Central Archaeological Library_asi_new Delhi

The Bharatacharita Of Sri Krishanakavi

T Ganapati Sastri

PDF Proofread

Front matter

TRIVANDRU SANSKRIT SERIES
No. LXXXVI.
THE
BHARATACHARITA
SRI KRISHNAKAVI
EDITED BY
MAHÂMAHOPADHYAYA
T. GANAPATI SÂSTRÎ
Honorary Member of the hayal Asiatic Society of Great Britain arul Irelun,
Hory Doch v Prilosophy, University of Tubingen,
Carucioare the Department for the Publication of
Sanskrit Manuscrips, Trivandren
BOTSKI
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE,
WA
WARNA
D2842
lavery Reg No.160122
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1923.
(All Rights Reserved.)

BUHI.
23959
3.7.56.
OU No. $a SK Kvil. Gen.

OF THE DIRECTOR GENERAL OF Mounted
अनन्तायनसंस्कृतम्रन्थावलिः।
ग्रन्थाः
श्रीकृष्णकवित्रणीत
भरतचरितं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
लण्डनपुरस्थराजकीयैप्याखण्डीयविद्यासेवकसमाजपूज्यसभ्यपदभाजा
पिहेच. डि. (टूबिझन् ) पदसत्कृतेन
महामहोपाध्यायेन
त. गणपतिशास्त्रिणा
संशोधितम् ।
LOGA
e
Library Regy No
INDIA
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोलम्बाब्दाः ११०१,
जैस्ताब्दा: १९२५०

No text on this page.

PREFACE The Kavya Bharatacharita deals with the legend of Bharatachakravartin, son of Dushshanta. It has a charming and beautiful style and will prove of great use to students. The name of the author is mentioned as Krishnâchârya in one of the man uscripts of this work while in two other manuscripts, as Krishna Kavi; and nothing particular is known about him. The edition is based on the following three palm leaf manuscripts in Malayalam characters, about a century old. 1. (5) Belonging to Mr. Narayanan Bhattathiri, Idappalli. Do. Mr. Narayanan Namburi, Padinjare Manayathattu Illam, Vaikam. Mr. Rajaraja Varma Raja of Vadakkumkur. Trivandrum, 22-2-1101. T. GANAPATI SASTRI.

No text on this page.

OF THE DIRECTOR GENERAL OF ARCHA
निवेदना।
भरतचरितं नामेदं दुप्षन्तसूनोर्भरतचक्रवर्तिनः कथामाश्रित्य प्रवृत्तं
ललितोदारसरसपद्यात्मकं किमप्यपूर्व काव्यं व्युत्पित्सूनामत्यन्तमुपकारकम् ।
अस्य कविः कृष्णाचार्य इत्यादर्श लिखितमस्ति । किन्त्वसौ कदा कस्मिन्
देशे स्थित इति न ज्ञातः ।
एतत्संशोधनाधारभूताः ग्रन्थास्तावदेते-
१. इडप्पळ्ळि नारायणन् भट्टतिरिसम्बन्धी क. संज्ञः ।
२. वैकं पटिफारे मनयत्ता? नारायणन् नम्बूरिसकाशादानीतः ख.संज्ञः ।
३. वटकंकूर राजस्वामिको ग. संज्ञः ।
अनन्तशयनम्,
२२-२-११०१.
त. गणपतिशास्त्री.
(Library Reg No
$
SANA
INDIA

No text on this page.

TO
HER HIGHNESS
SRI PADMANABHA SEVINI
VANCHI DHARMA VARDHANI
RAJARAJESVARI
SETU LAKSHMI BHAI
MAHARANI REGENT
brand
DEDICATE
BY GRACIOUS PERMISSION
THIS EDITION OF
BHARATACHARITA
A CHARMING POEM
KRISHNACHARYA

No text on this page.

॥श्रीः॥ श्रीकृष्णकविप्रणीतं भरतचरितम् । प्रथमः सर्गः। स्वस्तिप्रसूरस्तु रसोत्तराणां छायां मनोज्ञामुपसेदुषीणाम् । सञ्चारिणीनां महिताङ्गमाजां गवां नियन्त्री परदेवता नः ॥ १॥ आदेशिको पद्यपथोधतानां रत्नाकरौ सूक्तिमहामणीनाम् । सन्मार्गसन्दर्शनपुष्पवन्तौ वन्दे कवीनां प्रथमौ मुनीन्द्रौ॥ २ ॥ अस्पृष्टदोषा नलिनीत्र हृष्टा हारावलीय अथित्ता गुणौधः । प्रियाङ्पालीव विमर्दया न कालिदासादपरस्य वाणी ॥ ३ ॥ १. 'स्वस्तिप्रसूः स्वस्तिजननी । रसोत्तराणां रसः शृङ्गारादिः क्षीरादिकं च तत्प्रधानानाम् । छायां वधशोभा देहसन्निवेशशोमां च । सञ्चारिणीनां शिष्यादावुपदेशादिना संक्रमणस्वभावानां समन्ततो गतिम- तीनां च । महिताङ्गभाजां पूजितैरङ्गैः कलादिरूपैर्मुखादिरूपैश्च युक्तानाम् । गवां वाचां काव्यादिरूपाणां धेनूनां च । नियन्त्री अधिष्ठात्री पालयित्री च । परदेवता सरस्वती श्रीकृष्णश्च । G. PT. 991.500. 3-6-1100.

भरतचरिते जलाशयस्यान्तरगाढमार्ग- मलब्धबन्धं गिरि चौर्यवृत्त्या । लोकेष्वलं कान्तमपूर्वसेतुं बबन्ध कीर्त्या सह कुन्तलेशः ॥ ४ ॥ प्रदेशवृत्त्यापि महान्तमर्थ प्रदर्शयन्ती रसमाददाना । सा भारवेः सत्पथदीपिकेव रम्या कृतिः कैरिव नोपजीव्या ॥ ५ ॥ बृहत्कथाकारसुबन्धुबाणाः देषामिवाश्चर्यपदं न ते स्युः । यतः प्रसिद्धैरपि गद्यबन्धः श्लोकाननेकान् भुवने वितेनुः ॥६॥ प्रसादया हृदये गभीरा वक्रोक्तिशैलीशबला रसा । श्रुत्यापि पुंसां हृदयं हरन्ती कस्यापि वाणी वनिताच वश्या ॥७॥ का सा कृतिः कस्य रसं प्रसूते नोचेदपूर्वार्थरसानुकूला। नालक्रियामात्रपरा फलाय भूयात् कवीनां च मृगीदृशां च ॥८॥ निर्मथ्यमानः सुमनोभिरेव निष्ठ्यूतपीयूषरसो गभीरः। १. 'संख्यान्' ग. पाठः.

॥ प्रथमः सर्गः । सुव्यजितार्थः सुभगावगाहो गवां निधिः केन निवेशनीयः ॥ ९॥ यतो न गृहन्ति सतोऽपि दोषा- नतो दुराराध्यतमा हि सन्तः। काम खलाश्चेदनुरजनीया- स्ते दोषलोलाः सुलभाश्च दोषाः ॥ १० ॥ सचेतसः सन्ति विमत्सराश्वेद गुणाश्च काव्ये यदि नाम सन्ति। मिथो मिलन्त्येव न याचनीया ने चेद् द्वये कः कथमर्थनीयः ॥ ११ ॥ आसीदनल्पोपलहेमशिल्पा पुरी प्रतिष्ठानमिति प्रसिद्धा । स्वर्वाहिनीनीरगृहीतपार्था या रत्नभूषेव भुवो बभासे ॥ १२ चिरानुभूतं सुरलोकसख्यं सम्भावयन्ती सुरनिम्नगायाः। रराज या पार्श्वनिविष्टपार्था भुवं गतेवामरराजधानी ॥ १३ ॥ स्तम्भोपमानां मणिगोपुराणां तुङ्गेषु शृङ्गेषु निवेशितस्य। आकाशधाम्नो मणिभित्तिकेच प्राकारमाला विरराज यत्र॥ १४ ॥ १. 'षान् दुःखानुरोध्यास्तत एव स', २. 'नो' ग. पाठः, । भरतचरित आकटुकामेव विभूतिमन्या हीपान्तरस्थामपि सारभूताम् । चके स्वयं या भृशमुन्नताभि- रुद्ग्रीविका सौधपरम्पराभिः ॥ १५ ॥ यत्सालमालम्बितुमम्बुवाहा- स्तुङ्गानमारोढुमशक्नुवन्तः। निम्ने पतित्वा परिखाम्बुपूरे ममज्जुरम्बुग्रणेच्छयेव ॥ १६ ॥ तुङ्गानि यस्यां मणिगोपुराण विष्वकृतहारपरम्पराणि। महेन्द्रवज्रक्षतजातरन्ध्र- शैलेन्द्रशङ्कामदिशजनानाम् ॥ १७ ॥ नितम्बबिम्बादिव रत्नसालान गङ्गाम्बुबासो गलिवं पुरस्तात् । दधार या रत्नकरनसारैः श्लथत्तरङ्गाग्वलनीविबन्धम् ॥ १८ ॥ विकस्वरा वज्रकरैरसङ्ख्यैः सौधेषु सौधेषु सुधाभिरामा । नोत्तुङ्गमावान्नधरं थियापि या लङ्घयामास पुरी सुराणाम् ॥ १९ ।। लक्ष्मीपहीत्वा जलधेः सरत्नाः पौराङ्गनाव्याजवतीरसङ्ख्याः। १. 'स्यां ख. पाठः, २. 'सु', ३. 'व' क. पाठः, प्रथमः सर्गः । यस्यां हरेीत इवाविवेश मन्थाचलः सौधगणच्छलेन ॥ २० ॥ प्रासादवातायन(सल्लि ? जालि)काभि- ज्योत्स्ना गृहीत्वेव कृतानि धात्रा । यस्या कलङ्केन विना विरेजु- - वक्रेन्दुबिम्बानि पुराङ्गनानाम् ॥ २१ ॥ वक्रश्रियं वीक्ष्य पुराङ्गनानां निशासु मन्दाक्षभरादिवेन्दुः। विवेश यस्यां प्रतिमाच्छलेन तिरोबुभूषुर्मणिधामभित्तीः ॥ २२ ॥ कर्णाञ्चलारित्रविधूतपाच- नागेन्द्रपोतैरतुलैरुपेता। सवेगवाहोर्मिविमुक्तफेना नदीव यस्यां विशिखा विरेजे ॥ २३ ॥ उपेव यान्तर्गतचित्रलेखा वेश्येव सत्यानृतसञ्चितार्था । शैलस्थलीवोडतवाहिनीका नागास्तृता भोगवतीव रेजे ॥ २४ ॥ तूणीव पूर्णा विशिखावलीभि- गङ्गेव विख्यातवसुप्रसूतिः। लङ्केव सालाग्रविलम्बितक्षा या रत्नमालेव महापणाढ्या ।। २५ ॥ 'स्ना', २. 'तिम्' क. पाठः. ३. 'च' क. ख. पाठः.

भरतचरिने
पद्माननावर्जितराजहंसाः
पुष्पेषु लोलभ्रमरैः परीताः।
यस्यां विरेजुर्मणिहमक्लप्ताः
शुद्धान्तनार्यो गृहदीपिकाश्च ।। २६ ॥
सौधस्थिताभिः पुरसुन्दरीभि-
नम्रीकृता निष्कुटचूतशाखा ।
रराज यस्यां सशिलीमुखालिः
सज्जीकृतेव स्मरचापयष्टिः॥ २७ ॥
यत्रेन्दुकान्तोपलभित्तिभाभि-
राविष्कृतानामभिसारिकाणाम् ।
स्थूलेन्द्रनीलोपलतोरणानां
छाया बभूवावरणं रजन्याम् ॥ २८ ॥
हरिन्मणिश्यामतृणोलपाढ्यैः
सौवर्णभाण्डोज्ज्वलरश्मिकीर्णः ।
तु.गुहैर्विश्रमितुं ददौ वा
या मन्दुरामर्कतुरङ्गमाणाम् ॥ २९ ॥
सन्नायकोत्कृष्टगुणा महार्था
लोत्तमालङ्कृतिरस्तदोषा ।
विशुद्धवर्णाश्रमगुम्फिता या
हारावली काव्यक(था ?ला)भिरामा ॥ ३० ॥
तस्यां नगर्यां निजपादपातैः
सम्भावयन् भूमिभृतां शिरांसि ।
आसीत् त्रिलोक्यामिव तिग्मधामा
दुष्षन्तनामा नरपालमौलिः ॥ ३१ ॥

प्रथमः सर्गः। भुजङ्गभीमेन मुजेन यस्य चिरं धृता वैरिधू भीषणेन । धनुर्गुणाकर्षणरञ्जितश्री- मही समुद्राभरणाङ्गुल व ॥ ३२ ॥ भूपारिजातं प्रथमं विजित्य स्थानं तदीयं पुनरावदानः । आपूरयन्नर्थिजनस्य वाञ्छां भूपारिजातत्वमयात स्वयं यः ॥ ३३ ॥ प्रारम्भणात् प्राक् प्रणतेर्गतर्वा धनुः शरो वा स्वयमेव यस्य । आचायकं चक्रतुराजिरङ्गे प्रणाममाजामपि वेगभाजाम् ॥ ३४ ॥ यस्य श्रियं वीक्ष्य पुरन्दरोऽपि लघीयसी मत्पदवीति तप्तः । अक्षणां सहस्रादपि कालवर्ष- व्याजेन बाष्पाम्वु मुमोच भूमौ ॥ ३५ ॥ धोऽपि मोक्षप्रवणस्य साक्षा- दर्थों यशःसबमुश्चिचीपोः । कामः प्रजोत्पत्तिपरस्य चेति यस्यानुनिप्पचिरभूत् निवर्गः ॥ ३६ ॥ अन्तर्हितं कारणमङ्गवृद्धे- राप्तैः कृतं सुश्रुतशास्त्रशौण्डैः । १. 'धुरन्धरेण', २. हा क. ख. पाठः. ३. 'लेण स का', ४.र्गः ॥ अष्टा' ग. पाट:.

Des भरतचरिते स्फीताङ्गवर्गोऽपि विपाकरम्यं दधार यो मन्त्रमयं कषायम् ॥ ३७ ॥ अष्टापदैयों गिरिशृङ्गकल्पै- दीनाम्बुसिक्तैर्जयकुञ्जरैश्च । आपूरयामास नितान्तमाशा- श्चक्रेडर्थिनां वाथे वसुन्धरायाः ॥ ३८ ॥ पातालमाप्तो भुवि पूरिताशः कल्पद्रुमाणां पदवीमतीतः । निरन्तरं शौरिपदावलम्बी यः स्वो यशोराशिरिकाबभासे ॥ ३९ ॥ अस्पृष्टशस्त्रेण जिता बलौघा न केवलं येन पुरन्दरोऽपि । यदायुधानां शतकोटिमकं बलं विजेतुं स मुमोच भूयः ॥ ४० ॥ यस्मिन् महीं शासति सागरेषु भङ्गो विषादः शिखिमण्डलेषु । आर्तिप्रवेशो धनुषां गुणेषु यात्रासु दूष्योद्धरणं बभूव ॥ ४१ ॥ ऋक्ष्वेव मन्त्रप्रसरो बभूव वृत्तं यजुःष्वेव निवृत्तमासीत् । उपद्रवः सामसुनापरत्र यत्र क्षितित्राणपरे बभूव ॥ ४२ ॥ १. 'गजकु', २. 'स' क. ख. पाठः.

प्रथमः सर्गः। यो बारिराशिप्रशमैकहेतु- यों वा सहेतिः परतापहेतुः। यो वाशु काष्ठार्जितभूरिभूति- रकृष्णवर्मेति मृषा स्तुतोऽभूत् ॥ ४३ ॥ रत्नाकरः सत्त्वविशेषशाली सहस्रभोगो वसुधां दधानः। वित्तेश्वरः पुण्यजनानुयायी पद्मोहवो यश्चतुराननोऽभूत् ॥ ४४ ॥ दुर्गानपेक्षोऽपि शिवानुयातः कीर्ति दधानोऽप्यजलाधिवासः । विशुद्धवृत्तोऽपि च कृष्णकर्मा यः स्थूललक्षोऽपि च सूक्ष्मवेधी ।। ४५॥ निसर्गसारस्य निधानभूमिः स्फुरद्गुणग्रामसुखोपसेव्यः । अलङ्कृतश्लोकनिममलोको यः काव्यबन्धश्रियमन्वगच्छत् ॥ ४६॥ सचापतूणिः स कदाचिदाज्ञां जिज्ञासमानो नगरे नरेन्द्रः । चचारै रात्रौ भुवनैकवीरः श्रिया वपुष्मानिव पुष्पकेतुः ॥ ४७ ॥ ततः स राजा सुरनिम्नगायां शुश्राव कोलाहल(म? मा)म्बंपूरम् । १. 'पि' क. ख. पाठः. २ 'ल' ख. पाठः. ३ 'शरािव शरीजन्मा । ग. पाठः. १. 'म्बुघोषम्' क. ग, पाठः, भरतचरित न चक्षमे तं द्विरदेन्द्रशब्द- मुदृप्तमुच्चैरिव केसरीन्द्रः ॥ ४८ ॥ अलोकयचित्ररथं ससार्थ सहाप्सरोभिर्विहरन्तमप्सु । नृपः सयूथं द्विपयूथनाथं करेणुभिः सार्धमिव प्रविष्टम् ॥ ४९ ॥ शक्रप्रियोऽयं प्रमदासहायः क्रीडापरश्चेति निवर्तमानम् । अरुन्ध गन्धर्वपतिर्नरेन्द्र भोगी गरुत्मन्तमिव प्रयान्तम् ॥ ५० ॥ उक्तश्च रोषादिति गर्वितेन गन्धर्वनाथेन नरेन्द्रनाथः। अकालसञ्चारक! दुर्विनीत प्राणेषु नूनं विगतस्पृहोऽसि ॥ ५१ ॥ स्वच्छन्दमस्मासु रहो गतेषु क्रीडाप्रवृत्तेषु घने निशीथे। कथं मनुष्यो निविशेत मन्दः स्वयं दिवाभीत इवातपेषु ॥ ५२ ॥ इत्याददानं सशरं धनुस्तं प्रत्युत्तरं भूभिपतिबभाषे। सोढोऽसि पूर्व वैनिताश्रयत्वा- दवध्यभावाच्च कुशीलवानाम् ॥ ५३ ॥ १. 'द्वत्तमु' क. पाठः. २. 'थ', ३. 'वेश म', ४. 'निशाभी', ५. 'प्रमदाथ' ग, पाठः. ।

प्रथमः सर्गः । ११ ३ इतःपरं निस्त्रप! दृश्यसे चेद् बाणाः परप्राणहराः प्रमाणम् । संसर्गयोग्या यदि वो न भाः शून्यं पुरं योत वनं वियहा ।। ५४ ॥ इतीरयित्वा स मुमोच पूर्व सन्धित्सवे चित्ररथाय बाणम् । स तेन मुक्तो हृदयं विवेश हितोपदेशो बलवानिवास्य ॥ ५५ ॥ अविह्वलश्चित्ररथोऽपि तूर्ण- माकर्णमाकृष्य शरं मुमोच । विवेश सोऽपि क्षितिभतुरन्त:- सत्त्वावधिज्ञानकुतूहलीव ।। ५६ ॥ एवं तयोस्तुल्यबले प्रहारे चिरं प्रवृत्ते कलहान्तमिच्छन् । बलिं त्रिधामेव भुजङ्गमासौ- महारथश्चित्ररथं बबन्ध ॥ २७ ॥ ततो विहस्ते पतिते च तरिमन् विवृद्धमन्युः शतमन्युरेनम् । धनुर्गुणाघट्टनधीरनादै- भित्त्वा नभश्चक्रमिवाससाद ॥ ५८ ॥ ततो महेन्द्राचलशृङ्गसङ्गि- कोदण्डमेघच्युतबाणवृष्टया । १. 'ते', २. 'वायतनं' ग. पाठः. ३. 'ते' क. ख. पाठः, १२ भरतचरिते आपूरितः क्षोभविवृद्धसत्त्वः सद्यो जजृम्भे जगतीशसिन्धुः ।। ५९ ॥ अवोचदित्थं नरलोकपालः सविस्मयोऽसौ सुरलोकपालम् । अधीश्वरं त्वां सकलस्य जन्तोः कथं प्रहर्तु प्रयते बिडौजः! ॥ ६० ॥ द्वयं हि मां सोशयिक तनोति प्रतीक्ष्यता ते प्रतिपक्षता च । हविःस्रुचौ वा किमुपाददीत धनुःशरौ वा किमयं भुजो मे ॥ ६१ ॥ इति ब्रुवन्तं वलभिद् बभाषे सान्त्वं समन्तोरुपहासवादः । विपक्षभावं भजतामवेहि महीभृतां महिदुरं यथार्थम् ॥ १२ ॥ तथासि चन्निर्विशयः समीके मच्चापमुक्तैर्विशिखैरुरस्तः । आस्त्रावयिष्यामि सुधां निपीतां ययासि जैवातृकतां प्रपन्नः ॥ १३ ॥ इतीरयित्वा नृपतिः पृषकै- रापादचूडं निचखान शक्रम् । आपुङ्खमग्नैः स च तैर्विरेजे वहन्निवाक्षणामपरं सहस्रम् ॥ ६४ ॥ १. 'सं', २. 'क्ष्य', ३. 'रान्' क. ख. पाठः, प्रथमः सर्गः १३ ततस्तुराषाडपि गाढविहः शिलीमुखैस्तस्य बिभेद वक्षः। तैराहतः सोऽपि विघूणितोऽभूत् कल्पान्तवातैरिव वारिराशिः ॥ ६५ ॥ अनाण्यम दथ योजयन्तं निवार्य वास्तोष्पतिरेनमूचे । सर्व मयैतत् त्वदनुग्रहार्थ प्रवर्तितं वृत्तमवेहि राजन् ! ॥ ६६ ॥ समुद्गनिक्षिप्तमथोद्गतांशु वलाहकच्छन्नमिवार्कबिम्बम् । तस्मै जगदर्शननामधेय- मादर्शरत्नं मघवा दिदेश ॥ ६७ ॥ आह स्म चेदं यदि चेच्छसि त्वं दूरास्थितं वस्तु तिरोहितं वा । दृश्यं तदस्मिन्नखिलं तवास्तु दृश्यो भव त्वं च तथाविधन ॥ १८ ॥ अथ सकलमहीभृचक्रलक्ष्यप्रतापाः श्रुतिसुखमनुभूथ स्तोत्रवन्धं सुराणाम् । दिवससुरनराणामीश्वराः स्फीतभासः प्रययुरुदयशैलं यां प्रतिष्ठानकं च ॥ ६९ ॥ इति कृष्णविरचिते भरतचरिते प्रथमः सर्गः ॥ D9 भरतचरित अथ द्वितीयः सर्गः । अथ प्रसादं वलहन्तुरक्षतं मणौ तनीयस्यपि तेजसां निधौ । वटाग्रधाम्नीव हरौ नराधिपः क्रमाद् विशश्वास विलोकयन् जगत् ॥ १ ॥ स जातु पश्यन् मणिना जगत्रयं विरोधिसत्त्वप्रशमौषधाचलम् । भवोन्नतानोकहतक्षणोद्धनं घनान्तरध्वान्तनिरासवासरम् ॥ २ ॥ उपर्युपोढं पृथुलैः पयोधरै- मुनीन्द्रतेजःशिखिधूमसप्रभैः । तपःप्रतापैरिव दूरनिर्जितै- रसम्प्रविष्टं तपनातपोष्मभिः ॥ ३ ॥ उपेतमृधनभावमेदुरं समुल्लसच्चित्रशिखण्डिमण्डलम् । विपक्रिमश्रीफलभोगिभिः श्रितं वियत्समाहारामिवार्पितं क्वचित् ॥ ४ ॥ प्रफुल्लपुन्नागलवङ्कगर्भकं विनम्रशाखाञ्चलचूर्णकुन्तलम् । स्थितं धरित्र्या इव केशसञ्चयं ददर्श कण्वस्य ऋषेरथाश्रमम् ॥ ५॥ भनेकशाखादृढमूलशालिना फलप्रदानामपि कार्यतः स्वतः । १. 'वाहता' क. ख. पाठः. २. पेतं ग. पाठः.

१५ द्वितीयः सर्गः । प्रवर्तका यत्र महर्षयोऽभवन् महीरहाणामपि कर्मणामपि ॥ ६ ॥ कपालचर्मानलभस्मलाञ्छनः मरित्कुरणाचलभूगुहाश्रयः। अहीनवल्लीपरिणाहभूषणः श्रिया स्वयं योऽनुचकार शूलिनम् ॥ ७॥ शरीरिणी कान्तिमिवामृतयुतेः सरोरुहाणामिव सारनिर्मितिम् । स कामसाम्राज्यकृतामिव श्रियं ददर्श तस्मिन् नवयौवनां वधूम् ॥ ८ ॥ मुनीश्वरेणात्मसुतामिवाहता समुहहन्ती कुसुमानि कर्मणे । समुल्लसत्पल्लवकान्तिधारिणी तरुं समालम्ब्य लतामिव स्थिताम् ॥ ९॥ उपेयुषी यौवनमत्तकुञ्जरं निरङ्कुशं चेतसि कौतुकावहम् । विविक्तरोमावलिदानविरवं समुन्नयन्तं कुचकुम्भमण्डलम् ॥ १० ॥ स्ववासपद्माश्रय एव पद्मभू- स्तदीयकिञ्जल्करजोमधुवैः। विनिर्ममे तां सुतनोस्तनुं ध्रुवं मुहुर्मुहुर्वीक्ष्य वपुःश्रियं श्रियः ॥ ११ ॥ १. 'सुमनोभिरामताम्', २. 'न्तरं चे' क. ख. पाठः.

भरतचरित विलोचनानन्दकरं शरीरिणा निसर्गसौरभ्यविलोलषट्पदम् ! सुधामधुस्यन्दि तदीयमाननं शशाङ्कबि(म्बा)म्बुजयोः (क्रि ? श्रियं ययौ ॥ सदन्तमुक्ताधरविद्रुमोज्ज्वलं महाधनं वैश्रवणाप्तवीक्षणम् । न केवलं पद्ममभूत् तदाननं निधानपनं हलकावलम्बनम् ॥ १३ ॥ शिखण्डिनस्ताण्डविनोऽपि चन्द्रका- स्तदीयकेशश्रियमाप्तुमक्षमाः । यतेत तामाप्तुमथापि चामरं न कस्य बालत्वकृतं हि चापलम् ॥ १४ ॥ विभज्य बिम्बं शशिनः सलाञ्छनं ललाटपट्टं ललित कुर्वता परार्धनीलासुधार्द्रलोहितैः कृतं तदाक्षिहितयं नु वेधसा ॥ १५ ॥ तदीयगण्डस्थलरत्नदर्पणौ क्रमण वैशद्यविशेषमापतुः। प्रकीर्णकर्णोत्पलरेणुराजिभिः प्रमृज्यमानाविव यौवनश्रिया ॥ १६ ॥ द्विजावली तन्मुखचन्द्रगाामना विलोक्य गूढामिव जातमत्सरा ।

द्वितीयः सर्गः । छलेन यामिन्यपि रक्तमाननं न्यधत्त तस्मिन् दशनच्छदात्मना ॥ १७ ॥ अनक्षरा कोकिलगीन वल्लकी स्वतन्त्रचेष्टा परगीः शुकाङ्गना। तदुक्तिभङ्गी गलितोक्तिदूषणा कथं तु ताभिः सहशी समर्थ्यताम् ॥ १८ ॥ न नाकिनां सद्मनि नापि भूतले रसातले वापि न रूपमीदृशम् । इतीव तत्कम्बुगले शलाकया लिलेख लेखात्रितयं जगद्गुरुः ॥ १९ ॥ विधूयमाना शनकैर्मनोभुवा पुनर्भवाचिःप्रसरपितासना। विलासडोलेव ललास चञ्चला भुजद्वयी सा नवयौवनाश्रियः ॥ २० ॥ तदीयपाणिद्वयकान्तिनिजितं क्रमेण दूरोज्झितजीवनाशयम् । विमुक्तकोशश्रि विरागमानत कुशेशयं नूनमभूत् कुशेशयम् ॥ २१ ॥ स्मरस्य साम्राज्यपदेऽभिषेचनं विधातुमिच्छन्निव योवनोदयः । न्यधत्त तस्याः स्तनकुम्भयोईयं नवेन लावण्यजलेन पूरितम् ।। २२ ॥ १. 'सा' ग. पाठः. २. 'क्त' ख. पाठः. ३. 'रासनार्पिता । वि' क. पाठः.

१८ भरतचरिते तदीयमध्यक्रशिमैकसाक्षिणी रराज रोमावलिरा स्तनान्तरात् । अनल्पशिल्पप्रणिधानशालेना स्वयम्भुवा सूत्रमधीव योजिता ॥ २३ ॥ तदीयलावण्यपयोधियायिभि- गंभीरनामीहदविभ्रमालसैः अगाहि नूनं युवनेत्रनाविकै- मुहुर्मुहस्तत्रिवलीमहोर्मिषु ॥ २४ ॥ विधाय पीनस्तनभारमुन्नतं विधातुकामश्च नितम्बमायतम् । तदीयमध्यक्रियया नु डोलया ध्रुवं विशश्राम तदन्तरा विधिः ॥ २५ ॥ मनोज्ञवृत्तोरुयुगावलम्बन नितम्बचक्रं महदक्षहारकम् सुदर्शनं सारमवाप्य मन्मथो रथी नु चक्री नु जंगद् वशेऽकरोत् ॥ २६ ॥ महत्परामर्शमनोहरं मुहुः सुसन्धि वृत्तं सुकुमारमुज्ज्वलम् । ध्रुवं तदूरुद्वयसर्गबन्धनं विधाय वेधा यशसामभून्निधिः ॥ २७ ॥ विमर्दनीया रसिकेन रागिणा तदीयजङ्घापरिवादिनीद्वयी। १. 'सं क. ख. पाठः. २. 'लोमया क. पाठः. ३. "म्बि' ग. पाठः, १. 'मनोजच' क. ख. पाठः. ५. 'जिगाय मेदिनीम् ॥' ग. पाठः.

द्वितीयः सर्गः। कथ नु सा सप्तगुणैव नाभवत् ततोऽधिकैरप्यवलम्बिता गुणैः ।। २८ ।। प्रशस्तमस्याः पदकर्म शंसितुं पदं क्षमं हंसगतान्यवेक्ष्य यत् । तदस्य सादुपसर्गभग्रत- श्वकार वेधाः प्रपदं किमाशयः ॥ २९ ॥ त्रपागुणाकृष्टिविनम्रमध्यया स्मरेण गाढं गुरुणा प्रणुनया। तया च तस्मिन् धनपक्षपातिन- स्ततः कटाक्षाः प्रथमे निपातिताः ॥ ३० ॥ स्पृहा नु मोहो नु भदो नु मान्मथ- स्त्रपा नु लीला नु वितर्किता नुवा। अभूतपूर्वा हृदि कापि विक्रिया विलोकयन्त्यास्तमनङ्गविभ्रमम् ॥ ३१ ॥ तदक्षियुग्मं धनपक्षसम्पुटे निरुडूबाष्पं चिरमास्त निश्चलम् । निशोदबिन्दुस्थगिताग्रकेसरं निवातनिष्कम्पमिवोत्पलद्वयम् ॥ ३२ ॥ विलोकयन्ती नियतं पपौ गुणान् प्रतापमिश्रान् मधुरान् महीभृतः। अधत्त सा खेदजलाईमाननं यतः सुधासिक्तमिवेन्दुमण्डलम् ॥ ३३ ॥ १. 'प' क. पाठः २० भरतचरिते प्रतिष्ठितेऽन्तः सदृशे नरेश्वरे विनिर्गतास्तत्क्षण एव कण्टकाः । द्विपेन्द्रहस्ताकृतिचौर्यकातर मुहुस्तदूरुहितयं विकम्पितम् ॥ ३४ ॥ न वासरैर्न प्रहरेण केवलं त्रिभिः क्षणैः पञ्चभिरेव वा परैः । विनिर्ममे तामयथापुरं वधू नृपो नु मारो नु नवं नु यौवनम् ॥३५॥ विनिःसरन्तः स्पृहया मुहुर्मुहु- बधूकटाक्षास्त्रपया विवर्तिताः। अदृष्टपूर्वोऽयमपि श्रुतो भवे- दितीव कर्णावनुयोक्तुमभ्ययुः ॥ ३६ ॥ समुत्सुकाः साहसिनो विनिर्गता नरेन्द्रदृष्टिप्रतिघौतकुण्ठिताः। कटाक्षपाताः सुतनोस्तथापि ते न तस्य नासन हृदयावभेदिनः ॥ ३७ ॥ तथा हि मन्ये सहसा सुशिक्षिता कटाक्षसंज्ञाभिरनेन भूभुजा । यथाह्यनभ्यस्तचरेऽपि दक्षिणा बभूव सा मन्मथविभ्रमक्रमे ॥ ३८ ॥ अथ क्षितीशोऽपि वधूं विलोकयन् विनिर्जिताशेषधनुर्धरः स्वयम् । १. 'ना' क. पाठः. २. 'ब' ख. पाठः. ३. 'यायकु', ४, 'भाला सु', ५. 'क', ६. 'गौ' ग. पाठः.

द्वितीयः सर्गः। २१ तदक्षिकोणेक्षणबाणधोरया स्मरेण धानुष्कतया व्यजीयत ॥ ३९ ॥ अवेक्षमाणः स्फुटमायतेक्षणां गतोऽपि सद्योऽनिमिषत्वमद्भुतम् । मुहुश्चकाङ्क्ष स सहस्रनेत्रता क कामसामग्रयमगामि कामिभिः ॥ ४० ॥ अभूत् सकम्पं वपुरस्य भूभुजः श्रमाम्बुसिक्तैः पुलकैरलकृतम् । प्रमोदबाष्पस्नपितैनिपातितै- वधूकटाक्षोत्पलकेसरैरिव ॥ ४१॥ महीक्षितस्तामवलोक्य तस्थुषः स्मरेण भिन्नं कतिधा नु मानसम् । न पञ्चधा पञ्चभिरेव सायकै यतो विकल्पैः शतधावलम्बितम् ॥४२॥ किमीदृशीयं परमार्थसंभवा विभावना वा मनसो विमोहिनी । अथेन्द्रजालं नु महेन्द्रनिर्मितं मणेरयं वा महिमव केवलम् ॥४३ ॥ अनल्पशिल्पा यदि सृष्टिरीहशी भवेद् विधातुः स्वत एव नैपुणी । ततः स्वदाराः खलु सा सरस्वती स्फुटं विधात्रे स्वयमभ्यसूयति ॥ ४४ ॥ १. 'तस्याः सुको', २. 'सा' क. ग. पाठः. ३. 'नु' क. ख. पाठः, ४. 'ल्पाः' ग. पाठः, २२ १ भरतचरिते कथं तपश्शोषितकामविभ्रमे तपोवने जन्म लभेत मानिनी। दवानलोच्छोषितकुड्मले बने कथं हि कल्पेत शिरीषमञ्जरी ॥४५॥ इयं च न क्षत्रपथातिवर्तिनी क्षमा मनः स्यन्दयितुं हि मादृशाम्। सरोजराजिप्रतिमल्लविभ्रमा शशाङ्करत्नं विमलेव चन्द्रिका ॥४६॥ स्तनावनुत्पीडितपीनकर्कशी न भुक्तमुक्तं दशनच्छदामृतम् । दृशौ च नोन्मृष्टपुटे मृगीदृशः क यूनि पुण्यं महदद्य पच्यते ॥४७॥ इतीदृशी तां शतधा विजृम्भितां विकल्पमालां महती महीपतिः। अवाप मन्थाचलवातचञ्चलां पयोधिरुल्लोलपरम्परामिव ॥ ४८ ॥ अथ क्षितीशे क्षणमीलितेक्षणे मणिः क्षणेनान्तरधीयत स्वयम् । मिथस्तयोस्तामनुरागसंपदं निरीक्षितुं रक्त इवाक्षमः स्फुटम् ॥ ४९ ॥ तदा च साभूत् सहसा तिरोहिता नृपस्य तस्याश्च तथा बभूव सः। १. 'रूप्ये ख. पाठः.

२३ है. द्वितीयः सर्गः । यतो मिथश्चेतसि तौ ममज्जतु- स्ततो बहिर्युक्तमदर्शनं तयोः ॥५०॥ अथामुनानन्दसुधारसता सुखोदयेन स्मरबन्धुकान्तिना । वरेण राज्ञा विरहं गता सती कुमुद्वतीव ग्लपिता बभूव सा ॥५१॥ तदीक्षणानन्दजमश्रु शीतलं यदास्त तस्याः प्रथम क्रमेण तत् । प्रवासदुःखप्रभवेन वह्निना प्रवर्तितकाथमिवोष्णतां ययौ ॥ ५२ ॥ सुदीर्घनिःश्वासमरुद्विजृम्भितै- श्वचाल तस्याः पृथुलं कुचद्वयम् । हृदि स्थितानां विरहानलोष्मणां पुरःस्थिति सोडुमिवाक्षमं मुहुः ॥ ५३ ॥ विदह्यमानोऽपि वियोगवाहना विचित्रमस्याः स्मरसायकवणः । हदि स्थितः प्रेमरसायनोक्षितः शशाम न प्रत्युत विस्तृति ययौ ॥ ५४॥ तमोमयं विश्वमिवाथ तन्वता वियोगदुःखेन नवेन सा वधूः । विजृम्भमाणेन मुहुर्विपाण्डुरा बभूव हंसीव घनेन मूर्छिता ॥ ५५ ॥ १. 'ई' ग. पाठः.

भरतचरिते तथा विसंज्ञां पतितां महीतले समेत्य माध्वीति किलामराङ्गना। अबोधयत् तां विरहातुरां वधू प्रभेव बाला सवितुः सरोजिनीम् ॥ ५६ ॥ निरुन्धता यातुमिवोद्यतानसून मुहुः स्पृशन्त्या शिशिरेण पाणिना। तयानुपृष्टा परितापकारणं शशंस सा बाष्पविकुण्ठितस्वरा ॥ ५७ ॥ स कोऽपि चक्षुष्यतनुः प्रभानिधि- गजेन्द्रगामी मृगराजविक्रमः । सुसूक्ष्मदृष्टिः पृथुलायतेक्षणो विभुविनीतश्च युवा मयेक्षितः ॥ ५८ ॥ अहीनमूर्तिः स वसुन्धराधरः स भूरिकीतिः कमलोदयाश्रयः । स तुङ्गवंशः कृतकार्मुकस्थितिः स ईश्वरः सम्भृतसर्वमङ्गलः ॥ ५९ ॥ तदाप्रभृत्येव मनः क मे गतं न वेदि मौन्ये! मदनायुधक्षतम् । मनोहरेणोष्मवता विहारिणा हृतं नु दग्धं नु तिरस्कृतं नु वा ॥ ६॥ मनोभवश्वेदयमस्य विग्रह क भङ्गकारी भविता स ईश्वरः । १. 'स' क. ख. पाठः. २, ३. 'म' ग. पाठः.

२५ तृतीयः सर्गः। यदीन्दुमूर्तिः परिभूतिरस्य का रविप्रतापैर्भुवनोत्तरैरपि ॥ ६१ ॥ न सर्वथा तेन विनाहमुत्सहे मनस्विना मत्तगजेन्द्रगामिना । निरर्थकान क्लेशफलानिमानसू- नजेव वोढुं गलवर्तिनः स्तनान् ॥ ६२ ॥ जगाद माध्वी च तथा व्यथावती तवास्मि मात्रा प्रहिता हिता सखी अहं यतिष्ये युवयोः समागमे प्रभातवेलेव रथाइसंज्ञयोः ॥ ६३ ॥ स चक्रवर्ती शिशिरांशुवंशज- स्त्वमप्यपत्यं खलु गाधिजन्मनः । तदस्तु वां शक्रशचीप्रकाशयोः समागमः श्लाध्यतमो मनीषितः॥ ६४ ॥ इत्थं गाः शिशिरसुखाः प्रयुज्य माध्वी तेप्तायों प्रियविरहोष्मणा कुमारींम् । बिभ्राणा निबिडपयोधरश्रियं ता- मभ्रान्तं सपदि यथागतं ययौ च ॥६५॥ इति कृष्णविरचिते भरतचरिते द्वितीयः सर्गः।। अथ तृतीयः सर्गः । इत्थं वियोगविधुरः स नरेश्वरोऽपि सौधे सुधाशशिमणिप्रकराभिरामे । १. 'सो', २. 'दी', ३. 'याः', ४. 'याः' ग. पाठः.

भरतचरिते श्रीमानहीनशयने शिशिरे निशायां दुग्धोदधाविव हरिभगवानशेत ॥ १ ॥ योग्यार्थसंघटनकौतुकिनी रसार्दा केनापि भाग्यविभवेन विभाव्यमाना। चिन्तापरं तदनु भूपतिमाससाद माध्वी निसर्गमधुरा कवितेव साध्वी ॥ २ ॥ सा देहभाभिरुपरि प्रविसारिणीभि- रुल्लोचमम्बरतले न बबन्ध यावत् । तावत् स्वतल्पसमतुङ्गमनल्पशिल्प- मस्यै दिदेश मणिपीठमसौ नरेन्द्रः॥ ३ ॥ मन्दस्मितासुधया स मुहुः क्षरन्त्या प्रक्षालयन्निव मुखं विरहानलोष्णम्। एनामभाषत परिस्फुरताधरेण सन्दर्शयन्निव बहिर्दयितानुरागम् ॥ ४॥ का त्वां विना सुतनु ! सम्प्रति मुक्तशोभा वासस्थली कमलिनीव हतारविन्दा । किं तत् कुलं तिलकितं तव जन्मनेति जिहूमि सौहृद+शादनुयोक्तुमिच्छन् ॥ ५ ॥ देवीत्वमाह तव निश्चलनीलनेनं निष्पन्दषट्पदसरोरुहकान्ति वक्रम् । किं कृत्यमस्ति कृतकृत्यधियस्तवेह वात्सल्यमाश्रितजने विवृणोषि वा त्वम् ॥ ६॥ १. 'कि' ख. पाठः. २. 'रि' क. पाठः. ३. 'वीतशो' ४. 'रसाद' क. पाठः, ५. 'शी' ख. पाठः, ग. पाठः.

*" १ तृतीयः सर्गः । २७ आह स्म सापि मृदुलस्मितमुनिरन्ती वाग्देवतासरणिसंस्तरणांशुकाभम् । माध्वीति वासवगृहे परिचारिकाह- मामूलतः शृणु ममार्गमने निमित्तम् ॥ ७ ॥ अभ्यर्थिता वलभिदा किल मेनका सा मत्प्रेयसी कुशिकसूनुसकाशमेत्य । रूपेण तेन भुवनत्रयसुन्दरेण घोरं जहार हृदयं च तपश्च तस्य ॥ ८ ॥ तस्य प्रसङ्गकृतसङ्गमगर्भयोगात् कन्यामसूत गुणसङ्घटनाभिरामाम् । भूषामणेरपि विभूषणतां दधानां मुक्ताश्रियं जलनिधेरिव ताम्रपर्णी ॥ ९ ॥ निक्षिप्य वृष्टिरिव सम्पदसुर्वराया- मुा प्रसूतिमथ सा दिवमारुरोह । जात्यन्तरैः पिकवधूरिव सा शकुम्- स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम् ॥१०॥ सा सान्द्रपल्लवमनोहरकान्तिभारा भूयः स्वयं करविसृष्टपयःप्रसादा । संवर्धिता वनलतेव महर्षिणाभूत कण्वेन देवघटिता करुणापणेन ॥ ११ ॥ सा सम्प्रति प्रथमयौवनभारखिन्ना त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी। १. 'च' क. पाठः.

भरतचरिते धत्ते पयोधरतटे चिरमश्रुबिन्दून मुक्तामणीनिव सवद्गुणलब्धगुम्फान् ॥ १२ ॥ स्निग्धो जनः किमुत तां विरहाभितप्तां वीक्ष्य द्विषन्नपि न जीवितुमुत्सहेत । सा तु स्वयं विशति कां नु दशां न जाने मां पश्य वेपथुमतीमतिचिन्तनेन ।॥ १३ ॥ सा प्रत्यहं विरहतिग्जरुचा गृहीता बालापि पाण्डुरतनुः क्रशिमानमेति । प्रस्निग्धपुष्करपुंटे परिवर्तमाना पीयूषदीधितिकलेव विलासशेषा ॥ १४ ॥ निद्रां न याति यदि याति सरोमहर्षा सानन्दबाप्पनयना मुखमानमय्य। वीलावशादभिमतान्यपि चुम्बनानि बाला रुणद्धि नभसि प्रविसार्य पाणिम् ॥१५॥ प्रापय्य मामभिमतं जनमाशु दीनां निद्रा सखीव निपुणा स्वयमेव याता। एतावदेव हि सहायजनस्य कृत्यं मद्भाग्यमन्यदिति शोचति सा विनिद्रा ॥ १६ ॥ दुग्धोदधौ विषविषादविमूर्छितेषु देवेषु कैतवमकारि शिवेन किञ्चित् । पीतः सुधांशुरविषधरसस्तु मन्ये नीतः सुधांशुपदवीं स च कालकूटः ॥ १७॥ १. 'त' कं. पाठः तृतीयः सर्गः। यद्वायमप्यपर एव विषावतारः सन्दर्शयन्निजममुं हृदि कालिमानम् । दिग्धो बहिः सततमब्धिकफेन पाण्डु- राविर्भवजलनिधेहिमधामनामा ॥ १८ ॥ आहो स्वयं परिणतः शनकैविषात्मा राहोर्मुहुर्निंगरणोद्गरणैर्मुगाङ्कः। इत्थं निरीक्ष्य निजतापकरं निशायां सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥ वाताशनैर्विषधरैः पथि चन्दनस्थै- भुक्तोनिता इव विषच्छुरिताः स्पृशन्तः । मन्दानिलाः सरसचन्दनगन्धगर्मा- स्तां मूर्छयन्ति हिमनिझरशीकरा ः ॥ २० ॥ दोषार्थिनी कुमुदिनी विमुखी च मिने सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् । नो युज्यते तपति यत् प्रतिमुक्तदोषा मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥ चूताङ्कुराः स्मरशराः स्वयमेव नैव तेषां रसाः परिणताच त एवं मन्ये। यत् कोकिलास्तदुपभोगविशुद्धशब्दैः कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥ सा स्वस्ति कीर्तयति चन्द्रकराभितप्ता ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।

३०
भरतचरिते
भूयस्तरामसितपक्षसमागमाय
यत्र स्वयं विलयमेति शनैः शशाङ्कः ॥ २३ ॥
एषा कथा हिमरुचः कुमुदाकरस्य
पद्माकरस्य मलयद्रुममारुतस्य ।
तत् केन तापहरणेन सखीजनोऽपि
तस्यास्तनोत्वनुगुणं शिशिरोपचारम् ॥ २४॥
आरोपितः स्मरकृशानुमये कृशाङ्गया
निष्यन्दमानपृषतो हृदि चन्द्रकान्तः ।
सन्तापधूममलिनीकृतवर्णकान्तिः
सद्यः पुरन्दरमाणित्वमुपैति वानः ॥२५॥
तल्पीकृतानि सरसोत्पलपल्लवानि
चूर्णीकृतानि परिशोषणमर्मराणि ।
अङ्गेषु मन्मथशरवणविड्लेषु
लेपीभवन्ति सुदृशः श्रमजोक्षितानि ॥ २६ ॥
युक्तं तदेव बिसिनीदलमारुतस्तु
साचिव्यमाचरति यद् विरहानलस्य ।
पाथस्तु शीतलमभिज्वलनं यदस्य
तन्नोचितं भवति सर्पिरिवासताक्ष्याः ॥ २७ ॥
विश्वम्भरेश्वर! कृतं बहुभाषितेन
न त्वां विना शरणमस्ति शकुन्तलायाः ।
क्लिष्टा कथं निशि कठोरतुषारपातै-
रकै विना कमलिनी लभते विकासम् ॥ २८ ॥

तृतीयः सर्गः । ३१ इत्थं निवेद्य विरहातुरतामसह्यां माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय । तस्मै गिरामवसरं दिशती निवृत्ता वीणेव शंखनिनदाय विजृम्भिताय ।। २९ ।। राजा चे बाष्पचयकुण्ठितधीरनादः सद्यः प्रमृष्टवदनो मृदुना क्रमेण । आसारसिक्त इव दुन्दुभिरक्षमोऽपि शब्दान् कथकथमपि प्रथमं चकार ॥ ३० ॥- गाढं कयापि करुणालतयानुकृष्टा मद्भाग्यमारुतपरम्परया च नुन्ना । प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे शोकार्णवे मयि निमज्जति नौरिव त्वम् ॥३१॥ अन्तर्धनोष्णभरदुर्वहजीवनस्य सा मत्परेति मधुरोत्तरशब्दरम्या । वृष्टिनवेव महती कमलाकरस्य सञ्जीवनं मम भवत्यधुना करोति ॥ ३२॥ यहा करोति भवती परितापवृद्धि- माशामिमां हृदि निबध्य गुणैः प्रियायाः । यां गीतिकामिव विधाय शरीरजन्मा मत्प्राणकातरकुरङ्गकुलं रुणद्धि ॥ ३३ ॥ १. 'वाद्यनि' ख. ग पाठः. 'म' ग. पाठः, २. 'पि', ३. 'प्रपेदे', ४.

३२ कामः भरतचरिते नायं क्षमोऽहमपि साहसमस्य सोढुं बाला कथं विषहते विषमायुधस्य । ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे कां कां दशां ब्रजति कोमलनागवल्ली ॥ ३४ ॥ अस्पृष्टमन्मथकथासु तपस्विनीषु क्षेमङ्करीष्वनुपजातविनोदलेशा। बाला नवोत्पलमृणालशिरीषमृडी गच्छेत् कथं न मदनव्यसनातिभूमिम् ॥ ३५ ॥ पुमानलसलोलविलोचनां तां पश्यन् कथं रसनिधिः प्रसभं क्षिणोति । यहा पुरान्तकललाटविलोचनानौ निर्दग्धमार्दवगुणः कठिनोऽयमासीत् ॥ ३६ ॥ इत्थं कथामनिगमय्य निमीलिताक्षे राज्ञि स्थिते स्तिमितचेतसि भावना। निद्रा दृशः पदमवाप शनैः प्रियेव माध्वी गता परिणतेन्दुमुखी निशा च ॥ ३७ ॥ उद्भूतकीर्तिमथ गौरगुणाभिरामं सेवानुकूलसमयोत्सुकराजहंसम् । पद्माकरं मधुकरा इव वन्दिनस्तं प्राबोधयन्निति मनोहरगीतिभाजः॥ ३८ ॥ राजेन्द्र! जागृहि विभातवती त्रियामा विज्ञापनाभनुगुणामवधारयैनाम् । २. यानं क्ष क. पाठः.

. तृतीयः सर्गः। भास्वानिवाम्बुरुहकुइमलगर्भसंस्था लक्ष्मी विनोदय विलोचनयोनिलीनाम् ॥ ३९॥ प्राभातिकेन पवनेन विधूयमानैः - पोर्मुखैरिव रसाकुलितैनलिन्यः । आकर्णयन्ति मृदुषट्पदगीतमेतत् स्तोकोन्नतकदलकर्णकृतावधानाः ॥ ४० ॥ भूत्वा पुरा सकलभोग्यमनोहरश्रीः सन्मार्गवृत्तिरपनीतजैनोपतापः । सम्प्रत्यसौ कुलगुरुस्त्वयि दत्तभारः संन्यस्यतीब वसुजालमशेषमिन्दुः ॥ ४१ ॥ कान्तारुणायकरसूक्ष्मविपाटितानि रेखाङ्कितोन्नतमुखानि सरोजिनीनाम् । पद्मानि बिभ्रति शनैः स्तनकुडमलानां कान्ति शशप्लुतकमुद्रितचूचुकानाम् ॥ ४२ ॥ पीत्वा लतासु विविधासु मधूनि रात्री सम्प्रत्यमी कमलिनीमुपलालयन्तः निद्रोन्मुखी कुमुदिनीमपरित्यजन्त- स्तां भ्रामरी, जहति वृतिमहो नै भृङ्गाः॥४३ ॥ भुक्तं द्विजैर्बहुमतैर्वसुजालमस्य दत्ता च कैरवकुलेषु परामुना श्रीः। १. "तिमेता' ग. पाठः, २. निजोप', ३. 'नु' ख. पाठः, भरतचरिते आर्दीभवत्यपि दृषत् कठिनास्य योगे सोऽपि स्वयं पतति कालवशान्मृगाङ्कः॥४४॥ रात्रेः प्रयाणशिथिलं शिथिलोडुचक्र- मामोदलुब्धमधुपाकुलमन्धकारम् । आक्रष्टुमिच्छति करैरतिरागलोलै- विस्रस्तपुष्पमिव केशकलापमर्कः ॥ ४५ ॥ स्तोकोद्गतोऽपि रविरेष सरोजिनीषु पुष्णाति सम्पदमपास्यति कोकशोकम् । तेजस्विनामनतिलहथमहोदयाना- मीषत्कराः खलु भवन्ति परोपकाराः ॥ ४६॥ आमोदलोलुपशिलीमुखपातभीत्या निद्रा मदामभिवेष्टय कटं करेण | आलानरोधपरिजिाितपार्श्वशय्याः स्तम्बरमाः स्तिमितकर्णममी वहन्ति ॥ ४७ ॥ वाहानिह क्षणसुषुप्तविनीतनिद्रा- नभ्यर्णवर्तिबडबेक्षणजातहेषान् । आधृतशिक्षितनिगालविलम्बिभाण्डान् होहोरवेण शमयन्ति तुरङ्गपालाः ॥ ४८ ॥ म्लिष्टं यदीरितमुपश्रुति मुग्धवध्वा साशङ्कया प्रियतमं प्रति निःशलाके । तत् तारतारमधुना शतशः पठन्तः कीराः किरन्ति पिशुना इव मन्त्रगुह्यम् ।। ४९ १. 'ति' ख. पाठः. २. 'होहोर' ग. पाठः, ३. 'हा' ख. पाठः चतुर्थः सर्गः । सद्यः सिद्धमनिष्टहारि हितकृत् कोष्णं हिमोडेदनं मन्दोद्गालितमम्बरे दहनकृद् ग्राणां गणेऽप्याहितम् । दोषोत्सादनमादधाति रुचिकृत् तेजोमयं भेषजं नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः ॥ ५० ॥ इति सुखमवबोधितोऽथ सूतैः सुविहितनित्यविधिक्रमो नरेन्द्रः। अभजत कनकासनं सभायां हरिति हरेरुदयाद्रिमर्यमा च ॥ ५१ ॥ इति कृष्णविरचिते भरतचरिते तृतीयः सर्गः ॥ । अथ चतुर्थः सर्गः। अथ विश्वम्भरां बाहुरनायासेन भूपतेः । दधार तस्य हृदयमायासेन शकुन्तलाम् ॥१॥ स विशुद्धगुणोल्लासिहृदयालम्ब्यपि स्वयम् । दुष्प्रापमनुपायेन कन्यारत्नममन्यत ॥ २ ॥ दुष्टसत्त्वप्रशमनी सैनिकानन्दकारिणीम् । ऐच्छत् स मृगयां कर्तुमङ्गव्यायामदायिनीम् ॥ ३ ॥ अथ विश्वास्यधिषणः शतकोटिबलं वहन् । उत्तस्थौ लोकपाले(श ? शः) शैलव्यालजिघांसया ॥४॥ ससम्भ्रमजनोत्थानविजृम्भितधनध्वनि । भेजे तदा तदास्थानं प्रावृडम्बरडम्बरम् ॥ ५॥ १. 'ह', २. 'धच' ग. पाठः.

भरतचरिते
सचिवालम्बितकरः पृथ्वीमारूढपादुकः ।
रक्तामपि स रक्ताभ्यां पड़यां क्षणमरञ्जयत् ॥६॥
उत्सारिता वेत्रधरैर्जनता मण्डलीकृता ।
जङ्गमा भित्तिकेवारय रेजे पर्यन्तचारिणी ॥ ७ ॥
स यात्रायामभूत् सद्यः प्रस्फुरदक्षिणेक्षणः ।
हृदयं तु बभूवास्य स्फुरद्वामेक्षणं सदा ॥ ८ ॥
पृथ्वक्षं हेमरुचिरमहीनमणिमण्डनम् ।
आरुरोह रथं सोऽथ गरुत्मन्तमिवाच्युतः ॥ ९ ॥
हेषाः कल्याणशसिन्यो रथ्यानां तस्य निर्गमे
जयेति बन्दिनां घोषं तथेति प्रतिशुश्रुवुः ॥१०॥
शब्दसंत्रासितारातिः सदाकृतयुगस्थितिः ।
चक्रवर्ती रथस्तस्य यातः खयमिवाबभौ ॥ ११ ॥
तस्य रेजे सितच्छचं हारतारांशुकोज्ज्वलम् ।
राजश्रीलब्धसौमात्रामेन्दुबिम्बमिवोद्गतम् ॥ १२ ॥
पाईयोस्तस्य बभ्राम धवलं चामरद्वयम् ।
मन्दहासविसोत्साहिहंसयुग्मभिवाकुलम् ॥१३॥
मर्यादास्थापितामु-मधिष्ठाय समुत्थितम् ।
वाहिन्यस्तमसेवन्त रत्नानामाकरं पतिम् ॥ १४ ॥
रखचित्रितकोदण्डाः श्यामतूणीरकञ्चुकाः ।
योधास्तमन्वसेवन्त सेन्द्रचापाम्बरश्रियः॥ १५॥
तस्य चित्रपदन्यासाः सालङ्कारा गुणोत्तराः ।
प्रयुक्ताः कुशलैरश्वाः प्रबन्धा इव रेजिरे ॥ १६ ॥

चतुर्थः सर्गः। पैश्चधाराविशेषः सादिभिः परिचोदिताः। सत्त्ववन्तोऽपि तुरगाश्चक्रुर्योम रजोमयम् ॥ १७ ॥ तच्चामरलसत्पार्श्वमश्वीयं नैव केवलम् । दिवि तत्खुरघोषोऽपि चकारोचैश्रवोगतिम् ॥ १८ ॥ राजेन्दं भूषयामासुः श्यामास्ताः करिणां घटाः । मुक्तादामपरिस्तोमाः सतारा इव रात्रयः ॥१९॥ रत्नहेमलसत्तुङ्गदन्तोल्लसितपुष्कराः । रेजिरे वेणुकाक्रान्तास्ते शैला इय दन्तिनः॥२०॥ अपि तान् दानसुमुखान् मानोत्तुङ्गान् महाधनान् । परिजहूस्तदुचितं मातङ्गान् मार्गवर्तिनः ॥ २१ ॥ कुम्भनिक्षिप्तरत्नौधास्तोत्रारित्रप्रधाविताः । ते पोतभावमभजन् नागाः परिणता अपि ॥ २२ ॥ मुक्ताः संयोजिताः साधु गुणवडीरनायकाः । हारा इव रथास्तस्य तां सेनां समभषयन् ॥ २३ ॥ सूत्रकारकृतारम्भाः पताकास्थापनान्विताः। नाट्यबन्धा इव रथास्ते रेजुस्तुङ्गनायकाः ॥ २४ ॥ ततस्ततकरो दिक्षु प्रतापनिधिरुज्ज्वलः । स भेजे विशिखां दीर्घा भास्वानिव नभःस्थलीम् ॥२५॥ लघवस्तस्य मलिनाः क्षुद्राः स्यन्दनपांसवः । अग्रादग्रादनीयन्त दुर्जना इव वायुना ॥ २६ ॥ १. 'संचारणावे' ख. पाठः. २. 'वनस्थ' क. ग. पाठः, भरतचरित तस्येन्दोरिव नाथस्य लाजवर्षाणि पार्श्वयोः । नक्षत्राणाव थामिन्यः कामिन्यस्तैत्र तेनिरे ॥ २७ ॥ प्रयाणपटहस्तस्य नर्तयन् गृहहिणः । दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः ॥२८॥ ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम् । अपर्यन्तमभूत तस्य सुरभेरिव दोहनम् ॥ २९ ॥ अथ नौमिस्त्रिपथगामगाधा साधुसेविताम् । स तताराङ्गविद्याभिस्त्रयीमिव जगद्विताम् ॥ ३० ॥ अगजां सगजा तस्य सभङ्गां भगवर्जिता । वाहिनी वाहिना चैनां स्पर्धयेवात्सलङ्घयत् ॥ ३१ ॥ तस्य सेना पुरो यान्ती दूरदूरप्रसारिता । उदितस्येव सवितुश्चकाशे दीधितिच्छटा ॥ ३२ ॥ मद्यः शाङ्कुलिकोत्खातशङ्कुकण्टकशर्कराः । आ हिमाद्रेः सुपन्थानः कल्पितास्तस्य शिल्पिमिः॥३३॥ रम्योरुकदलीकाण्डां कलकीरस्वरान्विताम् । पयोधरतटास्ती कल्याणक्षेत्रलक्षणाम् ॥ ३४॥ विशालवृत्त्यावक्षिप्तमृगपूगविलोकनाम् । कलमालीकृताश्वासस्वकर्षकयुवेक्षिताम् ॥ ३५ ॥ कमलोत्पलसंभिन्नकुल्याम्भोमालभारिणीम् । स वर्मनि ययौ प्रौढां पश्यन् नारीमिवोर्वराम् ॥ ३६ ॥ १. 'यामिन्यस्तत्र भानीव का', २. 'स्ताः प्रते' क. पाठः, ३. 'गु', ४. 'णम्' ग. पाटः.. ५. 'स्त' ख. पाठः. ६. 'र', ७. 'णी' ग. पाठः. HE चतुर्थः सर्गः। अनतिक्रान्तमर्यादान् समृद्धबहुजीवनान् । स विद्वतीरसंपूर्णानपश्य ग्रामवारिधीन ॥ ३७ ॥ स तेष्वात्मयशक्षौमवयंनस्तम्भसन्ततिम् । सप्ततन्तुशताकीर्णो मेने यूपपरम्पराम् ॥ ३८ ॥ द्वयमेवाग्रहीत् तेभ्यो विद्वदत्तमुपायनम् । फलमारामवल्लीनामाशिषां च विशां पतिः ॥ ३९ ॥ स बलाक्रान्तकाष्ठान्तः शरीरीव विभागसुः। आलोलहेतिसङ्घातस्ततो वनमगाहत ॥ ४० ॥ तद् वनं क्षुभितव्यालं वागुरारुडदिङ्मुखम् । कृतमेकपथं व्याधैः सेतुरुहमिवोदकम् ।। ४१ ॥ वाममुक्षिप्य दोर्दण्डं सकोदण्ज्ञमुदाननाः । तस्मिन्नुच्चक्रुशुाधाचालयन्तस्ततो मृगान् ॥ ४२ ॥ सिंहशार्दूलसारङ्गवराहशरभाम्भसि । हरन्तः प्राणशफरान् विविशुस्तस्य पत्रिणः ॥ ४३ ॥ नरेन्द्रवीतिहोत्रस्य हेतिबातेपु केवलम् । वनावनि विनिर्यातैः शरभैः शलभायितम् ॥ ४४ ॥ एकैकया बाणसूच्या क्षरत्क्षतजसूत्रया । हारा इव मृगाः प्रोतारेतन रेजुः शतं शतम् ॥ ४५ ॥ निर्भिद्य हत्वा हर्यक्ष निर्गतस्तस्य भार्गणः । निर्यातानिव तत्प्राणानन्वेष्टुमविशन्महीम् ॥ १६ ॥ पुण्डरीककुलं तेन गाढलमशिलीमुखम् । राजहंसेन सहसा लीलथैव निपातितम् ॥ ४७ ॥ १. 'सख. पाठः, भरतचरित आक्रान्तवनमातङ्गकुम्भप्रोतनखाङ्कुशम् । स सिंहामिषुणा कञ्चिदाधोरणमिवावधीत् ॥४८॥ अग्रेषूपरि पादानां पुरस्तिर्यक् च कलिता । शरभस्य तनुस्तेन शरैः खट्रेव शायिता ॥ ४९ ॥ परिशेषयितुं स्वीयं भूदारत्वमसंशयम् । आजघान स भूदारानारण्यानपि पार्थिवः ॥ ५० ॥ कम्पयामास मूर्धानं शार्दूलः शरकीलितः। श्लाघयन्निव भूमर्तुश्चललक्षेषु दक्षताम् ।। ५१ ॥ तस्य गाढप्रहारेण केसरी कोऽपि मर्दितः । त्यक्तप्रभञ्जनक्रौर्यो निद्रां द्राधीयसी ययौ ॥ ५२ ॥ पैतत्सु मृगराजेषु तेषामिव परिच्छदम् । जहार नृपतिगार चनरी यः प्रकीर्णकम् ॥ ५३ ॥ तेन कोदण्डकुटिलं विषाणयुगमुच्छ्रितम् । कृतं वन्यलुलायानां सज्याबन्धमिवेषुभिः ॥ ५४ ॥ गहनं हृदयं तस्य स विपक्षस्य भूभृतः ! इति निःसत्त्वतां नत्वा धनुर्गुणमेवाक्षिपत् ॥ ५५ ॥ ततः स वान्तफेनेषु वाहेषु तपनोष्मणा । उदन्यातेषु सैन्येषु पाथःपथमगाहत ॥ ५६ ।। ददर्श च सरः स्वच्छंमिन्द्रोत्खाताह्वयं नृपः । सप्तानामिव सिन्धूनां पाथःसारमिवोद्धृतम् ॥ ५७ ॥ १. 'खांशुकम् ' क. पाठः, २. 'भूदितः कोऽपि केसरी ।' ख. पाठः. ३. 'तपत्सु', ४. 'णा' ग. पाठः. ५. 'मि' क. पाठः, ६. 'वान- बेगेषु', ७. 'च्छं मिश्रोत्खा' ग, पाठः.

चतुर्थः सर्गः। अच्छींचिपटच्छेदैरासताम्बुजरेणुभिः । उन्मृज्यमानं महता त्रिलोक्या इव दर्पणम् ॥ ५८ ॥ चन्दनालेपसरसमुररस्थलमिव क्षितेः । चनिर्मोकपवलमयःक्षिप्तभिवाम्बरम् ॥ ५९ ।। प्रबुद्धकमलालोलमैनन्तभुवनाराहर। हारेरूपमिव प्रातं मत्वाच्याविग्रहम् ।। ६० ॥ स्वर्णसारचितं रम्यं भोगिलोककृताश्रयम् । उद्गतामरसेनाढ्यं मेरुशृङ्गमिवापरम् ।। ६१ ॥ अगस्त्यपानभीतानां निभूतानामुन्वताम् । पयश्चकमिवान्यत्र सरोभावमुपाश्रितम् ॥ ६२ ॥ पतिप्रेमरसैः पूर्णमुव्र्येव हृदयं निजम् ! संदर्शितमिवामुष्य पत्युः सन्तापशान्तये ।। ६३ ॥ वारिहारमयं गौरं प्रतिविम्बाबरावृतम् । रसातलसमुद्गस्थमुपायनमित्र क्षितः ॥ ६४|| शिलीमुखगणाकीर्ण कलहंसमत्ताने व्यूहद्वारमिवोद्धान्तवाहिनीशतनिर्गमम् ।। ६५ ।। उद्दण्डपुण्डरीकौघमन्तातमहापदम् । महारण्यमिव स्वादुशीतामलकमुन्नतम् ॥ १६ ॥ प्रतिसङ्क्रमणनान्त्या सुमन्दरविराजितम् । अन्तर्नवसुधापूर्णम*नुकुर्वाणमम्बुधिम् ६७ ॥ १. 'मन्तर्गुभु', २. वराहृतम्' ग. पाठः. ३. 'तम् । अन्त' क. पाठः, अनुकुर्वाणम् अनुकरणशीलम् । ताच्छील्ये चानश् । अतः ‘अनु- पराभ्यां कृञः' ( १. ३, ७९) इति परस्मैपदाकरणमिहादुष्टम् ।

भरतचरिते PERM अदृष्टान्तमपि व्याप्तं दृश्यमप्यप्रमाणकम् । विपरीतमपि प्रेयः ससत्वलपि चञ्चलम् ॥ ६८ ।। स्फीतजीवनमाशास्थम हास्याँ वरम् । लघुकं सारसहितं रम्यं बहुपयोन्वितम् ॥ ६९ ॥ मन्ये यधुधिस्तावास शतांशमपि क्षमाः । पातुं बन्धुं लयितुं बुनिरालल्लाहमा ७० ॥ मन्ये तहुवनं मातुं मोऽपि हरिः स्वयम् । पौरुषेणापि मानेन (कक्षा किमुत गैः !! ७१ ॥ यस्याधन्तौ परिच्छेत्तु हरिला नाकानी । नूनं तस्यापि देवस्य पर्यात सजना तल ॥ ७९ ॥ न मुनेः श्रवसा धार्य गोरेगापि कस्यचित् । अदस्त्वमितनेवाम्भस्तदन्यमानसम्मतम् ।। ७३ ।। अधोभुवनमध्येतत् पातालादतिरिच्यते। हिमोदास्पदमेवेवगहिमोदास्पन हि तत् ।। ७४ ।। अनिर्मुषितपीयूषाहतहिनाकरन । इदमप्रोषितश्रीकनपूर्वमुदाः पयः ।। ७५ ॥ अक्षुण्णलघु तत्तोयमनुद्रालितनिर्मलम् । अवीजिताहभरपर्शमसंस्कृतसावन ॥ ७६ ।। दृष्ट्वा च तत् सरो गौरं यशः स्फीतमिवात्मनः। अवरुह्य रथात् सेना विश्रमायादिदेश सः ॥ ७७॥ अथाधिष्ठातृभिः सेनाः प्रष्ठानाहूय सत्वरम् । सरःपरिसरे तत्र यथास्थानं निवेशिताः ॥ ७८ ॥ १. 'वृत्ताहे' ख. पाठः.

पञ्चमः सर्गः । तन्निधानमपां प्राप्य जनता सुमुझे तला। चातकालीन तृषिता साम्बुवाई नमस्तलम् ॥ ७९ ॥ अथ राजाप्युपस्पृश्य कृत्वा माध्याहिकी क्रियाम् । पपौ बिसरसोलिमा पयो इस इवामलञ् ॥ ८० ॥ तदनु सरसस्तीरे तस्मिन् रनोशलतायडे फणिपतिफगानोगे तले उसासनमास्थितः । वलभरपरिश्रान्तं पायो दर्शनिशा जति मधुरिपुरिन श्रीरामागिरि दुनित पयः ।। ८१ ॥ इति कृष्णविरचिते भरतनारले भतुर्थः सर्गः ।। अथ सत्यविशीकरवटिलिः क्षणमपूरि सरोजल नुनते रमिनल रित कुञ्ज । १ ॥ निजकरोतिरमित जैन परिगलदिनुक्षनमुक्षिताः। जलधरैः क्षरशिक्षिताः क्षितिघरा दूध रेजुलेका निखिलतापनमुष्णरुहः शिशिरतामिन नेमानीन्छन । उपरि चिक्षिपुरन्तु मुहर्मुहुः निजकरण निपीय करेगनः ॥ ३ !! १. स्थ' ख. पाट:. २. रविरक. ख. पाठः, १. 'रोन्नमितरुपरि क्षणं क्षि' न. पाठः.

भरतचरित अथ महीलुठितैः कलुषीकृता स्थपुटभूषु परित्खलनाकुला ! उदधिकल्पसमाहत तत् सरः सरिदियोचरया तुरगावलिः ॥ ४ ॥ पृथुलकेवलपृष्ठनिषादिभिः परिजनैः परिषेत्रितपासवः। मृदु विरस्य विरस्य पयः पपुः श्रमविनिःश्वसितान्यनु वाजिनः ॥ ५ ॥ अथ निदाधमहोषमभरं वहन विकसदम्बुजकान्तिकरैः करैः । अपिबदम्बु मुहुः स महाजनो रसमयं सवितेव धराश्रयम् ॥ ६॥ अथ वनं नवपुष्पगुणोज्ज्वलं सपदि बडशिलीमुखमण्डलम् । मधुरलक्ष्यत चापमिवोडहन बहुमतं सहकारिभनोभुवः ॥ ७ ॥ मृदुलकोकिलनादमनोहरा- चलितकोमलरक्तजपाधराः। वकुलकुड्मलकोमलकण्टकाः स्मरयशांसि जगुर्वनदेवताः ॥ ८ ॥ विरहिदृष्टिविषादिव बिभ्यता ममतया मधुना परिरक्षितुम् । १. 'तैरनु' ख. पाठः.

पञ्चमः सर्गः। ४५ --- अपिहिताः सहकारनबाटुराः सपदि षट्पदनीलवरातिभिः ॥ ९ ॥ मृदुपलाशनखान विपिनश्रियः समभिरज्य मधुर्नक्यापकैः। अकृत यावकशेषमिव क्षिपन् कुसुमजालम शोकमहीरहे ॥ १०॥ अभिमताश्चिरभोग्यरसोड्याः सुमनसो बकुलत्य नधुव्रताः । न विजहुः पतिता इति केवलं रसविद्धां रख एव परं धनम् ॥ ११ ॥ मधुसमागममङ्गलदीपिका रखरसुवर्णशिलीमुखसन्ततिः । (नव ? वन)भुवः पुलकावलिराबभौ कुसुमिता नवचम्मकमण्डली ॥ १२ ॥ मृदुलधौतधुनीधवलाम्बराः प्रकटिताचलतु कुचश्रियः। मधुसमागभसंभ्रमनीक्षितुं हिमपटावरणानि जहुदेिशः ।। १३ ।। हिमपटीमपनीय पुरःस्थिती यवनिकामिव चारु वनश्रियः। ननृतुरेव वसन्तमहोत्सवे पवनलोलितपल्लवपाणिभिः ॥ १४ ॥ १. 'खा' ग. पाठः.

VAR भरतचरित क्षणमपात्य हिमाचकणावली- नवसरोजमुखानि विकासयन् । अपजहार मधुविरहकम कमलिनीर्दयिता इव संश्चितः ।। १५ ।। अथ मधुश्रियमित्थमुदञ्चिता वनसुपेत्य नराधिपयोषितः। अनुवभूवुरभीष्टतनैः सन मनसिजस्य नवानिव सम्पदम् ॥ १६ ॥ विनाथिताः कुसुमेषु शिलीमुखै- विटपिनद्यशिरोजगुणोज्नलाः। तरुणपल्लवदुललिताश्रयो वनलता इव रेजुरमूः खियः ॥ १७ ॥ अभिनवासवोपनलोत्सराः प्रियसखीरिव मानवितुं लताः । मृदुलपछवपाणिषु पाणिभि- जगृहिरे कृतसंभ्रममङ्गनाः ॥ १८ ॥ विनमिताः कुसुमापचये कृते विटपिनस्तरुणीभिरथोज्झिताः। हृतधना इव कामिजनाधिर विरहभीरतयेव चकम्पिरे ॥ १९ ॥ विनामिते तरुणेन तरौ रुषा न वनिता कुसुमानि समाचिनोत् । १. 'नीर्युवतीरिव' क. पाठः. २. 'ये ख. पाठः.

पञ्चमः सर्गः। नखरुचः कुसुमस्य च भेदक गुणमसंशयनीक्षितुहाना ॥ २० ॥ असकृदुच्चलितोच्चकुचाया विद्युतचारुभुजयमूलया । कुसुमजालमहारि महेलया हृदयमेव न केवलमोशेितुः ॥ २१ ॥ उदसितुं दृशि पुष्परजःकणान्न मृगशः स्तनभारविदितः । नयनयोभखमारुतमपंचन वृदि युवा महनाशिमदीपयत् ॥ २२ ॥ चरणघातविधतिधु चोदिता व्यथितयेव मधुव्रतकूजितः । विधुतपल्लवलोलकराप्रथा लतिकयारमरावि समय: ।। २३ ॥ अमरकान्तविलुतविशेषक सखि! मुख हदि माणवकरले। इति सखी छलवाविचक्षणा कुपितया दयितं सन्यूयुजत ॥ २४ ॥ क्षणमिहारस्व विविक्तमिदं वन शिथिलितं कलयामि तनांशुका। इति विलोभ्य स मुग्धवर्धं युवा किमपरं कथनीयनतः परम् ।। २५ ॥ १. 'यै ख. पाठः. २. बम का पाठः ३. 'वा' ग. पाठः, ।

भरतचरित उरसि वामदृशां विनिवेशिताः स्थगितहारमशोकतरुसजः। उपरि षट्पदधूमविनिर्गताः स्मरकृशानुशिखा इव रेजिरे ॥ २६ ॥ न वकुले चरसीति मृपा श्रुतं बकुलदाम विगुम्फितवानसि । इति कयापि गभीररुपा धृतं बकुलदाम धवेन निवेदितम् ॥ २७ ॥ सुरभि पाटलबुत्सुकमानसै- मधुलिहां मिथुनरवलम्बितम् । न विधुतं रसभङ्गभियान्यया परसुखानुगुणा हि रसज्ञता ॥ २८ ॥ इति विहत्य चिराय नृपाङ्गनाः श्रमजवारिकणोल्लसिताननाः। कुसुमसङ्गमवासनया मुहुः स्तबकिता इव रेजुरमू स्वयम् ॥ २९॥ गुरुपयोधरहेमघटद्वयं पृथुलमौक्तिकशिक्यानवेशनात् । जघनमुरुकरीन्द्र कराश्रया- नियतमूहरमूः श्रमकर्शिताः ॥३०॥ मृदुरथाः स्तनकोकधराः स्त्रिय- श्वलितमौक्तिकफेनविपाण्डुराः । १. 'णाभिरसज्ञया ।।' क. पाठः.

पञ्चमः सर्गः। मुखरनूपुरहंसरवाकुला ययुरपः प्रति धर्मपयोवहाः ॥ ३१ ॥ धवलपक्षतिचोलपरिष्कृत- नवलताङ्कुरवेत्रधरैः सह । परिजनैरिव हंसगणैः स्त्रियः सरमणाः सरसस्तटमाययुः ॥ ३२ ॥ तदनु कूलमवाप महीपतिः पटगृहे सरसः सपरिग्रहः । तदनुकूलमधत्त विभूषण विहतये सरसः स वधूगणः ॥ ३३ ॥ सरसचन्दनकुकुमपङ्किलाः प्रियकराचितलोलकराः स्त्रियः । सरसि गैरिकरागविरूषिता वनकरिण्य इवाथ विजहिरे ॥ ३४ ॥ भरितयौवनवारि मृगीदृशां मदनदन्तिवरक्षुभितं मुहुः। तरुणलोचनमीनकुलाकुलं सपदि नाभिसरः सरसामिलत् ॥ ३५॥ विमथितं वनितास्तनमण्डलै- गुरुसरोहृदयं परिचुक्षुभे। न खलु जीवनसारमिदं जग- न्मृगदृशां चरितैरवशीकृतम् ॥ ३६ ॥ १. 'रितस्त' ग, पाठः, H भरतचारते जलविहारसमुत्सुकयैकया न दायतीनुनयेन विनोत्थितम् । मृदुसुखादपि नीचजनादृतात् प्रभुधियां गरिमैव रसावहः ॥ ३७ ॥ रमणपृष्ठमधिष्ठितयान्यया जलमगाहि भयाकुलया किल । न पुनरात्मवपुर्णरुतां जनः प्रिय इवाहति वेदितुमित्य(द ? तः) ॥ ३८ ॥ उपसपत्नि समानमपि स्थितं प्रियमभङ्गुरसौभगगर्वितम् । समधिरुह्य विधीय विमानता सुरवधूरिव कापि सरो ययौ ॥ ३९ ॥ अवजितं वनितावदनेन्दुभिः कमलषण्डमखण्डमपि ध्रुवम् सरसि दण्डवदेव ननाम यत् सलिलवाद्यपरिक्षुभितेऽम्भसि ॥ ४० ॥ शफरजालविलोलविलोचनैः सकुतुकं समवेक्ष्य विलासिनीः । ध्रुवमसौ सरसः पयसां चय- श्वपलवीचिभुजैः परिषस्वजे ॥ ४१ ॥ वपुषि यौवनवारिमहादे तरुणलोचनमीनकुलाकुले । १. तानयनेन वि', २. 'दि' ख. पाठः. ३. 'हा' ग. पाठ:

१ - पञ्चमः सर्गः। बडिशसूत्रमिवाम्बु मृगीदृशां मृदुलधारमपात्यत कामिभिः ॥ ४२ ॥ करपुटादपरेण निपातितं सरलधारमभङ्गरयं पयः। सुचिरमास्त वधूश्रवणान्तिके रहसि वक्तुमिवास्य मनोरथम् ॥ ४३ ॥ प्रियकराञ्जलियन्त्रसमुत्थितं वलयितं यदवाप वधूमुखम् । क्षणमलक्ष्यत तज्जलमुज्ज्वलं दशनदीधितिचक्रमिवोज्ज्वलम् ॥ ४४ ॥ हृदयवल्लभ! दुर्लभदर्शन- स्त्वमसि तत् कठिनं हृदयं तव । इति निगद्य कयापि समुत्थितं कमितुराईयितुं हृदयं ध्रुवम् ॥ ४५ ॥ कमलमर्पय तर्पयता जलै- रिति शठेन वधूः सहसोदिता । प्रचुरमम्बु मुमोच विचक्षणा वचसि सापि परे नतु पैङ्कजम् ॥ ४६ ॥ मधु पिपासति मुख्यमयं जनः सुतनु ! ते न कराम्बुरुहोद्भवम् । इति दृशा रमणेन समीरिता रविमुदक्षत सस्मितमङ्गना ॥४७॥ १. 'भिः ॥ प्रि', २. 'वाबलम्' ग. पाठः. ३. 'वारिजम्' क.पाठः ५२ T. भरतचरित कुपितयेव कयापि मुहुः स्थितं सपदि वञ्चयितुं प्रियमुक्षणैः । स तु शठः प्रणिधानपरोऽभवद् विहसिता च सखीभिरसौ मुहुः ॥ ४८ ॥ सुतनु ! मुञ्चसि काञ्चनकङ्कणं ससलिलं सुभगाय रसोत्सुका । इति सखीभिरगद्यत कामिनी सपरिहासमपोढविभूषणौ ॥ ४५ ॥ अभिनवं मम गोत्रमिदं कृतं दयित! ते दयितं तदिहास्तु मे । यदि भवेयमभीष्टतमामुने- त्यपरयाम्बु गृहीतमुपेक्षितम् ॥ ५० ॥ नववधूवदनाम्बुरुहे मुहु- विनमिते जनसंसदि लज्जया । तदवलोकनकामितयापरः सलिलदण्डमुपन्नमिवार्पयत् ॥ ११ ॥ लुठसि मे दयितास्तनमण्डले तदिह हार! न सोढुमहं क्षमः। इति रुषेव युवा जलधारया प्रियतमोरसि हारमघट्टयत् ॥ ५२॥ अलमलङ्करणाय दृशोः श्रियः श्रवसि किं निहितेन मुधामुना । १. 'सु,' २. 'वो' ख. पाठः. ३. 'णम् ॥', ४. 'ति' क. पाठः,

पञ्चमः सर्गः।
इति वदन् दयिताश्रवणोत्पलं
वरतनोरहरज्जलधारया ॥ ५३ ।।
विलिखितं कुसुमायुधशासनं
कुचतटे नखले (प? ख) निभाक्षरैः ।
चलदृशः सलिलोक्षितचन्दने
जनतया सकुतहलमीक्षितम् ॥ ५४ ॥
चकितचञ्चलपाणिधृताञ्चलं
चलदृशः स्मरलोल दशो युवा ।
निबिडनीविकमम्बरमम्बुभिः
शिथिलतामिव नेतुमघट्टयत् ॥ ५५ ॥
गुरुतमा प्रमदासु शकुन्तला
हृदि वहन् ध्रुवमेष महीपतिः ।
पयसि न प्लवतामिति योषितः
कनकशृङ्गजलैः सिषिचुर्नुपम् ॥ ५६ ॥
अथ तटानि समारुरुहुः स्त्रियः
प्रशमितेऽम्बुनिपातमहोत्सवे ।
नवमृणालसरोजपरिग्रहाः
शरदि हंस्य इवानुसृताः प्रियः ॥ ५७ ॥
सलिलसक्ततया लघु योषिता-
मसदिवाभवदम्बरमूरुषु।
किमसतापि सताप्युपयुज्यते
स्वकरणीयविधावपटीयसा ॥ ५८ ॥

भरतचरित जलकणाङ्कितलम्बशिरोरह मृगदृशामनतिप्रकटं मुखम् । विगलदम्बुनवाम्बुदचुम्बित तुहिनदीधितिबिम्बमिवाबभौ ॥ ५९॥ रशनया जलमूकतया स्थितं वसनयोः परिवृत्तिषु योषिताम् । प्रभुरहस्यविदामुचिता हि सा परिचितेऽपि कदाचन मूकता ॥ ६ ॥ अथ सरोनिकटे पटवेश्मभि- विहितराजगृहापणमन्दुरा। विरचिता वसतिर्नृपशासनाद् विविधपण्यकृतक्रयविक्रया ॥६१ ॥ त दनु तत्र समचितदेवतः समुचिताहृतिवीतपरिश्रमः। परिवृतः परिवारजनैर्निज- दिवसशेषमुवास नरेश्वरः ॥ १२ ॥ सुखतरमबलामुखापदेशं शशिशतमेतदनस्तशोभमास्ते । इति रविरवमानवानदीप्तिः स्फुटमपराद्रिगुहागृहं विवेश ॥ ६३ ॥ इति कृष्णविरचिते भरतचरिते पञ्चमः सर्गः ।। १. 'मि', २. 'हितप' क. पाठः.

अथ षष्ठः सर्गः पश्चिमे तदनु पाथसां निधौ लम्बते स्म दिवसात्यये रविः । श्यामले वपुषि शार्ङ्गधन्वनः कौस्तुभो मणिरिवारुणच्छविः ॥ १ ॥ प्राप्य रक्तमालनाम्बरां दिशं वारुणी कुसुभितामिवाङ्गनाम् । दोषमेनमपनेतुमम्बुधौ मङ्क्तुमुद्यत इवास्त भानुमान् ॥२॥ लोहिताभ्रदलमण्डलोज्ज्वलं रहिमकेसरपरागधूसरम् । भासते स्म विपुलं पयोनिधी पुण्डरीकमिव भानुमण्डलम् ॥ ३ ॥ वीचिजालचटुले पयोनिधी साचिमग्नवपुराबभौ रविः । इन्द्रनीलमणिगुम्फमण्डने पद्मराग इव नायकीकृतः ॥ ४ ॥ खण्ड्यमानमृदुरश्मिसञ्चये हेमकुम्भ इव भानुमण्डले । सन्ध्यया जलँनिधौ निपातिते रश्मिखण्डधरया समुत्थितम् ॥ ५ ॥ १. 'रागदोषम' ख. पाठः, २. 'ले' ख. पाठः. ३. 'पपाते : ४. 'प' ग. पाठ क. पाठा.

भरतचारत संगृहीतवसुजालमुज्ज्वलं भानुहेमकलशं दिनात्ययः। न्यस्तवानिव पयोधिमन्दिरे लोकसाक्षिकमलक्ष्यत क्षणम् ॥ ६ ॥ वारिवक्त्रविवरे विवर्तित वीचिलोलरसनाविलोलितम् ! नूनमूष्मधेरमर्कमण्डलं वारिधिः सरभसं निगीर्णवान् ।। ७ ।। तप्तमायसमिवामण्डलं वासरेण शुचिना चिरं धृतम् । क्षिप्तमम्भसि पयोनिधेरभूत् तस्य धूम इव मेदुरं तमः॥ ८ ॥ पद्मिनी रविवियोगविह्वला भृगरावकृतगद्गदस्वरा । श्लिष्यदम्बुजकराङ्गुलीदलैः प्राप्तिकालगणनामिवाकरोत् ॥ ९ ॥ इन्दिरामिव सरोजमन्दिर रक्षितुं रविसमागमावधि । सन्ध्यया पिहितमम्बुजोदरं यामिकैबहिस्कूजि षट्पदैः ॥ १० ॥ एकपङ्कजपलाशसंश्रित प्राप चक्रमिथुनं वियोगिताम् १. 'ये ख. पाठः. २. 'सोपसा', ३. 'भ' ग, पाठः, -- पठः सर्गः। .. हन्त मित्रविरहाकुलात्मनां निष्फलाः पुरुषकारसंपदः ॥ ११ ॥ संवृते दिनमणी विहङ्गमाः शाखिनामुपरि मूकतां ययुः। तेजसामधिपतेस्तिरस्क्रियाः खेदयन्ति खलु पक्षपातिनः ॥ १२ ॥ रश्मिजालमिव कीर्णमर्णवे पङ्कपातमलिनीकृतं रखे। उज्जहार तिमिरं दिनात्यय- स्तारकानिकरमौक्तिकैः समम् ॥ १३ ॥ प्लुष्टमर्ककिरणैरिवाम्बर मेदुरेण तमसा मलीमसम् । किञ्च धर्मजलबिन्दुसन्निभै- रुज्ज्वलैरुडुगणैरलं बभौ ॥ १४ ॥ श्यामला तिमिरपत्रपतिभि- स्तारकाकुसुमजालशालिनी। मत्तमन्मथशिलीमुखाकुला मल्लिकव विबभौ विभावरी ॥ १५ ॥ तादृशः समय एव योषितां रन्तुमुत्सुकयति स्म मानसम् । यत् पुनर्मधु नवं च यौवन तद् बभूव विभवो मनोभुवः ॥ १६ ॥ I भरतचरित .. सागरे सलिलकेलिलालसः स्तोकमुद्धृतकरो नभस्तले । दर्शितानन इवेन्द्रवारणः प्रचि साचि दहशेऽथ चन्द्रमाः ॥ १७ ॥ यामिनीरमणबिम्बमुल्बणं चक्रमायुधमिवाङ्गजन्मनः। आबभौ पयसि पाथसां निधे- रूनिशाणकपणादिवोज्ज्वलम् ॥ १८ ॥ लम्बयन् धनतमास्तमोजटाः स्तारयन् दिवि शनैःशनैः करान् । भस्मपाण्डुरतनुर्निशाकरो नृत्यतः श्रियमवाप शूलिनः ॥ १९ ॥ इन्दुना कुमुदिनी विकासिता कर्कशा दृषदपि द्रवीकृता । तेन सा कमलिनी निमीलिता कः समस्तहृदयङ्गमो जनः ॥ २० ॥ गोकुलं निजमुदन्वदम्भसः क्षालितोत्थितमिवामलप्रभम् । श्यामलं तिमिरशष्पमण्डलं खादयन्निव पुपोष चन्द्रमाः ॥ २१ ॥ नीललाञ्छनधरं निशाकर योषितः सरसमाशशङ्किरे। १. 'सा' क. ग. पाठः

धष्ठः सर्गः।
श्यामया सरभसोपगूढया
प्रत्युपोढतिमिरागुरुद्रवम् ॥ २२ ॥
आततज्यमिव भृङ्गमालया
मृज्यमानमिव शीतरोचिषा ।
कृष्यमाणमिव मातरिश्वना
कौमुदं धनुरभून्मनोभुवः ॥ २३ ॥
केवलं जलमयो न सागर-
स्तत्र शीतरुचिना विवर्धितः ।
अप्यसौ विटजनाहतो मुहु-
योषितां मनसि रागसागरः ॥ २४ ॥
स्वां तनुं बहिरुपेत्य दर्शयन्
धामजालकपथेन चन्द्रमाः ।
सेवते स्म करजालमपैयन
योषितामिव मुखश्रिया जितः ॥२५॥
कौमुदीत्रिपथगा महीतलं
निर्मला हरिपदादुपेयुषी।
कामिनामपि किमन्यदहुतं
मानसंभृतमपाहरत् तमः ॥ २६ ॥
कामिनः कलुषितान् प्रियागृह
नेतुमाशु कुशला बभूव का।
विद्रवीकृतशिला नु कौमुदी
दूतिका नु कुशला तथाविधा ॥ २७ ॥

भरतचरित कान्तमानय कृशां दशामिमां पश्य दूत्यनुनयं न लङ्घये। प्रेम तत् प्रथितमावयोमिथः किं मुधा खलजनैर्विलोड्यते ॥ २८ ॥ प्रेम तादृशमभङ्गुरं तयो- रीदृशं तदधुना विलोक्यते । उच्छ्यो ह्यतिशयेन वस्तुनः पातहेतुरिति सत्यमुच्यते ॥ २९ ॥ इत्यसावसुहृदां मिथः कथा मा स्म भूदिति मयानुनीयसे । अन्यदस्तु फलमानुषङ्गिक जीवितेशवशगामि जीवितम् ॥ ३० ॥ ईदृशे शशिनिशासमागमे का वियोगमनुभूय जीवति । रक्ष्यतां तदिदमाशु जीवितं चित्रकर्म सति धाम्नि युज्यते ॥ ३१ ॥ इत्थमित्थमनुधाम योषिता भाषितान्यनु समाययुः प्रियाः। के हि नाम कुसुमेधुशासन लङ्घयन्ति भुवि जीवितेच्छवः ॥ ३२ ॥ कामकर्मपरिकर्म योषितां नात्यवर्तत निजां वपुःश्रियम् । १. 'शामिमां दशां प', २. 'येः' ख. पाठः.

घटः सगः। पद्मरागरुचिरुज्ज्वलोज्ज्वला नैव कुङ्कुमरसेन रेज्यते ॥ ३३ ॥ हारचन्दनधरौ पयोधरौ योषितामुरसि पुष्पधन्वनः। रेजतुः स्फुटमुदस्तमस्तको *वारणाविव रणाय सैजितौ ॥ ३४ ॥ जातिदाम कबरीषु लध्वपि प्राप्तमेव निदधुस्तदङ्गनाः। जातितोऽथ गुणगौरवेण वा यस्य न त्यजति वासनां जनः ॥ ३५ ॥ हृद्यगन्धंकुसुमाधिवासितं भेजिरे तुहिनषण्डपाण्डरम् । तुङ्गमद्रिपतिशृङ्गसन्निभ तल्पमुत्पलहशः सकामुकाः ॥ ३६ ॥ कामिभिः सह मनोनुगामिभिः शीथुपानमबलाः प्रचक्रिरे । प्रस्तुते सुरतघोरसङ्गरे बीरपाणमिव मन्मथानुगाः ॥ ३७ ॥ १. 'यु' ग. पाठः. २. योनिधी यो' क. पाठः. ३. 'संयतो' ग. पाठः. १. धि' क. पाठः, * इह वारणशब्दस्य तत्सम्बन्धिनि लक्षणा कल्पनीया । मन्मथ. युद्धसज्जीकृतगजसंबन्धिनौ उत्क्षिप्तौ मस्तकाविवेत्यर्थः समर्थनीयः ।

भरतचरित इन्दुरिन्द्रदिशि लोचनोत्पलैः सेवितो रसनयाथवासवः ! अस्तु वो मदविशेष इत्यमुं कः प्रसादमकरोन्मृगीदृशाम् ।। ३८ ॥ पीतमाशु मधु रागमुत्कटं कि गुणान्तरमसूत योषिताम् । चूर्णितं तदिह भाजने चिरं घूर्णयदेपि दृशौ निजैर्गुणैः ॥ ३९ ॥ कामिनोऽथ परिरेभिरे वधू. वक्षसि प्रथितपीवरस्तनम् । पीडितैरिव विमर्दनिर्भरै- भूषणैररमरावि तत्क्षणम् ॥ ४ ॥ या पुरा हृदि बभूव कामिनो- निशल्यशकलावलिः स्थिरा। सा समागमरसायनोक्षिता निर्ययौ पुलकसंहतिच्छलात् ॥४१॥ योषितां प्रियतमोपगृहने तुङ्गमप्यवनतं कुचयम् । उन्नतस्य महतो गरीयसः सन्नतिः प्रियजनेषु युध्यते ॥ ४२ ॥ १. 'चू', २. 'जिरे चि' ख. पाठः. ३. 'नैश्चिरं' क. पाठ ४. 'चू', ५. 'सुकृतसन्तति', ६. 'तमेषु' ख. पाठः.

षष्ठः सर्गः । विश्लथन्निबिडनीवि योषिता- मम्बरं मृदु रहस्यरक्ष्यपि । तां जगाद दयिताङ्गसङ्गमे मुद्रया हृदि परां रिरंसुताम् ॥ ४३ ॥ प्रेषितः प्रणयिनोपमेखलं पाणिराकुलमरोधि बालया । वारितोऽपि मुहुरुत्सुकश्चिरं नाभिमानगणनां चकार सः ॥ ४४ ॥ विस्तृतं जघनमेदिनीतलं कामिनी हृतदुकूलमाकुला। अक्षमा स्वयममुष्य गोपने प्रेयसे मदनसाक्षिकं ददौ ॥ ४५ ॥ मुक्तमौक्तिकमनोज्ञमेखला निर्गलेन्निबिडनीविबन्धना । गाढमाशु परिरभ्य सत्रपा पर्यवत्त रमणाङ्गमङ्गना ॥ १६ ॥ गाढदष्टरदनच्छदं मुहुः सीत्कृतार्धमुकलीकृतेक्षणम् । वक्रमासवसुगन्धि योषितां चुम्ब्यमानमपि चुम्बितं प्रियः ॥ ४७ ॥ कृत्स्नमेव रैदनच्छदामृतं पातुमुत्सुकधियापि योषितः। 'प्र' ग. पाठः. २. 'म', ३. 'दशन' क. पाठः. .

भरतचरिते बिन्दुमात्रमधरेऽवशेषितं कामिना दुशनपातमुद्रया ॥ ४८ ॥ पूगनागलतिकादलं प्रियः प्रेयसीललितदन्तखण्डितम् । आचकर्ष धनसारसौरमी रागसारमिव कामिनीसुखात् ॥ १९ ॥ पञ्चभिर्नखमुखैलिखित प्रेयसा स्तनयुगं मृगीदृशः । व्यज्यमानदलभेदमावभौ जम्भमाणमिव पङ्कजद्वयम् ॥ ५० ॥ सीत्कृतानि सरसानि योषितः श्रोतुमुत्सुकतमेन कामिना। वर्तुलं गलपुटं प्रवर्तित दंशनेन मणिदाममण्डनम् ॥ ५१ ॥ गद्गदेन शकलीकृताक्षरं भाषितं तदनु योषितामभूत् । सूक्ष्मलक्ष्मभिदुरैरभङ्गुरैः खण्ड्यमानमिव कामसायकैः ॥ ५२ ॥ ऊरुतोरणयुगे मृगीदृशः श्रोणिचक्रमधिकर्तुमिच्छता। कामिना नखमुनिवेशिता मन्मथस्य महिताः प्रशस्तयः ॥ ५३ ॥ १. 'दशनच्छदच्छलादाचितं धनरसेन भूयसा' क. पाठः. २, 'रलङ्कृतं', ३. 'तां, ४. 'दर्शने' ग, पाठः.

षष्टः सर्गः । ६५ सोपचारमुपगृह्य निर्दयं वक्षसा स्तनतटे शयालुना। लज्जितापि कुशलेन कामिना मज्जिता नववधूः स्मराणवे ॥ ५४ ॥ योषितश्चपलमक्षि चुम्बत चापलं हृदि बभूव कस्यचित् । नूनमन्यगुणसंक्रमो नृणां जायते परिचयेन भूयसा ॥ ५५ ॥ कान्त ! सीदसि यादे प्रसीद मे भारमेनमहमुहहामि ते । इत्यकाण्डरतिभङ्गभीतया कस्यचिद् दयितया नरायितम् ॥ ५६ ॥ कान्तकण्ठकुहरे विवर्तितं मञ्जुलं मणितमाप्तुमिच्छती । अन्तरुत्सुकतमो प्रियानने नूतना सुतनुराननं ददौ ॥ ५७ ॥ नोपगूढमचिरोढया वपुः श्लिष्यतोऽपि दयितस्य लज्जया । विक्रिया हृदि तया न संवृता सा च तस्य रतये पदं ददौ ॥ ५८ ॥ अन्यया रतिविधौ नरायिते पीवरोरुजघनस्तनं वपुः। १. 'प्र', २. 'या' ख. ग. पाठः. ARTIME भरतचरिते शैलवद् गुरुतरीकृतं क्वचित् तूलवल्लघुतरीकृतं कचित् ॥ ५९ ॥ कुण्डलोल्लिखितगण्डरेखया हारहीरलुठितस्तनाग्रया। उत्सुकोऽपि दयितोऽनुरक्तया नान्वगृह्यत रते महेलया ।। ६० ॥ अन्ययोरभिनवानुरागयो- मुग्धयोरनातरूंढदाक्ष्ययोः। मन्मथेन गुरुणोपदर्शिता नैपुणी रतिविधी तयोरभूत् ॥ ६१ ॥ सस्तकुन्तलावेकीर्णमालया घृष्टचन्दनपयोधरान्तया। श्रान्तया श्रमजवारिसिक्तया कान्तवक्षसि सुषुप्तमेकया ॥ १२ ॥ वक्षसि श्वसितकम्पिती स्तनौ रेजतुर्निधुवने मृगीदृशः। मारुतक्षुभितवाचेचञ्चलो चक्रवाकविहगाविवाम्भसि ॥ ६३ ॥ योषितां प्रियतमोपगृहने मौक्तिकैहृदि निवेशितैरिव । स्वेदवारिपृषतैर्विनिस्सृतं गण्डयोर्गलितपत्रलेखयोः ॥ ६४ ॥ १. 'गू ग. पाठः. २. 'त' क. पाठः. ।

सप्तमः सर्गः। ६७ हेलया त्रुटितहारशृङ्खला सोढगाढनखराङ्कुशक्षतिः। योषितः स्तनकरेणुरुन्नता वल्लभेन दमिता कथञ्चन ।। ६५ ।। हीभरादवनतानना पुरा या कथञ्चन रतौ प्रयोजिता । सा द्वितीयसुरते समुत्सुका कापि कामपि जगाम विक्रियाम् ॥ ६६ ॥ कामिनामिति समागमोत्सवं बोक्ष्य कामावेशेव यामिनी। अम्बरान्तमवलम्ब्य यास्यता वल्लभेन सहिता विनियंयौ ॥ ६७ ।। दिशि दिशि करजालमेष भानु- स्वमिव करोति महीभृतां गणेषु । इति सुखमवबोधितोऽथ सूतै- नृपतिरनन्तरकृत्यमन्वतिष्ठत् ॥ ६८ ॥ इति कृष्णविरचिते भरतचरिते षष्ठः सर्गः ।। अथ सप्तमः सर्गः । अथैनमास्थानगतं नरेन्द्र- मभ्येत्य कश्चिन्महितो महर्षिः। रत्नाकर सत्त्ववतां पुरोग संवर्धयामास शशीव गोभिः ॥ १ ॥ १. 'चलान्त' क. ख. पाठः.

भरतचरित स राजसिंहः सहसावरुह्य सिंहासानाद्रेवनी विनीतः । पुरोधसा साकमुपाहृतार्य- स्तपोधनं तं विधिनोपतस्थे ॥ २ ॥ अथाश्रमस्थानजितारिवो भूतिं दधान गुरुशासनस्थौ । सप्ताङ्गयुक्तौ मणिविष्टरस्थौ विरेजतुस्ती मुनिराजवयौं ॥ ३ । मुनेः श्रवः प्राप्तुमिवाथ शुद्धां मन्दस्मिताम्भैःस्नपितामिवाम् । नभोगुणत्वादिव मुक्तसगां प्रवर्तयामास गिरं नरेन्द्रः॥ ४॥ तत्कालदुःखानि महाफलानि प्रायेण कर्माणि भवन्ति लोके । सद्यः प्रमोद प्रथमं प्रसूते फलानुकूलं च विलोकनं वः॥ ५॥ विकासयन्तं हृदयारविन्द प्रसादवत्त्वात् प्रथयन्तमाशाः । अन्तर्गतं ध्वान्तमपाहरन्तं मन्ये भवन्तं भुवि भानुमन्तम् ॥ ६ ॥ व्यापारयन्तं परया स्वशक्त्या संयोज्य कृत्येषु कयापि बुद्धया । १. 'त' क. पाठः. २. 'द्भिः' ग. पाठः.

सप्तमः सर्गः। विज्ञातुमिच्छन् न कथं विजाने स्वान्तस्थितं जन्तुरिवेश्वरं त्वाम् ॥ ७ ॥ एतत् समाकर्णयतो महर्षे- मुखेन्दुबिम्बादमला सुधेव । प्रियावियोगग्लपितं नरेन्द्र- माह्लादयन्ती प्रससार वाणी ॥ ८ ॥ अवेहि कण्वस्य मुनियोगाद- भ्यागतं मां कपिशाभिधानम् । अस्त्यत्र किश्चिद् गुरुणानुशिष्ट- माप्तैः सह श्रोष्यति मन्त्रिभिस्त्वम् ।। ९ ॥ आस्ते कुमारी कुलशीलयुक्ता शकुन्तलेल्याहितनामधेया। सा मेनकाकौशिकयोरपत्य- मस्माकमङ्के परिवर्धिता च ॥ १० ॥ अर्काशुजालेन सरोजिनीव शशाङ्कबिम्बेन विभावरीव । प्रवालजालेन लतेव युक्ता विभाति सा सम्प्रति यौवनेन ॥ ११ ॥ आधिश्च तेनान्वहमेधमानः शान्त्यम्भसास्याः प्रशमं न याति। शरीरजन्मोपहितोऽथवासौ क मन्त्रपूतेन जलेन हार्यः ॥ १२ ॥ १. 'स' ख. पाठः, भरतचरित अस्य त्वमेवासि निभित्तमस्याः साक्षात् प्रतीतः परया दृशा नः अर्काहते को हृदयं नलिन्याः स्नेहात समुत्कण्ठयितुं समर्थः ॥ १३ ॥ एतच्च किञ्चित् प्रणिधेयमन्यत् तां दानवः कश्चन याचते नः । श्लाघ्येऽनुरक्तामपि राजहंसे ध्वाङ्क्षः कथं काङ्क्षति राजहंसीम् ॥ १४ ॥ शुभ मुहूर्ते भविता विवाह- स्तवेति साकूतमुदीरितश्च । प्राप्तेषु कृच्छेषु महत्सु पुंसां सत्यभङ्गाय भवन्ति वाचः ॥ १५ ॥ तदाश्रमं प्राप्य शकुन्तला त्वं गृहाण पाणौकरणेन सावीम् । को नाम दैत्यः प्रतिवीक्षितुं त्वां दीप्तं दिवाभीत इवांशुमन्तम् ॥ १६ ॥ इत्थं नियुक्तोऽसि महर्षिणा त्वं प्रमाणवाचा विधिनेव साक्षात् । स्वतः प्रमाणं द्वयमेव मन्ये वेदश्च विद्वान् स तपोनिधिश्च ॥ १७ ॥ गिरं गुरोस्तेन समाहृतां तां तथेति मूर्धा जगृहे जनेशः। 4 २. स्वयं' दि ख. पाठः. ३. १. 'नात्यन्तभ' क. पाठः 'था च मू' क. पाठः, ७१ सप्तमः सर्गः। विशुद्धवर्णा विमलां गुणाढ्यां मालां मनोज्ञामिव कन्यकायाः ॥ १८ ॥ प्रस्थानमधैव कुरुष्व वीर! प्रष्टो भवामि प्रहतो हि पन्थाः । इति प्रतस्थे प्रथमं तपस्वी ततोऽपि चेतः प्रथमं नृपस्य ॥ १९ ॥ अथ प्रतापं प्रथयन् पृथिव्यां प्रसारयन् दिक्षु यशोमयूखान् । धनान्तरालादिव धर्मरोचः सेनानिवेशान्निरगान्नरेन्द्रः ॥ २० ॥ तत्रैव सैन्यं सकलं निवेश्य सारं समाहृत्य ययौ यथार्हम् । सत्त्वाधिकानां हि सुनीतिभाजां पुंसामतन्त्रं परिवारसम्पत् ॥ २१ ॥ आनन्दयन् नाक जुषः स राजा वित्रासयन् विद्विषतां मनांसि । उत्कण्ठयन् वर्त्मनि नीलकण्ठान् ययौ धनध्वानभृता रथेन ॥२२॥ अस्यानुकूलेन समीरणेन रथाङ्गनिष्पेषभवः परागः। दूरान्निरस्तः पथि दक्षिणेन नीचो ह्यचक्षुष्यतमः प्रभूणाम् ॥ २३ ॥ १. ग. पाठः.

भरतचरिते GO तथातिदुर्ग बहुवाहिनीकं सुवर्णपूर्ण कटकं दधानम् । उत्तुङ्गवंशं हिमवन्तमारा- न्महीभृतां नाथमसो ददर्श ॥ २४ ॥ प्राच्या प्रतीच्यां च निवेश्य पादै संदश्य गाढं शफरीमिवोर्वीम् । यः पक्षहीनोऽपि खमुत्पतिष्णु- रब्धरुदः शिखरैर्विभाति ॥ २५ ॥ दिवापि नीलाश्मघनक्षपाणि तिग्मांशुमार्गादुपरिस्थतानि । यस्योत्तमाङ्गानि सुराङ्गनाभि- रङ्गीक्रियन्ते सुरतोत्सुकाभिः ॥ २६ ॥ आवर्तचक्राणि सरित्सु यस्य संक्रान्तमाणिक्यमणिच्छवीनि । अलातचक्रप्रतिमानि शत्रोः प्रत्यस्त्रशङ्कां जनयन्ति जिष्णोः ॥ २७ ॥ अन्यत्र यस्माद् द्वितयं न दृष्ट- मद्रौ न तादृग् गिरिराजशब्दः । जगज्जनन्यास्तनयात्वमेक जामातृभावश्च शशाङ्कमौलेः ॥ २८ ॥ गुञ्जाफलादानसमुत्सुकाभि- रापातसाम्यादनुसैंञ्चितानि । १. 'अथाहिंदु' क. पाठः. २. 'द्रे' ग. पाठः. ३. 'त' ख. पाठः, १. 'चिन्तिता' क. पाठः.

सप्तमः सर्गः। यत्रानुशृङ्गं शबराङ्गनाभि- माणिक्यरत्नानि निराक्रियन्ते ॥ २९॥ भाकृष्ट चापानवलोक्य यस्य तुलेषु शृङ्गेषु किरातसङ्घान् । शुकाङ्गनाः स्वर्गविलासिनीनां गीर्वाणभाषाभिरुपालभन्ते ॥ ३०॥ दीप्तांशुकान्ताश्मकृशानुदीप्तं विपच्यमानोपलकुम्भजालम् । यस्याशुनिर्यढनधूमकाण्ड कुलालवेश्मेव विभाति शृङ्गम् ॥ ३१ ॥ मुहुः पतन्तौ मुहुरापतन्ती पर्यायवृत्त्या शशिभानुमन्तौ ।। संक्रीडनार्थाविव कन्दुको द्वौ यस्योपकण्ठं नभसो भजेते ॥ ३२ ॥ यस्यायमेको महिमा महीया- नास्तां विशालत्वमथोच्छ्रयो वा। यदिन्दुमौलिः स्वयमत्रिका च वत्साविवाङ्कं सततं भजेते ॥ ३३ ॥ उन्नम्रपादानमुद्ग्रशृङ्गं यमन्यमुक्षाणमिवोत्पतिष्णुम् । शृङ्गान्तराले निजशृङ्गकोट्या स्थाणोर्महोक्षः प्रसभं पिनष्टि ॥ ३४ ॥ १. गरिमा गरीया', २. 'पतीक्ष्णम्' ख. पाठः, भरतचरित सरित्पतिर्यस्य सरित्प्रसूते- रुत्पत्स्यमानाः सरितोऽधिगन्तुम् । रत्नानि शुल्कार्थमिवोपनीय पादं समाश्लिष्यति नीचवृत्त्या ॥ ३५ ॥ पश्वादिलायां प्रलयं गतायां सर्गावधानं दधता विधात्रा। यो भाति कर्तु वसुधामिवान्यां संपादितः कोऽपि मृदां समूहः॥ ३६ ॥ दुर्वर्णचूर्णच्छविमुद्वहन्तं सुवर्णभूरेणुविरूषिताङ्गाः। यस्मिन्नरण्यद्विरदा महाहीः सुरद्विपं जेतुमिवोत्सहन्ते ॥ ३७॥ अपांवरं यस्य नितम्बचक्र- मपाम्बरं नैव करोति गङ्गा । अनुक्षणं यामधिगम्य दिव्या- मनुक्षणं न क्रियते महद्भिः ॥ ३८ ॥ यस्मिन् मुहुर्धातुभिरात्मकान्त- मालिख्य विश्लेषविनोदनीभिः । चित्रार्थता धातुषु निर्विवादं विद्याधरीभिः क्रियते यथार्था ॥ ३९ ॥ पयोधिमुत्खातवता विधात्रा निखातशेषे वसुधातलेऽस्मिन् । १. 'सगर्भा' ग. पाठः- सप्तमः सर्गः। खातः किया जात इतीव मातुर्यो भाति तुङ्गः प्रतिमानकूटः ॥ ४०॥ कुशेशयानां भवनेषु यत्र कुशेशयानां निकटे मुनीनाम् । सरस्वतीव प्रथते नवन्ती सरस्वतीवाशु कवीश्वरेषु ॥ ४१ ॥ उद्धृत्य मूर्धा सरिता सहस्र- मादाय रत्नानि महाधनानि। उत्थाय शीतालरिवाम्बुराशे- यस्तापनं धाम दधाति पार्श्वे ॥ ४२ ॥ यत्र ध्वनिः श्रूयत एव नियं वषट्पदानां नवषट्पदानाम् । सवे मुनीनां प्रसवे तरूणां न वा रणानां धनवारणानाम् ॥ ४३ ॥ यः स्थातुमीष्टे परितो विरूढान सालानवष्टभ्य कथञ्चिदेव। अभ्रषाणां शिरसि स्थितानां ग्राव्णां गरिम्णेव सुदुर्वहेण ॥ ४४ ॥ समीरणाः सानुषु यस्य नित्यं कुविन्दकृत्यानि विडम्बयन्ति । यतः पयोदावरणे विशीणे पटं हिमान्या निबिडं वयन्ति ॥ ४५ ॥ १. 'व' ख. ग. पाठः, ७ भरतश्चरित धातुद्रवक्षोभितरक्तधारा- स्तियग्दधानस्तटनिराणाम् । नित्यं हिमानीघनकच्छुराङ्गः सिरासु यो विद्ध इवावभाति ॥ ४६ ॥ अम्बुच्छटामंशुकसन्निकाशा महानदीनां बहुधा तु भिन्नाम् । बिभर्ति यः काञ्चनरलकान्ति महानदीनां बहुधातुभिन्नाम् ॥ ४७ ॥ गौरीशरीरेछुरितार्धभाग- मर्धेन्दुपीयूषनिपित्तनेत्रम् । पश्यन्ति यस्मिन् परमेश्वराख्यं तज्जङ्गमं ब्रह्म समाधिभाजः॥४८॥ मालीकरागेण समुज्ज्वलेन कृशानुभावं वहते य एकः । नालीकरागेण बदामि किञ्चित् कृशानुभावं कुरुते च मेरुम् ॥ ४९ ॥ तमित्थमाराध्यगुणं गिरीन्द्र- मुद्दीक्षमाणः सुचिरं पुरस्तात् । स जग्मुषां क्षोणिभृतामधीश- स्तं तस्थुषा नाथमथानुमेने ॥ ५० ॥ अथास्य भूभर्तुरुपत्यकाया- मुपेत्य वाहाः स्थपुटोपलायाम् । १. 'सीरायुधो वि', २. 'रेण धृतार्ध' ख, पाठः,

।
--
सप्तमः सर्गः
उद्भ्रान्तचक्र स्थलुडहन्तः
साशङ्कपातानि शफानि चक्रुः ॥ ५१ ॥
उच्चाधिरोहेषु विमुच्य रश्मीन्
निम्नावरोहेषु निगृह्य किश्चित् ।
रथ्यान् कथञ्चिद् विनियम्ब यन्ता
राजानमश्रान्ततर्नु निनाय ।। १२ ॥
अथाश्रमोपान्तमुपेल राजा
गव्यूतिमात्रे सति मार्गशेषे ।
रथादवारुह्य ययौ पदाभ्यां
संभावयिष्यन्निव भूतधात्रीम् ॥ ५३ ॥
मा दुन्दुभिर्मा च सितातपत्रं
मा चामरे चेति कटाक्षदृष्टया ।
निवारयामास स राजचिह्न
विनीतसेव्यं हि वनं मुनीनाम् ॥ ५४ ॥
नीवारशालिग्रहणोत्सुकेन
विकीर्यमाणं व्यसांगणेन।
आच्छिन्नमुक्तं कुशमन्तुकामैः
कुरङ्गशाबैश्चटुलैरुपेतम् ॥ ५५॥
आम्नायघोषप्रतिघोषपूर्णः
शिलागृहैहितधीरनादम्।
निर्दह्यमानाहुतिगन्धमित्रै-
धुमैः परिस्तीर्णवितानबन्धम् ॥ ५६ ॥

भरतचरित आमृष्टशालाङ्कणकुट्टिमेषु नीवारपिष्टद्रवमुद्रितेषु । मनस्विनां योगजुषां मुनीना मर्धासनारूढकुरङ्गशाबम् ।। ५७ ।। आक्रीडमानायसरस्वतीना- मासारवातं रजसा धनानाम् । आलोकमन्तस्तिमिरोत्कराणा- मथाश्रमं प्राप विशामधीशः ॥ ५८ ॥ अथार्चयामासुरुदग्रदीप्ति तपोधनाः सत्पथवर्तिनं तम् । तन्वानमाशासु करप्रचार सप्तर्षयः सूर्यमिवोपयान्तम् ॥ ५९ ॥ आसनिमेते कुशलानि पृष्ट्वा पुनस्तमूचुर्मुनयो नरेन्द्रम् । वल्लीव वृक्षं परिरब्धुकामा शकुन्तला सीदति वर्धमाना ॥ ६ ॥ तदद्य गान्धर्वविधेः कुमारी मिथोऽनुमत्या कुरु वीर! पत्नीम् । रूपेण शीलेन कुलेन तुल्या सेयं सपत्नी क्रियतां धरित्र्याः ॥ ६१ ॥ यत् प्रार्थ्यते सा दनुजेन कन्या कस्तं निषेधुं क्षमते त्वदन्यः १. 'ते' क. पाठः- अष्टमः सर्गः । अतः सुनीत्या स ययौ गुरुनः स्वयं न दातुं न निषेधुमीष्टे ॥ ६२ ॥ आवेद्य श्रुतिसुखमस्य कण्ववाक्यं निर्याता निजनियमाय तापसास्ते । राजासौ गुरुगिरि गौरवादिवाज्ञां बिभ्राणः सपदि विनम्रकन्धरोऽभूत् ॥ ६३ ॥ इति कृष्णविरचिते भरतचरिते सप्तमः सर्गः ।। । अथाष्टमः सर्गः। अथ नरपतिरन्तरुल्लसन्ती नवरसभावमनोहरां कुमारीम् । अनुपदमवमृष्टसद्गुणाढ्यां कृतिमिव पत्रनिवेशितामपश्यत् ॥१॥ निभृतमुटजकोटरे मुनीनां स्मरशरपातभयादिव प्रपन्नाम् । किसलयशयने सखीसनाथा श्रियमिव वारिजविष्टरे निषण्णाम् ॥२॥ व्रणमिव कुसुमेषुमार्गणानां हृदि सरसीरुहमामुहहन्तीम् । असकृदनुनिषेव्यमाणमाध्वी- वचनसुधामिरुदूढजीविताशाम् ॥ ३ ॥ जगति गुरुतरार्घरत्नसारां परिचितपुण्यजनां श्रियं वहन्तीम् ।

८० भरतचरिते अनवरतमुपोढराजहंस धनदपुरीमिव मानसं दधानाम् ॥ ४॥ समजनि ममता नु तस्य कावि- न्मनसि कृपा नु कृतार्थता नु जाता। मनसिजचरितेषु विस्मयो वा विरहकृशानुकृशां निशाम्य बालाम् ॥ ५ ॥ नयनयुगलमस्य पश्यतत्ता- ममृतनिषिक्तमिवाईतामवाप । अपिच विरहशोकशङजालं बहिरगलत् पुलकाङ्कुरच्छलेन ॥६॥ अवनतवदना शकुन्तलापि क्षितिपमवेक्ष्य विवर्तितः कटाक्षः । न चलितुमशकन्न चापि वक्तुं परिलिखितेव बभूव साध्वसेन ॥ ७ ॥ तदपि कृतसखीकरावलम्बा करतलसंवृतपाण्डुगण्डरेखा। किसलयशयनात् कथं कथञ्चिद विरहमहादहनादिवोदतिष्ठत् ॥ ८॥ अथ करिकरकान्तिचौर्यनि नरपतिदण्डभयादिवायतायाः। अपि गुरुतरसारमूरुयुग्म चलदलपल्लवचापलं चकम्पे ॥ ९॥ १. 'सां' ख. पाठः अष्टमः सर्गः। .. श्रमजलपृषतावलिः स्तनाग्ने तरलदृशस्तरलं विनाभिरामा । निशितपुलकसूचिरुद्धरन्ध्रा स्मरघटितेव रराज हारयष्टिः ॥ १० स्त्रपितमिव हिमैः प्रमोदबाष्पै- रविरलपक्ष्मपुटे चिरं निरुद्धैः। नयनकुवलयद्वयं नितान्त विरहमहोष्माण तप्तमायतायाः ॥ ११ ॥ अतिथिरयमतर्कितप्रभावः सखि! विभवोत्तरमहणीय एषः । तदिह वितर विष्टर विशिष्टं न हि बहुमानमृतेऽर्हणा महत्सु ॥ १२ ॥ निभृतमिति सखी तया नियुक्ता मनसि निषण्णमपि स्थिरं कुमार्याः । प्रतिकृतिमिव वीक्षितुं पुरस्ता- नरपतिमाशु निवेशयाञ्चकार ।। १३ ।। तदनु परिजने विनिर्गते ता- मकथयदात्मदशां विशामधीशः । न खलु दयितयोमिथोऽनुरागो रसविमुखेषु मुधा निवेदनीयः ॥ १४ ॥ वरतनु! तव कातराः कटाक्षाः कचन कुतोऽपि यदृच्छया प्रवृत्ताः। t भरतचरिते मम हृदि पतितास्तुदन्ति गाढं मनसिशयस्य शिलीमुखा इवान्ये ॥१५॥ स्मरशरचकितं मनो मदीयं त्वयि शरणार्थमिवावगाढमेतत् । पुनरपि परिदूयते नितान्तं कनु खलु शाम्यति सर्पिषा कृशानुः ॥ १६ ॥ सुतनु ! तव मुखारविन्दमेतत् कुचभरचक्रयुगं च मानसेऽस्मिन् । विकसति मम केन तन्निषेव्यं न पुनरपुण्यजनेन चेतसापि ॥ १७ ॥ गुरुरपि मुनिरावयोहितार्थी कमपि नियोज्य वनान्तरं जगाम । तदिह मम मुनीन्द्रवह्निशुद्धा कनकमयीव भवाद्य कण्ठभूषा ॥ १८ ॥ इति नरपतिना समीरिता सा न परमपत्रपया न किञ्चिदूचे। अखिलमवनतानना तथापि स्तनतटपातिभिरश्रुभिः शशंस ॥ १९ ॥ तदनु स विदितेङ्गितः कुमार्याः स्फुटतरमात्मनि भावमाकलय्य । सहृदय इव सत्कृतेरनुक्तं कमपि विशेषमसौ मुदं जगाम ॥ २०॥ १, २. 'हि', ३. 'ते' ग, पाठः. ३ अष्टमः सर्गः । इति कथितवती सखीमुखात् सा मदनशरैरिव खण्डितैर्वचोभिः । यदि गुरुरनुमन्यते न दोष- स्तदिदमुषर्बुधसाक्षिकं विधेयम् ॥ २१ ॥ अथ नियमपुरःसरं पुरोधाः क्षितिपतिना नियमार्थिना नियुक्तः । कृतभुवि विधिना निधाय वह्नि परिकरितक्रममाहुतीर्जुहाव ॥ २२ ॥ तदनु परिणता नरेन्द्रनार्यः कनकनवाम्बरहारगन्धमाल्यैः । अभिनवधनयौवना कुमारी किसलयितामिव चक्रुरङ्गकेषु ॥ २३ ॥ नखरुचिनवकेसराभिरामं परिगतकण्टकलोलबाहुनालम् । कमलमिव करेण पाणिमस्याः श्रमजलशीतलमग्रहीन्नरेन्द्रः ॥२४ ।। हुतभुजि विरराज लाजवृष्टि- स्तरलवधूकरपल्लवोपकीर्णा । सपदि दिनमुखश्रिया विभुक्ता दिनकरतेजसि तारकावलीव ॥ २५॥ अथ विजयसमृद्धिशंसिनीभि- नरपतिमृग्भिरवर्धयन् द्विजेन्द्राः। १. 'बाहुलोलना', २. 'वावकी, ३. 'मुनीन्द्राः' ग. पाठः, भैरतचरिते निजविभवविवृद्धमम्बुराशि सलिलधरा इव वृष्टिभिर्नवाभिः ॥ २६ । तदनु दयितया तया सहासौ पटभवनेषु विशुद्धसंस्तरेषु । हर इव विजहार हैमवत्या रजतमहीधरगहरोदरेषु ॥ २७ ॥ रविरिव नलिनी निसर्गमुग्धां मृदुलतरेण करेण मानवेन्द्रः। मुकुलितकमलेक्षणां नवोढा- मनुसरणक्रमकौशलेन भेजे ॥ २८ ॥ अलिकमलयजानुलेपधूलिः पतति तवाक्षणि किं न वारयिष्ये । इति स मुखसरोजमुन्नमय्य क्षणविकचेक्षणमाचुचुम्ब तस्याः ॥ २९ ॥ मदनशरविभिन्नमेतदङ्गं सुमुखि ! कुचोष्मणि तापयामि किं ते । इति धनममुना विमर्दिताङ्गी पुलकचयेन तथेति सा शशंस ॥ ३० ॥ अयमलसदृशः पपौ मनोज्ञा- मधरसुधामिव यौवनाम्बुधाराम् । ह्रियमिव शिथिलीचकार नीवीं हृदयमिवांशुकमाचकर्ष तस्याः ।। ३१ ॥

अष्टमः सर्गः। विरहविधुरयोर्यथा यथाभू- न्मनसि पुरा स मनोरथप्रवाहः । अखिलमनुबभूवतुस्तथा तौ कृतसुकृताविव कामिनौ स्वकामान॥३२॥ इति नृपतिरुवास मासमेक हरिणदृशा ह्येनुरक्तयानुरक्तः। द्विप इव रसलोलया करिण्या स्मरविशिखाङ्कुशवश्यतामुपेतः ॥ ३३ ॥ तदनु नरपतिर्जगाद जायां मम हि वधूरधुना त्वमेवे भासि । तदिह निजपुरं नयाम्यहं त्वां न खलु विना गृहिणी गृहाः सुखाय ॥ ३४॥ इति नरपतिना समीरिता सा विषमितकार्ययुगाकुला जगाद । नहि मुनिरिह दृश्यते पिता मे तदनुमतिं कथमाप्नुयां न जाने ॥ ३५ ॥ मम गुरुसदनान्निवर्तन कि तदनुमतेन विना नु युक्तमेतत् । भवदनुगमनं ममाहमिष्टं क्षममुचितं च ततो नियोक्ष्यसि त्वम् ॥ ३६ ॥ स पुनरकथयत् प्रसादय त्वं मुनिमचिरेण नयाम्यहं पुरीं त्वाम् । १. 'सहर', २. 'वमासीः' ग. पाठः. ३. 'ना' ख. पाठः, 'व' क.ग. पाठः.

भरतचरिते प्रभवति हि सतामयं प्रसाद- श्चिरमुदयाय तथान्यथान्यथा स्यात् ॥ ३७॥ इति मुहुरनुनीय साश्रुकण्ठी निजनगरी प्रति निर्ययौ नरेन्द्रः । कथमपि विवशां विनापि कान्तां दिवसहतामिव चन्द्रिका शशाङ्कः ॥ ३८॥ सरथ(र? ह)य (प? व)रः पुरीं प्रपेदे विवृतकवाटदृशेव वीक्षमाणाम् । सकुतुकमिव पौरसुन्दरीणां ध्वजपटपाणिपुटेन दर्शयन्तीम् ॥ ३९ ।। अथ नरपतिसङ्गमानुरूपं त्रिभुवनसारमधत्त गर्भमेषा । सलिलनिधिसमागमानुविद्ध नवमिव मौक्तिकमम्बु ताम्रपणीं ॥ ४० ॥ सपदि मृगदृशः पयोधरौ तौ जलधरमेचकचूचुकावभूताम् । असितपटपिधानगोपितार्थों मणिकलशाविव राजभोगयोग्यौ ॥४१॥ स्फुटतरमुदरे शकुन्तलायाः सुनिभृतमाशु विवेश दानवारिः । यदयमनुपदं विवर्धमानः क्षणमपहृत्य बलिश्रियं जजृम्भे ॥ ४२ ॥ १. 'चिताय' ग. पाठः.

अष्टमः सर्गः। नरपतिविरहव्यथावती सा न च किल दौहदवेदनां दधार । द्विरदवरवियोगदुःखिता कि वनकरिणी कबलस्पृहां करोति ॥ १३ ॥ मुनिरपि पुनरेत्य तां तनूजां भरणकृतामपि वत्सलो नितान्तम् । चटुलगतिमवेक्ष्य जातसत्त्वां निजतनयामिव जहुरभ्यनन्दत् ॥ ४४ ॥ शिशुमखिलनरेश्वरं विधास्यन् मुनिरथ पुंसवनादि कर्म चक्रे । विदधति परमाशिषोऽपि लक्ष्मी- मतिमहतां किमुत स्वयंक्रियास्ताः ॥ ४५ ॥ नरपतिवचनं प्रतीक्षमाणा प्रसवविलम्बमधत्त सा प्रसह्य । कथमपि च चिरादसूत पुत्रं क्षितिवहनक्षममादिपोत्रिणीव ॥ ४६ ॥ उदयति विमले कुमारचन्द्रे सपदि दिशः कुमुदोज्ज्वलाः प्रसेदुः । उपरि सुरपयोधिरेधमानः कृतपटहध्वनिरुच्चकैर्ननत ॥ ४७ ॥ नरपतिरमुना समो न भूतो न भवति नैव भविष्यतीति वाणी। ॥

भरतचरिते
सुरपतिभवनात प्रवर्तमाना
प्रसवकृतां रुजमुज्जहार मातुः ॥ ८४ ॥
मुनिरमुमतिलोकशक्तियुक्तं
तदनु ततान स जातकर्मणासौ
कृतनियममुपाहितं कृशानुं
भुवि पवमानमुखेन कर्मणेव ॥ ४९ ।।
नरपतितनयस्य बाललीला-
प्यभवदमुष्य कुलोचितैव नूनम् ।
भुजबलमवलम्ब्य विक्रमैर्यत
क्षितिपरिवेष्टनमुल्बणं बभूव ।। ५० ॥
मुनिवरनयनामृतप्रसूतेः
सकलमनोहरसौकुमार्यधाम्नः ।
अनुदिवसमवर्धतास्य तेजः
सह वपुषा शरदीव शीतरश्मेः ॥ ५१ ॥
मदकरिषु निसर्गबान्धवाहा
मृगपतिशब्दविशेषमत्सराहा।
द्विपरिपुमवधीचपेटयासौ
वनकरिणां कुलमारुरोह भूयः ॥ ५२ ॥
परिमितवयसोऽपि तस्य शक्तिः
सुरपरिपन्थिषु भीषणा बभूव ।
अनतिपरिणतापि सप्तसप्ते-
भवति भयाय हि कौशिकेषु दीप्तिः ॥ ५३॥

: नवमः सर्गः। मुनिजनमखभङ्गदुर्विनीतान् दितितनयानवधीत्स मुष्टिधातैः । विनयनमसतां सतां च गुप्तिः प्रकृतिरियं खलु पूरुवंशजीनाम् ॥ ५४ ॥ दनुजवधकृताथ तस्य कीर्तिः सुरपतिसमनि किन्नरोपगीता। नयनदशशती प्रमोदबाप्पैः शिशिरयति स्म चिराय गोत्रशत्रोः ॥ ५५ ॥ मुनिरमुमुपनीय वेदविद्याः स्वयमदिशत् सकलाः सहार्थशास्त्रैः। सकलमपि सशस्त्रमस्त्रजालं कलितमनेन निजान्निजाधीशात् ॥ ५६ ।। शकुन्तला कमितुरपत्यमर्पित सुखावहं तदिदममस्त मानिनी । अकृत्रिमा धनमिव कालवर्धितं सनीविकं विबुधजनैकसाक्षिकम् ॥ ५७ ।। इति कृष्णविरचिते भरत चरिते अष्टमः सर्गः ।। -- अथ नवमः सर्गः अथ तां महिषर्षी महीभुज- स्तनयान्दोलितपाणिपल्लवाम् । करिणीमिव पोतलोलितां मुनिरूचे नयशालिनी गिरम् ॥ १॥ १. 'भाजाम् ' ग. पाठः.

९० भरतचरिते नगरी ब्रज सम्पदाश्रया- मचलोत्सङ्गविहारिणी सती। त्वमवाप्तकुमारसंभवा भज गौरीव तमीश्वरं पतिम् ॥ २॥ विनयेन लभेत नीतिमा- न्नृपसूनुर्युवराजतामयम् । विनिहन्त्यतिरागलोलुपः कुलमारण्य इवाग्निरुत्थितः ॥ ३ ॥ मदरागपरो नृपात्मजः पितुराच्छेत्तुमपीच्छति श्रियम् । कथमामिषमग्रतः स्थितं चपलस्त्यक्ष्यति सिंहशाबकः ॥ ४॥ अतिरक्तमनर्थकारिणं तनुजन्मानमुपेक्षितोन्नतिम् । अचिरेण हिनस्ति शस्त्रवान् पिटकं दुष्टमिव क्षितीश्वरः ॥ ५ ॥ अवमानकृशानुतापितं तनयाष्टापदमिष्टमात्मनः । भुवि कञ्चन रत्नभाजनं कुरुते साधु परीक्ष्य भूपतिः ॥ ६ ॥ अपि दृप्तमनर्थकारिणं वृषभं दुष्टमिवात्मजं नृपः ।

नवमः सर्गः । न विमुञ्चति योजयत्यमुं बहुशः क्लेशकरेषु कर्मसु ॥ ७ ॥ यदि मुञ्चति किञ्चिदीदृशं स हि मन्त्रैरविचिन्त्यशक्तिभिः। नृपभोगविषेण मूच्छितं परमुत्थापयितुं समीहते॥८॥ अहिरेव हि रत्नशालिभि- नूपसूनुर्नियमेन रक्ष्यते। यदि विन्दति रन्ध्रमेकदा सहसा हन्ति फणीव रक्षिणम् ॥ ९ ॥ तदसौ पितुरेव शासन वहतां मूर्ध्नि विनीतमानसः। नृपमौलिनवाङ्करश्रियः कुशलं बीजमिवैकमर्पितम्॥ १० ॥ न पुनस्स्वयमर्थयेदसौ नृपनिबन्धमृते नृपश्रियम् । नहि कालविपाकवर्जितं फलमास्वायतमं भविष्यति ॥ ११ ॥ त्वमपि प्रियसंपदर्थिनी भव मा गाः सुतसंपदि त्वराम् । पतनाय भवत्यपक्षतेः शुकपोतस्य समुत्पतिष्णुता ॥ १२ ॥ १. शिक्षिभिः' क. पाठः, २. 'गि' क. ग. पाठः, भरतचरित महिषीमपि नैव विश्वसेत् तनयैश्वर्यवशान्नरेश्वरः। हृदयं परिशोध्य विश्वसे- दथवा ग्राहवती नदीमिव ॥ १३ ॥ चिकुरे मुकुरे गृहोदरे शयने वा महिषी महीपतिः । भुजगीमिव गेहवर्तिनी सुतनिम्नां न विशङ्कते कथम् ॥ १४ ॥ भुवि सन्ति तथाविधाः स्त्रिय- स्तनयैश्वर्यविमूढचेतसः । परिणेतरि पापवृत्तयः कृपणानां हि मलीमसाः श्रियः ॥ १५ ॥ त्वमतः प्रणिधानशालिनी कुरु भर्हितमात्मनो हितम् । स च वेत्ति तवेङ्गितैर्मनः सुरसिन्धोरिव वारि निर्मलम् ॥ १६ ।। परिलालय राजवल्लभान् नृपविद्वेषिषु मा कृथाः प्रियम् । शिवमाचर तस्य सन्ततं नहि कल्याणकृतां विपत्तयः ॥ १७ ॥ युवयोर्नयतत्त्ववेदिनोः समये स्मारयितुं मयोदितम् । १. स्त्रि क. ख. पाठः.

नवमः सर्गः । निपुणोऽपि जनः क्रियाकुलः प्रकृतेः कर्मणि को न मुह्यति ॥ १८ ॥ हृदयेन वहन्नपि प्रियां भवती रत्नमयीमिव स्त्रजम् । नृपतिर्मम शासनेच्छया पुरुषान् प्रेषयितुं विलम्बते ॥ १९ ॥ इति वास्मदनुग्रहान्मुहु- महिमानं लभतामयं सुतः । हिमरश्मिकरादिवाणवः पवमानादिव दावपावकः ॥ २० ॥ अथवा जनवादशङ्कया त्वयि दैवीं गिरमर्थयत्यसौ । अविवेकतिरस्कृतात्मनां पिशुनानां खलु दुःश्रवं वचः ॥ २१ ॥ तदिह स्मर नित्यवत्सलां त्वयि माध्वीमुचितानुवर्तिनीम् । ससुतां भवती विहायसा खगमा सा शिबिकेव नेष्यति ॥ २२ ॥ इति सा मुनिना समीरिता धनबाष्पाम्बुविकुण्ठितस्वरा । १. 'ते', २, 'व' क. पाठः, ३. 'रता', ४. 'नां नृणां पि' ख. पाठः भरतचरित प्रतिशब्दितुमुद्यताभवद् गुणदोषोपहतेव वल्लकी ॥ २३ ॥ मम पथ्यमपि त्वयेरितं हृदि दुःखान्तरमातनोति तत् । नहि किञ्चन पथ्यमेव यद् बहुदोषप्रकृतरिवौषधम् ॥ २४ ॥ पितरि त्वयि जातमात्रया भरणस्नेहरसोऽयमार्जितः। कथमद्य निरस्यते मया हितकृद् देह इवायमात्मनः ॥ २५ ॥ महिषी च महीपतेरहं परवत्यस्मि स मे परा गतिः अनयोः पुनरेकवृत्तिता नहि बाल्यस्थविरत्वयोरिव ॥२६॥ करणीयमसंशयं वच- स्तव वेदस्य च तत्ववादिनः अपि वेदवचः कचित् भवे- दयथार्थ न तथा भवद्वचः ॥ २७ ॥ अथ हारमनोज्ञतारका मुखशीतद्युतिकान्तिहारिणी। रजनीव शरीरधारिणी भुवि माध्वी ददृशे तयोः पुरः ॥ २८ ॥ १. 'मयार्जि' ख. पाठः.

नवमः सर्गः। प्रणिपत्य मुनि जगाद सा कृतकृत्योऽसि क एष ते जनः । अथवा निजकार्यनिः :स्पृहः परकायकपरो हि सज्जनः ॥ २९ ॥ सुर कार्यकृताभिसन्धिना भवतैषा परिरक्षिता वधूः। विजयार्थमसूत सा सुतं कुशला शक्तिरिवाप्तमन्त्रजा ॥ ३० ॥ मुनिरप्यवदत् सुराङ्गना- मथ संभाव्य यथार्हमहणैः। वशगामिव मन्त्रदेवतां निजनामस्मरणादुपस्थिताम् ॥ ३१ ॥ शिशुरेव मयाभिरक्षिता भवतीनां तनया मयि स्थिता । अधुना पुनरीदृशी दशां प्रतिपन्ना किमियं विधास्यति ॥ ३२ ॥ कमितारमसौ नराधिपं भजतां सम्प्रति वीरसूः स्वयम् । कुसुमावनतेव मालती सदृशोच्छ्रायमुपन्नपादपम् ॥ ३३ ॥ सदृशप्रसवानुबन्धिनी विलसत्पल्लवकान्तिधारिणीम् ।

९६ भरतचरित त्वमिमां क्षितिभतुरन्तिकं नय सन्तानलतामिवेप्सिताम् ॥ ३४ ॥ स च मवचनादिदं त्वया विजने व्यक्तमुदीर्थतां वचः। नहि संसदि नीतिशालिभि- निजकार्ये विनियुज्यते प्रभुः ॥ ३५ ॥ इयमस्मदुपाश्रयावधू- स्तव दिष्टया महिषी किलाभवत् । अधुना तव सझ नीयते मुनिषु न्यास इवार्पिता त्वया ।। ३६ ॥ इदमेकमिहार्यते भवा- नपहास्या न भवेदियं जनैः। प्रभुचित्तमजानती स्वयं नृपमेनं वृतवत्यसाविति ॥ ३७ ॥ अथवा सकलस्य रक्षितु- स्तव दारेषु किमुच्यते मया। पितुराकुलमेव सन्तत दुहितृस्नेहमयं हि मानसम् ॥ ३८ ॥ न च वेत्सि न वक्तुमीदृशं न तवान्या ससुता शकुन्तला। तदुदीरय पथ्यमेतयो- रुचितं वा नृपसन्निधिं गता ॥ ३९ ।।

नवमः सर्गः। इति तां कथयन्मुनिः स्वयं क्षणमानाम्बुनिरुद्धवागभूत् । अरुदत् सुतरां शकुन्तला रुदितप्राय इवाश्रमोऽप्यभूत् ॥ ४ ॥ अथ तन्मुनिशासनं दधौ गुरु भाध्वी च तथेति वादिनी । कुसुमं सुरवल्लरीव सा फलजन्मानुगुणं दिवौकसाम् ॥ ११ ॥ परिगृह्य भुजे शकुन्तला- मथ दुःषन्तसुतं भुजान्तरे । दुतमुत्पतिता सुराङ्गना दिवि हंसीव गृहीतपोतका ॥ ४२ ॥ मरुतानुगुणेन गच्छतां दिवि तेषां धनमण्डलं धनम् । कृतमातपवारणं महे- न्मणिदण्डीकृतशककार्मुकम् ॥ ४३ ॥ मणिहर्म्यकरैरुदश्चितैः श्रियमाक्रष्टुमिवोद्यतां दिवः । अचिरादिव ते नभस्स्थला- दवतेरुनगरी नरेशितुः ॥ ४४ !! अथ कञ्चुकिभिनिवेदिताः कनकस्तम्भसहस्रकेसरम् । १. 'हाम' ख, पाठः, भरतचरिते नृपमन्दिरमिन्दिराश्रयं विविशुस्ते भ्रमरा इवाम्बुजम् ॥ ४५ ॥ ददृशुर्मणिविष्टराश्रयं कमलोल्लासकर नरेश्वरम् । उदयाचलशृङसडिन दिवसाधीशमिवोज्ज्वलद्युतिम ॥ ४६ ॥ शिरसैव दद्धार साञ्जलि परिणेतुः प्रणता शकुन्तला । वदनेन्दुरुचेव मीलितं भुजनालद्वयमेकमम्बुजम् ॥ ४७ ।। धनमाचरणभ्र लज्जया धवलक्षौमपटावकुण्ठिता। विरराज तदा शकुन्तला शरदभ्रावरणेव चन्द्रिका ॥४८॥ धवलातपवारणाहते सितबालव्यजनडयं विना। उदितः सुरयोषिता तया नृपसूनुः पितुरग्रहीत् पदम् ॥ १९ ॥ विजयस्व विशामधीश! मां ननु माध्वीमेधुना स्मरिष्यसि । नहि जातुचिदाश्रितो जनः सुजनानां हृदयान्निवतते ॥ ५० ॥ १. 'व' ख. पाठः, २. 'त्य' क. पाठः. ३. 'रनसि' ग. पाठः नवमः सर्गः। परिणीय तपोवने त्वया नवगर्भा निहिता शकुन्तला । अथ केसरिणीव वीरसूः सुतमेनं सुषुवे सुमध्यमा ॥ ५१ ॥ तदसौ तब सूनुरिष्यता तव चैषा महिषी शकुन्तला : इह कण्वनियुक्तया मया त्वदुपान्तं विपिनादवापितौ ॥ ५२ ॥ इति साहितसारमेतयो- मुनिसन्दिष्टभुदीर्य भूभुजे! विरगम गिरामविस्तरः प्रभुतन्त्रे हि नितान्तमिष्यते ॥ ५३ ॥ प्रियदारसुतावलोकना- दलमन्तर्हषितोऽपि पार्थिवः । पिदधे जनवादशङ्कया विकृति ? ति) छाकृतामिव श्रियम् ॥ ५४ ।। प्रतिकुलमिवोपचक्रमे प्रतिवक्तुं परिशोधयन् प्रियाम् । कनकस्य हि शुद्धिरिष्यते दहनच्छेदनिकापलक्षणा ॥ ५५ ॥ मुनयः खलु सत्यवादिनः त्वमपि प्रत्ययिता तथाप्यहम् । १. 'चयं म' ग. पाठः. २. 'वि' क. पाठः.

भरतचरित न च वेद्मि मया कृतं कुतः खंकृतं कः प्रतिबाध्यते परैः ॥ ५६ ॥ बहुकैतवकोविदाः स्त्रियों नहि तासामवशः पुमान् भुवि । इति मास्तु मदाश्रया कथा विकलङ्काः खलु पौरवेन्दवः ॥ ५७ ।। इह भव्यसुता समागता वनिता रूपवती कुतश्चन । अधुना महिषी नृपस्य से- त्ययशो नूतनमातनोमि किम् ॥ ५८ ॥ अथ तस्य गिरं सुराङ्गना हिपरामन्यपरा च संतिम अवधार्य तथैव सावद- न्मतिरेका हि मनीषिणां मिथः ।। ५९ ।। स्वयमाचरितं न वेत्सि चेत परवृत्तान्तपरीक्षया कृतम । ननु चारदृशा महीतलं सकलं पश्यति यः स पार्थिवः ॥ ६॥ इदमद्भुतमहुताडुतं भवता यद् ध्रियते वसुन्धरा । अथ कीतिरततिभमुजा- मिह राजीव भुनक्ति भूतलम् ॥ ६१ ॥ १. 'प्र' क. पाठः. २. 'प्रांत' क. पाठः. ३. 'व' ख. पाठः, नवमः सर्गः। अवनेरचने हि लाघवं भवता भव्यधिया विभावितम् । अवधानमृतेऽपि यद् द्विषां शिरसि स्थापितमात्मना पदम् ।। ६२ ।। न भवानिव पार्थिवोऽभव- न भविष्यत्यधुना न वर्तते यदसौ तव सत्यवादिता यदिदं बुद्ध्यवधानमीदृशम् ।। ६३ ॥ धनमर्थयते शकुन्तला यदि हमाचलशृङ्गसम्मितम् । धनदादपि हर्तुमीश्वर- स्तनयोऽस्थाः सशरं वहन् धनुः ॥ ६४ ॥ इति धीरमुदीरितस्तया नृपतिनिनिमीलितक्षणः । सुखसुप्त इवाभवत् क्षणं दयितापत्यसमागमोत्सवे ॥ ११ ॥ अशृणोदशरीरिणी गिरं जनसन्तापहरां जनाधिपः । घनघोषमनोहरस्वरां नभसो वृष्टिमिवाथ तां नवाम् || ६६ ॥ प्रतिबिम्बमिवात्मसम्भव निजसादृश्यधरं महीपते!। .. 'द्भ' क. ग. पाठः.

भरत चरित बिभृहि त्वममुं कुलाङ्कुरं तब सत्यं महिषी शकुन्तला ॥ ६७ ॥ इति नाकलानि विजृम्भिता गिरं नृपतिनिशम्य परिषस्वजे सुतम् । मुमुदे च मूर्ध्नि मुखमर्पयन मुहुः क्षितिभारविश्रमसुखादिवात्मजे ॥ ६८ ।। इति कृष्णविरवंत भरतचरिते नवमः सर्गः ॥ अथ दशमः सर्गः अथ नाम्ना सुतं चक्रे भरणाद् भरतं नृपः । किन्नरीव यशो यस्य वाणी गायत्यकृत्रिमा ॥ १ ॥ शङ्खचक्राङ्कितकरं स नूनुं दैत्यसूदनम्। उपेन्द्रमिव देवेन्द्रो योवराज्येऽभिषिक्तवान् ॥ २ ॥ सर्वसंभारसंभिन्नरम्भोभिर्गलितैरधः। भ; सहाभिषिक्तेव विरराज वसुन्धरा ॥ ३ ॥ नूनं यूनि कृतोत्कण्ठा तस्मिन् गूढमुपाश्रिता । अभिषेकाम्बुभिः स्पष्टा राजलक्ष्मीरलक्ष्यत ॥ ४ ॥ बिभ्राणः शिरसा मोलिं युवराजो रराज सः। उदयाद्रिरिवोत्तुङ्गशृङ्गोल्लसितभारकरः ॥ ५ ॥ विचित्ररत्नकटको हारपाण्डरनिर्झरः । लोकपालाश्रयः श्रीमानसौ मेरुरिवाबभौ ॥ ६ ॥ कर्णपाशहूयी तस्य बभौ समणिकुण्डला । आबद्धरत्नफलका दोलेव वदनश्रियः ॥ ७ ॥ १. 'देवनन्दनम्', २. 'स्पृ', ३. 'चित्रक' ग. पाठः, दशमः सर्गः। शतपत्रमिवामुष्य श्वेतमातपवारणम् । उद्धृतं चामरद्वन्द्वहंसदोलायिताञ्चलम् ॥ ८ ॥ रञ्जयामास भरतो रक्तामपि वसुन्धराम् । दुःषन्तोऽपि तथाभूतां कृतकृत्यः शकुन्तलाम ॥ ९ ॥ एकः सत्राणि कर्माणि चकार भरतः स्वयम् । तान्येव बहुभिः सार्ध भः सार्ध दुःषन्तस्तु चकार सः ॥ १० ॥ शक्त्या युक्तोऽथ भरतः प्रतापैरजयन्महीम् । म शकुन्तलया सा दुःषन्तः क्रतुभिर्दिवम् ! ११ तातः शास्त्रेण शास्योऽभूत् तातेन तनयो वशी। तेन पृथ्वीति तद्राज्यं ससोपानमिवाबभौ ॥ १२ ॥ परस्पराविरोधेन यथाकालानुरोधनम् । स मन्त्रिवर्गः संभूय तौ सिषेवे यथोचितम् ॥ १३ ॥ भरते स्थापिते राज्ये विद्विषस्तस्य तेजमा । यातास्ते दूरमाशासु तिग्मांशोरिव कौशिकाः ॥ १४ ॥ शासनं युवराजस्य तस्य नूनं महीभुजः । अभ्यर्थ शिरसा श्लाघ्यं किरीटनिव लेभिरे ॥ १५ ॥ तस्य प्रतापदीप्तांशौ दीप्यमाने दिवानिशम् । नक्तारैरपि प्रायः स्खलितं न पदात्पदम् !! १६ ।। लब्धप्रशमनोऽप्येष नीति नैव मुमोच सः । अङ्गवृद्धिकरी सिद्धां स्वस्थः पथ्याशितामिव । १७ ॥ स प्रायुक्त नयं प्राज्ञः कालदेशावलयन् । चललक्षानुसारीव शरमोक्षं विचक्षणः ॥ १८ ॥ १. 'प्रकृतिद्वयम्' ख. पाठः.

। । १०४ भरतचरिते प्रजावृत्त्यविरोधेन काले काले महीपतिः । दुदाह गामिमां पुयां रत्नक्षीरामनामयाम् !! १९ ॥ अरातिकामदहनमशेषालोकनक्षमा । तस्य चाराह्वयं चक्षुस्तृतीयमभवद् विभोः ॥ २० कोदण्डपाणिना तेन नियम्योऽभून्न कन्चन । तदाजया निवृत्ता यत प्रजाताः पापकर्मणः ॥ २१ ॥ भरते शासति महीं व्याधान कूटविग्रहः । प्रवाद उपसर्गाणां विषादी बाहेणामभूत् । २२ ।। कृषीवलाः खलाचाराः कुलानमुरबगः खगाः । परवापराः सृतामास्मिन् पालयति क्षितिम ।। २३ ॥ परागस्तारका वाताः सत्पथोल्लङ्खिनो धनाः । वंशकण्टकिनः शैला बभूवुस्तस्य शासने ॥ २४ ॥ अथ तस्याभवन भार्यास्तिस्रो वैदर्भसंभवाः । समग्रगुगसम्पन्नाः कृतयः सुकरिव ॥ २५ ॥ स ताभिः शुशुभे राजा तिसृभिर्धर्म्यवृत्तिभिः । श्रुतिभिर्मूर्तियुक्ताभिर्धर्मो विग्रहवानिव ॥ २६ ॥ अथ तस्य पिता पुण्यैरगण्यश्चिरसंभृतैः । जरयेव भृशोडिनो नित्यां निर्जरतामगात ॥ २७ ॥ मन्त्रिवृद्धास्ततस्तस्य समिद्धं शोकपावकम । विवेकवारिधाराभिः शमयांचक्रिरे शनैः ॥ २८ ॥ पितुः पुरोधसा माकं स विधायोत्तरी क्रियाम् । अर्थिनस्तोषयामास न तु रन्ध्रार्थिनो रिपून् ॥ २९ ॥ १. 'नु' ख. पाठः, २. 'यम्' क. पाठ:. ३. 'रता: सू' ख. पाठ., दशमः सर्गः । प्रायेण स्वप्रतापोऽपि पित्रा तस्मिनिचिक्षिपे । अप्रधृष्यः प्रतापोऽभूत् तदनन्तरमस्य यत् ॥ ३० ॥ शनैर्मृदुकराक्रान्ता सानुरागा वसुन्धरा । भोगयोग्या बभूवास्य नवोढेव भृशानता।॥ ३१ ॥ आद्यन्तगुणबन्धेन नमितास्तस्य भूभुजः । परप्रहरणार्थाय वापदण्डा इवाभवन् ॥ ३२ ॥ साम सौम्येक्षणं तस्य दानं मौलौ पदार्पणाम् । भेदो वैरिषु सौजन्य दण्डः कोइण्डधारणम् ॥ ३३ ॥ नीतौ निलोठितास्तेन वीणायामिव पड्गुणाः । प्रयोगकौशलादर्थान् रागानिव वितेनिरे ॥ ३४ ॥ अचिन्त्य शक्तिराकामन् जगती जगतीपतिः । वर्धयामास राज्याङ्गान्यात्माङ्गानीव वामनः ॥ ३५ ॥ गूढमन्त्रोहयोऽप्यस्य प्रथितोऽभूत् पराक्रमः । अलक्ष्यबीजविक्षेपो महानिव वद्रुमः ॥ ३६ ॥ अथ स्वच्छाम्बरच्छाया पद्मोपायनधारिणी। शरदेनमनुप्राप्ता दूतीय विजयशियः ॥ ३७ ॥ हंसमन्दपदन्यासा निवृत्तधनघट्टना । षट्पदौघपटच्छन्ना निभृतेनाभिसारिका ॥ ३८ ॥ प्रावृड्धनमपीपातकल्माषमुषितद्युतिम् । आदर्शभिव कुर्वाणा धवलं धवलचुतिम् ॥ ३९ ॥ पद्मिनीनामभिमतं प्रावृषा यत्रापि मोशितम् । दर्शयन्ती पुनदेक्षा दूतीय कपनतिन ॥ ४० ॥ १. 'सखीव' क. पाठः. २. 'मत्तईत', ३. 'लाख. पाठः, २ P भरतचरिते सहमै पिहितं मेधैः शरदा विशदीकृतम् । अभूद् दोषाकरः शुद्धस्तपनस्तपनोऽप्यभूत् ॥ ११ ॥ स्वच्छमभ्रमरं रेजे रेजे सनमरं सरः । शालयः कणिकां भेजुर्जलदाः कणिकां जहुः ॥ ४२ ॥ शिखण्डिभिरत्यक्तमदैः केकालीला विवर्जिता । उत्फुल्लकमले हंसः के का लीला विवर्जिता ॥ १३ ॥ पाण्डरः पवनोड़तेः पयोदेचौरराजत । निसर्गलघुभिस्तूलैः समाकीव शल्भलिः ॥ ४४ ॥ आश्यानधनजम्बालं तारामुक्तास्तृतं नमः । अगस्त्यपीतनिस्तोयमनुचके पयोनिधिम् ॥ ४५ ॥ विद्युत्स्वर्णशलाकानां काषशाणान्नभस्तलात् । रेखास्वर्णमिवोन्मृष्टं शरदा शककार्मुकम् ॥ ४६ ॥ मलीमसघनाश्लेषैपितेव नभस्थली । ज्योलासुरसरित्तोये गाहते स्म मुहुर्मुहुः ॥ ४७ ॥ प्रणम्येव प्रियां रात्रि प्रसारितकरः शशी। प्रसादयामास मुहुः प्रवासकलुषीकृताम् ॥ ४८ ॥ आशा विशालाः सञ्छन्नाः सवित्रा जीवनार्थिना । प्रसारितकरणाशु कृपणेनेव दुर्शिताः ॥ ४९ ॥ संभोक्तुं सरितां सारं प्रच्छन्नैः करपातनैः। वेगमम्बुधियात्रायां मन्दीचक्रे दिवाकरः ॥ ५० ॥ सिग्धशुद्धात्मपक्षाणां वाहिनीमध्यवर्तिनाम् । उत्थानं राजहंसानां बभूव विजये क्षमम् ॥ ५१ ॥ * इह तङ् चिन्त्यः ।

। दशमः सर्गः। १०७ सारसाकुलिताम्भोजवदनेन सरोजिनी । भृङ्गस्वरेण गायन्ती राजहंसानतोषयत् ॥ ५२ ॥ रक्ता इव करन्यासैरहामीशस्य रागिणः । हृदयं दर्शयामासुर्गम्भीरमपि निम्नगाः ॥ ५३ ॥ कदम्बशाखा संत्यज्य जीर्णामकुसुमोद्माम् । मधुव्रताः किं नलिनी व्रतभङ्गभयाद् ययुः॥ ५४॥ नलिनीषु बभूव श्रीर्जातालीनां च सा श्रिये। आश्रितेषु हि दृश्यन्ते गुणभाजां हि सम्पदः ॥ ५५ ॥ अनुकूलमुपश्लिष्य कुर्वन् दन्तक्षति मुहुः । ममर्द निम्नगां गाढं रममाणो मतङ्गजः ॥ ५६ ॥ तदाशुकवयः प्राप्य बनन्तो मधुरां गिरम् । कणिकादानलुब्धेन निरस्ताः शालिशालिना ॥ ५७ ॥ नाना राजापि नक्षत्रैः शुशुभे दिवि चन्द्रमाः। भरतस्तु महाराजः क्षेत्रामराजत ॥ १८ ॥ इत्थं शरदमालक्ष्य दीप्तां शक्तित्रयीमिव यानमावेदयामासुर्भरतस्याथ मन्त्रिणः ॥ ५९ ॥ बत्ति वेद्यं भवान् सर्व तथाप्यस्माभिरुच्यते। विजानन्तोऽपि विज्ञाप्याः प्रभवो धनुजीविभिः ॥१०॥ यानकालममुं प्राहुः कालं शक्तोऽप्यपेक्षते । अकाले निहितं बीजं न शक्तमपि रोहति ॥ ११ ॥ अत्युष्णे निर्जले काले यातुः सीदन्ति दन्तिनः । दन्तिभिदुस्तरा सेना भीमग्राहैरिवापगाः ॥ १२ ॥ - १. श्र ग. पाठः भरतचरिते ततः शरदि याहि त्वं विषय प्रति विहिषाम् । तत्र नम्राननाः पश्य शालीः शत्रुवधूरिव ।। ६३ ॥ पक्कसस्यानि राष्ट्राणि हिमतां प्राप्य तावः । वृत्त्यापेण वर्तन्ता गजेन्तः सैनिकर्षभाः ॥ ६४ ॥ शक्ती यातव्यमिलेके परव्यापदि केचन । तव नैसर्गिकी शनिवडूनेरिव परान् प्रति ॥ ६५ ॥ अतन्त्रं हि परव्यापत् मानिनः शक्तिशालिनः । केसरा कि मदानान्तं नाकामति मतङ्गजाम् ॥ ६६ ॥ भिन्नमुख्यं बलं कुर्यात् पृष्ठतः पागिशु दये। कर्षन्त्यभिन्न सङ्घातं सूत्रप्रोतमिवारयः ॥ ६७ ॥ पृष्ठकोपावरुग्णस्य पुरैः सिद्धि सुदुर्लभा। च्छिनमूलस्य वृक्षस्य नहि मूर्धा फलिष्यति ॥ ६८ ॥ सुपर्ण इव सत्पीषणः परपक्षिणाम् । आवेष्टितो महानागैः स्कन्धावारो निवेश्यताम् ॥६९॥ परिशोध्य परच्छद्मगर्तशूलादिकं भुवि । क्रियतां सैन्यविन्यासः पदन्यास इवाम्भसि ॥ ७० ॥ न शत्रुरवमन्तव्यः स्वदेशबलगर्वितः। अम्भःप्रविष्टमाक्रष्टुं ग्राहः शन्नोति दन्तिनम् ॥ ७१ ॥ आत्मानं गोपयन्नेव शक्तोऽप्याकामति हिषम् । कृशानुः संहरत्यम्भः कुम्भस्थं न सरिगतम् ॥ ७२ ।। रुद्ध्वा परपुरद्वारं मिथो बद्धक्रमा चमूः। अरातिमृगपूगस्य वागुरेव निवेश्यताम् ॥ ७३ ॥ 'प्र' ख. ग. पाठः, २. 'नः क, ख, पाठः-

।
एकादशः सर्गः
इत्थमुत्थानमावेध स्वयमुत्तस्थुषः प्रभोः ।
प्रणम्य मन्त्रिणस्तस्थुः पिद्धा इव हरेः पुरः ।। ७४ ॥
सम्भाव्य भारती तेषां बाषे भरतस्तदा ।
विज्ञापनाभिमुख्यं हि स्वामिनः प्रेमलक्षणम् ॥ ७५ ।।
हितं च मधुरं चेह या भवहिरुदीरितम् ।
प्रीत्या मथा गृहतिं तन्मधुनिश्रमिघौषत्रम् ॥ ७६ ॥
प्रसिद्धमपि वक्तव्यं सचिौः कालवेदिभिः ।
घिषणस्यापि धिषणा तत्र व्यग्रस्य मुह्यति ॥ ७७ ।।
नीतिमानपि न स्वामी विनामात्यैरुदेष्यति ।
नद्यनाधोरणो हस्ती शिक्षितोऽपि रणक्षागः ॥ ७८ ॥
हेतिमात्रेण मित्रेण काष्टान्तेषु चराम्यहम् ।
अनुयान्तु भवन्तो मां कृशानुमिव मारुताः ॥ ७९ ॥
वीरः श्रवःसुखमुदारमुदीर्य वाक्य
प्रातः प्रयाणमिति घोषयति स्म भेरीम् ।
सा घोषणा धनघटेव विजृम्ममाणा
वृष्टिं शशंस शरजालमयी भवित्रीम् ॥ ८ ॥
इति कृष्णविरचित भस्वचारत दशमः सर्गः।।
अथैकादशः सर्गः ।
अथ दिशां विजयाय विशांपतिः
स नगरान्निरगादरिमर्दनः ।
बलभरेण धनं परिमर्दयन्
प्रणयिनी प्रभदामिव मेदिनीम् ॥1॥

भरतारित वपुषि तस्य निचिक्षिपुरुच्छ्रित मणिसुधारासनेल पुरानाः । विजयमाललाजपरम्परा कुसुमवृष्टिमिवानरयोषितः ॥ २॥ अनुगुणः प्रसरन् पथि भारतः क्षितिपतेरधिरूढवतो रथम् । ध्वजपटाप्रकरण विनिर्दिशन् दिशमिवोपदिदेश यियासतः ॥ ३ ॥ कृतयुगस्थितिरेष धुरं बहन दिशिदिशि प्रथितः प्रथयन् गतिम् । हरिरयादरिचक्रमनुद्रुतः स्वयमिवाध्वनि तस्य रथो बभौ ॥ ४ ॥ स्वयममुं परतापकरं प्रभु न परितापयितुं प्रभुरंशुमान् । तदपि तस्य धराधिपलक्षणं धवलमातपनारणमुद्धृतम् ॥ ५॥ कनकदण्डपरिभ्रमितं विभोः शशिकरद्युति चामरयोईयम् । प्रणतिविग्रहसंशयितं द्विषां हृदयमाशु विभक्तमिवाबभौ ॥ ६ ॥ प्रथममाप स शातमखी दिशं दिशि दिशि प्रसरन्नपि तेजसा १. 'दश दिश:, २. 'नु' ग, पाठः, १११ एकादशः सर्गः। समुदयः प्रथितोज्ज्वलतेजसो भवति तां दिशमेत्य रवेरिव ॥ ७ ॥ स्थतुरङ्गतरङ्गसुदुस्तरः पृथुमतङ्गजपोतशताकुलः। सपदि राजनि मार्गमुपेयुषि क्षितितलं प्रससार बलार्णवः ॥८॥ पथि मृदु प्रतिरोधकृतागला द्विरदखण्डितवप्रसुखाक्रमम् । क्षितिभृतां कटकं परिमर्दयन् धनमनर्घमवाप्य पुनर्थयौ ॥ ९ ॥ तदनु मानबलेन निरन्थती प्रणयिनीमिव पूर्वदिगङ्गनाम् । तनुविमर्दवशादनुकूलपन विविधभोगकरीमकरोन्नृपः ॥१०॥ चटुलतालदलाङ्गुलिविनमै- जलतरङ्गमृदङ्गरवानुगैः । ललितनृत्तमिवास्य वितन्वती- मुदधिपारभुवं भरतो ययौ ॥ ११ ॥ उपनतामनुरागवशात् स्वयं न कलहेन चिराय पराङ्मुखीम् । अनुबभूव स सुह्मपतेः श्रियं नववधूमिव नातिसमुद्धताम् ॥ १२ ॥ १. 'पास्य', २. 'तम् ।' ग. पाठः.

भरतचरिते जगति विस्तृतकीर्तिलतावले- गुरुमुपसमियोपपयोनिधि । उपलदण्डमुदारपदाक्षरं नरपतिर्निचखान जयाङ्कनम् ॥ १३ ॥ तदनु नौषु विशेषविचक्षणाः स्थलचरा इव वङ्गमहीक्षितः। जलधिमेत्य गतागतवेदिनो विदधिरे भरतं धृतकार्मुकम् ॥ १४ ॥ तदनु मारुतमस्त्रमुदीरयन मणिगणानिव शङ्खवैराश्रयान् । पवननिर्धतपोतसमाश्रया- नयममूनुदकर्षदुदन्वतः ॥१५॥ जलमुचामिव मौक्तिकर्षिणां क्षितिभृतां क्षितिपालमहोदधिः । वितरति स्म स जीवनमक्षयं विनमतां समयादभिवर्षताम् ॥ १६ ॥ विजययष्टिमशेषजनाचिंता त्रिपथगोदधिसंगमरोधसि । नरपतिर्निचखान शिलामयी- मभयदां प्रतिसामिव शाम्भवीम् ॥ १७ ॥ १. "श्रियं गु', २. "भुजः ।', ३. 'रवाश्र' ग. पाठ:. ४. 'मितं स' क. पाठ:. ५. 'थो जगतोऽचिंताम्', ६. 'भा' ग. पाठः.

एकादशः सर्गः । प्रथमतः क(इ ? यि)मामतिलवये- दिति नृपेण जनः परिचोदितः । क इति भिन्नपदं परिकल्पय- नहमहं क्षम इत्यतरन्नदीम् ॥ १८ ॥ अधिकमाश्रितरक्षणदीक्षितं नयविदेनमशिश्रयदुत्कलः। तनुरपि प्रथतेऽधिकमाश्रितः कुसुमगन्ध इवानिलमुत्थितम् ॥ १९ ॥ अथ कलिङ्गमनेकपविग्रह भुवि महेन्द्रमिवान्यमुपस्थितम् । बलभरेण ममन्थ महाम्बुधि हरिरिवाद्रिवरेण नरेश्वरः ॥ २० स च कलिङ्गनरेन्द्रमहाम्बुधि- भरतबाडववह्निशिखावृतः। उपचितोऽयमनेकपयोधिभिः प्रतिससार तमेव कृतोद्यमः ॥ २१ ॥ अथ मिथश्चतुरङ्गमभङ्गुरं क्षणमवर्तत तुल्यबलं बलम् । न युधि यावदसौ भरतो धनु- नेमयितुं रिपुसैन्यमिवाग्रहीत् ॥ २२ ॥ भरतसायकनिर्दलिताः क्षणं परिगलद्गुधिरोक्षितविग्रहाः । १. 'ई', २. 'क' क. ख. पाठः.

भरतचरिते । दवकृशानुशिखाखंचितारुणाः क्षितिधरा इव रेजुरनेकपाः ॥ २३ ॥ अतिरयेण चचार महारथः फलसमाकलितागमनिर्गमः । दिशिदिशि भ्रमयन् करिणां घटा जलमुचां पटलीमिव मारुतः ॥ २४॥ स युधि कार्मुकदण्डमिवोडत नरपति भरतः परिलालयन् । करभरेण निपीड्य वशीकृतं नमयति स्म न खण्डितवानमुम् ॥ २५ ॥ अथ महेन्द्रमहाकटकोदरे नरपतेर्मणिवप्रशिलातले। विलिखिता विजयस्तुतिपद्धति- भुवि नरैर्दिवि कीत्तिधरैः सुरैः ॥ २६ ॥ नरपतिः प्रययावथ दक्षिणां दिशमनेकजनेशनिषेविताम् । उदधिपानविमोक्षणकर्मणः स्वयमगस्त्यमुनेरिव दक्षिणाम् ॥ २७ ॥ मथितमालवकान्ध्रमहोदधिः स जितकाञ्चिरुदश्चितविक्रमः । अथ ददर्श कवेरसुतां नदी जलनिधेरिव बन्धनशृङ्खलाम् ॥ २८ ॥ १. 'चकिता', २. 'रथर', ३. 'नो' ग. पाठः. १. 'हो' क. ख. पाठः, एकादशः सर्गः। सलिलकेलिषु चोलमृगीडशा कुचविघट्टनयेव कृतश्रमा। भरतकुक्षरकुम्भतटाहति घनतमामसहिष्ट सरिद्वरा ॥ २९ ॥ नगरपञ्जरनिन्नितविग्रह तदनु चोलमृगेन्द्रमसौ नृपः। अभयदाननिवर्तितविक्रियं नमयति स्म करग्रहणेन तम् ॥ ३० ॥ अथ जयाय स पाण्ड्यमहीपतेः कटकमाभरणं प्रथितं भुवः। कनकसारविनिर्मितमभ्यगा- न्मणिमयं मणलूरपुरावयम् ॥ ३१ ॥ हृदि लुठन्नवमौक्तिकमण्डनां शफरलोलदृशं कुमुदस्मिताम् । बलभरेण ममर्द महीपतिः प्रियतमामिव रत्नसुवं नदीम् ॥ ३२ ॥ तदनु पाण्ड्यमखण्ड्यपराक्रम तनुतरेण रणेन विजित्य सः । कनकमौक्तिकरत्नचयाञ्चितं करमिवाप कर विजयश्रियः॥३३॥ जितवता भरतेन यशोथिना विलिखिता निजनामपदाक्षरैः । १. 'वि' ग. पाठः. २. 'ग्रहं न क., 'क्रय न' ख, पाठः, ३. 'समाह' ग. पाठः भरतचरिते विनिहिता विजयाङ्कशिलोदधे- स्तटभुवि प्रतिमेव जयश्रियः ॥ ३४ ॥ अयमपि क्षितिधारणकर्मणा क्षितिभृदेव बलेन विलङ्घयताम् । इति स सह्यमलयदुच्छ्रितं कटकदुर्गधरं कनकाश्रयम् ॥ ३५ ॥ तटभुवि स्फुटितोज्झितबीजया विततया सुरभीकृतमेलया। पपुरमुष्य बलानि यथेप्सितं तदनु सह्यभुवां सरितां जलम् ॥ ३६ ॥ अथ गिरेरिव पक्षपरम्परा जलनिधेरुपरि प्रविसारिताम् । परशुराममहास्त्रविनिर्मिता- मवततार महीं स महारथः ॥ ३७॥ कलितनीतिरसौ किल केरल- क्षितिपतिः पुनरात्मसमर्पणात् । अनुविवेश शशीव दिवाकर रुचिरया केलया भरतं विभुम् ॥ ३८ ॥ तदनु पश्चिमसागरपारगं समधिगम्य स राजकमण्डलम् । वसुचयं हरति स्म यथोचित न तु निसर्गकृतां श्रियमक्षताम् ॥ ३९ ॥ १..'क' क. पाठः. २. .'कु' ख. ग. पाठः.

२ एकादशः सर्गः। यवनसैन्यममन्यत दुर्जयं निजधनुनमनेन विना नृपः । न खलु दग्धुमृते बडवानलं प्रभवति प्रसभं पयसां निधिम् ॥ ४० ॥ न हि शराः किल केवलमाशुगाः प्रहरता भरतेन समर्थिताः। युधि गताः प्रसभं हतशेषता- मसुहृदोऽपि भयेन यदाशुगाः ॥४१॥ करमवाप नृपो यवनाधिपा- दभयमात्मपदं च ददौ स्वयम् । उपकृतो(पि ? हि) महानुपकारिणा- मुपकरोति पुनर्दिगुणोदयम् ॥ ४२ ॥ मधुरसावनभूषु निषेदिवा- नजिनकम्बलरत्नवतीषु सः । अनुबभूव चॅनरसाईहिमाम्बुहृतश्रमः ॥ ४३ ॥ अथ दिशं द्रविणेशवशीकृता- मभिजगाम जयाय जनाधिपः । क्षितिभृतां कटकं पथि मर्दयन् वनकरीव बलं महदाश्रितः ॥ ४४ ॥ मथितसिन्धुपतिर्जगृहे श्रियं मणितुरङ्गमरत्नपुरस्कृताम् । १. 'दुग्धमृ' ग. पाठः. २. 'ल' क. पाठः. ३. 'मुखभि' ग, १. 'सधनसारहि क. ख. पाठः. जैयश्रियमूर्जिता पाठ:.

भरतचरिते
भ्रमितभूमिभृदेष महीपतिः
स भगवानिव चक्रधरः स्वयम् ॥४५॥
तदनु हूणगणाधिकृतान्नृपः
पुरवरादवलिप्तमहाभटात् ।
अहरदेव स सारमनुता-
दहिकुलाकुलितादिव चन्दनात् ॥ ४६॥
रथतुरङ्गखुराप्रविमर्दितः
सपदि कुङ्कुमरेणुरराजत ।
नृपतितिग्मरुचेस्तपतः परान्
गगनवम॑नि बाल इवातपः ॥४७॥
तदनु जङ्गमभूमिभृतां पति-
गिरिमजङ्गमभूमिभृतां पतिम् ।
समतयेव समाचितमत्सरो
बलभरेण रुरोध जिगीषया ॥४८॥
द्विरदशृङ्खलया दलितत्वचः
प्रमथिताः किल भूर्जमहीरुहः
विधुतपल्लवपाणिपुटैरलं
क्षतरुजेव चिराय चकम्पिरे ॥ ४९ ॥
क्षितिभृतः क्षितिभृत्पतिमाश्रिताः
शरमुचे भरताय करं ददुः ।
न खलु तुङ्गसमाश्रयणं नृणां
तदधिके परिपन्थिनि साधनम् ॥ ५० ॥

द्वादशः सर्गः। इत्थं दुग्ध्वा गामिमां चापवत्सां रत्नक्षीरां प्रस्नवाही सुखेन । गीर्वाणानां पुष्पवृष्टिं दधानो राज्ञां नाथः स्वां पुरीमाविवेश ॥ ५१ ॥ इति कृष्णविरचिते भरतचरिते एकादशः सर्गः ॥ _ अथ द्वादशः सर्गः। विजित्य पृथ्वीमिति निःसपत्नां लोकान्तरं जेतुमिव क्षितीशः। आवर्तयामास तुरङ्गमेध- माहूय कण्वं मुनिमध्वरज्ञम् ॥ १॥ दुःषन्तसूनुर्भरतो हि यष्टा कण्वः पुनर्याजयिता महर्षिः । स्थानं प्रयागः ऋतुरश्वमेध- श्चतुष्टयं तत् क्रियते फलाय ॥ २ ॥ फलाभिसन्धानमृते चकार वह्नौ हविस्त्यागमसौ नरेन्द्रः । पदं हि लोकोत्तरमात्मनश्चेत् क्षुद्रं पदं प्रार्थयते न धीरः॥ ३ ॥ स भूपतिः कर्मसु दीक्षितोऽपि चकार भङ्गया चतुरोऽप्युपायान् । साम स्तुतौ दानमथापदाने भेदं च मैत्रावरुणे च दण्डम् ॥ ४॥ १. 'गुरुम' ग. पाठः १२० भरतचरिते कियां प्रयोज्यां प्रतिपादयत्सु प्राप्तेषु तत्रार्थपरेषु तेषु विप्रेषु मन्त्रेषु च तस्य राज्ञो यथार्हमर्थप्रतिपत्तिरासीत् ॥ ५ ॥ नूनं नरेन्द्रः सवनं गतोऽपि नैव स्वधर्म विनिहन्तुमैच्छत् । स विग्रहे कृष्णविषाणयापि कण्डूमसौ येन निरास धीरः ॥ ६ ॥ स सप्ततन्तुं विधिना विधाय सदक्षिणं ब्राह्मणतर्पणान्तम् । रेजेस राजावभृथामूतिः शुद्धाम्बरश्रीः शरदीव चन्द्रः ॥ ७ ॥ समुहहद्भिः कनकश्रियं तां करप्रसारैः कृतभूरिवः। आपूरयामास स दक्षिणाशा- मभ्यर्थिनां सस्यवतामिवार्कः ॥ ८॥ अथाहृतं मातलिना मघोनः सुवर्णरत्नोपचितं रथाग्र्यम् । आलोकयामास स लोकपालः पुण्यार्जितं लोकमिवावतीर्णम् ॥ ९ ॥ नूनं गुरुं भारमिमं न वोढं क्षमेयमुर्तीति विशङ्कमानः। :

द्वादशः सर्गः। १२१ स मातलिस्तं रथमन्तरिक्ष निवेशयामास नियम्य वाहान् ॥ १० ॥ विद्योतमानः स मणिप्रभाभि- विद्युद्धिरम्भोद इव स्थिराभिः । अग्रे नरेन्द्रस्य सुरेन्द्रसूतः प्रतोदपाणिः प्रणतोऽवतस्थे ॥ ११ ॥ पाद्यासनाद्यैः स्वयमेव राजा सम्भावयामास महेन्द्रसूतम् । प्रायः प्रभूणामनुजीविनोऽपि श्लाघ्याधिकारेण भवन्ति मान्याः ॥ १२ ॥ आनन्दसिन्धुस्नपनेन शुद्धा मन्दस्मितक्षौमपटं वसाना । दन्तच्छदश्रीनवकुङ्कुमाद्री वाणी मुखेन्दोर्नृपतेरुदस्थात् ॥ १३ ॥ प्रष्टुं न युक्तं कुशलं मघोनः सम्भाव्यमन्यत् किमिवेश्वराणाम् । अथ प्रतापादिपु तस्य दैत्याः स्वोच्छेदमिच्छन्ति पतङ्गवृत्त्या ॥ १४ ॥ मन्ये तवाभ्यागमनं महार्थ- मनुग्रहायैव परं कृतं नः । अथात्मदत्तां हरिरस्त्रशिक्षा दैत्योपमर्देषु दिदृक्षते नः॥ १५ ॥ R १२२ भरतचारते तं मातलिः प्रत्यवदन्नरेन्द्र सारं समाहृत्य सुरेन्द्र कार्यम् । प्रभूतमर्थं प्रभवन्ति वक्तु- मल्पाक्षरैरेव पदैर्महा तः ॥ १६ ॥ नित्यावलिप्तैः समरेषु दैत्यैः पाताननादृत्य शिलीमुखानाम् । आकृष्ट पद्मा नलिनीव नागै- रालोड्यते तैनगरी सुराणाम् ॥ १७ ॥ अतस्त्वया दैत्यजयाय जिष्णोः साह्यं विधेयं दनुजहिषेव । न नन्दको विद्विषतामसिस्ते नाम्नापि शौरियती भिदा ते ॥ १८ ॥ तथेति राज्ये सचिवान् निधाय निश्शब्दपातं रथमन्तरिक्षे । आला ब्य चापं स गृहीतचक्र हरिर्गरुत्मन्तमिवारुरोह ॥ १९॥ उत्कण्ठया यातुमनेन सार्ध यावत् कटाक्षाः पुरसुन्दरोणाम् । उत्पेतुराः क्षणमुत्पलाभा- स्तावद् रथं मातलिरुन्निनाय ॥ २० ॥ अथ प्रतिष्ठानपुराङ्गनाना- मपाङ्थष्टिं स विलङ्घय राजा ।

द्वादशः सर्गः ।
१२३
आलम्बनायैव कटाक्षवल्ली-
मवाप वृन्दारकसुन्दरीणाम् ॥ २१ ॥
उद्घाटितैरकवाटनेत्र-
रुद्वीक्षमाणामिव कौतुकेन ।
लोलैः प्रनृत्तामिव केतुपट्टैः
पौरन्दरीमाप पुरी नरेन्द्रः ॥ २२ ॥
सम्भावयिष्यन् नरलोकपाल-
मभ्युद्गमेन त्रिदशाधिनाथः ।
दैतेयरक्ताक्तचतुर्विषाण-
भरावतं वारणमारोह ॥ २३ ॥
अन्योन्यसंघट्टितपत्रपाश्वौं
विरेजतुस्तौ विशिखां विशन्तौ ।
आकाशवीथीमवगाहमानी
भास्वन्मृगाङ्काविव तुल्यकाली ॥ २४ ॥
रत्नोपलादर्शसमुद्गहस्ताः
कल्याणमाल्याभरणा नरेन्द्रम् ।
प्रत्युद्ययुस्तं सुरवारकान्ताः
सञ्चारकल्या इव कल्पवल्ल्यः ॥ २५ ॥
पत्रादवारुह्य नरामरेन्द्रौ
सभा सुधर्मा समवापतुस्तौ।
उत्तुङ्गचामकिरचारुवप्रा
शुभां सुमेरोरिव केसरीन्द्रौ ॥ २६ ॥

१२४ भरतचरिते तमयंपाद्यादिभिरयित्वा निजासनार्धे विनिवेश्य शक्रः । आश्लिष्टमालोक्य यथा ननन्द सद्यः प्रसूतं न तथा जयन्तम् ॥ २७ ॥ अगाधसत्त्वोऽपि हरिर्बभूव नरेन्द्रचन्द्रं प्रतिपद्य लोलः। आनन्दविभ्रान्तसहस्रनेत्रः संभ्रान्तपाठीन इवाम्बुराशिः ॥ २८ ॥ आपीतशिष्टाममृतस्य धारा- माईस्मितव्याजवती विधाय । सुखोपविष्ट निजविष्टराधे त्रिविष्टपेन्द्रः पृथिवीन्द्रमूचे ॥ २९ ॥ प्रेयस्तवाभ्यागमनं ममति वक्तुं न साक्षात् स्वजनेषु युक्तम् । आचारमात्रेण पुत्रेऽपि नूनं गृहमभ्युपेते ॥ ३० ॥ निहत्य दैत्यानमरैरवध्यान् दिवं भवान् भूमिगतो भुनक्ति । स्वस्था वयं केवलमाज्ञयैव बिर्षि लोकहितयं यतस्त्वम् ॥ ३१ ॥ हतावशिष्टाः समरे त्वया ये स्वपक्षमुत्थाप्य समुत्पतन्तः। तु वाच्यमेव १. 'न' ख. पाठः, १२५ द्वादशः सर्गः। दवाग्निभीता इव खेचरास्ते भूमेर्दिवं प्राप्य चरान्ति दैत्याः ॥ ३२ ॥ लब्धाश्रयास्ते द्रुहिणप्रसादाद् देवानभिद्रोग्धुममी यतन्ते । वन्यद्रुमोत्थाः खलु हव्यवाहाः स्वोत्पत्तिवृक्षान् प्रथमं दहन्ति ॥ ३३ ॥ अंशावतारोऽसि हि दैत्यशत्री- दैत्यानतस्तान् निहनिष्यसि त्वम् । को नाम दग्धुं क्षमते पयोधी- नुषर्बु, बाडवमन्तरेण ॥ ३४ ॥ इत्युक्तवन्तं भरतो बभाषे तवोनुभावादसुरान् निहन्मि । न हन्ति शातोऽपि शरः सपत्नान् धनुर्भूतः प्रेरणमन्तरेण ॥ ३५॥ गोप्ताथ लोकस्य स दीप्तहेतिः परान् प्रतापैः परितापयिष्यन् । हरेनियन्त्रा हरिभिनिबद्ध हरिः स्वयं वा रथमारुरोह ॥ ३६ ॥ नागेन्द्रमारुह्य नगेन्द्रकल्प नरेन्द्रमिन्द्रः स्वयमन्वगच्छत् । अन्वीयमानः सुमनःसमूहै- दीप्तं नभस्वानिव दाववह्निम् ॥ ३७ ॥ १. 'भ' ख. पाठः. २. 'दा', ३. 'ण' ग. पाठः.

१२६ भरतचरिते गर्जन्तमुच्चैर्दिवि कालरूपं द्विधाकृताखण्डलचापदण्डम् । घनं घनानामिव दानवानां सङ्घ तभैते ददृशुः सुरौघाः ॥ ३८ ॥ अथासुराणां मरुतां च तेषा- मभूदेपूर्वो दिवि संप्रहारः। अन्योन्यभङ्गप्रतिभङ्गभीमः कल्पान्तभाजाभिव सागराणाम् ॥ ३९ ॥ अङ्गानि चत्वारि मिथो यथास्वं इन्हबिभूवुः समरेषु तेषाम्। बलानि तुङ्गान्यथवा कुलानि मिथः समानः सततं घटन्ते ॥ ४०॥ परस्परज्याघनघोषमिश्रा बभूव वृष्टिः शरपातरूपा। प्रवर्तयामास च सा भटाना- मङ्गेषु तेषां रुधिरैस्रवन्तीम् ॥४१॥ गुणानुविद्यापि धनुर्धराणां दोषानुविद्या विशिखावली सा । सपक्षपातापि विपक्षपाता तीक्ष्णापि तेषां हृदयङ्गमाभूत् ॥ ४२ ॥ प्रयोगसंहारपरम्परासु निवर्तनावर्तनघट्टितानि । १. 'ण्डः', २. 'तानमोपावे' ख. पाठः, ३. 'र', ४. 'न्ती' ग. पाठः,

द्वादशः सर्गः।
१२७
अस्त्राणि तेषां प्रतिहन्यमाना-
न्यासन् मिथो योडुमिबोधतानि ॥ ४३ ॥
करिवह्नौ बहुशोऽवगाहा-
दन्तर्निगीर्णानिव विष्फुलिङ्गान् ।
अन्योन्यसङ्घट्टनया भटानां
कृशानुलेशान् मुमुचुः कृपाणाः ॥ ४४ ॥
तेषां मदोद्धान्तमधुव्रतेषु
प्रबुद्धताम्रोदरपुष्करेषु ।
करीन्द्रकासारकुलेषु पेतुः
कुन्ताः शकुन्ता इव पक्षपाताः॥४५॥
तुरङ्गवाहाश्चतुरंतुङ्ग-
श्चक्रुश्चरन्तो युधि पञ्च धाराः।
शरथ शातैः शतधारकल्पै-
धाराशतं शत्रुषु लोहितानाम् ॥ ४६ ॥
मुहुर्मुहुदैत्यवरान् ब्रजन्तो
तथामरानप्यसकृद् भजन्ती ।
गतागताभ्यां किल साम्पराये
ययौ जयश्रीश्विरमव्यवस्थाम् ॥ ४७ ॥
मायाप्रयोगेषु कृताभियोगान्
दैत्यान् परोदञ्चितवीर्यगर्वान् ।
हन्तुं न शेकुस्त्रिदशाः सशक्रा-
स्तानिन्द्रियानिव देहभाजः ॥४८॥

१२८ भरतचरित न दैत्यवक्षोभिदुरं बभूव रणे प्रहर्तुभिदुरं मघोनः। स वारणस्तस्य न वारणोऽभू- दैरावतः क्षीणविषाणकोटिः ॥ ४९ ॥ विक्षोभयन्ती सुरवाहिनीं तां मदन शैलानपि कम्पयन्तीम् । स राजसिंहः सहसा प्रसह्य दैत्येन्द्रमातङ्गघटां रुरोध ॥ ५० ॥ स मातलिं चोदय चोदयाश्वा- निति स्फुटोज्जृम्भितचापघोषः । अमोघमेकं समधत्त बाणं दैत्यान्तकं देव इवेन्दुम लिः ॥ ५१ ॥ स तेन मुक्तेन निकृत्तकण्ठैः सुरद्विषामाननपुण्डरीकैः। अभ्यर्चयामास कृतान्तमने दैत्योपहारैरिव तर्पयिष्यन् ॥ ५२ ॥ आच्छादयामासुरमुं पृषकै- रच्छिन्नपातररयः सुराणाम् । गर्जन्त एवाद्विमुदस्तशृङ्ग- मासारावर्षरिव वारिवाहाः ॥ ५३ ॥ निर्मिन्नदेहावरणान्निजागा- न्निधूय नीडा(मि ? दि)व पत्रिणस्तान् १. 'तापाय' ग. पाठः.

द्वादशः सर्गः । १२९ चिह्नन संख्यातुमिवैष दैत्यान् प्रत्येकमेतान् विशिखैर्जधान ॥ ५४ ॥ छिन्नैः शिरोभिर्दितिनन्दनानां छन्ना रणक्षोणिरकारि राज्ञा। मधुवामोदितभीमवचन- मृत्योः कपालैरिव कीर्यमाणा ॥ ५५ ॥ संहत्य दैत्याः परिवेष्टय पत्र- रेनं निजघ्नुनिशितैः पृषकः । रराज सोऽपि क्षतजोक्षिता सन्ध्याधनच्छन्न इवोष्णरश्मिः ॥ ५६ ॥ अथ क्षणोदस्तशिलीमुखोऽसौ निकृत्तपद्माननीतशोभान् । कबन्धशेषान् दितिजानसंख्यान् पद्माकरान् वन्यकरीव चक्रे ॥ ५७ ॥ अन्यानिपून्मुश्चत एव दैत्यान् निकृत्तकण्ठानकरोन्नरेन्द्रः। ते संपतन्तो मुमुचुः पुरस्तात प्राणानिषून् वा किमु सिंहनादान् ॥ ५८ ॥ एकेन मूर्धा नृपबाणलूनः पश्चान्निरस्तः सहसा करॊभ्याम् । मानं दधानेन पुरः प्रपाता- दाशङ्कमानेन रिपौ प्रणामम् ॥ ५९ ॥ १. 'णा', २. 'पनीत', ३. 'नमून् वा', ४. 'रेण ।' ग. पाठः, S १३० भरतवरित अथानिलैरश्मरजोम्बुग:- मायामयैस्तं दितिजाः प्रजहः। अपाहरत् तान् निखिलान् नृपोऽस्बै- रुनः सहस्रांशुरिवान्धकारान् ॥ ६ ॥ निर्मुक्तपत्रिप्रकरानुग्रान् वेगं शराणां प्रविधाय भूयः । निष्पत्रतामेष निनाय शत्रू- नारण्यवृक्षानिव दाववाह्निः ॥ ६१ ॥ छिन्नायुधाश्छिन्नपरिच्छदारले सन्ना बभूवुरतेन दैत्याः । कोदण्डपाणिस्तमृते न कश्चि- च्छत्रून् नियन्तुं खलु दुर्बिनीतान् ॥ ६२ ॥ ब्रह्मास्त्रेमुख्यानि महास्त्रजाला- न्यस्मै सरोषं ससृजुः सपत्नाः। अस्त्रैः स तैरेव रुरोध तानि महोन्तराणीव महोभिरर्क: ।। ६३ ॥ स कण्टकान् दानववंशजातान पीडाकरानेन्द्रपदे नितान्तम् । उद्धृत्य शस्त्रैरविषापातान युद्धस्य पारं भरतो जगाम ।। ६४ ॥ मुक्तानि तस्मिन् पुरसुन्दरीभि- मन्दारमाल्यानि मनोहराणि । १. 'जन्तुर्निय' ग. पाठः. २. 'दिपैशाचकृतावसानान्यस्त्राण्य- थस्मै दितिजः ससर्ज ।', ३. 'तेजोन्तराणीव निर्विवस्वान्' क. पाठः

बादशः सर्गः।
निलीननिष्कम्पमधुब्रतानि
निमेषहीनानि विलोचनानि ॥ ६५ ॥
नखक्षतानीव शरक्षतानि
वीर्यश्रियस्तं दधतं नरेन्द्रम् ।
आलिङ्गय हर्षेण मुहुर्महेन्द्र
स्तं सम्प्रहारश्रममुज्जहार ॥ ६६ ॥
आपृच्छय वास्तोष्पतिमहणान्ते
भोक्तुं भुवं भूमिपतिः प्रतस्थे ।
नूनं जगद्रक्षणदीक्षितानां
न जातु विश्राममुपैति चेतः ॥ ६७ ॥
अथाम्बरे साधु रथं नियच्छन्
नरेश्वरं मातलिरित्युवाच ।
पश्यार्णवं वीचिभुजैधरित्री-
मालिङ्गय सबीडमिवापयान्तम् ॥ १८ ॥
तप्तानि भूयस्तपनातपेन
त्वद्यानयोग्यानि विधातुकामः ।
मन्ये तरङ्गैः शिशिरैरुदस्तैः
प्रक्षालयत्येष नभस्तलानि ॥ ६९ ॥
उपायनीकृत्य महाधनानि
रत्नानि वेलोपरि सञ्चितानि ।
प्रसार्य तीरेषु तरङ्गबाहून
नमन्निवाभाति पयोनिधिस्त्वाम् ॥ ७० ॥

भरतचरिते आयाति याति द्रुतमुच्चिनोति तृणानि काष्ठानि जहाति भूयः । अनर्थकानेष तनोति शब्दा- नुहेलमुन्मत्त इवाम्बुराशिः ॥ ७१ ॥ और्वाग्निसन्तापमलीमसोऽपि निर्घातवातैः परुषीकृतोऽपि । अगस्त्यपीतकथितोज्झितोऽपि न जातु लावण्यमसौ जहाति ॥ ७२ ।। आकृष्टशाः श्रितशङ्खचक्रः सारं मणीनां हृदये दधानः । अमेयमन्तर्मुवनं दधानो नारायणस्यानुकरोति चिह्नम् ॥ ७३ ॥ अस्यानुतीरं कलहंसमाला वेलातरङ्गेषु विगाहमाना। मुक्ताङ्कराग्रं दशति प्ररूढ- मच्छं बिसच्छेदविशङ्कयेव ॥ ७४ ॥ न क्षीयते बाडववह्निनासौ न वर्धते प्रावृषि निम्नगाभिः । सत्त्वाधिकाः सत्स्वपि कारणेषु नूनं महान्तो नहि विक्रियन्ते ॥ ७५ ॥ जलाशयोऽसौ न विचारशून्यः सुधाकरो न क्षयमेति भूयः।

द्वादशः सर्गः। १३३ भङ्गाकुलात्मा न विलध्यतेऽन्यैः प्रमाणहीनो न जनैरदेश्यः ॥ ७६ ॥ अमुप्य वीचीनिचयैरुदस्तं निपीय पाथो लवणं पयोधेः । गुहामुखैः सोढुमशक्नुवन्तः सद्यो वमन्तीव तटान्तशैलाः ॥ ७७ ॥ सरित्प्रवाहोल्बणशृङ्खलागि वेलाचलालाननियन्त्रिताङ्गः। नमत्यसावुन्नमति क्षणेन वारांनिधिर्मत्त इव द्विपेन्द्रः ॥ ७८ ॥ अमानभूमिबहुमानभूमि सदा शयालुः सततं प्रबुद्धम् । अमुं प्रजानामविशेषबन्धु विशेषबन्धुः पुरुषोऽधिशेते ॥ ७९ ॥ अमुष्य कुक्षौ मुवनानि कृत्वा निक्षिप्य नाभीकमले निषण्णः। पुनस्तदादित्सुरिवाब्जयोनिः साम्ना मुहुः स्तौति तमेव देवम् ॥ ८० ॥ अत्रार्णवे श्यामलवर्णकान्तिः शेषे शयानः कमलासहायः । कालाम्बुवाहः कलधौतशैले विद्युल्लताश्लिष्ट इवावभाति ॥ ८१ ॥ १. (शृङ्गयः ! शङ्कयः), २. 'ज्ज्वलशृ' ग. पाटः.

maerpaRENDS 14 भरतचरित द्वादशः सर्ग श्रीमन्तमारोपितविश्वभारं पश्याम्बुराशौ हरिपोतमनम् । यन्नाभिपद्मोच्छ्रितकूपदण्डे वसन् विरिञ्चः खलु कर्णधारः ॥ ८२ ॥ इति ब्रुवन्नेव नृपं निनाथ पुरी पराया पुरुहूतसूतः । उद्घाटितहारकपाटने रुहीक्ष्यमाणामिव तस्य मार्गम् ॥ ८३ ॥ पुरस्क्रियान्ते पुरुहूतयन्तु- दत्त्वा कथंचिद् गमनाभ्यनुज्ञाम् । आलोकदानेन शशीव लोक- मानन्दयामास विशामधीशः॥ ८४॥ , विभ्राणः समकरभूषणां धरित्री- मासीनां फणिपतिविष्टरे विशालाम् । दैत्यारेस्तनुमिव योगमात्रासिद्धां राजेन्द्रः स सुखमुवास वासवश्रीः ॥ ८५॥ इति श्रीकृष्णाचार्यविरचिते भरतचरिते द्वादशः सर्गः ॥ भरतचरितं समाप्तम् । शुभं भूयात् ।

READY FOR SALE. RS. AS. P. HORST (Stuti) by H. H. Svâti Sri Rama Varma Mahârâjah. 100 स्यानन्दूरपुरवर्णनप्रबन 1977: (Kavya) Syâuandârapuravarna naprabandha by H. H. Svâti Sri Râma Varma Mahârâjah, with the commentary Sundari of Ra jarâja Varma Koil Tampurân. 2 0 0 Trivandrum Sanskrit Series, No. l-a (Vyâ karana) by Deva with Purushakâra of Krishnulilásukamuni. 1.00 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ by Krishnalîlâsukamuni. 0 2 0 No. 3-anych: (Kâvya) by Vâmana Bhatta Bảna (Second Edition). 04 0 No. 4-frantamia: (Kavya) by Nilakantha Dîkshita, 2 0 0 No. 5-tad*: (Alankara) by Mahin: Bhatta with commentary. 2 12 0 No. 6-cena: (Vyakarana) by Saranadeva. 2 0 0 No. 7-ब्रह्मतत्त्वप्रकाशिका Vedânta) by Sadasivendra Sarasvati. 72 4 0 No. 8Care (Nâtaka) by Ravi Varma Bhûpa 100 No. 9-FETINIZIET (Vedânta) by Virûpâkshanâtha with the commentary of Vidyachakravartin, 08 0 No. 10-1aFoto (Gajalakshana) by Nîlakantha. 0 8 0 No. 11-7HÁTTUTH Nâtaka) by Kulasekhara Varma with the commentary of Sivarama. 24 0 No. 12-CHARH (Vedânta) by Bhagavad Adisesha with the commentary of Raghavananda. 0 8 0 No. 13-TTTH (Nataka) by Kulasekhara Varma with the commentary of Sivarama. % 0 0 2 RS, AS. P. 8 1 o 0 No. 14-aar: (Niti) by Kâmandaka, with the commentary of Sankarârya. S 0 No. 15-cmUHET (Nataka) by Bhasa, (Second Edition). 1 No. 16.starrestaur (Nâtaka) by Bhâsa. 1 8 No. 17-29 Do. Do. No. 18-igrica (Stuti) by Narayana Bhatta with the commentary of Desamangala Vârya. 40 No, 19-HTEET: Mimâmsâ ) by Nârâyana Bhatta and Nârâyana Pandita. 1 4 0 No. 20—3H (Nâtaka) by Bhâsa. 80 No. 21-Car Do. Do. 0 0 No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभकानि (Nâtaka) by Bhâsa. i 80 No. 23_17ratura cata: (Kosa) by Kesavaswâmin (Part I. 1st & 2nd Kândas). 1 12 No. 24-ticurt: (Kâvya) by Chakra kavi. 0 No. 25 --ETUIÇmaafa (Nyâya) by Gangadharasuri. O 12 0 pound passi 0 1 0 No. 26–2017 (Nâtaka) by Bhâsa. 0 120 No. 27-Hea: (Kâvya) by Kálidasa with the two commentaries, Prakâsikâ of Arunagirinâtha and Vivarana of Nârâyana Pandita (Part I. 1st & 2nd Sargas). 1 12 No. 28-ANETTE: (Dharmasûtra) by Vikhanas. 0 8 0 No. 29-erforatian: (Kosa) by Kesavaswâmin (Part II. 3rd Kânda)24 0 No. 30-argaan (Silpa), 0 12 0 No. 31--Amefurahisha: (Kosa) by Kesavaswâmin (Part III. 4th, 5th & 6th Kândas). 1 0 0 3 RS. AS. P. No. 32-ART: (Kavya) by Kalidasa with the two commentaries, Prakásikâ of Arunagirinâtha and Vivarana of Nârâ yana Pandita (Part II, 3rd, 4th & 5th Sargas). 2 8 0 No. 33–aradna: (Vyakarana) with the commentary Dipaprabhâ of Nârâyana. O No. 34-foregut: (TC41E:) (Nyâya) by Râjachûdâmanimakhin. 1 4 0 No. 35-FTUAR: (SIEHES:) (Nyâya) by Gopinatha. No. 36-FTTHF77: (Kavya) by Kalidasa with the two commentaries, Prakâsikâ of Arunagirinâtha and Vivarana of Narayana Pandita (Part III. 6th, 7th & Sth Sargas). 300 No. 37—HPTISTE (Smriti) hy Vararuchi with commentary.o No. 38-TAITEITE975 (Kosa) by Amarasimha with the commentary Tikâsarvasva of Vandyaghatîya Sarvånanda (Part I. Ist Kânda). 2 0 0 No. 39-710872 (Nâtaka) by Bhâsa. 0 120 No. 40-50 RTT (Alankâra) by Râjânaka Sri Ruyyaka with the Alankârasarvaswa of Sri Mankhuka and its cominentary by Samudrabandha. 2 8 0) 0 0 No. 41-37577A&# (Kaipa) by Apastambi with Vivarana of Sri Sankara Bhagavat Pada. U 4 No. 42- FIATTEF(Nataka) by Bhâsa. 1 S 0 No. 43-FGTATE (Kosa) by Amarasimha with the two commentaries, Amarakoso. dghâtana of Kshîraswâmin and Tikâ. sarvaswa of Vandyaghatîya Sarvânanda (Part II. 2nd Kanda 1-6 Vargas). 2 8 0 4 RS. AS. P. No. 41-49 (Tantra) by Bhattâraka Srî Vedottama. 0 4 0 No. 45–1992 (Prapanchahridaya). 1 0 No. 46-ferrito: (Vyakarana) by Nilakantha Dikshita. 0 8 0 No. 47-CITATIET (Vedânta) by Sri Krishnananda Sarasvati. (Part I). 1 12 0 No. 48- Do. Do. (Part II). 2 0 0 No. 49—Tiesinger (Jyotisha) by Parameswara. 0 4 0 No. 50-Targa: (Alankára) by Singa Bhûpâla. 3 0 0 No. 51-THEFIETAFE (Kosa) by Amarasimha with the two commentaries, Amarakosodghấtana of Kshiraswâmin and Tîkasarvaswa of Vandyaghatîya Sarvânanda (Part III. 2nd Kânda 7-10 Vargas). 2 0 0 No. 52—FIAZEIGTIGTE (Kosa) by Amarasimha with the commentary Tika sarvasva of Vandyaglatîya Sarvânanda (Part IV. 3rd Kânda) 1 8 0 No. 53— iezietat: (Vedânta) by Prakâsâtmayatîndra. 0 12 0 No. 54-ESIT are: (Vyâkarana). 04 0 No. 59--Hafe! GETA Nátaka) by Srî Mahendravikramavarman. 08 8 0 No. 56A9691375 (Silpa). 0 80 No. 57—Tuaicaipaa (Kâvya). 4 0 No. 58–TITEET (Vedânia) by Sri Krishnananda Saraswatî (Part III). 2 0 0 No. 59--21# (Nâlaka) by Sriharshadeva with the commentary Nâgânandavimarsini of Sivarama. 3 40 1 No. 60% gara: (Stuti) by Sri Laghubhattâraka with the commentary of Srî Râghavânanda, 0 8 0 5 RS, AS. P. 0 No. 61-fremleges (Vedânta) by Sri Krishnananda Sarasvati (Part IV). 18 No. 62-HTE: (Sarvamatasangraha). 8 0 No. 63--flatcaiga (Kavya) by Bharavi with the commentary Sabdârthadîpika of Chitrabhânn (1, 2 and 3 Sargas). 20 No. 64–hat: (Kavya) by Kálidasa with the commentary Pradipa of Dakshinâvartanatha. 1 No. 65-HTHTE (Silpa) by Mayamuni. S 8 8 0 No. 66- HETIHTI (Darsana) with the commentary Parimala of Maheswarânanda. 2 8 0 No. 67-77: (Tantra) by Nârâ yana with the commentary V'imarsini of Sankara (Part I. 1-6 Patalas). 3 4 No. 68-794512: (Agama) by Srî Bhojadeva with the commentary Tâtparyadîpikâ of Sri Kanara, 200 No. 69-TITRITVETrefa: (Tantra) by Isâ nazivagurudevamisra (Part I. Samānyapâda). 1 8 1 80 No. 70-31#gsfiet: (Part I). 28 0 No. 71- Hayat: (Tantra) by Nârâyana with the commentary Vimarsini of Sankara (Part II. 7–12 Patalas). 3 8V No. 72— Trianagarala: (Tantra) by Isanasivagurudevamisra (Part II. Mantrapada). 4 0 0 No. 73 - ईश्वरप्रतिपत्तिप्रकाशः (Vedanta) by Sri Madhusudanasarasvati. 0 4 0 RS. AS. P. 4 No. 74- Sistemasia: (Dharmasastra) with the commentary Balakridâ of Visvarī pâchârya. (Part I-Âchára and Vyavahâra Adhyâyas). 0 No. 75--TUTE (Silpa) by Srikumâra (Part I). 34 4 0 No. 76-77 sfracey: (Part II). 3 4 0 No. 77-aarayaca gia: (Tantra) by Isanasiyagurudevamisra (Part III. Kriyapada 1-30 Patalas). 3 40 No. 78-370Mauer with the commentary Anavila of Haradattacharya. 5 00 No. 79-_TITETE of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part I-1& 2 Adhikaranas). 8 0 0 No. 80-BRETTENT of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part II-3 to 7 Adhikaranas). 8 0 0 No. 81-ATTACFira: (Dharmasastra) with the commentary Bâlakrida of Visvarûpâchârya (Part II. Prayaschittâdhyâya). 3 12 0 No. 82— Bet of Kautalya with commentary by Mahamahopadhyaya T. Ganapati Sastri (Part III-8 to 15 Adhikaranas). 8 0 0 No. 83_aafiagarafa: (Tantra) by Isanasivagurudevamisra (Part IV. Kriyapada 31–64 Patalas and Yogapada). 4 0 0 No. 84—SEAC 2T (Part III). 2 12 0 No. 85-facuzhičar (Tantra). 4 8 0

The Bharatacharita Of Sri Krishanakavi

Author
T Ganapati Sastri
Title
The Bharatacharita Of Sri Krishanakavi
File name
The Bharatacharita Of Sri Krishanakavi
Text
OCR done
Citation
1925
Publisher
The Maharajah Of Travancore
Language
Sanskrit
Pages
150
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
281225
Barcode
5990010902148.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In public domain
VMLT id
6Dah9sy75kQ
Download PDF

The Bharatacharita Of Sri Krishanakavi