S.v.c.l.r.c
Nilakanthavijaya
Front matter
॥ श्रीः ॥ श्रीमन्नीलकण्ठदीक्षितप्रणीतः ॥ नीलकण्ठविजयः॥ प्रथमाश्वासः। वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते । किं दंपतिमिति ब्रूयामुताहो दंपती इति ॥ १ ॥ दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रक्रान्तवादा मिथो गीर्वाणाः कति वा न सन्ति भुवने भारा दिवः केवलम् । निष्क्रान्ते गरळे द्रुते सुरगणे निश्चेष्टिते विष्टपे मा भैष्टेति गिराविरास धुरि यो देवस्तमेव स्तुमः ॥ २ ॥ १. अस्मिन् श्लोके कविनीलकण्ठः स्वेष्टदेवतामर्धनारीश्वरं स्तौति । वन्द इत्युक्ते कर्माकालापूरकं पदं किम् ? तद्वक्तु न शक्यते । दपतिमित्युक्ते अप- शब्द । दंपनी इत्युक्ते व्यक्त्यैश्यव्याघातः ।। २. एतत्सच्छायं विष्णुपरं पद्यमिदम्- नकाक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने नाह नाहं न चाहं न च भवति पुनस्तादृशो मादृशेषु । इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्त मूलं यः प्रादुरासीत्स दिशतु भगवान्मङ्गलं संततं न ॥
२ नीलकण्ठविजये अगि लीढालीढपुराणसूक्तिशकलावष्टम्भसंभावना- पर्यस्तश्रुतिसेतुभिः कतिपयैनौते कलौ सान्द्रताम् । श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मनेवाच्युतः श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः ॥ ३ ।। यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो यच्चैकाग्रयं तदुचितपदान्वेषणे वित्तवृत्तेः । लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥ ४ ॥ अथवा किमिति स्मरामि दुष्कवीनधुना। सकलभुवनैकमङ्गळशङ्करगुणवर्णनप्रवृत्तेन । न स्मरणीयाः कुधियो लोकायतिका इव व्रतस्थन ॥ ५ ॥ ३. श्रुतेरुपबृंहणतयैव पुराणाना प्रामाण्यम् । सत्येवं पुराणानुरोधेन श्रुतीरन्यथा नयन्ति केचित् । तादृशो विमतस्थान्खण्डयितुमप्पय्यदीक्षितरूपेण धूर्जटिरवनाववततार ।श्रीकण्ठाचार्यप्रणीतस्य ब्रह्मसूत्रभाष्यस्य शिवार्कमणिदीपि- काख्या अभ्यर्हिता व्याख्या श्रीमदप्पय्यदीक्षितेन अकारि । तस्य भ्रातृपौत्र एवास्य ग्रन्थस्य का नीलकण्ठ. ॥ ४. ग्रन्थकृदयं मधुरानगरी शासितवतस्तिरुमलनायकाख्यस्य भूपते- रमात्य आसीत् । तेन च तस्य बहुकार्यव्यासन. सुगम एव । तथा च ग्रन्थनि- र्माणे तस्यावकाशो मृग्य आसीन्महाकवित्वसंपन्नस्यापि। तथैव सत्कवीनामन्ये- षामपि। बह्ववकाशवता तु कवित्वं नास्ति । कवयितुं परं ते प्रयस्यन्ति । कुकाव्यानि च कर्णारंतुदानि निर्मिमते । अत एव सत्कविकृतयो विरला जाताः ॥
प्रथमाश्वासः। ३ कति कवयः कति कृतयः कति लुप्ताः कति चरन्ति कति शिथिलाः । तदपि प्रवर्तयति मां शंकरपारम्यसंकथालोभः ॥६॥ वानामपि दैवतं गुरुमपि प्राचां गुरुणामिह श्रीमन्तं मदनान्तकं कथमपि स्तोतुं कृतो निश्चयः । न त्वां त्वरयामि भारति बलात्कृष्टापि दुष्टे पथि पासेनोपहतापि जातु कुपिता मा स्म प्रसादं त्यजः॥७॥ नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती- त्येतावत्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा । आवात्स्यायनतन्त्रमाश्रुतिशिरःसिद्धान्तमुच्चावचा विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥८॥ चौर्येण प्रणयेन चापहरतः पल्लीषु गव्यान्यपि स्त्यायन्ते चरितानि चेत्कविकुलोद्गीतानि गाथाशतैः। त्रैलोक्योद्भटकालकूटकबलीकारप्रकारं पुनः स्तोतुं के प्रथमेऽपि नाम कवयों दूरेऽधिकारस्तु नः॥९॥ हे भारतीति संबोधनम् । प्रासः शब्दालंकारः कुन्तश्च । प्रमादः काव्यगुणविशेषः अकोपनत्वं च ॥ ग्रन्थारम्थे स्मरणीया यद्यपि बहवः कवयः सहृदयाश्च, तथापि सर्वेषां मूलभूताया वाग्देव्या ध्यानन नद्गतार्थ स्यादिति मत्वा तामेवास्मिन् पद्य नमस्यति । वात्स्यायनतन्त्रं कामशास्त्रम् । श्रुतिशिरांसि उपनिषदः तेषां सिद्धान्तः वेदान्तशास्त्रम् ॥
४ नीलकण्ठविजये अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ।। १० ॥ अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाश्चर्या- णां, आकरो रत्नानां, अवधिर्वैषयिकानन्दस्य, किमपरमगोचर गिराममरावती नाम नगरी । तत्र च निरालम्बे नभसि वर्तमान- तया सर्वपथीनद्वारतया च पुनरनपेक्षितमूलशिलानिवेशनायासं, अनाकाङ्कितप्रतीहाररचनाप्रयासं, असंपादितशृङ्गसंबाधं, अ- संभावितपरिखामण्डलं, आचार इति केवलमभिनिर्वर्तितो नवः प्राकारः । प्रासादः पुनरस्ति वैजयन्त इत्यभूमिरारोहणोपयोगवि- धुरश्च । सर्वतोऽप्रतिहतचाराणां पौराणाममृतास्वादसुहिताना- मभ्यवहार्येण कि प्रयोजनम् । अपि च पुनरभिलषित मणिकनक- भूषणाम्बरसंदायिषु मन्दारादिशाखिषु न किंचिदस्ति ऋतव्य विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः । किंच निरन्नर- शिवध्याननिघूतकल्मषाः, निरतिशयनपोविशेषशोषिताः, वीत- रागभयक्रोधमत्सराः, विषयपराङ्मुखाः, भुवि परमर्षय इति प्रथामागताः पण्डिता एव प्रणयिनो वारमृगीदृशाम् । अश्वमेध. याजिन इति, अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन इति, रणदुर्मदा इति, अन्नदा वयमभ- यदा इति शंसद्भिरपदानानि, संपतद्भिरितस्ततोऽप्यज्ञातमुखै- । १०. अस्य ग्रन्थस्य निर्माणकाल. कल्यब्दः ४७३८ = ख्रिस्त्वब्द १६३६.
प्रथमाश्वासः। -- जातुचिदवनिवासिभिर्जनैर्बलादपह्रियमाणेषु विमानेषु, आक्रम्य- माणेषु मन्दिरेषु, आकृष्यमाणे च बलादप्सरोगणे, न कश्चिद- भिमन्यते ममदमिति मन्दिराणि विमानानि मणिभूषणानि कळत्राणि वा नगरवासी जनः । किचेदमपरमदेवतया न मुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषा- कामदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसश्च वाजिन इति मकलपुरविलक्षणं लक्षणम् । अपि च मूल्यं तत्किल वेश्मनां द्विजमुखे भक्त्यात्र यद्दीयते वेश्यानां च पणः स एव सबने या दक्षिणा ऋत्विजाम् । पद्या सैव विशङ्कटा भवति या पद्यात्र तीर्थाम्भसा द्वारं तत्र च तद्यदत्र करणद्वारं पिधेयं नृणाम् ॥ ११ ॥ अस्ति खादयितुं सुधास्ति वसितुं वासो नभश्चारिणां धर्तुं सन्ति च भूषणानि शतशो न त्वस्ति धीर्जीवितुम् । येनान्यानुपजीव्यसर्वविभवे कमैकलभ्ये पदे- प्यायस्यन्ति वृथैव सेवक इति स्वामीति दुर्मेधसः ॥ १२ ॥ इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपः- प्रबन्धनिस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविधृतब्रह्मचर्यजीर्ण- नया कालमृत्युषु कन्दर्पस्य ब्रह्मर्षिहतकेषु भूतलादागत्य प्रसक्तेषु क्रीडितुमप्सरोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळी- गृहं, विस्रंसय जटामिति वेणीमालम्बमानेषु, अपनय वल्कल- मित्यपनेतुकामेषु कुचदुकूलानि, न लोहितं कुर्यादिति निषेधत्सु ६ नीलकण्ठविजये नखक्षतानि, आः कष्टमसंमतोऽयं पन्थाः शिष्टानामिति पिहित- कर्णेषु चुम्बनभेदप्रस्तावनायां, निवीतधारणव्यग्रेषु नीवीमाच- नावसरे, मन्त्रजपमुखरेषु मणितावमरे. आः स्मृतमद्य व्यनी- पात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरार्तवदिनानि शपथपूर्वकं, अतिक्रामति निषेकलग्नमित्यसहभानेषु बाह्यसुरतव्या. पारविलम्ब, अवधीरयत्सु पुरुषायिनं, असंमन्यमानेषु बन्धभे दान , विगायत्सु वीटिकोपमे वनमप्यनुचितोऽयं काल इति, आ. नन्दमू.वसर एव निभृतमनुमंदधानेषु मन्त्रलिङ्गानि. पवश रतान्तनिद्रावसर एव यावत्संनिपातं च महशय्येति परिहरन्तु पर्यशायिकां, द्वितीयसुरतारम्भ एवं देहि मे कमण्डलुमिति त्वरमाणेषु मन्दाकिनीगमनाय, विहसन्ति विपीदन्ति विलज्जन्ते विस्मयन्ते च रम्भादिमेनकान्ता देववारकान्ताः ।। प्रसजति महोत्सवे वा प्रचलति रथ्यासु तत्र शक्रे वा , निम्नानि पूरयन्ते पवनमये ताळवृन्तपवनेन ॥ १३ । किं बहुना- दुःखानां क्षतिरित्यबोधहतिरित्यानन्दविष्फूर्तिरि- त्यन्तर्वाणिविकल्पजालजटिलान्मोक्षादपि ज्यायमी । यैषाविप्रतिपन्नसौख्यलहरीसंपातसंपादिनी तत्सौन्दर्यविवेचने कवयतां मौनं क्षमं हीमताम् ॥१४॥ मोक्षविषये बहुधा विप्रतिपनिः शास्त्रेषु प्रथिता । स्वर्ग तु 'अन्न दुःखेन मंभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्व पदाप- दम् ॥' इति सर्वेऽपि तन्त्रकारा ऐककण्ठ्येन प्रत्रुवन्ति । अन्तर्वाणिः शास्त्रविन् । । ..
प्रथमाश्वासः। आनीता वसुधातलात्सुकृतिनस्तस्यां हरेः शासना- दुन्मीलन्मणिकिङ्किणीकलकलवाने विमाने स्थिताः। दृष्ट्वा व्योम निरास्पदं सचकितव्याघूर्णमानेक्षणा न स्थातुं नच वा ततोऽवतरितुं प्रागल्भ्यमाबिभ्रते ॥ १५ ॥ मन्दानिलव्यतिकरच्युतपल्लवेषु मन्दारमूललवलीगृहमण्डपेषु । पुष्पाणि वेणिवलयेषु गलन्ति तस्यां साह्यं वहन्ति सुरवामकसज्जिकानाम् ॥ १६ ॥ गायन्ति चाटु कथयन्ति पदा स्पृशन्ति पश्यन्ति गाढमपि तत्र परिष्वजन्ते । कल्पद्रुमानपि समेत्य सुपर्वकान्ता मुग्धा द्रुमैस्तदितर्गश्चिरविप्रलब्धाः ॥ १७ ॥ अस्ति च तामधिवमन् , वसन्त इव ऋतूनां, वासुकिरिव फणाभृतां, चन्दन इव वृक्षाणां, चन्द्रमा इव ऋक्षाणां, राजा सुपर्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्ड- मण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादि- विविधरम्भोरुममदहंप्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्यु- षितयौवनोन्मेषसंभावनीयमदनमदारम्भसीमायाः कौमारहरः सदा शचीदेव्याः, काव्यागमभरतगान्धर्वरहस्यसर्वकषमनीषावि- हरेः इन्द्रस्य शासनात् ॥ प्रियागमनवेलाया मण्डयन्ती मुहुर्मुहुः । केळीगृहं तथान्मानं सा स्याद्वासकसज्जिका ॥ , - नीलकण्ठविजये शेषनिरवद्यविद्याधरीलोकनखमुखमुखरितविपश्चिकानिनादप्रपश्चि- तोदारनिजभुजापदानसमाकर्णनसमुद्गीर्णपुलकनिर्वर्णनजनितामर्ष - जल्पाकनिखिलदिक्पालवदनावलोकनसफलीकृतसहस्रलोचनः, च- तुर्मुखमुखवलयविहारिभारतीपरिगृहीतवेताळिकाधिकारः, पक्ष- पातासहिष्णुतयेव परिहतशैलेन्द्रपक्षमण्डलः, चन्द्रचूडचरणार- विन्दपरिचरणानन्दसाम्राज्यधुरंधरः पुरन्दरो नाम ।। श्लथे नीवीबन्धे सति रहसि यत्पाणिवलना- नवोढाः पाणिभ्यामपि पिहितसप्ताष्टनयनाः। सहस्रस्याप्यक्ष्णां युगपदपिधानाक्षमतया पुनस्ताभ्यामेव खमपिदधते लोचनयुगम् ।। १८ ॥ अपि च- - लभ्यन्ते श्रुतिपाठशुष्कवदना विप्राः पदे वेधसो वैकुण्ठे तुलसीवनानि सुलभान्यााणि शुष्काणि च । प्रेता भूतगणाश्च सन्ति शतशः स्थाने भवानीपतेः रत्नान्यप्सरसः सुधेति तु पदे यस्यैव लब्धुं क्षमम् ।।१९।। विधातुं कर्माणि व्यवसितवती यत्पदफला- न्यस्यान्धा मध्ये श्रुतिरपि किमासीद्भगवती । अनुष्ठेयं कर्म स्वयमनभिसंधाय फलमि- त्ययं वन्ध्यः पन्था यदनुपदमेव प्रकटितः ॥ २० ॥ पक्षपात एकस्मिन्नधिका प्रीनिरन्यस्मिन्यूना च । राज्ञा हि निष्पक्षपातेन भवितव्यमिति धर्मः । अत एवेन्द्रः पुरा शेलेन्द्राणा पक्षं चिच्छेद । उत्सन्न- पक्षत्वे च पुनः पक्षान ते पातयिष्यन्ति । एव पक्षपातासहनमाविष्कृतमिन्द्रेण ॥
प्रथमाश्वासः ९ - आसाद्य किं बहुना- लब्धुं तत्पदमूर्जितं शतमखी तस्यैव नालं भवे- दृष्टुं तदयिताजनं दशशती तस्यैव नालं दृशाम् । वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरु- मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः ॥ २१ ॥ स कदाचिदम्वनोऽप्याचार इति बोधितः प्रातरमरवैताळि कैः, आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, विविधविद्याधरीविलासपिशुनकुमुमशयनीवलोभनीय- लतामन्दिरनिरन्तरोपान्तभुवं अधःपरिवर्तमानविकर्तनबिम्ब- निरर्गळनिर्गळदूर्ध्वमुखमयूख मर्गादुष्णीकृतामन्तरन्तः उपर्युपरि शीतलां भूतलासंस्पर्शेऽपि पुराणपुस्पचरणारविन्दसंबन्धादेव भुवनपावनीममरधुनी, निवर्तित नियमाभिषेचनः सिद्धचारण- गन्धर्वसेविते सैकते तस्याः दहराकाशपरिपूजितदिव्यलिङ्गाकृति प्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्ग, अनुसंधाय नत्र नखलिखितशरच्चन्द्रचन्द्रिकासारसुन्दरं भगवन्तं मदनान्तकं, अभिषिच्य दिव्यापगासलिलैः, अनुलिप्य रोहिणीरमणहरिणमद- पङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेयपङ्कजैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपन निसर्गचलितरश्मि- २१. नस्येव इन्द्रय व गुरुः बृहस्पति प्रतिष्ठाप्यनि । अत्र परमेश्वरस्य आवाहन ध्यान- आभषेक-गन्ध-अर्चन- धूप दीप नैवद्य-प्रदक्षिणनमस्कार-पुप्प"जलि-स्तोत्ररूपा उपचाराः कण्ठन उक्ता। अथ उद्वानन, हृदय नानन्य सम्म पुनभ्यान च ममनन्तर प्रतिपादिते ॥
नीलकण्ठविजये १० . मालाकलापेन रत्नदीपेन च. माङ्गाय सायुधाय सावरणाय साभरणाय च निवेद्य सद्यःसमाहृतनिष्पीडितेन्दुमण्डलनिष्यन्द- मानापर्युषितान्यमृतानि, प्रदक्षिणीकृत्य प्रणिपत्य प्रसाद्य पञ्चभिः प्रसूनाञ्जलिभिः, स्तुत्वा अतिशिरोभिः, कृत्वा विसर्जन, अथ स्मृत्वा चिरन्तनमात्मनि, विलासवीथीविहारकौतूहलन निर्गत्य बहिः, इतस्ततो निरन्तरालमिलदाशीर्वचोमुग्वरगीवार्णमुनिसंघ- संकुलं, अतिकोमलाङ्गलिदलाघातशोधितमृदङ्गनादभङ्गिभिः अधर- निवेशितापनीतवेणुभिः असकृदास्फालिताकृष्टवीणागुणाभिः आ- कुञ्चितऋजूकृतभ्रलतमाविष्कृतलुप्रसिराबन्धकन्धरमन्तरेव कल- मधुरमारब्धगीतिभिः द्विस्त्रिरास्फालितमव्यचरणमृदुगणितमञ्जीर- मञ्जुलाभिरप्सरोभिरारप्स्यमानतौर्यत्रिकं. अत्युद्भटवेत्रिवेत्रलता- घातविद्रावितवीथीभवदमरमण्डलं. अभितोऽपि दृष्टिगोचरसं- निधापितकरितुरगपर्यङ्किकादिनानाविधवाहनग्राममालोक्य ना. मुखं, आलोकमात्रविदितेङ्गितैराधोरणैरुपस्थापितमर्णवनिमग्नमै नाकपक्षपक्षणाभ्यर्थनायागतं हिमवन्तमिवान्नतमवदातं च कंचि- दारुह्य मतङ्गजं, अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूल- करण्डधारिण्या मेनकया, मदनमदकदु प्णमौवर्गकामिनीकटाक्ष- संसर्गनिवारणायेव मणिचामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचरमभागः, पुरोभागचलदलघुजङ्घालकरितुरग. संघजङ्घाजवद्रवदमरभटकोटिसमर्दशिथिलहारमर्दनजनितमुक्ता - परागसंबन्धादिव धवलीकृतेन ससंभ्रमवलदम्बरचरनितम्बिनी. खर्गे भवानां सौवगीणा कामिनीना कटाक्षममर्गः सौवर्गकामिनीकटाक्षससर्गः।
प्रथमाश्वासः। लोकविकीर्यमाणमन्दारकुसुमबृन्दनिःमरन्मकरन्दधारानिरासायेव कुटमुपर्युपरि धार्यमाणेन सर्वतः प्रालम्बमुक्तासरकदम्बशालितया मन्ततो निहितकुपितविधुन्तुदविकटदन्तक्षतविवरक्षरदमृतधाग- वहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य महतातपत्रेण सफलयन्ननि- मेषदृष्टिसृष्टिमम्भोजसंभवस्य, गन्धर्वकुलवाद्यमानबहुविधातोद्य- नेनादकबळीकृताशावकाशतयेव संकुलचलितमेनासंघमंकटोन्मुक्त- सेंहनादधारापथे निर्जगाम तारापथे । मञ्जीरैर्नटनाभटीमुखरितैः स्वरवामध्रुवां मन्दस्निग्धरवैश्च किन्नरकरव्यापारितैमर्दलैः । श्लाघाश्लोकशतैश्च चारणगणपोद्गीयमानैस्तदा नादब्रह्ममयीव तत्र रुरुचे नासीरसीमा हरेः॥ २२ ॥ अपि च- अग्रे पश्चादुभयत इति त्यक्तलोकव्यवस्थे दिष्टया तस्मिन्नपि परिणते सर्वतः संमुखीने । सभ्रूभङ्गं नयनवलनं सस्मितं द्रष्टुकामा भूयोऽप्यग्रे सुरपरिबृढास्तस्य पुञ्जीबभूवुः ॥ २३ ॥ गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपर- भागभासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य ज्वालाभिरिव पाटलाभिर्जटाभिरभिभवन्तमिव मुकुटमुपर्युपरि। उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयानेडि- तान्तेषु ततोऽन्यत्रापि दृश्यते ॥ इति द्वितीया । २२. रुरुचे रुची दीप्ताविति धातुः । चकाश इत्यर्थ ॥
नीलकण्ठविजय . तटित्वन्तमभिनवं शारदाम्भोदं, अपि च त्रिभुवनमुनिलोकवै लक्षण्यबोधिन्या शापमूलतपोलाभसंभवया कीर्येव त्रिपुण्ड्ररेखय परिकर्मितललाटमण्डलं, अतिप्रचण्डनिजतपोऽनलज्वालाकलाप परिप्लोषमलिनितैः प्रतिशापारैरिव पारिकाविणां रुद्राक्षमणिभि रभिवेष्टितं, सोदरशशाङ्कसंदेशहारिकाभिस्तारकाभिरिव कर्णपुटा भ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिशोभितं, अगृहीतोत्तगसङ्गं अङ्गोकृतकोपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं, अवरुन्धन्त मध्वनि मिलन्ति सिद्धबधूकुलानि, त्रामयन्तमिव कातरान् तर्जयन्तमिव शुनासीरभटानपि, गर्जन्तमिव, गायन्तमिव, नृत्य न्तमिव, स्खलन्तमिव, हमन्तमिव, हृदयारविन्दकुहरविहरदुन्मत्त शेखरभावनानैरन्तर्यादुन्मत्तमिव, स्वयमप्यवानसमस्तकामतय किंचिदप्यनादृतलोकतन्त्रानुविधान, त्रिलोचनावतारमप्यत्रिलो चनावतारसोदरं, अनसूयागर्भसंभवमप्यत्यन्तकोपनं, अतिकठि नतपाविशेषषरितोषितगौरीप्रसादसमासादितामपि कयापि विद्या धरकन्यया प्रार्थनामात्रादेव शापभीतया प्रणिपत्य समर्पितां काम कनकारविन्दमयीमम्लानमालिकामानयन्तं, आपतन्तमग्रत ए. निरगळमभिमन्व्य मुक्तमिव पाशुपतं शरमनतिलङ्घनीयतेजर दुर्वाससं नाम तापसमद्राक्षीत् । जानन्नपि तमनतिक्रमणीयतेजर त्रिभुबनेति ॥ इतरेषा मुनीनां कोपेन तपःक्षय , दुर्वासमस्तु कोप तपोवृद्धिरिति प्रसिद्धिः। पारिकांक्षी वाचयमो मुनिरित्यमर । परिधानम् । उन्मत्तपुष्प शेखरे याय उन्मत्तोवरः शिव । त्रिलोचना तारमपि परमशिवस्यावतारभूतमपि । अत्रेः लोचनात् अवतारो यस्य चन्द्र तस्य मोदरम् । अनसूया अत्रिपत्नी दुवासमो माता ॥ उत्तरासन प्रथमाश्वासः । १ . दुर्वाससं, जानन्नपि जगदेव निखिलमपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्यक्कारपरिणतां गतिं नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमर्मापि धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आ चतुराननादा च कीटपतङ्गेभ्यस्तुल्य- वदेव प्रभवन्त्या भगवत्या भवितव्यताया विलासेन त्रिभुवनाधि- पत्यमदान्धीकृतलोचनो धीमानपि सहस्रलोचनो न तं प्रत्यवरु- रोह, न तरामुपचचार गिरा, न तमां च प्रणनाम । अपि च न केवलं तमवजज्ञे, अपि तु पुनरसंभावितेनापि तेन वितीर्यमाणा- मादाय सावज्ञमेकेन पाणिना मालिकां, पश्यत एव महर्षेः, अनु- पनीय मकुटतटीमनाघ्राय चान्ततः स्कन्ध एव सिन्धुरस्य निवे- शयामास । निवेशितमात्रा च सा निसर्गनिरवग्रहेण वेतण्डेन शुण्डयाकृष्य निष्पिपिणे ।। पश्यन् पदाग्रमृदितां महता गजेन मालां प्रसादपरिपाकमयीं मृडान्याः । हस्तेन हस्तमभिहत्य स नित्यकोपः कोपारुणं मुनिरधारयदक्षिकोणम् ॥ २४ ॥ वीरभद्र इव क्रुद्धे वीरमाहेश्वरे मुनौ । इतिकर्तव्यतामूढमिन्द्रमैक्षन्त देवताः ॥ २५ ॥ तदनु च यावत्सान्त्वयितुं तदन्तिकभुवं धावन्ति मन्दीभव- काकुव्याकुलगद्गदस्तुतिवचोगुम्फा निलिम्पाः स्वयम् । - नीलकण्ठविजये तावद्देवपति शशाप कुटिलक्रूरभ्रमत्तारक- भ्रभङ्गव्यतिषङ्गदत्तभुवनातङ्को मुनिः शाङ्करः ॥२६॥ येयं त्रैलोक्यराज्यश्रीस्त्वदालम्बन चेष्टते । मैवाद्य त्वदमित्राणां वशमापद्यतामिति ॥ २७ ॥ आलम्ब्य दैन्यमसकृत्पदयोर्निपत्य संप्रार्थिता मघवता स्तुवता ततोऽयम् । शापान्तमाह कथयन्निव लोकरीत्या गोविन्द एव कुशलानि करिष्यतीति ।। २८ ॥ तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्ग- तोऽप्यतर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्ड- लेन निर्जिहानो राकाशशाङ्क इव राहुमुखे पतितः, सुरपतिः अभितःप्रमार्यमाणरोषविपादमन्दाक्षशबळकटाक्षसहस्रनियमित- व्यापारममुखरमुरजमनाहतपटह अक्कणितवीणादिवादित्रं अव- सन्नकिन्नरीगानमप्रवृत्तरम्भादिनृत्तसंरम्भं अवसितवैतालिकलोक- कोलाहलं अप्रसक्तवेत्रिहाहारवं अनाशङ्कितभटसिंहनादं अस्संग- तान्योन्यमंकथं असंभावितपीठमर्दकविदूषकालापं, अश्वहेषितेऽपि सातङ्कसादिकुल, अङ्घिविन्यासशब्देऽपि सापराधसौविदल्लजनं, अपनीतमातङ्गघण्टावलयं, आबद्धमिव मूकमिव बधिरमिव मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव. विन्यस्तमिव किचिदून पीठमर्दो हास्यप्रायो विदूषकः । इति प्रतापरुद्रीये ॥ सौविदल्लाः कञ्चुकिन. इत्यमर ॥ + प्रथमाश्वासः। १५ चित्रफलके, निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य वृत्तमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्धनियन्त्रितः शयनागार एव एव जजागार तां रजनीम् । अथ तदानीमेव गूढनिहितचारनिवेदिततापसशापवृत्ता- न्तममाकर्णनलब्धान्तरेण मन्त्रिणा भार्गवेण समादिष्टाः, दृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो दृढपरिचितानि समर- कौशलानि, सफलयिष्यन्तः साधिनानि महास्त्राणि, समुल्लिखन्तो वैरनिर्यातनप्रकारान्, अपनेष्यन्तश्चिरनिरूढमपयशोमालिन्यं, अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि शुभ- निमित्तानि, विवृण्वन्तो वीरवादान . विभजन्तः प्रतिसैन्यानि सैनिकानां, अवरुन्धन्तश्चारजनसंचारं, आसूचयन्तो गन्तव्य- पदमाप्तवर्गेषु केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्ग- दासंघट्टनमश्वोरसानां, अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अवेळनं च योधानां, अभिवन्द्य पुरोधसं, अनुमान्य योध- मुख्यान , आमन्त्र्य गुरुजनं, अनुज्ञाप्य मौहूर्तिकान् , भावयन्तः प्राचीनान् महासुरान् , पठन्तश्च तेषामेव वेदापहरणवसुधा- निमज्जनादीनि प्रचण्डानि चरितमङ्गलानि, प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाकपचेलि- मया शक्तिमत्तया च, पर्यवसाययितुमिव भूधरानङ्गुलिस्फोटेन, - तां रजनी जजागार । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया ॥ अश्वानामुर इव अश्वोरसम् । अग्राख्यायामरस इति टच् । उरःशब्दो मुख्यवाची॥
नीलकण्ठविजये मरावत्याः परिक्षेप्तुमिव मुखमारुतेन सप्त सागरान . उन्मूलयितुमिव समूलमेव पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं . व्यत्यासयितुमिव विध्यण्डमण्डलं. निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि. भङ्क्तमिव प्रभञ्जनमपि, बन्दुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि, संनयन्त्या किंचिदप्यज्ञातकार्यवि- शेषतया महामात्रकरचलनमात्रपरिज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दाकिनी संभावयितुमापतता पत्येव वाहिनीनां, महत्या सेनया साकमागत्य शाखानगरम- युगपदाहन्यमानपटहादिबहुविधवाद्यनिर्घोषपोषित- करिलोकबंहितोपबृंहितभटकोटिसिंहनादकोलाहलेन बोधयामासु- रनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् । क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन- मानातोनिनादकातरपरिक्रन्ददिगन्तद्विपम् । जातं प्रातरतर्कितागतमहातङ्कप्रमङ्गक्षण- प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्रमैन्द्रं पुरम् ।। २९ । अपि च- संरुन्धन्ति द्विषन्तो नगरमिति समायान्ति रुष्टाः पथीति प्राकारान्तः प्रविष्टा इति चलति रणो दारुणः संप्रतीति । जीवग्राहं गृहीनः सुरपतिरिति च स्वैरमज्ञातमूलाः सङ्घ सङ्घ प्रजानां नवनवमभवन् भिन्नभिन्नाः प्रवादाः ॥३०॥ ३० जीवग्राहं गृहीतः । 'ममूलाकृतजीवेपु हन्कृञ्ग्रह ' इति णमुल ॥
प्रथमाश्वासः । तत्क्षणं च युगविगमसमयसंभिद्यमानसप्तार्णवीनिनादशङ्का- वहेन कोलाहलेन नागराणामवबुध्य विद्विषामभिषेणनं, अनुल्लच- नीयतापसशापानुसंधानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करि- लोकबृंहितेन परिज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात् , उत्प्रेक्षितसमरसंरम्भया शचीदेव्या ससंभ्रमस्नेहसाध्वसोद्वेगमुप- सृत्य स्त्रीस्वभावसुलभेन कातर्येण 'मानद, मा कुरु साहसमे- वंविधं, प्रेष्यन्तां प्रेषणीयाः' इत्यभ्यर्थ्यमानोऽपि तामवधूय, परिजनवधूकरोदस्तविस्रंसमानसंव्यानपल्लवः, संरम्भशिथिलपद- क्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्घाट्यमानकवाटिका- मूलपुञ्जीभवदनुक्षणायातचारवृत्तान्तसमावेदनसंनह्यत्कुब्जवामन- जननिरन्तराळिन्दमन्तःपुरद्वारं, अनाहत्य किङ्करकरावलम्बनं, अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिका- गमनं, अनाकाङ्कथ वैनीतकानयनं, अचिभ्यामेव परिक्रामन् , अनाकर्णयन्निवृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकु- श्चिताभ्यां धूलताभ्यामाकम्पितेन च मुखेन केवलमाकर्णयन्वच- नानि चाराणां, अतिसंभ्रमोपमृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं जयन्नमवरुध्य शपथशतैरन्तःपुररक्षणाय निवेशयन्नालयद्वारि, निःसरन्नपि बहिस्ततोऽप्यतित्वरितमालय- बाह्यकक्ष्यासमानीतामाबध्य कक्ष्यां, आद्यवीथीमुखोपनीतामादाय 'यत्मेनयाभिगमनमरी तदभिषेणनम्' इत्यमरः । 'परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम' इत्यमरः । कक्ष्या कच्छपुटापरपर्याया काञ्ची । 2 नीलकण्ठविजये दम्भोळिं, अर्धपथोपनीतमवमुच्य वारवाणं, अधिगोपुरसदेशमा नीयमानमारुह्य मातलिसनाथं रथं, अतिलङ्घय संकुलचलदमर भटसंघसंकट दुर्गमं गोपुरद्वारं, अतिक्रम्य निजमपि नासीरं अवगाहमानो दानवचमूं, अलङ्घनीयवचनैरहप्रथमिकाप्रतिज्ञात विजयैर्दिक्पतिभिर्निरुध्यमानः, चन्द्रोदयारम्भसमुज्जृम्भितसागर इव वेलानियन्त्रितः, क्षणादुद्रीविकाभिलक्ष्यमाणदुर्निग्रहसमराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ॥ भीमं भीमेन तस्याथ सैन्यं सैन्येन विद्विषाम् । समगच्छत कल्पान्ते सागरेणेव सागरः ॥ ३१ ॥ किच यावज्ज्यावलयावलीढशिखरक्रूरप्रकारध्वन- चापव्यापृतपाणिभिः स्थपुटितं नासीरमासीद्भटैः। तावद्देवपतिः क्व दानवपतिः केति प्रवृत्तैः क्रुधा सेनारक्षिभिरेव तत्र महते युद्धाय बद्धा मतिः ॥ ३२ ॥ तदनु शुनासीर एव स्वनासीरमुपेयुषि, चिरभुक्तभर्तृ- पिण्डानृण्यसंपादनावसरलाभसंभावितोत्साहतया तृणीकृत्य जी- वितानि विमतबलानीव, विधूय समरभयं विकोशानीव शस्त्रास्त्र- मण्डलानि, विस्मृत्य भर्तृविमाननाः कादाचित्कीः पुत्रदारपरि- भवानिव, मनागप्यनपेक्ष्य जयश्रियमनुपतन्तीमिव मित्रवरूथिनी, - वेला समुद्रतीर कालश्च । अयातिष्ठत 'समवप्रविभ्यः स्थ' इत्यात्मनेपदम् । समगच्छत 'समो गम्यृच्छिभ्याम्' इत्यात्मनेपदम् । .
प्रथमाश्वासः। १९ होष्यन्तः शरानलार्चिषि शरीराणि, चेष्यन्तः शरदिन्दुसुन्द- गणि यशःकन्दळानि, महिषानिव मतङ्गजान , सारमेयानिव सैन्धवान् , पांसुकणानिव पदातिगणान् , मशकानिव महारथि- कान् , कुसुमविहारानिव कुन्ततोमरमुद्गरप्रहारान् , पटवासवृष्टि- मिव बाणवृष्टिमपि मन्यमानाः, हन्यमाना अपि हर्षाट्टहास- मुखराः, नखरायुधा इव हरिणार्भकेषु, नागान्तका इव राजिलेषु, दन्तावळा इव कदळीवनेषु, दावानला इव जीर्ण- शल्मलीगुल्मेषु, निःशङ्कमवगाहमाना दानवेषु, प्रहरन्तः परश्वधैः, कृन्तन्तः कुन्तैः, निपातयन्तः कृपाणिकाभिः, अभिनन्तः शतन्नीभिः, खण्डयन्तो भिण्डि पालैः, अवकिरन्तः शरजालैः, अपविध्यन्तः शक्तिशूलैः, भिण्वन्तः क्षेपणिकाभिः, अवबघ्नन्तः पाशैः, अभिमृद्गन्तः परिघेः, आकर्षन्तो लाङ्गलैः, आविध्यन्तो मुसलैः, अपहरन्तो जयध्वजान्, अवमिन्दन्तो वारवा- णान , विच्छिन्दन्तो धनुर्गुणान् , विस्रंसयन्तः सारथीन् , प्रवर्तयन्तो रक्तवाहिनीः, परितोपयन्तः कटपूतनाः, लिम्पन्तः शरीराणि रक्तधाराभिः, आवेष्टयन्तः करेष्वान्त्रमालिकाः, परिका- मन्तो मुण्डमण्डलेषु, परिस्खलन्तः कबन्धेषु, अपश्यन्तः पुत्रानपि रणे हतान , अतृप्यन्तो यूथंयूथमपि निपात्य प्रतिभटान , अप्र- तिभटा विबुधटाः साफल्यमनैषुरक्षिसाहस्रममरपतेः । आदिश्य च ततः शतमन्युरन्तकमग्रतः सेनामुखे, पार्श्वयोरम्य पवनपावको, पृष्ठतः स्वस्य पुण्यजनेश्वरं, अन्तिक एव धनदमाहवशूरान् , कटपूतनाः पिशाचविशेषाः ।
नाएप.नगम सभाजयितुं, अध्वनि शिबिरे च विद्विषामपांपति, आयुधक्षतान भिषजयितुमाश्विनेयौ, निशीथयोधिनीनां वैरिवरूथिनीनां निशैव मा भूदिति सन्ततवासरभावाय सहस्रभानुमप्यभितः प्रकाशितुं, प्रतीक्षमाणोऽपि जयश्रिय, परिशङ्कमानश्चेतसि तापसशापविपा- कमाकस्मिकं, किगप्यळीकनभोविभागसीमाधिपत्यलक्षणां लक्ष्मी. मुद्दिश्य कलहायमानयोरमरासुरवाहिन्योरज्ञानविजृम्भितोपालम्भ- संभवमट्टहासमिव परमेष्ठिनो घनस्तनितमनभ्र एव दारुण- मशृणोत् । प्रहितोऽपि सेनामुखे पवनः पदे पदे यदावेद्यमावे- दयितुमाववृते तदेव तस्य प्रतिकूलपवनलक्षणं दुनिमित्तं परिणेमे अयंसत च करादस्य दम्भोलिः, तदप्यायुधविषेसनमशनिपतनं चेति द्वेधा बभूव दुश्शकुनम् ॥ अत्रान्तरे रणहतोभयसैन्ययोध- निर्मिन्नमण्डलतया तपनः समन्तात् । उद्दामदानवधनुर्गळदुत्प्रबन्ध- नाराचदारिततया च शनैस्तिरोऽभूत् ।। ३३ ॥ अतिप्रबन्धादिषुजालवृष्टरपक्रमाच्च द्युमणेरकाण्डे । आसीत्तमिस्रा जयदा रिपूणां पचेलिमा भाग्यपरम्परेव ॥ ३४॥ तत्क्षणं च पुनरनुक्षणोपचीयमानममरबलं, अपक्षीयमाण- मात्मबलं च निरीक्षितुमप्यतितिक्षवः, तरक्षव इव बुभुक्षिताः, दन्दशूका इव दण्डघट्टिताः, बलिबाणशम्बरजम्भनमुचिविरोचन- प्रथमाश्वासः । २१ मुखा महासुराः सरभसमवमुच्य वारवाणं, अवबध्य गोधाङ्गुलि. त्राणं, अपिनह्य निषङ्गमक्षयशरपूरितोत्सङ्गं, अधिरुह्य शता- ङ्गमायोजितखरतुरङ्ग, आवध्य निटिलेषु भ्रुकुटीविभङ्ग, आसेव्य वीरपाणं, आलम्ब्य संशप्तकव्रतं, अनुज्ञाप्य परस्परं, आपूरयन्तो दिङ्मुखानि गुणध्वनिभिः, अपभ्रंशयन्तो गगनतलादुडून्यट्ट- हासैः, विसंज्ञयन्तः खड्गविच्छुरणेन वीक्षितुमागतानि सिद्ध- चारणमण्डलानि, विस्मापयन्तः समरसंरम्भेणैव कर्मन्दिनमपि कलहानन्दिनं, उत्सारयन्तः पादातमूरुवेगेन, परिचूर्णयन्तो रथान् परिघाभिघातैः, विद्रावयन्तो हयान् करताळिकाभिः, विघूर्णयन्तो मतङ्गजानङ्गुलीयन्त्रणेन, संवर्तमारुतावर्तितसागर- गर्नदुर्दर्शवक्त्रविवरोल्लसल्लेलिहाननिजरसनावलोकनजनितसाध्वस- ध्वस्तचेतनमासाद्य सेनामुखे निविष्टमन्तकं, अपहृत्य तदीयमेव कालदण्डममोघं अभिहत्य तेनैव तं, आदिम जयमापेदिरे ।। कालदण्डहतस्यास्य कण्ठे प्राणा जुघूर्णिरे । अन्तकं यद्धतं नेतुमन्तकोऽन्यो न विद्यते ॥ ३५ ॥ पार्श्वतस्तस्य परे केचिदतिचिरोपरोधसंवर्धितप्रतिघानल- व्यतिकरविशेपभापणज्वालाकलापदुरापमपि परिवृत्य जातवेदसं, प्रशमय्य परुपहुंकारभयकरैर्मुखमारुतैरस्य दुःसहं ज्योतिः, अपकृष्य वाहनं मेघमग्रचरणग्राहं, आहृत्य शक्तिमपि बलादस्य हस्ततलान् , 'अरे रे लब्धोऽयमन्नहरः क्रतुभुजां हव्यवाहो नाम संशप्तकास्तु ममयात्संग्रामादनिवर्तिनः ।
नालकण्ठविजय निर्जरापशदः, तदद्य निर्वापयतैनमुदकुम्भैः. निक्षिपतैनमा- पूपिकानां वशे महानसेषु, मैवं मैवमुद्बोधयतैनमुचितैर्मुखमारुतैः, हस्ते कुरुत चैनमद्यैव दग्धुममरावती, परित्यजत रे रे बालिश! बाडवोऽयं शिख प्रदर्शयनि' इति परिहसन्तः परिक्षिपन्त- स्तर्जयन्तस्ताडयन्तश्च पलाययामासुरसुरभटाः। ततः समित्याहित- मसुरभटैस्तबल हतमालक्ष्य सख्युराशुशुक्षणेः, क्षणेन सज्जीभूय भूयसा बैंगन मव्यापसव्यानि संचरन्मण्डलानि, चण्डलाघ- वोरिक्षातरुकाण्डपण्डमाहिण्डमानोपलखण्डताण्डवोदण्डं, अतिसं. भ्रमभ्रमितपांसुमांसलतृणपूलमंघसंगनकङ्कगृध्रवाय सादिविहङ्गम, अतिविशङ्कटशंकर त्रिरोबटिनविकट जटाजूटसंकटभ्रमभ्रारिजल- निर्झरझळझळघोपभीषणझकारसुखरिननभोविभागं, आलम्ब्य युग. विगमोचिन रू. आपतन्नसुरखलं, विचूर्णयन् जीर्णपर्णमिव दिक्षु विदिक्षु चाश्वीयं, अचूर्णयन् स्थषण्डमारण्यमिव तरुकाण्ड अवकिरन्नुपलबण्डानिव मदोचण्डानपि वेतण्डान , अन्धीकुर्वन पदातिजानं, अवरुन्धन सेनापतीन , परावर्तयन्नस्त्रशस्त्राणि, प्रभञ्ज- यन्नजसैत्र जयध्वजान , परिवलयन्महासुरानपि, संवर्त इव मारुतः समरसीमनि सर्वतोऽन्यक्रमेण पराचक्रमे । यावदित्थम- स्पन्दत गन्धवाइः. तावदावर्तितलोचनो विरोचनः, प्रकटित- समराडम्वरः शम्वरः, मावष्टम्भो जम्भः, समरमदोल्वणो बाणः, संग्रामैकरुचिर्नमुचिः, अतिवली च बलिः, आलक्ष्य वक्त्राणि बाडवः ब्राह्मणः आवाग्निश्च । आग्निश्च । 'अत्याहित महाभीतिः' इत्यमरः । अश्वीय अश्वनमूहः। पराचक्रमे उपपराभ्यामित्यात्मनेपदम् ।
प्रथमाश्वासः। २३ परस्परं, ईषदिव स्मयमानाः, विस्मयमानाः पराक्रमे विबुधाना- मिदमूचिरे ! हन्त कथममरा अपि पराक्रमन्ते, तेषु च दूत्यो- चितसंचारमन्थरः श्वा मातरिश्वा॥ संरुन्धते निभृतमन्तरपि द्विजा य- मन्नं यमाहुरपि कीटसरीसृपाणाम् । यो जायते शिथिलशूर्पपरिभ्रमैर- प्योजायते कथमसावपि गन्धयाहः ॥ ३६॥ अथवा नैनावदस्मिन्नभिनिवेष्टव्यमस्माभिः। अनुकूल एव खल्वयमस्माकमाशुगानलज्वालासंधुक्षणे सर्वथापि ॥ यश्चेष्टतेऽवकाशेषु ये चाप्येनं समाश्रिताः। निरन्धीमहि तान् सर्वान्नीरन्ध्रे शरपञ्जरे ॥ ३७॥ इति कतिपये दैत्या वात्यानिबर्हणकौतुका- द्धनुरनुगुणं यावज्ज्यावल्लिभिः मह युञ्जते । प्रसभमभितस्तावत्सावज्ञदैत्यभटोज्झिता दिशि दिशि जगत्प्राणप्राणच्छिदो न्यपतञ्छराः॥३८॥ वाय्वर्कशक्रवरुणानलदैवतान्य- प्यत्राणि निर्जरवरैरभिमन्त्रितानि । ईशांबभूवुरसुरेषु न शासनानि राज्यच्युतस्य नृपतेरिव नागरेषु ॥ ३९ ॥ ३६. ओजायते ओजस्वीवाचरति ।
नालकण्ठावजय दनुजभुजविकृष्टकोदण्डदण्डोपसंपातुक- ज्वलदनलदुरापनाराचधारासमीराहताः। युगविगमसमुच्चलच्चण्डचण्डीशभूपोरग- प्रतिभयमुखवातजातां दशामुजगुर्निर्जराः ॥ ४० ।। प्रचण्डे च बलति पवमाने, तूलवदुत्सार्यमाणेषु दूरत एव वारिधरेषु, सागरानपि शोषयतस्तस्य सनीडमागन्तुमनीहमानेषु च यादोगणेषु, स्वात्मैकशेषतया भग्नचेताः प्रचेताः, प्राकृतलोक- साधारणस्तटस्थ एव बहिरवतस्थे । अपि च रिपुचमूसमूहस. मुत्सृज्यमानशरवर्षधर्पितषु वर्मसु, भिद्यमानेषु चर्मसु, कर्मदेवाः 'कस्मादयमस्माकमाकस्मिको बुद्धिविपर्ययः, कस्मै वयमसुरैयुध्या- महे, कस्य हेतोर्वध्यामहे, बुध्यामहे न हेतुमस्मिन्नायासे, के नो देवाः के च नो दानवा., सभृत्य तपांसि दुश्चराणि संप्राप्ता वयममरपदं, केन शक्या निग्रहीतुं, केन शक्या अनुग्रहीतुं, अधिष्ठास्यति यः स्वर्ग, अतिथयस्तस्य वयं भवाम' इति कृतनिश्चयाः संमन्त्र्य परस्परं सघशोऽपचक्रमुः समन्ततोऽपि समरमुखात् । अथ ये केचिदाहवमखे हुतशरीरा दनुजवीरा देव- भावमापद्य दिवमारूढा गूढाभिसंधयस्ते किल सहृदया इव कंचित्कालमहृदया एव परिक्रम्य, परिज्ञातमर्माणः सर्वतो निर्वा- पयामासुरतर्किता एव गीर्वाणबलम् । अपसरतः कर्मदेवान , अभिन्नतो दैत्यदेवान् , आपततः शरानाशीविषानिव दृष्टिविषान् , उत्सर्पतो विशृङ्खलमसुरभटानुल्लखितवेलानिव कल्लोलान्महोदधेः, सनीडं समीपम् ।
प्रथमाश्वासः। २५ , अप्रभवतः सेनापतीन् , अप्रतिपत्तिमूढमपि पश्यन्तः स्वामिनं, अपश्यन्तस्त्रातारं, अवशा देवमुनिशापतेजसा प्रविश्य हृद- यानि प्रक्षोभ्यमाणाः, स्तब्धा इव, मुग्धा इव, दग्धा इव विषा- नलैः, दिग्धा इव मोहनचूर्णैः, लुब्धाः परं जीवितेषु, लब्धामपि जयश्रियं चिरादीपद्विवेकसुनियन्त्रणेन क्षणिकदुमन्त्रणेन विनाश- यन्तः, पश्यन्तोऽप्यचक्षुषः, शृण्वन्तोऽपि बधिराः, जानन्तोऽपि जडाः, परिगृहीता इव दुर्यशसा, परिष्वक्ता इव भाग्यविपर्ययेन, विस्मृत्य कुलशीलानि, विसृज्य निःशेषमपत्रपां, अवरोप्य निषगं, आवेशयन्तः पृष्ठतो बुद्धिं, अवमुच्य जयायुधानि, आददाना भिक्षाकपालानि पाणिभिः, आसर्गादा च महाप्रळयादध्वरहवि. भिरेव द्विजन्मनामविश्रान्तपरिपुष्टतयेव, प्राप्ते समरे सायुधाश्च, सवाहनाश्च सैकता इव मेतवः, सर्वतोऽपि विजघटिरे विबुध. भटाः॥ धावदेवतयोधयूथपदवीसंरोधकौतूहल- क्रामड्डामरघोरवैरिपरिषन्नासीरसीमोद्भवैः । भेरीभांकरणैरमर्त्यनगरीसंवर्तमौहर्तिकः संभ्रान्ताः प्रतिपेदिरे युधि निवृत्ताशा दिगीशा दिशः ॥ ल्मीकेष्वहयो वसन्ति मुनयो घोराः समीराशनाः कान्तारेषु च कन्दरेषु लवणे सिन्धौ क्व वातस्थितिः । आक्रान्ते भुवने परैस्तृणमपि स्प्रष्टुं न शक्यं मया किं कर्तव्यमिति व्यलीयत जवादैत्याशुगेष्वाशुगः ॥४२ ।।
नीलकण्ठविजये
मास
--
अनन्तरमित्थमतर्कितमानिमित्तमपध्वंसमानमसुरबलमभि-
तोऽपि विप्रकीर्णमिव भुवि निपत्य गगनतलं परिवहदिद
भिन्नमर्यादमर्णवस्रोतः, शतशः परीक्षितमपि सौहार्दे सहस्रश
गृहीतजयमपि समरसंमते, कदाप्यशिक्षितायुधग्रहमिव अनाक
र्णितसंग्रामसंकथमिव, वायसयूथमिव, वानरानीकमिव, केरळ
सैन्यमिव, ग्रामपालक जालमिक,
करताळिकामात्रकातरममर्त्य
बलमन्यालोकयन् , दशभिः शतैरक्ष्णां वामकः स्वयमेवमालोचया
। अहो दुर्वाससो ब्राह्मण्य, अहो निगमागमप्रामाण्य
अहो पाशुपतषु माहात्म्यं, अहो दुर्निमित्तेपु याथार्थ्य, अह
कर्मपरिणतेः प्राबल्यं, अहो देहपु श्रियश्चाञ्चल्लं, अहो पुरुष
कारस्य वैफल्यं, अहो परमेष्टिनः कौशल्य, आहवो नाम किय
नयं, असुरा नाम कियन्त इमे. कीडशा: पलायन्ने, कीदृश
पराक्रमन्ते, कि बन्धुभिः, किं सचिवैः, किं बलेन, कि धनेन
किमनेन दम्भोळिना, किमन्तताऽपि मया, कथं दवा दाग
कथं दृश्याः पौगः, किमिनो निहतेन जीवितेन, किं करिष्या
विपरीता विधिरितोऽपि, न चिकीपामि सौवर्गमाधिपत्यं,
जिहीर्षामि दानवानामौद्धत्यं, यावदीहशोऽहं न कम्यचिदा
गोचरे पतेयं तावदस्मिन्नव समरे तनुं त्यजामीति मन
पुरश्चरन् शचीपतिरशृणोदन्तरिक्षगां वाणीम ।।
अहो ते शक्र धीमान्द्यमग्रे भाव्यं किलान्यथा ।
अन्तर्धेहि रणादसादन्तर्धेहि च मद्गिरम् ॥ ४३ ॥
प्रथमाश्वासः। " इत्याकाशमिरा शक्रो मत्या च क्रूरया खया । यावड्डोलायते तावदागत्याबोधयद्गुरुः ॥ ४४ ॥ हन्त कथमेतदमरपते धीमतोऽपि ते दुर्व्यवसितम् । अवि- दितं न ते वदितव्यं, अवशेषितं वा गुरूणामुपासनं, कि न जानानि भवितव्यनां, किं वाभिमन्यसे जयश्रियो नैयत्यम् । ननु श्रूयत एव पुराणेषु भवता, यत्किल मालिसुमालिसगरे महति परिवर्तमाने पराचीने पतगपती भगवतापि पराववृते । अन्धकेन किलेदमधिष्ठितं त्रैलोक्यम् । विध्यण्डान्येव कियन्ति विजितानि तार केण । तदलमनुस्मर शापान्तवचनमत्याश्रमस्य मुनेः । भवयुरपि कदाचिदन्यथा भापितानि महेश्वरस्य, न तु जातु माहेश्वराणाम् । यत्पुरोदितं गोविन्द एवं कुशलानि करि- ष्यतीति महर्षिणा, तदनूदितमग्रे भवितव्यमन्यथेत्यधुना पर- मेष्ठिना । तदेहि कंचित्कालसन्तर्हिता एक कचिदाब साम इत्य- नुशिष्य शिष्यमन्तर्धाप्य स्वयोगमायया तिरोदधे स्वयमपि देशिको देवतानाम ॥ विद्राणे वरुणे गते हुतवहे वैवखते मूर्च्छिते सद्यो लोचनगोचरादपगते संक्रन्दनस्यन्दने । संवर्तव्यतिषक्तसप्तजलधिस्रोतःप्रभूतध्वनि- स्फारः कोऽपि बभूव दानवबले हर्षाट्टहासध्वनिः ॥४५।। चकितपलायितस्खलितमूच्छितनिष्पतित- क्षतविबुधानुधावननिषेधिमहारथिकम् ।
नालकावजय विजहि जहीहि पाहि निगृहाण गृहाण हरे- त्युपचितनादमेदुरमवर्तत दैत्यबलम् ॥ ४६ ॥ अपिच- आवृत्यावर्तयन्तो दिशि दिशि तुरगान्वारणान्वारयन्तो मुष्णन्तो भूषणानि प्रसभमभिनिपत्यायुधान्याहरन्तः । नन्तः मंतर्जयन्तः पथि पथि विबुधान्मुक्तकेशान्दिगीशा- नभ्येत्यामन्त्रयन्तः प्रजहसुरसुराः सर्वतो निर्विशङ्कम् ॥४७॥ किंच- शस्त्राशस्त्रिक्षतपतिसुतालोकशोकावलुप्त- प्राणस्त्रैणव्रजमशरणध्वस्तलुप्तापणान्तम् । धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध- भ्राम्यत्पौर नगरमभवज्जर्जरं निर्जराणाम् ।। ४८॥ ततो मुहूर्तादेव मूर्ता इव कोपानलविस्फुलिङ्गा मुनेर्बलि- मुखा मखद्विपः पराक्रमेण महता परिक्रामन्तस्तिरोहिते मरुत्वति द्रागेव रणमूर्धनि पलायित इति प्रमीत इति प्रविष्टोऽमरावती- मिति च तादात्विकैः प्रवादभेदैस्तत्वमनवबुध्यमाना अपि, भवतु नाम सर्वथैव वयं प्रविशेम तावदमरावती, परिशोधयेम ततः प्रवृत्ति शचीपतेः, अपहरेम सुरकामिनीः, अवस्कन्देम कोशमन्दिरं, अधितिष्ठेम सुधर्मा, आक्रामेम त्रैलोक्यमिति शस्त्रेण शस्त्रेण प्रहृत्य प्रवृत्तमिदं युद्धं शस्त्राशस्त्रि । स्त्रीणां समूहः स्त्रैणम् । ४८.
प्रथमाश्वासः । , . तानां, अपमार्जयन्तः सुरपरी अग्रीचाग्राही २९ कृतनिश्चयाः, कल्पद्रुमा बलेः, कामधेनुर्बाणस्य, हास्तिकं नमुचेः, अश्वीयं शम्बरस्य, चिन्तामणिर्जम्भस्य, विलासिन्यो विरोचनस्य, वारुणं पदमस्य, वायवीयं तस्य, वैश्रवणीयममुष्य, वैश्वानरी- यमेतस्य, प्रविष्टं प्रवेष्टुः, अपहृत्य लब्धमपहर्तुः, प्रहृत्य लब्धं प्रहर्तुः, आलोकितुरालोकित, उपायवक्तुरर्ध, साधकस्य तदर्ध, समसमयप्रवृत्तयोस्तु साधारणं वस्तु, परतस्तु यथारुचि परस्परच्छन्देनेति समयबन्धेन पर्यवस्थाप्य पताकिनी, आरुह्य मतङ्गजानत्युन्नतान् , आलोकयन्तो नगरोपशल्यानि, प्रशं. सन्तः प्राकारदुर्गसामग्री, परिहसन्तो बुद्धिलाघवं प्रतिद्वन्द्विनां, निर्दया विपक्षजातीयेषु, निर्विशङ्का दुर्गगुल्मेषु, ग्राहयन्तो वधू- दर्श, घातयन्तः पुरुषदर्श, आकर्णयन्तः कर्णामृतान्याक्रन्दितानि नाकसदां, हसन्तो दर्शदर्शमशरणान्वध्यमानान् , कुप्यन्तो दया- लुषु, कुतूहलिनो दारुणेषु, विसर्जयन्तो नैरृतीयान् जात्यभिमानेन, विद्रावयन्तः कर्मदेवानट्टहासैः, उन्माथयन्तो गोपुरद्वारं, उल्लच- यन्तः प्राकारं, अपश्यन्तः शरणागतान , अशृण्वन्तो याच्याक्ष- राणि सुरीणां, आज्ञापयन्तो जिह्वाच्छेन्शनाखतोहि काला, चर- णावकर्तनं चाराणां, चपेटाघातम मनमोहतकानां, अङ्गुलिच्छेद- मक्षरलेखिनां, आस्यविदारणा भञ्जयन्तः प्रतिमा देव- मानरक्तधारावसिक्तं, +15 हस्तिनां समूहः हास्तिकम् । ग्रामन्तिमुपशल्यं स्यादित्यमर । मिव दृष्ट्वा वधूदर्शम् । पुरुषमिव दृष्ट्वा पुरुषदर्शम् । दर्श दर्श पुनः पुनदृष्ट्वा । IRU V3A वधू- संमृष्टं, अनुपददह्यमानदेवतागारधूमधूपितं, अपकृष्यमाणकुल- पालिकाजनाहन्यमानमुखवाद्यनादमेदुरं, अपहृतसर्वस्वदीनजना- क्रोशजयाशीर्वचोमुखरं, आकस्मिकपतदशनिनिर्घोषनिवर्तितलोह- यन्त्रनिनादमङ्गळ, अभितःपतदुल्कासहस्रदीपमालापरिष्कृतमनु- प्रविश्य नगरं, अभिवन्द्य पुरोधसं भार्गवं, अपक्रान्तहर्यक्षमेरु- गुहासधर्मा सुधर्मामध्यासांचक्रिरे । आसीनाः क्षणममरसभान्तरे, परिष्वज्यमानाः परस्परं, प्रशस्यमाना वन्दिमागधैः, अभिनन्द्य- मानाः कुलवृद्धैः, अनुगृह्यमाणा भार्गवेण, निष्क्रम्य ततो बहि- रचिरपरिगृहीतविजयेन्दिरापरिरम्भसंभृतकुचकुम्भकुमोदैरिव सेनारजोभिरभिरञ्जिताः, निरङ्कुशचंक्रम्यमाणविशृङ्खलदैत्यसंघ- बाहावलोन्मुक्तहाहारवमालक्ष्य सर्वतो नगरं, उल्लोलजलधिकल्लोल- हल्लोहलशमनशीलया वेलयेव तनीयस्या विरमतेति कयाचिदे- वाज्ञया चिरलब्धसुस्थमिव पर्यवस्थाप्य नगरं, क्षणादाघोपयामा- सुरास्कन्दनोपरमजयकाहळीम् । आदिष्टाश्च दिक्पालपदेष्वसुर- वराः स्वयमनतिक्रामन्तो धर्ममौशनसं, अनुल्लङ्घमाना बलेः शासनं, अनुवर्तमाना हिरण्याक्षदर्शितां सरणि, अवलुम्पन्तो वैदिकं पन्थानं, अप्रमत्ताः स्वं स्वमधिकारमनुपालयांचक्रिरे ।। . देवद्विषश्चिरतरं निरयेषु मना- नुत्तार्य दैवतपदेषु निवेशयन्तः। रक्षोनमन्त्रकुशलाञ्छतशो महर्षीन् प्रत्यक्षिपन्नरकवेश्मसु दैत्यदूताः ॥ ४९ ।।
प्रथमाश्वासः। ब्रह्मर्षयोऽपि दनुजेन्द्रसभां प्रविष्टा मन्त्राक्षराणि मघवादिपदाङ्कितानि । ऊहेन दानवपदान्युपवेशयन्तो हर्षाय पेठुरसुरेन्द्रपुरोहितानाम् ॥ ५० ॥ विद्वांसः प्रथमेऽभवन्विवसनाः सौत्रान्तिकाः साधवो मुख्या माध्यमिकास्त्रिलोकगुरवश्चार्वाकतन्त्रे स्थिताः । पाषण्डा निगमागमव्यसनिनः कालः कलिः शाश्वतो दैत्ये शासति देवराज्यमजनि त्रैलोक्यमित्थं तदा ॥५१॥ अपक्रान्तश्च तदा शचीपतिः, अभिगम्य सह सर्वैः सुपर्व- भिरखिलभुवनसुन्दरं मन्दरं शैलमनुज्ञया बृहस्पतेः अन्तर्हित एव कतिचिदतिबाहयामास वर्षगणान् ।। इति श्रीमद्भरद्वाजकुलजलधिनास्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक- शतप्रबन्धनिर्वाह कश्रीमन्महाव्रत याजिश्रीमदप्पय दीक्षित- सौदर्यश्रीमदाचान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये प्रथम आश्वासः ॥ ५०. ऊहो नाम प्रकृतावन्यथा दृष्टस्य मन्त्रस्य विकृतावन्यथाभावः । यथा-प्रकृतावाग्नेयचरुनिर्वापे विनियुक्तस्य 'अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रस्य विकृतौ सूर्यचरौ 'सूर्याय त्वा जुष्ट निर्वपामि' इत्यूह । एवं 'इन्द्राय खाहा वरुणाय स्वाहा प्रजापतये स्वाहा' इत्यादिमन्त्राणा 'हिरण्याय स्वाहा बलये स्वाहा नमुचये स्वाहा' इत्यादिविपरिणामेन ब्रह्मर्षिभिरूहः कृत ॥ ५१. विवसनाः (दिगम्बरा.) मौत्रान्तिका माध्यमिकाश्च बौद्धविशेषाः ॥
द्वितीयाश्वासः। ततः शतमखादयो युधि विरोधिभिनिर्जितां श्रियं पुनरभीप्सवः ऋतुभुजो भुजोपार्जिताम् । विचित्रमणिसुन्दरं विपुलकन्दरं मन्दरं समेत्य तपसानयन्निमिषवत्सहस्रं समाः॥१॥ तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूत. मुखेन दानवेषु. अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थ- नयाप्यसंमन्यमानेषु शास्त्रैकशरणेषु तापसेषु, तप्यमानाः क्षुधा विबुधाः, हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युप- युञ्जानाः कालं महान्तमतिवाहयांचक्रिरे । अपरे पुनः के चिदतिवेलश्रद्धामात्रशरणानधिगम्य मूर्खान् अमुनैव शरीरेण दिवमारोपयामो भवतः सबान्धवान् , अत्रैवानीय दर्शयिष्यामः सुरसुन्दरीरिति प्रलोभयन्तः, पशुपक्षिसुराकुम्भपायसापूपप्रचु- रानलभन्त महोपहारान् । अपि च पुनरवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य 'कि कुर्वन्ति दानवाः, किं वदन्यस्मान् कथा. प्रसङ्गेषु, किमितिवृत्तमेषामनुमतं पितामहेन, किं वा न तदव- तीर्णमद्यापि तस्य कर्णपथं, किमाहुरसुरमौहूर्तिकाः, कीशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं, उद्वान्तश्चतुर्दन्त इति श्रुतं, उच्चैःश्रवसः प्रवृत्तिमेव नोपलभामहे' चतुर्दन्तः ऐरावतः। उद्वान्तः निर्मदः। 'समावुद्वान्तनिर्मदौ' इत्यमरः ।
द्वितीयाश्वासः । इत्यनुयुञ्जानाश्चकितचकितमवलोक्य समन्ततः, किंच ब्रह्मलोक- गमनोचितान्महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत प्रसङ्गेन नः कष्टामिमां दशां भगवति पिता- महे, न विस्मरतास्मदभ्यर्थनामध्यात्मविचारव्यासङ्गेनेत्युद्धो- धयन्तः, स्वयमस्वप्नतया स्वप्नदृशस्तपोधनान् परिपृच्छन्तः पर्य- वसानं मुनिशापस्य, निन्दन्तः स्वानि जन्मानि, निःश्वसन्तो दीर्घमुष्णं च मुहुर्मुहुः, वलाहकमिव चातकाः, वाचस्पतेरागमन- माकाङ्क्षन्तश्चिरमवतस्थिरे ।। अत्रान्तरे सुरगुरुर्दुरितं सुराणा- मल्पावशेषमवयन्प्रणिधानयोगात् । अभ्येत्य निर्जरवरैरभिवन्द्य भक्त्या पर्यावृतः सदसि किंचिदिदं बभाषे ।। २ ॥ 'दिष्टया कुशलिनो वश्चिराद्राक्षम् । दिष्टथा चोत्तीर्ण- प्रायोऽयमापदर्णवः । दिष्टया च दुर्लभमिदं तपोवनमहो भवद्भि- रासादितम् । वाराणसीव भारते वर्षे दयितं गौरीदयितस्य पर- मभिदमेवायतनमिळावृते । आरसातलादा च शान्त्यतीतकला- स्वप्नदृशः स्वप्नाध्यायविदः ॥ २. अवयन् अवपूर्वक-इण धातोः शत्रन्नप्रयोगः ॥ निवृत्ति-प्रतिष्ठा-विद्या-शान्ति-अतीतशान्तय कलाः क्रमेण पृथिव्यप्तेजो- मरुदाकाशेषु पर्यवस्थिताः। तदुक्तम-भूमौ निवृत्तिरुदिता पयसि प्रतिष्ठा विद्याऽनले मरुति शान्तिरतीतशान्तिः। व्याम्नीति याः किल कलाः कलयन्ति 3 লাভ . भवनानन्ति मदन्ति स्थानानि सर्वागसविदिनानि परशा नानि भवानीपतेः । न तु अन्दर इक तस्य दृशां न किचन सुन्दर- मन्यदायतनम् । अन्यन्न पञ्चतपसोऽपि सुनेराज उथेषु शांभवेषु खैरचारी विशिष्यत इति श्रुतमेव भवद्भिरपि वृद्धनखात् । अमृतप्राप्तिहेतुश्चायनस्मादृशाभिव भाकाहानि लाजः । कि बहुना-- कालोऽत्यगादशुभहेतुरुपस्थितं वः कल्याणमद्य न चिरादिति भामते नः । उत्तिष्ठतोच्चलत याम तु धाम धातु- रुष्ट्रासिकाभिरधुना किमनर्थिकाभिः ।।३॥ इति प्रवृत्तया भाविमहासंविधानलभ्ययापि भाग्यवशाद- धुनैव स्वतो लब्धया सुधयेव वाचा वाचस्पतेराप्यायितः सुरपति- रिदमाचचक्षे--- 'अचैतत्पावनमजनि तपोवनं, अद्य नस्तपांसि परिपेचिरे, प्रशेमुरद्य नः कलुषाणि, पर्युपास्थिषत मङ्गलानि, परथा कथं भवदीयानां पात्रीभवेम शासनाक्षराणाम् ॥ विश्वं तासा हि दूरतरमम्ब पद त्वदीयम् ॥ शान्ति शान्तिनामकलामतीता अतिक्रान्ता शान्त्यतीता । तस्या. कलाया भवनं आकाशं, रामव्याप्य आ शान्त्यतीतकलाभवनात् । अन्यत्रेति ॥ शिवक्षेत्रेषु खैरचारस्य फलमाह सूतहिताया लिव- माहात्म्यखण्डे चिदम्बरमाहात्म्ये--अन्यत्र पञ्चतपसो मुलेबीताशनादपि । श्रीमदृक्षिणकैलासे खरचारी विशिष्यते ॥ इति ॥ अमृतस्य मोक्षस्य सुधायाश्च प्राप्तिहेतुः। अयं मन्दरपर्वतः । अम्मादृशा अधीतश्रुत्सन्ताना ब्राह्मणानामिव । भवादृशा देवानामपि ॥
द्वितीयाश्वासः ३५ चेतो यद्भवतश्चिरंतनवचासंदर्भगर्भस्थिते वरतुन्यस्तमितप्रपञ्चमलिनिम्न्यामज्जमामजति । तहुर्मोचतमोविमोहितमतिष्वस्मास्वकसादिदं सक्तं यत्पशुषु द्विपात्खपि नतो धन्या वयं न्यायतः॥४॥ कि यहुना। अद्य भवत्संभावनायंपादितस्यानन्दस्य परं पारमपश्यन्तो बयमस्मदानन्दादनेकशतगुणं भवदानन्दमुपपा. दयन्ती भगवती श्रुतिमपि न विस्रम्भामहे । आजानतो हि राजानः कदाचिदाक्रामन्ति परानाक्रम्यन्ते च तैरिति चक्रनेमिक्रमः सर्वजनीन एव । तदपि भवदीया जयन्येव न जीयन्त इत्यै कान्त्यमनुसंदधतो वयमियपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः संकल्पमाबसाधनस्य । यथा हि भव- ज्जातीया एव भूमिचरान्दिवमारोपयितुं, दिविचरान्भुवमवरो- पयितुं, आस्वादयितुं सुरापगां, आचमितुं सप्त सागरान् , विफलयितुं महास्त्राणि, विष्टम्भयितुं विश्वंभरमपि प्रगल्भन्ते, तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापूपि- आनन्दतारतम्यमधिकृत्य तैत्तिरीयोपनिषदि आनन्दवल्ल थामेवं भ्रूयते- ते ये शतं देवानामानन्दाः म एक इन्दस्यानन्दः, श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः स एका बृहस्पतेरानन्दः ॥ भवजातीया एव वित्रा एव भूमिचरान् दिवमारोपयितुं-यथा त्रिशई विश्वामित्रः, दिविचरान्भुवमवरोपयितुं-यथा नहुषमगस्त्य., आखादयितुं सुरापगा –यथा जगुः, अचमितुं मप्त सागरान्-यथागस्त्यः, विफलयितुं महास्त्राणि----यथा वरिष्ठः । निष्टम्भयितुं विश्वंभरं विष्णुं-यथा मनत्कुमार., प्रगल्भन्ते ॥ , माता-01411 कान्यायघण्टाघोष एव नः शरणम् । तदलं पल्लवितैर्वचाभिः अनुगृहात म्वयमस्मान् , अस्ति यदि भक्तव्यसनानवलो कनमंकल्पः अथ साजात्याभिमानेन दुर्वासस एव वचन सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषमि तत्र नेष्यामहे. यनानुकम्पयिष्यसि तेनानुकमायामहे, नर्वथा न्यस्तात्मानो वयं भवञ्चरणे । कि करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तदभि- प्राय इति न यदि किकरजनेऽपि माशि तथेति मन्तव्यं' इति कृनव्यवन्यस्य सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिख. ण्डिजः लममाखण्डलादिभिः सत्यलोकमभिप्रतस्थे। अमराश्च तम- नुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्यदानवयातुधाना- ध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घय, ततोऽति- दूरादुत्मन्नकिन्नरीगानचातुर्यम् , उपशान्तगान्धर्वतौर्यमौखर्यम् , असंभावितकर्मदेवसंमई, अनाशङ्कनीयब्रह्मर्षिसंचारसंकथं, अति- नीचरक्षःपिशाचमदिरागण्डूषदूषितमन्दाकिनीतीरतरुपण्डगूढचर- देवर्षिमण्डलम् , आखण्डलनगरोपशल्यमन्तःकरणशल्यमालोक- यन्तः, पुरा हंसावतंसिनैः सर्वगामिभिरप्सगेजनतौर्यत्रिका- लंकृतैर्विमानैरतिवाह्यमानतयाऽगृह्यमाणतत्तत्प्रदेशसौन्दर्यमगृह्यमा- णद्राधिमाणमध्वानमधुना पद्भ्यामेवाक्रम्यमाणतया गृहीतवि- परीतमतिक्रामन्तः, पदे पदे श्राम्यन्तः पथि, पथिकजनसाधारण- मपि तत्तत्पदेष्वातिथ्यं गूढसंचारवशादलभमानाः, दानवसेना- गतागतोचितान् कथंचिदति लङ्घय कानपि कक्ष्याभेदान्दिवः, जीव आह्वीरसो वाचस्पतिश्चित्रशिखण्डिजः' इत्यमरः॥
द्वितीयाश्वासः ।
तपोभिरपि दुरापं तपोलोकसमीपमापेदिरे । प्रविष्टमात्राश्च ते
परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वैकसारेषु तत्रत्य-
वस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो
विसिध्मियिरे । अपिच पुनरात्मविज्ञाननिरस्तावरणतया नि:-
सीमविकसदकृत्रिमज्योतिषामधिकारमलक्षपणाय केवलमनुत्तरं
योगैश्वर्यमनुभवतामत्रभवतां सनकसनन्दनसनत्कुमारादिमहा-
योगिनां, मूकेष्विव वाग्मिनां, मूर्खेष्विव बुद्धिमतां, अन्धेष्विव
चक्षुष्मतां. अधनेष्विव महेश्वराणां, कीटेष्विव सरीसृपाणां,
सरीसृपेष्विव चतुष्पदा, चतुष्पास्विव मानवानां, मानवेष्विव
महीभृतां, महीभृत्स्विव मरुतां, मरुस्विव मरुत्वतो, मरुत्वत्यपि
पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः, शृण्वन्तश्च तेषामेव
'हन्त वराकः शतमन्यु मायमंव परितोष्य यः शतेनाश्वमेधैरपि
भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत
पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य
परमात्मानं "पखासि ममेत्यनुगृहीतोऽपि यः पिशाच इव धनपा.
लतां ववे । किं बहुना-आत्मभूनोऽप्ययमष्टमूर्तेर्भगवतो वैश्वा-
नरो विफलीकृत्य विवेक, उपास्य चिरतरं कालमुमारमणमपि,
आसाद्य हव्यवाहतामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्य-
मात्मानम् । हन्त चिरादिमान् देवपशूनद्राक्ष्म ॥
किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम् ।
अभिसंधिभेदमात्रान्मोक्षो(क्षा?)पायेन बध्यन्ते ॥५॥
नीलकण्ठविजये इत्यादीनि परिहासवचांसि, पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदं, अपनपानष्टदृष्टयः स्वयमाधि- पत्यादस्मदीयादत्र भिक्षाटनं ज्याय इति मेनिरे । अथ सुरगुरुमागतं सशिष्यं स्वयमवधार्य धिया सनत्कुमारः। अपगततमसो महाप्रभावा- नशिषदमुष्य सभाजनाय शिष्यान् ॥६॥ प्रस्थिताश्च ते परस्परालापेषु, अथर्वशिखापवर्तकतामा ङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषाद्धृष्टप्रावतामप्यनुस्मृत्य, प्रशंसन्तो ब्रह्मपुत्रं भगवन्तं तमङ्गिरम, प्रशसन्नश्च गूढचर्यापन महर्षि संवर्तशिवाचार्य मरुत्तानुग्रहवागणमीनिपेवणवनायुगा- ख्यानेन, शमन्तश्च संवर्वानुजमाङ्गिरम सर्वतन्त्रेपु प्रवचनपार- दर्शनप्रबन्धनिर्माणप्रतिभाव्यवहारकोशलैः, परिहरन्तश्च लोका- यतिकतन्त्रतीर्थकरताप्रयुक्तमपकर्षमपि बाह्यतन्त्रप्रवर्तकपरमेश्वर- निदर्शनोपदर्शनेन, समागम्य यथाविधि मंनताश्च स्वगुराविव सह शिष्यैः सुराचार्य सनत्कुमारसमीपमानिन्यिरे ।। सनत्कुमारेण समागमे गुरो- निशाम्य वृत्ता विविधास्तदर्हणाः । निशम्य वादेष्वथ चास्य चातुरी विशिष्य तस्मिन्नमरा विनेमिरे ॥ ७ ॥ निशाम्य दृष्ट्वा, निशम्य ७ श्रुन्वा ॥
द्वितीयाश्वासः । आङ्गिरसोऽपि प्रणम्य भक्या महत्या परमेष्ठिनमिव सनत्कुमारं, आवेद्य देवकार्य, अनुज्ञाप्य च तेन पाकशासनं, अनुव्रज्य परिष्वज्य गाढं, आदिश्य चतुर्मुखोपमर्पणेतिकर्तव्यतां, अनुगृह्य शिवेन चेतला, विसृष्टस्तेन, विनयातिशयादादृष्टिपथा- दादधानः शिरस्यञ्जलिं, आस्थाय महान्तं योगं. आवर्तयन् प्रणवमेव, महामरैराससाद महतावधानन हैरण्यगर्भमायतनम् । गच्छन्तः पथि- , वाग्देवीवदनारविन्दगलितब्रह्मोद्यविद्याशत- ग्रन्थग्रन्थिविभेदजातकुतुकब्रह्मर्षिहर्षस्तवैः । कर्णाभ्यर्णगतैर्निवृत्तनिखिलक्लेशा दिगीशास्तदा निर्वत्रुर्न च वरव्रणमपि स्वर्ग पुनर्गाहितुम् ।। ८॥ अपि चाद्राक्षुरविदूर एव ने निरस्तरजस्तमोव्यतिकरतया निर्मलसत्वप्रकाशराशिमिव, निष्कलङ्कशशाङ्कष्टकासंघसंघटित- मिव, निरन्तरज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धमागरोर्मि- निर्मितमिव, चिरनिपातघनीभूतशारदाशिरश्चन्द्रचन्द्रिकाविकीर्ण- नीहारसारलाधितमिव, त्रैविक्रमचग्णाक्रमाविद्धविध्यण्डकपाल- निरर्गळनिर्गळदळकनन्दानिपातधौतभिव, विमलभास्वरप्रभाव- भासितनभोविभागं, अपास्तकलङ्कानुषङ्गतयेव धूमादिमार्गचंक्रम- पङ्किलचरणपशुजनानाक्रमणीयं. अशषभुवनसर्गावशेषमारैरिव विलक्षणैः शब्दादिभिपियैरुपस्कृतं, अनुश्रवमयै. प्राकारैगभ्युद- यिकोपामनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवम- .
नीलकण्ठविजये
येन चास्थानमण्डपेन परिशोभितं, निजनिजकार्यानिवेदनावसर-
प्रतीक्षितत्तल्लोकाधिकारिकारितसंमर्दबहिारवितर्दिकाभागं, आग-
न्तुकगन्धर्व किन्नराप्सरस्समारब्धतौर्यत्रिकमौखर्यपूरितप्रथमकक्ष्यं,
अनभिसंधिमत्कर्मयोगनिर्मलकर्मन्दिबृन्दपरिकर्मितद्वितीयकक्ष्यम् ,
अतिगहनन्यायसाङ्ख्ययोगादिदर्शनतत्त्वावमर्शव्यसनकर्शितकणा-
दकपिलपतञ्जलिप्रमुखविद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यं,
अतिविचित्रतरत्रयीशिखरोपपादितोपासनाभेदवासनासनाथमुनि-
यूथदर्शिताश्चर्यतुर्यकक्ष्यम् , अतिरहस्यवैश्वानरदहरादिविद्यापरि.
चयानवद्यमहर्पिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं, अतिदूरविसृष्ट-
दृष्टानुअविकविषयामिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यम् ,
अतिचातुर्यपर्यवस्थापितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीता-
न्वयशङ्काकळङ्कनिरङ्कुशकुशलजनालंकृतमतमकक्ष्यं, प्रसंख्यान-
परासंख्यभृग्वाङ्गिरोवसिष्ठादिगरिष्ठाधिकारिकमुनिमण्डलमण्डिता-
स्थानमण्टपं, अपदं विपदां, अगोचरं वाचां, अनाशङ्कनीयमर्वा-
चां, अगम्यमाचारमात्रशरणैः, असाध्यमध्वरैः, अलभ्यमधि-
कैरपि तपोविपाकैः, दुरारोहं महादानैः, दुरवगाहमाहवसाहसः,
असंभावनीयं मनसापि स्वायंभुवं भवनम् ॥
स्वाध्यायाध्ययनादृतेन विधिना दृष्टयापि नालोकिताः
सभ्यैः प्रत्युत सर्वभोगविमुखैरुत्सारिता दूरतः ।
नृत्यन्त्यः सुरसुभ्रवः परमधुस्तत्र व्यथां मानसी-
मानन्दैकपदेऽपि धामनि कलाकौशल्यवैफल्यतः ॥९॥
द्वितीयाश्वासः। अपि च- - प्राकारगोपुरविहारवितर्दिकानां मूलेषु यत्र हरिनीलशिलाविभङ्गाः । सक्ताश्चिरादिव जयन्ति युगान्तधूम- संतानसंघटितसान्द्रमषीविलेपाः ॥ १० ॥ प्रविशन्तश्च तमालयं, 'ननु प्रातरागतस्य पुरुहूतनाम्नो दिवस्पतेः कतितमः पुरन्दरो नामायं' इति पृच्छयमाना दौवारि- कैर्निर्जरा बलवदन्तर्ललजिरे । अपि च गच्छतामन्तरषामालक्ष्य गतिमतिमलीमसां, अधिगन्तव्याधिगमेन निवृताः सर्वतोऽपि महर्षयः कतिचित् 'अतिचिरं कालमहो खलु वयमप्यमीषां सामीप्यमारूप्यनायुज्यसालोक्यसिद्धिमाशासाना नानाविधानि तपांमि वृथा चकृम' इति विगहभाणाः स्वमात्मानं लज्जितानमरान् भूयोऽपि लज्जयांचक्रिरे । अथ भगवानाङ्गिरसो देवर्षिभिः परि- ध्वज्यमानः पदे पदे नारदादिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पत- अलिप्रमुखैः, अभिवाद्यमानः सिद्धविद्याधरैः, आनीयमानः सबहु- मानमाप्तभृत्यैः परमेष्ठिनः, परिवृनो देवैः परमाश्चर्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगपरिणमद्भेदैरुच्चावचैर्मणिभिरुप. रञ्जितं, उपर्यास्तीर्णहंमतूलिकातल्पकल्पितमहार्होपबई, अहिसा. नृशंस्यकोमळिमावर्जितशमदमाभोगमन्तःकरणमिव महायोगिनां, ताळवृन्तचामरताम्बूल करण्डकळाचिकाद्युपचारचतुरवरवर्णिनीजन न्यस्तवामहस्तवेष्टिततया व्याकोचाष्टदळात्मिकां व्यञ्जयदिव कम- लासनतां त्रिभङ्गीसमुन्ननतया त्रिवर्गातीतमिव सर्वतोभद्रं भद्रा. - ४२ नीलकण्ठविजये सनमधितिष्ठन्तं, ममसमयसमुद्यदादित्यसहस्रभास्वरैरर्केन्दुविद्यु- दनलरूपचतुस्तेजःसमुत्तम्भनायेव चतुर्दिक्षु निर्जिहानस्तेजोभिर- वलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां, संततव्यवहारसंसक्त- चतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरिहतसंसारशावरैरा- यतापाङ्गरिङ्गदभङ्गुरकरुणातरङ्गमालाभिराचार्यकाभिषेकमादधान- रिख योगिनामध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां चत- सृणामपि श्रुतीनां, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशमान , त्रैयम्बकमकुटावलोकनावलम्बितहंसदशातितेन मृणालयलये नेव मृदुना शुचिना च सूत्रमयेनोपवीतेन सूक्यन्तमिव सूत्रात्मकता. मात्मनः, शस्त्रास्त्रविद्याकूपागपारीणक्षत्रिय वर्ग निर्वृतत येव शस्त्र- ग्रहपराड्मुखेन प्रकृत्यादिपृथिव्यन्तपञ्चविंशतितत्त्वपरिवर्तनमात्र- मेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तगक्ष- मालिकां, अहर्मुग्वेषु प्रथमम पानव स्रष्टव्यताम् वधार्च धार्यमाणे- नेव स्फटिकमयेन कमण्डलुना परिष्कृनेतरकरपल्लयं, अमाधीता- ध्यापितनिखिलनिगमान्तमिद्धान्तपान्थसनकनन्दनादिमहादेशि- कोद्भावितदुर्भेदसंशयच्छेदसंवादजिज्ञाराया मुहुर्मुहुरवलोकयन्त- मन्तिकगतां वाग्देवतां, आचार्यमाचार्याणां, अधिगन्तव्यमधि- गन्तव्यानां, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यननिनं, समष्टिं भूतग्रामस्य, साधारणं पितर मखिललोकस्य, विश्रान्तिभूमि विद्याफलानां, विरामपदं वाग्विभूतीनां, दूरं दुराशयानां, अदूरमात्मवेदिनां, अधिगम्य भगवन्त पितामहं, अत्यद्भुतसभा- सभानाथसंदर्शनजडीकृतो वाचस्पतिरपि भगवान् वाग्देवता- , द्वितीयाश्वासः वलोकनसंपन्नभयकम्पसंभ्रमस्तम्भितवाङ्मुखः क्षणमवाङ्मुखश्च तदीयदिव्यतेजःप्रतिहतष्टितया यावदास्त स्तब्ध इव, तावदनु- ग्रहमय्या दृशा जगन्निधेः, आगच्छ वत्सेत्यमृतामारकिरा गिरा च गिरा देव्या निर्व्याजमाप्यायितः, समाधाय कथंचिदान्तरं करणं, अनुस्मरन् प्रणवं, आवर्तयन् ब्रह्मसूक्तानि तत्तदागमो- दितानि, प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव देवदेवस्य प्रारभत किंचिदेवमभिधातुम् अगन्तव्यं तकॅरनधिगमनीयं क्रतुशतै- रनासाद्यं दानैरनुपसरणीयं च तपसा । भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां कृतार्था जाताः स्मः पुनरपि कृतार्थाः पुनरपि ॥ ११ ॥ किच- भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया यच्च व्याकुरुषे निरन्तरमिभाः साङ्गाश्चतस्रः श्रुतीः । चातुर्य कथमीगित्यपगता शङ्का समस्तापि न- चातुर्यं भवतो भुजेष्वपि मुखेष्वद्य वयं पश्यताम् ॥१२॥ इति । स च ततः 'साधु वत्स साधु स्थाने किल छन्दोगाः बृहती वाक् तम्याः पतिबृहस्पतिगिति नाम ते निराहुः' इति जरायुजाण्ड जखेदजोद्भिजलक्षणश्चतुर्विधो भूतग्रामः । चातुर्य चतुरत्वं चतुष्व च ॥ बृहस्पतिशब्दः छ-दोगश्रुतापेवं व्युत्पादिनः वाग्घि बृहती नस्या एप पतिस्पतिः ॥ १२.
नीलकण्ठविजये प्रशस्य 'परिम्लान इव लक्ष्यते कुतः पाकशासन' इति पृच्छति सानुकम्पमम्भोजसंभवे, बृहस्पतिः पुनरिदमभाषत- 'परिम्लाना दीनाचिरपरिहतस्वस्वभवना- श्वरन्तः पादाभ्यामवनिवलये भिक्षव इव । यदाख्यातुं दुःखं तव सविधमेते परिगता- स्तदद्य व्यस्साएः पदमिदमुपेता वितिमिरम् ॥ १३ ॥ किच- यत्प्रत्यस्तमितप्रपञ्चमखिलव्यापारपारंगतं प्रत्यग्ज्योतिरनुत्तरं शमधनैरालोच्यमेतादृशैः। तत्संप्रश्नकथासुधाभरितयोः सेक्तुं भवत्कर्णयो- मिथ्याज्ञानविचेष्टितानि बलवज्जिद्रेति जिद्वैव नः ॥१४॥ अथाप्यनुयोगाज्ञानिर्वर्तनाय किंचिदावेद्यते । योऽसावग्रतो भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणां, अधितिष्ठति शमवतामग्रासनं दुर्वासाः, अयमेव सर्वासां निदान- मस्मदापदाम् ॥ अव्याजकोपनिधिना मुनिनामुनैव निर्वासिता सुरपतेः सुरलोकलक्ष्मीः । आसाद्य दानवकुलानि दिवौकसो न- चक्रे पदं कृपणमानवदुर्दशानाम् ॥ १५ ॥ अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममानामपहृते तस्मिन्नसुरैः, असंभाविते च यादाकादाचित्के दाने द्विजन्मनां, द्वितीयाश्वासः । आशिक्षिते च भौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौव- राज्यसिसाधयिषां, अपहाय दिव्यभोगेषु कौतूहलं, अन्नायैव स्पृहयमाणा निरन्तरं, अनिमिषत या श्रमावर्जितमूर्छाः स्वापम- प्यलभमानाः सुलभमाना दिवौकसः सूक्ष्मतरं व्युदपद्यन्त दुर्भ- गानामन्नार्थिनामर्थनाभङ्गमन्दाक्षसंधुक्षितान्तरज्वालाकलापसंभृतेषु संभ्रमेषु मानवानाम् । कि बहुना--- यदियजीवितमेतैस्तदायुषा कल्पितेन भवतैव । या वियती मांसलता साप्यन्नापायशोभेन ॥ १६ ॥ आस्तामिदम् । प्रेक्षावन्तो दिशि दिशि नराः प्रेक्षमाणा धरण्या- मित्थंभूतान् सुरपरिबृढानिन्द्रवैश्वानरादीन् । तत्तत्साम्योदयफलपरामप्रमाणीं पुराणी मत्वा वाचं विदधति शनैः कर्ममार्गेष्ववज्ञाम् ।। १७॥ अथवा नैतावदभिधातव्यमस्माभिः ।। अभिदधति ते मूर्धानं द्यामनुश्रवसूक्तयः सुचिरमसुराश्चैतामित्थं तुदन्ति दुराशयाः । निगमशिखराभ्यासव्यासङ्गतो यदि विस्मृतं तदपि भवता तन्नो दौष्कर्म्यमित्युपरम्यते ॥ १८ ॥ १८. अग्निद्र्धा चक्षुषी चन्द्रसूर्यो इनि श्रुतौ अग्निपदं तदुपल- क्षितवर्गलोकपरमिति व्याख्यात तद्भाध्ये ॥
४६ नीलकण्ठविजये इमे वयमिदं तत्वमित्थं स्थानमियं दशा । परं यदा कर्तव्यं प्रमाणं तत्र नो भवान् ॥ १९ ॥ इत्यावेद्य विरम्त्याङ्गि से, विनमत्सु च युगपदमपु, प्रसादयन् सर्वानिदमाह पद्मलंभवः 'विदितवेदितव्यैर्भवद्भिरित्थं न विप्रतिपलव्यं दुर्वासनि । यतः परिणाम एष करुणायास्तत एव महन्द्रमनुजग्राह तनीयसा शापेन । परथा कथमतिबाहनीय- मिन्द्रेण परःसहस्रैरपि वासरैर्निखिलजगन्मातुरम्बिकाया निर्माल्य- समुल्लचन्नप्रसूतमिदं दुरितम। तदस्मिन्महत्यपराधे यावदक्षपि- तमेतदेनस्तावदनुस्मरणमपि अवतामपराधो महानिति चकितै- रस्माभिरेतावदुदासितम् । महदपीदं दुरितं मन्दरपरिसरावामेन परिहतमेव सवासनं भवताम् । तदपि जगज्जननीचरणापराध- संसर्गादधुनापि शङ्कमानेरम्माभिरन्य एवोपायः समुल्लिखितो भवदनुग्रहे । नारायणीप्रमादतिरस्कारजोऽयमपराधो नारायणी- यप्रसादपुरस्कारेण समाधेय इति । तथाहि- यदेतद्वामाङ्गं घनजघनकेशस्तनभरं कदाचित्तच्छंभोर्भवति कमलाकौस्तुभधरम् । जगन्मातर्येवं यदपचरितं तन्मघवता जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥ २० ॥ नारायणी गौरी । नारायणायप्रसादः विणुप्रसादः ॥ २०. शंभोः वामा गोरी। मैव श्रीविष्णुः । यदाहुः- एकापि शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । भोगे भवानी समरेपु दुर्गा कोपे तु कालीत्यवन तु विष्णुः ।। - द्वितीयाश्वासः । तागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्' इति बदन्नासनादुत्थायान्तर्दधे भगवानब्ज संभवः । अथ कथमप्यमर्त्यपतयः परिहत्य भयं गुरुकरुणाविशेषपरिणामकृताभ्युदयाः । अखिलजनुष्मदाशयगुहाशयमप्युदधौ शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम् ॥ २१ ॥ किंच पथि ध्वजं यं गरुडध्वजस्य प्रस्थाय यान्तो ददृशुर्दिगीशाः । तमेव मद्यस्तदनुग्रहस्य भविष्यतोऽपि ध्वजमग्रहीषुः ।। २२ ॥ D अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्था- नमतिलचितं गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य, गुरुणाकृष्यमाणतयेव झटित्युपनिपत्य विशश्रमुरवि- श्रान्तपरिभ्रमभ्रमारुतसंपातविनीतपथिकव्यथे जलदपथे । अद्रा- क्षुरपि तत्र ने निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्कय संताड- यन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि कल्लोलमण्डलानि, निरिन्धनज्वलदबिन्धनज्वालासंबन्धान्निष्य- न्दमानमिव वीवीभिरभितोऽपि, सद्यःसमास्वादितशुद्धदुग्धपूर- पूरितगर्भनिर्भरविशदनीरदनिकर मंछन्नतया संपन्नमिव मण्डेन, चिरसंभृततया संभावितपयोविकारपरिजीहीर्पणा ततस्ततः ४८८ नीलकण्ठविजये . १ क्षिप्ताभिरम्बुजसंभवन समूलाभिरिवौपधीभिः शैवालमञ्जगी रभिशोभितं, चिरपरिचिनीरोघरपाम्बादसुखित चातकपोला वज्ञनिष्ठन्यूतचञ्चूपुटनिपतदितरमेघशोकर, गोविन्दचरणाबिन्द संदर्शनायातविबुधलसद्विमानहंसविविच्यानमार्वतः लापना सहस्रनीरकृताहारलब्धमामिन्धनबलवदविन्धनानलं, सायंप्राति कोल्लाघपल्लवितकल्लोलजालवेल्लितवेलागिरिशिविर संचारलब्धदुग्धा भिषेकमुहूर्तविमलीकृतवन्यद्वितया परिचिन्वन्तभित्र चिदै रावतसर्गचातुरी, क्षीरैकनिधानतया पर्वकालाबाहनप्रमक्तपर मर्पिजनप्रस्तुताघमर्पणसूक्तगोचरक्षीरपदोहानूहविचारकोलाहला. भिभूतवीचीघोपं, तृतीयावतारश्चेतनानुचिकीर्पया स्वयमपि श्वेती भवद्भिरिव भगवतः प्राथमिकावतारजातीयैः क्षीराहारपरिणाम निर्मलैर्मत्स्ट कूमैः परिकर्मि तं, शार्ङ्गधरं द्रष्टुं स गच्छदपि जा चन्द्रशेखर इति मंभावनया नजीकृतैः कैलामैरिक अगस्तरङ्ग परिपूरितैरन्तर्गनैर्गिरिभिरभिशोभिनं, काल ववि कर्कटमकर मीनकरम्बित, गङ्गातीर्थमिव गर्भस्थानेकमठगाजविगजिन पाणिनीयसूत्रमिव परस्मैपदप्रतिपादकं, आत्मतत्त्वमिवानिर्व चनीयगुणप्रपञ्चं, कैलासशिखरमिव शैवलक्षणलक्षितद्विजपण्ड मण्डितं. निदाघभास्करमिव नितान्तमुत्तरङ्गत्वातिभीपणं, ममष्टि ७ . पर्वकालेति ॥ अघमर्षणसूक्ते यदपा क्रूरमित्यत्र अपदस्थाने क्षीरपदर ऊहो न वेति विवदमानाः परमर्षयो दृष्याः ।। निदाघभास्करः नितान्तं उत्तरं उत्तरायणमार्ग गवा प्राप्य अतिभीपण प्रचण्डतरः । समुद्रश्च उद्गततरङ्गत्वेनातिभयप्रदः ॥
द्वितीयाश्वासः। , मिव क्षीरसर्गस्य, समवायमिव नैमल्यस्य, चन्द्रतारकादि- निर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि रजताचलं, क्षौमावकुण्ठनमिव क्षमायाः, पद्मनाभशय- नागारपर्यन्तकुट्टिममिव स्फाटिकशिलाचितं, अनास्पदं कविगिरां, आश्चर्यमाश्चर्याणां, आर्तिहरं चक्षुषोः, आनन्दमन्तःकरणस्य, दुरासदमनाराधितनारायणचरणारविन्दानां दुग्धोदं नाम रत्ना- - करम् ॥ - घोषे कापि पुरा पयः कियदपि स्तैन्येन दैन्येन वा लब्धुं योऽवहदीश्वरोऽपि जगतां जन्माधर्म मानुषम् । तं विसापयितुं तरङ्गवलयै?षानसंख्यान्सृज- नाभूभूतलसंभृतेन पयसैवावृत्य यो वर्तते ॥ २३ ॥ अपि च- खाद्या यत्र सुधैव यस जठरे साक्षात्स धन्वन्तरिः शेते यत्र समस्तरोगशमनो नाम्नैव देवोऽच्युतः। तस्मिन्दुग्धनिधावपि स्पृहयते नैव स्थिरामासिका- मन्तीनहलाहलोष्मचकितो नाथ: स्वयं पाथसाम् ॥२४॥ अपश्यन्नपि मध्यतस्तस्य किंचिदन्तर्निमग्नपुराणभूदार- दंष्ट्रादण्डक्षोभितपयःपूरसमुद्धृतमिव नवनीतपिण्डं, अभितश्चलदु- च्छृङ्खलतिमितिमिङ्गिलकुलवालविलोडनोद्भूतमारुतोद्भुतपुञ्जीकृत- मिव फेनमण्डलं, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरग- २३. भुवं भूतलं (पाताल) चाभिव्याप्य आभूभूतलम् । 4
नीलकण्ठविजय
निर्मोकराशिमिव कालपरिपाकलब्धमृद्भावनिर्मलं, नविबिन्धमिव
वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया
पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्त-
रीपम् ।।
स्थानं विश्वसृजोऽपि तन्निरय इत्याचक्षते यद्विदो
यद्गत्वा गमनीयमुत्तरमितः कुत्रापि न श्रूयते ।
आयस्यापि हि साधयन्ति यतयो यत्रारुरुक्षां परं
तदृष्ट्वापि पदं हरेः सुरगणास्तस्तम्भिरे गाहितुम् ।। २५ ।।
आपिच-
दध्युर्यावदुपायं ते गन्तुं तत्र दिवौकसः ।
तावन्निदध्युरायान्तं तत्र देवं पितामहम् ॥ २६ ॥
पश्यन्नथ तत्र पाकशासनमुखानमरान् प्रासादशिखरारो-
हणकुतूहलिनः पयूनिव भग्नमनोरथान् , प्रसादविमलया दृष्टया-
नुगृह्य सहागच्छत मयेति संदिशन्नग्रतश्चचाल कमलासनः ॥
गच्छन्नेव ततः स तत्र गलितब्रह्माधिकाश्चिरा-
दैकान्त्यं परमं गर्भगवति श्रीवल्लभे दुर्लभे ।
प्राचीनः कमलासनैरुपगतो भक्त्या महत्या नमन्
सस्नेहं सदयं सखेदमपि च प्रत्येकमादिश्यत ॥ २७ ॥
'कथमद्यापि वत्स न परिणतोऽसि ।
वल्लभोऽसि सरस्वत्या वहसे च श्रुतीर्मुखे ।
जगत्पितामहश्वासि कस्तवाप्यनुशासिता ॥ २८ ॥
द्वितीयाश्वासः। तञ्चिन्तय तावत्स्वयमेव- आयुर्वेषामनीषां परममभिमतं किंचिदूनो मुहूर्तः का संपद्वा विपद्वा प्रभवति भवितुं तत्र तेषां क्षणार्धे । तत्यक्त्वा क्षुद्रजन्तून्दिविचरत इमांश्चिन्तयन्नात्मनीन वत्स त्वं प्रार्थयेथा न किमपि परमं ब्रह्म लक्ष्मीसहायम् ॥' इति बोधितो विधिरिदमाचचक्षे-'जानामि भगवन्तो जानामि । कतीन्द्राः कति लोकेशाः कति विश्वसृजोऽथ वा । श्वासे श्वासे प्रजायन्ते प्रलीयन्ते च शाङ्गिणः॥ ३०॥ तथापि कचिनियुक्तेन मया तदनुगुणं चेष्टितव्यमिति व्यवस्यन्नागतोऽस्मि । तदद्य भवद्भिरेव दर्शितं भगवन्तमभि- गम्य, भवद्दत्तैरेवाक्षरैाहरेयं' इति प्रश्रित वादिनि पद्मसंभवे, प्रसन्नाः पारिषदा हस्तग्राहमाकर्षन्तस्तमन्तिक एव दर्शयामासु- रान्तरं रहस्यमुपनिषदाम् ।। 'यं त्वं चिन्तयसे नान्यं सर्वारम्भेषु सर्वदा । सत्त्वं चिन्तय सेनान्यं विष्वक्सेनमिमं हरेः॥ ३१ ॥ इमं च पश्य वैनीतकं भगवतो वैनतेयं, यस्य किल पुरा कल्पे सुधाकुम्भहरणसंरम्भसंभ्रमोद्भूतपक्षमारुतविक्षेपसमुन्मूलि- ततया परितो विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाहृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संशृणुमहे । अपि च- नीलकण्ठविजये ग्छन्दो यथा यथा शौरेः संग्रामेषु जिगीषतः । तथा तथा प्रवृत्तोऽयं छन्दोमय इतीर्यते ॥ ३२ ॥ पादाङ्गुष्ठनखानलम्बितमहाकूर्मद्विपाविद्वय- न्यासाटोपविभग्नचञ्चुविधृतन्यग्रोधशाखां गताः । येनोचं पतता पुराणमुनयो नीताः पुरा मेनिरे संसिद्ध सशरीरमूर्ध्वगमनं सद्यस्तपोभिः ॥ ३३ ॥ अस्य किलोपवीतमित्यायामतः साम्यमवधारयन्तः पुरा निर्जरा मौर्वीपदे मेरुधन्वनो वासुकिमादिशन्निति वदन्त्यैति- हासिकाः। पश्य ज्ञानक्रियेच्छामणिमयमुकुराबद्धमध्यात्मविद्या- भाखद्रत्नप्रदीपप्रकरपरिहतध्वान्तमन्तः समन्तात् । गाढाविद्याकवाटं प्रबलशमदमद्वारपालाभिगुप्तं भक्तिद्वारं मुरारेरिदमिह शयनागारमोकाररूपम् ॥ ३४ ॥ इति प्रबोधितो विधिरीदृशतादृशतानवच्छिन्नवैभवमच, क्षुर्माह्यमनुश्रवैकश्रवणीयमधिगन्तुमिव भगवतो रूपमासाद्य चक्षुःश्रवस्तनुमक्षिभिः सहस्राभ्यामनुभवन्तमिव परमाद्भुतं, आशयमागमानां, अतिवेलश्वासनिःश्वासपरम्परासंपादितभोगोप- ३२. छन्दः अभिलाषः। छन्दोमयः वेदमयः। 'सुपर्णोऽसि गरुत्मान् त्रिवृत्ते शिरो गायत्रं चक्षुः स्त्रोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दॉस्यङ्गानि धिष्णिया. शफा यषि नाम' इति श्रुतेः ।।
द्वितीयाश्वासः। चयापचयतया संततमुपपादयन्तमिव विलक्षणामूर्ध्वडोलाविहार- निर्वृति, आचार्य योगविदां, आदिदेशिकं पदतन्त्रस्य, संप्रदाय- प्रवर्तकं शारीरकर्मणां, भोगविमुखेषु हृदयेषु शमधनानां निरन्त- रावासनिर्वेदादिव भोगिनमेव कमपि भुवनतलाकल्पमास्तीर्य तल्पमधिशयानं, अतिशयानम्रमौलिभिर्महायोगिभिः प्रणामावसर- प्रकीर्यमाणेषु कुसुमोपहारेषु सौकुमार्यातिशयसंसक्तैः कतिपयै- रिव कल्पनरुप्रसूनश्चिरनिर्गतसिद्धसिन्धुशीकरशेषैरिव ततस्ततो लग्नर्नखरैर्निरगळापवर्गदानसंसूचनाय नियन्त्रितेनेव ध्वजेन संसार- कान्तारसंचरणखिन्नशारीरकच्छायाप्रदानाय समावर्जितेनेव छत्रेण च परिष्कृताभ्यां पादकमलाभ्यामलंकुर्वाणमङ्कतलमादिजनन्यो- लक्ष्मीधरण्योः, कटितटाबद्धकनकांशुकप्रभातरङ्गपरिष्वङ्गपिशङ्गी- कृतवसुमतीकमलाविवेचनाचतुरतत्तत्परिचारिकोपचारविपर्यास- परिहासविनोदिनं, आविर्भविष्यदसंख्यहिरण्यगर्भाङ्कुरमयमणिश- ताचितकर्णिकेन प्रतिसविर्तमानप्रकृत्यादिधरण्यन्ततत्त्वकिञ्जल्क- पुजेन प्रपितामहेन भुवनानां पाण्डरेण सरोरुहेण मण्डितनाभि- मण्डलं, निर्मलचिन्मयवपुषि नित्यानुबिम्बितेन मृगमदतिलकेनेव वक्षःस्थितायाः श्रियः श्रीवत्सेन हृदयादुद्धृते चन्द्रमसि स्पर्धया स्वयमपि हृदयादाविर्भवता बालसूर्येणेव कौस्तुभेन भूषयन्तम- प्राकृतानि भूषणान्यपराणि, दिग्दन्तिशुण्डादण्डैरिव दिव्यतरु- प्रकाण्डैरिव दुर्मददानवनिर्मथनयशोविशदैरिव मौक्तिकदामवेष्टि- तैर्विजयेन्दिरासमाश्लिष्टैरिव विचित्रकनकाङ्गदकङ्कणाद्यलंकृतैश्चतु- मिर्भुजैः सूचयन्तमिव चतु!हतां, अहर्मुखविकसदाम्रपल्लवोल्ला- नीलकण्ठविजये - सिनि दन्तच्छदे विप्रकीर्णतया सान्ध्यरागसंमूर्च्छितचन्द्रिकोद्गा रानुकारिणा मन्दस्मितेन कलिकलुषजीवाशयप्रसादनकतकरेणुभि कैवल्यलक्ष्मीस्वयंवरदामभिरिव कलितनानावर्णविन्यासपेशलै परिवहत्करुणासारसंपातशीतलैः कटाक्षैरप्यनुगृह्णन्तमनन्यशरणा न्महामुनीन् , कार्णवेष्टनिकविलसन्मुखारविन्दकामनीयकावलोक नविस्मयमानकमलावितीर्णचुम्बनासक्तताम्बूलरागसंपद्विडम्बिना पद्मरागतिलकेन परिष्कृतफालवलयं, अतिनिर्मलफणामण्डलोदर प्रतिबिम्बितैरहिराजफणामणिगणैरिव किरीटरत्नैरभिरञ्जितमहा होपबहँ, अतिविनयभारभङ्गुरैरनन्यापिनदृष्टिभिराकृतिमद्भिरायुधै पञ्चभिरभितोऽपि यथोचितमासेव्यमानं, अनुपमेयं प्राकृतैर्भावैः अप्रमेयमनुत्तरपदारोहपङ्गुभिरर्वाचीनैः प्रमाणैः, अक्षोभ्यं विज्ञान- सागरं, अक्षयं महानन्दशेवधि, अतिदुर्लभमश्रुतानुश्रवैरमीमांसि. तोपनिपदाशयैरनध्यासितनिदिध्यामनपथैरक्षाळितकर्माशयैरनुल्ल- चिताविद्यकपर्वपञ्चकैः, अनायासलभ्यमतिहढावलम्बितगुरुचरणै- रपाथोपायवृत्तिपराङ्मुखैरप्रकम्प्यविश्वासमंपदवष्टम्भशालिभिरा- त्मार्पणतत्त्ववेदिभिर्महाभागैः, असाधारणषागुण्यं, अखिललोक शरण्यमालक्ष्य सर्वप्रमाणपरायणं भगवन्तं नारायणं असकृत्पणि- पतन् , असकृदुत्थाय, बध्नन् शिरस्यञ्जलिं, असकृदावर्तयन् प्रणवं, असकृदनुस्मरन् परतत्त्वं, अश्रुपूर्णैर्लोचनैरविरलपुलकाङ्कितैरङ्ग- कैरानन्दगद्गदैश्च वचोभिरित्थमस्तावीत्- 'क्षन्तारं सकलागसां जडधियां यन्तारमन्तस्तमो- हन्तारं जगतामनुत्तरपराहंताङ्कितोरःस्थलम् । - द्वितीयाश्वासः । उद्यत्कौस्तुभशोभमुत्पलवनीसच्छायमच्छायत- स्निग्धापाङ्गतरङ्गमैक्षिषि परं ब्रह्माच्युतं शाश्वतम् ॥ ३५ ॥ किं तकरतिवः किं फलमुपबृंहणैर्विविधैः । अनैक्षिषि श्रुतीनामाशयमहिराजभोगशयम् ॥ ३६ ॥ अहो धन्योऽस्मि धन्योऽस्मि ! एकं तड्डिविभूति त्रिधामनिहितं चतुर्म्यहम् । पञ्चायुधं प्रपद्ये षड्गुणसंपन्नमशरणः शरणम्॥३७ ।। इति । अत्रान्तरे वाचस्पति पुरस्कृत्य वासवमुखा बहिर्मुखाः प्रविकीर्य पुष्पाञ्जलीन्. प्रणिपत्य दूरतः शतकृत्वः, समुत्थाय शिरसि संघटिताञ्जलयो विस्मयस्तिमिताः स्तम्भवदासांचक्रिरे । तुष्टूपतोऽस्य बहुधा सुरदेशिकस्स दिव्याद्भुतानि चरितानि परस्य धाम्नः । स्तब्धा सती श्वशुरदर्शनसाध्वसेन वाणी न वक्त्रकुहराद्धहिराविरासीत् ॥ ३८ ॥ ततः प्रमादविमलपद्मनाभकटाक्षपरिक्षेपविदितेङ्गितया पाद- मूलनिविष्टया तस्य भगवत्या पद्महस्तया निसर्गमधुरैरपि निर्भर- एक अद्वितीयम् । लीलानिल्याख्ये द्वे विभूती। जाग्रत्स्वप्नसुषु- प्त्यवस्थालक्षणानि ( सूर्यमण्डलक्षीराब्धिपरमपदलक्षणानि वा) त्रीणि धामानि । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारो व्यूहाः । शङ्खचक्रगदाशानन्दकाः पञ्चा- युधानि । ज्ञानशक्तिबलेश्वर्यवीर्यतेजासि षड्गुणाः ।।
नीलकण्ठविजये - वात्सल्यसुधासारमधुरैरक्षरैः- 'वत्स चिरादागतोऽसि, वर्तसे कुशलेन, का इमाः प्रजाः कान्दिशीका इव लक्ष्यन्ते' इत्यनुयुज्य- मानो विधिरन्तरानन्दतुन्दिलः प्रणम्य शतशः परां देवतामिद- माबभाषे- 'जय जय जगदम्ब जाम्बूनदाम्भोजकोशप्रभे जय जय कमलाक्षवक्षःस्थलीहhनर्मप्रिये । जय जय करुणाकटाक्षप्रतीक्षत्रिलोकेश्वरे जय जय जनिमार्गलग्नाणुवर्गापवर्गप्रदे ॥ ३९ ॥ वत्सेति प्रवहत्सुधारसपरिष्वक्तं यदामन्त्रितं दृष्टं यच्च दयातरङ्गशिशिरोत्सङ्गैरपाङ्गैस्त्वया । तस्मादस्म्यधुना विशिष्य कुशली धन्याश्च देवा इमे विज्ञाप्यं तु कथं हरौ किमथवा तस्यादिरादिश्यताम् ।' इति यावत्प्रार्थयते कमलां कमलासनस्तावद्गोविन्द एव स्वयमित्थमनुजगृहे- 'स्रष्टींसि तात जगतोऽस्य चराचरस्य संधारयस्यथ मुखैश्चतुरोऽपि वेदान् । तेनासि लोकदायितो दयितो ममापि तहि कं सफलयामि मनोरथं ते ॥ ४१ ।। ३९. जनिमार्गेति ॥ अणुवर्गः जीववर्ग. ॥ तस्य आदिः प्रकारः आदिश्यताम् । 'आदिः प्रकारे प्रथमे निदाने परपूरुषे' इति भास्करः॥ :
द्वितीयाश्वासः । कत्यसृजं विश्वसृजः कति वा स्रक्ष्यामि कति सृजाम्यधुना । भवति परभक्तिशालिनि भवतीव न मे कचित्करुणा ॥ ४२ ॥' इति मधुरां गिरमिन्दिरापतेः पिबन्नष्टभिः कर्णैः पितामह- स्तादात्विकहर्षसंभ्रमावलुप्तवक्तव्यः कथंचिदिदमाचचक्षे- - 'स्वमोन्मादावपि हि सृजतो नाथ वस्तूनि मिथ्या संधार्यन्ते ननु च मनुजैरप्यमी वेदवादाः। प्रापं श्रेयः किमहमियता प्रापमेवानया तु स्वामिन्दृष्टया तव शिशिरया मङ्गलं मङ्गलानाम् ॥४३॥ मनोरथानामपि यो मनोरथः सुदुर्लभानामपि यत्सुदुर्लभम् । तदेव लब्धं तव पादपङ्कजं कदर्थनान्येव कदर्थनान्यतः ॥ अपि च- -- के देवाः के दनुजाः किं जगदेवेदमन्ततः कोऽहम् । परिहत्य विमोहमिमं पालय दासोऽस्मि दासोऽसि ॥४५॥ ४३. अतितुच्छौ स्वप्नश्च उन्मादश्च मिथ्यावस्तूनि कर्म सृजतः। 'अथ रथाबथयोगान्पथः सृजते' इति श्रुतेरनुभवाच्च । एवं सति मिथ्याभूतस्यास्य प्रपञ्चस्य स्रष्टुत्वेन न मे कोऽप्युत्कर्ष । नापि वेदधारणेन, मनुजाविशेषात् ॥ ४४. अतः भवन्पादमेवात (व्यतिरिक्तानि) कदर्थनानि कुत्सितप्रार्थ- नानि कदर्थनान्येव कुत्सितप्रार्थनान्येव । तस्मान्न किमप्यपरं प्रार्थयितुमुत्सह इति भाव. ॥
नीलकण्ठविजये
इति कटाक्षपातेन कमलायाः परिग्रहेण च भगवतः प्रति-
बुध्य तत्त्वमुदासीने पद्मसंभवे, प्रपञ्च पाञ्चालिकानटनसूत्रधारः
परमपुरुषः सर्वपथीनया महामायया तमाच्छादयन् , कर्तव्य-
मस्योपदिदेश-'सत्यमेव भवानाह कदर्थनान्येव कदर्थनानीति ।
अलमेव ह्यग्रतः स्थितिरस्माकम् , अवहितो गृहाणदं, आदिश च
सर्वानमरान्-
संधानं कुरुतासुरैः प्रथमतो मन्थानमुधिरं
कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बघा वासुकिनाथ मन्थत ततः संत्पस्यते या सुधा
तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वः शत्रवः ॥ ४६॥
परं तु भवितात्र दुष्परिहरः प्रत्यूहः, परिहरिष्यते च
प्रसादादेव देवदेवस्य । तदद्यप्रभृति विशिष्यावलम्बध्वमम्बिका-
रमणं शरणमिति ॥
जानम्यहमुमाकान्तं जानासि त्वं च मदिरा ।
जानन्ति किमिमे मूढास्तत्सम्यगनुशिष्यताम् ॥ ४७ ।'
इति परमुपदेशं देशिको देवतानां
निरवधिकरुणाधिर्निर्जरेभ्यो वितीर्य ।
स्वयमपि हृदि गाढं चिन्तयन्निन्दुचूडं
मिषति कमलपीठे पद्मनाभस्तिरोऽभूत् ॥ ४८ ॥
द्वितीयाश्वासः । ५९ अथ यथोपदेशमिन्दिरापतेरादिश्यादेष्टव्यमन्तर्हिते पितामहे, पूर्णमनोरथा दिवौकसः पुरहराराधनकौतूहलेन पुनरासेदुरुपत्यकां परमानन्दमन्थरा मन्दराद्रः।। इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमत प्रतिष्ठापनाचार्यचतुरधिक- शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित- सोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायण दीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये द्वितीय आश्वासः॥
तृतीयाश्वासः । उपासीना नानाविधिभिरुपहारैश्च विविधैः शरण्यं लोकानां शशधरकलोत्तंसममराः । मृषा संधिस्सन्तः प्रकृतिकुटिलैनवगणै- विरिश्चस्यादेशादवृणुत गुरुं दूत्यविधये ॥१॥ 'परायणं नः परमं भवान्यतो गुरुः पुरोधाः सचिवश्च दैवतम् । अतो वयं तावदनन्यसाधना वृणीमहे त्वामवमेऽपि कर्मणि ॥ २॥ इति प्रार्थितो देवैरिदमुवाच वाचस्पतिः-नैतावदभिधा- तव्यम् । नहि किंचिदवमं नाम कर्मास्ति राजोपजीविनाम् । तत्तस्य कीर्तिदं कर्म तदलभ्यं तदीप्सितम् । राजानः पुरुषं यत्र राजकीयं नियुञ्जते ॥ ३ ॥ परंतु किंचिदत्र विवेक्तव्यम् । तथाहि- अनालोच्य निजां शक्तिमदृष्ट्वा कार्यगाधताम् । औत्सुक्यादवगाहन्ते मन्दा मज्जन्ति चातलम् ॥ ४ ॥ आ अतलात् आतलं पातालपर्यन्तं मज्जन्ति ॥ - तृतीयाश्वासः । सन्धिर्नाम ऋजूपायः साधुष्वेवायमायतते न पृथग्जनेषु । दूरे पुनर्दुरहंकारदूषितेषु दानवेषु । किंच । दूतवाङ्मुखकौशल- साधनीयोऽयमर्थः कथं नाम दूतदर्शनमप्यसहमानेषु संघटते । श्रूयत एव हि वैश्रवणेन प्रहितो दूतः सद्य एव समापितः सदास लङ्कापतेः । अपिच । प्रवृत्ताः समरकर्मणि भग्नोद्यमाः सर्वतोऽपि संधित्सन्ते दूरदर्शिनो लब्धं कथंचिदपि लिप्सितं, नतु लब्धमपि नाशयितुम् । पश्यत- स्थानाच्च्यावयितुं क्षणात्पुनरपि स्थानेऽभिषेक्तुं च वा शक्ताः केलिकथान्तरेष्वपि भवन्त्योद्गता यद्विरः । तेऽमी सर्वसुनिता दनुभुवः संधाय किं धावता भिक्षार्थं परितोऽधुना मघवता संपादयन्त्वीप्सितम् ॥५॥ अपि च- गौरश्वः करिणः स्त्रियो मणिगणाः शस्त्राणि वस्त्राणि वा यानि प्राभृतयेम तान्यपहतान्याक्रम्य तैरेव नः । तद्रिक्तेन करेण रिक्ततरया वाचापि चाहं कथं शक्तः स्यां दनुजेश्वरान्वशयितुं संद्रष्टुमप्यन्ततः ॥६॥ इति युक्तियुक्तमुपपाद्य विरमति देवगुरौ, विहस्तेषु च समस्तेषु दैवतेषु कृतमुखः स्वयं शतमखः किंचिदिदमाचचक्षे । 'भगवन्ने- वमेवैतद्यदभिहितं भवता । किंतु- कृतमुखः कुशलः । 'वैज्ञानिकः कृतमुखः कृती कुशल' इत्यमरः ॥ - नोलकण्ठविजये निःसंख्यस्फुरदुत्तरोत्तरचमत्कारासु धारासु ते वाचामक्षरमक्षरं त्रिजगतीवाग्गर्वसर्वकषम् । श्रोतुं लालयितुं पुनः प्रतिसमाधातुं च वा किंचिद- प्याश्चः क इमे वयं यदि परं देवः स वाचां निधिः॥७॥ परं त्विदमेकमनुस्मारयाम्यादिष्टं यदध्यक्षमेव नः सम- स्तानां संधानं कुरुतासुरैरिति शार्ङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम् । शिष्टं यदत्र दुष्टं वा न विवेक्तुं क्षमामहे । स जानाति स जानीते त्वं जानीषे तदन्ततः॥८॥ इति । अनितरशरणत्वमात्मनस्तदृढमुपपादयताथ देवभा । प्रतिहतवचनो गुरुः सुराणां प्रकटयितुं धियमात्मनः प्रतस्थे । गच्छन्नेव च स पथि सर्व करणीयमवधारयामास । अपिच- अयं कालो बुद्धेरयमवसरश्चाटुवचसा- मियं युक्ता वेला दिशि दिशि यशः संघटयितुम् । असावत्य? नः सुकृतमुपचेतुं सुमहदि- त्यवस्यन् प्राप प्रागसुरगुरुमाखण्डलगुरुः॥१०॥ ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैः, अभ्यर्च्य विधिवदादिभिः सपर्याभिः, आसयन्महति मणिविष्टरे, भार्गवः सः विष्णुः जानाति । क्रियाफलस्य देवगामित्वात्परस्मैपदम् । सः ब्रह्मा जानीते। ब्रह्मणो विश्वाभिमानित्वात् क्रियाफलं कर्तृगामि, अतोऽत्रात्मने- पदम् । त्वं जानीषे । बृहस्पतेर्देवगुरुत्वारिकत्याफलमत्र स्पष्ट कर्तृगामि ॥ . ८ तृतीयाश्वासः। स्वयमासीनस्तदनुज्ञया सविनयमिदमाचचक्षे- 'अद्य मे सफलं जीवितं, अद्य हुतं विधि वदग्निषु, अद्य दत्तमतिथिष्वभ्यागतेषु, अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरवः, अद्य फलिनो गृहाश्रमाः । किं बहुना । अद्यायमन्वयः प्रतिष्ठितो भृगोः यदल्लिखितं मनोरथैः, अनवाप्यं तपोभिरपि, आशासनीयं गृहमेधिनां, आसादितमनायासेन मया स्वयमागमनं भगवतोऽ धुना' इत्युदाहरति भार्गवे पुनरिदमुवाच वाचस्पतिः 'पुत्रावुभौ प्रथमजौ भृगुरनिराश्च ख्यातौ कुले शमवतां ननु पद्मयोनेः । तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्न- श्चित्रीयते किमिह सोदरसंप्रयोगे ॥ ११ ॥ अपि च- निष्ठामाश्रमधर्मपालनविधौ नित्याभियोगं शिवे शक्तिं कर्तुमकर्तुमन्यथयितुं तन्त्रेषु राज्ञामपि । श्रावंश्रावमनुक्षणोपचितया प्रीत्याहमस्म्यागतो यत्सत्यं भवदीक्षणाय हृदये तत्रावयोः साक्षिणी ॥ १२॥ इत्यभिदधानो गुरुरलमतिवात्सल्यादतिलालनेनेत्यभिधाय, विसृज्य सामाजिकान् , विविक्ते पृष्टः कविना समागमनकारण- वैश्वदेवात्पूर्व गृहमागता अतिथयः । वैश्वदेवकाले य आगतास्तेऽभ्या- गताः ॥ ५२. तत्र गुरुशुक्रया परस्परप्रीतो आवयोः गुरुशुक्रया हृदये हृदयं च हृदय च साक्षिणी॥ --
नीलकण्ठविजये
-
मुदाजहारैनमुपपत्तिगर्भया गिरा । 'आवेदनीयं किमखिलवेदिर
भवादृशेषु । तथा हि-
जानीषे जगदेव तावदखिलं स्वमेन्द्रजालोपमं
जानीषे ह्यधिकारदुर्विलसितं संसारमप्यावयोः ।
जानीषे भगवत्परिग्रहपरीणाहं सुपर्वस्वपि
व्याहर्तव्यमितोऽस्ति यत्तदपि ते नापेक्षते मद्गिरम् ॥१३॥
अपि च-
येनादिश्यत वेधसा जनिमतामद्रोहतो जीवनं
तेनैव त्वयि दुर्खियां दनुभुवामादिष्टमाचार्यकम् ।
असिन् किं करणीयमर्थगहने मीमांसकैर्मादृशैः
शक्तस्त्वं त्वनुवर्तितु तदपि खल्वाकाशवर्तितुम्॥१४॥
तत्कथंचिदेकीकृत्य देवासुरानेकान्तशीलाभ्यामावाभ्यामा-
सितव्यमिति वक्तुकामोऽहमागतोऽस्मि ।' इत्यभिहितो गुरुणा
यथार्थमेव तदालोचयन् कविरिदमाबभाषे-'भगवन्नेवमेवैतत् ।
तथा हि-
जानाम्येव यदाह पअनिलयो यच्चाह विश्वंभरो
यच्चास्ते हृदि ते यथा किल तदप्यग्रे विवर्तिष्यते ।
कस्त्वं संघटनेसि को विघटनेऽस्म्याकृष्य विश्वात्मना
योक्ष्यन्ते नचिरण चेह तृणवद्वातेन देवासुराः ॥१५॥
तृतीयाश्वासः। ६५ तदस्तु यथातथा वा संमुखीकरिष्यामि दानवान् , संभाव- यिष्यामि च भवन्तं, ततो यथामनोरथमभिधीयतां' इत्युपच्छन्ध, समानीय बलेः सभां, सभाजयन्विविधैरुप चारैः, सल्लापयामास वासवगुरुम् । 'भगवन् दिष्टयासि दृष्टश्चिराय । किमागमन- कारणं, किं कुशली मे भ्राता पुरंदरः, स किं करोति, किमावसति, नामापि तस्य न शृणुमहे तदाप्रभृति' इत्यनुयुजाने बलौ सोत्प्रा. समाददे गिरमाङ्गिरसः ॥ - 'देयं यस्य सदेवमर्त्यभुजगं विध्यण्डमेवाखिलं पात्रं यस्य जगन्निधिः स भगवान् देवः सरोजेक्षणः । शिष्यो भूतपतेरसौ कुलगुरुर्ययोशना भार्गवः कीर्तिर्दानवराज तस्य भवतः कासां न पारे गिराम् ॥१६। तदभिगम्यापि सुदूरमवलोकयितव्यः पुण्यश्लोको जा इत्यागतोऽस्मि । भ्रातुरपि ते वृत्तान्तमावेदयामि ।। यस्यैवं भूर्भुवस्स्वर्भुवनपरिबृढो वर्तसे पूर्वजस्त्वं दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा। संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेनं प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात् स यदैव सङ्गररङ्गमारूढो यो कामोऽवतस्थे तर्द तमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्माष्टुं मुनिशापर 5 नीलकण्ठविजये लिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वर नियुयुजे ॥ यः शक्यो न दृशापि गोचरयितुं सत्वैस्तमोगन्धिभि- यंत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते । अध्यारुह्य तमेव मन्दरमभिध्यायन्य आस्ते शिवं कस्तं द्रक्ष्यति का प्रवक्ष्यति कथां देवोऽपि वा दानवः ॥ प्रह्लादः प्रथमो गुरुभगवतस्तन्त्रेषु लक्ष्मीपते- या॑तेने च विरोचनं कमलभूरध्यात्मविद्यानिधिम् । बाणः पारिषदाग्रणीः पशुपतेस्त्वं तु प्रवेकः सतां सिद्धानामपि योगिनामशृणवं नैवं कुलं निर्मलम् ॥ १९ ।। तदत्र महाकुलप्रसूतस्य भवतो महदनुशिष्टस्य किमा- वेदनीयमन्यैः । स्वयमेव महाभागः स्वरूपं पर्यालोचयतु कार्यस्य ।। ददति च वरं दत्वा सद्यस्तमन्यथयन्ति च द्रुहिणहरगोविन्दाद्या दैत्येष्विति स्फुटमेव वः। न च नियमतो देवानेवानुकम्पितुमीशते यदसुरवरान् मध्ये मध्ये समुद्गमयन्ति च ॥ २०॥ अतो ब्रह्मेशविष्णूनामपि शुद्धचिदात्मनाम् । आचूडादानखाग्रेभ्यो मन्ये मायामयं वपुः ॥ २१ ॥ तदप्रदाय परेभ्योऽवकाशमन्योन्यसमवेतेषु युष्मासु- तृतीयाश्वासः। ६७ यन्नैश्चिन्त्यं यदौर्जित्यं यद्धलं या सुखासिका । यद्यशो यः प्रतापश्च सर्व तदनुचिन्त्यताम् ।। २२ ॥ आस्तामिदम । अवश्यं हि विग्रहवत्सु युष्मासु भवित- व्यमप्रकाशेन मया वा भार्गवेण वा। तथा च- निर्वय॑माना यत्नेन निर्जरैरसुरैश्च वा । काः क्रियाः फलवत्यः स्युरावयोरप्रकाशयोः ॥ २३ ॥ आखण्डलस्य तु मतिरन्याशी- स्थीयतामग्रजैः खर्गे जीयतामनुजेन वा। सर्वथा भ्रातृभाग्येन संवृत्तं नः प्रयोजनम् ॥२४॥ इति । अहं तु भवतः माझ्यादविशङ्कमवादिषम् । न खल्वा- त्मनः सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिह- रणीयं, धीमतां धीरेव सचिवः शासिता' इत्यभिधाय विरमति देवगुरौ, अवलोकितो बलिना, भार्गवः सामाजिकाननुमोदयनि- दमाचचक्षे-'भो भो सकलाशयमर्मज्ञाः, ममयज्ञाः संधिविग्रह- योः, पारीणा नीतिपथे भवन्त एव प्रमाणमर्थेषु ।। यद्यप्यद्य गतश्रियः सुमनसो यद्यप्यसौ तद्गुरु- यद्यप्यस्ति फलं न किंचिदपि नः संधाय साध्यं सुरैः। पर्यालोच्यमथापि किंचिदुदधिं निर्मथ्य लब्ध्वा सुधां पास्यामो वयमित्यसौ रहसि मां यत्प्राह दिव्यो मुनिः ।। २३. गुरुशुक्रो यदा अस्तगता दा शुभकमोर्णि न कुर्वीतेति हि दैवज्ञाः ॥ ..
६८ नीलकण्ठविजये प्रस्थाप्य सद्य इति । तच्छृण्वन्त एव दानवाः संमोहिता मायया वैष्णव्य सद्य एव संमेनिरे, आहुश्च- 'संधास्यामः शमधनगिरा निय॑लीकं सुरैः प्राक् क्षोभिष्यामो जलधिममृतं तत्र लप्स्यामहे च । पास्यामश्चाप्यथ तदुभये यद्यमी साधवः स्यु- नैवं चेकि विहतमियता बाहवः कागमन्नः ॥ २६ ॥ इति । ततः साधु साध्वित्यनुमोद्यमानाः सचिवेन, वाचस्पति, प्रथमतः संधास्यन्तः प्रतस्थिरे दानवाः एव मन्दरम् । पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः संददर्श मन्दरमेय संततशिवध्याननिषूतकल्मषान् शिवार्चनतिनः शिवार्पितप्राणान् शिवनामकीर्तनपवित्रितमुखान् शिवकथापा- रायणपरायणान् शिवाहंभावभावितान् शिवाद्वैतवादकोविदान भस्मदिग्धतनूरुहान् भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थानमनोहरान प्रालम्बिजटाजूटवलयावलम्बितशकुनिकुलनादशकुनावेदितसंनिहि- तशांभवप्रसादान् शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासीर- मुखान् बहिर्मुखान् ॥ आख्याय निखिलं वृत्तमाशयं च विरोधिनाम् । आदितेयान् स दैतेयैः संधातुं समनीनहत् ॥ २७ ॥ ततो महता बलेन महता संनाहेन महता चावधानेन संधातुमागताः सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणत-
तृतीयाश्वासः ।
६९
तपोविशेषेण परिक्षीणकल्मषतया दुर्दर्शान् मध्याह्नभास्करानिव,
दुरासदान् युगान्तपावकानिव, विनम्भणीयान् विश्वसृज इव,
पुनः पुनदर्शनीयान पूर्णसुधाकरानिव, संलक्ष्य गीर्वाणान् , संत्यज्य
दुर्विशङ्कितानि, प्रतिषिध्यानुयात्रिकान्, परिहृत्य शस्त्रास्त्राणि,
निर्मलेन मनसा निरन्तरं परिरेभिरे । संक्रन्दनोऽपि यथान्यायं
समागम्य दानवैः, अभिवन्द्य पुरोधसं भार्गवं, अनुमतो
वाचस्पतिना, किरन्निव सुधारसं, किंचिदिदमाचचक्षे-
'साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं
साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः ।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्धाभि-
ायोभिर्यदहं विरोचनमुखैर्वात्सल्यपात्रीकृतः ॥२८॥
अपि च-
आराद्धा ननु यूयमेव गुरवस्त्रैलोक्यराज्यार्पणा-
दाराद्धा गुरुभार्गवप्रभृतयो ब्रह्मर्षयः शक्तितः ।
किंकर्तव्यमितोऽपि केवलमिह श्रान्तोऽसि शान्तोऽसि च
प्राप्तुं तत्परमामृतं यदि भवत्याज्ञा यतिष्ये सुखम् ॥ २९ ॥
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः 'भैवमाखण्डल मैवम् ।
त्वमसि शतक्रतुस्त्वमसि नीतिपथे कुशल-
स्त्वमसि दयास्पदं भगवतः प्रमथाधिपतेः ।
अपि खलु बालकेन भवता भवता मघवन्
निखिलमनाकुलं कुलमिदं प्रतितिष्ठते नः॥३०॥
७० नीलकण्ठविजये व्यापृते त्वयि तपसि राज्यमिदं व्याकुलीभवेदिति सं रक्ष्यतेऽस्माभिरनियुक्तैरपि साह्यमेवानुचिन्त्य भवतः । एकेन विधृतं राज्यमियन्तो वयमीदृशाः। निर्वहन्तोऽद्य जानीमो नैपुण्यं वत्स तावकम् ॥ ३१ ॥ अमृतं यदि भोक्तव्यमनुमन्यामहेतराम् । संविभज्यैव तद्भोज्यं न निर्भज्येति नो मतिः ॥३२॥ तदाख्यातु भवानर्णवमथनोपायमादिष्टं नारायणेन' इत्यनु. युञ्जानेषु दानवेषु, यथाश्रुतमाख्याय पुरन्दरस्तमेव मन्दरमुत्पाट्य सागरे निपातयितुमुत्साहयामास बलिम् । ततः 'कियदेतदुत्पा- टनं नाम गिरेः, विधमामो मुखमारुतेन, विक्षिपामोऽङ्गुलिस्फोटेन, समुद्धरामो वामहस्तेन, संक्रमयामः सायकेनैकन' इति बलोत्से- कादुश्चावचं गर्जत्सु दानवेषु, बलिरिदमवादीत्---'हन्त कथमर्भ- का इव यूयमकृतप्रज्ञा इव निरङ्कुशं प्रतिजानीध्वे । विंशत्यापि भुजैः पुरा गिरिवरं विक्षोभयन् शूलिन: पादाङ्गुष्ठनखाग्रयन्त्रणदलद्दोःसंधिबन्धश्चिरम् । क्रोशंक्रोशमवाप वार्षिकनिशामण्डूकवद्यः श्रमं युष्माभिः श्रुतिगोचरं न गमितः शङ्के स लकेश्वरः ॥३३॥ अपि द्रष्टुमशक्यो यः सिद्धैरपि महर्षिभिः । विना शंभोः प्रसादेन कथमुत्पाटयेम तम् ।। ३४ ॥ ३२. निर्भज्य एक भागशून्यं कृत्वा ।
तृतीयाश्वासः। - तदद्य वयं सर्वे प्रपद्य भगवन्तमुमाकान्तं प्रसाद्य वा- नःकायैः. प्रार्थयेमहि प्रार्थनीयं' इति । ततः साधु साध्वित्यभि. नन्धमाना भार्गवाङ्गिरसाभ्यामन्योन्यकृतसंविदो देवासुराः, प्रति- पद्य मन्दरं शैलं, प्रणिधाय मनांसि, वर्तमानाः कठोरे तपसि, वाग्भिरस्तुवन्नित्थमम्बिकारमणम् - 'युगविगमोन्मिपद्विषमलोचनकोणपत- श्रुतवहविस्फुलिङ्गहुतसर्वजगद्धविषे । अचलधनुर्धराय हरिणाङ्कशिखामणये विजयजयैकहेतुविशिखाय नमो भवते ।। ३५ ॥ शिवं ध्यायस्यन्तः सकलजगतां यच्छसि शिवं शिवोऽसि त्वं नाना ननु शिवतरश्चासि विदितः। शिवार्थी जन्तुस्तच्छिवमखिलभावेन भगवन् भवन्तं हित्वान्यं शरणयतु कं न्यायशरणः ॥३६॥ तदिदानीम्- मन्दिरं क्षाळयन्तस्ते मन्दरं दुग्धसागरे । अमृतं लब्धुमिच्छामस्तद्भवाननुमन्यताम् ॥ ३७॥ इति । ततस्तथा कुरुतेति घनस्तनितगम्भीरया गिरा गगनसंभ- वया संतोषिताः सन्तोऽसुराः सुराश्च समनह्यन् ॥ विनिघ्नन्तः पादैरथ विचलयन्तः करतलै- रुदस्यन्तो दण्डैरुपरि च किरन्तस्तमिषुभिः ।
७२ नीलकण्ठविजये निषेदुः श्रान्तास्ते यदपि च विषेदुर्दनुभुवो निमित्तं दुष्टं तन्निखिलमुशना तेषु जगृहे ॥ ३८ अथ प्रतीक्षमाणश्वरलग्नमाचार्यों दिवौकसां 'संवर्तोचि रूपमालम्ब्य सर्वतो वाहि' इति संदिदेश गन्धवाहम् ।। अथ दिवसावसान इव पबभुवः पवन: स्वयमकृत क्षणादिव विदिक्षु च दिक्षु चरन् । अलघुविचूर्णितार्णवसमुक्षितकुक्षितल- क्षितिवलयार्द्रताशिथिलमूलमहार्यकुलम् ॥ ३९ ॥ स्तोकस्तोकप्रचलदनिलग्रासदुर्भिक्षखेदैः कालं कालं कथमपि चिरं यापयांचक्रिरे ये । आकण्ठं ते पपुरिममविच्छिन्नधारं समीरं प्राप्ताः शंभोरुपकरणतां पन्नगास्तन्नगाग्रे ॥ ४० ॥ अथ तमदृष्टचरं वेगमनलसारथेरभिनन्दत इव मन्दरस्य गिरेरलक्ष्यत मनागिव शिरःकम्पः ।। चकम्पे हन्तायं गिरिरनुचकम्पे पुरहरो जहीतेदं क्लैन्यं जहित च वृथावस्थितमिदम् । इति खेन खेन व्यवसितधियः काश्यपसुताः समेता गर्जन्तः सपदि चलयामासुरचलम् ॥ ४१ ॥ तदानीं च- - ३९. पद्मभुवः दिवसावसानं प्रलयः॥
तृतीयाश्वासः। ७ निष्पतममुत्पतत्खगमद्भुतस्खलदश्मभू- जर्झरसुतनिर्झराम्बुझळझळारवभैरवम् । गर्भगहरनिर्भरभ्रमदुद्भटानिलपूरित- क्रन्ददन्तरकन्दरं किल मन्दरं ददृशुर्जनाः॥४२॥ , गर्जन्तश्च ते तदनु पर्जन्या इव गणयन्तश्च करगतमिव कार्यमशेष, पूर्वतो दिक्पतीन् , दक्षिणतो देवानपरान्, पश्चिमतो बाणं सहस्रबाहुं, उत्तरतो महासुरानितरानपि विभज्य विनियुञ्जा- नाः, खाते परितः परिखावलय इव मूलगर्ने कराञ्चलानि निद- धानाः, परित्यजन्तः प्रहरणानि, परिहरन्तोऽङ्गुलीयकानि, आ- बध्नन्तः कटितटेषूत्तरासङ्ग, आरोपयन्तः कङ्कणान्यङ्गदस्थानं, उपवीतयन्तो निवीतलम्बीनि हारमण्डलानि, उद्बोधयन्तः पर- स्परमसकृदपि 'समं निधत्त कराञ्चलानि, सममुत्तम्भयत, समं विख्सयत, सममुच्छसित, समं निःश्वसित, समं कुरुत बलानि, परथा विशीर्येयुः शिखराणि, विनमेदयमेव मन्दरः, कापि चले- दपि ततो भद्रपीठं चन्द्रापीडस्य, समुद्विजेत दुहिता शैलराजस्य, क्षुभ्येयुः प्रमथाः, कुप्येदपि शैलादिः, चतुरन्तयानगत इव भग- वानम्बिकारमणश्चतुरतरमस्माभिर्वाहनीयः' इति, वादयत्सु वादि- त्राणि गन्धर्वेषु, गायन्तीषु गाथाः किन्नरीषु, नृत्यन्तीषु निर्जर- वारकान्तासु, श्लाघमानेषु चारणेषु, प्रयुञ्जानेष्वाशिषः परमर्षिषु, वर्षत्सु दिव्यवलाहकेषु पुष्पवर्षाणि, हर हरेति तारध्वनिभिरा- पूरयन्तो विध्यण्डमण्डलमुन्नमयामासुरुधिरं मन्दरम् ।। .
नीलकण्ठविजये आपातालनिमनमूर्तिनि बलान्मूले समुन्मूलिते शैलस्यास्य भुजङ्गराजनगरप्रासादशृङ्गायिते । खेलन्त्यः शतशः फणीन्द्रसुदृशः स्वच्छन्दमत्रास्पदे हृष्यद्भिः प्रतिलेभिरे दिविचरैरक्लेशमप्रार्थितम् ॥ ४३ अपि च- अभ्यर्णस्थलभाजि तत्र शिखरिण्यामूलमुन्मूलिते तत्क्षोभक्षुभिते च काश्चनगिरौ किंचित्समाकुञ्चिते । विभ्रश्यगृहभित्ति विश्लथपुरद्वारं विशीर्णत्रुट- सौधोत्सेधविटङ्कसंघमजनि स्थानं सुराणां तदा ॥४४॥ समुद्धृत्य तमारसातलप्रतिष्ठमपि सद्यः समारोपितं कल- ममिव लीलया प्रस्थिताः दुग्धार्णवं प्रति देवासुराः । आशि- थिलशिखरं अप्रकम्पनितम्बं अखण्डितगण्डोपलं अनुज्झितनि- झरप्रवाहं अस्फुटितपर्यन्तदर्यन्तरं अभञ्जिततरुपुञ्ज अनुत्खात- लतावितानं अस्पन्दमृगबृन्दं अनुद्धान्तशकुन्तं अव्यापन्नपनगं अनवसन्नकिन्नरीगानं अस्तब्धसिद्धचारणकोलाहलं अविश्रान्तगा- न्धर्ववादित्रं अनुपरुद्धनपोधनध्यानं आनन्दयन्तो भगवन्तमुमाका- न्तमवहन्त मन्दरम् ! स च नीयमानः मर्वैरपि सुरासुरैरखिल. भुवनाधारस्य पशुपतेरप्याधारतावलेपादिव पादैराचक्राम शिरांसि पर्वतानाम् । परितःस्फुरदच्छनिर्झरापदेशेन प्रत्यक्षमिव विचकार दिङ्मुखेषु यशांसि निर्मलानि । आकाश एव नीयमाने तस्मिन् , अधस्तनीषु दिव्यभूमिषु तासु तासु तपस्यन्तस्तपोधनाः कतिचि- तृतीयाश्वासः। दतिचकिताः प्रायुञ्जत परमाशिषः, परिपेठः स्वस्त्ययनानि, अज- पन्नभयंकरं, आवर्तयन्नमृतमृत्युंजयं, अनुदध्युरापदुद्धरणम- म्बिकारमणं, आशशंसिरे च बलातिबलाभ्यामश्रमं दिविचराणाम् । महाप्रकाशमणिगणाकीर्णस्य तस्य चलतः पथिवशादागत्य पार्श्व- तलमध्वप्रतिरोधादत्रैव निलीयमानः पतिरपि त्विषां प्रदीप इव दिवा प्रवर्तितो भग्नतेजा ददृशे । अपि च पुनरक्लेशमानीयमाना पत्या सह कात्यायनी रुचिरान् प्रदेशान् पश्यन्ती विविधानि वस्तूनि परिपृच्छन्ती प्रणयिनमभीक्ष्णं प्रसन्नेन चेतसा स्थापयि- ध्यतोऽपि गिरिमनुजगृहे देवासुराननुजगृहे ।। उडीय स्वयमुत्पतन् गिरिरसौ वाचैव नेतुं क्षमो भग्नस्कन्धशिरोधरैर्दिविचरित्थं यदद्योह्यते । एतत्पर्वतपक्षतिक्षतिकृतो मूर्खस्य दौष्कर्म्यमि. त्यायस्ताः पथि पर्यभाषिषत ते सर्वे सुपर्वेश्वरम् ॥ ४५ ॥ अपि च-- भनो यस्य दशाननः प्रचलने किंचित्प्रवृत्तः पुरा शक्यं तस्य गिरेः कथं नयनमित्यस्ताविषुः साधवः । अन्ये चक्षमिरे न तद्भवति का श्लाघात्र शाखामृगै- रानीताश्च निपातिता हि जलधौ शैलाः समूला इति ॥४६॥ इत्थमतिभारभङ्गुराः सुरासुरा यावदासेदुरन्तिकं दुग्ध- निधेस्तावदुद्वेगः श्वेतद्वीपसदामुदजृम्भत । 'पश्यत पश्यत पर्यन्ते ७६ नीलकण्ठविजये , - नीयमानं महागिरि, पातयिष्यते नूनमत्रायमर्णवे, परिप्लावयि- ध्यते च स निःशेषमिदमन्तरीपं, तदद्यैव सजीभवत समुत्तिष्ठत सर्वतोऽपि वेलामुच्छ्रयध्वं' इति, 'हन्त केनेदमुत्प्रेक्षितं बकबन्ध- कौशलं, किंचिदपि चेदुच्छसिति सागरः किं करणीयमुच्छ्रितयापि वेलया, तदारोक्ष्यामो वयमद्यैव वैकुण्ठमर्कमण्डलं वा धाम त्रिधाम्नः' इति, 'अनुचितमेतदालोचितं, अयुक्तं हि सेवकानाम- पहाय भगवन्तमन्यत्र गन्तुं' इति, 'किमुच्यते भगवन्तमप- हायेति, किं न विचारितं भवता, भगवानेव मन्दरपातदर्शन- कुतूहलव्याजेन प्रस्थातुकामो वर्तत इति, कति वारानेष पपात मन्दरः, कति वारान्नोदजृम्भत सागरः, कस्यापि ब्रह्मणः कल्पे न जानीमो वयं विप्रवासं, अहो खल्वमीभिराधुनिकैर्बाध्यामहे भागवतैः' इति, 'भवतु भवतु कथयन्तोऽपि दृढमितोऽपि कबलिताः सरिद्भिः सागरैश्च महत्वायतनेषु महीगतेषु शाङ्ग- पाणेः कति न भवद्विधाः परमभागवताः, तदास्यतामिहैव भवद्भिः, आधुनिकास्तु वयमज्ञातपारावारा गोपायन्तः क्वचि- दात्मानं गोविन्दमेव निरन्तरमनुसंदधीमहि' इति च विप्रवदतां विविधान्वादान् पश्यतामसकृदुन्नम्योन्नम्य, परिपृच्छतामाग- च्छतो वैमानिकान् , परिभ्रमतामभितोऽपि कोलाहलेन महता, पारिषदानामग्रणीः कुपितो विष्वक्सेनो बहिर्निर्गत्य परितोऽपि चक्षुः प्रसारयन्नवलोकयन्नानीयमानमभ्यर्ण एव मन्दरं, अवधार. यन्ननुपदमेव तस्य सिन्धौ निपातनं, विज्ञापयामास विनयेन विदितवेदितव्यमपि स्वधर्म इति विश्वंभरम् ।।
तृतीयाश्वासः । व्यत्यस्तकौस्तुभमवप्लुतवैजयन्ति विस्रंसमानकनकाम्बरलोभनीयम् । सद्यः फणीन्द्रशयनादुदतिष्ठदीशः कैलासशैलशिखरादिव कालमेघः ॥ ४७ ॥ दिव्यैः पञ्चभिरायुधैः सविनयैराबद्धसेवाक्रम- स्तत्कालोपनतैस्तपोधनगणैर्धन्यैर्वृतः कैरपि । अभ्यणे वसतस्तदा खगपतेरालम्ब्य हस्तं शनै- विष्वक्सेननिवेद्यमानसरणिर्विश्वंभरो निर्ययौ ॥ ४८ ॥ अथ तमतर्कितोपनिष्क्रान्तमरविन्दनाभमवसरज्ञो विधि- रर्धपथे समेत्य सह महर्षिभिर्विविक्तसेवावसरलाभविस्मयानन्द- मन्थरः पश्यन्तमचलनिपातकौतुकं परिवार्य केवलमवतस्थे । नवकुवलयदामश्यामलस्निग्धमुग्धं नलिननयनमाद्यं तत्त्वमालोकयन्तः । परिजहुरमरौघाश्चेतसा कार्यभार परिजहुरुभये ते पाणिभिः शैलभारम् ।। ४९ ॥ ततश्च । सुरासुरकरोदरस्खलितशैलमूलस्थल- स्थितोपलतलाहतिक्षुभितसिन्धुबन्धुत्थितः । भ्रमत्तिमितिमिङ्गिलभ्रमितवालकोलाहलैः समं निखिलमम्बरं परिववार तारस्वनः ॥ ५० ॥ ५०. सिन्धूनां सरितां बन्धुः समुद्रः ॥
नीलकण्ठविजये स्खलदचलसमुद्भवल्लोलकल्लोलकोलाहल- व्यतिकरवधिरभ्रमत्कूर्मनक्रद्विपक्रन्दितैः । स्फुटितकमलजाण्डमाण्डप्रचण्डस्वनोत्प्रेक्षण- बु क्षुभितविविधमुक्तहाहारवैश्वाहसीदच्युतः ॥ ५१ ॥ निर्मग्नमन्दरमणिधुतिसंप्रदिग्धा निष्पेतुरम्बरतले पयसः कणा ये । लग्नाश्चिराय लिकुचामलकाम्रमात्रा- स्तारास्त एव परिणेमुरिति प्रतीमः ॥ ५२ ॥ पथि गिरिवरादस्माद्धारावसन्नसुरासुर- प्रतिपदकृतस्कन्धव्यत्याससंभ्रमकम्पितात् । मणिभिरभितो यस्यां यस्यां भुवि स्खलितं क्वचि- समजनि खनिः सा सा नाम स्थलेषु जलेषु च ।। ५३ ।। अपि च विदूरादम्बरतलादापततोऽस्य महता वेगेन प्रकीर्यमाणे पर्यन्तगते निरवशेपं परिपीयमाने च दरीमुखैरेव परिसरगते पयसि, शून्यमिवार्णवं मन्यमाना नभश्चरा निर्म- मज्जुरुभयेऽपि भये । उन्मथिनेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः करिण एव जलकरिणः, किराता एव जलमानुषाः, निर्झरचराः शफरा एव तिमयश्च तिमिङ्गिलाश्च संपेदिरे । अपि च पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमादायादाय सुखमभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्द- नन्दिमुखा गणाः । ऊर्ध्वमायुलोकादुत्पतता च दुग्धपूरेण परि- तृतीयाश्वासः। प्लाविता सिद्धनदी बभूव दुग्धनदी । संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि सुधामधुराणि सुवते फलानि ॥ मजन्मन्दरशैलकन्दरपुटव्याघूर्णदोभर- स्वैरोजागरघोषभीषणपयाकल्लोलिनीवल्लभाः । खेदस्तम्भितकिंपचानविबुधप्रारब्धभूरिस्तवा गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः ॥५४॥ मज्जति मजति शैले पतति च पततीह कुलमिदं घुसदाम् । शरणं शरणमतस्त्वं शार्ङ्गधरेति प्रचुक्रुशे विवुधैः ॥ ५५ ।। ततश्चकितसुरासुरस्तोमसंस्तूयमानो भगवानरविन्दलोचनः प्रसादविमलपावनैः परिवहत्करुणासारसान्द्रितैः कटाक्षैरनुगृह्य, कल्पतरुपल्लवोल्लासिना कैवल्यलक्ष्मीनिवासमन्दिरेण करारविन्देन तानाश्वासयामास । तत्क्षणं च भूभारभङ्गुरभुजङ्गपुङ्गवभोगवलय- परिबृंहणादिव कुलिशकर्कशेन शाणनिकृष्टवज्रफलकस्निग्धेन सर्वतोऽप्यशेपभुवनात्मनाप्ययुतयोजनमात्रविस्तारशालिना चर- माङ्गेन, पाराशर्यसंक्षेपपरिमितैरनुश्रवैरेव चतुर्भिश्चरणैः, संकोच- विकासशीलया माययेव कन्धरया, ममस्तागमम्तोममस्तकेनेव च मस्तकेन परमाद्भुतन ममुद्भवन्नवनिगर्भाच्चापमुक्त इव सायकः समग्रेण रंहसा समुत्पपात महान् कमठः ।। पाराशयः व्यासः तन कृत संक्षेपः तेन, परिभितरनुश्रवैरेव चतुर्भिश्च- रणैः । वेदानां चदष्टं व्यासकृतमंविभागादारभ्येति वेदितव्यम् ॥
नीलकण्ठविजये प्रत्युषत्कमठकठोरपश्चिमाज- व्यासङ्गप्रशिथिलमूलसंनिवेशः। उत्क्षिप्तः प्रतनुरिवोपलो बलिष्ठै- रदिगुदपतदर्णवाद्विदूरे ॥ ५६ ।। उद्वान्तसागरपयोभररिक्तगर्भ- पर्यन्तकन्दरगळत्पवनो गिरीन्द्रः । मग्नोत्थितः सलिलतो महता श्रमेण निःसीमनिःश्वसितखिन्न इवाबभासे ॥ ५७ ॥ आलक्ष्य च तदाश्चर्यमानन्दमन्थरेपु बृन्दारकेषु, • कृतार्था वयममुनाऽनुग्रहेण किमतः परं करवामेति विज्ञापयत्सु विनयेन गरुडध्वजं, समानयत वासुकिमित्यनुशशास समीपगतश्चतु- राननः । ततस्तथेति प्रतिगृह्य शासनं तस्य निर्जिहाना बहि- निर्जराः समानग्रामा यूयमेव समानयत वासुकिं सान्त्वनेनेति प्रार्थयामासुरसुरवरान् ॥ प्रागेव पातालजुषां प्रवृत्तिं जिज्ञासवो दारकुमारकाणाम् । ते मन्दरोद्धारबिलाध्वनैव सद्योऽवतेरुर्दनुजाः प्रहृष्टाः ॥ ५८ ॥ प्रविशन्तश्च ते ददृशुरतर्कितोद्धृतमन्दरमूलकन्दरोद्वान्तम्- छितपन्नगाश्वासनपरिभ्रान्तबन्धुजननिरन्तरं, अर्णवनिमज्जद- चलराजसंमर्दनिर्दलदतलवितलादिलोकनिष्पेषघोषभीषिताश्वसदा- श्वस्तविहस्तजानपदजनाकीर्ण, अतितूर्णमुद्गच्छदादिकच्छपनिष्ठुर- , तृतीयाश्वासः। ८१ पृष्टसंघट्टनस्फुटितशैलशिलाभङ्गसमुञ्चलदभङ्गुरस्फुलिङ्गपरिष्वङ्गदंद- ह्यमाननगरग्रामपल्लीनिवेशं, निरन्तरोत्पातधारानिरीक्षणसाध्वसेन पतिष्यति नाम भूतलं, चलिष्यति नाम सुमेरुः, स्फुटिष्यति नाम विध्यण्डकपालं, प्रवेक्ष्यति नाम सागरः, परित्यक्ष्यति नाम शेषो भुवनभारमित्यसंभावितमूलमनुक्षणमुच्चलन्तीभिः किंवदन्ती- भिः समाकुलमभितो रसातलम् । समागम्य ते वासुकि सभाजिता यथोचितं समावेद्य सागरमथनसंरम्भम् , अनुपदमेव कथान्ते कथयामासुः शनैरेव भवितव्यं भवता मन्दरवेष्टनदान्नेति । अनुमोदमानो वचनममीषामाह च स्मेदमुरगपतिः-- 'अहो चिराय मया श्रुतोऽयमभ्युदयो भ्रातृजनस्य । यत्किल समागम्य दैतेयैरादितेयाः साधयन्ति मनीषितम् । तत्र स्वयमनियुक्तैरपि काद्रवेयैातृभिस्तत्साहायकमाचरितव्यमिति न्याय एव चोदयति, अत्र किमावेदनेन भवताम् । परं तु- मूले वालधिमग्रतः सुरगिरेमौलिं च मे बनता कल्पे प्राचि पिनाकिना भगवताकृष्टोऽस्मि यल्लीलया । तत्कालश्लथसंधिवन्धपरिवृत्तास्थीनि मर्माणि ता- न्यद्यापि सितजृम्भितक्षवथुषु खाच्छन्द्यमुच्छिन्दते ॥५९॥ अपि च- यस्तल्पेष्वपि कोमलेषु शयितुं शक्नोमि नाश्मस्विव त्यक्त्वा कुण्डलतां वपन्नपि च यो नायन्तुमद्योत्सहे । पाषाणद्रुमगुल्मकण्टकदरीकूटप्रपातोद्भटं सोऽहं वेष्टयितुं क्षमः किमचलं गात्रै राजर्जरैः॥६॥ - 6 नीलकण्ठविजये तदद्य किंचिदनुगृह्य मां, नयन्तु भवन्तस्तक्षककार्को- टकशङ्खचूडगुळिकैरावतपद्ममुखान् महात्मनस्तरुणान् फणाधरान् , अन्ततो नयत जितश्रमं वा शेषं' इत्यभिदधानो वासुकिः पुन- रित्थमभिदधे दानवैः 'क्षुद्रैः किं करणीयमेभिरुरगैः क्षीणायुषामन्तकै- ा शेषं नयतेति वागजनि ते सैवास्तु सत्याधुना । भूभारे घुपयुक्त एष विदितः सर्वैस्ततोऽन्यः पुन- स्त्वं शेषो भवसीति निश्चितधियस्त्वामेव याचामहे ॥६१॥ अपि श्लक्ष्णीकुर्मों मणिवदचलं पाणिकषणै- रपि त्वां वोढास्मः सुखशयितमादुग्धजलधेः। सुखं चाकर्षामस्तदुपरि यथा तुष्यति भवान् प्रसीदायच्छस्व प्रचल शनकैः प्राप्नुहि यशः ॥ ६२ ॥ कि बहुना । प्रातिवेशिका वयं भवतः परिचितहृदयाश्च चिरसंवासेन । ततस्तत्त्वमेतदवधार्यताम्- महद्भिग्रंश्नीमः स्रजमजगरैर्मन्दरचरै- मरुद्भिर्वा पाशैर्धमयितुमलं स्तब्धप्रचलम् । करात्रैर्मथ्नीमो जलधिमथवा किं क्षरति नो यशस्तू द्गातुं ते पुनरपि वदामः पुनरपि ॥ ६३ ॥ इति प्रार्थितो दानवैरनुत्तरो भुजगपतिः प्रस्थातुकामो वलयमेकमुत्सृजन्यावदुत्तस्थौ, तावदर्णवमथनक्षोभशङ्कितपतना- तृतीयाश्वासः। ८३ अनुमतो मवनी धारयितुमवस्थापितः स्वयंभुवा वज्रस्तम्भ इव संददृशे । ततः प्रतिष्ठध्वमित्यनुज्ञाय दानवान् , प्रसारयन् मन्दरोद्धार- रन्ध्राभिमुखं मुखं, अनुवृतस्तक्षकादिभिः, भूभारवहन- निश्चलेन भगवता शेषेण, शनैः शनैः शिथिलीचकार भोग- वलयान् ॥ अथ तेन बिलाध्वना विशन्तं पवनं पार्थिवगन्धसारसान्द्रम् । प्रथमे पथि विश्रमे फणीन्द्राः पपुराकण्ठमयाचितोपपन्नम् ॥ ततः प्रपात इव परिहृतनिम्नोन्नते तस्मिन् बिलद्वारे, महता यत्नेन मन्दमन्दमुत्सर्पन्तो दशयोजनं, अधःपतन्तः शत- योजनं, आरुरुक्षन्तः पुनः, अवेक्षमाणा निम्नोन्नतानि, फूत्कुर्वन्तो भूयसा यावदाम्यन्ननिलाशनाः, तावत्करावलम्बनप्रदानापदेशेन परिघतोमरगदाप्रासादिभिः प्रहरणैः प्रकल्पयन्त इव सोपानानि, परिकर्षयन्तः शनैः शनैरिव प्रापयामासुरवनितलं फणाधरानसुरे- श्वराः ॥ आपातालात्फणधरपतेरा च मूलात्सुमेरो- रद्राक्षुस्ते स्तिमितपतितं भोगमायासयोगात् । मन्थानाद्रेरवनिवलयादुद्धृतस्यातिवेगा- दन्तर्लग्नं त्रुटितघटितं मूलमेकं भुवीच ॥ ६५ ॥ अथ कथंचिदाश्वस्तमहिपुङ्गवमालक्षयन्तो दानवा नग- नगरपामनदनदीनदीशसंतानदन्तुरेण भौमेन पथा परिक्रमण- मावेद्य मान्द्यहेतुं, आसाद्य तदनुज्ञां, आफणामण्डलादा च
८४
नीलकण्ठविजये
वालमूलादुद्धृत्य कराञ्चलैर्युगपदुपनिवेशयन्तः स्कन्धेषु तं, अप-
रान् पुनर्महोरगानगुलीभिरङ्गुलीयकानीव, पादैर्नू पुराणीव,
पाणिभिः कङ्कणानीव, कटिभिः कटिसूत्राणीव, वक्षसा हारवल-
यानीव, वहन्तो लीलया तारापथेन पथा दुग्धोदधिमभि.
प्रतस्थिरे ॥
दूरादलक्ष्यत सुरैर्दनुजांसलग्ना
द्राधीयसी भुजगपुङ्गवभोगरेखा ।
तिर्यक्प्रवाहमुपयातवतीव दिष्ट्या
मन्दाकिनी निपतिता शिखरे हिमाद्रेः ॥ ६६ ॥
पायंपायं पवनमभितः स्थौल्यमापाद्यमानं
वाहवाहं फणधरपतिं विश्लथस्कन्धबन्धाः।
प्रत्युद्यातैः सुरपरिबृढे रविश्रान्तिहेतोः
सार्ध दैत्या भुवि निदधिरे संनिधौ शाङ्गपाणेः॥६७॥
अथ शिथिलांसमांसलितखेदविनोदकृते
परिकलिताङ्गभङ्गमभितोऽपि वपुर्युवताम् ।
करचरणोदराझुलिभुजान्तरकन्धरतो
भुवि भुजगा निपेतुरितरे विबुधद्विषताम् ॥ ६८ ॥
खानतासुरस्कन्धसंधारणकृतां व्यथाम् ।
वीजितो विबुधैर्दै त्यैर्विजही वासुकिः शनैः ॥ ६९ ॥
तृतीयाश्वासः। परिश्राम्यतश्च वासुकेरतिवेलश्वासनिःश्वासपरम्परापरिण- मदुपचयापचया परिणतशरकाण्डपाण्डरा च भोगयष्टिरभिपूरयितुं दुग्धसागरमापतिता विदूरादुच्छृङ्खलतरङ्गमालासमाकुला स्तब्धेव सिद्धनदी सुरासुरैरालुलोके ।। क्षितिधरपरिपातक्षुभ्यदम्भोधिगर्भ- प्रचलदमृतबिन्दुस्यन्दसान्द्रैः समीरैः । फणिपतिरपनीतवेदखेदो ददर्श त्रिजगदनभिवेद्यं देवमाद्यं मुकुन्दम् ॥ ७० ॥ प्रणिपतन्नथ वासुकिः फणामणिप्रकाशधारानीराजनैरा- राधयामास चरणारविन्दमरविन्दनाभस्य, आह चेदम् 'भगव- अशिक्षितोऽस्मि शेष इव व्याकरणे, अनभियुक्तोऽस्मि पद्म इव पाश्चरात्रे, अकृतश्रमोऽस्मि कम्बळाश्वतराविव गान्धर्वे, केवलमहं भगवतो मेरुधन्वनः सायकसंधानावसरसंपन्नं भवतश्चरणार- विन्दविन्यासभाग्यं परिशीलयन्नान्तरेण करणेन, परिपालयन् भवच्छासनं, आकाङ्क्षन् भवतो नियोगानुग्रहमासे भवदधीनः' इति । तदनु च- 'कि तन्त्रैः किं मन्त्रैः किं व्याकरणेन किं पुराणेन । चमणाम्बुजे निमग्ना धिषणा यदि पद्मनाभस्य ॥ ७१ ॥ इति स्तूयमानमब्जसंभवादिभिरिन्दिरारमणो वासुकिमिदम- बादीत् --'वत्स वासुके न वक्तव्यमिदं त्वया । परिजानतैव नीलकण्ठविजये हि भक्तिमियतीमपि मया प्रतिष्ठापिनोऽसि प्रथमभुवनाधिपत्ये । तदिदानी माहेश्वरं धनुरनुस्पृश्य संपादितं यशो माहेश्वरं गिरि मिमं प्रदक्षिणीकृत्य परिवर्धयेत्यादिशामि . तेजसाप्याययिष्यामि दिव्येन त्वामसंशयम् । कामं वेष्टय मन्थाद्रिं कर्षन्तु त्वां सुरासुराः ॥ ७२ ।।' इति दत्तवरो वासुकिरिन्दिरारमणेन, परितोषयन् सुरा- सुरान् , पश्यत्सु वैमानिकेषु, समुल्लुत्य वेगेन, मद्यःकृत्तविद्रुम- काण्डवत्संवेष्टयामास भोगेन मन्दरगिरेराभोगम् ॥ प्रणमन्तः स्तुवन्तश्च भगवन्तं जनार्दनम् । ववल्गुश्च जगर्जुश्च वासवाद्याः सुरासुगः ॥ ७३ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभीकण्ठ मनिटापनाचार्यचतुरधिक शतप्रबन्धनिर्वाहकश्रीमन्महावन माजिश्रीमदापनदीक्षित सोदर्यश्रीमदाच्चान्दीक्षिनपौत्रण नाराणाजिनामजन श्रीभूमिदेवीगर्भसंभवेन श्रानान्तकण्ठदासिनन विरचिते श्रीनीलकण्ठविजय चम्पुका तृतीय आश्वामः ॥
तुरीयाश्वासः । संवेष्टयनथ स मन्दरमम्बुराशी सार्धद्वयेन वलयेन भुजङ्गराजः। पार्श्वद्वयेऽपि शतयोजनमुच्छिशेष पुच्छं मुखं च मथनाय सुरासुराणाम् ॥ १॥ ततः पूर्वजैः पूर्वकायः फणिपतेः, अवरजैरपरकायश्च परिग्राह्य इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य, शासनेन च स्वयंभुवः, समुत्साहिताः परिकल्प्य शिरोभागमासुरं, परिजगृहुर्वालभागमदितिसुताः । अनन्तरमन्तभ्रंमदचलराजमूल- शिलासंघसंघर्षणकण्डूयननिद्राणकमठराजनिःश्वासपरम्परापरि- हृतपवनाशनलोकदुर्भिक्षं, अभितः प्रकीर्णदुग्धकल्लोलनिपातपरि- पूरितशुद्धजलार्णवं, आमूलपरिभ्रमदमृतसागरैकावर्तपरिभ्रमित- तिमितिमिङ्गिलोदार्णतत्कालनिगीर्णाजीर्णशफरतर्णकाकीर्णं, अत्युच्च- शिखरिशिखरनिष्पतदच्छनिर्झरस्रोतोनिपातपरिधौतचक्रवालशि- लाचक्रं, अतिरभससमुद्भूतधातुरागसमुद्भाविताकाण्डसन्ध्यासंसू- चितहालाहलोपप्लवं, उत्प्लवमानसागरदुग्धशीकरास्वादसुहितभु- जगराजभोगप्रसारणवेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्र- पद्मसंभवं, उभयपार्श्वसंघटितशिलासंघसंघर्षणसुखनिर्मुच्यमान- चिरपरिणामनिर्मलवासुकिनिर्मोकशकलपरिधानसंजिघृक्षानुधाव- चक्रवाल लोकालोकपर्वतः॥
८८ नीलकण्ठविजये प्रशान्त- प्रमथयूथनिनादमेदुरं, अत्यायासपरिश्रान्तजरदुरगराजसमुद्वा- न्तपरुषविषानलज्वालाकलापदुरापलालाप्रवर्तितहालाहलबीजावापं, आवसथपरिभ्रमणसमुद्विग्नकात्यायनीपरिरम्भसंभ्रमानन्दितचन्द्र- शेखरतया प्रतिक्षणमुपर्युपचीयमानमहातपःसंभारं, आरसातल- परिभ्रमदर्णवावर्तगर्तसंदृश्यमानफणिलोकवृत्तान्ततया गृहोदन्तविचारसुस्थपरिजनोरगपरिचरणसंभृतानन्ददन्दशूकेश्वरं, अद्भुतमवलोकयतां, अद्भुततरमद्यापि शृण्वतां, अपर्याप्तमुपन्य- सितुं वाचस्पतेरपि, अशक्यं काव्यशतेनापि वर्णयितुं काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिः समुत्सृज्य समाधिमालक्ष्यमाणम- पक्ष्मपरिक्षेपं, अनुल्लिखितार्थलाभसमुल्लासेन किचिदप्यगणित- शरीरक्लेशमायस्यद्भिरपि सुरासुरैरालोकमानः सागरमथनसंरम्भ- माननन्द गोविन्दः ॥ निर्मन्थश्लथसंधिबन्धनिखिलोद्देशक्षरनिर्झरः शैलोऽदृश्यत सिद्धचारणमरुद्गन्धर्वविद्याधरैः । अश्रान्तभ्रमणश्रमेण जलधेः पीतं प्रभूतं पयः स्रोतोभिः पुनरुद्वमन्निव मुखश्रोत्राक्षिनासादिभिः॥२॥ अपि च । निःश्वसति भोगिभर्तरि निर्दग्धमहासुरैर्विषज्वालैः। उच्छ्वसितममरवगैरुत्प्रेक्षितकार्यलाघवैरन्तः ॥३॥ मनतामप्येवं महतोत्साहेन. तेषाम पाङ्गयन् शनैः शनैः शक्ति- हासं, आप्याययन्वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः स्वयमपि मथितुमुपचक्रमे ॥
चतुर्थाश्वासः । ८९ खेनैव भ्रमयति माधवे भुजाभ्यां बभ्राम भ्रमरकवत्स शैलराजः। किं चित्रं भ्रमति महर्षिसिद्धसङ्घ मृद्भारे कचन महान्भ्रमोऽजनीति ॥ ४॥ अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दरशिखरकाननप्रसून- परागपरिचयादिव धूसराणि ददृशिरे दिङ्मुखानि । परि- स्फुटितनिष्ठ-यूताः फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे । परितोऽप्यासन्नमकाण्डविप्लवं जगतामवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमीलनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे । सपर्वतवनद्वीपवसुमतीकम्पसंपन्नचलनसुमेरुशिखरस्थसुरराजनगर- प्रासाददीपिका इव परिपेतुरभितोऽपि तारकाः ।। उद्यनिर्धातघोषप्रतिभयमुदयधूमकेतूपकेतु क्रन्ददिक्पालगन्धद्विपमुदधिपतत्तुङ्गशैलाग्रशृङ्गम् । उड्डीनश्यनकङ्कप्रकरमुपचितध्वान्तमुद्धान्तवातं प्राप्तं मृत्योरकस्मादिव वदनबिलं विश्वमासीत्तदानीम् ॥५॥ तदनु निर्गमिष्यतः कालकूटस्योष्मणा कथितादुदधेरुत्प- तन्तः पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रजज्वलुः, पशुपक्षिणो विनेशुः, प्रागेव सागरचराणि यादांसि ॥ निःसंख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक- ज्वालामङ्गविटङ्कसंकलितधूमस्तोमभीमस्ततः ।
९. नीलकण्ठविजये क्रुध्यत्कालविवृत्तवक्त्रकुहरोन्मुक्ताहासोद्भट- स्फूत्कारध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः ॥ स निर्जिहान एव यज्जगर्ज तर्जयन् दिशो बभर्ज यच्च दुर्जयोष्मजर्जरं जगत् । ततः प्रभूतभूतघातजातपातकावली- विलापनाभिलाषुकः किमाससाद सागरम् ॥ ७ ॥ ततस्तदालीढाः सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेकयैव ज्वालया। तदग्रसरोष्मतापिता एव भस्मावशेष- तामभजन्त जन्तवः क्षुद्रास्त्रिभुवने । प्रदीपशिखरापविन्यस्तेन प्रसूनेनेव धुत्तूरस्य सुधानिधिनैव सुतरां परिमम्ले । प्रक्षिप्तो दूरमस्य मरुतो रहसा पतगपतिरेव कि पपात, किमुत्पपात, किमतप्यत, किं निरदह्यत, किं मुमूर्छ, कि जीवितं जहाविति न ज्ञायते । उद्वान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वधि- केव सलिलक्लिन्ना वस्त्रभस्त्रिकेव रिक्तोदरा निःसारतया क्षणाद- वालम्बत नितम्बतः शैलपतेः । परिमृष्टाश्च तेन मायाविनोऽपि महासुराः, सुकृतशालिनोऽपि सुपर्वाणः, माहात्म्यनिधयोऽपि महर्षयः, चिरजीविताबलेन परं चिन्मात्रशेषिताः, परिक्षीणया गिरा, परिभ्रमता च लोचनेन, प्राकृता इव पर्यचेष्टन्त धरणीतले ।। वधर्येव वर्धिका । 'नधी वधी वरत्रा स्यादवादेस्ताडनी कशा' इत्यमरः॥ वर्णकारैः पुटपाकाथ संनिधौ धमनोपयोगि संदानितचविकारः क्रियते । तदेव भस्त्राशब्देन गृह्यते ॥
चतुर्थाश्वासः। ९१ ऊष्माणाववहद्विभावसुरुभौ सांसिद्धिकागन्तुको सस्यन्दे कथितं शरीरमभितः पाथोमयं पाशिनः । सर्वाङ्गीणगन्तकन्दलदतिस्फाराश्रुधाराशतैः सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम् ॥ ८॥ हताः स्मो वयमस्मिन्कर्मणि प्रवर्तिता भवतेति परिभाष- माणेषु सुरासुरेषु, परितप्यमानस्ततोऽपि त्रपयैव पद्मसंभवो विश्वंभरमिदमवादीत्-भगवन् किमेतदिति मन्यसे । न संवर्तः प्राप्तो न च वहति संवर्तपवनः शतेनाब्दैः शोषं नयति स परं तु त्रिभुवनम् । न च व्यापद्यन्ते तदुपरि चरन्तस्तनुभृतः क एष ब्रह्माण्ड कबलयति निःशेषयति च ॥९॥ अपि च । नासौ वह्निर्न हि खलु भवत्यग्निनाग्ने प्रणाशो नापि वेळो न हि गरळतो हानिराशीविषाणाम् । नेदं सृष्टं सकृदपि मया नोपदिष्टं त्वया वा किं व्याहारैर्मम च किमपि क्षुभ्यतीवान्तरात्मा ॥१०॥ ८. विभावसुः सूर्यः । मासिद्धिकागन्तुको उभौ ऊष्माणौ अवहत् । सांसिद्धिक ऊष्मा स्वाभाविकस्तापः । आगन्तुक ऊप्मा विषाग्निमंबन्धन जनि- तस्तापः। पाशिनः वरुणस्य पाथोमयं शरीरं कथित सस्यन्दे । मघवा मङ्गेिषु यानि लोचनानि तेषां कोणेभ्य प्रसरन्तीभिरश्रुधाराभिरेव वारिभिः गात्रं सेकं सेकं पुनः पुन: सिक्त्वा जीवितं दधौ ।
१२ नीलकण्ठविजये इत्यभिदधान एव विधौ, अशङ्कितोपनतरसातलातच संघटितसमाधिक्षोभकोपदुर्दर्शकालरुद्रसमुन्निद्रितफालनेत्रसमुत्थि इव महाप्रलयपावकः, प्रतिसर्गनिर्गळदनगळशेषविषनिःश्वास धूमसमाश्लेषजनितविषमषीपिण्ड इव मथनसंक्षोभचलितवडब नलसंवलितः, सुन्दरतरमन्दरगिरिकन्दरशयस्वायंभुवशांभवलिङ्ग चलनसंभावितप्रत्यवाय इव परमदारुणः, कल्पानलदग्धजगदण्ड पिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोदकमिव क्षीरोदमाकलयन प्रथमनिःसृतपवनपरिस्पन्दमात्रनिःशेषितेषु भुवनेषु, दग्धव्यानुप लम्भसंभवक्षुधाप्रसारितरसनासहस्रभीषणेन ज्वालाकलापेन लेलि हान इव वैरिश्चमपि प्रपञ्चं, अवसादितभुवनकोलाहलो हालाहले निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् । तत्क्षणं च परुषविषानलज्वालापरिप्लोषप्रतीकारमन्त्राक्षराङ्गाररूषितानीव वद नानि चतुर्वदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ।। म्लायन्त्यां वैजयन्त्यामथ कनकपटे धूसरे धूमजालै- श्चक्रे निर्खालचक्रे सपदि परिणतस्फोटशङ्के च शङ्ख । उत्सर्पन्तं समन्तादपि परिकलयनुटं कालकूटं कालात्मा पद्मनाभो मनसि विनिदधे कालसंघर्षयोगम् ॥ सिञ्चन्ती परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् । पद्मनाभः कालसंघर्षयोगं मृत्युना अभिभवसंबन्ध मनमि विनि- दधे । विष्णुरपि मृत्युभीत आसीत् । यद्वा-मृत्युभयनिवारणार्थ कालसंघर्ष- भ्याख्याा अमृतेश्वरीविद्यायाः प्रयोग मनमि विनिदधे दथ्यो । ११.
चतुर्थाश्वासः। स्निग्धापाङ्गतरङ्गशिक्षितभववेळां मुकुन्दश्चिरा- दस्मार्षीदमृतेश्वरीं भगवतीमम्बामहंभावतः ॥ १२ ॥ तामित्थं स्मरतश्चिरं मधुभिदस्तारां सुधामालिनी धूतद्वैतकलङ्कशङ्करकलापुंभावरूपात्मनः । पाषाणव्यतिभेदजर्जरजरच्छैवालवत्तत्क्षणा- दारात्किंचिदपासरत्परिगतो हालाहला सर्वतः ॥ १३ ॥ अथ स्वस्थो यथापुरमम्बुजेक्षणस्तावतापि संरम्भेण तनु- पात्रत्राणपर्यवसन्नेन निराशो हालाहलनिग्रहे, निश्चिन्वन्ननितर- गाध्यसाधनधौरन्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नन्तरेण रदेवताप्रसादमलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चि- छक्तिविभूतिरूपतामात्मनः, परमेण समाधिना समाराध्य नारा- णीमित्थमस्तावीत्- पज्जन्मस्थेमभङ्गवतमिह जगतां यच्च सर्वान्तरत्वं यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् । यस्याः साहचर्यात्परिणमति परब्रह्मणि श्रीमहेशे तामाद्यामात्मविद्यामहमिति कलयन्सर्वतो निवृतोऽसि ॥ अमृतेश्वरीमहभावतः अस्मार्षीत् । अहं अमृतेश्वरीति ध्यानं । उपास्यांपासकारभेदभावना हि ध्यानस्य परा काष्ठा ।। १३. सुधामालिनी स्ववत्सुधारमा तारां तारादेवीम् । धूतद्वैतस्य द्वैत- तस्य शंकरस्य या कला शक्तिः तस्याः पुंभावः पुरुषरूपेण भवनं, तद्रूप मा यस्य तस्य । शिवस्य शक्तिरूपिणी या पार्वती तस्या एव पुमाकृतिमत्त्वे पुत्वात् ॥
९४ नीलकण्ठविजये यल्लक्ष्मीदयितोऽस्मि यद्दनुभुवां जेतास्मि यत्कर्मिणां कर्मस्वभ्युदयप्रदोऽस्मि यदपि ध्येयोऽस्मि वा योगिनाम् । तत्सर्व त्रिपुरे महेश्वरि महामाये जगदूपिणि त्वत्सौभाग्यमहाविभूतिकणिकालेशस्य लेशायते ॥ १५ ॥ अपि च- अतीतत्रैगुण्यामशरणशरण्यां भगवती- महं तामालम्बे दृढतरमहंतां पशुपतेः । तदाद्यं तत्त्वानामजरमपरिच्छेद्यमपरं पराभूतद्वैतं परमपदमाविर्भवतु मे ॥ १६ ॥ इति स्तुतिभिरर्थ्याभिया॑यतो निश्चलं शिवाम् । अस्पन्देष्वस्य गात्रेषु पस्पन्दे दक्षिणो भुजः ॥ १७ अवतीर्णा चास्य कर्णसरणिमशरीरिणी वाणी । 'साधु वत्स जगन्नाथ साधु विष्णो जगन्मय । पश्य त्वमात्मनात्मानं परमं ज्योतिरैश्वरम् ॥१८॥ इति अथ यावत्समाधि तं श्लथयामास माधवः । तावदाविर्वभूवास्य पुरः पुरहरं महः ॥ १९ ॥ तत्र च पविततरनदनदीनदीशादितीर्थस्वरूपतासंभावि क्लेदनयत्यानुवृत्त्येव सामिविकसितललाटविलोचनधूमरेखासंस्तर नेव कबीलतजाह्नवीकोपपरिपूरितगतयेव च परिणतपाटलिा चतुर्थाश्वासः। ९५ जटावलये प्रतिष्ठिततया सान्ध्यरागसंवलितेनेव सकलशिवज्ञाना- धिगमारम्भसंसूचनायेव द्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञान- रूपतयेव परिहृतकळङ्कानुषङ्गेण कपर्दबन्धनोरगदंष्ट्राङ्कुरेणेव कुटि- लनिर्मलेन चन्द्रखण्डेन मण्डितं, जगन्निष्कामताहेतुतयेव निष्काम- जनोपासनीयेन पक्ष्मविवरसमुच्चलदर्चिःस्फुलिङ्गपरिष्वङ्गमात्रादेव निःशेषीभवति जगति निरीक्षितव्यासंभवादिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरलेनेव ललाटलोचनेन परिहर. न्तमान्तरं तमो भक्तिमतां, कुण्डलितकुण्डलिराजफणामणिमयूख- राजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घनभयादिव कर्णान्तपर्यवसितेन निरन्तरकरणासारवाहिना लोचनयुगलेन, त्रि- पुरविजययशोविशदेनेव परापराशेपविद्यात्मना प्रवहतो वचनामृ- तस्य निष्यन्दनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायो- गिनां, कदासौ पूर्यत, कदा चेममारोहेयमिति कुतूहलादुद्दीवमालो- कयन्तमिव चूडाचन्द्रमसं उदञ्चिताप्रपादतया किचिदन्यतो जिग- मिषन्तमिव प्रकृतिचापलेन वेदमयं मृगमपरपादनियन्त्रणेन निय- च्छन्तमात्मन्येव निभृतमेकेन करेण, अतिकठिनाज्ञानपापाणसमु. दृङ्कनायेव गृहीतटङ्कमितरकरेण, निरुपलवापवर्गदानसत्रदीक्षिते जयत्यभयंकरे करे निःसारभोगवदान्य न किं मयेति हियेवावाइ- मुखेन वराङ्कितेन कगरविन्देन परिपूरयन्तमभिमनान्यभिसंधि- मतां, नीम्पदिगम्बराच्छादननिर्वेदादिव बहुरूपण तारक्षवेण चर्मणाभिसंवीतं, चिन्मयेऽतिनिर्मलं वपुपि जपाकुसुमपार्श्वगस्फ- टिकोपलन्यायेन मञ्जीरफणिफणामणिप्रभापुञ्जपिचरचरणारविन्दे-
९६
नीलकण्ठविजये
अधर
अन्वास्यमान
नातिपचेळिमभाग्ययोगनिर्मलैरन्तःकरणैरिव चरणलग्नैः समान
योगिनां पञ्चभिरक्षरैः शिवसूत्रस्य पर्यवसितैरिव सव्यापसव्यर
पादयोरतिसुन्दरैर्नखैरवतंसयन्तमादिभारतीचिकुरबन्धं,
सीनमधःकृतान्तःकरणवासनाष्टकमास्तीर्णात्मत्रयमहातल्पकल्पित
मखिलतत्त्वपथोत्तीर्णमानन्दमयमहार्हमासनं,
खिललोकमातृकया संविदानन्दघनीभावसंपन्नविग्रहया कादमि
न्येव करुणारसपूर्णया आत्मविद्ययेव सादरमालिङ्गन्त्या समा
गुणरूपसौन्दर्यशीलया भगवत्या सर्वमङ्गळया, सुखविश्रान्तम
शरन्मेघमण्डलं, सुधासारघटितमिव कर्पूरपरागसंचयं, अतिव
मलमिव स्फटिकाचलं, आहतघनीभावमिव चन्द्रिकासारं, आ
यपिण्डितमिव परमामृतं, आसेचनकमासेचनकानां, आश्चर्य
श्वर्याणां, मङ्गळं मङ्गळानां, आदिमादिमतां, अवधिमवसीदर
आकरं विद्यानां, आलयं दयासौलभ्ययोः, अचिन्तनीयप्रभावम
चिन्तनीयमखिललोकस्य, अद्वैतब्रह्मस्वरूपमप्याविष्कृतपञ्चब्रा
रूपम् , अतिदूरमर्वाचां प्रमाणानाम् , अविप्रकर्पगोचरमादिगि
साक्षाच्चकार दाक्षायणीरमणम् ॥
अन्तःकरणवासनाष्टकमुक्तं तत्त्वविवेक-'लोकपुत्रधनग्रामदारशास्त्र
च। देहे च वासना त्यक्त्वा सुखी भवति नान्यथा ॥'
आत्मत्रयं-अन्तरात्म। जीवात्मा परमात्मा च ॥
आसेचनकं–तदासेचन तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ।।
आविष्कृताना पञ्चब्रह्मणां सद्योजातवामदेवाघोरतत्पुरुषेशानसंज्ञका.
रूपं यस्य तम् ॥
चतुर्थाश्वासः शाणोल्लीढशरन्मृगाङ्कशकलस्तोमाभिरामं मह- स्तत्पश्यन्निभृतं विनिद्रकमलद्राधीयसा चक्षुषा । साहस्राम्बुजपूजनव्रतसमाधित्सुः पुरा साहसं चक्रे यगिरिशे स्वयं तदुचितं मेनेऽधुना माधवः ॥२०॥ अपि च । वैराजशाकररथन्तरवामदेव्य- कालेयराजनगवांवतरौहिणाद्यैः । तं सामभिर्बहुभि ऋग्यजुषेण चोच्चैः शौरिः स्तुवन्पुरहरं शतशो व्यनंसीत् ।। २१ ।। भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् । वाग्भिर्गद्गदनिर्गताभिरखिलत्रय्यन्तसैद्धान्तिक- स्रोतःसारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम् ।। 'सानिध्यमात्रजो यस्य स्पन्दो बिन्दोरिदं जगत् । अद्वन्द्वमपरिस्पन्दि तद्दन्, नौमि शांभवम् ।। २३ ।। ओमित्युमेति युवयोरभिधानमेकं सृष्टयादिसृष्टयवधितागुणमात्रभिन्नम् । अहिंमा दमः शान्तिः दया ज्ञानं तप मत्यं भावश्चाष्टो आन्तर- पुष्पाणि ॥ उमा मूलप्रकृतिः सृष्टंरादि. । ओकारबिन्दौ निखिलप्रपञ्चस्य प्रविलयात् ओंकार. सृष्टेरवधिः । ओमिति उमेति च अभिधानमेकं, अकार- २२. ७ 1- नीलकण्ठविजये - एकं च तावदभिधेयमपीह रूपं वेणी जटेति कचसंहतिभेदभिन्नम् ।। २४ ॥ यद्घोरघोरतररूपमघोरसंज्ञ- मावर्तितचकुटिभीषणमाननं ते । तद्दक्षिणं पशुपतेः परमं पदं मे सांसारिकार्तिहरणं शरणं प्रपद्ये ॥ २५ ॥' इति स्तुवन्तमिन्दिरारमणमिन्दुशेखरः परिरभ्य बाहुभ्या मिदमाचचक्षे-'भगवन् कमललोचन भवदर्शनेन परमामसि निर्वृति प्राप्तः । आत्मनोऽपि किमधिकं प्रेमपदम् । तथा हि- शिवा घोरा चेति श्रुतिषु विदिते ये मम तनू तयोराधा मूर्तिः परमरमणीया त्वमसि मे । त्वमस्यधं देहे त्वमसि वदनं दक्षिणमिति त्वयि प्रीये यावत्तव भवति तावच्च विदितम् ॥ २६ । किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमा वल्लभेनेदमभिदधे-'किमन्यदेष्टव्यम् । इदं किल किमपि वि सलं दुर्यश इव संभावितस्य सद्यःसमाक्रान्तविध्यण्डमण्डलं दुर्विदग्धस्य पाण्डित्यमिव तृणीकृतब्रह्मादिदैवतं, नीचगतमैश्वर्य मिव निमिषार्धमपि क्षन्तुमक्षम, बालिशराजोपसेविजीवनमिन उकार-मकारसंघातात्मकत्वादुभयोः । एकस्मिन् अकार आदिः, अन्यस्मिन अन्तिम इत्यव भेदः । अकारेण आकारस्यापि ग्रहणं शब्दशास्त्रप्रसिद्धम् रूपमप्युभुयोरेकम् । एकस्या एव कचसततेः वेणीत्वं जटात्वं च भवति ।
चतुर्थाश्वासः । ९९ . . प्रतिक्षणं चित्रीयमाणं, पाशुपतावहेलनमिव भस्मीकृतजगत्रयं, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रतीकारप्रकारं, पाषण्ड- मुखमिव परिहरणीयं दर्शनपथात् , प्रतारकसौहार्दमिव परम- दारुणं, विषयनिषेवणमिव व्यामोहकारणं. भवत्पादाब्जवैमुख्य दुरितमिव भवत्प्रपदनैकभेषजं, अव्यपदेश्यमनिर्धार्य, अदूरवि- प्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुं, अतर्कितोपनतमतीतभव- प्रारब्धमिव समाक्रम्य जगत्रयं, संनिपात्य देवासुरान् , प्रक्षोभ्य कमलासनं, परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भग- वत्याः सुधामालिन्याश्चरणस्मरणप्रभावादपमृत्येव किंचिधरोत्त- रयति विश्वमिदम् ॥ अक्षोभ्यं भिषजां शतैरविषयः शस्त्रस्य वास्त्रस्य वा दुःसाधं मणिमन्त्रयन्त्रशरणैर्दुनिग्रहं योगिभिः । व्यामुह्यत्कमलासनं विनिपतदेवर्षिसिद्धासुरं निर्व्यापारितमद्भुजं च किमिदं किंनाम न ज्ञायते ॥२७॥ यदादिष्टं पाल्यं जगदिति जगन्नाथ भवता तदेतत्पर्यन्तं तव करुणया साधितमिव । दुरूहे दुःसाधे महति पुनरसिन् प्रविलये ममेदं कार्य यत्तव चरणयोस्तत्त्वकथनम् ॥ २८॥ इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वती- रमणः, पश्य तावदिति ब्रुवन् , प्रसारयन् दक्षिणं बाहुँ, अनु- सस्मार हालाहळम् ।।
नीलकण्ठविजये सर्वातकविशङ्कशङ्करजटालंकारचन्द्राकुर- ज्योत्स्नानिर्भरपूरितत्रिजगतीगर्भावधूतो बहिः । स वेळः वचन व्यलीयत महाशुण्डालशुण्डाहति- क्षुभ्यक्षुद्रसरस्तरङ्गनिकरव्याकीर्णशैवालवत् ॥ २९ ॥ अजनि शनैर्विशदं जगदपसर्पति कालकूटसंतमसे । तात्पर्यमिव कवीनां तार्किककोलाहलोपरमे ॥ ३० ॥ ततश्च सान्निध्यत एव भगवतश्चन्द्रचूडस्य पल्लवितान्यर- ण्यानि, पर्यपूर्यन्त सागराः, प्रावर्तन्त सरितः, पस्पन्दिरे मरुतः, प्रचकाशिरे ज्योतींषि, प्रसेदुर्दिशः, प्रशेमुरुत्पाताः, प्रादुरभूव- न्मङ्गळानि, अचेतयन्त जन्तवः, यथापुरमबुध्यत वासुकिः उत्तस्थुर्देवासुराः, शनैरुपलभ्य संज्ञामम्भोजसंभवोऽपि संददर्श चन्द्रशेखरम् ॥ पर्याप्तेन्दुशतद्युति परिचितं सत्या शुकश्यामया साकूतस्मितसुन्दराधरपुटं शार्दलचर्माम्बरम् । सावज्ञाग्रकरप्रसारणमहासंरम्भसंभावना- संहष्यत्कमलेक्षणं च तमसौ पश्यन्न तृप्तिं ययौ ॥३१ । .. ३०. तार्किककोलाहले प्रद्वेषः शिवलीलार्णवेऽप्येवमाविष्कृतः कविना- अप्यन्तिकस्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्तिजन्मा । कुतर्कविद्याव्यसनोपजातैः कोलाहलैर्न ध्वनिरेष वेद्यः । वाच कवीनामुपलालयन् या भुङ्क्ते रसज्ञो युवति युवेव । तामेव भुक्ते ननु तार्किकोऽपि प्राणान्हरन्भूत इव प्रविष्टः ॥
चतुर्थाश्वासः। ततः प्रतिलब्धचेतना ब्रह्मादयः, पक्षिण इव सुप्तोत्थिताः प्रातरुच्चावचैः कोलाहलैरुद्यन्तमिव सहस्रकिरणमुपतिष्ठन्ते याव- दुमारमणं, तावदस्य भवसागरनिमग्नभक्तजनोद्धारदर्शितानुराग इव, परिणामकर्कशपशुपाशप्रन्थिविश्लथनायाससंभृतारुण्य इव, पार्वतीकुचकुम्भकुङ्कुमालेपपरिचयपाटल इव, तामरसोदरसोदर- त्विषि पाणितले, पल्लव इव मधुव्रतः, पद्मरागकरण्ड इव कस्तू- रिका, जाम्बवमात्रपरिमाणजातसंकोचमपि दुराधर्षमूष्मणा, दुर्दर्शमतिदारुणेन तेजसा च, समालक्ष्यत तरलमिव साध्वसेन तद्गरलम् ॥ आश्चर्यस्तिमितत्रिविष्टपमतिप्रेमाहितात्याहित- प्रक्षुभ्यगिरिजागृहीतपुनरुद्भूताग्रहस्ताम्बुजम् । मह्यं मह्यमिति प्रतिवमसकृत्क्षवेळार्पणप्रार्थना- संनह्यद्गणदर्शितस्मितलवं शंभोः स्थितं पातु नः ॥३२॥ ततः प्रकृतिस्थे जगति, प्रबुद्धेषु देवासुरेषु, परिष्टुवति पनविष्टरे पद्मनाभे च, निषेद्धमनुवर्तितुमप्यपारीणतया निश्चला- र्पितदृष्टिषु नन्दिमुखेषु पारिषदेषु, अन्तरेव मङ्गळमाशासानया सर्वमङ्गळया समालिङ्गितो दृढं 'हालाहलो नाम विषराजोऽयमा- चम्यतेऽस्माभिः, मा बिभीत, विन्वरा भवत' इति प्रतिबोध्य पश्यतो जनान् , माधव इव नवनीतमुमाधवो गरलमुपयुयुजे । यस्य शिष्यवर्गे बडबानलः, भुजिष्यवर्गे भुजगविषाणि, वनीप- कवर्गे वनिष्पेषः, गणनीय एव गगनमणिः, तादृशि कालकूटे .
नीलकण्ठविजये तादृशीमपि दारुणतामुपसंगृह्य, जम्बूफल इव, जीर्णामलक इव, खर्जूरपिण्ड इव, खदिरसारखण्ड इव, विशति निःशङ्कमाननं विषमलोचनस्य, जठरस्थजगत्प्लोषमाशङ्कमाना दयामयी भगवती दाक्षायणी पल्लवकोमलेन पाणिना पराममर्श कण्ठपदम् ।। निर्मर्यादभवज्वरज्वलनसीद जीवजीवातुना संस्पृष्टं करपल्लवेन जगतां मातुः सुधास्यन्दिना । सद्यः शीतलितं शरत्परिणतज्योत्स्नामृतस्यन्दव- त्तस्तम्भे गरलं गले भगवतश्चन्द्रार्धचूडामणेः ॥ ३३ ।। यच्छैलेषु यदम्बुराशिषु यदुद्भिज्जेषु यजन्तुषु कापि क्वापि हृतस्य तस्य सहसा लेपात्मना शेषितम् । तत्सौराष्ट्रिकदारदादिभिदया विख्यातमद्याप्यहो कीटायापि न मन्यते खगपति धन्वन्तरि चाश्विनौ ॥ अन्तर्निगीर्णमपि तेन तदाविरासी- कालोन्मिषत्कुवलयच्छवि कण्ठमूले । आयस्य गुप्तमपि खल्वनृतं कदापि सद्यः स्फुटीभवति साधुषु निर्मलेषु ॥ ३५ ॥ अथ भगवन्तमनायासकबलीकृतकालकूटं आविष्कृत. मन्दस्मितसुन्दरमाश्वस्तया भवान्या मुहुर्मुहुराश्लिष्य परिचुम्बन्त्या परामृश्यमानकन्धरापदं, आनन्दतुन्दिलतया किमप्यज्ञातकरणीयै- रालिङ्गद्भिरितरेतरं, अन्योन्यमास्फोटयद्भिरपहसद्भिरन्योन्यममर- चतुर्थाश्वासः। १०३ गणैरसकृदुपसंगृह्यमाणचरणारविन्दमालक्ष्य चन्द्रशेखरं, आनन्द- निर्भरा गोविन्दविधिपुरंदरादयो देवाः, बलिविरोचनादयो दानवाः, ब्रह्मर्षयश्च सनकादयो यथामति स्तोतुमारेभिरे ।। 'दिष्ट्या विषेण भग्नाः स्मो दिष्ट्या पीतमिदं त्वया । दिष्ट्या च नीलकण्ठं त्वां गृणती साधिता श्रुतिः ॥३६॥ पाषाणान् सितनीलपीतहरितान्वैडूर्यवज्रादिकान् कण्ठे वक्षसि मूर्ध्नि वा निदधतां का नाम तेन स्तुतिः । एतद्भूषणमेतदेव जगतां दुःसाधमुजीवनं कण्ठे यद्भगवन्नियच्छसि सुखं काकोलमुच्छङ्खलम् ॥ ३७॥ अद्याहं परिपालकोऽस्मि जगतामद्यैव धातात्मभू- रयेमे हरिदीश्वरा भुजबलैरद्योद्भटा दानवाः । अद्यैते चिरजीविनो मुनिवरास्तन्त्रैश्च मन्त्रैरपि स्वामिन्नाकलयामहे तव यदा कण्ठं घनश्यामलम् ॥ ३८॥ शैलादिकृतनिषेवण कैलासशिखरभूषण तत्त्वार्थगोचर चन्द्रार्धशेखर शापायुधकुलार्थ्यसस्मितापाङ्ग कोपारुणकटाक्ष- भस्मितानङ्ग ऊरीकृतविभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्ग- भाग अङ्गानुषङ्गपावितनरास्थिलेश गङ्गातरङ्गभावितजटाप्रदेश शैलादिः शिलादस्यापत्यं नन्दिकेश्वरः । शापायुधानां मुनीना कुलेन अर्यः प्रार्थितुं योग्यः सस्मितः अपाङ्ग यस्य तत्र मंबुद्धिः ॥
१०४ नीलकण्ठविजये वन्दनाभिरताखण्डल स्यन्दनायितभूमण्डल अक्रीतदासतापसक- दम्ब चक्रीकृतार्कशीतकरबिम्ब आइतपुराणवेतण्ड स्वीकृतसुमेरु- कोदण्ड खर्वीकृतासुरमदानुपूर्वीविकास दर्वीकरेश्वरगृहीतमौर्वी- विलास वीणामुनीन्द्रख्यापितगरिमपौरुष बाणाधिकारस्थापित- परमपूरुष अनिलाशनविहितनैपथ्य कमलासनविहितसारथ्य विश्वाधिकत्वपदालम्ब अश्वायिताद्यवचोगुम्फ कुन्दस्मयहरकान्ति प्रकर मन्दस्मितलवशान्तत्रिपुर नादबिन्दुकलाभिज्ञास्पदभूरिभद्र स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वर तन्त्र किरीटानीतविविधवेधःकपाल चपेटाघातशिथिलभास्वत्क पोल जम्भितविक्रमोद्दण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोपचितमहा हर्ष जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्धरासुर शिरोनिपातन कोपाहतपतितान्तक व्यापादितसमदान्धक वर संहननजटासंभृतपरभागगौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभयमोचन विभिन्नभगलोचन प्रपञ्चदहनकारक विरिश्च बदनहारक संचारपूतमन्दर पञ्चायुधातिसुन्दर अपनीतदक्षानन अभिनीतभिक्षाटन धारितमेरुकाननकुसुममालिकालकार दारित .. स्यन्दनायितं त्रिपुरसंहारे रथवदाचरितं भूमण्डल यस्य तत्र मंबुद्धिः आइतपुराणवेतण्डः गणपतौ प्रेमशाली। वीणामुनीन्द्रः नारदः । अश्वायि ताद्यवचोगुम्फ-त्रिपुरसंहारकाले वेदा भगवतो रथस्य अश्वा अभूवन् नादबिन्दुकलाः प्रणवस्य सूक्ष्मावयवविशेषाः, तान् ये अभिजानन्ति ते आस्पदं प्राप्यस्थान तत्र संबुद्धिः । विभिन्नभगलोचन -वीरभद्रः सूर्यस लोचने पाटयामासेति दक्षोपाख्याने ॥
चतुर्थाश्वासः । दारुकावनकुलपालिकाहंकार समावर्जितभक्तमानसानुसार परा- वर्तितहप्ततापसाभिचार वैयासिकोक्तिगोचर वैयाघ्रकृत्तिभासुर गतपरिकर्मगणस्पृह कृतकरिचर्मपरिग्रह स्वध्यानशमितपातकप्रसङ्ग विध्यादिविबुधपूजितस्वलिङ्ग शान्तमानसानुरोध क्षान्ततापमापराध फालानलवलनभीषण हालाहलगरळभूषण अरुणांशुकन्दल. मणिसुन्दरफणिकुण्डल चरणाग्रयन्त्रितदशकन्धरभुजमण्डल आ- नन्दताण्डवनटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयान- तामृताशनसहस्राहितप्रमोद तनयाभिलाषिमाधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनुनम्य सव्याधभागभावितहरिरूपरम्य वन्दितागतश्रुतिसार नन्दिपालितप्रतिहार बुद्धनानार्थरहस्य- शतमन्युमुख्यामरभक्तिगोचर दुग्धपानार्थतपस्यदुपमन्युविश्राणि- तदुग्धसागर अधिकसंचालितदुष्टपीडाचरण हरिविरिश्चापरि- दृष्टचूडाचरण अश्वद्धर्मवृषाधार पञ्चब्रह्ममयाकार वेदाश्ववरो- पहितस्वाम्य श्वेताश्वतरोपनिषद्गम्य चापल्यरहितरभ्यस्वभाव कैवल्यवचनगम्यप्रभाव अखर्वमखाधिराज्यप्रताप अथर्वशिखानु- वाद्यस्वरूप अगर्वनरस्तुतिमुदित अथर्वशिरःश्रुतिविदित नादान्त- विभावनीय वेदान्तविबोधनीय प्रणतातिहर प्रणवार्थसार मुग्धलावण्याधार शुद्धचैतन्याकार आशीविपधारक काशी- पुरनायक हृदम्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलि- तापाङ्ग गोकर्णरचितासङ्ग घोरासुरपुरधूमकेतुस्मित वाराकरगत- अखवा मग्वाधिराज्यं यागाधिपत्यं प्रतापथ यम्य । 'आ वा गजा- नमध्वरस्य रुद्रं होतारं' इति श्रुतः ॥
नीलकण्ठविजये रामसेतुस्थित रक्षणलीलाविलास दक्षिणकैलासवास आताम्रलोल. नयन एकाम्रमूलभवन आभीलविधुरसेवन श्रीशैलशिखरपावन आर्द्राक्षमधुरवाग्गुम्फ रुद्राक्षरुचिरदोःम्तम्भ कालकण्ठरुचि घटितलावण्य नीलकण्ठमखिनिहितकारुण्य सेवापरतन्त्रपालक शैवागमतन्त्रकारक सर्गस्थितिसंहृतिकार्यत्रयस्थेय भर्गश्रुतियन्त्रित गायत्र्यनुसन्धेय अध्यासितवरनिकुञ्जगृहहिमाहार्य अध्यापित हरिविरिश्चमुखशिवाचार्य अर्चितानन्तविहार सच्चिदानन्दशरी विजयी भव विजयी भव ।। भुञ्जीथा न हलाहलं यदि महादेव त्वमेवंविधं भुञ्जीरन् किमिमे सुराश्चरुपुरोडाशादिहव्यं मखे । आसीथा न यदि स्वयं पितृवने भूतानि संमोहय- नासीरन् किमिमे जनाः सुकृतिनो हर्येषु सौधेषु च ॥३९ किं बहुना- त्वत्प्रमृतास्त्वया गुप्तास्त्वया व्यापारिता वयम् । त्वां विदन्तोऽविदन्तो वा त्वामेव प्रीणयामहे ॥ ४० ॥ इति स्तुवतो देवान् पुरशासनः पुनरित्थमनुशशास । दक्षिणकैलासः कालहस्तिक्षेत्रम् ॥ नीलकण्ठमखिनिहितकारुण्य-अत्र कविरात्मानं निर्दिशनि ॥ सर्गेति । स्थास्नुस्थिरतरस्थयानि इत्यमरः ॥ भर्गःश्रुत्या भर्ग:पदश्रवणेन यन्त्रिता मलिना या गायत्री तया अ. सधेय ॥ अर्चिता पूजिता अनन्ता बिहारा लीला यस्य अनितानन्तविहारः॥
चतुर्थाश्वासः । १०७ 'पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशा दासा देवाः शतमखमुखा दानवेशास्ततोऽपि । कस्यान्यस्य व्यसनमहरं कालकूटे निगृह्णन् लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥४१॥ तदलमतिकामति कालो मथनस्य । वत्सा देवासुराः, वत्स भोश्चतुरानन, शृणुतावहिताः परमुपदेशमिमम्- अमुं यं वीक्षध्वे पुरुषमरविन्देक्षणमसौ सवित्री सर्वेषामपि च भवतां मत्प्रियतमा । मदाज्ञामस्याज्ञां मम भजनमेतस्य भजनं विजानन्तो यूयं विनमत तथामिन्मयि यथा ॥ ४२ ॥ भगवन्नरविन्दलोचन जानामि भवतो मयि प्रीतिमन्या- दृशीम् । काममग्रे सहैवास्वहे । कालस्त्वयमेपामत्येति सुधा- प्रदानस्य । तदद्य वियोगेन मे नार्हसि वैक्लब्यमधिगन्तुम । भवानिति भवानीति पश्य भेदः कियानयम् । विग्रहं प्राप्तयोरेकं विश्लेषः क इवावयोः ।। ४३ ।।' इति प्रसादयन्निन्दुशेखरः, प्रदक्षिणीकृत्य महस्रशः, पादा- वाधाय मूर्ध्नि, परिरभ्य निर्भरं बाहुभ्यां, विसृष्टः कथंचिदपि विश्वंभरेण, पश्यत्सु देवासुरेषु, पार्वतीसहितस्तिरोदधे !!
नीलकण्ठविजये तदनु च- स्तुवन्तो दिव्याभिः स्तुतिभिरभिसंगम्य शतशः स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः । स्मरन्तः श्रीकण्ठं सममसुरवीरैर्दिविचराः प्रहृष्यन्तः सिन्धुं प्रमथितुमुपानंसत पुनः ॥ ४४ ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक- शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित- मोदर्यश्रीमदाच्चान्दीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये चतुर्थ आश्वासः ॥
पञ्चमाश्वासः। आलोब्यमानः पुनरेकतानैरामूलमब्धिः सुरदैत्यसंधैः । प्रादुष्करिष्यन्परमामृतं तत्प्रासीददीशान इव क्रमेण ।। ततश्च ततः क्षोभ्यमाणात्सजातीयमन्दरसंघर्षमसहमान- तया समुत्थित इव मैनाकभूधरः, परिगलत्कलुषमदजलासार- परिजिहीर्षया निर्वासित इव भुवि नैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तु- भिः, सलिल एव संततवप्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरो- जनालैरिव वज्रवलयैरावेष्टितचतुर्दन्तः, संततभूभारपरिश्रान्त- दिगन्तदन्तावलराजदृष्टिपथानिलीय विष्टिग्रहणशङ्कया विनिर्गतः स्वयमेव बहिरिव केनापि पथा विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत् ॥ परिचलितदुग्धवेलापरिचयविमलस्य मन्दरस्य गिरेः । अभ्यर्णमुपसरनयमर्भक इव तस्य संददृशे ॥ २ ॥ आजिघ्रन्निव पुष्करेण जलधेरध पिवन् शीकरै- रासिञ्चन्नभितस्तनूमिव सुरान् स्रोतोभिराप्लावयन् । वप्राघातमिवाचरन् शिथिलयन्मन्थानमेवाचलं हर्षायाजनि पश्यतां दिविषदामैरावणो वारणः ॥३॥ विष्टिग्रहणशङ्कया बलात्कारेण ग्रहणशङ्कया। मास्या मूले लमकचे विष्टि- नरकपातने । बलात्कारे च भद्राख्यकरणे कर्मवेतने ॥ इति नानार्थरत्नमाला ॥
नीलकण्ठविजये स च बहिनिःसरन्नशिक्षिताधोरणनियन्त्रणतया मनागप्य- गणयन् देवासुरान् , अमृतोपयोगसुहिततया किमप्यनालोकयन्नुप- नीयमानानिक्षुलताभारानुपहियमाणानि कदलीकाण्डानि संभ्रिय- माणानि पिप्पलपल्लवानि च, सर्वतः पराममर्श यादांसि । तमित्थ- मतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविलयांबभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलहलोन्मेषपोषितकल्लोलकोलाहलः, चटुलखुरपुटाविद्धदुग्धसागरशीकरासारदुर्दिनदुर्दर्शदिङमण्डलः, संततसलिलनिमज्जनोन्मजनक्लेशसहनाक्षमतया सैन्धव इव कुमु- दबान्धवस्यन्दनसंदानितः, कोऽपि समुन्मुच्य बन्धनमुञ्चलितो बहिरुच्चैःश्रवा नाम यथार्थनामा समुन्ममज्ज सज्जीकृतो वाजी आप्योऽपि रंहसा गच्छन्ननाप्यो मारुतेन यः । सैन्धवः सैन्धवाद्गर्भादुत्ततार स पाण्डरः ॥ ४ ॥ स च किंचिदुदञ्चिताग्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि पदमनलसारथेः, अपहसन्निव हेपारवैरवनितलमात्र- संचारशिक्षिता इत्यारट्टजवनायुजान , सलिलमात्रसंचारशीलिनो मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनिय- न्त्रिता बलीवी इव संततभ्रमणमात्रगर्विता इति सैन्धवानम्भो- जबान्धवस्य, मारुतविजयादेव मनांसि जिगाय । अपि च । बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितुकाम- मिव चलोथतया, वालविक्षेपनिर्धूतमेघमण्डलतया वाहनं हलहल इत्यश्वहेषानुकरणम् ॥ , .
पञ्चमाश्वासः। प्राचीनमभिभवन्तमिवाखण्डलग्य पश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्रनिर्वृतः सर्वतोऽपि विस्मयनीये तदीये गतिचातुर्ये सासूय इव बभूव ।। यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम् । भूयो भूयः क्षोभमेवाप देवैदृष्टास्वादास्तत्र किं ते दयन्ते । ततश्च - साध्वी गौः सुरभिर्नाम सागरादुदभूत्स्वयम् । गोप्रसूता हि गावी स्यामसाधुश्चेति जानती ॥ ६ ॥ स्नातुं वाञ्छति शंकरोऽपि पयसा स्तन्येन यस्याः स्वयं तोयं पावनमुत्तमं त्रिजगतां यद्गात्रनिष्यन्दजम् । यद्रूपां समुपासते शमधना वाचं पुराणी परां सा दिव्या सुरभीकरोतु सुरभिर्वाचं कवीनामपि ॥७॥ प्रथमसमुद्गतामखिलकामदुधामनघां सुरभिमभिप्रपद्य सुरसिद्धमहर्षिगणे । स्तुवति धृताक्षमा इव वदान्यशिखामणयः सममुदयांबभूवुरथ पञ्च महातरवः ॥ ८ ॥ अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कन- कांशुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुला एव मुक्ताफ- लानि, निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागा .
११२ नीलकण्ठविजये - एव पटवासाः मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हार- लताः, प्रसवासवा एव परिणामाः सुधारसस्येत्याचक्षते ॥ किं कर्म दुष्कृतमिदंतरुजन्महेतुः किं वा महत्सुकृतमीदृशकीर्तिमूलम् । किं वा तृतीयमिदमीदृशमन्यदेवे- त्यद्यापि शाम्यति न वादकथा मुनीनाम् ॥ ९॥ अवस्थाप्य च तानानुपूर्येण परिहृतजरारोगपरिश्रमासु पञ्चेन्द्रियसमुज्जीविनीषु छायासु तेषामायासमवधूय पुनरपि ते ममन्थुरमृतार्णवम् ॥ अभ्युद्यती मथनतः किल निष्कलङ्का- मानन्दकन्दलमयीममृतांशुरेखाम् । उत्तंसपुष्पकलिकेयमुमापतेरि- त्यालोचयन्नुपददे मनसा मुकुन्दः ॥१०॥ ततश्चिन्तित एव संनिहितो नन्दी शिव इव सभाजितो देवासुरैः समर्पितां मधुसूदनेन शशाङ्करेखामाददानः सादरमि-- दमवादीत्- 'किमिव दयितं शंभोः केन प्रसीदति देव इ- त्यविरतसमासक्तं चित्तं तवैव हरे हरे । तदिह भगवन्माहाभाग्यं तव प्रणुमः कथं त्वमसि शरणं शैवानां नस्त्वमेव महागुरुः ।। ११ ॥ - पञ्चमाश्वासः। जानीषे ननु नाम केशव जगन्नाथस्य नाथस्य नः प्रीतिं पारमिकीमनन्यसुलभां पुष्पेषु नीलोत्पले । अस्मिन्नुत्पलबन्धुरित्यतितनूभूतेऽपि भूतेशितुः प्रीतिं चिन्तय तावतीमुपचितामिन्दौ ततो वाधिकाम् ॥१२॥ तदहमेव प्रसाधयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम् । अग्रभुजे च विश्वेषामग्रपूजनमेतदुचित- माचरितम् । तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्तां' इत्य- भिधाय तिरोभवति शिलादनन्दने, पुनरपि संचुक्षोभ सारस्वतो गर्भः॥ नैर्मल्यादुपसंभृताः फणधरस्त्रैणानुबिम्बाः शतं खस्थानक्षुभितोद्गतामृतरसस्यन्दोपसंदानतः । प्राप्तप्राणसमागमा इव ततः प्रादुर्बभूवुः स्त्रियो नासीराग्रपताकिका रतिपते नाजयाङ्का इव ॥ १३ ॥ ततश्च विद्रुमलता इव वीचीभिराहृताः, तटित इव तत्त- समयोपनम्रपयोधरोत्संगपरिभ्रष्टाः, कौस्तुभरत्नपाश्चालिका इव कौतूहलाय विनिर्मिताः केनापि, पश्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः, तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः, हंसीरिव मानसादम्भोदविगमे समुत्तरन्तीस्ता बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य सागरमथनवृथाक्लेशादुत्तरमप्यमृतमु- पेक्ष्य संनिहितेऽधरामृत एव दृष्टिमादधिरे । तापसा अपि तदर्श- नक्षुभितहृदया मन्त्रजपादुपरम्य मणितभेदानधिजिज्ञासांचक्रिरे । 8 ११४ नीलकण्ठविजये . पश्चानिमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि बहुमेनिरे । किं बहुना । श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासामालोकन- मग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य, गाननिषेवणं गवामयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वामिश्रणं वाजपेयस्य, परिष्वङ्ग पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायण- यज्ञस्य. नखलेखनं नानाविधानां संस्थानां, कुचमर्दनं कुण्डपायि- नामयनस्य, रशनावमर्शनं राजसूयस्य, विपरीतरतं विश्वसृजाम- यनस्य, चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्त- पनयोः फलमाचक्षते ।। सौहार्द परमेयुषामपि तदा संनयतां विग्रहे तासामेव कृते शनैः सुमनसां दैत्येश्वराणामपि । सद्यः क्षालयितुं विवादमनतिप्रौढं सरोजेक्षणः संगृह्णनुभयानिमानभिदधे तथ्यं च पथ्यं वचः ॥१४॥ 'हन्त भो देवासुराः, किमिदमजानतामिव भवतामपि वैमत्यम् । तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवि- तव्यं फलेनापि । तदिमाः समुद्रसंभवा अप्सरसो नाम तरुण्यः साधारण्यो भवन्तु भवताम् ।। गजमेकमश्वमेकं गामेकां पञ्च च द्रुमान् दत्वा । संभावयत विनाशितसर्वस्वं वासवं यदि प्रीतिः ॥१५॥'
पञ्चमाश्वासः। इत्यभिहितमात्र एव सादरमाधाय शासनं शिरसि किं प्रतिमो भवच्छासने, किंतु स्वामिने किमप्यनुपहृत्य न युक्त- मस्माभिरियदासेवितुं, तदने यदुत्पत्स्यते तद्भवाननुमन्यता' इति प्रार्थ्यमानः सुरासुरैरन्तरेव कृतस्मितः किंचिदन्वमन्यत रमा- रमणः ॥ अथ पुनरपि यावदाविलं ते व्यधुरुदधिं विबुधाश्च दानवाश्च । सममखिलजनुष्मतां मनोभिः समजनि तावदनाविला त्रिलोकी ॥ १६ ॥ अभ्यग्रावतरिष्यदर्णवसुताहस्ताग्रसंभावना- संहृष्यत्कनकारविन्दकलिकासौरभ्यसारस्पृशः। मन्दं मन्दममन्दचन्दनकिरः पस्पन्दिरे मारुताः कालोनिद्रकदम्बडम्बरमभूयेनाङ्गमङ्गं हरेः ॥ १७ ॥ ततश्च समसमयसमुन्मिषत्कनकारविन्दकाननश्रीरिव नय- नानन्दसंदायिनी, समभागयोजितशरदिन्दुकन्दलबालारुणप्रवि- लापनचाकचक्यलक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवर- समुत्थितफणासहस्रमणिप्रभेव फणिराजस्य, काचन कान्तिधो- रणी समूछिता दुग्धकल्लोलेषु सन्ध्येव चन्द्रातपे, सफलीचकार कमलाक्षतां कमलानस्य । तत्र च तालवृन्तचामरताम्बूलकरङ्क- कनकालुकादिपरिकरपाणयो भावानुभावदेवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्रनिर्वर्णननिर्वृतानि नीलकण्ठविजये लज्जयन्यो नयनानि नाकसदां, प्रादुर्बभूवुरप्रतः परिवारशक्तयः कमलालयायाः। तदनु च परमानन्दघनीभावपरिणाममयी मा. तृकावर्णसंपन्नमकुटादिचरणान्तसर्वाङ्गसुन्दरी पतिदेवता धर्मनि- यन्त्रणेन पतिमुखलक्ष्यैकपातिनीभिरपि कटाक्षवृत्तिभिः परिसर- निष्यन्दमात्रपरिपोषितजगत्त्रयी, जातजायमानजनिष्यमाणरूपापि जातरूपैकमयीव लक्ष्यमाणा, धर्ममयी धार्मिकेषु, विज्ञानमयी विप्रेषु, पराक्रममयी बाहुजेषु, संपन्मयी राजसु, साहसमयी शरारुषु, कारुण्यमयी भक्तेषु, कामकलामयी परिणेतरि, विजय- पताकिका जनार्दनस्य, जीविका मकरध्वजस्य, माता चरा- चराणां, महिषी नारायणस्य, समालक्ष्यत सौभाग्यदेवता ।। -- विरहासहेव सततं विहितस्थितिराननेन्दुना सविधे । कुवलयवनीव रेजे कुटिला कचसंहतिस्तस्याः ॥ १८ ॥ कपोलौ निर्मातुं किल शकलमेकं हिमरुचे- र्यदादायात्याक्षीदसममिदमस्या इति विधिः । तदासीदाश्चर्य परममखिलानां दिविषदां तदुत्तंसीभूतं पुरमथितुरद्यापि मकुटे ।। १९ ।। अपिच कमलासनपदप्रदस्य कमलोपमां मीनकेतनजन- कस्य मीनसादृश्यमपि कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगतकमलं घ्राणसंसक्तं तत्रत्यमौक्तिकमिव तस्या नासामणिः परिणेमे ॥
पञ्चमाश्वासः ।
कस्यां श्रुतावधिगता मणिकर्णिकेति
मूढात्मनां प्रलपतां मुखमुद्रणाय ।
आसीदशेषजनताभवतापहन्त्री
मातुः श्रुतावधिगता मणिकर्णिकैच ॥ २० ॥
पद्महस्तायाश्च तस्याः पाणिकमलयोविवेकाय कल्पितानि
चिह्नतयेव कङ्कणानि प्रचकाशिरे ! आजानसरलमस्या हृदयमा-
वृण्वतोरनवशेषमेव कुचकुम्भयोः कोपारुणाः कटाक्षा इव पुण्ड-
रीकाक्षस्य कुंकुमपत्रभङ्गा ददृशिरे ।।
वक्ताक्षिपाणिचरणासनधारणानि
पद्मानि यानि षडिमानि हरिप्रयायाः ।
उद्बुद्धमेकमपि तेषु किल व्यनक्ति
संसारमोहरजनीमणुमात्रशेषाम् ॥ २१ ॥
पद्म निवेश्य परिगृह्य च पद्ममेव
या पद्मरागमखिलं स्वमुदाजहार ।
तस्याः श्रियः समुचितानि हि तन्मयानि
ताटङ्ककङ्कणमुखानि विभूषणानि ।। २२ ॥
विहारोऽप्येतस्या विकसति सरोजे चरणयोः
प्रसूते लौहित्यं यदि चरतु सा कुत्र सुमुखी ।
इति ध्यायध्यायं मृदुनि नवनीतादपि निजे
हृषीकेशो मेने हृदयभवने वासमुचितम् ॥ २३ ॥
नीलकण्ठविजये ततस्तदिङ्गितवेदिनी मङ्गळदेवता परिवृता विभूतिभिः पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादु- त्तरन्ती पझेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजा- दुजान्तरं संक्रम्य भूभुजां कृतशिक्षेव भुजान्तरमेव भूवल्लभस्य समारोह ॥ दिव्या दुन्दुभयो विनेदुरभितः स्निग्धं जगुः किन्नरा जानन्तः परदेवतां जय जयेत्यस्ताविषुस्तापसाः । अम्लानैर्ववृषुः सुमैः सुरभिलैराश्चर्यमेघाश्च ता- मारूढां हृदयं हरेरपि सुरैरज्ञातमन्तःपुरम् ॥ २४ ॥ चन्द्रं चन्द्रिकयेव चण्डकिरणं दीप्त्येव शक्त्या तया नित्याश्लिष्टमनन्ययापि मिलितं देवं तदानीमिव । दर्शदर्शमनिर्वृतां दशशतीमक्ष्णां किरन्पादयो- रस्तावीत्कमलालयामभिमुखीकर्तुं पुनर्वासवः ॥ २५ ॥ भगवति जगज्जननि भक्तवत्सले, परमः पुमानपि भवत्या विनाकृतो नीहार इव भानुमान् , निदाघान्त इव चन्द्रमाः, नानन्दयामास नयनानि मादृशाम् । अधुना तु- या त्वेषा तुलसीति वक्षसि हरेर्या कापि वन्यौषधि- यश्चासौ तिलकालको बहुमतः श्रीवत्स इत्याख्यया । इन्तासीत्तदपि द्वयं शमवतामालम्बनं ध्यायतां चारूणामपि चार चारुचरणन्यासेन पद्माक्षि ते ॥ २६ ॥ ,
पञ्चमाश्वासः।
११९
अपि च । यामेव भवतीमियन्तं कालमासेदुषीमराति-
भवनानि मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि
तामेव सर्वलोकशरण्यस्य भगवतः सरसिजेक्षणस्य वक्षोगता-
मालक्षयन् सर्वतो निवृतोऽस्मि ||
अज्ञानादतिलालनादपि च ते मातर्मया माद्यता
निर्माल्ये परदैवतस्य चलितं यत्किंचिदुच्छृङ्खलम् ।
तत्क्षन्तव्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी-
त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ।।
अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती
प्रसादविमलां दृशं प्राणवल्लभम्य, चिन्तानुरूपमेव तस्य, चिन्ता-
मणिना तमालादयामास । इत्थमियत्यपि चलति संविधाने,
प्रव्यक्ते च पशोरपि पक्षपाते मघवति परमेश्वरस्य, मदान्धाः
प्रकृत्यैव मायया च विशिष्य मोहिता महासुराः-किं गतमेते-
रतिक्षुद्रैः किंचित्तु वयमनुवर्तमानाः क्षणमपहरिष्यामः सुधा-
मित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे ॥
अथ मथनविषण्णदेवासुरस्तोमजीवातुभिः
श्रमशिथिलितबन्धवातंधयप्राणनाधिमैः ।
शिशिरितहृदया दयासारतुङ्गैरपाङ्गैः श्रियः
पुनरपि जलराशिमक्षोभयन् देवरक्षोभटाः ॥२८॥
नीलकण्ठविजये
जना-
ततः संततसंतन्यमानमन्थननिर्बन्धनिर्विण्ण इव, सर्व-
खहरणसमुत्पन्नवैराग्य इव, तनयावियोगतरलान्तःकरण इव,
वरुणालयः त्रिजगदगदङ्कारबिरुदाङ्कितेन दिव्यौषधिपरिवृतेन
करकमलगृहीतकनककुम्भसंभृतामृतगन्धमन्थरगन्धवहस्पन्दमात्र-
नियन्त्रितजरामरणक्लेशपाशेन जगदनुजिघृक्षागृहीतेन
र्दनस्यैव मूर्तिभेदेन भगवता धन्वन्तरिणा सममाविर्भूय भूयसा
भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय तस्य करादमृत-
कलशमग्रे निवेदयन्निदमाचचक्षे--
'त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तर-
स्तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा ।
तव किमुपदातव्यं लक्ष्मीपतेः कृपणैर्जनै-
स्तदपि दयसे स्वामिन्नसासु तत्त्वनिवेदनात् ॥ २९ ॥
अपि च
गामश्वं करिणं मणिं हिमकरं कन्यास्तरूनद्भुता-
नन्नं चामृतमन्ततस्त्रिजगतीजीवातुमेतां सुताम् ।
प्राणाचार्यममुं च ते चरणयोः प्राणैः समं विन्यसन्
खामिन् कामपि ते प्रसादकणिकां याचे दया चेन्मयि ।।
वदति मधुरमित्थं वल्लभे वाहिनीनां
जनयितरि रमाया जातहर्षो मुकुन्दः।
सकरुणमनुगृह्णन् सानुरागैरपाङ्गै-
रकिरदमृतवक्रेनमार्वचोमिः ॥ ३१ ॥
पञ्चमाश्वासः । १२१ तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखा बहिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमव- तस्थिरे । दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथाशङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणं, आलोच्य परस्परं, आसीदन्त इव सान्त्वनाय सामाजिकानां, परिवृत्य सुधाकलशं, परिगृहन्तः प्रहरणानि, परिमेलयन्तः स्वबान्धवान् , अवतार- यामासुरादितः कामपि विवादकथाम् 'भगवन्तौ चक्रायुधचतुर्मुखौ कथमत्र भवितव्यं विभागेन । अथवा न पृच्छामो युवाम् । आमन्त्रिताः स्मो न वयं युवाभ्या- मभ्यर्थिताः स्मो न च सान्त्ववादैः । अस्माभिरादौ समयं बबन्धु रागत्य ये तान्वयमालपामः ॥ ३२ ॥ ननु च भो भ्रातरः सुपर्वाणः, शृणुत यूयम् । अपि जानीध्वे समयमाचार्येण वः कृतमस्मासु । क्क मन्दरो महागिरिः क सागरो दुरुत्तरः क वा स वासुकिः फणी फणीन्द्रमण्डलाग्रणीः । भवन्त एव साधयन्तु भावयन्तु चामृतं पिवन्तु चातिथीनिमान सुरान्विधाय दानवाः ।। ३३ ।।
१२२ नीलकण्ठविजये किं बहुना- शक्ता भवेम यदि किं वरयेम युष्मान् तत्साधका मथनकर्मणि यूयमेव । शक्त्या यतेमहि वयं च परं तु तस्मिन् यत्नानुरूपमितरानपि भावयध्वम् ॥ ३४ ॥ इति । तदिह भवन्त इव विदांकुर्वन्तु । कति भन्ना गिरिवहने कति पतिता वासुकेः समानयने । कति दग्धा मुजगविषैः कति भागानिह पिबेमेति ॥ ३५ ॥ इति वदत्सु दानवेषु वाचस्पतिरिदमभाषत- 'यद्भग्नेषु भवत्सु पूर्वमनिलेनैवादिराकम्पितो यच्चापत्यकलत्रदर्शनकृते यूयं गता भूतलम् । यद्वा भोगिपतेः फणाग्रवहनं युष्माभिरेवार्थितं सर्व वेद स एष एव भवतामाचार्यपादः कविः ॥३६॥ इत्युत्तरोत्तरयुक्तिवादिनि वाचस्पती, प्रतिवदति च यथा- शक्ति भार्गवे, परिणमति शनैः कलहे, प्रहरणादानभीषणेषु दान- वेषु, परिकरमाबध्नत्सु निजैरेषु, चिन्तयन्मनसा चिरमाराध्य परां शक्ति, आसाद्य तदीयमेव मोहन रूपमतिसधाय दानवाननुगृह्णी- याममरानिति कृतनिश्चयः सद्य एव तिरोदधे सह कमलासनेन कमललोचनः । ततश्च दोभिर्भरशैलनिर्भरपरीवर्तावसीद द्वलै- र्गात्रैरुद्भटकालकूटगरलज्वालावलीढोज्झितैः । . -
पञ्चमाश्वासः ।
१२३.
उत्तालैः श्वसितैरुपर्युपरि च प्राणैः प्रतिष्ठासुभिः
स्पर्धामात्रबलोत्तरा युयुधिरे देवैः समं दानवाः ॥ ३७॥
भग्नरथा भग्नाश्वा भग्नबला भग्नशस्त्रास्त्राः।
निर्विद्य भुवि निषेदुः सममुभये सर्वतो भग्नाः ॥ ३८ ॥
परिश्रान्ताश्च ते परितोऽपि चक्षुर्व्यापारयांचक्रिरे । अ-
द्राक्षुश्च ते तत्र किंचिदपर्यायसमुन्मिपञ्चम्पकबकुलहरिचन्दन-
तिलकमल्लिकासहकारमाधवीकरवीरवासन्तिकाकुसुमपरिमलोद्गा-
रिमारुतानुसारिमधुकरीगानकलकलोन्मिश्रकलकण्ठकण्ठनादमेदुरं,
दुरन्तविरहोदन्तदूयमानमानिनीजनावर्जितपल्लवशयनसमुल्लसित-
लताकुञ्जमज़ुळं. कञ्जुळविटपिसंचरदलिकुलभारपराकीर्णपराग-
पुञ्जपिञ्जरासारसारणीसलिलपूरपूरितालवालबालपादपच्छायसुख-
निषण्णकिन्नरीसंलापसमाकर्णनोल्लसितकर्णिकारकलिकानिकायरम-
णीयं, अनतिक्रमणीयशम्बरशासनशासनचीटिकायमानपल्लवभङ्ग-
धारणनिरातङ्कशारिकासंघकिङ्करीभूतयुवलोकलोचनानन्दनं नन्दन-
मिव भुवि निवेशितमखिलगुणाभिराममारामम । तत्र च-
मन्दस्पन्दरसालसालशिखरक्रीडत्पिकश्रेणिका-
कण्ठोदश्चितपञ्चमध्वनिचमत्कारप्रकारस्पृशः ।
कन्दर्पाहवखिन्नकिन्नरवधूकण्ठोन्मिपत्काकली.
काकुव्याकुलिता गिरो दिविषदां जीवातवो जज्ञिरे ॥३९॥
नीलकण्ठविजये उपवने च तस्मिन्नुपान्तनिरूढकदलीगर्भकन्दलितहिम- वालुकापरागवालुकानुरागजनितजडिमहिमकुल्यानिपातशीतलिता- लवालमूलसुखशयितकेकिकेकानिनादमनोरमे हरिमणिहरितपरि- सरधरणिनिपतदविरळबकुळमुकुळपरिमळपरिमळदळिकुलगरुदु- पचितमरुदुपहृतकुसुमजरजोराजिनिर्मले मूले बकुलस्य, निटिल- तटनिर्माणकौतुकाविष्टनीरजसंभवापास्तशशाङ्कशकलानुकारिकेत- कीपत्रचित्रितवेणीपदां, नभोनभस्यरजन्योः केशपक्षयोः नव- नवोन्मिषद्विवादपरिहारकसीमाविभागवीथिकयेव सीमन्तरेखया पद्मरागसिन्दूरपाटलीकृतया संघटयन्तीमिव सान्ध्यरागसंपदं, किङ्करीकृतभुवनमण्डलेन किंचिद्घटितेन भ्रूभङ्गेन परिहरन्तीमिव प्रामादिकं भङ्गमनङ्गवीरस्य, अनासेवितमधुरैरिव अमृतैः, अना- लिप्तशीतलैरिव कर्पूरपरागैः, अवतंसोत्पलमिव हस्तग्राहं ग्रहीतु- मनुधावद्भिरनुक्षणं कर्णपथं, आक्रामद्भिरिव शनैर्मुखमण्डलं, संजी- वनैर्मदनस्य, संप्रदायगुरुभिः शृङ्गारस्य, विलासभवनैर्विभ्रमाणां, तारुण्यचन्द्रिकोल्लासितैस्तरङ्गैरिव लावण्यसागरस्य, कटाक्षरेव जगदखिलं कन्दर्पनिदेशवशमापादयन्ती, ताटङ्कमरीचिवीचिभि- स्तटित्पुञ्जमिव युगपदुगिरन्ती, आदिमरसाभिवर्षणाय निरन्तर- परिवहदाननसौन्दर्यनिष्यन्देनेव नासामणिना, प्रतिबिम्बितेनेव तस्य पाटलाधरपर्यस्तेन मन्दस्मितेन च मदयन्तीमिव मनांसि महायोगिनामपि, नवनवोपचीयमाननखंपचस्तनभारपरिणाहवशा- त्परिश्लथयन्तीमसकृदपि वेणीलतां कञ्चुकस्य, कन्दुकाघातजनि- तारुण्यकरपल्लवाभ्यर्णपरिभ्रमद्धमरिकानुकारिणा कमलाक्षवलयेन ,
पञ्चमाश्वासः।
१२५
परिभ्रमयन्तीमन्तःकरणान्यपि पश्यतां, कलमधुरगानामृतद्रवी-
भूतपर्यन्तमणिकुट्टिमपतनसंभावितामार्द्रतां परिहर्तुं कन्दुकस्य
चलन्तीमितस्ततोऽपि, चरणतलरणितमञ्जीरशिञ्जानुविद्धेन काञ्ची-
कलकलेन घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्र-
मितुमागतां, सालभञ्जिकामिव संचारशालिनी, रत्नशलाकिकामिव
लब्धजीविका, शारदचन्द्रिकामिव संपन्नविग्रहां, सौन्दर्यमंपदमिव
सान्द्रीभूतां, साम्राज्यदेवतामिव तारुण्यस्य, संप्रदायविद्यामिव
मदनागमस्य, कामप्यदृष्टचरी कन्यकामुपलेमिरे ॥
,
सायोन्मिपत्कुवलयोदरसोदराणि
सा यत्र यत्र विचकार विलोचनानि !
आविर्बभूवुरवशादिव तत्र तत्र
सजीकृतैक्षवशरासभुजा मनोजाः ॥ ४०॥
कटाक्षैः कन्दर्पज्वरजनितमोहान्धतमम-
प्रतापव्यापनत्रिजगदगदङ्कारविरुदैः ।
प्रगल्भैश्वालापैः परिमृदितकर्पूरशिशि-
ईवीभूतं जज्ञे सलिलमिव विश्वं मृगदृशः ।। ४१ ।।
दिशि दिशि विकिरन्ती दीर्घदीपीनपाङ्गा
न्करसरसिजघातैः कन्दुकं नर्तयन्ती ।
तटिदिव जलदेभ्यो विच्युता सा मुराणां
सविधमवजगाहे शाम्बरी शम्बगरेः॥ ४२ ॥
नीलकण्ठविजये भ्रामं भ्रामं करकिसलयं कन्दुके पातयन्ती त्रस्तं त्रस्तं कुचकलशयोरर्पयन्त्युत्तरीयम् । उद्गायन्ती किमपि किमपि खैरमुत्कूलरागं चित्रन्यस्तं कुलमकृत सा दारुणं दानवानाम् ।। ४३ ॥ स्वच्छन्दप्रचलत्सुधार्णवसुधाकल्लोलवल्लोलया संदृष्टाः शुभया दृशा सुमनसो धन्या जनन्या तया । पञ्चब्रह्मविनिर्मितासनपरब्रह्माङ्कपर्यङ्किनी पञ्चाम्नायशिरोगतां बुबुधिरे तां ते परां देवताम् ॥ ४४ ॥ पश्यन्तश्च तां परिसर एव चरन्ती प्राणशक्तिमिव पञ्च- शरस्य, भाग्यदेवतामिव शृङ्गाररसस्य, बालिकामुपेक्षितुं सुधा- कलशमुदासितुं च तस्यामपारयन्तः क्षणमनुबभूवुः संशयान्दोलनं यावदसुरवरा:- तावद्धावत्कन्दुकग्राहमोह- व्याजात्प्राप्ता मध्यमेषां द्वयेषाम् । सिञ्चन्तीव व्याजहारामृतौधैः शस्त्राशस्त्रिक्लेशितान्यङ्गकानि ।। ४५ ॥ 'के यूयमाधिकारिका इव विगृह्णन्त इव विषण्णा इव संरम्भमालशेषा इव च लक्ष्यध्वे । किंकारणं विस्रब्धविहारि- णीनां बालिकानां विहारवनोपकण्ठमसृग्वसामांसकर्दमैरभिपूर- यथ' इति । आकर्ण्य च तां गिरमतिभूमि मनोरथानां, अभ्य- हिताममृतादपि दानवा इदमूचिरे- - पञ्चमाश्वासः । 'निर्वासिता निजपदात्रिदिवौकसोऽमी प्राप्ता वयं भुजबलेन पदं मघोनः । सर्वेऽप्यमी सुमुखि दानवदैत्यसंघाः सत्यं वदेम तव संप्रति किंकराः सः॥४६ ॥ किं बहुना। त्वं नो राज्यं त्वं बलं त्वं धनानि त्वं नः प्राणास्त्वं भवस्यन्तरात्मा । त्वद्दासाः स्मस्त्वत्कटाक्षप्रतीक्षा- स्त्वं यद्व्यास्तत्प्रमाणं परं नः ॥४७॥' इति निःशेषनिवेदितात्मसु दानवेषु, कि करिष्यति किं वक्ष्यतीति कृतसंशयेषु दिक्पालेपु, मन्दस्मितसुन्दरमिदमाह महामाया 'हन्त कथमभिज्ञाततत्त्वा अपि भवन्तः पौरोगवा इव पाकशेषेषु कलशामृते कलहायन्ते : तदलमुपविशक्त यूयमुभयऽपि वीथीभूय, प्रदास्याम्यहमेव भवतामिदं कलशामृतम् । तत्र च प्रथममिमानन्नार्थिनः पदभ्रष्टानग्रभिक्षया परिविष्य, पात्रेणैव भवत्सूपतिष्ठे' इति । ततश्च साधु साध्वित्युपलालयन्तस्तदीयं वचनं, द्वेधा पतीभूय, देवासुराः प्रथममेव सतर्पिता वागमृतैः, प्रतीक्षांचक्रिरे परिवेष्यमाणं कलशामृतम । ततश्च सा संनिहित- सखीकरन्यस्तकन्दुका ससंभ्रमोपनतचेटीजनामृष्टमुखमण्डला प्रत्य- प्रकर्पूरपरागपरिधीतकरपल्लवा भ्रभङ्गचोदि तभुजिप्याजनापट्टतम- मृतकलशमादाय भुवनत्राणबद्धकङ्कणेन मव्येन पाणिना, दर्वी- करशिरोरत्ननिर्मितां दमिनुगृती दक्षिणन करेण, नीवीपद- १२८ नीलकण्ठविजये - निगूहितोत्तरासङ्गपल्लवा, वेणीदृढग्रन्थितविस्रंसमानकुसुमदाम- मनोहरा, निस्तरङ्गमिव सागरं, निस्तनितमिव संवर्तमेघमण्डलं, निखिलमपि देवासुरबलं नियमयन्ती कटाक्षेणैव, यदा कश्चिदत्र करं प्रसारयति, कश्चिदुपमन्त्रयते रहसि, कश्चिदुच्चैः प्रलपति, कश्चित् त्वरते, कश्चिद्वा प्रतिब्रूते, तदा तिरोभवेयमिति प्रति- ज्ञयैव परित्रासयन्ती, संमुखीभूय देवपतौ संननाह परदेवता ।। प्रत्यासन्नसखीवितीर्णमुकुलद्वीटीदलग्राहिणा सव्येनादधती करेण मृदुना दीं मणीनिर्मिताम् । कुर्वाणा करपल्लवे तदितरे कुम्भं सुधापूरितं चिद्रूपा परमा कला पुरभिदश्चित्ते ममास्ते तु सा ॥४८॥ आनम्य किंचिदवमुच्य पिधानपात्र- मादाय रत्नकलशादमृतं समग्रम् । दा मणीखचितया ददती सुरेषु दिव्या कला भुवि चचार तटिल्लतेव ॥ ४९ ॥ मात्रार्पितं गरलमप्यमृतं शिशूना- मित्यामनन्ति यदिदं विशदं तदासीत् । दर्वीकरत्वमपि सा दधती यदित्थं दिव्यं ददावमृतमेव शिशुष्वमीषु ॥ ५० ॥ चरन्त्याः स्वच्छन्दं चरणतलमञ्जीरराणतः कलस्निग्धामन्द्रर्धनजघनकाञ्चीकलकलैः।
पवमाश्वासः। १६ कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं कटाक्षरप्यासीत्सुखितमखिलं दानवकुलम् ॥ ५१ ।। ददाना च सा देवेषु दयारसमिव सुधारसं, दैतेयावुर राहुकेतू नाम देवपंक्त्युपवेशिनौ भुजगवपुषौ पीतामृतावे चन्द्रार्कसूचितौ दर्वीकाण्डेन विदारयामास कण्ठपदे ॥ अन्तर्निगीर्णममृतं प्रथमं हि येन तस्यासुरस्य तदशिष्यत भोगमात्रम् । यस्यामृतं वदन एव धृतं स राहु- रद्यापि पर्यवसितः फणमात्रशेषः ।। ५२ ।। यदृष्टं चन्द्रसूर्याभ्यां तदृष्टं निजया दृशा । क्षन्तुं शशाक तेनैषा मन्तुं न खलयोस्तयोः ॥ ५३ । अनुगृह्येत्थममरानामृष्टोदरं सुधाकलशमन्तर्निहितदर्वीझण झणात्कारमौखर्यपूरितमग्रे निधाय दानवानामपेक्षमाणेव क्षण विश्रममासांचक्रे । तद्नु सुधापानलब्धबला सुपर्वाणः परि- गलितशङ्कातङ्काः प्रत्यक्षमेव तां प्रस्तोतुमारेभिरे ।। 'वन्दामहे कमलनाभमनन्तमाचं वन्दामहे भुवनमोहनशक्तिमैशीम् । चन्दामहे तदुभयाद्वयवादमूल- मानीलकण्ठमवतंसितचन्द्ररेखम् ॥ ५४ ॥ निरातङ्क स्वामिन् निरुपधिदयासार भगवन् प्रपन्नानुग्राहिन् परमपुरुष त्वत्करुणया । 9 नीलकण्ठविजये 4 जिताः क्षुद्रा दैत्या जितमखिलमेतत्रिभुवनं कृतं कर्तव्यं नः किमिव करणीयं पुनरितः ॥ ५५ ॥ आनीलकेशमरविन्ददळायताक्ष- माविष्कृतस्मितमपारकृपानिधानम् । कूलंकषस्तनतटार्पितकुंकुमाई शाङ्गिन्निदं शरणयेम तवाद्यरूपम् ॥ ५६ ॥ उल्लङ्घय निर्माल्यमुदासितं यः दजानतानेन पदे भवत्याः । तत्स्वामिनि स्वामिनि वासवे नः क्षन्तव्यमित्येव निवेदयामः ॥ ५७ ॥ इति स्तूयमानैव सा सुपर्वभिः, इदं किमापतितमियं का तरुणीति शङ्काकलङ्कितैरालोक्य रिक्तममृतभाजनमाविष्कृतम- हारोषपरुषैरसुरैः संनह्यमानेव युद्धाय सद्य एव शङ्खचक्रगदा- खगसरसीरुहलाब्छितमसुरलोकभयंकरमाबभार रूपं नारायणी । 'भो भो महेन्द्रप्रमुखा देवाः, मशकानिवैतानुत्सार्य दानवान् , मन्दरं यथापुरं प्रतिष्ठाप्य, वासुकिं विसृज्य, विरूपाक्ष- मभिप्रसाद्य, लब्धानुज्ञाः सुखं पालयत स्वाराज्यं' इत्यनुगृह्य देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः ॥ तिरोभूते सद्यस्त्रिभुवनगुरौ स्वामिनि हरौ विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः।
पञ्चमाश्वासः । अयाचन्त स्थातुं निभृतमभयं भोगिभुवने तथेति स्वीचक्रुस्तदपि विबुधा देशिकगिरा ॥ ५८ ।। अथ पुनरन्तर्निगूढमत्सरानप्यभिनीतमहाविनयान , अप- नीतविषानिव महोरगानसुरान्विमृज्य सुधारसास्वादसुहिततया कन्दुकमिव मन्दरं करतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममा अभूमेति, परिरभ्य निर्भरे, प्रस्थाप्य रसातलं, उपनिवेशयन्तो यथापुरं मन्दरं, उपतस्थिरे चन्द्रशेखरम् ।। 'क्षमेथाः श्रीकण्ठ प्रचलनमिदं मन्दरगिरेः क्षमेथाः काकोलं कबलयितुमाशासनमपि । क्षमेथा यत्पूजास्वपचरितमासीदहरहः प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ।। ५९ ॥ अक्ष्णोः पुष्पवतोरेकमर्पयनीश ते पदे । चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः।। ६० ॥ देवानामपि दुर्लभं पदमिदं लब्धं मयोपायतो द्विबिल्वदलैः प्रतार्य शिवमित्येवं जनो मन्यते । पद्भक्तांघ्रिरजःस्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो दत्वा सेवक एव वञ्चित इति स्वामिन् भवान्मन्यते ॥६॥ इति स्तुवन्तो विबुधाः, 'प्रसन्नाः म्मो युष्मासु, परिपा- व्यत यथापुरं खाराज्यं' इति प्रसनगम्भीरामाकर्ण्य पारमेश्वरी रमाकाशसंभवां, परमानन्दनिर्भराः प्राक्प्रस्थापितेन गुरुणा नीलकण्ठविजये सजीकृतां, परित्यक्तामसुरैः, प्रसाधितां विश्वकर्मणा, परितोऽप्य भिनवामिव सर्वसौभाग्यवतीममरावतीमासाद्य. प्रणम्य वाच स्पति, प्रसाद्य यथोचितं महर्षिगणान् , परिरभ्य परस्परं, प्रति ष्ठाप्य सिंहासने शतक्रतुं, आदिष्टानि तेन स्वानि स्वानि स्थानानि यथापुरममराः परिपालयांचक्रिरे ।। अर्चन्तस्तरुणेन्दुचूडमसकृत्संकीर्तयन्तो हरिं ध्यायन्तस्त्रिजगद्विमोहजननीं शक्तिं परां शांभवीम् । आज्ञां मूर्धनि बिभ्रतः सुरगुरोरानन्दयन्तो मुनीन् खच्छन्दं त्रिदिवौकसो बुभुजिरे स्वाराज्यमव्याहतम् ॥६२॥ वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं पान्थः काव्यपथेषु पादकमले सक्तः पुरोरेरिति । मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन- स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः॥६३॥ शिवार्पणम् । इनि श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिक- शतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पयदीक्षित- सोदर्यश्रीमदाचार्यदीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये चम्पुकाव्ये पञ्चम आश्वास.॥ समाप्तश्चायं प्रन्थ ॥
श्लोकसूची। पुटं पुट १०२ अक्षोभ्यं भिषा शते अक्ष्णोः पुष्पवतो अगन्तव्यं तक अग्रे पश्चादुभयत ११५ अजनि शनैर्विशदं अज्ञानादतिलालनादपि अतिप्रबन्धादिषु अतीतत्रैगुण्यामशरण अतो ब्रह्मविष्णूना अत्रान्तरे रणहतो ११२ अत्रान्तरे सुरगुरु अथ कथमप्यमयपतय. अथ तेन विलाध्वना अथ दिवसावमान इव अथ पुनरपि यावदा अथ मथनविषण्ण अथ यावत्समाधि तं अथ शिथिलासमास अथ सुरगुरुमागत अद्याहं परिपालकोऽम्मि अनालोच्य निजां अनितरशरणत्वमा ९९ अन्तनिर्णिमपि १३१ अन्तर्निगीर्णममृतं ४३ अपि द्रष्टुमशक्यो यः ११ अपि श्लक्षणीकुर्मों मणि १०० अभिदधति ते मूर्धानं ११९ अभ्ययावतरिष्यदर्णव २० अभ्यणस्थलभाजि तत्र ९४ अभ्युद्यती मथनतः ६६ अमुं यं वीक्षध्वे २० अभृतं यदि भोक्तव्य ३३ अयं कालो बुद्ध ४७ अर्चन्तस्तरुणेन्दुचूद ८३ अव्याजकोपनिधिना ७२ अष्टत्रिशदुपस्कृत ११५ अस्ति स्वादयितुं ११९ अहो ते शक धामान्य ९४ आख्याय निग्विलं वृत्त ८४ आजिनिव ३८ आनम्य किंचित वमुच्य १०३ आनीता वसुधातलात ६. आनीलंकशमवन्द ६२ आपातालनिमममूर्तिीन A नीलकण्ठविजये पुटं पु : ५ ११ ८३ कतीन्दाः कति ११. कत्यसृजं विश्वसुजः १२१ कपोलौ निर्मातुं किल कस्या श्रुतावधिगता कालदण्डहतस्यास्य १४ कालोऽत्यगादशुभ १०९ किमिव दयितं शंभोः ११ २ ३ ११ २८ कि कर्म कि कर्म दुष्कृत ११ : ८ आपातालात्फणधरपते आप्योऽपि रंहसा आमन्त्रिताः स्मो न वयं आयुर्येषाममीषां आराद्धा ननु यूयमेव आलम्ब्य दैन्य आलोड्यमानः पुन आवृत्यावर्तयन्तो आश्चर्यस्तिमित इति कतिपये दैत्या इति परमुपदेशं इति स्तुतिभिराभि इत्याकाशगिरा इमे वयमिदं तत्वं उड्डीय खयमुत्पतन् उद्यनिर्धातघोष उद्वान्तसागरपयोभर उपासीना नानाविधि ३ १ १२ १०१ किं तन्त्रैः कि मन्त्रैः २३ कि तकरतिवः कि न निगृहन्ति ९४ के देवाः के दनुजाः २७ ध्यानवयोध ४६ क मन्दरो महागिरिः क्षन्तारं सकलागसा क्षमेथा. श्रीकण्ठ क्षितिधरपरिपात ६. क्षुद्र कि करणीय १३० खोजतासुरस्कन्ध ९१ गच्छन्नेव ततः स ५५ गजमेकमश्वमेक गामश्वं करिणं मणिं १३ उल्लङ्घय निर्माल्य १६ ऊष्माणाववहविभा एकं तद्दिविभूति एकेन विधृतं राज्य भोमित्युमति युवयो कटाक्षः कन्दर्पज्वर कति कवयः कति कति भन्ना गिरिवहने गायन्ति चाह ६ १२५ गौरश्वः करिणः नियो ३ घोषे कापि पुरा १२२ चकम्पे हन्तायं गिरि ए लाका पुर्ट पुढे १२५ चकितपलायित चन्द्र चन्द्रिकयेव चरन्त्याः स्वच्छन्दं चेतो यद्भवतश्चिरं चौयण प्रणयेन छन्दो यथा यथा शौरः जय जय जगदम्ब जानाम्यहमुमाकान्तं जानाम्येव यदाह जानीषे जगदेव ताव १ १३१ ३ जानीष ननु नाम ततः शतमखादयो तत्तस्य कीर्तिदं तामित्थं स्मरतश्चिरं तावद्धावत्कन्दुक तिरोभूते मद्य तुष्टूषतोऽस्य बहुधा तेजसाग्याययिष्यामि त्वत्प्रसूतास्त्वया त्वमसि परमं ब्रह्म २७ दिव्यैः पञ्चभिरायुधैः ११८ दिशि दिशि विकिरन्ती १२८ दिष्ट्या विषेण भमाः ३५ दुःखाना क्षतिरित्यवोध ३ दूरादलक्ष्यन सुर ५२ दृष्ट्वा कौस्तुभमप्स ५६ देयं यम्य मदवमर्त्य ५८ देवद्विषश्चिरतरं ६४ देवानामपि दुर्लभ ६४ देवानामपि देवन ११३ दाभिर्दुभशल ३२ धाबदैवतयाध ६० नन्तव्याः कवयः ९३ नवकुवलयदामश्यामल न मवन प्राप्त १३. नामी वहिन हि बल्ल ५५ निरान स्वामिन ८६ निर्मममन्दरमणियुनि १०६ निर्मन्यलयमंधि १२. निर्मर्यादभवज्वर ६९ नियमाना यनन १२७ निर्वामिता निजपदात १६ नि.श्वमति भागिभनार নিগদখাল २. निष्पतहममुत्पन ११८ नि:मच्याफार दुनगे " स्वमसि शतक्रतु ८८ त्वं नो राज्यं त्वं बलं ददति च वरं दत्त्वा दध्युर्यावदुपायं ते दनुजभुजविकृष्ट दिव्या दुन्दुभयो विन्दु .
नीलकण्ठविजये पुटं पु ७ १०॥ १०॥ १२ १ ८४ निःसंख्यस्फुरितस्फुलिङ्ग नैर्मल्यादुपसंभृता पथि गिरिवरादस्मात् पथि ध्वजं यं गरुड पद्मे निवेश्य परिगृह्य परायणं नः परम परिचलितदुग्ध परिम्लाना दीना पर्याप्तेन्दुशतद्युति पश्य ज्ञानक्रियेच्छा पश्यन पदान पादाङ्गुष्ठनखान पायं पायं पवन पाषाणान् सितनील पुत्रा यूयं भुवन पुत्रावुभौ प्रथमजो प्रणमन्तः स्तुवन्तश्च प्रत्यासन्नसखीवितीर्ण प्रत्युद्यत्कमठकठोर प्रथमसमुद्रता प्रसजति महोत्सवे प्रहादः प्रथमो गुरु प्राकारगोपुरविहार प्रागेव पातालजुषां प्रेक्षावन्तो दिशि दिशि ब्रह्मर्षयोऽपि दनुजेन्द्र १२ ८९ भग्नरथा भग्नावा ११३ भन्नो यस्य दशाननः भवानिति भवानीति ४७ भव्यैरष्टभिरान्तर। ११७ भीमं भौमेन भुजीथा न हलाहलं १०९ भूतग्राममिमं भ्रामं भ्रामं करकिसलयं १०० मज्जति मजति शैले ५२ मजन्मन्दरशैलकन्दर १३ मीरैर्नटना टी ५२ मनोरथानामपि यो मन्दस्पन्दरसाल १०३ मन्दानिलव्यतिकर १०७ मन्दिरं क्षाळयन्तस्ते ६३ महद्भिद्मश्नीमः स्रज ८६ मात्रार्पितं गरल १२८ मूले वालधिमप्रत मूल्यं तत्किल १११ म्लायन्त्या वैजयन्या ६ यच्छैलेषु यदम्बुराशिषु यजन्मस्थेमभन्न यत्प्रत्यस्तमितप्रपञ्च यदादिष्टं पाल्यं ४५ यदियजीवितमेत ३१ यदेतद्वामा ७ ८ ९ श्लोकसूची। पुटं २५ २३. २७ ११७ यद्धोरघोरतररूप यट चन्द्रसूर्याभ्या यद्भग्नेषु भवत्सु यद्यध्यद्य गतश्रियः यन्नैश्चिन्त्यं यदौर्जित्यं यं त्वं चिन्तयसे नान्यं यलक्ष्मीदथितोऽस्मि यश्चेष्टतेऽवकाशेषु यः शक्यो न दृशापि यस्तल्पेष्वपि कोमलेषु यस्यैवं भूर्भुवरस्वर्भुवन यः संरम्भः कृति या त्वेषा तुलसीति यावज्ज्यावलयावलीढ यावत्सान्त्वयितुं यावद्यावत्मागरं ते युगविगमोन्मिद्विषम येनादिश्यत वेधसा येयं त्रैलोक्यराज्यश्री लन्धुं तत्पदमूर्जित लभ्यन्ते श्रुतिपाठ लीढालीढपुराण वक्त्राक्षिपाणिचरणा बत्मेति प्रवहन्सुधा वदति मधुरमित्थं वन्दामहे कमलनाम ९८ वन्दे वाञ्छितलाभाय १२९ वल्मीकेष्वहयो १२२ वल्लभोऽसि सरखत्या ६७ वाग्देवीवदनारविन्द ६७ वाचं व्याकुरुते ५१ वाटवर्कशक ९४ विद्राणे वरुणे २३ विद्वासः प्रथमे ६६ विधातुं कर्माणि ८१ विनिघ्नन्तः पादेरथ ६५ विरहासहेव सततं २ विहारोऽप्येतस्या ११८ विशल्यापि भुजै. पुरा १८ वीरभद्र इव क्रुद्ध १३ वेराजशाकर १११ व्यत्यस्तकौस्तुभमव शक्ता भवेम यदि ६४ शस्त्राशस्त्रिक्षत १४ शाणोल्लीढशरन्मृगा ९ शिवं ध्यायस्यन्त, शिवा घोरा येति २ शिष्टं यदत्र दुष्टं वा ११७ श्लथे नीवीबन्धे ५६ सकलभुवनेक १२० सनत्कुमारेण समागमे १२९ स निर्जिहान एव १२२ २८ ६२ ८ २ ३ ८ ० नीलकण्ठविजयश्लोकसूची । पुटं १०० : ८७ ११ सर्वातविशङ्कशंकर संधानं कुस्तासुरैः संधास्यामः शमधनगिरा मरुन्धते निमृत संरुन्धन्ति द्विषन्तो संवेष्टयनथ स साधु वत्स जगन्नाथ साध्वी गौः सुरभि सान्निध्यमात्रजो यस्य साफल्यं तपसामिदं सायोन्मिषत्कुवलयोदर सिवन्ती परमामृतानि सुरासुरकरोदर सौहार्द परमेयुषा स्खलदचलसमुद्भवल्लोल ५८ स्तुवन्तो दिव्याभिः ६८ स्तोकस्तोकप्रचल २३ स्थानं विश्वसजोऽपि १६ स्थानाच्च्यावयितुं स्थीयतामग्रजै. स्वर्गे ९४ लातुं वाञ्छति १११ ९७ खच्छन्दप्रचलत्सुधा ६९ खप्नोन्मादावपि हि १२५ खाद्या यत्र सुधैव ९२ स्वाध्यायाध्ययनाहतेन खेनैव भ्रमयति ११४ स्रष्टासि तात