Scl
Sri Natakatha Sangraha Abridge Stories Of Sanskrit Dramas
Front matter
Printed by
RAMZAN ALI SHAH
at the National Press, Allahabad.
विषयाः
पृष्ठः
१
...
...
२४
...
...
३७
...
विषयः
मुद्राराक्षसकथासंग्रहः
वेणीसंहारकथासंग्रहः
मृच्छकटिककथासंग्रहः
मालविकाग्निमित्रकथासंग्रहः
विक्रमोर्वशीयकथासंग्रहः
शाकुन्तलकथासंग्रहः
मालतीमाधवकथासंग्रहः
महावीरचरितकथासंग्रहः
उत्तररामचरितकथासंग्रहः
*..
...
...
...
...
...
१२
...
...
No text on this page.
उपोद्घातः बहोः कालात् पूर्व जगतीम् इमाम् अलंकृतवताम् अस्मत् पूर्व महत्तराणां प्रतिभाप्रवाहपरीवाहभूतेषु भारतीविलासेषु दृश्य- काब्यानां माधुर्यम् अन्यादशम् । तदानीन्तनाः प्राज्ञाः परमरसिकाः कालिदासप्रभृतिभिः अभिरूपवरिष्ठः प्रकाशितानि दृश्यकाव्यानि विदग्धतमैः नटैः अधिरङ्गम् अभिनीतानि निरीक्ष्य परमम् प्राहा- दम् अनुभवन्तः आसन् । इदानीं तु रसभरभरितेषु तेषु प्रत्यक्षरं समुल्लसन्ती रसभावादिसंपत्तिम् यथावत् अभिनेतुम् अलम् भूष्णूनां नटानाम् अभावम् अनुभवद्भिः अस्माभिः प्रायेणैतानि श्रश्यकाव्यगोष्ठीमेव अवतारितानि इति नितरां विषीदामः। प्रथापि तेषु प्रत्यक्षरं प्रतिकलं नवनवमुद्भासमानैः रसभावादिकैः आकृष्टाः वयम् "मधुराणामाकृतीनां यथा तथावापि अनुभवः आह्वादायैव भवति" इति आलोच्य तत्कथाः संग्रहीतुं प्रावर्ति- महि । तदर्थ पद्रचनायां प्रवृत्तायां रत्नकाञ्चनसमागमन्यायेन पदानां परस्परम् अन्यादृशं शोभातिशयं पुष्यन्तीषु तदीयासु वाक्य- लीषु जाग्रतीषु करटरटितकठोराणि अस्मदीयानि वाक्यानि कथं कण्ठात् उपरि निःसर्तुम् प्रभवन्ति । तत् प्रायशः तदीयान्येव धाक्यानि एतत् ग्रन्थमथनसमये मम अविज्ञातमेव मदीयं जिह्वाग्रम् ( २ ) अवतीर्णानि । इति इदं चौर्य मम सहजम् अभूत् । तन्नाह काव्यार्थ- चोरः इति कृत्वो दण्ड्यः पण्डितैः । ग्रन्थोयं पुरातननाटकीय रसभावसंपत्तिसमुद्रं प्रविविचूणां विद्यार्थिनां यथा सुबहु उपक- रियति तथा भगवती भारती देवी अनुगृहातु । Krishnapuram Kodambakam Post Madras, 16th April, 1934. इति विदुषां विधेयः V. Anantacharya .
श्राः मुद्राराक्षसकथासंग्रहः पुरा खलु मगधेषु पुष्पपुरे सर्वार्थसिद्धिः नाम राजा बभूव । तस्य च वक्रनासप्रभृतयः नीतिनिपुणाः तीक्ष्णधिषणाः बहवः मन्त्रिः बभूवुः । येषु एको राक्षसा नाम भूसुरः निरतिशयराज- भक्तिः द्वितीर्यानव राज्ञो हृदयम् आसीत् । सः अयं पार्थिवः सुनन्दा नाम क्षत्रियां मुरां नाम शूद्रां च द्वे भायें पर्यणैषोत् । तयोः द्वितीया एव नयनासेचनकेन लावण्येन, हृदयावर्जकेन सौशील्येन, प्रतिकल- मङ्कुरितेन अनुरागेण च पत्युः इतरापेक्षया निरतिशयप्रेमपात्रम् आसीत् । कदाचित् सर्वार्थसिद्धिः तपोवनात् आगतं महामहिमान महर्षिम् एकम् आतिथ्येन निमन्त्रयांचवे । सबहुमानं सभक्त्यतिशयं सविनयातिरेकं च समम् उभाभ्यां महिषीभ्यां स्वयमेव पाद्यम् भानाय्य महर्षेः चरणौ प्रक्षालयामास । अथ ते वध्वौ भर्तृकर- संप्रोक्षितान् अतिपवित्रान् तत्पादोदकबिन्दून् विनयावनतेन शिरसा प्रतिजगृहतुः। नुनन्दायाः शिरसि नव बिन्दवः निपेतुः । मुरायास्तु एक एव । तत्समनन्तरमेव ते उभे महिन्यौ गर्भम् अधत्ताम् । पूर्णे च प्रसवसमये, प्रशस्ते दिने, पुण्ये मुहूर्ते मुरा सर्व- लक्षणसंपन्नं सुतमसूत । यं मौर्यः' इति पुराविदः वदन्ति । सुनन्दा तु तस्मिन्नेव समये मांसपेशीमसूत । तां च निरति- । ( २ ) शयराजभक्तिः राक्षसः घृतपूर्णे कुम्भे निक्षिप्य ररक्ष । गते व काले कतिपये तस्मात् मांसपिण्डात् नव गर्भाः विनिस्सस्नुः । ये नव नन्दाः इति व्यपदिश्यन्ते । कुमाराः ते विभवानुरूपम् अभि- पर्धिताः यथाकाल प्रवर्तितः बालक्रियाकलापैः अधिकाधिका सुषमाम् अभिपुष्णन्तः क्रमेण शैशवम् अतिचक्रमुः । अयच, वृद्ध सर्वार्थसिद्धौ, विरतिम् उपेयुषि नव नन्दाः राजानः बभूवुः । मौर्यश्च तैः सेनापतिपदे नियुक्तः प्रभूत् । अथ बहुतिथे काले व्यतोते मौर्यस्य शतं पुत्राः जज्ञिरे । येषु अचरमस्य चन्द्र- गुप्ताख्यस्य प्रख्यातिः इदानीम् अपि भरतखण्डम् इदम् अलंकरोति । यत् नव नन्दाः अनपत्याः बभूवुः मार्यश्च प्रबलेन अपत्यशतेन बलान्यः अभूत् । तस्मात् कारणात् नन्दानां मौर्ये शङ्का समुत्पन्ना। अतश्च मौर्यः पुत्रशतेन समम् अन्धतमसावृते भूम्यन्तर्गृहे पातितो बभूव । प्रतिदिनम् एकहस्तप्रवेशपर्याप्तेन द्वारेण प्रतिपुरुषम् एकैकम् इति संख्याय अन्नकवलानि क्षिप्तानि । कतिपये तोयबिन्दवश्च विकीर्णाः । हन्त ! इन्त ! एकस्यापि अपर्याप्तेन अभ्यवहारेण एक- शतेन पुरुषैः जीवितव्यम् अभूत् । एवम् अप्रतीकाराम् अति- दुस्सहाम् आपदम् अतिचिरम् अनुभवन्तः ते सर्वात्ययम् अचिर- भाविनम् आशक्य समयम् एवम् अकार्षः। 'सर्वेषाम् अस्माकं भागम् एकः चन्द्रगुप्तः लभताम् । सः वैरनिर्यातनं करोतु' इति । सर्वैरपि तथैव अङ्गीकृते कतिपयेन कालेन चन्द्रगुप्त एक एव शेषः अभूत्। अत्रान्तरे सिंहलेश्वरेण प्रहितः दूतः पञ्जरस्थं सिंहमादाय ( ३ ) इदम् अनुद्घाट्य सिंहम् इमं विद्राव्यमाणम् इच्छति ; कुशलाः कौशलम् अत्र प्रकटयन्तु' इति । तद्याथातथ्यम् अजानन्तः मन्दाः नन्दाः चन्द्रगुप्त एव कदाचित् अत्र प्रभविष्यति इति मत्वा तं भूमिगृहात् उदतीतरन् । स आगत्य सवलोकनमात्रेणैव तं मधूच्छिष्टमयं परिज्ञाय प्रतप्तरक्तया श्रयःशलाकया पश्यतु सर्वेषु सद्य एव तं सिंह विद्रावयामास ! एतादृशम् अस्य कौशलम् पालोक्य प्रगुणितमत्सराः ते नन्दाः तद्वधोपायमेव निगूढम् अन्वियन्तः श्रासन् । पौरजानपदास्तु अस्य राजलक्षणलक्षितां प्रशान्तगम्भोराम् प्राकृतिमालोक्य पूर्णचन्द्रमस इव अस्मै स्पृहयां चक्रुः । शौर्यधैर्यौदार्यादीन भीमकान्तान् भूपतिगुणानालोक्य निर- तिशयं स्नेहम् अस्मिन् प्रावबन्धुः । एतादृशप्रकृत्यनुरागेण भाविन्या देवसंपदाचझटिति अपकर्तुम् अनीशाः नन्दाःअवसरम् अन्विष्यन्तः आसन् । तैः अन्नसत्राधिकारे नियुक्तः चन्द्रगुप्तोऽपि महति कृच्छे वर्तमानः वैरप्रतियातनावसरं प्रतीक्षमाणः कालम् अत्यवाहयत् । अथ कदाचित् मध्याह्नसमये राजवीथ्यां दत्तदृष्टिः चन्द्रगुप्तः चाणक्यापरनामधेयं विष्णुगुप्त नाम भूसुरमद्राक्षीत् । स च भूसुरः बुभुक्षया जवेन गच्छन् मार्गमध्यरूढेन दर्भाङ्कुरेण स्खलितपदः सक्रोधं परिक्रम्य तं दर्भाङ्कुरं समूलम् उत्पाट्य तत्रैव ज्वलनं प्रज्वाल्य यथा अणुरपि नावशिष्टं तथा तं दायामास । एवं तीवक्रोधः अयं भूसुरः नियतं नीतिशास्त्रविशारदः भविष्यति इति निश्चित्य चन्द्रगुप्तः तमु- पसृत्य सनामोच्चारणं प्रणनाम । परस्परकुशलानुयोगानन्तरं चन्द्रगुप्तः श्रात्मीयां दशा विस्तरशःनिवेद्य भवानेव अस्याः प्रापदः माम् उत्तारयितुं शरणम् इति तस्य पादयोः पपात । चाणक्यस्तु, ( ४ ) भद्र, मा भैषीः यावच्छति प्रपतिदे, देवं चेन प्रतिकूल मगध- राज्यमिदं भवद्धस्ते पतिष्यति इति तं सान्त्वयित्वा सत्वरमास प्रविवेश । तत्र च भुक्तिशानां प्रविश्य निश्शङ्ख प्रसर्पन प्रथमम् प्रासनम् अध्यासानास । तं दृष्ट्वा नन्दाः 'अहो धिक्, धिक, महा- श्रोत्रियैः ज्ञानतपोवृद्धः भूसुरैःअलङ्करणीयम् इदम् अग्र्यम् आसनं. कोयमनात्मशः वटुरध्यास्ते ? ' इति, साटोपं निर्भर्सयन्तः मामैवम् इति निषेधताम् अखिलानाम् अमात्यानाम्, इमम् अधिबाहुमूलम् श्राकृष्य अपसारयामासुः । सद्य एव अतिक्रुद्धः चाणक्यः तत्रैव शिखाम् आत्मीयाम् उन्मुच्य प्रतिज्ञाम् एवम् अकरोत् । 'दर्पाविष्टान् दुर्बुद्धीन इमान् समूलघातम् अहत्वा शिखाम् इमां न भन्स्यामि इत्युक्त्वा प्रक्षभितहृदयः नगरात् निर्गत्य पाटलिपुत्रे कृतावस्थानः स्वसहाध्यायिनं औशनस्यां दण्डनीत्या ज्योतिश्शास्त्रे च परं प्रावीण्यम् उपगतम् इन्दुशर्माणं नाम ब्राह्मणं साहाय्याय प्रति- जग्राह । सः अयं इन्दुशर्मा चाणक्यस्य चारवृत्तिम् अनुतिष्ठन् क्षपणकलिङ्गधारी जीवसिद्धिः नाम भूत्वा कुसुमपुरम् उपगम्य नन्दामात्यैः सह कपटसख्यं जग्राह । विशेषतश्च तस्मिन् राक्षसः समुत्पन्नविनम्भः बभूव । अथ चाणक्यः पर्वतकं नाम म्लेच्छराजम् उपगम्य तम् एवं बोधयामास-'अवसरः इदानीं तव नन्दान् अभिषेण- यितुम् । नन्दोन्मूलने सर्वात्मना अहं साहाय्यम् प्राचरिष्यामि। तदीयम् अर्धराज्यं भवते दास्यामि ' इति । पर्वतकः तथेति अर्धराज्यप्रत्याशया प्रतिश्रुत्य महता म्लेच्छबलेन प्रस्थाय कुसुमपुरं न्यरुणत् । अथ नन्दानां म्लेच्छोनां च सुमहति युद्ध .
(५) प्रवर्तमाने पराजिताः नन्दाः चाणक्यरोषानले शलभताम् अया- सिषुः। राक्षसस्तु कुलुमधुरं चन्द्रगुप्तपर्वतकयोः हस्तगतम् अवलोक्य नन्दवंशवृद्धं सर्वार्थसिद्धिं सुरङ्गाद्वारेण बहिः निर्गमयामास । सोऽपि भपक्रम्य तपोवनम् अधिभितः तपस्त्री चाणक्य- प्रहितेन बलेन धातितो बभूव । राक्षसश्च स्वामिनाशात् नितरां निर्विणः चन्द्रगुप्तेन सह कपटसत्यं नाटयन् तदधे बहून् उपायान् वितन्वन् कुसुमपुरे एव कश्चित् कालम् अयापयत् । ফালু प्राभिचारिकप्रयोगैः काञ्चन विषकन्यका निर्माय चन्द्रगुप्तवत्राय प्राहिणोत् । पूर्वमेव राक्षसे जातशङ्कः चाणक्यः तत् तवं परिज्ञाय तां विषकन्यका पर्वतेश्वरे प्रयोजितवान् । स च तपस्नी तस्याः बलिरभूत् । ततः प्रभृति चाणक्यः चन्द्रगुप्तशरीरे सहलगुणम- प्रमत्तः राक्षसं गत्यन्तरहीनं विधाय चन्द्रगुप्तसाचियं प्राहयितुम् उपायम् अविष्यन् आस्त । श्रथ व अर्धराज्याभिलाषिणं पर्वतक- पुत्रं मलयकेतुं भागुरायणनाम्ना प्रणिधिना रहसि पिता ते चाण- क्येन विषकन्याप्रयोगम् उत्पाद्य घातितः, तत् इतः परम् अत्र तव अवस्थातुम् असांप्रतम् ' इति त्रासयित्वा अपवाइयाञ्चके । लोके च'राक्षसः चाणक्पायचिकीर्षया पर्वतक विषकन्यया धातित- पान् ' इति जनापवाद संचारयामास । पर्वतकभ्रातरं वैरोचक 'तव भ्रात्रे दित्सितम् अर्धराज्यं भवते दास्यामि' इति विश्वास्य प्रतिजमाह । बाथ च सांवत्सरिकादेशेन चन्द्रगुप्तस्य अर्धरानसमये नन्दभवनप्रवेशो भविष्यति इति पौरान विदितार्थानकरोत् । तस्मिन्नेव समये अर्धराज्यप्रतिश्रवेण परां कोटिम् अानन्दस्य अधिढं कृताभिषेक सर्वराजालंकारालंकृतं मणिमयकिरीट- - धारिणं वैरोचक नन्दभवनप्रवेशाय चन्द्रगुप्तोपवाह्यां चन्द्रलेखा नाम गजवशामारोपयामास । परिचिततमैरपि अनभिज्ञायमाना- कृतिम् एनं पौराः चन्द्रगुप्तः एव अयम् इति मेनिरे। अत्रान्तरे राक्षस- प्रयुक्तन दारूवर्मनाना सूत्रधारेण चन्द्रगुप्तवधाय यन्त्रतोरणं सज्जी- कृतम् श्रासीत् । स चन्द्रगुप्तोऽयम् इति मत्वा तत् तस्य उपरि पातयामास । अत्रैवान्तरे चन्द्रगुप्तनिषादी बर्बरको राक्षसप्रयुक्तः चन्द्रगुप्तवधाय कनकदण्डिकान्तनिहिताम् असिपुत्रिकाम् आक्रष्टु- कामः कनकश्ङ्खलावलम्बिनी कनकदण्डिकां करेण अवललम्बे । तया कनकदण्डिकया अभिहतजधना गजवधूः अतिजवतया गत्यन्तरम् श्रारूढवतो प्रथमगत्यनुरोधेन प्रमुक्तंप्रभ्रष्टलक्ष्यं पतधन्त्र- तोरणं बर्बरकस्य उपरि निपपात । तेन हते बर्बरके दारुवर्मा यन्त्रतोरणनिपातनापराधेन आत्मवधं निश्चित्य सरभसम् उत्तुङ्गं तोरणस्थलम् आरुह्य यन्त्रघट्टनबीजं लोहकीलकम् उत्पाट्य चन्द्र- गुप्तबुद्धया वैरोचकं हस्तिनीगतमेव अवधीत् । अथ च वैरोचकपुर- स्सरेण पदातिलोकेन एव लोष्टघातंहतो बभूव । अनन्तरम् अभय- दत्तो नाम राक्षसप्रयुक्तः भिषक् चन्द्रगुप्तवधाय योगचूर्णमिश्रितम् औषधम् उपजहार । तत्प्रत्यक्षीकृत्य चाणक्यः कनकभाजने वर्णान्तरोपलम्भेन सविषमिदमौषमिति निश्चित्य तमभयदत्तं तदेव औषधं पाययित्वा अवधीत् । अथ राक्षसः प्रमोदकं नाम शयनाधिकृतं महान्तम् अर्थराशि पारितोषिकतया वितीर्य चन्द्र- गुप्तम् अभिद्रोग्धुम् नियुयोज । तम् अतिशङ्कितः चाणक्यः कुतः अयं भूयान् धनागमः ? इति पृष्ट्वा पूर्वापरविरुद्धप्रलापेन अपलपन्तं विचित्रवधेन व्यापादयामास।
( ७ ) प्रथ शयनागारे शयितं चन्द्रगुप्तं निशि निगूढं निहन्तुं बीभत्स- कादया राक्षसप्रणिधयः प्रथममेव प्रयुक्ताः शयनगृहस्थ अधः सुरङ्गाम् एत्य न्यवसन् । तच्छयनगृहं चन्द्रगुप्तप्रवेशात्प्राक् चाणक्यः स्वयं प्रविश्य निपुणमवलोकयामास । तत्र कस्माच्चित् भित्ति- च्छिद्रात् गृहीतभक्तावयवां पिपीलिकापति निष्कामन्ती- मवलोक्य पुरुषगर्भम् एतद्गृहम् इति निश्चित्य तस्मिन् दाह्यमाने धूमावरुद्धदृष्टयो बीभत्सकादयः ज्वलनसात् अभूवन् । अथ एतेषु सर्वेषु उपायेषु चाणक्यबुद्धिकौशलेन विफली- भूतेषु निष्प्रत्याशो राक्षसः सुहृत्तमस्थ मणिकारश्रेष्ठिनः चन्दन- दासस्य गृहे पुत्रकलबादिकं न्यासीकृत्य नगरादपक्रम्य मलयकेतुम् प्राश्रित्य पितृवधामर्षितं तं चन्द्रगुप्तम् अभियोक्तुं प्रोत्साहयामास । चाणक्यस्तु कुसुमपुरवृत्तान्तं परिज्ञातुं निपुणकं नाम प्रणिधि प्रेषितवान् । सः भिक्षुको भूत्वा यमपटं प्रसार्य गायन् मणिकार- श्रेष्ठिनः चन्दनदासस्य गेहं प्रविवेश । तत्र च गीतानि गातुं प्रवृत्ते अस्मिन् गृहाभ्यन्तरात् राक्षसस्य कुमारः पञ्चवर्षदेशीयः कौमार- सुलभेन कौतूहलेन उत्फुल्लनयनः निश्चक्राम । तदानी हा ! निर्गतो हा ! निर्गत इति स्त्रीजनः कोलाहलम् अकरोत् । रातसस्य भार्या सरभसम् प्रोगत्य तं कुमारम् प्राकृष्य संभ्रमप्रचलितात् करात् अंगुलीयकं विगलितमविज्ञाय अभ्यन्तरं प्रविष्टा । निपुणकः तत् अंगुलीयकं राक्षसनामाङ्कितम् अवलोक्य चाणक्याय प्रददौ । मुद्राम् इमाम् अधिगत्य चाणक्यो राक्षसघशीकरणाय बहूनि कपटतन्त्राणि प्रयोक्तुं प्रचक्रमे। तथाहि-अस्ति राक्षसस्य प्रियमित्रं शकटदासा नाम प्रधानतमा " ( ८ ) कायस्थः । चाणक्यप्रणिधिः सिद्धार्थकः तेन सह कपटसरूर माहितः श्रासीत् । सन्ति च म्लेच्छराजलोकस्य मध्ये पर राजानः, कुलूताधिपः चित्रवर्मा, मलयाधिप सिंहनादः, काश्मीराधिपः पुष्कराढ्यः, सिन्धुदेशाधिपःसिन्धुषेणः पारसीकाधिपः मेघनादश्चेति । ते च परया सुहृत्तया राक्षसम अनुवर्तन्त इति कृत्वा, तान् घातयितु राक्षसमलयकत्वोः उपजाप जनयितुच भाविकार्यजातं निपुणम् अभ्यूह्य लेखम् एकं लिलेख | यमवसरे प्रकाश्यमानं मलयकेतुः राक्षसेन चन्द्रगुप्ताय निगूढ संधिकरणार्थम् अनुप्रेषितम् इति निस्सन्देहम् अनुसन्धाय विशुद्ध भावम् अपि तं निष्कासयिष्यति । ततश्च सिद्धार्थकम् पाहूय एवम् आदिदेश-'भद्र प्रयत्न- लिखितान्यपिश्रोत्रियाक्षराणि नियतम् अस्फुटानि भवन्ति। तत् इम लेख केनापि कस्यापि स्वयं वाच्यम् इति अदत्तबाहनामानं शकटदासेन लेखयित्वा उपनय । न च पाख्येयम् अस्मै चाणक्यों लेखयति इति । सिद्धार्थकः तथा कृत्वा उपजहार । तं च लेख चाणक्या राक्षसनोमाङ्कितया मुद्रया मुद्रापितवान् । अथ तं लेख तां च मुद्रां सिद्धार्थकाय दत्वा, रहसि कर्तव्यानि बोधयित्वा तं विससर्ज । ततश्च शकटदास चन्द्रगुप्तम् अभिद्रोग्धं नित्यं प्रयतते इति दोषं प्रख्याप्य तस्य शूलारोपणम् श्राज्ञापयामास । सिद्धार्थको वध्यस्थानं गत्वा पूर्वमेव कृतसंकेतान् घातकान् अक्षिसंज्ञया पलाय- यित्वा शकटदासमादाय राक्षसम् उपजगाम । सच सुहृत्प्राणरक्षण- परितुष्टः मलयकेतुना सबहुमानं समर्पितानि भूषणानि स्वगात्रात अवतार्य सिद्धार्थकाय विततार । तानि गृहीत्वा सिद्धार्थक:
। ( ६ ) तम् एवं विज्ञापयामास-'चाणक्यस्य विप्रियं कृत्वा न शक्य मया पुनः पाटलिपुत्रं प्रवेष्टुम् । तत् इतः परम् इच्छामि अमात्यम् एव शुश्रूषितुम् ' इति । तथेति राक्षसेन अङ्गीकृते पुनरपिनिवेदया- अमात्य, अत्र प्रथमप्रविष्टस्य मे नास्ति कोपि परिचितः । तदेतत् अमात्यस्य प्रसादम् नया मुद्रया मुद्रयित्वा अमात्यस्यैष भाण्डागारे स्थापयितुम् इच्छामि ; यदा प्रयोजनं तदा ग्रहीष्यामि' इति । राक्षसः को दोषः, एवं क्रियताम् इत्यङ्गीकृत्य स्वनामाङ्कितां मुद्रां विलोक्य, 'कुतः तदागमः' इति पप्रच्छ । सिद्धार्थकः, 'कुसुमपुरे चन्दनदासस्य गेहद्वारे पतिता मया प्रासादिता' इति विज्ञापया- मास । राक्षसः तत् तथ्यम् इति विश्वस्य तोम् आदाय शकटदासम् एवम् आदिदेश । 'इतः परं अनयैव मुद्रया स्वाधिकारे व्यवहर्तव्यं भवता' इति । एवं चलति कार्ये चन्द्रगुप्तः पर्वतेश्वरेण धृतपूर्वाणि त्रीणि प्राभरणानि विश्वावसुप्रभृतिभ्यः चाणक्यप्रणिधिभ्यःत्रिभ्यो ब्राह्मणेभ्यः प्रतिपादयामास । ते च तानि विक्रेतुं राक्षसकटकम् अगमन् । राक्षसश्च तानि महाणि श्राभरणानि मूल्यं प्रदाय जन्नाह। अत्रान्तरे चाणक्यो राक्षसस्य कपटसुहृदं क्षपणक, ' राक्षस- प्रयुक्तः अयं विषकन्यया पर्वतकेश्वरं घातितवान्' इति दोष प्रख्याप्य नगरात् निर्वासयामास । सः राक्षसम् उपजगाम । अथ . राक्षसकलत्रसंरक्षिणं चन्दनदासं राजाहितकारी इतिबन्धनागारे क्षेपयामास । तदानीम् एव भागुरायणः अन्ये अपि भद्रभटप्रभृतयः चाणक्यप्रणिधयः चन्द्रगुप्तापरागव्याजेन अपक्रान्ताः मलयकेतुम् अशिभियन् । भागुरायणःस्वप्राणरक्षक इति कृतज्ञतया मजयकेतुना ( १० ) अमात्यपदे प्रतिष्ठापितो बभूव । ततश्च चाणक्यः चन्द्रगुप्तेन सह कृतककलहं कृत्वा ततः अपक्रान्त इव अभूत् । राक्षसस्तु स्वप्रणि- धिना विराधगुप्लेन सर्वम् एव चन्द्रगुप्तवलम् अाकुलीभूतम्, चाणक्य च ततः अपरागात् अपनान्तं परिज्ञाय भृशं तुतोष । अत्रान्तरे लब्धामात्यपदः भागुरायणः राक्षसस्य चाणक्य एव शेषः, न चन्द्र- गुप्तस्य उपरि इति तैः तैः उद्बोधनैः मलयकेतोः मनसि महान्तं विकल्पम् उत्पादयामाम। अथ कतिपयकालानन्तरं राक्षसेन प्रोत्सा- हितो मलयकेतुः कौलूतप्रभृतिभिः सुहृद्भिः परिवृतः ससैन्यः चन्द्र- गुप्ताभिषेणनाय प्रस्थाय पुष्पपुरस्य नातिदूरे सेनानिवेशम् अकरोत् । अरातिबलस्य संनिहिततया जातशङ्को मलयकेतुः मुद्राम् एकांभागु- रायणहस्ते समय॑ कटके अस्मिन् मुद्रालाञ्छितस्यैव प्रवेशो निर्गमे वा देयः इत्याज्ञापयामास । एवं प्रचलति व्यवहारे, जीवसिद्धिः अवसरः इदानीं चाणक्यनिदेशानुष्ठानस्य इति निश्चित्य विविक्त निष्परिजन मलयकेतुम् उपतिष्ठन्तं भागुरायणम् उपगम्य बहिः निर्गन्तुं मुद्रां ययाचे । तेन च किमुद्दिश्य गम्यते इति पृष्टे एवं प्राह- 'रहस्यम् एतत् । तथापि कथयामि श्रूयताम् । अहं तावत् मन्दभाग्यः पाटलिपुत्रम् अधिवसन राक्षसेन मित्रत्वम् उपगतः। तस्मिन्नवसरे राक्षसः गूढ विषकन्यकाप्रयोगम् उत्पाद्य पर्वतेश्वरं घातितवान् । ततः अहं राक्षसमित्रम् इति कृत्वा चाणक्येन नगरात् निर्वासितः। इदानीमपि राक्षसेन किमपि तादृशं कर्म प्रारभ्यते, येन अहं जीध- लोकात् अपि निष्कासिष्ये । तस्मादतिनृशंसकारिणम् इमम् विसृज्य यत्रकुत्रापि गमिष्यामि' इति । श्रुत्वैतत्, कथं राक्षसः एव ।
। ( ११ ) अस्मपितृधाती इति भृशं दूयमाने मलयकेतो भागुरायणों मुद्रादित्वा क्षपणकं विससर्ज । ततश्च सिद्धार्थकः पूर्व चाणक्येन दत्तं राक्षस- द्रालाञ्छित लेख स्वेन एव राक्षसभाण्डागारे निक्षिप्तपूर्वी तन्मुद्रा- लाञ्छिताम् प्राभरणपेटिकां च समादाय सत्वरं कटकात् निर्गच्छन् रक्षिभिः गृहीतः मलयकेतुनिकटम् पानिन्ये । 'कथम् अगृहीत मुद्रः कटकात् निर्गच्छसि ?' इति पृष्टे एवं व्यजिज्ञपत् श्रहं खलु राक्षसेन लेखम् इमं दत्वा चन्द्रगुप्तसकाशं प्रेषितः, कार्यगौरवेण त्वरायितः अस्मि । तत् क्षम्यताम् इति उक्त्वा लेखमर्पयामास । भागुरायणः कीदृशः अयं लेखः ? इति तमुद्घाट्य मलयकेतवे प्रादर्शयत् । स चैनमवाचयत्। "स्वस्ति यथास्थानं कुतोपि कोपि कमपि पुरुषविशेषम् अवगमयति । अस्मत्प्रतिपक्ष निराकृत्य कापि दर्शिता सत्यता सत्य- वादिना । सांप्रतम् एतेषाम् थपि प्रथमम् उपन्यस्तसंघीनां अस्म- त्सुहृदां पूर्वप्रतिज्ञातसन्धिपरिपणनप्रोत्साहनेन सत्यसन्धः प्रीतिम् उत्पादयितुमर्हति । एतेपि एवम् अनुगृहीताः सन्तः स्वाश्नविनाशेन उपकारिणम् आश्रयिष्यन्ति । एतेषां मध्ये केचिो कोशदण्डाभ्यां अर्थिनः । केचित् विषयेणेति । अलंकारत्रयञ्च सत्यवता यदनुप्रेषितं तदुपगतम् । मया अपिकिञ्चित् अनुप्रेषितं तदुपगमनीयम् । वाचिक च प्राप्ततमात् अस्मात् श्रोतव्यम् " इति । वाचिकं किमिति पृष्ट सिद्धार्थकः कौलूतादयः पञ्च राजानः चन्द्रगुप्तेन सह निगूढं सन्धिं विधिसन्ति इत्यादिकम् । अस्य एव लेखस्य विधरणं विधायाभरण- पेटिकां च प्रदर्शयामास । तामपि राक्षसमुद्राङ्किताम् श्रालोक्य समुद्घाट्य पश्यति मलयकेतौ स्वेन राक्षसाय सबहुमानं सादरञ्च मा०क०-२ ( १२ ) यत् अनुप्रेषितम् प्राभरणत्रयं तत् तस्याम् श्रासीत् । ततश्च राक्ष- सेन चन्द्रगुप्तस्य उपायनीकृतम् इति लेखतो निश्चित्य मलयकेतुः बलबच्चुकोप। सद्य एव राक्षसं द्रष्टुं प्राचकाङ्त । राक्षसस्तु कुमारण समर्पितपूर्वस्य श्राभरणस्य सर्वार्थसिद्धये वितीर्णत्वात् विक्रीतेषु एक परिधाय आजगाम । तदाभरणं स्वपित्रा धृतपूर्वम् अभिज्ञाय सत्यं चन्द्रगुप्तेन अस्मैप्रेषितम् इति निश्चित्य विवृद्धमन्युः मलयकेतुः किम् एतत्सर्व इति तं पप्रच्छ। राक्षसस्तु लेखस्य शकटदासेन स्वहस्तलिखितत्वात् स्वमुद्रालाञ्छितत्वाच नाह व्यलेखयम् इति वक्तुं न अपारयत् । प्राभरणादिविषयेषु घिर- चितस्य चाणक्यनीतिप्रयोगस्य सुश्लिष्टत्वात् यत्किमपि वक्तुम् अवकाशमलभमानः भृशं पर्याकुलीभूय मलयकेतुना निराकृतः गत्यन्तराभावात् पाटलिपुत्रं निववृते । अथ च क्रुद्धः कुमारः कौलूतादीन् कपटसुहृदः विज्ञाय तान् अजीधनत् । अनन्तरम् असमीक्ष्यकारी एषः दुराचारः इति मलयकेतुम् उज्झित्वा सर्व सैनिकाः सभयं पलायांचक्रुः । अवसरप्रतीक्षा भद्र- भटप्रभृतयःमलयकेतुं संयम्य चाणक्यनिकटम् मानिन्युः । सिद्धार्थ- केन वृत्तान्तम् इमम् प्रबोधितःचाणक्यः तान् एवम् श्राज्ञापयामास । 'चन्दनदासः स्वगृहे निक्षिप्तं राक्षसकलत्रं नार्पयति । तत् त्वं सः सिद्धार्थकश्च चाण्डालवेषधारिणौ तं शूलम्पारोपितम्' इति। ततश्च राक्षसं तन्त्रेण स्वसमीपम् प्रानेतुम् पुरुषम् एकं प्राहिणोत् । स च पुरुषः राक्षसागमनमार्गे कस्यचित् द्रुमस्य शाखायां कण्ठम् उद्वघ्नन् प्रासीत् । राक्षसेन व्यसनकारणं पृष्टः सः एवम् उवाच । 'अस्ति मणिकारश्रेष्ठी चन्दनदासा नाम। तस्य प्रियवयस्यः विधादासा नाम ( १३ ) ममापि प्रियवयस्यः। स च चन्दनदासस्य राक्षसकलत्रप्रच्छादनाप- राधेन शुतारोपणं श्रुत्वा, तदश्रोतव्यश्रवणात् पूर्वमेव ज्वलनं प्रवेष्टुं संनह्यति । अहमपि विष्णुदासस्य अश्रातव्यं यावत् न शृणोमि, तावत् आत्मानं व्यापादयिष्यामि' इति। तच्छुत्वाराक्षसःप्रत्युवाच- 'भद्र ! गच्छ! गच्छ! शीघ्र विष्णुदासं ज्वलनप्रवेशनोत् निवारय, अहमपि इदानीं चन्दनदासं मरणात् मांचयामि ।' इत्युक्त्वा सरभसं वध्यस्थानं गत्वा शूलायतनान् एवम् आह । 'भो भोः न खलु व्यापादितव्यः चन्दनदासः। यत्कृते अयं व्यापाद्यते सः राक्षसः श्रयं विधेयः अस्ति इति चाणक्याय निवेद्यताम् ' इति । अनन्तरं तैः बोधितः चाणक्यः राक्षसं स्वसमीपमानाय्य मैत्री चके । ततश्च तं चन्द्रगुप्तसाचिव्ये प्रतिष्ठाप्य स्वस्थो बभूव । चन्द्रगुप्तश्च राक्षसा- नुरोधेन मलयकेतवे पिन्यमेव विषयं प्रत्यर्य, चन्दनदासस्यापि मोक्षम् आज्ञाप्य, राक्षसविन्यस्तसमस्तराज्यभारः सुखैकतानो बभूव । एवं चाणक्यो राक्षसस्य चन्द्रगुप्तेन सह मैत्री संपाध कृतकृत्यः परां कोटिमानन्दस्याध्यगच्छत् । मुद्राराक्षसकथासंग्रहः संपूर्णः ।
वेणीसंहारकथासंग्रहः पुरा खलु ज्येष्ठः पाण्डवो युधिष्ठिरः राजसूयं यशम् श्राजह। तत्र च अनुपमा समृद्धिम् अभिवीक्ष्य असूयाकषायितहृदयः दुर्योधनः शकुनि ना सह समन्व्य धूतं कर्तुमजातशत्रुम् आजुहाघ । ततश्च अक्षशौण्डेन शकुनिना सह कपटधते प्रवृत्ते प्रतिदेवनं पराजये वर्तमानः युधिष्ठिरः गधाश्वं दासीदासम् अशेषाणि धनानि अनुजान् श्रात्मानम् अन्ततः महानुभावां पाञ्चालीम् अपि पणम् अकरोत् । प्रथ निर्मर्यादस्य दुर्योधनस्य वशे वर्तमानः दुश्शासनः पति- व्रतोत्तमा पाञ्चाली केशेषु प्राकृप्य सभामध्यम् प्रानिनाय । निरस्थ लज्जाम् , उल्लङ्घय मर्यादां, विधूय विनयं, दूरीकृत्य साधुवृद्धवच- नानि, पतिव्रताललामभूतायाः पाञ्चाल्याः चेलापकर्षणाय प्रायतिष्ट दुर्मतिः दुश्शासनः। तदानीम् उदासीनेषु सत्यपाशसंयमितेषु पाण्डघेषु, धिकशब्दगर्भम् अवनमितमुखेषु वृद्धगणेषु, विधिवलं विचिन्त्य पाचंयमेषु अन्यसभ्येषु, कृष्णसर्पधेष्टितगात्रेध दुश्शासन- करस्पर्शन प्रवेपमाना सा तपस्विनी पाण्डवसीमन्तिनी गत्यन्तरा- भावात् उच्चैः एवम् प्राचक्रन्द । हा कृष्ण द्वारकावासिन् क्कासि यादवनन्दन । इमामवस्थां संप्राप्ताम् अनाथां किमुपेक्षसे ? ॥ इति अथ भगवतः कमलाकान्तस्य निरुपाधिकया करुणया कटितरम् अस्याः पयःपाराधारतरङ्गपरंपराभिः इध निरर्गलम् ( १५ ) उदगलन्तीभिः दुकूनपरंपराभिः प्राच्छादितम् अभूत् । विर. कालचेलापकर्षणप्रयासपरिश्रान्तबाहुः दुरात्मा दुश्शासनः तत्पातिव्रत्वदहनदग्धगात्र इव प्रसारितपाणिः पपात पृथिव्याम् । तस्याद्भुतस्य दर्शनेन सदसि कोलाहले वर्तनाने दुस्प्लहक्रोध. प्रस्फुरदोष्टपुटः भीमसेनः करेण करं समुत्पिप्य सरमसम् समुत्थाय सिंहनादम् एकं विससर्ज । तेन सिंहनादेन प्रशान्ते कोलाहले गभीरेण स्वरेण एवम् अशदोत्-'यद्यस्य दुर्बु देः दुश्शासनस्य वक्षः विदार्य रुधिरं न पिबेयं तर्हि न श्रहं सतां गतिम् अवाप्नुयाम्' इति। श्रथ अतिमात्रम् अहंभावामातहृदयः दुर्योधनः द्रौपदोम् उद्वोक्ष्य मन्दहासेन वदनं व्यादाय वसनम् अपोह्य सव्यम् ऊरुम् 'इत प्रास्यताम् ' इति साक्षिसंज्ञम् आस्माल्य प्रदर्शयामास । तत् दृष्ट्वा रोषविस्कारितेक्षणः भोमसेनः 'अये दुरात्मन् दुर्योधन, यदि गइया अहम् एनम् ऊहं न भिन्द्याम् , तदा अहम् आत्मनः सर्व सुकृतफलं न अधिगच्छेयम् ' इति व्याजहार । एवम् असह्य न परिभवेण दह्यमानमानसा द्रुपदुहिता अपि, दुरात्मा दुर्योधनः पराप्नुः भूमौ न शेते तावत् अहं विमुक्ताम् इमा वेणी न संहरिष्यामि' इति प्रतिजज्ञे। अथधृतराष्ट्रो दुर्योधनस्येदम् प्रत्युत्कटं दुश्चरितम् अभिवोक्ष्य नितराम् अनुतप्तहृदयः पाञ्चाली पाण्डवांश्च बहुभिः सान्त्ववादैः समाश्वास्य पुनरपि राज्यं प्रत्यर्य इन्द्रप्रस्थं प्रति प्रस्थापयामास । अथ कर्णशकुनिप्रभृतिभिः दुरात्मभिः प्रबोधितेन दुर्योधनेन समाहूतः युधिष्ठिरः विदुरप्रभृतिभिःप्राप्तः बहुशःनिवार्यमाणोऽपि , यावत् अयं . ( १८ ) अथ लोहितायति सूर्ये जयद्रथस्य अनक्षिगोचरतया अग्निप्रवेश एव शरणम् इति नितरां निर्विणणे धनञ्जये अपारकरुणानिधिः भगवान् चक्रपाणिः प्रात्मीयया अत्यद्भुतया मायया सूर्य माच्छाद्य, प्राकालिकमन्धकारमसृजत् । तदानीमर्जुनानल- प्रवेशदर्शनसुखमनुभवितुं पुरतः समागत्य कौरवचमूमध्यात् मुखमुन्नमयति जयद्थे, भगवता वासुदेवेन दत्तसंज्ञः धनञ्जयः सत्वरम् अतिनिशितैःशरवः अग्रतः स्थितान् अरातिवर्गानसार्थ, अत्यद्भुन हस्तलाधवेन छिन्नं तच्छिरः, समन्तपञ्चकसमीपे पश्चिमा सन्ध्यामुपासीनस्य वृद्धक्षत्रस्य तजनकस्य उत्सङ्गे पारयामास । सोऽपि ससंभ्रमं तच्छिरो भुवि निपातयन् ' यः अस्य जयद्यस्य शिरः भूमौ पातयिष्यति, तस्य शिरः शतधा फलिष्यति' इति स्वस्यैव शापं स्वयम् अनुबभूव । तदनन्तरं जयद्रथवधेन नितराम् श्रमर्षितैः धार्तराष्ट्रः रात्रियुद्धे समारब्ध, महेन्द्रदत्ताम्, अर्जुनवधार्थ चिरेण संरक्षितां शक्ति की घटोत्कचवधेन चरितार्थाम् अकरोत् । द्रुपदविराट- भूरिश्रवस्सोमदत्तबाहीकप्रमुखेषु वीरेषु निहतेषु, पयसा प्रशीति- पञ्चकमपि षोडशवर्षवत् सेनामुखे सञ्चरन्तं द्रोणं द्रष्टुमपि अशक्तेषु पाण्डपसैन्येषु पलायमानेषु, भीमसेनः स्वसैन्य एष कञ्चिदश्वत्थामनामानं कुञ्जरं निहत्य द्रोणान्तिके 'अश्वत्थामा हता' इति पुनः पुनः उच्चैः श्रावयामास । पुत्रपराक्रमाभिज्ञो द्रोणः तद्वाक्ये विश्वासमनधिगच्छन् अनुक्तपूर्वानृतम् अजातशत्रुमागत्य, अपि सत्यम् अश्वत्थामा हत ' इति पप्रच्छ । अनिच्छन्नपि बन्धुषाक्यनिर्बद्धो जयलुब्धो .
युधिष्ठिरः मन्दमन्दम् 'अश्वत्थामा हतः' इत्युक्त्वा किञ्चिद्विलम्ब्य कुञ्जरः' इत्यप्यभाणोत् । ततश्च अनाकर्णितवाक्यशेषः पुत्रशोक- विदोर्णहृदयः शिथिलितप्राणो द्रोणः सशरं शरासनं विसृज्य रथोपस्थ एव योगमास्थाय प्राणान् तत्याज। अथ धृष्टः धृष्टद्युम्नः सरभसं समीपमुपसर्पन असकृत् अर्जुनेन सधिक्कारं निवार्यमाणोऽपि तूणीभूतस्य तस्य पलितः धवलमुत्तमाङ्गमसिलत्या कण्ठात् अपातयत् । अश्वत्थामा तदेतद्वैशसं तत्सारथिमुखादाकर्य, सुचिरं शोकसागरे निमन्नः कृपदुर्योधनाभ्यां समाश्वासितः कथञ्चित् प्रकृतिमापन्नः युद्धाय मना दधे । पितुः अनन्तरं सैनापत्यमभोप्सतः द्रोणपुत्रस्य अस्य शोकरोषसंवर्धितान धीरवादान् असहमानः दुर्योधनेन प्रतिज्ञात- सैनापत्यः द्राणमत्सरी कर्णः 'वक्तुं सुकरमिदं, दुष्करम् अध्यवसि. तुम् ' इत्यादिभिः वाक्यैः तं परिजहास । परस्परवधव्यवसायपर्यन्ते पाकलहेप्रवर्तनाने कृपदुर्योधनाभ्यां कथंचित्सान्वितः क्रोधस्यपरां काष्ठामभिरूढः अश्वत्थामा, यावदयं ताताधिक्षेपकारी को न निधनमुपैति, तावत् अहं शस्त्रं न गृहोयाम् ' इति प्रतिजज्ञे । अथ कृतकठोरप्रतिज्ञेन भोमेन प्रार्थितं दुश्शासनं संरक्षितुं सरमसमुपगतौ कर्णदुर्योधनौ भ्रातुः प्रतिज्ञाभङ्गभीरुः अर्जुनः सरभसमभिद्रुत्य शरवः अवाकिरत् । ततश्च घटोत्कववधा- मर्षितया हिडिम्बया प्रेषितैः राक्षसैः अनुप्रविष्टः भीमसेनः दुश्शासन भूमौ निपात्य नृसिंह इव हिरण्यकशिपाःतस्यवक्षोविदार्य रुधिरम् श्रापपौ । अर्जुनशरप्रहारमूच्छितं दुधिनमालोक्य सारथिः स्यन्दनमपवाह्य निकटोधाने कस्यचित् न्यग्रोधतरोः ( २० ) अधस्तात् निनाय । तदानीं दुश्शासनवधामर्षित भीमसेन- धनञ्जयाभ्यामभियुक्तं पितरमभिधीक्ष्य कर्णतनयो वृषसेनः सरभसं सायुधः समागत्य धनञ्जयमभियुयोज। अथ असमाप्तमपि भीमेन सह समरव्यापार विसृज्य विस्मयनीयं वृषसेनहस्तलाघवं पिलोकयन् कर्णः धनञ्जयशर- प्रहारात् विह्वलं तमभिवीक्ष्य स्वयमपि कालपृष्ठं व्यापारयामास । अत्यद्भुतावहां धनुर्वेदशिक्षाचातुरी प्रदर्शयता धनञ्जयस्य मर्म- भेदिभिः बाणैः भिन्नदेह रथमध्ये पतितं कुमारं घीय पुत्रशोकदह्य- मानमानसः कर्णः संगलितमपि अश्रुपातमवधूय पुनरपि धनञ्जयमभियुक्तवान् । धनञ्जयेन समागतानां नकुलसहदेष- पाञ्चालप्रमुखानां धीराणामेकदा शरवर्षेः विह्वलीकृतः कर्णः, स्वस्व दीनामवस्थां शोणितक्षिप्तमुखेन वाणेन कस्याञ्चित् पट्टि- कायां विलिख्य, सुन्दरकनामानं सेवक सुयोधनाय विससर्ज । तदानीमयाचिततालवृन्तेन उद्यानसमीरणेन लब्धसंज्ञो भूमौ उपविश्य दुश्शासनमनुशोचन दुर्योधनः सुन्दरकं दृष्ट्वा 'अयमहम् प्रागतोऽस्मि' इति कर्णाय प्रतिसन्देशं प्रेषितवान् । अथ तस्य संग्रामाषतरणाय सज्जीकृते रथे, दुश्शासनषधश्रवण- दूयमानमानसौ तत्पितरौ संजयेन समं रथमारुह्य तत्समीपमु- पगतौ । ततः यत्र तेषां तत्कालोचिते अतिकरुणे संलापे सुचिरं वर्तमाने, सव्यसाची कर्ण निहत्य स्तोकावशिष्टप्रतिज्ञेन भीमेन सह दुर्योधनमन्विष्यन् तमेव उद्देशमुपजगाम । उभावपि तो भीमार्जुनौ 'अनुलनीयः सदाचारः' इति कृत्वा गान्धारी- ( २१ ) धृतराष्ट्रौ प्रणम्य सूर्यस्य अस्तंगतत्वात् अवसितसमरौ सैन्यानि संहत्य शिविरमासेदतुः! अथ कर्णवधश्रवणानन्तरं उत्तिष्ठमानः सर्वाण्यायुधानि समा- दाय समागतः अश्वत्थामा, 'कर्णद्वेषी त्वं ममापि शत्रुरेव असि, इति दुर्योधनेन निराकृतः नितरां निर्विरणहृदयः समरात् विरम्य, कृपकृतवर्मभ्यां साकं स्वच्छन्दसंचाराय अरण्यमगमत् । परेधुः समरे समारब्धे युधिष्ठिरेण निहते मद्राधिपेशल्ये सहदेवशस्त्रानलं प्रविष्टे च शकुनौ, वृकादरेणाभिद्रुतः दुर्योधनः समराङ्गणात् सत्वरं पलाय्य, कस्मिंश्चित् विपिनसरसि निमग्नः सलिलस्तम्भनी विद्या- मास्थाय निभृतं तस्थौ। ततश्च तदन्वेषणाय भगवता वासुदेवेन अधिष्ठितमेकरथ- मारुह्य समन्तात् पर्यटन्तौ भीमार्जुनौ अभिवीक्ष्य यदृच्छासङ्गतः कश्चित् वनेचरः पुरुषगर्भमेतत् इति तत्सरः प्रदर्शयामास । तत्र दुर्योधनपदलाञ्छनां पदवीं दृष्ट्वा तुष्टो भीमसेनः भयंकरेण सिंहनादेन दिशामुखानि मुखरयन् सरस्सलिलमवगाह्य समन्तात् श्रालोडयामास । तेन अतिक्रुद्वेन सरभसं सलिलात् उत्थितेन दुधिनेन समं भीमस्य भीमं गदायुद्धमारब्धमा- सीत्। अत्रान्तरे सुयोधनमित्रं चार्वाको नाम राक्षसः मुनिवेषधारी युधिष्ठिरं पञ्चयितुम्, 'भोः तृषितोस्मि पानीयमुपनीयताम्' इत्युच्चैः उधुष्यन् तदावासमाससाद । तेन यथावदुपचरितः चार्वाकः वार्ताप्रसङ्गे एवमब्रवीत् । प्रथमं भीमदुर्योधनयो गदायुद्धे प्रवर्तमाने तीर्थयात्रायाः समागतेन सीरिणा रहस्याहितां - १ ( २२ ) संज्ञामासाध दुर्योधनो दुश्शासनारि गाढमभिहत्य, वीर सुलभां गतिमनोनयत्। अथ भ्रातृवधशोकजं बाष्पं प्राय धनञ्जयो भ्रातृहस्तात् गदामाकृष्य, अकृतहस्त इति कृषक वासुदेवेन निवार्यमाणः अपि, दुर्योधनेन समं योद्धम्, प्रारब्धवान् दुर्योधनपक्षपाती बलदेवश्च देवकीसूनुमुपायतः स्वरथमारोप्य द्वारकां नीतवान् । अहं तु मुनिजनसुलभेन कौतूहलेन एतत् द्वन्द्वयुद्धमपर्याप्तमेव प्रालाक्य, अतिकठोरेण आतपेन बलवन् तृषितः इहागतः अस्मि' इत्युक्त्वा चार्वाको यथागतम- गमत् । अतिदारुणमेतमुदन्तमाकर्य, सद्य एवं मूच्छितौ द्रौपदी- युधिष्ठिरौ कथंचित् संज्ञां लब्ध्वा सुचिरम् अतिकरुणं विलय यावत् श्रादीपितां चितां प्रवेष्टुम् उद्युक्तौ, तावत् भीमसेनः दुर्योधन निहत्य, परिपूरितप्रतिज्ञाभारः क्षतजाभिषेकपाटलितशरीरः दुर्लक्ष- व्यक्तिः 'कसा तिष्ठति पाञ्चाली' इति उच्चैः उयुष्यन् युधिष्ठिरा- भिमुखमाययौ । निहतार्जुना दुर्योधन एव पुनः अपि परिभवं कर्तुं श्रागच्छतीति मत्वा भयात् आशिरम्पादमाकम्पमान चटुल पदमपसर्पन्ती पाञ्चालीं तिष्ठ, तिष्ठ, भोरु, काधुनागम्यते,' इत्युक्त्वा केशेषु ग्रहीतुमियेष भीमसेनः । तदनु ‘दुरात्मन्, भीमार्जुनशत्रो, दुर्योधनहतक, एहि एकनैक मुष्टिपातेन त्वां पातयामि' इत्याधिक्षिपन्तं वेगात् प्रात्मान- मालिङ्गितवन्तं रूदिताशुपरिक्लिन्ननयनमजातशत्रुमालोक्य भीमसेनः, देव, नाहं दुर्योधनहतकः, अपि तु परिपूरितप्रतिज्ञामहोत्सवो भीमसेनः' इति ससान्त्वमकथयत् ।
( २३ ) अथ पर कोटिमानन्दस्य अधिरूढे युधिष्ठिरे भीमसेनः दुधिनशोणितोक्षितेन पाणिना पतिव्रताललामभूतायाः पाञ्चाल्या दुश्शासनकराकृष्टं केशहस्तं संयमयामास । श्रथ एवं महान्तं विप्रलम्भं कृतवन्तं चार्वाकमन्धिष्य निहत्य नकुलः सहदेवेन सममावासमाससाद। अथ भगवान् वासुदेवः स्वयमर्जुनेन साकमभिषेकसामग्री- संपादनाय भृत्यवर्गान् आज्ञाप्य अनुभूतवेणीसंहारया द्रौपद्या सहितमजातशत्रु द्रष्टुं सत्वरमाययौ । एवं भगवतः पुराणपुरुषस्य पुण्डरीकाक्षस्य निरुपाधिकया करुणया महत् कृच्छमुत्तीर्णः तत्कालोपस्थितैः पाराशर्यनारदतुम्बुरुप्रभृतिभिः महर्षिभिः धृष्ट- शुम्नप्रभृतिभिः प्राप्तैश्च परिवृतः सानुजः सभार्या युधिष्ठिरः राज्याभिषेकमहोत्सवमनुबभूव । इति मृच्छकटिककथासंग्रहः प्रासीदुजयिन्यां चारुदत्तो नाम ब्राह्मणः । स युषा दीनानु- सम्पी परोपकारनिरतः स्वयम् ऋद्धिमानपि अर्थिभ्यः मित्रेभ्यश्च सर्वस्वमात्मीयं दत्वा दरिद्रः बभूव । तस्य कदाचित् काम- देवायतने देवतोपस्थानार्थमागतया वसन्तसेनया गणिकया सह परिचयः सञ्जातः। सा च सर्पसुन्दरीणामुपरि वर्तमाना वेश्याजनसुलभं धनलोभं विहाय 'श्रात्मीयेनापि धनव्ययेन गुणवानेव युवा सेवितव्यः' इति कृतनिश्चया सर्वगुणानामेक- निवासभूते चारुदत्ते दूढानुरका बभूव । कल्याणचरित्रः चारु- दत्तोऽपि, यौवनसुलभेन कामेन श्राकृष्टहृदयः तस्यामनुरोगमा- बबन्ध । तदा प्रभृति, तामेव स्मृत्वा, परिक्षीणविभवतया अप्रतीकारं कामं कृच्छ्ण अन्तः नियमयन्, कतिपयं कालम- यापरात् । अथ कदाचित् अस्तमिते सूर्य, चारुदत्तः सायं सन्ध्यामु- पास्य, मैत्रेयाख्येन पयस्येन सह, एकत्र बलवती वसन्तसेना- गतामुत्कण्ठाम्, अपरत्र दुःसहदुःखप्रदं दारिधूच, अनुस्मृत्य, अनुशोचन धास्त । तदानीं बलवति अन्धकारे झटिति बहिार- कपाटम् उद्घाट्य, सहसा अन्तः प्रविष्टा साध्यसकम्पमानगात्री घसन्तसेना त्वरिततरमभिपत्य, 'आर्य ! परित्रायस्व माम्' इति तस्य पादयोः पपात । चारुदत्तेन च, 'न भेतव्यम् ' ब्रूहि, कुतः परित्रातव्या भवती ? , इति पृष्टे सैवं बभाषे । 'आर्य ! काम- देवायतनोत्सवात् प्रारभ्य, गुणनिकीता दासी, भवन्तमुद्दिश्य, - ( २५ ) प्रस्थिता अहं मध्येमार्गम् , मम दौभाग्येन दुर्वृत्तस्य राजस्यालस्य संस्थानकस्य दृष्टौ पतितास्मि । धूर्तः असौ अनिच्छन्तीमपि मां बलात् अनुबध्नन् , वनवति अन्धकारे वृक्षषण्डमनुप्रविष्टामपि भूषणशिञ्जितेन उपलक्ष्य अनुगच्छन्, द्वारि तिष्ठति' इति । श्रुवत् चारुदत्तः मैत्रेयमेवमादिदेश । गच्छ, मद्वचनान् ब्रूहि राजस्थालं संस्थानकम्, 'मम इयं गुणानुरक्ता वसन्तसेना, विरम अस्याः अनुबन्धात्' इति । मैत्रेयेण बहिः गत्वा एवमुक्त संस्थानकः एवमत्रवीत् । 'उच्यतां मद्वचनात् चारुदत्तः "मयाभिसार्यमाणा वसन्तसेना तव गेहं प्रविष्टा, तां शीघ्रमेव प्रस्थाप्य निर्यातय, नोचेत् मरणान्तिकं वैर भविष्यति ।" इति । चारुदत्तः तत्संदेशं मूर्खायमित्यनाकर्णितकेनायज्ञाय घसन्त- सेनया सह संलपन्नास्त । सा तु कश्चित् कालं स्थित्वा एवमब्रवीत्। 'आर्य अतिकामति कालो गृहगमनाय । सर्वदा पापा मां भूषणा- कृते अनुसरन्ति । तत् इच्छामि इदमलङ्करणजातमार्यस्य गृहे निक्षेप्तुम् ' इति । दाक्षिण्यपरवशः चारुदत्तोऽपि वसन्तसेनायाः प्रथमं प्रणयं विहन्तुभनिच्छन् , तत्संरक्षणाय मैत्रेयं नियुज्य, स्वयमेव अनुव्रज्य, तां स्वावासं प्रापयामास । परेधुःप्रभाते धातायनसमोपे सुखोपविष्टा वसन्तसेना परिजनं विसृज्य एकाकिनी प्रास्त । तदा शर्विलको नाम ब्राह्मणः समागत्य मदनिकां नाम चेर्टी विविक्त दृष्ट्वा सुचिरं सानुरागमघलोकया- मास । पूर्वमेव तस्मिन् अनुकया तया स्वागतेन अभिनन्दितः । शविलकः पत्रखगडपिनद्धमाभरणजातं तस्याः हस्ते दत्वा, ( २६ ) साशङ्कः पार्वेषु दत्तदृष्टिः एवमाभाषे। ‘मदनिके ! त्वयि विरानुरक्तोऽहं त्वामनरपेन धनेन निष्क्रीय दास्यात् सोचयितु चौर्येण मया इदमासादितम् । तथाहि । पूर्वेयुः निशीथे निश्शब्दे नगरे गाढान्धकारावृते दिगन्तराले कर्णीसुघिद्यायामनितर- साधारणं नैपुण्यमावहन अहं चारुदत्तस्य गृहे यथाविधि भित्तो सन्धिं कृत्वा अन्तः प्रविश्य, मैत्रेयहस्तस्थं जर्जरस्नानशाटोनिबर्द्ध दीपप्रभया उद्दीपितमाभरणजातमपश्यम् । आग्नेयेन कीटेन दीपं निर्वाप्य निश्शब्दपदमन्तिकं गत्वा मैत्रेयहस्तात् इदमादाय निरगाम् । तद् गच्छ वसन्तसेनायै समर्थ आत्मानं मोचय ' इति । तत् श्रुत्वा मदनिका 'अहो अन्याय्यमाचरितं; वसन्तसेनया इदं चारुदत्तस्य गृहे न्यासीकृतम्' इति प्रत्युवाच । अथ अजानता मया कृतमित्यनुतप्तहृदयः किंकर्तव्यतामूढः शविलकः चिरं चिन्तयामास । ततः चारुदत्तेन प्रेषित इव भूत्वा वसन्तसेनायाः समीपमागम्य एवमुवाच । 'वसन्तसेने! मम वयस्यः चारुदत्तो गृहस्य जर्जरत्वात् दूरक्षमिदमाभरणजातमिति कृत्वा भवत्यै प्रतिनिर्यातयति, तत् प्रतिगृह्यताम्' इत्युक्त्वा प्रदौ। घातायनसमीपोपविष्टा सर्व मदनिकाशविलकयोः संवाद श्रुतधती वसन्तसेना 'आर्य ! ममापि प्रतिदानमियं मदनिका प्रतिगृह्यताम् ' इति सव्याज प्रतिग्राहयामास । चारुदत्तस्तु वसन्तसेनया न्यासीकृतम् आभरणजातं चौरे- णोपहृतं विज्ञाय नितरां शोचन विदितवृत्तान्तया धूतानाम्न्या सहधर्मचारियया वितीर्णामनी रत्नावली तत्प्रतिमूल्यतया ( २७ ) वसन्तसेनायै मैत्रेयहस्तेन प्रेषितवान् । तदादाय वसन्तसेना 'आर्य चारुदत्तं प्रेक्षितुं प्रदोषे अहमागमिष्यामि' इति प्रतिसन्दिदेश। अथ अस्तमिते सूर्ये दुर्दिनद्विगुणितेनान्धकारेण श्रावृते दिगन्त- राले मन्मथावेशस्य परां काष्ठामधिरूढा वन्तसेना तत्का- लोचितमभिसारिकावेषं धृत्वा चेट्या सह प्रस्थाय चारुदत्तस्य सदनमाजगाम । पूर्वमेव सेोत्कण्ठः चारुदत्तः तां दृष्ट्वा परमानन्द- भरितः स्वागतेन अभिनन्ध अपरिमेयप्रेमरसनिर्भरहृदयां तां कृत्स्ना रात्रिमरीरमत् । अथ प्रभाते रतिखेदप्रसुप्तां तामालक्ष्य चारुदत्तो वर्धमानक चेटमाहूय 'भद्र ! धर्धमानक ! प्रबुद्धां वसन्तसेनां प्रवहणमारोप्य पुष्पकरण्डकोधानमुपनय । अहमपि तत्रैव गमिष्यामि' इत्यादिश्य प्रययौ। तत्र च मैत्रेयेण सह सुचिरं संलपन् वसन्तसेनागमनं प्रतीक्षमाणः तस्थौ। अथ कतिपयमुहूर्तापगमे वर्धमानकेन प्रतोद्यमानं प्रवहणं दूरादेव दृष्ट्वा' 'श्रये ! वसन्तसेना अागता' इति चारुदत्तः सरससमुत्थाय प्रत्युज्जगाम । अन्तिकं गत्वा तस्मिन् प्रवहणे कुत्रचित् कोणे निलीनं निगडितैकचरणं खड्गहस्तं पुरुषमेकमपश्यत् दृष्ट्वा व विस्मयखेदाभ्यामाविष्टहृदयः चारुदत्तः 'अये, कथं चलन्तसेना न आनीता ? कः असौ पुरुषः?' इति वर्धमानकं पप्रच्छ । स तु एवमब्रवीत् । 'आर्य ! यथानिदेशमार्यायां प्रबुद्धायां प्रवहण- मानीय, "आर्ये, सज्ज प्रघहणमधिरुह्यतां" इति व्यज्ञापयम् । सातु, 'भद्र ! वर्धमानक प्रतीक्षस्व क्षणं, यावदात्मानं प्रसाध- ना०क०-३ ( २८ ) यामि' इत्युक्त्वा अन्तः अयासीत् । अहं तु यानास्तरणस्य विस्मृतत्वात् तदानयनाय प्रवहणेनैव गत्वा लध्वागच्छामि इति अनिवेद्यैव तस्याः बहिरगमम् । यानास्तरणमादाय श्रागतः पुनरपि 'आर्ये सज्जं प्रवहणमधिरुह्यतां पुष्पकरगडकोद्यान- स्थितत्व आर्यस्थ सकाशं गन्तुम्' इति व्यजिज्ञपम् । तत्सम- नन्तरमेव नूपुरशब्दं श्रुत्वा प्रवहणं च भाराकान्तं विज्ञाय श्राव प्रारुढा इति कृत्वा भास्थिषि । मध्येमार्ग राजपुरुषा अपि प्रवहणान्तः परीक्ष्य, वसन्तसेना एव श्रारूढा इति शशंस्तुः । तत इदमाश्चर्य पश्यामि । कुत्र गता भार्या को वा अयं पुरुषः ? कदा प्रारूढः ? इत्यत्र नकिञ्चिदपि जानामि' इति । स तु पुरुषः प्रवहणस्थः एव चारुदत्तं प्रणम्य, ‘ार्य, पाहि मां शरणागतम् ।' इति साञ्जलिबन्धमभ्यर्थितवान् । कस्त्वं ? कुतः आगतोऽसि ? कुतः परित्रातव्यः ? इति पृष्टः साशङ्क- मितस्ततः दत्तदृष्टिरेवं बभाषे । आर्य! श्रूयताम् “ अहमेतन्नगर- निवासी गोपालदारक आर्यको नाम । कतिपयदिवसेभ्यः पूर्व कोपिसिद्धः समागत्य, मा दृष्ट्वा अचिरेण अयमुज्जयिन्यां राजा भविष्यति, इत्यादिदेश। तदाकर्ण्य राजपालको मां बन्धने निक्षिप्तवान् । मम तु कर्णीसुतविद्यायां परमं नैपुण्यमावहन् शर्वि- लको नाम ब्राह्मणो बाल्यात् प्रभृति अकृत्रिम मित्रम् । तस्य साहाय्येन अहं बन्धनागारं मित्वा चरणलग्नं निगडमाच्छिद्य आरक्षकान् व्यापाद्य अपक्रम्य प्रधावन् यदृच्छया भवत्सदनपक्ष- द्वारसमीपमागमम् । तत्र च प्रस्थानाय सज्जीकृत प्रवहणमिदं दृष्ट्वा, कस्य इदं स्यात् ' इति चिन्तयति मयि, प्रवहणधाहकोयं , ( २६ ) भवति ! वसन्तसेने! सज्ज प्रवहणमारोहतु भवती पुष्पकर- ण्डकोद्यानस्थितस्य आर्यचारुदत्तस्य सकाशं गन्तुम् । इति उच्चैः प्राजुहाव । तच्छुत्वा प्रहमापन्नानुकम्पिनः भवतो दर्शनमेव मम अखिलमभद्रं निवारयिष्यतीति निश्चित्य, तेन अविज्ञातमेष प्रवहणमध्यरुतम् । तदानीं मम अपक्रमणेन नगयों महति कोला- हले सजाते, मदन्वेषणाय प्रसृतौ चन्दनको धीरक इति च द्वौ नगररक्षाधिकृतौ इतस्ततः ससंभ्रमं परिभ्रमन्तौ, प्रवहणमिदम- पश्यताम् । अपृच्छताम् च 'भोः! कस्येदं प्रहणम् १ का वा प्रारूढः ? कुत्र गच्छति ? ' इति प्रवहणवाहकः अयम् " आर्यचारु- दत्तस्य इदं प्रवहणं : वसन्तसेना प्रारूढा ; पुष्पकरण्डकोधानं गच्छति" इति प्रत्युवाच । अथापि स्वदृष्ट्या परीक्षितव्यमिति व्यवस्यतोः तयोः दैवानुकूल्येन, वाल्यात् प्रभृति मे परममित्रं चन्दनकः प्रवहणमधिरुरोह । तं दृष्टा अहं 'वयस्य ! शरणा- गतोस्मि, पाहि माम् ' इति तस्य पादौ अग्रहीषम् । स तु 'अभयं शरणागतस्य ' इत्युक्त्वा झटित्यवरुह्य, 'हे ! वीरक ! सत्यं प्रवहण- घाहको वदति । वसन्तसेना एष श्रारूढा । गच्छतु प्रवहणम्' इति • उवाच । अथ धीरकेऽपि स्वयमालोकितुमुधुक्त, चन्दनकः, 'अरे कथं मयि अप्रत्ययः ते' इति निर्भय॑ तमाकृष्य अपसारया- मास । बलात् प्रवहणमारोदुमिच्छन् वीरकः चन्दनकेन केशेषु प्राकृष्य पातितः पादेन ताडितः निःश्वसन् 'अरे चन्दनक ! एहि कार्यालयम् । अधिकरणस्थाने व्यवहारं दास्यामि' इत्युक्त्वा प्रययौ । चन्दनकश्च मह्यमात्मसंरक्षणाय खड्गमिमं दत्वा 'गच्छ यथेष्टमहमपि शर्विलकप्रभृतिभिः समं समये साहाय्यमा ( ३० ) चरिष्यामि' इति मामुक्त्वा यथागतमगच्छत् । तत् तम्यतालन- नुज्ञातं प्रवहणाधिरोहणम्' इति । तत् श्रुत्वा चारुदत्तो गोपालदारकस्य चरणात् निगडम- पनीय 'सखे ! न भेतव्यम्, जीवितप्रदानेनापि शरणागतः संरक्षणीयः मया। यादृच्छिकेन अनेन प्रत्यप्रमैत्रीलाभेन महान् प्रमोदः, भवान् इतो गत्वा दुःखिन वन्धुवर्गमानन्दयतु इत्युक्त्वा तं विससर्ज। अथ वसन्तसेनायाः अदर्शनेन भृशं दूयमानमानसः सव्ये- क्षणस्फुरणेन मनसि ाहितशङ्कः मैत्रेयेण सह स्वगृहमया- सीत्। RAM तत्र च सौवर्णैः प्राभरणैः प्रापूरितेन मृच्छकटेन क्रीडन्तं बालक रोहसेनं वीक्ष्य मदनिकां गृहदासीमाहूय 'कुतः इमानि प्राभरणानि प्रासादितानि 'इति पप्रच्छ । सा एवमब्रवीत्- आर्य! अनन्तरगृहदारकः सौवर्णमेकं शकटमानीय अनेन सह क्रीडितवान् । अनपगतकुतूहले एव अस्मिन् सः बालः तत्शकटमादाय स्वगृहं जगाम । अथ अहं मृन्मयमेक शकट निर्माय दत्तवती । तेन अयमपरितुष्टः सौवर्णमेव शकट देहि' इति रुरोद । तदानीं सुप्तप्रबुद्धा पुष्पकरण्डकोद्यानं गन्तुमात्मानं प्रसाधयन्ती वसन्तसेना किं निमित्तमयं रोदिति ?' इति पप्रच्छ । इति मया उक्त, सा सद्य एव भूषणानि स्वगात्रात् अपनीय मृच्छकटं पूरयित्वा, भद्र ! अनेन कारय सुवर्णशकटम् , ( ३१ ३१ ) इत्युक्त्वा प्रददौ । श्रयं च प्रवहणमारुह्य, आर्यस्य सकाशं प्रति प्रस्थिता 'इति। तच्छुत्वा चारुदत्तः, 'मदनिके! न गृहीतव्यानि श्राभरणानि, किंतु प्रत्यर्पणोयानि' इत्युक्या मैत्रेयमेवमावभाषे । सखें ! न, शुद्धयति मे अन्तरामा । अत्याहितं वसन्तसेनायाः शङ्कते । तत् गच्छ भूषणानि इमादि प्रादाय तस्याः गृहम् । तद् वृत्ता न्तिं विज्ञाय भूषणानि प्रत्यर्य शोघ्रम् श्रागच्छ' इति । तथेति मैत्रेयः प्रययौ। अथ एकान्त समुपविष्टं चारुदत्तमधिकरणस्थानात् दूतः प्रागत्य 'आर्य, अधिकरणिकः त्वां द्रष्टुमिच्छति इति आजुहाव । किमि उपक्षिप्यले दैवेन' इति शङ्काकलङ्कितमानसः चारुदत्तः दूतेन सह प्रस्थाय अधिकरणस्थानं गत्वानिर्दिष्टे आसने उपविवेश। अथ अधिकरणिका बारुदत्तमेवमब्रवीत् । 'आर्य चारुदत्त ! अद्य राजस्यालेन संस्थानकेन व्यवहारो दत्तः। यथा वा पुष्प- करण्डकांद्याने सञ्चरता या स्त्रीशरीरम् एकम् निपतितं दृष्टम् । समीपं गत्वा निरीक्षिते सा बहुभूषणभूषिता वसन्तसेना नाम गणिका भूषणजातलुब्धेन केनापि बाहुपाशबलात्कारेण व्यापादिता' इति । निरलङ्कारीः श्राभरणस्थानैः उच्छुनया प्रोवालिकया च तय॑ते' इति । वसन्तसेनामातरमाहूय पृष्टे ‘सा यौवनसुखमनुभ- वितुं वसन्तसेना चारुदत्तस्य गेहं गता इति प्रत्यवोचत् । तत् अयं व्यवहारो भवन्तमवलम्ब्य तिष्ठति । किमुत्तरं दीयते इति । तत् श्राकर्ण्य चारुदत्तः अशनिहत इस विसंज्ञो भूमौ पपात।
( ३२ ) अथ कथञ्चित् लब्धसंज्ञं तमधिकरणिकः एवमुवाच । 'आर्य चारुदत्त ? किं कुर्मो वयंः व्यवहारः त्वां पृच्छति । धैर्य- मवलम्ब्य उत्तरं दीयताम् इति । चारुदत्तः एवमब्रवीत् । यवृद्धा वदति चारुदत्तगृहं गतेति, तत् तथ्यमेव । किंतु पूर्वेधुः मम गृहे उषित्वा अद्य प्रातः स्वगृह गता? इति जाने' इति । अथ गच्छन्ती 'केनानुगता? किं पद्भ्यां गता ? उत प्रवहणेन ?' इति पृष्ठे चारुदत्तः 'मम प्रत्यक्षं न गता। तत् न जाने विवरीतुम् इति अवोचत् । तत्रान्तरे धीरकः सामर्षः सरभसमागत्य 'भो ! अधि- करणिक ! अहं कार्यार्थी, दृश्य दृश्यतां मम व्यवहारः' इत्यवोचत् । 'कस्ते व्यवहारः ? इति पृष्टः सः एवमाह--" बन्धनागार भित्वा पलायितं गोपालदारकमन्वेष्टुमादिष्टः अहं चन्दनकेन सह गच्छन् अपवारितम् प्रवहणम् एकम् अपश्यम् । चन्दनका तदन्तः वीक्ष्य 'वसन्तसेना प्रारूढा पुष्पकरगडकोद्यानं गच्छति । को दोषः । गच्छतु, इत्युषाच 'अथ मयापि पालोकितव्यम्' इति वदन्तं मां केशेष्वाकृष्य बहुशः पादेन ताडयामास । श्रुत्वा प्रायः प्रमाणम् "इति । तदेतदाकर्ण्य चारुदत्तः 'शरणागतस्य गोपाल- दारकस्य अभयं प्रतिज्ञातं. तवृत्तप्रकाशनञ्च मम अनर्थान्तर- मुत्पादयिष्यति ' इति कृत्वा तूष्णीमभूत् । अथ अधिकरणिकः 'हे वीरक ! पश्चात् भवतः व्यवहार द्रक्ष्यामः । यः एषः अधिकरणद्वारि अश्वः तिष्ठति, तमेनमारुह्य, पुष्पकर ण्डकोधानं गत्वा दृश्यताम्, अस्ति काचित् विपन्ना स्त्री न वा इति 'इत्यादिदेश। .
( ३३ ) स तु गत्वा आगत्य दृष्टं मया स्त्रीकलेवरम् एकं निपतितम्' इत्युवाच । तस्मिन् समये वसन्तसेनागृहं प्रति प्रेषितः मैत्रेयो मध्येमार्ग चारुदत्तः अधिकरणिकेन आहूतः, अधिकरणस्थान गच्छति, इति श्रुत्वा साशङ्क: ‘पश्चात् वसन्तसेनासकाश गमिष्यामि ' इति अधिकरणमण्डपम् प्राजगाम । संस्थानकस्तु मैत्रेयहस्तस्थम् प्राभरणजातं दृष्ट्वा 'इदं तदाभरणम् यत्कृते वसन्त- सेना व्यापादिता' इति अधिकरणिकाय प्रदर्शयामास । नियति- वैषम्यात् सर्वमपि चारुदत्तवाक्यम् अविश्वसनीयम् आसीत् । एवं संस्थानककृतस्य व्यवहारस्य सुश्लिष्टतया निरपराधः चारुदत्तः वधेन दण्डयो बभूव । नगरे च, 'चारुदत्तेन अर्थनिमित्ते वसन्तसेना व्यापादिता । तत् अयं बधेन दण्डयते ' इति घोषणा च अकारि । श्रुत्वा च श्रवणकठोराक्षरां घोषणां कश्चित् पुरुषः सरभसम् एकचरणलग्न निगडम् आकर्षन् आगत्य एवं बभाषे। 'अहं तावत् राजस्यालस्य अनार्यस्य संस्थानकस्य प्रवाहणवाहकः स्थावरको नाम । अनेन हि 'प्रवहणम् श्रादाय पुष्पकरण्डकोद्यानम् प्रागच्छ ' इति श्रादिष्टः। अहं तथेति प्रवहणम् आदाय गच्छन् मार्गस्य ग्रामशकटः उपरुद्धतया पार्यचारुदत्तगृहस्य पक्षद्वारसमीपे प्रवाहणम् अपनीय शकटोत्सारणाय अवरुह्य अपागच्छम् । तत्रान्तरे प्रार्या वसन्तसेना पार्यचारुदत्तस्य प्रवहणम् इति कृत्वा मम अविज्ञातमेव पृष्ठतः प्रारुरोह । प्रारूढां ताम् अजानन् मृत्पिण्ड- बुद्धः अहं प्रवहणम् प्रतोध अस्य पापिष्ठस्य हस्ते समर्पितवान् अस्मि । सा च इमं 'प्रवहणविपर्ययेण प्रारूढा अहं परित्रातव्या' इति पुनः पुनः साञ्जलिबन्धम् अभ्यर्थितवती । नृशंसः प्रर्य माम् - ( ३४ ) - आहूय ' स्थावरक ! दुर्ललिता इयम् । पुनः पुन अनुबध्यमाना अपि न मां गणयति । तं दरिद्रं चारुदत्तम् एव अनुरज्यति । तत् इमां मारय ' इति श्रादिदेश । नाहम् अकार्य करिष्यामि । इति मया प्रत्युक्ते स्वयमेव सरमसम् उपसृत्य, हा मातः ! आर्य चारुदत्त ! इति क्रन्दन्ती ताम् बाहुपाशेन गले निवध्य, पातयामास । अथ, इदं कर्म मया प्रकाशितं भविष्यति कृत्वा मां निगडितचरणं प्रासादे निक्षिप्तवान् । इदानी नगरघोषणया व्यवहारम् अन्यथा- भूतं विज्ञाय सन्तापसातवेगः स्वयम् एव निगडम् श्राच्छिद्य इह अभ्यपतम्" इति। उपरते स्थावरकवाक्ये कश्चित् श्रमणक: वसन्तसेनया सह ससंभ्रमम् अाजगाम । तं दृष्ट्वा 'अये वसन्तसेना जीवति' इति महान् कोलाहलः सञ्जातः । कः त्वं ? कुतः इयं समासादिता? इति पृष्टः श्रमणकः एवम् प्रावभाषे। " अहम् आर्यचारुदत्तस्य पादसंघाहनपरः संवाहको नाम । उपरतविभवे चारुदचे मन्दभाग्यः- अहं धूतोपजीवी भूत्वा तत्र पराजितो दशसुवर्णस्य कृते निबद्धोऽ. भूवम् । तदर्थ माधुरेण समिकेन कदर्थीक्रियमाणे मयि दर्दुरको नाम मम पाल्यमित्रं समागत्य माधुरेण सह शुष्ककलहं कुर्वन् मम अपक्रमितुं संज्ञां दत्तवान् । अहं तु सत्वरम् अपक्रम्य प्रधावन अपा- वृतद्वारमस्याः घसन्तसेनायाः गेहम् अनुप्रविश्य, 'प्रायें, परित्रायस्व माम् ' इति अस्याः पादयोः अपतम् । इयं तु मवृत्तान्तम् आकर्य चारुदत्तसंसर्गेण द्विगुणितादरमुपचर्य, हस्तात् कटकम् एकम् प्राकृष्य, 'गच्छ एतेन मोचय प्रात्मानं' इति दत्तवती । ततः माधुराय कटक दत्वा प्रात्मानं मोचयित्वा धृतानुभूतेन अपमानेन सञ्जात ( ३५ ) वैराग्यः श्रमणकवेषं पर्यग्रहीषम् । इतस्ततः सञ्चरन् पुष्पकरण्ड- कोद्याने राजस्यालेन संस्थानकेन दृष्टोऽस्मि । तेत निष्कारणवैरिणा मुष्टिप्रहारेण कद कृतः कृपालुना केनापि पुरुषेण मोचितः वापी- समीपमवायम् । तत्र च चोवरखण्डं प्रक्षाल्य उत्तीर्य किञ्चिद्दूर गच्छन् कस्मिंश्चित् शुष्कपर्णपुञ्ज नवपल्लवमपि स्त्रिया हस्तम् एकम् अलक्षयम् । अन्तिकं गत्वा शुष्कपर्णैःश्रावृतशरीराम मृतप्रायां भूमौ निपतिताम् इमां वसन्तसेनाम् अपश्यम् । सा च कथंचित् लब्धसंज्ञा वक्तुम् अशक्ततया हस्तसंज्ञया पानीयम् श्राचकाङ्क्ष। अथ सरमसम् पानीयम् आनीय दत्वा पटान्तेन अवीजयम् । मन्दं मन्दम् उन्मीलितनयनां तां 'किम् इदम् ' इत्यपृच्छम् । सा तु उच्छून- ग्रीवतया गद्गदेन स्वरेण एवम् उपाच । श्रमणक ! वेशवास- जन्मनः फलमिदम् । किम् अनेन श्रुतेन ? तथापि श्रूयताम् । पुष्प- करण्डकोद्यानस्थितम् आर्यचारुदत्तम् उपगन्तुं व्यवसिता अहंमन्द- भाग्या प्रवहणविपर्ययेण राजस्यालस्य प्रवाहणम् अध्यक्षम् । तेन दुर्वृत्तेन, 'पुनः पुनः अनुनीता अपि न मां कामयसे इत्युक्ता, एताम् अवस्था प्रापिता अस्मि' इति । अथ इमां विहारम् श्रानीय परिवाजिकाभिः कृतेन उपचारेण यावत् किंचित् स्वास्थ्यमापनाम् अलक्षयं, तावदेव चारुदत्तो वध्यस्थानं नीयते इतिश्रुत्वा, सरमसम् इमाम् श्रादाय प्रागतोस्मि इति । तत्सर्व श्रुत्वा अधिकरणिका सेवकान् पाहूय 'मुच्यतां निर्दोषः चारुदत्तः । संस्थानकश्च पापात्मा शूलम् अारोप्य वध्यताम्' इति प्राज्ञापयामास । अत्रान्तरे शर्विलको हर्षोत्कुलनयनः सरमसम् श्रागत्य चारु- दत्तम् एवम् उवाच । 'आर्य, चन्दनकप्रभृतिभिः सहायैः अनुगतः .
( ३६ ) प्रार्यको रन्ध्रान्वेषी दुरात्मानं पालकं निहत्य यथासिद्धादेशं राजा बभूव । तेन अहं सन्देशं दत्वा भवत्समीपं प्रेषितः यथा, पुरा अहम् अननुज्ञातम् एव भवदीयं प्रवहणम् प्रारूढः । भवता संरक्षितः, इदानीं भवदनुग्रहेण राज्यमिदमासादितं मया। तत् इदं राज्यं सर्वम् प्रात्मीयं कृत्वा यथेष्टं उपभुज्यताम् ' इति । तत् श्रुत्वा परमानन्दभरितः, चारुदत्तः, तर्हि सद्य एव अचिराधिष्ठितराज्या राजा द्रष्टव्यः इति उक्त्वा प्रचचाल । तदानीं राजसेवकः अधिष्ठितः पश्चात् बाहुबद्धौ वधस्थान नीयमानः संस्थानकः चारुदत्तमभिवीक्ष्य, आर्य परित्रायस्व माम् इति तस्य पादयोः पपात। चारुदत्तश्च सखे ! शर्विलक! मुच्यताम् अयम् असमीक्ष्यकारी' इति नियुज्य आर्यकेण राज्ञा संगतः। तेन बलवता उपचारेण अभिनन्दितः परां कोटिम् प्रानन्दस्य अध्यगच्छत् । . Br इति मालविकाग्निमित्रकथासंग्रहः अस्ति विभी नाम जनपदः । तत्र च माधवसेना नाम राज- कुमारः आसीत् । तस्य यवीयसी स्वसा मालविका नाम । अनुपम सौन्दर्यवतीं शैशवे पितुर लाल्यमानाम् नाम् अकस्मादागतः सिद्धादेशः साधुः दृष्ट्वा एवमाह-'संवत्सरमात्रमियं प्रेष्यभावम् अनुभूय ततः सदृशभर्तृगामिनी भविष्यतीति' तमिमं वृत्तान्तं माधवसेनः न ज्ञातवान् । तदमात्यस्य सुमतेः यवीयसी भगिनी पण्डितकौशिकी तु शुश्राव । ततः प्रतिदिनम् उपचीयमानाङ्ग- प्रत्यङ्गसौष्ठवा मालविका क्रमेण शैशवम् अतिनीतवती । तदानीम् मालवदेशे विदिशां राजधानीम् अधितिष्ठन् अग्नि- मित्रो नाम पुत्रः पुष्यमित्रस्य अभिजनादिभिः अखिलैः घरगुणैः अनूनः राजा श्रासीत् । तमेव मालविकायाः वरम् अनुरूप निश्चित्य कुमारमाधषसेनः तस्मै दूतं विससर्ज। अग्निमित्रोऽपि माधवसेनेन सह सम्बन्धम् अभिनन्द्य दूतं संमान्य 'शीघ्रमेष पाणिग्रहणमङ्गलं निर्वय॑ताम्' इति प्रतिसंदिष्टवान् । अत्रान्तरे माधवसेनस्य पितृव्यपुत्रः यज्ञसेनो नाम विदर्भेषु लब्धराज्यः आसीत् । तुल्याभिजनौ यज्ञसेनमाधवसेनौ राज्य- निमित्तम् अन्योन्यं बद्धवैरौ अभूताम् । विषयानन्तरत्वेन प्रकृत्य- मित्रं द्विषन् अग्निमित्रः प्रतिश्रुतसम्बन्धस्य माधवसेनस्य बलवान आश्रयः बभूव । कदाचित् अग्निमित्रः मुद्गलं नाम अमार - यज्ञ- सेनस्य स्यालं निगृह्य बन्धने निक्षिप्तवान् । तेन प्रवृद्धवैरः यज्ञ- .
( ३८ ) सेनः प्रतिकूलकारिणः अग्निमित्रस्य अपकर्तुं समयं प्रतीक्षमाणः श्रासीत् । माधवसेनः पाणिग्रहणमङ्गलं निवर्तयितुं वैवाहिकेन नेपथ्येन अलंकृतां मालविकाम् आदाय अमात्येन सुमतिना पण्डित- कौशिक्या सैनिकैश्च स विदिशां प्रति प्रतस्थे । यज्ञसेनस्य अन्त- पालो मध्येमार्गम् अवस्कन्ध माधवसेनं जमाह । सैन्यसंकुलात् भीतां मालविकाम् अमात्यलुमतिः पण्डितकौशिक्या सह गूढम् अपवाह्य विदिशागामिनं सार्थवाहकुलम् अनुप्रविष्टः । अथ अव्यन्तरे गच्छन्तं सार्थवाहकुलम् प्राषिकाः प्रति- रोधकाः प्रतिरुरुधुः । उभयेषाम् अतिभयानके युद्धे प्रवृत्ते बलिमिः श्रायुधपाणिभिः तस्करैः पराङ्मुखीकृताः सार्थवाहाः पला- याञ्चक्रिरे। मर्तृप्रियः सुमतिः पराभिभवकातरां मालविका रिरक्षिषुः सुचिरं युध्वा सफल्तीकृतभ पिण्डः प्राणैः भर्तुरानृण्यं प्रतिपेदे । भ्रातृमर जनितं दुःखातिभार सेढुम् अपारयन्ती पण्डितकौशिकी किंकर्तब्धतामूढहृद्या मुहूर्त मोहम् उपजगाम । अथ प्रतिपन्नसंज्ञा चतुः उन्मील्य धिक्कष्टम् मालविका कथम् आस्ते ?' इति यावत् दिनु चतुः विक्षिपति तावत् सा दुर्लभदर्शना संवृत्ता। तेन द्विगुणीकृतशोका, 'अहो कष्टादुपरि कष्टम् श्रापतितम् ।'विपत् विपदम् अनुबध्नाति' इति लौकिकी गाथा न मिथ्या' इति विचार्य सुचिरम् अन्विष्यापिमालविकाम् श्रपश्यन्तीभ्रातुःशरीरम् अग्निसात्कृत्य पुनर्नवीकृतवैधव्यदुःखा विदिशानगरम् अवाप्य यतिवेषधारिणी काषायग्रहणम् अकरोत् ।
( ३६ ) निहतसहायाम् एकाकिनी प्रचाते कदलीमिव प्रवेपमानां माल- विकास अभिवीक्ष्य दयाहृदयाः ते तस्कराः नातिदूरे नर्मदातोरे अग्निमित्रेण राज्ञा अन्तपालदुर्गे स्थापितस्य देव्याः धारिण्याः घाणीवरभ्रातुः वीरसेनस्य हस्तं प्रापयामातुः । सोषि इमां शिल्पा- धिकारे योग्येयं दारिका,' इति संदिश्य भगिन्यै धारिण्यै उपायन प्रेषितवान् । सापि प्राकृतिविशेषप्रत्ययात् 'उत्कृष्टाभिजना भवितुम् अहति' इति संभाव्य तस्याम् अत्यन्तस्निग्धष्टिरासीत् । अथ च परमनिपुणाम् अतिमेधाविनी ताम् नाट्यशास्त्रम् अध्यापयितुम् श्राचार्यगणदासम् श्रादिष्टवती। भिन्नरुचीनां जनानां युगपत् समाराधनचणे नानारसभरिते स्वकुल विद्याभूते नाट्य- शास्त्रे निरतिशयं प्रावीण्यम् आवहन् गणदासः गुणाधिकम् उप- देशमात्रम् श्रासाद्य नितरां तुतोष । अत्रान्तरे श्रात्मना सह संबन्धेच्छयाप्रस्थितमाधवसेनं दायाद- वशंगतम् अग्निमित्रः श्रुत्वा यज्ञसेनस्य एवं संदिष्टवान्-'भवतः पितृव्यपुत्रः कुमारः माधवसेनः प्रतिश्रुतसंबन्धः मम उपान्तिकम् उपसर्पन अन्तरा त्वदीयेन अन्तपालेन अवस्कन्ध गृहीतः। स त्वया मदपेक्षया सकलत्रसेादर्यः मोक्तव्यः । इति तस्य यज्ञसेनः प्रतिलेखम् एवम् प्रेषितवान् । यथा-तुल्याभिजनेषु भूमिधरेषु इयं राज्ञां वृत्तिः । अत्र मध्यस्थः पूज्यो भवितुम् अर्हति । सादा पुनरस्य ग्रहणविप्लवे विनष्टा । तदन्वेषणाय प्रयतिष्ये । अथ अवश्यमेष मया माधवसेनः मोचयितव्यः मुच्यतां भवता संयतः मुद्गलसचिषः मम स्यालः' इत्येवं कार्यविनिमयेन व्यवहरन्तम् अचिराधिष्ठितराज्यं (४०) , वैदर्भम् उन्मूलयितुमन्निमित्रः धीरसेनप्रमुखं दराडचक्रम् अाज्ञा. पितवान् । अथ कदाचित् शिल्पाचार्यः शिल्पकौशलम् श्रात्मनः प्रदर्श- यितुकामः चित्रशालायाम् अखिलपरिजनपरिवृतायाः धारिणी- देव्याः प्रतिकृति लिलेख । तत्र प्रत्यग्रवर्णरागाम् प्राचार्यस्य चित्र- लेखाम् अवलोकयन्त्याः देव्याः धारिण्याः समीपम् अकस्मात् अग्निमित्रः प्राजगाम । उपचारानन्तरम् एकासनोपविष्टः स राजा चित्रगतायाः परिजनमध्यगतां मालविका दृष्ट्वा किनामधेयेयम् अपूर्वा दारिका तव श्रासन्ना प्रालिखिता' इति देवीम् अपृच्छत् । अवधोरितवचनेन शङ्कितेन राज्ञा पुनः पुनः अनुबद्धापि सा यावत् न कथयति, तावत् तस्याः कनीयसी स्वसा कुमारी वसुलक्ष्मीः पाख्यातवती 'प्रावुत्त, एषा मालविका' इति । राजा तु प्रथमदर्शन एव तदीयेन रूपातिशयेन प्राकृष्टहृदयः तस्यां दूढानुरकः बभूव । यदृच्छादृष्टप्रतिकृति ताम् प्रत्यक्षतः द्रष्टुम् श्राचकांक्ष । देवी धारिणी तु चित्रदर्शनात् प्रभृति मालविकां सविशेषं राज्ञो दर्शनपथात् रक्षन्यासीत् । राजा वृत्तान्तमिमं नर्मसचिवाय गौतमाय निवेद्य 'मालविकां प्रत्यक्षदर्शनां कर्तुम् उपायः चिन्त्यताम् ' इति आदिदेश । सोऽपि निपुणतरम् उपायम् उपक्रान्तवान् । यथा-अस्ति हरदत्तो नाम गणदासात् अपरः नाट्याचार्यः। सः इरावती नाम राज्ञः यवीयसी भार्याम् नाट्यविद्याम् अध्यापयन् प्रास्त । नर्मसचिवः गौतमः हरदत्तगणदासौ उपसृत्य उपजापेन परस्परं स्पर्धाम् उत्पादितवान् । गणदासं गत्वा 'हरदत्तः भवन्तं ( ४१ ) गणदासान मे पादरजसापि तुल्यः, इति अधितिप्तवान्, । इति प्रोवाच । हरदत्तं गत्वा 'गणदासः त्वाम् उद्दिश्य तस्य तव च समुद्रपल्यालयोरिव अन्तरम् इति परीवादं कृतवान्' इति बनाये। अनेन उपजापेन संजातसंरम्भौ हरदत्तगणदासौ 'राज्ञः समक्षमेव श्रावयाः अधरोत्तरव्यक्तिः भविष्यति' इति निश्चित्य राजानम् उपगम्य, देव ! श्रावयोः परस्परविज्ञालसङ्घर्षे भवानेव नौ विशेषज्ञः प्राश्निकः । तदावा शास्त्र प्रयोगे च विमृशतु ' इत्यूचतुः। एवं गौतमेन प्ररोपितस्य सुनोतिपादपस्य कुसुमम् उद्भिन्नं दृष्ट्वा नितरां हृष्टः राजा श्रात्मनः पक्षपातसंभावनया पण्डित- कौशिकी नाश्निकपदे प्रतिष्ठाप्य देव्या धारिण्या सहितः 'प्रस्तु- यतां विवादः ' इत्याज्ञापयामास । परिवाजिका तु 'प्रयोगप्रधाने नाट्यशास्त्रे वाग्व्यवहारः मास्तु उपदेशदर्शनेनैव निर्णयः कार्यः इत्युक्त्वा सर्वाङ्गसौष्ठवाभिव्यक्तये विगतनेपथ्याभ्यां शिष्याभ्यां छलिताख्या चतुष्पदा शर्मिष्ठायाः कृतिः अभिनीयताम् ' इत्यादि- देश । अथ सङ्गीतरचनायां विरचितायां मृदङ्गस्य मध्यमस्वरां मायूरी मार्जनाम् उपश्रुत्य समुत्सुकाः सर्वे सामाजिकाः ससंभ्रम प्रेक्षागृहं प्रविविशुः। हरदत्तगणदासयोः समानेपि ज्ञानवृद्धभावे गणदासस्व वयो- धिकत्वेन पुरस्कारार्हत्वात् तस्यैव उपदेशः प्रथमं द्रष्टव्यः आसीत् । अतः प्राचार्येण नियुक्ता मालविका सभोम् श्रागत्य चतुष्पदां गीति यथारसम् अभिनिनाय । प्राश्निकपदम् अधितिष्ठन्ती परिवाजिका तस्याः अभिनयं दृष्ट्वा यथादर्शनं सर्वम् अनवद्यम् इति नितरां प्रशशंस।
( ४२ ) अथ मालविकायाम् प्राचार्येण सह निष्क्रान्तायां हरदत्तः 'मदीयम् उपदेशम् अवलोकयितुं प्रसादः क्रियताम्' इत्यभ्यर्थित- धान् । राजा तु मध्याह्नसमयस्य उपस्थितत्वात् ' त्वदीयम् उपदेशं श्वः द्रक्ष्यामः' इति उक्त्वा तं विससर्ज । परेवुः हरदत्तस्यापि उपदेशं दृष्ट्वा परिव्राजिका मालविकायाः गुणविशेषेण गणदासमेव प्रशंसितवती । यौवने चयलि वर्तमाना मालविका माधवसेनेन पूर्वमेव संकल्पितम् प्रात्मनः अनुरूपं भर्तारम् अग्निमित्रं दृष्ट्वा तस्मिन् दूढानुरक्ता देव्या धारिण्या तदर्शनात् अधिकतरं रक्ष्यमाणा अनुभूतमुक्केव मालतीमाला नितरां म्लायन्ती अप्रतीकारगुरुका वेदनाम् अनुभवन्ती प्रासीत् । अग्निमित्रोऽपि देव्याः धारिण्याः चित्तं रक्षन् आत्मनः माल- विकागतम् अनुरागम् अन्तः निगृह्य पराधीनदर्शनां तामेव अनुध्या- यन् अत्यन्तम् उत्कण्ठितः कतिपयं कालम् अयापयत् । अत्रान्तरे देवी धारिणी नववसन्तावतारोत्सवे पुष्पोधाने राज्ञा सह डोलाधि- रोहणम् अनुभवितुम् श्राचकाङ्क्ष । गौतमस्तदा राजदंपतिभ्याम् अध्यारूढाम् दोलाम् बलवत् आन्दोलयामास । ततः निरवलम्बा धारिणी भूमौ निपत्य सरुजचरणा बभूव । तदानीमेव निपुणिका नाम इरावत्याश्चेटी राजानम् आगत्य प्रणम्य एवं विज्ञापितवती । 'देव ! देवी इरावती विज्ञापयति 'अस्मिन् नवे वसन्तोत्सवे आर्यपुत्रेण सह प्रमदघने दोलाधिरोहणम् अनुभवितुम् इच्छामि' इति । दाक्षिण्यपरवशः राजा तत् तथेत्यङ्गीकृत्य गौतमेन सह प्रमदमनं प्रविवेश । समये- ऽस्मिन् चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य दोहदं कर्तव्यम ( ४३ ) . पासोत् । उत्कृष्टाभिजनवत्याः सर्वलक्षणसंपन्नायाः सर्वालंकार- भूषितायाः सुन्दाः पादप्रहारेण अशोकः पुष्यति इति प्रसिद्धिः। श्रात्मनःसरुजचरणतया देवी धारिणी दोहदं निर्घर्तयितुं मालविका योग्येति कृत्वा नियुयोज । प्रतिजज्ञे च 'यदि स पञ्चरात्राभ्यन्तरे कुसुमं दर्शयिष्यति तदा तव अभिलाषपूरयितृकं प्रसाद दास्यामि' इति । मदनव्याधिना परामृष्टा मालविका चरणालंकारहस्तया घकुलावलिकाख्यया सख्या सह तदेव प्रमदवनं गत्वा दोहदापेक्षिणः तपनीयाशोकस्य अधस्तात् प्रच्छायशीतले शिलापट्टके निषसाद । राजा तु गौतमेन सह लतान्तरितो भूत्वा तयोः संलापम् उपशृण्वन् श्रास्त । तदानीम् लब्धावसरा वकुलावलिका राज्ञः अनु- रागम् अधिकृत्य मालविका विदितार्थाम् अकरोत् । तेन परमानन्द- भरिता मालविका देव्याः धारिण्याः सकाशात् श्रात्मनः मनोरथस्य प्रतिबन्धम् श्राशङ्कमाना 'मम दुर्जातसमये साहाय्यम् आचरित- व्यम्' इति वकुलावलिकाम् अभ्यर्थितवती । तथापि तथेत्यङ्गीकृते विरचितपल्लवावतंसा मालविका सलीलम् अशोकपादपाय पादं प्राहिणोत् । तदानीम् पूर्वमेव अभिसंहितं दोलाधिरोहणम् अनुभवितुम् इरावती निपुणिकाख्यया चेट्या सह तदेव प्रमदवनं प्रविश्य प्रियङ्गुलतापरिक्षिप्तं शिलापट्टकम् अध्यास्य मालविकायाः दोहदक्रियां निर्वर्णयन्त्यासीत् । राजा तु तत्र इरावतीसांनिध्यम् अजानन् अवसरम् इमम् आसाद्य गौतमेन सह मालविकायाः समीपम् उपसृत्य सरसमधुरैः संलापैः प्रात्मनः मनोगतम् अनुरागम् निवेदयामास । व्यतिकरमिम ( ४४ ) प्रत्यक्षतः निध्यायन्ती इरावती सरभसम् अन्तःपुरं गत्वा राज्ञः अविनयम् श्रन्तरेण धारिणीं विदिताम् अकरोत् । मालविकायाः अभिजनसौन्दर्यशीलादिभिः सद्गुणैः श्राराधि- तापि सा, धारिणी, इरावत्याः चित्त रक्षन्ती निगडितचरणाम् सखीसहितां ताम् अदृष्टसूर्यपादे भूमिगृहे निचिक्षेप । धादिदेश व तत्र व्यापृतां माधविकाम् । 'न मोक्तव्ये इमे त्वया नागमुद्रासनार्थ अंगुलीयकम् अदृष्ट्वा' इति परिजनमुखात् एतं वृत्तान्तम् उपलभ्य राजा विशेषतः विषण्णः बभूव । अथ गौतमः निपुणतरेण उपायेन मालविका मोचयामास । तथाहि । सहजचरणा देवी धारिणीकदाचित् प्रवातशयने निषण्णा परिवाजिकया कथाभिः विनोद्यमाना आसीत् । तदानीम् गौतमः स्वहस्ते केतकीकण्टकैः सर्पस्येव दंशं कृत्वा यज्ञोपयोतेन संधी- तांगुष्ठः 'हा! परित्रायताम् , सर्पण मृत्युना दष्टोस्मि' इति देव्याः पुरतः संभ्रान्त इव सरभसं समापत्य निषपात । अवादीच। देवि ! अरिक्तेन पाणिना भवतीं द्रष्टुकामः अहं प्रमदवनं गत्वा अशोकपुष्पग्रहण कारणात् प्रसारिते अग्रहस्ते कोटरनिर्गतेन सर्परूपिणा कालेन दष्टोस्मि । सिमसिमायन्ति मे अङ्गानि' इति । कैतवकृतेन अस्य विषवेगाभिनयेन दयाहृया धारिणी परिजना- वलम्बितम् एनम् विषवैद्यस्य ध्रुवसिद्धेः समोपं प्रापयामास । पूर्वमेव गौतमेन कृतसंकेतः ध्रुवसिद्धिः 'शीघ्रमेव सर्पमुद्रा श्रानीय- ताम्' इति संदिदेश । सधएव धारिणी सर्पमुद्रासनाथम् अङ्गुलीय- कम् प्रात्मनः अङ्गुल्याः अवमुच्य दत्वा — पश्चात् ममैव हस्ते देह्येतत्' इति प्रतीहारी प्राहिणोत् ।
, (४५ ) प्रत्युत्पन्नमतिः गौतमः तत् अङ्गुलीयकम् श्रादाय माधविकायै दत्वा एवम् अभाषिष्ट-'अध राज्ञः नक्षत्रं सोपसर्गम्। तत् काान्तिकादेशेन सर्वबन्धनमोक्षः राज्ञा क्रियते। तत् मुच्यतां मालविका सह सख्या इति देवी धारिणी मन्मुखेन समादिशति इति । ततः ‘युज्यते प्रतत्' इति कृत्वा साधविका सखीसहितां मालविका बन्धनात् मोचयामास । गौतमः ला समुद्रगृहे स्थाए- यित्वा सर्वमिमं वृत्तान्त राज्ञे निवेदयामास । फलितमनारथः स राजा सकुतूहलः समुद्रगृहम् आगत्य गौतमं द्वाररक्षकं विधाय शनैःशनैः सरसमधुरवचनापन्यासैः मुग्धायाः मालविकायाः संगमसाध्वसम् अपनयन् अभिनवम् अतिरमणीयम् अस्याः मदनविषयावतारम् अनुवभूव । अत्रान्तरे भर्तुः प्रणिपातलनजनितम् उपचारातिक्रमदोषं प्रमाटुकामा चित्रगतं भर्तारं प्रसादयितुम् इरावती निपुणिकया सह तमेव उद्देशम् अाजगाम । तदानीम् समुद्रगृहस्य अलिन्दम् अध्यास्य उत्स्वप्नायमानं गौतमम् अभिवीक्ष्य निपुणिका परिहास- निमित्तम् भुजङ्ग कुटिलं दण्डकाष्ठं तस्य उपरि पातयामास । स तु सहसा प्रबुध्य 'अब्रह्मण्यम अब्रह्मण्यम् दर्वीकरो ममोपरि पतितः' इति उच्चैः प्राचुक्रोश । तत् श्रुत्वा राजा मालविका व सहसा समुद्रगृहात् निर्जग्मतुः। ततः तयोः दिवासंकेतम् उपलभ्य भृशं कुपिता इरावती 'धारिणी पक्षपातम् अवलम्ब्य मालविकां बन्धनात् मोचयामास ' इति आशशङ्के । अथ यदृच्छादृष्टायाः सारभाण्डगृहे नियुक्तायाः माधधिकाया मुखात् ‘गौतमेदिभिन्नेन नोतिप्रयोगेण मालविका मोचिता' इति .
बुबुधे । मालविका तु, वृत्तान्तम् इमं श्रुत्वा देवी धारिणी किंवा वदिष्यति' इति विशेषतः वेपमानहृदया बभूव । अत्रान्तरे मालविकया दत्तदोहदः तपनीयाशोकः अपूर्ण एच पञ्चरात्रे पुष्पितः बभूव ! तमिमं वृत्तान्तं प्रमदधनपालिका मधुकरिका देव्यै धारिण्यै निवेदयामास । सा तु प्रतिश्रुतपूर्व माल- विकाया राज्ञे प्रदानरूपम् अभिलाषपूरणं निवर्तयितुम् भाचकांक्ष। ततश्च प्रसाधनकर्मणि अलंकर्मीणाम् परिवाजिकाम् वैदर्भेन विवाहनेपथ्येन मालविकाम् अलंकर्तुम् अभ्यर्थितवती । तया सविशेषालंकृतां मालविकाम् आदाय सपरिवारा धारिणी प्रमदवनं गत्वा 'तपनीयाशोकस्य कुलुमशोभा द्रष्टुम् श्रागन्तव्यम्' इति संदिश्य राज्ञे प्रतीहारी विससर्ज। 'मालविकायाः युनदर्शनं भविष्यति' इति सकुतूहलः राजा गौतमेन सह प्रमदवनं प्रत्याययौ। अत्रान्तरे यातव्यपक्षे स्थितम् विदर्भनाथं यज्ञसेनम् अभिषेणयितुम् आदिष्टानि वीरसेनप्रमुखानि दण्डचक्राणि तं वशीकृत्य अस्य दायादं माधवसेनं मोचयामासुः। सोऽपि अग्निमित्राय महासाराणि रत्नानि वाहनानि शिल्पदारिका- भूयिष्ठं परिजनञ्च उपायनं प्रेषयामास । तत्रोपायने ' रजनिका ज्योत्स्निका' इति द्वे शिल्पदारिके राजानम् उपस्थातुम् श्रागते तत्र धारिण्याः समीपे स्थितां मालविकाम् अवलोक्य 'अहो अस्माकं भर्तृदारिका' इति विस्मयाक्षिप्तहृदये तां प्रणेमतुः। के भवत्यौ ? कावेयम् ' इति राज्ञा पृष्टे परिवाजिका कुमार- माधवसेनस्य बन्धनात् प्रभृति सर्वम् उदन्तजातं यथावत् निवेद्य 'सेयं मालविका राज्ञे पूर्वमेव दित्सिता पोटविकेभ्यः घोरसेनं, १ ( ४७ ) वीरसेनात् देवीम् धारिणीम् गता' इति अवबोधितवती । तत् श्राकार्य देवी धारिणी ' कष्टम् इयम् अभिजनवती प्रेष्यभावे नियुक्ता' इति नितराम् अनुशुशोच । अग्निमित्रोपि दण्डानीकैः स्वायत्तीकृतं विदर्भराज्यं द्विधा विभज्य तत्र यज्ञसेनमाधवसेनौ अवस्थापयामास । अत्रान्तरे अग्निमित्रस्य जनकः पुष्यमित्रः यज्ञम् अश्वमेधम् प्रारब्धवान् । तत्र संवत्सरोपाधर्तनीयस्य राजपुत्रशतपरिवृतस्य तुरगस्य गोप्तारम् धारिण्याः तनयं कुमारवसुमित्रम् श्रादिश्य विस- सर्ज। स च तुरंगःसिन्धोःदक्षिणे तीरे चरन् अश्वानीकेन यवनानां प्रार्थितः बभूव । ततः सेनयोः उभयोः महति संमर्दै धन्वी वसुमित्रः परान् पराजित्य अश्वं प्रत्याजहार । अंशुमतेव सगरः पौत्रेण प्रत्या- हृताश्वः पुष्पमित्रः परमानन्दभरितः वृत्तान्तावबोधकं लेखम् अग्नि- मित्राय प्राहिणोत् । पुत्रविजयवृत्तान्तश्रवणेन नितरां दृष्टः अग्निमित्रः यज्ञसेनस्यालं मुद्गलं बिना सर्वान् बन्धनस्थान् मोचयामास । देवी धारिणी परिवाजिकायाः अनुमते स्थिता माधवसेनेन प्रथममेव संकल्पितां मालविकां सद्यः समाहृतेन पत्रोणेन कृताव- कण्ठनां दत्तदेवीशब्दां पुत्रविजयवृत्तान्तश्रवणमहोत्सवेस्मिन् अनुरूपं पारितोषिकम् आर्यपुत्रः प्रतीच्छतु ' इति राज्ञे प्रतिपादया- मास । दाक्षिण्यपरवशः अग्निमित्रः मालविकाम् इरावतीप्रमुखानाम् अन्तःपुराणाम् अनुमते प्रतिगृह्य विहतप्रतिबन्धं तत्समागमसुखम् अनुभूय परां कोटिम् श्रानन्दस्य अध्यगच्छत् । इति ( ४८ ) विक्रमोर्वशीयकथासंग्रहः अस्ति हिमालये बदरीनामधेयं महर्षिसेवितं पुण्यक्षेत्रम् । तत्र पुरा धर्मसंस्थाएनाय भुवमवतीर्णः भगवान् नरसखः नारायणः सुचिरं तपश्चचार । उग्ने तपसि वर्तमानं तं दृष्ट्वा जातशङ्कः महेन्द्रः बढोः अप्सरसः तन्नियमविघ्नकारिणीः प्रेषितवान् । ताश्च वसन्त- सहायं मन्मथं पुरस्कृत्य बदरीमागत्य भगवन्तं नारायणमूर्षि बहुधा प्रलोभयामासुः । तेन कुपितः नारायणः सद्यएव प्रात्मीयात् ऊरोः नीरत्नम् एकम् उत्पादयामास । अनिवर्णनीयसौन्दर्याम् भगवतः नारायणस्य मुनेः अरूद्भवां तां दृष्ट्वा ब्रीडिताः सर्वाः अप्सरसः निरस्ताभिमानाः यथागतं जग्मुः। अथ भगवान् नारायणः ऊरूद्भवतया तां स्त्रियम् ऊर्वशी इत्याहूय महेन्द्र पतिष्ठस्व इत्याज्ञाप्य विससर्ज । ततः प्रभृति सा स्वर्गस्य अलंकारभूता तपोविशेषपरिशङ्कितस्य महेन्द्रस्य सुकुमा प्रहरणं बभूव । तां कदाचित् सखीभिस्सम कैलासनाथम्' उपनृत्य निवर्तमानां मध्येमार्ग दृष्ट्वा हिरण्यपुरवासी केशी नाम दानवः चित्रलेखाभिधानया सख्या सह बन्दीग्राहं जग्राह । तां तथाविधां दृष्ट्वा रंभामेनकाप्रभृतयः अप्सरसः "परित्रायता परित्रायतां महाभागः, यः श्रमरपक्षपाती यस्य वा अम्बरतले गतिरस्ति , इत्याचुक्रुशुः । अत्रान्तरे प्रतिष्ठाननगरम् अधिवसन् पुरूरवाः भगवन्तं भास्करम् उपस्थाय निवृत्तः तमेव उद्देशम् अभ्याजगाम यत्रायमप्सरसांगणः शरणम् पाचक्रन्द। अथ विदितवृत्तान्तः पुरूरवाः ताः अप्सरसः तत्रैव हेमकूट- .
( ४६ ) शिखरे स्थापयित्वो हिरण्यपुरं प्रति प्रस्थाय महेन्द्रापकारिणं केशिनं वायव्यास्त्रेण लवणाम्बुराशौ प्रक्षिप्य स्वयम् अक्षतशरीरः चित्रलेखाद्वितीयाम् ऊर्वशी प्रत्यानिनाय । अत्रान्तरे महेन्द्रः नारदमुखात् ऊर्वशी केशिना हृताम् उपलभ्य तत्प्रत्याहरणार्थ चित्ररथेनाधिष्ठितां गन्धर्वसेनां समादिष्टवान् । ते च गन्धर्वाः हिरण्यपुरं प्रति सत्वरम् अभिधावन्तः अर्धमार्गे चारणगणेभ्यःपुरूरवसःजयोदाहरणम् उपश्रुत्य तत्रैव हेमकूटशिखरे द्रष्टुम् उपागतः। अथ पुरूरवा:चित्ररथंधिलोक्य 'सखे नायमवसरो मे शतक्रतुं द्रष्टुम् । तत् त्वमेवैनां प्रभोरन्तिकं प्रापय' इत्युक्त्वा ऊर्वशी तस्य हस्ते समर्पयामास । सेोऽपि तां महेन्द्रस्य समोपं प्रापयामास । तदानीम् ऊर्वशीपुरूरवसाः प्रथमदर्शनसमये अन्यो- न्यानुरागः अंकुरितः प्रासीत् ! तत प्रारभ्य तद्गतयैव चिन्तया नितराम् उत्कण्ठितः राजा विदूषकेन समम् अात्मानं विनादयितुं प्रमदवनं जगाम । तत्र तेन सह ऊर्वशीगतामेव कथां कुर्वन् अत्रान्तरे ऊर्वश्यपि मदनेन बलवत् वाध्यमाना चित्रलेखया समम् श्राकाशयानेन तत्राजगाम । श्रागत्य च तिरस्करिण्या विद्यया प्रच्छना भूत्वा राज्ञः संलापमुपशुश्राव । तत्र आत्मनाप्यभ्यधिकां मदनबाधां दृष्ट्वा ऊर्वशी सघएव तिरस्करिणीम् अपनीय राज्ञः पुरतः प्रादुर्बभूव । तां दृष्ट्वा राजनि परमानन्दभरिते सति देवलोकात् दूतः आगत्य ऊर्वशीम् एवम् उवाच , भगवान् महेन्द्रः भरतमुनि- प्रणीतम् ललिताभिनयम् अप्सरोभिः अभिनीयमान द्रष्टुम् इच्छति' (५०) तदाकर्ण्य ऊर्वशी देवेषु अनपराद्धम् आत्मानं कर्तु महता कृच्छेण राजानम् अामन्य प्रययौ। अथ देवलोके अप्सरोभिः प्रयुक्तः लक्ष्मीस्वयंवराख्यस्य काव्यबन्धस्य अभिनयः प्रावति । तत्र लक्ष्मीभूमिकया वर्तमाना ऊर्वशी वारुणीभूमिकया मेनकया एवं पृष्टा । सखि ! समागताः खलु त्रैलोक्येश्वराः सकेशवाः लोकपालाः । तेषु कतमस्मिन् ते भावाभिनिवेशः ?" इति । पुरूरवसि अत्यन्तम् अभिनिविष्टभावायाः ऊर्वश्याः मुखात् पुरुषोत्तमे इति भणितव्ये पुरूरवसीति निर्गता घाणो । तेन क्रुद्धो मुनिर्भरतः तामेवं शशाप । “येन मम उपदेशः त्वया लडितः, तेन ते दिव्यस्थानं न भविष्यतीति ।" अथ लजावनतमुखी सा महेन्द्रेण भणिता।" यस्मिन् बद्धभावासि, तस्य मे रणसहायस्य राजर्षेः प्रियकारिणी भूत्वा तमेवोपतिष्ठ । यावत् स दृष्टसंतानो भविष्य- तीति । तदनन्तरम् ऊर्वशी किञ्चित् विक्लवा अभिसारिकावेष- धारिणी चित्रलेखया सह पुरुरवसः प्रासादम् उपससाद ! तामेव सर्षदा चिन्तयन् राजा तां दृष्ट्वा नितराम् आनन्दभरितो बभूव । अथ ऊर्वश्याम् प्रत्यासक्तहृदयः पुरूरवाः राज्यकार्याणि अमात्येषु निवेश्य तयो सह गन्धमादन पर्वतं गत्वा तत्र सुचिरं चिजहार। तत्र कदाचित् मन्दाकिनीपुलिनपर्यन्ते सिकतापर्वतैः क्रीडन्तीम् उदयवती नाम विद्याधरदारिकां निध्यातवान् । अतिदूरम् अधि- रूढप्रणया सा ऊर्वशी तत् न सेहे। अथ च बहुशः भर्तुः अनुनयम् अप्रतिपद्यमाना कन्यकाजनपरिहरणीयं कुमारवनं प्रविष्टा ।
( ५१ ) पुरा किल भगवान् महासेनः शाश्वतं कुमारवतं गृहीत्वा प्रकलुषंनाम गन्धमादनवनम् अध्यासितवान् । स्त्रीसंसर्गम् अत्यन्तं परिहरन् स भगवान् विधिमेवं कृतवान् । “ या स्त्री प्रदेशमिम विशति, सा लताभावेन परिणमिष्यति गौरीचरणरागसंभ संगममणि विना न ततः मोक्ष्यते” इति । विदिताप्येनं गुरुशाप- मूढहृदया सा ऊर्वशी देवतासमयं विस्मृत्य अगृहीतानुनया कुमारपनं प्रविवेश । प्रवेशसमनन्तरमेव वासन्तीलताभावेन परिणतम् अस्याः रूपम् । अलवनीयो हि विधिविभषः। तस्मिन्नेव कानने प्रियतमां विचिन्वन् राजा बहून् अहोरात्रान् अतिवाहयाञ्चके। इतस्ततः पर्यटन् कुत्रचित् शिलाभेदान्तरगतं अग्निस्फुलिङ्गवत् प्रकाशमानं मणिमेकमपश्यत् । तदानीम् अशरीरिणी वाक् एवम् अश्रूयत । “राजन् गृह्यतां गृह्यताम् गौरीचरणरागसंभवः सङ्गमो नाम मणिरयं धार्यमाणः प्रियजनेन संगमयति ।" इति । तदाकर्य राजा भगवतो भवानीपतेराशेयम् इति विज्ञाय भगवन् ! अनुगृहीतोऽस्मि इति उक्त्वा तं मणिमादाय शिरसि दः । अथच पार्श्वपरिवर्तिनी मनोहारिणी वासन्तीलतां दृष्ट्या कराग्रेण मृदु पस्पर्श । तत्रैव लताभावं विहाय स्वस्वरूपम् श्रापन्ना ऊर्वशी प्रादुरासीत् । तां दृष्ट्वा प्रमुदितहृदयः पुरूरवाः तया स्मरण- मात्रसंनिधापितेन विमानेन प्रतिष्ठाननगरमघाप । एवमूर्वश्या सह देवतारण्येषु सुचिरं विहृत्य प्रतिनिवृत्तः कृतसत्काराभिः प्रकृतिभिः अभिनन्धमानः बहून् संवत्सरान राज्य शशास । अत्रान्तरे धृतगर्भा ऊर्वशी पुत्रमेकं सुषुवे । यदा पुरुरवाः पुत्रस्य मुखं द्रक्ष्यति, तदा भवत्या भूयोपि मत्समीपम् ( ५२ ) आगन्तव्यम्" इति महेन्द्रस्य नियोगम् अनुस्मृत्य वियोगभीरुः ऊर्वशी जातमात्रमेव पुत्रं राज्ञः अविज्ञातमेव भगवतः च्यवनस्य प्राश्रमपदे पार्यायाः सत्यवत्याः हस्ते निक्षिप्तवती । स कुमारः यथाकालं भगवता च्यवनेन कृतजातकर्मादिविधानः गृहीतविद्यः धनुदे चाभिविनीतः पितुः आराधनसमर्थो बभूव । अत्रान्तरे तिथि- विशेष गङ्गायमुनयोः संगमे देवीभिस्सह कृताभिषेकस्य राज्ञः अलंकरणार्थम् अनुलेपनमाल्यादिभिः समम् प्रानीयमानं संगम- मणिम् आमिषशङ्कीगृधः प्राचिक्षेप । बाणपथमतिक्रान्तं तं निग्रहीतुं राजा जालिकान् प्रेषयामास । अथ दिनान्ते भगवतः च्यवनस्याश्रमे निवासवृते लीयमान तं गृध्रम् औशेयः वाणस्य लक्षीचकार । आश्रमविरुद्ध तस्य तत् चेष्टितं दृष्ट्वा भगवान् च्यवनः सत्यवतीम् श्राहयेवमादिदेश । निर्यापयेममूर्षश्याः हस्तनिक्षेपमिति सा तं कुमारमादाय प्रतिष्ठाननगरमाजगाम । ऊर्वशी तं दृष्ट्वा महेन्द्रस्य नियोगम् अनुस्मृत्य प्रश्नुपूर्णमुखी रुरोद । राजापि तन्मुखात् पुत्रमुखदर्शन- समनन्तरमाविनम् ऊर्वशीवियोग विज्ञाय पुत्रे राज्यभारं विन्यस्य अरण्यगमने मतिं चकार । अादिदेश चामात्यपरिषदम् कुमारस्य राज्याभिषेकोत्सवसंभारान् संग्रहीतुम् । तस्मिन् समये भगवान् नारदः समाजगाम । तं दृष्ट्वा राजा ससंभ्रमम् आसनात् उत्थाय अर्यपाद्यादिभिः उपचचार । अथ नारदो राजानम् एवम् उवाच-महाराज भगवान् महेन्द्रः वनगमनाय कृतबुद्धिं भवन्तम् एवम् अनुशास्ति । त्रैकाल्य- वेदिभिः मुनिभिः श्रादिष्टः सुरासुरविमर्दो भाषीति। भवांश्च
मम सांयुगीनः सहायः। तत् त्वया न शस्त्रं न्यसितव्यम् । इयं
चोर्वशी यावदायुः तावत् सहधर्मचारिणी भवत्त्विति ।
कोर्वशीपुरूरवसौ महान्तं प्रमोदम् अवापतुः ।
अथ भगवान् नारदः देवलोकात् अप्सरोभिः समानीतैः
अभिषेकसभारैः कुमारमायुष भद्रपीठे उपवेश्य अभ्यषिञ्चत् ।
अथ ऊर्वशीपुरूरवसौ परस्परम् अवियोगेन कुमारस्यायुषः
यौवराज्यश्रिया च परां कोटिमानन्दस्य अध्यगच्छताम् ।
इति
MAHumania
(५४ ) शाकुन्तलकथासंग्रहः आसीद्विश्वामित्रो नाम महाप्रभावो राजर्षिः । उग्रे तपसि वर्तमानं तं दृष्ट्वा जातशङ्काः देवाः तस्य नियम विहन्तुं मेनका प्रेष- यामासुः । ऋषि प्रलोभयितुं प्रस्थितायाः तस्याः साहाय्यकरणाय मन्मथं गन्धवहञ्च प्रचोदयामासुः। ताभ्यां सह प्रस्थिता सा मेनका कौशिकीतीरे ब्रह्मलोकमिव विभ्राजमानं पावनरमणीयं विश्चा- मित्रस्याश्रमम् आससाद । तत्र उप्रेण तपसा प्रदीप्तमिव पावकं दुराधर्ष तं दूरादेव दृष्ट्वा अभिवाध तस्य पुरतः मधुरमधुरैः चेष्टितैः क्रीडितुम् पारेभे। वसन्तोदारसमये तस्याः उन्मादयितृकं रूपं प्रेक्ष्य विश्वामित्रः कामवशं जगाम । ततः तावुभौ तस्मिन्नेव महावने रममाणौ बहूनि वर्षसहस्राणि दिनमेकमिव निन्यतुः। हिमालयस्य अति रमणीयायाम् अधित्यकायाम् सुचिरं रममाणयोः तयोः किमपि कन्यारत्नम् उदपादि। अथ कदाचित् मेनकासङ्गतः चिरकालार्जितस्य तपसः क्षयम् अनुस्मृत्य क्रुद्धात्मानं विश्वामित्रम् अभिवीक्ष्य साध्यसवेपमान- गात्रा मेनका सर्वाभरणभूषितां तां कन्यका मालिनीतीरे मृदुनि शयने शाययित्वा महेन्द्रमुपस्थातुं प्रययौ । सिंहव्याघ्रनिषेविते गहने बने तया विसृष्टं तं गर्भ शकुन्ताः परिवृत्य ररतुः । अथ दैवात् अनुमालिनीतीरम् श्राश्रमे वर्तमानः विश्वामित्रस्य प्रियसखः कण्वो नाम महर्षिः स्नानार्थ तत्र प्रागतः। निर्जने वने शकुन्तैः परिवृतां तां कन्यकां ददर्श । सर्वभूतरुतज्ञः सः भगवान् ( ५५ ) शकुन्तानां वाशितैः विश्वामित्रस्य सुतेयम् इति विज्ञाय ताम् आश्रमम् श्रानीय शरीरसंवर्धनादिभिः दुहितृनिर्विशेष पुपोष । निर्जने वने शकुन्तैः परिरक्षितेति कृत्वा अस्याः शकुन्तलेति नाम चकार। ततः क्रमेण अतिक्रान्तशैशवा सा कन्यका रूपयौवनसंपन्ना बभूव । श्रथ कदाचित् भगवान् करकः शकुन्तलाम् अतिथिसत्का- राय नियुज्य अस्याः प्रतिकूलं दैवं शमयितुं सामतीर्थ गतवान् अत्रान्तरे पौरवो राजा दुष्यन्तः मृगयाप्रसङ्गात् चतुरङ्गं बलम् श्रादाय वनं जगाम । तत्र व्याघ्रादीन हिंस्त्रान् वन्यमृगान् दूरस्थान सायकैः पातयामास । समीपमागतान् खड्डेन निश्चकर्त। स्वैरं संचरतः गदया निजधान । एवं विविधान् मृगान् सूदयन् तदनं निश्श्वापदम् अकरोत् । अथ संनिहितात् भगवतः कण्वस्य महर्षेः प्राश्रमात् बहिः स्वैरं संचरन्तं कृष्णसारम् अनुधावन् उद्ग्रेण प्लुतेन प्रधावन्तं तं व्यापादयितुं प्रतिजवेन रथेन अनुपत्य शरासने सायकं संधे । तदानी समिदाहरणाय प्रस्थिताः मुनयः सरभसम् प्रोगत्य राजन् ! आश्रममृगोऽयं न हन्तव्यः' इति न्यवारयन् । राजापि सद्य एव रथं स्थापयित्वा अवतीर्य तान् प्रणम्य यथोक्तं सायक प्रतिसंजहार। ते तु राजानम् उचिताभिः प्राशीभिः अभिनन्ध राजन् ! एष खलु कण्वस्य कुलपतेः अनुमालिनीतीरम् आश्रमो दृश्यते । तत्र प्रविश्य गृह्यताम् अतिथिसत्कारः ' इति उक्त्वा यथो. द्दिष्टं साधयामासुः। पुण्याश्रमदर्शनेन प्रात्मानं पवित्रीकर्तुकामः दुष्यन्तः रथ (५६ ) दूरतएव स्थापयित्वा सूतहस्ते धनुराभरणादीनि उपनीय विनीतेन वेषेण तदाश्रमं प्रविवेश । तत्र अनसूयाप्रियंवदाभ्यां सखीभ्यां समम् अाश्रमवृक्षान् सिञ्चन्तोम् शकुन्तलां ददर्श। दर्शनमात्रेण तस्याम् अनुरक्तमानसः अपिनामेयं क्षत्रपरिग्रहतमा भवेदिति संशयानः तत्वतः एनाम् उपलब्धुम् अवसरं प्रतीक्षमाणस्तस्थौ ! तदानीं सलिलसेचनसंम्रान्तस्य मधुकरस्य अभिवर्तनेन परित्रस्तां सख्यौं परित्रायेथाम् ' इत्याक्रन्दन्तीम् शकुन्तला 'न भेतव्यम् न भेतव्यम् ' इति समाश्वासयन् सरभतम् उपससर्प । शकुन्तलापि राजानं दृष्टा तपोवनविरोधिनः मनोविकारस्यगमनीया संवृत्ता। राजापिसख्योः मुखात् अस्याः अप्सर संभवत्वम् भगवतः कण्वस्यापि अस्याः अनुरूपवरप्रदाने एव संकल्पम् अवगरय लब्धावकाशमनारथो बभूव । शकुन्तला सरसमधुरैः संलापैःसुचिरं राजानम् उपास्य सखीभ्यां समम् श्राश्रमं प्रविवेश । तत्सौन्दर्या- कृष्टमानसः दुष्यन्तः तस्याः मनोनिवर्तयितुम् शक्नुवन् शिविरम् तामेव अनुध्यायन् प्रास्त। तदानीं मांढव्यो नाम विदूषकः मृगयाशीलस्य राज्ञः तुरगानु- धावनेन संतुभितसन्धिबन्धः नितरां निर्विण्णः राजानमुपसृत्य विश्रमितुम् एकाहं क्षणं ययाचे । तस्मिन्नेव समये सेनापतिः अरण्यं निगृहीतश्वापदप्रचारं कृत्वा 'मृगयार्थ प्रस्थीयताम् ' इति राज्ञे विज्ञापयामास। शकुन्तलावृत्तान्तेन भग्नोत्साहः राजा मृगयाप्रसङ्गात् निवृत्त- मानसः सेनापति परिजनञ्च विसृज्य विविक्ते पादपच्छायायां अविरललतावितानसनाथे प्रासने सुखासीनः शकुन्तलागतं सर्व प्रासाद्य (५७) . वृत्तान्तं माण्डव्याय निवेदयामास । अथ भूयोपि शकुन्तला दिवचम् केनापदेशेन पुनराश्रमपदं प्रविशामि' इति चिन्तयन्तं दुध्यन्तं आश्रमवासिभिः प्रेषितौ ऋषिकुमारको समुपसृत्य राजन् ! भगवतः कण्वस्य महर्षेः असांनिध्यात् रक्षांसि यज्ञविघ्नम् उत्पाद- यन्ति । तत् कतिपयरात्रम् आयुधसनीचा भवता सनाथीक्रियताम् प्राश्रमः' इति प्रार्थितवन्तौ। तदानीमेव नगरात् अम्बया प्रेषितः करभकोनाम दूतः समागत्य " देव ! देवी समाज्ञापयति 'अागामिनि चतुर्थे दिवसे निवृत्त- पारणः उपवासः मम भविष्यति । तस्मिन् दिवसे दीर्घायुषा अवश्य संनिहितेन भवितव्यम् ' इति निवेदयामास । राजा तु कृत्ययोरुभयोः भिन्नदेशत्वेन द्वैधीभूतमानसः तप- स्विकार्यस्य अपरिहरणीयताम् अालोच्य, मांढव्यम् अम्बायाः पुत्रकृत्यम् अनुष्ठातुं संदिश्य, तपोवनोपरोधिनः सर्वान् श्रानुयात्रि- कान् तेन सह प्रस्थाप्य, चपलायं घटुः कदाचित् अन्तःपुरे शकुन्तलावृत्तान्तं कथयेत्' इति कृत्वा, तं रहसि पाहूय, 'सखे! शकुन्तलावृत्तान्तः न परमार्थः, किन्तु परिहासविजल्पितः' इति उक्तवा संप्रेष्य स्वयम् आश्रम प्रविवेश। मृत्पिण्डबुद्धिः विदूषकोऽपि तत् तथैवेति मत्वा ययौ। अथ राज्ञः संनिधानेन निरुपप्लवं निर्वृत्तेषु सपनकर्मसु सदस्याः महर्षयः राजानम् श्राशीभिः अभिनन्ध विससृजः। अथ शकुन्तलागतया उत्कण्ठया क्लान्तम् प्रात्मानम् विनोदयितुम् शरणम् अन्यत् अपश्यन् राजा' लतावलयवत्सु मालिनीतीरेषु तया संनिहितया भवितव्यम् ' इति विभाव्य प्रवातसुभगं तमेवोद्देशम् अवाप । , ( ५८ ) तत्र वेतसपरिक्षिप्ते लतामण्डपे कुसुमास्तरणशिलापट्टम् अधिशयानाम् सखीभ्याम् अन्वास्यामानां मनोरथप्रियतमाम् अभिवीक्ष्य परमानन्दभरितः विटपान्तरित एव तस्या विस्त्रम्भ- कथितानि शृण्वन् श्रास्त । प्रथ राज्ञः प्रथमदर्शनादारभ्य पर्युत्लुकां तन्निमित्तेन आतङ्केन बलवदस्वस्थां शकुन्तला नलिनीपत्रेण वीजयन्त्यौ सख्यौ 'सखि! बलवान् खलु ते सन्तापः । तदुच्यतां किंनिमित्त एष ते पायासः? इति ' पप्रच्छतुः । तत् श्रुत्वा शकुन्तला यदा मम दर्शनपथं गतः स राजर्षिः तत प्रारभ्य तद्गतेनाभिलाषेण एतदवस्थास्मि संवृत्ता । यथा तस्य राजर्षेः अनुकंपनीया भवामि तथा वर्तेथाम् । अन्यथा सिञ्चतं मे उदकं' इति विमर्शच्छेदि प्रत्युत्तरं ददौ । अथ सखीभ्याम् प्रादिष्टा शकुन्तला ललितपबन्धन मदनलेखं विचिन्त्य लेखनसाधनानाम् असंनिहितत्वात् कस्मि- श्चित् शुकोदरसुकुमारे नलिनीपत्रे निक्षिप्तवर्ण कृत्वा सख्योः पुरतः पपाठ । विटपान्तरितः राजा तत् श्रुत्वा सहसोपससर्प । तं दृष्ट्वा सख्यो कार्यान्तरापदेशेन अन्यत्र जग्मतुः। अथ मुग्धायाः शकुन्तलायाः संगमसाध्वसम् अपनेतुम् कन्याविनभणान् उपचा- रान् कर्तुम् उपक्रममाणे दुष्यन्ते गौतमी नाम तापसवृद्धा तस्याः शरीरवृत्तान्तोपलंभीय समागता। तदानीम् दुष्यन्तः सरभसम् अपसृत्य विटपान्तरितो भूत्वा प्रात्मानम् श्रावृत्य तस्थौ। गौतमी तु तस्याः शिरसि मन्त्रित- दर्भादिकेन समभ्युक्ष्य परिणतो दिवसः' इति कृत्वा ताम् श्राश्रम निनाय।
(५१) प्रियाविरहेण नितरां निर्विणः दुष्यन्तः तया भुक्तोज्झितेषु शय्यादिकेषु प्रासज्यमानदृष्टिः कथं कथमपि तस्मात् लतामण्ड- पात् निर्गत्य सायन्तनसवनप्रत्यूहपरिहाराय मुनिभिः आहूतः श्राश्रमं प्रविवेश। अथ परिसमाप्तासु यज्ञक्रियासु ऋषिभिः विसर्जितः राजा स्वनामधेयाङ्कितम् अङ्गुलीयकं शकुन्तलायै दत्वा त्रिभिः दिवसैः त्वाम् अन्तःपुरं प्रवेशयितुं सैनिकान् प्रेषयामि' इति च तस्यै प्रति- श्रुत्य, नगरं प्रतिजगाम । अथ कदाचित् दुर्वासाः नाम सुलभकोपो महर्षिः भगवन्तं करावं द्रष्टुम् आश्रमम् आजगाम । तदानीम् विविक्ते भर्तृगतया चिन्तया शून्यहृदया वामहस्तोपहितवदना श्रात्मानमपि अधिभाष- यन्ती प्रालिखितेव स्थिता शकुन्तला पूजाहस्य तस्य आतिथ्यं न चक्रे । तेन कुपितः स ऋषिः 'भर्ता त्वां न स्मरिष्यति' इति शप्त्वा चटुलया गत्या निववृते । अनसूयाप्रियंवदे तत् ज्ञात्वा सर- भसम् उपगम्य तं पादयोः प्रणम्य 'भगवन् अविज्ञातप्रभावस्य दुहितजनस्य एकोपराधो मर्षितव्यः' इति प्रार्थितवत्यौ। ऋषिस्तु वचनम् अन्यथा भवितुम् अर्हति किंतु अभिज्ञानाभरणदर्श- नेन शापः नितिष्यते ' इति मन्त्रयन्नेव अन्तर्हितः बभूव । अथ प्रवासात् प्रतिनिवृत्तः काश्यपः शरीरिण्या भारत्या दुष्यन्तपरिणतां शकुन्तला विज्ञाय 'दैवात् अनुकूलभर्तृगामिनी संवृत्तेति' नितरां ननन्द । दुर्वासश्शापेन विस्मृतशकुन्तलावृत्तान्ते दुष्यन्ते, काश्यपः ' प्रापनसत्वेयं भर्तुः सकाशं नेतन्या' इति शार्ड्सरवमिश्रान् शिष्यान् प्राज्ञापयामास । ना०क०-५ न मे ( ६० ) अथ मङ्गलस्नाता शकुन्तला वनदेवताभिः प्रतिपादितैः दिव्यैः वस्त्राभरणमाल्यैः अलंकृता, नीवाराततहस्ताभिः स्वस्तिवाचनि- काभिः तापनीभिः अभिनन्धमाना दुहितृस्नेहविक्लवेन तातकाश्य. पेन कथं कथमपि विसृष्टा संनिहितवनदेवतान् तपोवनतरून् प्रणम्य, भगिनीनिर्विशेषाः पुष्पलताः धामन्त्र्य,पुरः प्रस्थितान् शाङ्गरवादीन् शिष्यान् गौतम्या समम् अनुजगाम । मध्यमार्ग शक्रावताराभ्यन्तरे शचीतीर्थ वन्दमानायाः शकुन्तलायाः अग्रहस्तात् दुष्यन्तनामाङ्क- तम् अङ्गुलीयकं प्रभ्रष्टम् आसीत् । तत् अज्ञात्वा सर्वे ते दुध्यन्त. राजधानी हस्तिनापुरीम् श्रासेदुः । तत्र कन्चुकिनिवेदितकराध- शिष्यागमनः दुष्यन्तः तपस्थिसंदर्शनयोग्ये अभिनवसंमार्जन- सश्रीके संनिहितहोमधेनौ अग्निशरणालिन्दे स्थित्वा तान् प्रतिपाल- यामास । सोमरातनाना उपाध्यायेन श्रौतेन विधिना सत्कृत्य प्रवेशिताः शारिवादयः राजानम् उपसृत्य तेन अभिवादितः तम् एचिताभिः प्राशीभिः अभिनन्ध, एवम् अवोचन् । राजन् ! भगवान् काश्यपः कुशलानुयोगपुरस्सरं भवन्तम् इदम् शाह । यन्मिथः समयात् इमां मदीयां दुहितरं भवान् उपायंस्त, तन्मया प्रीतिमता युवयोः अनुज्ञातम् । तदियम् प्रापनसत्वा प्रतिगृह्यतां सहधर्माचरणायेति, दुर्वासश्शापेन विस्मृततद्वत्तान्तो राजा तनाङ्गीचकार । तदानीम् अभिज्ञानप्रदर्शनेन राजानं प्रत्याय- यितुं प्रवृत्ता शकुन्तला अङ्गुलीयकशून्याम् अङ्गुलि दृष्ट्वा नितरां निर्विराणा बभूव । प्रथात्मनः परिग्रहप्रत्यायके सर्वस्मिन् पूर्ववृत्तान्तोपन्यासे विफलीभूते, शापदोषात् व्यवहितस्मृतौ भर्तरि प्रत्यादेशपरुषे गुरुनिदेशानुष्ठानेन कृतकृत्येषु प्रतिनिवृत्तेषु शारिवादिषु भीतभीता शकुन्तला प्रवाते कदलीय प्रवेपमाना गत्यन्तरम् अपश्यन्ती भग- पति वसुधे ! देहि मे विवरम् ' इति बाहूत्क्षेपं क्रन्दन्ती तस्मात् प्रदेशात् निर्जगाम । तदानीम् अप्सरस्तीर्थे कृतसांनिध्या मेनका दुहितुः दुरवस्था प्रभावत विज्ञाय विहायसा श्रागत्य ताम् श्रादाय देवर्षेः भगवतः मरीचेः श्राश्रमे भगवत्याः अदित्याः हस्ते न्यासीचकार । शक्राप- तारतीर्थे शकुन्तलायाः हस्तात् प्रभ्रष्टम् रत्नभासुरम् अङ्गुलीयकं मांसपिण्डम् इति मत्वा कश्चित् लोहितमत्स्यो निजगार । तञ्च कश्चित् धीवरः जालोद्वारेण गृहीत्वा तस्य उदराभ्यन्तरे समासा- दितम् अङ्गुलीयकं विक्रेतुं विपणिं गतः राजपुरुषैः बध्वा राज्ञःसमीपं नीतः। दृष्टमात्र एव तस्मिन् दुप्यन्त. सत्यम् ऊदपूर्वा शकुन्तला मोहात् प्रत्यादिष्टा, इत्यनुस्मृत्य मुहूर्त पर्यश्रुनयना भूत्वा अङ्गुलीयक- मूल्यसमितम् अर्थ धीवराय पारितोषिकं प्रदाप्य तं विससर्ज। अथ पश्चात्तापम् उपगतः दुष्यन्तः चिन्ताजागरणकारणात धर्मासनम् अध्यासितुम् अशक्नुवन् 'पौरकार्याणि प्रत्यवेक्ष्य पत्रारोपितं कृत्वा प्रदीयताम् ' इति अमात्यम् प्राज्ञाप्य मणिशिला- पट्टसनाथे तापच्छेदरमणीये माधवीमण्डपे मांढव्येन समम् उपविष्टः चित्रफलके लिखितां शकुन्तलाप्रतिकृतिम् अभिधीक्ष्य अकारण परित्यागानुशयतप्तहृदयः तामेव अनुस्मृत्य अनुशोचन यास्त। तदानी देव्याः घसुमत्याः श्रागमनम् उत्प्रेक्ष्य चित्रफलक तदर्शनात् रक्षितुकामः राजा मांढव्यस्य हस्ते तत् समर्प्य तं ( ६२ ) मेघप्रतिच्छन्दं नाम प्रासादं प्रति प्रेषयामास । ततो राजानं द्रष्टुं प्रस्थिता वसुमती अमात्यसकाशात् आगतां पत्रहस्तां प्रतीहारीम् अभिवीक्ष्य कार्यज्ञा राज्यकार्यापरोधो मा भूदिति कृत्वा प्रतिनिवृत्ता। अथ प्रतीहार्या उपनीतायां पत्रिकायां " समुद्रव्यवहारी घनमित्रः नौव्यसनेन विपन्नः अनपत्यश्च तपस्वी। राजगामी तस्वार्थसञ्चयः" इति अमात्येन लिखितम् अनुवाच्य राजा दीर्घ निःश्वस्य एवमेव सन्ततिच्छेदनिरवलम्बानां मूलपुरुषावसाने संपदः परम् उपतिष्ठन्ति । ममाप्यन्ते पूरुवंशश्रियाप्येष एव वृत्तान्तः' इति मनसि विचार्य भृशं विमनायमानो मोहम् उपगतः प्रासन्न- बतिनीभिः परिचारिकाभिः समाश्वासितो बभूव । अत्रान्तरे ‘कालनेमिप्रसूतं दुर्जयं नाम दानवगणं निहन्तुं दुग्यन्तम् श्रानय ' इति शतक्रतुना प्राज्ञप्तो मातलिः ऐन्द्रं रथम् श्रादाय भागत्य तदानीं सार्थवाहवृत्तान्तेन विक्लवं राजानं दृष्ट्वा त कोपयितुं तिरस्करिणीप्रतिच्छन्नः मांढव्यं मेघप्रतिच्छन्दस्य प्रश्न- भूमिम् आरोप्य अवनतशिरोधरं चकार । मांढन्यस्य धार्तस्वरम् श्राकार्य निरस्तवैक्लव्ये राजनि सशरं धनुरादाय समागते मातलिः मांढव्यम् उत्सृज्य राज्ञः पुरतः स्थित्वा महेन्द्रस्य नियोगं निवेदयामास। राजा तु मातलि स्वागतेन असिनन्ध दिवस्पतेःश्राज्ञां समान- यितुं राज्यभारम् अमात्येषु निक्षिप्प रथम् श्रारुह्य दिवं ययौ । तत्र दानवान् विजित्य मघवता सवहुमानम् सत्कृत्य विसर्जितः तमेव ऐन्द्रं रथम् प्रारुह्य विहायसा प्रस्थितः क्रमेण वायुमण्डलं मेघ- पदवीञ्च अतिलठ्य हेमकूटं नाम तपसां सिद्धिक्षेत्रं किंपुरुषपर्वत ददर्श। 'तत्र स्वायंभुवो भगवान् सुरासुरगुरुः मरीचिः प्रजापतिः मपत्नीकः तपस्यति' इति मातलेः मुखात् उपश्रुत्य तं प्रणन्तुं तदाश्रमं प्रधिवेश । यत्र मेनकया न्यासीकृता शकुन्तला पूर्णे प्रसव- समये चक्रवर्तिलक्षणसंपन्नं दारकम् एकं प्रसूय राज्ञो विरहवतं धारयन्तो वर्तते । दुष्यन्तः कस्मिंश्चित् अशोकवृतमूले महर्षि द्रष्टुम् अवसरं प्रतिपालयन् श्रास्त । तत्र बलात् प्राकृष्टेन सिंह- शिशुना सह कोडन्तम् अबालसत्वम् प्रसमदमितसर्वसत्वतया “सर्पदमनः" इति ऋषिभिः कृतनामधेयम् शाकुन्तलेयं बालं ददर्श। दुचहस्तग्रहेण डिम्भलीलया बालमृगेन्द्र पीडबन्तं दुर्ललितं तं दृष्ट्वा नितरां स्पृहयन् अकस्मात् प्राधिर्भूतेन औरस- स्नेहन आकृष्टहृदयः तं बलात् प्राकृष्य प्रालिलिङ्ग। तदानीम् उभयोः रूपसंपादिनीम् प्राकृतिम् अभिवीक्ष्य विस्मितानां तापसीनां मुखात् , शकुन्तलायाः पुत्रोयम्' इति विज्ञाय नितरां ननन्द । श्रथ तापसीभिः तदागमनम् अवबोधिता शकुन्तला सहसा समागत्य पश्चात्तापविषर्ण राजानं दृष्ट्वा वाग्य- प्रतिरुद्धेन कण्ठेन 'जयत्वार्यपुत्रः' इति व्याजहार । अथ राजा शकुन्तलायाः पादयोः पतित्वा 'मर्षयतु भक्ती मम मनःसंमोहप्रयुक्त प्रत्यादेशपारुष्यम् ' इत्यभ्यर्थितवान् । सा तु आत्मनो दुरवस्थायां पुराकृतं दुष्कृतमेव कारणं मन्यमाना धीवरात् , ( ६४ ) अङ्गुलीयोपलम्भं तेन परिणयस्मरणादिकं सर्व वृत्तं राज्ञो मुखात् अश्रौषीत् । अथ राजा सपुत्रां शकुन्तला पुरस्कृत्य भगवन्तं दाक्षाय- णीसहितं मरीचिम् उपजगाम । अनुग्रहान्तःकरणः स भगवान् स्मृतिवैकल्यकारणं दुर्वासश्शाएवृत्तान्त निवेद्य सपुत्रौ तौ उचिताभिः श्राशीभिः अभिनन्द्य स्वाँ राजधानी प्रति प्रस्था- पयामास। इति मालतीमाधवकथासंग्रहः आसीत् विदर्भराजस्य अनात्यः समनधुर्यपुरुषप्रकाण्डचक्र- चूडामणिः देवरातो नाम । तस्मात् उद्यगिरेः बालचन्द्रः इव नयनवता महोत्सवहेतुः माधवो नाम कुमारः समजनि । अथ तस्य सतीर्थ्यः बालमित्रम् महाराजाधिराजस्य पद्मावतीश्वरस्य मन्त्रि- प्रवरः भूरिवसुनाम बभूव । सेोऽयम् अशेषभुवनमहनीयपुण्यमहिमा देवस्य मकरकेतनस्य सञ्चारिणीं जगद्विजयवैजयन्तिकामिव मालती नाम कन्यारत्नम् उपलेभे। यदा तयोः भूरियसुदेवरातयोः विद्यापरिग्रहाय नानादिगन्त- वाससाहचर्यम् आसीत् । तदा प्रवृत्तेयं प्रतिज्ञा । 'अवश्यम् श्राधा- भ्याम् अपत्यसम्बन्धः कर्तव्यः' इति । तयोरेव मन्त्रिणोः कामन्दकी नाम सौगतसंन्यासिनी सातीर्थ्यात् संजातसौहार्दा बभूव । प्राणव्ययेनापि अनयाः अभिमतं घटयितुम् ईहमाना सा कामन्दकी तत्कुमारयोः मालतीमाधवयाः पाणिग्रहणं निर्वर्तयितुम् उपाय चिन्तयन्ती आसीत्। तदानीं राज्ञः पद्मावतीश्वरस्य नर्मसुहृत् नन्दना नाम नवयौव- नेन विभूषिताङ्गीम् मालती परिणेतुम् इयेष । राजापि तस्मै तो दातुम् अमात्यभूरियसुम् अभ्यर्थितधान् । सोऽपि राजकृतायाः दुहितृप्रार्थनायाः साक्षात् प्रतिषेधकोपाय भवति' इति मत्वा 'प्रभवति निजस्य कन्यकाजनस्य महाराजः' इति उत्तरं ददौ । तदेतत् विदित्वा कामन्दकी 'चौर्येण अनयोः विवाहः निर्वर्तनीयः' पर्यटन्तं साक्षात् इति निश्चित्य अन्यान्यदर्शनम् एनयाः संपादयितुम् अवलोकितां नाम स्वशिष्यां नियुयोज । अत्रान्तरे देवरातः माधवम् प्रात्मजम् आन्धीक्षकीश्रवणाय कुण्डिनपुरात् पद्मावतीं प्रति प्रजिधाय । तत्र सवयसा मकरन्देन सह विद्याम् अभ्यस्यन्तं माधवम् उपमृत्य अवलोकिता तेन तेन उपन्यासेन भूरिवसुभवनासनेन राजमार्गेण सञ्चारयामास । पितुर्भवने वातायनोपविष्टा मालती रथ्यायां भूयो भूयः मन्मथमिव माधवम् अभिवीदय तस्मिन् अतिमात्रम् अनुरक्ता बभूव । अथ कमिश्चित् प्रभाते माधवोऽयम् अवलोकितया प्रेरितः प्रवृत्तमदनमहोत्सवम् मन्मथोद्यानम् उपजगाम । तत्र इतस्ततः पर्यटन परिधान्तः कस्यचित् धकुलपादपस्य अधस्तात् उपविश्य तत्र निरन्तरनिपतितानि विकसितानि वकुलकुसुमानि श्रादाय मनोहरां स्रजम् एकां ग्रथितुम् प्रारब्धवान् । पूर्वमेव मन्मथोधानमागता रमणीयेन बालनेपथ्येन समलंकृता मालती कुसुमापचयलीलाभिलाषषतीभिःअनुचरीभिःसमम् तमेव पकुलपादपोह शम् अाजगाम । प्रथमदर्शनात् प्रभृति प्रतिदिनम् उपचीयमानया मन्मथव्यथया बाध्यमाना सा मालती माधवस्य चक्षुषोः अमृतवर्तिरिव अनवधिकम् प्रानन्दम् उत्पादयामास । अयस्कान्तमणिशलाकेव लोहधातुम्, अदसीयम् अन्तःकरणम् उपसंहृतवती सा तत्रैव कचित् कालं स्थित्वा करेणुकाम् अधिरुह्य, मगरं प्रति प्रतस्थे। तदानीं तस्याः धात्रेयिका लवद्धिका नाम कुसुमापचयव्याजेन' माधवस्य समीपम् उपगम्य तेन प्रथिताम् 'अतिमनोहराम वकुलपुष्पमालाम् पालक्ष्य मालत्याः कृते ताम् ( ६७ ) अभ्यर्थितवती । तथा तया अनुबध्यमानः माधवः मालतोमुखा- वलोकन विहस्ततया विषमविरचितैकभागामपिता मालाम् श्रात्मनः कण्ठात् अवमुच्य तस्यै दत्तवान् । सापि ' महानयं प्रसादः' इति सबहुमानं प्रतिगृह्य तां मालां मालत्यै समर्पयामास। तदनन्तरम् अतिभूमि गतेन मदनजनितेन मनोरागेण शाम- क्षामशरीरा मालती मनोविनोदनाय माधवस्य प्रतिच्छन्दकचित्र- फलके लिखितवती । तच्च चित्रफलक लवनिका मन्दारिकायाः सख्या हस्ते समर्पितवती । सा खलु मन्दारिका माधवानुचरस्य कलहंसस्य कामिनी । स कलहंसः प्रतिच्छन्दकम् एतत् मन्दारिका- हस्तात् आदाय प्रात्मनःप्रभोः माधवस्य दर्शयामास । 'मालत्याः उत्कसठाविनोदनम् इदम्' इति कलहंसमुखात् भाकर्य परमानन्द- भरितः माधवः तत्रैव चित्रफलके स्वयम् श्रात्मनो मनोविकारहेतु- भूतायाः मालत्याः प्रतिकृति विलिलेख । तत् चित्रफलक माधवात् कलहंसं, कलहंसात् मन्दारिकाम् , मन्दारिकातः लवङ्गिकाम्, लवङ्गिकातः मालतीञ्च प्रतिपेदे । ततश्च परस्परानुरागदर्शनात् पराय प्रेमबन्धम् अधिगम्य प्रमुदितमानसा मालती राजानम् प्रारिराधयिपोः भूरियसोःप्रति- कान्तयौवनाय दुर्दर्शनाय नन्दनाय प्रात्मनःप्रदाने संकल्पम् श्राकार्य नितरां निर्विण्णा बभूव । ' यदि माधवप्रियवयस्यः मकरन्दः नन्दस्य भगिनी मदयन्तिकां समुद्वदति, तदपि माधवस्य प्रियं भवति ' इति कृत्वा तयाः विवाहं घटयितुं कामन्दकी बुद्धरतिता नाम सखीं नियुयोन । सापि मदयन्तिकायाः प्रियसखी भूत्वा विनम्मकथासु 'ईदृशः तादृशः इति मकरन्दस्योपरि तस्याः १ परोक्षानुराग तथा सुदूरम् पारोपितवती यथा ला सद्य एव तं साक्षात् द्रष्टुम् आचकांक्ष। प्रथैकदा मालती कृष्ण चतुर्दश्याम् देवताराधननिमित स्वहस्तकुसुमारचयम् उद्दिश्य लवङ्गिकया समं शंकरपुरसंबन्धि कुसुमाकरोधानम् उपजगाम । तस्मिन्नेव समये कामन्दमा समा- दिष्टः माधवः तत्रैव शंकरपुरसंन्धिनि कुलुमाकरोद्याने कुब्जक- कुञ्जपर्यन्तरक्ताशोकगहने निलीनः तस्थौ । तत्र पूर्वमेव कृत- संनिधाना कामन्दकी तत्रैव कुब्जककुजे कुसुमापचयार्थम् आगताम् अज्ञातमाधवसंनिधानाम् अन्योन्यदर्शनवशात् अतिमात्र- प्रवृद्धे प्रात्ममात्रसाक्षिणा अनुरागे अत्यन्तम् उत्कण्ठिताम् मालतीम् शाकुन्तलादीन इतिहासान् प्रस्तूय मधुरमधुरैः वचनो- पन्यासैःसखीविनम्भसेव्यों विधाय,माधवस्य महाकुलप्रसूतत्वादि- कान् गुणान् अधिकृत्य विदिताम् अकरोत् । लवनिकापि 'भगवति ! यतः प्रभृति'कामदेवोद्याने परस्पर दर्शनसुखं समासादितम् ततः प्रभृति सविशेषदुःसहं दशापरि- णामम् अनुभवतीयम्' इति विज्ञाप्य माधवस्य प्रतिच्छन्दकसनार्थ चित्रफलक, तस्यैव स्वहस्तरचिता मालतीकराठावलम्बिनीं षकुलमालामपि, कामन्दक्यै प्रदर्शयामास । रक्ताशोकगहने निलीनः स्थितः माधवः तदेतत् सर्व काम- न्दक्याः आश्चर्यम् प्राचार्यकम् साक्षात्कृत्य परमानन्दभरितः बभूव । तदानीम् कुत्रचित् मठे लोहपञ्जरे निगडितः कश्चित् शार्दूलः यौवनारम्भभरितेन अमर्षेण बलात् लोहपञ्जरात् उद्घाट्य विगलितनिगडः मठात् अपक्रम्य पलायितुम् श्रारब्धः । करपत्र- ..
६) , कठिनदंष्ट्राकरालमुखकन्दरःनिशिततरनखप्रहारतिहत निखिलजन- निवहः कृतान्तलीलायितं कुर्वन् स दुष्टशार्दूलः मकरन्ददर्शनोत्क- एठया बुद्धक्षितया सह तमेवोद्देशम् अभिप्रस्थिताम् रथ्यानुख- संगताम् अमात्यनन्दनस्य भगिनीम् सदयन्तिकाम् सपरिजनाम् प्रासाद्य प्रास्कन्दितुम् आरेभे। यथाशक्ति स्वस्वजीवितपरिरक्षणाय ससंभ्रमप्रधावितानां शंकर- पुरवासिजानपदानां कोलाहले प्रवृत्ते, बुद्धरक्षिता सहसा कुसुमाक- रोद्यानम् अभिद्रुत्य 'परित्रायध्वम् इमां नः प्रियसखीम् मदयन्तिका अस्मात् दुष्टश्शार्दूलावस्कन्दात्' इति प्राचक्रन्द । तत् श्रआकर्य माधवः झटिति रक्ताशोकगहनात् निष्क्रम्य मालत्या 'अहो; एषोप्यत्रैव' इति सहर्षसाध्वसानुरागम् उद्वीक्षितः मद्यन्तिका रिरक्षिषुः सरससम् अभिदुद्राव । अत्रान्तरे मकरन्दः नन्दनाय मालतीप्रदानवार्ता नगरे बहुली- भवन्तीम् उपश्रुत्य माधवस्य चित्तोद्वेगम् अधिकम् अाशङ्कमानः सद्य एव तंद्रष्टुम् श्राकांक्षन् अवलोकितानिवेदितकुसुमाकरोद्यान- वृत्तान्तः परापतन्नेव शार्दूलावस्कन्दगाचरां मद्यन्तिकाम् अालोक्य सरभसम् अभिमुखं प्रधाव्य शार्दूलनिपातितात् कस्माञ्चित् पुरुष- हस्तात् अधिगतायुधः तम् अवधीत् । तत्र शार्दूलनखप्रहारनिःसृतरुधिरनिष्यन्दः निःसंज्ञःसंभ्रान्तया मदयन्तिकश समुपस्मृत्य गाढम् आलिङ्गय अवलम्व्यमानः कामन्द- क्या कमण्डलूदकेन संसिक्तः परिजनैः इतरैः पटाञ्चलैः वीज्यमानः कृच्छेण संज्ञाम् अवाप । पूर्वमेव बुद्धरक्षितोपन्यासेन अकरन्द- स्योपरि प्ररूढानुरागा प्रत्यत्ततोस्य मुखकमलावलोकनसुखम् - ( ७० ) अनुभवितुम् आकांक्षन्ती मदयन्तिका बुद्धरक्षितया कर्णमूलम् प्रागत्य 'सखि! स एवायं महाभागः, त्वजीवितपरित्राणहेतोः भगवता देवेन संनिधापितः, इति बोध्यमाना तमेव सस्पृहम् अवलोकयन्ती सुचिरम् अतिष्ठत् । मकरन्दोपि चिराकांक्षितं मदयन्तिकायाः अमृतसंवलितैरिवाङ्गः गाढालिङ्गनम् अनुभूय स्तिमितरमणीयेन तनयनव्यापारेण आकृष्टहृदयः तस्याम् अत्यन्तम् उत्कण्ठितः बभूव । अत्रान्तरे राज्ञा स्वयमेव प्रतिपादितां मालती परिणेतुम् अमात्यनन्दनः तत्वरे। मालतीम् श्रादाय सत्वरम् श्रागन्तव्यम् इति राश्या विज्ञापिता कामन्दकी माधवमुखारविन्ददर्शनात् परम प्रमोदम् अनुभवन्तीम् ताम् कथं कथमपि विनिवर्त्य तया सह नगरी प्रविवेश। माधवस्तु तेन नितरां निर्विरणः विफलम् श्रात्मनो जन्म मन्यमानः महामांसविक्रयात् अन्यत् उपायान्तरम् अपश्यन् मदयन्तिकायाम् अतिमात्रम् उत्कण्ठितमानसम् मकरन्द नगरी प्रति प्रस्थाप्य महाश्मशानं प्रविवेश । तत्र कुत्रचित् चण्डिकायतने विविधजीवोपहारप्रिया कराला नाम चामुण्डा आसीत् । अघोरघण्टनामधेयः श्रोपर्वतात् पागतः कश्चित् साधकः तस्याः प्रसादनाय 'स्त्रीरत्नम् उपहारो- करिष्यामि' इति प्रतिजज्ञे। प्रतिज्ञां तो निर्वीयतुं पितुर्भवने उपलिन्दं प्रसुप्तां मालती मन्त्रशक्त्या समाकृष्य तमेव महाश्मशानप्रदेशम् आनीतवान् । प्रानीय च कपालकुण्डलाख्यया शिष्यया पूर्वमेव संनिधापितैः संभारैः चण्डिकायाः पूजाविधीन ( ७१ ) परिसमाप्य तस्याः पुरतः स्थापितां कृतवध्यचिह्नां मालती हन्तुम् प्रारब्धवान् । अथ प्रबुद्धा सा मालती चिताधूमप्राग्भारद्विगुणितान्धकारायां त्रियामायाम् इतस्ततः प्रवर्तमानकौणपनिकरभीषणं श्मशानघाटम् पालोक्य भीतभीता किमिदम् इति प्रमूढचेतना ‘हा तात निष्करुण ! एष इदानी ते नरेन्द्रचित्ताराधनोपकरणं जनो विपद्यते । हा अम्ब हतासि दुर्वारेण दैवदुर्विलसितेन । हा मालती- मयजीविते भगवति कामन्दकि! चिरस्य ज्ञापितासि दुःखं स्नेहेन । हा देव माधव ! परलोकगतोपि युष्माभिः स्मर्तव्यायं जनः" इत्यादिकम् अतिकरुणम् प्राचक्रन्द । करालायतनात् उच्चरन्तम् परिचितपूर्वम् इमं करुणध्वनिम् आकर्य माधवः कृपाणपाणिः ससंभ्रमं प्रविश्य तयोः पापण्डचण्डालयोः हस्तगतां मृत्योः बुखे वर्तमानां हरिणीमिव व्याघ्रगृहीताम् चकितचकितं चक्षुः दिनु विक्षेपन्तीम् भूरिवसेोः सुताम् अद्राक्षीत् । तस्मिन्नेव समये 'अघोरघण्टेनैव मालत्यापहृता भवेत् ' इति निश्चित्य कामन्दक्या समादिष्टः भूरिषसाः परिजनः करालायतनं पर्यवष्टब्धवान् । माधवोऽपि मालती बान्धवेषु संस्थाप्य 'रेरे दुरात्मन् पाषण्डचाण्डाल! कापालिकापसद ! तिष्ठ तिष्ठ' इत्युक्त्वा द्रुतपदम् उपमृत्य अघोरघण्टहस्तात् झटिति शस्त्रम् प्राकृष्य तेनैव तम् अवधीत् । तस्मिन् अवसरे निर्दयं निन्नतीमपि कपालकुण्डलां स्त्री इत्यवज्ञाय विससर्ज । सोतु गुरोः अघोरघण्टस्य विनिपातेन भृशं दुःखिता झटिति तस्मात् प्रदेशात् अपक्राम्य माधवापकार प्रत्यभिनिविष्टा बभूव ।
( ७२ ) अथ कामन्दकी दैवात् अपोडविवाहविघ्नां मालती अविन- विवाहमङ्गलाय नगरदेवतागृहम् प्रेषितवती । पूर्वमेव कामन्दक्या कृतसंकेतः मकरन्दसनाथः माधवः तदेव नगरदेवतागर्भगृहं प्रविश्य कुत्रचित् कोणे निलीनः मालत्याः तत्र आगमनं प्रतीक्षमाणः तस्थौ। अथ कामन्दकी ससंभ्रमानेकप्रतिहारमण्डलपरिवृतां बहुल- मङ्गलधवलातपत्रविरचितापचाराम् मनोहरापाण्डुरपरिक्षामदेह- शोभाविभाषितानङ्गवेदनां प्रतिपश्चन्द्रलेखामिव प्रेक्षणीयानाराम् भालतोम् श्रादाय तत्र आगत्य देवतार्चननिर्घर्तनाय लवङ्गिकामात्र- परिवाराम् ताम् अन्तः प्रवेशयामास । माधवमुखकमलावलोकनसुखम् अनुभवितुम् अतिमात्रम् उत्कण्ठिता मालती तत्र विविक्तं गर्भगृहद्वारम् प्रासाध, अन्तरङ्ग- निर्विशेषया जवङ्गिकया समं यदा विनम्भालापान् कुर्वन्त्यासीत् तदा माधवः हृदयानन्दनानि तद्वचनानि आकर्य झटिति बहिरागत्य मालत्याः पुरतः तस्थौ। तदानों प्रकटितपरस्परप्रेमबन्ध- मनोहरैः तत्कालोचितैः पालापैः तौ दंपती परां निवृतिम् अधापतुः । अत्रान्तरे कामन्दकी मालतीमाधवयोः पाणिग्रहण- महोत्सवं विधिवत् निर्वर्तयितुं अवलोकितया अात्मनः श्रावसथे दीधिकायाः पश्चात् उद्यानघाटे वैवाहिकानि द्रव्यजातानि सुविहि- तानि कारयित्वा मकरन्दस्य लङ्गिकायाश्च समक्ष प्रकटितेन परायेन प्रेमबन्धेन परमं प्रमोदमनुभवन्तौ तौ विधाहमङ्गलाय प्रस्थापयामास । तदानीम् नन्दनाय मालतीम् दापयितुं कृतनिश्चयः नरेन्द्रः 'नगरदेवतायाः पुरतः मालती अलंकर्तव्या' इति संदिश्य ( ७३ ) नानाविधानि विशहने रथयानि प्रेषितवान् । तान्यादाय कामन्दकी माधवानुचरं मकरन्दम् श्राहय ‘अनेन वैवाहिकेन मालतीनेपथ्येन श्रात्मानम् अलंकुरुष्व' इत्यादिश्य अर्पितवती । सोपिचित्रयवनिका. मन्तर्धाय सर्वाणि नेपथ्यानि दधार । सुश्लिष्टेन मालतीने पथ्येन विभूषिताङ्गः मकरन्दः सर्वैः सविस्मयं निरीक्ष्यमाणः करिणीम् प्रारुह्य निखिलैालतीपरिजनैः सार्ध प्रतस्थे । वैवाहिकेन मालतीवेषेण विराजमानं मकरन्दं दृष्ट्वा 'सशागतेयं मालती समस्यर्च्य नगरदेवताम्' इति सर्वे जनाः संमेनिरे । कृतकमाजत्या मकरन्टेन सह निर्घतितविवाहः नन्दनः महता विमवेन नववधूम् अात्मनो गृह प्रवेशयामास । अथ यामिन्यां नववधूसंभागोत्कण्ठया समुन्मीलितमन्मथावेगः सपादपतनम् अभ्यर्थ्य पुनः बलात्कारेण अभिद्रधन् मकरन्दन निष्ठुरं प्रतिहतः नन्दनः बैलक्ष्यरोषावेशस्खलदक्षरः प्ररुदितनयनः प्रस्फुरद्वदनः 'नमे सांप्रतम् अनया कौमारवर्धक्या प्रयोजनम् इति सशपथं प्रतिज्ञां कृत्वा पासमवनात् निर्ययौ । पूर्वमेव मदयन्तिकामकरन्दयोः विवाहं घटयितुं कामन्दक्या नियुक्का बुद्धरक्षिता तदानीम् 'अयमेव समयो मद्यन्तिकांमकरन्देन संयोजयितुम् ' इति निश्चित्य मदयन्तिकाम् उपगम्य 'सखि ! मालत्या परिकोपितस्तेभ्राता नन्दनः' इतीमं वृत्तान्तं निवेदितवती । सातु 'वामशीला मालती निर्भर्त्य ममनातरं प्रति अनुकूलयिया- मीति' बुद्धरक्षितया सह प्रस्थाय शय्यागतस्य मकरन्दस्य समीपम् उपजगाम । सोपि मदयन्तिकाम् श्रागच्छन्ती लवङ्गिकामुखात् प्राफर्य निभृतम् उत्तरीयापवारितः सुप्तलक्षणः तस्थौ मदयन्तिका, ( ७४ ) प्रसुप्ता मालतीति' कृत्वा शनैः शयनार्धे उपविश्य बुद्धरक्षितया सार्घ विनम्भालापान् कर्तुमारब्धा । तत्र माधवैकमयजीविता मालतीति सार्वजनीनः प्रवादः इति प्रस्तावम् कृत्वा प्रात्मनोपि पूर्व दुष्टशार्दूलावस्कन्दसमये कृतान्तकवलीक्रियमाणस्य जीवितस्य बलात् प्रत्यानयनेन गुरूपकारिणी महानुभावे मकरन्दे महान्तं मनोनुरागम् उद्घाटयामास । तदाकर्य मकरन्दः सहसा मुखम् उद्घाट्य उत्थितः सुस्पष्टम् आवेदितसमागमौत्सुक्यां मयन्तिका हस्ते जग्राह । अथ किमिद- मिति भयाकुलहृदयां सां बुद्धरक्षिता कामन्दकीनीतिप्रयोगेषु-सर्वे विदितार्थाम् अकरोत् । अथ मकरन्दः सुप्तप्रमत्तजनात् अमात्यवेश्मनः पक्षद्वारेण बहिः निर्गत्य निशीथनिःसंचाररमणीयेन राजमार्गेण मदयन्ति- कामादाय मालतीमाधवयोः सकाशम् अभिप्रतस्थे । नगररतिभिः पुरुषैः अर्धमार्गे अभियुक्तः तत्कालमिलितेन कलहंसकेन बुद्धरक्षितालपङ्गिकाभ्याञ्च समं मदयन्तिकां माधषस्य सकाशमनु- प्रेषितवान् । अत्रान्तरे माधवः कामन्दकीनिकेतने दीर्घिकायाः पश्चात् उद्यानवाटे सुविहितेन वैवाहिकद्रव्यजातेन निवर्तितपाणिग्रहण- मङ्गलः मालत्या समं निर्वर्तितग्रीष्मदिवसावसानमजनः दीधि- कातीरवर्तिनि शिलातले निषीदन् प्रास्त । तदानीम् कलहंसक- प्रभृतयः सरभसम् अभिद्रुत्य माधवाय मकरन्दस्य नगररतिभिः पुरुषैः अभियोगं न्यवेदयन् ।
( ७५ ) . सोपि मदयन्तिका स्वागतेन अभिनन्द्य प्रियसुहृदः प्रत्यनन्तरी- भवितुं कलहंसकेन समं प्रतस्थे । बुद्धरतितावलोकिते वृत्तान्तमिम कामन्दक्यै निवेदयितुं निर्जग्मतुः । लवङ्गिका तु ' लवङ्गिके त्वरित गत्वा विज्ञापय आर्यपुत्रम्, 'अरिसैन्येषु अप्रमत्तं परिक्रम्यताम्' इति' मालत्याः संदेशम् प्रादाय माधवस्यैव समीपम् उपजगाम । अथ मालती माधववृत्तान्तपरिज्ञानाय लवडिकायाः प्रतिनिवृत्ति- मार्गम् अवलोकितुम् वृक्षगहनम् एकाकिनी प्रविवेश । अन्तरम् इदम् श्रासाद्य पूर्वम् अघोरघण्टवधेन संजातकोपा माधवापकारं प्रति अभिनिविष्टचित्ता कपालकुण्डला सरमसम् प्राधाव्य 'श्राः पापे तिष्ठ, तिष्ठ; त्वां श्रीपर्वतम् उपनीय तिलशो निकृत्य दुखमारिणों करोमि ' इति निर्भय॑ प्रवाते कदलीमिव प्रवेपमानगात्रां मालतीम् आदाय निष्क्रान्ता । अत्रान्तरे नरेन्द्रः मन्त्रिदुहित्रोः विप्रलम्भवृत्तान्तं श्रुत्वा संजातमत्सरावेगः माधव- मकरन्दौ निग्रहीतुं प्रौढतरं पदातिबलं प्रेषयामास । माधवमकरन्दौ तु भीषणभुजबलविमुखीकृतसुभटहस्ता- वल्लुप्तः आयुधैः तत् सैन्यम् उपरुध्य हतावशिष्टान् सैनिकान् पलायितान् अकुरुताम् । तदानीं चन्द्रातपशोभिनि सौधशिखरे स्थितो राजापि सरभसम् समागतेन प्रतीहारेण कलहंसकेन च निवेधमानं माधवमकरन्दयोः अभिजनविनयादिकं गुणगणम् उपश्रुत्य गुणैकरसतया संजातगुरुवहुमानः स्फुरन्मत्सरवैलक्ष्यमलि- नितमुखयोः भूरिधसुनन्दनयोः मत्सरं मधुरोपन्यासैः अपाकृत्य नवयौवनगुणाभिरामयोः तयोरुपरि परितोषम् उत्पादयामास । अथ समरसंकटात् उन्मुक्तो नववधूदर्शनोत्कण्ठितहृदयौ ना० क०-६ ( ७६ ) माधवमकरन्दौ सत्वरम् उद्यानदीर्घिकातीरम् प्रागत्य तत्र मालत्यन्वेषणप्रसृतायाः मद्यन्तिकायाः मुखात् मालती प्रणष्टाम् श्राकार्य नितरां निर्विरणौ बभूवतुः। अत्रान्तरे सौदामिनो नाम कामन्दक्याः पूर्वशिष्या समासा- दिताश्चर्यमन्त्रसिद्धिप्रभावा कापालिकव्रतं धारयन्ती श्रीपर्वतम् अधिवसन्त्यासीत् । सा च तस्मिन्नेव श्रीपर्वते कपालकुण्डला- हस्तगतां मालनीं दृष्ट्वा कामन्दक्याः प्रसादभूमिरियम् इत्यभिज्ञाय तां कपालकुण्डलाहस्तात् आच्छिद्य प्रात्मनः श्रावासभूमिम् आनीय श्राश्वासयामास । अथ च सा श्रोपर्वतात् पद्मावतीम् उपेत्य 'तत्र असह्यया मालतीविरहवेदनया दूयमानमानसः माधवः संस्तुत- प्रदेशदर्शनासहिष्णुः संस्त्यायं परित्यज्य सह सुहृद्वर्गेण बृहद्रोणी. शैलकान्तारं प्रविष्टः' इत्युपशुश्राव । तमिममुपसांत्वयितुं तत्प्रतीति- हेतोः मालतीकण्ठात् पकुलावलीम् आदाय सत्वरं पद्मसरसः परिसरं प्रययौ। तत्र दारुणं मालतीविरहवेदनां सोढुमशक्कतया सुचिरम् उन्मा- दावस्थाम् अनुभूय बहुविलप्य दुरालोकरमणीयानाम् अरण्यतट- भूमीनां संदर्शनेन निश्चेतनं माधवम् अभिवीक्ष्य व्याकुलितहृदयः मकरन्दः 'किन खलु माधवास्तमयसाक्षीभवितुं जीवामिः तन्मा- धवस्य मरणानेसरो भवामि इति निश्चित्य तं परित्यज्य तत्रत्यात् गिरिशिखरात् पाटलावत्यां सरिति पतितुं प्रायतत । तदानीम् सा योगिनी सौदामिनी सहसा समागत्य 'वत्स ! कृतं साहसेन' इति तं निवारयामास । अथ मकरन्दमुखात् प्रमुग्धं माधवम् प्राकार्य तं संभावयितुम् - ( ७७ ) मकरन्देन सह सत्वरम् उपजगाम । तदानी दैवानुकूल्येन नवजल- धरसमीरणप्रत्यागतचेतनः माधवः सौदामिन्याः मुखात् 'मालती जीवती' त्याकर्ण्य प्रहृष्टः बभूव । अथ सौदामिनी वकुलमालादर्शन- प्रतीतमानसं मालतीमनुस्मृत्य दूयमानं माधवम् आदाय तपस्त. न्त्रमन्त्रयोगाभियोगसमासादितेन विद्याबलेन गगनमार्गम् उत्पतन्ती मालत्याः समीपमानिनाय । अत्रान्तरे भूरिवसुः अधिगतमालती- विपदवृत्तान्तः, सांसारिकविषयविरक्तहृदयः वैश्वानरप्रवेशकृत- निश्चयः सुवर्णबिन्दु नाम शिवालयम् माजगाम । तदेतत् कस्यचित् वनेचरस्य मुखात् श्राकार्य सौदामिनी झटिति तत्र संनिधाय मालतीकुशलवार्ताप्रदानेन मरणव्यवसायात् तं निवर्तयामास । तस्मिन्नेघ समये मालत्याः प्रत्योपत्तो निराशा: प्राणपरित्यागाय गिरिप्रपातात् पतितुम् आरब्धाः कामन्दकी. मदयन्तिकालवङ्गिकाः मकरन्दः सहसोपसृत्य सौदामिनीसमागम- निवेदनेन सान्त्वयामास । अथ सर्वे ते कुशलिनौ मालतीमाधवौ दृष्ट्वा प्रमोदनिर्भराः बभूवुः। अथ च मालतीमाधवयोः मदयन्तिकामकरन्दयोश्च पाणि- ग्रहणमङ्गलं नन्दनसहितेन राज्ञा पद्मावतीश्वरेण अनुमतासीत् । माधवमकरन्दावपि अनुरूपानुरागरमणीययोः मालतीमदयन्ति- कयोः प्राप्ता परां निवृतिमवापतुः । तदेवं भूरिवसुदेवरातयाः इतरेतरापत्यसंबन्धनिर्षणरूपं मनोरथं सौदामिनीसाहाय्येन संपाद्य कामन्दकी कृतकृत्या बभूव । इति ( ७८ ) श्रीमहावीरचरितकथासंग्रहः श्रासीद्वैवस्वतस्य मनोः महीयसि कुले लब्धजन्मा दशरथो नाम राजा । कोसलेषु अयोध्या राजधानीम् अधिवसन वसुन्धरा- याम् अनन्यविषयं रक्षाधिकारम् श्रास्थितः भगवति वैधात्रे वसिष्ठे विनिहितकुटुम्बव्यवहारः स महाराजः सुचिरं सुखम् उवास । प्रश्नान्तपुण्यकर्मा स राजर्षिः भगवतः विभाण्डकसुतस्य महर्षेः ऋष्यशृङ्गस्य वैतानिकैः उपचारैः पुण्यश्रीकान् नयनाभिरामान् रामाद्यान् चतुरः कुमारान् अवाप । शैशवे वयति वर्तमानास्ते कुमाराःकृतोपनयनाः दीप्तस्य तेजसः पारं गन्तुकामाः ब्रह्मचर्यम् आचरन् । तस्मिन् अवसरे भगवान् कौशिकः विश्वामित्रः जगतीक्षेमाय भूमौ अवतीर्णस्य रामात्मनः रमावल्लभस्य रक्षोवधादीनि चरिताद्भुतानि धास्थापयितुम्, निस- र्गसिद्धम् अदीयं वीर्यम् अत्यद्भुतैः दिव्यास्त्रैः उच्चाययितुम् जगदुपकृतिबीजभूतया जनकात्मजया सह संयोजयितुम्, वसिष्ठ- पुरोहितस्य राजर्षेः ऐक्ष्वाकस्य गृहान् उपेत्य धनुरनुजसहायं श्रीरामभद्रम् श्रादाय स्वमेव तपोवनम् प्रत्यागतः । अथ दीक्षिष्यमाणः विश्वामित्रः प्रियमित्रम् श्रात्मनः, भगवतः याज्ञवल्क्यात् अधिगतब्रह्मसंहितम् विदेहनार्थ निमन्त्रयाञ्चक्र । समारब्धसप्ततन्तुःसाक्षात् भागन्तुम् अपारयन् स वैदेहः कुशध्वज नाम भ्रातरं प्राहिणोत् । स कुशध्वजः प्रकृष्टकल्याणोदर्कसंगमान् साक्षात्कृतब्रह्मणः महर्षीन् द्रष्टुम् अत्युत्सुकः लाङ्गलोल्लिख्य- मानायाः यज्ञभूमेः विनिर्गताम् सीताम् जनकस्य औरसीम् श्रात्म- - दशरथदारको जाम् ऊर्मिलाञ्च श्रादाय हरितपरिसरारण्यरमणीयं कौशिकीपरि- तिप्तं सिद्धाश्रमं नाम प्रथितं कौशिकाश्रमपदम् अभजत । तत्र भस्मलेखालाञ्छितेन भुजान्तरेण रौरवी त्वचं विभ्राणौ मौऱ्या मेखलया नियन्त्रितान्तरीयौ कार्मुकातसूत्रपिप्पलदण्डमण्डितकरौं दृष्ट्या नितरां ननन्द । अथ भगवता कौशिकेन यज्ञार्थम् उपनिमन्त्रितः नानादिगन्तर- धासिनः मुनीश्वराः पुत्रदारैस्सह समाप्तन् । तेषु सर्वेषु पश्यत्सु गौतमस्य महर्षेः शौचथ्यस्य धर्मपत्नी, सुनासीरावस्कन्दजम् अन्धतापिनम् अनुभवन्ती दाशरथे चरणनलिनरेणुसंस्पर्शमहिना तस्मात् एनसः निर्मुक्ता सतो अप्रमेयतेजसम् एनम् अर्थाभिः वाग्भिः स्तुत्वा भगवता कौशिकेन अभ्यनुज्ञाता भर्तुरन्तिकं प्रययौ । विकर्तनकुलकुमारस्य महनीयम् इमम् सानुभावं साक्षात्कृत्य देवयजनोत्पन्ना जानकी तस्मिन् अतिमात्रम् अनुरागम् श्राबबन्ध । जनकानुजः कुशध्वजोपि रामभद्राय सीताप्रदाने व्यम्बकचापा- रोपणम् अप्रतीकार्यम् अन्तरायम् अमन्यत । अत्रान्तरे लङ्केश्वरः दशाननः दिव्यसौन्दर्यवतीम् अयोनिजां जानकीम् श्राकj ताम् उपयन्तुम् इयेष। मातामहेन माल्यता बहुधा प्रतिषिध्यमानोपि दुराग्रहगृहीतहृदयः स दशास्यः ताम् आत्मार्थे वरीतुं सर्वमायं नाम वृद्धराक्षसं प्राहिणोत्। सोपि मिथिलां गत्वा जनकाय दशाननाभ्यर्थनां निवेद्य 'कुशध्वजः कौशि- कश्च अत्र विषये प्रमाणम्' इति तेन प्रत्युक्तः सपदि सिद्धाश्रमम् भाजगाम । तस्मिन्नेष समये प्रान्त्रप्रोतबृहत्कपालभूषणभीषणा- ( ८० ) कारा सुकेतुदुहिता सुन्दासुरसुन्दरी ताटका नाम राक्षसी कौशिकोपक्रान्त ऋतुम् उन्मथितुम् अभ्याययौ महतः ब्राह्मणसमूहस्य उपघातम् उद्वीक्ष्य भगवान् विश्वामित्रः महावीरकुमारं चिबुके स्पृष्टा 'वत्स ! हन्यतामियम् ' इति प्रेरयामास । भैरवाकारायाः तस्याः दर्शनेपि अप्रकोपतः दाशरथि तत्प्रमाणे स्त्रैणेन विचिकित्समानापि महताम् अभ्युपगमएव पुण्य- पापयाः प्रमाणं मन्वानः ताम् उत्पातवातावलीमिव अभिमुखम् प्राधावन्तीम् हन्मर्मभेदिना कङ्कपत्रेण दृढं प्रहृत्य पातयामास । निखिजनिशिचरकुत्लनिधनमहायज्ञस्य ओंकारभूत ताटकाप्रमार्थ साक्षात्कृत्य सर्वमायः मनुष्यसकाशात् प्राशरकुलस्य अधिगतेन अभिनवेन अभिभवेन दन्दह्यमानमानसः जरानिरुद्धगात्रतया प्रतीकारासमर्थः भृशं शुशोच । अथ तस्मिन् मङ्गलमये मुहूर्ते भगवान् विश्वामित्रः भृशाश्वात् महर्षेः गुरुचर्याव्रतैः अधिगतानि सरहस्यप्रयोगाणि जृम्भकादीनि दिव्यास्त्रमन्त्रपारायणानि रामभद्राय प्रकाशयामास । दिवौकसोपि पुष्पवर्षेः दुन्दुभिध्वनिभिश्च तमिमं दाशरथेः दिव्यास्त्रलाभम् अन्व- मोदन्त । तत्समनन्तरमेव विहायसि विश्वतः प्रदोप्तः तेजोभिः विस्फुरन्ति प्रज्वलितविधुत्पुञ्जपिञ्जराणि दिव्यास्त्रात अभिवन्ध श्रीरामभद्रः 'ध्यातैः भवद्भिः संनिधातव्यम्' इति संप्रार्थ्य विसर्ज- यामास । अथ रामभद्रवचनात् अन्तर्हितेषु दिव्यास्त्रेषु महाद्भुत-_ 'निधिः गाधिनन्दनः मिथिलेश्वरदुहितुः पाणिग्रहणे चिन्तार्णवमग्न कुशध्वजम् अाहूय खण्डपरशुकोदण्डम् उपस्थापयितुम् श्रादिदेश। शम्भोः वरातिसर्गात् अनुध्यानमात्रोपस्थानदायि तद्धनुर्वरं ( ८१ ) । कुशध्वजेन सप्रणामम् अनुध्यातम् सधएष रामभद्रस्य पुरतः प्रादुर्वभूव । कुशिकतनयप्रेरितेन राघवेण मौर्यारोपणाय सलोलम् प्रादाय प्राकृष्यमाणं तत्खण्डपरशुकोदण्डप्रकाण्ड प्रचण्डध्वनि- प्रपूरितब्रह्माण्डं भग्नमभूत् । तत् साक्षात्कृत्य सहर्षोन्मादःसीरध्वजानुजः रघुनन्दनम् एह्योहि इत्याहूय दूरप्रसारिताभ्यां भुजाभ्याम् श्राकृष्य मूर्ध्निउपाघ्राय निर्भरम् प्रालिलिङ्ग । प्रशमितहृदयशङ्कातडेन कुशध्वजेन रामभद्राय उप- पन्ना सीता लक्ष्मणभरतशत्रुभ्रेभ्यः दत्ताः ऊर्मिलामाण्ड डवीश्रुत- कीर्तयश्च विश्वामित्रेण प्रतीष्टाः बभूवुः। अथ चतसृणां राजसुतानां चतुर्मिः रघुनन्दनैः सह पाणिग्र- हणमङ्गलनिर्वर्तनाय विश्वामित्रः वसिष्ठम् आनेतुं शुनश्शेफना- मानम् अन्यतमं शिष्यम् अयोध्या प्रति प्राहिणोत् । तदानी दश- कन्धरनिदेशकरौ सुन्दोपसुन्ददायादौ सुवाहमारीचौ गाधिनन्दन- समारब्धाध्वरप्रत्यूहाय कृतसंनाहो अकालपर्जन्याविषभीमाडम्बरौ अम्बरतलम् अगाहताम् । गाधिनन्दनेन तौ निहन्तुम् श्रादिष्टः विकर्तनकुलकुमारः धरणीधरगुरुमपि तं ताटकातनयं पवनदेव- तेनास्त्रेण तृणवद्धधूय सुबाहुमपि निशिततरया सुरप्रधारया शकलीचकार । अथ भगवान् वसिष्ठः शुनश्शेफमुखेनोपनिमन्त्रितः निखिल- परिजनानुयातं दायादसनाथं दशरथम् श्रादाय महता महर्षिसमूहेन समं प्रस्थाय वैदेहराजधानीम् श्राजगाम । तत्र जनकस्य राज्ञः यशसमाप्तौ यथाविधि निर्वर्तितगोदानमङ्गलैः चतुभिः विकर्तनकुलकुमारैः परिणीताः सीताधाः चतस्रः ताः । ( ८२ ) भगिन्याः परमानुरूपभर्तृलाभेन परस्परम् अविप्रवासेन च परमानन्दभरिताः बभूवुः। सर्वमायस्तु कुशिककुशध्वजाभ्याम् अनाकर्णितकेन अनादूत- प्रार्थनावचनः सधः सिद्धाश्रमात् प्रस्थाय लङ्कानगरम् प्रासाद्य माल्यवते कोसलसुताकुमारस्य कौमारकेलिं कात्न्येन अकथयत् । तस्मिन्नेव समये भगवान् अगस्त्यः नूतनवधूपरिग्रहसश्रीकस्य जगद- भिरामस्य रामस्य मङ्गलोपहारिकं माहेन्द्रं धनुर्वरम् अनुप्रेपितवान् । एवं भुवनेषु अप्रतय॑सामर्थ्यानिअस्त्राणि रामे ब्रह्मर्षिभ्यः परिणतानि समाकरार्य दशमुखामात्यः माल्यवान् पूर्वमेव पितामहेन वरप्रदान- समये कथितं मानुषेभ्यः भयमप्यनुस्मृत्य महतीं चिन्ताम् उवाह । अत्रान्तरे भार्गवः जामदग्न्यः भगवतः भवानीपतेः अधिगत- सकलास्त्रविद्यः क्रोधाग्निम् श्रात्मीयं संतर्पयितुम् त्रिसप्तकृत्वः क्षोणीम् अक्षत्रां संतक्ष्य सप्तसमुद्रमुद्रितां तां कश्यपाय मुनये दक्षिणां दत्वा परित्यक्तविषमव्यवसायसाहसः समुद्रम् आस्कन्ध सुखम् उवास। महावीरकुमारस्य अपकर्तुम् अभिनिविष्टमानसः माल्यवान् महेन्द्रदीपम् प्रासाद्य माहेश्वरप्रीत्या लंकेश्वरेण सह संजातसोहृदं तं जामदग्न्यम् शाम्भवीयस्य शरासनस्य प्रमाथं निवेद्य समुचेजयामास । अथ माल्यवतः मुखात् धूर्ज टिधनुद्वैधम् अाकर्ण्य रोषपरवशः रैणुकेयः सद्य एव सकलक्षत्रियकथाप्रमापणप्रवीणम्, सहस्रपरि- वत्सरपरिचर्याप्रसन्नेन भगवता पिनाकिना प्रसादीकृतं परशुं वैष्ण, शरासनं चादाय सरभर्स मिथिलाम् उपगम्य 'भो भोः परि- ( ८३ ) स्कन्दाः क्व रामः दाशरथिः' इति अधरितजलधरस्तनितेन वानि- घेोषेण नागरान् विभीषयन् सुदूरविक्षिप्तविकटोरूदण्डनिर्भराधात- विह्वलितवसुन्धरः भीतभीतैः प्रतीहारैः अप्रतिहतगतिप्रसरः कन्यान्तःपुरं प्रविवेश। तत्र वसिष्ठविश्वामित्रशतानन्दः दशरथजनकाभ्यां च बहुधा सान्त्व्यमानोपि अप्रतिपन्नप्रशमः परशुधरमुनिः अभिनवविवाह- मङ्गलरमणीय वेषेण महावीरकुमारेण पराजितः परित्यक्तशस्त्रग्रहण- साहसः प्रतिपन्नपशान्तपावनब्राह्मप्रकृतिः दण्डकारण्यतीर्थोपासकेषु तणेधनेषु कृतापराधान् यातुधानान् प्रध्वंसयितुम्उपयोगं गमिष्यति' इति वैष्णवं धनुः दाशरथये दत्वा तस्मात् अरण्यगमनानुज्ञामादाय यथागतम् अयासीत् । अथ गाधिनन्दनः निरन्तरायनिर्वर्तितसमीहितार्थः सिद्धाश्रम प्रति प्रस्थितः भृगुपतिदमनकुशलं दशरथतनयम् अभिनन्ध भगवन्तम् अरुन्धतीसहचरम् आतिथ्येन निमन्व्य तम् आत्मना समम् अनैषीत् । तदानीं लङ्कानगरवास्तव्येन जनकदुहितुः अपहरणम् अधिकृत्य अनिवर्तनीयदुराग्रहगृहीतहृदयेन दशग्रीवेण निर पायम् उपायम् चिन्तयितुम् श्रादिष्टः मातामहः माल्यवान् रावणाधरजां कार्यज्ञां शूर्पणखाम् पाहूय एवम् प्रादिदेश । वत्से ! शूर्पणखे ! राजकार्य बहु अनुसन्धातव्यम् । तत् श्रावेधते श्रृयताम् । सानुचरसुन्दोपसुन्द- सुतोपमर्दकः ताटकारिः अस्माभिः समम् श्राबद्धवैरः सर्वथा प्रतिसमाधेयः वर्तते । तमिमं प्रभुशक्तः परिच्याव्य बहुविधैः छद्म- प्रयोगैः परिलुप्तोत्साहशक्तिं कृत्वा सुदूरम् श्राकृष्य रक्षसाम् अन्तिकम् ( ८४ ) उपनीतम् विन्ध्यकान्तारेषु प्रदेशज्ञम् विचरन्तम् अपहतदार प्रतिपन्नपौलस्त्यसौहृदेन बालिना घातयिष्यामः। पूर्वमेवास्माभिः प्रहिताः घिराधकबन्धप्रभृतयः यातुधानाः दण्डकारण्यतीर्थोपासकेषु तपोधनेषु तीक्ष्णाः अभिचरन्ति श्रागा. मिकात्मगुणसंपन्नःप्रकृतिभिःअत्यन्तम् अनुरक्त धर्मात्मा विभीषणः धर्मद्रुहाम् अस्माकम् अरिभयम् उपजनयति । रजनिचराधिराजस्य सहजरिपुरयं केनाप्युपायेन अपसारणीयः। अपसृते तस्मिन् प्रतिपन्नतदेकसौहृदाः खरदूषणत्रिशिरसः राजकुलम् उपजापात् अन्तर्भेदजर्जरं करिष्यन्ति । तत् विभीषणापसारणात् प्रागेव खरप्रमुखाः दाशरथिना घातयितव्याः। अथ खरादिभिः विनाकृतः समुत्प्रेक्षितविकार विभीषणः स्वय- मेव अपसर्पन अस्माभिः उपेक्षितः शैशवादारभ्य विरूढसख्यम् ऋष्यमूके स्थितं सुग्रीवम् पाश्रयिष्यति । तत्र उपश्लिष्टरामपक्षम एनं बाली नोपेक्षेत। यासौ राज्ञा दशरथेन प्राक्प्रतिश्रुतवरद्वया राज्ञी भरतमाता कैकेयी तस्याः मन्थरा नाम परिचारिका दशरथस्य वार्ताहरणाय मिथिलाम् अयोध्यातः संप्रेषिता, मिथि- लोपकराठे वर्तते इति संप्रत्येव मे निवेदितं चारकैः। तस्याः त्वया शरीरम् प्राविश्य सीतालक्ष्मणसहायं रामभद्रम् अविलम्बेनैव दण्डकारण्यं प्रवासय । इति । अत्रान्तरे प्रकृतिभिः एकायनीभूय प्रार्थितः महाराजदशरथः कुमारस्य रामभद्रस्य अभिषेकमहोत्सवं चिकीर्षुः श्राभिषेवनिकान् संभारान् संनिधापयितुं सुमंत्र समादिदेश । तदानीम् प्राषिष्ट- मन्थराशरीरा शूर्पणखा वसिष्ठविश्वामित्रयोः असांनिध्येन सुसमा- ( ८५ ) हितसमीहिता सर्वैरभिनन्धमानमहिमानं महावीरमुपगम्य केकय- राजतनूजया प्रेषितं महाराजदशरथेन प्रतिश्रुतपूर्ववरद्वयज्ञापक कार्यलेखम् अर्पितवती । भरतस्य राज्यप्राप्तिम्, श्रात्मनः विना- कालहरणं दण्डकाप्रस्थानञ्च, तत्र लिखितम् अनुवाच्य पूर्वमेव यातुधानानां प्रमथनाय दण्डकारण्यं प्रति प्रस्थाने पर्युत्सुकः सीतासहचरः सप्रणामं पितरम् उपगम्य मध्यमाम्बामनोरथपूरणम् अभ्यर्थितवान् । विशुद्ध राजकुले प्रसूतायाः आर्यप्रकृतेः कैकेय्याः तथाविधे राक्षसकर्मणि चित्रीयमाणचेताः सत्यसन्धः दशरथः निर्भरस्नेह- कातर्येण किंकर्तव्यताप्रमूढ हृदयं कृच्छण संस्तभ्य कथं कथमपि अरण्यगमनम् अनुमेने। रामभद्रस्योपरि निरवधिको भकिम् प्राबिभ्रत् भरतः वर्णाश्रमरक्षणे गुरुनियोगम् उल्लवय भ्रातुः पाद- परिचरणाय अरण्यानुगमने मति व्यधत्त । रामभद्रः भगवता शरभङ्गेन प्रेषितं तपनीयमयं पादुकायुगलं प्रसादीकृत्य तम् अनुयात्राग्रहात् निवर्त्य मैथिलीलक्ष्मणाभ्या. मनुथातः गुरुजनं प्रदक्षिणीकृत्य प्रययौ। राज्यतृष्णापराङ मुखः भरतः पादुके शिरस्यादाय नन्दिग्रामे जटां बिभ्रत्, सर्वलोकयोग- क्षेमविधानाय राज्याधिदेवतपदे अभिषिच्य स्वयं तदनुचरः भूत्वा पृथिवीं पालयामास । तदानीं रोमभद्रप्रवासवैमनस्यम् असह- मानाः सवालवृद्धाः सर्वाः प्रकृतयः सहकुटुम्वैः अरण्यानुगगनाय निर्जग्मुः। दाशरथिः प्रात्मना तृतीयेन मन्तव्यम् इति अम्बायाः आदेशम् आवेध बहुविधैः सान्त्ववचनैः ताः विनिवर्त्य शृङ्गबेर- पुरषास्तव्येन विहितविशेषोपचारेण निषादपतिना गुहेन सह ( ८६ ) सङ्गतःसंनिकृष्टप्रयागम् अनुषक्तमन्दाकिनीपवित्रमेखलं महर्षिभिरुप- जुष्टतीर्थम् चित्रकूटाचलम् उपेत्य तत्र विहितसाधुजनावस्कन्द विराधहतकम् उन्मथ्य संनिहितगृध्रराजे जनस्थानम् अवाप । तत्रैव कञ्चित कालं वसन् रामवियोगातः दशरथः स्वकर्मणा समापतितं शापम् अनुस्मृत्य शरीरं तत्याज , इति वार्तामुपश्रुत्य अत्यन्त दुःखितः बभूव। ततः कालविप्रकर्षात् मन्दीभूतपितृमरणशोकः शरभङ्गाश्रम प्राप्य तत्र तस्य तनुहोमम् अधिहव्यवाहम् अाहितम् अध्यक्षयित्वा क्रमेण सुतीक्ष्णप्रभृतीनां महर्षीणाम् अाश्रमम् अभिगम्य भगवतः कुम्भसंभवस्य वचनात् प्रसन्नसलिलरमणीयां पञ्चघटीं नाम गोदावरीतीरभूमिम् प्रासाद्य कंचित् कालं सुखम् उधास । पूर्वमेव खरादीन् निहन्तुं चिन्तितोपाया शूर्पणखा रमणीयेन सुन्दरीवेषेण रघुनन्दनं वृषस्यन्ती प्राप्ता ; निर्लज्जां निर्मर्यादां तां लक्ष्मणःकर्णनासौष्टकर्तनेन विरूपाम् अकरोत् । तन्निमित्तकेन वैरेण अभिद्रुतान् स्वरादीन् यातुधानान् अद्वितीयः दाशरथिः अनायासम् अवधीत् । . अथ स्वजनविनिपातं सौदर्यायाः स्वसुः निकारं च निशम्य नितराम् अमर्षितः दशग्रीवः मृगरूपधारिणा मायाधिना मारीचेन राक्षसेन रामलक्ष्मणौ पञ्चयित्वा सुन्दरम् श्राकृष्य पर्णशाला प्रविश्य जानकीम् अपजहार । हा राम ! हालक्ष्मण ! इत्याक्रन्दन्ती जानकी दृष्ट्वा तत्र संनिहितः गृध्रराजः जटायुः "रे रे नैऋतापसद ! भगवत्पुलस्त्यपौत्रस्य वेदव्रतस्नातस्य विनिर्जितसरासुरस्य कथ- ( ८७ ) - मियं ते निन्द्या दुश्चरिता दुर्मतिः संजाता ? इति निर्भर्सयन् तम् उपरुध्य निशिततरखङ्गमहाराभिहतः भूमौ निपपात । जनकदुहितपरिमार्गणप्रसृतः दाशरथिः कण्ठगतप्राणस्य जटायुषः मुखात् रावणापहृतां तां निशम्य सधएव संस्थितं वीरलोकम् अधिष्ठितं तं कल्पान्तशकुन्तराज पितरमिव अग्नि- संस्कारादिभिः संस्कृत्य पञ्चवटी विहाय दक्षिणाभिमुखः प्रययौ । अत्रान्तरे समधिगतखरदूषणमुखनिधनः विभीषणः समुत्प्रेक्षित- विकारः राजकुलादपक्रम्य ऋष्यमूके कृतवसतिम् सखायं सुप्रीवम् अधिशिश्रिये । परित्यक्तज्ञातिगणः विभीषणः धरण्यां' धर्मसंस्था- पनाय कृतावतरणः कोसलसुतः कुमारभावकञ्चुकितकारणाकारः रमारमण एव प्रात्मनः शरणम् ' इति संदिश्य मतङ्गाश्रमवास्तव्यां श्रमणां नाम धर्मचारिणीं शबरी रामान्तिकं प्रति प्रजिधाय । सा च रामान्वेषिणी प्रसृता योजनदीर्घबाहुना घोररूपेण कवन्धेन राक्षसेन प्राकृष्यमाणा शरणम् पाचक्रन्द्र । तदाक्रन्दनम् श्राकर्य लक्ष्मणः सरभसम् अनुधाव्य माल्यवत्प्रयुक्तं दूषितदण्डकारण्यं क्रूराकृर्ति कबन्ध खड्ड्रेन निकृत्य निपात्य महति श्वभ्र प्रभूतैः शुष्क- काष्ठैः चितां परिकल्प्य तच्छरीरं तत्र प्रचिक्षेप। महता तेन चिन्ताग्निना दह्यमानकलेवरः सः सद्य एव संप्राप्तदिव्यदेहः सर्वैः सविस्मयम् अभिवीक्षितः कृतमहोपकाराय दशरथकुमाराय माल्यवत्प्रयुक्तः वाली युष्मान् हन्तुम् अभियास्यति' इति निवेद्य स्वं लोकम् प्रायासीत् । अथ दाशरथिः श्रमणोपदिष्टेन पथा प्रस्थाय प्रशान्तगम्भीर- विपुलश्रीः अरण्यभूमीः अतीत्य सुरभिशीतलामलसलिलरमणी- ( ८८ ) थान् पम्पापरिसरप्रदेशान् प्रासाद्य तत्र संगताय विभीषणाय प्रतिश्रुतलङ्काधिराज्यः दत् पर्जन्यमिव गर्जन्तं उत्तुङ्गपिङ्ग- लाङ्गुलमोषणाङ्गम् पौलस्यनीतिम् अनुस्मार्य माल्यवता प्रयुक्तं युद्धाय संनद्धम् संक्रन्दननन्दनं वालिनं निशिततरशरनिपातेन निहत्य तनुरोधात् सहस्रांशुसूनुना सुग्रीवेण समं सख्यं वैश्वानरसाक्षिकं विधाय तमेनं किष्किन्धाराज्ये अभ्यषेचयत् । अथ सुग्रीवभुजबलपरिपालितेषु अप्रमेयेषु कपिबलेषु मैथिली- मन्वेष्टुम् अनुदिशम् अभिप्रस्थितेषु प्रभञ्जनात्मजः हनुमान् अपार- पारावारपरिधापरिवृतं लङ्कानगरम् श्रासाद्य तत्र राक्षसीभि परिवृतया सीतया सह सुचिरं संभाष्य केशबन्धात् उन्मुच्य तथा समर्पितं चूडामणिम् अभिज्ञानम् आदाय नगरं तत् अग्निमात्कृत्य गाढमहारविक्षिप्तविविधराक्षसलोकः अक्षकुमारेण अनुबध्यमानः तस्मिन् कृतान्तलीलां कृत्वा झटिति निष्क्रम्य दाशरथ्योः पार्श्वम् प्राजगाम। अथ विकर्तनकुलकुमारः महावीरः प्रस्थाय महतीं वानरसेनाम् प्राकर्षन् आशीविषविषमैः इषुभिः विशोषितवारिपूरेण सपदि सलिलात् समुद्गम्य सपादपतनम् अभ्यर्थ्य समुपदिष्टमार्गः वलीमुखसहस्रानीतैःमहीधरशिखरैः विनिर्मितेन सेतुना गोष्पदवत् प्रनायासातिलडितपाथोनाथःसुवेलमहीधरमस्तकविन्यस्तस्कन्धा- कारभर लङ्काप्राङ्गणम् अध्यासामास । तदानीम् अङ्गदः लङ्कां गत्वा दशकण्ठमेवमुवाच-" भो रावण ! सकलक्रव्यादसमुदायदाधानलस्य देवस्य दाशरथेः दूतो. म् अङ्गन्दः भवन्तम् अनुशासितुम् श्रागतोस्मि । अशेषनिशाचर- , ( ८६ ) कुलकालरात्रि सीतां सघरब रामाय निर्यातय । मजस्व सावरो- धसुहृदायादसमुदायः सौमित्रः चरणौ। नोचेत् श्राशीविषधिष- वेगविषमाः तदीयाः इषवः तव दुर्मदं व्यपनेष्यन्ति ' इति । 'अहो मर्कटस्यापि वाचाटता' इति दशास्येन सहासम् अवधी- रितः सः वालिसूनुः नचिरादेव क्रकचक्रूरनखशिखरनिकृत्तैः तव उत्तमाः दिग्भ्यः बलिम् उपहरामि' इति उच्चैः उद्युष्य झटिति उत्प्लुत्य श्रीरामभद्रस्य अन्तिकम् उपजगाम । अथ क्रुधान्धा प्लवङ्गाध्यक्षाः दिशिदिशि विक्षिप्तैः अतिस्थूलैः गण्डोपलैः लहानगरगोपुराणि बिभिदुः । तेन कर्मणा पदा स्पृष्टः पन्नग इध क्रुद्धः दशकन्धरः संवर्तसमयसमुज्जृम्भितसप्तसमुद्र- भीषणनिषैिः परस्सहस्रसंख्याकैः राक्षसव्यूहैः अनुयातः युयुत्सया नगर्याः निर्ययो। तदानीम् परस्परं मुष्टीमुष्टि कचाकचि प्रहार- प्रमूढचेतनम्' कठोरतरप्रासप्रहारपातितप्रवीरशरीरनिर्यातबुक्का- सहस्रनिरन्तरनासीरप्रदेशम्, निरन्तरनिपतितकबन्धकदम्ब- जियत्सासमायातगृध्रयूथपातपत्रनिवारितदिवाकरकिरणम् दुर्धर- मिथः प्रहारनिर्मिनकलेबरनिष्ठयूतरुधिरप्रवाहदुःसंचरसरणीकम- पास्तक मप्रवीरप्रचारप्रतिभयं प्लवगयातुधानानां महत् प्रधनं प्रारब्धम् । अथ वैनतेयास्त्रप्रयोगविश्लिष्टमेघनादास्त्रबन्धनः दाशरथिः अकाले बाधितं प्रियस्वप्नम् अखर्वगर्वम् कुम्भकर्णम् निशिततरैः शरनिकरैः कणशः प्राच्छिद्य गृध्राणां व्यभजत् । प्रत्यद्भुतदिव्यास्त्र- प्रयोगनिपातितमेघनादालक्ष्मणोपिरावणेन वक्षसि शक्या ताडितः (१०) प्रमूढचेतनः प्रभञ्जनतनयसमानोतमहौषधिमहिमावधूततव्यथः क्षणात् पुनरुत्तस्थौ । अथायम् अनुजात्मजवधव्यसनमहार्णवे संभ्रान्तःप्रस्फुरभुजमदः क्रोधान्धः कन्यादचक्रवर्ती महावीरप्रयुक्त. ब्रह्मास्त्रच्छिन्नशिरपङ्क्तिः धरातले निपपात । त्रिभुवनशत्रोः दशकन्धरस्य निधनमहोत्सवं प्रत्यक्षीकृत्य प्रमोदनिर्भराः प्रनृत्यन्तः पीयूषाशनाः दाशरथेः मूर्ध्नि कल्पद्रुमप्रसूतानि प्रसूनानि ववृषुः । अथ दशमुखनिकेतननिवासकौलीनशङ्कापनुत्तये कृतपावक- प्रवेशनिर्गतया साक्षात् समागतेन सकलसुरगणपरिवृतेन संक्रन्द- नेन समभिनन्दितपातिव्रत्यया सीतया समेतः श्रीरामभ्रद्रः कारा- गृहेभ्यः विमोचिताभिः वृन्दारकबन्दीभिः अभिष्टुतचरितः सीताविशुध्यनुमोदनार्थम् अवतीर्णैः अप्सरोगणैः वैमानिकैश्च समारब्धाभिः मङ्गलतूर्यरवमिश्राभिः गीतिभिः निष्पादिताभिषेक- कल्याणेन विभीषणेन समुपस्थापितं पुष्पक विमानम् अधिरा सुहृत्समूहपरिवृतः रघुकुलराजधानीम् अयोध्या प्रति प्रतस्थे । क्रमेण दिगन्तरालसमाहृतधरणिधरशिखरनिकरनिर्मापितसेतु- पथसीमन्तित समुद्रम्, लोपामुद्रापरिष्कृतपरिसररमणीयं कौम्भसंभवम् आश्रमम्, पूगवननिविडरमणीयानि कावेरीतीर- तलानि, खरदूषणमुखनिशिचरनिधनस्थानं जनस्थानम्, इत्येतान् श्रन्यांश्च प्रदेशान् प्रतिजवेन पुष्पकेन अतिक्रम्य प्रभञ्जनतनय. सकाशात् प्रवृत्तिम् उपलभ्य प्रमोदनिभरेण भरतेन प्रत्युधातः भगवता मैत्रावरुणिना प्रागेव संनिधापितसकलाभिषेकसभाराम् अयोध्याम आससाद।
( १ ) तत्र सर्वान् बन्धून् सेोपचारं संभाव्य तत्कालसंनिहितेन वात्सल्यपरतन्त्रेण विश्वामित्रेण अरुन्धतीसहचरेण वसिष्ठेन अन्यैश्च महर्षिभिः रत्नमये पीठे सीतया सह समुपवेशितः सुगन्धिभिः तीर्थसलिलैः अभिषेचितः परां कोटिमानन्दस्याध्य- गच्छत् । इति ना०क०-७ ( १२ ) श्रीः उत्तररामचरितकथासंग्रहः पुरा खलु उदोर्णेन रावणेन उपलतैः देवैः अभ्यर्थितः भगवान् श्रियःपतिः अयोध्यायां कोसलसुताकुमारभावन अवतीर्य पौलस्त्य वधं व्याजीकृत्य शरणागतसंरक्षणरूपं परमधर्मम् अवनीतले प्रवर्तयामास। अथ सकलं राक्षसकुलं विजित्य चिरविरहपर्युत्सुकया सीतया देव्या सर्वैः सुहृद्भिश्च समेतः पुष्पक विमानमारुह्य अयोध्यांप्रत्यागत्य वसिष्ठभरतशत्रुघ्नादिभिः ससंभ्रममुपरचितसंविधानं अभिषेक- महोत्सवम् अन्वभूत् । तत्र लङ्कासमरसुहृदः सर्वान् घानरान् राक्ष- सांश्च यथोचितं संमान्य स्वगृहान्प्रति प्रेषयामासानानादिगन्तेभ्यः समागतान् ब्रह्मर्षीन् राजर्षी श्च सविशेष संभाव्य विससर्ज मिथि- लेश्वरो जनकापि बहून् दिवसान उत्सवेन नीत्वा अनुष्ठाननित्यत्वेन अपकृष्टस्वातन्न्यः ओपन्नसत्वामपि दुहितरमामव्य मिथिलां प्रति प्रययौ। अथ रघुपतौ कुलक्रमागतम् अयोध्याराज्यं निर्बाधं परिपाल- यति सति भगवान् शान्तापतिः ऋष्यशृङ्गः द्वादशवार्षिकं सत्र- मारेभे । तदनुरोधात् सर्वाः राममातरः कठोरगर्भा जानकी, तद्विनोदनार्थ रामभद्रं च अयोध्यायां स्थापयित्वा भगवन्तम् धरुन्ध- तीजानि पुरस्कृत्य ऋष्यशृङ्गाश्रमं प्रययुः । कतिपयदिवसापगमा- नन्तरमष्टावको नाम महर्षिः भगवत्याः अरुन्धत्याः राममातृणां भगवतो पसिष्ठस्य च संदेशमादाय रामभद्रं एषमबोधयत् । “भग- ( ३ ) वती अरुन्धती, जनन्यश्च त्वाम् एवमादिशन्ति । वत्सायाः जानक्या: यदि गर्भदोहदो भवति सः अवश्यम् अचिरात् माननीय' इति । भगवान् वसिष्ठस्त्वेवमाह । 'अचिराधिष्ठितं राज्यं छिद्र- बाहुल्यात् दुनिरीक्ष्यम् । सर्वथा प्रजानामनुरञ्जने युक्तो भव' इति ।" अथ कदाचित् लक्ष्मणः जनकस्य वियोगेन दुर्मनायमानां सीतां विनोदयितुम् अर्जुनं नाम चित्रकारमाहूय "आर्यस्य श्रीरामभद्रस्य चरितम् कस्यांचित् वीथिकायां विलिख" इत्याज्ञप्तवान् । सोपि यथाज्ञप्तं भगवत्याः वैदेह्याः हुताशनविशुद्धिपर्यन्तं विलिलेख । तत् श्रालेख्यगतमात्मीयं चरितं लक्ष्मणेन प्रदर्श्यमानं रामभद्रः सीतया सहितः ददर्श । तत्र भगवता विश्वामित्रेण प्रसादीकृतानि जृम्भकास्त्राणि, मिथिलावृत्तान्तः नूतनदारपरिग्रहाणां चतुणी भ्रातृणां अयोध्याप्राप्तिः कैकेयीवृत्तान्तः, गुहसमागमः जनस्थान- वृत्तान्तः माल्यवति पर्वते वर्षासमयः, वानरराक्षसानाम् अपरि- मितानि उत्तरोत्तराणि कर्माश्चर्याणि, इत्येतानि अपदानानि वर्तमानानीव पश्यन सीतया सह रामभद्रः नितरां ननन्द । एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदा जानकी पुनरपि प्रसन्न- शिशिरसलिलायाम् भागीरथ्यामवगाहनं, प्रशान्तगम्सीरासु वनराजिषु विहरणं च, अनुभवितुमाचकाङ्क्ष। अचिरेणैव संपादनीयः दोहदः इति गुरुभ्यः श्रुतवान् रामभद्रः तत् तथेत्यभ्यु- पगम्य अस्खलितसंपातं रथम उपस्थापयेति लक्ष्मणमा- दिदेश । रथम् आनेतुं प्रयाते लक्ष्मणे, परिश्रमजनितया निद्रया अपहत- चेतना जानकी वातायनोपकण्ठे रामबाहुमुपधानीकृत्य संविश्य ( १४ ) सुध्वाप । अत्रान्तरे पौरजानपदेषु अपसर्पतया प्रहितः दुर्मुखोनाम शुद्धान्तचारी समागत्य रामभद्रमेवम् व्यजिज्ञपत् । "देव ! देव्याः वैदेह्याः रक्षागृहवासप्रयुक्तं दृषणं जनाः कथयन्ति । अग्निशुद्धिं तु दूरवृत्तां न विश्वसन्ति " इति । कश्मलामिमां किंवदन्ती श्रुत्वा लोकाराधनतत्परः रामः सुभृशाभितप्तहृदयः दुर्मुखमेवमाबभाषे “ दुर्मुख ! लक्ष्मणमेवम् मद्वचनादब्रूहि । “संप्रत्येव गुरुभिः उपदिष्टम् । अस्याः गर्भदोहदः अचिरात् संपादनीयः" इति । प्रजानामनुरञ्जने सावधानेन भवितव्यम्" इति च। तत् इमां सापवादां दोहदसंपादन- व्याजेन वनं प्रापय्य विसर्जय" इति । तथेति दुर्मुखे निष्क्रान्ते लवणेन असुरेण उपप्लुताः यमुनातीरवासिनः महर्षयः रामभद्र आतारमभिजग्मुः। तत् विदित्वा लवणस्य उन्मूलनाय शत्रुघ्न प्रेषयामास। अथ सीतया उपधानीकृतं बाहुं शनैः प्राकृष्य समुत्याय सीतामसहायां विसृज्य दुःखदुःखेन निर्जगाम। अथ लक्ष्मणःसुप्तो. स्थितां सीतांरथमारोप्य वनं प्रापय्य बाष्पगद्गदकण्ठरुदन्ध भ्रातुः प्राज्ञां निवेध शोकातिरेकजनितया मूर्च्या भूमौ पतितां चिरात् लब्धसंज्ञां बाहुयुगलमुत्क्षिप्य क्रन्दमानामुश्रुः भगवतः वाल्मीके तपोवनोपकण्ठे घिसृज्य निववृते । अथ तथाविधम् अवस्थान्तरम् आपना सा सीतादेवी प्राप्तप्रसववेदनम् श्रात्मानम् अतिदुःखसंवेगात् गङ्गाप्रवाहे निक्षिप्तवती। तस्मिन्नेव समये अन्तर्जलं दारकद्वयं प्रसूता सा भगवतीभ्यां पृथ्वीभागीरथीभ्याम् उत्सङ्गितैकैकदारका- भ्याम् अभ्युपपद्य रसातलं नीता । स्तन्यत्यागात् परेण भगवती (६५) भागीरथी दारकयोः क्षत्रियोचितानिष्कर्माणि कर्तुम् भगवन्तं वाल्मी- किम् अभ्यर्थयामास । सच भगवान वाल्मीकिः तौ कुमारौ सादरम् प्रादाय धात्रीनिर्विशेष परिपोषयन निवृत्तचौलकर्मणोः तयोः त्रयो- वर्जम् इतरासु विधालु निष्ठाम् अवापयामास । समनन्तरम् एका- दशे वर्षे क्षात्रेण कल्पेन उपनीय त्रीविद्यामपि अध्यापितवान् । अथ एकदा स्नानार्थम् तमसातीरम् अनुप्राप्तः भगवान् प्राचे. तसः तत्र द्वन्द्धचारिणोः क्रौञ्चयोः एक व्याधेन विध्यमानम् सापश्यत् । तदर्शनेन नितराम खिन्नमानसस्य वदनात् प्राक- स्मिकप्रत्यवभासा प्रानुष्ठुभेन छन्दसा परिच्छिन्ना वाग्देवी निर्जगाम। मानिषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकम् अवधीः काममा हितम् ॥ इति अथानेन विचित्रेण सरस्वतीविलासेन विस्मितान्तरङ्गः भगवान् पाल्मीकिः अभिषेकक्रियां निर्वयं प्रात्मनः पर्णशालाम् अवाप्य तमेव यदृच्छया अवतीर्णम् प्रानुष्टुभं श्लोकं मनसा पुनःपुनः आवर्तयन् आस्त। ततश्च भगवान् भूतभावनः पायोनिः साक्षात् आविर्भूय, 'ऋषे ! प्रबुद्धोसि धागारमनि ब्रह्मणि ; तत्ब्रूहि रामचरितम् । प्रकाशाप्रकाशानि सर्वाणि रामचरितानि अव्याहतज्योतिषि प्रतिभाचतुषि ते प्रतिभास्यन्ति' इत्युक्त्वा अन्तर्दधे । वाल्मी- किरपि यथोपदिष्टम् प्रोगग्रेषु दर्भेषु उपविश्य, समाविष्ट्या - सर्वलोकैकवीरस्य रामभद्रस्य हसितभाषितादीनि सर्वाणि चेष्टितानि परिज्ञाय, श्रीरामायणाख्यम् आदिकाव्यम् प्रणिनाय । तच्च काव्यम् तौ किनरस्वनौ कुमारौ कुशलवौ अध्यापयामास । तौ च मेधाविनौ कुमारौतपोवनवासिनाम् ऋषीणां समीपे काव्यम् इदमधुरेण स्वरेण अगायताम् । गान्धर्वविद्यातत्ववेदिभ्याम् ताभ्यामुपगीयमानम् तत् श्रुत्वा सर्वे मनुयः चिरनिवृत्तमपि रामभद्रस्य चरितम् प्रत्यक्षमिव पश्यन्तः परां प्रीतिम् अवापुः । अथ भगवान् वाल्मीकिः स्वकृतेः रामायणस्य रसवत्तरं संदर्भान्तरम् अभिनयाईम् स्वहस्तलिखित कृत्वा तत्प्रयोगाय तौत्रिकसूत्रधारस्थ भरतस्य मुनेः सकाशं शिष्यहस्तेन प्रेषितवान् । तेषां प्रमादोच्छेदनार्थम् ज्येष्ठं सीताकुमारं कुशम् चापपाणिम् आनुयात्रिकं विससर्ज । अथ कुमारयोः कुशलघयोः द्वादशस्य संवत्सरस्य पूर्ती, भगवती भागीरथी जनकात्मजाम् एवम् उवाच । “वत्ले ? आयुष्मतोः कुशलवयोः श्रायुरारोग्याभिवृद्धये भवत्याः पुराणश्वशुरम् मानवस्य राजर्षि- वंशस्य प्रसवितारम् देवं सवितारम् स्वहस्तापचितैः पुष्पैः उपतिष्ठस्व" तदर्थम् अवनिपृष्ठवर्तिनीम् भवतीम् अस्मत्प्रभावात् धनदेवताः अपि न द्रक्ष्यन्ति । किंपुनर्माः । त्वयि प्रकृष्टप्रेमा तमसा तव प्रत्यनन्तरीभविष्यति" इति । अथ यथादिष्टम् जानकी दारुणेन दीर्घशोकेन ग्लपितं क्षामताभ शरीरम् उद्वहन्ती, सशरीरा विरहवेदनेव गोदावरीहदात निश्चक्राम। अत्रान्तरे भगवान् ऋष्यशृङ्गः द्वादशवार्षिक सर्व परिसमाप्य, सर्वान् अभ्यागतान् संपूज्य विसर्जयामास । अरुन्धतीवसिष्ठौ राममातरश्च 'अयोध्यायाम् अलोकपौरापवादोद्विग्नः रामभद्रः ( ९७ ) आसन्नप्रसववेदनाम् सीतादेवीम् एकाकिनीम् अरण्ये परितत्याज' इति उपश्रुत्य, 'न वयं वैदेहीविरहिताम् अयोध्या प्रवेक्ष्यामः' इति निश्चित्य, वाल्मीकः तपोवनम् उपजग्मुः। अथ रामभद्रः हिरण्मयीम् सीताप्रतिकृतिम् सहधर्मचारिणीम् विधाय, अश्वमेधं ऋतुम् उपक्रम्य, वसिष्ठशिष्येण वामदेवेन अनुम- त्रितम् मेध्याश्वं विस्मृज्य, तद्रक्षणाय चतुरङ्गबलसमन्वितम् अधा- तदिव्यास्त्रसंप्रदायम्, लक्ष्मणात्मजं चन्द्रकेतुं प्रेषितवान् । अथ एकदा कोपि ब्राह्मणः मृतं पुत्रम् उत्क्षिप्य श्रादाय, राजद्वारि सोरस्ताडनम् श्रब्रह्मण्यम् उद्घोषितवान् । ततः राजापचारमन्तरेण न प्रजानाम् अकालमृत्युः भवति इति श्रात्मनः दोषं निरूपयति करुणामये रामभद्रे, सहसैव अशरीरिणी वाक् एवम् प्राविरभूत् । शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः। शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ इति । तत् उपश्रुत्य जगत्पतिः रामभद्रः कृपाणपाणिः चिन्तितोपस्थित विमानम् पारुह्य, सर्वाः दिशः विदिशश्च चरितुम् आरब्धवान् । प्रथ दण्डकायां जनस्थाने तं शम्बूकं धूमपम् अधोमुखं तपस्यन्तम् समासाध, कृपाणेन तच्छिरः छित्वा, ब्राह्मणपुत्र संजीवयामास । संप्राप्तदिव्यदेहः शम्बूकः श्रीरामभद्र शिरसा प्रणम्य बह्वीभिः भूतार्थव्याहाररूपाभिः स्तुतिभिः उपश्लोक्य, पुराणब्रह्मर्षिम् भगवन्तम् अगस्त्यम् उपसृत्य अभिवाद्य, सधः समुपस्थितं विमानम् प्रारुह्य, स्वं लोकम् अवाप । राममद्रोपि, परिचितपूर्वान् प्रशान्त- पावनगम्भीरान् वैदेहीसहवासविस्त्रम्भसाक्षिणः दण्डकारण्यभूमि- भागान् अभिधीक्ष्य, नितरां पर्याकुलहृदयः इतस्ततः परिबभ्राम ! , ( १ ) शोकमात्रद्वितीयोऽयं रामभद्रः नानाविधविहारसाक्षिणः गोदावरी- तीरकाननप्रदेशान् प्रासाद्य, सीतानुस्मरणेन नितरां पर्याकुलहृदयः हा सीते! हा दण्डकारण्यवासप्रियसखि ! हा विदेहराजपुत्रि ! इत्यादि विलपन शोकातिरेकेण द्रवीभूतहृदयः मूर्छया अपहृतचेतनः छिनमूलः तरिय भूमौ निपपात । दैवात् तत्समीपवर्तिनी तमसा- द्वितीया भागीरथीप्रसादेन वनदेवतानामपि अदृश्या जानकी जलभरभरितमेवस्तनितगम्भीरम्भदसीय भारतीनिधेषिम् श्राकरायं शङ्कितहृदया सरभसम् उपसृत्य, हरिचन्दनपल्लवकल्पेन स्नेहाई शीतलेन पाणिना श्रीरामभद्रं मृदु पस्पर्श । हृदि प्रसिक्तेन संजीय- नौषधिरसेनेव सकलेन्द्रियसंतपणेन तत्करस्पर्शनसंज्ञा प्रतिपद्य, श्रीरामभद्रः चनुः उन्मील्य सर्वतः विलोकयामास । अथ सर्वतः शून्यम् अरण्यम् अभिवीक्ष्य 'अहो! किमिदम् आश्चर्यम् ? निष्करुणः निर्भरगर्भखिन्नाम् सीतां विवासयन् अहम् अतिवीभत्सकर्मा नृशंसोस्मि संवृत्तः । सकलेन्द्रियसंमोहनोऽयं स्पर्शः परिचितपूर्वः इव प्रतिभाति तत् कुतः इदानीम् प्रियतमास्प- शहेतुभूतं भागधेयम् ? इत्यादि बहुधा विकल्पयन् प्रास्त । अथ सीतादेव्याः प्रियसखी वासन्ती नाम वनदेवता, परिचिततत्तत्प्रि- यवस्तुसंदर्शनात् सज्जातम् अन्तःकरणावेगम् अन्तानियन्तुम् अपारयन्तं रामभद्रं बहुधा सान्त्वयामास । तमसाद्वितीया सीतापि तयोः वासन्तीरामभद्रयोः परस्परसंवादम् अलक्षितैव श्रुत्वा कुमारयोः कुशलवयोः वर्षवर्धनमङ्गलानि निर्वर्तयितुम् भागीरथीतीरं जगाम । प्रतिगम्भीरस्य शोका-वेगस्य प्रतिकारम् अन्यम् अपश्यन् रामभद्रः 'अश्वमेधसहधर्मचारिणीम् , हिरण्मयीम् सीताप्रतिकृतिं दृष्ट्वा बाष्पदिग्धं चनुः विनो- दयिष्यामि, इतिघासन्तीम् अामन्य विमानराजम् पारुह्य प्रतस्थे । सीतादेव्याः तादृशं दैवदुर्विपाकम् उपश्रुत्य सातवैराग्यः चन्द्र- द्धीपतपोवने पराकसान्तपनप्रभृतीनि तपांसि तप्यमानः पुराण- राजर्षिः जनकोपि तस्मिन्नेव समये चिरन्तनप्रियसुहृदं प्राचेतसं द्रष्टुम् श्रभ्याजगाम अनेकसंवत्सरातिक्रमेऽपि तीक्ष्णपरिभाधनया- त्युप्रमिव स्पष्टनिर्भासं दारुणं दुःखसंवेगम् अनुभवतः वैदेहस्य तत्र कौसल्यादर्शनम् क्षते क्षारोत्सेवनमिव असावेदनम् अभूत् । तयैव सीतागतया चिन्तया कृशीभूतदेहाम् अन्यामिव उपलक्ष्य- माणाम् कौसल्याम् जनकदर्शनसातः शोकातिरेकः मूर्छिताम् अकरोत् । अत्रान्तरे वाल्मीकिशिष्याः सर्वे वटवः मिलित्वा शिष्टा- नध्यायमहोत्सवं खेलनेन संभावयन्तः कोलाहलम् अकुर्वन् । तेषां मध्ये विहरन्तम्, नीलोत्पलश्यामलेन उज्वलेन देहबन्धेन गम्भीरेण स्वरेण च रामभद्रस्थ अनुहरमाणम्, कनीयांसं सीता- कुमार, लवं दृष्ट्वा, सर्वे सीताबन्धवः तं स्वसमीपम् श्रानायया- मासुः । आनाय्य च 'तव मातापितरौ ब्रूहि' इति पप्रच्छुः । सतु 'नाहं स्मरामि मातरं पितरंवा; भगवतः वाल्मीके शिष्योह- मिति तु जानामि ' इत्युवाच । अस्मिन् समये लक्ष्मणात्मजः चन्द्रकेतुः श्राश्वमेधिकस्य अश्वस्य संरक्षणप्रसङ्गण सुमन्त्र सारथिम् रथम् आरुह्य ससैन्यः वालमीके तपोवनम् अाजगाम | कौतूहलाकृष्टहृदयैः तपोवनवटुभिः 'कस्यायम् अश्वः ?' इति पृष्टे सर्वलोकैकवीरस्य असहायशूरस्य पौलस्त्यकुलधूमकेतोः महाराज ( १०० ) रामभद्रस्य इति सैनिकैः अघोचि । तमेनम् अश्वानुयात्रिकाणां श्रीरामभद्प्रतापाविष्करणम वीरवादम् अमृष्यमाणः लवः सर्वैः तपोवनवटुभिः सहितः तम् अश्यम् लोष्टैः अभिहत्य परावर्तयितुम् पारेभे । अपूर्वाश्वदर्शनकुतूहलाक्षिप्तहृदयः चन्द्रकेतुः आश्व. मेधिकस्य अश्वस्य कदनम् अभिवीक्ष्य, धनुष्पाणिः तान् वटून् निर्भसयामास । दुर्दान्तः लवोपि कार्मुकम् श्रादाय युद्धाय सन्नद्धः बभूव । पदातिः असहायः लवः सर्वैः सैनिकैः समेत्य पर्यवष्टब्धः स्वतः प्रत्यवभासं जृम्भकास्त्रं मनसा सस्मार । तेन च सर्वान् सैनिकान् संस्तम्भयामास। अथ कुमारयोः तयोः विचित्रैः दिव्यास्त्रप्रयोगैः अनिर्णेय- जयापजये द्वन्द्वयुद्ध प्रवर्तमाने, शम्बूकवधात् प्रतिनिवृत्तः राम- भद्रः मध्येमार्गम् कुमारचन्द्रकेतुम् अभियुज्यमानम् अभिवीक्ष्य युद्धभूमौ कुमारयोः मध्ये विमानम् अवतारयामास । तदर्शन- मात्रेणैव विनीतः चन्द्रकेतुः संप्रहारात् विरम्य तम् अभिवा- दयामास । पुण्यानुभावदर्शनस्य महापुरुषस्य अस्य दर्शनेन सजात- विनयः लवः तदानीमेव भरताश्रमात् प्रतिनिवृत्तः कुशश्च ते रामायणकथापुरुषं रामभद्र विज्ञाय सविनयम् उपसृत्य 'भगवतः प्राचेतसस्य अन्तेवासिनौ कुशलवौ श्रावाम् अभिवाद्यावहे ' इति स्वनामोच्चारणपूर्वकम् अभिवादयामासतुः। अथ कठोरकमलगर्भकोमलेन शरीरेण माङ्गल्यमृदङ्गमांसलेन कण्ठध्वनिना प्रसन्नसिंहस्तिमितेन वीक्षितेन सर्वात्मना अात्मसंवा- दिना प्राकृतिविशेषेणच विराजमानौ तौ कुमारौ दृष्ट्वा आकस्मिकेन तारामैत्रकेण प्राबद्धचक्षुः श्रीरामभद्रः अतिमानवात्सल्यद्रवीभूत- (. १०१ ) हृदयःसरमसं प्रसारिताभ्याम् बाहुभ्याम् तौ कुमारौ श्राकृष्य निर्भरम् आलिलिङ्ग । अथ तत्र पूर्वमेव ऋष्यशृङ्गाश्रमात् समान्तैः कौसल्या- प्रभृतिभिः जननीजनैः अरुन्धतीवसिष्ठाभ्याम् जनकेन च समम् उपसंगम्य, ताभ्यां कुमाराभ्याम् उपगीयमानम् भगवतः वाल्मीके सरस्वतीनिष्यन्दम् रामायणं शुश्राव । तौ कुमारौ आपनसत्वायाः सीतायाः विवासनपर्यन्तम् कथाभागं चिरनिर्वृत्तमपि वर्तमानमिव अनुभूयमानं मधुरमधुरेण वाङ्मयेन प्रदर्श्य, उपरितनं सीतावृत्तान्त प्रकाशयितुं भगवान् वाल्मीकिरेव प्रमाणम्" इति उक्त्वा विरेमतुः। अथ श्रीरामभद्रः मनसि एवं विचारयामास । नूनम् एताभ्यां कुमाराभ्यां सीतागर्भसंभवाभ्यां भवितव्यम् । इदं हि प्राचेतसाध्यु. षितम् अरण्यम्, यत्र सा देवी परित्यक्ता ; इयं चानयोः भूयिष्ठम् अस्मत्संवादिनी प्राकृतिः ; अनयोः स्वतः प्रकाशानि जृम्भ- कास्त्राणि : मम च अपरिचितयोरपि एनयोः उपरि निरतिशयः चतूरागः, इत्येतत् सर्व मदीयामेव संभावनाम् उपोद्वलयलि । किं करोमि ? कं पृच्छामि ? इति । इत्थं विचिन्तयति श्रीरामभद्रे भगवान् भूतार्थवादी प्राचेतसः समागत्य रामभद्रम् एवम् उवाच । यदिदम् अस्माभिः पार्षेण चक्षुषा समुद्रीक्ष्य पावनं करुणाद्भुतरसं किञ्चित् उपनिबद्धम्, तच अभिनयाहम् अप्सरोभिः भगवान् भरतः प्रयोजयिष्यति । तदर्थम् भागीरथीतीरम् उपगम्य, समाजसंनिवेशः कर्तव्यः सधैच पौरजानपदाः लक्ष्मणेन सह तत्र संनिधापयितव्याः ; इति, रामभद्रश्च बाल्मीकिगौरवात् सध एव अयोध्यातः लक्ष्मणम् पाहूय सर्वाणि संविधानानि सविशेषम् अकारयत् । सदेवासुरतिर्य- म . .
( १०२ ) गुरगनायकाः मामाः सर्वे भूतत्रामाः वाल्मीकिना प्रभावेण संनिधापिताः रसभरभरितं तं प्रयोग प्रेक्षितुं सकुतूहलाः समाजग्मुः। कुशलवावपि श्रीरामभद्रस्य नियोगम् अनुसृत्य लक्ष्मणेन चन्द्रकेतुसदृशीम् स्थानप्रतिपत्तिम् लम्भितौ प्रेक्षको अभूताम् । अत्र प्रथम सूत्रधारः प्रविश्य 'भगवतः वाल्मीकः सरस्वतीनिष्यन्दस्य रामायणस्य करुणामृतमयः रसवन्तरः संदर्भः प्रयोक्ष्यते । तत्र कार्यगौरवात् भवद्भिः अवधातव्यम् ' इति प्रस्तावनाम् अकरोत् । अथ महावने लक्ष्मणेन परित्यक्ताम् श्रासनप्रसववेदनाम् श्वापदैः अभिलष्यमाणशरीराम् शरणाम भागीरथ्याम् श्रात्मानं निक्षिप्त- चतीम् तत्रैव दारकद्वयं प्रसूताम् सीताम् अवलम्ब्य पृथ्वीभागी- रथीदेव्यौ एकैकं दारकम् उत्सङ्के कृत्वा प्रविश्य ताम् एवम् प्राश्वा- सयामासतुः। समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे। अन्तर्जलं प्रसूतासि रघुवंशधरौ सीता तत् श्रुत्वा 'दिष्ट्या दारको प्रसूता अस्मि, हा आर्य पुत्र ! इति उक्त्वा मूर्छिता बभूव । अथ प्रतिपन्नसंज्ञाम तथाविधम् अवस्थान्तरम् श्रापन्नाम् सीतां दृष्ट्वा देवी विश्वंभरा निर्भरम् प्रालिङ्गय मूर्थिता बभूव । सापि भागीरथ्या समाश्वासिता एवम् आह-देवि ! सीतां प्रसूय कथम् प्राश्वसिमि । केवलम् असदर्श कर्म अनुष्ठितं रामभद्रेण । सुतौ॥
( १०३ ) न प्रमाणीकृतः पाणिः बाल्ये बालेन पीडितः। नाहं न जनको नाग्निः नानुवृत्तिन संततिः ॥ इति ॥ तां च भागीरथी एवं प्रत्युवाच च " प्रसीद भगवति वसुन्धरे । किम् असंविदानेन संसारस्य जामात्रे कुप्यसि ! कुलधन- मिदम् इक्ष्वाकूणाम्, यत् सर्वो लोकः सर्वात्मना समाराधनीयः। तत् किं करोतु वत्सा रामभद्रः" इति । अथ नेपथ्ये कलकलशब्द- संमिश्रम् अन्तरिक्षम् विधुदुधोतितमिव जज्वाल । तद्विज्ञाय पृथ्वी भागीरथ्यौ एवम् अवताम् । पूर्वम् अयोध्यायाम् आपनसत्वां सीतां विनोदयितुं लक्ष्मणः रामभद्रचरितानि श्रालेख्ये लेखयामास । तदर्शनसमये भगवतः विश्वामित्रस्य प्रसादेन प्रादुर्भूतानि जृम्भ- कास्त्राणि अभिधीक्ष्य रामभद्रः सीताम् एवम् उवाच ' सर्वथा इमानि अस्त्राणि त्वत्सृतिम् उपस्थास्यन्ति ' इति । तथैव तानि संति कुमारौ उपस्थातुं प्रादुर्भूतानि' इति । अथ सीता 'कः एतयोः क्षत्रियोचितानि कर्माणि करि- प्यति ?' इति चिन्ताम् आपेदे । भगवती भागीरथी ताम् एवम् आश्वासितवती । 'वत्से !किं तव अभया चिन्तया ? एतौहि वत्सौ स्तन्यत्यागात् परेण भगवतः वाल्मीकेः अर्पयिष्यामि,स एव एनयोः क्षत्रकृत्यानि करिष्यति' इति अथ सीता मातरम् एवम् अभ्यर्थ- यामास । नयतु माम् आत्मनाङ्गषु विलयम् अम्बा । न सहेऽहम् ईदृशं परिभवम् अनुभवितुम् इति । पृथ्वी तु 'वत्से ! स्तन्यत्यागं यावत् मनियोगतः पुत्रौ अवेक्षस्व । परेण तु यथा रोचते तथा करिष्यसि इति । एवं सम्यक अभिनीतं कथावस्तु अभिवीक्ष्य रामलक्ष्मणौ यदा 'जन्मसिद्धजम्कास्त्रो अवाप्तवाल्मीकि- शिष्यभावौ श्रीरामभद्रतुल्याकारौ द्वादशवय परिमाणौ कुशलवौ नूनं सीतागर्भसंभवावेव' इति उत्प्रेक्षेते तदा पृथ्वीभागीरथी- सीताः झटिति निश्चक्रमुः। समाप्तश्च अन्तर्नाटिकाभिनयः। अथ रामः 'कथं विलय एव वैदेह्याः संपन्नः ; हादेवि ! दण्डकारण्यवासप्रियसखि ! हा ! चारित्रवत । लोकान्तरं पर्यवसितासि' इत्युक्त्वा मूर्छितः भूमौ निपपात । लक्ष्मणः 'हा किमिदम् अत्याहितम्' भगवन् वाल्मीके । परित्रायस्व परित्रायस्थ आर्य रामभद्रम् इति उच्चैः आचक्रन्द । अथ वाल्मीकिना अनु- ज्ञाता भगवती अरुन्धती गङ्गापृथिवीभ्यां समर्पितां सीताम् आदाय सत्वरं रामभद्रस्य सकाशं नीत्वा 'वत्से ! त्वं पाणिना स्पृष्ट्वा राम- भद्र संजीवय' इत्युवाच । तया तथैव कृतेसमाश्वस्तः रामःसानन्द 'भोः किमेतत् ?' इति वदन् चतुरुन्मीलयामास । अथ अरुन्धती एवम् उच्चैः श्रावभाषे । भो भोः पौरजानपदाः! इयम् अधुना भगवतीभ्यां जाह्नवीवसुन्धराभ्याम् प्रशस्य मह्य समर्पिता पूर्वञ्च भगवता वैश्वानरेण निर्णीतपुण्यचरित्रा ब्रह्मादि- भिश्च देवैः स्तुतादेवयजनसंभवा जानकीपरिगृह्यते ; कथं भवन्तः मन्यन्ते ? इति । एवम् अरुन्धत्या निर्भसिताः सर्वाः प्रजाः सीतां नमश्चक्रुः । लोकपालाः देवर्षयश्च पुष्पवृष्टिभिः उपतस्थिरे । अथ अरुन्धती सीतां पाणिना गृहीत्वा रामभद्रम् उपसृत्य 'जगत्पते ! रामभद्र!
( १०५ )
नियोजय यथाधर्मम् ।
प्रियां त्वं धर्मचारिणीम् ॥
हिररामय्याः प्रतिकृतेः।
पुण्यप्रकृतिमध्वरे॥
इति प्राज्ञापयामास । तदानीमेव वाल्मीकिः कुशलवौ धानाय्य
समुपसृत्य 'वत्सौ कुशलवौ ! एषः रघुपतिः पिता युवयोः
लक्ष्मणः कनिष्ठ तातः, सीता च जननी, अयञ्च राजर्षिः जनकः
मातामहः' इत्युत्क्वा रामाय अर्पयामास । सीतारामभद्रौ, कुशलयौ
गाढम् आलिङ्गय निर्भरानन्दौ, सुचिरम् अानन्दशीतलम् वाष्पं
मुमुचतुः। तदानीमेव उत्खातलवणः मधुरेश्वरः समाजगाम । अथ
श्रीरामभद्रः सानुषङ्गाभिः कल्याणपरंपराभिः उपासितः परां
कोटिम् आनन्दस्य अध्यगच्छत् ।
इति
No text on this page.
NOTES
Page I
atpuffaut:-acute, shrewd.
Dieta-married.
fagyizinvited.
FIAT-a ball of flesh or egg.
Page 2
विनिस्सनु : -came out.
44exquisite beauty.
fartfan suur-when died.
991 17-remediless.
Hata-destruction of all.
Page 3
विद्राव्यमाणम् driven
away, liquified.
agta-its real nature.
FFCAT-made of bee's wax.
वैरप्रतियातनावसरम्-time to revenge.
Page 4
SUF 187H-first seat.
FTTTH - arrogantly.
क्षपणक
-a Jaina mendicant.
faph:--confidence.
न्यरुगत्
besieged.
Page 5
Fartu-through subterranean passage.
() FEFEC-intended to be given. Fiecaft-astrologer. Page 6 OTSTED—a female elephant. faciet-the elephant driver. असिपुत्रिका a knife. area-a lance. Page 7 footforyse a row of ants. sf - to attack. a-began. 96---fraudulent contrivances. Page 8 WON sfufti-spy. उपजापdisunion. T-seal. FETIC-having announced in public. Page 9 HITETTTT-treasury. #camp. अपकान्ताः absconded. Page 10 STTTT disaffection, Hur-marching against enemy. surfa STEET: -proper time. enemy.
( 3 )
Page II
iontzat-owing to importance of business.
TTS- having opened.
F12-compromise.
a-oral message.
Page 12
goruntza-presented.
TET-ATIHI912—having no other means.
Page 13
TOITO-murderers.
#friendship
F7797: --pleased.
(974-belonging to his father.
Page 14
9158--performed.
-perturbed.
uitga-skilled in playing with dice.
sfaca-every play.
Arghy-silent.
Page 15
forestfia-opened.
siyamexcessive.
gitaare:-with conciliatory words.
Page 16
T:mwvalue agreed by both parties in stipulation.
()
sfas-accepted.
garga:
-furious.
Page 17
ETATEmade ready.
चक्रव्यूह - circular array of troops.
stata-arrested.
ota-next day.
Page 18
gafatata owing to invisibility.
Stafa-untimely.
Forceafawill burst in pieces.
Page 19
ofast-grayish white.
atei - slaughter.
grød-attacked.
Page 20
fagdelirious.
sofa-unexpected.
स्तोक a little.
Page 21
fira-silent.
समन्तात
on all sides.
fai-shown.
Page 22
HST gesture.
afani-thirsty.
tremulous.
Page 23
collection of hair.
Page 24
ऋद्धिमान्-~-rich.
GTF-worship.
Page 25
stream-tinkling.
faruriay-send out.
EFECT-courtesy.
5014-request.
Page 26
utgara-science of theft.
-old or toru.
दूरक्षा
difficult to save.
Faisa-entrusted.
Page 27
दुर्दिन-cloudy days
#r-extremity.
ATTENT-a woman who meets her lover in
place of assignation.
Jagu-a litter for woman.
Page 28
OFFI started.
TE-iron chain.
अारक्षक watchman.
Page 29
free-having threatened.
saf#TFETTA --- court of justice.
Page 30
dig fan unexpected.
ERIÀTFT-adversity.
Page 31
graf-judge or magistrate.
Deswollen.
starfarneck.
Page 32
feraitan -to explain.
qrafia-covered.
Page 33
mofaar--adverse fate.
TITUTM-proclamation.
Page 34
gafaat:- proud.
श्रमणका a Budhist ascetic.
Page 35
a-residence of prostitutes
Page 36
Teat-seeking weak point.
TERF#rt-acting inconsiderately.
( )
Page 37
YETUA-younger.
ats-beauty.
hocaf enemy by nature.
Page 38
FILTE-company of traders.
FATTF1:- thieves.
Page 39
ATR-frontier guard.
TRT-on the
way.
Page 40
gitta girl.
stepsister's husband,
GY619- bringing over to one party.
Page 41
of-judge.
सुनीति: --a plan.
Page 42
99:
-to-morrow.
9:-next day.
FederTi--growing withered.
ci- kind of manuring of plants before
budding
Page 43
glas promised,
(5)
TETA-at the time of danger.
Jaga-pleasure garden.
sufa-incident.
Page 44
afia -- not empty having something present.
3798997-having removed.
Page 45
FIREF-eclipsed with planets indicative of evils.
Freifa-astrologer.
f--a place before the door.
patt:--serpent.
Page 46
fat-skilful.
Auf-to march against.
HETETTEU-valuable.
Page 47
Saat_of high birth.
T-a silk garment.
arcaicoa present.
faewafaarsti-without obstruction.
Page 48
thigh.
affar:--- ashamed.
3947Y-having worshipped.
Page 49
TOEIETT-news of victory.
TEUTATET:-troubled.
.
( )
Page 50
stadawas commenced.
faqat-confused in mind.
Tafaqalarnot taking into consideration.
Page 51
AJAT:—a conventional agreement of the gods.
farafaha:-power of fate.
Effetsma spark of the fire.
Page 52
Fifabird-catcher.
slag:-son of Urvasi.
fare:-war.
Page 53
Fiynia:-skilled in war.
#019-in throne.
Page 54
gauftë—to attract.
tfsi-a river.
yfarer-intoxicating.
sfare l-upper part of the mountain.
Afcat-a river.
Page 55
killing
FEZETE-destitute of beasts.
eithea- according to their desire.
Page 56
3990-to know
safadaar-by rolling.
afstay-joints of the body.
( १० १० ) Page 57 yaifaxramowing to absence. द्वैधीभूत-having doubt. निरुपलव-without disturbance. Page 58 विस्तम्भकथितानि-confidential talks. अपदेश-pretext. दर्भादि-read as दर्नाद. Page 59 यासज्यमान-attracted. उपहित- --placed. TETE --being away from home. प्रापन्नसत्वा---pregnant. Page 60 स्वस्तिवाचनिक -offering blessings. उपायंस्त----married. प्रत्यायक-making clear. Page 6r प्रघात-an airy place. 36 qaf--formerly married. धीघर-fisherman. प्रतिकृति-a picture. Page 62 छेदः~-break. सार्थवाह-a merchant. वैक्लव्य-dejection.
88 )
Page 63
शाकुन्तलेय -son of Shakuntala,
Atea legitimate son.
TEST-cruelty.
Page 64
acquisition.
Fafaa--forgetting.
Page 65
gzige-man of business.
सतीर्थ्य a fellow student.
agri-flag.
SEAT—trying.
gafaqa-to accomplish.
Page 66
girafa metaphysics.
gfGST-sent.
स्त्रज garland.
श्रदसीयं-of his
उपसंहृतवती. attracted.
करेणुका a female elephant.
gif-daughter of nurse.
Page 67
AgETH177being requested.
fer--compounded.
ETATETHvery much emaciated.
grasa picture.
featca-means of diversion.
( १२ ) ma- Pawa- Page 68 कुब्जक-name of a creeper. इतिहास---ancient stories. 'पञ्जर-a cage. निगडित-fettered. a sav. Page 69 श्रास्कन्दितुं -to kill. बदुलीभवन्तीम-spreading. परापतन्-coming. Page 70 संवलित-smeared. aceitbecame hasty. अलिन्द a terrace before a house. Page 71 'प्रारभार multitude or heap. द्विगुणित -doubled. उपकरणम्--implement. दुर्वार restless. पर्यवष्टब्धवान्-surrounded. Page 72 अपोढ -removed. कोण -a. corner. प्रेक्षणीय-beautiful. निर्विशेष-equal. TET--highly esteemed. Page 73 यवनिका screen. सुशिलष्ट-well fitted. -- RAN ww
१३ )
Hafaa-excited.
aras--not favourable.
Page 74
FEETFAI - confidential talk.
HI-public.
FETT—a side gate.
अभियोग attack.
Page 75
प्रत्यन्तरीभवितुं to assist.
fac?:-into pieces.
Fegda-deceiving.
Page 76
Toto-follower of Jaina religion
31-having recognised.
संस्तुत acquainted.
FEETTdwelling-place.
UT-valley.
Page 77
fHT--practice.
aca-fire.
प्रपात
precipice.
faefa-happiness.
Page 78
gtat-praiseworthy..
aast son of Brahma.
Syar-religious rites.
( 28 )
Frie-invited.
-sacrifice.
Page 79
-union or assault.
spevtrue.
Page 80
À--fearful.
STATT~killing
TFTcommencement.
IT-Raksh asa.
Page 81
gait:accepted.
ST- uproar.
-word.
Page 82
ETTEI H-presented at the time of marriage.
farver-cruel action.
Fahre-induced.
T7 - breaking.
TATTU-destroying.
Page 83
FATTETIT --without hindrances.
उपमर्दकः -a destroyer.
Trisgre-making devoid of.
Page 84
Strof-impending.
fa-subjects.
ferdanger arising from allies,
( 94 ) V. qeat-having joined together. Fage-absence. Page 85 पर्युत्सुकः eagerly desirous. avatuhy made of gold. anak-sorrow. Page 86 wicked. paafthaving seen. Treur-loving. surat-having deceived. Page 87 Agafera--foreseen. 52-concealed. gfargent. Page 88 safarga promised, fara-killed. fac-fearful. 'पाथोनाथ -ocean Page 89 ala-talkative. força-thrown. CAT-the time of universal destruction. YETa desire to fight. TEAT-the heart. ATETT-the front of the army.
( १६ ) -- R- जिघसा -desire to eat. प्रधन-battle. Page 90 पीयुषाशनः-gods. कौलीन -an evil report. पातिव्रत्या-rend as पातिव्रत्यया वैमानिक -gods. सीमन्तित-divided. लोपामुद्रा-name of the wife of the suge Agastya, प्रवृत्ति-inews. Page 91 वात्सल्य-kindness. तीर्थसलिल-holy water. Page 92 उदीर्ण-arrogant. उपप्लुत-disturbed. संभाव्य-giving respects. Faraps--independence. Page 93 दोहद:-longings. अपदान-events. उपधान-a pillow. Page 94 अपसर्प- spy. शुद्धान्त-Zanana. अन्तर्जलम्-in water. दारक---child.
( 33 )
Page 95
901-the three Vedas.
TTTTT-a metre having eight letters in each line.
T9-by chance.
Page 96
qarę:
-carelessness.
1072-guests.
Tal-false.
Page 97
Tart- exclamation of distress.
efault.
satu-without.
qaret-true meaning.
Page 98
fafaa-rumbling of thundering clouds.
gef-touched.
HT-accomplished.
conversation.
Page 99
gråar evil result.
HJETU-resembling.
Page 100
garfait is said.
gefa:-having pride.
Tag :-surrounded.
faruara-attacked.
Tota--melted.
fro -
( 85 )
विरेमतुः
நம
Page IOI
becaine silent.
Hal-resembling.
তবলাবলি supports.
Page 102
fara -respect.
H-a portion of the work.
SETTI-goddess of earth.
Page 103
safarr--not knowing.
GET-picture.
gara-child.
Page 104
FagT:--disappearance.
afts-good conduct.
9737€-having praised.
देवयजन - place of sacrifices.
qaftert--worshipped.
Page 105
--younger.
ATATH&-naternal grandfather,
greradestroyed.
El connected with each other.
No text on this page.