University Library,gurukul Kangri Vishwavidyalaya
अर्वाचीन साहित्यविवेचना
Front matter
नैश्यामसायकानी
मवाली प्रसाद सा
मग
अर्वाचीन साहित्यविवेचना ।
१०५
Aalad
गुरुकुल प्रामा काँगडी,
RAM
Mmments
साहित्याचार्य,
श्रीशालग्रामशास्त्री।
धीः
अर्वाचीनसहित्यविवेचना
तत्सम्बन्धे
अस्मत्कर्तव्य
R
हरिद्वारस्थऋषिकुले प्रधानाध्यापकेन
साहित्याचार्य श्रीशालग्रामशास्त्रिणा
लिखितो
निबन्धः
मं० १९७३ धि०
এ মুনাথনা জালাল
मागरा नगरेमुद्रितः
विषय सूची विसं पृ० सं० or २ 3 पायश्च १ मङ्गलाचरणम् २ शब्दब्रह्मणः खरूपम् ३ तत्सामर्यमुपयोगच ४ शब्दस्य वैविध्यम् ५ रसविषये मतभेदाः ६ रसस्यानिर्वचनीयत्वमात्मस्वरूपत्वञ्च १४ १ अनौचित्यस्य रस भजकत्वम् १४ ८ प्रकाश लक्षणोक्तस्य 'प्रदोषी । इति पदस्यकृत्यं सरसकाव्यनिर्माणो १५ काव्यस्य पञ्चविधत्वम् १६ १० त्रिविध साहित्यम् ११ १९ शुद्ध लौकिक साहित्यस्य शुद्ध वैदिक साहित्येन तुलना १७ १२ अलङ्कार शास्त्रम् १३ पञ्चविध लोकिक वाक्पपर्ण नम् १४ अन्तःकरणस्य द्रुत्यादयोऽवस्थाः १५ द्रुतौ श्री कालिदासस्य सिद्धिः १६ अलङ्कार शास्त्रस्य संज्ञा तदारम्भकालश्च १७ साहित्य शब्द प्रयोगः १८ काव्य लक्षणेषु विभतिः २८ १९ प्रकाशे दर्पण कर्तुः श्राक्षेपाः २० अवश्यं प्रष्टव्यम् तमिस्त्रः पक्षः ३२ २१ साहित्यस्य द्वैविध्यम् ३२ २२ अस्थिर साहितस्या भावेन समुत्पमोड नर्थः ३३ २३ साहित्यस्य दुर्दशा ३७ २४ उपसंहारः २५ सुरभारती सन्देशः २० २२ २३ २४-२५ २७ २९ इति
श्रीः ।
अर्वाचीनसाहित्यविवेचना
-
तत्सम्बन्थे
अस्मत्कर्तव्यञ्च
:-
(निबन्धा- साहित्याचार्यश्रीशालगामशास्त्री, बरेली )
'इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ,
वन्दारुजनमन्दारं वन्देह नन्दनन्दनम्' ।
मल्लिनाथः।
प्राशोणा कोणदेशाद्, विकसितकुमुदामोदिनी पार्श्वभागात्,
नीलेन्द्राकान्तकान्ता कलिकलुषहरा संसरन्तीच मध्यात् ।
व्योमस्थेव त्रिवेणी, त्रिगुणवशकरी देवतेव त्रिसपा
जीन् संस्कारान् धमन्ती जयति नयनयोः कापि कान्तिर्भवान्याः।१।
स्त्रोतांसि वात्सल्यरसस्य शश्व त्समुत्मजन्ती जनताहिताय ।
सा भक्तिवित्तकदयाविधेया पुनातु नेत्रद्युतिरम्बिकायाः । २ ।
काहमप्रौढवागर्थः क चेयं संसदिन्दिरा ।
सुधर्मस्पर्धिनी धन्या कुशाग्रधिषणास्पदम् ।।
येषां पुरो निखिलवाक्पतिरप्युदश्च संकोचमचति वचःसु कथन्त्वमीषु ॥
तिष्ठत्सु वाकप्रसर एष ममाऽथवा स्युडिंम्भस्य दुर्विलसितानि मुदे गुरुणाम्।४।
खलु
निबन्ध--
कि नाम साहित्यममुत्र कि च कर्तव्यमस्माकमितीदमद्धा ।
विवेचनीयं भवतां पुरस्तादनुग्रहश्चेदवधानदानम् ।।
इदं दृश्यमानं निखिलमपिजगत् शब्दोऽर्थश्चेति विभागद्वयकुतावेव नि-
लीनं वर्तते। न किञ्चिदिह तादृशं पश्यामो यद् घटपटादीन् शब्दान्
कम्बुग्रीवादिमतोऽर्थाश्चातिरिच्य अवशिष्यमार्ग दृश्येत ।
( २ ) ईश्वरेच्छारूपेण, इच्छारूपेण वा पदार्थान्तरेणैव वा शब्दस्याऽर्यगतेन, अर्थस्य वा शब्दगतेन शक्तयाख्येन व्यापारेण तत्र तत्र प्रयुज्यमानास्ते ते शब्दास्तास्तानानुपस्थापयन्ति । यदि नाम इदं शब्दाभिधं ज्योति भ्युदियान्मानवेषु, नूनं सर्वेऽपि संध्यवहारा आमूल चूलमुच्छिोरन् । शब्दमन्तरेस, बोधयितुमिष्टस्पार्थस्य उपस्थापनं कथमिव सम्भवेत् ?। सम्मुखमवस्थितेषु पदार्येषु अङ्गुलिनि- देशादिना कथञ्चिद् ज्ञापितेष्वपि परोक्षवृत्तीनां बोधौपयिक दुःश- कमेव लब्धुम् । अनुपस्थितथटो हि जनो घटानयनाय पुरुषान्तरं प्रेरयितुमिच्छन् कि वा प्रतिपद्येत ? । दुःखदुःखेन करचरणादीनामनेकाभिः क्रियाभिः, प्राकृतिमतां पदार्थानां कृतेऽपि ज्ञापने निराकृतीनां बोधनाय नितरां नास्त्येव शरणम् । यदा इयं दुरवस्था वर्तमानकालिकेष्वेव पदार्थेषु महान्तमन्तराय- मापादयति, तदा कैय कथा प्रतीतानागतानां बोधनस्य । असति खलु शब्दमये ब्रह्मणि न तादृशी कापि शक्तिर्जागर्ति जगति, यथा साम्प्रति- कानामपि विवेकवतामुच्चतरान् विचारान् गहनवरान् वा शास्त्रार्थान् प्रेक्षा- वतामग्रगण्या अपि प्रतिपत्तारो यथायथं प्रतिपद्येरन् । येषां पुनद्रष्टारो वक्तारश्चअतिचिरन्तनास्तेषां वेदादिशास्त्राणाम् अवगमोपायस्य तु न दुराशालेशोऽपि सम्भवी । इदमेषाभिप्रेत्य उक्तं महाकविना दण्डिना- इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् यदि शब्दाहयं ज्योतिरासंसारं न दीप्यते ।। ( काव्यादर्शः) अत्र कविना शब्दे ज्योतिष्ठमारोप्य सदभावसामानाधिकररयेन प्रयतमसत्वं सम्भावितम् । युक्तं चैतत् । विसन्धदुर्मणी हि प्रकाशतमसी न शक्ये सामानाधिकरण्येनाधिगन्तुम् । एकविनाकृतत्य अपरस्योपस्थितिस्तु नैसर्गिको न यनान्तरमपेक्षते । न खनुम्मीतगालोकमानतुं कृतो यत्रो नान्धतमर्स निवारयति । प्रय- ( ३ ) । बान्तरं वा प्रतीक्षते । एवञ्च महाकविसम्भावनाविषये शब्दाहुयस्य ज्यों- तिषोभावे भुवनत्रयस्यान्वतमसान्तवर्तित्वन्तुन मैसर्गिकत्वमतिकामति। तथापिइदमिह चिन्तनीयम्, यत्, यस्मिन्बाधिकरणे ज्योतिर्न द्योतते तस्मिन्नधिकरणे अन्धतमसमाविर्भश्तीति हि वस्तुस्थितिः, न पुनस्तद- धिकरणमपि अन्धकारस्वरूपतामापद्यते । उक्त पद्ये पुनः कविना शब्दावयस्य ज्योतिषोऽभावे भुवनत्रयस्यैव अन्धतमसत्वमुक्तम् । इदमन्यतमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दाहयं ज्योतिरासंसारं न दीप्यते ॥ इति ॥ श्रावेदितमेव इदमधस्ताद् यद्, अविद्योतमाने शब्दमये ब्रह्मणि सर्व- विज्ञानव्यवहारोच्छेदः स्यादिति । अस्मिन्नेव हि सर्वा विद्या निखिलानि तन्त्राणि सकलाश्च कला परिसमाप्यन्ते । किंबहुना ? निरतिशयानन्दधै- सन्यम् एकरसम् अद्वितीयम् ब्रह्मापि औपनिषदमित्युच्यते । उपनिषदा हि तज्ज्ञाप्यते । तस्मात् तदपि स्वं ज्ञापयितु शब्दमुखं प्रेक्षते, इतरेषां तु कथैव का ? नाविदितमिदं यद् रसमयभणितीनां मार्गदर्शिनोभगवती- र्षाल्मीकिव्यासयोः शउदब्रह्मानुग्रहादेव अद्यापि मर्यादापुरुषोत्तमादि- चरितम् आदर्शपुरुषाणां शीर्षण्यं धर्मोद्वारकाणां शरण्यं धास्ते । न केवलं लौकिकानामेव कवीनामियं दशा, अपि तु यदि नाम वेदा नाभविष्यन्, कःखलु निरालम्बनो साक्षात्कृतधर्मा भगवति विश्वविधातर्यपि अद- धास्यत् । 'कविर्मनीषी परिभू' रित्यादि वेदवाक्येषु 'कवि' रिति भगवतः स्वयम्भुवो विशेषणं कं भावमुद्भावयतीति तु विभावितमेव भावनावद्भिः । नूनम् अनिर्वचनीयमहिम, खल्विदं शब्दब्रह्म, यन्महिमानमुपासीनाः परिहापितभौतिकवपुषोपि अप्रलयभङ गुराणि तेजोमयानि नाकिनामपि कमनीयानि बराणि कलेवराणि वृण्वानास्तानि तानि पावितजगन्ति पुण्यश्लोकचरितानि प्रकाशयन्तो मणिप्रदीपा इव प्राकल्प प्रकाशन्ते । तद् यदीदम् अमरीकरणोपायभूतं पुण्यश्लोकचरितानाम्, पीयूषवर्षों विचारवताम्, सर्वस्वं कवीनाम्, उपहासकर करालतमस्यापि कालस्य, तेजोधर्षितजरामरणचक्रम् कविसृष्टमप्यनश्वरम्,जडतापहारकमपि जडताप- करम्, अन्धतमसध्वंसक ज्योतिर्मयं शब्दब्रह्म न द्योतेत, तदा प्राहारनिद्रा- ( ४ ) - भयमैघुनादिकतिपयपशुसाधारणव्यवहारनिर्वाहे सम्भवत्यपि सर्वविज्ञान- व्यवहारविलोपेन निःसंशयं मानुषा वनमानुषा एव स्युः । सभासम्मेलन- प्रभृतीनान्तु नामापि न भूयेत। शाखविचक्षणानां, सम्पादकाचार्याणां, निबन्धलेखकानां च गन्धोपि नानुभूयेत । को वा तदानीमिमान् मानवान् तमोबहुलेभ्यस्तिर्यग्योनिभ्यो व्यवच्छेत्तु मीशीत ? ज्ञान विज्ञानादीनां परमोपायभूते अस्मिन् ज्योतिषि अनुन्मिपति कुतो वा भानचन्द्रोदयः ? असति च जाने केन वा शक्या ज्ञानपूर्विका कृतिः सम्पादयितुम् । सजाते च ज्ञानप्रकाशस्य क्रियायाश्च प्रभावे दुर्निधार दुष्परिहरश्च तमसा साम्राज्यम् “प्रकाशक्रियास्थितिशीलं भूते- न्द्रियात्मक भोगापवर्गार्थ दृश्यम्” इति हि धर्णयति भगवान् पतञ्जलि- योगसूत्रेषु। तत्प्रकाशक्रिययोर्विनाभावे सर्वतो भावेन विजृम्भमाणे सन्तमसे असन्दिग्धं सर्वमिदं जगत् अन्धतमसमेव स्यादिति मुष्ठूक्तं महाकविना- इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् । यदि शब्दावयं ज्योतिरासंसारं न दीप्यते ॥ शब्दस्य महादेवत्वमाचक्षाणा श्रुतिरप्याम्नायते-- 'चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्ष सप्त हस्तासोप्रस्य त्रिधा बद्धो वृषभो रोरवीति महो देवो मत्यॊ प्राविवेश' इति । तदिदमुपवर्णितं शब्दब्रह्म, १ शब्दप्रधानतया, २ अर्थप्रधानतया, ३ रसप्रधानतया च त्रिधात्मानं विभज्य पर्यवतिष्ठते । सत्र केचित् प्रवर्तनापरपर्यायशासनाउनुकूलव्यापारप्रधानत्वं शब्दप्रधा- नत्वम्-यथा प्रभुः इष्टे, अनिष्टे निष्फले चार्थे यथेच्छमनुगामिनः प्रेरयति, तथा वेदादिरपि अनुसुपफलोपधायके ज्योतिष्टोमादी, प्रतिरूपपरिणा- मोपस्थापके श्येनादौ, प्रत्यवायपरिहारमन्तरेण फलान्तरस्याऽश्रवणात् निष्फले सन्ध्यावन्दनादौ च अधिकृतान् प्रयोजयति; यथा च मभोरादेशा भयेनप्रवश्यमनुष्ठेया भवन्ति , एवं वेदादीनामनुशासनमपि प्रत्यवाय शङ्कमाना जना अवश्यमाश्रयन्तीत्याहुः । अन्ये तु समीहितार्थलाभाय “ प्रत्यज्यमानमुख्यार्थकत्वं शब्दप्रधा- नत्वम् ” छन्दोब्राह्मणादीनामुप देशकविधेयांशस्य लक्षणादिना अन्यथा- नयनाऽभावात्, “न विधौ परः प्रयुज्यते” इति सिद्धान्तात्-इति वदन्ति । .
( ५ ) * अपरे पुनः शब्दपरिवश्यसहत्त्वं शब्दप्रधानत्वमिति अनुमताचे लक्ष माचक्षते। व्याचक्षते च एवम्-यथा अद्य प्रभृति देवदत्तः समरसिंहपत्यु- पाधिना व्यवहर्तव्य इति प्रभुणाादिष्टे तेनैव शब्देन जनास्तं व्यपदिशन्ति, न पुनस्तत्समानार्थकेन 'संग्रामकेसरी' त्यादिना केनचित्पदेन । एवं वेदे- ष्वपि 'अमिमीले' इत्यादीनाम् अन्यतमस्यापि पदस्य पर्यायोपनिबन्ध स्थानविपर्यासे वा न शक्य घेदत्वं वक्त म्, पारायणादौ वा तथा पुरुष- जनकत्वं प्रतिपादयितुम् इत्येतेषां शब्दप्रधानत्वम् । अत एव एषां प्रभु- शब्देत्यभिधानेनापि व्यपदेशः। एते हि शब्दपरिवृत्तीरसहमाना अनुष्ठानश्यतिरेकेण प्रत्यवायकरा राजशासनमिव भयेन अनुष्ठीयमानाः प्रभुशब्दा इव प्रभुशब्दा इति । एतल्ल दयं प्रायः सर्वमेव वैदिकं वाङ्मयं सदुपजीवकाच निबन्धाः । अर्थप्रधानता च द्वितीया कक्षा शब्दस्य, यत्र हि-शब्दाः परिवृत्ति सहन्ता- मपि, अर्थस्तु स्वस्वरूपे समुत्पद्यमानं मनागपि वैरूप्यं न क्षमते । इतिहासपुराणधर्मशास्त्रादीनि अस्यान्तर्गतानि । यदाहुरितिहास- लक्षणम्- “धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । वृत्तवस्तुकथायुक्तमितिहासं प्रचक्षते। इतिहासे हि यथावत्तस्यय बस्तुनस्तद्रपैय कथा स्थानं लभते । सापि चे चतुर्वर्गे नाम्यतमस्याप्युपदेशिनी, नास्पद विन्दति । 'पुराणं पञ्चलक्षणम् !-धर्मशास्त्रञ्च निगदव्याख्यातम् , एवमादिषु अर्थस्यैव प्राधान्यम् । अयं हि सुहृत्सम्मितः शब्द इत्युच्यते। यथा सखा सखायं सस्पये प्रवर्तयितुमीहमानोपि न राजशासनमिव श्रादेष्टुमीष्टे, किन्तु सदसती वर्मनी विबोध्य तत्फलं निवेदयति, तथेतिहासादिकमपीति सुहृदा समं सम्यमितत्वात्महत्सम्मितमित्युच्यते । अथापरो रसाङ्गभूतव्यापारप्रवणतया शब्दार्थों गुखीभावयनरसप्रधानः शब्दः ‘कान्ताशब्दः,” इत्युच्यते । यथा च काचन कमनीया कामिनी निज प्रणयिनं कटाक्षभूविक्षेपा- दिना आवर्जयन्ती, तदन्तरङ्ग रसवर्षेण तरलयन्ती मनीषितमावेदयति । प्रभवति च न चिरादेव तथाविधमात्माभिलषितं रसपरवशेन हृदयव- . पलभेन सम्पादयितुम् , तथा रसप्रधान काव्यादिकमपि शृङ्गार, वीर, करुणादिनानाविधरसप्रसरपूरपूरितानि भानन्दनिमग्नानि यथावदावणे सचेतसां चेतांसि सम्यककर्षणवर्षणाभ्यां सुसम्पने क्षेत्रे प्रत्युतं बीजमिव कृत्याकृत्योपदेशम् अचिरेणैव प्ररोहयोग्यम् अङ्करदलपल्लवकागड पुष्प- फलादिसम्पत्समृद्धं च साधु साधयतीति कस्तत्र प्रभवति पराङ्मुखों भवितुं विना मष्टादृष्टान्नरविशेषात् । मधुरिमप्रसाधितमुखो हि निखिलोपि लोकस्तिक्तमपि रसं सुखेन निगिलति, अथ चेत् पुरस्तादेव तिक्ततयोजितो न मधुरिमण्यपि विश्व- सिति, अत एव सरसतापादनेन सर्वात्मनावर्जितेषु प्रतिपत्हणामस्तरात्मसु कटुरपि उद्वेजकोपि च उपदेशस्तथा निधीयमानो न मनागपि वि- मनीकरोति । वैचित्र्येण प्रतिपाद्यमानः स एव चार्थोद्भुत इव अनुभूयमानो भूयो भूयोपि श्रुतिविषयीभूतो नभवत्युद्वेगाय । 'सदा चरति खे भानुः सदा वहति मारुतः' इत्ययमों 'भानुः सकृयुक्त तुरङ्गएव, नक्तन्दिवं गन्धवह प्रयाति' इत्यनयारीत्या प्रकाशितः कामपि च- मत्कृति बिभर्तीति न निगृहितं सहृदयेषु। एतामेव शैलीममोघां मन्यान- वेदविरुद्वैबौद्धादिभिरपि अस्मिन् विषये बहूनि निबद्धानि सूत्रादीनि । किंबहुना, सर्गस्थितिसंहारकारणेन जगदादिभुवा भगवता स्वयम्भु- बापि वेदेषु तत्रतत्र निजं मङ्गलमयमुपदेशं विशदीकर्तुं समाश्रितैर्षहु- भिरलङ्कारः अन्धोपि बधिरोपि च निर्णेतु पारयते एतद्-यद् अविकल- मर्थं प्रतिपादयितुं कियतीव उपयोगिता आलङ्कारिकमार्गस्यास्येति । सर्वविद्यानिधामभूतापि च त्रयी न प्राधान्येन विषयमिमं व्यवस्था- पयितुं प्रवृत्तेति साकल्येन दुर्लभमेव तत्र एसद्वर्णनम् । यदेव च उपलभ्यते न तदप्यपर्याप्तम् । यद्यपि वाङ्मये अभिधेयविनाभूतः शब्दो दुःशक एव लब्धुम् , शब्द विरहितश्च प्रत्ययो लोके प्रतिपत्त म्। यदाहुः 'न सोऽस्ति प्रत्ययो लोके यत्र शब्दो म भासते' इति शाब्दिकैस्तु शब्दार्थयोरभेदसंसर्ग एव स्वीकृतः । तेन शब्दप्रधाने अर्थस्य, अर्थप्रधाने या शब्दस्य, रसप्रधाने वा उभयोः शब्दार्थयोरसंस्पर्शो न सम्भवत्येव; तथापि “प्रधानेन हि व्यपदेशा भवन्ती" ( 3 ) तिन्यायात् यत्र एकस्य प्राधान्यं, विश्रान्तिधामत्वञ्च-अपरञ्च सदापि अनुन्नतस्कन्धतया प्रधानाङ्गभूतमेव आत्मानं निवेदयति, उपकारकता- मुपस्कारकताश्च भजते, तत्र मुख्यमेवादाय व्यपदेशो भवितु युक्त इति न किञ्चिद् विरुद्धम् । एवञ्च रसप्रधाने सन्तावपि शब्दार्थों न किञ्चिद् विकुर्वाते रसस्य प्राधान्ये-प्रत्यत श्रानुकूल्यं भजतः- सति हि अप्रधाने प्राधान्यं शक्यं प्रतिपत्त म् । श्रथ कोसी रसो यत्प्रधानोऽयमधस्तादावेदितः शब्द इति रस कि- चिद् विवेचयिष्यामः । तत्र प्रद्यत्व उपलभ्यमानेषु साहित्यसन्दर्भेषु भरतवाक्यानामुपष्टम्भ- कतया उद्धरणात् भरतप्रणीता एवं प्रबन्धाः प्राचीनतमाः प्रामाणिकाश्चेति सुशकं प्रमाणीकर्तुम् । भरतेन तु साहित्यसूत्रेष्वेवमसूत्रि रसविषये । विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति ' रिति । एतव्या- ख्यातृषु अलङ्कारशास्त्रे अलङ्कर्मीणो रसप्रवीणः श्रीमदभिनवगुप्तपादाचार्य- स्तदनुसारिणश्च , सांख्येषु संख्यावान् श्रीभहनायकः , मीमांसामांसलनको भहलोल्लटस्तदनुगामिनश्च, न्यायनयनिष्णातः श्रीशङकुकः, अन्ये च उत्सूत्रा अपि बहवो नेकविधाभिः शेमुषीभिरुन्मेषितं विविधमिदं विवृण्वते- १-तत्र “विभावानुभावव्यभिचारिणां संयोगात्" समुदायात् 'रस- निष्पत्तिः रसपदव्यवहार इति सूत्राशयं मन्यानाः कतिपये विभावाद- यस्त्रयःसमुदितारसः” इति रसस्वरूपं निरूपयन्ति, एतानेव निराकतुं काव्यप्रकाशे चतुर्थोल्लासे, " न खलु विभावानुभावव्यभिचारिण एव रसः-- अपि तु रसस्तैरित्यस्ति क्रमः-स तु लाघवान लक्ष्यते” इत्युक्तं श्रीमता मम्मटभटेन । २-बहवःपुनर्विभावादीनां' 'संयोगात्' सम्यगयोगात्- चमत्का- रात् रसनिष्पत्तिरितिसूत्रार्थपश्यन्तः विभावादिषु यत्प्रधानतया चमत्कारि' स रस इति वर्णयन्ति । इदमपि ‘न विभावादय एब रस' इति पूर्वेशेव प्रत्युक्तम् । ३-केचित्तु 'भाव्यमानो विभाव एव रस' इति मन्यन्ते । ४---अन्ये भाव्यमानो ऽनुभावस्तथा इति कथयन्ति । ५-तदितरे च सञ्चारी एव तादृशस्तथा परिणमतीत्याचक्षते । ~ (८) रसान्तरसाचा- रसःस्मृतः मतत्रयमपीदमुत्सूत्रमिति प्रामाणिका-माहुः । तथाहि-यथा व्याघ्राद - योभया नकस्य विभाषा एवं वीराद्भुतरौद्राणामपि, यथा च अश्रुपाता- दयःङ्गारस्य अनुभावा एवं करुणादीनामपि, चिन्तादीनां च समान सञ्चारित्वं शृङ्गारवीरादिषु । एवञ्च अन्यतमस्य रमयेन नियतरसव्यञ्जकतानुपपत्तेः सूत्रे ( भरतस्य ) मिलितानामुपा- दामम् इति स्फुट एवं अन्यतमेम रसनिष्पत्ति स्वीकुर्वतां सूत्रविरोधः । "विभावानुभावव्यभिचारिभिः' 'संयोगात्' व्यञ्जनात् 'रसस्य' दामन्दविशिष्टिस्य स्थायिनो, रत्य त्याद्युपहितस्य चिदानन्दात्मनो वा 'मिष्पत्तिः' स्वरूपेण प्रकाशनम् इति भरतसूत्रस्य हृदयं विशदीकुर्वतां मार्मिकाणामालङ्कारिकाणां तु मतम् ‘व्यक्तःस तैर्विभावाद्यैःस्थायी भावी इति प्रकाशोक्तया कारिकया प्रकाश्यते । 'ते'रिति कथनेनापि त्रयाणां प्रतीतौ सम्भवत्या 'विभावाद्यै रित्युपादानं मिलितानामेव तेषां कार्यकरत्वसूचनार्थम् । 'व्यक्तः' व्यक्तिविषयीकृतः--व्यक्तिश्च भग्नावरणा चितिशक्तिः । यथा हि शरावादिना पिहितो दीपस्तनिवृत्तौ सत्यां सन्निहितान् यदार्थान् प्रकाशयति, स्वयं च प्रकाशते-एवमात्मचैतन्य विभावादि संवलितान् रत्या दीन् प्रकाशयत् स्वयमपि प्रकाशते । अन्तःकरणधर्माणामपि साक्षिभास्यत्वाभ्युपगमेन, यथा स्वप्ने तुरगा- दीनां यथा वा जाग्रति रङ्गरजतादीनां माक्षिभास्यत्वं स्वीक्रियते, एवं विभावादीनामपि साक्षिभास्यत्वम् अविरुद्धमेव । उत्पन्नो रसो विनष्टो रस इति व्यपदेशस्तु व्यजकविभावादिचर्वणाया आवरणभङ्गस्य वा उत्पत्ति- विनाशयो रस उपचारात् निर्वाह्यः । यथा च वर्णनित्यतावादिनां वैयाकरणानां नये व्यजकताल्पादिव्या- पारस्य निवृत्ती सन्नपि नित्योऽकारादिर्न प्रकाशते-एवमत्रापि-विभावादि- वर्षशावधिस्वादावरणभङ्गस्य निवृत्तायां तस्यां प्रकाशस्याऽवृतत्वाद्विद्य- मानोपि स्थायी न प्रकाशते । यद्वा-यथा सविकल्पसमाधी वितर्कविचाराद्यालम्बनेन तदाकारा योगिनश्चित्तवृत्तिरुपजायते-तथा सहृदयस्य निजसहृदयतावशोन्मिषि- तेन विभावादिचर्वणामहिना रत्यादिस्थाथ्युपहितस्वस्वरूपाऽऽनन्दा- () कारा चित्तवत्तिः सम्पद्यते--तन्मयीभवनच रस इति। अत एवाय प्रहला- स्वारसहोदर इत्युच्यते मानन्दो ह्ययं न लौकिकसुखान्तरसाधारणः-अन्तःकरणवत्स्यवच्छि- मचैतन्यासरूपत्वात्। इत्यञ्च श्रीमदभिनवगुप्तपादाचार्य, राजामक-श्रीम- म्मटभहप्रभृतीनां ग्रन्थस्वारस्यात्, भग्नावरणचितिशक्तिविशिष्टो रत्यादिः स्थायी भावो रस इत्यास्थितं भवति । 'रसो वै स रसह्य वाऽयं लब्ध्वानन्दी भवति''एष ह्येवानन्द- याति' इत्यादीनां तैत्तिरीयेष्वानालश्रुतीनां स्वारस्याद् आत्मैव रस हत्य- वसीयते। तेन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः इति श्रांशिक मह- नायकमतानुसारि पण्डितेन्द्रस्य मतम् । उभयत्रापि चात्र विशिष्टात्मनोऽस्य विशेषणं विशेष्यवा चिदंशमादाय नित्यत्वं स्वप्रकाशत्वं च सिद्धम्। रत्याशमादाय तु अनित्यत्वमितरभा- स्यत्वञ्चेति। चर्वणा चास्य चिद्गतावरणाभङ्ग एक, प्रागुक्ता तदाकारा अन्तःकरणार वृत्तिर्धा । इयञ्चपरब्रह्मास्वादात्समाधेर्षिलक्षणा, विभावादिविषयसंव- लितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्राता मनुध प्रस्था मुखांशे कि मानमिति चेत् , समाधावपि सुखांशे कि मानमिति ममानः पर्यनुयोगः । यदि तु तत्रास्ति शब्दः प्रमाणमित्युच्यते, तदात्रापि पूर्वोक्तश्रुतीनां प्रामाण्य निर्वाधमेव, किं च सकलसहदयप्रत्यक्षमप्य- स्य भवतीत्यस्ति प्रमाणद्वयम् इति। भहनायकास्तु, पूर्वोक्तसूत्रस्यार्थमेवमाहुः- 'विभावानुभावव्यभिचारिणां' 'सम्यक् ' साधारणात्मतया 'योगात्॥ भावकत्वव्यापारेण भावनात् 'रसस्य सरवोद्रेकप्रकाशितस्थाय्युपहित- खात्मानन्दरूपस्य “निष्पत्ति” भॊगाख्येम साक्षात्कारेण विषयीकृतिः, इति एतम्मतस्यायंनिष्कर्षः- यदि काव्यनाटकादौ“ रामो सीताविषय- कानुरागवान् " इत्यादिरूपेण तटस्थतया रसभानं स्यात, तदा न स्वा- द्यत्वमस्य सम्भवेत् , प्रत्युत लोके अन्यदीयरहस्यदर्शनमिव नितरां परिहर- खीयस्यात् । श्रहं सीताविषयकामुरागवान्-इत्याकारेण तु प्रत्ययो दुर्घटः ।
। १०) - ? सको न खलु सीतायाः मामानिकाल प्रतिभासम्बनविभाषा भवमित, -विना विभा निरालम्बनस्य रसस्याप्रतिपतिः । मावाबासिर 'प्रत्यपि साधारवं कासारवं विभावतावच्छेदकं तवास्तीति वाच्यम्, अप्रामाण्यनिश्चयामालिङ्गितस्य अगम्यात्वाकारकमानविरहस्य विशेष्यता- सम्बन्धावच्छिामतियोगिताकस्य विभावतावच्छेदककोटी अवश्यं निवे- श्यत्वात्, अन्यथा स्वनादेरपि साधारणविभावतावच्छेदककान्तावा- वच्छिनतया विभावत्वापत्तः । एतादृशज्ञानानुत्पादस्तु प्रतिबन्धकान्तर- निर्वचनमन्तरेव दुरुपपाद एव । स्वस्मिन् रामायभेदबुद्धिरेव तथा स्थादि- त्यपिनोपपद्यते, मापके धराधीरेयत्व-वीरत्वादेः प्रात्मनि च प्राधुनिकत्व- कापुरुषत्वादे स्कुटमुपलम्भादभेदबोधएव तावदुर्लभः । किंच केयं प्रतीतिः ? प्रमाणान्सरेल अनुपस्थापनात् शाब्दीति चेत्, श्रूयताम्-यथा काव्यादन्यैव्यावहारिकशब्दैर्जायमाना नायकवृत्तान्तसंविदः अहद्या भवन्ति, एवमियमपि स्यात् । मानसीयं प्रतीतिरित्यपिचन शर्य वक्तुम् । चिन्तोपनीतानां तेषामेव पदार्थानां मानसप्रतीतेः अस्यां वैलन- गयस्य स्फुटमुपलब्धेः । नापि चेयं स्मृतिः सम्भवति, तथा प्रागमनुभवात् । तस्मादिदं प्रतिपत्तव्यम्, यद्-अभिधया निवेदिताः पदार्थाः भावकत्वना- मकेन व्यापारेख अगम्यात्वादिरसविरोधिज्ञानप्रतिबन्धद्वारा कारतावा- दिरसानुकूलधर्मपुरस्कारेवा अवस्थाप्यन्ते । एवं साधारणीकृतेषु रामसीता- देवकासषयोऽवस्थादिषु पङ्गो पूर्वव्यापारमहिमनि तृतीयस्य भोगकरव व्यापारस्य महिमा निगीर्थयोःरजस्तमसोः उद्रिक्तसरवजमितेम निनाचिरस्थ भावनिर्वतिविश्रान्ति लक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतो साधारखात्मा रत्यादिःस्थायी रसः । सोऽयं भीगो विभावादिविषयसंपल- माद्ब्रह्मास्वादसविधवर्तीत्युध्यते । एवं च त्रयोंशाकाव्यस्य"अभिधा भावमा चैव तद्भोगीकृतिरेव च" इति। मतेऽस्मिन् भावकत्वव्यापार एवातिरिक्तः स्वीक्रियते, भोगस्तु व्यक्तिरेष, भोगकरवं च व्यञ्जनात्र विशिष्टम् । यत्सवं तु मम्मटादिवदेव इति । ८-मदयास्तु 'विभावानुभावव्याभिचारिखा । 'संयोगाद्' भावना. विशेषरूपाद्दीषाद् ‘रसस्य' अनिर्वचनीयदुष्यन्तरत्याद्यात्मनो 'निष्पत्ति'- ( १९ ) सत्पत्तिरितिसूत्राशय परयन्ति । एते हि अनिर्वचनीयस्याति स्वीकुर्वते । एन्सतस्यायं सार:- यथा अज्ञानावच्छिक शुक्तिकाशकले समुत्पद्यमानोनिर्वचनीयो रजतखडा साक्षिमास्यो भवति, एवं काव्ये कविना, नाटयेच नटेन प्रका- शितेषु विभावादिषु व्यञ्जनाव्यापारेक दुष्यन्तादौ शकुन्तलादिरती गही- तायां तदनु सहृदयतोल्लासितस्य भावनाविशेषतपस्य दोषस्य महिना कल्पितदुष्यन्तत्वाववादिते स्वात्मनि समुत्पद्यमानोऽनिर्वचनीयः साशि- भास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं - कार्यो दोषविशेषस्य, माश्यश्च तन्नाशस्य, स्वोत्तरभाविना लोकोत्तराहादेन भेदाग्रहात् मुखपद- व्यपदेश्यो भवति, स्वपूर्वोपस्थितेन च रत्यादिना भेदाग्रहात सतित्वेन एकत्वाध्यवसानाद्वा व्यङ्ग्यो वर्णनीयचोच्यते । अवसादकं दुष्यन्तत्व- मप्यनिर्वचनीयमेव-अवज्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यता- वच्छेदकत्वम् । एतेन ताटरथ्येन रसप्रतीतो अमावाद्यत्वम् , अनात्मसम्बन्धिभिः शकुन्तलादिभिरात्मगतत्वेन प्रत्ययो दुर्घटः, स्वस्मिन् दुष्यन्ताद्यमेद- बुद्धिस्तु बापबुद्विपराहतेत्यादिकं पूर्वोक्तं दूषखमप्यपास्तं भवति । यचापि विभावादीनां सामाजिकान् प्रति साधारणीकरखं प्राचीन- सत्तम्, तदपि काव्येन शकुन्तलात्वादिप्रकारकबोधजनकै शकुन्तलादिशब्दः प्रतिपाद्यमानेषुनायिकादिरूपेषु पदार्थेषु दोषविशेषकल्पनं विना दुरु- पपादम्-एवञ्च अवश्यकल्पनीये दोषविशेषे तेनव स्वात्मनि दुष्यन्ताद्य- भेदबुद्धिरपि सूपपादेव इति । स्यादेतत्-रतेहि सुखजनकतया दुष्यन्तादाविव सहदयेपि श्रास्ता नाम मुखकरत्वम् , करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सहदयाह दिकत्वम्-प्रत्युत नायक इव सहदयेपि दुःखजननस्यैव औचित्यात् । न च सत्यस्यैव शोकादेर्दुःखजनकत्वं प्रतिनियतम्, न पुनः कल्पितस्थापीति नायकादीनामेव दुःखम् , म तु सहदयस्येति शक्य धातुम् , रज्जुसर्यादीनामपि भपकम्पाद्यनुत्पाद- ( १२ ) करवप्रसङ्गात् , सहृदये रतेरपि . कल्पितत्वेन मुखजमकतानुपपत्तेशेति चेद् अवधीयताम् । शृङ्गारप्रधानकाव्येभ्य इव यदि केवलासाद एव अत्रापि सहदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्प- नीय स्वात् लोकोत्तरकाव्यव्यापारस्यैव श्राह्लादजनकत्वमिव दुःख- प्रतिबन्धकत्वमपि कल्पनीयम । अथ यदि आलाद इव दुःखमपि प्रमाण- सिद्ध तदा प्रतिबन्धकत्वं न कल्पनीयम , स्वस्वकारणवशाच्चोभयमपि भवि- ष्यति। अथ तादृशे काव्ये, कधीनां कर्तुम, सहृदयानाञ्च श्रोतुंकये प्रवृत्ति अमिष्टंसाधनत्वेन निवशेरुचिप्तस्वाद् इति चेन्न, इष्टस्याधिक्याद् अनिष्टस्य च न्यूनत्वात्प्रवरुपपत्तेः । केवलाह्यादवादिनान्तु प्रवृत्तिरप्रत्यहैव-अश्रु- पातादयश्च तत्तदानन्दानुभवस्वाभाध्यात्, न तु दुःखात् । अत एवं भगवद्भकाना भगवद्धर्णनाकर्णनादश्रुपातादय उपपद्यन्ते-न हि तत्र जातुचिद् दुःखानुभवोऽस्ति । न च करुणरसादौ स्वात्मनि शोकादिमदशरथादितादात्म्यारोपेपि यद्याह्नादस्तहि स्वप्नादौ सन्निपातादावपि च स स्यात्, भानुभविक च तत्र केवलं दुःखमिति इहापि तदेव युक्तमिति वाच्यम्-अयं हि लोकोत्तरस्य काव्यल्यापारस्यैव महिमा यत्प्रयोज्या अरमणीया अपि पदार्थाः शोकादयः आज़ादनलौकिकं जनयन्ति । विलक्षणी हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात्। जन्यत्वश्च स्वजन्यभावनाजन्यरत्यादि- विषयकत्वम्--तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताभेदबुद्ध्या प्रतिब- ध्यते-इति। --भहलोल्लटप्रभृतयस्तु विभावादीमा सम्बन्धाद् रसस्य निष्पत्तिरा- रोप इति पूर्वोक्तसूत्रस्यार्थमाहुः । इदमेषामाकूतम्-यद् व्यञ्जनाध्यापा- रस्य अनिर्वचनीयख्यातेश्चानभ्युपगमेपि मागुक्तदोषमहिना स्वात्मनि दुःष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधी मानसः काव्यार्थभावनाजम्मा विलक्षणविषयताशाली रसः । खानादिस्तु बोधो मकाव्यार्थभावनाजन्मा इति न रसः-तेन तत्र न ताहशाहादापतिः।
मवैवमपि स्वस्मिन् अघिद्यमानस्य रत्यादेरनुभवः कर्म माम, स्याद् इति वाच्यम्। नायं लौकिकसाक्षात्कारो रत्याद येनावश्यं विषयसदा, वोपेक्षशीयास्यात्-अपि तु भ्रमः । श्रास्वादनस्य रसविषयकस्यव्यवहारस्तु रत्यादिविषयकत्वालम्बनः । एतैश्च स्वात्मनि दुष्यन्तत्वधर्मितावणेद, कशकुन्तलादिविषयकरतिवैशिष्टयावगाही,-स्वात्मत्वविशिष्टे शकुन्तला- दिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुष्य- म्तशकुन्तलादिविषयकरत्योपैशिष्टपावगाही वा त्रिविधोपि, बोधो रस पदार्थतयाऽभ्युपेयः। २० तत्र विशेषणीभूताया रतेः शब्दादप्रतीतत्वाद् ध्यञ्जनायाच अस्वीका- राद् प्रादी चेष्टादिलिगकमनुमानम् विशेषणज्ञानार्थमभ्युपगन्तव्यम् । दु- ष्यन्तादिगत एवरसोरत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे मढ़े समारोप्य साक्षास्क्रियते इतिचित् । १९ श्रीशङ्खकप्रभृतयस्तु-मतेऽस्मिन् साक्षात्कारो ‘दुष्यन्तोऽयं शकुन्त- लादिविषयकरतिमानित्यादिः प्रागवद् धम्यंशे लौकिकः-धारोप्यांशे स्वलो- किकः-दुष्यन्तादिगतोरत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते कृत्रिमैरप्यकृत्रि- मतया गृहीतर्विभावादिभिर्मिपि विषये अनुमितिसामग्र्या बलवश्वा- दनुमीयमानो रस इत्याहुः एतेषां मस्ते 'विभावादिभिः' कृत्रिमैरप्यकृत्रिमंतया गृहीतः 'संयो- गाद्' अनुमानाद्' 'रसस्य' रत्यादेः 'निष्पत्तिः' अनुमानम् इति सूत्रार्थों भवति-अनच 'नटे' पक्षेति वाक्यशेषो भवति । अत्र मतेषु प्रत्यक्षमेव जान चमत्कारकं भवति, नामुमानम् , कि सत्यनुमाने 'रसं साक्षात्करोमी'त्यनुव्यवसायामुपपत्तिरिति, नटे बाध- जानेपि उक्तानुमितिविरहेपि च प्रास्वादोदयो दृश्यते इत्यादि- कमरुधिबीज क्वचित् । कचित्तु न खलु रतिरेव रसः, नापि रामादौ रसः, रामादौ रतिः, सामाजिकेषु रम' इति स्थितः, तस्मात् मुख्यया वृत्त्या रामादौ रसस्वीकृतिरेवासपिवीजन २. कपिछ व्यापारान्तरकल्पनमेव गौरवम्, 'कषिञ्चान्यदप्येवंजातीयकम- रुचिनिमित्तम् । तस्मात् काव्यप्रकाशकारिकया प्रकाशितम् अलंकार- ५ (१४ ) शास्त्रहदयास्य अभिनवगुप्तपादाचार्यस्प मतमेव सकलाकारिकनीलि- भालालालितम् । एवमत्र रसविषये एकादश विकल्प प्रदर्शिताः, विकल्पान्तराशि तु प्राय एतेषामेव सपारतराखि, विवादबालानि, न पगलानि त्यतिविस्तृतिमयादुपेत्यन्त । यद्यप्यत्र प्रपञ्चे नानाजातीयाभिशेमुषीभिरनेकधाग्यवसितो रसः, सापि तस्य परमाहादजनकतायां न कस्यापि विसंवादः, भवान्तर- प्रकारे च नास्ति सर्वथा संवादोपि । इदमेव पुष्कल प्रमाणे रसस्य सत्त्वे, प्रानन्दस्वरूपत्वे, अनिर्वचनीयत्वे च । एतेनव चास्य प्रात्म- स्वरुपता साधु साधिता भवति-मात्मनश्च वाङ्मनसातिगोचरत्वम् अनि- वचनीयत्वम् भानन्दघनत्व न तत्र मनो गच्छति न वागू गच्छति 'एष एव यात्मा आनन्दमयः” इत्यादिवेदान्तवाक्येरुद्घोषितमेव । सोग्यं रसो माभिधयाभिधेयः । स्वशब्देन शृङ्गारादिशब्देन च उच्य. मानः प्रत्युत दोषाय । नापि लक्षणया लक्षणीयः । न चापि तात्पर्याख्यया वया विनिवेदनीयः, किन्तु अलङ्कारशाखप्राणाया, चमत्कारजीवातुभूतया व्यज्जनावस्या प्रकाशितो भवति । इयमेव (व्यजनैव) रसागभूतो व्यापार इत्यच्यते । एतद्विशिष्टश्च शब्दः काव्यमित्याख्यायते । इयश्य सकलार्थमौलिमालायमानं रसं भासयन्ती वस्त्वलकारादिक- मपि द्योतयति। एतावास्तु विशेषः यद् अलङ्कारादयशमयन्तरेणापि त्या प्रतिपा- रयितुम्-रसं पुनरेतां महाशक्तिमन्तरेख न काप्यन्या शक्ता सम्पादवितुम्। दोषाभावमुखालङ्काररीतिप्रभूतयस्तु रसस्य उपस्कारकाः, राजश्वपादान पमा चराको विरहेपि केवलाः समुदिताच तस्य पारिषद्याः समन्ते जनामावर्जमितुम्, प्रभावश्च सम्पादयितुम् । एवं नीरसेपि कामे सम्भूम वसंगाला गुबालंबारादयः सहदयानावर्णयन्ति, चमत्कारच जनयन्ति रसेन महापर्वमानातु तस्योलातिशयमापादयन्ति। एतेषु दोषाभाव एक सर्वप्रधानः । दोषो हि अनौचियाय मायमानो रसमपकर्षमनु कदाचित । समूलमप्युन्मूलयति, प्रसस्तदभावोऽवश्यमेवसीयः, सर्वात्ममा च यतनीय ( १५ ). 1 सविना तदपाकारणे । पदमेव प्रथम सोपानं सरसकविलासम्बतचे चित्यपरिहार हिौचित्यं सम्यक सम्पद्यते, शब्दापारीचित्यमेक- समर्ष स्वात्मनि वामनानाधालुम्, रसश्य प्रकाशयितुम् । योजननिपुर अनौचित्याद् ऋते मान्यद् रसभङ्गस्य कारगन् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा । इति। उद्दिष्टप्रतीतिप्रतिवल्यकत्वं हि दोषस्वर । उद्दिष्टा च प्रतीतिः चम- कारवती, अविलम्बिता, अमयकृष्टामात्र कचिदोषाध्युतसंस्कारप्रभृतिः अर्थानुपस्थापकाया चमत्कारमेव दूरीकरोति। कधिचनेयार्थादिविलम्बन उपस्थापयति । कश्चिञ्च श्रुतिकटुप्रभृतिरपकृष्य उपरथापयति। प्रतिबन्ध- कता पुनः सर्वत्र समानेव। तत्र काव्ये सर्वथा हेयस बित्यदोषस्थाभावो अवश्यमेषणीयः, सम्यपि दोषा नोपस्थातुमनुमन्यन्ते, किन्तु यथाशक्ति तेषा- मध्यपाकरणाय यसनीयमेव कविमा, तथापि क्वचिदनधिकं समुम्निषत्स्व- पि तेषु काव्यत्वं भवत्येव । इदमेवाभिप्रेत्य 'नित्यदोष' पदं विहाय सामान्येन “ श्रदोषी इति पदं नित्यदोषावश्यपरिहाराभिप्रायेण शब्दार्ययोर्विशेषणं प्रायुक्त काव्यलक्षणे वाग्देवतावतारः श्रीमान् मम्मटाचार्यः । (तददोषी शब्दार्थों सगुणाधनलंकृती पुनः क्वापीति ) पत्र साहित्यदर्पणकर्तुराक्षेपानां मिः- सारता तु परस्ताद् विशदीकरिष्यते । रसो हि विश्रान्तिधामतया सर्वप्रधानं फलम् । अत एव सकलप्रयो- जनमौलिभूतत्वेन अस्याख्यानं कृतं प्रामाणिक । फलेच न कषिद् व्यापारः काकरणीयो भवति । यदाहुस्तत्ववैशारये श्रीवाचस्पतिमिश्राः- 'साधनगोचरो हि कर्तुापारो न फलगोचरः” इति । न खलु चटं चिकीर्षु- घंटेकिंचित्कार्यं करोति-अविद्यमानो हि तदानीं सभवति-दण्डादिव्यापारेष समुत्पनेतु घटे न किंचित्करणीयमवशिष्यते । एवं सरस काव्य चिकीर्षा कवेरपि संरम्भो नांशतोपिरस विषयीकरोति, अपितु तत्साधनमेव। साधनञ्च दोषाणां परिहारः, गुखानां निबन्धनम् , अलङ्कारादिसम्बन्धोति । एवञ्च कविमा पूर्व तादृशः परिमार्जितोस्त- दभिधायकश्च तादृशः परिष्कृतः शब्दसन्दोहः समुपनिबम्धनीयो भवति, ।
( १६ ) यस्मिनिबद्ध न खलु दोषा उद्यन्ति, गुणाच प्रगुणीभवन्ति अलंकाराश्च स्फु रमिता शब्दार्थों च तथा अनुनतस्कन्धतया प्रात्मानमर्पयतो, यथा सचेतसां घेतांसिन योग्य प्रावर्जितानि परिश्राम्यन्ति । यदुक्त मरतेन- - १ -- 'चक्रीयितप्रभृतिभिर्विकटैश्च शब्दै-- र्युक्ता न भान्ति ललिता भरतप्रयोगाः। यत्रक्रियेव शरवर्मधरैर्घतात- वाया द्विजैरिव कमण्डलुदण्डहस्तैः । इति । ध्वनिकृता च- ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः । इति एवं च सरसं चेत् काव्यं गुणालंकारादिभिरेतरवश्यमुत्कर्षातिशयो विद्योतेत । नीरसेपि च चमत्कारजमकतया काव्यपदव्यपदेश्यत्वं स्यात् । यतः-१ सरसं स्फुटालङ्कारसहितम् , २ सरसम् अस्फुटालङ्कारसहितम् ३ सरसम् अलङ्कारशून्यम् ४ नीरसं स्फुटालंकारसहितम् ५ नीरसम् अस्फुटालंकारसहितमिति पञ्चविधमपि काव्यं स्वीक्रियते । अथ कि नाम काव्यत्वमितिचेत् त्रिविधः- शब्द इतिप्रागावेदितमेव । तत्र लौकिकवैदिकभेदाभ्यां द्विधा भिन्न वाङ्मयम् , ,तत्र छन्दोब्राह्मणप्रभृतीनि तदुपजीवकाश्च निबन्धाः पूर्वोक्तलक्षणानुसारेण वैदिक वाङ्मयम् । “इतिहासपुराणाभ्या वेदं समुप- वृहयेदि” त्यादिवचनैरितिहासपुराणादीनां वेदोपहकत्वेन सान्यपि वैदिकवाङ्मयस्य पुच्छभूतान्येव । लौकिकेपि याङ्मये काव्यनाटकादौ इति- वृत्तकथानिबन्ध पुरावृत्तनिरूपणे स्वस्वरूपनिवेदने च इतिहासपुराणादीना- मुपकारकतया लौकिकाम्यपि तानीति तु न विस्मर्तव्यम्। एवं दर्शनादीनि मनन निदिध्यासनादिशाखाण्यपि । 2 ( १७ ) एवग्यसादोजानाभांत शुद्धं बदिकं वामयम् , तिहासपुरावदर्श- मादिकन्तु लोकवेदयोः साधारण्येन अपकारकम् इत्युभयसाधारणम्। तदतिरिक्षय कान्तासम्मितो रसादिप्रवणः प्राणप्रतिपादितः शब्दकलाप: सुई लीकि वाङ्मयं काव्यपदव्यपदेश्यं भवति । केचित भाग़लस्य लिट्रेचर (Literature) पदस्य पर्याये साहित्य- शब्द प्रयुञ्जते, तम्मतेनेदं द्विवध “ साहित्यम् । तृतीयञ्च उभयोपकारक "साहित्यम् ॥ उभयविधमपि चेदं लौकिक वैदिकं च साहित्य प्राणभृतां कल्यासाय प्रवर्तितम् । वेदादिकं हि यज्ञाद्यनुष्ठानेन परिमार्जितान्तःकरणानां प्राचीनधर्मसंस्कारवतां निदिध्यासनादिना समाधिभावनया ब्रह्मसाक्षा- त्कारपुरस्सरं परमानन्दसन्दोहं समर्पयति । लौकिकमपि च वाङ्मय श्रीमद्रामायणादिकं प्राचीनवासनावतां सचेतसां पुनः पुनरनुसन्धानात्मनी भावनाविशेषस्य बलेन ब्रह्मास्वादसहोदरं रसं कथमास्वादयतीति तु पर्याप्तमावेदितमधस्तात् । सुखं वा प्रानन्दो वा वृत्तीनामन्तर्मुखतयेव। अन्तर्मुखता च वृत्तीनां समाधौ रसास्वादे च समानव एतावांस्तु विशेषो यत्कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशे अमोघमस्त्रभूतं सत्काव्यं रसमास्वादयत् सन्मार्गानुष्ठापनायापि प्रभवति । च व्याकरणादीनि वेदस्याङ्गानि, एवं लोकस्यापि। न केवलं व्याकरणादी म्येष, लौकिकवस्तुजातपरिशीलनं, कलासु कौशलं शास्त्रविचक्षणत्यादि- कञ्च अत्र सर्वमेवाङ्गभूतम् । यदाहुः- "न स शब्दो न तद् वाध्यं न स न्यायो न सा कला। जायते यन्त्र काव्याङ्गमहो भारो महान् कवेः” इति। इदं च काव्यं पुरुषाकारतया साङ्गोपाङ्ग निरूप्यते । यदुक्तम् “काव्य- स्य शब्दार्थो शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत् , दोषाः काग- स्वादिवत्, रीतयोवयवसंस्थानविशेषवत् , अलङ्काराः कटककुण्डलादिवत्, 42 यथा इति।
( १८ ) सो ऽयं वेदपुरुष व कास्यपुरुषश्चतुर्वर्गसाधनाय यथा प्रभवति, तथा प्रतिपादित साहित्यदर्पबारम्भे विश्वनाघेन । यथा च जैमिनीयं जाग्यशा स्त्रं वेदवाक्यानि मीमांसमानमारते, एवमलङ्कारशास्त्र लौकिकवाक्यानि मीमांसते । यथा च वेदेषु गायत्र्यादीनामृषभादिस्वरैरेवोच्चारणीयत्वं प्रतिनियतम्, एवं लोकपदव्यपदेश्ये अस्मिनपि रसेषु स्वरनियमो भवति । दिमानं यथा भरतवाक्येषु- 'हास्यशृङ्गारयोः कार्यो स्वरौ मध्यमपञ्चमी । षड्जर्षभौ तथा चैव वीररौद्राद्भुतेषु च । गान्धारश्च निषादश्च कर्तव्यो करुसे रसे। धैवतश्चैव कर्तव्यो बीभत्से सभयानके । इति - . म केवलं स्वरा एव, अपि त् यथा यागाद्यनुष्ठाने क्रियासु स्वरपात्र- प्रकृत्यादिनियमो यथा च तत्र स्वल्पेपि स्खलिते विगुणं कर्म भवति, तथैव अत्रापि स्वराः, स्थानानि, वर्णाः, अङ्गानि विरामप्रयत्नाः, छन्दांसि, पात्राणि, प्रकृतयः , पातोद्यविन्यासाः, काकवः, अलङ्कारादिकञ्च तथा नियमितम् , यथा उत्तरोत्तरं विचार्यमाणम् प्राचार्याणां प्रसन्नगम्भीरा- म्भोनिधिप्रख्यं सर्वदर्शि च ज्ञानमाहात्म्यं स्फुटमवगमयति । तत्र स्वरा उक्ता एव , स्थानानि तु लोकवेदसाधारसानि उरः,कण्ठः, शिरः-इति श्रीण्येव । यदुच्यते- 'शारीर्यामथ बीणायां त्रिभ्यः स्थानेभ्य एव तु । उरसः शिरसः कण्ठात् स्वरः काकुः प्रवर्तते । भाभाषणं च दूरस्थ शिरसा सम्प्रयोजयेत् । नातिदूरे च कण्ठेन ह्यरसा तु समीपतः । इति वास्तु उदात्तानुदात्तस्वरितात्रयो वेदप्रसिद्धाः। लोके तु कम्पिताख्य- श्वतुर्थोपि स्वरो भवति । यथा च वेदेषु स्खलिते सजाते ‘य उदात्ते कर्तव्ये अनुदात्तं करोति, खण्डिकोपाध्यायस्तस्मै चपेटां ददाति' एवं लोकेपि क्रमभङ्गो न मर्षशी- यो भवति । तथा चोक्तं मुनिना- ( १ ) "उदात्तश्चानुदात्तश्च स्वरितःकम्पितस्तथा यश्चित्वार एव स्युः पाख्ययोगे तपोधनाः । तत्र हास्यवङ्गारयोः स्वरितोदात्तः, वीररौद्राद्भुतेषु उदात्तकम्पितः, करूखवात्सल्यभयानकेषु अनुदात्तस्वरितकम्पितर्वमः पाव्यमुपपादयेत्” इति। अङ्गानि तु विच्छेदोपसर्पणादीनि प्राकरमसिद्धानि तत एवावसेयानि । विरामप्रयत्नो यथा- "विरामेषु प्रयत्नस्तु नित्यं कार्यः प्रयोक्तृभिः । कम्माद.? अभिनयो ह्यर्थे अर्यापेक्षी यतः स्थितः । यत्र व्यक्तावुभौ हस्तौ तत्र दृष्टिसमन्धितः । वाधिकाभिनयः कार्यो विरामैरर्थदर्शकैः । प्रायो वीरे च रौद्रे च करौ प्रहरणाकुली । बीभत्से कुत्सितत्वाच्च भवत; कुञ्चिती करौ । हास्ये चोद्देशमात्रेण, करुणे च प्रलम्बितौ । अद्भते विस्मयाविष्टौ स्तब्धौ कार्यों भयानके ॥ एत्रमादिषु चान्येषु प्रविचारेषु हस्तयोः । अलङ्कारविरामाभ्यां साध्यते धर्यनिश्चयः " । इति । अद्यतनी व्याख्यानकला अभिनयकला च पाश्चात्यपण्डितप्रसीपलमे- वेति मन्याने गौराङ्गगुरूणां गतानुगतिकै बाबूसाम्प्रदायिक अनेकसमा- साहस्त्रीमतिवत्य वर्तमानेष्वेतेष्वपि पदेषु निवेशनीये कृपया विवे- की। छन्दसामपि नियमो ऽत्र, यथा वेदे । 'जगत्यातिजगत्या वा संकृत्या, त्रीणि योजयेत् । तथव युद्धसम्फेटौ प्रकृत्या सम्प्रयोजितौ। करुणे शक्करी चैव तथा चातिधृतिः स्मृता ! यद्वीरे कीर्त्यते बन्दस्तद्रौद्रे सम्प्रयोजयेत् ।। इति । पाव्यालङ्काराश्च क्षेमेन्द्रकविकृतसन्दर्भेषु सविस्तरं निरूपिताः । इद- मेव लौकिकवाङमये औचित्यविचारकर शास्त्रम् अलङ्कारशास्त्रं वा साहित्यशास्त्र वा अभिधीयते । ७ ( २० ) अनौचित्याद् ते मान्य सभङ्ग प्रयोजयतीत्यावेदित पुरस्तात् । तत् सरससन्दर्भनिबन्धनाय सशानाय च कवीनां सहृदयानां च अन्येषा- च लोकनैपुण्यमीहमानानाम् औचित्यज्ञानसमर्पकस्य अस्य शाखस्य ज्ञान कियदिव आवश्यकमिति नेदानी बहु वक्तव्यमपेक्षते । इदं च प्राधान्येन वाक्यानि मीमांसमानं जैमिनीयस्थानीयम् । यथा जैमिनीयमीवरप्रकाशितं वेदं विचारयति, एवमिदं कवीश्वरप्रकाशित काव्यम् । एतावास्तु विशेषो-यत् तद्वेदार्थ मीमांसमानमन्ततो भगवन्तं विश्वविधातारमपि निगिलति । इदन्तु गुणदोषादिमात्रविवेचकं न तत्कादिसत्तामपलपतीति । विचारेषुतु अत्र प्रायः सर्वेषामेव दर्शमानां समयाः समुपतिष्ठन्ते, इति परिजातसकलशास्त्रप्रमेयाणामेव अत्र शास्त्राधिकारः साधीयानिति विदितमेव मुधियाम्। यद्यपि शब्दार्थविनाकृतानां रसगुणदोषाभावरीत्यलङ्कारादीनां मा- स्त्यवस्थानसंभवस्तथापि 'प्रधानेन हि व्यपदेशा भवन्ती' ति म्यायात् क्वचिदेव कस्यचिदेव प्राधान्यमित्यवोचाम । एवञ्च प्राधान्यानुरोधेन कवयः काव्यानि च अलङ्कारशास्त्रानुसारम् पञ्चसु भागेषु शक्यान्य- वस्थापयितुम् । तथाहि- १ शब्दप्रधानम् २ अर्थप्रधानम् ३ शब्दार्थोभयप्रधानम् ४-रसादि- प्रधानम् ५ अलङ्कारादिप्रधानञ्चेति काव्यभेदाः । कवयो ऽपि तत्र तत्र लब्धपरिपोषास्तव व्यपदेश्याः । तेषु यत्र अर्थाद्यपेक्षया अनुरुपशब्द- संयोजनमेव अतितरां कविसंरम्भगोचरस्तद् यमकानुप्रासप्रधानम् खड्गमुसलादिबन्धनपञ्च, शब्दप्रधान काव्यम्। अत्र चमत्कारो विचित्रशब्द- संघटमानुरुपकविप्रतिभामात्रनिरूपितः । उदाहरणं यथा- स्वच्छन्दोलदच्छकच्छकुहरच्यालेतराम्बुखदा- मूर्छम्मोहमहर्षिहर्षविहितस्नानाहिका न्हाय वः । भिद्यादुद्यदुदारदुरदरीदी_दरिद्रद्रम- द्रोहोद्रकमहोमि मेदुरमदा मन्दाकिनी मन्दताम् । इति । - - 20 १//DR) ( २१ ) २४,१४८ बन्धनपुरपन्तु रुद्रटविरचिते काव्यालङ्कारे सर्वातिशायितया दृश्यते । तस्य खलु कवेः सर्वाः शक्तयो बन्धनिर्बन्ध एव परिश्रान्ताः । अनेन हि अतिविस्मयकरः खमुसलधनुःशरशूलादिभिरष्टभिर्धन्धेः सम्मेलित- महाचक्रबन्ध निष्पादितः । एवंविधेषु काव्येषु कवेः शब्दकपरतन्त्रतया, अर्थोपस्थितावन्त- रायापातः स्वभावसिद्ध एव । अत एव एतादृशकाव्यानामधमत्वम्, अग्री- ढार्थत्वे तु पामरश्लाध्यत्वं चोक्तं प्रामाणिकैः । पाहुश्च चित्रमीमांसायाम- प्पय्यदीक्षिता अपि 'शब्दचित्रस्य प्रायो नीरसत्वान तदाद्रियन्ते कवयः' इति । युधिष्ठिरविजयादिकश्च सन्दर्भो यमकादिप्रधानः । यत्र च कविप्रतिभापरिष्कृतस्वरूपो गभीरतया विचित्रतया गुणी- भूतव्यङ्गयतया वा अर्थः प्राधान्येन आह्वादयति सचेतसां घेतांसि, सद् द्वितीयम् अर्थप्रधान काव्यम्--यथा महाकविश्रीभारविप्रभृतीनां निबन्धाः। 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात् पवनावधूतः । श्रङ्गारशेषस्य हुताशनस्य पूर्वस्थितो धूम इवानभासे' । इत्यादीनि चित्रार्थानि पद्यानि- 'राघवविरहज्वालासन्तापितसयशैलशिखरेषु । शिशिरे मुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥ इत्यादीनि च गुणीभूतव्यङ्गधानि पद्यान्युदाहरणानि । अत्रान्तिमे पद्ये 'जानकीकुशलावेदनेन राघवः शिशिरीषतः ' इति व्यङ्गधमपि आकस्मिककपिकर्तृकहनूमद्विषयककोपोपपादकतया, दुर्दैववशतो दास्य- मनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति । यत्र तु शब्दार्थयोरन्यतरन्नोन्नतस्कन्धतया प्रात्मानमर्पयति, किन्तु सममेव उभयीः प्राधान्येन वैचित्र्यम् , तदुभयप्रधानम् । यथा- उल्लास फुल्लपकहपटलपतन्मत्तपुष्पन्धपानाम् निस्तारः शोकदावानलविकलहदा कोकसीमन्तिनीनाम् । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोपि धानामयमुदयगिरिमारततः प्रादुरासीत् इति । .
( २२ ) यथा वा- - - अत्र वृत्य नुप्रासप्राचुर्याद् श्रोजोगुखप्रकाशकत्वाच्च शब्दस्य, प्रसाद- गुणयोगादनन्तरमेवाधिगतस्य रूपकस्य हेत्वलङ्कारस्य वा वाध्यस्य चम- स्कृत्योस्तुल्यमेव प्राधान्यम् । d: 'वराहः कल्याणं वितरतु स नः कल्पविरमे विनिधुन्वत्रौदन्वतमुदकमुर्वी मुदवहत् । खुराघातबुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमाङ्गल्यपटहः' इति । अत्रापि वृत्त्यनुप्रासस्य श्रोजोगुणस्य च शब्दे, प्रसादगुलमहिना सद्यः समधिगतेन रूपकेण च अर्थ, चमत्कृत्योस्तुल्यं प्राधान्यम् । न त्र कविनिष्ठस्यादिवराहविषयकस्य रतेर्भावस्य प्राधान्यादिदमुत्तम काव्यं नात्र परिगणनमहतीति वाच्यम्-, व्यङ्गयस्यापि रतेर्भावस्य पाशीर्वादाङ्गत्वेन तस्य च 'कल्याणं वितरतु' इति पदाभिधेयत्वेन वाध्यार्थ- प्राधान्याद्रतेर्भावस्य एव वाक्याथै परिसमाप्तिरिति श्रीमतां चित्रमीमां- साकृतामाशयात् । रस, भाव, तदाभासादिप्रधानं च काव्यं रसप्रधानमित्युच्यते, 'रस्यते इति रसः' इति व्युत्पत्तेः सर्वेषामपि रसपदेन ग्रहणात् । एतत्प्रधान्याय यद्यपि सर्वेरेव कविभिर्यथाशक्ति प्रयतितम् , तथापि कस्यचिदेव सुकृतातिशयपरिष्कृतात्मनो वचसि यथायथं प्रसरोस्य दृश्यते । वस्तुतस्तु रसमयभणितीनामक्षय्या निधी कविताकल्पद्रुमौ भगवन्तौ वल्मीकजन्मपुलिनजन्मानौ एव अवार्थ मार्गदर्शिनौ । अर्वाचीनेषु पुनः- यथारसस्यन्दनबन्धबन्धः श्रीकालिदासो मुकुटं कवीनाम् । तथा न कस्यापि ललाटलेखा व्यलेखि शुद्धा विधिना विधाय । । १ समासहस्त्रद्वितयीमतीत्य जातेषु नानाकविपुङ्गवेषु ॥ कश्चिनिबन्धावलिबन्धकेषु नाद्याप्यतिकामति तद्यशीब्धिम् २ सरसकाध्यव्यापारेण हि अन्तःकरणे द्रति, दीप्ति, विक्षोभ, विस्तारा- ख्याश्चतस्त्रो दशाः सम्पद्यन्त इति तत्काव्यमपि चतुर्विधत्वं भजते। तत्र द्र तिः अनुकूले चै प्रगुणीभूतस्य, निर्गलितप्रायस्य चेतस प्राई- .
( २३ ) प्रायत्वम् । सा च पृङ्गारे विप्रलम्भे वात्सल्ये करुणे शान्ते च रसे श्राकर- प्रसिद्धेभ्यः खस्वकारणेभ्यो यचोत्तरमुत्कर्ष यते । दीप्तिस्तु उत्साहजनक सहृदयहृदयानां दीप्तप्रायत्वरूपमोजः । तद् वीरे रौद्रे च उपचीयते । विस्तारो निगदव्यारयातो हास्यादौ । विक्षोभश्च भयानके बीभत्से च भूयस्त्वं भजते । अत्रापि वैदर्भी रीतिः प्रसारो गुणः मधुरा च रचना यथा कविकुलगुरीः श्रीकालिदासस्य वांसि संश्रित्य द्रतिकारणतां प्रपद्यन्ते, तथा नान्येषु । एष हि महाकविः प्रायः सर्वानपि रसान् वर्ण यन्नपि करुणे एव परां काष्ठा प्रतिष्ठापयति । भाविसमागमप्रत्याशया रतेनुन्मूलनमात्रेण निन्नी विप्रलम्भोपि करुणान्नातीव भिद्यते। तस्मादयमपिचास्य महोत्रतः। समान- साधनतया च गृङ्गारोपि न दवीयानेतद्वनसाम् । परं स्वयमप्येष महाकविः स्वकीये करुणरसवर्णने निगूढमभिमन्य न्यमान इव । धीरोदात्ततया च स्फुट- मावेदयितुमशक्तोपि व्यङ्गय न सहृदयहृदयान्यावर्जयितुं सुनिपुखं प्रायतत । नाविदितमिदं रसिकानां यत्कालिदासकाव्येषु रघुवंशस्य पारेगिरां महिमा। तत्रापि चतुर्दशः सर्गः करुणरसनदीरिझगयमाणः सर्वातिशायी । चतुर्दशा- दिषु त्रिषुसर्गेषु महाकविना ऽनेन कस्को हदयोद्गारः के के च भावा अाविष्कृ- ता इति न शक्यं वचनैराख्यातुम् । प्रतिपद्यं प्रतिपदं च विज़म्भमाणानामेषां परिगणनमपि दुःशकं कर्तुम् । चतुर्दशे सर्गे सीतापरित्यागं चिकीर्षुः श्रीरामो भातृणां मिज़ाजाप्रत्यादेशमाशङ्कमानस्तानाचष्टे- यद् यदि भवन्तो मां जीवन्तमिच्छन्ति, तदा ममायं निश्चयो न प्रत्याख्येयः । कविरप्यत्र अवसर- मिमं करुणरससरित्प्रसरस्य उद्गमस्थानमिव पश्यन् रसपूरे रसिकान् निमज्जयितुममोघमस्त्रमिव विन्दन् ग्राणामपि द्रावणमीषत्करं मन्यमानो विकत्थनाद् बिभ्य व स्फुटमनाचक्षाणोपि चतुर्दशसर्गस्यावश्यपठनीयतारूपं स्वकीयमाशयं विशदीचकार । तच्चेदं पद्यम्- म एष सर्गः करुणाचित्तैन मे भवद्भिः प्रतिषेधनीयः । यद्यर्थिता निहतवाच्यशन्यान् प्राणान् मया धारयितुं चिरं वः। अत्र पद्ये 'अयि करुणार्द्रहृदयाःसहदयाः यदि भवन्तो वाञ्छन्ति, यदहं (काग्निदामो) निहतवाच्य शल्यः सन् यगःशरीरेण चिरं प्राणान् ( २४ ) धारयेवं तदा भवद्भिर्मम स एष ( चतुर्दशः ) सर्गः न प्रतिषेधनीयः-प्रम- श्यं पठनीयः' इत्ययमाशयो निपुर्व निरीक्षितो मतंयतीव विवेकानां तु रघुवंशविमर्शकृता करुणरसपरिपूरितं पद्यद्वयमस्य महाकवे. मार्मिकमपि मल्लिनाथार्थमुपहसता विमर्शकवर्येण रसा शितमित्य- लमप्रस्तुतप्रसङ्गेन । यथास्य महाकवेर्वचसि द्रतिस्तथा भट्टनारायण भवभूति प्रतिषु मोजोऽपि परितिष्ठितम् । तत्रापि महनारायणे प्रसादातिशयसहकृतं वैदर्भीपरिपोषितं च कामपि कमनीयतामावहति-इति । अलङ्कारादिकं तु यद्यपि नार्थकशामतिकामति, तथापि चमत्कारवि- शेषाधानात् पृथक परिगणितम् । उत्प्रेक्षादयो हि शब्दादीनधरीकृत्य उ- सतशिरस्कतया प्रकाशन्ते । यत्र पुनर्न तथा, किन्तु रसादिपरिपोषमेवा- वहन्ति तत्र न प्राधान्यमप्यर्हन्ति । अथ कस्याचार्यस्य प्रज्ञास्य शास्त्रस्यादिमा जननीति विचारे केचित् सर्वेष्वप्यलङ्कारग्रन्येषु प्रायःकालिदासीयपद्योद्धरणात् ततपर्वाधीनकाल एवाऽस्य बहुलं प्रचारोजनीत्याहुः । अन्ये तु भामहो दगडी वा अस्य प्रथमा- चार्य इति मन्यन्ते । वस्तुतस्तु बहुत्र श्रुतिष्यप्यलङ्काराणां स्फुटमुपलम्भात्, 'अभातेव पुंस इत्यस्यामृचि चतस्त्र उपमाः' इति यास्कवचनात् , पगिडते- म्द्रेण रसगङ्गाधतिशयोक्तिसारालङ्कारयोरुदाहरणे 'द्वा सुपर्दा सयुजा सखायः' इत्यस्याः ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः' इत्यस्याश्च श्रुतेः उपन्यसनात्, अलङ्कारकौस्तुभे च बहीनां श्रुतीनामुदाहरणेषु दर्शनात् "रसो ये सः” “रसथं ह्येवाऽयं लब्ध्वाऽऽनन्दी भवती'त्यादि पूर्वोदाहृतश्रुत्या धन परमार्थतः कोप्यस्यादिमः कर्ता वा आविष्कर्ता वा भगवन्तं स्वय- म्भुवमन्तरेणेति युक्तमुत्पश्यामः । नाट्यशास्त्रस्याविर्भावविषये तु एवमुक्तं भरतनाट्ये- "पूर्व कृतयुगे विमा वृत्त स्वायम्भुवे ऽन्तरे । त्रेतायुगे प्रवृत्ते च मनोवैवस्वतस्य च । ग्राम्यधर्म प्रवृत्ते तु कामलोभवशं गते । ईर्ष्याक्रोधादिसंमूढे लोके सुखिनदुःखिने ।
( २५ )
देवदानवगन्धर्व रक्षोयामहोरगैः ।
जम्बूद्वीपे समाकान्ते लोकपालप्रतिष्ठिते ।
महेन्द्रप्रमुलैवरुक्तः किल पितामहः ।
क्रीहनीयकमिच्छामो दृश्यं अव्यञ्च यद् भवेत् ।
नच वेदविहारोग्यं संश्राव्यः शद्रजातिषु ।
तस्मात्सृजाम्परं वेदं पञ्चमं सार्ववर्णिकम् ।
एवमस्त्विति तानुकत्या देवराज विसृज्य छ ।
सस्मार चतुरो वेदान् योगमास्थाय सश्ववित् ।
धर्नामध्ये यशस्यं च सोपदेशे ससंग्रहम् ।
भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ।
सर्वशाखार्थसम्पन्नं सर्वशिष्यप्रवर्तकम् ।
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ।
संकल्प्य भगवानेवं सर्ववेदाननुस्मरन् ।
जग्राह पाव्यमृग्वेदात्सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि । इत्यादि ।
एतेमापि स्वयम्भूप्रभवत्वमस्याऽवसीयते ।
अथास्य शाखस्य अलङ्कारशाख'मितिसंज्ञा कुतःसंजाता-इति विचारे तु
एवं प्रतीमा-यद्रामायणादीनां रसमयत्वदर्शनेन भरतनाट्यावलोकन
च प्राचीमसमये रसमयस्य रमणीयार्थस्य दोषवर्जितस्य गुणवतः शब्दस्य
काव्यत्वं स्वीचके इति। अमिपुराणीयं काव्यलक्षखमप्येतदेव पोषयति
'संक्षेपावाक्यमिष्टार्थव्यवच्छिन्ना पदावली । काव्यं स्फुरदलङ्कारं गुणवद्दो-
पवर्जितम्" इति हि तत् ।
'काव्यं रसादिमद्वाक्यं श्रुतं मुखविशेषकृत्' इति शौद्धोदनेः सूत्रमध्ये.
तदेवाग्वष्टभ्नाति । साहित्यदर्पणे विश्वनाथकृत काव्यलक्षणन्तु एतस्यैव
रूपान्तरमिति स्पष्टमेव ।
ततःपरं भामहादारभ्य रुद्रटं यावत् प्रायः पञ्चमशतकपर्यन्तमलतारा-
खामेव प्राधान्य प्रतीयते। तत्रापि रुद्रटसमये तु सर्वात्मना शब्दस्यैव काव्यत्वं,
शब्दालङ्काराणामेव च काव्यालङ्कारत्वम् , रूपकादीनामालङ्कारावाञ्च
ग बाथरवं, शब्दबधादिष्वेव कवीनां पितसर्वशक्तित्वं प्रतीयते । यदुक्तं भामहेन- 'रुपकादिरलङ्कारस्तस्यान्हुधौदितः न कान्तमपि निभूषं विभाति वनिताननम् । रूपकादिमलङ्कार बाह्यमाचक्षते परे । सुपां तिडाञ्च व्युत्पत्तिं वाचां वाञ्छन्त्यलतिम्' अत्र पूर्वकारिकया अलङ्काराणामुत्कर्षमात्राधायकत्वम्, अर्थालङ्का राणां काव्योपस्कारकत्वम्, अर्थम्यापि च काव्यत्वमिति भामहात्प्राचीना- चार्याणां समय आसीदिति स्फुटमेव प्रतीयते। द्वितीयया तु-भामहसमये “ परे सुपूतिव्युत्पत्तिरेव वागलङ्कृतिः, रुपकादयोऽर्यालङ्कारा बाह्याः” इत्यनेनव कथनेन शब्दमात्रस्य काव्यत्वम् , अर्थस्यापि च बाह्यत्वमिति ज्ञायते । किञ्च अलङ्कारसर्वस्वे राजानकरुय्य- कसन्दर्भण, एतत्कालिकानामाचार्याणां मते अलङ्काराणामेव प्राधान्यनिति स्पष्टं भवति! तथाहि-इह हि तावद् भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थ वाध्योपस्कारकतया अलंकारपक्षनिक्षिप्तं मन्यन्ते । तथा- हि पर्यायोक्ता प्रस्तुतप्रशंसा,समासोक्तयाक्षेप, ध्याजस्तुत्युपमेयोपमा निन्धयादौ वस्तुमात्रंगम्यमानं वाध्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परायें स्वसमर्पणम्' इति द्विविधया भङ्गधा प्रतिपादितं तैः । रुद्रटेन तु भावालङ्कारो द्विधैवोक्तः । रूपक, दीपकापन्हुतितुल्ययोगितादावुप- माद्यलंकारी वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कषिता । रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदि- त्वं त्रिविधमपि प्रतीयानमलंकारतया ख्यापितमेव । वामनेन तु सादृश्य- निबन्धमाया लक्षणाया वक्रोक्तधलंकारत्वं अवता कश्चिद् ध्वनिभेदोऽलंकार- सयैवोक्तः। केवल गुणविशिष्टपदरचनात्मिकारीतिः काव्यात्मत्वेनोक्ता उद्- भटादिभिस्तु मुलालंकाराणां प्रायः साम्यमेव सूचितम् , विषयमानेख भेदप्रति- पादमात्। तदेवमलकारा एव काव्ये प्रधानमिति ग्राच्यानां मतम्। अस्मादेव समयादस्म शास्त्रसालंकारशास्त्र'मिति संज्ञा प्रावतेति सुशकम् अनुमालुम्।
(२७ ) - অন্যগে অলফ্লাহ্মার মাথায় এখন অ যথয়া দীনি হিলিঃ अयञ्च रुय्यकाचार्य एकादशस्य शतकस्य अन्तिमार्थे प्रासीदिति प्रमानेर- नुमीयते । अस्य च समये ध्वनेः प्राधान्यमद्यव सर्वात्ममा प्रसृतमित्य- स्यैव ग्रन्धादवसीयते । अयं हि ध्वनिकारमतं निरूपयन्नाह "तस्माद् वि- षय एव व्याधनामा जीवितत्वेन वक्तव्यः, यस्य गुणालङ्कारफूलचारुत्व- परिग्रहसाम्राज्यम् । रसादयस्तु जीवितभूता नालंकारत्वेन बाध्याः, श्र- लंकाराणामुपस्कारकत्वाद् रत्यादीनां च प्राधान्येन उपस्कार्यत्वात् । त- स्माद् व्यङ्गयो वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थ- विदां सहृदयानामावर्जकः” इति । एतेन ध्वनिकारमतमेव रुय्यकस्य मतमितिस्पष्टमेव, ध्यानिकारस्तु कदा संजातः, कि वास्य नामेत्यत्र विषये पद्यमिदमुपलभ्यते- "ध्वनिनातिगभीरेण काव्यतत्वनिवेशिना। प्रानन्दवर्धनः कस्य नामीदानन्दवर्धमः '1" प्रमेन च प्रामन्दवर्धनाचार्थेगा ध्वनि'-ग्रन्थे 'आलोक'-नानी टीका रचिता। तद् यद्ययमेव खोपाध्यनिकारिकाव्याख्याता ध्वनिकारस्तदा ध्वनिग्रन्थनिर्माणं सप्तमे शसके जातमिति शक्यं निर्णतुम्। अन्यथा तु ततो पि प्राचीनमिति निश्चितमेव । ध्वनिकारेणापि प्राचीनाचार्यसिद्धान्त एवं स्वमते संग्रहीत इति ध्वनिग्रन्थस्यैवान्तिमकारिकाभिः स्पष्टं भवति । यद्यप्येतस्मात्समयाद् ध्वनिप्राधान्यं प्रायर्तत, तथापि शास्त्रस्य 'अलङ्कार- शास्त्र' मित्येव नाम गतानुगतिकतया तथैव प्रवृत्तम्। एतावांस्तु विशेषो जातः, यद् यथा प्राचीनाचार्या निजनिर्मितानां ग्रन्थानां 'काव्यालङ्कारः' 'अलङ्कार- सूत्रम्', 'अलङ्कारसारसंग्रह', 'वामनालङ्कारः', 'धाभटालङ्कारः', अलङ्कार- शेखरः' इत्यादीनि अलङ्कार शब्दप्रधानानि नामानि प्रायः प्राणैस्तत्राम- गतार्थसायासरुचिमिव पश्यदिराचीनाचार्यैः काव्यप्रकाश', 'काव्यप्रदीप' 'काव्यानुशासन'-'साहित्यकौमुदी'-'साहित्यदर्पणा' दीनि नामानि मायो- जिषत स्वेषु निबन्धेषु । 'साहित्य'-शब्दस्तु अत्र शास्त्र अलङ्कार- स्वनिगुणदोषादीनां पृथत निबन्धेन्ववस्थितानां · सहितीकरखसमयात मावर्ततेति प्रसीमः । । .
२८ ) प्राचीनेषु निबन्धेषुदृश्यश्रव्यकाव्यविषयकाः प्रायो मिना एव सन्दर्भाः। परिडतेन्द्रस्त त्रापि शब्देस्वरसमिवोद्भावयन् सरस्वपि वर्णनीयविषया- न्तरेषु रसस्यैव प्राधान्यात् तेनैव व्यपदेशस्पौचित्यमिति सूचयनिव 'रसगङ्गाधरे-तिनामनिर्देशमकार्षीदिति । अलङ्कारकौस्तुभादयः पुनर- बायोपि तम्माननिरूपका इत्यलं शुष्कविचारेण ॥ अथ प्रायः सर्वेष्वप्येतेषु प्रधाननिबन्धेषु काव्यलक्षणमवश्यमुक्त विचारित । तत्र शब्दः काव्यम् , शब्दार्थों या काव्यमित्येव पक्षद्वयं मायोऽनेकसपतामापनम् । 'इष्टार्थव्यवच्छिन्ना पदावली काव्यं स्फुरदलङ्कार गुणवद् दोषवर्जित' मिति अमिपुराणोक्तं काव्यलक्षणम् । 'इष्टार्थोपेता पदावली काव्य' मिति दण्डि- मतमपि पूर्वस्मानातिभित्रम् । काव्यं रसादिनद् वाक्यं श्रुतं सुखविशेषकृत्' इतिशोहो नेर्मतम्-रसालङ्कारयुक्तं सुखविशेषसाधनं वा वाक्यं काव्य' मिति केशवमिश्रमतमपि पूर्वस्यैव रूपान्तरम् । — रसात्मकं वाक्यं काव्यम्' इति विश्वनाथमतमप्येतेनैव उक्तप्रायम्। 'गुणाऽलङ्कारयुक्तौ शब्दार्थों काव्य'- मिति वामनमतम् । 'गुणालङ्काररीतिरसोपेतः साधुशब्दार्थसन्दर्भः काव्या मिति वाभटमतम् । 'निर्दोषं गुणालङ्कारलक्षणरीतिवृत्तिमद् वाक्यं काव्यम् इति पीयूषषर्षापरनाम्नः पक्षधरमित्रस्य मतम् । 'निर्दोष गुणालङ्काररसवत् वाक्यं काव्य मितिभोजमतम् । प्रदोषी सगणौ स्फुटाउस्फुटाउलङ्कारी शब्दार्थों काव्या मिति श्रीमम्मम्मटाचार्यस्य मतम् । एतादृशमेव प्रभाकरस्य मतम् । काव्यप्रदीप, काव्यानुशासन, साहित्यकौमुदीप्रभृतिषु निबम्धेषु तु गोविन्दठकुर, सिद्गुहेमचन्द्र, विद्याभूषणप्रभृतिभिर्मम्मटोक्ता एव कारिक व्याख्याता इति तन्मतं न ततोतिरिष्यते। साहित्यकौमुद्यां विद्याभूषवस्तु प्रकाशकारिका भरतनिर्मिता इति बधाम | काव्यप्रकाशे हि दशमोल्लासे रुपकप्रकरणे — माला तु पूर्ववत् । इति कारिकांशेन मालोपमासाम्येन मालारूपकमुक्तम् , नच मालोपमा पूर्व का- रिकायामुक्ता, किन्तुव्याख्यायामेव । यदि कारिकाभागी भरतकृतः स्यात्, कथमिवासी मम्मटप्रन्योक्तां परकालवर्तिनी मालोपमा बहुतरसमयपूर्वा- सुनिजकारिकासु दृष्टान्तीकुर्यात् । मम्मटेन तु बहवो भरतकारिका रूपान्त- , ( २९ ) रेवा बहक्वतेनापिरुपेश संगृहीताः स्वग्रम्चे, इत्यन्यदेतत्, इत्यलमप्रकृतेम। काव्यस्य लक्षले मतान्तराण्यप्येवंविधान्येव । साहित्यदर्पसकार विश्वनाथं विहाय न केनाप्येवमतिकर कटाक्षिता- म्यम्यमतानि। यद्यपि सर्वेषां विवेचनस्य नास्त्यत्रावसरस्तथापि विधमाथ- विषये किञ्चिदवश्यं वक्तव्यम् । अयमुत्कलब्राह्मणश्चन्द्रशेखरतनुजम्मा वैक्रमे सम्बदशेशतके प्रारम्भमागे संजातः, एतत्कृतो ग्रन्थः (साहित्यदर्पण:) काव्यप्रकाश, ध्वन्यालोक, दशरूपकादीन उपजीव्य वर्तमान प्रति विदित- मेव विवेचकानाम् । प्रथम एवापरिच्छेदे ऽनेन स्वीपज्ञस्य पाण्डित्यस्य परा काष्ठा प्रादर्शि। प्र- स्मिमेव च प्राचीनाचार्या अनुचितमापूर्णिताः । सर्वाधिकं च मम्मटाचार्यो स्य रोषविषयः। एतन्मतेन मम्मटोक्ते “सददोषौ शब्दार्थो" इत्यादिलतले पदापेक्षयापि अक्षरापेक्षयापि च अधिकसंख्या दोषाः सन्ति । न केवलं लक्षण- मेवारस्य साशदुष्टम् अपि तु अनुपदमेव दत्त सदुदाहरणमपि प्रमादविज़- म्भितमेव । किञ्चायं मम्मटः स्वयमुक्तमपि वस्तु पणेनैव विस्मृत्य पदान्तरं गत्वा अन्यादृशं तद् वर्णयति। अलङ्कारजानमप्यस्य नास्ति। ध्वनिकारोप्ये- तत्समकक्ष एब, यःस्ववचनविरोधमपिन चेतयते । अन्येपि बहव एवंविधा एव। यदि खल्वयमष्टादशभाषावारविलासिनीभुजङ्गः पञ्चाननो न जगति अवतारग्रहणेम लोकमन्वग्रहीष्यत, तदा को नाम चिरप्ररूढमेतं महान्तं प्रामादिकसम्प्रदायमध्वसिष्यत ।कोवा न केनाप्यन्येन पाघ्रातमपिरसस्य- प्राधान्य काव्येष्वस्थापयिष्यत । अत्र विचार्यते-याखलु मम्मटाचार्यो ग्रन्थारम्भ एव “सकलप्रयोजन- मौलिभूतं रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्द मितिग्रन्धेन रसस्य सर्वातिशायित्वं कथयति, अष्टमे चोलासे “ये रसस्याङ्गिनोधर्माः" इति स्वकारिकायामेव तदर्सने चरसस्याङ्गित्वं प्रतिष्ठापयति, सप्तमेच रसव मुख्यः' इति कारिकयैव मुक्त कण्ठमुद्घोषयति, अन्यत्रापि च बहुत्र रस- स्यैव प्राधान्यमिति व्यञ्जयति, स एव वागदेवतावतारः श्रीप्रकाशकारः काव्यलक्षणावसरे सर्वमिदमेकपदे व्यस्मार्षीदिति कः खलु श्रममतः प्र. तीयात् । यश्च ध्वनिकारः सकलालंकारिकाक्षां मूर्धाभिषिक्तः, यदुपजीव्य- ( ३० ) तयैव अद्यत्वे उपलभ्यमानेकु साहित्य सन्दर्भ ध्वनिर्वगीत-विसमाय स्थापि च य उपजीव्यः, स एवायं स्ववचन विरोधमपि न पश्यतीति की- दर्श इचः । तदेवमुपजीव्येषु विषमं दंशनिवेशं कुर्वता दर्शिता भुजङ्गता प- उचाननेन । किच-'विशिष्टौ शब्दार्थों काव्य मितिलक्षणं सर्वात्मना उपद्रवत्ता भवतापि यद् रसात्मक वाक्य काव्यम्' इति लक्षवामाख्यातम् , सनीयते-चायमित्यनेन सामानाधिकरवायोपपतये 'रसात्मकम्त्य बहुधीहि समासोऽवश्यमाश्रयितव्यः स्यात् , बहुब्रीहिचापपदार्थ- प्रधानो भवति, अन्यपदार्थश्चात्र वाक्यमेव, बाक्यं च शादविशेष एव- एवं च बहुया नभमा ये नापि भवता शब्दे र समुपसर्जनी कुर्वता न पारितमेव सर्वात्मना रसस्य प्राधान्य दर्शयितुम् । एतेन च "शब्द एव काव्य नार्थः” इत्येवोक्त भवति । तदपि न विचार- चारु, प्रास्वादव्यजकत्वस्य काव्यस्वप्रयोजकस्योभयत्र शब्दार्थयोरविशेषेण वृत्तेः । अतएवाहु गोजिभट्टाः “ चमत्कारिबोधजनकज्ञानविषयतावच्छ - दकधर्मवत्त्वरूपस्य अनुपहसनीयकाव्यलक्षणस्य प्रकागायुक्तलक्ष्यताव- च्छेदकस्योभयवृत्तित्वाच्च । काव्यं पठिस, श्रुतं काव्य', युद्धं काव्यमित्युभय- विधव्यवहारदर्शनाच्च काव्यपदप्रतिनिमित्तं व्यासज्यवृत्ति, अत एव वेदत्वादेरुभयपत्तित्व प्रतिपादकः 'तदधौते तद्वेद, इति सूत्रस्थो भगवान् पतञ्जलिः संगच्छते । सेनानुपहसनीयकाव्यलक्षणं प्रकाशोत्तं निर्बाध- मिति॥ किञ्च चमत्कारनिमित्ता ध्वनय एव काव्ये उत्तमत्वप्रयोजकास्ते च शब्दापेक्षयापि अर्थे बहुसंख्याकाः, श्रतोप्यर्थस्य चमत्कारकत्वं मिर- पहवनीयमेव । किञ्च शब्दमात्रस्य काव्यत्वं वदतामभिनयादिषु रूपकेषु का गतिरिति ते एव जानन्ति । किश्च 'शब्दार्थों काव्यस्य शरीरमिति' विश्वानायेनापि उपष्टम्मकवाक्ये उक्तमेव-तत्रोभयोः शरीरस्ने समाने कि- मिब शब्दस्यैव रस मात्मा, मार्थस्यत्यत्र किमुत्तरं विश्वनाथस्य । न खल "रघुलमेव भरीरं पात्लवद्भवति म पुनः सूबममपीति शक्यं युतिशतैरपि उपपादयितुम् । स्वप्ने यथा संनिहितेऽपि स्थूलशरीरे केवलेन सूक्ष्मशरी- रेव पाहारविहारादिकं सम्पद्यते, एवं रूपकेषु अतितहस्थतया भासमा- नेषु स्थूल शरीरस्थानीयेषु शब्देषु अनैव प्रधानतया चमत्कृतिः साध्यते पति सकलसहदयहृदयसंवादसिद्धम् । , + . ( ३१ ) एवं वसाहमको प्रहदार्थो काव्यमित्येव वक्तव्यं भवतापि। किञ्च भवता काव्यत्वेन अभिमते वाक्ये रसः कथमवतिष्ठेल, भवल्लक्षणानुसारे- शापि भात्मवरूपविशेषस्य तस्य आकाशगुस्से शब्दे संस्पर्शस्यापि दुर्लभ- त्वात्। यदि तु रसप्रकाशकभावनाविषयार्थमतिपादकत्वेन • सम्बन्धेन, रमप्रकाशकतावच्छेदकार्थप्रतिपादकतासंसर्गेस या रमवावं, शब्दे वफ- पाद्यते इति श्रूषे, तर्हि प्रकाशोक्तं 'सगुणी, पति विशेषणमुपद्रवता भवता किमर्थमुद्धनिता धूलिरिति पृच्छामः । यदि तु सरसस्यैव काट्यत्वं स्वी- कारयितुं तथा प्रयास इति चेत् , तदपि न युक्तम् । नीरसेपि चमत्कारिणि वस्त्वलङ्कारव्यम्जके शब्दार्थयुगले काव्यत्वस्य ध्वनिकारादिसकला- लङ्कारिकसम्मतत्वात् । इदन्त्वनावधेयम् यथा स्थूलसूदमशरीरयोरेक- विनाकृतस्यापरस्य न कार्यकरत्वं दृश्यते, एवं काध्यमार्गेऽपि अर्थस्य व्यज्जकरबे शब्दस्य, शब्दस्य च व्यजकत्वे अर्थस्य, सहकारिता अवश्यमा- श्रयणीयेत्यतिविस्तृतिभयाद् विरम्यते । नाद्यापि तत्त्वतो घिनो यत्प्रकाशस्य केन दुरदृष्टेन दर्पणोऽजनिष्ट, येन सर्वात्मना प्रकाश प्रतिक्षिपता व्याकुलीकृतानि लोकलोचनानि । लदेवमस्मिन्निबम्धे-शब्दब्रह्मणः स्वरूपम्, सामर्यमुपयोगच प्रदर्शितः। ततस्तु शब्दस्य त्रैविध्यम् , रविषये मतभेदाः, तेनास्यामिर्वचनीयत्वम् , प्रानन्दांशसंवादेन श्रुत्युपष्टम्भेन चात्मस्वरूपत्वम् , अनौचित्यस्य रसभञ्ज- कत्वम् , श्रीमम्मटाचार्यलक्षणघटकस्य 'प्रदोषी,' इति पदस्य कृतिः, सरस- काव्यनिर्माणोपायश्य, काव्यस्य पञ्चविधत्वम् , शुद्धवैदिकसाहित्यम् , उभयोपकारक साहित्यम्,शुद्धलौकिकसाहित्यस्य शुद्धबैदिकसाहित्येन तुलना, लौकिकसाहित्यवाक्यानां मीमांसाकरम् औचित्यविचारकम् अलङ्कार शाखम् , पञ्चविधलौकिकवाक्यानां वर्णनम् , लौकिकसाहित्यस्य प्रभावेन अन्तःकरणे जायमामा द्रुतिदीप्त्यादयोग्यस्थाः, द्र तौ. श्रीकालिदाससिद्धिः, अलङ्कारशाखस्य संज्ञा तदारम्भकालश्च, साहित्य शब्दप्रयोगा, काम- लक्षणेषु विमतिः, प्रकाश दर्पणकर्तुः श्राशेपाश्चेति विषयाः संक्षेपविस्त- राभ्यां विचारिताः।
( ३२ ) समा तदस्मिन् पूर्वोक्ने यथाशक्ति प्रचामति मर्वाधीनसंस्कृतसाहित्यस्य समुज्जवला पतः समुपन्यस्तः। तमिपक्षोपि च अवश्यं निरीक्षणीयः-~यतो न तेन विनाविवेचना पूर्ण सम्भवतीति सोपि संक्षेपेण वश्यते । १ स्थिरम् , रनस्थिरश्चेति द्विविध साहित्यम् । अद्यापि गीर्वाणगिरां स्थिरसाहित्यस्य पादपीठं यत्रावतिष्ठते, तत्र सभ्यमानिनीनामितरमा- पासां मूर्धानोपि न लब्धास्पदा हति परमं प्रमोदस्यानं खलु भारतीया- माम् । अस्थिरस्य साहित्यस्य तु नितरामभाव इति महतः खेदस्य, मर्मा- न्तिकवेदनायाश्च निमित्तम् । लौकिकसाहित्यस्य साहाय्येन बोध्यमानः शुष्कतरोपि विषयो रसा- स्वादसन्दोहजनकतया, चमत्कारजनकतया वा अचिरेणेव हृदयान्यधिकरोति, उपदिष्टानुष्ठापनाय च अमोघमत्र भवतीति निर्विवादम् । जानन्त्येव इतिहासमा यत् सम्पूर्ण रात्रि नियुध्य संश्रान्ता अपि निद्रादरिद्रीकृतो, साहा अपि शस्त्रविक्षतदेहा अपि च शतद्वयमिताः श्रीशिवराजस्य योधाः वीररससिद्धसरस्वतीकस्य भूषणकवेः सरस्वत्या समुत्साहिताः समासादित विद्यु- बलाइव बुभुक्षिता घ्याघ्रा इव च दुर्गाबिर्गत्य क्षणेन मध्येरखक्षेत्र समापत. म्ती महतीमपि यवनसेनां तूलपूलिकामिव समुत्तोलयामासुः । अन्यान्यपि बहूम्युदाहरणानि यत्र सत्कविवचनरचनाचातुरीवशीकृतप्रारीरल्पप्रारी- रपि महाप्रामसाध्यानि भूयिष्ठानि महाकार्याणि अजसाऽनुष्ठितानि । अत्र च साहित्ये समुपदिश्यमानोर्थविधा विभक्तः-१ केवलादृष्टार्थः, २ दृष्टादृष्टाः, ३ केवलदृष्टार्थश्चेति । पारलौकिकः परमार्थसाधनं शब्द- प्रमाणमात्रवेद्यचार्यः केवलादृष्टार्थः । परमार्थप्रधानतया, तत्समकनातया, तत्सहकृततया वादृष्टमप्यर्थसाधयमानोर्थो दृष्टादृष्टार्थः,एतद्विविधार्थप्रधान- मेव साहित्य रिघरसाहित्यमितिशक्यं वक्तुम् ।चिरपर्यन्तंतत्र परिवर्तनस्या- नुपलम्भात्। एतादृशस्य लौकिकवैदिकसाहित्यस्य संस्कृते न न्यूनता-अनन्त- हि सुरभारतीकोषे तादृशं साहित्यम्। एकमपि श्रुतिवाक्यं तैस्तैराचार्यैः परमार्थप्रदर्शकतया वर्यमानं नितरां मोहयति-प्राश्चर्ययति-स्तम्भयति च লিৰিকলাৰ অৰািনিঃ বদিন।
'पय पुनः साहित्यस्य सम्बन्धो वर्तमानेन जगता, साम्प्रतिया देशदरा था, साम्प्रतिक राज्यः, साम्प्रतिशः, साम्प्रतिकैर्देशवासिभिल साम्यति कविः, साम्प्रतिकेमध्यापारेत, साम्प्रतिम समाजसंघटनेम, साम्नतिन भूगोलेन, वास्तविकन च इतिहासेन, सद् अस्थिर साहित्यन्तु संस्कृते नामनामपि बिलोपते। यदि स्थिर साहित्य भाषायाः कलेवरमित्युच्यते, तदा अस्विरं साहित्य वसमाशनस्थानीयमित्युक्तं मातिशयितं भवति । यथा अतिकनीमकलेवर- स्थापि दुखसबाहपरिखाहस्यापि महाबलवतो पिच पुरुषस्य बसनाशनाभ्यां विहीनस्य जीवनं न सम्भवति, एवं भाषाया अपि अस्थिरसाहिल्याभाने दुर्दैवमवश्यम्भावि। भेदमविदितं यद् भाषायाः साहित्यस्य वा जीवनमेव जाते॥तिमतां च जीवनाय जीवातुभूतम् । यद्यस्माकं स्थिरं साहित्यं तावदुनतम् अमृतपरि- पूर्णश्च नाभविष्यत् तदा एतावन्त कालमस्थिरस्य साहित्यस्य विरहे अद्य यावत् अस्माकं सभ्यतायाः जातेश्च जगति नामापि नावशेष्यत् । जगति नष्टा अन्यजातीया इव षयमपि प्रतिगभीरे कराले कालोदरे अपुनर्जागराय शयिता अभविष्याम । अद्यापि संस्कृतप्रणयिभिर्यदि परिशीलिता सैव चिर परिचिता कुभिकर्णनिद्रासखी दीर्घसूत्रता-न च चेष्टितं प्रतीकाराय तदा- सुरभारत्याः परमपदप्रस्थानदिनस्याऽऽसन्नता दुर्निवारैव । अद्य यदा भूतथाच्या धरित्र्या वक्षःस्थले प्रतिको रयलपटली. बलेन वायुपरिमिमानानीव बाष्पयानानि महावेगेन सर्पां पर्वताना- मिव दृश्यं दर्शयन्ति-यदा च वारांनिधेः सरित्पतेर्भीषणतां चपलताञ्च मुष्टिना परिमित्य निर्भीका निःशङ्काश्च रणपोताः वारिनिर्वती विदार विदारं विद्वन्ति-यदा घ काष्ठतरणमिव लौहतरसमपि असम्भवात् सम्भवतामानीतम्-यदा च- लवाचतुष्टयखारीपरिमितलोहेन निर्मितः पोतः । तरति सुखेन विशङ्क बहुतरवेगो रणस्पर्धी १-यदाच- वारिव्रजे अज्ञातप्रचारोग्नुपरलक्षितजवस्तारपीः क्षमेन रणपोतं क्षपयित्वा विपक्षस्य तारा पीडां जनयति-यदा चकल्पान्तकृतान्तमुखकन्दराणामिव ३४ ) कालानलमुहमन्तीनां भुवनभयङ्कराचाम् शतनीनां नवनवा आविष्काराः संसारनधिकतुं जायले, तस्मिन्नेव पुरुषार्थमये घेष्टामये प्रकाशमये च समये संस्कृतभार केवलं " द्वादशभिषाकरखं भूयते' इत्येव निमीलितलोचन गायन्तः सन्तुज्यन्तीति किन खेदस्य वा अपाया वा भयस्य वा भास्पदम् । यदा मङ्गलग्रहं ग्रहीतुवा तत्र विहतुवा अायोजनानिसम्पाद्यन्ते, वायुमण्डलविनायीनिव्योमयानानिप्र स्तूयन्ते- यदाच संसारस्य पस्मिवि- दपि कोखे न कश्चिदपि जलीयः स्थलीयो बाङ्गलिपरिमितोपि तादृशी भागो यो म ज्ञानोबा नागाहितो वा स्यात्-तदा संस्कृतज्ञानां 'भुजङ्गपिहितद्वारं पातालमधितिष्ठती' त्येतावन्मानभूगोलशाने निलीनत्वं कि नशोष- नीयम् । तुच्छातितुच्छ महतो महीयश्च सर्वमेव कार्य-यथा स्वागतीकरणम् , अातिथ्यसत्कारः, पाकनिर्माणम् , गृहपरिमार्जनम् , व्यजनवाहिता, वख- शोधनम् , भोजनप्रस्तुतिः, चौरनिग्रहः, रक्षापुरुषाणामाकारणम् , भूमि- निलीमखनीनां निवेदनम् , अनेकविध-यानपरिचालनम् , भूमिखननम् , शत्रुनिबर्हसम् , समाचारप्रापणम् , शब्दवहनम् , निरालम्बनो दूरग्राह- ( Wireless telegraph ) श्वेत्यादीनि अदृष्टश्रुतानि अचिन्तनीयानि सर्वाश्येव कार्याणि यदा गर्भदासीव एका केवलं विद्युत् सम्पादयति पाश्चा- त्येषु, तदा संस्कृतज्ञानाम् अवच्छेदकावच्छिन्नमात्रम्य जाले निपतन किन दयनीयम् , किं वा न चिन्तनीयम् ? असति प्रतीकारावलम्बने कियन्त किल कालं जीवनमेषां सम्भवतीति किं न विचारणीयम् ? साम्प्रतं भारते कियत्यो जातयः ? किंवा तासां जीवनालम्बनम् ? कर्ष वाता उपार्जयन्ति? के वा तास अत्याचारा? कीदृशी अस्माकं देशस्य दशा? कुतो वा अस्मन्मनसामीदृशी अधोगतिः संजाता ? के वा अस्मद्देशे प्रधाम- व्यापारिणः ? कीदृशा वा तैरस्माकं लाभा हानयो वा ? कुतो वा भारतस्य प्राधिराज्यं विनष्टम् ? कानि वा तत्कारणान्यद्यापि विद्यन्ते? कीदृशो वा अस्मा शिक्षाप्रचारः ? किं वा अद्यत्वे अवश्यं शिक्षणीयम् ? रयलपटली- कुल्पयोः कियानस्मद्देशे विस्तारः ? कस्को लाभ स्ताभ्याम् ? कीदृश्यो वा हामयः के वा प्रजानामधिकाराः ? केवा साम्प्रतिका राजधाः ? ?
( ३५ ) सत्यां वा विपती कथं प्रतिकसंव्यम् ? दुर्भि शनिवारणाय प्रारम्भ- माथि रयलपटल्या कुतो वा पूर्वापेक्षयापिदशगुखितं दुर्मि क्षमुत्पाद्यते ? मावता अमेहसा समस्तसतारस्य समरक्षेत्रेषुपञ्चाशनपरिमिता मालवा अनियन्त-तावतेव केवलं भारते एव समापेक्षया षड्गुखेभ्योप्याधिकाः पञ्चविंशतिलोत्तरकोटिनयपरिमिता दीनाः क्षुधातुराः दुर्भिक्षराक्षसेन भक्षिता इत्यादिकेषु विषयेषु किं न कोपि तादृशीयो भारतगुरूंखां ब्राह्मणानां विशेषतः संस्कृतज्ञानां जातव्यः स्यात् । अन्येषांविषयाखां तु कथैव का-बहवः संस्कृतज्ञास्तु पदमपि न जानन्ति, यद् भारतवर्ष कुतः प्रारभ्य कुत्र समाप्नोति । संस्कृतोन्नती बद्धपरिकरेख अस्माकमय- तमेन प्रियसुहदा कनखलस्थः कश्चिच्छात्रः "कनखलनगरस्य दक्षिणभारते वा उत्तरभारते वास्थितिरिति पृष्टो कनखलं दक्षिणभारते' इत्युत्तरितवान् उपपत्ति चेमा प्रदर्शितवान् यद् हिमालयाद्दक्षिसे विद्यमानं नगर दक्षिण- भारत एवं सम्भवतीति । किबहुना-बाह्यज्ञानभूम्यत्वं पण्डितत्व' निलि. लक्षणमेव साम्प्रतं संस्कृतज्ञानां सम्पन्नम् । यदि पुनरिदमुच्येत-यसंस्कृते न तादृशं साम्प्रतं किमपि पुस्तकं यत्साम्प्रतिकेतिहासभूगोलादीना मावश्यकविषयान् अवगमयेदिति, तत्र वक्तव्यम्-सम्प्रतीव संस्कृतकोषु वर्तमानायां निश्चेष्टतायां, विज़- म्भमाणायां दीर्घसूत्रतायां, संसरन्त्याञ्च जगन्मातृभाषाविषयिल्यामुपेक्षायां कि तादृशामि पुस्तकान्याकाशविपतिष्यन्ति ? । केषां किल ललाटतटमलङ्करोति सेयङ्कलङ्कलेखा इति पृष्टानां वा किमुत्तरं स्यात् संस्कृतसाहित्यनौकर्णधाराणां महामहतां पण्डित-प्रका- गडानाम् ? अस्मादृशास्तु न गण्या एव। यद्ययमभावो न परिहियेत तादृशपुस्तकानामनुवादमात्रायपि चक्लेशो नापीयेत-बारायसेयीपु, पञ्चाम्बुप्रदेशीयासु, अन्यासु वा परीक्षासु तादृश पुस्तकानां शानं नावश्यकं क्रियेत-नूनं दुर्निवारा दुनिवारा, सल्वियं दुरवस्था । बहवस्तु विषयान पुस्तकेषु पठनयोग्या भवन्ति अपितु समाचारपत्रैरेवा- बेदिता पर्याप्ता भवन्ति शानाय-परं साम्प्रतिकानां संस्कृतसमाचारपत्राणां कोहली दशेलि दर्शयितुं तुजन्मनायमानमपि भया वेपत हदसम्ममा खतु संस्कृतस्त्राव प्रशस्तविस्तृत क्षेत्र तथा न भाषान्तराखाम् । केवल कृतजाहि साधारमाल्साघरसमणि लोकारतम् प्रष्टमिक प्रातमिनमा समिव वलयन्त चकितचकिता निभूतको अग्रीवाश्च सन्मः सवन्ति। पर समाचारपत्राणि तु (क्षाम्यन्तु मां सम्पादकमहाभागाः) संसार संसार- बतच तुम्मिव पश्यन्तः पारेगिसं वर्तमान विषयं वयन्तः स्वयम- प्यनिर्वचनीयतां भजन्ते । वासकानां मनोरञ्जनाय तु कल्याशिवतायाः काचिद्राशो वा ग्रेन केनापि निर्मिता स्तुतिर्वा गीतिर्वा पर्याप्त मन्यते। अवाप्रमोधनीमान् विषमान लिहाय अन्यस्थितान् सांस्तान् विषयान वार्णयन्ति समाचारपत्राणि, येषां परिकामं गुरुखां सन्निधाले वि न सकेका सुधटम् । एकस्मिस्तु साप्ताहिके संस्कृतसमाचारपत्र स्माभिहष्ठम् यत् 'नाकारली इत्यस्य स्थाने 'नाचशालौ' इत्येव कुतोन म्यस्तम् ? इति। यदी- नामानि पनाकिन मधुरं प्रचारं लभेरन प्रकाण्डएव कालदल्डेन खाड- नांवा भजेरं स्तदाकिमिवाश्चर्यम् । का वा वचनीयता वाचकानाम् । संस्कृतसाहित्ये अस्थिरसाहित्यस्याभाव एवं संस्कृतस्य व्यावहारिकत्वे विघातकः । यदि प्रतिदिनं संसारस्य नवाजविष्कृतानां वस्तूनां नामानि संस्कृते उपलभ्येरन, न तदा व्यवहारकैः किमपिकाठिम्य मनुभूयेत। का वा कथा असतां संकेतानाम्-सन्तोपि-प्राचीननिर्धारिता अषि बहुत्र व्यवहता अपि च ते नाद्यत्वे प्राप्तप्रचाराः । एकदास्माभिरेकोऽध्यापक महाशयः स्वकीयं छात्रमेव मादिशन् दृष्टोयत्"अरेचिमटापदवारुपमानय चिमटापदघाच्यम्' सन्तोपि पञ्चपुट, सर्पास्य; तप्तक, पोलिकाप्रभृतयः शब्दा नापलब्धावसरा इतिप्रधानसंस्कृतज्ञानामेवाध्यमक्षन्तव्योऽपराधः । किञ्च अध्यापनसमये विशेषपदसाहाय्येन पदार्थ प्रतार्य प्राणान् परि- त्याजयताम् अध्यापकानामपि दीर्घसूत्रता, अलसता, निश्चेष्टता, हतोत्साह- ताच निन्दनीयैव, ये खलु च्छात्रैः पृष्टाः कथयन्ति बकुलः कश्चिद् पक्षविशेषः 'कादम्बः कश्चित्पतिविशेषः' इत्यादि। एतेहि संस्कृतस्य प्रचारे प्रधानतया . बाधका:। अस्थिरस्य साहित्य स्वाभाव एव मूल संस्कृतशिक्षायाः प्रचारामावस्य । मेपि श्रीकालिदानप्रभृतयो रघुवंशादिकान् सन्दर्भान् नभान्टसुन खानु ः ( ३७ ) प्राथमिक शिक्षाविभागे अध्यापनोपयोगिता मनसिकृत्य निबद्धावले ग्रन्थाः ।,परमद्यत्वे बालानां मानसिकीमवस्थामपरिहाय, तेषां धारणा- शक्ति मननशक्तिञ्चाविगवाय .अध्यापकम्मन्यास्तांस्तान्पद्यसम्दर्भान् अपरिशीलितगद्रासन्दर्भाणामेव शिशूनां घोषणाय उपन्यस्यन्ति, येन अनुचित घोषखेन बालानां मानसिक दौर्बल्यं, प्रायः स्वतन्त्रविधाराणाम् राहित्यम् । ... अप्रौढप्ररोहाया मनन शक्ते रालुञ्चनच जायते । बालानां हि शिक्षस मतितमां कठिनं कार्यम् । तदर्थं पुस्तकलेखनाय यावद् बहु विचारणीयं प्रायस्तावन्न विचारयन्ति संस्कृतलेखकाः । यस्यालङ्कारशास्त्रस्य साहाय्येन जनास्तावती वचनचातुरीमुपार्जय- न्ति यया क्षणेनैव नाबालवृद्धम्, भापण्डितपामरञ्च अन्तःकरणान्यधिकृत्य सुशकमुपदिष्टमनुष्ठापयितुम् , तस्मिन्नेव साम्प्रतं सर्वतोभावेन अराजक- ता विजृम्भते । यथा अदीप्यमाने राजभये अनुन्मिपति च धर्मभये सर्वोप्यु- च्छङ्कलो लोको मधुपान,कामिनीगानादिभिरेव व्यत्तियापयति काल तथैव अलङ्कारशास्त्रोदाहरणेषु विशेषतत्रयोदशशतकादर्वाचीनेषु तत्रापि सा- हित्यदर्पणादौ अन्यथासम्भवदुदाहरणेष्वपि स्थलेषु परकीवनायिकादी- मामेव तथाचरित्राणि चित्रितानि यथा साहित्यशास्त्रक्टिष्टितानामिति- हास इव प्रतीयते। येषां खलु मवोन्मिपद्यौवनामां किशोरकाखा कामावर एक कुतप्रति- भावतंस्खलयितुम् । यौवनमेव दत्तावधानमुच्छृङ्खलतामार्गे, येषां च सदा- चारशिक्षणस्य, दृढव्रतत्वस्थ, नैष्ठिकत्वस्य चाध्यमेवोप्रदेशकालो येषां मबनवार्थपरिहानाय उन्मनायमानानां साहित्यसाहाय्येन देशभक्ति धर्म- भक्ति, गुरुभक्तिम् अन्यदा यदेवो भीष्टं तदेव वस्तु, नवभाजनलम्मसंस्कार बदचलीकर्तुञ्च सुयोग्य सम्पन्न क्षेत्रमिव समुदितशक्तिशालि गानसम् तेषां पुरु परकीयादिविचारप्रस्तुतिः कीदृशीति स्वयं विभावनीसम् । शादर्शी बहिरेव वाग्थ हृदयं येषां परार्धग्रो ये वा भाविमि भारतीयविभवे सर्मप्रतिचापका । येषां चारुचरित्ररक्षणमतिप्रेक्ष्पं सदा शिक्षा 'शून्य वासगाई' स्तुवन्ति गुरवो हालत ! तेषां पुरः ।
(३८ दिमेवागम समाहित रुद्रटेन- 'नहि कविना परदारा एटल्या नापि चोपदेव्याः । कर्तव्यतयाऽन्येषां न च तदुपायोभिधातव्यः । किन्तु तदीयं कृतं काव्याङ्गतया म फेवलं बक्ति। श्राराधयितुं विदुषस्तेन न दोषः कवेरत्र ॥ इति । अनवदामः-मखलु पुचलीचरित्रवन सन्तुष्यतां तादृशां विदुषामा- राधममेव परा काष्ठा कविकर्तव्यामाम् । कविधवांसि हि लोके प्रसृतानि यादृर्श भावं जनयन्ति-यथा वा प्रवर्तयन्ति जगन्ति-तत्र सर्वत्र कवेरेव उत्तर दायित्वमिति। न खलु शृङ्गारकथाः नितान्तं परिहरणीया इति वदामः- ङ्कारःशुचिः उज्ज्वलश्चेति मन्महे । परम पवित्रङ्गारस्य उत्कर्षकत्व- मिव अपवित्रस्य तस्यापकर्षकत्वमपि । नखलु सुरापूरितं मन्दाकिनीवारि पवित्रयतीत्येव निवेदयामः । किंबहुना साहित्यशाखदुर्दशा तस्यैव परमाचायः साहित्यनौकर्ण भारः बाराबतेयैः पण्डित प्रकापडरद्यापि क्रियते इति कस्य न घेतो दूमयेसचेतसः । writy कारयां साहित्योत्तमपरीक्षायां निर्धारिता पाव्यप्रणाली आश्चर्य खेदं शोकच सहैव जमयति । साम्प्रतिकेषु साहित्यग्रन्थेषु साहित्यदर्पणस्यैव शैली प्राजिलविदा भाषा सरला बालोपयोगिनी, विषयप्रतिपादनशली च हृदयङ्गमास्ते। परम् उक्तपरीक्षायामयं सर्वान्तिमः साहित्यग्रन्थःपञ्चमेखराडे स्थापितः, यवाग्लङ्कारकौस्तुभोतिनवीन अष्टादशे शसके रसगङ्गाधरमुपमर्दयितुमेव ताकि वैकगम्या भाषया निबद्धः, यत्र च प्रायः सर्वेषां प्रसिद्धप्राचीना- पार्याखां मतोल्लेखो बहुत्र खण्डनच, सोऽयद्वितीयखण्डस्थः सर्वप्रथमोग्ल धारग्रन्थः । येन खलु साहित्यशाने अलब्धप्रवेशेन बालेन नाद्यापिज्ञात यत्का नाम उपमा किञ्च तस्या लक्षणम् , येन च नाद्यावध्यधीतः कश्चना- उलंकाग्रन्थः सएष अलंकारकौस्तुभोक्तामिमाम्-'यत्सादृश्यप्रतियोगिताया- मुफ्मेषतावच्छेदकावखिनन्व, स्वाश्रयमापत्तिस्वानवच्छेदकधर्म समाना- चिकरबकोभयाभावः सोचमे' स्यादिकं पृष्ठ शतद्वया दप्यधिकमवच्छेद- ( ३८ ) कताप्रकारतामय खण्यग्रन्धं कथमिवाधिगच्छेदिति, तु कदाचित्पाव्य- ग्रन्थनिर्धारका एक जानीयुः । वयम्त्वेवं सम्भावयामः-यत्-पाठ्यतया निर्धार्य पूर्वाभिमुखं स्थापिता इमे ग्रन्थाश्चपलस्वभावतया अनुक्ता एव पश्चिमाभिमुखाः संवृत्ताः । नि- र्धारकैरपि रसे निमग्नैर्वा मोहे निलीनैर्वा तदुपेक्षितं चापलम् । परमु- पेक्षयाउनया छात्राणां शिरसि निपतितो वजाहारः। लुप्तप्रायश्च तादृश- ग्रन्थप्रचारः । प्रारम्भ एवं स्थापितान् रसगङ्गाधरादीन् प्रायो न कोपि परीक्षार्थी अधीते । यदि पुनरुच्येत-एतेषां विकरूपे स्थापिता ग्रन्थाः समीचीना इति । ननुकिमेतावता ! नखलु देवदत्तस्य सौन्दर्यवर्णनेन यज्ञदत्तस्य कुरूपता परिहता भवति । किश्च रसगङ्गाधरस्य विकल्पे स्थापितः कुवलयान- न्दोपि केसरिप्रतिद्वन्द्विनमजं स्मारयति । एतान्येव कारणानि यद् अम- तत्वं प्रयच्छन्त्यपीयं मुरभारती मृतेत्युच्यते । न खल्वियं मृता-नापि स. म्भवी मृत्युरस्याः । प्रणयिनस्त्वस्या मृतप्राया इति निश्चितमेव । मान्य महाभागाः! मन्ये बहुपराष्टुं मया मान्येषु पौरोभाग्यमाचरता। परं विदितमेवेदं श्रीमतां यन्निद्राविद्रावितसंज्ञान् कांश्चिदपि निरीक्ष्य क्षुद्रोपि चापल तनुते-तदेवं सथाभूतेषु यदि मयाप्यवलम्बितं किञ्चद् वैयात्यं कित्रम् चित्रम् ? यदि पुनर्ममैतेन चापलाञ्चितेन विगततन्द्राः श्रीमन्तः साहित्य तत्त्वज्ञाः सुरभारतीसमुद्रणाय सन्नदाः बद्ध परिकराः स्युस्तदा तत्र भवद्भिर्भय॑मानमपि तय॑मानमपि च कृतार्थमात्मानं बहु मानयिष्ये । एवं कृतोत्साहानां भवतां न केवलं सुरभारती सुरा अपि साहाय्यं विदधीरन्निति दृढो मे विश्वासः । तदेवमर्वाचीनसंस्कृतसाहि- त्यस्य वर्तमानां दशामधिकृत्य समुज्ज्वलस्तमिस्रञ्चति दर्शितं पक्षद्वयम् । मत्सम्बन्धे किमस्माकं कर्तव्यमितितु अन्तिमपोखैव उक्तार्थमिति म पृथग वर्णन मर्हति इति ।
सुरमारतीसन्देशः।
(गीतिः)
अपि बन्दीयभावाः ! सदपा ! महानुभावाः !
भवतोऽवतो रसज्ञान् सुरभारतीदमाह । १
विनयो नयोचित निरादरी विधयः ।
दरकारणं विधेयं गदवारणं विधेयम् । २
अधिकमर्पणीमा सुचिरं विचारणीया।
हृदये निवेशनीया सुरभारतीकथेयम् । ३
"इदमस्ति भारत में
ननु
भारतीयमस्मि ।
सुरसामुपेतवन्तो मम भावमाश्रिता ये।४
प्रलयोदयौ तु सृष्टेः शतशो भयाउनुभूती ।
जगदादिसंविधा मे नयनाग्रतः स्फुरन्ति । ५
कमलासनः स वक्ता ऋषयः श्रुतार्थिनस्ते ।
सहचारिणी च साहं जगतः पितामहस्य । ६
मवसर्गवर्गवेदीवेदोपदेशयते ।
स्मृतिगोचरीभवन्ती परिमोहयत्यजस्त्रम् । ७
कुरुते पुरोगतं याखिलभूतभाविभव्यम् ।
मयि सा समाधिविद्या बहुभिः समाहितेयम् । ८
मनसामनेषणीयं वचसामगोचरं यत् ।
न तदक्षरं विदूरे ननु मे स्तनन्धयानाम् ।
विषयावलोवलीढा ज्वलदाधयो घिदूनाः ।
मम सन्निधौ समेताः शममाशु संश्रयन्ते । १०
* जगतीतलं च जित्वा बहुलैबले रूदग्राः ।
मम सू नुसङ्गमेन महिमानमुत्सृजन्ति । ११
परिचारिता पृथिव्यामिह सा मयैव नीतिः !
अबलो यया बलीयान् बलवत्सु निर्विशङ्कम् । १२
* श्रीकन्नर (सिकन्दर )स्य ऋषिसमागमकथाऽत्रानुसन्धेय ।
( ४१ )
इह धर्मभीतिरेषा परलोकगीतिरेषा ।
परिलक्षिताऽन्यगेहे कतमेन वा ? व वेयम् ? । १३
स्मरणीयनीतिविद्या निखिलाश्वनीहिता या।
रामादिभूपभूषा परिवोषिता मयेयम् । १४
ऋषयो वशिष्ठमुख्या मम रक्षिणो यदा सन् ।
परिचारिका तदा मे जगदाधिराज्यलक्ष्मीः । १५
कपिलः पतञ्जलिस्ती कणभुकप्रशस्तपादौ ।
पुलिनोद्भवीमहर्षिः स च जैमिनिमुनीशः । १६
अमृतं निषिक्तवन्तो मम यत्कलेवरे ते।
न हि तद्भिया यमो मे दिशि दत्तदृक् कदापि । १७
अजरीकरः प्रयोगः पणिनात्मजेन यो मे ।
मुनिना कृतः शरीरे, परिवर्तनं स सन्धे । १८
कविकालिदासदत्त नयनामृतं मदोये।
कुरुते दूशी सशक्तौ परिलोकितुं दिगन्तम् । १९
इतिवृत्तमेतदेवं हहहा गतं तदेतत् ।
अधुना तु शोचनीयं कुदशान्तरं गताऽहम् । २०
अलसो विमूढचेताः सकलोपि मे स्ववर्गः ।
सकलेशताविहीना बत दुर्गतिवहेऽहम् । २१
जगदाधिराज्यलक्ष्मी ललितौ यदीयपादौ ।
वसनाशनाय साहं “सभासु” याचे । २२
वसनाशनैर्मदीयरुपजीविता यदम्बा ।
कथयन्ति हन्त : ते मां ‘हतभागिनी मृतेयम्' । २३
भृशमस्मि जातलज्जा भवदीयौरुषेषु ।
दलितामहो, यदन्यैर्ननु मातरं सहध्वम् । २४
घरमस्पि बन्ध्यगर्भा न पुनर्निरीहमन्दैः ।
.
( ४२ )
अलसैः सुतैरसंख्यैरिह पुत्रिणी भवेयम् । २५
मम दुर्गतं न चिन्त्यं मरखं वरं मदीयम् ।
न पुनः सपत्नजानों कटुभाषितं सहेयम् । २६
किमिदं न शोचनीयं निमिषत्सु हा, भवत् ।
सतदहं स्वयं सशस्त्रा समराय साधयेयम् ।
स्मरणीयमेतदवा मनु सा समाधिसिद्धिः ।
विपदेकरक्षिणी मे जगदादिभूविसृष्टा । २८
न दहं बहु प्रदूना न च रक्षिता भवद्भिः ।
करुणामयान्तरां तां मुसखी समाश्रयेयम् । २९
शयिता तदङ्कशय्यामधिशय्य निर्विशङ्कम् ।
चिरकालजातबोधा पुनरप्पहं वहेयम् । ३०
परमेतदेव चिन्त्यं वदनेषु वो विलमा ।
मलिना कलङ्कलेखा सुशका विमार्जितुं किम् ?। ३१
जननीमरतयित्वा सुकृतं च भक्षयित्वा ।
किमु जीवनाय कश्चिद् वरसंश्रयं गतोहुम् । ३२
तदतः परं न शक्ता गदितुं सगद्गदाऽहम् ।
रहसि स्थिता विशडूं करुणञ्च रोदयेयम्
विनयो नयोचितश्चेन्न निरादरो विधेयः ।
दरकारणं विचेयं गदवारणं विधेयम् । ३४
अधिकर्णमर्पणीया सुचिरं विचारणीया ।
हृदये निवेशनीया सुरभारतीकथेयम् । ३५
" । ३३
॥ इति ॥
No text on this page.