Bharatiya Vidya Bhavan Library, Mumbai
Yeshwant Bhushnam
Front matter
॥ व काराठोड,
MANORINow
*B YUNIA,
CALPU
102
२
ATIKA
NIRTAL
34
IBRARY
*ERTrra
वश्यत्वात्। कान्यकुब्जराज्यस्थितिदानपत्त्रेषु सूर्यवंशोबेलाद
॥ श्रीजगदम्वायैनमः/15
051
॥ श्रीगणाधिपतयेनमः ॥
॥ मरुधराधीशराजचिन्हम् ॥
राजचिन्हें वंशवोधार्य भगवान्सूर्यः। मरुधराधीशस्य सूर
1THAN
ma
S
REAT
.
x
इप्टयोधार्थ र श्येनः । एषां कुलदेवी मनसानाम्नी बभूव ।
मनसाशब्दश्च भायामिच्छापरपर्यायः अस्याभिप्रायश्च, नि.
जेच्छया संसारखष्ट्री । सा च कियाचलवासकरणाद्विन्ध्य
वासिनीतिनाम्ना प्रसिद्धिमगमत् । ततश्च तया कदाचिच्छये.
नरूपं विधाय राष्ट्ररक्षाऽकारीति राष्ट्रश्येनेतिनाम्ना प्रख्या-
यतेस्म । मेदपाटदेशे एकलिङ्गनामा भगवान्पार्वतीपतिविरा-
जते । यस्य वरदानतो गहलोतजातीयो वापानामक्षत्रियो
विक्रमीयचतुरशीत्यधिकसप्तशततमे ७८४ वर्षे चित्रकूटाधिप.
तिरभवत् । अधुना सदश्या एव राणापदं दधानाश्चित्रकूट
प्रशासति । एकलिङ्गमहिमद्योतकमेदपाटेश्वरमहाराणाकुम्मा-
कारितेकलिंगमाहात्म्यस्यैकादशेऽध्याये राष्ट्रश्येनाशब्दस्य
निरुक्तिरुता-
: श्येनारूपं सम्यगास्थाय देवि !
राष्ट्र त्राहि त्राह्यतो ववहस्ता॥
.दुष्टान्दैत्यान् राक्षसान्वै पिशाचान्
भूतान्प्रेतान् योगिनीजृम्भकेभ्यः ॥१६॥"इति॥
तत्रैव च तस्यैवाध्यायस्य द्वाविंशे पद्यपि
"राष्ट्रश्येनेतिनाम्नीये मेदपाटस्य रक्षणम् ॥
करोति न च भङ्गोऽस्थायवनेभ्योमनागपि।२२।" इति ॥
मेदपाटदेशे एकलिङ्गस्य मन्दिरद्व्यूतो भगवत्या राष्ट्र
श्येनाया मन्दिरमस्ति ! राजराजेश्वरपूर्वजो रावधूहड़नामा
मरदेशस्य' खेड़नामपुरातनराजधानीतः स्वस्य कुलदेव्या
.
:(.३ ) राष्ट्रश्येनायाः पादाब्जमवलोकयितुं दक्षिणाशायांखपूर्वजरा- जधानी कल्याणीनगरीमियाय।सचभगवत्याश्चरणारविन्दम- भिमृश्य तां मूर्ति शकटारोंप्य मरुदेश मानिनाय । स च. "शकटो मरुदेशान्तर्गतनागांनाग्रामे चलन्नवरुद्धः । ततश्च भगवत्याः स्थितिं तत्रैवाभिलषितां विदित्वा तां तत्रैवातिष्ठिपत्। पुरा मरुदेशे नागवंशीयाः क्षत्रिया राज्यमकुर्वन् । तन्निर्मितोऽयं नागांनाग्रामः । तत्संबन्धाच्च राष्ट्रश्येनानाम नागांनेचीति पर्यवर्ततं । नागांनेचीतिशब्दोऽप्यधुनाऽपभ्रश्य नागणेचीति प्रथितः । दक्षिणदेशे संबन्धसूचकः “ची" प्रत्ययोस्ति । हरिहरयोश्चक्रशूलवद्राष्ट्रवराणां मुख्यं शस्त्रं खड्ग इति तबोधार्थ खगः॥ कार्यस्य बोधार्थं " रणवंकाराठौड़ (8)" इति जनश्रुतिः । संज्ञा तु प्रधानपुरुषस्य स्वेष्टदेवस्य कार्यस्य देशस्य ग्रामस्य च संबन्धाद्भवति । तत्र सूर्यस्य मूलपुरुषत्वाद्राजराजेश्वरकुलं सूर्यवंश्यमित्युच्यते ॥ सूर्यवंशे च रघोरतिप्रसिद्धत्वादेतत्कुलं राघवमित्यपि भण्यते ।। अस्य कुलस्य राष्ट्रश्यनेष्टदेवीति "राष्ट्रश्येनाया इदं राष्ट्रश्येनीयम्" इति व्युत्पत्त्यां राष्ट्र- श्येनोपासकत्वाद्राष्ट्रश्येनीयमिति संज्ञा बभूव । "नामैकदेशे नामग्रहणम्" इति वचनात् “भीमो भीमसेनः, रामो राम- चन्द्रः" इतिवद्राष्ट्रश्येनीया एव राष्ट्राख्यया प्रसिद्धिमा: गताः । ततश्च त एव सुष्टुकार्यकरणान्महाराष्ट्रा राष्ट्रकूटा रा- ष्ट्रवरा इति संज्ञाविशेषमधिगताः । राष्ट्रवर्यशब्दश्च राष्ट्रव- रापरपर्यायः । वर-मणि-महत्-छत्र-तिलक-शिखर-दीपक-अव. * " रणवका राष्ट्रवरा: । इति सस्कृतम् ॥ .
4 (४); तसादयः शब्दाः श्रेष्ठत्वबोधंकाः। यथा-"महादेवः, मुनिवर इत्यादिशब्देपु। कूटशब्दश्च शिखरापरपर्यायः । महाराष्ट्राणां शिलालेखा अनुमानतो द्विसहस्रबार्षिका भाजागुफा-कार्ली- गुंफा नानाघाटादिस्थानेषु पर्वतीयपाषाणेपूक्की दाक्षिणा- त्यदेशेवद्याप्युपलभ्यन्ते । राष्ट्रकूटानामने के प्राक्तनाः शिला- लेखा दानपत्राणि च वरीवृतति । दक्षिण देशाधीशराष्ट्रकू- दकृष्णात्मजेन्द्रनृपस्याष्टशनं सेनागजा आसन् । तद्राजधानी कुत्राभूदिति न विज्ञातम् । स चालुक्यैर्विजित इति चालुक्य- (सोलंखी) प्रशस्तौ जयसिंहवर्णने लिखितम्- यो राष्ट्रकूटकुलमिन्द्र इति प्रसिद्ध कृष्णाव्हयस्य सुतमष्टशतेभसैन्यम् ॥ निर्जित्य दग्धनृपपञ्चशतं वभार भूयश्चुलुक्यकुलवल्लभराजलक्ष्मीम्॥" इति॥ तस्मिन्समये चालुक्या वल्लभराज इति पदेन प्रथिताः । नयपालवंशावलिपुस्तकेन्विदमुपलभ्यते-"रुद्राष्ट (८११) श. कसंवत्समरसयुगाङ्क (६४६) विक्रमवर्षे कर्णाटकवंशसंस्था- पको नान्यदेवो दक्षिणदेशादागत्य सकलं नयपालमण्डलं विजिग्ये । कर्णाटकपड्पोला नयपाले राज्यमकार्पः" इति ॥ दाक्षिणात्यराष्ट्रकूटपु नान्यदेवः कनिष्ठात्मज इति संभाव्यते ॥ राष्ट्रवराणां च कचित्तचिच्छिलालेखा वहूनि च दानताम्रप- प्राणि प्राप्यन्ते । राष्ट्रवरशब्दस्यापदंशो "राठौड़" इति शब्दः।वैकमे भूशरकरचन्द्रेऽब्दे १२५१ राजनीपतिपठानान्तर्ग: तगोरीजातीयशहाबुद्दीनयत्नेन सह युध्यमानो गजारूढो जन- 4 . ..
: (.५ ) 4 चन्द्रमहाराजोऽर्द्धचन्द्रशरेण कृत्तकंधरोऽपि शरवृष्टिकरणात्क- वन्धसंज्ञामवाप । तत एव च तद्वंश्याः कवन्धजसंज्ञामल- भन्त । कवन्धजसंज्ञापभ्रंशःकमधजेतिशब्दः। मूर्द्धच्छेदानन्तरं युद्धक्रियाकारिकलेवरं करन्ध इत्युच्यते । “करन्धोऽस्त्री कि यायुक्तमपमूर्द्धकलेवरम् ।" इत्यमरः ॥ राजराजेश्वरकुलं दे- शसंबन्धात् "मारवाड़ा" इति ग्रामसंवन्धाच्च "कन्नौज, खेड़ेचा, मण्डोवरा, जोधपुरा" इति संज्ञया प्रोच्यते ॥
॥ प्रस्तावना॥ s. NAT अस्थिरेऽस्मिन्संसारे स एव श्लाघ्यजन्मा बनायताम स्थिरीभवेत् । नाम्नः स्थिरीभावे च मारवीयं जनश्रीता गीतड़ा के भीतड़ा" इति । गीतडेति काव्यम् । भीतडेति देवालय जलाशयदुर्गादिनिर्माणम् | संसारस्यानादित्वादत्राव ताराश्चक्रवर्तिमहाराजाश्चासंख्या एव बभूवुः । अबताराब मसंख्यत्वं च श्रीमद्भागवते प्रतिपादितम्- "अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः,, ॥इति। न चाधुना खलु तेऽसंख्यावताराश्चक्रवर्तिमहाराजाश्च नाम्नापि विज्ञायन्ते । वाल्मीकीयरामायणपन्थाद्रघुकुलकेतो- दशरथसुतश्रीरामचन्द्रावतारस्य, श्रीमद्भागवतग्रन्थाद्यदुवंश- शिरोमणेर्वसुदेवसूनुश्रीकृष्णचन्द्रावतारस्य, महाभारतग्रन्था- कौरवकुलकलशमहाराजयुधिष्ठिरस्य च नामाद्यापि :स- कुटुम्बस्य स्थिरत्वमायातं स्थास्यति च सर्वकालम् । एवं- मन्येषामपि ॥ इममेव सिद्धान्तं पोपयन्मेदपाटेश्वरमहाराणाराजसिं- हः स्वनिर्मापितराजसमुद्रतडागतटवर्तिप्रासादगवाक्षपापा- णात्काप्रशस्त लिलेख- "रामःक्वापिचलक्ष्मणः क्व च हली कृष्णश्च रामायणे, श्रीमन्नागवते च चेन्न कवयेड्यासश्च वल्मीकभूः॥ को ध्यायेदनयोः स्वरूपमथवा संपूजयेद्वेद वा, नाम स्थावरयद्भिरत्र सुजनैः पूज्याः कवीशाध्यः' ॥ १ ॥ इति ॥ प्राङ्ौर्यवंश्यनेत्रिया बभूवः । मौर्यउदापभ्रंशो .
(२) “मोरी" इति लोके प्रथितः । तेषु चित्राङ्गमायण स्वनाम्ना चित्राङ्गाभिधो दुर्गों निरमायि। स च लोकझापायां "चित्तौड़" इति नाम्ना प्रसिद्धः । मौर्या मेदपाटमालवादिजनपदेषु सुचि. र राज्यमशासुः । तत्र मानमौर्येण विक्रमार्कस्य सप्तत्युत्तरस. तशततमे (७७०) वर्षे चित्राङ्गदुर्गे मानसरोवराभिधं सरो निर्मापितम् । साम्प्रतं मौर्याणां निःशेषत्वेऽपि तन्निर्मितदु- सरोवराभ्यां चित्राङ्गमानमोर्ययोमर्यिवंशस्य चाद्यापि ना- मनः स्थिरत्वमनुभूयते, स्थास्यति च चिरम् ॥ मनुजस्य मर्त्यलोके यावत्कीर्तिप्रसारस्तावत्स स्वर्गसुख- मनुभवति । तदुक्तं महाभारतस्योद्योगपर्वणि पञ्चत्रिंशा- ध्याये- “यावत्कीर्तिमनुष्यस्य पुण्या लोके प्रगीयते ॥ तावत्स पुरुषव्याघ्र! स्वर्गे लोके महीयते ॥ इति॥ उत्तमजना निजनामस्थैयाभिलापिण इत्यस्मत्स्वामिना महाराजाधिराजराजराजेश्वरयशवन्तसिंहेनालंकारविषयकन- तननिवन्धनिर्माणसूचनं व्यधायि । तदाज्ञया च मया नूत- ननिबन्धनिर्माणारम्भ एव चिन्तितम् । “गीर्वाणभापायां नरभापायां चालंकारविषयकानेकनिवन्धसत्त्वास्पिष्टपेषणं व्य- थमिति कापि नवीनैव युक्तिरुन्नेया, येन विद्वांसोऽस्य ग्रन्थ- स्यावलोकने दत्तचित्ताः, विद्यार्थिनश्चास्य पठनाद्विलक्षण- 'लाभभाजो भवेयुः" इति । ततश्च राजराजेश्वरस्य पुण्य- प्रभावाच्चन्द्रालोकस्य- स्यात्स्मृतिभ्रान्तिदेहस्तदङ्कालंकृतित्रयम् ॥" .
इत्येतत्कारिकास्मरणादियं स्फूर्तिरुद्भूता “ इतरकवयोऽलं- •काराणां नामान्येव लक्षणानीति नाबोधिषुःन्तित एव च सर्वे- नामातिरिक्तलक्षणानि व्यदधुः । केवलं जयदेवकविः स्मृति- भ्रान्तिसंदेहेत्यलंकारत्रिकस्यैव नामरूपलक्षणमज्ञासीत् । किंतु तदकालंकृतित्रयम्" इति कथना जयदेवमतेऽपि तदतिरि- तालंकाराणां नामरूपलक्षणं नेति सिद्धम् । किं च, जयदे- वस्येदं मतमतोऽपि सिध्यति, एतदलंकारत्रयस्य नामरूपल: क्षणमुक्त्वा तदतिरिक्तसमस्तालंकाराणां नामेतराणि लक्ष- णानि कथितानीति। तथा च कविकृतनाम्नां सार्थकत्वान्नामा- न्येव कुतो न लक्षणानि" इति ॥ ततश्च प्रत्येकालंकारस्या- नेकोदाहरणदर्शने नाम्नामवयवार्थविचारे च श्रीपरमेश्वरः सत्तेः समस्तालंकाराणां नामान्येव लक्षणानीति सिद्धं नः संकल्पितेन ॥ अस्य यशवन्तभूषणस्य संताकृतयो भवन्ति । तत्रं बथ. माकृतावुपोद्घातः, द्वितीयाकृती काव्यस्वरूपम्, तृतीयाकृती शब्दालंकारः, चतुर्थाकृतावर्थालंकाराः, पञ्चमाकृतौ रसवदा. द्यलंकाराः, षष्टाकृतावन्तर्भूतालंकाराः, सप्तमाकृतौ च ग्रन्थ- समाप्तिः समकालिकभूपालगणना पारितोषिकं चेति वर्णि तम् ॥ रसिकविद्वांसो गुणग्राहकदृशेमं प्रवन्धं पश्येयुरिति सप्र- श्रयमाशासे॥ . कविराजा-मुरारिदांनः॥
॥ सूचीपत्त्रम् ॥ . पृष्ठ ... १ ३ २२ .... .... प्रथमाकृतिः अनुवादकर्तुमङ्गलाचरणम्.. ग्रन्थकर्तुमङ्गलाचरणम् राजवंशवर्णनम् कविवंशवर्णनम् ग्रन्थनिर्माणकारणम् नामलक्षणविचारः मरुदेशराज्यपरिवर्तनम् प्राचीन ग्रन्थकर्तृनामानि छन्दादिविचार द्वितीयाकृतिः .... ३४ ४४ ४७ .... ... ५० काव्यस्वरूपम् शब्दार्थाः वाचका .... .... .... उपलक्षणविचारः ७४ 'व्यजक: ७५ व्ययार्थविपये विचारः ....८० शब्दव्यखनाविपले विचारः . ८७ .... .U .... .... .... .." गुणीभूतव्यङ्ग्यम् मुणीभूतव्यङ्गयखण्डनम् व्यङ्गमस्वरूपनिरूपणम् .... १०२ व्यङ्गन्यप्रकारखण्डनम् १०८ गुणनिरूपणम् ११२ रीतिनिरूपणम् भावनिरूपणम् संचारिनिरूपणम् ११९ अनुभावेषु सात्त्विकभावनिरूपणम् १२३ रसस्वरूपम् १२८ स्थायिभावोदाहरणानि १३३ संचारिभावोदाहरणानि १४० रसाः १६७ गृङ्गाररसः १७१ रसाभासः १७२ संयोगशृङ्गारः १८० वियोगशृङ्गारः हास्यरसः १८५ करुणरसः १८६ . .... .... ... ... .... . .... रौद्ररसः. चीररसः .... .... .... भयानकरसः घीभत्सरसः . . १९२.
. ३ . १९२ १९३ .... .... ...... २०० ...... ...... २०९ २१० २१४ २१॥ ...... अद्भुतरसः शान्तरसः वत्सलमायारसखण्डनम् काव्यरसनिरूपणम् तृतीयाकृतिः शब्दालंकारः चतुर्थाकृतिः अर्थालंकाराः उपमा उपमाया दशप्रकाराः लक्ष्योपमा व्यङ्गन्योपमा लुप्तोपमा अतद्गुणः अतिशयोक्तिः अतुल्ययोगिता अधिकम् अनवसरः अनुज्ञा अन्योन्यम् अपह्नुतिः अपूर्वरूपम् अप्रत्यनीकम् अंप्रस्तुतंप्रशंसा ...... २२० ...... २२२ २२४ २३१ ...... २३५ ...... . ...... ...... २३८ २३९ २४३ "": २४४ ......
. ...... ...... २५३ ...... २५५ ...... २५७ २५८ ..... ...... अभेदः भल्पम् अवज्ञा अवसरः आक्षेपः आभासः उत्तरम् उत्प्रेक्षा उदात्तम् उदाहरणम् उल्लेखः काव्यापत्तिः कमः तद्गुणः तुल्ययोगिता दीपकम् दृष्टान्तः निदर्शना नियमः ..... ...... ...... २६६ २७० २७५ २७९ २८० २४ २८६ २९० २९१ २९५ २९९ ३०२ ...... ...... ...... . ...... निरुक्तिः . परिकरः परिणामः परिसंख्या पर्यायः ६.१२ ..01. ........... ३१७ . .... ३२० ३२२ ३२४ ३२६ ३२८ ...... ...... ३३३ ३३५ पर्यायोक्तिः पिहितम् पूर्वरूपम् प्रतिमा प्रत्यनीकम् प्रहर्षणम् भाविकम् भ्रान्तिः मिथ्याध्यवसितिः मिलितम् मिषम् मुद्रा रत्नावली रूपकम् लेशः जोकोक्तिः वक्रोक्तिः विकल्पः विकासः विचित्रम् विधिः विनोक्तिः विरोधः ३३६ ३४० ३४२ ...... ...... ३५१. ...... ...... ३५३ ३५४ ३५७ ३५९ ३६० ....
. .... .... .... शृङ्खला .... ...... ...... ...... विशेषोक्तिः ३६८ विषमम् ३६६ विषादः व्यतिरेका ३७४ व्याघातः ३७७ ३८० श्लेपः ३८२ संकोचः संदेहः ३८७ संभावना ३८८ संस्कारः ३६० समः ३६१ समाधिः ३६४ समासोक्तिः ३६७ समुच्चयः सहोतिः ४०२ सारः ४०३ सूक्ष्मः ४०४ स्मृतिः ४०६ स्वभावोक्तिः ४०६ ": १११ अर्थालंकारगणना ४१३ ..उभयालंकारः ४१५ अलंकारालकार्यविचार:............ ४२१ ...... ...... ...... . ...... ...... ...... ...... ...... .... ...... .
.... ४२३ ...... ४२६ ४२७ ...... ४२८ ४२६ ४३० ४३२ ४३३ संक्षेपेण विषयकथनम् पञ्चमाकृतिः भावालंकाराः रसवत् प्रेयः ऊर्जस्वि समाहितम् भावोदयः भावसंधिः भावशबलता पटाकृतिः अत्युक्तिः अनन्वयः अनुगुणः अर्थान्तरन्यासः असंगतिः असंभवः आवृत्तिदीपकम् उन्मीलितम् उपमेयोपमा .•उल्लासः ..कोरकदीपकम् कारणमाला ...... ...... ४३५ ४३६ ...... " ...... ४३७ ४३८. ४४० 4.... ४४१ . ४४२ ... ४४३ ४४५ ......
...... ४४६ ४१७ ४४८ ४४६ ४५० .४५१ ४५२ ...... ...... ४५३ ...... ...... ...... ४५८ काव्यलिङ्गम् गूढोक्तिः छकोक्तिः परिकराङ्कुरः परिवृत्तिः प्रतिवस्तूपमा प्रतिषेधः प्रतीपम् प्रस्तुताङ्कुरः प्रौढोक्तिः मालादीपकम् युक्तिः ललितम् विकस्वरः विभावना विरोधाभासः विवृतोक्तिः विशेषः विशेषकः विशेषोक्तिः व्याजनिन्दा व्याजस्तुतिः च्याजोक्तिः सामान्यम् ४५९ ४६० ४६१ ४६२ ....." ...... . ...... ...... ...... " ...... ...... ६ ...... ...... ....... ४७० '...... ......
२.
......
४७५
४७७
............
प्रमाणालंकाराः
४७२
प्रमाणाष्टकस्यान्तर्भावः
संसृष्टि-संकरी
अन्तर्भूतालंकारगणना ४८३
सप्तमाकृतिः
ग्रन्थसमाप्तिसमयः
ग्रन्थस्य पारितोषिकम
ग्रन्थकर्तुर्मुरारिदानस्यचित्रम्......४८९
ग्रन्थविषयकं पत्त्रम्
४८५
१८७
......
......
४६०
......
२ ॥ श्रीगणाधिपतये नमः ॥ ॥ श्रीजगदम्बायै नमः॥ ३.47 . LIBRAR ॥ यशवन्तभूषणम् ॥ वन्दे वाञ्छितदातारं विघ्नहर्तारमीश्वरम् ॥ अर्चित्तं सुरनाथाद्यैर्गजाननमहर्निशम् ॥ ९ ॥ श्रीमान् राष्ट्रवरोत्तंसो यशवन्तनरेश्वरः ॥ चिरं शास्तु महीं ध्यायश्चन्द्रचूडपदाम्बुजे ॥२॥ प्रास्ते मरुमहेन्द्रस्य सभायां प्रतिभायुतः ॥ ख्यातः सर्वगुणोपेतो मुरारिः कविशेखरः ॥ ३ ॥ कविना तेन विचित्रो नरभाषायां व्यधायि सुमनोज्ञः ॥ यशवन्तयशोभूषणनामाऽलंकारसंदर्भः ॥ ४ ॥ तत्सारभूत एष संक्षिप्तोऽलंकृतिग्रन्थः॥ यशवन्तभूषणाख्यो मनुजगिरायां मुरारिणां वि- हितः ॥५॥ आसोपारामकर्णाव्हो दाधीचो बलदेवभूः ॥ अनुवादं करोत्यस्य सुरवाण्यां नृपाज्ञया ॥६॥ बहवो बहुधौंपास्य(*) यस्य पारं न लेभिरे ॥ वन्दे तं परमात्मानं मुरारिः कविराडहम् ॥ ७ ॥ .* यामिति कर्मपदममाहार्यम् ।।
यशवन्तभूषणम् [प्रथमा कुले कवीनां किल चारणाना- मवाप्तरया नवलक्षधा प्राक् ॥. शक्तिस्ततोऽभूत्करणीति नाम्ना चकार वीका(*)ख्यमियं नृपालम् ॥ ८॥ प्रमादेनावकाशो मे बोधः सिद्धान्त()दर्शनैः॥ दत्ती यैः पण्डितैः प्राच्यैर्वन्दे तानुपकारिणः ॥९॥ या शास्त्याङ्गलमेदिनीं वसुमती या भारती रक्षति भांनुर्गच्छति यत्र यत्र धरणी सा साच यस्या वशे॥ नैवं पूर्वभवाः प्रजाः सुखभुजोऽभूवन्यथा साम्प्रतं विक्टोर्या नृपतीश्वरी विजयते सेयं प्रजाभा- ग्यतः ॥ १० ॥ यस्याः श्रीयशवन्तसिंहन्पतिः सेनागणैर्धाभिः 'साहाय्यस्य विधि विधातुमनिशं वहादरो वर्तते ॥ सा.चायं मरुवल्लभश्च जगतां रक्षाविधो दक्षिणी भूयास्तां पृथिवीतले चिरतरं यावच्छशाङ्को रविः ॥११॥ * विक्रमार्कस्प पोडशे शतके श्रादिशक्तिः करणीनाम्ना चारणजाताईरोनावतताः । योधपुरदुर्गनिर्मापारम्भे तामाह्य मण्डोवरदुर्गाधीशो रावयोधाख्यस्तस्करकमलेन खात- पूर्ति चकार । सा च मयान्ती तत्सकाशत्तस्य कुमारं वीकाख्यमर्थयित्वा निनाय । तं च स्वप्रभावेण जाङ्गलदेशाधिपतिमकार्षीत् । तेनावासितं बीकानेरनामक नगरं सरया अगा- घधि प्रशासति । तस्मान्नगराद्वियोजने देशणोकसंझके मामे करणदेव्या मन्दिर वरीवति । सन्ति च बीकानेरभूफलास्तस्या भक्ताः... ियादिप्रतिवादिभ्यां निर्णीतोऽ: सिद्धान्तः ॥ .
राजवंशवणेनम् ॥ अथ राजवंशवर्णनम् ॥ . "भुवनस्यावतंसोऽसौ रविवंशो विराजते ॥ अवातरद्रमाकान्तो यत्र रामात्मना पुरा ॥ १२॥:. ततः कतिपये कालेऽवधौ प्राप्ते पुरातनम् ॥ तस्माद्रघु(*)कुलात्स्वीयमयोध्यानगरं च्युतम् ॥१३॥ धारयित्वा श्येनरूपं राष्ट्ररक्षा कृता यतः ॥ मनसा(i)कुलदेव्यास्तुराष्ट्रश्येनाऽभिधाऽभवत्॥१४॥ ख्याताश्च राष्ट्रश्येनीयास्ततो रघुकुलोद्भवाः ।। देव्याः प्रसादात्तेऽभूवन् महावैभवशालिनः ॥१५॥ नामैकदेशग्रहणे नाम्नो हि ग्रहणं भवेत् ।। ततस्तु राष्ट्रश्येनीयाः प्रसिद्धा राष्ट्रनामतः ॥१६॥ पुनः प्राप्ता विशेषत्वं राष्ट्राः सत्कार्ययोगतः ॥ केचित्तत्र महाराष्ट्रा राष्ट्रकूटा: परेऽभवन् ।। १.७॥ मरुदेशेऽस्ति नगरी हस्तिकुण्डीति नामतः ॥ राष्ट्रकूट()शिलालेखस्तत्र प्राप्तः पुरातनः॥ १८॥ * सूर्यवंशे रघुमहाराजो महाप्रतापशाली बभूवेति तद्वंरया राघवाख्यया प्रथिताः । तत एव च रामचन्द्रस्य राघव इति नामान्तरम् ॥ +मनसानान्नी कुलदेवी, तस्याः ।। 1 अयं शिलालेखो गुणशरखचन्द्र १०५३ मितविक्रमवीयो राष्ट्रकूटधवलराजवि. यकः । मरुदेण्यासिनो भालराजश्या वर्तमानसमये हस्तिकुण्डौसंबन्धेन "हतूंडिया" इति नामा, लोके प्रख्याताः ॥ .
. [प्रथमा . . •- यशवन्तभूषणम् आसन् राष्ट्रवरेत्याख्या मरुदेशेशपूर्वजाः ॥ तेषु राष्ट्रवराः केचित्प्रययुदक्षिणां दिशम् ॥ १९॥ तत्र कोकणकर्णाटादीन्देशान्प्राप्य वीर्यतः ॥ कल्याणीनगरे राज्यमकुर्वन्निश्चलाश्चिरम् ॥२०॥ ख्यतिभिर्दानपत्रैश्च येषां नामानि भूभुजाम् ॥ ज्ञातानि तेषां लिख्यन्ते नामानि क्रमशो मया॥२१॥ प्रसीदस्मिन्कुले श्रीमान् यशोविग्रहभूपतिः॥ तनयोऽस्य महीचन्द्रस्ततो राज्यमपालयत् ॥२२॥ 'प्रतापतापितारातिः श्रीचन्द्रस्तत्सुतोऽभवत् ॥ कन्नोजपत्तन प्राप स्वस्य बाहुवलेन सः ॥ २३ ॥ पश्चान्मदनपालोऽभून्मदनेन समाकृतिः ।। ततो गोविन्दचन्द्रोऽभूगोविन्दप्रतिमो वले ॥२४॥ सूनुर्विजयचन्द्रोऽस्य विजेता सर्वभूभुजाम् ॥ जयचन्द्रमहाराजस्तनयस्तस्य भूपतेः ॥ २५ ॥ सर्वतो विपुलान्देशान्काश्यादीन्स महाबलः ॥ समाकामद्वैभवेन बभूव मघवोपमः ॥ २६ ॥ निवेशदेशांचधि निर्गमस्थला. त्प्रयाणकाले बलमस्य पगुवत् ॥ जगाम संलग्नतया निरन्तरं आकृतिः] ५ . राजवंशवर्णनम् पदं ततोऽभूदल(*)पगुलाभिधम् ॥२७॥ कलौ युधिष्ठिरान्येन राजसूयो महाक्रतुः ॥ न कृतस्तं विधायैष वेदशास्त्रविदां वरः॥२८॥ अनेकांस्तर्पयामास मखभुग्विजवन्दिनः ॥ तेन ख्यातिं परां लेभे सर्वत्र जगतीतले ॥२९॥. युग्मम् ॥ सुल्तानपदमापन्नानष्टौ यवनभूपतीन् । प्रगृह्मैकदिने पश्चात्तत्याजोग्रपराक्रमः ॥.३० ॥ अतो हेतोरयं राजा सुल्तानग्रहमोचनः । इतीह पदवी प्राप दुर्लभामितरैर्नपैः ॥ ३१ ॥ युग्मम् ॥ इन्दुवाणाविशीतांशु(१२५१)मिते विक्रमवत्सरे।। सुलताशाह (1) वुद्दीनयवनो योद्धमागतः॥३२॥ युद्धेऽर्द्धचन्द्रवाणेन कृत्तमूर्द्धा भवन्नपि । (*) जयचन्द्रमहाराजो दलपङ्गुलेतिपदमाग्बभूव ॥ बल (सैन्यं) पङ्गुरिख यस्येति ।। जशब्दो लोकभापायां सेनावाची ।। अत्रायमभिप्रायः ॥ यथा, अपनोः पादेन चलने विधान भवति तथा पोश्चलने न भवति । पंड्गुस्तु भूमि स्पृष्ट्वैव सर्पति । अतोऽथि- छन्नैका रेखा संपद्यते । तथैव जयचन्द्रमहाराजस्य सैन्याधिक्येन निर्गमस्थलानिवेशस्था- नपर्यन्तमविच्छिन्नेकौणिरासीदिति ॥ (१) यायनीभापायां राजा सुलतान्पदवाच्यः । सुलतान् शाहबुद्दीनमवनो गजनीनगरी- पतिरभवत् ।। .
[प्रथमा यशवन्तंभूषणम् निषङ्गावकरोद्रिक्तौ कंचित्कालं गजे स्थिरः ॥ ३३॥ कवन्धेति पदं लेभे ततोऽसौ धरणीपतिः ॥ ततः कवन्ध(*)जान्प्राहुर्वश्यानस्य महीपतेः॥३४॥ च्युताः कन्नोजनगरात्तदीयाः पतयोऽभवन् । गोविन्ददुर्गस्यायेतच्छम्शावादिति कथ्यते ॥ ३५ ॥ वरदायिश्येननामा जयचन्द्रात्मजोऽभवत् ॥ मृतो राज्याप्तिपूर्व वा पश्चाद्वेति न निर्णयः॥३६॥ सेतुरामा) भिधस्तस्य तनयः सनयोऽभवत् ॥ 'न चोपलब्धं चरितं चिरकालतयैनयोः ॥ ३७॥ सीहामहीपतिः पश्चादासीसिंहपराक्रमः ॥ चक्रे दिग्विजयं वीरो द्वारकायात्रया सह ॥ ३८॥ तदात्मजनुरास्थानभूपालोऽभवदुत्तमः ।। पाताभूच्छुल्कमादाय पालीपत्तनवासिनाम् ॥ ३९ ॥ (*) कबन्धजशब्दापभ्रश " कमज" इति ॥ " कबन्धोऽस्त्री क्रियायुक्तमपमूर्द्धकले. घरम्" इत्यमर ॥ (1) एतन्नामार्थस्तु राष्ट्रस्येनादेन्या लप्स्यमानयर । विग्रहस्तु “ वरदायिनी रयेना यस्मे स यरदायिश्येन । अत्रापि राष्ट्ररयेनानाम्न एकदेशस्य ग्रहणम् । राष्ट्रवरेत्यत्र राष्ट्ररये- नीयराब्दस्य पूर्वार्द्धस्य महणमिह तूत्तरार्द्धस्य ॥ (1) सेतुराम इति नामाक्षार्थ सेतुबन्धको गम इति । शकपीधिवादित्वान्मध्यमपद- सोपी समास । परंगुरामादितो भेदारदर्शनाय - सेतु' इति विशेषणम् । एतन्नामकरण' प्रयोजन तु सेतुबन्धकरामसदृशो मयादिति ] आकृति] . . रांजवंशवर्णनम् ततो गुहिल(*)भूपालान्निराकृत्य मरुस्थले ॥ राज्यं संस्थापयामास खेड़पुर्यामयं निजम् ॥ ४० ॥ पालीपुर्यां तु यवनैवेष्टितायां महावलैः ।। नियुध्य तैः समं स्वीयमार्पयच्छंभवे शिरः ॥ ४१ ॥ ततो धूहड़भूपालः साभिमानोऽतिविक्रमः ॥ कन्नोजनगरं गत्वा युयुधे यवनैः सह ॥ ४२ ।। ततो मण्डोवराधीशैः प्रतीहारैः सुदुर्मदैः । क्षत्रियैः सह संयुध्य जगाम विबुधालयम् ॥ ४३ ॥ रायपालस्ततो राज्यं चकारातुलविक्रमः ॥ रक्षन्प्रजाः स दुर्भिक्षे भूमा(i)विन्द्रपदं गतः ४४ ॥ कनपालोऽथ जालन्सीसंज्ञश्च पृथिवीभुजौ ।। युद्ध्वा यवनभूपालैः स्वस्वकाले दिवं गतौ ॥४५३ चाहुमानैः सिवाने()शैर्युद्ध्वा छाडामहीपतिः ॥ त्यक्त्वा देहमितः स्वर्गमासरोह रणोत्सुकः ॥ ४६ । यवनानां महानीकः समायादुपविक्रमः ॥ सिवानादुर्गमादातुं चाहुमानधरापतेः ॥ १७ ॥ साहाय्यार्थं तदा तस्य गतस्तीडामहीपतिः ॥ (*) चित्रकूटाधीरामहाराणासजातीया गुहिला. खेडपुरी पालयामासुः । आस्थाने निराकृताश्चैतद्वरया अधुना गुर्जरभूमौ पालीताणाभायनगराख्यनगरयोरधीश । (1) रायपाली दुर्भिक्ष प्रजापालनेन महीरेलणपद प्राप्त । मरुभाषायां महीरेलणशन इन्द्रस्य वाचकः । महीरेलणशब्दार्थस्तु परिप्रवाहेण भूमेराग्लाययिता ।। (2) मरुदेशवर्तिदुर्गस्यैद नाम । .
यशवन्तभूषणम् [प्रथमा युद्ध्वा बहुविधं तन्न त्रिदिवेशालयं ययौ ॥ ४८ ॥ ततः सलखभूपालं सामन्तः(*) शरणं गतः ॥ कृताप्नराधो दिल्लीशे तदर्थ सोऽत्यजच्छिरः ॥ ४९.॥ शरणागतदल्ला()ख्ययवनेशस्य कारणात् ॥ देशै त्यक्त्वा तत्प्रसङ्गाद्वीरमाख्यो दिवं ययौ॥५०॥ शाखास्ति प्रतिहाराणामींदाव्हा तद्भटोत्तमाः ॥ निहत्य यवनान्दुर्ग जिग्युमण्डोवराभिधम् ॥ ५१ ॥ तत्त्राणकरणेऽशक्तान् स्वान् विज्ञाय विचक्षणाः ।। चूडान्पाय-तचा(1)दुर्वलिने कन्यया सह ॥५२॥ एवं मण्डोवरं दुर्ग भाग्याच्चूडामहीपतिः । संप्राप्य बहुला भूमिमार्जयहाहुविक्रमात् ॥ ५३ ॥ ततोऽहिपत्तने()मुलतान्यवनैः परिवष्टिते ॥ तैः संयुध्य महावीरस्त्रिदिवेशालयं ययौ ॥ ५४ ॥ ततोऽभूद्रणमल्लाख्यः क्षत्रियाणां शिरोमणिः॥ हितार्थ भागिनेयस्य मोकलांणामहीपतेः ॥ ५५ ॥ मरुदेशान्मेदपाटं गत्वाऽसौ भूरिविक्रमः॥ अजयन्मालवाधीशं महमूद्यवनं रणे ॥ ५६ ॥ युग्मम् () सामन्तसिंहाख्यः । अयं चाहुमाननृपो जालोरपुराधीशः। (1) अयं दिल्लीशरापराधं कृत्वा शरणमायातः । (1) इंदाक्षत्रिमनायी रायपालः समुतामुाह्म यौतुके मयहोरं दुर्गमर्पयामास ! (७) नागोरनगरे।। .. . . .
आकृति. राजवंशवर्णनम् हतारो भागिनेयस्य मेरा(*)चाचकनामको । संक्रुद्धः प्रेषयामास द्रुतं वैवस्वतान्तिकम् ॥ ५७ ॥ कुम्भकर्ण ततो वालं(1) मोकनाणाधरापतेः ॥ 'चित्रकूटाधिपं कृत्वा प्रवन्धमकरोत्स्वयम् ॥ ५८०॥' अभूदसुव्यय)स्तेन तत्रैवास्य महीपतेः ॥ सतां सर्वाणि वस्तूनि परार्थाय भवन्ति हि ॥ ५५ ॥ तदात्मजो योधसिंहो) मरुभूमौ स्वकीर्तये । स्वनाम्ना नगरं दुर्ग कारयामास यत्नतः ॥ ६० ॥ समये तीर्थयात्राया योधसिंहो महीपतिः ॥ यवनेन्द्रस्य साहाय्या(प)गयाकर(*)ममोचयत्।६ ११, सूजारावस्तनूजोऽस्य हर्षनिर्भरमानसः ॥ दिवारं यवनैर्युद्ध्वा बभूव जतविग्रहः ॥ ६२॥. वाघनामा सुतस्तस्य व्याघ्रतुल्यपराक्रमः ॥ अधृत्वैव सितच्छत्रं गतः कर्मवशादिवम् ॥ ६३ ॥ (4) मैदपाटेशरमहाराणालासानृपते रतसो घायुदरोत्पन्नी मेराचायनामानी लाग्नृपस्यौरमपुत्र मोकलप निहत्य चित्रकुट( चित्तोह )दुर्गमहान् ।। (1) अल्पवयस्कम् ॥ (t) राणाकुम्भकर्णो धैक्रमे पञ्चदशशततमेन्टे शुचिमासे चित्रकूटदुर्गे मुम गय- रबमा रिकाभिगोयामात ।। (होमिदो. या पादोत्तरपदशशतनम यो म्यनामा योधपुर नाम नारगा- पापामाम । दुर्गच व्यदभात् ।। माहाद विधाय (••)पो गरि पतिया नायगाद्गयातायः समास मोवप मास ।।
युग्मम् ॥ यशवन्तभूपणम् [प्रथमा तदात्मजो गङ्गनामाऽभवन्मरुधराधिपः । गुर्जराधीशयवन ईडराख्यपुरी बलात् ॥ ६४ ॥ जहार तस्य बन्धुभ्यस्ता विजित्य ददौ पुनः । वधूपकारकर्तृत्वात्कीर्तिपात्रं वभूव सः ॥ ६५ ॥ ग्रामाणां नवसाहस्र (*) सादिनां चायुताष्टकम् ॥ यस्यासीन्मालदेवोऽसौ सुतोऽभूद्गङ्गभूपतेः ॥ ६६ ॥ एतदन्ता महीपालाः स्वातन्त्र्येण निजां धराम् ॥ पालयन्ती महाभागा भोगान् संवुभुजुस्ततः ॥६७॥ संसेव्योदयसिंहाख्यः दिल्लीशं त्वक्वराभिधम् । गतं देशं पुनः प्राप लेभे राजपदं ततः ॥ ६८॥ सवायाजपदं प्राप सूरसिंहस्तदात्मजः । राज्येऽस्मिस्तत्कृतैरद्यापि प्रवन्धैः प्रकृत्यते ॥६९ ॥ गजसिंहस्ततो राजा गजेन्द्रान्प्रददौ वहून् । द्विपञ्चाशद्रोप्वेष विजयादिश्रुतोऽभवत् ॥ ७० ॥ कदाचित्कवचं नैव दधौ विक्रमसागरः । पदं दिल्लीश्वराल्लेभे दलस्तम्भनसंज्ञकम् ।। ७१ ॥ दत्त्वा कविवरेभ्योऽसौ ग्रामाँश्च विभवान्वहून् । (*) नासहस्रमामाणामाधिपत्याद्रापमालदेवो लोफे "नवसहँसा" इति पदभाग्यभूव । सहस्त्रशब्दम्यापभ्रंशः “सहस" इति । अत एव मरुभाषाकरिताया मराधीशमद्यापि "नमस्सा" इति विशेषणपूर्वक स्तुपन्ति ॥ मना तु योधपुरराज्याधिशारे द्विशताधिक- चतु सहस्र पाः ॥ . - .
थाकृतिः] राजवंशवर्णनम् स्टेशान्स्वेन तान्कृत्वा ख्यातोऽभूद्धरणीतले ॥७२॥ यशवन्तमहाराजः संजातस्तदनन्तरम् ॥ अासन्सुरालयास्तावस्थिरा यावज्जिजीव सः॥७३॥ 'स्वमतस्य प्रचारार्थ दिल्लीशौरङ्ग(*)वाञ्छितः । • उद्योगः सफलो नाभूत्तबाहुवलवैभवात् ॥ ७४ ॥ खड्गेन बलवानेष कावुल्भूमि सुदुर्गमाम् । कृतवान्पान्थसंचारयोग्यां दिल्लीशशासनात् ॥७५॥ तत्र संरचयन्नित्यं रणं स समराङ्गणे ॥ तत्रत्यमुण्डमालाभिस्तोषयामास शंकरम् ॥७६॥ दिल्लीयवनभूपानां स्थापनोत्थापने क्षमः । अव्याहतमनोत्तिरजमल्ल(तस्तदात्मभूः ॥ ७॥ जिग्ये वाहुवलात्स्वीये देशदुर्गे गते पुनः ॥ दिल्लीपतेः पुरी जन्हे रम्यां शाकंभरी)हठात् ॥७८॥ राजराजेश्वरपदं लब्ध्वा दिल्लीन्द्रकल्पितम् ॥ अमोचयज्जेजया()ख्यं दण्डं वैदिकधर्मिणाम् ॥७९॥ जयसिंहो जगत्ख्यातो जयपत्तनभूपतिः ॥ (*) औरङ्गजेबनामको दिल्लीशो मुगल्जातीयो यवन पासीत् ॥ () अजितसिंहः ॥ (4) सांभर इति लोकभापायाम् ॥ . (6) यानधर्ममस्वीकुर्वद्य मार्येभ्यो यो वार्षिकः कर आदीयते सोऽरवीभाषायां "जे- जया" इत्युच्यते। .
१२ . युग्मम् ॥ यशवन्तभूपणम् [प्रथमा पएमासाशरणेऽनेन रतितो बलशालिना ।। ८० ॥ 'वख्तसिंहस्तत्सुतोभून्निपुणो न्यायनिर्णये ॥. मितव्ययी महावीरः शत्रूणामन्तकोपमः ॥ ८१ ॥ ततो विजयसिंहोऽभूद्धरिभक्तो दयानिधिः ॥ आत्मवत्सर्वभूतानि पश्यन्हिसाविवर्जितम् ॥ ८२ ॥ निजं जनपदं चक्रे पुत्रवत्पालयन्प्रजाः ॥ 'उपमा(*) तेन कालेन लोकैरद्यापि दीयते ॥ ८३ ॥ सिन्धुदेशाधिपश्चाब्दुल्नव्याख्यः शरणं गतः ॥ तत्पपाय मरुपो ददात्य सनं निजम् ॥ ८ ॥ सूनुमानसिंहोऽस्यानभिषिक्तो दिवं गतः ॥ अंभवद्वसुधाख्यातो मानसिंहस्तदात्मजः ॥ ८५॥ प्रावाल्यादेष भूपालः स्वदेशपरदेशयोः ॥ अकरोत्सङ्गरक्रीड़ां मत्तमातङ्गविक्रमः ॥ ८६ ॥ कुरुराजसमो माने दाने कर्णसमस्तथा ॥ अदाग्रामानगजानश्वान्कवीन्द्रेभ्यो यथेप्सितमा८७। संगीतादिसमस्तानां गुणानां रसिकः परम् ॥ कर्ता() नवीनग्रन्थानां राजनीतिविचक्षणः ॥ ८॥ (*) यत्र सुराज्यं वरीपति तत्रेदमुच्यते " विजेचारा वरते है " इति ॥ अस्यास्तु विजयवेला पर्तते इति ॥ (1) अनेन महाराजेन नाथचरित्रनाममोऽतिमनोहरो भाषामन्यो निर्मितः । अन्ये च सहस्रशे गीतकरित्तदोहागजलरेखताख्यालठुमरीटप्पाप्रमृतयः प्रणीताः । राजराजेश्वर- मानसिंह कविताया स्वोभिधानं रसराज इति लिलेख !! - ।
याकृति] राजवंशवर्णनम् दंदी नागपुरेशाय(*) तथेन्दोर(१)पतिस्त्रियै ॥ शरणं बलवानेष क्षात्रधर्मपरायणः॥ ८९ ॥ ऋणावशेषवान्नाभूत्सुहृदामथ विहिषांम् ॥ अन्ते संन्यस्य धर्मात्मा कृतवान्सफलां जनिम्॥९० ॥ औरसापेक्षया भक्तः पितुस्तख्त()नरेश्वरः ॥ दत्तपुत्रोऽदधाच्छत्रं मानसिंहादनन्तरम् ।। ९१ ।। भटामात्यकवीन्द्राणां प्रजानां च प्रियोऽभवत् ।। कलौ कृष्णावतारोऽयमितिख्यातोऽत्र मण्डले ॥१२॥ यानि यानि च भोग्यानि निखिलान्यत्र भूतले ॥ तानि तानि सुभुक्तानि राज्ञाऽनेन सुरैरिव ॥ ९३ ॥ महाशक्तगवन्र्मेण्टराज्येऽप्यस्य नरेशितुः ॥ बाहुवीर्येण सर्वेषां राज्ञां मानं सुरक्षितम् ॥ ९४ ॥ विस्तराद्गतभूपानां वर्णने ग्रन्थविस्तरः ॥ भवेदतः प्रसङ्गेन संक्षेपाद्गणना कृता ॥ ९५.॥. अध्यङ्कदिक्पालनिशाधिनाथ(१८९४)- मिते शुभे विक्रमराजवर्षे ॥ (*) नागपुरस्य राजा महाराष्ट्रो मयुराजदेवो भौसलाजातीय आसीत् ॥ स च गा. नमेण्टकारागृहान्नि सृल महाराजस्य शरणमायात ॥ (1) इन्दोरनगरस्य राजा जसान्तरायो कुकरजातीय , तस्य भार्याया अभिना "तुरा- लोगई" इति ॥ सा च सरसाप्टे दु१८६०मितविक्रमाचे प्राङ्गले मा युध्यमानेन महाराजजसवन्तगण महाराजमानसिंहस्य शरण प्रहिता । तद्विजयदिनादेयागता भारत स्वाधिकारगत मन्यते ॥ (1) तरतसिंह नृप !!. :
१४ [प्रथना . यशवन्तभूपणम् इषे सिते शंभुतिौ(*) हि जातो महीमहेन्द्रो यशवन्तसिंहः ॥ ९६ ।। ग्रहातिरत्नेन्दु(१९२९)मिते तु वर्षे छत्त्रं सितं फाल्गुनमास्थधत्त ॥ बहून्वहुभ्यः प्रददाति चादा- दसौ गजग्रामतुरङ्गमादीन् ॥ ९७॥ निवार्य चौराजगतो निरास्य- नीति करानप्यमुचदहूँश्च ॥ वढूंस्तड़ागान्विरचय्य देशे मरुस्थलं वै सजलं करोति ॥ ९८॥ कृत्वा सभां न्यायविनिर्णयार्थ बाप्पस्य योगाच्छकटं प्रयान्तम् ॥ तन्त्रीमरंदृत्तनिवेदिनीं च 'विधाय देशं व्यदधात्कृतार्थम् ॥ ९९ ॥ व्यधत्त मैत्री निखिलैर्नृपाले- रुदारतायामयमद्वितीयः ॥ प्रीतिः समस्तेषु गुणेषु नित्यं रिक्तो न यात्येनमुपेत्य कोऽपि ॥ १० ॥ प्रतापसिंहोऽस्य सहोदरस्तु. कायेन वाचा मनसा धनेन ॥. (*) अष्टम्याम् ।। V ..
१५ प्राकृति: राजवंशवर्णनम् कुर्वन्सदा स्वामिहितं वलाढ्यो धीमानमात्योऽस्ति नरेश्वरस्य ॥ १०१॥ अदाद्दयालुः परमेश्वरोऽस्मै पुत्रं गुणाढ्यं सरदारसिंहम् ॥ वसुंधरा कामधुगस्य जाता मनोरथः कोऽपि न चावशिष्टः ॥ १०२॥ कदापि सामन्तकवीन्द्रमन्त्रि- संवेष्टितो राजसभानिविष्टः ।। धृतातपत्रः सितचामराभ्यां संघीज्यते वासववाञ्छितश्रीः ॥ १०३ ॥ कदाप्यमात्यः सह संनिविष्टः कार्य स्वराज्यस्य करोति नीत्या ॥ कदाप्यभिज्ञैः कविभिः सभायां प्रमोदते काव्यरसै रसज्ञः ॥ १०४॥ कदापि वेगे मरुता समान संकोचिताङ्गं हरिणेन तुल्यम् ॥ आरुह्य चापल्यगुणप्रसिद्ध हयं मनोझं परितोषमेति ॥ १०५॥ कदापि नावा निजकारितेषु 2. यशवन्तभूषणम् प्रथमा हदेषु लीलां विहरन्करोति ॥ कदापि चारामविहारशीलो दधाति शोभा कुसुमायुधस्य ॥ १०६ ॥ कदापि मल्लाजिनिरीक्षणेच्छः कदापि युद्धे करिणा प्रहृष्टः॥ कदापि हर्थेषु सुरेन्द्रतुल्यं करोति रभ्यां मधुपानलीलाम् ॥ १०७ ॥ कदापि संगीतकलां शृणोति तथैव नृत्यं च निरीक्षतेऽसौ ॥ बालोक्य यच्चित्रतरं नभस्था हीणा भवन्त्यप्सरसोऽतिमात्रम् ॥ १०८ ॥ . कदापि कान्तारमहीधरेषु भ्रमन्नसौ केसरिणां किटीनाम् ।। आखेटलीला रचयन्वलाढ्यो मनोविनोदं कुरुते महीशः ॥ १०९ ॥ कदापि सेनाभटवीरकलिं निरीक्षते वीररसे निलीनः॥ कदापि देशेवटन्, विधाय : . .
.
आकृति]
राजवंशवर्णनम्
जानाति सर्वस्य रहस्यवृत्तम् ॥ ११० ॥
कुर्वन् प्रजापालनमेष नित्य-
मित्थं कृतार्थान् दिवसान्करोति ॥
यस्योपमानं कविभिः प्रदातुं
न शक्यतेऽसौ सुचिरं हि जीव्यात् ॥ १११॥
खवाणनेत्राङ्क(९२५०)मितैरिदानीं
क्रोशैरुपेताऽस्ति वशेऽस्य भूमिः ॥ •
खव्योमशून्येषुकरेषुनेत्रै(२५२५०००)
मिताः प्रजाः सन्ति मरुस्थलेऽस्य ॥ ११२॥:
आयोऽस्य सर्वदेशस्य द्वे कोटी प्रतिवत्सरम्.॥
अस्त्यस्य योधनगरं राजधानी सुशोभना ॥ ११३ ॥
यशवन्तमहाराजश्चत्रं धारयतेऽमलम् ॥
सूनुः सर्दारसिंहोऽस्य वयसाल्पो गुणैर्महान् ॥११४॥
जयचन्द्रकुलोद्भूताः सन्ति लर्मिता भटाः ॥
वर्धन्ते च सदा. वीरास्तेद्यामि कृपयेशितुः ॥११५॥
MMENTARNAur AM.IN . . १९ यशवन्तभूषणम. [प्रथमा राजराजेश्वर जी. सी. एम्. आई. महाराजाधिराज श्रीयशवन्तसिहस्य सभाईवेपचित्रम् ॥ . . AALM Nowwwmun- Pos
भाकृति]
१३
..
.राजवंशवर्णनम्
राजराजेश्वर जी. सी. एम्. आई. महाराजाधिराज
श्रीयशवन्तसिंहस्य साधारणवेषचित्रम् ।।
.
.. P ramayan- MA" १६ . यशवन्तभूपाराम मधमा राजराजेश्वर जी. सी. ऐम्. आई. महाराजाधिराज श्रीयशवन्तसिहस्य सभाईवेषचित्रम् ॥ 32 win
आकृति ]
राजवंशवर्णनम्
.
राजराजेश्वर जी. सी. ऐस्. आई. महाराजाधिराज
श्रीयशवन्तसिंहस्य साधारणवेपचित्रम् ॥
.
१८
.
यशवन्तभूषणम् ।
[प्रथमा
राजराजेश्वर जी. सी. ऐस्. थाई. महाराजाधिराज
श्रीयशवन्तसिंहस्यं सभाईवेपचित्रम् ॥
3
Pratibistickensile
।
आकृति]
राजवंशवर्णनम्
१६
राजराजेश्वर जी. सी. ऐस्. आई. महाराजाधिराज
श्रीयशवन्तसिंहस्य साधारणवेषचित्रम् ॥
.
TIMEHLA
यशवन्तभूपणम्
(प्रथमा
॥महाराजकुमारश्रीसरदारसिंहस्य चित्रम् ॥
--
प्राकृति] . १ यशोविग्रहः राजवंशवर्णनम् २० चूंडों २१ रणमल्लः २२ जोधोः २ महीचन्द्रः • ३ श्रीचन्द्रदेवः ४ मदनपालः ५ गोविन्दचन्द्रः ६ विजयचन्द्रः ७ जयचन्द्रः ८ वरदायिश्येनः ९ सेतुरामः १० सीहाः ११ आस्थानः १२ धूहडः १३ रायपालः १४ कनपालः १५ जालनसीः १६ छाडोः १७ तीडो १८ सलखोः २३ सूजोः २४ वाघोः २५ गांगोः २६ मालदेवः २७ उदयसिंहः २८ सूरसिंहः. २९ गजसिंहः ३० यशवन्तसिंहः ३१ अजितसिंहः ३२ वस्तसिंहः. ३३ विजयसिंहः ३४ गुमानसिंहः ३५ मानसिंहः ३६ तस्तसिंहः ३७-यशवन्तसिंहः (वर्तमानः) ३८ सरदारसिंहः (महाराजकमारः . १९ वरिमः :
२२ यशवन्तभूपणम् [प्रमा कविवंशवर्णनम् ॥ मदीयमपि वृत्तान्तं राजल्लोकप्रथावशात् ॥ संक्षेपेण वदाम्यत्र ग्रन्थकर्तृत्वहेतुना ॥ १ ॥ कीर्तेः संचारकरणाचारणा इति संज्ञया ॥ ख्याताः स्मस्त्रिषु लोकेषु गणिता देवजातिषु ॥ २॥ श्रीमद्रामायणे साक्ष्यं भारते च प्रहश्यते ॥ तहदन्यपुराणेषु श्रीमद्भागवतादिषु ॥ ३ ॥ मुन्यृषीतिपदैरुक्ता ईश्वर्याः समुपासका: पूज्यन्ते दानमानाद्यैरद्यापि क्षत्रियैरिमे ॥४॥ यशवन्तनृपालोऽति दत्वा ग्रामगजादिकम् ॥ कुर्वाणो हितमतेषां जीव्याबहुयुगावधि ॥५॥ आसिया(*)कुलमस्माकै भीमोऽत्र प्रथितः पुमान् ॥ पदं वळहठमल्लेति(1)प्रापान्नस्य प्रदानतः ॥ ६ ॥ पितामहो मम ख्यातो वाँकीदासः कवीश्वरः ॥ अभूदयाचकश्चासौ मानसिंहमहीपतेः(1) ॥७॥ (*) भस्माक्रमासांनामको मूलपुरुषो बभूव । तश्या. "मासिया" इति कथ्यन्ते ।। (१).मरुभाषायां "वळ" इति शब्दो भोज्यवस्स्वपरपर्याय । "ह" शब्दो हठा- र्थकः । मनरान्दो बलवदाची । वळहठमल" इति समुदायार्थस्तु लोकान् भोजयितुं हठकरण बलवानिति ॥ (1) मन पब्सोपे पञ्चमी । तेन मानसिंह पस्यिग्यत्यों बोयाः । मानसिंहादत्य . न याचते इत्यर्थः ॥
२३ आकतिः] राजवंशवर्णनम् गुंणयाहितया तस्मै मानो मरुमहीश्वरः ॥ कविराजपदं प्रीत्या लक्षदानं च दत्तवानं ॥८॥ तख्तसिंहमहाराजस्तत्तनूजमहर्निशम् ॥ अमानीदारतीदाननामानं जनकं मम ॥९॥ मह्यं मुरारिदानाय यशवन्तनरेश्वरः ॥ राज्याभिषेकवेलायां प्रादाल्लक्ष(*)मुदारधीः ॥१०॥ चारणा देवसृष्टावुत्पन्नाः । तदुक्तं श्रीमद्भागवतस्य तृतीय- स्कन्धस्य दशमेऽध्याये- देवसर्गश्चाष्टविधो विवुधाः १ पितरो२ ऽसुरी: ३॥ गन्धर्वाप्सरसः सिद्धा,यक्षरक्षांसि५ चारणाः६ ॥२७॥ भूतप्रेतपिशाचाश्च ७ विद्याधाः, किन्नरादयः८.। दशैतेविदुराख्याताःसर्गास्तेविश्वसृक्कृताः।२८। इति: समानखभावानामेकः सर्गः । यथा गन्धर्वाप्सरसामेकः सर्गः । यक्षरक्षसामेकः सर्गः। सिद्धचारणविद्याधराणामेका सर्गः। भूतप्रेतपिशाचानामेकः सर्गः । भूतप्रेतपिशाचाश्चाशु- द्धाचारतया विवुधादिभिरादावेव परित्यक्ताः । अतएव वि. धादिभिः सहेषां वर्णनं क्वचिदपि न विद्यते । देवास्तु सुमेरु- . गिरौ निवासमकुर्वन्त ॥ . तदुक्तं श्रीमद्भागवतस्य पञ्चमस्कन्धस्य पोडशेऽध्याये- (+) लक्षदानम् ॥ : -- . २४ यशवन्तपूषणम् प्रथमा मेरोर्मूर्द्धनि भगवत प्रात्मयोनेमध्यत उपक्लृप्तां पुं- रीम् ।। १॥ इति । सुमेरुगिरौ देवानां पृथक्पृथङ्नगर्यस्तत्र चारणानामपि पृथग्लोकः ॥ तदुक्तं तत्रैव- अधत्तात्सवितुर्योजनायुते स्वर्भानुनक्षत्रवञ्चरतीत्येक। ततोऽधस्तासिदचारणविद्याधराणां सदनानि ताव- न्मात्र एव ॥४॥ इति ।। सिद्धचारणविद्याधराणामेकसर्गवादेकगणत्वम् अत्र सु- मेरोरुचतामानमुपरिष्ठात्सूर्येण विहितम् । आङ्गलविद्वांसस्तु महीधराणामुच्चतामानमधस्नात्समुद्रतलादवस्यन्ति । सर्वपि- तामहेन धात्राऽऽरम्भाच्चारणदेवताकार्य विष्पवादिदेवानां स्तु- तिपाठकत्वमकारीति ते चारणसंज्ञया प्रथिताः । चारणश- ब्दव्पुत्पत्तिस्तु "चारयन्ति कीर्तिम्" इति ॥ तथाहि मत्स्य- पुराणस्योनपञ्चाशोत्तरद्विशततमेऽध्याये- स्तूयमानं समन्ताच्च सिद्धगन्धर्वचारणैः॥ आम्नायैर्मूर्तिमद्भिश्च स्तूयमानं समन्ततः॥ ३५॥. सव्यवाहूपधानं तं तुष्टुवुर्देवदानवाः॥ कृतास्खलिपुटाःसर्वेप्रणताः सर्वतोदिशम् ॥३६॥ इति । स्वर्गस्य भोगभूमित्वात्तत्र मर्त्यलोकार्जितमहासुकृतोप- भोगः । कर्मभूमिस्तु मर्सलोक एवेति भगवदाराधनाय देवा .
“२५ . আন্ধান राजवंशवर्णनम् भपि मर्त्यलोके जनिमभीप्सन्ति। मर्त्यलोकेऽप्यार्यावर्तः पु. ण्यभूमिः । "आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमागयोः॥" इत्यमरः ॥ कतिपयचारणदेवा मोक्षसाधनाय सदारा देव- लोकादागत्य हिमालयमध्यूपिवांसः । तैः सह कतिचितसिं- द्धदेवा अपि समायाताः ॥ तदुक्तं वाल्मीकीयरामायणस्य, वालकाण्डेऽष्ट चत्वारिंशे सगें- इममाश्रममुत्सृज्य सिद्धचारणसेविते ॥३३॥ हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥” इति ॥ कृतयुगादारभ्य कलियुगावतीर्णश्रीकृष्णसमयान्तं तत्प- श्चादपि च ते चारणा हिमगिरावन्यासु च तपःस्थलीषु च तप आचरन्तो लक्षशो हायनान्यृषिमुनिमहर्षिमहात्मपर्देस- तत्प्रमाणानि चाग्रे प्रदृश्यन्ते । देवलोके निवसन्तश्चा- रणा देवचारणा इत्युक्ताः । अधुनापि च देवलोकवासिनश्चा- रणा देवचारणा इति कथ्यन्ते । तत्र प्रमाणं तु ब्रह्मपुराणस्य पत्रिंशेऽध्याये- गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः॥ औदकाःखेचराश्चान्ये किन्नरा देवचारणाः।६६।" इति। 'महादेवस्यं पार्वतीपरिणयावसरे ब्रह्मणो हिमालये नवन- गरनिर्माणम् । तत्रत्यं पद्यमिदम् ॥ ये च चारणा देवलोकं विहाय मर्त्यलोकमुपागत्य हिमगिरिमध्यपुस्तत्संततेस्तत • - - २६ यशवन्तभूपणम् [प्रेपमा ईषदूनतया देवकल्पत्वेन वर्णनम्। “देवकल्पा महर्षयः” इति महाभारते ॥ देवकल्पा देवसदृशाः ॥ "कल्पः स्वसदृशे" इति चिन्तामणिः ॥ लङ्का प्रज्वाल्य बहिरागत्य सर्वमनिसा- दवलोक्य हन्त वैदेह्यपि दग्धा स्यादिति चिन्तयमानो हनूमान् "जानकी न च दग्धा" इति चारणमुनिवचनमोपीत् ॥ त- प्रसङ्गे भगवता वाल्मीकिमुनिना चारणा महात्मान इत्युक्ताः। तथाहि वाल्मीकीयरामायणस्य सुन्दरकाण्डे पञ्चपञ्चाशे सर्गे- शुश्राव हनुमास्तत्र चारणानां महात्मनाम् ॥ २९॥ जानकी न च दग्धेति विस्मयोऽद्भुत एव नः।३। इति ॥ लङ्कायाः प्रतिनिवृत्त्य समुद्रवेलानिविष्टानगन्दादीन्प्रति त. दुदन्तं कथयतः पवनात्मजस्य तत्रैवाटपश्चाशे सर्गेइदं वचनम् "ऋषिवाक्यैश्च दृष्टार्थेरभवदृष्टमानसः॥१६५॥” इति। मृगयासक्तः पाण्डुर्मुनिशापाद्धिमगिरिमधिष्ठाय चारणा- न्तिके तप आचरन्पञ्चत्वमवाप । तस्य यवीयसी धर्मपत्नी माद्री.सहगमनमकामयत । ततश्च युधिष्ठिरादिडिम्भपञ्चको- पेतां तज्ज्येष्ठपली कुन्तीमवलोक्य चारणा विचारणामकार्पः। तत्प्रसङ्के महाभारतस्यादिपर्वणि पड्विंशाधिकशततमेऽध्याये पद्यमिदम्- "ते परस्परमामन्य देवकल्पा महर्षयः ॥” इति ॥ तदुत्तरं चार्भकपञ्चकसमवेतया कुन्त्या सहचारणमुनयो इस्तिनापुरमागतास्तद्विषये तत्रैव- । मार्कतिः] राजर्वश्नवर्णनम् "तं चारणसहस्राणां मुनीनामागमं तदा ॥ श्रुत्वा नागपुरे नृणां विस्मयः समपद्यत॥११॥” इति। कृतयुगे हरिणा पृथुनाम्नाऽवतीर्य जगतो मर्यादा निरूप्य संशोधनकारि । तस्मिन्ननेहसि हिमालयाधिष्ठितचारणा वस्तुतो देवानां स्तुतिपाठका आसन् । पृथुमहाराजप्रशंसा जगति सुस्थिरत्वमासादयेदिति विचिन्त्य ब्रह्मर्षयस्तेषां म: ध्यादेकं चारणमानीय पृथोः स्तुतिपाठकं व्यदधुः । नृपतिना च स तेलगन्देशदानेन तुष्टिं प्रापितः । अस्मिन्विषये पद्मपुरा. णस्य द्वितीये भूमिखण्डेऽष्टाविंशेऽध्याये- "चारणाय ततः प्रादात्तैलङ्गं देशमुत्तमम् ॥” इति ॥ पृथोरधिगततेलङ्गदेशश्चारणों हिमगिरिं विहाय तैलङ्ग- शमध्युवास । तत्सततिश्च राज्ञां राजपुत्राणां च स्तुतिमात- न्वती तत्स्तुतिपाठकतामवाप । अद्यावधि च वयं चारणा राज्ञां राजपुत्राणां च स्तुतिमाचरन्तः कवीति पदेन प्रथिताः स्मः ॥ हिमालयोषितदेवकल्पतपस्विचारणमध्यादेकः पृथुम- हाराजस्य कविरभवदिति तत्संततिरपि मर्त्यलोकवासिमनु- ष्याणां राज्ञां राजपुत्राणां च . कविधमोरीकरणात्सर्वथाऽपग- तदेवभावा मानुषचारणेतिपदभाग्वभूव ॥ तत्र प्रमाणं तु म. हाभारतस्य शान्तिपर्वणि मोक्षधमें एकसप्तत्युत्तरदिशतत. मेऽध्याये- .
२८ प्रथमा यशवन्तभूपणम् "देवता ब्राह्मणा: सन्तो यक्षामानुषचारणाः॥ धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः ।१५। इति॥ सर्वशक्तिमन्तं जगदीश्वरं केचिजनकरूपतया केचिच जननीरूपतया मन्यन्ते । अस्मत्पूर्वजाश्च हिमालये तपस्य- तस्तं जननीरूपेणोपासांचकुः । तदुक्तं महाभारतस्य भीष्म- ‘पर्वणि द्वाविंशेऽध्यायेऽर्जुनस्तुतो- "तुष्टिः पुष्टिधृतिर्दीप्तिश्चन्द्रादित्यविवर्द्धनी ॥ भूतिभूतिमतां संख्ये वीक्ष्यसे सिद्धचारणैः ॥” इति ॥ भत्र टीकाकारो नीलकण्ठः " संख्ये, सम्यख्यानं प्रका- शन यत्र तस्मिन्नारमानात्मविवेकरूपे समाधो” इति व्या- चख्यौ ॥ तयैव परंपरयाद्याप्यस्माकं सकलचारणजातर्देवी पंरमोपास्यदेवता । तत एवच वयं सर्वे "जयमातः" इत्युक्त्वा परस्परं प्रणाममाचरामः ।। 'अत्रेदं नाशङ्कनीयम्, चारणा देवाश्चेन्मनुष्येषु कथं मिलिता इति । कुत इति चेदसुरा राक्षसाश्च देवसृष्टो गणि- ताः ॥ एकदा सर्वे देवा मिलित्वा जीराधि ममन्थुः । तस्मा- व पीयूपादिचतुर्नशरत्नान्यलभन्त । तत्रामृतस्य कृते देवा- सुरयोमिथस्तुमुलयुद्धमवर्तत । तत्र राक्षसानामसुरपक्षनि- विष्टत्वाइवानामसुरराक्षसानां च विद्वेषानलोऽतिशयितां वृ. दिमाससाद । तदानीमसुरराक्षसा देवलोकापहारेण मर्त्य- लोकमध्यपुः ॥ भसुरा दैत्या इति पर्यायान्तरम् ।
आकृति. २६ । राजवंशवर्णनम् ''असुरा दैत्यदैतेय-"इत्यमरः ॥ देत्येषु वलिहिरण्यकशिपुप्र- भृतयो मर्त्यलोकमहाराजा वभूवुः । रक्षःसु चलङ्केश्वरो रावणो लोकरावणो वभूव । दैत्या राक्षसाश्च ससैन्या बहुशो मर्त्य- लोकादेवलोकमाक्रम्य लुलुण्टुदेवराज महेन्द्रं च विजिग्युः । महाभारतावधि मर्त्यलोके दैत्यराक्षससंततिरासीत् । श्रीकृत पणचन्द्रेण तृणावर्ताघासुरादयो बहवो दैत्या निहताः । पा- ण्डुपुत्रो भीमसेनो हिडम्बाराक्षस्यां घटोत्कचमुदपादयत् । स च महाभारतराधिरणे वीरकर्म प्रदर्श्य तनुमत्यजत् ॥ वैदिकधर्मग्रन्थभागवतमहाभारतादिप्रणयनादर्वाग्जेनध- र्मग्रन्थनिर्माणमातत्रापि मानुपचारणा उत्तमार्यत्वेन गणिताः। वेदानुयायिनोरामकृष्णादींश्चतुर्विंशतिमवतारान्मन्यन्ते, तथा जैनमतावलम्बिन पभादींश्चतुर्विंशतितीर्थकृतः प्रतिपाल- यन्ति । कथयन्ति च विक्रमसंवत्सरप्रारम्भकालात्सप्तत्युत्तर- चतुःशत ४७०वर्षपूर्व चतुर्विशस्तीर्थंकरो महावीरस्वामी चभू- वेति । व्योमेपुनवेन्दु १६५०मितवर्तमानविक्रमसंवत्सराच खनेत्राब्धियुग्मा२४२०ऽन्दा भवन्ति । महावीरस्वामिना मा. गधीभापायामनेकानि सूत्राणि प्रणीतानि । तत्र पन्नवणा- ख्यसूत्रस्य प्रथमपदे मनुष्याधिकारे मनुजा द्विविधाः प्रज्ञप्ताः। म्लेच्छा आर्याश्च । आर्या द्विविधा भणिताः । ऋद्धिप्राप्ता अ. नृद्धिप्राप्ताश्च । द्धिप्राप्तत्वं च. तपावैभवादिप्रतिष्ठाहत्वम् । ऋद्धिप्राप्ताः पोढा गणिताः। 'अरिहन्त; चकंवटी, बलदेवा, वासुदेवा, चारज विजाहा ॥
D . यशवन्तभूपणम [प्रथमा अरिहन्ता तीर्थंकराः ॥ मनुष्याधिकारवादरिहन्तादीनां मनुष्यजातित्वम् । इहाप्यतिपवित्रेः समर्धेश्चारिहन्तादिभिः सह मानुपचारका गणिताः ॥ जेनसूत्रग्रन्थेभ्यः प्राक्तनों न कोपि काव्यप्रवन्ध उपल- स्पते । काव्येष्वपि प्रायो मानुपचारणानां वर्णनम् । काश्मी- रेश्वरो हर्षदेवः कर्णाटराष्ट्राधीशपरमाण्डमहिषीचन्दलाचित्र- 'मवलोक्येमा संधां व्यदधात् । “परमाण्डं विजित्य चन्दला- हरणं विनाऽपककर्पूरो नोपभोग्यः" इति ॥ तदुक्तं कल्हणकृत- कश्मीरराजेतिहासराजतरङ्गिण्याः सप्तमतरङ्गे- कृतापवित्रमकर्पूरपरित्यागं प्रतिज्ञया ।। तं च स्तुतिमिपादेवं जहसुः कविचारणाः ॥११२२॥" इति ॥ कविचारणाः स्तुतिमिपाद्धर्पदेवनृपमनिन्दन्नितिभावः ॥ • " संसारे सर्वमन्तवत्" इति नियतिकृतनियमेन चार- एजातिरपि चिरन्तनतया शनैःशनैर्भारतभूमेरितरसकलप्रदे- शेपूच्छेदमवाप । कतिचिच्चारणा. वर्षसहस्रद्वयात्माङ्मरुदेश- मागम्य न्यबसन् । तत्संततिश्च पृद्धिमासादयन्ती मरुदेश- संबन्धान्मारवचारणेतिसंज्ञया ख्यातिमाटे । मारवचारणा. श्चेदानी विशेषतया राजपूतानाप्रदेशे, कतिचिद्गुर्जरभूमौ क-, तिचिच्च मालवदेशे निवसन्ति । मारवचारणानां च राजपुत्रैः सह स. एव स्तुतिपाठकतादिपुरातनसंयन्धोऽद्यावधि वरी. वति ॥ वयं चारणाः पुरा देवसृष्टायुत्पन्ना इति राजानो राज- पुत्राश्चेदानीमपि चारणान्पूजनीयान्मन्यन्ते । चारणाः आरुतिः] 'राजवंशवर्णनम् ३१ पूजनीया इति राजपुत्रेषु कथनप्रचारोऽपि । तथाहि, एत- थश्रवणार्थं राजराजेश्वरयशवन्तसिंहेन स्वदेशविदेशवासि- नो बहवो विद्वांस माहृताः। तन्मण्डलेन सहास्य श्रवणाव- सरे श्रोतृसमक्षं स्ववाण्याऽयं मनोरथः प्रकटीकृतः "कविः राजेनास्माकमयं ग्रन्थ ईदृशः प्रणीतः, यत्कविराज वर्णेन तोलयित्वा तन्निर्मितकविराजप्रतिमा सदैव पूज्येत" इति :। इयं वातॊक्तश्रोतृगणस्थठक्कुरमनोहरसिंहेन मा लिखिता। तद्विषयं पत्रमन्ते द्रष्टव्यम् ॥ महान्तस्तदतिरिक्ताश्च सर्वेऽपि क्षत्रिया मारवचारणानामतीव सत्कारं वितन्वन्ति । योधपुरा- धीशाजितसिंहसूनुरभयसिंहो ज्येष्ठत्वात्तत्पमधिष्ठाय पञ्च- विंशतिवर्षाणि राज्यं शशास । तत्पर्ट च तदुत्तराधिकारी रा- मसिंहोऽधितस्थौ । तस्मान्मराज्यमपहृत्य तपितृव्यो व- ख्तसिंहो राज्यभार बभार । अतएव वंशावल्यामभयसिंहो नोक्तः । अभयसिंहोद्देशन कवियोपटङ्किचारणकरणीदानेन सूर्यप्रकाशाख्यं भाषाग्रन्धं विनिर्मीयस महाराजाय समर्पितः। ततो गुणग्राहितया महाराजः पुरातनराजधान्या मगडोवर- स्थारामे करणादानाय लक्षदानं वितीर्य तं गजारूढं विधाय खयमश्वारूढोऽग्रे गच्छन् मण्डोवरात्रिकोशान्तराले योधपुर- वञ्चिारणकविगृहमयात् ।। तद्विपयं पद्यमिदम्- अश्वारूढोऽभयो भूपो गजारूढः कविः पुनः॥ याममेकं महाराजः प्रायादेवं कवेः पुरः॥१॥इति॥ कस्यचिद्राजकार्यस्य कृते • पोषपुरमहारांजवतसिंहेन -- यशवन्तभूपणम् [प्रथमा नियुक्तो रोहड़ियोपटकी तत्प्रतोलीपात्रं मुंदियाड़ाभिधेयाक्स- थाधीशकरणीदानचारण उदयपुगधीशमहाराणाजगत्सिंहा. न्तिकं जगाम । जगत्सिहश्च खराजधान्या वडीयोलाख्यद्वारा- हहिः क्रोशाष्टमभागान्तरवर्तिजगदीशमन्दिरान्तं करणीदान- सभाजनार्थमभ्यागमत् ॥ तद्विपयं पद्यमिदम्- यंदताप्त्या दिल्लीशा मृत्युमवाप्ताः सहानुतापेन । अातिथ्यं तत्कीत्य कवेरकार्षीजगत्सिहः॥ १॥ इति ॥ महियारियोपटङ्कदेवाख्यचारणस्याति वृद्धतया प्रतिगम- भावसरे वुन्दीशशत्रुशल्यस्तं स्वकरावलम्बिनं कृत्वा प्रासा- इहिःप्रदेशावधि तेन सह समायातः ॥ दृष्टिकात्तित्रोपान. हमन्वेषमाणचारणचरणयोः शत्रुशल्यः स्वपाणिना योजया- मसि ॥ तद्विपयं पद्यमिदम्- "गृहीत्वोपानहं पाणी न्यस्यता तु कवेः पुरः॥ त्वया कृपणशीपूपानदत्ता सहस्रशः ॥” इति ॥ ग्रन्थनिर्माणकारणम् ॥ भाषाभूषणसंज्ञस्य ग्रन्थस्य नृपसंनिधौ ॥ एकस्मिन्दिवस जातः प्रस्तावो मां तदा नृपः ॥१॥ ऊचे कीहक्प्रवन्धोऽयं कविराज! तदाऽवदम् ।। मरुपेन स्वयं पूर्वयशवन्तेन(*) निर्मितः॥२॥ * पूर्भपरगन्ताहमहाराजो वैक्रमे प्रयतीन्यधिकोडेशशततमे वर्षे (१६८३) समुपर्न।। ८ प्राकृतिः] राजवंशवर्णनम् झापायां प्रथमो ग्रन्थो भरतस्य मतेऽस्त्यसौ ॥ अनेनालंकृतेोधः साक्षान्नैव. भवेदिति ॥ ३ ॥ उत्तराकर्णनात्प्राह हसन्मरुमहेश्वरः ।। तदाऽन्यं रचय ग्रन्थं नवं कविवरेति माम् ॥ ४॥ चतुर्भिः कुलकम् ॥ वत्सरैः पञ्चदशभिः शनैः कृत्वा श्रमं मया ॥ . निर्मितो निर्मलग्रन्थ आज्ञया मरुभूपतेः ॥ ५॥ अनेकै रचिता ग्रन्था अाकल्पादधुनावधि ॥ अल्पायुरहमेकोऽतः कथं सर्व निरूप्यते ॥ ६ ॥ . प्रवन्धानां प्रसिद्धानां सारं संगृह्य यत्नतः ॥ स्वस्य निर्मलया बुद्ध्या निर्धार्यायं विनिर्मितः ॥७॥ सन्ति वालप्रबोधार्थ प्रवन्धा बहवो भुवि ॥ अयं विबुधबोधार्थो भवेदेव न संशयः ॥ ८ ॥ संदर्यालंकारान्यशवन्तयशोऽत्र वर्णितं यस्मात् ।। यशवन्तभूषणेति संज्ञा चास्य व्यधायि भूपाल! ॥ ९ ॥ यतो भूषणसंज्ञाऽस्य सप्तभिस्तु ततो मया ॥ पूर्तिराकृतिभिनीता ह्यौचित्येन नराधिप! ॥ १० ॥ प्रथमा भूमिका काव्याकृती राजन्! हिंतीयिका ॥ शब्दालंकाररूपा च तृतीया परिकीर्तिता ॥ १३ ॥ अर्थालंकाररूपा च चतुर्थी मनुजेश्वर! ॥ रसवन्मुखभावालंकाररूपा न पञ्चमी ।। १२ ॥ .
. १ यशवन्तभूषणम् [प्रपमा अन्तर्भावाकृतिश्चेह पष्टी राष्ट्रवरोत्तम! ॥ सप्तम्यां च विधिः पूर्तेर्गन्धस्य समयस्तथा ॥ १३॥ वर्तमानपा भूप! कथितं पारितोषिकम् ॥ यशवन्तयशोभूषणग्रन्थात्सारं नृपाज्ञयादाय ॥ यशवन्तभूषणेतिसंदर्भोऽयं विनिर्मितः स्वल्पः ॥१४॥ नामलक्षणविचारः॥ शुद्धस्वरूपानुसारं नामान्याह धुरंधरः ॥ राजराजेन्द्र! तत्स्पष्टं करिष्यामि पदे पदे ॥१॥ धुरंधरोक्तालंकारनामान्येवात्र(*) लक्षणम् ।। अलंकारस्वरूपं यत्स्पष्टं तैरेव जायते ॥ २॥ अंत्र साक्षात्स्वरूपं हि विद्यते नृप! नामसु ॥ धुरंधरस्य नामार्थाच्च्युतः पङ्के निमज्जति ॥ ३॥ अत्यन्तस्फुटताहेतोनाम्नामर्थान्प्रचक्ष्महे ।। लक्षणत्वेन ते नैव बोध्याः श्रीमरुनायक! ॥४॥ प्रथममलंकारादीन्सलक्ष्य तेषां यथार्थनामनिर्माताऽऽद्या- चार्योन धुरंधरपदेन व्यवहृतः । ते च बहवः । यस्य सिद्धान्तः परममाननीयत्वेनाभिमतस्तस्मिन्विपये स एव धुरंधरों वि- ज्ञेयः उक्तधुरंधरेभ्योऽर्वाचीना अस्माभिरर्वाचीनपदेनोदिष्टाः। मया त्वनार्वाचीनानां लक्षणानि खण्डयित्वा धुरंधराणां नामरूपाण्येव लक्षणारङ्गीकृतानि ॥ लोके परमात्मना (*) अलंकारगरने ॥ . .
. प्राकृतिः] राजवंशवर्णनम् प्रथमं पदार्थाः संस्कृष्टाः । पश्चाच्च तन्नामनिर्माणम् । तच्च श्रुतिस्मृतिषु प्रसिद्धम् । तथैव साहित्यशास्त्रे प्रथममुदाहर- णानि ततश्च कविभिस्तेषु चमत्कारं संलक्ष्यालंकारादीनां नामानि निर्मितानीत्यनुभवसिद्धम् । यथा शब्दानुसारेण सा- धनिकासूत्रनिर्माणम् । रागरागिणीश्रवणान्मृगादिवच्छ्रवण- सुखोद्भावेऽपि संगीतसंस्कारिणो जनस्यामुकोयं रागो रागि: णी वा, अमुकोयं स्वरः, अमुकोऽयं ताल इत्यादौ विज्ञातेऽत्य: न्तमानन्दोद्गमस्तथैव काव्यश्रवणमात्रेण चेतसः सुखोद्भावे- ऽपि साहित्यसंस्कारिणो जनस्यात्रामुकोऽयं व्यङ्ग्यादिरर्थः, अमुकोयमलंकारः, अमुकोऽयं रस इत्यादौ विज्ञातेऽत्यन्तमा- नन्दोद्गमः ॥ न्यायादिशास्त्राणां प्रसिद्धाचार्यगौतमादिभिरी- श्वरकृतपदार्थानां लक्षणानि निर्मितानि । तयैव शेल्या सा- हित्यशास्त्रस्य प्रसिद्धाचार्येण भरतमुनिनाऽलंकारादीनां ल- क्षणानि निर्मितानि । साहित्यशास्त्रे च भरतप्रणीतनाक्य- शास्त्रात्प्राचीनो न कोपि प्रवन्ध उपलभ्यते। ततश्च वेदन्या- सप्रभृतयो भरतशेल्यनुसारेण लक्षणानि कुर्वन्ति स्म ॥ पर, मात्मा पदार्थान्विरचय्य तेषां नामानि व्यवहारमात्रप्रयो- जनेन निर्मितवान् । न तु कविकर्मणा । अत एव परमात्म- कृतपदार्थविवेचकानां न्यायादिशास्त्रकाराणां तेषां साक्षात्स्व- रूपप्रकाशनार्थ नामातिरिक्तलक्षणनिर्मितेरावश्यकत्वम् ॥ ग्रथा “वातीति वायुः” इति व्युत्पत्त्या पवनस्य वायुरिति नाम जगत्कर्तृनिर्मितम् परं त्वनेन नाम्ना पवनस्य साक्षात्स्वरूपं सादृक्स्फुटं न भवति, यादृक् “ रूपरहितः स्पर्शवान्वायुः .
. । यशवन्तभूपणमा [प्रथमा इति न्यायशास्त्रोक्तलक्षणेन भवति । गत्यर्थ कानामन्येपी- मपि वस्तूनां मत्त्वात् । अलंकारा गदिनामानि तु विनिर्मि- तानि । तानि च कविकर्मणा निमितानीति कवीनां तु नाम- मिरेय तेपां स्वरूपस्य स्पष्टीकरणमुचितम् ॥ णमधातो - मशब्दो निपातितः । णमप्रव्हत्वे शब्दे च।" नमतीति नाम । तत्तद्वस्तुनाम्नां तत्तदर्थेषु नमनात्सार्थकत्वम् । 'अत्रायमभिसंधिः, तत्तन्नामकथनेन तत्तत्पदार्थस्य ग्रहण स्यादिति । जगत्काऽयं शब्दो व्यवहारमात्रप्रयोजनेन प्र. युक्तः । प्रथम येथेः कविभिरलंकारादिनामानि निर्मितानि, तानि तु तत्तत्स्वरूपम्य साक्षात्प्रकाशकत्वात्तादृशार्थबोध. कानि। एतदेवाभिप्रत्यधुरंधाकवि म्नःपर्यायान्तरं संज्ञेत्याह। संज्ञाशब्दार्थस्तु सम्यग्ज्ञायतेऽनयेति । यया वस्तुनः सम्यग्ज्ञानं भवति सा संज्ञेतिभावः ॥ लक्षणशब्दार्थस्तु "लक्ष्यतेऽनेन" इति । येन वस्तुपरिज्ञानं भवति तल्लक्षणमितिभावः ।। 'अलंकागादिस्वरूपबोधे लक्षणापेक्षया संज्ञाया अधिकमुपयो- गित्य चानयोर्युत्पत्त्यैव स्फुटतरम् ॥ लक्षणे गौरवम् । नाम- सु च लाघवम् । लाघवाङ्गीकारश्च सर्वसंमतः ॥ नाम्नाऽलं. कारादिस्वरूपं बोधयित्वा पुनर्लक्षणेन ज्ञापने कवीनां पुनरु- क्तिदोपापातः ॥ आदौ नामा तमिरंन्यल्लक्षणं न निर्मितम् । नामभिरवालंकारादीनां स्वरूपे स्पप्टेऽन्यलक्षणनिर्मितेरनाव- श्यकत्वात् । अन्यनिर्मितलक्षणानि कानिचित्स्वरूपाधोध: कानि । कानिचिञ्चाव्यात्यादिदोपग्रस्तानि । धुरंधर कृतनाम्नां कचित् संपूर्णसाक्षादर्थापरिज्ञानादितरार्थविज्ञानाद्वा कचिच्च .
प्राकृतिः 1 राजवंशवर्णनम् नौमानुसारमन्यप्रकारकल क्षणनिर्माणप्रयत्ने तत्रालंकाराणां साक्षात्खरूंपस्यासमावेशात्तथैव . क्वचित् • परंपरागतोदाहर. णानां संपूर्णसाक्षादभिप्रायापरिज्ञानादितराभिप्रायविज्ञाना- द्वा तत्तदुदाहरणानुसारेण लक्षणनिर्मितिरिति बोध्यम् । तादृशलक्षणानां खण्डनं नाम्नां मण्डनं च तत्तदलंकारप्रकरणे करिष्यते ॥ अखिलानामपि महतां खण्डनकरणापराधमपहाय ॥ पश्यन्तु पक्षरहिताः प्रवन्धमेतं हि कविराजाः ॥१॥ संस्कृतग्रन्थकर्तृणां खण्डनानि कृतान्यतः ॥ भाषाग्रन्थविनिर्मातृखण्डने न हर्पिता ॥२॥ धुरंधरकृतनाम्नामवयवार्थविचारं विनाऽलंकाराणां साक्षा- स्वरूपमजानाना अर्वाचीना लभ्योदाहरणानुसारेण भिन्न- भिन्नलक्षणानि व्यदधुः । तदेतद्भमजालम् । यथा परब्रह्म-. णोऽपरिज्ञानविपये कश्चित्- यैः स्पृष्टः खलु पाद एव भणितः स्तम्भाकृतियः पुनः पुच्छे तैस्तु वरत्रया समगुणः शुण्डे च रम्भानिभः ॥ तुल्योऽसौ मुसलेन दन्त उत यैः कर्णे च शूर्पोपमः पृष्टे चापि च शैलगण्डसदृशो ह्यन्धैर्मतङ्गो महान् ॥१॥ इति ॥ साहित्यशास्त्रस्य मुख्यप्रयोजनं तु मनोरञ्जकत्वम् । अतः कस्यचिन्नचीनमनोरखकविपयस्य कथने, अमनोरखकस्य ख- एडने वा न कश्चिद्दोपः । उक्तं हि भगवता वेदव्यासेनाग्नि- .. गगो- यशवन्तभूषणम् [प्रथमा अपारे काव्यसंसारे कविरेव प्रजापतिः । यथा वै रोचते विश्वं तथेदं परिवर्तते ॥ १ ॥ इति ॥ . अपरः कश्चिदप्यर्वाचीनो नामैव लक्षणं नामन्यत । केवलं जयदेवकविश्चन्द्रालोके- स्यानस्मृतिभ्रान्तिसंदेहैस्तदङ्कालंकृतित्रयम् ॥ इत्यलंकारत्रिकस्य नामरूपं लक्षणमाह ॥ लक्षणं द्विविधम् । खरूपलक्षणं तटस्थलक्षणं च ।स्वरूपं स्वाकारखभावरूपवस्तु स्थितिः । तटस्थशब्दार्थस्तु तीरस्थित इति । स्वरूपाद्भिन्नमितिभावः ॥ चतुर्भुजत्वमिति विपणोल- क्षणमाकाररूपत्वात्स्वरूपलक्षणम्।चक्रपाणित्वमिति विष्णो- लक्षणं विष्णोराकाराद्भिन्नमिति तटस्थलक्षणम् ॥ मम तु मत, वस्तुनः साक्षाज्ज्ञानं यादृक्खरूपलक्षणाद्भवति, तादृ- क्तटस्थलक्षणान्न भवतीति । अत एव स्वरूपलक्षणस्य मु. ख्यत्वम् ॥ नाम च स्वरूपलक्षणम् ॥ तदितरलक्षणं तटस्थ- लक्षणम् । लक्षणे चातिव्याप्तिरव्याप्तिरसंभव इतित्रयो दोपा भयन्ति अतिव्याप्त्यादिदोषाणां नामान्येव हि लक्षणम् ॥ रम्यां गौरी तथा भीतिजनिकां विद्धि नायिकाम् ॥१॥ "मनोहरवं नायिकाया लक्षणम्" इत्युक्त भनोहरत्वस्य नायकादिपदार्थान्तरेष्वपि सत्वात् 'लक्ष्यातिरिक्त लक्षण- ' आकृतिः] राजवंशवर्णनम् . वैनाभिमतस्य व्यापनमतिव्याप्तिः।” इति लक्षणलक्षितो- तिव्याप्तिदोषः।। "गौरवर्णवं नायिकायां लक्षणम्" इत्युक्ते श्यामवर्णायां नायिकायां गौरवर्णस्याव्यापनात् “लक्ष्यैकदे- शावर्तनमव्याप्तिः ।" इति लक्षणलक्षितोऽव्याप्तिदोषः । शृङ्गारालम्बनत्वात्तस्या अपि नायिकात्वमिष्टमेव ॥ यथा- "श्यामेयं सुन्दरी नारी भुजगीव नरान्दशेत् ॥ इति ॥. "भयजनकत्वं नायिकाया लक्षणम्" इत्युक्तेऽस्य लक्षणस्य कस्यांचिदपि नायिकायामसत्त्वात् " लक्ष्येऽत्यन्तासत्त्वमसं- भवः' इति लक्षणलक्षितोऽसंभवदोषः ॥ रत्युत्पादकसुन्दर्या एव नायिकात्वव्यवहारात् ॥ धुरंधरकृतनामरूपलक्षणाना- मुक्तदोपत्रयराहित्यं त्वेवं रीत्या ज्ञेयम् ॥ कवेर्नवीनरूढन्मम प्रयोगाक्षमतया कविकृतनानो यौगिकत्वान्नासंभवदोषाव- काशः ॥ क्वापि सजातीये वस्तुनि नानोऽवयवार्थस्य प्रवृत्यभावे उपलक्षणेन तस्यापि संग्रहादच्यातिदोषाभावः । उपलक्षण- खरूपं च द्वितीयाकृतो लक्षणाप्रकरणे दर्शयिष्यते । कचिच्च विजातीये वस्तुनि नामार्थस्य प्रवृत्तौ योगरूढयोमिश्रत्वाङ्गी- कारात्मवृत्तिनिरोधेनातिव्याप्तिदोपाभावः ॥ न च वाच्यं, नामस्वव्याप्तिवारणार्थ न्यायमतानुसार रूढयार्थविस्तारमकृ- स्वा लक्षणापर्यन्तमनुधावनस्य किं प्रयोजनमिति ॥ साहि. त्यशास्त्रे कनवीनरूढनामनिर्माणाधमत्ववप्रथमतः शिष्टप्र- युक्तसुरभूरुहकनकसौधादिनामेतरशब्देष्वप्यसमलसतया रू- ढयार्थविस्तारस्यांक्षमत्वात् ॥ .
[पर्थमा " , . यशवन्तभूषणम् नाम त्रेधा । यौगिक रूढं योगरूदं च । तल्लक्षणानि न्या- यमुक्तावल्याम्- “यत्राक्यवार्थ एव बुध्यते तद्यौगिकम् ॥ अस्यायमाशयः । यत्र नाम्नः पृथक्पृथगवयवार्थेन वस्तु- नो बोधस्तद्योगिकम् ॥ यथा- “सुधांशः।" अत्र सुधेत्यवयवा- थोऽमृतम् । अंशुरित्यक्यवार्थः किरण, सुधांशुरिति समुदि- तशब्दार्थोऽमृतमयकिरणवानिति । अत्र वस्तुनि नानोऽवय. वार्थस्य योगायोगिकत्वम् ।। "यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेण वुध्यते तदृढम् ॥" अस्यायमभिप्रायः। प्रकृतिप्रत्ययाप्रतिपाद्यो व्युत्पत्तिर- हितः शब्दः शिष्टेः कस्मिंश्चिदर्थे प्रयुक्तो रूढया तदर्थ प्रति- पादपतीति रूढत्वम् ॥ नामकर्तुरिच्छानुसार प्रसिद्धी रूढि- रित्युच्यते ॥ " रूढिः शिष्टप्रयोगे । प्रसिद्धौ । अनादिव्यव- हारसिद्ध संवन्धविशपे । मुख्यशब्दवृत्ते दे" इति चिन्ताम- णिः ॥ यथा-डित्थः॥ मात्र कश्चिदवयवार्थः । केनचिच्छि- ऐन स्वेच्छामात्रेण काष्ठमयगजे डिस्थशब्दः प्रयुक्त इति त- स्य स एवाथों नियुतः ॥ "डित्थः काष्ठमये गजे" इति चिन्तामणिः॥ “यत्र त्ववयवशक्तिविषये समुदायशक्तिरप्यस्ति त- द्योगरूढम्॥ .
आकृतिः] राजवंशवर्णनम् यथा-पङ्कजम् ॥ पङ्क इत्यवयवार्थः कर्दमः । ज इत्यवय- वार्थों जात इति ॥ इदं तु पङ्कजनाम्न्यवयवशक्त्या यौ- गिकत्वम् । तत्रावयवार्थे समुदायशक्तिस्तु पङ्कजनाम दिव- सविकासिकमलस्यैव धोधकमिति ॥ इदमेव रूढत्वम् । तदु- तं न्यायमुक्तावल्याम् “रूढिज्ञानस्य केवल यौगिकार्थज्ञान- प्रतिबन्धकत्वात्" इति ॥ यद्यपि रात्रिविकासिकमलस्य कुमु- दस्यापि कर्दमोत्पन्नत्वादवयवशक्त्या तु कुमुदस्यापि पङ्कजेति. नाम स्यात् । तथापि समुदायशक्त्या दिवसविकासिकमलस्यैव पङ्कजनामेति तस्यैव बोधो भवति । न तु कुमुदस्यापि । दिवस- विकासिकमले एव शिष्टप्रयोगात् ॥ अत्रावयवार्थविचार विना पङ्कजनामश्रवणमात्रेण दिवसविकासिकमलस्यैव वोध इति निष्कर्षः ॥ . योगरूढशब्देपु क्वचिद्योगजन्यार्थस्य न्यूनाधिकतायांरूढ्या योगार्थस्य संकोचविकासौ क्रियते । यथा नीरधिशब्दे नीर- शब्दार्थो जलम्।धीत्यवयवार्थोऽधिकरणम् । जलाधिकरणरूप- योगार्थस्य घटवाप्यादी विद्यमानत्वेऽपि घटादिव्यावृत्त्या नीरधिशब्दस्य समुद्रेनियमनं तुयोगार्थस्य संकोचः। विकासस्तु क्षीरसमुद्रस्य क्षीराधारतया जलाधिकरणवाभावेऽपि क्षीरनी- रधिशब्दस्य क्षीरसमुद्रेऽपि प्रयोगो यथा स्यात्॥योगरूढनाम: स्वर्थस्य संकोचविकासाथ रूढेरङ्गीकारः ॥ योगरूढनामान्य- नेकांनि । तत्र पाणिग्रहणनाम्नि पाणीत्यवयवार्थो हस्त इति । ग्रहणमित्यवयंवाथों धारणमिति । इदं त्ववयवशक्त्याऽत्र यो- गिकत्वम् । तत्रावयवार्थे समुदायशक्तिस्तु पाणिग्रहणशब्दो . यशवन्तभूषणम् [प्रथमा विवाहरूपमेवार्थ बोधयतीति।इदमेव रूढत्वम्।भाकर्पणावल- म्वनादिष्वपि करग्रहणरूपार्थस्य विद्यमानत्वेनाऽवयवशक्त्या स्वाकर्षणावलम्बनादीनामपि पाणिग्रहणमिति नाम स्यात् । तथापि समुदायशक्त्या पाणिग्रहणशब्देन विवाहरूपार्थस्यैव बोधः । न त्वाकर्षणादीनामपि । विवाह एव पाणिग्रहणश- ब्दस्य शिष्टप्रयोगात् ॥ "पाणिग्रहणं विवाहे । विवाहो भार्या- 'प्राप्तिहेतो" इति चिन्तामणिः ॥ अत्र रूढ्या योगार्थस्य संकोचः । एवमलंकारादिनामस्वापि योगरूढत्वाङ्गीकारः तथाहि, अतिशयोक्तिरित्यत्रातिशयेत्यवयवार्थो ल इनम् । उक्तीत्यवयवार्थः कथनमिति । इदं स्वतिशयोक्तिनाम्न्यव- ' यवशक्त्या यौगिकत्वम् । अतिशयोक्तिनाम्नोऽवयवार्थे समुदायशक्तिस्त्वतिशयोक्तिनाम लोकसीमातिल इनरूप- मेवार्थ बोधयतीति । इदमेष रूढत्वम् । आज्ञा-समुद्र-पर्वता- दीनां लइनेऽपि बचनोतिर्भवतीत्यवयवशक्त्या स्वाज्ञादीनां लहनोलेरप्यतिशयोक्तिरिति नाम स्यात् ॥ तथापि समुदाय- शक्त्या लोकसीमातिलहनस्यैवातिशयोक्तिरिति नामनिर्देशा- त्तस्यैवार्थस्य बोधः । न त्वाज्ञादिलधनकथनरूपार्थस्य । आलं. कारिकशिप्टेरतिशयोक्तिशब्दस्य लोकसीमातिलइने एव प्रयु. तत्वात् ।। अत्रातिव्यातिव्यावृत्तये रूढया योगार्थस्य संकोचः। एवमप्रस्तुतप्रशंसाद्यलंकारेषु स्वयमूहनीयम् ॥ अस्मिन्नेव साहित्यशास्त्र व्यभिचारीत्यत्र बीत्यवयवार्थों विविधमिति । प्रभीत्यवयवार्थ आभिमुख्यम्। चारीत्यवयवार्थः संचारकर्तेति। इदं तु व्यभिचारिनाम्न्यवयवशक्त्या योगिंकत्वम् । व्यभिचा- .
प्राकृतिः] राजवंशवर्णनम् ४३ रिनाम्नोऽवयवार्थे समुदायशक्तिस्तु व्यभिचारिनाम ग्लान्या- दिसंचारिरूपमेवार्थ बोधयतीति । इदमेव रूढत्वम् । कवि-दा- नार्थिद्विज-दक्षिणनायकादिष्वपि तादृशसंचारकरणरूपार्थस्य विद्यमानत्वेनावयवशक्त्या तु कविप्रभृतयोऽपिव्यभिचारिनाम-- वाच्या भवेयुम तथापि समुदायशक्त्योकसंचारिणामेव व्याभि- चारीतिनामनिर्देशात्तेपामेवावगमः । न तु कविप्रभृतीनाम् । शृङ्गारादिरसरसिकशिष्टेयभिचारिपदस्य ग्लान्यादिष्वेवप्रयु- क्तत्वात्। अत्राप्यतिव्याप्तिवारणार्थ योगार्थस्य संकोचः ॥ उक्तरीत्याऽतिव्याप्त्यादिदोषवारणसिद्धान्तस्तु नामस्वेव । न तु लक्षणेष्वपि । अत एव लक्षणेषूक्तदोषवारणार्थ शास्त्र- कारा विशेषणादिद्वारा प्रयत्नं कृतवन्तः । धुरंधराणां नाम- रूपसर्वसंग्राहकलक्षणेरेवालंकारादीनां साक्षात्स्वरूपे स्पष्टे ना. मेतरलक्षणनिर्मितिस्तु भरतादीनां प्रमाद एव ॥ भरतादिप्रमादो यो भोज(*)काले न निर्गतः॥ यशवन्तमहाराजभाग्यादद्य विनिःसृतः॥१॥ * विक्रमार्कस्याष्टसप्तत्युत्तरसहस्रतमे १०७८ वर्षे भोजमहाराजः परमारंजातीयः क्षत्रियो धारानगरीपतिर्बभूव । तस्यान्तिके कालिदासादयोऽत्युत्तमा विद्वांस आसन् । स्वयं च विद्वानासीत् । तन्निमितावलंकारविषये सरस्वतीकण्ठाभरणाख्यो ज्योतिषशास्त्रे च राज- मृगाकाख्यः प्रसिद्धपन्थौ । अनेन संस्कृतविद्याऽतीवोन्नतिपथमानीता। प्रसिद्धं खलु नवीनो- क्तिमत्पद्यरचयिता तस्माल्लवमुद्राः प्राप्नोतिस्मेति । अस्य प्रशंसायचनत्वेपि तस्य बहुलतर- द्रव्यदानं स्फुटमनुमीयते । भोजराजसमये तस्य गुणमाहितया संस्कृतविद्यायाः प्रचारं त्वावेद- यति भारवाहादीनामपि तज्ज्ञताभिज्ञत्वम् । तथाहि कस्यचिद्भारवाहस्य शिरस्यधिकतरं भारं समीक्ष्य भोजमहाराजस्तं पप्रच्छ । " भारो न बाधति?" इति । बाधतेरात्मनेपदित्वाद्वा- धतीत्यपप्रयोगमाकये स राजानमाद । "भारो न आघते राजन्! यथा माधति बा- •. . धते ॥" इति ॥
मयमा . १४ यशवन्तभूपणम् अस्माभिर्भरतमुनिवेदव्यासदण्ड्याचार्यमहाकविमम्मटा. दीनां प्रमादं प्रदर्य लक्षणादीनां खण्डनं यशवन्तयशोभूषणे विस्तरेण विहितम् । स च ग्रन्थोऽस्माभिर्भापाभूपणग्रन्थस्य प्रसङ्गन राजराजेश्वराज्ञया विनिर्मित इति तत्सारभूतेऽस्मि- न्यशवन्तभूपणाख्ये स्वल्पग्रन्थे केवलं भापाभूपणमूलभूत- 'चन्द्रालोकस्यैव प्रमाददर्शनेन लक्षणादिखण्डनं विधास्यते ।। प्रवादोऽनादिमानेष यशो भाग्यवशादिति ।। अन्यामपीहशीं वार्ता वक्ष्ये मरुमहीपतेः ।।२।। सरित्पञ्जावदेशीया(*) स्वच्छवारिमनोहरा ॥ मण्डोवरपुरोपान्ते स्वच्छन्दं प्रावहत्पुरा ॥३॥ चिन्हानि च प्रदृश्यन्ते तत्र तत्र स्थलेऽधुना ॥ श्रीमदावड़शक्त्याख्या संजाता चारणान्वये ॥४॥ तस्याः शापवशात्काले विक्रमस्य महीपतेः॥ त्यक्त्वा मण्डोवरोपान्त नदी दूरं विनिर्गता ॥ ५ ॥ तेन मण्डोवरप्रान्तो बभूव जलवर्जितः॥ मरुस्थलीति संज्ञास्य देशस्यासीत्ततः परम् ॥६॥ मण्डोवरपुराधीशा बभूवुर्वहतो नपाः॥ उत्तरोत्तरमुत्कृष्टा भोगभाजो महाबलाः ॥७॥ भुक्त्वा भोगान्स्वके काले महीं त्यक्त्वा दिवं गताः ।। कंचित्कालं धुश्छत्रं क्षत्रिया नागवंशजाः॥८॥ * पाबदेशस्य सम्मिएडोवरोपकण्ठे भूत्वा पश्चिमसमुद्रं गच्छति स्म । तस्यास्तारे पाषाणमयानीपीडनयन्त्राण्यद्यापि क्रमेणोपलभ्यन्ते ।।
४५ आकृतिः राजवंशवर्णनम् ततो हेतोरयं शैलो नागाद्रिरिति कथ्यते ॥ परमारनराधीशा राज्यं चक्रुस्ततः परम् ॥.९ ॥ बभूवं तेषां धरणीवराहो(*) महाप्रभावो मरुभूमिनाथः ॥ यो ह्यर्बुदादीन्नवरम्यकोटान् विभक्तवान् दिमितसोदरेषु ॥ १०॥ नवकोटीति विख्याता तेन लोके मरुस्थली॥ भुक्त्वा भोगान्सुविपुलाल्लीनास्तेपि नृपा भुवि ॥११॥ प्रतिहार(१)नृपाः पश्चाच्छशासुर्मरुमेदिनीम् ॥ तेषु नाहड़रावाख्य पासीद्भूपालभूपणम् ॥ १२॥ येन पुष्करतीर्थस्य विख्यातस्य महीतले ॥ जीर्णोद्धारविधानेन प्राप्तं पुण्यमनुत्तमम् ॥ १३ ॥.. चित्रकूटाधिपो राहभूमिपों गुहिलान्वयः॥ दुर्ग जहार भूमि च युद्ध्वा राणापदं तथा ॥१४॥ चित्रकूटमहीपालाः पूर्व रावल्पदं दधुः ॥ * धरणीवराहादिभिर्दशभिर्धातृभिवं प्रकारेण मय कोटा विभक्ताः । यथा १ मण्डोवरः सामन्तस्य १२ अजमेरुः सिद्धस्य । ३ पुजलाल्यो गजमल्लस्य. ४ लोयाख्यो भाषा- ख्यस्य । ५ अर्बुदाचलोऽल्हपल्हयोः । ६ जालंधरो भोजराजस्य । ७ घाटाख्यो योगराजस्य ।, ८ पारधाराख्यो हानाम्नः । ९ किराडूनामा धरणीसाहस्य भागः । एते विभागाः प्राति- लोम्येन विहिताः । सर्वेभ्यः कनिष्ट. सामन्तस्तस्य विभागे प्रधानकोटो मण्टोबर । सर्व- भ्यो ज्येष्ठो धरणीवराहस्तस्य विभाग किराडूनामकः कोटः । । अस्यापभ्रंशः पविहार इरि •. 1 . -- यशवन्तंभूपणम् [प्रथमा प्रतिहारजयादू राणापदभुजोऽभवन् ।। १५ ।। पष्टयशीत्योरन्तराले शतके तु चतुर्दशे॥ वैक्रमे राहपो राजाऽभवद्भरिपराक्रमः ।। १६ ॥ पश्चान्मुल्तानदेशीयं सैन्यं यवनभूपतेः॥ अागत्य गौहिलाजन्हे दुर्ग वसु वसुंधराम् ॥ १७ ॥ शतके विक्रमार्कस्य लेभे पञ्चदशे ततः ।। चूंडानरेशो मण्डोरदुर्ग राठोड़वंशजः ॥ १८ ॥ तदाप्रभृति राठौड़वंशीयाः क्षत्रियोत्तमाः॥ मण्डोवरपुराधीशा बभूवुर्बलशालिनः ॥ १९ ॥ सहस्रद्वयसंख्याके कालेऽस्मिन्पर्वता इमे॥ अत्रैव सरितश्चेमा अवर्तन्त समन्ततः॥ २०॥ निर्जलं सजलं कर्तुमुद्योगं चक्रिरे नृपाः ।। सर्वे तथापि नो कश्चित्कृतार्थोऽभून्महीपतिः॥२१॥ यत्र.यर कृतो यत्नो यशवन्तमहीभुजा । प्रावर्तत जलं तत्र स्थातुं स्थिरतयाऽधुना ॥ २२ ॥ अद्यावधि मरुस्थल्यां तड़ागाः सप्त निर्मिताः ॥ अन्यानपि च निर्मातुं यत्नोऽस्ति बहुलोऽधुना ॥२३॥ प्राच्यां दिशि योधपुरात्क्रोशानामेकविंशतः पूर्ती ॥ प्रास्ते महाँस्तडागो यशवन्तसमुद्र इत्यभिख्यातः।२४ चत्वारिंशत्करतोऽधिकं च गाम्भीर्यमस्य सरसोऽद्य॥ 4
স্থান]
राजवंशवर्णनम्
पञ्चदशकोशानांप्रमिता चैवप्रदक्षिणा भणिता।२५॥
त्रयोदशानां लक्षाणामद्य यावढ्ययोऽभवत् ॥
न स पूर्णो न वा जाता प्रासादानां विनिर्मितिः॥२६॥
प्राचीनग्रन्थकर्तृनामानि ॥
मूलं तुं वेदास्तत्पश्चाद्भरतो वादरायणः ॥
भोज इत्यादयश्चक्रुर्व्याख्यानं बहुविस्तरम् ॥ १॥
श्रीयशवन्तनरेशो राष्ट्रवरेड्यो विनिर्मिमे पूर्वः ।।
नरभाषायामाद्यं भाषाभूषणनिवन्धमतिरम्यम् ॥ २ ॥
मयाऽलंकारग्रन्थानवलोक्यायं ग्रन्थो विनिर्मितस्तेषांत.
कर्तृणां चैतानि नामानि-
भरतमुनिप्रणीतं नाट्यशास्त्रम् । अयं वेदव्यासाप्राक्तनः।
"भरतेन प्रणीतत्वादारती रीतिरुच्यते" ।
इत्यग्निपुराण भरतोल्लेखात् ॥ १ ॥
वेदव्यासविहितमग्निपुराणम् । अग्निपुरष्णस्य त्रिशता-
न्वितचतुश्चत्वारिंशाद्यध्यायत्रयेऽलंकारा, गदिताः । वेदव्या.
सो. हि महाभारतसमकालिक इति तत्कालाचतुःसहसं
वर्षाणि व्यतीतानीत्यनुमीयते ॥ २॥
दण्ड्याचार्यप्रणीतः काव्यादर्शः । अयं कविविक्रमार्कस्य
सप्तमे शतके बभूव ॥ ३ ॥
.
[प्रथमा
है
.
..
यशवन्तभूषणम्
वामनेन काव्यालंकारसूत्रमकारि । अयं विक्रमार्कस्याप्टमे
शतके समजनि ॥ १॥
'राजानकश्रीमदानन्दवर्द्धनाचार्येण ध्वन्यालोको रचितः ।
अयं कविविक्रमार्कस्य सप्तशराङ्कः५७संवत्सरसमीपे
वभून ॥ ५॥
रुद्रटकृतः काव्यालंकारग्रन्थः । अयं भोजमहाराजाप्रा.
क्तनः ॥६॥
धनंजयप्रणीतं दशरूपकम् । अयमपि भोजमहाराजा-
स्पाकालीनः ॥ ७॥
भोजराजेन सरस्वतीकण्ठाभरणमरच्यत । अयमष्टमुनि-
खेंन्दु १०७८ मितविकमवत्सरे समभूत् ॥ ८ ॥
मम्मटकृतः काव्यप्रकाशः । अयं भोजमहाराजात्पश्चाद-
सेन्दुनेत्रविधु १२१६ वत्सराञ्च पूर्वमजायत ॥ उक्तग्रन्थस्य
कारिकाः प्राचीनाः । अस्य प्रतिष्ठितस्वाह हुभिरयं व्याख्या-
.
यत ॥ ६ ॥
t
जयदेवेन चन्द्रालोकरचनाकारि । श्रयं विक्रमार्कस्य दा. "
दशे शतके वभूवेति प्रसिद्धम् ॥ १० ।।
राजानकरुय्यक(रुंवक)कृतोऽलंकारसर्वस्वप्रन्थः । अयं
विक्रमार्कस्य द्वादशशतकोत्तरार्द्ध संजातं इत्यतुमीयते ॥११॥
शोभाकरमित्रेणालंकाररलाकरों रचितः । भयमलंकारस-
स्वात्पश्चाद्भवः ॥ १२ ॥
जगन्नाथत्रिशूलिरचितो रसंगगाधरः । अयं सप्तदशशत-
आकृतिः]]
'राजघंशवर्णनम्
वाग्भट्रेन वाग्भटालंकारो विहितः । अयं गुणभूनेबेन्दु-
६२१३ विक्रमवत्सरे बभूव ॥ १३ ॥
हेमाचार्यकृतं काव्यानुशासनम् । अयं नवाक्षिनयनेन्दु-
१२२६ मिते विक्रमवत्सरे परासुतामवाप ॥ १४ ॥
राजानकजयरथस्यालंकारोदाहरणम् । अयं कविर्वसुवेदा-
क्षिविधु१२४८संवत्सरादाक्तनः ॥ १५ ॥
विद्यानाथस्य प्रतापरुद्रीयग्रन्थः । अयं खमुनिगुणकु१३७०
विक्रमवत्सरसमीपे बभूव ॥ १६ ॥
भानुदत्तेनालंकारतिलकाख्यमकारि । अयं वेदाप्टयुगेन्दु-
१४४विक्रमवत्सराप्राक्तनः ॥ १७ ॥
केशवमिश्रस्यालंकारशेखरः । अयमभ्राक्षिरसेन्दु१६२०
मितविक्रमवत्सरसमयसमीपे
बभूव ॥ १८ ॥
अप्पयदीक्षितकृतः कुवलयानन्दग्रन्थः । अयं कविः खच-
न्द्ररसेन्दु१६१०विक्रमवत्सरे प्रादुर्भूतः ॥ अस्मिन्यन्थें कारि.
काश्चन्द्रालोकोद्धृताः ॥ १६ ॥
.उक्तकविना चित्रमीमांसाप्रबन्धोपिप्रणीतः। स चापूर्णः२०
विश्वनाथविहितं साहित्यदर्पणम् । अस्य समयः खगुण-.
रसेन्दु१६३०संवत्सरसमीपवर्ती ॥ २१ ॥
अनेनैव साहित्यसुधासिन्धुरपि प्राणीयत ॥ २२ ॥
यशवन्तभूपणम् [प्रमा तम१७००संवत्सरसमीपे बभूव । दिल्लीशशाहजहांयवनेनायं तैलङ्गब्राह्मणकविमहापात्रपदवीप्रदानेनोज्जृम्भितस्तत्तुल्यतो. लितहेमदानेनानुग्रहीतोऽनेकशोऽनघरत्नैर्मुखेऽपूरि ॥ २३ ॥ विश्वेश्वरेणालंकारकौस्तुभो रचितः । अयं शराश्वमुनि- शशि१७७५संवत्तरसमीपे संजातः ॥ २४ ॥ कृष्णशास्त्रिप्रणीता मन्दारमरन्दचम्पूः । अयं कविक्षि- खात्यः ॥ २५ ॥ राजानकजयरथेन सर्वस्वव्याख्या विमर्शनी विहिता । इयं व्याख्याऽलंकाररत्नाकरात्पश्चात्संभूता ॥ अलंकारोदाहरणक- ताप्ययमेव ॥ २६ ॥ गोविन्दठक्कुरेण काव्यप्रकाशोपरि काव्यप्रदीपाख्याठ्या- ख्या निरमीयत । अयं कविरष्टरसपविधु१६६८ संवत्सरात्मा- क्समजनि ॥२७॥ विमर्शनीकाव्यप्रदीपयोव्याख्यारूपत्वेपि प्रथमकक्षाकस्व- तन्त्रप्रेन्यूतुल्यतयाऽत्र गणनम् ॥ बन्दआदिविचारः॥ .. छन्दांस्यनादीनि । वेदोपि च्छन्दोमयः। मनुस्मृतिपि च्छन्दोबद्धा । छन्दसां.मानं तु.जिव्हा ॥ उक्तं हि केनचिच्छ- न्दोविंदा- "जिव्भा(४)जाणादि च्छन्दः" इति ।। छन्दसा तुला श्रवणम् ॥ तदुक्तं पिङ्गल सूने- (*) जिव्हा जानाति छद.
३
-
प्राकृतिः राजवंशवर्णनम्
"जेम(*)ण सहइकणअतुलातिलतुलिअंदअद्धेण।
तेम ण संहइ संवणतुला अवच्छन्दं 'छन्दभङ्गेण ॥"
इति ॥
प्रथमं जिव्हाया मानेन श्रवणतुलयैव च च्छन्दसा रच-
ना जाता । ततश्च च्छन्दोऽनुसारेण मात्रावर्णगणान्विचार्य
च्छन्दसां लक्षणनिर्माणमित्यनुभवसिद्धम् ॥ छन्दोवशारक्वचि-
द्गुरुलघुव्यत्ययोपि भवति ॥ तदेवोक्त पिङ्गलसूत्रे-
"जइ(1)दीहो वित्र वएणो लहुजीही पढइसोवि लहू।
वएणोवितुरिअपढिोदो तिगिण वि एक जाणेहु।।"
इति ॥
अस्येदमुदाहरणम्-
"अरेरे(1)वाहहि कान्ह नावछोटि,डगमगकुगति ण देहि
तइ इंथि णदिहिं संतारदेइ, जो चाहसि सो लेहि.॥१॥
दोहावृत्तम् ॥
अत्र " अरे रे" इति संवोधनद्वयम्। अनयोस्त्वरित पाठे
वृत्तभङ्गो न भवति ॥
(*) यथा न सहते कनकतुला तिलतुलितमान || तथा न सहते श्रवणतुला अप-
च्छन्दकं चन्दोभङ्गेन ॥ १॥
(1) यदि दीर्घमपि वर्ण लघु जिव्हा पठति सोपि लघुः । वर्णी (वर्णा वा ) भपि
त्वरितपठितौ द्वौ वा त्रयो वा एक जानीत,॥१॥
(1) अरे वाहय कृष्ण! नावं सूक्ष्मा डगमगकुगति न देहि ॥ त्वमुरयां नद्यां संतारं
+
दत्त्वा यदपेक्षसे तद्गृहाण ॥ १॥
५२ हमशमा यशवन्तभूपणम् ग्रन्थकारैः शब्ददोषा अर्थदोषाश्च भणिताः । तेच सहृदयहृदयोद्वेजकस्वाभावे त्वदोपा एव । एसस्य दिग्दर्शन- मुयमाप्रकरणे दण्डयाचार्येण विहितम्--- "नं लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा उपमादूपणायालं यत्रोद्वेगो न धीमताम् ॥ १॥ इति।। -- यथा- . याचै सज्जनसिंहभूप! भवतोऽनुज्ञां मुरारिः कवि- भुक्तं स्वर्गसुखं त्वदीयभवने गौयुत्सवेऽनुग्रहात् ॥ नाहं विस्मृतिमेमि मज्जति मनः कान्तावियोगाम्बुधौ ज्योत्स्नाचैत्रभवा विनाशशिमुखौं दैत्यो यथाभातिमे अनोपमेयज्योत्स्नायाः स्त्रीत्वमुपमानदैत्यस्य च पुंस्त्वमि- ति भिन्नतिगत्वमप्युद्वेगजनकत्वाभावान्न दोपः। एवमन्यदपि स्तयमूहनीयम् ॥ • केचित्तमर्था महाकवयो रसोन्मत्ततया कचिच्छास्त्रमर्या. दामुल्लद्धय प्रवर्तन्ते । अत एव "निरङ्कुशाः कवयः" इति प्रसि- द्धम् । यथा रघुवंशे (१-४५) कालिदासः- "स सैन्यपरिभोगेण गजदानसुगन्धिना ॥ कायेरी सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ १॥ अत्र मल्लिनाथ: "सुगन्धिना" इत्यत्रं "गन्धस्येत्" इत्या. दिनेकारादेशः समासान्तः पयपि, गन्धस्यत्वे तदेकान्तमहणं 1 आकृतिः] छन्दादिविचारः कर्तव्यम् " इति नैसर्गिकगन्धविवक्षायामवेकारादेशः । तथापि निरङ्कुशाः कवयः" इत्याह । काव्यार्थपरिज्ञाने पितामहकविराजबाँकीदासकृतकविमा तमण्डनभाषाग्रन्थोक्तनिम्नलिखितविषयस्यात्यावश्यकत्त्वम्।। तद्विषयं पद्यमिदम्- "उक्तिविशेष्यविशेषणमध्याहारस्तथान्वयः शब्दः ॥ अर्थः ख्यातिः कर्ता नायक एतेऽर्थवोधकाः सर्वे ।। इयं कस्योक्तिः । विशेष्यः कः । विशेषणं किम् । कस्या- र्थस्याध्याहारः। कस्य शब्दस्य केन शब्देन सहान्वयः । शब्दः कीदृशः, रूढो यौगिको योगरूढो वा । अर्थः कः, वाच्यार्थों लक्ष्यार्थो व्यगन्यार्थो वा । ख्यातिः, अत्र कः प्रसङ्गः । कर्ता काव्यनिर्माता । नायको वर्णनीयवेनाभिप्रेत इतिश्रीमन्मरुमण्डलमुकुटमणि-महाराजाधिराज-राजरा- जेश्वर जी. सी. ऐस.आई. यशवन्तसिंहाज्ञानुसारेण कविरा. जमुरारिदानविरचितयशवन्तभूषणग्रन्धे भूमिकानिरूपण नाम प्रथमाकृतिः समाप्ता ॥ १ ॥ - :
५४ यशवन्तभूपणम् [द्वितीया ॥ श्रीगणेशाय नमः॥ ॥श्रीजगदम्बायै नमः॥ अथ काव्याकृतिप्रारम्भः ।। . . कविरिति वेदैर्गीतं ध्यात्वा साक्षात्परात्परं देवम् ॥ कविकृतकाव्यस्यात्र स्वरूपमच्छं निरूप्यते भूप! ॥१॥ काव्यस्यालंकारा निरूपणीया इति प्रथमं तावत्काव्यस्व- रूपं लक्षयामः ॥ सर्वशक्तिमान्परमेश्वरोऽपि कविः । कविर्मनीषी परिभूः स्वयंभूः” इति श्रुतेः ॥ वेदस्य तद्विहितत्वात्काव्यत्वम् ॥ तत्र रसा. लंकारादिमयरमणीयरचना चोपलभ्यते । परिभूरित्यादिवि- शेषणेः परमात्मानं स्तुवतो वेदस्य कवीत्यपिविशेषणकथना- स्कवेरतिश्लाघनीयत्वं सिद्धम् । वाल्मीकिमुनेरादिकवित्वेन प्रसिद्धत्वात्तन्निर्मितरामायणस्यादिकाव्यत्वम् । तच्च तत्रैव . प्रतिसर्गमन्ते “भादिकाव्ये" इति लेखास्पष्टतरम् । भग- वान्वेदव्यासोपि कविः॥ तदुक्तम्- जाते जगति वाल्मीको कविरित्यभवद्ध्वनिः । कवी इति ततो व्यासे कवचस्त्विति दण्डिनि । इति ।
आकृति] काव्यस्वरूपम् 'ततश्च व्यासरचितभारतश्रीमद्भागवतादिपुराणानामपि काव्यत्वम् । तदुक्तं भगवता स्वयं व्यासेन महाभारतस्या- दिपर्वणि प्रथमेऽध्याये- उवाच च महातेजा व्रह्माणं परमेष्ठिनम् ॥ कृतं मयेदं भगवन्काव्यं परमपूजितम् ॥ इति ॥ विभक्त्यन्तं पदम् । पदसमुदायो वाक्यम् । वाक्यसमुः दायो महावाक्यम् । तथा च लघुतरमेकं वाक्यं वा, अनुष्टुप्छं. न्दो वा, अनेकपद्यसमुदायो वा कविविश्रान्तिपर्यन्तमेकं काव्यम् ॥ यथा- आनीता नटवन्मया तव पुर: श्रीकृष्ण ! या भूमिका व्योमाकाशखखाम्बराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ॥ प्रीतश्चेदसि संनिरीक्ष्य सहसा यहाञ्छितं देहि मे नो चेद्रूहि कदापिमानय पुनस्त्वं भूमिका ईदृशी॥३॥ अत्रैकस्मिन्नेव पद्ये कवेर्विश्राम इत्येकपद्यात्मकं काव्यम् । माघरघुवंशादौ च ग्रन्थसमाप्तौ कवेर्विश्राम इति तदने कसह- स्रपद्यात्मकं काव्यम् ॥ काव्यं गद्यात्मकं प्रद्यात्मकमुभया- स्मकं चेष्यते ॥ कुधातोः कविशब्दो निष्पन्नः । “ कुङ् शब्दे ॥" तथा च शब्दकर्तृत्वं , कवित्वम् । शब्दो द्विधा । ध्वन्यात्मको वर्णात्मकश्च । पशुपक्षिवादित्रादेः शब्दस्य . .. यशवन्तभूपणम् [द्वितीया वर्णविवेकं विना केवलं ध्वनिरूपत्वाद्ध्वन्यात्मक- त्वम् । सुरनरादेः शब्दस्याकारककारादिवर्णमयत्वाद्वर्णात्म- कत्वम् ॥ द्वयोरपि रमणीयारमणीयसाधारणभेदात्रैविध्यम् ॥ 'तत्र गजगर्जनकोकिलस्वरयोः सुस्वरवादिनादेश्च ध्वनी रम- णीयः। “गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः" इति चौर- कविः । खरकाकयोर्दुःस्वरवादित्रादेश्च ध्वनिररमणीयः। त. मध्यवर्ती पारावतादेलनिःसाधारणः। प्रतिभाप्रकदितः सुर- नरादेवर्णात्मकःशब्दो रमणीयः॥ प्रतिभालक्षणं तु- स्फुरन्ती सत्कवेव॒न्दिः प्रतिभा सर्वतोमुखी” इति ॥ श्रुतिकंट्वादिदोषग्रस्तो वर्णात्मकःशब्दोऽरमणीयः।व्यव- हारमानगोचरो वर्णात्मकःशब्दःसाधारण। रमणीयशब्दस्या- ङ्गीकारः। अरमणीयस्यानङ्गीकारः। साधारणे त्वौदासीन्यम् ।। अत्र वर्णात्मकरमणीयशब्द रूढिरिति वर्णात्मकरमणीयशब्द- कर्तृत्वं कवित्वमिति निष्कर्षः ॥ शब्दार्थयोनित्यसंबन्धादत्र रमणीयशब्दार्थग्रहणम् ॥ श्रोत्रग्राह्यो गुणः शब्दो बुन्दिग्राह्योऽर्थ इप्यते ॥ संमतिः सर्वशास्त्राणामेतस्मिन्मरुभूपते! ॥ १॥ कवेस्तादृशशब्दकर्तृतया तादृशशब्दस्य कविकर्मत्वात्का. व्यत्वम् । कवेरिदं काव्यम् ॥ अत्र तादृशमणि रूढिः ॥ रसगाधरकार:- "रमणीयार्थप्रतिपादकः शब्दः काव्यम्".
आकृतिः] काव्यस्वरूपम् इति काव्यनाम स्फुटीचकार ॥ ' शब्दस्तु भूप! रमणीयार्थस्य प्रतिपादकः ॥ काव्यं तदेतदन्वर्थलक्षणं सर्वसुन्दरम् ॥ १॥ काव्यस्य रमणीयत्वं च नाट्यशास्त्रे स्फुटीकृतं भगवता भरतेन- मृदुललितपदाव्यं गूढशब्दार्थहीनं जनपदसुखबोध्यं युक्तिमन्नृत्ययोज्यम् ॥ वहुकृतरसमार्ग संधिसंधानयुक्तं स?)भवति शुभकाव्यं नाटकप्रेक्षकासाम्॥१॥ इति.॥ शब्दस्य गूढत्वं तु तस्यां भाषायामप्रचलितत्वम् । अर्थस्य गूढत्वं क्लिष्टत्वम् । जनपदसुखबोध्यत्वं च विदुषां साधारणं- सर्वजनानां च सुखेनावगमनविषयत्वम् । युक्तिनवीनोऽर्थः । बहुकृतरसमार्गत्वं च पुष्कलजलपर्वतनिर्भरवत्तत्र तत्रं गुणी- लङ्कारव्यङ्गयादिरूपकाव्यरसप्रस्रवित्वम् । अस्य लक्षणस्य नाट्यशास्त्रे उक्तत्वात् "नृत्ययोज्यम्; संघिसंधानयुक्तम्" इति च नाटकोपयोगिविशेषणद्वयम् । नृत्ययोज्यत्न नाम काव्यस्य तालादिसहचारित्वम् । संधिश्च- "अन्तरैकार्थसंबन्धः संधिरेकान्वये सति ॥ इत्युक्तलक्षण:॥
यशवन्तभूपणम् [वितीया मृदुललितपदाढ्यं गूढशब्दार्थहीनं जनपदसुखवोध्यं युक्तियुक्तं च यत्स्यात् । बहुकृतरसमार्ग राजराजेशवर्य! 'भरतमुनिमतेन श्रेष्ठकाव्यं प्रदिष्टम् ॥ १॥ काव्यं द्विधा । श्रव्यं दृश्यं च। श्रुतिमात्रगोचरं श्रव्यम्। दृष्टिगोचरं दृश्यम् । सीतारामाद्यनकरणकर्तृनटीनटाभ्यां तवृत्तान्तस्य गद्यपद्यात्मकवाण्या प्रकटनेऽपि तत्राभिन. यद्वारा दर्शनस्य प्राधान्यान्नाटकस्य दृश्यत्वम् । भगवतो भरतस्य शुभकाव्यमिति कथनेन तादृशकाव्यस्य श्लाघ्यत्वा- स्कविभिस्तादृश्येव काव्यरचना विधेयेति तात्पर्यम् । न तु शुभमशुभमिति काव्यं द्विविधमिति ॥ केनचिद्भरतमतानुया- बिना पर्यायान्तरेण तादृशं काव्यमुत्तममित्युक्तम् । ततो भ्रा. न्ता अर्वाचीना लोकव्यवहारानुसारेणोत्तममध्यमाधमेति काव्यस्य प्रकारत्रयं मन्यन्ते ॥ "इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्ध्वनिर्बुधैः कथितः॥ अताशि गुणीभूतव्यङ्ग्यं व्यङ्गये तु मध्यमम् ॥ शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम् ॥ 'इति काव्यप्रकाशगतकारिकावल्याम् ॥ भतादृशि वाच्यान्न्यूने समें वा चमत्कारिणि व्यगये गुणीभूतव्ययम् । तच्च मध्यमम् ॥ शब्दचित्रे शब्दालंका. र, अर्थचित्रमर्थालंकारः, तद्विशिष्ट व्यङ्गयरहितं काव्यम.
आकृति.] . ५३ काव्यरक्रूपम् वरम् । अवरमपरम् । अधममिति भावः । काव्यस्य मध्यमा- धमेतिप्रकाराङ्गीकारोऽर्वाचां प्रमादः । साहित्यशास्त्रे प्रधा- नस्यैव संज्ञाहत्वात् । तथाचोक्तम् ॥ "प्राधान्येन व्यपदेशा भवन्ति” इति ॥ अत्र प्रधानत्वं तु चमत्कारस्येप्टम् । तदेवोक्तं ध्वन्यालोके ॥ "चारुत्वोत्कर्षनिवन्धना हि वाच्यव्यङ्गघयोः प्राधान्य- विवक्षा" इति ॥ इदं च शब्दार्थरसालंकारादौ सर्वत्र स्मरणीयम् । तथा सति गुणीभूतमिति वदतां काव्यप्रकारत्वभणनं । तृतीय श्रेणीमधिरूढस्याधमस्य तु श्रवणमात्रे- णैवानुचितत्वादनेनापि पर्यायोक्त्याऽवरमिति नाम भणितम् । तस्य च काव्यप्रकारत्वाङ्गीकारस्तु .महाप्रमादः । रमणीयता- रूपकाव्यधर्मस्य पक्षपातित्वाभावायेन केनापि व्यङ्गयोल- कारादिना शब्दार्थयो रमणीयत्वे काव्यत्वसिद्धेःतदुक्तमनेन कारिकाकारेणापि- 'तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि ॥" इति ॥ अदोषौ शब्दार्थों क्वचिदलंकारं विनापि माधुर्यादिगुण- सहितत्वे तत्काध्यमित्यर्थः ॥ सदोपशब्दार्थयोररमणीयत्वा- न्न काव्यत्वम् । " उद्वेगजनको ोपः” इत्यग्निपुराणे । प्रमाद:
६० .. यशवन्तभूपणम् [द्वितीया भत एवात्र दोपपरिहारो विहितः । यदा च माधुर्यादिगुण- मात्ररमणीयतयेव शब्दार्थयोः काव्यत्वसिद्धिस्तदा व्यङ्गय एव रमणीयतानियमनं तु काव्यवैभवस्य हास'करणम् ॥ काव्याबहुविधलाभः ॥ तदुक्तं काव्यप्रकाशगतकारिकाव- ल्याम- ."काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे॥” इति ॥ परनिर्वृतिः परमानन्दः । स च ब्रह्मानन्दसदृशः । तत्प्रा. प्तिस्त्वनेकजन्मसाधनसंसाध्या । तदुक्तं भगवद्गीतासु- "अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥” इति। काव्यस्य तु श्रवणसमकालमेव परमानन्दप्राप्तिरिति विशेषः । काव्यानन्दस्य च ब्रह्मानन्दसदृशत्वं " ब्रह्मानन्द- सहोदरः” इति रसप्रकरणे उक्तम् ॥ उपदेशस्त्रिधा । प्रभुसंमितः, मित्रसंमितः, कान्तासं- मितश्चेति । , कमेण यथा- संसारस्यानित्यत्तविपये- "यो वै भूमा तदमृतम् । अथ यदल्पं तन्मय॑म् ॥" इति वेदोपदेशः प्रभुसंमितः । केवलमाज्ञामात्रत्वात् । भस्मिन्नेव विपये- प्राकृति) काव्यस्वरूपम् ६. "अहन्यहनि भूतानि प्रविशन्ति यमालंयम् ॥ शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमंतः परम् ॥१॥ इति महाभारतोपदेशो मित्रसंमितः । सयुक्तिकं विस्तरे, णोक्तत्वात् ॥ अस्मिन्नेव विपये- “यो नक्षत्रगणैर्वृतो यदभितो जाता चकोरस्तुतिः यस्तापं च तमश्च दूरमकरोद्योऽवर्पदत्रामृतम् ॥ यं दृष्ट्वापि शिला द्रुता किमपि यःकस्मात्कदाप्यंशुभि- र्नाकर्षत्तटमद्य याति जलधेरेकः स चन्द्रः प्रगे ॥१॥ अयं काव्यरचनामय उपदेशः कान्तासंमितः। मनोहारि-. स्वात् । मनोहरोपदेशश्चातीवहृदयंगमो भवतीत्यस्य श्लाघ- नीयत्वम् ॥ यथावा- निद्रावशेन भवताप्यनवेक्ष्यमाणा पर्युत्सुकत्वमवला निशि खण्डितेव । लक्ष्मीविनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥१॥ उपसि निद्राणा दरिद्रा भवन्तीति धर्मशास्त्रम् । अयं प्रभुसंमितोपदेशो नृपप्रबोधार्थं यथाश्रुतमुपदिष्टश्चेदरुचिक रत्वात्कोपस्य कारणं भवेत् । स एव कान्तासंमिततया कथि- तः सन् रुचिकरत्वाद्धृदयंगमत्वमगमत् ॥
६. . द्विताया यशवन्तभूषणम् भत एवात्र दोपपरिहारो विहितः । यदा च माधुर्यादिगुण- मात्ररमणीयतयेवं शब्दार्थयोः काव्यत्वसिद्धिस्तदा व्याय एव रमणीयतानियमनं तु काव्यवैभवस्य हास'करणम् ॥ काव्याबहुविधलाभः ॥ तदुक्तं काव्यप्रकाशगतकारिकाव- ल्याम- "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवतरक्षतये । सद्यःपरनिर्वृतये कान्तासंमिततयोपदेशयुजे॥” इति ॥ परनिर्वृतिः परमानन्दः । स च ब्रह्मानन्दसदृशः । तत्प्रा- प्तिस्त्वनेकजन्मसाधनसंसाध्या । तदुक्तं भगवद्गीतासु- "अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥” इति।। काव्यस्य तु श्रवणसमकालमेव परमानन्दप्राप्तिरिति विशेषः । काव्यानन्दस्य च ब्रह्मानन्दसदृशत्वं " ब्रह्मानन्द- सहोदरः" इति रसप्रकरणे उक्तम् ॥ उपदेशस्त्रिधा । प्रभुसंमितः, मित्रसमितः, कान्तासं- मितश्चेति । क्रमेण यथा- संसारस्यानित्यत्तविपये- “यो वै भूमा तदमृतम् । अथ यदल्पं तन्मय॑म् ॥" इति वेदोपदेशः प्रभुसंमितः । केवलमाज्ञामात्रत्वात् । भस्मिन्नेव विषये- याति) काव्यस्वरूपम् "अहन्यहनि भूतानि प्रविशन्ति यमालंयम् ॥ शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमंतः परम् ॥१॥ इति महाभारतोपदेशो मित्रसमितः । सयुक्तिक विस्तरे. णोक्तत्वात् ।। अस्मिन्नेव विपये- “यो नक्षत्रगणैर्वृतो यदभितो जाता चकोरस्तुतिः यस्तापं च तमश्च दूरमकरोद्योऽचर्पदनामृतम् ॥ यं दृष्ट्वापि शिला द्रुता किमपि यःकस्मात्कदाप्यंशुभि- र्नाकर्षतटमद्य याति जलधेरेकः स चन्द्रः प्रगे ॥१॥ अयं काव्यरचनामय उपदेशः कान्तासंमितः । मनोहारि-. त्वात् । मनोहरोपदेशश्चातीवहृदयंगमो भवतीत्यस्य श्लाघ- नीयत्वम् ॥ यथावा- निद्रावशेन भवताप्यनवेक्ष्यमाणा पर्युत्सुकत्वमवला निशि खण्डितेव । लक्ष्मीविनोदयति येन दिगन्तलम्बी सोऽपि लदाननरुचिं विजहाति चन्द्रः ॥ १॥ उपसि निद्राणा दरिद्रा भवन्तीति धर्मशास्त्रम् | अयं प्रभुसंमितोपदेशो नृपप्रवोधार्थं यथाश्रुतमुपदिष्टश्चेदरुचिक- रत्वारकोपस्य कारण भनेत् । स एवं कान्तासंमिततया कथि- तः सन् रुचिकरत्वाद्धृदयंगमत्वमगमत् ॥
. . .. ६२ यशवन्तभूपणम् दिया विद्यानाथो मनुष्यच्छायानुसारेण काव्यस्वरूपम्-' शब्दार्थों मूर्तिराख्यातौ जीवितं व्यङ्गयवैभवम् ।। • हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ १॥ इत्याह । गुणदोपौ तु गुणदोपवद्विज्ञेयो ॥ मनुष्यस्य शरीरमस्थिमांसमयम् । तद्वत्काव्यस्य शरीरं शब्दार्थमयम् । वाच्यार्थाभिधायकः शब्दो वाचकः । लक्ष्या- र्थाभिधायकः शब्दो लक्षकः । साक्षात्संकेतितस्य वाच्यार्थ- स्यं वाधे तत्संवन्ध्यर्थों लक्ष्यत इति लक्ष्यार्थस्यापि वाच्या. र्थप्रायत्तमं । एतस्य शब्दार्थयुगलस्य शरीरवत्स्थूलत्वम् । स्फुटं दृश्यमानत्वात् । व्यङ्गयार्थस्य वस्तुतः शब्दाभिधेय. स्वाभावाजीववत्सूक्ष्मत्वम् । प्रतिभावता प्रतीतिमात्रगोचर- स्वात् । अत एव प्रतीयमानार्थ इति नामान्तरम् । मम तु मतं, यथा गर्भाशये शरीरोत्पत्तेः पश्चाजीवस्य प्रवेशः । तथा वाच्यार्थाद्वयङ्गयार्थस्योत्थानमित्यपि जीवसादृश्यम् । उक्त- द्विविधसादृश्येनैव धुरंधरो जीवौपम्यमाह । न च समस्त. सादृश्य एवोपमाया नियमः॥ किंचिदादाय सारूप्यं लोकयात्रा प्रवर्तते इत्याह भगवान्वेदव्यासोग्निपुराणे उपमाप्रकरणे । यद्य- पि वर्णाकृतिशीलरूपसर्वसाधम्ये पूर्णोपमीका । तथाप्येतेषा- मेकस्य द्वयोर्वा सादृश्येऽप्यपमालंकारो भवत्येव । इदं घ " प्राकृतिः काव्यस्वरूपम् सर्वत्र स्मर्तव्यम् ॥ वाचकलक्षकव्यजकशब्दाः, वाच्यलक्ष्य- व्यस्याश्चिाग्रे सविस्तरं प्रतिपादयिष्यन्ते ॥ यथा मनुष्ये सरलतोदारतादयो गुणास्तथा काव्ये वक्ष्य-- माणप्रसादादयो गुणाः ॥ मनुष्ये शरीरविषयाः पङ्गुताद- य आत्मविषयाश्च कृपणतादयो दोपा इव काव्ये श्रुतिक- ट्वादयः शब्ददोषाः, अपुष्टार्थादयश्चार्थदोषाः । ते च काव्ये सर्वथा वर्जनीयाः । तदुक्तं भगवता व्यासेन- उद्वेगजनको दोषः सभ्यानां स च सप्तधा" इति । मनुष्यस्य हारकङ्कणादिभूषणवत्काव्ये उपमादयोऽलंकाराः। हारकङ्कणादीनां मनुजशोभाकरस्वादलंकारत्वम् । भलं करो- तीत्यलंकारः । तस्यैव भूषणमिति नामान्तरम्। “भूप अलं- कारे" । करण ल्युट् । लोकाले कारन्यायेनोपमादयोऽलंकाराः स्वीकृताः । अत्र प्रकरणवशाकाव्यस्य लाभः । काव्यधर्म- स्यैव काव्यशोभाकरवाडमें रूतिः । तदेवोतं दण्डपास येण- " काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते" इति ॥ काव्यस्वरूपं प्रतिपादयन्भगवान् भरतो मृदुललितपदा- व्यत्वादीकाव्यधर्मानाह । तत्र च शोभाकरत्वप्राधान्यं तु युक्तावेव । कविप्रतिभोत्थापितोऽलौकिकचमत्कारकारी रम- रणीयोऽर्थो युक्तिः । तदुक्तं चिन्तामणो "युक्तिरपूर्वार्थप्राप्तो इति । तथाहि रसिकशिरोमणेः कस्यचित्कवेरिदं वचनम्- " . समीपे. यशवन्तभूपण्म [द्वितीया युक्तिविसेसों कव्वो भासा जाहूणि ताहूणि” इति ॥ "भासा जाणि ताहूणि" इति कथनेनेदं विधक्षितं, भा. पाया मृदुललितपदादिसहितत्वे गीर्वाणवाणीमयत्वेपि वा युक्तिरहितत्वे तु न काव्यत्वम् । भाषायास्तादृशवाभावे प्राकृतपैशाच्यादिवाणीमयत्वेपि वा युक्तिसहितत्वे काव्यत्व- मिति । कवर्महिमाप्यपूर्वयुक्त्युपादान एवेत्यत्र युक्तरेवालं- कारनामयोग्यता । शब्दे पुनरावृत्तियुक्तिः । अर्थे कृत्वा विहितं विशेषज्ञानमुपमादियुक्तिः। कविसृष्टावलंकार एव युक्तिरिति निष्कपः शोभाकराणां हारादीनामलंकारसंज्ञेतिनैरलं कर्तुं योग्या नरा अलंकार्यशब्देन व्यपदिश्यन्ते । तद्वद्युक्तिरूपालंकारैरलंकर्तुं योग्य काव्यमलंक र्यशब्दव्यपदेश्यम् ॥ न च वाच्यं, व्यङ्गयस्य 'जीवत्वे व्यङ्गयशून्यकाव्यस्य नि- जीवत्वाम्मृतकप्रायतया सर्वथा त्यागयोग्यत्वापत्तिरिति । व्य- इन्यस्य जीवत्वं प्रतिपादयता विद्यानाथेन प्रतापरुद्रीयग्रन्धे शब्दार्थो काव्यस्य मूर्तित्वेनाभिहितौ । सजीवशरीरं निर्जी- वपाषाणादिप्रतिमा चैत्युभयमपि मूर्तिरित्यभिधीयते । अन्न मूर्तिरिति कथनांदव्यङ्ग्यकाव्यस्यापि ग्रहणम् ॥ लोके पापा- णादिमयी चित्रमयी वा निर्जीवमूर्तिरपि रमणीयतया ग्राह्या भवति । तदुक्तमसमालंकारोदाहरणे- "न तन्मुखस्य प्रतिमा चराचरे" इति ॥
, प्राकृति] शब्दार्थनिरूपणम् असमालंकारस्य चाक्षेपालंकृतावन्तर्भावः ॥ अपि च व्यङ्गयं विनापि प्रायोऽलंकारादिमात्रेणापि का- व्यस्य रमणीयत्वमुपलभ्यते । यथा-- सेनागजाः स्वकरपल्लवलेखनीभि-- गण्डस्थलान्मदमसिं मुहुराददानाः ॥ मन्य नरेन्द्र! तव तोयधितीरताली- पत्रोदरेषु विजयस्तुतिमालिखन्ति ॥ १ ॥ तालादिनरुतले करिणो वध्यन्ते । गण्डकण्डूयनं शुण्डाद- रडोरक्षेपणं च करिणां स्वाभाविकी क्रीड़ा। तत्वे च शुण्डाग्रे मदसंबन्धः, तत्संबन्धाच्च तालपत्रे मदसंवन्धः स्वयंसिद्धः । तत्र कविना नृपस्योन्नतसेनागजनिष्ठरणाङ्गणसकलविजयवृ- त्तान्तनिरीक्षणतालपत्र लिखनप्राचीनप्रथारूपवलेन विजन- स्तुतिलिखनस्योत्प्रेक्षणं विहितम् । अत्र रूपकोत्प्रेक्षालंकार- मात्रेणेव काव्यस्य रमणीयत्वम् । अथ शब्दार्थाः ॥ शब्दस्त्रिधा । वाचको लक्षको व्यञ्जकश्च । क्रमेण वाच्या- र्थलक्ष्यार्थव्यङ्गयार्थास्तदर्थाः । घटोत्पत्तौ पृच्चक्रकुलालादीनि कारणानि । कुम्भः कार्यम् । कुलालंकृतचकभ्रमिापारः । कारणं यत्क्रियाद्वारा कार्यमुत्पादयेत्स व्यापारः । तथा वाच. कादयः शब्दाः.कारणानि । उक्तार्थाः.कार्याणि । उक्तशब्दै- रुक्तार्थवोधेऽभिधालक्षणाव्यंजना चेतिव्यापाराः । व्यापार एव वृत्तिशक्तिपदवाच्यः शक्तिः सामर्थ्यम् । न्यायशास्त्रेऽभि- धालक्षणेतिवृत्तिद्वयमेवोकम् । आलंकारिकास्तृतीयां व्यञ्जना- ।
.
[द्वितीया
यशवन्तभूषणम
वृत्तिं मन्यन्ते ॥ वाच्यलक्ष्यार्थाभ्यां व्यङ्गयाय पायं
प्रदर्शयन्सहृदयधुरंधरो ध्वनिकारः
"प्रतीयमानं पुनरन्यदेव
वस्त्वस्ति वाणीषु महाकवीनाम् ।
'यत्तत्प्रसिद्धावयवातिरिक्तं
विभाति लावण्यमिवाङ्गनासु ॥"
इत्याह ॥
अथ वाचकः॥
साक्षात्संकेतितार्थस्य वाचको वाचको मतः ॥
: अभिधाशक्तिवोध्योर्थोऽभिधेयार्थः प्रकीर्तितः।।
संकेतितार्थस्य साक्षादभिधायकः शब्दो वाचक इत्यर्थः ।।
नामक रिच्छया कृतो वाचकशब्दनिष्ठः “अस्मात्पदादयमों
घोद्धव्यः" इति संकेतो वाच्यार्थबोधे शक्तिरूपः। तदुक्तं
न्यायशास्त्रे-
"अस्मात्पदादन्यमों बोद्धव्य इतीश्वरसंकेतः शक्तिः
इति ॥
संसाररचनां विधाय तद्व्यवहारार्थं प्रायो वस्तुनामानि पं-
रमेश्वरेणैव विहितानि । कानिचिच्चःपुनः प्राकृतमनुष्यः क.
विभिश्च कृतानीत्युभयथा निर्देशः ॥ भभिधेयार्थों मुख्याओं
-
.
प्राकृतिः काचकनिरूपणम् वाज्यार्थ इति नामान्तरम् । अभिधीयतेऽन येत्यभिधा। अभि- धाशक्तिबोध्योऽर्थोऽभिधेयार्थः । अभिधा मुख्येति पर्यायान्त- रम् । अत्रेदं तात्पर्यम्, लक्षणाव्याने भन्यार्थ बोधयतः । इयं तु मुख्यं साक्षात्संकेतितमर्थ प्रतिपादयतीति मुख्यति । मुख्यया बोध्यत्वान्मुख्यार्थ इति । शब्देन साक्षादुक्तत्वाद्वा- च्यार्थ इति ॥ यथा- जयाभिलाषी नृपतिः संमुखे सजलं घटम् । निरीक्ष्य शकुनं श्रेष्ठं प्रतस्थेऽरिवसुंधराम् ॥ घटनामकर्तुरिच्छानुसारेण घटशब्दार्थः कम्बुग्रीवाद्याकृति- मज्जलपात्रवस्तु । अत्र घटशब्दस्य साक्षादुक्तार्थाभिधायकत्वा. द्वाचकत्वम् । तत्र संकेतः शक्तिः । उक्तार्थश्च वाच्यार्थः । अ- स्मिन्पये जलादिशब्दसमुदायः सर्वोपि वाचकः ॥ वाचकशब्दो जातिगुणक्रियाव्यभेदाच्चतुर्विधः । तत्र पशुपक्षिमनुष्यादयः शब्दा जातिवाचकाः। श्वेतरतादयः शब्दा गुणवाचकाः ॥न्यायशास्त्रे .रूपरसादयश्चतुर्विशतिर्गुणां उक्ताः । गमनभाषणपाचकादयः शब्दाः क्रियावाचकाः । ब्रह्मविष्णुमहेशादिसंज्ञाशब्दा द्रव्यवाचकाः ॥ अथ लक्षकः॥ शब्दो लक्षणया शक्त्या लक्षकोऽर्थस्य लक्षकः। लक्षणाशक्तिलक्ष्योऽर्थो लक्ष्यार्थ इति दृश्यताम् १ ६८ यशवन्तभूपणम् द्वितीया वाच्यार्थवाधोऽन्यार्थेन तत्संवन्धः प्रयोजनम् ॥ वाधितार्थस्य कथने सामग्रीयं नराधिप! ॥ २॥ शक्तिः सा लक्षणान्यार्थलक्षणान्मुनिभिर्मता ॥ अत्रास्ति मदिरान्यायो यशवन्तनरेश्वर! ॥ ३ ॥ सा.च द्विधा जहत्स्वार्थाऽजहत्स्वातिभेदतः ॥ गणनारसिकैरन्ये भेदा उक्ताः प्रमादतः ॥ ४॥ चाच्यार्थस्यार्थाद्वाच्यार्थान्वयस्य वाधः, वाधितवाच्यार्थस्य चान्यार्थेन सह संबन्धः, बाधितवाच्यार्थकथनप्रयोजन चेति सामग्रीरूपा शक्तिरन्यार्थस्य लक्षणाल्लक्षणेत्यर्थः । अत्र म. दिरान्यायो वेदितव्यः । यथा द्राक्षाशर्कराद्यनेकौपधिसंयोगा- न्मंदकरी मदिरा भवति । तथा वाच्यार्थवाधाद्यनेकवस्तु- संयोगादन्यार्थलक्षिका लक्षणा नाम शक्तिर्भवति ॥ लक्ष्यते- ऽज्यार्थोऽनयेति लक्षणा ॥ "लक्ष दर्शनाङ्कनयोः" अस्माद्द- र्शनार्थात्करणे ल्युट् । यथा- विजानीहि महाराज! गङ्गायां सदनं मम ॥ इदंप्रत्युत्तरवचनमाभित्र गङ्गाशब्दस्य वाच्यार्थो गङ्गाप्रवाह इति।तस्य गेहाधिकरणत्वासंभवादाच्यार्थवाः। अस्य वक्तुर्ग्रह गङ्गातटवर्तीतितटे गङ्गाप्रवाहतुल्यशीतलतापावनतासिद्धि प्र- भाकृति] लक्षकनिरूपणम् . योजनन "गङ्गायां सदनं ममे" इति बाधितवाच्यार्थप्रयोगो विहितः । “गङ्गातीरे गृहं मम " इति वाचकशब्दप्रयोगे गङ्गायास्तटस्य च संबन्धमात्रप्रतीतिः । "गङ्गायां सदनं मम" इति लक्षकशब्दप्रयोगे तु गङ्गायास्तटस्य था-' भेदप्रतीत्यवगमात्प्रवाहगतशीतलपावनत्वादयो धर्मास्तटे प्र- तीयेरनितिप्रयोजनम् । तटस्य च प्रवाहेण सह सामीप्य- संवन्धः । एवं चात्र गङ्गाप्रवाहरूपवाच्यार्थवाधः, तटरूपा-. न्यार्थस्य प्रवाहेण सह सामीप्यसंबन्धः, उक्तप्रयोजनं चेति सामग्रीरूपशकिस्तटरूपमन्यार्थ लक्षयति । “गङ्गायां सदनं मम" इत्यत्र गङ्गाशब्दो लक्षकः । उक्तबाधसंबन्धप्रयोजन- रूपसामग्री शक्तिः । उक्तशक्त्या लक्षितो तटरूपोऽर्थों ल- क्ष्यार्थः। लक्षणा द्विधा । जहत्स्वार्थाऽजहत्स्वार्था च । लक्षकशब्द- स्य स्वार्थपरित्यागे जहत्स्वार्था । एषैव लक्षणलक्षणेत्युच्यते। यथा "गङ्गायां सदनं मम" इत्यत्र गङ्गाशब्दस्य प्रयाहरूंप- साक्षादर्थस्य परित्यागः। अत्र गङ्गाशब्दार्थस्तटम्। लक्षकशब्द- स्य स्वार्थापरित्यागेऽजहत्स्वार्था । एपेवोपादानलक्षणेत्यु. च्यते ॥ यथा- कुन्तेषु मरुभूपस्य प्रविशत्सु पुरे रिपोः । पलाय्य रिपवो याता न पुनः पुरमागताः ॥ भत्र कुन्तप्रवेंशः साक्षादर्थः । प्रवेशक्रियाकर्तृत्वस्य ..
यशवन्तभूपणम् [द्वितीया स्वातन्त्र्येण कुन्तेष्वचेतनत्वादन्वयासंभवेन वाच्यार्थस्यान्वय- वाधाद्वाच्यार्थबाधः उक्तवाच्यार्थस्य कुन्तधररूपान्यार्थेन सह धार्यधारकभावः संवन्धः, उक्तवाधितवाच्यार्थप्रयोगप्रयोजन चकुन्तानां तादृशप्रकाशो यच्चाक्चक्यवलाद्रष्टृणां कुन्तधरा नेत्रगोचरा न भवन्तीत्युक्तसामय्या कुन्तशब्देन कुन्तधरा लक्ष्यन्ते । इयं शब्दस्य साक्षादीपरित्यागादजहत्स्वार्था . लक्षणा । काव्यप्रकाशस्य पालवोधिनीटीकायां दारुणताप्रयो- 'जनकथनं तु प्रमादमूलम् । तादृशचमत्कारित्वाभावात् ।। तात्पर्यबाधे धुरंधरो लक्षणायाः समीपवर्तितयोपलक्षण- माह । अर्वाचीनाश्चेदमुदाजन्हुः । 'काकेभ्यो दधि रक्ष्यताम्" न ह्यत्र पदार्थानां परस्परमन्वयबाधः । अत्र समस्तदधि- घातकेभ्यो दधिरक्षणे वक्तुस्तात्पर्यम् । न तु काका मा भ- क्षयेयुः, मार्जारादयश्च भक्षयेयुरिति । यथाश्रुतवाक्ये तु व- तुस्तात्पर्यस्य बाध इति काकशब्देन मार्जाराद्यन्यार्थस्य ल- क्षणम् । अन्न वाच्यार्थस्य काकस्य त्यागं विना मार्जाराद्य- न्यार्थर्य लक्षणादजहत्स्वार्थत्वम् । काकरूपबाधितवाच्या- र्थस्य मार्जाराद्यन्यार्थेन सह दधिघातकतारूपः साधर्म्यसंब- न्धः। प्रयोजनं तु लाघवम् । मार्जारायसिलदधिधातकनाम- निर्देशे तु गौरवायातः लाघवं च सर्वशास्त्रसंमतम् । उक्त हि व्याकरणशास्त्रे "गर्द्धमात्रालाघवेन वैयाकरणाः पुत्रोत्सवं मन्यन्ते" इति ॥ अर्वाचामुक्तोदाहरणं लौकिकम् । काव्यविषयमुदाहरण- मस्माभिः प्रदर्श्यते ॥ यथा- ७१ प्राकृतिः] लक्षकनिरूपणम् श्यामासि दक्षा मधुरा गुणाढ्यां मनोहरा भावयुता न चेत्त्वम् । मानं त्यजेश्चापगते प्रियस्य स्नेहे तु यास्यत्यखिलो मदस्ते ॥ १॥ मानमोचनोपायं कुर्वन्त्याः सख्या मुग्धां मानिनी प्रति शिक्षणमिदम् । मानं न त्यजसि चेस्त्रियप्रेमन्यूनतापत्त्या. दुर्दशापन्ना भविष्यसीति । भत्र न हि मानमोचनविषय- नायकाज्ञोल्ल छनाभा एव सख्यास्तात्पर्यमपि तु सीधुपान- कामकलादियावच्छृङ्गाररसोपयोगिकार्येषु नायकाजोल्ला- नं न विधेयमित्येव । अतोऽत्र " न चेत्त्वं मानं त्यजेः" इत्ये- तावन्मात्रेर्थे सख्यास्तात्पर्यस्य वाधः । उक्तवाधेन सह काम- कलाद्यन्यार्थस्य सादृश्यसंबन्धः । तादृशवाधितवाक्य- कथनप्रयोजनं च प्रकरणम् । अत्र मानप्रकरणत्वान्मा- नविषयैव शिक्षा विहिता । उकसामग्रीरूपलक्षणाशक्त्या का- मकलाद्यन्यार्थस्य लक्षणम् ॥लक्षणायाः समीपे उपलक्षणम्। अत्रायं भावः । इदं लक्षणा न भवति । किंतु लक्षणासदृ- शम् । लक्षणानुकारीत्यर्थः । लक्षणोपलक्षणयोस्तारतम्यं तु पुराणोपपुराणन्यायेन ज्ञेयम् । मम तुं मतम्, धुरंधरस्योपल. क्षणमिति नामकरणं तु लक्षणासामध्यां मुख्यतया वाच्या. र्थस्य वाधः । इह त्वन्वयबाधसदृशो में सर्वथा वाधः। य. द्वाच्यार्थोऽनुपपन्न एक्स्यात्ांकुतः,"काकेभ्यो दधिरक्ष्यताम्।" इत्यत्र ग्रीष्म मन्थनार्थमुपसि दधि शीतलीक्रियते । स एव च विनिद्रकाकसमुदायस्य वनानगरप्रवेशसमय इति प्रकर-- ૭૨ यशवन्तभूपणम् द्वितीया णवशात्काकमात्रादपि दधिरक्षणे वक्तुस्तात्पर्यस्य संभवात् । "श्यामासि दक्षप-" इत्यत्रापि मानप्रकरणान्मानमोचनशि- क्षामात्रेपि सख्यास्तारपर्यस्य संभवात् । उक्कोपलक्षणं च सा- 'हित्यशास्त्रेऽत्यावश्यकमिति तस्याङ्गीकारस्यौचित्यम् । कविप्र- तिभाया नित्यनवीनतया नवनवानन्तयुक्तिसद्भावात्। तथाहि 'ध्वगिकार:- "वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः । निवदापि क्षयं नैति प्रकृतिर्जगतामिव ॥” इति ।। साहित्यशास्त्रे गुणत्रयनवरसैकचत्वारिंशद्भावकाशीत्यलंका- राएव भणिताः । उपलक्षणानहीकारे भूतभविष्यद्धर्तमानान- न्तयुक्तीनां कतिपयसंख्याकाजंकारादिषु समावेशः कथं स्यात्। अर्वाचीनाः केनचित्प्रयोजनेन बाधितवाक्यप्रयोगे प्रयो- अनवतीति, प्रयोजनं विना च बाधितवाक्यप्रयोगे रूढेति ल. क्षणायाः प्रकारद्वयमाहुः । तदुक्तं काव्यप्रकाशगतकारिकाव- ल्याम्--- "मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् ॥” इति॥ प्रयोजनवत्युदाहरणानि तु पूर्वोक्तानि । काव्यप्रकाशे रूढा. याः "कर्मणि कुशलः" इत्युदाहरणम् । “ प्रवीणे निपुणा- भिज्ञौ कृती कुशल इत्यपि ॥" इत्यमरः ॥ अत्र कुशं ला- तीतिव्युत्पत्त्या निपुणे कुशादानयोग्यनाया अभावाद्वाच्यार्थस्य घाधः । इतरतणेषु कुशस्य विविव्य.ग्रहणमिव कार्येपूत्तमका यस्यापि निपुणेन विविच्य ग्रहणाद्विवेचकतारूपः संबन्धः । . , यशवन्तभूषणम [द्वितीया प्रयोगे वेगातिशयः प्रयोजनम् । उक्ताश्वस्य वेगातिशयादव- यवा न लक्ष्यन्ते। केवलं श्वेतरेखाया एव नयनगोचरत्वात्। अपि च लक्षणाया वीजमेव प्रयोजनमिति लक्षणायां प्रयो- 'जनस्य न वैलक्षण्यापादकत्वम् । ततश्च प्रयोजनवती, श्र- प्रयोजनवतीति लक्षणामकारकथनं सुतरां वक्तुमशक्यम् ॥ सात्पर्यवाघे घाधितवाच्यार्थस्यान्यार्थेन सह संबन्धस्य, वाधितवाच्यार्थप्रयोगे प्रयोजनस्य च तादृशत्वेपि केवलम- न्वयबाधसदृशवाधाभावादुरंधर उपलक्षणमित्याह । वाधि- तवाच्यार्थप्रयोगश्च प्रयोजनमूल एव भवतीति प्रयोजनर- हितवाधितवाच्यार्थप्रयोगे रूढेति लक्षणाप्रकारकथनं तु धु. रंधरमतविरुद्धवादाचीनानां महाप्रमादः ।। किं चार्वाचीना विषयिणो विषयस्य च द्वयोरुतो सारो- पेति, विषयिणा विषयस्य निगरणे तु साध्यवसानेति प्रकार- द्वयमाहुः । प्रकाशकारेणेदमुदाहृतम् “आयुर्घतम् " इति ॥ धृतमायुपः कारणं न त्वायुरिति वाच्यार्थस्यात्र वाधः । घृता- युषोः 'कार्यकारणभावसबन्धादिदमवगम्यते घृतभक्षणा- दायुर्वर्धते इति । अत्र विषयिण आयुषो विषयस्य च घृत- स्योभयोरपि कथनात्सारोपात्वम् । मायुरेवेदम्" इत्यन विपनम्यनिगराणं कृत्वां केवलं विषयिण शायुषः कथनासा: ध्यवसानात्वम् । मम तु मतम्, वाचकलुप्तायुपमाप्रकारव- टुक्तप्रकारयोरपि चमत्कृतिजनकत्वाभावादनौचित्यमेव ॥ अपि चार्वाचीना गुणसंवन्धे गौणी, तदितरसामीप्य-का- र्यकारण-धार्यधारकादिसंवन्धमाने च शुद्धति भेदद्वयमाहुः । गौणीलक्षणाया इदमुदाहरणम् ।।
" व आकृतिः]] व्यञ्जकनिरूपणम् " यशवन्तमहाराजो विद्यते कल्पपादपः ॥ अत्राभेदस्यासंभवादाच्यार्थस्य बाधः। गुणकतारूपः सा- धर्म्यसंवन्धः । प्रयोजनं च राजराजेश्वरे मनोवाञ्छितदान योग्यताप्रतिपादनम् । मम तु मतं, एतादृशप्रकाराङ्गीकारो- ऽर्वाचीनानां प्रमादः । संबन्धभेदानेदाङ्गीकारे संवन्धं संवन्धं. प्रतिभेदाङ्गीकारापत्तेः।अन्यसमस्तसंवन्धेषु शुद्धा, गुणसंवन्धे च गोणीतिभेदयुगलस्यैवाङ्गीकारे युक्तिविरहात् । युक्तिशून्य- वाक्यं चानङ्गीकारयोग्यत्वाद्वर्जनीयम्। उक्तं हि नीतिशास्त्रे- युक्तियुक्तमुपादेयं वचनं वालकादपि ॥ अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मयोनिना ॥१॥" इति ॥ भर्वाचीना लक्षणायाः प्रयोजनं व्यङ्ग्यं मन्यन्ते । तस्य खण्डनं त्वग्रे व्यङ्ग्यप्रकरणे करिष्यामः ॥ अथ व्यञ्जकः॥ " यस्तु व्यञ्जनयाऽन्यार्थप्रतीत्याधायको नृप! ॥ शब्दोऽसौ व्यञ्जको ज्ञेयो धुरंधरमतानुगैः॥१॥ व्यञ्जनाशक्त्याऽन्यार्थप्रतीत्याधायकःशब्दोव्यञ्जक इत्यर्थः । व्यञ्जनाशक्तिगम्योऽर्थो व्यङ्गयार्थ इतिबुध्यताम् निधिसिद्धाञ्जनन्यायाद्यान्यार्थस्यप्रतीतिकृत्॥ वक्रादिना महाराज! शक्तिसाव्यञ्जनां.मता ॥
इदिताया यशवन्तभूपणम् निधिसिद्धांजनन्यायेन वक्तृबोद्धव्यादिनाजनविशेषेण या. ऽन्यार्थप्रतीत्याधायिका शक्तिः साव्यञ्जनेत्यर्थः । अजनविशेषो व्यञ्जनम् । स्त्रीत्वे टाप् । यस्य चक्षुष्यजनाभूमिगतद्रव्यदर्शनं 'तन्निध्यसनम्। यम्य चक्षुष्यलनाट्दूरदेशस्थवस्तुवृत्तान्तदर्शनं तसिद्धाञ्जनम् । उक्काअनन्यायेन वुद्धिरूपचक्षुपि क्कादिरू- पासनस्य संवन्धादन्यार्थप्रतीतिर्भवतीतिभावः॥ वनादयश्च काव्यप्रकाशे कथिताः। "वक्तवोडव्यकाकूनां वाक्यवाच्यान्यसंनिधेः । प्रस्तावदेशकालादेवैशिष्टयात्प्रतिभाजुषाम् ।। योऽर्थस्थान्यार्थधीहेतुर्व्यापारोव्यक्तिरेव सा॥” इति। वक्ता कथनकर्ता, बोद्धव्यः श्रोता, काकुः स्वरविकारः, वाक्यं पदसमुदायः, वाच्यः शब्दस्यार्थः, अन्यसंनिधिवक्तृ- श्रोत्रतिरिक्तस्य सांनिध्यम्। प्रस्तावः प्रकरणम्, देशः स्थानम्, कालः समयः, इत्यादीनां विलक्षणतया प्रतिभावतामन्या- थबुद्धिहेतुर्योऽर्थस्य व्यापारः सा व्यञ्जनेत्यर्थः ॥ मंत्रादिपदेन तादृशा अन्येऽपि योद्धव्याः ॥ अन्यार्थस्य सूक्ष्मत्वप्रतिपादनाय 'प्रतिभारतामिति । ततश्व वाय- जनविशेषेणापि प्रतिभावतामेवान्यार्थप्रतीतिः । साधार- एकविगोचरस्वाभावात् । लक्षणायां वाच्यार्थस्य बाधाद्वा- च्याथै विश्रान्तिनं भवतीत्यन्याथें विश्रामः। व्यञ्जनायीं तु वाच्यार्थे विश्रान्तो सत्यां वक्त्रादिलक्षरयेनं प्रतिभावताम. न्यार्थप्रतीतिः ॥ क्रमेण वक्रायुराहरणानि ।। . . ।
प्राकृतिः]
व्यञ्जकनिरूपणम्
७७
.
वक्तृवैशिष्टयात् यथा-
"अस्ताचलान्तरे पश्य तिरोधत्ते दिवाकरः ॥
इन्दोररुणिमा चासावारोहत्युदयाचलम् ॥"
अत्र दूती वक्री चेदभिसरणं व्यङ्ग्यम् । गुरुर्वक्ता चेदेव.
पूजनादिप्रेरणं व्यङ्ग्यम् ।
बोद्धव्यवैशिष्ट्यात् यथा-
"अस्मिन्नवसरे स्वीयोऽभिलाषः किं न पूर्यते ॥
कालो न पुनरागन्ता देहश्च क्षणभङ्गुरः ॥"
अत्र श्रोता कामुकश्चेद्भोगप्रवृत्तिय॑झ्या । श्रोता साधु-
श्चेन्मोक्षसाधनप्रवृत्तिय॑ङ्गन्या ।।
काकुवैशिष्टयात् यथा-
"तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः साई सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति हा हा विधिवलम् ॥
भीमं वोधयितुं युधिष्ठिरप्रेपिससहदेवं प्रति भीमस्येदं व.
चनम् । युद्धे त्वरमाणं भीमसेनं प्रति युधिष्ठिरः खिन्न इति
जानन्तं सहदेवं अंत्यस्य वचनस्य सरलत्वे निरर्थकत्वाकाकु-
स्वरकल्पनम् । वेन मयि खेदो न युक्तः, कुरुषु खेदो युक्त
इति.व्यज्यते।
वाक्यवैशिष्टयात् यथा-
--
-
.
.
.
यशवन्तभूपणम्
[द्वितीया
"तइया मह गण्डस्थलमिलिअंदिठिंणणेसिअण्णत्तो
एहिं सच्चे अहं ते अ कवोला ण सा दिछी ॥"(*)
अत्र तदेदानीमिति वाक्यवैशिष्टयेन मस्कपोलप्रतिविम्बि.
तां मत्सखी पश्यतस्तव दृष्टिर्न निवृत्ता । इदानीं तस्यां नि.
गतायां तु न तादृशी दृष्टिरहो ते प्रच्छन्नकामुकत्वमिति
व्ययम् ।
वायवैशिष्टयात् यथा-
"कदम्बसुरभिर्वातो झिल्लीझङ्कारजृम्भणम् ॥
अस्त्यद्य तडिदुल्लासो गर्जनं च पयोमुचाम्॥"
अत्रवाच्यार्थानांसुरतानुगुण्यरूपवैशिष्ट्यात्सुरतेच्छाव्यङ्गया।
अन्यसंनिधिवैशिष्टयात् यथा-
:"नियोजयति मां श्वश्रूरजस्रं गृहकर्मणि ॥
सखि! सायं भवेत्किंचिदवकाशो हरार्चने ॥"
अत्र पक्की नायिका । श्रोत्री च सखी । तदितरस्योपपतेः
सानिध्यं चेदन संकेतसमयसूचनं व्यङ्गन्यम् ॥
प्रस्ताववैशिष्टयात् यथा--
विलम्बो न हि कर्तव्यः कर्तव्येषु कदाचन ॥
(*) तदा मम गण्डस्थलमिलितां दृष्टिं मानेपौरन्यत्र.। इदानी सेवाह तो च कपोलो
न सा दृष्टिः ।।
७६ आकृतिः] 'व्यञ्जकनिरूपणम् विलम्बे तु महाराज! कालः पिबति तद्रसम् ॥" अत्र कवीनां प्रसङ्गश्चेदानं, रिपुप्रसङ्गश्चेद्युद्धं, सुहृत्प्रसङ्ग- श्वेन्मेलनं व्यङ्ग्यम् ॥ देशवैशिष्टयात् यथा- "सीतया सह धर्मात्मा लक्ष्मणानुचरो वशी ॥ न्यवसच्चित्रकूटेऽस्मिन् रामः कमललोचनः ॥" भत्रोक्तदेशस्य वैलक्षण्यानिवासदानस्नानाद्याचरणमत्र कर्तव्यमिति व्यङ्ग्यम् ॥ कालवैशिष्टयात् यथा- "शुष्कान्पल्लवयंस्तप्ताञ्छीतयन्पूरयंस्तथा ॥ रिक्तान्प्राडियं भाति राजेश्वरतया मम ॥"
. ८० यशवन्तभूपणम् द्वितीया . .. . "उव णिचलणिप्पन्दा भिसिणीपत्तम्मि रायइ वलामा हिम्मलमरगयभायण परिठिया संखसुत्तिव्य ॥"(*) इह निश्चलशब्दस्य वाच्यार्थःस्थानान्तरमापकशरीरक्रियाया प्रभावः।निष्पन्दशब्दस्य वाच्यार्थःस्थानान्तरामापकावयवक्रि- .याया अभावः॥पत्र कविरेव वक्ता चेद्वाच्यार्थमात्र एवविश्रान्तेः केवलवलाकावर्णनम् । उपमाखभावोत्यलंकारौ । दम्पत्योरेकत. रः सखी वा वक्री चेदुक्तवाच्यार्थादुत्तरं वलाकानिर्भयतारूपो. न्यार्थः प्रतीयते । तन्निर्भयताप्रतीतेश्चोक्तस्थलस्य नि- जनत्वं प्रतीयते । निर्जनताप्रनीतेश्च सुरतप्रार्थनाप्रतीति- रिति व्यहवार्थानां परंपरा ॥ किंच संकेतस्थले एकतरस्य प्रथममनागमनप्रस्तावश्चेत्स्थाननिर्जनताप्रतीत्यनन्तरं "वमत्र नांगतोऽभूः" इत्युपालम्भः प्रतीयते ॥ लक्षणायामन्यार्थकथनाभिप्रायस्तु पाधितवाध्यार्थवतः शब्दादन्योऽर्थ इति ॥ व्यन्जनायामन्यार्थकथनाभिप्राय- श्चोच्चार्यमाणसमस्तशब्दभ्यः सर्वथाऽन्योऽर्थ इति ॥ लक्ष. णायां त्वन्यार्थस्य लक्षणमादर्शनमिति लक्ष्यार्थस्य स्थूल- रूपतया दर्शनविषयत्वम् । तदर्शकस्य लक्ष कशब्दस्य विद्य- मानत्वात् ॥ ध्यजनायामन्याप्रतीत्याधायकवकथनाभि. प्रायश्च तत्र न कश्चिद्वयङ्गयार्थदर्शकः शब्दः। किंतु वनादि- लक्षण्येन सूक्ष्मरूपतया स्थितस्यान्यार्थस्य प्रतीतिरिति । "पश्य निश्चलनिष्पन्दा हिसिनीपत्रे राजते वलाका । निर्मचमरकतभा जनपरि- स्थिता रहशुक्तीय ॥" 4 4 आकृतिः मञ्जकनिरूपणम् वाच्यार्थस्य वाचकशब्देन कथनम् ।लक्ष्यार्थस्य च लक्षकशब्दे. न दर्शनम् । व्यङ्गवार्थस्य तु वाचकशब्दोक्तेन वाच्यार्थेन प्रतीत्यापादनमित्येतेषां परंपरया वेलक्षण्यम् ॥ व्यङ्ग्यविष- ये ध्वनिकारः ।। "यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाच्यार्थपूर्विका तद्वत्प्रतिपत्तव्यवस्तुनः ॥१॥ स्वसामर्थ्यवशेनैव वाक्यार्थ प्रथयन्नपि । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥२॥ तहत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनाम् ॥ बुद्धौ तत्वार्थदर्शिन्यां झटित्येवावभासते॥३॥" इत्याह ॥ “झटित्येवावभासते' इति कथनस्येदं तात्पर्यम्, वाच्यार्थो व्यङ्गयात्पृथङ् न भासते इति ॥ "उभणिच- लणिप्पन्दा" इति पद्यस्याथै क्रियमाणे निश्चलपदस्य स्था- नान्तरप्रापकशरीरक्रियाया अभाव इति, निष्पन्दपदस्य च स्थानान्तराप्रापकावयवक्रियाया अभाव इति भिन्नभिन्नपद- स्यार्थः पृथङ्न भासते।तथाव्ययाभिलाषिकवेनिर्भयतारू- पव्यायाहिलांकायास्तादशस्थितिरूपो वाच्यार्थःपृथङ् न भा- सते । तथैव निर्जनताप्रतीत्यादिव्यङ्ग्यपरंपरायामुत्तरव्यङ्गया- त्पूर्वव्यङ्गन्यं पृथड्न भासते इति । अन्न सहृदयहृदयमेवसाक्षि।
८२. यशवन्तभूषणम् [द्विापा भमवता वेदव्यासेन व्यङ्गयार्थ आक्षेपार्थो ध्वन्यर्थ इति चाक्तः॥ श्रुतेरलभ्यमानोऽर्थो यस्मानाति सचेतनः ॥ स आक्षेपो ध्वनिः स्याच ध्वनिना व्यज्यते यतः॥" इत्यग्निपुराणे ॥मा समन्तात्क्षिप्यते प्रेर्यत इत्याक्षेपः ॥ "उव णिचलणिप्पन्दा" इत्यत्र निर्भयताद्यर्थस्य वाचकशब्द- विषयत्वाभावान्न श्रुतिलभ्यत्वम् । किंतु वक्रादेः परितः प्रेर. पादुक्तार्थस्य प्रकाशमानतया भासनम् ॥ उक्तार्थस्याक्षेप. संज्ञाकथनात्तत्प्रेरिकायाः शक्तेराक्षेपेति संज्ञा त्वर्थसिद्धा । वर्णविवेक विनाऽर्थबोधकः शब्दो ध्वन्यात्मक इत्युक्तः। उक्तो- दाहरणे वक्रादिलक्षण्येन निर्भयताद्यर्थो वर्णविवेक विना प्रतीयत इति ध्वन्यर्थ इत्युच्यते । उक्तार्थद्योतिका शक्ति स्वनिरिति तु भगवान्वेदव्यासः "ध्वनिना व्यज्यते यतः" इणि 'कराठरवेण प्रोवाच ॥ काव्यप्रकाशगतकारिकायां परंपरागतं कस्यचिद्भुरंधरस्ये- दं वचनखण्डम् । "अनुस्वानाभसंलक्ष्यक्रमो व्यङ्गयः” इति ॥ उक्तधुरंधरस्य व्यङ्ग्यार्थेऽनुरणनन्यायाङ्गीकारः समीची- नः । झल्ला घटीयन्त्रस्य वा दण्डप्रहारे प्रथमं टङ्कारः । तत- श्च झङ्कारः । तत्र प्रथमरवो रणनम् । पश्चाद्रवोऽनुरणन. म् । स्वानानुस्वानेति तयोः पर्यायान्तरम् । उकवचनखण्डा- .
. प्राकृतिः] व्यञ्जकनिरूपणम् ८३ र्थश्च, अनुस्वानसदृशशोभायमानक्रमस्य लक्ष्यत्वं व्यङ्गयत्व- मिति ॥ वांच्यार्थात्समनन्तरमेव व्यङ्गयार्थस्य प्रतीतिः, वाच्या- र्थव्यङ्यार्थयोः स्थूलसूक्ष्मत्वं चास्त्येव । मम मतेऽत्रायमप्यनु- रणनन्यायो यद्रणनानुरणनयोर्व्यवधानाभाव इव वाच्या- र्थव्यङ्गयार्थयोरपि व्यवधानं नास्तीति । प्रतिभावतां वा- च्यार्थेन संसृष्टस्यैव व्यङ्ग्यार्थस्य प्रतीतेः। किं च रणनाद. नुरणनस्येव वाच्यार्थाव्यङ्गन्यार्थस्य निःसरणमिति च ॥ 3- तथे प्रतीतिः प्रेरणमअनन्यायो ध्वनिन्यायोऽनुरणनन्यायश्चे- ति स घटते ॥ अपि च कम्बुग्रीवाद्याकृतिमतां वाच्यार्थानां घटादिशब्दैः, तटादिलक्ष्यार्थानां च गङ्गादिवाधितशब्दैवोधाद्वाच्यार्थल. क्ष्यार्थयोरुत्थानं शब्दमूलम् । व्यङ्ग्यार्थस्योत्थानं तु न शब्द- मूलम् । किंत्वर्थमूलम् ॥ तदुक्तं सहृदयधुरंधरध्वनिकारेणं- आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ॥. तदुपायतया तद्वदर्थे वाच्ये तदाहतः॥ अस्यायमाशयः । यथाऽऽलोकाभिलापी जनस्तैलाधारपा- त्रादिपु यत्नमकुर्वन्दीपशिखायां यत्नवान् भवति । तथा व्य- द्यार्थाभिलाषी कविः शब्दे यत्तमकुर्वन्नर्थे एव यत्नवान् भव- तीतिापत्रयत्नस्तु किमत्र वक्रादिवेलचण्येन कस्यचियङ्गचा- यस्योपलब्धिः? इति प्रतिवाच्यार्थ विचारः ॥ ननु वाच्यार्थायद्यार्थस्योत्थानं चेयखकः शब्द इति धुरंधरकथनं कथमिति चेच्छृणु । वाच्यार्थारपरो. व्यङ्गवार्थः । इति ॥ .
८४ यशवन्तभूपणम [द्वितीया चमत्कारपर्यवसानं च तत्रैवेति व्यगयार्थस्य प्राधान्यम् ॥ तंत एव च वाचकशब्दो व्यनकसंज्ञां लभते । शब्दो व्यङ्ग्या- र्थस्य मूल कारणमिति शब्दभेदप्रतिपादने व्यञ्जकशब्दोक्त- रावश्यकत्वम् ॥ यथा झल्लरीरवे झङ्कारस्य कारणं टङ्कारः, तत्कारणं च दण्डस्पर्शः, स च मकारस्य मूलकारणम् । तथा व्यङ्गवार्थस्य कारणं वाच्यार्थः, तत्कारणं च शब्दः, स च व्यङ्गधार्थस्य परंपरया मूल कारणम् ॥ न च वाच्यं, व्यङ्गयस्योत्थानं तु सर्वेभ्योऽप्यर्थेभ्यो भवति। तदुक्तं काव्यप्रकाशगतकारिकावल्याम्- सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते" इति ॥ सर्वेषां वाच्यलक्ष्यव्यङ्गयार्थानाम् ॥ यथा “उव णिच्चल- णिपन्दाः” इत्यत्र वलाकाया निर्भयतारूपव्यङ्गन्यार्थस्योत्यानं तुवाच्यार्थमूलम् । व्यङ्गयपरंपरायां सु व्यङ्गयार्थाद्वयङ्गया- र्थस्सोस्थानम् । पुनश्च ध्वनिकारेण "व्यङ्ग्यविषये वाच्यार्थे यत्नो विधेयः” इत्युक्तं तदव्याप्तमिति । मम मते व्यङ्गयार्थ. बोधादुत्तरं तूक्तव्यङ्गयार्थस्यापि वाच्यार्थप्रायस्वात् । यथा “उ. व णिचलणिप्पन्दा" इत्यत्रोपमाघटितवाच्यार्याध्यञ्जनाय. सिसाधनद्वारा बलाकाया निर्भयतारूपव्यङ्गधार्थस्य सिद्विः । तदनन्तरं च तत्स्थानस्य निर्जुनतारूपव्यङ्गधार्थोत्थानसमये तूकव्यङ्गवार्थस्यापि वाच्यार्थप्रायत्वम् ॥ एवमेवं कचिलक्ष्या- त्प्रधानव्यङ्गयस्योत्यानं तत्रापि ज्ञेयम् । भत्रिविधः । तत्र वाच्यार्थःप्रथमः। वक्तुं योग्यो वाच्यः।
८५ । आकृतिः] व्यञ्जकनिरूपणम् अत्र शब्दे रूढिः । शब्देन वक्तुं योग्योों वाच्यार्थ इत्यर्थः ॥ अपरो लक्ष्यार्थः। वाधादिना लक्षणीयोऽर्थो.लक्ष्यार्थ इत्यर्थः॥ तृतीयोऽवाच्यार्थः। शब्देन वक्तुं योग्यो.न भवत्यसाववा- च्यार्थः । शव्दं विना ज्ञायमानोऽर्थोऽवाच्यार्थ इति भावः। "उव णिञ्चलणिपन्दा." इत्यत्र निर्भयताद्यर्थस्य वाचको न कश्चिच्छब्दः॥ धुरंधरेण विहितान्यवाघ्यार्थस्य सर्वाण्यपि नामान्तराण्यु. काभिप्रायपरायणानि । प्रतीयते इति प्रतीयमानः। यथा शरीरं विना निरज्जननिराकारपरब्रह्म प्रतीयते, तथा शब्द विना प्रतीतिविषयोऽर्थः प्रतीयमानार्थ इति भावः । सूचना- लभ्योऽर्थः सूच्यार्थः । न चास्य कश्चिद्वाचकः शब्दः । वक्रा-- दिवैलक्षण्येन ज्ञायमान इति भावः। अवाच्यार्थस्यैव व्य. ङ्ग्याक्षेपार्थध्वन्यथेति . नामान्तराणि । एतेषां शब्दं विना प्रतीतिगोचरत्वं तु तत्तव्यञ्जनादिशक्तिनिरूपणे उक्तम् ॥ भ- गवान्वेदव्यासो व्यङ्ग्यार्थमेव ध्वन्यर्थ इत्याह ॥ काव्यप्रका- शगतकारिकायाम्- "इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्ध्वनिर्बुधैः कथितः ॥" इत्युक्तम् । तच प्रमादमूलम् । व्यङ्ग्यविपये प्रधानस्यैव व्यङ्ग्यव्यपदेश्यत्वात्। व्यङ्ग्यादन्यङ्ग्यप्रकाररूपेण प्रधा. नव्यङ्ग्यस्य ध्वनिरिति नाम वक्तुमशक्यम् । ध्वनिव्य- ङ्ग्ययोः पर्यायनामत्वात् ॥ व्यङ्ग्योदाहरणानि चतुर्धा ॥
. ८६ यशवन्तभूपणम् [द्विर्माया वस्तुना वस्तु,वस्तुनाऽलंकारः, अलंकारेण वस्तु,मलं कारणलं. कारश्चेति ॥ अलंकारातिरिक्तोऽर्थों वस्तुपदवाच्यः ॥ . क्रमेण यथा- . वाञ्छन्त्यरिकलत्राणि विना रात्रिं तिथिं नृप ! ॥ सितपक्षं विना मासान्वत्सरान्तुभिर्विना ॥ १ ॥ अत्र वाच्यार्थरूपवस्तुना राजराजेश्वरयशवन्तसिंहस्य रिपुरमणीनां विरहरूपं वस्तु व्यङ्ग्यम् ॥ यशवन्तयशो वीक्ष्य वस्तुमिच्छति शंकरः ॥ 'शयितुं कमलाकान्तः स्नातुं निःस्पृहतापसाः॥२॥ अत्र वाच्यार्थरूपवस्तुना भ्रान्त्यलंकारो व्यङ्ग्यः ॥ राज- : राजेश्वरयशसि हरिहरतापसानां फैलासक्षीराब्धिसुरसरितां भ्रमः ॥ उव णिञ्चलणिप्पन्दा " इति ।। अत्रोपमालंकारेण वलाकाया निर्भयतारूपं वस्तु व्यग्यम् ॥ धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे. श्रीखण्डलेपो घनः ॥ एकोऽपि त्रिकलिङ्गभूपतिलक! त्वत्कीर्तिरांशिर्ययौ. नानामण्डनतां पुरंदरपुरीवामभ्रुवां विग्रहे ॥१॥ .
. ८७ आकृतिः] व्यञ्जकनिरूपणम् 'अत्र रूपकालंकारेण जगतीगतत्रिकंलिङ्गेश्वरयशसः सुरस्त्रीणां मण्डनविधानं विचित्रालंकारो व्यङ्ग्यः ॥ अनेकार्थवाचिशब्दस्तस्य सकलार्थानां वाचको भवति।स. कलार्थानां साक्षादभिधायकत्वात् । तत्सकलार्थाश्चोक्तवा- चकशब्दस्य वाच्यार्थभूताः । उक्तशब्दस्य सकलार्थेषु नाम" कर्तृशिष्टः संकेतितत्वात् ॥ अत्र तत्सकलार्थवोधिका शक्ति- रभिधा । तथा चार्थद्वयस्य प्रस्तुतत्वेऽप्रस्तुतत्वे वा एकस्य प्रस्तुतत्वेऽपरस्य चाप्रस्तुतत्वे वा तत्समस्तार्थानां वोधोऽभि- धाशक्त्यैव भवतीति भावः ॥ यत्रार्थद्वयादधिकार्थविधि- स्तत्रापि सैव व्यवस्था । गणयन्ति नापशब्दं न उत्तभङ्गं क्षयं तथार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयश्च कवयश्च ॥ १॥ वैशिकनायकपक्षे, अपशब्दो निन्दितवचनम् । वृत्तं सदा- चारः। अर्थो धनम् । कविपक्षे, अपशब्दोऽशुद्धः शब्दः । वृत्तं छन्दः । अर्थों वाच्यार्थादिः । अत्रार्थयुगलस्याभिधाशक्त्या- वबोधः । अत्र श्लषालंकारस्य चमत्कारः। अत्र वक्तुः कविः प्रस्तुतो वेश्यापतिरप्रस्तुतः ॥ तथैवोभयोः प्रस्तुतत्वेऽप्रस्तुतत्वे वा ज्ञेयम् ॥ यत्र तु संयोगादिभिरनेकार्थवाचिशब्दस्याऽभिधाशक्त्या एकस्मिन्नर्थे 'नियमनमर्थादत्रास्य शब्दस्यायमेवार्थ इति विश्रान्तिर्भवेत्तत्रान्यार्थस्य वोधः कया शक्त्या भवतीति दर्शयतो धुरंधरस्येदृशं परंपरागतवचनम् ॥
यशवन्तभूषणम् [द्वितीया "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ॥ संयोगाद्यैरवाच्यार्थधीकृव्यापृतिरञ्जनम् ॥" इति काव्यप्रकाशगतकारिकावल्याम् ॥ अत्रानेकार्थवाची स एव शब्दोजनविशेषत्वमापद्य- त इति धुरंधर इयं शाब्दी व्यञ्जनेत्याह । इहाभिधायास्तु 'संयोगादिनै कस्मिन्नर्थे विश्रामो वाच्यार्थवाधादिलक्षणा- सामय्याश्चाभाव इत्यन्यार्थबोधनं व्यञ्जनाशक्त्यैव भव- तीति धुरंधराशयः। परंतु शाब्दीयं व्यञ्जना । अन्यार्थप्रती- त्याधायकस्याञ्जनविशेषरूपषकाद्यर्थस्याविद्यमानत्वात् । व्यङ्ग्यार्थस्योत्थानं वाच्यार्थादेवेति वास्तवव्यञ्जना स्वायें- व। इह त्वनेकार्थवाचिशब्दस्यैवानेकार्थवाचितयाऽन्यार्थ- प्रतीत्याधायकत्वेऽजनविशेषरूपत्वम् ॥ 'संयोगादयश्च- "संयोगो विप्रयोगश्च साहचर्यं विरोधिता ॥ अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिनी देशः कालो व्यक्तिः स्वरादयः ॥ शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥" इति काव्यप्रकाशगतकारिकावल्याम् ॥
. 48 आकृतिः] व्यंजकनिरूपणम् "सशङ्खचक्रो हरिः" अत्र हरिशब्दस्येन्द्रादिनानार्थकस्य शङ्खचक्रसंयोगाद्विष्णौ वाचकत्वनियमनम् । "अशङ्खचको हरिः” अत्र शङ्खचक्रवियोगाद्वरिशब्दस्य . विष्णो वाचकत्वनियमनम् ॥ "रामलक्ष्मणौ" अत्र परशुरामायनेकार्थस्य रामशब्दस्य लक्ष्मणसाहचर्यादाशरथौ वाचकत्वनियमनम् ॥ संयोगश- व्दार्थः सम्यग्योग इति । यथा शङ्खचक्रादीनां विष्णुकरस्य च संयोगः । साहचर्यं च सह विहरणमात्रम् । "सिंहनागो" अत्र साधनेकार्थस्य नागशब्दस्य सिंहेन विरोधसंबन्धानले वाचकत्वनियमनम् ॥ "स्थाणुं भज भवच्छिदे' स्थाणुशब्दार्थः शाखापत्रादि- रहिततरुः शिव इति च । अत्र भवच्छेदप्रयोजनवलेन स्था. युशब्दस्य महेश्वरे वाचकत्त्वनियमनम् ॥ "सर्व जानाति देवः" देवशब्दार्थो राजा देवता ची भात राजप्रकरणं चेद्देवशब्दस्य राज्ञि वाचकत्वनियमनम् ॥ पूजा- प्रकरणं चेदेवतायाम् ॥ "कुपितो मकरध्वजः" लिङ्गं संयोगातिरिक्तसंबन्धेन पर- पक्षव्यावृत्तो धर्मः। मकरध्वज़शब्दार्थः. कामः समुद्रश्च । कोपलिङ्गेन कामे वाचकत्वनियममम् । समुद्रस्य जडत्वात्त- स्मिन्वास्तवकोपस्यासंभवात् । कोपस्तु चेतनधर्मः "अमरा निर्जरा देवाः" अत्र राजादिनानार्थकस्य देवश- यशवन्तभूषणम् [द्वितीया ब्दस्यामरनिर्जरशब्दसामीप्यादिन्द्रादिदेवेषु वाचकत्वनियम- नम् ॥ . "मधुना मत्तः कोकिलः" अत्र मकरन्दादिनानार्थकस्य मधुशब्दस्य कोकिलमत्तकरणसामर्थ्याद्धसन्ते वाचकत्वनियः मनम् ॥ D . "कान्ता ते संमुखीभवतु" संमुखशब्दार्थों मुखस्य संमु. खीकरणं प्रसन्नता च । अत्राशीर्वादौचित्यासंमुखशब्दस्य प्रसादे वाचकत्वनियमनम् ॥ "मत्र देवो विराजते" अत्र राजधानीरूपदेशश्चेद्देवश- ब्दस्य राज्ञि वाचकत्वनियमनम् । तीर्थादिदेशवेद्विष्यवादिदे- बतायाम् ॥ "चित्रभानुर्विभाति” चित्रभानुशब्दार्थों रविरग्निश्च । भन्न दिवससमयश्चेत्सूर्ये वाचकत्वनियमनम् । रात्रिश्चेदनौ । "मित्रं भाति” व्यक्तिः पुल्लिङ्गादिः । अत्र मित्रशब्दस्य क्लीवत्वेन सुदादि वाचकत्वनियमनम् ॥ "मि " अत्र पुंस्त्वेन मित्रशब्दस्य रन्नौ वाचकत्वनियमन "इन्द्रश्नः" वा उदानादि शत्रुर्यस्प” इसस्मिन्नर्थे वाचा इन्द्रस्य शत्रुः" इत्यस्मिन्न शाब्दीव्यञ्जनाया इदमु चक्रे बहुमुखी भूपवा . GE । आकृतिः] व्यञ्जकनिरूपणम् प्रविष्टा नृत्यसंयुक्तान्कबन्धान्यत्र तत्रं वै ॥१॥ अत्र वाहिनीकवन्धशब्दावनेकार्थो । वाहिनी सेना नदी च । कवन्धः क्रियायुक्तमपमूर्द्धकलेवरं सलिलं च । अत्र रा- जवर्णनप्रकरणेन वाहिनीशब्दस्य सेनायां, कबन्धशब्दस्य चापमूर्द्धकलेवरेऽभिधाया नियमने सति वाहिनीकवन्धशब्द- योरनेकार्थतालामर्थ्यद्वारेण व्यञ्जनया नद्या अपां च प्रती- तिः। तथाहि बहुमुखी बहुधारावती नदीच बहवयवा राज- राजेश्वरानीकिनी समुद्रवच्छत्रुसमूहे प्रविष्टा यत्र तत्र सलि- लसदृशापमूर्द्ध कलेवराण्यनर्तयत् । नदीधारा वेगेन सरोव- रादौ प्रविशन्ती सलिलोच्छ्रायमापादयतीति प्रत्यक्षम् ॥ धुरंधराभिप्रायापरिज्ञानात्काव्यप्रकाशकारादयोऽवाचीना अस्मिन्विपये भ्रान्ताः शब्दशक्तिमूलार्थशक्तिमूलेति व्यः जनायाः प्रकारद्वयं मन्यन्ते । स च प्रमादः । श्रुतेरल- भ्यमानोऽर्थो व्यङ्गय इत्युक्ते शब्देनोक्तस्य कथं वा व्यङ्ग्य- त्वम् ॥ तात्पर्यवाधमूल लक्षणाया ईपदूनतया धुरंधरस्तत्री- पलक्षणमित्याह । तद्वदस्या अत्यन्तं न्यूनत्वप्रदर्शनाय धुरं धरो व्यङ्ग्यविरुद्वामिमां शाब्दीयं व्यञ्जनेत्युक्तवान् । न तु प्र- कारदर्शनार्थम् । अत एवास्य विषयस्य गौणव्यङ्ग्यप्रकारा- पेक्षयापितुच्छत्वं सिद्धम् । न च शाब्दी व्यञ्जना वास्तवव्य- उजनेव चमत्कारावहा । वास्तवव्यञ्जनाया आर्थत्वेन वाच्यार्थनिष्ठसूक्ष्मान्यार्थबोधकत्वाम् । मनानेकार्थवाचिश- ब्दो वाचक एन । अपरायोंपि वाच्यार्थ एव । प्रथमार्थवो- धोऽप्यभिधाजन्यः । अपराथें ध्यञ्जनायाश्छायांमात्रम् ।
१२ . - यशवन्तभूषणम् [द्वितीया तत्राप्यजनविशेषरूपः स एव शब्दोस्तीति तन वादि. वदलौकिकाजमविशेषरूपत्वाभावाल्लोकाजनकज्जलसा- श्यम् । अत एवात्र व्यञ्जनाचमत्कृतेरप्राधान्यम् । श्लेपाल- कारचमत्कारस्यैव प्राधान्यम् । न च क्षणविलम्वेनात्यार्थवोथे श्लेपचमत्कारहानिरुद्भवति ॥ काव्यप्रकाशेऽनेकार्थवाचिशब्दं विना शाब्दी व्यञ्जनाया इदमुदाहरणम्- निःशेषच्युतचन्दनं स्तनतटं निर्मप्टरागोऽधरो नेत्रे दूरमनजने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे! वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्ति- कम् ॥ १॥ अत्र वाच्यार्थो वापीस्नानम् । व्यङ्ग्यार्थश्च नायकेन सह दूत्या रमणम् । स च नायिकोक्ताधमपदेन प्रतीयमानः । शाब्दीव्यसनायामर्थस्य सहकारितयेष्टत्वेपि प्राधान्यं तु श- ब्दस्यैव । मम तु मतम्, नायिकाया दूत्याश्च वक्तृषोद्ध- व्यतया "तस्य प्रियस्यान्तिकम्" इति पाठेऽधमपदं विना- प्युक्तव्यङ्ग्यसिद्धौ "तदन्तिकमेव रन्तुं गतासीति प्राधान्ये- नाधमपदेन व्यज्यते" इति प्रकाशकारस्य भणनं प्रमादः। तथा तुव्यङ्ग्यस्थागूढतया गोणखापत्तेः।गौणव्यङ्ग्यं च व्यङ्ग्यं न भवतीत्यग्रे प्रतिपादयिष्यते । अत्राधमशब्दस्तु श्लिष्टंशब्दा. दपि न्यनचमत्कारकारी । व्यञ्जना त्वार्येव । शाब्दी व्य-
प्राकृति]
व्यञ्जकनिरूपणम्
जना तु व्यञ्जना न भवति । अनर्हत्वात् ॥ इति शाब्दी.
व्यञ्जना ॥
अथ गुणीभूतव्यङ्ग्यम् ॥
प्रधानस्यैव नामनिर्देशो न त्वप्रधानस्यापीति सर्वशास्त्र
संमतम् ॥ गौणोपमाया अप्पयदीक्षितस्येदमुदाहरणम्-
सद्योमुण्डितमत्तहूणचिवुकप्रस्पर्दूि नारङ्गिकम् ॥ .
अत्र वर्तुलाकृतितत्कालमुण्डितगौररक्तवर्णमिश्रितपुष्टहू-
णदेशवास्तव्यजनचिबुकस्य नारङ्गिकफलेन साम्ये यथार्थेप्यु-
तोपमायां चारुताया (रमणीयतायाः) प्राधान्याभावान्नोपमा..
ऽलंकारः ॥ तथैव धुरंधरो व्यङ्ग्यप्रकरणे गुणीभूतव्यङ्ग्य
प्रकाराष्टकमाह ॥
"अगूढमपरस्याङ्ग वाच्यसियङ्गमस्फुटम् ॥
संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥"
वाच्यार्थवद्वयङ्गयस्य स्पष्टं प्रकाशमानत्वेऽगूढम् ॥
यथा-
.
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा
गायन्ति मन्जु मधुपा महदीर्घिकासु ॥ .
cc यशवन्तभूपणम् [द्वितीया एतंचकास्ति च रखेर्नववन्धुजीव- पुप्पच्छदाभमुदयाचलचुम्बिविम्बम् ॥ १ ॥ अत्र प्रभातसमयो व्यङ्ग्यः । स तु वाच्यवत्स्पष्टं प्रकाश- त इत्यगूढत्वम् । तच्च लौकिकम् ॥ व्यङ्ग्यस्य कचिदन्यं प्रत्यङ्गवेऽपराङ्गम् । यथा- आगत्य संप्रति वियोगविसंष्ठुलाङ्गी- : मम्भोजिनीं क्वचिदपि क्षपितत्रियामः ॥ एती प्रसादयति पश्य शनैः प्रभाते .: तन्वाङ्गि! पादपतनेन सहस्ररश्मिः ॥ २ ॥ 'मंत्र पादपतनं तु रविकराणां नलिनीस्पर्शः । अत्र रवि. नलिनीवृत्तान्तो. वाच्यः । नायिकानायकयोवृत्तान्तस्य व्यङ्- ग्यस्य तत्र समारोपेणोक्तवाच्यार्थस्योत्कर्पाधानाव्यङ्ग्यस्य वाच्याङ्गतयाऽपरागत्वम् ॥अङ्गीप्रधान, तदङ्गं च गौणमित्यङ्गि- नाऽङ्गस्य न्यग्भूततयाङ्गितोऽङ्गस्य चारुतायां न्यूनत्वम् ।। वाच्यसिद्धौ व्यङ्ग्यस्याङ्गवे वाच्यसिद्धयङ्गम् ॥ । यथा- भ्रमिमरतिमलसहृदयतां प्रलयं मूर्ती तमः शरीरसादम् ॥
आकृति.] व्यञ्जकनिरूपणम् मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ ३॥ अत्र विषशब्दस्य वाच्यार्थो जलम् । व्यगधार्थो गरलम्। अयं व्यङ्गयाओं जलदस्य भुजगत्वरूपवाच्यार्थसिद्धिं करोती- त्यस्य वाच्यसिद्धेरङ्गत्वम् ॥ पूर्वोदाहरणे वापसिद्धेश्नन्तरं व्यन्येन वाच्यार्थस्योत्कर्षाधानमात्रम्, भन तु व्यङ्गयार्थ । विना वाच्यार्थसिद्धिरेच न भवतीति भेदः। वाच्यार्थस्था. सिद्धिदोषः । दोषपरिहारश्च दूपणोद्धारमात्रमिति तत्र चारुत्वं नेप्यते॥ । व्यङ्गयार्थस्यातिगूढत्वेऽस्फुटम् । अस्फुटत्वं क्लिष्टदोपः। व्य.. ङ्ग्यार्थस्यातिस्फुटत्वेऽतिगृढवे वा चारुत्वं नास्त्येव ॥ तदे- वोतम्- नान्धीपयोधरमिवातितरां प्रपन्नो नो गुर्जरीस्तनमिवातितरां निगूढः ॥ अर्थों गिरामपिहितः पिहितः कथंचि-- द्रम्यत्वमेति मरुदेशवधूकुचानाम् ॥ १ ॥ यथा- .यशवन्तनरेन्द्रस्य दानहिं दिने दिने । श्रुत्वा कोकयुगान्यासन्प्रहष्टानि पदे पदे ॥४॥ भत्र व्यस्यार्थस्तु राजराजेश्वरो यशवन्तसिंहोऽतिदाने यशवन्तभूषणम् [द्वितीया प्रवृत्तः स्वर्णमयत्वात्सुमेरुमपि शकलीकृत्य लोकेभ्यो दद्याच्चे- द्रविकरनिरोधकस्य मेरोरभावाद्राव्यभावे कोकयुगस्य वियोग. दुःखं न स्यादिति । अस्य व्यङ्ग्यस्यातिविचारसाध्यत्वादस्फु- त्वम् । सूर्यस्य मेरोः परितः परिभ्रमणे मेरोमध्यपातित्वेन रवेरदर्शनादानिर्भवतीति पुराणेषु सिद्धान्तितम् । चक्रवाकानां रात्रौ वियोगः प्रसिद्धः । वाच्यार्थे विवक्षा व्यङ्गयार्थे वेति संदेहे संदिग्धव्यड्नयम् ॥ यथा- यशवन्तमहाराजकटकस्यासयो रणे । कोशाइहिर्विनिर्यान्ति बिलात्कालाहिजालवत्॥५॥ भन्न वाच्यार्थस्तु कोशानिःसरतामसीनां बिलनिर्गच्छ- कृष्णसर्पोपमा । व्यङ्ग्यार्थस्तु कृष्णसर्पवइंशनम् । अन्न : वाच्यार्थे विवक्षा व्यङ्ग्याथें वेतिनिर्णयाभावायङ्ग्यस्य सं- दिग्धत्वम् ॥ संदेहालंकारे वर्णनीयस्य चारुत्वापादकतया संदेहो भूषणम् । अत्र तु दूपणम् ॥ पाच्यार्थतुल्यमेव व्यङ्ग्यार्थस्य चारुत्वप्राधान्ये तुल्यप्राधा- न्यम्। यथा- ब्राह्मणातिक्रमत्यागो. भवतामेव भूतये ॥ जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥६॥ भार्गवं प्रति युद्धार्थ प्रवृत्तं रावणं प्रति कस्यापीयमुक्तिः। . - श्राकृति] व्यञ्जकनिरूपणम् भत्र वाच्यार्थों ब्राह्मणातिक्रमत्यागः श्रेयस्करः, अन्यथां मित्रं परशुरामोऽमित्रं भविष्यतीति । व्यङ्ग्यार्थस्तु, यथा भार्गवो भूमि निःक्षत्रियां व्यधात्तथा नीराक्षसामपि कुर्यादिति । अत्र वाच्यार्थव्यङ्ग्यार्थयोस्तुल्यचारुत्वम् ।। काकुः स्वरविकारः । तयाऽऽक्षिप्त आकृष्टः काकाक्षिप्तः। "आक्षेप आकृष्टौ” इति चिन्तामणिः ॥ यथा- मथ्नामि कौरवशतं समरे न कोपाद्- दुशासनस्य रुधिरं न पिवाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥७॥ धुरंधरः प्रधानव्यङ्ग्यविपये काकुमात्रमेवाह । गुणीभूत- व्यङ्ग्यविषये तु काक्वाक्षिप्तमित्याह । तस्यायमाशयः । “ तथा- भूतां दृष्ट्वा-"इति प्रधानव्यङ्ग्योदाहरणे, अत्र चोभयत्रापि भीमस्य तादृशोक्तेर्वाधितत्वात्काकुस्वरस्य कल्पना कियते प्रधानव्यङ्ग्योदाहरणे तु कौरवापराधस्योक्तत्वाद्गुरुणा म- दुपरि खेदो न कार्यः, कौरवोपरि तु कार्य इति व्य. गयार्थस्य प्रेग्णं काक्वा सर्वतो भवति। अत्र तु कौरवापराध- स्यानुकत्वात्समरे कौरवशतं मथिष्याम्येवेत्यादिव्यङ्गन्यार्थः काकुनाऽऽकृप्यते । इह व्यङ्ग्यार्थस्याकृष्टत्वाद्रौणत्वमिति॥ काकाक्षिप्तविफ्यधुरंधराशयापरिज्ञानादर्वाचीना एवं न. स्फु टीचकुः ॥ 'वाच्यार्थाद्वयङ्ग्यस्यासुन्दरत्वेऽसुन्दरम् । " ..
९८ यशवन्तभूषणम् (द्वितीया यथा- . . ग्रामतरुसं तरुण्या नववञ्जुलमञ्जरीसनार्थकरम् ।। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥८॥ अत्र नायिकायाः संकेतस्थले गमनाभावो व्यङ्ग्यः । अत्र व्यङ्ग्यस्य वाच्यार्थापेक्षयाऽसुन्दरत्वम् ।मम तु मतम, अलंका- रग्रन्थेष्वप्रधानोपमोदाहरणानि यथाऽनङ्गीकारविवक्षया प्रद- र्शितानि, तथा धुरंधरो व्यङ्ग्यप्रकरणे गौणव्यङ्ग्यप्रकारोदा. हरणान्यनङ्गीकारविवक्षया प्राह । तत्तु तेषामसुन्दरादिनाम- भिरेव स्फुटतरम् ॥ किं च "प्रकारोऽन्या गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते। यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥ १॥" इति ध्वन्यालोके निजमुखतो गुणीभूतव्यङ्ग्येति वदता- मर्वाचां प्रधानगुणीभूतेतिव्यङ्ग्यस्य प्रकारद्वयाङ्गीकारस्तु धुरंधर(भिप्रायापरिज्ञानात्प्रमाद एव ॥ साहित्यशास्त्रे प्रधान- स्यैवाङ्गीकार इति समकक्षत्व एव प्रकारा विवक्ष्यन्ते ।। न त्वेकस्य प्राधान्येऽपरस्य च गौणत्वेपि । गौणे प्रकारयो. ग्यता चेडुरंधरो गौणालंकारादीनपि ब्रूयात् ।। गुणीभूतव्यङ्ग्यस्य व्यङ्ग्यप्रकारत्वप्रतिपादनायाची. 'नेरनेके यला विहिताः । ते च सर्वेऽपि विफलाः । तत्र प्रथमस्तु, नाम्नां गोपनम् । गोणप्रधाननानोः समीपे कथने गौणस्य गौणत्वं स्पष्टमवभासत इति ध्वनिकारः प्रकाशकारश्च प्रधानज्यङ्ग्यस्य ध्वनिरिति नामान्तरमाहतुः ।
. आकृतिः] व्यञ्जकनिरूपणम् "एवंध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह” इति । गोणस्थाप्रधानेतरनाम्नोऽसत्वाद्गोणनाम्नः स्थाने गुणी- भूतेतिनाम्नो व्यत्यासश्च विहितः ॥ अत्रेदं तात्पर्यम् । वस्तु. तोऽयं व्यङ्ग एव । किं तु गौणरूपः । तदेतन साधीयः। पति- तोऽपि ब्राह्मणो वस्तुतो ब्राह्मण एवाकिं त्वाचारहनिहतोस्तस्य ब्राह्मणजातिबहिष्कृतत्वमिव गौणव्यङ्ग्यस्यापि चारुता. हानिहेतोयंग्यजातिवहिप्कृतत्वात् ॥ किं च गोणव्यङ्ग्य- प्रकाराणामगूढासुन्दरादिनामभिगीणतावाचित्वस्य स्पष्टत्वा. तदुदाहरणानि दर्शयता ध्वनिकारेण तन्नामनिर्देशमकृत्वा “यत्र प्रतीयमानोऽर्थः प्रक्लिष्टत्वेन भासते ॥ वांच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः॥": इति प्रतिपादितम् । ध्वनेरगोचर इति कथनेन गुणीभूत- व्यङ्ग्ये तात्पर्यम् । तदप्यविचारसहम् । उदाहरणानुसारेण नामानि, न तु नामानुसारेणोदाहरणानीति तादृशोदाहर- णैधुरंधरोक्तनाम्नां स्वतो लाभात् ॥ द्वितीयश्च, रसाभासस्य रसप्रकरणे ग्रहणमिति ध्वनिकारस्य गौणव्यङ्ग्यस्य व्यङ्ग्या. भास इति कथनम् ॥ • तदेवोक्तं ध्वन्यालोके ॥ एवं ध्वनेः प्रभेदान्प्रतिपाद्य तदाभासविवेकं कर्तु. मुच्यते" ॥ इति ।
1 . यशवन्तभूषणम् द्वितीया तदपि युक्तिहीनम् । आभासे श्रुतिमात्रेणाविचार दशायां क्षणं साक्षादानस्यानुभवात् । गौणव्यङ्ग्योदाहरणेपु तु ता. दृशमधानव्यङ्ग्यस्य भानाभावात् ॥ तृतीयः, गौरणव्यङ्गयस्या- ङ्गीकारे व्यङ्ग्यप्रकाराणां बाहुल्यमिति लोभदर्शनम् । तदेवोक्त ध्वन्यालोके- ध्वनेर्यः स गुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः । अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥” इति ॥ कवीनां प्रनिभागुण आनन्त्यमायातीति कथनेन ध्वनिका- रस्यायमाशयः, गुणीभूतव्यङ्ग्यस्यानेकविधवात्तद्विपयक- वर्णने विपुलावकाशलाभात्कविप्रतिभागुणस्यानन्त्यप्राप्तिरि- ति । तदपि मन्दम् । चारुताशून्यप्रकारवाहुल्येन कविप्रति- भायाः श्लाघनीयानन्तगुणप्राप्त्यभावात् । रुचिरनवोक्ति- भिरेव तल्लाभात् । तस्य चैकेन प्रधानव्यङ्गयेनेव संपद्यमान- त्वात्। चतुर्थश्च, “तदयं ध्वनिनिष्यन्दरूपो द्वितीयोऽपि महाकविविपयोऽतिरमणीयो लक्षणीयः सहृदयः" इति । गुणीभूतव्यङ्ग्यस्य स्वीकारार्थ ध्वनिकारस्येयं युक्तिः ॥ तदपि तुच्छम् । ध्वनिकारस्योक्तयुक्त्यापि गुणीभूतव्यङ्ग्य- . स्याङ्गीकारयोग्यतायाः समर्थनाभावात् । अत्र ध्वनिकारस्यो. कदृष्टान्ताभिप्रायस्तु सरित्प्रवाहे सरोवरे वा सलिनघाहुल्ये. न मनोहारित्वम् । तथापि स्वल्पसलिलगिरिनिर्भरस्य पर्ष- तान्तरेण. जलधारापातरूपविलक्षणाकृत्या 'तत्रापि विलच- णमनोहारित्वम् । एवं प्रधानव्यङ्ग्ये चारुताबाहुल्पेन मनो- १०१ श्राकृतिः] व्यञ्जकनिरूपणम् हारित्वम् । तथापि स्वल्पचारुताविशिष्टस्य गुणीभूतव्यङ्ग्य- स्यापि चारुतावलक्षण्यात्तत्रापि विलक्षणमनोहारित्वमि. ति ॥ मम तुमतम, सरित्प्रवाहे निझरे च सलिलतारतम्यस्य चैलक्षण्यान्न मनोहारित्वम् । किं त्वाकृते रुचिरतावैलक्ष- ण्यादिति । यथा पोडशकलपूर्णिमापूर्णचन्द्रे एककलद्वितीया- चन्द्रे च चारुताया वैलक्षण्यम् । तच्च न कलातारतम्यमूलम् । यत् पूर्णिमाचन्द्रापेक्षया पोडशाशचारुत्वं द्वितीयाचन्द्रे- ऽपि विद्यत इति । अपि तु भवोदयविश्ववन्द्यत्वाद्भुतभूष- णाकृतित्वरूपचारुतावैलक्षण्यमूलम् । तथा प्रधानव्यङ्ग्ये गुणीभूतव्यङ्ग्ये च न तादृशचारुतावैलक्षण्यम् । अगूढासुन्द- रादिगुणीभूतव्यङ्ग्यप्रकारेषु प्रधानव्यङ्गयापेक्षया चारुता- या न्यूनत्वादभावाद्वा । सरित्प्रवाहापेक्षया निर्भरस्य पूर्णचन्द्रापेक्षया च द्वितीयाचन्द्रस्य विलक्षणाकृते रुचिर- त्वाद्गुणत्वम् । प्रधानव्यङ्ग्यापेक्षया गुणीभूतव्यङ्ग्यप्रकारा- णां त्वगूढासुन्दरत्वादिरूपारोपितविलक्षणाकृते१राकृतित्वा- (पणत्वम् । कविसंप्रदाये च न्यूनस्येति गोणस्याङ्गीकारो नास्तीत्येतदेव कविसृष्टेरलौकिकत्वम् ॥ प्रधानग्रहणादत्र गौणस्यास्वीकृतिः सदा ॥ इति साहित्यसिद्धान्तो न केनापि विचारितः ॥ १॥ ः ॥ इति गुणीभूतव्यङ्गयम् ॥
१०२ यशवन्तभूषणम् द्वितीया व्यङ्ग्येऽनुरणनन्यायः । अनुरणनस्यैवानुस्वानमिति ना- मान्तरम् । काव्यप्रकाशे- अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः । शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः ॥ १ ॥ इत्यर्वाचीना कारिका दृश्यते ॥ मम तु मतं, गङ्गाप्रवाहे 'विष्णुपादोदकं तु स्वल्पम् । हिमाचलजलेनैव तस्य पूर्तिः। त- थाऽस्यां कारिकायां परंपरागतानि धुरंधराक्षराणि तु "अनुस्वा- नाभसंलक्ष्यक्रमो व्यङ्ग्यः" इत्येव ॥ अन्यत्स्वर्वाचीनः स्व. मतसंमिश्रणेनोक्तम् । शान्दीव्यञ्जना च व्यञ्जना न भव. तीति सविस्तरं प्राक्प्रतिपादितमस्माभिः । अत्र धुरंधराक्षरेषु समुपसर्गार्थः शोभनमिति विवक्षितः । “सम् शोभने" इति चिन्तामणिः ॥ धुरंधरस्य रणनानुरणनयोः स्थूलसूक्ष्मत्वक्रमो विवक्षितः । रणनापेक्षयाऽनुरणनं शोभनमपीत्यनुरणनसदृश शोभनसूक्ष्मताक्रमविशिष्टोऽन्यार्थो व्यङ्ग्य इति फलितार्थः ।। वाच्यार्थः स्थूल एव । व्यङ्ग्यार्थश्च सूक्ष्म एव । व्यङ्ग्यश- ब्दार्थस्तु व्यञ्जनया गम्योऽर्थो व्यङ्ग्य इति ॥ व्यङ्ग्यस्या- तिसूक्ष्मत्वादेव निधिसिद्धाञ्जनभ्यायेन वक्राद्यजनविशेषः गम्यत्वम् ॥ “अनुस्वानाभसंलक्ष्यक्रमो व्यङ्गय इहेरितः ॥ इति कथनेनेदमर्थसिद्धं, नह्यन्यार्थस्य तादृशसूक्ष्मक्रमा- भावे शोभनत्वं व्यङ्ग्यत्वं च । व्यङ्ग्यार्थस्य वाच्यार्थलक्ष्या.
१०३. आकृति.] व्यञ्जकनिरूपणम् पेक्षया जीवरूपोच्चपदत्वं च सूक्ष्मतयैव । अस्मिन्नेव प्रकरणे उक्तकारिकानन्तरं काव्यप्रकाशे- "रसभावतदाभासभावशान्त्यादिरक्रमः ॥' इति कारिका दृश्यते । मम तु मतं, इदं परंपरागतं सा- क्षादुरंधरवचनम् | धुरंधरवचनस्यानुवादो वा । अत्रेदं बाप- यम्, रसभावादिरूपान्यार्थेष्वनुरणनसदृशशोभनक्रमो न दृश्यत इति तादृशसूक्ष्मत्वाभावादुक्तान्यार्थस्य न व्यङ्ग्य. त्वम् ॥ स्वयं धुरंधरस्य व्यङ्गयार्थबोधकानां वक्रादीनामज- नविशेषतया भणनं रसभावादिवोधकानां चेष्टाद्यनुभावानां ततः पृथक्कथनं चास्मन्निर्णीतधुरंधरसिद्धान्ते प्रत्यक्षं प्रमा- णम् ॥ "विकारो मानसो भावोऽनुभावो भावबोधकः ॥" इत्यमरः ॥ अनु पश्चाद्भवनीत्यनुभावः।भावस्य कार्यमनुभाव इत्यर्थः ॥ अनुभावाद्भावबोधस्तु कार्यात्कारणबोधः। यथा प्रवाहकार्येण कारणस्य वृष्टेोधः । कार्यकारणयोश्च स्थूल- रूपत्वात्कार्यात्कारणबोधो न व्यङ्ग्यस्य विषयः। किंतु ज्ञा- पकहेतुनामकहेत्वलंकारस्य प्रकारत्वेनाङ्गीकृतः । न च वाच्यं, वाद्यञ्जनविशेषा अपि कारणान्येवेति । तत्र कार्यकारणभा- वात्परतोऽजनविशेषतायां पर्यवसानात् । नामनिर्देशश्च प्रधा- नतयैव भवति। रसभावादिरूपान्यार्थस्य च व्यंग्यार्थापेक्षयों स्थूलत्वाद्वाच्यार्थप्रायत्वम् ॥ : यथा- अट्टालिकाया युगले निबद्ध
यशवन्तभूषणम्
[दिनीया
परस्परालोकनरज्जुरेषा ॥
गतागतं निर्भयमन यूनो-
मनोनटौ संतनुतो यथेच्छम् ॥ १ ॥
अत्र दम्पत्योस्तादृशाखण्ड दृष्टिरूपानुभावेन रसदशां प्रासो
दम्पतिरतिस्थायिभावरूपोऽन्याथों वुध्यते । तस्य चानुरण-
• नवत्सूक्ष्मत्वाभावान्न व्यङ्गयत्वम्॥वक्राद्यञ्जनविशेषवोध्यत्वा-
भावात् । व्यङ्ग्यविषये च “ अनुस्वानाभसंलक्ष्यक्रमो व्य-
ग्यः' इत्यायनेकानि वचनानि । व्यग्यार्थसूक्ष्मतायामेव
च तनात्पर्यम् । व्यग्यार्थसूक्ष्मताविषये च यत्नकरणार्थ
परंपरागतं ध्वनिकारस्येदं वचनम्-
"शब्दार्थशक्त्याऽऽक्षिप्तोऽपि व्यङ्गयोऽर्थःकविना पुनः।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृति नेः॥१॥"
इति ॥
अत्र "शब्द" इत्यर्वाचीनयोजितम् ॥
यथा-
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चूनतं
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ॥
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तंटे
चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥१॥
१०५ . भाकृतिः व्यञ्जकनिरूपणम् भत्र दीर्घिकायास्तटे विहरन्त्योर्वक्तृबोद्धठयरमण्योरुपा न्तिके मज्जनमाचरन्त्याः कस्याश्चिन्नायिकायाः कुचक्षताध- रवूणरूपसुरतचिन्हें व्यङ्ग्यम् । तञ्च कविना चतुर्थ चरणे स्वो- क्त्या प्रकाशितमिति तस्य वाच्यत्वापत्त्या व्यङ्ग्यत्वाभावा. अत्राचीनमतीयो वक्ष्यमाण प्रस्तुताङ्कुरालंकारः । भस्म. दीयं चाप्रस्तुतप्रशंसालंकारमात्रम् । धुरंधरमतेऽलंकासणां वाच्यचित्रतया कथनात् । अत्र कुचक्षताधरवूणयोर्वचनेना- नुक्तावपि “चैलान्तेन तिरोदधे स्तनतट विम्बाधरं पाणिना" इति कथनमात्रेणाप्युक्तव्यङ्ग्यार्थे या काचित्सूक्ष्मताहानि. स्तयैव व्यङ्ग्यत्वापहाराद्वाच्यार्थप्रायत्वं चेद्रसभावादिषु त्वे. तावत्यपि रसभावरूपव्यङ्ग्यार्थस्य सूक्ष्मता नास्तीप्ति कथं वा तेषां व्यङ्ग्यत्वं वकुंशक्यम् ॥ धुरंधराभिप्रायमजानाना भा. चीनाः संलक्ष्यक्रमासंलक्ष्यक्रमेतिव्यङ्ग्यस्य द्वैविध्यमाहुः । अत्र क्रमश्च पूर्वपश्चाद्भावरूप इत्याहुः । अत्र समुपसर्गार्थः श्च सम्यगित्यवोधिपुः । कथयन्ति च रसभावादिषु व च्यार्थान्यार्थयोः क्रमस्तु विद्यते, तथापि शतपत्रपत्रभेदेन्या- येनासो सम्यङ् न लक्ष्यत इति रसभावरूपो व्यङ्ग्योऽसंल- क्ष्यक्रमः ॥ शतपत्रपत्रभेदन्यायस्तु शतपत्रपत्राण्युपर्युपरि विन्यस्य सूच्या भेदने क्रमेणैव भेदस्तथाप्यतिमृदुतया झ- टिति वेधात्क्रमः सम्यङ् न लक्ष्यते इति. युगपद्वेधव्यवहा. रः ।.किंच रसायतिरिक्तान्यार्थस्व व्यङ्ग्यत्वे वाच्यार्थव्य- ङ्ग्यार्थयोः क्रमः सम्यग्लक्ष्यत इत्यसौ संलक्ष्यक्रमः। मम तु मतं, अर्वाचीनानामयं प्रमादः । भनुरणनवसूक्ष्मतया यशवन्तभूपणम् [द्वितीया व्यञ्जनाशक्तिप्रतीयमानस्यैव व्यङ्ग्यार्थत्वात् ॥ वाच्यार्थ- व्यत्यार्थदोः पूर्वपश्चाकमस्य सम्यग्लक्ष्यत्वेऽलक्ष्यत्वे वा व्यङ्ग्यप्रकाराङ्गीकारोचितचमत्कारगन्धस्याप्यविद्यमानत्वा. ॥ काव्यप्रकाशे " रसभाव"-इति कारिकोत्तरार्द्धश्च ॥ "भिन्नो रसाधलंकारादलंकार्यतया स्थितः ॥ इति दृश्यते । स रसभावादी रसवदाद्यलंकाराद्भिन्नः । यतोऽयं रसभावादिरलंकार्यतया स्थितः। रसवदादिश्चालं- कारतया स्थितः ॥ मम तु मतं, तदेतद्धरंधरवचनेन सह स्व- मतसंयोजनमप्यर्वाचीनानां प्रमादः । कुत इति चेद्रसवदा- दीनामलंकारान्तरत्वसंस्थापकमते शृङ्कारादिरसा न वाऽलं- कारा न वाऽलंकार्याः । तत्र प्रमाणं च "रसो वै सः" इति श्रुतिः ॥ तदितरसर्वविधभावानामलंकारालंकार्यभावे मिथः पोष्यपोपकभावो निमित्तम् । तद्विरुद्धं च रसभावयोरलंकार्य- त्योफोन काचिद्युक्तिरुपदिष्टेति तादृशयुक्तिविरहितवचनं सर्वथाऽनङ्गीकारयोग्यम् ॥ किं च लक्षणायाः प्रयोजनं व्यङ्ग्यं मन्वाना अर्वाचीना व्यङ्ग्यस्याभिधालक्षणामलेति प्रकारद्वयमाहुः । तन्नाभि- धामूलव्यङ्ग्यो विवक्षितान्यपरवाच्य इति पर्यायान्तरेणाभि- हितः । विवक्षितमन्यपरं व्यङ्ग्यपरं वाच्यं यत्र सः । स च द्विधा । संलक्ष्यक्रमोऽसंलक्ष्यक्रमश्च । लक्षणामूलश्चाधिव- क्षितवाच्य इति पर्यायान्तरेण कथितः। भविषचितं वाच्यं यत्र सः। लक्षणाया जहनस्वार्थाऽजहत्स्वाति दैविध्यात्तन्मूल- ..
प्राकृति] . १०७ व्यञ्जकनिरूपणम् व्यङ्ग्योऽपि द्विधोक्तः ॥ तत्र जहत्स्वार्थामूलोऽत्यन्ततिरस्कृ- तवाच्य इति, अजहत्स्वार्थामूलश्चार्थान्तरसंक्रमितवाच्य इ- ति नामान्तरेणाभिहितः ॥ मम तु मतं, नामान्तररूपवेयव्य- त्यासेनेते व्यङ्ग्यप्रकारा न भवेयुः ॥ असंलक्ष्यक्रमो व्यङ्- पो न भवतीत्यधुनवोक्तम् ॥ लक्षणायाः प्रयोजनमपि न व्यङ्ग्यम् । काक्वाक्षिप्ताख्यगुणीभूतव्यङ्ग्यप्रकारे व्यड्रंग्य- स्याकृष्टत्वाद्वयङ्ग्यत्वाभाव इव लक्षणाप्रयोजनस्यापि वाधि- तवाच्यार्थेनाकृष्टत्वादप्रधानतया व्यङ्ग्यत्वाभावात् ॥ यथा- चारुचन्द्रिकया सोऽयं चुचुम्ब उदयाचलः ॥ अत्र चन्द्रिकाया जडत्वाच्चुम्बनायोग्यतया वाच्यार्थस्य वाधः, चुम्बनान्यार्थस्पर्शयोश्च सामीप्यसंवन्धः, तादृशवा; चितप्रयोगप्रयोजनं च नायिकाया उद्दीपनं चेत्युक्तलक्षणया चन्द्रिकयोदयाचलस्पर्शो विहित इति लक्ष्यार्थस्य बोधः । ता- दृशशृङ्गाररसोपयोगिवचनेन च इत्या वक्तृत्वम्। तद्वैलक्षण्येन चाभिसरणं प्रकाशाधिक्यात्पूर्वमेव गन्तव्यमिति शैघ्यू च व्य- ग्यम् । अत्र लक्ष्यार्थाद्व्यङ्गयार्थस्योत्थानम् । लक्षणा चात्रा- जहत्स्वार्था । मम तु मतं, अत्र व्यङ्ग्यस्य वैलक्षण्यं तु ल. क्ष्यार्थमूलकतामात्रम् । लक्षणायां येयमज़हत्स्वार्था, न हि त- द्विलक्षणताचमत्कारस्य व्यङ्ग्यपर्यन्तमनुधावनम् । येन व्य- ग्यः प्रकारत्वमांसादयेत् ॥ न शाब्दी व्यञ्जना रम्या गौणे व्यङ्ग्यपदंन हि॥
यशवन्तभूषणम् [द्वितीया असंलक्ष्यक्रमे चापि न भूप व्यङ्ग्ययोग्यता॥१॥ प्रयोजनं लनणाया व्यङ्ग्यं भवतिन क्वचित् ।। प्रमाद इह सर्वेपामर्वाचां दृश्यते नृप! ॥२॥ प्रकारगणनारसिकाः काव्यप्रकाशगतकारिकाकारादयो व्यङ्ग्यस्य शरेपुवेदाभ्रविधु (१०४५५)मितान् प्रकारान्मन्य. न्ते । तत्र प्रथमं तावत्यङ्ग्यस्य द्वौ प्रकारौ । अभिधामूलो लक्षणामूलश्च । अभिधामूलो द्विविधः । असंलक्ष्यक्रमः, सं. लक्ष्यक्रमश्च । असंलक्ष्यक्रमो रसभावादिरूपेणेकविधः१। सं. लक्ष्यक्रमः पञ्चदशधा। तत्र प्रथमं तावच्छब्दशक्तिमूलोऽर्थश- क्तिमूल उभयक्तिमूलश्चेति त्रिधा । शब्दशक्तिमूलो वस्त्व- लंकारभेदेन द्विधा २॥अर्थशक्तिमूलो द्वादशविधः। तत्र स्वतः संभवी, कविप्रौढोक्तिमात्रसिद्धः, कविनिबद्धवत्कृप्रौढोक्तिमा- प्रसिद्धश्चेति त्रिधा । उक्तभेदत्रयस्य च प्रत्येक वस्तुना वस्तु, वस्तुनाऽलंकारः, अलंकारेण वस्तु, अलंकारेण चालंकार इति चातुर्विध्यम् १२ ॥ उभयशक्तिमूलश्चैकविधः १ ॥ लक्षणामू. लव्यङ्ग्यो द्विविधः । अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृ- तवाच्यश्च २॥ एवमष्टादशभेदा भवन्ति ॥ पुनश्चार्थशक्तिमूल- व्यग्यस्योक्तद्वादशभेदानां पदवाक्यप्रबन्धगततया वैविध्या- त्पत्रिंशद्भेदाः ३६ । शब्दशक्तिमूलम्य भेदद्वयस्यापि पदवा- • क्यगततया चत्वारो. भेदाः४। उभयक्तिमूलश्चैक. १ इति संलक्ष्यक्रमस्यैकचत्वारिंशद्भेदाः ४१ । असंलक्ष्यक्रमश्च पदवा- क्यपदैकदेशरचनावर्णप्रबन्धगतत्वेन पड्विधः ६ । रचना कौशिंक्यादिरीतिः । वर्णो माधुर्यादिगुणरूपः । प्रबन्धः कवि- .
। थाकृतिः] व्यजकनिरूपणम् विश्रान्तिमदर्णनम् ॥ लक्षणामूलव्यङ्गयस्य चोक्तभेदद्वयस्य पदवाक्यगतत्वेन चातुर्विध्यम् ४ । एवं मिलिताः शुद्धभेदा एकपञ्चाशत् ५१ ॥ एतेषां मिथः संकलने (५१४५१=२६०१) चन्द्राभ्ररसाक्षिभेदा भवन्ति । द्विवादिमेलने संसृष्टिसंकरा- विष्यते । संसृष्टिरेकविधा । संकरश्च त्रिविधः। संदेहसंकरः, अङ्गाङ्गिभावसंकरः, एकवाचकानुप्रवशसंकरश्चेति । उक्तभेदा- नां चतुर्भिः संसृष्टिसंकरभेदैर्गुणने (२६०१४४=१०४०४)वे. दाभ्रवेदखचन्द्रमिता भेदा भवन्ति । संसृष्टिसंकरावन्तर्भावा- कृतौ वक्ष्येते ॥ एषु शु? कपञ्चाशद्भेदयोजने मिलिता शरेपु- युगखेन्दवा (१०४५५) व्यङ्ग्यस्य प्रकारा भवन्ति ॥ प्रकाशकारः स्वतःसंभविनो वस्तुना वस्तुव्यङ्ग्यस्येद. मुदाहरणमाह- "अलससिरोमणिधुत्ताणं अग्गिमो पुत्ति धणसमिडि- मनो। इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाओ।" अत्र वस्तुना वस्तु व्यङ्ग्यम् । अलसशिरोमणित्वेन ना- यिकान्तरागमनशीलः, धूर्ताग्रणीत्वेनान्यनायिकाऽनादरणीयः, धनसमृद्धिमत्तया कृपणः, प्रफुल्लनयनत्वेन तादृशव्यवस्थाम- त्तयाऽन्यनायिकाऽनाकर्पणीय इति ममैव वशंवदो भविष्यती- ति-व्यज्यते ॥ लोके स्त्रीणामतादृशवृत्तान्तः स्वतःसंभवी ॥ • * अलसशिरोमणिर्तानामप्रिमः पुत्रि! धनसमृद्धिमय । इति मणितेन नताझी प्रफुल्ल- - वितोचना जाता }१ ॥
. 4 यशवन्तभूपणम् [द्वितीया तत्रैव कविप्रोढोक्तिमात्रसिद्धस्येदमुदाहरणम्- कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुत्वा कीर्ति विबुधरमणीगीयमानां यदीयाम् ॥ स्रस्तापाङ्गाः सरसविसिनीकाण्डसंजातशङ्का दिङ्नातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ १ ॥ अत्र दिङ्मातङ्गानां वर्णनीयनृपकी.कर्णने किंचिच्छु- क्लं कर्णे प्रविशतीतिभ्रान्त्या सतिर्यग्दृक्पातं कर्णे हस्ताव- तनमिति भ्रान्त्यलंकारेण येप कोनिगानरूपार्थाधिगमो ना- स्ति तेपामपि श्वैत्यमूर्तत्वादिबुद्धिजननेन त्वत्कीर्तिश्चमत्क- रोतीति वस्तु व्यङ्ग्यम् ॥ अत्र कीर्तिश्रवणेन कणे हस्ताव. तनं हस्तिनो न स्वतःसंभवि । किंतु कविप्रतिभासिद्धम् । कविनिबद्धवक्तृप्रोढोक्तिमात्रसिद्धस्येदमुदाहरणम्- कस्त्वं भोः कथयामि दैवहतक मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामनान वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥१॥ अत्र पथिकस्य प्ररनेन शाखोटवृक्षस्योत्तरेण च कस्यचि- परोपकारिसमृद्धजनसमीपवर्तिनो दरिद्रस्य पश्चात्तापवृत्ता- न्तो च्यङ्ग्यः । जडवृक्ष प्रति पथिकस्य प्रश्नो वृक्षस्य च प्रतिवचनं न - स्वतासंभवि किं तूक्तश्रोतृवक्तृत्वं कवि- प्रौदोक्तिसिनम् ॥ .
आकृतिः] व्यञ्जकनिरूपणम् प्रकाशकारः शब्दशक्तिमूलवस्तुव्यङ्ग्यविषय इदमुदा. जहार- पन्थि न एत्थ सत्थरमत्थिं मणं पत्थंरत्थले गामे। उरणअपनोहरं पेक्खिऊण जइ वससि ता वससु॥१॥ अत्र यापभोगक्षमोसि तदाऽऽस्स्वेति व्यङ्ग्यम् । तच्च पयोधरपदगम्यत्वाच्छब्दशक्तिमूलम् । मम तु मतं, असंल- क्ष्यक्रमशब्दशक्तिमूलकयोर्न व्यङ्ग्यत्वम् । वस्त्वलंकार- व्यङ्ग्यरूपवैलक्षण्यं तूदाहरणान्तरम् ॥ स्वतःसंभविकविप्रोढोक्तिमात्रसिद्धकविनिवद्धवक्तृप्रोढो- तिमात्रसिद्धेत्यप्युदाहरणान्तरम् । मम तु मतं, कवि- निवद्धवक्तृप्रौढोक्तिमात्रसिद्धस्य चमत्कारः कविप्रौढोक्ति- मात्रसिद्धान्न तादृशविलक्षणो येन प्रकारान्तरत्वमापद्येत । अनयो(लक्षण्यं साधयता काव्यप्रकाशस्य बालबोधिनीटीका- कारेण " वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्युक्तिविषयां- त्तन्निवद्धोक्तिविषयोऽधिकरागप्रकटकत्वेनाधिकचमत्कारीति दयोर्भेदः" इत्युक्तम् । तदसतू । वृद्धवालको तु वास्तवौ । कविकल्पितवृक्षादिवक्ता तु वास्तवो न भवति, येन तस्य भाष- णचमत्कारस्यावबोधः स्यात् । कविकल्पितवक्तुर्भापणचमत्का- रस्तु कविप्रतिभाया एव । अत्र कविकल्पितवक्तृवृक्षचमत्का- (*) पथिका नात्र स्रस्तरमस्ति. मनाक् प्रस्तरस्थले गामे । उन्नतपयोधरं प्रेक्ष्य यदि ससि तदा वस ॥ १॥ ..
११० यशवन्तभूपणम् {द्वितीया तत्रैव कविप्रौढोक्तिमानसिद्धस्येदमुदाहरणम्- कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुल्वा कीर्ति विवुधरमणीगीयमानां यदीयाम् ॥ स्रस्तापाङ्गाः सरसविसिनीकाण्डसंजातशङ्का दिङ्भातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥ १ ॥ अत्र दिङ्मातङ्गानां वर्णनीयनृपकी.कर्णने किंचिच्छु- क्लं कर्णे प्रविशतीतिभ्रान्त्या सतिर्यग्दृक्पातं कर्णे हस्ताव- निमिति भ्रान्त्यलंकारेण येषां कीनिंगानरूपार्थाधिगमो ना- स्ति तेषामपि श्वैत्यमूर्तवादिबुद्धिजननेन त्वत्कीर्तिश्चमत्क- रोतीति वस्तु व्यङ्ग्यम् ॥ अत्र कीर्तिश्रवणेन कर्णे हस्ताव- तनं हस्तिनो न स्वतःसंभवि । किंतु कविप्रतिभासिद्धम् । : कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धस्येदमुदाहरणम्- कस्त्वं भोः कथयामि दैवहतकं मां विधि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ॥ वामनान वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥१॥ अत्र पथिकस्य प्रश्नेन शाखोटवृक्षस्योत्तरेण च कस्यचि- त्परोपकारिसमृद्धजनसमीपवर्तिमो दरिद्रस्य पश्चात्तापवृत्ता- न्तो व्यङ्ग्यः । जडवृक्षं प्रति पथिकस्य प्रश्नो डवृक्षस्य च प्रतिवचनं न • स्वतःसंभवि ! किं तूक्तश्रोतृवक्तृत्वं कवि- - प्रौदोक्तिसिसम् ॥ . -r
आकृतिः]
व्यञ्जकनिरूपणम्
प्रकाशकारः शब्दशक्तिमूलवस्तुव्यङ्ग्यविषय इदमुदा.
जहार-
पन्थिन! न एत्थ सत्थरमत्थिं मणं पत्थंरत्थले गामे॥
उरणअपनोहरं पेक्खिऊण जइ वससि ता वससु॥१॥
अत्र यापभोगक्षमोसि तदाऽऽस्स्वेति व्यङ्ग्यम् । तच्च
पयोधरपदगम्यत्वाच्छब्दशक्तिमूलम् । मम तु मतं, असंल-
क्ष्यक्रमशब्दशक्तिमूलकयोर्न व्यङ्ग्यत्वम् । वस्त्वलंकार-
व्यङ्ग्यरूपवैलक्षण्यं तूदाहरणान्तरम् ॥
स्वतःसंभविकविप्रौढोक्तिमात्रसिद्ध कविनिवद्धवक्तृप्रौढो-
क्तिमात्रसिद्धत्यप्युदाहरणान्तरम् । मम तु मतं, कनि.
निवन्द्ववक्तृप्रौढोक्तिमात्रसिद्धस्य चमत्कारः कविप्रौढोक्ति-
मात्रसिद्धान्न तादृशविलक्षणो येन प्रकारान्तरत्वमापद्येत ।
अनयोलक्षण्यं साधयता काव्यप्रकाशस्य बालबोधिनीटीका.
कारण, " वृद्धेन्सिविषयान्छिक्तिविषय इत्र कम्युक्तिविषय-
त्तन्निवद्धोक्तिविपयोऽधिकरागप्रकटकत्वेनाधिकचमत्कारीति
दयोर्भेदः" इत्युक्तम् । तदसत् । वृद्धवालको तु वास्तवौ ।
कविकल्पितवृक्षादिवक्ता तु वास्तवो न भवति, ग्रेन तस्य भाष-
णचमत्कारस्यावबोधः स्यात् । कविकल्पितवतुर्भापणचमत्का-
रस्तु कविप्रतिभाया एव । अत्र कविकल्पितवक्तृवृक्षचमत्का-
(*) पथिका मात्र स्रस्तरमस्ति मनाक् प्रस्तरस्यले गामे । उन्नतपयोधरं प्रेक्ष्य यदि
सास
न
..
तदा यस ॥१॥
११२ यशवन्तभूपणम् [द्वितीया रस्य कविप्रतिभायाः पृथगवनोधश्चेत् "कैलासस्य प्रथमशि. खरे" इति कविप्रौढोक्तिमात्रसिद्धोदाहरणेऽपि कविप्रतिभा- याः, पृथक् तादशक्रियाकारिकारिणश्चमत्कारस्य पार्थक्येन कुतो नायबांधः ॥ लक्षणायाः प्रयोजनं प्रकाराश्च न व्य. गयाः । पदवाक्यपदैकदेशप्रवन्धेत्ययमंशोपि चमत्कृतिहीनः। रीतयोऽप्यनुपयुक्ता एव । गुणमंसर्गस्त्वकाव्यतादोपपरिहा. • रमात्रम् । ततश्च न प्रकारयोग्यता। न चान संसृष्टि करवन्मे- लनेनापि प्रकारा भवेयुः । तत्तच्चमत्कारस्य पृथक्पृथगनुभवा- त् । यथाऽलंकाराणां संसृष्टिसंकरयोरलंकारचमत्कारस्य पृथ- क्पृथगनुभवः। प्रकारास्तु त एव भवेयुर्येपां चमत्कारस्य तन्म- यविशेषतायास्तद्विषयकसामान्यचमत्कारे लयः स्यात्॥प्रकार- गणनारसिकानामिदमिन्द्रजालं ग्राम्यम् ॥ एवं नुगुणीभूतव्य- इथप्रकारैर्गुणने व्यङ्गयसंख्याऽतीव वृद्धिमापद्येत ॥ इति श- ब्दार्थनिरूपणम् ॥ अथ गुणनिरूपणम् ॥ गुणशब्दार्थ आमन्त्रणम्॥ "गुण आमन्त्रणे" इति चिन्ता- मणिः शत्रणं संमुखीकरणम् । वस्तुनो गुणः सर्वस्यापि ॥ काव्ये माधुर्योजःप्रसादास्त्रयो गुणाः । उययकत्वे भगवतो वेदव्यासस्येदं वचनम्- "अलंकृतभाप प्रात्यै न काव्यं निर्गुणं भवेत् ॥ वपुष्यललिते स्त्रीणां हारो भारायते परम् ॥१॥” इति।। मौर
भाकृतिः
मुणनिरूपणम्
११३
माधुर्य सौम्यता।"माधुर्यं सौम्यवे" इतिचिन्तामणिः ।
सा च चन्द्रादिवृत्तिः । सौम्यतागुणवद्वस्तुना, मनो. द्रुतं भव-
तीति माधुर्यगुणवत्काव्यश्रवणात्सामाजिकमन मां द्रवीभूत-
त्वं वेदितव्यम् । तच्च सुन्दररमण्यादिवर्णनविपयककाव्यश्न-
वणाद्भवति।
यथा--
लताकुलं गुञ्जन्मदवदलिपुञ्ज चपलयन्
समालिङ्गन्नङ्गं द्रुततरमनङ्गं प्रबलयन् ।।
मरुन्मन्दं मन्दं दलितमरविन्दं तरलयन्
रजोटन्दं विन्दन् किरति मकरन्दं दिशि दिशि ॥१॥
मोजो दीप्तिः । “मोजो दीप्तौ" इति चिन्तामणिः। दी.
प्तिस्तु तेजः । तच्च सूर्यादिवृत्ति । दीप्तिगुणवद्वस्तुना मनस्ते-
जोविशिष्टं भवतीत्योजोगुणवत्काव्यश्रवणात्सामाजिकमन-
सां तेजोविशिष्टत्वं ज्ञेयम् । तच्च युद्धादिवर्णनविषयककाव्यंभ
वणाद्भवति ॥
यथा--
मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघडचण्डः ॥
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पांतनिर्घातवातः
केनास्मसिंहनादप्रतिरसिंतसखो दुन्दुभिस्ताडितो-
ऽयम् ॥१॥
.. [द्वितीया यशवन्तभूषणम् प्रसादो नैर्मस्यम्।"प्रसादो नैर्मल्ये” इति चिन्तामणिः। स्वच्छपटे जलमिव शुष्कन्धने चाग्निरिव निर्मलपदार्थेऽन्यद- स्तु शीघ्रं प्रविशतीतिप्रसादगुणवत्काव्यश्रवणारसामाजिकम • नसामुक्तकाव्ये शीघ्र प्रवेशो वेदितव्यः ॥ तादृशरचना सुख- वोध्या भवतीतिभावः ॥ अयं प्रसादगुणो भरतमुनिना "ज. नपवसुखयोध्यम्" इति विशेषणेन काव्यलक्षणे सूचितः । अयं गुणः क्लिष्टदोपप्रतिस्पर्धी ॥ अस्य गुणस्य माधुयें ओजसि च गुणदयेऽप्यावश्यकत्वम् ॥ . यथा- अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ॥ अलमलमालि!मृणालैरिति वदति दिवानिशं वाला॥१॥ अत्र माधुर्यगुणे प्रसादगुणस्य मिश्रितत्वम् ॥ माधुर्य सौम्यता चित्तं द्रवीभूतं करोति तत् ।। श्रीजस्तु दीप्तिस्तच्चित्तं तेजोयुक्तं करोत्यलम् ॥१॥ प्रसादः खलु नैर्मल्यं विशत्याशु मनोऽत्र वै ।। शुष्कन्धने यथा वन्हिर्जलं चाच्छपटे यथा ॥२॥ अर्वाधीनैर्हस्वदित्वाद्यक्षरोदेशेन गुणप्रकारा उकाः । ते तु मुधैव ॥ इति गुणप्रकरणम् ॥ .
. भाकृतिः] रीतिनिरूपणम् ११५ अथ रीतिनिरूपणम् ॥ देशजात्यादिभेदान्मनुष्येषु रीतेर्व्यवहारस्य भेदस्तथा दे- शादिभेदात्काव्यरचनायामपि । स च रीतिपदवाच्यः। रीति- वृत्तिरिति पर्यायान्तरम् । तदुक्तं ध्वनिकृता- "व्यवहारो हि उत्तिरुच्यते" इति ॥ भगवता वेदव्यासेनाग्निपुराणस्य चत्वारिंशदधिकत्रिशत- तमेऽध्याये,रीतयो भणिताः। "उपचारयुता मृट्ठी पाञ्चाली हस्वविग्रहा ॥ अनवस्थितसंदर्भा गौडीया दीर्घतिग्रहा ॥ उपचारैन" इति ॥ उपचारोऽत्र व्यवहारः। स च लौकिकः शास्त्रीयश्च पाश्चा- ली पाञ्चालदेशसंवन्धिनी । गौडीया गोडदेशसंवन्धिनी । वि- दर्भदेशस्य काव्यरचनारीतिर्विलक्षणत्वाद्वैदर्भीति । तथा ला- टदेशस्य काव्यरचनारीतिर्लाटीति । एवमन्या अपि । यथा देशे देशे काव्यरचनारीतेश्रृंदाद्विभिन्नत्वम् । तथा मह्मकविरचना- नामपि रीतेर्भेदाद्विभिन्नत्वम् । कविरचनारीवयश्च तत्तदाचा- र्यनामभिः प्रथिताः । यथा कोशिकसुनेः काव्यरचनारीतिः को- शिकीति । कुशिकवंश्यत्वाद्विश्वामित्रस्य कौशिक इति नामा- न्तरम् । भरतमुनेश्च काव्यरचनारीतिर्भारतीति।सदुक्तमग्निपु- राणे भगवता व्यासेन ..
. ११६ यशवन्तभूपणम् [द्वितीया "वाक्प्रधाना ज़रप्राया स्त्रीयुक्ता प्राकृतोक्तिता। भरतेन प्रणीतत्वाभारती रीतिरुच्यते ॥” इति ॥ मम तु मतं, काव्यम्य रमणीयत्वे रीतीनां मनागपि नो- पयोग इति बहु भम्रन्थकाताः ॥ इति रीतिप्रकरणम् ॥ अथ भावाः ॥ . कविभिर्वर्ण्यते वस्तु दृश्यादृश्यं त्रिलोकगम् ॥ मनोऽदृश्यं तद्विकारा अनन्ताः स्युनराधिप!॥१॥ दृश्य रूपि । अदृश्यमरूपि । पवनायनेकारूपिवस्तुसत्वे- ऽपि काव्योपयोगितयाऽत्र मनोविकाररूपा भावा गृह्यन्ते । विधिसृष्टिरिव मानसी सृष्टिरपीयं कवीनामादरार्हा ॥ विकारो मानसो भावो विभावस्तस्य कारणम् ॥ तस्य कार्य च भूपालानुभावो भाववोधकः ॥१॥ मनसि कदाचिद्रागः, कदाचिरक्रोधः, कदाचिच्च शोका- दय उत्पद्यन्ते । ते च मनसो विकारा धर्माभावा इत्युध्यन्ते। "विकारो मानसो भावः । इत्यमरः ॥ भावो मानसघ- में" इति चिन्तामणिः ॥ भवतीति भावः । अत्र मनसि रूदिः । मनोभवो विकारो भाव इत्यर्थः ॥ भाषस्य कारणं आकृतिः भावनिरूपणम् विभाव इत्युच्यते। अत्र वीत्युपसर्गों हेत्वर्थकः विहेतौं “इति चिन्तामणिः ॥ भावस्य कार्यमनुभाव इत्युक्तम् । अनु पश्चा- द्भवतीत्यनुभावः । अत्र भावे रूढिः । भावस्य पश्चाद्भावी भावोऽनुभाव इत्यर्थः ॥ कार्य हि कारणात्पश्चाद्भवत्येव ।। भावश्च विभावस्य कार्यम् । अनुभावस्य च कारणम् । मनसोऽतिचञ्चलत्वात्क्षणे क्षणेऽनन्तभावानाम्। उत्पत्तेरिहकाव्योपयोगिभावानरेश! गृह्यन्ते॥१॥ भावा द्विधा नव स्थायिभावाः संचारिणोऽमिताः दिग्दर्शनार्थं द्वात्रिंशद्गणिता मनुजाधिप! ॥ २॥ अतिरस्कृतो विरुद्धैर्भावरतिरोहितोऽविरुद्धैश्च । यावद्रसं स्थिरत्वेन वर्तमानो नृप!स्थायी॥ ३॥ स्थायी स्थिरः । “स्थायी स्थिरे" इति चिन्तामणिः। अत्र रसदशाप्राप्तिपर्यन्तं स्थिरत्वे रूढिः । प्रकरणवशाद्भाव- स्य लाभः ॥ तथा च रसदशाप्राप्तिपर्यन्तं स्थिरतया वर्तमा- नो भावः स्थायीत्यर्थः । अत्रेयमपि विवक्षा, मनसि भावेन सहेतरेऽपि भावा भवन्ति । तत्र रतिहासोत्साहादयो भावा मिथोऽविरुद्धाः । रतिशोकजुगुप्सादयो भाषा मिथो विरुद्धाः। एवं चाविरोधिभावरतिरोहितोऽनाच्छादितो विरोधिभावे- श्चातिरस्कृतः सन् रसदशाप्रातिपर्यन्तं स्थिरतया वर्तमानो भावः स्थायिसंज्ञक तदुक्तं दशरूपके- -- द्विराया - यशवन्तभूपणम् "सजांतीयैर्विजातीयेरतिरस्कृतमूर्तिमान् ।। यावद्रसं वर्तमानः स्थायिभाव उदाहतः ॥" काव्यप्रदीपे च- विरुद्धा अविरुद्वा वा यं तिरोधातुमक्षमाः ॥ श्रानन्दाकुरकन्दोऽसौ भावः स्थायिपदास्पदम् ॥" इति ॥ रत्यादिको भावोऽविरोधिभावरतिरोहितो विरोधिभावे- श्वातिरस्कृतः सन्नानन्दप्रदतया स्वयं रसदशाप्राप्तिपर्यन्त. मतिशयचञ्चले मनसि स्थिरतया वर्तमानः स्थायिपदं ल- भत इति भावः ॥ रत्यादीनामविरोधिभावरतिरोधानं, वि- रोधिभायैश्चातिरस्करणं, अतिशयचञ्चले मनसि च चिरं स्थिरतया वर्तमानत्वमित्येतावदेव न स्थायिभावमाहात्म्यम्। तु ते उक्तभावान्स्वस्य संचारिणः परिचारकान्कुर्व- न्तीति। अन्यभावानां स्वपरिचारकत्वापादनेन च स्थायी सर्व- भावानां राजत्वेनाभिमतः ॥ तदुक्तं भगवता भरतेन- यथा नराणां नृपतिः शिष्याणां च यथा गुरुः। एवं हि सर्वभावानां स्थायी भावो महानिह ॥१॥ इति । नष स्थायिभावाः॥ रतिर्हासश्च शोकश्च कोधोत्साही भयं तथा। अपि. तु ११६ आइतिः] भावनिरूपणम् जुगुप्सा विस्मयश्चैव निर्वेदो नवमः स्मृतः॥१॥ दृश्यकाव्ये शृङ्गारादयोऽष्टावेव रसाः स्वीकृता इति तत्र निर्वेदः संचारिषु गणितः । श्रव्यकाव्ये च नवमस्य शान्तर- सस्याङ्गीकारान्निदो नवमः स्थायीत्युक्तम् ॥ ॥ संचारी॥ संचरतीति संचारी । अत्र गत्यर्थाच्चरतेणिनिः । समुपस- गर्थिः सङ्गः सम्यगिति च "सम् सझे" इति चिन्तामणिः । संकर्षणशब्दाथें “सम्यक् कृप्यते वा” इति रामाश्रमीकारः॥ अत्रार्थद्वयमपि विवक्षितम् ।। सम्यक्चरणशीलत्वात्सहचारितया तथा ॥ स्थायिनः पोषको भावः संचारीति निगद्यते ॥१॥ संयोगशृङ्गारे रतिस्थायिभावस्य रसदशाप्राप्तौ तत्पर्यन्तं हर्पोत्साहादिसंचारिभावा रतिस्थायिभावेन सह चरन्तीति तेषां सहचारितया सार्थकत्वम् । वियोगशृङ्गारे च रतिस्था- यिभावस्य रसदशाप्राप्तौ तत्पर्यन्तं कदाचिदुत्कण्ठाभावोत्पा- दस्तल्लये च कदाचिञ्चिन्ताभावोत्पाद इत्येवं यत्र संचारिभा- चानां स्वच्छन्दं गतागतत्वं तत्र सम्यक्चारितंया सार्थकत्वम् ॥ अस्मिन्पचे धुरंधरेण फेनवुदुदंन्याय उक्तः ॥ केनचिदुरंधरेण संचारिणो व्यभिचारीति नामान्तरमभिहितम् । चिविधमा. भिमुख्वेन रसेषु चरन्तीति व्यभिचारिणः॥ तस्यायमाशयः।
१२० यशवन्तभूषणम् [हितीया रत्यादयो नवभाशः शृङ्गारादिस्वस्वरसेप्येव स्थिरतया वर्तन्त इति स्थाथिनाम्नः सार्थकत्वम् । तदितरभावाश्चाभिमुखतया- ऽर्थात्पोषकतया समस्तरसेपु विचरन्तीति व्यभिचारिनाम्नः 'सार्थकत्वम् । स्वामिनः परिचर्या, पोपणं, समीपे गमनागमनं, सहावस्थानं च सेवककार्यम्। संचारिभावाश्च स्थायिभावस्या- न्तिके गतागतत्वेन सहचारित्वेन च पोषणं कुर्वन्तीति तेषां मिथः स्वस्वामिभावसंबन्धः। उक्तनिमित्तेनैव धुरंधर एपां स्थायिसंचारिसंज्ञां चकार || भगवान् भरतश्च स्थायिभाववि. पये “यथा नराणां नृपतिः" इत्याह ॥ पूर्वोक्तरीत्या स्थिरतया वर्तमानत्व एव रत्यादयः स्थायिभावाः, इतरे च संचरणधर्मेण तत्पोपतया संचारिभावाः । अन्यथा तु केवलं भावा एवं ॥ कृचिच्च स्थायिभावा इतररसेपु संचरन्ति चेत्तदा ते तत्रत्यस्था- यिभावानां संचारित्वमापद्यन्ते । यथा शृङ्गारे हासोत्साह. विस्मया रतिस्थायिभावस्य संचारिणो भवन्ति ॥ पूर्वोक्तदशां विमापि रत्यादीनां स्थायिसंज्ञा, इतरेषां च संचारिसंज्ञा तु तेषु स्थायिसंचारित्वयोग्यतात्वान्मञ्जूषागतभूषणन्यायेन वो. ध्या। मञ्जूपागतभूपणन्यायश्च, कुण्डलादिषु मनुष्यशो- भाकरत्वादलंकारत्वम् । तेषां मञ्जूषागतत्वसमये मनुष्यशो. भाकरत्वाभावेऽपि शोभाकरस्वंयोग्यतास्वादलंकारपदेन व्य. घहार इति ॥ उक्ताखिलभावा अम उदाहरणेषु स्कुटीकरि- प्यन्ते ।। ग्लानिः शङ्का तथाऽसूया .महाराज मदश्रमौ ॥ आलस्यदैन्यचिन्ताख्या मोहश्चैव स्मृतितिः।।
प्राकृतिः] . । भावनिरूपणम् ब्रीडा चपलताऽऽवेगो हर्षश्च जडता तथा ॥ गर्यो विषाद औत्सुक्यमपस्मारस्ततः परंम् ॥२॥ निद्रा स्वप्नः प्रबोधश्चामर्पश्चाप्यवहित्थकम् ॥ उग्रता च मतियाधिरुन्मादो मरणं तथा ॥३॥ त्रासो वितर्को हात्रिंशन्नृप! संचारिणो मताः॥ नाटके शृङ्गाराद्यष्टरसाङ्गीकार निर्वेदस्य संचारिपु गणने. त्रयस्त्रिंशत्संख्याः संचारिणः । भोजमहाराजस्तु सरस्वतीक- एठाभरणे मरणापस्मारावनुक्त्वा स्नेहेाभ्यां संख्यामपूर- यत्।मम तु मतं,स्नेहो रतेः पर्यायः। अर्वाचीमेः “परोत्कर्षासह- नमीा, परगुणेषु दोषारोपोऽसूया" इति भेदः प्रदर्शितः। मम मते त्वाया असूयायामन्तर्भावः। कश्चिद्याध्यौत्सुक्याचेगा. न गदोत्कण्ठासंभ्रमशब्दैरुक्तवान् ॥ मम तु मतं, भावा नेतावन्त एव, किं त्वसंख्येयाः । इदं तु धुरंधरो दिग्दर्शनं च. कार । तत्र संख्याया नियमकरणमर्वाचां प्रमादः । गर्ववैम- रीत्ये दैन्यस्येव स्मृतिवैपरीले विस्मृतेः, उग्रतावैपरीत्ये 'च दयाभावसंभवात् । इत्यादि । प्रेतैर्वार्तालापं(*)टच्छन्ती चापि डाकिनीर्मार्गम् ॥ फणिफणपादारोपं विदधत्येषा प्रयाति हृदयेशम् ॥ अत्र परकीयाभिसारिकाया.रतिस्थायिभावस्य भयभाव: प्रतिस्पर्धी निर्मयतासंचारिभावः॥ पश्चात्तापोपि भावान्तरम्। तदांश्रयेण धुरंधरोऽनुशयानानायिका स्वीचकार ॥ एवमन्धे- ()कुर्वन्ती इति शेषः ॥.
[द्वितीया .. यशवन्तभूपणम् ऽपि स्वयमूहाः । अद्यावधि रसदशार्हा रत्यादयो नवैव भावा नयनपथमवंतीणाः । एतदतिरिक्तः कश्चित्स्थायिभावो दृष्टि- गोचरतामुपेयाचेन्नवसंख्यातोऽधिकस्य स्थायिभावस्य रस- स्य चाङ्गीकारे न कोपि बाधः । तथैवोक्तभावेषु कस्यचिद्य- थासंभवमन्तर्भावेनोक्तसंख्याया न्यूनत्वेपि न काचिद्धानिः । रत्यादीनामुक्तदशायां स्थायित्वेऽपि तादृशदशां विनाऽन्यभा- 'वपोपकत्वे तु संचारिसंज्ञाप्राप्तिः ।। विभावोपि द्विविधः । आलम्बनमुद्दीपनं च । यदालम्बा- द्भाव उत्पद्यते तदालम्बनम् । यतो भावस्थोत्पत्तिस्तदाल- म्वनमिति भावः । यथा सुन्दरस्त्रीतः पुरुपस्य, सुन्दरपुरुषत- श्च स्त्रिया रतेरुत्पचिरिति सुन्दरस्त्रीपुरुपौ रतेरालम्बनवि- भाषः ॥ इत्यादि । भाव उत्कटतया दीप्यतेऽनेनेत्युद्दीपनम् । अंत्रोदुपसर्गार्थ औत्कटयम् । रतेश्चन्द्रायुद्दीपनम् । कान्तो- त्पन्नजनमनःसंवन्धिरति चन्द्रादय उत्कटतया दीपयन्तीति। यस्यालम्बनतश्चित्ते भाव उत्पद्यते नृणाम् ॥ तत्तस्यालम्बनं प्रोक्तं यशवन्तनरेश्वर! ॥१॥ पुनश्चोद्दीपकं तस्य राजन्नुद्दीपनं स्मृतम् ॥ आलम्बनं रते राजन् ! रम्यौ स्त्रीपुरुपौतथा ॥२॥ घनोपवनचन्द्राद्या उद्दीपनतया मताः ॥ इतरभावानामालम्वनोद्दीपनान्यग्रे वक्ष्यन्ते ।।
प्राकृतिः] . भावनिरूपणम् १२३ ॥ अथानुभावाः॥ मनस्युद्भूतभावस्य बोधिका वचननिरीक्षणादिचेष्टा अनु- भावसंज्ञिकाः । स्तम्भाद्यष्टानां शीरविकाराणामपि भावधो- धकत्वादनुभावविशेषत्वम् ॥ तन्नामानि यथा- स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः ।। वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः॥ १॥ एते स्तम्भादयः सात्त्विकसंज्ञाः । स्तम्भश्चेष्टाकरणाशक्त- स्वम् ॥ शरीरस्य जाडयमिति यावत् । यथा- निकुञ्जप्रान्त एकान्तेऽश्लिक्षत्कान्तां वूजाधिपः ॥ रोढुं वाञ्छति सा चैनं करो नाभूदृशंवदः ॥१॥ अत्र स्तम्भो नायिकाया ब्रीडाभावस्यानुभावः । स्वेदो गात्रप्रक्षरणम् । यथा- प्राणेशं वीक्ष्य विजने स्विन्नाङ्गी सातिराजते ॥ राज्याभिषेकः संजातो मन्ये सखि! मनोभुवः ॥ १॥ अत्र खेदो नवोढाया भयस्यामुभाषः ) तंत्र मुग्धावस्था- प्राप्तिबलेन परिहास्त्रं कुर्वन्त्या सख्या स्मरराज्याभिषेक उत्प्रे- क्षितः। यौवनागमे सुरतशङ्कायाः संभवात् ॥ रोमाञ्चो रोमोनमः! यथा- यसवन्तमूषणम . बामा कान्तस्य हस्तकटकं वस्त्राहरणप्रवृत्तमवलोक्य । रमणीरोमाञ्चमिषाहद्वर्ष वाणान् मनोभवोऽभीषणम्।। अत्र रोमाञ्चो नायिकायाः सुरतसंवन्धिहर्पस्यानुभावः । पुलकोऽप्ययमेव ॥ स्वरभङ्ग एव गद्गद इत्युच्यते । यथा- पि पि प्रिय! स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ॥ इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥१॥ अत्र स्वरभङ्ग भासवजन्यमदस्यानुभावः ॥ 'वेपथुः कम्पः । यथा-- कथय कथमुरोजदामहेतो- यदुपतिरेप चिनोतु चम्पकानि । भवति करतले यदस्य कम्पः प्रियसखि! तत्स्मृतिरेव मत्सपत्नी ॥१॥ अत्र कम्प्नो नायिकासपनोस्मृतैरनुभावः । वेवण्यं वर्णस्यान्यथाभावः । यथा- कुक्कुटे कुर्वति काणमांननं श्लिष्टयोस्तयोः । दिवाकरकराक्रान्तशशिकान्तामवाभवत् ॥ १॥ भत्र वैवर्य वियोगस्पानुभाषः । * आकृति] -- १२५ भावनिरूपणम् अश्रु नेत्रसलिलप्रस्रवणम् ॥ यथा- विसृज विसृज चित्त! दुःखधारा- मयमुपकण्ठमुपागतो मुकुन्दः । इति कथयितुमश्रुविन्दुरक्ष्णो- निपतति वक्षसि पक्ष्मलायताच्याः ॥ १॥ अत्राश्रु संयोगस्यानुभावः ॥ प्रलयश्चेष्टाज्ञाननिराकृतिः ॥ प्रकृष्टो लयः प्रलयः। यथा- त्वद्वीक्षणस्यसमयान्न चलतिवेल्लति नचेतनास्त्यस्याः निर्वातसद्मदीपशिखेव सम्यविभाति सा बाला॥१॥ अत्र प्रलयः परकीयायाः पूर्वानुरागस्यानुभावः ॥ स्तम्भे चेष्टा करणज्ञाने सत्यपि शरीरस्य जाड्याच्चेष्टा न भवति । "नि- कुञ्जप्रान्त-" इत्यत्र नायिकायाः करेण कृष्णभर्सनेऽभिलपि- तेऽपि स्तम्भवशात्करोत्थानाशक्तत्वंम् ॥ अत्र तु चेष्टाकरण- ज्ञानस्य प्यभाव इति स्तम्भादस्य भेदः॥ अनुमावास्तु चेष्टाः स्युर्घभङ्गवचनादयः ॥ अनुभावविशेषाः स्युः सात्त्विका अपि भूपते!॥१॥ भूप! सजीवशरीरं सत्त्वं जातास्ततो हि सात्त्वि- ककाः॥ प्रेरणमिहापि मनसः पुरस्कृतिः शरीरस्य ॥१॥ सजीवशरीरं सत्त्वम् । उक्तं हि चिन्तामणौ " सत्वं जन्तो। जन्तुः प्राणिनि" इति. ॥ सत्त्याजाताः सात्विकाः । तदुक्तं १२६ . -- 1 यशवन्तभूपणम् [द्वितया केनचिन्महाशयेन "सजीवशरीरं सत्त्वम् । सत्त्वे भवाः सात्वि- काः" इति ॥ अन्न स्तम्भादिषु रूढिः । स्तम्भवेदादीनां सात्त्विकसंज्ञाकरणे धुरंधरस्यायमाशयः, मनसि रागद्वेपायु. त्पत्तो वचनकटाक्षभ्रूभङ्गादिचेष्टाः प्राणिनामिच्छानुकूलं भ- वन्ति । चेष्टाश्च क्रियारूपाः । क्रियाशब्दार्थश्व क्रियते इति । अत एव मनोनुकूलं कर्तुं रोहुमपि च शक्यन्ते । तत्र मनसो- ऽप्रवर्तित्वात् । स्तम्भस्वेदादयस्तु प्रायो मनोनुकूलं न वा कतुं शक्यन्ते, न वा रोद्धुमपीति यत्रतत्रोदाहरणेषु स्पष्टतरम् ॥ ए- तेषु शरीरस्याग्रवर्तित्वमिति शरीरस्य सजीवेतिविशेषणमु- पंखा शरीरपुरस्कारेण धुरंधर एतेषां सात्त्विकसंज्ञां चकार ।। वचनकटाक्षाद्यनुभावेभ्यः सात्त्विकभावानामेतदेव वैशिष्टय- मू ॥ कत्तिचनार्वाचीनाः परस्पररतावेव शृङ्गाररसं मन्यन्ते । नेपामयमाशयः। यत्र नायकस्यैव नायिकाविपया नायिकाया एव वा नायकविपकतो रतिस्तदपेक्षयकतरस्यान्यतरान्तः- करणनिष्ठनिजरतिध्यानेन वासनायुक्तनिजान्तःकरणे या रतिः सोत्कृष्टतरा भवति । तन्मतानुसारेण च तादृशरतेरनु- भावानां वचनकटाक्षादीनामपि संभवः । तथापि तादृशरति. घोधका अनुभाषविशेषास्तु स्तम्भादयः सात्त्विका एव । तेपा- मितरानुभावेभ्य उत्कृष्टत्वात् । उक्तार्वाचीनमतानुगामी वि- • द्यानाथः प्रतापरुद्रीये “परगतसुखादिभावनया भावितान्तः । करणत्वं सत्त्वम्" इत्याह ॥ अनं सामान्यतया भावप्रकरण- मिति विद्यानाथेन "सुखादिभावनया" इत्यत्रादिपदमुक्त्वा- ऽन्यभावा भपि संगृहीताः ॥ मम तु मतं, एकतो रतौ परस्प- , प्राकृतिः] १२७ भावनिरूपणम् ररती च न्यूनाधिकता नास्तीत्यनुभवसिद्धम् । यथा- महाऽनिर्वचनीयोऽसौ रतेहि महिमा सखि!॥ एकतो रतावपि स्तम्भादयो दृश्यन्ते । यथा- यदाप्रभृति साऽपश्यच्छिखिपिच्छधरं हरिम् ॥ तदाप्रभृति पाषाणप्रतिमेव बभूव सा ॥ अत्र केवलं नायिकायाः पूर्वानुरागः । न च परस्पररतावेव शृङ्गाररसनियमः । एतच्चाये शृङ्गाररसप्रकरणे स्फुटीभवि. ष्यति । किंचान्यभावपूक्तव्यवस्थाया अव्याप्तिः। यथा- . पलायितुमशक्ता ये तेऽभवंश्चित्रवस्थिताः ॥ जीवन्महारणे तत्र सूतपुत्रो विलोक्यते ॥१॥ अत्र द्रोणस्य रात्रियुद्धं कौरवसेनासुभटानां भयस्थायिभा- वस्यालम्बनविभावः । नानास्त्रशस्त्रसंपात उद्दीपनविभाव त्रासोद्धेगादयः संचारिभावाः । स्तम्भः सात्विकोऽनुभावः । अत्र “पलायितुमशक्काः" इत्युक्तेर्वहवो भटाः पलायिताः, अन्ये च पलायनेच्छवस्तथापि शरीरस्य जड़त्वात्पलायनास- मर्थाश्चित्रवनिष्क्रिया बभूवुः । मयानकरसे परगतभय. भावनाया असंभवः । सेनान्यां द्रोणे तत्सेनायां च श: त्रुसेनाभयलेशस्याप्यभावात् । एवमन्यरसेष्वपि स्वयमूह्यम् । सत्त्वशब्दार्थे विद्यानाथस्य प्रमादः॥स्त्रीणां रतिभाववोधकली- लांदिदशचेष्टाविशेषा धुरंधरेण हावसंज्ञया भणिताः। हाव- 1 ८ १३० यशवन्तभूपर्णम् [द्वितीया शृङ्गारी चेत्कविः काव्ये जातं रसमयं जमत् । स एव वीतरांगश्चेन्नीरसं सर्वमेव तत् ॥ १ ॥ इति ॥ मम तुमत, केनचिदविरोधिभावेन कस्यचिद्भावस्य तिरो- भावे विरोधिभावेन तिरस्कारे वा भावस्य गौणत्वम्। संचारि- भावानां कस्यचित्तथावे तु तस्य संचारिसंज्ञाया अभावान्न भावत्वमपि । स्थायिभावानां कस्यचित्तथात्वे तु तस्य गौण- स्वापत्त्या स्थायिसंज्ञाया अभावेपि संचारिपदप्राप्तिः॥ स्था- थिसंघारिणोः पृथक्पदार्थत्वात् ॥ कठोरकुचसंस्पर्श यो न सेहे कथं भवान् । कुंन्तपातान् रणे नागदन्तघातांश्च सोढवान् ॥ १॥ अत्र पन्हिप्रवेशं विधाय सहगमनप्रवृत्तपतिवताया रणा. अर्णप्राणप्रदपतिं प्रति परिहासः ॥ स च तस्या रतिभाव- स्थानुभावः । अत्रोक्तपतिव्रताया रतिभावो विरोधिशोकभा- वतिरस्कृतत्वाद्गौणतया न स्थायी । शृङ्गारसदशां न प्राप्त इत्यर्थः । किं तु संचारी संजातः । शोकस्थायिभावश्च रतिभावातिरस्कृतत्वात्करुणरसत्वं प्रासः ॥ भत्र सहृदय- हृदयमेव लामि॥ हस मा क्षणे क्षणे सखि! तव रदंकान्त्याः प्रभूतचा- क्चक्यात् ॥
. आकृतिः। भावनिरूपणम् भवति भवत्या वदनं नायकदृग्गोचरं कृच्छ्रात् ॥ अत्र दम्पत्योः समक्षं सखी शिक्षामिषेण नायकस्नेहं सं- स्तौति । अयं क्षणमात्रमपि भवददर्शनं न सहत इति... अत्र रतिहासौ परस्परमविरुद्धौ । तत्र हासभावेनातिरोहित. स्य रतिभावस्य रसदशाप्राप्तिपर्यन्तं स्थिरतया वर्तमानत्वा- स्थायित्वम् ॥ तत एवोक्तरतेः शृङ्गाररसत्वम् ॥ हासस्य च रतिभावातिरोहितत्वात्संचारित्वम् ।। गर्जहारिदवर्षश्चञ्चञ्चपला सरित्तस्त्रोटः ॥ तेनातिभीतराधाऽश्लिक्षत्कृष्णं निकुञ्ज एकान्ते॥१॥ 'अत्र रतिभयभावो परस्परं विरुद्धौ | तत्र भयेनातिरस्कृ- तस्य रतिभावस्य रसदशाप्राप्तिपर्यन्तं स्थिरतया वर्तमानत्वा- स्थायित्वम् ॥ तत एवोक्तरतेः शृङ्गाररसत्वम् । भयस्य च रतिभावतिरस्कृतत्वात्संचारित्वम् । दम्पतिविषया देवादिवि- पया च रतिः परस्परं सजातीया ॥ तथैव युद्धवीरदानवीरदं- यावीरधर्मवीरादयो मिथः सजातीयाः । रतिहासशोकादयो भावा मिथो विजातीयाः । ननु स्त्रीपुरुषोत्पन्नां रति विभा- वादयः स्वादूकुर्वन्ति, स चास्वादो यस्यं मनसि तादृशरतेरुन- वस्तस्यैव गोचरः । एवं, हासादिष्वपि । तत्रानन्दप्रदं वस्तु स्वादु, अनानन्दप्रदं च वस्त्वस्वाद्विति प्रसिद्धम् । एवं च.. रतिहासादीनां स्वादुत्वपि भयशोकादेः स्वादुत्वं कथमिति चेन्न । वस्तुत आनन्दप्रदत्वमेव न स्वादुधर्मः । स्वादुधर्मस्तु रसंनावोध्यः खाद्यवस्तुनो मधुराम्लत्वादिः ॥ विधिसृष्टौ .. ..
. ताया ,१३२ . यशवन्तमूपणम मधुराम्ल कटुकपायतिक्तपटुभेदात्पडूसाः । मधुरः शर्करदिौ । अग्लश्चिञ्चादी । कटुर्मरिचादौ । कपायो हरीतक्यादी तितं निम्बादौ । पटुर्लवणादौ । तथा कविसृष्टो शृङ्गारादयो नवरसाः । तदास्वादश्च मनोबोध्यः । शृङ्गाररसे रतेरास्वा. दः । भयानकरसे भयस्यास्वादः । एवमन्येप्वपि । सुख द्व- स्तुनि सुखस्यास्वादः । दुःखदवस्तुनि दुःखस्यास्वादः ॥ शृङ्गारादिरसास्तु वर्णनीयैरास्वाद्यन्ते ॥ दृश्यकाव्यना- टकप्रेक्षकाणां गद्यपद्यमयश्रव्यकाव्यश्रोतृणां सामाजिका- नां तु चमत्कारो भवतीत्यग्रे स्फुटीकरिष्यते ॥ ननु विभावा- दयो मिलित्वा स्थायिभावं स्वादूकुर्वन्ति, तत्र नायिकाया रत्युत्पादे नायकरूपालम्बनस्य, चन्द्रादेरुद्दीपनस्य, उत्कण्ठा- दिसंवारिभावस्य चास्वामे रतिभावेन सह नायिकामनोगोच- रः खलु । तथापि नायिकाकटाक्षादिनिजानुभावा नायिकया कथमास्वायेरन् । नायिकानुभावानां नायिकारतिबोधकतया तदास्थादस्य तु नायकविषयत्वात् । सत्र नायिकानुभावास्तु नायकस्योद्दीपनानि भवन्तीति चेच्छृणु । केवलं प्रलयसा- त्विकस्य परिपक्क दायां सायुज्य मुक्तिवन केवलमनुभावाना- मेव, अपि तु भावानां विभावागां च सर्वेपामपि भानाभावः । अन्यत्र तु वर्चनादयः स्वसामान्यानुभावाः स्तम्भादयः स्व. .. विशेषानुभावाश्च स्वस्य भानविषया भवन्त्येवेत्यनुभवसिद्धम्।। यथा स्वनयनवदनादीनां स्वस्यादृश्यलेपि दर्पणायनुभूतस्व- समस्तावयवसंवन्धिविशिष्टरूपेण तायिका रूपंगर्विता भवति । सांमुख्य नायिकानुभावा नापकस्योद्दीपनानि भवन्तु नाम ।
प्राकृतिः]
भावनिरूपणम्
१३३
तत्र नायिकानुभावा नायकेनोद्दीपनरूपतयाऽऽस्वाद्यन्ते । ना-
यिकया तु ते स्वानुभावाः स्थायिभावेन सहानुभावरूंपतयैवा-
स्वायन्ते ॥
इदानीं भावानां रसानां च स्वरूपोदाहरणानि प्रदर्श्यन्ते ।।
अथ रतिभावः॥
रतिः प्रीतिः ।
मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ।।
यथा-
.
रत्नाकरोऽस्ति सदनं गृहिणी च पद्मा
किं देयमस्ति भवते जगदीश्वराय ।
राधागृहीतमनसेऽमनसे च तुभ्यं
दत्तं मया निजमनस्तदिदं गृहाण ॥१॥
अन भक्तस्य रतरालम्बन विभारः कृष्णावतारः। तस्य
तादृशग्रहादिकमुद्दीपनविभावः। उत्साहत्वंरादयःसंचारिभावाः।
प्रार्थनावचनमनुभावः। देवरतिभावोऽयम् ।।
यथावा-
..
गुणान् गृह्णाति यो नित्यं दोपांस्तु न कदाचत ॥
प्रतिजन्म भवेन्नाथो यशवन्तधराधिपः ॥१॥
। . . १३२ . यशवन्तभूषणम "द्वितीया मधुराम्लकटुकंपायतिक्तपटुभेदात्पडूसाः । मधुरः शर्करदिौ । अग्लश्चिञ्चादौ । कटुमरिचादौ । कपायो हरीतक्यादौ । तिक्तं निम्बादौ । पटुर्लवणादौ । तथा कविसृष्टी शृङ्गारादयो नवरसाः । तदास्वादश्च मनोवोध्यः । शृङ्गाररसे रतेरास्वा. दः । भयानकरसे भयस्यास्वादः । एवमन्येष्वपि । सुखद- स्तुनि सुखस्यास्वादः । दुःखदवस्तुनि दुःखस्यास्वादः ॥ शृङ्गारादिरसास्त वर्णनीयैरास्वाद्यन्ते ॥ दृश्यकाव्यना- टकप्रेक्षकाणां गयपद्यमयश्रव्यकाव्यत्रोतृणां सामाजिका- . नां तु चमत्कारो भवतीत्यग्रे स्फुटीकरिष्यते ॥ ननु विभावा- दयो मिलित्वा स्थायिभावं स्वाकर्वन्ति, तत्र नायिकाया रत्युत्पादे नायकरूपालम्बनस्य, चन्द्रादेरुद्दीपनस्य, उत्कण्ठा- दिसंवारिभावस्य चास्वादो रतिभावेन सह नायिकामनोगोच- रः खलु । तथापि नायिकाकटाक्षादिनिजानुभाश नायिकया कथमास्वाधेरन् । नायिकानुभावानां नायिकारतियोधकतया तैदास्वादस्य तु नायकविपयत्वात् । तत्र नायिकानुभावास्तु नायकस्योद्दीपनानि भवन्तीति चेच्छृणु । केवलं प्रलयसा- त्विकस्य परिपक दशायां सायुज्यमुक्तिबन्न केवलमनुभावाना- मेव, अपि तु भावानां विभावानां च सर्वेपामपि भानाभावः। अन्यत्र तु वर्चनादयः स्वसामान्यानुभावाः स्तम्भादयः स्व. विशेषानुभावाश्च स्वस्य भानविषपा भवन्त्येवेत्यनुभवसिद्धम्।। यथा स्वनयनवदनादीनां स्वस्यादृश्यत्वेपि दर्पणाद्यनुभूतस्व- समस्तावयवसंबन्धिविशेष्टरूपेण तायिका रूपंगर्विता भवति । सांमुख्य नायिकानुभावा नायकस्योद्दीपनानि भवन्तु नाम । . .
१३३
आकृतिः]
भावनिरूपणम्
तत्र नायिकानुभावा नायकेनोद्दीपनरूपतयाऽऽस्वाद्यन्ते । ना-
यिकया तु ते स्वानुभावाः स्थायिभावेन सहानुभावरूपतयैवा-
स्वायन्ते ॥
इदानी भावानां रसानां च स्वरूपोदाहरणानि प्रदर्श्यन्ते ॥
अथ रतिभावः॥
रतिः प्रीतिः।
मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ।।
यथा-
रत्नाकरोऽस्ति सदनं गृहिणी च पद्मा
किं देयमस्ति भवते जगदीश्वराय ।
राधाग्रहीतमनसेऽमनसे च तुभ्यं
दत्तं मया निजमनस्तदिदं गृहाण ॥१॥
अघ्र भक्तस्य रतरालम्बनविभावः कृष्णावतारः। तस्य
तादृशगृहादिकमुद्दीपनविभावः उत्साहत्वरादयःसंचारिभावाः।
प्रार्थनावचनमनुभावः । देवरतिभावोऽयम् ॥
यथावा-
..
गुणान् गृह्णाति यो नित्यं दोपांस्तु न कदाचन ॥
प्रतिजन्म भवेन्नाथो यशवन्तधराधिपः ॥ १॥
- - . १३४. यशवन्तभूपणम् [द्वितीया अत्र राजराजेश्वरः कविरतरालम्बनविभावः गजराजेश्व- रस्योक्तगुणा उद्दीपन विभावः । हर्पधृती संचारिभावौं । परमे- श्वरं प्रति प्रार्थनावचनमनुभावः ॥ राजरतिभावोऽयम् ॥ एवं गुरुरत्यादेख्दाहरणानि स्वयमूह्यानि । देवतादिविषया रतिः . कदाचिदपि रसदशां न प्राप्नोतीति सदा भावमात्रम् । केवलं कान्ताविषयरतेरेव रसदशाहत्वात् ॥ . यथावा- गजसिंहो गुणान् रूपमाकर्याप्सरसां नृपः। यत्र तत्र कृतोत्साहो युद्धं कर्तुं प्रवर्तते ॥१॥ अत्र पूर्वानुरागाख्यो वियोगः । मरुधराधीशगजसिंहम- हाराजस्याप्सरश्नवणदर्शनमालम्बनविभावः । स्वर्गवास- 'लाभ उद्दीपनविभावः । उत्कण्ठोत्साही संचारिभावी । यत्र तत्र युद्धकरणमनुभावः । अत्राप्सरोमिलनार्थं यत्र तत्र युद्ध.. फर्तृगजसिंहनृपस्य शत्रुविषयक्रोधभावस्तद्विरोधिरतिभावन तिरस्कृत इति क्रोधभावस्य नोल्लासः ॥ अत्र गजसिंहस्य का- न्ताविषयकरतिभावे तत्सकलसामय्यांचसत्यामप्युक्तरतिभावो रसदशामास इति भावमानम् । एथा व्यजनादिसकलसा- मग्रीसद्भावेऽपि कचित्तादृशयाथातथ्याभावाद्भोज्यं तादृशम- निर्वचनीयं स्वादु न भवति । भावस्य तादृशानिर्वचनीय- स्वादुत्वे तु मनो वेद्यान्तरसंपर्कशून्यं भवति। मनसस्तदाकार- खान्यत्किंचिदपि न ज्ञायते इति भावः । इह तु गजसिंह- स्याप्सरोविपया रतिस्तादृशस्वादुत्वमप्राप्तेति न रसदशाह । .
प्राकृतिः] भावनिरूपणम् अस्यान्तरमग्रे शृङ्गाररसोदाहरणे स्फुटीभविष्यति ॥ यथा भोज्यास्वादस्य साक्षिणी जिव्हा । तथा स्थायिभावांस्वादस्य साक्षि सहृदयहृदयम्॥एवं हासभावादिष्वपि स्वयमूह्यम् ॥३॥ अथ हासभावः ॥ चेतसो विकासो हासः॥ यथा- - भूपावरङ्गसमये मिलिता हि मुल्ला- काजीमुखाः सकललोकममुं स्वधर्मे । कर्तुं सभास्थितजनैर्विमशन्ति तस्मिन् कालेऽधरो विकसितो मरुवल्लभस्य ॥१ अत्र पूर्वयशवन्तसिंहमहाराजहासभावस्य काजीमुल्लांस- ज्ञका यवनाचार्या आलम्बनविभावः। आर्यजनयवनीकरणार्थ तेषां मिलित्वा मन्त्रणमुद्दीपनविभावः । पर्वातूथे गन्धसंचा- रिभावौ । अधरविकासोऽनुभायः ॥ २ ॥. अथ शोकभावः ॥ प्रियमरंणसंवन्धि चेतसो वैक्लव्यं शोकः ॥ TSI - . ना यशवन्तभूषणम् [हितीया अन्न राजराजेश्वरः कविरतरालम्बनविभावः। गजराजेश्व- रस्योक्तगुणा उद्दीपनविभावः । हर्पधृती संचारिभावौ । परमे- श्वरं प्रति प्रार्थनावचनमनुभावः ॥ राजरतिभावोऽयम् ॥ एवं गुरुरत्यादेख्दाहरणानि स्वयमूह्यामि । देवतादिविषया रतिः कदाचिदपि रसदशां न प्राप्नोतीति सदा भावमात्रम् । केवलं कान्ताविपयरतेरेव रसदशाहत्वात् ॥ यथावा- गजसिंहो गुणान् रूपमाकाप्सरसां नृपः। पत्र तत्र कृतोत्साहो युद्ध कर्तु प्रवर्तते ॥१॥ अत्र पूर्वानुरागाख्यो वियोगः । मरुधराधीशगजसिंहम- हाराजस्याप्सरःश्रवणदर्शनमालम्बनविभावः । स्वर्गवास- 'लाभ उद्दीपनविभावः। उत्कण्ठोत्साही संचारिभावी । यत्र तत्र युद्धकरणमनुभावः । अत्राप्सरोमिलनार्थ यत्र तत्र युद्ध. . कर्तृगजसिंहनृपस्य शत्रुविषयक्रोधभावस्तद्विरोधिरतिभावेन . तिरस्कृत इति क्रोधभावस्य नोल्लासः। अत्र गजसिंहस्य का- ताविषयकरतिभावे तत्सकलसामय्यांचसत्यामप्युक्तरतिभावो रसदरमप्रास इति भावमाम् । पथा व्यखनादिसकालसा- मग्रीसद्भावेऽपि कचित्ताशयाथातयाभावाभोज्यं तादृशम- निर्वचनीयं स्वादु न भवति । भावस्य तादृशानिर्वचनीव- स्वादुत्वे तु मनो वेद्यान्तरसंपर्कशून्यं भवति। मनसस्तदाकार- स्वाऽन्यत्किंचिदपि न ज्ञायते इति भावः । इह तु गजसिंह- स्याप्सरोविषया रतिस्तादृशस्वादुत्वमप्राप्तेति न रसदशाहा॑ ।
१३५ आकृतिः भावनिरूपणम् अस्यान्तरमग्रे शृङ्गाररसोदाहरणे स्फुटीभविष्यति ॥ यथा भोज्यास्वादस्य साक्षिणी जिव्हा । तथा स्थाथिभावास्वादस्य साक्षि सहृदयहृदयम्॥एवं हासभावादिष्वपि स्वयमूह्यम् ॥१॥ अथ हासभावः ॥ चेतसो विकासो हासः ॥ यथा- भूपावरङ्गसमये मिलिता हि मुल्ला- काजीमुखाः सकललोकममुं स्वधर्मे । कर्तुं सभास्थितजनैर्विमशन्ति तस्मिन् कालेऽधरो विकसितो मरुवल्लभस्य ॥१॥ अत्र पूर्वयशवन्तसिंहमहाराजहासभावस्य काजीमुल्लांसं- ज्ञका यवनाचार्या आलम्बनविभावः। आर्यजनयवनीकरणार्थ तेषां मिलित्वा मन्त्रणमुद्दीपनविभावः । गर्वासूये गम्यसंचा- रिभावी । अधरविकासोऽनुभावः ॥ २॥. अथ शोकभावः॥ . प्रियमरणसंवन्धि चेतसो वैक्लव्यं शोकः ॥ यथा-
१३६
यशवन्तभूषणम्
[द्वितीया
धर्मध्वजस्य दण्डो भन्नो रिक्तं नृणां सुखस्योकः ।
मानपमानसाख्यं कविहंसानां सरश्च संशुष्कम्॥१॥
अत्र वक्तुः शोकभावस्य राजराजेश्वरमानसिंहस्वर्गगम-
नमालम्बनविभावः। महाराजस्य धर्मवत्ताप्रजापालनोदारता-
दिगुणा उद्दीपनविभावः । स्मृतिविपादादयः संचारिभाषाः ।
वचनमनुभावः ॥ ३ ॥
अथ क्रोधभावः॥
तेक्षण्यजागृतिः क्रोधः ॥
यथा-
साँभपुरे सैदभटैः सुयुद्ध
कुर्वन्प्रदृष्टो ह्यजमल्लभूपः ॥
कल्पान्तरूद्रीयललाटचक्षु-
स्तुल्यज्वलन्नेत्रयुगेन युक्तः ॥ १ ॥
अत्राजितसिंहमहाराजक्रोधभावस्य यवना आलम्बन-
विभावः । तत्कर्तृकयुद्धक्रियोद्दीपनविभावः। गर्वासूथोत्सा-
हादयः संचारिभावाः नयनारुणिमाऽनुभावः ॥ ४ ॥
आकृतिः . भावनिरूपणम् १३७ अथोत्साहभावः॥ कर्मसु सुकरप्रत्यय उत्साहः इष्टसिद्धिनिश्चयोचा। कार्यसिद्धौ तु हर्पः ॥ यथा- प्रसन्नचक्षुर्वदनः स्फुरद्भुज उदारचेता यशवन्तभूपतिः॥ यथा विवाहोत्सवमण्डपे स्थित- स्तथाविधः संप्रति लक्ष्यते रण ॥१॥ अत्र राजराजेश्वरयशवन्तसिंहस्याहं जेप्याम्यवेत्येवंवि- धोत्साहभावस्य स्ववाहुवलमालम्बनविभावः ॥ युद्धसंव- न्धिवादित्रादिगम्य उद्दीपनविभावः । मदधृतिस्मृतिहर्षाद- यः संचारिभावाः । चक्षुर्मुखविकासबाहुस्फुरणादिकसनु- भावः॥ ५॥ अथ भयभावः॥ . अनागतप्रतिकूलप्रतिसंधानं भयम् ॥ भयप्राप्तोतु विपादः॥ राथा- . यशवन्तभूषणम् [द्वितीया पुरैव नारीनयनानि विद्विपां त्रसन्मृगीलोचनसाम्यभाजि ॥ मरुस्थलाधीश! वनस्थितौ तु कथं क्षमा वर्णयितुं कवीशाः ॥१॥ अंत्र सिंहः स्यात्, अत्र चौरः स्यादित्येवंविधरिपुरमणी- विचाररूपभयभावस्य निर्जनवनमालम्बनविभावः ॥ वनस्य विकटत्वादिकमुद्दीपनविभावः । चिन्तात्रासादयः संचारि- भावाः । नयनचाञ्चल्यमनुभावः ॥ सिंहादेर्दर्शनाक्रमणावधि भयम् । प्रहारे तु विषादः ॥ ६ ॥ अथ जुगुप्साभावः ॥ जुगुप्सा घृणेत्यनान्तरम् ॥ वस्तुनो दुर्गन्धादिदोषजन्याऽरुचिर्जुगुप्सा ॥ यथा- भूमि बहु-पैर्भुक्तां मत्वा मानमहीपतिः ।। 'त्यक्त्वा गृहीत्वा संन्यासं प्रतस्थे रैवताचलम् ॥१॥ अत्र राजराजेश्वरमानसिंहस्यं भूमिविपयजुगुप्साभाव- स्य भूमेः कुलटात्वमालम्बनविभावः । तदितरभूभोक्तृनिर्मि- ततडागादिसंभोगचिन्हानि गम्य उद्दीपनविभावः । मति- प्राकृतिः] भावनिरूपणम् १३६ स्मृतिव्रीडानिर्वेदा गम्यसंचारिभावाः । तादृशभूमित्यागोऽनु- भावः ॥७॥ अथ विस्मयभावः॥ . अपूर्वालौकिको मनोविषयश्चमत्कारो विस्मयः॥ अस्याद्भुताश्चर्येति पर्यायान्तरम् ॥ यथा- मरुपत्यसितासिलता यशःप्रसूनं सितंशुचि च सूते भुवनत्रयाय यद्वै सर्वर्तुषु दिशति शुभगन्धम् ॥१॥ अत्र शुचिपदेनालेरनुच्छिष्टत्वं सूच्यते ॥ अत्र कवेविस्म- यभावस्थ राजराजेश्वरासिलताया यशःसितकुसुमोत्पाद आलम्बनविभावः। उक्तकुसुमस्थ भ्रमरानुच्छिष्टत्वादिगुणा उद्दीपनविभावः। रतिहर्षवितर्काः संचारिभावाः। तादृश्शन- गवृत्तान्तज्ञातुः कवेर्वचनमुक्तं, नेत्रविकासश्च गम्योऽनुभा- वः ॥८॥ अथ निर्वेदभावः॥ निवेदो वैराग्यम् । जगतो दुःखंतस्तत्त्ववांनाहा मनुजाधिप! ॥ औदासीन्यं प्रपञ्चायन्निर्वेदस्तु निगधते ॥ १॥ यथा- यशवन्तभूपणम् [द्वितीया प्रासादं मणिनिर्मितं कुटिमिव त्यक्त्वा तृणैनिर्मिती राज्यं दन्तितुरङ्गमप्रभृतिभिर्खदं च लोठोपमम् ॥ हित्वा धर्मविलोपनस्य समये मानो महीवल्लभो यातुं रैवतमुद्यतो मुनिरिच ध्यायन्परं चेतसा ॥१॥ अन्न राजराजेश्वरमानसिंहनिवेदभावस्य धर्मक्षतिप्रसङ्ग 'आलम्ब नविभावः । मणिनिर्मितप्रासादादेरल्पकालस्थायित्व. मुद्दीपनविभावः । मतिकृतिजुगुप्साचपलताः संचारिभा- वाः । तादृशराज्यपरित्यागोऽनुभावः ॥ ६ ॥ रसदशाप्राप्त्यहाँ रत्यादयो भावा नवैव । इतरे ग्लान्याद- यस्तु केवल भावा एव । न तु रसदशाहः । अथ ग्लानिभावः॥ . 1 ग्लानिरित्यत्र ग्लैधातोर्भावे क्तिन् । ग्लै म्ले हर्पक्षये ॥ हर्षक्षयं महाराज! ग्लानिमाह धुरंधरः ॥ यथा- - ग्रामतरुणं तरुण्या नववचुलमजरीसनाथकरम् ॥ पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥१॥ अनानुशयानानायिकायाः संकेतस्थल प्रात्मनोऽप्राप्तिः, प्रियस्य ध तत्र गत्वा पुनरागमन मियसमागमहर्षक्षयस्या.
१४१ भाकृतिः] भावनिरूपणम् लम्बनविभावः ॥ कृष्णकरे संकेतवानीरमञ्जरीदर्शनमुद्दी- पनविभावः। विषादपश्चात्तापो संचारिभावो। म्लानत्वरू- पवैवर्ण्यमनुभावः ॥ भोजमहाराजो ग्लानेः "बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूः" इदं लक्षणमाह ॥ अत्र भावप्रकरणत्वान्मनोबलहानि विवचिता ॥ महाराजानुयायी काव्यप्रदीपकारः "श्रमग्लान्योर्विभेदं तु चक्रे कारणकार्यता ॥ श्रमस्यातिशयावस्थामथवा ग्लानिमूचिरे ॥१॥" इति श्रमग्लान्योर्भेदमाह ॥ मम तु मतं, अर्थाचामयं प्र मादः । भावस्य कारणं तु विभावसंज्ञम् । तस्य भावत्वाभा वात् ॥ किं च धर्मस्य न्यूनाधिकत्वमात्रेण वस्तुनो भेदो भवेत् ॥ इहास्मद्दर्शितधात्वर्थ एव समीचीनः ॥ १० ॥ अथ शङ्काभावः ॥ अनिष्टार्थागमोत्प्रेक्षां शङ्कामाहुर्मनीषिणः ॥ चन्द्रस्य दर्शने "इन्दुर्वाऽऽननं वा" इति विचारेंतु चन्द्रमुख- योरुभयोरपि संदेहादुभयकोटिकसंदेहः। चन्द्रं पश्यतः "किमयं चन्द्रः?" इति, मुखं पश्यतः "किमिदं मुखम्?” इति विचारे तु संदेहस्यैकैकनिष्ठत्वादेकक्रोटिकसंदेहः ॥ तर्कोहशङ्का- दिशब्दा एककोटिकसंदेहद्योतकाः । शङ्काशब्दो भयस्य
१४२ .
यशवन्तभूषणम
[द्वितीया
तर्कनायाश्च द्योतकः। उत्प्रेक्षालंकारे तु केवलं तर्कनार्थकः॥
वक्ष्यमाणोत्प्रेक्षाविपयिणी मनोवृत्तिरांद्रावो वितर्कः । वि-
तर्के केषलं तर्कनामात्रम् । तर्कना च प्रतिभाविलासः ॥
सदेवोक्तं भोजमहाराजेन-
"हो वितर्क इत्युक्तः पदार्थेषु यथामति ॥” इति ॥
इह तु भयतर्कयोर्मिश्रणं भयपुरस्कारेण नेयम् । तदुक्तं
भोजमहाराजेन-
“अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः॥"
इति ॥
इदमेव शङ्कावितर्कभावयोवैलक्षण्यम् । भयं निश्चयात्म-
फम्, शङ्का तु संदेहात्मिकेति भयानेदः ।
यथा-
मानः किं ज्वलयेत्प्रतापदहनज्वालाभिरकान्वयः
किं वा मत्तगजैविघटय दलयेत्किंवा खुरैश्चूर्णयेत् ।।
अश्यानामुत वाहयेदरिवधूवाप्पैर्वसिष्ठो मुनि-
ोमांस्थापितवान्स चास्पदमिहत्येषोऽर्बुदःशोचति ।
अनार्बुदाचलशङ्काभावस्य तत्स्वामिचाहुमाननरेश्वरं प्र-
ति राजराजेश्वरमानसिंहस्य कोप आलम्बनविभावः ॥ रा.
अराजेश्वरस्य सेनावेभव उद्दीपनविभाधः ॥ चिन्ताधृतिवि-
पादाः संचारिभावाः । निर्भररूपाश्रुपातः प्रतीयमानोऽनु-
..
भाषः ॥ ११ ॥
आकृतिः] भावनिरूपणम् अथासूयाभावः ॥ परोत्कर्पासहिष्णुत्वमसूयामूचिरे बुधाः ॥ ईप्याऽसूयेतिपर्यायान्तरम् ॥ यथा- कवयः करिराजत्वमीयुरित्यभिवाञ्छता ॥ यशवन्तनपेणैषां गेहे गेहे गजाः कृताः ॥१॥ अत्र राजराजेश्वरयशवन्तसिंहनिष्ठेन्द्रविषयाऽसूयामावस्ये. न्द्रसंबन्धिगजाधिपत्यमहिमाऽऽलम्बनविभावः ॥ इन्द्रस्य वदा: न्यत्वं गम्य उद्दीपनविभावः । गोत्साहो संचारिभावौ। इन्द्र- स्य मानमर्दनाथ कवीश्वराणां प्रतिगृहं गजसंपत्तिसंपादनेन' तेषां गजाधिपतित्वविधानमनुभावः ॥ १२ ॥ अथ मदभावः ॥ "मदी हर्षे” इत्यस्मादप् । धासूनामनेकार्थत्वादत्र हर्षमो- हयोमिश्रितत्वं मदशब्दार्थः । मदस्तु संगमों मोहानन्दयोर्मदिरादिना ॥ मदिरादिमदावस्थायां मोहानन्दयोः संगमोऽमुभवसिद्धः॥ यथा- - १४४ यशवन्तभूपणम् {द्वितीया अव्याहताज्ञो विख्यातकीर्तिः श्लाघ्यकुलोद्भवः । घूर्णयन्नयनहन्दं वर्तते मरुवल्लभः ॥ १॥ • अत्र राजराजेश्वरयशवन्तसिंहमदभावस्य विख्यातकीर्ति- त्वमालम्बनविभावः ॥ २लाध्यकुलस्वादिकमुद्दीपनविभावः ॥ गहो गम्यसंचारिभावो । नयनघूर्णनमनुभावः ॥ १३ ॥ अथ श्रमभावः ॥ क्रियातिशयजः खेदः श्रमः स्यान्मरुभूपते! ॥ यथा- •असंख्येयगुणानस्थ यशवन्तमहीपतेः। वर्णयन्तः कविश्रेष्ठा अनुद्भूतगिरोऽभवन् ॥ १ ॥ भत्र कविवराणां श्रमभावस्य राजराजेश्वरयशःपाठवा. हुल्यमालम्बनविभावः । स्मृतिर्गम्यसंचारिभावः । वामोधो. ऽनुभावः । अन्नोद्दीपनाभावः । क्वचिदुद्दीपनाद्यन्यतराभावेपि रमणीयताऽन्यापत्तौ तुन काचिद्धानिः । एवमन्यत्रापि ज्ञेयम्। अस्मिन्विषये वैयाकरणैरप्युक्तम् " एकदेशविकृतमन- न्यवत्" इति ॥१४॥ अथालस्यभावः ॥ सामर्थ्य सत्यनुत्साहोऽवश्यकर्तव्यकर्मणि ।
१४५ आकृतिः] भावनिरूपयाम् आलस्यं प्रोच्यते प्राज्ञैर्यशवन्तनरेश्वर! ॥१॥ यथा-- भूमावद्य गुणग्राही यशवन्तनरेश्वरः ॥ उत्थाय पठयतां वाला वदन्तीत्थं कवीश्वराः ॥१॥ अन्न कविबालानामालस्यभावस्य गुणग्राहिराजदौर्लभ्य- मालम्बनविभावः । कवीनामादराभाष उद्दीपनविभावः । निर्वेदविषादौ संचारिभावो । विद्याभ्यासाहप्रातःकालानुत्था- नमनुभावः ॥१५॥ अथ दैन्यभावः ॥ चेतसो यदनोजस्यं दैन्यमाह धुरंधरः ॥ गर्वस्य विपरीतत्वे भवेदेतंन्महीपते! ॥ १॥. भत्रानोजस्य त्वसामर्थ्यम् । “मोमः सामर्थ्य" इति चि. न्तामणौ ॥ यथा- - संबोधयन्ति वीरेति राजंस्त्वां रिपवो नं हि ॥ दयालो! नरैनाथेति वदन्त्वजलिपूर्वकम् ॥१॥ अत्र राजराजेश्वररिपूणां दैन्यभावस्य राजराजेश्वरवीर- त्वमालम्बनविभावः । सेनावैभव उद्दीपनविभावः । स प ।
यशवन्तभूषणम् द्वितीया प्रतीयमानः । भयमालस्यं च संचारिभावो । दयालो! इति वचनमजलीकरणं चानुभावः ॥ १६ ॥ अथ चिन्ताभावः॥ चिन्तनं तु महाराज! चिन्तामाह धुरंधरः ।। "चिन्तनं कर्तव्याकर्तव्यचिन्तायाम्" इति चिन्तामणिः ।। यथा- अयशः शरणे भावि रणे मावी पराभवः ॥ इत्थं ते रिपवो राजंश्चिन्तयन्ति पुनः पुनः ॥ १॥ 'भन्न विहिपां चिन्ताभावस्य राजराजेश्वरैश्वर्यमालम्बन- विभावः । दैन्यविपादचपलता गम्यसंचारिभावाः। निःश्वास- वैवर्णादिर्गम्योऽनुभावः ॥ १७ ॥ श्रथ मोहभावः ॥ ज्ञानामावः कदाचिद्धि कथंचिहृदये भवेत् ॥ मोहोऽसौ कथ्यते प्राज्ञैर्यशवन्तधराधिप! ॥ १ ॥ आक्रान्ते मरुसैन्येन खड्गैर्गात्रविकृन्तनात् ॥ उच्छलच्छोणितं दृष्टं ततो जाने न किंचन ॥१॥ यथा- . आईतिः] भावनिरूपणम् भत्र युद्धं पश्यतां मोहभावस्य युद्धदारुणत्वमालम्बन- विभावः । वीरसिंहनाद उद्दीपनविभावः । त्रासविस्मयजुगु- प्साःसंचारिभावाः।"ततोजानेन किंचन"इतिवचनमनुभावः। यथावा- . . विहाय दधि पानीयपूर्णां कृत्वा तु मन्थनीम् । पश्य व्यत्यस्तमन्थानं मन्थत्येषा वराङ्गना ॥१॥ अन नापिकाया दधिमन्थनज्ञानाभावः । अत्र पूर्वानुरा. गो मोहस्यालम्बनविभावः । प्रभातसमय उद्दीपनविभावः । उत्कण्ठा संचारिभावः । मन्थनसामग्या अन्यथात्वमनुभा- वः । इयं परकीया लक्षिता नायिका ॥ भोजमहाराजस्य मो- हो मूढतेति कथनं प्रमादः ॥ मूढताया जड़ताभावत्वात् ।१८। अथ स्मृतिभावः॥ चिरानुभूतस्यार्थस्य स्मरणं तु स्मृतिः स्मृता ॥ यथा- विस्मृतगृहगोत्राणां बसतो गहने वने तवं द्विषताम् । चन्द्रोदये हि चक्षुः संलभते. चन्द्रकान्तत्वम् ॥ १ ॥ अंत्र राजराजेश्वररिपूणां वनितावदनस्मृतिभावस्य तस्स- दृशचन्द्रदर्शनमासम्बनविभावः । चकोररवः कुमुदविका इताया यशवन्तभूपणम् सश्च गम्य उद्दीपनविभावः । चिन्तोत्कण्ठाविषादाः संचा- रिभाषाः । अश्रु अनुभावः ॥ १६ ॥ अथ धृतिभावः ॥ . धृतिस्तु धैर्यमित्येवं प्रवदन्ति मनीषिणः॥ अन्तर्भावोऽत्र विज्ञेयः संतोषस्यापि भूपते ॥१॥ धृतिः संतोष इति हेमाचार्यः ।। यथा- नेच्छा कल्पतरौ, रसायनरुचिर्नो, तिष्ठ चिन्तामणे! दूरे, हेमगिरी स्पृहा न, न गतिः कामप्रदोग्धूयां हदः ॥ सत्यं प्रोक्तमिदं हि मानमरुपं याचेयमेकं परं वाँकीदासकवेरिमामवतु मे कृष्णः प्रतिज्ञां पराम् ।। भत्र पितामहकविराजबाँकीदासधृतिभावस्य राजराजे- श्वरमानसिंहविहितवान्छितार्थाधिकप्रदानमालम्वनविभावः॥ सत्कृतिर्गम्य उद्दीपनविभावः । गर्वहौ संचारिभावी। भन्ययाञात्यागविषयकप्रतिज्ञावचनमनुभावः ॥ उक्तोदाहर- णानुसारेण भोजमहाराजः अभीष्टार्थस्य संप्राप्तौ स्टहापर्याप्तता धृतिः।" इदं लक्षणमाह ॥ एतब युवादिविपयधृतावव्याप्तम् ॥ यथा- " प्राकृतिः] . भावनिरूपणम् १४६ हयाश्चलाचला नागाः संघं त्यक्त्वा पंदातिनः । चला अभूवंस्तत्रैको हड्वेन्द्रो ह्यचलोऽभवत् ।।१॥२०॥ अथ ब्रीडाभावः॥ . . व्रीडा चित्तस्य संकोचः कथ्यते मनुजाधिप! ॥. वडा लजेतिपर्यायान्तरम् । यथा- अन्यैर्महीशै(*)यशवन्तभूपते- राकर्ण्य दानस्य कथां कवीश्वरैः(1) ॥ संधूय शीर्षाणि सुधाकरोदये संकोच प्राप्तः सरसीरुहैरिव ॥१॥ अत्रान्यभूपानां ब्रीडाभावस्य राजराजेश्वरयशवन्तसिंह- संबन्ध्यद्भुतदानकथाश्रवणमालम्बनविभावः ॥ जगत्प्रसिद्धं यश उद्दीपनविभावः । असूया संचारिभावः । शिरःकम्प- मुखसंकोचावनुभावो ॥ २१ ॥ अथ चपलताभावः ॥ (*) महीरीरिति कर्तरि तृतीया.(1)कवीश्वरैरिति करणे तृतीया । कीवरवर्षमाना यामिति वा ॥
१५० . - यशवन्तभूपणम {द्वितीया अस्थैर्य चेतंसो भृप! चापल्यमभिधीयते ॥ यथा-:- आकर्ण्य दुन्दुभिध्वानं यशवन्तमहीपतेः ।। पताकापटवद्भान्ति विहिट्स्वान्तानि सर्वदा ॥१॥ अत्र पताकापटोपमयेदं विवक्ष्यते, किं युद्धं कुर्मः, किं घा पादयोः पतामः, किं वा वने वसामः, किं वा कस्यचिच्छरणं व्रजाम इति रिपुनृपाणां कश्चिदपि विचारः स्थिरत्वं नासाद- यतीति । अत्र रिपूणां चपलताभावस्य राजराजेश्वरदुन्दुभि- स्वनश्रवणमालम्बनविभावः । सेनादर्शनादिकं गम्य उद्दीप- नधिभावः । भयत्रासविषादाः संचारिभावाः। कम्परोमाञ्ची गम्यानुभावौ ॥ २२ ॥ अथावेगभावः॥ .. आवेगं तु त्वरां विद्धि यशवन्तमहीपते । "आवेगस्त्वरायाम्” इति चिन्तामणिः ॥ चपलतायाम- स्थिरत्वं, त्वरा तु शीघ्रतेति महेदन्तरम् ।। यथा- स्वकीयकीर्तिश्रवणस्य काले- ऽत्युदारचित्तो यशवन्तसिंहः ॥ .. पूर्व समाप्तेरनणः कविभ्यः थाकृतिः १५१ . भावनिरूपणम् प्रदाय लक्ष्मी भवति प्रभूताम् ॥ १॥ अत्र राजराजेश्वरदानविषयत्वराभावस्य कीर्तिश्रवणमा- लम्बनविभावः ॥ देहः क्षणभङ्गुर इति सिद्धान्तो गम्य. उद्दीपनधिभावः । रतिगर्वोत्साहाः संचारिभावाः । काव्यपा- ठपूर्तेः प्राग्दानमनुभावः ॥ रसतरङ्गिण्यादौ "संभ्रमो. वा' आवेगः" इत्युक्तम् । संभ्रमस्य तु चपलतायामन्तर्भावः । पृथगङ्गीक्रियते चेत्कुर्वन्तु नाम ॥ भावानामसंख्यत्वा- त् ॥ २३ ॥ अथ हर्षभावः ॥ . प्रसादो मनसो राजन्! हर्ष इत्यभिधीयते ॥ . यथा- मन्मथरूपं भूमौ कल्पतरुं त्वां विलोक्य भूपाल!.॥ प्रेक्षकमनुजशरीरं वस्त्रान्तर्माति नो(*)चित्रम् ॥७॥ अत्र पश्यतां हर्षभावस्य वाञ्छितार्थप्रदराजराजेश्वरयश- वन्तसिंह आलम्बनविभावः । तस्य सौन्दर्यदयालुत्वादिक- मुद्दीपनविभावः ।राजरतिः संचारिभावः । अङ्गविकासोऽनु. भावः । अङ्गविकासस्य रोमाञ्चेऽन्तर्भावः ॥ २४ ॥ अथ जडताभांव: (*) वस्त्रान्तनों मातीति संगन्धः ॥
१५२ [द्वितीया यशवन्तभूपणम् अंत्र जडतातु मूर्खता। “जडो मुर्खे" इति चिन्तामणो । जडतां मूर्खतां विद्धि न सा नित्यं विभाति हि ॥ सातु रम्या निमित्तेन कदाचिच्च कचिद्भवेत्।। यथा- . परप्रियः स्वस्य भवेत्कदाचि- नैवेति चित्ते परिवुध्यमाना। लोकस्य लज्जामजहां मयाऽहो दिनेऽपि दुग्धे खलु मक्षिकात्ता ॥१॥ अत्र नायिकाया जडताभावः पूर्वानुरागवशात्कदाचित्सं- जातः । अत्र पश्चात्तापस्य संकीर्णता । अत्र नायिकाजडता- भावस्य नायकनिष्ठाऽसाधारणसौन्दर्यादिकमालम्बनविभा- वः । उत्कण्ठा संचारिभाकः । वचनमनुभावः ॥ २५ ॥ अथ गर्वभावः ॥ . गर्वोऽहंकार इति पर्यायान्तरम् ॥ सर्वेभ्योऽप्यधिकोस्मीतिबुद्धिर्व इहेष्यते ॥ यथा- . प्राप्येव ददातीन्द्रः कर्णः स्वर्ण परं ददौ । सर्वदा सर्वदोऽस्माकं यशवन्तमहीपतिः ॥
. १५३ . आकृति:] भावनिरूपणम् अंत्र राजराजेश्वरभृत्यानां न कोऽप्यस्मसदृशस्वामिक इति गर्वभावस्य राजराजेश्वरकर्तृकं सर्वदा सर्ववस्तुदानमा- लम्वनविभावः । राजराजेश्वरस्य जगत्प्रसिद्धं यश उद्दीपन- विभावः । स्मृत्युत्साहौ स्त्रंचारिभावो । वचनमनुभावः ।२६ अथ विषादभावः ॥ दुःखं विषाद इत्यत्र संमतिः सर्वदेहिनाम् ॥ यथा- पुष्पपर्यङ्कशयिताः कण्टकारतभूमिषु॥ दयिताः शेरतेऽस्माकं हा पश्यामोऽद्य चक्षुषा ॥२॥ अत्र राजराजेश्वररिपूणां विपादभावस्य तादृशनिनरम- णीनां कण्टकावृतभूमिशयनदर्शनमालम्बनविभावः । उक. रमणीनां वसनाभरणशून्यत्वादिकमुद्दीपनविभावः । दैन्यं: संचारिभावः । वचनमनुभावः ॥२७ ।। अथौत्सुक्यभावः॥ औत्सुक्यमुत्कण्ठेसिपर्यायान्तरम् ॥ औत्सुक्यमिष्टलाभे हि कालक्षेपासहिष्णुता ॥ यथा--
यशवन्तभूपणम्
[द्वितीया
तव श्रुतयतां कीर्ति दूरदेशनिवासिनाम् ॥
आकुलान्यतिटन्दानि राजन्निर्जलमीनवत् ॥१॥
अत्र दूरदेशवासिनां राजराजेश्वरदर्शनोत्सुक्यभावस्य रा-
जराजेश्वरयशःश्रवणमासम्बनविभावः। चिन्तास्मृती संचा-
रिभावौ । नयनाकुलत्वमनुभावः ॥२८॥
अथापस्मारभावः ॥
"अपस्मार आवेशः" इति हेमचन्द्रः। उभयोः पर्या-
यवाचित्वात् । चिन्तामणिकोपेप्युक्तम्।"भावेश अभिनिवेशे"
इति ॥ लोके हि देवताभिनिवेशः प्रेताभिनिवेशश्च प्रसिद्ध-
--
निगद्यतेनापस्मारोऽभिनिवेशो धराधिप! ॥
यथा-
प्रेमप्रेतावेशवशाद्विव्हलाङ्गी शुचिस्मिता ॥
सा वारितापि पिशुनान्चक्ति गूढकथाः स्फुटम् ॥१॥
अन्न राधामन प्रेमप्रेताभिनिवेशस्य कृष्ण आलम्बनवि.
भावः । सितरजन्यादिकमुद्दीपनविभावः । उन्मादः संचा-
रिभाषः । पिशुनान्प्रति गूढकथाकथनमनुभावः ॥ प्रा-
योऽयमाभासेप्वेव शोभत इति हेमचन्द्रः॥ तत्तु समीची-
नम् ॥ २९ ॥
आकृतिः] भावनिरूपणम् अथ निद्राभावः। निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः ।। यथा- मत्तेभकुम्भपरिणाहिनि कुङ्कुमा कान्तापयोधरतटे रतिखेदखिन्नः ॥ वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षणं पयति क्षणलब्धनिद्रः॥१॥ . अत्र नायकनिष्ठनिद्राभावस्यान्त्यतजागरणमालम्बनवि. भावः । सुरतश्रम उद्दीपनविभावः । हर्षः संचारिभावः । नेत्रनिमीलनमनुभावः ॥ ३० ॥ अथ स्वप्नभावः ॥ स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ॥ यथा- स्वप्नेऽपि समरेषु त्वां चिजयश्रीन मुञ्चति ॥ प्रभावप्रभवं कान्तं स्वाधीनपलिका यथा ॥१॥ अत्रं स्वाधीनपतिकोपमा तु पुरुषस्य प्रभावप्रभवेऽर्थाद्रकस्य राजस्वदशायां पितृपुत्रादिसंबन्धोपिः खामिसेवकभावादिसं- १५६ । यशवन्तभूपणम् [द्वितीया वन्धान्तरप्राप्तावन्यथात्वमाप्नोति । न तु स्वार्थ नपतिकासंब. न्धः ॥ संक्तदशायामपि स्वाधीनपत्तिकात्वत्य विद्यमानत्वात् । समस्य परतन्त्रतया तत्र रङ्को राजत्वं राजा च रकत्वमामोति। इत्यादि । एनं तु स्वप्नसमरेऽपि विजयलक्ष्मी जहाति। स्व- नसंगरेऽप्यस्य राज्ञो विजय एव भवतीति भावः ॥ अत्र नि- द्राप्राप्तभूपतेयुद्धानुभवरूपस्वामभावस्य सततयुद्धाभ्यास आ- लम्बनविभावः । गर्वोत्साहौ संचारिभाचौ । तादृशहस्तक्षेपी- पदंशी युद्धस्यानुभावो ॥ वदनविकासो भुजप्रफुल्लत्वं च ज. यस्यानुभावो । उक्तानुभाववोधितनृपस्वप्नस्येदं कविकृतवर्ण- नम् ॥ अथ प्रबोधभावः ॥ "इन्द्रियाणां प्रथमप्रकाशःप्रबोधः' इति रसतरङ्गिण्याम ॥ 'इन्द्रियाणां हि विश्रम्य व्यापारारम्भणं पुनः । प्रबोधः कथ्यते तज्ज्ञैर्यशवन्तनरेश्वर! ॥१॥ यथा- प्रत्यग्नोन्मपजिला क्षणमनभिमुखी रत्नदीपप्रभाणा- मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः। नागाङ्गं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेद्रातिताबा विरमवतु हरेर्दृष्टिराकेकरा वः||१॥ ..
१५७
प्राकृतिः] भावनिरूपणम्
अत्र हरेः प्रबोधभावस्य प्रभातसमय मालम्बनविभावः।
देवस्तुतिरुद्दीपनविभावः । आलस्यं संचारिभवः । नयनाई-
विकासादिकमनुभावः ॥ ३२ ॥
अथामर्षभावः॥
स्वापराधकरेऽशक्तविद्वेषोऽमर्ष उच्यते ॥
क्रोधे तथात्वाभावाद्भेदः॥
यथा--
बाहुप्रतिष्टम्भविटद्धमन्यु-
रभ्यर्णमागस्कृतमस्टशद्भिः ॥
राजा स्वतेजोभिरदह्यतान्त-
भॊगीय मन्त्रौषधिरुद्धवीर्यः ॥
ऐक्ष्वाको दिलीपोऽपत्यार्थ वसिष्ठधेनुं परिचचार । सा च
तत्परीक्षणार्थ मायया सिंहं प्रादुष्कृतवती । तयैव च मायया
धनुर्धरस्य राज्ञो बाहुप्रतिष्टम्भो विहितः। तत्रत्यं वर्णनमिदम् ।।
अत्र राज्ञो दिलीपस्यामर्षभावस्य वाहुप्रतिष्टम्भ बालम्ब-
नविभावः । अपराधिन सिंह प्रति राज्ञस्तेजसामस्पर्शन-
मुद्दीपनविभावः । चिन्ताविपादौ संचारिभावौ । वेवण्र्योष्ठ-
कम्पादिकं मम्योऽनुभावः ॥ ३३ ॥
१५८ [द्वितीया यशवन्तभूपणम् अथावहित्यभावः "प्राकारव्यवहारसंगोपनमवहित्थम् ॥ इति रसतरङ्गि- रयाम् ॥ संगोपनेच्छा भूपाल! ह्याकारव्यवहारयोः ।। 'अवहित्थाभिधो भावो.धुरंधरमते स्मृतः ॥१॥ तादृशगोपनमिच्छापूर्वकमेव भवति ॥ यथा- . गुहां प्रविष्टा हिमभूधरस्य श्रुत्वैव नामारिमहीभुजस्ते ॥ प्रकम्पिताङ्गा निगदन्ति राज- नतीवशीतं खलु पर्वतेऽस्मिन् ॥ १॥ अत्र राजराजेश्वररिपूणामवाहित्थभावस्य क्षत्रियत्वमाल- म्बनविभावः ॥ शस्त्रधारणमुद्दीपनविभावः लज्जा संचारि- भावः । वचनमनुभावः ॥ ३४ ॥ अथोग्रताभावः॥ " उग्रता निर्दयता" इति रसतरहिएयाम् ।।
याकृति]
भावनिरूपणम्
१५४
उग्रता निर्दयत्वं हि प्रोच्यते मनुजाधिप!॥
यथा-
कथमेवं रे निर्दय! विलोडयते कुसुमसदृशगात्राणि ॥
'पये कृत्वा हस्तं पश्याऽस्या वेपथुः कीहक् ॥ १॥
"अठोग्रताभावस्य सुरतसुखलालसाऽऽलम्ब-
• निजवय उद्दीपनविभावः । उत्साहः संचारिभा-
नायिकायास्तादृशदशाकरणमनुभावः ॥ ३५ ॥
अथ मतिभावः॥
" यथार्थज्ञानं मतिः" इति रसतरगिण्याम् ॥
यथार्थबुद्धिःशास्त्रस्याभ्यासांदेस्तु मतिः स्मृता॥
यथा-
यद्यात्रा निजभालपट्टलिखितं स्तोकं महहा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्॥
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं तथा मा कृथाः ।।
कूपे पश्य पयोनिधावपि घटो एहति तुल्यं जलम् ।।
भत्र भर्तृहरेमतिभावस्य शास्त्राभ्यास आलम्बनविभा.
वः ।.तादृशलोकव्यवहारदर्शनमुद्दीपनविभावः। धृतिहा
संचारिभावी । वचनमनुभावः ॥ ३६ ॥
यशवन्तभूपणम् [द्वितीया अथ व्याधिभावः॥ . मनसो वेदनां व्याधिमत्र जानीहि भूपते! ॥ यथा- + न चन्द्रेण न चाब्जेन न वा मलयजादिभिः ॥ विद्विषां भवतो भूप! मनस्तापः प्रशाम्यति ॥१॥ अत्र रिपूणां व्याधिभावस्य स्थानवैभावदिभ्रंश आलम्ब. नविभावः । वनवास उद्दीपनविभावः। चिन्ताधिपादौ सं- चारिभावी । वैवण्यादिकं गम्योऽनुभावः ॥ ३७ ।। अथोन्मादभावः॥ उत्पूर्वान्मदेर्भावे घञ् । " उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ॥" इति वाक्यादिहोन्मादशब्दार्थो विना विचारमाचार इति ।। तदुक्तं "विना विचारमाचार उन्मादः” इति रसत. रङ्गिण्याम् ॥ विना विचारमाचार उन्माद इति कथ्यते ॥ विना विचारमाचारश्च बुद्धिलोपाद्भवति । यथाऽतिमद- पानादु लोपस्तथाऽतिशयितसुखदुःखादेरपि ।। यथा- १६१ . आकृतिः]] भावनिरूपणम् विलम्व्य जल्पन्ति लताः पदे पदे वनेऽरिनार्यो यशवन्तभूपते! ॥ ममाद्य शृङ्गारविधिं करोषि नो न चापि शिक्षां कुरुषे कुतः सखि! ॥१॥ अत्र रिपुस्त्रीणामुन्मादभावस्य वल्लभवियोगजन्यासह्यदुः- खमालम्बनविभावः । वनवासविपदुद्दीपनविभावः । दैन्य- विषादौ संचारिभावौ । वल्लीविषयतादृशचेष्टा वचनं चानु. भावः ॥३८॥ अथ मरणभावः॥ , मरणं प्राणवियोगः । अत्र हेमाचार्यः "मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभवाभावात् "इत्याह ॥ काव्यप्रदीप मरणसंचारिभावस्येदं लक्षणम् "जीवस्योद्गमनारम्भो मर- णम्" इति ॥ तदुभयमपि समीचीनम् । मरणेच्छाऽथ वा राजन्! मरणं म्रियमाणता॥ यथा-- पञ्चत्वं तनुरेतु भूतनिचयाः स्वांशे विशन्तु ध्रुवं धातारं प्रसिंपत्य नम्रशिरसा याचेऽहमेकं वरम् ।। तहापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गणे व्योम्नि व्योम तदीयवर्त्मसु धरा तत्तालटन्तेऽनिलः।।
. १६२ . यशवन्तभूषणम् [द्वितीया अंत्र नायिकामरणेच्छायाः पूर्वानुरागनामकवियोग'श्रा- लम्बनविभावः । वय,मायुद्दीपनविभावः॥ उत्कण्ठाविपादौ संचारिभावी । वचनमनुभावः ॥ यथा वा- . निर्यान्तः खलु रक्ष्यन्ते प्राणाः प्रियकथाश्रुतेः ॥ अत्र नायिकाम्रियमाणतादशाया वियोग पालम्बनवि- भावः । वय आदिकमुद्दीपनविभावः। मोहोत्कण्ठाविपादाः संचारिभावाः। तादृशदशाऽनुभावः ॥३६॥ अथ त्रासभावः।- .. भयस्थायिभावव्यावृत्तये भानुदत्तः “विचारोत्थो मनःक्षो. भो भीतिः। आकस्मिकमनःक्षोभस्त्रासः” इत्याह ॥ मम मतेऽपि भानुदत्तस्येदं भणनं समीचीनमाक्रोधामर्षव्यावर्तक- स्यासमर्थद्वेषस्येवाऽऽकस्मादूपविशेषताया भयव्यावर्तकत्वात् ॥ आकस्मिको मनःक्षोभस्त्रास इच्युते नृप! ॥. . यथा- प्रतिध्वनि समाकर्ण्य मृगेन्द्रस्य महागिरौ । प्रिय प्रियेति कोशन्त्यः कान्ताश्लिष्यन्त्यरिस्त्रियः।। भन्न राजराजेश्वररिपुरमणीनां त्रासभावस्थाकस्मासिंह भाकृतिः] भावनिरूपणम् गर्जनप्रतिध्वनिश्रवणमालम्बनविभावः। महागिरेविकटत्व- मुद्दीपनविभावः । विस्मयविषादौ संचारिभावी । प्रियप्रिये- त्याक्रोशवचनं प्रियालिङ्गवं चानुभावः ॥ १ ॥ अथ वितर्कभावः॥ तर्क ऊहः । अत्र वीत्युपसर्गो विशेषार्थकः । वितर्क इात समुदितशब्दार्थस्तु विशेषत्वप्रतिपादनार्थ पदार्थे तर्कोझाव- नमिति ॥ विशेषतायाः प्रतिपादनार्थ तर्कस्तु राजन्! कथितो वितर्कः ॥ यथा- उदयति शारदराकासुधाकरः किं न सावधानाऽसि। मन्ये स्मरभूपस्यातपत्रमेतद्विभाति विष्णुपदे ॥१॥ मानिनीमभिसारिका प्रति वा सख्या उक्तिरियम् ॥ अत्र चन्द्रे स्मरभूपच्छत्ररूपवितर्कस्य वर्तुलाकृतितापनिवारणशी- लोज्ज्वलवर्णत्वमालम्बनविभावः ॥ कामघई कसंध्यासमय उद्दीपनविभावः । संध्यासमयस्य कामवर्द्धकत्वं च- परिपतति पयोनिधौ पतङ्गः सरसिराहामुदरेषु मत्तभृङ्गः ॥ उपवनतरुकोटरे विहङ्ग- - यशवन्तमूपणम् [द्वितीया स्तरुणजनेषु शनैः शनैरनङ्गः ॥ १ ॥ इति समस्यापूर्ती दृष्टम् ।। हर्पः संचारिभावः । वचनम- नुभावः । अयं तर्कनारूपो वितर्कभावः क्वचिदुत्प्रेक्षालंकारो भवति ॥ ११ ॥ पूर्वोदाहरणेपु भावानां स्थितिदशा ॥ इदानीं भावानामुद- यादिदशाः प्रदर्श्यन्ते ॥ भावोदयश्च भावशान्ति पाल! भावशवलत्वम् ॥ तहच्च भावसंधिर्भावाभासो रसाभासः ॥ १॥ उदयतः सूर्यस्योदयः सूर्योदयः । अस्तं गच्छतः सूर्यस्या- स्तमनं सूर्यास्तमनम् । तद्वदुदयन् भावो भावोदयः । शाम्य- न भावो भावशान्तिरितीह विवक्षितम् ।। नेत्राऽरुणिमा राज्ञो हंष्ट्वा शत्रून्प्रवईते समरे ॥ ‘स पुनः कृताञ्जलीस्तान्विलोक्य शाम्यति यथाऽभ्रम- निलेन ॥१॥ अत्र पूर्वार्द्ध राजराजेश्वरकोधोदयस्याभिमुखमायान्तः शत्रव मालम्बनविभावः । तेंपां कुन्तादिरोचिरुद्दीपनविभा. वः। गर्वासूये संचारिभावो । नेत्रारुणिमोत्पत्तेर्वृद्धिरनुभा- वः॥ उत्तरार्द्ध राजराजेश्वरकोपशान्ते रिपूणामञ्जलीकरण- मालम्बनविभावः । तेषां गम्यविनयवचनमुद्दीपनविभावः । दया संचारिभावः । नेत्रारुणिमशमनमनुभावः ॥ शपलता मिश्रति पर्यायान्तरम् । भावशवलता खनेक- ।
प्राकृति] भावनिरूपणम् भावानां मिश्रणे मिथो गोणमुख्यभावं विना समकक्षतया स्थितिः ॥ तस्मान्न कोऽप्यन संचारी ॥ यथा- इतस्ततोऽसौ विचरन्वरान्करी- नश्वान्विचिन्वंश्च परान्विनिन्दन् । दानस्य काले यशवन्तसिंहः पूर्व मुदा एच्छति दानपत्रम् ॥ १ ॥ अत्र राजराजेश्वरभावशवलतायाः कवय आलम्बनवि- भावः । काव्यस्यानुपमत्वादिगुणा उद्दीपनविभावः। इतस्त- तो भ्रमणं त्वराया अनुभावः। श्रेष्ठगजाश्वचयनमुत्साहस्या- नुभावः । रवेरश्वा मघवतश्चैरावतस्तद्भवन एव जीर्णतामाता इत्यादिपरनिन्दाऽसूयाया अनुभावः ॥ पूर्वप्रत्तदानपञ्चप्रश्नः स्मृतिगर्वयोग्नुभावः। एकस्य गमनमपरस्य चागमनमपि संधिपदवाच्यम् । यथा नायिकायाः शैशवयौवनयोः संधिर्वयःसंधिः। इह तु विरु- द्धभावयोः संधानं संधिपदवाच्यम् ॥ यद्यपि बिन्दयोन्यारेकत्र स्थिताकेनापरस्तिरस्क्रियते । तथाप्येवमकृत्वा प्रसाशात्य- रस्परमुभयोर्विरुद्धभावयोः स्थितिविसंविः ।। यथा . रामेण योद्धं किल संमुखस्य रामस्य बाहुः स्फुरति स्म वीक्ष्य ।।
. यशवन्तभूषणम् द्वितीया कुठारमालोक्य च यज्ञसूत्रं प्रकम्पते स्मास्य स एव वाहुः ॥१॥ अत्र परशुरामेण सार्द्ध योद्धमुपस्थितस्य दाशरथेरुत्साहस्य परशुरामपरशुदर्शनमालम्बनविभावः। चाहुस्फुरणमनुभावः। भयस्यालम्वनं तु परशुरामस्य यज्ञोपवीतदर्शनम् । बाहुवेप- थुरनुभावः । अत्र विरुद्धयोर्भयोत्साहयोः संधिः ।। भावस्याभासत्वे भावाभासः॥ . यथा- 4 खातः कथमयं केन कथं वा पूरितोऽम्बुना ॥ कथं नोल्लङ्घते सीमांक्षुभितोऽपि महार्णवः॥१॥ अत्र कश्चिन्ताभावस्य सिन्धोरगाधत्वमपामपारत्वं क्षु. भितत्वेऽपि सीमानुल्ल धनं चालम्वनविभावः । विस्मयः संचा- रिभावः।वचनमनुभावः। अन्न श्रवणमात्रेण क्षणं चिन्तास्वार- स्यभानेऽपि विमर्श कृते तु तादृशचिन्ताया निरर्थकत्वादनुचि- तत्वम् ॥ अनुचितो भावो भावो न भवति । साहित्यशास्त्रे उचितम्यवाङ्गीकारात् । अत्र चिन्ताया आभासरूपत्वाद्भा- वाभासत्वम् । आभासेऽपि चमत्कारो विद्यते इत्याभासस्या- 'लंकारत्वेनाप्यङ्गीकारः । भावाभासरसाभासयोर्भावरमप्रक- रणे ग्रहणमपि । रसाभासोदाहरणं रसप्रकरणे दर्शयिष्यते ॥ ननु भवता तु नामान्येव साक्षालक्षणांनीत्यङ्गीक्रियते, पुनश्च भावानामलंकारादिवन्नामार्थमव्युत्पाद्य प्राचीनशेल्या आकृतिः] रसनिरूपणम् परंपरागतलक्षणान्येव कथं स्वीकियन्त इति येच्छृणु । भावाः खतःसिद्धमनोवृत्तिरूपाः । न तु कविकर्मनिष्पाद्याः । अत एव तन्नामान्यपि व्यवहारार्थ विधात्रैव निर्मितानि । तन्नाम- भिश्च तत्स्वरूपस्य स्पष्टं नावगम इति कवीनां लक्षणनिर्मिः तिर्युक्कैव ॥ एवमन्यत्रापि ज्ञेयम् ॥ न च वाच्यं, उपमाना- मापि “उप सामीप्यात्कृतं मानमुपमा” इति व्यावहारिकमे- वेति तत्र भवतो यत्तः कथमिति । अत्र व्यावहारिकत्वं भारे तुङ्गवादी वा वर्तते । सामीप्यात्कृतं तादृशसाधर्म- रूपं मानं तु कविकमैव। एवमन्यालंकारेप्वपि॥ इति भाव- प्रकरणम् ॥ . अथ रसाः॥ रसानामावश्यकत्वे आज्ञप्तं भगवता व्यासेन ॥ "लक्ष्मीरिख विना त्यागान्न वाणी भाति नीरसा॥" इति ॥ न चायं नियमो रसमन्तरा न काव्यत्वमिति । तादृश- वाक्यानां प्राकरणिकस्तुतिपरतया रोचकंवाक्यत्वात् । यथा धर्मशास्त्रे एकादशीमाहात्म्ये- अस्मिन्बूते कृते राजन्वाजपेयफलं भवेत् ।”
' १६८ यशवन्तभूपणम् द्वितीया , इत्यादि ॥ काव्यत्वं तु ग्मणीयतामात्रेणेव सिद्धम् । रमणीय- ताया रसादिसर्वसंमलनेनैकतरेण वा सद्भावे काव्यत्वं सि. ध्येदिति भावः । तादृशरोचकवाक्यानि त्वलंकागद्यखिलविष- ये प्युपलभ्यन्त इति सर्वेषां सद्भाव एवं काव्यत्वमङ्गीक्रियेत चेतादृशकाव्यस्य दुर्लभत्वात्काव्यवैभवस्य हासः स्यात् । सर्वविद्यामूलं वेदाः। रसा वेदेभ्य उद्धृताः । तदुक्तं भगवता भरतेन- 'जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतमेव च ॥ यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ १ ॥ इति ॥ अभिनयशब्दार्थस्तु, अन्तःकरणवृत्तिर्भावस्य व्यञ्जको- ऽङ्गचेष्टाविशेषः ॥ तदुक्तं चिन्तामणौ " अभिनयः, अन्तर्गत. भावस्य व्यञ्जकेऽङ्ग चेष्टाविशेपे " इति ॥ अत्राभिनयशब्देन नाटकविद्या विवक्षिता॥ यद्यपि रत्यादिस्थायिभाचा रसत्वमा- प्नवन्तीति रसानारतिरसेत्यादिस्वरूपनामान्येव भाव्यानि । तथापि लोके देशसंबन्धादपि संज्ञाभवति । यथा गोडतैलङ्गादि- देशजाता नरा गौडतेलङ्गादिसंज्ञकाः । उक्तलोकन्यायेन यत्र यत्र स्थले रत्यादिस्थायिभावा रसत्वमाप्नुवन्ति तत्तत्स्थलम- पि सूचयन्धुरंधरस्तत्तत्स्थलसंपन्धाच्छृङ्गारादिनामनिर्देशं च- कार। शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ॥ बीभत्सश्चाद्भुतश्चैव शान्तश्च नवमः स्मृतः ।।
१६६ .. . .. .. श्राकृतिः] रंसनिरूपणम् शृङ्गार इत्यत्र शृङ्गशब्दार्थः कामोद्रेकः | "शृंङ्गं कामोद्रेके" इति चिन्तामणिः । धातोरारशब्दो निष्पनः । ऋ गतौ । इह गतिस्तु प्राप्तिः । “गतिः प्राप्तो" इति चिन्तामणिः ॥ तथा च शृङ्गस्य भारः प्राप्तिरस्मिन् इति शृहंगरंम् । अत्रा- न्तःकरणे रूढिः। प्रकरणाद्रसलाभः। ततश्चाधिचि शृङ्गा- रमस्यास्तीति व्युत्पत्त्या कामोद्रेकप्राप्तिमतोऽन्तःकरणस्य संबन्धी रस इति शृङ्गारशब्दार्थः ॥ तत्तद्रसवासनावासिता- न्तःकरणे तत्तद्रसो भवतीति प्रागुक्तम् । कामोद्रेकप्राप्तिमतो- ऽन्तःकरणस्य संबन्धी रसस्तु शृङ्गार एव । इत्थं रतिरसादेः शृङ्गारादिनामानि धुरंधरेण पर्यायोक्त्या प्रोक्तानीति ज्ञेयम् ॥ हमधातोर्यत्प्रत्यये हास्यमिति । हसे हसने। "हलोरर्यत्" इति ण्यत्प्रत्ययो भावकर्मणोविहितः । इह तूक्तार्थस्यानुपयो- गात् "कृत्यल्युटौ वहुलम्" इति शास्त्रात्कर्तरि ण्यत् । तत- श्च हसतीति हास्यमिति । अत्रान्तःकरणे रूढिः। प्रकरणा- द्रसलाभः । ततश्चााद्यचि हसनशीलान्तःकरणसंवन्धी सो. हास्यरस इत्यर्थः । तादृशान्तःकरणसंबन्धी रसस्तु हास्यमेव ।। करुणशब्दार्थो दयावानिति ॥ "करुणः सदये” इति चिन्ता- मणिः ॥ अत्रान्तःकरणे रूढिः। प्रकरणाद्रसलाभः। तत- श्वाशंद्यचि दयावतोऽन्तःकरणस्य संवन्धी रसः करुणरस इत्यर्थः ॥ तादृशान्तःकरणंसंबन्धी रसस्तु कारण एव ॥ रौ- * द्रशब्दार्थ उग्र इति ॥ "रौद्र उग्रे" इति चिन्तामणिः ॥ उ. ग्रस्तु चित्तविदारणकर्मकर्ता । “उग्रः, दारुणकर्मकतरि" इति चिन्तामणिः ॥ अत्रान्तःकरणे रूदिः । प्रकरणाद्रसलाभः।
. .. १७० यशवन्तभूपणम [द्वितीया ततश्चार्शायचि दारुणकर्मकर्तुरन्तःकरणस्य संवन्धी • रसो रौद्ररस इत्यर्थः॥ तादृशान्तःकरणसंवन्धी रसस्तु रौद्र एव । वीरस्तु शूरः ॥ “वारः शूरे” इति चिन्तामणिः ॥ शूरशब्दा- यो युद्धोत्साहवानिति । “शूरः, युद्धकर्मण्यत्साहवति" इति चिन्तामणिः॥ अत्रान्तःकरण रूढिः । प्रकरणाद्रसलाभः । ततश्चाईद्यचि युद्धकर्मण्यत्साहवतोऽन्तःकरणस्य संवन्धी र- सो वीररस इत्यर्थः ॥ तादृशान्तःकरणसंबन्धी रसस्तु वीर एव ॥ भयशब्दार्थः प्रसिद्धः। आनकशब्दार्थस्तु प्राणप्रद इति ॥ "मानकः, आनयति प्राणयति" इति चिन्तामणिः ॥ अन प्राणने ॥ भयानक इति समुदितशब्दार्थस्तु भयोत्पाद. कस्वभाष इति ॥ अत्रान्तःकरणे रूढिः । प्रकरणाद्रसलाभः॥ ततश्चाशंद्यचि भयोत्पादकखभावस्यान्तःकरणस्य संवन्धी रसो भयानकरस इत्यर्थः ॥ तादृशान्तःकरणसंवन्धी रसस्तु 'भयानक एव ॥ बीभत्सशब्दार्थों घृणाशील इति "वीभत्सः, कृणात्मनि ॥ आत्मा खभावे" इति चिन्तामणिः ॥ अत्रान्तः- 'फरणे रूढिः । प्रकरणादसलाभः । ततश्चाशंद्यचि घृणाशी- लस्यान्तःकरणस्य संबन्धी रसो बीभत्सरस इत्यर्थः॥ ताह- शान्तःकरणसंवन्धी रसस्तु धीभत्स एव ॥ अदितिशब्दार्थ मा- धर्यम् । “अद आश्चर्ये" इति रामाश्रमीकारः ॥ भुतं भवनम् । "भुतं भवने" इति चिन्तामणिः ॥ अद आश्चर्यस्य भुतं भ- वनं यस्मिंस्तदद्भुतम् । अनान्तःकरणे दिः । प्रकरणाद्रस- लाभः । ततश्चाद्यच्याश्चर्यवतोऽन्तःकरणस्य संवन्धी रसो- ऽद्भुतरस इत्यर्थः ॥ तादृशान्तःकरणसंवन्धी रसस्त्वद्रुतं एव ॥ शान्तशब्दार्थः शमान्वित इति ।"शान्तः शमान्विते" इति १७१ प्राकृतिः] रसनिरूमणम् चिन्तामणौ॥शमशब्दार्थो विषयेभ्य इन्द्रियोपरामः॥ "शमः, विपयेम्य इन्द्रियोपरतो" इति चिन्तामणिः । अत्रान्तःकरणे रूढिः । प्रकरणाद्रसलाभः ॥ ततश्चाशंद्यचि विषयेभ्य इन्द्रि- योपरतिमदन्तःकरणसंबन्धी रसः शान्तरस इत्यर्थः ॥ ता- दृशान्तःकरणसंबन्धी रसस्तु शान्त एव ॥ क्रमेण यथा- तत्र शृङ्गारः भूपते! कामिनीकान्तौ रम्यावालम्बनं स्मृतम् ॥ आरामघनचन्द्राद्या उद्दीपनतया मताः ॥१॥ हर्पोत्कण्ठे मदश्चिन्ता वितर्कश्च स्मृतितिः ॥ इत्याद्या मरुभूपाल! ज्ञेयाः संचारिणोमिताः ॥२॥ स्मितं कटाक्षो श्रृभङ्गो वचनं स्तम्भ एव च ॥ इत्याद्या अनुभावाः स्युर्यशवन्तनरेश्वरः ॥३॥ रतिस्तु स्थायिभावोऽस्य येन विश्वं वशीकृतम्॥ तुल्यभावेन सकलं पशुपचिनरामरम् ॥४॥ अत्र रसोपयोगिनां रूपयौवनचातुर्यकुलीनत्वादिसमन्त- गुणानामुपसंग्रहाय रम्याविति ॥ यथा वयसा रम्यः, आकृत्या, रम्यः, प्रकृत्या रम्य इत्यादि । श्रीसंबन्धात्पुरुषस्य पुन्यसंब- न्धाच स्त्रिया रतःप्रादुर्भावादुभावपि परस्परमातम्वनविभावः।। विभावादिभिः स्वादुत्वमानायिता अपि रत्यादयः स्यायिभावा " . १७२ यशवन्तभूषणम् [द्वितीया अनुचितत्वे नं रसाः । किं तु रसाभासरूपाः । यथा कुलटाया रतेरनेकविपयत्वादनुचितत्वम् । यथा-- - स्तुमः कं वामाति! क्षणमपि विना यं न रमसे 'विलेभे कः प्राणान् रणमखमुखे यं मृगयसे। सुलग्ने को जातः शशिमुखि! यमालिङ्गसि बला- तप:श्रीः कस्यैपा मदननगरि! ध्यायसि तु यम् ॥१॥ अत्र श्रवणमात्रेण नायिकाया एकपरपुरुषविषयकरते- भर्भानात्तत्समये शृङ्गाररलस्य चमत्कारो भवति । विधारदशायां तु कुलटाया अनेकविपयकरतिप्रतीते रसस्य चमत्कारो विली. यत इति रसाभासता ॥ अनेकनायिकाविषयकनायकरतेस्तु नानौचित्यम् । प्रत्युत तादृशनायकस्य तु दक्षिणसंज्ञाभिहिता। न च शठधृष्टयोरप्यनुभवसिद्धो रसाभासः ।। अगम्यांविषया रतिरनुचिता ॥ यथा-- "श्रालेख्यगतामिव दर्शनमात्रफलाम्" कादम्बरीमन्थे शूद्रकनृपसभाऽऽनीतशुकशावकमातङ्गक न्यावर्णनमिदम् । अतिमनोहरत्वेऽप्यगम्यत्वाचिनवदर्शनमा- 'त्रफलामिति॥अत्रद्रष्टुरगम्याविषयरतेरनुचितत्वाद्रसाभासः॥ वृद्धस्य युवविषया, यूनच वृद्धविषया रतिरनुचितव । अत एव दशरूपके परंपरागतं. वचनम्-"यूनोरन्योऽन्यरक्तयोः " आकृतिः १७३ . . . रसनिरूपणम् इति ॥ द्वयोस्तरुणत्वे रसः । एकस्य तरुणत्वेऽपरस्य च वृद्ध- वे रसाभासः । यथा- सरः शुष्कं चिरादेष हंसो नोडीय गच्छति ॥ पुरातनप्रीतिहेतोरत्ति चित्वाऽश्मनः कणान् ॥ १ ॥ शुष्कसरंसि तादृशशुक्त्यभावान्मौक्तिकालाभासावः ॥ अत्र गतयोवनाऽनुरक्तनायकप्रसङ्गे हंससरसोरप्रस्तुतकथा क- थितेति रसाभासः ॥ यूनो रतौ रस इत्युक्ते उपलक्षणेना- नुरूपयोरपि संग्रहो वेदितव्यः ॥ एकस्य सुरूपत्वेऽपरस्य च कुरूपत्वेऽनुचितत्वम् ॥ यथा- किं कृष्णन कृता प्रीतिर्हससीत्थं तु मां सखि! ॥ न जानासि परीक्षायाः प्रसादः पृथगेव हि ॥ १॥ अत्र कृष्णवर्णत्वात्कृष्णे कुंरूपत्वं विवक्षितम् ॥. तत्र मुलं तु — अपारे काव्यसंसारे" इति व्यासाज्ञानुसारि "कवे- रिच्छा बलीयसी" इति वचनम् ॥ इदं च सर्वत्र स्मर्तव्यम्॥ विमुखं प्रति रतिरनुचिता ॥ यथा- गहने वने चरगी रतिकामनया करे धृते शवरैः॥ युगपद्रिपुरमणीनामासत् ग्लानिर्भयं च कोपश्च ॥१॥ अत्र विमुंखरमणीः प्रति शवराणां रतिरनुचितेति रसा- भाप्तः ॥ शवराणां कुलाङ्गना अगम्या अपि ॥ रसतरङ्गिण्यां . .
१७४ यशवन्तभूपणम् [द्विाया परंपरागतं वाक्यमिदम् " एकस्य रतिश्चंद्रसाभासः ॥" इति ॥ इदं च परंपरागतोदाहरणम्- सीतासमागमश्लाघावन्धुरं दशकंधरम् ॥ प्रहर्तुं चमते कामो रामो वा निशितैः शरैः ॥ १ ॥ एंकस्य रतौ रसाभास इति कथनेनेदमर्थसिद्धम्, “एक- 'स्य रतावपरस्य विमुखत्वे रसाभासः" इति ॥ इदं च सीता- रावणोदाहरणात्स्पष्टतरम् ॥ न ह्यत्र स्वस्यापरे प्रीत्यभावादप- रस्य स्वविषयप्रीत्यपरिज्ञानादौदासीन्यमाने तात्पर्यम् । त- स्मिन्ननुचितत्वाभावात् । धुरंधरस्य परंपरागतोक्तोभयवा- क्याभिप्रायमजानन्तोऽर्थाचीनाः परस्पररतावेव शृङ्गाररसं मन्यन्ते ॥ रसतरङ्गिणीकार एकस्य नायकस्यैव रतिविषये "सीता समागम-" इत्युदाहृत्य, एकस्या नायिकाया एव रतिविषये इदमुदाजहार- निधुवनवनप्रान्ते यान्तं चलैनर्यनाञ्चलैः किमिति चलितग्रीवं मुग्धे! मुहुर्मुहुरीक्ष्यते ॥ विफलमखिलं यूनोनों चेदुदेति परस्परं रतिरथ मनोजन्मा देवः स एव निषेव्यताम् ॥ १ ॥ मन मुग्धे! इति संबुद्धिर्न तयोविवक्षया । सूढताऽर्थस्य वि- वक्षितत्वात् । मम तु मतं, परस्पररतावेकतों रतौ वा रस- संबन्धिपरमानन्दप्राप्तौ तु न मनागपि न्यूनाधिकत्वम् ॥ क्रमेण यथा- . 11 १७५ . प्राकृति.] रसनिरूपणम् यथोतिः पिवत्यम्बु पथिको विरलागुलिः । तथा प्रपापालिकाऽपि धारां वितनुते तनुम् ॥ १ ॥ अत्र तथेत्यस्य स्वारस्यं तु तथैव पूर्वानुरागेणानिमि. पा सतीति ॥ यदाप्रभृति साऽपश्यच्छिखिपिच्छधरं हरिम् ॥ तदाप्रभृति संजाता पाषाणप्रतिमेव सा ॥ १ ॥ अस्यां पूर्वानुगगिण्यामधुना तावन्नायकरतेरनुद्भावः। तथा- पि परस्पररतिमत्याः प्रपापालिकाया अस्याश्च रतिरसस्तुल्य एवेत्यनुभवसिद्धम् ॥ एकतो रतौ रसानङ्गीकारे वियोगशृङ्गा- राद्यनकोदाहरणानां रसाभासतापत्त्या काव्यवैभवस्य हासो भविष्यति । तादृशकाव्येषु बहुधैकस्य वर्णनीयस्यैव रतेप्र. तिपादनात् ॥ यद्यपि कुलटाऽगम्याद्यासक्तनायकस्यापि रनो भवति । तथापि तदीयकुलटात्वाद्यनौचित्यस्मृतो रसस्य लयाद्रसाभासता ॥ शृङ्गाररसालम्बनीभूतस्त्रीपुंसोर्नायिकानायकसंज्ञाकरणे धु- रंधरस्यायमभिप्रायः । नायकशब्दार्थः प्रधानमिति । "नायकः प्रधाने" इति चिन्तामणिः॥प्रकरणवशाच्छङ्गाररसस्य लाभः। सामय्यां रूढिः । तथा च शृङ्गाररससामट्यां मुख्यत्वं नाय- कत्वम् । सा च विभावानुभारसंचारिस्थायिभावरूपा। तस्यां चालम्बनविभावस्य मुख्यत्वं तु प्रथमं पुरुषस्य स्त्रीसंवन्धा- स्त्रियाश्च पुरुषसंन्धधावा रत्युत्पादे उद्दीपनविभायादयो मि- लित्वा तमत्यन्तं खादृकुर्वन्तीति । .
१७६. . यशवन्तभूपणम् [द्वितीया नायिकाया मुग्धामध्याप्रौढतिवयःकृतप्रकाराः । मुग्धा तु नवीना । “मुग्धः, नवे" इति चिन्तामणौ । अत्र यौवने रू. ढिः। तथा च नवयौवना मुग्धा । प्रकर्पण वृद्धि प्राप्तः प्रोटः । "प्रौढः प्रवृद्ध" इति चिन्तामणौ । यौवने रूढिः । तथा च प्रवृद्धयौवना प्रौढा । मुग्धाप्रोढयोर्मध्यवर्तियौवना मध्या। ख- कीया परकीया सामान्या-मानवतीप्रभृतयः प्रकृतिकृतप्रकाराः। प्रोपितपतिकाद्या दशाकृतप्रकाराः । अर्वाचीनैर्मुग्धादिवयःकृ. तप्रकाराः स्वीयायामेव स्वीकृताः । तत्तु प्रमादः । वयसः स- वव्यापित्वात् । स्वकीयाया एव पक्षपातित्वाभावात् ॥ काम- शास्त्रप्रसिद्धचित्रिएया इदमुदाहरणम्--- हासः कटाक्षो मधुरा च वाणी नृत्यं च गीतं परिरम्भरणं च । चित्रे चरित्राणि यदा भवेयु- गच्छेत्तदा का सखि! कृष्णमित्रम् ॥ १॥ भन सख्या उक्तशिक्षयोक्तनायिकाया अद्यावधि प्रत्य- क्षमेलनसुखानुभवाभावो नायकसमागमाभिलापश्च स्पष्टमव- भासत इति मुग्धात्वम् । उत्तरार्द्धस्येदं तात्पर्य, चित्रे प्रत्यक्ष- सदृशं सुखं भवेश्चत्कुलकलङ्कादिदःखं सोवा कापि कृष्णं न यापात् । चित्रविनोदेनैव मनोऽभिलाषं पूरयेदिति ॥ उक्तोप- देशेन परकीयात्वम् । मित्रमिति कथनाच 'कृष्णस्योपप' तित्वं स्पष्टमेव । निजपत्यर्थ मित्रशब्दस्य प्रयोगाभावात् ॥ विदग्धादिप्रकाराश्चार्वाचीन: परकीयायामेवोक्ताः । तदपि प्र- . .
१७५ आकृतिः रसनिरूपणम्' मादः । स्वीयासामान्ययोरपि विदग्धात्वसंभवात् । सामान्या क्रियाविदग्धा यथा- विदेशे वहून्वासरान्यापयित्वा प्रिये गेहमाप्ते प्रियाऽस्मारयद्राक् । सुवर्ण सुवर्णैः स्मितेनापि तारं तथा मौक्तिकं हर्षजाश्रुच्छलेन ॥१॥ वयःकृतप्रकाराश्च नायके न भणिताः । तदपि प्रमादः । नायिकायामिव नायकेपि क्रमेण यौवनवृद्धिचमत्कारस्य वि- द्यमानत्वात् । यथा--- अजवि कुमर अयाणो घरम्मि लेजाइ इंडियं वाला। महिलाजातिसुभावो नाना कज्जति वढई णेहो(*)11 अयं नायको मुग्धः ॥ शठधृष्टदक्षिणानुकूलेतिनायक- प्रकाराश्च पतिविषय एवोक्ताः। तदपि प्रमादः । अनुकूला- तिरिक्तप्रकारत्रयस्योपपती वशिकेऽपि च संभवात् ॥ ना. यिकाभेदसंबन्धिरसमजर्यादिग्रन्येषु लक्षणकल्पनया सा- क्षात्स्वरूपज्ञाने यत्रतत्राचां प्रमादःप्रतीयते । वयमलंका- रस्वरूपं नामार्थानुसारेण स्वञ्चीकरिष्याम इति तनेव दिग्द. र्शनेन नायिकानानकप्रकारस्वरूपमपि नामानुसार विद्ध- द्भिः स्वयं स्वच्छीकरणीयम् ।। (*) अद्यापि कुमारोऽजानो गृहे नया न्यका बाला। महिलानानिमायो नेनि नेति कुर्वन्या वईते स्नेहः ॥ १ ॥ :
१७८ 1 . 'यशवन्तभूपणम [द्वितीया विभावो द्विविधः । श्राज़म्बनमुद्दीपनं च। अन्यो - मार्थानुसारेण विभिन्नस्वरूपं तु केवलं शृङ्गाररस एवोपल- भ्यते । नायिकामवलम्व्य नायकस्य नायकमवलम्व्य च भायिकाया रतेरुद्भवान्नायिकानायकयोरालम्बनत्वम् । चन्द्रा. दयस्तयोरुद्भुतां रतिं प्रकृष्टतया दीपयन्तीति चन्द्रादीनामुद्- दीयनत्वम् । चन्द्रादीनां कान्ताविषयकरतेः सर्वथा जनक- स्वाभावान्नायिकानायकरूपाऽऽलम्बनतः सर्वथा तटस्थत्वम् । अन्यरसोद्दीपनानि त्वालम्बमान्न तथा सर्वथा तटस्थानि । तेषां कचिदालम्बनविशेषतया क्वचिच्चानुभावविशेषतया स्थितेः। प्रायस्तथादर्शनादेव विद्वद्भिरुद्दीपनस्य चत्वारः प्रकारा कथिताः । तदेवोक्तं मन्दारमरन्दचम्प्याम्-- उद्दीपनविभावोऽपि प्रोक्तः प्राज्ञैश्चतुर्विधः । आलम्बनालंकरणं तच्चेष्टा तद्गुणास्तथा ॥ १ ॥ तटस्थश्चेति तत्सर्वं निर्दिशामि क्रमादिह ॥ 'आलम्बनविभावास्तु नायकादय ईरिताः ॥२॥ आलम्बनालंकरणं हारनूपुरपूर्वकम् ॥ तथालम्बनचेष्टास्तु हावभावादयो मताः ॥३॥ आलम्बनगुणाश्चापि रूपयौवनपूर्वकाः ॥ तटस्थाः शीतकिरणसलयांनिलपूर्वकाः ॥ ४ ॥ इति ॥ आलम्बनस्यालंकार इति कथनेनालम्बर्नशोभाकरपदार्थों चौध्यः । यथा सुभटस्यायुधमलंकारः । प्रायो गुणचेष्टालंकार- १७६ : प्राकृतिः] * रसनिरूपणम् विशिष्टेव नायिकालम्बनास्पदं भवति । तदुक्तं प्राक् "नायि. कानायकौ रम्यौ” इति ॥ परं तु क्वचिद्रत्युत्पत्तैः पश्चान्नायि- काया गुणचेष्टालंकारा अप्युद्दीपनानि भवन्ति । एवमन्यरसे- प्वप्युद्दीपनविवेकः ॥ नृप! शृङ्गारोहिविधःसंयोगाख्यो वियोगनामान्च संयोगो वै सम्यग्योगो(*) विगतो वियोग इह वोध्यः ॥ १ ॥ वियोगः पञ्चधा पूर्वानुरागः प्रथमो मतः । विरहश्च प्रवासश्च मानः शापश्च भूपते! ॥ २॥ पूर्वानुरागः स्नेहः स्यान्मेलनात्पूर्वसंभवः ॥ ईपत्कालस्यान्तरं हि विरहः परिकीर्तितः॥३ विदेशवासः कान्तस्य प्रवासः कथितो नृप! ॥ मानजन्यस्तु मानः स्याच्छापःशापसमुद्भवः ॥४॥ सम्यग्योगः संयोगः। संयोग एकविधः । काव्यप्रकाश- कारः "तत्राद्यः परस्परावलोकनालिङ्गानाधरपानपरिचुम्बना- द्यनन्तत्वादपरिच्छेद्य एक एव गण्यते” इत्याह । मम तु म- तं, परस्परावलोकनादीनां न शृङ्गाररसप्रकारयोग्यत्तेति तस्या- यं प्रमादः॥विगतो योगो वियोगः। संयोगात्पूर्वमनुरागः पूर्वा- नुरागः । तत्संबन्धी विनोगः पूर्वानुरागहेतुकवियोगः । विरह इत्यत्र वीत्युपसर्थ ईपत् । “वि ईपदर्थे" इति शब्दस्तोम- (6) योगशब्दस्य देहटीदीपन्यायेनोभयन संपन्धः ॥
. । यशवन्तभूपणम् [द्वितीया महानिधिकोये ॥ "रह त्यागे" इत्यस्माद्भावे घनि रहशब्दो निष्पन्नः । विरह इति समुदितशब्दार्थ ईपत्त्याग इति । अत्र संयोगे रूढिः । तथा च किश्चित्कालपर्यन्तं संयोगस्य त्या- गो विरहशब्दार्थः । विरहसंबन्धी बियोगो विरहहेतुकवियो- गः । विरहस्य निमितं तु गुरुलजाकार्यपारवश्यादिकम् । प्र- वासस्तु विदेशवासः । "प्रवासः विदेशवासे" इति शब्दस्तो- ममहानिधिकोपे । प्रवाससंबन्धी वियोगः प्रवासहेतुकवियो- गः । मानस्तु कोपविशंपः । “मानः कोपविशेपे । स्त्रीणामी. pकृतःकोपो मानोऽन्यासङ्गिनि प्रिये ॥” इति चिन्तामणिः ॥ 'मानसंबन्धी वियोगो मानहेतुकवियोगः। मानो द्विधा । ई- हितुक ईर्ष्यामानः । प्रणयहेतुकः प्रणय मानः। ईर्ष्याशब्दा- योऽसहनमिति । "ईप्या, अक्षान्तौ" इति चिन्तामणिः ॥ भनान्यस्त्रीसंबन्धे रूढिः। प्रणयस्तु प्रेमपूर्वको वशीकारः । तदुक्तं दशरूपके "प्रेमपूर्वको वशोकारः प्रणयः" इति । अत्र "णयभङ्गे रूढिः । शापो दुरीपणा । “दुरीपणा शापे । शापः, इदमेषामनिष्टमस्त्वित्येवंरूपेऽभिशापे" इति चिन्तामणिः ॥ शापसंबन्धी वियोगः शापहेतु कवियोगः ॥ संयोगशृङ्गारो सथा- शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्य पत्युमुखम् ॥ विस्रब्धं परिचुम्व्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता।। नायकस्य निद्राव्याजेंन नयननिमीलनं चेद्विसधनवोढेयम्। ।
" । ." । आकृति.] रसनिरूपणम् औदासीन्येन चेन्मानिनी । मानमोचनोपायेपूपेक्षाप्येक उपा- यविशेषः । उपेक्षा वौदासीन्यम् ॥ "उपेक्षा, औदासीन्ये इति चिन्तामणिः ॥ अत्र नायिकाया रतिस्थायिभावस्य नायक आलम्बन- विभावः । शयाननायकस्पर्श उद्दीपनविभावः । लज्जाहो- कण्ठाः संचारिभावाः । तथाविधाधरचुम्बनमनुभावः । एवं रीत्याऽत्र नायिकासंबन्धी शृङ्गाररसः । तदनन्तरं च तथा- विधाधरचुम्बन विधात्री नायिका नायकस्यालम्बनविभावः। नायिकायास्तादृशनम्रमुखचेप्टोद्दीपनविभावः। हर्पः संचारि. भावः । तथाविधकण्ठाश्लेपणमनुभावः ॥ पूर्वानुरागहेतुकवियोगो यथा- किं न यायाल्लोकलज्जा कुप्येद्गुरुजनो नु किम् ॥ कुब्जे कुजविहारी चेत्स्मयमानो मिलेद्धरिः ॥ १ ॥ उक्तनायिकायाः कृष्ण पालम्बनविभावः। कृष्णस्य कुञ्जधि-: हारित्वमुद्दीपनविभावः । स्मृतिचिन्तोत्कण्ठादयः संचारि. भावाः । वचनमनुभावः। विरहहेतुकवियोगो यथा- विदेशाऽऽगतकान्तस्य विलम्बो वन्धुमेलने ॥ यो वभूव घटी सा तु विधातुर्घटिकाऽभवत् ॥ १॥ भत्र नायकस्य विदेशागृहागमनेन नायिकाया प्रवास- वियोगो नष्टः । इदानी.बन्धुवर्गेण सह मेलने घधिकामात्र- . ।
१२ । . " यशवन्तभूपणम् [द्वितीया विलम्बो विरहरूपः । अत्र नायिकाविरहस्य घटिकाभितका. लविलम्ब आलम्बनविभावः। उत्कण्ठाऽऽवेगविपादाः संचारि- भावाः । रतिः स्थायिभावः। वैवर्ण्यनेत्राकुलत्त्वादिकं गम्या- सुभावः॥ काव्यप्रकाशस्य वालबोधिनीटीकाकारः "मन- योरैक्ये तु प्रोपितभर्तृकातोऽस्या भेदो न स्यात् । न च मा- स्तु भेद इति वाच्यम् । भरतमुनिस्वीकृतानां स्वाधीनभर्तृ- कादिपोडशभेदानामसंगत्यापत्तेः इत्याह ॥ अनयोविरह प्रवासयोः। अस्या विरहोत्कण्ठितायाः ॥ भत्रास्माकमपि संमतिः ॥ विरहवासपोश्चमत्कारस्य विलक्षणत्वात् ।। प्रवासहेतुकवियोगो यथा- स्थायंस्थायमुपैति नीरदघटा गाढं तमस्तन्वती पातंपातमहो तडिहिलसति स्यान्मे गतिः क्वाधुना ॥ 'मार्गमार्गमिमे नटन्ति शिखिनः कूजन्ति चक्राव्हयाः एथ्वीयं हरिणा विना तु हरिणा ज्वालायते मे दृशोः।। पत्र प्रियस्य विदेशवास आलम्बनविभावः । नीरदघटा. दिकमुद्दीपनविभावः। वासोत्कण्ठादयः संचाग्भिावाः। रतिः स्थायिभावः । वचनमनुभावः । भूतभविष्यद्वर्तमानेतिप्रवा- सस्य प्रकारनयं मन्वाना अर्वाचीनास्तदनुसारेण प्रोषितप. 'तिकामवत्स्यत्पतिकाप्रवसरपंतिकेतिप्रवासर्वियोगिनायिकायाः प्रकारत्रयं मन्यन्ते। ईहेतुकमानवियोगो यथा- प्राकृतिः) रसनिरूपणम् दयितस्य निरीक्ष्य भालदेशं चरणालतकपिजरं सपन्त्याः ॥ सुदृशो नयनस्य कोणभासा श्रुतिमुक्ताः शिखरोपमा बभूवुः॥१॥ शिखरेण पद्मरागेण । “शिखरः पद्मरागः स्यात्" इति वैजयन्ती ॥ अत्रेया॑मानस्य सचिन्हनायकभालदर्शनमाल- म्बनविभावः । प्रभाते आगमनमुद्दीपनविभावः । असूया- विषादादयः संचारिभावाः । रतिः स्थायिभावः । तादृशदृष्टि-. रनुभावः ॥ प्रणयभगाहेतुकमानवियोगो यथा- विदेशायातस्यावधिदिवसमर्धं कथमपि गतं तत्त्वां कृष्णो नमति न परं त्वं सहसितम् ॥ वीप्यस्मान्मन्ये कठिन उत काष्ठादपि हठो न दग्धो यस्तेऽभूदतिविरहवैश्वानरवशात् ।। भत्र नायिकामानस्यावधिदिनाचगमनरूपाज्ञाभङ्गजन्य: प्रणयभङ्ग मालम्बनविभावः । उकोत्सवादिनार्धस्य वि- फलत्वमुद्दीपनविभावः । विषादोग्रतानिर्वेदाः संचारिभा- वाः । रतिः स्थायिभावः । मौनमनुभावः ।। शापहेतुकवियोगो यथा-
१८४.
यशवन्तभूपणम्
[द्वितीया
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ॥
अस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥१॥
अत्र यक्षसंबन्धिवियोगस्य कुबेग्शाप आलम्बनविभावः
तादृशचित्रनाश उद्दीपनविभावः । स्मृतिविस्मयविषादोरका-
एठादयः संचारिभावाः । रतिः स्थायिभावः । अश्रुतादृशव-
चनं चानुभावः ॥ भोजमहाराजो वियोगस्य पूर्वानुरागमान-
प्रवासकरुणेतिचातुर्विध्यं वदन्करुणस्येदं लक्षणोदाहरण-
माह।
लोकान्तरं गते यूनि वल्लभे वल्लभा यदा ॥
भृशं दुःखायते दीना करुणः स तदोच्यते॥१॥” इति ॥
.:- करिणीकरुणो यथा-
नान्तर्वर्तयति ध्वनत्सु जलदेष्यामन्द्र मुद्गर्जितं
नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ॥
दानज्यानिविषण्णमूकमधुपव्यासङ्गदीनाननो
नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥१॥
दशरूपककारस्तु-
"मृते त्वेकन यत्रान्यः प्रलपेच्छोक एव सः |
व्याश्रयत्वान्न शृङ्गारः प्रत्यापन्ने तु नेतरः " ॥१॥
१८५ भाकृतिः रसनिरूपणम् 'इत्याह ॥ रसतरङ्गिणीकारोपि- "यूनोरेकस्मिन्मृते प्रलापः करुणरसः जीवतोर्विश्लिष्टयोः प्रलापः शृङ्गारः ॥" इत्याह ॥ तरङ्गिण्या नौकानाम टीकायाम्- यथा मृतत्वेन निश्चित एव करुणः । तथा जीवितत्वेन निश्चित एव विप्रलम्भः" इति स्फुटीकृतम् ॥ तदेतन्मम मतेपि समीचीनम् ॥ इति शृङ्गाररतः ॥ .. अथ हास्यरसः॥ वेपवृत्तान्तवचनवपुराद्या नराधिप! ॥ अन्यथाभावमापन्ना विभावाःपरिकीर्तिताः॥१॥ हासःस्थायी हर्पविस्मयाद्याःसंचारिणो मताः॥ अधरस्य विकासोऽथ हस्ततालाक्षिमीलने॥२॥ इत्याद्या अनुभावाः स्युर्यशवन्तनरेश्वर!॥ यथा-" आगच्छन्मंगरोपकण्ठमिलितेरावेष्टितो वालकेः शुद्धान्तःपरिचारिकाभिरभितः सोल्लासमावेदितः ।।
१८६ यशवन्तभूषणम् [द्वितीया साकूतं सकुतूहलं बलिवधूरन्दे पुरो दापय- त्यन्नं किंचिदुदश्चितस्मितलवः पायात्सवोवामनः॥१॥ • अन्न दैत्यराजवलिस्त्रीणां हास्यस्यान्यथादेहत्रेपो वामना- वतार मालम्बनविभावः। तस्प स्मितादिकमुद्दीपनविभावः। हर्षविस्मयो संचारिभावौ । कुतूहलपदवोध्यहस्ततालतादृश- वचनौष्टविकासादिकमनुभावः । रसगङ्गाधरसाहित्यदर्पणयो- हसिः पोढा भणितः। "ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम् । किंचिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः॥१॥ मधुरस्वरं विहसितं सांसशिरःकम्पमवहसितम्॥ अपहसितंसास्राक्ष वित्तिप्ताङ्गं भवत्यतिहसितम्॥२॥" इति॥ मम तु मतं, उक्तप्रकारेषु चमत्कारवैलक्षण्याभावात्तादृश- प्रकाराङ्गीकारोऽर्वाचां प्रमादः॥ अथ करुणरसः॥ "विभवादिहतिः क्लेशो मृत्युः शापो दरिद्रता॥ दुःखमित्यादयोराजन्! विभावाः करुणे स्मृताः।११ चिन्ता दैन्यं विपादश्च त्रासो मरणमेव च। निर्वेदाचा महाराज! मताःसंचारिणोमिताः॥२॥ Tr १८७ प्राकृतिः] रसनिरूपणम् शोकः स्थायी शिरःकम्पो दैवोपालम्भ एवं च ॥ निःश्वासश्चैव वैवर्ण्यमनुभावाः प्रकीर्तिताः॥३॥" यथा- -- आरामेषु सरस्सु मां प्रतिपदं योऽपाययत्प्रेमत आतृप्त्यासवमासनैः सुवचनैर्योऽवर्धयद्गौरवम् ॥ नो मां विस्मृतवान्पवित्रसमये पत्रादिना सजन- स्तस्मिन्नाकमिते नतेन हि गतान् धिङ्मे मुरारेरसून।। अत्र मम कविराजमुगरिदानस्य शोकस्थायिभावस्य मेदपाटेश्वरमहाराणासज्जनसिंहपरलोकप्रयाणमालम्पनधि भावः । तस्य तादृशानुग्रहस्मृतिरुद्दीपनयिभाषः । चिन्ता- स्मृतिविपादमरणनिर्वेदादयः संचारिभाषाः। स्वारमधिक्या- तिरनुभावः ॥ यथा वा- विपिने क्व जटानिवन्धनं तव चेदं क मनोहरं वपुः ।। अनयोर्घटनाविधेः स्फुटंननु खड्गेनशिरीपकर्तनम् । ११ अत्र दशरथमहाराजशोकस्थायिभावस्य रामयनपास मा. लम्बनविभावः । तस्य बाल्यावस्थोद्दीपनयिभाया। पिसादि. तर्कविपादाः संचारिभावाः। तादृशयचनमनुभायः ॥ • अथ रौद्ररसः॥ "शत्रुर्दाराद्यपद्दतिर्मात्सर्य कलहस्तथा॥
१८८ [दितीया यथा- यशवन्तभूपणम् अधिक्षेपश्चोपहासो विभावाः स्युनराधिप!॥1॥ मदोत्साहोग्रताऽऽवेगा नृप! संचारिणो मताः॥ रौद्रे रसे महाराज! स्थायी क्रोध उदाहृतः॥२॥ स्ववाहुवीक्षणं नेत्रारुणिमाऽधरदशनम्॥ भ्रूभङ्गश्चैवमाद्याः स्युरनुभावा नरेश्वर! ॥३॥ अद्यैव श्रुतमस्ति मे रिपुरिति प्राहाधुना कस्त्विदं धेश्यः पङ्गुदलस्य तस्य यशवन्नामास्मि उद्गौरवे(*) मेरुः सर्षपतां गतो हयखुरक्षुण्णान्विधायाचलान् शिप्रा(1)पूर्तिमहं तनोमि(1) न विधास्ये शिल्पितां. रामवत् ॥ १॥ अत्र मरुधराधीशपूर्वयशवन्तसिंहकोषस्थायिभावस्य य. वनेन्द्रकुमार औरङ्गजेबाख्यः शत्रुरालम्बनविभावः । तस्य संदेश उद्दीपनविभावः । हर्पगर्वोत्साहस्मृतिविस्मयाऽसूयाः संचारिभावाः । शिप्रापूर्तिमहं तनोमीत्यादिवचनमनुभावः ॥ अथ वीररसः ॥ . । + वीरे विभावः स्वा शक्तिरथवेष्टविनिश्चयः ॥ (*) यस्य जयचन्द्रस्य गोरवे । () शिप्रा मालवदेशवाहिनी नदी । यस्यास्तटे महाराजयशवन्तसिंहोरङ्गजेबारपयो समर समभवत् । (१) अत्र "वर्तमानसामीप्ये वर्तमानचा" इति वर्तमानसमीपे भविष्यति वर्तमानप्रयोग ।।
८ • यशवन्तंभूषणम् द्वितीया रवितरणम्। अन्यथा वश्यं दद्यादेवेति संभावनाऽलंकारः॥ अन्न परशुरामदानविषयोत्साहस्य यथेष्टपृथ्वीदानसमय- लाभ आलम्बनविभावः। पृथ्वीनिःक्षत्रियकरणरूपकीर्तिख्या- तिरुदीपनविभावः। हर्षगर्वादयः संचारिभावाः । अश्रूद्गमोऽनु- भावः ॥. दयावीरो यथा- ज्ञात्वा नागपुरेश! यच्छरणदं मां मानसिंहाभिध- मायातोऽसि सुरेश्वराज्जलनिधिर्मेनाकशैलं यथा ॥ नूनं त्वां परिपालयामि विपदो मोक्ष्ये त्वदर्थ शिरः क्षात्रं जन्म धृतायुधस्य सफलं भूयात्त्वयाद्यैव मे ॥१॥ अत्र राजराजेश्वरमानसिंहदयाविपयोत्साहस्य मधुराज- देवाख्यनागपुरनरेशशरणागतिरालम्बनविभावः । अनाथो. . स्मीत्यादि नागपुरनरेशस्यार्तवचनमुद्दीपनविभावः। धृति- स्मृतिहर्पगर्वाः संचारिभावाः । वचनमनुभावः ॥ धर्मवीरो यथा-- धन्यं खल्वद्य दिनं दिल्लीपतिना समं रणं कृत्वा । स्वाम्यर्थ में मरणं सफलं कुर्यामिति ब्रवीति रघुः॥१॥ मरुधराधीशाजितसिंहसामन्तलवेरायामठक्कुरयादववंश्य- रघुनाथसिंहस्योक्तिरियम् ॥ अत्र रघुनाथसिंहनिष्ठस्वामिधर्म- संवन्ध्युत्साहस्य त्रिमासघरास्कस्वस्वाम्यजितसिंहमहाराजा) युद्धे मरणावसरप्राप्तिरालम्बनविभावः । अवरङ्गाख्यथवनेन्द्रेण आकृतिः] १६१ रसनिरूपणम् सह दिल्लीनगरे भावियुद्ध मुदीपनविभावः ।धृतिहर्षगर्वराजर- तयः संचारिभावाः । वचनं मुखविकासो वाहुस्फुरणं चानु- भावः । तत्र वचनमुक्तम्। अन्यद्गम्यम् ॥ अथ भयानकः ॥ घातका जन्तवः शून्यवनं चासह्यवस्तु च ।। वलिनश्चांपराधश्चालम्वनानि भयानके ॥ १ ॥ उद्दीपनं तु राजेन्द्र! तेषां चेष्टा प्रकीर्तिता ॥ शङ्का त्रासश्चपलता विपादो दैन्यमेव च ॥२॥ संचारिणो भयं स्थायी भयानकरसे स्मृतः ॥ अनुभावास्तु कम्पाश्रुरोमाञ्चाद्या उदाहृताः ।। यथा- ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ॥ शप्पैरर्धावलीः श्रमविटतमुखभ्रंशिभिः कीर्णवा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुप्रियाति॥ अत्र मृगभंयस्य मृगमनुधावन्नाखेटकारी दुष्यन्त आल- म्धनविभावः ॥ तस्य शरसंधानमुद्दीपनविभावः। त्रासवि- पादचपलताः संचारिभावाः । ग्रीषाभङ्गुरत्वादिकमनुभाव।।
१६२ [द्वितीया यशवन्तभूपणम् अथ वीभत्सरसः॥ C 'विभावोऽहृद्यवस्तु स्याहीभत्से मस्नायक!॥ .स्थायी जुगुप्सासंचारीव्याधिश्चपलतातथा ॥१॥ नासिकाकूणनं कम्पः शिरसः ष्ठीवनं वमिः॥ इत्याद्या मरुभूपाल! ह्यनुभावाः प्रकीर्तिताः ॥२॥ यथा- . विदार्य कुक्षिं नखरैः पिशाचा अन्त्राणि चाकृष्य रदैरशङ्कम् ॥ पिबन्ति रक्तं पुनरुद्वमन्ति कथं रणे राष्ट्रपते! रुचिस्ते ॥ १॥ अत्र युद्धं पश्यतां घृणाशीलस्य जुगुप्सास्थायिभावस्य यत्र तत्र मांसान्त्ररक्तदर्शनमालम्बनविभावः।पिशाचानांतादृ- शरक्तपानोदमनादिक्रियोद्दीपनविभावः । ततोऽपसरणार्थ चपलता व्याधिश्च संचारिभावः । निन्दावचनं ठवनादिक चानुभावः ॥ पूर्वमुक्तमपरमनुक्तम् ॥ अथाद्भुतरसः ॥ विभावोऽपूर्ववस्तु स्यादद्भुते तु रसे नृपः॥
प्राकृतिः] १६३ रसनिरूपणम् हों वितर्कः संचारी स्थायी विस्मयं इष्यते॥१॥ साधुवादः शिरःकम्पो नयनस्यानिमेपणम् ॥ इत्याद्या धरणीपालानुभावाः परिकीर्तिताः ॥ यथा- कृष्णेनाम्ब! गतेन रन्तुमधुना मृदक्षिता स्वेच्छा सत्यं कृष्ण! क एवंमाह मुसलीमिथ्याम्ब! पश्याननम् ॥ व्यादेहीति विकासिते शिशुमुखे माता समयं जगद् दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स वः केशवः।२। अत्र यशोदाया विस्मयस्थायिभावस्य लघुतरवाल कृष्ण- मुखे त्रिलोकीदर्शनमालम्बनविभावः । तत्रत्यत्रिलोकीवासि- नां विविधाः क्रिया उद्दीपनविभावः । हाँ वितर्कश्च संचा- रिभावः । अनिमेपत्वादिर्गम्योऽनुभावः ॥ अथ शान्तरसः ।। जगतोऽनन्तदुःखानि विभावः शान्त इष्यते निर्वेदः स्थायिभावः स्यात्संचारी तु मंतिधृतिः ॥ अनुभावाः स्टहाऽभावो दमच समदर्शिता ॥ यंथा- भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला - १६६ यशवन्तभूषणम [द्वितीया भावापेक्षया रसस्य सर्वदा प्रधानत्वेऽपि क्वचिद्भावोऽपि प्रधान- वमापद्यते ॥ तदुक्तं सहृदयधुरंधरध्वनिकारेण- • "तेषामाधिकारिकवाक्यापेक्षया गुणीभावो विवाहप्रदत्तभृत्यानुयायिराजवत्" इति ॥ पथा-- गच्छेयं गहनं वनं प्रियतमे कृष्णेपि तत्रागते कृत्वा स्वाननशीतदीधितिकरैस्तापापनोदं मम ॥ यहन्मे हृदयं स्मितान्वितशाहात्तिथा मामसौ कुंर्यात्स्वान्तगतां स्मितेन सहितं गोपीगणानन्ददः।। एतस्याः पूर्वानुरागिपरकीयाया रतिस्थायिभावत्य श्री. कृष्ण आलम्बनविभावः ॥ "कृत्वा स्वाननशीतदीधितिकरै- • स्तापापनोदं मम" इति इचनाच्छ्रे कृष्णस्य तादृशसौन्दर्य- मुद्दीपनविभावः । हत्कण्ठादयः संचारिभावाः । मौनमे- कांग्रदृष्टिश्चेत्याद्या गम्यानुभावाः॥ अत्र शृङ्गाररसापेक्षया चिन्ताव्यभिचारिभावचमत्कारस्थ प्राधान्यम् । नाटके “अनुकतु योग्योऽनुकार्यः' इति व्युत्पत्या यस्या- नुकरणं क्रियते सोऽनुकार्य इति, अनुकरणकर्ता चानुकारी- ति कथ्यते ॥ तिरोहितपदार्थस्य पुन:प्रकाशनमाविर्भावः । यथा भस्माच्छन्नस्याग्नर्वायुवशारफुनः प्रज्वलनम् । वासना तु कस्तूर्याद्यपग़मेऽपि तद्भाण्डस्य कस्तृर्यादि वासनावासितत्वम् । नाटके साक्षाद्रसस्त्वनु कार्मसीतारामादिवर्णनीयवृत्तिः। श. मरतेः सीताविषयत्वारसीतारतेश्च रामविषयत्वात् । अनु- १६७ भाकृतिः रसनिरूपणम् । कारिगोटीनटयोस्तु सीतारामादेस्ताद्रूप्यानुसंधानांच्ङ्गार- रसस्याभासः। तत्तद्रसवासनावासितहृदयानां -सामाजिकानां तु तत्तद्र- सस्याविर्भावः । तथाहि, सीतारामादितादृशानुकरणदर्शने . शृङ्गाररसवासनावासितहृदयसामाजिकानां शृङ्गाररसंस्था- विर्भावः । तत्र सामाजिकानां न खलु सीतारामादिविपयि. का, न वा नटीनटविषयिका, न वा निजप्रियाप्रियविषयिका रतिरुत्पद्यते; किं तु निजप्रियाप्रियरतिवासनावासित हृदयेषु सामान्यतया शृङ्गाररसस्याविर्भावः । एवमन्यरसंप्यपि - यम्। सामाजिकास्तु बाल वृद्धतरुणस्त्रीपुरुषाः सर्वेऽपि भवन्ति। तत्तद्रसवासनावासितह दयेपु तत्तद्रसस्याविभीवाच्छृङ्गाररसं- वासनावासित हृदयानां युद्धानुकरणदर्शने न रौद्ररसाविर्भावः। इत्यादि ॥ यत्तद्रसविषयनाटकदर्शनार्थं तद्रसान्यरसवा- सनावासितहदयसामाजिका शपि समायान्ति । सदा- गमनं तु दृश्यकाव्यनाट करसास्वादप्रयोजनेनैव . रामायणादिश्रव्यकाव्येषु सकलरसनर्णनम् । तंत्र श्रोतृव.. में शृङ्गाररसवासनावासित हृदयांनां शृङ्गाररसस्याविर्भावः । करुणरसवासनावासितहृदयानां करुणरसस्याविर्भावः । इत्या. दि ॥ काव्यरसस्तु समस्तसामाजिकैरास्वाद्यते ॥ ननु काव्ये प्रायो वर्णनीयाः कल्पिता अपि भवन्तीति पु कथं साक्षा. द्रसः ? इति चेच्छृणु ! कविसृष्टर्नियतिकृतनियमरहितत्वादिः ह कल्पितं वास्तववज्जडश्च वेतनवत् । इत्यादि ॥ श्रव्यका. व्यस्य केवलवाणीमयत्वात्तत्र वर्णनीयसामाजिकयोरतिरिक- १६ . .. यशवन्तभूषणम् [पतीया स्थानुकरणकर्तुरितरपदार्थस्याभावात्कस्मिदिचदपि. रसस्या- भासो नास्तीति दृश्यकाव्यनाटकाद्वेलक्षण्यम् ॥ काव्यस्य वक्ता तु सामाजिकश्रयन्तःपाती ॥ मम तु मतं, कदाचि- स्कस्यचित्सामाजिकस्य कदाचिच्च कस्यचित्सामाजिकस्य तादृशरसाविर्भावो रवान्तरफलम् । उभयविधस्यापि काव्य- •स्य मुख्य फलं तु समस्तसामाजिक विषयः काव्यरसस्य सर्वदा समानतया युगपदास्वादः ॥ काव्यास्वादविषये. का- व्यप्रकाशे " सद्यःपरनिर्वतये" इति । काव्यरसस्तु कविर- चनाचातुर्यास्वादः। कविरचनाचातुर्यमेव कविसरस्वतीत्युच्या ते ॥ सरस्वती-भारती-वाणी-वाग्देवीतिपर्यायाः ॥ कविरच. नाचातुर्यविषये लोकमवादोऽयम्- रविन यायाद्यं देशं तं देशं प्राप्नुयात्कविः" इति ॥ कविभारत्या लोकविलक्षणत्वं दर्शयन्काव्यप्रकाशगतका- रिकाकार:- नियतिकृतनियमरहितां ह्लादेकमयामनन्यपरत- न्त्राम्॥ नवरसरुचिरा निर्मितिमादधतीभारती कवेर्जयतिnan इत्याह ॥ शृङ्गारादयो रसास्तु कविभारत्या भवयवविशे- पाः। काव्यरसमहिमविषये चानेकानि शचीनपंद्यानि- निवसन्ति सुराः स्वर्गे निवसामो वयं भुवि ॥ । M अपि च- भाकृतिः] रसनिरूपणम् किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥१॥ सत्कविरसनासूनिस्तुषतरशब्दशालिपाकेन ॥ तृप्तो दयिताधरमपि नाद्रियते का सुधादासी॥२॥ पुनश्च- किं कविवचसा किंवा कामिन्या किं च धन्विवाणेन ॥ यस्मिन्स्वान्ते नयने तनौ च लग्ने शिरो न धूनयति ॥ विभावादिसंयोगाद्रत्यादिस्थायिभावानां स्वादुत्वे शृङ्गारा. दयो रसाभवन्ति।एवं शृङ्गारादिरसा उपमाद्यलंकाराः प्रसादा- दयो गुणाश्चेत्येवमाद्या मिलित्वा काव्यं स्वाकुर्वन्ति तत्र त- दास्वादः काव्यरसः ॥ अत एव च स शृङ्गारादिरसेभ्यः पर उत्कृष्टो विलक्षणश्च । विभावादयो मिलित्वा स्थायिभावं स्वा- दूकुर्वन्तीतीतरभावानां स्थाथिभावपरिचारकतया स्थायिभा- वो राजत्वेन व्यवहृतः । “यथा नराणां नृपतिः" इति भर- तः ॥ रसदशां प्राप्ताः स्थायिभावाश्च काव्यं स्वादूकुर्वन्तीति कापरसस्य साजराजपदयपरकम् । प्रायः ऋगासादिरसा- ऽलंकारगुणादयो मिलित्वैव काव्यं स्वादूकुर्वन्ति । तथापि क्क- चित्कस्यचिदभावेऽपिकाव्यरसनिष्पत्तिर्भवत्येव ॥साहित्यशा. स्रस्यायं सिद्धान्तः पूर्वमुक्तः । स च सर्वत्र स्मरणीय ॥ इतिश्रीमन्मरुमण्डलमुकुटमसिं-राजराजेश्वर- धिराज जी. सी: ऐस. भाई.. : कविराजमुरारिदानविरचिते यशवन्तभूषणे नाम द्वितीयाकृतिः समाप्ता ॥ ।
. यशवन्तभूषणम् । {ताया स्यानुसरणकर्तुरितरपदार्थस्याभावात्कस्मिंश्चिदपि रसस्या- भासो नास्तीति दृश्यकाव्यनाटकाद्वैलक्षण्यम् ॥ काव्यस्थ वक्ता तु सामाजिकश्रण्यन्तःपाती ॥ मम तु मतं, कदाचि- स्कस्यचित्सामाजिकस्य कदाचिच्च कस्यचित्सामाजिकस्य तादृशरसाविर्भावो यवान्तरफलम्। उभयविधस्यापि काव्य- स्य मुख्यं फलं तु समस्तसामाजिकविषयः काव्यरसस्य सर्वदा समानतया युगपदास्वादः ॥ काव्यास्वादविषये का- व्यप्रकाशे “ सद्यःपरनिवृतये " इति । काव्यरसस्तु कविर- चनाचातुर्यास्वादः। कविरचनाचातुर्यमेव कविसरस्वतीत्युच्य- ते ॥ सरस्वती-भारती-वाणी-वाग्देवीतिपर्यायाः ॥ कविरच- नाचातुर्यविपये लोकप्रवादोऽयम्- रविन यायाधं देशं तं देशं प्राप्नुयात्कविः" इति । कविभारत्या लोकविलक्षणत्वं दर्शयन्काव्यप्रकाशगतका- रिकाकार:- नियतिकृतनियमरहितां ह्रादैकमयामनन्यपरत- न्त्राम्॥ नवरसरुचिरा निर्मितिमादयतीभारती कवेर्जयति॥५॥ इत्याह ॥ शृगांरादयो रसास्तु कविभारत्या अवयवविशे- पा। काव्यरसमहिमविषये चानेकानि शचीनपंद्यानि-. "निवसन्ति सुराः स्वर्गे निवसामो वयं भुवि ।। + .
. अपि च- .. भारुतिः] रसनिरूपणम् १६६ किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥१॥ सत्कविरसनासूीनिस्तुषतरशब्दशालिपाकेन ॥ तृप्तो दयिताधरमपि नाद्रियते का सुधादासी॥२॥ पुनश्च- किं कविवचसा किंवा कामिन्या किं च धन्विबाणेन ॥ यस्मिन्त्वान्ते नयने तनौ च लग्ने शिरो न धूनयति ॥ विभावादिसंयोगाद्रत्यादिस्थायिभावानां स्वादुत्वे शृङ्गारा दयो रसाभवन्तिा एवं शृङ्गारादिरसा उपमाद्यलंकाराःप्रसादा- दयो गुणाश्चेत्येवमाया मिलित्वा काव्यं स्वादूकुर्वन्ति तत्र त- दास्वादः काव्यरसः ॥ अत एव च स शृङ्गारादिरसेभ्यः पर उत्कृष्टो विलक्षणश्च । विभावादयो मिलित्वा स्थायिभावं स्वा. दूकुर्वन्तीतीतरभावानां स्थायिभावपरिचारकतया स्थायिभा- वो राजत्वेन व्यवहृतः । " यथा नराणां नृपतिः" इति भर- तः ॥ रसदशां प्राप्ताः स्थायिभावाश्च काव्यं स्वादूकुर्वन्तीति काव्यरसस्य राजराजपदयोग्यत्वम् ॥ प्रायः शृङ्गारादिरसा- ऽलंकारगुणादयो मिलित्वैव काव्यं स्वादूकुर्वन्ति । तथापिक्क- चित्कस्यचिदभावेऽपिकाव्यरसनिष्पत्तिर्भवत्येव ॥साहित्यशा. स्त्रस्यायं सिद्धान्तः पूर्वमुक्तः । स च सर्वत्र स्मरणीयः ॥ इतिश्रीमन्मरुमण्डलमुकुटमर्सि- राजराजेश्वर महाराजा- 'धिराज जी. सी: ऐस. आई.. श्रीयशवन्तसिंहाज्ञानुसारेण कविराजमुरारिदानविरचिते यशवन्तभूषणे काव्यनिरूपणं नाम द्वितीयाकृतिः समाप्ता । 2 ।
१६८ , यशवन्तभूषणम् स्पानुकरणकर्तुरितरपदार्थस्याभावात्कस्मिश्चिदपि रसस्या- भासो नास्तीति दृश्यकाव्यनाटकाद्वैलक्षण्यम् ॥ काव्यस्य वका तु सामाजिकश्रणयन्तःपाती ॥ मम तु मतं, कदाचि. कस्यचित्सामाजिकस्य कदाचिच्च कस्यचित्सामाजिकस्य तादृशरसाविर्भावो यवान्तरफलम् । उभयविधस्यापि काव्य- स्य मुख्यं फलं तु समस्तसामाजिकविषयः काव्यरसस्य सर्वदा समानतया युगपदास्वादः ॥ काव्यास्वादविपये का. व्यप्रकाशे " सद्यःपरनिर्वृतये" इति । काव्यरसस्तु कविर- चनाचातुर्यास्वादः। कविरचनाचातुर्यमेव कविसरस्वतीत्युच्य- ते ॥ सरस्वती-भारती-वाणी-वाग्देवीतिपर्यायाः ॥ कविरच- नाचातुर्यविषये लोकप्रवादोऽयम्- " रविन यायायं देशं तं देशं प्राप्नुयात्कविः" इति ।। कविभारत्या लोकविलक्षणत्वं दर्शयन्काव्यप्रकाशगतका- रिकाकार:- नियतिकृतनियमरहितां हादेकमयामनन्यपरत- न्नाम् ।। नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति॥१॥ इत्याह ॥ शृगरािदयो रसास्तु कविभारत्या भवयवविशे- पाः। काव्यरसमहिमविषये चानेकानि प्राचीनपंद्यानि- निवसन्ति सुराः स्वर्गे निवसामो वयं भुवि ॥
. प्रपिच- भाकृतिः]] रस निरूपणम् किंवा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥१॥ सत्कविरसनासूीनिस्तुषतरशब्दशालिपाकेन ॥ तृप्तो दयिताधरमपि नाद्रियते का सुधादासी॥२॥ पुनश्च- किं कविवचसा किंवा कामिन्या किं च धन्विबाणेन । यस्मिन्त्वान्ते नयने तनौ च लग्ने शिरो न धूनयति ॥ विभावादिसंयोगाद्रत्यादिस्थायिभावानां स्वादुत्वे गृङ्गारा. दयो रसाभवन्तिा एवं शृङ्गारादिरसा उपमाद्यलंकाराःप्रसादा- दयो गुणाश्चेत्येवमाद्या मिलित्वा काव्यं स्वादूकुर्वन्ति तत्र त- दास्वादः काव्यरसः ॥ अत एव च स शृङ्गारादिरसेभ्यः पर उत्कृष्टो विलक्षणश्च । विभावादयो मिलित्वा स्थायिभावं स्वा- दूकुर्वन्तीतीतरभावानां स्थायिभावपरिचारकतया स्थायिभा- घो राजत्वेन व्यवहतः । “ यथा नराणां नृपतिः" इति भर- तः ॥ रसदशां प्राप्ताः स्थायिभावाश्च काव्यं स्वादूकुर्वन्तीति काव्यरसस्य राजराजपदयोग्यत्वम् ॥ प्रायः शृङ्गारादिरसा- ऽलंकारगुणादयो मिलित्वैव काव्यं स्वादूकुर्वन्ति । तथापिक्क- चित्कस्यचिदभावेऽपिकाव्यरसनिष्पत्तिर्भवत्येव ॥साहित्यशा- स्त्रस्यायं सिद्धान्तः पूर्वमुक्तः । स च सर्वत्र स्मरणीयः ॥ इतिश्रीमन्मरुमण्डलमुकुटमगि राजराजेश्वर महाराजा- धिराज. जी. सी: ऐस. आई.. श्रीयशवन्तसिंहाज्ञानुसारेण कविराजमुरारिदानविरचिते यशवन्तभूषणे काव्यनिरूपणं नाम द्वितीयाकृतिः समाप्ता ।
[तृतीया यशवन्तभूषणम् ॥श्रीहरिः॥ ॥अथालंकाराः॥ अगतोऽलंकृतिं नित्यं नानारूपस्य धारणात् ॥ प्रभुं प्रणम्य काव्यस्यालंकारान्वच्मिभूपते!॥१॥ . अलंकारा द्विविधाः ॥ शब्दरूपेरण काव्यशोभाकरः शब्दा. लंकारः । अर्थरूपेण काव्यशोभाकरोऽर्थालंकारः ॥ ॥ अथ शब्दालंकारः॥ वदन्ति शब्दं ब्रह्मेति वैयाकरणपण्डिताः॥ अलंकारोऽस्य शब्दस्य राजन्नद्य निरूप्यते॥१॥ शब्दनिष्ठः काव्यशोभाकरो धर्म: शब्दालंकारः ॥ ॥ अनुप्रासः॥ अत्रानूपसर्गार्थो वीप्सा । "अनु वीप्तायाम्" इति चिन्ता- मणिः ॥ प्रोपसर्थः प्रकृष्टः। प्रकृष्ट उत्तम: “प्रकृष्ट उत्तमे" इति चिन्तामणिः ॥ सशब्दार्थो न्यासः । “प्रकृष्टो न्यासः प्रासः" इति चिन्तामणिः । अनुप्रासेतिसमुदितशब्दार्थस्तु १ आकृतिः] शब्दालंकारनिरूपए २०१ वारं वारमुत्तमन्यास इति ॥ अर्थस्य वारं वारं न्यासे पुन- रुक्तिर्दूषणम्। तद्विपरीतस्य भूपणस्य बोधार्थमस्मिन्नामनि धुरंधरेण प्रोपसर्गः प्रयुक्तः। वारं वारमुत्तमरीत्या न्यासस्त्व: नेकेषां वस्तूनां भवतीत्यन्यत्रातिव्याप्तिवारणायात्र शब्दस्य वारं वारं न्यासे रूढिः। अत्र काव्यालंकारप्रकरणम्। काव्ये. च शब्दार्थरूपं वस्तुद्वयमेव भवति । तत्र वारं वारमर्थन्या. सस्य दूषणरूपतयाऽनुत्तमत्वाच्छब्दालंकारप्रकरणाचेह वार वारं शब्दन्यासस्यार्थसिद्धत्वमपि । तथा च, अनु वारं वारं प्रकृष्टस्योत्तमस्य शब्दस्य न्यासोऽनुप्रास इति फलितोऽर्थः । अनुप्रासस्तु शब्दस्योत्तमो न्यासः पुनः मुनः॥ यथा-- जयी जगत्सु विख्यातो जसवन्तजनाधिपः॥ वर्णः, पदं, वाक्यं, चरण इत्येतत्सर्वं शब्दः । अत्र जवर्णस्य वारं वारमावृत्तेरनुप्रासालंकारः ॥ यथावा- छत्रं श्रीयशवन्तसिंहनृपतिः पुत्रेषु राज्ञां यथा तहहाजिषुसज्जनो(*)ऽस्ति बहुलं चाञ्चल्यमेतत्समम्। नो नयां न च नेत्रयोन च नटे नोवापिनार्या तथा नो मीने न च मारुतेन च मृगेनो मानसे दृश्यते॥१॥ अत्र नकारमकारात्मकवर्णयोरावृत्तेरनुप्रासालंकारः॥ यथावा- (6) राजराजेश्वरस्य प्रीतिपात्रमेतनामकोऽश्वः । .
२०२. यशवन्तभूषणम [तृतीया यशवन्तमहामात्यप्रताप! मतिमंस्त्वया। मरुभूमिनिर्भयाद्य विहिता भुजविक्रमात् ॥१॥ अन पूर्वार्धे मवर्णस्योत्तरार्धे च भवर्णस्यावृत्तेरनुप्रासालंकारः। महाराजाधिराज-के. सी.ऐस. आई.-एडिकाङ्ग टु हिज रोयल हाईनैसदि प्रिंस आफ वेल्स-मरुदेशमहाराजमहा- मात्यकरनलसरप्रतापसिंहस्येदं चित्रम् ।।
थाकृतिः] 0 शब्दालंकारनिरूपणम् यथावा- यस्य चसविधे दयितादवदहनस्तुहिनदीधितिस्तस्य॥ यस्यनसविधेदयितादवदहनस्तुहिनदीधितिस्तस्य।११ अत्र "दवदहनः" इत्यस्य "तुहिनदीधितिः” इत्यस्य च पदस्य, “यस्य सविधे दयिता" इति वाक्यस्य चावृत्तेरनुप्री- सः ॥ पूर्वपदयोः समसितत्वात्पदत्वम् । “यस्य सविधे द- यिता" इत्यस्य पदसमुदायरूपत्वाद्वाक्यत्वम् ॥ . यथावा- हारहारकुचाभोगा रमणी राजतेतराम्॥ अत्र हारशब्दस्यावृत्तिः । अत्र प्रथमहारशब्दार्थों मुक्का- माला । द्वितीयहारशब्दार्थो मनोहर इति । पूर्वोदाहरणे श. ब्दयुगलस्त्यैकार्थत्वम् । इह त्वर्थयुगलस्य पार्थक्यम् ॥ यथावा- समरसमरसा ते वाहिनी शूरमान्या॥ अत्र समरशब्दस्यावृत्तिः । प्रथमसमरशब्दार्थो युद्धम् । द्वितीयसमरशब्दस्यार्थाभावः । "समरसा" इति संपूर्णश- व्दस्य सार्थकत्वेन विवक्षितत्वात् । समरसा समानरसवती ॥ यथावा- मधुपराजिपराजितमानिनी॥
यशवन्तभूषणम् वितीया भ्रमरपतिर्मानिनीमजयत् । उद्दीपनतया मामिन्या मानमोचनमकरोदित भावः । अत्र पराजिशब्दस्यावृत्तिः । उभयत्राप्यर्थाभावः । " मधुपराजि" इत्यत्र मधुप-राजि-शब्द- योः, “पराजित" इत्यत्र पराजित-शब्दयोश्च पार्थक्यात् ॥ .. यथावा- .. यदङ्गारवद्गां खुरैः स्पर्शयन्तः कुरङ्गा इवाङ्गानि संकोचयन्तः। नटन्तो रटन्तो भटं तोषयन्त- .स्तुरङ्गाः सुरङ्गाः पुरं गाहयन्ते ॥१॥ अत्र “अङ्गा-अयन्तः अन्त" इत्येवंरूपा पदांशस्यावृत्तिः । सा च न केवलमुक्तरूपेणेव श्रवणसुखावहा । किं तु दकार रकारादिविशिष्टेव श्रवणसुखमातनोतीत्यनुभवसिद्धम् । एव मन्यत्रापि ज्ञेयम् ॥ एतानि सर्वाण्यनुप्रासस्यौदाहरणान्तराणि ॥ अर्वाची. नाश्छेकानुप्रासलाटानुप्रासादीन् बहून्प्रकारान्मन्यन्ते । तनु- च्छम् । किं च वर्णस्य पुनरावृत्तिरनुप्रासः, शब्दस्य पुनरा- त्तिर्यममितिशब्दालंकारस्य द्वैविध्यं वदन्ति । यमकस्य च प्रकारप्रयं कथयन्ति । शवायुगलस्याप्यर्थाभावे एकः। एक- स्य सार्थकत्वेऽपरस्य चानर्थकावे द्वितीयः । उभयोश्चार्थवत्वे भयोरर्थवत्त्वेऽर्प भेदस्तवश्यं भांच्यः । एते शब्दा- कार्थवत्वेऽनुप्रासालंकारं स्वीकुर्वन्ति । यथा .
२०५ 13 याकृति] शब्दालंकारनिरूपणम् "यस्य न सविधे"इत्यत्र । अत एवानुप्रासाद्भेददर्शनायानं भि- नार्थकत्वमित्युक्तम् । प्रथमस्य "मधुपराजि-" इत्युदाहरणम् । द्वितीयस्य “ समरसमरसा." इत्युदाहरणम् । “ तृतीय- स्य "हारहार-" इत्युदाहरणम् । मम मते तु यमकस्यानुप्रा-. सेऽन्तर्भावः । पृथगलंकारार्हत्वाभावात् ॥ केचनेकाक्षरकाव्यं शब्दालंकारं पृथङ्मन्यन्ते ॥ यथा । सरस्वतीकण्ठाभरणे भोजः- न नोननुन्नो नुन्नोनो नाऽना नानानना ननु । नुन्नोऽनुन्नोन नुन्नेनो नाऽनेनानुन्ननुन्ननुत् ॥ १ ॥ मम तु मतं, सर्ववर्णानामेकत्वेऽनुप्रासतुल्यं रोचकत्वं ना. स्तीत्यनुभवसिद्धम् । अर्वाचीनाः पद्मखड्गधनुराद्याकारण काव्यलेखे चित्रकाव्यमित्युक्त्वा शब्दालंकारप्रभेदं मन्यन्ते ॥ ॥ पद्मवन्धः ॥ भासते प्रतिभासार! रसाभाताहताविभा ॥ भावितात्मा शुभा वादे देवाभा बत ते सभा ॥१॥ रसैराभाता शोभिता अहताऽप्रतिहता आविभा सम्यग्दीप्ति- र्यस्याः सा । भावितो निर्णीत आत्मा यस्यां सातवादे तत्त्व कायां शुभा । देवाभा देवतुल्या ॥ वाद वत माशु सत भा.
२० यशवन्तभूपणम् तृतीया ॥ खड्गबन्धः॥ मारारिशकरामेभमुखैरासाररंहसा ॥ सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥१॥ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।। . सान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥२॥ . 'मारस्य कंदर्पस्यारिः शिवः, शक इन्द्रः, रामो दाश.. रथिः परशुरामो वा, इभमुखो गणेशः, एतेरासाररहसा धा- रापाततुल्यवेगेन सारमंतिशयमारब्धः स्तवो यस्याः सा । तेषां मारारिशकादीनां नित्यं पीडाहरणसमर्था । त्रियां संघट्टः संमेलनस्थानम् । वाधितो निरस्तः संभ्रम उदेशो यस्याः सा । . रामाणां नारीणां सीमा परा काप्ठा) अन्यत्सुगमम् ॥
आकृति.] शब्दालंकारनिरूपणम् २०७ मेदिश्वादु दि रामाणाश . न्याथसौमा प्रियां बाधितसंभ्र में तानतानां संघट्ट रा र य स्त वा नित्यं तदा ति ह र ण क्ष रिश क्र रामेभ मुखे . रा सा र र ह सा मम तु मतं, शब्दे स्थित्वां काव्यशोभाकरो धर्मःशब्दालं- कारः । उक्तकाव्यलेखक्रिया तु मनागपि न काव्यशोभाक- रा। इदं विच्छालिप्यादिवत्क्रियाचातुर्यमात्रम् ॥ ईदृशम- कारागीकारस्तु प्रकारगणनारसिकानामिन्द्रजालम् ॥
यशवन्तभूपणम्
[तृतीया
इतिश्रीमन्मरुमण्डलमुकुटमणि- महाराजाधिराज- 'राज-
राजेश्वर जी. सी. ऐस, भाई. श्रीयशवन्तसिंहाज्ञानुसारेण
कविराजमुरारिदानविरचिते यशवन्तभूपणे शब्दालंकारनि-
रूपणं नाम तृतीयाकृतिः संपूर्णा ॥ ३ ॥
श्राकृतिः . अर्थालंकारनिरूपणम् अथार्थालंकाराः ॥ एको भवत्यनेको यः पुनरेकोप्यनेकतः ॥ तं नत्वा मरुभूपालार्थालंकारान्प्रचच्महे ॥१॥ काव्येऽलंकाराणामावश्यकत्वे भगवान्वेदव्यासः- अर्थालंकाररहिता विधवेव सरस्वती" इति ॥ अलंकाराणां तिस्रो गतयो भवन्ति। अलंकारान्तरं,प्रका. रान्तरं, उदाहरणान्तरं चेति ॥ विलक्षणत्वं यत्र स्यान्नामार्थेन हि सर्वथा ॥. अलंकारान्तरं तत्र ज्ञेयं मरुधराधिप! ॥१॥ विलक्षणत्वं लीनं स्यान्नामार्थे यस्य तस्य तत् ॥ प्रकारान्तरमादेश्यं यशवन्तनरेश्वर! ॥ २ ॥ विलक्षणत्वं यत्र स्याटुक्तिमात्रेण केनचित् ॥ विजानीहि महाराज! तत्रोदाहरणान्तरम् ॥३॥ अयं विवेकोऽस्माभिर्विहितः ॥ ग्रन्थकारैरलंकारा भिन्न- भिन्नक्रमेण प्रदर्शिताः । तत्रालंकारप्रदर्शनक्रमे वक्तुरि- च्छातिरिक्तं निमित्तं नोपलभामहे । वयं तु वर्णमालाक्रमेणा- लंकारान्वक्ष्यामः । तत्रं- ऋजुर्मनोहरा राजन्वहभूपणशालिनी ॥ - २१० . यशवन्तभूपणम् [चतुर्थी नानोज्ज्वलविधायुक्ता प्रोक्तादौ तन्मयोपमा।। ईदृशी कामिन्यप्यादरणीया भवति ॥ विधाः प्रकारा वि. धानं च । वहुभूपणशालिनीतिपदं साधर्म्यमूलकरूपकाद्यने- कोलंकाराश्रयत्वं बोधयति ॥ तदुक्तं चित्रमीमांसाकारण- उपमैषा शैलूपी संप्राप्ता चित्रभूमिकाभेदान् ॥ रुजयति काव्यरङ्गे नृत्यन्ती तहिदां चेतः ॥१॥ इति ॥ अथोपमा ॥ लोके हि भारम्य निर्णयः खलु गुजामापकर्षप्रस्थादिभि- स्तत्तत्पदार्थ तुलायां तोलयित्वा विधीयते । यथा सुवर्णादी- 'नाम् । उच्चनीचदीर्घत्वादिनिर्णयश्च हस्ताङ्गुलधनुगदिभि- स्तत्तत्पदार्थस्य मानं कृत्वा विधीयते । यथा गिरिकूपादीनाम् । स्थूलसूक्ष्मत्वादिनिर्णयस्तु तत्तत्पदार्थस्येतरपदार्थे समीपे - त्वा विधीयते । यथा वस्त्रादीनाम् ॥ उक्तलोकन्यायेन धुरंध- रेणोपमालंकारोऽङ्गीकृतः ॥ प्रायो लोकच्छायानुसारेणैवालं. काराङ्गीकारात् ॥ उपमेत्यत्रोपोपसर्गार्थः सामीप्यम् । “उप सामीप्ये" इति चिन्तामणि माङ्माने" इत्यस्मान्माशब्दो निप्पन्नः । मान मितिर्विज्ञानमिति पर्यायान्तरम् ॥ “मितिः, माने विज्ञाने" इति चिन्तामणिः । शत्र विज्ञाने विवक्षा । विज्ञानं विशेषज्ञानम् ॥ तथा च, उप सामीप्यात् मा मितिः विशेषज्ञानमुपमेत्यर्थः ॥ अपरपदार्थ समीपे कृत्वा वस्तूना- 1 आकृति] उपमा २११ मने के धर्मा निर्णीयन्ते। तथाप्यत्र वर्णाकृतिशीलरूपधर्मेपु रू- ढिः॥ तदुक्तं भगवता भरतेन- "उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥” इति ॥ अत्र गुणशब्देन वर्णशीलयोः संग्रहः । न्यायशास्त्रे क्रिया गुणात्पृथगभिहिता । आकृतेश्च गुणे संग्रहः संभवति तथापि साहित्यशास्त्रज्ञेस्तु तद्विवादः प्रणामेनानुनीतः ॥ तथाहि भानुदत्तः-- गिरां तव तरङ्गिण्यां वारयोन्मत्तवारणान् । यद्भविष्यति लोकानामाविलो विरलो रसः ॥” इति ।। अत्र रसशब्दे श्लेपः । रसो जलं शृङ्गारादिश्च । अत्रो- न्मत्तवारणा वैयाकरणा नैयायिकाश्च विवक्षिताः ॥ सा- माजिकानां वर्णाकृतिशीलरूपधर्मसादृश्याद्भिन्नभिन्नचम- स्काराखाद इतीह तेषु विलक्षणत्वं विवक्षितम् ।। एक वस्त्व. न्यस्य समीपे क्रियते तदा क्वचिन्न्यूनत्वस्य क्वचिदाधिक्यस्य क्वचिच्च समताया निर्णयः। अनोपमेयस्य वर्णनीयतया त- न्यूनत्वस्यानिष्टत्वादुपमेयाधिक्ये च व्यतिरेकालंकाराडीका- रादत्रोपमानोपमेययोः समतायां रूढिः ॥ एवं व समीप कृत्वा वर्णाकृतिशीलसादृश्यस्य विशेषज्ञानमुपमानामार्यः। कविरचना तु मानसी सृष्टिः। अत एवात्र मनसोपमेयमुप- मानस्य समीपे कृत्वा सादृश्यनिर्णयस्य विधानम् ॥ उपनेय- मुपमानं धर्मो वाचकश्चेति चत्वार उप्रमाऽवयवाः। उपनीयते यत्तदुपमेयम् । उपमीयते येन तदुपमानम् । अधिकगुपनुप- । ।
- - . v २१२ यशवन्तभूपणम् [चतुर्यो मानमिति वदतामाचामुपमेयस्य न्यूनगुणत्वमर्थसिद्धम् । उपमेयस्य वर्णनीयस्य न्यूनत्वे च कथमुपमाया भूपणत्वम् । वर्णनीयन्यूनतायाः सहृदयहृदयोदेजकत्वादृपणत्वापत्तेः ॥ प्रसिद्धगुणमुपमानमिति केचित् । तत्तु समीचीनम् ॥ ध्रियते इति धर्मः । वक्तीतिवाचकः । सामीप्याद्यत्तु विज्ञानमुपमाऽसौ निगद्यते ॥ यथा- मरुद्वन्मरुभूपाल! सर्वसंचारि ते यशः॥ राजराजेश्वरयशवन्तसिंहस्य यशः सर्वसंचारीतिसामान्य- ज्ञाने मन्मतिगोचरेऽपि सर्वनगरे संचारकरणाद्वैद्यस्य, सर्वदेशे, संचारकरणाद्राजाज्ञायाः, सर्वलोकेषु च संचारकरणान्मारुत- स्य सर्वसंचारितया नेदं विशेषज्ञानमासीत्, राजगजे- श्वरयशसः सर्वसंचारिता कीदृशोति । तन्निर्णयार्थ मनसि सर्वोत्कृष्टसर्वसंचारिमारुतस्य राजराजेश्वरयशसि समीपे कृते इदं विशेषज्ञानमभूत्, राजराजेश्वरयशसः सर्वसंचारिता मारुनेन सदृशीति ।। अत्र राजराजेश्वरयशो मारुतसमीपे कृत्वा यशसः सर्वसंचारिताया विशेषज्ञानं विघीयत इति यशस उपमेयत्वम् । मारुतस्य समीपे कृत्वा विशेषज्ञानं वि- धीयते इति मारुतस्योपमानत्वम् । उपमानोपमेयाभ्यामुभा- भ्यां धियते इति सर्वसंचारिताया धर्मत्वम् । उभयोर्धर्मसा. दृश्यस्य वाचकत्वादिवशब्दस्य वाचकत्वम् ॥ इवसमसदृश- भाकृतिः उपमा तुल्यादयः शब्दा उपमावाचकाः। अत्र केवलं मारुतस्य क्रियारूपसर्वसंचारिताधर्मस्योपमा । . यथा वा- ओष्ठस्ते सखि! विद्रुमेण सदृशः कण्ठः समः कम्बुना वाणी कोकिलवाक्समा गिरिसमावेतौ च वक्षोरुहौ। वेणी नागवधूसमा सनुरसौ सौदामनीविभ्रमा वकं चन्द्रसमं त्वदीयविभवो नान्यत्र संदृश्यते ॥१॥ प्रोष्ठस्ते सखि! विद्रुमेण सदृशः' इत्यत्र वर्णविषये, 'कण्ठः समः कम्वुना" इत्यत्राकृतिविषये,"वाणी कोकिल. वाक्समा" इत्यत्र शीलविषये, "गिरिसमावेतौ च वक्षोरुही" इत्यत्र कठोरत्वशीलविषये आकृतिविषये च, 'वेणी नागव- धूसमा" इत्यत्र वर्णाकृतिविषये, "तनुरसौ सौदामनीविभ्र- मा" इत्यत्र तनुत्ववाञ्चल्यशोलविषये वर्णविषये च, “वर्क चन्द्रसमम्" इत्यत्र वर्णाकृतिविषये आनन्ददायित्वादिशील- विषय चोपमा॥उक्तोपमासु सर्वास्वप्युक्तिमात्रस्य वेलक्षण्या- दुदाहरणान्तरत्वम्।न तुप्रकारान्तरत्वम् । एवमन्यत्रापि ज्ञेयम्। सकलसामयीं विनाप्युपमा सिध्यतीति प्रामुक्तम् ॥ साधर्म्यस्योपमावाजत्वेऽप्ति क्वचिद्वैधम्र्येणाप्युपमा प्रदर्शिता॥ यथा- स्फुरदंर्धमिलन्नेत्रा क्लान्ता दोहददुःखिता ॥ विभाति मृगशावाक्षी रतान्तसविता यथा ॥१॥ ..
यशवन्तभूषणम् [चतुर्थी मंत्र सुखदुःखयोः परस्पर विरुद्धधर्मत्वाद्वैधर्म्यम् । भर्वा- चीनैरूपमाया अनेक प्रकाराः कथिताः । मम तु मतं, तत्र दशैव मुख्या इति ॥ शुद्धा विपरीतापिच परस्परं स्यात्तथा परंपरिता॥ प्रोक्ता निजोपमा वैसमुच्चयाख्या बहूपमा माला . रसना च कल्पिताहृत्युपमाभेदा दशैव राजेन्द्र! ॥ अत्र शुद्धतिकथनेन निस्तरङ्गसमुद्रवत्स्वभावसिद्धोपमा विवक्षिता । शुद्धतराः सर्वपि प्रकारास्तरङ्गतुल्याः । उक्तसम. स्तोदाहरणानि शुद्धोपमाविषयाणि । प्रसङ्गत्वशादुपमेयस्योपमानकरणे विपरीतोपमा । . यथा- .यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये! तव मुखच्छायानुकारी शशी ॥ येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥१॥ अत्र सीतावियोगव्याकुलरामचन्द्रण तादृशवर्षतोरागमः प्रसङ्गे उपमानान्युपमेरुपमितानि । परस्परमपमानोपमेययोरुपमा परस्परोपमा ॥ इयमन्यो- म्योपमेत्यपि भएयते । सादृश्यस्य दृढनिर्णयोऽत्र फलम् । लोकेऽपि मानस्य दृढनिर्णयार्थ पदार्थ तुलायामितस्ततस्तो. लयन्ति ।। यथा- - श्राकृति] उपमा २१५ स्वल्पेनापि गुणेन तोषमयते, दाने प्रमाणं न हि, शुद्धा च प्रकृति,महेशपदभाक्त्वे(*)प्येषसाधारणः। वेषे, यस्य मुधा क्रुधा न, यशवन्तेशोऽस्ति भर्गोपमो भर्गः श्रीयशवन्तसिंहनपतेस्तुल्यः सदा वर्तते ॥१॥ अत्र महादेवेन सह राजराजेश्वरो राजराजेश्वरेण च म- हादेवः परस्परमुपमितः॥ यत्रोपमामूलाऽपरोपमा तत्र परंपरासद्भावात्परंपरितोपमा॥ यथा- -- आसीनौ शुचिसायमङ्गन उभौ सानन्दमत्रान्तरे निर्यातं प्रियवक्रतोऽन्यवनितानाम प्रियाया मुखे । क्रोधो मेघ इवोत्थितः, सुरधनुस्तुल्ये भ्रुवौ वक्रिते, बाष्पो विन्दुरिवाजनि, व्यपगतो हर्षश्च हंसो यथा ॥१॥ भत्र मुखोपरिप्रकाशमानकोपविषये तादृशमेघोपमाकर- णात्तत्परंपरया भ्रुवोरिन्द्रधनुषा वाप्पस्य च वारिदविन्दुभिरौ- पम्यम् ॥ नायिकाया उक्तकोपसामग्रीविषये तादृशवर्षोपमा- करणात्तत्परंपरया गतहर्षस्य हंसेनौपम्यम् ॥ समयभेदेन तस्मिन्विषये तस्यैवोपमा निजोपमा । - यथा-- प्रसन्नचक्षुर्वदनः स्फुरद्भुज उदारचेता यशवन्तभूपतिः ॥ (*) शिवस्य महेशपदवद्वर्णनीयनृपस्य राजराजेश्वरपदधारणम् ॥
- २१६ यशवन्तभूपणम [चतुर्थी यथा विवाहोत्सवमण्डप स्थित- स्तथाविधः संप्रति लक्ष्यते रणे ॥१॥ अत्र समयभेदात्समरसमये तादृशराजराजेश्वरो विवाह सामयिकतादृशराजराजेश्वरेणोपमित इति निजोपमा ॥ एकस्यैवोपमानस्य धर्मसमुच्चयेनोपमा समुच्चयोपमा ।। . यथा- जयी यशस्वी विद्यावान्परार्तिहरणक्षमः ॥ विक्रमादित्यवद्विश्वविदितो मरुभूपतिः ॥ १ ॥ अत्रैकस्येवोपमानभूतस्य विक्रमादित्यस्य जयशीनादिध- मसमुच्चयेन राजराजेश्वरविषये उपमाकरणात्समुच्चयोपमा ॥ बहूनामुपमानानामेकेनैव धर्मेणोपमा बहूपमा । यथा- हंसेन हीरेण हलायुधेन तुल्यं यशस्ते यशवन्तभूप! ॥ अत्र राजराजेश्वरयशोविषये हंसादीनां बहूनामुपमाना- नामेकेनैव श्वेतधर्मेणोपमाकरणाहूपमा ॥ कश्चिद्दडूपमा मालोपमा मत्वैकोपमयेव सादृश्यसिद्धौ पुनरुपमाप्रदर्शन व्यर्थमित्याह ॥ मम मने तु तस्यायं प्रमादः । लोकेऽपि दृढ- निश्चपाथै सजातीयरितरप्रस्थादिपरिमाणैस्तोलनरीतिरस्ती- सीहापि यहूनां समीपे कृत्वा विशेषज्ञाने चमरकाराधिक्य- स्यानुभवसिद्धत्वात् ।।
आकृति उपसा अनिकोपमानानां पृथक्पृथगनेकधरुपमा मालारूपंतया मालोपमा ॥ यथा- भाग्यात्तख्तनृपात्मजोऽयमधुना शास्ति प्रजा रामवं- दो यस्य भुजाश्रितः क्षितिभुजांख्यातः पवित्रैर्गुणैः॥ गाम्भीर्येऽम्बुधिना समः शशभृता तापापहारे सम ऐश्वर्ये सुरनायकेन सदृशस्तुल्यः प्रतापे रवेः ॥१॥ अत्र राजराजेश्वरविषये समुद्राद्यनेकोपमानानां पृथक्ट- थग्गाम्भीर्याद्यनेकधर्मालारूपतयोपमाकरणान्मालोपमा। उत्तरोत्तरान्वयिवलयनिर्मितलोकशृङ्खलान्यायेनोत्तरोत्तर- मुपमायां कश्चिच्छृङ्खलोपमामाह ॥ रसनाऽर्थात्कटिमेखला- ऽलंकारोऽपि प्रायः शृङ्गलाकृतिर्भवतीति केनचिद्रसनोपमेत्यु- क्तम् । रसनेतिकथनं शृङ्खलातो मनोहारि ॥ . यथा-- चन्द्रायते शुक्लरुचाथ हंसो हंसायते चारुगतेन कान्ता ॥ कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतमा विहायंः ॥१॥ उपमेयविषयोपमानाला. उपमेयोचितोपमानकल्पनयो- . : पमा कल्पितोपमा ॥ यथा- [चतुशै । २१८- यशवन्तभूषणम् स्तनाभोगे पतन भाति कपोलात्कुटिलोऽलकः ॥ शशाङ्कविम्वतो मेरौ लम्बमान इवोरगः ॥ १॥ अत्रोपमानस्यासिद्धत्वात्कल्पितत्वम् ॥ इयमेवाभूतोपमे- त्युच्यते । उक्तोपमासु चमत्कारवैलक्षण्येऽप्युपमानाम्नि ता; सां चमत्कारस्य लीनतयोपमाप्रकारत्वम् ॥ एवमन्यत्रापि ज्ञेयम् । सर्वाण्यप्युक्तोदाहरणानि स्तुतिपर्यवसायीनि । निन्दापर्यवसायि यथा- सिरोहीशश्चाहुमानो चन्यद्रिवलदर्पितः।। निःसारितो मानभटैोलिकाराव(*)वत्पुरात् ॥१॥ मत्रापि युक्तिचमत्कारस्य तादृशकाव्यशोभाकरतयाऽलं. कारत्वम् ॥ एवमन्यालंकारेप्यपि ॥ अर्वाचीनाः श्रवणमाने यौपम्यवोधे श्रौती, अर्थविचारेणोपम्यबोधे चार्थीतिप्रकारद्व- यमाहुः ।। तन्मते वाच्योपमा श्रौती, लक्ष्योपमा व्यङ्गयोप. मा चार्थी । कश्चिदर्वाचन इवादिवाचकशब्दप्रयोगे श्रवण- समकालमेव सादृश्यबोधाच्छोती, तुल्यादिवाचकशब्दप्रयो- गे क्षणं विचारेण सादृश्यबोधादा त्याह ॥ तन्मते इवार्थो यथेति । तुल्यार्थः समान इति । उपमायाः साक्षात्स्वरूपं च यथाशब्दप्रतिपाद्यर्थे । तदेतत्तुच्छम् ॥ सर्वेषामप्यर्थालंका- • राणां वाच्यलक्ष्पव्ययार्थभूलत्वाचत्रार्थस्यैव वैलक्षण्यम् । (6) होलिकोत्तरदिने नगरनिवासिनो मिलिता: कंचिंदेकं नरं व्यत्यस्तमञ्चकारूढं वि. धाप स्कन्धेरुदहन्तो भस्मरजो वर्षन्तो दुर्वचनान्पुरुचारयन्त. एकनाथै पुरादहिर्नयन्ति से मरदेशे होलिकाराष इत्युच्यते.॥ . , .
आकृति] उपमा २१६ न तु शब्दस्य ॥ उक्ताखिलोदाहरणेपूपमाया वाच्यत्वम् ।। लक्ष्योपमा यथा-- चौरो हास्यरसस्य किं, हिमगिरेः किं वा प्रभाणां प्रभुः क्षीराब्धेः किमु एच्छकः, किमथ वामित्रं तु मुक्तामणेः॥ बन्धुः किंशशिनो, ऽथवा प्रतिनिधिःकुन्दस्य किं, भूपत! किं पीयूषरिपुर्यशस्तव पुनर्हसस्य पुत्रोऽथ वा ॥१॥ भत्र नृपयशसि हास्यरसचौरत्वाद्यभाव इति वाच्यार्थ- बाधाच्छ्वैत्यसाधये लक्षणा ॥ प्रयोजनं तु पर्यायोक्त्या क- थनान्मनोहारित्वम् ॥ शत्रुमित्रपुत्रबन्धुप्रभुपृच्छकप्रतिनि- धीनां प्रायः सदृशतया बन्ध्वादिशब्दानां सदृशाथें लाक्ष- णिकप्रयोगः। चौरस्तु धनाद्यपहरणेन धनवान् भूत्वा तत्स- दृशो भवति ॥ व्यङ्गयोपमा यथा- तस्यैतौ नयने विभीदिनपती रात्रीपति धिको न्यूनो वापि तयोर्वदान्यकमणेःकर्णस्य सूर्याजनेः॥ चिन्ताऽभूहिकटा विधोर्नृपवरायोद्योतचन्द्र! त्वयि निर्मूला चिरकालिकी समभवसिंहासनाधिष्ठिते॥ १ ॥ भत्र भवान्दोंने कर्णेन संदृश इत्युपमा व्यापलभ्या ॥ एवमन्यालंकारेवपि ज्ञयम् ॥ अर्वाचीना उपमानोपमेयध- मवाचकानां चतुर्णामवयवानां कथने पूर्णोपमेति, तेयु यशवन्तभूषणम् [चतुर्थी चैकस्य दयोस्त्रयाणां वाऽकथने लुप्तोपमेतिप्रकारमाहुः। यथा- भत्र आखएडल इवोदारो यशवन्तनरेश्वरः ॥ भत्र राजराजेश्वर उपमेयम् । इन्द्र उपमानम्। उदारता धर्मः । इवशब्दो वाचकः । एपां चतुर्णामप्यवयवानां कथना- स्पूर्णोपमा । आखएडलेन सदृशो यशवन्तनरेश्वरः ॥ च्छन्दोवशाद्वाञ्छावशादोदारताधर्मस्याकथनेऽपि प्रसिद्धया लाभः । अर्वाचीना इमं धर्मलुप्तोपमाख्यं प्रकार वदन्ति । "अहो चन्द्रमुखीवाञ्छा" भत्र च्छन्दोवशादिच्छावशाद्वा प्रकाशादिधर्मस्येवादिवा. चकशब्दस्य चाकथनेऽपि चन्द्र इव प्रकाशकारि मुखं यस्या इत्यर्थविधिना धर्मवाचकयोलाभः ॥ अर्वाचीना अत्र धर्म- वाचकलुप्तोपमाख्यं प्रकारमाहुः । काव्यप्रकाश धर्मवाचका- पमानलुप्ताया इदमुदाहरणम्-- तरुणिमनि कृतावलोकना ललितविलासक्ती वितीर्णविग्रहा। स्मरशरविसरादितान्तरा मृगनयना हरते मुनेर्मनः ॥ १॥ अत्र चञ्चलताधर्मेण नायिकानेत्रयो गोप्युपमानम् ।
उपमा . श्राकृतिः] तथात्वे तु चञ्चलताधर्मेण मृगस्योपमानत्वे विवक्षिते "मृग इव नयने यस्याः" इति विग्रहः । अस्मिन्पक्षे मृगस्योपमा- नस्योक्तत्वाद्धर्मवाचकलोपः ॥ वर्णाकृतिचञ्चलताशीलधर्मेंस्तु नायिकानेत्रयोर्मृगनयनमुपमानम् । मृगनयनस्योपमानत्वे विवक्षिते " मृगनयने इव नयने यस्याः" इति विग्रहः । अस्मिन्पचे "छानेकमन्यपदार्थे ॥ २॥ २ ॥ २४॥" इति पाणिं- निसूत्रस्थेन “सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्च" इति वार्तिकेन मृगनयनेतिपदे उत्तरपदभूतस्योपमानरूपनय- नशब्दस्य लोपादुपमानस्यापि लोपः। साहित्यदर्पणादिषूपमे- यलुप्तोपमाया इदमुदाहरणम्-- यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्वे ।। अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा । सा- धारणधर्मः शुक्लता। अनयोर्लोप। कुवलयानन्दे लुप्तोप- माया अष्टौ, काव्यप्रकाशे च समासादिभेदादेकोनविंशतिः- प्रकारा मदिताः । अप्पयदीक्षितेन प्रथम कुवलयानन्दे लु- तोपमाऽष्टविधा प्रज्ञप्ता । परं तु पश्चात्तेनैव पूर्णविमर्शविहित- चित्रमीमांसायाम् “अयं पूर्णालुताविभागो वाक्यसमासप्र- त्ययविशेपद्वारोदाहरणदर्शनफलं च व्याकरणशास्त्रस्य कौश- लप्रदर्शनमात्रम्. अलंकारशास्त्रस्य बोधेऽनुपयोगात्" इत्यु- कम् ॥ मम तु.मतं, समासविधिनोपमानादिलोपो वाच्या. र्थस्य च प्रत्ययादिना प्रतिपादनं तु व्याकरणशास्त्रे प्रचलिता रीतिरिति नेह व्याकरणस्यापि श्लाघनीयकौशलम् ।
। २२२. यशवन्तभूपणम चतुर्थी प्रसिद्धधर्मस्य च खतो लाभानदनुपादानं तु गौरवानिवृत्तिमा- त्रम् । नात्र चमत्कारलेशोऽपि ॥ चन्द्रालोके उपमाया इदं लक्षणम्- "उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ॥” इति ।।. · · लक्ष्मीः शोभा । उल्लसति व्यत्यमर्यादां विना स्पष्टं प्र- काशते । न हीदं लक्षणमुपमायाः साक्षात्स्वरूपस्य बोधकम् । उपमानोपमेययोरुभयोः सादृश्यलक्ष्म्या उल्लासस्तु संदेहालं- कारे।उपमायां तूपमेयस्यैव सादृश्यलक्ष्म्या उल्लास इत्युपमाया- मुक्तलक्षणस्यासंभवादसंभवदोपः किं च भ्रान्तिसंदेहाद्यलंका- राणां सादृश्यमूलत्वात्तन्मतोक्तलक्षणस्य तेवतिव्याप्तिरपि ॥ अयं विषयस्तीक्ष्णया बुद्ध्याऽवधारणीयः ॥ इत्युपमाप्रक- रणम् ॥१॥ ॥ अतद्गुणः ॥ धुरंधरो वक्ष्यमाणेतद्गुणालंकारस्य विपरीतभावेऽतद्गुणालं- कारमंङ्गीचकार ॥ वर्णक्रमवहादस्माभिरयमलंकारः पूर्वम- भिहितः । न तद्गुणः, अत्तद्गुणः । अत्र नन् निषेधार्थकः। परगुणसंवन्धस्य निषेध इतिभावः ॥ अन न्यायशास्त्रोक्तरूप- रसादिगुणा एव न धुरंधरविवक्षिताः। किं तु लोकप्रसिद्धगुणो विवक्षितः । लोके हि सद्भावो. गुणशब्देनोच्यते ! अनोपल- क्षणेनासद्भावस्यापि संग्रहः ॥ अत्र कारणारकार्याजनिरूप. चमत्कारोऽविवक्षितः। तत्र विचित्रालंकारस्य विवक्षितत्वात्।
आकृतिः] अतद्गुणः २२३ अत्र तु स्वगुणागुणसामर्थ्यवशात्परगुणागुणधारणाभावे घ- मत्कारः । परगुणासंबन्धो हि कार्यकारणभावतो विलक्षणः। इहाश्चर्यबुद्ध्यभावो विचित्रे त्वाश्चर्यबुद्धिरितिभेदः ॥ संगत्यामप्यसंवन्धो राजन्परगुणस्य हि । अतद्गुणाख्योऽलंकारः कीर्तितोऽतिमनोहरः ।। यथा- पयोधिपङ्केऽपि शशाङ्कबिम्बे मदाम्बुनीलेष्वपि दिग्गजानाम् ॥ मुखेषु खेलद्यशवन्तसिंह! यशः सदा ते विमलं विभाति ॥१॥ अत्र राजराजेश्वरयशसि मदकलङ्कयोः संगतेः सत्त्वेऽपि तदीयश्यामगुणस्य संबन्धो न जात इत्यतद्गुणत्वम् ॥ अत्रापकृष्टगुणस्यातद्गुणता ॥ गुणश्च वर्णरूपः ॥ यथा वा- सरुनाथ तवारियोषितां सहवासेऽपि वनेचरस्त्रियः ॥ न विदुर्मणिगुञ्जयोर्मिदा न हृतं तेन तदीयभूषणम् ॥१॥ अत्रोत्तमपदार्थाऽऽदरकारिराजयोषितां निरन्तरसंसर्गेऽपि स्वमौढ्यसामर्थ्यवशाच्छवराङ्गनानामुत्तमानुत्तमवस्तुभेदज्ञान- चतुर्थी २२४ 'यशवन्तभूपणम् गुणत्यासंवन्धादतद्गुणत्वम् ॥ अत्रोकृष्टगुगास्यातद्गु- णता ॥ चन्द्रालोके इदं लक्षणम्- 'संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् ॥” इति ॥ इदं लक्षणं नामार्थानुसारि ॥ इत्यतद्गुणप्रकरणम् ॥२॥ अतिशयोक्तिः ॥ अत्रातिशयशब्दार्थोऽतिक्रमणम् । अतिक्रमणं तूलधनम् । अतिशयितः, अतिक्रान्ते" इति चिन्तामणिः । अतिशय- स्पोक्तिरतिशयोक्तिः ॥ उल्लङ्घनं तु गिरिसागर-ज्ञादीनामने- केपां भवतीतिलोकमर्यादोल्लइनेऽत्र रूढिः । इयमतिशयो- क्तिः सर्वालंकारजीवनम् । तदुक्तं " कोऽज कारोऽनया विना" इति ॥ अलौकिकत्वमन्तरा तु काव्यसंज्ञापि न भवति । भ. लंकारत्वं तु तस्यापि शोभाकरमित्यलौकिकत्वं विना कथं घा तत्संभवः ॥ "वचनं श्रूयते प्राचां सर्वालंकृतिजीवनम् ॥ एषैवातिशयोक्तिर्वे कोऽलंकारोऽनया विना ॥" उपमादिष्वतिशयापेक्षयोपमादिचमत्कारस्य प्राधान्या- दुपमादिरलंकारः । भन्न तु केवल मतिशयस्यैव प्रधानचम- स्कारित्वं तन्नैव च पर्यवसानमित्यतिशयोक्किरलंकारः ॥
.
२२५
थाकृतिः]
अतिशयोक्तिः
काव्येऽलौकिकत्वमिष्टमिति विधिसृष्टिलहनं तु कविसृष्टो
वहुधा भवत्येव ॥
यथा-
रे रे चन्द्र! यदि त्वमिच्छसि मुखेन्दोः साम्यमेवं कुरु .
• पूर्व स्नाहि सुधाम्बुधौ हि भवतो यत्स्यात्कलङ्कक्षयः।। .
देहे ते विमलेऽमलेऽम्वुजदले वासात्सुगन्धिर्भव
तुल्यस्त्वं हि तदा न चेत्व वदनंतस्याभवान्कासि भोः॥
अस्मिन्नलंकारे तु कविस्तृटेर प्युल्लकनम् । तादृशवर्णनस्य
कविसृष्टिमर्यादातोपि बहिर्गतत्वप्रतीतेः । तादृशलोकसीमा-
लनं सामाजिकोद्वेगजनकत्वे तु प्रसिद्धिविरुद्धदूपणं भवति॥
..
यथा-
M
राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः ॥
पुनस्त्वद्वैरिवनिताबाप्पपूरेण पूरिताः ॥ १ ॥
क्वचिच्च चमत्कारपुरस्कारेण लोकसीमालचनस्य सामा-
जिकाल्हादजनकत्वे भूपणरूपत्वम् ॥
पथा परिहासः॥
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो
धूमः सोऽगुरुभवो धूपः ।। १ ।।
एवमेवोक्तं शृङ्गाररसरसिकविहारिकविनापि-
अरसोऽपि से यायाद्रसवद्रसिकान्तिके ॥
इसोफेन्धिः कोरोऽपि यथा मधुरिमान्वितः॥१॥
। चतुर्थी 'यशवन्तभूषणम् गुणस्यासंबन्धादतद्गुणत्वम् ॥ अवोत्कृष्टगुणस्यातद्गु- राना ॥ चन्द्रालोके इदं लक्षणम्- संगतान्यगुणानङ्गीकारमाहुरतद्गुणम् ॥” इति ॥ इदं लक्षणं नामार्थानुसारि ॥ इत्यतद्गुणप्रकरणम् ॥२॥ अतिशयोक्तिः ॥ .. . . अत्रातिशयशदार्थोऽतिक्रमणम् । अतिक्रमणं तूल्लकनम् । अतिशयितः, अतिक्रान्ते" इति चिन्तामणिः । अतिशय स्योक्तिरतिशयोक्तिः ॥ उल्लकनं तु गिरिसागर-ज्ञादीनामने केपां भवतीतिलोकमर्यादोल्लङ्घनेऽत्र रूढिः । इयमतिशयो- तिः सर्वालंकारजीवनम् । तदुक्तं " कोऽन्न कारोऽनया विना" इति ॥ अलौकिकत्वमन्तरा तु काव्यसंज्ञापि न भवति । अ- खं कारत्वं तु तस्यापि शोभाकरमित्यलौकिकत्वं विना कथं घा तत्संभवः॥ "वचनं श्रूयते प्राचां सर्वालंकृतिजीवनम् ॥ एषैवातिशयोक्तिः कोऽलंकारोऽनया विना ॥" उपमादिश्वतिशयापेक्षयोपमाविचमत्कारस्य प्राधान्या. दुपमादिरलंकार । भत्र तु केवलमतिशयस्यैव प्रधानचम- स्कारित्वं तत्रैव च पर्यवसानमित्यतिशयोक्तिरलंकारः ॥
२२५
भाकृतिः]]
अतिशयोक्तिः
काव्येऽलौकिकत्वमिष्टमिति' विधिसृष्टिलङ्घनं तु कविसृष्टी
बहुधा भवत्येव ॥
.
यथा--
रे रे चन्द्र! यदि त्वमिच्छसि मुखेन्दोः साम्यमेवं कुरु .
पूर्व स्नाहि सुधाम्बुधौ हि भवतो यत्स्यात्कलङ्कक्षयः।।.
दहे ते विमलेऽमलेऽम्बुजदले वासात्सुगन्धिर्भव
तुल्यस्त्वं हि तदान चेत्व वदनंतस्याभवान्कासि भोः॥
अस्मिन्नलंकारे तु कविस्मृप्टेरप्युल्लङ्घनम् । तादृशवर्णनस्य
कविसृष्टिमर्यादातोपि वहिर्गतत्वप्रतीतेः । तादृशलोकसीमा-
लखन सामाजिकोद्वेगजनकत्वे तु प्रसिद्धिविरुद्धदूषणं भवति॥
यथा-
राजन्सप्ताप्यकूपारास्त्वत्प्रतापाग्निशोषिताः ।।
पुनस्त्वद्वैरिवनिताबाप्पपूरेण पूरिताः ॥ १ ॥
क्वचिञ्च चमत्कारपुरस्कारेण लोकसीमाल छनस्य सामा
जिकाल्हादजनकत्वे भूषणरूपत्वम् ॥
यथा परिहासः॥
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १॥
एवमेवोक्तं शृङ्गाररसरसिकविहारिकविनापि-
अरसोऽपि रसं यायाद्रसवद्रसिकान्तिके ॥
इनोग्रन्थिः कठोरोऽपि यथा मधुरिमान्वितः ॥१॥
२२६ [चतुर्थी 'यशवन्तभूषणम् लोकसीमाल छनोदाहरणानां दूपणभूषणत्वनिरूपणवि. पये सहृदयहृदयमेव साक्षि ॥ लङ्घनं लोकसीमायाः प्रोच्यतेऽतिशयो बुधैः ॥ राजन्नतिशयस्योक्तिस्तदाख्यालंकृतिर्मता ॥१॥ यथा- गरलं मलिनाङ्गारा और्वश्चाग्निर्भुजङ्गराड्धमनी । वजाघातैर्मेरी घटनं प्रलयाम्बुनिर्वापः ॥१॥ शाणस्तिग्ममरीचिश्चेत्थं यमराजकारुणा रचितः । श्रीयशवन्तनृपाल! खगस्ते घोरतर एपः ॥२॥ राजराजेश्वरखास्योत्पत्तिसामग्री लोकसीमाल इन घोषयन्त्येव तादृशसामग्रीकल्पनारूपकविप्रतिभाचातुर्येण • चमत्कारप्रदतया सामाजिकमनास्याल्हादयन्ती भूपणं भव ति । न तूद्वेगजनकतया दृषणम् ॥ यथा वा- न नीतवान्यां तु हिरण्यनेत्रो मग्ना न चांभूत्प्रलयाम्बुधौ या ॥ कस्यांपि. रूढा न दलं नृपस्य न कम्पिता याऽहिवरस्य मूर्ना ॥१॥ दत्ता द्विजेभ्यो न च भार्गवेण : चक्रेण सूर्यस्य रथस्य नाप्ता ॥ . -- २२७ सामा- आकृतिः] अतिशयोक्तिः कान्ता न पादैः खलु वामनेन जिगाय तां मां किल मानभूपः ॥२॥ जयनगरनरेशमानसिंहो दिल्लीश्वराकवरसेनापतिर्भूत्वा भारतवर्षमजयत् । तस्येदं वर्णनं लोकसीमालानं बोधयदे- व तादृशापूर्वटथ्वीकल्पनारूपकविप्रतिभाचातुर्येण जिकचमत्कारदायितयाऽऽनन्दजनक सद्भूषणम् । न तूद्वेग- जनकं सदूपणम् ॥ दण्ड्याचार्यस्येदमुदाहरणम्-- मल्लिकामालभारिण्यः सर्वाङ्गीणाचन्दनाः ॥ क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥१॥ इदं शुक्लाभिसारिकावर्णनं लोकसीमालधनं बोधयदेव चन्द्रवदनाज्योत्स्नाभिसारसंबन्धियथोचितभूपणवसनादिसा- मग्रीसहायेन सामाजिकचमत्कारदायितयाऽऽनन्दप्रदं सद्भूप- णम् । न तूद्वेगजनकतया दूपणम् ॥ यथा वा- न दृश्यते सा तन्वङ्गी शयाना नन्दनन्दन ! ॥ अङ्गोष्मणोऽनुमानेन पर्यके ज्ञायते तु सा ॥ १॥ नायकं प्रति सख्या इयमुक्तिः। वियोगिन्याइदंवर्णनं लोकसी. मालकनं बोधयदेव तस्या वियोगजन्यकाय॑स्यस्वाभाविकका- यादेवंरीत्या पृथरदर्शनं रोचकमितिसामाजिकचमत्कारदायि- तयाऽनन्दजनकंसद्भूषणम्।नतूद्वेगजनकं सदूषणम् ॥ तिशयोक्तो प्रसिद्धिविरुद्धदोषस्य समाधानं वस्मत्प्रदर्शितमेव २२८ यशवन्तंभूषणम् चतुर्थी धुरंधराभिप्रेतम् । दण्याचार्यादर्वाचीनास्तु लोकसीमालइने लोकसीमाया अलहनस्य निगरणमिति समादधते । अलं- कारसर्वस्वकारस्त्वतिशयोक्तेः : सामान्यलक्षणमपीदमेवाह- "अध्यवसितप्राधान्येऽतिशयोक्तिः" इति ॥ अध्यवसायस्य चेदं लक्षणमाह- "विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः' इति ॥ निगरणं तु निगलनम् । तच्चात्र स्फटिककलशगतासव. न्यायेन विवक्षितम् । स्फटिककलशगतासवो यथा पहिरु द्भासते, तथा विपयिण उदरगतस्य विषयस्योद्भासनमध्यव- साय इत्यर्थः । अध्यरसायोदाहरणं च रूपकातिशयोको स्पष्टतरम् । अतिशयोक्तेः प्रकाराष्टकं भणता चन्द्रालोकका- रेणातिशयोक्तेः सामान्यलक्षणमनुक्त्वा रूपकातिशयोक्त्या. ख्यप्रकारे उक्तसिद्धान्तस्य दिग्दर्शनं कृतम् ॥ "रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः" इति ॥ . .. यथा- . .. 4 पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ।। एपा मते नयनेभ्यो नीलोत्पलानां कटाक्षेभ्यश्च घाणानां भेदे सत्यभेदकथनम् । एतच्च लोकसीमाल बन. प्रसिद्धिविरुद्ध- रवाहोपाईम्।तथाप्यत्र नीलोत्पलेषु नयनानां वाणेषुच कटा- समाधा- भाकृति] अतिशयोक्तिः २२६ क्षाणामुद्भासनमर्थाच्छ्रोतृयोध्यत्वमित्युक्तदोपस्य नम् । मम मतेऽपीदं निमरणं लोकसीमालइनस्य वारणम् । तत्त्वे च न वा तत्संवन्धि दूषणं न च भूपणम् । क्षणमात्रं कस्यचिदानं चेदाभासालंकारः । अन्यथा रूपकालंकारः॥१॥ तस्यैवान्यतया वर्णनं भेदकसंवन्धिलोकसीमातिलचन- रूपमितिभेदकातिशयोक्तिः ॥ . यथा- .. हसितं दर्शनं चास्या जल्पनं चान्यदेव हि ॥ सर्वेषां हसितदर्शनजल्पनानां मुखनयनरसनासाध्यत्व- मित्यभेदे सति भेदकथनं पूर्ववद्दोषः । तथाप्युक्तकथने हसि- तादीनामन्यप्रकारतोद्भासनं समाधानम् । मम मतेऽपि ना- प्रातिशयोक्तिः। किं तु व्यतिरेकालंकारः ॥ २ ॥ अयोगेऽसंबन्धे संवन्धस्य कल्पना संबन्धसंबन्धिलोक- सीमालइनरूपति संबन्धातिशयोक्तिः ॥ यथा- सौधाग्राणि पुरस्यास्य स्टशन्ति विधुमण्डलम् ॥ सौधाग्राणां विधुमण्डलस्पर्शस्यासंबन्धादत्रान्यसौधेभ्यो ऽत्युत्तङ्गतोद्भासनं समाधानम् । मम मतेऽपि पूर्ववन्नात्राति- शयोक्तिः । किं तु व्यतिरेकालंकारः ॥ ३॥ योगे संवन्धेऽसंबन्धस्य कल्पनाऽसंवन्धसंवन्धिलोकसीमा- लइनरूपेत्यसंबन्धातिशयोक्तिः ॥ यथा- - २३. . यशवन्तभूपणम् [चतुर्थी त्वयि दातरि राजेन्द्र ! स्वर्द्धमान्नाद्रियामहे ।। राज्ञः समीपे कल्पतरोः सम्मानस्य नासंबन्ध इतीह राज्ञ उत्कर्षाधायकतया संबन्धोद्भासनं समाधानम् ॥ मम मतेऽपि पूर्ववन्नानातिशयोक्तिः । किं त्वाभासालंकारः ॥१॥ कारणप्रसक्त्या कार्यस्योत्पत्तौ कार्यचपलताया लोकसी- मानहानरूपत्वाच्चपलातिशयोक्तिः । . यथा--- यास्यामीत्युदिते तन्व्या वलयोऽभवदुर्मिका ॥५॥ कार्यकारणयोर्युगपद्भावोऽक्रमः । अस्य चाक्रमस्य लोक. तीमालहनरूपत्वात्तत्वेऽक्रमातिशयोक्तिः । .. यथा- आलिङ्गन्ति समं देव! ज्यां शराश्च पराश्च ते ॥६॥ कार्यकारणयोः पूर्वापरभावव्यतिक्रमस्यात्यन्तं लोकसी- मालकनरूपत्वादत्यन्तातिशयोक्तिः ॥ - यथा- अये मानो गतः पश्यादनुनतिा प्रियेण सा ।। उक्तप्रकारत्रयेऽपि कार्यशेयूस्योद्भासनं, समाधानम् । मम मतेऽपि पूर्ववन्नाप्रातिशयोक्तिः । किं.तु विचित्रालंकारः॥७॥ अपन्हुतिसहितत्वे सापन्हवातिशयोक्तिः ॥८॥ अन्न प्रका- राष्टकऽपि निगरणरूपसमाधानमतिशयोकेरिणम् । तदा- .. भाकृतिः अतुल्ययोगिता चोक्तप्रकाराष्टकंप्यतिशयोक्तेरभावादत्रातिशयोक्तरसंभवः ॥ सापन्हवातिशयोक्तरपन्हुत्यतिशयोक्तयोः संसृष्टिरूपत्वात्प्र- कारवाङ्गीकारः प्रमादः । निगरणनिश्चयरूपमतिशयो- तलक्षणं तत्स्वरूपबोधकं न भवतीत्यसंभवदोषः। किं चोक्ता.. 'तिशयोक्तिप्रकारेभ्योऽन्यत्र तन्मतोक्तलक्षणस्याव्यासिरपि । यथा- नासाकूणनपूर्व संनाक्षि ध्रुवं च कुटिलतराम् ।। कृत्वा मातुः शपथं चकार ततुदति कण्टकवत् ॥१॥ भत्र नायिकाया अरुचिबोधकचेष्टायां रुचेनिगरणम् ॥ इत्यतिशयोक्तिप्रकरणम् ॥ ३ ॥ अतुल्ययोगिता ॥ धुरंधरेण तद्गुणस्य विपरीतभावेऽतद्गुणालंकारं मत्वाऽलं. कारस्य विपरीतभावेऽलंकारान्तरसंभवस्य दिग्दर्शिता। तद- नुसारेण तुल्ययोगिताद्यलंकाराणां विपरीतभावेऽतुल्ययोगि. तादयोऽलंकारा भस्माभिर्लचिताः । न तुल्ययोगिता, अतु- ल्ययोगिता ॥ सुल्ययोगजनेर्यत्र संभवो मस्नायक! ॥ न मवेत्तुल्ययोग चेत्तत्रोक्ताऽतुल्ययोगिता ॥१॥ यथा- २३२ यशवन्तभूम्प [ चतुर्थी श्रान्ता विक्रयिणोऽतिविक्रयवशात्संढोकयन्ता(*)भृश श्रान्ता दूतगणा विलिख्य बहुशो देशान्तरे पत्रिका श्रान्तास्तै विनिवेदनात्परिजनास्त्वं राजराजेश्वर! विश्रान्तो न हि तख्तसिंह! वितरन्हेमाम्बराणिप्रभो!१! . भृशं कार्यकरणाच्छान्नत्वे सर्वेऽपि मनुजाः समानधर्मिणः। अत्र विदेशालेमाम्बराण्यानयतां वणिजां, स्वस्वामिनः प्रति तदानोदन्तं लिखतामितरभूपदूताना, हेमाम्बरदानार्थ निवेद- यितृणामधिकारिणां च श्रान्तत्वेन सह हेमाम्बरदानविपये श्रान्तत्वस्य संयोगो राजराजेश्वरतख्तसिंहस्याप्यवश्यं संभ- वति । स च न जात इत्यतुल्ययोगिताऽलंकारः ॥ इत्यतुल्य- योगिताप्रकरणम् ॥ ४॥ अधिकम् ॥ भस्मादयमाधिक इत्यस्मिन्नर्थेऽप्यधिकशब्दः प्रयुज्यते। तंत्र त व्यतिरेकालंकारः। वाञ्छितार्थादधिकलाभेऽप्यधिकश- ब्दस्य प्रयोगो दृश्यते तत्र प्रहर्षणालंकारः ॥ इत्यादि ॥भत्र त्वकस्माद्वस्तुमोऽपरस्य भाव आधिक्यमित्यस्मिन्नर्थेऽधिकश- ब्दस्प रूढिः । अत्र कस्यचिस्यकृष्टहर्पोत्पादस्तात्रेव च पर्यव. सानं चेत्तत्र प्रहर्षणालंकारो भविष्यति ॥ (*) चतुर्धचरणाद्वेमाम्पराणीति फर्मपदमाकर्षणीयम् ॥
भाकृतिः] २३३ अधिकम् एकस्मादस्तुनोऽन्यस्य भाव आधिक्यमत्र हि ॥ अधिकालंकृतिज्ञेया धुरंधरमतानुगैः ॥ १॥ यथा-- वागम्बुपरिपूर्णेऽस्मिन् रम्ये विश्वसरोवरे ॥ यशवन्तयशःपद्मद्विरेफो राजते वियत् ॥१॥ भत्र कमलेन सरोवरस्येव यशवन्तसिंहयशंसा जगतः शोभेति कवे राजराजेश्वरस्तुतिरभिलपिता ॥ तत्र यशसः कमलत्वसिद्धये परंपरितरूपके कवेः प्रयत्नः । परंपराकम- निर्वाहार्थं चाकाशस्य भ्रमरत्वेन रूपणम् । तत्राकाशकमल- योर्विस्तारतारतम्याद्राजराजेश्वरयशस आकाशतोऽपि महा. विस्ताररूपस्तुतिलाभोऽधिकालंकारः ॥ यथावा । अमरीकबरीभारभ्रमरीमुखरीकृतम् il. दूरीकरोतु दुरितं गौरीचरणपङ्कजम् ॥ १॥ अत्र पार्वत्या रमादिसकलदेवाङ्गनाः पादारविन्दं पूजयन्ती- त्यैश्वर्यरूपा स्तुतिः कवेरभिलपिता । अंत्र भारम्भात्पूर्तिपर्य- न्तमनुप्रासस्य निर्वाहे कवेः प्रयत्नः । कविसंप्रदाये च प्रायो भ्रमरवर्णनं जातिपरतया विधीयते । न तु स्त्री'विशेषतया।. अत्र तु भ्रमरतिस्त्रीवाचिपदप्रयोगोऽनुप्रासस्य निर्वाहार्थ- कः । देवाङ्गनानां सौन्दर्यमेव प्रसिद्धम् । न तु रातीत्वमपि। भत एव देवागंनाकेशपाशेषु सुगन्धिलुब्धानां भ्रमरीभ्रम- यशवन्तभूपणम [चतुधी राणां सर्वेपामपि संभवः । पार्वतीपादारविन्दप्रणामसमये च समीपवर्तिस्त्राविशंपेऽपि भ्रमर्य एव चरणस्पर्शमाचरन्ति। न तु भ्रमरा अपीति पार्वत्या असाधारणपातिव्रत्यमहिमरूप- स्तुतिलाभोऽधिकालंकारः॥ चन्द्रालोककारोऽधिकस्य प्रकारद्वयं वदन्निदं लक्षणो. दाहरणमाह-- "अधिकं एंथुलाधारादाधेयाधिक्यवर्णनम् ॥ पृथ्वाधेयाद्यदाधाराधिक्यं तदपि तन्मतम् ॥ " यथा-- ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः॥ कियहाग्ब्रह्म यत्रैते विश्राम्यन्ति गुणास्तव ॥१॥ पूर्वोदाहरणे सर्गारम्भापारवारिण आधारस्याधिकतया वर्णनीयनृपयशस भाधेयस्याधिकत्ववोधः । उत्तरोदाहरणे च वर्णनीयनृपगुणगणस्याधेयस्याधिकतया वाग्ब्रह्मण आधा- रस्याधिकत्वबोधः । मम तु मतं, पृथुलाधारादाधेयाधिक्य- प्रतीतिः पृथुलाधेयाचाधाराधिक्यप्रतीतिर्वा नलोकोत्तरा। भत एव कविकर्मरूपत्वाभावात्तादृशाधिक्यस्य नालंकारपदाहत्व- .म् ॥ “वागम्बुपरिपूर्णे-" इत्यत्राकाशरूपान्सहत आधेयाद्रा- जराजेश्वरयशस आधारस्याधिक्यप्रनीती सत्यामप्यस्मिन्नशे तु नाधिकालंकारः । अपि तु परंपरितरूपकप्रयत्ने राजरा- जेश्वरयशसस्तागाधिधरूपस्तुतेरधिकलामरुपांशेऽधिकाल- भाकृतिः] अनवसरः कारः ॥ उक्तलक्षणमधिकालंकारस्वरूपावृत्तितयाऽसंभवदोष- ग्रस्तम् ॥ इत्यधिकालंकारप्रकरणम् ॥५॥ अनवसरः ॥ वक्ष्यमाणावसरालंकारस्य विपरीतभावेऽनवसरालंकारो- ऽस्माभिलषितः अलंकारोऽनवसरोऽवसरापगमे कृतिः ॥ अप्रियस्ते महाराज! तथापि श्रूयतामसौ ॥ १ ॥ यथा- संदेश आयान्मरुभूपतेः पुरा ततश्चमूर्गिणवर्पणं ततः ॥ संधौ रुचिस्ते न तदाऽभवत्प्रिय! वनेऽधुना काङ्क्षसि का विवेकिता ॥१॥ यथा व:- विदेशं बान्धवा याता विनष्टाः कृषयोऽपिच ॥ मृताश्च पशवो मेघो दुग्धं कामं प्रवर्पतु ॥१॥ इत्यनवसरप्रकरणम् ॥६॥ अनुज्ञा ॥ अनुज्ञाशब्दार्थः संमतिः । “मनुज्ञा, भनुमतौ । अनुमतिः २३६ यशवन्तभूषणम् [चतुर्थी संमतौ।" इति चिन्तामणिः॥ अनुज्ञायते इत्यनुज्ञा । संमति- स्त्वाकारः । अङ्गीकारयोग्यस्याङ्गीकारस्तु न क्षोकोत्तरः । त- स्मादिहानीकारयोग्यस्याङ्गीकारे रूढिः । अनङ्गीकारयोग्य- • स्याङ्गीकारश्च केनचिन्निमित्तेनैव रमणीयतयाऽलंकारत्वमापद्य- ते। अलंकारप्रकरणानिमित्तस्य लाभः । रूढिर्वा । केनचिनि- - मित्तेनानीकारयोग्यस्याङ्गीकारोऽनुज्ञालंकार इत्यर्थः । अनङ्गीकारयोग्यस्याङ्गीकारो मरवल्लभ। केनापि हि निमित्तेनानुज्ञालंकृतिरिष्यते॥१॥ - यथा- हाःपालवेत्रैः किल कन्दुकाभ नृत्यन्ति राज्ञां मुकुटानि यत्र ।। सिन्धोरधीशो(*) विशति प्रभातो द्वारे तु तस्मिन्मरुनायकस्य ॥१॥ सत्कारपूर्वं हि लभे प्रवेश- मुपोपविष्टश्च पठामि काव्यम् ॥ मुरारिनामा कविराट् ततोऽहं युगे युगे याचकजन्म याचे ॥२॥ युग्मम् ॥ (*) अत्र सिन्धुदेणधीशकयनेन राजराजेश्वरविजयसिंहशरणायातसिन्धुपतिवराजपट्ट- पतिर्विवक्षित
"
प्राकृतिः]
श्रनुज्ञा
२३७
लोके याचकत्वमनङ्गीकारयोग्यम् । जोकप्रवादोऽपि
याच्ञा न साध्वी जनके रक्षेत्संधां यदि प्रभुः।
तथाप्युक्तासाधारणसन्माननिमित्तेन मम मुरारिदानस्य
जगदीश्वराद्याचकजन्मयाचनमनङ्गीकारयोग्यस्याङ्गीकारः ।।
चन्द्रालोके इदं लक्षणोदाहरणम्-
दोषस्याभ्यर्थनाऽनुज्ञा तत्रैव गुणदर्शनात् ॥
यथा-
विपदः सन्तु नः शश्वद्यासु संकीर्त्यते हरिः॥
"
..
यथा वा-
धन्या निर्धननारीयं शयाना वन्दते विधुम् ॥
धिग्धिग्धनाढयतां यत्र कपाटानां तु कोटयः॥१॥
अत्र कुलटाया अनङ्गीकारोचितदारिद्र्यदशाया अङ्गी-
कारः ॥ दारिद्रयदशायाः श्लाघनमप्यङ्गीकार एव । अत्र
याच्याया अभावादर्वाचां लक्षण मव्याप्तम् ।
यथावा-
ज्ञात्वा जगद्विनाशकमपिबद्गरलं महेश्वरो राजन्! ॥
भ्रान्त्योपासत इतरं जगदीशः कोऽस्ति 'तेन समः ॥
अत्र जगद्विनाशकत्वदोपं जानत एव हरस्यानङ्गीकारयो.
ग्यहालाहलस्याङ्गीकार इति सर्वथैवाचिां लक्षणस्याव्या-
तिः ॥ इत्यनुज्ञाप्रकरणम् ॥ ७ ॥
२३८. यशवन्तभूपणम् [चतुर्थी अन्योन्यम् ॥ G अन्योन्यं तु परस्परम् । घहुधाऽन्योन्यव्यवहाररीतिलों के दृश्यते इति लोकन्यायेन धुरंधरोऽन्योन्यालंकारमङ्गीचकार ।। अन्योन्यत्वमलंकारोऽन्योन्यनामा नराधिप! ॥ उपकारादिभेदेन बहुधाऽयं प्रभिद्यते ॥ १ ॥ यथा- जगता मरुभूपालो मरुभूपतिना जगत् ॥ शशिना गगनं भाति गगनेन तथा शशी ॥१॥ अत्रान्योन्यमुपकारः। यथा वा- करोति शक्रमातङ्गकपोलो मलिनौ मदः ॥ मरुनाथयशः शुभ्रौ विदधाति पुनः पुनः ।। भत्र शकगजैरावतगण्डस्थलविपये गजमदस्य राजराजे- श्वरयशवन्तसिंहयशसश्चान्योन्यकृत्यपहाररूपापकारस्य ह- ठः॥ उपमा स्वतन्त्रालंकार इत्यन्योन्योपमा (परस्परोपमा) उपमायाः प्रकारत्वेन भणिता.॥ चन्द्रालोके इदं जचणम्- अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् " 1 .
आकृतिः]] २३६ अपन्हुतिः "करोतिशक्रमातङ्ग-" इत्याद्युदाहरणेष्वर्वाचां लक्षणाम- व्याप्तम् ॥ ननु भवतापि यत्रतत्रोपलक्षणमङ्गीक्रियते इती- हाप्युपलक्षणेनापकारादीनां संग्रहो भविष्यति । एवमन्यालं- कारेष्वपीति चेन्न । उपलक्षणस्य तु स एव विषयो यत्र व: तुस्तात्पर्यंत्वनेकवस्तुविषयं केनचिञ्च प्रयोजनेनैकस्यैव वस्तुनः कथनम् | तत्र वक्तुस्तात्पर्यस्य वाधात्तत्संबन्धिनोऽन्येऽप्यर्था ल- क्ष्यन्ते । इह तूक्तलक्षणासामग्री न विद्यते ।। न ह्यत्रोपकार- कथनेनापकारादो वक्तुस्तात्पर्य सिध्येत् । अपि तूपकारस्य नि- यम एव सिध्यति ।। प्रयोजनं विना च बाधितप्रयोगोऽनुचित एव ॥ इत्यन्योन्यप्रकरणम् ॥ ८ ॥ अपन्हुतिः ॥ अपन्हवशब्दार्थों गोपनम् । " गोपनमपन्हवे" इति चि- न्तामणिः ॥ अपन्हुतिरपन्हव इत्यनर्थान्तरम् । अपपूर्वात् न्हुङो भावे क्तिन् ॥ अपन्हूयते इत्यपन्हुतिः ॥ अपन्हुतिरलंकारस्त्वपन्हव इहेष्यते ॥ यथा- नायं शारदचन्द्रो यशवन्तेश्वरयशो विभात्येतत् ॥ नेदं कलङ्कलक्ष्म सहलग्नो भिक्षुकस्तोमः ॥१॥ शास्त्रेषु प्रशस्तवस्तुनो वर्णः श्वेतः, भप्रशस्तस्य च २४० यशवन्तभूषणम् [चतुधी श्याम उक्तः । ततो भिक्षु कसमूहः श्यामवर्णत्वेनाभिमतः ॥ नायिकाविरहदशायां शशिन उद्दीपनत्वादतद्राजराजेश्वरस्य यश इत्युक्त्वा सख्याऽत्र शशिनोऽपन्हवो विहितः । यशसि कलङ्काभावाचन्द्रमसि च तत्सत्त्वादुक्तशङ्कानिरासार्थनयं भि- क्षुरुसमूह इत्युक्त्वा कलङ्कोऽपन्हुतः ॥ यथा वा-- सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ॥ नागरिकः किं मिलितो नहि नहि सखि! हैमनः पवनः ॥१॥ अत्रांतरङ्गसखी प्रति नायकवृत्तान्तं वदन्त्यां नायिकाया. मकस्मादागतबहिरङ्कसंख्या " किं कान्तः" इति प्रश्ने कृने नायिकया हेमन्तपवनवृत्तान्तमुद्दिश्योक्तकान्तवृत्तान्तस्थाप- न्हवो विहितः॥ सर्वा हसन्त्यमूरिह को वा हासस्य वीक्षितो विषयः॥ कृष्णो गलं गृहीत्वा चाणूरोऽमारिदर्शयत्येवम् (*)।११ इयं नायिका गुप्ता ॥ अत्र निदर्शनायाः संकीर्णत्वम्॥ धुरंधरेणात्र गोपनार्थेऽपन्हुतिशब्दः प्रयुक्तः । किं वस्यालं- कारस्य स्वारस्यांपरिज्ञानादर्वाचीना "हु अपनयने" इति धातुपाठानुसारेणापन्हवशब्दार्थ दूरीकरणमज्ञासिपुः । “प- नयनं दूरीकरणे" इति चिन्तामणिः ॥ तच्च तेषामुदाहरण- (*) कृष्णो गलं गृहीत्वा दर्शयसि, मया चाणूर एवममार्राति संबन्धः ।।
प्राकृतिः
अपन्हुतिः
दर्शनास्पष्टतरम् । दूरीकरणं तु निषेधः । निषेधस्य चम-
कारित्वे आक्षेपालंकारः । निषेधस्याक्षेपेऽन्तर्भावात् ॥
अर्वाचीना अपन्हुतेः प्रकारपट्कमाहुः । चन्द्रालोके इमा-.
नि लक्षणोदाहरणानि-
शुद्धापन्हुतिरन्यस्यारोपार्थो धर्मनिन्हवः ॥
यथा--
नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् ॥
पद्मपुष्पमपि चन्द्रवदुद्दीपनम् । ततश्चन्द्रमपन्हूय पन-
प्रदर्शनमप्यसंभवितमेवेति चन्द्रस्यात्र निषेध एव ॥१॥
स एव युक्तिपूर्वश्वेदुच्यते हेत्वपन्हुतिः ॥
यथा--
--
नेन्दुस्तीवो न निश्यर्कः सिन्धोरौवोऽयमुत्थितः ॥
सूर्यस्योद्दीपनत्वाभावात्तत्साहचर्येणात्र न चन्द्रस्यापन्हवः।
कि त निषेध एव ॥२॥
अन्यत्र तस्यारोपार्थः पर्यस्तापन्हुतिस्तु सः॥
यथा---
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् ॥
अत्रापि चन्द्र सुधांशुत्वस्य गोपनं न संभवतीति निषेध
एवं ॥ अत्र पर्यस्तशब्दार्थः सर्वतः प्रस्तृत इति ॥३॥
२४२ यशवरतभूषणम [चतुर्थी . भ्रान्तापन्हुतिरन्यस्य शङ्कायां भ्रान्तिवारणे ॥ यथा-- तापं करोति सोत्कम्प ज्वरः किं न सखि! स्मरः ॥ अत्रापि सख्या ज्वरशङ्कायां तद्धान्तिपारणार्थ नायिकया खस्मरतापस्य निश्चयः प्रदर्शित इति ज्वरस्य गोपनासंभवा- निषेध एव ॥१॥ कैतवापन्हुतिर्व्यक्तौ व्याजाद्यैर्निन्हुतेः पदैः ॥ यथा- निर्यान्ति स्मरनाराचाः कान्ताहक्पातकैतवात् ॥ अत्रापि स्मरशरारोपान्नायिकाकटाक्षाणां गोपनासंभवा. निषेध एवं ॥५॥ छेकापन्हुतिरन्यस्य शङ्कातस्तथ्यनिन्हवे ॥ यधा- प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः ।। "जल्पन्मस्पदे लंगः" इति नायिकोक्याऽकस्मादागतव. हिरङ्गसखी नायकवृत्तान्तं शङ्कितवती । तच्छानिवृत्त्य) नायिकया"न हिनूपुरः" इत्युक्त्वा नायकसंवन्धितथ्यन्तात- स्यापन्हवः कृत इत्यस्मिन्नुदाहरणे गोपनन्यं संभवः खलु । तथापि प्रकारपट्कमध्यादुदाहरणपञ्चके निषेधः स्पष्टतर इ. रयुक्तक्रमौचित्येनास्मिन्नुदाहरणेऽपि निषेध एवं कवेस्तात्पर्य आकृतिः अपूर्वरूपम् २४३ सिध्यति ॥ छेकश्चतुरः ॥६॥ मम तु मतं, सर्वेष्वप्युक्तोदा- हरणेष्वाक्षेपालंकारः । ततश्च चन्द्रालोकल क्षणान्यसंभवदो- पग्रस्तानीति वेदितव्यम् । भ्रान्तिरूपवस्तुनिषेधो भ्रान्तापन्हु- त्याख्यः प्रकार उक्तः ॥ स तु समीचीनः । धुरंधराभिप्रे तापन्हुत्यलंकारेऽप्यस्य संभवात् ॥ सखि! ताटङ्कमाणिक्यप्रभां किं वा कपोलयोः । कान्तदन्तक्षतं ज्ञात्वा वाससा विनिगृहसे ॥ १ ॥ भ्रान्तापन्हुतिः प्रकारश्चेद्वास्तववस्तुनो गोपने निषेधे वा शुद्धापन्हुत्याख्यः प्रकारोऽपि युक्त एव ॥ अवशिष्टप्रकारच- तुष्टयं त्वाक्षेपालंकारस्योदाहरणान्तरमात्रम् ॥ इत्यपन्हुतिप्र. करणम् ॥ ६ ॥ अपूर्वरूपम् ॥ नक्ष्यमाणपूर्वरूपालंकारस्य विपरीतभावेऽपूर्वरूपालंकारो- ऽस्माभिलेक्षितः॥ न पूर्वरूपमपूर्वरूपम् । अत्र रूपकथनेनाव- स्थादीनां सर्वेषां संग्रहः ।। अभावः पूर्वरूपस्य यत्र स्यान्मस्नायक! ॥ अपूर्वरूपालंकारो ज्ञेयस्तत्र वुधोत्तमैः ॥ यथा- : मांभूस्त्वं यशवन्तसिंहनृपतेः क्रोधस्य पात्रं प्रिय!
यशवन्तभूषणम् चितुर्थी ते वासे गिरिकन्दरासु न पुनहर्येषु संवत्स्यसि ॥ कान्तारे खलु 'जम्बुकादिरचितर्ध्वानः प्रवुध्य प्रगे स्तोत्रैर्वन्दिजनोदितैन हि पुनः संजागृति प्राप्स्यसि।। अन भविष्यदपूर्वरूपम् ॥ तनूदाहरणान्तरमात्रम् ॥ इत्य- " पूर्वरूपप्रकरणम् ॥ १० ॥ अप्रत्यनीकम् ॥ .. वक्ष्यमाणप्रत्यनीकालंकारस्थ विपरीतभावेऽप्रत्यनीकाल- कारोऽस्माभिर्लक्षितः ॥ न प्रत्यनीकमप्रत्यनीकम् ॥ अप्रत्यनीकं तत्र स्यादनीकं प्रति यत्र न ।। दिग्दर्शनेन धुर्यस्य विज्ञातोऽयं मयानुप! ॥१॥ यथा- रिपुं प्रबाधते साक्षात्तत्पजां न मरोश्चमूः ॥ मृगाई वाधते राहुन तारास्तस्य संश्रयाः ॥ अत्र शत्रुसंबन्धिप्रजानामपीडनमनत्यनीकालंकारः ॥ इत्यप्रत्यनीकप्रकरणम् ॥ ११ ॥ अप्रस्तुतप्रशंसा ॥ अप्रस्तुतप्रशंसेत्यत्र नञ् निषेधार्थतः । प्रस्तुतशब्दार्थः प्रासनिक इति । " प्रस्तुतः प्रासङ्गिके" इति चिन्तामणिः॥ मासनिकः प्रसङ्गप्राप्तः। अत्र शंसाशब्दः कथनार्थकः । “शंसु २४५ . आकति] अप्रस्तुतप्रशंसा कथने स्तुतौ च " इति धातुपाठे ।। कथनं तु कथा । “कथ- नं कथायाम्" इति चिन्तामणिः ॥ कथां वृत्तान्तमप्याहुः । भन शंसुधात्वर्थ एव प्रोपसर्थिः । तदुक्तं व्याकरणशास्त्रे- धात्वर्थ वाधते कश्चित्कश्चित्तमनुवर्तते ॥ तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥१॥” इति। क्वचिदुपसर्गों धात्वथै बाधते । धातोरन्यमनं करोतीत्य- र्थः। क्वचिच्च धातोरनुवर्तनं करोति । यस्मिन्नर्थे धातोर्वृत्तिरुप- सर्गोऽपि तमेवार्थ प्रतिपादयतीत्यर्थः । क्वचिच्च धातोरथ वि- शिनष्टि । धात्वर्थे विशेषत्वं वोधयतीत्यर्थः । क्रमेण यथा- " भादत्ते ॥ " दाधात्वर्थो दानम् । “दा दाने" इति धातु- पाठे । पत्राडुपसर्गो दाधात्वर्थ दानं वाधित्वा ग्रहणमर्थं चो- धयतीति धात्वर्थस्य बाधः । "प्रसूते" ॥ पूधात्वर्थः प्रसवः। प्राण्युत्पादनमिति यावत् । अत्र प्रोपसर्गोऽपि तस्मिन्नेवार्थे वर्तते इत्यनुवर्तनम् ॥ "प्रवर्धते" ।। वृधधात्वर्थो वृद्धिः । अत्र प्रोपसर्गो वृद्धी विशेषत्वं बोधयतीति विशेषता ॥ अप्रस्तुत. प्रशंसेतिसमुदितशब्दार्थस्तु " अप्रस्तुतस्याप्रासङ्गिकस्य प्र- शंसा कथा" इति ॥ अप्रस्तुतकथा च कस्यचित्प्रसङ्गेऽप्रसङ्गे च सर्वत्र कथ्यते । अप्रसने तु- रामो नाम बभूव हुँ, तदबला सीतेति हुं, तो पितु- र्वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः ॥ कृष्णेनेतिपुरातनी निजकथामाकर्ण्य मात्रेरितां - . . २४६ यशवन्तभूषणम् चतुर्षी सौमित्रे! क्वधनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः॥१॥ इति ॥ भत्रोकाप्रस्तुतकथा कस्यचित्प्रसङ्गे न भणिता। किं तुमा- त्राबालकं प्रतिकाचित्कथा कथिताइहतु कस्यचित्प्रसङ्गे कथि- तायामप्रस्तुतकथायां रूढिः । प्रसङ्गेऽप्रस्तुतकथाकथनं लोक- रीतिः। महाभारतादीतिहासयन्थेष्वपि प्रसङ्गेवप्रस्तुतकथा गदिताः । तदनुसारेण धुरंधरोऽप्रस्तुतप्रशंसालंकारमगीच- कार । प्रसङ्गभणिताप्रस्तुतकथायां क्वचिदप्रस्तुतकथा प्रस्तुत- कथा चेत्युभयमपि वाच्यं भवति । कचिच्चामस्तुतकथात एव प्रस्तुतकथा व्यज्यते ॥ लाघवार्थ कवेरीदृशी रचना । भत्र प्रस्तुतकधारूपव्ययार्थस्याग्रस्तुतकथारूपो वाच्यार्थः शोभा. कर इत्यप्रस्तुतकथाया अलंकारत्वम् । प्रस्तुतकथाया अप- स्तुतकथायाश्च सारूप्यसंवन्धः सामान्यविशेषभावसंवन्धो वा भवतीति प्रस्तुतप्रसङ्गे प्रस्तुतकथाकथनस्य रोचकत्वम् ॥ अ- न्यथा खकाण्डप्रथनदोपः। न पत्र सारूप्यसंबन्धांशे पर्यवसा- नम् । तन पर्यवसाने तूपमालंकारः स्यात् । उपमांशस्य दी- पकतुल्ययोगिताद्यनेकालंकारेषु विद्यमानत्वेऽपि तत्र पर्यवसा- नाभावाहीपकतुल्पयोगितादीनां पप्रधानतमा तेषु तेषु पर्यव- सानात्तत्र दीपकतुल्ययोगितादय एवालंकारा भवेयुः। तथे- हाप्यप्रस्तुतप्रशंसांशस्योडरकंधरतया तत्रैव पर्यवसानम् ।- स्यैव च प्रधानतया काव्यशोभाकरत्वम् । ननु प्रकरणप्राप्ता- ऽप्रस्तुतकथापि प्रस्तुतैवेति चेन्न । तस्या मुख्यतया वर्णनी- यस्वाभावान प्रस्तुतत्वम् ।
२४७ [कति] अप्रस्तुतप्रशंसा अप्रस्तुतकथा प्रोक्ता प्रसङ्गे कस्यचिद्यदि ॥ अप्रस्तुतप्रशंसा स्यादलंकृतिरधीश्वर! ॥१॥ यथा- मरालसन्दाय ददाति मुक्ता मधुव्रतेभ्यो मकरन्दपानम् ॥ जलं तृषार्ताय च मानसाख्यं सरस्तदेतज्जगतः सुखौकः ॥ १॥ अस्माभिरस्मत्प्रणीतप्रवन्धद्वयस्य यशवन्तयशोभूषणं य- शवन्तभूषणमिति च नामधेयमेनयोर्यशवन्तसिंहस्य यशोम- या अलंकाराः प्रदर्शिता इत्यभिप्रायेण भणितम् ॥ अत एव च प्रारम्भात्समाप्तिपर्यन्तं सर्वेष्वप्यलंकारेषु प्रथमोदाहरणं यशवन्तसिंहयशोविषयमुक्तम्।तथाचं प्रकरणवशादिदमुदाह- रणं राजराजेश्वरयशवन्तसिंहयशोविषयमितिसकंलश्रोतृवे. द्यताप्रकरणवैजक्षण्येन सहृदयश्रोतुरिदं प्रतीयते, राजराजे. श्वरस्याखिलजगदभिलाषापूरकत्वप्रसङ्गे इयं मानससरोवर- संबन्धिन्यप्रस्तुतकथा कथितेति । सा च प्रतीयमानप्रस्तुता. र्थस्य शोभाकरत्वादलंकारः॥ यथा वा-.. ग्रीष्मेऽत्यन्तप्रीत्या मालाकारेण पालितो विटपः॥ अतिशयवर्षायामप्युपकारं विस्मरेन्नु कथम् ॥१॥ •• . २८. यशवतन्तभूषणम् [चतुओं इदं पद्यं राजराजेश्वरमानसिंहसामन्तरायपुराधीशोदा. वत्तराष्ट्रवरार्जुनसिंहविषये कविराजवाडीदासेनोकम् । सुभट प्रति कबेरुतावस्य वाच्यार्थस्यासमञ्जसतया सहृदयश्रोतुरिदं प्रतीयते, पूर्वमापत्काले उकसामन्तेनास्य कवेः सुष्टु भरणपो- * पणं विहितमिति पश्चाद्राजराजराजेश्वरमानसिंहस्य प्रसाद- प्राप्तावप्युक्तसामन्तस्योपकृतिरस्याविस्मरणीयेति प्रसङ्गै क- विराजवाङ्कीदासोक्ता विटपमालाकारसंबन्धिनीयमप्रस्तुतक था प्रतीयमानप्रस्तुतार्थस्य शोभाकरत्वादलंकारः । यथा वा-- एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको वेगाद्रुरुर्धावति ॥ निशःङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह! विना त्वयाय विपिने कीदृग्दशा वर्तते ॥१॥ अत्र संहृदयश्रोतुरिदं प्रतीयते, कस्यचिद्दलवतोऽधिकारि- जमस्य परलोकवासात्कापुरुषाः खच्छन्दाचारे प्रवृत्ताः । मूर्खाः कार्यविधाते प्रवृत्ताः । क्षुद्रपुरुषाणां महत्त्वाभिमानी जातः । वावदूकाः प्रलपने प्रवृत्ताः । साहसिनो लुण्टने प्रयत्नाः । एवं दुर्दशापनदेशस्य प्रसङ्गे सिंहशून्यस्य ध. नस्येयमप्रस्तुतकथा कथितेति । अन्न कस्यचिच्छ्रोतुवढे- च्यार्थ एव विश्रामश्चेदुतारण्यवर्णनेऽवस्थान्तरप्रातः परिणा- मानंकारः ॥ एवमन्येप्वप्यप्रस्तुतप्रशंसोदाहरणेषु विज्ञेयम् । यथा वा-- - २४६ भाकृतिः अप्रस्तुतप्रशंसा शीलं कीदृगलेरिदं प्रिय! वरं, पीत्वा स्थलाब्जे मधु प्रातर्मत्ततरो नवीनलतिकाटन्दे रमित्वा पुनः । मालत्यापि च तृप्तिमेत्य परमामन्यत्र संक्रीडने नीत्वा सर्वदिनं च रात्रिसमये शेते नलिन्या सह।। अत्र नायिकायाः शठनायकं प्रत्ययमुपदेशः प्रस्तुतः, दिवा- ऽनेकाभिः सह रममाणेनापि निशि गृहमागत्य शयनं कर्त- व्यमिति । तत्प्रसङ्गे भ्रमरस्येयमप्रस्तुतकथा भणिता । अत्र चतुर्थचरणे देहलीदीपन्यायेन प्रस्तुतवृत्तान्तोऽपि वाच्यत्वेन प्रदर्शित इति प्रस्तुतकथाऽप्रस्तुतकथयोर्वाच्यत्वम् ॥ अत्र भ्रमरोऽपि पुरोवर्तितया प्रस्तुतः । तथापि मुख्याभिप्रेतादति- रिक्तमप्रस्तुतमेवेत्युक्तोदाहरणे नायिकाया नायकं प्रति निशि गृहशयनोपदेशे मुख्यं तात्पर्यमिति तत्प्रसङ्गे कथितः पुरोव- तिभ्रमरवृत्तान्तोऽप्यप्रस्तुत एव । अत्र कस्यचिच्छ्रोतुर्बुद्धे. च्यार्थमात्र एव विश्रामश्चेद्भमरवर्णने स्वभावोक्त्यलंकारः॥ कवयः साधर्म्यणाप्रस्तुतकथाकथने सारूप्यनिवन्धनाऽ. स्तुतप्रशंसेत्याहुः । उक्तोदाहरणानि साधर्म्यविषयाणि । सा- धर्म्यस्य विपरीतभावे वैधयेणाप्यप्रस्तुतप्रशंसा दृश्यते- यथा- पचौ वासो भक्ष्यं ग्रावकणाश्च प्रिया तु सदैव सह ॥ एकः कपोतपक्षी सुखितो जगतीह दृश्यते सुतराम् ॥ 'भत्रान्नवस्त्रार्थ क्लिश्यमानेन विरहव्यथाव्याकुलेन च यशवन्तभूपणम् चितुर्थी प्रवासिना स्वस्य प्रसङ्गेऽयं पारावतस्याप्रस्तुतवृत्तान्तः कथितः। स्वस्थ प्रसङ्गे सरप्रसङ्गे वाऽप्रस्तुतवृत्तान्तस्य कथनं भवतु । उभयत्राप्यस्तुतप्रशंसारूपचमत्कारस्तु तुल्य एव ॥ सामा- न्यरूपाप्रस्तुनकथाकथने सामान्यनिबन्धना। विशेषरूपा- प्रस्तुतकथाकथने च विशेषनिवन्धना ।। कमेण यथा- विधाय वैरं सामर्षे नरोऽरौ य उदासते ॥ प्रतिप्योदर्चिषं को शेरते तेऽभिमारुतम् ॥ १॥ माधकाव्यस्य द्वितीयसर्गे कृष्णबलदेवोद्धर्मिलित्वा म- •न्त्रितं, पूर्व धर्मराजराजसूये गन्तव्यमुत चेदिराजोपरि प्रथम प्रयातव्यमिति । तत्र शिशुपालोपरि प्रथमं प्रयातव्यमिति बलरामस्य कथनम् । तस्मिन्प्रसङ्गे बलदेवेनेयं सामान्यरू- पाऽप्रस्तुतकथा कथिता। अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।। केसरी निष्ठुरक्षिप्तगयूथो मृगाधिपः ॥ १ ॥ तत्रैव साक्ज्ञमरिशिरसि पादप्रहारमन्तरा कीतेंः कथं चा स्वर्गपर्यन्तं प्रसारं इति बलदेवस्य कथनम् । तत्प्रसङ्गे बल- देवेनेयं विशेषरूपाऽप्रस्तुतकथा कथिता ॥ माघकाव्ये तूक्तप्र. स्तुतकथाऽप्रस्तुतकथयोर्वाध्यत्वम् । कुवलयानन्दायलंकार- मन्धेषु लाघवार्थमुक्तोदाहरणे एवं प्रदर्शिते । न तु प्रस्तुत.
२५१ आकृतिः] अप्रस्तुतप्रशंसा कथा कथिता । उक्तोदाहरणयोः प्रस्तुतकथयोः प्रतीयमान- स्वाभावेऽपि प्रसिद्धया लाभः॥ प्रतीयमानविशेषनिबन्धना यथा- विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्र- पीस्त्वं न्यग्रोधाक्रोधमन्तःप्रकटयसिनचेद्वच्मि किंचित्तदल्पम् जल्पोऽप्येषत्रपाकृत्प्रलघुपरिकराकापि कूष्माण्डवल्ली पल्लीपृष्ठप्रतिष्ठा हसति हि फलनेत्वत्फलानां किमन्यत् अत्र सहदयश्रोतुरिदं प्रतीयते, कस्यचित्परोपकाररहि: तस्य महतो जनस्य, लोकोपकारकर्तुश्च कस्यचित्क्षुद्रपुरुषस्य प्रसङ्गे इयं वटवृक्षकूष्माण्डवल्ल्योर्विशेषरूपाऽप्रस्तुतकथा कथितेति ॥ चन्द्रालोके इदं लक्षणम्- "अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुताश्रया॥” इति।ा. कुवलयानन्दे स्पष्टीकृतं चैतत् “यत्राप्रस्तुतवृत्तान्तवर्णनं प्रस्तुतवृत्तान्तावगतिपर्यवसायि तत्राप्रस्तुतप्रशंसाऽलंकारः" इति ॥ अनेन चात्राप्रस्तुतवृत्तान्तेन प्रस्तुतवृत्तान्तस्य बोधः, तत्रैव चाप्रस्तुतवृत्तान्तस्य पर्यवसानमित्यर्वाचां सिद्धान्तः स्प.. एतरः ॥ मम तुमतं, प्रस्तुतवृत्तान्तो व्यज्यते एवेति न नि- यमः न चोक्तव्यङ्गयांशस्यास्मिन्नलंकारे कश्चिदुपयोगः। तस्य व्यङ्ग्यमात्रत्वात् । प्रस्तुताप्रस्तुतवृत्तान्तयोर्वाच्यत्वेऽप्यप्र- :
२५२ यशवतभपणाम् [चतुधा स्तुतप्रशंसाचमत्कारस्य तुल्यत्वात् । एतच्चोक्तोदाहरणैः सि- द्धम् ॥ अर्वाचीनः स्वमतानुसारेण कार्यनिवन्धनाकारणनिब- भनेति प्रकारद्धयं भणितम् ।। क्रमेण यथा- हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ॥ कृतमध्यविलं विलोक्यते धृतगम्भीरखनी(*)खनी- लिमा ॥१॥ अत्राप्राकरणिकेन्दुमण्डलगततयोत्प्रेक्षमाणेन दमयन्ती- वदननिर्माणार्थ सारांशहरणेन तत्कार्यरूपं वर्णनीयतया प्र. स्तुतं दमयन्तीवदनगतलोकोचरं सौन्दर्य प्रतीयते । अत्रे तात्पर्यम्, दमयन्तीमुखनिर्माणस्योककारणकथनेन दमय- न्तीमुखगतालोकिकसौन्दर्यरूपकार्यस्य प्रतीतिरिति ॥ रत्यन्ते न करोति पङ्कजहशां स्वेदाम्भसा शोषणं नो वा नर्तयति ध्वजाग्रघटितांश्चित्रान्पताकापटान् ॥ नोन्निद्राणि करोति निष्कुटधरापुष्पाणि वा मारुतः सपैरेव निपीयते मरुपते! त्वच्छत्रुपुर्या परम् ॥ १॥ मत्र मरुतो भुजगैरेव भुज्यते इति कार्यकथनेनारिन- गरशन्यतारूपकारणस्य प्रतीतिः ॥ मम तु मतं, कारणा- कार्यप्रतीतिः, कार्यात्कारणप्रतीतिश्च व्यङ्ग्यस्य विषय एव (७) खन्याः खस्याफाशस्य नीलिमा । अस्मिननुप्रासे पूर्वः खनीरन्दः सार्थकः । श्र- परस्त्वनर्थकः । ख-नीलिमरान्दयोः पार्थक्यात् ॥
आकृति] अभेदः ३५३ न भवतीति व्यङ्गत्यप्रकरणे उक्तम् ॥ उक्तवर्णनद्वयेऽपि न काचिदप्रस्तुतकथा विद्यते । अस्यालंकारस्य स्वारस्यापरि- ज्ञानादर्वाचीनानामुक्तप्रकारप्रदर्शनमपि प्रमादः ॥ अप्र: स्तुतप्रशंसायाः स्वरूपं त्वस्मरस्फुटीकृतमेव धुरंधराभिप्रेतम् । उक्तलक्षणमस्यालंकारस्य स्वरूपाबोधकमित्यसंभवदोष- इत्यप्रस्तुतप्रशंसाप्रकरणम् ॥ १२ ॥ अभेदः ॥ न भेदः, अभेदः । वक्ष्यमाणव्यतिरेकालंकारस्य भेद इति नामान्तरम् । भोजमहाराजेन व्यतिरेको भेदनाम्ना भणितः ॥ केनचिडुरंधरस्य दिग्दर्शनेन भेदस्य विपरीतभावे- ऽभेदालंकारः प्रदर्शितः ॥ अलंकाररत्नाकरे चायं लिखितः ॥ राजन्नभेद कृत्वा तु कस्यचिद्वर्णनं भवेत् ॥ अभेदालंकृतिं तत्र विजानीयाबुधोत्तमः ॥१॥ यथा- अयं हि धूर्जटिः साक्षाद्यशवन्तनरेश्वरः करालेनातिकोपेन येन दग्धाः पुरः क्षणात् ॥ १ ॥ अत्र राजराजेश्वरस्य महादेवेन सहाभेदेन वर्णनम् ॥ ॥ यथा वा- सर्वा वर्णयितुं ते कीर्ति वाञ्छामि जिह्वया नृप! यत् ॥
. यशवन्तभूषणम् (चतुर्थी तद्रन्थूण नलिन्याः पातुंवाञ्छामि सागरं मोहात् ।। अत्र नलिनीनालच्छिद्रकृतसमुद्रपानेन सह रसनाकृत- गाजराजेश्वराखिलयशोवर्णनस्याभेदेन वर्णनम् । वक्ष्यमा- गरूपकालंकारस्य स्वरूपं तु रूपवताकरणम् ॥ यथा रामल.. क्ष्मणाद्यनुकरणे नटस्य । न त्वीदृशाभेदस्फूर्तिरयमेव राम इति । इदं च रूपकप्रकरणे सविस्तरं प्रतिपादयिष्यते ॥ इत्यभेदप्रकरणंम् ॥ १३ ॥ अल्पम्॥ - " लोके वहुधाऽऽधिक्यमेवेप्यते । तदुक्तमाशीर्वादपद्ये-- चत्वारो वर्धन्तां लक्ष्मीगयुः कीर्तिर्यशो बलम् ॥" अल्पता च प्रायो नेप्यते । कचिदल्पताया अपि रमणीय- यन्वेऽलौकिकृतयाऽलंकारत्वम् ॥ यत्राल्पताया रम्यत्वं तत्राल्पाकृतिर्नुप! ॥ कुर्वताऽल्पं यशोऽन्येषां प्रागेव पठितं किमु ॥१॥ दानक्षीणधनां लोके उदारपुरुषा.इव ॥ मदक्षीणा गजा भान्ति यशवन्तमहीपतेः ॥ १॥ अत्र पूर्वार्धे वैभवविषये, उत्तरार्धे च शरीरधिपयेऽल्पत्यम् उभयमपि स्तुतिपर्यवसायि.॥ निन्दापर्यवसायि यथा- आकृति. अवज्ञा २५५ तृणादपि लघुस्तूलस्तस्मादपि च याचकः ॥ वायुना किं न नीतोऽसौ मामसौ याचयेदिति ॥ अत्र भारस्य विषयेऽल्पता ॥ शृङ्खलायाः संकीर्णत्वम् ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- अल्पं तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता ॥ यथा- मणिमालोमिका तेऽद्य करे जपवटायते।। आधेयस्याल्पतयाऽऽधारस्याल्पताप्रतीतिस्तु न लोकोत्तरे ति नालंकारः। इदं लक्षणमसंभवदोषग्रस्तम् ॥ इत्यल्प- प्रकरणम् ॥ १४ ॥ ॥ अवज्ञा ॥ अवज्ञायते इत्यवज्ञा । अवज्ञा त्वनादरः । “अवज्ञा, अना- दरे" इति चिन्तामणिः ॥ अनादरयोग्यस्यानादरो लौकिक इतीहालौकिकत्वार्थमादरयोग्यस्यानादरे रूढिः । निमित्तम- न्तरा चादरयोग्यस्यानादुरोऽपि न शोभाकर इत्यलंकारप्रकर- णवशान्निमित्तस्य लाभो रूढिर्वा ॥ अनुज्ञाऽलंकारस्य विप. रीतभावेऽयमलंकार इतीहानादरोऽनङ्गीकाररूपत्वेन विवक्षि- तः । तथा च केनचिन्निमित्तेनादराहस्यानाद्रोऽवज्ञालं. कारः ॥
२५८ चतुथा यशवन्तभूषणम् मेघो ववर्ष न मनाग्ग्रीष्मश्चण्डो बभूव मरुभूमौ ॥ तस्मिन्समये नृपते! नगरतडागास्त्वया ह्यपूर्यन्त ।। अष्टचत्वारिंशोत्तरैकोनविंशतिशततमविक्रमावर्षे ताह- शावसरे राजराजेश्वरयशवन्तसिंहः स्व रामपरिपोषणार्थपरि- -रक्षितवाल समुद्राख्यमहालरोबारिणा कृपया प्रजापालनार्थ योधपुरस्थगुलाबसागरादितडागानपूरयत् । इदं च कृत्यं रा. जराजेश्वरेणावसरे विहितमितीहावसरालंकारः ।। यथा वा- पञ्चेपुः पिकगीमरुन्मलयजश्चन्द्रो मधुर्मल्लिका- ऽमीफ का दयिताविघातजमहापापस्य पात्रं भवेत् ॥ इत्थं चिन्तयति प्रवासविधुरे दैवात्तदानीमहो तूतीजन्तुरुवाच मूर्दनि तरोस्तूहीति तूहीति च ।। "स्वमेव” इत्यर्थे तूहीति लोकभापा ॥ तूतीतिपक्षिविशेषः तूही, तूही" इति स्वभावाचारयति । अत्र त्वमेव नायि- काप्राणघातक इति तृतीकथनमवसरेऽभवदित्यवसराजकारः। भोजमहाराजः परमतेन स्वनिवन्धेऽवसरालंकारं लिलेख । इत्यसरप्रकरणम् ॥ १६ ॥ आक्षेपः ॥ आयूर्वास्क्षिपधातोगक्षेपंशब्दो निष्पन्नः । आहुपसर्गाथैः सर्वत इति ॥क्षेपशब्दार्थः प्रेरणम् । "चिप प्रेरणे" इति धा.
भाकृतिः) श्राक्षेपः २५६ सुपाठे ॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । ततोऽत्रर क्षेपशब्दार्थो भर्त्सनम् । भर्सनं चापकारवाणी । "आक्षेपः, भर्सने । भर्सन, अपकारगिरि" इति चिन्तामणिः ॥ अप- कारस्तु तिरस्कारः॥ तिरस्कारस्य वचनमाक्षेपालंकृतिर्नुप! ॥ सभायां तव नो दृष्टोभूपते! कवितां विना । १॥ यथा- तनुधनमनोवांसि यस्य प्राणाश्च सन्ति कीर्त्यर्थम् ॥ तेन हि मरुपतिनाये तुलनामिच्छन्ति ते नृपा अज्ञाः।। अत्रानुपमाया गौणत्वान्नालंकारत्वम् ॥ किं त्वन्यनपवि. पयतिरस्कारवचनस्य प्राधान्यादाक्षपाख्योऽलंकारः॥ यथा वा- नाहं वाली सुवाहुर्न खरत्रिशिरसौ(*)दूषणस्ताडकाऽहं नाहं सेतुः समुद्रे न च धनुरपि यत्त्र्यम्बकस्य त्व- याऽऽत्तम् ॥ रे रे राम! प्रतापानलकवलमहाकालमूर्तिः किलाह वीराणामूरुशल्यं समरभुवि वरःसंस्थितःकुम्भकर्णः। अत्र रामचन्द्र प्रति कुम्भकर्णस्य तिरस्कारवचनमित्या- नेपालंकारः॥ दूरे गच्छ मनांक्किं वा पार्श्व न त्यज्यतेऽनिशम् ॥ अलक्तकोऽयं मत्पादे लग्नः शुष्कत्वमाप्नुयात् ॥१॥ (4) "खरत्रिशिरसौ" इत्यत्र रेफोत्तराकारस्य संयोगपरत्वेऽपि न गुरुत्वम् ॥ यथा वा-
२६..
यशवन्तभूपणम्
(चतुर्थी
'निषेधोऽपि तिरस्कारस्य समीपवर्तीत्युपलक्षणेन निषेध
स्थाप्याक्षेपे संग्रहो वेदितव्यः ॥
यथा--
गुणिनोऽगुणिनः सर्वे लभन्ते धरणीं धनम् ॥ . .
यशवन्तसमो नाभून्न चास्ति न भवेदिह ॥ १ ॥
अयमुषमाया निषेध उपमालंकारापेक्षया राजराजेश्वर-
स्योत्कर्षाधिक्यं सामाजिकानां च चमत्कारमादधातात्याने.
पालंकारः॥ वहवो ग्रन्थकारा निषेधात्मकान्येवाक्षेपोदाहर-
णानि दर्शयामासुः ॥
.
यथावा-
राज्ये सजनभूपतेर्मरुधराधीशस्य राज्येऽथ वा
प्राणान्स्वामिहिताय.ये रणमुखे मुञ्चति ते क्षत्रियाः ।।
कीर्तेश्च स्थितिकारिणः सुकवयः पूजापदं चारणा
वेश्याभण्डनटेन्द्रजालिकमुखानर्चन्ति भूपाः परं ॥१॥
अत्रोक्तराज्ययुगलेतरराज्येपु क्षत्रियाणां चारणकवीनां
घ तादृशसन्माननिषेध पार्थः । स चोक्तराज्ययोरुत्कर्षमा.
दधत्काव्यशोभाकरत्वादाक्षेपालंकारः ॥ कश्चिद्रोधाख्यमलं-
कारं मन्यते स्म । तस्येदमुदाहरणम्-
विदेशं याति सुहृदि पानीयाहरणाऽध्वनि ।
रिक्तं घटं समादायाजगामाभिमुखं प्रिया ॥१॥
। आकृतिः] आक्षेपः अत्र रिक्तघटेनापशकुन विधाय विदेशयातृमित्रस्य गम- नरोधो विहितः ॥ भोजमहाराजः "रोधो नाक्षेपतः पृथक् इत्याह ॥ मम मतेऽपि महाराजस्य सिद्धान्तः समीचीनत- २ः ॥ उपलक्षणेन रोधस्याप्याक्षेपे संग्रहात् ॥ चन्द्रालोककार आक्षेपस्य प्रकारत्रयं मन्वान इमानि लक्षणान्याह- "आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ॥ निषेधाभासमाक्षेपं बुधाः केचन मन्वते ॥ आक्षेपोऽन्यो विधौ व्यक्ते प्रतिषेधे तिरोहिते ॥" इति ॥ क्रमेण यथा- साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।। यत्तस्य दैत्या इंव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥ १ ॥ गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम् ॥ रत्नेषु लुप्तेषु बहुप्वमत्यै- रद्यापि. रत्नाकर एव सिन्धुः ॥२॥ अत्र स्वयमुक्तस्य विमर्शान्तिपेधः । प्रथमलक्षणे स्वय. मुक्तस्य प्रतिषधांशे न रोचक्त्वम् । प्रत्युत शीघ्रविचारशून्य- बुद्धिरूपदोषस्य सत्वादरोचकत्वम्। किं च तादृशनिषेधस्या- . - यशवन्तभूषणम् चतुर्थी त्यन्तं लौकिकस्वात्तत्र "यशवन्तसमो नाभूत्" इत्युक्तनिषेध- सदृशरोचकत्वाभाव इत्युक्तलक्षणलक्षितोऽथों नालंकारवा. ईः ॥ अस्मिन्नुदाहरणं चमत्कारस्तु दृष्टान्तवाक्यनिष्ठ इति दृष्टान्तालंकारः । उक्तोदाहरणं कुवलयानन्दकारणोपदिष्टम् ॥ चन्द्रालोके इदमुदाहरणम्-- "चन्द्र! संदर्शयात्मानमथवाऽस्ति प्रियामुखम् ॥" भत्रापि स्वयमुक्तस्य प्रतिपेयांशे न चमत्कारः । किं तु मुखस्य चन्द्रसादृश्यमाप्तो चमत्कारः॥स चव्यङ्गयोपमारूपो भिन्न एवः ॥ नन्वत्र विमर्शपूर्वको निषेध इत्युक्तम् । तथा च "साहित्यपायोनिधि-" इत्यत्र दृष्टान्तरूपविचारस्य "चन्द्र! संदर्शयात्मानम्-" इत्यत्रोपमारूपविचारस्य च विद्यमानले कथं लक्षणासंगतिरिति चन्न । दृष्टान्तरूपविचारे दृष्टान्ताल- कारः, उपमारूपविचारे चोपमालंकारः । स्वयमुक्तस्य प्रति- पेधे आक्षेपालंकारोऽङ्गीकृतः । अस्मिन्नंशे चमत्कारशून्यत- याऽलंकारान्तरत्वयोग्यतात्वाभावात्प्रथमलक्षणेऽसंभवदोषः ।। नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ।। अन्न नाहं दूतीति दूत्या दूतीत्वनिषेधवचनस्याभासमात्र- त्वम् ॥ दूतीत्वविधानात् । निषेधाभासस्वाभासालंकार एव । न त्वलंकारान्तरमिति द्वितीयलक्षणमप्यसंभवदोपग्रस्तम् । गच्छ गच्छसि चेत्कान्त! तत्रैव स्याजनिर्मम ।। अत्र नायिकायाः प्रियविदेशगमननिषेधे, इष्यमाणेऽपि भाकृति.] आभासः २६३ प्रयाणसमये निषेधवचनस्यापशकुनरूपत्वात्ताहशविधिवच. नद्वारा निषेधस्य गोपनम् । अत्र निषेधश्चने गोपनस्य प्रा- धान्यादपन्हुत्यलंकारः ॥ प्रतिषेधस्य तिरोधानमर्थादपह्नवस्त्व- पह्नत्यलंकार एव । न त्वलंकारान्तरमिति तृतीयलक्षणे. प्यसंभवदोषः ॥ इत्याक्षेपप्रकरणम् ॥ १७ ॥ आभासः॥ 4- अत्राङपसर्गार्थ ईपत्किंचिदिति । "आइ ईषदर्थे " इति चिन्तामणिः॥ भासशब्दार्थः प्रकाशनम् । भासनं भासः॥ "भासनं प्रकाशने" इात चिन्तामणिः । अत्रेषच्छब्दस्य काले रूढिः । तथा च "मा ईपरिकचित्कालं भासः प्रकाशनमाभा- सालंकार इत्यर्थः ॥ विद्युतत्क्षणमात्रं चासोऽर्थस्य भवेन्टप! ॥ आभासस्तत्र विज्ञेयः सचानेकविधः स्मृतः॥१॥ अस्यालंकारस्य भूषण भासादयो बहवः प्रकारा भवन्ति । पुनश्चोक्तप्रकागणां बहवः प्रकारा भवेयुः । यथा भूषणाभासे उपमाभासादयो वस्त्वाभासे च स्तुत्याभासनिन्दाभासादयः । भूषणाभासो. यथा- नरेन्द्रमौले. न वयं राजसंदेशहारिणः ॥ जगत्कुटुम्बिनस्तेऽद्य न कश्चिद्रिपुरीक्ष्यते ॥ १॥ ।
चतुर्थी . यशवन्तभूपणम् अस्य वक्तुरितरराजप्रेरणयाऽऽगमनं स्फुटतरम् । भयं च स्वोक्तेः सत्यत्वप्रतिपादनाय दौत्यं कुर्वन्नपि स्वस्य दूतत्वं नि- पेधतीत्ययं निषेध आभासरूपः ॥ अयमाक्षेपाभासः ॥ यथा वा- कमलमनम्भसि कमले, कुवलये तानि कनकलति कायाम्॥ सा च सुकुमारसुभगेत्युत्पातपरंपरा केयम् ॥१॥ अत्र श्रुतिमात्रेणातिशयोक्तेर्भानेऽपि तत्क्षणमेव नायिका. ऽवयवरूपकस्यालंकारिकवेद्यतयाऽत्रातिशयोक्तिराभासरूपेति- भूपणाभासाख्यस्याभासस्यातिशयोक्त्याभासनामकोऽयं प्र- करः ॥ दूपणाभासो यथा- पुनरुक्तदोपस्याभासं .पुनरुक्तवदाभासाख्यं स्वतन्त्रमलं- कारमङ्गीकुर्वन्काव्यप्रकाशकार ईदशं लक्षणोदाहरणमाह- "पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ॥ एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम्॥१॥” इति ॥ चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ॥ तस्य राज्ञः सुमनसो विबुधाः पार्थवर्तिनः ॥१॥ अनागनारामाशब्दयोः स्त्रीवाचित्वात्, कौतुकानन्दशब्द- योरानन्दवाचित्वात्, सुमनोविबुधशब्दयोश्च 'देवताचाचित्वा- टुक्तभिन्नाकारशददेवेकार्थताभानम् । विवक्षितार्थस्तु, अंगने प्राकृति.] नाभसः - २६५ गृहाङ्गणे आरामा उद्यानानि येषां ते । कौतुके क्रीडायामान- नदस्य हेतवः कारणानि । आनन्दवर्द्धका इति भावःसुमनसः सुष्टुहृदयाः । विवुवाः पण्डिता इति ॥ मम तु मतं, भयं पुनरुक्तदोषस्याभासोऽस्य नामलक्षणोदाहरणैर्नालंकारान्तर- त्वयोग्यः। किं त्वाभासालंकारस्य प्रकारतायोग्य इति दूषणा- भासाख्याभासप्रकारस्य पुनरुक्त्याभासनामकः प्रकारोऽयम् । वस्त्वाभासप्रकारास्तु स्तुत्याभासनिन्दाभासादयोऽनन्ता एव ।। गर्यो न ते स्याद्यशवन्तभूपते! खिन्नो न कोपीति मदीयशासने ॥ कुलस्य मूलं रविरष भिद्यते रणे हतैः शत्रुभिरग्रतस्तव ॥ १ ॥ अत्र श्रुतिमात्रेण निन्दाया भानेऽपि शत्रुनिस्कन्दनरूप- स्तुनौ पर्यवसानम् ॥ . यथा वा- भण्डेषु भोजसहशा कर्णाभाश्चैव कुहिनीटन्दे। सन्तीतरे नृपाला आधुनिका मरुपते! ह्येते ॥ १ ॥ अत्र श्रुतिमात्रेणेतरनृपाणां स्तुतेर्भानेऽपि तन्निदायां पर्यवसितिः । भवाभासरसाभासौ तु भावप्रकरणे लिखि- तो। अयं धुरंधराभिमत आभासालंकारः स्वतन्त्रश्चिरका- लिकश्च । धुरंधराभिप्रायापरिज्ञानादर्वाचीनाः प्रमादेनेनं खण्डशः कृत्वा विरोधस्याभासे विरोधाभास इत्यादिनाम- .
. २६६ यशवन्तभूषणम चितुर्थी भिरलंकारान्तराणि मन्यन्ते स्म । निषेधस्यामा चापा- लंकारस्य प्रकारमाहुः । आभासालंकारस्य विशेषतया जीर्णो- द्ध रस्त्वस्माभिविहितः ॥ इत्याभासप्रकरणम् ॥ १८ ॥ उत्तरम् ॥ उत्तरं तु प्रतिवचनम् । तच्च लोकोत्तरं चेदलंकारः ॥ "उत्तरालंकृतिर्भूप! स्याल्लोकोत्तरमुत्तरम् ॥" लोकन्यायेन भूपाऽसौ धुर्येणाङ्गीकृता नृप! ॥१॥ यथा- कं नामयति शत्रूणां मरुनाथस्य विक्रमः ॥ कं नामयति शत्रूणां मरुनाथस्य विक्रमः ॥१॥ शत्रुः संधिविग्रहयोरेकं करोति । संधौ शिरो नामयति । विग्रहे धनुर्नामयति । एतद्विषयकसंदेहेऽयं प्रश्नः । राजरा- जेश्वरयशवन्तसिंहस्य विक्रमो रणे शत्रूणां "कं नामयति" इति ॥ शम्य प्रश्नस्येदमेवोचरं "कं नामयति" इति ॥ भत्र कं शिरः ॥ इदमुत्तरं चमत्कारकारितयाऽशंकारः॥ इदमुत्तरं प्रश्नादमिन्नम् । प्रश्न एवोत्तरमित्यर्थः । . यथा वा- के खेडटाः किं चलं वयः ॥ भत्र "ख आकाशे संधारिणः के" इत्येक प्रश्नः। कि आकृति] उत्तरंम्. २६७ चलम्" इत्यपरः प्रश्नः । तयोर्द्वयोः “वयः" इत्येक मुत्तरम् । अस्यार्थस्तु पक्षिण आयुश्च । अत्र प्रथमोत्तरद्धितीयमुत्त- रमभिन्नम् । द्वितीयप्रश्नस्यापि तदेवोत्तरमित्यर्थः ॥ प्रथमो. तरे श्लेषः । द्वितीयोत्तरे श्लेषो दीपकं च । तथाप्युत्तररूप- चमत्कारस्य प्राधान्यादिहोत्तरमेवालंकारः ॥ इदमनेकप्रश्न- विषयमेकमुत्तरम् । एतदपि चमत्कारकारितयाऽलंकारः ।। यथा वा-- किं मरणं दारिद्रयं को व्याधि वितं दरिद्रस्य ॥ कः स्वर्गः सन्मित्रं सुकलत्रं सुप्रभुः सुसुतः ॥१॥ शत्र प्रश्नको ज्ञातमरणायतिरिक्त पृष्टम् । तत्रोत्तरदा. त्रा प्राणवियोगरूपमरणादिसदृशा दारिद्रयादय उक्ताः । दुःखादिकार्यकरणे मरणदारिद्रयादिसदृशो न कश्चित्तृती. यः । इदमप्युत्तरं चमत्कारकारितयाऽलंकारः ॥ इमानि परं. परागतोदाहरणानि ॥ मम तु मतं, समस्या प्रश्नः, तस्याः पूर्तिरुत्तरमिति समस्यापूर्तिरप्युत्तरालंकारः ॥ यथा- त्वं नो गोत्रगुरुस्तवेन्दुरधिपस्तस्यामृतं त्वत्करे ऽस्त्येणी व्याधशराहतां प्रणयिनीमेनां पुनर्जीवय ॥ इत्यूई गगने निशापतिमृगं कारुण्यमातन्वतः शृङ्गाग्रादपतन्मृगस्यं रुदतो. वाष्पाम्बु भूमण्डले ।। समस्यापूतिदिविधा । तत्रैका तु प्रश्नकर्ताऽसंभववर्णन- २६८ यशवन्तभूषणम् [चतुर्थी स्यैकंचरणे उक्ते उत्तरदाता त्रिभिश्चरणेः संभवितमनोहा- रितया तस्य पूर्ति विध्यात् ॥ अस्यास्तूतोदाहरणम् । अपरा तु प्रश्नकर्ता नीरसवर्णनविषये भिन्नरसवर्णनविपये वा चरणत्रये उक्ते उत्तरदाता चतुर्थ चरणेन पूर्ति विधाय तस्मि- सर्वस्मिन्वर्णने प्रश्नकर्तुरिच्छ.नुकूलं रसं घटयेत् ॥ परिपतति पयोनिधौ पतङ्गः सरसिरहामुदरेषु मत्तभृङ्गः ॥ उपवनतरुकोटरे विहङ्गो युवतिजनेषु शनैः शनैरनङ्गः ॥१॥ अन्न प्रश्नकी प्रथमचरणत्रयेण संध्यावर्णनविषयकनी- रसवर्णने उक्त उत्तरदाता चतुर्थचरणेन प्रश्नकर्तुरिच्छानुकूल- मुक्तवर्णनं शृङ्गाररसमयं चकार ॥ अन्यदपि किंचित्प्रकारका मुत्तरं चमस्कारावहमुपलभ्यते 'चेत्तत्राप्यलंकारत्वमङ्गीकर- णीयम् । चन्द्रालोककार उत्तरस्य भेदद्वयमाह । तत्र प्रथमं तु गूढो- तरम् । तस्येदं लक्षणोदाहरणम् ॥ किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम् ॥" यथा- यत्रासौ वेतसी पान्थ! तत्रेयं सुतरा सरित् ॥ इयं नदी कुतः सुतरेति पथिकस्य प्रश्ने 'नायिकाया इद- मुत्तरम् । सन स्वयंदूतिकात्वप्रतीतियगया। इदमेवोत्तरे । " आकृतिः] उत्तरम २६६ शूढत्वम् । मम तु मतं, अत्र चमत्कारस्तु नायिकारूपवक्तृ- वैलण्यादुक्तव्यङ्गयस्यैव । उत्तरांशे तु मनागपि न चमत्का- रः। उत्तरस्यायं प्रथमः प्रकार इति भणनं प्रमादः॥ चित्रोत्त- रमिति द्वितीयप्रकारमाह । तस्य च पुनर्भेदद्वयं बमाण । "प्रश्नोत्तरान्तराभिन्नमुत्तरं चित्रमुच्यते ॥ प्रश्नाभिन्नमुत्तरं तु प्रश्न एवोत्तरं भवेत् । उत्तरान्तराद- भिन्नमुत्तरं त्वेकस्मादुत्तरादभिन्नमन्यदुत्तरम् । एकप्रश्न- स्योत्तरमेवेतरप्रश्नोत्तरमपि स्यादिति भावः ॥ उक्तलक्षण- योरर्वाचां "किं मरणं दारिद्र्यम्-" इत्युदाहरणेऽस्मदभिमत. समस्यापूायुदाहरणेषु चाव्यापनादव्याप्तिः । धुरंधरंकृतालं. कारनाम्नामर्थस्थ सामान्यतया सर्वव्यापित्वम् । तत्राचां विशेषतया लक्षणनिर्माणात्तेऽलंकारा अल्पव्यापित्वमधिगताः। प्रथमलक्षण मसंभवदोपग्रस्तम् । द्वितीयतृतीयलक्षणे चा- व्याप्तिमती ॥ किं च प्रकारलालसया “यत्रासौ. वेतसी-" इत्यत्र व्यङ्ग्यस्य सूक्ष्मत्वे गूढत्वं मत्वा गूढोत्तरमिति, अपरो- दाहरणयोश्च विचित्रतां मत्वा चित्रोत्तरमित्युक्तम् । परं त्वी- दृशकविप्रतिभायां नाश्चर्यम् । कस्यचिदुत्तरस्याश्चर्यरूपत्वं चेत्तत्राश्चर्यस्य प्रधानतया विचित्रालंकारः स्यात् । यथा चरणस्पर्श कृत्वा कान्तोऽयांचंत रतिं तु विपरीताम्। साऽस्योत्तरं स्मयित्वा दीपकदर्श ददे विना वाणीम॥१॥ वाणी विनेति कयापि मनोहरचेष्टया । अस्मिन्नुत्तरे ૨૭૯ यशवन्तभूपणम् [चतुर्थी सूक्ष्मतायाः प्राधान्यात्सूक्ष्मालंकारः । न तूत्तरम् ॥ इत्युत्तर- प्रकरणम् ॥ १६॥ ॥ उत्प्रेक्षा॥ . उत्प्रेक्षेत्यत्रोदुपसर्गीर्थः प्राधान्यम् “ उत्प्राधान्ये " इति चिन्तामणिः प्रोपसर्गार्थों बलम् । “मशक्तौ" इति चिन्ता- मणिः ॥ शक्तिस्तु वलम् । ईक्षधातोरीक्षाशब्दो निष्पन्नः । 'ईक्ष दर्शनाळूनयोः ।" इह दर्शनार्थस्य विवक्षितत्वादीक्षा- शब्दार्थो दर्शनम् । उत्प्रेक्षेति समुदिताब्दार्थस्तु "उत् प्रधा- नतया वलेनेक्षा दर्शनमुत्प्रेक्षेति । इहे ज्ञाशब्देन "मन्ये शङ्के" इत्यादीनां संग्रहो विवक्षितः ॥ धुरंधर उत्प्रेक्षाव्यञ्जकशब्दा- न् गणयाञ्चकार- " मन्ये शङ्क ध्रुवं प्रायो नूनमित्येवमादिभिः ॥ उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥१॥ यत्र यस्य वस्तुनः प्राधान्यं तस्य पस्तुनस्तत्र प्रधानतया दर्शने घलस्य नावश्यकत्वम् ॥ बलस्यावश्यकरवं नु यत्र य. स्प वस्तुनः प्राधान्याभावस्तन तस्य प्रधानतया दर्शने एव । गोणप्रधानभावश्च द्वयोः संवन्धे भवतीतीहाप्येक वस्तु रू. पद्धयेन कथयन्कविरेक वस्तु घलेन पधानतया पश्यति ॥ यस्मिन् रूपदयस्य संभवस्तस्मिन्नवास्तवरूपस्य बलेन प्रधा. नतयेक्षणमुत्प्रेक्षालंकार इति निष्कपः ॥ इह यथासंभवं पलं श्राकृतिः] २७१ उत्प्रेक्षा वलरूपेण विवक्षितम् । न तु कारणरूपेणेतीह हेत्वलंकारस्य न गन्धलेशऽपि । किं तूत्प्रेचैव स्वतन्त्रोऽलंकारः ।। वलात्प्रधानभावेन कवे राजन्! यदीक्षणम् ॥ उत्प्रेक्षाऽलंकृतिः सा स्यादेपाऽत्यन्तमनोहरा।। वस्तुहेतुफलानां तु भेदादेपा त्रिरूपिणी ॥ अस्यास्तुदाहृतीरत्र क्रमशो दर्शयाम्यहम् ॥२॥ यथा- मृगस्य पश्चाद्धावन्तं हयं मरुपतेरमुम् ॥ कस्तूरीसौरभे लुब्धं समीरं मन्महे वयम् ॥१॥ अत्र वस्तुतो हयो धावति । वेगातिशयसादृश्याच समी- रस्थापि संभवः । तत्र कविम॑गमदपरिमललोभस्वभावरूप. बलेन समीरं प्रधानतयेक्षते। मृगनाभ्यां कस्तूरिका भवति । समीरस्य च गन्धग्राहकत्वं प्रसिद्धम् । गन्धवाह इति समी- रस्य नामैव । अत्र हयं हयरूपेण समीररूपेण च रूपद्येन कथयन्कविः समीरमुक्तवलेन प्रधानं मन्यते । अत्र हयरूप- वस्तुनि समीररूपवस्तुन उत्प्रेक्षणाद्वस्तून्प्रेक्षा ॥ यथा वा- नलिनी हंसविश्लेषक्लेशं सहितुमचमा ॥ मन्ये सरोवरजले वर्षायां विनिमज्जति ।। १॥ वर्षौं नलिन्याः सलिलवृद्धिमलवियोगयोरुभयोः सं.
२७२ यशवन्तभूषणम् [चतुर्थी वन्धः। तत्र ननिन्याः सलिलप्रवेश हेतु लवृद्धिः। न तु मरा- लवियोगजमसहदुःखम् । परं तु प्रियवियोगसंवन्ध्यसहदुःखे स्त्रियः प्राणान्परित्यजन्तीतिवलेन कविर्जलवृद्धिरूपवास्तव- हेतुं गौणीकृत्य मरालवियोगजन्यं दुःखरूपमवास्तवहेतुं प्रधान मन्यते । अत्र जलवृद्धिरूपे हेतौ विरहजन्यासह्यदुःवरूपहे. . तोरुत्प्रेषणम् ॥ यथावा-- .. मध्यंदिनार्कसंतप्तः सरसी गाहते गजः। मन्ये मार्तण्डगृह्याणि पद्मा-युद्ध मुद्यतः ॥ अत्र गजस्य सरःप्रवेशस्य फलं तापापनोदः । न तु मा- तण्डमिंत्रं ज्ञात्वा पद्मपीडनम् । तथापि ग्रीष्ममध्यान्हे सूर्यो गजमत्यन्तं तापयत्येव । सरसि क्रीडामाचरन्करी निसर्गेण कमलान्युन्मूलयत्येव । कमलं च सूर्यस्य संबन्धि । शत्रुसंव. न्धिबाधनं च लोकरीतिरित्युक्तवलेन कविः स्नानफलं गौ- णीकृत्य कमलविध्वंसकलं प्रधानं मन्यते । अत्र वक्ष्यमाण- प्रत्यनीकालंकारस्य संकीर्णता । उत्प्रेक्षानामावयवार्थमुदाहरणाभिप्रायं चाजानाना अर्वा- चाना नामातिरिक्तलक्षणमकार्षुः । चन्द्रालोके इदं लक्षणम्- "संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।” इति॥ योग्यतापि संभावनाशब्दार्थः । "संभावना योग्यतायाम्" इति चिन्तामणिः ॥ भत्रेतेषां संभावनाशदन वस्तुहेतुफले- ध्वन्यवस्तुहेतुफलस्य योग्यताविवक्षायामप्युक्तलक्षणमस्या- श्राकृतिः] उत्प्रेक्षा २७३ लंकारस्य न साक्षात्खरूपवोधकम् । अत्र योग्यतायां अभा- वात् । न खलु "मृगस्य पश्चाद्धावन्तम्-" इत्यत्र हये पवनस्य योग्यता । किंतु बलेन प्रधानतया हये वायोरीक्षणम् ॥ तथैव फलोत्वोडेयम् ॥ किंचानेनैव सामान्यतया संभावनाऽहंकारः पृथगुक्त इत्यस्यालंकारस्य तस्य विशपरूपत्वात्तत्रैवान्तर्भायो भविष्यति ॥ अपि च संभावनाशब्दार्थ उत्कट एककोटि- कसंदहोऽपि । “संभावना, उत्कटकोटिकसंशयः" इति शब्द- कल्पद्रुमे ॥ संदेहे तु कोटिद्वयस्यापि समकक्षत्वम् । यथा- "इन्दुर्वाऽऽननं"वा।उत्प्रेक्षायामेककोटेरीत्कट्यमायथा-"मृगस्य पश्च त-"इत्यत्र वायुरूपकोटौ संदेहस्यौत्कस्यन् । इयं विवक्षा चेदस्य संदेहप्रकारतया संदेहेऽन्तर्भावः स्यात् । न ह्यस्यालंका. रस्य वारस्य योग्यतायां संदेहे वा । किं वेतद्विलक्षणे नामा- थे एव । उक्तलक्षणं साक्षात्स्वरूपाबोधकातिव्याप्तिदोपग्रस्तं च ॥ वस्तूत्प्रेक्षा च स्वरूपोत्प्रेक्षेत्यपि भण्यते । अर्वाचीना वस्तूप्रेक्षायाः प्रकारद्वयमाहुः । यस्मिन्वस्तुन्मुत्यक्ष्यते तस्य वचनेन कथने उक्तास्पदा । आस्पदमाश्रय इत्यनान्तरम् । उक्तमास्सदमाश्रयो यस्यां सोक्तास्पदा । यस्यां चास्पदं वचनेन नोक्तं साऽनुक्त' स्पदा ॥ धूमस्तोमं तमः शङ्के कोकीविरहंशुप्मणाम् ॥ रवावस्तंगते मन्ये बर्पतीवाञ्जनं नमः ॥१॥ सूर्यास्तसमय एव कोकन्नियोंगो भवतीति बलेन तमस्यु. क्तधूमस्य स्थापनम् । अशुभसमये प्रायो रजोवृष्टिर्भवति । कजलवृष्टिश्च रजोवृष्टेरप्यनिष्टतरतिवलेन तमसि कजलवृष्टेः २७४ . 'यशवन्तभूषणम् [चतुर्थी स्थापनम् । इयं कज्जलवृष्टिश्चं जगत्प्रकाशकसूर्यास्तमनहेतुका । अत्र पूर्वार्धे तमोवस्तुनि कोकीविरहानलधूमवस्तुन उत्प्रेक्ष- णमिति तमोरूंपास्पदस्य वचनेन कथनादुक्कास्पदा वस्तूत्प्रेक्षा। उत्तरार्धे चासदस्य तमसो वचनेनानुक्तत्वादनुक्तास्पदा वस्तू. स्प्रेक्षा ॥ मम तु मतं, उक्तवैलक्षण्यं लुप्तोपमावञ्चमत्कारश: न्यत्वान्न प्रकारान्तरत्वाहम् । किं तूदाहरणान्तरमात्रम् । हेतूप्रक्षाफलोत्प्रेक्षयोश्च सिद्धास्पदाऽसिद्धासदेतिप्रकारहय- मुकम्। "रक्तौ तबाघी मृदुलो भुवि विक्षेपणाध्रुवम् ॥ अन्न नायिकायाश्चरणारुणताहेतुः स्वभावः । तत्र कठो- राङ्गणविहरणबलेन सुकुमारताहेतोः : स्थापनम् । अन स्व- भावरूपो हेतुरास्पदम् । तच्च स्वतः सिद्धम् । प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति ॥" अत्र पनानां सलिलसेवनफलं जीवनम् । तत्र कामन - थों सलिले तप आचरतीतिवलेन चरणसमतालाभेच्छारूप- फलस्य स्थापनम् । अत्र जडपद्मपु जीवनरूपफल मास्पदम् । तच्चासिद्धम् ॥ मम तुं मतं, कविसृष्टेर्विधिस्थष्टिविलक्षण- स्वादिहालौकिकत्वमिष्टम् । तदुक्तं शिप्टैः- "सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते ॥ यत्नोऽस्यां कविना कार्यः कोऽलंकारोऽनया विना॥१॥ इति ॥
२७५ मारुति] उदात्तम् वक्रोक्तिरतिशयोक्तिः । एतादृशकविप्रतिभोत्थापितयुक्ति- प्रसिद्धबुद्धिकरणे तु प्रसिद्धिविरुद्धदोषापातांदुद्वेगजनकत- या काव्यवैभवं निर्मूलं स्यादित्यर्वाचामिदं साहित्यसिद्धान्त- विरुद्धं मतं प्रमादमूलम् ॥ उत्प्रेक्षाव्यञ्जकशब्दलोपे गम्यो- प्रेक्षेति प्रकारकथनमपि लुप्तोपमाद्वयर्थम् ॥ इत्युत्प्रेक्षाप्र- करणम् ॥ २०॥ ॥ उदात्तम् ॥ अत्रोदुपसर्गार्थः प्राकटयम् । प्राकटयं तु निःसंदेहज्ञानम् ॥ "उत् प्राकटये। प्रकटः निःसंदिग्धं भातीतिव्यवहारगोचरे।" इति चिन्तामणिः ॥ श्राङ्पूर्वाददातेभीवे क्तप्रत्यये प्रात्तश- ब्दो निष्पन्नः । आत्तशब्दार्थों ग्रहणम् । “आत्तः गृहीते इति चिन्तामणिः । तत्र कर्मणि क्तः। इह तु भावे विवक्षि- तः । तथा चात्तं ग्रहणम् । स्वीकार इति यावत् ॥ उदात्त इति समुदितशब्दार्थस्तु “ उत्प्राकट्यस्य निःसंदेहज्ञानस्या- तं स्वीकार उदात्तालंकारः" इति ॥"पहिचान कराना, भोल- खाना" इति लोकभाषा ॥ शृणु निःसंशयज्ञानस्वीकारो मरुनायकः ॥ उदात्तालंकृतिः साऽसौ.विख्याता जगतीतले॥१॥ यथा- यो भूपालानकरोद्रकान् रङ्कांश्चकार भूपालान् ॥ :
२७६. यशवन्तभूपणम् [चतुर्थी निर्जलमलं च सजलं सोऽयं यशवन्तपृथ्वीशः ॥ अत्र यशन्तसिंहाख्यभरतपुरभूपस्यापि समाकुमारसभा. यां विद्यमानत्वान्मरुपतेयशवन्तसिंहस्य निःसंशयज्ञानार्थमु- तकृत्यकथनम् ॥ नात्राज्ञातज्ञापने पर्यवसानम् । किं तु निःसं. देहज्ञापने पर्यवसानम् ॥ प्रसन्नराधवनाटकस्य प्रथमाङ्के सीतां प्रति तत्स्वयंवरस- मागतमापतीनां निःसंदेहज्ञानार्थं नूपुरकमञ्जीरकवन्दिप्र. श्नोत्तरम् । तत्र नूपुरकस्यायं प्रश्न:-. नूपुरक-वअस्समजीर! को इमो सीताकरग्ग- हवासनावसन्तलच्छीविलसन्तपुलअमुउलजालम- ण्डिदं निधभुजसहारसाहिजुअलं पुलोअन्तो चि- छदि(*) मजीरकस्येदमुत्तरम् ॥ मजीरकः--स एष निजयशःपरिमलप्रमोदितचा- रणचञ्चरीकचयकोलाहलमुखरितदिक्चक्रवालक्ष्मा- पालकुन्तलालंकारो मल्लिकापीडो नाम ।। अत्रोक्तवृत्तान्तकथनेन मल्लिकापीडनृपस्य निःसंदेहज्ञापनम् । . " यथावा- (*) सस्कृतम् ॥ वयस्यमञ्जीरका कोऽयं सीताकरग्रहवासनावसन्तलक्ष्मीविलसत्पुल. कमुकुलजालमण्डितं निजभुजसहकारसखियुगलं विलोकयस्तिष्ठति ॥
[भागात उदातम् १७७ गरलं पायिता लाक्षागृहे दग्धाश्च पाण्डवाः॥ हृतं च द्रौपदीवस्त्रं सोऽयं दुर्योधनोऽधमः ॥ १॥ अत्रान्यायाचरणैर्दुयोधनस्य निःसंदेहज्ञापनम् ॥ परंपराग- ते धुरंधरस्येमे उदाहरणे- रत्नभित्तिषु संक्रान्तप्रतिविम्बशतैर्टतः॥ ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः॥१॥ लकेश्वरा अनेके बभूवुरिति कविना "रत्नभित्तिषु संक्रान्त- प्रतिविम्बनतैर्वृतः॥” इतिविभूत्या वर्णनीयरावणो निःसंदिग्धं ज्ञापितः ॥ स्वर्गादिलुण्टनेन तादृशविभूतिमालकेश्वरेषु रावण एव बभूव ॥ सानो यस्याभवद्युद्धं तर्जटिकिरीटिनोः॥ हिमालयेऽनेके पर्वताः सन्ति । तत्रोक्तवृत्तान्तेन वर्णनीय- पर्वतस्य निःसंदिग्धं ज्ञापनम् ॥ भस्यालंकारस्य स्वरूपं तु वस्तुनो निःसंदेहज्ञानम् । तंत्र नामावयवार्थमुदाहरणाभिप्रायं चाजाननंश्चन्द्रालोककारो लक्ष्मीमहत्तायाश्चरित्रमुदात्तालंकारं ज्ञात्वा " उदात्तमृद्धेश्चरितम्' इति लक्षणमाह । ऋदिर्लक्ष्मीः । “ऋद्धिः लक्ष्म्याम् इति चिन्तामणिः ॥ उक्तोदाहरणानुसारेण चोदात्तशब्दार्थ महदित्यमन्यत । उदात्तशब्दार्थो · महदित्यपि । उदात्तः • • . २७८ यशवन्तभूपणम् [चतुर्थी महति" इति चिन्तामणिः ॥ "रलभित्तिपु-" इत्यत्र लक्ष्मी- महत्ताया उक्तचरित्रं तु लङ्केश्वरेपु रावणनिःसंदेहज्ञापनस्य साधनम् । तच्चानेकप्रकारकं भवति । "गरलं पायिता:-"इत्य- त्रान्यायाचरणैर्दुर्योधनस्य निःसंदेहज्ञापनम् । “रत्नभित्तिपु." इत्यत्र रावणनिःसंदेहज्ञापनरूपप्रयोजनं विनोक्तलक्ष्मीच: रित्रमात्रस्य तु लक्केश्वरविभूतेहेतुतया हेत्वलंकारः । हनूमता कृच्छ्राज्ज्ञात इति ज्ञाने पर्यवसानं चेद्धनूमता केनचिवेतुनैव ज्ञात इति तंत्रापि हेत्वलंकारः। यदि च प्रतिविम्बेपु हनुमतो भ्रान्तौ पर्यवसानं तदा भ्रान्त्यलंकारः सामान्यतया लक्ष्म्या- चरित्रमानं सर्वथैव नालंकारवाहम् ॥ सामान्यतया लक्ष्मी- चरित्रस्यालंकारत्वे तु सामान्यतया तदितरवस्तुचरित्रस्यापि कुतो नालंकारत्वम् । एवं तूपमादिसमस्तालंकाराणामुच्छेदेन सर्वत्र केवलमुदात्तालंकार एव स्यात्। यथा-"मरुद्वन्मरुभूपाल! . सर्वसंचारि ते यशः॥” इयमुपमा यशसश्चरित्रम् ॥ इत्यादि । "सानो यस्याभवत्-" इत्युदाहरणे उक्तलक्षणस्याव्याप्तिरिति द्वितीयमुदात्तं मत्वेदं लक्षणमुपाच- चरितं श्लाघ्यं चान्योपलक्षराम्॥” इति ॥ उपलक्षणमङ्गम् । तदेव कुवलयानन्दकारेण “इदं श्लाध्य. चरितस्यान्याङ्गत्वे उदाहरणम्" इति स्फुटीकृतम्।उक्तोदाह- रणे शिवार्जुनससररूपं श्लाघ्यचरितं वर्णनीयगिरेरङ्गं मन्यन्ते। इहापि वर्णनीयगिरेनिःसंदेहज्ञानप्रयोजनं विनोक्तश्लाघ्यच- रित्रमात्रस्य तु वर्णनीयगिरेमहिमहेतुतया हेत्वलंकारः। वि. शेषणं च विशेष्यस्याङ्गं भवत्येव । न हिश्लाघ्यचरितरूपविशे- पतयाऽङ्गाङ्गिभावोऽसंकारखयोग्यो भवति । उक्तलक्षणयोर-
आकृतिः]
उदाहरणम्
२७३
दात्तालंकारखरूपायोधकतयाऽसंभवदोषग्रस्तत्वं वेदितव्यम् ।।
इत्युदात्तप्रकरणम् ॥ २१ ॥
उदाहरणम् ॥
अलंकाररत्नाकरेऽयमलंकारो लिखितः । वस्तुनः स्वरूप.
प्रकाशनार्थ तन्मध्यादीषदादाय दयते तल्लोके "वानगी-न-
मूना" इति चोच्यते ॥ उक्तलोकव्यवहारानुसारेण धुरंधरो-
ऽमुमलंकारमङ्गीचकार ।। अत्रोदुपसर्गार्थः प्रकाशः । “ उद्
प्रकाशे" इति चिन्तामणिः॥भाङ् ईषदर्थकः। हरणशब्दार्थः
स्वीकरणम् । “हरणं स्वीकारे" इति चिन्तामणिः ॥आदान-
मिति यावत् ॥ उदाहरणेतिसमुदितशब्दार्थस्तु "उत्पका-
शार्थमीपहरणमुदाहरणम्" इति ॥ साहित्यशास्त्रेऽस्य सर्वत्र
प्रचारः । भलंकारादीनां सर्वेषामुदाहरणानि दर्श्यन्ते ॥
कस्यचित्सुप्रकाशाय यदीषद्धरणं भवेत् ॥
तदुदाहरणं राजन्नलंकारतया मतम् ॥१॥
यथा-
गर्व न कुर्वन्ति महानुभावा-
स्ते संलभन्ते भुवि पूर्णशोभाम् ॥
ईक्षध्वमासीद्यशवन्तसिंह
ऋजुस्वभावाजगतो विभूषा ॥ १॥
२८० यशवन्तभूपणम् [चतुर्थी मंत्र पूर्वार्धकथितस्य प्रकाशनार्थमुत्तरार्धे एकस्य राजरा- जेश्वरवृत्तान्तस्य कथनमुदाहरणम् ।। यथा वा- एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ नात्रोपमाऽलंकारः। तत्रोपमानोपमेययोर्भेदात् । न चान भेदः । किं तु सामान्यविशेषभावः । न चात्र निश्चयदर्शन- मपि । शङ्कावकाशमूलकताया अभावात् ॥ इत्युदाहरणम् ॥२२॥ उल्लेखः॥ . अत्रोदुपसर्गार्थ उत्कर्षः। “उद् उत्कर्षे इति चिन्तामणिः ॥ "लिख अक्षरविन्यासे” इत्पस्माद्भावे घभि लेखशब्दो नि- प्पन्नः। अक्षरविन्यासस्तु लिपिः । “अक्षरविन्यासो लिपो" इति चिन्तामणिः । उल्लेख इति समुदितशब्दार्थस्तु " उत् उत्कृष्टो लेख उल्लेखः । उत्कर्षवती श्रेष्ठा लिपिरिति यावत् ॥ दीपकन्यायेनाङ्गीकृतोऽलंकारो दीपकम् । तद्वदुल्लेखन्यायेना- गीकृतोऽलंकारो धुरंधरेणोल्लेखनाम्ना भणितः ॥ न्यायनिदर्श- मोकं नाम चमत्कारेऽधिकमुपयोगि ॥ लेखस्य चेयं रीतिः, एकमप्यकारायचरमनेकैलिखितं सदनेकप्रकारकं भवति, न स्वेकस्वरूपमिति प्रत्यक्षम् ॥ सर्वेपामप्पक्षराणि पृथक् पृथक् लक्ष्यन्ते । लोकमवादोऽपि- २८१ . आकृतिः उल्लेखः उष्णीषः प्रकृतिर्भाग्यमक्षराणि तथैव वाक् ॥ उक्तिविवेकिता क्वापि नैकरूपं विलोक्यते॥१॥इति॥ एकस्या एवाक्षरलिपेरनेकधात्वे निमित्तं तु लेखकहस्त- क्रियाभेदः॥अत्रोत्कर्षार्थकोदुपसर्गस्य नाम्नि प्रयोगस्त्वभ्या- ससमये एकस्यापि लेखकस्याक्षरलिपेरनेकधात्वेऽपि तत्र श्रे. ष्ठत्वाभावात्तस्या व्यावृत्तिर्यथा स्यात् । अस्मिन्नलंकारे उ. ल्लेखन्यायचमत्कारस्त्वनेकग्रहीतृभिर्यथारुच्येकस्यांनेकधात्वे, भनेकैराश्रयविषयैश्चैकस्यानेकधात्वे च ॥ अनेकधैकं यत्र स्यादनेकैर्मरुवल्लभ! ॥ न्यायेन श्रेष्ठलेखस्य तत्रोल्लेखाख्यभूषणम् ॥१॥ यथा- । रेलाख्ययानस्य जलाशयानां जानन्ति कर्तारमिमाः प्रजास्ते लतप्रदं त्वां कवयोऽरिवर्गा विध्वंसहेतुं यशवन्तसिंह! ॥१॥ अत्रैकमेव यशवन्तसिंह राजराजेश्वर प्रजाः पालनरुच्या रेलाख्ययानस्य जलाशयानां च कर्तारं जावन्ति । कवयो लाभेच्छया लक्षप्रदं जानन्ति । शुत्रवो भीत्या विरोधिनां वि. ध्वंसहेतुं जानन्ति ॥ उक्तोदाहरणे ग्रहीतॄणामनेकतयैकस्य राजराजेश्वरवस्तुनोऽनेकधात्वम् ॥ . यथा वा- .
२८२. यशवन्तभूपणम् [चतुर्थी श्रीमंद्राष्ट्रवराधिपारिरमणीरक्षाऽतिघोरे वने संजाता हि तयैव दन्तिनिवहास्तां ज्ञातवन्तः शचीम् ॥ शार्दूलाश्च शिवप्रियां बुवुधिरे तां रोहिणीरूपिणी-- मेणास्तामविदुस्तथैव कपयोऽजानन्त तांजानकीम्।। न ह्यत्र भ्रान्त्या तथा ज्ञानम्। किं तु यथारुचि ज्ञानमि. ति भ्रान्तिचमत्कारस्य गौणत्वापादनेनोल्लेखचमत्कारस्प प्र. धानत्वम् ॥ यथा वा- मूर्यद्वर्धातुरागस्तरुषु किसलयं विद्रुमाघः समुद्रे दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररागः सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः सोणिम्नाऽसौ खरांशोरुषसि दिशतु वः शर्म रश्मि- प्रतानः ॥ १॥ अत्र गिरिशिखराद्यनेकाश्रयवशादेकस्यैव रविरश्मिरूप. वस्तुनोऽनकधात्वम् ।। यथा वा- 'सवीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सनासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि ।। सेा जन्हुसुतावलोकनविधौ दीना कपालोदरे ३ आकृतिः] उल्लेखः २८३ पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः॥१॥ अत्र व्रीडाद्यनेकविषयवशादेकस्यैव पवित्तीदृष्टिरूपवस्तु नोऽनेकधात्वम् ।। बुद्धाववभासमानो विषयः ।। उल्लेखनामावयवार्थमुदाहरणाभिप्रायं चाजानाना अर्वा- चीना उल्लेखशब्दार्थ कथनमबोधिषुः ।उल्लेखशब्दस्य कथना- र्थकत्वं च “ उल्लेखः, उच्चारणे । कथने” इति चिन्तामणि- कोषे । उदाहरणानुसारेण चोल्लखद्वयं मत्वा चन्द्रालोके इमे लक्षणे अभिहिते- "बहुभिर्बहुधोल्लेखादेकस्योल्लेख इप्यते ॥ एकेन बहुधोल्लेखेऽप्यसौ विषयभेदतः ॥" इति ॥ कमेण चेमे उदाहरणे- स्त्रीभिः कामोऽर्थिभिः स्वर्द्धः कालः शत्रुभिरैक्षि सः॥ इदं परंपरागतोदाहरणम् ॥ अनेनात्र स्वलक्षणानुसारे- णानेकैरेकस्य कृष्णस्य वहुधा कथनं विज्ञातम् ।। उल्लेखशं. ब्दार्थो दर्शनं ज्ञानं वा न कस्मिंश्चिदपि कोषे उपलभ्यते ॥ गुरुर्वचस्यर्जुनोऽयं कीतॊ भीष्मः शंरासने ॥ . अत्रैक एव वर्सनीयो विषयभेदादेकेन कविना बहुधोक्तः। मम तु मतं, अमेकेषामेकस्य वैकस्य विषये बहुधाकथनं ना- लंकारवयोग्यम्। तस्मिन्नंशेऽत्यन्तं लौकिकत्वात् ॥ “गुरुर्व- चसि" इत्यस्मिन्नुदाहरणेऽभेदमाला समुच्चयो वालंकारः ॥
२८४ यशवन्तभूपणम् [चतुर्यो उक्तलक्षणयोरत्यन्तं लोकिकतयाऽस्यालंकारस्य स्वरूपायोध- कतया चासंभवदोपग्रस्तत्वम् ॥ इत्युल्लेखप्रकरणम् ॥ २३॥ काव्यार्थापत्तिः ॥ भापतिस्त्वापतनम् । अर्थस्यापतनमर्थापत्तिः। काव्यरू. पा भर्थापतिः काव्यापत्तिः ॥ अस्यालकारस्य मीमांसादि- शास्त्रसिद्धार्थापत्तिप्रमाणायावृत्यर्थं काव्येति विशेषणम् । तेन कविमतस्येयमर्थापत्तिरिति सिद्धम् । अर्थापत्तिप्रमाणे - यस्यापतनं त्वनुपपत्तिज्ञानसाध्यम् । एकम) विनाऽपरस्या- स्यानुपपत्ती सत्यां तस्यार्थस्यापतनेऽर्थापत्तिशब्दस्य रूढिः॥ अर्थापत्तिप्रमाणस्येदमुदाहरणम् । " पीनो देवदत्तो दिवा न भुङ्क्ते ॥ " अत्र दिवाऽभुजतो देवदत्तस्य रात्रिभोजनं विना पीनत्वानुपपत्तिरित्यनुपपत्तिज्ञानेन रात्रिभोजनमापतति । उक्तोदाहरणे तु रमणीयत्वाभावान्नालंकारत्वम् । यत्र काव्य- रूपार्थस्येति रमणीयार्थस्यापतनं तत्रालंकारत्वम् ॥ अर्थस्यापतनं यत्र काव्यरूपत्या भवेत् ॥ काव्यार्थापत्त्यलंकारस्तत्र ज्ञेयो नराधिप! ॥१॥ यथा- सुयशो भोजराजस्थ त्वंदीययशसा जितम् ॥ का कथाऽन्यमहीपालयशसां मरुवल्लभ! ॥ १.॥ भन्न राजराजेश्वरयशवन्तसिंहयशसो भोजभूपयशो- आकृतिः] काव्यार्थापत्तिः २८५ विनितमिति कथनेऽन्यभूपालयशोजयत्याऽऽपतनात्काव्यार्था- पत्त्यलंकारः॥ भत्राऽऽपतितोऽर्थः कविना वचनेनोक्तः॥ यथावा- । पञ्चाननपदोतरजःस्टष्टतृणोच्चयः ॥ ऊर्ध्वशुष्को न चाखादि हरिणैर्विजने वने ॥१॥ गच्छतः शार्दूलस्य शरीरगन्धसंयुक्तरजःस्पृष्टतृणानि मृगा भक्षयितुमशक्ता इत्यस्मिन्नर्थे शार्दूलहतमृगान्को वा भक्षयितुं समर्थ इस्यस्यार्थस्यापतनम् ॥ अत्राऽऽपतितोऽर्थः प्र. तीयमानः । वचनेनोकोऽर्थोऽलंकारो भवतीति तस्यार्थचित्र.' वेन भणनम् ॥ प्रतिभावतां व्यञ्जनाव्यापारेण प्रतीयमान एव प्रधानभूनो व्यङ्गयोऽर्थ इतीह बलात्कारेणाऽऽपतितस्या- र्थस्याप्रधानतया वाच्यप्रायत्वम् । उक्तमतानुसारेण व्याय व्यङ्गयालंकारयोरिदमेव वैलक्षण्यम् ॥ अत्र कस्यचिन्नियल- स्यापि महावलिना सह कथंचिदीपत्संबन्धेऽपि को वातं पी- डयितुं समर्थ इति प्रसङ्गे इयं तादृशतृणशार्दूलाप्रस्तुतकथा कथितेति सहृदयश्रोतुः प्रतीतिश्चेदत्राप्रस्तुतप्रशंसायाः सं. कीर्णत्वम् ॥ चन्द्रालोके इदं लक्षणम्- "केमुत्येनार्थसंसिद्धिः काव्वार्थापत्तिरिष्यते ॥"इति। कैमुत्यमित्यत्र किमुतेत्यव्ययात् प्यन् । शब्दकल्पद्रुमको- पे कैमुत्यं न्यायविशेष लिखित्वेदमुदाहृतम् ।।
२०४ यशवन्त भूपणम् [चतुथी उक्तलक्षणयोरत्यन्तं लौकिकतयाऽस्यालंकारस्य स्वरूपाबोध- कतया चासंभवदोपग्रस्तत्वम् ॥ इत्युल्लेखप्रकरणम् ॥ २३ ॥ काव्यार्थापत्तिः ॥ + भापतिस्त्वापतनम् । अर्थस्यापतनमर्थापत्तिः। काव्यरू. पा भर्थापत्तिः काव्यार्थापत्तिः॥ अस्यालंकारस्य मीमांसादि- शास्त्रसिद्धार्थापत्तिप्रमाणायावृत्त्यर्थं काव्येति विशेषणम् । तेन कविमतस्येयमापत्तिरिति सिद्धम् । अर्थापत्तिप्रमाणे - र्थस्यापतनं त्वनुपपत्तिज्ञानसाध्यम् । एकमर्थं विनाऽपरस्या- यस्यानुपपत्ती सत्यां तस्यार्थस्यापतनेऽर्थापत्तिशब्दस्य रूहिः॥ अर्थापतिप्रमाणस्येदमुदाहरणम् । “ पीनो देवदत्तो दिवा न भुङ्क्ते ॥" अत्र दिवाऽभुजतो देवदत्तस्य रात्रिभोजनं विना पीनत्वानुपपत्तिरित्यनुपपत्तिज्ञानेन रात्रिभोजनमापतति । उक्तोदाहरणे तु रमणीयत्वाभावान्नालंकारत्वम् । यत्र काव्य रूपार्थस्येति रमणीयार्थस्यापतनं तत्रालंकारत्वम् ॥ अर्थस्यापतनं यत्र काव्यरूपतया भवेत् ॥ काव्यार्थापत्त्यलंकारस्तत्र ज्ञेयो नराधिप! ॥१॥ यथा- सुयशो भोजराजस्य त्वदीययशसा जितम् ॥ का कथाऽन्यमहीपालयशसां मरुवल्लभ! ॥ १॥ भत्र राजराजेश्वरयशवन्तसिंहयशसो भोजभूपयशो- आकृतिः] क्रमः २८७ पायाहो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवईमानवपुषस्तिग्मातेमण्डलम् ॥ रत्नत्वं शिरसि श्रुतौ परिलसत्ताटङ्कतां चोरसि प्राप्तं कौस्तुभतां च नाभिविवरेऽब्जत्वं त्सरुत्वं(*)कटौ अत्र वामनावतारस्य शरीरवृद्धिसमयेऽवयवानां सूर्येण संवन्धे एकस्यैव सूर्यस्याश्रयभेदाच्छिरोरत्नादिरूपेणानेक- धात्वम् । तत्रोल्लेखवर्णने नखशिखक्रमस्य प्राधान्येन चम- कारकारितया क्रमालंकारः ॥ अत्रोल्लेखे कवेःप्रयत्नः। तत्र क्रमलाभोऽधिक इत्यधिकार्यकारः। अत्र क्रमोल्लेखाधिका- नां संकीर्णत्वम् ॥ . यथा वा- . क्रीडन्तु तावत्करिणोऽतिमत्ता यावन्न शार्दूलरवश्रुतिः स्यात् ॥ वायुर्वहेदुष्णतरश्च तावत् खं छादयेयुर्जलदा न यावत् ॥१॥ तावस्थिराः स्युहिमपर्वतायाः सूर्यः स्टशेत्तिग्मकरैर्न यावत् ॥ तावच्च गवं यवना विदध्यु- भ्यागमद्यावदिहाङ्ग्लसैन्यम् ॥२॥ चतुंर्देशाधिकैकोनविंशतिशततमे वत्सरे कतिपयाङ्क (*) सरुः खड्गमुधिः ॥
२८६ यशवन्तभूषणम् [चतुर्थी तत्रान्ये बहवो मलाः ॥ नूनं सर्वे क्षयं यान्ति किमु- तैकं नदीरजः॥” इति ॥ अत्राय भावः । वर्षौ प्रथमागतसलिला सरिद्रजस्वले- त्युच्यते । तत्सलिलं च पञ्चसप्तदिनान्यपावनं मन्यते । श्रा. वण्यामुपाकर्मनिमित्तं स्नातुं गमने सर्वमलनिवृत्तिश्चेत्तदा नदीरजसः का कथेति ॥ कुवलयानन्दकारेणार्थीपत्तिविषये दण्डापूपिकान्याय उक्तः । तस्येदं तात्पर्यम् । मूपिकया दराडे भक्षिते दण्डसंबद्धापूपस्य तु का कथेति । अत्र कैमुत्यन्या- यस्य संगतिस्तु, राजराजेश्वरयशसा भोजयशससो जये कृतेऽन्यनृपयशोविजयस्य तु का कथेति ॥ मम तु मतं "पञ्चाननपदोहूत-" इत्युदाहरणे शार्दूलभक्ष्यस्य तु का कथेत्येवंरूपस्यार्थस्याऽऽपतनाभावादुक्तलक्षणमव्याप्तमिति ॥ किंचात्राऽऽपतितार्थस्य वर्णनीयार्थसिदोविवक्षैव नास्तीत्युक्त- लक्षणे तस्य व्यर्थनिवेशनदोषोऽपि ।। इति काव्यार्थ पत्ति- प्रकरणम् ॥ २४ ॥ क्रमः॥ . पदार्थानां पूर्वपश्चाद्भावादिरूपः क्रमोऽनेकविधः । तस्य चमत्कारकारिखे कमालंकारः ॥ क्रमस्य तु चमत्कारकारित्वे यस्य कस्यचित् ॥ अलंकारः क्रमो ज्ञेयो यशवन्तनरेश्वर! ॥ १ ॥ यथा- भाकृतिः] क्रमः २८६ तस्माञ्चनांमदेरिति मीरांबाईस्तु सर्वेभ्यः ॥ हरिभक्तपूत्तरोत्तरमुत्तमोत्तमा भक्ताः संजातास्तेषु राष्ट्र- वरकुमारी मीरांचाईस्तु सर्वाधिका समभवदिति कस्यचिद्ध- रिभक्तस्येयमुक्तिः ॥ अस्मिन्वर्णने उक्तमीरांनाम्न्या राजकु- मारीत्वस्योचिततया धन्नाख्यादारभ्य मीरांपर्यन्तं जातीनां चोचिततया भक्तिरूपचीरस्य क्रमो व्यज्यते । स चाकारः। अत्र भक्तिविषये प्राधिक्यपरंपराकथनरूपाधिकता लौकि- कत्वान्नालंकारः । किं तु शृङ्खलाऽलंकारः । इह क्रमस्तु धन्ना- ख्यो जाट(कर्षक)जातीय इति तस्य भक्तिरूपकार्पासवप्त- त्वम् । दादूः पिनारा(धूनक)जातीय इति तम्योक्तकार्पास- शोधयितृत्वम् । करमा जाटजातीयेति तस्याः सूत्रविधायि- तृत्वम् । नामदे रङ्गकार इति तस्प रक्षयितृत्वम् । कबीरस्त- न्तुवाय इति तस्य पटोत्पादकत्वम् । मीरांनाम्न्याश्च राजकु. मारीत्वेन तद्धारकत्वम् । अयं क्रम उक्तभक्तिवर्णनशोभाक- रतयाऽलंकारः॥ चन्द्रालोकेऽयं क्रमालंकारो यथासंख्यनाम्ना कथितः । तत्रेदं लक्षणोदाहरणम्- "यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः॥” इति । यथा- 'शत्रु मित्रं विपत्तिं च जय रञ्जय भञ्जय ॥ अत्र क्रमेणोक्तानां शत्रुप्रभृतीनां जयादिक्रियाभिः सह .
२८८ । " यशवन्तभूषणम् चतुर्थी सेन्यैस्तद्विरुद्धतयोपद्रवं विधाय दिल्लीपत्तने मुगलजातीयोघ- हादुरशाहाख्ययवनो राजसिंहासनमधिरोपितः । तस्मिन्सम- येऽस्माभिरीदृशं वर्णन विहितम् । अत्र चरमार्थस्य निश्चयस्त्रि. भिरथैः पृथक्पृथग्दर्शितः। उक्तदृष्टान्तमालायां युद्धक्रमस्य समावेशारक्रमालंकारः ॥ युद्धक्रमश्च, पूर्व तावत्संदेशप्रेषणम् अवहिता भवत, वयममुकवासरे समेष्यामः" इत्यादि ।। ततश्च सेनासंक्रमणम् । ततश्चास्त्रशस्त्रप्रहारः ॥ अत्र “या- वन्न शार्दुलरवश्रुतिः स्यात्" इति संदेशस्थानापन्नम्। “खं छादयेयुर्जलदा न यावत्" इति सेनासंक्रमणस्थानापन्नम् । "सूर्यःस्पृशेत्तिग्मकरैर्न यावत्" इत्यस्त्रशस्त्रप्रहारस्थानापन्नम् ॥ उकोदाहरणेऽपि क्रमाधिकयोः संकीर्णस्वम् । इह क्रमाधिक- दृष्टान्तानां संसृष्टिः । प्रायः प्रतीयमानक्रमो रमणीयतयाऽलं- कारो भवति । इह व्यङ्गयरूपोंऽशः पृथक् । क्रमरूपोंऽशश्च पृथक् । अन्न व्यायमूलोऽलंकारः ।। संदेश आयान्मरुभूपतेः पुरा ततश्चमूर्गिणवर्पणं ततः ॥ संधौ रुचिस्ते न तदाऽभवत्प्रिय! वनेऽधुना काङ्क्षसि का विवेकिता ॥१॥ अत्र युद्धक्रमस्य वाच्यत्वान्नालंकारत्वम् ॥ .. यथा वा- धन्नाभक्तादादूरधिका करमा ततः कवीरश्च ॥ 1 भाकृतिः] तुल्यंयोगिता भवति हि सङ्गाद्दोषः सखि! कथनं नो मृषा कथंचि- .. दिदम् ॥ कुटिलभ्रुवोस्तु सङ्गात्कुटिलगते ते विलोचने दृष्टे।। अत्राऽऽकृत्यास्तद्गुणत्वम्॥पूर्वोदाहरणयोः सद्गुणस्य तद्गुण- त्वम् । इह त्ववगुणस्य तद्गुणता। चन्द्रालोके इदं लक्षणोदाहरणम्- तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः ।। यथा- पद्मरागायते नासामौक्तिकं तेऽधरत्विषा । भर्वाञ्चोऽत्र स्वगुणत्यागनियममकापुः । तत्तु प्रमादमूलम् । मत्र तस्येषदप्युपयोगाभावात् । सर्वत्र व्याप्त्यभावाच्च । न ह्यत्र नायिकानेत्रयोः सरलताया इव नासामौक्तिकस्य स्व- श्वेतगुणस्य त्यागः । किं तु माणिक्यारुणगुणस्य ग्रहणम् । सेम सस्य सस्पेसगुणस्थाच्छादमम् । अयस्पृयक्त्वे श्वेत- णस्य तथात्वात्। उक्तलक्षणमव्याप्तिदोषग्रस्तम् ॥ इति त - गप्रकरणम् ॥ २६ ॥ तुल्ययोगिता ॥ तुल्यशब्दार्थ एकधर्मीति । योगशब्दार्थः संयोग इति ।
. यशवन्त परमम् [चतुर्थी कमेणान्वयः ॥ मम मतऽन्यत्र क्रमालंकारः । तथाप्युक्तोदाह- रणानुसारेण क्रमस्य यथासंख्यमिति पर्यायनामकथनादा- चामुक्तनाम्नो लक्षणस्य चान्यत्राव्याप्तिः ॥ पूर्वोदाहरणेपूद्दे- श्यविधेयगणनाक्रमस्याभावात् ॥ इदं लक्षणं साक्षारस्वरू- पाबोधकमव्याप्तिदोपयस्तं च ॥ इति क्रमप्रकरणम् ॥२५॥ तद्गुणः ॥ तस्य गुणोऽनास्तीति तद्गुणः । परगुणस्य संबन्ध इति भावः । परगुणसंबन्धश्च कार्यकारणभावाद्विलक्षणः । अस्य विवेचनमृतद्गुणालंकारे सविस्तरमकारि ॥ “राजन्! परगुणस्येह संवन्धस्तद्गुणः स्मृतः ॥ वर्णशीलादिभिश्चास्य विडयसंख्या उदाहृती।। । यथा- गजा ऐरावता जाताः सः शेषत्वमागताः । यशवन्तयशःसङ्गाद्विश्वमुच्चपदास्पदम् ॥१॥ अत्र राजराजेश्वरयशःसंबन्धिश्वेतवर्णरूपगुणस्य सर्वेषु गजेषु सर्पेषु च संबन्धादर्णरूपगुणस्य तद्गुणत्वम् । किं च रानराजेश्वरस्य पश इतरसमस्तयशोऽपेक्षयोच्चपदाधिरूढमि- ति तत्संगत्या सर्वेऽपि गजा ऐरावतलंपोचपदभाजः, सर्वे घ सर्पाः शेषरूपोच्चपदभाजो बंभूयुरितीह पदरूपगुणस्य त- गुणत्वम् ॥ यथावा- भाकृतिः] तुल्ययोगिता २६१ भवति हि सङ्गादोषः सखि! कथनं नो मृषा कथंचि- दिदम् ॥ कुटिलभ्रुवोस्तु सङ्गात्कुटिलगते ते विलोचने दृष्ट।। . अत्राऽऽकृत्यास्तद्गुणत्वम्॥पूर्वोदाहरणयोः सद्गुणस्य तद्गुण- त्वम् । इह त्ववगुणस्य तद्गुणता । चन्द्रालोके इदं लक्षणोदाहरणम्- तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः ॥ यथा- पद्मरागायते नासामौक्तिकं तेऽधरत्विषा ॥ अर्वाञ्चोऽत्र स्वगुणत्यागनियममकार्युः । तत्तु प्रमादमूलम् । अत्र तस्येपदप्युपयोगाभावात् । सर्वत्र व्याप्त्यभावाच्च । न ह्यत्र नायिकानेत्रयोः सरलताया इव नासामौक्तिकस्य स्व- श्वेतगुणस्य त्यागः । किं तु माणिक्यारुणगुणस्य ग्रहणम् ।' तेन तस्य स्वश्वेतगुणस्याच्छादनम् । अधरात्पृथक्त्वे श्वेतगु. णस्य तथात्वात्। उक्तलक्षणमव्याप्तिदोषग्रस्तम् ॥ इति तद्भु- गप्रकरणम् ॥ २६ ॥ 'तुल्ययोगिता ॥ 'तुल्यशब्दार्थ एकधर्मीति । योगशब्दार्थः संयोग इति ।
२६२ यशवन्तभूपणम् বেনুধা योगो धोगितेत्यनान्तरम् । तुल्ययोगितेतिसमुदितशब्दार्थस्तु तुल्ययोस्तुल्यानां वा योगिता तुल्ययोगितेति । एकर्मिसं- योग इति फलितार्थः । सदैकर्मिसंयोगश्च लोके प्रायो दृ- श्यते । अघ्र कदाचिदेकर्मिनाप्राप्तिमसंयोगे रूढिः ॥ राजन्! कदाचिदेकधर्मित्वप्राप्तिमत्कसंयोगः ।। स्यात्तुल्ययोगिताख्योऽलंकारोधुर्यमतमान्यः।। . यथा- विद्युच्छटाभूषणभूषिताङ्गै(*)- एनेकवर्णैरतिशोभमानैः ॥ जन्यैरनेकैलदैश्च सज्जौ समागताविन्द्रमरुस्थलेन्द्रौ ॥१॥ अत्र मरुराजसुरराजयोस्तादृशमेकमिवं कादाचित्कम् । राजराजेश्वरस्तु विवाहप्रसङ्गेन विविधवणैर्वसनैरलंकारेश्च वि- राजमानर्जन्यैः सज्जः सन्समागतः॥ सुरराजश्च वर्ष प्रसङ्गेन विविधवणैर्विद्युद्भिश्च विराजमानैर्वारिदैः सजः सन्समागतः। अयं संयोगोऽपिकादाचित्कः ॥ .. + यथा घा- पर्यो कुसुमचयो गगने ताराश्च निद्रया दृङ्ने । (*) नियुच्छटाभि षणेश्च भूषितान्यमानि पेषाम् । समयाजलंदाना विद्युन्छटाभि. जन्याना च भूषणभूषित व ज्ञेयम् ।
श्राकृति] तुल्ययोगिता २६३ म्लानत्वं हि भजन्तेऽधुनाऽपि सुखदोहरिस्तु नायातः॥ प्रभातसमये ताराणां म्लानता नियमेन दृष्टा । कुसुमन- यनयोस्तु प्रत्युत प्रभातसमये विकासः प्रसिद्धः । तत्र कुसु-. मानां वृक्षवल्लीभ्यश्चित्वा पर्य स्थापनेन, नयनयोस्तूत्क- पठाजन्यजागरणेन च प्रभातसमये ताराभिः सह म्लानतारू.. पस्तुल्ययोगः कादाचित्क इति तुल्ययोगिताऽलंकारः ॥ चन्द्रालोककारस्तुल्ययोगितात्रयं मन्धान इमानि लक्षणो- दाहरणान्याह- "वानामितरेषां वा धर्मैक्यं तुल्ययोगिता ॥" क्रमेण यथा- संकुचन्ति सरोजानि स्वैरिणीवदनानि च ॥ १ स्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते ।। मालतीशशभृल्लेखाकदलीनां कठोरता ॥२॥ प्रथमोदाहरणे संध्यासमये वर्णनीयसरोजस्वैरिणीवदन- योः संकोचप्राप्तिरूपं धर्मेक्यम् । द्वितीयोदाहरणे चावर्णनी. याना मालत्यादीनां सुन्दरीशरीरापेक्षया .कठोरतारूपं धमै क्यम् । अत्र धर्मैक्यकथनेन साधम्र्ये विवक्षा चेदुपमालंकार एव । वर्ण्यविषये पर्यगावगर्गनिरागे stami दृश्यते ॥ "युपमा . क्रमेण यथा- २६४ ८ .. यशवन्तभूपणम् [चतुर्थी अचिरोपार्जितां भूमि भुञ्जीत निपुणो नृपः ।। दृढं विश्वासमुत्पाद्य नवोढां रमणीमिव ॥१॥ नवोढां नवविवाहिताम् । अत्र राजप्रकरणे द्वयमपि वर्णनीयम् ॥ सुधास्रोतःसुमधुरा श्रूयते तव वाग्यदा। तदानी कलकण्ठोऽपि कटुर्वीणेव विस्वरा ॥ २॥ अत्रनायिका वर्णनीया। वीणा कोकिलश्चोभयमप्यवर्णनी. यम् ॥ यदि च धमैक्यकथनेनेकधर्मिणां समुच्चये विवक्षा तदा समुच्चयालंकारः । न तु विलक्षणचमत्कारः ॥ परंपरांगतं कचित्तुल्ययोगिताया इदमुदाहरणम्- अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा ।। तृणे वा स्त्रैणे वा मम समहशो यान्तु दिवसाः कचित्पुण्यारण्ये शिवशिवशिवेति प्रलपतः ॥ १॥ भत्र तुल्ययोगितासंगतिस्तु सर्पदावहितकारिवस्तुनि, हारादो हितकारिवस्तुनि चानादरस्पतुल्यवृत्तियोगो भतृह- रेः संन्यासधारणाकदाचित्संजात इति । ईदृशोदाहरणेन भ्र- गित्वा जयदेवो द्वितीयतुल्ययोगिताया इदं लक्षणमाह- 'हिताहिते दृत्तितील्यमपरा तुल्ययोगिता ॥" यथा- भाकृति] २६५ दीपकम् प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥ परा उत्कृष्टा भूतिर्विभूतिः पराभूतिः । पराजयश्च । वर्ण- नीयनृपे उक्तप्रकृतिः सदैवास्तीति मित्रशात्रवयोरेकधमित्वं न कादाचित्कम् ॥ ततोऽत्र न तुल्ययोगिताऽलंकारस्य चम- स्कारः। किं त्वयथायोग्यतारूपो विषमालंकारः ॥ धके सति कार्यनिरूपो विचित्रालंकारो वा । तुल्ययोगितायाः क्वचित्परंपरागतमीदृशमुदाहरणम्-- लोकपालो यमः पाशी श्रीदः शक्रो भवानपि ॥ अत्र तुल्ययोगितासंगतिस्तु वर्णनीयनृपस्यानिर्वचनीय- लोकपाल कार्यकरणनेन्द्रादिलोकपालैः सह लोकृपालपदधा- रणस्य तुल्ययोगो नृपेषु कदाचिजात इति ॥ ईदृशोदाहर- णेन भ्रमित्वा जयदेव इदं लक्षणमाह- गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता ॥ उक्तलक्षणमुपमापरायणम् । उक्तलक्षणस्योक्तोदाहरणे संगतीकरणे तु व्यङ्गयोपमालंकारः ॥धुरंधराभिप्रायमज्ञात्वा- ऽवञ्चिस्तुल्ययोगिताया भिन्नभिन्नलक्षणत्रयं व्यदधुः ॥ तच्चों- कालंकारस्य स्वरूपाबोधकतयाऽसंभवदोषग्रस्तम् ॥ इति तुल्ययोगिताप्रकरणम् ॥ २७ ॥ दीपकम् ॥ " दीपंयतीति दीपकम् । लोकदीपन्यायेन धुरंधरो दीपका- लंकारमनीचकार ॥
२६६
यशवन्तभूपणम्
[चतुथा
दृश्यंते दीपकन्यायः स्थले यस्मिन्धरापते! ।।
दीपकालंकृतिस्तत्र धुरंधरमते स्मृता ॥ १ ॥
दीपकस्य चतस्रो गतयो भवन्ति । एकस्य वाञ्छितवस्तु.
नो दर्शनार्थ कृतो दीप इतरदवाञ्छितवस्त्वपि तथैव दर्श:
येदितिदीपन्यायेनेकस्य प्रस्तुतार्थस्य कृते कथितो धर्मोऽपर-
मप्रस्तुतार्थमपि तथैव प्रकाशयेत्तत्र दीपकालं कारः ॥
यथा-
अमन्दशोभामाधत्ते कोा मरुमहेश्वरः ।
सिन्धुः सुरतरङ्गिण्या ज्योत्स्नया च निशाकरः ॥१॥
अन काऽमन्दशोभाधारी राजराजेश्वरयशवन्तसिंहः
प्रकृतः । तदर्थ “सिन्धुः सुरतरङ्गिण्या” इत्यादेरप्रकृतस्या-
पि वर्णनम् । तत्र “अमन्दशोभामाधत्ते” इत्ययं धर्मोऽपि
प्रधानतया राजराजेश्वरार्थमेव कथितः । स च प्रसहप्राप्त.
मप्रकृतार्थमपि तथैव प्रकाशयति । अप्रकृतेऽपि तथैवान्वेती-
स्पर्थः ॥ १॥
प्रत्येक वस्तु स्फुटतया दर्शयितुं प्रत्येकवस्तुनः समीपे दी.
पंनीत्वा दर्शनमपि लोकरीतिः । उक्तदीपन्यायन प्रतिपदा-
धमेकस्यैव धर्मस्य वारं वारं कथने दीएकालंकारः ॥.
यथा-
-
हयस्ते कुण्डलीकुर्वन्ककुभां कुण्डलीयति ॥
मेखलीयति मेदिन्याः सृप्टे कङ्कणीयति ॥ १ ॥
आकृतिः दीपकम् २६७ अत्रैकमेव णिच्प्रत्ययवोध्यमांचरणधर्म प्रत्येकपंदार्थानां समीपे कृत्वा प्रकाशनम् ॥ २ ॥ प्राचीनकवीनामेतादृग्रचना अनन्ताः ॥ मृजन्ति कण्ठान् पिकशावका वने मृजन्ति तन्त्रीभवनेषु गायकाः ॥ मृजन्ति शृङ्गारमथो मृगेक्षणाः कामोऽपि संमार्टि शरान्दुरासदान् ॥१॥ वसन्तागमवर्णनमिदम् ॥ . . यथा वा- दोलन्त्या राधिकाया वै हारो दोलति वक्षसि ॥ चित्ते दोलति पञ्चेषुः कृष्णो दोलति नेत्रयोः ॥१॥ उक्तकाव्येषु क्रियाणां पुनरावृत्तिर्विदुपामुद्रगाजनकतया न पुनरुक्तदूषणम् । किंतूक्तन्यायेनानन्द जनकतया दीपकाख्य-- भूपणम् । भवनमत्यन्तं प्रकाशयितुमनेकदीपज्वालनमपि लोकरी- तिः । उक्तदीपन्यायेनैक एव धर्मोऽनेकवारं कथितश्चेत्तत्रापि दीपकालंकारः॥ यथा- कृच्छ्रकृच्छू समुत्थाय पर्यङ्के दंपती प्रगे।
२३८ यशवन्तभूषणम् [चतुर्थी परस्परं समालिङ्गय निद्रालू पततो मुहुः ॥ १ ॥ मत्र प्रभातसमये दंपत्योरुत्थाने रात्रिजागरणजन्यमान- स्यमत्यन्त प्रकाशयितुं कृच्छ्रपदयोध्यकठिनताधर्मस्यानेकवारं कथनम्॥ .. यथा वा.. सीत्कारं शिक्षयति व्रणयत्यधर तनोति रोमाञ्चम् ॥ नागरिकः किं मिलितो नहि नहि सखि! हैमनः पवनः।। मन्त्र कान्तवृत्तान्तनिषधस्यात्यन्तप्रकाशनाय नहीतिपद- घोध्यनिषेधधर्मस्यानेकवारं कथनम् ॥ उक्तद्वितीयतृतीयप कारावस्भाभिलक्षितौ ॥३॥ देहल्यां धृतो दीपो भवनेऽङ्गने चोभयत्रापि प्रकाशं विद. धाति । तथा संधौ धृतो धर्म इतस्तत उभयत्रापि प्रकाशमा- तनोतीति देहलीदीपन्यायेन दीपकालंकारः ॥ यथा- धृत्वा नरेन्द्रपदवीं यशवन्तसिंहः संमान्य काव्यनिपुणान्धनदानकार्षीत्॥ हीनान्भयेन मरुदेशनिवासिलोकान् भीत्या युतानरिंगणान् रणरङ्गधीरः ॥ १॥ अन "अकार्षीत्" इत्येक एव क्रियारूपो धर्मः पूर्वोसरा. र्धयोः संधौ धृतः पूर्वोत्तरार्धावुभावपि प्रकाशयति । प्रकाशनं भाकृतिः दृष्टान्तः. दीपकस्य मुख्यो धर्मः । स च सामान्यतया चतुर्ध्वप्युक्तप्र- कारेषु वर्तते ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- "वदन्ति वर्ष्यावानां धर्मैक्यं दीपकं बुधाः ॥” इति। यथा- मदेन भाति कलभः प्रतापेन महीपतिः.॥ अत्र वर्णनीयकलभस्यावर्णनीयनृपस्य च भासनरूपं ध. मैक्यम् । उक्तलक्षणमेतन्मतोकोपमापरायणमिति दीपक. स्वरूपाबोधकतयाऽसंभवदोषग्रस्तम् ॥ इति दीपकप्रकर- गम् ॥ २८॥ दृष्टान्तः ॥ स्त्रीपुरुषों दर्पणे प्रतिविम्बं समीक्ष्य स्वशृङ्गारस्य यथाव- तानिश्चयं कुरुन इति लोकव्यवहारानुसारेण धुरंधरो दृष्टा. तालंकार स्वीचकार ॥ कस्यचिदाक्यार्थस्य निश्चयो यस्मिन् वाक्यार्थे दृष्टः स वाक्यार्थों दृष्टान्त इत्युच्यते ॥ सत्र दर्प. णगतप्रतिविम्वस्थानापन्नः । दृष्टान्तद्वारा यस्य वाक्पार्थस्य निश्चयो दर्शितोऽसौ दान्तिक इत्युच्यते । स च विन्वस्था. नापन्नः । अत्र दृष्टान्तो दान्तिकस्य शोभाकर इति दृष्टा- न्तस्यालंकारस्वम् । दृष्टान्त इत्यत्रान्तशब्दाथों निश्रयः । "भन्तः, निर्णये । निर्णयः, निश्चये". इति चिन्तामणिः॥ दृष्टान्त इति समुदितशब्दार्थस्तु दृष्टोऽन्तो निश्चयो पत्र स ३०० यशवन्तभूपणम् चतुर्थी दृष्टान्त इति । अत्र प्रतिविम्मे रूढिः । तथा च यत्र प्रति- बिम्बे निश्चयो दृष्टोऽसौ दृष्टान्तालंकार इतिभावः ॥ नृप! विम्बप्रतिविम्वन्यायाद्यस्मिन्विनिश्चयो यथा- - सोऽर्थो दृष्टान्ताख्यालंकारः कथ्यते धुयः ॥१॥ स्वच्छवस्तुनि यस्य वस्तुनश्छाया साक्षाद्दश्यते तद्वस्तु । विम्बमिति, दर्पणे दृश्यमाना छाया च प्रतिबिम्बमित्युच्यते ।। भूपानां कलिकालसंभववतां संश्रूयतां या स्थितिः स्थाने स्व स्व उपासते हि नितरां दर्प मुदा संयुताः॥ किं तु क्षोणिमिमां बुधा मरुधराधीशेन राजन्वती- माहुस्तार(*)गणान्वितापि रजनी ज्योतिष्मती विन्दुना ॥१॥ अत्रान्यनृपाणां विद्यमानत्वेऽपि मरुधराधीशयशवन्तसिंह- नैव भूमी राजन्वती कथमितिविम्बरूपवाक्यार्थस्य निश्चयः प्रकाशति गुरुलघुतारागणे विद्यमानेऽपि रात्रिश्चन्द्रमसेव च. न्द्रिकावतीतिप्रतिविम्बरूपवाक्याथै दर्शितः ॥ यथा वा- पलायमानैः किल मेदपाट- सैन्यैः प्रयातान.नवाश्ववाराः ॥ प्रयात्यवाच्या तरसा भचके प्राची यथा.याति गणो ग्रहाणाम् ॥ १॥ () "नदत्रे नेत्रमध्ये च तारा स्यादर इत्यपि" इति व्याहि ॥
- प्राकृतिः दृष्टान्तः अत्र मेदपाटदेशीयाखिलसैन्ये पलायिते नवयोधारस्तन सह कथं न पलायिता इति विम्बरूपवाक्यार्थस्य निश्चयः प्रतिविम्बरूपोत्तरार्धवाक्यार्थे दर्शितः ॥ चन्द्रालोके इदं लक्षणम्- • "चेद्विम्वप्रतिविम्वत्वं दृष्टान्तस्तदलंकृतिः ॥” इति ॥ इदं लक्षणमुक्तालंकारस्य साक्षात्स्वरूपाबोधकम् ॥ एवं विधलक्षणनिर्भितिस्तु धुरंधरस्य मर्मापरिज्ञानात् ॥ तदेवोक्त- मनराघवनाटककर्तुमहाकविमुरारेः स्तुती केनचित्कविना- देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिप्टो मुरारिः कविः ।। अब्धिलखित एव वानरभटैः किं त्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥१॥ अत्रापि दृष्टान्तालंकारः॥ ननु धुरंधरेण दीपन्यायवतोऽलं. कारस्य दीपकमिति, लेखन्यायवतोऽलंकारस्य चोल्लेख इति नामाभिहितम् । तथाऽस्यालंकारस्य दर्पणमिति नाम कुंतो नोक्तमिति चेच्छृणु । दर्पणस्य मुख्यवर्मो हि प्रतिविम्वदर्श: नमात्रम् । तादृशनिश्चयस्तु फचिद्विवक्षावशद्भवतीति नेह विम्वप्रतिविम्धभावमात्र एव चमत्कारस्य पर्यवसानम् । किं तु प्रतिविम्बविपये निश्चयदर्शने पर्यवसानमिति धुरंधरोऽमुं दृष्टान्तनाम्नाव्याजहार ॥ उपमायां तु समीपे कृत्वा कृतस्य विशेषज्ञानस्य चमत्कारः ॥ इह तु प्रतिबिम्बरूपाय शङ्कानि. वृत्त्यात्मकनिश्चयस्य चमत्कार इति विलक्षणत्वम् ।। चन्द्रा:
यशवन्तभूषणम् [चतुर्थी लोकस्य लक्षणं दृष्टान्तालंकारस्य “यस्मिस्तु निश्चयो दृष्टः" इत्यस्मिन्नंशेऽच्याप्तम् । केवलं "विम्वप्रतिविम्वन्यायात्" इ- त्यस्मिनशे एव व्याप्नोतीत्यव्याप्तिदोषमस्तम् ॥ इति दृष्टा- न्तिप्रकरणम् ।। २९ ।। निदर्शना.॥ ८ . भत्र नीत्युपसर्गार्यो विन्यासः। विन्यासस्तु रखना। "नि विन्याले । विन्यासः, रचनायाम्" इति चिन्तामणिः। वर्शनशब्दार्थः प्रसिद्धः । स्त्रीत्वे टाप् । बोद्धव्यार्थे रूढिः । नि- दर्शनेतिर्समुदितशब्दार्थस्तु “नि रचनया दर्शनं निदर्शना' इति ॥ बोद्धव्यार्थस्य स्वयं कृत्वा दर्शनमिति भावः ॥ वृत्ता- न्तादेः सम्यग्घृदयंगमत्वापादनप्रयोजनेन स्वयं कृत्वा दर्श- ममपि लोकरीतिः । यथा व्याकरणोपदेष्टा गुरुः “भकुहवि- संर्जनीयानां कण्ठः" इति शिष्यं प्रत्युपदिश्य तस्य सम्यग्घ- दयंगमकरणाय तान्वर्णान्स्वयं कण्ठस्थानेनोचार्य दर्शयति । इदमुपदेशस्य कृत्वा दर्शनम् ॥ उक्तलोकव्यवहारानुसारं धुरं- परेणायमलंकारोऽर्गकृतः ॥ स्वयं कृत्वा दर्शनस्य प्रयोजन सु बोद्धव्यं प्रति कपनीयार्थस्य सम्यग्घृदयंगमत्वापादनम् । स्वोपदेशानुसारं स्वस्याचरणदर्शनादिकं च ॥ तदेवोक्त नी- तिशा-- " परोपदेशे कुशला दृश्यन्ते बहवो नराः॥ स्वभावमनुवर्तन्तः सहस्रेष्वपि दुर्लभाः ॥” इति ॥
प्राकृतिः]
निदर्शना
सिद्धान्तादेः स्वपरयोः स्वयं कृत्वा तु दर्शनम् ॥
निदर्शनाख्योऽलंकारो भवेन्मस्महेश्वर! ॥१॥
यथा-
श्रीमद्राष्ट्रवराधिपाः प्रददते राज्याभिषेकक्षणे
लक्षं स्वोत्तमचारणाय.सुमुदा सिंहासनाधिष्ठिताः ॥
लाभश्चञ्चलवैभवस्य यदिह स्थैर्य हि नाम्नश्चिर-
मित्युक्तिः स्वकुलस्य तैर्नृपवरैः कृत्वा स्वयं दश्यते ॥
योधपुराधीशराष्ट्रवरनृपा राज्याभिषेकसमये सिंहासन-
मधिरोहन्त एवं योग्यचारणाय लक्षदानं कुर्वन्तीति परंपरा-
गता रीतिः । तस्मिन्विपये इदं कविकृतवर्णनम् ॥ भत्र स्व.
सिद्धान्तस्य कृत्वा दर्शनम् ।।
यथा वा-
चपला पयोमुचा सह चन्द्रमसा याति चन्द्रिका पश्य।
प्रियसहगमनसुधर्म स्त्रिया जडे अपि विधाय-दर्शयतः॥
अत्रापि स्वसिद्धान्तस्य कृत्वा दर्शनम् ॥
यथावा-
सर्वेऽप्यत्र हसन्ति को वा हासस्य वीक्षितो विषयः॥
कृपणो गले गृहीत्वा चाणूरोऽमारि दर्शयत्येवम् ॥१॥
मंत्र स्वकृत्यस्य कृत्वा दर्शनम् ॥ परंपरागते धुरंधरस्येमे.
उदाहरणे-
उदयन्नेव सविता पद्मप्वर्पयति श्रियम् ॥
विभावयन्समृद्दीनां फलं सुहृदनुग्रहः ॥ १॥
वरायन्तभूपणम् चितुर्थी नश्येद्राजविरोधीति क्षीणं चन्द्रोदये तमः ।। राजा नृपश्चन्द्रश्च । प्रथमोदाहरणे स्वसिद्धान्तस्य द्विती- वोदाहरणे च स्वानुभूतावस्थायाः कृत्वा दर्शनम् ॥ निदर्शनानामावयवार्थमुदाहरणाभिप्राय चाजानाना अर्वा-. चीना निदर्शनाशब्दार्थ बोधनमज्ञासिपुः । निदर्शनाशब्दार्थों घोधनमपि । " निदर्शनं ज्ञापके" इति चिन्तामणिः ॥ "उद- यन्नेव-" इत्युदाहरणे क्रियया सदर्थबोधनमात्र "नश्येद्राजवि. रोधी" इत्यत्र क्रिययाऽसदर्थबोधनमात्रं च ज्ञातवन्तः ॥ चन्द्रालोककारोऽत्र तृतीयां निदर्शनां मत्वेदं लक्षणमाह- अपरों वोधनं प्राहुः क्रिययाऽसत्सदर्थयोः ॥ इति ॥ मम तु मतं, सदसदर्थरूपवैलक्षण्ये तु न किंचिदपि चम- कारः ॥ नचास्यालंकारस्य स्वारस्यं क्रियया वोधने । उक्त- स्वारस्यं तु सूक्ष्मालंकारस्य विषयः । अत्र तु स्वसिद्धान्तादे: कृत्वा दर्शने स्वारस्यम्। उक्तलक्षणं निदर्शनास्वरूपायोधक- तयाऽसंभवदोपग्रस्तम् ॥ निदर्शनाशब्दार्थः प्राप्तिरपि । "नि. दर्शना प्राप्ती" इति चिन्तामणिः ।। थर्वाचीनाः यहातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता इत्युदाहरणे सदृशवार्थियोरैक्यमाप्ति ज्ञात्वात्र वाक्या र्थवृत्तिनिदर्शनामाहुः । इयं प्रथमा निदर्शनेति कथ्यता चन्द्रालोककारेणेदं लक्षणमभिहितम्-- " " " .
३०५ आकृतिः] नियमः वाक्यार्थयोः सदृशयोरक्यारोपो निदर्शना ॥". यथा- " त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥ अस्मिन्नुदाहरणे सदृशपदार्थयोरैक्यप्राप्तिं ज्ञात्वात्र पदा- थंवृत्तिनिदर्शनामाहुः । चन्द्रालोके इदं लक्षणम्- "पदार्थवृत्तिमप्येके वदन्त्यन्यां निदर्शनाम्॥” इति ॥ अत्र पूर्वलक्षणात् “मदृशयोरेक्यारोपः” इत्यनुवर्तते । पदार्थवृत्तिमिति कथनास्पदार्थयोरित्यस्य लाभः। तथा च सदृशयोः पदार्थयोरैक्यारोपे पदार्थवृत्तिनिदर्शनामाहुरित्य.. र्थः॥प्रकारत्वं सजातीयचमत्कारविशिष्टेम्वेवेष्टम् ।जयदेवोऽत्र निदर्शनाशब्दस्य प्राप्ति-बोधनरूपार्थयुगलेन निदर्शनानामक- मलंकारद्वयं मेने । तञ्च " अपरां वोधनं प्राहुः" इति कथने- न स्पष्टम् ॥ प्रथमनिदर्शनायाश्च पदवाक्यभेदेन प्रकारद्वय- ममन्यत । मम तु मतं, प्राप्तौ नालंकारत्वयोग्यश्चमत्कारः। 'यहातुः-"इत्यत्राभेदालंकारः। त्वन्नत्रयुगलम-"इत्यत्र लक्ष्यो- पमालंकारः॥ पदवाक्यभेदस्तूदाहरणान्तरम् । उक्तलक्षणानां वास्तवनिदर्शनायामसंभवादसंभवदोषग्रस्तत्वम् ॥ इति नि- दर्शनाप्रकरणम् ॥ ३० ॥ नियमः॥ अंयमलंकारोऽलंकाररत्नाकरे लिखितः । निपूर्वाद्यमधा- ३०६ यशवन्तभूपणम् [चतुर्थी तोनियमशब्दो निष्पन्नः । अत्र नियमशन्दार्थों यन्त्रणम् । "नियमः, यन्त्रणे" इति चिन्तामणिः ॥ एकस्मिन्नियमे कृनेऽपरे निषेधः सिध्यति । परं त्विह नियमे पर्यवसानात्मघा- नतया नियम एवालंकारः ॥ नियमस्तु महाराज! नियमालंकृतिर्भवत् ॥ . यथा-- कलौ त्वमेव यशसां ग्राहकोऽसि तमापते! ॥ अत्र यशोग्राहिताया राजराजेश्वरे नियमः । अत्र यन्त्र णस्वरूपं त्वन्यत्र निषेधं कृत्वैकत्र स्थापनम् । उक्तोदाहरणे- ऽन्यत्र निषेध पार्थः । अन्यत्र संवन्धसंभवेऽन्यत्र निषेधं कृ- वैकत्र नियमश्च ॥ यथावा- भूपतिसरित्सरांसि बहूनि सन्तीह याचते ह्येकम् । यशवन्तसिंहजलदं नियमनिवडो मुरारिदात्यूहः ।। "दात्यूहः कालकण्ठके चातकेऽपि" इति हैमः । अत्र लक्ष्य- माणमुद्रालंकारस्य संकीर्णता । अनान्यत्र निषेधो वाच्यः । अन्यत्र संबन्धासंभवेऽन्यत्र निषेधं कृत्वेकत्र नियमश्च ॥ इति नियमप्रकरणम् ॥ ३१ ॥ निरुक्तिः ॥ लोके हि प्रियवादिनो जनाः प्रभोर्वाक्यं प्रभोरिच्छानुसार प्राकृति. निरुक्तिः . . योजयन्ति । अस्मिन्विषये इयं वार्ता प्रख्याता । वृन्ताकशा- कस्य स्वादुतया भोजनसमये केनचित्प्रभुणा "वृन्ताकं शाक- नायकम्" इति स्तुतिरकारि । तदा प्रियवादिनोक्तम् । सत्य- मेतत् । अत एव विधात्राऽयं सर्वशाकानां राजा विहितः । अस्य राजत्वं च च्छत्रचिन्हेन ज्ञाप्यते । वृन्ताकस्य शिरस्यन्य- फलविलक्षणं महच्छत्राकारं धृन्तं भवत्येव । पुनश्च बहुभक्ष- णाद्वायुप्रकोपे तेनैव प्रभुणाऽयमस्मिन्महानवगुण इति नि. न्दाऽकृत । तदा तेनैव प्रियवादिनोक्तम् । सत्यमेतत् । अत एव विधात्रास्य मूनि शङ्कुर्व्यखानि । वृन्ताकवृन्तामं कठोरं शङ्काकारं च भवत्येव । उक्तलोकव्यवहारच्छायया धुरंधरो निरुत्यलंकारमङ्गीचकार ॥ निर् शब्दो नृधातोर्निष्पन्नः । नृधातुर्नयार्थकः । “नृ नये । " नयो युक्तिः । युक्तियोजना। "नयः, युक्तौ। युक्तिः, योजनायाम् ।" इति चिन्तामणिः । उक्तिशब्दार्थः कथनम् । अत्रेच्छानुसारं योजनायां रूढिः । एवं चच्छानुसारं योजनायाः कथनं वर्णनं निरुक्तिशब्दार्थः।। इच्छानुसारं यत्र स्याहचनस्य सुयोजना। निरुक्तिनामालंकारः कीर्त्यते तत्र भूमिप! ॥१॥ वचनस्य स्ववचनस्य परवचनस्य वा स्वेच्छानुसारं परे- च्छानुसारं वा योजना क्रियत इति चत्वार्युदाहरणान्तराणि । न तु प्रकारान्तराणि ॥ यथा- उदारराजां गणनाप्रसङ्गे . . .
३०८ [चतुर्थी . यशवन्तभूषणम् कनिष्ठिकास्थे यशवन्तनानि ।। अद्यापि ताहनृपतेरभावा- दनामिका सार्थवती बभूव ॥१॥ कनिष्ठिकायाः सर्वाङ्गुलिभ्यः कनिष्ठत्वारकनिष्ठिकेति सार्थकं नाम । कनिष्ठिकासमीपवर्तिन्या अगुलेरनामिकेति रुढं नाम । तत्र कविः परवचनस्य स्वेच्छानुसारं योजनां च. . कार । अङ्गुलिभिर्गणने कनिष्ठिकातो गणनाप्रारम्भः । त- त्रात्युदारनृपगणनायां कनिष्ठिफया राजराजेश्वरयशवन्त- सिंहनाम्नि गणिते तदुत्तराङ्गलो ततुल्यनृपाभावान्नान्नोऽभावे- नानामिकेति ॥ अत्र नाम्न इच्छानुसारं योजना । वचने च मामादेः सर्वस्यापि संग्रहः ॥ यथा वा.. - सिन्धौ तु वाडवेनाऽभूमण्डलें विद्युता च साई यः ॥ न्यवसत्तस्य विधोरिह वियोगिजनतापनं युक्तम् ॥१॥ इन्दुस्तापं करोतीति वियोगिन्या वचनम् । वस्तुतस्तु विधुः सीतलः । न तु नामकरः । तथाप्युद्दीपनतया वियोगिन्या दुःसहः । तत्र सखी स्वामिनीवचनं तदिच्छानुसारमित्थं या- नयामास । विधोः सिन्धौ वाडवेन सह विहायसि च विद्युता सह वासकरणात्तव तापकरणकयनं युक्तमिति ॥ अत्र परव- चनस्य परेच्छानुसारं योजना। यथा वा-- आकृतिः] परिकरः ३०६ अबलस्वकुलाशिनो झषा- न्निजनीडद्रुमपीडिनः खगान् ॥ अनवद्यतृणार्दिनो मृगा: न्मृगयाऽघाय न भूभृतां घ्नताम् ॥ १॥ मम तु मतं, अत्र वक्रा स्वेच्छानुसारं राज्ञ इच्छानुसारंवा हिंसाकर्मणो न्यायधर्मे योजना कृतेति निरुत्यलंकारः । चन्द्रालोके इदं लक्षणोदाहरणम्- "निरुक्तिोगतो नाम्नामन्यार्थत्वप्रकल्पनम् ॥” इति ॥ . यथा- . ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥ . दोषा रात्रिस्तां करोतीति दोपाकरश्चन्द्रः ॥ तत्रावलादुः- खदायितया सखी वियोगिन्या इच्छानुसारं "भवत ईदृशै- श्चरितैर्मया ज्ञातमेतद्भवान्दोपाणामाकर इति" चन्द्रस्य दो- पाकग्नाम्नोऽन्यार्थ प्रकल्प्य योजनां चकार ॥ लभ्योदाहरणानु- सारेणार्वाचीनानां नामश्लेपयोनियमकरणं प्रमादः ॥ "सि- न्धी तु वाडवेन-" इत्यत्र "अवलस्वकुलाशिनः-" इत्यत्र च नामश्लेषयोरव्याप्तेरुक्तलक्षणमव्याप्तिदोषग्रस्तम् ॥ इति निरुक्तिप्रकरणम् ॥ ३२ ॥ ॥ परिकरः॥ • परिकरशब्दार्थः सामग्री । अमुकस्य महान्परिकर इति चतुर्थी ३.० यशवन्तभूपणम् कथनं लोके प्रसिद्धम् । "परिकरः परिवारे । परिवारः शो- भाजनक उपकरणे छत्रचामरादौ" इति चिन्तामणिः ॥ परि- कररूपयुक्तेश्चमत्कारकारित्वे परिकरालंकारः ॥ शोभाकरः(*) परिकरो भूषा परिकराभिधा ।। एनां भूपाल सम्यक्त्वं जानीपे दशया स्वया।। यथा- नवकोटानामधिपो नवसाहस्रश्च राजराजेशः ।। यस्य च शरणे सिन्धो थो यशवन्तनृप एषः॥9॥ भत्र पस्य नव दुर्गाणि, नवसहस्रमामाः, राजानः सेवकाः, सिन्धुदेशाधिपश्च शरणागतोऽस्तीत्ययं परिकरो राजराजेश्वरे उत्कर्षमादधकाव्यशोभाकरतयाऽलंकारः॥ यथा वा- " आसारो नीहारस्तथेन्द्रगोपा बकालिककिरवाः ।। सरिसरङ्गाश्चैतान्सह नीत्वाऽऽयादय नभोमासः ।। १ ।। भत्रोकाऽऽसारादिः श्रावणमासस्य परिकरः॥ उक्तोदाहर- खेषु परिकरः स्तुतिपर्यवसायी । निन्दापर्यवसायी यथा- विषसहजेन्दोः कान्तिर्यमदिग्वायुः पलाशकुसुमानि ॥ (4) काम्यशोभाकर ॥
भाकृतिः] परिकरः ३११ मधुरेतैर्युत आगाद्वियोगिनीनां कुतो नु जीवाशा ॥१॥ वृक्षविशेषस्य पलाश इति रूढं नाम । तत्र नायिकया स्वेच्छानुसारं पलं मांसमश्नातीति पलाश इत्यों विहितः ।। वसन्तस्योक्तपरिकरो निन्दापर्यवसायी ॥अत्र निरुक्तः स- माघेश्च संकीर्णता ॥ परंपरागतं धुरंधरस्थेदमुदाहरणम्-- सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ अत्र चन्द्ररूपभूषणं शिवस्य परिकरः। परिकरशब्दार्थों गात्रिकाबन्धोऽपि ॥ “परिकरः, वस्त्रादिना प्रगाढगात्रिकाब- न्धे" इति चिन्तामणिः॥ लोके हि किंचित्कार्य विधातुमुत्सा: हेन सजीभूतेऽनेनामुककार्यार्थं गात्रिका बद्धत्युच्यते ॥ तदुक्तम्-- "वद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥” इति ।। धुरंधराभिप्रायापरिज्ञानादर्वाचीनाः परिकरशब्दार्थ गात्रि- काबन्धं ज्ञात्वाऽत्र साभिप्रायविशेषणं गात्रिकावन्धममन्य- न्त ॥ चन्द्रालोके इदं लक्षणम्- "अलंकारः परिकरः साभिप्राये विशेषणे ॥” इति ॥ "सुधांशुकलितोत्सः" इत्येव चोदाहरणम् ॥ मम तु मतं, अभिप्रायशून्यविशेषणं त्वपुष्टार्थदोष इति साभिप्राय- विशेषणेनोक्तदोपस्य वारणमात्रम् ॥ अस्मिन्नंशेऽस्तकारत्वयो- ग्यो न कोऽपि चमत्कारः। विशेषणस्याभिप्राये कश्चिचमत्का- रविशेषश्चेत्तत्तचमत्कारविषयकः कश्चिदलंकारो भविष्यति ।।
.. ३१२ यशवन्तभूषणम् चितुर्थी अत्र परिकरशब्दार्थः सामग्येव ॥ किं च शिवशब्दः सामा. न्यतया कल्याणवाचकः । हरिप्रभृतयोऽपि कल्याणरूपाः । ततो महादेवस्य निःसंदेहज्ञाने विवक्षा. चेदुदात्तालंकारः ॥ तापहरणे सुधांशोहे तुतायां विवक्षा चेत्तापहरणज्ञाने सुधां- शोपिकत्वाज्ज्ञापकहत्वलंकारः ॥ कचित्परिकरोऽपि विशेष णत्वमापद्यते । “सुधांशु-” इत्यत्र परिकरो विशेषणरूपः । तथापि प्राधान्यं तु परिकरताया एव ॥ "आसार-" इत्यत्र परिकरो न विशेपणरूपः ।। स नृपानकरोद्रकान् रङ्कांश्चासंख्यशो नृपान् ॥ अत्र- केवल विशेषणरूपता । न तु विशेषणे परिकरता ॥ उक्तलक्षणं स्वरूपाधोधकतयाऽसंभवदोषग्रस्तम् ॥ इति परि. करप्रकरणंम् ॥३३॥ ॥ परिणामः ॥ .. परिपूर्वान्नमतेः परिणामशब्दो निप्पन्नः । अन्न परीत्युपसर्गा. र्थः सर्वत इति ॥ "परि सर्वतोभावे" इति चिन्तामणिः ॥ नमधातु मनार्थकः । परिणम्यते इति परिणाम इति व्युत्प- त्या सर्वतो नमनं परिणामशब्दार्थः ॥ वस्तुनोऽन्यथाभावः परिणाम इति भावः ॥ “परिणामः प्रकृतेरन्यथाभावे" इति चिन्तामणिः । प्रकृतिस्तु स्वभावः । "स्वभावः प्रकृती" इति चिन्तामणिः ॥ अत्र स्वभावशब्देन निजस्थितिर्विवक्षिता । स्वस्य भावः स्थितिः स्वभावः .
प्राकृतिः] ३१३ परिणामः "परिणामो महाराज! परिणामः प्रक्रीयते ।।" यथा- त्वं रकान् भूपालान्करोषि कृपया मरुस्थलाधीश! ॥ अत्र दशायाः परिणामः॥ यथा वा- यशवन्तमहाराज! वने त्वदरियोषिताम् ॥ नीहारोऽभूजवनिका दीपा दिव्यौषधीगणः ॥१॥ अत्र धर्मस्य परिणामः । नीहारस्य विचनबने पूर्व गिरि- वृक्षाद्याच्छादकल्वेऽपि तिरोधातुं योग्यस्य तिरोधायकत्वाभा- वात्तस्मिञ्जवनिकात्वधर्माभावः । अधुना कुलीनरिपुस्त्रीणामा- च्छादनकरणान्नीहारत्वरूपधर्मस्य जवनिकात्वरूपधर्मेण परि- णामः ॥ तथैव तादृशौषधीनां पूर्व प्रकाशकत्वेऽपि रात्री दर्शनीयपदार्थदर्शनरूपदीपकार्याकरणात्तासु दोपत्वरूपधर्मा- भावः । अधुना रिपुस्त्रीणां गत्रौ पदार्थदर्शननौषधीतरूप धर्मस्य दीपवरूपधर्मेण परिणामः॥ यथावा-- पङ्काकीटं समादाय स्वसमं व्यदधादलिंः॥ विस्मरेदुपकारं तं कथं कीटो महीपते! ॥१॥ भ्रमरः कीटं म्रमरं करोतीति प्रसिद्धिः । अत्र वर्णाकृतिशी- लानां त्रयाणां परिणामः ॥ अत्राप्रस्तुतप्रशंसायाः संकीर्णता॥ 'चन्द्रालाकै इदं लक्षणोदाहरणम्- यशवन्तभूपणम् [चतुर्थी "परिणामः क्रियार्थश्चेद्विपयी विषयात्मना" इति। विषयी विषयात्मना क्रियाकारी चेत्परिणाम इति भावः॥ यथा-- प्रसन्नेन हमब्जेन वीक्षते मदिरेक्षणा ॥ उक्तलक्षणेनेदं स्पष्टमवभासते, अर्वाचीनरिह विषयी विषयरूपेण परिणमतीति नियमो विज्ञातः। रूपकाच भेद- वर्शनाय विषयी विषयरूपेण क्रियां करोति चेत्तत्र परिणाम इति चोक्तमिति ॥ तत्प्रमादमूलम् ॥ प्रियध्याननिविष्टात्मा तादात्म्यं समुपागता ॥ स्वात्मानं दर्पणे दृष्ट्वा सा वाला मोदते स्वयम् ।। इत्यत्र नायिकायां नायकस्यारोपान्नायको विषयी। नायि- का च विषयः । नायिकात्र नायकभावं भजते । स्वात्मनि नायकभावनाप्त्या दर्पणगतं निजस्त्रीरूपमवलोक्य नायिका तिदासक्ता भवतीति भावः ॥ इह विपयिरूपेण विषयस्य परि. णामः ॥ " त्वं रङ्कान भूपालान्-" इत्यत्र राजसंवन्धिक्रियां विना केवलं वैभवप्राप्त्या रकानां राजरूपेण परिणामः । तथैव "पङ्कास्कीटं समादाय-" इत्यत्रापि क्रियां विना परिसा. मः ॥ ननु रकस्य राजभावे राजसन्धिक्रियाकरणं, कीट- स्य च नमरभावे भ्रमरसंवन्धिक्रियाकरणामर्थसिद्धमिति चेन्न। काव्यस्य शरीरं शब्दार्थमयम् । तत्तु कविना यत्र याबद्र- चितं तत्र तान्मात्रमेवावतिष्ठते । तस्मिल्लक्षण भारतिः परिसंख्या व्यञ्जनां वा झक्तिं विनाऽर्थापत्त्यलंकारं विना वा न कश्चि- हाह्योर्थः समागच्छेत् ॥ एवं सर्वत्र ज्ञातव्यम् ॥ई दृशोदाहरणे. प्वर्वाचां लक्षणमव्याप्तम् ॥ रूपानुकरणमिह त्ववस्थान्तर- प्राप्तिरिति महद्वैलक्षण्यम् ।तच्चानयो मोदाहरणाभ्यां स्पष्ट. म्॥किंचानेन निरीक्षणक्रियायाः कमलेष्वन्वयं विधायनिजम- तानुसारं परिणामः साधितः । सोऽपि प्रमादः । कुतः, अत्र साधर्म्यरूपयुक्त्या नयनयोः कमलत्वेन रूपकमात्रं कविकर्म । युक्तिं विना कमले निरीक्षणक्रियायाः स्थापनमरोचकतया कविकर्म न भवति । कविसृष्टेनियतिकृतनियमरहितत्वेऽपि विधिसृष्टिहपशोकोभयरूपेत्यंशस्य विलक्षणत्वं तु कविसृष्टिः केवलमानन्दमय्येवेति । कविसृष्टावानन्दस्तु युक्त्यम्देश्चम- स्कारस्यैव । चमत्कारहीनार्थस्तुद्वेगजनकतया दोषरूपः । तदुक्तं भगवता व्यासेन "उद्वेगजनको दोषः" इति ॥ उक्त- लक्षणं साक्षात्स्वरूपाबोधकमव्याप्तिदोषग्रस्तं च ॥ इति परिणामप्रकरणम् ॥ ३४ ॥ ॥ परिसंख्या ॥ . तत्तद्धर्मविशिष्टानां धर्मिणां संख्याकथने तस्य धर्मस्या.. न्यत्र वर्जनपूर्वकमुक्तसंख्याश्रयेषु नियमो भवतीति लोकरी. तिः॥ यथा महादेव एकः शंभुरेव । पृथिव्यसेजोवाय्वाकाशा: पञ्च महाभूताः । एवं संख्याकंधने महादेवत्वस्यान्यदेवेषु वर्जनपूर्वकमेकस्मिञ्छंभावेव, महाभूततायाश्चान्यत्र वर्जनप- यशवन्तभूपणम् [चतुर्थी वंक पृथिव्यादिपश्चक एव नियमो भवति । द्वितीयो महादेवः षष्ठश्च महाभूतो नास्तीति । अत्र परीत्युपसर्गार्थो व- जनम् । “परि वर्जने" इति चिन्तामणिः । परिसंख्येतिसमु. दितशब्दार्थस्तु परि वर्जनवती संख्या परिसंख्या ॥ संख्या स्वन्यन्न वर्जनं कुरुते । अत्र तु खस्मिन्विषये वर्जनस्य रूदिः । इदमेव चालौकिकत्वम् ॥ यत्र संख्याश्रयेऽपि स्याधर्मस्य परिवर्जनम् ॥ परिसंख्या भवेत्तत्र भूषणं मनुजाधिप! ॥१॥ यथा याचन्ते खलु चातका मदगजाः क्षीणा ध्वजारो धुति- मालिन्य कुचयोर्मुखे कुटिलता शीतद्युतौ दृश्यते ॥ दोषस्वीकरणं रसाकुलकवौ चित्तस्य चौर्य प्रभो! इत्थं श्रीयशवन्तसिंह! भवतो राज्यस्थिती राजते ॥१॥ भत्र यानायाश्चातकपु तनुक्षीणतायाश्च मत्तगजेपु क- थनादनयोरन्यत्र पशुपक्षिमनुष्येषु वर्जनपूर्वकं चातकमत्तग- जेष्वेव नियमो जातः । परंतु चातकनिष्टयाच्यापि दारिद्रय- दशाजनिता दोषरूपा नास्ति, किं त्वेकवृत्तितयेति गुणरूपा। मत्तगजनिष्ठक्षीणतापि च भोजनप्राप्त्यभावनिता रोगज. निता वा दोषरूपा नास्ति, किं तु मत्ततयति गुणरूपा ॥ तथैव ध्वजाग्रनिष्ठकम्पोऽपि भयजनितो दोवरूपो नास्ति, कि तु वातवशेनेति स्वाभाविकः । स च शोभांकरः । एवमन्य- ।
३१७ भाकृतिः] पर्यायः दपि । इत्थं संख्याश्रयेष्वपि क्षीणतादिवर्जनस्यालौकिकत्वेन रोचकतयाऽलंकारत्वम् ॥ पत्र परिसंख्यायाश्चमत्कारस्य प्रा- धान्यात्परिसंख्याऽलंकारः। आभासस्य गौणत्वान्नालंकारता। उक्तोदाहरणे रसाकुलकवो दोपस्वीकारोक्तिस्तु कवयः काव्य- रसानुकूलतायां दोषान्न गणयन्तीति ॥ उक्तं च "निरङ्कुशाः कवयः" इति ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- "परिसंख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्॥"इति।। यथा- - . स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम् ॥ नही लक्षणं परिसंख्यायाः साक्षात्स्वरूपबोधकम् । किं तु धुरंधराभिमतनियमालंकारस्वरूपबोधकम् ॥ किं च "या- चन्ते खलु चातकाः" इत्याद्युदाहरणेवव्याप्तं च । न पत्र क्षीणताया एकस्मिन्नेव वर्जनमपि तु पशुपक्षिमनुष्याद्यनेक- जातिवृत्ति । किं च तादृशनियमा अप्यनेकेपु संभवन्तीति तत्राव्याप्तिः ॥ इति परिसंख्याप्रकरणम् ॥३५॥ पर्यायः॥ पर्यायस्त्वेकस्य स्थाने द्वितीयः । यथा हस्तिनाम्नः स्थाने दन्तीत्यादीनि नामानि । नाम्नां विषये पर्यायस्य कथनं शास्त्र- অনিরমুণ্য चितुर्थी प्रसिद्धम् ॥ अत्र पूर्वपश्चाद्भावक्रमो न विवक्षितः । पर्यायस्य "ववली-वारी" इति लोकभाषा ॥ . पर्यायालंकृतिस्तत्र यत्र पर्यायता भवेत् ॥ सा चाश्रय्याश्रयादीनां ज्ञेया मस्नरेश्वर! ॥१॥ यथा- मरौ पयोहारिवधूजनानां जलाय नेत्रेषु जलं समायात् ॥ तव प्रभावाद्यशवन्तसिंह! पादेषु तासां परिवर्तते तत् ॥ १ ॥ पादेषु तासां परिवर्तते तत्" इति कथनस्येदं तात्पर्यम्, पूर्व स्त्रियोऽतिकृच्छ्रात्कृपेभ्यः समुद्धृत्य पानीयमानयन्ति स्म। इदानीं तु राजराजेश्वरयशवन्तसिंहन यत्र तत्र सरांसि कारितानीति पानीये पादमर्पयित्वा पानीयमानयन्ति । अत्र पूर्व पानीयस्य. योधपुरपानीयहारिणीनां नेत्रेषु संवन्धः । इदानीं तु तत्त्यागपूर्वकं तासां पादेषु संवन्धोऽभवदित्येकस्यै- वाप्रयिणः पानीयस्य पर्यायेण नेत्रपादरूपानेकाश्रयेषु संबन्धः । यथा वा- यत्रासीदजवन्धनं करिघटा तत्राधुना गर्जति धावन्ति स्म च मूषका. बहुतरास्तत्राद्य दासत्रजः॥ यत्राभून्मुसलध्वनिः कटुतरस्तत्राद्य वाद्यध्वनि- - श्राकृतिः] पर्यायः श्चक्रे श्रीमरुपो बहूनि सदनान्येतादृशानि क्षणात्॥१॥ अत्रैकस्य भवनरूपाश्रयस्थाजगजायनेकाश्रितः सह प- यायेण संवन्धः ॥ यथा वा- एका दशां किं मनुजोऽत्र वाच्छे- त्तिस्रो दशा अति रवेर्यदा स्युः ॥ अत्र दशायाः पयायः ॥ यथा वा- नेत्रे अभूतां सरले पुरा ये संप्राप्नुतस्ते कुटिलत्वमद्य ॥ बाल्यावस्थास्थाने तरुणावस्था प्राप्ततिभावःभित्र नायिका- या वयसः पर्यायः । अत्रावस्थायाः क्रमोऽपि विद्यते । तथापि नेह क्रमस्य चमत्कारः । किं तु पर्यायस्य । चन्द्रालोककार: पर्यायद्वयं मत्वेमे लक्षणे आह- "पर्यायो यदि पर्यायेणैकस्यानेकसंश्रयः ॥ एकस्मिन्ययनकं वा पर्यायः सोऽपि संमतः ॥"इति ॥ मम तु मतं, आश्रये नियमकरणादन्यत्राव्याप्तिर्भवति ।। यथा-"आनीता नटवन्मया तव.पुरः श्रीकृष्ण! या भूमिका." इत्यत्रानेकदेहधारगंगन्नाश्रयस्वारस्यम् । किं तु जीवेन भि- न्नभिन्नरूपाणि लक्षशः शरीराणि घृतानीति पर्यायेणानेक- .
३२०. यशवन्तभूपणम् [चतुर्थी रूपधारणस्य स्वारस्यापस्य पर्यायः॥ उक्तजक्षणमव्याप्तिदोष- ग्रस्तम् ॥ इति पर्यायप्रकरणम् ॥ ३६॥ पर्यायोक्तिः॥ अत्र पर्यायशब्दार्थः प्रकारः । “पर्यायः प्रकारे" इति चि. न्तामणिः । पर्यायेण प्रकारेणोक्तिः पर्यायोक्तिः॥ "पर्यायोक्तिरलंकारः पर्यायेणोक्तिरुच्यते ॥ स्वरूपमस्य व्यासेन महाराज! स्फुटीकृतम्॥" यथा-- आदाय खड्गं यशवन्तसिंह- सेनासमक्ष प्रतियान्ति येऽत्र ।। सुराङ्गनोरःस्थललग्नगात्राः स्वपन्ति ते देवपुरे सुखेन ॥ १॥ भत्र शत्रुमरणमुक्तप्रकारान्तरेण कथितम् ॥ तच रमणी. यतयाऽलंकारः॥ यथा वा- त्वकार्ये हर! यद्धनं लगति नो तत्ते प्रभो! चन्दनं गेहे यत्र न तेऽर्चनं भवति वै तत्ते विहारस्थलम् ॥ चर्चा यत्र न विद्यते.सदसि ते तत्ते सदः शंकरे- आकृतिः] पर्यायोक्तिः स्येवं वङ्ककवीश्वरः कथयते धन्यस्तव ध्यायकः ॥१॥ अत्र भस्मश्मशानस्थलीप्रेतमण्डलीनां प्रकारान्तरेण कथनम् ॥ यथा वा- ब्रूतो निषेधतश्चैव तुष्यतः कुप्यतस्तथा ॥ इत्थं तौ नयनैर्वाती कुरुतो लोकसंनिधौ ॥ १ ॥ अत्र क्रियया बोधनम् । नेह पर्यायतास्वारस्यम् । उक्तिरूपत्वाभावात् । अत्र तु सूक्ष्मतायाः स्वारस्यम् । चन्द्रालोककारः पर्यायोक्तदयं मत्वा प्रथमस्येदं लक्षणं- माह- "पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम्" ॥ यथा-- नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ "भत्र भगवान्वासुदेवः स्वासाधारणरूपेण गम्यः। राहुव- धूकुचवैयर्यकारकत्वेन रूपान्तरेण स एवाभिहितः " इति च.कुवलयानन्दकार आह तितु प्रमादः ॥ यस्य रचनान्न रेण कथनं तस्य गम्यत्वं कथं संभवेत् ॥ इदं रचनान्तरं वा: सुदेवस्य साक्षादाचकम् । यथा कृष्णस्य मधुसूदन इति नामान्तरम् । उक्ताभिप्रायेणैवं धुरंधरोऽस्यालंकारस्य पर्यायो- क्तिरिति नामाह । उक्तिस्तु वचनम् । वचनस्य च गम्यत्वं न . ३२२ यशवन्तभूषणम् [चतुर्थी संभवति । उक्तोदाहरणे उदात्तस्य संकीर्णता ॥ चन्द्रालोके द्वितीयपर्यायोक्तस्येदं लक्षणोदाहरणम्- " पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् ॥" यथा- यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ दूतकार्यमाचरन्त्या सख्योक्तपर्यायतया दंपत्यो रमणार्थ- मिदमुपदिष्टमित्यभिप्रेत्य केनचिदिदं पर्यायोक्तेदाहरणं प्रदर्शितम् ॥ तदभिप्रायमजानाना अर्वाचीना व्याजेनेष्टसा- धनं पर्यायोक्तमिति मन्यन्ते स्म ॥ तत्तु प्रमादः ॥ व्याजेने- एसाधनं तु वक्ष्यमाणामिपालंकारस्य विषयः ।। उक्तलक्षणद- यं पर्यायोत साक्षात्स्वरूपाबोधकतयाऽसंभवदोषग्रस्तम् ॥ इति पर्यायोक्तिप्रकरणम् ॥ ७३ ॥ । ॥ पिहितम् ॥ . पिहितशब्दार्थ आच्छादनम् । "पिहितः, आच्छादिते" इति चिन्तामणिः ॥ यत्र शोभाकरत्वं स्यात्मिधानस्य नराधिप! ॥ 'पिहितालंकृतिस्तत्र धुरंधरमते स्मृता॥ १॥.. यथा-
३२३
थाकतिः]
पिहितम्
यशसा मरुभूपस्य पिहितं जगतो यशः॥
यथा वा-
प्रियतमवियोगजनिता कृशता कथमपि तवेयमङ्गेषु ॥
लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत ॥१॥
अत्र प्रियतमवियोगजन्या कृशता नायिकायाः कन्तिकला-
पेनाच्छादिता सती दृष्टिगोचरा न भवति ।
चन्द्रालोके इदं लक्षणोदाहरणम्-
"पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितम् ॥"
यथा-
प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत् ॥
उक्तपरंपरागतोदाहरणे पिहितालंकारस्य संगतिस्तु नाय:
कापराधो नायिकयाऽऽच्छादित इति ॥ कस्यचिद्विज्ञातयोगें-
णदोषयोरुपरि दृष्टिदानाभावस्तयोराच्छादनमेव । तस्य तूपं-
लक्षणेन पिहिते संग्रहो युक्तः॥ उक्तोदाहरणस्य साक्षादभिप्रा.
यापरिज्ञानाज्जयदेवनिर्मितलक्षणं पिहितालंकारस्वरूपस्य
नेपदपि वोधकम् । प्रातहागमनेन प्रियापराधज्ञानांशे
वक्ष्यमाणज्ञापकहेत्वलंकारः। तल्पकल्पनांशे प्रियं प्रति सूक्ष्म-
तयाऽपराधज्ञापनाद्वंक्ष्यमाणसूक्ष्मालंकारः। उक्तलक्षणं स्वं
रूपांवोधकतयाऽसंभवदोपग्रस्तम् ॥ इति पिहितप्रकर.
गम् ॥ ३८ ॥
३२४ यशवन्तभूषणम् (चतुर्थी पूर्वरूपम् ॥ . पूर्वशब्दार्थः प्रथम इति ॥ रूपशब्दार्थों मनोहगकृतिः स्वभावादिश्च । पूर्व रूपं पूर्वरूपम् ॥ पूर्वरूपमिति कथनेनान, पूर्वरूपस्य प्राप्तिर्विवक्षिता ॥ पूर्वरूपस्य संप्राप्तौ पूर्वरूपमुदाहृतम् ॥ यथा- विवाहस्योत्सवे सूनोः कृत्वा भूपालमण्डलम् ॥ त्वं पुनर्जयचन्द्रत्वमाप्तवान्मरुभूमिप! ।।१।। जयचन्द्रमहाराजस्यानेकभूपालवशवर्तितया राजमण्डलं भवति स्मेति स राजसूयेनायाक्षीत् । राजराजेश्वरयशवन्त- सिंहोऽपि सरदारसिंहकुमारविवाहोत्सवेऽनेकनृपतीन्निमन्व्य राजमण्डलं रचयामासेति पूर्वावस्थायाः प्राप्तिः ॥ यथा वा- विधूदयादर्धमार्गे सख्यहं व्याकुलाऽभवम् ।। सहलग्नद्विरेफालिर्भाग्याहीथ्यां तमोऽभवत् ॥१॥ अत्र कृष्णाभिसारिकायाः प्रत्यागमनसमये चन्द्रोदया- सामग्रीमध्ये तमसो विनाशः। पुनश्च सुगन्धलुब्धसहलग्न- भ्रमरसमूहेन रथ्यायामन्धकारे संजाते पूर्वरूपस्य प्राप्तिः ॥ न पत्रावर्णनीयान्धकारस्य पूर्वरूप प्राप्तौ चमत्कारस्य पर्यव- सानम् । किं तु वर्णनीयकृष्णाभिसारिकायास्तमःसंबन्धि भाकृति.] पूर्वरूपम् सामय्याः पुनःप्राप्तिरभवदिति पूर्वरूपे चमत्कारस्य पर्यव. सानम् ॥ चन्द्रालोककारः पूर्वरूपद्वयं मत्वेमानि लक्षणोदाहर- रणान्याह- "पुनः स्वगुणसंप्राप्तिः पूर्वरूपमुदाहृतम् ॥" यथा--- हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः ॥ अत्र शेषस्य पुनः श्वेतवर्णरूपस्वगुणस्य प्राप्तिः । "पूर्वावस्थानुत्तिश्च विकृते सति वस्तुनि ॥" यथा- दीपे निर्वापितेऽप्यासीत्काञ्चीरत्नैर्महन्महः॥ भत्र दीपप्रकाशस्य विद्यमानत्वे वर्णनीयविधधनवोढा. या वस्त्रत्यागे लज्जाक्षत्यवस्थाप्राप्तिः । सा च दीपनिर्वापणे. नापनीता । परं तु काञ्चीरत्नजनितप्रकाशेन लज्जाक्षत्यव- स्थायाः पुनः प्राप्तिरभवत् ॥ यदि चांत्रावर्णनीयप्रकाशस्य पूर्वावस्थायाः पुनः प्राप्तिः स्वीक्रियेत तर्हि प्रकाशविषयक पूर्वरूपम् ॥ मम तु मतं, पूर्वरूपनामावयवभूतस्य रूपशब्द-. स्य मनोहराकृतिस्वभावशुक्लादिगुणाद्यनेकार्थकतया गुणा- वस्थादिविलक्षणता तूक्तिमात्रेण वैलक्षण्यम् । अत एवो. दाहरणान्तरमात्रम् । न तु प्रकारान्तरार्हम् ॥ एवं तु "हर. ..
३२६ यसवन्तभूषणम् - [चतुर्थी .कण्ठांशु-" इत्यत्र शेषवस्तुनः श्वेतवर्णरूपांशस्य "दीपे नि- पित" इत्यत्र चाखण्डप्रकाशवस्तुनः पूर्वरूपमस्तीत्युक्तकि- चिद्विलक्षणतापि प्रकारत्वमापद्येत ॥ किंचानेन गुणावस्थयो- नियमः कृतः । तेन "विषूदयादर्धमार्ग-" इत्यस्मिन्नुदाहरणे, क्षीणं धनं प्राप्य नरो मनस्वी वदान्यतां धारयते पुनर्वै ॥ स्थानाच्च्युता दन्तिरदाः पुनस्ते शोभाकराः स्त्रीकरयोर्भवन्ति ॥१॥ अत्र दृष्टान्तस्य संकीर्णता । अत्र मनस्विनो वदान्यता. स्वभावस्य 'पूर्वरूपप्राप्तिः । यावदन्तिदन्ता दन्तिमुखगता- स्तावद्दन्तिमुखशोभाकराः । ततश्च्युती तु तेषां शोभाकरत्व- स्वभावस्य विनाशः।त एव यदा चूडिकारूपेण स्वीभिर्धार्यन्ते तदा पुनः स्त्रीकरयोः शोभाकरा. भवन्तीति दन्तिदन्तानां शोभाकरत्वस्वभावस्य पूर्वरूपप्राप्तिः ॥ इत्यत्र चोक्तलक्षण- योरव्याप्तिः । अवस्था तु दशा, स्वभावस्तु प्रकृतिरित्यनयोर्भे- दात् ॥ प्रकृतेश्च परिवर्तनं लोके प्रसिद्धम् । यस्य परिवर्तनं तस्य लोपोप्यनुभवसिद्धः ॥ प्रकृतिलोपस्य निमित्तान्यनभ्या- सादीन्यनेकानि ॥ इति पूर्वरूपप्रकरणम् ॥३६॥ प्रतिमा ॥ . भलंकाररताकरे प्रतिमालंकारो लिखितः । प्रतिमा तु आकृतिः] प्रतिमा ३२७ . . प्रतिनिधिः । "प्रतिनिधिः प्रतिमायाम्" इति चिन्तामणिः ॥ प्रतिनिधिस्तु मुख्याभावे तत्सदृशतयोपात्तः ॥ "मुख्यस्या- भावे तत्सदृशो य उपादीयते स प्रतिनिधिरुच्यते ।" इति चिन्तामणिः ॥ यथा देवानामभावे तन्मूर्तिः । सा च लोके प्रतिमेत्युच्यते ॥ उक्तलोकव्यवहारानुसारेण धुरंधरोऽमुसलं. कारमङ्गोचकार । "प्रतिमाख्योऽलंकारः प्रतिमारूपेण वर्णनं यत्र । अस्य स्वरूपमुपमादिभ्यो भिन्नं ह्यतीव रा- जेन्द्र! ॥१॥ यथा- विद्याप्ररद्धिं कविसत्कृति च कर्तुं यशःसंचयमप्यजत्रम् ॥ राजेश्वरश्रीमरुप त्वमद्य स्थानेऽसि भोजस्य कृतो विधात्रा ॥१॥ विद्यावर्धनादिकार्येषु भोजसदृशत्वाद्राजराजेश्वरयशवन्त सिंहः परमेश्वरेण भोजस्य स्थानापन्नः कृतः॥ यथा वा--- देशान्तरं गते कान्ते विरहेण प्रपीडिता ॥ ननान्द्वमुखमालोक्य जीवत्येपा विलासिनी ॥१॥ मंत्र विदेशस्थस्य पत्युरसांनिध्ये तत्सदृशाकारतया
३२८
यशवन्तभूषणम्
चतुर्थी
नायिकया ननन्दा तत्स्थानापन्ना कृता ॥ इति प्रतिमाप्र-
करणम् ॥ १० ॥
प्रत्यनीकम् ॥
अनीकशब्दार्थः लेनामात्रमावि सेनासमवेतश्च । भनी-
कंसैन्ये । सेनामात्रे ॥ सैन्यं सेनासमवेते" इति चिन्तामणि ॥
शत्रुसेनापि शत्रोः संबन्धिनीति शत्रोः पक्षः । तथापि सापि
शत्रुवाध्यत इति शत्रुसेनां प्रति शत्रुताकरणं तु शत्रुणा सह
शत्रुताकरणमेव । तथा चात्र सेनासमवेतपदेन युद्धाविधा-
यिनश्चारा भारवाहादयश्च विवक्ष्यन्ते । तेऽपि शत्रोः पक्षः।
लोके हि शत्रु शत्रुसेनां प्रति वा पराक्रमितुमशक्ताश्चारादी-
न्प्रति शत्रुत्वमाचरन्ति ॥ तत्र शत्रु प्रति शत्रुताकरणं वन्यो-
न्यालंकारस्य विषयः ॥ शंत्रोस्तादृशपक्षं प्रति पराक्रमकर-
रणस्य चमत्कारो विलक्षण इत्यनीकं प्रति शत्रुताकरणरूप-
लोकन्यायानुसारेण धुरंधरः प्रत्यनीकालंकार स्वीचकार ।
अनीकं प्रति प्रत्यनीकम् ॥
न्यायेन प्रत्यनीकस्य प्रत्यनीकाख्यभूपणम् ॥
यथा-
-
हषेण मरुनाथस्य भगवान्पाकशासनः ।। ..
भगवान्पाकशासनः
अविधानेन वर्षायास्तदीया बाधते प्रजाः ॥१॥
.
.
प्राकृतिः]
प्रत्यनीकम्
३२६
इन्द्रस्य वैभवोदारतादिविजिततया राजराजेश्वरे
शत्रुः
भावः । तथापि साक्षाद्राजराजेश्वरं बाधितुमशक्त इन्द्रा
राजराजेश्वरस्य पक्ष प्रजां दुर्भिक्षमापाद्य पीडयति ॥ राज-
प्रजयोः पाल्यपालकभावसंवन्धः । अस्यालंकारस्य चमत्का-
रस्वारस्यं तु पक्षविषयम् । पक्षोऽप्यनेकविधः । शत्रोः पक्षः,
मित्रस्प पक्ष इत्यादिः ॥ साक्षाद्वस्तु विहाय पक्षं प्रति कर-
णस्य निमित्तान्यप्यशक्तत्वशत्रुमित्रतोत्कटत्वादीन्यनेकानि ।
करणमप्युपकारापकारस्नेहसत्कारादिरूपेणानेकविधम् । तेषां
सर्वेषामुपलक्षणेन संग्रहो भवति । किं चात्र पक्षविपयश्चम-
स्कार इति पक्ष प्रति करणे पक्षस्य करणं, पक्षार्थ करण-
मित्यादीनामप्युपलक्षणेन संग्रहः ॥ एषां सर्वेषामुदाहरणानि
मया प्रदर्श्यन्ते ॥
यथा वा-
अनुरक्ता भगति राग भक्तेषु कुर्वते ।
वरेऽनुरक्ता कुर्वन्ति रागं जन्येषु भूपते! ॥१॥.
अत्र साक्षादस्तुन्यनुरागोत्कटयात्पक्षेऽनुगगस्य करण।
यथा वा-
.
समीक्ष्य खे पत्त्रमयं पतङ्गं
कृष्णस्य राधाऽङ्गणमध्य एपा ।।
उन्मत्तवहावंति तत्र तस्य
च्छायां स्टशन्ती तरलायताक्षी ॥१॥
यशवन्तर्भूषणम् [चों पत्रमयः पतङ्गः क्रीडाद्रव्यविशेषः । “कनकना, गुडी", इति लोकभाषा ॥ अत्र पूर्वानुरागिण्याः साक्षामित्रत्वसंव- न्धविशिष्टः कृष्णः । कृष्णस्य पत्नपतङ्गः कृष्णस्य पक्षः। . पत्त्रपतङ्गस्य च्छाया तस्य पक्षः। अत्र मित्रभावस्योत्कटत- या पक्षम्य पक्ष प्रति सत्कृतिविधानम् ॥ यथा वा- ग्रथिता कुसुमैर्वेणी राजते सुमनोहरा ॥ मन्ये स्वनाथविद्वेषी राहुरग्राहि तारकैः ।।१॥ • ताराश्चन्द्रस्य पक्षः । त्योश्च स्वस्वामिभावसंबन्धः । राहुश्च चंन्द्रशत्रुः । एवं चात्र चन्द्रस्य पक्षभूतानां ताराणां स्वस्वामिनश्चन्द्रस्य साक्षाच्छठे राहुं प्रति पराक्रमः। शत्र निमित्तं तु स्वामिभक्तिः ॥ यथा वा- मधुवूतौघः कुपितः स्वकीय. मधुप्रपापद्मनिमीलनेन ॥ विवं समाक्रम्य बलात्सुधांशाः कलङ्कमके ध्रुवमातनोति ॥ १॥ चन्द्रो भ्रमराणां न साक्षाच्छत्रुः । किं तु पद्मनिमीलन- करणात्पद्मानां साक्षाच्छन्नुः । तानि च भ्रमराणां मधुप्रपारू. पाणीतिपातपायकभावसंबन्धेन भ्रमरैः स्वपक्षपद्मानां कृते -- भाकृतिः प्रहर्षणम् चन्द्राक्रमणमकारि ॥ धुरंधरेणात्र प्रत्यनीकन्यायो दर्शितः । तस्मिन्नर्वाचां बुद्धेः कुण्ठिततयाऽस्यालंकारस्यैकविधमेव स्वरूपं ज्ञात्वा लक्षणनिर्माणम् । तच्च प्रत्यनीकालंकारस्यो- तप्रकारान्तरेपूदाहरणान्तरेषु चाव्याप्तम् ॥ चन्द्रालोके इदं लक्षणम्- प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ॥” इति। अत्र शत्रुपक्षे, शत्रुवलवत्ताकथनेन स्वाशक्कतानिमित्तेच नियमकरणादस्य लक्षणस्यात्यत्राव्याप्तिः । इति प्रत्यनीक- प्रकरणम् ॥४१॥ प्रहर्पणम् ॥ हों हर्षणमित्यनन्तरम् । हर्यशोकयोरत्यन्तं लौकि तयाऽलौकिकत्वार्थ धुरंधरेणात्र प्रकृष्टार्थकः प्रोपसर्गो योजितः। "प्रहर्षस्तु महाराज! प्रहर्पणमलंकृतिः ।। तद्भवेदिह सर्वेषां नरेश तव दर्शने ॥ १ ॥ . यथा- योऽन्नृणीभवितुं वाञ्छन् याचते मरुभूमिपम् ॥ इतरान्सोऽनृणीकर्तु, समर्थो जायते ध्रुवम् ॥ १॥ मंत्र वाञ्छातोऽत्यन्तमधिकलाभात्महर्षणालंकारः ।। 'यथा वा- ३३२ यशवन्तभूपणम् [चतुर्थी जाते नेत्रनिमीलने कथमपि स्वप्ने वियुक्तस्त्रिया दृष्टः प्राणपतिस्तदेव कथितः सख्या प्रियस्यागमः ।। प्रत्यक्षोऽभवदन्तरेऽत्र परमानन्दस्तु तस्मादभू- त्तातीयेन हि रजनेन वसनं यहत्सुरक्तं भवेत् ॥ १॥ स्वमश्रवणप्रत्यक्षाणां प्रत्येक दर्शनं हर्पप्रदामित्येतेषां त्र. याणां युगपद्भवनं प्रहर्षणम् ॥ यथा वा- . भोजश्च खानसिंहश्च युद्धा(*)नष्टौ परस्परम् ॥ मोहकमसिंहकृते नूनं दृष्टिरासीत्सुधामयी ॥१॥ मरुदेशे गुडानामको राष्ट्रवरसुभटानामाधिकारिको ग्रा- मः । तदाधिपतयो राणापदमादधते ॥ मोहकमसिंहराणावस- रे खानसिंहाभिधः करिचद्वाघेलचत्रियो गुडाख्यग्रामलुण्ठ- नार्थमपररात्रे तूपणीं समायातः। तस्मिन्नेवानेहसि तत्र काक- 'तालीयन्यायेन राजकरग्रहणार्थं तत्प्रान्ताधिकारी राजभृत्यो भोजराजोऽपि राजकराऽदायिनं मोहकमसिंह दण्डयितुं तथै- व समागतः । प्रच्छन्नमागतयोस्तयोर्मुडामामान्ति के परस्पर समरः समजनि । ततः क्षीणवलौ तौ ततोऽपस्ताविति प्रा. तराकर्णनादुक्ततुभटस्यानिर्वचनीयहर्षशाप्तिः संजातेति प्र- हर्षणालंकारः॥ चन्द्रालोके प्रहर्पणत्रयं भंणितम्- (6) पुर्द कति ल्पल्लोपे पञ्चमी ॥ ८ आकृतिः] . - . माचिकम् । "उत्कण्ठितार्थसंसिद्धिविना यत्नं प्रहर्पणम् ॥ वाञ्छितादधिकार्थस्य संसिदिश्च प्रहर्षणम् ॥ यत्नादुपायसिद्धयर्थात्साक्षाल्लाभः फलस्य च ॥". इति॥. क्रमेणोदाहरणानि- तामेव ध्यायते तस्मै निसृष्टा सैव दूतिका ॥ दीपमुद्योजयेद्यावत्तावदभ्युदितो रविः॥ निध्यञ्जनौषधीमूलं खनता साधितो निधिः ॥ मम तु मतं, न घेनानि प्रकारान्तराणि ।किं तूदाहरणा- न्तराणि ॥ चन्द्रालोकोक्तलक्षणानामस्मदुक्तापरोदाहरणं. योरव्याप्तिः । कुतः, मोहकमसिंहस्य लुण्टाकराजभृत्यसंव- धिनी न कापि वाञ्छा न च कश्चित्प्रयल आसीत् ॥ इति प्रहर्षणप्रकरणम् ॥ ४२ ॥ भाविकम् ॥ - भूसत्तायामित्यस्माद्भावशब्दो निप्पन्नः। सत्ता तु स्थितिः। भावशब्दात् “ रक्षति ।४।४।३३” इति सूत्राहक । ठस्पे- कादेशे भाविकशब्दसिद्धिः। तथा च भावं 'स्थिति रक्षती- ति भाविकम् ॥ रक्षां तु वस्तुनः स्थितेर्याधातथ्येन रक्षणम् । वर्तमानस्थितिस्तु बुद्धी यथातथमवतिष्टत इति तद्रक्षाया नाव- श्यकत्वम् । भूतस्थितिर्बुद्धेरपयाति, भविष्यस्थितिश्च बुद्धो नायातीत्युभयविधस्थितिरक्षाकरणेऽत्र रूढिः । तथा च भूत-.
यशवन्तभूषणम् [चतुर्थी भाविनो वयोवृद्धो वर्तमानवकरणं भाविकमिति भावः ॥ "प्रत्यक्षीकरणं बुद्धौ भावयोम॑तभाविनोः ॥ भाविकाख्यो ह्यलंकारः प्रोक्तो मस्नरेश्वर! ॥१॥ यथा--- शिप्रातटेऽवन्तिकायां याति राष्ट्रवरेषु यः ॥ तच्चित्ते दृश्यतेऽद्यापि यशवन्तस्य सङ्गरः ॥१॥ शिप्रातटे राष्ट्रवराणां पूर्वयशवन्तसिंहकृतभूतकालिकयुद्धं प्रत्यक्ष भवति ॥ यथा वा--- यत्र यत्रं स्थितो दृष्टो माधवो यमुनातटे ॥ तत्र तत्र स्थले चित्तं तदेव सखि! जायते ॥१॥ यथा पा- - सर्दाराख्यकुमारस्य यशवन्तमहीपतेः ॥ अद्यैव दृश्यते भावि राज्यरक्षणकौशलम् ॥१॥ अत्र महाराजकुमारसरदारसिंहस्य भविष्यस्थितिमरुन- रेनारीणां वर्तमानवत्प्रत्यक्षा भवति । चन्द्रालोके इदं लक्षणम्- "भाविकं भूतभाव्यार्थसाक्षात्कारस्य वर्णनम् ॥
आकृति]
भ्रान्तिः
३३५
इदं लक्षणं नामार्थानुसारि ॥ इति भाविकप्रकरणम् ॥४३॥
भ्रान्तिः ॥
भ्रान्तिशब्दार्थे चिन्तामणिकोपकारः "भ्रान्तिरतस्मि-
स्तज्ज्ञाने" इत्याह ।
भ्रान्तेः स्वरूपं राजेन्द्रान्यथाज्ञानं प्रकीर्तितम् ॥
करोतीदं महाराज! भूषणं निपुणः कविः ॥ १॥
यथा-
यशवन्तमापराज्ये भवन्ति बहुला मखाः ॥
धूमबुद्धया न याचन्ते पयोदानपि चातकाः ॥१॥
यथा वा-
वल्लालक्षोणिपाल! त्वदहितनमरे संचरन्ती किराती
कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशङ्कां करोति ॥
दत्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासामोदानुयातैर्मधुकरनिकरैर्धूमशङ्कां तनोति॥१॥
चन्द्रालोके इदं लक्षणम्--
"स्यात्स्मृतिभ्रान्तिसंदेहेस्तदङ्कालंकृतित्रयम्॥” इति ।
जयदेवोप्यस्यालंकारस्य नामैव लक्षणमाह ॥ इति भ्रा.
न्तिप्रकरणम् ॥ ४ ॥
. यशवन्तभूपणम [चतुर्थी मिथ्याध्यवसितिः॥ . मिथ्याशब्दार्थोऽसदिति । अध्यवसितशब्दार्थों निश्चयः "अध्यवसायो निश्चये” इति चिन्तामणिः ॥ अध्यवसायोऽध्य। वसितिश्चेत्यनन्तरम् ॥ मिथ्यानाध्यवसितिमिथ्याध्यवसि- तिः ॥ मिथ्यार्थेन सत्यस्यापि निश्चयो भवति । यथा मिथ्या: जगता परब्रह्मणः सत्यत्वं निश्चीयते । काचनिर्मितमणिमिथ्या- मणिः । तं समीपे कृत्वा सत्यमणेनिश्चयः क्रियते। इत्यादि। अन्यत्रातिव्याप्तिवारणार्थमिह मिथ्यार्थे रूदिः । एवं च मि- ध्यार्थेन मिथ्यार्थस्य निश्चयो मिथ्याध्यवसितिरलंकारः ॥ मिथ्यार्थेन भवेद्यत्र मिथ्यात्वस्य विनिश्चयः ॥ मिथ्याध्यवसितिस्तत्र ज्ञेया मरुनराधिप! ॥१॥ यथा- अस्य श्रीयशवन्तसिंहनृपतेलोंकेऽधुना दुर्यशो वन्ध्यायास्तनयोऽलिखन्मृगतृषामस्याऽन्तरिने दले ॥ लेखन्या शशशृङ्गतो रचितया मूकः पठत्यादरा- द्वन्धः पश्यति तच्छृणोति वृधिरः कूर्मीपयोब्धेस्तटे ॥१॥ जगति राजराजेश्वरापयशसः सर्वथाऽभावान्मिथ्यात्वम् । तस्यात्र कविना बन्ध्यातनयादिमिथ्याथै निश्चयः कारितः ।। उक्तापयशसो मिथ्यात्वनिश्चयश्च बन्ध्यातनयादिमिथ्याथै जति इत्युक्तमिथ्यार्थस्यालंकारत्वम् ॥
प्राकृतिः मिलितम् चन्द्रालोके इदं लक्षणोदाहरणम्- "किंचिन्मिथ्यात्वसिद्ध्यर्थ मिथ्यार्थान्तरकल्पनम् ॥ मिथ्याध्यवसितिर्वेश्यां वशयेत्खनजं वहन् ॥" मम तु मतं, अत्रोक्तापयशसो वेश्यावशीकारस्य च मि- ध्यात्वं स्वतःसिद्धम् । न ह्यत्र लस्य वन्ध्यातनयादिरूपेण खपु- प्पमालाधारणरूपेण च मिथ्यार्थेन सिद्धीकरणम् किं तूक्ता- र्थयोमिथ्या-वस्य निश्चायनम् । अत एव धुरंधरोऽस्य मिथ्या- ध्यवसितिरिति नामाह । न तु मिथ्यासिद्विरिति । इदं लक्षणं स्वरूपाबोधकतयाऽसंभवदोपग्रस्तम् ॥ इति मिथ्याध्यवसिति- प्रकरणम् ॥ ४५ ॥ . . मिलितम् ॥ मिलितशब्दार्थो मिश्रणम् । “मिलितं मिश्रणे" इति चिन्तामणिः ॥ यथा वस्तुनो भेदो न लक्ष्येत तथाविधं मि- अणं मिलितालंकारः। तच मिश्रणं द्विविधम् । तत्र प्रथम तु यत्र सर्वथा भेदो न लक्ष्येत तन्नीरक्षीरन्यायेन मिश्रणम् । द्वितीयं च मुक्तागशी तत्सदृशमुक्तामिश्रणे विशेषतया भेदो न लक्ष्येत तन्मुक्तान्यायेन मिश्रणम् ॥ यदि भेदो न लक्ष्येत्त तथा वै वस्तुमिश्रणम् ॥ मिलितालंकृतिश्चासौं द्विविधा मनुजेश्वर! ॥१॥ अत्र सादृश्यं निमित्तमर्थसिद्धम् ॥.
यशवन्तभूषणम् [चतुर्थी क्रमेण यथा- त्वदीययशसा लोके व्याप्ते मरुपुरंदर! ॥ गवेषयति कैलासं शंकरस्तं च पार्वती ॥१॥ यथा वा-- सवर्मसमगन्धेषु मृढङ्गेषु तव प्रिये! ॥ दलानि स्थलपद्मस्य न लक्ष्यन्ते कथंचन ॥२॥ उक्तोदाहरणयोनीरक्षीरन्यायन मिश्रणम् ॥ अहो भीमराणाः पुरे ते भवानी महत्युत्सवे चैत्रिके मासि गौर्याः ॥ गिरीशो भ्रमन्नष उच्चैःस्वरेण जनान्पृच्छति ह्यासु का मेऽत्र गौरी ॥१॥ गौरीप्रतिमागणे गौरी विशेषतया न लक्षितेतीह मुक्ता. न्यायेन मिश्रणम् ॥ चन्द्रालोके इदं लक्षणम्- "मीलितं यदि सादृश्याझेद एव न लक्ष्यते।" इति॥ उक्तमीलितलक्षणे एवकारकथनाजयदेवमते सादृश्याव- स्तूनां सर्वथा भेदेऽलक्ष्यमाणे मीलितालंकार इति स्पष्टम् ॥ उक्तलक्षणं मिलितस्य द्वितीयप्रकारेऽच्याप्तम् । अर्वाचीनर्मि- लितस्थाने मालितमिति दीर्घायुपदिष्टम् । तन्न 'संभवति ।
श्राकृतिः .. मिषम् मीलितशब्दस्य संकुचितार्थकत्वात् ॥ " मीलितः, मुद्रिते। संकुचितें । निद्राणे" इति चिन्तामणिः ॥ अस्यालंकारस्य स्वरूपं तक्तन्यायद्वयेन मिश्रणम् । न तु संकुचितत्वम् । तत उक्तनामासंभवदोपग्रस्तम् ॥ इति मिलितप्रकरणम् ॥ ४६ ॥ मिपम् ॥ मिषशब्दार्थः कपटम् | "मिपं व्याजे" इति चिन्ताम- णिः॥भोजमहाराजःसरस्वतीकण्ठाभरणे इममलंकारमाह ।। अलंकारो मिषं तत्र यत्रास्ति मिषवर्णनम्। ऋजुचित्ततया नैनं जानी मरुवल्लभ! ॥१॥ यथा- आच्छिद्य वित्तं धरणीं च देशा- निःसारिता ये भवताऽरयस्ते॥ ते स्वामिधर्मस्य मिषेण सेवां कुर्वन्त्यशक्ता यशवन्तसिंह! ॥१॥ अत्र शत्रवोऽशक्ततया स्वामिधर्ममिषेण राजराजेश्वर- यशवन्तसिंहस्य चरणं सेवन्ते । यथा वा- रवि कुमारः सरदारसिंहः . यशवन्तभूपणम् [चतुर्थी प्रतापतो जेष्यति सन्युवाऽयम् ।। इतीव भूषामणिभामिषेण भानोः करा अस्य पदौ स्टशन्ति । अत्र महाराजकुमारसरदारासिंहस्य भूषणरत्नकान्तिस्त- स्य पादयोः पतति । तत्र कवेरुत्प्रेक्षणम् । परं तु मिपस्य प्रा. धान्यान्मिपालंकारः ॥ यदा कापुरुषा एवं जानीयुरस्मत्स्वा- मिनममुफो जेष्यतीति तदा प्रथमत एव ते केनचिन्मिषण तं प्रसादयन्तीति लोकरीतिः । उक्तदशायामपरस्य मिषेण प्रसादने प्रयोजनं तु स्वस्वामिनो विदितं न भवेदिति ॥ कविप्रतिभोत्थापितं मिपमिदम् ॥ इति मिपप्रकरणम् ॥४७॥ ॥ मुद्रा ॥ स्वपारेचयप्रयोजनेन निजनाम्नाऽङ्किता स्वस्य चि. हॅन चिह्निता वा मुद्रिका मुद्रापदवाच्या ॥ "मुद्रा प्रत्ययका- रिएयाम् । छाप इति भापाप्रसिद्धायाम् ॥" इति चिन्तामा णिः ॥ सा च मुद्रा प्रायः पञोपरि क्रियते । तां दृष्दैव तत्प- प्रपठनात्पूर्वमेवेदं ज्ञायते इदममुकस्य पत्रमिति ॥ उक्तलोक- मुद्रान्यायेन धुरंधरोऽमुमलंकारमङ्गीचकार ॥ यत्र कस्यचिंट्ट- तान्तस्य श्रवणदर्शनपठनात्प्रागैव केनचिदुक्तवृत्तान्तसंबन्धि- स्वल्पवचनेनोक्तवृत्तान्तस्य परिज्ञानं तत्र मुद्राकारायथा यश- चन्तयशोभूषण- यशवन्तभूपणमन्धयोः श्रवणपठनात्पूर्वमेवो- आकृतिः]] -- मुद्रा कनाममात्रेणेदं विज्ञायते, उक्तमन्थयो राजराजेश्वरयश- वन्तसिंहस्य.यशोमया अलंकाराः प्रतिपादिता इति । मुद्रान्यायो भवेद्यत्र तत्र मुद्राख्यभूषणम् ॥ मुद्रया ज्ञायते राजन्नाज्ञापत्त्रं यथा तव ॥ १ ॥ यथा-- मरुभूपाल! भवतश्चरणं मानसं सरः । मनोमरालो ह्यनिशे ममाऽसावभिकाङ्क्षति ॥ दोहाच्छन्दसः प्रस्तार एका मरालजातिरपि विद्यते । चतुर्दशगुरुको विंशतिलघुको मरालः ॥ दोहागप्ताखिजगुरुल. घुगणने गणविचारे चेदं विज्ञायते, उक्तदोहा मरालजातीये. ति ॥ इह हंसवाचिमरालशदश्लेषसामर्थ्यादस्य श्रवणसम- कालमेव च्छन्दोविदा ज्ञायते इदं मरालजातीयं दोहाच्छन्द इति॥ . यथावा- अस्य श्रीयशवन्तसिंहनृपतेः शौर्योदधेः कानने मातङ्गैर्मदवर्षिभिर्गिरिवरक्षेपक्षमैः सैरिभैः ॥ घोणोद्यत्पवनप्रधूतवसुधैर्मत्तैर्महासूकरै- तातिक्रमकैर्मगैर्विजयते शार्दूलविक्रीडितम् ॥१॥ • भत्रोक्तपद्यश्रवणम प्रेण च्छन्दोविदेदं विज्ञायते, " सूर्या- श्वैर्मसजस्तताः ‘सगुरवः"(७)इति लक्षणलचितं शार्दूलवि- (*) शार्दूलविक्रीडिते द्वादशभिः सप्तभिश्च यतिः, म-स-ज-स-त-नगणाः, एकश्च गुरुरित्यते भवन्ति ॥
३४२. चितथा यशवन्तभूषणम् क्रीडितजातीयं छन्द इति ॥ यथा वा- यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् ।। अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥१॥ अनर्घराघवीयं पद्यमिदम् ॥ रामचरित्रसंवन्धिनाटक- प्रयोगकारिणा सूत्रधारेण रहभूमावागत्य प्रथममिदं नीतिव- चनमुपदिष्टम् । अस्य श्रवणमात्रेण सामाजिकानां पूर्वमेवेदं विज्ञातं भवति, दाशरथिर्वानरसेनासाहाय्येन रावणानुजवि- भीषणस्य रावणपरित्यागपूर्वकं स्वपक्षपातित्वेन च लङ्कामज- यदितिविपर्य रामचरित्रसंबन्धिनाटकं भविष्यतीति । चन्द्रालोके इदं लक्षणम्- "सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः ॥ इति ॥ मम तु मतं, अस्मिल्लक्षणे पूर्वोदाहरणानुसारेण कृतस्य पदनियमस्य "यान्ति न्याय-" इत्युदाहरणेऽव्याप्तिः ॥ इहा- र्थस्य प्रकृतार्थपरायणत्वात ॥ इति मुद्राप्रकरणम् ॥ ४८ ॥ रत्नावली॥ केनचित्समुच्चयाद्विलक्षणो मुक्कामालान्यायेन मालाख्यो- ऽलंकारः स्त्रीकृतः। तस्य तूपमार रूपकहेत्वाचलंकारेषु मालोप- मारूपकमालाकारणमालेत्यादिप्रकाररूपतयाऽन्तर्भावन्निस्व- प्राकृतिः]] रत्नावली तन्त्रतयाऽलंकारान्तरत्वम् ॥ कश्चिदुरंधरो मालालंकासद्वि- लक्षणं रत्नावल्यलंकारं मन्यते स्म । लोके मुक्कामाला तु केवलं मुक्तामय्येव भवति । तत्र सर्वा अपि मुक्ताः सजाती- या भवन्ति । मुक्तामाणिक्यवजूगारुत्मतादिमेलनेन लोके रत्नमालापि भवति । सा च मुक्तामालातः सवर्था विलक्षणा । मुक्तामाणिक्यादीनां सर्वेषां रत्नसंज्ञास्तीति सजातीयतया रत्न- मालेत्युच्यते। वस्तुतस्तु मुक्तामाणिक्यादीनां विजातीयतया विजातीयमालात्वाद्विलक्षणा ॥आवलिः पङ्क्तिः श्रेणिर्माला चतिपर्यायान्तराणि ॥ रत्नानामावली रत्नावली ॥ "रत्नावलीव यत्रार्थावली मरुमहेश्वर! ॥ भवेद्रत्नावली तत्रालंकारो धुर्यसंमतः॥ १ ॥ यथा- वङ्ककथा किं क्रियते हृदये चोत्तमगतिं निधेहि त्वम्॥ विज्ञातो गुरुगर्यो जगता सन्मानकारणादद्य ॥१॥ मरुधराधीशराजराजेश्वरमानसिंहकृतभाषापद्यानुवादो. ऽयम् ॥ अत्र वङ्कादिशब्दानां समीपतया वकशब्दस्याभिधाया वक्रतायाम्, उत्तमशब्दस्याभिधाया उत्तमतायाम्, गर्वश- ब्दस्याभिधाया दर्प, सन्मानशब्दस्य चाभिधायाः पूजायां नि- यमने सति राजराजेश्वरमानसिंहस्य वङ्ककव्यादीनां च सेव्य- सेवकभावसंबन्धबैलक्षण्यद्वारा व्यञ्जनया वककव्युत्तमचन्द्र- भाषांप्रसिद्धगर्वपंदवाच्यगुमाननामकानां राजराजेश्वरमान- पितुया यशवन्तभूपणम् सिंहतिदुपामावली प्रतीयते। एते यो विद्वत्तया सजातीयाः परं तु वाङ्कीदासश्चारण जातीयः, उत्तमचन्द्रो भण्डारीत्युपाधि- धारी वैश्यजातीयः, गुमानाख्यः पुष्टिकरजातीयो ब्राह्मण इति विजातीयाः । एवं रत्नावलीन्यायोऽत्र घटते । नायिकापने, मानमोचनोपायमाचरन्त्याः सख्या नायिका प्रतीयमुक्तिः । त्वया वका वार्ता किमिति क्रियते । चित्ते उत्तमा गति धार- य । अधुना, प्रियकृतसन्मानाद्धेतोस्तव महान्दो जगता विज्ञातः । मानं मुञ्च ॥ मानमोचनोपाये प्रियकृतसन्मानं तु पादपतनादिरूपो विनयः ॥ विद्वत्पने, वङ्ककवेः कथा किं क्रियते । सतिशायकत्वात् । तथैवोत्तमचन्द्रामात्यस्य रीति जानीहि । तथैव सन्मानकारणात, प्रशस्तमानसिंहनृपाश्र. याद्गुमानगुरुर्जगता विज्ञातः। अयं गुमानाख्योऽनेकाशिष्या- पाठयति स्मेतिगुरुगुमानसंज्ञया प्रथिनोऽभवत् ॥ ननु भवता यशवन्तभूपण नाम्नः संगतिकरणार्थनवं काराणां प्रथमोदाह. रणं सर्वत्र यशवन्तसिंहयशोविषयमुपदिप्तमिह तूतक्रमभङ्ग इति चेन्न । यशवन्तसिंहपितृपितामहादियशस्तु तदीयमेव यशः ॥ - यथा वा रत्याप्तप्रियलाञ्छने कठिनताऽऽवासे रसाऽऽलिङ्गिते प्रहादैकरसे क्रमादुपचिते भूमृद्गुरुत्यापहे ॥ कोकस्पर्दिनि भोगभाजि जनितानङ्गे-खलीनोन्मुखे भाति श्रीरमणावतारदशकं वाले! भवत्याः स्तनें ।।
आकृतिः] .. रत्नावली ३४५ अत्र कुचपक्षे, रतिकालप्राप्तप्रियकृतनखचिह्नविशिष्टम् । काठिन्यविशिष्टम् । शृङ्गाररसयुक्तम् । कुचाग्रङ्गाररसयोः श्यामवर्णत्वात्कुचाग्रे शृङ्गाररसस्य समागेपः ॥ प्रकृष्टानन्द- जनकम् । क्रमशो वृद्धिमत् । ओन्नत्यविषये पर्वतगौरवहरम् । 'चक्रवाकाकारम् । संभोगयुक्तम् । मन्मथोद्दोधकम् । आका- शोन्मुखं च ॥ दशावतारपक्षे, रत्यामप्रियस्य मदनस्य लाञ्छनं मत्स्यस्तद्रूपो मत्स्यावतारः। कठिनतावासः कमठमूर्तिः । रसया पृथिव्याऽऽलिङ्गिन्तो वराहः । प्रहादेकप्रीतिमान्नृसिंहः । क्रमशो वृद्धिमान्वामनः । भूभृतां राज्ञां गौरवहर्ता भार्गवः । कोकवतिरहदुःखी दाशरथिः। भोगस्य स्रक्चन्दनादेरनुभोक्ता वलदेवः । जनितानङ्गः प्रद्युम्नजनको वासुदेवः । प्रद्युम्नस्य मदनावतारत्वात्। खमश्वमुखबिलं तस्मिल्लीनः खलीनो वल्गा, तस्मिन्नुन्मुख उद्युक्तः कल्क्यवतारः । कल्किः कलेरन्ते हयः . मारुह्यासाधुदमनं करिष्यत्तीति पुसणेषु प्रसिद्धम् ॥ अत्रेश्व- रावतारत्वेन सर्वे सजातीयाः। परंतु रामचन्द्रः सूर्यवंश्यत्वे- न कृष्णश्चन्द्रवंश्यत्वेनान्ये च मत्स्यादिरूपेण विजातीया एव। अत्र कुचवर्णने दशावताराणां श्लेषोपमा रत्नावलीवर. म्येति रत्नावल्यलंकारः ॥ श्लेषसाधम्र्येणोपमानां श्लेषोपमा स्वीकृता । अत्र मत्स्यावतारादीनां रत्याप्तप्रियलाञ्छनंत्यादि। श्क्षेपमात्रेण साधर्म्यम् । प्रथमोदाहरणे रत्नावल्यलंकारो व्य. झ्यः । उत्तरोंदाहरणे वाच्यः । उभयत्र श्लेषस्य संकी- .. त्वम् ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- [चतुर्थी यशवन्तभूपणम् " क्रमिकं प्रकृतार्थानां न्यासं रत्नावली विदुः ॥" यथा- चतुरास्यः पतिर्लदम्याः सर्वज्ञस्त्वं महीपते! ॥ कुवलयानन्दकारः ''अत्र चतुरास्यादिपदेवर्णनीयस्य व्र- ह्मविष्णरुद्रात्मता प्रतीयत इति प्रसिद्धसहपाठानां क्रमेण निवेशनं रत्नावली " इति लक्षणं घटयामास ॥ मम तु मतं, उक्तलक्षणे क्रमालंकारस्य चमत्कारः प्रधानभूत इति चन्द्रालोकस्य लक्षणं क्रमपरायणम् । रत्नावलीभूषणवरूपा- घोषकमित्यसंभव दोषग्रस्तम् ॥ किं च चन्द्रालोकस्योक्तोदा. हरणे तादृशाविजातीयनाया अभावान्न रत्नावल्यलकारः ॥ न च वाच्यं, ब्रह्मादीनां निराकारब्रह्मणो भिन्नभिन्न स्वरूपतया तेषु सजातीयता विजातीयता चोभयमपि विद्यत इति ॥ यद्यपि रामकृष्णादयोऽवतारास्तस्मादेव विष्णोः प्रादुर्भूताः । तथापि रामचन्द्रस्य सूर्यवंश्यत्वेन कृष्णचन्द्रस्य चन्द्रवंश्यत्वेन विजा- तायत्वम् ॥ तथैव मत्स्यकन्छपादीनामपि । ब्रह्मादीनां तु न तथा विजातीयत्वम् ॥ रत्नावल्यलंकारखरूपं तु समुच्चयारक- मान्मालायाश्च विलक्षणं नामार्थानुसारिमटुक्तव्यवस्थायामेव स्पष्टम् ॥ इति रतावलीप्रकरणम् ॥ ४६॥ . रूपकम् ॥ रूपशब्दार्थश्चक्षुर्मायो ‘गुणः स्वभावो मोहराकृतिश्च ।
३४७ आकृति] रूपकम् "रूपं चक्षुधेि गुणे । स्वभावे । मनोहराकृतौ इति चिन्ता- मणिः ॥ रूपशब्दात् "इवे प्रतिकृती" इति सदृशप्रतिकृती कन्प्रत्ययः। प्रतिकृतिस्तृणकाष्ठमृदादिनिर्मिता प्रतिमा। यथा चित्रलिखितस्तृणकाष्ठमृदादिनिर्मितो वाऽश्वोऽश्वक इत्युच्य- .ते. ॥ रूपमिव प्रतिकृती रूपकम् ।। नाटकेऽपि नटीनटौ सी- तारामादिसदृशं रूपं धारयन्तीति नाटकस्यापि रूपकमिति नामान्तरम् । “रूपकं नाटके" इति चिन्तामणिः ॥ अत्र नाटकन्यायेन धुरंधरो रूपकालंकारमङ्गीचकार । विधिसृष्टि- नाटकं कायिकम् । कविसृष्टेर्वाङ्मयत्वादत्र वाचिकं रूपकम् । वाचिकत्वाचेह केवलखमावस्यापि रूपकमिप्यते || यथा "नौ- का में प्रतिभा-" इति वक्ष्यमाणोदाहरणे "नौका मे.प्रतिभा, सुब्रह्मण्यमरुत्" इत्यत्र रूपरहितपवनप्रतिभावस्तुनोः शील- मात्रेण रूपकम् ॥ सर्वतोमुखत्वं प्रतिभायाः स्वभावः । पत्र नौकाप्रेरणरूपः पवनस्य स्वभावो विवक्षितः ॥ केवलगुणस्या- र्थावर्णस्य रूपकं न भवति । प्रतिमालंकारे तु मुख्यस्य स्थाने प्रतिनिधिभूतस्यापरवस्तुनः स्थापनम् । न तु रूपंकविवक्षा। चतुर्भुजादिस्वरूपस्य विष्णोः स्याने गोलाकारः शालिग्रामो. ऽपि स्थाप्यते ॥ .. रूपेण सदृशं रूपं क्रियते यत्र कस्यचित् ।। नांटकन्यायतस्तंत्र रूपकं बुध्यतां नृप! ॥१॥ अथा- यशवन्तयंशोवल्ल्या मुलं शेषफणावलिः ।।
३४८ यशवन्तभूषणम् (चतुर्थी तन्तवो दिकरिरदाः पुष्पं ताराः फलं शशी ॥१॥ यथा वा- सुब्रह्मण्यमरुहवी नौका मे प्रतिभाऽस्य पारगमने साहित्यपाथोनिधेः श्रीव्यासो भरतश्च भोजप्रमुखाः कर्णधकैवर्तकाः ॥ राणाश्रीफतसिंह! संप्रति परेशेन त्वया प्रेरितः सुखमतः पारं गतोऽस्मि प्रभो! ॥ कर्ण धरतीति कर्णधः । कर्णस्त्वरित्रापरपर्यायो नौकाए. टजनः कर्णाकारः काष्ठविशेषः । येन वाञ्छितदिगभिमुखं नौका प्रवत्यते ॥ जलक्षेपणेन नौकाप्रवर्तकः कैवर्तकः । “खे. वटिया" इति लोकभाषा ॥ “कैवर्तकः केशवः" इति भगव- द्गीतायाम् ॥ इदमुदाहरणद्वयं परंपरितोपमावत्परंपरितरूप- कविषयम् ॥ यथा वा- दाता दयालुः सरलस्वभावो दिगन्तसंक्रान्तयशःसमूहः ॥ 'महेश्वरोऽयं यशवन्तसिंह आकल्पमेतां धरणीं प्रशास्तु ॥ १ ॥ इदं शुद्धरूपकम् ॥ उक्तोदाहरणानि कविकल्पितरूपकवि. पयाणि ।। वास्तवरूपकं यथा-- ३४६ . - आकृतिः]] रूपकम् राधावेषो हरिरितो हरिवेषा च राधिका ॥ अयत्नसुलभं प्राप्तौ विपरीतरतेः सुखम् ॥ १ ॥ अमनोहराकृते रूपकस्योपलक्षणेन संग्रहो भवति ॥ चन्द्रालोके इदं लक्षणम्- "विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तत्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः।१।"इति॥ क्रमेणोदाहरणानि- शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ॥ अयमास्ते विना शंभुस्तायोकं विलोचनम् ॥ अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ॥ इमान्यभेदरूपकोदाहरणानिसमदृष्टिताऽऽधिक्यम्। ता. यीकं विलोचनं विनेति न्यूनत्वम् । तृतीयोदाहरणेऽधिक- न्यूनत्वयोरुभयोरप्यभावात्समत्वम् ॥ अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते साध्वीयमपरा लक्ष्मीरसुधासागरीदिता- अस्या मुखेन्दुना लव्धे नेत्रानन्दे किमिन्दुना ॥. इमानि ताप्यरूंपकोदाहरणानि ॥ निष्कलङ्कत्वमाधि- क्यम् । सुधासागरोदितत्वाभावो न्यूनत्वम् । तृतीयोदाहरणे- ऽधिकन्यूनत्वयोरुभयोरप्यनुक्तेः समत्वम् ॥ रूपकस्वारस्यं तु ॥
यशवन्तंभूषणम् [चतुर्थी कन्प्रत्ययबोधितनाटकन्यायेनानुकरणे । न त्वयं नटो राम ए- घेत्यभेदे । न चायं नटोऽपरो राम इति तद्रूपतायाम् । धुरंधरा- भिप्रायापरिज्ञानात्प्रथममेतादृशलक्षणनिर्मात्राऽर्वाचीनेन रू- पकेत्यत्र स्वार्थे कप्रत्ययो विज्ञातः । यथा दीपशब्दात्वाधे कप्रत्यये दीपकशब्दः । ततश्च रूपमेव रूपकमिति व्युत्पत्त्यां रूपकालंकारस्य रूपमात्रं खरूपं ज्ञात्वोक्तलक्षणमभिहितम्। तत्तु प्रमादः ॥ पुनश्च रूपकस्याधिकन्यूनसमेतिप्रकारकथनं तु महाप्रमादः ॥ यथावद्रूपकरण एव रूपकस्य श्लाध्यत्वात् । आधिक्ये न्यूनतायां च प्रत्युत रूपकस्य भ्रंशात् । उपमेया- धिक्यं तु व्यतिरेकालंकारस्य विषयः । वर्णनीयोपमेयस्य न्यू- नत्वं च सर्वथाऽनिष्टमेव । “साध्वीयमपरा लक्ष्मीः-" ईदृशा- दाहरणेपूपमेयस्य न्यूनत्वप्रतिपादनं त्वेकगुणहानी शेषगुण- दायद्वक्ष्यमाणविशेषोत्यलंकार ॥ अन्यथा तु दूषणम् ॥ अभेदेन रखनं त्वभेदालंकारः । न च रूपकेऽभेदः। ताप्यण रखनं तु लक्ष्योपमाऽलंकारः । मम तु मतं, उभयमपीद न रूपकखरूपबोधकम् ॥ अर्वाचीनमतोक्तरूपकनाम्न उक्तलक्ष- रणस्य च रूपकस्य साक्षात्वरूपाबोधकतयाऽसंभवदोषः ॥ प्रतिव्याप्तिदोपवरूपं तु लक्ष्ये व्यान्तं सदन्यत्रापि व्याप्नो- तीति । उक्तलक्षणस्य रूपकाव्याप्तवेऽपि रूपकादन्यत्राभेदे लक्ष्योपमायां च व्यापनादुपलक्षणेनातिव्याप्तिदोषोऽपि ॥ एवमन्यलक्षणेप्वपि ज्ञेयम् ॥ इनि रूपकप्रकरणम् ॥ ५० ॥ . 4 प्राकृति. लेशः लेशः ॥ . .. अत्र लेशशब्दार्थः कणः । कणस्त्वंशः । अंशश्च वस्तुन एकदेशः । “लेशः कणे । कणः धान्यांशे । अंशः वस्तुन ए- कदेशे* इति चिन्तामणिः । तण्डुलो धान्यविशेषः। तस्यैकः कणस्तस्यांशः। लेशो लव इत्यनन्तरम् । “लवः लेशे" इति चिन्तामणिः ॥ दण्ड्याचार्येणालंकारगणनायां लेशो ल. वनाम्ना भणितः । “हेतुः सूक्ष्मो लवः क्रमः"इति ॥ “भग- वद्गीता किंचिदधीता गङ्गाजललवकणिका पीता" इति गो. विन्दाष्टके ॥ चमत्कारिणि लेशे तु लेशालंकृतिरिष्यते ॥ यथा- . खनिरन्नाश्वनराणां श्रेष्ठानां यो निरामयश्च मरुः ॥. तत्राल्यामलपत्वं मरमामूरत्यया स्तं यथा | अत्र मरुदेशस्य गुणसमुदाये एको निर्जलतादोषो ले. शरूपः॥ यथा वा- अद्रीन्क्षालयसि स्म मेघ! पयसा सर्वा महीं चासिच- श्यक्रे चाकुरितां दलैः क्षितिरुहः संचादिता जीविताः॥
३५२ यशवन्तभूपणम् [चतुर्थी मएडकाः शिखिनश्च नृत्यविषये संयोजिता नो हता तृष्णा चातककस्य येन गमिता मासास्त्वदाशा- वशात् ॥१॥ अत्र मेघस्य परोपकारगुणसमुदाये तादृशचातकं प्रत्येक कृतनंतादोषो लेशरूपः ॥ यथा वा- निर्दयो निस्त्रपोऽसत्यश्छलधामाथ चञ्चलः॥ हरिरस्तु तथाप्येष विदग्धो मानमोचने ॥१॥ अत्र नार्यकदोपसमुदाये एको मानमोचनचातुर्यगुणो ले- शरूपः ॥ यथा वा- उदारत्वेऽद्वितीयोऽपि विवेकरहितो हरः ॥ ग़ल्लवादनमात्रेण परितोषं समेत्यसौ ॥१॥ अत्र इरस्यानिर्वचनीयोदारतस्तुनो विवेकरहिततारूपो निन्दालेशः॥ परंपरागतं लेशस्येदमुदाहरणम्- अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ॥. शुक! पञ्जरबन्धस्ते मधुराणां गिरां फलम् ॥१॥ शुकस्य मधुरभाषणरूपमहागुणे पञ्जरवन्धदोषो लेशंरूपः।। अन्यविहङ्गानां मधुरभाषणाभावरूपमहादो खञ्छन्दचारित्व- - .
आकृति लोकोक्तिः ३५३ गुणो लेशरूपः ॥ अस्यालंकारस्य स्वारस्यापरिज्ञानादर्वाचीना उक्तोदाहरणे दोषगुणयोर्गुणदोषकल्पनमज्ञासिषुः ॥ चन्द्रालोके इदं लक्षणम्-- लेशः स्यादोषगुणयोर्गुणदोषत्वकल्पनम् ॥" इति ॥ तत्र " अखिलेषुः' इत्येव चोदाहृतम् ॥ अनास्य मता- नुसारेण गुणस्य दोपत्वेन दोपस्य च गुणत्वेन कल्पने तु परिणामालंकारः स्यात् ॥ गुणेन दोपो दोपेण च गुणो जात इत्यङ्गीका विचित्रालंकारो भवेत् ॥ उक्तलक्षणं स्वरूपाबोध. कतयाऽसंभवदोपग्रस्तम् ॥ इति लेशप्रकरणम्.॥ ५१ ॥ लोकोक्तिः ॥ . लोकोक्तिस्तु लोकप्रवादः ॥ यदा प्रसिद्धा लोकोक्तिः काव्यमध्ये प्रदृश्यते ॥ तदाऽलंकाररूपत्वं धारयेन्मनुजोत्तम! ॥१॥ अश्वान् केचिद्गजान केचियामान् विन्दन्ति केचन ।। मरुपात्सरसः सर्वे जलं पात्रप्रमाणतः ॥ १ ॥ भाग्याधीनलाभविषये " जलं पात्रप्रमाणतः" इति लों. कोक्तिः ॥ अनोपमातो लोकोक्तेः प्रधानत्वम् ॥ यथा- • यथा वा- यशवन्तभूपणम् [चतुर्थी न कदाचिदपि प्रियः परः स्वस्य स्यादिति जानती सती॥ व्यदधामनुरागकं हरौ द्योतेऽपां वत दुग्धमक्षिकाम् ॥ १॥ जानतः स्खलनविषये " दुग्धमक्षिका” इति लोकोक्तिः। अस्मिन्पद्ये लोकोक्तियथावदुपदिष्टा । अस्या एव लोकोक्तः "पयोवर्वणा " इत्यनुवादे तु लोकोक्तिस्वारस्याभावः । अत्र सहृदयहृदयमेव साक्षि ॥ "वर्षणा मक्षिका नीला" इत्य- मरः ॥ चन्द्रालोके इदं लक्षणम्--- लोकप्तवादानुकृतिर्लोकोक्तिरिति कथ्यते ॥” इति ॥ अनुकृतिस्त्वनुवादः ॥ साक्षालोकप्रवादरूपाक्षरेषु लोको- फेर्यादृशश्चमत्कारस्तादृशोऽनुवादे नानुभूयते । यथेक्षोश्चर्व. णे यादृशो रसानुभवस्तादृशः कुहितनिष्कासितरसपाने न भवति ॥ वस्तुनः स्वभावस्प यथावर्णने स्वभावोत्यलंकार इध काव्ये लोकोत्यक्षराणां यथावदुपदेश एवं लोकोक्त्यलं- कारः ॥ तत्परिवर्तने त लोकस्योक्तिरेव न भवति ॥ उक्त. लक्षणस्यास्मिन्नलंकारेऽसंभवादसंभवदोषः ॥ इति लोको. क्तिप्रकरणम् ॥ ५२ ॥ वक्रोक्तिः॥ वक्रीकृतोक्तिर्वक्रोक्तिः ॥ परोकेर्चक्रीकरण एव चमकारा- स्परोक्तो रूढिः॥
जेश्वरस्य द्रोहं विधाय किं कश्चिद्विपदिहीनोऽपि विद्यते? श्राकृतिः]] वक्रोक्तिः ३५५ उक्तिर्वक्रीकृताऽन्यस्य वक्रोक्तिर्नाम भूपणम् ॥ श्लेषस्वरविकारादिभेदेनेयमनेकधा ॥१॥ क्रमेण यथा- 'तूष्णीं चिन्तयसेऽद्य कस्य चरितं राज्ञः किमिन्दोर्नहि भूभृच्छ्रेष्ठतमस्य किं सुरंगिरेनों राष्ट्रवर्यस्य भोः ॥ किं देशस्य वरस्य नो मरुपते राजद्गुणानां निधे- तुः श्रीयशवन्तसिंहनृपतेः कीर्ति मुदा वर्णये ॥१॥ अत्र वक्तुरुक्तौ राजशब्देन नृपः, भूभृच्छ्रेष्ठतमशब्देन भू- पालमुकुटः, राष्ट्रवर्यशब्देन राष्ट्रवरजातीयो साजराजेश्वरय शवन्तसिंहो विवक्षितः ॥ परिहासमाचरता श्रोत्रा श्लेपसा- मर्थ्यात् राजा चन्द्रः, भूभृच्छ्रेष्ठतमो मेरुः, राष्ट्रवयों देशोत्तम इत्यर्थे प्रकल्प्य वक्तुरुक्तिर्वक्रीकृतेति वक्रोक्त्यलंकारः । कश्चिदस्त्यापदो हीनो द्रोहकृन्मरुभूपतेः ॥ कश्चिद्वा संपदो हीनो हितं कृत्वास्य भूपतेः ॥ १॥ राजद्रोहिण उक्तिरियम् ॥ राजराजेश्वरस्य द्रोहं विधाय कश्चितिपद्विहीनोऽपि विद्यते । हितं कृत्वा च कश्चित्संपली. नोऽपि विद्यते इंति ॥ तत्र राजभक्तश्रोत्रा स्वरविकारेण का- कुरूपेण वक्रीकृतस्वरेणेयमेवोक्तिर्वक्रीकृता । तथाहि, राजरा- . यथा वा-- . অঘনমূখ্যান [चतुर्थी हितं कृत्वा च किं कश्चित्संपहीनो विद्यते? नेत्यर्थः ।। समानविशेपणेन यथा-- भिक्षार्थी सक्क यातःसुतनु!वलिमखेताण्डवं वाद्य भद्रे! मन्ये. टन्दावनान्ते क्व नु स मृगशिशुनैव जाने वराहम्।। बाले! कच्चिन्न दृष्टो जरठरपपति!प एवास्य वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां नः अत्र वक्री लक्ष्मीस्तस्या अप्युक्तिर्न सरला। शिवादिस- रलनामान्यनुक्त्वा परिहासाथै भिक्षार्थीत्यादिनाम्नामन्यप्र. कारेणोच्चारणात् ।। अस्यामुक्तौ तु पर्यायोक्त्यलंकारः ॥ अत्र परिहासं कुर्वन्त्या लक्ष्म्योक्तानि "भिक्षार्थी स क यातः, ता- ण्डवं काय" इत्यादीनि शिविषयाणि विशेषणानि पार्वत्या विष्णुपरतया योजितानीति वकया लक्ष्म्या उक्तेर्वक्रीकरणा- द्वक्रोक्त्यलंकारः ॥ समानविशेषणे श्लेपाभावस्तु श्लेषप्रकर- णे. दर्शयिष्यते ॥ चन्द्रालोके इदं लक्षणम्- वक्रोक्तिः श्लेषकाकुभ्यामपरार्थप्रकल्पनम् ॥" अस्यालंकारस्य स्वरूपं तु परोक्तेर्वकीकरणम् । इलपेणा- न्यार्थकल्पनं तु श्लेपालंकारमात्रम्.। काकुनाऽन्यार्थकल्पनं व्यङ्ग्यमात्रम् ॥ न ह्यवान्यार्थस्य चमत्कारे पर्यवसानम् । किं तु परस्योक्तेर्वक्रीकरणे चमत्कारः। अत्र श्लेर्पकाकुसमानवि- - प्राकृतिः] विकल्पः शेषणानि तु वक्रोक्तेः साधनरूपाणि । उक्तलक्षणस्य समान- विशेषणविषयवक्रोक्तावव्याप्तिश्च ।। उक्तलक्षणं साक्षात्स्वरू- पाम्रोधकाव्याप्तिदोपग्रस्तं च ॥ इति वक्रोक्तिप्रकरणम् ॥५३॥ विकल्पः ॥ विकल्पशब्दोऽनेकार्थः । अत्र "इत्थं वा इत्थं" इत्येवरू- पोऽर्थो विवक्षितः ॥ पूर्वयशवन्तसिंहमहाराजो भाषाभूपणे- ऽस्येदमेव स्वरूपमाह ॥ वेदे यज्ञविपये 'बीहिभिर्यजेत, या यजेत" इति विकल्पः ।। आगता मरुसेनेयं वेष्टयन्तीच सर्वतः ॥ धनं धरां वात्मजा वा संघयेऽर्पय सत्वरम् ॥१॥ राजराजेश्वरशत्रु प्रति कस्यचिदुक्तिरियमाएतादृशलोकि- कविकल्पस्य तु चमत्कारशून्यतया नालंकारत्वम् । पद्रिये परस्पर विरोधे सति विकल्पस्य चमत्कारप्रदत्तयाऽलंकारत्व- मितीह विरोधे रूढिः । अत्र विरोधे न चमत्कारस्य पर्यव- सानम् । किं तु विकल्प एवेति तस्यैवालंकारत्वम् ॥ विकल्प इत्थमित्थं वेति स पक्षहये नृप!॥ विरोधे सत्यलंकारस्वरूपत्वमवाप्नुयात् ॥१॥ यथा--- .." भो भो रिपवो नमयत शिशंमि art-- .
. यशवस्तभूषणम् [चतुर्यो 'सर. वा ज्यायाः श्रोत्रं रवेण पूरयत ॥१॥ शत्रोर्वशीकारार्थ संधिविग्रही मुख्योपायौ । इह पक्षद्वये .स विरोधाद्विकल्पस्य चमस्कारप्रदतयाऽलंकारत्वम् ।। भत्र पर्यायोक्त्या संधिविग्रहयोरक्तत्वात्पर्यायोत संकीर्ण लम् ॥ पथा वा- स्वरां मा कुरु गृध्र! त्वं धीरो भव मनागिह ॥ निवेशये रिपोर्दैहे किं वा देहे ममाधुना ॥१॥ • अत्र रणागणागतमनुष्यमांसाभिलापिणो गृध्रपक्षिण भा. तिथ्यं तु रणरचयिता योधो रिपुं हत्वा तं तस्मै समर्पयेत्, रि- पुहस्तहतो वां स्वयं समर्पितो भवेदिति ॥ इह पक्षद्धये परस्परं विरोधाद्विकल्पस्य चमत्कारकारितयाऽलंकारत्वम् ॥ यथापा . पतत्यविरतं वारि नृत्यन्ति च कलापिनः । अद्य कान्तः कृतान्तो वा दुःखस्यान्तं करिष्यति ॥१॥ भत्र वियोगसंबन्धिदुःसहदुःखापाकारि वस्तुद्वयम् । कान्तः कृतान्तो वा । भत्रोक्तवस्तुद्वयंस्य परस्पर विरोधा. द्विकल्पस्य चमत्कारकारितयांऽलंकारत्वम् ॥ चन्द्रालोके इवं लक्षणम्- - . विरोधे तुल्यवलयोर्विकल्पालंकृतिर्मता ॥” इति ॥
भाकृतिः] विकासः मम मते तु, नेदं विकल्पालंकारस्य स्वरूपम् । उक्तलक्ष. णानुसारेण तु इतस्त्वभयसिंहाख्यस्ततः सखुलन्दकः ॥ रणे धूनयतः खड्गौ कोऽत्र जेता न निश्चयः ॥ अत्र तुल्यवलयोर्विरोधो विद्यत इतीह विकल्पालंकारो भाव्यः। न चात्र विकल्पालंकारस्य गन्धोऽप्यस्तीत्युक्तलक्षणं विकल्पालंकारस्य स्वरूपावोधकतयाऽसंभवदोषग्रस्तम् ॥ इति विकल्पप्रकरणम् ॥ ५४ ॥ विकासः॥ विकासशब्दार्थः प्रसरणम् । "विकासः विसृत्वरे । विमु. स्वरः प्रसारिणि" इति चिन्तामणिः ॥ अर्वाचीना विकास स्वतन्त्रालंकारमाहुः॥ वर्णनं तु विकासस्य विकासालंकृतिर्मता॥ यथा विकसति स्वान्तं कवीनां त्वन्मुखेक्षणात।। यथा- सरित्प्रवाहेर्गिरिभिरनिरुद्धा :च सागरेः ॥ प्रसरत्यनिशं कीर्तिर्यशवन्तमहीपतेः॥१॥ यथा वा- ३६० यशवन्तभूषणम् [चनुयाँ' प्रियाऽऽगमनसंवहां श्रुत्वा वार्ता मनोहराम् ।। अटत्येषाऽङ्गणे फुल्ला न मान्त्यङ्गानि कञ्चुके ।। " मरौ पयोहारिवधूजनानाम्" इत्यादिपर्यायालंकारोदा- हरणेपु शुद्धपर्यायं कथयन्कुवलयानन्दकारो विकासपर्याय: स्येदमुंदाहरणमाह- "विम्बोष्ठ एव रागस्ते तन्वि! पूर्वमदृश्यत ॥ अधुना हृदयेऽप्येष मृगशावाक्षि! दृश्यते ॥ १ ॥ "अन्न रागस्य पूर्वाधारापरित्यागेनाधारान्तरसंक्रमणमिति विकासपर्यायः" इति च घटयामास । मम तु मतं, पर्याय- स्य स्वरूपं तु पूर्वाधार परित्यागनाधारान्तरावलम्बनम् । तदेव लोकभापाप्रसिद्ध "वदली-वारी" इति भवितुमर्हति ॥ विकासस्तु पूर्वाधारापरित्यागनाधारान्तरे पुष्पन्यायेन प्रसर- रणम् ॥ अत एवायं प्रयगलंकारः॥ इति विकासप्रकरणम् ॥५५॥ विचित्रम् ॥ . चित्रशब्दार्थोऽद्रुतयुक्त इति ॥ "चित्रः, अद्भुतयुक्ते". इति 'चिन्तामणिः ॥ अद्भुतमाश्चरीमिति पर्यायान्तरम् । अलौकि- कस्वार्थ धुरंधरो विशेषार्थकं बीत्युपसर्ग योजयामास ! विचित्र वर्णनं राजन्विचित्रालंकृतिः स्मृता ।
प्राकृतिः विचित्रम् सा च त्वयि महाराज दृश्यतेऽनेकधा जनैः ।। यथा- नवीनाऽतितरां राजन्! विद्यते भवतो गतिः ॥ . मरुभूमिपतित्वेऽपि स्वर्णमुक्ताप्रदोऽनिशम् ॥१॥ दण्याचार्यभोजमहाराजी कार्यकारणसंबन्धिर्विचित्रतायां चित्र हेतुनामकं हेत्वलंकारप्रकारममन्येताम् ।। केचनासंगत्य- तिशयोक्तिप्रकारानङ्गीचक्रुः । केविञ्च पोढाविभावनाऽलंका- रे विशेपोक्त्यलंकारं च मेनिरे ॥ ते चालंकारा वक्ष्यमाणा. न्तर्भावाकृतौ दर्शयिष्यन्ते ॥ अस्माभिस्तूक्तप्रकाराणामलं. काराणां चास्मिन्विचिन्नेऽन्तर्भावो विज्ञातः ।। यथावा- . उद्धर्तुं सप्तगोत्राणां कुलमेकोत्तरं शतम् ॥ गयास्वचालितयवपिष्टपिण्डं प्रदीयते ॥ १॥ भोजराजादयोऽत्र महाफलाथै तुच्छप्रयंनस्वाचित्र हेर्नु क- थयामासुः । चन्द्रालोककारादयोऽत्रासमग्रकारणात्कार्योत्पत्ते- विभावनाया द्वितीयं प्रकारमाहुः ।। यथा वा- सर्वस्मिन्न नतं नु तीर्थनिचये दृष्टो न देशोऽखिलो . नाभ्यस्ताः सकलागंमा न च पुनर्हस्तेऽपि मोर्वीकिणः॥ श्लाघन्ते सरंदारसिंहमखिला नास्तीदृशोऽन्यो भुवि .
यशवन्तभूपणम्
[चतुर्यो
सोऽयं श्रीयशवन्तसिंहतनयोजीव्यात्समानांशतम्।।
भोजराजोऽत्र दूरभाविकार्यस्येदानी भावाद्विदूरकार्यनामकं
चित्रहेतुमाह ॥ चन्द्रालोककारादयस्त्वस्मिस्थले चपलतया
कार्यजनेश्चपलातिशयोक्तिनामकमतिशयोक्तिप्रकारमाहुः ॥
यथा धा-
विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥
अत्र कारणात्कार्यस्य दूरदेशवर्तितया महाराजोऽत्र विदू-
रकार्यनामकं चित्रहेनुप्रकारमाह ॥ चन्द्रालोककारादयस्तु
'कार्यकारणयोभिन्नदेशतयाऽसंगतेः प्रथमप्रकारमाहुः ॥महा-
राजश्चित्रहेतूनसंख्यान्मन्यते ॥ तदुक्तम्-"असंख्याश्चित्रहे-
तवः" इति ॥
यथावा-
'नमन्ति सन्तत्रैलोक्यादपि लब्धं समुन्नतिम् ॥
उन्नतिलाभाय नमनं विपरीतप्रयल इति चिनहेतुत्वम् ॥
उक्तलभ्योदाहरणानुसारेण जयदेवो विचित्रस्येदं लक्षणमाई.
विचित्रं तत्प्रयत्नश्चेद्विपरीतफलेच्छया ॥” इति ।।
'अस्प लक्षणस्पान्यत्राव्यापनादव्याप्तिदोषः ॥ इति वि.
चित्रप्रकरणम् ॥ ५६ ॥ .
গান) विधिः ३६३ . विधिः ॥ - लोकविधिष्वलंकारत्वाभावाद्धुरंधरो मीमांसाशास्त्रप्रसिद्ध- विध्यनुसारेण विध्यलंकारमङ्गीचकार ॥ पत्र विधिशब्दाथों- अज्ञातज्ञापनम् । “अज्ञातज्ञापको वेदभागो विधिरिति मीमां- सकाः" इति चिन्तामणिः ॥ अज्ञातज्ञापनं यत्र तत्र विध्याख्यभूषणम् ॥ यथा- .. एथ्वि! स्थैर्यमुपैहि शेष! धरणीं यत्नेन संधारय युग्मं चैतदथो विधारय विभो! त्वं कूर्म! एप्ठेऽचलः॥ भो भो दिग्द्विरदाः प्रमादमपहायेमां घरध्वं धरी सेनाऽसौ यशवन्तसिंहनपतेर्यानोन्मुखा वर्तते ॥१॥ अंत्र राजराजेश्वरापारसेनाया एकतः प्रयाणामणिफणा- रूढपृथिव्या एकतो नमनं पृथिव्यादीनामज्ञातमिति तस्य ज्ञापनम् ॥ यथा वा- . देहोऽयं क्षणभलंगुरः किमितिं नानन्देन संयाप्यते कालोऽयं विभवेम मा मदमुपैहीशं च मा विस्मर ॥ मा भ्रष्टः कुलमार्गतो भव. न चान्योक्तं श्रुतौ त्वं कुरु- चतुर्थी ३६४. यशवन्तभूपणम् रङ्कत्वं त्यज धातूपाणिलिखितं स्यादन्यथा नैव भोः।११ अत्र देहस्य क्षणभङ्गुरत्वादिकमजानन्तं प्रति ज्ञापनम् ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- "सिद्धस्यैव विधानं यत्तदाहुर्विध्यलंकृतिम् ॥"" यथा- .. पञ्चमोदञ्चने काले कोकिलः कोकिलो भवेत् ।। इदं परंपरागतं विध्यलंकारोदाहरणम् । अन संगतिस्तु कोकिले प्रति सम्यग्बुध्यमानः कोकिलमजानन्तं मित्रं बोध- यत्ययं कोकिल इति ॥ अन "कोकिलः कोकिलो भवेत् " इति सिद्धार्थविधानप्रयोजनं तु कोकिलस्य यादृशी स्तुतिः प्रख्याता तादृशस्त्वयं वसन्तों कंजरवोच्चारणावसरे विदितो भविष्यतीति । धुरंधराभिप्रायापरिज्ञानाञ्चन्द्रालोककार उक्त- लक्षणमाह । इह प्रयोजनं विना स्वतःसिद्धस्य विधानं तुन भूपणम् । अपि तु दूपणम् । उक्तलक्षणस्य पूर्वोक्तोदाहरण योरव्याप्तेरव्याप्तिदोपः ॥ इति विधिप्रकरणम् ॥ ५७ ॥ ॥ विनोक्तिः ॥ Pani विना उक्तिविनोक्तिः ॥ कचित्कस्यचिद्धिनाभावस्य चम. स्कारकारित्वे विनोक्त्यलंकारः॥ --
यशवन्तभूषणम्
[चतुर्थी
ऽतीवाद्भुता वारिहरा विलासात् ॥
समीक्ष्य तां सेङ्गितमन्यनार्यो-
ऽन्योन्यं हसन्ति स्म सहस्ततालम् ॥१॥
नह्यत्र घटं विना वर्णनीयनायिकाया हीनत्वम् । न चर-
म्यत्वम् ॥ किं तु घटस्य विनाभावः पूर्वानुरागिण्या विह्वल-
तायां चमत्कारमादधाति ॥ अत्राव्यातेः ॥ ईदृशविनाभाव-
स्प प्रतिषेधालंकाराद्विलक्षणत्वं चानुभवसिद्धम् ॥ उक्तलक्ष-
णमव्याप्तिदोपग्रस्तम् ॥ इति विनोक्तिप्रकरणम् ॥ ५ ॥
विरोधः ।।
..
दरड्याचार्यः स्वप्रवन्धे विरोधालंकारमाह ।। वैरं विरोध
इति नामान्तरम् । "वैरं विरोधो विद्धपः" इत्यमरः ॥ प्रीति-
विरोधी तु लोके सर्वत्र दृश्येते इतीह विरोधिसंसर्गे रूढिः ॥
तथा च विरोधिसंसर्गो विरोधालंकार इत्यर्थः ॥
राजन्! विरोधिसंसर्गो विरोधो नाम भूपणम् ॥
यशवन्तशते राज्य सम्यग्बोधोऽस्य जायते॥१॥
यथा-
सिंहरपमाखुसर्प स्मरहरभवने सहेच्यते यहत् ।।
तहदन्योन्यरिपवो मुदा भजन्ते पदं मरोः पत्युः॥१॥
. भाकृतिः] विरोधः । सिंहवृषभयोरहिमूषकयोश्च स्वाभाविको विरोधः । अत्र भवभवने तेषां संसगोऽलौकिकतया काव्यशोभाकरत्वादलंका- रः॥ अत्र भवप्रभावान्न विरोधाभावः । किं तु विरोधफ- लस्याभावः ॥ तथैव मरुनरेश्वरसभायामन्योन्यं भूपालानां .विरोध ज्ञेयम् ॥ यथा वा- दिग्वासा यदि तत्किमस्य धनुषा शस्त्रं च किं भस्मना भस्माथास्य किमङ्गना यदि च सा कामं परिदृष्टि किम्॥ इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेष वपुः॥१॥ अत्र हेतूत्प्रेक्षायाः संकीर्णत्वम् ॥ दिगम्वरत्वधनुर्धारणादेः परस्परमहिमूषकादिवत्स्वाभाविकविरोधो न प्रसिद्धः । कि स्वेतत्संसर्गे विरोधोत्थानेन चमत्कार इतीह विरोधालंकारः नात्र विचित्रतायामयथायोग्यतायां वा. चमत्कारः। न च तत्र पर्यवसानमपि । इत्थं विचित्रविषमयो मार्थानुसारिवि.. रोधस्य च महदन्तरम् ॥ दण्ड्याचार्यों विरोधविपये इदमुदा- जहार- कूजितं राजहंसानां वर्धते मदमञ्जुलम् ।। क्षीयते च मयूराणां रुतमुत्क्रान्तसोप्टवम् ।। १ ।। प्रापेएयैर्जलधरेरम्वरं दुर्दिनायते ।
३६८ यशवन्तभूषणम् चितुर्थी 'रागेण पुनराकान्तं जायते जगतां मनः॥२॥" घृद्धिकारिणः क्षयकर्तृत्वाभावः क्षयकारिणश्च वृद्विकर्तृ- 'वाभावो मालिन्यकारिणो रागोत्पादकत्वाभावो रागोत्पादक- स्य च मालिन्यकर्तृत्वाभाव इति विरुद्धक्रियाणां शरद्रूपकर्त: रि संयोगाद्विरोधस्य चमत्कारकारितया विरोधालंकारः ॥ मम मतेऽप्युपलक्षणेनास्य विरोधे संग्रहो युक्तः॥ इति विरो. धप्रकरणम् ॥५९॥ विशेषोक्तिः ॥ अयं विशेपोक्तिरलंकारो वामनेन लिखितः । अत्र वीत्यु- पसौ गतार्थे । "वि गते' इति चिन्तामणिः । शंषस्त्ववशे. पः । वि गतेन शेपस्योक्तिर्विशेषोक्तिः ॥ अनेदं तात्पर्यम्, सदस्तु न विद्यते तस्य निषेधमात्रेणावशिष्टानां समस्तवस्तू. नों कथनमिति यस्यामावस्तदुक्त्या हि शेपस्य कथनं नृप! ॥ विशेपोक्तिरलंकारो धुरंधरमते स्मृतः ॥ १॥ यथा- पदन्ति पण्डिताः सर्वे जानाति सकलं जगत् ॥. यशस्वी यशवन्तेशो नकारं नापठत्पुरों ॥ १ ॥ .
आकृतिः] विपमम् अत्र राजराजेश्वरस्य नकारपठनाभावकथनेन दकारा- दिसर्वाक्षराणां सच्छिक्षाणां च पठनमुक्तं भवति ॥ वामनाचार्यो विशेषोक्तरिदं लक्षणमाह- "एकगुणहानी गुणसाम्यदाढ्य विशेषोक्ति ॥ इति ॥ वाभनोक्तलक्षणस्य " वदन्ति पण्डिताः-" इत्युदाहरणे- ऽव्याप्तिः। नात्र गुणहानिः । किं तु दोषरूपन काराक्षरस्य हानिः । किं चात्र यस्य हानिः, स नकारो दोपरूपः । तेन कधितानि दकाराद्यन्याक्षराणि गुणरूपाणीति न गुणसाम्यम- पि ॥ उक्तलक्षणं साक्षात्स्वरूपाबोधकमव्याप्तिदोपयस्तं च॥ इति विशेपोक्तिप्रकरणम् ॥ ६० ॥ . विषमम् ॥ वक्ष्यमाणसमालंकारस्य विपरीतभावेऽयं विषमालंकारः। समशब्दार्थः समानः । “समः समाने । नुल्यार्थे " इति चि- न्तामणिः ॥ तत्र समानतया यथायोग्यता विवक्षिता । अत्र वीत्युपसर्गो गतार्थे । तथा च यथायोग्यताया अभावो बिष- मशब्दार्थः॥ अयथायोग्यता यत्र भवेन्मस्महेश्वर! ॥ विपमं भूपणं नव विपरीतं समस्य तत् ॥ १ ॥ न्यथा- . यशवन्तभूषणम् चितुर्थी रिपुस्त्रियस्ते यशवन्तभूप! विलोक्य पान्था इति चिन्तयन्ति । लावण्यसाराङ्गयुता इमाः क्व व दारुणं दुःखमिदं वनोत्थम् ॥ १ ॥ अत्र रिपुरमणीनां सौन्दर्यःखयोः संवन्धस्यायथायोग्य ता ॥ मम तु मतं, अयथायोग्यानां संवन्धे यादृशश्चमत्का- रस्तादृशो यथायोग्यानामसंवन्धेऽपि । यथायोग्यताया अ. भावस्य स्थलद्वयेऽपि समानत्वात् । अत उपलक्षणेन तस्या- पि संग्रहोऽत्र युक्तः। यथा- साधारणतरुबुद्धया न मया बद्दस्तवालवालोऽपि॥ लज्जयसि मामिदानी चम्पक! भुवनाधिवासिभिः कु- सुमैः ॥ १॥ भन तादृशचम्पकविटपस्योद्गमसमये आलवालजलसे.. कोदिसत्कारपूर्वकमवनं गृहपतेर्यथायोग्यतास्पदम् । तस्य प्र. मादेनाविधानमयथायोग्यत्वम् ॥ पूर्वोदाहरणे नायिकाधर्मि- णि धर्मवयस्यायथायोग्यसंबन्धः । अत्र तु चम्पकगृहपति- धर्मिणोर्मध्ये गृहपतेश्चम्पकविपयेऽयथायोग्यव्यवहारो विष- मालंकारः॥ चन्द्रालोके इमानि लक्षणोंदाहरणानि- "विषमं वय॑ते यत्र घटनाऽननुरूपयोः ॥ . .
. .. धोकृतिः). विपमम् विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् ॥ अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् ॥” इति॥ कमेण यथा- क्वयं शिरीषमृहङ्गी व तावन्मदनज्वरः ॥ कीर्ति प्रसूते धवलां श्यामा तव कृपाणिका ॥ भक्ष्याशया हि मञ्जूषां दृष्ट्राऽऽखुस्तेन भक्षितः ॥ अत्र लोकोक्तेः संकीर्णत्वम् ।धुरंधरनामार्थानुमारेणास्या- लंकारस्य स्वरूपं सामान्यतयाऽयथायोग्यत्वम् । तन चन्द्रा. लोकस्य प्रथमतृतीयलक्षणे उदाहरणान्तरत्वसाधके । द्विती- यलक्षणं तु विचित्रालंकारस्य विषयः। चन्द्रालोकोक्तप्रथम- लक्षणं “साधारणतरुबुद्ध्या-" इत्यस्मिन्नुदाहरणेऽव्याप्तम् ॥ अर्वाचीनाः कचित्तु प्रथमः प्रकारः, द्विनीयः प्रकारः, तृतीयः प्रकार इत्येकस्यैवालंकारस्य प्रकारान्मन्यन्ते । यथोपमाया: प्रकारः । तथा युक्तम् “लुप्तोपमाऽष्टधा” इति ॥ क्वचिच्चेक मेवालंकारं प्रथमः, द्वितीयः, तृतीय इति मन्यन्ते । यथा एकं विषमम्, द्वितीयं विषमम्, तृतीयं विषममिति ।। तथा युक्तं चन्द्रालोककारिकायाम् "अपरं विषमं मतम्" इति । उक्तसिद्धान्तं स्फुटीकुर्वन्विमर्शिनीकारः “एकमित्या- यभिदधता ग्रन्थकृतां विपमाणां भिन्नत्वमुक्तम् । न प्रकारप्र- कारिखम् । सामान्यलक्षणस्यासंभवात्" इत्याह ॥ मम तु मतं; भर्वाचीनानामयं प्रमादः । कुत इति चेत्समस्तालंका- .
३७२ यशवन्तभूपणम् [चतुर्थी राणां तंत्तन्नामानि सामान्यलक्षणानि सन्त्येवेति तत्तद्विशे- पाणां नामसु लयाते तत्तदलंकारप्रकारा एव भवेयुः ॥ एका- र्थवाचका एकनामानोऽलंकाराः पृथड् न भवेयुः । सर्वथा वि. लक्षणत्वाभावात्॥किं च सर्वस्वकारादयो व्याजस्तुतेः "व्या- जरूपा स्तुतिः, व्याजेन वा स्तुतिः" इत्यर्थद्वयं विधाय व्या- जस्तुतिनामकमलंकारद्वयमाहुः । तदेतत्समीचीनम् । स्तुत्या निन्दा तु व्याजरूपा स्तुतिः, निन्दया स्तुतिश्च व्याजेन स्तु- तिरित्यनयोः स्वरूपस्य सर्वथा विलक्षणत्वात् ॥ मम तु मतं, इदमुभयमप्याभासालंकारस्य पृथकप्रकाररूपम् ॥ तदेतत्सर्व- मन्तर्भावाकृतौ प्रतिपादयिप्पामः।।इति विषमप्रकरणम् ॥६१॥ ॥ विषादः॥ "पलृ विशरणगत्यवसादनेपु" इत्यस्माद्भावे घनि सा. दशन्दो निष्पन्नः । सादस्तु दुःखम् । तदुक्तम् “शरीरसादाद संभमभूपणा--" इति रघुकाव्ये । हर्षदुःखयोरत्यन्तं लौकिक- खाद लौकिकस्वार्थ धुरंधरेण हर्षेण सह प्रकृष्टार्थकं प्रोपलगं प्रयुज्य प्रहर्षणालंकारः स्वीकृतः । तथेहाप्यलौकिकत्या धु- रंधरेण सादशब्देन सहातिशयार्थको धीत्युपसों योजितः । "वि विशेपे । विशेपः, अतिशये" इति चिन्तामणिः॥"स- दिरमतेः ॥ ८।३।६६" इति मूर्धन्यादेशः । विपाद इति समुदितशब्दार्थस्त्वतिशयेन दुःखमिति ॥ अतिशयदुःखस्य लोकोत्तरतया कचिच्चमत्कारकारित्वे विषादालंकारः॥ ..
भाकृतिः .३७३ विषादः विषादनामालंकारः स्यात्सादोऽतिशयेन चैत् ॥ प्रहर्षणाख्यालंकारप्रतिस्पर्डी नृपास्त्यसौ ॥१॥ यथा- . एकं कान्तगले निधाय रमणी हस्तं द्वितीयेन सा सीधुं. पाययति प्रसन्नहृदया संचिन्तयन्तौ स्थितौ ॥ कृत्यं केलिकलानुषङ्गि रसिकौ तौ दंपती तत्क्षणं प्राप्ताःश्रीयशवन्तसिंहसुभटावद्ध्वाऽनयंस्तं रिपुम्॥१॥ यथा वा- . . प्राविलासेक्षणकौतुकान्विंता राधाऽऽरुरोहाचलतुल्यहर्म्यम् ॥ संकेतकुलं यमुनातटे पत- दृष्ट्वाऽश्रुपूर्णे नयने अभूताम् ॥१॥ पूर्वोदाहरणे वाञ्छिताविरुद्धार्थस्य प्राप्तिः। अत्र स्वकस्मा- दुःखप्राप्तिः । मेघमालावलोकनकौतुकाविष्टचित्ताया राधि. काया हारोहणसमये ईपदपि संकेतकुझसंवन्धिवान्यामा अभावात् । वाञ्छितार्थाविरुद्धलाभे दुश्वातिशय वाक्रामा- दागतविपत्तावपि दुःखातिशयः ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- इष्यमाणविरुद्धार्थसंप्राप्तिस्तु विषादनम् ।। . यथा- ३७४ यशवन्तभूषणम् [चतुर्थी दीपमुद्योजयेद्यावनिर्वाणस्तावदेव सः॥ अत्रालौकिकत्वार्थमतिशयार्थकव्युपसर्गप्रयोगाद्यथाकथं- चिदुःखातिशयस्य चमत्कारकारित्वे विपादालंकारो भव- तीति वेदितव्यम् ॥ चन्द्रालोककारो लभ्योदाहरणानुसारेणो- कनियमं चकार । तस्य तु बहुधाऽध्यासिः । “प्रावृड्विला- सेक्षण-" इत्यत्र राधिकायाः संकेतसंबन्धिवाञ्छादेरभावः । वर्षर्तुविलासं विलोकयन्त्याः संकेतकुञ्जपतननिरीक्षणेनाकस्मा- दुःखातिशयोत्पादः।तत्र पूर्वोदाहरणवञ्चमत्कारोऽनुभवसिद्धः। इहोकलक्षणस्याव्याप्तिः ॥ इति विषादप्रकरणम् ॥ ६२ ।। ॥ व्यतिरेकः॥ अत्र वीत्युपसों विशेपार्थकः । विशेपस्त्वितरव्यावर्तको- ऽसाधारणधर्मः। “विशेषः, इतरावर्तकेऽसाधारणधर्मे " इति चिन्तामणिः। अतिरेकस्तु पृथग्भावः। "मतिरेकः पृथग्भावे" इति चिन्तामणिः ॥ व्यतिरेक इति समुदितशब्दार्थस्त्वित. रव्यावर्तकेनासाधारणधर्मेण पृथग्भाव इति ॥ भोजराजोऽस्य व्यतिरेको भेद इति नामद्धयमाह। केनचिद्धि विशेषेणातिरेको यत्र दृश्यते । • तत्र जानीहि राजेन्द्र! व्यतिरेकाख्यभूपणम्॥१॥ यथा- सुखभोगें शोभायां प्रभुतायां चैव वैभवेऽपारे ।
आकृतिः] व्यतिरेकः मरुराजः सुरपतिना सदृशः किं त्वेष सर्वदा दाता.।। अत्र केवलमुपमेयराजराजेश्वरस्याधिकतया शक्राद्भेदः प्रदर्शितः॥ यथा वा- शशिना समं मुखं ते परंतु चन्द्रः कलङ्कमाधत्ते॥ . अत्र केवलं शशिन उपमानस्य न्यूनतया नायिकामुखस्य चन्द्रा दो दर्शितः ॥ पूर्वोदाहरणे सुखभोगादिसाधर्म्य वा- च्यम् । अस्मिन्नुदाहरणे पाहादकारितादिसाधम्र्य प्रसिद्धि- लभ्यत्वात्प्रतीयमानम् ॥ यथा वा- अपारसंपत्पदमत्युदारः सुरेन्द्रतुल्यो यशवन्तसिंहः ॥ पुरंदरस्तुं त्रिदशांधिनाथो राज्ञां सहस्रं परिसेवतेऽमुम् ॥ १॥ अत्र त्रिदशशब्दे श्लेपः । व्यधिकास्त्रिरावृत्ता दश त्रिद. शाः । त्रयस्त्रिंशदित्यर्थः । देवाश्च । अत्र राजराजेश्वरोपमेय. विपये सहस्रभूपसेवितत्वमाधिक्यं शक्रोपमानविपये च त्रि- दशाधिपतित्वमेवेति न्यूनत्वं चोक्त्वा राजराजेश्वरे शका- देदः प्रदर्शितः ॥ इमानि सर्वाण्यप्युदाहरणान्तराणि ॥ अ- चीनाः प्रथमोदाहरणे उपमेयाधिक्यपर्यवसायी, द्वितीयो. दाहरणे उपमानन्यूनत्वपर्यवसायी, तृतीयोदाहरणे चोभयप-
यशवन्तभूषणम्
[चतुर्थी
यवसायीति कथयन्ति । तत्र तु न काचिद्धानिलाभो वा । परं
तु चतुर्थमनुभयपर्यवसायीत्युक्त्वा
दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ॥
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥१॥
इत्युदाहरन्ति । श्राकारात्स्वरूपा दः । श्राकारखराञ्च
भेदः । कृपणेऽकारस्वरः । कृपाणे भाकारखरः। अत्रोपमेयाधि-
क्योपमानन्यूनत्वयोरभाव भेददर्शनादनुभयपर्यवसायित्वम् ।।
मम तु मतं, अत्र व्यतिरेकस्याभास इत्याभासस्य प्रका-
रान्तरत्वमुदाहरणान्तरत्वं वा बोध्यम् । अस्य व्यतिरेकग.
णनायानसंभात् ॥
चन्द्रालोके इदं लक्षणम्-
"व्यतिरेको विशेषश्चेदुपमानोपमेययोः ॥” इति ।
धुरंधरनामार्थानुसारेण तु वस्तुमात्रा दो व्यतिरेकालं-
कारः । न तूपमानोपमेययोरेव नियमः ।।
.
यथा-
दिव्योत्तरीयभृति कौस्तुभरत्नभाजि
देवे परे दधतु लुब्धधियोऽनुवन्धम् ॥
रूपं दिगम्बरमखण्डनमुण्डचूड
भावत्कमेव तु, वतेश मम स्टहायै ॥ १॥
. श्राकृतिः] व्याघातः ३७७ .. अत्र हरिहरावुभावपि निराकारपरब्रह्मणः साकारखंरूपम्। केनचिद्विपयवासनाविरक्तभक्तेन तयोर्भवः प्रदर्शितः ॥ .. .. यथावा- कलिन्दजाया महिमा वाचामविषयः खलु॥ गङ्गा यदध्रिपानीयं तस्य राज्ञीयमुच्यते ॥ १॥ अन गगायमुनारूपतीर्थयोर्भेदो दर्शितः ॥ इत्यादिस्थजे- पु चन्द्रालोकलक्षणमव्याप्तम् ॥इति व्यतिरेकप्रकरणम् ॥६३॥ व्याघातः ॥ हिंसाद्वन्धातो वे घनि घातशब्दो निष्पन्नः । “इन् हिंसागत्योः॥" उपसर्गयोगेन धात्वर्थः क्वचिदन्योऽपि भवती- तीहाङ्पूर्व आघातशब्द अपघटनार्थकः । "धका-टकर" इति लोकभापा ॥ "आघात आघटनायाम्" इति चिन्तामणिः । उक्तेऽर्थे माघकाव्ये आघनाशब्दस्य प्रयोगो दृश्यते-"रण: द्भिराघट्टनया नभखतः।" इति ॥ मल्लिनाथः “आघट्टनया आघातेन" इति व्याचख्यो । अत्र वीत्युपसर्गो विशेपार्थकः। व्याघात इति समुदितशब्दार्थस्त्वाघातविशेष इति ॥ भृपाघातविशेषो में व्याघातालंकृतिर्मता ॥ दृश्यते तव नागेषु दुर्गभङ्गविधायिषु ॥ १॥ मथा- .
चतु ३७८ . . यशवन्तभूषणम यूयं प्रिया भीरव इत्थमुक्त्वा कथं नु मुच्यन्त इहैव नाथाः ना वनं सहास्मान्नयतेति दारा वदन्त्यरीणां यशवन्तसिंह! ॥१॥ वनं पलायमाने राजराजेश्वरशत्रुभिः स्वप्रियाणां भवन एव स्थितो. यूयमस्माकं प्रियतरा इति भवनवासदुःखं द्रष्टुमशक्यम्, भीरव इति सिंहादिसेवितवनेऽत्यन्त भीतिम- वाप्स्यथेति निमित्ते उक्ते । तत्स्त्रीभिश्च वयं कातरा भत एव शून्यगृहे एकाकिन्यो भौतिमवाप्स्यामः, यदि वयं प्रिया स्तकाकिन्यः कथं परित्यज्यन्त इति युक्त्योक्तनिमित्तयो- याघातःकृत इतीह व्याघातालंकारः। परंपरागते इमे उदा- हरणे- दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ॥ विरूपाचस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥१॥ महादेवो दृष्टिमात्रेण स्मरं ददाह । स्त्रियो दृष्टिपातमात्रे- णतं जीवयित्वा महादेवसामर्थ्यस्य व्याघातं कुर्वन्ति स्म । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः ॥. कुसुमायुधेन सुमनसामनिर्वचनीयंजगत्प्रियतायास्तैरेव सुमनोभिर्जगत्पीडयित्वा व्याघातो विहितः ॥ परंपरागसधुरं- परोक्तोदाहरणाभिप्रायं नामार्थस्वारस्यं चाजानाना अर्वाची- . Mama . आकतिः] व्याधातः ३७६ नाः प्रमादेन "प्रिया भीरवः-" इत्यत्र शत्रुभिः स्वनारीणां गृहावस्थानरूपकार्यार्थमुक्तवचनरूपा क्रिया सौकर्येण निष. द्धा तथापि सैव क्रिया शत्रुनारीभिहावस्थानरूपकार्यस्य विरोधिनी विहितेत्यज्ञासिपुः । " दृशा दग्धम्-" इत्यत्र दृष्टि- स्तथाकारिणी स्मरदाहकारिणी, सैव नारीभिरन्यथाकारिणी स्मरजीवयित्री विहितेति ज्ञातवन्तः । “यैर्जगत्प्रीयते-" इत्य- प्रच सुमनांसि तथाकारीणि जगतः प्रीत्युत्पादकानि, तान्ये- व स्मरेणान्यथाकारीणि जगतः पीडाकराणि विहितानीत्यजा. नन् । तत एव च व्याघातनाम्नि व्याकुपसर्गावपि धात्वर्थ एव मत्वेत्थं नामसंगतिमकापुः । “प्रिया भीरवः" इत्यत्र क्रियाया घातो हननम् । " दृशा दग्धम्" इत्यत्र “यैर्जगत्" इत्यत्र च साधनस्य घात इति ॥ चन्द्रालोककार इमे लक्षणे प्राह - स्यायाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् ॥ सौकर्येण निबद्धापि क्रिया कार्यविरोधिनी ॥" इति॥ मम तु मतं, उक्तलक्षणलक्षितव्याघाते कार्यकारणभाव- स्य वैचित्र्यम्। तस्य विचित्रालंकारेऽन्तर्भावः । क्रियाविचित्र- ताया अपि विचित्र एवान्तर्भावः ॥ भवान्यथाकारितायां विवक्षा चेत्परिणामालंकारः॥ । यथावा- सायंकालान्नटसुविदुपा रञ्जितो लोकटन्दः प्रातर्यावद्रुचिरचरितैर्हावभावादिभिश्च ।।
यशवन्तभूपणम् [चतुर्थी आलोकात्ते सुमुखि वदनेन्दोर्टथा कौतुकं त- ज्जातं यस्मात्सकलपरिषत्त्वन्मुखासक्तदृष्टिः॥ १ ॥ अत्र नटसंबन्धिनाटकनिरीक्षणकुतूहले प्रातरागतनायि- कासौन्दर्येण व्याघातः कृतः॥ पथा वा--- कुर्वे भृकुटिमाबध्य कृच्छ्रण कठिनं मनः ॥ तथापि माधवे दृष्टे दृङ्मे भवति हासयुक् ॥ अत्र श्रीकृष्णस्य दर्शनानन्देन राधिकामानस्य व्याघातो विहितः ॥ अनयोरुदाहरणयोरुक्तलक्षणयोरव्याप्तिः ॥ उक्त लक्षणयोः साक्षात्स्वरूपाबोधकत्वमव्याप्त्यतिव्याप्तिदोपन- स्तत्वं च ज्ञेयम् ॥ इति व्याघातप्रकरणम् ॥ ६४ ॥ शृङ्खला ॥ शृङ्खला तु परंपरा । "सांकल, जंजीर" इति लोकभाषा॥ "शृङ्खला परंपरायाम्" इति चिन्तामणिः ॥ लोकगृहला- यां परंपरया पूर्ववलयेनापरवलयस्य संयोगः ॥ उक्तन्यायेन परंपरयाऽर्थसंयोगे धुरंधरः गृहलालंकारं स्वीचकार ।। अर्थानां शृङ्खला राजन्! शृङ्खलाग्लंकृतिर्मता॥ मातङ्गवन्धनन्यायेनामन्यत धुरंधरः ॥१॥ यथा- भाकृतिः] शृङ्खली नयने श्रुतिविश्रान्ते श्रुती च वाव्होस्तटावलम्बिन्यौ। बाहू च जानुदी! श्रीमद्यशवन्तभूपस्य ॥ १ ॥ अत्र राजराजेश्वरस्य नयनाद्यवयवानां परंपरया शृ- लान्यायेन निवन्धनाच्छृखलाऽलंकारः ॥ अत्र स्वभावोक्तः 'संकीर्णत्वम् । न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ॥ न षट्पदोऽसौ कलगुजितो न यो न गुज्जितं तन्न जहार यन्मनः ॥ १ ॥ रसना कटिमेखलेतिपर्यायान्तरम्।तस्यामपि शृङ्खलान्या- येन परंपरयकवलयेनापरवलयस्य संयोगोऽस्तीति कश्चिद्रसो. पयोगितयेममलंकारं रसनानाम्ना प्राह । अमुमेवालंकारमेका-. वलीतिनाम्ना वदंश्चन्द्रालोककार. इदं लक्षणमाह ॥ 'गृहीतमुक्तरीत्यार्थश्रेणिरेकावली मता ॥” इति ॥ धुरंधरेण दीपकन्यायविशिष्टोऽलंकारो दीपकनाम्ना काथ- तः। तथायमप्यलंकारः शृङ्खलान्यायविशिष्टत्वाञ्फुसलाना- म्ना भणितः ॥ शृङ्खलायाः स्वरूपे परंपरया प्रथमवलयस्य बलयान्तरेण संयोगस्य प्राधान्यम् । न तु पङ्क्तेः । अर्वाचीना अस्मिन्वर्णने आवलिं मत्वा परंपरयाऽर्थसंयोगविशेषतयैकी- भूतेयमावलिरित्यभिप्लेत्येकवलीति नाम निर्दिशन्ति स्म । परंतु तादृशरचनायामावल्या न प्राधान्यम् । किं तु वृहला- या एव प्राधान्यम् ॥ किं चात्राचीनाः “गृहीतमुक्तरीत्या" 4 २८२ यशवन्तभूपणम् [चतुयों इति नभणुः । तस्याप्यस्मिन्वर्णने न स्वारस्यम् ॥ भपि च रसनापि शृङ्गलाकारेति केनचिदस्थालंकारस्य रसनेति नाम निर्दिष्टम् । परं नु तन्न स्वरूपात्मकम् । किं तु तटस्थात्मकम्॥ रसति शब्दं करोतीति रसना ॥ ननु त्वयैव रसनोपमा कथं कवितेति चेत्तत्र तूपमायाः प्राधान्यम् । अत्र तु शृखलाया, प्राधान्यमिति तस्याएव साक्षात्स्वरूपप्रतिपादनमावश्यकम्। अर्वाचीनाः " नयने श्रुतिविश्रान्ते " इत्युदाहरणे स्थापनम्, "न तज्जलम्" इत्युदाहरणेऽपोहोऽर्थानिपेध इति भेदमाहुः । तत्तूदाहरणान्तरमात्रम् । चन्द्रालोककारस्पेकाच- लीतिनामाप्रधानतया कविसंप्रदायविरुद्धदोपविशिष्टम् । लक्ष. णं चासंभवदोपग्रस्तम् ॥ इति शृङ्खलाप्रकरणम् ॥६५॥ ॥ श्लेषः शिलप्यते इति श्लेषः॥"श्लिप आलिङ्गने।"भावे पञ् । अत्र शब्दार्थयोः श्लेपे रूढिः ॥ तथा च परस्परं शब्दानामर्थानां घाऽऽलिङ्गनं श्लेषालंकार इत्यर्थः ॥ जतुकाष्ठन्यायेन शब्दद्वय- शब्दश्लेपः । एकवृन्तगतफलद्वयन्यायेनैकशब्द- ॥ अत्र द्वयेतिदिग्दर्शनम् ॥ तेन महः॥ ङ्गनं श्लेष उर्च्यते ॥
आकृतिः]
श्लेषः
२८३
हरसे रम्याम्भोजश्रियं ददासि श्रियं कुवलयाय ॥
कस्माद्व्यतिक्रमस्ते रविकुलयशवन्तभूपेश! ॥ १॥
"रम्याम्भोजश्रियम्" इत्यत्र शब्दद्वयं विवक्षितम् ।
"रम्यां भोजश्रियम्" इत्येकः । अस्यार्थस्तु मनोहगं भोज-
महारांजस्य श्रियं शोभामिति ॥ "रम्य-सम्भोज-श्रियम्"
इति द्वितीयः ॥ अस्याओं मनोहरकमलशोभामिति ॥ "कु.
वलयाय" इत्यत्रापि शब्दद्वयं विवक्षितम् । “कुवलयम्"
इत्येकः । अस्यार्थः समुदायशक्त्या चन्द्रविकासिकमलमिति ।
"कुवलयम्" इति द्वितीयः । अस्यार्थोऽवयवशक्त्या भूमण्ड:
लमिति ॥ उक्तस्थलद्वये जतुसंलग्नकाष्ठद्वयन्यायेन शब्दा-
लिङ्गनं प्रतीयत इति शब्दश्लेषः ॥ राजराजेश्वरः सूर्यवंश्यः
सन् सूर्यविकासिकमलानां श्रियं हरति, चन्द्रविकासिकमले.
भ्यश्च श्रियं ददातीतीह श्रवणमात्रेण क्षणं विरोधो भासते,
तथापि विचारदशायां श्लेपसामर्थेन राजराजेश्वरी भोज:
महाराजस्य शोभामादधानः स्वात्मना भूमण्डलं शोभयती.
त्याभासालंकारः प्रतीयत इति तत्संकीर्णत्वम् ॥ अत्र रम्य-
श्रीशब्दयोस्तु न इलेपः ॥ किं तु साधर्म्यम् । रम्यपदं व
समानविशेषणरूपम् । एतादृशसाधय चानुगामीत्युच्यते ॥
यथा वा-
एष ते विद्रुमच्छायो मरुमार्ग इवाधरः ।।
कंस्य नो कुरुते तन्वि! पिपासाकुलितं मनः ॥१॥
. ३८४ यशवन्तभूषणम् चतुर्थी "विद्रुमच्छायः" इत्यत्रशब्दद्वयं विवक्षितम्। विद्रुमच्छायः"इ- त्येकः । अस्यार्थः समुदायशक्तया प्रवालकान्तिरिति। विद्रुम- छायः" इति द्वितीयः ॥अस्यार्थोऽवयवशक्तया विगतद्रुमच्छाय इति ॥ अत्रापि पूर्ववच्छब्दश्लेयः ॥ छायाशब्दस्यार्थद्वयं विव- क्षितम् ॥ प्रवालपक्षे कान्तिरिति । "छाया कातो" इति चि. न्तामणिः ॥ मरुमार्गपक्षे पाताभाव इति ॥ अत्रैकवृन्तग- तफलद्रयन्यायेनार्थदयस्यैकशब्दगतत्वादर्थश्लेपः ॥ पातुमि- ज्छा पिपासा । अयं शब्दः पक्षहये समानविशेषणरूपः॥ न तु श्लेषरूपः । अत्रोकरलेपः साधर्म्यरूपः । प्रन्थकारैः श्लेष- साधादिनाप्युपमाप्रकारा उक्ताः ।। अर्थश्लेपो यथा- असावुदयमारूढः कान्तिमान् रक्तमण्डलः ।। राजा हरति लोकस्य हृदयं मृदुलैः करैः ॥१॥ अत्र चन्द्रभूपविषयः श्लेषः ॥ चन्द्रपक्षे, उदयाचलमारू द युतिमान् । रक्तवर्णविम्बः । राजा चन्द्रः। मृदुलैः सुख- स्पशिभिः करैः किरणैर्जगन्मनोहारी॥भूपपक्षे, उदयमभ्युद- यं प्राप्तः। तेजोविशिष्टः । रक्कमण्डलः, अनुरक्तदेशः। “म. एडलं देशे" इति चिन्तामणिः॥राजा नृपतिः। मृदुलैः सुख- मायैः करे राजयद्रव्यैर्जगन्मनोहर्ता ॥ अत्रार्थवयस्यकश- ब्दगतत्वादर्थश्लेपः॥ चन्द्रालोके इदं लक्षणम्,- "नानार्थसंश्रयः श्लेषो वावण्योभयाश्रयः॥” इति। .
आकृतिः] श्लेषः ३८५ अस्थालंकारस्य खरूपमालिङ्गनम् । चन्द्रालोकलक्षणे त- स्वारस्यालामः । शब्दश्लेपे उक्तलक्षणस्याव्याप्तिश्च । किं च वर्यश्लेषः, अवण्यश्लेपः,वण्यावर्ण्यश्लेष इति प्रकारा उक्ताः। तेप्युदाहरणान्तरमात्रम् ॥ “असावुदयमारूढः-" इत्यत्र च- न्द्रभूपावुभावपि वण्यौँ । "असौ राजा" इत्यङ्गुल्या.निर्दे शात् ॥ पूर्णिमायामुदितश्चन्द्रस्तन्नगरनृपश्चोभावपि कवेवर्ण- नीयाविति वर्ण्यश्लेषः ॥ “दृढतरनिबद्धमुष्टे:-" इत्यत्र कृप- णकृपाणयोरुभयोरप्यप्रस्तुतत्वादवर्यश्लेषः ॥ “एष ते विद्रु- मन्छाय:-" इत्यत्र नायिकाधरस्य वर्णनीयतया मरुमार्गस्य चावर्णनीयतया वयावर्यश्लेषः ॥ काव्यप्रकाशगतकारिका- कारः शब्दश्लेषं शब्दालंकारं मन्यते। केचनोभयमपि शब्दा- लंकारं मन्यन्ते । चन्द्रालोककारस्तूभयमप्यर्थालंकार स्वीक- रोति ॥ तदेवोक्तं कुवलयानन्दकारण “उभयमपि शब्दालं- कार इत्यन्ये । उभयमप्यर्थालंकार इति स्वाभिप्रायः" इति। मम मतेऽपि चन्द्राकोकमतं समीकीनम् । कुत इति वेत, श्रवणसुखदः शब्दालंकारः । चित्तसुखदोऽर्थालंकारः। न चो- कशब्दश्लेपोऽनुप्रासवच्छ्रवणसुखकरः । किं स्वर्थविचारेणैव चित्तसुखकरः ॥ सभङ्गश्लेपः शब्दालंकारः, अभङ्गश्लेपस्त्व- र्थालंकार इति केचित् ॥ मम तु मतं, सभङ्गाभहन्तायां न मनागपि चमत्कारः॥ चन्द्रालोकलक्षणं साक्षात्स्वरूपायो- धमन्यातिदीपप्रस्तं च ॥ इति श्लेपप्रकरणम् ॥६६॥ . .
(चतुर्षी
३६६
यशवन्तभूपणम्
॥ संकोचः॥
केनचिटुरंधरेण संकोचालंकार उक्तः ॥ विकासावकारस्य
विपरीतभावेऽयं संकोचालंकारः ॥
संकोचस्तु भवेद्यत्र संकोचस्तत्र भूपणम् ॥
विकासस्य प्रतिद्वन्द्वी धुरंधरमते स्मृतः ॥ १॥
॥
यथा-
श्रीयशवन्तधराधिप! तेजःसूर्योदयेन कुवलयवत् ॥
संकोचमाप्नुवन्ति हिशनैः शनैस्तेहिपां कुवलयानि।।
यथा वा--
-
प्रविष्टा स्वतनौ सम्यक् संस्थिता गहरे वने ।
दृष्ट्या ज्येष्ठस्य मध्यान्हं छायां छायापि वाञ्छति ॥१॥
'स्वतनौ प्रवेशोऽपि संकोचः । कुवलयानन्दकार इमं सं-
• कोचालंकारं संकोचपर्यायेतिपर्यायस्य प्रकार मरवेदमुदा-
जहार-
वसुधामशेषां
प्रायश्चरित्वा
छायासु विश्राम्य ततस्तरूणाम् ॥
प्रौदि गते संप्रति तिग्मभानौ.
शैत्यं शनैरन्तरपामयासीत् ॥ १॥
आकृति:] ३८७. संदेहः मम तु मतं, संकोचपर्याययोश्चमत्कारस्य संकीर्णता न भवतीति । क्वचित्पर्यायचमत्कारस्य प्रधानत्वे पर्यायालंकारो भविष्यति । क्वचिच्च संकोचरूपचमत्कारस्य प्रधानत्वे संको- चालंकारो भविष्यति ॥ उक्तपर्यायोदाहरणे न संकोचस्य च. मत्कारः ॥ इति संकोचप्रकरणम् ।। ६७ ॥ संदेहः ॥ इदं वा इदं वेत्यनिर्णयवुद्धिः संदेहः॥संदेहः संशय इति पर्यायान्तरम् ॥जयदेवोऽप्यस्यालंकारस्य नामैव लक्षणमाह ।। इदं वा किम्विदं वेति नृपानिर्णयधीरिह । संदेहालंकृतिज्ञेया धुरंधरमतानुगैः॥१॥ यथा- करे कृपाणं मरुनायकस्य विलोकयन्तः कवयो वदन्ति । विपक्षलक्ष्म्याः किमियं सुवेणी किं वा प्रतापानलधूमराजिः ॥१॥ अत्र वस्तुनः संदेहः॥ यथा वा-: मरुस्थलेन्द्राश्वगतागतानि दृष्ट्वां जना हत्सु परामशन्ति । .
३८८ यशवन्तभूषणम् [चतुर्षी चेष्टा समेयं किमु चञ्चलाया अलातचक्रस्य कटानकस्य वा ॥१॥ अयं क्रियासंदेहः। राजराजेश्वरहयेन गतागतरूपा क्रिया केन सदृशी कृतेति । अनेन दिशादर्शनेनान्यविघसंदेहेऽप्यलं- कारत्वं बोध्यम् ॥ इति संदेहप्रकरणम् ॥ ६८ ॥ संभावना॥ .. संभावनैव लोके संभव इत्युच्यते ॥ संभावना तु योग्यता। • "संभावना योग्यतायाम्" इति चिन्तामणिः॥ तत्र संभावना प्रोक्ता संभवो यत्र वर्ण्यते ॥ यथा- यशवन्तधराधीश! रविवंशमहामणे! ॥ यदि शेषो. भवेद्वक्ता कथिताः स्युर्गुणास्तव ॥१॥ अत्र शेषो वका चंद्राजराजेश्वरस्याखिलगुणकथनस्य सं- भवः ॥ शेषस्य सहस्र फणाः । सर्पा द्विजिव्हा इति तस्य रसनानां द्विसाहस्रम् । कविश्च सः । तन्निमितव्याकरणमहा. भायं सुप्रसिद्धम् ॥ यथा वा- चकोराः कुरिन् जतयुतमिदं चन्द्रवदनं भाकृति] संभावना ३८६ यदा दन्तज्योतिस्तडिदिव न भीति प्रकटयेत् ।। द्विरेफा द्राक्षाया द्युतिविजयिनी यौवनविभां लिहीरंश्वेदस्या न तनुरमला चम्पकरुचिः ॥१॥ वर्णनीयनायिकायाश्चम्पकवर्णत्वायभावे भ्रमरादीनां लेह- क्रियादेः संभवः ॥ अर्वाचीना धुरंधरस्वीकृतोत्प्रेक्षालंकारस्य स्वरूपं संभावनामजानन् । तदेवोक्तमुत्प्रेक्षालक्षणे चन्द्रालो- ककारण- "संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना" इति ॥ धुरंधरोऽस्यालंकारस्य कण्ठरवेण संभावनेतिनामाह ॥ अ- तोऽर्वाचीनाः संभावनात उत्प्रेक्षाया व्यावृत्तये वस्तुहेतुफला- त्मना संभावनोत्प्रेक्षालंकारः । तदन्यरूपा संभावना संभाव- नालंकार इत्याहुः॥ चन्द्रालोके इदं लक्षणम्- "संभावना यदीत्थं स्यादित्यूहोऽन्यस्यसिद्धये।" इति। ऊहो विमर्शात्मकस्तर्कः । विमर्शस्तु विचारः । “उहः विमर्शात्मकतः । विमर्शः विचारे" इति चिन्तामणिः ॥ यथा- यदि शेषो भवेद्वक्ता कृथिताः स्युर्गुणास्तव ॥ अस्मिन्परंपरागतोदाहरसे तेषां लक्षणसंगतिस्तु, वर्णनी- यनृपस्य समस्तगुणकथनसिद्धयर्थं गेपो वक्ता चेत्समस्त- गुणान्वक्तुं शक्नुयादिति तर्कः ॥ मम तु मतं, वस्तुहेतुफला-..
यशवन्तभूषणम् [पतुर्यो मना संभावना तत्प्रेक्षा, उक्तविधा च संभावना संभावना- ऽलंकार इत्युक्तवैलक्षण्ये प्रकारान्तरत्वयोग्यतापि नास्तीति कथं वाऽलंकारान्तरत्वयोग्यत्वम् । एतत्तूदाहरणान्तरमात्रम् ॥ उत्प्रेक्षायाः स्वरूपं संभावना न भवतीत्युत्प्रेक्षाप्रकरणे प्राग- भिहितम्। अस्यालंकारस्य स्वरूपं योग्यता । न तु विमर्शात्म. कस्तर्कः ॥ इदं लक्षणं स्वरूपावोधकतयाऽसंभवदोषग्रस्तम् ॥ इति संभावनाप्रकरणम् ॥ ६६ ॥ संस्कारः॥ . संस्कारो.वासना । “संस्कारः वासनायाम्" इति चिन्ता- मणिः ॥ अत्र वासनाशब्देन कस्तूर्यादिसुगन्धिद्रव्यापगमे ऽपि तत्संसात्तद्भाण्डे कस्तूर्यादेः पूर्ववासनावृत्तित्वं विवक्षि- तम् ॥ उक्कलोकन्यायानुसारेण भावानां संस्कारे धुरंधरेण संस्कारालंकारोऽङ्गीकृतः ॥ अयमलंकारोऽलंकारोदाहरणे उक्तः ॥ संस्कारस्तु महाराज! संस्कारालंकृतिर्मता ।। यथा-- . दानाभावप्रसङ्गेऽपि यशवन्तमुखाजतः ॥ देहि देहीति वचनमाविर्भवति सर्वदा ॥ १ ॥ राजराजेश्वरस्य सतत दानेन देहि देहीत शब्दोचारण- स्यात्यन्तमभ्यासात्तसंस्कारेणाऽन्यप्रसङ्गेऽपि, देहीति वचनं मुखानिःसरति ॥
समः प्राकृतिः यथावा- यद्यपि गेहे,गेहे निन्दा जाता तथापि नो गेहे। क्षणमपि तिष्ठति बुद्ध्वाप्यथाप्यबुद्ध्वा तदेव गृहमेति अस्योपपतेः परमप्रियपरकीयाया गृहगमनात्यन्ताभ्या- सात्तसंस्कारेणानिच्छायामप्यन्यत्र गच्छतस्तस्या एव रहे गमनम् ॥ इति संस्कारप्रकरणम् ॥ ७० ॥ समः॥ समशब्दार्थः समानः, तुल्य इति ॥ अत्र समानतया यथा- योग्यता विवक्षिता । यथायोग्यत्वमुर्वीश! यत्र तत्र समः स्मृतः ॥ तं च सर्वप्रकारेणाददात्तुभ्यं जगत्पतिः ॥ १ ॥ - यथा-- ज्योत्स्ना चन्द्रमसं यद्वद्भवं सुरतरङ्गिणी ॥ तहत्वामाश्रिता कीर्तिर्यशवन्तनरेश्वर! ॥१॥ भत्र ज्योत्स्नादिप्रशस्तवस्तूनां चन्द्रादिप्रशस्तबस्वाश्रया. दाभयायिभावसंवन्धो यथायोग्य इति समालंकारः || भयं स्तुतिपर्यवसायो. निन्दापर्यवसायी पंथा- भ्राता हलधरस्य त्वं राधा च उपभानुजा ।
३६२ यशवन्तभूपणम् [चतुर्थी स्नेहरंधिः कथं न स्याद्वामित्याहुव्रजाङ्गनाः ॥१॥ हलं धरतीति हलधरो बलदेवः, वृपभश्च । 'वृपभानोर्जा- ता राधा, वृपस्यानुजा स्वसा गौश्च ॥ अत्र परिहासे राधाकृ- ष्णयोहलधरवृपभानुजाशब्दश्लेपेण पशुत्वप्रतीति कारयि- स्वा यथायोग्यसंयोगसंवन्धः प्रतिपादितः ॥ मम तु मतं, संबन्धोऽनेकविध इति यथायोग्यत्वमनेकधा भवतीति ॥ यथा वा- आभीर्या हि मनो नवोद्धृतसमं दुग्धोपमं यौवनं (*) दना(1) तुल्यतमा रतिः प्रियतमे स्नेहस्रवे लोचने ॥ चन्द्रस्तकनिभो मुखस्य पुरतः सर्वाङ्गहृद्यं वपुः सैषारज्जयते कथं न रुचिरा कृष्णं कलाकोविदम् ॥१॥ मन आदीनां मृदुत्वविषये किसलयाद्योपम्यस्य विद्य- मानत्वेऽप्याभोरीसंवन्धिदधिदुग्धनवनीताद्यौपम्यकथनमाभी- रीविषये यथायोग्यम् ॥ यथा वा- भोःपूपान्वयमांडण!()नोरसि लग्ना कदापि परमहिला समराङ्गणे न पृष्ठं विलोकयामासुररयस्ते ॥ १॥ पृष्ठवक्षःस्थलयोरवयवयोः सहकथनं प्रसिद्धम् । उक्तप. ये तयोः सहकथनरूपयथायोग्यतात्यासमालंकारः ॥ यथा वा- (*) दुग्धवद्यौवनस्योद्गम । उफाण इति लोकभाषा (1) दधिवातगाढता । (1) नामविशेष ॥ .
यशवन्तंभूपणम् [चतुपा न्तरत्वम् ॥ उक्तलक्षणानां " आभीयां हि मनः" इत्यायु- दाहरणेष्वव्याप्तिः ॥ इति समप्रकरणम् ॥ ७॥ समाधिः ॥ समाधिशब्दार्थः समर्थनम् । दृढीकरणमिति यावत् ॥ " समाधिः समर्थने " इति चिन्तामणिः ॥ लोकेऽपि हि हाणां समर्थनाय सुधालेपः, कपाटानां च समर्थनार्थ तैलसेको विधीयते । सुधया पापाणयोजने सुधा हर्म्यस्य कारणम् । तत्सिवयनन्तरं हर्म्यस्य समर्थनाय सुधया लेपे तु सुधाया न कारणत्वम् । उक्तलोकव्यवहारानुसारेण समर्थने धुरंधरः समाध्यलंकारमङ्गीचकार ॥ समाधिर्मरुभूपाल समाधिभूषणं भवेत् ॥ . यथा- . . प्राणी यत्र जल विना मियत इत्याख्यायतेऽयं मरु- योगी चापि शशाप(*)दुर्गरचनाकालेऽतिसंकोपितः।। (*) रावयोधसिंहेन यस्मिन्गिरी योधपुरे दुर्ग निरमायि, तत्र निर्भरे मिडियानाथनाम- को योगी तप भाचरंस्तत्प्रदेशागन्तुमादिधः शाप । भवतां दुर्गरचनाश्रयोऽयं निर्भर शोषमाप्स्यति । द्वितीये तृतीये च हायनेऽस्मिन्पुरे जलकट भविष्यतीति । स च विक्रमा- फस्य पञ्चदणेत्तरपञ्चदशराततमसंवत्सरादारभ्य पञ्चचत्वारिंशदधिकैकोनीवशतिशत- समसंवत्सरं यायत्रिशदधिकचतुःशतभरपर्यन्त चरितार्थः रापोऽधुना यण्यन्तसिंहमहोरानेन सरोसि विरचय सयानादपास्तः ।।
प्राकृतिः] समाधिः ३६५ प्राचां निर्जलताविमार्जनकृती राज्ञां तथैवाभव-. दोषोऽसौ यशवन्तसिंह! भवता भृष्टो विधाय हदान्॥ अत्र मरुस्थलस्य स्वतः सिद्धा तादृशानिर्जलता चिडिया- नाथयोगिशापन समर्थिता ॥ तत एव त्रिंशदुत्तरचतुःशतव- 'पपर्यन्तं न निवृत्ता ॥ . यथा वा- मातङ्गः पुनरुन्मत्तः समुद्रश्च तरङ्गितः ॥ गजसिंहो मरुपतिर्दिल्लीटप्रोत्साहनं पुनः ॥ १ ॥ अत्र गजस्य बलवत्त्वं स्वाभाविकम् । कदाचिदन्यगजेन युध्यमानस्य कातरतया बलहानिश्चेत्तस्य बलवत्त्वं मदेन समर्थितम् ॥ समुद्रस्य भयंकरत्वं स्वाभाविकम् । कदाचिद- भ्यासवतो भयंकरत्वाभावे तद्भयंकरता तरङ्गैः समर्थिता ॥ . मरुधराधीशो गजसिंहो महान्वीरो बभूव । कदाचिदप्रीत्या दिल्लीशकार्यानङ्गीकारं कुर्याच्चेदिल्लीशप्रोत्साहनेन तस्य वीरत्वं समर्थितम् ॥ यथा वा- - . रे रे विश्वासघातिन्! चल झटिति गृहं .चेत्प्रियाद- र्शनं ते- ऽभीष्टं देवादिदानी गतिरजनि नवैवेक्ष्यतां तत्र गत्वा॥. कामस्तावत्सुतीक्ष्णैरतिशयितमसावाशुगैर्विध्यतीमां मेघेनात्तश्च चापः कथय कथमियं धारयेत्प्राणमद्य ।।.
. यशवन्तभूपणम् [चतुर्थे शन मेघेन धनुरादाय विरहिणीमरणं समर्थितम् ॥ परंप- रागतं धुरंधरस्येदमुदाहरणम्- उत्कण्ठिता च तरुणी जगामास्तं च भानुमान् ॥ परकीयाया उपपतिमिलनोत्कण्ठा सूर्यास्तमनेन समर्थि- ता॥ धुरंधराभिप्रायमजानाना अर्वाचीना अत्र कारणान्तर- योर्ग ज्ञात्वा समाधिनामार्थ "सम्यगाधिः समाधिः” इति ज्ञातवन्तः । आधिस्तु गर्भाधानम् । “अधिः, आधानम् । श्राघानं गर्भाधाने" इति चिन्तामणिः ॥ एतेऽत्र समाधिश- ब्देनैकस्मिन्कारणे कारणान्तरं गर्भरूपमित्यज्ञासिपुः ॥ उक्त- सिद्धान्तानुसारेण चन्द्रालोककार इदं लक्षणमाह- "समाधिः कार्यसौकर्य कारणान्तरसंनिधेः॥” इति॥ चन्द्रालोककारेण "उत्कण्ठिता." इत्येव चोदाहृतम् । च. न्द्रालोककारादीनां मतं •तु "कारणान्तरयोगतः कार्यसौकर्य समाध्यलंकारः" इति ॥ मम तु मतं, केनचित्प्रकारेण वस्तुनः समर्थनं समाध्यलंकारः । कारणान्तरयोगतः कार्यसौकर्य तु हेत्वलंकारप्रकारभूतायाः कारणमालायाः प्रकारः ॥ अनेकका- रणानां संयोगेन समकक्षतयेककार्यकर्तृवचमत्कारापेक्षया. ऽनेककारणसंयोगजनितकार्यसौकर्यचमत्कारस्य सर्वथा विल. क्षणत्वाभावात् ॥ ननु वस्तुनः समर्थनमपि केनचि तुनैव ‘भवतीति समाधेः कथं हेतुतः पृथग्भाव इति चेञ्छृणु । कार्य- कारणभावसंघन्धे चमत्कारस्य प्राधान्यं कारणनिष्टमिति तदेव हेत्वलंकारत्वेनाङ्गीकृतम् । न तु कार्यम् । अत्र तु कार्य- .. .
३६७ .. भाकृतिः]] समासोक्तिः रूपसमर्थने चमत्कारस्य प्राधान्यात्समर्थनस्य समाध्यलंकार- स्वेनाङ्गीकारः ॥ अयं विषयः सूक्ष्मया दृष्टयाऽवधारणीयः ॥ इदं लक्षणं स्वरूपाबोधकतयाऽसंभवदोषग्रस्तम् ॥ इति समाधिप्रकरणम् ॥ ७२ ।। समासोक्तिः ॥ .. .. । समासः संक्षेपः । “समासः संक्षेपे" इति चिन्ताम. णिः ॥ अत्र संक्षेपशब्दार्थस्त्वल्पेन बव्हभिधानम् । “संक्षेपः स्तोकेन भूयसोऽभिधाने" इति चिन्तामणिः ॥ तथा च स्तो- केन बहुकथनरूपोक्तिः समासोक्तिः ॥ लोकेऽपि हि स्तोके- न बहुकथनं श्लाघनीयं भवति । उक्तलोकव्यवहारानुसारेण धुरंधरः समासोक्त्यलंकारमङ्गीचकार । यस्यां तु रचनायां स्यात्समासेनोक्तिरीश्वर!.॥ समासोक्तिरलंकारस्तत्र धुर्यमते मतः ॥ यथा- यशवन्त! न शक्तोऽहमनन्तान् भवतो गुणान् ॥ वक्तुमेतावदेवालं त्वत्समस्त्वमसि प्रभो! ॥१॥ अत्र राजराजेश्वरस्यांनन्तगुणाः “ त्वत्समस्त्वमसि " एतावन्मात्रेण कथिताः यथा वा- हे प्राणेशहरे! ते तस्या विरहव्यथां तु किं वच्मि ॥
यशवन्तभूषणम् [चतुर्थी विरहज्वालाऽऽलीढा मरणं सा मन्यते भद्रम् ॥ १ ॥ अत्र वियोगिन्या अनिर्वचनीयवियोगदशाः "मरणं सा मन्यते भद्रम्” एतावन्मात्रेण कथिताः । यथावा- . खदिरस्तेऽरिनारीणां बितनोति कुचक्षतम् ॥ केशान् गृह्णाति वासांसि हरते विपिने नृप! ॥१॥ अन खदिरचे कामुकव्यवहारारोपो विवक्षितः॥ स चा- त्रोपमाद्वारा रूपकद्वारा वा क्रियते चेत् “कामुकवत् खदिरो नखाग्रेणेव कण्टकाग्रेण कुचक्षतं विदधाति, करेणेव शाखया केशान गृह्णाति, हठेनेव निविडत्वेन वसनमपहरति" इत्ये. तावद्दहुतं कथनीयं स्यात् । तच्चोक्तरीत्या खदिरस्य पुल्लिङ्ग- तया समानविशेषणेश्च स्तोकेनोकम् ॥ यथावा- प्रसारयिष्यति करं कलानाथोऽम्बरे ततः॥ वारुणी दधती रागं संकेतयति शर्वरीम् ॥ १॥ कलानाथश्चन्द्र, कामकलाकोविदश्च ॥ सायंकालेऽरुण- त्वमापद्यमाना वरुणदिगिदानीं रात्रिभविष्यतीति सूचयत्येव। अन चन्द्रविम्वप्रतीच्योर्जारव्यवहारारोपो विवक्षितः ॥स च रूपकद्वारोपमाद्वारा वा क्रियते चेत् "उपपतिरूपश्चन्द्रः प्रत्य- क्षीभवतीति हस्तरूपकिरणांन् वस्वरूपाकाशे प्रसारपिप्यतीति हेतुनाऽनुरागरूपं रक्तवर्ण धरती परकीयारूपा पश्चिमदिशा भाकृतिः] समासोक्तिः चन्द्रविम्वरूपमुपपतिं प्रति रात्रिःप्रतीक्ष्यतामिति रात्रिसंकेत करोति" इत्येतावबहुलतरं कथनीयं स्यात् । तच्चोक्तरीत्या च. न्द्रस्य पुल्लिङ्गतया दिशः स्त्रीलिङ्गतया श्लिष्टशब्दैश्च स्तोके- नोक्तम् ॥ अत्र श्लिष्टशब्दानां पृथक्पृथगर्थकल्पना न बुद्धि- विषया। किं तूभयार्थचमत्कारस्य श्रुतिमात्रेणैवैकरूपतयाऽव- गमः ॥ श्रयमपि संक्षेपस्य चमत्कारोऽनुभवसिद्धः ॥ अंयं सूक्ष्मया बुद्ध्याऽवधारणीयः॥ धुरंधराभिप्रायापरिज्ञानादर्वाचीना अप्रस्तुतेन प्रस्तुतस्य गम्यत्वेऽप्रस्तुतप्रशंसालंकारः, प्रस्तुतेनाप्रस्तुतस्य गम्यत्वे स. मासोक्त्यलंकार इति सिद्धान्तयामासुः ॥ चन्द्रालोके इदं लक्षणम्-- "समासोक्तिः परिस्फूर्तिःप्रस्तुतेऽप्रस्तुतस्य चेत्” इति। अर्वाचीनरुच्यते, प्रस्तुतेऽप्रस्तुतस्य स्फुरणं संक्षेपादिति समासोक्तिः ॥ मम तु मतं, अयमेषां प्रमादः । कुत इति चेदुक्तकथनेनैषामयमभिप्रायः । अप्रस्तुतप्रशंसायां वाच्यार्थ. स्याप्रस्तुतत्वेन तत्र पर्यवसानाभावात्प्रस्तुतार्थस्य न संक्षेपरू- पता । अत्र तु वाच्यार्थस्य प्रस्तुतत्वेन तत्र पर्यवसानमित्यप्र- स्तुतार्थस्य संक्षेपरूपतेति । तन्न समीचीनम् । व्यङ्ग्ये गम्य- त्वमर्थात्प्रतीतिमात्रमिति तत्सूक्ष्मरूपम् । न तु संन्नेपरूपम् । स्तोकेनभूयसोऽभिधानं नेति भावः।समासोक्तिनामस्थापकधुरं- धरः कण्ठरवेण समासोक्तिरित्याह । उक्तिस्तु वाच्यार्थस्य विषयः । न तु व्यङ्गयस्य । अस्य मतेन तु सर्वत्रापि व्यङ्ग्य- स्थले समासोक्त्यलंकारप्राप्त्या व्यङ्गयोच्छेदप्रसङ्गः ॥ अप्रस्तु.
यशवन्तभूषणम्
४००
[चतुर्थी
तेन प्रस्तुतस्य गम्यत्वमित्यप्रस्तुतप्रशंसायाः स्वरूपमपि न
भवति । तत्स्वरूपं त्वमस्तुतप्रशंसाप्रकरणे द्रष्टव्यम् ॥ नामा-
र्थविरुद्धलक्षणनिर्माणं चासंभवदोप इतीदं लक्षणमसंभवदो-
पग्रस्तम् ॥ इति समासोक्तिप्रकरणम् ॥७३॥
॥ समुच्चयः ॥
समुच्चयशव्दार्थः समूहः। “समुच्चयः राशों" इति चिन्ता-
मणिः ॥ खले धान्यराशी धान्यकणानां समूहो भवति । तथे-
हाप्येकर्मिणां समुच्चये रूढिः ॥
"समुचयाख्योऽलंकार एकर्मिसमुच्चयः ॥
यथा-
यशवन्तनृपो दाता, मरुदेशो निरामयः ॥
जन्म.चारणवंशेऽर्ये भाग्याल्लब्धं मुरारिणा ॥ १ ॥
अत्र भाग्यान्मम मुरारिदानस्योत्तमवस्तुलाभसमुच्चयः ।।
यथा वा-
शशी दिवसधूसरो गलितयौवना कामिनी.
सरो विगतवारिजं मुखमनतरं स्वाकृतेः ॥
प्रभुधनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे॥१॥
[आकृतिः समुच्चयः ४०१ अत्र भर्तृहरिमहाराजेन मनसः शल्यभूतवस्तूनां समुच्चयः कृतः ॥ . चन्द्रालोककारः समुच्चयद्वयं मन्वान इमानि लक्षणोदाह- रणान्याह- बहूनां युगपद्भावभाजां गुम्फः समुच्चयः ॥. - यथा- नश्यन्ति पश्चात्पश्यन्ति त्रस्यन्ति च भवद्विषः ।। अत्र शत्रुविषयास्थैर्यग्रीवाभङ्गुरेक्षणभयानां बहूनां युग- पद्भाविनां निवन्धनम् ॥ मम तु मतं, उदाहरणान्तरमेतत् ।। द्वितीयस्येदं लक्षणम्- "अहंप्रथमिकाभाजामेककार्यान्वयेऽपि सः॥” इति ॥ अहमहमिकास्वरूपं तु बहूनामेककार्यकारित्वेऽहं प्रथम कुर्यामहं प्रथमं कुर्यामिति ॥ यथा खले पततां कपोतानां ग- णोऽहं पूर्वमहं पूर्वमिति पतति ॥ यथा- कुलं रूपं वयो विद्या धनं च मदयन्त्यमुम् ॥ अत्राप्रथमिकाभांजां समुच्चयस्तूदाहरणान्तरमात्रम् । न त्वलंकारान्तरम् ॥ ग्रन्थकारा इस कारणमालाख्यमुपमा. कार मन्यन्ते ॥ तत्समीचीनम् ॥ यथावा-
४०२
मम तु
यशवन्तभूपणम
चतुर्थी
अहमहमिकया चित्तं चक्षुश्चातुर्यमेति संवृद्धिम् ॥
प्रोत्साहनेन कामस्येति मया मन्यते राजन्! ॥१॥
मतं, अर्वाचीनानां नियमितसमुच्चयावेव न सम-
चयालंकारः। किं तु यथाकथंचिदेकर्मिवस्तुमात्रस्य समुच्चये
समुचयालंकारः॥ मदुक्तोदाहरणद्वयेऽप्युक्तलक्षणयोरव्याप्तिः॥.
अस्योकलक्षणद्वयमपि स्वरूपाचोधकमव्याप्तिदोपग्रस्तं च ॥
इति समुच्चयप्रकरणम् ॥७४ ॥
॥ सहोक्तिः ॥
.
सहभावस्योक्तिः सहोक्तिः ॥
उक्तिस्तु सहभावस्य सहोक्तिर्भूषणं भवेत् ॥
अलंकारोऽत्र न सह शिष्यण गुरुरागतः ॥१॥
रंमागीयः सहभाव एव सहोतयलंकारः ॥ न तु 'सह
शिष्येणागतो गुरुः" इत्यरमणीयसहभावोऽपि ॥ अनेन
दिग्दर्शनेन सर्वेष्वप्यलंकारेषु रमणीयत्व एवालंकारत्वमिति
ज्ञेयम् ॥
यथा-
.
यशवन्तयशः प्राप्तं समुद्रं शत्रुभिः सह ॥
श्रीरायातारिधरया सह लोको वदत्ययम् ॥ १ ॥
आकृति] सारः चन्द्रालोके इदं लक्षणम् ॥ सहोक्तिः सहभावश्चेद्भासते जनरज्जनः ॥” इति ॥ इदं लक्षणं नामार्थानुसारि ॥ इति सहोक्तिप्रकरणम् ॥७॥ सारः॥ सारशब्दार्थः श्रेष्ठः । " सारः श्रेष्ठे" इति चिन्तामणिः ॥ वस्तुनःश्रेष्टोऽशः सार इति लोके प्रसिद्धः॥ तस्मिन्निह रूढिः। भूपते! वस्तुनः सारः सारालंकृतिरिष्यते ॥ त्वमेनां सुष्ठु जानीपे श्लाघन्ते सर्वमानवीः॥॥ यथा- भक्ष्यपानादिजसुखं सर्वैरत्रानुभूयते ॥ सुरक्षां नृपतासारं मनुते मरुभूपतिः ॥ १॥ अत्र राज्यवस्तुनि प्रजापालनं सारः ॥ यथा वा-- अस्मिन्नपारे संसारे सारभूतं कवेर्वचः ॥ यशवन्तमहाराजः श्लाघने यन्मुहुर्मुहुः || अत्र संसारवस्तुनि कविरचना सारभूता ॥ सारशन्दायों गमनमपि । सरणं सारः 1 " गौ" इत्यत्मायावे धन्- .
[चतुथा यशवन्तभूषणम् अर्वाचीनाः कचित्तादृशोदाहरणलाभेन भ्रान्ताः सारदाब्दार्थ गमनं ज्ञातवन्तः ॥ तदनुसारेण चन्द्रालोके इदं लक्षणम्- उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते” इति ॥ उत्तरोत्तरमुत्कर्षः सार इति कथनेन चन्द्रालोककारस्या- प्ययमेवाशयः, सर्वस्मात्पर उत्तरोत्तरमुत्कर्षः सार इति ॥ काव्यप्रकाशकारेण च- उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः॥" इत्युक्त्वा स एवाभिप्रायः स्यष्टीकृतः॥ चन्द्रालोके इद- मुद्दाहरणम्- मधुरं मधु तस्माच्च सुधा तस्याः कवेर्वचः ॥ अस्य मतेऽत्र मधुरतायाः सरणं गमनमुत्तरोत्तरमुत्कर्षमा. प्नुवत्कविवाण्यां परावधिसाररूपं सत्सारालंकारः ॥ मम तु मतं, नात्रायं सारशब्दार्थः । न चेदं सारस्वरूपमपि। धातूना- मनेकार्थत्वान्मदुक्तो लोकप्रसिद्धः श्रेष्ठांश एवात्र सारशब्दा- र्थः ॥ इदं लक्षणं सारालंकारस्वरूपे न संभवतीत्यसंभवदोष- ग्रस्तम् ॥ इति सारप्रकरणम् ॥ ७६ ॥ सूक्ष्मः॥ . . सूक्ष्मशब्दार्थ इन्द्रियागोचर इति ॥ "सूक्ष्मः, इन्द्रियागो- घरे" इति चिन्तामणिः॥
४०५ .. भाकृति] सूक्ष्मम् इह स्वरूपं सूक्ष्मस्येन्द्रियागोचरता नृप! ॥ तादृशं वर्णनं यत्र तत्र सूक्ष्माख्यभूपणम् ॥१॥ यथा- .यशवन्तमहाराजमन्त्रो न परतन्त्रकः ॥ अत एवाखिलालक्ष्यः परब्रह्मेव सर्वदा ॥ १॥ अत्र राजराजेश्वरस्य मन्त्रोऽन्यश्रवणमनोनयनागोचर- स्वात्सूक्ष्मः । स च रमणीयतयाऽलंकारः ॥ यथा वा- गङ्गासूर्यसुतान्तरे निगमगी|ध्या सरस्वत्यलं.. चान्द्री चापि कलाऽम्बरे प्रतिपदः शास्त्रेण संज्ञायते ॥ यहचानुमितिप्रबोध्यमधिप! ब्रह्मास्ति तद्वदिया कामिन्या अनुमीयते कटिरियं यच्चक्षुषोऽगोचरा ॥१॥ भत्र सरस्वत्यादेनेत्रेन्द्रियागोचरत्वेन चमत्कारकारितया सूक्ष्मालंकारः ॥ अल्पालंकारे त्वल्पत्वमिह त्विन्द्रियागोचर- त्वमिति महदेलक्षण्यम् ॥ यथावा- रविप्रणामव्याजेनाप्रार्थयत्तां कृताञ्जलिः ॥ सा च नीलनिचोलेन स्वचूडामणिमारणोत् ॥ १॥ कवेरुक्तिरियम् ॥ अत्र दंपत्योः साभिप्रायचेष्टायां नायक- निष्ठसमागमेच्छाया नायिकानिष्ठरात्रिसंकेतसूचनस्य च.
. यशवन्तभूषणम् [चतुर्थी सूक्ष्मरूपत्वात्सूक्ष्मालंकारः ॥ एतादृशसूक्ष्मताया अन्यल- क्ष्यत्वेऽपि न काचिद्वानिः । यथा मिलितालंकारे उन्मीलि- तत्वेऽपि न हानिः॥ चन्द्रालोके इदं लक्षणोदाहरणम्- "सूक्ष्मं पराशयाभिशेतरसाकृतचेष्टितम् ॥ यथा- मयि पश्यति सा केशैः सीमन्तमणिमारणोत् ॥ अस्मिन्नुदाहरणेऽस्य लक्षणसंगतिस्त्वेवम् । सखायं प्रति नायकस्योक्तिरियम् ॥ मयि तदिशि पश्यति तया सीमन्तम- णिः केशेगापितः । अत्रायं भावः, नायकस्य तादृशदृष्ट्या समागमेच्छां विज्ञाय नायिकया सूर्यास्तसमयः संकेतत्वेन सूचित इति ॥ ममतु मतं, अत्रोभयोरपि साभिप्राया सूक्ष्म- रूपा घेष्टा पृथक्पृथक् सूक्ष्मालंकारद्वयंमिति ॥ ईदृशोदाहर• णभ्रमेणार्धाचीनानामुक्तलणनिर्माणं प्रमादमूलम् ॥ उक्त- लक्षणस्य, पूर्वोदाहरणेष्वन्येप्वपि चाव्याप्तेः ॥ पूर्वोक्तोदाहर- णदये न काचिच्चेप्टोपलभ्यते। किं चैकस्यैव स्वसंवन्धिसूक्ष्म- चेप्टायामपि सूक्ष्मालंकारो दृश्यते ॥ परस्य सूचमचेष्टां विज्ञा- य तं प्रति घोघयितुं सूक्ष्मचेप्टाकरणस्यास्मिन्नलंकारे न म- नागप्युपयोगः॥ इदं लक्षणमव्याप्तिदोपप्रस्तम् ॥ इति सूक्ष्म- स्मृतिः ॥ 4 . प्रकरणम् ॥ ७७॥ स्मृतिशब्दार्थस्तु चिरानुभूतस्यार्थस्य स्मरणशक्तिरिति ।।
१०७ प्राकृतिः] स्मृतिः "स्मृतिः चिरानुभूतार्थस्मरणशक्तों” इति चिन्तामणिः॥ चन्द्रालोककारोऽपि स्मृत्यलंकारस्य नामैव लक्षणमाह ॥ चिरानुभूतस्यार्थस्य स्मरणं भूषणं स्मृतिः ॥ यशवन्तमहाराज! सा चानेकविधा मता ॥१॥ यथा- विद्यारद्धिकरं भव्यमत्युदारं मनोहरम् ॥ त्वां वीक्ष्य मरुभूपाल! भोजं स्मरति विश्वकम् ॥१॥ अत्र भोजमहाराजसघर्माणं राजराजेश्वरं समीक्ष्य श्रव- णद्वारा चिरानुभूतस्य भोजराजस्य स्मृतिः ॥ यथा वा- पङ्कजं पश्यतः कान्तामुखं मे गाहवे मनः ॥ भत्र नायिकामुखसदृशूपद्मदर्शनादृष्टिद्वारा चिरानुभूतस्य नायिकामुखस्य स्मृतिः ॥ काव्यप्रकाशकारादयस्तु सदृशव- स्तुदर्शनजन्या स्मृतिः स्मृत्यलंकार इत्याहुः ॥ भोजमहारा- जादयश्च केनचित्प्रकारेण स्मृतौ सत्यां स्मृत्यलंकार इति व.. दन्ति ॥ भोजराजेन सहास्माकमैकमत्यम् ॥ यथा- . गतं तमो विस्मृतिरूपमात्मनः॥ विस्मृत्यपर्ममस्तुं स्मृतिरेव ॥ अत्र निर्निमित्तस्मृतिः ॥ .. यथा वा- मेघांचितं वियदृष्ट्वा स्मृतिमारूढंवान् प्रियः॥.
[चतुर्थी यशवन्तभूषणम् अन्न सदृशदर्शनं विनोदीपनेन स्मृतिः ॥ यथा वा- .. दिल्लीपुरसभामध्ये यो दृष्टो मरुभूपतिः ॥ सोऽयं राठोडवंशीयो यशवन्तनरेश्वरः॥१॥ अत्र समयान्तरावलोकितराजराजेश्वरस्य पुनदर्शनेन दि- ल्लीपुरसभादृष्टोऽयमेव राजराजेश्वर इत्यभिज्ञानम् । तच्च प्र- त्यभिज्ञानरूपा स्मृतिः ॥ यथा वा- स्वप्नेऽहं.प्रगता तटं रविसुताया यत्र कृष्णो नट- 'नास्ते तत्र ममाञ्चलं स धृतवान् भावस्मिते दर्शयन् ।। तावद्गोरव आगतः श्रुतिपथं मन्थस्य चापि चणा- दोधे नैव घनं वनं न च हरिनों पा तटे यामुनम् ॥१॥ अत्र प्रथमानुभूतकृष्णसंबन्धी स्वप्नः स्मृतिरूप एव ॥ अ. स्याप्युंपलक्षणेन स्मृती संग्रहः ॥ . यथा वा- अरिभक्तैर्ब्रजवासिनो जनान् चारोदकूपैर्यमुनां महानदीम् । अर्कादिवतैश्च तमालपादपान् पिकध्वनि काकरवः स्मराम्यहम् ॥ १ ॥ TRA . आकृतिः स्वभावोक्तिः अत्र वैधय॑दर्शनेन स्मृतिः ॥ स्मृतिः संचारिभावोऽपि ॥ रसस्यावयवरूपत्वे स्मृतेः संचारित्वम् । अन्यत्रालंकारत्वमिति विवेकः ॥ यथा- सौमित्रे! ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते! चन्द्रोऽयमुन्मीलति ॥ वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः क्वासि प्रेयसि! हा कुरङ्गनयने! चन्द्रानने! जानकि! ॥१॥ अत्र जानक्यालम्बनविभावः। चन्द्र उद्दीपनविभावः । "क्कासि प्रेयसि!" इत्यादि रामचन्द्रवचनमनुभावः॥ अत्र चन्द्रोऽयमुन्मीलति" इत्युक्त्या चन्द्रसदृशजानकीमुखस्य "धत्ते कुरङ्गं यतः" इत्युक्त्या च मृगनयनसदृशजानकीने- त्रयोः स्मृतिः संचारिरूपा॥ जानकीविपया रामचन्द्रस्य र- तिः स्थायिभावः ॥ इत्थमिह विभावानुभावसंचारिभावसंयो- गाद्विप्रलम्भशृङ्गाररसनिष्पत्त्या स्मृतेः संचारित्वम् ॥ संचा. रितायाश्चमत्कारस्य प्राधान्यात् ॥ इति स्मृतिप्रकरणम् ॥ ७८ ॥ ॥ स्वभावोक्तिः॥ . . स्वभावस्तु महजों धर्मविशेषः । “स्वभावः सहजधर्मवि- शेपे" इति चिन्तामणिः ॥ सहजः सहजन्मा । तादृशस्वभा- वस्योक्तिः कथंनं स्वभावोक्तिः । स्वभावोक्तिरिति कयनाभि:
११० .. . यशवन्तभूपणम् [चतुर्थी प्रायस्तु कियाऽऽकृत्यादिसहजन्मधर्मणां यथावदुक्तिः। न तु कविप्रतिभोत्यापितोक्तिरिति ॥ उक्तिर्वस्तुस्वभावस्य स्वभावोक्तिरलंकृतिः ॥ यथायथार्थताराजन् चित्रस्य स्यान्मनोहरा॥१॥ यथा- प्रसन्नास्यो विशालाक्ष आजानुभुज उज्ज्वलः ॥ मरुपालोऽस्ति मरुपो यशवन्तनरेश्वरः ॥ अत्र राजराजेश्वरस्याकृतेर्वर्णस्य च स्वभावोक्तिः । .यथा.वा-. जायन्ते खलु तारका हतरुचो मार्तण्डतेजोऽरुण-- मुल्लासः कमलबजस्य मुनिराइवेदध्वनिश्वोच्चकैः ।। निद्राभङ्गमुपति विश्वमलयो दानानुरक्ताः शुचा हीनः कोकगणस्तदा कविजनस्त्वां स्तौति वख्ते- श! भोः॥१॥ इदं पद्यं योधपुरराज्यप्रथमश्रेणीकसामन्ताऽऽउवामामा- धिपतिचाम्पावतठक्कुरवख्तावरसिंहविपयं कविराजवाङ्की- दासकथितम् ॥ अन्न प्रातःकालस्य स्वभावोक्तियथार्थतया चमत्कारमावहतीत्यलंकारः ॥ . यथा घा- अगाधाः सरितोऽनन्ता विशालास्तरवस्तथा ॥
प्राकृतिः हेतुः कूजन्ति कोकिला मत्ता गौडदेशे महीपते! ॥१॥ देशस्य स्वभावोक्तिरियम् ॥ चन्द्रालोके इदं लक्षणम्- स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनम् ॥ इदं लक्षणं नामार्थानुसारि ॥ इति स्वभावोक्तिकर- णम् ।। ७९ ॥ ॥ हेतुः॥ हेतुः कारणमिति पर्यायान्तरम् ॥ हिनोति व्याप्नोति का. यमिति हेतुः ॥ कार्योत्पादको हेतुरितिभावः ॥ सच द्विविधः॥ कारको ज्ञापकश्च ॥ उत्पादकत्वं कारकत्वम्। यथाग्निधूमस्य कारकहेतुः । धूमस्योत्पादकत्वात् ॥ वोधयितृत्वं ज्ञाप- कत्वम् । यथाग्ने—मः ॥ धूमोऽमेरुद्भवतीत्यग्नेः कार्यम् । तथाप्य- ग्निं ज्ञापयतीति धूमोऽग्नेापकहेतुः ॥ हेतुर्हेतुरलंकारो धुरंधरमते भवेत्॥ कारको ज्ञापकश्चेति स द्विधा भृप! भण्यते ॥१॥ क्रमेण यथा- सर्वे वर्णाश्रमा नीतिवशान्मरुपतेमरौ । स्वधर्मनिरताः सन्ति रामराज्य यथा पुरा॥" . R ४१२ 18. . यशवन्तभूषणम् पत्र चतुणी वर्णाश्रमाणां स्वस्वमर्यादायां प्रवृत्ती राज- राजेश्वरः कारकहेतुः ॥ संयुध्यमानान्करिमल्लसंघान् मिथस्तुरङ्गान् भ्रमिमादधानान् ॥ दृष्ट्वा नृपाभान्कविराजपूगान् विज्ञायते श्रीयशवन्तराज्यम् ॥१॥ प्रत्र वाष्पशकटाधिरूढपथिकामां यशवन्तसिंहराज्यज्ञा- पने मल्लयुद्धादिकं ज्ञापकहेतुः ॥ यत्र ज्ञापकहेतूनां मालावा. कारणमालेयम् ॥ माला तु बहूनामलंकाराणां प्रकारत्व- मापद्यते । यथा मालोपमा, रूपकमालेत्यादि ।। यथा वा- श्रीमत्सज्जनभूप! दानमखिलैस्ते पूजनीयं परं नादास्येऽहमयाचको मरुपतर्नायं च दोषो मम ॥ मन्तव्यो भवदीयपूर्वपुरुषा धर्मस्य कार्थे सदा राणास्त्राणपरा बभूवुरिति ते प्रार्थी मुरारिः कविः ॥१॥ अस्माभिः कस्यचिद्तभङ्गो न विधेय इति मेदपाटेश्वर- महाराणासजनसिंहं प्रति ज्ञापने भवत्पूर्वपुरुषाः सदेव ध- मंत्राणपरा आसन्नित्यर्थो ज्ञापकहेतुः ॥ चन्द्रालोके इमानि लक्षणोदाहरणानि- हेतोर्हेतुमता साध वर्णनं हेतुरुच्यते ॥ . .. .
आकृतिः]
हेतुः
४१३
हेतुहेतुमतोरैक्यं हेतुं केचित्प्रचक्षते ॥१॥
क्रमेण यथा-
असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम्॥
लक्ष्मीविलासा विदुषां विलासा वेङ्कटप्रभोः ॥
मम तु मतं, कार्येण सह हेतोः कथनमिति तु हेत्वलंका-
रस्य स्वरूपं न भवति । किं तु कारणात्कार्योत्पत्तिरिति हेतु-
स्वरूपम् ॥ किं च द्वितीयंलक्षणोदाहरणयोर्हेतुतायाश्चमत्का-
रस्य न प्राधान्यम् । किं त्वभेदचमत्कारस्येत्ययमभेदालंफारस्य
विषयः ॥ प्रथमलनणं साक्षात्स्वरूपायोधकम् । द्वितीयमपि
तथेत्युभयमप्यसंभवदोपग्रस्तम् ॥ इति हेतुप्रकरणम् ii ८० ॥
उपमोऽतद्गुणश्चातिशयोक्तयतुल्येयोगिते ॥
अधिकं चानवसराऽनुज्ञाऽन्योन्यानि भूपते! ॥१॥
अपन्हुतिरथापूर्वरूपं चाप्रत्यैनीककम् ॥ .
अप्रस्तुतप्रशंसा स्यादभेदैश्याल्पभूषणम् ॥ २॥
अवैज्ञाऽवसैराऽऽक्षेपाँऽऽभाश्चिाप्युत्तरं ततः ॥
उत्प्रेक्षौ च नृपोदौत्तमुदाहरणमेव च ॥३॥
उल्लेखैकाव्यार्थापत्ती क्रमैश्चापि च तद्?णः ॥
यशवन्तमहाराज! ततः स्यात्तुल्ययोगिता ॥४॥
दीपक चैव दृष्टान्तो महाराज! निदर्शना ॥
नियमैश्च निरुक्तिश्च तथा पैरिकरो मतः ॥ ५॥
४१४ यशवन्तभूषणम् [चतुर्थी परिणामस्ततो राजपरिसंख्या ततः परम् ।। पर्यायश्चैव पर्यायोक्तिभूषा पिहितं तथा ॥ ६ ॥ पूर्वरूपानन्तरं च प्रतिमी प्रत्येनीककम् ॥ प्रहर्पणं भौषिकं चालंकारो मरुभूपते! ॥७॥ भ्रान्तिर्मियॊध्यवसितिमिलितं मिषमेव च ।। मुंद्रा रत्नावली भूप! रूपकं लेश एव च ॥८॥ लोकोक्तिश्चैव वक्रोक्तिर्विकल्पैश्च ततः स्मृतः ॥ विकासश्च विचित्रं च विध्यलंकार एव च ॥९॥ विनोक्तिश्च विरोधो वै विशेषोक्तिस्ततः परम् ॥ विषमं च विपादो वै व्यतिरेकस्ततो नृप! ॥ १० ॥ व्या/तः शृद्धेला श्लेपः संकोचः संशयस्तथा । संभावनं च संस्कारः समालंकार एव च ॥ ११॥ समाधिश्च समोसोक्तिः समुँच्चय उदाहतः ॥ सँहोक्तिसौरसूदमाख्याः स्मॅतिश्चापिततः परम्॥१२॥ स्वभावोक्तिश्च हेतुश्चेत्यशीतिर्भूपणानि वै ॥ एप्वन्तर्भावमायान्तीतरे मरुमहीपते! ॥ १३॥ नामवैपां लचणमेतान्नाम्नैव वेद दक्षोऽसौ ॥ यशवन्तभूपणेतिप्रवन्धसारो हि भूप! नामार्थः॥१४॥ तादृशभूपणनाम्नां कण्ठे कराठी दुधादि यो मनुजः॥ भूमण्डलस्यस स्याभूपणभूतोवुधैःसुसंमान्यः।।१५॥ विद्यार्थिनो हि पूर्व लोकन्यायादवेत्य नामार्थान् ॥ . ..
प्राकृतिः] उभयालंकारः. पश्चादुदाहती विलोक्य सन्त्वत्र कृतकृत्याः॥१६॥ अधुना कोऽपि न कथयेत्सुगमा एतेऽखिला हि ना- मार्थाः॥ ज्ञाताः किमिति न पूर्व सिता(*) यदाऽऽसन् भ्रमा- ख्यजालेन ॥१७॥ वेदादिभिश्च बहुलैः साधनसंधैः प्रपञ्चमिथ्यात्वे ॥ निर्णीते नृप! वेदादेर्व्यर्थत्वं कथं वदेन्मनुजः ॥१८॥ अन्यदीयामुपकृतिं महाराजोत्तमा जनाः ॥ न विस्मरन्ति स्वाभाव्यात्कार्यसिद्धौ कदाचन ॥१९॥ शोभाकरा चातिविलक्षणा च स्पष्टा च लभ्येत चमत्कृतिश्चेत् ॥ तदेच्छया भूमिप! भिन्नभूषा संमान्यतामुक्तविभूषणेभ्यः ॥२०॥ उक्तालंकारमध्येऽपि वदेत्कश्चित्सयुक्तिकम् ॥ अन्तर्भावं भूषणस्य माननीयं हि तन्नृप! ॥२१॥ वहव आचार्यास्तु द्विविधमेवालंकारं मन्यन्ते । शब्दस्य शोभाकरः शब्दालंकारः । अर्थस्य शोभाकरोऽर्थालंकारः। यद्वा शब्दरूपेण काव्यशोभाकरः शब्दालंकारः । अर्थरूपेण काव्यशोभाकरोऽर्थालंकार इति ॥ कतिचनाचार्या उभयालं- काररूपं तृतीर्य प्रकारं मन्यन्ते ॥ भगवान्वेदव्यास उभयालं. कारस्येदं स्वरूपमाह- (*) सिना बगाः ।। पिन् बन्धने तः ॥
४१६ यशवन्तभूपणम् [चतुर्थी "शब्दार्थयोरलंकारो द्वावलंकुरुते समम् ॥ एकत्र निहितो हारः स्तनगीवामिव स्त्रियाः॥१॥" इति॥ . भगवता वेदव्यासेन समासोक्तिपर्यायोक्तिप्रभृतयोऽलंका- रा उभयालंकारत्वेन स्वीकृताः । तमासोक्तो संक्षेपेऽलंकार- स्वम्। अर्थे संक्षेपे कृते शब्दस्यापि संक्षेपो भवतीति संक्षेपः शब्दार्थयुगलस्य युगपच्छोभाकरस्वादुभयालंकाररूपः ॥ पर्या. योतो तु पर्यायेऽलंकारत्वम् । अर्थपर्याये कृते शब्दस्यापि पर्यायो भवतीति पर्यायः शब्दार्थयुगलस्य युगपच्छोभाकरत्वा- दुभयालंकाररूपः ॥ भोजमहाराज उभयालंकारविषये इद- माह- शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते ॥ विशिष्टोऽर्थः कवीनां स उभयालंक्रिया मता॥१॥" इति ॥ महाराजेनोपमारूपकादयश्चतुर्विशतिरलंकारा उभयालं. कारवेन स्वीकृताः ॥ तस्यायमभिप्रायः, उपमायामुपमानो- पमेयसाधाण्यर्थस्य विपयः। उपमावाचका इवादिशब्दाः वानस्य विपयः । उक्तशब्दार्थयुगलेनोपमा प्रतीयत इत्युपमा- या उभयालंकारता । रूपके "मुखमेव चन्द्रः' इत्यादावभेद- वाचक एवशब्दः, संदेहे संदेहवाचकाः किमादिशब्दाः, उव्य. क्षायां चोप्रेक्षायोतका मन्ये इत्यादयः शध्दा अर्थेन सह संबद्धा रूपकसंदेहोत्प्रेक्षारूपालंकाराणा प्रतीत्याधायका इत्यु- कालंकाराणामुभयालंकारता ॥ एवमन्येवपि ज्ञेयम् ॥ काठ्य- श्राकृतिः - उभयालंकारः प्रकाशगतकारिकाकारस्यायं सिद्धान्तः, पदपरिवर्तन सहते. उसावर्थस्य विषयः । पदपरिवर्तनं न सहतेऽसौ शब्दस्य विष- यः। उभयोमिश्रितत्वे उभयालंकार इति ॥ अयं केवल पुनरुक्तवदाभासमेवोभयालंकारं मन्यते । तत्र पुनरुक्तवदाभा- . "सस्येदं लक्षणम्- "पुनरुक्तवदाभासो विभिन्नाकारशब्दगा ॥ एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥” इति। शब्दपुनरुक्तवदाभासो यथा- चकासत्यङ्गनारामाः ॥ अत्र “अङ्गने गृहाङ्गणे पारामा येषां ते' इति विग्रहः ॥ अङ्गना-रामेतिशब्दयुगलस्य स्त्रीवाचिन्वाच्छ्रवणमात्रेण पुनरु- केर्भानेऽपि, अजनस्थानेजिरेति, पारामस्थाने चोपवनेति पदपरिवर्नने पुनरुक्तिनिवर्तते इतीह पुनरुक्तवदाभासालंका- रः शब्दरूपः ॥ शब्दार्थपुनरुक्तंवदाभासो यथा- तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः॥ तेजोधाम महारथुमनसामिन्द्रो हरिर्जिणुंः ॥१॥ सिंहवर्णनमिदम् ॥ अन तनुवपुःशब्दयोः शरीरार्थकत- या, करिकुज़रशब्दयोर्गनार्थकतया, रुधिररक्तशब्दयोः शो. थितार्थकतया, तेजोघाममहंःशब्दागां तेजोऽर्थकतया, इन्द्रह. .
यशवन्तभूपणम् [चतुर्श रिजिष्णुंशब्दानां च देवेन्द्रार्थकतया श्रुतिमात्रेण पोनरुत्या- भासः। तत्र तनु-कुजर- रक्त-धाम हरि- जिष्णुशृब्दाः पदप- रिवर्तनं न सहन्त इति शब्दविषयत्वम् । वपुः करि-रुधिर- इन्द्रशब्दाः पदपरिवर्तनं सहन्त इत्यर्थविषयत्वम् । उभयो- मिश्रणादुभयालंकारोऽयम् । मम तु मतं, त्रयाणामप्युभया- लंकारलक्षणानि श्रुतिमात्रेणेव सयुक्तिकानि भासन्त इति लक्षणाभासरूपाणि । उदाहरणेप्यघटनात् ॥ काव्यस्य शरी- रं शव्दार्थोभयात्मकम् । तत्र शब्दरूपेण शोभाकरः शब्दालं- कारः । अर्थरूपेण शोभाकरोऽर्थालंकारः । शब्दोऽर्थस्य शोभा- करो न भवति, अर्थश्च शब्दस्य शोभाकरो न भवतीति कथं का शब्दार्थोभयमिश्रणादुभयालंकारत्वसंभवः ॥ शब्दमा- त्रेण चमत्कृतिमत्वं शब्दालंकारत्वम्। यथा “पुच्छोच्छालन." इत्यत्रार्थविचारं विना श्रवणमात्रेण शब्दालंकारानुमासस्य श्रयणचमत्कारकारित्वम् । उपमाद्यलंकारेषु चार्थविचारेण चित्तस्य चमत्कृतिमत्त्वम् । भगवान्वेदव्यासः समासोक्या- दीनुभयालंकारानाह । परं तु ते केवलमर्थस्यैव शोभाकराः । न तु शब्दस्यापि ॥ भोजमहाराज उपमादीनुभयालंकारा- न्कथयति । परं तूपमाद्यलंकारस्वरूपमिवादिशब्देन प्रतीयते। किं तु विदुपामर्थविचारेणैव प्रतीयते ॥ काव्यप्रकाशकारेण पदपरिवर्तनासहत्वं शब्दस्य विषयः, पदपरिवर्तनसहत्वमर्थ. स्य विषय इति व्यवस्थापितम् । तत्तु प्रमादः ॥ "श्रोत्रग्राह्यो गुणः शब्दश्चित्तग्राह्योऽर्थ इप्यते॥” इति शब्दार्थयोः सामा- न्य लक्षणस्य विद्यमानत्वात् ॥ शब्दालंकारार्थालंकारलक्षणं .
आकृतिः] .. - उभयालंकारः स्वस्माभिः प्रागादिष्टम् ॥ पदपरिवर्तनसहत्वासहत्येतिव्यव- स्था तु शब्दार्थदोपविषया । तस्या अलंकारेषु नोपयोगः ।। यथा- गङ्गाधारोपरि पारदप्रवाहः पयस्तरङ्गिण्याम्॥ पूरोऽमृतस्य हिमभुवि घनसारस्य प्रसार प्राविमलः।१। स्फटिकशिलायां हीरकहारः सितचन्दनः सरस्वत्याः ।। अङ्गे च चन्द्रिकायां शारद्यां राजतो वितानश्च ॥२॥ श्रीरघुराजसुशब्दो भवत इदानीं वघेलकुलकीर्तेः ॥ उपरि जजागारायं कविरजवेशो जगावेतत् ॥ ३॥ . कुलकम् चिन्तामणिकोपकारेण यशसः पर्यायः सुख्याप्तिरित्युक्तः। तेनैव दिग्दर्शनेनात्र सुशब्दसुरवशब्दौ यशसः पर्यायत्वेनो. तौ॥ मरुधराधीशतख्तसिंहश्यालकरीवांनरेश्वररघुराजविपया तन्महापात्रभट्टाजवेशरचनेयम् ॥ अत एवास्माभिरत्र परि- हासः कृतान रोकांनरेश्वरकुलकीर्तः स्त्रीत्वेन रोकांनरेश्वर रघुराजसुशब्दस्य च पुंस्त्वेन संयोगवर्णने जुगुम्सालीलदो- पः । अत्र कीर्तिसुशब्दयोः स्थाने श्लाघासुरवेति पदपरिवर्त- नेऽपि जुगुप्साऽश्लीलदोपस्यानिवृत्तरत्र पदपरिवर्तनसहनाद- र्थस्यायमश्लीलदोपः । उक्तसंयोगवर्णने "जजागार " इति शब्दस्य वीडायोतकतयाऽश्लीलदोपः ॥ अत्र जजागारतिस्थ- ले प्रचकाशेतिपदपरिवर्तने चीडाऽश्लीलदोपस्य निग्रनेरत्र पद- । यशवन्तंभूषणम् [चतुर्थी परिवर्तनस्यासहनाच्छब्दस्यायमश्लीलदोपः ॥ किं च “वघे- लकुलकीर्तरुपरि" इत्यत्रोपरिशब्दस्य स्थाने ऊर्ध्वमित्यादिप. दपरिवर्तनेऽपि चीडाऽश्लीलदोपस्यानिवृत्तेरर्थस्यायमश्लील- दोषः ॥ काव्यप्रकाशस्य "चकासत्यगानारामाः" इत्युदाहर- णे शब्दपुनरावृत्तेरभावान मनागपि श्रवणसुखकारिता । न चान' शब्दपुरस्कारेण पुनरुक्तराभासोऽपि । अर्थमूलकत्वात् ॥ तथैव " तनुवपुः” इत्युदाहरणेऽपि तनुवपुरित्यादिशब्दानां पुनरावृत्तेरभावान्न श्रवणमुखकारिता । न च शब्दपुरस्कारे- ण पुनरुक्तराभासोऽपि। अर्थमूलकत्वात् । उक्तोदाहरणे करिकु- जरेत्यत्र ककाररकारयोः पुनरावृत्तिरनुप्रासाख्यः शब्दालंका- र।स. च वास्तवो न त्वाभासरूपः । अत्र करिकुजरेतिवा- क्यरूपकाव्यस्यार्थस्य पुनरुक्तेराभासः पृथक्शोभाकरः, वर्णा- नां पुनरावृत्तिश्च पृथक् शोभाकरेति द्वयोरेकरूपतया शोभाक- रत्वाभावान्नोभयालंकारः ॥ किं त्वाभासानुप्रासयोरेकवाच- कानुप्रवेशसंकरः॥ अलंकारद्वयमिश्रणे संसृष्टिसंकरात्रिप्यते । तयोः स्वरूपमन्त वाकृती सविस्तरं वक्ष्यामः ॥ कचित्का- व्ये न केवलं दूषणोद्धारमात्रम् । किं तु तस्मात्परत्र दूपणा- भासस्य चमत्कारश्चेत्तत्राभासालंकारस्य दूपणाभासाख्यः प्रकारो भविष्यति ॥ . - यथा- यशवन्तमहाराजसेनेयं समुपस्थिता ॥ देहि स्वामिन्महावुहे! वारणं वा रणं द्रुतम् ॥१॥ • .
प्राकृतिः] अलंकारालंकार्यविचारः ४२१ . अत्र श्रवणमात्रेण "वारणं वारणं" इति पुनरुक्तिदोपो भासते । परं त्वर्थविचारे कृते वारणं गजं, वा रणं देहीत्यभ- गसभङ्गश्लिष्टपदज्ञाने दूपणोद्वारपूर्वकं तस्मात्परत्राभासालं- कारस्य चमत्कारोऽनुभूयते । मम तु मतं, उक्तरीत्या त्रयाणा भपि महाशयानां कल्पनयोभयालंकारो न सिध्यतीति ।। मनुष्यस्य शरीरमस्थिमांसमयम्, तदलंकाराश्च स्वर्णर- नादिमया इति मनुष्यालंकारा मनुष्यशरीरात्सर्वथा वि. 'जक्षणाः । काव्यस्य शरीरं शब्दार्थमयं, तदलंकारा अपि शब्दार्थमयाः । तथाप्यत्रालंकारालंकार्यन्यायः संजाघटीति । क्वचित्त्रेकस्यार्थस्य काव्यशरीरत्वेऽपरस्य काव्यालंकारत्वम् । यथाऽप्रस्तुतप्रशंसाऽलंकारः । तत्र ह्यप्रस्तुतव्यङ्गयार्थः प्रस्तुतं- वाच्यार्थस्य शोभाकरः । कचिदेक एवार्थः काव्यस्य शरीरम- प्यलंकारश्चापि भवति । यथा पर्यायोक्त्यलंकारः । तत्र हि पर्यायेमोक्तः स एवार्थः काव्यस्य शरीरं शोभाकरतया. ऽलंकारोऽपि भवति ॥ इमां व्यवस्था सूचयत्काव्यप्रकाश गतकारिकावल्या. परंपरागतं धुरंधरस्येदं वचनम् "शब्द- चित्रं वाच्यचित्रम्” इति ॥ शब्दचित्रं शब्दालंकारः। अर्थचित्रमर्थालंकारः । अलंकारस्य विपये नित्रमिति क- थनाभिप्रायस्तु, काव्यस्य शरीरं शब्दार्थमयम् । तत्र तस्मिन्नेव शब्दे तस्मिन्नेवार्थे. वा तत्तच्छब्दार्थरूपं चित्रं किं- येत चेत्स एव तस्यू काव्यस्य शोभाकरोऽर्थादलंकारो भव. ति । यथा समबलपापाणस्तम्भः केवलं स्तम्भ एव । तत्रैव चोकीर्य पापाणमयपुष्पवल्ल्यादिरूपेण चित्रक्रियेत चेत्तदेव- કરશે यशवन्तभूषणम् [चतुर्थी स्तम्भोत्कीर्णचित्रं तस्यैव स्तम्भस्य शोभाकरं भवति ॥ पाषाणस्तम्भ उत्कीर्ण चित्रं तत्स्तम्भभूषणम् ।। तहच्छब्दार्थयोश्चित्रं भूषा शब्दार्थयोर्भवेत् ।। यथा- लाङ्गेलोत्क्षेपसंरम्भान्नैर्मल्यं पयसां निधेः । यो दूरीकृतवान्मत्स्यः स पायाच्छान्तचेतसः॥१॥ एवंविधकथनेनापि मत्स्यावतारस्य लोकोत्तरपराक्रममा हाकायत्वसिद्धिः। तत्रोक्तशब्दानामेव स्थाने पुच्छौच्छालनसंरम्भात्स्वच्छतां पयसां निधेः ॥ यो दूरीकृतवानच्छः स पायात्स्वच्छचेतसः॥१॥ इत्यनुप्रासरूपं चित्रं क्रियेत चेत्काव्यशोभाकरं सदलंका- रत्वमापदाते। त्यथा वा- अतीवायमुदारोऽस्ति यशवन्तनरेश्वरः ।। अनेनापि कथनेन मरुधराधीशस्य लोकविलक्षणवदा. न्यतासिद्धिः। तस्मिन्नेवार्थे आखण्डल इवोदारो मरुभूमेरधीश्वरः ॥ इत्युपमारूपं चित्रं क्रियेतं चेत्काव्यशोभाकर सदलकार- त्वमापद्यते ॥
४२३
.
आकृतिः] संक्षेपेण विषयकथनम्
रमणीयौ तु शब्दार्थों काव्यं मरुमहीपते! ॥
शब्दस्त्रिधा वाचकश्च लक्षको व्यञ्जकस्तथा ॥१॥
तदर्था नृपते! वाच्यलक्ष्यव्यङ्ग्या इति क्रमात् ॥
अभिधा लक्षणा व्यञ्जनेतिशक्तित्रयं नृप! ॥२॥
केचिद्व्यङ्ग्यं ध्वनिरिति चाक्षेप इति चापरे ॥
केचिच्छक्तिं वृत्तिरिति व्यापार इति चापरे॥३
जहत्स्वार्थाऽजहत्स्वार्थेति द्विधा लक्षणा मता ॥
तात्पर्यवाधे राजेन्द्रोपलक्षणमिहेष्यते॥४॥
दृश्यादृश्यं त्रिलोकीस्थं वस्तु वर्णयते कविः ।।
भावस्तत्र मनोवृत्तिः स चापरिमितो मतः ॥ ५॥
दिग्दर्शनार्थ द्वाचत्वारिंशदत्र प्रकीर्तिताः ।
ते च द्विधा रसोत्पत्तिपर्यन्तं स्थिरभावतः ॥ ६ ॥
रत्यादयो नव स्थायिसंज्ञा मुख्याश्च ते मताः ॥
ग्लान्याद्याः पोषकतया संचरन्तीतरैः सह ॥७॥
ततः संचारिसंज्ञैषां यशवन्तनरेश्वर! ॥
आस्वादो हि रसो राजनिह रत्यादयो नव ॥८॥
स्वादुत्वे रससंज्ञां वै लभन्ते भरतोऽब्रवीत् ॥
भावस्य कारणं भूप! विभाव इति स द्विधा ॥ ९॥.
आलम्बनाख्यो राजेन्द्र! तथैवोद्दीपनाव्हयः ॥
शृङ्गारालम्बनं रम्यौ स्त्रीपुंसौ मरुनायक! ॥१०॥
.. यशवन्तभूपणम् [चतुर्थी नायिकायाश्च मुग्धाद्या भेदास्ते तु वयःकृताः ॥ स्वकीयाद्यास्तु प्रकृतिकृता भेदा नराधिप! ।। ११ ।। गुप्ताद्याः प्रोपितपतिकाद्या वै मानिनीमुखाः ॥ दशाकृता विभेदाः स्युर्यशवन्तनरेश्वर! ॥१२॥ एते भेदाः स्वकीयादावेवेति नियमो न हि ॥ तथा वयःकृतादीनां वाधो नो नायके नृप! ॥१३॥ शृङ्गारोद्दीपनानि स्युः शशिवर्षादयोऽमिताः ॥ हास्यादिषु रसेप्येवं ज्ञेयाः श्रीमरुनायक! ॥१४॥ अनुभावस्तु राजेन्द्र! भावबोधकरा क्रिया ॥ हावाश्च सात्त्विकाश्चैव विशेपास्तस्य भूपते! ॥१५॥ अलंकारा मता अत्र युक्तयो मरुभूपते! ॥ ते चानन्ताः संग्रहीता एकाशीतौ धुरंधरैः॥ १६॥ माधुर्योजःप्रसादाख्याः काव्ये राजन्! गुणास्त्रयः ॥ यथा पुंसि क्षमाशौर्यवदान्यत्वमुखा नृप! ॥ १७॥ दोपैश्च सदृशा दोपाः क्लिष्टाद्या अरुचेः कराः ।। दृश्यते विस्तरोऽपारः साहित्यस्य महीपते! ॥१८॥ नामार्थस्यतु विज्ञाने स्वल्पश्च सुगमः स हि ॥ मुक्तो लक्षणजालाद्यः कृतार्थः स कविर्भवेत् ॥१९॥ यस्मिन्स्थले स्थायिभावो रंसत्वं लभते नृप! ॥ तदादायात्र नामानि शृङ्गारादीनि वुध्यताम् ॥२०॥ धुरंधरस्य सिद्धान्ता मया स्पष्टीकृता अमी ॥ . .
४२५ श्राकृतिः] इतिश्री कवीश्वराणां कल्याणं कुर्युस्त्वद्यशसा सह ।। २ ।। इति श्रीमन्मरुमण्डलमुकुटमणि-महाराजाधिराज-राजरा- जेश्वर जी. सी. एस्. आई. श्रीयशवन्तसिंहाज्ञानुसारेण क- विराजमुगरिदानविरचिते यशवन्तभूषणेऽर्थालंकारनिरूपण नाम चतुर्थाकृतिः समाप्तिमिता ॥ ४ ॥ .
४२६ বিমী यशवन्तभूपणम् अथ भावालंकाराः ॥ . रसानन्दस्वरूपो यः सर्वदा राजते प्रभुः ॥ प्रणम्य तं रसवदादिभावालंकृतीब्रुवे ॥१॥ शब्दरूपेण शोभाकरः शब्दालंकारः। अर्थरूपेण शोभा- करोऽर्थालंकारः। तद्भावरूपेण शोभाकरो भावालंकारः । स्थायिसंचारिभावादीनां परस्परं शोभाकरत्वे एकोऽपरस्यालं- कारो भवति । केचिद्भावस्य भावाङ्गत्वे केचिच भावस्य भा. वपोषकत्वे रसवदाधलंकारान्मन्यन्ते । तदपि शोभाकरताप. रायणम् ॥ अगमङ्गिनः शोभाकरं भवति । पोषणमपि च शोभाकरणमेव । यद्यपि रसदशायामप्यन्यभावाः स्थायिभा- वानां पोषका भवन्ति । परंतु तत्रावयवसामग्रीरूपतया पोष- णम् । न त्वलंकाररूपतया । भलंकाराणां वियोगस्यापि श- क्यत्वात् । मनुष्यैः कदाचिदलंकारा न धार्यन्तेऽपीत्यलंकाराणां नाचलस्थितित्वम् ॥ रसदशायांसंचार्यादयो भावा अवयववद चलस्थितयः ।। क्वचित्काव्ये विभावादीनामनुक्तावपि रसद शायामविनामावसंवन्धात्तपां सर्वेषां लाभो भवति । विभा- वादिसर्वसामग्रीमन्तरा प्रायः स्थायिभावस्य रसवानापत्तेः॥ भांवा अप्यर्थविशेषा एव । परंतु भावालंकाराणामर्थालंका- 'रेम्यः पृथक्प्रतिपादने मम मंते धुरंधरत्यायमाशयः, अर्थालं- कारेषु न केवलं वाच्यलक्ष्यव्यङ्गयरूपाविशेपा एव सामा- न्यत्रयाऽलंकारा भवन्ति । किं तु तदर्थनिष्टयुक्तयोऽलंकारतां ।
प्राकृति] रसवत् ४२७ भजन्ते । भावरूपार्थविशेषाश्च युक्तिपार्थक्येन सामान्यतया भावरूपेणेव मिथोऽलंकारत्वमापद्यन्त इति विलक्षणत्वम् ।। ॥ रसवत् ॥ 'स्थायिभावः स्थायिभावस्य तथा संचारिभावस्य शोभा- करश्चेद्रसवदलंकारः ॥ मम तु मतं, धुरंधरोऽत्र स्थायिभावं रसवदित्येतदभिप्रेत्याह। रसस्त्वलंकारोऽलंकार्यों वा न भवति । रसानन्दस्य ब्रह्मानन्दसहोदरत्वात् ॥ तथा च श्रुतिः "रसो वे सः" इति ॥ ब्रह्मानन्दप्राप्तौ ब्रह्ममयैकमनोवृत्तेर्जगतो भा. नाभाव इव रसानन्दप्राप्तौ रसमयैकमनोवृत्तान्तरस्य भा. नाभावः ॥ अलंकारस्त्वलंकारालंकार्येतिद्वयोः संबंधे भवति । एवं च स्थायिभावो रसदशां प्राप्नोति, रसश्चालंकारत्वं न भजत इति सूचनाय स्थायिभावो रसवदितिपदेनोपदिष्टः । रसवत् रससदृशः । न तु रसः ॥ यथा- अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ॥ नाभ्यूरुजघनस्पर्शी नीवीविषेसनः करः ॥ १॥ अत्र रतिशोकस्थायिभावयोः परस्परं विरोधितया मिथ- स्तिरस्कारेणोभयो रसदंशानाप्त्या स्थायिमात्रत्वम् । तत्र च रतिस्थायिभावः शोकस्थायिंभावस्य शोभाकर इति रसवद- लंकारः ॥ कचिच्छत्रुरपि मित्रत्वमाचरति ॥ रणागो मुभटा- नामनेके भुजाश्छिन्नपतिता विद्यन्ते। तत्र भूरिश्रवसो भार्या • ४२८ यशवन्तभूपणम् [पञ्चमी सखी प्रति स्वभर्तृभुजमुक्तरीत्या लक्षयतीतीह युक्तिरूप- स्तूदात्तालंकारः॥ यथा वा- क्रुद्धेन्द्रदृष्ट्याकुलगोकुलस्य संरक्षणायातपवारणाभम् ॥ गोवर्धनं वामकरण योऽधा- तृप्यन्ति गोपा न हिं तं स्तुवन्तः॥१॥ अत्र कृष्णविषयो मोपानां विस्मयस्थायिभावः कृष्णविष- यगोपनिष्ठरतिवारिभावस्य शोभाकर इति रसवदलंकारः ।। अत्र युक्तिरूपो विचित्रालंकारः ॥ इति रसवत्प्रकरणम् ॥१॥ ॥ प्रेयः॥ . संचारिंभावः स्थायिभावस्य तथा संचारिभावस्य शोभा- करश्चेत्प्रेयोऽलंकारः॥ अतिशयेन प्रियं प्रेयः । “प्रियतरं प्रेयः" इति चिन्तामणिः ॥ मम तु मतं, धुरंधरस्य प्रेय इति नामनिर्देशेऽयमभिप्रायः । भावेषु स्थायिभावो राजा । संचा- रियास्तत्परिचारकाः।। अत्र परिचारकोऽपि संचारी राजेवा- लकारी भवतीति ॥ . यथा- कदा वाराणस्याममरतटिनीरोधसि वसन् बसन् ,.
४२६ प्राकृतिः] ऊजेस्त्रि वसानः कौपीनं शिरसि निदधानोऽजलिपुटम् ॥ अये गौरीनाथ! त्रिपुरहर! शंभो! त्रिनयन! प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १॥ अत्र चिन्तासंचारिभावो भक्तनिष्ठनिवेदस्थायिभावस्य शोभाकरतया प्रेयोऽलंकारः ॥ अत्र युक्तिरूपः स्वभावोत्य- लंकारः॥ यथा वा- गजसिंह! स्याम मुक्ता दानर्णाद्गुणकीर्तनैः ॥ प्रेमर्णात्तु कथं मुक्ता भविष्यामः कवन्धज! ॥ १ ॥ अत्र कश्चिन्तासंचारिभावः कविसंवन्धिराजरतिसंचा. रिभावस्य शोभाकर इति प्रेयोऽलंकारः ॥ अत्र 'युक्तिरूपः पूर्वार्धेऽन्योन्यालंकारः । उत्तरार्धे च तद्विपरीतोऽनन्योन्यालं. कारः ॥ इति प्रेयःप्रकरणम् ॥ २ ॥ ऊर्जस्वि ॥ रसाभासो भावाभासो वा स्थायिभावस्य तथा संचारिभा- वस्य शोभाकरश्चेदूर्जस्यलंकारः ।। ऊर्जस्तु बलम् । " ऊर्जः घले" इति चिन्तामणिः ॥ मम'तु मतं, धुरंधरोऽस्योर्जस्वी. तिनामेदमभिप्रेत्याह, आभासमात्रं सत्स्ववलसामर्थ्यात्सा- क्षादिवालंकारों भवतीति ॥
यशवन्तभूपणम् [पञ्चमी यथा- त्वत्प्रत्यर्थिवसुंधरेशतरुणीः संत्रासतः सत्वरं यान्तीरि! विलुण्ठितुं सरभसं याताः किराता वने। तिष्ठन्ति स्तिमिताः प्ररूढपुलकास्ते विस्मृतोपकमा- स्तासामुत्तरलैः स्तनैरतितरां लोलैरपाङ्गैरपि ॥ १ ॥. 'अत्र लुण्ठनसमये दुःखान्म्लेच्छजातिनिमित्तेन च विमु. खारिराजस्मणीविषयः शवराणां रतिस्थायिभावोऽनुचितत. याऽऽभासरूपः । स च कविनिष्ठराजरतिभावस्प शोभाकर इत्यूर्जस्यलंकारः ॥ अत्र युक्तिरूप आभालालंकारः ॥ यथा वा- खातः कथंमयं नाथ! कथं वा पूरितोऽम्बुना ॥ कथं नोल्लङ्घते सीमा क्षुभितोऽपि महार्णवः ॥ भन्न कवेश्चिन्ताभावोऽनुचितत्वाद्भावाभासरूपः । स च जगदीश्तरविषयककविनिष्ठदेवरतिभावस्य शोभाकरतयोर्ज- स्व्यलंकारः ॥ अत्र युक्तिरूप आभासालंकारः॥ अस्योदाहर- णेवाभासालंकारो नियमेन दृश्यते । कचिदन्यालंकारसंकी. र्णत्वमपि ॥ यथा '' त्वत्प्रत्यर्थि-" इत्युदाहरणे हेत्वलंकारः "खातः कथमयम्-" इत्युदाहरणे विचित्रालंकारोऽपि ॥ इत्यू- जस्विमकरणम् ॥ ३॥ समाहितम् ॥ 1 भावशान्तिः स्थायिभावस्य तथा संचारिभावस्य शोभा- आकृतिः] भावोदयः करा चेत्समाहितालंकारः ॥ समाहितशब्दार्थः समाधिस्थित इति ॥ “समाहितः समाधिस्थे" इति चिन्तामणिः ॥ मम तु मतं, अस्य समाहितेतिनामनिर्देशे धुरंधरस्यायमभिप्रायः। मनुष्ये समाधिस्थे मनसः सर्वा वासनाः शान्तिमापद्येरंस्त- थायमलकारः शान्तिरूप इति ॥ यथा- अविरलकरवालकम्पनै-- झुकुटीतर्जनगर्जनैर्मुहुः ॥ ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ १.॥ अत्र शान्तिमापद्यमानो वर्णनीयनृपारिगर्वसंचारिभावः कविनिष्ठराजरतिसंचारिभावस्य शोभाकर इति समाहिता- लंकारः ॥ अत्र युक्तिरूपस्तु कारकत्वलंकारः ॥ इति समाहितप्रकरणम् .॥ ४ ॥ भावोदयः॥ भावस्योदयः स्थायिभावस्य तथा संचारिभावस्य शोभा. करश्चेद्भावोदयालंकारः॥ यथा- - ४३२ [पञ्चमी यशवन्तभूषणम् मधुपानं प्रकुर्वाण एणाक्ष्या सह ते रिपुः । दुन्दुभिध्वानमाकर्ण्य भयभीतो भवन्नभूत् ॥ १ ॥ अत्र राजराजेश्वररिपोरुदयमानो भयस्थायिभावः क- विनिष्ठराजरतिसंचारिभावस्य शोभाकर इति भावोदयालं- कारः ॥ अत्र युक्तिरूपो हेत्वलंकारः ॥ इति भावोदय- प्रकरणम् ॥ ५ ॥ भावसंधिः ॥ भावसंधिः स्थायिभावस्य तथा संचारिभावस्य शोभाकर. श्चेद्भावसंध्यलंकारः ॥ यथा- कान्तान्तरार्तियुक्ता हर्षाढया सा पितुर्यहं गन्तुम् ।। अधुना दुर्योधनवत्प्राणान्मोक्ष्यत्यसावहो! वाला ।१। अन्न हर्पविषादयोविरुद्धभावयोः संधिर्नायिकानिष्टपति. विषयरतिस्थायिभावस्य कुटुम्बविपयरतिसंचारिभावस्य च भावशवलतात्मकस्य शोभाकरतया भावसंध्यलंकारः उपलक्षणेन भावोदयादयोऽलंकार्यत्वेनापि संग्रहीता भवन्ति। यथाऽतिशयदुःखान्मरणं भवति तथाऽत्यन्तहर्षादपि मृतिर्भ- वति । अत्र मुक्तिरूप उपमाऽलंकारः॥ दुर्योधनो युगपच्छो- कहर्पोत्पत्तेतिमवाप ॥ इति भावसंधिप्रकरणम् ॥ ६ ॥ ॥ .
आकृतिः भावशवलता ४३३ भावशबलता॥ भावशवलता स्थायिभावस्य तथा संचारिभावस्य शोभा. • करा चद्भावशवलतारख्योऽलंकारः ॥ यथा- वारे सपत्न्या.निजवल्लभस्य श्रुत्वा परस्त्रीगमनं हि तस्याः ॥ रसारसौ रत्यरती प्रसाद- कोपावभूतां युगपत्तदानीम् ॥ १ ॥ अत्र भावशवलता नायिकानिष्ठसपत्नीविषयासूयाभावस्य शोभाकरतया भावशवलताख्योऽलंकारः ॥ अत्र युक्तिरूपः सहोत्यलंकारः ॥ इति भावशवलताप्रकरणम् ॥ ७ ॥ इति श्रीमन्मरुमण्डलमुकुटमणि-महाराजाधिराज-राजरा- जेश्वर-जी. सी: ऐस्, आई. श्रीयशवन्तसिंहस्याज्ञया कवि राजमुरारिदानविरचिते यशवन्तभूपणग्रन्थे रसवदादिभावा- लंकारनिरूपणं नाम पञ्चमाकृतिः समाप्ता ॥५॥ . .
यशवन्तभूपणम् ॥ अथान्तर्भावाकृतिः ॥ . नत्वात्मन्यस्य जगतो लयकर्तारमीश्वरम् ॥ येऽन्तर्भवन्त्यलंकारा इतरेपु वदामि तान् ॥१॥ तुच्छे विलक्षणत्वे स्यानालंकारान्तरं नृप! ॥ कविश्रेष्ठा विनिन्दन्ति तादृशं ग्रन्थविस्तरमं ॥२॥ चन्द्रालोके शतमलंकारा उक्ताः । तेषु चतुःषष्ठिः स्वत- न्त्रालंकारा इत्यस्माभिरपि स्वीकृताः ॥ तेषु च स्मृत्याद्यलं. • •कारत्रिकस्य तु चन्द्रालोकेऽपि नामरूपं लक्षणमुक्तम् ॥ अ. तद्गुणायलंकारचतुष्टयस्य च नामार्थानुसारि लक्षणम् ॥ तदितरसप्तपञ्चाशदलंकाराणां लक्षणानि नामार्थानुसारीणि- न सन्तीति दोपग्रस्तानि ॥ तेषां खण्डनं तत्तदलंकारप्रकरणे उक्तम् ॥ इरिग्रन्थकाराणां लक्षणान्यपि प्रायश्चन्द्रालोकलक्ष. समान्येवेति तरखण्डनेन तेषामपि खण्डनं वेदितव्यम् ॥ कचिच्च ग्रन्थे कस्यचिल्लक्षणं चन्द्रालोकविलक्षणं दृश्यते । तस्य स्खण्डनं तस्माभिषेशचन्तयशोभूपले लिखितम् चन्द्रा- लोकोकावशिष्टपट्त्रिंशदलंकाराणां मम मते त्वन्यालंकारे- बन्तर्भावः। ते इह प्रदर्श्यन्ते ॥ उकसंख्यायामितरग्रन्थोक्तद्वि- पष्टयलंकारमेलनेन ट्यूनशतालंकाराणामन्तर्भावी धुरंधराभि- मतेकाशीत्यलंकारेवस्राभिविहितः । स च यशवन्तयशोभू- पणे लिखितः॥ SAMm * आकृति] अत्युक्तिः ॥ अत्युक्तिः ॥ . अतिशब्दार्थों लद्धनम् । “अति ल हने" इति चिन्ताम- णिः ॥ लोकसीमायां रूढिः ॥ लोकसीमाल इनरूपोक्तिरत्यु- क्तिरित्यर्थः ॥ कश्चिच्छोयौदार्यविषयकलोकसीमाल छनोदाहर- णेष्वतिशयोक्तेरत्युक्तिरिति नामान्तरं लिलेख ॥ ततो भ्रान्ता अर्वाचीनाः शौर्यौदार्यादिविषयकलोकसीमालईनेऽत्युक्तिः, इ- तरलोकसीमालइने चातिशयोक्तिरिति ज्ञात्वाऽलंकारद्वयं मन्य. न्ते स्म ॥ चन्द्रालोककारोऽत्युक्तरिदं लक्षणमाह- "अत्युक्तिरद्भुताऽतथ्यशौर्योदार्यादिवर्णनम् ॥” इति ॥ तदेतत्प्रमादविलसितम् ॥ उक्तविलक्षणताया अलंकारा- न्तरत्वयोग्यतात्वाभावादृत्युक्तेरतिशयोक्तावन्तर्भावः ॥ लोक. सीमालानरूपवर्णनस्य मिथ्यात्वेऽपि तस्य मिथ्यात्वेन क- थनं तु प्रसिद्धिविरुद्धदोपः ॥ अतिशयोक्तिरिति पर्यायोक्या कथनं तु रोचकं सदलंकारः॥ कथनस्यान्तरं च प्रदर्शितं केनचित्कविना- कव्यक्षराणि सर्वाणि श्रेष्ठान्यन्तरं महत्कथने ॥ खर्परगतं तदेव कजलमणोस्तदेव कज्जलकम् ॥१॥ 'न चातिशयोक्तावाश्चर्यविवक्षा । तत्त्वे तु विचित्रालंकारः स्यात् ॥ इत्यत्युक्तिः ॥ १॥ . ..
४३६ यशवन्तंभूषणम् [पष्टी अनन्वयः ॥ न अन्वयः, अनन्वयः । चन्द्रालोके इदं लक्षणोदाहरणम्- उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।। इन्दुरिन्दुरिव श्रीमानित्यादी तदनन्वयः ॥ ॥ अवीचीना अप्यस्य फलमसादृश्यं मन्यन्ते ।। तथा च भामहः- यत्र तेनैव तस्य स्यादुपमानोपमेयता ।। असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥१॥” इति ।। एतादृशीर्थनिधानामप्याक्षेपेऽन्तर्भावः ॥ इत्यनन्वयः॥ ॥ २ ॥ अनुगुणः॥ . . अनुशब्दार्थो दैर्घ्यम् । “ अनु आयामे" इति चिन्ताम- णिः ॥ “मायामो दैर्घ्यम्” इति वैयाकरणसिद्धान्तकौमु- द्याम् ॥ दीर्घता तु वृद्धिः ॥ तथा चानुगुणशब्दार्थों गुण. वृद्धिरिति ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसंनिधेः ॥ यथा- श्राकृतिः] अर्थान्तरन्यासः नीलोत्पलानि दधते कटाक्षरतिनीलताम् ॥ . कटाक्षस्य नीलवर्णवं स्वीकृतम् । अत्र परगुणसंवन्धे. चमत्कारः। स चापूर्वगुणप्राप्तौ पूर्वगुणवृद्धौ च समान इत्यु. क्तविलक्षणता प्रकारान्तरत्वसाधिका, न त्वलंकारान्तरत्व- • साधिकेत्यस्य तद्गुणेऽन्तर्भावः ॥ इत्यनुगुणः ॥ ३ ॥ अर्थान्तरन्यासः॥ . - अर्थान्तरस्य न्यासः स्थापनमर्थान्तरन्यासः ॥ चन्द्रालो के इदं लक्षणम्- “उक्तिरर्थान्तरन्यासःस्यात्सामान्यविशेषयोः॥” इति। यथा- गुणवद्वस्तुसंसर्गाद्याप्ति स्वल्पोऽपि गौरवम् ।। पुष्पमालानुपङ्गेण सूत्रं शिरसि धार्यते ॥ १ ॥ अत्र सामान्यार्थस्य कृते विशेषार्थस्य न्यासः ॥ - यथा वा- O हनूमानब्धिमतरदुष्कृतं किं महात्मनाम् ॥ अत्र विशेषार्थस्य कृते. सामान्यार्थस्य न्यासः ॥ इत्थं सामान्यविशेषार्थयोासांशे तु नालौकिकत्वम् । लोकवा- र्तालापे वाहुल्यैन दर्शनात् ।। उक्तलक्षणस्य पूर्वोदाहरणस्य .
. यशवन्तभाणम् [पष्टी चोदाहरणालंकारेऽन्तर्भावः॥ उत्तरोदाहरणे च ज्ञापकहेत्वलं- कारः॥ महात्मनां किमपि न दुष्करमिति श्रोतुऊपने हनूमतः समुद्रतरणस्य ज्ञापकत्वादस्य ज्ञापकहेतावन्तर्भावः ॥ पुनश्च कस्यचिद्विशेषार्थस्य कृते सामान्यार्थोदाहरणप्राप्तौ तत्राप- रालंकारस्य प्राप्तिर्भविष्यति ॥ इत्यर्थान्तरन्यासः ॥ ४ ॥ असंगतिः ॥ A . न संगतिरसंगतिः ॥ चन्द्रालोकेऽसंगतित्रयमुक्तम् ॥ विरुदं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः ॥ : अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा॥ अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥” इति ॥ अन विरुद्धं भिन्नदेशत्वमिति कथनात् “सर्पण पादे दष्टे'नेत्रयोऽर्णनम्" इत्यत्र कार्यकारण योभिन्नदेशत्वं प्रसि- 'द्धिविरुद्ध नास्तीति नासंगत्यलंकारः॥ चन्द्रालोके प्रथमा- संगतेरिदमुदाहरणम्-- विपं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः॥ अस्प चित्रहेतुनामहेतोः प्रकारतया विचित्रेऽन्तीवः ।। द्वितीयासंगतेरिदमुदाहरणम्-
.
थाकृतिः
असंगतिः
कुञ्ज मुदा जागरितौ निशायां
प्राप्तौ प्रगे स्वं भवनं त्वरातः ॥
ममन्थ नीरं दृषभानुकन्या
तथा मुरारिर्टषभं दुदोह ॥१॥
उक्तासंगतेरयथायोग्यतया विपमेन्तर्भावः ॥ तृतीया-
संगतेरिदमुदाहरणम्-
मोहं जगत्रयभुवामपनेतुमेत-
दादाय रूपमखिलेश्वर! देहभाजाम् ।।
निःसीमकान्तिरसनारधिनामुनैव
मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥ १॥
.कृष्णं प्रति गोपीनां परिहासः । मोहशब्दे श्लेपः ! मो.
होऽज्ञान स्नेहश्च.॥
भगवदवतारो हि संसारिणां मोहनिरसन्मयैव भवति ।
तदेवोकं भगवता कृष्णेन भगवद्गीतायाम्-
"यदा यदा हि धर्मस्य म्लानिर्भवति भारत! ॥
अभ्युत्थानमंधर्मस्य तदात्मानं सृजाम्यहम्॥” इति॥
•उक्तासंगतेरप्ययथायोग्यतया विषमेऽन्तर्भावः ॥ इत्य.
संगतिः ॥ ५ ॥
[पष्टी यशवन्तभूपणम् असंभवः ॥ . न संभवः, असंभवः ॥ चन्द्रालोके इदं लक्षणम्- "असंभवोऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम् ॥” इति ॥ यथा- को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ अत्र शैलोत्पाटनासंभाव्यत्वाय कृष्णो गोपशिशुक उक्तः ॥ उक्तलक्षणोदाहरणयोर्विचित्रेऽन्तर्भावः ॥ इत्य- संभवः ॥६॥ आवृत्तिदीपकम् ॥ दीपकस्यावृतिरावृत्तिदीपकम् ॥ चन्द्रालोके इदं लक्षणम्- "त्रिविधं दीपकारत्तौ भवेदारत्तिदीपकम् ॥” इति॥ पदस्थार्थस्योभयोर्वाऽऽवृत्तौ त्रिविधमावृत्तिदीपकम् । क्रमेण यथा- । वर्षत्यम्बुदमालेयं वर्षत्येषां च शर्वरी॥. 'उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।।
४४१ प्राकृति. उन्मीलितम् माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखावलाः ॥ अत्रासंगतिमेवं वाञ्छन्ति । वर्पतीत्यत्रैकमेव वर्पति. शब्दमम्बुदमालाशर्वयोः समीपे कृत्वा तयोः प्रकाशनम् । घ- नपक्षे वर्षति वृष्टिं करोति । शर्वरीपक्षे वर्ष इवाचरति वर्ष- तीति । उन्मीलन्तीत्यत्रैकमन्न प्रफुल्लनरूपमर्थं कदम्बकेतक- योः समीपे कृत्वा तयोः प्रकाशनम् । माद्यन्तीत्यत्रैकमेव माद्यन्तीतिशब्दार्थ चातकशिखावलयोः समीपे कृत्वा तयोः प्रकाशनम् ॥ भोजमहाराज इमानि दीपकस्य प्रकारान्मन्यते। तत्तुसमी- चीनम् । श्रावृत्तिदीपकस्य मत्स्पष्टीकृते दीपकस्य तृतीयप्र- कारेऽन्तर्भावः ॥ नेमानि प्रकारान्तराणि । किंतूदाह- रणान्तराणि ॥ इत्यावृत्तिदीपकम् ॥ ७ ॥ उन्मीलितम् अत्रोदुपसर्गार्थः प्राकटयम् । उन्मीलिततिसमुदितशब्दा. थों मीलितवस्तुनः प्रकटीकरणम् ॥ चन्द्रालोके इदं लक्षणम्- "भेदवैशिष्टययोः स्फूर्तावुन्मीलितविशेषको॥” इति॥. यथा- हिमाद्रिं त्वद्यशोमन्नं सुराः शीतेन जानते ॥
કાર यशवन्तभूपणम् पिष्टी उन्मीलितेऽपि चमत्कारपर्यवसानं तु मिलित एव । उक्तो- दाहरणेऽपीयमेव विवक्षा, त्वद्यशसि हिमाद्रिरे, मिलितो य. सुराः केवलं शीतलस्पर्शेन तं जानन्तीति ॥ यथा वा- गुप्तेयं स्वर्णमालत्यां न लक्ष्येत कथंचन ॥ यदि स्वाभाविकस्त्वस्या गन्धो नो ललयेदमूम्॥१॥ भोजमहाराजोऽपि निवृत्तां भ्रान्तिं भ्रान्तिमेव मनुते ॥ यथा--. . हसिधे सहत्थतालं सुक्खवडमुपगएहि पहिएहि ॥ पत्तप्फलसारिच्छे उड्डीने पूसवदम्मि ॥१॥ (*) एवमुन्मीलितस्यापि मिलितेऽन्तर्भावः ॥ इत्युन्मीलि. तम् ॥ ८ ॥ ॥ उपमेयोपमा ॥ उपमेयभूतेनोपमा, उपमेयोपमा ॥ चन्दालोके इदं ल- क्षणम्- (*) संस्कृतम् ॥ हसितं सहस्तताले शुकवटमुपगतः पथिकैः ॥ पत्रफलसहदे सीने गुफन्दे ।।१।।
श्राकृतिः] उल्लासः "पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता ॥” इति ॥. यथा- . धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि ॥ केनचित्परस्परोपमाया उदाहरणे तस्या उपमेयोपमेति ना. मान्तरमलेखिं ॥ तंतोऽलंकारगणनारसिका अलंकारान्तरं गणयामासुः ॥ नाम्ना लक्षणेनोदाहरणैश्चास्याः परस्परोप- माख्ये उपमाप्रकारेऽन्तर्भावः ॥ अर्वाचीना अनन्वयस्य फलं द्वितीयसदृशव्यवच्छेदमस्याश्च तृतीयसदृशव्यवच्छेदमाहुः ॥ अतोऽपि नालंकारान्तरत्वं वक्तुं शक्यम् ॥ अस्मिन्पर्यवसाने स्वाक्षेपेऽन्तर्भावात् ॥ इत्युपमेयोपमा ॥ ६ ॥ उल्लासः " उल्लास इत्यत्रोत्पूर्वाल्लसते ॥ अत्रोदुपसर्गार्थः प्रावल्यम्॥ लसधात्वर्थ आलिङ्गनम् ॥ लस श्लेषणक्रीडनयोः ॥" तथा च "उत् प्रावल्येन लस्यते श्लिष्यते इत्मुल्लासः ॥ वलासंवन्धकर्तृत्वमितिभावः ॥ अनान्यस्य गुणवोपयोरन्य- स्मिन्संवन्धे रूढिः॥ चन्द्रालोके. इदं लक्षणम्- "एकस्य गुणदोपाभ्यामुल्लासोऽन्यस्यत्तौयदि ॥” इति॥
४२४ [पष्टी यशवन्तभूपणम् क्रमेण यथा- अपि मां पावयेत्साध्वी स्नात्वेतीच्छति जान्हवी ॥ अत्र साध्व्याः पातिव्रत्यगुणेनान्यस्या गङ्गायाः पावनत्व- गुणप्राप्तिः॥ काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः ।। निन्दन्ति च विधातारं त्वदाटीवरियोषितः ॥ १॥ अत्र रिपुरमणीनां वनवासे चरणकोमलतादोपेणान्यस्य ब्रह्मणो विपरीतरचनारूपदोपप्राप्तिः ।। तदभाग्यं धनस्यैव यन्नाशयति सज्जनम् ।। अत्र पुरुषविशेषाणां सज्जनतागुणेनान्यस्य धनस्याभाग्य- रूपदोपप्राप्तिः॥ 'लाभोऽयमेव भूपाल! सेवकानां न चेद्वधः ।। मत्र राज्ञः क्रूरतादोषेणान्यस्य दासस्य प्राणरक्षागुणप्रा- सिः ॥ गुणेनान्यस्य गुणे, दोपेण चान्यस्य दोपे हेतुताविवक्षा चेद्धेतो, यथायोग्यताया विवक्षा चेदस्य समेऽन्तर्भावः ॥ गु- णेनान्यस्य दोपे, दोपेण चान्यस्य सुणे कार्यकारणवैचित्र्यस्य विवक्षा चेच्चित्रहती, अयथायोग्यताया विवक्षा चेद्विपमेऽन्त- र्भावः ॥ इत्युल्लासः ॥ १०॥ . . .. .
प्राकृतिः कारणमाला ४४५ ॥कारकदीपकम्॥ va क्रियान्वितत्वं कारकत्वम् । कारक दीपकरूपं यत्र तत्का. रकदीपक़म् ॥ प्रायः पदार्थाः पट्कारकमयाः ॥ चन्द्रालोके इदं लक्षणम्-- "क्रमिकैकगतानां तु गुम्फः कारकदीपकम् ॥” इति ।। ऋमिकाणामात्क्रियाणामेककारकगतानां गुम्फो निवन्धः कारकदीपकं नामालंकारः॥ यथा-- गच्छत्यागच्छति पुनः .पान्थः पश्यति एच्छति ॥ अत्रेकस्यैव पान्थस्य कर्तृकारकस्यानेकक्रियान्वितत्वादुक्त- कारकं दीपकरूपम् ।। क्रियाया दीपकरूपत्वे, कारकस्य दीपक- रूपत्वे, कारकेप्वपि च कर्तृकर्मादीनां वा दीपकरूपत्वे उदाहरणान्तरमात्रम् । 'न त्वलंकारान्तरम् ॥ अतोऽस्य दीपकेऽन्तर्भावः ॥ इति कारकदीपकम् ॥ ११ ॥ कारमाला ॥ कारणानां माला कारणमाला ॥चन्द्रालोके इदं लचणम्- ४४७ , .. प्राकृतिः] गूढोक्तिः काव्योपयोगितया काव्येतिविशेषणम् ॥ काव्यरूपं लिङ्ग चि- न्हं काव्यलिङ्गम् । रमणीयं चिन्हमलंकार इति भावः ॥ अलंकारशास्त्रे काव्यलिङ्गस्य पर्यायनाम ज्ञापकहेतुरिति प्रसि- दम् ॥ परंपरागतमिदमुदाहरणम्--- जितोऽसि मन्दकंदप! मच्चित्तेऽस्ति त्रिलोचनः ।। मया त्वं जितोऽसीति स्मरं प्रति ज्ञापने येन त्वं दृष्टिपात- मात्रेण भस्मसात्कृतः मोऽसौ त्रिलोचनो मञ्चित्ते वसतीति हेतुर्मापकः । केनचिदुक्तोदाहरणे ज्ञापकहेतो मान्तरं काव्य- लिङ्गं लिखितम् । ततो भ्रान्ता धुरंधराभिप्रायमजानाना थ. चीना उक्तोदाहरणे कामजयरूपोऽर्थोऽसाध्यतथा समर्थन योग्य इति मञ्चित्तेऽस्ति त्रिलोचन इत्यर्थेन समर्थित इत्यबो- घिपुः । लिङ्गशब्दार्थों हेतुमात्रमपि । “लिङ्गं हेतौ" इति चिन्तामणिः ॥ ततश्चात्र लिङ्गशब्दार्थ हेतुमात्रं ज्ञात्वा तथा- विधं लक्षणं निर्मितवन्तः॥ चन्द्रालोके इदं लक्षणम्- "समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम्॥” इति। समर्थनीयस्यार्थस्य समर्थनशि तु न किंचिदपि चमत्कारः। तत्त्वपुष्टार्थदोषवारणमात्रम् । न च दोषपरिहारोऽलंकारत्वम- हति ॥ अस्य ज्ञापकहेतावन्तर्भावः॥ इति काव्यलिङ्गम् ॥१३॥ ॥ गूढोक्तिः॥ गूठा उक्तिगूढोक्तिः ॥ चन्गालोके इदं लक्षणम्-- . ४४६ यशवन्तभूषणम् [पष्टी "गुम्फः कारणमाला स्याद्यथा प्राक्प्रान्तकारणैः ॥". इति ॥ क्रमेण यथा- नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥ अत्र कारणानि प्रथमं कार्याणि च पश्चाकथितानि ।। भवन्ति नरकाः पापात्पापं दारिद्रयसंभवम् ॥ दारिद्रयमप्रदानेन तस्मादानपरो भवेत् ॥ १ ॥ अत्र कारणानि पश्चात्कार्याणि च प्रथमं कथितानि ।। तत्तदलंकारसंघन्धिन्यां मालायां तत्तदलंकारस्य प्राधान्या- न्माला तत्तदलंकारस्य प्रकारत्वमापद्यते । यथा मालोपमा. रूपकमालादयः। अत एव कारणमालाया हेत्वलंकारेऽन्त- भावः ॥ किं च कारणमाला त्वेफकार्यस्यानेककारणसद्भावे भवति । न तु कार्यकारणपरंपरायाम् । इदं तु शृङ्खलाया एवो- दाहरणान्तरम् । कारणस्य पूर्वपश्चाद्भाव उदाहरणान्तरमा- त्रम् । न तु प्रकारान्तरम् ॥ एतादृशकारंणमालायाः शृङ्ग- लायामन्तर्भावः ॥ इति कारणमाला ॥ १२." ॥ काव्यलिङ्गम्। अत्र लिङ्गशब्दार्थश्चिह्नम् । “लिई चिन्हे " इति चिन्ता- मणिः ॥ लिङ्गाल्लिविज्ञानं भवतीतीह ज्ञापकचिन्हे रूढिः ।
४४७ आकृति-] गूढोक्तिः . काव्योपयोगितया काव्येतिविशेषणम् ॥ काव्यरूपं लिङ्ग चि- न्हं काव्यलिङ्गम् । रमणीयं चिन्हमलंकार इति भावः ।। अलंकारशास्त्रे काव्यलिङ्गस्य पर्यायनाम ज्ञापकहे तुरिति प्रसि- दम् ॥ परंपरागतमिदमुदाहरणम्- जितोऽसि मन्दकंदर्प! मच्चित्तेऽस्ति त्रिलोचनः । मया त्वं जितोऽसीति स्मरं प्रति ज्ञापने येन त्वं दृष्टिपात- मात्रेण भस्मसात्कृतः मोऽसौ त्रिलोचनो मञ्चित्ते वसतीति हेतुर्तापकः । केनचिदुक्तोदाहरणे ज्ञापकहेतो मान्तरं काव्य- लिङ्गं लिखितम् । ततो भ्रान्ता धुरंधराभिप्रायमजांनाना अ. र्वाचीना उक्तोदाहरणे कामजयरूपोऽर्थोऽसाध्यतया समर्थन: योग्य इति मञ्चित्तेऽस्ति त्रिलोचन इत्यर्थेन समर्थित इत्यबो- धिपुः। लिङ्गशब्दार्थों हेतुमात्रमपि । “लिङ्गं हेतौ" इति चिन्तामणिः ॥ ततश्चात्र लिङ्गशब्दार्थ हेतुमात्रं ज्ञात्वा तथा- विधं लक्षणं निर्मितवन्तः॥ चन्द्रालोके इदं लक्षणम्- "समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनम् ॥” इति। समर्थनीयस्यार्थस्य समर्थनांशे तु न किंचिदपि चमत्कारः। तत्त्वपुष्टार्थदोषवारणमात्रम् । न च दोषपरिहारोऽलंकारत्वम- हति ॥ अस्य ज्ञापकहेतावन्तर्भावः॥ इति काव्यलिङ्गम् ॥१३॥ ॥ गूढोक्तिः ॥ गूठा उक्ति ढोक्तिः ॥ चन्द्वालोके इदं लक्षणम्-- -- ४४८ यशवन्तभूषणम् [पष्टी "गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते ॥” इति ।। यथा-- तृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥ अत्र परदारान् भुजान जारं प्रति वक्तव्यं वृष प्रत्युक्तम् ॥ गूढोक्तिनाम्नस्तु सूक्ष्मेऽन्तर्भावः ॥ लक्षणोदाहरणयोश्च मि- पेऽन्तर्भावः ।। इति गूढोक्तिः ॥ १४ ॥ ॥ छेकोक्तिः ॥ छेकश्चतुरः । तस्योक्तिश्छेकोक्तिः ॥ चन्द्रालोके इदं लक्षणम् "छेकोक्तिर्यदि लोकोक्तेः स्यादर्थान्तरगर्भिता ॥"इति॥ यथा- भुजङ्ग एव जानाति भुजङ्गचरणं सखे! ॥ सर्पस्य पादो न दृश्यते । स चातिजवेन सर्पति । तद्विषये "भुजङ्ग एवं जानाति भुजलाचरणम्" इति लोकोक्तिः॥ दुग्धे तन्ती मक्षिका भक्ष्यते चेत्तद्विपपे “ दुग्धमक्षिका” इति 'लोकोक्तिः ॥ दुग्धमक्षिकेत स्वतन्त्रलोकोतिस्तु न कंचिद- परमथै गर्भीकरोतीति साधारणलोकानामियमुक्तिः ॥ इय- मेव लोकोक्तिःप्रसङ्ग उच्यते चेत्नांसानिकवृत्तान्तं गर्मीकरोति॥
४४३ प्राकृतिः परिकराङ्कुरः भुजङ्ग एय जानाति भुजङ्गचरणम् " इतीयं लोकोक्तिः प्रसङ्गं विना स्वातन्त्र्येणोक्ताप्यस्य गूढवृत्तान्तमयमेव जाना- तीत्यपरमर्थं गर्भीकरोतीति चतुरलोकानामुक्तिरियम् ॥ उक्त- लोकोक्तिवैलक्षण्यं नालंकारान्तरत्वाहम् । किं तु प्रकारान्तर- •मुदाहरणान्तरं वा । छेकोक्तेर्लोकोक्तावन्तर्भावः ॥ इतिच्छे- कोक्तिः ॥ १५ ॥ ॥ परिकराङ्कुरः॥ परिकरः अङ्कर इव परिकराङ्कुरः । अत्र धुरंधरस्था यमभिप्रायः, चन्द्ररूपमाभूपणं शिवस्य परिकर इंति ॥ सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः ॥ इत्यत्रोक्तपरिकरो विशेपणरूप इति वृक्षवत्स्थूलतया भा. सते ॥ तापं हरतु मे नाथो भगवाञ्छशिशेखरः ॥ अत्र स एव भूषणरूपः परिकरो विशेष्यरूपोऽर्थान्नामरूप इत्यङ्कुरवत्सूक्ष्मतया भासत इति परिकराङ्कुरनामकोऽयं परिकरस्य प्रकार इति ॥ अत्रोदाहरणद्वये ज्ञापकहेतोः संकी- र्णता ॥ चन्द्रालोकंकारेण साभिप्रायविशेषणे परिकरालंका- रोऽङ्गीकृत इति. साभिप्रायविंशेप्ये पत्रिकराङ्कुराख्यमलंका- रान्तरं स्वीकृतम् ॥ तम्येदं लक्षणोदाहरणम्-- .
यशवन्तभूपणम् [पष्ट 'साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ॥” इति ॥ यथा- चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ अत्रैपो लक्षणसंगतिस्तु विष्णोश्चतुर्भुज इति विशेष्यरूयं नाम धर्मार्थकाममोक्षाणां चतुर्णा पुरुषार्थानां युगपद्दानाभि- प्रायेणेति ॥ अंत्र चतुर्भुजेनिनाम्नो विशेष्यरूपतयोक्तसाभि- मायतायाः सूक्ष्मवादफूरसदृशत्वम् ॥ मम तु मतं, उक्तसा- भिप्रायता ज्ञापकहेतोपियः । विष्णोर्भुजचतुष्टयस्यावय- वत्वान्न परिकरत्वम् ॥ वास्तवपरिकरारस्य तु परिकरेऽन्त भावः ॥ इति परिकराङ्कुरः ॥ १६ ॥ ॥ परिवृत्तिः ॥ , परिवृत्तिः परिवर्तनम् । विनिमय इति यावत् ॥ जग्राहैकं शरं मुक्त्वा कटाक्षान्स रिपुश्रियः ॥ अत्रान्योन्यपरिवर्तनम् । केनचिदुक्तोदाहरणे परिवृत्तिरि- ति नाम, इदमन्योन्यपरिवर्तनमित्यभिप्रायेण लिखितम् ॥ उ. कोदाहरणे न्यूनाधिकयोः परिवर्तनमाप विद्यत इत्यलंकारग- णनारसिका इदमलंकारान्तरमाहुः.॥ चन्द्रालोके इदं लक्षणम्---- प्राकृति] . प्रतिवस्तूपमा 'परियत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः ॥ इति ॥ अयं विषयस्त्वन्यान्यालंकारस्योदाहरणान्तरम् ॥ क्वचि. समवस्तुनोरपि परिवर्तनं भवति । परिवृत्तेरन्योन्येऽन्तर्भावः॥ इति परिवृत्तिः ॥ १७॥ ॥ प्रतिवस्तूपमा ॥ वस्तु वस्तु प्रति उपमा प्रतिवस्तूपमा ॥ अर्वाचीनाः सा- धर्म्यमुपमा मन्यन्ते । “साधर्म्यमुपमा भदे" इति काव्यप्र काशे॥ एषां मतेऽनन्वयेऽभेदे सति साधाङ्गीकारात्ततो व्या. वृत्तये भेदे इति ॥ उपमोदाहरणेषु प्राय उपमानोपमेयवस्तुमो- मध्यादेकं वस्तु प्रति साधर्म्यस्य प्रयोगो भवति ॥ यथा- आखण्डल इवोदारो मरुभूमेरधीश्वरः ॥ अत्रोदारतासाधर्म्यमेकमुपमानं प्रत्युक्तम् ॥ इत्यादि । कस्यचिदुपमाया ईदृशमुदाहरणम्- तापेन भ्राजते सूरः शूरश्चापेन राजते ॥ अत्र तापचापयोभिन्नपदार्थत्वान्न साधयंपन्त्रम् । सत्र . साधम्य तु शोभनम् ॥ तन्न बात्रोपमानोपमयबस्तुद्वयं प्रति प्रयोगो विहितः । पुनरुक्तिवारणार्थ चोपमेयं प्रति "राजते” इति पर्यायान्तरमुक्तम् ॥ ईशोपमादाहग कन- चिंदुपमाप्रकारविवक्षया प्रतिवस्तूपमेति लिखितम् । श्रा ।
४५२ यशवन्तभूपणम् [पष्टी चीना एनामलंकारान्तरं मेनिरे । चन्द्रालोके इदं लक्षणम्- "वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता" इति॥ वाक्ययोरुपमानोपमेयविषयकवाक्ययोः ॥ अलंकारगण. नारसिकानां तु महत्साहसम्, यदस्या उपमापल्लवमभिधानं वदन्त एवा इंकारान्तरं मन्यन्ते । अस्या उपमाया उदाहर- णान्तररूपत्वादुपमायामन्तीवः ॥ इति प्रतिवस्तूपमा॥१८॥ ॥ प्रतिषेधः ॥ . प्रतिषेधशब्दार्थों निषेधः । प्रतिषेधः. निषेधे ॥” इति चिन्तामणिः॥ न द्यूतमेतत्कितव! क्रीडनं निशितैः शरैः ।। शकुनितेन पाण्डवराज्यं जहार । तं प्रति रणागणे क- स्यचिद्वचनमिदम् । ईदृशनिपेधोदाहरणे . कश्चिन्निषेधस्य नामान्तरं प्रतिपेधं लिलेख । अलंकारगणनारसिकैन्द्रजालि- का अत्र युद्धे द्यूतनिषेधः प्रसिद्धः, युद्धं द्यूतं नास्तीति । तत्र युद्धे द्यूतस्य निषेधाय पुनरिदं कथितम्, नेतद्यूतं युद्धमेत- त् । एतद्वैलक्षण्यं दयित्वा नामविलक्षणतासाहाय्येनालं. कारान्तरमाहुः ॥ चन्द्रालोके इर्द लक्षणम्- "प्रतिषेधः प्रसिदस्य निषेधायानुकीर्तनम् ॥" इति॥ -- , । श्राकृतिः] प्रतीपम् ४५३ इत्थं निषेधस्य निषेधकथनमपि लोकप्रथा । यथोक्तनि- पेधालंकारे "नाहं वाली सुबाहुः-" इत्युदाहृतम् ॥ उक्तवैल- क्षण्येन तूदाहरणान्तरमात्रमेतत् ॥ चन्द्रालोकस्य स्पष्टयिता कुवलयानन्दकारः “निर्घातो निषेधः स्वतोऽनुपयुक्तत्वात्तव नागल्भ्यं द्यूत एव न तु युद्धे व्युत्पत्तिग्रहोऽस्तीत्युपहास- 'रूपमर्थान्तरं गर्भीकरोति तेन चारुतान्वितोऽयं प्रतिषेषना- मालंकारः" इति वदति ॥ मम तु मतं, उक्तव्यङ्गन्यस्य चा- रुतयोक्तनिषेधोदाहरणे चारुतावाहुल्यं खलु, तथाप्युक्तवै- भवेन निषेधादपरः प्रतिषेधाख्योऽलंकारो वक्तुमशक्यः ॥ उ- तनाना लक्षणेनोदाहरणेश्चार्य निषेध एवेति निषेधेऽस्यान्त. र्भावः ॥ इति प्रतिषेधः ॥ १६ ॥ ॥ प्रतीपम् ॥ प्रतीपशव्दार्थः प्रतिकूल इति ॥ “प्रतीपः प्रतिकूले". इति चिन्तामणिः ॥ परंपरागतविपरीतोपमाया ईदृशमुदाह- वल्लोचनसमं पद्मं त्वद्वक्रसहशो विधुः॥" अत्र शरदृतुप्रसङ्गेनेयं विपरीतोपमा। विपरीतोपमा प्र. सङ्गप्राप्ता भवति । न तूपमानप्रातिकूल्येन । धुरंधराभिप्राय- मजानानां अर्वाचीना विपरीतोपमायास्तात्पर्यमुपमान- प्रातिल्पेनोपमानस्योपमेयत्वकल्पनम्, उपमानानादरं च बत्फलं मत्वा स्वमतानुसारेण पञ्चविधं प्रतीपं मन्यन्ते ॥ . . .
(पष्टी यशवन्तभूपणम् चन्द्रालोके इमानि लक्षणोदाहरणानि- "प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ॥ . तत्रास्य पूर्वीकमुदाहरणम् ॥ उक्तोदाहरणे तु विपरीतो- पमैव । अन्योपमेयलाभेन वय॑स्यानादरश्च तत् ॥ यथा- . अलं गर्वेण तेवक! कान्त्या चन्द्रोऽपि तादृशः ॥ अत्र सख्या परिहासप्रसङ्गेन विपरीतोपमोक्ता। अनो- पमेयस्य मुखस्य नानादरः ॥ किंतु निन्दाव्याजेन स्तुतिः॥ ' इदमपि विपरीतोपमाया उदाहरणान्तरम् ॥ व्याजनिन्दायाः संकीर्णस्वम् ॥ वोपमेयलाभेन तथान्यस्याप्यनादरः। बधा- अहमेव गुरुः सुदारुणाना- मिति हालाहल! मा स्म तात! दृप्यः।। ननु सन्ति भवाहशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥ १॥ अत्रोपमानहालाहलस्यानादरे न पर्यवसानम् । किं सदि. तीयतागर्वान्वितोपानस्योपमयोपमेयखलवचनविकरालवा.
भारतिः] प्रतीपम् तिशये पर्यवसानम्।अतोऽत्र व्याजनिन्दारूपो मिपालंकारः। शुद्धोपमायाः संकीर्णत्वम् ॥ वर्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् ॥ .' यथा- मुधापवादो मुग्धाति! त्वन्मुखाभं किलाम्बुजम् ॥ यथा वा- दाने कल्पतरुर्माने कुरुराजो भवत्समः ॥ . इति यः प्राह स कविमूढोऽस्ति मरुभूपते! ॥ १ ॥ अत्रोपमानस्य तिरस्कारादाक्षेप एव । "प्रतीपमुपमानस्य कैमर्थ्यमपि मन्यते ॥ यथा- दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना ॥ यथा वा- - तदोजसस्तयशसः स्थिताविमौ 'तथेति चित्ते कुरुते यदा यदा ॥ तनोति भानो परिवेषकैतवा- तदा विधिः कुण्डलमां विधारपि.॥ १॥ मंत्राक्षेपे उत्प्रेक्षायाः संकीर्णत्वम् । भर्वाचीना भनादरं .
४५६ . यशवन्तभूपणम् [पष्टी प्रतीपाख्यमलंकारान्तरं मन्यन्ते । अनादरस्य स्वाक्षेपेऽन्तर्भा. वः । अनादरस्यापि तिरस्काररूपत्वात् । प्रतीपस्य कतिपयो- दाहरणानां चान्यालंकारेण्वप्यन्तर्भावः ॥ इति प्रतीपम् ॥२०॥ ॥ प्रस्तुताङ्कुरः॥ . प्रस्तुतः। अङ्कुर इव प्रस्तुताङ्कुरः ॥ चन्द्रालोके इदं लक्षणम्- प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः ॥ .. यथा--- किं भृङ्ग! सत्यां मालत्यां केतक्या कण्टकद्वया ।। वल्लभेन सहोपवने विहरन्त्या नायिकाया इयमुक्तिः। अ- त्रोक्तभ्रमरवृत्तान्तोऽपि तत्समये पुरोवर्तितया प्रस्तुतः । नायि- काया निजनायकं प्रति सुखलभ्यस्वकीयां विहाय नाथनना. न्द्रादिदुष्प्राप्यपरकीयासेवन कुतः क्रियत इत्युपदेशोऽपि वि. वक्षितत्वात्प्रस्तुत इतीह प्रस्तुतेन प्रस्तुतस्य प्रतीतिः ॥ अ- प्राङ्कुरवत्वं तु, अप्रस्तुतप्रशंसायामप्रस्तुतार्थस्प वाध्यत्वा- प्रस्तुतार्थस्य वृक्षवस्थूलतयास्फुटं प्रतीतिः, अत्र तु प्रस्तुता- धस्य वाच्यत्वादपरप्रस्तुतार्थस्य क्षणपिलम्धेन सूक्ष्मतयाऽ- कुरवत्मतीतिरित्येवं वान्छन्ति । परं तु वृक्षतधरयोः प्रका- रान्तरत्वादस्वन्तराभाव इत्युक्त प्रस्तुताङ्कुरस्य नालंकारा- न्तरत्वम् । अस्य त्वमस्तुतप्रशंसायाः प्रकारत्वादप्रस्तुतप्रशं.
प्राकृतिः]
प्रौढोक्तिः
सायामन्तर्भावः ॥ एतच्चाप्रस्तुतप्रशंसायां प्रागुक्तम् ॥ इति
प्रस्तुनाङ्कुरः ।। २१ ॥
प्रौढोक्तिः॥
..
--
प्रौढशब्दार्थोऽत्यन्तं वृद्धिमानिति । 'प्रौढः प्रयुद्धे "'इति
चिन्तामणिः ॥ प्रौढा उक्तिः प्रौढोक्तिः॥ अतिशयोक्तेः पर्या-
योऽयम् । कविसृष्टौ लोकसृष्टेरतिशयितोक्तिर्भवति । परं त्वियं
ततोऽपि कवितृष्टितोप्यतिशयितोक्तिः ॥ परंपरागतं धुरंधरस्ये.
दमुदाहरणम्-
कचा: कलिन्दजातीरतमालस्तोममेचकाः ॥
पादपे मिष्टक्षारनीरगुणागुणसंपर्को वियते । नीरसंवन्धि-
वर्णरूपगुणसंपर्फस्तु न विद्यते । इयमहतोतुतोकिर्लोकसी-
मालदनं बोधयन्त्येव पादपे मिष्टक्षारनीरगुणागुणसंपर्को वि-
यते इति सामाजिकानामुद्वेगाजमकतया चमत्कारमुत्पादय.
त्यलंकारः ॥
॥
यथा वा-
.
कैलासेन हरेण गरङ्गपयसा कर्पूरपुञ्जन वा
साम्यं ते यशसी वदन्ति कवयस्ते वै परं वालिशाः॥
राकारात्रिसमुद्भवैः सुशरदो हंसश्च मुक्ताफलैः
'नीराम्भोधिभवैः समंमरुधराधीश! त्वदीयं यशः।
यशवन्तभूपणम् [पष्टी इंसानां शारदराकारात्रिसमुद्भवो मुक्ताफलानां च क्षी- रसमुद्रसमुद्भवो न श्वैत्याधिक्यहेतुः । इयमहतोतुतोक्ति- लोकसीमालधनं बोधयन्त्येव बहुधा देशकालजन्मसम्बन्धा- देशकालगुणागुणसंपर्को वस्तुनि विद्यत इति सामाजिकाना- मुद्वेगाजनकतया चमत्कारमुत्पादयन्त्यलंकारः ॥ नात्र हेतूने क्षा । तादृशरचनाया अभावात् । किंचीत्प्रेक्षायामतिशयोक्त- लैंशोऽपि न विद्यते ॥ कश्चिदतिशयोकेरीदृशोदाहरणेऽतिश- केर्नामान्तरं प्रौढोक्तिरिति लिलेख । उक्तनाम्न उदाहरणस्य चाभिप्रायमज्ञात्वाऽर्वाचीना .अत्रोत्कर्षाहेतावुत्कर्पस्य हेतुता- कल्पनं प्रौढोक्तिरलंकारान्तरमित्यवोधिषुः ॥ चन्द्रालोके इदं . लक्षणम्- 'प्रौढोक्तिरुत्कर्षाहेतौ तहेतुत्वप्रकल्पनम् ॥ तत्र “कचाः कलिन्दजा-" इत्येवोदाहरणम् ॥ तत्त्वतिश- योकेरेवोदाहरणान्तरम् ॥ प्रौढोकेरतिशयोक्तावन्तर्भावः ॥ हठादहेतो,तुताकल्पनांशेऽलंकारोऽङ्गीक्रियेत चेहेतावन्त - पः ॥ इति प्रोढोक्तिः ॥ २२ ॥ 'मालादीपकम् ॥ दीपकस्य माला मालादीपकम् ॥ चन्द्रालोंके इदं लक्ष. "दीपकैकावलीयोगान्मालादीपकमिप्यते ॥
, श्राकृतिः युक्तिः एपामयमभिप्रायः, एकावलौ पदार्थस्य द्विर्भाव इत्येकाव- लीदीपकयोगे दीपकस्य माला संपद्यते इति ॥ चन्द्रालोके इद- मुदाहरणम्- स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः ॥ कुवलयानन्दकार इदमेवं घटयामास। “अत्र स्थितिरिति पदमेक, स्मरेण तस्या हृदये स्थितिः कृता, हृदयेन त्वयि स्थि- तिः कृतेत्येवं वाक्यद्वयान्वयि, अतो दीपकम् । गृहीतमुक्तरी- तिसद्भावादेकावली चेति दीपकैकावलीयोगः" इति ॥ मम तु मतं, अत्राप्येकावलेः प्राधान्यादेकावल्यर्थाच्छृङ्खलैवालंकारः ॥ दीपकालंकारः । गौणत्वात्। न चात्रालंकारद्वयमिश्रणेन तृतीयचमत्कारोत्थानमपि । यस्यालंकारान्तरखेनाङ्गीकारः स्यात् । यदि चात्र हठादुक्तालंकारद्वयस्य संसृष्टिरङ्गीक्रियेत तहि नायकान्वयिस्थितिधर्मस्य नायिकाहृदयेऽप्यन्वय इतीहा. स्मत्स्पष्टीकृतदीपकस्य प्रथमः प्रकारः स्यात् । नात्र दीपकमा- ला। कचिद्दीपकमालोपलब्धिश्चेत्तत्र मालादीपकनामकोऽस्म- स्पष्टीकृतदीपकस्य तृतीयः प्रकारो भविष्यति ॥ माला.स्व- तन्त्रालंकारोन भवतीति प्राक् सविस्तरमुक्तम् ॥ मालादीप.. कस्य दीपकेऽन्तर्भावः ।। इति मालादीपकम् ॥ २३ ॥ युक्तिः॥ न तु युक्तिशब्दार्थो नवीनार्थस्य प्राप्तिरिति। "युक्तिः, अपूर्वार्थ- प्राप्त?" इतिचिन्तामणिः ॥ चन्द्रालोके इंदं लक्षणोदाहरणम्,
४६०
पिष्ठी
यशवन्तभूपणम्'
"युक्तिः परातिसंधानं क्रियया मर्मगुप्तये ॥"
.
यथा-
त्वामालिखन्ती दृष्ट्वान्यं धनुः पौप्पं करेऽलिखत् ॥
जयदेवमतीययुक्तरस्य लक्षणोदाहरणानुसारेणापन्हता..
वन्तर्भावः। गोपनं क्रिपया भवतु. वचनेन वा, तत्तूदाहन-
. णान्तरमात्रम् । नत्वलंकारान्तरार्हवलक्षण्यम् ॥ इति
युक्तिः ॥ २४॥
ललितम् ॥
.
.
: ललितशब्दार्थ ईप्सित इति । "ललितं, ईप्सिते” इति
चिन्तामणिः ॥ अर्वाचीना ईप्सितस्य प्रतिविम्बकथने सर्टि
• 'मत्वाऽलंकारान्तरं स्थापयन्ति ॥ चन्द्रालोके इदं लक्षणोदाहर-
राम-
.
: वण्र्ये स्याहर्यरत्तान्तप्रतिविम्बस्य वर्णनम् ॥
ललितं निर्गते नीरे सेतुमेषा.चिकीर्षति ॥"
कलहान्तरितानायिकासरव्याः सनीं प्रत्युक्तिरियम् । अत्र
नायके गत्ते पश्चात्तापकरणं विफलमिति सख्या वक्तुमिष्टम् ।
• तदमुक्त्वा तत्प्रतिविम्बरूपमुक्तवचनं फथितम् । इयं प्रकारा-
न्तरेणोक्तिरिति पर्यायोक्तावतभावः । प्रतिविम्यं तु विन्यस्य
प्रकारः ॥ यथा चित्रदर्शनं दर्शनस्य प्रकारः ॥ इति ललि-
.तम् ॥ २५ ॥
आकृतिः चिकस्वरः विकस्वरः॥ विकस्वरशब्दार्थो विकसनस्वभाव इति ॥ "विकस्वरः विकसनशीले” इति चिन्तामणिः॥ चन्द्रालोके इदं लक्षणमु. "यस्मिंन्विशेषसामान्यविशेषाः स विकस्वरः॥ इति॥ अस्यदृशमुदाहरणम्- कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक! स्वयं माकन्द मकरन्दशालिनमिह त्वां मन्महे कोकिलम् ॥ धन्यानि स्थलवैभवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्के न शङ्केतंकः॥१॥ अत्र विकस्वरनाम्नः 'संगतिस्तु, अर्थान्तरन्यासे तु सा. मान्यार्थस्य कृते विशेषार्थस्य, तथा विशेषार्थस्य कृते सामा- न्यार्थस्य न्यासः । अत्र तु विशेषार्थस्य कृते सामान्यार्थ वि. न्यस्य तदर्थं च पुनर्विशेपार्थस्य न्यासो विकासरूप इति ॥ अस्मिन्नशे तु तन्मतोक्तार्थान्तरन्यासानिन्नालंकारत्वयोग्यं वै- लक्षण्यं नास्तीति तस्यैवायं प्रकारः ॥ यथा भोजराजोऽन्यो- न्यचूडिकानामकमन्योन्यप्रकारमाह ॥ यदा चार्थान्तरन्यास- स्यैवालंकारान्तरत्वयोग्यतायां 'अभावस्तदा तत्प्रकारस्य तु कथं वालंकारान्तरत्वम् ॥ कर्णारुन्तुदमन्तरेण-" इत्यत्र प्र- थमस्य काकवृत्तान्तरूपविशेपार्थस्य-स्थानमहिमरूपसामान्या-. .
[ पष्टी यशवन्तभूपणम् र्थस्य च न मनागपि चमत्कारः ॥ चमत्कारस्तु नयपालनरे- शवृत्तान्तरूपविशेपार्थवृत्तिः । स चोदाहरणालंकारस्य विपयः। इत्थं सामान्यविशेषार्थयोरपि क्वचिदुदाहरणालंकारे क्वचिच्च दृष्टान्तायलंकारप्वन्तर्भावो भवति ॥ इति विकस्वरः ॥२६॥ विभावनां ॥ . अत्र वीत्युपसों गतार्थे । “विगते” इति चिन्तामणिः।। भावनाशब्दार्थो भवनानुकूलो व्यापारः। विभावनेतिसमुदित- शब्दार्थस्तु विगता भावना यस्यां सा विभावना । कार्ये रूढिः । कार्यभवनानुकूलक्रियादेरभाव इति भावः ॥ विभा- बनायाः सामान्यलक्षणमनुक्ता चन्द्रालोककारो विभावना- पट्कमाह ॥ तस्येमानि लक्षणानि- "विभावना विनापि स्यात्कारणं कार्यजन्म चेत् १ ॥ हेतुनामसमग्रव्वे कार्योत्पत्तिश्च सा मता २॥ कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिवन्धके ३ ॥ अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ४ ॥ विरुद्धात्कार्यसंपत्तिद्देष्टा काचिद्विभावना ५ ॥ कार्यात्कारणजन्मापि दृष्टा काचिद्विभावना ६ ॥ कमेणोदाहरणानि--- अप्यलाक्षारसासित रक्तं तच्चरणद्वयम् १ ॥ . .
[आतिः 'विभावना ४६३ अत्र कारणं विना कार्योत्पत्तिः । अस्त्रैरतीक्ष्णकठिनैर्जगजयति मन्मथः २॥ अत्र जगज्जयरूपकार्ये शस्त्राणां तीक्ष्णताकठोरताधर्मः कारणम् । तदभावः कारणासमयत्वमर्थादपूर्णत्वम् ॥ 'अहो विचित्रा भवतों गतिर्मरुमहेश्वर ! ॥ कुरुते भवतस्तेजः संतापं छत्रधारिणाम् ३ ॥ अत्र च्छत्रे प्रतिवन्धके सत्यपि राजराजेश्वरतेजसोऽन्य- नृपाणां तापनम् । प्रतिवन्धकस्तु वारकः । अत्र तापवारके छन्ने सत्यपि तापकार्यजनिस्तु वाधके सति कार्योत्पत्तिः । यथा वा- दक्षोऽप्यसौ ते ह्यनुकूलतां गतः स्वरूपगर्वोऽप्यतिदीनतामितः ॥ अयं घनश्याम उता(*)पि चातको व्रजेन्दुरप्येष चकोरकस्तव ॥ १ ॥ अत्र दक्षिणत्यादौ प्रतिबन्धके सत्यप्यनुकूलत्वादिवृत्तित्वं प्रतिबन्धके सत्यपि कार्योत्पत्तिः ॥ शङ्खाहीणानिनादोऽयमुदेति महदद्भुतम् ॥४ वीणानादस्य वीणा'कारणम् । शङ्खस्तु वीणानादस्या- कारणम् । तथा च शंकाहीणांनादस्योद्भवोऽकारणात्कार्य- जन्म ॥ (*) इह उतेत्यव्ययं पादपूरणे ।। “उत पादपूरणे" इति चिन्तामणिः ।। .
४६४ यशवन्तभूषणम् [पष्टी त्वन्मुखरविवालातपसंपर्कान्मरुपते! महामान्य! ॥ करकमलान्यन्येषां भूपानां संकुचन्ति वीच्यन्ते ॥१॥ अत्र कमलविकासकर्तृवालातपसंवन्यात्कमलानां संकोचो विरुष्कारणात्कार्योत्पत्तिः ।। • यशःपयोधिरभवत्करकल्पतरोस्तव ।। कल्पद्रुमस्य समुद्रः कारणम् । कल्पद्रुमः कार्यम् । कल्प. द्रुमारसमुद्रोत्पत्तिस्तु कार्यात्कारणोत्पत्तिः॥ उक्तस्थलपटकेऽपि कार्योत्पत्तेरानुकूल्यं नास्तीति कार्यकारणभावस्य वैचित्र्याः- तोः प्रकारश्चित्रहेतुरलंकारः ॥ चित्रहेनोश्च विचित्रालंकारे- : तिर्भावः ॥ इति विभावना ॥ २७ ॥ विरोधाभासः ॥ . विरोधस्याभासो विरोधाभासः॥ चन्द्रालोके इदं लक्षणो. दाहरणम्- श्राभासत्वे विरोधस्य विरोधाभास इप्यते ॥ यथा- . विनापि तन्धि! हारेण वनोंजोतव हारिणौ ॥ अत्र श्लेपमूलो तिरोधाभासः।" विनापि, हारेण हारिणो' इत्यत्र श्रुतिमात्रेण क्षणं विरोधे भासमानेऽपि विचारदांयां प्राकृतिः] . विवृतोक्तिः मनोहारीत्यर्थस्य लाभे विरोधो निवर्तते । अस्याभासालंका- रेऽन्तर्भावः ॥ इति विरोधाभासः ॥ २८ ॥ विवृतोक्तिः ॥ विवृतशब्दार्थ उद्घाटित इति । “विवृतः, उघाटिते" इति चिन्तामणिः ॥ चन्द्रालोके इदं लक्षणोदाहरणम्- "विटतोक्तिः श्लिष्टंगुप्तं कविनाऽऽविष्कृतं यदि ॥ यथा-- वृषापहि परक्षेत्रादिति वक्ति ससूचनम् ॥ अत्र क्षेत्रशब्दार्थो धान्यादिक्षेत्रं विवाहिता स्त्री च ॥ "क्षेत्रं पल्याम्" इति चिन्तामणिः ॥ कस्यचित्कंचित्प्रतीय- मुक्तिः । “वृपापेहि परक्षेत्रात्" इत्येतदमुकस्य कथनं हि परकलत्रं भुक्षानं प्रति सूचनम् । अत्र कस्यचिन्मिपेण सू.. क्ष्मतया वा कथितस्य वनोद्घाटनं कृतम् । तत्र चमत्कारस्तु मिषस्याथवा सूक्ष्मस्यैव ॥ यथोन्मीलिते मिलितस्य, वक्ष्य- माणविशेषके च सामान्यस्यैव चमत्कारोऽङ्गीकृतः । न तू. न्मीलितविशेषकयोः ॥ मिपं सूक्ष्मता वा श्लेषेण भवतु श्लेषं विना वा भवतु, उक्तवेलक्षण्यमपि नालंकारान्तरत्व- साधकम् । अतोऽस्य मिषे तथा सूक्ष्म एवान्तर्भावः ॥ इति विवृतोक्तिः ॥ २६ ॥ विशेषः ॥ 'अत्र विशेपशब्देन वैलक्षण्यरूपमाधिक्यं विवक्षितम् ॥ .
यशवन्तभूपणम् [पष्ठी चन्द्रालोककारो विशेषत्रयमुक्त्वेमानि लक्षणोदाहरणान्याह-- "विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् ॥" यथा- गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ जयदेवः स्वलक्षण मुक्तोदाहरणे एवं घटयामास, "सूर्य- स्य प्रसिद्धाधारस्याभावेऽपि तकराणामन्यत्रावस्थितिरुक्ता" इति ॥ उक्तविषयस्य त्वस्यैव लक्षणंजक्षिते पर्यायेऽन्तर्भावः। नात्र विशेषतायाश्चमत्कारः । अस्य लक्षणे विशेषतायाश्च- मत्कारस्तु सर्वथाऽमाधारस्याधेयस्य विवक्षायां स्यात् । तस्य चेशमुदाहरणं भवेत्- निरुपादानसंभारमभित्तावेव तन्वते ॥ नमस्तस्मै जगचित्रं कलाश्लाघ्याय शूलिने ॥१॥ - एतादृशंविषयस्य तु विचित्रेऽन्तर्भावः ॥ द्वितीयस्येदं लक्षणोदाहरणम्- विशेषः सोऽपि.ययेकं वस्त्वतकत्र वय॑ते ।। यथा- . अन्तर्वहिः पुरः पश्चात्सर्पदिक्ष्वपि सैव मे ॥ यथाचा- रासक्रीडागतः कृष्णो दृष्टो भ्रमिवशांदहो ।
[मतिः
४६७
विशेषः
गोपाङ्गनाभिः सर्वाभिः सर्वगोपाङ्गनान्तिके ॥१॥
अस्याषि लक्षणोदाहरणस्य विचित्रेऽन्तर्भावः ॥ तृतीय-
स्येदं लक्षणोदाहरणम्-
"किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः ॥
यथा-
त्वां पश्यता मया लब्धं कल्परक्षनिरीक्षणम् ॥
अस्मिन्नुदाहरणे लक्षणघटना वेवम्, कवे राजदर्शनं तु
साधारणारम्भसाध्यम् । तत्र वाञ्छितार्थप्रदतयाऽमो नृपः क-
विकृते कल्पतरुर्जातः । तदेतत्किंचिदारम्भादशक्यवस्त्वन्तर-
स्य करणम् ॥
यथा वा-
युववल्लवं विदित्वा रतिः कृताऽसौ त्रिलोकपो निसृतः।
गोपाङ्गना विमुक्ता भवपाशात्तत्परं पदं प्राप्ताः ॥१॥
मोक्षारसुरतसुखमतीवं किंचित् । तदारम्भान्मोक्षोऽशक्य.
वस्त्वन्तरस्य करणम् ॥ मम तु मतं, अस्य तृतीयविशेषस्य
#
तूपलक्षणेन'
.
"हेतूनामसमग्नत्वे-कार्योत्पत्तिश्च सा मता ॥"
इति लक्षणलक्षितायां द्वितीयविभावनायामन्तर्भावः ॥
.
रति विशेषः ॥ ३० ॥
(पष्टी यशवन्तभूषणम् विशेषकः॥ - -- अत्र विशेषकशब्दार्थो विशेषत्वाधायको भेद इति ॥ "त्रि. शेपकः विशेषांधायके प्रभेदे" इति चिन्तामणिःचन्द्रालोके, इदं लक्षणोदाहरणम्-- "भेदवशिष्टययोः स्फूर्तावुन्मीलितविशेषको । यथा- लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च । अत्रापि सामान्यतायामेव चमत्कारः । न तु विशेषस्फु- रणांशे। यथोक्तं प्रागुन्मीलिते ॥ तदेवोक्तं सामान्यालंकार- स्य प्रकरणो काव्यप्रकाशकारेणापि- "वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गएडतलागतानि ।। मृङ्गाः सहेलं यदि नापतिष्य- न्कोऽवेदयिष्यन्नवचम्पकानि ॥१॥ प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते” इति ॥ अस्य वक्ष्यमाणसामान्यजन्तर्भावः ॥ इति विशेषकः ॥ ३१ ॥ विशेषोक्तिः॥ . मंत्र वीत्युपंसों गतार्थकः । शेपशब्दार्थः कार्यम् । मेष- .. प्राकृतिः] व्याजनिन्दा . ४६६ शब्दो न्यायसूत्रभाष्यकारेण कार्येऽर्थे प्रयुक्तः । तत्र शेषव- दित्यनुमानप्रभेदमुक्त्वा कार्याकारणानुमानस्योदाहरणं द- शितम् । विशेपोक्तिरितिसमुदितशब्दार्थो वि गतं कार्य 'यस्याः, सा चासावुक्तिश्च विशेषोक्तिरिति । कारणे सति कार्याभाव इति भावः ॥ विभावनायाः प्रतिद्वन्द्रिभावेऽयम: 'लंकारः। विभावनायां कारणाभावः । इह कार्याभावः ॥ चन्द्रालोके इदं लक्षणम्- "कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ॥" यथा- हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ अयमपि कार्यकारणवेचिच्याच्चित्रहेतुः । तस्य च विचि- त्रेऽन्तर्भावः ॥ इति विशेपोक्तिः ॥ ३२ ॥ व्याजंनिन्दा॥ व्याजेन निन्दा व्याजसिन्दा ॥ चन्द्रालोके इदं लक्षणो- दाहरणम्- "निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति मीयते ॥" यथा-- -- विधे! स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः॥ अन शिवेनं ब्रह्मण एकमेव मस्तक छिन्नं न तु पञ्चापी-.
४७० यशवन्तभूषणम् [पष्टी ति शिवस्य निन्दा । ब्रह्मणो मस्तकपञ्चकमासीत् । तेष्वेक शिवेन च्छिन्नमिति पुराणेषु प्रसिद्धम् ।। अत्र शिवस्योक्त- निन्दया विषमविपाकस्य संसारस्य स्रष्टुब्रह्मणों निन्दा व्य- ज्यते । शिवनिन्दाव्याजेन विधिनिन्दतिविषयस्य तु मि. पेऽन्तर्भावः ॥ निन्दया निन्दाव्यक्तौ च व्यङ्ग्यत्वं नापयाति । व्यङ्ग यश्चालंकारो न भवति ॥ इति व्याजनिन्दा ॥३३॥ व्याजस्तुतिः॥ . (. व्याजेन व्याजरूपा वा स्तुतिः व्याजस्तुतिः ॥ चन्द्रा- लोके इदं लक्षणम्- "उक्तियाजस्तुतिनिन्दास्तुतिभ्यां स्तुतिनिन्दयोः॥" इति ॥ क्रमेण यथा- का स्वधुनि! विवेकस्ते पापिनो नयसे दिवम् ।। गङ्गा सुकृतिवदेव महापातकादि कृतवंतोऽपि स्वर्ग नय- तीति व्याजरूपया निन्दया तत्प्रभावातिशयस्तुतिः ॥ साधु दूति! पुनः साधु कर्तव्यं किमतः परम् ॥. यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ १ ॥ अत्र दूत्या उक्तस्तुत्या तस्या एव नायकरमणरूपविश्वा- सघातकर्तृत्वेन निन्दा । अस्या नामानुसारेण तु मिपेऽन्त- ८ .
सामान्यम् ४७१ भाकृतिः] भीवः ! लक्षणानुसारेण च कार्यकारणयोर्विरुद्धतात्मकवै- चित्र्येण चित्रहेतावन्तर्भावः ॥ इति व्याजस्तुतिः ॥ ३४ ॥ व्याजोक्तिः ॥ व्याजेनोक्किाजोक्तिः । चन्द्रालोके इदं लक्षणोदा- हरणम् "व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् ॥ यथा-- सखि! पश्य गृहारामपरागैरस्मि धूसरा । अत्र जारकृतभूरतिलग्नधूलिजालस्य परागरूपमन्यहेतु- मुक्त्वा गोपनम् । उक्तनाम्नो मिषेऽन्तर्भावः ॥ लक्षणस्य त्वपन्हुतावन्तर्भावः ॥ इति व्याजोक्तिः ॥ ३५ ॥ • सामान्यम् ॥ समानस्य भावः सामान्यम् ॥ चन्द्रालोके इदं लक्षणो- दाहरणम्- "सामान्य यदि सादृश्याद्विशेषो नोपलक्ष्यते ॥" यथा- . यशवन्तभूपणम् [पष्टी पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् ॥ . मिलितस्यायं प्रकार इत्युक्तं प्राक् । अस्य मिलितेऽन्त. र्भावः ॥ इति सामान्यम् ॥ ३६ ॥ ॥ प्रमाणालंकाराः॥ निरजननिराकारजगदीश्वरादिपदार्थानां यथार्थज्ञानार्थं प. ट्शास्त्रादिषु भिन्नभिन्नसंख्याकानि प्रत्यक्षादीनि प्रमाणानि स्वीकृतानि ॥ तत्र पौराणिका अष्टौं प्रमाणानि मन्यन्ते । तेषां नामानि शास्त्रीयोदाहरणानि चेह प्रदर्श्यन्ते ॥ प्रमीयते- ऽनेनेति प्रमाणम् ॥ प्रमाशब्दार्थो यथार्थज्ञानम् । "प्रमा य. थार्थानुभवै" इति चिन्तामणिः॥ ॥ प्रत्यक्षप्रमाणम् ॥ . प्रतिशब्दार्थः सांमुख्यम् । “प्रति भाभिमुख्ये” इति चि. न्तामणिः ॥अपशब्दार्थ इन्द्रियम् । “अक्ष इन्द्रियम् " इति शब्दकल्पद्रुमाभिधाने । अचं प्रति प्रत्यक्षम् । इन्द्रियद्वारा य. थार्थज्ञानं प्रत्यक्षमित्यर्धः ॥ यथा डित्योऽयम् ॥ पनादिरहितः शाखाशून्यः शुष्कवृक्षो डित्य इत्युच्यते ॥ अंत्र चक्षुरिन्द्रियेण डित्थपदार्थस्य.ज्ञानम् ॥ श्रवणेन्द्रियादीनामुदाहरणानि स्व. यमूहानि ॥५॥ . .
श्राकृति]
प्रमाणालंकाराः
४७३
॥ अनुमानप्रमाणम् ॥
अत्रानुशब्दार्थो लक्षणम् ॥ “अनु लक्षणे” इति चिन्ता-
मणिः ॥ लक्षणं तु चिन्हम् । “चिन्हं लक्ष्म च लक्षणम् ॥"
इत्यमरः ॥ मानशब्दाथों ज्ञानम् ॥ चिन्हद्वारा यथार्थज्ञाम-
मनुमानमित्यर्थः ॥ यथा पर्वतो वन्हिमान् धूमात् ॥ अत्र धू.
मचिन्हेन वानम् ॥ २ ॥
॥ उपमानप्रमाणम् ॥
उपमीयते येन तदुपमानम् ॥ अस्येदं लक्षणम् “सादृ-
श्यात्सदृशज्ञानमुपमानम् " इति ॥ यथा गोसदृशो गवयः॥
अत्र गोसादृश्येन गवयाख्यपशुविशेषस्य ज्ञानम् । अयं ग-
वय इति ॥ ३ ॥
॥ शब्दप्रमाणम् ॥ .
झाब्दद्वारा समाजानं शब्दप्रमाणाम् ॥ यथा ब्रह्म सत्यम् ।
उक्तवेदवचनस्य शब्दरूपत्वादिह शवदाह्मणः सत्यत्वज्ञा-
नम् ॥४॥
अर्थापत्तिप्रमाणम् ॥
'अर्थापत्तिप्रमाणस्य लक्षणोदाहरणं काव्यार्थापत्यलंकारे
लिखितम् ॥ ५ ॥
४७४ [पष्टी यशवन्तभूपणम् ॥ अनुपलब्धिप्रमाणम्॥ अत्र नञ् निषेधार्थकः । उपेत्युपसर्गार्थः सामीप्यम् । लब्धिशब्दार्थो लाभः ॥ अनुपलब्धिरितिसमुदितशब्दार्थस्तु समीपे लाभाभावः ॥ अभाव इति तात्पर्यम् ॥ यस्य पस्तुः नोऽभावेन तस्य वस्तुनो ज्ञानं तदनुपलब्धिप्रमाणम् ॥ यथा 'घटाभाववद्भूतलम् ॥ अत्र घटाभावस्य कथनेन घटस्य ज्ञान भवति । वस्तुनोऽभावस्य कथनेन तरय वस्तुनो ज्ञानं तु तद. स्तु विद्यत इति तस्याभावस्पोक्तिरिति । अस्मिन्स्थले घटस्य संसगों नास्तीति संसर्गाभावः ॥ अभावोऽनेकविधः ॥६॥ • ॥ संभवप्रमाणम्॥ संभवतीति संभवः॥ यत्र संभवेन पदार्थस्य ज्ञानं तत्संभ वप्रमारणम् ।। यथा सहले शतम् ॥ सहस्र शतस्य संभवाच्छ सविपये सहस्र संभवप्रमाणम् ॥ ७ ॥ ॥ ऐतिाप्रमाणंम् ॥ इतिहोचुरित्यनेन प्रकारेण यदुध्यते तदनिर्दिष्टप्रवक्तृकं प- रंपरागतं वचनमैतिह्ममित्युच्यते। तादृशवचनद्वारा ज्ञानमैति- प्रमाणम् ॥ यथा, इह वटे प्रेतः प्रतिवसति । अत्र परंपरा-
1
'श्राकृतिक 'प्रमाणालंकाराः
गतोक्तवचनेनास्मिन्वटे प्रेतोऽस्तीति ज्ञानं भवति ।
भोजमहाराजकुवलयानन्दकारादयः केवन प्रत्यक्षादीनि
प्रमाणान्यलंकारान्मन्यन्ते । मम तु मतं, उक्त प्रमाणानां स्त्र.
रूपमात्रेऽलंकारत्वयोग्या काव्योपयोगिता नास्ति । कि
लोकशास्त्रव्यवहारानुसारेण धुरंधराङ्गीकृताशीत्ययालंका-.
प्रमाणानुसारेणापि धुरंधरोक्ता अलंकारा विद्यन्ते । तथा
हि, प्रत्यक्षानुसारेण तु स्वभावोक्तिः ॥ प्रत्यचे कचिचमका-
रश्रेत्स्वभावोक्तरेव सः ॥ यथा-"जायन्ते खन्नु तारका हनद.
चः-" इत्यत्र यद्यपि प्रातःकालस्य ज्ञान प्रवदयनजन्यम् ।
तथाप्यस्मिन्नंशे न चमत्कारः ॥ किं तु प्रत्यक्षान्माला-
लस्य यथार्थवर्णने चमत्कारः॥
यथा वा-
क्रान्तकान्तवदनप्रतिविम्बे
भग्ननालसहकारसुगन्धों
स्वादुनि प्रणिहितालिनि शीन
निर्ववार मधुनीन्द्रियवर्गः ॥
. : [पष्टी C - यशवन्तभूपणम् ऐतिह्याय. शब्दप्रमाणेऽन्तर्भावः स्फुटतरः ॥ एनयो(क)रन- सारेण लोकोक्त्यलंकारः॥ यथा--- सक्वन्दनादीन् रुचिरोपचारान् कुर्वन्त्य एताः सखि नो निवार्याः । तैः प्राणरक्षा भविता भवत्या जीवन्नरो भद्रशतानि पश्येत् ॥ १॥ अन जीवन्नरो भद्रशनानि पश्येदिति ज्ञानांशे न चम- स्कारः ॥ किंतु लोकोक्तो चमत्कारः ॥ अर्थापत्त्यनुसारेण काव्यार्थापत्त्यलंकारः ॥ अनुपलब्धेरनुसारेण विशेपोक्तिरल- कारः ॥ संभवानुसारेण संभावनालंकारः ॥ यथा- ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नेप यत्नः ।। उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥१॥ अस्य वक्तुः समानकोटिकविदुषः कालस्य निरवधिकतया भविष्यकाले भाविवस्य योग्यतात्सिंभवः ॥ वर्तमानका- ले च भूमेर्विपुलतया तद्विद्यमानत्वस्य योग्यताऽर्थात्संभवः ।। • प्रत्यत्तादेः प्रमाणाष्टकस्य स्वभावोक्यादावन्तर्भावः ॥ धलं. काररहस्यापरिज्ञानादलंकारगणनारसिफभोजमहाराजादीना- मयं प्रयत्नः पुनरुक्तिदोपरूपः ॥ इति प्रमाणालंकाराः॥ (*) दतियामाण्यो । -- .
प्राकृतिः ४७७ संसृष्टिंसंकरौ संसृष्टिसंकरौ॥ . लोके टेका कान्ताऽनेकानलकारान्धारयति । तेश्च तस्याः . शोभाया आधिक्यं भवति । तत्र केचित्परस्परसंवन्धरहिता अलंकाराः । यथा हारमेखलाचूडामणिप्रभृतयः । एषां युगं- लाभावादपरेण संवन्धाभावः । केचित्परस्परसंबन्धसंहिता अलंकाराः । यथा कुण्डलकङ्कणनूपुरप्रभृतयः । एषां युगलं भवतीति परस्परं संवन्धः। मम तु मतं, उक्तलोकन्यायेन काव्यरचनाप्यनेकानलंकारान्धारयति । तेन च तस्याः शो- भाधिक्यं भवति । तत्रापि केचित्तु परस्परं संवन्धरहित्ता अलंकाराः ॥ यथा- देवब्राह्मणटदगोकविजनार्चा पूर्ववत्तानिता योधामात्यप्रजागणानुगमहादुःखं हृतं स्वप्नवत् ॥ राणाश्रीफतसिंह! भोरुदधरस्त्वं मेदपाटं यथा मग्नं सज्जनशोकसागर इमं भूगोलकं कोलकः ॥ १ ॥ अस्यां रचनायामुपमानुप्रासयोरर्थालंकारशब्दालंकारयो- मेलनम् । न कश्चिदेनयोरत्र परस्परं संवन्धः । . यथा वा-- " . "निरीक्ष्य खे पत्रमयं.पतङ्गम्- इत्यत्रोपमाप्रत्यनीकयोर्थालंकारयोर्मेलनम् ॥मत्राप्येनयो: .
४७८ यशवन्तभूषणम् [पष्टी न कश्चित्परस्परं संबन्धः । तादृशसंवन्धशून्यालंकारमेलनस्य धुरंधरः संसृष्टिरिति नामाह ॥ संसृष्टिशब्दार्थः सङ्ग इति ॥ संसृष्टिः संसर्गे । संसर्गः सङ्गे” इति चिन्तामणिः ॥ अत्रा. लंकाराणां मेलनं तु सङ्गमात्रम् ॥ कविरचनाविषयकानेका. लकारमेलने क्वचिदलंकाराणां परस्पर संवन्धोऽपि भवति ॥. यथा--- गङ्गेन्दुभ्या॑ सितीभूतान् भवभूपाभुजङ्गमान् ॥ यशवन्तयशो ज्ञात्वा स्तुवन्ति युगपत्सुराः ॥ १ ॥ अत्र तद्गुणो भ्रान्तः कारणम् ॥ एनयोः परस्परं कार्य. कारणभावसंबन्धः ॥ तादृशसंवन्धसहितालंकारमेलनस्य धु- रंधरः संकर इति नामाह ॥ संकरशब्दार्थो व्यामिश्रत्वम् । "संकरः व्यामिश्रत्वे" इति चिन्तामणिः ॥अत्र वीत्युपसर्गों विशेषार्थकः । नाडुपसर्गार्थः सर्वत इति । मिश्रशब्दाथों मि- लित इति। "मिश्रः संयुक्त" इति चिन्तामणिः ॥ व्यामिश्र- स्वमिति समुदितशब्दार्थस्तु विशेपेण सर्वतो मिश्रणमिति ॥ ग्रन्थकारैः संकरस्य चत्वारः प्रकारा उक्काः ।। तरुवीजदिवासूर्याहोरात्रनरसिंहकात् ॥ न्यायाचतुर्धा राजेन्द्र! संकरस्तु प्रकीर्तितः॥१॥ यत्रैकोऽपरस्य कारणं तत्र तरूबीजन्यायेन मिश्रणम् । प्र- यमेवाङ्गाङ्गिभावसंकर इत्युच्यते ॥ अस्योदाहरणं च "गङ्गेन्दु- भ्यां सितोभूतान्-" इत्येव ।। यत्रालंकारद्धयस्य युगपद्भासनं .
४७६ प्राकृतिः] संसृष्टिसंकरौ तत्र दिनसूर्यन्यायेन मिश्रणम् ॥ अयं समप्रधानसंकर इ- त्युच्यते ॥ यथा- नाभिं विहायं चलिता भुजङ्ग्यमृतवाञ्छया ॥. :नासाभूषो मयूराङ्कां दृष्ट्वाऽगे(*) निश्चलाऽभवत् ॥१॥ अत्रैकस्तु परंपरितरूपकालंकारः । अत्र लुप्तोपमावदेकदे. शस्य लोपादेकदेशविवर्तिरूपकमिति मन्यन्ते । नाम्याः स- पविलेन, नासाभूषागतकृत्रिममयूरस्य च साक्षान्मयूरेण सह रूपकम् । अत्रानुकार्ययोर्लोपः ॥ गेमराज्या भुजङ्गन्या, अध. ररसस्थामृतेन, कुचयोश्च पर्वतेन सह रूपकम् । अत्रानुका. रिणां लोपः । इत्यमिह परंपरितरूपकम् ॥ यौवनागमे रोम. राज्या नाभ्याः प्रारम्भो भवति, भुजङ्गी विनान्निर्गच्छंतीति नाभ्या विलरूपत्वम्, भुजली दुग्धादिमधुररसपानाभिलापि- णी भवति, मयूरस्य भक्ष्यरूपेति मयूराद्विभेतीत्युक्तवलसमु- दायेन रोमराज्यां भुजङ्गीत्वेनोत्प्रेक्षणादुत्प्रेक्षालंकारश्च ॥ ए. वमिह परंपरितरूपकोत्प्रेक्षयोयुगपद्मासनात्समप्रधानसंकरः॥. उक्तोत्प्रेक्षाऽर्वाचीनमतानुसारेण गम्योत्प्रेक्षेति वक्तुं शक्या ॥ किं चात्र वलमालासद्भांचाइलमालोत्प्रेक्षापि . यत्राहोरात्रन्यायेनालंकारद्वयंमिश्रणं तत्र संदेहसंकरः ।। अहोरात्रन्यायश्च, अन्हि. राज्यभावः, रात्री चान्होऽभावः । तथैकस्मिन्नलंकारे सत्यपरस्याभावः , अपरालंकारे च सति तस्याभाव इति॥ (*) अंगे पर्वत ।।
४८०
॥
यशवन्तभूपणम् [पष्टी
यथा-
शशिनमुपगतेयं कौमुदी मेघमुक्तं
जलनिधिमनुरूपं जन्हुकन्याऽवतीर्णा ॥
इति समगुणयोगप्रीतयस्तत्र पौराः .
श्रवणकटु नृपाणामेकवाक्यं विवत्रुः ॥१
इन्दुमत्या स्वयंवरेऽजभूपे घृते सर्व सदस्या अन्यनृपाणां
कर्ण कटु पूर्वार्धरूपं वाक्यमुच्चैरुच्चारयामासुः। अत्र सदस्याना-
मिन्दुमत्याऽजो वृत इति कथनमभीष्टम् । तदनुक्त्वा तस्य
प्रतिबिम्वरूपमुक्तवचनमभिहितमिति चेत्तदाऽ चीनमतीयो
ललितालंकारः । अस्मन्मतीयश्च पर्यायोक्यलंकारः। यदि च
सदस्यैर्यथायोग्यसंवन्धः समभवदित्यभिप्रेत्योक्तवचनमभिहितं
चेत्तदा समालंकारःउकालंकारद्वये कस्यचिरसाधकबाधकता-
या अभावान्नेदं निर्णीयते किमिह पर्यायोक्त्यलकारः समालं.
कारो वेतीह संदहसंकरः ॥
यथा नृसिंहस्यैकस्मिञ्छरीरे नरसिंहात्मकं स्वरूपद्रयम्।
तथा यत्रैकस्मिन्वचनेऽलंकारद्धयं तत्र नृसिंहन्यायेन मिश्रणा-
देकवाचकानुप्रवेशसंकरः॥
.यथा--
अमरीकवरीभारभ्रमरीमुखरीकृतम् ।।
दूरीकरोतु दुरितं गौरीचरणपङ्कजम ॥ १॥ .
अकस्मिन् भ्रमरीशब्देऽनुशासाधिकालंकारयोः सत्त्वादे.
. . आकृतिः 'संसृष्टिसंकरी कवाचकानुप्रवेशसंकरः ॥ इदं पद्यमधिकालंकारप्रकरते स. विस्तरं व्याख्यातम् ॥ अर्वाचीना उक्तसंसृष्टिसंकरविपये सं. सृष्टिसंकराख्यौ पृथगलंकारौ मन्यन्ते।काव्यप्रकाशस्योक्तमतं स्पष्टयन्काव्यप्रदीपकारः "अस्ति पुनः कश्चिद्विपयो यत्राङ्गदा- : दिसंबद्ध पद्मरागप्रमुखमेलकवत्प्रोकानामलंकाराणां संवलन एवं चमत्कारः। तस्मात्सोऽप्यलंकारः ॥ तत्र द्वयी गतिः । परस्परमनपेक्ष्य व्यवस्थितेः । तदभावाच्च । तत्र प्रथमा संतृ. टिरुच्यते। द्विताया तु संकरः" इति ॥ मम तु मतं, प्रदी. पकारप्रदर्शितलोकालंकारन्याये तु रत्नसुवर्ण योर्भािवो नाम- तिष्ठते । किं वेकीभूतता भवति । तदा च स्वरूपं शोभा खचितकङ्कणेत्यादिनामविशेषाश्च विलक्षणा अवन्ति ॥ उक्त- लोकालंकारन्यायेन तु काव्यालंकारेपूपमातन्निधरूपाक्षेपा- ' लंकारयोमिश्रणे तृतीयस्य व्यतिरेकनामकालंकारचमत्कार: स्योत्थानम् ॥ किं च जस्सेश्रवणोतस्सेप्रवेणा भणइजणोतंअंलीअम्॥ दंतक्खनं कवोले वहूए वेणा सवत्तीणम् ॥१॥(*). अत्र सखीकृतपरिहासे यस्याः क्षतं तस्या वेदनाया अ. भाव इति तु विशेपोक्तिरलंकारः। सपल्याश्च क्षतं विना वेदनेति विभावनाऽलंकारः..। उकालंकारद्धयमिश्रणेऽसंगति नामकतृतीयालंकारस्योत्यांनम् ॥ शुद्धोपमाविपरीतोपमेत्यु- .(.) यस्यैव वस्तयेर घेदना भएति जनस्तदलीकम् । दन्तहत कपोर्ट बघावे. दना मपनीनाम् ।। इति संस्कृतम् ।। . .
४८२ यशवन्तभूपणम् (षष्ठी पमायाः प्रकारद्वयमिश्रणे तृतीयस्य परस्परोपमानामकोपमा- प्रकारचमत्कारस्योत्थानम् ॥ न हि तत्रोलालंकारयोः प्रका- रयोश्च द्विर्भावोऽवतिष्ठने । किं खेकीभूतता भवति । अत एव व्यतिरेकासंगतिपरस्परोपमाणां चमत्कारः प्रधानीभूयोक्ता- लंकारयोः प्रकारयोश्च चमत्कारं तिरोधत्ते । अत्र संसृष्टिसंक- रयोस्त्वलंकारमिश्रणे द्विर्भावो विद्यमानः । न त्वेकीभू. 'तता । कचित्परस्परकार्यकारणादिसंबन्धमानं चेतादृशसंब. न्धेन वेकीभूतता न भवति । यथा पितृपुत्रयोः कार्यकारण, भावसंबन्धः । तत्र च तयोहिरूपत्वं प्रत्यक्षम् । अनेकालंका. रमिश्रणे. कान्ताया अनेकालंकारधारणलोकन्यायो वर्तते । 'तत्र तेषां स्वरूपं शोभा नामानि च पृथग्भावं भजन्ते ॥ का. •न्ताया अनेकालंकारमिश्रणे तेषां सर्वेषां मेलनेन न तद्भिन्न. तृतीयालंकारनिष्पत्तिः। किं तु तानेकालंकारमेलनेन शो. भाधिक्यमात्रम्। तथैव काव्येऽप्यनेकालंकारमिश्रणे काव्यस्य शोभाया आधिक्यमात्रम् । तेषां द्विविधमिश्रणस्यैव संसृष्टि- संकरेत्यभिधानद्वयं । न त्वलंकारविवक्षया धुरंधरेणै तन्नामयु- गलमुपदिष्टम् । अत्र मिश्रणेऽलंकारखं विवक्ष्यते चेत्सामा. न्यतया मिश्रणे समुच्चयालंकारः1 अङ्गाङ्गिभावसंकरे हेत्वलंका- समप्रधानसंकरे सहोक्त्यलंकारं संदेहसंकरे संदेहालंकारः। एकवाचकानुप्रवेशसंकरे चाधिकालंकारः । संसृष्टिसंकरेतिसं- रच्यारूपसंज्ञाया लोकव्यवहारेऽन्तर्भावः । इति संसृष्टिसंकरी ।। ।
४८३ आकृतिः अन्तर्भूतालंकारगणना लीयतेऽतिशयोक्तौ प्रौढोक्तिरत्युक्तिरेव च ॥ आक्षेपेऽनन्वयो भूप! प्रतीप्रतिषेधेकौ ॥ १ ॥ तद्गुणेऽनुगुणश्चोदाहरणादौ विकस्वरः ॥ तथैवार्थान्तरन्यासो राजंस्तत्रैव लीयते ॥ २ ॥ विचित्रेऽसंगतिश्चैव विशेषोक्तिविभावना ॥ : असंभवश्च चत्वारो लीयन्ते धरणीपते! ॥ ३॥ दीपके कारेकाऽऽत्तिमालोदीपककानि(*) च ॥ मिलिते नृप! सामान्यमुन्मीलितविशेषकौ ॥४॥ उपमेयोपैमा चैव प्रतिवस्तूपमा तथा ॥ उपमायाः प्रकारावुल्लासस्तु विषमे संमे ॥ ५ ॥ हेतौ लयो भवेत्काव्यलिङ्गकारणमालयोः ॥ गूढोक्तिस्तु मिषे सूक्ष्मे लीयते मरुभूपते! ॥ ६ ॥ छेकोक्तिश्चैव लोकोक्तौ राजन्, परिकैराङ्कुरः ॥ प्रकारः स्यात्परिकरालंकारस्य महीपते! ॥ ७.॥ अन्योन्यस्य प्रकारः स्यात्परिवृत्तिनराधिप! ॥ अप्रस्तुतप्रशंसायाः प्रस्तुताङ्कुर एव च ॥ ८ ॥ युक्तिश्चापन्हुतौ पर्यायोक्तौ तु ललितं नृप! ॥ आभासस्य प्रकारः स्याविरोधाभासभूषणम् ॥९॥ वितोक्तिर्मिषे सूक्ष्मे विशेषस्तु नराधिप! ॥ (*) द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यत : कारकदीपकम् , अावृत्तिदीपकम् , मालादीपकमित्यर्थः पष्टी यशवन्तभूपणम् विचित्राधिकयोाजनिन्दायास्तु मिपे लयः॥१०॥ व्याजैस्तुतिर्मि चैव विचित्रे लीयते नृप! ॥ व्याजोक्तिस्तु मिषे भूपापन्हुतौ च विलीयते ।११॥ प्रत्यक्षादिप्रमाणानि स्वभावोत्यादिषु प्रभो! ।। 'लीयन्ते भूमिपैतेषां भिन्नतासाहसं स्था ॥ १२॥ संसृष्टिः संकर इति भूपामिश्रणनामनी ॥ अन्तर्भावोऽनयोलोंके ज्ञेयो मरुमहेश्वर! ॥ १३ ॥ ननु भवता सर्वालंकाराणां प्रथमोदाहरणं नियमेन राज- राजेश्वरयशवन्तसिंहविषयमुपदिष्टमित्यन्त वाकृतौ कुतो : न तस्य निर्वाह इति चेच्छृणु । एतेऽलंकारा अस्माभिः पृथ- ङ्नाङ्गीकृतर इति ॥ इतिश्रीमन्मरुमण्डलमुकुटमणि महाराजाधिराज- राज- राजेश्वर जी. सी. ऐस. आई, श्रीयशवन्तसिंहस्याज्ञानुसारेण कविराजमुरारि दानविरचिते यशवन्तभूषणग्रन्थेऽलंकाराणा- मन्तर्भावनिरूपणं नाम पष्ठाकृतिः संपूर्णा ॥ .
भाकृतिः : ग्रन्थसमाप्तिः अथ सप्तमांकृतिप्रारम्भः ॥ यस्मिन्समाप्तिमाप्नोति जगन्नत्वा तमीश्वरम् ॥ : समाप्तेः सप्तमी चैषाऽऽकृतिरद्योच्यते नृप! ॥१॥ अपहर्तुमज्ञताऽधं सुपर्ववाणीत्रिविष्टपाल्लोकात् ॥ नरवाणीक्षोण्यन्तः साहित्यामरनदी समानेतुम् ॥२॥ पूर्वयशवन्तसिंहो भाषाभूषणविनिर्मितिं कृत्वा ॥ . प्रारम्भंप्राणैषीद्रविकुलजातोयथांशुमानादौ(*)।३। पश्चाच्च मानसिंहो(1) दिलीपपवच्चकार यत्न- भरम् ॥ यस्याधुनापि कीर्तिद्विदृन्दैः प्रगीयते लोके ॥४॥ (*) स्वर्गाद्वहां भुवं समानेतुं राजराजेश्वरपूर्वजोंऽशुमानारम्भमकापीत् । तदर्य तपश्च- चारेत्यर्थः । ततश्चांशुमत्पुत्री दिलीपस्तदर्थं यतते स्म । तत्पुत्रो भगीरथः कृतार्थतामबाप । तत्समये गङ्गा पृथिव्यामषतीर्णेतिभावः ।। () राजराजेश्वरमानसिंहो योधपुरे विद्यायाः प्रचार बहुलतरं चकार । बहवः प्रख्या- सपण्डितास्तत्समामलकुर्वन्ति स्म । तद्विषयं कवीन्द्रशंभुदचप्रणीतं फ्यमिदम्- योधी योधपुरं चक्रे जं विजयसिंहराट । मानरच काही पालं सखनेऊपुरं व्यंधात् ॥ राजराजेश्वरविजयसिंहो वल्लभाचार्यसांप्रदायिकप्रतिमाप्रतिष्ठापनेन योधपुरं यूजमका- पीत्। राजराजेश्वरमानसिंहो योधपुरं विन्देन काशी, योगिाणेन नेपालनगर, गोन- :विधीविशारदजनसमुदायेन च लखनेऊनगरं चकार ।।
१८६
[सप्तमी
यशवन्तभूपणम्
यशवन्तयशोभूषणनिवन्धमेतं तु कारयित्वाऽद्य ॥
श्रीयशवन्तनृपालः कृतार्थासीद्भगीरथेनसममा५।
विहितो नीरसं ज्ञात्वा मया व्याकरणे श्रमः ॥
स्वल्पस्ततो देववाणी शुद्धां वस्तुं न शक्नुयाम् ॥६॥
यशवन्तयशोभूषाऽनुवादं देवतागिरि ॥
सुब्रह्मण्यवुधश्चके यशवन्तनपाज्ञया ॥७॥
अस्यानुवादं राजाज्ञामाप्याकार्षी धोत्तमः ॥
दध्यङ्ङन्वयजो रामकर्णाख्यो वलदेवभूः ॥ ८ ॥
'सुरवाणीसंरचिता बहवो ग्रन्था.अनूदिता नृगिरि ।।
इह तत्प्रतिलोमत्वं भाग्यायशवन्तभूपस्य ॥ ९॥
यशवन्तयशोभूषणपूर्तेः समयोऽधुनोच्यते राजन्!
खशराकेन्दु१९५०मितेऽन्दे विक्रमराजस्य मासि
भाद्रपदे ॥ १०॥.
राकायां सितपत्रे शुभेऽर्थ सोमस्य वासरे भूप! ॥
शरभूवसुचन्द्रमिते१८१५ शाके वै शालिवाहना-
ख्यस्य॥ ११॥
भाकृतिः] ४८७ अन्यसमाप्तिसमयः गुणनववसुभूवर्षे १८९३ चेसविसंज्ञेऽधुना प्रवृत्ते च॥ पूर्णः प्रबन्ध एष यावच्चन्द्रार्कमस्तु जगतीह।।१२॥ कल्पे श्वेतवराहस्य मुनौ वैवस्वतेऽन्तरे ॥ : अष्टाविंशे कलावस्मिन्छराङ्कनवसागराः ॥ १३ ॥ अधुना शरदोऽतीता मासा अध्यर्धपञ्च च ॥ नानासंवत्सरोल्लेखान्माभूत्कालान्तरे भ्रमः ॥ १४॥ यशवन्तपालस्य भूपालाः समकालिकाः ॥ उच्यन्ते ग्रन्थकालाप्तौ सहायाः स्युर्हि कहिचित् ।१६ गुहिलः श्रीफतैसिंह आस्तेऽद्योदयपत्तने ॥ सवाईमाधवः कूर्मो राजा जयपुरेऽधुना ॥ १६ ॥ फाल्गुनकृष्णे भौमे पूर्ण ग्रन्थं चतुर्दशीघरे । प्राकण्यॆमें लदं प्रादायशवन्तभूपालः ॥ १७॥ हाटकभूषणभूषितमिभराजं द्वौ हयौ च ताहचौ ॥ मुक्तामालां मणिमयशिरोविभूषांच कुण्डले कटको १० वसनानि खड्नामलुलं यमदंष्ट्राख्यं(*) च शस्त्रमरि . मूल्यम् । () कटारी इति भांपा ।
४८" सितमा . .. यशवन्तभूपणम् मुद्राःञ्चसहस्रं परिजनहेतो(*)र्ददौ महाराजः।१९। लक्षप्रदानपूत्यें प्रतिवर्ष षट्सहस्रमुद्राप्त्यै न। दत्त्वा ग्रामसमूहं निजनामासौ स्थिरं व्यत्त नृपः २० राज्याभिषेकसमयेऽप्येवंरीत्यैव लक्षदान में। . . श्रीयशवन्तनृपालः प्रादादाता प्रतिक्षणं भुवने ॥२१॥ तातः पितामहोऽहं पुनः पुनर्मानलक्ष्म संप्राप्ताः ॥ चक्रे यशवन्तन्नृपः प्रतिप्रणामेन मानपूर्ति मे ॥२२॥ : पदवीं कविराज इति प्राग्दधेऽहं च साम्प्रतं मरुराट्॥ कविराजापंददानाद्विभवेनाप्यकृत राजरूपं माम् ॥२३॥ चमरं चरणे स्वर्ण भूपेनालिङ्गन च संप्रीत्या ॥ दुन्दुभिरथो ध्वजश्च मुद्रा) हाःपालवेत्रं(1) च ॥२४॥ गमनागमनात्यानं सादरलेखश्च राजपानेषु (6) ॥ नेदिष्ठमांसनं च वितीर्णमेतत्मरुक्षितीन्द्रेण ॥ २५॥. (4) मम माया भरणापर्थम् । () मोहरदाप इति भाषा। (1) छड़ी इति भाषा (6) लोफे "खासरुका । तल्लेखश्चैत्रम् । ॥ श्रीनाथजी ॥ 'फविराजाजी मुरारदनिजीसू म्हारी जुहार यांचजो । अपरंच .
४८९
आकृतिः] ग्रस्थकर्तुश्चित्रम्
तदुपरि सम्प्रति राज्ञा प्रतिप्रणामस्य रीतिमनुसरता॥
भूमएंडले. स्वकीर्तिर्वितानिता या प्रगीयते लोकैः।२६।
ग्रन्थकर्तुः कविराजमुरारिदानस्य चित्रम् ॥
4
.
यशवन्तभूषणम्
"[सप्तमी
यश एव धनं वेत्ति न धरां कनकं च यः॥
चिरं जीव्यादुदारोऽसौ यशवन्तनरेश्वरः ॥ २७ ॥
श्रादौ पञ्चाननो ग्रन्थान्वहूनश्रावयदि माम् ॥
. तिवाडीत्युपटकाढयो दध्यङ्कुलसमुद्भवः ॥ २८ ॥
सुब्रह्मण्यकथा पूर्व भणिता ममुजेश्वर! ॥
पुनस्तु कथ्यते नेह पुनरुक्तिर्भवेदिति ॥ २९ ॥
मिश्रेण पूर्णचन्द्रेण ग्रन्थ एष व्यलिख्यत ॥
लम्बोदरेण लिखितं व्यासोक्तं भारतं यथा ॥३०॥
कश्मीरदेशसमवपण्डितपदवीधरेण विप्रेण ॥
ग्रन्थो दक्षनिरञ्जननाथेनायं सुमुद्रितः सहितम् ॥३१॥
संपठ्य पूर्व यशवन्सभूषण-
'मन्यप्रवन्धानिह यः पठेत्कविः ॥
तस्यान्तरं भूरितरं हि चेतसि
लक्ष्येत तस्मादतिमोदवान् भवेत् ॥३२॥
पस्त्रं परमपवित्रं सिंहोत्तरपदमनोहराख्यस्य ।
प्राप्तं यत्र चरित्रं यशवन्तमापतेरुदारतरम् ॥ ३३॥
पत्रं प्रसङ्गवशतः प्रेपितमेतच्चिराय तेनैव ॥
मुद्रितमन्ते तदिदं चिरकालं स्मृतिगतं भूयात् ॥३४॥
आकृतिः
पत्रम्
पत्रकोशस्योपरिपृष्ठे ॥
॥७॥ श्रीकविराजाजी श्रीमुरारिदानजी योग्यम् ॥
मारवाड़
पत्रं योधपुरं प्रति..
'प्रान्ते ।
स्थानं सोजतीगोपुरम्.
योधपुरम
पत्रकोशस्यापरपृष्ठे ॥
श्री॥
॥श्रीकृष्णाचरण शरण
रंजनापोतडोड्यामनो
हरसिंहकस्यमुडिका
.
४६२ [ g যহাবলমূল্য ॥ श्रीरामो जयति ॥ श्रीनाथस्य प्रीत्याहिफेनः स्वीकायः मत्प्रणामरेऽवार्यः । खानीयोधपुराभस्थाने सर्वोपमासंयुक्तकविराजा- ली श्रीमुरारिदानजीसमीपे सरदारदुर्गालक्कुरमनोहसिंह- स्य प्रणतयो वाच्याः । अत्रत्योदन्तस्तु सदृष्टः शुभोस्ति । भवतां सदा शुभमस्तु । भवन्तोऽस्माकं महागौ- रवास्पदम् । सदैव स्नेहो रक्ष्यते तथा रक्षणीयः । अपरं च भवता दल डाकद्वाग समायातम् । यशवन्तयशोभूषणग्रन्थ- मुद्रणप्रारम्भस्य सूचनाप्रदानादत्यानन्दो जातः । परमेश्वर- प्रसादादयं ग्रन्थः शीघं संमुव्य भवच्छ्रमः साफल्यमियात् । सर्वे च लाभभाजो भवेयुः । केवलमेतावाञ्छोको यत्स्वर्गवा- सिमहाराजश्रीयशवन्तसिंहसमयेऽस्य ग्रन्थस्य मुद्रणेन भवि. तव्यं तन्न जातमिति । महाराजस्य मनस्यस्य ग्रन्थस्याती- 'योत्साह मासीत् । किमतोऽधिकम्, अयमेतद्ग्रन्थश्रवणार्थं योधपुरमाहूतास्तदेकदा मां चारहकृष्णसिंह चं संबोध्य महा- * राज एतद्वाज्ञापयामास "कविराजेनास्माकमेष ग्रन्थ ईदशो . ४६३ . [थाकृतिः पत्रम् निर्मितः, यस्कविराजसमं सुवर्णं तोलयित्वा तेनास्य प्रतिमा विधायसा सदैव पूज्येत" इति ॥ अनेन वचनेन विदितं. भ- वति, महारांजस्य मनस्यस्य ग्रन्थम्य कियानुत्साह इति । परंतु परमेश्वरेण महाराजशरीरं न रक्षितमिति महाञ्चोकः । त. थाप्येतद्ग्रन्थप्रभावार वर्गवासिमहाराजनाम भवन्नाम च ज- 'गति.सहस्रं समाः स्थास्यति । तदधुना त्वरितं मुद्रापयित्वा प्रसिद्धिमानेयोऽयं ग्रन्थः । मद्गृहं स्वगृहं मत्वा कार्य लेख- नीयम् ॥ संवत् १९५२ श्रापाढशुक्लपञ्चमी ५॥ यं संबोध्य राजराजेश्वरयशवन्तसिंहनोक्तस्वमनोरथः प्र- कटीकृतः सोऽयं ठक्कुरमनोहरसिंहो विद्वान्सकलगुणनिधिों. डियाजातीयक्षत्रियो महाराणामेदपाटेश्वरस्य महासामन्तेषु परिगणितः । एतहक्कुरग्रामस्य पूर्व "लाग" इति नामासीत्। उक्तठक्कुरस्य पूर्वजः सरदारसिंहो दुर्ग प्रासादं चरचयामा. सेत्यपरं सरदारगढेति नाम प्रसिद्धिमापेदे । राजराजेश्वरः स्वदेशिविदेशिविदुपां मण्डलं विरचय्य यशवन्तयशोभूषण- ग्रन्थमौषीत् । तत्रोक्तठक्कुरोऽपि समाहूतः। अयं ठक्कुरों राजराजेश्वरस्य संबन्धी च । एतत्पूर्वजसरदारसिंहसुता गु- लावकँवरनाम्नी राजराजेश्वरपूर्वजमहाराजश्रीविजयसिंहेन परिणीता । उक्तपन्ने कृष्णसिंहस्याप्युल्लेखः । सोऽपि ग्रन्थभव- णाथै विद्वन्मण्डले समाहूतः । अस्य ग्रामः खेड़ानामकः शा- हपुराप्रान्तान्तर्गतः ।.चारणेप्वयं सोदावारहठजातीयः शाह- 2. पुराराजाधिराजस्य प्रतोलीपात्रम् ॥ लीनं काव्यरसें प्रवीणमतुलोदारं नवीनस्थलं . यशवन्तभूपणम् [सप्ता तादृक्-श्रीयशवन्तभूपतिमृते स्यात्कस्य दृग्गोचरम् ॥ ज्ञात्वा श्रेष्ठतमं यशो मनसि संहष्टस्तमेनं विना को वा चारणजातिमत्र हि कलौ संपूजयेदिष्टवत् ।३५. यशवन्तयशोभूपणनामा ग्रन्थः कृतस्ततो हि मया ॥ विशदीकृतास्तु तत्रालंकारा एवं विस्तरतः ॥३६॥ : संगृह्य तस्य सारं स्वल्पो यंशवन्तभूषण ग्रन्थः । राजाज्ञया कृतोऽयं सुखेन बोधाय काव्यशास्त्रस्या३७) सुरवाण्यनुवादस्यास्य मुद्रणेऽभूद्विलम्बनं दैवात्। मुनिमितशरदो ह्यस्मिन्नवकाशे संविमर्शता तु मया ॥३८॥ व्यङ्गयरमाद्यपि विशदं भूपणवच्चात्र विस्तराद्विहितम। 'तस्मादभवत्सकलं साहित्यस्य स्वरूपमतिरुचिरम् ३९। भूपतिभाग्यचरित्राण्यन्यान्युक्तानि पूर्वमस्माभिः ॥ तंददोऽपि फलं गुरु श्रीमद्यशवन्तभाग्यस्य ॥४०॥ इतिश्रीमन्मरुमण्डलमुकुटमणि महाराजाधिराज-राजरा- जेश्वर जी. सी. ऐस. आई.श्रीयशवन्तसिंहाज्ञया कविराजमु- रारिदानविरचिते यशवन्तभूपणग्रन्थे ग्रन्थसमाप्तिसमयग्रन्थ- प्रत्युपकारवर्णनं नाम सप्तमाकृतिः समाप्ता ॥ ७ ॥ . ₹ इति यशवन्तभूपणग्रन्थः समाप्तः ॥
शुद्धिपत्रम् •॥ प्रस्तावनायाम् ॥ दृष्ट - . पंक्ति अशुद्धम् शुद्धम् ११ ("एवमन्येपामपि" भागवतांदिग्रन्थेषु सन- अस्योपरिटिप्पणम् । स्कुमारवरांहादिद्वाविंश- त्यवताराणां कथाकथना- तेपामवताराणां, महा- भारतादिग्रन्थेषु च पति- पयमहाराजानां प्रसिद्ध- पुरुषाणां च कथाकथना- त्पां महाराजानां प्रसि. द्धपुरुषाणां च नामान्य- द्यापि.स्थिरत्वं भजन्ते। . २१ जामस्थांवरयनि नामानं स्वयादि २ 'सवें सर्वे . १६ रसवदायलंकाराः रसवदादिभानालंकाराः न . २२ कविराजा- ..[२] पृष्ठ पंक्ति । अशुद्धम् शुद्धम् ३ २१ माशासे॥ माशासे॥ सरसकवेमा णि हि विध्यति राजन्व- दद्वयं किं तत् । अबुध- श्लाघनमेकं वुधस्य मौनं 'द्वितीयमवहि ॥१॥" ३ कविराजो मायसवन्तभूपणे १९ जालोरपुराधीशः जालोरदुर्गाधीशः संबुभुजुस्ततः बुभुजिरे ततः ११ , १२, जिग्ये बाहुबला. जिगाय विक्रमास्वीये स्वीये २२. २. राजल्लोक राजैल्लोक २३. उपरि राजवंशवर्णनम् कविवंशवर्णनम् १२५-२७-२६.३१ स्तत देवत्व २. १३ 'मृगया पिवाक्यैश्चारणवा- क्यः॥ मृगया ૨૮ ૬ 'पासाञ्चक्रुः पासाञ्चकिरे विजिग्युः विजिग्यिरे ३१ १२. उधितस्थी ऽधितष्ठो 'प्रसा प्रासादा । ३२ १४ इति॥ इंदिरा भयमखिलोऽपि पृचान्तः संक्षेपेण लि- १३ उपरि · राजवंशवर्णनम् अन्धनिर्माणकारणम् " . . . क C खितः ॥
[१] पृष्ठ पंक्ति अगुदम् शुद्धम् ३३. .१३ (विवुध"शब्दोप विबुधाः पण्डिताः ॥ "वि रि टिप्पणम्) बुधः पण्डिते" इति चि- न्तामणिः ॥ प्रसिद्धम्॥ प्रसिद्धम् ॥ तथाहि मनुः स्मृतो " सर्वेषां तु सना मानि कर्माणि च पृथक् पृथक् । वेदशब्देस्य एवा- दौ पृथक्संस्थाश्च निर्म- मे ॥” इति ॥ ६३५- उपरि राजवंशवर्णनम् नामलक्षणविचार (३७-३६-११-४३ रामप्रहले एम प्रहत्वे ३७-१६ गुणः शुगडे गुणो हस्ते. ३७-१८ मतको " पृष्टे चापि च पृष्ठे भूमिप! गजेन्द्रो कविकृतनाम्नोयो नासंभव गिकरवान्नासंभव कविकृतनाम्नो यौगिका. त्वाद्योगरूढत्वादा कापि ३९. २१ .": शब्दप्व नामस्थ ३९. १३ . काप [१] . शुद्धम् - पंक्ति अशुहम् ११-४ रूढत्वम् । तदुकं रूढत्वम् । न्यायमुक्तावल्याम् "रूढिज्ञानस्य के- वलयौगिकार्थज्ञा. : नप्रतिवन्धकत्वा- त्" इति ॥ कुमुदस्यापि । दि- कुमुदस्यापि । अत्रायं वसविकासिकम- निष्कर्षः, ल एव शिष्टप्रयो- गात् । ४३. ११ चौध इति निक- बोधो भवति । दिवसवि. पः। कासिकमल एव शिष्ट- प्रयोगात् । न तु कुमुदे- वि। इदमेव रूढत्वम् । उक्तं हि न्यायमुक्कावल्या- म् "रूदिज्ञानस्य केवल यौगिकार्थज्ञानप्रतिवन्ध- कत्वात्" इति ॥ रूढिज्ञा- ने केवलयौगिकार्थज्ञान- मवरुध्यते । अन्यपदार्थेषु तस्य प्रवृत्तिन भवतीति भाचा ॥ ४१. ११ नीरशब्दापों नीरेत्यवयवाओं १३. १ ज्योतिष ज्योतिष .. . .
४७. ७ ५०.२२ [...] पृष्ठ पंक्ति अशुद्धम् शुद्धम् - ४५. उपरि राजवंशवर्णनम् मरुदेशराज्यपरिवर्तनम् १३ राहभूमिपो राहक्षितीशी ४७.४९उपरि राजवंशवर्णनम् प्राचीनग्रन्थकर्तृनामानि विनिर्मिमे विनिर्ममे छन्दः ५१. उपरि राजवंशवर्णनम् छन्दआदिविचारः ५१. १७ अपच्छन्दकं छ अपच्छन्दश्छ ५२- ५ इात इति ५२. ७ याचे याचे रसोन्मत्ततया काव्यरसोन्मत्ततया तत्र त्वात् । कान्तया उपदे- शो हि हावभावादिसंव- लितत्वादतिमनोहरोभ- तत्र प्रायो त्वात् । वति। ६६-१७ .. " ६७. १ संसार शक्तिःसामर्थ्यम्। संसार अभिधेयाथों संकेतितार्थोऽभिधेयार्थो नामान्तरम् । नामान्तरम्। संकेतशक्ति- प्रतिपाद्यत्वात्संकेतितार्थ- इति ॥ वाच्यार्थ इति ॥ वाच्यार्थ इति ॥ वाचक- शब्दे वाच्यार्थबोधार्थ सं.. केतः शक्तिरित्ययं संके तितार्थोप्युच्यते ॥ ur .. . . [६]. पृष्ठ. पंक्ति अशुद्धम् शुद्धम् ६८. ९ रूपा लक्षकशब्दनिष्ठा सिद्धि प्र. सिद्धिप्र- ७०. 8 चाक्चक्प चाकचक्य मुख्यतयाधाच्या वाच्यार्थस्य बाघो मुख्या र्थस्य वाधः ।. रूहालक्षणा सतुलना ७३. ११ संभवतीति सप्रयो भवतीति प्रयोजन वि. जनमेव घाधितवा ना लक्षणा नोपपद्यते। क्यं लक्षणाया मू. नम्। मतं, केनचिद्गुणसंवन्धव- त्या लक्षणाया उदाहरणे गणसंबन्धदर्शनार्थमियं गौणी लक्षणेत्यलेखिात- तोभ्रान्ता अर्वाचीनागौ- णीतिप्रकारममन्यन्त । चुध्यताम् बुध्यताम् ।। ११ ॥ ॥१॥ शक्तिः शब्दनिष्ठा शक्तिः अन्यार्थस्य प्रत्याशस्थाति tg विरत ७९. : १५ प्रदीपकार: प्रदीपकारः मतं, . . 0 . " ह .
[si पृष्ठ . पंक्ति 'अशुद्धम् शुद्धम् १ . ७६ १६ तस्याः तस्या- १८. भावाच भावात् ८३. शोभायमान शोभन • ६५-. २० व्यदेश्यत्वात् । व्य व्यपदेश्यत्वाद्य २१ वनिव्यङ्गययोःप- 'ध्वनिस्तु व्यङ्गयस्य ना. विनामत्वात् ॥ मान्तरमेव ।। ८६. ११ कैलासक्षीराब्धि क्षीराब्धिकैलास तीतिधुरंधराशयः। ति। विद्यमानत्वात्। विद्यमानत्वादिति धुरंध. 8 राशयः॥ 8 'नर्तयत् नर्तयत ९२. १८ "तदन्तिकमेव रन्तुं अत्राधमपदस्य प्रयोगः गतासीति प्राधा- प्रकाशकारस्य प्रमाद. न्येनाधमपदेन व्य मूलः। ज्यते" इति प्रका- शकारस्य भणनं प्रमादः॥ २२ न्यन न्यून मेरोः मेलं दुशासनस्य दुःशासनस्य १९ काकुंना काका १०१. १० अंगूढा १२ न्यूनत्वादभावाद्वा न्यूनव्वमभावो व ४ १ किं त्वगूढा . . [0] पृष्ठ - पंक्ति श्रशुद्धम् शुद्धम् १०२ १६ व्यङ्गय इहेरितः॥ व्यङ्ग्यः ॥ २० तादृश वाच्यार्थात्ताश १०३. ११ विकरो धिकारी ११५. ३ चतुर्थवरणे चतुर्थचरणे वाच्यार्थप्रायत्वं वाच्यार्थत्वं १११. १० दाहरणान्तरम् । .दाहरणान्तरम् । कविस्तृत प्टेनियतिकृतनियमरहि- तृत्वेन कविसृष्टौ कविप्रो- ढोक्तिमात्रसिद्धेतिप्रका- रस्य वक्तुमशक्यत्वात्। तत्र मनसोऽग्रव- अत्रोऽत्र मनसोऽयति- तित्वात् त्वम् एतेषु श्रत एतेषु .१२७. १६ शरीरस्य भयाच्छरीरस्य प्रातर्जुम्भायमाण प्रातः जृम्भमाण भावा भाव १३२ १५ तत्र 'कुतः, १४२- १-३ तर्कना तर्फणा १८. ६ . घृतिः वाहतौ संतोपत्यान्तर्भा- १५९.२७ कीर्तिश्रवणस्य कीाः पठनस्य घः ॥ धृतिः C १२८- ७ संतोपेऽपि धैर्यस्य सदा- [२] . २. - पृष्ठ पंक्ति अशुद्धम् शुद्धम् १५१. कीर्तिश्रवणमा कविकृतयशःपाठ प्रा. १५२ ५. परप्रियः स्वस्य परप्रियो जातु भवेत्स्व- भवेत्कदाचिन्नवे. कीयको नैवेति चित्ते प- ति चित्ते परिवुध्य रिजानती सती॥ लोकस्य' माना । लोकस्य लज्जामजहामहो मया लज्जाभजहां म-दिनेऽपि जग्धाखलु दुग्ध- याऽहो दिनेऽपि दु-मक्षिका ॥१॥ ग्ये खलु मक्षिका- त्ता ॥२॥ १५५. क्षणं क्षपां १६ पतिकोपमा तु पतिकादृष्टान्तस्तु १६ प्रभवेऽर्थाद्रङ्कस्य प्रभवे राजत्वदशायां १५६- १९ निद्राच्छेद्रा निद्राच्छेदा १५६. हृदये कृत्वा हस्तं पश्यास्या हृदि हस्तं कृ. पश्यास्या वेपथुः त्वा कम्पोऽधुनापि नो कीदृक् ॥१॥ नष्टः॥१॥ १६.२.५६... वैभाव । वैभवा १६२: २. क्रोधाम 'क्रोधादमर्ष . १४ इच्युतें इत्युच्यतें . १६३. १२ः तपंच तपत्र. छत्र .
पृष्ठ ' पंक्ति or (१०) अशुद्धम् शुद्धम् तर्कना तर्कणा उदयतः। एपां नामान्येव लक्षणा- नि।उदयमानस्य १० दुदयन् 'दुदयमानो १६६-६ खातः कथमयं फैन अहो कथमयं खाता १७०- १३ रसा रसो १७१- २० आनायिता अनीता १७४- १४ चलैनर्य चलैर्नय १७५. १५ शृङ्गाररसालम्बनी रसप्रवर्तकत्वमालम्बनi. भूतस्त्रीपुंसोर्नायि त्वम् । आलम्बनोत्पन्ना कानायकसंज्ञाक- रणे धुरंधरस्याय- एव स्थायिभावा उद्दी- मभिप्रायः। नाय- कशब्दार्थःप्रधान- पनादिभिरुत्कर्षमापाय- मिति । "नायकः माना रसदशामाप्नुव. प्रधाने" इति चि- न्तामणिः॥प्रकर- न्तीति । वयोरूपचातुर्या- रणवशाञ्छृङ्गारर- 'दिसर्वगुणसंपन्ननारीनर- सस्य लाभासा- .मय्यां रूदिः । ता योरेव गृङ्गाररसप्रवर्तक- था च शृङ्गाररस वालाशनारीनरयोधुरै- सामग्या मुख्य- व नायर्कत्वम् । धरेग. नायिकानायकेति सा च विभावानु- . ।
(१६). पृष्ठ . . पंक्ति भशुद्धम् शुहम् भावसंचारिस्था- संज्ञा कथिता। प्रवर्तक- विभावरूपा । त-इच नेतृपदवाच्यः । ने- स्यां चालम्बन- ता नायक इति पर्याया- विभावस्य मुख्य-न्तरम् । “नायकः ने.. त्वं तु प्रथमं पुरुष- तरि । नेता प्रवर्तके" इति स्य स्त्रीसंवन्धा-चिन्तामणिः ॥ नायिके- स्त्रियाश्व पुरुष. त्यत्र स्त्रीत्वे टाप् ॥ संबन्धादा रत्यु- स्पादे उद्दीपनवि. भावादयो मिलि- त्वातमत्यन्तं स्वा- कुर्वन्तीति । १७६ ३ प्रकर्षण घलेन ४ प्रवृद्धे" प्रवृद्धे । प्रशतो" ६ न्यामानवतीप्र- न्याः भृतयः १७७ १३ अनुकूलातिरिक्त- उक्तप्रकाराणामु प्रकारत्रयस्यो १५ प्रन्येषु ग्रन्थेष्वपि । १८२. १४ हरिणा. हरिणी -१८३ २ संपन्या सपल्या १८४ -७. अश्रुतादृशः अश्रु तादृश ८. चानुभावः . चानुभावः ॥ ममतु मत,..
. पृष्ठ ' पंक्ति . अशुद्धम् शुद्धम् दैवहेतुकवियोगस्य शाप- हेतुकवियोगेऽन्तर्भावः ॥ यथा- दर्शनसुखसंभोगरुन्धन्त्य- भूणि मेलनेऽप्यालि ॥हा हन्त मे विधात्राऽलेखिन भाग्येऽपि संयोगः॥१॥ अश्रुसात्त्विकशीलायाः स- खी.प्रतीयमुक्तिः॥ यथावा- दिष्टया चतुप्पथ इमो स- मितावकस्माल्लुब्धे च सं- गतिमितेनयने विशङ्कम् ॥ श्लेपोत्सुकौ च परिवादि- कथावियुको रत्नापहार- विकलाविव तावभूताम्। ९४८ १८ दशरूपक भोजमहाराजस्तादृशनि- यकृतदुःखस्योपलक्षणेन 'संग्रह कृत्वा करिणीकर- पाविषयमिदमुदाहरण- माह ॥ दशरूपंक ४ टीकायाम-"यथा दीकाकारो रसतरङ्गिण्या मृतत्वेन निश्चित उक्तलेखं रसतरहिणीक- एव करुणः। तथा धितशीकस्यायिभावलक्ष- जीवितत्वेन 'नि- णाभिप्रायेण दर्शरूपका- श्चित एवं विप्रल- नुसारमेवे योजयामास । । .
शुद्धम् . . 1. १३ ! 'पृष्ट पंकि अशुहम् म्भः।" इति स्फु- "मृते जीवनाशायां तथा- टीकृतम् ॥ विधरत्यां चक्लव्यस्य गुणी- भावेन निरुक्तरत्यनालि- गितत्वाभावाद्विप्रलम्भ ङ्कारः। जीवत्यपि मृतत्व- निश्चयदशायां निरुक्तवै- क्लव्यस्य तथाविधरत्यना- . लिङ्गितत्वात्करुणोऽपि नि वहतीत्याशयेनोत्तरयति" इति ॥ १८७- ११ विषादमरणनि विषादनिदादयः दादयः १८६. १६ परशु कोद्भवाच्चन्द्रादि- कानुद्भावः, चन्द्रादयश्च दृ दर्शनाभावः । तत प्टिगोचरा भवेयुश्चेद्दपणा- एव च मुकुरादि- द्यर्थं स तान निमित्तं चन्द्रा- देरवितरणम् ।अ- न्यथीत्व १९० ८ सुरेश्वराज्जननि- हरेर्भयाज्जलनिधि धिमाकशैलं मैनाकशैलो १६२. १४. धनादिक ठीवनादिकं १६४.३ विदध्वं विधद्ध्वं •१६६- .१२च्छ्रे कृष्णस्य च्छ्रीकृष्णस्य' यदि परशु . , " " .
. [१] . " २१८. पंक्ति ए भशुद्धम् शुद्धम् 18- ११ विषय विपये ६ समसितत्वात् समस्तत्वात् २०४ २० भेदस्त्ववश्यं भा. भेदेन त्ववश्य भाव्यम् व्यः शब्दार्थ २१२. १ सिद्धम् सिद्धम् । अत्र सर्मिणा- मधिकगुणमुपमानमिति विवक्षितत्वात्। २१४. १६ वर्पतो वर्पतों. ४ त्युच्यते। त्युच्यते। अनेन दिग्दर्श- नेनान्यत्रापि कल्पनासिद्धा- लंकारा विज्ञेयाः। २१ शकनार्थ २२१- २० लोपो वाच्यार्थस्य लोप इवादेर्वाचकस्य २२ श्लाघनीय श्लाघनीयं ५ उल्लसति व्यङ्ग्य चमत्कारस्य प्रधानत्वसू. मौदा विना स्पष्टं चनार्थमल्लसतीति । प्रकाशते। २२२. १६ निषेधार्थकः । एर-विरोधार्थकः । “तत्सादृ- गुणसंबन्धस्य नि-श्यमभावश्च तदन्यत्वंत- पेघ इति भावः। दल्पता । अमाशस्त्यं वि. .रोधश्च नार्या पट् प्रकी- "तिताडतिचिन्ताम. णिः ॥मंत्र विरोधशब्दां. थों विपरीतभावः । "वि. शकुनार्थ " " - . - २२५. . ". . [१५] पृष्ठ पंकि अशुद्धम् शुद्धम् । रोधः विपरीतार्थे" इति चिन्तामणिः॥इह परगुण संबन्धो नास्तीति भावः॥ कासि कास्ति कंचिच्च कुवलयानन्देऽत्युक्तरिदमु. दाहरणम् । मम मते तु नेदं भूषणम्, किं तु दूषः समेतत् । कचिच्च २२६- पूर्ववन्ना १३ संवन्धे ऽसंवन्धे योगस्य २० संबन्धेत संवन्धेऽयोगस्या २३२. १ भृश भृशं २३४- ५ अधिकस्यप्रकारद्वयं अधिकद्वयं १३ नृपयशस आ नृपगुणगणस्या १५ दाधेयाधिक्य दाधेयपृथुलत्व १६ धाराधिक्य धारपृथुलत्व १९ द्राजराजेश्वरय. नृपगुणगणस्या शसभा २० राजराजेश्वरयश- नृपगुणगणस्य ता सस्ता २३६. ६ संवन्धिनोऽन्येऽप्य- संवन्धीम्यन्यान्यपि वस्तू- २४०-. १० अंनातरङ्ग अन्नान्तर १. बहिरङ्ग संख्या पहिरङ्गसख्या १७ किं त्व . . " . परं ख Y . " " - [१६] . पृष्ठ पंक्ति अशुद्धम् शुदम् २४१. २. ऽन्तर्भावात् ॥ ऽन्तर्भावात् ॥ गोपने नि- पंधे च महदन्तरम् ॥ ६ यथा- अत्र चन्द्रालोककारेण छ- न्दोघशादपन्हुतेः 'पर्यायो चिन्हव इत्युक्तः ॥ यथा- ८ अपन्हूय अपन्हुत्य २१२. ६ " एव ॥४॥ एन ॥ कल्पितभ्रान्तिपूर्वा थया'जटानेयं चेणीकृतक चकलापो नगरलं,गले क- स्तूरीय शिरसि शशिरेखा न कुसमम् । इयं भूतिना झे प्रियविरहजन्मा धव- लिमा, पुरारातिभ्रान्त्या कुसुमार! किं मां प्रहर- सि ॥१॥" अत्र स्वयं कुवलयानन्दकारो लिख- ति "अत्र कल्पितम्रान्ति- जटानेयमित्यादिनिपेधमा- श्रेन्निया । पूर्वप्रश्नामा- वात्" इति ॥ll २१३. १६ अभावः पूर्वरूप- वैपरीत्यं तु यत्र स्यात्पूर्व- स्य यत्र स्थानमा रूपस्य भूपते॥ नायक। संजापति • संजागरं .२४६. १२. .प्रस्तुत . अत्र प्रस्तुत पृष्ठ पंक्ति - " - [१७] अशुद्धम् शुद्धम् - २५२- १,३ नर्तयति नर्तयते २५३. “३ प्रमादः। प्रमादः । पूर्वोदाहरणे उ- त्प्रेक्षालंकारः। उत्तरोदा- हरणे.चारिनगरशून्यता: याः पर्यायतया कथनात्प- र्यायोक्तिरलंकारः॥ २५४. १८ त्वम् त्वम् । २५६- ५ कामप्रदोधूयां कामप्रदोग्धूयां २५८- ३ अष्टचत्वारिंशो अष्टचत्वारिंशदु स्वराम स्वारांम किं आक्षेपस्य प्रकार आक्षेप २६२- १५ योग्यतात्वा योग्यताया अ २६३- २ निषेधवचने निषेधगोपनस्य गोपनस्य अत्रेपच्छन्दस्य अत्रेपदित्यस्य' १८ नरेन्द्रमौले! मरुभूपाल! २६४.५ 'कुवलये तानि कुवलयमेतानि • १६ मंत्राङ्गना यमकव्यावृत्तये विभिन्ना- कारेति ॥ सत्राङ्गना २६५- १२ रणाहणे सोस्ताहं तनुत्या- गी वीरः सूर्यमण्डलं भि- त्वा परमां गतिमासाद- यति । तदुक्तम् “दाविमौ पुरुपो लोके ‘सूर्यमण्डल.. का- - ६ . . 1- अत्र .
" . [] पृष्ठ : पंक्ति अशुद्धम् शुदम् भेदिनी । यो योगेन तनुः त्यागी रणे चाभिमुखो हतः॥” इति ॥ अत्र २६५. १२ शत्रुनिस्कन्दन 'शत्रुनिकन्दन • २६६. २ •लंकारस्य प्रकार लंकार ३ हार २६६- २.१ स्मयित्वा हलित्वा २७१. १९ वर्षायां वर्षासु २७३-६ उत्कटएककोटिक उत्कटकोटिक १० पश्चत् पश्चात् '-१३ यां संदेहे यामुत्कटकोटिकसंदेह १८ ऽनुक्तस्पदा ऽनुक्तास्पदा २७४- १४ कामन- कामना- २७७-११५. चाजाननश्च चाजानश्च २८२.४ ऽजानन्त "बुध्यन्त .२८३-२ पावती पार्वती २०४. ११ 'भुजतो भुजानस्य • २० यशसो यशसा २८७.१ पायाद्वो पायात्त्वां देवासदैत्यान्तकोश्रीराजराजेश्वरो ७ नखसिख शिखनख , - १६ तावस्थिराः स्युर्हि राजन्तु तावद्विमशैलशृङ्गाः मपर्वतायाः संदश संदेश २८६- २ हरिभक्तपू हरिभक्तपू । हरिभक्तेपू'. . . ". .
शुद्धम् - .:. , २६१-४ . [१] पृष्ठ पंक्ति अशुद्धम् २८९- १२ नामदे रङ्गकार कवीरस्तन्तुवाय इति त- इति तस्य रज-स्य पटोत्पादकत्वम् । नां- यितृत्वम् । कवी- मदे रङ्गकार इति तस्य रस्तन्तुंवाय इति रकृत्वम् । तस्य पटॉत्पादकत्वम् । पूर्वोदाहरणयोः पूर्वोदाहरणे २१२. १५ विद्युद्भिश्च वि- विद्युद्भिर्विराजमानश्च वा- राजमानैर्वारिदैः रिदैः भुजीत निपुणो भुङ्ग्यात्सुनिपुणो : २६६. २० हयस्ते कुण्डलीकु हयस्ते कुण्डलीकुर्वन्कुकु. वन्ककुभां कुण्ड भां कुण्डलायते । मेख-: लीयति । मेखली- लायत: उव्यास्तु सृष्टे। यति मेदिन्याः सृष्टे कङ्कणायते ॥ १ ॥ वै कङ्कणीयति ॥१॥ २९७. १ क्य .कामोऽपि स्मरोऽपि दोलन्त्याराधिका- दोलायमानराधायाः स्म- या वैहारो दोल-रो दोलायते हदि । बरसे ति वक्षसि । चित्ते दोलायते हारो इंशोर्दो दोलति पञ्चेपुः लायते हरिः। कृष्णो दोलति नेत्रयोः॥ ३०.. ३...द्यस्मिन्विनिएच- यस्मिंस्तु निश्चयो 'यो णिन् - १० .
पृष्ठ पंक्ति . [२०] अशुद्धम् शुद्धम् ३००. २१ प्रयात्सवाच्या याति प्रतीच्या ३०१-३ दर्शितः। दर्शितः । नानं शङ्कायां चमत्कारः॥ ३०२. १५ इदमुपदेशस्य इदं परोपदेशस्य फलोत्वमेव यश- यशवन्त! त्वमेवासि यश- सांग्राहकोऽसिक्षसां ग्राहकः कलौ ॥ मापते! ॥ १५ लक्ष्यमाण चक्ष्यमाण .३११. १७ हरणम् । हरणम् । एतेषां मतेऽत्र परिकरनाम्नः संगतिस्तु शिवस्यतापहरणे शशिशे- खरतागानिकावन्धरूपोत २. विशेपणस्याभि- साभिप्रायविशेषणे प्राये ३१५. २१ वर्जनपु पर्जनपू .१२१- यथा वा ३२५. १२ ७३ प्रजा সভা न्यायो दर्शितः। न्यायस्य दिग्दर्शनं विहि- तम् ।. तस्मिन्न तस्मिन्नेवा १ था- कामेण पधा- १२ पथावा- १८ भाव्या भाव्यर्थ २ निधय:-. : निश्चयः . -- .
[२१] पृष्ठ पंक्ति अशुद्धम् शुद्ध ३३६... ३ ऽध्य। ऽध्य- .६ मरुभूपाल! भवत- तब पत्मानसरोवरं भो श्चरणं.मानसं स- यशवन्तनृपाल! । मनोम- रः । मनोमरालो रालोऽनिशमसौ वाञ्छलि ह्यनिशं ममासा- मम भूपाल! ॥ भूपैलति वभिकाङ्क्षति ॥ शोभते इति भूपालः। नृ- पालेत्यस्य विशेषणम् ॥ १६ श्रवणमत्रेण श्रवणमात्रेण ३४४ १ तिदुपां विदुषां ३४५ १० भोगस्य स्रक्चन्द- भोगस्याहेः शरीरस्य से- नादेरनुभोक्ता ब- वनकर्ता बलदेवः। शेषा- लदेवः। व्रतारत्वात् ॥ ३४७. ६ धारयन्तीति धारयत इति ३५१- १३ तत्राल्पा तत्रापा ८ नामां नामा काका १८ ककुना ३५७- १६ कार्मुकाञ्छीघ्रम् । कार्मुकाण्याशु । - ३५८. . ९ आतिथ्यं तु आतिथ्यविपये विधिद्वयम् ३५६- ५ लंकारो भाव्यः। लंकारेण भाव्यम् । ११. अर्वाचीना विका- कश्चिद्रंधरो विकासं स्व- संस्वतन्त्रालंकार- तन्त्रालंकारमगीचकार । माहुः। ३.वस्मिस्थले स्वस्मिन्यले [२२] पृष्ठ पकि अशुद्धम् शुद्धम् ३६३. १७ मुपैहीशं मुपेहीशं ३६४ - मजानन्तं मित्रं मजानन्मित्रं. . . . ० ३६६: १८ तदन्योन्यरिप तईद्रिपवोऽन्योन्यं. वो ३६७. १५ विचित्रविषमयो विचित्रविषमविरोधेपु ना. १९ मार्थानुसारि मार्थानुसारेण विरोधस्य च २० प्रावृपेण्यैर्जलधरै- रम्बरंदुर्दिनायते। ३६८- , रांगेण पुनराकान्तं जायतेजगतोमनः। ३ भावो मालिन्यका- भाव इति विरुद्ध क्रिययोः रिणो रागोत्पाद- कत्वाभावो रागो- स्पादकस्य च मा- लित्यकर्तृत्वाभाव ' इतिविरुद्धक्रिपाण.. ६. युक्तः ॥ युक्तः॥भत्र दण्डिकृत- काव्यादर्शस्य टीकाका- से पदति "संवन्धिभेदेन शब्दयोभिन्नत्वाद्विरोधप्र- शमनम् अस्यायमभि- मायः, वर्धसानशब्दरय . .
८२३ पृष्ठ पंक्ति अशुद्धम् शुद्धम् ... . हंसैः सह, क्षीयमाणश- ब्दस्य चमयूरैः सह सं- वन्ध इति संवन्धभेदा- द्विरोधस्य परिहार इति।. "विरुद्धानां संसर्गस्तत्व- तो न संभवतीतीह वि- रोधस्याभास इष्यते।" इति ॥मम तु मतं, अयं प्रमादः। विरोधपरिहारे. स्वलंकारस्यापि परिहा- रात् । विरोधिसंसर्ग ए- वास्थालंकारस्य रमणी यत्वात् । किं च विरोध स्याभासेऽलंकारत्वाङ्गी- कारश्चेदयमाभासालंका- . ३६८- १८ . पठत्पुरा ३७१. १४ २० इत्याह ॥ प्रकार: पठद्धृवम् प्रकाराः इत्याह। अस्यायमभिप्रा यः, प्रकारप्रकारिभावः सामान्यलक्षणे सत्येवो. पपद्यते । यस्य सामान्य लक्षणाभावस्तस्य विशे- पाभायः।.
[२.] पृष्ठ • पंक्ति अशुद्धम् गुहम् ३७५- १४ परिसेवते परिपेवते मुच्यन्त इहैव मुच्यामह ई इहेशाः ॥ नाथाः ॥ ३८३. १५ शोभामादधानः शोभा हरमाणः. ३६. ५ कातो ३६३- ३ परिहासे १४. . यथायोग्यम्॥ . कान्तो सखीकृतपरिहासे यथायोग्यम् । अत्रोपमा- या यथायोग्यत्वात्समा कारः॥ -- " . ३६५. ८ . प्रोत्साहन प्रोत्साहित २१ धारयेत्प्राणमय॥ धारयेदद्य साऽसून्। : ३९७. २० प्राणेशहरे! प्राणेश! हरे! ४०५. १७. व्याजेनाप्रार्थय व्याजेन प्रार्थय ऽपि ऽपि सूक्ष्मत्वे धर्मणां धर्माण मरूपो महरा १५. १० शोभाकरा शोभाकरी ... ४१८- उभयोमिश्रणादु"तनुवपुः" इत्यस्मिन्नुदाह भयालंकारोऽयम् रणे " अल्पदेहः” इति पदपरिवर्तने पूर्वपदस्य. परिवर्तनासाहत्वेनोत्तरपद- स्य च परिवर्तनसत्वेन शब्दार्थाभयविपमिश्रणा- पुनरुक्तिवदाभासारख्य उभ पालंकारोज्यमा एवं “करि- .
. पंक्ति [२५] अशुद्धम् शुद्धम् .. कुजर-रुधिररक्त-तेजोधा- ममहः- इन्द्रोहरिजिष्णुः" एतेष्वप्युदाहरणेषु ज्ञेयम् ॥ . "" :४१९.११ शब्द श्रवण. ४१६- ११ चिन्तामणि अत्र वाचकलुप्तोपमा॥ चिन्तामणि ४२१- ३ दूपणोद्वारपूर्वकं दूपणोद्धारे सति ४२२. १० यो.दूरीकृतवान- योऽपाकरोत्समत्स्योऽच्छः छः स पाया संपाया ४२६. १६ रेम्यः रेभ्यः ४२७. १ विशेषाश्च विशेषश्च व मिथोऽलंकार. वैकोऽपरस्यालंकारत्वमा- स्वमापद्यन्त पद्यत ४२८-८ कृष्णविषयो गो- विस्मय पानां विस्मय ४३२. २ भयभीतोभवन्न भयादिभ्यदभून्नृपः भूत् ४३३. . २ तथा तथा ४३३- ११ सहोत्यलंकारः॥ सहोत्यलंकारः । अत्र फचित् भवता संलिं- काराणा प्रथमोवाहस्था राजराजेश्वरयशवन्तसिं. हंयशोविषपमुपदिष्टमि. - .
[१६] . पृष्ठ पंक्ति अशुद्धम् शुद्धम् तीह रसवदायलंकारेष्ठ पि तस्य नियमस्य निर्वा- हः कुतो न विहित इति वदेच्चत्तस्येदंसमाधानम्। विधिसृष्टी राजा मनु- प्येषु न गणितः । ईश्व. रकोटिकत्वात् । तदुक्तं भगवद्गीतायां भगवता श्रीकृष्णेन "नराणां च नराधिपः" इति ॥ कवि- सृष्टौ रस ईश्वरत्वेनोक्तः। "रसो बै सः" इति श्रुः तिः ॥ केनचित्प्रतिभाव. ताप्युक्तम्-"मूर्धाभिषिक्ता महिषी न स्यात्परिजना- स्पदम् । रत्ननिर्मितदेव- स्य नैव स्याद्धपणाभि घा ॥ १ ॥” इति ॥ स्वे- टदेवतीया रत्नादिमयी मूर्तिर्ह दयादौ संधारिता भूषणवच्छोभाकरी सत्य. पि देवताविशेपोच्चपद- महिमवशांन्न शिरोभूप- णकण्ठभूपणादिव्यवहा- .रास्पदम् .पहराइयपि पंक्ति अशुद्धम् . [२०] पृष्ठ शुद्धम् परिवाररूपैव। परं तूक्तो- चपदमहिमवशात्सा प- रिवारे न गण्यते। तथैव स्थायिभावो हि रसरूपः। कचिसंचारिभावोऽपि र- सापेक्षया प्रधानत्वमा- प्नोति । रसवदाद्यलंका- रेषु चन कोऽपि नवीनो. sोऽलंकारत्वमापद्यते. भावा एवालंकारा भव- न्तीति साहित्यशास्त्रस्य सामग्रयामीश्वरत्वोच्च पदभाजा रसत्वयोग्यान भावानामुक्तमाहिमवशा... तेषां सर्वथालंकारत्वनैव गणनससमीचीन मिति- सूचनायास्माभिर्भावाल- कारोदाहरणेवर्थालंकारो... दाहरणक्रमः परित्यक्तः।। ४३५. .११ योग्यतात्वा योग्यताया अ १३ 'अतिशयोक्तिरिति लोकसीमालइनेति ५३९. १२ · स्नेहश्च ॥.. स्नेहश्च ॥ मोहशब्दस्या; स्मितार्थकत्वात् स्नेहस्पा " itt rom?