Library
Saraswati Bhavana Texts
Front matter
THE
PRINCESS OF WALES
SARASWATI BHA VANA TEXTS
Yo. 31.
(PART I)
EDITED BY
(OPI VÁTHA KAVIRAJA
THE
TANTRARATNAM
(PART I)
Priwel iny Jai Krishnna Them (iuptu
At the l'irler l'ilax Press, Gual Mandir Lane,
Beares (ity.
1930
तन्त्ररत्न श्री पार्थ सारथिमिश्र विरचितम् । महामहोपाध्याय पण्डित श्रीमहानायका वर्मणा संशोषितम् । - mama- THE TANTRARATNAM By PARTHASARATHI MIS'RA EDITED BY MAILAMAHOPADHYAYA GANGA NATHA JHA, M.A., D. LITT. Vice-Chancellor, Allahabad University, ALLAHABAD, 1930.
PREFITORY XOTE It is well-known to all who are interested in Mimämsä literature that the work of Kumarila available to us is in three parts, the last of which going by the name of Tuptıká deals with Chapters IV-XII of the Sūtras. This work is more in the way of brief notes than a commentary. In view of this fact Parthasarathi Mis'rs wrote an extensive commentary on this short work, called the Tantraratoa. This work is a voluminous commentary, not only on Kumirila's work but also on the original Bhişya. A study of the Tantraratoa is essential for every student of Mimamsi. It has therefore been thought advisable to bring out an edition of the work in the 'Sarasvati Bhavada Sanskrit Texts' Series. The work of editing was made over to me, and with the willing assistance of my colleague in the University, P. Umes'a Mis'ra, I have been able to see through the press a portion of it. My failing health bowever renders me unable to carry on the work any longer. I trust however that the Principal of the Benares Sanskrit College will be able to find a more willing and more energetic editor from among the stati of the college. The manuscripts used by we are the following: (1) An old and generally correct manuscript belonging to the Sauskrit College Library. (2) A newer and less correct manuscript belonging to the same Library. (3) A manuscript fairly correct in my own library, which had been given to me by my old honoured tutor, the late Mahamahopädbyâya Pt. Chitradhara Mis'ra, to whose memory I dedicate this work. THE UXIPIRSITY, Ganganatha Ina श्रीः प्रस्तावना श्रीमता भट्टपादेन कुमारिलेन मीमांसादर्शने प्रथमाध्यायाद्यपादे श्लोकवार्तिकं ततस्तृतीयाध्यायान्तं तन्त्रवार्तिकं तदनन्तरं द्वादशाध्यायपर्यन्तं टुप्टीका- भिधमिति ग्रन्थरत्नत्रयं जग्रन्थे । तत्रान्त्यो ग्रन्थ- ष्टिप्पणीरूपोऽतीवसङ्क्षिप्ततया व्याख्यासापेक्ष इति शास्त्रदीपिकाकारः पार्थसारथिमिश्रस्तद्व्याख्याव्याजेन तन्त्ररत्ननामक ग्रन्थं रचयामास । अस्य ग्रन्थस्य मुद्रणे कृतोत्साहोऽपि संस्कृतसाहित्योद्धरणधुरीणो मन्मित्र- प्रवरो गोविंददासगुप्तमहाशयस्तत्सम्पादनमकृत्वैवा- स्मान् परित्यज्य दिवङ्गतः। स एवायं ग्रन्थ आदर्शच. तुष्टयसाहाय्येन परिष्कृत्य प्रकाशयितुं प्रस्तूयते । अत्र सूचितं टुप्टीकापृष्ठादिकं वनारस-संस्कृत- सीरीज़' पुस्तकानुमारि-शबरभाष्यपृष्ठादिकं 'एशियाटिक सोसाइटी' पुस्तकानुसारीत्यवधेयम् । इति च प्रयागस्थः } गङ्गानाथझा शर्मा २२।१०।२७ श्रीः पार्थसारथिमिश्रविरचिते तन्त्ररत्ने चतुर्थोऽध्यायः तत्र प्रथमः पादः। १-प्रतिज्ञाधिकरणम् । अथातःक्रत्वर्थपुरुषार्थयोर्जिज्ञासा ॥१॥ पूर्वाध्याये शेषपर्यायमैदमर्थ्यमेव चिंतितम् । इहापि क्रतुपुरुषै- दमर्थ्यमेव चिंत्यत इति न लक्षणे भेदः स्यादत आह(१) तृतीये- नाध्यायेनावधृतशेषत्वे कः क्रत्वर्थः कः पुरुषार्थ इति' । चिंयत इति संबन्धः । एतदेव विवृणोति-'विशेषश्चित्यते पूर्वमवधृते सामान्ये । यथा सप्तमेन सामान्यातिदेशे सिद्धेऽष्टमेन विशेषातिदेशाश्चिंत्यत'(२) एवमिहापि सामान्यविशेषविषयत्वेन 'लक्षणभेदः (३)। तदिदमेकदेशिमतं निराकरोति-'अथ वेति'(४)। पूर्वव्या- वृत्तावथ-वा-शब्दः। न हि सामान्यविशेषभेदेन लक्षणभेदः सम्भवति, पूर्वत्रापि विशेषविचारात् । कर्माण्यपि जैमिनिः (१-४) टुप्टी० पृ०१ तन्त्ररत्ने- फलार्थत्वादिति(१) पुरुषार्थत्वमुक्तम् , असंयुक्तं प्रकर- णात(२) इत्यादिना च क्रत्वर्थत्वम् । न हि लिङ्गप्रक- रणक्रमसमाख्यानैः पुरुषार्थत्वमविशेषितं चैदमर्थ्य गम्यते, किंतु क्रत्वर्थत्वमेव । तस्मान्नैवं लक्षणभेदः । कथं तर्हि इसाह-'अथ समवैषम्य'मित्युपक्रमम्य । 'प्रयोजकाप्रयोजकत्वं' यद् वक्ष्यते तदेवास्मिन् लक्षणे 'उताधारणं' लक्षणांतराविषयभूतं चिंत्यते । क्रत्वर्थपुरुषार्थविचारस्तु ता य एव सन्निह प्रयुक्तिविवेकार्थः क्रियते । तथा फलविध्यर्थवादादिविचारोऽपि । यथोक्तम्- फलविध्यर्थवादत्वकालार्थाङ्गप्रधानता । फलक्रतुपयुक्तत्वविचाराय विचार्यत इति ॥ 'भाष्यकारश्चेदमेव' प्रयोजकाप्रयोजकत्वं लक्षणार्थम् ‘अ. भिप्रेत्याह'-अतिक्रान्तस्तृतीयविषय इति'(३) । यदि हि क्रत्वर्थपुरुषार्थविचारं गोदोहनादौ कृतं भाष्यकारो लक्षणार्थम- भंस्थत ततो नैव तृतीयविषय इत्यवक्ष्यत । तथा 'पञ्चमे चाप्ता- धारण्येनैव'(४) यस्मात्प्रयोजकाप्रयोजकत्वमसाधारणं तस्मादेवं व्यपदेक्ष्यते 'प्रयोजकाप्रयोजकलक्षणं वृत्तमिति'(५) इतरथा हि क्रत्वर्थपुरुषार्थलक्षणं वृत्तमिति व्यपादेक्ष्यत । तस्मादैदमर्थ्य- लक्षणं पूर्वम् , इदं तु प्रयोजकाप्रयोजकलक्षणमिति लक्षणभेदः । शेषशेषित्वाधीनत्वाच्च प्रयुक्तेस्तदनन्तरमारम्भः । यद्यपि न (१) मी०सू०३१२४ (२) मी०सू०३।३।११ (३) शबरा०२१, टुण्टी०१. (४) टुल्टी०१. (५) शबर५।११.
चतुर्थोऽध्यायः सर्वे शेषिणः शेषाणां प्रयोजकाः, तुषोपचापयत्कपालस्य, तथापि शेषिण एव तावच्छेषाणामेव प्रयोजका नान्य इति भवति शेष- लक्षणस्य प्रयुक्तिलक्षणं प्रति हेतुना । ननु विधिरेवं सर्वेषां प्रयोजकः किमत्र चिंत्यते । सत्यं विधिः प्रयोजकः । स तु किमर्थ प्रयोजयति । किं चातुर्मास्यविधिरामिक्षार्थमेव दध्यानयनं प्रयुक्ते किं वा वाजि. नार्थमपि । यदर्थं च यदनुष्ठाप्यते तत्तस्य प्रयोजकमिति व्यव- हियते । आमिक्षा प्रयोजिका न वाजिनमिति । तस्माद्युक्ता चिंता। . कः पुनः सूत्रार्थः स उच्यते । प्रयुक्तिचिंता हि प्रकारभेदेन करिष्यते । कचित्क्रत्वर्थपुरुषार्थ विचारद्वारेण, कचित्साक्षात्, कचित्फलविध्यर्थवादादिविचारद्वारेण । तदनेन विशेषप्रति. ज्ञाद्वारेण सामान्य प्रतिज्ञानमेव क्रियते । यथा वाधाभ्युच्चयं चिंतयिष्याम इतीयत्ता चिंता प्रतिज्ञातेति । ननु नानेन विशेषप्रतिज्ञाद्वारेण सामान्य प्रतिज्ञानमेव क्रि- यते येन विशेषाः सर्वे न प्रतिज्ञायते क्रत्वर्थपुरुषार्थमात्रपतिज्ञानात् । परिहृतमेतद्भाष्यकारेणैव । अङ्गं क्रत्वर्थः प्रधानं पुरु- पा(१)र्थः तेन नाङ्गप्रधानजिज्ञासा तावद्विदेवनादिविषया क्रत्वर्थपुरुषार्थजिज्ञासैव । तथा ऽग्निं चित्वा सौत्रामण्या यजेते- त्यादेरङ्गप्रधानाविधानार्थत्वे सौत्रामण्यादीनां क्रत्वर्थता. कालार्थे (१) शबरा११.
w तन्त्ररत्ने- तु संयोगे पुरुषार्थता । तथा न स पापश्लोकं शृणोतीत्येवममादेरर्थ- वादत्वे क्रत्वर्थपर्णमयीत्वादिस्तुतिद्वारेग क्रत्वर्थता-फलविधित्वे तु फलस्य पुरुषार्थत्वात्तवारेण पुरुषार्थतेति तस्याः क्रत्वर्थ- पुरुषार्थजिज्ञासायामन्तर्भावः । प्रयोजकः कश्चित् पुरुषार्थों यथा दशपूर्णमासादिः स्वाङ्गा. नाम्-कश्चिद्रहणम्-अपुरुषार्थमपि प्रयोजकमस्तीति-यथामिक्षा। अप्रयोजकः क्रत्वों यथा वाजिनम् । अत्रापि कश्चिद्रहणमनुवर्तते । विद्यते ह्यप्रयोजकोऽपि पुरुषार्थ:-यथा गोदोहनादिः प्रणयनादेः । तदेवमुभयत्रोभयसम्भवेऽपि प्रायेण पुरुषार्थाः प्रयोजका इति पुरु. पार्थशब्देन प्रयोजको लक्ष्यते । क्रत्वर्थशब्देन तु तत्पतियोगिवाचि. नाऽप्रयोजको लक्ष्यते । तेन (१)वक्ष्यमाणं सुखग्रहणार्थ श्रोतबुद्धि. समाधानार्थं च सूत्रेणानेन कथ्यते । नात्र संशयपूर्वपक्षोत्तरपक्षः प्रयोजनम् । अथ वा यो नाम-'विधेः प्रयोजकत्वं नास्ति स हि न ताव- द्वाय्वादिवत्पुरुषं प्रवर्तयेत् , प्रमाणत्वात् । अतः पारिशेष्यात्स. मीहितसाधनत्वप्रतिपादकत्वेनास्य प्रवर्तकत्वमिति वक्तव्यम् । न च तावता प्रवृत्तिः सिध्यति, स्वयमननुष्ठितस्यापि मेघच्छादे. रिव समीहितसाधनत्वसम्भवात् । तस्मादिधेः प्रयोजकत्वाभावा. त्मयुक्तिविशेषविचारो न कर्त्तव्य इति मन्यते-तत्प्रतिबोधनायेदं . (१) क० ख० ग० घ० पुस्तकेषु सर्वत्रैवमेव पाठः। 'वक्ष्यमाणस्य इति पाठोऽपेक्षितः प्रतिभाति ।
७ चतुर्थोऽध्यायः । सूत्रम् । अस्ति प्रयोजकत्वं विधेः, तथा लोके दर्शनात् । कर्तृसमी- हितसाधनत्वं विषयस्य विधिरवगमयति न समीहितसाधनत्व. मात्रम् । ततः प्रवर्तकत्वाद्विधेः प्रयुक्तिलक्षणमारम्भणीयमिति । २-क्रत्वर्थपुरुषार्थत्वलक्षणाधिकरणम् । यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्साऽर्थलक्षणा- विभक्तत्वात् ॥ २ ॥ वक्ष्यमाणयोः कन्वर्थपुरुषार्थयोर्लक्षणमुच्यते। तत्रभाष्यम्- 'यस्मिन् पदार्थ कृते' इयादि 'नान्यथा' इत्यन्तम्(१) तदर्थतोऽनुभाष्याक्षिपति-यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिरुपजायते' स्वर्गादिलक्षणा ‘स पुरुषार्थः पदार्थः' दर्श- पूर्णमासादिः । कुत्तः । 'तस्य लिप्साऽर्थलक्षणेति (२) 'किमुक्तं भवति । यदि तावल्लिप्साशब्देनानुष्ठानमुच्यते(३)' तद्धि पुरुषार्थेषु फलेच्छानिवन्धनत्वादर्थलक्षणं क्रत्वर्थेषु तु शास्त्राय. त्तमनुष्ठानमितिमतम्-तदयुक्तम् । 'न हि क्रत्वर्थेष्वपि विधिना बलात्पुरुषः प्रवल ते'(४) किंतु समीहितसाधनत्वबोधनेनैव । तेनोभयत्रापि सभीहितसाधनत्वावगमे सतीच्छाधीनैव प्रवृत्तिः । अथ साधनतैव पुरुषार्थेष्वर्थलक्षणा क्रत्वर्थेषु शास्त्रायत्तेत्युच्यते- तदपि न युक्तम् , उभयत्रापि साधनत्वस्य शास्त्रायत्तत्वात् । नहि दर्शपूर्णमासादेः शास्त्रमन्तरेण फलसाधनत्वमवगम्यते । (१) शबर पृ०४३६ पं०२-४१. (२) टु०टी०पृ०१. (३) टु०टी०पृ०१. (४) टुल्टी०पृ०१. .
तन्त्ररत्ने- D स्यान्मतम्-लिप्ताशब्देन शेषत्वमुच्यते, अर्थशब्देन चौ. पादानापरपर्यायो विध्याक्षेपः, शास्त्रशब्देनापि विनियोगः तदनेनेहा लक्षणमुक्तं भवति-यस्यौपादानिकमेव शेषत्वं स पुरुषार्थ:-यथा दर्शपूर्णमासादिः यथा च स्वर्गादिः । उभयो- रपि हि यथाक्रमं फलशेषत्वं पुरुषशेषत्वं चौपादानिकम् । सवि तु विनियोगे क्रत्वर्थत्वमिति- .. तदयुक्तम्-तथा हि- अव्यापि लक्ष्यशून्यं च पुरुषार्थस्य लक्षणम् । क्रत्वर्थलक्षणं यत्तु तदतिव्यापकं मतम् ॥ अध्ययनस्य पुरुषार्थत्वमिष्टम् । न च तस्यौपादनिकमर्थ- ज्ञानशेषत्वम् , प्रमाणान्तराधीनत्वाद , विधिना च तस्यानाक्षेपात्। न हि विधिरर्थज्ञानार्थतामन्तरेण न घटते यत्तदाक्षिपेत् । तस्मा- दव्यापकं लक्षणमिति । अपि च न चदृशः पदार्थः समस्ति यस्यौपादानिकमेव शेषत्वम् । दर्शपूर्णमालादेहि यद्यपि फलशे. पत्वमौपादानिकमेव तथापि नियोगशेषत्वं वैनियोगिकं, श्रुति- गम्यत्वात् । यदुच्यते-नियोगविषयतया हि यागरूपं प्रतीयते न तु कस्य चिदुत्पत्त्यर्थतयेति-तदयुक्तम् । उत्पाद्यत्वेनैव हि नियोगः प्रत्ययेनोच्यते कथं तदुत्पत्यर्थता यागस्य नावग- म्यते । प्रकृतिप्रत्ययाभ्यां हि स्वार्थों मिथोऽन्वितावभिधीयते । न चान्वयो गुणप्रधान भावमन्तरेण सम्भवति । व्यक्तं च प्रत्यया. थस्य नियोगस्य प्राधान्यमिति तस्मिन्नुपसर्जनीभूतप्रकृत्यर्थ- - चतुर्थोऽध्यायः । विशिष्टेऽभिधीयमाने श्रौतमेश यागस्य शेषत्वम् । तद्यथा-द्विती यया प्राधान्यवाचिन्या क्रियायाः शेषत्वं बोध्यमानं श्रौतमेव भवति । फलशेषत्वमपि यागस्य नौपादानिकं श्रुत्यादिगम्य. स्वादिति न्यायरत्नमालायां दर्शितम् । तस्मान्न तावद्यागस्यौपा. दानिकमेव शेषत्वम् । फलस्य तु पुरुषशेषत्वं लौकिकमेव । न तत्रोपादानगन्धोऽप्यस्ति । स्वार्थमेव हि फलं कामयमानं कामिनं नियोज्यं स्वीकुर्वाणो विधिः कामं प्रति यागस्य केवलं शेषत्व- माक्षिपति न तु फलस्य पुरुषशेषत्तम् , तस्य पुरुषेण स्वयमेवाव. गतत्वात् । अनवगतत्वे वा नियोगेनाप्याक्षेपायोगा। न हि पुत्रार्थ ब्रह्मवर्चसादिप्रार्थयमानं पितरं नियुआनोऽपि जातेष्टिनियोगः पि. त्रर्थतां ब्रह्मवर्चसादेराक्षिपति । तस्मात्पुरुषार्थलक्षणं तावदयुक्तम् । यदपि सति विनियोगे क्रत्वर्थ इति - तदप्यतिव्यापक अक्रत्वर्थेप्याधाने सद्भावात् । तस्य ह्यग्नीनिति द्वितीया. श्रुतिगम्यमग्न्यर्थत्वम् । तस्मान्न विद्मः कोऽस्य भाष्यस्यार्थ इति । समाधत्ते । 'सत्यं क्रत्वर्थपुरुषार्थ योईयोरपि साध्यसाधनस म्बन्धो वैदिको (१) न प्रमाणान्तरगम्यः तथा वैदिको वैनि योगिको न तु वेदबहिर्भूतोपादानपरिभाषाप्रमाणगम्य इति । न लिप्साशब्देन साधनत्वमुच्यते-यथैकदेशिभिरित्यर्थः-किं तु 'पुरुषार्थे' पदार्थे 'करणमिच्छात एव न नियोगतो न विधितः । 'क्रत्वर्थे त्वनिच्छातः' इच्छातो न कुनस्तर्हि-'नियोगतः'(२)। 'तेन (१) टु टो०-पृ० १. २ (२) टु०टी०पृ० १.
१० तन्त्ररत्ने- करणम्' अनुष्ठानम् 'अभिप्रेसोक्तम्'-तस्य लिप्सार्थलक्षणेति-इ. च्छाधीनेत्यर्थः । तेनेच्छाधीनानुष्ठानः पुरुषार्थः शास्वाधीनानु. ष्ठानः क्रत्वर्थ इति । ननूभयत्राप्यनुष्ठानमिच्छात एव । सत्यम् । एतावांस्तु विशेषः । फले हि पुरुषस्य शास्त्र निरपेक्षस्य रागत: प्रवृत्तेः साध्यमसूतत्वाच साधनानुष्ठान- स्थार्थलक्षणत्वमुच्यते । क्रत्वर्थस्य तु शास्त्रीयक्रतूपकाराय नमनुष्ठान शास्त्रलक्षणमिति । एतदुक्तं भवति स्वयम्प्रार्थितसाध्याधीनानुष्ठानः पुरुषार्थः तदुपकारार्थः क्रत्वर्थ इति । यत्तु विधाद्वयरहितं-यथा- धानमध्ययनं च-न तत्क्रत्वर्थ नापि पुरुषार्थ केवलाग्निविद्यार्थ त्वादिति । एवं च व्याचक्षते-फले तावत्स्वयमेव प्रवृत्तिः तत्सा- धनेऽपि सामान्यतस्तत एव । शास्त्रात्तु विशेषमात्रे। तदङ्गेषु शास्त्रा यत्तसाधनपरिज्ञानोत्तरकालं भवन्ती प्रवृत्तिः शास्त्र लक्षणेति । भाष्यवार्तिकयोरपीयमेव व्याख्या । यत्र सामान्यतः प्र. तिरथलक्षणा स पुरुषार्थः। तद्विपरीतः क्रत्वर्थः तदुपकारार्थ इयर्थः। इतस्थाऽऽधानस्य क्रत्वर्थत्वापत्तेः । तस्मात्स्वयं प्रार्थित- फलनिमित्तानुष्ठानः पुरुषार्थः । तदुपकारार्थः क्रत्वर्थः । तदननैव लक्षणेनार्थात्फलस्याविधेयत्वं मूचितमित्यभि. प्रायेणोक्तम्- फलांशे भावनायाश्च प्रसयो न विधायकः । वक्ष्यते जैमिनिश्चात्र तस्य लिप्सार्थलक्षणेति ॥
चतुर्थोऽध्यायः। यद्वा एतदेवानेन सूत्रेण प्रतिपाद्यते । न हि न्यायशास्त्रे तत्प- तिपादने सम्भवति लक्षणपरत्वमुचितम् । तेनैवं व्याख्यातम् । उक्तं-प्रयोजकाप्रयोजकलक्षणं वक्तव्यमिति । तदभिधीयते । कि फलांशे विधिः प्रयोजको नेति । तत्र करणेतिकर्तव्यतांश वत्फलांशस्यापि विधेयभावनाविशेषणत्वेन विधेयत्वं यो मन्यते तं प्रत्युच्यते । यस्मिन् स्वर्गपश्चादावनुभूयमाने पुरुषस्य प्रीति- सृष्टिर्भवति तस्य लिप्सार्थलक्षणा स्वारसिकीत्यर्थः । अविभ- क्तत्वात् । सर्व हि फलं प्रीत्या ऽविभक्तं भवति । यत्तु भावना. विशेषणत्वात्फलावधानमिति । सत्यम् । विशिष्टविधिर्विशेषणं गोचरयति यद्यन्यतो न लभ्यते । विशिष्टभावनाविध्युत्तर- कालमर्थाद्विशेषणे विधिः कल्प यमानो यत्र विधिमन्तरेण प्रवृत्तिन लभ्यते तत्रैव कल्प्यते नान्यत्रानुपपत्यभावात् । फले च रागत एव निसर्गसुन्दरे पुरुषः प्रवर्तते इति किं विधिना । तस्माद विधेयं फलम् । किं भवति प्रयोजनम् । श्येन विधिनाऽभिचारस्य विधानात्प्रतिषेधाप्रवृत्तेरनर्थत्वं न स्याद्यथा पूर्वः पक्षः। सिद्धान्ने स्वविधानापतिषेधविषयत्वेनानर्थत्वमिति । प्रकृतमनुसरामः । अत्र चोदयति-'दुःखाकरत्वात्कथं याग: पुरुषार्थः (१) । यदि पुरुषस्यानुकूल वेदनीयं तत्पुरुषार्थम् । न च दुःखाकरस्य यागस्यानुकूलवेदनीयता ऽस्तीति । उत्तरत्वेन ‘अविभक्तत्वादिति'(२) सूत्रावयवं योजयति- -- (१) टु० टी० पृ०२॥ (२) मी०स० ४-३-२।
१२ 'साध्येनाविनाभावालाधनस्य पुरुषार्थतोक्ता (१) । साध्ये प्रार्थयमानस्य साधनमन्तरेण तदलाभात् साधनमप्यनुकूल. वेदनीयं भवत्येवेति । 'एवं वा फलार्थवादत्वादनुदाहरणमनतिदृश्यमित्यादि'(२) गतार्थम् । 'गोदोहनादीनि वाक्यात्पुरुषार्थानि प्रत्यक्षेण ऋतूपकार- काणि दृश्यन्ते । तस्मात्समुच्चयेन पूर्वः पक्षः (३)। अस्यार्थः । यद्यपि पशुकामपदसमभिव्याहारात्पुरुषार्थत्वन्तस्य तथापि क्रत्वर्थप्रणयनाश्रयणात्तन्मुखेन तूपकारकत्वं तावदवश्यमङ्गी. कर्तव्यम् । तत्र ययनङ्गमेवेदं क्रतोः स्यात्ततस्तस्य स्वाहा नाद्वैगुण्यं स्यात् । विगुणक्रत्वाश्रयाच गुणादपि न फलं सिद्ध्येत् । तस्मादुभयानुग्रहार्थं क्रत्वर्थत्वमप्येषामस्त्विति । 'सिद्धांतस्त्ववधारणया'(४)। कथमवधारणा । 'पुरुषार्थान्ये - देते(५) । कुतः । 'तादर्थ्यलक्षणेन शेषत्वेन (६)-तादर्य लक्ष णत्वाच्छेषत्वस्ये यर्थः। न ह्युपकारलक्षणं शेषत्वं-येन क्रतूपका. रत्वात्तच्छेषत्वं स्यात्-किं तु तादर्यलक्षणम् । न चैषां क्रत्वर्थत्वे प्रमाणमस्ति, वाक्यस्य पुरुषार्थत्वमात्रे पर्यवसानात् , प्रकर णस्य च संयुक्तेष्वायत्तेः, अनङ्गस्यापि चोपकारकत्वाविरोधात् । यत्तु क्रतोर्वैगुण्यं स्यादिति-तद्यदि चमसलोपाभिप्रायेण - हन्त त्वत्पक्षेऽपि समानम् । यद्यपि गोदोहनं क्रतोरङ्गं स्यात्तथापि , (१-३) टु० टी० पृ०२॥ (४-६) टु० टी० पृ० २।
चतुर्थोऽध्यायः । १३ . अन्यत्र . तद्वति प्रयोग चमो न प्रवर्तत एव । अथाङ्गत्वे सति- -तत एवं क्रतूपकारसम्पत्तेरङ्गमपि चासो नाद्रियेत । उपकाराय ह्यंगान्य- पेक्ष्यन्ते न स्वनिष्ठानीति । तथा सति पुरुषार्थेनापि तत्सम्प. त्यविशेषादङ्गलोपो न दोषः । अतश्च यथैव नैमित्तिकेन साप्त दश्यादिनाङ्गेनावरुद्ध प्रयोगे ऽपि नित्यपाञ्चदश्यादेरनङ्गत्वं तथा पुरुषार्थेनानङ्गेनाप्यवरुद्ध प्रयोगे तद्वाधादेव चमसादेर नङ्गत्वा. तल्लोपो न दोषः । तेन पशुकामप्रयोगे प्रणयनमात्रमङ्गम् , तु चमससाधनकं प्रणयनमिति पुरुषार्थान्येव गोदोहनादीनि । अत्र भाष्यकारेण पूर्वपक्षावस्थायां प्रत्यक्ष उपकार स्तेभ्यो दृश्यत'(१) इत्युक्त्वा 'द्रव्यगुणसंस्कारेषु वादरि- रि'त्युक्तम्(२)। सिद्धान्ते तु-'न च य उपकरोति स शेषः । यस्तु यदर्थः श्रूयते स तस्य शेष' (३)इत्युक्त्वा 'शेपः परार्थत्वादि'- त्युक्तम्(४) । 'अस्माच्च भाष्यग्रन्थादनुमीयते वादरिमते पूर्वः पक्षस्तत्र' वादर्यधिकरणे इति(५) । वादयधिकरणं हि द्वेधा व्याख्यातम् । उपकारलक्षणशेष- स्वाभिप्रायेण द्रव्यादिष्वेव शेषत्वमिति शेषत्वावधारणया वाद- रिमतं पूर्वपक्षं कृत्वा कादिष्वपि शेषत्वमस्ति पारायं लक्षण. त्वादिति जैमिनिमतं सिद्धान्तितं प्रथमे व्याख्याने । द्वितीये तु वादरिमतमपि सिद्धान्तमङ्गीकृत्य द्रव्यादिषु शेषत्वमेवेति द्रव्या. (१-४) शबर० पृ० ४३६ । (५) टु० टी० ० पृ०२ ।
D १४ तन्त्ररत्न- दीनि शेषत्वेन नियम्य कर्मादेिषु शेषत्वं शेषित्वं चेत्युक्तम् । तत्र प्रथममेव व्याख्यानमभिमतमित्यतो ग्रन्थादनुमीयते । 'एवं वाद्रव्यार्जन नियमः क्रत्वर्थः (१) । द्रव्यार्जनं च तन्नियमश्च द्रव्यार्जननियमः । यदिदं प्रतिग्रहाद्युपायेन नियतं द्रव्यानं तत् क्रत्वर्थमित्यर्थः । कुतः । 'तेन' 'क्रतुना' हि द्रव्य. माकाङ्कित तेन क्रतुविधिनवार्थाद्विधीयमानत्वात् द्रव्यार्जनं क्रत्व- र्थम् । युक्त्यन्तरं चाह–'तदित्थमुपादेयम् । यदेव क्रत्वर्थ (१) टु० टी० पृ० २। *इदं पाठान्तरं 'क' 'ग' पुस्तकयोः पाठान्तरत्वेनस्पष्टं निवेशि- तम् । एवं वा-द्रव्यार्जनमेवात्र चिन्त्यते किं क्रत्वर्थ पुरुषार्थमिति । नियमस्तु पूर्वपक्षे हेतुत्वेनोच्यते। यदर्थं च द्रव्यार्जनं तदङ्गभूतो नियमोऽपि तदर्थ एव, अङ्गप्रधानयोरेकार्थत्वात् । तत्रार्जनस्य क्रत्वर्थमुपपादयितुं नियमस्य तावत् क्रत्वर्थत्वमाह-'द्रव्यार्जननि. यमः क्रत्वर्थः । ननु कतावर्जनाभावात् कथं तन्नियमस्य क्रत्वर्थता - अत आह–'तेन हि' ऋतुना 'द्रव्यमाकासितम्' । तस्मात्क्रतुना सहास्यैकवाक्यता, अपेक्षितत्वादिति' ग्रन्थसम्बन्धः । कथमेकवा. क्यतेत्याह-यत् क्रतोरपेक्षितं द्रव्यमवश्यं येन केन चित्प्रकारे- णोपादेयं-तदित्थमुपादेयं-प्रतिग्रहादिना नान्यथेत्यवं क्रत्वेकवा. वाक्यता । तस्मात्क्रत्वर्थः, यथावधातादयः । तस्मात् क्रतुविधिना अर्थात् द्रव्यार्जनमाक्षिप्तमिति युक्ता तन्नियमस्य क्रत्वर्थता । तस्मा. दर्जनाङ्गमेव नियमो न स्वयं फलवान् । न चाक्रत्वर्थत्वे द्रव्याज. नस्य तदङ्गता नियमस्य घटत इत्यङ्गवशेन क्रत्वर्थमेवार्जनमग्निव- शेनेवाहिताग्निविषयाः क्रतवः । तस्मात् क्रत्वर्थमेव द्रव्यम् । तस्मा- देव तु पुरुषस्यापि जीवनमनुपपत्या क्रतुरेवानुमन्यते इति ।
चतुर्थोऽध्यायः । १५ ननु पुरुषार्थमपि द्रव्यं अपेक्षितम् । तत्कथमेकान्ततः क्रत्वर्थ स्वमत आह– 'इतरत्र' पुरुषार्थपक्षे सत्यं द्रव्यमाकाङ्कितं तत्क्षु- प्रतिघातार्थ ततः किमित्याह-'अनियमेनाप्युपात्तं क्षुधं विहन्त्येव' तस्मान्न तत्रार्जनस्य पुरुषार्थत्वपक्षे नियमस्य विधीयमानस्य फल मर्जनाङ्गतायां घटते । न ह्येवं नियन्तुं शक्यते-प्रतिग्रहोपार्जितमेव द्रव्यं ब्राह्मणस्य क्षुत्क्षयकरमिति । अन्यादृशेनापि तत्क्षयदर्शनात् । अथादृष्टमेवमुपात्ते द्रव्ये भवतीति कल्प्यते तथा सत्यश्रुतफलव. चननैकवाक्यतादोषः । तदाह-'अश्रुतमप्यध्याहृत्य तेन सहैकवा. क्यता' नियमस्य 'कल्पयितव्या' । सा चान्याय्यति । यैस्तु नञ् न पठ्यते तेषामेकग्रन्थतैव-'अनियमेनाप्युपातं क्षुधं विहन्त्येव । तस्मात्तत्र नियमस्य फलमश्रुतमध्याहृत्य तेन सहकवाक्यता कल्पयितव्यति। ननु क्रत्वर्थत्वपक्षेऽपि तदेकवाक्यता कल्प्यैव अप्रकरणस्थत्वादत आह–'इतरत्र' क्रत्वर्थत्वपक्षे श्रुतेन क्रतुनैकवाक्यता, एतदुक्तं भव. ति-पक्षद्वयेप्येकवाक्यता कल्प्या । त्वत्पक्षे त्वश्रुतेन मम तु श्रुते. नेति । क्रत्वर्थे च द्रव्यार्जने सति 'हिरण्यादिनाशे च क्रत्वर्थ'द्रव्य नाशात्क्रतुवैगुण्ये क्रतुवैगुण्यादित्यर्थः । 'क्षामवत्यादीनां ऋतुप्रतिस माधानार्थमुपदेशो युक्तो' भवति । 'इतरत्र' तु पुरुषार्थत्वपक्षे 'क्रतु. वैगुण्याभावात्' समाधानापेक्षा नास्तीति-'फलकल्पनैव' । या द्रव्यार्जननियमस्य दोषत्वेनोक्ता फलकल्पना सैव प्राप्रोति । तस्मा. क्रत्वर्थत्वम्-इत्येवं प्राप्ते ब्रूमः । 'श्रुत्याद्यभावादनङ्गं क्रतो'रजनम् । नन्वसत्स्वपि श्रुत्यादिषु प्र. योजनेन तावद्भवितव्यम् । तत्राश्रुतफलवचनेनैकवाक्यतातः श्रुतेन क्रतुनैवैकवाक्यत्वं युक्तमत आह-'पुरुषस्य च प्रीतिमुत्पादयः न्ति'-अर्थाः- 'कामचतिनिरपेक्षाः' । प्रत्यक्षमेवैतदर्जितं द्रव्यम्- तन्त्ररले- मय ऋतुसम्बन्धमनपेक्ष्यैव-'पुरुषं पीणयतीति' तदर्थमेवार्जनम् । ननु चैवं नियमस्यानर्थक्यं भवति । अन्यथोपात्तेनापि पुरुषः प्रीयत एव । अतो नियमस्यावश्यमदृष्टं कल्पयितव्यम् । सत्यम् । तत्तु क्रत्वर्थत्वेऽप्यविशिष्टम् । तत्रापि ावश्यमेवं वि. धमर्जनं द्रव्यद्वारेण तत्साध्ये क्रतापकारविशेषमादधातीतिकल्प यितव्यमेव । तदप्रतिपन्नक्रतुगतादृष्टकल्पनातः स्वभावपुरुषार्थद्र व्याजनविषयस्य नियमस्य तद्वारप्रतिपन्नतच्छेषिभूतपुरुषार्थत्वा. वगमात्तद्गतमेव यावजीवादिनियमवत्प्रत्यवायपरिहाररूपं प्रयोजन युक्तम् । तेन नियमस्यापि पुरुषार्थत्वान्न तद्वशेनापि द्रव्यार्जनं क्रत्व. र्थ किमिदानी प्रतिग्रहः प्रत्यवायक्षयकरः। यद्येवं अजस्त्रमेव यथा. शक्ति प्रतिग्रहीतव्यं स्यात् । तन्न । प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेदिति प्रतिषेधात । तेन, दायशिलोञ्छायाचिताभावे यथाकथं. चिद्रव्योपादाने ऽवश्यंभाविनि प्राप्त प्रतिग्रहादिनैव कुर्वतोऽदृष्टसि. द्विरिति कल्पयते। अन्ये तु प्रतिग्रहादिनियममुपायान्तरप्रतिषेधार्थ व्याचक्षाणा. स्तेषामेव प्रत्यवायकरत्वं कल्पयन्ति, न तु प्रतिग्रहादीनां किञ्चि- रफलम् । 'नियमवचनात्काममदृष्टं कल्पयेते ति भाग्यमुपायान्तरण त्यवायकल्पनपरं, न प्रतिग्रहादिफलकल्पनपरमिति न कश्चिदोषः । इतश्वनाङ्गं क्रतोः क्रतुविधिना द्रव्यार्जनस्यानाक्षेपात् । यदि हि तेना. क्षिप्येत कतस्तद्गोचरो नियमः क्रत्वेकवाक्यतां यायात्-न त्वेतद. स्तीत्याह-'शरीरधारणार्थमेवासौ' पुरुषो द्रव्यं-'उपादत्ते । अ. न्यथाऽनुपपत्त्या च कामः श्रुतिभिराक्षिप्येत' । न चासावस्तीत्याह- 'तत्र पुरुषार्थेनोपार्जितमस्तीत्यन्यथाऽनुपपीत्तः क्षीयते' । (१) (१) 'यथा आधाने वसन्तादिविधिप्रयुक्ते लब्धेन कामश्रुतीनां तदाक्षेपकत्वम्' इत्यधिकमत्र 'क' पुस्तके । - चतुर्थोऽध्यायः द्रव्यार्जनं तदेवेत्थं प्रतिग्रहाशुपायनियमेनोपादेयं भवति, 'यथा- ऽवधातादयः क्रत्वर्थाः एत्रमयमपि नियमः । तस्मात् ऋतु- विधिनैव सहास्य'नियमविधरे कर कवाक्यताऽपेक्षितत्वात् । क्रत्वपूर्व ह्यदृष्टत्वानियममपेक्षते । प्रतिग्रहाद्युपायनियमस्तावत् द्रव्यार्जनो. द्देशेन विधीयमानस्तदङ्गम् । अङ्गं च स्वरूपे कार्ये चोपयोगि भवति । न चायं नियमो द्रव्यार्जनस्वरूपे उपयुज्यते । विनापि तेन तत्सिद्धेः । कार्यमपि यदि क्रत्वपूर्व स्यात्तस्यादृष्टत्वात्तदुप. योगित्वं नियमस्य युक्तं भवति । तस्मानियमबलादेव द्रव्यानं ऋत्वर्थमिति कल्प्यते । 'इतरत्र' पुरुषार्थत्वपक्ष क्षुत्प्रतिघातार्थ द्रव्यमनियमेनाप्युपातं क्षुधं व्याहन्त्येव । तस्मान्न तत्र नियमस्य फलमस्ति द्रव्यार्जनस्वरूपे तत्कार्ये वा, अनुपयोगात्तत्रार्जनाङ्गत्वं प्रतीयमानमुत्सृज्या श्रुतं फलमध्याहृत्य तेन सहैकवाक्यता' नि. यमस्य 'कल्पयितव्येति' । यैस्तु न न पठ्यते तेषामेकग्रन्थ तैव । 'तस्मात्तत्र नियमस्य फलमश्रुतमप्यध्याहृत्य तेन सहैवाक्यताक- ल्पयितव्येति' । ननु क्रत्वर्थत्वेऽपि तदेकवाक्यताकल्पयितव्यैवात आइ- 'इतरत्र'(१) क्रत्वर्थत्वपक्षे-'श्रुतेन'(२) क्रतुविधिना-'एकवा. ता(३) तदन्यत्राश्रुतेनेति विशेषः । तस्मात्सर्वमेव द्रव्यं क्रत्व थम् , तन्मात्रोद्देशेन नियमविधानात् । अवघातादिनियमो हि प्रकरणस्थत्वात्क्रत्वर्थत्रीयुद्देशेन विधीयमानो न वीहिमात्रस्य (१-३) टु टी०पृ०२।
१० तन्त्ररत्न 4 क्रत्वर्थतामापादयतीति । प्रतिग्रहाद्युपायनियमस्तु द्रव्यार्जनमात्रो. इंशेन विधीयमानस्तन्मात्रस्यैव ऋत्वर्थता सूचयति । तस्मात्सर्व द्रव्यं क्रत्वर्थम् । कन्वर्थे च द्रव्याने सति-'हिरण्यादिनाशे च क्रत्वर्थद्रव्यनाशात् क्रतुवैगुण्य क्षामव यादीनां ऋतुप्रनिसमाधा- नार्थमुपदेशो युक्तो'(१) भवति । तदा ह्यव्यभिचरितक्रतुसम्ब• न्धव्यमुखेन क्रतुरुपतिष्ठते । 'इतरत्र'(२) पुरुषार्थपक्षे ऋतु- 'वैगुण्याभावात(३) क्रतोश्चानुपस्थानात्तत्समाधानापेक्षा नास्ती. ति (४) फलकल्पनेव' प्राप्नोति । तस्मात् क्रत्वर्थत्वं द्रव्या. जनस्य --- 'इसेवं प्राप्ते ब्रूम'(५) । (६)श्रुखाद्यभावादनङ्ग क्रतोः पुरुषस्य तु प्रीतिमुत्पादय. न्य'जिता अर्थाः- 'कामश्रुतिीनरपेक्षाः (७) ज्योतिष्टोमेने त्यादिनिरपेक्षाः । तस्मात्पुरुषार्थमजनम् । यत्तु ऋतुविधिविहितत्वात्वर्थतति-तत्राह--'शरीर- धारणार्थमेवासौ(८) पुरुषो द्रव्यम्-'उपादत्ते'(९) । किमित्यत आह-(१०) अन्यथानुपपत्त्या हि-'कामश्रुतिभिः राक्षिप्येत । तत्र पुरुषार्थनोपार्जितमम्तीति'(११) तेनैव क्रतो. रपि सिद्धेः--'अन्यथानुपपत्तिः(१२) क्षीयते, यथाऽऽधाने' वसन्तादिविधिप्रयुक्ते लब्धेन कामश्रुतिभिस्तदाक्षिप्यते तथैतदपि। 'अपि च क्रत्वर्थे द्रव्याजने ऋतुविधातः'(१३) एव- 'स्यात्'(१४) । कुत इत्याह-देवतोद्देशेन च स्वद्रव्यपरियागे' ततः (१-७) टु० टी० पृ०२। (८-१४) टु० टी० पृ०२।
, चतुर्थोऽध्यायः। १९ (१) क्रियमाणे-'यागो भवति'(२) । च शब्दो हेनौ भिन्नक्रमश्च । (३) स्वद्रव्यपरित्यागे' हि क्रियमाणे 'यागो भवति (४) ततः किमित्याह--'क्रतुपयुक्तत्व (५) स्वीय द्रव्याभावात्परि- त्यागो नास्तीति'(६)क्रतुविधातः स्यात् । यथेष्टविनियोज्यत्वं हि स्वत्वम् । केवलक्रत्वर्थत्वे त्वन्यत्राविनियोगाद्यथेष्टावनियो- ज्यत्वाभावात्स्वत्वाभाव इति । एतच्च प्रायेणैवंभूतस्य स्वत्व- मुपलब्धमिति मत्वोक्तं न स्वेतदेव तन्त्रम् , क्रत्वर्थतयैव क्रये. णोपात्तस्य सोमस्य स्वत्तानपायादिति । एवं च नियमस्या- नाङ्गत्वात्तदतिक्रम पुरुषस्योपायान्तरेणार्जने प्रत्यवायः कल्प्य ते, न तु क्रत्वर्थत्वं प्रमाणवदिति । (७)अत्रानन्तरम् 'अपि चे'त्यादिभाष्यम् । तदेवं सति प्रयोग कालादहिरित्यनेन सङ्गतार्थत्वात्तत्रैवोत्क्रष्टव्यमित्यभिप्रेत्य लिङ्ग- दर्शनभाष्यमनुसंधत्ते ---(८) द्रव्याने च प्रक्रान्ते सर्वक्रतूनां प्रक्रमात् अपवा एष स्वर्गाल्लोकाच्छिद्यत इति' । (९)अने नापि चो पक्रान्तानी' यादि-'अतिपातयेत्'(१०)-इत्यन्त भाष्यम- र्थतः पठितमाक्षिपति--(११) यद्यारम्भविषयमतिपातन' पौण मास्यमावास्याशब्दयोः प्रधानयजिनामत्वात्प्रधानारम्भविषय- मतिपातनं 'ततो घटत'(१२) एव । पूर्वपक्षेपेि लिङ्गमङ्गभूत. (१-६) टु० टी० पृ०२। (E) टुल्टी०पृ० २। (११-१२) टुं० टी० पृ०२। (७) शबर० पृ० ४३७ । (९-१०) शवर० पृ० ४३७-४३८ ।
२० द्रव्यार्जनारम्भेऽपि प्रधानभूतमज्यनारम्भोपपत्तेरिति-- समाधत्ते (१) अथवाऽङ्गारम्भेणैव प्रधानस्यारब्धत्वादति- पातनाभाव: । पुनराक्षिपति - -(२) यागाकरणादतिपातनं यत्तदितरवापि पूर्व पक्षेऽपि घटत एव' । यदि ह्यनारम्भोऽति- पाननं स्यात्ततोऽङ्गभूतद्रव्यार्जनारम्भेणैव प्रधानारम्भात्तदति- पाननं न स्यात् । अननुष्ठाने त्वतिपातने सम्भवसङ्गानुष्ठानेऽपि प्रधानाननुष्ठानमिति सम्भवत्येव पूर्वपक्षेऽप्यतिपातनदर्शनमिति नातीव सिद्धान्तलिङ्गतया स्थातव्यमिति । ये तु नियमस्यैव क्रत्वर्थत्वं पुरुषार्थत्वं चिन्तयन्तः पुरुषा. र्थमपि द्रव्यार्जनमस्तीति मन्यन्ते तेषां पुरुषार्थस्यापि द्रव्या- सद्भावान नियोगतस्तदनुष्ठाने कर्मोपक्रमः- स्यात् । तत्रोपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुरिति(३) लिङ्गदर्शनभाष्यमयुक्तं स्यात् । यदपि क्षामवत्यादीनां क्रत्वे. कांतद्रव्यसम्बन्धः पूर्वपक्षे लभ्यते इत्युक्तं तदपि पुरुषार्थस्यापि द्रव्यस्य सिद्धान्तवत्यूर्वपक्षेऽपि सम्भवादनुपपन्नं स्यादित्या. स्तां तावत् । (४) क्रत्वर्थे तु' द्रव्यार्जन बहिः प्रयोगेणानुष्ठीयमाने ऽगृह्यमाणविशेषतया सर्वार्थत्वात्तदनुष्ठानेन-'सर्वक्रतूनां प्र क्रमात्'(५) युगपत्सर्वानुष्ठानासम्भवादन्यतरानुष्ठानप्यनध्य वमायात् प्रक्रान्तां चावश्यं समापनीयत्वादीश्वरेणापे च सर्व नस्य (१-२ टु०टी०पृ० २। (३) शबर० पृ० ४३७ । (४५) टुल्टी०पृ० २।
समापनस्य चतुर्थोऽध्यायः २१ दुःशकत्वात --(१) अशकनीयोर्थः स्याद शेषि विरोधात् । (२) अपि च यदि शास्त्रात्कर्मार्थ द्रव्यानं तन्नान्यत्र' जीवनादौ-(३) विनियुज्येत तथार्जितं" द्रव्यं तत्र' जीवनलोपात् (४) सर्वतंत्रपरिलोप: स्यात्' इनिभाष्यार्थमाह-(५)क्रत्वर्थे च द्रव्याजने सति---(६) तथार्जितस्य' क्रत्वर्थत्वेनार्जितस्य-- 'अन्यत्राविनियोगाच्छरीरनाशात्सर्वतन्त्रपरिलोप: स्यात्'(७) । ननु मा नाम तथार्जितमन्यत्र विनियोजि पुरुषार्थाजितेन जीविष्यत इत्यत आह-- (८)'न च' पूर्वपक्षवादिनो--'दे द्रव्याने (९) विद्यते 'एक क्रत्वर्थमपरं पुरुषार्थ'(१०) 'किं तर्हि एकमेवेदं कुत इत्याह- (११)'द्रव्यमुपाददानस्यैयेते (१२) प्रतिग्रहादयो- 'नियमा उपः दिश्यन्ते पुरुषस्येति'(१३) हेतोः द्रव्योपादानमात्रोद्देशन निय. मविधानात्तन्मात्रस्य ऋत्वर्थतेति पूर्वपक्षवादिनो मतमिति । अत एव बहिः क्षामवत्यादीनां क्रत्वर्थता पूर्वपक्षे वर्णिता । अ. न्यथा क्रत्वनेकान्तद्रव्यसम्बन्धात् सिद्धान्ततुल्यत्वं स्यात् । तेन न पूर्वपक्षे द्रव्यार्जनविशेषोद्देशेन नियमावधिः, विशेषप्रमाणाभावा. व । तेन तन्मात्रे नियमविधानादन्यथोपात्तं द्रव्यं नास्त्येव । एतच्च ऋत्वर्थत्वमेवेत्यन्यत्र अविनियोगात् सर्वतन्त्रपरिलोपो दूषणमुच्यते । (१) टु०टी०पृ.२। (२-४) शबर० ४३७ । (५-११) टु०टी०पृ २-३ । (१२) अत्र मुद्रितपुस्तके 'एव' इति पाठो न दृश्यते । (१३) टी०टी०पृ०३१ -- २२ तन्नर तथा य तु सर्वतन्त्रपरिलोपं क्रत्वनुष्ठान परिलोएं व्याचक्षते तपामय ग्रन्थस्तावन्न घटते । कर्मार्थमुपात्तमन्यत्र न विनियुज्यतेति । कर्मभ्योऽन्यत्रेति हि गम्यते । न च क्रत्वनुष्ठानलोपः शक्यते वक्तुम् । तेषां हि मते नियममात्रस्य पूर्वपक्षे क्रत्वर्थता न तु सर्वस्यार्जनस्य । तेन नार्जितं द्रव्यं सर्व सर्वक्रतूनामङ्गं येन कचिद्विनियोगो न युक्तः स्यात् । तेनोपस्थिते कस्य चित्कर्म- णोऽनुष्ठाने कम्मर्थिद्रव्यस्यार्जनेन वा प्रतिग्रहादिना पूर्वमर्जि- तस्य संकल्पवशेन वा तत्कर्मार्थतामेवापादयति न सर्वार्थताम् । हि-- अनेकपुरुषसाधारणस्येवाने कक्रतुसाधारणम्यापि संविभागेनासाधारण्यं सम्पाद्य सम्भवत्येवानुष्ठानम् । तथा च दर्शपूर्णमासयोः सहावनंतीतिवचनात्संसृष्टं ब्रीह्यादिद्रव्यमाग्नेया. नीषोमीयसाधारणमपि विभज्य पश्चात्कर्मानुष्ठीयते । यद्यपि तत्र परमापूर्वमेकमस्ति तथाऽपि प्रत्येक कार्थता विभागेनैव क्रियते इति नास्ति क्रत्वनुष्ठानलोपः । तस्मात् यथोक्त एव भाष्यार्थ इति । 'एवं च सति प्रयोगकालावहिरेतदङ्ग सदनुपकारक स्यात्'(१) इति भाष्यं व्याख्यातुमनुभाषितं तत्राशङ्काऽतिपातनन- न्थान्तरमिदं भाष्यं कथं सर्वतन्त्रपरिलोपानन्तरं व्याख्यायत इति । तत्राह--'अनन्तरेण (२) अतिपातन ग्रन्थेन नायं ग्रन्थः सम्बध्यते । कथं तर्हि (३)-केन तर्हि सम्बध्यत इत्यर्थः । तत्राह-- (१) शवर०पू० ४३८ । (२) टुल्टी०पृ०३। (३) अत्र मुद्रित पुस्तके 'न' इति पाठो न दृश्यते । -- चतुर्थोऽध्यायः। so 'सर्वतन्त्रपरिलोपः स्यादित्यस्यायं शेषः (१)। तेनातिपातन ग्रन्था. स्परतस्तं ग्रन्थमुत्कृष्य तच्छेषत्वेनायं ग्रन्थो योजनीय इति । तेनायं भाष्यार्थः-प्रयोगकालाहि तमपि यदेतङ्गत्वेनाभिमतं तदेवं साते सर्वतन्त्रपरि लोपप्रसङ्ग सत्यनुपकारकं क्रतोःस्यात्, प्रत्यु. त विघातकमेव स्यात् । शरीरविघानेऽनुष्ठानावघातादिति । यथावस्थिते वा पूर्वग्रन्थे शक्य ते एवायं ग्रन्थोव्याख्यातुमि. ति मत्वा व्याख्यानान्तरमाह-'अथ वा प्रयोगवचनबहिर्भा. वात्' (२)-अप्रकरणस्थत्वात् 'नेदं फलवतः (३) क्रतो:-'अङ्ग- म्'(४) न चाप्रकरणस्थस्यापि जयादिवच्छुत्यादिभिरङ्गत्वं तदभा वादित्याह-'श्रुत्याधभावात् (५)। नाङ्गमित्यनुषङ्गः । भाष्यस्य चायमर्थः । एवं सतीति न पूर्वोक्तोपजीवनं किं तर्हि द्रव्यार्जनस्य क्रत्वर्थत्वेऽयं दोषो निःप्रमाणकत्वं कथम् । यदेतदङ्गत्वेनाभिमतं द्रव्यानं तत्प्रयोगकालात्प्रयोगवच. नस्याङ्गजिघृक्षा यावन्तं कालं मनसि विपरिवर्तते तस्मात् कालाहिर्भूतं सत् नाङ्गं स्यादित्यर्थः । ननु-'अनुपका- रकमितिभाष्यं(६) तत्कथमनङ्गमिति व्याख्यायते। तत्राह-'अ. ङ्गत्वे चापनीतेऽनुपकारकं स्यादिति फलेनायं ग्रन्थः(७) । अङ्गत्वस्य फलमुपकारकत्वं तन्निराकरणद्वारेणाङ्गत्वनिराकरण- मेवेदमिति । एवं सति यत् सिद्धान्तोपक्रम-(८) श्रुत्याद्यभावा. (६) शबर० पृ० ४३८ । १-५) टु० टी० पृ० ३। (७-८) टु० टी० पृ०३।
तन्त्ररत्ने- दनङ्ग क्रतो रित्युक्तं तदस्यैव भाष्यस्य प्रतिपाद्यं सत्प्रधान हेतुतया तत्रैवोक्तम् । इदानीं भाष्यारूढं क्रियत इति वेदितव्यम् । व्याख्यानान्तरमाह-(१) अथ वा प्रधानकालत्वादङ्गानाम: न्यस्मिन् काले क्रियमाणमनुपकारकं स्यादिति' । 'न चाऽऽधा- नवद्भवितुमर्हतीति'भाष्यं(२) चरमे व्याख्याने तदेकवाक्यतया व्याचष्टे ।. 'यथाऽऽधानमन्यकालमपि प्रधानस्योपकारकं नैव. मिदं (३)-द्रव्यार्जनं-कुतः-'कालविधेरभावात्('४) । आधाने हि कालविधिरस्ति वसन्ते ब्राह्मणोऽनीनादधीतेति । 'तस्माद क्रत्वर्थ सदन्तस्तन्त्रमुत्पाद्यं स्यात् (५)। एतदेव दर्शयति-'य एवं क्रतुः प्रक्रान्त स्तमेवोररीकृत्य द्रव्यमुपादत्ते (६) । उपादे. यमित्यर्थः। ततः किमित्यत आह-(७) एवं च'- अन्तस्तन्त्रं (८) द्रव्याने'-क्रियमाणे सत्ययमपि लाभो भवति-न(९) 'सर्वकम्माणि प्रक्रान्तानि भवेयुः(१०) । एतदेव दृष्टान्तेनोपपा दयति-'यथाऽऽवहन्तिः पौर्णमासे क्रियमाणे न सौर्यस्योपक गेती'ति(११) न तदनुष्ठाने सौर्यस्योपक्रमो भवति । एवमिहा- -- (१) टु० टी० पृ०३। (२) शबर० पृ० ४३८ । अत्र मुद्रित टुप्टीकायां 'न चैतदाधानव- दिति पाठो दृश्यते। (३-७) टु० टी० पृ०३। (८) टु० टी० पृ० ३ । अत्र मुद्रितपुस्तके 'द्रव्यार्जननेति तृती- यान्तः पाठो दृश्यते। (९) 'न' इति पाठो मुद्रितटुप्टीकाग्रन्थसम्मतो न प्रतिभाति । (१०-११) टु० टी० पृ० ३ ।
२-क्रत्वर्थपुरुषार्थलक्षणाधिकरणम् ] चतुर्थोऽध्यायः ! पि नान्यस्य क्रनोरन्तः कृतं द्रव्यार्जनं क्रत्वन्तरमुपक्रान्तं करो. तीति नावश्यं रूमापनीयं स्यात् । (१) तस्मात्' क्रत्वर्थत्वे मति कालविध्यभावात् सर्वकर्मप्रक्रमदोषपरिहाराच-'प्रतिकर्म द्रव्यार्जनं न सर्वकर्मणां तन्त्रेणेति'(२)-युक्तम् । न चैतदिष्टम् । न च सम्भवति, क्रतुधिलोपप्रसङ्गात् । कदाचिद्धि क्रतुः प्रक्रान्तः स्यान्न चाय॑मानं द्रव्यं लभ्यते । तस्मान्न त्वर्थमिति । व्याख्यानान्तरमाह-'न चाऽऽधानवद्भवितुमर्हतीति । यथा ऽऽधान'(३)- अन्यर्थ-'न क्रत्वर्थ नापि पुरुषार्थ (४)-एवं द्रव्या- जनमपि केवलं द्रव्यार्थमेव कस्मान्न भवतीति निराकृतवपक्षस्य पूर्व पक्षिणः सिद्धान्तप्रतिबन्धमात्रफलं चांद्यम् । पार्श्वस्थस्य वा कस्य चिदाशङ्काऽनेन निराक्रियते । अस्मिंश्च पक्षे ऽन्यकालता न दोषः । न च सर्वारम्भप्रसङ्ग इति । निराकरणाभिप्रायमाह-उच्यते । आधानस्य वाक्येनान्यार्थतावगता । वसन्ते ब्राह्मणोऽग्नीनादधी- तेति श्रौतेऽपि विनियोगे विशेषणविशेष्यभावो वाक्यायत्त इति वाक्येनेत्युक्तम् । वाक्योदाहरणभाष्ये च (५)नत्र हि वचनं-'ब्रा. ह्मणोऽग्निमादधीत त्यत्र पूर्वव्याख्यायां कालविधिद्योतनाय वस- न्तपदमुच्चैः पठितव्यम् । इदानीं तु द्वितीयान्तमग्निपदमग्न्यर्थ. स्वद्योतनार्थमुच्चैः पठितव्यमिति । अस्य पुनरन्यार्थत्वे. प्रमाणं (१-४) टु०टी०पृ०३ (4) शबर पृ० ४३८ । अत्र मुद्रितभाष्यपुस्तके 'ब्राह्मण' इत्यस्य स्थाने 'वसन्ते' इतिपाद उदाहरणवाक्ये संयोजितो दृश्यते।
२६ तन्त्ररत्ने- [पादः१-मूत्रम्--२. नास्ति । प्रत्यक्षेण तु पुरुषार्थताऽवगम्यते । नन्वर्जनम्याय॑मानार्थता स्वभावादेव सिद्धा । पुरुषार्थ ताऽपि चास्य तद्वारेणैव न त्वारादुपक्रियारूपेण । तत्कथमन्यार्थ स्वे प्रमाणं नास्तीत्याशंक्योत्तरत्वेनास्यैव भाष्यस्याभिप्रायांत- : रमाह- 'अथवाऽऽधानेनामय(१) उत्पाद्यन्ते'(२)। ततस्तस्य तन्मात्रा. थता युक्ता । 'नत्वतेन'(३)-अर्जनेन-'ब्रीह्यादय(४) उत्पाद्यन्ते; अतो. न तत्स्वरूपमात्रार्थमर्जनम् । तद्वारेण वन्यार्थमेवार घातादिवत् । तत्र च क्रत्वर्थत्वे प्रमाणाभावात्पुरुषार्थत्वमिति । भाष्यं चानीनादधीतेति निर्वयकम्र्माभिधायि द्वितीयांप्रदर्शन पर व्याख्येयम् । अग्नीनादधीतेति निर्वर्स कम्माभिधायिन्या द्वितीययाऽग्नीनां निवर्त्यत्वावगमात्तनिवर्तकमाधानं तदर्थमिति युक्तम् । न वेव मजनमिति । तत्पुनरिदं मन्दमिवोत्तरम् । अनिर्वर्तकस्यापि तादा: विरोधात् । निवर्तकस्यापि च संयवनस्य पुरोडाशस्वरूपार्थवा. नभ्युपगमात् निर्वतकं पापकमित्यादि हि विशेषमात्रमित्या शंक्य पुनरेतदेव भाष्यमुत्तरत्वेन योजयति-'अथ वा द्रव्याज ननियमः फलवत्त्वात्पुरुषार्थः (६)। तस्य हि पुरुषे फलं प्रत्यक्ष मेव-'आधानं तु न पुरुषार्थम् (8)-तत्र फलाभावात् , न क्रत्वर्थ श्रुत्याद्यभावात् । अतोऽनन्योपायकाग्निमात्रार्थमेव तदिति । (१) अत्र लिखितपुस्तकेषु 'अरूपः' इति पाठः । (२-६) टु० टी० पृ०३।
२-ऋत्वर्थपुरुषार्थलक्षणाधिकरणम् ] चतुर्थोऽध्यायः। यद्वैवं व्याख्या। युक्तमाधानस्य क्रत्वर्थत्वम् । न ह्यनीनां क्रतोरन्यत्फलमस्ति यत्प्रयुक्त्यैषामजनं स्यात् । तेनाधानकि. धिना वा तेषामर्जनं कामश्रुतिभिर्वा । तत्र प्रत्यक्षविधिविहिता. ऽऽधानार्जिताग्निलाभेन कामश्रुत यस्तदर्जनोपायं क्रयणादिक माक्षिपन्तीति युक्तमाधानविधिरक्रत्वर्थोऽपि क्रतावेव नियम फलतीति । एतेनाध्ययनविधेरपि नियमार्थता व्याख्याता । नत्वेवं द्रव्यार्जनस्य सम्भवतीति द्रव्यस्य ऋतुसम्बन्धमनपेक्ष्यैव पुरुषे फलवच्चानियमविधिभृतेऽप्युपभोगत एव तस्य प्रयुक्ति. सम्भवादसययर्जनविधौ न क्रतोराक्षेपकत्वमापद्यत इति न तत्पतिबन्धद्वारेण नियमफलत्वमक्रत्वर्थस्पार्जनस्य सम्भवती: त्यवश्यमस्य क्रत्वर्थत्वं पुरुषार्थत्वं वाऽङ्गीकार्यम् । इतरथा विधिवैयर्यात् । तत्रापकरणस्थत्वात्पुरुषार्थत्वमिति । भाष्य मप्येवं व्याख्येयम् । अग्निमादधीतेत्यनन्योपायानन्यप्रयोजना. न्यर्थत्वमाधानस्यावगम्यत इति । व्याख्यानान्तरमाह-'अथ वाऽऽधान शब्देनाहवनीयादयो ऽभिधीयन्ते'(१) लक्षणया । कस्तदा भवत्यर्थः । पूर्वग्रन्थस्य हि द्वितीये व्याख्याने प्रयोगवचनबहिर्भावान्नाङ्गत्वं द्रव्यार्जनस्येसर्थः प्रदर्शितः । तत्र-'यथा बहिःप्रयोगेप्याहिता अग्नयो(२)- ऽङ्गत्वं प्रतिपद्यन्ते एवं कस्मान्न भवतीति परिचोदिते मत्याह- (१) टुल्टी०पृ०३। (२) टुटी०पृ०३ । अत्र मुद्रितपुस्तके 'अथाहिता अग्नयः इत्यस्य स्थाने 'श्रुता' इति पाठो दृश्यते ।
२८ तन्त्ररत्ने- [पादः१-सूत्रम् - २. 'न चाऽधानवद्भवितुमईतीति(१)। 'न चैतदाननीयाइवित महतीत्यर्थः' (२)। कुतः- 'तत्र आहवनीयादय(३): अग्नीनादधी तेतिवाक्यविहितेनाऽऽधानेन-'उत्पना(४):'-किमस्माभिः प्रयो. जनमिति-'साकांक्षाः सन्तो वाक्येन'(५) यदाहवनीये जुह्व. तीत्यनेन होमा'ऽङ्गतां प्रतिपद्यन्ते (६)-विनाऽपि प्रकर गन । (७)इह'-द्रव्याजने तादृशं नास्ति वाक्यं(८)' यद्रव्यार्जनं कर्मणि विनियुक्ते । भाष्ये चाधानवाक्योदाहरणं यदाहवनीये जुहतीयस्थाप्युपलक्षणार्थमिति व्याख्येयम् । 'अथ याल्लङ्गमुक्तम् (९)-इत्यादि- 'उपपद्यत'(१०)-इत्यन्तं भाष्यम- थतोऽनुभाषते - 'गृहदाहेऽप्यङ्गत्वाय वा फलाय के ति(२१) । अत्र फलायेत्येतदेवाभिमतमङ्गत्वं त्वनभिमतमेवेति दर्शयति-'अङ्गत्वे नास्ति प्रमाण (१२)-तदभिधानं त्वनास्थया । न ह्यनेन द्रव्यार्जन स्य पुरुषार्थता व्यावयते इति । ये च नैमित्तिकानां कर्मणामफल. स्वमिच्छन्ति तेऽनेनैव भाष्येण दाहनिमित्तानामपि क्षामवत्यादी. नां फलत्वप्रदर्शनेन निराकृताः । सूत्रमपि सर्वपुरुषार्थानां प्रीत्यविनाभावं दर्शयति-'यस्मिन् प्रीतिरिति (१३)-'अविभक्तत्वादिति(१४) च । प्रीत्या विभक्तत्वं पुरुषार्थत्वहेतुं दर्शयन्नतादृशस्य नास्ति पुरुषार्थतेति दर्शयति । यत्त्वस्य व्याख्यानं पुरुषस्य ऋतुसम्बन्धाविभागादिति (१-८) टुटो पृ०३। (११-१२) टुष्टी०पू० ३ । (९-१०) शबर० पृ०४३८ । (१३-१४) मी०सू० ४.१।२।
३-प्रजापतिव्रतानां पुरुषार्थताधि० ] चतुर्थोऽध्यायः । तदपि भाष्यविरुद्धम् । भाष्यकारो ह्यविभक्तः पुरुषार्थः प्रोत्ये. तिप्रीत्यविभागं दर्शयति । युक्तितोपि चैषपक्षो न घटत इति यथाशक्ति निर्णये निर्णीतमित्यास्तां तावत् । तत्सिद्धं प्रीत्या'ऽविभक्तत्वात्' (१)-द्रव्यार्जनं पुरुषार्थमिति । ३ -प्रजापतिव्रतानां पुरुषार्थताधिकरणम् । तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिश- इयत्वात् । न च द्रव्यं चिकीर्ण्यते तेनार्थनाभिसम्ब- न्धाक्रियायां पुरुषश्रुतिः ॥३॥ यदि प्रीत्यविभक्तवाद द्रव्यार्जनस्य पुरुषार्थत्वेऽपि फल कल्पनाभावात् पुरुषार्थता प्रीत्युत्मर्गे तर्हि प्रजापतिव्रतानामप्र- करणस्थानामपि फलकल्पनाभयात् क्रत्वर्थत्वमस्वित्येवं प्रस्तू. यते । तत्र प्रतिषेधत्वादेव तावत्वर्थत्वं युक्तमित्येतत्प्रतिपा. दयन् प्रतिषेधत्वं समर्थयते-'नोयन्तमादित्यमीक्षतेति । न - धदादित्येक्षतिधातवः कर्त्तव्यतावचनेन सम्बध्यन्ते'(२) । कर्तव्यतावचनः प्रत्ययः । तेन यथोद्यत आदित्यस्य माप्य. कर्मतया सम्बन्धः यथा चेक्षतिधातोस्तेनैव करणतया सम्बन्ध ईक्षणेनादित्यं प्राप्नुयादिति । न तु परस्परं कारकाणां क्रियाग्रहणे स सन्योन्य सम्बन्धाभावात् । एवं नोपि तेनैव सम्बन्धो न प्राप्नु यादुयन्तमादित्यमीक्षणेनेति-न त्वन्य (१) मी०सू० ४।१॥२॥ (२) टुण्टी०पृ०४।
३० तन्त्ररत्न - [ पादः १-सूत्रम् -३. तरकारकेण । यतः पर्युदासेनानीक्षणविधिः स्यात् । कुन इत्याह - (१)एवं'-प्रत्ययसम्बन्धे सति 'श्रुतिवृत्तानि पदा. नि भवन्ति न लक्षणवृत्तानि । यदा तु (२)नशुपपदयोः सम्बन्धस्तदा स्वार्थ हित्वा वस्त्वन्तरं लक्षयन्ति(३) । यदा तावन्नब्धात्वोः सम्बन्धस्तदा प्रत्ययार्थस्य भावस्यानिषि. द्धस्यावस्थितत्वात्करणापेक्षायां तत्करणतया द्वाभ्यां सहिता. भ्यां स्वार्थाविनाभावात्सङ्कल्पः स्वार्थ हित्वा प्रतिपादनीय इति लक्षणा । यदाप्युद्यदादित्येन नमः सम्बन्धस्तदाऽपि तत्सन्नि हितेन नना नदतिरिक्तस्य वस्तुनो भावनाकम्मतया प्रतिपाद नाल्लक्षणैव । उपपदा नियमाभिप्रायेण लक्षयन्तीति बहुवचनम् । येनैव केन चिदुपपदेनाख्यातं परिहाय नमः सम्बन्धस्तेनैव सहासौ लक्षणावृत्तिं भजेतेति । उदाहरणे बहुत्वापेक्षं वा बहुवचनम् । आदित्यसम्बन्धस्य सिद्धान्तिनाय नङ्गीकरणात् । (४) अतो' लक्षणादोषात्-'प्रतिषेधः (५)। तथा च क्रत्वर्थः सम्पद्यत इत्याह-'स च प्राप्तिपूर्वकः'(६) । ततः किम्-'प्रा. प्तिश्व दर्शपूर्णमासादिषु विद्यते सा प्रतिषिध्यते'(७) अस्यार्थः । प्रतिषेधे ह्यवश्यं प्रतिषेध्यस्य पूर्वप्राप्तिरालोचनीया । सा चालोच्यमाना प्रतिषेधस्य वैदिकत्वात्तत्सामान्येन वैदि- क्येव शीघ्रमुपतिष्ठते । ततस्तद्विषयः प्रतिषेधोऽपि तद्वारेण क्रत्वर्थ (१) टु०टी०पृ० ४। (२) अत्रमुद्रितपुस्तके 'नधातुपदयोरिति पाठो दृश्यते । (३-७) टु टी०पृ०४। ..
३-प्रजापतिव्रतानां पुरुषार्थताधि० ] चतुर्थोऽध्यायः। ३१ इति । 'एवं च सति फलं न कल्पयितव्यम्'(१)-इतरथा तत्क- ल्पनागौरवं स्यात् । 'यद्यपि नैष प्रतिषेधः(२)-किं स्वनीक्षणं नामान्तःकरणसङ्कल्परूपं नियम्यते-'तथाऽपि फलकलानाभ यात् क्रत्वर्थ' (३)-एवायं 'नियम:'(४)। ननु – 'एतावता हैनसाऽयुक्तो भवति(५)'-इस नोनिवह. णस्य फलस्य श्रवणानफलं कल्पयितव्यमत आह-'फलार्थवा- दोऽयम्'(६)-न फलविधिः, औदुंवराधिकरणादिनिषेधात् । एतस्मिंश्च पक्षे विश्वजिदादयोऽध्यत्रोदाहरणं रात्रिसत्रादयश्च । विश्वजिदाधिकरणे हि सर्वेषामनारभ्यवादानामश्रुतफलानां क्र. तु मम्बन्धपमाणश्रुखादिशुन्यानामफलत्वनिराकरणेन सं साध्यते । तत्तु फलं न ऋतूपकारः, किं तु पुरुषार्थरूपं कि- मपी खेतदधिकरणगोचरः । तद्विशेषचिन्ता तु तत्सर्वार्थमना- देशादियादिषु । हिरण्यं भार्यमित्यत्र तु स्थिते एवास्मिन्नधिकरण द्वितीयार्थसंयोगाद्विधिलाघवाच पुनः क्रत्वर्थमाशङ्म निराक्रियत इत्यसङ्करो वेदितव्य इति । 'एवं प्राप्ते ब्रूमः"(७) । तत्र यत्तावदुक्तं प्रतिषेधोऽयमिति तत्राह ---'नायं प्रतिषेधः (८) । कुतः । 'तस्य व्रतमिति हि प्रकृय नोयन्तमादित्यमीक्षतेति'(९) वचनम् । ततः किम् । 'जनमिति च सामान्येन कर्मोच्यते'(१०) । (११) तत्' ---तु सामान्पं 'विशेषमाकाङ्क्षमाणमनेन विशिष्यते'(१२)--यत्- (१-१२) टु टी०पृ०४।
तन्त्ररत्ने- - [पादः १ - सूत्रम्- ३. (2) नत्'-किमपि- 'कर्म'(२)-विहितं तदिदं-'नोयन्तमा दित्यमीक्षेने यादि'(३) । 'प्रतिषेधे (४)- सति-'पूर्व' (५)-सामा न्यवचनं साकाङ्कमेवावतिष्ठेत'(६)-ततश्चाप्रमाणं स्यात् । न हि किंचित्कुर्यादित्येतावन्मात्रं कस्य चिदप्यर्थस्य प्रमाणं भव ति । न च विशेषे प्रमाणं किंचनास्तीत्यप्रमाणमेव जायेत । उपेत्यापि विशेषाक्षेपमुच्यते-(७) तेन च' सामान्येन-'अश्रुतः कर्मविशेषः(८)-आक्षेपेण-'गृह्यत(९)' । 'एवं च(१०)- सति-वाक्य भेदात्'-पूर्वोत्तरयोमिथः सम्बन्धाभावात् द्राभ्या- मर्थद्वय विधानात्-'द्विरदृष्टं कल्प्येत(११) । पूर्वत्र कल्पयित्वा पुनरत्रापि कल्प्येतेत्यदृष्टभेदेऽपि सामान्यैक्यात क्रियाभ्यावृत्तेर भिधानमुक्तवन्तोऽष्टकृत्वो ब्राह्मणा इतिवत् । 'एवं प्रतिषेधे(१२)-सति-'बहसमज सम् (१३)- । 'अ. (१५)तो'-ऽस्मात् -'विरोधान्न(१४)-नञ्-'कर्तव्यतावचनेन सम्बध्यते । तस्मात्तु प्रच्युतस्तदनन्तरेणेक्षतिना सम्बध्यते । (१६)अतो-ऽनीक्षणरूपो-'नियमोऽयं(१७)-कर्तृधर्मश्चोयने। नन्वस्तु नियमस्तथाऽपि कथं कर्तृधर्मः। फलकल्पनाभया कर्मधर्मस्वमेव युक्तमित्युक्तमत आह-'अर्थप्राप्तेन विपरिवर्त्तमा नेनास्ति का सम्बन्धः। श्रुत्पाद्यभावान्नास्ति क्रतुना(१८) सम्बन्धः । क्रियाक्षेपादेव हि कर्ताऽवगम्यते । तेन तद्तमेव क्रियाया भाव्यमङ्गीका मुचितम् , न क्रतुगतम् , तस्य केन चिदपि (१-१८) टु०टी०पृ०४।
३-पजापतित्रतानां पुरुषार्थताधि० ] चतुर्थोऽध्यायः । - प्रमाणगन्धेन बुद्धावनारोहात् । न ह्यप्रमाणकं लध्वष्यङ्गीक- तुमुचितम् , प्रमाण बलायातं वा गुर्वपि हातुम् । न च गौरवमस्ति । प्रकरणपठितानां ड्युपकारका काङ्ग्रेण शब्दोपात्तेन क्रतुना सम्बन्धात् क्रियाक्षेपतः स्थरूपमात्रेणावगतेन पुरुषेण सम्बन्धो गरीयानिति नाश्रीयते । अनारभ्य विहितानां त्वत्यन्ताप्रतीत- क्रतुसम्बन्धात्सोपि लघीयानेव । विधिरपि च विषयस्य समी. हितसाधनत्वं बोधयन् विशेषप्रमाणाभावे साक्षादपेक्षितफल. साधनत्वमेव बोधयति । तेन तदुत्सर्गे प्रीत्युत्सर्गेपि यद्यपि नैतेषु प्रीतिः श्रूयते गोदोहनादिवत् नापि दृश्यते द्रव्यार्जनव- तथाप्येवं जातीयकानि काणि पुरुषार्थाय पुरुषार्थानि । (१) शास्त्रस्य' विधेः 'अनतिशात्वादिति । न च द्रव्यं चि. कीयते'(२)इत्यस्य व्यावर्त्य दर्शयति- 'शास्त्रस्थानतिशंक्यत्वा. दिति क्रत्वर्थेऽपि तुल्यत्वात्'(३) । नायं हेतुः पुरुषार्थ कान्तिक इति-'कस्य चिदाशंका स्यादिति तन्नित्यर्थम्(१)-उक्तं- 'न च द्रव्यं चिकीर्ण्यते(५)' इति । तयाचष्टे-'न च क्रत्वर्थ द्रव्यं संस्क्रियते (६)-विक्रियते वा दर्शनमेतत्पाप्तिनिवृत्योरपि। 'येन सामर्थ्यात्तत्सम्बन्धेन (७)-तन्मुखेन 'प्रणाड्या त्वर्थता स्यात्'(८)। क्रतुसम्बन्धिद्रव्य सम्बन्धे हि सति तत्सामर्थ्यादेव (१-२) मी०सू० टु टी० पृ० ४। (३-४) टु०टी०पृ० ४ । (५) मी०सू० ३, टुटी पृ० ४! (६) टु०टी०पृ०४। अत्र मुद्रितपुस्तके 'सक्रियते' इति पाठो दृश्यते । (७-८) टु०टी०पृ०४।
तन्त्ररत्ने- [ पादः १-सूत्रम्-३. पर्णमयीत्ववत् क्रत्वर्थता स्यात् । न त्वेतदस्तीति । कः पुनरुत्पत्तिप्राप्तिविकृतिसंस्कृतीनां भेदः। उत्पत्तिर्नाम येनाकारेण कारकमाभिधानोपात्तं तस्यानत एवोत्पादनम् । त. स्यैव सतोऽप्राप्तस्य प्रापणं प्रातिः । तद्तदृष्टातिशयोत्पादनं विकृतिः । तस्यै वादृष्टातिशयोत्पादनं संस्कार इति । 'अतः पुरुषार्थान्येतानि(१) । किं पुनरेतानि काम्या न्यथ निसानीति विचार्यते । तत्र कश्चित्तावदाह-'फला. र्थिना कर्तव्यानीत्येवमर्थ उपदेशः (२)एषां विश्वजिदादिवदि. त्यभिप्रायः । तन्निराकरोति 'नति'(३)। न 'फलार्थिना कार्या णीत्येवमर्थ उपदेशः'(४) । किं तहाँत्याह-- - 'नित्याने न सन्ध्योपासनादिवत(५) । एतावता हैनसाऽयुक्तो भवती. ति(६) वाक्यशेष पापक्षयश्रवणात्तत्प्रयोजनमेषां रात्रीणामित्र प्रतिष्ठा । नोद्यन्तमितिशतृप्रत्ययो निमित्ततामेवादित्योदयस्य प्र. तिपादयतीति वक्ष्यामः । तस्मानिमित्तवशात्फलं नित्यत्रतत्तदव. स्थ आदित्ये तदीक्षणाभावः संकल्पयितव्यः । नोद्यन्तमीक्षेत नास्तं यन्तन्न नभोमध्यगतमित्यादि । आह च- त्रिसन्ध्यं जपताऽनेन सावित्री नेक्ष इसयम् । आदित्यं ध्यायता कार्यः सङ्कल्पः पापनाशनः ॥ अत्र चोदयति-यदुक्तम् - 'अनीक्षणं विधीयत' - इति तद. युक्तम्-'ईक्षणाभावोऽनीक्षणं, अभावत्वाच कर्त्तव्यता न घ. - 12-1) ट्र०टी०पृ. ४।
. ३-प्रजापतिव्रतानां पुरुषार्थताधि ० ] चतुर्थोऽध्यायः । टते(१)' । अभावे हि कर्तव्ये विधी यमाने कर्मविशेषाविधाना. दुव्रतमक्रमविरोधस्तदवस्थ इति । परिहरति । 'सत्यम्(२) । नाभावस्थ विधिः । भाव एव त्वत्र लक्षणया विधीयते संकल्परूप इति प्रतिपादयन् लक्षणानि मित्तं सम्बन्धं दर्शयति सर्वत्र-'प्रवृत्तौ निवृत्तौ वा (३)-कर्तव्यायां- 'मानसं व्यापारमंगीकृत्य(४)-पूर्व सङ्कल्पं कृत्वा ततः-'प्रव. तते निवर्तते वा(५)-तेनात्राप्यनीक्षणं कुर्वाण 'आदित्यस्या- नीक्षणं कर्तव्यमिति मनसा सङ्कल्पयति । अतोऽनीक्षण स्य'(६) ईक्षणाभावस्य-'मानसो व्यापारः (७)-'सङ्कल्पाख्यः कारणत्वात्-‘अविनाभृतः । तस्याविनाभावात(८)- ईक्ष- णाभावः शब्दाभिहित:-'शक्नोति(९)'-तं-'लक्षयितुं, यथा- तिर्व्यक्तिम् (१०) । तेनेह संकलो विधीयत इति । ननु स्पर्शादीनामपि क्रियावादीक्षगव्यतिरिक्तत्वेन तदभावसम्बन्धात्किमिति न लक्षणेत्याशंक्याह-'स्पर्शादीनाम- १ (१-६) टु० टी० पृ० ५। (१) अत्र-'न च क्रत्वर्थत्वं द्रव्यं संस्क्रियते येन सामार्थात् तत्स. म्बन्धेन प्रणाड्या त्वर्थता स्यात् । अतः पुरुषार्थान्येतानि फलार्थिना कार्याणि इत्येवमर्थ उपदेशः, तन्नेति । नित्यत्वेन सन्ध्योपासनादिवत् । एतावता हैनसाऽयुक्तो भवतीति अनीक्षगं विधीयते । ईक्षणाभावो ऽनीक्षणम् । अभावत्वाच्च कर्त्तव्यता न घटते' इति तन्त्ररत्नानुसारी टुप्टीकायाः पाठः प्रतिभाति । (७-१०) टु० टी० पृ०५।
३६ तन्त्ररत्न [पादः१- सूत्रम्-३. भावसम्बन्धानामपि (१)तदविनाभावस्थाभावान्न तेषां कर्तः व्यता'(२) । तेन नोयन्तमादित्यमित्यस्य वाक्यस्य नायमर्थः- उद्यन्तमादित्यं स्पृशेदिति, किं तूद्यन्त नेक्ष इति सङ्क: ल्पयेदिति । 'अपि च, पुरुषप्रयत्नः कृतिः(३)-'इत्यादिभाष्यं व्याचष्टे- 'क्रत्वर्थत्वे(४)-' सति-'विधायकः कर्मोत्पत्तिमात्रनिष्ठ एव भवेत्(५) । उत्पत्तिग्रहणं विनियोगस्याप्युपलक्षणार्थम् । 'एवं च (६)-' सति-'यदेवास्य तादर्थप्रतिपादकत्वम्(७)- प्रयोगप्रतिपादकत्वमित्यर्थः-'तदेव हीयेत(८)' । न त्वनेन विनियोजकत्वहानिरभिधीयते । अङ्गविधीनामपि विनियोज- कत्वाभ्युपगमात् । न हि प्रयोगवचनेनाङ्गत्वं सिध्यति । अङ्गं सत्प्रयोगवचनेन गृह्यत इति न तु प्रयोगवचनादङ्गत्वम् । य. स्मात्मयोजकत्वं हीयेतत्ययमेवार्थः । कुतो हीयेतेत्याह-'प्रयो. गवचनेन कृतत्वात् । तस्मात्स पक्षा ग्रहीतव्यो यत्र विधायकोड र्थवान् (९) । एवं च ये प्रयोजकत्वं मा कल्पीति विश्वजिदा. दीनां काम्यत्व मिच्छन्ति ते निराकृताः प्रयोजकत्वस्यैव समर्थनी- यत्वात्तसिद्ध्यर्थ नमित्तिकत्वमेव युक्तमिति । (१) टु० टी० पृ०५ । अत्र मुद्रितपुस्तके 'तदभावाविनाभावा. भावान्न' इति पाठो दृश्यते । (२) टु, टी० पृ०५। (३) शवरः पृ०४३९ । अत्र'कृतिरिति पाठो मुद्रितपुस्तकयोर्न दृश्यते । (४-९) टु टी०पृ०५ । (९)अत्र अर्थवान्' इति स्थाने मुद्रितपुस्तके 'अर्थत्वात्' इति पाठोऽस्ति ।
३-प्रजापतिव्रतानां पुरुषार्थताधि ० । चतुर्थोऽध्यायः । यत्विह समिदादीनामङ्गत्वसमर्थनं तत्तजापतिव्रतवैषम्य. प्रदर्शनमात्रार्थं न तु प्रतिपाद्यतयेति मन्तव्यम् । प्रकरणाधिक रणे प्रतिपादितत्वात् । यदि चात्र प्रतिपाद्यताधिकरणभेदः स्यात् । अतश्च ये चतुर्थसिद्धं प्रधानापूर्वेदमर्थ्यमङ्गानामंगीकृत प्रकरणाधिकरणं करणैदमर्थ्यप्रतिपादनमात्रपरं मन्यन्ते ते यद्य- प्रत्यमभिधानमङ्गीकृत्य तथा मन्यन्ते तर्हि न युक्तम् । अथ पुनरिज्याधिकरणं तत्सन्निधावसंयुक्तं तदङ्ग स्यादि- त्यतेदङ्गीकृत्य तथापि न युक्तम् , इज्यामात्रप्राधान्यनिराकरणप- रत्वात्तस्था सांग्रहण्यधिकरणे च 'फलबद्वोक्त हेतुत्वादितरस्य प्रधान. मिसि(१) फलवदङ्गत्वमितरस्य प्रसाधितपूर्व वदन्निज्याधिकरण. विषयत्वमस्येति दर्शयति । किञ्चैववादिनामनर्थकमेव प्रकर- णाधिकरणमापन्नम् । किं हि तेन प्रतिपाद्यम् । करणेदर्थमिति चत् । केन प्रमाणेन । प्रकरणेन । किं पुनः प्रकरणं--प्रधानापूर्वमितिकर्तव्यताकांक्ष प्रकरणम् (२)-इत्युक्तं भाष्यकारण। कथं पुनस्तेन करणैदमर्य- मवकल्पते प्रधानापूर्वं हि स्वशब्देन सन्निहितैः प्रयाजादिभिरूप- सर्जनीभूतैः प्रधानतयान्वितमाभिधीयमानं तेषां खार्थत्वं स्वपदा- वगतकरणावरोधात्करणतया न सम्भवतीति तत्सिद्ध्यर्थ स्वापे- (१) मी० सूत्र ४।४७ । ( २ ) शबर० पृ० २९२।१५ । कर्त्तव्यस्य इतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणमिति मुद्रितभाष्यपुस्तक पाठः ।
३८ तन्त्ररत्ने- [ पादः १ -सूत्रम् -३. क्षिततिकर्तव्यतांशत्वं तेषामाक्षिपत्करणार्थत्वं परिकल्पयतीति चेत्-एवं तर्हि नियोगाक्षेपोऽत्र प्रमाणमुक्तं स्यात्, प्रोक्षणादी. नामिव करणैदमये । स चतुर्थाद्ये साधित इति न पृथगधि. करणमपेक्षते । तेन संयुक्तानां क्रत्वर्थत्वपरिकल्पनमुपादानम् , असंयुक्तानां तु प्रकरणमिति संज्ञाविशेषः कामं क्रियताम् । अधिकरणद्वितयं तु न्यायाभेदादयुक्तम् । प्रोक्षणादीनामपि क्रत्वङ्गभूते ब्रीह्यादौ श्रुत्यादिभिर्विनियुज्यमानानां तत्पमाणक मेव क्रत्वर्थत्वमिति कृतमुपादानेन तादर्थ्यप्रमाणेन । तस्माच्छु. यादीन्येव तादर्थे प्रमाणम् । अपूर्वार्थत्वेऽपि तान्येव प्रमाणम् , न तु ग्राहकग्रहणं नाम किञ्चित् । प्रयाजादीनामपि प्राकरणि- कमेवापूर्वभावनाङ्गत्वम् । तदेव च प्रकरणाधिकरणे व्युत्याद्यते । अत एव भाष्यकार:-'प्रजापतिव्रतानां श्रुत्यायभावात्पुरुषार्थ. त्वम् (१)-इत्याह । इतरथा ग्राहकग्रहण भावादित्येवावक्ष्यदि. त्य लमनया प्रसङ्गागततीर्थान्तरदूषण कथाविस्तरपस्तावन या । तसिद्धं - 'प्रजापतित्रतानि पुरुषार्थानीति'(२) । ४.-यज्ञायुधानामनुवादताधिकरणम् । द्रव्याणि त्वविशेषणानर्थक्यात प्रदीयेरन् ॥ ७॥ (पूर्वपक्षसूत्रम्) उक्तं पूर्वाधिकरणे तथा च लोकभूतेष्वित्यस्मिन् सूत्र (१) शबर०पृ०। (२) शबर०पृ०४४०।
- ४-यज्ञायुधानामनुवादतााधि० चतुर्थोऽध्यायः। sमयुक्तानां फलेन प्रकरणात्ऋत्वर्थत्वम् । स्फ्यादीनामप्येतानि वै दश यज्ञायुधानीतिफलासयुक्तानां विहितानां प्रकरणेन विनियोगात्प्रधानार्थत्वं प्रसक्तं निवार्यत इति सङ्गतिः । अध्यायसङ्गतिश्च प्रयुक्तिविशेषफलतया । पूर्वपक्षे हि प्रधानप्रयुक्तानि स्फ्यादीनि सिद्धान्ते तुद्ध ननादिप्रयुक्तानीति । ननु तृतीय एवैषां यथासंयोग विनियो. गेनोद्धननाद्यर्थत्वं सिद्धम् । अतः किमन्यच्चिन्त्यते इयत आह- 'प्रदेयत्वे इह निराकृते तृतीये चिन्ता'(१)-किं सर्वमु. द्धननादि सर्वेः कार्यमुत यथासंयोगमिति । इह तु प्रदेयत्वमेवा- शय निराक्रियते इति । पूर्वपक्षमाह-एतानि वै दश यज्ञायुधानीति विधिरयं'(२)- यागसाधनतया स्फ्यादीनाममाप्तानाम्-कुतः-'स्वार्थत्वात्'(३)- यज्ञायुधशब्दस्य श्रुत्यर्थलाभात् । ‘इतरथा'(४)-ययुद्धननाद्यङ्ग. तया प्राप्तानामनुवादः ततः-'परार्थता'(4)-लक्षणार्थता-'स्यात्'। (६)-यज्ञसम्बन्ध्युद्धननाद्यायुधेषु यज्ञाधुधशब्दः स्यात् । तदेव विवृणोति-'यद्येतानि'(७)-स्फ्यादीनि-'प्रदीयमानानि (८)- सन्ति-'यागं निवर्तयन्ति ततो भवन्ति यज्ञसाधनानि (९)। तथाऽपि कथं यज्ञायुधशब्दो मुख्यः। न हि साधनमात्रमायुः धशब्देनोच्यते। अत आह- साधनवचनोऽयं (१०)-यज्ञायुधश- ब्दोऽतः-'तत्र'(११)-प्रदेयत्वपक्षे-(१२) आयुधशब्दो'-भवति- (१-११) टु०टी०पृ० ५। (१२) अत्र 'यज्ञायुधशब्दः' इति टुप्टोकाधृतः पाठः सम्यक् प्रतिभाति । - तन्त्ररत्ने [पादः १ -सूत्रम्-४. 'मुख्यः (१)-सन् यत्साधनवाचिनाऽऽयुधशब्देन साधनत्व. सामान्याद्यज्ञसाधनमाभिधीयते गौणत्या । तस्य च गौणत्वं राद्धान्तेऽपि समानम् । यज्ञशब्दस्तु पूर्वपक्षे मुख्यः सिद्धान्ते तु सोऽपि लक्षणयेत्याह-'इतरथा'(२)-यदि प्रदेयत्वं नोच्यते तत:-'प्रणाड्या'(३)-यज्ञसाधनानुसाधनामिति कृत्वा-'गौणः स्यात्'(४) । ल क्षणैव गौणशब्देनोच्यते, जघन्यवृत्तिसा- मान्यादिति । 'अविशेषेणेति'(६)-सूत्रपदमपि शब्दमुपक्षिप्य व्याचष्टे । 'यागसाधनत्वाविशेषेऽपि प्रधानयागसाधनान्येव । कथम् । एता. नि वै दश यज्ञायुधानीत्येतानि पदानि साकांक्षाणि प्रकरणेन प्रकृतेन दर्शपूर्णमासयागंन सहकवाक्यतां यान्ति (६) एतानि दश यज्ञायुधानि । तस्मादेतैः प्रधानयागः कर्तव्य इति । 'अतो नैषां प्रयाजादिभिः (७)-अङ्गैः - 'सम्बन्धः (८)। 'अथ वैतानि वै दश यज्ञायुधानीति (९)-कर्तव्यपदमध्या. हृत्य पूर्णमेव वाक्यम् । तत्तु -(१०) दर्शपूर्णमासप्रकरण आम्ना. नात्प्रधानस्यैवाङ्गम्'(११)-प्रकरणेन-'न प्रयाजादीनाम् (१२)। (१-४) टु०टी०पृ० ५। (५) मी०सू० ४।१।७१ (६) टु०टी०पृ० ५। अत्र मुद्रितपुस्तके इत्थं पाठो दृश्यते-'एतानि वे दश यज्ञायुधानीति 'दर्शपूर्णमासयोराम्नानात्प्रधानस्यैवाङ्ग साका क्षाणि प्रकरणेनैकवाक्यतां यान्ति' । (७-१२) टु०टी०पृ०५। (१२) अत्र 'टुप्टीकाया दर्शपूर्णमासयोराम्नानात्' इति पाठो वर्तते ।
४-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । ननु यज्ञशब्दस्य यागमात्रवाचित्वात्तदनुवादेन विधीय. मानानि द्रव्याणि प्रकरणबाधेन वेदितद्धर्मादिवदङ्गप्रधानार्था- नीति युक्तमत आह-'यद्धवींष्यासादयतीत्यर्थप्राप्तमासादनमनू. द्य वेदिनियम्यते'(१)-वेद्यां हवींष्यासादयतीति-'अङ्गप्रधान- हविषा (२)-च सर्वेषां-'आसादनमर्थप्राप्तम् । तस्मात्तत्र-'(३) प्रकरणबाधेन'-वाक्यादङ्गप्रधानार्थता-(४) युक्ता । इह तु-'एतानि चै दश यज्ञायुधानीति न किंचिदनूयते (५) येन सर्वानुवादेन विधीयमानानि द्रव्याणि सर्वार्थानि भवेयुः । नन्विहापि यो यज्ञ इति सकलयज्ञानुवादेन तस्यैतान्या. युधानीतिविधानात्सर्वार्थता युक्ता । नेत्याह-'न खलु समासान्त- गतयोः (६)--पदयो:--'एकमुद्देशकमितरच विधायकं भवितु- महती (७)--तिनिर्णीतमेतद्वषट्कर्तुः प्रथमभक्ष इत्यत्र । अतो न यज्ञशब्दनोद्दिश्यायुधशब्देन विधानम् । अथ सकलेन समासपदेनार्थप्राप्तं यज्ञसाधनसामान्यमनू- चैतानीतिविशेषविधिरित्युच्यते-- तदप्यसत् । अप्राप्तत्वात् सा- मान्यस्य । सर्वेष्वेवाग्नेयादिषु पुरोडाशादिद्रव्याविशेषविधा. नात् । अथ तथाविधेषु कथं द्रव्यान्तरविधानम् । को दोषः । बीहियववाद्विकल्पो भविष्यति । ननूत्पत्युत्पन्नाशिष्टयोर्न विकल्पो न्याय्यः । समुच्चयस्तर्हि भवतु । सोऽपि न । निरपेक्ष्य विधानात् सत्यमेव तत् । (१-७) टु० टी० पृ०५॥
४२ तन्त्ररत्ने- [ पादः१-सूत्रम्-७. एवं तु मन्यते--सर्वथा तावद्यज्ञायुद्ध संयुक्तं वाक्यं मुख्या- लाभात् वृत्तिविशेषकरत्वाच्च विधिः । न च श्रुतानि पदा- नि विधी निराकांक्षाणीति प्रकृतेनैकवाक्यतां यान्ति गत्यात- राभावात् । यदपि यज्ञायुधानि कर्तव्यानीतिवाक्यं परि. पूर्यते तदपि प्रकरणेन गृह्यते साकक्षित्वात् । न हि यज्ञान्त- रविधानेनार्थचत्ता सम्भवति, देवताभावात् । वाजिभ्यो वा. जिनमिति हि यागान्तरविधानेन गतिसम्भवान्नोत्पत्तिशिष्टा- विक्षावरुद्धे वैश्वदेवयामे गुणान्तरविधानसम्भकः । इह त्वन- न्यगतिवादवयं भाविनि प्रकृतसम्बन्धे गत्यन्तराभावाद्वि- कल्पो भवत्विति । 'एवं सति संख्या चैकक्रियायोगादुपपत्स्यते' (१)-दश यज्ञायुधानीति सर्वत्र हि केन चिदेकेनाभिन्नेन संख्या- वृत्तिर्भवति । तदिहैकयागसम्बन्धात्तदुपपत्तिः । सिद्धान्ते तूदननादिनानार्थसम्बन्धात्मख्यानुपपतिः । अयं च सूत्रार्थः-द्रव्याणि स्फ्यादीनि प्रदीयेरन् प्रधान- यागसाधनानि स्युः । अन्यथा आनर्थक्याद्यज्ञायुधशब्दस्य । अर्थशब्दोऽभिधेयवचनः, अभिधेयत्यागप्रसङ्गात् लाक्षणि. कार्थत्वापत्तेः । अथ वाऽनुकादत्वेनाप्रवृत्तिविशेषकरत्वात् । अथ बा संख्याशब्दानर्थक्यादिति-तथाऽपि कथं प्रधानार्थत्वम् । अविषविधानात्सर्वार्थत्वं युक्तमत उक्तमविशेषेणेति । अवि. शेषेणापि विधीयमानानि प्रधानार्थान्येव प्रकरणादिति भा. (१) टु० टी० पृ०५।
४-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । व्यमध्यविशेषेणेत्यायेवं व्याख्येयम् । 'अविशेषेणापि विहि- तं प्रकरणेन'(१)-प्रकरणादिवर्य:-'प्रधानस्य भवितु- महतीति'(२)। यद्वाऽविशेषेणेतिप्रधानार्थत्वे युक्तिरुक्ता । यदि हि विशे- पणामुद्दिश्य विधी येरंस्ततोऽनार्थानि स्युः, अविशेषविधानातु प्रकरणात्प्रधानार्थानीति । (सिद्धान्तसूत्रम् ।) खेन त्वर्थेन सम्बन्धो द्रव्याणां पृथगर्थत्वात्तस्मा- यथाश्रुति स्युः ॥ ८॥ 'करणविभक्त्या स्फ्येन किमपि कर्तव्य'(३)-मित्यपेक्षिते- (४)पदान्तरेण'-उद्धन्तीत्यनेन-(५)उद्धनने दत्ते'-प्रयोजनं प्रति-निराकांक्षत्वान्नान्यत् प्रयोजनमाकांक्षति (६)-निराका- क्षस्य न यागेन सम्बन्धः । ननु यागार्थत्वेऽपि प्रतीयमाने कथमुद्धननादिनैव नैराकां. क्ष्यं न यागेनात आह-वाक्येनैषां (७)-स्फ्यादीनां-'उद्धन- नादिप्रयोजनम् (८)। श्रुतावेच वाक्यव्यवहारसः पूर्वोक्तनयेन सर्वत्र नेतव्यः । 'प्रकरणेन क्रतुसम्बन्धो भवेद्वा न वा(९) । (१-२) शबर० पृ.४४१ । (३-७) टु० टी० पृ०५। (७) अन्न 'वाक्येन' इत्यस्य स्थाने मुद्रितपुस्तके 'वाक्यात्' इति पाठोऽस्ति। (८-९) टु० टी० पृ०६।
तन्त्ररत्ने [पादः१-सूत्रम्-८. तेन वा. द्रव्यस्य प्रकरणविनियोज्यत्वाभावान्न भवत्येवैषां यागार्थत्वे प्रका रणं प्रमाणं भवदपि वाक्याटुंबलामति । ननु क्रतुसम्बन्धोऽपि वाक्यादेव । 'साकांक्षाणि'(१)- ह्येतानि पदानि-(२)प्रकृतेनैकवाक्यतां यान्ती (३)-त्युक्तं तत्राह-(४)आयुधशब्दोऽपि आयुधेष्वेव' शक्त्यादिषु- प्रसिद्धा लक्षणया स्फ्यादिषु वत'(५)। लक्षणेति गौणत्यभिधानं जघन्यत्तिसामान्यात् । केन पुनः सादृश्येन गौणत्वम्-'तान्य. पि(६)-आयुधानि-साधनान्येतान्यपीति (७) । क्यमप्येनद्गुणवृत्याश्रयत्वात्पकरणापेक्षत्वादध्याहारापेक्षत्वाच्च दोषत्रयहीनादुद्धननादिवाक्यादुर्बलमिति तादर्थ्यमेवैषां न या. गार्थत्वमिति । किं च-'न तु विद्यमाने (८)-उद्धननादिद्वारेण य- ज्ञायुधत्वेऽनुवाद्ये च सम्भवति । 'विधौ लक्षणा न्याय्या (९). अनुवादे तु लक्षणा न दोषः । युक्त्यन्तरं समुचिन्वन्नुपसंहरति । 'अतः स्तुतित्वादनुवादोऽयम्'(१०) । अस्ति हि विधिर्यज्ञायु: धानि सम्भरतीति । तेन स्तावकतयैकवाक्यभूतमवगम्यमानन्न पृथग्विधित्वमर्हति वाक्य भेदप्रसङ्गात् । अत उद्धननादिद्वार प्राप्तयज्ञायुधत्वानुवाद एवायमिति । यत्तु दश संख्या नावकल्पत इति तत्राह-संख्या चा- साइनाभिप्राया (११) । यदेतदनन्तरेण यज्ञायुधानि सम्भ. (१-२) टु० टी० पृ० ५। अत्र 'प्रकृतेन' इत्यस्य स्थाने 'प्रकर. न' इति पाठो मुद्रितपुस्तके । (३-११) टु, टी० पृ०६॥ -- ४-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । ४५ रतीत्यनेन विधिनाSSसादनं विहितं तेनैकेनाभिसम्बन्धात्सं- ख्यावृत्तिरिति सूत्रमपि यस्मात्स्वन स्वेनोद्धननादिनार्थेन स म्बन्धो द्रव्याणामेषां श्रूयते तस्मात् पृथगर्थत्वावगमायथाश्रुति उद्धननादिश्रुत्यनुरोधेन तारेणैतानि यज्ञायुधानि स्युनं सा- क्षादिति । यद्वा केन विशेषेणोद्धननादिवाक्यस्य विधित्वं न यज्ञायु. धवाक्यस्येत्यत आह-'पृथगर्थत्वात् (१)। पृथगर्थे ह्येते वा. क्ये न तुल्यार्थे । एकत्र विधिश्रवणादन्यत्र तदभावादिति । यद्वा विधित्वे सति पृथार्थत्वन वाक्यभेदप्रसङ्गादनुवाद इति । यद्वा संख्योपपत्तिरियमुच्यते । पृथक्प्रयोजनवादेषां न तदैक्यनिबन्धना संख्या। तस्माद्यथाश्रुति आसादनश्रुत्यनुरोधे- न संख्यामाजि स्युरिति । चोद्यन्ते चार्थक मु ॥९॥ अत्र भाष्यकारेणार्थकर्मस्वाग्नेयाग्नीषोमीयादियागेषु पुरो- डाशादीनि चोद्यन्ते तैरेषां न विकल्पः पाक्षिकबाधप्रसङ्गात् । न समुच्चयो निरपेक्षविधानादित्युक्त्वा पुनर्वर्णकान्तरमुक्तं परि- धानीये कर्मणि पात्राणां दर्शनम्प्रदेयत्वेनावकल्पत इति । तत्र यदिदं पाक्षिकबाधनं विकल्पदूषणमुक्तं तन्न शोभ- नम् । तुल्यबलविकल्पस्य हीदृशं षणमुचितं नत्वत्रेयभिमायेगाह- (१) मी०सू० ४८.
तन्त्ररत्ने- [पादः १-सूत्रम्-१. 'अयुक्तोऽयं विकल्पो विषमशिष्टत्वात् (१) । तेनार्थकम्मर पुरोडाशादीनि चोयन्ते-तानिच बलवन्तीत्येवं सूत्र नेतव्यं न पाक्षिकबाधाभिप्रायमिति । द्वितीयमपि वर्णकमयुक्तमित्याक्षिपति-'द्वितीयेऽपि वर्णके (२). ऽस्त्येवानुपपत्तिः। कथम् । पूर्वपक्षे मध्यात् पूर्वाञ्च द्विरद्यतीति' (३)-वचनेन-'तावन्मात्रस्य होमाच्छिष्टं विद्यते । तेन यजमानो धक्ष्यते (४)। ततः परिधानीये कम्मणि पात्रदर्शनमुपपद्यते । 'नैत- देवम् (५) । कुतः-'मरणस्यानियतत्वात् कदाचित् (६)-दीर्य कालेऽपि म्रियमाणे सति स्फ्याद्या कारविनाशः स्यात् बहु- यवदानोद्धरणात् । तत्र यज्ञपात्रता नोपपद्यते (७)। स्क्यादि- जातीयं हि द्रव्यं यज्ञपात्रम् । जात्यगमे तदनुपपत्तिः । अथ वा देवतोद्देशेन द्रव्यपरित्यागानिरिष्टिकानि (८)। ब्यवदानमात्रेऽपि हि हूयमाने सकलस्य यजमानस्वामित्वमपेतम् । 'तस्मात्पतिप्रयोगमुत्पाघेरन्'(९) । एकपयोगोपयुक्तानामनी- शानेन यजमानेन पुनस्त्यागायोगात् । 'तन्त्रान्तरे म्रियमाणो न तैर्दह्यते (१०) । ननु सक्तैरेव दह्यतामत आह-निरिष्टिकान्य. प्युपादातुमशक्तो निगिष्टिकत्वादेव'(११) न हि निरिष्टिकेन शिष्टाः कार्यं कुर्वन्तीति । ननु वचनबलेनाचारं बाधित्वा निरिष्टिकैरेव धक्ष्यत इत्या- शय परिहारमाह-'अथ वा यवदाने उद्धृते यादृशम. (१-३) टु०टी० पृ० ६. (४-११) टु टी० पृ० ६..
४७ ४-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । विकलं सव पूर्व'(१)-यवदानोद्धरणात्- 'यज्ञसाधनमभूत्'(२)- पश्चायवदानात-'मरणवेलायां न ताह'(३)-विकलवा. दिति यज्ञपात्रता नोपपद्यते'(४) । पूर्व जात्यपगमो- ऽभिहित इदानीं वेकन्यवदानोपादानेन मा नाम जातेरपगम- स्तथाऽपि यज्ञपात्रस्वरूपभेदाव यज्ञपात्रैश्च दहन्तीत्यनुपपन्नं स्या- दित्युच्यते-'उद्धननाद्यर्थत्वे तु न किञ्चिद्विरुद्धम् (५)। न हि तत्र निरिष्टिकत्वदोषोप्यस्तीत्येकादशे वक्ष्यामः । तस्मादुद्धन- नाद्यर्थान्येवेति । लिङ्गदर्शनाच्च ॥ १० ॥ 'चतुर्दशत्रयोदशेत्युभयत्र (६)-पूर्वपक्षे सिद्धान्ते च-'तुल्प' (७)-लिङ्ग नैकस्यापि पक्षस्य साधकं नापि बाधकम् । कुतः-'न हि (८)द्रव्यमात्रभेदादाहुतिभेदः । एकदेवतात्वात्स- वैरेकैवाहुतिः (९)-करिष्यते सान्नाययवत् । 'तत्र केचिदाहुः-उत्पत्तिवाक्यशिष्टेन'(१०)-पुरोडाशादि- '(११)द्रव्येण बाधितत्वात्'-फ्यादीनि वाजिनवन-'कर्मान्तर (१२)- कल्पयन्तीत्यस्य वाक्यस्य कर्मान्तरमेव पूर्व पक्ष विधेयं- 'आपतीति (१३)-लिङ्ग-दर्शन' (१४)-मुपपन्नमिति । (१) अत्र 'अविकलं सत्' इत्यस्य स्थाने 'सत्' इत्येव मुद्रितामुद्रितपु. स्तकधृतः पाठोऽस्ति। (२-५) टु० टी०पृ०६. (६-७) टु टी०पृ० ६. (८) मुद्रितामुद्रितटुप्टीकापुस्तकयो 'मात्र' शब्दस्य पाठो नोपलक्ष्यते। (९-१४) टु टी० पृ० ७.
४८ तन्त्ररत्ने [पादः १-सूत्रम्-१०. तदेतदेकदेशिमतं दूषयति-'इदं नोपपद्यते । न हि द्रव्य- संयोगमात्रेण'(१)-देवतामन्तरेण-'कर्मातरं भवति'(२)। न चात्र देवताविधायकं वचनं मन्त्रवर्णों वाऽस्ति । न चाव्यक्त- वात्सौमिकविध्यन्तप्राप्त्या देवतालाभः। दर्शपोर्णमासिकेष्वङ्गेषु सौमिकविध्यन्तातिदेशस्य विहितकालबाधप्रसङ्गेन(३) न्यायर- त्रमालायां निरस्तत्वात्। एकदेशिनां चाङ्गेषु लिङ्गाध्यिन्तातिदे. शमिच्छनां लिङ्गाभावे सुनरामिदमयुक्तमभिधातुम् । न ह्यत्र सोमधर्मातिदेशे पशाविक प्रयाजादिदर्शनं किञ्चिल्लिङ्गमस्तीति नातिदेशसम्भवः। तस्मादन्यथा वर्ण्यते--'चतुरवत्तं जुहोतीति प्राकराण. केषु सर्वहोमेषु चतुरवत्तम् (४)-विहितं चतुरवत्तमिति विव- क्षितसङ्ख्यानिर्देशः। एक चतुरवत्तं होमागतया विहितमिति । 'तत्रेमानि'-फ्यादीनि-'दशद्रव्याणीतरेतरयुक्तानि होमसाध. नानि'(५), न व्रीहियववनिरपेक्षाणि, सहविधानात । 'तत्रैषां प्रतिद्रव्यं व्यवदाने गृह्यमाणे बहूनि चतुरवत्तानि भवन्ति । होमे चैकं चतुरवत्तं श्रुतम्'(६) । सोऽयं परस्परव्याघातः । तदाह- 'तत्'(७)-'चतुरवत्तं-'ययेकस्माद्गृह्येत'(८)-एकवचनानुरोधेन तत-'इतरेषां' (९) सह विध्यवगतं-'साधनत्वं हीयेत' (१-२) टु० टी० पृ० ६. (३) पर्वणो यश्चतुर्थोश आधाप्रतिपदस्त्रयः । यागकालः स विज्ञयः प्रातरुतो मनीषिभिः॥ (४-१) टु० टी० पृ०७.
४-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । ४९ (१)। यदि तदनुरोधेन सर्वेभ्यो गृहीत्वा हूयेत तत एकत्वं ही. येतेत्यपि वक्तव्यम् । अर्थसिद्धत्वात्तु नोक्तमिति । 'तस्मात' (२)-उभय- 'संपत्तयेऽभ्यस्यते याग एकैकेन चतुरवत्तेन (३) तस्माद्गृहीतेन । एवं युभयमुपपादितं भवति--यच्च सर्वेषां साधनत्वं यच्चैकचतुरबत्तसाधनत्वम् । 'ननु बहूनि'(४)-चतुरवत्तानि-'गृहीत्वा सकृद्धोष्यते दे. वतैक्यात् (६)। न किञ्चिद्विरोत्स्यते-'यथा सानाय्ये द्वे चतु. रवत्ते'(8)-गृहीत्वा सकृत् होमः । 'उच्यते। तत्र'(७)-सा. नारये चतुरवत्तविघातो नास्तीति परेण सम्बन्धः । कृत इत्याह-'कर्मभेदात्'(८)। द्वे हि तत्र कर्मणी सहानुष्ठीयेते । ततः किम् । इदं ततो भवति-'अन्येन (९)प्रदानेन-'सह' (१०)अन्यस्मिन्-'प्रदाने क्रियमाणे इतरदपि (११)- प्रदानं-'आत्मीयं चतुरबच(१२) -इतरस्मात्-'विवेकेन-' (१३)असङ्करेण गृह्णाति इतरदपि विवेकेन । 'तत्र चतुरवत्तवि. घातो नास्ति'(१४)- तत्रेत्युपन्यासार्थः । द्वाभ्यां चतुरवत्ताभ्यां द्वयोः कर्मणोः सहानुष्ठीयमान योरेकैकस्यैकैकसाधनत्वमबिह- तमेवेत्यभिमायः । 'इह त्येकत्वाकर्मणः (१५)-सर्वेश्चतुरवत्त:- 'सह'(१६)-संहयानुष्ठाने-'क्रिमयाणे'(१७)-सति-'चतुरवत्त- विघातभयादभ्यस्यते सोमयागवत् । तत्राहुतिबहुत्वात्'(१८)- चतुदर्शत्रयोदशेति-'दर्शनं नोपपद्यते'(१९) । (१-१९) टु० टी० पृ० ७.
तन्त्ररत्ने-
[ पादः १-सूत्रम्-११.
पशाचिदानी का चार्ता । न हि तत्र सान्नाय्यवद्यागभेदः
समस्ति । तेन तत्रैकादशभिरवत्तैः सहानुष्ठाने सत्येकत्वविघा.
तभयादभ्यासः प्रसज्यते । न प्रसज्यते । चतुरवत्तैकत्वस्य सि.
द्धान्ते प्रकृताचार्थिकत्वेनाशास्त्रीयत्वात् । एकस्य हि यागस्यैक-
मेव पुरोडाशादिप्रकृतौ हविः । तन्मध्यपूर्वाद्धनिष्पन्नस्य चतुर
वत्तस्यैकत्वं सिद्धमेव न विधेयम् । यच्च प्रकृताचार्थिकं न तच्चो.
दकः प्रदिशति । हविरेकत्वनिवन्धनं हि प्रकृतौ चतुरवत्तैकत्वं
न वाचनिक, पशौ तु हविर्भेदाच्चतुरवत्तभेदे सति सर्वैरेव सह
हृयत इति नानुपपन्नम् ।
पूर्वपक्षे तु स्फ़्यादीनां दशानामेकयागसाधनत्वात्तनिष्पन्ना-
नां चतुरवत्तानामप्राप्तमेकत्वं नानुवदितुं शक्यत इत्यवश्यं चतुरव
तं जुहोतीत्यनेनैव विधातव्यमिति तत्संपत्तयेऽभ्यासः प्रसज्यत
इति स्थितं लिङ्गदर्शनमिति । एतच्च चतुरवत्तं होमसाधनत्वेन
विधीयते इति भाष्यकारमतमङ्गीकृयोक्तम् ।
स्वमते तु चतुरवत्तोद्देशेन होमः संस्कारो विधीयते इत्यु:
द्देश्कवस्थाविवक्षितत्वात्संभवत्येव सहहोम इति परिधानीये
कर्मणि लिङ्गदर्शनं व्याख्येयम् । पूर्वसूत्रस्य तु प्रथममेव
व्याख्यानम् ।
५-पश्चेकत्वादविवक्षाधिणकरणम् ।
(पूर्वपक्षसूत्रम् )
तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् ॥ ११ ॥
५-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । ननु वस्तुतोऽर्थगुणभूतोऽप्यमूर्तोप्यरुणिमानतदर्थः किं तु तृतीयाश्रुत्या करणत्वावगमात् क्रियार्थ एव । द्रव्यपरिच्छेदद्वा- रेणोपपन्नमेव तादर्थ्यमियरुणाधिकरणे प्रतिपादितं तत्कथमर्थस्य गुणभूतत्वावगमादयज्ञाङ्गमेकत्वामित्युच्यते । तत्राह-'अरुणो गुणः' (१)- एकहायन्यादिपदात्-'पदान्तरेण'(२)-अरुणापदेन-'उपा. तत्वाद्भवति क्रियार्थः । एकत्वस्य विभक्तिश्रुत्या प्रातिपदि. कार्थत्वान्न क्रियार्थता'(३)-किं तु द्रव्यार्थता । 'अद्रव्यस्य'(४)- क्रियायाः पदान्तरेणोपात्तत्वात्-'वाक्येन (५)एकत्वं-'अङ्गं स्या- '(६) । तच्च श्रुतेर्दुलम् । तस्मान्न क्रियामिति । नात्र वास्त. वमर्थपारतंत्र्यमक्रियार्थत्वे युक्तिः येनारुणाधिकरणगोचरता स्यात् । किं त्वेकपदोपादानलक्षणया श्रुत्याऽर्थस्य प्रातिपदिका- थस्य गुणभूतमवगम्यमानं न वाक्येन यज्ञाझं भवितुमर्हतीति । 'पश्चादीनामङ्ग विवक्षितं तथाऽपीति'(७)-चोद्यभाष्यं तदनुप- पन्नं वाक्य भेदप्रसङ्गात् । न हि सकृदुच्चरितो विधिशब्दः क्रि. यां विदधाति, पश्वङ्गं च संख्याम् । विध्यावृत्तौ च वाक्यभेदप्र- सङ्गः । तथा पशुरपि यागसंख्ये प्रत्युपादानोद्देशादिविरुद्धत्रिका योगी स्यादत आह-'अन्तर्णीताभिप्सम्बन्धे सकृदुच्चरिताभिप्रा. यः परिचोदयति'(८)-अन्तर्णीतैकत्वस्य पशोः क्रियासम्बन्धा. पृ० ७. (१-२) टु० टी० (३) टु० टी० पृ० ७ । अत्र मुद्रितटुप्टीकाग्रन्थ 'क्रयार्थता' इति पाठो दृश्यते । (४-८) टु० टी० पृ० ७.
५२ तन्त्ररत्ने [पादः १-सूत्रम्-११. देकत्वविशिष्टपशुविशिष्टो यागः सकृदुचरितेन विधिना वारव- न्तीयविशिष्टं करोति शब्दार्थविशिष्टयागवद्विधीयते इति । तथा च क्रियाङ्गमादरणीयं स्यादत आह-'अङ्गस्य'(१)-यागांगस्य पशोः-'यदुपकारक (२)-एकत्वं- भवति तत्मणाड्याऽपि (३)-यद्यपि न साक्षादुपकारकं तथापि प्रणाड्याऽपि तावत्- क्रियाया अप्युपकारकम् (४)। विशिष्टस्य हि क्रियाङ्गस्य वि. शेषणमन्तरेणासिद्धर्विशेषणमप्यादरणीयमिति । एतदुक्तं भव. ति-पशुर्हि वाक्येन क्रियार्थत्वादुपादेयः । स यथाश्रुत एव क्रि- यार्थमुपादेयः । स च करणत्वेनैकत्वेन च विशिष्टः श्रुतः क्रय- णमिवारुणादिभिः । अतो यथा करणभूतस्यैवोपादानमेवमेक- त्वयुक्तस्यापि। (५)तत्पशावेवमुपादीयमान एकत्वमपि क्रिया- र्थत्वं करोति । विनापि तस्य करणत्वेनातादिदमौपादानिकमेक- स्वस्याङ्गत्वम् । 'न पश्वादीनामङ्गेनोक्तेनानुक्तेन वा किंचिदस्ति प्रयोजनमिति (६)-परिहारभाष्यं तस्य-'कोऽभिप्राय:'(७) । एक: पशुसंख्ययोः सम्बन्धः तस्मिन्विवक्ष्यमाणे-'सम्बन्ध एक- स्मिन् क्षणे(८)-प्रातिपदिकार्थेन संख्याकारकयोयुगपद्विशेष. णत्वेन सम्बन्धे सति-'क्रियापश्वोः सम्बन्धो नास्ति'(९) । कारकं हि क्रियया सम्बध्यते न द्रव्यम् । कारकं चेत् द्रव्यवि. शेषणं तद्विशिष्टं द्रव्यं कृदन्तकरणादिशब्दाभिहितमिव न (६) तदसावेव-क-ख। (१-४) टु० टी० पृ० ७. (६-९) टु० टी० पृ० ७.
५-यज्ञायुधानामनुवादताधि०] चतुर्थोऽध्यायः । क्रियया सम्बन्धमहति । तेन पशोरपि क्रियाङ्गत्वाभावात् दूरापे. तमेकत्वस्य क्रियाङ्गत्वम् । अथ पशुरेव कार कविशेषणं साकार. कात्मना क्रियया सम्बध्यते, संख्या च पशुविशेषणमेत्र सती क्रियया सम्बध्यते इत्युच्यते तथापि क्रमेण क्रियासंख्याभ्यां पशोः सम्बन्धो युगपद्वा । क्रमे तावदृषणमाह - 'क्रियापशुसम्ब- न्धोत्तरकालं पशुसंख्ययोः सम्बन्धे शुद्ध एवं पशुः(१)-क्रियया- 'सम्बध्यते'(२)-न संख्याविशिष्टः । ततश्च पशुमात्रेण यागस्य सगुणत्वात्संख्यानादरः स्यात् । अथ तन्त्रेण पशुः क्रियासं. ख्याभ्यां सम्बध्यते तथाऽपि संख्याननुरक्तस्य क्रियान्वयात्स एव दोषः । वैरूप्यं च पशोः स्पादित्याह-'तन्त्रसम्बन्धे सक. दुच्चरितत्वात्'(३)-पशुशब्दस्य युगपदेव-'पशो स्वार्थपरार्थता स्यात्'(४) । विरुद्धत्रिकद्वयोपलक्षणमेतत् । क्रियासम्बन्धे हि पशोः स्वार्थत्वमुपादानं विधानं च स्यात् । संख्यासम्बन्धे तु परार्थमुद्देशोऽनुवादश्च-'श्रुत्यादिदोषश्च तदवस्थ एव'() । यो ऽयं श्रुत्यर्थेन समानपदोपात्तेन पशुनैव सम्बन्धः संख्याया न वाक्यार्थेन यागेन, तत्र यागस्य संख्यानिवृत्तावपि वैगुण्या- भावात्संख्यानादरः स्यादिति दोषोऽभिहितः । स तन्त्रसम्बन्धे. ऽपि तदवस्थ एव न स्वपगत इति । तस्मादक्रिया संख्येति (६)। न चैकत्वविशिष्टस्य पश्चात्करणत्वम् । करणैकत्वयोयुगपदभिधा- (१) अत्र 'क्रियापशुसम्बन्धोत्तरकाल मिति पाठशालीयपुस्तकपाठः। (१-६) टु० टी० पृ०१७ ८४ तन्त्र रत्न - [पादः १ -सूत्रम्-११. नात् । अत एवाभिप्रायादाह भाष्यकार:-'यज्ञाङ्गेन ह्यविपन्नेन प्रयोजनं, विपन्नेऽपि हि पश्वायङ्गेऽविगुण एव क्रतुर्भवति'(१) । अत्र कश्चित्पुनरेवमुपादानशेषत्ववाद्याह-यद्यप्येकत्वं प्रा. तिपदिकार्थगतमेव विभक्तिरभिधत्ते न क्रियाकारकतया तथापि नाविवक्षितम् । अस्यापि ग्राहकग्रहणेनापूर्वैदमयं तावदापादित तच्चास्य केन द्वारेण निर्वहस्विति द्वारापेक्षायां सत्ये यावच्छेद एव लिङ्गात् द्वारमवगम्यते । पशुरपि यागाङ्गतया विहितोऽप. रिच्छिन्नस्य तत्साधनवायोगात्परिच्छेदकमपेक्षते । तत्स्थतया चैकत्वमवगम्यते । ततश्चैकत्वस्यात्मार्थत्वनिहाय नियोग एवा. स्य करणीभूतपशुसम्बन्धित्वमाकाङ्क्षतीति नाविवक्षितमिति । तत्वयुक्तम् । न ह्येकत्वस्य ग्राहकग्रहणं सम्भवति । परवि. शेषणत्वादन्विताभिधानं हि ग्राहकग्रहणं, तच्च योग्यताधीनम् । न च पशुविशेषणं परेणान्वेतुं योग्ग मेतेन प्रयाजादीनामपि ग्राह- कग्रहणं प्रत्यूढम् ! अपि चैवं ग्रहैकत्वमपि विवक्षितं स्यात् । तस्यापि हि ग्राहकग्रहणेन विध्यैदमर्यपगतमेव । तस्यापि द्वारापेक्षायां ग्रहस्थत्वेनावगतस्य लिङ्गावगतसङ्ख्येयपरिच्छे. दद्वारस्य स्वार्थत्वं कर्तुं संमार्गकर्मीभूतग्रहसम्बन्धं नियोग एवा. क्षिपतीतिशक्यं वक्तुम् । ननु ग्रहस्य नास्ति परिच्छेदकापेक्षा । प्रकरणस्थानां ग्रहा- गां परिच्छिमत्वादिति चेत् । मा भूत् ग्रह स्यापेक्षा । एकत्वं तु (१) शबर० पृ० ४४३.
५-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । ग्राहकग्रहणापादितविध्यैदमर्थ्य सिद्ध्यर्थं द्वारमपेक्षमाणं ग्रहमेव द्वारमवलम्बिध्यते । तत्स्थतयाऽवगमादन्यतराकाङ्क्षाऽपि हि सम्बन्धकारणमेव । अपि च ग्रहस्यापि संमार्गसम्बन्धे परिच्छेदकापेक्षा विद्यत एव किंसंख्यो ग्रहः संमाष्टव्य इति । न हि ज्योतिष्टो. ममम्बन्धिनां सङ्ख्याऽवगतेत्येतावता संपार्गसम्बन्धिनाम- प्यवगता भवति । तेन यदि श्रुत्या वाक्येन वा द्रव्याङ्गतया क्रियाङ्गतया वाऽविहितस्यैव पश्वेकत्वस्य ग्राहकग्रहणावगता पूर्वाङ्गत्ववशेनैत्र करणीभूतपश्वर्थत्वमाक्षिप्यते ततो ग्रहैकत्वस्या. प्याक्षिप्यत एव । यदि तु वाक्येनैकत्वस्य विधिरुच्यते तत उद्दे- यस्थस्य विधौ वामभेदादविवक्षा युक्ता । आक्षेपलभ्यं तु न वाक्यं भिनत्तीतिदुर्वारा विवक्षा स्यादतोऽवश्यं विवक्षाविवक्षे पशुग्रहैकत्वयोरिच्छता वाक्येनैव क्रियाङ्गतया पश्वेकत्वस्य वि- धानमभ्युपेयं, तच्च न सम्भवतीत्युक्तम् । तस्मादविवक्षितमिति । ( सिद्धान्तसूत्रम् ) शब्दवत्तूपलभ्यते तदागमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषाम् ॥ १५॥ यदुक्तं विभक्तिश्रुसैकत्वस्य द्रव्यार्थत्वान्न वाक्येन क्रिया. थता युक्तेति तन्न, क्रियार्थत्वस्यैव श्रौतत्वादियाह-विभक्तिर्हि लिङ्गसंख्याप्रातिपदिकार्थाना'(१)-त्रयाणामपि-'श्रुत्यैव क्रि- (१) टु टी०पृ० ८।
तन्त्ररत्ने [पादः १ -सूत्रम्-१५. यार्थतामाह'(१)-न केवलं प्रातिपदिकार्थस्यैव । यतस्तस्य क्रि यार्थतामभ्युपेत्य संख्यादेन भ्युपेयते । विभत्त्यर्थेन हि कार केण प्रातिपदिकार्थस्य समानपदोपादानप्रत्यासत्या सम्बन्ध स्यात् । विभक्त्यर्थस्य तु संख्यादेरेकाभिधानोपात्तस्य ततोऽपि प्रत्यासन्नतरः सम्बन्धः । ततश्च पशोः क्रियार्थत्वमभ्युपेत्य सङ् ख्याया नाभ्युपेयते इति दुर्घटम् । किश्चैकेनाभिधानेन युगपद. भिधीयमाने संख्याकारके मिथोऽन्विते एवाभिधीयतेऽन्यथा युगपदभिधानायोगादक्षादिष्वदर्शनादतोऽविधानादेव कारकत या प्रतीयमानस्यैकत्वस्य क्रियार्थत्वं श्रौतमेव न वाक्यगम्यत्वेन दुर्बलीकर्तुं शक्यते । क्रियाविशेषमात्रं त्वत्र वाक्यादवगम्यतेऽरुणा दिवदिति क्रियार्थत्वं श्रौतमेव । प्रत्युत पसर्थत्वमेव दुर्वलं, तद्धि पदश्रुखा स्यात् । कारकान्वयस्वेकाभिधाननिबन्धन एव । आ- भिधानिको वा । तच्च पदश्रुतबलीय इति । यदुक्तं-- तथा पश्चङ्गमेकत्वं पदश्रुत्या प्रतीयते । समानप्रत्ययश्रुत्या बलीयस्या क्रियाङ्गता ॥ इति लिङ्गस्यापि संख्यया तुल्यप्रायन्यायत्वात्सहैव सिद्धान्तोऽ. भिधीयते । या तु का चिद्विशेषाशङ्का तामवसरे वक्ष्यामः । ननु यद्यपि सर्वेषामेषां क्रियार्थत्वं यथायोगं पदश्रुत्याऽभिः धानश्रुत्या वाऽवगम्यते तथाऽपि क्रियाया एकेनैव नैराका क्ष्यादितरानादरः स्यात्राह-'क्रिया साध्या । साधनं तत्परि. (१) टु०टी०पृ०८।
५-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । च्छेदकानि च लिङ्गसंख्यादीन्यपेक्षते(१) । तेन श्रुत्या सर्वेषां क्रियार्थताऽवगम्यते । क्रियामपि सर्वाणि कारकाण्यपेक्षन्ते । 'अतः सर्वविशेषणविशिष्टा क्रियैव विधीयते (२)। न तुकार- काण्यन्योन्यस्य विशेषणम् । यतः पश्वङ्गमेकत्वं न क्रियाङ्गं स्यात्परस्परान्वयस्त्वरुणैकहायन्यादिवदैककादेव प्राप्तः पद- श्रुत्यान्द्यत इति वेदितव्यम् । यत एव क्रियायाः साधनतत्परि- च्छेदकापेक्षाऽत एवैतदपि न चोदनीयं समानाभिधानोपात्तलि- संख्यावरुद्धं कारकं न पदश्रुतिगम्यं पशुपाद्रियेतात: पशो: कारकत्वं न स्यादिति । न हि तन्मात्रेण निराकाङ्क्ष कारक पवगतं भवतीति। विद्यते हि पुंस्त्वधर्मकेणैकत्वोपेतेन यष्टव्यमि. त्युक्तेऽपि किंजातीयं तद्यदेवंसंख्याकमेलिङ्गकं चेत्यपेक्षा । तत्र प्रातिपदिकनोपनीयमानः पशुर्दुर्बलप्रमाणकोप्यनुगुणत्वा- दङ्गीक्रियते । अतस्त्रयविशिष्टा क्रिया विधीयत इति । नन्वविहितेषु विशेषणेषु कथं तद्विशिष्ट क्रियाविधिरत आह-तत्र विधिप्रत्ययः पूर्व विशेषणेषु(३)व्याप्रियते । कथमि. याह-'अन्यथाऽनुपपत्या'(५)। किं नोपपद्यत इत्याह-'न ह्यगृही. तविशेषणाविशेष्ये(३) बुद्धिरिति'(६)। विशिष्टविषयस्तावद्विधि. दृश्यते । न चासावविहितेषु विशेषणेष्ववकल्पत इति पूर्वनिष्पन्नो (१) लेखपुस्तके साधने' इति पाठः। (२-६) टु टी०पृ०८॥ (५) अत्र मुद्रितपुस्तके 'विशेष्ये' इत्यस्य स्थाने 'विशिष्टे' इति पाठो दृश्यते ।
तन्त्ररत्ने- - [ पादः१-सूत्रम्-१५. विधिः कल्प्यत इति । एवं तावद्यत्पूर्वपक्षेऽभिहितं श्रुत्या पश्वर्थत्वाव. गमान्न वाक्येन क्रियार्थत्वं युक्तमिति तत्व तो बलीयस्या श्रुत्यैव क्रि- यार्थत्वावगमात् परिहृतम् । इदानीपस्तु नाम वाक्येन क्रियार्थत्वं तथापि न दोषः श्रुतिवाक्ययोरविरोधादित्याह-'पश्वकत्वयोरुप- श्लिष्टलक्षणया'(१)-उपपदलक्षणया-'श्रुत्या विशेषणविशष्यभाव एवावगम्यते, न तु तादर्यम्'(२) न हि विधिमन्तरेण श्रुत्यादि. मात्रात्तादयं सिध्यति । न च पशुमंख्यासम्बन्धस्य विधिरस्ति । श्रुतस्य विधेर्यागतद्विशेषणमात्रनिवृत्तव्यापारस्य संख्यासङ्ख्येय. सम्बन्धविधावसामर्थात् क्रियातद्विशेषणव्यतिरिक्तानां चाऽकि. धिभाजनत्वात् । वाक्येन तु विध्यनुगृहीतेन क्रियां प्रति तादी- मवगम्यते । 'अत:(३)'-श्रुतिवाक्ययो:-'एकविषयोपनिपाता. भावादविरोधः । तस्मान'(४)-आह भाष्यकार:-न श्रुतिब्रूने वाक्यार्थो न भवतीति (५) । अत्र पूर्वपक्षे एकश्रुतित्वाचे. ति सूत्रे(६) 'एकां गां दक्षिणामि'(७)त्यत्र एकशब्दोपा. दानं विभक्त्यर्थस्यैकत्वस्याविवक्षायां लिङ्गमुक्तं तत्परिहारभाष्य 'मोसयासम्बन्धं विधातुमेतदुच्यते इतरथा गोदक्षिणासम्बन्धी विहितोऽवगम्यतेति (८)-तदनुभाष्य व्याचष्टे-'यदि गां दक्षिणां दद्यादित्येतावत् श्रूयेत ततोऽश्वादीनां परिसङ्ख्या स्यात्'(९)। (१-४) टुल्टी०पृ०८। (६) मी० सू०४-१-१२। (८-९) टु०टी०पृ०८॥ (५) शबर०पृ०४४५। (७) शबर० पृ० ४४३॥
५-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः। गवाश्वादिषु दक्षिणात्वेन प्राप्तेषु पुनर्गोदक्षिणात्वं निमित्त विधीय- पानमन्यनिवृत्तिपरं भवतीति । एकशब्दोपादाने तु गामुद्दिश्यै. कत्वविधानात् तत्रैव द्वादशशत संख्यामात्रनिवृत्तिः स्यान्न त्वश्वा- दिनिवृत्तिरिति तदर्थमेकग्रहणं चोदयति मामित्येतावत्यपि श्रुते प्रत्ययवाच्या-'सङ्ख्यैव विधीयते(१)'-गोगता-'न तु गौः (२)। अतोऽत्रापि सङ्ख्यान्तरस्यैव निवृत्तिने त्ववादेरिति चेत्- 'तन्न । संख्याविधाने हि सति गोमंख्ययोः सम्बन्धो विधातव्यः(३)। गामुद्दिश्य संख्या विधातव्या भवति । न च लद्युक्तम् । एकपदे ढ्युद्देशोपादानविभागो नायकल्पते । किं च 'तद्विधाने च'(४)-विधेः-'क्रियायामननुपवेश:'(५)। न हि सा निर्गुणा वा सगुणा वा स्वरूपेण वाऽन्यत्र वा विधीयते । न च तस्यामन्यः-'तत्रात्यन्तं वाक्यं स्यात् (६)-ददातिपरेण प्रत्ययेन गोसंख्यासम्बन्धे विधीयमाने न तु श्रुतिलेशः कश्चित् । 'तस्मात् यत् दक्षिणां दद्यात् तत् गामितीयं वचनव्यक्तिह्यते श्रुत्यनु- ग्रहाय(७) । अस्यां हि वचनव्यक्ती क्रियायामेकपदोपात्तायां द्रव्यविधानादस्ति श्रुत्यनुग्रहः । 'इतरथा(८) तु गामुद्दिश्य संख्याविधिरिति(९)-इयं वचनव्यक्तिः त्यज्यते । चोदक आह-'एतदपि(१०)'-समाधानं-'यद्वा तद्वा(११)- न युक्तमियर्थः । कुत इत्याह--'कस्मात(१२)'-कारणात्- (१-१२) टु टी०पृ० ८। (१०) अत्र 'इतरथा' स्थाने 'इतरत्र' पाठो मुद्रितपुस्तके दृश्यते ।
६०
तन्त्ररत्ने
[पादः१-सूत्रम्-११.
तत्र
'क्रियायामेव(३.)-दक्षिणादानात्मिकायां-'संख्या न विधी.
यते, येन गोसंख्ययोः सम्बन्धो विधातव्यः स्यात्(२)' ।
शक्यत हि गामित्येकवचनोपात्तमेकत्वं दानोद्देशेन विधातुमिति ।
एकदेशी समाधत्ते-'उच्यते संख्या विधीयमानासंख्ये.
यद्वारेण (३)-क्रिया-'साधनं भवति । तत्र(४)-दक्षिणायां
'वहूनि(५)-गवाश्चादीनि-'संख्येयानि(६)' सन्ति ।
'सा(७) संख्या 'न ज्ञायते(८)' गवादीनां मध्ये 'कस्य
परिच्छेदिका(ह) सती दक्षिणासाधनामिति । ततश्च गामिति
गोगतत्वं बाध्येत नियमेनाप्राप्तरनुवादासम्भवात् , विधाने च
वाक्यभेदापत्तेः।
अथ गवा संख्यया च विशिष्ट कारकं दाने विधीयते तथा
सत्येकत्वेन संख्यान्तरस्य गवा चावादीनां परिमंख्या स्यात् ।
चोदक आह-'अश्वादीनामुत्पत्ती(१०)-दक्षिणोत्पत्तिवाक्य
एव एकत्व-'संख्या विद्यते(११) । अतः 'तत्र(१२) पौनरु.
त्यात् 'न निवेक्ष्यते गवा तु न'(१३) एकत्वं 'विद्यते(१४) ।
अतो दक्षिणाद्देशेन विहितमेकत्वं विनापि वचनेन गोगतं भवतीति
तद्गतत्वमनुवदितुं शक्यमित्यन्तरेणाप्युपपन्नमेकशब्दं क्रिया.
यामेकत्वविधानमिति।
(१-१४) टु टी०पृ० ८।
(२) अत्र सम्बन्ध विधातव्यं स्यात्' इत्यस्य स्थाने 'सम्बन्ध
इत्येव पाठो मुद्रितपुस्तके ।
५-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः । एकदेश्याह-'गवायपि(१)' यद्यपि नैकत्वं विद्यते तथा. ऽपि 'द्वादशशतसंख्या विद्यते(२) । अतस्तत्र तद्विरोधान्न निवेक्ष्यते । यथेतरेषु पौनरुत्यादिति । चोदक आह-'चोदकेन(३)' गवां द्वादशशतप्राप्तिनैमित्ति- कस्य नित्यविकारत्वात् । अतस्तदोपदेशिकनैकत्वेन प्रत्याम्ना- यत-'इति चेत्(४)। एकदेश्याह-'इतरेषां(२)'-अश्वादीनां-'अपि चोदकेनैव (६)'-एकत्वप्राप्तिः । सा चानुमानिकी यावन्नैकत्वं प्रापयति तावदेव प्रत्यक्षवचनेन विधीयमानमेकत्वं न पुनरुक्तमिति। चोदकः स्वाभिप्रायं स्फोरयति - 'तेषां(७) अश्वादीनां 'एक- खेन युक्तानां (८) चोदकादेव माते-'अनधिकोपदेशिक्येकत्व संख्येति चत्र(९)- एकदेश्यपि स्वाभिप्रायमाविष्करोति-'उच्यते-इयं'(१०) औपदेशिकी संख्या 'प्रत्यक्षत्वात् शीघ्र (११) अन्यस्यामप्राप्तायो 'प्राप्स्यतीति'(१२) नानार्थका । या त्वातिदेशिकी 'सा(१३)' प्राप्तायामन्यस्यां प्राप्यमाणा 'अनुवादः(१४) । तेन सैव काम- मनार्थका न वियमिति तेन क्रियोद्देशेन विहिता संख्याऽश्वा. दिष्वपि प्रामोत्येवेति गठ्येव संख्यां विधातुमेकग्रहणमिति । तदिदमेकदेशिसमाधानं नातीवहृदयङ्गम् । यद्यपि हीयं प्रत्य- क्षत्वात् शीघ्रं प्राप्नोति तथाऽप्यन्यथाऽपि प्राप्स्यतोऽर्थस्य विधान- (१-१४) टु० टी० पृ०९।
तन्त्ररत्ने- [पादः १ -सूत्रम्-१५. - मनर्थकमेव । न वार्थवत्वे सम्भवति तद्युक्तम् । सम्भवति च गोनिवे- शेनार्थवत्ता । तेन क्रियोदेशेनापि विहितमेकत्वं वचनं विनाऽप्य- थेवत्वलिप्सयैव गवि निविशत इति अनर्थकमेवैकग्रहणं स्यात् । तस्मादन्यथा समाधत्ते- 'अथ वा यदि गौरेव'(१) केवला दक्षिणायां-'प्राप्नोति, ततोऽपि गोविधानमयुक्त(२)' स्यादानर्थक्यात् । नत्वेतदस्ति । 'प्राप्नुवन्ति ह्यन्यान्यपि(३) अश्वादिद्रव्याणि । तेन यदि गां दक्षिणां दद्यादित्येतावन्मानं वचनं स्यात्तथा सत्ये- तदेव न शक्यते वक्तुमेकत्वमेव विधीयते न तु गौरिति प्रत्युत प्रातिपदिकार्थस्य मुख्यत्वात् प्रधानत्वाच गोरेव विधानं प्राप्नोति न त्वेकत्वस्य जघन्यत्वगुणत्वाभ्याम् तदाह-'तस्मानास्तीदं गौन विधीयते संख्यैव विधीयत(४) इति' । किं तु विपरीतमेव स्यात्। 'अतो(५)-ऽसत्येकग्रहणे दक्षिणात्वेन गोविधानात्-'नियमाव'(६)-अवश्यं परिसंख्या स्यात् । अन्येषां (७)-अश्वादीनाम् 'तन्निवृत्यर्थमाह-एकाङ्गा- मिति (८)। एकग्रहणे हि सति सिध्यति गोसंख्यासम्बन्धविधेर- श्वादीनामनिवृत्तिरिति दशमे वक्ष्यामः । तदर्थवदेकग्रहणम् । अधिकरणान्तरं वा। कः पुनः संख्यातो लिङ्गस्य विशेषः शङ्ख्यते येनाधिकर- णान्तरं क्रियते ? लिङ्गस्यापि प्रातिपदिकार्थत्वे पदलक्षणया (१-८) टु० टी० पृ०९।
६-यज्ञायुधानामनुवादताधि० ] चतुर्थोऽध्यायः। श्रुत्या पशुत्ववत्पत्ययार्थत्वे तु एकत्ववत् प्रत्ययलक्षणया श्रुत्या क्रियार्थत्वं सिद्ध्यत्येव । भवत्वेवम् । न त्वेतदन्यतरस्याप्यऽभिधेयमिति पूर्वपक्षवादी मन्यते । न तावत् प्रातिपदकस्य, व्यभिचारात् , सिंहः सिंही सिंहमिति लिङ्गत्रयेऽपि प्रयोगात् । अव्यभिचाराद्धि जातिमात्र. मेव तदर्थः । नापि मुष्प्रत्ययस्य, व्यभिचारादेव । सुम्पत्ययो हि प्रातिपदिकमात्रात् प्रयुज्यते न तु लिङ्गविशेषमपेक्षते । न च टाबा- दीनां सुम्विकाराणां च 'तस्माच्छसो नः पुंसि'(१)-'नपुंस. काच'(२)-जश्शसोः शि(३)रिसेवमादीनां लिङ्गाभिधायित्वं व्यभिचारादेव । विलिङ्गेऽपि हि प्रयुज्यते श्रद्धा वृक्षः कुण्डानीति । विपरीतलिङ्गेऽपि मक्षिकति । पुंस्यपि प्रयुज्यते दारानिति च स्त्रियाम् । तस्मादिदं स्त्रीलिङ्गमिदं नपुंसकलिङ्गमिदं पुंल्लिङ्गमिति विशेषाश्रयणं शब्दानुशासनमात्रार्थ न तु वस्तुतः कस्य चिदपि लिङ्गमभिधेयमिति नास्य क्रियाङ्गत्वमिति । सिद्धान्तस्तु-यद्यपि प्रातिपदिकेन लिङ्गं नोच्यते नापि सु. प्रत्ययमात्रेण तथाऽपि टाबादिभिः सुब्विकारश्च कचिच्च प्रातिप. दिकविकारैस्तिमृचतस्रादिभिरभिधीयत एव । तदागमे हि दृश्यते लिङ्गविशेषज्ञानं-सिंही कुक्कुट इति स्त्रीलिङ्गपुल्लिङ्गज्ञानात् । तस्मा- दनन्योपायवाच शब्दशक्तिरेव कल्पयितव्या । यस्तु विलिङ्गे प्रयोगः स गौणः । तथा विपरीतलिङ्गऽपि द्रष्टः (१-३) पाणिनीयसूत्राणि-६-१-१०३, ७-१-१२, ७-२-२० ।
तन्त्ररत्ने [पादः १-सूत्रम्-१८. व्यम् । तस्मादस्यापि क्रियार्थत्वं सिद्धम् । इदं चाधिकरणं स्पष्ट- स्वाद्वार्तिककारेण न व्याख्यातम् । एवमुपरिष्टादपि सर्वत्र द्रष्टव्यम् । ६-आश्रयिणामदृष्टार्थताधिकरणम् । आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयत ॥ १८॥ एकदेशेनान्यदीयं द्रव्यं देवतामुभयं वा श्रयन्ति संस्कुर्वति ये पदार्थास्त आश्रयिणः । तेषु संदेहः किं दृष्टार्थी एवैते उताह. शार्थी अपीति । तत्रोदाहरणाक्षेपयाजेन पूर्वपक्षमाह-'अनुदाहरणं स्विष्टकन'(१) । कुतः, केवल दृष्टा त्वेनादृष्टार्थत्वायोगात् । तदाह- 'मंत्रस्तावत्(२)'--'अयालपिरित्यादिः (वाज०सं०७।१५)--'इष्ट- देवतासकीननादृष्टाः (३)। यागोऽपि दृष्टार्थ एवेत्याह-'आ- कीर्णकरस्य द्रव्यस्य'(४) पुरोडाशादेरिष्टशिष्टस्य 'अनियमेन प्रतिपादने प्राप्ते योगेन प्रतिपाद्यते'(५) प्रतिपादनं क्रियते । तेन योऽसौ(६) आहवनीये द्रव्य-प्रक्षेपः सोऽपि दृष्टार्थ एव । अतो यागेन द्रव्यस्य संस्क्रियमाणत्वात्'(७) केवल- दृष्टार्थस्य स्विष्टकृतो 'नेतरैः' (८) तमिदादियजिभिः 'तुल्य- ता(९) यतस्तदविशेषेणाश्रयिष्वपि भावार्थः प्रतीयेतेत्युच्येत । अथ समिदादय एवोदाहरणम् । तत्राह-समिदादयोऽपि नोदाहरणं,तेषु द्रव्यदेवतस्य गुणभूतत्वातक्रियैव प्रधानभूता'(१०)। अतस्ते नायिशब्देनाभिधीयन्ते इसनुदाहरणमिति । (१-१०) टु० टी० पृ०६।
६-आश्रयिणामदृष्टार्थताधि० ] चतुर्थोऽध्यायः । अथ पशुपुरोडाशयागो वपायागो बोदाहरणम् । न हि तत्र स्विष्टकद्वत् द्रव्यप्रक्षेपस्य दृष्टार्थत्वमित्यभिप्रायः । तत्राह-पशुपुरोडाशयागोऽपि देवतासंस्कारद्वारेणैव (२) प्रधानस्य उपकरोति'(२) अतस्तस्यापि नादृष्टार्थता । यागो हि चोदितो न तदेकदेशः। स च देवतोदेशद्रव्यसागात्मा देवतासंस्कारे- गैव निराकांक्षः। तदेकदेशस्तु द्रव्यत्यागो चोदितत्वान्न पृथक् प्रयो. जनमपेक्षते येनादृष्टार्थता कल्प्येत । वपायागस्य तु यागान्तरत्वे प्रमा. णं नास्ति'(३) । पशुयाग एव हि वपया हृदयादिभिश्च विततः सन् क्रियते । स च नाश्रयी। 'तस्मादेषोऽपि' (४)वपायागो (५) अनु. दाहरणम्' । उत्तमप्रयाजोऽपि पशुपुरोडाशन्यायेन निराकर्तव्यः । तस्मान्न किञ्चित् दृष्टादृष्टार्थ कर्मास्तीति । समाधत्ते-'यत्राकृतार्थ द्रव्यं देवता स्विष्टा यक्ष्यमाणा वा' (६) पशुपुरोडाशयागवत् 'कीर्णते यागान्तरं च तदुदाहरणम्' (७) । अकृतार्थत्वं च द्रव्यस्यातिशयार्थमुक्तम् । कृतार्थेऽपि हि द्रव्ये स्विष्टकृति त्यागांशस्यादृष्टार्थता समर्थयिष्यत एव । अकृतार्थे तु द्रव्ये प्रक्षेपस्यापि हि दृष्टार्थाभावादतिशयेनादृष्टार्थता वक्तुं शक्यते । कथमिसाह-'पशुपुरोडाशस्य देवताद्देशेन यः प्रक्षेपः तस्यादृष्टाहते नान्यत्प्रयोजनमस्ति(८)' । यो हि मंत्रेण देवतोदेशस्तन्मात्रेण देवता तत्र स्मयते । त्यागप्रक्षेपयोस्तु न (१) अत्र लेखमुद्रितपुस्तकयोः 'संस्कारेण' इत्येव पाठः। (१-८) टु० टी० पृ०९ ९ ६६ तन्त्ररत्ने- [ पादः १-सूत्रम्-१८. किं चिदृष्टमस्ति । यत्त्ववयवस्याचोदितत्वात् न पृथक् प्रयोजनापेक्षेति-तन्न । यद्यप्यवयवस्य स्वरूपेण चोदना नास्ति तथाप्यवयवी तावत् चोदितः । स च सर्वावयवोपेतः कर्तव्यः । तस्य चैकैनैवावयवेन दृष्टप्रयोजननिवृत्ते रवयवान्तराणामदृष्टमन्तरेण कर्तव्यता न घटत इत्यदृष्टं कल्प्यम् । एवमुत्तमायाजे स्विष्टकृति च वेदितव्यम् । स्विष्टकृत्यपि हि यद्यपि मंत्रासेचनयोदृष्टमेव प्रयोजनं त्यागस्य तु न किं चिदृष्टमस्तीत्यदृष्टार्थता । तस्माददृष्टार्था एते'(१)- पशुपुरोडाशादयः । 'अत आहे' (२)सूत्रकार:-'आश्रयिष्ववि. शेषेण भावोऽर्थः प्रतीयेत' (३) यागादपूर्व चोद्येतत्यर्थः (४) । भाव्यत इति भावोऽपूर्व सोऽर्थः प्रयोजनं प्रतीयतेत्यक्षरार्थः । अविशेषेणेति हेतुं व्याचक्षाणो भाष्यकारो भूतभव्यन्यायं(५) दर्शयति--तदयुक्तं, संस्कारकर्मसु तस्यापोदितत्वात् । कमैंव हि (१-४) टु० टी०९। (३) मी० सू०४-१-१८ (५) वस्तुतो भूतं भव्यायोपदिश्यत इत्यस्य न्यायस्य संज्ञा यथो- क्तमत्रैव टुप्टीकायाम् । सर्वज्ञात्ममुनिभिरित्थं संक्षेपशारीरके (१.१४३) वर्णितोऽयं न्यायः- भूतं भव्यप्रधानं भवति हि न पुनः स्वप्रधानं कदाचि- च्छास्त्रस्थाः शब्दशक्तिस्थितिनिपुणधियो विस्तरादेवमाहुः ॥ तथा च तट्टीकायां "भूतं भव्यायोपदिश्यत इति जैमिनिशबरस्वा. मिनोर्मतं तौ च वेदार्थनिर्णयेऽधिकृताविति तदुक्तमेव ग्रहीतुमुचित- मित्यभिप्रेत्याह-भूतमितिः । एष न्यायो वेदान्तिभिरपि स्वीकृतः । यथा च तत्रैव (१-३१२)- - ६-आश्रयिणामदृष्टार्थताधि ] चतुर्थोऽध्यायः । तत्र भव्यमपि द्रव्यदेवतं भृतमपि प्रतिगुणभूतमित्युक्तं “यैस्तु द्रव्यं चिकीयत" इत्यत्र अत आह-'भूतं द्रव्यं भव्यां क्रियां निर्वतयतीति क्रियातोऽदृष्टम् (१)। यद्यपि पशुपुरोडाशयागस्य देवता संस्कार्या तथाऽपि द्रव्यस्य तादात्तनिष्पाद्ययोस्त्या. गासेचनयोरदृष्टमेव प्रयोजनमिति देवताभिप्रायमपि वा शक्यत एव भाष्यं व्याख्यातुमित्याह-'अथवा यद्यपि यागो देवता संस्कुर्वन्नुपकरोति तथाऽपि साधनतां प्रतिद्यमाना(२) देवता यागस्य 'आश्रयो भवति(३) संस्कार्या भवति नान्यथा । अत:(४) संस्कार्यत्वपक्षेऽपि द्रव्यदेतस्य भूतस्यैव क्रियासाधन- स्वारसाधनस्य च साध्यार्थत्वमौत्सर्गिकमियभिप्रेत्य यैस्तु द्रव्य चिकीयंत इयत्रोक्तमपवादमनादृत्य सामान्यन्यायप्रदर्शनार्थ. मुक्तं--'भूतं भव्यायोपदिश्यत इति(५) । दर्शितं च तस्मिन्नुत्तरसूत्रेण यैस्तु द्रव्यामित्युक्तमपवाद पूर्वपक्षत्वेन प्रदर्य तदुत्तरत्वनात्र त्यसिद्धान्ततत्वं स्याद्वा द्रव्य भन्याय भूतमिति किञ्च विधिप्रधाने काण्डे नयोऽयमिह तद्विपरीतमाहुः । भूताय भव्यमिति भूतपरं हि सर्व वेदावसानमिति सूत्रकृदाचचक्षे॥ विशेषतस्तन्त्रवात्तिके ( २-१-५) पञ्चपादिकाविवरणव्याख्याने तत्त्वदीपने ( पृ० ३७७ द्वितीयवर्णके ) च द्रष्टव्यम् । (१) टु० टो० पृ०९ (२-५) टु० टी० पृ० १० (६) अत्र द्वितीयाध्यायप्रथमपादचतुर्थसूत्रभाष्यं द्रष्टव्यम् ।
६८ तन्त्ररत्ने [पादः१-सूत्रम्-१९. चिकीर्षायामित्यत्र दर्शयिष्यत इति । चोदनायान्त्वनारम्भो विभक्तत्वान्न ह्यन्येन विधीयते॥१९॥ 'यत्र द्रव्यदेवते गुणभूते आख्यातस्य(१)' यथा समिदा. दिषु तत्रैवापूर्व, यत्र पुनद्रव्यं देवता वा प्रधानं(२) स्विष्टकृत्प. शुपुरोडाशादिषु 'तत्र तदर्थवादाख्यातस्य नास्त्यपूर्वम्(३) । एकस्य कर्मणः प्रयोजनद्वयापेक्षाभावादवघातादिवत् । स्यादा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतता- ऽऽश्रयाद्धि गुणीभावः ॥२०॥ इति सिद्धान्तसूत्रम् । तस्याभिप्रायमाह-'यदेवतासङ्कीर्तनं मंत्रेण तत्(४)' सत्यं, 'दृष्टाय स्मरणस्यापेक्षितत्वात्(५) । अन्त. रायपरिहाराय तथा सेचनमपि प्रतिपत्तेरपेक्षितत्वात् । 'त्याग. स्त्वदृष्टाय(६) दृष्टप्रयोजनस्याभावात् । 'तस्माचापूर्वम् । (६) सूत्रभाष्ययोरप्ययमर्थः । 'स्याद्वा' 'भावोऽपूर्वमतः 'स्वि. टकदादेः सत्यामपि द्रव्यचिकीर्षाया(७)' न चैतावता केवला. पूर्वार्थत्वेन देवतासंस्कारार्थत्वं द्रव्यप्रतिपत्त्यर्थत्वं च हीयत इत्याह - 'अर्थं च गुणभूतते(८)ति तत् व्याचष्टे-तस्मिन्नपूर्वे (१-३) टु० टी० पृ० १० * सूत्रञ्चेदं टुप्टीकाकारैर्न व्याख्यातम् । (४-६) टु० टी० पृ १० (७) शबर० पृ० ४४८ (८) मी० सू०४-१-२० ७-प्रतिज्ञाधिकरणम् ] चतुर्थोऽध्यायः । सत्यपि देवतासंस्काररूपेर्थे द्रव्य प्रतिपादने च गुणभूतता याग. स्योपपन्नेति । तत्रापूर्वार्थतां तावदुपपादयति-'मन्त्रेणे त्या दिना(१) 'न किं चित् दृष्टमस्ती(२) त्यन्तेन । यत्तु तस्मिन् सयपि न संस्कारार्थता हीयत इत्युक्तं तदु. पपत्तिः सूत्रेणैवोक्ता-'आश्रयाद्धि गुणीभाव'(३) इति । तत् व्याचष्टे-'देवताश्रयात्(४) परकीयद्रव्यदेवताश्रयात् । तत्पति गुणत्वे स्थित एव 'देवतागतं तदपूर्वमिति गम्यते(५) । देव. तासंस्कार संयुक्तमेवापूर्व कल्प्यते न तु तत् परिहारेणेत्यर्थः । उपन्यासभाष्यमपि यजिनाऽदृष्टं देवतायां क्रियत इत्येतत् देवतासंस्कार संयुक्तमिति व्याख्येयमिति । प्रयोजनं पूर्वपक्षे द्रव्यनाशे स्विष्टकृतो लोपः । सिद्धान्ते तु आज्येन समापनम् । एतच्चापि वा शेषभाजां स्यादित्यत्र वक्ष्यते-- ७ प्रतिज्ञाधिकरणम् । अर्थे समवैषम्यतो द्रव्यकर्मणाम्(६) ॥ २१ ॥ एवं तावत् प्रयोजकाप्रयोजकत्वं फलभूतमङ्गीकृत्य तृती. यगोचरः शेषशेषिभावश्चिन्तितः। अतः परं तु प्रयोजकाप्रयोजकत्वमेव लक्षणार्थः स्वरूपेण (१-२) शबर० पृ० ४४८ (३) मी० सू०४-१-२० (४-५) शबर० पृ० ४४८ (६) सूत्रञ्चैतटुप्टीकाकारैर्न धृतम् ।
तन्त्ररत्ने- [पादः १-सूत्रम्-२२. चिन्त्यते । कचित्वामिक्षादौ शेषशेषिविचारोपि तसिद्ध्यर्थं करिष्यते। वृत्तवय॑विभागोऽयं सूत्रेणानेन कथ्यते । सुखग्रहणार्थ द्रव्यकर्मणां दण्डदध्यानयनादीनामर्थे प्रयोजने साम्यमुभयप्रयुक्तिः वैषम्यमकेन प्रयुक्तिरितरेण नेत्यतः परं वक्ष्यते इति सूत्रार्थः । ८ तप्ते पचास दध्यानयनस्यामिक्षा. प्रयुक्तताधिकरणम् । (पूर्वपक्षसूत्रम् ) एकनिष्पत्तेः सर्वं समं स्यात् ॥ २२ ॥ 'सर्वशब्दो वक्ष्यमाणसर्वपूर्वपक्षालोचनया द्रष्टव्यः (१) । सर्वमेवामिक्षा वाजिनक्रयपांस्वादिसंयवननिनयनपर्यन्तमेकरूपा- याः । निष्पद्यतेऽनेनेति निष्पत्तेदध्यानयनैकहायनीनयनादेः प्रणीतापर्यन्तायाः प्रयोजकत्वेन समं स्यादिति वक्ष्यमाणसर्व- पूर्वपक्षाणां तन्त्रेणेदं सूत्रं व्याख्येयमित्यर्थः । दर्शितेषु तु तंत्रेण पूर्वपक्षेषु सिद्धान्तस्तत्र तत्र हेतुभेदात् भेदेनाभिधास्यते। तत्र प्रथममामिक्षा वा प्रधानं स्यादिति दध्यानयनगोचरसिद्धान्ताभिधानाचद्विषयः पूर्वपक्षोऽभिधीयते - 'यत्प्रयोजनवत्तत् प्रयोजक, आमिक्षावाजिने च प्रयोज नवती, (१) टु० टी० पृ० १० तन्त्ररत्ने [पादः १-सूत्रम्-२३. श्यते(१) । सेति तदेव तासम्बन्धि । सा वैश्वदेवीतिवचनात् । तेन च सर्वनाम्नानन्तरशब्दनिर्दिष्टं प्रधानभूतं प्रतिनिर्दिश्यते- 'तच्च प्रयोजकं'(२) दध्यानयनस्य । किं पुनस्तत् । अयं पूर्ववाक्ये निर्दिष्टं तप्तं पयोदधि चानयतिश्च । तत्र 'आनयतिस्तावत् सं. स्कारकत्वादन्यत्र'(३) दधि एयसि वा 'शेषभूतत्वात् (४) अप्र. धानम् । अतो 'ऽनन्तरोऽपि (५) अत्यन्तसन्निहितोऽपि सर्व- नाम्ना 'न प्रतिनिर्दिश्यते'(६) । ननु वस्तुतो गुणभूतोऽपि शब्दोऽतः प्रधानभूत एवानयतिः क्रियारूपत्वात दधिपयसोस्तु कारकत्वेन तच्छेषत्वात् । तावच्च सर्वनामप्रतिनिर्देशे कारणं न वास्तवं प्राधान्यम् । एष राज्ञः पुरुष- स्त्वदुपकण्ठे तिष्ठति तमानयेति गुणभूतस्यैव पुरुषस्य परामर्शात् । प्रधानस्यापि राज्ञोऽपरामर्शात् । अतः कारणान्तरं वाच्यमत आह- 'देवतासम्बन्धे अयोग्यत्वाच्च(७) । न खलु क्रिया देवतामुद्दिश्य त्यक्तुं शक्यते । अतो न सा वैश्वदेवीशब्दसमानाधिकरणेन स. वनाम्ना प्रतिनिर्दिश्यते । किं तर्हि प्रतिनिर्दिश्यते ? तत्रैकस्तावदाह -'दधि चानयती प्रधानं द्वितीयानिर्दि- तृत्वात्'(८) । न चानयती प्रधानस्यापि पयः प्रति गुणभावाद- प्रतिनिर्देशः । पयस एव दधि प्रति गुणभावात् । दन्नस्तु तदपि प्रति प्राधान्यादित्याह-'सप्तमीनिर्देशात् पयोऽपि तच्छेषभूतं(९) (१-८) टु० टी० पृ० १० (९) मुद्रितलेखयोः पुस्तकयोः तच्छेषभूतमित्यस्य स्थाने तच्छेषः इत्येव पाठः ।
-तप्ते पयसि दध्यानयनस्यामिक्षा०] चतुर्थोऽध्यायः । तस्मा तप्तपय आनयतिविशिष्टं(२.) तप्तपयस्थानीयमानं 'द्विती. यान्तं दधि(२)' पूर्व वाक्ये 'प्रधान भूतम्(३)' । अतः 'तत्सर्व नाम्ना प्रतिनिर्दिश्यते । तदेव * देवतासम्बन्धि(४) । सा वैश्व. देवीति । तस्माद्दध्यर्थमानयनं दधिप्रयुक्तं तदेव तप्ते पयस्यानीतं घनीभूतमामिक्षाशब्देन सर्वनामसमानाधिकरणेनोच्यते । तस्मा. दामिक्षा प्रयोजिकेति । तदेतनिराकरोति-'एतदपि नास्ति(५) । यथानयते प्रतिनिर्देशो न भवति तथा दनोपीत्यर्थः । कथं ? गुणत्वाविशे. पात् । तदर्शयितुमुपक्रमते-'आनयतिरयं द्विकर्मकस्तत्रैकं कर्म क्रियया व्याप्यमानमपि(६)' तां प्रति प्रधानमपि 'गुणत्वं प्रतिपद्यत इतरत्प्रति (७)' । द्वयोरेकस्मिन् वाक्ये समप्राधा. न्यायोगात् द्विकर्मकत्वमेवानयतेर्दर्शयति-'यथाऽजां नयति ग्रा. ममिति(८) । कस्य पुनरत्रकर्मणः प्राधान्यं कस्य वा गुणत्वमियत आह-'तत्र विवक्षातः प्राधान्यम्(९) । तदेव दर्शयति-'यद्यजा संस्कार्या(१०)' विवक्षिता प्रधानं ग्रामस्तदर्थः । अथ ग्रामस्य केन चित् कारणेन प्राधान्यं तत आनयतिविशिष्टाऽजा तदर्था(११) । यत्र तर्हि प्रमाणा. न्तरेण विवक्षाविशेषो न गम्यते शब्दत एवान्यतरस्य गुणत्वं 'ततः सा (१-३) टु० टी० पृ० १० * अत्र तदेवेत्यस्य स्थाने तदित्येव पठ्यते मुद्रितलेखपुस्तकयोः । (४-११) टु० टी० पृ० १० तन्त्ररत्ने- [पादः१-सूत्रम्-२३. प्राधान्यं वा निणेतव्यम् । शब्दस्तु साधारणस्तत्र कथमियत आह-तत्र द्वयोर्द्वितीयान्तयोर्नास्ति शब्दतो निर्णयः(१) शब्दस्य साधारणत्वात् । 'किं तर्हि वस्तुत:'(२)। यद्येकं फल. वदितरद फलं ततः फलय दङ्गमितरनिर्णीयत इति । 'यत्र तु द्वे अपि(३)' कर्मणी प्रयोजनवती द्वितीयान्ते च तत्र नास्त्येव निर्णयः'(४) । एवं तावद्वयोतिीयान्तत्वेनानिर्णय उक्तः । 'यत्र तु सप्तम्या निर्दिष्टमेकमाधारभूतं तत्रेतरत्'(५)द्वितीयान्तं कर्म 'आधेियत्वात्तत् (६) प्रतिसप्तमीनिर्दिष्टं 'प्रतिनीयते(७)' । ततश्च (८) तेन' द्वितीयानिर्दिष्टेन कर्मणा 'व्याप्यमानत्वा. दितरदेव(९) सप्तमीनिर्दिष्टं 'तत्र प्रधानम् (१०)। ननु तस्याधिकरणत्वेन गुणभावावगमात् कथं प्राधान्यमत आह-'अधिकरणभावो नान्तरीयकत्वादनूयते (११) । यद्धि क्रिय या हीयमानं प्रथमं कर्म तेनापि व्याप्यमानस्य द्वितीयस्य कर्मणस्ततोऽपि प्राधानस्याप्यधिकरणभावो नान्तरीयको भव. तीति सप्तम्याऽन्द्यते । किमर्थं पुनरेवं क्लेशेनानुवादभूता सप्त- मी प्रयुज्यते द्वितीयैव व्यक्तं प्राधान्यं प्रतिपादयितुं कस्मान्न प्रयुज्यतेऽत आह-'एतच्छेद मात्रं क्रियते(१२) । छेदो विभा. (१-६) टु० टी० पृ० १० अत्र लेखमुद्रितपुस्तकयोाप्यमानत्वा- त्तदेवेति पाठः। तथा च 'व्याप्यमानत्वात्तदेव प्रधान'मित्यग्रिमसूत्र- रूपेण लेखपुस्तके पठितम् । (१०-१२) टु० टी० पृ० ११ ८-तप्ते पयसि दध्यानयनस्यामिक्षा०] चतुर्थोऽध्यायः । गः। उक्तं ह्येतद्वयोर्द्वितीयान्तयोः किं प्रथमं किं वा द्वितीयमित्य- नवगमान्न मिथो गुणप्रधानभावो निर्णतुं शक्यते । सप्तमीनिर्देशे तु सति तस्याधिकरणभावेन द्वितीयकर्मत्वात् प्राधान्यं सिध्यति तेन योऽयं विभाग एकस्येतरत् प्रति नीयमानत्वेन गुणत्वमि. तरस्य च तेन व्याप्यमानत्वेन प्राधान्यमिति तन्मात्रसिद्ध्यर्थ सप्तम्याऽधिकरणभावोऽन्यते न तु गुणभावमवगमयितुं सप्त. मीत्येवं सामान्यन्यायमुक्तं प्रकृते दर्शयति-इह तु पयः प्रधा. नकर्म(१) तदेव पूर्वोक्तन्यायनोपपादयितुं पृच्छति-'कथ(२) मिति । सप्तमीनिर्देशाद्विशेषणभूतं पयोऽवगम्यते कथमस्य प्राधा- न्यमित्यर्थः । तदुपपादयति-'सप्तमी यंशा (३). सप्तमीनिर्दिष्टस्य द्वे रूपे स्तः । 'अधिकरणत्वात् गुणभूनता, आधेयेन आधेयेन व्याप्यमा नत्वात् कर्मभृत ता(४) तत्र' । आनयतिना द्विकर्मकेन 'द्वितीयस्य कर्मणोऽपेक्षितत्वात् यो व्याप्यमानोऽर्थः' (५)व्या. प्यमानत्वरूपोर्थः सप्तमीनिर्दिष्टाधिकरणभावबलेनावगम्यते 'स गृह्यते । न तु गुणभाव। (६) । शब्दनिर्दिष्टोऽप्यनपेक्षितत्वात् । स तु द्वितीयकर्मत्वेन प्राधान्यसिद्ध्यर्थः शब्देनानूद्यत इति तेना. नययेकवाक्यत्वबलेन द्वितीय कर्मलक्षणार्थेवेयं सप्तमीति । 'त- स्मादान यतिविशिष्टेन दना पयो व्याप्यमानं'(७)-व्याप्यमान. (१-७) टु० टी० पृ० ११ ॥ (४) अत्र मुद्रितलेखपुस्तकयोः 'कर्मभूतता' इत्यस्य स्थाने 'प्रधानभूतता' इति पाठो दृश्यते। (६) अत्र लेखपुस्तके 'न गुणभावादिति पाठः ।
तन्त्ररत्ने [पादः१-सूत्रम् -२३. वादित्यर्थः । 'प्रधानं कर्म (१)। साध्यं हि प्रधानं द्वितीयं च कर्म प्रथमेनानीयमानेन कर्मणा व्याप्यमानं साध्यमिति तदेव प्रधानम् । 'तत्रावश्यं सामर्थ्यादेव दधिशेषभूतम्, अतः सर्वना- म्ना'(२)मधानभूतं पयः प्रतिनिर्दिश्यते । तच्च देवतासंम्बन्धि' (३)। एवं तावत्पूर्ववाक्ये पयसः प्राधान्यात् तदेव दधिशेषभूतम् । अतः सर्वनाम्ना प्रतिनिर्दिष्टं हविन तु दर्धायुक्तमामिक्षाशब्दसा. मादप्येवमेव । स हि घनीभूतस्य पयसोऽभिधायको न दनः । तद्विनापि काञ्जिकादिना घनीभूते पयसि प्रयोगादित्यष्टमे व. क्ष्यामः । 'मन्त्रवर्णश्च पयस एव देवतासम्बन्धं दर्शयति-जुषन्तां युज्यं पय इति'(४) आह-यदि पूर्ववाक्ये दधि प्रधानं यदि वा पय उभयथाऽप्यामिक्षा प्रयोजिका न वाजिनमिति सिद्धान्तः सिध्यत्येव किमर्थं प्रयत्नेन पयःप्राधान्यं साधितमत आह- 'यदि चात्र पयो देवतासम्बन्धि ततो विशेषातिदेशः सिध्यति, पयो वा तत्प्रधानत्वादिति'(५) । अष्टमे हि दधिसङ्घातसा. मान्यादिति सायंदोहविकारत्वमाशङ्ग्य पयो वा तत्प्रधानत्वा- दिति प्रातर्दोहविकारत्वमामिक्षायागस्य वक्ष्यति । तत्र पयसो हविष्ट्ये सति सिध्यति । 'दधिप्राधान्ये तु(६)' तद्धविष्कस्य यागस्य दधियागेनैव सादृश्यादातश्चनादिधर्मलाभाच्च सायं. दोहविकारत्वस्य प्रसङ्गात् । 'नैतत(७) । आष्टमिकाविशेषातिदे. -- (१-७) टु टी० पृ० ११ ।
८-तप्ते पयसि दध्यानयनस्यामिक्षा०] चतुर्थोऽध्यायः । शसाधनं 'सिद्ध्यति(१)। तेन यद्यप्यस्मिन्नधिकरणे विशेषाव. धारणं नोपयुज्यते तथाप्यऽतिदेशविशवासद्ध्यर्थ वस्तुतत्वं निरू पितमित्युपसंहरति-'इति(२) हेतोः 'न(३)' दधि 'संस्क्रि. यते (४)' किं तु पय एव दध्यानयनेन संस्क्रियते। तदेव सर्व नाम्ना परामृश्यते । कथं तर्हि स्त्रीलिङ्गम् । पयःप्रतिनिर्देशे हि नपुंसकलिङ्गं स्यात् । तस्मात्स्त्रीलिङ्गानुगुण्यादामिक्षापदसमाना. धिकरण्याच्चामिव हविर्न पयः । न हि पय एवामिक्षारूपभेदादित्युक्तमत आह--'पयसि दधनि निक्षिप्ते आमिक्षाशब्दं प्रयुञ्जते(५) । दधिनिक्षेपघनीभूतं पय एवामिक्षेति, तत्पदसामानाधिकरण्यं न तावत् दोषः । 'अत एव स्त्रीलिङ्ग(६) मप्युपपन्नमामिक्षायाः स्त्रीत्वादेवंभूतस्य पयस. स्तत्वात् । तचास्यामवस्थायां प्राप्तत्वादनुद्यते (७) । तदि- त्युभयोः परामर्शस्तदामिक्षापदं स्त्रीलिङ्गं च तप्ते पयसि दध्या. यने कृते प्राप्तमेवानूयते । आमिर्डव हि सा भवति स्त्री च यत्तप्तं पयो दना संस्क्रियते । तेनैतावानिह विवक्षितोऽर्थः । तप्तं पयो दध्यानयनेन संस्कर्त्तव्यं, तद्वैश्वदेवं कार्यमिति । कथं पुनरवगम्यते पय एवामिक्षेति ? स्वरूपभेदाद्धि तयो- मेंदो युक्तः। अथ स्वरूभेदेऽपि तत्वमुच्यते-ततो वाजिनमपि पय एवेति शक्यते वक्तुम् । यत्तु पयसि दानि निक्षिप्ते आमिक्षा- शब्दो लोके प्रयुज्यत इति तत् तद्विकारत्वेऽप्युपपन्नमेव । तस्मात्प. (१-७) टु० टो० पृ० ११ ।
७८ तन्त्ररत्ने- [पादः १ -सूत्रम्-२३. यसः पृथग्भूतैवामिक्षा । सा च हविश्वदेवीशब्दसामानाधिक- रण्यादेवं च सर्वनामापि प्रकृतं पयः प्रतिनिर्देष्टुमामिक्षापदसा- मानाधिकरण्यविघातभयात् नाहतीत्येवं व्याख्येयम् । तप्ते पयसि दध्यानतव्यम् । यत्ततो निष्पद्यते सा वैश्वदेव्यामिक्षेत्यत आह- 'आमिक्षायां च पयो रस उपलभ्यते'(१) । अयमर्थ:-रसाभि- व्यङ्गया हि पयस्त्वजातिन्न रूपविशेषमपेक्षते तद्रूपे द्रव्यान्तरे प्रतीयभावात् । यस्तु स्नुहीक्षीरमित्यादिप्रयोगः स स्नुह्यादिपदसम्बन्धव- शात् लाक्षणिकः । निरुपपदात् पाशुकस्यैवावगतेः रसविशेषे तु सति द्रवसान्द्रमान्द्रतरसान्द्रतमभेदभिन्नेऽपि पयस्वं प्रतीयते । स चामिक्षायामपि रसविशेष उपलभ्यत इति पय एवामिक्षा | यत्तु रसभेदोऽप्यत्रास्ति साऽऽम्लत्वादामिक्षारसस्येत्युक्तं, तत्राह-संस्कारकस्य च दनः(२) । सत्यमामिक्षायामम्लोऽपि रस उपलभ्यते न त्वसावामिक्षायाः । कस्य तर्हि ? तत्संस्कार- कस्य दनस्तत्संयुक्तस्य । आमिक्षापदं तु तत्र मधुररसमेव । पयोंऽशं हंसवत् गोचरयतीति केवलमधुररसमनम्लं पय आमिक्षा । कथं पुनयसन्निपाते प्रयुज्यमानमामिक्षापदं विविच्यते मधुररसांश- स्यैव वाचकं न त्वम्लस्य दध्यंशस्येत्युक्तोत्तरमेतत् । दध्यभावेऽपि काञ्जिकादिना घनीभूते पयस्यामिक्षापदस्य लोके प्रयोगात् पयातिनिर्देशकसर्वनामसामानाधिकरण्यान्मत्र- (१-२) टु० टी० पृ० ११ ॥
७९
८-तप्ते पयासि दध्यानयनस्यामिक्षा०] चतुर्थोऽध्यायः ।
वणे चामिक्षायामेव पयःशब्दप्रयोगात्पय एवामिक्षति ।
यत्तु वाजिनमपि पय एवेत्युक्तं तत्राह-'उभौ रसौ वा.
जिने न स्त:'(२) । न हि पयोरसो वाजिने समस्तीति कथं
तत्पयः स्यात् । न केवलं पयसो नास्ति संस्कारकस्यापि
दनो रसस्तत्र नास्त्येव । अतस्तस्यानयतिवाक्ये संस्पर्शाभावात्
दूरापास्तमेव दध्यानयनस्य तच्छेषत्वमिति। तस्मान्न वाजिनं पय
आमिक्षा तु पय इति । 'अनेनाभिप्रायेणाह-नामिक्षा नाम
पयसोऽर्थान्तरं हविरिति'(२) । अनेन च 'नात्र यदधिपयोभ्यां
निर्वय॑ते तद्धविरिति(३)' भाष्यमर्थद्वारेण पठितम् । 'किं तर्हि
हविरिति पयोदधिसंसृष्टमि'(४)तिभाष्यमनुभाष्य संसृष्टशब्दाद्
दधिपयसोस्तुल्यकल्पत्वमाशंकीतिव्याचष्टे-'पयोदघिसंस्कृतमि.
सर्थः (५)।
'आह-तप्ते पयसि(६) इत्यादिचोद्यभाष्यस्योत्तरभाष्यं
'शाब्दः संसर्ग(६) इति तदिदमयुक्तम् -
यत्परो हि शब्दः स शब्दार्थः । न चेह संसर्गपरः शब्दः ।
तप्ते पयसि दध्यानयतीति । यदि हि दधिपयसी संसृष्टे हविः
स्यातां ततस्तसंसर्गपरः शब्दः स्यात् । पयसस्तु हविष्ट्ये तत्सं-
स्कारपरत्वात् शब्दस्य स एव शाब्दो न तु संसर्गः । तस्यापि
संस्कारार्थवादत आह–पयसश्च संस्कार्यता शब्देनैव दधि
(१-२) टु० टी०११॥
(३) शबर० पृ०४४९, टु० टी० पृ० ११ ।
(४) टु० टी० पृ० ११ । (५-६) शबर० पृ० ४५० ।
-
तन्त्ररत्ने [पादः १-सूत्रम्-२३. प्रति(१)। यद्यपि न संसर्गपरः शब्दस्तथाऽपि संस्कार्यता तावच्छब्दार्थ एवेत्यर्थः । ततः किमित्यत आह-'तच्च'(२) दधि- पयसः 'संस्कारकं संसर्गाहते न भवति । तस्मादनेन द्वारेण. (३) संस्कारसिद्ध्यर्थतया संसर्गश्चिकीर्षितः (४) । सं. स्कारपरस्यापि शब्दस्य तत्सिद्ध्युपाये संसर्गेऽस्त्येव तात्पर्यलेश इत्यतोऽभिप्रायादाह भाष्यकार:-'शाब्दः संसर्ग (५) इति । तेन यच्चोद्यवादिनोक्तं दध्यानयनेन संसर्गे विवेके च नि. पाद्यमाने कथं ज्ञायते संसर्गोऽत्र पयसः संस्कारार्थतया विव- क्षितो न तु विवेको वाजिनसंस्कारार्थतयेति तत्संसर्गद्वारेण पयः संस्कारः शाब्दो वाजिनसंस्कारस्वशाब्द-इति परिहृतं भवतीति। 'इतरस्मिन(६) - वाजिनसंस्कारार्थत्व पक्षे पयसि दध्या- नयनं वाजिनविवेकलक्षणार्थ स्यादिति'(७) भाष्यं- तदनु पपन्नम् । न हि वाजिनार्थत्वेऽपि कस्य चिच्छब्दस्य लक्ष- णार्थत्वम् । तप्ते पयसि दध्यानयनमेव विधीयते । तत्तु वाजिनार्थ न च पयोऽर्थमित्येतावदत आह-'पयः प्रति संस्कारकत्वं शब्दे- नावगम्यते । तद्धित्वाऽन्यस्या'(८)श्रुतस्य 'वाजिनस्य शेष. भूतं क्रियतेऽतोऽश्रुतेन सम्बन्धात् लक्षणा'(९) । (१-४) टु० टी० पृ० ११ । (५) शबर० पृ० ४५०, टु० टी० पृ० ११ । (६-७) शबर० पृ० ४५०, टु० टी० पृ० ११-१२ । (८-९) टु० टी० पृ० १२ ।
८-तप्ते पयसि दध्यानयनस्यामिक्षा०] चतुर्थोऽध्यायः । ८१ यद्यपि न कस्य चित्पदस्य श्रुसर्थ हित्वाऽन्यत्र वृत्तिरस्ति तथाऽपि विधीयमानस्य दध्यानयनस्याश्रुतवाजिनशेषत्वे तद्द्वा- रेण शब्दस्याप्यश्रुते तात्पल्लिक्षणेत्युक्तम् । श्रुतपरित्यागेन नाश्रुतस्य शेषित्वं युक्तमितितात्पर्य भाष्यकारस्येनि । मुख्यशब्दाभिसंस्तवाच्च ॥ १४ ॥ आह-यद्यपि न वाजिनस्य दध्यानयनमङ्ग तथापि तस्य तारजनकमेव । तावता च तेन प्रयोजनवता किं न प्रयुज्येत । अत उत्तरमिदं सूत्रम् । न तावदेकप्रयुक्त्युपजीवनेनापीतरविध्यु. पपत्तावुभयोः प्रयोजकत्वं युक्तम् । न च दध्यानयनस्योभयप्रयुक्तिमन्तरेणानुपपत्तिः, तस्या. प्येकेनैवानुष्ठानोपपत्तेस्तदाह - 'तापविशिष्टं दध्यानयनम् (१)। पयसस्तापस्तप्ते च तस्मिन् दध्यानयनमिति यदिदं संस्कारद्वयं तत् द्वयमपि 'प्रयोजकेन यावन्न सम्बध्यते तावत्(२) प्रयो- जकं प्रति 'साकांक्षमनर्थकम् (३) । अनुष्ठानाय हि सर्वमाम्ना- यतेऽतो सत्यनुष्ठापके तदलाभादनर्थकम् । 'तस्मादानर्थक्यपरि- हारार्थमामिक्षातावत्प्रयोकी (४) स्वीक्रियतेतत्सम्बन्धित्वन प्र. थमं शब्दत एवागमात् । 'आमिक्षया चाऽऽनर्थक्ये परिहते नास्ति वाजिनन सम्बन्धः (५)। अन्तरङ्गत्वाच पयापर्यन्तं ह्या- नयनं वाजिनं तु आनयने नित्ते पश्चान्निष्पद्यमान बहिरङ्गत्वा. न्न प्रयोजकं युक्तम् । (१-५) टु० टी० पृ० १२ (२) शबर० पृ०४४६। .
तन्त्ररत्ने- [ पादः १-सूत्रम्-२५. अयं च सूत्रार्थ:-मुख्यशब्दस्य शेषित्वेन पयः प्रतिपा. दयतः शब्दस्यान्तरङ्गस्य चाऽभिसंस्तवः प्रयोजकत्वं न्याय्यमिति तदनेनाध्ययनस्यान्तरङ्गभूतः शेषिभूतश्च स्वाधिकार एवं प्रयो. जको न तु बहिरंगोऽतच्छेषिभूतश्चाचार्यकरणविधिरिति दर्शितम् । अर्थातरं तु भाष्य एव द्रष्टव्यम् । मुख्य शब्देन मिथुनप्र. योजनवाचिना गर्भशब्देनामिक्षाया अभिसंस्तवात्तदर्थमेव मि. थुन संस्तुतयोधिपयसोः संसर्गरूपं दध्यानयनं न वाजि- नार्थमिति । ९ गवानयनस्य पदकाप्रयुक्ताधिकरणम् । पदकर्माप्रयोजकं नयनस्य परार्थत्वात् ॥२५॥ अत्र परार्थत्वादित्यपूर्ववद्धतुरुच्यते । पूर्वमपि च दध्यानयने पारार्थ्यमेव वाजिनस्याप्रयोजकत्वे हेतुरुक्तस्तत्कथमेतदियाशं- क्य परार्थत्वादित्येतत् व्याचष्टे-'अनेन न्यायेन'(१) अनेन पूर्वोक्तेन एकनिष्पत्तेः सर्व समं स्यादित्यधिकरणस्थेन न्यायेन नैतदपूर्वहत्यभिधानं किं तु पदकर्माप्रयोजकमेकहा पनीनयन- स्य पूर्वोक्तादेव पारा.दिति । यद्यत्रापि स एव न्यायः कथं तर्हि पूर्वपक्षस्तं दर्शयति - 'पदकर्म'(२) अक्षाभ्यंजन 'पासून प्रयुक्ते' (३)। तदेवोपपा. - (१-३) टु० टी० पृ० १२ ।
८३ ९-गवानयनस्य पदकर्माप्रयुक्ताधि०] चतुर्थोऽध्यायः । दयति-'ते च(१) पासवो 'अक्षाभ्यंजने'(२) तृतीयाश्रुत्या 'विनियुक्तास्तेन प्रयुज्यते' (३) । चशब्दो हेतौ। पांमूनां हि श्रुत्यै व तादावगमात् परप्रयुक्त्यभावाचाक्षाभ्यंजनेन प्रयुक्तिः स्पष्टैवेति । कचित्तु पदकर्म पांसुभिः प्रयुज्यते इति पाठस्तत्र सप्तम- पदग्रहणं पदकर्पोच्यते । किंप्रयुक्तः पांमुभिः तत्प्रयुज्यत इत्यत आह-'ते चेति'(४)भवतु तेषां प्रयुक्तिः । नयनस्य तु कथं त. प्रयुक्तिस्तस्य क्रयार्थत्वादत आह-'अतः (५) । तेषां सर्वोऽपि 'आत्मासिध्यर्थ नयनं प्रयुजते (६)। न हि तदन्तरेण सप्त- मात् पदात् पासवो ग्रहीतुं शक्यन्ते । द्वितीये तु पाठे निगमनमे. नद्यत एवं पांसवः पदग्रहणं प्रयुंजतेऽतस्तद्वारेण नयनमपि प्र- युंजत इति । यत्तु परार्थ नयनमिति तत्राह-'क्रयोऽप्यात्मसिध्यर्थमेकहा. यनी'(७) एकहायनीनयनामित्यर्थः(८) 'प्रयुंक्ते' । नहि नयनस्य क्रये विनियोगोऽस्ति, एकहायनीमात्रावनियोगात् । तया तु वि- शिष्टे देशे क्रयोनान्तरण नयनमुपपद्यत इत्यर्थान्नयनप्रयुक्तिः । अर्थाच्चेत् पदकर्मापि साध्यमेवेति । 'पशावनालम्भादियत्राप्य. मेव पूर्वः पक्षः (९) । तदेतत्तत्रैव दर्शयिष्यामः । (१-२) टु० टी० पृ० १२ ( ३) विनियुक्तत्वादिति लेखपुस्तक पाठः । (४-९) टु० टी० पृ० १२
८४
तन्त्ररत्ने
[पादः१-सूत्रम्- २५.
'एवं प्राप्ते आह-क्रये स्ववाक्येनैव द्रव्यविशेषो निर्दि-
श्यते'(१) । एकहायन्या क्रीणातीति । 'इतरत्र'(२)पदपांसुग्रहणे
'स्ववाक्येन द्रव्याविशेषानिर्देशात्'(३)सप्तमं पदमित्येतावच्छ्र.
वणात्कस्य सप्तममित्याकांक्षायां 'प्रकृतं (४) एकहायनी.
द्रव्यं 'गृहीत्वा (५) तेन द्रव्यविशेषेण 'वाक्य सम्बन्धः (६)।
न चैकहायनी स्वरूपेण प्रकृतास्ति किंतु क्रयार्थ नीयमाना।
तेनायमर्थः-परार्थ नीयमानाया एकहायन्याः सप्तमं पदमिति ।
ततः किमित्यत आह-'प्रयोजकत्वे'(७)द्वयोः 'विरोधात् प्र.
सक्षेण (८) क्रयार्थत्वेन
'काल्पनिक' (९)पदपांस्वर्थत्वं 'बा.
ध्यते'(१०) । अत आह भाष्यकार:-'प्रकरणाच्च वाक्यं
बलीय'(११) इति ।
नन्वेकहायन्या वाक्येन क्रये विनियोगो न तन्नयनस्य तत्प.
योजकत्वं च पूर्वपक्षवादिना पदकर्मणोऽभिधीयते । तन्मतेऽपि
कहायनी क्रयप्रयुक्तैब न पदकर्मप्रयुक्ता-
नयनमेव क्रयार्थमेकहायन्यास्तादर्थ्यादि.
त्युच्यते । यदि ह्ये कहायनी पदपांसुग्रहणेऽपि वाक्येन वि.
नियुज्येत ततस्तत्र नयनं तदर्थ स्यात्तस्यास्तु क्रयार्थत्वे
तत्संस्काररूपं नयनमपि तदर्थमेव युक्तम् । यदि वाक्ये.
न प्रकरणं बाध्यते तर्हि सप्तमं पदं गृहातीतिवाक्यं
A
सयम् ।
(१-१०) टु० टी० पृ० १२
(११) शबर० पृ० ४५२, टु० टी० पृ० १२
९-गवानयनस्य पदकर्मा प्रयुक्ताधि०] चतुर्थोऽध्यायः । प्रकृतसम्बन्धाभावात् साकांक्षं स्यादियाशंका निवर्तयन्नुपसंहर. ति-'तस्मात्क्रय प्रयुक्तासती (१) एकहायनी 'प्रसंगात्पदपां- स्वापीति'(२)। पद पांमूनामप्युपकारिकेतिक्रयार्थाऽपि शक्नोत्येव पदपांसुग्रहणवाक्येन सम्बद्धुम् । याऽसौ क्रयार्थी तत् सियर्थ नीयते तस्या यत्सप्तमं पदं तत् गृह्णातीति तादर्थ्यमात्रं तु तस्याः क्रयार्थत्वान्नेष्यत इति प्रसंगादिति नानुष्ठानप्रसङ्गभिप्रायमप्र- योजकत्वाधिकारात् किंतु शास्त्रप्रसङ्गाभिमायं शास्त्रमेव हि क्र. ययुक्तनयनोपजीवनेन प्रवर्तते एतदेव चापयोजकत्वम् । यत्र वन्यनिराकांक्षेण शास्त्रेण विहितस्यानुष्ठानमन्यप्रयु. क्तमुपजीव्यते तत्र प्रसङ्ग इति । यवक्षाभ्यंजनपासून् प्रयुक्त इति तत्राह-'अक्षाभ्यञ्जनं यद्यपि (३)श्रुतिविनियुक्तानां 'पांमूनां प्रयोजकमेव तथाऽपि'(४)सप्तमपदस्य ग्राणि निधाने कृते तदलाभात् 'यत् किञ्चित् द्रव्यमुपादाय(५)' अक्षाभ्यं- जनं संस्काराविलोपाय कर्त्तव्यं 'पांमुन्वापि (६)यान् कांश्चि. दुपादाय कार्यमिति । ननु परप्रयुक्तद्रव्योपजीविनस्तद लाभे वाजिन यागवदंजन- स्य लोप एव युक्तः । सिद्धान्तेन तु येन केन चिदानमितिन्या. य्यः सिद्धान्तस्तत्राह-'अयमेव सिद्धान्तो न्याय्यः (७) । न त्वंजनस्य लोपः सिद्धान्तयितुं युक्तः । यत्र हि द्रव्योत्पत्तिस्तदुपादानं चान्यप्रयुक्तं भवति यथा (१-७) २० टु० टी० पृ० १२ ८६ तन्त्ररत्ने- [पादः १-सूत्रम्-२६. वाजिनयागे वाजिनोत्पत्तिरामिक्षाप्रयुक्तदध्यानयनाधीना, यथा च तुषोपवापे कपालोपादानं पुरोडाशप्रयुक्तम् । तत्र तद लाभेऽनु. त्पन्ने नानुपात्तेन च क्रियानुष्ठानासम्भवात् । स्वयं च तत्प्रयु. क्तौ शत्यभावादगत्या लोपोऽपि विनैव तु यस्य स्वसाधनं साधनान्तरेणैव प्रयुक्तस्यानुष्ठानं सम्भवति; यथा तुषोपचापत्य हस्तमात्रेण चरुष्वनुष्ठानं संभवति तत्र कर्तव्यम् । अत्र तु नैक- हायनीनयनं पांथनामुत्पादकं नाप्युपादायकं किन्तु संस्कारकमा त्रमुपादानम् । अञ्जनप्रयुक्तमेव | शक्यते चासंस्कृतरपि क्रिया. नुष्ठातुम् । तेन परप्रयुक्तसंस्कारालाभेऽसंस्कृतान्यप्युपादाय पांमू. नक्षाभ्यंजनं कर्त्तव्यमेवेति सिद्धम् । . १० कपालानां तुषोपचापाप्रयुक्तताधिकरणम् । अर्थाभिधानकर्म च भविष्यता संयोगस्य त- निमित्तत्वात्तदर्थो हि विधीयते ॥२६॥ पुरोडाशकपालस्य श्रुत्यैव तुषोपवापे विनियोगात् ताद- N स्पष्टम् । पुरोडाशार्थत्वमप्यविवादमित्युभयप्रयुक्तत्वं युक्तम् । ननु न पुरोडाशवत्तुषोपवापे निरपेक्षं कपालं श्रूयते । पुरो. डाशेन हि संयुक्तं कपालं निर्दिष्टं दृश्यते। संयोगश्च भविष्यता पु- रोडाशेन कपालस्य तादर्यलक्षण एव । तस्मात्पुरोडाशार्थमेवोपा- तस्य तुषोपवापे विनियोगात् । न तेनापि प्रयुक्तियुक्ता- उच्यते । न पुरोडाशार्थस्यान्यत्र विनियोगः सम्भवति - १०- कपालानां तुषोपवापाप्रयुक्तताधि०] चतुर्थोऽध्यायः । ८७ विनियुक्ताविनियोगविरोधात् । कपालमात्रं तु तत्र विनियुज्यते। तच्च निरपेक्षमेवोभयत्र पुरोडाशे तुषोपचापे च विनियुक्तः मनुष्ठानकाले लाघवादेकमेवोभयार्थमुपादीयते इति पुरोडाश. कपालेनेत्यनुवादः । कपालेनेत्येतावदेव तु विधिसितम् । तस्मा. दुभयप्रयुक्तं कपालं तद्धारणं चेति प्राप्ते सिद्धान्तमाह-'स्वप्र- योजनसंयोगेन पुरोडाशकपालं निर्दिश्यते पुरोडाशकपाल- मिति'(१) । संयोगोऽपि यदि भूतः समाश्रीयते-प्रयोगान्तरे यत्पु. रोडाशसंयुक्तमासीत् कपालं तेन तुषानुपवतीति-तदास्मिन्प्रयोगे तुषोपवाऐन तस्योपादानं धारणं च प्रयुज्येत । न त्वयं भूतसंयोगो लक्षणा प्रसङ्गादियाह-'वर्तमाने संयोगे पुरोडाशकपालता मुख्या। भृतभविष्यतोस्तु'(२)संयोगयोमध्ये 'भूते'(३) समाश्रीयमाणे ल. क्षणा स्यात् (४) । कथमित्याह-'आसीदन्यस्मिन् काले (६)सं. योगो न तु वर्तत इति । न खल्वपगतश्यामं वदरफलं श्यामशब्दो. ऽभिनिविशते । आह-किमिदं भूते लक्षणेत्युच्यते । भविष्यत्यपि हि लक्षणैव वर्तमान एव मुख्यः न विह तथा सम्भवति । न हि तुषनिरसनकाले पुरोडाशसंयोगो वर्तते । अतो भविष्यन्नाश्रयित. व्यः । तत्रापि लक्षणा तुल्यैव । न ह्यनागतश्यामे द्रव्ये श्या- मशब्दो भवति । लक्षणा चेत्-भूताश्रयणमपि नानुपपन्नमत आह-'भविष्यति (६)तु संयोगे 'नास्ति लक्षणा'(७) । यद्य- प्यन्यत्र भविष्यत्संयोगे लक्षणास्ति तथा प्यत्र नास्तीत्यर्थः । (१-७) ५० टु० टी० पृ० १३ ८८ तन्त्ररत्ने [पादः १-सूत्रम्-२६. कथमित्याह-पात्रासादनकाले प्रयोजनं' (१)पुरोडाशं 'उररी. कृत्य तानि'(२)कपालानि 'सायन्ते । तस्मात्'(३) सादना. दारभ्यापुरोडाशनिष्पन्न 'वर्तत एव तेषां प्रयोजनम्' (४)। उक्तं ह्येतत्-आद्यपरिस्पन्दात् प्रभृत्याफललाभात् वर्तमानः काल इति । तस्मात(५) लक्षणाभावात् 'भविष्यतैव संयोगेन यद्यत्' (६)यस्मात् 'निर्दिश्यान्यत्र' (७)तुषोपवापे कपालं 'उप- दिश्यते, तत्'(८)तस्मात् 'अप्रयोजक (९)तुषोपवपनम् । यत्ती लुप्तपञ्चमीके अव्यये । कुत इत्याह-'परकीयत्वात् द्रव्य स्य'(१०)। पुरोडाशेनैवोपादायितं धारितं च कपालं स्वाङ्गत्वेन विनियुक्तमपि तुषोपचापो न भूयः प्रयोक्तुमर्हति । यत्तु विनियुक्तविनियोगविरोधात् कपालमात्रस्यैव विनि योगो न पुरोडाशीयस्येत्युक्तं तदयुक्तम् । पुरोडाशार्थत्वरूपे. णान्यत्राविनियोगात् । तथा हि-सति तेन रूपेणान्यशेषत्वा. नुपपत्तर्विरोधः स्यात् । तादर्थेन तु स्वाधिष्ठानस्य कपालस्व. रूपस्य लक्षणात्तस्य चान्यशेषत्वोपपत्तरविरोधः । न चैवं क. पालमात्रस्यैव लक्षणा स्यादिति वाच्यं, तादन स्वाधिष्ठान. स्य कपालविशेषस्यैव लक्षणात् । न हि तीरलक्षणार्थमपि गङ्गापदं वापीतीरं लक्षयतीति । तस्मादप्रयोजकं तुषनिरसनङ्कपालपालनोपादानयोः । 'अवघा. तकाले यत्तुषनिरसनं तदिहोदाहरणम्'(११)। अवघातकाल इति (१-११) टु टी० पृ०१३ ११- शकल्लोहितयोः पशावप्रयोक्तृत्वाधि०] चतुर्थोऽध्यायः ! ८९ । हेतुनिर्देशः । तेनायमर्थः । तुषनिरसनमेवात्रोदाहरणम् । त- द्ध्यवघातकाले क्रियमाणं भविष्यत्संयोगाश्रयत्वात् भवति पालनस्याप्रयोजकम् । यत्त धान्यकणनिरसनं प्रणीतानिनयनकाले वाजसनयिभिः समाम्नातं तत् पुरोडाशकपालसाधनकमपि भूतसंयोगाश्रयत्वा- पालनस्य प्रयोजकमेवेति नोदाहरणम् । उपादानाप्रयोजकत्वे तु तदप्युदाहरणमेवेति । ११. शकृल्लोहितयोः पशावप्रयोक्तृत्वाधिकरणम्(१) । पशावनालम्भालोहितशकृतोरकर्मत्वम्(२)॥२७॥ पदकर्मन्यायेनात्र पूर्वपक्ष इत्युक्तम्-यथानयनस्य वाक्येन क्रये पदकर्मणि चाविनियोगादार्थिको प्रयुक्तिरुभाम्यां समेत्युक्तं तथा हृदयादिवाक्ये शकल्लोहित वाक्ययोश्चोभयत्र पशोरश्रव. णात् प्रकृतग्रहणे चोभयोः समत्वादुभयप्रयुक्तः पशुरिति । सिद्धान्तस्तु-यद्यपि हृदयादिसम्बन्धः पशोरश्रुतस्तथाऽपि यागार्थतया श्रवणात्तादर्थं तावदस्ति । तच्च विशसनश्रवणान्न स्वयं हविष्टेन किं तु हविःप्रकृतितया । हृदयादीनां चावदान दर्शनेन हविष्वं नान्येषामिति दशमे साधयिष्यते । तस्मात् तदर्थ एव पशुः, निरसनसम्प्रव्याधौ तु हृदयाद्या लब्धपश्वनु- निष्पन्नयोः शकल्लोहितयोर्द्वितीयासंयुक्तयोः प्रतिपत्तिरिति । (१) अधिकरणमेतट्टप्टीकायां नास्ति । (२) सूत्रमेतटुप्टीकाकारैर्न व्याख्यातम् । . ૨ तन्त्ररने- [ पादः १-सूत्रम्--२८.२९ , यद्यनुनिष्पन्नस्य स्वयं कार्यानुपयोगिनोऽपि प्रतिपत्त्यहत्वं बाजिनयागोऽपि तर्हि वाजिनप्रतिपत्तिः स्यात् । अस्तु, न कश्चित् दोषः । तथा च सममे भाष्यकारो वक्ष्यति । तस्मादप्रयोजके । शकल्लोहितसम्प्रव्याघनिरसने पश्वालम्भस्येति सिद्धम् । १२ पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणम् । (सिद्धान्तसूत्रम् ) एकदेशद्रव्यश्वोत्पत्तौ विद्यमानसंयोगात(१)॥२८॥ परकीयद्रव्यैकदेशो द्रव्यं यस्य स्विष्टकृदादिकर्मणः । त. दपि तदुत्पत्तौ सत्यामपि न प्रयोजकमेकदेशस्य, तादृशस्य परप्रयुक्तेन विद्यमानेन संयोगावगमात् । अथ बोत्पत्तावित्थुञ्चार्य: माण एवोत्तरार्दादिशब्दो विद्यमानशेषविषयः प्रतीयत इत्यर्थः । तदिदं सिद्धान्तसूत्रं स्पष्टमुल्लंघ्य व्याख्याने पूर्वपक्षसूत्रं पठति- निर्देशात्तस्यान्यदर्थदिति चेत ॥ २९ ॥ '(२)आग्नेय इति सकलस्य' पुगेडाशस्यान्यर्थत्वेन (३) निर्देशात्तस्योत्तरार्दो' विद्यमानोऽपि (४)कथमन्येन' स्विष्ट. कृदादिना देवतान्तरेण (५)प्रयुज्यते' । न ह्यन्यस्मै परि- कल्पितमन्यस्मै दातुमीष्टे यजमानः, शिष्टाचारविरोधात् । (१) सूत्रञ्चैतटुप्टीकाकारैर्न व्याख्यातम् । (२-५) टु० टी० पृ० १३ । -- १२-पुरोडाशस्य स्विष्टकृदप्रयुक्ताधि०] चतुर्थोऽध्यायः । ९१ '(१)तस्मादर्थादन्यद्रव्यान्तरमुत्पाद्यम्' । नानुत्पादिते तस्मिन् स्विष्टकृदिज्या सम्भवतीति (२)तस्य' द्रव्यान्तरस्योत्तरार्द्धात स्विष्टकृदिज्यते'(३) । अतः प्रयोजकः पुरोडाशोत्तरार्द्धयोः वि. ष्टकदिति । न शेषसन्निधानात् ।। ३० ॥ '(४)उत्तरार्दादिति शेषश्रुसन्यथानुपपत्त्या शेषिणं प्रयु. ते' । शेषस्यावयवभूतस्योत्तरार्द्धस्य साधनत्वं श्रुतं शेषिणमव. यविनमन्तरेणानुपपन्नमिति स्विष्टकृयागस्तं प्रयुंक्ते । (५)स चाग्निप्रयुक्तः शेष्यस्ति' । प्रकृतस्तदुत्तरार्द्धादेव लब्धात्मा स्विष्ट. कुन्नान्यप्रयुक्त्यै प्रभवति । अतश्च प्रकृतग्रहणमित्याह-'न चैवं श्रूयते पुरोडाशस्योत्तरा दिति(६) । यद्येवमश्रोष्यत ततो- ऽपूर्वमपि पुरोडाशमुत्पाद्य तदुत्तरार्द्धात् स्विष्टिकृदयक्ष्यत । उत्तरार्द्धमात्रं तु श्रूयते । न चैतावता विशिष्टविषयो व्यव- हारः सिद्ध्यति । सर्वो हि कस्य चिदुत्तरार्द्धः । स एष सन्नि धिमपेक्ष्य निराकांक्षो भवति । सन्निहितश्च परार्थ एव पुरोडाशः । '(७)तस्मात् परमयुक्तद्रव्यनिष्पाद्यस्वात् पुरोडाशोत्तराईयोर- प्रयोजका' स्विष्टकृद्यागः । यत्तु शिष्टाचारविरोधात् न परार्थस्य ग्रहणमिति तदयु- क्तम्, आचारस्य श्रुत्या बाधात् । कथं पुनस्त्यक्तं द्रव्यं पर- (१-७) टु० टी० पृ० १३ ।
तन्वरने [पादः१-सूत्रम्-३३-३४. कीयमनीशानः परस्मै दद्यात् । वचनादिति ब्रूमः । यदि यागो दानवत् परस्वत्वपर्यन्तः : स्यात्ततः त्यक्तस्य देवतास्वत्वात् पुनः स्वीकरणमशक्यं स्यात् । न त्वसौ परस्वत्वापादकः । तेन यागे कृते द्रव्यं न यजमानस्य, न देवतायाः, किंतु प्रहीणम् । तच्च पुनः स्वीकर्तुं शक्यमितिवचनवलात् स्वीक्रियते । न च विनियुक्तीवनियोगविरोधः, प्रतिपत्तित्वात् । तदाह भाष्यकार:-'वाचनिक एष शेषप्रतिपादनार्थ उत्सर्गः स शक्यः कर्तुम् । दानं झुत्सर्गपूर्वकः परस्य स्वत्वसम्बन्धः, स न शक्यो- उनीशाऽनेनेति'(१)। कोऽभिप्रायः -यदि स्विष्टकृदिज्या दा. नवत् परस्वत्वपर्यन्ता स्यात्तत आग्नेयादियागानामपि देवतास्त्र- स्वापादनत्वात्तदीयेन द्रव्येण स्विष्टकृतं यष्टुमनीशानो यजमानो न शक्नुयात् । न त्वेतदस्तीत्यभिप्रायः । के चित्तु दानं सम्पदानार्थत्वात् नान्यदीयेन कर्तुं शक्यं विनियुक्तविनियोगविरोधात्, उत्सर्गमात्रं तु प्रतिपत्त्यर्थं कर्तुं शक्यमित्येवं व्याचक्षत इति । १३. अभिधारणे शेषधारणतत्पात्रयोरनुष्ठानम् । अभिधारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात(२)॥३३॥ तदिदं मूत्र स्पष्टार्थमव्याख्येयमित्युपेक्ष्य न वाऽपात्रत्वादपात्रतैकदेशत्वात् ॥ ३४ ॥ इति सिद्धान्तसूत्रमेव व्याख्येयं पठित्वाऽधिकरणमारभते । (१) शबर पृ० ४५५ । (२) सूत्रञ्चैतटुष्टीकाकारैर्न व्याख्यातम् ।
१३-अभिधारणे शेषधारणतत्पात्रयोरनुष्ठानम् ] चतुर्थोऽध्यायः । ९३ . अत्र भाष्यकारेण विकृतिविषयो विचारो दार्शतः। बाज पेये ऋतुपशूनां सवनीयानां प्राजापत्यानां च सहप्रयोगमारभ्य पर्यग्निकरणान्ते कृते प्राजापत्यानां पक्षद्वयमाम्नातं-सहैव वा क्रतुपशुभिः प्रातः सवन एवालम्भस्तदानीं वोत्सृज्य माध्यंदिने ब्रह्मसामकाले आलम्भ इति । तत्र यदायं पक्षः समाश्रीयते तदा विचार्यते-कि प्रातःसबनानुष्ठितानां पयाजानां शेषस्य धारणं प्राजापत्य. वपाभिर्माध्यंदिनीयाभिः स्वाभिधारणार्थ प्रयुज्यते, किंवा नेति । तत् सिध्यर्थमिदं चिन्त्यते-किमभिधारणं हविः- संस्कारार्थ किं वा प्रयाजशेषस्य प्रतिपत्तिरिति । हवि:- संस्कारार्थत्वे प्राजापत्यवपानामवैगुण्यार्थे धारणं स्यात् । प्रति. पत्त्यर्थत्वे तु क्रतुपशुपास्वेव सन्निहितासु प्रतिपत्तेः सिद्धत्वात् । वपानां चानभिघृतानामबैगुण्यादधारणमिति प्रकृतावपि चानी. पोमीये शक्यत एक विचारयितुं कि प्रयाजकाले यानि हवींषि सम्भवंति, आज्यपापृषदाज्यानि तेषामेवाभिधारणेन क्षपयि. तव्यः शेषः । किं वा विप्रकृष्टकालानां हृदयादिहविषामभिधार- णार्थ धारयितव्यमिति । तत्किमिति विकृतिरुदाहृतेत्याशझ्याह- 'प्रकृतावपि सम्भवति विचारे विकृतिरुदाहृता । तद्विषयाणि लिङ्गदर्शनान्युपात्तानि सूत्रकारेण'(१)ऋतुपशुभिः सह प्रातःसव. न आलम्भे वपाभिधारणलामं दर्शयन् उत्कर्षपक्षे चाभिधारणभा- (१) टु० टी० पृ०१३।
तन्त्ररत्ने - [पादः १-सूत्रम्-३४. वात् , प्रसक्तं सव्यत्वं ब्रह्मसाम्ना समादधत्तस्मिन्पक्षेऽभिघारणं नास्तीति द्योतयति--'अन्यदपि सम्भवत् लिङ्गं द्रष्टव्यमिति च बहुवचनं तस्य व्याख्यानार्थ विकृत्युदाहरणमिति । तत्र द्विती. यातृतीयाभ्यां हविःप्रयाजशेषयोः प्राधान्यगुणभावावगमात् , अन्यशेषस्यापि चान्यत्राधिष्ठानलक्षणया पुरोडाशकपालवद्विनि. योगोपपत्तेहविःसंस्कारार्थमेवाभिधारणम् । अन्यथा श्रुतिद्वयस्यापि बाधात् । उपयोक्ष्यमाणसंस्कारस्य चोपयुक्तसंस्काराद्रीयस्त्वा- दित्येवं प्राप्ते सिद्धान्तमाह--'प्रयाजशेषेणेत्युच्चार्यमाणमेवान्यत्र शेषत्वेनोपयुक्तं दर्शयति । तस्मादीशं'(१)अन्यत्र शेषत्वेनो. पयुक्तं तेनैव प्रयुक्तत्वा'न ततोऽन्येन प्रयुज्यते यथोत्तरार्द्धः स्विष्टकृता'(२)। ननु मा प्रयोजि द्रव्यं तद्धारणं तु भूतसंयोगाश्रयत्वेन भ. विष्यत् संयोगाश्रयतुषोपचापवैषम्यात् । किं न प्रयुज्यते ? अत आह-'कृतार्थ चेदं द्रव्यं प्रतिपत्तिमपेक्षते(३) स्यादेवं यदि हविःसंस्कारोभिधारणं स्यात् न त्वेतदस्सपे- क्षितं हि फलं भवति । प्रतिपत्तिश्चापेक्षिता । हविषा वाक्यान्तरेणैवा- संसर्थोपस्तरणाभिधारणविधानादनपेक्षितः संस्कारो न भवि. तुमर्हति । द्वितीयाद्या हि विभक्तयो न साक्षात् शेषशेषिभाव- स्याभिधायिकाः, किं तु साध्यसाधनमात्राभिधायिन्यो विध्या. क्षिप्तं समीहितं भाव्यं विशिषन्ति न त्वसमीहितमेव तद्भलेन स- (१-३) टु० टो० पृ० १३ ।
१३-अभिघारणे शेषधारणतत्पात्रयोरनुष्ठानम् ] चतुर्थोऽध्यायः।९५ मीहितभावमनुभावमहतीति सक्त्वधिकरणे दर्शितं न्यायरत्नमा. लायां चास्माभिः । एवं च प्रयाजशब्देनाधिष्ठानविशेषलक्षणा. र्थो भवति पुरोडाशकपालं त्वनपेक्षितप्रतिपत्तितुषोपचापामिति युक्तं इह तु न तथेति । तेनेदमभिधारणेन क्रियत इसाह--'य. कचिद्रव्यं प्रतिपादनीयं(१) तत्सर्व हविःषु प्रतिपाद्यते । ततो नियमाददृष्टमात्रम्(२) । हविरर्थत्वे त्वभिधारणस्वरूपमवादृष्टार्थ करप्येत तच्चायुक्तमिति । यदि प्रयाजशेषार्थमभिधारणं ततस्तस्योद्दिश्यमानत्वात् एक. स्मिंश्व वाक्ये द्वयोरुद्देश्य योरसमवायात् हविषामुपादेयत्वेन संख्या विवक्षिता स्यात् । ततश्च यद्ग्रहाधिकरणे हविषामुद्देश्य. वेनाविवक्षितसंख्यत्वमुक्तं तद्विरुध्यते । यच्चावदानाभिधारणासा- दनेवित्यत्र प्रवृत्तिक्रमनिरासेन मुख्यक्रमवशेन क्रमनिरूपणं, यच्च वर्हिस्तद्धर्माणामङ्गप्रधानसाधारण्ये लिङ्गमुक्तं तत्तत्समानन्यायस्य प्रयाजशेषाभिधारणस्य स वै ध्रुवामेवाग्रेऽभिधारयति । ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्याज्यभागार्थत्वं दृश्यत इति तत्स. मसति हविःसंस्कारार्थत्वे न घटते कपिञ्जलवच्च त्रिष्वेव बहुव. चनस्य चरितार्थत्वात् । अधिकानां सन्निहितानामपि हविषां नाभिधारणं स्यादतश्च यत्पूर्वं ग्रन्थे सर्वहविष्षु प्रतिपाद्यत इत्युक्तं तदयुक्तं स्यादित्यत आह-'उपादीयमानत्वाद्धविषां (१) 'यत्क्वचिद्रव्यं प्रतिपादनीय' इतिग्रन्थो मुद्रितटुप्टी- काग्रन्थे नोपलभ्यते। (२) टु० टी० पृ० १३ ।
तन्त्ररत्ने [पादः १-सूत्रम्-३४. संख्या विवक्षिता'(१)। यधुपादीयमानत्वं हविषां स्यात्ततः संख्या विवक्षिता स्यान तु तदस्तीत्यावीतोक्तिरिय (?)व्याख्येया । अन्य. थासकलपूर्वोक्तदोषापत्तेः । न च हविषां प्रधानयागाद्युपयोगिनाम- न्यत्र शेषभाव उपादानं वा युक्तम् । तेन प्रयाजशेषप्रतिपयर्थ- स्याभिधारणस्य हविरधिकरणनियमस्य प्रयोजनापेक्षायां हवि. र्गतमेव प्रयोजनं कल्प्यते । तेन स्विष्टकृतदुभयसंस्कारः स्यादिति तदुभयार्थ प्रयाजशेषाभिघारणं स्वरूपेण प्रयाजेशषार्थ नियमांशेन च हविःसंस्कारार्थम् । हविषः संस्कार्यत्वेन चाविवक्षितैव संख्या। तेन संस्कारालोपार्थ सन्निहितेषु सर्वहविष्षु व्यधिकेषु तदनेषु च कर्तव्यम् । न चैवं विप्रकृष्टानामपि प्राजापत्यवपानामभिधारणं स्यादिति वाच्यं तेषां नियमाविषयत्वात् । येषां ह्यनियमेन प्राप्तिः प्राविधेः स नियमविधर्विषयः प्रायाजेषु च कृतेषु तत् शेषस्याज्य भागद्रव्यासंसर्थ सन्निहिते यत्र कचन प्रतिपादनं प्राप्तं नासन्निहिते तेनासन्निहितानां प्राजापत्यवपानां प्राप्तिरेव नास्तीति नियमविध्यगोचरत्वात् न नियमप्रयोजनं संस्कारभा- गित्वम् । यत्तद्देश्यद्वयं नैकस्मिन् वाक्ये समवैतीति । ससम् । निर- पेक्षं न समवैति, साकांक्षं तु निमित्तफलमुद्देश्यद्वयमपि न वा. क्यं भिनत्ति । अस्ति च प्रयाजशेषार्थेऽप्यभिधारणे विहिते किमभिधारयितव्यमित्यपेक्षा । तत्र हविरिति सम्बध्यमानं न (१) टु० टी० पृ० १३॥
१३-अभिधारणे शेषधारणतत्पात्रयोरनुष्ठानम् ] चतुर्थोऽध्यायः। ९७ वाक्यं भिनत्तीति सर्वमनाकुलम् । यस्त्वाह-एकमेव हविरभिघारयितव्यं प्रतिपत्तेरेकाधार- कत्वादेकस्मिन्नेव क्षपितस्यान्यत्रावक्षारयितुमशक्यत्वात् । बहु- वचनं त्वनियमाभिप्रायेणैकमपि हविर्न नियतं कि तु यत्किं. चित्तेन बहुषु प्रयोगेषु बहूनामभिधारणं संपद्यत इत्यभिप्रेस बहुवचनमिति स वक्तव्यः । किमिदानीं सोमोपि समाख्याव. चनवषट्कारहोमाभिषवानिमित्तभक्षाणामेकेनैवैकस्मिन् प्रयोगे क्षपयितव्यः । ओमिति चेत्-तयध्वर्युः पूर्वो भक्षयेत् होता वा मंत्रवर्णादित्यादिक्रमविचारो दत्तजलांजलिः स्यात् । अथ तत्र समाख्यादिभिः सर्वेषां प्राप्तेः सवेरेव समुच्चितैरेव यशः सोमस्य प्रतिपत्तिः क्रियते इत्युच्यते ततोऽत्रापि बहुवचनबलाबहुषु हविः- प्ववयवश एव प्रयाजशेषः क्षारयितव्यः । अथात्राविवक्षितं बहुत्वं को हेतुः ? संस्कार्यत्वमिति चेत्-मुतरां सर्वेषामभिधारणं सं. स्काराविलोपार्थ कर्त्तव्यम् । कथं च भवान् सबै ध्रुवामेवाग्रेऽभि. घारयतीति बहपेक्षं क्रमवचनं समर्थयेत् । न च प्रतिपत्तिरप्र. योजिका धारणस्येत्यावेदितं न्यायरत्नमालायाम् । न चैवं प्रयाज. शेषस्य धारणं प्रसज्यते । क्रतुपशुवपास्वेच तत्सिद्धरित्येतदप्यु. क्तमेव यतः। केन च तस्य धारणम् ? न तावत् जुम्हा व्यापृतत्वात् । अथ पात्रांतरेण तर्हि तत्र जुह्वाः समानेतव्यः शेषः। समानीते च त. स्मिन्नभिधारणकार्यस्य जुहूविरोचनस्य सिद्धत्वान्न भूयस्तकर्त. १३ tapa অল [पादः १ - सूत्रम्--४०. व्यमित्यधारणमेव तस्मात्सन्निहितानां सर्वेषामेवाभिधारणं न्याय्य. मित्यलमतिविस्तरेण । एवं तावत् कृतार्थस्य प्रतिपत्त्यपेक्षत्वात्तदर्थमभिधारणमि त्युक्तमितश्चैव मित्याह-'जुह्वा च रिक्तया प्रयोजनमस्ति'(१) यदाज्यभागद्रव्यं 'त्या'(२) जुवा 'होप्यते, तत्कथमसं. स्पृष्ट' (३) अयाजशेषेण 'स्यादिति । तस्मात् प्रतिपत्तिरपेक्षि. ता, हविःसंस्कारस्य त्वनपेक्षितत्वात् (४)! तादर्थे ऽभिधार णस्य 'अष्टुं कल्प्यते (५)। 'ततो हवींष्यप्रयोजकानि'(६)। कर्य तर्हि द्वितीया ? अत आह-'अधिकरणत्वमेव त्वत्र विवक्षित(७) न तु व्याप्यमानत्यम्' । अभिधारणं हि कस्य चिदुपरि द्रव्या. न्तरस्य क्षेपस्तयस्योपरि क्षिप्यते तत् क्षिप्यमाणेन व्याप्यमानम. प्यधिकरणं भवति । तत्र शब्दोक्तमपि व्याप्यमानत्वमनपे. क्षितमिस नादृत्य अधिकरणत्वमेव लाक्षणिक परिगृह्यते । तेना- यमर्थः-प्रयाजशेषं हविःषु क्षारयदिति । तदप्रयोजकानि हवीं. पीतिसिद्धम् । १४. समानयनस्याज्यधर्मप्रयोजकताधिकरणम् । समानयनन्तु मुख्यं स्यात् लिङ्गदर्शनात् ॥४०॥ (१-२) अत्र लेखटुप्टीकापुस्तके 'प्रयोजनं यत्तया होष्यते' इति पाठः। (१-६) टु० टी० पृ०१३-१४ (७) लेखपुस्तके 'अधिकरणत्वमेव त्वविवक्षित'मिति पाठः ।
१४- समानयनत्याज्यधर्मप्रयोजकताधि० चतुर्थोऽध्यायः । ९९ समानयनं किमाज्यतर्माणां भयोजकमुत नेति । तदर्थ च चिंतयितव्यं किमुपभृति द्वे चतुहीते प्रयाजानुयाजाणे तयो- रनुयानार्थस्येदमुपयोक्ष्यमाणस्यादृष्टसंस्कारार्थ क्षारणमात्रमुत प्रयाजास्योपरितनं प्रयाजद्वयं राष्टुमिति ! संस्कारमात्रार्थत्वे अप्रयोजक, पक्षान्तरे तु प्रयोजकम् । तसिद्ध्यर्थमप्येतञ्चितनीयं- किं यदेतदुश्मृति प्रयाजार्थ चतुर्गृहीतं तत्सर्वप्रधानार्थमुत चतु. थोत्तमार्थमेवेति । यदि सर्वार्थ ततः सर्वादौ समानीतत्वान्न व. हिरारम्भसमये प्रयाजार्थमुपभृत्याज्यमस्ति यत् समानीयेत । अ. तोऽनुयाजार्थस्यैव समानयनम् । तदा च जोहबोपभृतयोश्चतुही- तयोर्द्वयोरपि संवमयाजविषयत्वाद्विकल्पः । चतुर्थपंचमण्याजा. थत्वे त्वौपभृतस्य जौहवस्याधण्याजत्रयविषयत्वेन योभिन्नवि. पयत्वात् । समुच्चये सति जौहवेन त्रीनिष्ट्वा वहि काले नयनमौषभृतस्य जुड़ामु परितनपयाजदयार्य क्रियत इति । अत्र पूर्वपक्षभाष्यं-'अप्रयोजकं समानयनम् (१)। कुतः, 'प्रयाजानुयाजार्थस्याज्यस्यायमेकदेशः समानीयते इति पूर्वण न्यायेनाप्रयोजकतेति' (२) । तस्य किलायमभिप्रायः-यदौपभृतं प्रयाजानुयाजार्थ द्रव्यं तस्य य एकदेशः प्रयाजार्थः सोऽयमानी. यत इति । तदाक्षिपति-'अयुक्तोऽयं ग्रंथः'(३) । किमित्याह-'य. दि प्रयाजानुयाजार्थमेतत्' (४)द्रव्यं यत् समानीयते ततः 'प्रपाजा आत्मीयं द्रव्यं प्रयुअत एव कथममयोजकता । अतः पूर्वेण (२) समा- ( १...', ) टु० टी० पृ० १४ । (२) शबर पृ ४६० ।
१०० तन्त्ररत्ने- [ पादः१-सूत्रम्-४० प्रयाजार्थत्वाभिधाननोत्तरम'(१)प्रयोजकत्वाभिधानं 'न स- म्बध्यते'(२) । तस्मादयुक्त इति । 'तत्र कैश्चित्मयाजशब्दं त्यक्त्वानुयाजार्थस्यायमेकदेशः समा. नीयत इत्येवं ग्रन्थो नीतः (३) । प्रयाजार्थस्यौपभृतैकदेशस्य सर्वादौ समानीतत्वात् बहिःकाले केवलानुयाजार्थमेवोपभृति विद्यत इति प्रमादपाठः प्रयाजशब्द इति । 'अपरैः प्रयाजानुयाजार्थस्यायमेकदेशः समानीयत इ. ति' (४)अपरियज्यैव प्रयाजशब्दं सप्तम्यन्तं व्यस्तमाश्रित्य यथोक्त एवार्थे ग्रन्थो नीतः। अन्ये तु पूर्ववत्प्रयाजशब्दत्यागेन ग्रन्थं व्याचक्षाणाः पूर्व- पक्षरूपमन्यादृशमाहुरित्याह-'अन्यैस्तु यदुषभूति गृह्णात्यनु- याजेभ्यस्तद्गृह्णातीति'(५) वचनात्केवलानुयाजार्थमेवोपभृत. मष्टगृहीतमित्य नेनो परितनाधिकरण पूर्वपक्षणात्र पूर्वपक्षः कृ- तः (६) । तदा हि-केवलानुयाजार्थस्येदं समानयनमप्रयोज. कमाज्यस्येति । 'त्रीण्येतानि मतान्ययुक्तानि । एकैर्ग्रन्थः परित्यक्त'- (७)स्तेषां स एव दोषः । 'अपरैराधिकरणत्वमसम्भवि प्रयाजानां निर्दिष्टम्'(८) । न ह्याज्याधारत्वं क्रियारूपाणां प्रयाजानां सम्भवति । प्रयाजशब्देन तु तत्साधनद्रव्यलक्षणायां स एव दोषः । 'अन्येषां (९) तृतीयपक्षवादिनां 'ग्रन्थपरि. (१-९) टु० टी० पृ० १४ ।
१४-समानयनस्याज्यधर्मप्रयोजकताधि ०] चतुर्थोऽध्यायः। १०१ त्यागस्तदवस्थ एव'(१)। अयं चापरो दोषः । 'असिद्धनामिद्धं साध्यते (२) । न ह्यौपभृतस्योपरितनाधिकरणन्यायसिद्धो- भयार्थत्वस्य केवलानुयाजार्थत्वं सिद्धान्तिनः सिद्धम् । अतः कथं तेनासिद्धेनासिद्धमप्रयोजकत्वं साध्यते । न ह्यसिद्धो हेतु- भवति । तस्मादर्थग्रन्थानुरोधेनैव वर्ण्यते'(३) । अर्थ. प्रधानो हि ग्रन्थोऽनुरोद्धव्यस्तेनोपपन्नेऽर्थे कथं चित् ग्रन्था- भिप्रायं व्याख्यातुमर्थस्तावदेवं वर्ण्यते-'उपभृति द्वे चतुहीते प्रयाजानुयाजार्थे'(४)स्तः। । तत्र यत् प्रयाजार्थ तत् सर्वप्रयाजार्थ न केवलं चतुर्थोत्तमार्थमिति प्रतिपादयति-'प्रयाजानुयाजेभ्य- स्तद्गृह्णातीति समासोऽयं, तत्र प्रयाजप्रातिपदिके विभक्तिन्न श्रूयते । भवितव्यं च तया । तस्मादुत्तरपदे (५)ऽनुयाजपदे 'या विभक्ति'(६)बहुवचनरूपा 'सा तंत्रेण (७) प्रातिपदिकद्वयेऽपि 'द्रष्टव्या(८)। प्रयाजेभ्यश्चानुयाजेभ्यश्चेति। कुतः 'श्रुतत्वात्तस्याः! अन्यस्यां (९) तु द्विवचनरूपायां प्रयाजप्रातिपदिके विभक्तो 'आनीयमानायां श्रुतहानमश्रुतकल्पना च स्यात्तस्मात् प्रयाजे. भ्य इति बहुवचनसामर्थ्यात् सर्वेषां प्रयाजानामौपभृतम्'(१०)। नन्येवं तेनैव सर्वप्रयाजावरोधात् जौहवमनर्थकं स्यादत आह-'जौहवं च'(११) सर्वेषामिति चेत्याकृष्यते। प्रयाजेभ्य इस विशेषविधानात् , विकल्पनाभयोरर्थवत्ता भविष्यतीत्यभिप्रायः। (१-११) टु० टी० पृ० १४ । (३) अत्र मुद्रितपुस्तके 'अन्यथा' इत्यधिकः पाठो दृश्यते ।
तन्त्ररत्न [पादः१--सूत्रम्-४०. यदि सर्वार्थमोपभृतं ततः किं तत्राह--- 'जुह्वा जुहोतीति- वचनाद्यस्मिन्नेव काले प्रथाजान् जुहोति तस्मिन्नेव काले यदौ. पभृतं प्रयानार्थ द्रव्यं तत् जुहामानयति'(१)। न झुन्यथा तया होतुं शक्यते । एवं च सत्य प्रयोजकं सपान यन (२) भवती. तिभाष्यव्याख्यानेन दर्शयति-'अत उत्पत्यपेक्षाया'(३)मा. ज्योत्पादन काले 'यदुपभृति'(४) 'प्रयाजानुयाजार्थ द्रव्य गृहीतमभूत् तदस्मिन् काले अतिहाये डो बर्हिः प्रतिसमान. यतीत्येतस्मिन् वर्हिरारम्भकाले सर्वप्रयाजानामादावेव प्रया. जार्थस्या (५)ज्यस्य 'समानीतत्वात् नोभयार्थतया विद्यत इत्यनुयाजाथ'(६)मर्द्ध 'केवलमिदानीमास्ते तत्समानीयमानं'. (७) किञ्चित् क्षार्यमाणमित्यर्थः । न हि तत्सर्व समानी- यते । तत्समानीयमानमिति विशेषणप्रधानो निर्देशः । समानयनं क्रियमाणामित्यर्थः । 'परकीयत्वा' (८)दनुयाजा. तत्संस्कारकत्वाद प्रयोजक' (९)माज्यस्य । किमर्थं पुनस्तस्य समानयनं ? न ह्यकृतार्थस्य प्रतिपत्तिर. पेक्षिता । न चान्यदपि प्रयोजन दृश्यतेऽत आह-'अदृष्टार्थ च' (१०)। अनुयाजार्थद्रव्यविषयत्वात् , तदर्थं तावत्समानयनम् । अतो दृष्टाभावाददृष्टं कल्प्यमिति । भाष्यस्यायमर्थः-प्रयाजानु- तस्य थत्वात् द्रव्यस्य (१-२) टु० टी० पृ० १४। (३) शबर पृ०४६ । (४-९) टु० टी० पृ० १४-१५॥ (१०-११) शबर० पृ० ४६७ टु० टी० पृ० १५ १४--समानयनस्याज्यधर्मप्रयोजकताधि०] चतुर्थोऽध्यायः । १०३ याजार्थं यदाज्यमासीत्तस्यैकदेशे प्रयाजार्थे पूर्वमेवानीते सति यस्मात्सन्निहित एकदेशः केवलानुयाजार्थोऽदृष्टसंस्कारार्थं स- मानीयते, किश्चित् क्षार्यतेऽतः परकीयद्रव्य संस्कारकत्वादभि. घारणवदप्रयोजक समान यनमिति । के चित्त्याहु हवस्य सर्वप्रयाजाथस्य वर्हिरारम्भसमये सार्थनौपभृतेन संसर्गोऽदृष्टार्थः क्रियते । तेनौपभृतमदृष्टार्थतया सर्वप्रजायार्थ जौहवं तु दृष्टार्थतयाऽतः समुच्चय एवं पूर्वपक्षेऽपि तयोरतः प्रयाजानुयाजाथस्येति यथाश्रुतमेव भाष्यम् । कथं तीप्रयोजकत्वं ? तत्राहुः-औपभृतस्य हि प्रयाजेष्वदृष्टं कार्यमित्युः क्तम् । अनुयाजानां तु दृष्टोपकार्यौपभृतं दृष्टादृष्टयाश्च दृष्टं प्रयोजक- मित्यनुयाजार्थमेवोपभृतस्य प्रयोजकम् । प्रयाजार्थं तु समानय. नमदृष्टार्थत्वादप्रयोजकमिति । तदयुक्तम् । केन पुनर्विशेषणप्रयोजनत्वाविशेषेऽपि दृष्ट. मेव प्रयोजकं नादृष्टम् । प्रथमावगतत्वादिति चेत्-युगपदे. केनैव प्रयाजानुयाजेभ्यस्तत् । गृह्णातीतिवाक्येनोभयार्थत्वाव- गमादुमयेषां प्रयोजकत्वं युक्तम् । यत्र हि शास्त्रमेवेक शास्त्रा- न्तरपयुक्त्युपजीवनेन प्रवर्तते तत्राप्रयोजकत्वं, यत्र त्वेकप्रयु. क्तिमनपेक्ष्यकेन भिन्नेन वा शास्त्रेणान्यत्र विनियुज्यते न तत्र दृष्टादृष्टत्वमात्रेण कश्चिद्विशेष इति सर्वेषामेन प्रयोजकत्वं युक्तम् । तस्माद्यथोक्त एव पूर्वपक्षः । 'सिद्धांतस्तु यदौपभृतं समानयति जुह्वां तदतिहाये डो व.
१०४ तन्त्ररत्ने- [पादः १-सूत्रम्-४०. हिरिसस्मिन् काल'(१) इयर्थप्राप्तं यत् प्रयाजार्थस्यौपभृतस्या. ज्यस्य जुहासमानयनं तस्य 'कालनियमो (२) 'अनेन (३) 'विधीयते (४)। लाघवादृष्टार्थत्वाचानुयाजाथस्य स्वप्राप्ते स- मानयनेऽस्मिन् काले विधीयमाने विशिष्टविधानात् गौरवमदृष्टा- थता च स्यात् । 'तस्मात् प्रयाजत्रयस्य (५) आद्यस्य 'जौहव. द्वयोरौपभृतम्' । कुतः(६) 'अतिहाये डो वर्हिः प्रतिसमानय तीति (७)। समानयनकालविधानात्तस्मिंश्च काले समानीतेन पूर्वेषां कर्तुमशक्यत्वादन्त्ययोरेच द्वयोरोपभृतम् । एवं च विशे. षणविहितमपि जौहवं द्वयोरोपभृतनावरुद्धकत्वादितरविषयं भवति । एवं च विकल्पोप्यष्टदोषः परिहतो भवतीयाह-'सत्यपि तुल्यकार्यत्वे (८) यद्यप्युभयोः प्रयाजकार्यता तुल्या तथापि नास्ति विकल्पो भिन्नविषयत्वात्'(९) । जौहवस्याद्यत्रयविष. यत्वात् । औपभृतस्यान्सद्वयविषयत्वात् । एवं च लिंगमप्याति- ध्यायां चतुर्ग्रहीतबहुत्वं समर्थितं भवतीत्यभिप्रायः । विकल्पे हि तयोरन्यतरस्मिन्ध्रौवे च गृह्यमाणेऽनुयाजाथस्य चतुर्ग्रहीतस्ये. डांतायामातिथ्यायामभावात् द्वे एव चतुर्ग्रहीते इति तद्वहुत्वदर्शने नोपपद्येत । समुच्चये तु सति जुहामेकं चतुहीतं प्रयानार्थमुप. भृति वानुयाजाभावात् पयाजार्थ चतुर्ग्रहीतमेकं ध्रौवं चापरमिति बहुत्वं समर्थितं भवति । (१-९) टु० टी० पृ० १५ १५-औपभृतजौहवयोः क्रमेण० अधि०] चतुर्थोऽध्यायः । १०५ यत्तु श्रुतस्यैव बहुवचनस्य प्रयाजशब्देनाभिसम्बन्धाद सर्वेषामौपभृतं न योरेवेत्युक्तं तत्राह-'समासेऽपि (१) । यद्यप्ये. कैव विभक्तिभ्यां परा तथापि 'द्वयोरन्ययोरौपभृतस्य प्रमाणा. न्तरेण कालविधिनावगतत्वात् विरोधात् न श्रुता विभक्तिः'(२) प्रयाजप्रातिपदिके 'गृहीतव्या (३) । किं तु 'द्विवचनमध्याहि- यते प्रयाजाभ्यापिति तस्मात्प्रयोजक (४) समानयनम् । १५ औषभृतजौहर योः क्रमेणोभयानुभयार्थता. धिकरणम् । ( पूर्व पक्षमत्रम् ) तत्रोत्पत्तिरविभक्ता स्यात् ॥ ४२ ॥ ननु गतस्तृतीयविषय इत्युक्तं तत् कथमिह पुनस्तादर्य चिन्तनमित्याशझ्याह-(५)प्रसक्तानुप्रसक्तेनारभ्यते सत्याज्य- प्रयोजकत्वे' समानयनस्य ह्यौपभृताज्यप्रयोजकत्वे साधिते तत्प्रसङ्गेनौपभृतस्य तादर्थ्यं चिन्त्यते । तदनुप्रसङ्गेन च तुल्य. कारणस्य जौहवस्य धौवस्य चेति । नन्वौपभृतस्यासिद्धे प्रयाजार्थत्वे कथं समानयनस्य प्रयो- जकत्वमुक्तं-तत्राह- स्थिते चास्मिन् पूर्वाधिकरणारम्भः(६)। इदमर्थतोऽधिकरणं पूर्वमसंगतिप्रसङ्गात्तु न पूर्वमारब्धमिति- पूर्वपक्षमाव-'असंयुक्तोत्पन्नानि सर्वाण्याज्यानि प्रकरणेन गृह्यते (१-६) टु० टी० पृ० १५-१६ ।
तन्त्ररत्ने [पादः १-सूत्रम्-४३. तस्मात् यद्यदाज्यसाध्य(१) कार्य प्रयाजानुयाजादि 'तत्र तत्रै तानि(२) । बहुवचनं धौवापेक्षम् । भाष्ये च जौहवौएभृतग्रहणं धौवस्यापि प्रदर्शनार्थ तुल्य. न्यायत्वात् । उभयार्थत्वाभिधानं च सर्वाभिप्रायम् । वाक्यानि चानुवादतया नेतव्यानि । विधित्वे सति यदुपभूति गृह्णात्यनुया. जेभ्यस्तदितिवचनात् औपभृतमपि केवलानुयाजार्थं स्यात् । तच्चानिष्टम् । अथ तस्यानुवादत्वम् । तथा सनीतरेषामपि तत्स्यादित्येतावान् पूर्वः पक्षः । (सिद्धान्तसूत्रम् ) तत्र जौहवमनुयाजप्रतिषेधार्थम् ॥ ४३ ।। 'चतुर्जुबां गृह्णातीत्युत्पद्यमानं जौहवं प्रयोजनमभिलषति किं मया कर्तव्यमिति(३) । 'प्रयाजाश्चोत्पद्यमाना एव द्रव्या. भिलाषिणः(४) । तत्र यावदेव सर्वार्थताप्रकरणेन कल्प्यते तावदेव 'तयो'जौहवप्रयाजयोः 'श्रुतेन वाक्येन(५)' सम्बन्धे विहिते 'द्वयोरपि परस्परनियमादन्यत्र(१२)' प्रयोजनान्तरे जौ. हवस्य प्रयाजानां च द्रव्यान्तरे 'प्रसङ्ग एव नास्ती(६)ति जौहवस्य तावत् केवलप्रयाजार्थत्वम् । एवं धौवापभृतयो(७)'- रौपभृतमपि प्रयाजानुयाजेभ्य इति वचनादुभयार्थमेव न सर्वा थम् । एवं च सति प्रयाजानुयाजानां जौहवौपभृतावरुद्धत्वाद- (१-७) टु० टी० पृ० १५-१६ ।
१५-औपभृतजौहवयोः क्रमेण ० अधि०] चतुर्थोऽध्यायः ! १०७ विशेषविहितमपि धौवं तदतिरिक्तोपस्तरणाभिधारणाज्यभागा. द्यर्थमेव न त्वत्यन्तं पारिप्लवम् । यदि नियमविधानार्थानि वचनानि कथं तर्हि प्रतिषेधार्थ वचन मितिमूत्रं तत्राह-एवं चे व(१)' यदा नियमविधानात् प्रसङ्ग एवान्थन नास्ति तदा 'प्रतिषेधफलत्वात् नियम एवं प्रतिषेध उक्तः(२) । न तु मुख्यः प्रतिषेधो विधिसरूपत्वात् वाक्यानामिति । औपभृतं तथेति चेत(३)॥४४॥ इति पूर्वपक्षान्तरसूत्रम् । तस्यार्थमाह-(४) यदि श्रुतेनै 'वार्थेन' नैराकांक्ष्यान्नान्यार्थत्व(५) माज्यानां तयों 'पभृतमपि(६)' अनु- याजेभ्यस्तगृहातीतिवचनात केवला'नुयाजार्थत्वेन निराकां. क्षीकृतत्वात् न प्रयाजाथै स्यात्(७) । स्याज्जुहूप्रतिषेधान्नित्यानुवादः ।। ४५ ।। 'प्रयाजानुयाजार्थत्वेऽवधृते ज्ञायत एवैतदनुयाजार्थमि- ति(८) । तेन प्रयाजानुयाजेभ्यस्तदितिवचनात् प्राप्तमनुयाजा- यत्वमनेनानूयते नानेन प्रयाजार्थतावचन विहिता व्यावर्तयितुं शक्यते । कस्मात्पुनर्विपर्ययो न भवत्ययं विधिः सोऽनुवाद इति तबाह-'यदि ह्यनुयाजार्थमेवैतत्ततः प्रयाजार्थमित्यशक्यं वक्तुम्(९), अप्राप्तत्वात । 'तस्मादयमनुवादोपि न घटते । (१-२) टु० टी० पृ० १५-१६ । (३) सूत्रञ्चैतटटुप्टीकाकारै–धृतम् । (४-९) टु० टो० पृ० १५-१६ ।
૨ ૦૮ तन्त्ररने- [पादः१-सूत्रम्-४६ तस्मात्प्रयाजानुयाजेभ्यस्तदगृह्णातीत्यस्यात्यन्तानर्थक्यात(१) । अनुवादत्वेनाप्यर्थवस्वासम्भवादवश्यं भाविनि विधित्वे सति तत एवं प्राप्तवादितरो(२) ऽनुयाजेभ्यस्तद्गृहाती'त्यनुवा- द:(३) । उभयार्थत्वविधिना ह्यन्यतरार्थत्वमपि प्राप्नोति न त्व- न्यतरार्थत्वविधैरुभयार्थत्वप्राप्तिस्तस्मान्न विपर्ययः सम्भवतीति । सूत्रार्थस्तु-जौहवं हि केवलं प्रयाजेषु नियतं, अनुयाजेभ्यः प्रतिषिद्धं निवृत्तं नौपमृतं तदपेक्ष्यायं नित्यानुवादः । जौहवं हि केवलं प्रयाजार्थमिदं त्वनुयाजार्थमपीति । १६ उपभृति द्विचतुर्ग्रहीताचरणाधिकरणम् । तदष्टसंख्यं श्रवणात् ।। ४६ ।। इदमपि प्रासङ्गिकमेवाधिकरणम् ! पूर्वपक्षमाह-'अष्टसंख्याविशिष्टं ग्रहणमुत्पद्यते(४)' । एक- मेव ग्रहणमष्टावुपभृति गृह्णातीत्यष्टसंख्याकं श्रूयते, न तु चतुः- संख्याकं ग्रहणद्वयम् । तत्र यथा न चत्वारि चतुर्ग्रहीतानि सं. न्ति(५)' अश्रुतत्वादेवं 'द्वे चतुर्गृहीते न स्तः(६)', अश्रव. णाविशेषात् । 'लक्षणया तु गम्यते'(७) द्वे चतुर्ग्रहीते 'श्रुति. सम्भवे चायुक्ता लक्षणा(८)' । 'तस्मा(९) देकमेवेद 'मष्टगृहीत प्रयाजानुयाजार्थमिति(१०) समानयनाधिकरणन्यायेनार्द्धमुप. रितनयोः प्रयाजयोरट्टै चानुयाजेषु विनियोक्तव्यम् । न चा. (१-१०) टु० टी० पृ० १६ ।
तन्त्ररत्न [पादः१-सूत्रम्-४८. मानयनेन चतुर्ग्रहीतत्वं भवति । पूर्वमेव(१) समानयना'त. स्य(२) जौहवस्य 'चतुःसंख्यया परिच्छिन्नत्वात्(३) ! तेन चतुर्ग्रहीतस्यानुग्रहायेत्यर्थः । महता चानुग्रहोऽल्पस्य भवति । स चौपभृतस्य चतुर्ग्रहीतत्वेन घटत इत्याह-'इतरस्य' (४)चौपभृतस्य 'चतुःसंख्यत्वे (५) सति 'कीडशे अल्पत्वम. हत्वे । यदि त्वष्टसंख्यापरिच्छिन्नमौपभृतं तत इतरस्य'(६) जौहवस्याल्पत्वा(७) त्तेन 'महताऽनुग्रहः क्रियते समान. यनेन । तस्माद(८)'नुग्रहदर्शना'दष्टगृहीतं चतुर्ग्रहीतापेक्षया महदम्यते । तेनाष्टगृहीतत्वं ज्ञापयति (९)। न ह्यन्यथा महत्वं भवतीति । दयोस्तु हेतुसामर्थ्य श्रवणश्च समानयने ॥ १८ ॥ 'दे एव चतुर्गृहीते(१०) होमांगे 'कुतः अनारभ्य विधा नाद्धि होममात्रे चतुर्ग्रहीत(११) प्राप्तम् । 'तत्र होमश्चतुःसंख्या- परिच्छिन्नं १२) किमप्या(१३) ज्यादि 'साधनमाकांक्षति (१४)। द्रव्यविशेषमेव केवलमाकांक्षति, 'न संख्या(१५)- मनारभ्य विधानादेव सिद्धत्वादित्यर्थः । 'अष्टावुपभूति गृह्णा. तीत्यस्या(१६) प्याज्यस्य प्रयोजनं प्रति 'साकांक्षत्व(१७) प्रयाजानुयाजाश्च प्रयोजनं नीयते'* यस्मात् द्रव्यविशेष एवा. पेक्षितो न संख्या 'तस्माद्यद्यप्यौपभृते(१८)'Sष्ट संख्यास्ति, (१-१८) टु० टी० पृ० १७ । * अत्र मुद्रितपुस्तके 'दीयते' इति पाठो दृश्यते ।
१ १६-उपभृति द्विचतुर्गृहीताचरणाधि०] चतुर्थोऽध्यायः। १११ तथाऽपि(१) पूर्वमेवानारभ्य विधिप्राप्तायाश्चतुगृहीतसंख्याया आस्तित्वा(२) तामनादृत्य 'द्रव्यमेव गृह्यते(३) । अस्ती- स्यव्ययमाख्यातप्रतिरूपक । अष्टसंख्यायास्तर्हि श्रुतायाः का गतिः। सा हि होमार्थत्वेन विनानार्थिका स्यादत आह-'अष्ट. संख्या श्रुतिवृत्ताऽपि न सम्बध्यते होमेन(४)' कुतः 'सं. ख्यान्तरेण(५) चतुष्ट्वेन होमस्य 'अवरुद्धत्वात् । तस्मादष्ट संख्या द्वेचतुःसंख्ये लक्षयति(६) । अथानारभ्यवादगतं चतुष्टमेवाष्टसंख्यालक्षणार्थ कस्मात्र भवत्यत आह-'न तु चतुःसंख्याऽष्टसंख्यां लक्षयितुं समर्था, व्याप्त्यभावात्(७)। अष्टत्वं तु चतुष्टवद्वयाविनाभूतं तल्लक्षणा. किमत्रानारभ्य विधिना न्यायादेवायमर्थो लभ्यते । अष्टसंख्याग्रहणे(८) ग्रहणगताष्ट- संख्या 'यदा प्रयाजानुयाजेभ्यो वाक्येन दीयते तदा (९) समं स्यादश्रुतत्वादिति 'न्यायादेव तत्रार्द्धमितरत्राप्य भवति । यथा लोके शतमाभ्यां दीयतामित्युक्ते(१०)' शतसंख्या- कमपि द्रव्य मर्पणवेलाया(११) मेकैकस्मै 'पंचाशत्संख्यापरि. च्छिन्नमर्पयति इति हेतोर्न तत्परिच्छिन्न(१२) मष्टत्वपरिच्छिन्नं 'होमसाधनम्(१३) । यदा चतुर्ग्रहीतमेव होमे तदा ग्रहणस्य होमार्थत्वात्तद्गता. (१-३) टु० टी० पृ० १७ । (१०) 'न्यायात्तावदेवेतरदिति' वा पाठः । (४-१३) टु० टो० पृ० १७ । थमिति युक्तम् 'अथ वा तन्त्ररत्ने- [पादः १ -सूत्रम् -४४. ऽष्टसंख्या चतु:संख्याद्वयलक्षणार्थव । यदि न्यायादेव होमे चतु: संख्याप्राप्तिः कथं तानारभ्य विध्युपन्यासो भाष्येऽत आह- अनारभ्य वादेनापि योऽर्थो न्यायादेव प्राप्यमाणस्स एव पाप्यते(१) । तेनाभेदात् यत्किंचित पापकमुपन्यसितव्यमि- सनारभ्य विध्युपन्यास इति । 'नन्वेवमनारभ्य विधिः(१)' प्रयाजानुयाजविषयेऽनुवा. दः स्यात(३)। न्यायादेव प्राप्तेरन्यत्र च विधिरिति विरूप: स्या- दित्यभिप्रायः । सत्यमनुवादो न स्वयं दोष इत्याह-'उच्यते, विवक्षाभेदेऽनुवादो दोषो भवति । न विह विवक्षाभेदः। य एवार्थो विधौ सोऽनुवादेऽपि' (४)। तेन प्राप्त्यप्राप्तिवशाद्विध्यनुवा. दत्वे ससपि वचोभंग्यभेदादवैरूप्यमिति तत् पुनारिदं न्यायप्रा. ताभिधानमनुपपन्नम् । यदि ह्यष्टसंख्याकमेव ग्रहणं ततस्तदेकदेशेऽप्येकैकत्रोपयुज्यमा नेऽष्टगृहीतमेव होमसाधनं भवतीत्युक्तम् । न चानारभ्य विधिनाs- प्रकरणस्थेन सामान्यरूपेण विशेषविषयं प्राकरणिकं चाष्टत्वं ल. क्षणया नेतुं युक्तमित्याशंक्य पक्षांतरमाह-'अथ वा यत्प्रयाजा. नुयाजयोश्चतुर्ग्रहीतं गृह्णाति तदष्टावुपभृतीति नैव ग्रहणं विधी यते । ग्रहणे त्वर्थप्राप्त (५)ऽनारभ्य विधिविहितं चतुर्ग्रहीतस्य होमसाधनत्वं नाकृत्वा चतुःसंख्यं ग्रहणमनुष्ठातुं शक्यत इत्यर्थी- देव ग्रहणं प्राप्नोति । प्राप्ते च तस्मिन् प्रयाजानुयाजांगचतुर्गी- हीतद्वयानुवादेन 'एकपात्रता(६)तन्त्रेण 'विधीयते (७) । ते (१-७) टु० टी० पृ० १७ ।
१५-औपभृतजौहवयोः क्रमेण० अघि०] चतुर्थोऽध्यायः । ११३ नानुवादत्वाल्लक्षणा न दोषः । किमर्थं पुनरष्टसंख्या श्रुता, य. द्यावधिसिता चतुःसंख्याद्वयमेव कस्मान्न श्रुतमत आह-'अष्टः संख्याश्रवणात् भिन्नकालता नानापात्रता चोभयं निवय॑ते(१)। तच्छ्रवणे हि यथाष्टत्वं सम्पद्यते तथा चतुगृहीतद्वयं सम्पाद- यितव्यमिति कालपात्रैकत्वसिद्धिरत आह भाष्यकार:-'उपभृति- समानीते'(२) सहानीते 'द्वे चतुहीते कथं स्याताम् । इतरथाऽ. सत्यष्टशब्दे नानापात्रयोगो याता'(३)कालभेदेन वा संसर्ग- परिहारार्थ तदिदमुक्तं सूत्रकारेण-'श्रवणं च समानयने (४) सहानयनाथमहत्वश्रवणमित्यर्थः । भवतु वा विधिरेवाष्टशब्दः श्रुतिवृत्तश्च तथापि होमगतं च. तुगृहीतं न बाधितुं शक्यमियाह-'अथ वोपमृदष्टसंख्याग्रहणानि सर्वाण्यत्र विधीयन्ते । तस्याई' (५)चतुःसंख्या 'होमे विधीयते । तस्माचतु:संख्या होमेऽष्टसंख्या ग्रहणे(६) । तेन 'योरपि भिन्नविषयत्वान्न विरोधः' (७)अविरोधाच 'नाष्टत्वेन चतुष्वं बाधितुं शक्यते, न च होमार्थत्वात(८)' ग्रहणस्यार्थात् 'तुल्यार्थतां प्राप्य बाधः । अङ्गगुणेन प्रधानगु- णबाघस्यान्याय्यत्वात् । तेन ग्रहणगताष्टसख्या चतुष्वद्वय- निष्पादकत्वेन होमांगं भवति (९)न स्वरूपेण, 'तस्माच्चतु:- संख्याकं ग्रहणद्वयमेतदिति'(१०)। यत्तु भाष्यकारेण प्रयोजनद्वयमुक्तं तत्र द्वितीयमेवाभिमतं (१) टु० टी० पृ० १७। (२-३) शबर० पृ०४६४ । (४-१०) टु० टी० पृ०१७-१८ ।
तन्त्ररत्ने [ पादः २-सूत्रम्-१. न प्रथममिति प्रतिपादयन प्रथमं दूषयति -'न नियोगतोऽ' (१) समानेतव्यं पूर्वपक्ष इत्ययुक्तम्'। (२)कुत:-'न्यायादर्द्धमेव प्रा. प्नोति' (२)समं स्यादश्रुतत्वादिति । 'एवमपरितुष्टो द्वितीय प्रयोजनमाह'(४)-'अनुयाजाभावेप्यष्टगृहीतमेव पूर्वपक्षे सिद्धान्त चतुर्ग्रहीत मिति(५)। इति तन्त्ररत्ने चतुर्थाध्यायस्य प्रथमः पादः समाप्तः । १ स्वरोश्छेदनाद्यप्रयोजकाधिकरणम् । ( पूर्वपक्षसूत्रम् ) स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् ॥१॥ पूर्वपक्षमाह-'यूपस्य स्वरुं करोतीत्यत्र करोतिरभूतप्रादुर्भाव- वचनो'(६) नादानार्थः । लक्षणाप्रसंगात् । तस्य 'किं कर्मेत्याका- क्षायां स्वरुमिति (७) सम्बध्यते । 'तस्मात् सस्वरुर्भाव्यमानः । तस्य च'(८) भाव्यमानस्य 'करणेतिकर्तव्यताकांक्षायां यूप. शब्दो जोषणादिकामितिकर्तव्यतां लक्षयति, खदिरादि च काष्ठं करणभूनं'(९) सम्बन्धात् तेन युपस्य जोषणादिसंस्कृतस्य (१-४)टु० टी० पृ० १७-१८ (५) अत्र अनुयाजादारभ्य गृहीतमित्यन्तः पाठो मुद्रितलेखटु- प्टीकायां नोपलभ्यते, किन्तु तत्रापेक्षित इव प्रतिभातीति । (६-९) टु० टी० पृ० १८-१९ ।
१-स्वरोक्छेदनाधप्रयोजकाधिकरणम् । चतुर्थोऽध्यायः। ११५ खादिरादेवयव स्वरूं करोति जोषणादीतिकर्तव्यतोपेतेन खा- दिरादिना स्वहं भावयेदित्यर्थः । एवं च सति 'या च यूपं त- क्षती' (१)त्यादिवाक्यविहिते तिकत्र्तव्यता (२) सा 'तस्या- पि(३) स्वरोवाक्येन'(४) विहिता भवति यूपस्येव । तस्मात् उभयप्रयुक्तं छेदनादीति । नन्वेवं यूपशब्दे लक्षणा स्यात् । सत्यं, न दोष इत्याह- 'यदि च यूपशब्द इतिकर्तव्यतां न लक्षयेदनर्थकमेवास्योचा. रणं भवेत् । न हि स्वरुभावनाविधौ तस्य श्रुयान्वयः सम्भव- ति । 'यत्स्वरूं करोति तत् यूपादिति चेत् (५)-यदि स्वरुभाव. नाविधिर्भवेत् न संभवेत् श्रुयर्थः । अञ्जनवाक्येनैव तत्साधन. त्वमात्रेणावगतस्य स्वरोरर्थप्राप्तमादानं यत् स्वरूं करोतीसनू- घ तत् यूपादिति विधौ संभवत्येवार्थ इति । परिहरति-'तन्न'(8)। कुतः १ 'एवं वाक्यार्थः स्यात्'(७) पदान्तरार्थविधानात् । 'स्वरुं भावयेदिति तु(८) विधौ ‘श्रुत्य- थों विहितो भवति । ननु लक्षणातो वाक्यार्थविधानमेव ज्यायः। सत्यं, सा तु पक्षद्वयमाधारणी । सिद्धान्तेऽपि हि करोतिरादानार्थो व्याख्येयः। तस्मात् श्रुत्यर्थविधिलाभात् स्वकर्तव्यतैव विधीयते इति । ननु स्वरुरपि पदान्तरोपात्त एव तत् कथं तत्र श्रुत्यर्थ- विधिरत आह-'करोति भावयत्यादीनां सामान्यधातूनां यत् (१-८) टु टी० पृ० १८.१९ ।
तन्त्ररत्ने- D ११६ [पादः २-सूत्रम्-१ द्वितीयान्तं तद्धातुस्थानीयं भवति द्रव्यं क्रिया वा' । (१) क्रिया तावत् श्रुत्या विधीयते । सा चावच्छेदकापेक्षा । यथा-यजेतेत्या- दिषु यागाधवच्छिन्ना प्रतीयते तथा यागं करोतीत्यादिष्वपि करोतिना सामान्यरूपावगमात् । अवच्छेदकापेक्षा तुल्यैव । तत्र पदान्तरेणापि द्वितीयान्तेनोपनीतं यागादिवत्तदवच्छेदकत्वेन तत् संलग्नं प्रतीयते न तु कारकान्तरवत् बहि तमिति तदवच्छि. नायास्तस्याः श्रुन्यर्थत्वमुच्यते । तेनायं वाक्यक्रम इत्याह-'त- स्माच'(२) स्वरुं करोतीति वाक्यात् स्वरुः 'कर्तव्यतां प्रति- पद्यते । तेन चोत्पन्न:'(३) स्वरुः 'स्वरुणा पशुमनक्तीत्यनेन वि. नियुज्यते (४)। न त्वनेन विनियुक्तस्येतरेणोपादानविधिरिति । तस्मात्सप्रयोजक इतिकर्तव्यताया (५): । एवं तावद्यूपशब्दल. क्षितानां वाक्येनैव जोषणादीनां विनियोगः स्वरावयुक्तः । इदा- नीं यूपशब्दो यद्यपि नात्रभवेत्तथापीतिकर्तव्यता लभ्यते इत्याह- 'यद्यपि यूपेन सहैकवाक्यतेतिकर्तव्यतायास्तथाऽपि स्वरोः सा- कांक्षत्वात्तदीयेतिकर्तव्यता या निराकांक्षता'(६)। कुत इत्या. ह-सन्निधानाविशेषात् (७)। ननु वाक्येन यूपसंयुक्तायाः कथं दुबलन सन्निधानेन स्व. रौ विनियोगोऽत आह-'याऽपि वाक्यसंयुक्ता साऽपि शक्याऽनु पक्तुं स्वरुशब्दस्यानर्थक्यभयान'(८)। न सन्निधानाद्विनियोग उच्यते किं त्वनुषङ्गात् । छेदनादिना यूपं भावयेत्स्वरुं च तथैव भावयेदिति । एवं च यदा यूपशब्दाभावेपीतिकर्तव्यता ल. (१-८) टु० टी० पृ० १९ ।
१-स्वरोश्छेदनाद्यप्रयोजकाधिकणरम् ] चतुर्थोऽध्यायः । ११७ भ्यते तदा तत्रापि स्वरुवाक्ये यूपशब्दे श्रूयमाणे सुतरां 'भव. तीतिकर्तव्यतासम्बन्धः । जात्यन्तराच्च शकते ॥ २ ॥ 'नान्यस्य'(१) खदिरादिभ्योऽन्यस्य देवदादि (२). क्षस्य स्वरुं कुर्यादित्यनुनिष्पन्नपक्ष' तज्जातीय वृक्षान्तराशङ्का- ऽपि नास्ति नतरां जात्यन्तराशङ्का । प्रयोजनवादिनस्तु'(३) पृथनिष्पतित्वात् 'भवति जात्य. न्तराशङ्का (४) व्यत्यन्तराशङ्का च । 'तत्र सजातीयो विधीय- ते'(५) । यूपजातीयस्यैव कुर्यादिति । (सिद्धान्तसूत्रम् ) तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् ॥ ३ ॥ 'स्वरुणा पशुमनक्तीत्युच्चरितेऽञ्जनसमर्थ द्रव्यं (६) ख. रुरिति 'प्रतीयते । तत् कुत उपादातव्यमियाकांक्षिते यूपादिति निराकांक्षीभवति (७)। नन्वत्र यूपस्येति श्रूयते न यूपादिति तत्राह-'यूपस्येसवयव- लक्षणा षष्ठी' (८)। यूपस्यावयवं स्वरूं करोति स्वरुत्वेनादत्त इति । एवं च पञ्चम्पर्थो लभ्यते इति यूपादिति व्याख्यातम् । तथा च शाकस्य देहि शाकात् देहीत्येकार्थमेव मन्यन्ते । 'विद्यमाने चा- (१-८) टु० टी० पृ० २० ।
११८ तन्त्रले [ पादः२-सूत्रम्-३. वयविन्यवयवा भवन्ति (१) । अवयवचोदना हि नावयविनं प्रयुक्त । अन्य प्रयुक्तमेवोपजीवन्तीत्युक्तम् । 'तस्माच्छेदनादीनाम: प्रयोजकः स्वरुः अलौकिकत्वात् भाव्यत इति च (२)- न हालौकिकस्याविज्ञातस्वरूपस्योपादानं प्राप्तं यत्तदनुबादेन यूपादितिविधीयेतातः तत्स्वरूपभावनैव विधातव्या। तद्विधाने च छेदनादीनामितिकर्तव्य नात्वेन सम्बन्धात् प्रयोजकत्वमिति । उत्तरं -'नवायमलौकिको रथन्तरादितुल्यः (३) । यथा रथ. न्तरादिस्वरूपं प्रमाणान्तरगम्यमपि केवल वैदिकव्यवहारानुपाति तथा सरपीति । ननु स्थन्तरादयो गीतिविशेषाः प्रत्यक्षसिद्धाः नत्वेवं स्व. रुः। न ह्यसौ काष्ठमात्रमत आह-'यद्यप्यत्र प्रातिपदिकमात्रा. (४) झटिति 'न ज्ञायते तथाऽपि पूर्वपदोत्तरपदवास्यान्तरैः शक्योऽवधारयितुम् (२)। पूर्वपदे तावत् तृतीयाविभक्त्वा करणभू- तं किमपीति गम्यते, उत्तरपदे चाअनश्रवणादञ्जनकरणमिति । वा. क्यान्तरे च यूपस्य स्वरूं करोतीति यूपावयव इति । 'यथा लोके' (6)काष्ठैः पचतीति व्युत्पन्न विभक्त्यर्थो व्युत्पन्नाख्यातार्थश्वाव्यु. त्पन्नकाष्ठार्थोऽपि पाककरणवाचित्वं काष्ठशब्दस्य ब्युत्पद्यत इति । 'अवधृते चाञ्जनकार्ये(७) स्वरौ 'अर्थादुत्पत्तिर्भविष्य. ति'(८) उपादानमित्यर्थः। अञ्जन कार्य यस्य स तथोक्तः । 'सा यत् स्वरूं करोती यनुयते'(९) । पूर्वपक्षमनुभाषते-'स्वरं करोनीत्युपश्पलक्षणया (१०) प्र. (१-१०, टु० टी० पृ० २० ।
१-स्वरोश्छेदनाद्यपयोजकाधिकरणम् ] चतुर्थोऽध्यायः। ११९ सासत्तिलक्षणया 'श्रुया स्वरोः कर्नव्यतेति'(१)- 'उच्यते । त्वत्पक्षे सुतरां श्रुतिबाधः (२) । कथम् । 'श. ब्दस्य धर्मी अर्थः ३) । शब्द प्रति प्रधानमित्यर्थः। 'शब्दो. ऽपि क्रमस्य'(४) प्रत्यासत्तिलक्षणस्य 'धर्मी (५) । तत्र 'श ब्दधर्म क्रममनुजिघृक्षता तस्य शब्दस्य धर्मी बाध्यते'(६) । यूपशब्दस्य श्रुत्यर्थत्यागात् । स एषोऽङ्गाङ्गेन'(७) अर्थाङ्गस्य श- ब्दस्य योगं क्रमस्तेन 'प्रधानमृतार्थवाधः (८) । स चायुक्तः । 'तस्माद्यूपशब्दस्य लक्षणामयादितरा वचन व्यक्तियत्स्वरूं करोति तत् यूपस्येति (९)। ननु चात्रापि करोतिरादानलक्षणार्थः स्यात्तकोऽत्र विशे पः। अयं विशेषो मुख्यो यूपशब्दो जघन्यश्च करोतिशब्द इति । वाक्यार्थविधानं च समानमेव । न हि यूपशब्दस्य पूर्वपक्षेऽपि वि- ध्यनन्तर्भावस्तल्लक्षितजोषणादिविशिष्टस्वकर्तव्यताविधानात् । विशिष्टविधिश्च गरीयान् विशेषणविधानादतोऽपि यूपसम्ब. न्धमात्रविधानमिति । 'अनेनाभिप्रायेणा'(१०)भाष्यकार:- 'श्रुतिरपि बाध्यते वाक्यमपीति(११) । श्रुतिवाधे हि श्रुत्यर्थै कवा- क्यतापि बाधिता भवतीति । व्याख्यानान्तरं तु विस्तरोक्तस्य संक्षेपमानार्थ कृतं भाष्य- कारणेति न व्याख्यायते । (१-११) टु० टी० पृ०२०।
१२० तन्त्ररत्ने- [पादः २-सूत्रम्-७. २ शाखाया आहार्यताधिकरणम् । शाखायां तत्प्रधानत्वात् ॥ ७॥ प्राचीदिक् । शाखाप्रयुक्ता उत तदाहरणप्रयुक्तेति । किं विहारापेक्षया प्राची दिशं प्रति शाखाया आहरणं कर्तव्यं उत वृक्षस्य या शाखा प्राची सा हर्तव्येति । तत्र श्रुत्या दिगभिधा. नात् सैवाहरणाङ्गतया विधीयत इति प्राप्त आह-'प्राची तावत् दिगाहमशक्या' । प्राचीशब्दार्थो हि द्वितीयासंयोगात् आहे. तव्यतया प्रतीयते न च दिगाहर्तुं शक्यते । अतो न दि- ग्वाद इति । अथ शक्यत्वात्याची दिशं प्रत्याहरतीतिकल्प्येत द्विकर्माको ह्याहरतिरतस्तस्य प्रथमकर्म शाखा तया तु व्याप्यमाना दिक् प्राची द्वितीय कर्म भविष्यतीति । 'तथाऽपि वाक्ये आह्नियमा- णस्याश्रवणात् माकांक्षं वाक्य'(१) स्यात् । 'प्रतिशब्दश्चाश्रुतोऽ पध्याहर्तव्यः (२) स्यादाहियमाणेन व्याप्तिमवगमयितुमसति हि तस्मिन्नाहर्तव्यतया प्राचीशब्दार्थः प्रतीयतति देशलक्षणा च स्यात् । न हि दिशं प्रति किं चिदानीयते तच्च द्वयमप्ययुक्तम् । अथो च्येत-प्राक् देश आहरतीति द्वितीयास्थाने सप्तमी (३) कल्प्यते तथा सति हि प्रतिशब्दो नाध्याहतव्यः स्यादिति । उत्तरमेव सत्यप्यश्रुतो देशोऽनीप्सितश्च'(४) परिगृहीतः स्यात् । ततश्च दिगभिधायिनः प्रातिपदिकस्य विभक्तेश्चेप्सितत. (१-२) टु टो० पृ० २०। (३-४) टु० टी० पृ० २०.२१ ।
२-शाखाया आहार्यताधिकरणम् ] चतुर्थोऽध्यायः । १२१ मवाचिन्या लक्षणार्थः स्यात् । (१)आहर्त्तव्यस्य चानिर्देशात्तु साकांक्षत्वं (२) तदवस्थमेव । (३)तस्मादियमपि देशवादकल्पना दुःश्लिष्टैच' । इतश्च न दिग्वादो देशवादो वेत्याह-'प्राक्शब्दोऽयं सम्बन्धिशब्दत्वादवधिमपेक्षते(४) कस्य प्राचीमिति । न चाव- धिनिर्दिश्यते । न च विहारदेशोऽवधिरिति युक्तमश्रुतत्वादप्रकृत- स्वाच्च । अतो दिग्वादेऽशक्यता अवधेश्वानिर्देशात्साकांक्षत्वमिति दोषः । देशवादे तु लक्षणा । आहर्त्तव्यस्यानिर्देशात् साकांक्षत्वं पू. वोक्तश्च दोष इति । तस्मात्माचीमित्य नेन यदीप्सितं तदुच्यते(५) । द्वितीयासंयोगात् (६)तच्च' माचीपदं (७)हरतेः कर्म पूर्वप्रकृतां शाखां शक्नोति वदितुम् (८)। पूर्ववाक्ये हि हरतिकर्मतया शा. खा प्रकृता प्राचीमाहरतीत्यनेनापि हरतिकम्मैव विशेष्यते । 'त. स्मात्प्राची शाखामाहरतीति(९) वाक्यार्थः। एवं हि 'कस्य' (१०)माची(११) वृक्षस्ये सवधिमात्रमपेक्षणीयं न किं चिदन्यत्' । अवधिरपि वृक्षः सुलभ एव । शाखाशब्दो हि वृक्षावयववाची वृक्ष- मपेक्ष्य प्रवर्तते । प्राचीशब्दोऽपि तां विशेष्टुं तदपेक्ष एव प्रवर्तत इति सुज्ञानम् । 'तस्मात् शाखावादः। (१२) प्रकृतां वा शाखां कक्ष- येत् । दिशो वाऽनीप्सितत्वाद्विहारदेशमीप्सिततपयुक्त(१३) मिति (१) अत्र मुद्रितपुस्तके 'अनिर्देशात्तु' इत्यस्य स्थाने 'अनी. प्सितत्वात्' इति पाठो दृश्यते। २-१२ टुष्टी० पृ० २०-२१ । (७) अत्र मुद्रितपुस्तके 'आहरते' इति पाठोऽस्ति । ( १३) शबर० पृ० ४७२; टुटी० पू० २१ । अत्र शबरभाष्ये 'ईप्सिततममयुक्तम्' इति, टुपटीकायान्तु 'ईप्सि. तमयुक्तम्' इति पाठोऽस्ति ।
१२२ तन्त्ररत्ने [पादः २-सूत्रम्-८. भाष्यमनुभाष्य व्याचष्टे-'दिशोऽनीप्सितत्वादित्ययं हेतुः। य. स्माद्दिगनीप्सिता तस्माद्विहारदेशं वा लक्षयेच्छाखा(२) वा दि. शो वा । अनीप्सितत्वादित्यत्र वाशब्दो विहारदेशमियस्यानन्तरं द्रष्टव्यः । यदि दिशोऽनीप्सितत्वादाहरणकर्मत्वानुपपत्तेरवश्यं शाखा वा दिशो वा लक्षयितव्यस्तत्र शाखालक्षणैव ज्यायसीति ।। ३ छेदनस्य शाखाप्रयुक्तताधिकरणम् । (सिद्धान्तसूत्रम् ) शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्या- दैषम्य(२) तत् ॥ ८॥ अग्रं मूलं चोभयमपि प्रयोजनवत् । उभयं च शाखाशब्दे. नोच्यते । सहैव वृक्षाद्विच्छिद्याहियते परिवासने । न च विभ- ज्यते । तस्मादुभयप्रयुक्तं छेदनादीतिपूर्वपक्षः। सिद्धान्तमाह-'उभयमपि(३) न प्रयोजक(४) मग्रं मूलं च' किं त्वग्रमेव । 'कथं ? मूलतः शाखां परिवास्योपवेषं करोतीति प. रिवासयतेः प्रधानभूता शाखा द्वितीयासंयोगादतो मूलाधिकर- णं छेदनं शाखार्थम् (५)। अयमर्थः । यदि परिवासनमात्रमिह श्रूयेत ततः शाखाशब्देन ममूलमय निर्दिश्य द्वितीय या परिवासनमुभयाथै विनियुज्येत । (१-५) टु०टी० पृ०२१ । (२) अत्र लेखमुद्रितटुप्टीकापुस्तके 'वैषम्यात् इति पाठोऽस्ति ।
. ३-छेदनस्य शाखाप्रयुक्तताधिकरणम् । चतुर्थोऽध्यायः । १२३ मूलाधिकरणकन्तु परिवास नमत्र श्रूयते । न च मूलस्य मूलतः परिवासनं सम्भवतीसग्रपर एवायं शाखाशब्दो मूलविशिष्टं छ दनमग्रार्थं करोति । एवं च मूलस्याप्यग्रार्थमेव वृक्षादाच्छेदन माहरणं च । न ह्यनाहते मूले मुलतः परिवासनमग्रस्य सम्भ- वति । तेन छेदनमाहरणं मूलं तदधिकरणं च परिवासनं सर्व मग्रार्थमेव । मूलं त्वग्रप्रयुक्तछेदनानुनिष्पन्नं यूपशकलमिवाञ्जना- थै कपालोपधानार्थमुपादीयत इत्यप्रयोजकमिति । ननूपवेषस्यापि द्वितीयानिर्देशः समस्त्येवेति कथं परिवा. सनस्य नादयं न भवतीत्यत आह--'उपवेषमिति या द्वितीया सा करोतेः न परिवासयतेः । तस्मान्नोपवेषार्थ छेदनम् । आह- उपवेषे करोतेः कर्मतया प्रतीयमाने(१) भाव्यमाने 'इतरत्(२) मूल'मुपवेषं निवर्तयति(३)' करोति कर्मणो झुपवेषस्य भाव्यमा नत्वात् करणाकाङ्क्षायां प्रकृतमूलं करणत्वेन सम्बध्यते । 'कथ- मितिच्छेदनादिकोतिकर्तव्यता गृह्यते(४) । यथा स्वरं करोतीति पूर्वपक्षे' जोषणादीनां प्रकृतानां ग्रहणमुक्तं न च तद्वत् निराकरणं भवतीत्याह-(५) तत्र कारणान्तरेण' यूपशब्दस्य लक्षणाप्रसङ्गेन 'स्वरोभर्भावनां प्रतिषिद्ध्योपादानार्थः करोतिरित्युक्तमिह(६) त- कारणं नास्ति' । येनोपवेषभावना निषिध्येत। (७)तस्मादुभयं प्रयोजकम्'- 'उच्यते । स्ववाक्योच्चरितेन यूपशब्देन येतिकर्तव्यता ल. क्ष्यते(८) सा वाक्येनैव स्वरुमम्बन्धिनी'त्येवं पूर्वपक्षस्तत्रश. (१-८) टु० टी० पृ० २१ ।
तन्त्ररत्ने- D १२४ [ पादः २-सूत्रम्-८ ङ्कितः । इह स्ववाक्ये नास्ति यूपस्थानीयपदं यदितिकर्तव्यतां लक्षयेत् । ननु अत्रापि शाखापदमस्ति तेन लक्षिताशाखासम्बन्धिः नीतिकर्तव्यतावाक्येनैवोपवेषांगं स्यानेत्याह-'मूलतः शाखा- परिवास्यतिसमाप्तमिदं वाक्यमुपवेषं करोतीत्यपि समाप्तम् (१) । ननु परिवास्येत्यनाख्यातं कथं वाक्यान्तरमत आह-'मूला. धिकरणेन छेदनेन शाखां निष्पाद्यान्यदपि क्रियान्तरं करो. तत्येितावन(२) गम्यते । तेनैते भिन्ने वाक्ये' पूर्ववाक्ये 'मूला- धिकरणं छेदनं वाक्येन शाखार्थम् (३)। यद्यपि पूर्वं त्वान्तत्वात क्रियान्तरमपेक्षत इति कृत्वा न वाक्यभेदो मुख्यस्तथाऽपि क्रिया: द्वयं तावत् स्वकारकविशिष्टं प्रतिपाद्यत इति वाक्यभेदाभिधानं तत्र परिवासनसम्बन्धितया मुख्यमेव स्वार्थमभिदधत् शाखा- पदं न लक्षणयेतिकर्तव्यतामुपवेषकरणार्थतया प्रतिपादयतीति- शाखार्थमेव तत् छेदनम् । 'उपवेषस्य(३)' तु 'स्ववाक्ये छेद- ना'(४)दिकाया (५)इतिकर्तव्यताया अश्रवणात(६)' । यदि परं (७)प्रकृता स्यात्', तच्चायुक्तमित्याह-'तत्र शाखाया वाक्येनोपवेषस्य(८) प्रकरणेन प्रकरणं च दुर्वलं वाक्या'दि- सतोभिप्रायादाह भाष्यकार:-'उभयसम्बन्धे विरोधः, विरो. (१-८) टु० टी० पृ० २२॥ (६) अत्र मुद्रितटुप्टीकाग्रन्थे 'अश्रवणादित्यस्य स्थाने 'श्रव. णादित्येव पाठः ।
३-छेदनस्य शाखाप्रयुक्तताधिकणरम् ] चतुर्थोऽध्यायः। १२५ धे च वाक्यं प्रकरणादबलायः(१) । 'अथ सन्निहितेने त्यादिभाष्यार्थमाह-'अथान्येन प्रयु(२). क्तं मूलं ग्रहीष्यते' उपवेषं करोतीतिकिमग्रार्थपरिवासनानुनि- रूपन्नं यदिदं मूलं तदिति । 'तथा सति परकीयत्वादप्रयोज- कं'(३) पदपांसुक्त् । अथात्र व्यवाहितकल्पनया वाक्येनैव परि- वासनस्योपवेषार्थत्वं सिद्ध्यतीति चोदयति-'शाखा परिवास्य मू. (४)लादुपवेषः अग्रं वत्सापाकरणार्थ' परिवासनमात्रमत्र विधीय. ते, न मूलाधिकरणम् । मूलतः शब्दस्तूपवेषं करोतीत्यनेन सम्ब- ध्यते । तेन मूलाग्रयोरुभयोरपि द्वितीयान्तशाखाशब्दनिर्दिष्टयोरङ्गं परिवासनमिति- दूषयति-'एतदपि न घटते । व्यवहितकल्पनयाऽश्रुतवा- क्यकरणमवैदिकं स्यादतो वाक्यसामर्यात् शाखार्थमेव छेद- न'(५)मग्रार्थमित्यर्थः । अग्रस्य हि मूलतः परिवासनं भ- वति न मूलस्येति । शाखाशब्देनाग्रस्यैवाभिधानात् तदर्थ मेव परिवासनमित्याह-'शाखाशब्दश्च यावदच्छिन्ना तावत्समूलायां वर्त्तते । छिन्ना चेदने वर्त्तते मूलादपैति(६) । तेन परिवासनादू मन एव शाखाव्यवहारात्तदर्थमेव परिवासनम् । मूलयुक्ताया- स्तुपरिवासनेन शाखात्वनाशात्तादर्थ्यमनुपपन्नं परिवासनस्य । तस्माच्छाखाप्रयुक्तं छेदनम्(७) । 'अथापि मूले शाखाशब्दो - (१-२) शबर० पृ०४७४, टु० टी० पृ० २२ । (३-७) टु० टी० पृ०२२ ।
१२६ तन्त्ररत्ने [ पादः२-सूत्रम्-९. भवे(१)दित्यादिभाष्यार्थमाह-'शाखाप्रयुक्तं चाग्रार्थनानीत च(२) । यद्यपि मूलं शाखाशब्देनोच्यते(३) तथाऽपि मूलपरि. वासनेन संस्कृता शाखा कार्ययोग्या न तु मूले शाखा भव. ति(४) । शाखाकार्ययोग्यं न भवतीत्यर्थः । कुत इत्यपेक्षायां भाष्यं पठति-'अमूलपरिवासितत्वात् ५)। तयाचष्टे-'मूले अ. च्छिन्नत्वादित्यर्थः(६)' । मूलतः परिवासनं हि शाखासंस्का. रः शाखाकार्याणामङ्गम् । न च मूलतः परिवासनं मूलस्य स. म्भवति । अत आह मूत्रकार:- श्रुत्यपायाच्च ॥९॥ 'शाखाश्रुति (७)' शाखाशब्दः छिन्नायां सयां 'मूलादपै- तीत्यर्थः(८)। 'तस्माच्छाखाकार्येषु (९) न मूलं ग्रहीतव्यम्' । अमूलपरिवासितत्वात् । यच्चैवं भूतं तदर्थ परिवासनम् । तस्मा- दग्रार्थ परिवासनम् । तत् प्रयुक्तमितिसिद्धम् । ( १ ) अयं अन्थो मुद्रितशाबरभाष्ये नोपलभ्यते । (२) एष ग्रन्थो मुद्रितटुष्टीकाग्रन्थे नोपलभ्यते । (३) टु० टी० पृ०२२। (४) अत्र मुद्रितपुस्तके 'न तन्मूल मिति पाठः । (५) एष ग्रन्थो मुद्रितभाष्ये नोपलभ्यते । (६-८) टु० टी० पृ० २२-२३ । (९) अत्र मुद्रितपुस्तके 'शाखाकार्येषु' इत्यस्य स्थाने 'शाखा- थेषु' इति पाठो दृश्यते।
४-शाखापहरणस्य प्रतिपत्तिकर्मताधिकरणम् ] चतुर्थोऽध्यायः । १२७ ४. शाखाप्रहरणस्य प्रतिपत्तिकमताधिकरणम् । ( पूर्वपक्षसूत्रम् ) हरणे तु जुहोतिर्योगसामान्यात् द्रव्याणां चार्थशेषत्वात् ॥१०॥ यदुक्तं पौर्णमास्यां शाखानोत्पाद्येति तन्न यद्यप्युपवेषार्थी नो. पाया तथाऽपि प्रस्तरप्रहरणार्थमुत्पादनीयैव। तदपि हि शाखा याः प्रयोजकमेव । सह शाखया प्रस्तरं प्रहरतीति तदङ्गत्वेन वि. धानादित्येवं पूर्वाधिकरणप्रयोजनाक्षेपेण वान्तरसम्बन्धः । ननु प्रस्तरस्य याज प्रति गुणभावे सत्यपि प्रहरणं प्रति प्राधान्यात् सहभावेन प्रस्तरतुल्यत्वावगमात् तद्वदेव शाखापि प्र. तिपाद्यैव कथमेकान्ततोऽस्या गुणभाव इत्याशंक्याह-'त्रिप्रकारः सहभावः । एकस्तावन(१) प्रकारः 'उभावपि प्रधानभूतौ (२) । -देवदत्तो यज्ञदत्तेन सह पूजयितव्य इति द्वावपि पूजनं प्रति प्रधानभूतो। 'अपरः(३) प्रकारो द्वावपि गुणभूतौ'। यथा- देवदत्तेन सह यज्ञदत्तः शिविकां वहतीति। 'अन्यः(४) प्रकार 'एक: प्रधानभूतः(५) इतरो गुणभुत इति । यथा-ऋत्विग्भिः सह यज. मानः क्रतुं करोतीति । तेनेहापि सहभावे सयपि प्रस्तरस्य प्राधा. न्यं शाखायाश्च गुणत्वं नानुपपन्नमिति । तत्र प्रहरतेर्यागात्मक- स्वात् शाखायास्तत्र गुणभाव एव युक्तः । प्रहरणमात्ररूपत्वे हि (१-३) टु० टी० पृ० २२-२३ । (४-५) टु०टी० पृ० २३ यथा- तन्त्ररत्ने- [पादः २-सूत्रम्-१०. तस्य प्रहियमाणमस्तरप्रधानत्वात्तत्तुल्यत्वेन शाखाया अपि प्रति. पाद्यत्वं स्यादिति तदर्थं यजतिरयमिति प्रतिपादयति-'सूक्तवा- क्येन प्रस्तरं(१) प्रहरतीति' प्रस्तरप्रहरणे विनियुक्तः सूक्तवा. क्येन(२) प्रस्तरं प्रकाशयति, नापि प्रहरणक्रियाम् । यद्यपि यद- नेन हविषा शास्त इति सन्निहिताभिधायि पदं प्रस्तरमभिधत्ते त. थाऽपि न सकलस्य तत्प्रकाशकत्वमस्तीति । भवितव्यं च तु. ती याश्रुतिविनियुक्तस्य सकलस्योपयोगेनेत्याह-'तृतीयानिर्दे. शाचावश्यमुच्चारयितव्यो मन्त्रः(३) । सकल एव क्रियायास्तत्स. म्बन्धिनो वा 'प्रकाशकत्वेनोपकरोति(४) । न चानेन क्रिया वा प्रसिद्धा तत्सम्बन्धी वा प्रस्तरः प्रकाश्यत इत्युक्तम् । 'तस्मा द्यदनेन प्रकाश्यते नत् क्रियया सम्बध्यते । तेन चायुरा- दीनि फलानि प्रकाश्यन्ते । इष्टाश्च देवताः । अत आयुरादीनि फलान्यस्याः क्रियायाः। अग्न्यादयश्च देवताः । न च द्रव्यो. देशमन्तरेण देवता भवन्ति, न चायुरादीनि यागमन्तरेण फला- नि भवन्ति (५)। न हि प्रहरणमात्रस्य संस्कारकर्मणः फलबन्धो युक्तः । यस्मान्न द्रव्योद्देशमन्तरेण देवतान्वयः 'तस्मात्मस्तरः प्रतिपाद्यमानोऽपि(६) द्रव्यता प्रतिपद्यते,' उत्तरार्धवत् । यस्मा दग्न्यादयो देवताः प्रस्तरश्च द्रव्यमायुरादीनि च फलानि, 'त. स्मात् द्रव्यदेवतासम्बन्धेन यजिधातुरनुमीयते फलवान् । हर. तिस्तु(७) श्रुतोऽप्यविवक्षितो निर्वपतिवन्' । एवं प्रहरतिर्यज- (१-७) टु० टी० पृ० २३ । (५) अस्य न्यायस्य व्याख्या प्रथमपादस्थटिप्पण्यां द्रष्टव्या।
४ - शाखाप्रहरणं प्रतिपत्तिः ] चतुर्थोऽध्यायः । १२९ तिरितिसिद्धे पूर्वपक्षमाह-'इह' (१)यागे 'सहभावे(२)' शाखा. प्रस्तरयोः 'श्रुते यत्तृतीयानिर्दिष्टं(३)' शाखाद्रव्यं 'तत्साधक तमत्वेनैव सम्बध्यते । प्रमाणान्तरेण प्राधान्यस्यानवगमात् । (४)यस्य हि प्रमाणान्तरेण' यागं प्रति 'प्राधान्यमवगतं त. दि(५)'ह तृतीयान्तमपि 'क्रियां (६)निर्वतयदात्मार्थमेव निर्व- तयतीति' शक्यं वक्तुम् । तदा हि-यया शाखा पहियते तया सह प्रस्तरमपि प्रहरेदि- तिप्राधान्यापरियागेन तृतीया व्याख्यातु शक्यते । अप्राप्ते तु पा. धान्ये तदनुपपत्तेरेवं वचनं व्याकर्त्तव्यं यत् प्रस्तरं प्रहरन्तीति प्रस्तरसाधनकं यागमुद्दिश्य तत्सहशाखयेतिशाखासाहित्यं तद. ङ्गत्वेन विधीयते । शाखया सह प्रस्तरेण यजेनेति । ततश्च सह- योगे विहितयाऽपि तृतीयया क्रियाङ्गत्वमेवोपदिश्यत इति साध. कतमत्वेनैव तृतीयान्तं सम्बध्यत इति युक्तम् । नत्वियं करणे त. तीया सहशब्दश्रवणात् । अन्ये तु सहशब्दाविवक्षया करणतृतीयामेव पूर्वपक्षे.व. जयन्ति । ननु सहभावात् द्वयोस्तुल्यत्वावगमात् कथमेकस्य प्राधा- न्यमितरस्य गुणत्वमत आह-'क्रियानित्तौ च (७)सहभा- व उपपद्यते' । उपात्तक्रियाविषयं हि साहिसं यजिश्चात्र प्रहरति. नोपात्तस्तेन प्रहरणं प्रति प्रस्तरस्यय प्रधानस्यापि यजिक्रिया. ( १-७) टु० टी० पृ० २३ तन्त्ररत्ने [पादः २-सूत्रम्-१०. निर्वर्तकत्वमस्त्येवेति तेनांशेन साहित्यमिति । ननु किमत्र तृतीयोपन्यासेन ? विभक्त्यन्तरेऽपि हि भूतभव्य न्यायेनैव(१) शाखायाः प्रहरणाङ्गत्वं सेत्स्यतीयत आह-'यदि तृतीया न श्रूयेत'(२) किं तु विभक्त्यन्तरं प्रस्तरेण सह शाखा प्रह- रतीति । ततःसहभावो नास्तीति 'यागं निष्पादयंत्यपि'(३) शाखा 'प्रतिपक्ष्य(४)र्था स्यात्प्रतिपाद्या स्यात्प्रस्तरवत'(५)। प्रस्तरस्य हि द्वितीयासंयोगाद्यागांशे गुणभूतस्यापि प्रहरणांशं प्रति प्राधा. न्यमस्ति नद्वत् । अत(६)आह' भाष्यकार:-(७) सह योगे यत्र त. तीया, तस्य गुणभावो, यत्र द्वितीया तस्य प्राधान्य"मिति कृता. ● सती'(८) शाखा प्रतिपाद्यत इति(९) चेत्'-न खल्वेकस्या. नेकगुणभाव उचित इति । उत्तरं तन्न । कुतः-दर्शपूर्णमास- यो'(१०)रुभयोः 'प्रकरणे श्रवणात्,'(११) उभयांगमिदं सह शा- खया प्रस्तरं प्रहरतीति । ततः किमत आह-'पौर्णमास्यां न(१२)प्रतिपत्ति', शाखायास्तत्राकृतार्थत्वात्, गुणभावस्तूभः यत्रापि संभवतीति । 'प्रस्तरस्तूभयत्रापि कृतार्थ'(१३)स्तेन (१) अस्य न्यायस्य व्याख्या प्रथमपादस्थटिप्यण्यां द्रष्टव्या । (२) टु० टी० पृ० २२ (३-६) टु० टी० पृ० २२-२३ । (७) शबर० पृ० ४७४, टु० टो• पृ० २३ । ८-१३) टु० टी० पृ०२३-२४।
४-शाखाप्रहरणं प्रतिपत्तिः ] चतुर्थोऽध्यायः । तस्य प्रतिपत्तिः, न त्वेवं शाखाया इति। एतच्चातिशयार्थमुक्तम् । कृतार्थाया अपि बलेन गुणभाव उपपादित एव । 'तस्मा(१). द्यत्र तृतीया' शाखायां 'साऽत्यन्तसाधनभूता । न चैकवा'. (२)मावास्यायां 'प्रधानभूताऽपरत्र'(३) पौर्णमास्यां 'गुण- भृते (४) ति युक्तं 'विवक्षाभेदाव'(२) वैरूप्यापत्तेः 'तस्माद्गुणभूतैव शाखा (६)। ( सिद्धान्तमूत्रम्) प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात् ॥११॥ 'हरतौ याभावपि तुल्यौ ततः(७) सहभाव उपपद्यते । यद्यपि मुक्तवाकेन प्रस्तरं प्रहतीत्यत्र प्रहरतिर्यजतिराभिहितस्त. थापि सह शाखया प्रस्तरं प्रहरतीत्यत्र पहरणमा श्रूयते । तेन तदेव प्रति तुल्यत्वं सहभावेन प्रतीयते । 'प्रस्तरस्य च तत्र प्रतिपत्तिरतः शाखाया अपि (८) प्रतिपत्तिरेव । यदि प्रतिप. त्तिस्तर्हि सह शाखया प्रस्तरं प्रहरतीति किमुच्यते शाखा प्रहर- तीयेवोच्यतामत आह-तत्रानियतकाले प्रहरणे प्राप्ते सह प्रहर. तीति विधीयते (९)। शाखा प्रहरतीत्येतावता ह्यनियतकालं प्रहरणं प्राप्नोतीति प्रस्तरकाले प्रहर्तुं सह प्रहरतीति विधीयते । एवं(१०) सति वेदिविरेचनार्थ प्रतिपत्ते रपेक्षितत्वान्नादृष्टकल्पना कृता'(११) भवति । प्रहरणांगत्वे त्वदृष्ट कल्प्येत । न हि प्रहरणे शा. (१-८) टु० टी० '० पृ० २३-२४ (९-११ ) टु० टी० पृ. २४ ।
१३२ तन्त्ररत्ने [ पादः २-सूत्रम् ११. खायाः सूक्ष्ममपि कि विददृष्टमस्ति । यदि तु प्रस्तरमहरणकाले शाखापहरणं विधीयते नर्हि प्रस्तरेण सह शाखा प्रहरतीति स्यात् । न तु सह शाखया प्रस्तरं प्रहरतीति तत्राह-'अतो न विवक्षिता तृतीया'(१) । यदा हि सहशब्दात् दृष्टार्थत्वाच्च प्रति. पत्तिरितिस्थितं तदार्थादविवक्षिता तृतीया । 'तस्मादन्या(२). द्वितीया लक्ष्यते । प्रस्तरमित्यपि 'द्विनाया तृतीया लक्षणार्थैवे'. (३)त्याह -'पहियमाणयोश्च यन्त्रिात कालं तदितरस्या' (४)नि. ज्ञातकालस्य 'कालं प्रयच्छद्वस्तुतो गुणभूत (५)। कथं पुनस्तदि- तरस्य कालं प्रयच्छतीत्याह-~~-'क्रियायास्तुल्यत्वात् (६)। तुल्य. क्रियायोगिनोर्हि य एकस्य कालः स एवेतरस्थापि भवतीति । 'प्रस्तरश्चात्र निज्ञातकाल'(७)स्तेनासौ शाखायाः काल भदा. नेन गुणभूत इति तत्रापि तृतीया द्रष्टव्या। तेनायमर्थः-प्रस्त. रेण सह शाखां प्रहरतीति एवं प्रतिपत्तित्वसाधनेन पर्यवसि. तेऽधिकरणे प्रतिपाद्यापि शाखा प्रस्तरवद्यागे गुणभूता उत नेति जिज्ञासायामाह-'अनयोश्च पहरण(८) एवं साहित्यं नानु. मिते यागे' । कुतः (९) शाखायास्तत्रावणात्। न हि यागे शाखा श्रूयते । न च शाखापहरणस्य सूक्तवाकोऽगं यतो मंत्रव. देवतामाप्तिः स्यात् । ननु प्रत्यक्षमेव मूक्तवाकमुच्चार्य प्रस्तरवत् शाखाऽपि प्रक्रियते तत्कथमसौ न यागमाधनमत आह-'प्रत्यक्षेण (१-8) टु० टी० पृ० २४ (२) अत्र मुद्रितपुस्तके 'अनया' इति पाठः ।
५-निनयनस्य प्रतिपत्तिकर्मताधिकरणम् ] चतुर्थोऽध्यायः । १३३ प्रदीयमानेऽपि प्रदाने'(१) क्रियमाणेऽपि 'यथा मैत्रावरु. णे'(२) ग्रहे पयसा मैत्रावरुणं श्रीणातीति विहिते संस्कारे मिश्रीभूतं पयः प्रयक्षेण हूयमानमपि न यागसाधनं'(३) शक्यं हि सह प्रक्षिप्यमाणयोरप्योकवर्जमितरदेवतायै मनसा संकल्पयितुम् । एवं शाखा प्रहरतिना सम्बध्यमानाऽपि(४) नैव यागस्य साधिकेतिसिद्धम् । ५-निनयनस्य प्रतिपत्तिकर्मताधिकरणम् । ( पूर्वपक्षसूत्रम् ) उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्वि- भागः(५) स्यात् ॥१४॥ 'शुद्धाः (६) केन चिदपि प्रयोजनेनासंयुक्ताः 'प्रणीता उ. त्पन्नाः । कैमयभिलाषिण्यो (७)वाक्यद्वयेन'प्रणीताभिईवींषि संयौति। अन्तर्वेदिप्रणीतानि नयतीतिचानेन 'संयवननिनयने प्रपोजने प्रति नीयन्ते (८) । तेनोभयार्थत्वा(९) दुभयमयुक्ता इति ॥ 'ननु संयवने तृतीयानिर्देशात् गुणभावः' (१०)प्रणीतानामत. (१) लेखपुस्तके 'प्रदाने' इति पाठो नास्ति । (२-१०) टु० टी० पृ. २४ । (५) मुद्रितटुप्टीकाग्रन्थे 'विभाग'स्थाने 'विकार' इति पाठः। (८) अत्र 'न तूभयप्रयुक्ता' इत्यधिकः पाठः पाठशालीयपुस्तके । 'प्रयोजने' इति पाठो लेखपुस्तके न दृश्यते ।
१३४ तन्त्ररत्ने [ पादः२-सूत्रम्-१४. स्तदेव प्रयोजकम् 'निनयने तु द्वितीयानिर्देशात् प्राधान्य' (१) मासां न च गुणेन प्रधानं प्रत्योक्तुं शक्यमित्येप्रयोजकं निनयनम्- 'उच्यते। वचनान्तरेणा'न्यत्र 'शेषभावे (२) पूर्व'मवग. ते'(३) सति पश्चादन्यत्र संयोगे सति भवति प्रतिप. त्तिः (४) । तत्र हि द्रव्यं कृतार्थ भवति 'यथा स्विष्टकृत्'(५) । तत्र हि सकलस्य पुरोडाशद्रव्यस्याग्नेययागार्थस्य सतः पश्चात् विष्टकता संयोगः कृतार्थस्य भवतीतियुक्ता प्रतिपत्तिः । तथा च प्रतिपत्तिलक्षणं करिष्यते-उत्पत्तौ येन संयुक्तं तत् तदर्थ श्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् पतिपत्तिः स्यादिति । इह तूत्पत्ती प्रयोजनासंयुक्तानां परस्परानपेक्षेण वाक्यद्वयेन नोभयत्र विनियोगात्रैकत्रापि कृतार्थसंयोग इति न प्रतिपत्तिः । किं च केवलं 'संयवनार्थानां च तावतीनामेव ग्रहणं (६)प्राप्नो. ति, यावतीभिः संयवनं निष्पाद्यते, कुतोऽन्यत्र प्रसङ्गः' । तेन केवलसंयवनार्थत्वे तत्रैव क्षीणानां न नियमेन प्रतिपत्तिः संभ. वतीति 'उभयप्रयुक्ताभिः(७) उभयं निर्वर्तनीयम्' । तत्र युक्त- मधिकानां ग्रहणम् । तस्मादुभयप्रयुक्ता इति । ननुत्पत्त्यसंयोगादाज्यवाद्विभाग(८) इति सूत्रात् धौ. वस्येवाज्यस्य प्रणीतानां सर्वार्थत्वप्रतिज्ञानं गम्यते तत्कथ- मुभयार्थत्वमुच्यतेऽत आह-'सर्वार्था इति पक्षो न(९), कुतः, (१-९) टु० टी० पृ० २४ । (७) अत्रलेखपुस्तके उभयप्रयुक्तासु तूभयं निर्वहँ मिति पाठः । (८) मी० सू० १४ ।
५-निनयनप्रतिपत्तिकर्मताधिकरणम् ] चतुर्थोऽध्यायः । १३५ निष्प्रमाणकत्वात्' । तत्र प्रमाणस्याभावात् । ननु प्रमाणं प्रकरणं स्यादत आह-'श्रुतवाक्येना'(१)पां- 'सम्बन्धे विशेष प्रत्यवगते सति प्रकरणादश्रुतं(२) सर्वाङ्ग त्वं कल्प्यम्'-तच्चायुक्तम् । किं च 'कल्प्यमानेऽपि'(३) प्रकरणात् सर्वार्थत्वे संयवन निनयनयोरपि 'प्रकरणसम्बन्धात्तत्र(४) चान्यत्र च प्राप्ताः' प्रणी- ताः 'पुनः'(५) संयवननिनयनयो वचना' (६) दन्येभ्यः प. रिसंख्यायेरन् । तस्मात्सर्वार्थपक्षो दुश्लिष्ट'(७)। (सिद्धान्तसूत्रम् ) संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात्॥१५॥ 'तृतीयासामर्थ्यासंयवनातेव'(E) | निनयनं तु द्विती याश्रुत्या तासां संयवनेन कृतार्थानां प्रतिपत्तिः। यत्तु परस्परानपेक्षत्वात् वाक्ययो.कसंयुक्तानामितरसं- योग इति तदयुक्तम् । निनयनं तावत् द्वितीयाश्रुतिसाम- दिपां संस्कारकमेवावगम्यते । तच्च यदि कथं चिदप्यपां प्राधान्यं सक्तुवन्न संभवति ततोऽन्यथा क्रियेत । संभवति तु ( १-२ ) अत्र लेखपुस्तके 'श्रुतवाक्येनापां सम्बन्धेऽवगते प्रकर णादश्रुतमंगत्वं कल्प्या मित्थं पाठो दृश्यते। (३-७) टु० टी० पृ० २४ । (८) टु० टी० पृ० २५॥
तन्त्ररत्ने [पादः २-सूत्रम्-१५. न तासां संयवनोपयोगित्वात् संस्कार्यत्वमिति श्रुत्यवगतसंस्कार्य स्वासिध्यर्थं संयवनसम्बद्धानां निनयनमिति गम्यते । उत्पत्ती येन संयुक्तमित्यत्र तु प्रतिपत्तिलक्षणे प्रदर्शनार्थमुत्पत्तिग्रहण. मन्यत्र कृतार्थानामन्यत्र गमनं प्रतिपत्तिरियर्थः । यत्तु तावतीनामेव ग्रहणं प्राप्नोतीत्युक्तं तत्राह-'न च ता. वन्मानं शक्यमुपकल्पयितुं, सूक्ष्पमिदं द्रव्यमवश्यमतिरिच्यते । तस्मादतिरिक्तस्य प्रतिपत्तिः । न त्वतिरेचयितव्यमितिशास्त्र- मस्ति'(१)। यदि ह्यतिरिक्तोत्पत्तिः शास्त्रीया स्यात्ततः प्रतिप. त्यर्थं द्रव्यं नोत्पादयितव्यमिति निनयनमर्थकर्म स्यात् । स्वेतदस्ति । ननु यदि तावन्मात्रमुपकल्पयितुं न शक्यं तथा सत्यल्पं गृ. ह्यतां किमित्यतिरिक्तं गृह्यतेऽत आह-'अतिरेकश्चावश्यम्भा. वी'(२)। कुतः 'अल्पे हि गृह्यमाणे संयवनस्याकृतत्वात् पुनः प्रणीतानां संस्कारः कर्तव्य इति गौरवमापद्येत' । पात्रासाद. नानन्तरं विहितस्य संस्कारस्य संयवनकालेऽनुष्ठानात्क्रमभ्रषाच प्रायश्चित्तं'(३) प्रसज्येत । तस्मादधिकानां ग्रहणात् संयवने कृ. तेऽवशिष्टानां निनयनं प्रतिपत्तिरिति सिद्धं न प्रयोजकत्वम् । ये तु प्रयोजनत्वाविशेषेऽपि दृष्टादृष्टयोदृष्टमेव प्रयोजक संगिरन्ते तेषां संयवनस्य हविरुत्पादकत्वेन दृष्टार्थत्वात्तस्यैव प्रणीताप्रयोजकत्वम् । निनयनस्य त्वर्थकर्मत्वेऽप्यदृष्टार्थत्वान्न (१-२) टु० टी० पृ० २५ । (३) अत्र लेखपुस्तके 'क्रमान्यत्वे च प्रायश्चित्त मिति पाठः।
६-दण्डदानस्यार्थकर्मताधिककरणम् ] चतुर्थोऽध्यायः। १३७ प्रणीताप्रयोजकत्वं प्रसज्यत इति व्यर्थ प्रतिपत्तित्वसाधनामि- त्यनारभ्यामिदमधिकरणं स्यादिति । ६ दण्डदानस्यार्थकमताधिकरणम् । पूर्वपक्षसूत्रम् । प्रासनवनमैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् ॥१६॥ अत्राधिकरणे प्रयोजकाप्रयोजकत्वं विचार्यते । अधिकरणा. न्तरे तु कृष्णविषाणायामपि । सोमलिप्तप्रभृतिषु तु प्रागातिथ्या वहिर्विचारान्न प्रयोजकाप्रयोजकत्वं विचार्यते । यद्यपि नियम विधिव्युत्पादने फलतः प्रयोजकाप्रयोजकत्वमास्ति तथाऽपि सोमलिप्तादिषु बहुषु नास्तीत्याशंक्य सर्वेषां संगतिमाह-दा- नस्य मैत्रावरुणः प्रयोजकः'(१)। कृष्णविषाणायां तु न प्रासन प्रयोजकम् । 'कृष्णविषाणा चात्वाले प्रतिपाद्यन' (२) इत्युक्ते 'म तिपत्तिपसंगेनोपरितनी चिंता'(३) । किं सोमलिप्तानामव. भृथगमनं प्रतिपत्तिरुतार्थकम्र्मेति । नन्वत्र प्रयोजकाप्रयोजकत्वमेव संभवति । अर्थक- ममत्वे प्रयोजकं प्रतिपत्तित्वे तु नेति तत् किमितिमासंगिकी संगतिरुच्यते-- तदुच्यते-नात्र प्रयुक्तिविचारः सम्भवति । अर्थकम्मत्वेऽपि हि 'यत्किं चित् सोमलिप्तं तेनावभृथमभ्यवयन्ती'त्यर्थाभिधानक- (१-३) टु० टी० पृ० २५ । १८ तन्त्ररत्ने [ पादः २- सूत्रम्-१७. . मत्वात्तुषोपचापदप्रयोजकमे बावभृथं सोमलिप्तानां तद्धारणं तु भूतसंयोगाश्रयणात् प्रयुज्येत । तत्तु प्रतिपत्त्यापि प्रयुज्यत एवेत्युक्तम् । अतः प्रासंगिक्येव सङ्गतिः । तत्र प्रतिपत्तिरिति वदता 'देशार्थावभृथश्रुति(१) रित्युक्ते 'देशसम्बन्धात्' देशप्रसङ्गा- द'न्योऽपि देश:(२)' समादिमनसि 'विपरिवर्त्तमान(३) स्त. समानन्यायश्च काळः कर्ता'च चिंत्य ते किमन्यते नियम्यते इति नियमप्रसङ्गेन तथोत्तरे (४)अधिकरणे अवतरतो गुण. संस्कारयोरपि नियम एवेति' । संस्कारप्रसङ्गेन च यागादि. निरूपणमित्याह-'करणद्रव्यं संस्कुर्व(५)'दवघातादि'तेन' कर न 'सम्बध्यते' तरूप करणस्य 'रूपं नाख्यायते ६), कीड- शेन व्यापारेण करणमनुष्ठितं भवति' यस्य द्रव्यमवघातादिना संस्क्रियते। 'इत्यनेन प्रसङ्गेन यागनिरूपणमायातम् । एवं जुहो. तावपि(७)' । अपि शब्दाद्ददातावपि । एवं सङ्गतिमुक्त्वा प्रस्तुतमधिकरणं व्याख्यायते । तत्र द्विायासंयोगाद्यजमानधारणेन च दण्डस्य कृतार्थत्वात् प्रति- पत्तिरेव मैत्रावरुणाय दानमिति पूर्वपक्षः स्पष्टः । ( सिद्धान्तसूत्रम्) अर्थकर्म वा कर्तृसंयोगात्स्रग्वत् ॥ १७॥ (१-५) टु० टी० पृ० २५ । (६) अत्र मुद्रितपुस्तके 'रूपमाख्यायते' इत्येव पाठोऽस्ति । (७) टु० टी० पृ० २५ ६-दण्डदानस्यार्थकमताधिकरणम् ] चतुर्थोऽध्यायः । - 'दण्डो व्याप्यमानः क्रियया शब्देनैव मैत्रावरुणार्थ उप- दिश्यते(१)' । सम्प्रदानविभक्त्या क्षेत्रावरुणस्य ददातिक्रिया- कर्मणा दण्डेनाभिप्रेर्यमाणस्य तमपि प्रति प्राधान्यावगमात् । ननु द्वितीयासंयोगात् दण्डार्थमेव दानं स्यादत आह- 'या च द्वितीया दण्डमिति, साऽपि न प्राधान्येनेप्सितार्था, किं तर्हि व्याप्यमानतया(२) । कुतः ? 'मैत्रावरुणो हि तत्र प्रधा. नभृतः(३) । न हि द्वितीयायास्तादर्यमर्थः । किं तर्हि साध्य तामात्रं तत्र साध्यान्तराभावे तदेव परं साध्यं शेषि स्थादिह तु मैत्रावरुणस्य प्राधान्यमवगम्यते इति व्याप्यतामात्रमेव दण्डस्य न प्राधान्यं, अत आह भाष्यकार:-'तथायुक्तं चानीप्तित- मिति द्वितीया भविष्यतीति(४) । सक्तुष्वऽपि तर्हि किमित्यनी. प्सितार्थद्वितीयैव नोक्ता किमिति तव विभक्तिव्यत्यय इत्युक्तम् । तथायुक्तत्वाभावादिति चेत्-कथमभावः । यावता जुहोतेस्त्या. गविशिष्टप्रक्षेपार्थत्वे तदुपाधिकत्यागाभिधायित्वे वा प्रक्षिप्य. माणानां त्यज्यमानानां वा सक्तूनामस्त्येव तथायुक्तता। तस्मा. च्छब्दशक्तिवैचित्र्यमेवात्रोत्तरम्। यथा क्रियावाचित्वाविशेषेऽपि चलतिगच्छत्योश्चलतिः कर्मनिष्ठत्वेन क्रियानभिधानादकर्मकः। गच्छतिस्तु तन्निष्ठक्रियामभिदधत् सकर्मकः तथा जुहोतिस्त्या. गप्रक्षेपवाच्यपि कर्मनिष्ठतया क्रियां नाभिधत्त इत्यकर्मकः । (१-३) टु० टी० पृ० २५ । (४) शबर० पृ० ४७६, टु०टी०पृ० २५। पाणिनीयसूत्रम्१-४-५ १४० तन्त्ररत्ने [ पादः २-सूत्रम् १८. ततश्च सक्तूनां कर्मकारकत्वेन सम्बन्धायोगात् तृतीयार्थे द्विती येत्युक्तम् । यच्छतिस्तु सकर्मक इति दण्डस्यानीप्सितकर्मत्वमभिः हितमित्य नवयम् । उपसंहरति-'तस्मान्न दण्डः प्रधानभूतः(१)। ननु प्रतिपत्तित्वे दृष्टार्थता स्यात् , मैत्रावरुणार्थत्वे वहः टार्थ दण्डदानं स्यादत आह 'न च दण्डदानमदृष्टाय, तमो. वगाहनादिषु दृष्टायैव(२) । कर्म कुर्वाणस्य हि रात्रिपचारादिषु तमोरगाहनात् भादिनिवारणात् । स्थित्वा च प्रैषादि ब्रुवाणस्या- ऽऽलम्बनत्वाइण्डेन महान्मैत्रावरुणस्योपकारः क्रियते । तस्मात् दण्डस्य मैत्रावरुणः प्रयोजक इसग्नीषोमीयविकारेषु निरूढप. शुषु दीक्षाभावेऽपि मैत्रावरुणार्थ दण्डधारणं कर्तव्यम् । अत्र न दण्डधारणप्रयोजकत्वं मैत्रावरुणस्योच्यते । प्रतिपच्यापि तत् प्रयुक्त्यविशेषादिति तत्र तत्रोक्तमेव । अतो दण्डस्यैव प्रयोज- कस्तथा चार्थे समवैषम्यमित्यत्र भाष्यकारेणोक्तं दण्डस्य मैत्रा. वरुणः प्रयोजक इति । कर्मयुक्ते च दर्शनात् ॥ १८ ॥ 'दण्डी प्रैषानन्वाहेति अनूयते(३)' दण्डित्वं, अतः 'तेन प्रचरतो (४)दण्डप्राप्तिं दर्शयति । प्रतिपत्तित्वे न तस्य धारणं (१) टु० टी० पृ० २५ । ( २-४) टु० टी० पृ० २५-२६ । ४) अत्र 'दण्डं दर्शयति यदि प्रतिपत्तिर्न तस्य धारणम्भवेत्' इति लेखपुस्तकपाठः । (४) अत्र मुद्रितपुस्तके 'दण्डे दर्शयति' इत्येव पाठः ।
६-दण्डदानस्यार्थकमताधिकरणम् ] चतुर्थोऽध्यायः। १४१ . E भवेत्', दानपात्रेण कर्त्तव्यस्य कृतत्वात् । 'अथार्थकर्म तता ध्रियमाणस्य(१) दण्डस्यानुवाददर्शनमुपपद्यते इति परेण सम्ब न्धः । कुतस्तस्य ध्रियमाणत्वमियाशंक्याह-प्रकरणाविशेषात् यद्यत्क्रियते(२) मैत्रावरुणेन 'तत्त(३) सर्व 'दण्डसंयुक्त न(४)' कर्तव्यमिति हेतोः । तस्मात्सर्वत्र दण्डभावादनुवादद शनमुपपद्यते(८) । 'नन्धरुणाधिकरणे दण्डविधानमुक्तमुपसर्जनार्थो विधीय. त(६)' इत्यनेन भाष्येण तत्कथमिह दण्डानुवादोऽभिधीयते । पूर्वापरविरोधो वेवं स्यादिति- 'उच्यते-प्रकरणात्सर्वार्थ(७) दण्डित्वं प्राप्तं प्रैषानु. वचनयोर्निर्दिश्यते(८)' उपसंहियत इत्यर्थः । 'एवं(९)' सति 'नास्ति(१०)' पूर्वापर विरोध(११) स्तदेव व्यनक्ति- 'दण्डानुवादोऽपि घटते(१२)' प्रकरणात प्राप्त नियमविधा. ना(१३) त्तदुपसर्जनार्थविधानमप्य(१४) रुणाधिकरणोक्तं घ. टते एव । उपसंहार एवान्यनिवृत्तिसाम्यान्नियम इत्युक्तम् । न ह्यत्र प्रकरणादनियमेन प्रैषानुवचनयोरन्यत्र च दण्डः प्राप्नोति यतो नियम्येत । किं तु प्रकरणादविशेषेण प्राप्यमाणो वचनेन विशेष (१-५) टु० टी० पृ० २६ । (६) अरुणाधिकरणे भाष्ये पृ० २१५-२२४ द्रष्टव्यम् । (७-१४ ) टु० टी० पृ० २६ ।
१४२ तन्त्ररत्ने [पादः२-सूत्रम्-१९. उपसहियते । यथा पुरांडाशं चतुर्धाकरोतीत्यनेन । तत्सिद्धं मैत्रा. वरुणः प्रयोजक इति । पूर्वाधिकरणे आशङ्कानिरासः। ७-प्रासनस्य प्रतिपत्तिकर्मताधिकरणम् । १)उत्पत्ती येन संयुक्तं तदर्थ तत् , श्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् ॥१९॥ अधिकरणान्तरं वा युक्तं प्रणीतानां संयवनैककार्यत्वात्त. स्मिन्निवृत्ते कृतार्थत्वान्निनयनं प्रतिपत्तिरिति । इह तु क्रत्वन्तः- पाति सकलं कण्डूयनं कृष्णविषाणया कार्यमविशेषादतः सर्वस- माप्तेः प्रागकृतार्था विषाणा न प्रतिपत्त्यही । अतः चात्वाले मा सनं न प्रतिपत्तिः किंवकर्मातः प्रयोजकं प्रासनं कृष्णवि. पाणाया इति प्राप्तेऽभिधीयते-द्वितीयासंयोगात् प्रतिपत्तिरेव । कृतार्थत्वं तु प्रागपि। कण्डूयनसद्भावात् । पश्चादपि संभवतीति चेत्-को दोषः । न तु तस्य विषाणांगं प्रतिपत्तिविधानात् द्वि- तीयाश्रुया च सिद्धं प्रतिपत्तित्वं प्रासनस्य । तस्मात् न प्रयो. जकं प्रासनमिति सिद्धम् । अथवोत्पत्ती येन संयुक्तं तत्तदर्थ श्रुतिहेतुत्वात्तस्यार्थान्त रगमने शेषत्वात् प्रतिपत्तिः स्यादितिसूत्रे प्रतिपत्तिमात्रगतन्याया. भिधानात् तन्मात्रमत्रोदाहरणम् । तथा च प्रथमसूत्रेऽभिहित. (१) सूत्रमेतटुप्टीकाकारैर्न व्याख्यातम् ।
- ८-अवभृथगमनस्य प्रतिपत्तिः ] चतुर्थोऽध्यायः । १४३ मिडापाशित्रचतुर्धीकरणशंयुवाककालभक्ष्यरूपशेषकार्याणामुत्प- तौ येन संयुक्तमिसनेन प्रतिपत्तित्वस्य स्थितत्वादिति । अ. नेन हि सर्वशेषकार्याणां प्रतिपत्तित्वमिहत्यपिति दर्शितम् । ननु तृतीय एवैषां प्रतिपत्तित्वं सिद्धमप्रयोजकत्वादेकस्मात् क्रियेरन् सर्वेभ्यो वा कारणविशेषादिति-न । तत्र सर्वप्रदाना धिकरणप्रयोजनमात्रकथनात् । तत्र कार्योपयोगित्वात् संस्का. यस्य कृतकार्यस्य न संस्कारार्हता तस्मात्सर्वाः प्रतिपत्तयो. ऽर्थकर्मेति- अत्राभिधीयते-कृतकार्येऽपि द्रव्येऽस्त्येव प्रतिपत्ति. विशेषापेक्षा किमिदं देशान्तरं नेय मुतोपेक्ष्यमुत यथेष्टमुप. योज्यमिति तत्र प्रासन भक्षणादिप्रतिपत्तिविशेषनियमविधियुक्त एवान्यथानपेक्षितविधानप्रसंगात् । न चानुपयोगित्वं प्रतिपत्ति. बलादेव कृतस्यापि कार्यस्य तल्लोपे विपत्तिः कल्प्यते । त. स्मादेवंजातीयकं प्रतिपत्तिकर्मेति सिद्धम् । ८ अवभृथगमनस्य प्रतिपत्तिकर्मताधिकरणम् । (सिद्धान्तसूत्रम् ) (१)सौमिके च कृतार्थत्वात् ॥ २० ॥ ( पूर्वपक्षसूत्रम् ) (२)अर्थकर्म वाऽभिधानसंयोगात ॥२१॥ ( १-२) सूत्रद्वयश्चैतटुप्टीकाकारैर्न व्याख्यातम् ।
तन्त्ररत्ने [ पादः २-सूत्रम्-२२. अवभृथशब्देन प्रकृतस्य कर्मणः श्रुत्याभिधानादेशलक्ष- णायाश्चान्याय्यत्वात्तस्य चार्थकर्मत्वेन सिद्धस्य संस्कारकर्म- स्वानुपपत्तेर्द्वितीयया च प्राधान्यावगमात् कृतार्थानां सोमलि. तानां तृतीयाश्रुत्याऽवभृथं प्रति गुणत्वमेव युक्तमिति । ( उत्तरपक्षसूत्रम् ) प्रतिपत्तिा तन्न्यायत्वात देशार्थाऽवभृथश्रुतिः॥२२॥ 'तेनावभृथं यन्तीत्यनेन सोमलिप्तावभृथयोः सम्बन्धः (१) पूर्वपक्ष'विधीयते । तत्र सोमलिप्तं वावभृथार्थमवभृथो वा सोम लिप्तार्थो द्वयमप्येतत् न घटते (२)। कथम् ? यदि'(३) तावत् 'सा. धनत्वेन सोमलिप्त (४)मवभृथार्थ 'तत्र'()पक्षे वारुणेनैककपाले. नावभृथं यतीत्युत्पत्तिवाक्यशिष्टेनै ककपालेन बाध्यते । अथ सोमलिप्तं संस्कर्त्तव्यमवभृथः संस्कारकस्तथाऽपि यागं (६)नि. वर्तयत् द्रव्यं संस्कार्यतां प्रतिपद्यते' । संस्कार्यस्यापि निर्वर्तक स्वमवश्यंभावीति । ततः किमत आह–'निर्वर्तनवेलायां चै. ककपाल (७)स्तद्धित श्रुतिप्राप्तो विद्यत एव'(८)। तेनार्था- तुल्यार्थतया सोमलिप्तानां बाधः । 'किंचा'(९)यमपरः संस्कार्यत्वपक्षे दोषः-'पुरोडाशेन क्रियमाणो'(१०)ऽवभृयो 'निर्वय॑त्वात् प्रधानभूतः । सोमलिप्त तु'(११) प्रधानं 'संस्कुर्वाण'(१२)ऽवभृथो 'गुणभूतः। न चैकस्य कर्मणो गुणत्वप्राधान्ये युक्ते (१३) नैकस्य संस्कारकम्मैत्वमा (१-१३) टु० टी० पृ० २६ THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS. Edited by GOPINATH KAVIRAJ, M. A. No.1--The Kirunavali Bhāskara, a Commentary on Udayana's Kiranavali, Dravya section, by Padmanābha Miśra. Ed.with Introduction and Index by Gopinath Kaviraj, M.A. Rs. 1-12 No. 2-The Advaita Chintāmaņi, by Rangoji Bhatta, Ed, with Introduction etc. by Narayana S'āstri Khiste Sahityāchārya. Rs. 1-12 No. 3-The Vedānta Kalpalatıkā, by Madhusūdana Sarasvati. Edited with Introduction etc. by Rāmājñā Pāndeya Vyākaranáchäryn. Rs. 1-12 No. 4-Tho Kusumānjali Bodhani, a Commentary on Udayana's Theistic Tract, Nyāya Kusumāñjali, by Varadarāja. Ed. with Introduction etc. by Gopinath Kaviraj, M.A, Rs. 2-0 No.5--Tho Rasasāra, a Commentray on Udayana's Kiraņāvali, Guņa Section, by Bhatta Vādindra. Ed. with Introduction etc. by Gopinath Kaviraj, M.A. Rs. 1-2 No.6-(Part I)-Tho Bhāvanā Viveka by Mandana Miśra, with a Commentary by Bhatta Umbeka. Ed, with Introduction etc. by M.M. Ganganatha Jlā, M. A., D. Litt. Rs. 0-12 No. 6-(Part II)-Ditto Ditto Rs. 0-12 No.7-(Part I)-The Yoginīhrdaya dipikā, by Amrtānanda Nātha, being a Commentary on Yoginihțdaya, a part of Vāmakeśvara Tantra. Ed,with Introduction etc. by Gopinath Kaviraj, M.A. Rs. 1-8 No 7-( Part II ) Ditto Ditto Rs, 1-4 No. 8-The Kávyadākini, by Gangānanda Kavindra. Ed, with Introduction etc. by Jagunātha S'ästri Hoshing Sāhityopādhyāya. Rs. 0-10 No. 9-(Part 1)-The Bhakti Chaudrikā, a Commentary on Sanàllya's Bhaktısūtras, by Nārāyana Tirtha. Ed.with i PrefatoryNoto by Gopinath Kaviraj,MI. A. Rs. 0-15 No. 10-(Part I)-The Siddhāntaratna, by Baladeva Vidyābhūşaņa. Ed. with a Prefatory Note by Gopinath Kaviraj, M.A. Rs 1-2 No. 10-(Part II)-Do. Do. Rs. 2-12 No. 11-The S'ri Vidyā Ratna Sūtras, by Gaudapāda, with a Commentary by Sankarāranya. Ed. with Introduction etc. by Nārāyaṇa S'āstri Khisto Sāhityāchārya. Rs. 0-9 No. 12-The Rasapradipa, by Prabhākara Bhatta. Ed. with Introduction etc. by Nārüyaņa S'āstri Khiste Sāhityāchārya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with Introduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14-The Triveņıkā, by Aśādhara Bhatta. Ed. with Introduction by Batukanātha S'armā Sāhityopādhyāya, M. A. and Jagannatha S'ästri Hoshing Sāhityopådhyāya. Rs. 0-14 No. 15-(Part I)-The Tripurārahasya, (Jnāna Khanda) Ed with a Prefatory Note by Gopinath Kaviraj, M.A. Rs.0-14 No. 15- Part-II )---Do. Do. Rs. 2-4 No. 13- Part III -Do, Do. Rs. 2-0 No. 16-The Kávya Vilāsa, by Chiranjiva Bhattāchārya. Ed. with Introduction etc. by Batukanātha S'armā Sāhityopādhyāya, M. A. and Jagannātha S'ästri Hosing Sāhityopādhyāya. Rs. 1-2 No. 17-The Nyāya Kalikā, by Bhatta Jayanta. Ed. with Introduction by M. M. Gangånātha Jhä, M. A., D. Litt. Rs 0-14 No. 24-The S'ri Rāmatūpiniyopanişad with the Commentary called Rāana Kāśikā in Pūrvatāpini and Anandanıdhi in Uttaratūpini by Auardavana. Fd, with Introduction etc. by Inantarima Sastri Vetāla Sāhityopādhyāya, Post-Achārra Scholar, Govt. Sanskrit College, Denares, with a Foreword by Pandit Gopi Nátha Kavirāja, M. A., Principal, Governmont Sanskrit College, Benares. Rs 3-12 No. 25-The Săpiņdyakalpalatikā by Sadāśivadeva alias Apadova with a commentary by Nārāyana Deva, Edited with Introduction etc, by Jagannātha S'āstri Hośinga, Sāhityopadhyāya, Sãdholal Research Scholar, Govt. Sanskrit College, Benares Rs 1-4 No. 26-The Mryāňkalekhā Nātikā by Visvanatha Deva Kivi. Editod with Introduction etc. by Narayana Sastri Khiste Sahityācharya, Asst. Librarian, Governmont Sanskrit Library, Bonares. Rs. 1-0 No. 27--The Vidvachcharita Panchakam By Nārāyana Sastri Khiste, Sāhityacharya. Assistant Librarjan, Govt. Sanskrit College, Library, Sarasvati Bhavana, Benares. With an Introduction by Gopinath Kaviraja, M. A., Principal, Govt. Sanskrat College, Benares. Rs 2-0 ATO. 28--The Vrata Kos'a by Jagannātha S'āstri Hosingā Sāhityopādhyāya, late Sadlolal Research Scholar, Sanskrit College, Benares. With a Foreword by Sri Gopinātha Kaviraja, M.A., Principal, Govi. Sanskrit College, Benares. RS 4-0 No. 29-The Viritti dipikā By Maunı Sri Krsna Bhatta. Edited with Introduction etc. by Et. Ganyadlara Sastri Bharadvaja Professor, Govt. Sanskrit College Benares. No. 30--The Padārthu Mandanain By Sri Venidatta Edited with Introduction etc by Fandit Gopāla S'āstri Nene, Professor, Govt. Sanskrit College, Benares. No. 31 ( Part I)-The Tantraratna by Pârthi Sarathi Mis'ra, Edited by M. M. Dr. GanganathJha, M.A., D. Litt, Vice-Chancellor, Allahabad University, Allahabad.
THE PRINCESS OF WALES SARASVATI BHAVANA STUDIES: Edited by GOPINATH KAVIRAJ, M. A. Vol I (a) Studies in Hindu Law (1): its Evolution, by Gangānātha Jhā. (b) The View-point of Nyāya Vaiſeșika Philosophy, by Gopi nath Kaviraj. (c) Nirināņa Kāya, by Gopiath Kaviraj. Rs. 1-12 Vo] TI (a) Paraśurāma Miśra alias Vāni Rasāla Rāya, by Gopinath Kaviraj. (b) Indox to S'abara's Bnāsya, by the late Col. G. A. Jacob. (c) Studies in Hindu Law (2):-its sources, by Gangānäth Jha (d) A New Bhakti Sūtra, by Gopinath Kaviraj. (c) The System of Chakras according to Gorakşa nātha, by Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. 19) Hindu Poetics, by Batuka nātha S'armā. (h) A Seventeenth Century Astrolabe, by Padmākara Dvivedi (i) Some aspects of Vira S'aiva Philosophy, by Gopinath Kaviraj (1) Nyāya Kusumāñjali ( English Translation ), by Gopinath Kaviraj. (k) The Definition of Poetry, by Nārāyaņā S'ästri Khiste. (1) Sondala Upādhyāya, by Gopinath Kaviraj. Rs. 5 Vol. III- (a) Index to S'abra's Bhāșya, by the late Col. G. A. Jacob. (b) Studies in Hindu Law (3): Judicial Procedure: by Ganganātha Jha. (c) Theism in Ancient India, by Gopinath Kaviraj. (d) History and Bibliography of Nyāya Vaišeșika Literature, by Gopinath Kaviraj. (e) Naisadha and Sri Harsa by Nilakamala Bhattāchārya. (f) Indiau Dra naturyy, by P. N. Pălalikar, Rs. 5 Vol. IV (a) Studies in Hindu Law (4): Judicial Procedure: by Ganga natha Jha (b) History and Bibliography of Nyaya Vaišesika Literature, by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda-Prātisakhya, by Kangala Deva S'āstri. (d) Nārāyaṇa's Ganita kaumudi, by Padinakara Dvivedi. (0) Food and Drink in the Ramayanic Age, by Manmatha natha Roy (f) Satkaryavāda. Causality in Sänkhya, by Gopinath Kaviraj (9) Discipline by Consequences, by G. L. Sinha. (h) History of the origin and expansion of the Aryans. by C. Ganguly. (i) Punishments in Ancient Indian Schools, by G.L. Sinha. Rs 5 Vol. V (a) Ancient Home of the Aryans and their migration to India, by A. C. Ganguly. (b) A Satrap Coin, by Shyamalal Mehr. (c) An Estimate of the Civilisation of the Vanaras as depicted in the Ramayana, by Manmatha nātha Roy. (d) A Comparison of the Contents of the Rgveda, Vajasanesa, Tait tiriya & Atharvaveda Prātıšakhyas, by Mangala Deva S'astii, (0) Formal Training and the Ancient Indian Thought, by G.L Sinha. (f) History and Bibliography of Nyaya Vais'eşıka Literature, by Gopinath Kavirāj. (g) A Descriptive Index to the names in the Ramayana, by Kanmatha näth Roy. (h) Notes and Queries, (1) Virgin Worship, by Gopinath Kaviraj. Rs. 5 Vol. VI- (a) Index to S'abara's Bhāsya, by the late Col. G. A. Jacob.. (b) Some Aspects of the History and Doctrines of the Nāthas, by Gopinath Kaviraj. (c) An Index etc. the Ramayana, by Manmatha nātha Roy. (d) Studies in Hindu Law by M. M. Ganganatha Jha (e) The Mimamsa manuscripts in the Govt. Sanskrit Library (Bonares) by Gopinātha Kavirāj. (f) Notes and Queries, by Gopinātha Kavirāj.