत्-नायं दोषः, स्वतो निर्व्यापारत्वादुपाध्यायत्त- व्यापारवत्त्वाचेति मत्वा कर्तृत्वज्ञातृत्वे ईश्वरस्योपपादयति- मलिनामलिनेति ॥ मलिनश्चामलिनश्च मलिनामलिनौ । आदर्शस्य पश्चात्माग्भागौ मलिनामलिनौ । मलिनामलिनौ मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- च तापादर्शपश्चात्माग्भागौ चेति तथा, तत्तुल्ययोरिति विग्रहः । एवंविधयोः क्रियाशक्तिज्ञानशक्त्योरन्तःकारणस्य भागयोः क्रियाशक्तिरूपो भागः प्राणः; स आदर्शस्य मलि- नपश्चादागतुल्यः; ज्ञानशक्तिर्मनोबुद्धयात्मको भागः; स आदर्शामलिनप्राग्भागतुल्य इति विवेक।भागयोरिति सप्तमी- द्विवचनम्। तयोः॥७॥-प्रतिबिम्बः प्रत्यगात्मनः प्रतिच्छाया। तस्मिन् प्रतिबिम्बाभेदेन स्फुरन्नीशः आत्मा का ज्ञानीति च कथ्यते । व्यापारवत्प्राणोपाधिः सत्तास्फूर्तिप्रदत्वेनानु- गम्यमानः चिदात्मा करोतीति व्यपदिश्यते । परिणममान- मनआधुपाधिः सत्तास्फूर्तिप्रदत्वेनानुगम्यमानो जानातीति व्यपदेशभाग्भवतीत्यर्थः ॥ बुद्धिः सत्त्वगुणोत्कर्षानिमलो दर्पणो यथा ॥८॥ गृह्णाति विषयच्छायामात्मच्छायानुभावतः । आत्मनो ज्ञातृतोपाधिज्ञानशक्तिरन्तःकरणमित्युक्तं प्रपञ्च- यति-बुद्धिरिति ॥ बुद्धिः स्वगतात्मच्छायानुभावतो विष- यच्छायां गृह्णातीति सम्बन्धः । तत्र हेतुः-सत्त्वगुणोत्क- दिति । रजस्तमसोरुद्रेके लोभप्रमादादयो जायन्ते, तन्मा भूदिति सत्त्वोत्कर्षादित्युक्तम् । तथा च भगवानाह- 'सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेवे च'इति ॥ अन्तःकरणसम्बन्धानिखिलानीन्द्रियाण्यपि॥९॥ स्थागनेमिवलये कीलिता इव कीलकाः। भ.गी.-१४-१७ वृत्तान्ताख्यन्याख्यासमेतम्. - इन्द्रियेषु विषयग्रहणोपाधिषु सत्सु किं बुद्धयेत्याशङ्कय तेषामपि तया विना नोपलब्धिसाधनत्वमित्यभिप्रेत्याह- अन्तःकरणसम्बन्धादिति ॥ स्वभावतो बहिर्मुखप्रवृत्ताना- मिन्द्रियाणामपि प्रवृत्त्यङ्कुशाभावे विषयनियमाभावादन्तः- करणवृत्तस्तन्नियामकता वक्तव्या। तथा च रथाङ्गस्य स्थच- क्रस्य नेमिसंज्ञे वलये कीलिताः अर्पिताः कीलकाः अरा इव स्वस्वविषयेषु निखिलान्यपीन्द्रियाणि अन्तःकरणेन नेमि- स्थानीयेन नियामकेन सम्बन्धादर्पितानि भवन्तीत्यर्थः ॥ नाड्योन्तःकरणे स्यूता जालसंस्यूतसूत्रवत्॥१०॥ ताभिस्तु गोलकान्ताभिः प्रसर्पन्ति स्फुलिङ्गवत् । करणांनि समस्तानि यथास्वं विषयं प्रति ॥ ११ ॥ इदानी देहान्तरानुप्रविष्टतया जीवभावमापन्नस्योकोपा- धिद्वारावस्थात्रययोगं वदिष्यन्तदनुभवसंचारस्थानमादौ प्रपञ्चयति-नाड्य इत्यादिना ॥ नाड्यो देहान्तरालगताः सिराः अन्तस्सुषिराः स्नायवाख्याः। ताः अन्तःकरणे ज्ञान- क्रियाशक्तिसम्मूञ्छिते लिङ्गे स्यूताः ग्रथिताः । तत्र दृष्टान्तः -जालसंस्यूतसूत्रवदिति । यथा मत्स्यावरोधसाधनं जालं प्रसिद्धं, तत्र सम्यक्प्रोतानि सूत्राणि परस्पराविनाभूतानि, तथा सर्वविषयावरोधसाधने वृत्तिमदन्तःकरणे नाड्यः प्रोता वर्तन्त इत्यर्थः॥८॥९॥१०॥ ताभिर्नाडीभिः द्वारभूताभिः पूर्वोक्तानि करणानि समस्तानीन्द्रियाणि मनोवृत्तिभिः सह यथास्वं विषयं प्रति प्रसर्पन्ति सञ्चरन्ति । कियत्पर्यन्ताभिरिति-उच्यते- गोलकान्तादिभिरिति । इन्द्रियायतनमिन्द्रियाभिव्यक्तिस्थानं देहदेशविशेषरूपं गोलक, तत्पर्यन्ताभिर्नाडीभिः प्रसर्पन्ती- त्यर्थः । स्फुलिङ्गवदिति दृष्टान्तः स्पष्टः । गोलकान्तानीति मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- पाठे करणविशेषणं, सुषुप्तेर्जागरितं प्रत्यागमनं गोलकान्तप- यन्तं भवतीत्यर्थः ॥११॥ देहस्य मध्यमं स्थानं मूलाधारमितीयते । गुदात्तु द्यङ्गुलादूर्व मेदात्तु द्यगुलादधः॥ १२ ॥ नाडीद्वारेन्द्रियाणि सञ्चरन्तीत्युक्तं, तत्र का नाड्यः, कि- यन्त्यः, किम्परिमाणा इति जिज्ञासायामाह-देहस्येति॥म- ध्यमं स्थानं मध्यमदेहदेशः। तदेव विशिष्य निर्दिशति- गुदादिति । गुदं पायुः। मेदूं शिश्नः॥१२॥ त्रिकोणोधोमुखाग्रश्च कन्यकायोनिसन्निभः । यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता॥१३॥ प्राणामिबिन्दुनादानां सवित्री सा सरस्वती। तस्य मूलाधारस्य लक्षणमाह-त्रिकोण इति ॥ तदेव सादृश्योक्त्या बुद्धिमारोहयति-कन्यकेति । तस्याधिष्ठात्रीं देवतां नामगुणाभ्यां निरूपयति—योति । परा शक्तिः मू- लप्रकृतिः, सा तत्र स्थिता सर्पकुण्डलाकारा कुण्डलिनीसं- ज्ञिता परा ।आत्मतेजसा दीप्ता सती प्राणादीनां सवित्री प्र- सवित्री । प्राणः पञ्चवृत्तिको देहान्तस्संचारी वायुविशेषः । अग्निः कोष्ठगतोष्मरूपोन्नरसादीनां पाचकः। एतौ प्राणानी अग्नीषोमौ चन्द्रसूर्याविति च योगशास्त्रे प्रसिद्धौ । तत्र प्रा- णश्चन्द्रमाः सोम इति चोच्यते, अग्निः सूर्य इति । एतौ च वक्ष्यमाणेडापिङ्गलयोर्देवते । बिन्दुरव्यक्तरूपो ध्वन्यवस्था- विशेषः । नादस्तु सर्ववर्णसाधारणः ओंकारो घोषात्मा, यं कर्णावपिधाय शृण्वन्ति । एतेषां प्रसवः सञ्चारः, तत्की परा शक्ति देहमध्यस्थिता कुण्डलिनीत्यर्थः । सा प्राणघो- वृत्तान्ताल्यव्याख्यासमेतम्, पावस्थां प्राप्य वर्णात्मनाभिव्यज्यमाना सरस्वतीत्युच्यते ॥ मूलाधाराप्रकोणस्था सुषुम्ना ब्रह्मरन्ध्रगा ॥ १४ ॥ मूलेधच्छिन्नवंशाभा षडाधारसमन्विता। एवं वक्ष्यमाणमहानाडीत्रयस्य मूलाधारं सोपस्करं ध्या- नायोपदिश्य इदानीं ततो मध्यनाडीनिर्गममुपदिशति-मू- लाधाराग्रकोणस्थेति ॥ मूलाधारस्य हि कोणत्रयमुक्तम् । त- त्राग्रकोणस्था अग्रकोणः अधःकोणः मुखं, तत्र स्थिता अ- भिव्यज्य आस्थिता,जातेति यावत्। सुषुम्नाख्या नाडी चसा ब्रह्मरन्ध्र शिरःकपालच्छिद्रं, तत्पर्यन्तं गता, एकरूपातिदीर्घा ऋज्वी चेत्यर्थः॥१३॥१४॥ तस्याः योगिगम्यं लक्षणमाह-मूल इति । अर्धच्छिन्नवंशवदवभासमाना मूले सूक्ष्मरन्ध्रेत्यर्थः । षभिराधारैरुत्तम्भकैः समन्विता, मूलाधारस्वाधिष्ठानमणिपू- रकानाहतविशुद्धाज्ञाख्यैराधारैः क्रमेण चतुष्षड्दशद्वादशषो- डशद्विदलकमलमयैर्मूलाधारलिङ्गनाभिहृदयकण्ठभ्रूमध्यदेश- गतैः समन्वितेत्यर्थः॥ तत्पार्श्वकोणयोर्जाते दे इडापिङ्गले स्थिते ॥१५॥ नाडीचक्रमिति प्राहुस्तस्मानाब्यः समुद्गताः। सुषुम्नासन्निहितं नाडीद्वयमाह- तत्पाद्येति ॥ तस्याः सुषुम्णायाः पार्श्वयोः यौ द्वौ कोणी मूलाधारस्य दक्षिणोत्तरावुपरिभागौ तयोर्जाते निर्गते इडापिङ्गले नाड्यौ स्थिते । वामपार्चे इडा, दक्षिणपाधै पिङ्गलेत्यूह्यम् । एते च ललाटमूलपर्यन्तं प्रसृते इति ज्ञेयम् ॥१५॥ उक्त नाडीत्रयसन्नि- वेशलक्षणं नाडीचक्रमिति आहुर्योगशास्त्रविद इति शेषः । त्रिकोणस्य मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- तस्मानाब्यो वक्ष्यमाणाः समुद्ताः विभक्ताः जायन्त इत्यर्थः॥ गान्धारीहस्तिजिह्वाख्ये नयनान्तं प्रधावतः॥१६॥ नाडीचशेण संस्यूते नासिकान्तमुझे गते । एता एव नाडी प्रधानतो नामभिनिर्दिशति-गान्धारी- त्यादिना ॥ आधारचक्रान्निर्गते नयनगोलकान्तं प्रसृते इत्य- र्थः। एते गान्धारीहस्तिजिह्वाख्ये यदा नाडीचक्रेण पूर्वोक्तेन संस्यूते ग्रथिते भवेतां, तदा उभे एते नासिकान्तं गते भवतः। इडापिङ्गळयोर्वायुपूरणेनाध्वोन्नमितावस्थायां ताभ्यामुन्नी- यमानाः नाड्यः अन्याः नासिकान्तमुन्नीयन्त इत्यभिप्रायः। यद्वा-गान्धारी हस्तिजिह्वा च द्वे नाड्यौ स्वाधिष्ठानचक्रादु- दते नाडीचके संस्यूते स्वभावतो नासिकान्तं गते उन्नीयमा- नदशायां नयनान्तं प्रधावत इति योजना ॥ नाभिमण्डलमाश्रित्य कुकुटाण्डमिव स्थितम्।।१७।। पूषा चालम्बुसा नाडी कर्णदयमुपाश्रिते । नाडी शुक्लाया तस्माद्भूमध्यमुपसर्पति ॥ १८॥ सरस्वत्याह्वया नाडी जिह्वान्ता वाक्प्रसारिणी। नाडी विश्वोदरी नाम भुङ्क्तेनं सा चतुर्विधम्॥१९॥ पीत्वा पयस्विनी तोयं कण्ठस्था कुरुते क्षुतम् । इदानीं नाड्यन्तरोद्गमनस्थानमाह-नाभिमण्डलमितिम- णिपूरकचक्रस्थानमित्यर्थः।नाभिमण्डलस्योपमा कुकुटाण्ड- मिवेति ॥१६॥१७॥यदाश्रित्य तत्पार्श्वयोरुभयतो निर्गते पूषा चालम्बुसा चेति प्रसिद्ध द्वे नाड्यौ कर्णद्वयमुपाश्रिते,तावत्पर्य- न्तप्रसृते इत्यर्थः पूषालम्बुसयोरन्तराले तस्मानाभिमण्डलादु- वृत्तान्ताल्यव्याख्यासमेतम्. द्गता शुक्लाहया नामतो वर्णतश्च शुक्ला नाडी धूमध्यमुपसर्पति ॥१८॥ तत्रैव स्थितासरस्वत्याहया नाडी जिह्वान्तं जिह्वाग्रपर्य- न्तं प्रसृता वाचः प्रसारणकी भवति । अन्या विश्वोदरी नाम नाडी या अस्ति, सा चतुर्विधं लेां चोष्यं भोज्यं भक्ष्य मित्येतत्प्रकारमन्नमदनीयं भुङ्क्ते जाठराग्निना पच्यमानरसं ग्र- सति ॥१९॥ पयस्विनी नामान्या नाडीपेयं तोयं पीत्वा कण्ठ- स्थाने स्थिता सती क्षुतं करते । विश्वोदरी जठरस्था नाडी, पयस्विनी कण्ठस्था नाडीति ज्ञेया ॥ नाडीचक्रात्समुद्भूता नाड्यस्तिस्रस्त्वधोमुखाः २० राका शुक्लं सिनीवाली मूत्रं मुश्चेत्कुहूर्मलम् । एवमूर्ध्वगाः नाडीः स्वस्वकार्याण्यनुक्रम्य अधोमुखाः। तथा सार्था उपकामति-नाडीचक्रादिति ॥ स्पष्टार्थः ॥ भुक्तान्नरसमादाय शङ्खिनी धमनी पुनः॥ २१ ॥ कपालकुहरं गत्वा मूनि संचिनुते सुधाम् । अन्यापुनश्शविनीनाम नाडी नाडीचक्रादेव उद्गताधमनी धमनकी भुक्तानानां रसं सारमादाय ॥२०॥२१॥ मूर्भि मस्तके सहस्रारपद्मस्थाने सुधाममृतं संचिनुते सदोपचयं कुरुते, (कपालकुहरमिति ) यां लम्बिकायोगलभ्यां मन्यन्ते योगिनः, तामित्यर्थः । किं कृत्वा ? कपालकुहरं शिरः कपा- लाकाशं गत्वा पाप्येत्यर्थः॥ शतं चैका च नाड्यस्युस्तासामेका शिरोगता॥२२ तयोर्ध्वमायन्मुक्तः स्यादिति वेदान्तशासनम् । किं बहुना ? सन्त्यन्याः शतशो नाड्यः प्राणेन्द्रियमनः- प्रचारमार्गभूता इत्युपसंहरति-शतं चैका चेति । तासामे- ?
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- कोत्तरशतनाडीनां मध्ये एका सुषुम्नाख्या नाडी शिरो ब्रह्मरन्ध्र प्रति गता॥२२॥ तस्याः कार्यमाह-तयेति । तया नाड्या ऊर्ध्वमचिरादिमार्गेण ब्रह्मलोकं प्रति आयन् गच्छन्मु- का स्यात् विमुक्तसंसारबन्धनः स्यात् पुमान् , इति वेदानु- शासनं, वेदान्तेषूक्तमित्यर्थः । तथा च वेदान्तवाक्यम्- 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वड्डन्याउत्क्रमणे भवन्ति' इति। यदा बुद्धिगतैः पुण्यैः प्रेरितेन्द्रियमार्गतः॥२३॥ शब्दादीन विषयान भुङ्क्ते तदा जागरितं भवेत् । इदानीं नाडीभेदतत्स्वभावकार्याद्यनुक्रमणप्रयोजनं चि- दात्मनोवस्थात्रययोगोपपत्तिमनुक्रमते-यदा बुद्धिगतैरि- ति ॥ अयमर्थः यद्यत्कर्मायमाचरति जीवः, तदा बुद्धिग- तस्वचिदाभासद्वारा तदभिव्यक्त एव करोति न स्वत इति स्थितिः । तथा च कृतसर्वकर्मकृतोतिशयो बुद्धिगत एवेति- बुद्धिगतैः पुण्यरित्युच्यत इति । एवं बुद्धिगतैः पुण्यैः प्रेरितानि यानीन्द्रियाणि । पुण्यग्रहणं त्रैष्ठयाभिप्राय, न तु पापन्यावृत्त्यर्थम् , अकल्याणदर्शनादेरपि दर्शनात् , 'तस्मा- तेनोभयं पश्यति' इत्यादिश्रुतेश्च । तथा च यथादेशकाल- निमित्तोद्भवपुण्यपापप्रेरितेन्द्रियमाणैः पूर्वोक्तनाडीभिस्तत्त- दिन्द्रियगोलकस्थानप्रसृताभिः देहावकाशात् बहिःप्रसर्पद्भि- रिन्द्रियैरिति यावत् ॥२३॥ यदायं चिदात्मा शब्दादिविषयान देहबाह्यौ आध्यात्मिकांश्च भुङ्क्ते प्रत्यक्षादिभिः प्रमाणैरनुभवति तदास्य जागरितं, जानदवस्था भवेदित्यर्थः । तथा चोक्तम्, 'इन्द्रियैरर्थोपलब्धिर्जागरितम्' इति ॥ १.कठो.-६-१६। २. छा. उ. १-२-४॥
वृत्तान्ताल्पव्याख्यासमेतम्.
संहृतेष्विन्द्रियेष्वेषु जाग्रत्संस्कारजान्पुमान ॥२४॥
मानसान्विषयान्भुङ्क्ते स्वभावस्था तदा भवेत् ।
स्वभावस्थाप्राप्तिमाह-संहृतेष्विति ॥ एष्विन्द्रियेषु देह-
गतनाडीछिद्रेषु उपसंहृतेषु सत्सु, नाडीजालसूत्रेणान्तःकरणे-
न प्राणसहितेन तत्तद्गोलकस्थानेभ्योन्तर्हितेषु सत्स्वित्यर्थः
॥२४॥ यदा पुमानात्मा मानसान जाग्रत्संस्कारवासितमनःप-
रिणामरूपान् विषयान् भुते, तदा स्वप्नावस्था भवेत् ।
तदप्युक्तं 'करणेषूपसंहृतेषु जागरितसंस्कारजन्यविषयः
स्वमः' इति ॥
मनसोप्युपसंहारः सुषुप्तिरिति कथ्यते ॥२५॥
तस्मान्मायासमाच्छन्नः सन्मात्रो वर्तते पुमान् ।
मूढो मत्तोज्ञ इत्येवं मायावेशात्प्रकाशते ॥ २६ ॥
सुषुप्त्यवस्थामाह-मनस इति ॥ सवासनस्य मनसः
कारणरूपेणावस्थानमुपसंहारः। स यदा भवेत्, तदास्यात्मनः
सुषुप्तिरिति कथ्यत इत्यर्थः। तदुक्तं 'सर्वप्रकारज्ञानोपसंहारो
बुद्धेः कारणात्मनावस्थानं सुषुप्तिः' इति।यस्मादेवमुपाधिगत-
विशेषावस्थोपाधिकाएव चिदात्मनोजाग्रदाद्यवस्थाः,उपाधी-
नां च मायां विना चिदात्मसम्बन्धाभावश्च यस्मात् ॥२५॥
तस्मादयं पुमानात्मा मायासमाच्छन्नः समावृतब्रह्मभावः
सन्मात्रीस्तीत्येव व्यवहारयोग्यमात्रो वर्तते । यद्वा-सन्मा-
त्रो निर्विकल्पकसत्तामात्रोप्ययं पुमान् मायासमाच्छन्नो
वर्तत इति योजना । तल्लिङ्गमाह-मूढ इति । स्वभावत-
श्चिदानन्दरूपे सन्देहविपर्यासाज्ञानाविषये कथमन्यथाभाव-
रूपमूढत्वाद्यवतार इति भावः ॥ २६ ॥
९५ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- सुखमस्खाप्समित्येवं प्रबोधसमये पुमान् । सच्चिदानन्दरूपः सन्त्सम्यगेव प्रकाशते ॥२७॥ सर्वदा स्वप्रकाशचित्सदानन्द एवात्मेत्यत्रापि लिङ्गमाह- सुखमस्वाप्समिति॥ अयमर्थः-सुखमिति स्वरूपमनागन्तु. कस्वप्रकाशसदानन्दरूपं परामृश्यते। अस्वाप्समित्युपाध्युपश- मः॥ न च सुषुप्तावागन्तुकं सुखमस्ति, तत्साधनाभावात् ॥ न च व्यापारोपशम एवोपाध्युपशमकृतः सुखसाधनम्, अन्यनिवृत्तिमात्रेणान्योत्पत्तेरदृष्टचरत्वात्, अभावाझावो- त्पत्तेरनङ्गीकाराच्च ॥ न च दुःखाभाव एव सुखशब्देनोच्यत इति वाच्यं, तस्य सुषुप्तावनुभवसाधनाभावात्, अननुभूत- स्य परामर्शायोगात् ॥ न चेदं सौषुप्तदुःखाभावानुमानं न स्मरणमिति वक्तुं युक्तम् अस्मर्यमाणत्वादेर्व्यभिचारात्, सामग्र्यभावादेश्चासिद्धेरिति विस्तृतमन्यत्रेत्यास्तां तावत् । तस्माद्यथावस्थितमेव स्वरूपं तदा सुखम् । यतः निष्क्रियस्य निरंशस्य चिदात्मनः शयनं गमनं वा स्वापः प्रबोधो वा स्वतो न सम्भवति, अत उपाधिकृतमेवैतत्सर्वमित्युपाध्युप- शम एवास्य स्वापोस्वाप्समित्युल्लिख्यते इति । अतः सर्वा- स्वप्यवस्थासु सच्चिदान्दरूप एवायमात्मेत्यर्थः॥ २७॥ इत्थं जगत्समाविश्य भासमाने महेश्वरे । सूर्यादयोपि भासन्ते किमुतान्ये घटादयः॥२८॥ एवं वर्णितेर्थे मूलसङ्गति विशदयति-इत्थमिति ॥ जगत् कारणं कार्य चाज्ञानतत्कार्यद्वयात्मकमवस्थात्रयं मायया समाविश्य विश्वतैजसप्राज्ञरूपेण वैश्वानरहिरण्य- गर्भाव्याकृतरूपेण चाध्यात्मिकमाधिदैविकं च भासमाने ९५ - वृत्तान्ताख्यव्याख्यासमेतम्. महेश्वरे सति सूर्यादयोपि सर्वार्थप्रकाशकतया प्रकाशस्त्र- भावा अपि भासन्ते न स्वमहिना । तत्राप्रकाशस्वभावतया प्रसिद्धानां घटादिविषयाणां कुतः स्वभावप्रकाशशङ्के- त्यर्थः ॥२८॥ तस्मात्सत्ता च भावानामीश्वराश्रयणाश्रया । सत्यं ज्ञानमनन्तं च श्रुसा ब्रह्मोपदिश्यते ॥ २९॥ तस्मादीश्वर एव सत्तास्फुरत्ते इति निश्चीयेते तत्सम्प- कौदेवान्यत्र, इत्येतत्सिद्धमित्युपसंहरति-तस्मादिति ॥ चकारः स्फुरत्तां गमयति। ईश्वरमाश्रयन्त इतीश्वराश्रयणाः ईश्वरव्याप्ता आश्रया यस्याः सा ईश्वराश्रयणाश्रया, ईश्व- राध्यस्तविषयाश्रया, न स्वरूपसद्विषयगतेत्यर्थः । ईश्वरस्य स्वत एव सत्ताज्ञानस्वरूपत्वे प्रमाणमाह-सत्यं ज्ञानमिति । श्रुत्या सत्यज्ञानानन्तशब्दैः ब्रह्मणो लक्षणमुक्तं-'सत्यं ज्ञान- मनन्तं ब्रह्म' इति । लक्षणं च सजातीयविजातीयव्यावर्तक सत्स्वरूपमात्रपर्यवसितमुच्यते, यदाहुयायिकाः- 'असा- धारणो धर्मो लक्षणम्' इति । तत्र 'यतो वा इमानि भूतानि जायन्ते' इत्यादिवाक्येन ब्रह्मोपलक्षणदशायां जगत्कारणत्वोपलक्षितस्य वादिपरिकल्पितप्रधानपरमाण्वादेः प्रसङ्गे जगत्कारणत्वेन ब्रह्मसजातीयाः प्रधानादयः प्रत्युप- स्थिताः, विजातीयाश्च भूतभौतिकरूपाः कार्यवर्गाः, तेभ्य उभयविधरूपेभ्यः अनृतजडपरिच्छिन्नस्वभावेभ्यो व्यावृत्त- ब्रह्मस्वरूपबोधकं वाक्यमिति स्थिते, सत्यज्ञाने सत्तास्फुरण- रूपे ब्रह्मण एवासाधारणौ धर्मों; नान्यस्य कस्यचिदिति निश्चीयत इत्यभिप्रायः ॥ २९ ॥ १. तै. इ. २-१॥ २. तै. उ. ३-१। . .
९९ मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- जाग्रत्स्वनोद्भवं सर्वमसत्यं जडमन्धवत् । ईश्वरचाहमित्येवं भासते सर्वजन्तुषु ॥ ३० ॥ एतच्छुतिबलादेतत्सिद्धमित्याह-जाग्रदिति ॥ अथ वा -श्रुत्या ब्रह्मणि सत्यताद्यवधारणादर्थसिद्धमर्थमाह-जाग्र- दिति ॥ विमतम् , असत्यं, जडत्वात्,मृगतृष्णिकोदकवत्। वि- मतं जडं, पराधीनचेष्टत्वात् , अन्धवत्, अन्धपमुवदित्यर्थः।। एवं सर्वजगदधिष्ठानरूपतया सर्वानुस्यूतस्येश्वरस्य सर्व- सत्तास्फुरत्तात्मत्वमुपपाद्य तस्यैव प्रत्यगात्मत्वं पूर्वश्लोकोक्त- मुपपादयति-ईश्वरश्चाहमिति । योहमिति सर्वजन्तुषु भा. सते, स ईश्वर एवेतियोजना ॥ ३०॥ निर्विकल्पश्च शुद्धश्च मलिनश्चेत्यहं त्रिधा । प्रतिज्ञातमर्थमुपपादयितुं अहङ्कारं भिनत्ति-निर्विकल्प- श्चेति ॥ निर्विकल्पं परं ब्रह्म निधूताखिलकल्पनम् ॥३१॥ धूल्यन्धकारधूमाभ्रनिर्मुक्तगगनोपमम् । तत्र निर्विकल्पोहमवभासः ईश्वरविषय एवेत्याह-नि- विकल्पं परं ब्रह्मेति ब्रह्मणो मिर्विकल्पकत्वं विशदयति-नि- धूताखिलकल्पनमिति । निरस्तसमस्तविशेषतया अहमित्यव- भासमान आत्मा ब्रह्मैवेत्यर्थः॥३॥ तदेवं दृष्टान्तेन स्पष्टय- ति-धूल्यन्धकारेति ॥ विवेकसमये शुद्धं देहादीनां व्यपोहनात् ।।३२॥ यथान्तरिक्षं संक्षिप्तनक्षत्रैः किश्चिदीक्ष्यते । नैवात्मा कदापि भासत इत्याशङ्कय स्वभावतः सर्वेषां भानाभावेपि विचारिततत्त्वम्पदार्थतत्त्वस्य कदाचिदानं भ.
वृत्तान्ताख्यव्याख्यासमेतम. वत्येवेत्यभिप्रेत्य तत्साधनं शुद्धमहङ्कारमुदाहरति-विवेक- समय इति । विवेकसमये देहादीनामनात्मत्वेनाहमवभा- स्यत्वस्य व्यपोहनात् परिच्छेदकाभावाच्छुद्धमेवात्मतत्त्वं ब्रह्म भासत इत्यर्थः । विवेकसमये भासमानमाकारं दृष्टान्तेन स्पष्टयन् अस्य साक्षाद्ब्रह्मभावाद्विशेषमाह-यथान्तरिक्ष- मिति । संक्षिप्तनक्षत्रैरुपशान्तं घुप्रकाशैरुपलक्षितमन्तरिक्ष- माकाशं यथा किश्चिदीक्ष्यत इति, ईक्षणकालस्य किञ्चि- त्त्वाभिप्रायम् , एवमित्यर्थः॥ देहेन्द्रियादिसंसर्गान्मलिनं कलुषीकृतम् ।। ३३ ।। यथाकाशं तमोरूढं स्फुरत्यनवकाशवत् । तृतीयमहङ्कारं सर्वप्राणिसाधारणमाह-देहेन्द्रियादीति॥ संसर्गोध्यासः ॥३३॥ अनवकाशवत् परिच्छिन्नमिवेत्यर्थः॥ अहमित्यैश्वरं भावं यदा जीवः प्रबुध्यते ॥३४॥ सर्वज्ञः सर्वकर्ता च तदा जीवो भविष्यति । त्रिविधाहङ्कारनिर्देशस्य प्रयोजनमाह-अहमित्यैश्वरं भा- वमिति ॥ यदेति प्रबोधोत्पत्तिदौर्लभ्यं सूचयति । अत्र जीवस्य सर्वज्ञत्वादिभवनं न विधीयते, किन्तु सर्वज्ञत्वाधु- पलक्षितेश्वरस्वरूपेणाभिव्यक्तो भविष्यतीत्यर्थः । माययाधिकसम्मूढो विद्ययेशः प्रकाशते ॥३५॥ निर्विकल्पानुसन्धाने सम्यगात्मा प्रकाशते । कथमन्यस्यान्यात्मनाभिव्यक्तिस्तात्त्विकीत्याशङ्का न का- र्या, अन्यत्वस्य जीवेश्वरयोर्मायानिबन्धनत्वादित्यभिप्रे- त्याह-माययेति ॥३४॥३५॥ तस्मान्मायानिवृत्तये निर्विक- ल्पामावभासने यत्नः , कार्य इत्याह-निर्विकल्पानुसन्धान इति ॥
९८ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- अविद्याख्यतिरोधानव्यपाये परमेश्वरः॥३६ ॥ दक्षिणामूर्तिरूपोसौ स्वयमेव प्रकाशते । प्रकरणार्थमुपसंहरति-अविद्याख्येति ॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके ॥ ३७॥ प्रबन्धे मानसोल्लासे चतुर्थोल्लाससङ्ग्रहः ॥ चतुर्थश्लोकव्याख्यामुपसंहरति-इतीति ॥३६ ॥ ३७॥ इति मानसोल्लासवृत्तान्ते चतुर्थोल्लासः समाप्तः॥४॥ प्रमाणमेकं प्रत्यक्षं तत्त्वं भूतचतुष्टयम् । मोक्षश्च मरणान्नान्यः कामार्थों पुरुषार्थको ॥१॥ पूर्वश्लोकव्याख्यानेन प्रत्यक्षादिप्रमाणाभासनिबन्धना ब- मात्मैकत्ववाक्यार्थे विरोधाशङ्का परिहता ॥ इदानीं पञ्चमेन श्लोकेन वावदूकानां मतिविलसितकल्पनानिबन्धानां विरो- धाशङ्कां परिहर्तुं तेषां मतान्युपन्यस्यति-प्रमाणमेकमित्या- दिना ॥ परमनास्तिकश्चार्वाको मन्यते-एक प्रत्यक्षमेव प्रमाणं नानुमानादीनीति ॥ अस्यायमभिप्रायः-प्रत्यक्षाति- रिक्तेन प्रमाणेन यदस्तीति गृह्यते, तद्यावत्प्रत्यक्षेण न संवा- द्यते, तावन्न विश्वासार्ह भवति, भूयस्सु स्थलेषु व्यभिचा- रोपलम्भात् , प्रत्यक्षदृष्टस्य चाव्यभिचारात् । अतः प्रत्यक्ष- मेवैक प्रमाणमिति । भूतचतुष्टयं पृथिव्यप्तेजोवायवः तत्त्वं पदार्थतत्त्वं, न त्वाकाशादयः पदार्थाः सन्ति, तेषामप्र- त्यक्षत्वात् । वायुस्त्वस्माकं प्रत्यक्ष एवेत्यभिप्रायः॥प्रमाणं प्रमेयं चोक्त्वा पुरुषार्थतत्त्वमाह-मोक्षश्चेति । मरणादन्यो नास्ति मोक्षो नाम पुरुषार्थ इत्यर्थः । चकाराद्धर्मोपि न वृत्तान्ताख्यव्याख्यासमेतम्. कामस्तु साक्षादिति पुरुषार्थ इति समुच्चीयते । परिशेषात् कामार्थों द्वौ प्रसिद्धौ पुरुषार्थों पुरुषेणालपणीयौ सम्पाचौ च । तत्राप्यर्थः कामसाधनत्वेनैवाभिलाषगोचरः, विवेकः॥१॥ न कश्चिदीश्वरः कर्ता परलोककथा वृथा ननु भूतचतुष्टयमेव प्रमेयमिति कुतः तस्य परिणमयि- तुरीश्वरस्य तद्विलक्षणस्याङ्गीकरणीयत्वात् , तथा जन्मत एव प्राणिनां सुखदुःखवैचित्र्यदर्शनात्तद्धेतुभूतौ पूर्वकृतधर्मा- धर्मों स्त एवेत्यप्यङ्गीकार्यत्वात्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगादित्याशङ्कयाह-न कश्चिदिति ॥ भा- वानां स्वभावत एव परिणामोपपत्तेः,प्रतिव्यक्ति परिणमयि- तुरन्यस्य उपलम्भाभावाच्च । न हि धनुर्मुक्तेषोर्गमयिता क- श्चिदुपलभ्यते, कृषीवलोतानां बीजानां वा परिणमयिता। यदि स्यात्तदा उपलभ्येत, तदभावाच्च तदभाव इति प्रत्यक्षः । कुत ईश्वरकल्पनावकाशः । तथा सुखादिवैचि- त्र्यस्यापि तत्तत्सङ्घातस्वभावादेवोपपत्तौ नालौकिको हेतुः कल्प्य इति । उक्तं च- 'स्वर्गः कर्तृक्रियाद्रव्यनाशेपि यदि यज्वनाम् । भवदू दावाग्निदग्धानां फलं स्याद्भरि भूरुहाम्' इति ॥ देहं विनास्ति चेदात्मा कुम्भवदृश्यतां पुरः॥२॥ हस्वो दी? युवाबाल इति देहोभिदृश्यते । तथा देहातिरिकात्मकल्पनापि प्रत्यक्षविरुद्धेत्याह-देहं विनेति ॥ अमूर्तद्रव्यस्य सद्भावसाधकाभावादिति भावः॥२॥ देहस्यात्मत्वेस्ति प्रमाणं प्रत्यक्षानुभव इत्याह-हस्वो दीर्घ इति ॥
मानसोडासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- अस्ति जातः परिणतो वृद्धः क्षीणो जन्मृतः॥३॥ इत्येवमुक्ताः षड्डावविकारा देहसंश्रयाः । षड्भावविकाराः देहसंश्रया एवोक्ताः, न तदतिरिक्तात्मसं- श्रयाः। तस्माद्विकार्यप्यात्मा न देहादन्योस्तीत्यर्थः ॥ वर्णाश्रमविभागच देहेष्वेव प्रतिष्ठितः ॥ ४ ॥ जातकर्मादिसंस्कारो देहस्यैव विधीयते । शतं जीवेति देहस्य प्रयुञ्जन्त्याशिषं शुभाम् ॥५॥ किञ्च-आस्तिकानां शास्त्रीयोपि व्यवहारो देहाश्रयो दृश्यते; तदतिरिक्तात्मकल्पनं तेषामप्रामाणिकमेवेत्याह-व- र्णाश्रमविभागश्चेति ॥३॥ ४ ॥५॥ इति प्रपञ्चं चार्वाको वाचयत्यल्पचेतनः । चार्वाककल्पनोपन्यासमुपसंहरति-इति प्रपञ्चमिति । वाचयति शिष्यान् पाठयतीत्यर्थः । अल्पचेतनः अतिस्थूल- मतिरित्यर्थः॥ केचिच्छसिमि जीवामि क्षुधितोस्मि पिपासितः ६ इत्यादिप्रत्ययवलात् प्राण आत्मेति मन्यते । अस्मादीषत्सूक्ष्ममतिकल्पनामाह-केचिदिति ॥ यदि भूतसङ्घातमात्रो देह एव श्वासादि कुर्वीत, तर्हि मृतदेहस्या- पि तद्रूपत्वाविशेषाच्छासादिव्यापारप्रसङ्गः। अतोपि देहा- तिरिक्तः प्राणः आत्मेति केचिन्मन्यन्त इत्यर्थः॥ केचिच्छृणोमि पश्यामि जिघ्रामि स्पन्दयाम्यहम्७ इतीन्द्रियाणामात्मत्वं प्रतियन्ति ततोधिकम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. एतन्मतैकदेशिमतमाह-केचिच्छृणोमीति ॥ अहमनु- भवस्येन्द्रियव्यापारायत्तत्वात् , तदतिरिक्तस्य देहचालकस्य प्राणस्य सद्भावे प्रमाणाभावात् , इन्द्रियोपरमे स्वापे देहचल- नादर्शनात् , तत्र दृश्यमानस्य श्वासादेओन्तिमात्रत्वात् , इन्द्रियाणां च युगपद्मोगादर्शनात् , नियतभोगविशेषवत्त्वा- च्च, व्यस्तान्येवेन्द्रियाणि एकशरीरमारूढानि । अत एवानेके आत्मान इति इन्द्रियात्मवादिनो मतमित्यर्थः । अत्रेन्द्रिया- त्मवादोपन्यासानन्तरं प्राणात्मवादोपन्यासो द्रष्टव्यः । तत्र चेन्द्रियोपरमेपि प्राणव्यापारानुपरमादिति युक्तिरनुसन्धेया। पाठक्रमस्तु मूलश्लोकानुरोधादिति ॥ जानामिप्रत्ययबलाडुद्धिरित्यपरे जगुः ॥ ८॥ मायाव्यामूढचित्तानां तेषां दूषणमुच्यते । इदानी बौद्धमतमाह-जानामीति ॥ बुद्धिः क्षणिकवि- ज्ञानमात्मेति अपरे विज्ञानवादिप्रभृतयो बौद्धा जगुरित्यर्थः । इन्द्रियाभावेपि स्वप्ने बुद्धेरविकलायाः सत्त्वात् , व्यासङ्गद- शायामिन्द्रियसम्बन्धेप्यर्थे व्यवहारानुदयात्तदतिरिक्ता बु- द्धिरात्मेत्यर्थः । उपलक्षणमेतत्-शून्यवादिमतस्यापि । स हि सुषुप्तौ विज्ञानस्याप्यभावात्, अवस्थान्तरेहमित्यकस्मादह- कारोदयस्य संवृतिमात्रत्वात् , शून्यमात्मेति वदति । अन्या- न्यास्तिकमतान्यप्यद्वैतमतविरोधीनीत्यत्रोपन्यस्तानि द्रष्ट- व्यानीति ॥६॥७॥८॥ उक्तमतकल्पनानां मायाभ्रान्तिमूलकत्वान्न तेषु विश्वासः कार्यः प्रामाणिकैरिति दूषणायोत्तरश्लोकमुत्थापयति-मा- याव्यामूढचित्तानामिति ॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक-
देहं प्राणमपीन्द्रियाण्यपि चलांबुद्धिं च शून्यं विदुः
स्त्रीवालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वा-
दिनः।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥५॥
देहं प्राणमपीन्द्रियाण्यपीति ॥ चलां बुद्धिं क्षणिकां बुद्धिं
ये वादिनोहमात्मेति देहं प्राणमित्यादि विदुः जानन्ति, ते
भृशम् अत्यन्तं भ्रान्ताः, यतो विवेकशून्या इत्याह-स्त्री-
बालेति ॥ जडाः ग्रहग्रस्ताः । कुत एतदिति चेत्, सर्वासां
कल्पनानां मिथो विरुद्धत्वेन विप्रतिपत्त्यास्पदत्वात् ,तस्याश्चै-
कस्मिन्धर्मिणि विरुद्धकोव्यालिङ्गनरूपत्वात् सर्वविकल्पा-
स्पदतया विकल्पोत्पत्तेः प्राक्सिद्धं सर्वकल्पनानामागमापा-
यसाक्षिभूतं सत्यज्ञानानन्दस्वभावमात्मेश्वरतत्त्वमवश्याश्र-
यणीयं, यत्स्वरूपानवगमात् विकल्पोदयः, यदवगमे सति
तद्बाध इत्यभिप्रेत्याह-मायाशक्तीति।अक्षरार्थः सुगमः॥५॥
इदमस्य तात्पर्यम्-
देहादीनां जडाथार्ना पाषाणवदनात्मनाम् ॥९॥
कथं भवेदहम्भावः समावेशं विनेशितुः ।
पञ्चमश्लोकव्याख्या प्रतिजानीते-इदमस्येति ॥ अत्रेदं
वादिनःप्रष्टव्याः-देहादयो बुद्धचन्ताः चेतनाः अचेतनावेति।
तत्राद्यो न प्रामाणिक इत्याह-देहादीनामिति ॥ जडाश्च
ते अर्थाश्चेति जडार्थाः तेषामिति विग्रहः । अर्थाः
विषयाः दृश्या इत्यर्थः । विमताः, अनात्मानः, जडत्वात्,
पाषाणवतः
जडत्वं च, दृश्यत्वात्,
तद्वदेवेत्यर्थः ॥९॥
१०३
वृत्तान्ताख्यव्याख्यासमेतम.
तस्मात् सालभञ्जिकातुल्यानामेषां कथं स्वतश्चिदात्मकेश्वर-
समावेशं विनाहम्भावश्चेतनता भवेदिति योजना ॥
देहस्तावदयं नात्मा दृश्यत्वाजाज्यवत्त्वतः ॥१०॥
रूपादिमत्त्वात्सांशत्वाद्भौतिकत्वाच कुम्भवत् ।
एवं
साधारणदूषणमुक्त्वा
प्रत्येक
दूषणमाह-देहस्ताव-
दयमिति ॥ दृश्यत्वं पराधीनप्रकाशत्वम् ॥न चास्मदभिम-
तात्मनि व्यभिचारः, तस्य स्वप्रकाशत्वाङ्गीकारात् । जाज्य-
वत्त्वं स्फुरणभिन्नत्वम् । न हि देहःस्फुरणात्मा, स्वसत्तायां
स्फुरणव्यभिचारात्, स्तम्भवत् ॥१०॥ रूपादिमत्त्वादयः प्र-
सिद्धा एव हेतवःन चात्रसाध्याप्रसिद्धिः, देहातिरिक्तस्यात्म-
नोऽप्रसिद्धत्वात्, तत्प्रतियोगिकान्यत्वस्यानात्मत्वस्य चाप्र-
सिद्धेरिति वाच्यम्, अहमवभासगोचरमाने सर्वेषां वादिना-
मात्मत्वप्रसिद्धेः, तदन्यत्वस्य च घटादौ प्रसिद्धत्वादिति ॥
मूर्छासुषुप्तिमरणेष्वपि देहः प्रदृश्यते ॥ ११ ॥
देहादिव्यतिरिक्तत्वात्तदात्मा न प्रतीयते ।
उक्तानुमानेष्वप्रयोजकत्वशङ्कानिवृत्तये विपक्षबाधकं त-
कमाह-मूर्छति ॥ यदि देह एवात्मा स्यात्, तदा तस्मिन्नव-
भासमाने आत्मानवभासो न स्यात् । भवति च मूर्जाद्यव-
स्थास्वात्मानवगमः सम्प्रतिपन्नः।अतस्तास्ववस्थासु अहमि-
त्यनवभासमानः अवस्थान्तरे चावभासमान आत्मा देहान्य
एवेति सिद्धमित्यर्थः॥
यथा जगत्प्रवृत्तीनामादिकारणमंशुमान ।। १२॥
पुमांस्तथैव देहादिप्रवृत्तौ कारणं परम् ।।
मम देहोयमित्येवं स्त्री बालोन्धश्च मन्यते ॥१३॥
. , मानसोल्लासाख्वश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- देहोहमिति नावैति कदाचिदपि कश्चन । देहातिरिक्तात्मसद्भावेनुमानान्तरमाह-यथेति ॥ गाढा- न्धकारव्याप्तगुहान्तस्स्थदेहव्यापारो, देहातिरिक्तप्रकाशसं- सर्गनिमित्तः, देहव्यापारत्वात्, दिवा बहिर्दिवाकरप्रकाश- सान्निध्यनिमित्तदेहव्यापारवदित्यर्थः । अपि च-देहो, नात्मा, ममप्रत्ययविषयत्वात्, वस्त्रादिवत् ॥न चायमप्र- सिद्धो हेतुः, अस्यानुभवस्य सार्वजनीनत्वादित्यर्थः॥ यद्ययं देहः आत्मा भवेत्, तदाहं मनुष्य इतिवत् अहं देह इत्यपि स्फुरेत् । न चैवमस्ति ॥ अतो न देहः आत्मेत्यर्थः ॥ न च मनुष्योहमित्यनुभव एव देहात्मानुभवः, तस्याहमनुभवव्य भिचारात्। तथाहि-जाग्रदवस्थायां मनुष्योहमित्यभिमन्य मानः स्वप्ने कदाचित् व्याघ्रोहमित्यभिमन्यते, तत्राहमनुभ- वाव्यावृत्तावपि मनुष्यत्वाद्यनुभवस्य व्यावृत्तेर्मनुष्यत्वादि- धर्मकदेहादन्य एवाहमवभासविषयः आत्मेति सिद्धं देहातिरिक्तात्मास्तित्वमिति ॥ ननु प्रत्यक्षकप्रमाणवादिनं चार्वाकं प्रति अनुमानैदेहा- तिरिक्तात्मास्तित्वसाधनमसङ्गतमिति चेत्, अत्र ब्रूमः- अनुमानाद्यनभ्युपगमे प्रतिवाद्यभिप्रायस्य प्रत्यक्षाविषयत्वा- त्तदुक्तिमार्गादिसमाश्रयणमन्तरेण तं प्रत्याक्षेपसमाधानादि- प्रवृत्त्यनुपपत्तेः, यत्किश्चित्कल्पयित्वा वदतोनवधेयवचन- त्वात् वादित्वं प्रतिवादित्वं वा न भवेदिति विद्वद्भिरस्यो- पेक्षणीयतापत्तिः। पूर्वदृष्टसजातीयत्वादिना लिङ्गेन दृश्यमा- नेष्वर्थेष्विष्टानिष्टसाधनत्वानुमानाप्रवृत्तौ प्रवृत्तिनिवृत्तिव्य- वहारानुदयात् जीवनमप्यस्य दुर्लभमित्यनुमानादेरनेनाव- श्याश्रयणीयत्वात् युक्तमेवानुमानादेहातिरिक्तात्मसाधनमिति वृत्तान्ताख्यव्याख्यासमेतम्. सर्वमवदातम् । तथा च परलोकादिनास्तिक्यवादोस्य प्रलापमात्रमित्युपेक्षणीयमेतदिति ॥ इन्द्रियाण्यपि नात्मानः करणत्वात्प्रदीपवत् ॥१४॥ इन्द्रियाण्यपि नात्मान इतीन्द्रियत्वादिमतनिराकरणग्र- न्थः प्रायः स्पष्टार्थः॥ ११॥ १२॥ १३ ॥१४॥ वीणावादनवच्छ्रोत्रं शब्दग्रहणसाधनम् । चक्षुस्तेजस्त्रितयवद्रूपग्रहणसाधनम् ॥ १५ ॥ गन्धस्य ग्राहकं प्राणं पुष्पसंपुटकादिवत् । रसस्य ग्राहिका जिह्वा दधिक्षौद्रघृतादिवत्॥१६॥ करणंत्वेन हेतुनेन्द्रियाणामनात्मत्वं साधितम्, तत्र हेत्व- सिद्धिशङ्कां परिहरन् प्रत्येकमिन्द्रियाणां करणत्वं साधयति -वीणावादनवदित्यादिना ॥ यथा वीणादिवादनं शब्दं ग्राहयत् शब्दग्रहणसाधनं तथा श्रोत्रमपि तत्साधनं करण- मित्यर्थः। एवमुत्तरत्रापि योजना। चक्षुः, तेजस्तया, रूपग्रह- णसाधनम्। तेजस्त्रितयवदिति। सूर्यसोमाग्निवदित्यर्थः॥१५॥ क्षौद्रं मधु ॥ १६॥ इन्द्रियाणि न मे सन्ति मूकोस्मि बधिरोस्म्यहम् । इत्याहुरिन्द्रियैीनाजनाः किं ते निरात्मकाः॥१७॥ इन्द्रियाणां ममतास्पदत्वात् तत्सम्बन्ध्यहमास्पदोन्य- स्तेभ्यः आत्मा स्यादिति युक्तया साधयति–इन्द्रियाणि न मे सन्तीति ॥ उक्तानुमाने विपक्षे बाधकतर्कोयमुक्तो वेदितव्यः॥ १७॥ क-दिवायेति पाठान्तरम् ।
मानसोल्लासाल्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- प्राणोप्यात्मा न भवति ज्ञानाभावात्सुषुप्तिः । जाग्रत्खनोपभोगोत्थश्रमविच्छित्तिहेतवे ॥ १८ ॥ सुषुप्तिं पुरुषे प्राप्ते शरीरमभिरक्षितुम् । शेषकर्मोपभोगार्थ प्राणश्वरति केवलम् ॥ १९ ॥ इदानीं मुख्यप्राणात्मवादे दोषमाह-प्राणोप्यात्मेति ॥ प्राणः, आत्मा न भवति, स्वसत्तायां चैतन्यव्यभिचारात्, दे- हवदित्यर्थः । सुषुप्तिष्विति ।सुषुप्तिमूर्छामरणेष्वित्यर्थः । सु- षुप्तौ चैतन्याभावं प्राणस्य साधयति-जापदिति ॥ १८ ॥ शेषकर्मोपभोगार्थ शरीरमभिरक्षितुं प्राणश्चरति केवलमिति सम्बन्धः॥ १९॥ प्राणस्य तत्र चैतन्यं करणोपरमे यदि । प्राणे व्याप्रियमाणे तु करणोपरमः कथम् ॥२०॥ सम्राजि हि रणोद्युक्ते विरमन्ति न सैनिकाः। तस्मान्न करणस्वामी प्राणो भवितुमर्हति ॥ २१ ॥ प्राण एव स्वश्रमापोहाय सुषुप्तः, नान्यः पुरुषः यस्य शेषकर्मभोगाय प्राणः शरीरेभिरक्षन् चरतीति कथ्यत इति चेत् , तत्राह-प्राणस्य तत्रेति॥तत्र सुषुप्तौ करणोपरमे यदि प्राणस्य चैतन्यम् आत्मत्वं स्यात्, तदा प्राणस्तस्यामवस्थायां निर्व्यापारः स्यादिति शेषः। व्यापारवत्त्वे सुषुप्तित्वव्याघाता- दित्यर्थः। किञ्च-प्राणश्चेदात्मा स्यात् ,तदा तस्मिन् स्वव्या- पारनिरते तदायत्तव्यापाराणां करणानामुपरमो न स्यात्, उपरमन्ते च सुषुप्तौ करणानि ॥ तस्मान्न करणाधिपतिः प्रा- किन्त्वन्य एवेत्येतमर्थ सदृष्टान्तमाह-प्राणे व्याप्रिय- माण इति ॥ २० ॥२१॥ , वृत्तान्तास्यव्याख्यासमेतम्. मनसः प्रेरके पुंसि विरते विरमन्त्यतः । करणानि समस्तानि तेषां स्वामी ततः पुमान् ॥२२॥ परिशेषात् प्राणान्यस्यात्मत्वं सेत्स्यतीत्याह-मनस इति॥ 'यो मनोन्तरो यमयति' इति श्रुतेर्मनःप्रेरकोन्तर्यामी आ- त्मा पुरुषः । मनोद्वाराणि चेन्द्रियाणि । सर्वाध्यक्षे पुरुषे उ- परते समनस्कानीन्द्रियाण्युपरमन्त इति च युज्यते । तस्मा- समनसां सर्वकरणानां स्वामी पुमान् प्राणादन्य एवे- त्यर्थः॥२२॥ बुद्धिस्तु क्षणिका वेद्या गमागमसमन्विता । आत्मनःप्रतिबिम्बेन भासिता भासयेजगत् ॥२३॥ इदानी क्षणिकविज्ञानात्ममतमपाकरोति–बुद्धिस्त्विति॥ गमागमावुत्पत्तिविनाशौ । एतावता तस्यानात्मत्वे किमाया- तमित्यत आह-आत्मन इति । साप्यन्याधीनप्रकाशत्वादे- व नात्मेत्यर्थः ॥ २३ ॥ आत्मन्युत्पद्यते बुद्धिरात्मन्येव प्रलीयते । पागूचं चासती बुद्धिः स्वयमेव न सिद्धयति॥२४॥ अन्याधीनप्रकाशत्वमस्याः साधयति-आत्मनीति ॥ स्वोत्पत्तिविनाशयोः स्वग्राह्यत्वाभावात् , अग्राह्यत्वे च तद- सिद्धेः, उत्पत्तिविनाशवतश्चान्यग्राह्यत्वनियमात् , सिद्धं क्ष- णिकविज्ञानस्यान्यग्राह्यत्वेनानात्मत्वमित्यर्थः ॥ २४ ॥ ज्ञानाचेत्पूर्वपूर्वस्मादुत्तरोत्तरसम्भवः । युगपदहुबुद्धित्वं प्रसज्येत क्षणेक्षणे ॥ २५॥ बृ. उ. ५.७-२०॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- बुद्दयन्तरं न जनयेन्नाशोत्तरमसत्त्वतः। मास्तु विज्ञानस्वरूपः आत्मा, तत्सन्तान एवात्मा भवि- प्यतीत्याशङ्कय स एव दुर्निरूप इत्याह-ज्ञानाच्चेदिति ॥ अयमर्थः :-ज्ञानात् ज्ञानान्तरमुत्पद्यत इति वदन वादी प्रष्टव्यः-पूर्वेणान्वितमुत्तरं जायते अनन्वितं वेति । त- त्राद्ये दोषमाह-युगपदिति । पूर्वपूर्वबुद्धयन्वितानामुत्तरो- त्तरबुद्धिजनकत्वे तत्तद्बुद्धयुत्पत्तिक्षणेष्वनन्तबुद्ध यनुवृत्तिप्र- सङ्गात् विज्ञानक्षणिकत्ववादहानं प्रसज्येतेति ॥२५॥ द्वितीयं प्रत्याह-बुद्धयन्तरमिति। पूर्वबुद्धेर्निरन्वयविनाशे तस्यास- तोन्यसाधकत्वानुपपत्तेस्ततो बुद्धयन्तरानुत्पाद इत्यर्थः । असतो जनकत्वे अतिप्रसङ्गादिति भावः॥ एषां सङ्घात आत्मा चेदेकदेशे पृथकृते ॥ २६ ॥ न चैतन्यं प्रसज्येत सङ्घाताभावतस्तदा। एवं देहादिबुद्धयन्तानां प्रत्येकमात्मत्वे निराकृतेपि यदि कश्चित् भूयात् एषां सङ्घात आत्माभ्युपगम्यते न प्रत्येकमि- ति, स प्रष्टव्यः-सङ्घात एव चेतयते? तदवयवा अपि प्र- त्येकम्? इति।तत्राद्यमनूद्य दूषयति–एषामिति ॥ सङ्घातो नाम सम्पूर्णोवयवी, स चेदात्मा॥२६॥तदातस्यैकदेशे नयने श्रोत्रे मनसि वाचि वा नष्टे सङ्घातस्य नष्टत्वाच्चैतन्यं न स्यात् ॥ न चायमिष्टप्रसङ्गः, अन्धबधिरमूकजडादेरपि जी- वनदर्शनात् । अतोन समुदायचेतनत्वपक्षो युक्तिमानित्यर्थः ।। भिन्नदिग्गत्यभिप्रायो बहु चेत्तन्न पूजितम् ॥२७॥ सद्यो भिन्नं भवेदेतन्निष्कियं वा भविष्यति । अवयवचेतनपक्षं दूषयति-भिन्नेति ॥ बहु चेद्बहवश्चे- वृत्तान्तास्यव्याख्यासमेतम्. देकस्मिन् सङ्घाते आत्मानः स्युः, तदा कदाचित् भिन्नदिग्गत्य- भिप्रायो विरुद्ध दिक्षुगमनेच्छा तेषां स्यादित्यर्थः । अस्त्विति चेत्, तत्राह-तन्न पूजितमिति ॥२७॥ कस्मान्न पूजितमिति चेत्, तत्राह-सद्यो भिन्नमिति । एकेनात्मना पूर्वस्यां दिशि आकृष्यमाणमेतत्सङ्घातरूपं तदैवान्येन प्रतीच्यां यथाकृष्यते, तथान्येनोदीच्यामन्येन दक्षिणस्यामिति, तदा सद्यः भिन्नं भवेत् विदीर्येतेत्यर्थः । यदि न विदीर्येत, तथापि निष्क्रिय कदाचित् भविष्यति,एकेनाकृष्यमाणस्यान्यैः स्थाप्यमानत्वा- दित्यर्थः। तस्माद्विचार्यमाणे सङ्घाततदवयवानामात्मत्वं न सङ्गच्छते इति तद्विलक्षण एवात्माभ्युपगन्तव्य इति सिद्धम्॥ देहस्यान्तर्गतोप्यात्मा व्याप्त एवेति बुध्यते॥२८॥ अणुप्रमाणश्वेदेष व्याप्नुयानाखिलं वपुः । एवमपि यावान् देहः तावानेव तदन्तर्गतः आत्मेति जै- नमतानुसारिणः, अणुपरिमाण एवेति वेदान्त्येकदेशिनः, विभुरेवात्मेत्यन्ये साङ्ख्यादयो मन्यन्ते । अतो देहादिविल- क्षणोप्यात्मा किम्परिमाण इति विचिकित्सायामाह-देह- स्यान्तर्गतोपीति ॥ व्याप्त एवेति कर्तरि निष्ठा । व्यापक ए- वेत्यर्थः। इति बुध्यते ज्ञायते निश्चीयत इति यावत् ॥२८॥ कथमिति चेत्, पक्षान्तरयोर्दुष्टत्वादित्यभिप्रेत्याणुपरिमाणा. त्मवादे दोषमाह-अणुप्रमाणश्चेदिति । अस्मिन्पक्षे सर्वाङ्ग- गतशीतोष्णादिनिबन्धनवेदनानुसन्धानयोगपद्याभावः प्रस. ज्येत। तथा चाणुमात्रचेतनाधिष्ठितस्य युगपदनेकाङ्गब्यूहनप्र- त्यूहनादिव्यापाराभावप्रसङ्ग इत्यादिदोषो दुष्परिहर इत्यर्थः।। देहप्रमाणश्चेन्न स्याहालस्य स्थविरादिता ॥ २९॥ देहवत्परिणामी चेत्तद्रदेव विनयति । १० मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- देहपरिमाणात्मपक्षे दोषमाह-देहप्रमाणश्चेदिति ॥ अ- स्मिन्मते बालस्य स्थविरादिता युवस्थविरादिभावो न स्या- त्, शरीरपरिमाणानां भिन्नत्वात् तद्गतात्मानोपि भिन्ना इ. ति नैकस्य बाल्याद्यवस्था सिध्येत् । तस्यानङ्गीकारे प्रत्यभि- ज्ञाविरोधःप्रसज्येतेति भावः॥ कर्मणां परिणामेन क्रिमिहस्त्यादिमूर्तिषु ॥३०॥ व्यासत्वात्मविशत्यात्मा घटादिष्वन्तरिक्षवत् । अत्रैव दूषणान्तरमाह-कर्मणामिति ॥ अयमभिप्रायः -सन्त्येवैकस्यात्मनोनेकानि कर्माणि विरुद्धानेकदेहप्रवेश- योग्यानि ॥ तत्र मनुष्यशरीरपरिमाणस्यात्मनः कदाचित्केन- चित्कर्मणा हस्तिजन्म प्रामुवतः तच्छरीरं न पूर्येत । कदा- चित्क्रिमिशरीरं प्राप्नुवतो न तत्र जीवः स मीयेत । अतो नायमपि पक्षः साधुरिति ॥२९॥३०॥ व्यापकात्मपक्षे नायं दोष इत्याह-व्याप्तत्वादिति । अन्तरिक्षवत्-आकाशव- दित्यर्थः॥ परमाणुप्रमाणेपि मनसि प्रतिभासते ॥ ३१ ॥ स्वप्ने चराचरं विश्वमात्मन्येव प्रतिष्ठितम् । अल्पपरिमाणेपि प्रतीयमानः आत्मा व्यापक एवेत्यत्र लिङ्गमाह-परमाणुप्रमाणेपीति ॥ परमसूक्ष्मेपीत्यर्थः॥३१॥ लिङ्गान्तरमाह-स्वम इति । एतल्लिङ्गद्वयमर्थापत्त्या आ- त्मनो व्यापकत्वगमकमिति द्रष्टव्यम् ॥ देहादिष्वहमित्येवं भ्रमः संसारहेतुकः॥३२॥ अन्तःप्रविष्टः शास्तीति मोक्षायोपादिशच्छ्रुतिः । तस्मादेहाद्यात्मवादानां युक्तयसहत्वात्प्रमाणशून्वत्वा- वृत्तान्ताल्यव्याख्यासमेतम्. च देहादिष्वहमभिमानो भ्रम एवेति सिद्धमित्युपसंहरति -देहादिष्विति ॥ संसारहेतुकः संसारहेत्वविद्याहेतुक इत्य- र्थः ॥ ३२॥ सृष्टेषु देहादिष्वात्मनोन्यस्य प्रवेशश्रुतेरपि सङ्घातादन्य आत्मैवैष्टव्य इत्यभिप्रेत्याह-अन्तःप्रविष्ट इति। तथा च श्रुतिः-'अन्तः प्रविष्टः शास्ता जनानाम् । एकः सन् बहुधा विचारः' इति । मोक्षायेति । सङ्घातविवेका- येत्यर्थः॥ एवमेषा महामाया वादिनामपि मोहिनी ॥३३॥ यस्मात्साक्षात्कृते सद्यो लीयते च सदाशिवे । प्रकारणार्थमुपसंहरति-एवमेषेति ॥ एषा महेश्वरशक्तिः । ॥३३॥ईश्वरशक्तिकृतव्यामोहनिबन्धनैववादिनां कल्पने नियामकमाह-यस्मादिति । सदाशिवे साक्षात्कृते यस्मात् सद्यो लीयते, तस्मान्मायामयी सर्वकल्पनेत्यर्थः । देहेन्द्रियासुहीनाय मानदूरस्वरूपिणे ॥ ३४ ॥ ज्ञानानन्दस्वरूपाय दक्षिणामूर्तये नमः । तस्मै श्रीगुरुमूर्तये नम इत्यस्य तच्छब्दार्थ प्रकटयन् अर्थ माह-देहेन्द्रियासुहीनायेति ॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके ॥ ३५ ॥ प्रबन्धे मानसोल्लासे पञ्चमोल्लाससङ्गहः । पञ्चमश्लोकव्याख्यामुपसं हरति-इतीति ॥३४॥३५॥ इति श्रीमानसोल्लासवृत्तान्ते पञ्चमोल्लासः समाप्तः॥५॥ १ते. आ.३-११॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं-
खप्ने विश्वं यथा तत्स्थं जाग्रत्यपि तथेति चेत् ।
सुषुप्तौ कस्य किंभातिकः स्थायी तत्र चेतनः॥१॥
आत्मनि परमेश्वरे स्वम इव दृश्यजातं, मायाशक्तिविला-
सकल्पित एव जाग्रत्प्रपञ्चः; आत्मा चाधिष्ठानभूतो नित्य
एको निर्विकार इति देहाद्यात्मवादनिराकरणेन प्रतिपादित-
म्॥तत्र बौद्धाः-स्थाय्यात्मा सद्रूपोनयुक्तिपथमवतरति,अतः
कथं विज्ञानशून्यपञ्चस्कन्धवादाः ईश्वरमायाशक्तिविलासक-
ल्पितमहाव्यामोहरूपाः ? इति प्रत्यवतिष्ठन्ते-स्वमे विश्व-
मित्यादिना ॥ यथा विश्वं दृश्यं सर्व स्वमे तत्स्थमीश्वराधि-
ष्ठितं, तथा जाग्रत्यपि नित्यसिद्धेश्वराश्रयमिति यदभिमन्यते
भवान् तदभिमन्यतां नाम; तथापीदं वक्तव्यम्-सुषुप्तो
कस्य द्रष्टुः किं तत्त्वं भाति ? तत्र सुषुप्तौ का स्थायी चेतनः ?
न कोपि तत्र चेतनो न कस्यापि किमपि भाति । अतो ना-
स्ति त्वदभिमत आत्मेति शून्यवादी मन्यत इत्यर्थः ॥१॥
सर्वं च क्षणिकं शून्यं सर्वमेव स्खलक्षणम् ।
विज्ञानवादिमतमाह-सर्व चेति ॥ सर्व च जगत् आत्म-
सहितं क्षणमात्रं सत् , तथा सर्व शून्यं प्रागुत्तरक्षणयोरसत् ।
तथा सर्व स्वलक्षणं स्वग्राह्यम् , न ग्राह्यग्राहकभेदवदित्यर्थः॥
सङ्घातः परमाणूनां मह्यम्वमिसमीरणाः॥२॥
इदानीं पश्चस्कन्धसमुदायमतमुपन्यस्यति–सङ्घात इति॥
मह्यम्ब्वग्निसमीरणाश्चत्वारि भूतानि परमाणूनां चतुर्विधानां
सङ्घातः, नारब्धावयवी, नापि परिणाम इत्यर्थः॥२॥
नुष्यादिशरीराणि स्कन्धपञ्चकसंहतिः।
स्कन्धाश्च रूपविज्ञानसंज्ञासंस्कारवेदनाः॥३॥
वृत्तान्ताख्यव्याख्यासमेतम्. अणुहेतुकं बाह्यसङ्घातमुक्त्वा स्कन्धहेतुकमध्यात्मसङ्घात. माह-मनुष्यादीति ॥ के ते स्कन्धा इत्यपेक्षायामाह- स्कन्धाश्च रूपेति ॥३॥ रूप्यन्त इति रूपाणि विषयाश्चेन्द्रियाण्यपि । विषयेन्द्रिययोर्ज्ञानं विज्ञानस्कन्ध उच्यते ॥ ४ ॥ उद्देशक्रमेण तेषां स्वरूपमुपदिशति-रूप्यन्त इतीति ॥ सवि- षयाणीन्द्रियाणिरूपस्कन्धः। विज्ञानस्कन्धस्वरूपमाह-वि- षयेन्द्रिययोरिति । ज्ञानमात्रं विज्ञानस्कन्ध इत्यर्थः॥४॥ संजागुणक्रियाजातिविशिष्टप्रत्ययात्मिका। पञ्चधा कल्पना प्रोक्ता संज्ञास्कन्धस्य सौगतैः॥५॥ संज्ञास्कन्धस्वरूपमाह-संज्ञेति ॥ संज्ञा शब्दः, गुणो रूपादिः, क्रिया तत्तत्कार्यजननसामर्थ्य, जातिरवच्छेदको धर्मविशेषः, विशिष्टप्रत्ययो नानावयवसंस्थाननिबन्धनप्रत्य- यः। एवं पञ्चधा कल्पना संज्ञास्कन्धस्य सौगतैः सौत्रान्ति कादिभिः प्रोक्तेत्यर्थः॥ ५॥ गवां गौरिति संज्ञोक्का जातिगोत्वं तु गोगतम् । गुणाःशुक्लादयस्तस्य गच्छत्याद्यास्तथा क्रियाः॥६॥ शृङ्गी चतुष्पाल्लाङ्गली विशिष्टप्रत्ययो ह्यसौ । एवं पञ्चविधा क्लप्तिः संज्ञास्कन्ध इतीर्यते ॥७॥ पञ्चधाकल्पनामुदाहरणेन व्युत्पादयति-गवामिति ॥६॥७॥ गाद्याः पुण्यपापे च संस्कारस्कन्ध उच्यते । सुखं दुःखं च मोक्षश्च स्कन्धः स्याबेदनाह्वयः॥८॥ संस्कारस्कन्धमाह-रागाद्या इति ॥ वेदनास्कन्धमाह ११४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- -सुखमिति । मोक्षो नाम निरुपप्लवविज्ञानसन्तानोदयः । मोहश्चेति पाठे विषयाद्याकारोपप्लुतविज्ञानसन्तान इत्यर्थः ॥८॥ पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन । न कश्चिदीश्वरः कर्ता खगतातिशयं जगत्॥९॥ आत्मा पञ्चस्कन्धातिरिक्तः कोपि स्थायीभविष्यतीत्याश कय तत्सत्त्वे प्रमाणाभावान्मैवमित्याह-पञ्चभ्य एवेति ॥ पञ्चभ्य एव स्कन्धेभ्यो नान्य आत्मास्ति कश्चन । तथापि संहन्तुरभावे सङ्घातासिद्धेः संहन्तेश्वरोन्योभ्युपेयः, स एवा त्मा भविष्यतीत्याशङ्कयाह-न कश्चिदिति । स्वगत एवातिश यो यस्य तत्स्वगतातिशयं, नान्यकृतातिशययोगीत्यर्थः॥९॥ स्कन्धेभ्यः परमाणुभ्यः क्षणिकेभ्योभिजायते । पूर्वपूर्वक्षणादेव क्षणः स्यादुत्तरोत्तरः ।। १०॥ स्वगतातिशयत्वमुभयविधेपि सङ्घाते साधयति-स्कन्धेभ्य इति ॥स्कन्धेभ्यः आध्यात्मिकसङ्घातोभिजायते, परमाणुभ्यो बाह्य इत्यक्षरार्थः । ईश्वरः अन्यत्किमप्यनपेक्ष्य संहन्ता स्यात् ? अपेक्ष्य वा ? आये दृष्टविरोधः। न हि तक्षा दादिनिर पेक्ष एव गृहसङ्घातकर्ता दृष्टः । न युज्यते च; संहन्तृतायाः संहन्यमानसापेक्षत्वात् तदभावे अनुपपत्तेः । द्वितीये स्वयं संहननसमर्थान् पदार्थान् संहन्यादीश्वरः, असमर्थान्वा ? । नाद्यः, समर्थानामन्यानपेक्षत्वात्, अन्यथेश्वरस्यापि स्वप्रेर- कान्तरापेक्षया प्रवृत्तिप्रसङ्गात् । एवं सत्यनवस्थाप्रसङ्गः। न द्वितीयः, जलेनापि दध्युत्पादनप्रसङ्गात् । अतो न संहन्ता चेतनादन्यः कल्पनां लभत इति भावः। किञ्चाणूनां स्कन्धा- ?
वृत्तान्ताख्यव्याख्यासमेतम्. नां वा क्षणिकानां कुर्वद्रूपत्वेनाकुर्वत ईश्वरस्य सत्तानुपपत्तेः पूर्वपूर्वक्षणहेतुकः उत्तरोत्तरक्षणोभ्युपेय इत्याह-पूर्वपूर्वक्ष- णादेवेति ॥१०॥ पूर्वस्मादेव हि ज्ञानाजायते ज्ञानमुत्तरम् । स एवायमिति ज्ञानं सेयं ज्वालेतिवद्भमः॥ ११ ॥ विषयवद्विषयिणोपि ज्ञानस्य क्षणिकत्वात्तदपिन हेत्वन्तर- सापेक्षमित्याह-पूर्वस्मादेवेति ॥ ननु स एवायं घटः सोहं पुमानस्मीत्येवं विषयविषयिणोः प्रत्यभिज्ञायाः स्थायित्वाव- गमात् कथं तद्विरुद्धं क्षणिकत्वमित्यत आह–स एवायमि- ति । ज्वालावन्निरन्तरोत्पत्तेः भेदाग्रहनिबन्धनो विभ्रमः प्र- त्यभिज्ञेत्यर्थः ॥ ११॥ अस्ति भातीति धी(न्तैरामानात्मसु कल्प्यते । हानोपादानराहित्यादाकाशः किं प्रकाशते ॥१२॥ उपसंहरति-अस्तीति ॥ आत्मानात्मसु विषयविषयिष्वि त्यर्थः । सविकल्पकज्ञानं भ्रम इत्यर्थः । कुत इत्यत आह- हानोपादानराहित्यादिति । तथाप्रतिपत्तिसंवादाभावादिति यावत् । तथा चाहेयानुपादेयस्याकाशवदवस्तुत्वात् न स्तो- स्तित्वभाने इत्यर्थः ॥ १२॥ इत्येवं बौद्धसिद्धान्ती भाषमाणो निषिद्यते । उपन्यस्तपूर्वपक्षमनूद्य निराकरणायोत्तरं पद्यमवतारयति -इत्येवमिति ॥ “राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योभूत्सुषुप्तः पुमान् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥६॥" राहुग्रस्तेति ॥ राहुग्रस्तदिवाकरेन्दुसदृशः यः पुमान् प्रागस्वाप्समिति तस्मै नमः यः पुमानात्मा करणोपसंहरणतः, इन्द्रियाणां विशेषविज्ञानाकारहेतूनामुपसंहारात् कारणात्म- नि लयात्, सुषुप्तोभूत् विशेषविज्ञानरहितोभूत् । केनात्मना सुषुप्तो भवेदित्यपेक्षायामाह-सन्मात्र इति।स्वप्रकाशसत्तामा त्र इत्यर्थः । यद्वा-करणोपसंहरणतः सुषुप्तः सन्मात्रो यः पुमानभूदिति सम्बन्धः । अर्थः पूर्ववत् । एवं सन्मात्रोपि स्वेन ज्योतिषा भासमानोपि तदानीं पूर्णप्रकाशात्मना न भा- सत इति तस्यानवभासमानतां दृष्टान्तेन स्पष्टयति-राहु- ग्रस्तदिवाकरेन्दुसदृश इति। तत्र हेतुः-मायासमाच्छादना- दिति। मायया अनादितमोरूपया समाच्छादनात् आवृतब- ह्मात्मस्वरूपत्वादुपरक्तचन्द्रार्कवद्यथावदनवभासमानोपि स- न्मात्रः, न शून्यः, क्षणिको वेत्यभिप्रायः। अथ कथमवगम्यते सुषुप्तौ सन्नेव पुमानिति ? प्रत्यभिज्ञानप्रामाण्यादित्याह-प्राग- स्वाप्समिति प्रबोधसमये अस्मात्प्रागेतावन्तं कालं सुखमह- मस्वाप्समिति प्रत्यभिज्ञायते । य एतावन्तं कालं सन्मात्रोभू- वं न कमपि विशेषमज्ञासिषं, सोहमिदानी प्रबुद्धो विप्रसृत- करणग्रामतया जागर्मीत्यात्मा प्रत्यभिज्ञायमानत्वात् न शून्यः क्षणिको वेत्यभिप्रायः । तस्मा इत्युक्तार्थम् ॥ ६ ॥ अस्यायमाशयः- शून्यं चेजगतो हेतुर्जगदेव न सिध्यति ॥१३॥ घटः शून्यः पटःशून्य इति कैः प्रतिपाद्यते ।
वृत्तान्ताख्यव्याख्यासमेतम्, श्लोकतात्पर्यार्थमाह-अस्यायमिति ॥ यदुच्यते बौद्धैः, जगद्धेतुत्वेनोपलक्षित ईश्वरः आत्मा नास्ति, शून्यमेव जगतः प्रागवस्थेति, तदनूद्य दूषयति-शून्यं चेदिति ॥१३॥ कस्माजगतोसिद्धिः शून्यहेतुकत्वे इत्यत आह घटः शून्य इति । यदुपादानकं हि यत्कार्य तत्तदात्मना प्रतीयते; उपादीयते च, यथा सुवर्णोपादानकं कुण्डलादि सुवर्णात्मना; तथा शून्योपादानकत्वे जगतः शून्यात्म- नैव व्यवहारः प्रसज्येत न सदात्मना; सदात्मनैव तु व्यवह्रियते सर्वैः,नशून्यात्मनेत्यर्थः।अकारणकार्योत्पत्त्यभ्यु- पगमे कार्यार्थिना उपादानप्रवृत्तिदर्शनविरोधात्, असत्पूर्व- कत्वकल्पनायामसतः सदात्मतापत्तौ दृष्टान्ताभावात् , कथ- मसतः सज्जायेत' इति श्रुतिनिरस्तत्वाच्च, असत्कारणत्वपक्षो न प्रामाणिकैरादरणीय इति भावः ॥ नैव भासेत शून्यं चेजगन्नरविषाणवत् ।। १४ ॥ वस्त्वर्थी किमुपादद्याद्धारातः किं परित्यजेत् । उक्तमेव सर्वव्यवहारविरोधं प्रपञ्चयति नैव भासतेति ॥ यद्वा-शून्यकारणकं जगदपि शून्यमेवास्तु, व्यवहारस्तु संवृतिमात्रेण भविष्यतीत्याशङ्कय शून्यस्य निरुपाख्यत्वात् संवृत्यापि न व्यवहारसिद्धिरित्यभिप्रेत्याह-नैव भासेते- ति । न हि नरविषाणं संवृत्यापि वचित्प्रतीयत इति भावः ॥१४॥ उपादानपरित्यागयोः सिद्धविषयत्वाच्छून्यपक्षे किमुपादद्यात् किं वा परित्यजेदित्यर्थः ॥ को विदध्यानिषिधेद्वाशून्यत्वात्स्वस्य चात्मनः॥ १भा. उ. ६-२-२।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- अवसीदेनिराकूतं तस्मात्सर्वमिदं जगत् । व्यवहार्यवद्वयवहर्तुरप्यभावात् शून्यवादे व्यवहारानु- पपत्तिरित्याह-को विदध्यादिति ॥१५॥ शून्यवाददूषणमुपसं- हरति--अवसीदेदिति । निराकूतं निर्हेतुकम् ॥ स्कन्धानां परमाणूनांन सङ्घातयितास्ति चेत् ॥१६ सङ्घातो न विना हेतुं जडा घटपटादयः। इदानीं पञ्चस्कन्धसङ्घातात्मवादं निराकरोति-स्कन्धा- नामिति ॥ सोयं प्रष्टव्यः-स्कन्धानां परमाणूनां सङ्घात- कर्ता कश्चिदस्ति न वा? अस्ति चेत्-स स्थिरः क्षणिको वा ?। आये, तवापसिद्धान्तः । द्वितीये सङ्घातोत्पत्तिक्षणासम्ब- न्धिनः सङ्घातयितृत्वानुपपत्तिरित्यभिप्रेत्य द्वितीयमनूद्य दूष- यति-न सङ्घातयितास्ति चेदिति ॥१६॥अस्य दूषणम्-सङ्घातो न विना हेतुमिति । संहन्तारं हेतुं विना न सङ्घातः सिध्येत्, यतो घटपटादयः संहन्यमानाः पदार्थाः जडाः, स्वयमेव संहननासमर्था इत्यर्थः । न हि लोके जडानां तन्तुवीरणमृद्दा- वर्वादीनां कुविन्दपु(बु)रुडकुलालतक्षाद्यनधिष्ठितानां स्वयमेव पटकटघटरथाद्यात्मना संहन्यमानतोपलभ्यते । अतो दृष्टा- न्ताभावात् , प्रत्युत दृष्टान्तविरोधाच्च, निरात्मकस्कन्धवा- दोप्रामाणिक इति भावः ॥ महानुभावो भूयासमिति भ्रान्तश्च मन्यते ॥१७॥ आत्मापलापको बौद्धः किमर्थं चरति व्रतम् । क्षणिकात्मपक्षमङ्गीकुर्वतां बौद्धानामविवेकं प्रकटयन असामञ्जस्यं तन्मतस्य सूचयति-महानुभाव इति॥भ्रान्तो दृष्टमात्रप्रत्ययः॥१७॥व्रतं पारलौकिकं चैत्यवन्दनादीत्यर्थः ।
११९
वृत्तान्ताख्यव्याख्यासमेतम्.
क्षणिकात्ममते कर्तुर्भोक्तुश्चैकस्याभावात् व्रताचरणं व्यर्थमि-
ति तद्विधानशास्त्रं तस्य न प्रामाणिकमिति भावः ॥
प्रत्यभिज्ञा यदिभ्रान्तिर्भोजनादिकथं भवेत्॥१८॥
यदुक्तं ज्वालाप्रत्यभिज्ञावत् सोहमिति प्रत्यभिज्ञा भ्रम
इति तदनूद्य दूषयति-प्रत्यभिज्ञेति ॥ १८॥
इष्टसाधनमेवैतदन्नं गतदिनान्नवत् ।
इति निश्चित्य बालोपि भोजनादौ प्रवर्तते ॥१९॥
कथं न भोजनादि भवेदित्यत आह-इष्टसाधनमिति ॥
अयमर्थः-वस्तुनि दृष्टे पुरुषस्य तस्मिन् प्रवृत्तिर्वा ततो नि-
वृत्तिर्वा जायते इत्येतदनुभवसिद्धम् । प्रवृत्तिनिवृत्ती च म-
मैतदनुकूलं प्रतिकूलमिति बुद्धिनिबन्धने । यदुपभुज्यमानं
स्वात्मनि सुखं जनयति तदनुकूलतया प्रतीयते, दुःखजनकं
तु प्रतिकूलतयेति प्रसिद्धम् । तथा चानुपभुक्तसजातीये अ-
कस्मादुपनते वस्तुन्यनुकूलत्वादिबुद्ध यनुदयात् सहसा तत्र
प्रवृत्तेरसम्भवात्, यत्र सहसा वस्तुदर्शनमात्रात् प्रवृत्त्यादि
दृश्यते तत्र पूर्वानुभूतसजातीयत्वेन लिङ्गेन तस्य स्वानुकूल-
त्वमननुकूलत्वं वानुमाय प्रवर्तते निवर्तते चेत्यङ्गीकार्यम् ।
एतच्च पूर्वोत्तरकालयोरतिविप्रकृष्टयोरनुगतस्यैकस्यानुसन्धा-
तुरात्मनोऽभावे नोपपद्यत इति जीवनमपि दुर्लभं क्षणिका-
त्मवादिन इति। विमतोऽयमोदनो, मदिष्टसाधनम् , ओदन-
त्वात् तदिनभुक्तोदनवदिति निश्चित्य बालोपि अर्भकोपि भो-
जनादौ प्रवर्तते । अतः आबालवृद्धमागोपपण्डितमविप्रतिप-
नं व्यवहारमार्गमपलपन् बौद्धो दूरत एव परिहरणीयः श्रे-
य इच्छद्भिरिति भावः ॥ १९ ॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- अवकाशप्रदातृत्वमाकाशार्थक्रिया यथा । तथैवार्थक्रिया पुंसः कर्तृत्वज्ञातृतादिका ।। २० ॥ यदप्युच्यते बौद्धैः स्थायिनोर्थक्रियानुपपत्तेः क्षणिक ए- वात्मैष्टव्य इति, तदप्यविचारिताभिधानमित्यभिप्रेत्यात्मन्य- र्थक्रियां तावत्साधयति-अवकाशेति ॥ न चावरणाभाव- मात्रत्वादाकाशस्य नार्थक्रियाकारित्वमिति वाच्यम्, आवर- णाभावमात्रस्यापि निरधिष्ठानस्यानुपलम्भात्, तदधिष्ठानत- या कस्यचित्सत्ताङ्गीकारे तस्यैवाकाशत्वात् । तथा च प- क्ष्यादेरुपगमे सति यदावियते, तदपगमे च यद्वित्रियते तद- स्त्वाकाशाख्यं भावरूपं वस्त्विति गमयितव्यम् । ज्ञातृत्वक- तृत्वे त्वात्मनः प्रसिद्धे । अतोर्थक्रियाकारित्वात् सत्त्वसिद्धौ प्रागुक्तयुक्त्या सिद्धमस्य स्थायित्वमिति भावः ॥२०॥ सुषुप्तिसमयेप्यात्मा सत्यज्ञानसुखात्मकः । सुखमखाप्समित्येवं प्रत्यभिज्ञायते यतः ॥ २१ ॥ नन्वर्थक्रियासमय एव सत्त्वात्तामङ्गीकुर्वतो जाग्रत्स्वप्न- योः सत्त्वेपि सुषुप्तावर्थक्रियाभावात् असत्त्वमात्मनः प्राप्तमि- त्यत आह-सुषुप्तिसमयेपीति ॥ प्रत्यभिज्ञायाः प्रामाण्यं प्राक्साधितमेव । पूर्वोत्तरक्षणयोरेकस्य द्रष्टुः सद्भावानङ्गीका- रात् सादृश्यग्राहकाभावात् बौद्धस्य प्रत्यभिज्ञानमोपि न सिद्धयतीति न तस्या भ्रमत्ववाचोयुक्तियुक्तेति भावः॥२१॥ प्रत्यभिज्ञायत इति प्रयोगः कर्मकर्तरि । आत्मा स्वयम्प्रकाशत्वाजानात्यात्मानमात्मना२२ सुखमिति प्रत्यभिज्ञायत इति वदता आत्मनो विषयत्व- मुक्तं, कर्मप्रत्ययनिर्देशात्। तथा च वेदान्तिनस्तव स्वय- वृत्तान्ताख्यव्याख्यासमेतम्. १२१ ज्योतिरात्मेत्यभ्युपगमविरोध इति कस्यचिदाशङ्कां परिहर- ति-प्रत्यभिज्ञायत इति ॥ प्रयोग इति । मुच्यते वत्सः स्वयमेवेतिवत् कर्मकर्तरि प्रयोगात् न स्वप्रकाशत्वाभ्युपग- मविरोध इत्येतत्स्पष्टयति-आत्मेति ॥ २२ ॥ सुषुप्तौ मायया मूढो जडोन्ध इव लक्ष्यते । अप्रकाशतयाऽऽभाति स्वप्रकाशतयापि च ।। २३॥ एवं तात्पर्यवर्णनेनात्मनो नित्यशुद्धबुद्धमुक्तस्वभावतामु- पपायेदानीं राहुग्रस्तेत्यक्षरार्थमर्थतो वर्णयति-सुषुप्तावि- त्यादिना ॥जडत्वमचेतनत्वम्, अन्धत्वमज्ञातृत्वमिति भेदः अतो विशेषविज्ञानाभावादप्रकाशतया भाति, स्वरूपविज्ञान- स्य विलोपाभावात् स्वप्रकाशतयापि चाऽऽभातीत्यर्थः॥२३॥ जडात्मनि च देहादौ साक्षादीशो विविच्यते । एतावता पूर्वार्ध व्याख्यातम् । उत्तरार्धाद्यपादार्थमाह- जडात्मनीत्यादिना ॥ देहेन्द्रियमनोबुद्धिषु जडेषु स्वपरव्या- पारानभिज्ञेषु योहमद्राक्षं-सोहं जिघ्रामि, शृणोमि, वच्मि, मन्ये, जानामि, गच्छामि, तिष्ठामि, लवयामीति सर्वावभा- सकतया प्रत्यभिज्ञाता आत्मा साक्षादीश्वर इति विविच्यत इत्यर्थः॥ एषैव मोहिनी नाम मायाशक्तिर्महेशितुः ॥२४॥ मोहापोहः प्रमातॄणां मोक्ष इत्यभिधीयते । एवं नित्यशुद्धत्वादिलक्षणेश्वरस्वभावत्वमात्मनो यया आ- वियते, यस्याश्चास्तमये भेदकाभावात् विद्यावतां संसारब- न्धनिवृत्तिः, एषैव मोहिनी मायाशक्तिः, यया मोहिताः बौद्धाः नैरात्म्यवादमुपगता इत्युपसंहरति-एषैवेति ॥
१२२
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक--
अवस्थात्रयनिर्मुक्तो दोषादिभिरनाविलः ॥२५॥
प्रबोधसमये प्रत्यभिज्ञायमानस्यात्मनः स्वरूपमाह-अ-
वस्थात्रयेति ॥ अवस्थात्रयसाक्षित्वादेव अवस्थात्रयवर्जितः।
एवमपि देहादिभिरनाविलः अकलुषितः साक्ष्यसम्बन्धकृत-
दोषरहितः, असङ्गत्वादित्यर्थः ॥२४॥॥२५॥
इषीक इव सन्मात्रो न्यग्रोधकणिकोपमः।
बाह्याबाह्यदलोन्मुक्तकदलीकन्दसनिमः ।। २६ ।।
अस्यात्मनः सदैकरूपत्वमिन्द्रियागोचरत्वं च दृष्टान्ता-
भ्यामाह-इषीक इवेति ॥ मुञ्जतृणपुञ्जान्तश्शलाका इषी-
केत्युच्यन्ते । अस्य शब्दस्योभयलिङ्गत्वेन पुंस्त्वेन निर्देशः।
तस्यान्तरेवोपलभ्यत्वं दृष्टान्तेनाह-बाह्यादिति ॥ २६ ॥
निरंशो निर्विकारश्च निराभासो निरञ्जनः।
पुरुषः केवलः पूर्णः प्रोच्यते परमेश्वरः ॥ २७ ॥
उक्तदृष्टान्तवशादेव सावयवत्वपरिच्छेदविकारित्वादि
स्यादिति शङ्कां वारयति-निरंश इत्यादिना ॥ निराभासः
जन्यज्ञानाविषयः । निरञ्जनः निर्लेपः । केवलः उपाधिसंस-
गरहितः । पूर्णः अपरिच्छिन्नः । एवंविधः परमेश्वर एव पु-
रुषः आत्मा, आत्मा पुरुष एव परमेश्वरःप्रोच्यते' सर्ववेदा-
न्तेष्वित्यर्थः॥ २७ ॥
वाचो यत्र निवर्तन्ते मनो यत्र विलीयते।
एकी भवन्ति यत्रैव भूतानि भुवनानि च ॥२८॥
समस्तानि च तत्त्वानि समुद्रे सिन्धवो यथा ।
कः शोकस्तत्र को मोह एकत्वमनुपश्यतः॥२९॥
वृत्तान्ताख्यन्याख्यासमेतम्. उक्तलक्षणेश्वरात्मनःसर्वप्रपञ्चधर्मविलक्षणस्वभावत्वं श्रुत्युक्तं विशदयति-वाच इति॥तथा च श्रुतयः 'यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहे' 'आत्मेत्येवोपासीतात्र ह्येते सर्व एक भवन्ति' 'परेव्यये सर्व एकी भवन्ति' 'यथास्यैव प्रज्ञायै सर्वा- णि भूतानि एकं भवन्ति तयाख्यास्यामः' 'अथास्मिन् प्राण एवैकथा भवति' इत्याद्याः ॥२८॥ जीवानामुपाधिपरित्यागेन ब्रह्मात्मैकतापत्तिप्रतिपादक- श्रुत्यर्थमाह-समस्तानि चेति ॥ तत्त्वानि जीवाः। तथा च श्रुतिः- 'यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' इति । एवमेकात्मत्वं पश्यतो निखिलबन्धनिवृत्तिरित्यत्रापि तिमुदाहरति-कः शोकस्तत्रेति ॥ यस्मिन् सर्वाणि भूता- न्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनु- पश्यतः' इति ईशावास्योपनिषन्मन्त्रोननोक्तः ॥ २९ ॥ वाच्यवाचकरूपत्वात् सविकल्पोपि सन्नहम् । देहादीनां व्यपोहेन लक्षयेनिर्विकल्पकम् ॥ ३० ॥ कथमेवंलक्षणः आत्मा स्यात् तस्य नामरूपप्रपञ्चाधिष्ठा- मत्वेन वा तदुपादानत्वेन वा तदन्तःपातित्वादित्यत आह- वाच्यवाचकरूपत्वादिति ॥ ३० ॥ असन्नेव भवेद्विद्वानसद्धह्मेति वेद चेत् । अस्ति ब्रह्मेति चेदेद सन्तमेनं ततो विदुः ॥३१॥ तै. उ. २-४ । ५ को. उ. ३-३। सम्भवेशिर्वीति पाठान्तरम् । - २वृ. उ.३-४-२। कौ. उ. ३-४। ३ मु.उ.३-२-७॥ ६ मु.उ. ३-२-८।
१२४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- देहादिव्यपोहस्य शून्यावसानत्वात् कथं निर्विकल्पकात्म- सिद्धिरित्याशङ्कय विचारपूर्वक श्रुत्या निर्विकल्पकात्मसत्ता- निर्धारणान्मैवमित्याह-असन्नेवेति।।यः कोपिअसत् नास्ति ब्रह्मेति वेद चेत्-सोप्यसन्नेव अविद्यमान एव भवति, ब्रह्मण एवात्मत्वात् । तस्य नास्तित्वे स्वस्यैव नास्तित्वापातादित्यर्थः। स्पष्टमन्यत् ॥ ३१॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे षष्ठोल्लासस्य सङ्ग्रहः ॥ ३२ ॥ षष्ठश्लोकव्याख्यामुपसंहरति-इतीति ॥ ३२ ॥ इति मानसोल्लासवृत्तान्ते षष्ठोल्लासः ॥ ६॥ प्रत्यभिज्ञावलादात्मा स्थायी निर्धार्यते यदि । का नाम प्रत्यभिज्ञैषा किं वा तस्याच कारणम् ॥१॥ प्रत्यभिज्ञाबलादात्मनः स्थायित्वमुक्तम् , तत्र प्रत्यभिज्ञायाः प्रमाणत्वमाक्षिपति-प्रत्यभिज्ञाबलादिति ॥१॥ प्रत्यक्षादिप्रमाणेषु प्रत्यभिज्ञा न पश्यते । कथं तस्याः प्रमाणत्वमिति पृच्छन् प्रबोध्यते ॥२॥ का नाम प्रत्यभिज्ञेत्याक्षेपार्थ प्रकटयति-प्रत्यक्षादीति ॥ इन्द्रियार्थसन्निकर्षमात्रजन्यज्ञानविशेषः प्रत्यक्षम् , न प्रत्य- भिज्ञा तथा विधा, तस्यां संस्कारस्यापि कारणत्वात् । अतः प्रत्यक्षं तावन्न भवति प्रत्यभिज्ञा। अनुमानादिष्वस्याः प्रसङ्ग एव नास्ति, अर्थसम्प्रयोगस्यापि कारणत्वात् । नापि स्वतन्त्र- १ तस्याः प्रयोजनमितिपाठः ।
१२५ वृत्तान्ताख्यव्याख्यासमेतम्. मिदं प्रमाणान्तरम् । तस्मान्न प्रत्यभिज्ञा आत्मनः स्थायित्वे प्रमाणमित्यर्थः । एतत्परिहारायोत्तरश्लोकमवतारयति- इति पृच्छन् प्रबोध्यत इति ॥२॥ "बाल्यादिषपिजाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा॥ स्वात्मानं प्रकटी करोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥७॥" यः भजतां शिष्याणां स्वात्मानं प्रकटीकरोति। कया? भ- द्रया कल्याणकारिण्या मुद्रया तर्कमुद्रया प्रकटी करोति, व्याख्यानमुद्राप्रदर्शनेन शिष्याणां स्वात्मतत्त्वं साक्षात्कार- यति, तस्मै श्रीगुरुमूर्तये इत्यन्वयः । किंलक्षणं स्वा- त्मानं ? सदा सर्वदा अहमित्यन्तः स्फुरन्तम् अहमिति प्र- त्यग्रूपेण शरीरान्तः स्फुरन्तं प्रकाशमानमित्यर्थः । एतदुक्तं भवति-अहमित्यनिदं चिदात्मनि तादात्म्येनाध्यस्तमविद्या- कार्यमन्तःकरणमुच्यते । तच्चाहमित्येवमाकारया स्ववृ- त्या स्थूलदेहपर्यन्तं प्रसर्पति । तथा च स्वाध्य- स्ताहङ्कारात्मनावभासमानमेवात्मानमहङ्कारगतेदमंशापोहेन विविच्य स्वं स्वाभाविकं ब्रह्मरूपं पूर्णमात्मानं प्रकटी करोति । तत्र विवेकप्रकारं दर्शयन्नात्मानं विशिनष्टि-बाल्यादिष्वि- ति । बाल्यकौमारयौवनवार्धकेषु तथा जाग्रत्स्वप्नसुषुप्तिषु तथान्यास्वपि सर्वासु मूर्छातुरांस्वास्थ्यसस्वनिरस्वाद्यनेकाव- स्थासु।किंलक्षणासु ? व्यावृत्तासु प्रतिप्रत्ययकालं भिन्नासु अ- नुवर्तमानमभिन्नमहमाकारानुरक्तदेहेन्द्रियादेरनेकविधपरि- १ तुरावस्थ । ऽश्वासनिः श्वासवे । निपाण नारम् ।
१२६
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक-
णामवतः सर्वावस्थस्य सदैकरूपोऽपरिणममाणः सन् अव-
भासकश्चित्सदानन्दाद्वयब्रह्मरूपः आत्माहमस्मीति जानतेति
शिष्यान् बोधयन्तमित्यर्थः ॥७॥
एतदुक्तं भवति-
भातस्य कस्यचित्पूर्व भासमानस्य साम्प्रतम् ।
सोयमित्यनुसन्धान प्रत्यभिज्ञानमुच्यते ॥३॥
श्लोकतात्पर्य वक्तुमारभते-एतदुक्तं भवतीति ॥
तत्र 'का नाम प्रत्यभिज्ञा' इति किं प्रश्नः कृतः? उत
आक्षेपः? इति पूर्ववादी प्रष्टव्यः । तत्राद्यस्योत्तरमाह-भा-
तस्येति ॥ कस्यचित्पदार्थस्य पूर्व क्वचिद्भातस्य अवगतस्यसा-
म्प्रतमिदानीं भासमानस्य अवगम्यमानस्य सोयमिति सामा-
नाधिकरण्येन यदनुसन्धानं तत्प्रत्यभिज्ञानमुच्यते। पूर्वोत्तर-
देशकालवैशिष्टयांशपरित्यागेन अनुगताविशिष्टवस्तुमात्रानु-
सन्धानं प्रत्यभिज्ञानमित्यर्थः ॥३॥
तद्देशकालाकारादीनवधूयाऽऽनुषङ्गिकान् ।
यथै वस्त्वनुस्यूतं प्रत्यभिज्ञानमात्मनः ॥ ४ ॥
उक्तं च बाह्यार्थगोचरं प्रत्यभिज्ञानं सप्रकारमनूद्यात्मनि
तदर्शयति-तद्देशेति ॥ आकारः अवयवसंस्थानविशेषः ।
आनुषङ्गिकान् अन्यतः प्राप्तान, अस्वाभाविकानिति यावत्।
यथैकं वस्त्वनुस्यूतमवगम्यते तथात्मनः प्रत्यभिज्ञानं भवती-
त्यर्थः॥४॥
मायानुषङ्गसञ्जातकिञ्चिज्ज्ञत्वाद्यपोहनात्।
सर्वज्ञत्वादिविज्ञानं प्रत्यभिज्ञानमात्मनः॥ ५॥
वृत्तान्ताख्यव्याख्यासमेतम्. दान्तिकमात्मप्रत्यभिज्ञानमुपपादयति–मायेति ॥ प- दार्थपरिशोधनदशायामनृतजडपरिच्छिन्नानात्मतद्धर्मविलक्ष- णतया अपरिच्छिन्नज्ञानरूपेण सम्भावितस्य वाक्यार्थावगम- समये मायातत्कार्याध्यासनिबन्धनकिश्चिज्ज्ञत्वादेरध्यस्तांशा- पोहेनापोहनात् सर्वज्ञत्वादिविज्ञानम् । आदिशब्दादनन्तान- न्दरूपता गृह्यते। अपरिच्छिन्नज्ञानानन्तानन्दरूपसाक्षात्कारः आत्मनःप्रत्यभिज्ञानमित्यर्थः ॥ ५॥ पूर्वजन्मानुभूतार्थस्मरणान्मृगशावकः । जननीस्तन्यपानाय स्वयमेव प्रवर्तते ॥६॥ प्रश्नोत्तरमुक्ता आक्षेपः पूर्वमेव 'प्रत्यभिज्ञा यदि भ्रान्ति- भॊजनादि कथं भवेत्' इत्यनेन परिहृत इति मत्वा आत्मनः स्थायित्वं साधयति-पूर्वजन्मेति ॥ मृगशावको मृगबाल- कः सद्योजातः तत्कालमेव जननीस्तन्यपानाय स्वयमेव यत्प्रवर्तते, तत्पूर्वजन्मानुभूतार्थस्मरणादेव । अन्यथा खुरधा- वनायामपि प्रवर्तेतेत्यर्थः । तथा च बाल्यादिस्थाविरान्तं विपरिणममाणेपि देहे यथात्मा न विपरिणममाणो भिन्नासु अवस्थासु अभिन्नः तथा देवतिर्यमनुष्यादिक्रमभाव्यनेकश- रीरेषु जायमानेषु अजायमानो त्रियमाणेषु अम्रियमाण एवात्मेति तस्य सिद्धानित्यतेत्यभिप्रायः॥६॥ तस्मानिश्चीयते स्थायीत्यात्मा देहान्तरेष्वपि । स्मृति विना न घटते स्तन्यपानं शिशोर्यतः॥७॥ आत्मनः स्थायित्वोपपादनमुपसंहरति-तस्मादिति ॥ एतदुक्तं भवति–पूर्वानुभूतविषयसंस्कारवशादनुभूतसजा- तीयदर्शने पूर्वानुभूतविषयस्वभावं स्मरन् परिदृश्यमानविष- १२८ - मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- येपि तजातीयत्वेन लिङ्गेन अस्यापि ताइक्स्वभावतां कल्पयन् उभयवस्त्वनुभवकालानपायिनमेकमात्मानं प्रत्यभिजानाति पुमानिति । एवं च सति प्रत्यभिज्ञा प्रमाणमेव। सा च प्र- त्यक्षेन्तर्भवति, सामग्रीभेदस्य प्रत्यक्षव्यक्तिभेदनियामकत्वेन जात्यन्तरगमकत्वाभावात् । न हि दोषसंस्कारसहितसम्प्रयो- गजन्यं भ्रान्तिज्ञानमप्रत्यक्ष भवति । तस्मात् प्रत्यभिज्ञानं प्रत्यक्षं प्रमाणमिति स्थितम् ॥७॥ पूर्वत्रानुभवे काले स्मृतिकाले परत्र सन् । आत्मा संस्काररूपेण स्मरत्यर्थं स्वनिष्ठितम् ॥८॥ उक्तमेवार्थ विशदयति-पूर्वत्रेति ॥ स्मृतिकालः प्राग- नुभूतस्यानुभूतत्वेनानुभवकालः । उभयकालेपि सन्नात्मा सं- स्काररूपेणाव्यक्तरूपेण स्वनिष्ठितं स्वगतमर्थ स्मरति प्रत्य- भिजानातीत्यर्थः ॥ ८॥ प्रत्यभिज्ञेति भावानां स्मृतिश्चेदभिधीयते । आत्मस्थैर्ये प्रमाणत्वं स्मृतिश्च प्राप्नुयात्कथम् ॥९॥ स्मरतीत्यत्र यथाश्रुतमादाय पूर्वपक्षी प्रत्यवतिष्ठते-प्र- त्यभिज्ञेति ॥ स्मृतेरप्रमाणत्वस्य सर्ववादिसम्मतत्वादित्यर्थः ॥९॥ स्मृतौ प्रकाशो नार्थस्य न चाप्यर्थस्य निश्चयः। न चाप्यर्थानुभवयोरगुल्योरिव सम्भवेत् ॥ १०॥ स्मृत्यप्रामाण्यं स एव साधयति-स्मृताविति ॥ स्मृति- ने प्रत्यक्षं प्रमाणं, यतीर्थस्य स्मृतौ प्रकाशो यथावस्थितस्व- रूपावभासो नास्ति । नाप्यनुमानादिरूपमित्याहन चापी- ति । निश्चयः सद्भावनिश्चयः। न हि स्मरणदशायामर्थस- वृत्तान्ताख्यव्याख्यासमेतम्. तानिश्चयोस्तीत्यर्थः। 'नचार्थानुभवस्य वा' इति यदि द्वि- तीयपादपाठो लभ्यते, तदा उत्तरार्ध सुसङ्गतं भवति । पूर्वा- नुभूतार्थानुभवस्य वा न च स्मृतौ प्रकाशः, तस्य नष्टत्वादि- ति तस्यार्थः । अत एव नोभयोरपि प्रकाशः सम्भवेदित्या- ह-न चाप्यान्विति । अङ्गुल्योरिवेति । व्यतिरेकदृष्टा- न्तः॥ १०॥ नानुभूतिविशिष्टस्य पदार्थस्य च दण्डिवत् । सर्वत्राप्येवमित्येवं प्रसङ्गादिति तच्छृणु ॥११॥ तथाप्यन्यतरविशिष्टस्यान्यतरस्मृतौ प्रकाशो भविष्यती- त्याशङ्कय तदपि दुर्घटम्, अतिप्रसङ्गादित्याह-नानुभूती- ति ॥ चकारात् पदार्थविशिष्टानुभूतिर्गृह्यते । पदात्पदार्थस्मृ- तावपि अनुभवविशिष्टार्थप्रकाशप्रसङ्ग इत्यर्थः । निराकरो- ति–तच्छृण्विति ॥ ११॥ प्राक्तनानुभवे नष्टे तदवष्टम्भसम्भवात् । संस्कारसंज्ञात्सामग्र्यात् पौरुषाज्जायते स्मृतिः॥१२॥ न वयं स्मृति प्रमाणं ब्रूमः, किन्तु स्मृत्यन्यथानुपपत्ति- मात्मस्थैर्ये प्रमाणमभ्युपगच्छामः, अतो न कोपि भवदुक्त- दोषोस्मन्मते इत्यभिप्रेत्य स्मृत्युत्पत्तौ तावत्सामग्री दर्शय- ति-प्राक्तनानुभव इति ॥ पूर्व यदा कदाचिजातोनुभवः प्राक्तनानुभवः, तस्मिन्नष्टे सति तदवष्टम्भः प्राक्तनानुभवा- श्रयः तस्मिन् सम्भवो यस्य तत्तथा । संस्कार इति संज्ञा यस्य, तस्मात् सामग्र्यात् समग्रभावात् । असाधारणकारणादिति यावत् । पौरुषात् पुरुषेण चैतन्यप्रधानेन प्रमात्रेश्वरेण चा-
१३०
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं-
धिष्ठितादित्येतत्, एवंलक्षणात् सामग्र्यात् स्मृतिर्जायते
॥१२॥
आवेद्यानुभवे नष्टे तदीयं विषय प्रति ।
अनुभावकमात्मानं बोधयत्यनपायिनम् ॥ १३ ॥
एवं जायमाना स्मृतिः किं करोतीत्येतदाह-आवेद्येति॥
आवेद्यस्य सम्यग्वेदनीयस्यानुभवे नष्टे तदीयं विषयमावेद्यं प्र-
तियः पूर्वमनुभावकः अनुभविता आत्मा तमात्मानमनपायिनं
नित्यमेकं बोधयति ज्ञापयति। स्मृतिरिति शेषः। तथा च पू-
वानुभवजनितसंस्कारात् पूर्वानुभूतं विषयंस्मरन्निदानीन्तन-
विषयानुभवसमनन्तरमेवं मन्यते पुरुषः-योहं पूर्व हस्तिन-
रतुरगादिसडुलं राज्यमन्वभूवं सोहमद्य हिमगिरिकुहरगुहा-
परिसरप्रपतन्मन्दाकिनीघोषमनुभवामीत्यात्मानं प्रत्यभिजा-
नाति । एवमेव जन्मान्तरीयमपिविषयं स्मरञ्जन्मान्तरीयम-
प्यात्मानं प्रत्यभिजानाति पुमानिति स्मृतिद्वारत्वात् प्रत्यभि-
ज्ञानस्य स्मृतिरेव प्रत्यभिज्ञेत्यभिहितमिति भावः ॥ १३ ॥
विषये च प्रमुषिते नष्टे चानुभवे सति ।
स्वविश्रान्तं स्मरत्यर्थं देवोऽप्रमुषितस्सदा ॥१४॥
वेद्यवेदनयोावृत्तावपि वेदिता न व्यावर्तते, अतोपि वे-
दितात्मा नित्य इत्याह-विषये चेति ॥ प्रमुषिते नष्टे स्व-
विश्रान्तं स्वात्मनि संस्काररूपेण विलीनमित्यर्थः। देवः आ-
त्मा अप्रमुषितः अनन्तर्हितः ॥ १४ ॥
प्रमोषणं प्रमाणां मायया तमसा कृतम् ।
मायाविद्ये प्रभोःशक्ती भानोश्छायाप्रभोपमे ॥१५॥
वृत्तान्ताख्यव्याख्यासमेतम. कथं देवोऽप्रमुषितःसदैवेति उच्यते तस्य सुषुप्तिप्रलययोः प्रमोषणसम्भवादित्यत आह-प्रमोषणमिति ॥ मायिकमे- वात्मनः प्रमोषणंनपारमार्थिकम् । तच्च विशेषाकारानवभास- मात्रं न स्वरूपनाशरूपम् । तस्मादविद्यातत्कार्योपाध्यविवे- कानुपाधिषु प्रलीयमानेषु आत्मापि प्रलीनो नष्ट इतिभ्रम इ- त्यर्थः।मायारूपोपाधेरात्मावरणस्य अनादिभावरूपत्वेन अनु- च्छेद्यत्वादात्मनो मोक्षाभावप्रसङ्ग इत्याशङ्कय विद्यापोद्य- त्वान्मायायाः अविद्यामात्रत्वात्तस्याश्च अनिर्वचनीयत्वानो- क्तदोष इत्यभिप्रेत्य मायाविद्ययोरेकत्र पूर्वापरभावेन सङ्गति- माह-मायाविद्ये इति।प्रभोरात्मनः ईश्वरस्य शक्ती सामर्थ्य, आभ्यां बन्धमोक्षौ स्वात्मनि अनुभवति इत्यनयोः श- क्तित्वमुपचारादुच्यते, न वस्तुतः, यतोऽसङ्गस्य अलुप्तप्रकाश- स्वभावस्य अविद्यात्मकमायाश्रयत्वं व्याहतं, ज्ञानस्वरूपस्य च आगन्तुकज्ञानानपेक्षत्वात् तदाश्रयत्वायोगः। अत्रदृष्टान्त- माह-भानोरिति । छाया राहुः । यथा राहुर्वस्तुतो भान्व- सम्बद्धोपि तत्सम्बन्धितया प्रतीयमानः तदाच्छादकः एवं मायापि वस्तुतः आत्माऽसम्बन्धिन्यनि आत्मतत्त्वाच्छा- दिका । प्रभादृष्टान्तस्तु स्वरूपस्यैव सतः केनचिन्निमित्तेन धर्मित्वव्यवहारसिद्ध्यर्थः ॥१५॥ सर्वानाच्छादयेन्माया विद्या व्याक्षिप्य दर्शयेत् । प्रत्यभिज्ञैव सर्वेषां प्रमाणानां च साधनम् ॥१६॥ उक्तयोर्मायाविद्ययोः कार्यमाह-सर्वानिति ॥ प्र- मातृनित्यर्थः । व्याक्षिप्य व्यावृत्य । उद्वास्येत्यर्थः । कथं सर्वावरणभूतां मायामपावृत्य जीवानां तत्त्वं वि- द्या दर्शयेत्, तस्याः जडत्वात् । जडा हि विद्या, अ-
१३२
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक-
,
?
न्तःकरणवृत्तिरूपत्वात् तस्याः इत्याशङ्कयाह-प्रत्यभि-
ज्ञैवेति । सर्वेषां प्रमाणानां, चकारादप्रमाणानां च साधनं
साधकं प्रत्यभिज्ञैव, प्रत्यभिज्ञायते सर्वेष्ववभासेष्वनुस्यूतत-
यावगम्यत इति प्रत्यभिज्ञासाक्षी स एव सर्वविज्ञानसाधक
इत्यक्षरार्थः । विद्यायास्स्वरूपतो जडत्वेप्यशेषविज्ञानाधिष्ठा-
नसाक्षिचैतन्यव्याप्ततया तप्तायःपिण्डवदापन्नप्रकाशत्वात्
सा मायानिवारणसमर्थेति भावः । यद्वा-कथमवगम्यते,
विद्या व्याक्षिप्य दर्शयेत्' इति ? तत्राह–प्रत्यभिज्ञैवेति ।
सर्वेषां प्रमाणानां प्रमाणवृत्तीनां या प्रत्यभिज्ञा इदमज्ञासि-
पमहमित्याकारा सासाधनं विद्यारूपप्रमाणवृत्तिस्वभावसाध-
कं, विद्याया विषयावरणतिरोधानसामर्थ्यप्रत्यायकमित्यर्थः ।
अथ वा--केयं विद्या? या अविद्यां व्याक्षिप्य सर्वेषां तत्त्वं
प्रदर्शयेदित्याकाङ्क्षायामाह--प्रत्यभिज्ञैवेति।प्रतिप्रत्ययं प्रति-
विषयं च प्रकाशकतया प्रत्यभिज्ञायतेप्रकर्षणाभितोनवच्छेदेन
ज्ञायते यः प्रत्यगात्मा साक्षी सा पत्यभिज्ञा, यतः सर्वप्रमा-
णाना साधनं सर्वप्रमाणवृत्तान्ताभिज्ञानात्मकमित्यर्थः॥१६॥
ईश्वरोन्योहमप्यन्य इति विच्छेदकारिणीम् ।
व्याक्षिप्य विद्ययामायामीश्वरोहमिति स्मृतिः।।१७
तामेव प्रत्यभिज्ञां स्वरूपतो निर्दिशति-ईश्वरोन्य इति
॥ स्मृतिः प्रत्यभिज्ञेति शेषः । यद्वा-मायास्वभावमनूद्य
तस्याः विद्ययापबाधने सति स्वयमेव स्वरूपाविर्भावः प्रत्य-
भिज्ञेति दर्शयति-ईश्वरोन्योहमिति ॥ १७ ॥
ईपत्यकशोभूदीशो मायायवनिकावृतः।
सम्यगावरणापाये सहस्रांशुरिव स्फुरेत् ॥ १८॥
वृत्तान्ताख्यव्याख्यासमेतम्. विद्यया अविद्यामानं बाध्यते न स्वरूपं प्रकाश्यत इत्येत- प्रपञ्चयति-ईषत्प्रकाश इति ॥ मायैव यवनिका तिरस्क- रिणी । मेघावरणापाये यथा सहस्रांशुः सूर्यः सदा स्वसि. द्धप्रकाशेनैव स्फुरति, एवं मायावरणस्य विद्ययापाये जाते स्वतस्सिद्धप्रकाशेनैवात्मा स्फुरेत्। तथा च पूर्वसिद्धस्फुरणेनै- व यथावत्स्वरूपाभिव्यक्तिमात्र प्रत्यभिज्ञेत्यभिप्रायः ॥१८॥ न कारणानां व्यापारात् प्रमाणानां न वा पुनः । प्रत्यभिज्ञापनं नाम मोहापसरणं परम् ।। १९ ॥ कथं पूर्वसिद्धस्वरूपमात्र प्रत्यभिज्ञानमुच्यते, आगन्तुक- मेव किञ्चिद्धर्मरूपं कथं नेष्यत इत्याशङ्कय, तत्किं कारण- व्यपारात् प्रमाणव्यापाराद्वा स्यादिति विकल्प्य क्रमेण नि- राकरोति-नकारणानामिति ॥कारणव्यापारादुत्पाद्या नप्र- त्यभिज्ञा, न पुनः प्रमाणव्यापारात् ज्ञाप्येत्यर्थः । किन्तर्हि ? मोहापसरणं परम् अभिव्यक्तिकारणमित्यर्थः ॥ १९ ॥ यावन्ति सन्ति मानानि व्यवहारप्रवृत्तये । तेषां मोहापसरणात् व्यापारोन्यो न विद्यते ॥२०॥ विद्यया आत्मावभासः स्वतस्सिद्धः, आवरणतिरोधान- मेव मानकृत्यमित्येतत्सर्वप्रमाणसाधारण्यप्रतिपादनेन साध- यति-यावन्ति सन्तीति ॥ अयं भावः-अयं घट इत्येवं प्र- माणेनावभासमाने घटे प्रमाणजनितातिशयः किमपूर्वधर्मो- पजनिः ? किं वा तद्गतयत्किञ्चिन्निवृत्तिः ? इति विवक्तव्य- म् । आद्यपि, किं स्फुरणरूपस्य ? किं वा ज्ञाततादिरूपस्य ? नाद्यः, स्फुरणस्य चेतनतया जडे घटे जन्मानुपपत्तेः, घट- (.) स्फुरणेन यथेति पाठान्तरम् । (२) चेतनाया इति पाठान्तरम् ।
- १३४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- ज्ञानवानहमिति ज्ञातरि प्रमाश्रयत्वानुभवानुपपत्तेश्च । जा- नातिक्रियायाः ज्ञातृगामित्वेपि फलस्य प्रमायाः विषयगतत्वमे- व वक्तव्यं, घटस्तिष्ठतीतिवत् घटः स्फुरतीति स्फुरणस्य घ. टकर्तृकत्वप्रतीतेरिति चेत् ; मैवं, घटो मम स्फुरतीति ज्ञातु- रेव स्फुरणधर्मवत्त्वानुभवात् । ज्ञातारो हि ममेदानीमिदं स्फुरति न स्फुरतीति वा व्यवहरन्ति, नार्थः कदाचिदपि । किञ्च-अनुभवस्य स्वाश्रय एव संस्कारजनकत्वनियमात् संस्काराश्रय एव स्मृत्युत्पत्तिनियमाच्च ज्ञातरि विषयस्मरणा- भावप्रसङ्गः स्यात् । तथा च ज्ञातुरर्थस्मृत्यभावात् तस्य त- द्विषयव्यवहारलोपाजीवनमपि दुर्घटमित्यनाशङ्कनीय एवायं पक्षः। न द्वितीयः । ज्ञातता नाम द्रव्यं गुणो वा, कर्म वा, सामान्य वा, यत् विषये ज्ञानेन जन्यत इत्यभ्युपगम्यते । सर्वथापि नोपपद्यते । एषामतीन्द्रियत्वे तदाधारो विषयोपि न स्फुरेदिति ज्ञातो मयो घट इति व्यवहारानुदयप्रसङ्गः । इन्द्रियग्राह्यत्वे तु घटगतालोकरूपादिवदन्यवेद्यतापि स्यात्। किञ्च–अत्र स्वजनकज्ञानेन ज्ञाततावभासते? ज्ञानान्तरेण वा ? नाद्यः, जन्मावभासयोर्योगपद्याभावात् । क्रमेण तु ज्ञानस्य विरम्यव्यापारवत्त्वानुपपत्तेः । ज्ञानान्तरेणावभा- समाने तस्यापि ज्ञाततान्तरोत्पादकत्वोपैक्षयादनवस्थाप्रस- ङ्गः । तस्मान्न ज्ञानेन विषये कश्चिदपूर्वधर्मोपजनिः क्रियत इति स्थितम् । तर्यस्तु आत्मन्येव स्फुरणोपत्तिानजन्यो- तिशयः, तार्किकैरपि तथाङ्गीकारादिति चेत् ॥ एतदपि न सम्यगिव॥घटः स्फुरतीति स्फुरणस्य घटत्वसामानाधिकरण्या- नुभवविरोधात्। स्फुरणस्य धेटासंसर्गित्वे परावगत इव 'ज्ञातो (१)मयेति नास्ति कचित् । (२) द्यायोगादिति पाठान्तरम् । (३) पाद एवोपक्षयेति पाठान्तरं युक्तम् । (४) टासंसर्गोपगेति कचित्पाठः । ?
वृत्तान्ताख्यव्याख्यासमेतम्. १३७ न्तमाह-शुक्तौ रजतमिति ॥ व्यामुह्यते। लोक इति शेषः। वस्तुगत्या शुक्त्यादौ अरजते रजतमित्यन्यथा अनिदमित्यरज- ते इदं रजतमिति च एवं परस्पराध्यासरूपं व्यामोहं प्रामोति लोक इत्यर्थः ॥ शुक्तौ भासमानस्य रजतस्यानिर्वचनीयत्वो- पपादनेन मायामयत्वं साधयति—सदेवेति । ते तव मते स- देव चेद्रूप्यं शुक्तौ भाति, तदा तस्य विलयो बाधो न सिध्य- तीति योजना । उक्तं चैतद्भगवता-'नाभावो विद्यते संतः' इति ॥ २२॥ नात्यन्तासत्प्रकाशेत नरशृङ्गादिवत्वचित् । कान्ताकरादौ रजतमिति स्यात्स्मरणं भ्रमे ॥२३॥ सत्त्वनिषेधात् प्राप्तमसत्त्वं प्रत्याचष्टे-नात्यन्तासदिति॥ प्रत्येकं सदसत्पक्षदूषणोपजीवनेन वृत्तस्य सदसत्समुच्च- यपक्षस्योपजीव्यनिषेधादेव निषेधसिद्धेः सोप्यान्निषिद्धो वेदितव्यः॥नन्वन्यसम्प्रयोगेन्यविषयकज्ञानं स्मृतिरेव नानु- भवः, अतः कुतो भ्रान्तिः ? इति प्राभाकरमतमाशङ्कय अस्य स्मरणाकारवैपरीत्यान्न स्मरणमिदमित्याह-कान्ताक- रादाविति । यदिदं पूर्वदृष्टमेव भासेत, तदा यत्र दृष्टं तत्र- त्यमित्येवं तदवभासेत, नेदमिति । दोषवशात् तत्ताप्रमो- षात्तथा नावभासत इति चेत् , तर्हि तत्ताप्रमोषे स्मृतित्वस्यै- वानिश्चयात् यथावभासमनुभवत्वोपपत्ते ख्यातिवादाद्यव- काश इति भावः ॥ २३ ॥ तेनेदं तुल्यमित्येवं स्यात्सादृश्यात्तु विभ्रमः । पीतःशङ्खो गुडस्तिक्त इत्यादौ नास्तितुल्यता ॥२४॥ (१) ति चैवं परेति पाठान्तरं युक्तम् । (२) भगव. २.१६. (३) रणाद्रम इति पाठान्तरं युक्तम् । (४) त्येवं तदेति पाठान्तरं युक्तम् । (५) वादावकेति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- ननु मा भूत्स्मर्यमाणता रजतस्य, तथापि मायामयत्वं न सिध्यति, पूर्वदृष्टरजतसादृश्यसन्दर्शनात् तत्संस्कारसमुद्बोधे स्मृतरजतस्य पुरोवर्तिन्यारोपे रजतमिदमितिप्रतीतिसम्भवा- त्, स्मर्यमाणरजताभेदेन शुक्तिकाया एव रजतात्मत्वानुभवा- द्वा,इत्यन्यथाख्यातिवादिनां मतद्वयं क्रमेणानूद्य दूषयति-ते- नेदमिति।यदिरजतसादृश्याद्विभ्रमो भवेत्,तदातेन रजतेने- दंपुरोवर्ति सदृशम् इति वा अनेन तत्सदृशम् इति वा विभ्रमो- ल्लेखः स्यात्, न त्विदं रजतमितीत्यर्थः। किञ्च-सादृश्यात् भ्र- मं वदन् प्रष्टव्यः-किं विभ्रमस्य सादृश्यं व्यापकं, व्याप्यं वा इति? तत्र नाद्य इत्याह-पीतः शङ्ख इति । तुल्यता सादृश्यम् । न द्वितीयः, शुक्तिकायाः शुक्तिकान्तरसादृश्ये सत्यपि तद्विभ्रमोदयादर्शनादिति द्रष्टव्यम् ॥ २४ ॥ तादात्म्येन स्फुरति चेदजतत्वेन शुक्तिका । विभ्रमो निरधिष्ठाने बाधो निरवधिर्भवेत् ॥२५॥ द्वितीयमन्यथाख्यातिमतं दूषयति-तादात्म्येनेति । शु- क्तिरजतयोस्तादात्म्यं चेत् विभ्रमालम्बनं, तदोभयोरध्यस्त- त्वान्मिथ्यात्वे सति सत्यस्य वस्तुनोन्यस्याभावात् शून्यवा- दापातप्रसङ्ग इत्यर्थः। “तिमिरान्धकदृष्टीनां यथा केशोण्डूका- दिखे। स्फुरत्येवं जगद्रूपमनात्मन्येव तिष्ठति" इति वासिष्ठे । विभ्रमाणामपि दृश्यमानालोकाधिष्ठानकत्वस्यान्यन निरू- पितत्वात् न निरधिष्ठानविभ्रमे, निरवधिबाधे वोदाहरणम- स्तीति नायं शून्यवादिनोपीष्टप्रसङ्ग इति ॥ असत्ख्यातिरप्य- नेन निराकृतेति वेदितव्या॥ २५ ॥ (१) नुभवसंभवाद्वेति पाठान्तरम् । (२) इत्यर्थः । केशोण्डकादि- विभ्रमाणामपीति पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम. बुद्धिस्थितं चेद्रजतं बाह्यत्वेन प्रतीयते । गुञ्जादौ ज्वलनारोपे देहदाहः प्रसज्यते ॥ २६ ॥ इदानीमात्मख्यातिपक्षमपि निराकरोति-बुद्धिस्थित- मिति ॥ २६॥ युक्तिहीनप्रकाशत्वाद् भ्रान्तेन ह्यस्ति लक्षणम् । यदि स्यालक्षणं किञ्चिद्धान्तिरेव न सिद्धयति।।२७॥ यदि कचित्कथञ्चित् सद्रजतं न भासते, अत्यन्तासदपि न भासते चेकिमिदमलौकिकं किञ्चिदुच्यते बुद्ध्यनारूढमेव शुक्तौ रजतमित्येवमित्याशङ्कय केनापि रूपेण रूपवत्त्वे प्रा- माणिकत्वेन ज्ञानापनोद्यत्वासम्भवात् रजतज्ञानस्य भ्रान्ति- त्वप्रसिद्ध्यनुपपत्तिः स्यादित्यभिप्रेत्याह-युक्तिहीनेति ॥२७॥ जलचन्द्रवदेकस्मिन् निर्भये रजुसर्पवत् । प्रतीयते यथा स्वर्णे कारणे कटकादिवत् ॥ २८॥ दृष्टान्ते मायामयत्तमुपपाद्य दार्टान्तिकेपि मायामयत्वं सिद्धमनेन दृष्टान्तान्तरानुवादेन उपसंहरति—जलचन्द्रव- दिति-सार्धद्वयेन ॥ एकस्मिन् चन्द्रे जलोपाधिभेदाद्यथा अनेकत्वं एवमेकस्मिन् चिदानन्दाद्वयात्मनि देहोपाधिभे- दादनेकत्वमवभासत इत्यादिदृष्टान्तार्थो विवक्षितः । निर्भये भयहेतुत्वरहिते चिदात्मनि रज्जुसर्पवत् संसारभयावभास इ. ति द्वितीयदृष्टान्तार्थः। एकस्मिन्ननेकत्वं प्रतीयते, निर्भये भयं प्रतीयत इति च योजना । कार्यकारणवादं लोकप्रसि- द्धमाश्रित्य कारणादन्यत् कार्य नास्तीत्यत्र दृष्टान्तमाह- १४० मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- यथा स्वर्ण इति । कटकादिवदिति । स्वार्थिको वतिप्रत्ययः कटकासत्यत्वार्थः ॥२८॥ उपात्ते रूप्यवच्छुक्तौ व्याप्ते यक्षपुरीव खे । रश्म्यम्बुवत्स्फुरद्रूपे स्थाणौ चोरवदक्रिये ॥ २९ ॥ असत्कल्पमिदं विश्वं आत्मन्यारोप्यते भ्रमात् । इदानीं श्रुतियुक्तिभ्यां निर्णीतं विवर्तवादमाश्रित्याधिष्ठा- नात् पृथक्सत्त्वं न दृश्यस्यास्ति, किन्त्वधिष्ठाने भ्रान्तिसि- द्धं जगदित्यत्र दृष्टान्तद्वयमाह-उपात्त इति ॥ शुक्तौ रू- प्यवत् उपात्ते स्वयमेव सिद्धे चिदात्मनीदं विश्वमसत्कल्प- मित्यन्वयः। व्याप्ते अपरिच्छिन्ने कूटस्थे चिदात्मनि, खे 'यक्ष- पुरीव' गन्धर्वनगरमिव विश्वमिति; तथैव सर्वत्रान्वयः॥२९॥ असत्कल्पमिति॥स्वयम्प्रकाशतया स्फुरद्रूपे चिदात्मनि रश्म्य- म्बुवत् , मरुमरीचिषूदकविभ्रमवत् , 'अक्रिये' निर्व्यापारे चि- दात्मनि व्यापारवत्त्वाध्यासः स्थाणौ चोरत्वाध्यासवदित्यर्थः । 'भ्रमात्' मिथ्याज्ञानात् 'आरोप्यते' व्यवह्रियत इत्यर्थः ॥ स्वयम्प्रकाशं सद्रूपं भ्रान्तिबाधविवर्जितम् ॥३०॥ प्रत्यभिज्ञायते वस्तु प्राग्वन्मोहे व्यपोहिते । तथा च जीवभेदस्य बाह्यप्रपञ्चस्य चाविद्यामात्रत्वाद्विद्यया तद्वाधे अद्वैतानन्दब्रह्मरूपः आत्मा अवभासत इत्युपसंह- रति-स्वयम्प्रकाशमिति॥'भ्रान्तिबाधविवर्जितम्' अनामा- पायधर्मकमित्यर्थः ॥३०॥प्रत्यभिज्ञायत इति ॥वस्तु परमार्थ (१) स्वार्थे तद्धितः। कटकादीत्यर्थः इति पाठान्तरम्। (२) अनागमा- पेति पाठान्तरं युक्तम्।
वृत्तान्ताख्यव्याख्यासमेतम्. मया घटः' इति स्वात्मनि ज्ञातृज्ञेयसम्बन्धावभासो न स्यात्, विशेषाभावात् । स्वेन्द्रियसंसृष्टत्वं विशेष इति चेत्, न । तस्यातीन्द्रियत्वेन तत्सम्बन्धताया अनवगमात्, तन्निबन्ध- नस्य ज्ञेयसम्बन्धस्यात्मनि प्रत्यक्षत्वायोगात् । आश्रयात्म- ज्ञानद्वारा विषयसम्बन्धो ज्ञानस्येत्यपि नोपपद्यते, तस्य स- वंगतात्माश्रयत्वे सर्वसंसर्गित्वादात्मनो युगपत्सर्वावभासप्रस- ङ्गात्। देहावच्छिन्नात्माश्रयत्वे देहाद्वहिस्सम्बन्धाभावात् ब- हिर्विषयानवभासप्रसङ्गः । किञ्च-विषये वात्मनि वोत्पद्य- मानं ज्ञानं प्रागसदुत्पद्यते ? नाद्यः, असतः सत्तासम्बन्धा- नुपपत्तेः । सत्तासम्बन्धो हि समवायः, सतोरेव धर्मो- भ्युपगतः, न सदसतोर्वा, असतो; । स्वकारणसम्बन्धः, उत्तरक्षणसम्बन्धो वा सर्वोपि भावधर्म एवेति असदयोगः समान एव । सिद्धं भूत्वा संबध्यत इत्यभ्युपगमे त्वन्योन्या- श्रयः, उक्तसम्बन्धिसम्बन्धात्प्राक्सिद्धतानुपपत्तेः । उपपत्तौ वा, सत्कार्यवादापातात् । तथा च सिद्धे सत्तादिसम्बन्धे स्वरूपसिद्धिः, तस्मिन् सिद्धे इतरसिद्धिरिति परस्पराश्रयो दुर्वार इति नासदुत्पद्यते । नापि सदुत्पद्यते, सिद्धस्य सा- ध्यत्वव्याघातात् । नापि सदसदात्मकमुत्पद्यते, विरुद्ध- स्वभावस्य वस्तुनोसम्भवात् । अत एव न सदसद्विलक्षण- मप्युत्पद्यत इति । तस्मान्नापूर्वधर्मोत्पत्तिरात्मनि विषये वा सम्भवति॥नापि विषयगतयत्किञ्चिन्निवृत्तिनिकृतोतिशयः परमार्थो युज्यते । तथा हि-सतो ज्ञानेन निवृत्तिस्तावन्न सम्भवति, ज्ञानस्यारोपितमात्रनिवृत्तिसाधनसामर्थ्यस्यैव स- र्वत्रोपलम्भात् , यथा शुक्तितत्त्वज्ञानमारोपितरजतं तद्विशिष्टं चाज्ञानं निवर्तयति, न शुक्तिगतमलमपि । उत्तरज्ञानेन पूर्व- (१) तसिद्धाविति पाठः क्वचित् । (२) गतमन्यमपीति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- ज्ञानस्य सतोपि निवृत्तिदृश्यत इति चेत्, न ज्ञानस्योत्पन्नस्य विनापि ज्ञानान्तरोदयं स्वरसत एव निवृत्तिदर्शनात् । क- दाचिद्भवदप्युत्तरज्ञानं न तन्निवर्तकम्। अन्यथा सुषुत्यभाव- प्रसङ्गात् । प्रमाणसिद्धं हि सदित्युच्यते । तच्च न प्रमाणा- न्तरेण बाधितुं शक्यते, बाध्यविषयकस्याप्रमाणत्वनियमात्। तस्मान्न सन्निवृत्तिः प्रमाणफलम् । नाप्यसन्निवृत्तिः, असतो नित्यनिवृत्तत्वात् । प्रागभावस्यासतोपि प्रतियोग्युत्पत्त्या निवृत्तिदृश्यत इति चेत्, न। अभावस्य ध्वंसप्रतियोगित्वे भा- वत्वापत्तेः। निवृत्तिर्हि ध्वंसः, स भावधर्मः, न त्वभावधर्मः । तस्मानासन्निवृत्तिरपि ज्ञानसाध्या। नापि सदसन्निवृत्तिः सम्भवति, सदसदात्मकस्याभावादेव । तस्मात्परिशेषादनिर्व- चनीयस्य कस्यचिदनिर्वचनीयेन निवृत्तिरिति मोहनिवृत्ति- मात्रं प्रमाणकृत्यमिति सिद्धमिति ॥ २० ॥ जडानृतपरिच्छिन्नदेहधर्माश्रिदात्मनि । सत्यज्ञानसुखात्मत्वं मोहादेहेपि कल्प्यते ॥ २१ ॥ यत एवं सर्वप्रमाणानां स्वस्वविषयाज्ञानरूपमोहनिवर्त- कत्वं स्वभावः, तस्मादात्मन्यपि वेदान्तवाक्यजनितवृत्तिरूपं प्रमाणं तद्गतानाद्यनिर्वचनीयाज्ञानरूपमोहनिवृत्त्या तत्कार्य- देहादिबन्धनिवृत्तिमात्रं करोति, नाधिकमाचरतीत्येतदेव विशदयितुं देहात्मनोः परस्पराध्यासनिबन्धन एव संसार- बन्धो, न परमार्थ इति दर्शयति-जडानृतेति ॥ २१ ॥ शुक्तौ रजतमित्येवं यथा व्यामुह्यतेन्यथा । सदेव रूप्यं चेद्भाति विलयस्ते न सिध्यति ॥२२॥ उक्ते देहात्मनोरन्योन्यस्मिन् अन्योन्यधर्माध्यासे दृष्टा- (१) नीयस्यैव निवृत्तिरितीति पाठान्तरं युक्तम् ।
वृत्तान्ताख्यव्याख्यासमेतम्, मोहे व्यपोहिते तत्त्वज्ञानेन अज्ञाने बाधिते सति प्राग्वद्यथा- वस्थितस्वरूपं प्रत्यभिज्ञायते साक्षाक्रियत इति योजना ॥ देहायुपाधौ निधूते स्यादात्मैव महेश्वरः ॥ ३१ ॥ कारणाविद्याबाधात् कार्यबाधे सति आत्मतत्त्वब्रह्मस्वरू- पावभासप्रतिबन्धाभावात्तदात्मैवेश्वरत्वोपलक्षितं ब्रह्म भव. तीत्याह-देहाद्युपाधाविति ॥ ३१ ॥ स्मृतिः प्रत्यक्षमैतिह्यमित्यादीन्यपराण्यपि । प्रमाणान्याप्तवागाह प्रत्यभिज्ञाप्रसिद्धये ॥ ३२ ॥ युक्त्योपपादितेर्थे प्रमाणान्याह-स्मृतिरिति ॥ क्षेत्रज्ञ- श्चापि मां विद्धि' 'न च मत्स्थानि भूतानि पश्य मे योगमै- श्वरम' इत्याद्या-'स्मृतिः'। 'प्रत्यक्षं ब्रह्माहमस्मीति विद्वदनु- भवः । 'ऐतिचं' गुरूपदेशवाक्यं तत्त्वमसीति। आदिशब्देना- नुमानं गृह्यते । जीवेश्वरौ, न तत्त्वतो भिन्नौ, एकस्वभावत्वे सति उपाधिपरामर्शमन्तरेणाविभाव्यमानभेदवत्त्वात् , आ- काशवदित्याद्यनुमानम् । न च विशेषणासिद्धिः, 'सत्यज्ञान' 'प्रज्ञानघन एवं' इत्युभयोश्चित्स्वभावताश्रवणादिति ॥आप्त- वागाहेति ॥ स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानं चतुष्टयम् । एतै- रादित्यमण्डलं सर्वैरेव विधास्यते' इति श्रुतिराहेत्यर्थः । आदि- त्यमण्डलमित्यध्यात्ममधिदैवं च अक्ष्यादित्यमण्डलोपलक्षितं प्रत्यग्ब्रह्मतत्त्वं विधास्यत इत्युदाहृतश्रुत्यर्थः ॥ प्रत्यभिज्ञाप्र- सिद्धय इति ॥अहं ब्रह्म ब्रह्मैवाहमिति ब्रह्मात्मनोरेकत्वप्रसि- द्धय इत्यर्थः ॥ ३२॥ (१) भगव. १३-२। (२) भगव. ९-५. । (३) तै. उ. २-१. । (४)।माण्डू.५. । (५) तै. आ.१-२॥
११२ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे सप्तमोल्लाससंग्रहः ॥ ३३ ॥ सप्तमश्लोकव्याख्यामुपसंहरति-इतीति ॥ ३३॥ ७ ॥ इति श्रीमानसोल्लासवृत्तान्ते सप्तमोल्लासः ॥७॥ - अथाष्टमोल्लास:- प्रकाशव्यतिरेकेण पदार्थः कोपि नास्ति चेत् । परमार्थोपदेशान्तो व्यवहारः कथं भवेत् ॥ १॥ इदानीमुक्तस्यैव सर्वशास्त्रार्थस्योपसंहारार्थमुत्तरश्लोकः, तमुत्थापयति-प्रकाशव्यतिरेकेणेति ॥ वस्तुगत्या कालत्रयेपि चित्प्रकाशव्यतिरेकेण कोपि पदार्थों भूतभौतिकरूपो नास्ति चेत्, तदा परमार्थोपदेशान्तो गुरोस्तत्त्वज्ञानग्रहणोपदेशात् प्राक्तनो व्यवहारःसंसाररूपः किमालम्बनः स्यादित्यर्थः॥१॥ कस्य बन्धश्च मोक्षश्च बध्यते केन हेतुना। मायाया लक्षणं किं स्याद् इत्येवं परिपृच्छतः ॥२॥ प्रश्नः स्यादुत्तरं वक्तुं प्रतिपत्तुं सुखेन च । उक्तोर्थः सप्तभिः श्लोकैः पुनः संक्षिप्य कथ्यते ॥३॥ न केवलमेतावत् , अन्यदप्यस्ति दुर्घटमित्याह-कस्येति॥ बन्धाभावे कस्य मोक्षोपि, बन्धनिवृत्तिरूपत्वात्तस्येत्यर्थः । एतत्सर्व मायामयमिति चेत्, तर्हि किंलक्षणा सेति वक्तव्य- मित्याह-मायाया इति ॥ इत्येवं परिपृच्छतः प्रश्नः 'स्यात्' (१) संसरणरूप इति पाठान्तरं युक्तम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. भवेत् इति । सम्भावनायां लिड । एतस्य प्रश्नस्योत्तरं वक्तुं गुरुणा शिष्येण च सुखेन प्रतिपत्तुं च पूर्व सप्तभिः श्लोकैरुक्तो- र्थः पुनरस्मिन्नष्टमेश्लोके संक्षिप्य कथ्यत इति योजना॥२॥३॥ पौनरुक्त्यं न दोषोत्र शदेनार्थेन वा भवेत् । अभ्यासे हि'गरीयस्त्वमर्थस्य प्रतिपद्यते ॥ ४ ॥ तंत्राप्यशेषशास्त्रार्थश्चेत् सप्तभिः श्लोकैः निर्णीतः, तदा पुनः कथनं निरर्थकमित्याशङ्कयाह-पौनरुत्त्यमिति ॥ अ- त्रास्मिन् शास्त्रे पौनरुक्त्यं न दोषः, प्रतिपाद्यवस्तुनः अतिसू- क्ष्मत्वेन सकृदेव दुरधिगमत्वादित्यर्थः । 'अर्थस्य' ब्रह्मात्मव- स्तुनः 'गरीयस्त्वं श्रुतितात्पर्यगोचरत्वम् ॥ ४॥ "विश्वं पश्यति कार्यकारणतयास्वस्वामिसम्बन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः। खप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।८।। विश्वमिति ॥ य एप' पुरुषः कार्यकारणभावेन, स्वामिभृ- त्यभावेन वा,शिष्याचार्यतया वा, तथा पितृपुत्रभ्रातृदुहितृमा- तुलश्वशुराद्यात्मनावा,येन केनापि प्रकारेण देवतिर्यङ्मनुष्या- दिरूपेण च 'भेदत.' भेदवत्तया स्वप्ने जाग्रति वा विश्वं पश्यति 'मायया' अनाद्यनिर्वचनीयया अज्ञानात्मिकया 'परिभ्रा- मितः' मोहितः आच्छाद्य विक्षिप्तः सन् न परमार्थतः, तस्म प्रत्यग्रूपाय तत्त्वज्ञाननिवृत्तमायाविभ्रमाय, श्रीगुरुमूर्तय इति उक्तार्थम् ॥ ८॥ (१) सेन गेति पाठान्तरम् । (२) तत्राशेषशास्त्रार्थस्य चेत् सप्तश्लोक- निर्णयः तदेति पाठान्तरम्।
१४४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- अस्यायमभिसन्धिः- खयम्प्रकाशे सद्रूपेऽप्येकस्मिन् परमेश्वरे । कार्यकारणसम्बन्धाधनेकविधकल्पना ॥ ५॥ श्लोक (वाक्यार्थ) व्याख्या प्रतिजानीते-अस्यायमभिसन्धि- रिति॥एकस्मिन्नेव अखण्डानन्दचिदात्मनियावद्विद्यया अवि- द्यानापोह्यते, तावत्सर्वो व्यवहारः। अविद्या, माया,अव्यक्तम्, इत्यभिधानाभिधेयानाद्यनिर्वचनीयाज्ञानविलसितप्रपञ्चाल- म्बनोन विरुध्यत इत्यभिप्रेत्याह-स्वयम्प्रकाश इति ॥५॥ राहोशिशरः सुषिः खस्य ममात्मा प्रतिमावपुः । इत्यादिकल्पनातुल्या न पृथग्वस्तुगोचरा ॥ ६ ॥ एकमप्यनेकधा व्यवहारास्पदंभवतीत्यत्र दृष्टान्तमाह- राहोरिति॥'खस्य 'आकाशस्य'सुषिः। छिद्रं,'प्रतिमावपुः'प्रति- मायाः शरीरम्, इत्येवमादिकल्पनातुल्या कार्यकारणादिरूपेण प्रपञ्चभेदकल्पना (च), न तत्त्वतः पृथग्वस्तुविषयेत्यर्थः ॥६॥ उपास्योपासकत्वेन गुरुशिष्यक्रमेण च । खामिभृत्यादिरूपेण कीडति खेच्छयेश्वरः॥७॥ "नतस्य कार्य करणंचविद्यतेन तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे” इति श्रुत्यर्थमनुसन्दधानो 'लोकवत्तु लीलाकैवल्यम्' इति न्यायेन ईश्वर एव अनेकधा विभाव्यत इत्याह-उपा- स्योपासकत्वेनेति ॥७॥ (१) क्रीडते इति पाठान्तरम् । (२) श्वेताश्व. ६-८ (३) ब्रह्मसू. २-२-१३ वृत्तान्ताख्यव्याख्यासमतम्. १४५ पितरं प्रति पुत्रो यः पुत्रं प्रति पितैव सः। एक एव हि नानेव कल्प्यते शब्दमानतः॥८॥ पितृपुत्रादिभावो नैकस्मिन् नियतो दृश्यते, अतोपि कल्पित एवेत्याह-पितरमिति ॥ पितृत्वादेः सापेक्षत्वान्न परमार्थः॥८॥ तस्मात्प्रकाश एवास्ति परमार्थनिरूपणे । भेदप्रतीतिर्मिथ्यैव माययात्मनि कल्पिता ॥ ९॥ यत्सापेक्षमिहेक्ष्यते तत् स्वप्नवन्मायायामेव, न परमार्थ- मित्युपसंहरति-तस्मादिति ॥ ९ ॥ मिथ्यात्वं नाम बाध्यत्वं सम्यग् ज्ञानोदये सति। शिष्याचार्योपदेशादि स्वप्नवत्प्रतिभासते ॥ १० ॥ यदुक्तं 'मायाया लक्षणं किं स्यात्' इति तदुत्तरमाद्दशर्यन् 'भेदप्रतीतिर्मिथ्यैव' इत्युक्तस्य मिथ्यात्वस्य लक्षणमाह-मि- थ्यात्वं नामेति॥तत्त्वज्ञानापनोद्यत्वं, बाध्यत्वं मिथ्यात्वमित्य- र्थः। इदमेव मायायाः लक्षणम्। न हि प्रमाणसिद्धं प्रमाणज्ञा- नबाध्यं भवेत्, बाध्यत्वे तस्य प्रामणिकत्वव्याघातात्। बाधश्च यत्र यत्प्रतिपन्नंतत्रैव तस्य कालत्रयाभा(वा)वबोधव्यवहारयो- ग्यतया लीयमानत्वमाविमतः शिष्याचार्यादिरूपो भेदप्रपञ्चो, वस्तुतः आत्मन्यन्यत्र वा न कालत्रयेप्यस्ति, यत्र यत्प्रतिपन्नं तत्रैव ज्ञानापनोद्यत्वात्, स्वप्नदृष्टप्रपञ्चवदित्यनुमानमाह- शिष्याचार्येति ॥१०॥ (१) हेप्स्यते इति पाठान्तरं युक्तम् ।
१४६ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- मिथ्याभूतोपि वेदान्तः सत्यमर्थ प्रबोधयेत् । देवताप्रतिमावच्च चित्रवत्प्रतिबिम्बवत् ॥ ११ ॥ नन्वेवं सति प्रत्यग्ब्रह्मबोधकवेदान्तशास्त्रस्य कथं प्रामा- ण्यमित्यत आह-मिथ्याभूतोपीति ॥ स्वरूपेण मिथ्यात्वे- पि वेदान्तस्य सत्यार्थज्ञापकत्वे दृष्टान्तमाह-देवतेति । यथा अदेवतायां प्रतिमायां अरोपितापि देवता पूजकस्य सत्यं फलं ददाति, न हि प्रतिमैव देवता, तथा सति तदुचितानेकलौकिक- व्यापारवत्ताप्रसङ्गात् । 'चित्रवत्' यथावा चित्रव्याघ्रगजादिः सत्यभयादिहेतुः बालस्य, यथा वा प्रतिबिम्ब बिम्बावदातता दिसत्यबोधकं, तथा वेदान्तः स्वयं मिथ्याभूतोपि सत्यब्रह्मत- त्वबोधक इत्यर्थः ॥११॥ सवोंपि व्यवहारोयं मायायाः परिजृम्भणम् । सुषुप्तिसदृशी माया स्वप्रबोधेन बाध्यते ॥ १२ ॥ किं बहुना- -सर्व एव व्यवहारो मायामय इत्यत्र न कोपि विघ्न इत्युपसंहरति-सर्वोपीति॥ परिजृम्भणं विवर्तः। मायायाः स्वरूपं दृष्टान्तेन बुद्धिमारोहयति-सुषुप्तीति । स्वप्रबोधेन' आत्मावबोधेन वेदान्तजनितेन 'बाध्यते' अपलप्यत इत्यर्थः ॥१२॥ युक्तिहीनप्रकाशस्य संज्ञा मायेति कथ्यते । नासतीदृश्यमानासा बाध्यमानानवासती॥१३॥ इदानीं मायायाः साक्षाल्लक्षणमाह-युक्तिहीनेति॥ युक्ति- हीनःप्रकाशः प्रतीतिमात्रं यस्य तस्याऽऽभासमानस्य मायेति (१) बिम्बादिसेति पाठान्तरं युक्तम् । (२) तस्य सभानस्येति पाठान्त युक्तम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. संज्ञा कथ्यत इत्यर्थः। सर्वप्रकारयुक्त्यसहत्वे सत्यपि प्रकाश- मानत्वं मायायाः लक्षणमित्यर्थः। तस्याः युक्तिशून्यप्रकाशत्वं साध्यते-नासतीति ॥ दृश्यमाना। अपरोक्षतयेति शेषः। न सती ॥ बाध्यमानत्वात् ॥ १३ ॥ न प्रकाशादियं भिन्ना छायेवार्कस्य तामसी । न चाभिन्ना जडत्वेन विरोधानोभयात्मिका ॥१४॥ सदसद्विलक्षणत्वेपि भिन्नाभिन्नत्वाभ्यां सावयवनिरवयव- वाभ्यां वा युक्तिं सहेतेत्याशङ्कय निराकरोति-न प्रका- शादिति ॥ यथार्कस्य छाया 'तामसी' रात्रिरूपा अर्काद्भिन्ना न,तथेयमिति व्यतिरेकदृष्टान्तः । यद्वा-अर्कस्य छाया अ- कर्काच्छादिका तामसी तमोदृष्टिभिर्दिवान्धैः आरोपिता ना- कौद्भिन्ना यथेत्यर्थः । 'परास्य शक्तिः' इति श्रुतौ मायायाः आत्मशक्तित्वावगमात्, न हि शक्तिः शक्तिमतो भेदेन वि- भाव्यते । नापि चिदात्मनोऽभिन्ना, भिन्नाभिन्ना वा, त्वाद्भिन्नत्वाद्विषयत्वानुपपत्तिप्रसङ्गात्, जडाजडयोरेकत्वायो- गाच्चेत्याह-न चाभिन्नेति ॥ १४ ॥ वहेत्ववयवाभावान्नेयं सावयवोच्यते । न चावयवहीना सा कार्येष्ववयवान्विता ॥१५॥ प्रकारान्तरमप्यपाकरोति-स्वहेत्ववयवाभावादिति॥अ- नादित्वादित्यर्थः । तस्या एव कार्याकारत्वात् कार्यस्य च सावयवत्वात् सैव कार्याकारणावयवान्वितेत्यर्थः। न हि मायाविनिर्मितहस्त्यश्वादि निरवयवं भवतीति भावः ॥१५॥ . जड- (१) श्वेताश्व. ६-४.। (२) कार्याकारित्वेति पाठान्तरम् ।
१४८ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- अविचारितसिद्धेयं माया वेश्या विलासिनी । पुरुषं वञ्चयत्येव मिथ्याभूतैः खविभ्रमैः॥१६॥ अतः प्रकारान्तराभावात् सिद्धमस्याः युक्तिहीनप्रकाशत्वं लक्षणमित्युपसंहरति-अविचारितेति ॥ १६ ॥ न तस्या मूलविच्छेदमभिवाञ्छन्ति केचन । तेषां पक्षे कथं मोक्षो मनसः सम्भविष्यति ॥१७॥ ये वेश्याविलासवञ्चिताः चपलेन्द्रियग्रामाः वेश्यामाया- विलासवञ्चिताः तां न जिहासन्ति, तान् शोचन्नाह-न त- स्या इति ॥ मूलतो विच्छेदः सवासनानिवृत्तिः॥ तदनिवृत्ती को दोष इति चेत्, संसारदुःखपरम्परायाः अनिवृत्तिरित्याह- तेषां पक्ष इति ॥ 'मनसो मोक्षः' मनसः सकाशान्मोक्षः म- नोविल (ला)यो वा परमोपशमलक्षितपरमानन्दः तेषां कथं स्यादित्यर्थः॥ १७ ॥ तिस्रोप्यवस्था मनसो जाग्रत्स्वप्नसुषुप्तयः। चक्रवत्परिवर्तन्ते भेदभ्रान्येकहेतवः ॥ १८ ॥ मनसो मोक्षाभावे कथं परमानन्दलाभ इत्यत आह-ति- स्रोपीति ॥ मनसि सति तस्य मनसः तिस्रोपि जाग्रदायव- स्थाश्चक्रवत्परिवर्तन्ते, भेदभ्रान्तेः मुख्यकारणभूता इत्यर्थः। एतदुक्तं भवति-मनसो यदा बाह्येन्द्रियद्वारा बाह्यविषया- कारता भवति, तदा जाग्रदवस्था, यदा जाग्रदृष्टवासनामात्र- तयान्तः प्रविशति, तदा स्वप्नावस्था, यदा पुनर्नाडीच्छिद्र- (१) तदानिच्छायां को इति पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. १४९ प्रचारं परित्यज्य स्वकारणे लीयते, तदाऽशेष(विशेष)वेद्यवे- दनाकारप्रविलयात् सुषुप्तिर्भवति । एवं मनसः संचारात् भे- दविभ्रमाः जायन्ते कर्तृक्रियाकारकफलाश्रया इति ॥१८॥ ताभिः करोति कर्माणि पुनस्तैर्बध्यते मनः। मनसः केवलः साक्षी भानुवत्पुरुषः परः॥ १९ ॥ सति च भेदविभ्रमे किं स्यादिति तदाह-ताभिरिति ॥ भेदभ्रान्तिभिरित्यर्थः । कथंमनसः संसारवर्णनं क्रियते, आ- मन एव संसारित्वादित्यत आह-मनस इति ॥ मनसोने- कविकारिणः साक्षी पुरुषः केवलो निर्विकारो मनसः परोन्यो, यथा जगत्साक्षी भानुरित्यर्थः। साक्षिणोवस्थासंसारधर्मवत्त्वे तस्यापि साक्ष्यकोटिपतितत्वादसाक्षिकमवस्थात्रयं स्यादिति भावः॥ १९ ॥ यथा प्राणिकृतैरकः कर्मभि व बध्यते । तथा मनःकृतैरात्मा साक्षित्वान्नैव बध्यते ॥ २० ॥ कर्मसाक्षित्वादेवायं पुरुषः कर्मभिः न लिप्यत इत्याह- यथा प्राणिकृतैरिति । तथा च श्रुतिः 'सूर्यो यथा सर्वलो- कस्य चक्षुः' इत्यादिः ॥२०॥ आत्मा करोति कर्माणि बध्यते मुच्यते च तैः । इत्यौपचारिकी कृप्तिर्भममात्रैव केवलम् ॥ २१ ॥ यद्येवमकर्ता अभोक्ता चात्मा, कथं तर्हि तस्मिन्वादिनां लोकागमयोश्च कर्तृत्वादिप्रसिद्धिरित्याशङ्कय जपाकुसुमादि- - (१) कठो. ५-११ ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- सन्निहिते स्फटिके लौहित्यावभासवत् कर्तृमनआदिसन्निध्यु- पाधिनिमित्तस्तस्मिन् कर्तृत्वाद्यवभासः, अविवेकाद्वादिलोका- गमप्रसिद्धिरुपपद्यत इत्यभिप्रेत्याह-आत्माकरोतीति॥२१॥ धूमाभ्रधूलीनीहारैरस्पृष्टोपि दिवाकरः। यथा छन्न इवाभाति तथैवात्मापि मायया ॥ २२ ॥ यद्यात्मनो मनआयुपाधिसम्बन्धाद्यथावदप्रकाशः, तस्य कथमसङ्गकूटस्थत्वादिस्वभावतेत्याशङ्कां दृष्टान्तेन प्र- त्याचष्टे--धूमाभ्रेति॥'मायया'मायातत्कारित्यर्थः॥ २२॥ यथा लीलावशात्कैश्चिद्धाम्यमाणः कुमारकः । भ्रमात्तत्पश्यति जगच्छतचन्द्रं नभस्स्थलम् ॥२३॥ परमार्थतः आवृतत्वाभावेयात्मनः आवृतत्वप्रतीतिं दृ- प्टान्तेनोपपाद्य विक्षेपावभासोपि तस्य न परमार्थत इत्यत्र - ष्टान्तमाह-यथा लीलावशादिति ॥ २३ ॥ तथैव मायया जीवो भ्रामितो वासनावशात् । नानाकारमिदं विश्वं भ्रममाणं च पश्यति ॥२४॥ दार्टान्तिकमाह तथैवेति ॥'वासनावशात्' पूर्वपूर्वभ्रम- जसंस्कारोद्बोधवशात् 'नानाकारं' देवतिर्यमनुष्याद्यनेका- कारं 'भ्रममाणं' चञ्चलमित्यर्थः ॥२४॥ संसृज्य मनसा देवः संसरन्निव लक्ष्यते । यथार्को जलसंसर्गाचलनानेव लक्ष्यते ॥ २५ ॥ (१) भ्रमन्तं पश्येपाठान्तरम् ।
१५१ वृत्तान्ताख्यव्याख्यासमेतम्. मायया भ्राम्यमाणस्यापि जीवस्य न परमार्थतो भ्रमण- मस्तीत्येतदृष्टान्तेनोपपादयति-संसृज्य मनसेति ॥ 'देवः' आत्मा । आत्मनो नानात्वप्रतिभासोप्यनेन दृष्टान्तेन मि- थ्येत्युपपादित इति दर्शयति--नानेव लक्ष्यत इति ॥ चल- निव नानेवेति योजना ॥ २५ ॥ योगाभ्यासवशायेन मनो निर्विषयं कृतम् । निवृत्तः स पुमान्त्सद्यो जीवन्मुक्तो भविष्यति २६ तदेवं मायाद्वारकं जीवस्य चिदात्मनो बन्धमुपवर्ण्य स- साधनं तत्त्वज्ञानद्वारकं मोक्षमाह-योगाभ्यासेति ॥ 'निर्वि- पयं कृतम्' आलम्बनशून्यमविषयब्रह्माकारं कृतमित्यर्थः। अत एव स पुमान् उपस्थिताद्वाह्यविषयान्निवृत्तः सन् जीवन्मुक्तः 'सद्यो' निर्विषयात्मज्ञानोदयसमय एव भविष्यतीत्यर्थः॥२६॥ द्वा सुपर्णौ च सयुजावभवन्मायया शिवः । अजाको जुषन्नेको नानेवासीदिति श्रुतिः॥२७॥ अत्र जीवेश्वरयोः मायिकभेदानुवादिन्यौ ऋचावुदाहर- ति-द्वा सुपर्णाविति ॥ "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वर रत्त्यनश्नन्नन्यो अभिचाकशीति॥" "अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्तीं सरू- पामे" इत्यादि ॥ २७॥ (१) मुण्ड. ३-१. (२) याज्ञि. १२-५.
१५२ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लास अष्टमोल्लाससंग्रहः ॥ २८ ॥ अष्टमश्लोकव्यख्यामुपसंहरति-इतीति ॥२८॥ इति श्रीमानसोल्लासवृत्तान्ते अष्टमोल्लासः ॥ ८ ॥ अथ नवमोल्लास:- कथमेवंविधा माया निवर्तेतेति पृच्छतः। ईश्वरोपासनारूपस्तदुपायः प्रकीर्त्यते ॥ १ ॥ अधुना यथोक्तात्मेश्वरतत्त्वज्ञानसाधनविधानायोत्तरश्लो- क इति सङ्गतिमाह-कथमेवंविधेति ॥ १॥ षष्ट्रिंशत्तत्त्वरूपासु परमेश्वरमूर्तिषु । प्रत्यक्षेणोपलभ्यन्ते सर्वेरप्यष्टमूर्तयः॥ २ ॥ किमालम्बना ईश्वरोपासना कार्या? न हि निरालम्बनोपास- ना सम्भवति; न च ईश्वरः स्वरूपत एव तदालम्बनं भवति, तस्य निराकारत्वेन तदयोगादित्याशङ्कय प्रपञ्चोपंधानकल्पि- तविग्रहस्येश्वरस्य युक्तमुपासनालम्बनत्वमिति परिहरति- ट्रिंशत्तत्त्वरूपास्विति ॥ षष्ट्रिंशत्तत्त्वानि शैवागमे प्रसिद्धानि॥ निर्धारणार्था सप्तमी। आकाशस्यापि मनोगोचरत्वं, साक्षिमा- त्रगोचरत्वं वेति मतमाश्रित्य 'प्रत्यक्षेणोपलभ्यन्ते' इत्युक्त- मिति द्रष्टव्यम् ॥२॥ (.) चोपादानेति पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. १५३ अमेयासु मनः क्षिप्रमारोढुं नाहतीत्यतः । मूर्त्यष्टकमयीं ब्रूते गुरुः सर्वात्मभावनाम् ॥ ३ ॥ कथमष्टावेवेमाः मूर्तयः उपादीयन्ते नान्याः? इत्यत आह -~-अनुमेयास्विति ॥गुरुः श्रीशङ्करचार्यः।प्रकाश्यप्रकाशका- तिरिक्तस्य ज्ञेयस्याभावात् तस्य चाष्टमूर्त्यतिरिकत्वाभावात् । अत्र वक्ष्यमाणाष्टमूर्तिध्यानमेवेश्वरस्य सर्वात्मभावनेत्यभि- प्रेत्योक्तं-सर्वात्मभावनामिति ॥ ३ ॥ "भूरम्भांस्यनलोनिलोम्बरमहर्नाथो हिमांशुः पुमा- नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् । नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्मादिभो- स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।२।।" 'अहर्नाथः' सूर्यः। पुमान्' त्रैलोक्यान्तर्यामी पुरुषः। यद्वा- 'पुमान्' भोक्ता । अन्यत्प्रसिद्धम्। 'इति' एवं यदिदं चराचरा- त्मकमाभाति तत्सर्व यस्यैव मूर्त्यष्टकं, तस्मै इति सम्बन्धः । कथमेतद्विश्वमीश्वरमूर्तिरूपम् ईश्वराद्भिन्नत्वादस्य ? इत्याश- ङ्कयाह-नान्यदिति ॥ 'विमृशता' विचारं कुर्वतां 'यस्मात् परस्मात्' सर्वकारणात् 'विभोः' अपरिच्छिन्नादीश्वरादन्यन्न विद्यते, विचार्यमाणे ईश्वरात्पृथक् स्वातन्त्र्येण जगतोऽभा- वात् सर्वमस्मिन् कल्पितम्, अस्यैव शरीरमित्यभिप्रायः। यत्तदोरन्वयः पूर्ववत् ॥९॥ ? (१) व्या० अनुमेयासु न मनः क्षिप्रमारोहतीत्यत इति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- अस्यैवं सिद्धान्तः- विराटुरीरे ब्रह्माण्डे प्राणिनामपि विग्रहे । षष्ट्रिंशत्तत्त्वसंघातः सर्वत्राप्यनुवर्तते ॥ ४ ॥ अस्य तात्पर्यतो व्याख्यानप्रपञ्च(ना)मारभते-अस्यैवमि- ति ॥ अत्रेदं विवक्षितम्-अष्टमूर्त्यात्मकं सर्व जगत्, तच्च महेश्वरविग्रहं षष्टुिंशत्तत्वात्मकम् , तच्च द्विविधम्-अधिदैव- मध्यात्म चेति। तत्राद्यं ब्रह्माण्डं चतुर्दशभुवनात्मकं, द्वितीय (देह)पिण्डात्मकम् ,एतयोः कार्यकारणरूपेणाभेदात्। समष्टि- ब्रह्मण्डावयवान् सर्वान् व्यष्टिपिण्डावयवेषु सम्पाद्य पिण्डाव- यविनं च ब्रह्मण्डावयव्यात्मना सम्पाद्य महेश्वरं तदात्मत- यानुगतं ध्यायन तस्मिन् स्थिरीभू(कृ)तान्तःकरणः तत्प्रसादा- त्तस्यैव निर्विशेषं तत्त्वं पूर्वश्लोकैरष्टभिः प्रतिपादितं साक्षात्कृ- त्य कृतकृत्यो भवतीति । तदेतत्सर्व क्रमेण दर्शयति-वि- राडित्यादिना॥'ब्रह्माण्डे'समष्टिरूपे; 'प्राणिनां विग्रहे' व्यष्टि- रूपे । षट्रिंशत्तत्त्वानि द्वितीयश्लोकोल्लासे विवृतानि-पञ्च भू- तानि, पञ्च प्राणाः चतुर्दशेन्द्रियाणीति चतुर्विंशतिः; महान, कालः, प्रधानं, माया, विद्या, पुरुष इति षट्, बिन्दुनादौ शक्तिशिवौ शान्तातीताविति षट् ; एवं षटुिंशत्तत्त्वानि यानि शैवागमे प्रसिद्धानि, तानि सर्वत्र पिण्डे ब्रह्माण्डेप्यनुवर्तन्त इत्यर्थः । न हि पिण्डं ब्रह्माण्डातिरिक्तं किञ्चिदस्ति, तदप्य- ष्टमूर्तिव्यतिरिक्तं नास्तीति भावः ॥ ४ ॥ (१) ५६. मे पृष्ठे.
वृत्तान्ताख्यव्याख्यासमेतम्. व्याप्तिय॑ष्टिशरीरेस्मिन् मनसो व्यष्टिरूपिणः । तस्मात्सर्वात्मकमिदं स्वशरीरं विचिन्तयेत् ॥५॥ तत्र पिण्डे ब्रह्माण्डसम्पादनप्रकारं वक्तुं तावन्निमित्तमाह -व्याप्तिरिति ॥ व्यष्टिरूपिणो मनसोस्मिन् व्यष्टिशरीरे व्याप्तिर्यस्मात्तस्मादिति योजना । 'त एते सर्व एव समाः सर्वेनन्ताः इति वा मनःप्राणाननुक्रम्य हिरण्यगर्भरूपेणा- नानान्मनसो व्यापकत्वम् । तस्य मनःप्रधानलिङ्गात्मनः समष्टिशरीरस्य तत्कार्यव्यष्टिशरीरे व्याप्त्युपपत्तेश्च तद्वारा व्यष्टिपिण्डस्यापि युक्तं सर्वात्मकत्वमिति भावः ॥५॥ व्यष्टयुपासनया पुंसः समष्टिव्याप्तिमाप्नुयात् । उपसंक्रामतीत्येवं दशकृत्व उपादिशत् ॥ ६ ॥ यस्माच्चैवं पिण्डब्रह्माण्डयोरेकहिरण्यगर्भरूपत्वादत्यन्त- मभेदः, तस्मात्पिण्डात्मना महेश्वरोपासनया समष्टिब्रह्मा- ण्डात्मतां लभत इति पिण्डे ब्रह्माण्डसम्पत्तिः कर्तव्येत्याह- व्यष्टीति ॥ पुंसो व्यष्टयुपासनयेत्यन्वयः । पुंसः परमेश्वरस्य व्यष्टिशरीरा(न्तरा)त्मनोपासनयेत्यर्थः॥आप्नुयात् ॥उपासक इति शेषः । तत्र प्रमाणमाह-उपसंक्रामतीत्येवमिति ॥ ते त्तिरीयोपनिषत्सुप्रथममध्यात्मपञ्चकोशान् अन्नमयादीननुक्र. म्यान्ते 'एतमन्नमयमात्मानमुपसङ्कामति । एतं प्राणमय- मात्मनमुपसङ्कामति । एतं मनोमयमात्मानमुपसङ्कामति । एतं विज्ञानमयमात्मानमुपसङ्कामति । एतमानन्दमयमा- त्मानमुपसङ्कामति' इति पञ्चकृत्वः सङ्क्रमणमानन्दमय- (१) बृ. उ. ३-५-१३ । (२) गर्भान्वयादेति पाठान्तरम् । (३) त्म- तालभ्यते इति पाठान्तरम् । (४) ते. उ. २.८-५ ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- कोशान्तर्गतसर्वाधारव्यापकब्रह्मप्राप्तिरूपमुक्तम् । तथा भृगु- वल्लयां चाधिदैवं पञ्चकोशाननुक्रम्यान्ते 'एतमन्नमयमात्मा- नमुपसङ्कम्य' इत्यादिना पञ्चकृत्वः तस्यैव सङ्कमणमा- नातमिति परिच्छिन्नदृष्टेरपि पूर्णात्मविषयतया परिपूर्णप्रा- प्तिहेतुता प्रमासिद्धेत्यर्थः ॥ ६॥ ब्रह्माण्डस्योदरे लोकाः सप्तभूरादयः स्मृताः। मूलादिब्रह्मरन्ध्रान्तेष्वाधारेषु वसन्ति ते ॥ ७ ॥ इदानी सम्पत्तिमनुक्रमते-ब्रह्माण्डस्येति॥भूरादयःसप्त- लोकाः ये ब्रह्माण्डस्योदरे स्थिताः वर्तन्ते, ते मूलाधारादि- ब्रह्मरन्ध्रान्तेषु स्वाधारेषु वसन्ति, मूलाधारस्वाधिष्ठानमणि- पूरकानाहतविशुद्धाज्ञासहस्रारेषु क्रमेण भूर्भुवस्वर्महर्जनस्त- पस्सत्यमित्येते लोका वसन्तीति ध्यायेदित्यर्थः॥ ७ ॥ वीणादण्डो महामेरुरस्स्थीनि कुलपर्वताः। गङ्गा तु पिङ्गला नाडी यमुनेडा प्रकीर्तिता ॥ सरस्वती सुषुम्नोक्ता नाड्योन्याः पुण्यनिम्नगाः । दीपाः स्युर्धातवः सप्त स्वेदवाष्पादयोब्धयः ॥९॥ सम्पूर्णे पिण्डे लोकसंस्थानसम्पत्तिमुक्त्वा तत्रैव भूलोक- संस्थानविशेषसंपादनप्रकारमाह-वीणादण्ड इति ॥ अन्त- स्सुषिरः पृष्ठवंशो वीणादण्डः, स महामेरुः मध्यत्वोन्नतत्व- सामान्यात् । तत्पार्धास्थीनि कुलपर्वताः पारियात्रादयः, परितो विक्षिप्ततया स्थितत्वात् । गङ्गानदी पिङ्गलानाड्यां सम्पादयेत्, इडायां यमुनां, सुषुम्नायां सरस्वतीं; पार्श्वयोर्म- ध्ये च प्रकटगुप्तत्वसामान्यात् नाडीत्रयं नदीत्रयात्मना ध्येयमित्यर्थः । अन्यासु नाडीषु सर्वा अन्या नदीः सम्पा-- वृत्तान्ताख्यव्याख्यासमेतम्, दयेदित्याह-नाड्योन्या इति । त्वगादयः सप्त धातवो जम्ब्वादिद्वीपाः ध्येया इत्यर्थः । स्वेदबाष्पादयः शरीरगाः द्वीपावेष्टितसप्तसमुद्रत्वेन ध्येया इत्यर्थः ॥९॥ मूले तिष्ठति कालामिरस्थिमध्ये च वाडवः । वैद्युतोमिः सुषुम्नायां पार्थिवो नाभिमण्डले ॥१०॥ हृदि तिष्ठति सूर्यामिः कपाले चन्द्रमण्डलम् । नक्षत्राण्यपराण्याहुनेंत्रादीनीन्द्रियाण्यपि ॥ ११ ॥ 'मूले' मूलाधारे 'कालाग्निः' प्रलयकालानलः 'अस्थिमध्ये' अस्थिकूटान्तराळे स्वेदाधब्धिशोषको बाडबाग्निः तिष्ठती- त्यर्थः। 'वैद्युतोग्निदिव्योग्निः सुषुम्नायां तिष्ठति, क्षणस्फुर- णत्वात्, सर्वनाडीषूष्मधाराप्रवर्तकत्वाद्वेत्यर्थः। 'पार्थिवः' पृ- थिवीधातुशोषणोग्निः, स नाभिमण्डले ध्येय इत्यर्थः ॥१०॥ हृदीति प्रसिद्धार्थम् । 'कपाले' ललाटे । 'अपराणि नक्षत्राणि' चन्द्रव्यतिरिक्तानि अश्विन्यादीनि सप्तविंशतिसङ्ख्यानि, तथा मङ्गलबुधादिग्रहाश्च नक्षत्ररूपेण दृश्यमानाः, ते सर्वे नेत्रादी- न्द्रियेषु ध्येया इत्यर्थः ॥ ११ ॥ ब्रह्माण्डगतो वायुः शरीरे प्राणात्मनास्ति- धार्यन्ते वायुभिर्लोका यथा प्रवहणादिभिः। प्राणादिभिर्दशविधैर्धार्यते वायुभिर्वपुः ॥ १२ ॥ स्वप्रचारेण ब्रह्माण्डधारकं वायुमन्त शरीरे देहधारकमा- णात्मना ध्यायेदित्याह-धार्यन्त इति ॥ प्रवहणसंवहनादि- भिः सप्तभिः भेदैरित्यर्थः ॥१२॥ ()भिमध्ये ध्ये इति पाठान्तरम् । (२)धार्यते वेति पाठान्तरम् । (0) लोके बेति पाठान्तरम् । (७) धार्यत इति पाठान्तरम् । (५) भिः ससोति पाठा. १४ मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- प्राणो दशधा- प्राप्येडापिङ्गले प्राणो मूलात्सूर्यस्वरूपतः। नासिकाभ्यां बहिर्गत्वा लीयते द्विषडङ्गुले ॥१३॥ प्राणस्य दशविधत्वंतत्कार्यनिर्देशनद्वारा दर्शयति-प्रा- प्येति ॥'मूलात्'मूलाधारात् उत्थिते इडापिङ्गले नाड्यौ प्राप्य 'सूर्यस्वरूपतः' सूर्यवदूष्माश्रयः सन् नासिकाभ्यां द्वाराभ्यां बहिर्देहात् गत्वा 'द्विषडङ्गुले' द्वादशाङ्गुलमात्रदेशे 'लीयते' लयमदर्शनं गच्छतीत्यर्थः ॥ १३ ॥ अष्टाङ्गुलेन सोमात्मा नाडीभ्यामन्तराविशेत् । मलमूत्रमरुच्छुकाण्यपानो विसृजेबहिः॥ १४ ॥ सोमात्मा सन् स एव प्राणोपानं प्रणुदन् अष्टाङ्गुलेन देशे- नागत्य 'नाडीभ्याम्'इडापिङ्गलारूपाभ्यां नासिकाच्छिद्राभ्या- मन्तश्शरीरमध्ये आविशेत् । तत्रापानो वायुमलादि बहि- विसृजेत् गुदद्वारेत्यर्थः ॥१४॥ अमीषोममयो भूत्वा सुषुम्नारन्ध्रमाश्रितः। आब्रह्मरन्ध्रमुद्गच्छन्नुदानो वर्धते स्वयम् ॥ १५ ॥ तस्यैवोदानापत्तिमाह-अग्नीषोममय इति ॥ 'वर्धते' विजृम्भते ॥ १५॥ व्यापयेदपुषि व्यानो भुक्तान्नरसमन्वहम् । सन्धुक्षणं समानस्तु कायानेः कुरुते सदा ॥१६॥ भुक्तान्नरसम् 'अन्वहं' प्रत्यहं य उपरि देहनाडीषु 'व्याप- (१) विशदिति विशन्निति च पाठान्तरे। (२) भ्यां प्रेरयन्नासीति पाठा. न्तरम् । (३) विशदिति विशनिति च पाठान्तरे ।
वृत्तान्ताख्यव्याख्यासमतम्. येत्' विविधमासमन्तात् प्रापयेत्,प्रचारयन् सर्वनाडीामो- तीत्येतत् ,स व्यान इत्यर्थः। 'सन्धुक्षणं' प्रज्वलनानुकूलो व्या- पारः । कायाग्नेः सदा सन्धुक्षणं कुर्वन् समान इत्यर्थः॥१६॥ नागो हिकाकरः कूर्मों निमेषोन्मेषकारकः । क्षुतं करोति ककरो देवदत्तो विजृम्भणम् ।।१७।। स्थौल्यं धनञ्जयः कुर्यान्मृतं चापि न मुञ्चति । श्रुतिप्रसिद्धान् प्राणादिपञ्चवायून् विभज्य योगशास्त्रप्र- सिद्धान्नागादीनपरान् पञ्च वायून्विभजते-नागो हिक्का- कर इत्यादिना ॥ निमेषोन्मेषणे नेत्रयोः कुर्वन कूर्म इत्यर्थः। 'विजृम्भणं' तन्द्रीवशात् आस्यविदारणम् ॥१७॥ 'स्थौल्यं' देहोपचयं 'मृतं च' शवरूपमपि न मुञ्चति, तत्राप्युच्छून- त्वकारणवायुर्धनञ्जय इत्यर्थः॥ आकाशो बहिरप्यन्तखकाशं प्रयच्छति ॥१८॥ एतावता 'भूरम्भांस्यनलोनिलः' इत्यन्तं व्याख्यातम् । इदानीमम्बरादीन्व्याचक्षाणः तत्सम्पादनं सूचयति-आ- काश इति ॥ १८॥ चन्द्रार्को कालनेतारी प्राणापानौ शरीरिणाम् । साक्षी पुरुष इत्येवं मूर्यष्टकमिदं वपुः ॥ १९॥ यौ कालनेतारौ प्रसिद्धौ चन्द्राकौं, तौ-शरीरिणां शरीरे प्राणापानौ ध्येयावित्यर्थः । यः साक्षी संघातस्य, स पुरुषः पुमानित्युक्त इत्यर्थः । 'इत्याभाति चराचरात्मकम् ' इत्ये- तयाचष्टे-इत्येवमिति ॥ १९ ॥ (१) तन्द्रावेति पाठान्तरम् । (२) कारको धनेति पाठान्तरम् । (३) इत्याभातीत्यत्रेतिपदरहितं पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- समनस्कमिदं योगी सेवमान उपासनम् । अष्टाङ्गयोगयुक्तः सन्नमनस्क स गच्छति ॥ २० ॥ एवमष्टमूर्तिस्वरूपं देहे एव सम्पाद्य ध्यायतः फलमाह- समनस्कमिति ॥ मनसा व्याप्तत्वात् समनस्कमिदमष्टमूर्ति- लक्षणम् 'उपासनं' ध्यानं 'सेवमानः' अभ्यस्यन् 'योगी' योग- निरतः । कथं योगी ? अष्टाङ्गयोगयुक्तः सन् । सोमनस्कम- लिङ्गमीश्वरं 'गच्छति', तत्पदमामोतीत्यर्थः ॥२०॥ योगाष्टाङ्गेषु मनस्साध्या यमाः- मनःप्रसादः सन्तोषो मौनमिन्द्रियनिग्रहः । दया दाक्षिण्यमास्तिक्यमार्जवं मार्दवं क्षमा ॥२१॥ भावशुद्धिरहिंसा च ब्रह्मचर्य स्मृतितिः। इत्येवमादयोन्ये च मनस्साध्या यमाः स्मृताः॥२२॥ इदानीं योगाष्टाङ्गानि विभजते-मनःप्रसाद इत्यादि- ना ॥ मनस उद्रिक्तसत्त्वावस्थापत्तिः 'प्रसाद' प्रसन्नता । ल- क्ष्ये विक्षेपाभावेनावस्थितिरिति यावत् । 'सन्तोषः' यदृच्छा- लाभसन्तुष्टिः। 'मौन' वृथावागुत्सर्जनत्यागः। इन्द्रियनिग्रहः' तदशीकरणम् । 'दया' भूतद्रोहाकरणम् । 'दाक्षिण्यं' व्यव- हारे दक्षता, आग्रहराहित्यमित्येतत् । 'आस्तिक्यं' शास्त्राधु- क्तविषये विश्वासः। 'आर्जवम्'ऋजुत्वमकुटिलत्वम् । मार्दवं' मृदुत्वमकठिनत्वम् । क्षमा क्रोधहेतुष्वपिक्रोधपरित्यागः॥२१॥ 'भावशुद्धिः'वचनोच्चारणादौ मनःशुद्धिः। शुद्धान्तःकरणत्व- मिति यावत्। अहिंसा' परपीडावर्जनम्।'ब्रह्मचर्यम्'अष्टाङ्गमै- (१) देह एवेत्येतद्रहितं पाठान्तरम् ।
वृत्तान्ताख्यन्याख्यासमेतम. थुनत्यागः । स्मृतिर्जन्ममृत्युजराव्याधिदुःखदोषानुसन्धान- म्। 'धृतिः' धैर्य मनःप्राणेन्द्रियाणामवसादप्राप्तौ उत्तम्भनम् इत्येवमादयः “अमानित्वमदम्भित्वम्" इत्यादयः 'अन्ये च' अद्वेष्तृत्वादयश्च ये मनसःसाध्याः योगसाधनभूताः धर्माः, ते इमे यमाः 'स्मृताः' उक्ता विद्वद्भिरित्यर्थः। मनोमात्रसाध्याः निवृत्तिलक्षणयोगाङ्गविशेषाः यमा इति यमलक्षणमनेनोक्त- मिति द्रष्टव्यम् ॥ २२॥ कायसाध्या नियमा:- सानं शौचं क्रतुः सत्यं जपो होमच तर्पणम्। तपो दानं तितिक्षाचनमस्कारः प्रदक्षिणम् ॥२३॥ व्रतोपवासाद्याश्चान्ये कायिका नियमाः स्मृताः। नियमान कायसाध्यलक्षणान् योगविशेषानाह-स्नान- मिति ॥ 'स्नानशौचे' बाह्ये एव ग्राह्ये, भावशुद्धेर्यमेषूक्तत्वा- त् । 'ऋतुः ईश्वरपूजनं 'सत्य' यथार्थवचनं, 'तितिक्षा' द्व- न्द्वसहनं, ॥२३॥व्रतोपवासाद्यास्तत्तत्कालोचिताः, 'अन्येपि' ये योगाविरोधिनः आहारविहारादयः 'कायिकाः' कायसा- ध्याः। उपलक्षणमेतत्, कायवाक्साध्या इत्यर्थः ॥ आसनानि- खस्तिकं गोमुखं पद्मं हंसाख्यं ब्राह्ममासनम्॥२४॥ नृसिंहं गरुडं कूर्म नागाख्यं वैष्णवासनम् । (१) भगवदी...-11 (२) भगवद्गी. १२.५-१९॥ (३) मनस्साध्या इति पाठान्तरम् । (७) दान्तिस्तितीति पाठान्तरम् । (५). पि यथा यो इति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- वीरं मयूर वैज्राख्यं सिद्धाख्यं रौद्रमासनम् ॥२५॥ योन्यासनं विदुः शाक्तं शैवं पश्चिमतानकम् । आसनान्याह-स्वस्तिकमित्यादिना ॥ स्वस्तिकाद्यासन- चतुष्टयं 'ब्राह्म' ब्रह्मदेवत्यमित्यर्थः ॥२४॥ नृसिंहादिचतुष्टयं 'वैष्णवं' विष्णुदेवत्यम् । वीरादिचतुष्टयं 'रौद्रं' रुद्रदेवत्यम् ॥ २५ ॥ योन्यासनं 'शाक्तं' शक्तिदेवत्यं विदुरित्यर्थः । पश्चिमतानकं नाम आसनं शैवं विदुर्योगिन इति योजना ॥ निरालम्बनयोगस्य निरालम्बनमासनम् ॥ २६ ॥ निरालम्बतया ध्यानं निरालम्बः सदाशिवः । योगविशेषे चासनविशेषमाह-निरालम्बनेति ॥ 'निराल- म्बन' करचरणादिसंस्थानविशेषनियमालम्बनरहितम्॥२६॥ कोसौ निरालम्बयोग इत्यपेक्षायामाह-निरालम्बतया ध्या- नमिति ॥को निरालम्ब इत्यत आह–निरालम्बः सदाशिव इति ॥'सदाशिवः' निर्विशेषः परमात्मा, तदालम्बनं तस्मिन्म- नस्समाधानं निरालम्बनयोग इत्यर्थः ॥ स्वस्तिकाद्यासनानां लक्षणानि योगग्रन्थेभ्योवगन्तव्यानि॥ प्राणायामा:- रेचकः पूरकश्चैव कुम्भकः प्राणसंयमः ॥ २७ ॥ इदानीं प्राणायामानाह-रेचक इति॥ रेचकपूरककुम्भ- करूपस्त्रिविधःप्राणनिरोधः प्राणायाम इति तात्पर्यार्थः॥२७॥ प्रत्याहार:- इन्द्रियाणां समस्तानां विषयेभ्यो निवारणम् । प्रत्याहार इति प्रोक्तं प्रत्याहारार्थवेदिभिः ॥ २८ ॥ (१). वज्रं चेति पाठान्तरम् । (२). प्रोक्त इति पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. प्रत्याहारानाह-इन्द्रियाणामिति ॥ स्पष्टार्थः ॥२८॥ धारणा- आधारे कापि मनसः स्थापनं धारणोच्यते । धारणाख्यं योगाङ्गमाह-आधार इति ॥ कापि मणिपू- रकादिषु चक्रेष्वित्यर्थः । अथ वा-वापि शुभविषये हृदि- आविष्कृतविष्ण्वादिमूर्तावित्यर्थः ॥ ध्यानम्- ब्रह्मविष्णुशिवादीनां चिन्ता ध्यानं प्रचक्षते ॥२९॥ ध्यानमाह-ब्रह्मविष्णुशिवादीनामिति ॥ धारणा-प्राणेन सह मनसः क्वापि स्थिरीकरणमात्रं, ध्यानं तु-विषयविशेषे विष्ण्वादौ मनोवृत्तिधाराप्रवाह इति भेदः ॥ २९ ॥ समाधिः- ध्यानादस्पन्दनं बुद्धेः समाधिरभिधीयते । अमनस्कसमाधिस्तु सर्वचिन्ताविवर्जितम् ॥३०॥ अष्टममङ्गं समाधिमाह-ध्यानादिति। अयं सविकल्पकः समाधिः समनस्को ज्ञातृज्ञेयविभागोल्लेखलेशसहितोङ्गमित्य- र्थः । एतैरङ्गैः साध्यं निर्विकल्पकसमाधिरूपम् अङ्गिनं योग- माह-अमनस्कसमाधिस्त्विति । सर्वचिन्ता-ज्ञातृज्ञेयविभा- गोलेखः, तद्विवर्जितं लयविक्षेपरहिततया प्रशान्तावस्थमि- त्यर्थः ॥ ३०॥ (१). हृदावीति पाठान्तरम् । (२). स्थितिकेति पाठान्तरम् । (३). ङ्गिनमाहेति पाठान्तरम् । (४). शान्तां वस्यत इत्येति वरयत इत्येति च पाठान्तरे। .
मानसोल्लासास्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- चित्ते निश्चलतांयाते प्राणो भवति निश्चलः। चित्तस्य निश्चलत्वाय योगं सध्यानमभ्यसेत्॥३१॥ चित्तनैश्चल्यफलमाह-चित्त इति ॥ प्राणनैश्चल्ये [चि- त्तनैश्चल्यं] हेतुरुक्तः । चित्तनैश्चल्ये त्वष्टाङ्गयोग एव हेतुः । अतस्तं यतेनाभ्यसेदित्याह-चित्तस्येति॥सध्यानमिति ध्या- नमात्रग्रहणं तत्रादरातिशयद्योतनार्थम् ॥ ३१॥ योगसाधनान्तराणि- आकुञ्चनमपानस्य प्राणस्य च निरोधनम् । लम्बिकोपरिजिह्वायाः स्थापनं योगसाधनम्।।३२॥ पुनरेकमन्यं योगसाधनमाह-आकुञ्चनमिति ॥ गुद- द्वारस्य सङ्कोचनेन वायोरूर्ध्वस्रोतःप्रवर्तनम्-'आकुश्चन' कुम्भकेन प्राणस्य शरीरान्तनिरोधनं ; 'लम्बिका' तालुमूले स्तनाकारो मांसखण्डः, तदुपरिजिह्वायाः स्थापनंबलान्निरोध इत्येतत्,योगस्य चित्तवृत्तिनिरोधलक्षणस्य साधनमुत्कृष्टो हे- तुरित्यर्थ ॥ ३२॥ स्थानविशेषाभिजययोगस्य लक्षणानि- चित्ते निशलतां याते प्राणे मध्यपथं गते । चिहान्येतानि जायन्ते पञ्चभूतजयात्पृथक् ॥३३॥ इदानीमभ्यासवशीकृतचित्तप्राणस्य योगिनश्चिहान्याह- चित्ते निश्चलतां यात इति ॥ पञ्चभूतजयात्पृथगित्यस्या- यमर्थः-पादादिजानुपर्यन्तं-पृथिवीस्थानं, जान्वादिनाभि पर्यन्तम् अपां स्थानं, तदादिकण्ठपर्यन्तं-तेजस्थानं, ततो (१). प्राणमध्ये लयं गेति पाठान्तरम् ।
वृत्तान्ताल्यव्याख्यासमेतम्. मध्यपर्यन्तं-वायुस्थान, तत ऊर्ध्वं ब्रह्मरन्ध्रपर्यन्तम् आका- स्थानम्, एतेषु धारणाभ्यासक्रमेण एतजयादेतानि चिह्नानि वन्तीति ॥ ३३॥ लमूत्रकफाल्पत्वमारोग्यं लघुता तनोः । सुगन्धःस्वर्णविर]वर्णत्वंप्रथमं योगलक्षणम्॥३४॥ कानि तानीत्यपेक्षायामाह-मलमूत्रेति । 'प्रथमं योगल- क्षण' पृथिव्याख्यप्रथमभूमिकाजयपर्यन्तस्य योगस्य लक्षण- मित्यर्थः । एवमुत्तरत्रापि योजना । अत्रास्ति श्वेताश्वतरी- याणां मन्त्रोपनिषत् 'युञ्जानः प्रथमं मनः' इति योगं प्रकृत्य "पृथ्व्याप्यतेजोनिलखे समुत्थिते पञ्चात्मके योगगुणेप्रवृत्ते। नतस्य रोगो नजरान मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्।। लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति।" इति ॥ ३४॥ कण्टकाग्रेष्वसङ्गवं जलपङ्केष्वेमजनम् । क्षुत्तृडादिसहिष्णुत्वं द्वितीयं योगलक्षणम् ॥३५॥ द्वितीयभूमिकाधारणासिद्धिचिह्नान्याह-कण्टकाग्रेष्वि- ति ॥ असङ्गत्वं कण्टकैरवेधनम् ॥ ३५ ॥ बहनपानभोक्तृत्वमातपादिसहिष्णुता । दर्शनं श्रवणं दूरानृतीयं योगलक्षणम् ।। ३६ ।। तृतीयामाह-बन्नेति ॥ ३६ ॥ (१). ण तजेति पाठान्तरम् । (२) भत्रेतीति नास्ति पुस्तकान्तरे । (३)श्वे. उ.२.१२। (४). श्वे. उ. २१३। (५) सङ्गश्च जले पक्रेप्यमेति जलसङ्गेप्यमेति च पाठान्तरे ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- मण्डूकप्लवन भूमौ मर्कटप्लवनं द्रुमे । आकाशगमनं चेति चतुर्थ योगलक्षणम् ॥ ३७॥ चतुर्थलक्षणमाह-मण्डूकप्लवनमिति ॥ ३७ ॥ ज्ञानं त्रिकालविषयमैश्वर्यमणिमादिकम् । अनन्तशक्तिमत्त्वं च पञ्चमं योगलक्षणम् ।। ३०॥ पञ्चमं योगलक्षणमाह-ज्ञानमिति॥'अनन्तशक्तिमत्त्व- म्' अपरिमितबलवत्त्वम् ॥ ३८ ॥ वशीकृतमनोयोगस्य चिहानि- प्राणे सुषुम्नां संप्राप्ते नादोन्तः श्रूयतेष्टधा । घण्टादुन्दुभिशङ्खाब्धिवीणावेवादितालवत्॥३९॥ एवं स्थानविशेषाभिजये चिह्नान्युक्तानि । सुषुम्नायां प्रा. णनिरोधनेन तत्र मनोवशीकारे चिह्नमाह-प्राणे सुषुम्नां सम्प्राप्त इति ॥ अष्टधात्वमेवाह-घण्टेति । वेण्वादीत्यादि- पदात् मृदङ्गादि गृह्यते । एतेषां ध्वनिसदृशाः नादाः श्रुति- गोचराः भवन्तीत्यर्थः ॥ ३९ ॥ तत्फलमाह- तनूनपात्तटित्तारातारेशतपनोपमम् । ब्रह्मनाडी गते प्राणे बिम्बरूपं प्रकाशते ॥ ४० ॥ एवं सिद्धे सुषुम्नायां धारणायोगे प्रत्यग्रूपेश्वराविर्भावो भवतीत्याह-तनूनपादिति ॥ 'तनूनपाद्' अग्निः। 'तटित्' सौदामिनी । 'तारा' नक्षत्राणि । 'तारेशः' चन्द्रः।' 'तपनः' (१) मण्डकेति मूले टीकायां च पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. । 'ब्रह्मनाडीं' सुषुम्नाम् । 'बिम्बरूप परमेश्वरचैतन्य क्रमेणान्यादिभाववत् अवभासत इत्यर्थः ॥ ४० ॥ प्रणवाभिव्यक्तिप्रकारः- श्वासाश्चरन्ति यावन्तो मनुष्यस्य दिन प्रति । तावन्ति योजनान्यर्कःश्वासेश्वासे प्रधावति॥४१॥ इदानीं तत्र प्रणवाभिव्यक्तिप्रकारमाह-श्वासाश्चरन्ती- ति ॥४१॥ तत्र दिनेदिने प्राणिनां श्वासमन्त्रसङ्ख्या- एकविंशतिसाहस्रं षटुतं श्वाससङ्ख्यया। सोहमित्युच्चरत्यात्मा मन्त्रं प्रत्यहमायुषे ॥ ४२ ॥ मनुष्यस्य दिन प्रति कति श्वासाश्चरन्तीत्यपेक्षायामाह- एकविंशतीति ॥ आ सूर्योदयात् सूर्योदयपर्यन्तम् अहोरात्रं यावत् , तावत् षटुताधिकैकविंशतिसहस्रसङ्घयं श्वासो- च्छासमाचरन् हंसः सोहमिति मन्त्रमुच्चरति स्वभावत एव । किमर्थम् ? आयुषे आयुर्वृद्धयर्थमित्यर्थः ॥ ४२ ॥ - तत्र प्रणव:- सकारं च हकारं च लोपयित्वा प्रयोजयेत् । सन्धि वै पूर्वरूपाख्यं ततोसौ प्रणवो भवेत्।।४३॥ ततः किमित्यत आह-सकारं चेति ॥ सकारे हकारे च लुप्ते ओकारः अकारः बिन्दुश्च अवशिष्यते। तत्र पूर्वरूपाख्यं 'सन्धि प्रयोजयेत्' अकारमोकारात्मन्येकीकुर्यात् , बिन्दु च उकारेण योजयेदित्यर्थः ॥ ४३ ॥ (१). रमात्मेश्वेति पाठान्तरम् । (२). सध्याश्वेति पाठान्तरम् । (३) चेतीत्युत्तरं सकारस्यावयवाख्यस्य अवयवान् विभजते-सन्धि चेति ॥ सकेति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- प्रणवे पञ्चाक्षरी- अकारश्चाप्युकारश्च मकारो बिन्दुनादको । पञ्चाक्षराण्यमून्याहुः प्रणवस्थानि पण्डिताः॥४४॥ अस्य ॐकारस्य प्रणवाख्यस्यावयवान्विभजते तञ्चिन्त- नार्थम्-अकारश्चाप्युकारश्चेति॥अश्च उश्च ओ, मकारे यो- जिते एतदुपरि-ओम्। अयं चमकारः स्वरहीनत्वात्परेण बि- न्दुना योज्यः । तदा ॐ इति रूपं निष्पद्यते । एतच्च घोषवता प्राणेन एकीकारेण नादेन मूलाधारादुत्थितेन प्राणोष्मसञ्च- रणनाडीगतसुषिराभिव्यक्तेन अभिव्यज्यत इति नादावसान उच्यते। एवं प्रणवस्थानि' प्रणवशब्दवाच्यपिण्डस्थानि अमू- निपञ्चाक्षराणि, अकार उकारो मकारो बिन्दुश्चेति चत्वारि, नादश्च तेषां सामान्यात्मकः पञ्चममक्षरम्, इत्येवं पञ्चाक्षरा- ण्याहुः 'पण्डिताः' आत्मविद्यासु कुशला इत्यर्थः ॥ ४४ ॥ एतत्पश्चाक्षराणां देवता:- ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरश्च सदाशिवः। तेष्वक्षरेषु तिष्ठन्ति पदिशत्तत्त्वसंयुताः॥४५॥ अथैतेषामक्षराणां (क्रमेण) देवता आह-ब्रह्मा विष्णुश्चेति।। पष्ट्रिंशत्तत्त्वसंयुता इति।तान्यपि तत्त्वानि प्रणवान्तर्गतान्येव, न ततो बहिः सन्तीति द्योतयन् प्रणवस्य पूर्णात्मतां ध्वन- यति । सर्वं हि वाच्यं वाचकैम्रस्तमवभासते, सर्वं च वाचक प्रणवाक्षरेण गृह्यते, तस्य सर्वशब्दसामान्यात्मकतया सर्व- शब्दव्यापकत्वात् । तथा च श्रुतिः-'तद्यथा शङ्कुना सर्वा. (१) ज्यः । सब ॐइतीति पाठान्तरम् । (२) एवमिति नास्ति चित् वृत्तान्ताख्यव्याख्यासमेतम्. णि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णोङ्का- र एवेदं सर्वम्' इति। 'ओमित्येतदक्षरमिदं सर्वम 'सर्व खेत- द्ब्रह्म' इत्योङ्कारब्रह्मणोरभेदप्रतिपादनात् पूर्णाद्वितीयब्रह्मा- स्मकः प्रणवः संवृत्त इति,स तथोपास्य इति तात्पर्यार्थ॥४॥ गुरुदेवतोपासनाधीना सर्वसिद्धि:- गुरुप्रसादालभते योगमष्टाङ्गलक्षणम् । शिवप्रसादालभते योगसिद्धिं च शाश्वतीम्॥४६॥ इदानी- 'यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥१॥' इति श्रुतिमाश्रित्य गुरुदेवतोपासनाधीना सर्वसिद्धिरिति तत्कर्तव्यता सूचयन्नाह-गुरुप्रसादादिति ॥ योगसिद्धिः आत्मतत्त्वाविर्भावः ॥ ४६॥ प्रणवार्थ:- सच्चिदानन्दरूपाय बिन्दुनादान्तरात्मने । आदिमध्यान्तशून्याय गुरूणां गुरवे नमः ॥४७॥ व्याख्यानान्ते मङ्गलमाचरनुक्तप्रणवार्थ प्रकटयति- सच्चिदानन्दरूपायेति ॥ स्वरूपमुक्तम् । बिन्दुनादान्तरात्मन इति ॥ ताभ्यामुपलक्षणीयतया उपलक्षणमुच्यते । एतदुक्तं भवति-सच्चिदानन्दाः अकारोकारमकारात्मकाः। प्रणव- ब्रह्मेस्वरूपनित्यकूटस्थं च, बिन्दुनादौ तु रूपनामनी आ. विर्भावतिरोभावधर्मकौं ,उत्पत्तिस्थितिलयाधारं वस्तु गमयत (१) छा. २-२३-४ । (२) माण्डू. ।। (३) श्वेता. (५) मझेति नास्ति कचित् । (१) को स्वोस्पे इति पाठान्तरम् । ६-२५॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- इति प्रणवब्रह्मोपलक्षणमिति॥नामरूपात्मकनादबिन्द्धधिष्ठा- नस्य आश्रयान्तरशङ्कामपाकुर्वन्नाह-आदिमध्यान्तशून्या- येति।कोसावेवंविध इत्यत आह-गुरूणां गुरवे नम इति । दक्षिणामूर्तये नम इत्यर्थः ॥ ४७ ॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके। प्रबन्धे मानसोल्लासे नवमोल्लाससङ्ग्रहः ॥४८॥ नवमश्लोकव्याख्यामुपसंहरति--इतीति ॥४८॥ इति श्रीदक्षिणामूर्तिस्तोत्रव्याख्यानप्रबन्धमानसोल्लास- वृत्तान्ते नवमोल्लासविलासः समाप्तः ॥९॥ अथ दशमोल्लास:- एतस्तोत्रफलम्- परिच्छिन्नमहम्भावं परित्यज्यानुषङ्गिकम् । पूर्णाहम्भावलाभोस्य स्तोत्रस्य फलमुच्यते ॥ १॥ उत्तरश्लोकतात्पर्य संक्षिप्य कथयन् तस्य पूर्वेण सङ्गति- माह-परिच्छिन्नमिति ॥ आनुषङ्गिकं देहाद्यभिमानानुषङ्गा- दागतमित्यर्थः ॥ उच्यते ॥ उत्तरश्लोकेनेति शेषः॥१॥ "सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिस्तवे तेनास्य श्रवणात्तथार्थमननाध्यानाच सङ्कीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सियेत्तत्पुमरष्टधा परिणतं चैश्वर्यमव्याहतम्॥१०॥ (१) त्यपेक्षाया माहेति पाठान्तरम्। (२) त्तान्तविलासो नवमस्स इति पाठान्तरम् ।
वृत्तान्ताख्यव्याख्यासमेतम्. इति श्रीमच्छङ्करभगवत्पादाचार्यविरचितं दक्षिणामूर्तिस्तोत्रं समाप्तम् ॥ यस्मादू'अमुष्मिंस्तवे' दक्षिणामूर्तिस्तोत्रे 'इति' उक्तप्रका- रेण सर्वात्मत्वम् ‘इदं' प्रत्यक्षं स्फुटीकृतम्, तस्मादस्य स्तोत्रस्य श्रवणात् गुरोरर्थतोवगमात्; 'तथार्थमननात्' यथा श्रुतं तथा अर्थस्य युक्त्याव्यवस्थापनात् ; 'ध्यानात्' श्रु(तम)तार्था- काराऽऽवृत्तिनैरन्तर्यकरणाच्च सङ्कीर्तनात्' केवलं स्तोत्रकीर्त- नमात्रादपीत्यर्थः; सर्वात्मत्वलक्षणा या महाविभूतिः तया स- हितमीश्वरत्वं निरुपचरितं निरतिशयं चेश्वरत्वं स्यात् , 'स्वतः' स्वभावतः सिद्धं, न प्रयत्नसाध्यं, तस्यानित्यत्वावश्यम्भावा- दित्यर्थः । यत्पुनः प्रसिद्धमष्टधा परिणतमणिमाद्यैश्वर्यं तच्च सिद्धयेदनुषङ्गादेव। तच्च 'अव्याहतम्' अप्रतिहतम्। अत इदं स्तोत्रमर्थतः पाठतो यत्नेन गुरुभ्योवगम्य तन्निष्ठो भवेत् , मुमुक्षुरभ्युदयार्थी वेत्यर्थः ॥ १० ॥ अस्य मोक्षो मुख्यं फलम्- इदमत्राकूतम्- पुत्रपौत्रगृहक्षेत्रधनधान्यसमृद्धयः । अर्वाचीनाच सिध्यन्ति स्वर्गपातालभूमिषु ॥२॥ अस्य व्याख्यां प्रारभते-इदमत्राकूतमिति ॥ यद्यप्यस्मात् स्तोत्रात् सर्व एवाभिलपणीयार्थाः लभ्यन्ते। तथापि बुद्धिमतान क्षुद्रलाभायेदंप्रयोक्तव्यं,किन्तु महाफलाय पारमेश्वरपदायैव ।अर्वाचीनानेकफलानि तु प्रसङ्गतो वस्तुम- (१) रुपमितमिति पाठान्तरम् । (२) लषिता अपि बु इति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- हिन्नैव भविष्यन्तीति तात्पर्यमभिप्रेत्याह-पुत्रपौत्रेत्यादिना।। स्वर्गे वा पाताले वा भूमौ वा भविष्यन्त्येव यथाकालं सर्वेर्वाचीनाः फलभेदा इत्यर्थः॥२॥ पाके प्रवर्तमानस्य शीतादिपरिहारवत् । प्रासङ्गिकाश्च सिद्धयन्ति स्तोत्रेणानेन सर्वदा ॥३॥ तत्रासङ्कल्पितस्यापि फलस्य अनुषङ्गिणः सिद्धिं दृष्टान्ते- नोपपादयति-पाके प्रवर्तमानस्येति ॥३॥ ईश्वरत्वं नाम- ऐश्वर्यमीश्वरत्वं हि तस्य नास्ति पृथस्थितिः । पुरुषे धावमाने हि छाया तमनुधावति ॥ ४ ॥ एवं तात्पर्यमुक्त्वा स्यादीश्वरत्वमित्युक्तमीश्वरत्वं व्याच- टे-ऐश्वर्यमीश्वरत्वं हीति ॥ ईश्वरस्य स्वरूपमैश्वर्यः तस्ये- श्वरात् पृथक्स्थितिः पार्थक्येनावस्थानं नास्तीत्यर्थः । तत्र दृष्टान्तमाह-पुरुषे धावमान इति ॥ ४॥ स्वस्येश्वरत्वप्राप्तावेव यतितव्यम्- अनन्तशक्तिरैश्वर्यं निष्यन्दाबाणिमादयः । खस्येश्वरत्वे संसिद्ध सिद्धयन्ति खयमेव हि ॥५॥ किंतदैश्वर्यमिति प्रसिद्धिः, यच्छायावदवियुक्तमीश्वरस्य सदेत्यपेक्षायामाह-अनन्तशक्तिरिति ॥ वाचामगोचरमन- तिशयं सहजं सामर्थ्य तदैश्वर्यमित्यर्थः। नन्वणिमादिसिद्धयो बैश्चर्यमिति प्रसिद्धिः,कथमनन्तशक्तिरैश्वर्यमिति? तत्राह- निष्यन्दाश्चेति । अणिमादयः सिद्धयः ईश्वरशक्तनिष्यन्दाः विप्नुमात्राः, तासां परिच्छिन्नत्वात् , अन्येष्वपि तारतम्येन भावात् । तथा च श्रुतिः 'एतस्यैवानन्दस्यान्यानि भूतानि - वृत्तान्ताख्यव्याख्यासमेतम्, मात्रामुपजीवन्ति' इति । तस्मादीश्वरत्वसिद्ध्यर्थमेव स्तोत्रं प्र- योक्तव्यं,नाणिमादिसिद्ध्यर्थ, तस्य तस्मिन्नानुषङ्गिकत्वादित्य- भिप्रेत्याह-स्वस्येति ॥५॥ यदीयैश्वर्यविमुद्धिब्रह्मविष्णुशिवादयः । ऐश्वर्यवन्तो भासन्ते स एवात्मा सदाशिवः ॥६॥ तथापि ब्रह्माद्यैश्वर्याय पृथक्प्रयोक्तव्यमित्याशङ्कय तद- प्यस्यैव लेश इत्याह-यदीयेति ॥ विघुभिः बिन्दुभिः, लेशै- रिति यावत् । कथं विद्वदैश्वर्यलेशाःब्रह्माद्यैश्वर्यभेदाः तेषां सदाशिवविभूतित्वादित्याशङ्कयाह-स एवात्मा सदाशिव इति ॥ सदाशिव एव आत्मा, आत्मैव सदाशिव इत्यर्थः ॥६॥ पुष्पमानयता गन्धो विनेच्छामनुभूयते । पूर्णाहम्भावयुक्तेन परिच्छिन्ना विभूतयः ॥७॥ अतो ब्रह्माद्यैश्वर्यमपिस्वभावमहिम्नैव उपनमते विदुष इ. त्येतदृष्टान्तेनाह-पुष्पमानयतेति ॥ तस्मात्पूर्णात्मनि सदा- शिवरूप एव सम्भावना कार्या, न ब्रह्मादिष्विति स्थितं स्तो- त्रफलस्तुतेस्तात्पर्यम् ॥७॥ तत्रानुषङ्गिकाष्टसिद्धिनामानि- अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ८ इदानीमणिमाद्यैश्वर्याणि विभज्य व्युत्पादयन् 'अष्टधा परिणतं चैश्वर्यमव्याहतम्' इत्येतद्व्याचष्टे--अणिमा महि- मा चेति ॥८॥ (१)बृह. १.३.३२.।
- मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- (१) अणिमासिद्धिलक्षणम्- अत्यन्तमणुष प्राणिष्वात्मत्वेन प्रवेशनम् । अणिमासंज्ञमैश्वर्यं व्याप्तस्य परमात्मनः ॥९॥ तत्राणिमाख्यां सिद्धिं दर्शयति-अत्यन्तमिति ॥ पुत्ति- कापुलकादिप्राणिष्वित्यर्थः ॥९॥ (२) महिमासिद्धिलक्षणम्- ब्रह्माण्डादिशिवान्तायाः षट्रिंशत्तत्त्वसंहतेः । बहिश्व व्याप्य वृत्तित्वमैश्वर्यं महिमाह्वयम् ॥१०॥ महिमाख्यामाह-ब्रह्माण्डादीति॥शिवो विराज्यभिव्य- तः पुरुषः॥१०॥ (३) लघिमासिद्धिलक्षणम्- महामेरुसमाङ्गस्य समुद्धरणकर्मणि । लाघवे तूलतुल्यत्वं लघिमानं विदुर्बुधाः ॥११॥ लघिमाख्यामाह-महामेरुसमाङ्गस्येति ॥ योगिनी वि- शेषणमेतत्। इच्छया अतिस्थूलतामापन्नस्य अन्यैः समुद्धरणे तूलतुल्यत्वं लघिमेत्यर्थः ॥११॥ (४) गरिमासिद्धिलक्षणम्- परमाणुसमाङ्गस्य समुद्धरणकर्मणि । गौरवे मेरुतुल्यत्वं गरिमाणं विदुर्बुधाः ॥ १२ ॥ गरिमाख्यामाह-परमाणुसमाङ्गस्येति ॥ अस्यापि सर्व- वैपरीत्येन योजना ॥ १२॥ (१). राडभीति पाठान्तरम् । (२). योगेन तू इति-योगिमस्तूलेति च पाठन्तरे।
वृत्तान्ताख्यव्याख्यासमेतम्.
(५) प्राप्तिसिद्धिलक्षणम्-
पातालवासिनः पुंसो ब्रह्मलोकावलोकनम् ।
प्राप्तिर्नाम महैश्वर्यं सुदुष्पापमयोगिनाम् ॥१३॥
प्राप्त्याख्यमैश्वर्य व्युत्पादयति-पातालवासिन इति॥१३॥
(६) प्राकाम्यसिद्धिलक्षणम्-
आकाशगमनादीनामन्यासां सिद्धिसम्पदाम् ।
स्वेच्छामात्रेण संसिद्धिः प्राकाम्यमभिधीयते॥१४॥
प्राकाम्याख्यां सिद्धिमाह-आकाशगमनादीनामिति॥१४॥
अथवा प्राकाश्यसिद्धिलक्षणम्-
स्वशरीरप्रकाशेन सर्वार्थानां प्रकाशनम् ।
प्राकाश्यमिदमैश्वर्यमिति केचित्प्रचक्षते ॥ १५ ॥
प्राकाश्यनामकमैश्वर्यमाह-स्वशरीरप्रकाशेनेति ॥ १५ ॥
(७) ईशित्वसिद्धिलक्षणम्-
स्वेच्छामात्रेण लोकानां सृष्टिस्थित्यन्तकर्तृता ।
सूर्यादीनां नियोक्तृत्वमीशिवमभिधीयते ।। १६ ।।
ईशित्वाख्यामाह-स्वेच्छामात्रेणेति ॥ "जगद्व्यापारव-
जैम्" इति न्यायेन यद्यपि विदुषो लोकविषये स्वातन्त्र्यं
वारितं, तथापि विश्वामित्रादिवत् ब्रह्माण्डस्थितावेव वापी-
कूपतटाकनगरीवनगिरिविहारस्थलसृष्टयाद्यभिप्रायमेतद्दष्ट-
व्यम् ॥१६॥
(१). ये दुष्प्रापमपि यो इति पाठान्तरे। (२). ब्रह्मसू. ॥१७॥
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिक- (८) वशित्वसिद्धिलक्षणम्- सलोकपालाः सर्वेपि लोकाः स्ववशवर्तिनः। तदैश्वर्यं वशित्वाख्यं सुलभं शिवयोगिनाम् ॥१७॥ वशित्वमाह-सलोकपाला इति ॥ १७ ॥ यस्त्वेवं ब्राह्मणो वेत्ति तस्य देवा वशे स्थिताः। किम्पुनः क्षमापतिव्याघ्रव्यालस्त्रीपुरुषादयः॥१८॥ शिवयोगिनामुक्तमैश्वर्य सुलभमित्यत्र प्रमाणभूतश्रुतिमु- दाहरति-यस्त्वेवमिति ॥ 'यस्त्वैवं ब्राह्मणो विद्यात् । तस्य देवा असन्वशे' इति मन्त्रस्वरूपस्य प्रतिनिर्देशोयम्। शिव- योगिनां सर्ववशित्वं कैमुत्यन्यायेनाह-किम्पुनरिति ॥ १८ ॥ सर्वात्मभावसाम्राज्यनिरन्तरितचेतसाम् । परिपक्कसमाधीनां किति नाम न सिध्यति ।। १९॥ न परिगणितमैश्वर्यं सर्वात्मसदाशिवात्मध्याननिष्ठाफलं भ- वेत्, अपितु सर्वमेव सदाभवेदेवेत्याह-सर्वात्मभावेति॥१९॥ एतत्स्तोत्रपाठफले मोक्ष एवेच्छा कार्या- स्तोत्रमेतत्पठेद्धीमान सर्वात्मत्वं च भावयेत् । अर्वाचीने स्पृहां मुक्त्वा फले स्वर्गादिसम्भवे।।२०॥ यद्यप्येवं महिमास्य स्तोत्रस्य। तथापि न तेषु फलेष्वानु- पङ्गिकेष्वपि मतिं कुर्यादिति प्राणिनो हितमुपदिशति-स्तो- त्रमेतदिति ॥२०॥ (१). में सर्वयो इति पाठान्तरम् । (२).सुरयो इति पाठान्तरम् । (३). है. भा.३-१३॥
वृत्तान्तास्यपाल्यासमेतम्. - स्वर्गादिराज्यं साम्राज्यं मनुते न हि पण्डितः। तदेव तस्य साम्राज्यं यत्तु स्वाराज्यमात्मनि॥२१॥ कुत इत्यपेक्षायामाह-स्वर्गादिराज्यं साम्राज्यमिति॥२१॥ सर्वात्मभावनावन्तं सेवन्ते सर्वसिद्धयः। तस्मादात्मनि साम्राज्यं कुर्यानियतमानसः॥२२॥ स्वर्गादिराज्य साम्राज्यं कस्मात् पण्डितोऽपि न मन्यते, तत्राह-सर्वात्मभावनावन्तमिति ॥२२॥ एतत्स्तोत्रेधिकार:- यस्य देवे परा भक्तिर्यथा देवे तथा गरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥२३॥ देवे दक्षिणामूर्त्याख्ये, गुरौ च स्वे,-भक्तिमतः अस्मिन् स्तोते अधिकारो, नान्यस्येति दर्शयति-यस्य देव इति ॥ श्रुतिरेवैषा ॥ २३ ॥ प्रकाशात्मिकया शक्त्या प्रकाशानां प्रभाकरः। प्रकाशयति यो विश्वं प्रकाशोयं प्रकाशताम् ॥२४॥ तदेवम् (इदानीम्) अशेषस्तोत्रं तात्पर्यतो व्याख्याय ग्रन्थ- प्रचयविघ्नोपशान्तये शिष्टाचारलक्षणं मङ्गलं वस्तुनिर्देशात्म- कमाचरति-प्रकाशात्मिकयेति ॥ आदित्यादिप्रकाशानामपि प्रभाकर इत्यर्थः । स्वयमेव प्रकाशतामित्यर्थः ॥२४॥ इति श्रीदक्षिणामूर्तिस्तोत्रार्थप्रतिपादके । प्रबन्धे मानसोल्लासे दशमोल्लाससङ्कहना२५॥१०॥ (१). मनुते इति पाठान्तरम् ।
मानसोल्लासाख्यश्रीदक्षिणामूर्तिस्तोत्रवार्तिकं- इति श्रीमच्छङ्करभगवत्पादाचार्यकृत- दक्षिणामूर्तिस्तोत्रभावार्थवार्तिकं सुरेश्वराचार्यकृतं समाप्तम् ॥ दशमश्लोकव्याख्यामुपसंहरति-इतीत्यादि ॥ २५ ॥ इति श्रीमानसोल्लासप्रबन्धोयं यथामति । व्याख्यातो रामतीर्थेन गुरुदेवप्रसादतः॥१॥ अनेन भगवाञ्छीमद्दक्षिणामूर्तिरीश्वरः । गुर्वात्मा प्रीयतां नित्यं तत्त्वज्ञानप्रदः सताम् ॥२॥ इति श्रीदक्षिणामूर्तिस्तोत्रव्याख्याप्रबन्धमानसो. ल्लास(सङ्ग्रह)वृत्तान्त(विलास) समाप्तः ॥ ग्रन्थोयं संपूर्ण
No text on this page.
No text on this page.
No text on this page.