Bharatiya Vidya Bhavan Library, Mumbai

The Prachina Lekha Mala Vol-i

Pandit,durgaprasad · 2012/10

PDF Proofread

Front matter

Minue
HAR
BHA
काव्यमाला ३४.
माला
SN....
LIBR
पाँचीनलेखमाला।
(प्रथमो भागः।)
जयपुरमहाराजाश्रितेन पण्डितम्रजलालसूनुना
महामहोपाध्यायपण्डितदुर्गाप्रसादेन,
परबोपाहेन पाण्डुरङ्गतनूभुवा
काशीनाथशर्मणा च
संशोधिता।
सा च
मुम्बय्या निर्णयसागरास्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीता।
१८९२
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि-
पतैरैवाधिकार:
मूल्यं ॥ रूप्यकः।

प्राचीनलेखमालाया अनुक्रमणी) श्छम् । १ .... .... .... ४ .... .... .... .... .... लेखाङ्काः । १. धारानगराधिपसुप्रसिद्धभोजमहीपतेः पितामहस्य वाक्पति- राजस्य दानपत्रम् २. धारानगराधिपतेः सुप्रसिद्धस्स भोजनरेन्द्रस्य दानपत्रम् ३. धारानगराधिपतिसुप्रसिद्धभोनमहीपतेश्यस्यार्जुनवर्मदेवस्य दानपत्रम् ४. राष्ट्रकूटोद्भवभरुकच्छाधिपतेः श्रीमदकालवर्षदेवसूनोः श्रीधु- वराजदेवस्य दानपत्रम् ५. राष्ट्रकूटोद्भवलाटदेशाधीश्वरकर्कराजमहीपतेर्दानपत्रम् ६. राष्ट्रकूटवंशोद्भवस्य चतुर्थगोविन्दनृपतेर्दानपत्रम् २३ ७. चौलुक्यवंशोद्भवस्य लाटदेशाधिपतेत्रिलोचनपालस्य दानपत्रम् २७ ८. श्रीधरणीवराहाख्यमहीपतेर्दानपत्रम् ३२ ९. राष्ट्रकूटर्यशोद्भवस्य द्वितीयकर्कराजस्य दानपत्रम् १०. राणासमरसिंहस्य प्रशस्तिः ११. राष्ट्रकूटवंशोद्भवस्य द्वितीयप्रभूतवर्षमहीपतेर्दानपत्रम् । १२. मथनदेवमहीपतेनपत्रम् ५३ १३. श्रीपृथ्वीकोङ्गणिमहाराजस्य दानपत्रम् १९. यादववंशोद्भवस्य वीरवल्लालदेवमहीपतेर्दानपत्रम् १५. गुप्तवंशोद्भवस्य श्रीमहाभवगुप्तदेवस्य दानपत्रम् १६. चालुक्यवंशोद्धवस्य श्रीचुलकेशिनः शिलालेखः १७. वलभीप्रभोर्महाराजभ्रवसेनस्य दानपत्रम् . १८. शिलाहारवंशोद्भवस्य श्रीछित्तराजदेवस्य दानपत्रम् १९. श्रीविष्णुगोपवर्मणो महीपतेर्दानपत्रम् २०. अविनीतमहीपतेनपत्रम् .... .... .... .... .... .... .... .... .... .... .... .... ७४ .... .... ७७ .... ....

२ १ .... .... .... .... .... .... .... .... .... .... .... .... .... २१. ग्वाल्हेरनगरोपकण्ठस्थितगिरिदुर्गे पद्मनाभदेवालये सगुत्कीणी प्रशस्तिः २२. कान्यकुलाधीशविनयचन्द्रमहीपतिसून्युवराजजयचन्द्रस्य दानपत्रम् २३. कान्यकुब्जेश्वरश्रीजयचन्द्रमहीपतेर्दानपत्रम् २४. महाराजश्रीमहेन्द्रपालस्य दानपत्रम् १०४ २५. महाराजश्रीविनायकपालस्य दानपत्रम् १०५ २६. मन्दसोरनगरस्थसूर्यमन्दिरप्रशस्तिः १०७ २७. मन्दसोरनगरकूपस्थितप्रशस्तिः .... ११२ २८. यशोधर्ममहीपतेः प्रशस्तिः '२९. श्रीनारायणपालदेवस्य दानपत्रम् ११८ ३०. वलभीप्रभोः श्रीधरसेनमहीपतेर्दानपत्रम् १२२ ३१. बौद्धगयामन्दिरस्थशिलालेखः १२५ ३२. कोटानान्तस्यविहारप्रशस्तिः १२७ २३. भरतपुरदेशान्तर्वर्तिव्यानानगरस्थप्रशस्तिः १२९ ३४. सत्यवर्ममहीपतेदनपत्रम् . १३० ३१. चालुक्यवंशोद्भूतराजराजापरनामश्रीविष्णुवर्धनमहीपतेर्दान- पत्रम् ३६. कुलोत्तुङ्गचोडदेवमहीपाश्रितकाटदण्डाधिनाथस्य दानपत्रम् ३७. श्रीभद्रबाहुप्रशस्तिः ३८. श्रीमल्लिपेणप्रशस्तिः १४४ ३९. यादयवंशोभूतकृष्ण(कहर)महोपालामात्यमलिसेहिदानपत्रम् १५५ ४०. नेपालमहीपालसिद्धिनृसिंहमल्लस्य प्रशस्तिः ४१. नेपालपालस्य श्रीजयदेवमहीपतेः प्रशस्तिः ४२. प्रतापमल्लनृपतिप्रासादप्रशस्तिः ४३. नेपालक्षितिपालवंशावलिः १७३ .... .... .... .... .... .... .... .... .... .... .... .... .... ....

.... .... .... .... .... .... .... .... .... ४४. द्रविडदेशपालविजयभृपालदानपत्रम् ४५. कुमारपालकारितवडनगरप्राकारप्रशस्तिः १८१ ४६. कुरुक्षेत्रप्रान्तवर्तिपृथूदकक्षेत्रस्यविष्णुमन्दिरप्रशस्तिः ४७. सोमनाथक्षेत्रस्थस्य कस्यचन प्रासादस्य प्रशस्तिः ४८. मालवमहीपालप्रशस्तिः ४९. कम्बोजदेशस्थशिवालयप्रशस्तिः ५०. कम्बोजदेशस्थशिवालयप्रशस्तिः (द्वितीया) २०२ ५१. महपुरस्थशिवालयप्रशस्तिः' २०४ १२. चालुक्यवीरचोडमहीपतेनपत्रम् २०५ ५३. चालुक्यविष्णुवर्धनमहाराजदानपत्रम् २१२ ५४. श्रीबदरिकाश्रमयात्रान्तर्गतपण्डकेश्वरमन्दिरोपलव्धदानपत्रम् २१६ ५५. सुप्रसिद्धश्रीवीरबुकरायसुतहरिहरमहाराजस्य दानपत्रम् २१८ ५६. श्रीलक्ष्मीवर्मदेवानां शासनपत्रम् २२२ ५७. श्रीमदमोघवर्षदेवापराभिधानश्रीमद्वाक्पतिराजदेवानां शासन- पत्रम् २२४ ५८. श्रीशिवसिंहदेवनृपतीनां शासनपत्रम् ५९. यादववंशभूपणरामभूपतिदानपत्रम् २२७ ६०. राज्ञः श्रीशिवसिंहदेवस्य दानपत्रम् २३३ ६१. वलभीप्रभोः प्रथमशिलादित्यस्य दानपत्रम् २३५ ६२. श्रीध्रुवराजदेवस्य शासनपत्रम् ... २२५ .... .... .... .... .... .... .... - र पाल काव्यमाला प्राचीनलेखमाला। भोः काव्यमालानुप्राहका विद्वन्मुकुटमणयः, अस्तु वः संविदितम्, यथा किल पहु. विधविद्यापारंगमैराधुनिकैः पण्डितवरैः प्राचीनमहीपतीनां दानपत्राणि प्रशस्तयः शि- लालेखाश्च नानादेशेषु भूयसा परिश्रमेण राजाश्रयेण चान्विप्यान्विष्य 'इण्डियन् आण्टि- केरी', एशियाटिक रिसचिस्', 'आर्कियालॉजिकल सर्वे', 'रॉयल एशियाटिक सोसायटी जर्नल', 'अमेरिकन् ओरिएण्टल सोसायटीज जर्नल', 'पेझॉल एशियाटिक सोसायटीज जर्नल', 'बॉम्बे वाच आधी रॉयल एशियाटिक सोसायटीज् जर्नल', इत्यादिपुस्तकेषु ना- नाविध रिपोर्ट पुस्तकेयु च प्रतिदिनं प्राकाश्यं नीयन्ते । तेषु क्वचिक्वचिदतिरुचिरं क- वित्वमुपलभ्यत इति तत्परिशीलनेन कविताचातुरी प्राचीनेतिहासज्ञानं च युगपदेव समु. पजायते । अतस्तत्तत्पुस्तकेभ्यस्तादृशलेखानामयं संग्रह आरब्धः । भविष्यति चाय- मावयोर्यत्लो युष्माकं संतोपावह इति दृढ़ संभावयावः । काव्यमालासंपादकी दुर्गाप्रसाद-काशिनाथी। (१) धारानगराधिपसुप्रसिद्धभोजमहीपतेः पितामहस्य वाक्पतिराजस्य दानपत्रम् । याः स्फूर्नत्फणभृद्विपानलमिलहूमप्रभाः मोलस- न्मूर्धाबद्धशशाङ्ककोटिघटिता याः सैहिकेयोपमाः । याश्चञ्चगिरिजाकपोललुलिताः कस्तूरिकाविभ्रमा- स्ताः श्रीकण्ठकठोरकण्ठरुचयः श्रेयांसि पुष्णन्तु वः ।। यलक्ष्मीवदनेन्दुना न मुखितं यन्नादितं वारिधे- रा यन्न निजेन नाभिसरसीपझेन शान्ति गतम् । यच्छेपाहिफणासहस्रमधुरश्वासै चाश्वासितं तद्वाधाविरहातुर मुररिपोछहपुः पातु वः ।।

काव्यमाला। -- . परममहारकमहाराजाधिराजपरमेश्वरश्रीकृष्णराजदेवपादानुध्यातप- रममारकमहाराजाधिराजपरमेश्वरश्रीवैरिसिंहदेवपादानुध्यातपरमभटा- रकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यातपरमभधारकमहारा- जाधिराजपरमेश्वर श्रीमदमोघवर्षदेवापराभिधानश्रीमद्वाक्पतिराजदेवष्ट- थ्वीवल्लभश्रीवल्लमनरेन्द्रदेवः कुशली श्रीनर्मदातटे गर्दभपानीयभोगे गर्दभपानीयसंवन्धिनि उत्तरस्यां दिशि पिप्परिकानाम्ना तडारे समुपगतान्स- मस्तराजपुरुपान्ब्राह्मणोत्तरान्मतिवासिपहकिलजनपदादींश्च बोधयति- अस्तु वः संविदितम्, यथा तडारोऽयमस्मामिः आघाटाः पूर्वस्यां दिशि "विवेकात्यक्तराज्येन राज्ञेयं रलमालिका । रचितामोघवर्षेण विदुपां सदलं- कृतिः ।। इति प्रश्नोत्तररलमालाकर्तायमेवामोघवर्षः कम्विदन्यो वेति संदेहः. २. वाक्प- तिराज इति मुझस्यैव नामान्तरं माति. दशरूपावलोके चतुर्यपरिच्छेदे "प्रणयकुपितां दृष्ट्या देवी-' इत्यादिश्लोकः श्रीवाश्पतिराजदेवनाना समुद्धृतः. तत्रैव च पुनरयमेव श्लोकः श्रीमुजनाना समुदृतः. एवं पिङ्गलसूत्रत्तो हलायुधेन 'ग्रामक्षाकुलीनः प्रलीनसामन्त- चक्रनुनचरणः । सकलमुकृतकपुनः श्रीमान्मुशश्चिरं जयति ॥', 'जयति भुवनेकवीरः सीरायुधलितविपुलपलविभवः । अनवरतवित्तवितरणनिर्जितचम्पाधिपो मुगः ॥', 'स जपति यायपतिराजः सफलार्थमनोरर्थककल्पतरुः । प्रत्याधिभूतपापवलक्षमीहठहरण: दुर्ललितः । एतासूदाहतास्वार्यास्ताद्विये मम इति, वतीयार्यायां च वाक्पतिराज इति । नामास्ति. अथ चतदानपत्रस्य संवत्सरे (१०३१), सुभाषितरत्नसंदोहास्यप्रन्यान्ते जैनेनामितगतियतिना 'समारो तत्रिदिवसांत विक्रमपे सहसे वर्णणां प्रभवति.हि पयाशदपिके (१०५०)। समाप्तं पक्षम्यामवति धणि मुअनृपती सिते पक्ष पाये युपदितमिदं शासमनयन् ।।' इत्युचे मुअमहोपतिराग्यसमये च स्वपमेवान्तरमस्ति, तस्मादस्ति यापपतिराम इति मुनस्य नामान्तरमिति भाति. मुजो भोजस्य पिळव्य आसो. मिति भीजप्रपन्योतिस्तु प्रमाणान्तराभावानातिभ्रद्धेया. धापपतिराजसमये उज्जयि. न्येव राजधान्यामादित्यस्मानपगत्, 'अस्ति क्षितायुज्जयिनीति नागा पुरी पिदाय- एममरायीय । पपन्य यस्यो पदमिन्दाल्पो महीपतियांपतिरामदेवः । तस्मारप- रिमारिपनीनवगाहमायरिनाम्यागेकाप प्रापले. भारानारोतु मो. जोनल गमधानी नीता. कपिपतिराजभीमयभूम्यादिसचितः । जितो ययी यशो- गमा समातृतियन्दितान ' (11४५) इति राजतरहिन्यां गांपतो गोलपारमा. मागतो धीमलागुभाशिष्यः पान्यरुन्जाधीरानन्दारितो वाक्पतिराज- प.नि. निग्मादमनमरागमनन त्यस्मादिन. 1. 'पा' त्यारम्य 'लक्षि- तामिः' एलाननन्गितलाव रेयः.

३ १ लेखः] प्राचीनलेखमाला। अगारवाहला मर्यादा, तथोत्तरस्यां दिशि चिखिच्छिकासत्कगायासमा- यता मर्यादा, तथा पश्चिमदिशि गर्दभनदीमर्यादा, तथा दक्षिणस्यां दिशि श्रीपिशाचदेवतीर्थमर्यादा, एवं चतुराघाटोपलक्षिताभिरेकत्रिंशसा- हस्तिकसंवत्सरेऽस्मिन् भाद्रपदशुक्लचतुर्दश्यां पवित्रकपर्वणि श्रीमदुजयि- नीसमावासितैः शिवतडागाम्भसि स्नात्वा चराचरगुरुं भगवन्तं भवानीपति- मभ्यर्च्य संसारस्याप्तारतां दृष्ट्य .'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधरो विपयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ भ्रमत्संसारचक्रामधाराधारामिमां श्रियम् । प्राप्य ये न ददस्तेषां पश्चात्तापः परं फलम् ॥' इति जगतो विनश्वरं सकलमिदमाकलय्य उपरिलिखिततडारः खसीमत- णकाष्ठयतिगोचरपर्यन्तः सवृक्षमालाकुलः सहिरण्यभागभोगः सोपरिकरः सर्वादायसमेतः अहिच्छत्रविनिर्गताय धामदक्षिणप्रपन्नाय ज्ञानविज्ञानसंप- नाय श्रीमद्वसन्ताचार्याय श्रीघनिकपण्डितसूनवे मातापित्रोरात्मनश्च पुण्य- यशोभिवृद्धये अदृष्टफलमगीरुत्य आचन्द्रार्कीर्णवक्षितिसमकालं परया भ- त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा तन्निवासिजनपदैर्यथादीयमा- नभागभोगकरहिरण्यादिकं सर्वमानाश्रवणविधेयैर्भूला सर्वदास्मै समुपनेत- व्यम् । सामान्यं चैतत्पुण्यफलं बुड्वास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्म- प्रदत्तधर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं च-- 'बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ अस्मत्कुलक्रममदारमुदाहरद्धि- रन्यैश्च दानमिदमम्यनुमोदनीयम् । १. दशरूपावलोककर्ता अयमेव धनिकपण्डितः स्यादिति.माति.

४ ; काव्यमाला। लक्ष्म्यास्तडित्सलिलबुद्रुदचञ्चलाया दानं फलं परयशःपरिपालनं च ॥ सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयोभूयो याचते रामभद्रः। सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ॥ इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुप्यनीवितं च । सकलमिदमुदाहृतं च बुद्दा नहि पुरुपैः परकीर्तयो विलोप्याः ।। इति ॥ सं० १०३१ भाद्रपदसुदि १४ स्वयमाज्ञादायकश्वान श्री- कण्हपैकः । स्वहस्तोऽयं श्रीवाक्पतिराजदेवस्य ॥ (इण्डियन् आण्टिक्वेरी ६ । ५१-५२) (२) धारानगराधिपतेः सुप्रसिद्धस्य भोजनरेन्द्रस्य दानपत्रम् । जयति व्योमकेशोऽसौ यः सर्गाय विभर्ति ताम् । ऐन्दवी शिरसा लेखां जगद्वीजाकुराकतिम् ॥ तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः। कल्पान्तसमयोद्दामतडिद्वलयपिङ्गलाः॥ परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुभ्यातपरमभ- धारकमहाराजाधिरानपरमेश्वरथीवाक्पतिराजदेवपादानुध्यातपरमभट्टा- रकमहाराजाधिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपरमभधारकम- १. हस्ताक्षराणि वास्पतिराजदेवस्येति तात्पर्यम्. २. सिन्धुराजपर्यन्तमप्युज यिन्या राजधान्यासीत. 'अस्तिक्षितायुग्जयिनीति नाम्ना' इत्यादि प्रथमलेखटिप्पणलि. सितलोकानन्तर नवसाहसाइचरिते चत्वारिशच्लोफरज्जयिनी वाणता. तदनन्तरम् 'राजास्ति तस्यां स फुलाचलेन्द्रनिकुजविधान्तयशस्तरङ्गः । मास्वान्प्रहाणामिय भूए- तीनामवाप्तसाल्यो धरि सिन्धुराजः॥ (11५८)', 'दोचन्दनानोफहमाघ्य यस्य समुल- सत्मादपरा सूना 1 गतातिर्थीद लालीलतेव निषद्धमला परमारलक्ष्मीः॥ (110) इयुग्मयिन्यामेप सिन्धुरानोऽपि वागतः. मिन्धुलः, सिन्धुलफा, इति नामद्वयेनापि माचिसिन्धुराजनिश:. नक्साइसाइचरितं च परिमलेन सिन्धुराजसमय एय निर्मितम्.

२ लेख: प्राचीनलेखमाला। ६ हाराजाधिराजपरमेश्वरश्रीभोजदेवः कुशली नागदपश्चिमपथकान्तःपाति वीराणके समुपगतान्समस्तराजपुरुपान्ब्राह्मणोत्तरान्मतिनिवासिपहकिल- जनपदादींश्च समादिशति-अस्तु वः संविदितम्, यथा अतीताटसप्तत्य- धिकसाहतिकसंवत्सरे माघासिततृतीयायां रवावुदगयनपर्वणि कल्पि- • तहलानां लेख्ये श्रीमद्धारायामवस्थितैरस्माभिः स्नात्वा चराचरगुरुं भग- वन्तं भवानीपतिं समभ्यर्च्य संसारस्यासारतां दृष्ट्वा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विपयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ भ्रमत्संसारचक्रामधाराधारामिमां श्रियम् । प्राप्य ये न ददुस्तेपां पश्चात्तापः परं फलम् ॥' इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितमामः स्वसीमातृणा- गोचरयतिपर्यन्तः सहिरण्यभागभोगः सोपरिकरः सर्वादायसमेतः बाह्म- गधनपतिभट्टाय भट्टगोविन्दसुताय बचाश्वलायनशाखाय त्रिप्रवराय वेल्लवल्लप्रतिवहश्रीवादाविनिर्गतराधमुरसङ्गकर्णाटाय मातापित्रोरात्मनश्च पुण्ययशोभिरद्धये अदृष्टफलमगीकृत्य आचन्द्रार्कीर्णवक्षितिसमकालं यावत्परया भक्त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा यथादीयमा- नभागभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्वमस्मै समुपनेतव्यम् । सामान्यं चैतत्पुण्यफलं बुद्धास्मदशनैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्त- धर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं च- 'बहुभिर्वसुधा दत्ता राजमिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ यानीह दत्तानि पुरा नरेन्द्रर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ।। १. अधुना येषां 'पटैल' इति नाना व्यवहारः. २. धारानगर्याम,

काव्यमाला।
अस्मत्कुलक्रममुदारमुदाहरद्भिः
रन्यैश्च दानमिदमम्यनुमोदनीयम् ।।
लक्ष्म्यास्तडित्सलिलबुद्दचञ्चलाया
दानं. फलं परयशःपरिपालनं च ॥
सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ।
सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ।।
इति कमलदलाम्बुचिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च ।
सकलमिदमुदाहृतं च बुद्धा नहि पुरुपैः परकीर्तयो विलोप्याः ॥'
इति ॥ संवत् १०७८ चैत्रसुदि १४ वयमाज्ञामङ्गलं महाश्रीः । स्वहस्तो-
ऽयं श्रीमोजदेवस्य ॥
(इण्डियन् आण्टिक्वेरी ६।५३-५४)
धारानगराधिपतिसुप्रसिद्धभोजमहीपतेवैश्यस्या-
र्जुनवर्मदेवस्य दानपत्रम् ।
ॐ नमः पुरुषार्थचूडामणये, धर्माय ।
प्रतिबिम्बनिभावूमेः कृत्वा साक्षात्परिग्रहम् ।
जगदाहादयन्दिश्याहिजेन्द्रो मङ्गलानि वः ।।
जीयात्परशुरामोऽसी क्षत्रैः क्षुण्णं रणाहतैः ।
संध्यार्कविम्बमेवोदिातुर्यस्यैति ताम्रताम् ॥
येन मन्दोदरीनाप्पवारिभिः शमितो मृधे ।
प्राणेश्वरीवियोगाग्निः स रामः श्रेयसेऽस्तु वः ।।
भीमेनापि धृता मूनि यत्पादाः स युधिष्ठिरः ।
वंशायेनेन्दुना जीयात्स्वतुल्य इव निर्मितः॥
1. दानवीराणों परशुरामरामयुधिष्ठिराणां वर्णनं दानपत्रारम्भे समुचितमेव. प्रथ.
मोके च प्रतिमहोतद्विजराजस्य वर्णनम्, २. ताम्रपत्रत्वम्. ३. शंभूना, गृकोदरेण च.
४. रस्मयधरणाय.

३ लेसः]
प्राचीनलेखमाला।
।
परमारकुलोत्तंसः कंसजिन्महिमा नृपः ।
श्रीभोजदेव इत्यासीन्नासीराक्रान्तभूतलः ॥
यद्यशश्चन्द्रिकोद्दयोते दिगुत्सङ्गतरङ्गिते ।
द्विपन्नृपयशःपुक्षपुण्डरीकैनिमीलितम् ।।
ततोऽभूदुदयादियो नित्योत्साहैककौतुकी ।
असाधारणवीरश्रीरश्रीहेतुविरोधिनाम् ॥
महाकलहकल्पान्ते यस्योद्दामभिराशुगैः।
कति नोन्मूलितास्तुङ्गा भूभृतः कैटकोल्लणाः॥
तस्माच्छिन्नविपन्मर्मा नरवर्मा नराधिपः ।
धर्माभ्युद्धरणे धीमानभूत्सीमा महीभुजाम् ॥
प्रतिप्रभातं विप्रेभ्यो दत्तैग्रामपदैः स्वयम् ।
अनेकपदतां निन्ये धर्मों येनैकपादपि ॥
तस्याजनि यशोवर्मा पुत्रः क्षत्रियशेखरः।'
तस्मादजयवर्मामूजयश्रीविश्रुतः सुतः ॥
तत्सूनुरिमूर्धन्यो धन्योत्पत्तिरजायत ।
गुर्नरोच्छेदनिर्बन्धी विन्ध्यवर्मा महाभुजः ॥
धारयोद्धृतया साध दधाति स्म त्रिधारताम् ।
सांयुगीनस्य यस्यासिस्त्रातुं लोकत्रयीमिव ।।
तस्यामुप्पायणः पुत्रः सुत्रामश्रीरयाशिपत् ।
भूपः सुभटवर्मेति धर्मे तिष्ठन्महीतलम् ॥
यस्य ज्वलति दिग्जेतुः प्रतापस्तपनद्युतैः ।
दावाग्निच्छद्मनाद्यापि गर्नन्गुर्जरपत्तने ॥
१. बाणैः, पवनैश्च, २. राजानः, पर्वताश्च, ३. सैन्यम्, नितम्बश्व. ४. धारया न.
गर्या उद्धृतया उन्नति नीतया. ५. धाराद्वयं सदस्य, हतीया च धारानगरो. ६. ख्या-
तवंशोद्भवः.

८ काव्यमाला - देवभूयं गते. तस्मिन्नन्दनोऽर्जुनभूपतिः । दोणा धत्तेऽधुना धात्रीवलयं वलयं यथा ।। बाललीलाहवे यस्य जयसिंहे पलायिते । दिक्पालहासव्याजेन यशो-दिक्षु विजृम्भितम् ॥ काव्यगान्धर्वसर्वस्वनिधिना येन सांप्रतम् । भारावतरणं देव्याश्चक्रे पुस्तकवीणयोः ॥ येन त्रिविर्धवीरेण त्रिधा पल्लवितं यशः । धवलत्वं दधुस्त्रीणि जगन्ति कथमन्यथा ॥ स एप नरनायकः सर्वाभ्युदयी पगाराप्रतिजागरणके 'नर्मदोत्तरकूले हथिणावरग्रामे पूर्वराजदत्तावशिष्ठायां : भूमौ समस्तरानपुरुषान्ब्राह्मणो- त्तरान्प्रतिनिवासिपकिलजनपदादीश्च बोधयति-अस्तु वः संविदितम्, यथा श्रीमदमेरेश्वरती वस्थितरस्माभिदिसप्तत्यधिकद्वादशशतसंवत्सरे भा- द्रपदपौर्णमास्यां चन्द्रोपरागपर्वणि रेवाकपिलयोः संगमे स्नात्वा भगवन्तं भवानीपतिमोंकारं लक्ष्मीपति चक्रवामिनं चास्यर्च्य संसारस्यासारतां दृष्ट्वा तथा हि- 'वातानविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः । प्राणास्तुणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ इति सर्व विमृश्यादृष्टफलमङ्गीकृत्य मुक्कावस्थस्थानविनिर्गताय वाजसनेय- शाखाध्यायिने काश्यपगोत्राय काश्यपावत्सारनैध्रुवेति त्रिप्रवराय आवस- १. अनेनवार्जुनभूपतिना रसिकरजिनीसमाख्या अमरुशतकटीका प्रणीतास्ति. 'क्षिप्ताशुभः सुमटवर्मनरेन्द्रसुनुवीरवती जगति मोजकुलप्रदीपः । मरुकस्य कवेः प्रसारःोकान्शतं () विश्णुतेऽर्जुनवर्मदेवः । अयं शोकस्तत्प्रारम्भ वर्तते. २. अये गुजरातदेशाधिपतेः सिद्धराजजयसिंहादन्य एव कश्विद्भाति. यतः सिद्धराजजयसिंहराज्यं ११९५ विक्रमसंवत्सरपर्यन्तमासीद. एतद्दानपत्रं त्वस्मा- संवत्सरारिसप्ततिवर्यानन्तरं लिखितम्. ३. 'वीणापुस्तकधारिणीममयदा' इत्यादि सर- स्वत्या वीणापुस्तकधारणं प्रसिद्धमैत्र. ४. दयावीरेण, दानवीरेण, युद्धवीरेण च. . A प्रज्ञानवान- ३ लेखः] प्राचीनलेखमाला। थिकदेहप्रपौत्राय पण्डितसोमदेवपौत्राय पण्डितनेत्रासिंहपुत्राय पुरोहितप- ण्डितश्रीगोविन्दशर्मणे नाह्मणाय भूमिरियं चतुःकण्टकविशुद्धा सक्षमाला- कुला सहिरण्यभागभोगा सोपरिकरवटादायलवणादायेत्यादिसर्यादायस- मेता सनिधिनिक्षेपा मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये चन्द्रार्का- जवक्षितिसमकालं यावत्सरया भक्त्या शासनेनोदकपूर्व प्रदत्ता । तन्मत्वा तन्निवासिपकिलजनपदैर्यथादीयमानभागभोगकरहिरण्यादिकमानाविधे- यैर्भूत्वा सर्वममुष्मै दातव्यम् । सामान्यं चैतत्पुण्यफलं बुद्धास्मद्वंशजैरन्यैरपि माविभोक्ताभिरस्मत्मदत्तधर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं च- 'बहुभिर्वसुधा दत्ता रानभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमि वा पितृभिः सह मजति ॥ सर्वाने भाविनः पार्थिवेन्द्रान्भूयोभूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ।। इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च बुद्धा नहि पुरुपैः परकीर्तयो विलोप्याः ।।' इति ॥ संवत् १२७२ भाद्रपदसुदि १५ बुधे । दू । श्रीमु ३ । रचित- मिदं महासांधि० राजासलखणसंमतेन राजगुरुणा मदनेन । स्वहस्तोऽयं महाराजश्रीअर्जुनर्मदेवस्य । उत्कीर्ण प० बाप्पदेवेन ॥ (अमेरिकन् ओरिएण्टल सोसायटीज जर्नल ७ मागे) (४) श्रीमदकालवदेवसूना श्रीधुवराजदेवस्य दानपत्रम् । ॐ स्वस्ति । से वोऽव्याद्वेधसा धाम यन्नाभिकमलं कृतम् । हरश्च यस्य कान्तेन्दुकलया कमलंरुतम् ।। १. वैघसा ब्रह्मणा यनाभिकमलं धाम कृतं सः, अर्याद्विष्णुः, वोऽच्यात् युष्मान् रक्षतु. हरः शिवश्च वोऽव्यात. गस्य कान्तेन्दुकलया कं शिरः अलंकृतं भूषितम्.

१ काव्यमाला। आसीहिपत्तिमिरमुद्यतमण्डलायो ध्वस्तिं नयनभिमुखो रणशर्वरीषु । भूपः शुचिर्विरिवास्तदिगन्तकीर्ति- गोविन्दराज इति राजमु राजसिंहः ।। दृष्ट्वा चमूमभिमुखी सुभटाहासा- मुन्नामितं सपदि येन रणेषु नित्यम् । दष्टाधरेण दधता भ्रकुटी ललाटे खरं कुलं च हृदयं च निजं च सत्रम् ॥ खड्गं कराग्रान्मुखतश्च शोभा मानो मनस्तः सममेव यस्य । महाहवे नाम निशम्य सद्यस्त्रयं रिपूणां विगलत्यकाण्डे ॥ तस्यात्मनो जगति विश्रुतशुभ्रकीर्ति- राःतिहारिहरिविक्रमनामधारी । भूपरित्रविष्टपनृपानुकृतिः कृतज्ञः श्रीककराज इति गोत्रमणिर्वभूव ॥ तस्य प्रभिन्नकरटच्युतदानदन्ति- दन्तमहाररुचिरोलिखितांसपीठः। क्षमापः क्षितौ क्षपितशत्रुरभूत्तनूजः सद्राष्ट्रकूटकनकाद्रिरिवेन्द्रराजः ॥ तस्योपार्जितमहसस्तनयश्चतुरुदविलयमालिन्याः । भोक्ता भुवः शतक्रतुसदृशः श्रीदन्तिदुर्गराजोऽभूत् ॥ काञ्चीशकेरलनराधिपचोलपाण्ड्य- श्रीहर्षवजटविभेदविधानदक्षम् । कीटकं बलमचिन्त्यमनेयमन्यै- भृत्यैः कियद्भिरपि यः सहसा जिगाय ॥ आ सेतोविपुलोपलावलिलसछोलोमिमालाजला- दा प्रालयकलवितामलशिलाजालात्तुपाराचलात् । १. मण्डलामः खना; (पक्षे) विम्याप्रभागः.

. ४ लेखः] मानीनलेखमाला । आ.पूर्वापरवारिराशिपुलिनमान्तमसिद्धावधे, येनेयं जगती स्वविक्रमवलेनकातपत्रीकता तस्मिन्दिवं प्रयाते वैल्लभराजेऽकृतप्रजावाधः । श्रीककराजसनुर्महीपतिः कृष्णराजोऽभूत् ॥ यस्य स्वभुनपराक्रमनिःशेषोत्सादितारिदिक्चक्रम् । कृष्णस्येवारुणं चरितं श्रीकृष्णराजस्य ॥ शुभतुङ्गतुङ्गतुरगप्रवृद्धरेणूलरुद्धरविकिरणम् । ग्रीष्मेऽपि नभो निखिलं प्राट्वालायते स्पष्टम् ॥ राहप्पमात्मभुजजातबलावलेप- माजी विजित्य निशितासिलतामहारैः। पालिध्वजावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतां ततान ।। पाता यश्चतुरम्पुराशिरशनालंकारभाजो भुव- स्त्रय्याश्चापि कृतद्विजामरगुरुप्राज्याज्यपूजादरः । दाता मानभृदग्रणीगुणवतां योऽसौ श्रियो वल्लभो भोक्तुं स्वर्गफलानि भूरितपसा स्थानं जगामामरम् ॥ येन श्वेतातपत्रअहतरविकरवाततापात्सलीलं जग्मे नासीरधूलीधवलितशिरसा बछमाख्यः सदाजौं । श्रीमद्गोविन्दराजो जितजगदहितस्त्रैणवैधव्यदक्ष- स्तस्याप्तीत्सूनुरेकः क्षणरणदलितारातिमत्तेमकुम्भः ॥ तस्यानुजः श्रीधुवराजनामा महानुभावोऽप्रहतप्रतापः । प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव ॥ १. वल्लभराज इति दन्तिदुर्गस्य नामान्तरम्. २. शुभतु इति कृष्णराजस्य नामा- न्तरम्. ३. राहप्पो नाम कश्चिन्महीपतिरासीत्. स च कुत्रत्य इत्यधुनापि न ज्ञायत इति स्वकीये दक्षिणेतिहासे भाण्डारकरोपाहपण्डितवरश्रीरामकृष्णशर्माणः. ४. वल्लम इति गोविन्दराजस्य नामान्तरम्.

२ काव्यमाला। जाते यत्र च राष्ट्रकूटतिलके सदूपचूडामणी गुरू तुष्टिस्थाखिलस्य जगतः मुखामिनि प्रत्यहम् ।। सत्यं सत्यमिति प्रशासति सति मामासमुद्रान्तिका- मासीद्धर्मपरे गुणामृतनिधौ सत्यव्रताधिष्ठिते ॥ रक्षता येन निःशेपं चतुरम्भोधिसंयुतम् । राज्यं धर्मेण लोकानां कृता तुष्टिः परा हदि ॥ तस्यात्मनो जगति सत्प्रथितोरुकीति- गोविन्दराज इति गोत्रललामभूतः । त्यागी पराकमधनः प्रकटप्रताप- संतापिताहितजनो जनवल्लभोऽभूत् ।। पृथ्वीवछभ इति च प्रथितं यस्यापरं जगति नाम । यश्चतुरुदधिसीमामेको वसुधां वशे चक्रे ॥ एकोऽनेकनरेन्द्ररन्दसहितान्यस्ता समस्तानपि प्रोत्खातासिलतामहारविधुरान्बड्डा महासंयुगे । लक्ष्मीमप्यचलां चकार विलसत्सञ्चामरग्राहिणी संसीदद्गुरुविमसज्जनसुदृद्वन्धूपभोग्यां भुवि ।। तत्पुत्रोऽत्र गते नाकमाकम्पितरिपुव्रजे । श्रीमहाराजशर्वाख्यः ख्यातो राजाभवद्गुणैः ॥ अर्थिषु यथार्थतां यः समभीष्टफलाप्तिलब्धतोपेषु । वृद्धि निनाय परमामेमोघवर्षाभिधानस्य ।। राजाभूत्तत्पितृव्यो रिपुभवविभवोत्यभावकहेतु- लक्ष्मीवानिन्द्रराजो गुणिनृपनिकरान्तश्चमत्कारकारी । रागादन्यान्व्युदस्य प्रकटितविपया ये नृपान्सेवमाना राज्यश्रीरेव चक्रे सकलकविजनोद्रीततथ्यखभावम् ॥ १. ध्रुवराजस्य. २. छन्दोमगदूषितोऽयं पाठ:. 'यश्चतुरम्बुधिसीमा' इत्युचितः पाठः. ३.शवस्य वंशो दक्षिणेदेशे राज्यं कृतवान्. तद्वर्णनं दक्षिणेतिहासे द्रष्टव्यम्. ४.अमोघवर्ष इति शर्वस्य नामान्तरम्. ५. अग्रे वर्ण्यमान इन्द्रराजवंशो गुजरातदेशे राज्यं लब्धवान्.

.
लेखः
प्राचीनलेखमाला।
निर्वाणावाप्तिवाणासहितहितजना यस्य मानाः सुटतं
वृत्तं नित्वान्यराज्ञां चरितमुदयवान्सर्वतोदिक्स केभ्यः ।
एकाकी दृप्तवैरिस्खलनरुतिसहमातिराज्ये सशको
लाटीयं मण्डलं यस्तपन इव निजस्वामिदत्तं ररक्ष ।।
सूनुर्वभूव खलु तस्य महानुभावः
शास्त्रार्धवोधमुखलालितचित्तवृत्तिः ।
यो गौणनामपरिवारमुवाह पूर्व
श्रीककराजसुभगव्यपदेशमुच्चैः । .
श्रीककराज इति रक्षितराज्यभारः
सारं कुलस्य तनयो नयशालिशौर्यः ।
तस्याभवद्विभवनन्दितवन्धुसार्थः
पार्थः सदैव धनुपि प्रथमः शुचीनाम् ।।
दानेन मानेन सदाज्ञया वा वीर्येण शौर्येण च कोऽपि भूपः ।
एतेन तुल्योऽस्ति नवेति कीर्तिः सकौतुका भ्राम्यति यस्य लोके ॥
स्वेच्छागृहीतविषयान्दृढसंवभाजः
प्रोवृत्तहप्ततरशुल्किकराष्ट्रकूटान् ।
उत्खातखड्गनिजबाहुबलेन नित्वा
योऽमोघेवर्प इति राज्यपदे व्यधत्त ॥
पुत्रीयतस्तस्य महानुभावः कृती कृतज्ञः कृतवीर्यवीर्यः ।
वशीलताशेषनरेन्द्रवृन्दो बभूव सूनर्धवराजनामा ॥
चन्द्रो जडो हिमगिरिः सहिमः प्रकृत्या
वात्तश्शलश्च तपनस्तपनस्वभावः ।
क्षारः पयोधिरिति तैः सममस्य नास्ति
येनोपमा निरुपमस्तत एव गीतः ।।
१ अस्फुटार्थोऽयं श्लोक.. २. ककराजस्य सूनुरपि ककराजनामेति मंदिग्धम्.
३. अमोघवर्ष इति ककराजस्य नामान्तरम्. ४. निरपम इति ध्रुवराजस्य नामान्तरम्.

काव्यमाला। .. रणशिरसि खड्याबलभदण्डं परामुखीरुत्य । शस्त्रशतशुद्धदेहः स्वर्गमगादेक एवासौ ॥ तस्याशेपनराधिपतयशसः स्वर्गलोकगतकीतः। श्रीमानकालवर्पस्तनयः समभूत्कुलालम्बः ।। वल्लभदण्डाकान्तं विघटितदुष्टानुनीविवर्गेण । पितृपर्यागतमचिरान्मण्डलमध्यासितं येन ॥ पियवादी सत्यधनः श्रीमाननुजीविवत्सलो मानी। प्रतिपक्षक्षोमकरः शुभतुङ्गः शुभकरः मुहदाम् ॥ तस्मिन्स्वर्गीभूते गुणवति गुणवान्गुणाधिकप्रीतिः । समभूद्धवराजसमो धुवराजस्तुष्टिकडोके ॥ इतोऽभिमुखमापतत्प्रबलगूनराणां बल- मितो विमुखवळभो विकृतिमागता वान्धवाः । इतोऽनुजविकृर्वितं शममगात्समस्तं भया- दहो स्फुरणमद्भुतं निरुपमेन्द्र खड्गस्य ते ।। गुर्जरवलमतिबलवन्समुद्यतं हितं च कुल्येन । एकाकिनैव विहितं पराङ्मुखं लीलया येन ॥ यश्चाभिषिक्तमात्रः परं यशस्त्यागशौर्यतोऽवाप । शुभतुङ्गनोऽतितुङ्गः पदं यदामोति नो चित्रम् ।। यश्च स्वभुनबलार्जितमपीह राज्यं विभज्य भृत्यानाम् । भयमपि विटेपिजने धनं ददावधिने कामम् ।। धारावर्षसमुन्नति गुरुतरामालोक्य लक्ष्म्या युतो धामव्याप्तदिगन्तरोऽपि मिहिरः सदश्यवाहान्वितः । यातः सोऽपि शमं पराभवतमोव्याप्ताननः किं पुन- येऽतीवामलतेजसा विरहिता हीनाश्च दीना मुवि ।। १. शुभतुङ्ग इत्यकालवर्षस्य नामान्तरम्. २. निरुपम इति तृतीयध्रुवराजस्यापि ३. धारावर्षे इत्यपि तृतीयध्रुवराजस्य नामान्तरम्. नामान्तरम्- १ लेखः] प्राचीनलेखमाला । १६ यं प्राप्य विजितपूर्वजसकलगुणं पालितापि सगराद्यैः। प्रियनाथलाभतुष्टा वसुधापि सकामतामाप ॥ तेनेदमनिलविद्युञ्चबलमवलोक्य जीवितमसारम् । क्षितिदानपरमपुण्यः प्रवर्तितो धर्मदायोऽयम् ।। सन समधिगताशेपमहाशब्दमहासामन्ताधिपतिधारावर्प श्रीध्रुवरानदेवः सर्वानेव यथासंबध्यमानान्राष्ट्रपतिविषयपतिग्रामकटायुक्तनियुक्तकाधिकारि- कवासापकमहत्तरादीन्समनुदर्शयति-अस्तु वः संविदितम् । यथा मया मातापित्रोरात्मनश्रहिकामुप्मिकपुण्ययशोभिवृद्धये विनोऽभूद्रपठ्यां बहुधनननतासंकुलायां धरायां ख्यातः श्रीदोडिनामा जानेतननसुखोऽध्वर्युसब्रह्मचारी । यस्मिन्नथिनना ददत्यविरतं प्राज्यं कृतान्नादिकं निश्चिन्तोदरपूरणाः समभवन्दुर्भिक्षकालेप्वपि ॥ वेन्नां स लब्ध्वा ध्रुवरानदेवात्सत्रं ददौ सर्वजनोपकारि । दिने दिने यस्य गृहे नरेन्द्राः सहस्रशो भुञ्जते भूसुराश्च ॥ तस्य सुतः सत्रपतिनैनप्पनामा । तत्पुत्राय लाक्षायणसगोत्राय जो- जिभाअभिधानाय कर्मान्तपुरप्रतिवद्धपोडशोत्तरग्रामशतान्तःपाती पाराह- णकं आमः । यस्याघाटनानि-पूर्वस्यां दिशि कुण्डीरवल्लिकानाम ग्रामः । दक्षिणतः वेन्नाहारान्तःपाती खौराच्छकं नाम ग्रामः । तथा दक्षिणत एव जोणन्धानामग्रामः । पश्चिमतो मोत्तकाभिधानं ब्राह्मणस्थानम् । उत्तरतो मोइवासकं नाम ग्रामः । एवमयं चतुराघाटनोपलक्षितः सोद्रगः सपरिकरः सवृक्षमालाकुलः ससीमापर्यन्तः सदण्डदशापराधः सोत्पद्यमा- नवेष्टिकः सधान्यहिरण्यादेयोऽचाटभटप्रवेश्यः सर्वराजकीयानामहस्तप्रक्षेप- णीयः भूमिच्छिद्रन्यायेन आचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनः पुत्र- पौत्रान्वयक्रमोपभोग्यः पूर्वदत्तदेवदायब्रह्मदायरहितः अभ्यन्तरसिद्ध्या अस्मिन्पये नग्धराशार्दूलविक्रीडितच्छन्दोनिबद्धौ पूर्वोत्तराधों. तेनेयमुपजातिः. नंतापजातिः सत्कविमिः प्रयुज्यते. 'राम लक्ष्मणपूर्वज' इत्यादि पौराणिकश्लोकेषु : क्वचिदुपलभ्यते.

काव्यमाला। शकनृपकालातीतसंवत्सरशतेषु सप्तस्कोननवत्यधिकैप्वातः ७८९ ज्ये- घामावास्यायामादित्यग्रहणपर्वणि श्रीभृगुकच्छे नर्मदायां मूलस्थानतीर्थ स्नात्वा समवर्तनाथ बलिचस्वैश्वदेवाग्रिहोत्रादिक्रियोपसर्पणार्थं च उद- कातिसर्गेण दत्तः । अतोऽस्योचितया ब्रह्मदायस्थित्या भुमतो भोजयतः कृपतः कपीपयतः प्रतिदिशतो वा न केनचित्परिपन्थना कार्या । तथा- गामिनृपतिभोगपतिभिरस्मदृश्यैरन्यैर्वा सामान्यभूदानफलमवेत्य विद्युलो- लान्यनित्यान्यैश्वर्याणि तृणामलमनलपिन्दुचञ्चलं च जीवितमाकलय्य स्वदायनिर्विशेपोऽयमस्मदायोऽनुमन्तव्यः परिपालयितव्यश्च । यश्चाज्ञान- तिमिरपटलायतमतिराच्छिन्द्यादाच्छिद्यमानं वानुमोदेत स पञ्चभिर्महापात- कैरुपपातकैश्च संयुक्तः स्यादित्युक्तं भगवता वेदव्यासेन व्यासेन- पहि वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। विन्ध्याटवीप्यतोयाम शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायं हरन्ति ये ॥ अग्नरपत्यं प्रथमं सुवर्ण भूर्वेप्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः काञ्चनं गां च महीं च दद्यात् ।। बहुभिर्वसुधा भुक्ता रानभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ . यानीह दत्तानि पुरा नरेन्द्रर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ स्वदत्तां परदत्तां वा यत्नाद्रा नराधिप । मही महिमतां श्रेष्ठ दानाच्छेयोऽनुपालनम् । नायमत्यन्तसंवासः कस्यचित्केनचित्सह । अस्ति स्वेन शरीरेण किमुतान्यैः पृथग्जनैः ।। प्राणेन धार्यते कायः स च प्राणः समोरणात् । समीरश्चातिचपलः कृतमप्यायुरतम् ॥

५ लेखः]]
प्राचीनलेखमाला ।
सप्तलोकैकनाथस्य विष्णोरपि महात्मनः ।
नेयं नियतवासा श्रीः किमुतान्यस्य कस्यचित् ।।
सामान्योऽयं धर्मसेतुः सर्वेषामिह भभुजाम् ।
यतोऽतः पालनीयोऽयं काले काले महात्मभिः ॥
कोटिश्च वाजपेयानां लक्षं विश्वजितां तथा ।
सहस्त्रमश्वमेधानां स्वहस्तश्चैव तत्समम् ॥
इति कमलदलाम्चुचिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च ।
अतिविमलमनोभिरात्मनोनैनहि पुरुषैः परकीर्तयो विलोप्याः ॥
श्रीमच्छुभतुङ्गमुतो धारावर्षानुनो रणे येन ।
निर्जित्य वैरिवर्ग राज्यं विहितं स्थिरं भ्रातुः ॥
भस्मीकृत्यारिसेनां हयगजबहुलामप्यसंतुष्टभावो
ब्रह्माण्डं व्याप्तुकामः एथुचटुलशिखाभासुरः क्रोधवतिः ।
, दृष्टः पद्मासनाद्यैर्गगनतलगतैर्यस्य गीर्वाणरन्दैः
श्रीमगोविन्दराजो निरुपमविहितः शासने दूतकोऽत्र ॥
लिखितं चेदं सांधिविग्रहिक श्रीकल्याणेनेति । स्वहस्तोऽयं मम
श्रीध्रुवराजदेवस्य श्रीमदकालवर्षदेवसूनोः ॥
(इण्डिअन् आण्टिकेरी १२।१८१)
(५)
राष्ट्रकूटवंशोद्भवलाटदेशाधीश्वरकर्कराजमहीपतेर्दानपत्रम् ।
स वोऽव्याद्वेधसा धाम यन्नाभिकमलं कृतम् ।
हरश्न यस्य कान्तेन्दुकलया कमलरुतम् ॥
स्वस्ति वकीयान्वयवंशकर्ता श्रीराष्ट्रकूटामलवंशजन्मा ।
प्रदानशूरः समरैकवीरो गोविन्दराजः क्षितिपो बभूव ॥
यस्याङ्गमात्रजयिनः भियसाहसस्य
क्ष्मापालवेपफलमेव बभूव सैन्यम् ।
१. अयं गोविन्दराजो दानकर्तुवराजदेवस्थानुजः.

१८
काव्यमाला।
मुक्त्वा च शंकरमधीश्वरमीश्वराणां
नावन्दतान्यममरेप्वपि यो मनस्वी ॥
पुत्रीयतश्च खलु तस्य भवप्रसादा-
त्सुनुर्बभूव गुणराशिरुदारकीर्तिः ।
यो गौणनामपरिवारमुवाह मुख्य
श्रीकर्कराजसुभगव्यपदेशमुच्चैः ।।
सौराज्यजल्पे पतिते प्रसङ्गानिदर्शनं विश्वजनीनसंपत् ।
राज्यं बलेः पूर्वमहो बभूव क्षिताविदानी तु नृपस्य यस्य ।।
अत्यद्भुतं चेदममस्त लोकः कालप्रसङ्गेन यदेकपादम् ।
जातं वृषं यः कृतवानिदानी भूयश्चतुष्पादमविप्रचारम् ।।
चित्रं न चेदं यदसौ यथावच्चक्रे प्रजापालनमेतदेव ।
विष्णो जगत्राणपरे मनःस्थे तस्योचितं तन्मयमानसस्य ।।
धर्मात्मनस्तस्य नृपस्य जज्ञे मुतः सुधर्मा खलु कृष्णराजः ।
यो वंश्यमुन्मूल्य विमार्गभाजं राज्यं स्वयं गोत्रहिताय चक्रे ॥
ब्रह्मण्यता तस्य च कापि साभूद्विप्रा यया केवलजातयोऽपि ।
श्रेष्ठद्विजन्मोचितदानलुब्धाः कर्माण्येनूचानकतानि चक्रुः ।।
इच्छातिरेकेण कृषीवलानां पयो यथा मुञ्चति जातु मेचे ।
भवेन्मनस्तद्विरतो तथाभूद्यस्मिन्धनं वर्पति सेवकानाम् ॥
यो युद्धकण्डूतिगृहीतमुच्चैः शौर्याप्मसंदीपितमापतन्तम् ।
महावराहं हरिणीचकार प्राज्यप्रभावः खलु राजसिंहः ।।
ऐलापुराचलगताद्दुतसंनिवेश
यद्वीक्ष्य विस्मितविमानचरामरेन्द्राः ।
एतत्स्वयंभु शिवधाम न रुत्रिमे श्री-
दृटेडशीति सततं बहु चर्चयन्ति ।
१. आत्मनः पुत्रमिच्छतः. २. अनूचानः सावेदविचक्षणः. ३. नृपविशेषम् ।
४.दक्षिणहरायादराज्यान्तर्गतदौलताबादनगरसमीपे 'एलोरा' नानाधना प्रसिद्धोऽयमे-
लापुराचलः. तत्र चातिमुन्दराणि गुरमन्दिराणि पर्वतमुत्कीर्य निमितान्यद्यापि विचन्ते.

५ लेखः]
प्राचीनलेखमाला।
यस्तथाविधकतो व्यवसायहानि-
रेतन्मया कथमहो कृतमित्यकस्मात् ।
कापि यस्य खलु विस्मयमाप शिल्पी
तन्नामकीर्तनमकार्यत येन राज्ञा ॥
गङ्गाप्रवाहहिमदीधितिकालकूटै-
रत्यक्ताभरणकैः कृतमण्डनोऽपि ।
माणिक्यकाचनपुरःसरसर्वभूत्या
तत्र स्थितः पुनरभूप्यत येन शंभुः ।।
नृपस्य तस्य ध्रुवराजनामा महानुभावस्तनयो बभूव ।
तृणीकतान्यस्य पराक्रमेण प्रतापवहिदिपतो ददाह ॥
लक्ष्मीप्रसाधनविधावुपयोगि कृत्यं
यश्चिन्तयन्स्वयमभूदनिशं कृतार्थः ।
किं वात्र चित्रमनपेक्ष्य सहायमीशः
सर्वः पुमान्निजवधू ववशां विधातुम् ।।
यो गङ्गायमुने तरङ्गसुभगे गृहन्परेभ्यः समं
साक्षाश्चिदनिभेन चोत्तमपदं तत्प्राप्तवानेश्वरम् ।
देहासमितवैभवैरिव गुणैर्यस्य भ्रमझिर्दिशो
व्याप्तास्तस्य बभूव कीर्तिपुरुषो गोविन्दराजः सुतः ।।
प्रदेशत्तिव्यवसायभानं पुरातनानामपि पार्थिवानाम् ।
यशांसि यो नाम जहार भूपो भन्मप्रचण्डाखिलवैरिवीरः ।।
उन्मूलितोत्तुङ्गनरेन्द्रवंशो महानरेन्द्रीकृततुच्छभृत्यः ।
खेच्छाविधायी चरितानुकारं चकार यो नाम विधेः क्षितीशः ।।
हिनीरशिक्षितरणच्चरणानराती.
न्कुर्वन्क्षणेन विदधेऽद्भुतकर्म यश्च ।
१. यस्य पराक्रमेण तुच्छीकृतान्; (पक्षे) वणवं प्रापितान् . २. समर्थः, ३. हि-
जीरो लोहखला. निगह इति यावत्,

१० काव्यमाला। चक्रे तथाहि न तथाशु वधं परेषां पार्थोऽपि नाम भुवनत्रितयैकवीरः॥ कल्पक्षयक्षणसमुद्धतवातहला- दोलायमानकुलशैलकुलानुकारम् । यन्मुक्तचण्डशरजालजवाणुन्ना युद्धागता रिपुगजेन्द्रघटा चकार ॥ भ्राता तु तस्येन्द्रसमानवीर्यः श्रीमान्भुवि मापतिरिन्द्रराजः । शास्ता बभूषाद्रुतकीर्तितिस्तद्दत्तलाटेश्वरमण्डलस्य ॥ अद्यापि यस्य सुरकिनरसिद्धसाध्य- विद्याधराधिपतयो गुणपक्षपातात् । गायन्ति कुन्दकुसुमश्रि यशो यथावं धामस्थिताः सहचरीकुचदत्तहस्ताः ।। येनैकेन च गुरेश्वरपतियोंई समभ्यागतः शौर्यप्रोद्भटकंधरो मृग इव क्षिप्रं दिशो ग्राहितः । भीतासंहत्तदक्षिणापथमहासामन्तचक्रं यतो रक्षामाप दिलण्यमानविभवं श्रीवल्लभेनादरात् ।। तस्यात्मनः प्रथितविक्रमवैरिवर्ग- लक्ष्मीहठाहरणसंततलव्धकीर्तिः श्रीकर्कराज इति संश्रितपूरिताशः शास्त्रार्थबोधपरिपालितसर्वलोकः ॥ राज्ये यस्य न तस्करस्य वसतियाधेः प्रमूतिर्मता दुर्भिसं न च विभ्रमस्य महिमा नैवोपसर्गोद्भवः । क्षीणो दोपगणः प्रतापविनतोऽशेषोऽरिवर्गस्तथा नो विद्वत्परिपन्थिनी प्रभवति कुरा खलानां मतिः ।। गौडेन्द्रवङ्गपतिनिर्नयदुर्विदग्ध- सनरेश्वरदिगर्गलवां च यस्य । ।

६ लेखः] प्राचीनलेखमाला। २१ नीला भुजं विहतमालवरक्षणार्थ खामी तथान्यमपि राज्यफलानि भुते ॥ तेनेदं विद्युच्चञ्चलमालोक्य जीवितं क्षितिदानं च परमपुण्यं प्रवर्तितो- ऽयं धर्मदायः । स च लाटेश्वरः समधिगताशेपमहाशब्दमहासामन्ताधि- पतिसुवर्णवर्षश्रीकर्कराजदेवो यथासंबध्यमानकानराष्ट्रपतिविषयपतिग्राम- कूटाधिकारिकमहत्तरादीन्समनुबोधयति-अस्तु वः संविदितम्-यथा मया सिद्धशमीसमावासितेन मातापित्रोरात्मनश्चैहिकामुष्मिकपुण्ययशो- भिवृद्धये श्रीवलभीविनिर्गततचातुर्विद्यसामान्यवात्स्यायनसगोत्रमाध्यंदि- नसब्रह्मचारिब्राह्मणभानवे भट्सोमादित्यपुत्राय आङ्कोटकचतुरशीत्यन्तर्ग- तवडपद्रकाभिधानग्रामः, यस्याघाटनानि-पूर्वतो जम्बूवाविकाग्रामः, तथा दक्षिणतो महासेनकाख्यं तडागम्, तथा पश्चिमतोऽकोटकम्, तयोत्तरतो वग्याच्छग्रामः, एवमसौ चतुराघाटनोपलक्षितः सोद्रङ्गः सोपरिकरः सभूत- वातप्रत्यायः सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्यहिरण्यादेयः सर्वराजकीयानामहस्तप्रक्षेपणीयः आ चन्द्रार्कार्णवसरित्पर्वतसमकलीनः पु. त्रपौत्रान्वयभोग्यः पूर्वप्रदत्तदेवदायब्रह्मदायरहितो भूमिच्छिद्रन्यायेन शकनृपकालातीतसंवत्सरशतेपु सप्तमु चतुरिवंशदधिकेषु महावैशाख्यां ना- त्वोदकातिसगैण बलिचरुवैश्वदेवाग्निहोत्रातिथिपञ्चमहायज्ञक्रतुक्रिया- शुत्सर्पणार्थ प्रतिपादितः । अतोऽस्योत्रितया ब्रह्मदायस्थित्या भुञ्जतो भो. जयतः प्रतिदिशतो वा कृपतः कर्पयतश्च न केनचित्परिपन्यना कार्या। तथागामिभिरस्मदश्यैरन्यैर्वा सामान्यं भूमिदानमवगच्छद्भिविद्युल्लोलान्य- नित्यान्यैश्वर्याणि तृणाग्रलमजलविन्दुचञ्चलं च जीवितमाकलय्य स्वदाय- निर्विशेषोऽयमस्मदायोऽनुमन्तव्यः पालनीयश्च । यश्चाज्ञानतिमिरपटला- वृतमतिराच्छिद्यादाच्छिद्यमानं चानुमोदेत स पञ्चभिर्महापातकैरुपपात- कैश्च युक्तः स्यादिति । उक्तं च भगवता वेदव्यासेन व्यासेन- पष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।।

२२ काव्यमाला। विन्ध्याटवीप्वतोयासु शुककोटरवासिनः ।. कृष्णाहयो हि जायन्ते भूमिदायापहारिणः । अनेरपत्यं प्रथमं सुवर्ण भूर्वेप्णवी सूर्यमुताश्च गावः । लोकत्रयं तेन भवेञ्च दत्तं यः काञ्चनं गां च महीं च दद्यात् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमित्तस्य तस्य तदा फलम् ॥ यानीह दत्तानि पुरा नरेन्द्रेर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ।। स्वदत्ता परदत्तां वा यत्नाद्रक्ष नराधिप । मही महीभृतां श्रेष्ठ दानाच्छ्योऽनुपालनम् ॥ इति कमलदलाम्युचिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । अतिविमलमनोभिरात्मनीनैनहि पुरुपैः परकीर्तयो विलोप्याः ॥ उक्तं च भगवता रामभद्रेण- सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।। इतकश्चात्र राजपुत्र श्रीदन्तिवर्मा । खहस्तोऽयं मम श्रीककराजस्य श्रीमदिन्द्रराजमुतस्य । लिखितं चैतन्मया महासंधिविग्रहाधिकृतकुलपु. त्रकदुर्गभटसूनुना नेमादित्येनेति । अयं च ग्रामोऽतीतनरपतिपरीक्षणाको- दृकश्रीचातुर्विद्याय दत्तोऽभूत् । तेनापि कुरानजनितविलोपविच्छिन्नपरि. भोग विज्ञानवर्मान्यस्य वा विशिष्टस्य कस्यचिद्वत्तु द्विजन्मन इति नि- श्चित्य सुवर्णवर्षदीयमानं वटपुरवासिने भानुभायानुमोदितः । शालाताप्यं गृहीत्वा तालावारिकादिगणं चोदिश्य ताम्बूलप्रदानपूर्वकं यथालोभसेवन चाभाप्य आदिश्य प्राकृतिकमपि पुरमिति । तथा त्रियागेश्वरपरमाधीश- पादमूलं जानातीति ।। (इण्डियन् आण्टिवेरी १२।१५८-१६२ १इत उत्तरमस्फुटायोज्य लेसः.

लेखः]]
प्राचीनलेखमाला ।
२३
(६)
राष्ट्रकूटवंशोद्भवस्य चतुर्थगोविन्दनपतेनपत्रम् ।
म् ॥
जयन्ति ब्रह्मणः सर्गनिप्पत्तिमुदितात्मनः ।
सरस्वतीरुतानन्दा मधुराः सामगीतयः ।।
ताराचक्रानपण्डाहतगगनसरःपद्मिनीराजहंसा-
त्रैलोक्यकाधिपत्यस्थितमदनमहाराजशुभ्रातपत्रात् ।
लावण्यक्षीरसिन्धोर्युतिरजतगिरेदिग्वधूदन्तपत्रा-
वंशः सोमादयं यखिभुवनकमलावाससौधापेतः ।।
तस्माच्छ्रियः कुलगृहं मवनं महिम्नः
क्रीडास्पदं स्थितिमहदिगभीरतानाम् ।
आपन्नसत्त्वपरिपालनलव्धकीर्ति-
वंशो बभूव मुवि सिन्धुनिभो यदूनाम् ॥
परिणतपरमण्डलः कलावान्प्रविततवहलयशोशुपूरिताशः ।
शशधर इव दन्तिदुर्गराजो यदुकुलविमलवियत्ययोदियाय ।।
तस्याद्यं नृपतेः पितृव्यमुदयी श्रीवीरसिंहासनं
मेरोः शृङ्गमिवाधिरुह्य रविवच्छीकृष्णराजस्ततः ।
ध्वस्तोद्विक्तचलुक्यवंशतिमिरः पृथ्वीभृतां मस्तके
न्यस्तात्तः सकलं जगत्मविततैस्तेनोभिराक्रान्तवान् ।।
तस्माद्गोविन्दराजोऽभूदिन्दुबिम्बशिलातले ।
यस्पारिलोपधूम्रोऽङ्कः प्रशस्तिरिव लक्ष्यते ।।
तस्याभवढुवनपालनवीरबुद्धि-
रुहूतशत्रुकुलसंततिरिडतेजाः ।
राजानुनो निरुपमापरनामधेयो
यन्मुद्रयाम्बुधिरपि प्रथितः समुद्रः ॥
१ 'उदीतः' इति साधीयान्पाठः,

२४ काव्यमाला। तदनु जगतुङ्गोऽजनि परिदतनिनसकलमण्डलामोगः । गतयौवनयनिताजनकुचसदशा यस्य वैरिनृपाः ।। तस्माच्चामोघवर्पोऽभवदतुलपलो येन कोपादपूर्व- नालुक्याभ्यूपखाचैननितरतियमः प्रीणितो विङ्गवायाम् । वैरिचाण्डोदरान्तर्बहिरुपरि तले यन्न लब्धावकाश तोयव्याजाद्विशुहं यश इव निहितं तजगत्तासिन्धौ ।। तस्मादकालवो नृपतिरभूद्यत्पराक्रमजस्तैः । सद्यः समण्डलामे खेटकमहितैः परित्यक्तम् ।। सहस्रार्जुनवंशस्य भूपणं कोकलात्मना । तस्याभवन्महादेवी जगनुदस्ततोऽननि ॥ गम्भीराद्रत्ननिधे भृत्प्रतिपक्षरक्षणक्षमतः । कोकलसुतरैणविग्रहजलधेर्लक्ष्मीः समुत्पन्ना ॥ सा जायाजायताजातशत्रोस्तस्य महीभुनः । भीमसेना नोपात्तयशोभूपणशालिनः ॥ तत्र जगत्तुङ्गोदयधरणीधरतः प्रतापफलितात्मा । लक्ष्म्या नन्दन उदितोऽजनि विनयी राजमार्तण्डः स्थितिचलितसकलभूमृत्पक्षच्छेदाभिमुक्तभुजवजः। अनिमिपदर्शनयोग्यो यः सत्यमिहेन्द्रराज इति । १ चालुक्या एव अभ्यूपखाद्याः 'पोली' इति ख्याता भक्ष्यविशेषास्तर्जनिता रतिः प्रीतिर्यस्य ताशी यम इत्यर्थः. 'आपक्वं पौलिरभ्यूपः' इत्यमरः, वात्स्यायनीयकामसू- त्रटीकाकारो यशोधरस्तु 'अभ्यूपखादिका, विरपस्थानामनी प्लोषितानां फलानां खादन यत्र' इति व्याख्यातवान्. इण्डियन आण्टिवेरीमध्ये एतल्लेखप्रकाशक: प्लीयपण्डितस्तु 'चालुक्य-अभ्यूपख-आद्यर' इति पदच्छेदं विधाय भाषान्तरे 'Chalukyas, Abhy itshakhas and others' इत्याधुक्तवान्. २. मण्डलामः खगो मण्डलं देशश्च. ३. खेटकं चर्म, मान्यखेटनाम्ना प्रसिद्धा राष्ट्रकूटमहीपतीनां राजधानी च. ४. 'नदीनां मेकलसुता नृपाणां रणविग्रहः । कवीनां च सुरानन्दश्चदिमण्डलमण्डनम् ।।' इति राजशेखरकविना वर्णितो रणविग्रहोऽप्ययमेव स्यात्. ॥

लेखः प्राचीनलेखमाला। २५ यस्तस्मिन्दशकण्ठदर्पदलने श्रीहैहयानां कुले कोकलः प्रतिपादितोऽस्य च गुणज्येष्ठोऽर्जुनोऽभूत्सुतः । तत्पुत्रोऽम्मणदेव इत्यतिवलस्तस्माहिजाम्बाभव- त्पद्मेवाम्बुनिधेरुमेव हिमवन्नाम्नः क्षमाभृत्प्रभोः ।। श्रीन्द्रनरेन्द्रात्तस्यां सूनुरभूदूपतिहिजाम्बायाम् । गोविन्दराजनामा कामाधिकरूपसौन्दर्यः ॥ सामर्थ्य सति निन्दिता प्रविहिता नैवाग्रने क्रूरता बन्धुस्त्रीगमनादिभिः कुचरितरावर्जितं नायशः। शौचाशौचपराङ्मुखं न च भिया पैशाच्यमङ्गोरुतं त्यागेनासमसाहसैश्च भुवने यः साहसाङ्कोऽभवत् ।। वर्षन्सुवर्णवर्पः प्रभूतवर्षोऽपि कनकधाराभिः । जगदखिलमेककाञ्चनमयमकरोदिति जनैरुक्तः ॥ यदधिदिग्विजयावसरे सति प्रसमसंभ्रमभावनयेव भूः । सपदि नृत्यति पालिमहाध्वजोच्छ्रितकरान्यकुनाथविवर्जिता ।। सहते नहि मण्डलाधिपं परमेपोऽभ्युदयी समुद्धतम् । इति जातभिया धियाग्रतो रविचन्द्रावपि यस्य धावतः ॥ अवनतपरमण्डलेश्वरं सह विजयांशुभिवेश्म शोभितम् । समहिमकरतोरणं चिरं निजतेजस्तति यस्य राजते । सहते समवाहिनीमयं न परेपां सविशेपशालिनीम् । यदनिन्दितराजमन्दिरं ननु गङ्गा यमुना च सेवते ।। यस्मिन्राजनि सौराज्यं निजितारि वितन्वति । विमानस्थितिरित्यासीन भोगेषु कदाचन ॥ यस्योद्दामप्रतापानलबहलशिखाकजलं नीलमेघा विस्फूर्जत्खड्गधारास्फुरणविसरणान्येव विहिलासाः । दुरारीभकुम्भस्थलदलनगलन्मौक्तिकान्येव तारा- चन्द्रक्षीराविशेषा भृतभुवनयशोराशिनिप्यन्दितानि || १. 'विस्फूर्जन्' इति 'इण्डियन आण्टिक्केरो मुद्रितः पादः.

- .. यस्मिन्कण्टकशोधनोत्सुकमनस्यम्भोजनालमिये- वोन्मन्नं न पयःमु कोशवसतिलक्ष्मीः कृतोपायनम् । केतक्या पवनोलसन्निजरजापुआन्धकारोदरे भूगर्भ पनसेन वेत्रलतया द्वायर्यात्मशुद्ध स्थितम् ॥ यश्च समुपहसितहरनयनदहनो विहितानित्यकंदर्परूपसौन्दर्यदर्पः श्रीनित्यकंदर्पः प्रभुमन्त्रशक्त्युपबृंहितोत्साहशक्तिसमाक्षिप्तशतमसमुख- श्चाणक्यचतुर्मुखः प्रथितकविक्रमाकान्तवमुंधराहितकरणपरायणः श्रीवि- क्रान्तनारायणः स्वकरकलितहेतिहलदलितविपक्षवक्षःस्थलक्षेत्रः श्रीनृप- तित्रिनेत्रः समभवत् । स च परममटारकमहाराजाधिराजपरमेश्वरश्रीम- नित्यवदेवपादानुभ्यातः परममधारकमहाराजाधिराजपरमेश्वरश्रीमत्सुव- णवदेवष्टथ्वीवछभश्रीमद्भनरेन्द्रदेवः कुशली सर्वानेव यथासंबध्य- मानकान्राष्ट्रपतिविषयपतिग्रामकूटमहत्तरायुक्तकोपयुक्तकाधिकारिकान्स- मादिशति-अस्तु वः संविदितम्-यथा भान्यखेटरानवानीस्थिरतराव- स्थानेन मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये पूर्वलुप्तानपि देवभोगान- हारान्प्रतिपालयता प्रतिदिनं च निरवधिनमस्यग्रामशासनानि शतशः प्रयच्छता [मया] शकनृपकालातीतसंवत्सरशतेप्वष्टसु पञ्चपञ्चाशदधिकप्व- कतोऽपि संवत्सराणां ८५५ प्रवर्तमानविनयसंवत्सरान्तर्गतश्रावणपौर्ण- मास्यां वारे गुरोः पूर्वाभद्रपदानक्षत्रे प्रथमकरोदकातिसर्गेण पुण्डूवर्धनन- गरविनिर्गतकौशिकगोत्रवाजिकाण्वसब्रह्मचारिदामोदरभसुताय केशव- दीक्षिताय रामपुरीसप्तशतान्तर्गतलोहग्रामः सवृक्षमालाकुलः सधान्य- हिरण्यादेयः सदण्डदोपदशापराधः सभूतोपात्तप्रत्ययः अचाटभटप्रवेशः शतोत्तरीयो ब्रह्मदायन्यायेनाचन्द्रार्क नमस्यो दत्तः । यस्य च आ- घाटाः पूर्वतः घोडेग्रामः, दक्षिणतः वचुलीनामा ग्रामः, पश्चिमतः विश्व- विहरझ नामा ग्रामः, उत्तरतः सोन्नहीनामा ग्रामः । एवं चतुराधाटवि. शुद्धं लोहग्राम केशवदीक्षितस्य कृषतः कर्पयतो भुञ्जतो भोजयतो वा । न केनचियाघातः कार्यः । मन्दानिलान्दोलितजलतरङ्गतरलमैश्वर्य श- दक्षिणदराबादराज्यान्तर्गतोऽधुना मालखेड'नाम्ना प्रसिद्धी प्राम एव मान्यखेट:.

२७ ७ लेखः] प्राचीनलेखमाला। रदभ्रविभ्रमं जीवितं सामान्यं च भूमिदानफलमवगच्छदिरागामिनृपति- भिरस्मवश्यैरन्यैर्वायमस्मद्धर्मदायः समनुमन्तव्यः प्रतिपालनीयश्च । उक्तं च रामभद्रेण- 'सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्वानेवं भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥' पष्टिवर्पसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ताच तान्येव नरके वसेत् ।। स्वदत्ता परदत्ता वा यो हरेत्तु वसुंधराम् । श्वविष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ।। प्रसृत्या संप्रदानेन दत्तस्याहरणेन च । जन्मप्रभृति यद्दत्तं तत्सर्व निष्फलं भवेत् ॥ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । निवसेब्रह्मणो लोके भूमिदानं ददाति यः॥ शिवमस्तु सर्वजगतः । ॐ नमः शिवाय ॥ (इण्डियन आण्टिक्केरी १२ । २४९-२५२) (७) चौलुक्यवंशोद्भवस्य लाटदेशाधिपतेस्त्रिलोचनपालस्य दानपत्रम् । ॐ नमो विनायकाय । स्वस्ति जयोऽभ्युदयश्च । वाणं वीणाक्षमाले कमलमहिमथो बीजपूरं त्रिशूलं खटाङ्ग दानहस्ताभयकरसहिताः पाणयो धारयन्तः । रक्षन्तु व्यञ्जयन्तः सकलरसमयं देवदेवस्य चित्तं नो चेदेवं कथं वा त्रिभुवनमखिलं पालितं दानवेभ्यः ।। दधाति पद्मामथ चक्रकौस्तुभे गदामयो शशमिहैव पङ्कजम् । हरिः स पातु त्रिदशाधिपो भुवं रसेषु सर्वेषु निषण्णमानसः ॥ १. अस्य लेखस्य प्रणेता पण्डितस्त्वपरिणतकवित्व एव कश्चिदासीत. भ काव्यमाला। . कमण्डलु दण्डमथ स्तुचं विभुर्विमति माला जपदत्तमानसः । सुनत्यनो लोकमपोहितुं रिपूरसश्च सर्व रसितो विशेपतः ॥ • कदानित्यखेदोत्यचिन्तामन्दरमन्थनात् । विरिश्वेश्चलुकाम्भोघे राजरनं पुमानभूत् ।। देव किं करवाणीति नत्या प्राह तमेव सः । समादिष्टार्थसंसिद्धौ तुष्टः स्रष्टाचवीच्च तम् ॥ कन्याकुम्ने महाराज राष्ट्रकूटस्य कन्यकाम् । लब्ध्वा सुखाय तस्यां वं चौलुक्यामुहि संततिम् ।। इत्यमत्र भवेत्क्षत्रसंततिर्वितता किल । चौलुक्यात्मथिता नद्याः स्रोतांसीव महीधरात् ॥ तत्रान्वये दयितकीतिरकीर्तिनारी संस्पर्शभीत इव वर्जितवान्परस्य । बारप्पराज इति विश्रुतनामधेयो राजा बभूव भुवि नाशितलोकशोकः ।। श्रीलाटदेशमधिगम्य रुतानि येन सत्यानि नीतिवचनानि मुदे जनानाम् । तत्रानुरज्य जनमाशु निहत्य शत्रू- कोशस्य रतिफलमाप निरन्तरं यः ।। तस्माजातो विजयवसतिर्गोगिराजः क्षितीशो यस्मादन्ये मनुनपतयः शिक्षिता रानधर्मम् । यो गोत्रस्य प्रथमनिलयो पालको यः प्रजानां यः शत्रूणाममितमहसां मूर्ति पादं व्यधत्त ।। आत्ममूरुहृता येन विष्णुनेव महीयसा । बलिभिः : सा समाक्रान्ता दानवैरिव वैरिभिः ।। १.. पुरंदरेण प्रतिपाद्यमानमेवं समाकर्ण्य वचो विरिचिः । संध्याम्दुपूर्ण चुलो मुमोच ध्यानानुविद्धानि विलोचनानि ॥' इत्युपक्रम्य 'अयाविरासीत्सुंभटनिलोकत्रा- साप्रवीणश्चलकाद्विधातुः' इत्यन्तं विक्रमाङ्कदेवचरितस्य प्रयमे सर्गे द्रष्टव्यम्, अस्फुटार्थाः श्लोकाश्चात्र कतिचन सन्ति.

२९
७ लेखः
प्राचीनलेखमाला।
प्रद्युम्नवन्मदनरूपधरोऽच्युतस्य
श्रीकीर्तिराजनृपतिः 1: स बभूव तस्मात् ।
यो लाटभूपपदवीमधिगम्य चके
धर्मेण कीर्तिधवलानि दिगन्तराणि ॥
संतानतन्तुषु प्रोताश्चौलुक्यमणयो नृपाः ।
तस्यां तु मणिमालायां नायकः कीर्तिभूपतिः ॥
गोः पिण्डे भौतिके भरिपदार्थायतने गुरौ ।
सूते क्षीरं शिरा कापि माता स्त्रीपु तथैव तम् ॥
आजन्मदृष्टया(?)तिमनोहरस्य मुदा तथापूर्यत सर्वलोकः ।
यथामृतापूर्णघटीसमानं नारिच्यतापि स्तुतिविन्दुपातैः ।।
समेऽपि स्टहणीयत्वे पक्वान्नस्येव योपिताम् ।
भोगस्तेन परस्त्रीणामुच्छिष्टस्येव वर्जितः ।।
लग्नं तथा क्षमापतिपाणिपादे स्थितं यथा वक्षसि रत्नसा(हा)रैः ।
गौणं त्यजद्भिः श्रुतिकुण्डलाभ्यां कृत्वा पदं मुख्यमथास्थितं तैः ।।
आलम्बनीभूतमहीधरांस्तानुल्लईच जुष्टं पतनं गुणोधैः ।
कुतोऽन्यथा ते सहना बभूवुः कथं च ते तत्सहवृद्धिमापुः ॥
स यौवनोन्मत्तगजेन्द्रपार्थाद्वावन्मनो मारयदेवमेतत् ।
तस्माहते हीन्द्रियखेटकेन विलचिता वैषयिको न सीमा ॥
कायेन गेहादिनिभेन जीवो व्योमेव जन्तोर्व्यवधीयते स्म ।
तस्मात्परस्मिन्नहमेव मत्वा लक्ष्मी समां योऽधिजनैरभुत ॥
वाहू बली कोपगुरोश्च वासो वक्षस्तथा नम्रमवेश्य चापम् ।
दोडतं मस्तकमेव येषां द्विपां छिनत्ति स्म रणे स वीरः ।।
पृष्टं ददच्चांपमभिद्विपं यः प्रियं चकार द्विपति प्रयुक्ताः ।
• लक्षानुगा मार्गणपुंगवास्ते जाताः कृतार्थास्तत एव तस्मात् ।।
तस्यासीदविचारकीर्तिदयिता निस्त्रिंशहस्तस्य या
सङ्ग्रामे सभयेव हन्त सहसागच्छत्परेपां गृहम् ।
..

काव्यमाला। सा वाच्यापगमाय तेन दधती दिव्यं प्रतापं पुरो- शान्ता सप्तसमुद्रमण्डलभुवं शुद्धेति गीता मुरैः ।। तस्माच वत्सराजो गुणरत्नमहानिधि तः। . शूरो युद्धमहार्णवमथनाय मैन्दरः ख्यातः ॥ आवाल्यादियमत्र मूर्तिमवने मद्रैः समं श्रीः स्थिता ब्रीडाप्यत्र वधूरिव स्वविषयं प्रच्छादयन्ती सती । तामेवाधिकतां नयत्यविरता भर्तमनो जानती सा विष्णोरिव वत्सराजनृपतेः सापत्नवने स्थिता ॥ सहकाम्बरदुःस्थत्वे काश्चित्कोणश्रिता दिशः । इतीवाच्छादयत्यागी वत्सेशः कीर्तिकर्पटैः ॥ हेमरत्नप्रभं छत्रं सोमनाथस्य भूपणम् । दीनानाथकृते सघमवारितमकारि सः(च)॥ तस्याङ्गसंभवः श्रीमांत्रिलोचनपतिर्नुपः । भोक्ता श्रीलाटदेशस्य पाण्डवः कलिभूभुजाम् ॥ त्यागेऽपि मार्गणा यस्य गुणग्रहणगामिनः । सत्ये धर्मों धवे वक्रः(१) शौर्य गोपालविक्रमः || अहो वृद्धस्य तस्यासशत्रवो विकला भृशम् । मोक्तस्तस्यैव ते चित्रं विहारमलशालिनः ॥ शत्रोः संगरभूपणस्य समरे तस्यासिना पातिते मूर्धन्याशु गलत्सु कण्ठवलयाद्रक्तस्य पूरेवलम् । तत्तेजोमयवद्वितापितवपुस्तस्यासवर्णस्य त- ब्रूनं भाजनमुल्ललास सहसा खड्गोर्ध्वहस्तं चलम् ॥ धर्मशीलेन तेनेदं चलं वीक्ष्य जगत्रयम् । गोभूहिरण्यदानानि दत्तानीह द्विजन्मनाम् ॥ शाके नवशतैर्युके द्विसप्तत्यधिक तथा । विकते वत्सरे पौपे मासे पक्षे च तामसे ॥ १.अत्र च्छन्दोभङ्गो भवति.

..
७ लेखः
प्राचीनलेखमाला।
३१
अमावास्यातिथौ सूर्यपर्वण्यङ्गारवारके ।
गत्वा प्रत्यगुदन्वन्तं तीर्थं चागस्त्यक्षिके ॥
गोत्रेण कुशिकायात्र भार्गवाय द्विजन्मने ।
वैश्वामित्रदेवरातावौदलः प्रवरारत्रयः ।।
इमानुद्वहते ग्राम माधवाय त्रिलोचनः ।
घिल्लीश्वरपथकान्तचित्वारिंशसंख्यके ।।
एरथाणनवशतमदादुदकपूर्वकम् ।
समस्तायं ससीमानमाघाटैस्तरुभिर्युतम्] ॥
देवब्राह्मणयोर्दायान्पर्जयित्वा क्रमागतान् ।
पूर्वस्यां दिशि नागाम्बा ग्रामस्तन्तिका तथा ॥
वटपद्रकमाग्नेय्यां याम्यां लिङ्गवटः सि(शि)वः ।
इन्दोत्थानं तु नैर्ऋत्यां बहुणदश्वा परे स्थितः ॥
वायव्यां टेम्बरूकं च सौम्यां तु तलपद्रकम् ।
ईशान्यां कुरुणग्रामः सीमायां खेटकाष्टकम् ॥
आघाटनानि चत्वारि आयैः सह ससीमकैः ।
तस्माहिनवरस्यास्य भुजतो न विकल्पना ॥
कर्तव्या कैश्चन नरैः सार्थसाधुसमाख्यकैः ।
अथैवं यदि लोप्तास्य स तदा पापभाजनः(नम्)।
पालने हि परो धर्मों हरणे पातकं महत् ॥
तथा चोक्तम्-
'सामान्योऽयं धर्मसेतुपाणां काले काले पालनीयो भवद्भिः।
स्ववंशजो वा परवंशजो वा रामो वत प्रार्थयते महीशाः ॥
कन्यामेकां गवामेकां भूमेरार्धमङ्गुलम् ।
हरन्नरकमानोति यावदाभूतसंप्ठवम् ।।
यानीह दत्तानि पुरा नरेन्द्रधर्मार्थकामादियशस्कराणि ।
निर्माल्यवान्ति प्रतिमानि तानि को नाम साधुः पुनराददाति ॥

३२
३
काव्यमाला।
बहुभिर्वमुधा भुक्ता राजमिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥'
लिखितं मया महासांधिविग्रहिकश्रीशंकरण । मन्नतश्रीमिति । श्रीत्रि.
लोननपालस्य ॥
(इण्डियन आण्टिवेरी १२२०१-२०३)
(८)
श्रीधरणीवराहाख्यमहीपतेर्दानपत्रम् ।
म् ।
पुण्यं व्योमसरिजलेन वहता चन्द्रांशुभिः शीतलं
सत्पुष्पं कनकारविन्दनिचयनिर्वाणसंपत्फलम् ।
व्यालालीविपकन्दलीमृगपतिप्रान्तं न संतापदं
श्रीधन्धेश्वरमुनि...""सुखदं वस्ताजटाकाननम् ।।
ध्यानात्पूर्वमुवाच सप्रतिरवं शंभुं प्रणम्यावनी
ध्यानाध्यासितलोचने त्वयि विभो पीडामहं नासुरीम् ।
शक्ता सोदुमिलार्थमुद्गतवपू रक्षाक्षमः शक्तिमा-
न्वाचापात्परमेश्वरेण विहितश्चापाभिधानो नृपः ॥
अपि च ।
नीरन्ध्रो गतकण्टकोऽक्षततनुः सच्छायमूर्तिः सदा
सत्पत्रोऽपि विपत्रतामनुगतः सेव्योऽस्त्यगम्यो द्विपाम् ।
शश्वत्सौख्यफलप्रदोऽपि सुतरां वृद्धेर्विघातात्मनो
भूभृन्मूर्ध्नि कृतास्पदोऽपि नतिमा-श्रीचापवंशोऽपरः ॥
तस्मिन्नुप्णरुचेर्वभूव सदृशः श्रीविक्रमार्को नृपः
संपन्नाखिलशक्तिषगुणयुतो राजा ततोऽप्यइकः ।
१. 'निचयो' इति इण्डियन् आण्टिक्वेरी'धृतः पाठः. २. 'इण्डियन् आण्टिक्वेरो
मध्ये त्रुटिचिह नास्ति.

लेख: प्राचीनलेखमाला। ३३ तस्माच्छ्रोपुलकेसिमभृदननि मापालचूडामणिः संजातः पृथिवीपति वभटो धर्मस्य मूर्तिस्ततः ॥ तस्यानुजः सकलभूपनतानिपद्मः पद्मावपुष्यभिरतो धरणीवराहः । जातोऽखिलप्रणयिकल्पतरुर्महात्मा लीलावतीमुखसरोरुहराजहंसः ॥ कि शौर्य प्रभुता पैराभिहननं गम्भीरता सत्यता प्रोत्साहः किमुतोच्यतामसदृशो यस्य प्रतापो महान् । औदार्य कुलजावनीपतिसुतेप्वत्यादरः कोऽप्यसौ येनैवं मुहुरोति मोहममला कष्टं कवीनां मतिः ॥ यस्त्यागशौर्यसौभाग्यगर्वितः कर्णपार्थकुमुमशरान । हृपयतीवाधिकतरनिजचरितीलयैव नृपः ।। अयं च प्राप्ताचलश्रीरपि सहजविवेकादेवमभावयत् । चत्वरनिहिता- निलाहतदीपशिखासमानमायुरारोग्यादिकम् । यत्पश्य, तादग्बलसम- न्विता अप्यस्मदादिपूर्ववंशजास्तथाविधविधिविलसितविशेषात्कीर्तियशोना- ममात्रावशेषीभूताः समभवन् । तद्वरं धर्मविपयमेव मनो विहितम् । दा- नशीलतपोभावनात्मके च धर्मे प्रायो राज्यावस्थितनृपाणां दानभावने एव प्रवर्तिते । तहसुंधरादिदानं स्वर्गसोपानमाकलय्यामितगुणमाजानेन वैध- मानावस्थितेन समधिगताशेपमहाशब्दमहासामन्ताधिपतिश्रीधरणीवरा- हेण स्वपितामहनामाशितमडाणकदेशमन्यं च भूयांसं राजाधिराजपरमे- श्वरश्रीमहीपालदेवपादप्रसादतः समनुशासता सता यथा दानं प्रव- तितं तथासौ सर्वान्ससंबध्यमानभाविभूपानन्यांश्च राष्ट्रपतिग्रामपतिभो- गिकमहत्तरकुटुम्पिकपाचकुलिकण्डपासिकमध्यगमभृतीन्समनुबोधयति- -- १. अन्यलेखेषु 'पुलकेशि' इति तालव्यान्तमुपलभ्यते. २. 'पराभिहणनं' इति 'इ. ण्डियन् आण्टिकेरी'धृतः पाठः. ३. गुजरातप्रान्ते 'पटवाण'नाम्ना प्रसिद्ध नगरमेव वर्धमानम्. ४. 'दण्डपाशिक' इत्यन्यत्र तालव्यमध्यः समुपलभ्यते.

काव्यमाला। अस्तु वः संविदितम् । यथा-मया मातापित्रोरात्मनश्च पुण्ययशोभिवृद्वये तथैवामुष्मिकफलावाप्त्यर्थ श्रीमदामर्दकसंतानीयश्रीशिवदेवाचार्यमुतश्रीम. हेश्वराचार्याय विद्याधनं कन्थिकास्थलीसंबध्यमानः विकलाभिधानग्रामः खसीमापर्यन्तः सदाणीमोगभागः सदण्डदशापराधः सदृक्षमालाकुलः स- कलराजकीयानामहस्तप्रक्षेपणीयः अपरिपन्थनीयश्च प्राप्तोदगयनमहाप- र्वणि परमभक्त्या मया उदकातिसर्गेण प्रतिपादितः । यस्य चाधाटनानि पूर्वतः उत्तरक्ककाभिधानग्रामः । दक्षिणतः खिक्खिरिआणकाभिधानग्रामः। अपरतः कुरलाभिधानग्रामः । उत्तरतः शणाइचाणकाभिधानग्रामः । एवं चतुराघाटनोपलक्षितोऽयं विड्लाभिधानग्रामः सोत्पद्यमानवेष्टिकः अचा- टभटप्रवेशः पूर्वदत्तदेवदायब्रह्मदायवन भूमिच्छिद्रन्यायेनाचन्द्राणिव- क्षितिसरित्पर्वतकालीनः श्रीमहेश्वराचार्यस्य पुत्रपौत्रान्वयन्यायेन भुञ्जतो भोजयतो वा न केनचिढ्यासेपनीयः । यत उक्तमेव भगवता वेदव्यासेन व्यासेन-- 'बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ पष्टिं वर्षसहस्राणि खगें तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निर्माल्य वान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥' इति । शकसंवत् ८३६ पौषसुदि १ उत्तरायणे । यथा चैतदेवं तथा ग्राम दाता खहस्तमारोपयति । वहस्तोऽयं श्रीधरणीवराहस्य । लिखितं चैत- द्रानादेशात्सांधिविग्रहिकमहिन्दकेन पार्थिलसुतेनेति । (इण्डियन् आण्टिक्वेरी १२ । १९३-१९४) १. अय शकाइस्तत्र लेखे संदिग्ध एवास्ति. अस्माभिस्तु 'आण्टिक्वेरी पुस्तके एत. लेखप्रकाशकस्य डॉक्टरयूलरस्य निर्णयानुसारं स्थापितः,

९ लेखः]]
प्राचीनलेखमाला।
(९)
राष्ट्रकूटवंशोद्भवस्य दितीयकर्कराजस्य दानपत्रम् ।
म् ।
श्रीसरस्वत्युमामाखदलोसंश्लेषभूपितम् ।
भूतये भवतां भूयादजकल्पतरुत्रयम् ।।
ब्रह्माद्यामरवन्धनटिजटाजूटाटवीसंस्थितेः
सिक्ताद्देवनदीविशुद्धसलिलैर्यश्चन्द्रखण्डादभूत् ।
आश्चयोजितवृतजातमहिमा पालीध्वजोत्पल्लवो
वंशः कुन्दसितातपत्रबहलच्छायासु रहिं गतः ।।
तस्मादिन्दुरिवाम्बुधेः शशभृतः कान्तिप्रवाहस्ततो
निप्यन्दश्च ययामृतस्य समभूद्वन्द्यो यदोरन्वयः ।
रेमेऽत्यद्भुतसाहसः स भगवान्गोपीकटाक्षालिभिः
शानी यत्र निपीयमानविलसल्लावण्यपुप्पोद्गमः ॥
प्रतिबोधितवन्धुपद्मपण्डः कृतचालुक्यघनान्धकारनाशः ।
उदगादथ दन्तिदुर्गभानुर्यदुवंशोदयपर्वतात्प्रतापी ॥
तस्मिन्नपुत्रेऽनु च तपितृव्यः पतिर्भुवोऽभूदिह कृष्णराजः।
अष्टादशेशालयदृश्यरूपं पुञ्जीहतं येन यशो विशुद्धम् ॥
गोविन्दराजः क्षितिपश्च तस्मादभूदनेकाहवलव्धकीर्तिः ।
धर्मार्थयोर्येन फलं मनोभूरा तृप्तितः कोशवतोपमुक्तः ॥
अतिशयगुणयुक्तत्वाद्यपार्थाभिधानो
निरुपम इति तस्यैवानुजोऽभूत्क्षितीशः ।
सकलजलधिवेलामान्तविश्रान्तसैन्यः
परिणतभुवनवादुइतकातपत्रः ॥
तस्माज्जगजुगनृपः सुतोऽभूत्तुङ्गत्वमागाजगतां गुणैर्यः ।
यस्यानिशं गन्धमदेभभीता मदं प्रयाणे दिगिमास्त्यजन्ति ॥
१.काव्यमालायो मुद्रिते पष्ठ लेसे 'तस्याये नृपतेः' इत्यादि पश्चम लोक 'पित्रव्य
मुदयीं' इत्यस्य स्थाने 'पिलव्य उदयी' इति पाठः समीचीनः,

३ काव्यमाला। तस्य श्रीमदमोघवर्षनृपतिश्चालुक्यकालानल: सूनुर्भूपतिरूजिताहितवधूवैधव्यदीक्षागुरुः। आसीदिन्द्रपुराधिकं पुरमिदं श्रीमान्यखेटाभिधं येनेदं च सरः कृतं गुरुकरुप्रासादमन्तःपुरम् ।। तस्मादकालवोऽभूत्सार्वभौमः क्षितीश्वरः । यत्प्रतापपरित्रस्तो व्योनि चन्द्रायते रविः ॥ चेदीशो देशकण्ठदर्पदलनः श्रीहैहयानां कुले कोकल्लः समभञ्च तस्य तनया या संकुकस्यानुजा । तस्यां कृष्णनृपाततः श्रितमहादेवीपदायामभू- तैस्तैर्यः प्रथितो गुणैभुवि जगतुङ्गाभिधानः सुतः ॥ चेदीश्वरशंकरगणदुहितरि लक्ष्म्यां ततो जगत्तुङ्गात् । सूनुरभूदिन्द्रनृपो भावी राज्यश्रियो भर्ता ॥ जनकगृहीतैः परमण्डलैरसंतुष्टमानसः स्वपितुः । एकच्छत्रां पृथ्वी कर्तु निरगाजगत्तुङ्गः ॥ चेद्यां मातुलशंकरगणात्मजायामभूजगत्तुङ्गात् । श्रीमानमोघवो गोविन्दाम्बाभिधानायाम् ॥ आरुह्येन्द्रपदोपमं स नृपतिः श्रीवीरसिंहासनं दत्त्वा ताम्रनमस्यशासनगतान्ग्रामाननन्तांस्तथा । अधैर्थिमनोरथाधिकतरैः कृत्वा कृतार्य जग- द्वयाप्ता येन शिवालयनिनयशःपुञ्जोपमैमेदिनी ॥ ऐन्द्रपदजिगीपयेव वर्गमधिरूढे च ज्येष्ठे भ्रातार श्रीमकृष्णराजदेवे युवराजदेवदुहितरि कुण्डकदेव्याममोघवर्षनृपात् । जातः खोट्टिगदेवो नृपतिरभूवनविख्यातः ॥ १. 'दशकण्ठदर्पदलनीहहयानां' इति समस्तः पाठो युक्तः. २. चैदिदेशाधीशश- फरगणस्य दुहितरि लक्ष्म्यां, गोविन्दाम्पायां च जगत्तुगनृपालमणेन्द्रः, अमोघवर्षधेति पुत्रद्वयमुद्भूत्. अमोघवर्षाकृष्णः, मोटिगः, निरुपम क्षेति त्रयः पुमा पमूवुः. भाण्डारक- ग्पण्डितास्तु दक्षिणतिहामे 'गोविन्दोऽम्याभिधानायाम्' इति पाठं समुचितं वदन्ति. ३. 'इण्डियन आण्टिफेरी'मध्ये प्लीटपण्डितेन एतद्यमप्यप्रिमायामायांयां प्रवेशितम्, तथैव दक्षिणेतिहासपि.

९ लेखः] प्राचीनलेखमाला। तस्यानुनान्निरुपमादुपलब्धजन्मा वीरश्रियः पदमभूद्धवि ककराजः। यो बाल एव सकलामपि राजनीति- मात्मप्रबोधविभवातिशयाद्विवेद ॥ सौमालीति दिशां गुणीति विदुपां त्यागीति दीनार्थिनां क्रोधीति द्विपतां शमीति च सतां रूपीति सद्योपिताम् । मिघाणां सुहृदित्यैवन्ध्यविभवो विश्वंभरायाः पतिः सर्वेषामपि सर्वदेति निवसत्येकोऽपि यश्चेतसि ॥ यस्यास्ते करवालवारिणि चिरं प्रक्षालयन्ती यथा लक्ष्मीरात्मकलङ्कमाहितमलं निन्द्यैः कुम्पाश्रयैः । सत्यं श्रीगृहमेतदम्बजमितो मे द्वेषिणी साप्यत- स्तिष्ठाम्यत्र रुपेति यस्य च मुखे देवी सरस्वत्यपि ॥ सत्यं गुर्जरनिर्जितारिनिकरश्चोलादिलीलारतो हूणाधीशरणेप्वकम्पितमतिः पाण्ड्यप्रचण्डो नृपः । वन्द्योऽयं भवतामनिन्द्यचरितः स्पर्धन्त मा स्मामुना कीर्तिर्यस्य नियामिकैवमनिशं पृथ्वी परिभ्राम्यति ॥ त्यागेनैव परां प्रसिद्धिमगमत्कर्णः किलानश्वरी सत्येनात्र युधिष्ठिरोऽपि नृपतिः प्रख्यातकीर्तिः कृतः । सौन्दर्येण मनोभवश्च विदितः पार्थों धनुः कौशलै- यः सर्वानतिशेत एव भुवने देवः समस्तैर्गुणैः ।। यशानुपरतकनकधारानिपातोपजनितलोकहर्पः श्रीमदमोघवर्पः स्वकी- शलक्षिप्तनिशितास्त्रविदारितारातिसार्थः श्रीनूतनपार्थः सकलबलवरिति- मिरभेदनप्रचण्डः श्रीमदहितमार्तण्डः खविक्रमच्छलितबलिवन्धपरायणः श्रीवीरनारायणः सकलादिरानचरितातिशयतुङ्गः श्रीमान्नृपतुङ्गो निखिल- भुवनाधिपत्यप्रकाशितकातपत्रः श्रीरानत्रिनेत्रः सममवत्सदर्याभिधानतया १. 'अवन्य' इति 'इण्डियन आण्टिकरी मुदितः पाठः. , काव्यमाला। सच परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीमदकालवर्षदेवपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरश्रीमदमोघवर्षदेवः प्रथि-- वीवल्लभः श्रीमहल्लभनरेन्द्रदेवः कुशली सर्वानेव यथासंबध्यमानका- • राष्ट्रपतिविषयपतिग्रामकूटमहत्तरायुक्तकोपयुक्तकाधिकारिकान्समादिश- 'ति-अस्तु वः संविदितम्, यथा श्रीमान्यखेटस्थिरावासिते श्रीमत्क- कलदेवराजे शकनृपकालातीतसंवत्सरशतेप्वष्टसु चतुर्नवत्यधिकेप्वकृतः संवत् ८९१ अगिरःसंवत्सरान्तर्गताश्वयुजपौर्णमास्यायां(स्यां) बुधदिने सोमग्रहणमहापर्वणि मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये श्रीमद्नेजुच- वावीवास्तव्याय इहैव कार्याभ्यागताय भारद्वाजगोत्रबहृचशाखासब्रह्म- चारिणे त्रिप्रवराय श्रीमच्छंकरैयपुत्राय श्रीमत्सङ्गमैयसुताय श्रीमच्छन्न- पैयभट्टाय उप्पलिकाशतत्रयान्तर्गतबब्बुलतल्लद्वादशमध्ये पङ्गरिकानाम ग्रामः सवृक्षमालाकुलः सधान्याहरण्यादेयः सदण्डदोषदशापराधः पूर्व प्रसिद्धचतुःसीमापर्यन्तः शुल्कादिसमस्तोत्पत्तिसहितः आ चन्द्रार्क मया नमस्यो दत्तः । तस्य पूर्वतः रोहीतल्लग्रामः । दक्षिणतः शिलहरेग्रामः । पश्चिमतः किणिहिग्रामः । उत्तरतः अन्तरवल्लीग्रामः । एवं चतुराघाट. विशुद्धममुं पङ्गरिकाग्रामं श्रीमच्छन्नपैयभट्टस्य रूपतः कर्पयतो भुञ्जतो भोजयतो वा न केनचियाघातः कार्यः । यश्च करोति स पञ्चभिरपि महापातकैरुपपातकैश्च संयुक्तः स्यात् । उक्तं च- 'सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥' 'यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥' 'बहुभिर्वसुधा भुक्ता पार्थिवैः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ 'विन्ध्याटवीप्वतोयाम शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदानापहारिणः ॥'

AU १० लेखः] प्राचीनलेखमाला। 'पष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ 'सुवर्णमेकं गामेकां मूमेरप्येकमङ्गुलम् । हरन्नरकमामोति यावदाभूतसंठवम् ॥' 'मद्वंशजाः परमहीपतिवंशजा वा पापादपेतमनसो भुवि भाविभूपाः । ये पालयन्ति मम धर्ममिदं समस्तं तेषां मया विरचितोऽञ्जलिरेप मूर्ध्नि ।' श्रीमदम्बार्यपौत्रेण योगमार्यसुतेन च । कायस्थकुमुदभागिना लि- खितं पुन्नार्यनाम्ना ॥ (इण्डियन आण्टिक्केरी १२।२६४-६५) (१०) राणासमरसिंहस्य प्रशस्तिः। उम् । ॐ नमः शिवाय। ध्यानानन्दपराः सुराः कति कति ब्रह्मादयोऽपि वसं- वेद्यं यस्य महः स्वभावविशदं किंचिद्विदांकुर्वते । मायामुक्तवपुः स्वसंगतभवाभावप्रदः प्रीतितो लोकानामचलेश्वरः स दिशतु श्रेयः प्रभुः प्रत्यहम् ॥ साथै स्वतनुं हुताशमनिशं पद्मासने जुह्वतः प्राणैः प्राननि नीललोहितवपुर्यों विश्वमूर्तेः पुरा । दृष्टाधनसागुरेण हठतस्तेजोमयं पञ्चम छिन्नं धावृशिरः कराम्बुनतले विभ्रत्स वस्त्रायताम् ।। १. प्रशस्तिरियमयुंदाचलो(आयपदाद)परि श्रीमदचलेश्वरमहादेवमन्दिरसमीपस्यस- न्यासिमठे शिलायो समुत्कीर्णा वर्तते. यांगताथानोदयपुरमहीपतेः पूर्वपुरुषाः.

काव्यमाला। अव्यक्ताक्षरनिर्भरध्वनिमपस्त्यक्तान्यकर्मश्रमः खं देहात्सितिमानमुज्झितुमना दानाम्नुसंवर्धितः । यत्कुम्भाचलगस्तपांसि वितनोत्यद्यापि मृङ्गबजः प्रत्यूहापगमोन्नतिर्गजमुखो देवः स वोऽस्तु श्रिये ॥ कि च। क्षुम्यद्वारिधिदीर्यमाणशिखरिश्रेणि भ्रमदूतलं यद्योमदिगन्तसंहति पतद्ब्रह्माण्डभाण्डस्थिति । कल्पान्तस्य विपर्ययेऽपि जगतामुढेगमुच्चैदिश- सिन्धोर्लङ्घनमदुतं हनुमतः पायादपायात्स नः ।। शाखोपशाखाकुलितः सुपर्वा गुणोचितः पत्रविभूषिताङ्गः । कृतास्पदो मूर्धनि भूधराणां जयत्युदारो गुहिलस्य वंशः ।। यद्वंशो गुहिलस्य राजभगवन्नारायणः कीर्त्यते तत्सत्यं कथमन्यथा नृपतयस्तं संश्रयन्तेतराम् । मुक्तेः काल्पितवेतसः करतलव्यासक्तदण्डोज्ज्वलाः प्राणत्राणधियः श्रियः समुदयैर्यस्तापहस्ताः सदा ।। मेदालेभरेण दुर्जनजनस्याठावितः संगरे देशः क्लेशकथापकर्पणपटुर्यों बप्पकेनोच्चकैः । लावण्योत्करनिर्जितामरपुरः श्रीमदेपाटाभिधा- माधत्ते स्म स एप शेपनगरश्रीगर्वसर्वकपः ।। अस्ति नागदं नाम सायाममिह पत्तनम् । चके तपांसि हारीतराशिर्यत्र तपोधनः ॥ केऽपि क्वापि परप्रभावजनितः पुण्यहविभिर्वि, प्रीणन्ति ज्वलनं हिताय जगतां प्रारब्धयागक्रमाः । अन्ये प्राणनिरोधबोधितसुखाः पश्यन्ति चात्मस्थित विश्वं सद्विजनस्थलीषु मुनयो यत्राप्ततत्वोदयाः ।। १. यस्याधुना मेवाह'नाम्ना प्रसिद्धिः. 'मिन्दानाः सान्द्रमानप्रहपटिममदं मदपाटा नानाम्' इति कर्णसुन्दयों {११५०) विहणप्रयोगः. २. अधुना 'नागदा नाना प्रसिद्धः

१० लेखः]
प्राचीनलेखमाला ।
अस्मिन्नेव वने तपस्विनि जने प्रायःस्खलद्वन्धने
वृत्तान्तं भुवनस्य योगनियतः प्रत्यक्षतः पश्यति ।
हारीतः शिवसङ्गमङ्गविगमात्माप्तः स्वसेवारते
वप्पाय प्रथिताय सिद्धिनिलयो राज्यश्रियं दत्तवान् ।।
हारीतात्किल वप्पकोडेशिवलयव्याजेन लेभे महः
क्षात्रं धातृनिभाद्वितीर्य मुनये ब्राह्म स्वसेवाछलात् ।
एतेऽद्यापि महीभुजः क्षितितले तदंशसंभूतयः
शोभन्ते सुतरामुपात्तवपुपः क्षात्रा हि धर्मा इव ॥
वप्पकस्य तनयो नयवेत्ता संवभूव नृपतिर्मुहिलाख्यः ।
यस्य नामकलितां किल जाति भूभुनो दधति तत्कुलजाताः ॥
यः पीयूषमयूखसुन्दरमतिर्विद्यासुधालंकृति-
निप्प्रत्यूहविनिर्जितस्मरगतिः प्राकाम्यरम्यारुतिः ।
गाम्भीर्योन्नतिसंभृतस्य जलधेविस्फोटिताहरूति-
स्तस्मादोजनरेश्वरः स समभूत्संसेवितश्रीपतिः ।।
शीलः सशीलकरवालकरालपाणि-
भेजे भुजेन तदनु प्रतिपक्षलक्ष्मीम् ।
उत्साहभावगमकं पुलकं दधानो
वीरः स्वयं रस इव स्फुटबद्धदेहः ॥
नोडस्त्रीरतिखण्डनः कुलनृपश्रेणीशिरोमण्डनः
कर्णाटेश्वरदण्डनः प्रभुकलामैत्रीमनोनन्दनः ।
तत्सनुर्नयममनर्मसचिवः श्रीकालभोजः क्षमा-
पालः कालकरालकर्कशधनुर्दण्डप्रचण्डोऽननि ।।
छायाभिर्वनिताः फलैः सुमनसः सत्पत्रपुर्दिशः
शाखाभिनिवर्गमर्गलभुनः कुर्वन्मुदामास्पदम् ।
१. 'यापारावल' नानास्य सर्वप्रेतिहासेपु प्रसिद्धिः. २. 'धि' इति मुदितः पाठः.
३. 'गुहिलोत नाम्ना तद्वंशोद्भवानां प्रसिदि. ४. 'यत्' इति मुद्रितः पाठः.

काव्यमाला। तद्वंशप्रबलाकरोऽतिरुचिरः प्रादुर्बभूवावनी- पालो भर्तृभटस्त्रिविष्टपतरोनर्वाभिहर्ता ततः॥ मुष्टिप्रमेयमध्यः कपाटवक्षस्थलस्तदनु । सिंहस्त्रासितभूधरमत्तेभो भूपतिर्नयति ॥ तजन्मा स महायिका स्वभुजयोः प्राप्तिकसाहायकः क्षोणीभारमुदारमुन्नतशिरा धत्ते स्म भोगीश्वरः। यत्क्रोधानलविस्फुलिङ्गमहसि प्रत्यर्थिनोऽनर्थिनः प्राञ्चत्पक्षपरिग्रहाकुलधियः पेतुः पतङ्गा इव ॥ खुम्माणस्य ततः प्रयाणवियति क्षोणीरजोर्दिने निस्त्रिंशाम्बुधरः सिपेच सुभटान्धाराजलैरुज्ज्वलैः । तन्नारीकुचकुडुमानि जगलुश्चित्राणि नेत्राञ्जने- रित्याश्चर्यमहो मनःसु मुधियामद्यापि विस्फूर्जति ।। अश्लटोऽजनि ततः क्षितिपालः संगरेऽनुरुतदुर्जयकालः । यस्य वैरिएतनां करवालः क्रीडयैव जयति स्म करालः ।। उदयति स्म ततो नरवाहनः समिति संहृतभूपतिवाहनः । विनयसंचयसेवितशंकरः सकलवैरिजनस्य भयंकरः ।। विक्रमविधूतविश्वप्रतिभटनीतेस्तथा गुणस्फीतेः । कीर्तिस्तारकजैत्री शक्तिकुमारस्य संजज्ञे ॥ आसीत्ततो नरपतिः शुचिवर्मनामा युद्धप्रदेशरि दर्शितचण्डयामा । उच्चैर्महीधरशिरःसु निवेशिताङ्गैः । शंभोविशाख इव विक्रमसंभृतश्रीः ॥ खलोंके शुचिवमणि स्वसुकृतैः पौरंदरं विभ्रमं विभ्राणे कलकण्ठकिंनरवधूसंगीतदोर्विक्रमे । १. 'साहायिकः' इति मुठितः पाट:. २. “परीग्रहा' इति मुद्रितः पाठः. ३. 'माण- म्य' इति मुद्रितः पाठः. ४.'शिषच' इति मुद्रितः पाठः.५.'मनस्तु' इति मुद्रितः पाठः, ६. 'गिपुग्दशिन' इति मुदिनः पाठः, ७, 'निवेशिताह' इति मुदितः पाठः, १० लेखः] प्राचीनलेखमाला। माद्यन्मारविकारवैरितरुणीगण्डस्थलीपाण्डुरै- ब्रह्माण्डं नरवर्मणा धवलितं शुभैर्यशोभिस्ततः ॥ नाते मुरस्त्रीपरिरम्भसौख्यसमुत्सुके श्रीनरवर्मदेवे । ररक्ष भूमीमय कीर्तिवर्मा नरेश्वरः शक्रसमानधर्मा ॥ कामक्षामनिकामतापिनि तपे()ऽमुस्मिन्नृपे रागिणि खःसिन्धोर्जलसंप्लुते रमयति स्वर्लोकवामभुवः । दोर्दण्डद्वयभग्नवैरिवसतिः क्षोणीश्वरो वैरट- चक्रे विक्रमतः स्वपीठविलुठन्मूर्भश्चिरं द्वेषिणः ।। तस्मिन्नुपरते रानि मुदिताशेपविद्विपि । वैरिसिंहस्ततश्चक्रे निजं नामार्थवदुवि ।। व्यूढोरस्कस्तनुर्मध्ये वेडाकम्पितभूधरः । विजयोपपदः सिंहस्ततोऽरिकरिणोऽवधीत् ।। यन्मुक्तं हृदयाङ्गरागसहितं गौरवमेतहिप- नारीभिर्विरहात्ततोऽपि समभूर्तिक काणकारक्रमः । धत्ते यत्कुममं तदीयमुचितं रक्तत्वमभ्यन्तरे बाह्ये पिञ्जरतां च कारणगुणग्रामोपसंवर्गणम् ॥ ततः प्रतापानलदग्धवैरिक्षितीशमोत्यमपीरसेन । नृपोऽरिसिंहः सकलासु दिक्षु लिलेख वोरः स्वयशःप्रशस्तिम् ॥ लोचनेषु मुमनस्तरुणीनामश्चनानि दिशता यदनेन । वारिकल्पितमहो वत चित्रं कजलं इतमरातिवधूनाम् ॥ नृपोत्तमाङ्गोपलकान्तिकूटप्रकाशिताष्टापदपादपोटः । अमूदमुप्मादय चोडनामा नरेश्वरः सूर्यसमानधामा । कुम्भिकुम्भविलुटत्करवालः संगरे विमुखनिर्मितकालः । तस्य मनुस्य विक्रमसिंही वीरविक्रमकयां निरमाइत् (6) ॥ १.वेश मिहनाद. २. 'मानान्तो पति मुद्रितः पाठः. ३. 'धूमोनोरमैन' इनि मुदितः पाट..

काव्यमाला। भुनवीर्यविलासेन समस्तोहतकण्टकः । चक्रे भुवि ततः क्षेम क्षेमसिंहो नरेश्वरः ॥ रक्तं किंचिन्निपीय प्रमदपरिलसत्पादविन्यासमुग्धाः कान्तेभ्यः प्रेतवध्वो ददति रसभरोद्गारमुद्राकपालैः । पायंपायं तदुच्चैर्मुदितसहचरीहस्तविन्यस्तपात्रं प्रीतास्ते ते पिशाचाः समरभुवि यशो यस्य संव्याहरन्ति । सामन्तसिंहनामा कामाधिकसर्वसुन्दरशरीरः । भुपालोऽजनि तस्मादपहतसामन्तर्वस्वः ॥ खोमाणसंततिवियोगविलक्षलक्ष्मी सेनामदृष्टविरहां गुहिलान्वयस्य । राजन्वती वसुमतीमकरोत्कुमार- सिंहस्ततो रिपुगतामपहत्य भूयः ॥ नामापि यस्य जिष्णोः परबलमथनेन सान्वयं जने । विक्रमविनीतशत्रुनृपतिरभन्मयनसिंहोऽथ ॥ कोशस्थितिः प्रतिभटक्षतजं न भुते कोशं न वरिरुधिराणि निपीयमानः । मङ्ग्रामसीमनि पुनः परिरम्य यस्य पाणि द्विसंश्रयमवार फलं पाणः ॥ शेषनिःशेपसारेण पद्मसिंहेन भूमुना मेदपाटमही पश्चात्पालिता लालितापि च ॥ व्यादीर्णवैरिमदसिन्भुरकुम्भकूट- निष्ठचुतमौक्तिकमणिस्फुटवर्णमानः । युद्धप्रदेशफलिकामु समुछिलेख विद्वानयं स्त्रभुनवीर्यरसमवन्धान ॥ १. 'योमाण' इति मुद्रितः पाठः. २. 'ऋपाणः' इति महिनः पाठः. ३. नित' इति मुद्रितः पाठः, १० लेखः] प्राचीनलेखमाला। नडूलमूलंकपबाहुलक्ष्मीस्तुरुप्कसैन्यार्णवकुम्भयोनिः । अस्मिन्सुराधीशसहासनस्ये ररक्ष भूमीमथ जैत्रसिंहः ॥ अद्यापि संधकचमूरुधिरावमत्त- संघूर्णमानरमणीपरिरम्भणेन । आनन्दमन्दमनसः समरे पिशाचाः श्रीजैत्रसिंहभुजविक्रममुदृणन्ति ॥ धवलयति स्म यशोभिः पुण्यभूमण्डलं तदनु । विहिताहितभेशश इस्तेजःसिंहो निरातकः ।। उप्तं मौक्तिकबीजमुत्तमभुवि त्यागस्य दानाम्बुभिः सिक्त्वा सद्गुरुसाधनेन नितरामादाय पुण्यं फलम् । राज्ञानेन पाणकोटिमटता खैरं विगाह्य श्रियः पश्चात्केऽपि विवर्धिता दिशि दिशि स्फारा यशोराशयः॥ आद्यक्रोडवपुः कपाणविलसद्दष्ट्राङ्कुरो यः क्षणा- न्मनामुद्धरति स्म गूर्जरमहीमुच्चैस्तुरुप्कार्णवात् । तेजःसिंहसुतः स एपः समरः क्षोणीश्वरप्रामणी- राधत्ते बलिकर्णयोर्धरमिलागोले वदान्योऽधुना ॥ तालीभिः स्फुटतूर्यतालरचनासंजीवनीभिः कर- द्वन्द्वोपात्तकबन्धमुग्धशिरसः संनतयन्तः प्रियाः । अद्याप्युन्मदराक्षसास्तव यशःखण्डप्रशस्ति रणे गायन्ति प्रतिपक्षशोणितमदास्तेजस्विसिंहात्मज ॥ अप्रमेयगुणगुम्फकोटिभिर्गादबद्धपविग्रहाकृतेः । कोयते न सकला तव स्तुतिम्रन्यगौरवभयानरेश्वर ।। अर्बुदो विजयते गिरिरुच्चैर्देवसेक्तिकुलाचलरत्नम् । यत्र पोडशविकारविपाकैरुज्झितोऽरुत तपांसि वसिष्ठः ॥ १. 'कृष' इति मुद्रितः पाठः. २. 'कृपाण' इति मुद्रितः पाठः. ३. 'कृपाण' इति मुदितः पाठः. ४. भूमण्डले. ५. 'प्युमद' इति मुद्रितः पाठः. ६. 'यशःखण्ड प्रति. छ इति मुदितः पाठ..

४६
काव्यमाला।
क्लेशावेशविमुग्धदान्तजनयोः सदुक्तिमुक्तिप्रदे
लक्ष्मीवेश्मनि पुण्यजदुतनयासंसर्गपूतात्मनि ।
माप मागचलेश्वरत्वमचले यस्मिन्भवानीपति-
विश्वव्याप्तिविभाज्यसर्वगतया देवश्रलोऽपि प्रभुः ।।
सर्वसौन्दर्यसारस्य कोऽपि पुन इवादृतः ।
अयं यत्र मस्तिष्ठत्यनादिस्तापसोचितः ॥
यत्र कापि तपस्विनः सुचरिताः कुत्रापि माः कनि-
द्गीर्वाणाः परमात्मनिर्देतिमिव प्राप्ताः क्षणेषु त्रिपु ।
यस्याद्योगतिमवुदेन सहितां गायन्ति पौराणिकाः
संधत्ते स खलु क्षणत्रयमिपात्रलोक्यलक्ष्मीमिह ॥
जीर्णोद्धारमकारयन्मठमिमं भूमीश्वरग्रामणी-
देवः श्रीसमरः खभाग्यविभवादिष्टो निजश्रेयसे ।
किं चास्मिन्परमास्तिको नरपतिश्चक्रे वसुHः कृपा-
संश्लिष्टः शुभमोननस्थितिमपि प्रीत्या मुनिभ्यस्ततः ।।
अचलशदण्डमुच्चैः सौवर्ण समरभूपालः ।
आयुर्वायुचलाचलमिह दृष्ट्वा कारयामास ॥
आसीद्भावामिनामेह स्थानाधीशः पुरा मठे।
हेलोन्मलितसंसारवोनैः पाशुपतेरीतः ।।
अन्योन्यवरविरहेण विशुद्धदेहाः
स्नेहानुबन्धिहृदयाः सदया जनेषु ।
अस्मिस्तपस्यति मृगेन्द्रगजादयोऽपि
सस्याः समीक्षितविमोक्षविधायितत्त्वाः ॥
शिप्यस्तस्यायमधुना नैष्ठिको भावशंकरः ।
शिवसायुज्यलाभाय कुरुते दुप्करं तपः ।।
१. 'वृतः' इति मुद्रितः पाठः. २. 'सायोज्य' इति मुदितः पाठः.

११ लेसः] प्राचीनलेखमाला। ४७ फलकुसुमसमृद्धि सर्वकालं वहन्तः परमनियमनिष्ठां यस्य भूमीरुहोऽमी । अपरमुनिजनेषु प्रायशः सूचयन्ति स्खलितविषयउत्तरेवुदाद्रिप्रसूताः ॥ राज्ञा समरसिंहेन भावशंकरशासनात् । मठः सौवर्णदण्डेन सहितः कारितोऽर्बुदे ।। योऽकादेकलिङ्गात्रिभुवनविदितश्रीसमाधीशचक्र- स्वामिप्रासादयन्दे प्रियपटुतनयो वेदशर्मा प्रशस्तीः । तेनैपापि व्यधायि स्फुटगुणविशदा नागरज्ञातिभाजा विप्रेणाशेषविद्वजनहृदयहरा चित्रकूटस्थितेन ॥ यावदर्बुदमहीधरसङ्ग संबिभर्ति भगवानचलेशः । तावदेव पठतामुपजीव्या सत्प्रशस्तिरियमस्तु कवीनाम् ॥ लिखिता शुभचन्द्रेण प्रशस्तिरियमुज्ज्वला । उत्कीर्णा कर्मसिंहेन सूत्रधारेण धीमता ॥ सं १३४२ वर्षे मार्गशुदि १ प्रशस्तिः कृता । (भावनगरप्राचीनशोधसंग्रहस्य प्रथमे भागे पृष्ठे ३०-३५) (११) राष्ट्रकूटवंशोद्भवस्य द्वितीयप्रभूतवर्षमहीपतेदनपत्रम्। खस्ति विस्तृतविशदयशोवितानविशदीलताशाचक्रवालकरवालप्रवला- वैतसविरानितनयलक्ष्मासमोलिङ्गितदक्षदक्षिणामूरिनार्गलः गलितसार- शौर्यरसविसरचिखलीकतामारिवर्गः । वर्गत्रयवर्गणेकनिपुणाचलाभारवो- वी(?)विशेषनिनितोर्वीमण्डलोत्सवोत्पादनपरम्पर(?)भूपालमौलिमालालीदा- १. 'अर्युदादि' इति मुद्रितः पाठः. २. "चित्तोडगढस्थितेनेत्यर्थः. प्रयमं चित्तोड- गा एव राजधान्यासीद, उदयपुरनिर्माणं तु पश्चात (निस्तान्दीययोहरे शतके) जातम्. १. 'विशाद' इति मुदितः पाठः. ४. 'आवतंश' इति मुदितः पाठः. ५. भुजग्गलः' इति मदितः पाठः. ६. 'वर्गनर' इति मुदितः पाठः.

काव्यमाला। -- द्विद्वन्द्वारविन्दो गोविन्दराजः तस्य सूनुः मुतरुणभावोदयदया- दानदीनेतरगुणगणसमर्पितवन्धुननः सकलकलागमनलधिकलशयोनिः म. नुदर्शितमार्गानुगामी राष्ट्रकूटकुलामलगगनमृगलाञ्छनः बुधननमुखकम- लांशुमाली मनोहरगुणगणालंकृतभारः (1) कैफराजनामधेयः तस्य पुत्रः खवंशानेकनृपसंघातपरम्पराभ्युदयकारणः परमपिव्राह्मणभक्तितात्पर्य- कुशलः समस्तगुणगणाधिध्वानो विख्यातसर्वलोकनिरुपमस्थिरभावनिर्जि तारिमण्डलः यस्येममासीत् (१) ॥ जित्वा भूपारिवनयकुशलतया येन राज्यं कृतं यः कप्टे मन्वादिमार्गस्तुतधवलयशा न क्वचिद्यागपूर्वः । सङ्गामे यस्य शेपा स्वभुजकरवलप्रापिता या जयश्री- यस्मिजाते स्ववंशोभ्युदयधवलतां यातदानकैतेजः (1) ॥ असार्विन्दराजनामधेयस्तस्य पुत्रः स्वकुलललामायमानो मानधनो दीनानाथजनाहादनकरदाननिरतमनोवृत्तिः हिमकर इव मुखकरकरः कु. लाचलसमुदाय इव सुधाधारगुणनिपुणः (१) शिमशैलकूटतटस्थापितयश- स्तम्बो लिखितानेकविक्रमगुणः । अघसंघातविनाशकसुरापगा यस्य सद्यशो विशंदम् । गायन्तीव तरङ्गमभवरवैर्वहति जनमहिता ॥ असी बैरमेघनामधेयस्तस्य पितृव्यः हृदयपद्मासनस्थपरेश्वरशिरः- शिशिरकर[केर]निकरनिराकृततमोत्तिः सविशेपस्य जगत्रयसाम्रो- द्वयेनेव (1) विरचितस्य चतुर्थलोकोदयसमानस्य कृतयुगशतैरिव निष्ठि- तस्य यस्य यशसः पुञ्जमिव विराजमानः १. 'सतर्पित' इत्युचितः पाठः. २. 'ककराजानामधेयः' इति मुद्रितः पाठः. ३. 'कारणम्' इत्यपेक्षितम्. ४. 'इन्दराजानामधेय' इति मुदितः पाठः. ५. 'स्तम्यं' इति मुद्रितः पाठः. ६. 'गुनम्' इति मुद्रितः पाठः. ७. 'विशादम्' इति मुद्रितः पाठः, 4. 'प्रमतरावैः' इति मुद्रितः पाठः ९. 'कर' इति मुद्रिते पाठे नास्ति. १०. 'जगत्रय' इति मुद्रितः पाठः. ११. 'निष्टितस्य' इति मुदित्तः पाठः, १२. 'पुन इव' इत्यपेक्षितम्.

११ लेखः प्राचीनलेखमाला। १९ प्रदग्धकालागरुधूपधूमैः प्रवर्धमानोपचयाः पयोदाः । यस्याजिरं स्वच्छसुगन्धतोयैः सिबन्ति सिहोदितकूटभागाः॥ (1) न चेदृशं प्राप्यमिति प्रलोभाद्भवोद्भवो भावियुगावतारे । अवैमि यस्य स्थितये स्वयं तत्कल्पान्तरं नैव च भाव्यतीति ।। (३) तारागणेपूनतकूटकोटितंयर्पितामूज्ज्वलदीपिकासु। 'मोमुहाते रात्रिविभेदभावः निशात्ययः पौरजनैनिशायाम् ॥ (1) आधारभूताहमिदं व्यतीत्य मां वर्धते चायमतिप्रसङ्गः । यस्यावकाशार्थमितीव पृथ्वी पृथ्वीव भूतेति च मे वितर्कः ॥ विचित्रपताकासहस्रसंछादितमुपरि परिचरंणभयाल्लोकैकचूडामणिना मणिकुटिमसंक्रान्तप्रतिविम्बव्याजेन स्वयमवतीर्य परमेश्वरभक्तियुक्तन नेमस्क्रियमाणमिव विराजमानम्, प्रहतपुष्करमन्द्रनिनादाकर्णनोदितानु- रागैः प्राडारम्भकालजनितोत्सवारम्भैर्मयूरैः प्रारब्धर्तृत्तवृत्तान्तम्, धूमवे- लालिलागत(१)विलासिनीजनानां करतलकिसलयरसभावसद्भावप्रकटनकुश- लशशिवदनाङ्गनानर्तनाहतपौरयुवतिजनचित्तान्तरम्, समस्तसिद्धान्तसाग-. रपारगमुनिशतसंकुलं देवकुलमासीत् कैन्नेश्वरं नाम स्वनामधेयाङ्कितम् । असावकालवर्प इति विख्यातस्तस्य सूनुरानतनृपमुकुटमणिगणकिर- णजालरक्षितपादयुगलनखमयूखप्रभामासितसिंहासनोपान्तः कान्ताजन- कटकखचितपद्मरागदीधितिविसरशुम्भत्कुसुम्भरसरजितनिजधवलवाज्यमा- नचारुचामरनिचयविख्यातः प्राज्यराज्याभिषेकान्तरैकैश्वर्यसुखसमानुभव- स्थितिः निजतुरंगमैकविनयानीतराजलक्ष्मीसनाथो महीनायो यः कल्पा- शिपः संसेव (1) चिन्तामणिरिति दृढं यं वदन्त्यर्थिनः नित्यप्रीत्या प्राप्ता- र्थसंपदसौ प्रभूतवर्प इति विख्यातो भूपचक्रचूडामणिः तस्यानुजः धारा- १. 'तरपितासु.ज्वाल-' इति मुद्रितः पाठः. २. 'पौरजनेर' इति मुद्रितः पाठः, ३. : 'व्यतीत्यम् आवर्धते इति मुद्वितः पाठः. ४. पृथ्वीम्' इति मुद्रितः पाठः, ५. 'नमस्काय- | माणम् एव' इति मुद्रितः पाठः. ६. वृत्तवृत्तान्तम्' इति मुद्रितः पाठः. ५. फमेश्वर इति राज्ञोऽफालवर्षस्य नामान्तरम्. . "विज्यमान' इति मुद्रितः पाठः. ९. 'विचयविख्या- ; तम्' इति मुद्रितः पाठः. १.. 'सत्यमेर' इत्पेक्षितम्. ११. 'ध्रुई' इति मुद्रितः पाठः.

काव्यमाला । वर्पश्रीपृथ्वीवल्लभमहाराजाधिराजपरमेश्वरः सण्डितारिमण्डलासिभा- सितदोर्दण्डः पुण्डरीक शवलिरिपुमर्दनाक्रान्तसकलभुवनतलः सुकता 'नेकराज्यभारमरोद्वहनसमर्थः हिमशैलविशालोरःस्थलेन राजलक्ष्मीविहर- णमणिकुष्टिमेन चतुराङ्गनालिङ्गनतुङ्गकुचसझंमुखोद्रेकोदितरोमायोनितेन खभुनासिधारादलितसमस्तगलितमुक्ताफलविसरपिरामितारिपलहस्तिहे- स्तास्फालनदन्तकोटिघटितघेनीकृतेन विराजमानः त्रिपुरहरवृपभकंकुदा- कारोन्नतविकटांसतटनिकटदोधूयमानगारुचामरनयः फेनपिण्डपाण्डरममा- वोदितच्छविना वृत्तेनापि तुराकारेण सितिपत्रेणाच्छादितसमस्तदिग्यि. वरो रिपुजनहृदयविदारणदारुणेन सकलभूतलाधिपत्यलक्ष्मीलीलामुत्पाद- यता महतपेटंहदकागम्भीरध्यानेन घनाघनगर्जनानुकारिणां अस्याचितो विनोदनिर्गमः (8) स्वकीयां सोशलता (1) परनृपचेतोत्तिषु दातुमिवो- चै रोविलोलप्रकटितराज्यनिगः (1) तुरङ्गमसरपुरोत्यितपांशुपटलमणित- जलदसंचयानकमत्तद्विपकरटतटगलितदानधारामतानप्रशमितमहीपरागः । यस्य श्री चपलोदया खुरतरङ्गालीसमास्फालना- न्निभिन्नद्विपयानपात्रगतयो ये संचलच्चेतसः । (8) तस्मिन्नेव समेत्य सारविभवं संत्यज्य राज्य रणे भमा मोहवशात्स्वयं खलु दिशामन्तं भजन्तेऽरयः ।। • इदं कियदूतलमत्र सम्यक्स्थातुं महत्संकटमित्युदनम् । । स्वस्यावकाशं न करोति यस्य यशो दिशां भित्तिविभेदनानि ।। अनवरतदानधारावर्षागमेन तृप्तजनतायाः धारावर्ष इति जगति वि: ख्यातः सर्वलोकवछमतया वछभ इति । तस्यात्मनो निजभुनत्रलसमानी- १. "पुण्डरीकाक्ष इत्यपेक्षितम्. २. 'स्थलिन' इति मुद्रितः पाठः, ३. 'विहारण इति मुद्रितः पाठः. ४. 'हास्ता-' इति मुद्रितः पाठः. ५. 'घणोकतेन' इति मुद्रितः पाठः. ६. 'पाण्डर' इति मुद्रितः पाठः. ७. 'चतुरस्राकारेण इत्युचित भाति. ८. 'भा- तपत्रेन' इति मुद्रितः पाठः. ९: 'दारुगेन'. इति मुद्रितः पाठः. १०. 'पदढका' इति मुद्रितः पाठः. ११. 'चञ्चलता' इति भाति. १५. 'इवोच' इति मुद्रितः पाठः. १३. 'सत्यज्य' इति मुद्रितः पाठः. १४. 'तस्यात्मजा' इति मुद्रितः पाठः, ११ लेखः] प्राचीनलेखमाला । तपरनृपलक्ष्मीकरधृतधवलातपत्रनालप्रतिकूलरिपुकुलचरणनिबद्धखलंखला- .यमानधवलगृहलारववधिरीकृतपर्यन्तजनो निरुपमगुणगणाकर्णनसमा- हादितमनसा साधुजनेन सदा संगीयमानशशिविशदयशोराशिराशावष्ट- व्धननमनःपरिकल्पनत्रिगुणीलतस्वकीयानुष्ठानो निष्ठितकर्तव्यः प्रभूत- वर्पश्रीपृथ्वीवल्लभराजाधिराजपरमेश्वरस्य प्रवर्धमानश्रीराज्यविजयसं- -वत्सरेपु वदत्सु । चारुचालुक्यान्वयगगनतलहरिणलाञ्छनायमानश्रीव- लवर्मनरेन्द्रस्य सूनुः स्वविक्रमविजितसकलरिपुनृपशिरःशेखचितचरण- युगलो यशोवर्मनामधेयो राजा व्यराजत । तस्य पुत्रः सुपुत्रः कुलदी- -पक इति पुराणवचनमवितथमिह कुर्वन्नतितरां धीराजमानो मनोजात इव मानिनीजनमनस्थलीयः (१) रणचतुरश्चतुरजनाश्रयः श्रीसमालिङ्गितवि- शालवक्षस्थलो नितरामशोभत । असौ महात्मा कमलोचितसदुजान्तरश्रीविमलादित्य इति प्रतीतनामा । कमनीयवपुविलासिनीनां भ्रमदक्षिभ्रमरालिवकपद्मः ॥ यः प्रचण्डतरकरवालदलितरिपुनृपकरिघटाकुम्भमुक्तमुक्ताफलविकीणि- . तरुचिरक्ताधिकान्तिरुचिरपरीतनिजकलनकण्ठः शितिकण्ठ इव महितम- हिमामोद्यमानरुचिरकीतिरशेपगङ्गमण्डलाधिराजश्रीचाकिराजस्य भा- गिनेयः भुवि प्रकाशतयस्मि कुनुन्गिलनामदेशमयशःपैराङ्मुखा मनुमी- गेंण पालयति सति श्रीयापनीयनन्दिसंघ'नागरक्षमूलगणे श्रीकित्याचा- र्यान्वये बहुप्वाचार्येष्वतिक्रान्तेषु व्रतसमितिगुप्तिगुप्तमुनिरन्दवन्दितचरण- कूविलाँचार्याणामासीत् (8) तस्यान्तेवासी समुपनतजनपरिश्रमाहारः- स्वदा- १.,करे धृत' इति मुद्रितः पाठः. २. 'मानसा' इति मुद्रितः पाठः. ३. 'सनीय- मान' इति मुद्रितः पाठः. ४. 'वहत्सु' इति भाति. ५. 'हारिण-' इति मुदितः पाठः. ६. 'सुनु' इति मुद्रितः पाठः. ७. 'आवनित' इति मुद्रितः पाठः, ८. 'कुलदीपिक' इति मुद्रितः पाठः. ९. 'अवितधे' इति मुद्रितः पाठः. १०. विलासिनीना' इति मद्रितः पाठः. ११. 'भ्रमराली' इति मुद्रितः पाठः १२. 'करवाला' इति मुद्रितः पाठः. १३. 'नृपरकरि-' इति मुद्रितः पाठः, १४. 'कलविकण्डः' इति मुदितः पाठः, १५. 'प्रकाशते यस्मिन्' इति भाति. १६. 'परामुखे' इत्यपैक्षितम्. १५. 'माग्न पालापति' इति मुदितः पाठः. १८. 'आचार्यानाम् इति मुद्रितः पाठः, ६२ काव्यमाला । नसंतर्पितसमस्तषिद्वजनो ननितमहोदयः विनयकातिनागमुनिप्रभुरंभूत् । अर्ककीतिरिति ख्यातिमातन्यन्मुनिसत्तमः । तस्य शिष्यत्वगायातो नायातो वशमेनेसाम् ।। तस्मै मुनिवराय तस्य विमलादित्यस्य राणेश्वर(?)पीडापनोदायं मयूरसण्डिमधिवसति विजयस्कन्धावारे माफिराजेन विज्ञापितो पछमेन्द्रः इडिगूपियमध्यवर्तिनं जालमगलंनामधेगग्राम शकनृपसंवत्सरेपु शरशि- खिमुनिपु (७३५) व्यतीतेपु ज्येष्ठमासगुपक्षदशम्यां पुप्यनक्षत्रे चन्द्र- वारे मान्यपुरवरापरदिग्विभागालंकारभूतशिलानामाननेन्द्रमवनाय दत्त- वान् तस्य पूर्वदक्षिणापरोत्तरदिग्विमागेपु स्वस्तिमगल-बेछिन्द-गुडनूर- चरिपाल इति प्रसिद्धा ग्रामाः एवं पतुणी ग्रामाणां मध्ये व्यवस्थितस्य जालमङ्गलस्यायं चतुरायधिक्रमः पुनस्तस्य सीमाविमागः ईशानतः मुकू- उलूदक्षिणदिग्विभागमवलोक्य एल्तग-कोडल-मूडग-केल-बन्दु इप्य-को- पदे-पल्लद्-ओलगण उलि-अलरिये कोदेयालि-बेलने सक्ने-बन्दु पोल पुणसे एव कीले अन्ते पोयिए विदिरूगैरे नुकूडल् ततः पश्चिमतः पु: लिपदिय तेकण पेओल्येये पेविलिके एलगल-करण्डलो मुडल् . अन्ते सय्कने पोगि नायमणिगेरेय ताय्गण्डि मुकूडल् ततः उत्तरतः वल. गेरेय पडुब गजगोड पळम्चे पुणुसेये आनेदलो गेरेए पुल्पडिये एलगछे पुलिगारद गेरे मुकूडल ततः पूर्वतः निड विळिके "दविन पुल्पडिये कञ्चगार गळे पोल एले.पुणुसये बद्दपुणुप्तये वेळने वन्दु ईशानद मुकूड- लोल् डि निन्दत्तू । राचमलगामुण्डनुं शीरनुं गङ्गगामुण्डर्नु · मारेयन वेल्गेरेयमोडेयोरुं मोदवागे-एलपदिम्बरु कुनुन्गिल्-अयसार्यरुं सातियागे कोहत्त । नमः। . १. 'अमाद्' इति मुद्रितः पाठः. २. 'एनसा' इति मुदितः पाठः. ३. 'तस्मे' इति मुद्रितः पाठः. ४. विमलादित्यास्य' इति मुद्रितः पाठः. ५. 'वसती' इति मुद्रितः पाठः. ६. 'वर्तिन' इति मुद्रितः पाठः, ७. 'जिनेन्द्र' इति माति. ८. 'प्रामानां' इति मुद्रितः पाठः. ९. 'चतुरवाधिक्रम. इति भाति.

५४ काव्यमाला । रानाधिराजश्रोसावटमनुर्गुनरमताहारान्वयः कुशली स्वभोगावाप्तवंशपो- तकभोगसंबद्धव्याघ्रयाटकमामे समुपगतान्सुनिय राजपुरुपानियोगस्था- न्क्रमागमिकान्नियुक्तकानियुक्तकांस्तन्नियासिमहत्तरमहत्तमवणिरायणिम- मुखजनपदांश्च यथार्ह मानयति बोधयति समादिशति च । अस्तु वः सं. विदितम्-तृणाप्रलमजलबिन्दुसंस्थानास्थिराणि शरीरसंपजीवितानीतीमा संसारासारतां, कीर्तिमृतेश्च कल्पस्थायितां ज्ञात्वा मया पित्रोरात्मनश्र पुण्ययशोभिटाद्वये ऐहिकामुप्मिकफलनिमित्तं संसारार्णवतरणार्थ स्वर्गमा- गिलोद्घाटनहेतोः स्वमातृश्रीलच्छुकानाम्ना श्रीलच्छकेश्वरमहादेवाय प्र. त्यहं ३ मपनसमालभनपुप्पधूपनवेद्यदीपतैलमुबासिन्दूरलागनखण्डस्फुटि- तसमारचनप्रेक्षणकपवित्रकारोहणकर्मकरवाटिकापालादिव्ययार्यमुपरि मू- चितव्याघवाटकग्रामः ससीमातृणयतिगोक(च)रपर्यन्तः सोद्रगः सक्षमा- लाकुलः सकलाभोगम(सकलभोगसं)युतादायाभ्यामपि समस्तसस्यानां भाग- खलभिक्षामस्थकस्कन्वकमार्गणकदण्डदशापराधदाननिधिनिधानापुत्रिकाध- ननष्टिभरटोचितानुचितनिबद्धानिपद्धसमस्तप्रत्यादेयसहितस्तथैतत्मत्यासन्न- श्रीगुर्जरवाहितसमस्तक्षेत्रसमेतश्चाकिंचित्प्रयाह्योऽद्य पुण्येऽहनि स्मात्या देवस्य प्रतिष्ठाकाले उदकपूर्व परिकल्प्य शासनेन दत्तः । मत्वैवमद्य दिनादारभ्य श्रीमदामर्दकविनिर्गतश्रीसोपुरीयसंतत्यां श्रीछानशिवे श्री- गोपालीदेवीतडागपालीमठसंबन्दश्रीराज्यपुरे श्रीनित्यप्रमुदितदेवमठे, श्री. श्रीकण्ठाचार्यशिष्यश्रीरूपशिवाचार्यस्तच्छिप्यश्रीमदोंकारशिवाचार्यस्या- स्खलितब्रह्मचर्यावाप्तमहामहिम्नः परमयशोराशेः शिप्यप्रतिशिप्यक्र- मेण देवोपयोगार्थ तत्रिमव्यवच्छेदेनाचन्द्रा यावत्कुर्वतः कारयतो वास्म- इंशनैरन्यतरैर्वा माविभिभूपालैः कालकालेप्वपि परिपन्थना न कार्या । प्रत्युतास्मत्कृतप्रार्थनया सदा तत्रिसानाथ्यं वोढव्यम् । यतः समानैवेयं पुण्यफलावाप्तिरनुमन्तव्या । उक्तं च भगवता परमर्पिणा वेदव्यासेन व्यासेन- 'बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १. अयं प्रामोऽधुना 'बाघोर नाना प्रसिद्धोऽस्ति.

१३ लेखः] पानीनलेखमाला । आदित्यो वरुणो वायुर्बह्मा विष्णु ताशनः । भगवाञ्शूलपाणिश्च अभिनन्दति भूमिदम् ।। पष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरकं वसेत् ।।" यैर्वाञ्छितं शिशिरदीधितिशुभ्रकीर्ते- थैचामरप्रणयिनीपरिरम्भणस्य । ते साधवो नहि हरन्ति परेण दत्तां दानाद्वदन्ति परिपालनमेव साधु ।। शासनं कृतवान्देवो लिखितं तस्य मनुना । व्यक्तं मूरमसादेन उत्कीर्ण हरिणा ततः ॥ इति ।। तथामुष्मै देवाय पार्श्वदेवकुलिकाचतुष्टया ४ रानधान्यां प्रतिष्ठितवि- नायकसहिताय हट्दाने गोनी प्रतिहव्यावहरिका २ घटककूपकं प्रति घृतस्य तैलस्य च पलिके द्वे २ वीथीं प्रति मासि २ वि २ तथा बहिः प्रविष्टचोल्लिका प्रति पर्णानां ५० एतद्देवस्य कृतमिति। श्रीमथनः ॥ ९ (१३) श्रीपृथ्वीकोणिमहाराजस्य दानपत्रम् । स्वस्ति नितं भगवता गतधनगगनाभेन पद्मनाभेन । श्रीमजाइवेयक- लामलव्योमावभासनभास्करः स्वख कमहारखण्डितमहाशिलास्तम्भलब्ध- बलपराक्रमो दारुणारिगणविदारणोपलब्धव्रणविभूषणविभूषितः काण्वायन- सगोत्रः श्रीमत्कोद्गणिवर्मधर्ममहाधिरानः,तस्य पुत्रः पितुरन्वागतगुणयुक्तो विद्याविनयविहितउत्तः सम्यक्प्रजापालनमात्राधिगतराज्यप्रयोजनो विद्व- कविकाञ्चननिकपोपलभूतो नीतिशास्त्रस्य वत्कृप्रयोक्तृकुशलो दत्तकसूत्र- १. 'कुलामलाव्योमा' इति मुद्रितः पाठः. २. 'पराक्रमोदारणा' इति मुदितः पाठः, ३. 'पुत्र' इति मुद्रितः पाठः. ४. 'विहीत' इति मुद्रितः पाठः.

काव्यमाला। वृत्तेः प्रणेता श्रीमान्माधवमहाधिरानः, तत्पुत्रः पितृपैतामहगुणयुक्तोऽने- कचातुर्दन्तयुद्धावाप्तचतुरुदधिसलिलस्वादितयशाः श्रीमद्धरिवर्ममहाधि- राजः, तस्य पुत्रो द्विनगुरुदेवतापूजनपरो नारायणचरणानुध्यातः श्रीमा- विष्णुगोपमहाधिराजः, तत्पुत्ररुयम्बकचरणाम्भोरुहरजःपवित्रीकृतोत्त- माङ्गः स्वभुजवलपराक्रमक्रयक्रीतराज्यः कलियुगमलपकावसन्नधर्मपो- द्धरणनित्यसंनदः श्रीमान्माधवमहाधिराजः, तत्पुत्रः श्रीमत्कदम्बकुलगग- नगभस्तिमालिनः कृष्णवर्ममहाधिराजस्य मियभागिनेयो विद्याविनया- तिशयपरिपूरितान्तरात्मा निरवग्रहप्रैधनशौर्यों विद्वत्सु प्रथमगण्यः श्रीमा- न्कोगणिमहाधिराजः अविनीतनामा, तत्पुत्रो विजृम्भमाणशक्तित्रयः अन्दरिह-अलत्तुप्-पौरुळरे-पेलूनग-राज्यानेकसमरमुखमखहुतशूरपुरुपपशू- पहारविषसविहस्तीकतकृतान्ताग्निमुखः किरातार्जुनीयपञ्चदशसर्गादिकों- कारो दुम्बिनीतनामधेयः, तस्य पुत्रो दुर्दान्तविमर्दविमृदितविश्वंभरादि- पञ्चालिमालामकरन्दपुञ्जपिञ्जरीक्रियमाणचरणयुगलनलिनो मुष्करनाम- धेयः, तस्य पुत्रश्चतुर्दशविद्यास्थानाधिगतविमलमतिः विशेषतो नवको- शस्य नीतिशास्त्रस्य वक्तृप्रयोक्तृकुशलो रिपुतिमिरनिकरनिराकरणोदय- भास्करः श्रीविक्रमप्रथितनामधेयः, तस्य पुत्रोऽनेकसमरसंपादितविजृम्भित- द्विरदरदनकुलिशावातव्रणसंरुद्धस्वास्थ्यविजय(ह)लक्षणलक्षीतविशाल- ' वक्षःस्थलः समधिगतसकलशास्त्राब्धितत्त्वः समाराधितत्रिवर्गों निरवद्य- चरितः प्रतिदिनमभिवर्धमानप्रभावो भूविक्रमनामधेयः । अपि च ।' नानाहेतिमहारप्रतिहतमुमटारामवाटोस्थितामृ- ग्धारास्वादामृताशक्षुभितपरिसरगृध्रसंरुद्धसीमे । सामन्तान्पल्लवेन्द्रानरपतिमजयद्यो बिलन्दाभिधाने राजा श्रीवल्लभाख्यः समरशतजयावाप्तलक्ष्मीविलासः || तस्यानुजो नतनरेन्द्रकिरीटकोटि- रत्नार्कदीधितिविराजितपादपद्मः । १. सलील इति मुद्रितः पाठः. २. "क्रित' इति मुद्रितः पाठः. ३. 'प्रधान' इति मुद्रितः पाठः. " 4 १३ लेखः]] माचीनलेखमाला। १७ लक्ष्म्याः वयंवृतपतिनवकामनामा शिष्टमियोऽरिगणदारणलब्धकीर्तिः ॥ तस्य कोगणिमहाराजस्य सोमेश्वरापरनामधेयस्य पौत्रः समवनत- समस्तसामन्तमुकुटतटघटितबहुलरत्नविलसदमरधनुःखण्डमण्डितचरणनख- मण्डलो नारायणे निहितभक्तिः शूरपुरुपतुरगनरवारणघटासंघदारुण- समरशिरसि निहितात्मकोपो भीमकोपः प्रकटरतिसमयसमनुवर्तनचतुर- युवतिजनलोकभूतों लोकधूर्तः सुदुर्धरानेकयुद्धमूर्धन्यलब्धविनयसंपदहि- तगजघटाकेसरी राजकेसरी । अपि च । यो गङ्गान्वयनिर्मलाम्बरतलव्याभासनपोछस- न्मार्तण्डोऽरिभयंकरः शुभकरः सन्मार्गरक्षाकरः । सौराज्यं समुपेत्य राज्यसविता राजन्यतारोत्तमो राजा श्रीपुरुपेश्वरो विजयते राजन्यचूडामणिः ॥ कामं रामः स चापे दशरथतनयो विक्रमे जामदत्यः प्राज्ये वायें वलारिवहुमहसि रविः स्वप्रभुत्वे धनेशः। भूयो विख्यातशक्तिः स्फुटतरमखिलमाणभाजां विधाता धात्रा सृष्टः प्रजानां पतिरिति कवयो यं प्रशंसन्ति नित्यम् ॥ तेन प्रतिदिनप्रवृत्तमहादानननितपुण्याहयोपमुखरितमन्दिरोदरेण श्री- पुरुषप्रथमनामधेयेन पृथ्वीकोङ्गणिमहाराजेन अष्टानवत्युत्तरपट्छतेपु(६९) शकवर्षेवावर्तितेप्वात्मनः प्रवर्धमानविजयवीर्यसंवत्सरे पञ्चाशत्तमे प्रवर्ध- माने मान्यपुरमधिवसति विजयस्कन्दावारे श्रीमूलमूलशरणाभिनन्दितन- न्दिसंघान्वय-एरेगित्तुनाम्नि गणे मलिकल्गच्छे स्वच्छतरगुणकिर(१). प्रततिप्रहादितसकललोकश्चन्द्र इवापरश्चन्द्रनन्दिनामगुरुरासीत् । तस्य शिष्यः समस्तविबुधलोकपरिरक्षणक्षमात्मशक्तिः परमेश्वरलालनीयम- हिमा कुमारवाहितीयः कुमारनन्दिनामा मुनिपतिरभवत् । तस्यान्तेवासी समधिगतसकलतत्वार्थसमर्पितबुधसार्थसंपत्संपादितकीर्तिः कीर्तिनन्द्याचा- यो नाम महामुनिः समजनि । तस्य प्रियशिप्यः शिष्यजनकमलाकर- ५८. काव्यमाला। प्रबोधजनकः मिथ्याज्ञानसंततसनुतससन्मानात्तक)सद्धर्मव्योमावभास- नभास्करो विमलचन्द्राचार्यः समुदपादि । तस्य महधर्मोपदेशनया श्रीमद्वाणकलकलः (१) सर्वतपोमहानदीप्रवाहः बाहादण्डमण्डलाखण्डि- तारिमण्डलद्रुमपण्डो डुण्डुप्रथमनामधेयो निगुण्डयुवराजो जज्ञे । तस्य प्रियात्मज आत्मजनितनयविशेपनिःशेपीकतरिपुलोकः लोकहितः मधु- रमनोहरचरितः चरितार्थविकरणप्रवृत्तिः परमगूळप्रथम नाम]धेयः श्री. पृथ्वीनिर्गुण्डराजोऽजायत । पल्लवाधिराजप्रियात्मजायां सगरकुलतिल- कान्मरुवर्मणो जाता कुण्डव्वीनामधेया भर्तृभावनाविभूव भार्या । तया सततप्रवर्तितधर्मकार्यया निर्मिताय श्रीपुरोत्तरदिशमलकुर्वते लोकतिलक- धान्ने जिनभवनाय खण्डस्फुटितनवसंस्कारदेवपूजादानधर्मप्रवर्तनाथ तस्यैव पृथ्वीनिर्गुण्डराजस्य विज्ञापनया महाराजाधिराजपरमेश्वरश्रीजसहितदे- वेन निर्गुण्डविपयान्तःपातिपोन्नलिनामा ग्रामः सर्वपरिहारोपेतो दत्तः । तस्य सीमान्तराणि-पूर्वस्यां दिशि नोलिबेळदा बेल्गलमोरडि । पूर्वद- क्षिणस्यां दिशि पण्यङ्गेरि । दक्षिणस्यां दिशि बेल्गल्लिगेरेया दिळगे- रेया पदाकूदल् । दक्षिणपश्चिमायां दिशि जैदराकेय्या बेल्गलमोरडु । पश्चिमायां दिशि हेक्केवी ताळतुवायराकेरि । पश्चिमोत्तरस्यां दिशि पु- णुसेयागोगालाकलकुप्पे । उत्तरस्यां दिशि सामगैरेया पळुदा पेर्- मुरिक्के । उत्तरपूर्वस्यां दिशि कलम्बेटिगढ। ईशान्यामन्यानि क्षेत्रान्तराणि दत्तानि डुण्डुसमुद्रदावयलुल्किरुदारामेगेपदिरकण्डुगम्मण्णमपालेया इरन- लुराजापीकुदिर्कण्डुगं श्रीवरदाडुण्डुगामण्डराताण्डडाडुवयाण्डताण्डुश्रीवर- दावयलुल्कम्मरगटिनछिर्कण्डगं कळनि पेगैरेया केलगे आरुगण्डुगं एरे- पूळिगेरेया कोयिल्गोदाएदा इपत्तुगुण्डगं बेदे अदुवश्रीवरदा बडगणा- पटुवणाकोनूळन् देवं गेरीमदमं ऐदिदं मूवत्ताडिण्डुमनेयमनेताणम् । अस्य दान स्य] साक्षिणोऽष्टादशप्रकृतयः । अस्य दानस्य साक्षिणः पण्णवति- सहस्त्रविषयमरुतयः । योऽस्यापहर्ता लोभान्मोहात्प्रमादेन वा स पञ्च- १४ लेखः] प्राचीनलेखमाला। ५९ भिर्महद्विः पातकैः संयुक्तो भवति । यो रक्षति स पुण्यभाग्भवति । अपि चात्र मनुगीताः श्लोकाः- 'स्वदत्ता परदत्तां वा यो हरेत वसुंधराम् । पष्टिवर्पसहस्त्राणि विष्ठायां जायते क्रिमिः ॥ स्वं दातुं सुमहच्छक्यं दुःखमन्यस्य पालनम् । दानं वा पालनं वेति दानाच्छ्रेयोऽनुपालनम् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ देवस्वं तु विपं घोरं न विपं विपमुच्यते । विपमेकाकिनं हन्ति देवस्वं पुत्रपौत्रकम् ॥' सर्वकलाधारभूतचित्रकलाभिक्षेन विश्वकर्माचार्येणेदं शासनं लिखितम् । चतुष्कण्डकव्रीहिवीजमा द्विकण्डकक क्षेत्रं तदपि ब्रह्मदेयमिव रक्ष- णीयम् ॥ (इण्डियन आण्टिक्केरी २१५६-१५६) (१४) यादववंशोङ्गवस्य वीरवल्लालदेवमहीपतेर्दानपत्रम् । स्वस्ति । त्रैलोक्यं पाल्यते येन सदयं सत्वरत्तिना । स देवो यदुशार्दूलः श्रीपतिः श्रेयसेऽस्तु वः ।। देवः समस्तसामन्तमस्तकन्यस्तशासनः । आचन्द्राकै नृपः पायाशुपमम्भोधिमेखलाम् ।। आसीक्षितौ क्षत्रियपुंगवानां शिरोमणिः श्रीयदुनामधेयः । यदन्वयाये स हरिर्धरित्रीभारावतारार्थमनोऽपि जातः ॥ तदन्ववाये यहयो यभूर्भनोद्भवा विश्रुतकीर्तिमानः । अद्यापि लोके चरितामृतानि येपां पुराणेषु पठन्ति सन्तः ॥

.
काव्यमाला।
..
कालक्रमेणाय पभूव कचिन्महीपतिस्तत्र सलाभिधानः ।
कुलस्य कला व्यपदेशमन्यं विस्मारितो येन यदुस्तदाद्यः ॥
केनापि व्रतिपतिना खदेवकार्ये शार्दू ग्रसितमुपागतं निहन्तुम् ।
आदिष्टः शशकपुरेस होयसलेति प्रापत्तं किल विनिहत्य होयसलाख्याम् ॥
ततः प्रभृति तदंशे प्ररत्तं होयसलाख्यया ।
शार्दूलश्च ध्वजस्यासीदक्षः शत्रुभयंकरः ॥
अपरेपु च तद्वाज्यं भुक्तवत्स्वथ राजसु ।
विनयादिस इत्यासीत्क्रमशः पृथिवीपतिः ॥
इरेयगाभिधानोऽभून्नृपतिस्तस्य चात्मजः ।
गुणैरनन्यसामान्यैः प्रख्यातः पृथिवीतले ॥
अथ तस्यापि वल्लाल-विष्णुवर्धननामको ।
अभूतामात्मजन्मानायुदयादित्यपश्चिमी ॥
तेजस्विनी भूतहितप्ररत्तो लोकपूजिती ।
यावभासयतां विश्व सूर्याचन्द्रमसाविव ।।
रणशिरसि येन बलिना गजपतिमाक्रम्य निजतुरङ्गेण ।
विनिपात्य जगद्देवं सप्ताङ्गं तस्य चापहृतम् ॥
तत्राग्रने निजं राज्यमुपभुक्तवति क्रमात् ।
अनुजोऽपि चिरं राज्यं बुभुने विष्णुवर्धनः ॥
यो देशमग्रहारीकृत्य समस्तं निजं स्वराज्यार्थम् ।
आचक्रामोश्चङ्गीप्रभृतीनन्यान्द्विपद्देशान् ।।
आरभ्य निमनिवासाद्वेल्वोलपर्यन्तमखिलमहिविषयम् ।
आक्रम्य येन धौतं तुरगवपुः केप्णवेणायाम् ॥
यः स्मार्यते नियुक्तैः प्रत्युपचारं नृपेप्वसाध्यतया ।
परमर्दिदेवनृपतेर्होय्सलमवधारयेति मुहुः ॥
येनाग्रहाराः क्रतवो महादानानि पोडश ।
अन्यान्यपि च पुण्यानि पौनःपुन्येन चक्रिरे ।।
१. कृष्णवेण्णायाम' इति मुद्रितः पाठः,

१४ लेखः]
प्राचीनलेखमाला।
नरसिंह इति ख्यातो जातस्तस्यात्मनो नृपः ।
यस्य वर्णयितुं नैव शक्यन्ते मादशैर्गुणाः ।।
तस्य श्रीरिव दैत्यारेः शंकरस्येव पार्वती ।
आसीदेचलदेवीति महादेवी कुलोद्गता ।।
तेनापि तस्यामतुलप्रभावो वजेश्वराराधनलब्धराज्यः ।
जातः सुतो दोर्वलचक्रवर्ती श्रीवीरवल्लाल इति प्रसिद्धः ॥
माध्यस्थ्येनोन्नत्या काञ्चनविभवेन विबुधसेव्यतया।
यो जङ्गम इव मेरुर्महीभृतामग्रणीर्जगति ।।
सीमातिक्रमभीरोरतिगम्भीरस्य विपुलसत्त्वस्य ।
रत्नाकरस्य यस्य च न कोऽपि लक्ष्मीवतो भेदः ॥
चरितं भरतादीनामपि भुवने तावदेव बोध्यमिह ।
लोकोत्तरा न यावदृश्यन्ते यस्य साधुगुणाः ।।
विष्णौ निसर्गसिद्धां भक्ति यस्याद्य पश्यतां पुंसाम् ।
प्रहादादिकथा अपि न विस्मयाय प्रकल्पन्ते ॥
तन्न तपस्तन्नेष्टं तन्न हुतं तन्न दानमस्तीह ।
असरून येन विहितं देशे काले च पात्रे च ॥
स्त्रीप्वर्भकेपु शूद्रेप्वन्येप्वपि येपुकेपुचिजगति ।
सोऽस्ति न जनो विधत्ते यः पापं यत्र शासितरि ॥
पटतर्ककाव्यनाटकवात्स्यायनभरतराजनीतिषु च ।
अन्येषु तेषु तेषु च शास्त्रेप्वखिलेषु यः कुशलः ॥
सर्वेषु दर्शनेषु च भुवि तार्किकचक्रवर्तिनो यस्य ।
नैवास्ति प्रतिवादी वादिमदद्विरदकेसरिणः ।।
सर्वायुधाजीवपुरःसरेण समस्तविद्वज्जनवाछमेन ।
शस्त्राणि शास्त्राणि च येन लोके सनाथतामद्य चिरागतानि ॥
यन्नामधेयमपि विश्वविलासिनीनां
लोके वशीकरणकर्मणि सिद्धमन्त्रः ।
१. 'लक्ष्मीप्रतार' इति मुदितः पाठः. २. 'महारादि' इति मुदितः पाठः.

६२ काव्यमाला । तस्य प्रगल्भवनिताकुसुमायुधस्य सौभाग्यवर्णनविधी कतमः समर्थः ॥ विश्वग्वाजिखुरप्रहारदलितक्षोणीतलपोच्चल- ठूलीध्वान्तनिमीलिताखिलदिशि द्वन्द्वपदोपागमे । दूतीवातिपटीयसी मुहरिह खःसुन्दरीभिः समं वीराणामभिसारणं वितनुते यत्खड्गयष्टिदिपाम् ।। शश्वद्यत्समरावतारपिशुनेप्वाहन्यमानेप्चित- स्तूर्येषु खपतिप्रणाशचकिताः क्षुभ्यन्त्यरातिस्त्रियः । अप्यताः सुभटखयंवरकते मन्दारमालामितो हस्ताभ्यां परिगृह्य नाकवनिताः सज्जीभवन्त्यम्बरे ॥ यस्मिन्होयसलभूमिपालधरणीसाम्राज्यसिंहासना- दारूढे सति मत्तवारणपतेयुद्धाय पूर्वासनम् । सद्यः खस्वकुलक्रमागतमहीसाम्राज्यसिंहासना- त्प्रधिक्षितिपालकैरपि रणे वल्मीकमारुह्यते ॥ यस्मिन्दिग्विजयार्थमुद्यतवति प्रस्थानभेरीरवे गम्भीरे स्फुटमुच्चरत्यवनिभृत्स्वन्येपु वार्तव का। दूरादङ्गकलिङ्गवङ्गमगधाश्चोलास्तथा मालवाः पाण्ड्याः केरलगुर्जरप्रभृतयोऽप्युज्झन्ति सद्यो धृतिम् ॥ न्यकारण पितुः श्रियं कलचुरिक्षत्रान्वयात्कर्पता येनैकेन पि(हि) तूबरेण करिणा पप्टिर्जिता दन्तिनाम् । तं च ब्रह्मचम्पति गनघटावष्टब्धसैन्यं हठा- घेनाश्वैरपि केवलैर्भुजभृता निर्जित्य राज्यं हृतम् ॥ उच्छिद्य जैत्रसिंहं दक्षिणमिव तस्य भिल्लमस्य भुजम् । वीरेण येन लब्धं कुन्तलदेशाधिपत्यमपि ॥ १. "विघ्वद्वाजि' इति मुद्रितः पाठः. २. 'पदीयसी' इति मुद्रितः पाठः, ३. 'यु दास्य' इति मुदितः पाठः, १४ लेखः] प्राचीनलेखमाला। स च समस्तभुवनाश्रयश्रीप्टथ्वीवल्लभमहाराजाधिराजपरमेश्वरपरमभट्टा- रकद्वारावतीपुरवराधीश्वरयादवकुलाम्बरामणिसम्यक्त्वचूडामणिमलपरा- लगण्डकदनप्रचण्ड(?) असहायशूर-एकाङ्गवीर-शनिवारसिद्धि-गिरिदुर्गम- ल-चलदकराम-इत्यादिसमस्तप्रशस्तनामावलीविराजमानः श्रीमत्प्रतापचक्र- वर्तिश्रीवीरबल्लालदेवो लोक्किगुण्डिनिवेशितविजयस्कन्धावारः अस्ति स्वयंभूः क्रतुकाभिधाने ग्रामे त्रिकूटेश्वरनामधेयः शिवः समस्तक्षितिपालमौलिमणिप्रभारजितरम्यपीठः ॥ तस्य स्थानाचार्यः कालमुखाचार्यसंततिप्रभवः । सिद्धान्तिचन्द्रभूषणपण्डितदेवाभिधोऽस्ति मुनिः ॥ तं त्रिकूटेश्वरं देवं लिङ्गैः खैः स्यावत्रिभिः । जङ्गमेन सेमं येन चतुःकूटेश्वरं विदुः ।। सततशरीरास्थितगौरीभृशसंगमाथूध्वप्य(?) । शिव इव विराजमानो यो भाति ब्रह्मचर्यस्तु(१) यश्च कुलशैलेषु चलत्वपि मर्यादामतिपतत्सु सिन्धुपु च । सत्यं न सत्यवाक्यद्वितीयनामापदि त्यजति ।। अन्यत्र काव्यनाटकवात्स्यायनमरतराजनीत्यादी। नैव कथा सिद्धान्तप्वखिलेवपि यस्य नास्ति समः ॥ येन च आदृश्येत कदाचिहिआमो गतिषु जिल]तरङ्गाणाम् । न देव कृपाभाना प्रदीयमानेऽनतां सत्रे ॥ अन्नेनैव न केवलमपि तु सुवर्णोपधाम्बुवस्त्राद्यैः । अन्तो नास्ति जनानां निरन्तरं तृप्यमाणानाम् ॥ १. "विराजमानर' इति मुदितः पादः. २. 'तमन्यन' इति मुद्रितः पाठः. ३. वि. रगमानो' इति मदितः पाठः. ४. 'नामापति' इति मुद्रितः पाटः. ५. 'तप्यमाना- नाम्' इति मुदिनः पाठः.

काव्यमाला। येन चात्र स्थाने उद्धृत्य जीर्णमखिलं निर्माय च नूतनं पुरं रम्यम् । देवान्तिकमानीता वेश्यावीथी स्थिता परतः ।। अमृतोपमपानीयपूर्णा पुष्करिणी कृता । वनं च नन्दनसमं नानपुप्पलतादृतम् ।। कि जल्पनेन बहुना ग्रामप्राकारवलयवाह्यमिह । यद्यसैमस्ति तत्तत्समस्तमपि तस्य निर्माणम् ॥ तस्य भगवतश्चराचरगुरोः श्रीस्वयंभूत्रिकूटेश्वरदेवस्याङ्गरगभोगखण्ड- स्फुटितजीर्णोद्धाराद्यर्थ विद्यादानार्थ तपोधनब्राह्मणादिभोजनार्थ बेल्वोलनि- शतान्तर्गतहोम्बाललुनामधेयग्रामं पूर्वप्रसिद्धसीमासमन्वितं निधिनिक्षेपज- लपाषाणारामादिसहितं त्रिभोग्याभ्यन्तरमष्टभोगतेजःस्वाम्ययुक्तं शुल्कद- ण्डादिसकलव्योपार्जनोपेतं शकनृपकालातीतसंवत्सरशतेषु चतुर्दशाधिके- प्वेकादशसु अङ्कतोऽपि १११४ वर्तमानपरिभाविसंवत्सरान्तर्गतमार्गशीर्ष- पौर्णमास्यां शनैश्ररवारे सोमग्रहणे तस्य कालमुखाचार्यसोमेश्वरदेवप्रशि- प्यस्य विद्याचरणदेवशिप्यस्य सत्यवाक्यापरनामधेयस्य श्रीमदाचार्यसि- द्धान्तिचन्द्रभूपणपण्डितदेवस्य पादप्रक्षालनं कृत्वा राजा राजकीयैरप्यन- गुलिप्रेक्षणीयं सर्वनमस्यं कृत्वा धारापूर्वकं भत्स्या दत्तवान् । अस्य च धर्मस्य संरक्षणे फलमिदमुदाहरन्ति स्म तपोमहिमसाक्षात्कृतधर्मस्थितयो मन्वादयो महर्षयः- बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ गण्यन्ते पांसवो भूमर्गण्यन्ते वृष्टिबिन्दवः । न गण्यते विधात्रापि धर्मसंरक्षणे फलम् ।। अपहरतः समर्थस्याप्युदासीनस्य तैरेव च परीतं(?) फलमुदाहृतम् । १. 'नूतनपुर' इति मुद्रितः पाठः. २. 'नन्दनसाम्य' इति मुद्रितः पाठ.. ३. 'ज- ल्पेन' इति मुदितः पाठः. ४. 'समस्त' इति मुद्रितः पाठः. ५. 'शनेश्वर' इति मु. द्वितः पाठः. ६. 'राज्ञा' इति मुद्रितः पाठः. -

.
१४ लेग]
मानीनामा
'सरतां परदत्ता गा यो हरेत गमुंगराम् ।
पटि नसहरमाणि विडायां गायो क्रिमिः ।।
परदना तु गो भूमिमुपाहिसेवदागन ।
सबको पारुणः पारीः सिष्यते पूगौगिते ।।
कुलानि तारगेका गत मत प म ।
गोधः पातयेद्धती सात सप्त नसत ग॥
अपि गङ्गास्तिीपु हन्तुर्गामा दिनम् ।
नियतिः स्याम देवत्वयलसहरणे नृगाम् ।।
पिन्याटगीचतोयामु गुप्फोटरशागिनः ।
रुष्णसी हि नायन्ते देगद्रव्यापहारकाः ॥
कर्मणा मनमा याना गः समर्थोऽप्रशते ।
स स्यात्तदेव पण्डालः सर्वधर्मनहितः ।
अत एवाह रामगन्द्रः-
'सामान्योऽयं धर्मसेतुर्नुपाणां काले काले पालनीयो भवदिः ।
सर्वानेतान्मापिनः पापिनेन्द्रान्भूयो भूयो यानते रागगन्द्रः ।।
मरानाः परमहीपति शना या
पापादपेतमनसो भुपि भाविभूताः ।
ये पालयन्ति मम धर्ममिमं समय
तेषां मया विरनितोऽअलिरेप नि ।'
बछालदेवनृपतेरादेशादग्निशर्मणा रनिता ।
शासनपद्धतिरेपा सारखतसार्वभौमेन ॥
(इगियन् आश्टिोरी २१ १९६-१.३)
२. 'अहोऽधः' इति मुक्तिः पाठः
३. 'अय
१. 'लम्चों' इति मुषितः पाठः.
एवह' इति मुमितः पाठः-

काव्यमाला। सामनकः (१५) गुप्तवंशोद्भवस्य श्रीमहाभयगुप्तदेवस्य दानपत्रम् । खस्ति श्रीमहाराजसमावासिनः श्रीमतो विजयकटकात् परमभधारक- महाराजाधिराजपरमेश्वरश्रीशिवगुप्तदेवपादानुध्यातपरममाहेश्वरपरममा- रकमहाराजाधिराजपरमेश्वरसोमकुलतिलकत्रिकलिङ्गाधिपतिमहाराजाधिरा- जश्रीमहाभवगुप्तदेवः कुशली कोशलदेशे योधाविपयी(ये) दा- रण्डामामे तथा खलाण्डलग्रामे ब्राह्मणान्संपूज्य तहिपयीयान् यथाका- लाध्यासिनः समाहूत(य) सन्निवीतनियुक्तकाधिकारिकदण्डप्रा(पा)शि- कनाटभपिशुनविधिकाररोधजनराणकराजवल्लभादीन् सर्वान् समाज्ञाप- यति-विदितमस्तु भवतां यथास्माभिरयं ग्रामः सनिधिः सोपनिधिः श- तशोऽपराधः सर्ववाधाविवर्जितः सर्वोपरिकर्तृवदानसहितश्चतुःसीमाद्यायत्तः सगीपरजलस्थलसहितः प्रतिनिपिद्धनाटभट्ट(ट)प्रवेशष्ट- शारीविनिर्गताय कोशले उर्वरावास्तव्याय भारद्वाजगोत्राय बार्हस्पत्या- गिरसप्रवराय वाजसनेयशाखाध्यायिने भश्रीमहत्तमसाधारणाय मह- श्रीशोभनसुताय सलिलधारापुरःसरमाचन्द्रतारकार्कज्योतिःसमकालोपभो- गार्थ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ताम्रशासनेनाकरीसत्य प्र. तिपादितमित्यवगत्य संवरितभोगभागकरहिरण्यादिप्रत्ययमुपनयद्भिर्भवद्भिः सुखेन प्रतिवस्तव्यमिति । भाविभिश्च भूपतिभिर्दत्तिरियमस्मदीया धर्मगौ- रवादस्मद्नुरोधात्वदत्तिरिवान पालनीया । तथा चोक्तं धर्मशास्त्रे- 'बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ मा मुदफलशङ्का वः परदत्तेति पार्थिवाः । खदत्तात्फलमानन्त्यं परदत्तानुपालने ॥ पष्टिवर्पसहस्राणि स्वर्गे मोदति भूमिदः । क्षितिपात्रान्नहर्तारद्वितयं(ह) नरकं प्रनेत् ।।

१५ लेखः] प्राचीनलेखमाला। अमेरपत्यं प्रथमं सुवर्ण भूरौपधीः सूर्यसुताश्च गावः । यः काञ्चनं गां च महीं प्रदद्यादत्तात्रयस्तेन भवन्ति लोके ॥ आस्फोटयन्ति पितरः प्रवल्गन्ति पितामहाः । भूमिदाता कुले जातः स नस्त्राता भविष्यति ॥ भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकाणी नियतं स्वर्गगामिनी ॥ तडागानां सहस्राणि वाजपेयशतानि च । गवां कोटिप्रदानेन भूमिहती न शुध्यति । हरेत हारयेद्यस्तु मन्दबुद्धिस्तु मोहतः । सर्वशो(संबद्धो) वारुणः पाशैस्तिर्यग्यानि स गच्छति ।। सुवर्णमेकं गामकां भूमिमप्यर्धमङ्गुलाम् । हरन्नरकमाप्नोति यावदाभूतसंप्लवम् ।। खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ आदित्यो वरुणो विष्णुब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥ सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः । सर्वानेवं भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ॥ इति कमलदलाम्बुबिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च बुट्वा नहि पुरुषैः परकीर्तयो विलोप्याः ॥ सकलभूपालमौलिमालाविलग्नमाणिक्यमयूखपादाभिरञ्जिताङ्कितं लब्ध- वर्णेः प्रचण्डदोर्दण्डमण्डलायखण्डितारातिमत्तमातङ्गविमुक्तमुक्ताफलप्रसा- धिताशेपत्रलं महीमण्डलम् - यः साधारणनाम्नि मत्रितिलके विन्यस्य सर्वागमं चौर्योदञ्चति(शौर्योदन्वति) तीव्रतेनसि धुरं राष्ट्रस्य विप्रोत्तमे । नानाख्यानकवीश्वरामृतरसास्वादादमर्त्यस्फुर- संतोपात्सुखमन्वभूदविरतं एथ्वीशचूडामभिः ।।

काव्यमाला। ज्ञाताशेपार्थशास्त्रस्मृतिविमलधिया वेदवेदाङ्गाविद्या- शिक्षाकल्पेतिहासमकटमुरसवात्माप्तभूयिष्ठधाम्ना । नाना साधारणेन द्विजवरविधिना मन्त्रिणा यस्य राज्ये निष्ठागम्भीरमूर्तिस्त्रिजगति विदितो धर्मकंददेवः ॥ परममाहेश्वरपरमभट्टारकमहाराजाधिराजपरमेश्वरसोमकुलतिलकत्रिक- लिङ्गाधिपति श्रीमहाभवगुप्तदेवपादपद्मप्रवर्धमानविनयराज्ये एकत्रिंशत्तमे संवत्सरे मार्गसुदितियौ त्रयोदश्यां यत्रा नापि ३४ (३१) मार्गसुदि ३ (१३) लिखितमिदं त्रिफलोताम्रशासनं महासांधिविग्रही राणकश्रीम- छदत्तप्रतिवद्धकायस्थश्रीमाहूकेन इयवर्णाचित्तं स्वेनेति । प्रणीतं कोशलेन्द्रेण प्रतियोध्य महत्तमम् । श्रीदत्तपुण्डरीकाक्षः शासनं ताम्रनिगि(मि)तम् ।। तन्निर्मितं माधवेन वा सृष्टं तेनेति ॥ (इण्डियन् आण्टिकरी ५। ५५-५७) (१६) चालुक्यवंशोद्भूतस्य श्रीपुलकेशिनः शिलालेखः । जयति भगवाजिनेन्द्रो""ज""रक्षणजन्मनो यस्य । ज्ञानसमुद्रान्तर्गतमखिलं जगदन्तरीपमिव ।। तदनु चिरमपरिचेयश्चलक्यकुलविपुलजलनिधियति । पृथिवीमौलिललामो यः प्रभवः पुरुपरनानाम् ॥ शूरे विदुपि च विमजन्दानं मानं च युगपदेकत्र । अविहितयाथातथ्यो जयति च सत्याश्रयः सुचिरम् ।। पृथिवीवल्लमशब्दो येषामन्वर्थतां चिरं जातः । तईशे(श्य)पु जिगीषु तेषु बहुप्वप्यतीतेषु ॥ नानाहेतिशताभिघातपतितभ्रान्ताश्वपत्तिद्विपे नृत्यद्रीमकबन्धसङ्गकिरणज्वालासहस्त्रे रणे ।

१६ लेखः]
प्राचीनलेखमाला।
लक्ष्मी वितचापलादिव कृता शौर्येण येनात्मसा-
द्राजासीनयसिंहवल्लभ इति ख्यातशुलुक्यान्वयः॥
तदात्मजोऽभूद्रणरागनामा दिव्यानुभावो जगदेकनाथः ।
अमानुषत्वं किल यस्य लोकः सुप्तस्य जानाति वपुःप्रकर्षात् ।।
तस्याभवत्तनूनः पुलकेशी यः श्रितेन्दुकान्तिरपि ।
श्रीवल्लभोऽप्ययासीद्वातापिपुरीवधूवरताम् ॥
यत्रिवर्गपदवीमलं क्षितौ नानुगन्तुमधुनापि रानकम् ।
भूश्च येन हयमेधयाजिना प्रापितावस्थमजना बभौ ।।
नलमौर्यकदम्बकालरात्रिस्तनयत्तस्य वभूव कीर्तिवर्मा ।
परदारविवृत्तचित्तहत्तेरपि धीर्यस्य रिपुश्रियानुरुप्टा ।
रणपराक्रमलव्धजयश्रिया सपदि येन विरुग्णमशेषतः ।
नृपतिगन्धगजेन महौजसा एयुकदम्बकदम्बकदम्बकम् ॥
तस्मिन्सुरेश्वरविभूतिगताभिलापे
राजाभवत्तदनुनः किल मङ्गलीशः।
यः पूर्वपश्चिमसमुद्रतटोपिताश्वः
सेनारजःपटविनिर्मितदिग्वितानः ।।
स्फुरन्मयूखैरसिदीपिकाशतैर्युदस्य मातहतमिस्त्रसंचयम् ।
अवाप्तवान्यो रणरङ्गमन्दिरे कलञ्चरिश्रीललनापरिग्रहम् ॥
पुनरपि न निवृक्षोः सैन्यमाकान्तसालं
रुचिरबहुपताकं रेवतीहीपमाशु ।
सपदि महदुदन्वत्तोयसंक्रान्तविम्
वरुणवलमिवाभूदागतं यस्य वाचा ।।
तस्याग्रजस्य तनये नहुपानुभावे
लक्ष्म्या किलाभिलपिते पुलकेशिनानि ।
सासूयमात्मनि भवन्तमतः पितृव्यं
ज्ञात्वापरुद्धचरितव्यवसायबुद्धौ ।।
1. कदम्याः केचन क्षनियास्त एव कदम्मा क्षविशेगस्तपो कदम्यक समूहम्.

७० काव्यमाला। स यदुपचितमन्त्रोत्साहंशक्तिप्रयोग- क्षपितबलविशेपो मङ्गलीशः समन्तात् । खतनयगतराज्यारम्भयत्नेन सार्थ निजमतनु च राज्यं जीवितं चोज्झति स्म ॥ तावत्तच्छन्नभङ्गे जगदखिलमरात्यन्धकारोपरुदं यस्यासह्यप्रतापद्युतिततिभिरिवाक्रान्तमासीत्प्रभातम् । नृत्यद्विद्युत्पताकैः प्रजविनि मरुति क्षुण्णपर्यन्तभागै- गैद्भिर्वारिवाहैरलिकुलमलिनं व्योम या(जा)तं कदा वा ॥ लब्ध्वा कालं भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरदनिकरैरुत्तराम्भोधिरथ्याः ।. यस्यानीकैयुधि भयरसज्ञत्वमेकः प्रयात- स्तत्रावाप्तं फलमुपरूतस्यापरेणापि सद्यः ॥ वरदातुगतरङ्गरविलसद्धंसानदीमेखला वनवासीमवमृद्गतः सुरपुरप्रस्पर्धिनी संपदा । महता यस्य बलार्णवेन परितः संछादितोर्वीतलं स्थलदुर्ग जलदुर्गतामिव गतं तत्तत्क्षणे पश्यताम् ।। गङ्गाम्बु पीत्वा व्यसनानि सप्त हित्वा पुरोपार्जितसंपदोऽपि । यस्यानुभावोपनताः सदासन्नासन्नसेवामृतपानशौण्डाः ॥ कोकणेषु यदादिष्टचण्डदण्डाम्बुवीचिमि । उदस्तास्तरसा मौर्यपल्वलाम्बुसमृहयः ।। अपरजलधेर्लक्ष्मी यस्मिन्पुरी पुरभित्प्रभे मदगजघटाकारैनीवां शतैरवमृद्गति । जलदपटलानीकाकोणे नवोत्पलमेचकं जलनिविरिव व्योम व्योम्नः समोऽभवदम्बुधिः ॥ प्रतापोपनता यस्य लाटमालवगूर्नराः । दण्डोपनतसामन्तचर्या वर्या इवाभवन् ।।

१६ लेखः] प्राचीनलेखमाला । अपरिमितविभूतिस्फीतसामन्तसेना- मुकुटमणिमयूखाक्रान्तपादारविन्दः । युधि पतितगजेन्द्रानीकबीभत्सभूतो भयविगलितहो येन चाकारि हपः॥ भुवमुरुभिरनीकैः शासतो यस्य रेवा विविधपुलिनशोभावन्ध्यविन्ध्योपकण्ठा । अधिकतरमराजत्वेन तेजोमहिम्ना शिखरिभिरिभवा वर्मणां स्पर्धयेव ।। विधिवदुपचिताभिः शक्तिभिः शक्रकल्प- स्तिसृभिरपि गुणौधैः स्वैश्च माहाकुलाद्यः । अनमदधिपतिवं यो महाराष्ट्रकाणां नवनवतिसहस्रग्राममाजां त्रयाणाम् ।। गृहिणां स्वगुणैस्त्रिवर्गतुङ्गा विहितान्याक्षितिपालमानमगाः । अभवन्नुपजातभीतिलिङ्गा यदनीकेन सकोसलाः कलिङ्गाः ॥ पिष्टं पिष्टपुरं येन जातं दुर्गमदुर्गमम् । चित्रं यस्य कलेवृत्तं जातं दुर्गमदुर्गमम् ।। संनद्धवारणघटास्थगितान्तरालं नानायुधक्षतनरक्षतजाङ्गरागम् । आसीजलं यदवमर्दितमभ्रगर्मा- कणालमम्बरमिवोजितसांध्यरागम् ॥ उद्धृतामलचामरध्वनशतच्छत्रान्धकारैः शौर्योत्साहरसोद्धतारिमथनीलादिभिः पट्विधैः । आक्रान्तात्मवलोन्नति वलरजःसंछन्नकाञ्चीपुरः प्राकारान्तरितमतापमकरोद्यः पञ्डवानां पतिम् ॥ कावेरी हुतशफरीविलोलनेत्रा चोलानां सपदि जयोद्यतस्य यस्य । प्रश्योतन्मदगनसेतुरुद्धनीरा संस्पर्श परिहरति स्म रत्नराशेः ॥

७२ काव्यमाला। चौलेकरलपाण्ड्यानां योऽभूत्तत्र महर्द्धये । पल्लवानीकनोहारतुहिनेतरदीधितिः ॥ उत्साहप्रभुमन्त्रशक्तिसहिते यस्मिन्समन्तादिशो जित्वा भूमिपतीन्विसृज्य महितानाराध्य देवद्विजान् । वातापी नगरी प्रविश्य नगरीमेकामिवोर्वीमिमां चञ्चन्नीरधिनीरनीलपरिखां सत्याश्रये शासति ।। त्रिंशत्सु त्रिसहस्त्रेषु भारतादाहवादितः । सहाब्दशतयुक्तेपु श(गोतेप्वब्देषु पञ्चसु (३७३५) । पञ्चाशत्सु कलौ काले पट्सु पञ्चशतासु च (६५६) । समासु समतीतासु शकानामपि भूभुजाम् ॥ तस्याम्बुधित्रयनिवारितशासनस्य सत्याश्रयस्य परमाप्तवता प्रसादम् । शैलं जिनेन्द्रभवनं भवनं महिम्नां निर्मापितं मतिमता रविकीर्तिनेदम् ॥ प्रशस्तेर्वसतेश्चास्या जिनस्य त्रिजगगुरोः । कर्ता कारयिता चापि रविकीर्तिः कृती स्वयम् । येनायोजि नवेऽश्मस्थिरमर्थविधी विवकिना जिनवेश्म । स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥ (इण्डिअन् आण्टिक्वेरी ५। ६७-७१) (१७) वलभीप्रभोमहाराजभुवसेनस्य दानपत्रम् । खस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्ड- लाभोगसंसक्तसंप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानानवोपार्जितानु- रागानुरक्तमौलभृतमित्र श्रेणीवलावाप्तराज्यश्रीः परममाहेश्वरः श्रीसेना- पतिमद्यार्कः तस्य सुतस्तत्पादरजोरुणनतपवित्रीकृतशिराः शिरोवनतश- १. सत्याभय इति पुलकेशिमहीपतेर्नामान्तरम्.

. १७ लेखः] प्राचीनलेखमाला। ७३ त्रुचूडामणिप्रभाविच्छरितपादनखपतिदीधितिः दीनानाथजनोपजीव्यमान- विभवः परममाहेश्वरः सेनापतिधरसेनस्तस्यानुजस्तत्पादाभिप्रशस्तविम- लमौलिमणिर्मन्वादिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्य- वस्थापद्धतिरसिलभुवनमण्डलाभोगखामिना परमस्वामिना खयमुपहितरा- जाभिषेकमहाविश्राणनावपूतराज्यश्रीः परममाहेश्वरी महाराजद्रोण- सिंहः सिंह इव तस्यानुनः खभुजबलपटानीकानामनेकविजयी शरण- पिणां शरणमववोद्धा शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां य- थाभिलपितफलोपभोगदः परमभागवतः परमभट्टारकपादानुध्यातो म- हाराजध्रुवसेनः कुशली सर्वानेव स्वानायुक्तकविनियुक्तकद्रङ्गिकमह- त्तरचाटभटध्रुवस्थानाधिकरणदण्डपाशिकादीनन्यांश्च यथासंबध्यमानका- ननुदर्शयति । अस्तु वः संविदितम्-यथा मया हस्तकवप्राहरण्यं कुक्कुटग्रामे योतिलप्रत्ययसीतापादावर्तशतं कूपश्च हस्तकवप्रवास्तव्य- ब्राह्मणसचितिशर्मणे होणायनसगोत्रायाथर्वणसब्रह्मचारिणे मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुप्मिकयथाभिलपितफलावाप्तिनिमित्तमा च- न्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यं ब्रह्मदेयमनुज्ञा- तम् । अतोऽस्योचितया ब्रह्मदेयस्थित्या मुञ्जतः प्रदिशतः कर्पापयतः कृयतो वा न कैश्चित्वल्पाप्यावाधा कार्यास्मइंशजैरागामिनृपतिभिश्च । अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं चावेक्ष्य सामान्यं च भूमिदानफलम- वगच्छद्भिरियमस्मदनुमतिरनुमन्तव्या। यश्चाच्छिन्द्यादाच्छिद्यमानं वानु- मोदेत्स पञ्चभिर्महापातकैः सोपपातकैः संयुक्तः स्यात् । अपि चात्र व्यासगीतः श्लोको भवति- 'पष्टिं वर्षसहस्त्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।।' स्वहस्तो मम महारानध्रुवसेनस्य । दूतकः प्रतीहारमम्मकः । लि- सितं किककेन । 'सं. २०७ कार्तिकमुदि ७ । (इण्डियन् आण्टिरी ५।२०५.२०६) ..

काव्यमाला।
(१८)
शिलाहारवंशोद्भवस्य श्रीछित्तराजदेवस्य दानपत्रम् ।
ॐ जयश्चाभ्युदयश्च ।
लभते सर्वकार्येषु पूजया गणनायकः । (१)
विघ्नं निघ्नन्स वः पायादपायाद्गणनायकः ॥
स वः पातु शिवो नित्यं यन्मौलौ भाति जावी ।
सुमेरुशिखरोद्गच्छदच्छचन्द्रकलोपमा ।।
जोमूतकेतुतनयो नियतं दयालु-
जीमूतवाहन इति त्रिजगत्मसिद्धः ।
देहं निजं तृणमिवाकलयन्परार्थे
यो रक्षति स्म गरुडात्किल शङ्खचडम् ॥
तस्यान्वये नरपतिः समभूत्कपर्दी
शीलारवंशतिलको रिपुदर्पमर्दी ।
तस्मादभूच्च तनयः पुलसक्तिनामा
मार्तण्डमण्डलसमानसमिद्धधामा ॥
जातवानथ लघुः स कपर्दी सनुरस्य सकलैररिवगैः ।
यद्भयेन सलिलाञ्जलिरुच्चैदीयते स्म निजराज्यसुखाय ॥
तस्मादभूच्च तनयो भुवनैकवीरः
श्रीवप्पुवन्त इति संगररङ्गवीरः ।
श्रीझञ्झ इत्यभवदस्य सुतः मुकोर्ति-
भ्राताथ गोग्गिनृपतिः समभूत्ममूर्तिः ।।
तस्माद्विस्मयकारिहारिचरितप्रख्यातकीर्तिः सुतः
श्रीमान्वजडदेवभूपतिरभूदूचक्रचूडामणिः ।
दोर्दण्डैकवलस्य यस्य सहसा सङ्ग्रामरगाङ्गणे
राज्यश्रीः खयमेव वक्षसि रति चक्रे मुरारेरिव ॥

१८ लेखः] प्राचीनलेखमाला। ७५ जयन्त इव वृत्रारेः पुरारेरिव पण्मुखः । ततः श्रीमानभूत्पुत्रः सच्चरित्रोऽपराजितः ॥ कर्णरत्यागेन यः साक्षात्सत्येन च युधिष्ठिरः । प्रतापाद्दीप्तमार्तण्डः कालदण्डश्च(कालोदण्याच) यो द्विपाम् ।। तस्मादभूद्वज्जडदेवनामा ततोऽग्रजः श्रीकेशिदेवश्च (१) । तद्भातृजो वजडदेवसुनुः श्रीछित्तरानो नृपतिर्वभूव । शीलारवंशः शिशुनापि येन नीतः परामुन्नतिमुन्नतेन ।। अतः स्वकीयपुण्योदयात्समधिगताशेपपञ्चमहाशब्दमहासामन्ताधिप- तितगरपुरपरमेश्वरशिलाहारनरेन्द्रजीमूतवाहनान्वयममूतमुवर्णगरुडध्वज- सहनविद्याधरत्यागजगज्झम्पिमाण्डलिकशिखामणिशरणागतवजपचरप्र- मृतिसमस्तराजावलीसमलंकृतमहामण्डलेश्वरश्रीमच्छित्तराजदेवे निनभु- जोपानितानेकमण्डलसमेतां पुरीप्रमुखचतुर्दशग्रामशतीसमन्वितां समग्र- कोकणभुवं समनुशासति तच्चैतद्राज्यचिन्ताभारमुहहत्सु सर्वाधिकारि- श्रीनागणैयसांधिविग्रहिकश्रीसीहपैयकर्णाटसांधिविग्रहिकश्रीकपर्दिनीकर- णादिपञ्चप्रधानेषु सत्सु अस्मिन्काले प्रवर्तमाने स च महामण्डलेश्वरश्री- मच्छित्तराजदेवः सर्वानेव स्वसंवध्यमानकानन्यानपि समागामिराजपुत्र- मन्त्रिपुरोहितामात्यप्रधानाप्रधाननैयोगिकांस्तथा राष्ट्रपतिविषयपतिनगर- पतिग्रामपतिनियुक्तानियुक्तराजपुरुषजनपदांस्तथा हंपमननगरपौरत्रिवर्ग- प्रभृतींश्च प्रणतिपूनासत्कारसमादेशैः संदिशति । अस्तु वः संविदितम्- यथा 'चला विभूतिः क्षणमङ्ग(ङ्गि) यौवनं कृतान्तदन्तान्तरवर्ति जी- वितम् ।' संसारः(२) सहजजरामरणसाधारणं शरोरकम् । पवनचलि- तकमलिनीदलगतनललवतरलतरैव चायुपी(तरलतरमेव चायुः) इति मत्वा द्रयन्ति दानफलम् । तथा चोक भगवता व्यासेन- 'अग्नरपत्यं प्रथम मुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः काञ्चनं गां च महीं च दद्यात् ॥' १. 'तथाप्यवता परलोकसाधने नृणामहो विस्मयकारि चेष्टितम्' इत्युत्तरार्थ मु- भाषिताचली.

काव्यमाला। इति धर्माधर्मविचारचारुचिरंतनमुनिवचनान्यवधार्य मातापित्रोरात्म- नश्च श्रेयोर्थिना मया शकनृपकालातीतसंवत्सरशतेषु नवसु अएच- वारिंशदधिकेपु क्षयसंवत्सरान्तर्गतकार्तिकशुद्धपञ्चदश्याम् यत्राइतोऽपि संवत् ९४८ कार्तिकशुद्ध १५ रवौ संजाते आदित्यग्रहणपर्वणि मुतीर्ये स्नात्वा गगनैकचक्रचूडामणये कमलिनीकामुकाय भगवते सवित्रे नाना- विधकुसुमश्चाध्यमयं दत्वा सकलसुरासुरगुरुत्रैलोक्यखामिनं भगवन्त- मुमापतिमभ्यर्च्य यजनयाजनाध्ययनाध्यापनादिषट्कर्मनिरताय ऋतुक्रि- याकाण्डशौण्डाय पाराशरगोत्राय च्छन्दोगशासिने महाबाह्मणाय आ- मदेवैयाय विप्रनोडमैयसुताय यजनयाजनाध्ययनाध्यापनादिषट्कर्मकर- णाय आगताभ्यागतनित्यनैमित्तिकसंव्यवहारार्थं बलि चरुकवैश्वदेवाग्नि- होत्रक्रतुक्रियाद्युपसर्पणार्थ स्वपरिग्रहपोपणार्थ च श्रीस्थानकाभ्यन्तरपट- पष्ठी(टि)विषयान्तःपाति नोउरनामान्तवति चोडणिभक्षेत्रम् यस्य चाघाटनानि-पूर्वतः गोवणिमर्यादा, दक्षिणतः गोरपवलीमर्यादा, पश्चिमतो राजपथः, पूर्वोत्तरतो गोवणिमर्यादा, एवं चतुराघाटनोपलक्षितं ससीमा- पर्यन्तं समस्तोत्पत्तिसंयुक्तं अचाटभटप्रवेश्य अनादेश्यमनासेभ्यं उदका- तिसर्गेण नमस्यावृत्त्या परमया भक्त्या प्रतिपादितम् । तदस्य सान्वयन- न्धोरपि भुञ्जतो भोजयतो वा कृपतः कर्पयतो वा न केनापि परिप- न्थना करणीया । यत उक्तमेव महामुनिभिः-- 'बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।।' 'दत्त्वा भूमि भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसेतुनृपाणां काले काले पालनीयो भवद्भिः ॥' इति महर्पिवचनान्यवधार्य सर्वैरपि समागामिभिभूपालैः पालनधर्म- फललोभ एवं कलनीयः । न पुनस्तल्लोपनपापकलवासरेण केनापि भ. वितव्यम् । यस्त्वेवमभ्यर्थितोऽपि लोभादज्ञानतिमिरपटलायतमतिराच्छि- न्द्यादाच्छिद्यमानमनुमोदेत या स पञ्चभिरपि पातकैरुपपातकैश्च लिप्तो .

७७ तथा चोक्तं १९ लेखः] प्राचीनलेखमाला। रौरवमहारौरवान्धतामिस्त्रादिनरकांश्रिरमनुभविष्यति । व्यासेन- 'खदत्ता परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कमिभूत्वा कृमिभिः सह पच्यते ॥' यथा चैतदेवं शासनदाता लेखकहस्तेन स्वमतमारोपयति । यथा-मतं मम महामण्डलेश्वरश्रीछित्तराजदेवस्य महामण्डलेश्वरश्रीमहग्जडदेव- राजसूनोर्यदत्र शासने लिखितम् । लिखितं चैतन्मया श्रीमद्रानानुज्ञया भाण्डागारसेन जोगपैयेन भाण्डागारसेनमहाकविश्रीनागलै(१)यभ्राम- तेन । यदबोनाक्षरमधिकाक्षरं वा तत्सर्व प्रमाणमिति । श्रीर्भवतु । (इण्डियन् आण्टिक्केरी ५२७७-२७९) (१९) श्रीविष्णुगोपवर्मणो महीपतेर्दानपत्रम् । जितं भगवता || श्रीविजयपलक्कदस्थानात् परमब्रह्मण्यस्य स्वबाहु- बलार्जितोर्जितक्षात्रतपोनिधेः विहितसर्वमर्यादस्य स्थितिस्थितस्यामितात्म- नो महारानस्य श्रीस्कन्दवर्मणः प्रपौत्रस्याचितशक्तिसिद्धिसंपन्नस्य प्र. तापोपनतरानमण्डलस्य महारानस्य वसुधातलैकवीरस्य श्रीवीरवर्मणः पौत्रस्य देवद्विजगुरुहोपचायिनो विवृद्धविनयस्यानेकगोहिरण्यभूम्यादि- प्रदानः प्रवृद्धधर्मसंचयस्य प्रजापालनदक्षस्य लोकपालानां पञ्चमस्य लो- कपालस्य सत्यात्मनो महात्मनो महाराजस्य श्रीस्कन्दवर्मणः पुत्रस्य भगवद्भक्तिसद्भावसंमावितसर्वकल्याणस्य प्रजासंरचनपरिपालनोद्योगसतत- सत्रव्रतदीक्षितस्य अनेकसमरसाहसावमर्दलब्धविजययशःप्रकाशस्य क- लियुगदोपावसन्नधर्मोद्धरणानित्यसंनद्धस्य राजर्पिगुणसर्वसंदोहविजिगीपो- धर्मविजिगीपोर्भगवत्पादानुध्यातस्य बप्पभट्टारकमहारानपादभक्तस्य पर- मभागवतस्य भारद्वाजसगोत्रस्य स्वविक्रमाक्रान्तान्यनृपश्रीनिलयानां यथावदाहताश्वमेधानां पल्लवानां धर्मयुक्महाराजस्य श्रीविष्णुगोपवर्मणो वचनेन मुण्डराष्ट्र उरुवपलिये आमेयका वक्तव्याः- एतस्मिन्मामसीमे ७८ काव्याला द्विशतं सि(सी)मनिवर्तनानि । एतेपां निवर्तनानामवधयः-अपरदिशि क- ण्डुकूरग्रामस्य सीमावधिः । दक्षिणदिशि सुप्रयोगनदी अवधिः । पूर्वदि- शि अवधिः पूर्वदक्षिणोत्तरं महापथपाधैं शिला । एतस्या उत्तरं गत्वा चिश्चाक्षः । तत उत्तरं गत्वा कुरुपूरग्रामस्य केण्डुकूरग्रामस्य च परि शिला । तत उत्तरं गत्वा शिलोपलयम् । तत उत्तरं गत्वा कुरुपूरग्रामे ब्राह्मणानां हलक्षेत्रस्यावधी शिला । उत्तरदिश्यवधिः शिलोपलयरतो महाचिच्चावृक्षः । ततः अपरदिशं गत्वा कोण्डुमुरुवुडग्रामस्य सीमान्तम- वधिः । एवं चतुर्णी सीमावधीनां मध्यसीमस्य तट्विशतं निवर्तनानि के- ण्डकूरे विष्णुवर्मसेनापतिकृतविष्णुहारदेवकुलाय देवभोगं कृत्वा अष्टाद- शजातिभिः परिहारैरुपेतं अस्मदायुनलवर्धनीयमस्माभिः संप्रदत्तम् । तद- वगम्य तस्मिन्विषये सर्वायुक्तकाः सर्वनियुक्ता राजवल्लभाः संचरन्तकाश्च तत्सोमं सर्वपरिहारैः परिहरन्तु परिहारयन्तु च । यश्चेदमस्मच्छासनम- तिक्रामेत्स पापः शरीरदण्डमर्हति । अपि चापि श्लोकाः- 'भूमिदानात्परं दानं न भूतं न भविष्यति । तस्यैव हरणपापान(हरणात्पापं) न भूतं न भविष्यति ॥ 'स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । गवां शतसहस्रस्य हन्तुः पिबति दुष्कृतम् ॥' सिंहवर्ममहाराजस्य विनयसंवत्सरे एकादशे पौप्य(प)मासे कृष्णपक्षे दशम्यां मया दत्ता ताम्रपटिका ।। (इण्डियन् आण्टिक्केरी ५।५१-५२) (२०) अविनीतमहीपतेर्दानपत्रम् । जितं भगवता मतघनगगनाभेन पद्मनाभेन श्रीमज्जान्हवेयकुलामल व्योमावभासनभास्करस्य वसङ्गैकमहारखण्डितमहाशिलास्तम्भलब्धबल स्वस्तिः (१) पराक्रमयशः(शसः) दारुणारिगणविदारणरणोपलब्धव्रण विभूषणविभूपितस्य काण्वायनसगोत्रस्य श्रीमत्कोगणिवर्मधर्ममहाधि- २० लेखः] प्राचीनलेखमाला। ७९ राजस्य पुत्रस्य पितुरन्वागतगुणयुक्तस्य विद्याविनयविनीतस्य सम्य[क]प्र- जापालनमात्राधिगतराज्यप्रयोजनस्य नानाशास्त्रात(थ)सद्भावाधेिगमप्रणी- तमतिविशेपस्य विद्वत्काञ्चननिकपोपलभूतस्य विशेपतोऽप्यनवशेषस्य () नीतिशास्त्रस्य वक्तप्रयोक्तकुशलस्य सुविभक्तभक्तमृत्यजनस्य दत्तक- मूत्ररत्तेः प्रणेतुः श्रीमन्माधवमहाधिराजस्य पुत्रस्य पितृपितामहगुण- युक्तस्य अनेकचतुर्दन्तयुद्धावाप्तचतुरुदधिसलिलास्वादितयशसः समद- द्विरदतुरगारोहणातिशयोत्पन्नतेजसो धनुरभियोगसंपादितसंपद्विशेषस्य श्रीमद्धरिवर्ममहाधिराजस्य पुत्रस्य गुरुगोब्राह्मणपूजकस्य नारायण- चरणानुध्यातस्य श्रीमद्विष्णुगोपमहाधिरानस्य पुत्रस्य त्र्यम्बकचरणा- म्भोरुहरजःपवित्रीकृतोत्तमाङ्गस्य व्यायामोहृत्तपीनकठिनमुजद्वयस्य स्व- भुजबलपराक्रमक्रयकोतराज्यस्य क्षुत्शा(क्षा)मोष्टपिशिताशनप्रीतिकरनि- शितधारासे[] (1) चिरप्रनष्टदेवभोगब्रह्मादेयविसर्गअयणकारिण[:] (1) कलियुगवलपकावसन्नधर्मपोखरणनित्यसंनद्धस्य श्रीमन्माधवमहाधिरा- जस्य पुत्रस्य अविच्छिन्नाश्वमेधावभृता(था)भिषिक्तश्रीमत्कादम्बकुलग- गनगमस्तिमालिनः श्रीकृष्णवर्ममहाधिराजस्य प्रियभागिनेयस्य ज- ननि(नी)देवताङ्कपर्यकः एवाधिगतराज्याभिषेकस्य विजृम्भमाणशक्तित्र- यस्य परस्परानवमदि(मर्दै)नोपभुज्यमानत्रिवर्गसारस्य असंभ्रमावनमित- समस्तसामन्तमण्डलस्य निरन्तरप्रेमबहुमानानुरक्तप्रकृतिवर्गस्य विद्या- विनयातिशयपरिभूषि]तान्तरात्मन[:] कार्तयुगीयराजचरितावलम्बिन[:] अनेकसमरविनयोपार्जितविपुलयश[सः] क्षीरोदेकार्णवीकृतभुवनत्रयस्य निरवग्रहप्रदानशौर्यस्य अविषह्यपराक्रमाक्रान्तप्रतिराजमस्तकार्पिताप्रति- हतशासनस्य अनेकमुखाभिवर्धमानविभवोदयपराजितद्रविणपतेः प्रतीता- नेकगुणनिधानभूतस्य विद्वत्सु प्रथमगण्यस्य प्रणायिजनहृदयानन्दनस्य मर्यादालसनाल(न)कतरत्नाकरवृत्तस्य यथार्हदण्डितयानुकृतवैवस्वतस्य प्रतापातिशयानुग(कात विवस्वतो वैवस्वतस्य वा मनोर्वर्णाश्रमा- भिरक्षिणे(णो) दक्षिणदिशामभिगोप्तुं पर्याप्सु(प्तवतः (१) प्रातिजनो- नस्य सुप्रजसः श्रीमत्कोगणिमहाधिरानस्य अविनीतनामपुत्रेण पुन्ना- काव्यमाला। डराजस्कन्दवर्मप्रियपुत्रिकाजन्मना खगुरुणानुगामिना पित्रा परसुतस- मावर्जितयापिलप्या(क्ष्म्या :) खयमभिनतिया(त्या) लिङ्गितवक्षस्त(क्ष:- स्थ)लेन विजृम्भमाणशक्तित्रयोपनमितसमस्तसामन्तमण्डलेन अन्दरि- य-आलन्तूर-पौरुलरे अपनगराधनेकसमरमखमुखाहुतप्रपातशूरपुरुपप- शूपहारविधसविहस्तीकतान्तामिमुखेन श्रीमत्कोगणिन्दराजेन दुर्वि- नीतनामधेयेन समस्तपान्नाडपुन्नाडाधिपतिना वैवस्वतेनेव मनुना वर्णा- श्रमाभिलक्षणां दक्षिणां दिशमभिगोप्तुं परिया(यो)प्तवता प्रातिजनितेन सुप्रजप्सा आत्मनः प्रवर्धमानविजयैश्वये पञ्चत्रिशद्विजयसंवत्सरे (शकाब्दे ४३५) प्रवर्तमाने श्रीमहाल्मीकिनाम्नि जगत्सूर्यवंशखरमहादेवाण्यका- स्य(श्य)पसगोत्रवाजसैन्यवादेयश्रीमद्देवशर्मणां केललेनाम्ना बेम्पुरी- श्वस्तीन(१)मुदकपूर्व दत्त[म्] ईशान्यदिशा आपक्षेत्रं चतारिखण्डि कृष्णता(त)टाकं आपक्षेत्रं ऊर्ध्वत्रिखण्डि अध आपक्षेत्रं पट्खण्डि पेन्तनाडिपूर्वदिशां क्षेत्रं पञ्चदशखण्डि दक्षिणदिश(शि) महालक्ष अग्नि अश्वत्त(त्यं) ईशानायदिशा जमुवृक्ष पुनः पुन ईशानायदिशा नकुले त- टाकवरुणदिशां क्षेत्रं द्वादशखण्डि वायव्यदिशा महातटाक आपक्षेत्रं सप्तखण्डि एतेन महादेवदिव्यदत्तम् । अपि चात्र मनुगीतो(ताः) ठोको(काः)- 'खदत्तां परदत्तां वा यो हरेत वसुंधराम् । पष्टिं वर्षसहस्राणि घोरे तमसि वर्तते ।। बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य [तस्य तदा फलम् ॥ स्वं दातुं सुमहच्छक्यं दुःखमन्यत्र पालनम् । दानं या पालनं वेति दानाच्छ्योऽनुपालनम् ।। अद्भिर्दत्तं त्रिभिभुक्तं पद्धिश्च प्रतिपालनम्(लितम्) । एतानि न निवर्तन्ते पूर्वराजरतानि च ॥' (इण्डियन् आण्टिकरी ५११३८-१३५) २१ लेखः प्राचीनलेखमाला । (२१) ग्वाल्हेरनगरोपकण्ठस्थितगिरिदुर्गे पद्मनाथदेवालये समुत्कीर्णा प्रशस्तिः। ॐ नमः पद्मनाथाय ॥ होत्फुल्लविलोचनैदिशि दिशि प्रोद्गीयमानं जनै- मेदिन्यां विततं ततो हरिहरब्रह्मास्पदानि क्रमात् । श्वेतीकृत्य यदात्मना परिणतं श्रीपद्मभूभृद्यशः पायादेप जगन्ति निर्मलवपुः श्वेतानिरुद्धश्चिरम् ॥ १ ॥ मौलिन्यस्तमहानीलशकलः पातु वो हरिः । दर्शयन्निव केशस्थनवजीमूतकर्णिकाम् ॥ २॥ मुक्ताशैलच्छलेन क्षितितिलकयशोराशिना निर्मितोऽयं देवः पायादुपायाः पतिरतिधवलस्वच्छकान्तिनगन्ति । मन्वानः सर्वथैव त्रिभुवनविदितं श्यामतापवं यः शङ्के खं वर्णचिहं मुकुटतटमिलन्नीलकान्त्या विमति ॥ ३ ॥ इदं मौलिन्यस्तं न भवति महानीलशकलं न मुक्ताशैलेन स्फुरति घटितश्चैप भगवान् । १. प्रशस्तिरियं सुप्रसिद्धविद्वद्वरराजेन्द्रलालमित्रेण 'इण्डो-आर्यन्स' (Indo- Aryans) नाम्नि स्वप्रन्ये द्वितीयभागे (३७०-३७७ पृष्ठेषु) १८८१ मिते खिस्ताब्दै मुदिता. तत्र चात्रुटितानि शुद्धानि च विरलान्येव पद्यानि दृश्यन्ते. बहूनि च पद्यानि निःशेषमेव गलितानि सन्ति. पुनर्भकीलहान १८८६ मिते खिस्ताब्दे 'इण्डियन्- आण्टिवेरी'मध्ये (१५ । ३३-४७) मुद्रिता. तन्मुद्रणं समीचीनमेव. अथ चास्मि- व वर्षे ग्वाल्हेरमहाराजाधितपौराणिकमधीपुरुषोत्तमशानिमिरेकमेतप्रशस्तिप्रतिरू- पफमस्मभ्यं प्रहितम्. तदपि फेनचिवधेयधुरीणेन लिखितमित्यशुद्धिप्रचुरमेव. कि तु ताक्षराणि पद्यानि वा न गलितानि सन्ति. अस्माभिान भटकीलहानमुदिता क- नामा, ग्वाल्हेरनगरागता च प्रशस्तिः ग-नाना व्यवहतास्ति. राजेन्द्रलाटमित्रमु. दितायास्तु नोपयोगः कृतः. २. पमपालमहीपतिस्थापितत्वात्पद्मनाथ इति नाम.

२२ काव्यमाला। .. उपाकर्णोत्तंसीकरणसुभगं नीलनलिनं वहत्यद्याप्यस्याश्चिरविरहपाण्ड्कृततनुः ॥ ४ ॥ आसीवीर्यलघूकतेन्द्रतनयो निःशेपभूमीभृतां वन्धः कच्छपघातवंशतिलकः क्षोणीपतिर्लक्ष्मणः। यः कोदण्डधरः प्रजाहितकरश्चके स्वचित्तानुगां गामेकः पृथुवत्ष्टयूनपि हठगदुत्पाट्य पृथ्वीभृतः ॥ ५ ॥ तस्माद्वजधरोपमः क्षितिपतिः श्रीवज्रदामामव- हुरोजितबाहुदण्डविजिते गोपाद्रिदुर्गे युधा । निर्व्याजं परिभूय गाधिनगराधीशप्रतापोदयं यद्वीरव्रतसूचकः समभवत्प्रोदोपणाडिण्डिमः ॥ ६ ॥ न तुलितः किल केनचिदप्यहं जगति भूमिमृतेति कुतूहलात् । तुलयति स्म तुलापुरुषः स्वयं खमिह यः सुविशुद्धहिरण्मयैः ॥ ७ ॥ ततो रिपुध्वान्तसहस्त्रधामा नृपोऽभवन्मगलराजनामा । ये ईश्वरैकप्रणतिप्रभावान्महीश्वराणां प्रणतः सहस्तैः ॥ ८ ॥ श्रीकीतिराजो नृपतिस्ततोऽभूद्यस्य प्रयाणेषु चमूसमुत्यैः । धूलीवितानैः सममेव चित्रं मित्रस्य वैवर्ण्यमभूहिपश्च ॥ ९ ॥ किं चूमोऽस्य कथाद्भुतं नरपतेरेतेन शौर्याब्धिना दण्डो मालवभूमिपस्य समरे संख्यामतीतोजितः । यस्मिन्मॅगमुपागते दिशि दिशि त्रासात्करानच्युतै- ग्रामीणाः स्वगृहाणि कुन्तनिकरैः संछादयांचक्रिरे ॥ १० ॥ अद्रुतः सिंहपानीयनगरे येन कारितः । कीर्तिस्तम्भ इवाभाति प्रासादः पार्वतीपतेः ॥ ११ ॥ १. गोपाहिरिनि ग्याल्हेरसमीपवार्तनः पर्वतस्य नाम. २. 'युवा' ग. ३. 'वरिनगर ग. ४. 'पूरकः समचरत' क. ५. 'यज्ञश्वरक' ग. ६. 'अतीतोजित' ग, ७. राम पागते' ग. - २१ लेख: प्राचीनलेखमाला। २३ तस्मादजायत महामतिमूलदेवः पृथ्वीपति वनपाल इति प्रसिद्धः । आनन्दयनगदनिन्दितचक्रवर्ति- चिरलंकृततनुर्मनुतुल्यकीर्तिः ॥ १२ ॥ यस्य विस्तारिभूपालां सर्वा पालयतः प्रभोः । मुवं त्रैलोक्यमछस्य निःसपत्नमभूजगत् ।। १३ ॥ राज्ञी देवव्रता तस्य हरेर्लक्ष्मीरिवाभवत् । तस्यां श्रीदेवपालोऽभूत्तनयस्तस्य भूपतेः ॥ १४ ॥ त्यागेन कर्णमजयत्पार्थ कोदण्डविद्यया । धर्मराजं च सत्येन स युवा विनयाश्रयः ॥ १५ ॥ सूनुस्तस्य विशुद्धबुद्धिविमवः पुण्यैः प्रजानाममू- न्मांधातेव स चक्रवर्तितिलकः श्रीपमपालः प्रभुः । मत्स्वाम्येऽपि करमवृत्तिरपरस्येतीव यश्चिन्तय- न्दिग्यात्रामु मुहुः खरांशुमरुणत्सान्दैश्चमूरेणुमिः ॥ १६ ॥ रुत्वान्याः ववशे दिशः क्रमवशादाशां गतैर्दक्षिणा- मुक्षिप्ताचलसंनिभानविरतं यत्सैन्यवानिबनैः । उद्तान्पततः पयोधिमभितः संप्रेक्ष्य रेणूत्करा- न्भूयोऽप्युद्भटसेतुबन्धनधिया त्रस्यन्ति नक्तंचराः ॥ १७ ॥ यस्येन्दुद्युतिसुन्दरेण यशसा नीते सुराणां गणे वैवण्य मशोलखण्डनभयादप्राप्नुवन्तः प्रियान् । १. महामत्या मूलदेवतुल्यः, कलागुरापरनामा निखिटकलावेत्ता विक्रमादित्यसभ्यो मूलदेवः कथासरित्सागरादिपु प्रसिद्ध एव. महकोलहानस्तु 'मूलदेव इति महीपतेनीम, मुवनपालनलोक्यमल्लति नामद्वयमपि तस्यैव' इति वदति. वस्तुतस्तु 'महामतिमूलदेव.' इति मुवनपालस्य विशेषणरूपमेवेति ज्ञेयम्, तथा च समयमानकायां क्षेमेन्द्रप्रयोग:- 'श्रीगुतो नाम धूर्तः सकटकटिकलाकल्पनामूलदेवः' (६।२९). एवं लोक्यमा इत्यपि भुवनपालस्य विशेषणमेव. २. 'ध्वस्तान्यभूपाला' क. ३. 'पत्नी' ग. ४. 'चिसोल' ग.

काव्यमाला । नूनं शक्रपुरःसरामरवधूसंघाः श्रिये सांप्रतं गौर्ये च स्टहयन्ति ये प्रथमतः पत्युर्वपुःसंश्रिते ॥ १८ ॥ कैटटाः Tः क्व समस्तवाञ्छितफलभ्राजिष्णवः पादपा गावः कामदुधाश्च कैः क्व मणयः कैश्चिन्तितार्थप्रदाः । पूर्णाः कस्य मनोरथा इह न के पत्यामुना पूरिता वीरोऽधोऽनयदस्य(!) तद्रुणवतः कल्पद्रुमादीनपि ॥ १९ ॥ स्तुत्वा न पद्मनृपति परिरक्षिता भूः माप्तोऽन्यथापि यदसौ बत नग्रभावः । दौःस्थ्यान्निरम्बरतनुर्विपिनेप्वशोच- द्यस्य प्रतिक्षणमिति प्रतिपन्थिसार्थः ॥ २० ॥ भ्रमः कुलालचक्रेषु लोभः पुण्यार्जनेप्वभूत् । काठिन्यं कुचकुम्भेषु यस्मिशासति मेदिनीम् ॥ २१ ॥ असंमतोदगुणस्य पीडा साधुर्न निस्त्रिंशपरिग्रहोऽपि । इत्याललम्बे न धनुर्न चासि तथापि यो वैरिगणं जिगाय ॥ २२ ॥ सद्यः स्त्रुतास्त्रप्टपतव्यतिकीर्णम्पु वैरिद्विपाधिपशिरोमणिभिः समन्तात् । लोकानुरागयशसामिव बीजवापं विस्तारयां यदप्सिरास रणानिरेपु ॥ २३ ॥ वने यदरिनारीणां हैमनीरजनिश्चयः (8)। मृङ्गाणां तन्मुखेनातो हैमनीरजनिश्चयः ॥ २४ ॥ स विमृश्य नदीपूरगत्वरे संपदायुपी। पूर्तधर्मे मतिं चक्रे निवृभुर्रनयोः फलम् ॥ २५ ॥ 1. 'टा:' क. २. कै. फ. ३. वीरोधानतटस्य क. ४. क. ५. 'श्रुला' क. ६. 'परिरक्षिता' ग. ७. नामा यन्दिनोऽपि. नममायः' ग. ८. 'यस्मात्' क. ९. तस्मिन्' फ. १०. उदूहगुणस्य गुणवतः पुरुषस्य पनुपम पीडा असमता. ११. 'परिशतापिक. १२. 'व्यतिकीर्णरूपोक. ३. 'रिद्विशः पिप' क. १४. यस्य सही लोकानुरागयशसामिव पीजयापं पिस्तारयामास. १५. १ मुगप्पे' ग. १६. अनयोः संपदायुशोः. . . 'कल्पदुमादीन्यपि 14 - २१ लेख: प्राचीनलेखमाला। ८६ प्रनाभा तेन क्षितितिलकभूतेन सदनं हरेर्धर्मक्षेन त्रिदशसहशा कारितमदः । वदाम्यस्योच्चैस्त्वं कथमिव गिरा यस्य शिखरं समारूढः सिंहो मृगमिव मृगाकस्थमशितुम् ॥ २६ ॥ प्रासादस्यास्य शश्वद्विधरशिखरिस्पर्धिनो हैममण्डं देण्डाग्रात्पावनीयं शशधरधवला वैनयन्ती पतन्ती । नितिं माति भूतिच्छुरितनिजतनोदेवदेवस्य शंमोः खाद्नेव पिङ्गस्फुटविकटजटाजूटमध्यं विशन्ती ।। २७ ।। तदेतद्ब्रह्माण्ड स इह भविता पङ्कजभवः पुनय वोदास्मो(रो) ययमिह विमानेन वियति । सुवर्णाण्ड हंसास्तदिदमुररीरुत्य सकलं ध्रुवं संसेवन्ते हरिसदनमूनि स्थितममी ॥ २८॥ तुङ्गिना कनकाचलः शुभविधावन्तःस्थित श्रीपति- बिभ्राणो द्विजसत्तमानुदधिनावासो नृसिंहान्वितः । निर्मातास्य रतः समस्तविबुधैर्लब्धप्रतिष्ठेरयं प्राप्तादश्च धरातले सममहो कल्पं हरेः कल्पताम् ॥ २९॥ देवेऽसिद्धे द्विनपुंगवेषु भ्रतिष्ठितेप्वष्टम पद्मपालः । युवैव दैवप्रतिकूलभावात्संन्दनार्धासनभाग्यमूव ॥ ३० ॥ तस्य भ्राता नृपतिरभवत्सूर्यपालस्य सूनुः श्रीगोपाद्रौ सुकृतनिलयः श्रीमहीपालदेवः । यं प्राप्यैवं प्रथितयशसं तावभूतां सनायौ शौर्यत्यागौ हरिरविसुताभावदुःस्थौ चिरेण ॥ ३१ ॥ १. 'भवन' क. २. प्रासादस्योत्पतन्ती विधु' ग. ३. कैलासतुल्यस्य. ४ 'वृद्धामा. हग.५. निर्धान्त' ग. ६. 'उचः स्थितं' क. ७. 'समभवञ्चान्तःस्थितीपतिः' ग. ८. देवेन्द्रसिद्धद्विज' ग. ९ प्रतिष्ठितेप्वेषु स' ग. १०. 'संक्रन्दनाहासन' क. ११. अर्जुनकर्णवियोगदुःखितौ शौर्यत्यागौ. .

८६ काव्यमाला। सृष्टि कुर्वन्नमात्यानां विप्राणां स नृपः स्थितिम् । प्रलयं विद्विपामासीद्रह्मोपेन्द्रहरात्मकः ॥ ३२ ॥ यत्र धामनिधौ राज्ञि पालयत्यवनीतलम् । न भास्वान्भास्करादन्यो न राजान्यो विधारभूत् ॥ ३३ ॥ कृताभिपेकं सत्तरूपविष्टं नृपासने । यमुदारपदैरेवं तुष्टुवुः सूतमागधाः ॥ ३४ ॥ 'वामुहहन्ति शिरसा खलु राजहंसाः सृष्टास्त्वया पुनरिमाः समयावसन्नाः । नाथ प्रजाः सुमनसां प्रथमोऽसि कोऽसि त्वं सिद्धवीररस तामरसोद्भवस्य ॥ ३५ ॥' . लक्ष्मीपतिस्त्वमसि पङ्कजचक्रचिई पाणिद्वयं वहसि भूप भुवं विपि । श्यामं वपुः प्रथयसि स्थितिहेतुरेक- स्त्वं कोऽसि नीतिविजितोद्धव माधवस्य ॥ ३६ ॥ त्वं पालयस्यनिशमर्थिजनस्य कामं रामः श्रिया त्वमसि नाथ गुणैरैनन्तः । संकर्षणः समिति विद्विपदायुपस्त्वं त्वं कोऽसि सच्चरितहाल हलायुधस्य ॥ ३७॥ ख्याता रेतिस्तव निजप्रमदासु नित्यं रूपं तवातिशयविस्मयकारि देव । १. "विशा वै' ग. २. विद्विपां प्रलयं कुर्वनासीत. ३. गायनाः' क. ४. इतः प्रभृति पइिंशतिपद्यानां भटकीलहार्नेन इशिशभाषान्तरं न विहितम्. ५. नीतिदि. जितोद्भव' के. नीन्या विजित उद्धवो येन. श्रीकृष्णामात्यो नीतिविचौद्धव आसीदिति शिशुपालवधादी व्यक्तमेव. १. कामपाल इति बलदेवस्य नामान्तरमपि. ७. अनन्तः शेपोऽपि. बलदेवः शेपावतार इति प्रसिद्धिः. ८. सच्चरित लो द्वितीयः साता हनमहीपतिरेवेति तात्पर्यम्; पलदेवपक्षे तु सभ्यस् चरिता हाला तुरा येन. कामदेवस्य मार्यापि. ५. रतिः १ लेखः] प्राचीनलेखमाला। त्वं मीनचिह पुरुपोत्तमसंभवोऽसि कस्त्वं क्षितीशवर शम्बरसूदनस्य ॥ ३८ ॥ भूभृत्सुतापतिरसि द्विपतां पुराणां भेत्ता त्वमीश पपोपरतोऽसि नित्यम् । भूतिं दधास्यमलचन्द्रविभूपिताङ्गः कस्त्वं सदम्बुजदिवाकर शंकरस्य ॥ ३९ ॥ त्वं तेजसा शिखिनमिद्धमधः करोपि शैक्ति दधासि नरदेव विपत्तिहन्त्रीम् । त्वं तारकं रिपुबलस्य बलान्निहंसि कस्त्वं नवीनबल नीलैंगलध्वजस्य ॥ ४०॥ त्वं वैजभृत्वमसि पैक्षभिदप्यशेप- भूमीभृतां विवुधवन्ध गुरुमियोऽसि । श्रीमत्सुवर्णगिरिदुर्गचरोऽसि कोऽसि त्वं भीमसाहस सहस्त्रविलोचनस्य ॥ ४१ ॥ ख्यातं तवेश बहुपुण्यजनाधिपत्यं कान्तौलकाबलिभिराप्ततमैश्च गुप्ता । (१) त्वामामनन्ति परमेश्वरबद्धसख्यं त्वं कोऽसि सद्गुणनिधान धनाधिपस्य ॥ ४२ ॥ १. मत्स्याकारं चिहं महीपतीनां करचरणे भवति यस्य मत्स्यरेखेति प्रसिद्धिः पक्ष मकरध्वज. २. पुरुषोत्तमो विष्णुः, सत्पुरुषश्च. ३. मन्मथस्य. ४. पार्वती नृपतिकन्याश्च. ५. शत्रभूतानो त्रिपुरासुराणां वैरिनगराणां च. ६. वृषो महोक्षो. धर्मश्च. ७. भस्म संप. त्तिश्व...चन्द्र कनकमपि. ९. 'विमाकर क.१०. मयूरमनि च. ११. आयुधविशेष सामध्ये च. १२. "विपनिहन्त्रीम' क. १३. तारकं दैत्यविशेषं रिपुमलस्य तारकं शरण्य च. प्रधान रिपुमिति यावत्. १४. 'नवीननल' क. १५. मयूरध्वजस्य कार्तिकेयस्य. १६. वम्रो हीरकमणिर्दम्भोलिश्च. १७. पक्षाः सहायाः पतत्राणि च. १८.राज्ञा पर्वतानां च. १९. विबुधा देवाः पण्डिताय. २०. गुरुरुपदेष्टा वाक्पतिश्च. २१. शोभनवर्णो गिरि- दुर्गः; पक्षे सुवर्णगिरिः कनकाचलो मेरुः स एव दुर्गः.'श्रीकम्युवर्णगिरिदुर्गचणोऽसि' क. २२. इन्द्रस्य. २३. पुण्ययुक्ता जना राक्षसाच. २४. अलका कुबेरपुरी; पक्षे अलकाय. लिभिभूर्णकुन्तल.. २५. कुपेरपक्षे परमेश्वरः शिवः. २६. कुथरस्य. .

८८ काव्यमाला.. तेजोनिधिस्त्वमसि भूमिभृतः समग्राः कान्ताः करैः प्रसममुग्रतरैस्तवेश । प्राप्तोदयः सततमैथिजनस्य कोऽसि त्वं कल्पमूरुह सरोरुहबान्धवस्य ॥ ४३ ॥ आनन्ददोऽसि जनतानयनोत्पलाना. माप्यायिताखिलजनः करमार्दवेन । त्वं शश्वदीश्वरशिरस्तलदत्तपाद- स्तैत्कोऽसि मर्त्यभुवनेश निशाकरस्य ॥ ४४ ।। त्वामंशमीश निगदन्ति मधुद्विपोऽमी श्यामाभिरामतनुरस्यमलप्रबोधः । पुण्यं च भारतमिदं विहितं त्वयैव त्वं कोऽसि सत्यधन संत्यवतीसुतस्य ॥ ४५ ॥ नीतात्मकीर्तिसुरसिन्धुरियं समुद्र- प्रान्तं त्वयोन्नतिमसौ गमितः स्ववंशः । पूर्व पवित्रतनवो विहिताश्च कोऽसि त्वं सत्सु लब्धपरभाग भगीरथस्य ॥ ४६ ॥ एतत्त्वया कृतमताडकमाशु विश्व व्याप्ता मही हरिभिरीश मनोजवैस्ते । पुण्यावतारकरणक्षेतदुर्दशास्य- स्त्वं कोऽसि दत्तरिपुलावव राँघवस्य ॥ ४७ ॥ धर्मप्रसस्त्वमसि सत्यधनस्त्वमेक- सर्व वासुदेवचरणार्चनदत्तचित्तः । १. पर्वता राजानव. २. किरण राजपलिभिश्च. ३. है अर्थिजनस्य कल्पभूरुह. ४. सूर्यस्य. ५. शिवो राजानश्च. ६. किरणा अहिश्य. ७. 'वं कोऽसि क.८.महामार- ताभिधो प्रन्धः, भारतवर्ष च. ९. वेदव्यासस्य. १०. प्राप्तगुणोत्कर्ष. ११. ताडयतीति ताइकः सः पदे ताइका रामायणप्रसिद्धा फायन राक्षसी. १२. अश्वैर्वानरच. १३. क्षतं दुर्दशाया आत्यं मुखं प्रारम्भो येन पक्षे क्षतो दुरी दशात्यो रावणो येन. १४. रामचन्द्रस्य. १५. युधिष्ठिरो धर्मात्मजः, सत्यसंधश्च प्रसिद्ध एव.

२१ लेखः प्राचीनलेखमाला। त्वं कोऽसि विभंजनसेवितशेपटत्तिः सङ्ग्रामनिष्ठुर युधिष्ठिरपार्थिवस्य ॥ १८ ॥ त्वं भूरिकुञ्जरवलो भुवनैकमछ- विद्याविभूपिततन्नूप पावनोऽसि । प्रच्छन्न सूपरुतिसंभृतबन्धुवाञ्छः कस्त्वं कवीन्द्रकृतमोद कोदरस्य ।। ४९ ॥ एकस्त्वमीश भूवि धन्वभृतां वरिष्ठः संखामिकारिगणदर्पहरस्त्वमानौ । (३) गन्धर्वराजरतनाविजयाप्तकौति- स्त्वं कोऽसि सुन्दर पुरंदरनन्दनस्य ॥ ५० ॥ दुर्योधनारिवलदर्पहतस्तवेश यतः परार्जुनयशःप्रसरं निरोडम् ।। १. विमजनसेविताद्यच्छेषं तेन वृत्तिर्यस्य. २. दशसहस्रनागपठो भीमसेन इति मा. रते प्रसिद्धम्; राजपक्षे भूरिकुञ्जरयुक्तं बलं सैन्यं यस्य. ३. मल्लविद्याविभूषिततनुभीमः; राजपक्षे भुवनैकमलेति संपोधनम्. ४. प्रच्छना या सूपकृतिः सूपफर्म तया संभृता बन्धुवाञ्छा येन. भीमः सूपकारो भूत्वा विराटसदने स्थित इति भारते विराटपर्वणि प्रसिद्धम्; अन्यत्र प्रच्छन्ना या शोभना उपकृतिरुपकारस्तया. महान्तस्तु प्रच्छन्नमे- वोपर्वन्ति न तु स्वोपकारं प्रोद्धोपयन्ति, ५. भीमस्य. ६. 'धर्मभृतां' क. अर्जुनस्य धनुर्धरत्वं प्रसिद्धं न तु धर्मभृत्त्वम्. ७ 'संशप्तकारिगणदर्पहरस्त्वमाजी' इति पाठी भा. ति. 'संशप्तकास्तु समरे सभामादनिवर्तिनः' इति कोपप्रामाण्यात्संशप्तकाः सङ्गामादा वांतनो येश्यस्तेषां गणस्य दर्पहर इति राजपक्षे; अर्जुनपक्षे तु संशप्तका नाम केचन क्षत्रिया आसन्, तैः सहार्जुनस्य युद्ध महाभारते द्रोणपर्वण्यतीव प्रसिद्धमस्तीति शेयम्. ६. गन्धर्वराजा अश्वश्रेष्टास्तेषां पृतना अश्वसैन्यम्. माकोलहानस्तु 'Nothing definite of any historical importance is said of Mahipala, unless therc is in V, 50 an allusion to some war in which à l'rince of the Gandharvas was defeated by him'sfat affa; अर्जुनपक्षे गन्धर्वराजस्य चित्ररथस्य पृतना. इयं कथा भारते वनपर्वणि द्रष्टव्या. ५.अ. र्जुनसा. १०. दुर्योधना दुःखेन यो९ राश्या येऽरयस्तेषां पलं तर्वहारिणः; अन्यत्र दुर्योधनस्यारयः पाण्डवाः. ११. परेषां शात्रवाणामर्जुनस्य शुभ्रस्य • यशसः प्रसरम; अन्यत्र परः शत्रुर्योऽर्जुनो मध्यमपाण्डवस्तस्य यशःप्रसरम्.

काव्यमाला। त्वं कोऽसि सूर्यजनितप्रमदाथितार्थ- दौर्गत्यकर्तन विकर्तनसंभवस्य ।। ५१ ॥ रत्नालयस्त्वमसि धाम गभीरताया- स्त्वं पासि पार्थसम भूमिभृतः प्रविष्टान् । अन्तःस्थितस्तव हरिः सततं नरेश कस्त्वं वितीर्णरिपुजागर सागरस्य ॥ ५२!! शौकभः क्रमसमागतसत्यवृत्ति- स्त्वं राजकुअरशिरःप्रवितीर्णपादः । दृप्तारिभास्करतिरस्कृतिसिंहिकाभूः कस्त्वं महीपतिमृगाङ्क मंगाधिपस्य ॥ ५३॥ दानं ददासि विकटोन्नतवंशशोभ- स्त्वं दन्तपालिकरवालहतारिदपः । (१) क्षोणीभूतो जयसि तुङ्गतया नरेन्द्र त्वं कोऽसि वैरिवलवारण वारणस्य ॥ ५४॥ सद्म श्रियस्त्वमसि मित्रकृतप्रमोद- स्त्वं रौजहंससमलंकृतपादमूलः । खामिनधाकृतजेंडोऽसि गुणाभिरामः कस्त्वं स्मिताव्यमुखपङ्कज पट्वजस्य ॥ ५५ ॥ सत्पत्रभूपिततनुः मुविशुद्दकोश- रत्वं चन्द्रकान्तिसमलंकृतकान्तमूर्तिः । ख्यातं तवैव कविवछम सौमनस्यं त्वं ब्रूहि कः समरभैरव कैरवस्य ॥ १६ ॥ १. कर्णः सूर्यमुत , राजा च सूर्यपालसुतः. २. कणख. ३. हे अर्जुनतुल्य. ४. रा. जभरा श्रेष्ठगमाः, नृपयेष्टाध. ५ सिंहिनाभः, सिंहो राहुश्च. ६. केसरिणः ७. म. दजलमपि. ८. पर्वतान्महीपतौंध ९. गजस्य. १०. मित्रः सूर्योऽपि. ११. गजहंसाः पक्षिविरोगः, नृपश्रेष्ठाच, १२. जल सलिलम्, जदय मर्वः. १३. गुणास्तन्तः, शी. यौदार्यादयध, १४. पर वाहनमपि. १५.कोशः कर्णिकापि. १६. पुष्पत्वम्, पाण्डित्य घ.

२.१ लेखः] प्राचीनलेखमाला। त्वं पश्यतां हरसि देव मनांसि शश्व- न्मङ्गल्यभूस्त्वमसि निर्मलताभिरामः । कोऽसि प्रसीद वद सगुणरत्नयोनि- स्त्वं कच्छपारिकुलभूपण भूपणस्य ॥ ५७ ॥ धात्रा परोपकरणाय विसृष्टकाय सच्छायजन्मसमलंकततुङ्गगोत्रः । बहि त्रिसंध्यमवनीश्वरवन्दनीय- स्त्वं कोऽसि सूर्यनृपनन्दन चन्दनस्य ॥ १८ ॥ नाघारुतद्विजपतिर्न गैदान्वितोऽसि न त्वं विशुद्धहृदय प्रथितोग्रमायः। त्वं जातु न क्षतपो न जडे कृतास्य- स्तनास्तु नाथ हेरिणोपमितिः कथं ते ॥ ५९ ॥ नित्यं संनिहितक्षयः स तमसा प्रायोऽभिभूयेत स त्वत्रासाद्वनैकनाथ हरिणस्तस्योदरे माविशत् । मूर्तिस्तस्य कलङ्किता सनडतां धत्ते स दोपाकर शश्वत्ते विदितस्तथापि नृपते राजा त्वमित्यद्रुतम् ॥ ६० ॥ एकेनोत्तरगोग्रहे विमुखतां पार्थेन नीताः परे व्यासेन स्तुतिरर्जुनस्य विहितेत्यतायि पूर्व किल । तत्सम्यकप्रतिभाति संप्रति पुनः श्रीमन्महीपाल न- स्त्वामालोक्य सहस्रशो रिपुत्रलं निनन्तमेकं रणे ॥ ६१॥ । किं मोऽविकलत्वमीश भवतस्त्वं नीतिपानं परं वृत्तान्तं जगतीपते तसृणामात्मप्रियाणां शृणु । १. कटककण्टादेः. २, निमितशगेर. ३. गोत्रः परतोऽपि. ४. गरुडः, ब्राह्म- जोध. ५. गदा आयुधविशेषः, गदय रोगः. महान्वितो' क. ६. विष्णुर्माया- वोति पुराणमिद्धम्, ७. शे धर्मः. यदिदमुप८. जले, प. पुना. १०. सदस्नेक. ११. राजा पन्दः क्षयादिदोपयुक्तः, भवास्यादितोऽपि राजे- साधम्, १२, 'मोऽधिपतायमीरा क.

१२ काव्यमाला। t . कीर्तिर्धाम्यति दिक्ष गीर्गुणवतां कण्ठे लुठत्यादता मर्यादारहिता मही द्विजसुद्धेहे रता श्रीरपि ॥ ६२ ॥ किं चित्रं भुवनैकमछ यदियं मन्दाकिनी पद्मभू. लोकादुद्धरता भगीरथनृपेणानायि निनां महीम् । आश्चर्य पुनरेतदीश यदितो निम्नान्महीमण्डला- दूर्व कीर्तितरङ्गिणी कमलभूलोकं लया प्रापिता ॥ ६३ ॥ चित्रं नात्र सलक्षणस्त्वमकरोः सर्वात्मना विद्विपो देव प्रत्ययलोपमाशु विशिखैः संमूर्छितस्याहवे । क्रोधाद्वैरवमूर्तिरु सदसिकरमहारादुतै- रस्य त्वं यदनीनशः प्रकृतिमप्येतन्न नाचर्यकत् ॥ ६४ ॥ अत्यम्बुधि भवर्यमत्यादित्यं भवन्महः । अतिसिंहं भवच्छौर्यमतः केनोपमीयसे ॥ १५ ॥ केयूरं तव भूपाल भुजदण्डे विराजते । किरीटमिव वद्विन्तर्निवासि विजयश्रियः ॥ १६॥' यंदर्चायां नित्यं त्रिभुवनगुरोस्तोत्रमकथा- स्तदेप प्रीतस्त्वां वमकत कल्पस्थितिमिह । यदुत्सङ्गे तुङ्गे तव लुठति चन्द्रांशुविमला प्रलम्बव्याजेन क्षितितिलक तारावलिरियम् ॥ ६७ ॥ वैतालिकैरित्थमभिटुतेन संपूनितामर्त्यगुरुद्विनेन । विमुक्तकारागृहसंयतेन वितीर्णभूताभयदक्षिणेन ॥ १८ ॥ तेनाभिपिक्तमात्रेण प्रतिजज्ञे द्वयं स्वयम् । पद्मनाथस्य संसिद्धिः कन्यायाः सद्वरार्पणम् ॥ ६९ ॥ १. चित्रं तावदिदं मुरेन्द्र भवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना दमामण्डलं मण्डितम् । नातचित्रतरं निशाकरकलालावण्यदुग्योदधे भूमेयद्भवता विर- चिनगरी कोतिष्ठवः प्लाव्यते ॥' इति प्राचीनपच्छायामनुहस्तीदं पद्यम्. २. सप्तसप्त तिमिते पद्येऽपि मूरिसलक्षणः' इति प्रयोगोऽस्ति. 'स लक्षश:' क.. ३. प्रकृतिप्रत्ययाँ व्याकरणसिद्धाषि. ४. 'यद संतत्य क. ५. ध्रुवो नक्षनविशेषोऽपि. ६. 'घव- लरविचन्द्रा' क.

.२१ लेख:]. प्राचीनलेखमाला। . तंच द्वयं कृतमनेन विवेकभाजा राजात्मजा मैदनपालवराय दत्ता । श्रीपद्मनाथसुरमन्दिरमेतदुच्चै- नतिं समाप्तिमविनाशि यशःशरीरम् ॥ ७० ॥ समर्धिता ब्रह्मपुरी च तेन शेपान्विधायावनिदेवमुख्यान् । प्रवर्तितं सत्रमतन्द्रितेन मृष्टान्नपानरतिधार्मिकेण ॥ ७१ ॥ श्रीपद्मनाथस्य स लोकनाथश्चक्रिद्वयं (1) भूपतिचक्रवर्ती । नैवेद्यपाकाय विपक्वत्रुद्धिः प्रादात्मदीपाय च गोत्रदीपः ॥ ७२ ॥ ब्रह्मोत्तरं मण्डपिकासमुत्थं द्वेधा विधाय खयमीश्वरेण । श्रीपद्मनाथाय वितीर्णमर्धमध च वैकुण्ठसुरेश्वरायः ॥ ७३ ॥ विलासिनीवादकगायनादेर्यथाहतः पादकुलस्य वृत्तिम् । स पद्मनाथस्य पुरः समग्रामकल्पयत्प्रेक्षणकाय भूपः ॥ ७९ ॥ पाषाणपल्ली प्रविभज्य सम्यग्देवाय सार्धानि पदानि पञ्च । संपादयामास तथा द्विजेभ्यः सार्धा चतुर्विंशतिमुत्तमेभ्यः ॥ ७५ ॥ ददी करवं सरवारखेटं महीपतिस्तत्रभवं समस्तम् । आकाशपातालसमुद्गतं न देवद्विजेभ्यो लवणाकरं च ॥ ७६ ॥ तस्यादृष्टसहायतामुपगतो योगेश्वरामोद्भवः ख्यातः सूरिसलक्षणः क्षितिपतेः सर्वत्र विश्वासमूः । आधारो विनयस्य शीलभवनं भूमिः श्रुतस्याकरः खाध्यायस्य कृतज्ञतैकवसतिः सौजन्यकोशालयः तत्प्रत्ययेन निदधे निखिलानि धर्म- कार्याणि धर्मनिरतः स नरेन्द्रचन्द्रः । विप्रः स निःस्टहतया गुणगौरवेण चित्तं निवेश समरत्तितया.च राज्ञः ॥ ७८ ॥ १. 'त' ग. २. 'मदनदाग्विराय' क. ३. 'ममपिता' क. ४. 'चनिद्वंग क. ५. 'द्विधा' क. ६. 'परस्कन्धावाटपोट फ. . ७७ ॥ .

१४ काव्यमाला। महीपालेन ये विनास्तस्मिन्ग्रामे प्रतिष्ठिताः । तेषां नामानि लिख्यन्ते विस्तरः शासनोदितः ॥ ७९ ॥ देवलब्धिः सुधीराद्यस्तथा श्रीधरदीक्षितः । मूरिः कीर्तिरथः सार्धपदिनोऽस्य द्विजास्त्रयः ।। ८० ॥ गङ्गाधरो गौतमश्चामलकोऽथ गदाधरः । देवनागो वसिष्ठश्च देवशर्मा यशस्करः ॥ ८१ ।। कृष्णो वराहस्वामी च गृहवासः प्रभाकरः । इच्छाधरो मधुश्चैव तिहेकः पुरुपोत्तमः ॥ ८२॥ रामेश्वरो द्विनवरस्तथा दामोदरो द्विजः । अष्टादशैते विप्राथ पदिनः शैडलो द्विजः ॥ ८३ ॥ पादोनपदिको रत्नतिहणेको मुरार्चको । द्वावर्धपदिनावेप विप्राणां संग्रहः कृतः ॥ ८४ ॥ ददौ देवपदानां च मध्यादर्धपदं नृपः । विधाय शाश्वतं लोहभटकायस्थसूरये ॥ १५ ॥ देवाय दत्तः सौवर्णों राज्ञा रतैः समाचितः । मुकुटः सुमहानोलो मणिर्यत्र विराजते ॥ ८६ ॥ हरिन्मणिमयं भूपतिलकस्तिलकं ददौ । रविचित्रं निकं न निष्फलः स भूपतिः ॥ ८७ ।। प्रादात्केयूरयुगलं रनर्बहुभिराचितम् । करणानां चतुष्कं च महाहमणिभूषितम् ॥ ८ ॥ इति रनमयं तावदेकमाभरणं विभोः । द्वितीयमनिरुद्धस्य सौवर्ण केवलं यथा ॥ ८९ ॥ कङ्कणानां चतुप्फ च भालपद्वयं तथा । त्तिदार(?) स्वर्णमुष्टि विभय॑न्वहमच्युतः ॥ १० ॥ 1. क. १. 'च मलकोऽय गयाघर:' या. ३. 'राहदास. का. ४. 'पभो' क. ५. तिही' क. ६. 'गुमहानमो' क. ५. 'जाल' क. 7 २१ लेखः] प्राचीनलेखमाला। रूप्यमैद्गालिका(1) दत्ता कच्चोलैः पञ्चभिर्युता। नैवेद्यधारणार्थं च कांस्यस्थालचतुष्टयम् ॥९१ ॥ सुवर्णाण्डत्रयं देवपरिवारविभूषणम् । धृतं चोपरि हेमानमातपत्रीकृतं विमोः ॥ १२ ॥ निवेश्य तानने च तन्मयेनैव गडना । लाप्यते प्रतिमा नित्यमनिरुद्धस्य राजती ।। ९३ ॥ प्रतिमा वामनस्यैका द्वितीया लघुराच्युती । राजावर्तमयी चान्या द्वे पूर्व रीतिनिर्मिते ॥ ९४ ॥ ताः प्रयन्नेन तिस्रोऽपि पूज्यन्ते गर्भवेश्मनि । तत्र तानमयं दत्तं दीपार्थ मल्लिकाद्वयम् ॥ ९५ ।। स्नानार्थ ताम्रकुण्डे द्वे दत्ते द्वे ताम्रपात्रिके । . ताम्रार्धपात्रद्वितयं तथा दत्तं महीभुना ॥ ९६ ॥ सधूपदहनाः सप्त घण्टाचारात्रिकान्विताः । दत्ताः शहाश्च सप्तैव ताम्रपात्रीचतुष्टयम् ॥ ९७ ॥ सांस्यभाजन प्रादानृपतिः काहलाइयम् । चामरं दण्डयुग्मं च रीतिस्फटिकसंभवम् ॥ ९८ ॥ बृहञ्चरुद्वयं ताम्रमयं ताम्रालुकात्रयम् । ताम्रांभाण्ड्यस्तथा पञ्च दत्ताचाटुश्च तन्मयः ॥ ९९ ॥ ................. । एप देवोपकरणद्रव्याणां संग्रहः कृतः ॥ १०० ॥ शिलाकुट्टस्थपत्यादियन्त्रिशाकटिकादिपु । वापीकूपतडागादिखननाबन्धनेषु च ॥ १०१ ॥ दशमांशं तथा विंशत्यंशं सर्वत्र मण्डले। ददौ राजानिरुद्धाय तेन सत्रं प्रवर्तते ॥ १०२ ॥ १. 'महासिद्दा' फ.. २. कचोला पात्रविशेष:. कचोला, करोरा, इति हिन्दी. भाषा. ३. 'पहेक.. गर्मलपानविशेष:. गहुरा, लोटा, इति यस्य प्रसिद्धिः. 'कि त्वं लोचनगाकः समयमे वीजलिदयम्' इति प्राचीन कविप्रयोगः, ५. मलिका दीपाधारणम् मनिकादयम्' क. ६. कास्यवाही क.५ चहा चरुवा' इनि प्रसिद्धी वृहद्भाण्डविपः 'भरिद्वयं' ग. ८. 'यम्' क. ९. 'भाण्डा. ग. १०. चारिति दायाचा देशमाषापदम्. ११. 'पानशस्लिादिगु ग. १२. 'चपानापन्यने' ग.

१६ काव्यमाला। अयं देवालयः पद्मनृपतेः स्फटिकामलः । भूयापार्जितः पुण्यविष्णुलोक इवाक्षयः ॥ १०३ ॥ मारद्वाजेन मीमांसान्यायसंस्कृतबुद्धिना । कवीन्द्ररामपौत्रेण गोविन्दकविसूनुना ॥ १०४ ॥ कविना मणिकण्ठेन सुभापितसरखता। प्रशस्तिद्विजमुख्येन रचितयमनिन्दिता ॥ १०५॥ प्रतापलङ्केश्वरवाग्द्वितीयां(विभ्रत्सुहृत्तां मणिकण्ठसुरेः । अशेषभाषासुकविलिलेख वर्णान्यशोदेव दिगम्बरार्कः ॥ १०६ ।। एकादशवतीतेपु संवत्सरशतेषु च । एकोनपञ्चाशति च गतेप्वन्देषु विक्रमात् ॥ १०७ ।। पञ्चाशे चाश्विने मासे कृष्णपक्षे नृपाज्ञया । रचिता मणिकण्ठेन प्रशस्तिरियमुज्ज्वला ॥ १०८ ॥ अङ्गतोऽपि ११५० आश्विनबहुलपञ्चम्याम् । ॐ॥ तैस्तैस्तस्य महीपतेः प्रतिरणं प्रौदप्रतापानले नाश्चर्यं यदनकशो रिपुचमूचकैः पतङ्गायितम् । यस्येन्द्रप्रतिमस्य वुद्धिसनिवः सर्वज्ञकल्पोऽभव- नीत्या निजितमौर्यवंशतिलकाचार्यः स गौरः सुधीः ॥१०॥ कि चिनं यन्महीपालो भुनक्ति स्माखिलां महीम् । यस्य गीर्वाणमन्त्रीव. मन्त्री गौरोऽभवत्सुधीः ॥ ११०॥ प्रशस्तिरियमुत्कीर्णा सद्वर्णा पद्मशिल्पिना । देवखामिसुतेन श्रीपद्मनाथरालये ॥ १११ ।। तथैव सिंहराजेन माहुलेन च शिल्पिना । प्राप्नुवन्तु समुत्कीर्णान्यक्षराणि यथार्थताम् ॥ ११२ ॥ मन्त्री १. 'उपार्जितः' ग. २. सूक्तिसमुद्रण. ३. धौसचिवपदस्य रूपान्तरम्. सर्पः. 'पुद्धिसहितः क. ४. नीत्या निर्जितो मीर्यवंशतिलकस्य (चन्द्रगुप्तस्य) आचार्यो (नाणायः) येन सः. चाणक्यादप्यधिकनीतिवत्तेति भावः. ' सोश' इति भटफोल. दानः परति स्म, व्याख्याति स्म च तत्र. ६. मियाजेन' क... 'महलेन' ग.

२२ लेखः] प्राचीनलेखमाला। (२२) कान्यकुब्जाधीशविजयचन्द्रमहीपतिसूनुयुवराज- जयचन्द्रस्य दानपत्रम् । ॐ स्वस्ति । अकुण्ठोत्कण्ठवैकुण्ठकण्ठपीठठुठत्करः । संरम्भः मुरतारम्भे स श्रियः श्रेयसेऽस्तु वः ॥ १ ॥ आसीदशीतद्युतिवंशजातक्ष्मापालमालासु दिवं गतासु । साक्षाद्विवस्वानिव भूरिधाम्ना नाम्ना यशोविग्रह इत्युदारः ॥ २ ॥ तत्सुतोऽभून्महीचन्द्रश्चन्द्रधामनिभं निजम् । येनापारमकूपारपारे व्यापारितं यशः ॥ ३ ॥ तस्याभूत्तनयो नयैकरसिकः कान्तद्विपमण्डलो विध्वस्तोद्धतवीरयोधतिमिरः श्रीचन्द्रदेवो नृपः । येनोदारतरप्रतापशमिताशेपप्रनोपद्रवं श्रीमद्दाधिपुराधिराज्यमसमं दोविक्रमेणाजितम् ॥ ४ ॥ तीर्थानि काशिकुशिकोत्तरकोशलेन्द्र- स्थानीयकानि परिपालयताधिगम्य । हेमात्मतुल्यमनिशं ददता द्विजेभ्यो येनाङ्किता वसुमती शतशस्तुलाभिः ॥ ५ ॥ तस्यात्मनो मदनपाल इति क्षितीन्द्र- चूडामणिविजयते निजगोत्रचन्द्रः । यस्याभिषेककलशोल्लसितैः पयोभिः प्रक्षालितं कलिरनःपटलं धरित्र्याः ॥६॥ तस्मादजायत निजायतबाहुवल्लि- वन्धावरुद्धनवराज्यगनो नरेन्द्रः । १. कनीजनगरसाम्राज्यम्.

९८ काव्यमाला। सान्द्रामृतद्रवमुचां प्रभवो गवां यो गोविन्दचन्द्र इति चन्द्र इवाम्बुराशेः ॥ ७ ॥ न कथमप्यलभन्त रणक्षमास्तिसूपु दिक्षु गजानथ वज्रिणः । ककुभि बभ्रमुरभ्रमुवल्लभप्रतिभटा इव यस्य घटागजाः ॥ ८ ॥ अजनि विजयचन्द्रो नाम तस्मान्नरेन्द्रः सुरपतिरिव भूभृत्पक्षविच्छेददक्षः। भुवनदलनहेलाहर्म्यहम्मीरनारी- नयनजलदधाराधौतभूलोकतापः ॥९॥ यनिश्चलत्युदधिनेमिमहीजयाय मायत्करीन्द्रगुरुभारनिपीडितेव । याति प्रजापतिपदं शरणार्थिनी भू- स्त्वङ्गत्तुरंगनिवहोत्थरजश्छलेन ॥ १० ॥ सोऽयं समस्तराजचक्रसंसेवितचरणः स च परमभट्टारकमहाराजाधिरा- नपरमेश्वरपरममाहेश्वरनिजभुजोपार्जितकन्यकुलाधिपत्यश्रीचन्द्रदेवपादानु- ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरश्रीमदनपालदेवपादा- नुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगजपतिनरप- तिराजत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीगोविन्दचन्द्रदेवपादानुध्या- तपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगजपतिनरपतिरा- ज्यत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीमद्विजयचन्द्रदेवो विजयी देव- हलीपत्तलायां नागलीग्रामनिवासिनो निखिलजनपदानुपगतानपि च रा- जराज्ञीयुवराजमन्त्रिपुरोहितप्रतीहारसेनापतिभाण्डागारिकाक्षपटलिकभिपढ़े- मित्तिकान्तःपुरिकदूतकरितुरगपत्तनाकरस्थानगोकुलाधिकारिपुरुपानाज्ञाप- यति बोधयत्यादिशति च यथा विदितमस्तु भवतां यथोपरिलिखितग्रामः सनलस्थल: सलोहलवणाकरः सगळ्परः साम्रमधूकवनः समत्स्याकरस्त- णयूतिगोचरसहितः स्वसीमासहितश्चतुरापाटविशुद्धः पञ्चविंशत्यधिकद्वाद- १. वाणीनामुत्पत्तिस्यानम्. गोविन्दचन्द्रः कविरासीदिति तात्पर्यम्.

२२ लेखः] प्राचीनलेखमाला। - शशतसंवत्सरेऽङ्केऽपि १२२५ माघीपौर्णमास्यां वसिष्ठघट्टे यमुनायां स्नात्वा विधिवन्मन्त्रदेवमुनिमनुजभूतपितृगणांस्तर्पयित्वा तिमिरपटलपाटनपटुमहस- मुष्णरोत्रिपमुपस्थायौपधिपतिशकलशेखरं समभ्यर्च्य त्रिभुवनत्रातुर्भगवतो वासुदेवस्य पूजां विधाय मातापित्रोरात्मनश्च पुण्ययशोविवृद्धयेऽसत्सं- मत्या समस्तराज[प्रक्रियोपेतयौवराज्याभिषिक्तमहाराजपुत्रश्रीजयचन्द्रदेवेन गोकर्णकुशलतापूतकरतलोदकपूर्वमा चन्द्राकै यावत्काश्यपगोत्राभ्यां का- श्यपापवत्सारनैध्रुवत्रिप्रवराभ्यां ठकुरतिहुलपौत्राभ्यां ठक्करआहेपुत्राभ्यां राउतश्रीदादेशर्मभ्यां ब्राह्मणाभ्यां शुद्धप्रसादं प्रदत्तो मत्वा यथादीयमान- भागभोगकरप्रवणिकरगोकरजातकरतुरुप्कदण्डक्षमारगदिआणणप्रभृतिसम- सनियतानियतादायानाज्ञाविधेयीभूय दास्पथ । भवन्ति चात्र धर्मानुशासिनः पौराणिक-श्लोकाः- 'भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनी ।। शझं भद्रासनं छत्रं वराचा वरवारणाः। भूमिदानस्य चिदानि फलमेतत्पुरंदर ।। पष्टिं वर्षसहस्राणि खर्गे वसति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। खदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मजति ।। गामेकां वर्णमेकं च भूमेरप्येकमङ्गुलम् ॥ हरन्नरकमाप्नोति यावदाइतसंप्लवम् ॥ वातानविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरा विषयोपभोगाः । प्राणास्तृणामनपिन्दुसमा नराणां धर्मः ससा परमहो परलोफयाने ॥ १. 'उन्नर' इति मुदितः पाठः. २. 'पायाभ्यां' इति मदितः पादः.

काव्यमाला।
.
सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।।'
लिखितं ताम्रकमिदं श्रीजयपालेन ।
(इण्डियन् आण्टिक्केरी १५७८८.) ।
(२३)
कान्यकुब्जेश्वरश्रीजयचन्द्रमहीपतेर्दानपनंम् ।
ॐ स्वस्ति ॥
अकुण्ठोत्कण्ठवैकुण्ठकण्ठपीठलुठत्करः ।
संरम्भः सुरतारम्भे स श्रियः श्रेयसेऽस्तु वः ॥ १ ॥
आसीदशीतद्युतिवंशजातक्ष्मापालमालासु दिवं गतासु ।
साक्षाद्विवस्वानिव भूरिधाम्ना नाम्ना यशोविग्रह इत्युदारः ॥ २ ॥
तत्सुतोऽभून्महीचन्द्रश्चन्द्रधामनिभं निजम् ।
येनापारमकूपारपारे व्यापारितं यशः ॥ ३ ॥
तन्याभूत्तनयो नयैकरसिकः क्रान्तद्विपन्मण्डलो
विध्वस्तोद्धतवीरयोधतिमिरः श्रीचन्द्रदेवो नृपः ।
येनोदारतरप्रभावशमिताशेपप्रजोपद्रव
श्रीमद्गाधिपुराधिराज्यमसमं दोर्विक्रमेणाजितम् ॥ ४ ॥
तीर्थानि काशिकुशिकोत्तरकोशलेन्द्र-
स्थानीयकानि परिपालयताधिगम्य ।
हेमात्मतुल्यमनिशं ददता द्विजेभ्यो
येनाङ्किता वसुमती शतशस्तुलाभिः ॥ ५ ॥
तत्यात्मनो मदनपाल इति क्षितीन्द्र-
चूडामणिविजयते निनगोत्रचन्द्रः ।
यत्याभिषेककलशोल्लसितैः पयोभिः
प्रक्षालितं कलिरजःपटलं धरित्र्याः ॥ ६ ॥

भूपानामवतीर्ण एप भुक्नोद्धाराय नाAVAIL २३ लेखः प्राचीनलेखमाला। यस्यासीद्विजयप्रयाणसमये तुङ्गाचलोच्चैश्चल- न्माद्यत्कुम्भिपदक्रमासमभरभ्रश्यन्महीमण्डले । चूडारत्नविभिन्नतालुगलितस्त्यानास्गुद्भासितः शेपः थैपमथादिव (1) क्षणमसौ क्रोडे निलीनाननः ॥७॥ तस्मादजायत निजायतवाहुवल्लि- वन्धावरुद्धनवराज्यगजो नरेन्द्रः। सान्द्रामृतद्रवमुचां प्रभवो गवां यो गोविन्दचन्द्र इति चन्द्र इवाम्बुराशेः ॥ ८॥ न कथमप्यलभन्त रणक्षमास्तिस्पु दिक्षु गजानथ वज्रिणः । कुकुभि बभ्रमुरभ्रमुवल्लभप्रतिभटा इव यस्य घटागनाः ॥ ९ ॥ अजनि विजयचन्द्रो नाम तस्मान्नरेद्रः सुरपतिरिव भूभृत्पक्षविच्छेददक्षः। भुवनदलनहेलाहर्म्यहम्मीरनारी- नयनजलदधाराधौतभूलोकतापः ॥ १० ॥ . लोकत्रयाक्रमणकेलिविशृङ्खलानि प्रख्यातकीर्तिकविवर्णितवैभवानि । यस्य त्रिविक्रमपदक्रममाझि भान्ति प्रोड्योतयन्ति बलिराजभयं यशांसि ॥ ११ ॥ यसिंश्चलत्युदधिनेमिमहीजयार्थ माद्यत्करीन्द्रगुरुभारनिपीडितेव ।। याति प्रजापतिपदं शरणार्थिनी भू- स्त्वङ्गत्तुरङ्गनिवहोत्थरजश्छलेन ॥ १२ ॥ तस्मादद्भुतविक्रमादथ जयचन्द्राभिधानः पति- VIDYA द्वैधीभावमपास्य विग्रहरुचिं धिक्कृत्य शाजाशयाः सेवन्ते यमुदग्रवन्धनभयध्वंसार्थिनः माथि: १.१३ ॥.. SHAYAN काव्यमाला। गच्छेन्मूमतुच्छां न यदि कवलयेत्कृर्मष्ठाभिवात- प्रत्यावृत्तः श्रमातो नमदाखिलफणश्वासपात्यासहसम् । उद्योगे यस्य धाबद्धरणिधरधुनीनिरिस्फारधार- भ्रश्यद्दानद्विपालीवहलभरगलद्वैर्यमुद्रः फणीन्द्रः ॥ १४ ॥ सोऽयं समस्तरामचनसंसेवितरणः स न परमभट्टारकमहाराजाधिरा जपरमेश्वरपरममाहेश्वरनिनभुनोपार्जितकन्यकुलाधिपत्यश्रीचन्द्रदेवपादानु ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरश्रीमदनपालदेवपा- दानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वराश्वपतिगनपति- नरपतिरानत्रयाधिपतिविविधविद्याविनारवानस्पतिश्रीगोविन्दचन्द्रदेवपा- दानुध्यातपरमभट्टारकमहाराजाधिरानपरमेश्वरपरममाहेश्वराश्वपतिगजपति- नरपतिरानत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीविनयचन्द्रदेवपादानु- ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरपरममाहेश्वरावपतिगनपतिनरप- तिरानत्रयाधिपतिविविधविद्याविचारवाचस्पतिश्रीमजयचन्द्रदेवो विजय असुरेसपत्तलायां केमोलीग्रामनिवासिनो निखिलजनपदानुपगतानपि च रानरा. शीयुवराजमन्त्रिपुरोहितप्रतीहारसेनापतिभाण्डागारिकाक्षपटलिकभिपनैमि- त्तिकान्तःपुरिकदूतकरितुरगपत्तनाकरस्थानगोकुलाधिकारिपुरुषानाज्ञापयति बोधयत्यादिशति च । विदितमस्तु भवतां यथोपरिलिखितग्रामः सजलस्थल: सलोहलवणाकरः समत्स्याकरः सगळ्परः सगिरिगहननिधानः समधूका. म्रवनवाटिकाविटपतृणयूतिगोचरपर्यन्तः सोधिश्चतुराघाटविशुद्धः स्वसी- मापर्यन्तस्त्रिचत्वारिंशदधिकद्वादशशतसंवत्सरे आपाढे मासि शुक्लपक्षे स- तम्यां तिथो रविदिने अङ्कतोऽपि संवत् १२४३ आपादमुदि ७ रवी अयेह श्रीमद्वाराणस्यां गङ्गायां स्नात्वा विधिवन्मन्त्रदेवमुनिमनुजभूतपितृ- गणांस्तर्पयित्वा तिमिरपटलपाटनपटुमहसमुप्णरोचिपमुपस्थायौपधिपतिशक- लशेखरं समभ्यर्च्य त्रिभुवनत्रातुर्भगवतो वासुदेवस्य पूनां विधाय प्रचुरपा. यसेन हविषा हविर्भुजं हुत्वा मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेऽस्मा- भिगोकर्णकुशलतापूतकरतलोदकपूर्वकं भारद्वाजगोत्राय भारद्वाजाङ्गिरसबा- २३ लेतः] प्राचीनलेखमाला। हस्पत्येति विप्रवराय राउतश्रीगाढलेपौत्राय राउतश्रीदूंटापुत्राय डोडराउ- तश्रीअणंगाय चन्द्राकै यावच्छासनीकृत्य प्रदत्तो मत्वा यथादीयमानभाग- भोगकरप्रवणिकरप्रभृतिनियतानियतसमस्तदायानानाविधेयीभूय दास्यथेति । भवन्ति चात्र श्लोकाः- भूमि यः प्रतिगृहाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणी नियतं स्वर्गगामिनी ॥ शङ्ख भद्रासनं छत्रं वराधा वरवारणाः । भूमिदानस्य चिहानि फलमेतत्पुरंदर ।। पष्टि वर्पसहस्राणि स्वर्गे वसति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति ।। तडागानां सहस्रेण वाजपेयशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुद्ध्यति । वारिहीनेप्वरण्येपु गुप्ककोटरवासिनः । कृष्णसाश्च जायन्ते देवब्रह्मवहारिणः ।। न विषं विपमित्याहुब्रह्मस्वं विपमुच्यते । विपमेकाकिनं हन्ति ब्रह्मखं पुत्रपौत्रकम् ॥ वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरा विपयोपभोगाः । प्राणास्तृणाग्रनलविन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ।। (इण्डियन् आण्टिवेरी १५/११-१२) १०४ काव्यमाला । (२४) महाराजश्रीमहेन्द्रपालस्य दानपत्रम् । (पत्रोपरि राजमुद्रा) परमवैष्णवो महाराजश्रीदेवशक्तिदेवस्तस्य पु- त्रस्तत्पादानुध्यातः श्रीभूयिकादेव्यामुत्पन्नः प- रममाहेश्वरी महाराजश्रीवत्सराजदेवस्तस्य पुत्र- स्तत्पादानुध्यातः श्रीसुन्दरीदेव्यामुत्पन्नः परम- भगवतीभक्तो महाराजश्रीनागभटदेवस्तस्य पु- त्रस्तत्पादानुध्यातःश्रीमदीसटादेव्यामुत्पन्नः पर- मादित्यभक्तो महाराजश्रीरामभद्रदेवस्तस्य पुत्र- स्तत्पादानुध्यातः श्रीमदप्पादेव्यामुत्पन्नः परम- भगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्त- त्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवः ॥ (दानपत्रम्) स्वस्तिश्रीमहोदयसमावासितानेकगोहस्त्यश्वरथपत्तिसंपन्नस्कन्धावारात्पर- मवैष्णवो महाराजश्रीदेवशक्तिदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीभूयिका- देव्यामुत्पन्नः परममाहेश्वरी महाराजश्रीवत्सराजदेवस्तस्य पुत्रस्तत्पादानु- ध्यात. श्रीसुन्दरीदेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीनागभटदेव- स्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदीसटादेव्यामुत्पन्नः परमादित्यभक्तो महा- राजश्रीरामभद्रदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदप्पादेव्यामुत्पन्नः पर- मभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रतत्पादानुध्यातः श्रीचन्द्र- भट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवः श्रा- वस्तीभुक्तौ श्रावस्तीमण्डलान्तःपातिवालयिकाविषयसंबद्धपानीयकग्रामसमुप. १. महोदयमिति कान्यकुब्ज(कनौज)नगरस्य नामान्तरम्. २. श्रावस्तीति 'सा. हेतमाहेत'नाना प्रसिद्धो मामो 'गोंडा'प्रान्ते वर्तते.

२५ लेसः] भाचीनलेखमाला। गतान्सर्वानेव यथास्थाननियुक्तान्प्रतिवासिनश्च समाज्ञापयति । उपरिलि- खितग्रामः सर्वायसमेत आचन्द्रार्कसितिकालं पूर्वदत्तदेवव्रमदेयवर्जितो मया पिनोः पुण्यामिपद्धये सावर्णसगोत्रकौथुमच्छन्दोगसब्रह्मचारिभट्टपद्मसाराय सवितुः कुम्भसंक्रान्तौ स्नात्वा प्रतिग्रहेण प्रतिपादित इति विदित्वा भ- बद्भिः समनुमन्तव्यम् । प्रतिवासिभिरप्याज्ञाश्रवणविधेयैर्भूत्वा सर्वाया अस्स समुपनेया इति । श्रीमद्भाकप्रयुक्तस्य शासनस्य स्थिरायतेः । संवत्सराणां १०० ५० ५ माघमुदि १० निबद्धम् ॥ (इण्डियन् आण्टिकेरी १५।१०५-१३) (२५) महाराजश्रीविनायकपालस्य दानपत्रम् । (पोपरि राजमुद्रा) परमवैष्णवो महाराजश्रीदेवशक्तिदेवस्तस्य पुत्रस्तत्पा. दानुध्यातः श्रीभूयिकादेव्यामुत्पन्नः परममाहेश्वरो महाराजश्रीवत्सराजदेवस्तस्य पुनस्तत्पादानुध्यातः श्रीसुन्दरीदेव्यामुत्पन्नः परमभगवतीभक्तो महाराज- श्रीनागभटदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदी- सटादेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीरामभ- द्रदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदप्पादेव्यामुत्प- नः परमभगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्र- स्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः पर- मभगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवस्तस्य पुत्र- स्तत्पादानुध्यातः श्रीदेहनागादेव्यामुत्पन्नः परमवै- १. अन संवत्सराणां संकलने १५५ इय सल्या समुत्पद्यते. अयं सुप्रसिद्धस्य कान्यकुन्जमहीपतेर्हर्षवर्धनस्य संवत्सरः. हर्षवर्धनश्च ६०६ खिस्तान्द आसोदित्येतेषु वर्षेनु पूर्वसंख्यायो योजितेषु ७६१ मितः सिस्तान्दो दानपत्रलेखनकाल इति प्लोटप. ण्डितो यक्ति.

काव्यमाला। प्णवो महाराजश्रीमोजदेवस्तस्य भ्राता श्रीमहेन्द्रपा- लदेवपुत्रस्तयोः पादानुध्यातः श्रीमहीदेवीदेव्यागुत्प- न्नः परमादित्यभक्तो महाराजश्रीविनायकपालदेवः ॥ (दानपत्रम्) ॐ स्वस्ति महोदयसमावासितानेकगोहस्त्यश्वरथपत्तिसंपन्नस्कन्धावारा- त्परमवैष्णवो महाराजश्रीदेवशक्तिदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीभू- यिकादेव्यामुत्पन्नः परममाहेश्वरी महाराजश्रीवत्सराजदेवस्तस्य पुत्रस्त- त्पादानुध्यातः श्रीसुन्दरीदेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीनाग- भटदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदीसटादेव्यामुत्पन्नः परमादित्य- भक्तो महाराजश्रीरामभद्रदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदप्पादेव्या- मुत्पन्नः परमभगवतीभक्तो महारानश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीचन्द्रभट्टारिकादेव्यामुत्पन्नः परमभगवतीभक्तो महाराजश्रीमहेन्द्रपाल- देवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीदेहनागादेव्यामुत्पन्नः परमवैष्णवो महा- राजश्रीभोजदेवस्तस्य भ्राता श्रीमहेन्द्रपालदेवपुत्रस्तयोः पादानुध्यातः श्रीमहीदेवीदेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीविनायकपालदेवः प्रतिष्ठानभुक्तौ वाराणसीविषयसंबद्धकाशीपारपथकप्रतिबद्धटिकरिकाग्राम- समुपगतान्सर्वानेव यथास्थाननियुक्ताप्रतिवासिनश्च समाज्ञापयति । उप- रिलिखतग्रामः सर्वायसमेत आ चन्द्रार्कक्षितिकालं पूर्वदत्तदेवब्रह्मदेयवर्जितो मया पित्रोः पुण्याभिवृद्धये दभिसगोत्राथर्वसब्रह्मचारिभट्टभुल्लाकाय षष्ठ्यां गङ्गायां स्नात्वा प्रतिग्रहेण प्रतिपादित इति विदित्वा भवद्भिः समनुम- न्तव्यः। प्रतिवासिभिरप्याज्ञाश्रवणविधेयैर्भूत्वा सर्वाया अस्य समुपनेया इति । श्रीहर्षेण प्रयुक्तस्य शासनस्य स्थिरायतेः । संवत्सराणां १०० ८० ८ फाल्गुनबदि ९ निबद्धम् ।। (इण्डियन् आण्टिक्वेरी १५।१३०-४१) १. एतत्प्रतिष्ठानं नाम नगरं चन्द्रवंश्यमहीपतीनां राजधानी प्रयागसमीपे कचिदा. सोत. 'एतद्भगवत्या भागीरथ्या यमुनासङ्गपावनेषु सलिलेषु पुण्येष्वक्लोकयत इवा. स्मानं प्रतिष्ठानस्य' इति विक्रमोर्वश्यां द्वितीयेऽहे उर्वश्युक्तिः. दक्षिणदेशे पैठणनामा प्रसिद्ध प्रतिष्टानं वन्यत. ..

२६ लेखः] प्राचीनलेखमाला। (२६) मन्दसोरनगरस्थसूर्यमन्दिरमशस्तिः। सिद्धम् ॥ यो वृत्त्यर्थमुपास्यते सुरगणः सिद्धेश्च सिधिभिः ानकाय(म्य)परैविधेयविषयमोक्षार्थिभियोगिभिः । भभया तीव्रतपोधनैश्च मुनिभिः शापप्रसादक्षमै. हेतुर्यों जगतः क्षयाभ्युदययोः पायात्स को भास्करः ॥ तत्त्वं ज्ञानविदोऽपि यस्य न विदुर्ब्रह्मर्पयोऽभ्युद्यताः कृत्स्नं यश्च गभस्तिभिः प्रविसृतैः पुष्णाति लोकत्रयम् । गन्धर्वामरसिद्धकिनरनरैः संस्तूयतेऽभ्युत्थितो भक्तेभ्यश्च ददाति योऽभिलपितं तसै सवित्रे नमः ॥ यः प्रत्यहं प्रतिविभात्युदयाचलेन्द्र- विस्तीर्णतुङ्गशिखरस्खलितांशुमालः । सीबाङ्गनाजनकपोलतलाभिरामः पायात्स वः सुकिरणाभरणो विवस्वान् ।। कुसुमभरानततरुवरदेवकुलसभाविहाररमणीयात् । लाटविषयान्नगावृतशैलाजगति प्रथितशिल्पाः ॥ से(तद्देशपार्थिवगुणापहृताः प्रकाश- मध्वादिजान्यविरलान्यसुखान्यपास्य । जातादरा देशपुरं प्रथमं मनोमि- रन्वागताः ससुतबन्धुजनाः समेत्य ।। मत्तभगण्डतटविच्युतदानबिन्दु- सिक्तोपलाचलसहस्रविभूषणायाः । १. 'दशपुरं' इति नानोऽपभ्रंशो 'दसोर' इति तस्य च क्रमेण मन्दसोर' इति जात इत्याधुनिकाः.

१०८ काव्यमाला। पुप्पावतंसतरुम(ख)ण्डंवतंसकाया भूमेः परं तिलकभूतमिदं क्रमेण ।। तटोत्यवृक्षच्युतनैकपुप्पविचित्रतीरान्तनलानि भान्ति । प्रफुल्लपद्माभरणानि यत्र सरांसि कारण्डवसंकुलानि ।। विलोलवीचीचलितारविन्दपतद्नःपिञ्जरितश्च हंसः। खकेसरोदारभरावभुग्नः क्वचित्सरांस्यम्बुरुहेश्च भान्ति ॥ स्वपुप्पभारावनतैनगेन्द्रर्मदप्रगल्भालिकुलस्वनैश्च । अजस्रगाभिश्च पुराङ्गनाभिर्वनानि यस्मिन्समलंकृतानि ।। चलत्पताकान्यबलासनाथान्यत्यर्थशुक्लान्यधिकोन्नतानि । तडिल्लताचित्रसिताभ्रकूटतुल्योपमानानि गृहाणि यत्र । कैलासतुङ्गशिखरप्रतिमानि चान्या- न्याभान्ति दीर्घवलभीनि सवेदिकानि । गान्धर्वशब्दमुखराणि निविष्टचित्र- कर्माणि लोलकदलीवनशोभितानि ।। प्रासादमालाभिरलंकृतानि धरां विदार्येव समुत्थितानि । विमानमालासदृशानि यत्र गृहाणि पूर्णेन्दुकरामलानि ।। यद्भात्यभिरम्यसैरिहयेन चपलोमिणा समुपगूढम् । रहसि कुचशालिनीभ्यां प्रीतिरतिभ्यां सराङ्गमिव ।। सत्पक्षमादमशमव्रतशोचधैर्य- स्वाध्यायवृत्तविनयस्थितिबुद्धयुपेतैः । विद्यातपोनिधिभिरस्मयितेश्च विप्रै- र्यशाजते ग्रहगणैः खमिव प्रदीप्तैः ॥ अथ समेत्य निरन्तरसंगतेरहरहः प्रविनृम्भितसौहृदाः । पतिभिः सुतवत्प्रतिमानिताः प्रमुदिता न्यवसन्त सुखं पुरे ।। 1. सिवानी' 'सुपली' इति च नदीद्वयं मन्दसौरनगरसमीपस्थम्, २. ते पूर्वोक्ता लाटविषयादागता: पशिल्पिना, २६ लेख: प्राचीनलेखमाला। श्रवणसुभगं धानुर्वयं दृदं परिनिष्ठिताः मुचरितशतासङ्गाः केचिद्विचित्रकथाविदः । विनयनिभृताः सम्यग्धर्मप्रसङ्गपरायणाः प्रियमपरुपं पथ्यं चान्ये क्षमा वहु भापितुम् ।। केचित्स्यकर्मण्यधिकास्तथान्यविज्ञायते ज्योतिपमात्मवद्भिः । अद्यापि चान्ये समरप्रगल्भाः कुर्वन्त्यरीणामहितं प्रसद्य ।। प्राज्ञा मनोज्ञवधवः(पुपः) प्रथितोरुवंशा वंशानुरूपचरिताभरणास्तथान्ये । सत्यवताः प्रणयिनामुपकारदक्षा विस्रम्भपूर्वमपरे दृढसौहृदाश्च ।। विनितविषयसङ्गैर्धर्मशीलस्तथान्यै- मुंदुभिरधिकसत्त्वैर्लोकयात्राम(पोरैश्च । स्वकुलतिलकभूतैर्मुक्तरागैरुदार- रधिकमभिविभाति श्रेणिरेवप्रकारैः ।। तारुण्यकान्त्युपचितोऽपि मुवर्णहार- ताम्बूलपुप्पविधिना समलंकृतोऽपि । नारीजनः प्रियमुपैति न तावदश्यां () यावन्न पट्टमयवस्त्रयुगानि धत्ते ॥ स्पर्शवता वर्णान्तरविभागचित्रेण नेत्रसुभगेन । यैः सकलमिदं क्षितितलमलंकृतं. पट्टवस्त्रेण ॥ विद्याधरीरुचिरपल्लवकर्णपूर- वातेरितास्थिरतरं प्रविचिन्त्य लोकम् । मानुप्यमर्थनिचयांश्च तथा विशाला स्तेषां शुमा मतिरभूदचला ततस्तु ।। १. सजातीयानां शिल्पिनां समूहः.

११० काव्यमाला। चतुःसमुद्रान्तविलोलमेराला सुमेरुकैलासवृहत्पयोधराम् । वनान्तवान्तम्पुटपुष्पहासिनी कुमारगुप्ते गृथिवीं प्रशासति ।। समानधीः शुक्रवृहस्पतिभ्यां ललामभूतो भुवि पार्थिवानाम् । रणेषु यः पार्थसमानका बभूव गोप्ता नृपविश्ववर्मा ।। दीनानुकम्पनपरः कृपणातवर्ग- संघा(?)प्रदोऽधिकदयालुरनाथनाथः । कल्पद्रुमः प्रणयिनामभयप्रदश्च भीतस्य यो जनपदस्य च वन्धुरासीत् ॥ तस्यात्मनः स्थैर्यनयोपपन्नो पन्धुप्रियो बन्धुरिव प्रजानाम् वन्ध्वतिहर्ता नृपयन्धुवर्मा द्विदृप्तपक्षक्षपणैकदक्षः ॥ कान्तो युवा रणपटुर्विनयान्वितश्च रागापि सन्नुपसृतो न मदैः स्मयाद्यैः । शृङ्गारमूर्तिरभिभात्यनलंकृतोऽपि रूपेण यः कुसुमचाप इव द्वितीयः ।। वैधव्यतीवव्यसनक्षतानां स्मृत्वा यमद्याप्यरिसुन्दरीणाम् । भयाद्भवत्यायतलोचनानां धनस्तनायासकरः प्रकम्पः ॥ तस्मिन्नेव क्षितिपतिवृषे बन्धुवर्मण्युदारे सम्यक्स्फीतं दशपुरमिदं पालयत्युन्नतांसे । शिल्पावाप्तधनसमुदयः पट्टवायैरुदारं श्रेणीभूतैर्भवनमतुलं कारितं दीप्तरश्मेः ॥ विस्तीर्णतुङ्गशिखरं शिखरिप्रकाश- मभ्युद्गतेन्द्वमलरश्मिकलापगौरम् । यद्भाति पश्चिमपुरस्य निविष्टकान्त- चूडामणिप्रतिसमं नयनाभिरामम् ॥ रामासनाथरचने दरभास्करांशु- वहिप्रतापसुभगे जललीनमीने । १. हिन्दुस्तानीभाषाया 'पटुवा' इति प्रसिद्धैः.

२६ लेखः] प्राचीनलेखमाला। चन्द्रांशुहर्म्यतलचन्दनतालवृन्त- हारोपभोगरहिते हिमदग्धपद्मे ॥ रोधप्रियंगुतरुकुन्दलताविकोश- पुप्पासवप्रमुदितालिक(कु)लाभिरामे । काले तुपारकणकर्कशशीतवात- वेगप्रनृत्तलवलीनगण(न)कशाखे । स्मरवशगतरुणजनवल्लभाङ्गनाविपुलकान्तपीनोरु-। स्तननघनघनालिङ्गननिर्भत्सिततुहिनहिमपाते ॥ . मालवानां गणस्थित्या याते शंतचतुष्टये । त्रिनवत्यधिकेऽब्दानां(४९३)ऋतौ सेव्यघनस्व(स्त)ने ॥ सहस्यमासशुक्लस्य प्रशस्तेऽहि त्रयोदशे । मङ्गलाचारविधिना प्रासादोऽयं निवेशितः ।। बहुना समतीतेन कालेनान्यैश्च पार्थिवैः । व्यशीर्यतैकदेशोऽस्य भवनस्य ततोऽधुना ।। खयशोवृद्धये. सर्वमत्युदारमुदारया । संस्कारितमिदं भूयः श्रेण्या भानुमतो गृहम् ।। अत्युन्नतमवदातं नभः स्पृशन्निव मनोहरैः शिखरैः । शशिभान्वोरभ्युदयेप्वमलमयूखायतनभूतम् ।। वत्सरशतेषु पञ्चसु विंशत्यधिकेपु नवसु चान्देपु(५२९)। यातेप्वभिरम्यतपस्यमासशुक्ल द्वितीयायाम् ।। सप्टैरशोकतरुकेतकसिन्दुवार- लोलातिमुक्तकलतामदयन्तिकानाम् । पुप्पोद्गमैरभिनवैरधिगम्य नून- मैक्यं विजृम्भितशरे हरधूतदेहे ॥ मधुपानमुदितमधुकरकुलोपगीतनगणै(नै)कपृथुशाखे । काले नवकुसुमोद्गमदन्तुरकान्तप्रचुररोधे । १. कविसंपदायविरुद्धोऽयं पूर्वोत्तरार्धयोः समासः. २. विक्रममवत्सरोऽयम्.

११२
काव्यमाला ।
शशिनेव नभो विमलं कौस्तुभमणिनेव शारिणो वक्षः ।
भवनवरेण तयेदं पुरमखिलमलंकृतमुदारम् ॥
अमलिनशशिलेखादन्तुरं पिङ्गलानां
परिवहति समूहं यावदीशो जटानाम् ।
विकट(च)कमलमालामंससतां न शाही
भवनमिदगुदारं शाश्वतं तावदस्तु ॥
श्रेण्यादेशेन भात्या न कारितं भवनं रवः ।
पूर्वा(:) चेयं प्रयनेन रचिता वत्सभद्दिना ॥
स्वस्ति कर्तृलेखकवाचकश्रोतृभ्यः । सिद्धिरस्तु ॥
(इण्डियन् आण्टिकरी १५।१९४-२०१)
(२७)
मन्दसोरनगरकूपस्थितप्रशस्तिः ।
सिद्धम् ॥
स जयति जगतां पतिः पिनाकी सितरवगीतिपु यस्य दन्तकान्तिः ।
द्युतिरिव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्यदश्च विश्वम् ॥
स्वयंभूर्भूतानां स्थितिलयसमुत्पत्तिविधिपु
प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये ।
पितृत्वं चानीतो नगति गरिमाणं गमयता
स शंभुर्भूयांसि प्रतिदिशतु भद्राणि भवताम् ॥
फणमणिगुरुमाराकान्तिदूरावननं
स्थगयति रुचमिन्दोमण्डलं यस्य मूनाम् ।
स शिरसि विनिवन्नन्रन्ध्रिणीमस्थिमाला
सृजतु भवसृनो वः क्लेशभङ्गं भुजंगः ॥
१.शिवस्य.

२७ लेख
प्राचीनलेखमाला।
पष्टया सहजैः सगरात्मनानां खातः खतुल्यां रुचमादधानः ।
अस्योदपन्ना(पाना)धिपतेश्चिराय यशांसि पायात्पयसां विधाता ॥
अथ जयति जनेन्द्रः श्रीयशोधर्मनामा
प्रमदवनमिवान्तः शत्रुसैन्यं विगाह्य।
घणकिसलयभडैर्योऽङ्गभूषां विधत्ते
तरुणतरुलतावद्वीरकीर्तीविनाम्य ।।
आजौ निती(ता) विजयते जगतीं पुनश्च
श्रीविष्णुवर्धननराधिपतिः स एव ।
प्रख्यात औलिकरलाञ्छन आत्मवंशो
येनोदितोदितपदं गमितो गरीयः ॥
प्राचो नृपान्मुबृहतश्च बहूनुदीचः
साम्ना युधा च वशगान्प्रविधाय येन ।
नामापरं जगति कान्तमदो दुरापं
राजाधिराजपरमेश्वर इत्युदूढम् ।।
निग्धश्यामाम्बुदाभैः स्थगितदिनकृतो यज्वनामाज्यधूमै-
रम्भो मेध्यं(ध्यं) मघोनावधिषु विदधता गाढसंपन्नसस्यैः ।
संहर्षाद्वाणिनीनां कररभसहृतोद्यानचूताङ्कुरामा
रानन्वन्तो रमन्ते भुजविनितभुवा भूरयो येन देशाः ।।
यस्योत्केतुभिरुन्मदद्विपकरव्याविद्धलोभद्रुमै-
रुद्भूतेन वनाध्वनि ध्वनिनदद्विन्ध्याद्विरन्धैलैः ॥
वालेयच्छविधूम(सोरेण रजसा मन्दांशु संलक्ष्यते
पर्यावृत्तशिखण्डिचन्द्रक इव ध्यामं रवेर्मण्डलम् ।।
तस्य प्रभोवंशकृतां नृपाणां पादाश्रयाद्विश्रुतपुण्यकीर्तिः ।
भृत्यः स्वनैभृत्यनितारिपटू आसीद्व(?)सीयान्किल पष्ठिदत्तः॥
..
१. फूपस्य. २. खीणाम्. ३. गर्दभरान्तिमलिनेन.

काव्यमाला
हिमवत इव गाङ्गतुङ्गनम्रः प्रवाहः
शशभृत इव रेवावारिराशिः प्रथीयान् ।
परमभिगमनीयः शुद्धिमानन्ववायो
यत उदित गरिम्णस्तायते नैगमानाम् ॥
तत्यानुकूलः कुलनात्कलनात्सुतः प्रसूतो यशसां प्रसूतिः ।
हरेरिवांश वशिनं वराह वराहदासं यमुदाहरन्ति ।।
सुकृतिविपयितुझं रूढमूलं धरायां
स्थितिमपगतभङ्गां स्थेयसीमाधानम् ।
गुरुशिग्वरमिवातस्तत्कुलं स्वात्मभूत्या
रविरिव रविकीर्तिः सुप्रकाशं व्यवत्त ॥
विभ्रता शुभ्रमभ्रंशि स्मात वमोचितं सताम् ।
न विसंवादिता येन कलावपि कुलीनता ॥
धुतधीदीधितिध्वान्तान्हविर्भुज इवाध्वरान् ।
भानुगुप्ता ततः साध्वी तनयांस्त्रीनजीजनत् ॥
भगवदोप इत्यासीत्प्रथमः कार्यवर्मसु ।
आलम्बनं बान्धवानामन्धकानामिवोद्धवः ॥
बहुनयविधिवेधा गहरेऽप्यर्थमार्गे
विदुर इव विदूरं प्रेक्षया प्रेक्षमाणः ।
वचनरचनबन्धे संस्कृतमाकृते यः
कविभिरुदितरागं गीयते गीरभिज्ञः ॥
प्रणिधिगनुगन्त्रा यस्य बौद्धेन चक्षिणा
न निशि तनु दवीयो नास्त्यदृष्टं धरित्र्याम् ।
पदमुदयि दधानोऽनन्तरं तस्य चाभू-
त्स भयमभयदत्तो नाम चिन्वन्प्रजानाम् ॥
विन्ध्यस्यावन्थ्यकर्मा शिखरतटपतत्पाण्डुरेवाम्बुराशे-
गोलाङ्कलैः सहेल प्लुतिनमिततरोः पारियात्रस्य चाद्रेः ।
१. वैश्यानाम्. २. यादवानाम्.

२७ लेखः] प्राचीनलेखमाला । आसिन्धोरन्तरालं निशुचिसनिवाध्यासितानेकदेशं राजस्थानीयवृत्त्या सुरगुरुरिव यो वणिनां भूतये यात् ।। विहितसकलवर्णासंकरं शान्तडिम्ब कृत इव कृतमेतद्येन राज्यं निराधि । स धुरमयमिदानी दोपकुम्भस्य सूनु- गुरु वहति तदृढां धर्मतो धर्मदोषः ।। खमुखमनतिवान्दुर्गमेऽध्वन्यसङ्गं धुरमतिगुरुभारां यो दधद्भर्तुर । वहति नृपतिवेपं केवलं लक्ष्ममानं वैलिनमिव विलम्ब कैम्बल बाहुलेयः ।। उपहितहितरक्षामण्डनो जातिरत्न र्भुज इव पृथुलांसस्तस्य दक्षः कनीयान् । महदिदमुदपानं खातयामास वित्र- च्छ्रुतिहृदयनितान्तानन्दिनिर्दोपनामा ॥ मुखाश्रेयच्छायं परिणतिहितस्वादुफलदं गजेन्द्रेणारुग्णं द्रुममिव कृतान्तेन बलिना । पितृव्यं प्रोद्दिश्य प्रियमभयदत्तं पृथुधिया प्रथीयस्तेनेदं कुशलमिह कोपरनितम् ॥ पंञ्चसु शतेषु शरदां यातेप्वेकान्ननवतिसहितेषु (१८९) । मालवगणस्थितिवशात्कालज्ञानाय लिखितेषु ।। यस्मिन्काले कलमृदुगिरां कोकिलानां प्रलापा । भिन्दन्तीव सरशरनिभाः प्रोषितानां मनांसि । भृङ्गालीनां ध्वनिरनुवनं भार(तार)मन्द्रश्च यस्मि- साधूतज्यं धनुरिव नदच्छूयते पुप्पकेतोः ॥ १./वलियुक्तम्. २. विशेषण लम्बमानम्. ३. सानाम्. ४. वृषभः. ५. ५३३-३४ मिते निस्ताब्द इति लीटपण्डितः, २ काव्यमाला। प्रियतमकुपितानां रामयन्बद्धरागं किसलयमिव मुग्धं मानसं मानिनीनाम् । उपनयति नभस्वान्मानभङ्गाय यस्मि- न्कुसुमसमयमासे तत्र निर्मापितोऽयम् ॥ यावत्तुङ्खैरुदन्वान्किरणसमुदयं(या)सङ्गकान्तं तर.- रालिङ्गन्निन्दुबिम्बं गुरुभिरिव भुजैः संविधत्ते सुहृत्ताम् । विभ्रत्सौधान्तलेखावलयपरिगति मुण्डमालामिवायं सत्कूपस्तावदास्ताममृतसमरखच्छविप्पन्दिताम्बुः ।। धीमान्दक्षो दक्षिणः सत्यसंधो धीमाञ्छूरो वृद्धसेवी कृतज्ञः । बद्धोत्साहः स्वामिकार्येप्वखेदी निर्दोषोऽयं पातुं धर्म चिराय ॥ उत्कीर्णा गोविन्देन ॥ (इण्डियन् आण्टिक्केरी १५४२१२-२२८) (२८) यशोधर्ममहीपतेः प्रशस्तिः । वेपन्ते यस्प भीमस्तनितमयसमुद्भान्तदैत्या दिगन्ताः शृङ्गाघातैः सुमेरोविघटितपदः कंदरा यः करोति । उक्षाणं तं दधानः क्षितिधरतनयादत्तपञ्चाङ्गुलाकं द्राक्षिष्ठः शूलपाणेः क्षपयतु भवतां शत्रुतेजांसि केतुः ॥ आविर्भूतावलेपैरविनयपटुभिलहिताचारमार्ग- मोहादैदंयुगीनैरपशुभमतिभिः पीड्यमाना नरेन्द्रः । यस्य मा शाङ्गपाणेरिव कठिनधनुर्व्याकिणाङ्कप्रकोष्ठं बाहुं लोकोपकारबतसफलपरिस्पन्दधीरं प्रपन्ना ॥ निन्द्याचारेषु योऽसिन्विनयमुपि युगे कल्पनामात्रवृत्त्या राजस्वन्येषु पांशुस्तिव कुसुमबलिर्नावभासे प्रयुक्तः । स श्रेयोधाम्नि सम्राडिति मनुभरतालर्कमांधातृकल्पे कल्याणे हेनि मास्वान्मणिरिव सुतरां भ्राजते यत्र शब्दः ।। . t T

२८ लेखः]
प्राचीनलेखमाला।
११७
ये भुक्ता गुप्तनाथैर्न सकलवसुधाक्रान्तिदृष्टप्रतापै-
नाज्ञा हूणाधिपानां क्षितिपतिमुकुटाध्यासिनी यान्प्रविष्टा ।
देशांस्तान्धन्वशैलद्रुमगहनसरिद्वीरवाहूपगूढा-
वीर्यावस्कन्नराज्ञः स्वगृहपरिसरावज्ञया यो भुनक्ति ।।
आ लौहित्योपकण्ठात्तलवनगहनोपत्यकादा महेन्द्रा-
दा गङ्गाश्लिष्टसानोस्तुहिनशिखरिणः पश्चिमादा पयोधेः ।
सामन्तैर्यस्य बाहुद्रविणहृतमदैः पादयोरानमद्भि-
श्रूडारत्नांशुराजिव्यतिकरशबला भूमिभागाः क्रियन्ते ।।
स्थाणोरन्यत्र येन प्रणतिकृपणतां प्रापितं नोत्तमाङ्गं
यस्याश्लिष्टो भुजाभ्यां वहति हिमगिरिर्दुर्गशब्दाभिमानम् ।
नीचैस्तेनापि यस्य प्रणतिभुजवलावर्जनक्लिष्टमूर्धा
चूडापुप्पोपहारैमिहिरकुलनृपेणार्चितं पादयुग्मम् ।।
गा(द्या)मेवोन्मातुमूर्व विगणयितुमिव ज्योतिषां चक्रवालं
निर्देष्टुं मार्गमुच्चैर्दिव इव सुकृतोपार्जितायाः स्वकीर्तेः ।
तेनाकल्पान्तकालावधिरवनिभुना श्रीयशोधर्मणायं
स्तम्भः स्तम्भाभिरामस्थिरभुजपरिघेणोच्छ्रितिं नायितोऽत्र ।।
लाध्ये जन्मास्य वंशे चरितमवहरं दृश्यते कान्तमसि-
न्धर्मस्यायं निकेतश्चलति नियमितं नामुना लोकवृत्तम् ।
इत्युत्कर्ष गुणानां लिखितुमिव यशोधर्मणश्चन्द्रबिम्बे
रागादुत्क्षिप्त उच्चैर्भुज इव रुचिमान्यः पृथिव्या विभाति ॥
इति तुष्दषया तस्य नृपतेः पुण्यकर्मणः ।
वासुलेनोपरचिताः श्लोकाः ककस्य सूनूना ।।
उत्कीर्णा गोविन्देन ॥
(इण्डियन् आण्टिकरी १५:२५३-२५५)

काव्यमाला।
(२९)
श्रीनारायणपालदेवस्य दानपत्रम् ।
ॐ स्वस्ति।
मैत्री कारुण्यरत्नप्रमुदितादयः प्रेयसी संदधानः
सम्यक्संबोधिविद्यासरिदमलनलक्षालिताज्ञानपदः ।
जित्वा यः कामकारिप्रभवमभिभवं शाश्वती प्राप शान्ति
स श्रीमाल्लोकनायो नयति दशयलोऽन्यश्च गोपालदेवः॥
लक्ष्मी जन्मनिकेतनं समकरो वोढुं क्षमः क्ष्मामरं
पक्षच्छेदभयादुपस्थितवतामेकाश्रयो भूभृताम् ।
मर्यादापरिपालनकनिरतः शौर्यालयोऽसादभू-
हुग्धाम्भोधिविलासहासिमहिमा श्रीधर्मपालो नृपः॥
जित्वेन्द्रराजप्रभृतीनरातीनुपार्जिता येन महोदयश्रीः ।
दत्ता पुनः सा बलिनार्थयिने चक्रायुधायानतिवामनाय ।
रामस्येव गृहीतसत्यतपसस्तस्यानुरुपो गुणैः
सौमित्रेरुदपादि तुल्यमहिमा चारपांलनामानुजः ।
यः श्रीमानयविक्रमैकवसतिर्धातुः स्थितः शासने
शून्याः शत्रुपताकिनीभिरकरोदेकातपत्रा दिशः।
तस्मादुपेन्द्रचरितै गतीं पुनानः
पुत्रो बभूव विनयी जयपालनामा ।
धर्मद्विषां शमयिता युधि देवपाले
यः पूर्वजे भुवनराज्यमुखान्यनैपीत् ।।
यस्मिन्भ्रातुनिदेशाद्वलवति परितः प्रस्थिते जेतुमाशाः
सीदन्नाम्नैव दूरान्निनपुरमजहादुत्कलानामधीशः ।
आसांचक्रे चिराय प्रणयिपरिवृतो विभ्रदुच्चेन मूर्धा
राजा प्राग्ज्योतिपाणामुपशमितसमित्संकयां यस्य चाज्ञाम् ॥

१९ लेखः]
प्राचीनलेखमाला।
श्रीमान्विग्रहपालस्तत्सूनुरजातशत्रुरिव जातः ।
शत्रुवनिताप्रसाधनविलोपिविमलासिजलधारः ॥
रिपवो येन गुर्वीणां विपदमास्पदीकृताः ।
पुरुपायुपदीर्याणां सुहृदः संपदामपि ॥
लजेति तस्य जलधेरिव जझुकन्या
पत्नी बभूव कृतहैहयवंशभूपा।
यस्याः शुचीनि चरितानि पितुश्च वंशे
पत्युश्च पावनविधिः परमो बभूव ।।
दिक्पालैः क्षितिपालनाय दधतं देहे विभक्ताः श्रियः
श्रीनारायणपालदेवमसृजत्तस्यां स पुण्योत्तरम् ।
यः क्षोणीपतिभिः शिरोमणिरुचा श्लिष्टाभिपीठोपलं
न्यायोपात्तमलं चकार चरितैः स्वैरेव धर्मासनम् ॥
चेतःपुराणलेख्यानि चतुर्वर्गनिधीनि च ।
आरिप्सन्ते यतस्त्यानि चरितानि महीभृतः ।।
खीकृतसुजनमनोभिः सत्यापितसातवाहनः सूक्तैः ।
त्यागेन यो व्यधत्त श्रद्धेयामङ्गराजकथाम् ।।
भयादरातिभिर्यस्य रणमूर्धनि विस्फुरन् ।
असिरिन्दीवरश्यामो ददृशे पीतलोहितः ।।
यः प्रज्ञया च धनुषा च जगद्विनीय
नित्यं न्यवीविशदनाकुलमात्मधर्मे ।
यस्यार्थिनः सविधमेत्य भृशं कृतार्थी
नैवार्थितां प्रति पुनर्विदधुर्मनीपाम् ।।
श्रीपतिरकृष्णकर्मा विद्याधरनायको महाभोगी ।
अनलसदृशोऽपि धान्ना यश्चित्रं नलसमश्चरितैः ॥
व्याप्ते यस्य त्रिनगति शरच्चन्द्रगौरैर्यशोभि-
मन्ये शोभां न खलु विभरामास रुद्राट्टहासः ।

१२० काव्यमाला। : सिद्धस्त्रीणामपि शिरसिजेपिताः केतकीनां पत्रापीडाः मुचिरमभवन्भृङ्गशब्दानुमेयाः ।। तपो ममास्तु राज्यं ते द्वाभ्यामुतमिदं द्वयोः । यस्मिन्विग्रहपालेन सगरेण भगीरथे । सखलु भागीरथीपथप्रवर्तमाननानाविधनीवाटसंपादितसेतुबन्धनिहितशैल- शिखरश्रेणीविभ्रमात् निरतिशयघनघनाघनघटाश्यामायमानवासरलक्ष्मीसमा- रब्धसंततनलदसमयसंदेहात् उदीचीनानेकनरपतिप्राभृतीकृताप्रमेयहयवाहि- नीखरखुरोत्खातधूलीधूसरितदिगन्तरालात् परमेश्वरसेवासमायाताशेषजम्यु- द्वीपभूपालानन्तपादातभरनमदवनेः श्रीमुद्गगिरिसमावासितश्रीमजयस्कन्धा- वारात् परमसौगतो महाराजाधिराजश्रीविग्रहपालदेवपादानुध्यातः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमन्नारायणपालदेवः कुशली तीरभुक्ती कक्षवैषयिकस्वसंबद्धाविच्छिन्नतलोपेतमकुतिकाग्रामे समुपगताशेपराजपुरु- पान् राजराज(जा)नकराजपुत्ररानामात्यमहासांधिविग्रहिकमहाक्षपटलिक- महासामन्तमहासेनापतिमहाप्रतीहारमहाकार्ताकृतिकमहादौःसाधसाधनिकम- हादण्डनायकमहाकुमारामात्यराजस्थानीयोपरिकदाशापराधिकचौरोद्धरणि- कदाण्डिकदाण्डपाशिकशौल्किकगौल्मिकक्षेत्रपप्रान्तपालकोट्टपालखण्डरक्षत- दायुक्तकविनियुक्तकहस्यश्वोष्ट्रनौबलव्याप्तककिशोरवडवागोमहिप्यनाविका- ध्यक्षदूतप्रेपणिकगमागमिकाभित्वरमाणविषयपतिग्रामपतितरिकगौडमालवख- शहूणकुलिककर्णाटलाटचाटभटसेवकादीन् अन्यांश्चाकीर्तितान् राजपादोपनी- विनः प्रतिवासिनो ब्राह्मणोत्तरान् महत्तमोत्तमपुरोगमेदान्धचण्डालपर्यन्तान यथार्ह मानयति बोधयति समादिशति च । मतमस्तु भवताम् । कलशपोते महाराजाधिराजश्रीनारायणपालदेवेन स्वयंकारितसहस्रायतनस्य तत्र प्रति- छापितस्य भगवतः शिवभट्टारकस्य पाशुपताचार्यपरिपदश्च यथार्ह पूनाव- लिचरुसत्रनवकर्माद्यर्थ शयनासनग्लानप्रत्ययभैपज्यपरिप्काराद्यर्थमन्येपामपि स्वाभिमतानां स्वपरिकल्पितविभागेनानवद्यभोगार्थ च यथोपरिलिखितमकु- १. 'मुझेर नाना प्रसिद्ध नगरे. २ 'तिरहुत' इति प्रसिद्धायां मिथिलायाम्.

२९ लेखः] . प्राचीनलेखमाला। १२१ तिकामामः स्वसीमातृणयूतिगोचरपर्यन्तः सतलः सोद्देशः साम्रमधूकः स- जलस्थलः सगोंपरः सोपरिकरः सदशापचारः सचौरोद्धरणः परिहतसर्व- पीडः अचाटभटप्रवेशः अकिंचित्प्रमाह्यः समस्तभागभोगकरहिरण्यादिप्रत्या- यसमेतः भूमिच्छिद्रन्यायेनाचन्द्रार्कक्षितिसमकालं यावत् मातापित्रोरात्म- नश्च पुण्ययशोभिवृद्धये भगवन्तं शिवभट्टारकमुद्दिश्य शासनीकृत्य प्रदत्तः । ततो भवद्भिः सैवरेवानुमन्तव्यम् । भाविभिरपि भूपतिभिर्भूमेनफलगौर- वादपहरणे च महानरकपातभयाद्दानमिदमनुमोद्य पालनीयम् । प्रतिवा- सिभिः क्षेत्रकरैश्चाज्ञाश्रवणविधेयीभूय यथाकालं समुचितभागभोगकरहि- रण्यादि सर्वप्रत्यायोपनयः कार्य इति । संवत् १७ वैशाखदिने ९ ॥ तथा च धर्मानुशंसिनः श्लोकाः- बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। पष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः । आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ स्वदत्ता परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयोभूयः प्रार्थयत्येप रामः । सामान्योऽयं धर्मसेतुर्नुपाणां काले काले पालनीयः क्रमेण ॥ इति कमलदलाम्बुविन्दुलोलां श्रियमनुचिन्त्य मनुप्यजीवितं च । सकलमिदमुदाहृतं च बुद्ध्वा न हि पुरुपैः परकीर्तयो विलोप्याः ।। वेदान्तैरप्यसुगमतमं वेदिता ब्रह्मतार्य(तत्त्वं) यः सर्वासु श्रुतिषु परमः सार्धमङ्गैरधीती। यो यज्ञानां समुदितमहादक्षिणानां प्रणेता भट्टः श्रीमानिह स गुरवो दूतकः पुण्यकीर्तिः ।। १. नारायणपालदेवस्य राज्यारम्भसंवत्सरोऽयम्. - - काव्यमाला । श्रीमता म(स)ङ्घदासेन शुभदासस्य सूनुना । इदं शासनमुत्कीर्ण सत्सामतटजन्मना ॥ (राजमुद्रा) श्रीनारायणपालदेवस्य (इण्डियन् आण्टिक्वेरी १५। ३०४-३१०) (३०) वलभीप्रभोः श्रीधरसेनमहीपतेर्दानपत्रम् । ॐ स्वस्ति विजयस्कन्धावाराद्भकच्छवासकात्प्रसभप्रणतामित्राणां मै- त्रकाणामतुलबलसंपन्नमण्डलामोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदा- नमानार्जवोपार्जितानुरागादनुरक्तमौलभूतश्रेणीबलावाप्तराज्यश्रियः परममाहे- श्वरश्रीभट्टार्कादव्यवच्छिन्नराजवंशान्मातापितॄचरणारविन्दप्रणतिप्रविधौताशे- पकल्मपः शैशवात्प्रभृति खड्गद्वितीयवाहुरेव समदपरगजघटास्फोटनप्रकाशि- तसत्त्वनिकषः तत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपका. न्तिस्थैर्यगाम्भीर्यशुद्धिसंपद्भिः सरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानति- शयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेपस्वकार्यफलप्रार्थनाधि- कार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलामो- गप्रमोदः परममाहेश्वरश्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसंतानविसृतनाद- वीजलौघप्रक्षालिताशेपकल्मपः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादि- वाश्रितः सरभसमाभिगामिकैर्गुणैः सहनशक्तिशिक्षाविशेषविस्तापितासिल- धनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायांनामपाकर्ता प्रनो- पचातकारिणामुपालवानां दर्शयिता श्रीसरस्वत्यारेकाधिवासस्य संहताराति- पक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनलस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमुदय- स्थगितसमग्रदिमण्डलः समरशतविनयशोभासनाथमण्डलाग्रद्युतिभासुरतरां- ३० लेखः] . प्राचीनलेखमाला। १२३ सपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोपः समग्रलोकागाधगाम्भीर्य- हृदयोऽपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृतयुगनृप- तिपथविशोधनाधिगतोदप्रकीर्तिर्धर्मानुपरोधोज्ज्वलतरीकृतार्थसुखसंपदुपसेवा- निरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादिसः तस्यानुजस्त- त्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलपणीयामपि रा- जलक्ष्मी स्कन्धसक्तां परमभद्र इव धुर्यस्तदाज्ञासंपादनैकरसतयेवोद्वहन्खेदसु- खरतिभ्यामनायासितसत्त्वसंपत्तिः प्रभावसंपदशीकृतनृपतिशतशिरोरत्नच्छा- योपगूढपादपीठोऽपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकां प- रित्यज्य प्रख्यातपौरुपाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनि- खिलभुवनामोदविमलगुणसंहतिप्रसभविघटितसकलकलिविलसितगतिर्नीचज- नाधिरोहिभिरशेपैदोपैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुपास्त्रकौशलातिशय- गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरश्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहि- तनिखिलविद्वज्जनमनःपरितोपातिशयः सत्त्वसंपदा त्यागौदार्येण च विगतानु- संधानाशमाहिता()रातिपक्षमनोरयाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकला- लोकचरितगतरविभागोऽपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोमाविभूपणः समरशतनयपताकाहरणप्रत्यग्रोदग्रवाहुदण्डविध्वंसितनिखिलप्रतिपक्षदर्पोदयः खधनुः प्रभायपरिभूतानकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुनस्तत्पादानुध्यातः सच्चरितातिशयित- सकलपूर्वनरपतिरतिदुःसाधानामपि प्रसाधयिता विपयाणां मूर्तिमानिव पुरुष- कारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृ- तिभिरधिगतकलाफलापः कान्तिमान्निवृतिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रता- पस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबद्धमागमपरिपूर्ण विदधानः सं. धिविग्रहसमासनिश्चयनिपुणः स्थानेऽनुरूपमादेशं ददद्गुणवृद्धिविधानज- १२४ काव्यमाला। .. नितसंस्कारः साधूनां राज्यशालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकटविक्र- मोऽपि करुणामृदुहृदयः श्रुतवानप्यगर्वितः कान्तोऽपि प्रशमी स्थिरसौ- हृदोऽपि निरसिता दोपवतामुदयसमयसमुपजनितजनतानुरागपरिपिहि- तभुवनसमर्थितप्रथितवालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुवसे- नस्तस्य सुतस्तत्पादकमलप्रणामधरणिकपणजनितकिणलाञ्छनललाटचन्द्र- शकलः शिशुभाव एव श्रवणनिहितमौक्तिकालंकारविभ्रमामलचतिवि- शेपः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्रहणा- दमन्दीकृतानन्दविधिर्वसुंधरायाः कार्मुके धनुर्वेद इव संभाविताशेप- लक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमानधृतचूडारनायमानशासनः परम माहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः कुशली सर्वानेव समाज्ञापयति-अस्तु वः संविदितं यथा मया मातापित्रोः पुण्या- प्यायनाय उदुम्बरगदरविनिर्गतखेटकवास्तव्योदुम्बरगहरचातुर्विद्यसामान्य- पराशरसगोत्रवाजसनेयिसब्रह्मचारिब्राह्मणभवीनागशर्मपुत्रव्राह्मणादितिशर्म- णे खेटकाहारे कोलम्बे वड्डसोमालिकानामपूर्वसीम्नि खेटकमानेन ब्रीहिट्टिपि- टुकद्वयवापं सभृष्टीकं क्षेत्रं यस्याघाटनानि पूर्वतः सीहमुहिज्जग्रामसीमा द- क्षिणतो विश्वपल्लिग्रामसीमा अपरतो द्रोणकसत्कशमीकेदारक्षेत्र उत्तरतो महेश्वरसत्कखग्गडिकेदारीक्षेत्र तथा नगरकपथकान्तर्गतदुहुदुहुग्रामे द- क्षिणापरसीनि खेटकमानेन व्रीहिद्विपीठकवा कोटीलकक्षेत्रं यस्याघाटनानि पूर्वतः आटिरमणकेदारसंहितं महत्तरगोल्लसत्कक्षेत्रं सभीलकसत्कखण्डके- दारश्च दक्षिणतः नाइण्णपल्लिग्रामसीमा अपरतो गुड्डपल्लिग्रामसीमा उत्त- रत आरलिकेदारः शमीकेदारो वल्मीकद्वयं च तथा पूर्वसीम्नि दुहुदु- हिकापदाके भृष्टी यस्या आघाटनानि पूर्वतः कपित्योन्दनदक्षिणतो विशी- ण्णोजित केदारिकं अपरतः कपित्योन्दनी उत्तरतः ब्राह्मणवैरभटसत्क- बलदेयक्षेत्रमतिक्रम्य उन्दनीद्वयं एवं क्षेनद्वयं सभृष्टीकं सोद्रङ्गं सोप- रिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सदंशापराधं सोत्पद्यमानवि- १. शालातरीयः पाणिनिः.

३१ लेखः] प्राचीनलेखमाला। १२५ टिकं सर्वप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविंशतिरहितं भूमिच्छिन्द्रन्या- येनाचन्द्रार्कार्णवक्षितिसरित्पर्यतसमकालीनं पुत्रपौत्रान्वयभोग्यं उदकातिस- गंण धर्मदायो निसृष्टः यतोऽस्योचितया ब्रह्मदेयस्थित्या भुञ्जतः कृपतः कर्षयतः प्रदिशतो वा न कैश्चिद्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरसद्वं- शनैरन्यैर्वा । अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलम- वगच्छद्भिरयमसद्दायोऽनुमन्तव्यः परिपालयितव्यश्चेति । उक्तं च- 'बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। यानीह दारिद्यभयानरेन्द्रर्धनानि धर्मायतनीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ पप्टिवर्पसहस्राणि खर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥' दूतकोऽत्र राजदुहितृभूवा ॥ लिखितमिदं संधिविग्रहाधिकृतदिविरपति- वत्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति । सं ३०० ३० द्विमार्गशिरशु २ स्वहस्तो मम (इण्डियन् आण्टिकरी १५।३३५-४०) (३१) यौद्धगयामन्दिरस्थशिलालेखोऽयम् । म् ॥ व्याप्तो येनाप्रमेयः सकलशशिरुचा सर्वतः सत्त्वधातुः क्षुण्णाः पापण्डयोधाः सुगतिपयरुधस्तर्कशास्त्राभियुक्ताः । संपूर्णो धर्मकोपः प्रकृतिरिपुहृतः साधितो लोकभूत्यै शास्तुः शाक्यैकबन्धोर्नयति चिरतरं तद्यशःसारतन्त्रम् ।। १. वलभीसंवत्सरोऽयम् ३३०. अत्र ३१९ मितवर्षेषु योजितेषु ६४८-६४९ मितः खिस्ताब्दः.

१२६
काव्यमाला।
नैरोधी शुमभावनामनुसृतैः संसारसक्लेशनि-
-मैत्रेयस्य करे विमुक्तिवशिता यस्याद्भुता व्याकृता ।
निर्वाणावसरे च येन चरणौ दृष्टौ मुनेः पावनौ
पायाद्वः स मुनीन्द्रशासनधरः स्तुत्यै महाकाश्यपः ॥
संयुक्तागमिनो विशुद्धरजसः सत्त्वानुकम्पोद्यताः
शिप्या यस्य सकृद्विचेरुरतुलां लङ्काचलोपत्यकाम् ।
तेभ्यः शीलगुणान्विताश्च शतशः शिप्यप्रशिप्याः क्रमा-
जातास्तुङ्गनरेन्द्रवंशतिलकाः प्रोत्सृज्य राज्यश्रियम् ॥
ध्यानोदयाहितहितः शुभाशुभविवेककृद्विहतमोहः ।
सद्धर्मातुलविभवो भयो बभूव श्रमणस्ततः ।।
राहुलाख्यश्च तच्छिप्य उपसेनो यतिर्यतः ।
महानामा क्रमादेवमुपसेनस्ततोऽपरः ॥
वात्सल्यं शरणागतस्य सततं दीनस्य वैशेषिकं
व्यापत्सायकसंततिक्षतधृतेरार्तस्य चापत्यकम् ।
ङ्करस्याहितकारिणः प्रविततं बन्धोर्यथाभावतः
एवं सच्चरितोद्भवेन यशसा यस्याचितं भूतलम् ॥
आम्रद्वीपाधिवासी पृथुकुलजलधिस्तस्य शिष्यो महीयां-
लङ्काद्वीपप्रसूतः परहितनिरतः सन्महानामनामा ।
तेनोच्चैर्बोधिमण्डे शशिकरधवलः सर्वतो मण्डपेन
कान्तः प्रासाद एप स्मरबलजयिनः कारितो लोकशास्तुः ॥
व्यपगतविषयस्नेहो हततिमिरदशः प्रदीपवदसङ्गः ।
कुशलेनानेन जनो बोधिमुखमनुत्तरं भजताम् ॥
यावद्धान्तापहारी प्रविततकिरणः सर्वतो भाति भास्वा-
न्यावत्पूर्णोऽन्युराशिः फणिफणकुटिलैसर्मिचकैः समन्तात् ।

• ३२ लेखः] प्राचीनलेखमाला। १२७ यावच्चन्द्राधिवासो विविधमणिशिलाचारुशृङ्गः सुमेरुः शोभायं तावदेतद्भवनमुरु मुनेः शाश्वतत्वं प्रयातु ॥ संवत् २००६०९ चैत्रसुदि ८ ॥ (इण्डियन् आण्टिक्केरी १५॥३५६-३५८) (३२) कोटामान्तस्थविहारप्रशस्तिः। ॐ नमो रत्नत्रयाय । जयन्ति वादाः सुगतस्य निर्मलाः समस्तसंदेहनिरासभासुराः । कुतर्कसंपातनिपातहेतवो युगान्तवाता इव विश्वसंततेः ॥ योऽरूपवानपि बिभर्ति सदैव रूप- मेकोऽप्यनेक इव भाति च यो निकामम् । आरादगात्परधियः प्रतिमर्त्यवेद्यो यो निर्जितारिरजितश्च जिनः स वोऽव्यात् ।। भिनत्ति यो नृणां मोहं तमो वेश्मनि दीपवत् । सोऽव्याद्वः सौगतो धर्मो भक्तमुक्तिफलप्रदः ॥ आर्यसंघस्य विमलाः शरच्छशिजितश्रियः। जयन्ति जयिनः पादाः सुरासुरशिरोचिंताः ॥ आसीदम्भोधिधीरः शशिधवलयशा विन्दुनागाभिधान- स्तत्सूनुः पद्मनागोऽभवदसमगुणैर्भूपिताशेपवंशः । तस्याप्यानन्दकारी करनिकर इवानुप्णरश्मेस्तनूनो जातः सामन्तचक्रप्रकटतरगुणः सर्वणागो जितारिः ।। तस्याभूद्दयिता विशुद्धयशसः श्रीरित्युरःशायिनी कृष्णस्येव महोदया च शशिनो ज्योत्नेव विश्वंभरा। गौरीवाद्विदृशोऽसमा शमवतः प्रज्ञेव वा तायिनो गम्भीरा यदि वा महोमिवलया वेलेव वेलाभृतः ॥

१२८ काव्यमाला। ताम्यामभूगुणाम्भोधिर्वशीकृतमनोमलः । देवदत्त इति ख्यातः सामन्तः कृतिनां कृती ॥ येपां नतिर्जिनगुरौ गुरुता गुणेपु सङ्गोऽथिभिः सततदाननिवद्धगधैः । भीतिः प्रकाममघतो जगदेकशत्रो- स्तेपामयं कृतविशेपगुणोऽन्ववाये । येपां भूतिरियं परेति न परैरालोक्यतेऽर्थाथिभि- उँपां मुद्विभवः परः परमुदः स्वप्नेऽपि नाभूत्तनौ । येपामात्महितोदयाय दयितं नासीद्गुणासादनं तेषामेव वशी शशाङ्कघवलो जातः कुलाम्भोनिधौ ॥ संपादितजनानन्दः समासादितसंततिः । कल्पशाखीव जगतामेप जातो गुणाकरः ।। विश्वाश्चासविधौ तृणीकृतसितज्योत्स्रोदये देहिना- मन्तःशुद्धिविचारणे सुरगुरोरप्याहिताल्पोदयः । गाम्भीर्याकलने निकामकलितक्षीरोदसारस्त्वयं यत्तन्नूनमहो गुणा गुणितनुव्यासङ्गिनः संगताः ॥ तावन्मानधना यशस्ततिभृतस्तावच तावहुधा- स्तावत्तायिसुतानुकारकरणास्तावत्कृपाम्भोधयः । तावन्यस्तपरोपकारतनवस्तावत्कृतज्ञाः परे यावन्नास्य गुणेक्षणे क्षणमपि प्राप्तावधानो जनः ॥ यस्योद्वीक्ष्य गुणानशेषगुणिनामद्याप्यवज्ञात्मनि निर्वाणाखिलमानसंततिपतचेतोविकासासमा । भानौ ध्वस्तसमस्तनैशतमसि स्वैरं करालीकृति 'प्रातर्येन कलाबलोऽपि विगलच्छायः शशाङ्को न किम् ॥ यस्यान्वयेऽप्यगुणजन्म न दृष्टपूर्व- मासादिता न च गुणैर्गणनव्यवस्था ।

, २३ लेखः] प्राचीनलेखमाला।
१२९
याता मुहूर्तमपि नो कलिदोपलेशाः
सोऽयं निरस्तसमतो भुवि कोऽप्यपूर्वः ।।
यस्य दानमतिरक्षतदाना भापितान्यफलवन्ति न सन्ति ।
प्राणदानविहितावधि सख्यं तस्य को गुणनिघेरिह तुल्यः ।।
नाना सन्ति दिनानि सन्ति विविधाश्चन्द्रांशुशीता निशाः
सन्त्यन्याः शतशोऽवला जितजगन्नारीसमस्तश्रियः ।
तन्नानन्दि जगत्रयेऽपि सुदिनं सा वा निशा साबला
यजन्मन्यगमन्निमित्तपदवीमस्यापरैर्दुर्गमाम् ।।
कोपवर्धनगिरेरनुपूर्व सोऽयमुन्मिपितधीः सुगतस्य ।
व्यस्तमारनिकरैकगरिम्णो मन्दिरं स विदधाति यथार्थम् ।।
सुखान्यस्वन्तानि प्रकृतिचपलं जीवितमिदं
प्रियाः प्राणप्रख्यास्तडिदुदयकल्पाश्च विभवाः ।
प्रियोदश्चिालं क्षणसुखकृतो दुःखबहुला
विहारस्तेनायं भवविभवभीतेन रचितः ।।
सान्द्रध्वानशरद्वलाक(?)निवहत्यकार्कविम्बोज्ज्वलं
संसाराङ्कुरसङ्गभङ्गचतुरं यत्पुण्यमात्तं मया ।
जैनावासविधेरतोऽयमखिलो लोकत्रयानन्दिनी
तेनारं सुगतश्रियं जितजगद्दोपां जनः प्राप्नुयात् ॥
प्रशस्तिमेनामकरोज्जातः शाक्यकुलोदधौ ।
जजकः कियद शनिवेशविहितस्थितिम् ॥
संवत्सराङ्क ७ माघशुदि ६। उत्कीर्णा चणकेन ॥
(इण्डियन् आण्टिक्केरी १४४५-४८)
(३३)
भरतपुरदेशान्तर्वर्तिव्यानानगरस्थप्रशस्तिः
ॐ ॐनमः सिद्धेभ्यः ।।
आसीनितकान्वयकतिलकः श्रीविष्णुसूर्यासने
श्रीमत्काम्यकगच्छतारकपयश्वेतांशुमान्विश्रुतः ।

काव्यमाला। श्रीमान्सूरिमहेश्वरः प्रशमभूः श्वेताम्बरग्रामणी राज्ये श्रीविजयाधिराजनृपतेः श्रीश्रीपथायां पुरि ॥ ततश्च नाशं यातु शतं सहस्रसहितं संवत्सराणां द्रुतं म्यामा(मा मा) भाद्रपदः स भद्रपदवीं मासः समारोहतु । सास्यैव क्षयमेतु सोमसहिता कृष्णा द्वितीया तिथिः पञ्चश्रीपरमेष्ठिनिष्ठहृदयः प्राप्तो दिवं यत्र सः ॥ अपि च कीर्तिर्दिकरिकान्तदन्तमुसलप्रोद्भूतलास्यक्रम : क्वापि क्वापि हिमाद्रिमू"महीसोआसहासस्थितिम् । क्वाप्यैरावणनागराजजनितस्पर्धानुबन्धोद्धुरं भ्राम्यन्ती भुवनत्रयं त्रिपथगेवाद्यापि न श्राम्यति ।। सं० ११०० भाद्रपदि २ चन्द्र कल्याणकदिने प्रशस्तिरियं साधुसर्वदे- वेनोत्कीर्णेति । (इण्डियन् आण्टिवेरी १४॥९-१०) (३४) सत्यवर्ममहीपतेर्दानपत्रम् । म् ॥ स्वस्ति अमरपुरानुकारिणः सर्वर्तुसुखरमणीयाद्विजयवतः क. लिङ्गनगरवासकान्महेन्द्राचलामलशिखरप्रतिष्ठितस्य सचराचरगुरोः सकल- भुवननिर्माणकसूत्रधारस्य शशाङ्कचूडामणेर्भगवतो गोकर्णस्वामिनश्चरणक- मलयुगलप्रणामाद्विगतसर्वकलिकलङ्कोऽनेकाहवसंक्षोभजनितजयशदप्रतापो- पनतसमस्तसामन्तचक्रचूडामणिप्रभामञ्जरीपुञ्जरञ्जितवरचरणः सितकुमुदकु- न्देन्द्ववदात[यशाः] ध्वस्तारातिकुलाचलो नयविनयदयादानदाक्षिण्यशी- यौदार्यसत्यत्यागादिगुणसंपदाधारभूतो निजनिस्त्रिंशधारोपार्जितसकलकलि- गाधिराज्यः परममाहेश्वरी मातापितृपादानुध्यातो गङ्गामलकुलतिलकमहा- ३५ लेखः] : प्राचीनलेखमाला। : राजश्रीमहेवेन्द्रवर्मसूनुः श्रीसत्यवर्मदेवो गलेलविपये तरुग्रामवासिनः कुटुम्बिनः समाज्ञापयति--विदितमस्तु वो यथायं मया विदितसकलपरमा- र्थतत्त्वेनाभिमतदेवतायै नवपोसे स्वामित्यै सूर्योपरागे उदकपूर्वकं तारुया- मदेवाग्रहारं कृत्वा सर्वकरभरैः परिहृत्याचन्द्रतारकं मातापित्रोरात्मनश्च पुण्याभिवृद्धये संप्रदत्त इति । अखण्डितब्रह्मदेयं शैवस्थानकमिदं खण्ड्य- मगुरवपुत्रकमलासनभट्टारकेणोपार्जितम् इदानी प्रदक्षिणं(प्रतिदि) सीमा- लिङ्गानि लिख्यते--पूर्वस्यां दिशि त्रिवृततटाकस्वेतु आग्नेय्यां दिशि अ- र्जुनडोङ्कः दक्षिणेन गिरिनाशिका नैर्ऋत्यां दिशि पर्वत पश्चिमैन मेरुपा- पाण वायव्यस्यां दिशि अक्षलोङ्क उत्तरेण अलिशिलातल ईशान्यस्वां दिशि उत्पलवापी स्खेतु ॥ अत्र व्यासगीतानि भवन्ति--- 'बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ।। हिरण्यमेकं गामेको भूमेरप्येकमङ्गुलम् । हरन्नरकमायाति यावदाभूतसंप्लवम् ॥' आदित्य, पुनरपि गलेले धान्यसहस्रकस्य भूमिः तद्विपये ग्रामानुग्रामे तण्डुलमुरयघृततालि गलेले पोले खाण्डी । गाङ्गेयवंशसंक्छ(सोरशतानां एकपञ्चाशत् ॥ श्रीरहस्यखण्डिमपुत्रवीरपलिखितोत्कीर्णमिति ॥ (इण्डियन आप्टिक्केरी १४|१०-१२) (३५) चालुक्यवंशोद्भूतराजराजापरनामश्रीविष्णुवर्धन महीपतेर्दानपत्रम् । श्रीधाम्नः पुरुषोत्तमस्य महतो नारायणस्य प्रभो- नाभीपङ्करुहाभूव जगतः स्रष्टा स्वयंभूस्ततः ।

१३२ काव्यमाला। जज्ञे मानससूनुरनिरिति यस्तस्मान्मुनेरत्रितः सोमो वंशकरः सुधांशुरुदितः श्रीकण्ठचूडामणिः ॥ तस्मादासीत्सुधास्तेढुंधो बुधनुतस्ततः । जातः पुरूरवा नाम चक्रवर्ती सविक्रमः॥ तस्मादायुरायुपो नहुपस्ततो ययातिश्चक्रवर्ती वंशकर्ता ततः पुरुरिति चक्रवर्ती । ततो जनमेजयोऽश्वमेधत्रितयस्य कर्ता ततः प्राचीशस्तस्मात्स. न्ययाती ततो हयपतिस्ततः सार्वभौमस्ततो जयसेनस्ततो महाभौमस्तस्माद्दे- शानकस्ततः क्रोधाननः । ततो देवकिः देवकेः ऋभुकस्तस्मात् ऋक्षकः । ततो मतिवरः सत्रयागयाजी सरस्वतीनदीनाथः ततः कात्यायनः कात्याय- नानीलः ततो दुप्यन्तः तत आर्यो गङ्गायमुनातीरे यदविच्छिन्नान्निसाय यूपान् क्रमशः कृत्वा तयाश्वमेधान्नाम महाकर्म भरत इति योऽलभत । ततो भरताद्भूमन्युः तस्मात्सुहोनः ततो हस्ती । ततो विरोचनः तस्मादनमीलः ततः संवरणः ततश्च तपनसुतायास्तपत्याश्च सुधन्वा । ततः परिक्षित् । ततो भीम- सेनः । ततः प्रदीपनः तस्माच्छन्तनुः ततो विचित्रवीर्यः। ततः पाण्डुराजः । आर्या पुत्रास्तस्य च धर्मजभीमार्जुननकुलसहदेवाः । पञ्चेन्द्रियवत्पञ्च स्युर्विषयग्राहिणस्तत्र ।। येनादाहि विजित्य खाण्डवमठे(वन) गाण्डीविणा वज्रिणं युद्धे पाशुपतास्त्रमन्धकारपोश्वालाभि दैत्यान्वहुन् । इन्द्रार्धासनमध्यरोहिजयिना यत्कालिकेयादिका- न्हत्वा स्वैरमकारि वंशविपिनच्छेदः कुरूणां विमोः । ततोऽर्जुनादभिमन्युः ततः परिक्षित् ततो जनमेजयः ततः क्षेमुकः ततो नरवाहनः ततः शतानीकः तसादुदयनः ॥ ततः परं तत्प्रभृतिप्वविच्छिन्नसंतानेष्वयोध्यासिंहासनासीनेप्वेकान्नपष्टि- चक्रवर्तिषु तद्वंश्यो विजयादित्यो नाम राजा विजिगीषया दक्षि- १. फ्लीट पण्डितेन तु 'आर्या' इत्यप्रिमेण 'पुत्रा' इति पदेन सयोज्य 'आर्या-पुत्राः' इत्येकं पदं विधाय 'पुत्रास्तस्य च' इत्याद्यार्या गवतां नीता.२. 'अहिणः' इति मुदितः पाठः. ततः - ३५ लेखः] प्राचीनलेखमाला । णापथं गत्वा त्रिलोचनपल्लवमधिक्षिप्य दैवदुरीहया लोकान्तरमगमत् । त- स्मिन्संकुले पुरोहितेन सार्धमन्तर्वन्नी तस्य महादेवी मुडिवेमुनामाग्रहारं कतिपयामिरन्तःपुरकान्ताभिः कञ्चुकिभिश्च सहोपगम्य तद्वास्तव्येन विष्णु- भट्टसोमयाजिना दुहितृनिर्विशेषमभिरक्षिता सती विष्णुवर्धनं नन्दनम- सूत । सा तस्य च कुमारकस्य मानव्यसगोत्रहारीतिपुत्रद्विपक्षगोत्रक्रमो- चितानि कर्माणि कारयित्वा तमवर्धयत् । स च मात्रा विदितवृत्तान्तः स- निर्गत्य चलुक्यगिरौ नन्दां भगवती गौरीमाराध्य कुमारनारायणमातृग- णांश्च संतर्घ्य श्वेतातपत्रैकशहपञ्चमहाशब्दपालिकेतनप्रतिटका वराहला- छनपिच्छकुन्तसिंहासनमकरतोरणकनकदण्डगङ्गायमुनादीनि स्वकुलक- मागतानि निक्षिप्तानीव साम्राज्यचिद्दानि समादाय कदम्बगङ्गादिभूमि- पानिनित्य सेतुनर्मदामध्यं साधसप्तलक्ष दक्षिणापथं पालयामास । लोकः- तस्यासीद्विजयादिसो विष्णुवर्धनभूपतेः । पल्लवान्वयजाताया महादेव्याश्च नन्दनः ॥ तत्सुतः पोलकेशीवल्लभः तत्पुत्रः कीर्तिवर्मा । तस्य तनयः स्वस्ति- श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारीतिपुत्राणां कौशिकी- वरप्रसादलब्धराज्यानां मातृगणपरिपालितानां स्वामिमहासेनपादानुध्या- तानां भगवन्नारायणप्रसादसमासादितवरवराहलाञ्छनेक्षणक्षणवशीकृताराति- मण्डलानां अश्वमेधावभृथस्नानपवित्रीकृतवपुषां चालुक्यानां कुलमलंक- रिप्णोः सत्याश्रयवल्लभेन्द्रस्य भ्राता कुजविष्णुवर्धनोऽष्टादशवर्षाणि वेशीदेशमपालयत् । तदात्मजो जयसिंहवल्लभस्त्रयस्त्रिंशतम् । तदनुन इन्द्रराजनन्दनः सप्तदिनानि । तत्सुतो विष्णुवर्धनो नव वर्षाणि । त- सूनुर्माङ्गियुवराजः पञ्चविंशतिम् । तत्पुत्रो जयसिंहस्त्रयोदश । तदव- रजः कोकिलिः पण्मासान् । तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्तमुच्छित्य सप्तत्रिंशतमन्दान् । तत्पुत्रो विजयादित्यभट्टारकोऽष्टादश। तदनुनो विष्णुवर्धनः पत्रिंशतम्। तत्सूनुर्विजयादित्यनरेन्द्रमृगराजश्चाष्टाचत्वारि- शतम् । तत्सुत कलिविष्णुवर्धनोऽध्यर्धवर्षम् । तत्सुतो गुङ्गविजयादि- १३४ काव्यमाला। त्यश्चतुश्चत्वारिंशतम् । तद्भातुर्विक्रमादित्यभूपतेस्तनयश्चालुक्यभीम- स्त्रिंशतम् । तत्सुतः कोल्लविगण्डविजयादित्यः पण्मासान् । तत्सनु- रम्मराजः सप्तवर्षाणि । तत्सुतं विजयादित्यं वालमुच्छित्य ताडपो मासमेकम् । तं जित्वा चालुक्यभीमतनयो विक्रमादित्य एकादश मा- सान् । तत्ताडपराजसुतो युद्धमल्लः सप्तवर्षाणि । अम्मराजानुनो राज- भीमोऽब्दान्द्वादशाभुनक् । युद्धे युद्धमलं तं धाट्या निर्घात्य धरुणिर (?). मुताम्मभूपः क्षमा पञ्चविंशति वर्पाण्यपात् । द्वैमातुरोऽम्मराजस्य दानार्णव इति स्मृतः । चतुःपष्टिकलाभिज्ञः समास्तिस्रोऽभुनग्भुवम् ॥ ततः परं पति लन्निमनुरूपमनायिकाम् (१)। सप्तविंशति वर्षाणि च्छाव एव तपः क्षमाम् (१) ॥ अथ दानार्णवाज्जातः कलावान्मृदुभिः करैः । राजा चालुक्यचन्द्रो यः क्षमातापमपाकरोत् ॥ सत्ये प्रतिष्ठिता लोका इति सत्यं वचो यतः । सर्वलोकाश्रये यस्मिन्सत्यराजे स्थितं जगत् ॥ . निर्वकं वसुधाचक्रमरक्षत्क्षपिताहितः । न्याय्ये पथि नृपैराद्यैः स द्वादशसमाः समः ॥ विमलादित्यदेवाख्यस्ततस्तस्यानुनोऽदधत् । महीमण्डलसाम्राज्यं विजित्य विजयी रिपून् ॥ यस्य प्रज्वलितं प्रतापदहनं सोढुं न शक्ता भया- द्गत्वा काननमम्बुधिं च तरसा विद्वेषिणो विद्वलाः । दावौग्निपदेन तत्र च पुनस्तेनैव संतापिताः श्रीपादामरपादपस्य महतीं छायां समाशिश्रियन् ॥ अपि च। सूर्यान्वये सुरपतिप्रतिमः प्रभावैः श्रीराजराज इति यो जगति व्यराजत् ।

३५ लेतः] प्राचीनलेखमाला । नाथः समस्तनरनाथकिरीटकोटि- रत्नप्रभापटलपाटलपादपीठः ।। जातस्ततस्ततयशोजितराजतेजा राजेन्द्रचोडनृपतिर्नुपचक्रवर्ती । दम् (१) प्रचण्डमददन्तिकपोलनिर्य- द्दानाविलामरसरित्सलिलप्रवाहः ॥ सद्वीपां च प(चतु)रम्बुराशिपरिखां विश्वंभरां लीलया दण्डेनैव विनित्य च प्रतिदिशं योऽतिष्ठिपत्सर्वतः । स्रोद्धान्तिनिवारणाय विजयस्तम्भान्वनामाङ्किता- नालानानिव बद्धमन्धमनसो दर्पण दिग्दन्तिनः ।। तस्यानुजां सुरूपामनुरूपां कुन्दवां महादेवीम् । स उपायत कृतकृत्यो विमलादित्यो जनस्तुत्यः ॥ समुद्ररशनां पृथ्वी पृथ्वी स भुनविक्रमात् । समरक्षत्समाः सप्त सप्तसप्तिसमः समः ॥ तस्साचालुक्यचूडामणिरथ विमलादित्यदेवान्महीश- श्थोडक्ष्मापाललक्ष्म्या इव रचिततनोः कुन्दवायाश्च देव्याः । जातः श्रीराजराजो रजनिकरकुलश्रीमदम्भोधिराजो राजद्रानन्यसेव्यामभृत भुजबलादानलक्ष्मी पृथिव्याः ॥ यो रक्षितुं वसुमती शशवत्सरेपु वेदाम्बुराशिनिधिवर्तिपु (२४४) सिंहमेऽके । कृष्णद्वितीयदिवसोत्तरभद्रिकायां वारे गुरोर्वणिनि लमवरेऽभिषिक्तः ॥ यस्योत्तमाङ्गं पट्टेन समबन्धि महीयसा । भतु विश्वमरामारं जनैरारोपितं चिरम् ॥ पृथ्वीमिमां यत्र पृथुप्रभावे रक्षत्यवर्ग क्षपितारिवगें । दुरीकृतावग्रहचोररोगाः प्रना लभन्ते सफलं त्रिवर्गम् ।।

१ ३ काव्यमाला। शौर्योदार्याभिमानाद्यंगणितगुणजन्मानुरक्ता महिना प्रख्यातेनातिकृष्णा शशधरधवला सज्जनानां गणेन । पीता प्रीतेन कर्णाञ्जलिभिरभिनवा भाति दिग्देवतानां नानावर्णा विताननियमतनुतरा तन्वती यस्य कीर्तिः ।। पित्रोवंशगुरू बभूवतुरलं यस्य स्फुरत्तेजसौ सूर्याचन्द्रमसौ निरस्ततमसौ देवी जगच्चक्षुपी । दंष्ट्राकोटिसमुद्धृताखिलमहीचक्रं महत्क्रीडया. विष्णोरादिवराहरूपमभवद्यच्छासने लाञ्छनम् ।। स सर्वलोकाश्रयश्रीविष्णुवर्धनमहाराजाधिराजपरमेश्वरपरमभट्टारकपरम- ब्रह्मण्यः मातापितृपादानुध्यातः त्यागसिंहासनासीनः चण्डिकाप्रसादपरि- लब्धसाम्राज्यचिहः गुद्दवाडिविपयनिवासिनो राष्ट्रकूटप्रमुखान्कुटुम्बिनः सर्वान्समाहूय मन्त्रिपुरोहितसेनापतियुवराजदौवारिकप्रधानाध्यक्षानित्या- दिशति- आद्यन्तात्यन्तदूरात्समननि जगता ज्योतिपो जन्महेतु- ब्रह्मा धाम प्रजानामभवदथ ततः कश्यपो नाम वेधाः । मारद्वाजस्ततोऽभून्गुनिरधिकतपास्तस्य गोत्रे पवित्रे तत्रापस्तम्बसूत्रे श्रुतिनिधिरुदगाचीडमार्यः क्रमेण ॥ राज्ञामचिंतवर्चसः समुदितैर्यविधौताई(ताह)सो यज्ञो नाम सुतस्ततः कृतधियो जक्षे कृतज्ञः कृती । विज्ञाताखिलवेदशास्त्रसमयः प्राज्ञः सदा पोपित- ज्ञातिनिनिधिषुरक्षसहशो नीतिज्ञतायां भुवि ।। यथा वसिष्ठो विदुषां परिठो निरुन्धती दोपमरुन्धती सः । तथानुरूपामभिरूपरूपः सतीमुपायच्छत माकवाख्याम् ॥ पुत्रस्तयोरदितिकश्यपयोरिवाभू- भासानपाकृततमाः खलु चीडमार्यः । यो वेदशास्त्रसकलश्रुतिरश्मिजातैः शिप्याननाम्बुरुहबोधकरो गरीयान् ॥

३५ लेखः] प्राचीनलेखमाला । १३७ : नित्याभीष्टफलप्रदानरुचिरं लक्ष्मीनिवासास्पदं विभ्राणं गुरुतां प्रबुद्धसुमनःसंपूर्णशाखान्वितम् । छायासंततिमाश्रितैश्च विबुधैः संस्तूयमानं सदा सेवित्वा सुखमास्यते द्विजवरैर्य विप्रकल्पद्रुमम् ॥ यदेहं सुचिरं विभाति पर(ठ)तां पुण्यैर्वटूनां पटु- व्यावृत्त्याविरतं क्रमाक्षमपदे सामर्थ्यजुगो(मुद्धो)पणैः । सायं प्रातरुपाहित(ता) हुतिहतस्वाहाप्रियप्रोचल- द्दामै(?)श्चापि समन्ततः कलिमलं प्रोत्सारयडूरतः ।। तस्मै समस्तजनताविशेषणा(का)य । रैसुतपितमहीदेवदेवगणाय । विप्रान्वयाधिशशभृत्प्रतिचन्द्राय(च्छन्दाय) । विद्वज्जनाङ्गीकृतविश्रुता- नन्दाय । जन्मप्रभृति गीतवेदार्थतत्त्वाय । सन्मनोवसतिवास्तव्यात्मसत्त्वाय। लम्भितसरलत्वपरिलालितचरित्राय । शुम्भितमतिखसितजीवभृशपुत्राय (1)। सिद्धनिजनाथकृतिसेवितमनीपाय (१) । शुद्धमतिदूपितसमस्तजनदोपाय । संतताराधितनिजस्वामिपादाय । चिन्तितमनःस्थसुखदाभूतसुपादाय (1)। होमधूमविनिर्गतामितकलङ्काय । धीमत्प्रगीतरुचिरस्थिरस्वनामाङ्काय । सक- लमुनिगणनुतापस्तम्बसूत्राय । तत्रसंगीत(?)भारद्वाजगोत्राय । सप्ततन्तु- कृतयूपस्तम्भशोभाय । सप्ताश्वरूपसदृशात्मतनुलाभाय । नित्यजनतोचितसुस- त्यसणयुक्ताय(?) । पत्यभिलपितकार्यनिःपत्तिसक्ताय । परमपुरुषार्थसं- पादनपटिष्ठाय । परमेश्वरस्मरणपालनवरिष्ठाय । सकलार्थशास्त्रपरिनिश्चितवि- नोदाय । सुकुमारताधिकसरोजनिभपादाय । धाराकरेणाग्रहारीकृतः कोरु- मेल्लिनामा ग्राम इन्दूपरागे दत्तो मया आचन्दतारकं हि तिष्ठेत् । तस्याव- धिव्यक्तिरेपोच्यतेऽद्य । पूर्वतः कूडकुसीमा । आग्नेयतः मुण्डकालियसीमा । दक्षिणतः वानपल्लियु संपतनिययु मामण्डेटियु सीमैव सीमा । नैऋत्यतः गोदावरियसीमा । पश्चिमतः बूरुवुडोग्गुसीमा । वायव्यतः वेनेटियु मासरयु सीमैव सीमा । उत्तरतः मासरपोन्बडुवयु सलमेण्डिकालियुसीमा । ईशा- नतः एरुवकयुत्तरमुन कडलिभाटिसीमा ॥ अस्योपरि न केनचिहाधा क.

१३८ काव्यमाला। . रणीया । यः करोति स पञ्चमहापातकैयुक्तो भवति । तथा चोक्तं भगवता व्यासादिमहपिंप्रकरणापि- स्वदत्ता परदत्तां वा यो हरेत वसुंधराम् । पष्टिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः ।। बहुभिर्वसुधा दत्ता वहुभिश्चानुपालिता । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। आज्ञप्ति(प्तेः) कटकेशो राचियपेड्डेरिभीमनामतनूजः । कर्ता चेतनभट्टः काव्यानां लेखकोऽस्य गण्डाचार्यः ॥ अस्मिन्ग्रामे प्रतिवर्षे भूपसिद्धाय ग्रहणम् पञ्चविंशतिनिष्काणि शतद्वय- सहितानि पञ्चाशद्धान्यखण्डकानि च ।। (इण्डियन् आण्टिक्केरी १४१५०-५५) (३६) कुलोत्तुङ्गचोडदेवमहीपाश्रितकाटदण्डाधिनाथस्य दानपत्रम् । जयति जलधिकन्यावक्रपद्मांशुमाली सकलभुवनसृष्टित्राणसंहारहेतुः । उपनिपदवगम्यो योगिविज्ञानवेद्य- स्त्रिदशवरवचोभिः स्तूयमानो मुकुन्दः ॥ जयति जगति नित्यं सोमवंशो महीभृ- च्छिरसि निहितपादः संश्रयः कीर्तिवळ्याः । जलधिवलयितोर्वीचक्रवालालवाला- द्रिपुनृपरुधिरोदेरुक्षितादुद्गतायाः ।। स्वस्ति श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारीतिपुत्राणां कौशिकीवरप्रसादलब्धराज्यानां मातृगणपरिपालितानां स्वामिमहासेनपादा- १. फन्धर्फ नाम छन्दः एतदपि नीटपण्डितेन गधान्तः पातितम.

६ लेखः] प्राचीनलेखमाला। ध्यातानां भगवन्नारायणप्रसादसमासादितवरवराहलाञ्छनेक्षणक्षणवशीक- रातिमण्डलानामश्वमेधावभृथपवित्रीकृतवपुषां चालुक्यानां कुलमलंक- रप्णोः ससाश्रयवल्लभेन्द्रस्य भ्राता कुजविष्णुवर्धनोऽष्टादशवर्षाणि वे- देशमपालयत् । तत्पुत्रो जयसिंहतिशत् । तत्कैनियानिन्द्रराजः सप्ताहम् । तत्पुत्रो विष्णुवर्धनो नववर्षाणि । तत्पुत्रो मङ्गियुवराजः प- विंशतिम् । तत्पुत्रो जयसिंहस्रयोदश । तत्कनीयान्कोकिलिः पण्मा- नान् । तद्भाता विष्णुवर्धनः सप्तत्रिंशत् । तत्सूनुर्विजयादियोऽष्टादश। सत्सूनुर्विष्णुवर्धनः पटुिंशत् । तत्सूनुर्नरेन्द्रोऽष्टाचत्वारिंशत् । तत्सुतः लिविष्णुवर्धनोऽध्यर्धवर्षम् । तत्सूनुर्गुणविजयादिसश्चतुश्चत्वारिंशत्। तद्भातृविक्रमादित्यपुत्रश्चालुक्यभीमस्त्रिंशत् । तत्सूनुर्विजयादिसः प- प्रमासान् । तत्सूनुरम्मराजः सप्तवर्षाणि । विक्रमादित्यभ्रातृपुत्रस्ताडपो मातम् । चालुक्यभीमसूनुविक्रमादिस एकादशमासान् । तत्सूनुयुद्धमल्लः सप्तवर्षाणि । अम्मराजानुजो राजभीमो द्वादश । तत्सूनुरम्मराजः पञ्च- विंशतिम् । तज्ज्येष्ठो दानार्णवस्त्रिंशत् । तत्पुत्रः शक्तिवर्मा द्वादश । तदनुजो विमलादित्यः सप्त । तत्पुत्रो राजराजदेव एकचत्वारिंशत् । तत्पुत्रः श्रीकुलोत्तुङ्गचोडदेव एकोनपञ्चाशत् । तत्सुतो विक्रमचोडः पञ्चदश । तत्पुत्रे श्रीकुलोत्तुङ्गचोडदेवे राज्यं प्रशासति तद्वंशराजप्रसा- दलब्धनानादेशपरिवृतं परम्परागतमण्डलेशाधिष्ठितं वेङ्गीमण्डले महासरः स्थिरतरमस्ति । तत्रासीत्सरसीपुरीति जलधौ विष्णोः पुरी द्वारका- मुघलावणवारिदोषकलुपां न्यकुर्वती यानिशम् । मातेव स्वपयःप्रवाहनिवहैः मुस्वादुभिः सादरं स्वाक्षं संश्रितमण्डलेश्वरमहीचक्रं स्वयं रक्षति ॥ १. पूर्वमुद्रिते विष्णुवर्धनदानपत्रे तु 'त्रयस्त्रिंशतम्' इत्यस्ति. २. 'तदनुज इन्द्रराज- नन्दनः' इति विष्णुवर्धनदानपत्रे पाठः. ३. 'विजयादित्यनरेन्दमृगराजः' इति विष्णुवर्ध- नदानपो पाठः. ४. 'तताडपराजसुनो युद्धमलः' इति विष्णुवर्धनदानपातः पाठः.५ 'तिसः' इति विष्णुवर्धनदानपत्रे शोधितः पाठः.

काव्यमाला।
गर्वाद्यद्विजिगीपया रिपुगणाः संप्राप्य वेलातलं
लोलत्स्यन्दनवाजिवारणभटा जेतुं न शक्ताः पुनः ।
युद्धालोकनलोलवैरिललनासोल्लासहासोदया-
लज्जावद्वदनाः प्रविश्य सरसों यान्त्येकतां कर्दमैः ॥
तस्याः पतिः को(कु)लनिकाटमनायकोऽभू-
प्रख्यातधर्मनिचयः प्रततोरुकीर्तिः ।
स्फूर्जस्वबाहुबलनिर्जितवैरिवर्गः
सर्वाश्रयो नयनिधि वि सत्यसंधः ॥
यो धर्मे धर्मपुत्रप्रतिनिधिरवनित्राणने कार्तवीर्यः
प्रायः शौर्य किरीटी स्फुटमहिमरुचा तुल्य एव प्रतापे ।
औदार्ये कर्णकल्पः सर इव वपुपि मासदृक्षः क्षमायां
सौजन्ये यस्य लोके कथमपि सदृशो विक्रमादित्य एव ।
योऽदृश्यत सतां भूत्यै जलदुर्गे श्रिया सह ।
भुवनत्रितयं भासा भासयन्व्योम चन्द्रवत् ।।
यः सर्वामवनिमरक्षदक्षतश्रीः सेनाभिर्बहुरणकेलिनिर्जितारिः ।
वीरश्रीवदनविलासदर्पणाभो नीतिज्ञो नियमितवागतिप्रगल्भः ।।
द्विजजनपरिरक्षादक्षमक्षय्यलक्ष्मी
प्रशमितरिपुपर्श काटिणां कल्पवृक्षम् ।
गुणमणिगणकप्ताकल्पमाकल्पना
धृततनुमिव धर्म मन्यते मानवा यम् ॥
सुधृता येन धरित्री निःशङ्कं निनितारिवर्गेण ।
चिरतरकालं कृतिना कृतयुगवच्छ्रीसमृद्धेयम् ॥
विदुषां बहवो ग्रामा देवानां भूरिहाणि ।
जलपरिपूर्णताका देशे देशे विनिर्मिता येन ।
यस्मिन्कादाबहुलं ददति द्रव्यं प्रभूतमर्थ(थि)भ्यः ।
उपपदरहिता जाताश्चिन्तामणिकामधेन्कल्पागाः ॥

२६ लेखः] प्राचीनलेखमाला । १४१ यस्यासिधारासुनिपीतमन्यु द्विपच्छिरश्छेदनकर्महेतु । प्रवर्तुलं वैरिपुरं त्रिनेत्रेप्यधुच्छलेनेव कृतस्वकार्यम् ॥ यत्खड्गहस्तपरिपातमदान्धमत्त- मातङ्गमस्तकविनिर्गतमौक्तिकौघैः संयत्यरातिनिकरान्हसतीव नाना- दिकं पलायनपरान्महती जयश्रीः ।। कीर्तिर्यस्य मनोहरा त्रिभुवन विभ्राजयन्ती भृशं स्वच्छासत्कुमुदाकरप्रियकरी दिङ्मण्डलं तन्वती । कुर्वाणापि सदा समस्तजगतां हर्ष द्विपद्योपितां वक्राम्भोगसुदुःसहा विजयते ज्योत्स्नेव शीतयुतेः ॥ स स्वामिनश्चोडदेवस्य तस्य प्राप्य प्रसादादथ ग्रामवर्यम् । लक्ष्मीपतीशप्रसादाप्तलक्ष्मीर्दातुं द्विजेभ्यो धियं संदधार ।। ततश्च- शाकादानां प्रमाणे रसविशिखवियच्चन्द्रसंख्या (१०५६) प्रयाते देशे सावत्तिलीतिसितितलविदिते पोण्डवग्रामयुक्तम् । साक्षे पूर्वपक्षे विपुवति मुतिथौ मण्डदोरग्रहारं प्रादाद्विद्वविजेम्यः स्थिरतरमकरं काटदण्डाधिनायः ॥ तथैतद्वामसीमान्तर्वतिनो ये कुटुम्बिनः । विद्रतक्षरनककर्मारतिलपूतकाः ।। सुवर्णकंसचर्मास्त्रकुम्भकाराश्च नापिताः । अनगोपालकाश्चैव चण्डालाद्यावयापरे ।। तैयकरमप्येभ्यो ब्राह्मणेभ्योऽददात्तदा । दत्त्वैवमग्रहारं तमित्यमाज्ञापयत्यसो। तद्राष्ट्रकूटप्रमुखान्समाय कुटुम्बिनः । दत्तमित्यं मया सर्वमेतद्विदितमलु वः ॥ १. वरिपुरधिनत्रेषु' इत्युचितः पाठः, २. 'परिघात' इत्युचितः पाटः, १४२ काव्यमाला। -अ- प्रतृगृहीतृब्राह्मणनामानि-तत्र भारद्वाजाः द्रोणार्यः मेडायः सूरायः नूकार्यः गुण्डायः वेन्नार्यः नामार्यः वासनार्यः नामार्यः मधुराधिपायः दो- ड्डायः माधवार्यः सिव्वार्यः कोम्मायः वामार्यः पोटार्यः गोविन्दार्यः च- न्द्रायः भागिनः-सोमनार्यः नित्तनार्यः सूरार्यः कुण्डिनाः-भीमार्यः उर्यकोण्डायः विष्ण्वार्यः अधिनः-कोम्मायः कृष्णार्यः वामार्यः कामार्यः नन्दार्यः कोम्मार्यः मण्डनार्यः कृष्णार्यः भीमार्यः वामार्यः दारार्यः वा- धूला:-आदित्यायः ईश्वरायः करुकनार्यः हरिताः-विष्ण्वार्यः माध- वार्यः मल्लार्यः कोटायः द्रोणार्यः कामार्यः रेमायः नारायणार्यः भागिनः- नामार्यो द्वी मैत्रावरुणौ सत्युनार्यों भागी सूरार्यः कौशिकाः--नूकार्यः कोम्मायः सुरायः अधिनः---तातार्यः विष्ण्वार्यः पेन्नार्यः बोप्पार्यः श्रीध- रायः मैत्रेयः--शंकरायः वात्सः द्रोणार्यः कपिल: पोटार्यः यस्क:- य्यनार्यः आत्रेयाः-राघवार्यः भागिनः-ताडार्यः अलीडायः अधिनौ शौनकाः पोटार्यादयः पञ्च सार्धभागिनः पराशरी कोम्मार्यः विष्ण्वार्यः पु- रुकुत्सः मलयाण्डार्यः भागिनः काश्यपाः–अन्नार्यः अप्पार्यः अधिनौ- वासुदेवार्यः मावार्यः सूरायः अन्नार्यः शासनकाव्यकृच्छंकरनारायणार्यः भा- गिनः ईश्वरस्यैको भागः विष्णोरेको भागः। अथ पोण्डुवयुक्तस्यास्य ग्रामस्यं क्षेत्रसीमानः--पूर्वतः-पोण्डुव कोम्मर यिलियूरि मुय्यनिकुटुगुण्ट अटवे- न्ननिगुण्ट । आग्नेयतः-पोण्डव यिलियूरि नलमियय्पमुल्लु अटपेनुङ्गो- लुनय्पमुल्खुम् गरुवुगुण्ट लुङ्गाण्डि यावगुमियु नृङ्क निगुण्टपु । दक्षि- णतः---ङ्कनिगुण्टम् वासिपायिनयमरुपटु अटपहिण्डिगुण्ट नलुमु । नि- तितः—कोकिलिपूण्डि पाटिपलुमटि मुय्यनिकुटुगुण्ट । पश्चिमतः-ले- लगुण्ट कोलु । वायव्यतः–उण्डन्दोटि पासुदोव गोवमि मुय्यनिकुटु भट उण्डन्दोर्टि गोवमि काकण्डियाल मुय्यनिकुटु । उत्तरतः-मद्दिगुण्ट अट मेलनिगुण्टयु नेरियनिगुण्टयु नावनिगुण्टयु नटयीयूरि पलियन पोण्डव साम्राम्यति मुय्यनिकुटु अट पनुलवाण्डूगुण्टयुम् वल्छनिकाटितलयु । ई- शानतः-प्रान्तगुण्ट ।

३७ लेखः]
प्राचीनलेखमाला।
इतः परं न कार्योऽस्य ग्रामस्योपद्रवो नरैः ।
लोभादुपद्रवं तस्य कुर्याद्यः स नराधमः ॥
यायात्पञ्चमहापापी द्रोही सोमेश्वरस्य च ।
गङ्गायां गोसहस्रस्य वधपापमवाप्नुयात् ॥
अस्ति व्यासोक्तमपि-
'खदत्तां परदत्ता वा यो हरेत वसुंधराम् ।
पष्टिवर्षसहस्राणि विष्ठायां जायते क्रिमिः ।।
वहुभिर्वसुधा दत्ता बहुभिश्चानुपालिता ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ इति ॥
लेखकः कन्नाचार्यसूनुः पछाचार्यः ।
(इण्डियन आण्टिक्वेरी १४१५६-५९)
तथा,
(३७)
श्रीभद्रबाहुप्रशस्तिः।
स्वस्ति ।।
नितं भगवता श्रीमद्धर्मतीर्थविधायिना ।
वर्धमानेन संप्राप्तसिद्धिसौख्यामृतात्मना ।
लोकालोकद्वयाधारवस्तु स्थास्नु चरिष्णु च ।
सच्चिदालोकशक्तिः स्वा व्यश्नुते यस्य केवला ॥
जगत्यचिन्त्यमाहात्म्यपूजातिशयमीयुषः ।
तीर्थकृन्नामपुण्यौयमहार्हन्त्यमुपेयुपः ॥
तदनु श्रीविशाले यजयत्यय जगद्धितम् ।
तत्य शासनमव्यानं प्रवादिमतशासनम् ।।
अथ खलु सकलनगदुदयकरणोदितातिशयगुणास्सद्दीभूतपरमनिनशा-
सनसरससमभिवतिभव्यजनकमलविकसनवितिमिरगुणकिरणसहवमहोति-
महावीरसवितरि परिनिवृते भगवत्परमपिगौतमगणधरसाक्षाच्छिप्यलो-

१४४ काव्यमाला । हार्य-जम्बु-विष्णुदेव-अपराजित-गोवर्धन-भद्रवाहु-विशाखमोष्ठिल- क्षत्रिकार्य-जयनाम-सिद्धार्थ-धृतिपेण-बुद्धिलादिगुरुपरम्परीणक्रमाभ्या- गतमहापुरुपसंततिसमवद्योतितान्वयभद्रबाहुखामिना उज्जयिन्यामष्टाङ्गम- हानिमित्ततत्त्वज्ञेन त्रैकाल्यदर्शिना निमित्तेन द्वादशसंवत्सरकालवैषम्य- मुपलभ्य कथिते सर्वः संघ उत्तरापथाद्दक्षिणापथं प्रस्थितः । आपेणैव जनपदमनेकग्रामशतसंख्यमुदितजनधनकनकसस्यगोमहिपाजाविक(कु)लस- माकीर्णं प्राप्तवान् । अतः आचार्यः प्रभाचन्द्रणामावनितलललामभूतेऽथा- सिन्कटवप्रनामकोपलक्षिते विविधतरुवरकुसुमदलावलीविकचनाशवलविपुल- सजलजलदनिवहनीलोपलतले वराहद्वीपिव्याघ्रतिरसुव्यालमृगकुलोपचितो- पत्यकाकंदरदरीमहागुहागहनाभोगवति समुत्तुङ्गशृङ्गे शिखरिणि जीवि- तशेपमल्पतरकालमवबुध्याध्वनः सुचकितस्तपःसमाधिमाराधयितुमापृच्छय निरवशेपेण संबं विसृज्य शिष्येणैकेन पृथुलकास्तीर्णतलासु शिलासु शीत- लासु स्वदेहं सन्यस्याराधितवान् । क्रमेण सप्तशतमृपीणामाराधितमिति । जयतु जिनशासनमिति ॥ (१० ल० राइसपण्डितमुद्रिते 'इन्स्क्रिप्शन्स् ऐ, श्रवलबेल्गोला' नामकपुस्तके प्रथमो लेख:.) (३८) श्रीमल्लिपेणप्रशस्तिः। (उत्तरपार्ध) (पार्श्वनाथवस्ती) श्रीमन्नाथकुलेन्दुरिद्रपरिपद्वन्द्यः श्रुतश्रीसुधा- धाराधौतजगत्तमोपहमहः पिण्डप्रकाण्डं महत् । यस्मान्निर्मलधर्मवार्षिविपुलश्रीवर्धमाना सतां भर्तुर्भव्यचकोरचक्रमवतु श्रीवर्धमानो निनः ॥ जीयादयुतेन्द्रभूतिविदिताभिख्यो गणे गौतम- स्वामी सप्तमहद्धिभिस्त्रिजगतीमापादयन्पादयोः । १. प्रमाचन्द्रेण सदेत्यर्थः १४६ ३८ लेखः] प्राचीनलेखमाला। यद्वोधाम्बुधिमेत्य वीरहिमवत्कुत्कील(घोप)कण्ठागुधा- म्भोदात्ता भुवनं पुनाति वचनस्वच्छन्दमन्दाकिनी ।। तीर्थेशदशन(दर्शन)भवन्नयहक्सहस्र- विस्रब्धवोधवपुपः श्रुतकेवलीन्द्राः । निर्मिन्दतां विबुधवृन्दशिरोभिवन्द्याः स्फूर्जद्वचःकुलिशतः कुमतादिमुद्राः॥ वर्ण्यः कथं नु महिमा भण भद्रवाहो- मोहोरुमल्लमदमर्दनवृत्तवाहोः। यच्छिप्यताप्तसुकृतेन स चन्द्रगुप्तः शुश्रूप्यते स सुचिरं वनदेवताभिः ।। वन्द्यो विभुर्भुवि न कैरिह कोण्डकुन्द: कुन्दप्रमाप्रणयिकीर्तिविभूपिताशः । यश्चारुचारणकराम्बुजचश्चरीक- श्चने श्रुतस्य भरते प्रयतः प्रतिष्ठात्(म्) | वन्द्यो भस्मकभस्मसात्कृतिपटुः पद्मावतीदेवता- दत्तोदात्तपदः स्वमन्त्रवचनव्याहूतचन्द्रप्रभः । आचार्यः स समन्तभद्रगणभृद्येनेह काले कली जैनं वर्म समन्तभद्रमभवद्भद्रं समन्तान्मुहुः ॥ चूर्णि() ॥ यस्यैवंविधा कादारम्भसंरम्भविनृम्भिताभिव्यक्तयः सूक्तयः ।। वृत्त(म्)॥ पूर्व पाटलिपुत्रंमध्यनगरे मेरो मया ताडिता पश्चान्मालयसिन्धुटकविपये काशीपुरे वैदिशे । प्राप्तोऽहं करहाटकं वहुभट विद्योत्कटं संकटं वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितम् ।। अवटुतटमटति झटिति स्फुटपटुवाचाटधूर्जटेरपि निद्वा । वादिनि समन्तभद्रे स्थितवति तव सदसि भूप कास्थान(न्ये)पाम् ॥

काव्यमाला। योऽसौ धातिमलद्विपहलशिलास्तम्भावलीखण्डन- ध्यानासिः पटुरहतो भगवतः सोऽस्य प्रसादीकृतः। छात्रस्यापि स सिंहनन्दिमुनिना नो चेत्कथं वा शिला- स्तम्भो राज्यरमागमाध्वपरिघस्तेनासिखण्डो धनः ॥ वक्रग्रीचमहामुनेर्दशशतग्रीवोऽप्यहीन्द्रो यथा जातं स्तोतुमलं वचोबलमसौ कि भन्नवाग्मिवजम् । योऽसौ शासनदेवताबहुमतो हीवक्रवादिग्रह- ग्रीवोऽस्मिन्नथ शब्दवाच्यमवदद्मासान्समासेन पट् ॥ नवस्तोत्रं तत्र प्रसरति कवीन्द्राः कथमपि प्रणामं वज्रादी रचयत परं नन्दिनि मुनौ । नवस्तोत्रं येन व्यरचि सकलाहप्रवचन- प्रपञ्चान्तर्भावप्रवणवरसंदर्भसुभगम् ॥ महिमा स पात्रकेसरिगुरोः परं भवति यस्य भक्त्यासीत् । पद्मावतीसहायाधिलक्षणकदर्थनं कर्तुम् ॥ सुमतिदेवममुं स्तुत येन वः सुमतिसप्तकमाप्ततया कृतम् । परिहृतापदतत्त्वपदाथिनां सुमतिकोटिविवर्ति भवातिहत् ।। उपत्य सम्यग्दिशि दक्षिणस्यां कुमारसेनो मुनिरस्तमाप । तत्रैव चित्रं जगदेकभानोस्तिष्ठत्यसो तस्य तथा प्रकाशः ॥ धर्मार्थकामपरिनिर्वृतिचारुचिन्त- श्चिन्तामणिः प्रतिनिकेतमकारि,येन । स स्तूयते सरससौख्यभुजा सुजात- श्चिन्तामणिर्मुनिवृपो न कथं जनेन । चूडामणिः कवीनां चूडामणिनामसेव्यकाव्यकविः । श्रीवर्धदेव एव हि कृतपुण्यः कीर्तिमाहर्तुम् ॥ १. वनन्दिनि.

३८ लेखः] प्राचीनलेखमाला। ११७ चूर्णि(क) ॥ य एवमुप-लोकितो दण्डिना। जहोः कन्यां जटाग्रेण बभार परमेश्वरः । श्रीवर्धदेव संधत्से जिह्वाग्रेण सरस्वतीम् ॥ पुप्पास्त्रस्य जयो गणस्य भरणं भूभृच्छिखापट्टनं पन्यामस्तु महेश्वरस्तदपि न प्राप्तुं तुलामीश्वरः । यस्याखण्डकलावतोऽष्टविलसद्दिक्पालमौलिस्खल- स्कीतिखःसरितो महेश्वर इह स्तुत्यः स कैः स्यान्मुनिः।। यः सप्ततिमहावादान् जिगायान्यानयामितान् । ब्रह्मकर्मोऽर्चितः सोऽयॊ महेश्वरमुनीश्वरः ॥ तारा येन विनिजिता घटकुटीगूढावतारा समं बौद्धैर्यो घृतपीडपीडितकुदृग्देवार्थसेवाञ्जलिः । प्रायश्चित्तमिवाभिवारिजरजःस्नानं च यस्याचर- होपाणां सुगतः स कस्य विषयो देवाकलङ्कः कृती ॥ चूर्णि(6) ॥ यस्येदमात्मनोऽनन्यसामान्यनिरवद्यविद्याविभवोपवर्णनमाकर्ण्यते । राजन्साहसतुङ्ग सन्ति बहवः श्वेतातपत्रा नृपाः किं तु त्वत्सदृशा रणे विनयिनस्त्यागोन्नता दुर्लभाः । तद्वत्सन्ति वुधा न सन्ति कवयो वादीश्वरा वाग्मिनो नानाशास्त्रविचारचातुरधियः काले कलौ मद्विधाः ॥ नमो मल्लिपेणमलधारिदेवाय ।। (पूर्वपायें) राजन्सर्वारिदर्पप्रविदलनपटुस्त्वं यथात्र प्रसिद्ध स्तद्वत्ख्यातोऽहमस्यां भुवि निखिलमदोत्पाटनः पण्डितानाम् । नो चेदेपोऽहमेते तव सदसि सदा सन्ति सन्तो महान्तो वक्तुं यस्यास्ति शक्तिः स वदतु विदिताशेषशास्त्रो यदि स्यात् ॥ नाहंकारवशीकृतेन मनसा न पिणा केवलं नैरात्म्यं प्रतिपद्य नश्यति नने कारुण्यबुद्ध्या मया ।

काव्यमाला । राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनो बौद्धोषान्सकलान्विनित्य सुगतः पादेन विस्फोटितः ।। श्रीपुप्पपेणमुनिरेव पदं महिम्नो देवः स यस्य समभूत्स भवान्सधर्मा । श्रीविभ्रमस्य भवनं ननु पद्ममेव पुष्पेषु मित्रमिह यस्य सहस्रधामा ॥ विमलचन्द्रमुनीन्द्रगुरोर्गुरुः प्रशमिताखिलवादिमदं पदम् । यदि यथावदवेप्यत पण्डितैननु तदान्ववदिप्यत वाग्विभोः ।। चूर्णि(6) ॥ तथाहि । यस्सायमापादितपरवादिहृदयशोकः पत्रालम्बन श्लोकः ॥ पत्रं शत्रुभयंकरोरु भवनद्वारे सदा संचर- नानाराजकरीन्द्रवृन्दतुरगत्राताकुले स्थापितम् । शैवान्पाशुपतास्तथागतसुतान्कापालिकान्कापिला- नुद्दिश्योदृतचेतसा विमलचन्द्राशाम्बरेणादरात् ॥ दुरितग्रहनिग्रहाद्भयं यदि भो भूरिनरेन्द्रवन्दितम् । ननु तेन हि भव्यदेहिनो भजत श्रीमुनिमिन्द्रनन्दिनम् ॥ घटवादघटाकोटिकोविदं को विदां प्रवाक् । परवादिमल्लदेवो देव एव न संशयः ॥ चूणि()॥ येनेयमात्मनामधेयनिरुक्तिरुक्ता नाम पृष्टवन्तं कृष्णराजं प्रति । गृहीतपक्षादितरः परः स्यात्तद्वादिनस्ते परवादिनः स्युः । तेषां हि मल्लः परवादिमल्लस्तन्नाम मन्नाम वदन्ति सन्तः ॥ आचार्यवर्यो यतिरार्यदेवो राद्धान्तकर्ता घियतां स मूर्ध्नि । यः स्वर्गयानोत्सवसीम्नि कायोत्सर्गस्थितः कायमुद्दुत्ससर्ज ॥ श्रवणकृततृणोऽसौ संयमं ज्ञातुकामैः शयनविहितवेलामुप्तलुप्तावधानः ।

३८ लेखः]. प्राचीनलेखमाला । १४९ श्रुतिमरभसवृत्त्योन्मृज्य पिञ्छेन शिश्ये किल मृदुपरिवृत्त्या दत्ततत्कीटवा ॥ विश्व यः श्रुतबिन्दुनावरुरुधे भावं कुशाग्रीयया बुधैवातिमहीयसा प्रवचसा बद्धं गणाधीश्वरैः । शिष्यान्प्रत्यनुकम्पया कृशमतीनैदंयुगीनान्सुगी- स्तं वाचार्चत चन्द्रकीर्तिगणिनं चन्द्राभकीर्ति बुधाः ॥ सद्धर्मकर्मप्रकृति प्रणामावस्योग्रकर्मप्रकृतिप्रमोपः । तं नाम्नि कर्मप्रकृतिं नमामो भट्टारकं दृष्टकृतान्तपारम् ।। अपि स्ववाग्व्यस्तसमस्तविद्यस्वैविद्यशब्देऽप्यनुमन्यमानः । श्रीपालदेवः प्रतिपालनीयः सतां यतस्तत्त्वविवेचनी धीः ॥ तीर्थ श्रीमतिसागरो गुरुरिलाचक्र चकार स्फुर- ज्योतिःपीततमःपयःप्रविततिः पूतं प्रभूताशयः। यस्माद्भरिपरार्थ्यपावनगुणः श्रीवर्धमानोल्लस- द्रनोत्पत्तिरिलातलाधिपशिरःशृङ्गारकारिण्यभूत् ।। यत्राभियोक्तरि लघुर्लघुधामसोम- सौम्याङ्गभृत्स च भवत्यपि भूतिभूमिः । विद्याधनं जयपदं विशदं दधानो विष्णुः स एव हि महामुनिहमसेनः॥ चूणि ॥ यस्यायमवनिपतिपरिपदि निग्रहमहीनिपातभीतदुस्थदुर्गर्वपर्व- तारुढप्रतिवादिलोकः प्रतिज्ञा श्लोकः ॥ तर्के व्याकरणे कृतश्रमतया धीमत्तयाप्युद्धतो मध्यस्थेपु मनीषिषु क्षितिभृतामने मया स्पर्धया । यः कश्चिप्रतिवक्ति तस्य विदुपो वाग्मेयभङ्गं परं कुर्वेऽवश्यमिति प्रतीहि नृपते हे हैमसेनं मतम् ॥ हितैपिणां यस्य नृणामुदात्तवाचा निबद्धा हितरूपसिद्धिः । बन्धो दयापालमुनिः स वाचा सिद्धः सतां मूर्धनि यः प्रभावैः ।।

१५० काव्यमाला । यस्य श्रीमतिसागरो गुरुरसौ चञ्चद्यशश्चन्द्रसूः श्रीमान्यस्य स वादिराजगणभृत्सवमचारी विभोः । एकोऽतीव कृती स एव हि दयापालनती यन्मन- स्यास्तामन्यपरिग्रहग्रहकथा स्वे विग्रहे विग्रहः ।। त्रैलोक्यदीपिका वाणी द्वाभ्यामेवोदगादिह । जिनराजत एकरसादेकस्माद्वादिराजतः ॥ आरुद्धाम्बरमिन्दुविम्वरचितौत्सुक्यं सदा यद्यश- श्छन्नं वाचमरीजराजिरुचयोऽभ्यणे च यत्कर्णयोः । सेव्यः सिंहसमय॑पीठविभवः सर्वप्रवादिप्रजा- दत्तोच्चैर्जयकारसारमहिमा श्रीवादिराजो विदाम् ।। चूर्णि ॥ यदीयगुणगोचरोऽयं वचनविलासप्रसरः कवीनाम् । नमोऽहते ॥ (दक्षिणपाधै) श्रीमच्चालुक्यचक्रेश्वरजयकटके वाग्वधूनन्मभूमौ निष्काडं डिण्डिमः पर्यटति पटुरटो(वो) वादिराजस्य निप्णोः । जाद्यद्वाददो जहिहि गमकतागर्वभूमा नहाहि व्याहारेर्यो नहीहि स्फुटमृदुमधुरश्राव्यकाव्यावलेपः ।। पाताले व्यालराजो वसति सुविदितं यस्य जिह्वासहस्रं निर्गन्ता स्वर्गतोऽसौ न भवति धिपणो वज्रभृद्यस्य शिप्यः । जीवेतां तावदेतो निलयबलवशाद्वादिनः केऽत्र नान्ये गर्व निर्मुच्य सर्व जयिनमिनसभे वादिराजं नमन्ति ।। वाग्देवीं सुचिरप्रयोगसुदृढप्रेमाणमप्यादरा- दादत्ते मम पार्श्वतोऽयमधुना श्रीवादिराजो मुनिः । भो भोः पश्यत पश्यतैप यमिनां किं धर्म इत्युच्चकै- रब्रह्मण्यपराः पुरातनमुनेवाग्वृत्तयः पान्तु वः ॥ गङ्गावनीश्वरशिरोमणिबन्धसंध्या- रागोल्लसचरणचारुनखेन्दुलक्ष्मीः । श्रीशब्दपूर्वविजयान्तविनूतनामा धीमानमानुपगुणोऽस्ततमः प्रमांशुः ॥ १. श्रीविजय इति तात्पर्यम्, ३८ लेखः] प्राचीनलेखमाला। चूर्णि ॥ स्तुतो हि स भवानेप श्रीवादिरानदेवेन ॥ यद्विद्यातपसोः प्रशस्तमुभयं श्रीहेमसेने मुनी प्रागासीत्सुचिराभियोगवलतो नीतं परामुन्नतिम् । प्रायः श्रीविजये तदेतदखिलं तद्वीथिकायां स्थिते संक्रान्तं कथमन्यथानतिचिरादीग्विधेदृक्तपः ।। विद्योदयोऽस्ति न मदोऽस्ति तपोऽस्ति भाव- नोग्रत्वमस्ति विभुतास्ति न चास्ति मानः । यस्याश्रये कमलभद्रमुनीश्वरं तं यः ख्यातिमापदिह शाम्यदधैर्गुणोधैः ।। स्मरणमात्रपवित्रतमं मनो भवति यस्य सतामिह तीथिनाम् । तमतिनिर्मलमात्मविशुद्धये कमलभद्रसरोवरमाश्रये ॥ सर्वाङ्गैर्यमिहालिलिङ्ग सुमहाभागं कला भारती भास्वन्तं गुणरत्नभूषणगणैरप्यग्रिमं योगिनाम् । तं सन्तः स्तुवतामलंकृतदयापालाभिधानं महा- सूरि भूरिधियोऽत्र पण्डितपदं यत्रैव युक्तं स्मृताः(तम्) । विनितमदनदर्पः श्रीदयापालदेवो विदितसकलशास्त्रो निजिताशेषवादी । विमलतरयशोभिर्व्याप्तदिक्चक्रवालो जयति नतमहीभृन्मौलिरत्नारुणाद्भिः॥ यस्योपास्य पवित्रपादकमलद्वन्द्वं नृपः पोयसलो लक्ष्मी सनिधिमानयत्स विनयादित्यः कृताज्ञाभुवः । कस्तस्याहति शान्तिदेवयमिनः सामर्थ्यमित्यं तथे- त्याख्यातुं विरलाः कलो स्फुरदुरुज्योतिर्दशास्तादृशाः ।। स्वामीति पाण्ड्यटथिवीपतिना निसृष्ट- नामाप्तदृष्टिविभवेन निजप्रसादात् । धन्यः स एव मुनिराहवमलभूभु- गास्थानिकाधितशब्दचतुर्मुखाख्यः ।।

काव्यमाला। श्रीमुल्लूरविदूरसारवसुधारत्नं सनायो गुणे नाक्षणीनमहीक्षितामुरमहःपिण्डः शिरोमण्डनः । आराध्यो गुणसेनपण्डितपतिः स स्वास्थ्यकामैना यद्युक्तागमगन्धतोऽपि गलितग्लानिं गति लम्बि(म्भि)ताः ।। वन्दे वन्दितमादरादहरहः स्याद्वादविद्याविदा खान्तध्वान्तयितानधूननविधी भास्वन्तमन्यं भुपि । भक्तोत्पादितसेवमानतिकृतां यत्संनियोगान्मन:- पद्मं सद्म भवेद्विकासविभवस्योनु(न्मुक्तनिद्राभरम् । मिथ्याभाषणभूपणं परिहरेतौद्धत्य....."चत स्याद्वादं वदता नमेत विनयाद्वादीभकण्ठीरवम् । नो चेत्तद्गुणनिर्मितश्रुतिभयभ्रान्ताः स्थ यूयं यत- स्तूर्ण निग्रहनीर्णकूपकुहरे वादिद्विपा पातिनः ।। गुणाः कुन्दस्पन्दोड्डुमरसमरा वागमत वा:- प्लवप्रायप्रेयःप्रसरसरसा कीर्तिरिव सा । नखेन्दुज्योत्स्नारेपचयचकोरप्रणयिनी न कासां श्लाघानां पदमजितसेनव्रतिपतिः(तेः) । सकलभुवनपालानम्रमूर्धावबद्ध- स्फुरितमकुटचूडालीदपादारविन्दः । मदवदखिलवादीमेन्द्रकुम्मप्रभेदी गणभृदजितसेनो भाति वादीभसिंहः ।। चूणि ॥ यस्य संसारवैराग्यवैभवमेवंविधाः स्ववाचः सूचयन्ति ।। प्राप्तं श्रीजिनशासनं त्रिभुवने यदुर्लभं प्राणिनां यत्संसारसमुद्रमग्नजनता हस्तावलम्बायितम् । यत्प्राप्ताः परनिर्व्यपेक्षसकलज्ञानश्रियालंकृता- स्तरलाकि गहनं कृतो भयवशः का वान देहे रतिः ॥ आत्मैश्चर्य विदितमधुनानन्तबोधादिरूपं तत्संप्राप्त्यै तदनु समयं वर्ततेऽत्रैव चेतः ।

३८ लेखः] प्राचीनलेखमाला। त्यक्त्वान्यस्मिन्सुरपतिसुखे चक्रिसौख्ये च तृष्णा तत्तुच्छार्थैरलमलमधीलोचनैलोकवृत्तैः ।। अजानन्नात्मानं सकलविषयज्ञानवपुर्प सदा शान्तं स्वान्तःकरणमपि तत्साधनतया । बही रागद्वेषैः कलुषितमनाः कोऽपि यततां कथं जाननेनं क्षणमपि ततोऽन्यत्र यतते ।। (पश्चिमपाधै) चूर्णि ॥ यस्य च शिष्ययोः कविताकान्त-वादिको- लाहलापरनामधेययोः शान्तिनाथ-पद्मनाभपण्डितयोरखण्डपाण्डित्यगु- णोपवर्णनमिदमसंपूर्णम् ॥ त्वामासाद्य महाधियं परिगता या विश्वविद्वज्जन- ज्येष्ठाराध्यगुणा चिरेण सरसा वैदग्ध्यसंपद्राि(म)। कृत्साशान्तनिरन्तरोदितयशःश्रीकान्त शान्ते न तो वक्तुं सापि सरखती प्रभवति बूमः कथं तद्वयम् ॥ व्यावृत्तभूरिमदसंततिविस्मृतेर्ष्या- पारुप्यमाप्तकरुणारुतिकान्दिशीकम् । धावन्ति हन्त परवादिगजास्त्रसन्तः श्रीपद्मनाभवुधगन्धमनस्य गन्धात् ।। दीक्षा च शिक्षा च यतो यतीनां जैनं तपस्तापहरं दधानात् । कुमारसेनोऽवतु यचरित्रं श्रेयःपयोदाहरणं पवित्रम् ॥ जगद्गरिमघस्मरसरमदान्धगन्धद्विप- द्विधाकरणकेसरी चरणभूप्यभूभृच्छिखः । द्विपद्गुणवपुस्तपश्चरणचण्डयामोदयो दयेत मम मल्लिपेणमलधारिदेवो गुरुः ।। वन्दे ते मलधारिणं मुनिपति मोहद्विपद्वयाहति- व्यापारव्यवसायसारहृदयं सत्संयमोरुश्रियम् । यत्कायोपचयीभवन्मलमपि प्रव्यक्तमतिक्रमा- नम्राकममनोमिलन्मलमपीप्रक्षालनकक्षमम् ॥

१५४ काव्यमाला अतुच्छतिमिरच्छटाजटिलजन्मजीर्णाटवी- दवानलतुलाजुपां पृथुतपःप्रभावत्विषाम् । पदं पदपयोरुहभ्रमितभव्यभृङ्गावलि. मैमोल्लसतु मल्टिपेणमुनिराण्मनोमन्दिरे ।। नैर्मल्याय मलाविलाङ्गमखिलत्रैलोक्यराज्यश्रिये नैकिचन्यमतुच्छतापहृतये न्यञ्चद्धताशं तपः । यस्यासौ गुणरत्नरोहणगिरिः श्रीमल्लिपेणो गुरु- चन्द्यो येन विचित्रचारुचरितैर्धात्री पवित्रीकृता ।। यस्मिन्नप्रमिता क्षमाभिरमते यलिन्दयानिर्दया- श्लेपो यत्र समत्वधीः प्रणयिनी यत्रास्टहा सस्टहा। कामं निर्वृतिकामुकः स्वयमधोऽप्यग्रेसरो योगिना- माश्चर्याय कथं न नाम चरितः श्रीमल्लिपेणो मुनिः ।। यः पूज्यः पृथिवीतले यमनिशं सन्तः स्तुवन्त्यादरा- येनानङ्गधनुर्जितं मुनिजना यसै नमस्कुर्वते । यस्मादागमनिर्णयोऽयमभवद्यस्यास्ति जीवे दया यमिश्रीमलधारिणि प्रतिपती धर्मोऽस्ति तसै नमः॥ धवलसरसतीर्थे सैप सन्न्यासधन्यां परिणतिमनुतिष्ठन्नन्दिमानिष्ठितात्मा । व्यसृजत निजमङ्गं भङ्गमङ्गोद्भवस्य ग्रथितुमिव समूलं भावयन्भावनाभिः || चूणि ॥ तेन श्रीमदजितसेनपण्डितदेवदिव्यश्रीपादकमलमधुकरीभूत- भावेन महानुभावेन जैनागमप्रसिद्धसछेखनाविधिविसृज्यमानदेहेन समाधि. विधिविलोकनोचितकरणकुतूहलमिलितसकलसंघसंतोषनिमित्तमात्मान्तःकर- णपरिणतिप्रकाशनाय निरवयं पद्यमिदमाशु विरचितम् ॥ आराध्य रत्नत्रयमागमोक्तं विधाय निःशल्यमशेपजन्तोः । क्षमां च कृत्वा जिनपादमूले देहं परित्यज्य दिवं विशामः ।। १. अधुना 'वेगोला'नाम्ना प्रसिद्धे.

३९ लेखः] प्राचीनलेखमाला। शाके शून्यशराम्बरावनि(१०५०)मिते संवत्सरे कोलके मासे फाल्गुनिके तृतीयदिवसे वारेऽसिते भास्करे । स्वातौ श्वेतसरोवरे सुरपुरं यातो यतीनां पति- मध्याहे दिवसत्रयानशनतः श्रीमल्लियेणो मुनिः ।। श्रीमन्मलधारिदेवर गुड्डु विरुदलेखक मदन महेश्वरं मल्लिनाथं वरेदं विरुदरूवारिमुखतिलकं गङ्गाचारिकण्डरिपिदम् ।। (बु. ल. राइस् पण्डितमुद्रिते 'इन्सक्रिप्शन्स् ऐ श्रवणवेल- गोला'नामकपुस्तके चतुष्पश्चाशो लेखः।) (३९) यादववंशोद्भूतकृष्ण (कहर)महीपालामात्यमल्लिसेहि- दानपत्रम् । ॐ नमः शिवाय ॥ श्रीगणाधिपतये नमः ॥ पायादाद्यः स वः पोत्री यदंष्ट्राप्रतिविम्बिता । अगादिव धृता धात्री हर्षाद्विगुणपुष्टताम् ॥ अस्ति स्वस्त्ययनो राजा सिंहणो यदुवंशजः । यस्य कीर्तिस्त्रिभुवने प्रथिता हरिकीर्तिवत् ॥ प्रत्यर्थिक्षितिपालमौलिमुकुटप्रत्युसमुक्ताफल- प्रान्तप्रोल्लसदद्विवारिजयुगः श्रीसिंहणः क्षोणिपः । आशाविश्नुतशुद्धयादवकुलस्पष्टोऽवति मातलं पारावारसुमेखलं सुतवरः शूरोऽजयजतुगिः ॥ यो राजा जैतुगिर्नाम सिहणाल्यान्नृपात्ततः । जनितो यदुवंशाधौ पयोधाविव चन्द्रमाः ॥ तस्य पुत्रो महातेनाः श्रीकहर इति श्रुतः । यदाज्ञां शिरसा धृत्वा भवन्ति सुखिनो नृपाः ।। जयति जगति राना सर्वभूपालमौलि- प्र(पोथितपरमरनप्रोल्लसत्पादपाः ।

काव्यमाला। यदुकुलचिरलीले वासुदेवे जनाना नयनकमलसूर्यः प्रीतिमान्कहराख्यः ।। यद्वक्षसि स्थिता लक्ष्मीर्यजे विजयानना। यदृष्टी करुणा नित्यं ददामीति वचस्यपि ॥ यद्यात्रायां नृपाः सर्व तत्र तत्र स्थिता दिशि । बालैरन्तःपुरीत्या क्षेपयन्त्यजसा बलिम् ।। तस्यान्यक्षितिपालमौलिमुकुटपत्युप्तरत्नैश्चिरं नीराजचरणारविन्दयुगलः शेषस्य पृथ्वीपतेः । शूरोऽमात्यधुरि स्थितो विजयते बीचाग्रनः संततं मल्लाख्यः किल चिक्कदेवतनयः प्रख्यातकीतिर्भुवि ।। तस्यात्मनो महामात्यश्चौण्डिसेट्टिमहायशाः । यो जिह्वा गृथिवीशस्य यो राज्ञो दक्षिणो भुनः ।। यश्चौण्डिसेट्टिः प्रथितप्रतापः सर्वासु दिक्षन्तिपुण्यकीर्तिः । श्रीसोमनाथाङ्गियुगात्म(न)नत्या प्रवधिताशेपविभूतिरम्यः॥ दिशो निगीपं(पुं) तमवेक्ष्य सर्वे द्विपन्त एवं त्वय चौण्डिसेहिम् । वल्मीकमारुह्य तृणं चरन्ति गृह्णन्ति नीवीमपि कर्णपत्रम् ॥ यद्रूपसौन्दर्यगुणप्रलुब्धा रतिः समासाद्य पुनः पतिं सा । विस्मृत्य चानङ्गसुखं प्रवृद्धसुखेन विक्रीडति लव्यहां ॥ प्रशास्त्यरीन्यः प्रगृहीतचापो ददाति चान्कृपया द्विजेभ्यः । चवुण्डसेट्टाख्यबुधाय दद्यात्तसै चिरायुर्भुवि सोमनाथः ॥ ७॥ स्वस्तिश्रीशकसंवत्सरस्य शताधिकसहजैकाधिकसप्तत्या(११७०)श्वा- नन्तरे सौम्येऽब्दे श्रावणे मासि सितपक्षे द्वादश्यां गुरुवारे श्रीकहरदेवस्य महाराजस्य बीचाग्रजो मल्लिसेट्टाल्यो महामात्यः कटकयात्रायां भीमरथ्यां पौण्डरीकक्षेत्रे श्रीविष्णुसंनिधौ वेणुनामदेशस्थां ताम्बपुरी दशाधिकशत- वृत्तीः प्रकल्पाष्टभोगसमस्ततेजःसहितां सर्वनमस्यां प्रसिद्धचतुःसीमामुद्रिता श्रीकहरदेवस्य राज्ञो राज्याभ्युदयार्थ नानागोत्रेभ्यो ब्राह्मणेभ्यः सदक्षिण धारापूर्वकं प्रदत्तवान् । तस्य पुत्रो महामात्यश्चौण्डिसेहिः राज्ञः समीप ३९ लेखः] प्राचीनलेखमाला। गत्वा पितुः सर्वाधिपत्यं राज्ञो लब्ध्वा वेणुग्रामदेशस्था ताम्बपुरी मम पित्रा ब्राह्मणेभ्यो दत्तेति तस्य राज्ञो निवेदयित्वा तेन राज्ञा मयैव दत्तेति ल- ब्धाभ्यनुज्ञस्तेभ्यो ब्राह्मणेभ्योऽष्टभोगतेजःसमन्वितं सर्वनमस्यं ताम्रशासनं चौण्डिसेट्टिदर्दापयित्वा पितुर्धर्ममाचन्द्राकै सुस्थिरं कृतवान् ॥ ७ ॥ तस्मै सर्वतः स्वस्त्यस्तु ॥ ७ ॥ ततस्तस्यास्ताम्बपुर्याः प्रतिगृहितॄणां ब्राह्मणानां गोत्रगुणनामानि क्रमेण लिस्यन्ते ॥ ५ ॥ स्वस्ति ॥ ५ ॥ वसिष्ठगोत्रीय- लक्ष्मीधरभट्टोपाध्यायसुतनारायणभट्टोपाध्यायः । तस्य पुत्रः लक्ष्मीधरक- मितः । वसिष्ठगोत्रीयवामनक्रमितसुतनारायणभट्टोपाध्यायः । आत्रेयगोत्री- यऋगर्थद दुग्गणभट्टोपाध्यायसुतकृष्णभट्टोपाध्यायः । तस्य पुनः दुग्गण- मट्टोपाध्यायः । काश्यपगोत्रीयकावदेवपट्टवर्धनसुतरामेश्वरपट्टवर्धनः । अग- स्त्यगोत्रीयाचार्यकेशवभट्टोपाध्यायसुतदशग्रन्थिमाधवपट्टोपाध्यायः । तस्य भ्राता वेदार्थनार(राय)णभट्टोपाध्यायः । आत्रेयगोत्रीयब्रह्मदेवपट्टवर्धनसुत- नारायणपट्टवर्धनः । तस्य भ्राता श्रीधरपट्टवर्धनः । जामदग्न्यवत्सगोत्रीय- नकदेवमट्टोपाध्यायसुतनीधरभट्टोपाध्यायः। काश्यपगोत्रीयश्रीधरभट्टोपा- ध्यायसुतश्रीभागवतकलिदेवभट्टोपाध्यायः । आत्रेयगोत्रीयनारायणक्रमित- सुताध्वरिचसवणभट्टोपाध्यायः । भारद्वाजगोत्रीयनारद(:)सुतकामदेवघैसः । वासिष्ठगोत्रीयभास्करसुतरामदेवघैसः । भारद्वानगोत्रीयब्रह्मदेवक्रमितसुतसो- मेश्वरक्रमितः । काश्यपगोत्रीयलक्ष्मीधरभट्टोपाध्यायसुतसोमेश्वरभट्टोपा- ध्यायः । भारद्वाजगोत्रीयवामदेवपट्टवर्धनमुतविष्णुपट्टवर्धनः । राजगो- त्रीयमेधाविघलिसासमुतगोपालपट्टवर्धनः । तस्य भ्राता उत्तमक्रमितः । तस्य मुतः विश्वनाथघलिसासः । वासिष्ठगोत्रीयदेवणपट्टवर्धनसुतशंकराचार्यः । तस्य सुतः चौडरायपट्टवर्धनः । वासिष्ठगोत्रीयनैतकदरपाठंकसुतरवलदेवपा- ठकः । तस्य भ्राता केशव पाठकः । भार्गवगोत्रीयदामोदरद्वे(द्विवे)दिसुत- शिवहरिपाठकः । तस्य भ्राता सर्वेश्वरद्वे(द्विवेदी । वासिष्ठगोत्रीयादेव दुवे(द्विवेदि)सुतलक्ष्मीघरपाठकः । पाराशरगोत्रीयशान्तिशुक्लसुतगना(दा)- घरपाठकः । वत्सगोत्रीयदेवशर्मशुक्तमुतनरसिंहपाठकः । भार्गवगोत्रीयकी. तिवासपाठकमुतनागदेवपाठकः । गर्गगोत्रीयदेवशर्मपाठकमुताश्चधरपाठकः । .

१५८ काव्यमाला । आर्टिकगोत्रीयामदेवोपाध्यायमुतदामोदरोपाध्यायः । तस्य भ्राता आशोपा- ध्यायः । कापिष्ठलगोत्रीयचांगदेवपाठकमुतदामोदरपाठकः । देवरातगोत्री- यसारजदीक्षितसुतवासूपाध्यायः । वत्सगोत्रीयमहेश्वरपाठकसुतमहेशर्मपा- ठकः । गायगोत्रीयवाकुपाठकसुतसोदणपाठकः । भारद्वाजगोत्रीयात्रिदेव- पण्डितमुतवैजनाथपण्डितः । कौशिकगोत्रीयप्रभाकरत्रिवाडि(पाठि)सुतदा- मोदरनिवाडिः । कौण्डिन्यगोत्रवाकुद्धे(द्विवे)दिसुतनगद्धरद्वे(द्विवे)दिः । कौशिकगोत्रीयमदनाइतपाठकसुतरामदेवपाठकः । भारद्वाजगोत्रीयत्रिलोच. नमुतविजयशर्मपाठकः । तस्य भ्राता क्षेमधरपाठकः । शाण्डिल्यगोत्री- यहरिहरत्रिवाडिमुतमहशर्मत्रिवाडिः । कौशिकगोत्रीयउत्तमपण्डितसुतखे- यिदेवपण्डितः । गरगगोत्रीयअसधरपाठकसुतसावलपाठकः ! मौदुग(गोल्य- गोत्रीयनारायणोपाध्यायमुतवसवणोपाध्यायः । भारद्वानगोत्रीयगनगनूरमै- लारस्वामिगलसुतईश्वरस्वामिः(मी) 1.विश्वामित्रगोत्रीयसर्वज्ञसरस्वतीमण्डा- रडदेवणभट्टोपाध्यायसुतसर्वज्ञवैजनाथमट्टोपाध्यायः । आत्रेयगोत्रीयनागदे- वसुतवोपदेवोपाध्यायः । काश्यपगोत्रीयतेनोपाध्यायसुतलक्ष्मीधरोपाध्यायः। गर्गगोत्रीयब्रह्मदेवपट्टवर्धनसुतसोमनाथपट्टवर्धनः । तस्य भ्राता त्रिविक्रमभ- होपाध्यायः । भारद्वानगोत्रीयमलिदेवपट्टवर्धनसुतभास्करमट्टोपाध्यायः । तस्य भ्राता कलिदेवपट्टवर्धनः । विष्णुवृद्धगोत्रीयतन्त्रमन्त्राचार्यवामदेवभट्टो- पाध्यायसुतनरसिंहभट्टोपाध्यायः । विश्वामित्रगोत्रीयसोमेश्वरपट्टवर्धनसुतशं- करघलिसः । विष्णुवृद्धगोत्रीयश्रीधरपट्टवर्धनसुतमाधवपट्टवर्धनः । कपि- गोत्रीयमाधवपट्टवर्धनसुतश्रीधरपट्टवर्धनः । काश्यपगोत्रीयकलिदेवघलिससु- तविष्णुपट्टवर्धनः । काश्यपगोत्रीयकेशवपट्टवर्धनसुतस्वामिदेवघलिसासः । काश्यपगोत्रीयनारणभट्टनसुतदेवणघलिसः । भारद्वाजगोत्रीयमहादेवपट्ट वर्धनसुतमलिदेवघैसासः । तस्य भ्राता देवणघैसासः । भारद्वानगोत्री- यरामदेवघैसासमुतविष्णुपैसासः । वासिष्ठगोत्रीयादित्यभट्टोपाध्यायसुतवा- रणाशियविष्णुभट्टोपाध्यायः । पाराशरगोत्रीयवारणाशियनारायणभट्टोपा- ध्यायसुतविश्वनाथक्रमितः । आत्रेयगोत्रीयसरस्वतीपद्मनाभभट्टोपाध्यायः । काश्यपगोत्रीयद्रविडविश्वनाथभट्टोपाध्यायः । कपिगोत्रीयदामोदरभट्टो. .

३९ लेखः
प्राचीनलेखमाला।
१५९
पाध्यायसुतरवलदेवभट्टोपाध्यायः । काश्यपगोत्रीयमाधवपट्टवर्धनसुतम-
च्यणोपाध्यायः । विश्वामित्रगोत्रीयब्रह्मज्ञानिगलब्रह्मदेवभट्टोपाध्यायसुता-
नन्तभट्टोपाध्यायः । हरितगोत्रीयगोविन्दपट्टवर्धनसुतवामनपट्टवर्धनः । ह.
रितगोत्रीयवामनपट्टवर्धनसुतगोविन्दपट्टवर्धनः । तस्य भ्राता वासुदेवपट्ट-
वर्धनः । भारद्वाजगोत्रीयचन्द्रभट्टोपाध्यायसुतप्रोलिभट्टोपाध्यायः। भारद्वा-
जगोत्रीयवासुदेवमट्टोपाध्यायसुतमहादेवपट्टवर्धनः । भारद्वाजगोत्रीयश्रीधर-
सुतईश्वरघलिसः। श्रीवत्सगोत्रीयमायिदेवघलिसाससुतगोविन्दघलिसाप्तः ।
श्रीवत्सगोत्रीयदिवाकरघलिसाससुतनागदेवघलिसासः । वासिष्ठगोत्रीयब-
लिदेवघैससुतमलिदेवपट्टवर्धनः । मौनभार्गवगोत्रीयनारायणघलिससुतबस-
यणघलिसासः । भारद्वाजगोत्रीयवेदार्थदरेच्यपणसुतमैलारभट्टोपाध्यायः ।
गौतमगोत्रीयलक्ष्मीधरसुतविष्णुभट्टोपाध्यायः । भारद्वाजगोत्रीयप्रसन्नसरख-
तीश्रीधरभट्टोपाध्यायसुतवासुदेवभट्टोपाध्यायः । आत्रेयगोत्रीयविष्णुभट्टो-
पाध्यायसुतसामवेदीहरिहरभट्टोपाध्यायः । मौनभार्गवगोत्रीयभास्करभट्टो-
पाध्यायसुतविष्णुपट्टवर्धनः । भारद्वाज़गोत्रीयकेशवभट्टोपाध्यायसुतहिमद-
कलिदेवपट्टवर्धनः । भारद्वाजगोत्रीयनरसिंहपट्टवर्धनसुतमाधवपट्टवर्धनः ।
भारद्वाजगोत्रीयनागदेवपट्टवर्धनसुतसरस्वतीनागदेवपट्टवर्धनः । काश्यपगो-
त्रीयविष्णुभट्टोपाध्यायसुतमलिदेवमट्टोपाध्यायः । आत्रेयगोत्रकेशवपट्टवर्ध-
नस्स भ्राता मधुसूदनपट्टवर्धनः । आत्रेयगोत्रवरदेवसुतप्रौढसरस्वतीनां
वृत्तिद्वयम् । काश्यपगोत्रविष्णुदेव(ः) । वामनभट्टोपाध्यायः । काश्यप-
गोत्रनागदेव(नागदेव)मट्टोपाध्यायः । काश्यपगोत्रीयबोनकममश्यणमट्टो.
पाध्यायः । वासिष्ठगोत्रीयसामवेदिचद्यणमट्टोपाध्यायः । काश्यपगोत्रीय.
स्वयंपाकिविश्वनाथभट्टोपाध्यायः । काश्यपगोत्रीयगोकागेयवेदार्थदनागदेव-
मट्टोपाध्यायः । मौनभार्गवगोत्रीयमेधाविधैससुतउत्तमक्रमितः 1 काश्यपगो-
त्रीयअण्णिगेरेयविष्णुपट्टवर्धन) । भारद्वाजगोत्रीयरिहशुक्लसुतश्रीविप्रदा-
सपद्मनामशर्मोपाध्यायः तस्य वृत्तिचतुष्टयम् । आत्रेयगोत्रसामवेदिहरिह-
रमट्टोपाध्यायः ॥५॥

१६० काव्यमाला। भूमि यः प्रतिगृह्णाति यश्च दानं प्रयच्छति । तावुभी पुण्यकर्माणी नियती(त) वर्गगामिनी ।। अपि हस्तमितां भूमि यो विप्राय प्रयच्छति । पष्टि वर्पसहस्राणि खर्गे लोके महीयते ॥ दानपालनयोर्मध्ये दानाच्छेयोऽनुपालनम् । दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् ।। स्वदत्तां परदतां वा यो हरेत वसुंधराम् । पष्टिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः ।। गामेकां रनिकामेकां भूमेरप्येकमगुलम् । हरन्नरकमामोति यावदा भूतसंप्लवम् ।। सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो महद्भिः । सर्वानेतान्माविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ।। यो देवपूजाप्रगृहीतचित्तो यो वैरिपक्षेषु गृहीतखड्गः । यो ब्राह्मणेप्वर्पितवित्तराशिः स चौण्डिसेडिर्भवताञ्चिरायुः ।। बहुभिर्वसुधा भुक्ता राजमिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। श्रीमचौण्डीश्वरकृतधर्मोऽयं सर्वधर्मतोऽभ्यधिकः । कल्पस्थायी भूयाद्यादप्येप दीर्घायुः ॥ ५ ॥ श्रीसोमनाथश्रीपादपद्माराधकः श्रीचौण्डिसेट्टिः ॥ ७ ॥ लेखकः ज्योतिपयसवणोपाध्यायः ॥ ॥ श्री | स्वस्तिश्री ॥ मङ्गलं महाश्री || ७॥ श्री ॥ ७॥ काश्यपगोत्रमङ्गलपण्डितसुतगोपालपण्डितो महाराजनङ्गलिगेनडहं था- वेद्यवृत्ति ड ॥ ५ ॥ श्रीः ॥ ७ ॥ भारद्वानगोत्रीयहिमडनागदेवपट्टव- धनः । भारद्वाजगोत्रीयविप्रदासपद्मनाभभट्टोपाध्यायसुतसोमनाथदेवस्य - त्तिद्वयम् ॥ ॥ श्री ॥ (इण्डियन् आण्टिक्वेरी १४६८-७५) ४० लेखः] प्राचीनलेखमाला। (४०) नेपालमहीपालसिद्धिनृसिंहमल्लस्य प्रशस्तिः। ॐ नमो गोपालाय ॥ ब्रह्मत्वे सुजते विश्वं स्थिती पालयते हरे। रुद्ररूपाय कल्पान्ते नमस्तुम्यं त्रिमूर्तये ॥ प्रावीण्यप्रथितः प्रतापमथितप्रत्यर्थिपृथ्वीपति- प्रोद्दामप्रमदौघलोचनपयःप्रारब्धवारांनिधिः । जातः श्रीहरिसिंहदेवनृपतिर्दातावदातान्वये संप्राप्तः पृथुना नृपेण समतां यो वृत्तिदाता सताम् ।। यस्यान्ववायजलधावुदियाय राज- चन्द्रो महेन्द्र इव तत्र महेन्द्रमल्लः। येनार्थिकल्पतरुणा गुणसागरेण राजन्वती वसुमती महती बभूव ॥ यत्रौढप्रमवत्प्रतापपतिताः प्राकम्पिताः शत्रवो मेजुः शैलदरीं विहाय नगरी त्यक्त्वा पुरे सुन्दरीम् । यस्याचारविचारपोरुपरवव्यग्राः समग्रा गिर- स्तस्य क्षोणिपतेः प्रसिद्धमहसः केनोपमेयं यशः। अस्यात्मनोऽजनि महीतलकल्पवृक्षो राजा विरानितयशाः शिवसिंहदेवः। भूमीभुना समरसीम्नि महाभुजेन क्षेमं क्षणेन रिपवो बहवो विनष्टाः ।। येन क्षोणिभुजा प्रयाणसमये पादातसैन्योच्छल- दूलीजास्तसमुत्थितेन मनसा व्योमान्धकारीकृतम् । कूर्मो मर्मणि चूर्णितोऽपि नितरां धत्ते कथंचिद्धरां शेपः शेषदशां जगाम सहसा सर्वसहा निःसहा ॥

'काव्यमाला
तनयोऽस्य विनयपूर्णो बभूव कर्णोपमो भूमौ ।
हरिहरसिंहनरेन्द्रो वसुधाचन्द्रो बभूवासौ ॥
अरीणां निहन्ता यशःपारगन्ता सुशीलः समन्ताजयन्ताधिकश्रीः ।
खतातानुरूपोऽतितेजःसुरूपो बभूवावनीमण्डले चण्डरोचिः ॥
इन्द्राणीव सुरेश्वरस्य दयिता पद्मेव पद्मापते-
वैदेहीव रघूत्तमस्य गृहिणी गौरीव गौरीपतेः ।
तस्य क्षोणिपतेर्बभूव महिपी भव्या भवानीसमा
राज्ञी लालमती सती गुणवती प्रायो रतिर्भारती ॥
पौरंदरी दिगिव नूतनभानुबिम्ब
सौन्दर्यकाननगजाननमम्बिकेव ।
पुत्रं पवित्रमथ सिद्धिसिंहमलं
सा राजपुत्रतनया जनयांबभूव ॥
येनाकारि विपक्षपक्ष्मलदृशां दृग्वारिभिर्वारिधि-
पैनाधारि जगत्रयोपरि शरच्चन्द्रावदातं यशः ।
बाल्योपक्रम एव विक्रमवतस्तस्याधुना पौरुषे
श्रीमत्सिद्धिनृसिंहमल्लनृपतेयुद्धे समर्थो हि कः ॥
यद्भूमीपालगङ्गाजलविमलयशःपूरकर्पूरपूरै-
ब्रह्माण्डे पाण्डुरेऽस्मिन्समननि रजनीनायको निष्कलङ्कः ।
तत्कि भूसेवकोऽभून्मुखमलमिपादेप यस्यामृतांशुः
सोऽयं दीर्घायुरास्तामधिधरणि मणिः सिद्धिपूर्वो नृसिंहः ।।
दानास्पीकृतकल्पवृक्षगरिमा सीमा च तेजस्विनां
श्रीमानद्भुतकीर्तियुक्तमहिमा भीमानुजः साहसे ।
दोर्दण्डद्वयचण्डिमान्तगलितप्रत्यर्थिपृथ्वीपतिः
श्रीमत्सिद्धिनृसिंहमलनृपतिर्वर्वति सर्वोपरि ।।
प्रातिष्ठयं च युधिष्ठिराधिकतरं निष्ठा वसिष्ठाधिका
कीर्तिः कार्तिककृत्तिकापतिमति()स्तस्याधिका वर्तते ।

४० लेसः] मानीनलेतमाला। वाणी व्याससमा रमा स्थिरतमा रामाभिरामाकृतिः श्रीमसिद्धिसिंहमलनृपतेः किं नाम यन्नाद्रुतम् ॥ कदानिदेतेन महोनतेन मठः कृतः कोऽपि धनैरनेकैः । श्रीबालगोपालविरामभूमिविकुर्थतामर्त्यधरा जगत्याम् || यो मेरुमन्दरमहेन्द्रहिमाद्रिविन्ध्य- कैलासशैलशिखरभ्रममातनोति । कि चास्य हेमकलशानवलोक्य देवैः संदिपते कनकधामनि पर्यतेन्द्रे ॥ हालेपालय स्वरशरतुरगैरविते (७५७) फाल्गुनीये पक्षे प्राप्ते वलक्षेऽमरगुरुदिवसे शंकरर्स दशम्याम् । चके जाम्बूनदीयैर्गुरुतरकलशै स्वररेकरिशे- नेपालक्षोणिपालः प्रथितभुजबलो भूपणं तन्मठस्य ॥ युद्धारम्भः कृतोऽलिन्नपि शुभदिवसे शत्रुभियुद्धशौण्डै- <ष्टः कोटोऽवरुद्धः कुटिलनृपभटेरशतैः कोटिसंख्यैः । लीलामात्रेण शवनपयनयत(तदा पार्थिवः पार्थतुल्यः कोर्ट निर्मोनयित्वा नमुनिरिपुरिवानन्दसंदोहमाप || राजसूय इवारब्धो मध्यस्थेन महीभुना । विशिष्य शेपनागोऽपि न शक्तो यस्य वर्णने ॥ आचार्यो यत्र मर्यादाधैर्यौदार्यदयानिधिः । विश्वनाथ उपाध्यायो विश्वनाथ इवामवत् ।। यो मेरुभूधर इवातिगुरुर्गरिम्णा योऽसौ महार्णव इवातिमहान्महिम्ना । यो व्यासवद्विविधवैदिकमन्त्रपाठे यो निष्ठया भुवि वसिष्ठमहर्पिकल्पः ॥ यात्रायाता मञ्जुयन्तः) कियन्तो विद्यावन्तो जञ्जपूका यिवन्तः (१)। नानादिग्भ्यः पण्डितैरम्युपेतं सत्रे तस्मिन्मण्डपं मण्डितं थैः ।। १. निस्ताब्दे तु १३६३ एतन्मिते. ..

काव्यमाला।
द्वास्थातारौ कल्पिती तत्र सधे द्वौ द्वौ द्वारि द्वारि देवपितुल्यौ ।
भूपाभूतो विद्विपां दर्पहन्ता नेता तेपा विश्वनाथो मनीपी ।।
आरब्धे शिविना नृपेण विधिना सत्रे पुरा गौरवा-
दग्नेः खाण्डवखण्डनं समतनोद्गाण्डीवकोदण्डवान् ।
तसिन्सिद्धिनृसिंहमछनृपतेः सत्रे घृताजीर्णतः
किं भूयासमितीव मुञ्चति शिखी बाप्पाणि धूमच्छलात् ॥
चत्वारिंशदिनान्यासीन्महासोमो महोत्सवः ।
श्रीमान्सिद्धिनृसिंहेन कलिकर्णेन कारितः ।।
संमारः सर्ववस्तूनां राजसूये यथा श्रुतः ।
तथैव तत्र सत्रेऽपि जातस्तदधिकोऽपि वा।
रत्ने स्वर्ण गवादी करितुरगधने भूपणे दिव्यवस्ने
दासीदासे निवासे विविधरसमये भक्ष्यमाने पवित्रे ।
चत्वारिंशद्दिनानि क्षितिपकुलमणेरास्यपझे प्रसन्ने
वाणी तत्रोल्ललास प्रतिपदमधिका देहिदेहीति मात्रा ।।
पामरी(!) वलयकुण्डलादिकं दृष्टपूर्वमपि येन न क्वचित् ।
तेन तत्र नृपतेः प्रसादतो भिक्षुणा निजतनी समर्पितम् ॥
दिव्यान्येव गृहाणि दिव्यवसुधारत्नानि दिव्याम्बरं
दिव्यान्येव विभूपणानि सदयो दिव्यानि रत्नानि च ।
नेपाले प्रचरन्ति यानि वसुधावस्तूनि दिव्यान्यसी
श्रीमत्सिद्धिनृसिंहमल्लनृपतिः सर्वाणि तान्यार्पयत् ।।
यानि दृष्टानि वस्तूनि न श्रुतानि कदाचन ।
तानि दत्तानि सर्वाणि तत्र सत्रे महीभुजा ॥
येनाकारि जगत्रयोपरि मठो होमोऽपि कोट्याहुति-
दत्ता स्वर्णशतद्वयी प्रतिदिनं किं किं न दत्तं धनम् ।
दत्तस्तण्डुलपर्वतोऽपि विधिना कल्पद्रुमोऽप्यद्भुतः
श्रीमत्सिद्धिनृसिंहमलनृपतिः कर्णावतारो ध्रुवम् ॥

४० लेखः] प्राचीनलेसमाला। १६१ विद्यावन्तः कियन्तो विविधगुणभृतः केऽपि विद्याविहीना नानादिग्भ्यः समेताः श्रुतनृपतिगुणा भिक्षवो लक्षसंख्याः । तेपामनैः सुपर्णैः मुललितवसनैर्भूपणायैर्धनौधै- दारियं वारयित्वा नृग इय मुमुदे देवकल्पोऽवनीन्द्रः ।। कर्णः कन्यातनूगो बलिरपि विदितः किंतु दैतेयजन्मा. पापाणो देवतानां मणिरजनि महादारु देवद्रुमोऽपि । भ्रान्तो राजा नृगोऽपि प्रथितभुनबलो भार्गवो मातृहन्ता कोऽन्यो धन्यो वदान्यो जगति विजयते सिद्धिपूर्वान्नृसिंहात् ॥ नित्यानि गीतानि मनोहराणि वाद्यानि हृद्यानि च कौतुकानि । अन्नानि वस्राणि विभूपणानि सर्वाणि जातानि च तत्र सत्रे ।। यावचन्द्रदिवाकरावुदयतो यावन्महीमण्डलं यावत्पर्वतनन्दिनी पशुपतेरुत्सङ्गमालिङ्गति । यावजदुकलिन्दयोरपिसुते तावद्वरीवर्तता श्रीमत्सिद्धिनृसिंहमलनृपतेरेपा यशोवल्लरी ॥ अथ नेपालभाषा लिख्यते- संवत् ७५७ फाल्गुणमासे शुक्लपक्षे दशम्यां तिथी आर्द्रापरपुनर्वसु- नक्षत्रे आयुष्मान्योगे बृहस्पतिवासरे थ्व कुछ कोट्याहुतियज्ञ याडन देवतास्थापन याडन नियछपु गजुरिछास्यं देवो यका दुता । रोव ७ पोवि वू रोव देस पविखं ३ खोरागार वू रोव श्लंपि १४ तवधर वू करख छि १ थछे वाटिका व तेया वरसानन नित्यपूजानि- श्रावहोम याङन इंसाधन वुगंयातन इन्द्रयातन मतंछोपके स्वहन्तो धारे कार्तिकलछिघेर प्लछि धारेण जलदेवाछोयके कृष्णाष्टमीकुहु चाक्रमतं छो- यके य्वते जुलो भूय रोव गुं ९ यंथाको वू रोव च्या ८ काकापलि रोव श्ललनछि १२ गुस्तलको यूं रोव हेस ७ खोमोर वू थ्वत वूया वरसानन फाल्गुन शुक्लपूर्णिमासी प्रतिपत्संधि स दोलयात्रा ज्येष्ठ शुक्लपूर्णिमा कुछ स्नानयात्रा आपाढशुक्लद्वादशी कुहु शयनपूजा देवशयन याचके श्रावण- आयप्रत्याय

काव्यमाला।
शुक्ल द्वादशी कुदु पवित्रारोहण श्रावणकृष्णाष्टमी कुटु जन्माष्टमीपूना
चाक्रमतं छोयके कार्तिक शुक्लद्वादशी कुहु उत्यानपूना वारी ब्राह्मनेयातं
दशं गुये फ ९० जाक्य विय थ्व छपतकजुरो । भूय रोव संखू १६
ध्वे वू रोव ख थ्वां यूं थ्वतेय वरसानन कार्तिकलछि चेकन कुडपुन ६ ।
श्लंछि नियपात १२० चाकमतं छोयके मालभूय निश्राव दछिना यात
मगाङाव तंडा रोव डा ५ न्यंखुवू-
(इन्स्क्रिप्शन्स् मॉम नेपाल २३-२६).
(४१)
नेपालपालस्य श्रीजयदेवमहीपतेः प्रशस्तिः।
ध्यक्षस्त्रय्यव्ययात्मा त्रिसमयसदृशस्त्रिप्रतीतस्त्रिलोकी-
त्राता त्रेतादिहेतुस्त्रिगुणमयतयाव्यादिभिर्वणितोऽलम् ।
निस्रोतोधौतमूर्धा त्रिपुरनिदजितो निर्विबन्धत्रिवर्गों
यस्पोत्तुङ्गत्रिशूलस्त्रिदशपतिनुतः (पापिनां) तापनोऽभूत् ॥
राजद्रावणमूर्धपतिशिखरव्यासक्तचूडामणि-
श्रेणीसंगतिनिश्चलात्मकतया लङ्कां पुनानाः पुरीम् ।
.."संगताः
श्रीबाणासुरशेखराः पशुपतेः पादाणवः पान्तु वः ॥
सूर्याक्षाप्रपौत्रान्मनुरथ भगवाजन्म लेभे ततोऽभू-
दिक्ष्वाकुश्चक्रवर्ती नृपतिरपि ततः श्रीविकुक्षिर्बभूव ।
जात
"विदितो भूमिपः सार्वभौमो
भूतोऽस्माद्विश्वगधः प्रबलनिजबलव्याप्तविश्वान्तरालः ॥
राजाप्टोत्तरविंशतिक्षितिभुजस्तस्मान्यतीत्य क्रमा-
संभूतः सगरः पतिः
"रायाः सिते।
जातोऽसादसमञ्जसो नरपतिस्तस्मादभूदंशुमा-
न्स श्रीमन्तमजीमनन्नरवरो भूपं दिलीपाद्वयम् ॥
................

ना................... ४१ लेखः] प्राचीनलेखमाला । १६७ भेजे जन्म ततो भगीरथ इति ख्यातो नृपोत्रान्तरे भूपाला" रघोरप्यजः । श्रीमत्तुङ्गरथस्ततो दशरथः पुत्रैश्च पौत्रैः समं राज्ञोऽष्टावपरान्विहाय परतः श्रीमानभूल्लिच्छविः ।। अस्त्येव तितिमण्डलैकतिलको लोकप्रतीतो महा- प्रभावमहतां मान्यः सुराणामपि । स्वच्छं लिच्छवि नाम बिभ्रदपरो वंशः प्रवृत्तोदयः श्रीमचन्द्रकलाकलापधवलो गङ्गाप्रवाहोपमः ।। तस्माल्लिच्छवितः परेण नृपतीन्हित्वा प....." श्रीमान्पुप्पपुरे कृतिः क्षितिपतिर्जातः सुपुष्पस्ततः । साकं भूपतिभित्रिभिः तितिभृतां त्यक्त्वान्तरे विशति ख्यातः श्रीजयदेवनामनृपतिः प्रादुर्बभूवापरः ॥ एकादशक्षिति त्यक्त्वान्तरे विजयिनो जयदेवनाम्नः । श्रीमान्बभूव तृपदेव इति प्रतीतो राज्ञोत्तमः सुगतशासनपक्षपाती ॥ अभूत्ततः शंकरदेवनामा श्रीधर्मदेवोऽप्युदपादि तस्मात् । श्रीमानदेवो नृपतिस्ततोऽभूत्ततो महीदेव इति प्रसिद्धः ॥ वसन्त इव लोकस्य कान्तः शान्तारिविग्रहः । आसीद्वसन्तदेवोऽस्माद्दान्तसामन्तवन्दितः॥ अस्यान्तरेऽप्युदयदेव इति क्षितीशा- जातात्रयोदश ततश्च नरेन्द्रदेवः । मानोन्नतो नतसमस्तनरेन्द्रमौलि. मालारमोनिकरपांशुलपादपीठः ॥ दाता सविणस्य भूरिविभवो जेता द्विपत्संहतेः कर्ता वान्धवतोपणस्य यमवत्पाता प्रजानामलम् ।

काव्यमाला।
हर्ता संश्रितसाधुवर्गविपदा सत्यस्य वक्ता ततो
जातः श्रीशिवदेव इत्यभिमतो लोकस्य मर्ता भुवः ।।
देवी बाहुबलाढ्यमौखरिकुलश्रीवर्मचूडामणि-
ख्यातिदेपितवैरिभूपतिगणश्रीभोगवर्मोद्भवा ।
दौहित्री मगधाधिपस्स महतः ,यादित्यसेनस्य या
व्यूढा श्रीरिव तेन सा तितिभुना श्रीवत्सदेव्यादरात् ।।
तस्मादमिभुमोऽप्यनायत जितारातेरनय्यः परे
राजश्रीजयदेव इत्यवगतः श्रीवत्सदेव्यात्मजः ।
त्यागी मानधनो विशालनयनः सौजन्यरत्नाकरो
विद्वा....."चिराश्रयो गुणवतां पीनोरुवक्षःस्थलः ॥
माद्यद्दन्तिसमूहदन्तमुप्तलक्षुण्णारिभूभृच्छिरो-
गौडोड़ादिकलिङ्गकोसलपतिश्रीहर्पदेवात्मना ।
देवी राज्यमती कुलोचितगुणैर्युक्ता प्रभूता कुले-
येनोढा भगदत्तराजकुंलना लक्ष्मीरिव क्ष्माभुजा ।।
अङ्गश्रिया परिगतो जितकामरूपः
काञ्चीगुणाढ्यवनिताभिरुपास्यमानः ।
कुर्वन्सुराष्ट्रपरिपालनकार्यचिन्तां
यः सार्वभौमचरितं प्रकटीकरोति ॥
राज्यं प्राज्यसुखोजितद्विनजनप्रत्यर्पिताज्याहुति-
ज्योतिर्जातशिखाविजृम्भणजिताशेपप्रजापद्भुजम् ।
बिभ्रत्कण्टकवर्जितं निजभुजावष्टम्भविस्फूर्जितं
शूरत्वात्परचक्रकाम इति यो नाम्ना परेणान्वितः ।।
स श्रीमाञ्जयदेवाख्यो विशुद्धबृहदन्वयः ।
लब्धप्रतापः संप्राप्तबहुपुण्यसमुच्चयः ॥
मूर्तीरष्टाभिरष्टौ महयितुमतुलैः खैर्दलैरप्टमूर्तेः
पातालादुत्थितं किं कमलमभिनवं पद्मनाभस्य नाभेः।

४१ लेखः]
प्राचीनलेखमाला।
देवस्यास्यासनायोपगतमिह चतुर्वनसादृश्यमोहा-
द्विस्तीर्ण विष्टरं किं प्रविकसितसिताम्मोजमम्भोनयोनेः ।।
कीर्णा किं भूतिरेपा सपदि पशुपतेर्नृत्यतोऽत्र प्रकामं
मौलीन्दोः किं मयूखाः शरदमभिनवां प्राप्य शोभामुपेताः। .
भक्त्या कैलासशैलाद्धिमनिचयरुचः सानवः किं समेता
दुग्धाब्धेरागतः किं गलगरसहजप्रीतिपीयूपराशिः ॥
देवं वन्दितुमुद्यतो द्युतिमतो विद्योतमानातिः
किं ज्योत्स्नाधवला फणावलिरियं शेपस्य संदृश्यते ।
अन्तर्दूररसातलाश्रितगतैर्देवं प्रभावनिया
किं क्षीरस्नपनं विधातुमुदिताः क्षीरार्णवस्योर्मयः ॥
विष्णोः पातालमूले फणिपतिशयनाक्रान्तिलीलासुखस्था-
दाज्ञां प्राप्योत्पतन्त्यात्रिपुरविजयिनो भक्तितोऽभ्यर्चनाय ।
लक्ष्म्याः संलक्ष्यते प्राकरतलकलितोत्फुल्ललीलासरोज
किं वेतीत्थं वितर्कास्पदमतिरुचिरं मुग्धसिद्धाङ्गनानाम् ॥
नालीनालीकमतन्न खलु समुदितं राजतो राजतोऽहं
पद्मा पद्मासनाजे कथमनुहरतो सानवा मा नवामे ।
पृथ्व्यां पृथ्व्यां न मादृग्भवति हृतजगन्मानसे मानसे वा
भाखान्मास्यान्विशेषं जनयति नहि मे वासरो वा सरो वा ॥
इतीव चामीकरकेसरालीसिन्दूररकद्युतिदन्तपवया ।
रानीवराजी प्रति जीवलोके सौन्दर्यदर्पादिव सप्रहासम् ॥
एपाभाति कुलाचलैः परिवृता प्रालेयसंसगिभि-
वैदी मेरुशिलेव काश्चनमयी देवस्य विश्रामभूः ।
शुभैः प्रान्तविकासिपवनदलैरित्याकलय्य खयं
रौप्यं पद्ममचीकरत्पशुपतेः पूनार्थमत्युज्वलम् ॥

१७०
काव्यमाला।
राज्ञः ॥
यं स्तौति प्रकटप्रभावमहिमा ब्रह्मा चतुभिर्मुखै-
र्य च श्लाघयति प्रणम्य चरणे पद्धिर्मुखैः पण्मुखः ।
यं तुष्टाव दशाननोऽपि दशभिर्वः स्फुरत्कंधरः
सेवां यस्य करोति वासुकिरलं निहासहस्त्रैः स्तुवन् ।।
ख्यात्या यः परमेश्वरोऽपि वहते वासो दिशां मण्डलं
व्यापी सूक्ष्मतरश्च शंकरतया ख्यातोऽपि संहारकः ।
एकोऽप्यष्टतनुः सुरासुरगुरुव/तत्रपो नृत्यति
स्थाणुः पूज्यतमो विराजति गुणरेवं विरुद्धरपि ।
राज्ञः॥
तस्येदं प्रमथाधिपस्य विपुलं ब्रह्माजतुल्यं शुभं
राजद्राजतपङ्कजं प्रविततं प्रान्तप्रकीर्दलैः ।
पूनार्थ प्रविधाप्य तत्पशुपतेर्यत्रापि पुण्यं मया
भक्त्या तप्रतिपाद्य मातरि पुनः संप्राप्नुयां निर्वृतिम् ॥
कि शंभोरुपरि स्थितं ससलिलं मन्दाकिनीपङ्कजं
खाद्भिन्ननवाम्बुजेक्षणधिया संप्राप्तमम्भोरुहम् ।
देवानां किमियं शुभा मुकृतिनां रम्या विमानावली
पद्मं किं करुणाकरस्स करतो लोकेश्वरस्यागतम् ।।
राज्ञः॥
स्रोतः स्वर्गापगायाः किमिदमवतरलोलकल्लोलरम्यं
किं ब्रह्मोत्पत्तिपमं तलकमलवरप्रेक्षणायोपयातम् ।
संप्राप्तं चन्द्रमौलेरमलनिनशिरश्चन्द्रबिम्बं किमत्रे-
त्येवं यद्वीक्ष्य शङ्कां वहति भुवि ननो विस्मयोत्फुल्लनेत्रः ।।
श्रीवत्सदेव्या नृपतेर्ननन्या समं समन्तात्परिवारपझैः ।
रोप्यं हरस्योपरि पुण्डरीकं तदादरैः कारितमत्युदारम् ॥
१. भगवतो युद्धस्स.
.

४२ लेस: प्राचीनलेतमाला। पुण्यं पुत्रेण दत्तं शशिकरविमलं कारयित्यानमुख्य प्राप्तं शुभं शुभं च स्वयमपि रजतैः पद्मपूजां विधाय । सर्व श्रीवत्सदेवी निजकुलधवलां चित्तवृत्ति दधाना प्रादात्कल्याणहेतोश्विरमवनिभुजे स्वामिने खर्गताय ॥ कः कुर्यात्कुलनः पुमानिनगुणश्लाघामनिहींच्छया राज्ञा सत्कविनापि नो विरचितं काव्यं स्ववंशाश्रयम् । लोकान्पश्च विहाय साधुरनितान्माक्षेन राक्षा स्वयं स्नेहानूभुनि बुद्धकीतिरकरोत्पूर्वामपूर्वामिमाम् ॥ योगक्षेमविधानबन्धुरभुनः संवर्धयन्यान्धवा- स्रियत्पुत्रकलत्रभृत्यसहिते लब्धप्रतापो नृपः । दीर्घायुनितरां निरामयवपुनित्यप्रमोदान्वितः गृथ्वी पालयतु प्रकामविभवस्फीतानुरक्तप्रनाम् ।। संवत् ११३ कार्तिकशुरूनवम्याम् । (इन्स्क्रिप्शन्स् फ्रॉम् नेपाल १६-१८). (४२) प्रतापमल्लनृपतिप्रासाद्मशस्तिः। आसीच्छीसूर्यवंशे रघुनृपकुलनो रामचन्द्रो नृपेश- स्तद्वंशे नान्यदेवोऽवनिपतिरभवत्तत्सुतो गङ्गदेवः । तत्पुत्रोऽभून्नृसिंहो नरपतिरतुलस्तत्सुतो रामसिंह- सज्जः श्रीशक्तिसिंहो धरणिपतिरतो भूपभूपालसिंहः ।। तस्मात्कर्णाटचूडामणिरिव हरयुत्सिंहदेवोऽस्य वंशे भूपः श्रीयक्षमल्लो नरपतिरतुलो रत्नमल्लोऽप्यमुप्मात् । तलाच्छीसूर्यमल्लो धवनिपतिरभूत्तत्तनूनोऽमराख्यो मल्लोऽभूत्तस्य पुत्रो रिपुगणयिजयी श्रीमहेन्द्राख्यमल्लः ॥ १. ७५९ सिस्तान्दे.

१७२
काव्यमाला।
तस्माच्छिवसिंहोऽभूद्धरिहरसिंहः सुतस्तस्मात् ।
तस्मालक्ष्मिनृसिंहो नरसिंहपराक्रमः [सूनुः ॥
तस्माच्छ्रीमत्मतापो नरपतिरभवद्भपमालावलीषु
न्यस्यत्पादारविन्दद्वयरसविलसद्रेणुभिर्भूपणानि ।
योऽकात्कूितिखासाकिरमिति ववशे भोट्टभूपस्य देशा-
जग्राहेवावदीनं प्रतिदिनमपरे यं भजन्ते नरेशाः।।
भक्तग्रामनरेशमल्लनृपतिर्दत्त्वेभमेनं भिया
भेजेऽसौ वसुधां जहार सुदृढं संधार्य दुर्ग पुनः ।
श्रीमड्डम्बरशाहभूपतिवलं विध्वस्य हत्वा वलं
श्रीमत्सिद्धनृसिंहमलनृपते ग्राह दुर्गावलीम् ।।
आस्ते क्वाप्यमरावतीव विलसदन्तीन्द्रदिव्याङ्गना-
युक्ता स्वर्णमयी विहारनगरी सा राजधानी परा ।
श्रीमच्छ्रीकमलाधिका मधुपतेरिन्द्रेण तुल्यस्य च
प्रत्यर्थिवजनिर्जितस्य नवपुन्नारायणस्यापि च ॥
लक्ष्मीनारायणस्तसाद्वीरनारायणस्ततः ।
पुत्री रूपमती तस्य प्राणनारायणः सुतः ॥
सेयं रूपमती सती गुणवती स्वर्णद्युतिः सन्मति-
औद्यत्कुञ्जरगामिनी प्रणयिनी साक्षात्परा रुक्मिणी ।
आसीत्सर्वगुणा पितुर्नरपतेः श्रीमप्रतापस्य सा
पत्नी प्राणसमा यथा जलनिधेः पुत्री जगत्पायिनः ॥
कर्णाटीरङ्गघाटी कुचकनकपटी कामलीलैकवाटी
स्वर्णालंकारकोटी हरिसदृशकटी चारुदेहानुपाटी ।
नाम्ना राजमती महारसवती भूपप्रतापस्य सा
भूता भोगवधूटिका किल हरे मेव जीवाधिका ॥
स्वार्थ कृतवान्प्रतापनृपतिः सद्योपितोरेतयोः
प्रासादं वसुपनपद्मसदृशं शृङ्गाष्टकैः शोभितम् ।

४३ लेखः] प्राचीनलेखमाला। १७३ नानाचिनविरानितं सममिदं सद्वैजयन्तेन वै होमाद्यैरकरोच्छ्रुतिस्मृतिमतैरस्य प्रतिष्ठाविधिम् ॥ संवत् ७६९ फाल्गुन शुक्लषष्ठयां अनुराधानक्षने हर्पणयोगे वृहस्प- तिवासरे। (इन्स्क्रिप्शन्स् फ्रॉम् नेपाल २७-२८). (४३) नेपालक्षितिपालवंशावलिः। श्री ३ भवानीशंकराभ्यां नमः । नत्वा गिरीन्द्रतनयां प्रलयानलामां भालोल्लसल्ललितचन्द्रकलाभिरामाम् । मल्लप्रतापनृपतिः स्वकुलप्रकाशा वंशावली सुतनुते विमला कवीन्द्रः ।। श्रीविष्णोनयनाम्वुजात्रिजगतीपापान्तकर्ता रविः प्रोद्भूतस्तिमिरोघवारणंघटाविद्रावणः केसरी । कालाकाशदिशां प्रकाशनिपुणः कंदर्पदर्यापहः सानन्दं सरसीरुहेपु तनुते मैत्री विचित्राकृतिः ।। गाम्भीर्यादिगुणेन सागरसमो धैर्येण विन्ध्याचलः सौन्दर्यप्रकरण दैत्यदलनो रूपेण कामोपमः । जातो भूमितले ततोऽतिविमले वैवस्वताख्यो मनु- मयादा रचिता सतां समुचिता कीर्तिप्रदा येन वै ।। तशे विमले बभूव धरणीचन्द्रो दिलीपो हि यो देवेन प्रमथाधिपेन तुलनां प्राप प्रचण्डे रणे । यस्य प्रौढतरप्रतापदहने नित्यं द्विपः शेरते दृष्ट्वा तस्य कलेवरं मुविमलं कामेन दग्धं वपुः ॥ जातः सन्नपसत्तमो रघुरिति ख्यातस्ततो वीर्यवा- न्वाणाः परिमथ्य शाहृदयं कीर्तिः स्थिरा स्थापित्ता ।

१७४ काव्यमाला। यस्य प्रौढतरप्रतापतपनत्रासेन सद्यः कृता वृष्टिस्तेन धनेश्वरेण ललिता कातखरी भूतले ॥ जातो भूपवरस्ततः कलिहरः श्रीमानको वीर्यवा- न्दुष्टानां किल दर्पहारणविधी प्रोद्भुतकण्ठीरवः । शिष्टानां प्रतिपालकः प्रतिपलं दानः म्मनः पश्चादिन्दुमतीवियोगजनितक्लेशाब्धिमध्येऽपतत् ॥ जातो देवतनुस्ततो दशरथः कंदर्पदपापहः सेनापत्यमुपेत्य पङ्कपतितः शत्रुः(क) कृतो निर्भरः(यः)। क्रूरः कोपरतः प्रसारितभयो भेत्तुं गतः कृत्तिका पापे संसक्तचित्तः शनिरपि सहसा स्तम्भितो येन मार्गे ॥ जातस्तत्तनयो महानययुतो रामोऽभिरामाकृति- दर्दानेन प्रचुरेण वर्धितगुणः स्यातस्त्रिलोकीतले । बड़ा यो जलधि निशाचरभटान्निर्जित्य लकापुरी गत्वा रावणराक्षसं कलिकरं हत्वा वशे लब्धवान् ॥ तत्पुत्रः सूर्यतुल्यो लव इति विदितो प्रोल्लसद्दानपुण्ये- र्जातो भूचक्रशक्रः प्रथितगुणचयः संमतः सज्जनानाम् । शत्रूणां शासकोऽसौ प्रबलरणधराधारणादत्तभारो धर्मात्मा देवतुल्यो दशरथतनया निर्जिता येन संख्ये ।। जातः श्रीहरिसिंहदेवनृपतिः प्रौढप्रतापोदय- स्तद्वंशे विपुले महारिपुहरे गाम्भीर्यरत्नाकरः । कर्ता यः सरसामुपेत्य मिथिलां संलक्ष्य लक्षप्रियो नेपाले पुनराठ्यवैभवयुते स्थैर्य विधत्ते चिरम् ॥ माणिक्यप्रतिमप्रतापपटलैरादीप्तलोकत्रयो मुक्तापङ्क्षिसहस्रशोभनयशोवृन्देन संशोभितः । पक्षत्याकृतिकर्णवारणगिरिग्रामावनव्याकुलः पारावारमिवेह यः परिहसत्याधाय चित्तेऽच्युतम् ।।

४३ लेखः]
प्राचीनलेखमाला।
-
तत्पुत्रो यक्षमल्लः प्रबलरिपुहरः कर्णतुल्योऽवनीशः
सर्वासां नागरीणां नयनसुखकरः सर्वदः सज्जनानाम् ।
प्रोद्यहोर्दण्डचण्डाहृतनिशितमहाखड्गपातैर्विपक्षा-
क्षिप्त्वा सद्यः क्षितीशान्क्षितितलविषये प्रोल्लसत्कीर्तिचन्द्रः ।।
तस्माच्छीरत्नमल्ल: समजनि विबुधाराधने दत्तबुद्धि-
दन्तीनां दानकर्ता प्रबलरिपुकुलोत्सादने पार्थतुल्यः ।
यद्दानाम्बुप्रवाहप्रकरविलसितां वाहिनी वीक्ष्य नूनं
गङ्गासशात्प्रवृद्धं प्रचलमलनिधिः प्रेमगर्व मुमोच ।।
यो नु प्रौढतरान्निहत्य धरणीपालान्महासंगरे
गत्वा कान्तिपुरं चकार विमलं राज्यं तु स्वर्गोपमम् ।
श्रीसिद्धिर्हरपूर्विका हरवधूराराधनस्तद्वशे
जाता भावहृता मुदा सुविदिता चाद्यापि या तिष्ठति ।।
प्रोद्यप्रौढप्रतापप्रचुरपरिलसत्कुङ्कुमक्षोदपूर्णः
कीर्णः पाटीरपकैः सितकरकिरणाकारकीर्तिप्रतारः(नः) ।
मित्राणामत्र शैत्यं किमपि विरचयन्पूर्वपूर्वागतानां ।
तत्पुत्रः सूर्यमल्लो नरपतितिलकः प्रादुरासीत्प्रवीरः ।।
तस्मान्मल्लनरेन्द्रनामधरणीपालो बभूव प्रभुः
प्रोद्भुतप्रवलप्रतापदहनज्वालावृताहस्करः ।
यस्पारातिनितम्बिनी सुचकिता शुप्यन्मुखाम्भोरुहा
स्थित्वा पर्वतगह्वरेऽतिविषमे दैन्यं सदाभ्यस्यति ।
पुण्यौपयक्षदानविपुलैरीिपदाफिलैः
संजातस्तु महीन्द्रमल्लवमुधारनं ततस्तत्सुतः ।
येनेमां किल काश्यपी वसुमती रत्नेन पूर्णी वरां
दत्त्वा भूमिसुराय स्वर्गभवने कीर्तिः स्थिरा स्थापिता ॥
श्रीमामे भक्तपूर्व विनिहितसहसावासरूपप्रतिष्ठां
भावनिनित्य देवीं कलिकलुपहरी दैत्यदपीपहनीम् ।

काव्यमाला। आनीय स्वर्गतुल्ये रचितगृहवरे स्थापिता येन पूर्वे नित्यं तत्पूजनेन त्रिभुवनललितां सिद्धिमुग्रामवाप ॥ तस्माच्छ्रीशिवसिंहनाम नृपतिर्जातो धरामण्डले नेपालक्षितिपालभालतिलकः कंदर्पदोपहः । संसारार्णवतारणाय सततं नित्यं भवानीपद- ध्याने दत्तमनाः समस्तविदुषां मध्ये प्रसिद्धक्रियः ।। वैरिखीनयनाजनिर्गतजलैर्धाराम्बुभिर्येन वै शस्ताः सान्द्रकवन्धरन्ध्ररुधिरैर्नद्यः समासादिताः । तासां संगमसंभवं सुविमलं तीर्थ प्रयागाद्वयं यत्र स्नानकृता प्रलब्धमनिशं शत्रुक्षयं सत्फलम् ।। तस्मादरिहरसिंहो नरपतिसिंहो बभूव भूपालः । गच्छति जलनिधिपारं कीतिरेकाकिनी यस्य ॥ धत्ते गैरिकरागविभ्रमभयं यस्य प्रतापोत्करो यत्कीर्तिर्गुणपर्वतोपरिसरी कौतूहलं यच्छति । एतेनैव तु हेतुनास्य तु गुणान्विज्ञाय शैलोत्तमा- न्दूरस्थाः प्रपलाय्य संनिधिममी कुर्वन्ति यद्वैरिणः ॥ श्रीलक्ष्मीनरसिंहनामनृपतिस्तस्मादभूत्सन्मति- र्वाणाप्रैः परिपन्थिमन्थनकरः कारुण्यपुण्याकरः। यं दृष्ट्वा खलु वैरिवर्गवनिता कम्पाकुला सर्वदा प्राणेशस्य सुजीवितं मम विभो देहीति संयाचते ।। अष्टाशास्वपि यत्प्रतापतपनस्यालोक्य नित्योदयं दीप्तात्मापि दिवानिशं भृशमहो विश्वान्धकारापहम् । आत्मानं सहसा समीक्ष्य मनसा हीनं हठाद्गर्हय- न्सायं सायमयं स्वयं दिनमणिर्दीनोऽम्युधौ मज्जति ॥ श्रीलक्ष्मीनरसिंहभूपतिदिवप्रस्थानकालोद्यते देवः शहदनभरिपटहध्यानर्दिशः पूरिताः ।

४३ लेखः] प्राचीनलेखमाला । १७७ प्रौढाः शूरतराः प्रदारितरिपोर्ब्रह्माण्डचण्डोल्लस- न्मार्गेणैव विनिर्गताः सुयमिताः प्राणास्त्रयोऽस्यामलाः ।। तत्पुत्रोऽसौ कवीन्द्रः क्षितिपतितिलकः श्रीप्रतापाभिधानः सङ्ग्रामे वैरिवर्गप्रबलतरलसर्पदावानलाभः । तर्कालंकारकोशादिकसकलमहाशास्त्रमार्गप्रवीणो नानागद्यानवद्यासुललितकवितानर्तकीरणभूमिः ॥ मेदिन्यामुदधौ सरःसु सरितां मध्ये गिरौ कानने यस्य प्रौढतरप्रतापतपनस्यालोक्य दीप्तिं पराम् । अत्युत्कर्षमवेक्ष्य संप्रति समासाद्यापकप चिरा- दौर्वः खर्वयशाः प्रशाम्यति हठान्मनः समुद्राम्भसि ।। दृष्ट्वा तस्य प्रतापं तपनमनुपमं हन्त हृष्टो विवस्वा- न्मने ब्रह्माण्डमाण्डभ्रमणविधिकृतं श्रान्तमेव श्रमौषम् । व्यस्ताहोरात्रभेदं त्रिभुवनभवनं व्याप्तमेनं विदित्वा किं चायं चक्रवाकः शिथिलयति शुचं सर्वतः सर्ववीजम् ।। शस्त्रे शास्त्रवरे सदा सुखकरे संगीतविद्यावरे सानन्दं किल केलिकमकुशलव्यापारकण्ठीरवः । खर्गे भूमितले तथा दशदिशां प्रान्ते गिरौ कानने कोऽप्यस्तीति निगद्यते मम समो राजेन्द्रचूडामणिः ॥ नेपाले संवतेऽस्मिन्हयगिरिमुनिभिः (७८७) संयुते माघमासे सप्तम्यां शुक्लपक्षे रविदिनसहिते रेवतीऋक्षराजे । योगे श्रीसिद्धिसंज्ञे रजतमणिलसत्स्वर्णमुक्ताप्रवालै- रेकीकृत्य प्रदत्तं हयशतसहितं येन दानं तुलाख्यम् ॥ इति श्रीमहाराजाधिराजश्रीश्रीराजराजेन्द्रकवीन्द्रजयप्रतापमल्लदेवविरचिता निजवंशावली समाप्ता। माधुर्यादिविचित्रताखिलपदन्यासमनोहारिणी संक्षिप्तेन कवीन्द्रभूमिपतिना वंशावली निर्मिता । - - -"

काव्यमाला।
प्रत्येकं किल कीर्तिशौर्यनिखिलप्रौढप्रतापादिकं
भूपानां रचितुं विमृश्य निपुणं शक्तो न वा वाक्पतिः ॥
(इन्स्क्रिप्शन्स् मॉम् नेपाल २९-३१)
(४४)
॥ श्रीगणाधिपतये नमः ॥
कारणं जगतां वन्दे कण्ठादुपरि वारणम् ।
मातामहमहाशैलं महस्तदपितामहम् ॥
क्षेमं वः प्रचुरीकुर्यात्क्षोणीमभ्युद्वहन्हरिः ।
कोडाकृतेरभूद्यस्य क्रीडापल्वलमम्बुधिः ॥
अस्ति क्षीरार्णवोद्भतमपांपुप्पमनुत्तमम् ।
अम्लानं यदनिर्माल्यमाधत्त शिरसीश्वरः ॥
सदामोदनिधेस्तस्य संताने यदुसंज्ञिते ।
अभूदाश्चर्यमाधुर्य वसुधायास्तपःफलम् ॥
संगमो नाम रानाभूत्सारभूते तदन्वये ।
रेजे यस्य यशःसिन्धोः सरणीव सुरापगा ।।
सर्वरत्ननिधेस्तस्य सम्राडासीत्तनूभुवाम् ।
मध्ये चुकमहीपालो मणीनामिव कौस्तुभः ॥
तस्य गौराम्बिकाजानेस्तनयोऽभूद्गुणोन्नतः ।
हारगौरयशःपूरहारी हरिहरेश्वरः ।।
यत्पोडशमहादानयशसां दिग्विहारिणाम् ।
भूयसामभवन्नालं भुवनानि चतुर्दश ।।
प्रतापदेवरायोऽस्य पुत्रोऽभूवि विश्रुतः ।
प्रमोद इव मूर्तोऽयं प्रजानां स्वैर्गुणैरभूत् ।।
प्रत्यर्थिसमिधो हुत्वा प्रतापाग्नौ रणाङ्क(झ)णे ।
विहितो येन वीरेण विजयश्रीकरग्रहः ।।
१. वेदभाष्यादिनानानन्धप्रणता मुप्रसिद्धो माधवाचार्योऽस्यैव मन्त्रिप्रवर आसीत्.

४४ लेखः]] प्राचीनलेखमाला। १७९ तत्य हेमाम्बिकानानेस्तनयो विनयोनतः । विद्यानिधिविशेषज्ञो वीरो विजयभूपतिः ॥ असी विजयभूपालः पित्रा दत्तं खतेजसा । समस्तं द्राविडं देशमासिन्ध्याः पर्यपालयत् ।। बुकक्षितीशसदने हरितान्ववायः श्रीसिंहसूरिरभवत्प्रयमानकीर्तिः। यहारपञ्जरशुकाः किल सर्यशास्त्र- सिद्धान्तमञ्जनसमर्थनकेलिलोलाः ॥ तत्पुत्ररताकिकाचार्यः पदवाक्यप्रमाणवित् । सर्व हरिहरक्षोणीभुनां धर्ममब्रवीत्यत्(यद्धर्ममब्रवीत)। तत्पुत्रो हम्पणाचार्यः सर्वविद्याविशारदः । निजेन चरितेनासीद्वसिष्ठ इव पूजितः ।। राज्ञा हरिहरेणापि देवरायेण भूभुजा। अचीकरदसौ विद्वान्महादानानि पोडश । सोऽयं विजयभूपालो हम्पणार्याय धीमते स्वदेशे चेहपेडाख्यं ग्रामं मान्यं प्रदत्तवान् । स्वस्ति श्रीविजयाभ्युदयशकवर्ष १३३८ वर्तमानदुर्मुखिसंवत्सरद भाद्र- पदबौळ सप्तमियलु श्रीमन्महामण्डलेश्वरश्रीवीरमतापविजयराय वोडयरु हरितगोत्रद आपस्तम्बसूत्रद सकलविद्याविशारद तार्किकहम्पणैयगळिगे कोग्रामशासनद क्रमवितेंदरे पडचीडुराज्यदल सप्तनाथनु माड्डव आगर- दहोवल्लि यनु वृत्तिपट्टिनल्लि शेरिवहकोनैकोट्टपट्टिन चेट्ठपडेबग्रामके स- लुव तगरइरुपेडतांगलु सह कुलवरहगद्याण इप्यत्तुमूहोन्नु मूरुहणं वट्ट- दिन्द होन्नुहणवड्डहुरुळिय तुंदृदिदंद मूरुहणवडवेळे अन्तुं रोकवराह इप्पत्तुनालुहोन्नु एट्नुह[वेळे यकालुपल्लिसह चेपेडुग्रामवन्नु तेनोनिधि- यल्लु महामायाप्रीतियागि सर्वमान्यदानधारापूर्वकवागि कोड ईग्रामके सलुव सुंकद भत्य मार्गयडतोरे चेककडमे वाणियर सेट्टियर सेणिया काव्यमाला। कैकोळरतेरिगिवोळगाद सकलसुवर्णादाय सकलभत्तादायसहितवागि सं- वमान्यवागि आचन्द्रार्कस्थायियागि अनुभविसुदु ईग्रामद चतुस्सीमेय- विवर ईसानामोदलागि एरंकोंडकेणिअकल्लुशासन अल्लिंद नड्डसीमेय- कल्पोरडियसालु अल्लिंद आग्नेयएल्ले वाहकोल्लगे तेंकलु एलकुलि अलिंद तेंकलु कलरवयलु अलिंद तेंकलु एरेयकोलेयमूडणसीमे अलिंद तेंकलु कारणेयकेरेये गणपोक्करैमड्डइदरिंद तैकलु पुलिकुल अलिंद तेंकलु सम- यनारायणंकुलक्केवडगनकल्छु अल्लिंद वायव्य गुडदनडवणतेवरुमरिसु अ- लिंद वायव्य सदरहोइदकल्लु अलिंदवडगलु एट्टिकुलि अल्लिंदनाचिमा- गलपडवनकोडियहुत्त अलिंद येत्तणनेयमूडणवरपु अलिंद वडगल मुरुक- कुलियपल्लगुलियशासन अलिंद मूडलु मुकदक अलिंद ईसानकल्लुसाल अलिंदपालकोल्लेयभूडणमरिसु अलिंद करुवले येले अलिंद एलेकलुगळु अल्लिंद एकोन केणि ईचतुस्सीमेबोळगादनिधिनिक्षेपजलपापाणसिद्धसाध्य अक्षिणि आगामि गोभूहिरण्याद्यष्टमोगवेब खाम्यसहितवागि सर्वमान्यदान- धारापूर्वकवागि कोदृदु आचन्द्रार्कस्थायियागि अनुभविसुवदु । एकैव भगिनी लोके सर्वपामेव भूभुजाम् । न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा ।। दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनम् । दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम् ।। खदत्ताद्द्विगुणं पुण्यं परदत्तानुपालनम् । परदत्तापहारेण वदत्तं निष्फलं भवेत् ॥ वदत्तां परदत्तां वा यो हरेत यसुंधराम् । पष्ठिवर्पसहस्राणि विष्ठायां जायते निमिः ।। सामान्योऽयं धर्मसेतुर्नपाणां काले काले पालनीयो भवनिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयोभूयो यानते रामचन्द्रः ॥ (पष्ट्रियशनम् टु पिहिस्टरी ऑफ मदन मा ४५-४८) ४५ लेखः] प्राचीनलेखमाला । (४५) कुमारपालकारितवडनगरप्राकारमशस्तिः । ओं || ओं नमः शिवाय ॥ ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य बद्धाक्षरै- रिच्छाशक्तिममीष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतैः स्वसमये ब्रह्माण्डपिण्डैर्नवैः क्रीडन्ती मणिकन्दुकैरिव सदा खच्छन्दमाहादते ॥ गीर्वाणैर्वीतगर्व दनुजपरिभवात्प्रार्थितस्रायकार्थ वेधाः संध्यां नमस्यन्नपि निजचुलके पुण्यगशाम्पूर्णे। सद्यो वीरं चुलुक्याह्वयमसनदिम येन कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः ।। वंशः कोऽपि ततो बभूव विविधाश्चर्यैकलीलास्पदं यसामिभृतोऽपि चीतगणिताः(णनाः) प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहती दधे विपन्नोऽपि स- न्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधी निर्मूल्यमुक्तामणिः क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्यायद्रुमोत्पादने यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः ॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां विद्वद्वान्धवविप्रवन्दिभृतकव्यूहोपभोग्या व्यधात् । यत्सङ्गायिणी तदा श्रियमलं युद्धस्फुरद्विक्रम- क्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्यश्चिरं भेजिरे ॥ १. इतः प्रभृति मुद्रित प्रशस्तिचतुष्टयं ऑस्ट्रिआदेशराजधान्या वीएनानगरे विराज. मानेम विद्वदवससेन श्रीमता डॉक्टयलरेण (G. Bithler, Ph. D., LL. D, C. I. E.) अस्मभ्यं प्रहितमस्ति. वयमपि तत्सादरं सप्रणयं चौररीकुर्मः.

काव्यमाला । सूनुस्तस्य वभूव भूपतिलकचामुण्डराजाहयो यद्गन्धद्विपदानगन्धपवनाघ्राणेन दूरादपि । विभ्रश्यन्मदगन्धभग्नकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्नाशितः ॥ तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामणि- जज्ञे साहसकर्मनिर्मितत्रमत्कार[:] क्षमामण्डलो(ले)। यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुति- क्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्गमः ॥ श्रीमहुर्लभराजनामनृपतिधीतास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भङ्गुरा सद्यो दर्शयति म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विपतां सदा प्रणयिनां भोग्यत्वमासेदिवा- न्क्षोणीमारमिदं बभार नृपतिः श्रीभीमदेवो नृपः । धारापञ्चकसाधनकचतुरैस्तद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर- कीर्तिप्रीणितविश्वकर्णविवरः श्रीकर्णदेवाहयः । येन ज्याप्रथितस्वनं च्युतशरं धर्म पुरस्कुर्वता न्यायक्षेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ।। दृप्यन्मालवभूपबन्धनविधिनस्ताखिलक्ष्मापति- भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । मद्यः सिद्धरसानृणीकृतजगद्गीतोपमान(तावदान)स्थिति- जने श्रीजयसिंहदेवनृपतिः सिद्धाधिरानस्ततः ॥ वश्या वेश्म रसातलं न विलसद्भोगि" ""भोक्तुम............."क्षत्राणि रक्षांसि च । .... -- ४९ लेराः प्राचीनलेरामाला। यः क्षोणीधरयागिनी न मुमहाभोगां सिपेये निरं हेलासिहरसाः मदा सितिभुना .............रे || [संख्यातीतयितीर्णदाननियहः संपनपुण्योश्यः क्रीडाकान्तदिगन्तराल - - ॥ 'कुलभूप" ....... यलम्ब" क्रीडाफोड इवोधार वसुधां देवाधिदेवाज्ञया । देवः सोऽय कुमारपालनृपतिः श्रीराज्यचूडामणि यः स्वर्गादयतीर्णयान्हरिरिति ज्ञातः प्रभायाजनैः ।। अणीराननराधिराजदये सिवैक(य) याणमनं श्योतछोहिततर्पणादमदयघण्डी भुजम्यायिनीम् । द्वारालम्बितमालयेश्वरशिरःपद्मन यवाहर- ल्लीलापकानसंग्रहव्यसनिनी नौलुक्यरानान्वयः ।। शुद्धाचारनवावतारसरणिः सद्धर्मकर्मक्रम- प्रादुर्भापविशारदो नयपथप्रस्थानसार्याधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेलीय- न्मन्ये संहरति म भूमिवलयं(ये) कालव्यवस्थामपि । प्रत्यू पण्डितालिदलः पर्युषसत्पञ्चवो नष्टोदीच्यनराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नप्राच्यनरेन्द्रमौलिकमलैः प्रौप्य(प्रोय फलद्योतित- श्छायां दूरमवर्धयन्निजकुले यस्य प्रतापद्रुमः ।। आचारः किल तस्य रक्षणविधिविघ्नेशनि शित- प्रत्यूहस्य फलायलोकिशकुनज्ञानस्य मं...."."यः । देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी ॥

१८४ काव्यमाला। राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुर- द्रनधोतितवारिराशिरशना शीताद्रिबिन्ध्यस्तनी । एपाभूपयदस्थिकुण्डलमिव श्रुत्याश्रयं ""एता बिभ्राणा नगरादयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भिते- यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ।। अश्रान्तद्विजवर्गवेदतुमुलैर्वाधिर्यमारोपितः शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथा लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्च खञ्जीकृतो यस्मिन्नद्य कलिः खकालविहितोत्साहोऽपि नोत्सर्पति ।। सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङ्गलरवैर्वाचालतां प्रापिताः । अस्तान्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थिती मागी एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ।। अस्मिन्नागरवंशजद्विजननस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूत्तस्य तथापि तीव्रतपसो बाधेति भक्त्या नृपो वर्ग विप्रपुराभिरक्षणकृते निर्मापयामास सः अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः काम क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वनविभूपितं पुरमिदं चौलुक्यचूडामणिः ।। पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः ।

४५ लेख प्राचीनलेखमाला। १८५ उत्सर्पत्कपिशीपको जय इव ऋव्यादनाथद्विपां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुत्तुगतां धारय- न्यातः कुण्डलितां च यज्ञपुरुपस्याज्ञावशेनागतः। रत्नवर्णमहानिधि पुरमिव नातुं स शेपः स्थितः प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ।। कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्दवनतत्परैर्द्विजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनै- रवान्तश्च वहिश्च संप्रति भुवः शोभाद्भुतं बिभ्रति ।। लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् । विधानते नागरकाम्यवृष्टिर्वप्रश्च चौलुक्यनराधिपश्च ।। यावत्गृथ्वी पृथुविरचिताशेषभूभृन्निवेशा यावत्कीर्तिः सगरनृपतेविद्यते सागरोऽयम् । तावन्नन्द्याविनवरमहास्थानरक्षानिदानं श्रीचौलुक्यक्षितिपतियशःकीर्तनं वप्र एपः ।। एकाहनिप्पन्नमहाप्रवन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ।। संवत् १२०८ वर्षे आश्विन शुदि (२) गुरौ लिखितं नागरब्राह्मणप- ण्डितवालणेन । चौलुक्य........धिपेन कारिता प्रतोलिका यार्जुनवारिकोपगा। पुनर्नवोना लतफहा""त" ...वेगमिनीने ......."नेन नृपेण कारिता ॥ चैत्रमासे शुभ्रे पक्षे प्रतिपद्गुरुवासरे । नन्दाष्टनृपे १६८९ नृपे वर्षे प्रशस्तिलिखिता पुनः ॥ नागरब्राह्मणजोशीवेणीसुतेन विष्णुजीकेन लिखिता प्रशस्तिः ।। शुभं भवतु ।। ॥

१८६ काव्यमाला । (४६) कुरुक्षेत्रमान्तवर्तिपृथूदकक्षेत्र (Pehon) स्थविष्णु- मन्दिरप्रशस्तिः। ओं नमो माधवाय ॥ याते यामवतीपती शिखरिपु क्षामेषु सर्वात्मना ध्वस्ते ध्वान्तरिपो जने विघटिते त्रस्ते च तारागणे । भ्रष्टे भूवलये गतेषु च तथा रत्नाकरेप्वेकता- मेको यः स्वपिति प्रधानपुरुषः पायात्स वः शाभृित् ॥ दृष्टिः पायात्रिजगदखिलं.शाङ्गिणः कान्तमूर्तेः कान्ता'सद्धृस्फुरितसुभगस्निग्धताराभिरामा । उद्यत्तीसरजलनिधौ मज्जतः श्रीमुखेन्दु- म्फारज्योत्स्ना" ..............: स्मेरगण्डस्थलस्य ॥ क्षेत्रं कुरोविविधपापमलाभिघात- दक्षं क्रियादुदयमस्तसमस्ततापम् । अध्यासितं मुनिगणैरुदितात्मबोध- प्रध्वस्तगादतिमिरप्रकटप्रमोदैः ॥ पोतः संसारसिन्धौ सुरपथगमने स्यन्दनः साधुवर्ग- ............"तवः :: प्रलयजलधरः संपतत्सान्द्रधारः । नानाव्याधिप्रवन्धप्रचुरतरतमःपङ्कविध्वसभानु- नीरं चैतत्समन्ताद्दयतुः"दुरित"....."सारस्वतं वः॥ यः शक्तः खकुल' ""मृद्ध्या भिन्दानः परबलमानसं समन्तात् । स श्रीमाञ्जयति महेन्द्रपालदेवः शान्तारिः शशधरसुन्दरः शरण्यः ॥ आसीत्तोमरतुङ्गवंशतिलकश्चण्डप्रतापोज्ज्वलो राजा रञ्जितसाधुवृत्तहृदयो दुर्वृत्तशैलाशनिः । १. अर्य कानमहीपतिः सिस्ताब्दीयनवमशतकममाप्ती दशमशतकारम्भ र मही शामितवान्. PAHL ४६ लेखः] प्राचीनलेखमाला। नाम्ना जाउल इत्यपूर्वचरितख्यातो दयालंकृति- लत्त्वालोकिविलोकितक्षितिपतिव्यापारलब्धोदयः ।। येन ज्ञातिकुलं कालविकलं] नीतं परां संपर्द छिन्नारातिकरीन्द्रकुम्भशकलैः कृत्वोपहारं भुवः । कीया यस्य च नाकनागनिकर(लय)व्यासङ्गतः संगमा- व्योम्नश्च स्फुरदिन्दुमुन्दररुचा स्वःसिन्धुलीलायितम् ।। प्रतिदिशममराणां मन्दिराण्युच्छ्रिताग्र- स्थगितशशधराणि स्फारमारोपितानि । जगति विततभासा येन दूरं विभान्ति खयश इव निरोद्धं शङ्कवो दिदिखाताः ।। तत्संतानमहोदधेः प्रमुदितप्रोद्यद्भुजंगाश्रया- दुर्लबा(या)द्धनमौक्तिकांशुनिकरस्फारीभवत्संपदः । प्रख्यातादजनि खवंशतिलकः श्रीवजटाख्यः प्रभुः प्राप्ताशेषमनोरथः शुभतरव्यापारतुङ्गोन्नतिः ।। तस्य स्फुरदिन्दुरुचः शौरेरिव जलधिकन्यका जाता । नाम्ना मङ्गलदेवी जाया गिरिजेव गिरिशस्य ॥ तस्मात्तस्यां जज्जुकः प्रादुरासीदुचैः शान्तः सत्सु निर्मत्सरेषु । क्रूरः केतुर्धरारातिचक्ने क्रुध्यत्सेनाकुञ्जरघ्वानरौद्रे ॥ तस्य स्फुरनिशितखगनिकृत्तशत्रो- खस्तान्धदीननिकरोद्धरणोरुकीर्तेः । सद्वृत्तरकवनितातिलकाङ्ककल्पे कान्ते बभूवतुरुदारशशाङ्ककान्ते ॥ एका चन्द्रेति विख्याता द्वितीया नायिकेति च । विशिष्टगुणनिर्माणाझे एव सदनं श्रियः ।। चन्द्रायाः समजनि गोग्गनामधेयो धीराणां धुरि विनिवेशितो विधात्रा। भूनाथो द्विपदिभकुम्भभेदनिर्यन्मुक्ताभिर्महितमहीतलः शि(सि)ताभिः ।। १. अयं कश्चन महेन्द्रपालस्य सामन्तः स्यात्.

..
१८८
काव्यमाला ।
असूत च विचक्षणं क्षतविपक्षपक्षप्रभं
प्रभाकरकरोत्करं स्ववलसैनिकाम्भोरुहाम् ।
अधर्मपरिपन्थिनं तदनु पूर्णराज सुतं
खवंशगगनोदरे तुहिनदीधितं नायिका ।।
करतलस्थगिताधरपल्लवाः प्रतनुकान्ति कपोलतलोदरम् ।
सिपिचुरश्रुजलैयदरिस्त्रियः सरलितप्रचुरालकजालकाः ॥
तस्य भ्राता गुणनिधिरभूत्सोदरो देवराजः
स्फूर्जत्तेजः प्रविहतपरस्फारसेनान्धकारः ।
स्थानं क्षान्तः क्षतकलिमलः क्षिप्तरागादिदोपः
स्निग्धच्छायस्तरुरिव ततः सत्फलानम्रमूर्तिः ॥
नामापि प्रकटतरं निशम्य यस्य क्रुद्धस्य भ्रुकुटितरङ्गिताननस्य ।
दृप्तानां युधि विकसद्विगाढभासां सत्रंसे करतलतः कृपाणदण्डः ॥
यदास्यसरसीरुहं सरसमर्थिनां पश्यतां
नितान्तमगमत्क्षणात्क्षयमुपद्रवो मानसः ।
व्यपूर्णत च संभ्रमात्प्रतिभटध्वनद्दन्तिनां
घटा विघटनोन्मुखी समिति यस्य सद्यः पुरः ॥
इत्युद्दामप्रकटितगुणोद्वाररम्याः क्रमेण
प्राप्तश्रीकाः शुभतरधियः साधुरक्तास्त्रयोऽपि ।
विष्णोः सौधान्यतुलमहसः कारयामासुरत्र
वस्तास्तीवाद्भवजलनिधेर्दुर्गमान्मन्दबोधैः ।।
गोग्गेन कारितं मध्ये पूर्णराजेन पृष्ठतः ।
पुरतो देवराजेन घनान्धतमसच्छिदे ॥
चतुःसमुद्रसीमाकं यावदेतन्महीतलम् ।
इदमायतनं तावद्विभातु सदनं श्रियः ।।
धन्वन्तरिमतिनिधिः श्रुतसारमूर्तिः
सहन्पुरच्युत इति प्रकटाभिधानः ।

- ४७ लेखः]. प्राचीनलेखमाला। काम्बोजजः प्रभुमनःकमलद्विरेफो रामस्य सूनुरिह कारयिता बभूव ॥ यक्षपालकनामैको द्वितीयो गेजराभिषः । पाटलाख्यस्तृतीयोऽपि ग्रामो भोगाय कल्पितः ॥ अत्रायः क्ष्मानाथैः श्रेयोथै देहस्य । संसारं दृष्ट्वोच्चैः कर्तव्या सद्बुद्धिः ॥ खकुलगगनभानु:."f.. "मिसक्तः श्रुतविनयविदग्धो भट्टरामः किलासीत् । अकृत मधुरबन्धी मुद्दल स्तस्य सूनुः सरसललितसारां लीलयेमां प्रशस्तिम् ॥ बभूव सूत्रधारोऽत्र दुर्लभादित्यसंज्ञकः । लादित्येन धीमता ॥ - . (४७) सोमनाथक्षेत्रस्थस्य कस्यचन प्रासादस्य प्रशस्तिः । ॐ॥ ॐ नमः शिवाय । हृदि स्थितं चिन्मयमात्मवेदिनः समाधिमास्थाय विलोकयन्ति यम् । स चित्तसंतापमपाकरोतु वः स्तनंधयश्वेतमयूखभूषणः ॥ शैलात्मनोरसिजशृङ्गकुरङ्गनामि- पत्रावलीतलिनतल्पशयालुपाणिः । पीयूपभानुकलिकाकलितावतंसो देवः शिवानि वितनोतु दिवानिशं वः ।। त्रैलोक्यमङ्गलमनङ्गरिपोरपत्य- मङ्करितैकदशनोलसदाननश्रीः। देवः प्रपद्य हृदयैकपदों कपर्दी भूयादनेकपमुखः मुखसंपदे वः ॥

काव्यमाला। श्रीविश्चमल्ल इति भूपतिमौलिरत्नं चौलुक्यवंशमवतंसयति स्म जिष्णुः । यस्य द्विधारमपि संयति मण्डलाम- मारादमस्त शतधारमरातिवर्गः ॥ आबद्धमूलममितः क्षितिपादिनात- मुन्मूलयन्कुलिशवंशभुवा भुजेन । सत्त्वस्य यः किमपि धाम जनेन राज- नारायणेति जगदे जगदेकनाथः ।। यस्मिन्नात्मकलां न्यधत्त सकलक्षत्रावतंसे जग- त्तापव्यापदपाकरिष्णुमहिमा श्रीवैद्यनाथः प्रभुः । शस्त्रैस्तेन चिकित्सितास्तदुचितं विश्वोपकारबत- नातेन प्रतिभूभुजामपि हृदः प्रौढा मदग्रन्थयः ॥ नागल्छदेवीति वभूव यस्य जाया जयश्रीरिव देहबद्धा। तया स राजा सुतरां बमासे मासेव देवो हरिणाङ्कमूर्तिः ।। आशान्तविश्रान्तभुजप्रतापः प्रतापमल्लावरजः स राजा । स्वपौरुषोत्कर्षरसातिरेकादेकातपत्रां बुभुजे धरित्रीम् ॥ श्रीविश्वमल्लः स्वपदेऽभिपिच्य प्रतापमल्लात्मजमर्जुनं सः । साकं सुधापाकमभुत नाकनितम्बिनीनामधरामृतेन ।। राकानिशाकरसनाभिगुणाभिरामो दामोदरांश इव विक्रममांसलश्रीः । भूपालमौलिमणिरर्जुनदेवनामा कामार्जुनीमिव धनानि धरामदुग्ध ॥ हस्ते विधाय कदनाय दुराशयानां दानावधूतसुरशाखिनि भूमिचक्रम् । यः स्वैरुदारचरितैरनघः प्रजानां रक्षां चकार किल चक्रधरावतारः ।।

४७ लेख: प्राचीनलेखमाला। १९१ तस्याङ्गभूनयति गूर्जरराज्यलक्ष्मी- संभोगकन्दलितसौख्यनिमग्नचेताः । क्षोणीसमुद्धरणकेलिरसोत्तरङ्गः सारङ्गदेव इति शार्ङ्गधरानुभावः। युधि यादवमालवेश्वरावकृत क्षीणवलौ वलेन यः। पृथुविग्रहधारिणौ पुरा पतगेन्द्रो गजकच्छपाविव ॥ इतश्च । मट्टारकश्रीलकुलीशमूर्त्या तपःक्रियाकाण्डफलप्रदाता । अवातरद्विश्वमनुग्रहीतुं देवः स्वयं बालमृगाङ्गमौलिः ।। अनुग्रहीतुं च चिरं विपुत्रकानुलूकभूतानभिशापतः पितुः । ललाटमुळ इव लाटभूपणं समेत्य कारोहणमध्युवास यः ॥ अवतेरुश्चत्वारः पाशुपतव्रतविशेषचर्यार्थम् । इह कुशिकगार्यकोरुपमैत्रेया इति तदन्तसदः ॥ ततस्तपखिनां तेषां चतुर्धा जातिरुद्गता । भुवं विभूपयामास चतुरर्णवमुद्रिताम् ॥ एतैरनुगृहीतानामन्वयेन महात्मनाम् । निःसीमवैभवं श्रीम "कमित्यभूत् ॥ गार्मेयगोत्राभरणं बभूव स्थानाधिपः कार्तिकराशिनामा । मूर्तस्तपोराशिरिवाश्रितानामालोकमात्रेण हरन्नघानि ॥ तेन स्वहस्तकमलानुगृहीतनन्मा वाल्मीकिराशिरुदियाय दयालुचेताः। वाणी च तीर्थपदवी च सदा पदानां न्यासैः स्वचित्तविमलाकृतिभिः पुनानः ।। तेनानुगृह्य समकेति सतां प्रबोध- कारी तपोधनयुवा त्रिपुरान्तकेति । साक्षाद्भवन्ति विवुधाः किल तद्विधानां हस्ताम्बुजेन दृपदोऽपि कृतप्रतिष्ठाः ॥

१९२
काव्यमाला ।
वाल्मीकिराशेः सुगृहीतनाम्नस्तस्यैप शिप्यस्त्रिपुरान्तकेति ।
तीर्थान्तरालोकनकौतुकेन पवित्रयामास दिशश्चतस्रः ॥
पूर्व तपस्विगृहिणीस्पृहणीयमूर्ति-
यो देवदारुविपिने विनहार देवः ।
आशावधूलवणिमानमनुग्नहीतुं
तीर्थावगाहनमिपेण चचार सोऽयम् ॥
समाधिपूतेन हृदम्बुजेन यः ....यि...........।
ततः शुचिब्रह्मसरःसरोजैरानर्च केदारपदारविन्दे ।।
जगद्गुरुं चेतसि यः प्रपद्य यागेश्वरं मूर्तमि...
प्रसादसंपत्तिलम्यानि तपःफलानि ॥
मिथोमिलज्जमुकलिन्दकन्यातरङ्गहस्तोपहृतैः पयोभिः ।
ससर्ज यस्याजि" ................"पः पाद्यमिव प्रयागः ॥
प्रदक्षिणीकृत्य सतां प्रदीपः श्रीपर्वतं यः किल सर्वतोऽपि ।
श्रीमल्लिनाथस्य विलोकनेन कृतार्थ ..........."ते ।।
प्रेसोलितानि कलसोद्भवपादमुद्रा-
निःकल्मपाकृतिपु विन्ध्यगिरेः शिलासु ।
रेवाजलानि गजराजविगाहलीला-
..."पाण्यपि यः सिपवे ॥
गोदावरीतीरविहारणीभिर्वनस्थलीनामधिदेवताभिः ।
कृतार्थयन्नध्वगदृक्पयो यो जङ्गमख्यम्बक"
ततः शमाद्वैतरसाभिरामे रामेश्वरं चेतसि चिन्तयन्यः ।
ददर्श लङ्काधिपकालरात्रेः प्रस्थानवीथीमिव सेतुलेखाम् ।।
श्रीदेवपत्तनसमस्तधनस्तनीनां .
नेत्रारविन्दसुकृतैरिव सानुबन्धैः ।
तीर्थावगाहनधिया दिशि पश्चिमाया-
मायातवानुपशमायतनं कृती यः ।।
............
॥

१७ लेखः]] प्राचीनलेखमाला। १९३ सरखतीसागरसंप्रयोगविभूषिताभोगमथागमयः । सोमेशचूडावलमानबालचन्द्रप्रभासंवलितं प्रभासम् ॥ इह महीतलतीर्थविगाहनादखिलतीर्थमयीं दधदाकृतिम् । भुवनभूपणभूतमभूपयनगरमिन्दुकलाभरणस्य यः ॥ इह साक्षादुमाकान्तः श्रीमान्गण्डवृहस्पतिः । आर्यमेनं विनिर्माय पठं चक्रे महत्तरम् ॥ स्थानकं निजविशुद्धचरित्रैरुद्धरिष्यति महत्तर एपः । इत्यवेत्य मुमुदे हदि चातुर्जातकेन गुणजातरसेन ॥ अस्ति श्रीत्रिपुरान्तकोऽपि विवुधश्रेणीकिरीटोपल- च्छायापल्लवलालितांतिकमलः कासां गिरामध्वनि । यस्योद्दामचरित्रवैभवनिधेरेषा कियन्तं गुण- ग्रामं धारयतु स्वकुक्षिकुहरकोडे वराकी श्रुतिः ॥ धनानि कामाधिकवामलोचनाविलोचनप्राञ्चलचञ्चलानि यः । ददौ महादीस्थ्यनिपीडितात्मने सतां प्रपन्नातिहरा हि संपदः ॥ आस्थितस्य पुरुपोत्तमभूयं कामजन्मनि समाहितबुद्धेः । यस्य पुण्यघटितस्य रमेति प्रेयसी भुवनभूपणमास्ते ।। सरस्वतीमौलिशयालुकेतकीपलाशलक्ष्मीसहपांशुकेलयः । महात्मनो यस्य महोज्ज्वला गुणा दिगङ्गनानामवतंसतां ययुः ॥ सोमेश्वरायतनमण्डपमुत्तरेण श्रीभाजि जीर्णघटिकालयसंनिधाने । श्रीकण्ठपञ्चमुखवासमधिष्ठितानि येनाकियन्त कृतिनायतनानि पञ्च ।। मातुर्माहणदेव्या यः श्रेयसे माहणेश्वरम् । सतामध्येयमहिमा तन्मध्ये निरमापयत् ।। उमापतेरायतनं नाम्ना गण्डबृहस्पतेः । कृती कृतयुगाचारः कारयामास तत्र यः ।।

१९४
काव्यमाला ।
श्रीबृहस्पतिभाया उमायाः श्लाघ्यजन्मनः ।
श्रेयसे यः सतां सीमा निरमासीदुमेश्वरम् ।।
इह स्वनाम्ना त्रिपुरान्तकेश्वरं महत्तरधीत्रिपुरान्तको व्यधात् ।
प्रियाभिधानेन मनोरमं श्रिया रमापतिः संविदधे रमेश्वरम् ।।
गोरक्षकं भैरवमाञ्जनेयं सरस्वती सिद्धिविनायकं च ।
चकार पञ्चायतनान्तराले बालेन्दुमौलिस्थितमानसो यः॥
आत्मबाहुयुगसौहृदश्चितस्तम्भसौरभशुभं सतोरणम् ।
दूरमस्तदुरितस्तदुत्तरद्वारभूपरिसरे चकार यः ॥
संमार्जनाय देवानां कावडिद्वयमम्भसः ।
संमार्जनी जगत्याश्च कोलिनी प्रतिवासरम् ॥
कर्तव्यमेतदुभयं बटुकेन पटीयसा ।
खभाप्तपाटकद्रव्यनैवेद्यान्नोपयोगतः ॥ (युग्मम्)
श्रीखण्डहेतोः शशिखण्डमौलिपुरानुकूल्येन मपारके यः ।
ट्रम्मांश्चकार प्रतिमासमष्टावष्टापदोत्सर्गनिसर्गपूतः ।।
दातव्यं मालिकश्रेण्या शतपत्रशतद्वयम् ।
नवीनकण(र)वीराणां द्वे सहसे च नित्यशः ॥
धाटीवाहाय वाटीभ्यो ग्रहीतुं शुचिवेदिकाम् ।
चक्रे परीक्षिपट्टे यः पदम्मान्मासपाटके ।।
माणकद्वितयं चोपा मुद्गानामेकमाणकम् ।
घृतं कपीश्च चत्वारस्तैलं दीपाय तादृशम्
जात्यानि पञ्च पूगानि स्थितके स्थितिशालिना ।
कोठागारे गुणज्ञेन प्रत्यहं येन चक्रिरे ॥
इहैव धूपवेलार्थ गुग्गुलस्य मणद्वयम् ।
यः पुण्येपु समासक्तः प्रतिमासमकारयत् ।।
पत्र"णां च पञ्चाशत्पत्राणि फणिवीरुधाम्
मेहरेण प्रदेयानि नित्यं बीटकहेतवे ।।
(युग्मम् )

४७ लेख:
प्राचीनलेखमाला।
पशुपालेन तदेवं धर्मस्थानोपहारसंवदम् ।
श्री.........."कोठागारादानीय दातव्यम् ।।
चोपा माणकमेकं निर्वापे पल्लिकाद्वयं मुद्गाः ।
नित्यं घृतकौ द्वाविति पशुपालाय दातव्यम् ॥
इदमेव प्रदातव्यं नित्यं नैवेद्यहेतवे ।
ततस्तदन्नं वटुना पचनीयं प्रयत्नतः ॥
पशुपालेन संकल्प्य तन्नैवेद्यं सचीटकम् ।
बटुकाय प्रदातव्यं पूजा कर्मविधायिने ।।
मण्डपिकायां स्थितके चातुर्मातकशासनात् ।
प्रत्यहं यः सतां सीमा द्रम्ममेकमकारयत् ।।
अत्रैव कारयामास प्रतिमासमुदारधीः ।
स्थितके यो नबद्रम्मान्बटुकग्रासहेतवे ।।
पूनामप्रतिमा कर्तु प्रतिमासमुपेयुपः ।
देयाः पञ्चदश द्रम्मा पशुपालस्य धर्मतः ॥
चातुर्जातकपादानां यः संमिलितपोत्तके ।
ततः पञ्चदशद्रम्मान्प्रतिमासं व्यत्ति यः ।।
हट्टानि यो विशिष्टानि त्रीणि प्रीणितमानसः ।
चातुर्नातकपादेभ्यो वित्तेनादाय दत्तवान् ॥
तेषां मध्यादुत्तमं हट्टमेकं देवश्रद्धामालिना मालिकेभ्यः ।
नित्यं पूजापुप्पनातोपहारैः श्रीमचातुर्नातकेन प्रदत्तम् ॥
चैत्रीमहे भाद्रपदीमहे च पवित्रकं विस्तरणं च कर्तुम् ।
महाजनोऽपि प्रतिहट्टमेकं द्रम्मं विशेपस्थितके चकार ।
कोष्ठागारेण पूगानि मेहरेण दलानि च ।
शिवरात्री प्रदेयानि चातुर्नातकबीटके ।।
श्रीसोमनाथप्रभुराजपाटिकात्रये त्रिभिट्टाणिम्भिरात्मना ।
समालिकेराणि युगाश्च कोमलाः सदा विधेयानि विशुद्धबुद्धिभिः ।।

१९६ काव्यमाला । अमूनि सोमेश्वरदेवरीत्या संपूज्य पञ्चायतनानि पूर्वम् । अनेन पश्चात्पशुपालकेन श्रीदेवपाट्यामधिरोहणीयम् ।। चैत्री भाद्रपदी भग्नपतितोद्धारहेतवे । चातुर्भातकपादेभ्यो धर्मस्थानमदत्त यः ॥ स्योपार्जितेन शुचिना विभवेन धर्म- स्थानं च शासनमिदं च विनिर्ममे यः । तेनास्य कीर्तननियद्धयशःपताका राकामृगाइधवलाकृतिरुल्ललास ॥ श्रीगण्डराणकवृहस्पतिकीर्तनस्य सारङ्गभूपतिसरस्तटभूपणस्य । यः श्रीविलासगृहमायतनस्य मध्ये स्वात्मीयदेवकुलिकां रचयां चकार ।। ताग्विशेषशुचिताधिगमाय सन्त- श्चित्तेपु विभ्रति यदीयगुणानजनम् । पुष्णन्ति सिन्धुतनयाहृदयाधिनाथ- नाभीसरोरुहमृणालसनाभितां ये ॥ निर्व्याजभक्तिरसवासितविश्वनाथ- माविभ्रतः सरिदभीकगभीरमन्तः । एतस्य शारदतुपारमयूखलेखा- निकल्मपाणि चरितानि जगत्पुनन्ति ।। सोमार्कवक्रशशिमण्डलतो निपीय पीयूपबद्धसखितानि सुभाषितानि । एपा प्रशस्तिरनवद्यपदार्थबन्धा धन्धात्मजेन विदधे धरणीधरेण ॥ एनां लिलेख मन्त्री विक्रम इति पूर्णसिंहतनुजन्मा । उदटङ्कयदथ शिल्पी नाहडतनयश्च पूणसीह इति ॥

१९७
४८ लेख:
प्राचीनलेखमाला।
श्रीनृपविक्रमसं० १३४३ वर्षे माघ शुदि ५ सोमे लिङ्गप्रतिष्ठामहो-
सवः समननि ॥
(४८)
मालवमहीपालप्रशस्तिः ।
ओं नमः शिवाय
गङ्गान् संसिक्तभुजंगमालवाले कलेन्दोरमलाङ्कराभा ।
यन्मूनि नम्रहितकल्पवल्ल्या भातीव भूत्यै स तवास्तु शंभुः ।।
सानन्दनन्दिकरसुन्दरसान्द्रनान्दी-
नादेन तुम्धुरुमनोरमगानमानैः।
नृत्यन्त्यवश्यमनिशं सुरवासवेश्या
यस्याग्रतो भवतु वः स शिवः शिवाय ॥
मूर्धस्थिताभ्रसरितोऽसमयेव शंभो-
रर्धाङ्गमगघटनाद्धनमाश्रयन्ती ।
दृष्टात्मनाथ वशतां सकलाङ्गतुष्टा
पुष्टिं नगेन्द्रतनया भवतां विदध्यात् ।।
गणेशो वः सुखायास्तु निशातः परशुः करे ।
यस्य ननबनावद्यकन्दोच्छित्त्या इवोद्यतः ।।
अस्त्युवधिः प्रतीच्यां हिमगिरितनयः सिद्धदांपत्यसिद्धेः
स्थानं च ज्ञानभानामभिमतफलदोऽखर्वितः सोऽव॒दाख्यः ।
विश्वामित्रो वसिष्ठादहरत चलतो यत्र गां तत्प्रभावा-
ज्जज्ञे वीरोऽग्निकुण्डादिपुवलनिधनं यश्चकारैक एव ॥
मारयित्वा परान्धेनुमानिन्ये स ततो मुनिः ।
उवाच परमाराख्य: पार्थिवेन्द्रो भविष्यति ॥
तदन्ववायेऽखिलयतसंघतृप्तामरोदाहनकीर्तिरासीत् ।
उपेन्द्रराजो द्विजयगरनं शौर्यानितोत्तुगनृपत्वमानः ।।
.

काव्यमाला। तत्सूनुरासीदरिराजकुम्भिकण्ठीरवो वीर्यवतां वरिष्ठः। श्रीवैरिसिंहचतुरर्णवान्तधाभ्यां जयस्तम्भकृतप्रशस्तिः ॥ दसाइभूव वसुधाधिपमौलिमाला- रत्नप्रभारुचिररजितपादपीठः । श्रीसीयकः करकृपाणनलोमिमग्न- शत्रुधनो विजयिनों धुरि भूमिपालः ।। तस्मादवन्तितरुणीनयनारविन्द- भास्वानभूत्वरकृपाणमरीचिदीपः । श्रीवाक्पतिः शतमखानुकृतिस्तुरंगा गङ्गासमुद्रसलिलानि पियन्ति यस्य ॥ जातस्तस्माद्वरिसिंहोऽन्यनाम्ना-लोको ब्रूते वनटस्वामिनं यम् । शत्रोर्वर्ग धारयासेनिहत्य श्रीमद्धारा सूचिता येन राज्ञा ॥ तस्मादभूदरिनरेश्वरसंवसेना- गर्जगजेन्द्ररवसुन्दरतूर्यनादः । श्रीहर्पदेव इति खोट्टिगदेवलक्ष्मी . जग्राह यो युधि नगादसमप्रतापः ॥ पुत्रस्तस्य विभूषिताखिलधराभोगो गुणैकास्पदं शौर्याक्रान्तसमस्तशत्रुविभवाधिन्याय्यवित्तोदयः । वक्तृत्वोच्चकवित्वतर्ककलनप्रज्ञातशास्त्रागमः श्रीमद्वाक्पतिराजदेव इति यः सद्भिः सदा कीर्त्यते ॥ कर्णाटलाटकेरलचोलशिरोरत्नरागिपदकमलः । यश्च प्रणयिगणार्थितदाता कल्पद्रुमप्रख्यः ॥ युवराज विजित्यानौ हत्वा तद्वाहिनीपतीन् । खड्ग उर्वोकृतो येन त्रिपुयो विनिंगीपुणा। तस्यानुजो निर्जितहूणराजः श्रीसिन्धुराजो विनयानितश्रीः । श्रीभोजराजोऽजनि येन रत्नं नरोत्तमाकम्प(ल्प.)कृदद्वितीयम् ॥

४९ लेखः]] प्राचीनलेखमाला । १९९ . . आ कैलासान्मलयगिरितोऽस्तोदयादिद्वयादा भुक्ता पृथ्वी पृथुनरपतेस्तुल्यरूपेण येन । उन्मूल्यो:भरगुरुगणा लीलया चापयष्टया क्षिप्ता दिक्षु क्षितिरपि परां प्रीतिमापादिता च ॥ साधित विहितं दत्तं ज्ञातं तद्यन्न केनचित् । किमन्यत्कविराजस्य श्रीभोजस्य प्रशस्यते ॥ चेदीश्वरेन्द्ररथोग्गलभीममुख्या- कर्णाटलाटपतिगुर्जरराट्तुरुष्कान् । यद्धृत्यमात्रविनितानवलोक्य मौला दोपणां बलानि कलयन्ति न..."लो....॥ केदाररामेश्वरसोमनाथसुण्डीरकालानलरुद्रसत्कैः सुराश्रयैर्व्याप्य च यः समन्ताद्यथार्थसंज्ञां जगतीं चकार ।। तत्रादित्यप्रतापे गतवति सदनं स्वर्गिणां भर्गभक्ते व्याप्ता धारेव धात्री रिपुतिमिरभरैमलिलोकस्तदाभूत् । विस्रस्ताङ्गो निहत्योद्भटरिपुतिमिरं खनदण्डांशुजालै- रन्यो भास्यानिवोद्यन्युतिमुदितजनात्मोदयादित्यदेवः ।। येन धरणीवराहः परमारेणोद्धृतो निरायासात् । तस्यैतस्या भूमेरुद्धारो बत कियन्मानः ।। कुंवान्य... वाजिब्रजरु ............ - .................... ............. ॥ (अग्रे सर्व त्रुटितम् । कम्योजदेशस्थशिवालयमशस्तिः। जयत्यनन्यसामान्यमहिमा परमेश्वरः । ब्रह्मोपेन्द्राञ्जलिन्यासद्विगुणाद्रियुगाम्बुनः ॥

२००
काव्यमाला।
राजा श्रीरुद्रवर्मासीत्रिविक्रमपराक्रमः ।
यस्य सौराज्यमद्यापि दिलीपस्येव विश्नुतम् ।।
तस्याभूतां भिपमुख्यो भ्रातरावश्विनाविव ।
ब्रह्मदत्तः स यो ज्येष्ठो ब्रह्मासिंहः स योऽनुजः ।।
तयोरपि महाभाग्यौ भागिनेयौ बभूवतुः ।
धर्मदेवः प्रथमनः सिंहदेवस्त्वनन्तरः ।।
स्वशक्त्याकान्तराज्यस्य राज्ञः श्रीभववर्मणः।
श्रीगम्भीरेश्वरो यस्य राज्यकल्पतरोः फलम् ॥
यस्य तौ मन्त्रिणावास्तां सन्मती कृतवेदिनौ ।
धर्मशास्त्रार्थशास्त्रज्ञौ धर्मार्थाविव रूपिणौ ॥
महेन्द्रवर्मणो भूयः श्रीमतः पृथिवीपतेः ।
तो चाप्यमात्यतां प्राप्तौ प्रत्ययौ कृत्यवस्तुपु ॥
सिंहदेवोऽनुजो राज्ञा दूतत्वे सत्कृतः कृती ।
प्रीतये प्रेपितः प्रेम्णा चम्पाधिपनराधिपम् ॥
धर्मदेवस्य तु पुनस्तनयोऽभूदनल्पधीः ।
कुलकाननसिंहो यः सिंहवीर इतीरितः॥
विद्वान्योऽद्यापि विद्वद्भिरापीतकवितारसः ।
श्रीशानवर्मनृपतेरभू(भ)वन्मन्त्रिसत्तमः ॥
निकामवरदं देवं श्रीनिकामेश्वरं हरम् ।
हरि च सिद्धिसंकल्पस्वामिनं सिद्धिदायिनम् ।।
योऽतिष्ठिपदिमौ देवो श्रद्धया भूरिदक्षिणी ।
कीर्तिस्तम्भाविवोदयौ यौ स्थितावा भुवः स्थितः ॥
तस्य सूनुरसूयादिदोपरस्पृष्टमानसः ।
योऽभवद्भवसंन्यस्तचित्तवृत्तिरुदारधीः ।।
बाल्येऽपि विनयोपतो यौवनेऽपि नितेन्द्रियः ।
त्रिवारम्भकालेऽपि धर्म यस्त्वधिकादरः ॥

१९ लेखः]
प्राचीनलेखमाला।
२०
यस्मिन्नैदंयुगीनेऽपि सदाचारावलम्बिनि ।
कलिप्रचालितो धर्मो न स्खलत्येकपादपि ॥
श्रीमतो राजसिंहस्य नयिनो जयवर्मणः ।
यो वैद्यो वेदितव्यानां वेत्तापि निरहंकृतिः।।
पुनः सत्कृत्य यं राजा प्रादात्स्वे राजमातुले !
अलव्धराजशब्देऽपि लब्धराजाहसंपदि ।।
पश्चादाढ्यपुरस्यास्य योऽध्यक्षल्वे कुलकमात् ।
योग्योऽयमिति सत्कृत्य स्वयं राज्ञा नियोजितः ॥
यस्मिन्नवति धर्मेण पराभ्युदयकारिणि ।
अन्वर्थसंज्ञां संप्राप्तमिदमाढ्यपुरं पुरम् ।।
उचितं यः करादानमारामेभ्यः कुटुम्बिनाम् ।
अनाददत्प्रभुरपि पूर्णी वृत्तिमदादितः ।।
रोगिणामधिनां वापि विस्रम्भागुपितं वचः ।
शृण्वतो यस्य करुणा द्विगुणा समजायत ।।
यन्मदीयं शुभं नाम जन्मप्रभृति संभृतम् ।
तदस्तु पितुरेवेति संकल्पो यस्य कीर्तितः ॥
शिवयज्ञेन यो देवान्मुनीनध्ययनेन च ।
पितॄश्चातर्पयत्तोयैः सत्पुत्रकरनिःसृतैः ।।
तेनेह सिंहदत्तेन दत्तदातव्यवस्तुना ।
स्थापितो विजयस्यायं दाता श्रीविजयेश्वरः ।।
अस्मिस्तेन च यद्दत्तं दासारामादि किंचन ।
तदेव देवस्वमिति न हरेन्नापि नाशयेत् ।।
वैशाखप्रथमद्विपञ्चकदिने द्वाराष्टबाणैर्युते
जीवश्चापयुतो वृपे कविमुतः सिंहार्धगश्चन्द्रमाः ।
कौलीरे वणिमो(ऽवर्निनो) घटे रविमुतः शेपास्तु मेपस्थिताः
सोऽयं श्रीविजयेश्वरो विजयते यः कीटलग्ने स्थितः ॥
(कम्बोज इन्स्किशन्स् ५-८

२०२
काव्यमाला।
(५०)
कम्बोजदेशस्थशिवालयप्रशस्तिः।
नितमिन्दुक्तंसेन मूर्धा गङ्गां वभार यः ।
उमाभूभवानिहोमि मालामालु(!)मिवामलाम् ॥
रामा श्रीभववर्मति पतिरासीन्महीभृताम् ।
अप्रधृप्यमहासत्वा तु(वस्तु)को मेरुरिवापरः ।।
सोमान्वये प्रसूतस्य सोमस्येव पयोनिधी ।
केनापि यस्य तेजस्तु जाज्वलिते(लीति !) सदाहवे।।
अन्तः समुत्था दुर्गाद्या मूर्त्यभावादतीन्द्रियाः ।
यदा पडरयो येन जिता पाह्येषु का कथा ।
नित्यदानपयःसिक्तकरानेव मतगजान् ।
आत्मानुकारादिव यः समराय समग्रहीत् ।।
शरत्कालाभियातस्य परानावृततेजसः ।
द्विपामसयो यस्यैव प्रतापो न रवेरपि ।
यस्य सेनारनो धूतमुज्झितालंकृतिप्वपि ।
रिपुत्रीगण्डदेशेषु चूर्णभावमुपागतम् ।।
रिपोरिव मनः शुष्कं नगरीपरिखानलम् ।
यस्य योधैमरापीतमासदै रतिना(१) सह ॥
परीतायामपि पुरि ज्वलता यस्य तेजसा ।
पुनरुक्त इवारोपः प्राकारे जातवेदसः ।।
जित्वा पर्वतभूपालांस्तनोति सकुला भुवः ।
बन्दिभिः सगुणानीशै()यशोभिरिव यो दिशः ।।
येनेयद्वैरवंश्यानां मर्यादालङ्घनं कृतम् ।
यदेपामवधिभूमेरतिक्रान्ता पराक्रमैः ।।
शक्त्यापि पूर्व विजिता भूमिरम्बुधिमेखला ।
प्रभुत्वे क्षमया येन सैव पश्चादनीयत ॥

५० लेखः] प्राचीनलेखमाला। २० यस्याकृष्टाः प्रभावेन परे युध्यजिता अपि । राजश्रियम(मुपादाय नमन्ते चरणाम्बुजे ॥ परेणाक्रान्तपूर्वेयमखिलेति विचिन्तया। अजित्वाम्भोधिपर्यन्तामवनि यो न शाम्यति ॥ अवाप्य पोडश कलाः शशाङ्को याति पूर्णताम् । असंख्या अपि यो लब्ध्वा न पर्यस्तः कदाचन ।। नास्ति सर्वगुणः कश्चिदिति वाक्यं महाधियाम् । येनासीद्विकृतमिदं(१) स्वेनापि वचसा विना ॥ तस्य राजाधिराजस्य नवेन्दुरिव यः सुतः । गुणकान्त्यादिभिर्योगादुन्नेत्रयति यः प्रजाः ।। रागं दधाति भूपानां.....""आरतमरीचयः । ॥ शैव(वं) पदं गते राज्ञि दृष्ट्वा यमुदितं प्रजाः । मुञ्चन्ति युगपद्वाप्पं शोकानन्दसमुद्भवे(वम्) । यस्य' ................................ - ॥ नवे वयसि वृत्तस्य यस्य राज्यभरोद्यतम् । चित्रायते कुमारस्य सैनान्यं मरुतामिव ।। उपधाशुद्धिमा(न्) भृत्यस्तयोरवनिपाठयोः । ॥ ॥ हैमो करङ्गकलशापित्यादिश्रियमुत्तमाम् । यो लब्धवान्प्रसादेन स्वामिनोरुभयोरपि ॥ न किंनित्वाम्यसंभुक्तमाप्तं येन कदाचन । भोजन(न) वसन......"यानायाभरणानि वा ॥ .

२०४
काव्यमाला।
प्राणैरसारलघुभिः पितृपिण्डविवर्धितः ।
स्वामिनोऽर्थे गुरुस्थेयं केतुमैहत यो यमम्() ॥
लक्ष्म्या गाढोपगूढोऽपि- पूर्वाभ्यासश(ब)लेन यः ।
मुनीनां चरितं धत्ते क्षमास श)मपरायणः ॥
सुप्रकाशितशौर्यस्य सङ्ग्रामत्यागयोरपि ।
भीरुत्वं यस्य विख्यातमकीर्ते जिनादपि ॥
प्रीणयन्नुद्य....."रुचं कुर्वन्द्विषामपि ।
पक्षद्वयं यो मित्रत्वमनयद्गुणसंपदा ॥
कलिदा(ना)वलीना(बलिना) धर्मो भग्नैकचरणोऽपि यम् ।
महास्तम्भमिवालम्व्य चतुप्पादिव सुस्थितः ॥
अशाश्वतीत्यव(ना)हत्य तनुश्रियमिवात्मनः ।
यशःपुण्यमयीमेव यः स्थिरां बदमन्यत ॥
इदमुग्रपुराधीशः सुभक्त्या लिङ्गमैश्वरम् ।
प्रतिष्ठापितवानन श्रीभद्रेश्वरसंज्ञकम् ॥
दासगोक्षेत्रमादिदेयद्रव्यमशेपव(तः)।
प्रमाणमिह ते सन्तु यत्तयो देवयाजकाः ।।
बान्धवा यजमानस्य पुत्राः संबन्धिनोऽपि च ।
देवस्खं नोपभुञ्जीरन्न प्रमाणि (1) भवन्ति च ॥
यद्दत्तमस्सै देवाय यजमानेन भक्तितः ।
ये नरा हर्तुमिच्छन्ति ते यान्तु नरकं चिरम् ।।
(कम्मोज इन्स्क्रिप्शन्स् २४-२८)
(५१)
मल्लपुरस्थशिवालयप्रशस्तिः ।
संभवस्थितिसंहारकारणं वीतकारणः ।
भूयादत्यन्सकामाय जगतां काममर्दनः ।

१२ लेखः]
प्राचीनलेखमाला।
२०५
अमायश्चित्रमायोसावगुणो गुणभाजन:(नम्) ।
स्वस्थो निरुत्तरो जीयादनीशः परमेश्वरः ।।
यस्याङ्गुष्ठभराक्रान्तः कैलासः सदशाननः ।
पातालमगमन्मूी श्रीनिधिस्तं विभय॑नम् ।।
भक्तिप्रवेण मनसा भवं भूपणलीलया।
दोप्णा च यो भुवो भारं जीयात्स श्रीभरश्चिरम् ।।
अत्यन्तकामो नृपतिनिर्जितारातिमण्डलः ।
ख्यातो रणजयः शंभोस्तेनेदं वेश्म कारितम् ।।
ज्ञः स्थाणुनिष्कलः सोमः पावकात्मा वियद्वपुः ।
भीमः शिवो विजयतां शंकरः कामसूदनः ॥
राजराजो न विरसश्चक्रभृन्न जनार्दनः ।
तारकाधिपतिः स्वस्थो जयतात्तरुणाङ्कुरः ।।
श्रीमतोऽत्यन्तकामस्य द्विपद्दपिहारिणः ।
श्रीनिधेः कामरागस्य हराराधनसङ्गिनः ॥
अभिपेकजलापूर्णे चित्ररत्नाम्बुजाकरे ।
आस्ते विशाले सुमुखः शिरःसरसि शंकरः ।।
तेनेदं कारितं तुझं धूर्जटेमन्दिरगृहम् ।
प्रजानामिप्यसिद्ध्यर्थ शाङ्करी भूतिमिच्छता ॥
धिक्तेषां धिक्तेषां पुनरपि धिग्धिन्धिगस्तु धिक्तेपाम्
येपा न वसति हृदये कुपथगतिविमोक्षको रुद्रः ।।
अत्यन्तकामपल्लवेश्वरगृहम् ।
(साउथ इण्डियन इन्स्थिापशन्स् १-४)
(५२)
चालुक्यवीरचोडमहीपतेर्दानपप्रम् ।
श्रीधामः पुरुपोत्तमस्य महतो नारायणस्य प्रभो-
नाभीपवरुहाभूव जगतः सप्टा स्वयंभूस्ततः ।

! २०६ काव्यमाला । जज्ञे मानससूनुरत्रिरिति यस्तस्मान्मुनेरत्रितः सोमो वंशकरः सुधांशुरुदितः श्रीकण्ठचूडामणिः ।। तस्मादभूत्सुधासूतेषुधो बुधनुतस्ततः । जातः पुरुरवा नाम चक्रवर्ती सविक्रमः ॥ तस्मादायुस्ततो नहुपः। ततो ययातिश्चक्रवर्ती वंशकर्ता । ततः पुरुः ततो जनमेजयः ततः प्राचीशः ततः सैन्ययातिः ततो. हयपतिः ततः सार्व- भौमः ततो जनमेजयः ततो महाभौमः तस्मादेशानकः ततः क्रोधाननः ततो देवकिः तस्माभुकः तस्मादृक्षकः ततो मतिवरः सत्रयागयाजी सरस्वतीन- दीनाथः ततः कात्यायनः ततो नीलः ततो दुप्यन्तः तत्सुतः गङ्गायमुनाती- रयोरविच्छिन्नान्निधाय यूपान् क्रमशः कृत्वा तथाश्वमेधं नाम महाकर्म भरत इति योऽलभत । ततो भरताडूमन्युः । ततो हस्ती ततो विरोचनः । तस्सा- दजमील्हः ततः संवरणः ततः सुधन्वा ततः परिक्षित् ततो भीमसेनस्ततः प्रदीपनः ततः शंतनुः ततो विचित्रवीर्यः ततः पाण्डुराजः ततः पाण्डवाः । येनादाहि विजित्य खाण्डवमठो(थो) गाण्डीविना वजिणं युद्धे पाशुपतास्त्रमन्धकरिपोश्वालाभि दैत्यान्बहुन् । इन्द्रार्धासनमध्यरोहि जयिना यत्कालि(ल)केयादिका- न्हत्वा स्वैरमकारि वंशविपिनच्छेदः कुरूणां विभोः ॥ ततोऽर्जुनादभिमन्युः ततः परिक्षित् ततो जनमेजयः ततः क्षेमुकः ततो नरवाहनः ततः शतानीकः तस्मादुदयनः ततः प्रभृतिप्वविच्छिन्नसंता- नेप्वयोध्यासिंहासनासीनेप्वेकान्नपष्टिचक्रवर्तिपु गतेषु तद्वंश्यो विजया- दित्यो नाम राजा विनिगीपया दक्षिणापथं गत्वा त्रिलोचनपल्लवमधि- क्षिप्य दैवदुरीहया लोकान्तरमगमत् । तस्मिन्संकुले पुरोहितेन वृद्धामा- त्यैश्च सार्धमन्तर्यती(ली) तस्य महादेवी मुडियेमुनामाग्रहारमुपगम्य तद्वा- स्तव्येन विष्णुभट्टसोमयानिना महामुनिप्रभावेन दुहितुनिर्विशेपमभिर- क्षिता विष्णुवर्धनं नन्दनमसूत । सा तस्य कुमारस्य मानव्यसगोत्रहारी- तिपुत्रद्विपक्षगोत्रकमोचितानि कर्माणि कारयित्वा तमवर्धयत् । सन मात्रा विदितवृत्तान्तः सनिर्गत्य चलायगिरौ नन्दा भगवती गौरीमाराध्य ५२ लेखः] प्राचीनलेखमाला। २०७ कुमारनारायणमातृगणांश्च संतमे श्वेतातपत्रैकशङ्खपञ्चमहाशब्दपालिके- तनप्रतिढक्कावराहलाञ्छनपिच्छकुन्तसिंहासनमकरतोरणकनकदण्डगङ्गायमु- नादीनि स्वकुलक्रमागतानि निक्षिप्तानीव साम्राज्यचिहानि समादाय कड- (द)बगङ्गादिभूमिपान्निर्जित्य सेतुनर्मदामध्ये सार्धसप्तलक्ष दक्षिणापथ पालयामास । तस्यासीद्विजयादित्यो विष्णुवर्धनभूपतेः । पल्लवान्वयनाताया महादेव्याश्च नन्दनः ॥ तत्सुतः पुलकेशिवल्लभः तत्पुत्रः कीर्तिवर्मा तस्य तनयः स्वस्तिश्री- मतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हारीतिपुत्राणां कौशिकीवर- प्रसादलव्धराज्यानां मातृगणपरिपालितानां स्वामिमहासेनपादानुध्यातानां भगवन्नारायणप्रसादसमासादितवरवराहलाञ्छनेक्षणक्षणवशीकृतारातिमण्ड- लानामश्वमेधावभृथस्नानपवित्रीकृतवपुषां चालुक्यानां कुलमलंकरिष्णोः स- त्याश्रयवालभेन्द्रस्य भ्राता कुजविष्णुवर्धनोऽष्टादशवर्षाणि वेङ्गीदेशम- पालयत् । तदात्मजो जयसिंहवल्लभस्त्रिंशतम् । तदनुज इन्द्रराजः सप्त- दिनानि । तत्सुतो विष्णुवर्धनो नववर्षाणि । तत्सूनुर्मङ्गियुवराजः पञ्च- विंशतिम् तत्पुत्रो जयसिंहस्त्रयोदश तदवरनः कोकिलिः पण्मासान् तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्तमुच्चाट्य सप्तत्रिंशतम् तत्पुत्रो विजया- दित्यभट्टारकोऽष्टादश । तत्तनुनो विष्णुवर्धनः पत्रिंशतम् तत्सुतो नरे- न्द्रमृगराजोऽष्टाचत्वारिंशतं तत्सुतः कलिविष्णुवर्धनोध्यर्ध तत्सुतो गुणगाङ्कविजयादित्यश्चतुश्चत्वारिंशतम् तद्भातुर्विक्रमादित्यस्य तनय. चालुक्यभीमस्त्रिंशतम् । तत्सुतः कोल्लभिगण्ड विजयादित्यः पण्मासान् । तत्सुतोऽम्मराजः सप्त वर्षाणि । तत्सुतं विजयादित्य बालमुत्पाट्य ताडपो माप्तमेकम् । तं नित्वा चालुक्यभीमसुतो विक्रमादित्य एकादशमासान् । तत्ताडपरानसुतो युद्धमल्लः सप्त वर्षाणि । तमुच्चाट्य देशादम्मराजानुनो राजभीमः द्वादशवाणि तत्सूनुरम्मराजः पञ्चविंशति तस्य द्वैमातुरो दाननृपस्त्रीणि वर्षाणि ततः सप्तविंशतिवर्षाणि देवदुरीहया वेङ्गीमहिर- काव्यमाला। नायिकाभवत् । ततो दानार्णवसुतः शक्तिवर्मभूपतिर्दादशवर्षाणि सम- रक्षदुर्वीम् । ततस्तदनुजः सप्तवत्सरान्भूतवत्सलः । विमलादित्यभूपालः पालयामास मेदिनीम् ॥ तत्तनयो नयशाली जयलक्ष्मीधाम राजराजनरेन्द्रः । चत्वारिंशतमब्दानेकं च पुनर्महीमपालयदखिलाम् ॥ यो रूपेण मनोभवं विशदया कान्त्या कलानां निधि भोगेनापि पुरंदरं विपुलया लक्ष्म्या च लक्ष्मीधरम् । भीमं भीमपराक्रमेण विहसन्भाति स भास्वद्यशाः श्रीमत्सोमकुलकभूपणमणिर्दीनैकचिन्तामणिः ।। तस्यासीदपकल्मपा सुचरितैरम्मङ्गनाम्ना भुवि प्रख्याता शुभलक्षणैकवसतिदेवी जगत्पावनी । या जगोरिव जाह्नवी हिमवतो गौरीव लक्ष्मीरिव क्षीरोदाद्दिवसेशवंशतिलकाद्राजेन्द्रचोडादभूत् ।। पुत्रस्तयोरभवदप्रतिघातशक्ति- निःशेपितारिनिवहो महनीयकीर्तिः । गङ्गाधराद्रिसुतयोरिव कार्तिकेयो राजेन्द्रचोड इति राजकुलप्रदीपः ।। भासामुन्नतिहेतुं प्रथमं वेङ्गीश्वरत्वमध्यास्य । यस्तेजसा दिगन्तानाक्रमदुदयं सहस्ररश्मिरिक ॥ उद्यच्चण्डतरप्रतापदहनाष्टाखिलद्वेषिणा सर्वान्केरलपाण्ड्यकुन्तलमुखान्निर्जित्य देशान्क्रमात् । आज्ञा मौलिपु भूभृतां भयरुना चित्तेपु दुर्भधसों कीर्तिर्दिा सुधांशुधामधवला येनापितोज्जृम्भते ॥ भोगीशाभीलभोगप्रतिभयभुननिर्भर्त्सनात्यन्तविम्य- नानाभूपाललोकप्रहितबहुविधानयरत्नाभिरामम् । १ .. Hultzsch. Ph. D. महाशयेनेतरस्कन्ध गद्यान्तः पातितम.

२०९
५२ लेखः] प्राचीनलेखमाला।
धत्ते मौलि परार्यो महति नृपकुले यः कुलोत्तुङ्गदेवो
देवेन्द्रत्वादनूने सुरपतिमहिमा चोडराज्येऽभिषिक्तः ।।
हस्तभ्राजितशङ्खचक्रजलनं यं राजनारायणं
लोकाः] स्तौति सर्यवंशतिलकाद्राजेन्द्रदेवार्णवात् ।
संभूतां मधुरान्तकीति विदितां नाम्ना परेण स्वयं
लक्ष्मीमुद्दहति स लोकमहितां देवीं चरित्रोन्नताम् ।।
गाइौवा इव निर्मलाः कृततमोध्वंसा दिनेशा इव
क्षोणीधा इव भूभरश्रमसहा जातास्तयोः सूनवः ।
तन्मध्ये नयविक्रमैकनिलयः श्रीराजराजं प्रति
प्रेम्णा वाचमिमामवोचत पिता सर्वोवराधीश्वरः ।।
मया वेङ्गीमहाराज्यं चोडराज्याभिलापिणा..
मपितृव्ये पुरा न्यस्तं विजयादित्यभूभुजि ॥
स च पञ्चदशान्दानि पञ्चाननपराक्रमः।
महीं रक्षन्महीनाथो दिवं देवोपमो गतः ॥
इत्युक्त्वा तां धुरं दत्तां गुरुणा चक्रवर्तिना ।
अनिष्टतद्वियोगोऽपि विनीतो वहति स सः॥
श्रीपादसेवासुखतो गुरूणां न जातु राज्यं सुखमित्यवेक्ष्य ।
संरक्ष्य वेङ्गीभुवमेकमन्दं भूयः स पित्रोरगमत्समीपम् ।।
तदनुनमथ धीरं वीरचोर्ड कुमार
गुणमिव तनुबद्धं विक्रमं चक्रवर्ती ।
उदयमिव रविस्त्वं प्राप्य वेङ्गीश्वरत्वं
वितनु शिरसि पादं भूभृतामित्यवोचत् ।।
इत्याशिपं समधिगम्य नृपादवन्ध्यां
देव्यास्तथापननृपद्वितयाकमेण ।
आनम्य तानवनतोवरजैः कुमारः
सृष्टः स्वदेशगमनाय स तैः कथंचित् ।।

२१० काव्यमाला। शत्रुध्वान्तमपास्य राजनिकरानाच्छाद्य धाम्ना परा- न्दुर्वृत्तान्विनिवर्त्य भूकमलिनी कृत्वा तथानन्दिनीम् । आरूढो जमनाथ()नामनगरीहर्योदयादि विभु- वेंगीभूतलभूपणं नृपसुतो बालार्कविम्बद्युतिः ।। शाकादे शशिखद्वयेन्दु(१००१)गणिते सिंहाधिरूढे रखी चन्द्रे वृद्धिमति त्रयोदशतिथौ वारे गुरोर्वृश्चिके । लग्नेऽथ श्रवणे समस्तजगतीराज्याभिषिक्तो मुदा लोकस्योद्वहति म पट्टमनघः श्रीवीरचोडो नृपः ।। स सर्वलोकाश्रयश्रीविष्णुवर्धनमहाराजो राजपरमेश्वरः परममाहेश्वरपरम- भट्टारकः परमब्रह्मण्यश्रीवीरचोडदेवः गुद्दवाटिविषयनिवासिनो राष्ट्रकूट- प्रमुखान् कुटुम्बिनः सर्वान् समाय मन्त्रिपुरोहितसेनापतियुवराजदौवा- रिकसमक्षमित्थमाज्ञापयति- यथा- पावने ब्रह्मवंशेऽभूत्परमाडाददर्शनः । मुनीन्द्रो मुद्गलो नाम क्षीरोद इव चन्द्रमाः ॥ येनातानुभावेन समाहृते दिवाकरे । यस्य यष्टिः समादिष्टा रविचेष्टामचेष्टत ॥ आसीत्पवित्रचारित्रस्तद्गोत्रे गोत्रवर्धनः । दिशो निजयशोधाम्ना द्योतयन्पोतनाद्वयः ।। गुणाधिको गुणज्ञेन राजराजाधिपेन यः । रामरानब्रह्ममहाराननाम्ना स्तुतो मुदा ।। तस्य पुण्यनिधेः पत्नी कन्नमाम्बा जगन्नुता । अत्रेरिवानसूयासीदनसूयगुणोन्नता ॥ सुतमिव वसुदेवाद्देवकी वासुदेवं गुहमिव गिरिकन्या नन्दनं चन्द्रमौलेः । अथ तनयमसूत श्रीनिधि सा च तस्मा. [- १ ६२ लेखः] प्राचीनलेखमाला। २११ दखिलविबुधसंधैरीडितं मेडमार्यम् ।। उद्दामधामविमलीकृतदिबिभागे नित्योदयस्थितिमति प्रविकासिपझे। यत्रोदिते निखिलबन्धुकुलानि लक्ष्मी- रध्यास्त वारिजवनानि विवस्वतीव ।। यस्मिन्नाश्रितवत्सले कृतयुगाचारैकधीरे स्थिति विभ्राणा गुणरत्नभूपण इति प्रख्यातनाम्नि स्वयम् । सत्यत्यागपराक्रमप्रभृतयः संभूय सर्वे गुणा वर्धन्ते गुणराशिलोपनिपुणं निर्मित्य कालं कलिम् ।। धीरो नित्यानुरक्तो दृढनिशितमतिर्ब्रह्मवंशप्रदीपो लक्ष्मीभूरिद्धतेना नयविनयनिधिः शास्त्रशस्त्रप्रवीणः । मान्यः शैलेन्द्रसारस्थिर इति च मया सादरं सप्रसाद सैनापत्येऽमिपिक्तो वहति जनमुदे पट्टमारोपितं यः ।। शुश्रूषया गुरुजनं चारतेन लोकं मानेन बन्धुजनमिष्टधनेन शिष्टान् । यो माम्मदीयनिखिलक्षितिराज्यभार- क्षान्त्यामिनन्दयति भक्तिभरेण शौरिम् ।। यस्य प्राङ्गणभूमिपु प्रतिदिनं प्रक्षाल्यमानामित- क्षोणीदेवसमूहपादविगलद्वारिप्रवाहैः शुभैः । शश्चन्मार्गसहस्रपूरिभिरहो गङ्गाप्रवाहा जिता देवेष्वन्यतमस्य पादगलिता मार्गत्रयायासिताः ।। द्राक्षारामे पावने पुण्यभाजा पुण्यक्षेत्रे पीठपुर्या च येन । भोक्तुं प्रीत्या प्रत्यहं ब्राह्मणानामाकल्पान्तं कल्पितं सत्रयुग्मम् ॥ चेल्लूरुनामप्रथिताभिरामशिष्टाग्रहारोत्तरदिग्विभागे । महत्तटाकं मधुराम्बुपूर्णमचीकरद्यः करुणारसात्मा ॥ विरगस्त्यप्रतिभैरसंख्यैनित्योपभोग्येन शशिप्रभेण ! यद्वारिणाब्धि हसतीच भूयो निःशेपपीतं कलशोद्भवेन ॥

२१२ काव्यमाला। महौजसा तेन महामहिम्ना ग्रामस्य तस्यापरदिग्विभागे । निर्मापितं धर्मपरायणेन विष्णोर्गृहं वैष्णवपुंगवेन ।। समुन्नते चन्द्रमरीचिगौरे लक्ष्मीनिवासे नयनाभिरामे । तत्राविरासीत्स्वयमेव देवो लक्ष्मीपतिर्लक्षितशङ्खचक्रः ॥ तसे श्रीविष्णुभट्टारकाय प्रत्यहं चरबलिपूजार्थ खण्डस्फुटितनवक- थि च भवद्विपये कोलारू नाम ग्रामः सर्वकरपरिहारेण देवभोगीकृत्य उदकपूर्वकं दत्त इति विदितमस्तु वः अस्य ग्रामस्य सीमानः पूर्वतः कु" "सीमा ॥ अस्योपरि न केनचि. द्वाधा कर्तव्या । यः करोति स पञ्चमहापातकयुक्तो भवति । तथा चोक्तं भगवता व्यासेन- स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् । पष्टिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः ॥ : गामेकां स्वर्णमेकं वा भूमेरप्येकमङ्गुलम् । हरन्नरकमाप्नोति यावदाभूतसंप्लवम् ॥ बहुभिर्वसुधा भुक्ता बहुभिश्चानुपालिता । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। श्रीविजयराज्यसंवत्सरे एकविंशे दत्तस्यास्य शासनस्याज्ञप्तिः पञ्चप्र- धाना काव्यकर्ता विद्दयभट्टः लेखकः पेन्नाचारिः॥ (साउथ इण्डियन इन्स्क्रिप्शन्स् ११५३-५७) ४ (५३) चालुक्यविष्णुवर्धनमहाराजदानपनम् । सर्वाकारमशेषस्य जगतः सर्वदा शिवम् । गोत्राह्मणनृपाणां च शिवं भवतु सर्वदा ।। स्वस्ति श्रीमतां सकलभुक्नसंस्तूयमानमानव्यसगोत्राणां हारीतीपुत्राणां कौशिकीवरप्रसादलव्धराज्यानां मातृगणपरिपालितानां स्वामिमहासेनपादा- . प्राचीनलेखमाला। नुध्यातानां भगवन्नारायणप्रसादसमासादितवरवराहलाञ्छनेक्षणक्षणवशीकृ. तारातिमण्डलानां अश्वमेधावभृथस्नानपवित्रीकृतवपुपां चलुक्यानां कुलमलं. करिष्णुः सत्याश्रयवल्लभस्य भ्राता कुजविष्णुवर्धनोऽष्टादशवर्षाणि । तत्पुत्रो जयसिंहवल्लभस्त्रयस्त्रिंशद्वर्षाणि । तद्भातुरिन्द्रराजनन्दनो विष्णु- वर्धनः नववर्षाणि । तत्पुत्रो मङ्गियुवराजः पञ्चविंशतिसंवत्सरान् । तत्सूनु- जयसिंहस्त्रयोदश वत्सरान् । तद्वैमातुरानुजः कोकिलिः षण्मासान् । तद- ग्रनो विष्णुराजः स्वानुजमुच्चाट्य सप्तत्रिंशसंवत्सरान् तत्पुत्रो विजया- दिसभट्टारकः अष्टादशाब्दान् । तन्नन्दनो विष्णुवर्धनः पत्रिंशदब्दान् । तत्पुत्रः गङ्गरवलैः सार्ध द्वादशाब्दानहर्निशम् । भुनार्जितवलं खड्गसहायो नयविक्रमैः ।। अष्टोत्तरं युद्धशतं युद्धा शंभोमहालयान् । तत्संख्ययाकरोद्वीरो विजयादित्यभूपतिः ॥ कृत्वा राज्यं स वेङ्गीशः स चत्वारिंशतः समान् । चतुरुत्तरसंख्यातान्ययौ सख्यं शचीपतेः ॥ ४ ॥ तत्सूनुर्नययिद्वीरः कल्लचादिविष्णुवर्धनः । वेङ्गीनाथः समस्तानामायुधानां कलौ कृती ॥ वर्णाश्रमस्थितिनियोजनदक्षरक्षा- शिक्षापरः परपुरंजयसक्तचाहुः । नित्यं त्रिवर्गपरिपालनतन्त्रिमन्त्रि- संवधिताखिलधरातललव्यतेनाः ॥ गनवाजियुद्धकुशलः सार्धसंवत्सरं पतिः । बभूव राज्ये नयविदभिषिक्तः कुलोन्नतेः ॥ तत्सुतोऽजनि समस्तभूभृतां शासकः सकलसंपदा पतिः । धैर्यदानधृतिधर्मनिर्मलश्रीप्रतापधरमूर्तिविश्रुतः ।। समरनिरतारातिवाताननेकघरेश्वरा- प्रकृतिबलसंपन्नस्तेजस्ततिक्रमोन्नतिः । + काव्यमाला। विलसदसिना जित्वा सूर्य प्रतापयशोमय- जगति विजयादित्यो नित्यं गुणैश्च जिगाय सः ॥ गङ्गानझजवैरिशक्तिरसमानद्देशसंचोदितो जित्वा मशिशिरोहराधि महाबाद्वाप्तवीर्यमा । कृष्णं संकिलमङ्किताखिलबलप्राप्तोरुसद्विक्रमो भीता? च विधाय तत्पुरमरं यो निर्ददाह प्रभुः ॥ स समस्तभुवनाश्रयश्रीविजयादित्यश्चतुश्चत्वारिंशद्वर्षाणि । तदनु सवि- तयस्तं गते तिमिरपटलेनेव रट्टदायादबलेनाभिव्याप्तं वेङ्गीमण्डलम् तदनु- जविक्रमादित्यसूनुश्चलुक्यभीमाधिपो द्रोहार्जुनापरनामा स्वविक्रमैकसहा- यत्तरवारिप्रभयावभास्पाधिपतिरभूत किं च दीनानाथनग्ननटगायकधर्मध्व- जवृत्तीनां पितराविव सखेव गुरुरिवामिलपितं विस्ती(ती)र्य कल्पतरुप्रति- मश्चेतांसि दानेन संतमे त्रिंशद्वर्षाणि पालयित्वात्मगुणैः पुरंदरमानन्दय- निव तत्सख्यमगमत् । तत्पुत्रो विजयादित्यः शैशवाल्लव्धसंपदा । सर्व भोगाधिराज्याङ्गवलरत्नैरविश्रुतः ।। जीवत्येव प्रतापास्पितरि भुनवलध्वस्ततद्वैरिवर्गः पश्चाजित्वारिवर्ग निजमजितमहाशक्तिसंपन्नमन्त्रः । प्रज्ञाचक्रेण बाह्यां रिपुसमितिमपि स्वार्थभोगैः कृतार्थो राज्याशीलब्धतेनाः समदल(बल ?)मधिपो जेतुमिन्द्रं प्रयातः ।। तत्सूनुरुदयादित्य इवाम्भो राजमहेन्द्रापरनामा रिपुतिमिरमारान्नि- हत्य प्रकृतिसपत्नपक्षनिक्षिप्तसामन्तकुल्यकुटिलमनोभङ्गकरं करवालमुत्कृप्य शक्तित्रयसंपन्नप्रतापावनितपितृपितामहप्रकृतिबलः प्रज्ञया सुरुगुरुं तेजसा भानुमन्तं क्षमया तमाममरगिरि विविध(वि)बुधसमाश्रयतयानुकुर्वन् सर्व- लोकाश्रयश्रीविष्णुवर्धनमहाराजः स्वराज्याभिषेककृतकल्याणः सिंहासना- रूढः कण्डेरुवाडिविपयनिवासिनः सर्वान्कुटुम्धिनः समाहूयेत्थमाज्ञापयति स । अस्मत्कुलकल्याणपरम्परानियोगाधिकृतपट्टवर्धनी वंशाग्रण्या । काल- ५३ लेखः] प्राचीनलेखमाला। कम्प इति विश्रुतेन कुजविष्णुवर्धनानुचरेण संग्रामे तदनुज्ञया दुर्धर्षवलं दहरनामानं विनिहत्य तच्चितानि येन जगृहिरे । तत्कुलप्रसूतसोमादि- त्यस्य सूनुरनेकयुद्धलब्धप्रतापः प्रतिवियराजः । तत्सूनुः सकलारातिमदच्छेदकरायुधः । सेवको विजयादित्यकलियर्त्यभूभुजः ॥ अभैपुर्भण्डनादित्यं दृष्ट्वा प्रतिमुखाञ्जनम् । प्राप्तमुज्ज्वलगण्डाकं यं परे यमसंनिभम् ॥ यो हि- शत्रूणां तुमुलेपु वीरपटहं संश्राव्य जित्वा बलं कुन्तादित्य इति श्रुताङ्कितमहाकीर्तिप्रतापालयः । मचित्तं परितोप्य भृत्यपदवीं लब्ध्वा प्रसादं गतः स्फीतानेकवलारिभूपविजयश्रीजन्मवाहून्नतिः॥ तसै सद्वादशनामटिको गोण्टूनामग्रामः सर्वकरपरिहारीकृत्यास्माभि- दत्त इति विदितमस्तु वोऽलाभिः । अस्यावधयः । पूर्वतः गोगुव । दक्षि- णतः गोणयूरु । पश्चिमतः कुलुचेरुवुल । उत्तरतः मडपल्लि । एतेषां म. ध्यवर्तिनः क्षेत्रसीमानः । पूर्वतः पोतुरायु । आग्नेयतः पेद्दकोयिलमु । द- क्षिणतः कुरुवपोटि । नैर्ऋततः पेरुवातिकुरुव । पश्चिमतः पालगुण्ट पडु- मटिकट्ट । वायव्यतः पोलकुंगोण्ड मोनदुर्ग मधवति । उत्तरतः मडपल्लि- पर ऐशानतः चामिरे निगुण्ट । अस्योपरि न केनचिद्वाघा कर्तव्या। यः करोति स पञ्चमहापातको भवति । तया च व्यासेनोक्तम्- बहुभिर्यसुघा दत्ता बहुभिश्वानुपालिता। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ स्वदत्ता परदत्तां वा यो हरेतु वसुंधराम् । पष्टिं वर्षसहस्राणि विष्ठायां जायते कृमिः ॥ (साउथ इण्डियन इन्स्क्रिप्शन्स् 11.)

काव्यमाला। (५४) श्रीबदरिकाश्रमयात्रान्तर्गतपण्डकेश्वर- मन्दिरोपलव्धदानपत्रम् । स्वस्ति श्रीमत्कार्तिकेयपुरात्सकलामरदितितनुजमनुजविभुभक्तिभावभ- रभारानमितामितोत्तमाङ्गसङ्गिविकटमुकुटकिरीटविटङ्ककोटिकोटिशोलोकता- नाना(ताता)यकप्रदीपदीपदीधितिपानमदरक्तचरणकमलामलविपुलबहुलकिर- णकेशरासारसारिताशेषविशेपमोपियनतमतेजसः स्वधुनीधीतजटाजूटस्य म- गवतो धूर्जटेः प्रसादान्निनभुजोपार्जितौजित्यनिर्जितरिपुतिमिरलब्धोदयप्रका- शदयादाक्षिण्यसत्यसत्त्वशीलशौचशौर्यौदार्यगाम्भीर्यमर्यादार्यवृत्ताश्चर्यकार्य- वर्यादिगुणगणालंकृतशरीरो महासुकृतिसंतानबीनावतारः कृतयुगागमभू- पालललितकीतिर्नन्दाभगवतीचरणकमलकमलासनाथमूर्तिः श्रीमिम्बरः, तस्य तनयस्तत्पादानुध्यातो राज्ञीमहादेवी श्रीनाशूदेवी, तस्यामुत्पन्नः परममाहेश्वरः परब्रह्मण्यः शितकृपाणधारोत्कृत्तमत्तेभकुम्माकृष्टमुक्तावली- यशःपताकाच्छायचन्द्रिकापहसिततारागणः परमभट्टारकमहाराजाधिराज परमेश्वरश्रीमदिष्टगणदेवः, तस्य पुत्रस्तत्पादानुध्यातो राज्ञी महादेवी श्रीवेगदेवी, तस्यामुत्पन्नः परममाहेश्वरः परमब्रह्मण्यः कलिकलङ्कपङ्कात. मनधरण्युद्धारधारितधीरेयवरवराहचरितः सहनमतिविभवविभुविभूतिस्थ. गितारातिचक्रप्रतापदहनोऽतिवैभवसंहारारम्भसंभृतभीमनुकुटि कुटिलकेस- रिसटाभीतभीतारातीमकलमभरोऽरुणारुणकृपाणवाणगुणप्राणगणहठाकृष्टो- स्कृष्टसलीलनयलक्ष्मीप्रथमसमालिङ्गनावलोकनवलक्ष्यसखेदसुरसुन्दरीविधूत: करस्खलद्वलयकुसुमप्रकरप्रकीर्णावतंससंवर्धितकीर्तिबीजः पृथुरिव दोर्दण्ड- साधितधनुर्मण्डलबलावष्टम्मवशवशीकृतगोपालनानिश्चलीकृतधराधरेन्द्रः पर- ममहारकमहाराजाधिराजपरमेश्वरश्रीमल्ललितशूरदेवः कुशली अस्मिन्नेव श्रीमत्कार्तिकेयपुरविपये समुपगतान्सर्वानवनियोगस्थान राजराजत(न्य)क- राजपुत्रासृष्टामात्यसामन्तमहासामन्तठकुरमहामनुप्यमहाकर्तृकृतिकमहाप्रती. हारमहादण्डनायकमहारानप्रमातारशरमनकुमारामात्यापरिकदुःसाध्यासाध- .

५४ लेखः] प्राचीनलेखमाला। निकदशापराधिकचौरोद्धरणिकशौल्किकशौल्मिकतदायुक्तकविनियुक्तकप- झाकापचारिकाशेपभङ्गाधिकृतहरत्यश्वोष्ट्रबलव्याप्तकभूतप्रेपणिकदण्डिकद- ण्डपाशिकगमागमिकशाह्निकाभित्वरमाणकराजस्थानीयविपयपतिभोगपति- नरपत्यश्वपति...."ण्डरक्षप्रतिशूरिकस्थानाधिकृतवर्मपालकोट्टपालघट्टपाल- तेत्रपालप्रान्तपालकिशोरवर(ड)वागोमहिप्यधिकृतभट्टमहत्तमाभीरवणिक्श्रे- ष्ठिपुरोगास्त (:)टादशप्रकृत्यधिष्ठानीयान्वपकिरातद्रविडकलिङ्गशौरहूणोड्ड- मेदान्ध्रचाण्डालपर्यन्तान्सर्वसंवसान्समलजनपदान्भटाचटसेवकादीनन्यांश्च कीर्तितानकीर्तितानस्सत्पादोपजीविनः प्रतिवासिनश्च ब्राह्मणोत्तरान्यथाहै मत्तयति बोधयति समाज्ञापयति-अत्तु तेऽसाद्विदितम्-उपरिनिर्दि- एविपये गोरुनसायां प्रतिवद्धसपियाकपरिभुज्यमानपल्लिका, तथा पणि- भूतिकायां प्रतिवद्धगुग्गुलपरिभुज्यमानपल्लिकाद्वयं एते मया मातापित्रो- रात्मनश्च पुण्ययशोभिवृद्धये पवनविघट्टिताश्वत्थपत्रवञ्चलतरङ्गजीवलोकम- वलोक्य जलबुहुदाकारमसारं वायुदृष्ट्वा गजकलभकर्णाग्रचपलतां चालक्ष्य "त्वापरलोकनिःश्रेयसाथै संसारोत्तरणार्थ च पुण्येऽहनि उत्तरायण- संक्रान्तौ गन्धपुप्पधूपदीपोपलेपननैवेद्यबलिचरुनृत्यगेयवाद्यसत्त्वादिप्रवर्त- नाय खण्डस्फुटितसंस्करणाय अमिनवकर्मकरणाय च भृत्यपदमूलभरणाय च गोरुन्नसायां महादेवीश्रीसामदेव्या स्वयंकारायितभगवते श्रीनाराय- णभद्दारकाय शासनदानेन प्रतिपादिताः । प्रकृतिपरिहारयुक्तः प्रचा. टाभटाप्रवेशः अकिंचिठामाह्याः, अनाच्छेद्य आचन्द्रार्कक्षितिस्थितिसमका- लिको विपयादुदृतपिण्डास्यसीमागोचरपर्यन्तस्य वृक्षारामः, (हवालव- णोपेतदेवब्राह्मणभुक्तभुज्यमानवनिताः । यतः-सुखं पारम्पर्येण परि- भुञ्जतश्चास्योपरिनिर्दिष्टरन्यतरेर्वा धरणविधारणपरिपन्धिननादिकोपद्रवो मनागपि कर्तव्यो नोऽन्यथा...."महान्द्रोहः स्यादिति प्रवर्धमानविनयरा. ज्यसंवत्सर एकविंशतिति मे । सम्वत् २११ माघवदि ३१ महादानाक्षयपट- लाधिकृतश्रीपोजकः । लिखितमिदं महासंधिविग्रहासपटलाधिकृतश्रीम- दायटाववनातदोत्कीर्णश्रीगगभद्रेण ।

२१८
काव्यमाला।
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्प यस यदा भूमिस्तस्य तस्य तदा फलम् ॥
सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।।
स्वदत्ता परदत्ता वा यो हरेत वसुंधराम् ।
पष्टिं वर्पतहस्त्राणि श्वविष्टा जायते कृमिः ।।
भूमेर्दाता याति लोके सुराणां हंसर्युक्तं यानमारुह्य दिव्यम् ।
लोहे कुम्भे तैलपूर्ण सुतप्ते भूमेहर्ता पच्यते कालदूतैः ।।
पप्टिवर्पसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।।
गामेकां च सुवर्ण च भूमेरप्येकमङ्गलम् ।
हृत्वा नरकमायाति यावदाभूतसंप्लवम् ॥
यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि ।
निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥
......"भ्रममिदं समुदाहरद्भि-
रन्यैश्च दानमिदमम्यनुमोदनीयम् ।
लक्ष्म्यास्तडित्सलिलबुगुदनचलाया
दानं फलं परयशःपरिपालनं च ॥
इति कमलदलबिन्दुलोलमिदमनुचिन्त्य मनुप्यनीवितं च ।
सकलमिदमुदाहृतं च बुद्धा नहि पुरुपैः परकीर्तयो विलोप्याः ॥
नोट्स् ऑन् घि हिस्टरी ऑफ घि हिमालय-एकिन्सन,
(५५)
सुप्रसिद्धश्रीवीरचुकरायसुतहरिहरमहाराजस्य
दानपत्रम् ।
श्रीगणाधिपतये नमः।
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥
.........

५५ लेखः]
प्राचीनलेखमाला ।
२१९
अव्यादव्याहतैश्वर्यकारणं वारणाननः ।
वरदस्तीव्रतिमिरमिहिरो हरनन्दनः ।।
श्रीमानादिवराहो यः श्रियं दिशतु भूयसीम् ।
गाढमालिङ्गिता येन मेदिनी यत्र मोदते ।।
अस्ति कौस्तुभकल्पद्रुकामधेनुसहोदरः ।
रमानुजः सुधानाथः क्षीरसागरसंभवः ।।
उदभूदन्वये तस्य यदुनर्नाम महीपतिः ।
पालितं यत्कुलीनेन वासुदेवेन भूतलम् ॥
अभूदस्य कुले श्रीमान्भूमौ गुरुगुणोदयः ।
अपास्तदुरितासङ्गः संगमो नाम भूपतिः ।।
आसन्हरिहरः कम्पो युकरायमहीपतिः।
मारपो मुद्गपश्चेति कुमारास्तस्य भूपतेः ।।
पञ्चानां दृप्तगात्राणां प्रख्यातो चुकभूपतिः ।
प्रसिद्धविक्रमो मध्यः पाण्डवानामिवार्जुनः ॥
दिकरीन्द्रधुराधारादक्षिणस्कन्धवन्धुरः ।
चुकरायस्ततः श्रीमानासीदाहवकर्कशः ॥
यस्योद्यद्युद्धरङ्गे वितरति परितस्ताण्डवं मण्डलाने
वक्के शुप्कास्तुरुष्का भयभरभरितः कोङ्कणः शङ्कितायुः ।
सान्धा रन्ध्राणि धावन्त्यधमनतनया गुर्जरा जनराङ्गाः
काम्बोजाः स्विन्नधैर्याः सपदि समभवन्प्राप्तभङ्गाः कलिङ्गाः ॥
राजाधिराजस्तेजस्वी यो राजपरमेश्वरः ।
भापातिरिशिभूपालभुजंगमविहंगराट् ॥
राजवेश्याभुजङ्गो यः पररायतपंकरः ।
हिन्दुरायसुरत्राणः शास्त्रेत्यादिभिरन्वितः ।।
श्रीविद्यानगरी विश्वविजयोदयशालिनी ।
राज्ञा विजयिना येन राजधानी कृता स्थिरा !!

२२०
काव्यमाला।
तस्य गौराम्बिका नाम महिपी समनायत ।
माननीयगुणा मायावल्लभस्य यथा रमा ।
कपर्दिनो यया गौरी शचीव नमुनिद्विपः ।
पितामहस्य सावित्री छायेव शुमणेरिव ॥
विलासविभ्रमोलासतिरस्कृततिलोत्तमा ।
अनसूयापि सासूया यत्पातिव्रत्यसंपदा ॥
अहीनभोगसंपत्तिरसी रामशिखामणिः ।
तस्यां हरिहरं गौयो कुमारमुदपादयत् ॥
शिष्टान्संरक्षिता यश्च दुष्टानामपि शासकः ।
लव्याप्तो विदुपा साकं साध्यो हरिहरे परः ॥
यस्मिन्पोडशदानानि(नां) यशसा परिशोभिते ।
दानाम्बुधारया यस्य वर्धते धर्मपादपः ॥
ऋपिभूवदिचन्द्र(१३१७)तु गणिते धात(त)वत्सरे ।
माघमासे शुक्लपक्षे पौर्णमास्यां महातिथौ ॥
नक्षत्रे पितृदेवत्ये भानुवारेण संयुते ।
तुङ्गभद्रानदीतीरे हेमकूटोपशोभिते ॥
श्रीविरूपाक्षदेवस्य संनिधी शुमदायिने ।
भारद्वाजसगोत्राय बहृचोऽग्रेसराय च ॥
वाचस्पतेभिलाख्यस्य सूनवे सूनृतोक्तये ।
पटवर्धनिने विष्णुदीक्षितेन्द्राय धीमते ॥
वसिष्ठगोत्रजायापस्तम्बशाखाग्रयायिने ।
रामभट्टमुतानन्तदीक्षिताय विपश्चिते ।।
प्रसिद्धपाण्डवाक्रान्तरुचङ्गिस्थलवासिने ।
मिलिचन्द्राभिधासीमामध्ये ख्यातं महोदयम् ॥
पूर्वभागे स्थितं ग्रामादरिसीकेरसंज्ञकात् ।
गडिकेहल्याभिधादामाद्दक्षिण दिशमाश्रितम् ।।

५५ लेखः] प्राचीनलेखमाला। २२. .. ग्रामारपल्लवकटाख्याप्रतीच्याभिमुखाधितम् । प्रामाच भूदिहल्याल्यादुत्तरस्यां दिशि श्रितम् ।। प्रतिनामा समाख्यातं पुरं हरिहराभिधम् । मादेनहल्लीतिमाम सर्वसस्यसमन्वितम् ॥ सर्वमान्यं चतुःसीमासंयुतं च समन्ततः । निधिनिःक्षेपपाषाणसिद्धसाध्यसमन्वितम् ।। अक्षिण्यागामिसंयुक्तं द्विभोग्यं रम्यभूरुहम् । वापीकूपतडागेश्च कच्छेनापि समन्वितम् ।। पुत्रपौत्रादिभिर्भाग्यं क्रमादाचन्द्रतारकम् । सर्वस्याधमनस्यापि विक्रयस्यापि चोचितम् ।। परीतं प्रयतैः स्निग्धैः पुरोहितपुरोगमैः। विविधैर्विबुधैः श्रीतोपयिकेरपिकेगिरा। वीरो हरिहरश्चाभून्माननीयो मनस्विनाम् । भूदानपात्रभूतात्मा भूसुरात्मा विशेषतः ॥ सहिरण्यपयोधारापूर्वकं दत्तवान्मुदा । ॥ इदमखिलराजशासनमधुकरकाकारगीतमहात्मनः । राज्ञो हरिहरनृपतेः शासनमचलैकपारिजातस्य ॥ तस्य तच्छासनेनेव शासनं तु विनिर्मितम् । शासनाचार्यधर्मेण वाणिदेवेन शिक्षितम् ॥ असिन्ग्रामेऽष्टदिक्षु सीमा देशमापया लिखिता ।। दानपालनयोर्मध्ये दानाच्छ्योऽनुपालनम् । दानास्वर्गमवाप्नोति पालनादच्युतं पदम् ।। स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनम् । परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥ स्वदत्ता परदत्तां वा यो हरेत वसुंधराम् । पष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।। ............ ........

२२०
काव्यमाला।
..
तस्य गौराम्बिका नाम महिपी समजायत ।
माननीयगुणा मायावल्लभस्य यथा रमा ॥
कपर्दिनो यथा गौरी शचीव नमुचिद्विपः ।
पितामहस्य सावित्री छायेव द्युमणेरिव ।।
विलासविचमोल्लासतिरस्कृततिलोत्तमा ।
अनसूयापि सासूया यत्पातिव्रत्यसंपदा ॥
अहीनभोगसंपत्तिरसी राजशिखामणिः ।
तस्यां हरिहरं गौर्या कुमारमुदपादयत् ॥
शिष्टान्संरक्षिता यश्च दुष्टानामपि शासकः ।
लब्धाप्तो विदुपा साकं श्लाघ्यो हरिहरे परः ॥
यस्मिन्पोडशदानानि(नां) यशसा परिशोभिते ।
दानाम्बुधारया यस्य वर्धते धर्मपादपः ॥
ऋपिभूवविचन्द्र(१३१७)तु गणिते धात(तृोवत्सरे ।
माघमासे शुक्लपक्षे पौर्णमास्यां महातियौ ॥
नक्षत्रे पितृदैवत्ये भानुवारेण संयुते ।
तुङ्गमद्रानदीतीरे हेमकूटोपशोमिते ॥
श्रीविरूपाक्षदेवस्य संनिधौ शुभदायिने ।
भारद्वाजसगोत्राय बद्दचोऽग्रेसराय च ॥
वाचस्पतेभिलाख्यस्य सूनवे सूनृतोक्तये ।
पटवर्धनिने विष्णुदीक्षितेन्द्राय धीमते ॥
वसिष्ठगोत्रनायापस्तम्बशाखाग्रयायिने ।
रामभट्टमुतानन्तदीक्षिताय विपश्चिते ॥
प्रसिद्धपाण्डवाक्रान्तरुचङ्गिस्थलवासिने ।
मिलिचन्द्रामिधासीमामध्ये ख्यातं महोदयम् ॥
पूर्वमागे स्थित ग्रामादरिसीकेरसंज्ञकात् ।
गडिकेहल्याभिधादामाद्दक्षिणां दिशमाश्रितम् ॥

५६ लेखः]
प्राचीनलेखमाला।
प्रामात्पल्लवकटाख्याठातीच्याभिमुखाश्रितम् ।
प्रामाच्च भूदिहल्याख्यादुत्तरस्यां दिशि श्रितम् ॥
प्रतिनाम्ना समाख्यातं पुरं हरिहराभिधम् ।
मादेनहल्लीतिग्राम सर्वसस्यसमन्वितम् ॥
सर्वमान्यं चतुःसीमासंयुतं च समन्ततः ।
निधिनिःक्षेपपापाणसिद्धसाध्यसमन्वितम् ।।
अक्षिण्यागामिसंयुक्तं द्विभोग्यं रम्यभूरुहम् ।
वापीकूपतडागैश्च कच्छेनापि समन्वितम् ॥
पुत्रपौत्रादिभिर्भाग्यं क्रमादाचन्द्रतारकम् ।
सर्वस्याधमनस्यापि विक्रयस्यापि चोचितम् ।।
परीतं प्रयतैः स्निग्धैः पुरोहितपुरोगमैः ।
विविधैर्विबुधैः श्रीतोपयिकेरपिकेगिरा ॥
वीरो हरिहरश्चाभून्माननीयो मनखिनाम् ।
भूदानपात्रभूतात्मा भूसुरात्मा विशेषतः ॥
सहिरण्यपयोधारापूर्वकं दत्तवान्मुदा ।
इदमखिलराजशासनमधुकरकाकारगीतमहात्मनः ।
राज्ञो हरिहरनृपतेः शासनमचलैकपारिजातस्य ॥
तस्य तच्छासनेनेव शासनं तु विनिर्मितम् ।
शासनाचार्यधर्मेण वाणिदेवेन शिक्षितम् ॥
असिन्ग्रामेऽष्टदिक्षु सीमा देशमाषया लिखिता ।।
दानपालनयोर्मध्ये दानाच्छेयोऽनुपालनम् ।
दानात्वर्गमवाप्नोति पालनादच्युतं पदम् ।।
स्वदत्ताद्विगुणं पुण्यं परदत्तानुपालनम् ।
परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
पष्टिवर्पसहस्राणि विष्ठायां जायते कृमिः ॥
........

२२२ काव्यमाला । एकैव भगिनी लोके सर्वेषामेव भूभुजाम् । न भोज्या न करग्राह्या विप्रदत्ता वसुंधरा ॥ सामान्योऽयं धर्मसेतुर्नुपाणां काले काले पालनीयो भवद्भिः । सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ।। लाइफ एण्ड एसेज् आप एच्. टी, कोलबूक, वाल्यूम २ पेज २३२ । (५६) श्रीलक्ष्मीवर्मदेवानां शासनपत्रम् । (उजयनीप्रान्त उपलब्धम् ।) जयति व्योमकेशोऽसौ यः सर्गाय बिभर्ति ताम् । ऐन्दवीं शिरसा लेखां जगवीजाङ्कुराकृतिम् ।। तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्तसमयोद्दामतडिद्वलयपिङ्गलाः ॥ परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीउदयादित्यदेवपादानुध्यातप- रमभट्टारकमहाराजाधिराजपरमेश्वरश्रीनरवर्मदेवपादानुध्यातपरमभट्टारकम- हाराजाधिराजपरमेश्वरश्रीयशोवर्मदेवपादानुध्यातसमस्तप्रशस्तोपेतसमधिग- तपञ्चमहाशब्दालंकारविराजमानमहाकुमारश्रीलक्ष्मीवर्मदेवः श्रीमहाद्वादश- कमण्डले श्रीराजशासनमोगे सुरासणीसंबद्धवडनुदनामतप्तासुवर्णप्रासा- दिकासंबद्धउथवणकग्रामयोः समभूतिपयिक(समस्तविपयिक) पट्टकिलजन- पदादीन्बाह्मणोत्तरान्बोधयति-अस्तु वः संविदितम्-यथा श्रीमद्धारायां महाराजाधिराजपरमेश्वरश्रीयशोवर्मदेवेन श्रीविक्रमकालातीतसंवत्सरेकन- वत्यधिकशतैकादशेष कार्तिकशुदि अष्टम्यां संजातमहारानश्रीनरवर्मदेव- सांवत्सरिके तीर्याम्भोभिः सात्वा देवऋषिमनुप्यपितृस्तर्पयित्वा भगवन्तं भवानीपति समभ्यर्च्य शमीकुशतिलान्नायाहुतिमिहिरण्यरेतसं हुत्वा मानवे १६ लेखः] प्राचीनलेखमाला । २२३ अय विधाय कपिलां त्रिः प्रदक्षिणीकृत्य संसारस्याप्सारतां दृष्ट्वा नलिनी. दलगतजलवत्तरलतरं जीवितं धनं चावेक्ष्य, उक्तं च- 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विपयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ।' एवमाकलय्य अद्रेलवद्धावरिस्थानविनिर्गतभरद्वाजगोत्राय भरद्वाजागिर- सचार्हस्पत्यत्रिप्रवरायाश्वलायनशाखिने दक्षिणायातकर्णाटब्राह्मणद्विवेदठकुर- श्रीमहिरस्वामिपौत्र श्रीविश्वरूपसुत आवसथिकश्रीधनपालाप उपरि- लिखितवडउदग्रामउथवणकग्रामौ सवृक्षमालाकुलौ निधिनिक्षेपसहितौ वा-- पीकूपतडागान्विती चतुष्कण्टकविशुद्धौ चन्द्रार्कयावदुदकपूर्वकतया शा- सनेन प्रदत्ती । संवत्सरशतद्वादशकेपु श्रावणशुदि पञ्चदश्यां सोमग्रहणप- वैणि श्रीमत्पितृश्रेयोथै पुनरेवासाभिरेतौ ग्रामौ उदकपूर्वकतया शासनेन प्रदत्तौ । तदनयोमियोनिवासिसमस्तपट्टकिलादिलोकैस्तथा कर्पकैश्च यथो- त्पद्यमानकरहिरण्यभागमोगादिकमाजाश्रवणविधेयैर्भूत्वा सर्वममुष्मै समुपने- तव्यम् । सामान्यं वै तत्पुण्यफलं बुड्वास्मद्वंशनैरन्यैरपि माविभूपतिमिर्ध- मादायोऽयं मन्तव्यश्चेति । यतः- बहुभिर्वसुधा भुक्ता रानमिः सगरादिमिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ वदत्ता परदत्तां वा यो हरेत वसुंधराम् । पष्टिवर्पसहस्राणि विष्टायां जायते कृमिः ॥ सर्वानेतान्माविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योऽयं धर्मसे (भप्रेस टिनम्) रॉयल एशियाटिर सोसाटी वा. १. ३८२ ।

२२४ काव्यमाला : (५७) श्रीमदमोघवर्षदेवापराभिधानश्रीमद्वाक्पतिराज- देवानां शासनपत्रम् । ॐम् यः स्फूर्जत्फणभृद्विपानलमिलम्रप्रभाः प्रोल्लस- न्मूर्धाबद्धशशाङ्ककोटिघटिता याः संहिकेयोपमाः । याश्चञ्चगिरिजाकपोललुलिताः कस्तूरिकाविभ्रमा-- स्ताः श्रीकण्ठकठोरकण्ठरुचयः श्रेयांसि पुष्णन्तु वः ॥ यल्लक्ष्मीवदनेन्दुना न सुखितं यन्नादितं वारिधे- रा यन्न निजेन नाभिसरसीपझेन शान्ति गतम् । यच्छेपाहिफणासहस्रमधुरः श्वासैन चाश्वासितं तद्राधाविरहातुरं मुररिपोर्वेलद्वपुः पातु वः ।। परममट्टारकमहाराजाधिराजपरमेश्वरश्रीकृष्णराजदेवपादानुध्यातपरमभ- डारकमहाराजाधिराजपरमेश्वरश्रीवैरिसिचदेवपादानुध्यातपरमभट्टारकमहा- राजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यातपरमभट्टारकमहाराजाधिरान- परमेश्वरश्रीमदमोधवर्षदेवापराभिधानश्रीमद्वाक्पतिराजदेवपृथ्वीवछमश्रीव- ल्लभनरेन्द्रदेवः कुशली तिणिसपदद्वादशकसंवद्धमहासाधनिकश्रीमहाइकभु- क्तसेम्बलपुरमामे समुपगतान्समस्तराजपुरुपान्ब्राह्मणोत्तरान्प्रतिवासिपट्टकिल- जनपदादींश्च बोधयति-अस्तु वःसंविदितम्-यथा ग्रामोऽयमस्माभिः षद्-. तूं( त्रिंशसहस्त्रिकसंवत्सरेऽस्सिन्कार्तिकशुद्धपौर्णमास्यां सोमग्रहणपर्वणि श्री- भगवत्पुरावासितैरस्माभिर्महासायनिकश्रीमहाइकपत्नीआसिनीप्रार्थनयोपरि- लिखितग्रामः खसीमा तृणयूतिगोनरपर्यन्तः सहिरण्याभोगमागः सोपरिकरः सर्वादायसमेतः श्रीमदुञ्जयिन्यां भट्टारिकाश्रीमद्भद्देश्वरीदेव्यै स्नानविलेपन. पुष्पगन्धधूपनैवेद्यप्रेक्षणिकादिनिमित्तं च, तथा खण्डस्फुटितदेवगृहनगती- समारचनार्थ च मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धयेऽदृष्टफलमगीकृत्या. चन्द्रार्कार्णवसितिसमकालं परया भक्त्या शासनेनोदकपूर्वकं प्रतिपादित . - ५८ लेख:] प्राचीनलेखमाला। २२५ इति मत्वा तन्निवासिपट्टकिलजनपदैर्यथादीयमानभागभोगः करहिरण्यादिक सर्वमान्नाश्रवणविधेयैर्भूत्वा सर्वथा सर्वमस्याः समुपनेतव्यम् । सामान्यं चै. तत्पुण्यफलं बुद्धासद्वंशनैरन्यैरपि भाविभोक्तृभिरमप्रदत्तधर्मदायोऽयमनुम- न्तव्यः पालनीयश्च । उक्तं च- बहुमिर्वसुधा भुक्ता रानभिः समरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमम्यनुमोदनीयम् । लक्ष्म्यास्तडित्सलिलबुद्बुदचञ्चलाया दानं फलं परयशःप्रतिपालनं च ॥ सर्वानेतान्माविनः पार्थिवेन्द्रान्भूयो भूयो याचते राममद्रः । सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः॥ इति कमलदलाम्वुविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च वुद्धा नहि पुरुषैः परकीर्तयो विलोप्याः ॥ इति ॥ संवत् १०३६ चैत्र वदि ९ । गुणपुराविसितै(वासिते) श्रीम. न्महाविजयस्कन्धावारे स्वयमाज्ञादायकवान श्रीरुद्रादित्यः । स्वहस्तोऽयं श्रीवाक्पतिराजदेवस्य ।। (इण्डियन् आण्टिक्करी १४१६०) (५८) श्रीशिवसिंहदेवनृपतीनां शासनपत्रम् । श्रीगजरथपुरात्समस्तप्रक्रियाविराजमानश्रीमद्रामेश्वरीवरलब्धप्रसादभवा- नीभक्तिभावनापरायणरूपनरायणमहाराजाधिरानश्रीमच्छिवसिंहदेवपादाः समरविनयिनो नरैलतप्यायां विसपीग्रामवास्तव्यसकललोकान्भूक'कांश्च समादिशन्ति । ज्ञातमस्तु भवताम्-ग्रामोऽयमलाभिः सप्रक्रियामिनवनयदे- वमहापण्डितठारधीविद्यापतिम्यः शासनीकृत्य प्रदत्तः । ग्रामकस्या यूय.

२२६ काव्यमाला। मेतेषां वचनकरी(रा) भूकर्पणादिकर्म करिप्यथेति ॥ ल सं २८३ श्रावण- सुदि ७ गुरौ। श्लोकास्तु- अब्दे लक्ष्मणसेनभूपतिमते वहिग्रहव्यङ्किते मासे श्रावणसंज्ञके मुनितिथौ पक्षेऽवलक्षे गुरौ । वाग्वसाः सरितस्तटे गजरथेत्याख्याप्रसिद्ध पुरे दिसोत्साहविवृद्धि(ख)बाहुपुलकः सभ्याय मध्ये शुभम् ॥ प्रज्ञावान्प्रचरोवरं पृथुतराभोगं नदीमातृकं सारण्यं ससरोवरं च विसपीनामानमासीमतः । श्रीविद्यापतिशर्मणे सुकवये पुत्रादिभिर्भुजता(ते) स श्रीमान्शिवसिंहदेवनृपतिमं ददे शासनम् ॥ येन साहसमयेन सन्त्रिणा तुङ्गवाहवरपृष्ठवर्तिना। अश्वपत्तिबलयोबलं जितं गज्जनाधिपतिगौडभूभुजाम् ॥ रौप्यकुम्भ इव कजलरेखा श्वेतपद्म इव शैवलवली । यस्य कीर्तिनवकेतककान्त्या म्लानिमेति विजितो हरिणाङ्कः ।। द्विपन्नृपतिवाहिनीरुधिरवाहिनीकोटिभिः । प्रतापतरुवृद्धये समरमेदिनी प्लाविता । समस्तहरिदङ्गनाचिकुरपाशवासक्षम सितप्रसरपाण्डुरं जगति येन लब्धं यशः ॥ मतङ्गजरथप्रदः कनकदानकल्पद्रुम- स्तुलापुरुपमद्भुतं निनधनैः पिता दापितः । मुखानि च महात्मना जगति येन भूमीभुना परापरपयोनिधिः प्रथममैत्रपात्रं सदा ॥ नरपतिकुलमान्यः कर्णशिक्षावदान्यः परिचितपरमार्थो दानतुष्टार्पिसार्थः । निजचरितपवित्रो देवसिंहस्य पुत्रः स जयति शिवसिंहो मेरिनागेन्द्रसिंहः ॥ - ५९ लेखः] प्राचीनलेखमाला ! २२७ ग्रामे गृहन्त्यमुप्मिन्किमपि नृपतयो हिन्दवोऽन्ये तुरुक्का गोकोलं स्वात्ममांसः सहितमनुदिनं भुञ्जते ते स्वधर्मम् । ये चैनं ग्रामरत्नं नृपकररहितं पालयन्ति प्रताप- सेषां सत्कीतिगाथा दिशि दिशि सुचिरं गीयतां वन्दिवृन्दैः ।। सन् ८०७ संवत् १४५५ शाके १३२१ । शुभमस्तु । (इण्डियन् आण्टिकेरी १४ ।) (५९) यादववंशभूपणरामभूपतिदानपत्रम् । ॐ नमो वराहाय ॥ जयत्याविष्कृतं विष्णोराहं क्षोभितरर्णवम् । दक्षिणोन्नतर्दष्ट्रामविश्रान्तभुवनं वपुः ॥ विष्णोर्नाभीकमलकुहरादाविरासीद्विरिश्चि- न्य॑श्चन्मौलिस्खलितकुसुमं वन्दितो देवदैत्यैः । तस्मादत्रिः समननि जगज्जातजैत्रप्रकाश- श्चन्द्रस्तस्मादभवदमृतोद्गारशृङ्गारिताशः || वंशे तस्य पुरूरवाः समभवद्यञ्चापमापदतो देवानामधिपः सरत्यविरतं व्यालुप्तवज्रग्रहः । आब्रह्माण्डमखण्डताण्डवस्थप्रस्थानलीलां वह- न्यश्चैको बुभुजे भुजेन विजितामुर्वी तथैवोर्वशीम् ॥ तस्मिन्नेव ययातिराविरभवद्भूमण्डलाखण्डलः सर्वः स्वर्वनितानितान्तमुभगप्रोद्गीतदोर्विक्रमः । यस्याद्यापि मसाहिताहुतिशतप्रोद्दानभूमोत्करै- राकीण परितः स्फुरत्यविरतं तापिच्छनीलं नमः ।। तसादनायत यदुर्यदुपग्रहेण वंशस्ततः परमगाजगतीप्रतिष्ठाम् ।

२२८
काव्यमाला-1
तसिन्नथायमभवप्रभवः प्रजानां
लीलामयं वपुरमन्दवलं दधानः ॥
यदोस्तसिन्वंशे समजनि स निर्वापितरिपु-
प्रतापस्तापच्छिन्निखिलजगतो राजनृपतिः ।
यदीयप्रोदश्चच्चरणनखरत्नांशुजलधौ
निमज्जन्तश्चित्रं जगदुपरि वृत्तिप्रणयिनः ॥
खेलत्खशावतंसो रणशिरसि वशीकृत्य कर्णाटरानं
यः पाण्ड्यं दण्डयित्वा न्यधित जलनिधेः स्तम्भमभ्यर्णभूमौ ।
यद्वाणवातपातैन समरममनज्जर्जरो गुर्नरेन्द्रः
स श्रीमानाविरासीत्तुहिनकरकुले सिङ्घणः साहसाङ्कः ।।
तस्मादभूप्रभुरशेपमहीपतीनां
श्रीमगिर्विजयकार्मणकार्मुकश्रीः ।
यस्य प्रतापतरणौ तरणे तरूणां
छायेव दैर्घ्यमजहादरिभूभृतां श्रीः ॥
यस्मिन्भ्रूभङ्गभीमे चलति वसुमतीमण्डलं चण्डभानो-
बिम्बं शैलेन्द्रसंधेस्त्रिभिरभित इमे संनियन्ते स सर्वे ।
वल्गद्भिर्वाजिवृन्दैस्तुरगखुरहतैः पांसुमि(तिमित्तैः
क्षोणीन्द्रः स प्रवीरस्तदनु समभवद्भिल्लमः सार्वभौमः ॥
यः संख्ये त्रिकलिङ्गराजमवधद्विद्वेपिसीमन्तिनी-
नेत्राम्भःप्रसरत्प्रगल्भलहरीनिर्वाणवैरानलः ।
यश्चैतस्य समस्तराज्यमहरन्मत्तेमकुम्भस्थली-
कूजत्पट्पदगीतवैभवमरं जातस्ततो जैतुगिः ॥
कारागारात्समानीय करुणावरुणालयः ।
प्रियंवदास्यमकरोत्क्षितेर्गणपति पतिम् ॥
हम्मीरतिमिरतरणिः सरणिधर्मस्य संक्रमः कीर्तेः ।
तस्मादयमननि श्रीसिहुणदेवभूपालः ।।

१९ लेख: प्राचीनलेखमाला। २२९ बल्लालो विजितः पराभवभुवं संभावितोऽन्ध्राधिपः ककल्लो दलितः क्षणेन गलितो भम्भागिरेरीश्वरः । दुर्गाग्रे विनिवाध्य भोजनृपति न्यस्तोऽर्जुनो निर्जित- । तेनेति प्रति[प]च के भुवि भयं भेजुर्न भूमीभुजः ॥ कृप्यन्ते यदुराजरत्न भवता वक्षांसि विद्वेषिणा- मुप्यन्ते समरस्थलीषु करिणां मुक्तावलिश्रेणयः । वर्षन्ति स्तनमण्डलेषु तरुणीनेत्राणि बाप्पोत्करै- रुदेदो भुवनत्रयेऽपि यशसामाश्चर्यमुज्जृम्भते ॥ तस्मादजायत जगत्रयगीयमान- प्रौढप्रतापतपनोदयदुनिवारः। श्रीजगिर्वसुमतीवलयाधिनाथै- चूडामणिप्रकरसंकरचुम्बिताभिः ॥ तस्मात्कृष्ण इति प्रसिद्धचरितः श्रीरायनारायणो जातः कार्तिकचन्द्रकान्तिनयिनां कीर्ति चिरं नर्तयन् । गद्गुर्नरवीरशोणितप्तरित्सङ्गत्वरे श्रीपतिः पायोधौ सघृणो यदीयहृदये निर्दूषणे निद्रितः ।। आदाय द्विषतां करङ्कनिवहान्कृत्वा हलादीनि तैः कृष्ट कृणमहीभृता कृषिमता क्षेत्रे महीमण्डले । येनारातिक्धूविलोचनगलत्सान्द्राअनैरसुभिः किन्ने शौर्यसुबीनमुप्तमभितः प्राप्ता यशोराशयः ।। सत्तं यद्धनवाहने रविमुते वैरोचनं श्रीशिची दानं यच्च दधीचिनाम्नि सकलं संगृह्य सृष्टोऽद्भुतः । नूनं कृष्णपटोद्भवोऽखिलकृता दारिद्यपायोनिधिः पीतस्त्यागकरप्रवृद्धचुलुकेनोदृत्य येनापिनाम् ।। तस्यानुनो निजभुजापितभूमिमारः खच्चन्दचारमुदितोरगप्लार्वभौमः ।

२३० काव्यमाला। यो वीसलं समरकौतुकिनां सुराणा- मग्रे समूलविभवं दलयांचकार ॥ तस्मादभूदामनभूमिपालः समस्तमाहेश्वरमौलिरत्नम् । अलिख्यतोचैः खुरलेखनीभिर्यद्वानिभिर्दिक्षु जयप्रशस्तिः ।। प्रसह्य तस्मादपहृत्य भुते कृष्णानुजः स्वामवनि स रामः । यस्यासिरुज्जृम्भितकैरवाभिर्दिशो यशोभिः सुरभीकरोति ।। महामाहेश्वरः श्रीमात्रामः क्षोणीभृतां गुरुः । यशःक्षीरेण यः शंभोमूतीरप्टाभिपिञ्चति ॥ यत्पुण्यगिरिगर्मोत्थयशोमारुतमण्डली । ब्रह्माण्डपरमाणूनामभवद्वहुलं रजः ।। प्राप्तः श्रीरामभूपोऽपसरत रिपवः संगरादाशु हित्वा राज्यं सप्ताङ्गमेतत्पिवत भुवि जलं शीतलं कापि याताः। नो चेदस्यासिधाराविदलितवपुषस्तत्क्षणादेव दिव्यं देहं प्राप्यामरस्त्रीजननयननवप्रेमसंपत्सुधां वा ।। आसन्सन्ति च वंशजाः कति कति प्राज्ञा भविष्यन्ति च स्फीताः शस्त्रभृतः कलासु कुशला धूर्ता विटाः कर्मठाः । वर्योऽयं पुनरेव रामनृपतिः प्रत्यर्थिनामथिनां यो न कापि पराङ्मुखः क्षितितलालंकारचूडामणिः ।। वाक्प्रपञ्चप्रवहणे रिक्तं यद्गुणसंगरम् । अपारयन्त नापार तरीतुं कविनाविकाः ।। स खल्वेवंविधगुणगणालंकृततनुरनारतद्रविणवितरणकृतार्थी कृतार्थिसार्थः सकलपरिपन्थिपार्थिवान्विनिर्जित्य निजकुलकर्मागतसांराज्यपदमुदृत्य द- धानो रायनारायणो रामनृपतिः सेउनदेशालंकारभूतं गोदावर्युत्तरकूल. स्थित वादाथनग्राम पाटारपिम्पलग्रामवैद्यघोघरग्रामवैद्यद्वयसहितमनहारीकृत्य निधिनिक्षेपनलपापाणशुल्कमौलिकश्रोणदानदण्डकारुकादिसमस्तादायसहित रानरामपुरुषैरप्यनगुलिनिर्देश्य प्रविष्टयामद्वयसहितं चतुराघाटविशुद्धं भ- क्तिश्रद्धातिशयहिरण्याक्षतोदकसहितं शके. च एकादशसु त्रिनवत्यधिके- ५९ लेखः] प्राचीनलेखमाला । २३१ प्वतीतेपु ११९३ वर्तमानप्रजापतिसंवत्सरान्तर्गते माघशुद्धद्वादश्यां बुधे आत्मनः श्रीशार्ङ्गपाणिप्रीत्यर्थ नानागोत्रेम्यः सप्तपञ्चाशत्संख्यकेभ्यो ब्राह्मणेभ्यः प्रादात् ॥ ते च ब्राह्मणा नामतो लिख्यन्ते । तत्र बढ- चाः-वाशिष्ठगोत्रगोविन्दसुतविष्णु-मुद्गलगोत्रपद्मनाभसुतजानू-वाशिष्ठ- गोत्रदामोदरसुतरवलदेव-विष्णुवृद्धगोत्रदामोदरसुतविष्णु-भारद्वाजगोत्रर- वलदेवसुतनानू-कौण्डिन्यगोत्रधरणूसुतप्रभाकर-विश्वामित्रगोत्रगोविन्दसुत- माइआर्गगोत्रनागदेवसुतवामन-हरितगोत्रआपदेवसुतश्रीधर-गार्ग्यगो- राघवसुतकेशव-कौण्डिन्यगोत्रगौतमसुतमहादेव-जामदग्यवत्सगोत्रमाम्य- देवसुतनरसिंह-हरितगोत्रअनन्तसुतसारङ्ग-भारद्वाजगोत्रविनायकसुतआई- देव-भारद्वाजगोत्रवामदेवसुतकृष्ण-कौण्डिन्यगोत्र ईश्वरसुतकृष्ण-कौण्डि- न्यगोत्रकृष्णसुतपुरुपो-कौण्डिन्यगोत्रकृष्णसुतराम-भरद्वाजगोत्रमल्लिनाथ- सुतभानु-हरितगोत्रहरिदेवसुतलक्ष्मीधर-वाशिष्ठगोत्रगोविन्दसुतनागदेव- वाशिष्ठगोत्रगोविन्दसुतकेशव-विश्वामित्रगोत्रश्रीपतिसुतएल्हुगि-कौण्डि- न्यगोत्रनागदेवसुतईश्वर-गौतमगोत्रधनेश्वरसुतवामन-भरद्वाजगोत्रगदाधर- सुतब्रह्मदेव-गौतमगोत्रदामोदरसुतधनेश्वर-मुद्गलगोत्रमाधवसुतगोविन्द-भ- रद्वाजगोत्रनारायणसुतगङ्गाधर-भरद्वाजगोत्रगङ्गाधरसुतनगन्नाथ ॥ अथ तै- त्तिरीयाः-कौण्डिन्यगोत्रसोमनाथसुतपानामभट्ट-कौण्डिन्यगोत्रपद्मनाभसु- तनरसिंह-कौण्डिन्यगोत्रपद्मनाभसुतसोमनाथ-कौण्डिन्यगोत्रपद्मनाभसुतसा- रङ्ग-कौण्डिन्यगोत्रपद्मनाभसुतगणेश्वर-कौण्डिन्यगोत्रपद्मनामसुतहरिहर- कौण्डिन्यगोत्रपद्मनाभसुतत्रिविक्रम-काश्यपगोत्रमहादेवसुतकूचिष्ठ(?)- गायगोत्रदेवन्नसुतदिवाकर-कौशिकगोत्रमल्लिदेवसुतविष्णु-वाभ्यश्वगोत्र- नामदेवसुतविष्णु-आत्रेयगोत्ररामसुतसारङ्ग-काश्यपगोत्रकामदेवसुतसोम- नाथ-गौतमगोत्रविष्णुसुतचौवेरि-गार्ग्यगोत्रनारायणसुतविष्णु-कौण्डिन्य- गोत्रसारङ्गभट्टसुतऋपिदेव-देवरातगोत्रतीलूआपसुतत्राईदेव-कौण्डिन्यगो- अनागदेवमुतआदित्य-कौण्डिन्यगोत्रनरसिंहसुतविष्णु-देवरातगोत्रनाराय- णमुतापदेव-देवरातगोत्रवापदेवमुतराम-देवरातगोत्रनारायणसुतयिष्णु- भरद्वाभगोवननार्दनसुतकृष्ण-देवरातगोत्रनारायणमुतअनन्त ॥ अथ पहचो २३० काव्यमाला। यो वीसलं समरकौतुकिनां सुराणा- मग्रे समूलविमवं दलयांचकार । तस्मादभूदामनभूमिपालः समस्तमाहेश्वरमौलिरत्नम् । अलिख्यतोचैः खुरलेखनीभिर्यद्वाजिभिर्दिक्षु जयप्रशस्तिः ।। प्रसह्य तस्मादपहृत्य भुङ्क्ते कृष्णानुजः स्वामवनि स रामः । यस्यासिरुज्जृम्भितकैरवाभिर्दिशो यशोभिः सुरभीकरोति ।। महामाहेश्वरः श्रीमात्रामः क्षोणीभृतां गुरुः । यशःक्षीरेण यः शंभोमूर्तीरष्टाभिषिञ्चति ॥ यत्पुण्यगिरिगर्मोत्ययशोमारुतमण्डली । ब्रह्माण्डपरमाणूनामभवद्वहुलं रजः ।। प्राप्तः श्रीरामभूपोऽपसरत रिपवः संगरादाशु हित्वा राज्यं सप्ताङ्गमेतत्पिवत भुवि जलं शीतलं वापि याताः । नो चेदस्यासिधाराविदलितवपुषस्तत्क्षणादेव दिव्यं देहं प्राप्यामरस्त्रीजननयननवप्रेमसंपत्सुधां वा ॥ आसन्सन्ति च वंशजाः कति कति प्राज्ञा भविष्यन्ति च स्फीताः शस्त्रभृतः कलासु कुशला धूर्ता विटाः कर्मठाः । वर्योऽयं पुनरेव रामनृपतिः प्रत्यार्थिनामथिनां यो न कापि पराङ्मुखः क्षितितलालंकारचूडामणिः ।। वाक्प्रपञ्चप्रवहणे रिक्तं यद्गुणसंगरम् । अपारयन्त नापार तरीतुं कविनाविकाः ।। स सल्वेवंविधगुणगणालंकृततनुरनारतद्रविणवितरणकृतार्थीकृतार्थिसार्थः सकलपरिपन्थिपार्थिवान्विनिनित्य निनकुलकर्मागतसांराज्यपदमुद्धृत्य द. धानो रायनारायणो रामनृपतिः सेउनदेशालंकारभूतं गोदावयुत्तरकूल- स्थित वादावनग्राम पाटारपिम्पलग्रामवैद्ययोघरमामवैद्यद्वयसहितममहारीकृत्य निधिनिक्षेपनलपापाणशुल्कमौलिकनोणदानदण्डकारुकादिसमस्तादायसहित रामरानपुरुपैरप्यनालिनिर्देश्य प्रयिष्टप्रामद्वयसहितं मतुराघाटविशुद्ध भ- चिश्रद्धातिशयहिरण्यासतोदकसहितं शक न एकादशसु मिनयत्यधिक ५९ लेखः] प्राचीनलेखमाला। २३१ प्वतीतेपु ११९३ वर्तमानप्रजापतिसंवत्सरान्तर्गते माघशुद्धद्वादश्यां बुधे आत्मनः श्रीशाङ्गपाणिप्रीत्यर्थ नानागोत्रेभ्यः सप्तपञ्चाशत्संख्यकेभ्यो ब्राह्मणेभ्यः प्रादात् ॥ ते च ब्राह्मणा नामतो लिख्यन्ते । तत्र बद्दल चा:-~-वाशिष्ठगोत्रगोविन्दसुतविष्णु-मुद्गलगोत्रपद्मनाभसुतनानू-वाशिष्ठ- गोत्रदामोदरसुतरवलदेव-विष्णुवृद्धगोत्रदामोदरसुतविष्णु-भारद्वाजगोत्रर- वलदेवसुतनान-कौण्डिन्यगोत्रधरणूसुतप्रभाकर-विश्वामित्रगोत्रगोविन्दसुत- माइआ-गर्गगोत्रनागदेवसुतवामन-हरितगोत्रआपदेवमुतश्रीधर--गायेगो- घराघवसुतकेशव-कौण्डिन्यगोत्रगौतमसुतमहादेव-जामदग्न्यवत्सगोत्रमाम्य- देवसुतनरसिंह-हरितगोत्रअनन्तसुतसारङ्ग-भारद्वाजगोत्रविनायकसुतआई- देव-भारद्वाजगोत्रवामदेवसुतकृष्ण-कौण्डिन्यगोत्रईश्वरसुतकृष्ण-कौण्डि- न्यगोत्रकृष्णसुतपुरुषो-कौण्डिन्यगोत्रकृष्णसुतराम-भरद्वाजगोत्रमल्लिनाथ- सुतभानु-हरितगोत्रहरिदेवसुतलक्ष्मीधर-वाशिष्ठगोत्रगोविन्दसुतनागदेव- वाशिष्ठगोत्रगोविन्दसुतकेशव-विश्वामित्रगोत्रनीपतिसुतएल्हुगि-कौण्डि- न्यगोत्रनागदेवसुतईश्वर-गौतमगोत्रधनेश्वरसुतवामन-भरद्वाजगोत्रगदाधर- सुतब्रह्मदेव गौतमगोत्रदामोदरसुतधनेश्वर-मुद्गलगोत्रमाधवसुतगोविन्द-भ- रद्वाजगोत्रनारायणमुतगङ्गाधर-भरद्वाजगोत्रगङ्गाधरसुतजगन्नाथ ।। अथ तै- त्तिरीया:-कौण्डिन्यगोत्रसोमनाथसुतपद्मनामभट्ट-कोण्डिन्यगोत्रपद्मनाभसु- तनरसिंह-कौण्डिन्यगोत्रपद्मनाभसुतसोमनाथ-कौण्डिन्यगोत्रपद्मनाभसुतसा- रङ्ग-कौण्डिन्यगोत्रपद्मनाभसुतगणेश्वर-कौण्डिन्यगोत्रपद्मनाभमुतहरिहर- कौण्डिन्यगोत्रपद्मनाभसुतत्रिविक्रम-काश्यपगोत्रमहादेवसुतकूचिष्ठ(2)- गायगोत्रदेवन्नसुतदिवाकर-कौशिकगोत्रमल्लिदेवसुतविष्णु-वाध्यश्वगोत्र- नामदेवसुतविष्णु-आत्रेयगोत्रराममुतसारङ्ग-काश्यपगोत्रकामदेवसुतसोम- नाथ-गौतमगोत्रविष्णुसुतचीवेरि-गार्यगोत्रनारायणसुतविष्णु-कौण्डिन्य- गोप्रसारङ्गभट्टसुतऋपिदेव-देवरातगोत्रतीलूआपसुतत्राईदेव-कौण्डिन्यगो- अनागदेवसुतआदित्य-कौण्डिन्यगोत्रनरसिंहमुतविष्णु-देवरातगोत्रनाराय- णमुतवापदेव-देवरातगोत्रवापदेवसुतराम-देवरातगोत्रनारायणमुतविष्णु- भरद्वानगोत्रजनार्दनमुतकृष्ण-देवरातगोत्रनारायणमुतअनन्त । अथ वहृचो

२३२
काव्यमाला।
भरद्वाजगोत्रविष्णुसुतरामपण्डित-भरद्वाजगोत्ररामपण्डितसुतमैंदेवपण्डित ॥
एवमङ्कतः ५७ ॥ अथाघाटाः---पूर्वतः-वाहगाँव । आग्नेये-नेउरगाँव ।
दक्षिणे-देइगाँव, तथा गङ्गा । पश्चिमे-गङ्गा, तथा खाटिगाँव, तथा
आलुएँगाँव, तथा नागमथनम् । वायवे-जाँटेगाँव । उत्तरे--पानिव ।
ईशाने-वेदखल । एवं सर्वाघाटविशुद्धाः सप्रविष्टखेटकसहितास्त्रयो
ग्रामाः । अत्र चैवं समयः । राजसेवकानां वसतिदण्डप्रयाणदण्डौ नस्तः ।।
आचन्द्रार्कमिदं भोज्यमेभिरेषां च वंशजैः ।
वसद्भिरेव भोक्तव्यं न चादेयं कदाचन ॥
पण्याङ्गनानां सदर्न न देयं घृतप्रचारोऽपि निवारणीयः ।
शस्त्रादिकं चापि न धारणीयं सत्कर्मनि?र्भवितव्यमेभिः ।।
अस्य धर्मस्य संरक्षणे फलमिति माहुः प्राञ्चो महर्पयः-
गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः ।
न गण्यते विधात्रापि धर्मसंरक्षणे फलम् ॥
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥
अत एवाह रामभद्रः--
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।
सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः ।।
मद्वंशनाः परमहीपतिवंशना वा
पापादपेतमनसो भुवि माविभूपाः ।
ये पालयन्ति मम धर्ममिमं समग्रं
तेभ्यो मया विरचितोऽञ्जलिरेप मूनि ।।
नास्ति भूमिसमं दानं नास्ति राज्ञः समो गुरुः ।
नास्ति सत्यसमो धर्मों नास्ति दानसमो निधिः ॥
अग्निष्टोमप्रभृतिभिरिष्ट्वा यज्ञैः सदक्षिणैः ।
न तत्फलमपाप्नोति भूमिदानायदभुते ।।

- 1. लेखः] प्राचीनलेखमाला। अपहरतः समर्थस्याप्युपेक्षकस्येव विपरीतफलमाहुः- गामेकां रत्निकामेकां भूमेरप्येकमङ्गुलम् । हरन्नरकमाप्नोति यावदाभूतसंप्लवम् दाता दशानुगृह्णाति दशाहन्ति तथाक्षिपन् । पूर्वदत्तां हरन्भूमि नरकायोपगच्छति ।। न ददाति प्रतिश्रुत्य दत्तां वा हरते तु यः । तौ च द्वौ वारुणैः पाशैतप्येते मृत्युशासनात् ।। विन्ध्याटवीष्वतोयासु शुष्ककोटरशायिनः । कृष्णसर्पाः प्रजायन्ते ब्रह्मभूम्यपहारकाः पतन्त्यश्रूणि रुदतां दीनानामवसीदताम् । ब्राह्मणानां ह(ह)ते क्षेत्रे हन्ति त्रैपुरुषं कुलम् ॥ स्वदत्ता परदत्तां वा यो हरेत वसुंधराम् । पष्टिवर्पसहस्राणि विष्ठायां जायते कृमिः ।। ॥ ॥ लिखितं पण्डितधनेश्वरेण ॥७॥ मगलं महाश्रीः ॥ ॐ शिवमस्तु ॥ ७ ॥ (इण्डियन् आण्टिक्केरी १४॥३१५-३११) (६०) राज्ञः श्रीशिवसिंहदेवस्य दानपत्रम् । श्रीगजरथपुरात्समस्तप्रक्रियाविराजमान-श्रीमद्रामेश्वरीवरलब्धप्रसाद- भवानीभक्तिभावनापरायण-रूपन(नारायण-महाराजाधिराज-श्रीमच्छि- वसिंहदेवपादाः समरविनयिनो नरैलतप्पायां विसपीग्रामवास्तव्यसकललोका- भूकपकांश्च समादिशन्ति । ज्ञातमस्तु भवताम् । ग्रामोऽयमस्माभिः सप्र- क्रियाभिनवनयदेव-महापण्डित-उफर-श्रीविद्यापतिभ्यः शासनीकृत्य प्र- 1. जयदेयो गीतगोविन्दकृत्. २. मयिलमनिमुपनाम.

२३४ काव्यमाला । - दत्तः । ग्रामकस्था यूयमेतेपां वचनकरी भूकर्षकादिकर्म करिष्यथेति ॥ ले सं २८३ श्रावणसुदि ७ गुरौ ॥ श्लोकास्तु- अब्दे लक्ष्मणसेनभूपतिमते वद्विग्रहद्यङ्किते मासे श्रावणसंज्ञके मुनितिथौ पक्षेऽवलक्षे गुरौ । वाग्वत्याः सरितस्तटे गजरथेत्याख्याप्रसिद्ध पुरे दित्सोत्साहविवृद्धिबाहुपुलकः सभ्याय मध्ये शुभम् ॥ प्रज्ञावान्प्रचरोर्वरं पृथुतराभोगं नदीमातृक सारण्यं ससरोवरं च विसपीनामानमासीमतः । श्रीविद्यापतिशर्मणे सुकवये पुत्रादिभिर्भुजता स श्रीमाशिवसिंहदेवनृपतिर्दामं ददे शासनम् ॥ येन साहसमयेन सत्रिणा तुङ्गवाहवरपृष्ठवर्तिना । अश्वपत्तिबलयोर्बलं निजं गज्जनाधिपतिगौडभूभुजाम् ।। रौप्यकुम्भ इव कज्जलरेखा श्वेतपद्म इव शैवलवल्ली । यस्य कीर्तिनवकेतककान्त्या म्लानिमेति विजितो हरिणाङ्कः।। द्विपन्नृपतिवाहिनीरुधिरवाहिनीकोटिभिः प्रतापतरुवृद्धये समरमेदिनी प्लाविता । समस्तहरिदगनाचिकुरपाशवासक्षम सितप्रसरपाण्डुरं जगति येन लब्धं यशः ।। मतङ्गजरथप्रदः कनकदानकल्पद्रुम- स्तुलापुरुपमद्भुतं निजधनैः पिता दापितः । मुखानि च महात्मना जगति येन भूमीभुजा परापरपयोनिधिः प्रथममैत्रपात्रं सदा ॥ १. लक्ष्मणसैनसंवत, २. अयमेव लक्ष्मणसनभूपतिः 'सकलकला: कल्पयितुं प्रभुः प्रबन्धस्य कुमुदयन्धोय। सेनकुलतिलसम्पतिरेफो राकानदोषय ॥ ३९ ॥' इत्यार्यया, गोवर्धनाचार्यवर्णितः. अनेन सिस्ताब्दस्यकाददाशतकममाप्तिपर्यन्तं यह देशोऽपायीति केवितिहानिकाः, एतदेसलिस्तान्दसंख्या तु गनाझामीन्द(१३९८)मिता भवति.

६१ लेखः]] प्राचीनलेखमाला। नरपतिकुलमान्यः कर्णशिक्षावदान्यः परिचितपरमार्थी दानतुष्टार्थिसार्थः । निजचरितपवित्रो देवसिंहस्य पुत्रः स जयति शिवसिंहो वैरिनागेन्द्रसिंहः ।। ग्रामे गृहन्त्यमुप्मिन्किमपि नृपतयो हिन्दवोऽन्ये तुरुक्का गोकोलं स्वात्ममांसैः सहितमनुदिनं भुञ्जते ते खधर्मम् । ये चैनं ग्रामरत्नं नृपकररहितं पालयन्ति प्रतापै- स्तेषां सत्कीर्तिगाथा दिशि दिशि मुचिरं गीयतां वन्दिवृन्दैः ॥ सन ८०७ संवत(त्) १४५५ शाके १३२१ शुभमस्तु । (इण्डियन आण्टिकेरी १४।१९०-१९१) (६१) वलभीमसो प्रथमशिलादित्यस्य दानपत्रम् । ओं स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलवलसंपन्नम- ण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जनोपार्जितानुरा- गानुरक्तमौलभृतश्रेणीवलावाप्तराज्यश्रियः परममाहेश्वरश्रीमहादिव्यवच्छि- नराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधीताशेपकल्मषः शैशवात्प्र- भृति खगद्वितीयवाहुरेव समदपरगनपटास्फोटनप्रकाशि वनिकपस्तत्प्र- भावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीत- मार्गसम्यक्परिपालनप्रनाहृदयरञ्जनान्वर्थरानशब्दः रूपकान्तिधैर्यगाम्भीर्य- बुद्धिसंपद्भिः सरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शर- णागतामयप्रदानपरतया तृणवदपास्ताशेपस्वकार्यफलः प्रार्थनाधिकार्थप्रदा-- नानन्दितविद्वत्महत्प्रणयिहृदयः पादनारीव सकलभुवनमण्डलाभोगप्रमोदः १. कोलः सूकरः. २. सवत्-दामसम्गयामध्ये एकतरा सत्यानद्धा. यदि संव- संख्या १४५५ एतावती तहिं समसंख्या १३२० इयती भवितुमर्हति यदा व शकसंख्या १३२१ इयती तार संवत्सख्ये १४५६ युज्यते.

२३८ काव्यमाला। रक्षता येन निःशेपं चतुरम्भोधिसंयुतम् । राज्यं धर्मेण लोकानां कृता हृष्टिः परा हृदि ॥ तस्यात्मनो जगति सत्प्रथितोरुकीर्ति- गोविन्दराज इति गोत्रललामभूतः । त्यागी पराक्रमधनः प्रकटप्रताप- संतापिताहितजनो जनवल्लभोऽभूत् ॥ एकोऽनेकनरेन्द्रवृन्दसहितान्यस्तान्समस्तानपि प्रोत्खातासिलताप्रहारविधुरान्वद्धा महासंयुगे। लक्ष्मीमप्यचलां चकार विलसत्संचामरग्राहिणी संप्सीदद्गुरुविप्रसज्जनसुहृवन्धूपभोग्यां भुवि । तत्पुत्रेऽत्र गते नाकमाकम्पितरिपुप्रजे । श्रीमहारानशाख्यः ख्यातो राजाभवद्गुणैः ॥ राजाभूत्तत्पितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतु- लक्ष्मीवानिन्द्रराजो गुणिनृपनिकरान्तश्चमत्कारकारी । सङ्गादन्यान्व्युदस्य प्रकटितविनया यं नृपान्सेवमाना राज्यधीरेव चक्रे सकल कविजनोद्गीतकय्यखभावम् ॥ श्रीकर्कराज इति रक्षितराज्यभारः सारः कुलस्य तनयो नयशालिशौर्यः। तस्याभवद्विभवनन्दितबन्धुतार्थः पार्थः सदैव धनुपि प्रथमः शुचीनाम् ॥ खेच्छागृहीतविनयान्दृढसंघमानः प्रोद्गृत्तदृप्ततरशुल्किकराष्ट्रकूटान् । • उत्खातखड्गनिजयाहुबलेन जित्या योऽमोघवर्पमचिरात्स्वपदे व्यधत्त । पुत्रीयतस्तस्य महानुभावः कृती कृतज्ञः कृतवीर्यवार्यः । वशीकृताशेषनरेन्द्रवृन्दो बभूव गनुर्भुवराजनामा ॥

संविदितम् । यथा मया श्रीखेटकवहिः सवमङ्गलासत्तावासितेन मातापित्रोरात्मनश्चैहिकामुप्मिकपुण्ययशोभिवृद्धये उदरसिद्धिवास्तव्यतचातुर्विद्यसामान्यलावाणसगोत्रवानिमाध्यंदिनसब्रह्मचा- रिभट्टमहेश्वरसुतयोगायानन्तरं श्रीगोविन्दराजदेवेन स्यापितज्योतिपिक- नाम्ने काशदडदेशान्तर्वतिपूसिलाविल्लिनामा ग्रामो यस्यावाटनानि पूर्वतो वेहिचाभिधाना नदी वोरीवद्रवक्यामश्च दक्षिणतश्चतुःसरीनामा ग्रामोपर- तस्तसिलावल्लिनामा उत्तरतो विदुचवल्लिनामा ग्रामः, एवमयं चतुरापाटनो- पलक्षितः सोद्रशः सपरिकरः सदण्डदशापराधः सभूतपातप्रत्यायसोत्पद्य- मानविष्टिकः सधान्यहिरण्यादेयोकाटभटप्रवेश्यः सर्वराजकीयानामहस्तप्रक्षे. पणीय आचन्द्राणिवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयक्रमोप- भोग्यः पूर्वप्रदत्तदेवब्रह्मदायरहितोऽभ्यन्तरसिया शकनृपकालातीतसं- यत्सरशतेषु सप्तमु सप्तपश्चाशदधिकेपु कार्तिकशुद्धपञ्चदश्यां महाकार्ति- कीपर्वणि नात्यायोदकातिसर्गेण बलिनरुपैश्वदेवाग्रिहोत्रातिषिपञ्चमहाय- शक्रियोत्सर्पणार्य प्रतिपादितो यतोऽस्योषितया ब्रह्मदायादस्थित्या भुजतो भोनयतः कर्पतः कर्पयतश्च प्रतिदिशतो वा न केननित्परिपन्थिना कार्या ।

The Prachina Lekha Mala Vol-i

Author
Pandit,durgaprasad
Title
The Prachina Lekha Mala Vol-i
File name
The Prachina Lekha Mala Vol-i
Text
OCR done
Citation
1892
Published
2012/10
Publisher
Bombay.,tukaram Javaji Nirnayasagar Press
Language
Sanskrit
Pages
244
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
313573
Barcode
99999990322247.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
62S3TU7jkaO
Download PDF

The Prachina Lekha Mala Vol-i