Scl

Vaiyakarana Siddhanta Laghu Manjusha No 227

Sri_nagesa_bhatta

PDF Proofread

Front matter

६०२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । यद्यपि- अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ इति । तादृश एव विशिष्ट एव-तु । धातुः क्रियावा- चीत्यर्थः। क्रियाविशेषाः सनातैः प्रक्रम्यन्ते तथाविधाः । कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः । साधनाति संबन्धं तथाभूतैव सा क्रिया ।- इत्यप्युक्तं हरिणा, तथाऽपि भाष्यसम्मतत्वादाद्य. मेव युक्तम् । धातूपसर्गकार्यस्यान्तरङ्गत्वं तु पूर्वोप- स्थितान्तर्भूतार्थकनिमित्तकत्वात् । बाह्यसाधनकार्य- प्रत्ययनिमित्तं तु द्वित्वादि बहिरङ्गमिति भावः । इमेवाभिप्रेत्य "संप्रसारणाच" इति सूत्रे भाष्ये उक्तम्-अद्य आ ऊढा अद्योढा इत्यत्र धातूपसर्ग- कार्यत्वेनान्तरङ्गत्वाद्गुणेऽद्यशब्देन पररूपम् । कथम् । तत्कार्यमन्तरङ्गम् । पूर्वमुपसर्गस्य हि धातुना योगो भवति । धातोस्तदर्थान्तर्भावेण बोधजनकत्वस्य तत्संबन्धं विना अभावात् । अद्यशब्देन तु ना- को योगः, धात्वर्थक्रियापेक्षत्वादाधारस्य। किमर्थं तर्हि अद्यशब्दः प्रयुज्यते, आङ इव विशिष्टस्यापि अधा- तुत्वेनानन्वयात् । अद्यशब्दस्यापि समुदायेन योगो भवति, आङो द्योतकत्वेन विशिष्टस्य धात्वर्थत्वा- दिति । तेनैतद्वोधयति-पूर्व धातोः साधनकार्ययो- गस्तत उपसर्गसंज्ञकशब्दसंबन्धस्ततो भिन्नपदाच्य- कारकसम्बन्ध इति ।

निपातार्थनिरूपणम् । एवं च साध्यत्वं निष्पाद्यत्वरूपमेव भासते इति भाष्यसम्मतम् । किञ्चोपसर्गाणां द्योतकत्वमेव भाष्यसम्मतम् । अतएव "उपपदमाति" इति सूत्रे धातूपसर्गयोः समासनाशक्य “पूर्व धातुः साधनेन युज्यते" इति पूर्व तिङि विशिष्टेनैव सामर्थ्य स्यात्तत्र "अति" इति निषेधान्न तिङन्तेनैकार्थीभाव इति समाहितम् । पूर्व धातोरुपसर्गसम्बन्धे, उपसर्गस्य वाचकत्वे च तत्र समासो वारयितुमशक्य एव । लकारमात्रोत्पत्त्यापि साधनसम्बन्धो जात एवेति तदा समासो दुर्वारः, तस्य काल्पनिकमर्थवत्त्वम्, विभक्तीनामपि ताह- शार्थकत्वस्यार्थवत्सूत्रे भूवादिसूत्रे च भाष्यकैयटयोः स्पष्टत्वादिति वाच्यम् । साधनस्य संख्यावैशिष्टय- नियमेन संपूर्णतदाकासानिवर्त्तकतिङामुत्पत्त्यैव तदा- काङ्क्षानिवृत्तेः । तिङ्पदे च तिनाविनो ऽपि ग्रह- णाच । नचैवं परमगार्ग्यस्यापत्यमित्यर्थे परमगाायण इत्यादौ परमसंसृष्टस्यापि गायस्य केवलस्थापत्ये- नैकार्थीभावाद्गार्यशब्दादेव फक्, अतएव पकारा. कारस्य न वृद्धिरिति "येन विधिस्तदन्तस्य"इति सूत्रे भाष्ये स्पष्टम्, तद्रीत्याऽत्रापि समासो दुर्वारः, ति- ऊर्थरहितेनापि सामर्थ्यस्य सुवचत्वादिति वाच्यम् । वक्ष्यमाणरीत्या तिङ कादिद्योतकत्वेन वि- शिष्टस्य धात्वर्थत्वात् तस्य वक्तुमशक्यत्वात् । तत्रा.

६०४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । प्युपसर्गार्थोऽन्तरङ्गः तद्विशिष्टस्य साधनाकाङ्कत्वात्। द्योत्योऽपि कादिर्बहिरङ्गः ॥२१॥ (कुं० टी०) * अडादीनामिति । अडादिव्यवस्थार्थमेव धातवः पृथगुपदिष्टाः । सोपसर्गा एव तु विशिष्टक्रियावचनाः । *विशिष्ट एव-उपसर्गविशिष्ट एव । तत एव लोके बोधात् । संग्रामयतौ सोपसर्गस्यैवाडादिदर्शनेनोपक्रम एवोपसर्गविशिष्टैः क्रियाप्रणयनात्तत्कार्यमन्तरङ्गमिसर्थः । *तथाभूतैव-उपसर्गवि- शिष्टैच । कारकसम्बन्धं याति । *आद्यमिति । "पूर्व धातुःसाधने- न"इति । *वाह्येति । बाह्यं यत्साधनं तस्य यत् कार्य प्रसय इस र्थः। आशङ्कते *कथमिति । समाधत्ते तत्कार्यमिति । तदर्था- न्तभावण-उपसर्थान्तर्भावण। *अद्यशब्देनत्विति । अद्यशब्द- स्याधारवाचित्वादाधारस्य च क्रियापेक्षत्वादिति भावः । किम- थै तथेत्यत्रैव हेतुमाह *आङइवेति । आङो यथा न धातुत्वन्त- थेत्यर्थः । विशिष्टस्य-आविशिष्टस्य । *अनन्वयात्-अन्व- यासम्भवात् । तेन सह अद्यशब्दस्येत्यादिः । समाधत्ते *अ- धशब्दस्यापीति । *समुदायेनेति । उपसर्गद्योत्यार्थसहितधात्व- थेनेत्यर्थः । *विशिष्टेनैवेति । तिङन्तेनैव समासो वाच्यस्तत्र "अति" इति निषेध एवेत्यर्थः। *तदा-लावस्थायाम् । *नच- तस्येति । नहीत्यर्थः । काल्पनिकमिति यदुक्तं तत्समाधत्ते *वि- भक्तीनामपीति । तादृशार्थकत्वस्य-कल्पितार्थकत्वस्य । *ति- ङामुत्पत्त्येवेति । एवञ्च न लकारावस्थायामेका भावसम्भ- वः । *तिङ्भाविनोऽपीति । एवञ्च "अति" इति निषेधान्न समासप्राप्तिः । * नचैवमिति । परमगार्यशब्देन यथैकार्थीभा. चात्फक् एवं तिपूर्वभागे ऽप्येकार्थीभावो ऽस्त्वित्यर्थः ।

निपातार्थनिरूपणम् । *विशिष्टस्य-तिर्थविशिष्टस्य । तथाच तेनैकार्थीभावासम्भव इति भावः । *तस्य-समासस्य । बहिरङ्गत्वे वीजमाह *तद्वि. शिष्टस्येति । उपसविशिष्टस्येत्यर्थः ॥ २१ ॥ *यद्य- (क. टी.) दीक्षितमतसाधकहर्यन्तरविरोधमाह पीति । शास्त्रे इत्यन्तं पूर्वान्वयि । *तु-वस्तुतस्तु । हर्यन्तरमा- ह *क्रियेति । संघातैरिति । अनुभवानुकूलव्यापारादिरूपाः क्रिया- विशेषाः अनुभ्वादिभिरादावेव बोध्यन्ते इत्यर्थः । *कार्याणामि- ति । तयोस्तेषामन्तरङ्गत्वमेवं सति सिद्धमित्यर्थः । *तथेति । सं. घातबोध्यैवेत्यर्थः । क्रियेति चेत्यपीति पाठः । नन्वेवं तदुक्तमन्त- रङ्गत्वं स्वाभिमते कथं भाष्यमते ऽत आह *धातूपसर्गेति । अर्थकृ- तत्वाभावादाह पूर्वोपस्थितेति । एवंच नानयोरन्तरङ्गबहिरङ्गभा. वः, किन्तु तत्कार्ययोरित 'उपास्यते' इत्यादौ कर्मणि लसिद्धिः, संचस्कारेत्यादौ साधनसम्बन्धोत्तरमुपसर्गसम्वन्धे 'सं कृ ति' इति स्थितेऽन्तर्भूतार्थकनिमित्तकत्वाद्वाह्यसाधनसम्बन्धद्वित्वादिकार्यात् सुडन्तरङ्ग इति तत्सिद्धिश्चेति न दोष इति बोध्यम्। * इतिभाव इति । पूर्वहरेरित्यर्थः। *इदमेव-तत्कार्यस्योक्तान्तरङ्गत्वमेव। *गुणे-"आद्- गुण" इति । *पररूपम्-“ओमाङोश्च"इति । ह्यर्थमाह *धातोरिति । *नाङो योग इति । पृथग् उपसर्गस्यार्थाभावात् । तत्सत्त्वेऽप्याह *धात्वर्थेति । शङ्काशयमाह *आङइवेति । *समुदायेनेति । उप- सर्गद्योत्यार्थसहितधात्वर्थनेत्यर्थः । तदाह *आङ इति । एवंचान्त- रङ्गार्थकशब्दनिमित्तकत्वेन धातूपसर्गकार्यमन्तरङ्गमिति तात्पर्यम् । तदाह *तेनेति । सूचयतीत्यर्थः । इतो ऽपि प्रागुक्तभूषणायुक्त- मयुक्तमित्याह *एवंचेति । पूर्व धातोः साधनयोगप्रतिपादने चेत्यर्थः । तस्यैव तदायत्तत्वं न तदुक्तस्येति तन्मते भाष्यासङ्गतिः स्पष्टैवेति भावः । उक्तसूत्रद्वयभाष्यस्य "उपपदम्" इति सूत्रभाष्यावि- रोधं प्रतिपादयितुं दीक्षितायुक्तिं खण्डयन्नाह *किञ्चेति । *उप- सर्गाणाम्-तत्संशकानामित्यर्थः । क्रियागतविशेषवोधकानामिति यावत् । *अतएव-द्योतकत्वेन तेषां पश्चात्सम्बन्धादेव । इत्थं हि तत्रोक्तम् “उपपदम्" इति सूत्रे "गतिः" इतिसूत्रेच-अ- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । प्रा- तिमहणात् सुप्सुपेति निवर्त्य 'गतिकारकोएपदानाम्-" इति परिभाषां प्रत्याख्याय, “यद्येतज्ज्ञाप्यते केनेदानीं समासो भ- विष्यति ?, समर्थेन । यद्येवं धातूपसर्गयोरपि समासः प्नोति-"पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन"इति । नैतद- स्ति । “पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण" । साधनं हि क्रियां निर्वर्त्तयति तामुपसर्गो विशिनष्टि। अभिनिवृत्तस्य चार्थस्यो. पसर्गेण विशेषः शक्यो वक्तुम्" इति । अस्यार्थः-यद्येतदिति, अतिङित्यस्य समासविशेषणतया शब्दे- नोत्तरपदस्यानुपादानात्प्रश्नः । समर्थनेति, उपपदस्य सुबन्तत्वेन "सुर्" इत्यनुवृत्त्या वा पदविधित्वेन समर्थपरिभाषोपस्थानात् । सु. पेत्यननुवृत्तावतिप्रसङ्गमाह यद्येवमिति। "कुगति" इत्यनेन । “अतिङ्" इत्यनेन तिङन्तस्यैव प्रतिषेधइति तात्पर्यम् । ततश्चैकस्वर्यादिप्रसङ्गः । न च "अतिङ्" इत्यस्य पर्युदासत्वेन तिभिन्न प्रत्ययान्तः समास इत्यर्थान्न दोषः । प्रपिपठिपतीत्यादौ 'प्रकृष्टा पठनेच्छा' इत्याद्यर्थके सन्नन्ते धातुनोपसर्गस्य समासापत्तेदुर्वारत्वात् । तिभिन्नः कृत्प्र- त्यय एवेत्यत्र तु न मानम् । तथा हि सति "उपपदं कृ"इत्येव सूत्र- येत्। धातुप्रकृतिकत्वातिरिक्तसाजात्यस्य कृत्स्वप्यभावाच्च। प्रत्ययत्वं तु सुप्स्वतिप्रसक्तमेव । इदमेव ध्वनयितुमत्र वक्ष्यति-प्रपिपठीति । उपसर्गेण, तत्संज्ञकशब्देन । ततस्तयोः सामर्थ्यमस्ति उपसर्गार्थवि. शिष्टायाः क्रियायाः साधनेन योगात् । नैतदिति, “पूर्व धातुरुपसर्ग- ण"इत्येतनास्तीत्यर्थः । अन्यथा "नैष दोष"इत्येव वदेत् । साधनेन, कर्तृकर्मरूपकारकेण । साध्यत्वेन प्रतीतस्य पूर्व साधनाकासोदयेन तत्सम्बन्धस्यान्तरङ्गत्वात् । ततश्च पूर्व साधनाभिधायिप्रत्ययोत्पत्तिः, पश्चात्साधनसंसृष्ट एव धातुरुपसर्गेण युज्यते न केवल इति, तेन सामर्थ्याभावात्तयोः समासाभावः । तत्र कृदन्तेन समासो भवत्येव, तिङन्तेन तु "अतिङ्” इति निषेधान्न भवति । पूर्व धातोः साधनेन योगे युक्तिमाह-साधनंहीति । क्रियाम् , तत्प्रतीतिम् । निवर्तयति, निष्पादयति । साध्यत्वप्रतीतेस्तत्सम्बन्धाधीनत्वात् । साध्यत्वेन प्रतीतार्थकयोगे च तेषामुपसर्गत्वादिः। नच धातोः "भू सत्तायाम्" इत्यादितो व्याकरणात् गृहीतशक्तिकस्य तत्प्रतीतिः, कारकस- म्बन्धसाध्यत्वात् । उपसर्गस्य तु क्रियागतविशेषद्योतकत्वरूपक्रिया- निपातार्थनिरूपणम् । योगनिमित्तोपसर्गसंज्ञकन्वात् क्रियात्वज्ञानोत्तरमेव सम्बन्धः, तदुत्त- रमेव "ते प्राग्धातोः" इति नियमप्रवृत्तेः । ताम, साध्यत्वेन गृहीताम्। उपसर्गः, तत्संज्ञकशब्दः । द्योतकत्वेन विशिनष्टि । तत्र युक्तिमाह- अभिनिवृत्तस्यति, निष्पन्नत्वेन ज्ञातस्य । विशेषः, विशेषणं प्रक- र्षादिः प्रजयतीत्यादावुपसर्गेण द्योतयितुं शक्यः । बोद्धारं प्रती- ति शेष इति । तदेतदाभप्रेत्य संक्षेपेणाह *धातूपसर्गयोरिति । अतएवेत्यस्यो- तार्थ सूचयन् तद्यतिरेकमाह * * पूर्वमिति । द्योतकत्वे ऽपि स दुर्निवार इति शङ्कते *नचेति । मात्रपदेन तिब्यवच्छे- दः । *इतीति । लकाराणामपि कारकार्थकतायाः शास्त्रसिद्धत्वेन तत्सम्बन्धेनैव साध्यत्वबोधे उपसर्गसम्बन्धे सति लावस्थायामि- नामित्यर्थः। *तस्य-लत्वावच्छिन्नस्य । *विभक्तीनामिति । तदादेशा- स्येत्यर्थः । तेषां भावार्थकत्वस्यापि सत्त्वेन तत्प्रतीतावनियामकत्वा- दिति युक्तिस्तु न युक्ता, तात्पर्येण निर्णयादिति सूचयन्नाह *सा- धनस्येति । अत एव अध्यैयातामित्यादौ लावस्थायामाट्यपि पूर्व न वृद्धिः, साधनकार्यस्य आताम एव पूर्व प्रवृत्तेः, साध्यस्य साधना- काङ्गानयत्येनान्तरङ्गत्वात् । ततो "वार्णादाङ्गम्" इतीयङि यणि वृद्धाविष्टसिद्धेरिति कोचित् । वस्तुतस्तत्पक्षे ऽन्तरङ्गत्वाद् वृद्धावेतद्रूपासिद्धिः । कथं चिद् "वार्णादाङ्गम्" इत्याश्रयणे ऽप्यनेकाच्त्वाद्यणापत्तिः । तस्मादध्यै- यातामित्यादि छान्दसम् । तत्र हि "बहुलं छन्दस्यमाङ्योगे ऽपि" इति वहुलग्रहणादादेशोत्तरं परत्वादियङि तत आटि वृद्धिरि- ति बोध्यम् । सामर्थ्यादाह *तिङिति । एतद्भाष्यतात्पर्य व- क्तुं शङ्कते *नचैवमपीति । तिङन्तस्य, तिङ्भाबिलान्तस्य च समासवारणे ऽपीत्यर्थः । *समासइति । धातूपसर्गयोः निष्कृष्यैका- र्थीभावो न समासादिप्रयोजक इति विशिष्टेनैकार्थीभावे ऽव- यवानामपि तत्सत्वादिति भावः । तदाशयमाह *वक्ष्यमाणेति । तिङर्थनिरूपणावसरे इति भावः । *विशिष्टस्य-कालसंख्याकारका. दिविशिष्टस्य । पञ्चकं धात्वर्थ इति भावः । *तस्य-अवयवेनासा- मर्थ्यस्य । अयं भावः-तिङन्तेन नैकार्थीभावः, “अति" इति निषेधात् ।

६०८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । नापि तदवयवेन प्रत्ययार्थासंसृष्टेन, साधनसंखष्टार्थस्यैवोपसर्गेण योगात् । तथा व तिडां द्योतकत्वमेवेति । नन्वेवमुपसर्गसंवन्धात्प्राक् केवलभ्वामादेः सकर्मकत्वाभावेन कर्मणि लादयो न स्युः, किञ्च सञ्चस्कारत्यादौ सुटोऽन्तरङ्गत्वं "सुद् कात्पूर्व" इति सूत्रभाष्योक्तं भज्येत, अत आह *तत्रापीति । तिङ द्योतकत्वे ऽपीत्यर्थः *उपसर्थः-तयोत्यार्थः । *द्योत्योऽपीति । आकाटाक्रमणोपस्थितिक्रमस्यात्रापि सत्त्वात् पञ्चकपक्षे स्वार्थादिक्रमवत् । यथा चैतत्तथोक्तं प्राक् । एतेनोपसर्गाणां द्योतकत्वे ऽप्युपास्यत इत्यादौ सकर्मकत्वाय तदयोत्यार्थस्य साधनसंवन्धात्यूर्वमेव धातुना वोधनावश्यकत्वनो- पसर्गेण पूर्वयोगस्यावश्यकत्वेन सामयस्य सत्त्वेन धातूपसर्गयो. स्तत्रैव समासो दुर्वार इत्यपास्तम् । तदुक्तम् "उपपदम्" इत्यत्र कैयटेनोक्तप्रथमाशङ्कासमाधिवेन 'अनुभूयते सुखम, उपास्यते गुरुरित्यादौ केवलधातुरेव सकर्मिको क्रियां वक्ति, उपसर्गस्तु द्योतकः श्रोतृवोधाय पश्चादेव सम्बध्यते इति नास्ति कश्चिदस्मिन्पक्षे दोष' इति ॥ २१ ॥ प्रपिपठिषतीत्यादौ "समानकर्तृकाद"इत्युक्तेः स- नर्थसाधनेनैव प्रकृतेरपि तदाकासाशान्तः सनैकार्थी- भावात्, तविशेषणत्वाञ्च प्रकृत्यर्थस्य तदुत्तरं प्रा. दियोग इति न समासः । इतो ऽप्युपसर्गाणां वा- चकत्वं निरस्तम् । विशिष्टाया एव क्रियाया इषिक- मत्वस्थ प्रतिपाद्यतया सापेक्षत्वेनासामर्थ्यात्सनुत्प- त्यनापत्तेः। "नेर्विशः" इत्यादेर्नेः परत्व योग्यादिशेरित्यर्थः । "सम्पृच" इत्यादेरपि संपूर्वत्वयोग्यात्स्चेरित्यादिः क्र- मेणार्थः । गोसन्दाय इत्यादायपि समुपसर्गद्योत्यार्थ- विशिष्टाद्धातोः कर्मण्युपपदे बुद्धिस्थे ऽणि ततः समा योगे गतिसमासे उपपदसमासो बोद्ध्यः ।

६०९ निपातार्यनिरूपणम् । यद्यप्युपसर्गमुपक्रम्य- स वाचकोविशेषाणांसम्भवाद् द्योतकोऽपिवा । इति- उक्तं हरिणा, यथा प्रतिष्ठते इत्यत्र गतिनिवृत्ति- वाचको धातुः, उपसर्गो गतिवाचक इति पुञ्जराजश्व, तथापि तिष्ठते(तुल्येन यज्यादिवदनेकार्थत्वा- द्धातोरेव गतिरथः । प्रशब्दस्तु द्योतक एव, उपसर्ग- त्वात्, प्रपचतीत्यादिस्थप्रशब्दवदित्यार्थिकया- स्थाऽऽदिभिः केवलैयच्च गमनादि न गम्यते । तत्रानुमानाट्विविधात्तद्धर्मा प्रादिरुच्यते ॥ इति- कारिकया, कचित्सम्भविनो भेदाः केवलैरनिदर्शिताः । उपसर्गेण संबन्धे व्यज्यन्ते प्रपराऽऽदिना ॥ इत्यादिना च द्योतकत्वमेवोपसर्गाणां सिद्धान्ति- तम् । तद्धा,द्योतकत्वधर्मा । कचित्,पचत्यादौ॥२२॥ (कुं० टी०) *समानकर्तृकादित्युक्तरिति । समानकर्तृ. कत्वसिद्धये उभयोः कत्रोरैक्यं प्रतिपाद्यम्, तथाच तादृशपाठ. विषयकेच्छायामेव प्रकर्षो वोध्यते इत्यर्थः । *सनर्थेति । सनर्थ- स्य साधनमिति विग्रहः। *तदाकाङ्क्षा-साधनाकाङ्क्षा । *सनेति । प्रकृतेरिति शेषः । हेत्वन्तरमाह *तद्विशेषणत्वाञ्चेति । सनर्थे विशेषणत्वाचेत्यर्थः । *विशिष्टायाइति । प्रादीनां वाचकत्वे तु प्रकर्षविशिष्टपाठादीनामिषिकर्मत्वं वाच्यम्, तत्र पाठस्य सापेक्ष- त्वात्सन् न स्यादित्यर्थः । ननु धातूपसर्गयोः पूर्व योगाभावे कथं १ उभयनिरूपितकोंरित्यर्थः। a ७७ ६१० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । "नेर्विशः" इति, तबाह योग्यादिति । *सम्पृचेत्यादेरिति । "सम्पृचानुरुधा-"इति णिनिविधेः । ॐगोसन्दायइति । अत्रापि उपसर्गयोगे भाविनि दाधातोरण , ततो दाय-संशब्दयोः समासे गवा समास इत्यर्थः । *बुद्धिस्थेइति । कर्मत्वस्य क्रियानिरूप्य- त्वादिति भावः । *स वाचकइति । न केवलमुपसर्गो द्योतका किन्तु वाचको ऽपि, तिष्ठतेर्गतिनिवृत्तिवाचित्वे ऽपि प्रतिष्ठते इत्यत्र गतिबोधेन विशेषसम्भवात् । *यज्यादिवदिति । तत्र पूजादानायनेकार्थत्वस्य सुप्रसिद्धत्वात् । *अपचतीति । अत्र आदिकर्मयोतकत्वं प्रशब्दस्य । *स्थादिभिरिति । केवलैस्तिष्ठ- त्यादिभिर्यत्र गमनं न प्रतीयते तत्र तयोतनाय प्रादिः प्रयुज्यते इत्यर्थः। तत्रानुमानाद् द्विविधादिति। प्रशब्द आदिकर्मयोतका प्रशब्दत्वात्, प्रपूर्वोदितगत्यादिदृष्टप्रशब्दवदित्येकेनानुमानेनो- पसर्गाणां द्योतकत्वम्, तिष्ठतिरनेकार्थः धातुत्वादिति द्वितीये- नानुमानेन धातूनां नानार्थत्वम् । सम्भवन्तोऽपि भेदा यत्र के वलधातुभिरप्रतीतास्तत्रोपसर्गा व्यञ्जका इत्यर्थः ॥ २२ ॥ (क० टी०) उक्तमेव ध्वनयन् भाण्याद्यनुक्तत्वान्न्यूनतानिरा. सायान्यत्रापि समासापत्तिं वारयति *प्रपिपठीति । इत्यादाव- पीत्यर्थः । *सनेति । प्रकृतेरिति शेषः । तथा च न केवलधातु. नोपसर्गस्य सामर्थ्यमिति न तयोः स इति भावः । नन्वेवमपि स- नन्तेनैवास्त्वत आह *तत्तद्विशेषेति । तथाच प्रधानकार्यो- त्तरमित्यर्थः। अस्याशय 'अयम्माव' इत्यनेन व्याख्याने उक्त एव । नच "कर्मग्रहणात्सन्विधौ धातुग्रहणानर्थक्यम् । सोपसर्ग कर्मेति चेत् कर्मविशेषकत्वादुपसर्गस्यानुपसर्ग कर्म, सोपसर्गस्य हि कर्मत्वे धात्वधिकारे ऽपि सनो विशिष्टविषयेच्छाया एव बोधनीयत्वादविधानमकर्मत्वाद्" इति । “एतश्चात्र युक्तं यत्सो. पसर्ग कर्म । न च सनो ऽनुत्पत्त्यापत्तिः । कर्मण इति षष्ठी, कर्मणो ऽवयवाद्धातोरित्यर्थात् । केवलातु व्यपदेशिवद्भावेन ।महान्तं पुत्र.

निपातार्थनिरूपणम् । मिच्छतीत्यादौ विशिष्टकर्मणो ऽवयवात्सुवन्तातु क्यज् न, सापेक्ष त्वेनासामर्थ्याद"इति च सन्सूत्रस्थवार्तिकभाष्यविरोध इति वाच्य- म् । सोपसर्गमित्यस्योपसर्गद्योत्यार्थविशिष्टमित्यर्थेनाद्यदोषाभावा- त, अग्रिमग्रन्थस्त्वेकदेशिन इति सोऽप्यदोषः । तदुक्तं कैयटेन- 'धातुरेव विशिष्टां क्रिमामाह, उपसर्गस्तु द्योतक इति सापेक्षत्वा- भाव इति । तदेतद् ध्वनयन्नाह *इतोऽपीति । अस्यार्थमाह *वि- शिष्टायाइति । एतेन 'इषिकर्मत्वमिह विशिष्टाया एव क्रियायाः प्रति. पाद्यमिति पूर्वमुपसर्गेण सम्बन्धाद्धातुग्रहणाभावे विशिष्टात् सन आपत्तिः' इति तत्रत्यकैयटोक्कमपास्तम् । अत्रैव धातूपसर्गयोः समा. सापत्तेः। भाग्यं तु उक्कसर्वभाज्याविरोधेनैव व्याख्यातम् । नन्वेवमपि निविशते इत्यादी तयोः समासापत्तिस्तयोमिथः सम्बन्धमुपजीव्यैवात्मनेपदविधानेन ततस्तस्य पूर्वमावश्यकत्वादत आह नेविश इति । आदिना “परिव्यवेभ्यः", "विपराभ्यां जेः" इत्या. दिपरिग्रहः । यद्यप्यत्र षष्ठया निद्योत्यार्थविशेषार्थप्रतिपादकादित्यर्थे- न निर्वाहस्तथाप्यनिमसूत्रानुरोधेनाह *नपरत्वेनेति । *इत्यर्थः क्र. मेणेत्याद्यर्थः । तथाच तत्सम्बन्धात्पूर्वमेवात्मनेपदप्रवृत्तिरिति न दोषः । तत्र षष्ठयर्थे पञ्चमीकल्पने तु गौरवम् । स्पष्टं चेदं "नैर्विश" इत्यत्र भाष्ये । एतेन सुटो ऽपि संपरिभ्यामुपसृष्टस्येत्यर्थेन, ताभ्यां परत्वयोग्यस्येत्यर्थेन वा समो योगात्पूर्वमेव सुडित्येवमन्तरङ्गत्वं सूचितम् । नन्वेवमपि विभक्त्यभावेन समुदायोचारणेन विधेः स. म्पर्कीत्यादौ तयोः समासापत्तिरत आह *संपृचेत्यादेरपीति । उक्तभाष्याविरोधायोक्तरीत्या सूत्रे द्वयोरनुकरणेन षष्ठीसमास. इति भावः । आयतस्तूः कटपूरजस्रमित्यादौ तथा सत्त्वे ऽपि धातू- पसर्गयोः कापि स नेति तात्पर्यम् । उक्तरीत्या "संप्रसारणाच" इति भाष्यरीत्या चेष्टमपि सिद्धान्ते सिध्यतीत्याह *गोसन्दाय इति । अविशिष्टात्-तद्विशिष्टार्थप्रतिपादिकात् । पूर्वमसम्बन्धायाह *बुद्धि- स्थेइति । ईदृशे स्थले ऽयमेव साधुत्वान्वाख्यानप्रकार इति सर्व. तात्पर्यम् । एवं हरिसंमतभाष्यसिद्धान्ते हरिविरोधं हर्युक्त्यैव परि- हरति *यद्यपीत्यादिना सिद्धान्तितमित्यन्तेन । तत्त्वस्य स्पष्टत्वाद्वा. चकमात्रोदाहरणमाह *यथाप्रतिष्ठते इति । भूवादिसूत्रभाष्योक्तमेव । अतिष्ठतेरिति । स्थाधातोरित्यर्थः । इत्यर्थिकया-इतितात्पर्यिकया।

६१२ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । चेतनविशिष्टैर्गम्यत इत्यस्य समुञ्चयः । एवमन्वयव्यतिरेकयोः सत्त्वे ऽपि न वाचकत्वं तयोद्योतकतयैवोपपत्तरित्याह *तत्र-तत्प्रतीति- विषये इत्यर्थः। *द्विविधात्-अन्वयव्यतिरेकिणः । पूर्वोक्तमीदृशमेव । प्रादिरूपसर्ग एवेत्याह *कचिदिति । *भेदा:-विशेषाः प्रकर्षादयः। तत्र हेतुमाह *उपसर्गेति । यत इत्यादिः ॥ २२ ॥ यत्रतु भावे प्रत्ययः तत्राप्यन्तरङ्गत्वाद्भिन्नपदोपा- त्तकादिना साधनांशे निराकासत्वे उपसर्गयोग इति तत्रापि न समासः । अत एव"णेरध्ययने" इत्यादि स- गच्छते।अध्यागच्छति,पर्यागच्छतीत्यादावागच्छतीत्य- स्मादेव गमनस्यावगत्या लौकिके शब्दव्यवहारे लाघ- वानादरात्स्पष्टार्थमेवाधिपर्योः प्रयोगः इति संभूयार्थ- बोधकत्वात्समुदाय एव विशिष्टार्थबोधक इति । उप- सर्गस्यानर्थकत्वमर्थान्तरावोधकत्वादिति बोध्यम् । कचित्तु क्रियागतविशेषबोधकातिरिक्तनिपातानां वाचकत्वमपि । अतएव 'न'इत्यतो ऽभावबोधः, 'क- स्य' इति जिज्ञासा च दृश्यते ऽभावशब्द इव । किञ्च 'पर्वताद् आ' इत्यादौ पर्वतादागित्यर्थप्र- तीतेस्तत्र वाचकत्वमेवेति निरुक्त स्पष्टम् । द्योत्यत्वे हि पञ्चमी न स्यात्तस्थ विशेषणता च स्यात् ॥ २३ ॥ (कुं० टी०) ननु स्थीयते इत्यादौ धात्वर्थस्यैव बोध्यत्वा- दातूपसर्गयोः समासो दुर्वार इत्यत आह *यत्रत्विति । *आ. गमनस्येति । उपरिभावविशिष्टस्य,सर्वतोभावविशिष्टस्यच आग- मनस्य प्रकरणादेवावगत्येत्यर्थः । *सम्भूय-मिलित्वा ॥२३॥ (क० टी०) नन्वेवमपि प्रत्ययो ज्ञानमित्यादौ भावप्रत्यये निपातार्थनिरूपणम् । *यत्र- उक्तरीतेरसम्भवात्तयोः समासापत्तिरेवेति अत आह त्विति । तुरुक्तवैलक्षण्ये । समानपदोपात्तसाधनस्थले तथा, अत्र तु भावार्थकत्वेनान्तरङ्गत्वात् धनादौ प्रोक्तरीत्यैवागत्या वाह्यसाधनस- म्बन्धेन क्रियात्वावगतौ उपसर्गसम्बन्ध इत्यर्थः तदाह *अन्तरङ्गत्वा- दिति।*निराकाङ्कत्वे सतिाएवञ्च"वार्णादाङ्गम्" इतिल्यायेन गुणे यणा रूपसिद्धिस्तदाह *अतएवेति।तत्र तथाऽङ्गीकारादेवेत्यर्थः।* आदिना प्रत्यय इत्यादि। सम्प्रसारणाच"इति सूत्रभाष्यं तु समानपदोपात्तसा- धनविषयमिति न तद्विरोधाएतेनात्र पूर्वमुपसर्गसम्बन्धे ऽपि “अध्य. यने" इत्यादिनिर्देशैः पूर्व ततः साधनकार्यप्रवृत्तिरिष्यते इति हरदत्ता- धुक्तम्, उपसर्गाणां वाचकत्वमेवास्तु स्वस्वयुक्तेत्यायुंक्तमेव क- मत्वं सकर्मकत्वं चेत्यनुभूयत इत्यादौ कर्मणि लादिसिद्धिरिति न. व्योक्तं चापास्तम् । तत्रैव धातूपसर्गयोः समासापत्तेः । नन्वध्याग- च्छतीत्यादावध्यादेरनर्थकत्वव्यवहारः सोऽत्रासङ्गतः। क्रियानिरूपिः तसम्बन्धविशेषद्योतकत्वं विना कर्मप्रवचनीयत्वस्य दुर्वचत्वात् । किश्च तत्त्वे क्रियाविशेषणीभूतार्थद्योतकत्वमेव क्रियायोगः सच नेति तस्य गत्याद्यपवादत्वस्य दुर्वचत्वादत आह *अध्यागच्छतीति । आङस्तद्गतविशेषद्योतकत्वमस्तीत्याह *आगव्छतीति । एतेन वैपरीत्यं निरस्तम् । तत्प्रयोगासङ्गतिं परिहरति लौकिके इति । अन्यथा कलशादिप्रयोगो न स्यात् । गतित्वादिप्राप्तये आह*सम्भूये- ति । स्थितयोरिति शेषः । तत्प्रयोगे इति भावः । *उपसर्गस्येति । तत्त्वाद्यभिमतस्याधिपर्यन्यतरस्य, तत्त्ववत आउश्चेत्यर्थः । * अर्था- न्तरेति । आयोत्यार्थतोऽन्यार्थेत्यर्थः । कर्मप्रवचनीयसंज्ञा तु वच- नसामर्थ्यादिति तात्पर्यम् । एवमुपसर्गाणां द्योतकत्वं तत्समकक्षत- दन्यनिपातानां चोक्तम्, चादीनां वाचकत्वे परोक्तदूषणखण्डनेन तेषां तत्त्वं चोक्तम्, तद्विशदयति *क्वचित्त्विति । घटश्चेत्यादावित्यर्थः । प्रादेरपि संग्रहाय *निपातानामिति । द्योतकत्वस्यापिना संग्रहः। तच्च व्यवस्थितं बोध्यम् । इदमेवोदाहरणान्तरप्रदर्शनेन पोषयति *अत- एवेति। तेषां वाचकत्वादेवेत्यर्थः । अस्य दृश्यते इत्यत्रान्वयः।तेनानु- भवोऽत्र प्रमाणमिति सूचितम् । *शब्देइति विषयसप्तमी । निपाता- नामित्युक्तिं सफलयन्नाह *किञ्चेति । *नस्यादिति । तथासति तस्य प्रकृत्यर्थतया तस्यादिकशब्दत्वेन तद्योगाभावादिति भावः । ननु ६१४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । धोत्यार्थेनैव तत्त्वमस्तु प्राग्वदत आह *तस्येति । अर्वागित्यस्ये त्यर्थः ॥ २३ ॥ अत एव"स्त्रियाम्"इतिसूत्रे स्त्रीत्वस्य प्राधान्ये वच नानुपपत्तिमाशा द्योतकतापक्षेण समाहितम् । अत एव च "हेतुमतिच"इतिसूत्रे भाष्ये द्योतकतापक्षे हेतुम ति' इत्यस्य प्रकृत्यर्थविशेषणत्वमुक्तम् । "स्त्रियाम्" इति सूत्रे च 'स्त्रियाः प्रकृतिविशेषणत्वादु' इत्यनेन स्त्रीशब्दार्थस्य प्रकृत्यर्थविशेषणत्वादित्यकेन द्यो- तकतापक्ष उक्तः। तदुकं हरिणा- निपाता द्योतकाः केचित्पृथगर्थाभिधायिनः। आगमाइव केऽपि स्युः सम्भूयार्थस्य वाचकाः॥इति। केचिदित्युभयान्वयि-केचित्पृथगर्थाभिधायिनः वाचकाः, केचिदनर्थका एवेत्याह-आगमा इवेति, इति तदर्थः। प्रातिशाख्ये ऽपि नामाख्यातमुपसर्गो निपातः चत्वार्याहुः पद्जातानि शाब्दाः ॥ तन्नाम येनाभिदधाति सत्त्वम् तदाख्यातं येन भावं सधातुः ॥ उपसर्गा विंशतिरर्थवाचकाः सहेतराभ्यामितरे निपाताः ॥ क्रियावाचकमाख्यातमुपसर्गो विशेषकृत् । सत्त्वाभिधायकं नाम निपाताः पादपूरणाः॥ इति। "सधातुरित्यत्र ततीयार्थे प्रथमा । इतराभ्यां नामा- निपातार्थनिरूपणम् । ६१५ ख्याताभ्यांसह ।अर्थवाचका इत्यस्य मध्यमणिन्यायेन सम्बन्धः । इतरे नामाख्यातेभ्यो ऽन्ये निपातास्तथा. ज्ञेयाः । उपसर्गों विशेषकृदित्यनेन तेषां द्योतकत्वं दर्शयति । पादपूरणाः पादपूरणा अपि इत्यर्थः" इति तद्भाष्यम् । थाल्जातीयकनो ऽत्यन्तस्वार्थिकाः, नतु ते प्रकृतेः प्रकारवद्वृत्तित्वद्योतकाः प्रत्ययं विना ऽपि यो 'हरिः स हर' "सिंहो माणवक' इत्यादौ प्रकृ. तिमात्रात्तदर्थबोधनात् । अतएवैषां नित्यत्वं नो- क्तमाकरे। एतेन तत्र द्योत्यार्थस्य विशेष्यताऽस्त्येवेति द्यो- त्यत्वे विशेषणत्वापत्तिरित्ययुक्तमित्यपास्तम्। “जा- त्यन्ताच्छ बन्धुनि" इतिच्छस्तु आश्रयरूपबन्धुवा. चक एव । “प्रादिश" इत्यारभ्य स्वार्थिकत्वं तु प्रायेणेति बोध्यम् । एवं "देवतान्तात्तायें यदू"इत्यादेरपि । "तत्प- कृतवचन मयड्" इत्यत्राकरे स्पष्टमिदम् । शरैरुनरिवोदीच्यानुरिष्यन् रसानिव । इत्यादी तु द्योतकता । अन्यथा उस्रसदृशस्य करणत्वे ऽपि उस्रस्याकरणत्वादुम्रपदोत्तरतृतीयाया नैरर्थक्यमसा- धुत्वं च स्यात् । इवशब्दात्तृतीयाऽभावेन सदृशस्य करणत्वालाभश्च स्यात् । इवशब्दोत्तरं सर्वविभक्ति- लुकसत्त्वे ऽपि न ताः सार्थिकाः । विभक्त्यर्थाप्रधान- निपातार्थस्य कारकत्वेनानन्वयात् ॥ २४ ॥ (कुं०टी०) *वचनानुपपत्तिमिति । स्त्रीत्वे संख्याद्य- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । भावात् । *निपाता द्योतका इति । घटश्च पटश्चेत्यादौ पृथगाभि- धायिनो निपाता द्योतकाः, अध्यागच्छतीत्यादौ सम्भूयार्थस्य वाचकास्तु अनर्थका एव । वाचकत्वं तु निपातानां नास्ति । चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । इति- हरिणैव निराकृतत्वादिति पुञ्जराजस्वरसः । मूलकार- स्तु केषां चिद्वाचकत्वं स्वीकृत्य कचिद् द्योतकाः, केचिनु- पृथगाभिधायिनो वाचका इति व्याख्यत् । *तृतीयार्थे इति । धातुसहितेन येनेत्यर्थ इति भावः । *इतरे निपाताः-उपसर्ग- भिन्ननिपाताः ॥ २४ ॥ (क० टी०) ननु द्योत्यत्वे ऽपि कुतो न विशेष्यत्वमत आह *अ- तपवेति । तस्य विशेषणत्वादेवेत्यर्थः । *स्त्रियामिति । चातुर्थिके इ- त्यर्थः । प्राधान्यात्प्रत्ययविशेषणत्वे आह *स्त्रीत्वस्येति । प्रकृतिप्रत्य- ययोरिति न्यायात् ।*वचनेति। तस्य असत्त्वभूतत्वेन संख्यानन्वया- त् । अन्यथा समाधानासङ्गतिस्स्पष्टैव ।भाप्यान्तरमप्याह *अतएव- चेति। नन्वाद्ये द्योतकतापक्षो न कण्ठत उक्तोऽत आह स्त्रियामिती. ति । इदमपि हरिसंमतमित्याह *तदुक्तमिति । स्पष्टत्वादाद्यमुपे- क्ष्य द्वितीयमाह *केचिदिति । अध्यागच्छतीत्याद्याशयनाह के- चिदनर्थकाइति । दृष्टान्तलब्धमिदम् । *सम्भूयेत्यत्र स्थिता इति शेषः। वाचकपदं वोधकपरम्।क्वचित्तथापाठ एव। तथाच के ऽपिते यनः सम्भूय स्थिता अर्थस्य बोधका अतो आगमा इव स्युरनर्थका. एवेत्यर्थो बोध्यः। *प्रातिशाख्यति । द्वितीयाध्यायसमाप्तौ।जातं समू- हः।तान्येवादावुक्तानिात्र सर्वत्र प्रयोक्तुः कर्तृत्वम्। *सत्त्वम्-द्रव्यम्। अनेनाव्ययेषु नामत्वाभावः स्पष्टमेवोक्तः । उक्तमेव विशदयति *क्रि. यावाचकमित्यादि । क्रियेत्यनेन भावपदार्थ उक्तः । आख्यातपदवा- च्यत्वं न प्रत्ययस्य किन्तु विशिष्टस्येति च स्पष्टमुक्तम् । *प्रथमेति । धातुसहितेन वक्ता क्रियामभिधातीत्यर्थः । इतराभ्यामित्यस्य प्रक्रान्तपरत्वमित्याह *नामेति । इतरेइत्यस्यार्थमाह *नामेति । ब्राह्मणवसिष्ठन्यायलब्धमिदम् । *तथा-ताभ्यां सहार्थवाचकाः ।

निपातार्थनिरूपणम् । पूर्वतो विशेषमाह *उपसर्गइति । *पूरणा अपीत्यपिना द्योतकत्वादिसंग्रहः । द्योत्यार्थस्य प्रकारत्वं व्यभिचरिलमिति खण्डनायाह *थालिति । तत्त्वमेव सविशपं विशदयति नत्विति । प्रकारविशिष्वृत्तित्वत्यर्थः । *प्रत्ययं-जातावेकवचनम् । आद्य- द्वयव्यतिरेकमाह *योहरिरिति । अन्त्यव्यतिरेशमाह *सिंहशत। *अतएव-तदद्योतकत्वादेव । कैयटादिलंग्रहायाह *आकरेइति । *एतेन-तदद्योतकत्वेन । *तत्र-थालादिविषये । अन्यत्रापि तद्यभि- चारभ्रममन्यथा निराचष्टे *जात्यन्तादिति। तुरुक्तवैलक्षज्ये। * आ- श्रयेति ।जातेयक्तिरेव बन्धुः। * यदितीति । तेन विहितयदादेपि ताद- .दिवाचकत्वमित्यर्थः। तेषां तत्त्वस्य प्रायेणत्यादिपूरणेन प्रायिकत्वे मानमाह * तत्प्रकृतेतिातहि 'प्रचुरार्थवांधकात्मथमासमर्थात्स्वार्थ मयड् इति पक्षमुक्त्वा, 'प्राबुर्येण प्रस्तुतानादिवचनात्प्रथमासमर्था- दधिकरणेऽर्थ मयड्' इति पक्षान्तरमुक्तम् । तेन भवन्मयो ध्यायति नावनीपतिरिति सिद्धम् । तन्शेणार्थद्वये सूत्रतात्पर्य व्याख्यानादिति तदाकूतम् । अप्युक्ति सफलयति *शरैरिति । अत एव तुः । *अ. न्यथा-वाचकत्वे । तत्र प्रतियोगिविशिष्टः लरश इवार्थः। तत्र प्रति- योगिन्युनस्याभेदेनान्वयः, सशस्य च शरेवभेदेन । तृतीया तूप. मानोपमेययोः समानविभकिकत्वनियमात् । एवञ्चोनाभिन्न प्रतियो- गिविशिष्टसदृशाभिन्नैः शरैरित्यावर्थस्तत्पक्षणाह *उसासशस्ये. ति। सादृश्यामियार्थः, तत्र प्रतियोगितयोञान्वयः, तस्याश्रयतया शरेष्वन्वयस्तृतीया प्राग्वत्, तत्पक्षे तस्य तदभावसमुःय कोऽपिः। नैरर्थक्यस्यान्यष्टत्वादाह असाधुन्वंचेति । आद्यपक्षे आह *इवे. ति । *तृतीयेति । अभावेनेति उछेदः । ननु "अव्ययाद्" इति झाप- कात्तत्सत्त्वमिति ततस्तद्वाधोऽत आह *इबशब्दोत्तरमिति । श्रवणापत्तिवारणायाह *लुगिति । अव्ययत्वात्तेनैवेति भावः । *सत्त्वेऽसत्यपिना तत एकवचनसत्वे ऽपि बहुवचनामावसमुश्चयः । उम्रपदोत्तरतृतीयया तु न सदृशगतं करणत्वं बोधयितुं शक्यम् । अप्रकृत्यर्थत्वाद् । तस्माद् द्योतकत्वमेव युक्तमिति भावः ॥ २४ ॥ भाष्यकृतोऽपि-पस्पशायाम्, "अधिपरी अनर्थको" इत्यत्र, नञ्-सूत्रे,“अव्ययं विभक्ति-"इति सूत्रेच थो. " ६१८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तकत्वं वाचकत्वं वेत्येव स्वरसः । अत एव निर्मक्षिक- मित्यादौ पूर्वपदार्थप्राधान्यं भाष्योक्तं सङ्गच्छते । अत एव संकटं उद्धत इत्यादावुत्समादेः उद्गतसङ्गतरूप- क्रियाविशिष्टसाधनवाचकतोक्ता भाष्ये । ननु "शरैरुस्त्रैः" इत्यत्र द्योतकत्वेऽपि उनसदृशैः शरैरित्यर्थे उत्रपदोत्तरं तृतीयाऽनुपपत्तिस्तदवस्था, उस्राणां करणत्वाभावात् । उपमानोपमेययोः समान- विभक्तिकत्वमिति वचनाभावात् । यद्यपि उनसदृशरूपोस्रपदार्थस्थ करणरूपशरैर- भेदान्वयात्सा सुलभा, तथाऽपि सहशस्योक्तरीत्या विशेष्यत्वानापत्तिरिति चेद् । इष्टापत्तेः । तथाहि-इबादीनां स्वसमभिव्याह- ते उपमानताद्योतकत्वं उपमानत्वेन प्रतीतेस्तादृश- धर्मबदुपमेयप्रतीति विनाऽनुपपत्त्या उभयत्रापि साधारणधर्मबोधे तात्पर्यग्राहकत्वम् । उपमानत्वं च साधारणधर्मवत्वेनेषदितरपरिच्छे- दकत्वम् । तद्धर्मवत्तया परिच्छेद्यत्वं चोपभेयत्वम् । इदम् “उपमानानि" इतिसूत्रे भाष्ये स्पष्टमित्यन्यत्र निरूपेतम् । उभयत्रापि साधारणधर्मान्वय इति लिङ्गभे- दायुपमादूषणनिरूपणावसरे दशमशेषे काव्यप्रका- शादी स्फुटम् । एवं च 'चन्द्र इच मुखमाल्हादकम्' इत्यादी 'आल्हादकोषमानभूतचन्द्राभिन्नमाल्हादकं मुखम्' इत्यादिरीत्या बोधः।

निपातार्थनिरूपणम् । ६१९ एवं चोपमानस्योपमेयेन समानविभक्तिकत्वं तेनामदान्धयात् । साधारणधर्मसम्बन्धश्च विशेषणतया क्वचित् यथोदाहते । कचिद्विशेष्यतया यथा-'चन्द्र इव मुखमाल्हादयति' इत्यादौ। अत्र हि 'उपमानचन्द्रकर्तृ- काल्हा पदाभिन्नो मुखकर्तृक आल्हाद' इति बोधः ॥२५॥ (कुं० टी०) ननु इवशब्दात् तृतीयालुकेष्टसिद्धिरत आह- *न ताः सार्थिका इति । औत्सर्गिकत्वादिति भावः । *अतएव- वाचकत्वादेव । *उद्वतइति । अत्र हि उद्गतमनस्कत्तेः उच्छब्दाव- तिप्रत्ययः। *करणत्वाभावादिति । सहशानामेव करणत्वात्। ननू- पमानसमानविभक्तिकत्वं सिद्धमत आह वचनामावादिति । विशेष्यत्वानापत्तिरिति । द्योत्यत्वात् । * इष्टापत्तेरिति । विशे- ध्यत्वाभावे इत्यादिः । *तादृशेति । साधारणधर्मवद् यद् उ- पमेयं तत्मतीति विना उपमानत्वपतीतेरभावादित्यर्थः । *उ. भयत्र-उपमानोपमेययोः । *उपमानत्वञ्चेति । साधारणधर्महे- तुकपरिच्छेदकरणत्वमुपमानत्वमित्यर्थः । ॐईपदितरेति । स्व- ल्पभेदवदित्यर्थः ॥ २५ ॥ (क० टी०) उभयत्र तेषां भाष्यसंमतिमाह *भाष्येति । यथाचै- तत्तथा तत्र स्फुटम्।तत्राद्ये “शब्दानुशासनं नाम शास्त्रमधिकृतं वेदि- तव्यम्" इत्युक्तम् । एवमन्यत्रापि तत एव बोध्यम् । * अत एव-तेषां वाचकत्वादेव । एवमग्रेऽपि । अव्ययीभावत्वादाह *पूर्वेति । द्योतक- त्वे द्योत्यार्थेन पूर्वपदार्थत्वे ऽपि तस्य प्रागुक्तरीत्या प्राधान्यं दु- घंटमेवेति भावः । अत एव चतिपाठः । सङ्कटे सङ्गतमित्यर्थे "सं. प्रोदश्च" इति कटच् । उद्वत इत्यत्रोद्गतानीत्यर्थे "उपसर्गा- च्छन्दसि" इति वतिः । *उद्वतइत्यादि-समादेरित्यादिभ्यां निवत इत्यादौ न्यादिसंग्रहः । रूपमित्यस्य साधनेऽन्वयः । *भा- टीकायोपेतायां लघुमञ्जूषायाम् । व्ये इति । “गतिश्च" इत्यादि सूत्रेष्विति भावः । तद्विना तस्य दुर्वचत्वेन ततः पूर्व तदनुसावपि तद्भुत्तरं सूचीकटाहन्यायेनान्य- दुल्का सिंहावलोकनन्यायेन तत्र सिद्धान्ते शङ्कते *नन्विति । *इत्य- थइति । वक्ष्यमाणार्थे तु नानुपपत्तिरिति भावः। पदसंस्कारपक्षणाह *उति।परोक्ति खण्डयति *उपमेति । वाक्यसंस्कारपक्षेणाह *य- द्यपीति।*सेतिपरोक्तमपि नानुशासनालभ्यं किन्तूपमेयेनाभेदान्वय. मूलकमेव। योऽन्येनाभेदमापनस्स तत्समानशक्तिक इति व्याप्तेः। एवञ्च प्रागुक्तद्वितीयपक्षोऽसङ्गत एवेति भावः। *उत्तेति। द्योत्यार्थस्य प्रका- रत्वमेवेति प्रागुत्तरीत्येत्यर्थः । तथाचोक्तवोधासम्भव इति भावः। कथं तीर्थोऽत आह *तथाहीति। *इवादीत्यादिना यथादि। न ताव- मात्रमित्याह *उपमानत्वेनेति । स्वसमभिव्याहतस्येत्यादिः। *ताह- शेति । उभयसाधारणधर्मविशिष्टोपमेयेत्यर्थः। तत्कृतमेव हि तत्त्व. मिति भावः । ननूपमानत्वस्योपमेयनिरूपितत्वेन तन्मात्रप्रतीति विना तदनुपपत्तावपि न विशिष्टतातीतिसापेक्षत्वमिति कथम न्त्यसिद्धिरत आह * उपमानत्वं चेति । वैशिष्टयं तृतीयार्थः। अत एव सर्वाशेन तत्त्वासम्भवादाह ईषदिति । नन्वत्रव किं मानमत आह *इदमिति। तत्राहि "किं सर्वथा भेदे उपमानोपभेयभाव उताभेदे"इति प्रश्ने उभयत्रापि साधारणधर्मासम्भवाद्गौरिव गोर्गौरिवाश्व इत्यादौ उपमावाचकेवादेरर्यक्यापत्तिमुला “यत्र विशेषरूपेण भेदावगतिः साधारणधर्मरूपेणाभेदावगतिस्तत्र स" इत्युका "कथमेतजातम्" इति शङ्कायां "हीनं मानमुपमानं यन्नान्यन्ताय मिमीते इत्यर्थको. पमानव्यवहारादेतनिर्णीतम्" इत्युक्तम् । तस्यायम्भावः-प्रस्थादि हि साकल्येन मानमिति तद् अत्यन्तभे- दनैव परिच्छेदकम् । प्रस्थः परिमाणमस्येति प्रस्थो ब्रीहिरिति वा । इदं तु हीनमिति भेदाभेदाभ्यामेव परिच्छेदकमिति । अन्यन्तायेत्य- व्ययमत्यन्तमित्यर्थे। तदाह *अन्यत्रेति । उद्योतगुरुमञ्जूषयोरित्यर्थः। एतेनोपमानत्वं चोपमानिरूपकत्वेन विवक्षितत्वम्, तदाश्रयत्वेन विव. क्षितत्वं चोपमेयत्वामित्यपास्तम् । अन्त्यमालङ्कारिकसंमतमपीत्याह *उभयत्रेति । तद्वोध इत्य- थः। *लिङ्गति । लिङ्गभेदादिरूपोपमादोरेत्यर्थः । *आदिना वच- नभेदः। *प्रकाशादौ-तत्राप्यादिना प्रदीपादि ।

निपातार्थनिरूपणम् । ६२१ तत्रहीत्यनुक्तम्-"लिङ्गवचनभेदोऽपि उपमानोपमेययोःसाधारणं धर्म चेद् अन्यरूपं कुर्यात्तकतरस्यैव तद्धर्मसमन्वयावगतेः सविशे- षणस्यैव तस्योपमानत्वपमेयत्वं या प्रतीयमानेनापि धर्मेण प्रती. येतति प्रक्रान्तार्थस्य स्फुटमालेवा हात्तस्य भन्नप्रक्रमरूपत्वम् । यथा- चिन्तारत्नमिव च्युनोऽसि करतो धिङ् मन्दभाग्यस्व मे। सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव” इति । तत्र बोधं सूचयन् व्यस्ते बोधमाह *एवं वेति । तस्य तद्द्यो- तकत्वे चेत्यर्थः । 'अरविन्दमिव सुन्दरं वदनम्' इत्यादौ सुन्दरो- पमानभूनारविन्दाभिन्नं सुन्दरं वदनमित्यादिबोधसंग्राहक आदिः । एलेन 'चन्द्रनिरूपितसादृश्यप्रयोजकाहादवदभिन्नं मुखम्' 'अरवि- न्दनिरूपितसादृश्यप्रयोजकलौन्दर्यवदाभिन्नं वदनम्' इत्यादिवोधा निरस्ताः । अस्थावश्यकतामाह *एवञ्चेति । इवादिसमभिव्याहारे इति भावः । *विभक्तिकत्वम्-तनियमः । अस्यार्थमाह *तेनेति । विशेषमाह *साधारणेति । *इतिबोधइति । अतो त्रापि तयोः समानविभक्तिकतैवेति भावः । एवं 'गज इब गच्छति चैत्र' इत्यादी बोध्यम् । 'वनं गज इव शूरः समरभूमि गछति' इत्बादौ 'उपमान- गजकर्तृकवनगमनाभिन्नं शूरकर्तृकसमरभूमिगमनम्' इति अत्र साधारणधर्मरूपगमनस्य विधेयतयोपमाविधे- यिका धीः। 'व्याघ्र इव यः पुरुषः स गच्छति' इत्यादौ 'उपमान- व्याघ्राभित्रशूरपुरुषकर्तृकं गमनम्' इति धीः । शूरत्वादिसाधारणध. मस्योद्देश्यतयोपमोद्देश्यिका ऽत्र धीरित्यादि ।। २५ ॥ ये त्वत्र 'चन्द्रसादृश्यमयोजको मुखकर्तृक आ- ल्हाद' इत्यर्थ वर्णयन्ति, तेषां तयोः समानवचनकत्वं दुर्लभम्।वचनं तु तादृशं न व्याकरणे उपलभ्यते । तत्र यद्यपि चन्द्रमुखयोस्तत्त्वेन भेदस्तथापि विशेषणतया प्रतीतसाधारणधर्मनिमित्ताभेदोपचारेणाभेदः । अत एव 'भेदाभेदप्रधाना उपमा' इति वृद्धाः। चन्द्रमुखयोः बोधः ।

६२२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । सादृश्यप्रतीतिस्त्वार्यवति बोध्यम् । इदमेव युक्तम् । घनश्याम इत्यादौ विग्रहे समासे च घनशब्दस्य तत्सदृशपरत्वे "उप- मानानि सामान्यवचनैः” इत्यनेनोपमानत्वेन बोध- कानि सामान्यधर्मविशिष्टोपमेयवचनैः समानाधि- करणैः समस्यन्ते इत्यर्थकेन समासानापत्तिः, धनपद- स्याप्युपमेयपरत्वेन उपमानवाचकत्वाभावात् । न च भूतपूर्वगत्या तत्त्वम् । तद्विग्रहवाक्ये ऽप्युक्तरीत्या त- स्वाभावात् । घनेन तुल्य इत्यत्र तथात्वे ऽपि तस्य वि- ग्रहत्वाभावात्। प्रत्यासत्या तत्र वृत्तौ तद्विग्रहवाक्ये चोपमानवाचकत्वस्य ग्रहणौचित्यात्। तस्य तद्विग्रहत्वे 'मृगचपला' इत्यादौ पुंवत्त्वालापत्तिः । वृत्तौ विग्रहे च सामानाधिकरण्ये एव तत्प्रवृत्तेः। एतेन पूर्वावस्थाऽऽश्रयेग शस्त्र्या उपमानवा- चित्वमिति कैयटः परास्तः । केवलशस्त्रीपदप्रयोगे तु सर्वथोपमानवाचित्वं दुरुपपादम्। एवं मृग्यादेः सादृश्यसम्बन्धेनान्वये ऽपि तदनुपपत्तिः । किश्च श्यामशब्दस्योपमेयपरतया धने तदन्वयाभावेन तस्य साधारणधर्मवैशिष्ट्येनेतरप- रिच्छेदकत्वरूपोपमानत्वाभावः॥ २६ ॥ (कुं० टी०) *अभेद इति । यदि सर्वथा अभेदे उपमानोप- मेयभावस्तदा तद्गतभूयोधर्मपरिच्छेद्यत्वरूपोपमेयत्वस्य तत्रासंभ- वः। अत एव तयोः सर्वथा भेदोऽपि न । तस्मात्साधारणधर्म- रूपेणाभेदस्तत्तद्रूपेण भेद इति भावः ।

निपातार्थनिरूपणम् । ६२३ इदं तु चिन्त्यते-उपमानोपमेययोः समानविभक्तिकत्व- नियमे "प्रत्ययोत्तरपदयोश्च" इति सूत्रे "यूयमिवाचरति युष्म- द्यते" इति प्रत्युदाहरणासङ्गतिः । अत एव ईश्वर इव मुनय इति प्रयोगो ऽनुभवसिद्ध इति । *तत्त्वम्-उपमानत्वम् । *तत्वाभावादिति । घनसदृश इत्यस्यैव विग्रहार्थतया तत्राप्युपमानत्वाभावादित्यर्थः । *वि. ग्रहत्वाभावादिति । घनतुल्यसदृश इति रूपापत्तेः । अयं भावः-शस्त्रीशब्दो यदि शस्त्र्यामेव वर्तते श्यामाशब्दोऽपि तस्यामेव समासेनचोपमेयाया देवदत्ताया अभिधानं तदा शस्त्री- श्यामो देवदत्त इति न स्यात् । अथ श्यामाशब्दो देवदत्तायां वर्त्तते तदा वैयधिकरण्यात्समासो न स्यात् । वचनसामर्थ्या- समास इत्युक्तौ तु मृगीच चपला मृगचपलेखादौ पुंवद्भावो न स्यात् इति । *विग्रहवाक्येचेति । अन्यथा राज्ञी दासीसत्रापि पुंव- भावापत्तेः । *अस्यैव-श्यामा इत्यस्यैव । *तदनुपपत्ति:- उपमानत्वानुपपत्तिः । *तदन्वयाभावेति । घननिष्ठश्यामत्व- वोधाभावेनेत्यर्थः ॥ २६ ॥ (क० टी०) परमतं दूषयति *ये विति । इतिबोधं वदन्ती- तिपाठः । एतेन 'अरविन्दमिव वदनं माति इत्यत्र अरविन्दनिरूपि- तसादृश्यप्रकारकज्ञानविषयो मुखम्' इति बोध इति निरस्तम् । * नोपलभ्यते इति । एतेनात्र निपातेवादेरुपसर्गत्ववत् द्योतकत्वमेव, कथमन्यथा “श- रैरुत्रैः” इत्यादावुत्रादिपदोत्तरतृतीयादिसङ्गतिः। उनादेरुद्धरणक्रि- यां प्रत्यकरणत्वात्, इवार्थसादृश्यान्वयित्वेन करणभूतशरविशेष- णत्वाभावाश्च । द्योतकत्वे तूनादिपदस्य तत्सदृशपरतयोस्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयादिसङ्गतिरिति वैयाकरणमतंतु टीकाद्वयोपेतायां लघुमञ्जूषायाम् । न युक्तम्, 'उपास्यले गुरुः' इत्यादौ कर्मत्वानुपपत्तिरूपबाधकस्योप- स्योपसर्गस्य वाचकतायाग्निवेशविधु बाचकत्वे अभाव दृष्टान्तवैष- म्यात् । विशेषणविशेग्ययोः लमानविभक्तिकतायाम्- विशेष्येण सहकार्थ भवेत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशेष्यस्था विशेषणे ॥ इत्यनुशासनस्येवोपमानापमेपयोरपि तस्याम्- लिङ्गसंख्याविभेदेऽपि छुपमालोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ।। इत्यनुशासनस्य सत्त्वेनोपमानपदोत्तरतृतीयादेः साधुत्वार्थतयो- पपत्तेश्च । तस्मावाचकत्वमेववादीलाम् । अन्यथा सकलालंकारिक- संमतेवशब्दप्रयोगे श्रौतीत्वस्य दत्तजलाञ्जलित्वापन्तः। रूटिफलान्य- तराभावेन सहशलक्षणायां निषिद्धलाक्षणिकत्वरूपनेयार्थत्वदोषाप- तेश्व। किञ्चवादेोतकत्ये चन्द्रायुगमानपदार्थकदेशे तत्र साधार- णधर्मान्वयानुपपत्तिः, तस्योपोयमात्रान्वयाङ्गीकारे च लिङ्गवचन- भेदस्य दोषत्वानुपपत्तिरिति वैद्यनाथोकमपास्तम् । "विशेषणानां " इत्यादिसूनमते आधपद्यस्य कल्पितस्योपपत्ता- वपि प्रामाणिकत्वापत्तः । अनवस्थापत्तश्च । किञ्च क्रियागतविशपयो- धकातिरिक्तनिपातेषु पस्पशास्थ-अधिपरी-न-अव्ययंधिभक्तीत्या. दिसूत्रस्थभाव्यस्वरसावुत्तेश्चोभयमित्यस्य वैयाकरणमतत्वेन भव- दुक्तमतस्यैवाभावात् । तथा कस्य निदुतस्त्वदुक्तिस्यत्वात् । अत एव 'इति वैयाकरणमतं तु न युक्तन्' इत्युक्तिरपि 'काकस्य कति वा दन्ता' इतिन्यायाथिता । तस्मात् 'शरैः' इत्यादायुक्तरीत्या द्योतकत्व- मेव । एवं च तस्माद्धाचकत्वमेवेचादीनाम्' इति प्रतिज्ञानमपि शुक्तों 'इदं रजलम्' इति ज्ञानवविचारितरमणीयम् । एवम् 'उपास्यते गुरुरितिवदिवादिवाचकतायां बाधकामावेन दृष्टान्तवैषम्यम्' इत्युक्तिरपि सिद्धान्ताज्ञानविलसिता । किञ्च इवादिप्रयोगे सा- धारणधर्मसम्बन्धरूपोपमाया वाच्यत्वेन सर्वालङ्कारिकसंमतश्रौती- त्वोपपत्तेः। सादृश्यप्रतीतिस्त्वार्येवेति स्फुटमग्रे। अत एव-“सदृशे लक्षणा न” इति निषिद्धलाक्षणिकत्वापत्तिरूपदोषवद् "किञ्चेत्याा. तदोषोऽपि नेति दिक् । *तत्र-चन्द्र इव मुखमित्याभ्याम् । ननूभयोः साधारणधर्मवत्त्वेनाभेदप्रतीतावपि ततो निर्वाहः कथं "सादृश्य- निपातार्थनिरूपणम् । ६२५ धियोऽत आह चन्द्रेति । नन्वार्थ प्रतीयमानमानियतधर्मकृतं प्रतीयेत उपस्थितत्वेन बोध्यधर्मकृतस्यैव प्रत्ययातू । 'गजो वनं गच्छतीव शूरः समरभूमि गच्छति' इत्यादौ क्रियासमाभव्याहृते- वादेः संभावनार्थत्वेन न तत्रोपमा । 'गजकर्तृकवनकर्मकगमनक्रिया- सम्भावनाविषयः शूरकर्तृकं समरकर्मकं गमनम्' इति बोधः। नच 'घटो न पश्यति' इत्यतो 'घटभेदं पश्यति' इति बोधवारणाय धात्व- र्थनिष्ठविशेष्यतानिरूपितप्रकारतया बोधं प्रति श्रूयमाणविभक्त्यन्तज- न्योपस्थितेहेतुत्वादेतद्वोधानुपपत्तिरिति वाच्यम् । दधि, तूष्णीम्, आरात, पृथग इत्यादीनां धात्वर्थान्वयानापत्तेः । घटो न पश्यतीत्या- देस्तूक्तार्थे न साधुत्वम् , भेदार्थकनओऽधिकरणसाकाङ्कतया घटो न पट इत्येव तत्र प्रयोगात् ।अधिकरणप्रयोग विना भिन्नार्थकत्वस्याभा- वाद् । आरोपितघटत्वस्यापि न तथा अन्वयः। धात्वर्थ-सत्त्ववाचिना- मार्थोभयविषयकभेदसंसर्गकवोधेविभक्तिशक्तिग्रहत उबुद्धसंस्का- रस्य हेतुत्वात् । विशेषणविशेष्यभावान्यसंसर्गस्य वाचकप्रत्ययं विनाऽयोधाच्चेति स्फुटमग्ने षष्टीप्रकरणे । एतेन 'हंसीव' इत्यादौ सादृश्यस्य स्वर्गङ्गावगाहनाश्रयेऽन्ययः, न त्ववगाहने धात्वर्थे । धात्वर्थनिष्टविशेप्यतानिरूपितप्रकारतासं- सर्गेग शाब्दबोधे विशेप्यतया विभत्त्यर्थोपस्थिहेतुत्वात् । नच निपातार्थभिन्नवृत्तित्वेन प्रकारता विशेषणीयेति वाच्यम् । 'घटो न पश्यति' इत्यादौ घटाद्यन्विताभावस्य कर्मतासंसर्गेण दर्शन न्य- यापत्तेः । यदि तु धात्वर्थेऽपि तात्पर्यवशात्सादृश्यान्वयो ऽनु- भवसिद्धस्तदा धात्वर्थनिष्ठविशेग्यतानिरूपितमकारतासम्बन्धेना- न्वयबुद्धिं प्रति नजन्योपस्थितेः प्रतिवन्धकत्वमात्रं परिकल्प्य 'घटो न पश्यति' इत्यादौ तथा बोधो निवार्य इति तदुक्तमपास्तम् । क्रियान्यसमभिव्याहृतस्यात्यन्ताभावार्थकत्वस्याभावाश्चेत्यग्रे स्फुटी. भविष्यति । समासस्थले उक्त प्रकारं विना सर्वथा न गतिरिति तत्र तदावश्यकत्वे तदैकरूप्याय प्रागुलव्यस्तस्थले ऽपि तथैवो- चितमिति तत्र तथोक्तं समर्थयते *इदमेव युक्तमित्यादिना । तत्र हेतुमाह *घनेति । यत इत्यादिः । *विग्रहे इति । अलौ- किकविग्रहे इत्यर्थः । अन्यथा तस्थान्यार्थकत्वेन विग्रहत्वापत्त्या ७९ ६२६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तत्र तदर्थान्तर्भावेण समासो न स्यात् । इवस्य तत्राप्यभावात्, अ. सामानाधिकरण्याच्चेति भावः। सिद्धान्तमाह *उपमानत्वेनेति । अन्यथा ससम्बन्धिकत्वान् “सामान्यवचनैः" इत्येव तेन समासला. भेतद्वयर्थ्य स्पष्टमेव । स्वएरसाधारणमाह *सामान्येति । अधि. कृतमाह *समानाधिकरणैरिति । उपमानपरत्वस्यैवाभावेन तत्त्वेन बोधकत्वं सुतरां नास्तीत्याशयेनाह *घनपदेति । *अपिना श्यामप. दसंग्रहः । “साम्प्रतिकाभावे" इति न्यायेनाह *न चेति । * उक्तेति । तत्रापि तस्य तत्परत्वावश्यकत्वमित्युक्तेत्यर्थः । लौकिकविग्रहे तु इवस्य सत्त्वे ऽपि सामानाधिकरण्याय तस्य तत्परत्वमाव- श्यकमिति तत्रापि तत्स्वाभावः, तद् ध्वनयन्नाह *घनेनेति । श्या- म इति शेषः । *तथात्वेऽपीति । घनत्वेनोपमानबोधकत्वेऽपि व्यधि- करणत्वेन तस्य तदविग्रहत्वादित्यर्थः । ननु तस्य तदविग्रह- त्वे ऽपि अगत्या तत्रत्यमेव तद् गृह्यते ऽत आह *प्रत्यासत्त्ये. ति । *तत्र-तस्याम् । अन्यथा नीलोत्पलादावतिप्रसङ्गापत्तेः । अत ए- वाह *तस्येति । यत्र समासस्तत्र सामानाधिकरण्यापेक्षा नतु लौ किकविग्रहवाक्ये इति तत्र वैयधिकरण्ये ऽपि यावत्तदर्थवोधक- स्वमात्रेणागत्या तत्त्वाङ्गीकारे इत्यर्थः । एवंच न समासापत्तिर्दोषः । अत एवाह *पुंवत्त्वेति। ननु तदपि समासवत्सुलाधमत आह * ताविति । अत एव दर्शनीयाया माता दर्शनीयामातत्यादो द्वयोरक- विशेष्यकप्रतीतिजनकत्वेन तत्र सामानाधिकरण्ये जप न पुंवत्त्वम् । अत एवात्र पक्षे पुंवत्त्वासिद्धिर्भाष्ये उत्ता । तद् ध्वनयन्नाह *ए. नेति । पुंवत्वासाधनेनेत्यर्थः । कैयटाशयान्तरमाह *केवलति । इ- यमेव पूर्वावस्था नतु विग्रहवाक्यघटकत्वावस्था । *सर्व- थेति । शस्त्रीत्वेन तस्य बोधकत्वेऽपि नियामकासमभिव्याहारण तस्य तत्त्वेनाबोधकत्वात् अन्यथाऽतिप्रसङ्गापत्तेः । एतेन पूर्वपदं तत्सदृशे लाक्षणिकमिति द्योतयितुं लौकिकविग्र- हे इवशब्दः प्रयुज्यते इति लाक्षणिकमिति । अत एव सामानाधि- करण्यान्मृगचपलेत्यादौ पुंवत्त्वम् । कथं तर्युपमानपरत्वमिति चे- तू । भूतपूर्वगत्या शक्यार्थमादायेत्यवेहीति । अनतिप्रसङ्गायावश्य- कस्योभयत्र सामानाधिकरण्यस्य निर्वाहाय तत्र वाक्ये ऽपि तत् सदृशलाक्षणिकम् इवस्त्वस्यैवार्थस्य धोतकः । 'धनसमानसदृशः निपातार्थनिरूपणम् । ६२७ श्याम' इति वोधः सर्वत्रेति च दीक्षितायुक्तम्, अरविन्दसुन्दरमिति समाले त्वरविन्दपदेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौ. न्दर्यवदभिन्नं वदनमिति बोधः । एकदेशान्वयायोगादरविन्दमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकमित्येके इति तदु. तं चापास्तम् । उक्तरीतिभिःलमासाधनापत्तेस्तथाबोधासम्भवाच । उक्तदोषद्वयमसामानाधिकरण्यादन्यपक्षेतिदिशति *एवमिति । तत्र पक्षे इवेत्यर्थः ! सादृश्यस्य संसर्गतया भानं नतु तद्वत् प्रकारतयेति भावः । *तत्-उभयम् । उक्तरीत्या प्राचां मतेन समासमभ्युपेत्य पुं. वत्स्वाभावदोष उक्तः । वस्तुतः सिद्धान्तरीत्या सो ऽपि नेत्याह *किञ्चति । तथाबोधे इति शेषः । शामत्वबैशिष्टयेनोपमेयस्यैव प्रतीतराह *श्यामेति । *तस्य-घनस्य । तथाच तेनावोधक- त्वात्समासो नेति भावः ॥ २६ ॥ , तदुक्तं भाष्ये "यदि शस्त्रीव श्यामा देवदत्तेति विग्रहस्तदा शस्त्यां श्यामेत्येतदपेक्ष्यं स्यात् । यदि यथा शस्त्री श्यामा तद् देवदत्तेति विग्रहस्तदा देव- दत्तायां श्यामेत्येतदपेक्ष्यं स्यात्" इति । कैयटेऽपि-'न च शब्दस्यावृत्तिरस्ति येनोभयग- तश्यामत्वं प्रतिपादयेद्' इति । एको हि श्यामा- शब्द एकगतगुणस्यैव प्रतिपादकः, नहि तस्य शान्दा- न्वयं विना उक्तमुपमानत्वमिति तद्भावः श्यामेत्यस्योपमेयपरत्वाभावे तु साधारणधर्मविशि- ष्टोपमेयपरत्वरूपसामान्यवचनत्वाभावात्समासो न स्यात्। अतएव भाष्ये "शस्त्रीशब्दः शस्त्र्यामेव श्यामा- शब्दो देवदत्तायामेव" इति पक्षे "सामानाधिकरण्या- भावात्समासपुंवभावौ न प्राप्नुत" इत्युका "एवं ६२८ टीकाद्वयोपेतायां लघुमजूषायाम् । तहि तस्यामेवोभयं वर्सने इति सुस्तम्" इत्युक्तम् । तत्र तस्यावेत्यस्योपमेवाचावेत्यर्थः । उपमा- नशब्दोऽपि सादृश्यमूसाभेदाध्यवसायातलि तद्- भावः । तत्र सादृश्यनिर्वाहायास्यैव तन्त्रादिना उप- माने ऽपि सम्बन्धोऽवश्यं घाच्यः । तदुक्तं कैयौन-'यदा देवदत्तायां शस्त्रीत्वमारो- प्यते सादृश्यात् तदा के गुणमाश्रित्य तयोः सादृश्यम्' इत्याशङ्ग्य, 'यदा चन्द्रमुखीत्यादौ चन्द्रे ऽनेकगुणसत्त्वे ऽपि तात्पर्यवशास्त्रियदर्शनत्वमनि- र्दिष्टोऽपि गुगो वृद्धव्यवहारानुपमानिमित्तं तदोपमेये श्रुतः संनिधानात् कथमुपमान न स्प्रक्ष्यति' इति । अत एवैतदुत्तरं 'शस्त्रीशब्देनाभिसंबध्यमानत्वा. त् श्यामाशब्दस्य सामान्यवचनत्वाभावः' इत्या. शक्षितम् । शस्त्रीशब्देनाप्यभिसंबध्यमानत्वादिति त- दर्थः । बहूनां यः सामान्यमाह स एव सामान्य. वचन इत्याशयेन शङ्का। ततः सिद्धान्तिनोक्तं "श्या. मत्वस्योभयत्र शस्त्र्यां देवदत्तायां च भावात्, उ- भयगतगुणवाचकत्वाच्च श्यामाशब्दस्य सामान्यव. चनत्वम् । नावश्यं स एव सामान्यवचनो यो बहूनां सामान्यमाह द्वयोरपि यः सामान्यमाह सोऽपि सामा- न्यवचनः" इति । अत्रोभयगतगुणवाचकत्वादित्यने- नोभयोः साधारणधर्मसंबन्धः शाब्द इति सूचितम् । अतएव "सामान्यैः" इति नोक्तं "सामान्यवचनैः। इति चोक्तम् । तच्चोभयान्वयित्वेनोभयगतधर्मवाचक- स्वबोधनार्थम् । श्यामाशब्दस्य द्विगतधर्मवाचकत्वेनैव निपातार्थनिरूपणम् । ६२९ सामान्यवचमत्वं बोध्यम्। एवं चोएमानश्यामघनाभि- नःश्यालो देवदस इलि बोध इति भाव्यस्थरस।।२७॥ (कुं० टी०) अपेक्षयस्यादिति । तत्त्वेन बोधार्थमिति शेषः। *शब्दस्य-श्यामाशब्दस्य । * अस्यैव-श्यामाइत्यस्यैव । *इति- चोक्तमिति । उपमानोपमेयसाधारणो धर्मः सामान्यं तद्वाचकत्वं च सामान्यवचनत्वम् ॥ २७ ॥ (क० टी० ) तथार्थवोधलाभो न परोकबोधलाभ इत्याश- येनोक्तार्थे तत्समामिप्याह *तदुक्तमिति । *कैयटेऽपि-उक्त- मित्यस्यानुपङ्गः तवाह *न चेति । *उक्तमिति । शस्व्याः साधारणधर्मवत्त्वेनेतरपरिच्छदेकत्वरूपमित्यर्थः । तत्त्वा- यैव हि तदपक्षेति भावः । भाष्याद्यबुक्तमाह *श्यामेत्यति । गुणव्यक्तविशेष्यतया स्त्रीत्वम् । ननु सामान्यवचत्वन्तादृशमित्यत्रैव किं मानमत आह *अत एवेति । तस्य तद्रूपत्वादेवेत्यर्थः। *पक्षेइति। सादृश्यसम्बन्धेनान्वय इति भावः । उपमानाभ्रमायाह *तति । सिद्धान्ते इत्यर्थः । अनेन तस्य तद्रूपत्वं स्पष्टमेवोक्तम् । वाधनिरा- सायाह *उपेति । नन्वेवमपि सादृश्यस्यान्यमूलकत्वस्य वा- च्यत्वादेतन्मूलकत्वस्योक्तरत्यिाऽसम्भवात्, भाष्यतो ऽलाभाच्च तादृशोपमानत्वालाभेनोक्तभाष्यासङ्गतिरत आह तति । उपमेये इत्यर्थः । *अस्यैव-श्यामत्वस्यैव । *तन्त्रादीत्यादिना बोधुरावृत्तिः। तथाचात्र तन्त्रमसहविवक्षाविषयाविभक्त्यन्ततन्त्रं बोध्यम् । उपा- सधर्मसत्त्वे सांनिध्यात्तेनैव सा प्रतीतिरनुभवसिद्धेति भावः। अत्र संमतिमाह *तदुक्तमिति । तात्पर्यग्राहकमाह *वृद्धति । अत्र भाप्यसमतिमप्याह *अतएवेति । *तस्यैव-तत्रान्वयादेवे- त्यर्थः। अस्योभयत्रान्वयः । एतदुत्तरमितिसूचितं नावधारण- परं भाष्यमित्यत आह *शस्त्रीशब्देनापीति । नन्वेवं शङ्काऽसङ्ग- तिरतः सिद्धान्तानुरोधेनाह *बहूनामिति । बहुगतधर्मस्यैव सामान्यत्वमिति तत्र समासे द्विगतधर्मबोधकत्वेनातत्वादिति भावः । उभयत्रेत्यस्य व्याख्या *शस्त्र्यामिति । *बहूनामिति । बहुनान्तेषामेव । नन्वेतद्भाष्यत उभयत्र गुणसत्तायाः, शब्दे त- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । द्वाचकत्वस्य च लाभे ऽप्युभयत्रान्वयो न लब्धोऽत आह *अत्रेति । सिद्धान्तभाष्ये इत्यर्थः । अन्यथा तद्वत्त्वाच्चेत्येव सिद्ध तथोक्तिर. धिकेति स्पष्टमेव । किञ्च तथासति वस्तुतो बहुधर्मवाचकताया अपि श्यामाशब्दे सत्त्वेन “नावश्यम्" इत्यादिभाष्यस्थपूर्वप. क्षस्य निरालम्बनताऽऽपत्तिस्तस्माद्यावतामर्थानां शब्दजबोधे- ऽन्वयस्तावतां तच्छब्दवाच्यतेत्येव भाष्यतात्पर्यम् । एवं भाष्यसंम- ते सूत्रसंमतिमप्याह *अतएवेति । तस्योभयोः शाब्दत्वादेवे. त्यर्थः । तथासति लक्षणया लब्धमर्थमाह *तञ्चेति । एतत्सर्व वि. ग्रहविषयम् । वृत्तौ तु "उपमानानि" इत्युक्त्यैकार्थीभावबलात्तदुप. स्थितिरिति बोध्यम् । यद्यपि तयोः स्वरूपतो भेद एव तथाऽप्युक्त- रीत्या ऽभेदस्यापि प्रतीतेः सामानाधिकरण्यनिमित्तसमासपुंव- द्भावौ सिद्धौ। अनेन भाग्येणोपमानश्यामशस्च्यभिन्ना श्यामा दे. वदत्तेति बोध इति स्पष्टमेवोक्तम् । तदभिप्रेत्य प्रकृते आह *श्या- मेति । एवेन बहुगतधर्मवाचकत्वव्यवच्छेदः । एतेन तथा लोक प्रवादो निरस्तः। *एवञ्च-तथासत्त्वे च ॥ २७ ॥ काव्यप्रकाशस्वरसो ऽप्येवमेव । तत्राहि एवमुक्तम्-“यथेववाशब्दा यत्परास्तस्यैवो- पमानताप्रतीतिरिति । यद्यप्युपमानविशेषणानि ते, तथाऽपिशब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत्सम्बन्धं प्र- तिपादयन्तीति तत्सदभावे श्रौती उपमा । तेन म् इत्यादौ प्रतीततुल्यतोपपत्तये साधर्म्यस्यार्थत्वा- दार्थी"इति । यत्परा इत्यस्य यदनन्तरमुपात्ता इत्य- र्थः । उपमानताप्रतीतिश्च शाब्द्येव । तेषां शब्दाना. मुपमानविशेषणार्थप्रतिपादकत्वेऽस्याः इतिना हेतुत्वे- नोपादानात् । उपमानविशेषणानीति बहुव्रीहिरिति तु न युक्तम् । पुंस्त्वापत्तेः । उपमानविशेषणा एते १ प्रतीतेरित्यर्थः। तुल्य- निपातार्थनिरूपणम् । ६३१ इति पाठस्तु प्रदपिादिविरुद्ध इत्यन्यत्र विस्तरः । नचैवं 'पुरुषो व्याघ्र इव शूरः'इत्यादौ भवदुक्तरी- त्या बोधे विशेषणस्य व्याघ्रस्यापि सविशेषणत्वेना. सामर्थ्यात्समासो न स्यादिति वाच्यम् । उपमानत्वेन बोधकस्य तस्य साधारणधर्माशे नित्यसापेक्षत्वेना- दोषात । साधारणधर्मवत्वेन परिच्छेदकत्वं हि तत्वम् । तच तत्त्वेन ज्ञातस्यैव । यद्यप्युपमेयत्वं तद्वत्त्वेन परिच्छेद्यत्वमेव तस्य च तत्त्वं विधेयमिति न तन्नित्य सापेक्षम् , तथापि प्रधानस्य सापेक्षत्वेन भयत्येव समासः । प्रधाने- ऽनेकदिशेम्भवात् । 'देवदत्तो धनी सुन्दरश्च' इलियत् । अतएव "सामान्याप्रयोगे" इति चरितार्थम् । अस्तु वा उपमेयस्यापि नित्य सापेक्षत्वम्, परन्तु तत्त्वं न समालप्रयोजकम्, किन्तु गमक- त्वमेवेति समासवादे वक्ष्यते । तस्य तत्त्वं च बहुशो दृष्टनिति अत्रापि समासः स्यादिति त- द्वारणाय "सामान्याप्रयोगे" इति । इदमेव तत्र गम- कत्वबोधकमिति बोध्यम् ॥ २८ ॥ (कुं० टी०) *यथेति । यथादिशब्दा यस्यानन्तरं प्रयु- ज्यन्ते तस्योपमानत्वमित्यर्थः । उपमा द्विविधा श्रौती आर्थीच । उपमानोपमेपयोः साधा- रणधर्मसम्बन्धरूपाया उपमायाः शाब्दबोधविषयत्वं श्रौतत्व- म्। अर्थापत्तिविषयत्वमार्थत्वम् । नन्विवादिशब्दानाम्, तुल्या- ६३२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । दिशब्दानां चार्थप्रतीतौ विशेषाभावादियं शाब्दी, इयमार्थीति विषयाविभागो न युक्तः । नच यथाऽऽदिशब्दैः साधारणधर्मस- म्बन्ध उभयत्र शक्त्यैव बोध्यते तुल्यादिशब्देस्तु नेतीति वाच्य- म् । यथादिशब्दा यदनन्तरमुपात्तास्तस्यैवोपमानता प्रतिपा- दयन्तीति शङ्कते *यद्यपीति । *उपमानविशेषणानीति । उ- पमानविशेषणार्थप्रतिपादकानीत्यर्थः । एवं चोपमान एव तत्सम्बन्धं बोधयन्ति न तूपमेये अन्याविशेषणस्यान्यत्र सम्बन्ध. बोधकत्वाभावादिति भावः । शब्दशक्तिस्वाभाव्यादन्यविशेष- णस्याप्यन्यत्र सम्बन्धबोधकत्वमस्तीत्याह *पष्ठीवदिति । षष्ठी हि यदनन्तरमुपात्ता तस्यैवोपसर्जनत्वं गमयन्त्यपि प्रधानेऽपि सम्बन्धं बोधयतीति भावः । * आर्थीति । तथाच सम्बन्धबोधे विशेषात् श्रौत्य विभागः । तथाहि 'चन्द्रइव मुखम्' इत्यादौ रमणीयत्वादिसम्बन्धमविषयीकृत्य तु न पर्यवसानं यथादि- शब्दानां धर्मविशेषसम्बन्धे एव शक्तत्वात् । 'चन्द्रेण तुल्यं मुखम्' इत्यादौ तु सामान्यतस्तुल्यत्वं बोधयित्वा विश्रान्ते त- स्मिन् धर्मविशेष विना कथं तुल्यतेति शङ्कायां धर्मविशेषसम्ब- न्धप्रतीतिरिति । *इतिनेति । 'तस्यैवोपमानताप्रतीतिरिति'इति काव्यप्रकाशवाक्ये इतिशब्देन उपमानविशेषणार्थप्रतिपादकत्वं हेतुर्निर्दिश्यते इत्यर्थः । * भवदुक्तरीत्येति । उपमानशूरव्याघ्र त्याद्याकारकत्यर्थः नस्यादिति । तथाच किं "सामान्याप्रयोगे" इतिनिषेधेनेति भावः । *नित्य सापेक्षत्वेनेति । साधारणधर्म- सम्बन्ध विना उपमानत्वस्यैवासम्भवात् । *साधारणधर्मवत्त्वे. नेति । साधारणधर्महेतुकपरिच्छेदकरणत्वमित्यर्थः । तत्त्वम्- उपमानत्वम् । *तच्च-उपमानत्वञ्च । *तत्त्वेन-साधारणधर्म- वत्वेन । ननूपमानस्य नित्यसापेक्षत्वे ऽप्युपमेयस्य नित्यसापे- निपातार्थनिरूपणम् । क्षत्वाभावात् समासानुपपत्तिरेवेत्याशङ्कते *यद्यपीति । *तस्य- उपमेयस्या *तत्त्वम्-परिच्छेद्यत्वम् । *तत्वम्-नित्यसापेक्षत्वम्। *गमकत्वमिति । राजपुरुष इत्यत्राकाङ्गायाः शान्तत्वान्न ऋद्धा- धन्वयः । देवदत्तस्य गुरुकुलमित्यादौ तु नित्यसापेक्षत्वेना- कामाया अशान्तत्वाद् भवति विशेषणान्वय इति भावः। *तस्य- गमकत्वस्य । *तत्त्वम्-समासप्रयोजकत्वम् । *इदमेव-सामा- न्याप्रयोग इति वचनमेव । तत्र-पुरुषो व्याघ्र इवेत्यत्र ॥ २८ ॥ . . (क० टी०) एवं सिद्धान्ते आलङ्कारिकसंमतिमपि तदविरो- धायाह *काव्येति । "तत्र तस्येव" इति विहितवतेरपि पूर्वत्र सं- ग्रह इति ध्वनयन्नाह तेनतुल्यमिति । तथा वाक्ये, तत्र विहितव- तिघटितवाक्येचेत्यर्थः । वहुव्रीहावर्थासङ्गतेराह *यदनन्तरमिति । आर्थत्वे विरोधापत्तेराह *उपमानतेति। *तेषाम्-यथेवादीनाम् । *उपमानविशेषणानीत्यस्योपमानं विशेषयन्ति उपमानत्ववैशिष्टये- न बोधयन्तीति व्युत्पत्त्योपमानविशेषणोपमानत्वद्योतकानीत्यर्थः । तदाह *उपमानेति । *अस्याः-तत्प्रतीतेः । अस्येत्यपपाठः । उप- मानता सादृश्यमिति प्राचां मतमेव प्रकाशाभिमतमिति खण्डयति * उपमानति । तत्रष्टापत्तिस्तथैव पाठादिति खण्डयति *उपमान- ति। *प्रदीपेति । तत्र हि-नन्वयं विभागोऽनुपपन्नः उभयत्र सादृश्य- प्रत्ययाविशेषात् । नचेवादिशब्दैः साधारणधर्मसम्बन्ध उभयत्र बो- ध्यते न तुल्यादिशब्दैरिति विशेषः, यतो यथाऽऽदयो यदनन्त- रमुपात्तास्तस्यैवोपमानताप्रतीतिरिति उपमानविशेषणानि ते; अ. त उपमाने तत्सम्बन्धं बोधयन्ति, नतूपमेये, अन्यविशेषणस्यान्यत्र सम्बन्धवोधकत्वादर्शनादिति चेन्न । शब्दशक्तीत्याधुक्तम् । अन्य- विशेषणत्वे ऽप्यन्यत्र सम्बन्धबोधकत्वे ऽष्टचरत्वनिरासाय षष्ठीव- दिति दृष्टान्त उक्तः । सा यथा 'राज्ञः पुरुष' इत्यादी स्वस्वामि- भावादिसम्बन्धबोधिका प्रकृत्यर्थस्य विशेषणत्ववोधिका च, वि. शेषणस्येतरविशेषणत्वार्थ सम्बन्धस्याकाङ्क्षणादिति तनिष्ठविशेष- णत्वस्वामित्वबोधकत्वे ऽपि प्रधाने पुरुष सम्बन्धस्य द्विष्ठतास्व. ८० ६३४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । भावत्वात्लम्बन्धघटकं स्वत्वं बोधयति, तथेवादिना तत्रोपमान- त्वं तन्निर्वाहकाल्हादकत्वादिलाधारणधर्मसम्बन्धश्च बोध्यते उक्त- हेतोरिति तदर्थः । तदाह *अन्यत्रेति । काव्यप्रदीपोद्योते इत्यर्थः । *एवम्-"उपमानानि" इति सूत्रविषये घनश्यामादौ तथाङ्गीकारे । "उपमितम्" इतिसूत्रविषये दोषमाह *पुरुषइति । *समासइति । तथाच "सामान्याप्रयोगे” इति सूत्रं च व्यर्थ स्यात् । शङ्कायास्त. त्रापि तुल्यत्वात् । अध्यर्द्धसूत्रसाधारणगत्यन्तरसम्भवे विशिष्य सूत्रवैयोक्तहेतुत्वमयुक्तमित्याशयेनाह *उपमानेति । "उपमितम्" इत्येतत्स्वारस्यात्, तस्योपमानेन नित्यसाकाङ्क्षत्वाच्च व्याघ्रादी- नामुपमानत्वे एव तत्प्रवृत्तेः तस्य रूढत्वात् । *तच्च-ताशोप. मानत्वं च । *तत्त्वेन-साधारणधर्मवत्वेन । तथाच तस्य सिद्ध. त्वान्नित्यसापेक्षत्वमिति भावः । नन्वेवं पूर्वसूत्रसार्थक्ये ऽपि नो- त्तरसूत्रसार्थक्यमित्याशयेन शङ्कते *यद्यपीति । *तस्य तत्त्वम्- उपमेयस्योपमेयत्वम् । *विधेयम्-विधेयमेव । तत्रासामर्थ्य हेतोः प्रसिद्धत्वायाह *सम्भवादेवेति । एतत्सूचकमेव विशेषणमि- त्याह *अत एवेति । तत्रासामर्थ्याभावादेवेत्यर्थः । ननु विधे. यत्वेन पूर्वमप्रतीतावपि ततः प्रतीतस्य नित्यसापेक्षत्वं दुर्वारमि- ति तथा प्राचां ग्रन्थासङ्गतिरेव अत आह *अस्तुवति । अत्र मते वैलक्षण्यमाह *परन्त्विति। *तत्त्वम्-नित्यसापेक्षत्वम्। *गमकत्वम्- अर्थावबोधकत्वम् । अन्यथा दोष इत्याह *इतिसमासेति । *त- स्येति । 'राजपुरुषः सुन्दर'इत्यादौ प्रधानस्यार्थावबोधकत्वमित्य- र्थः । *अत्रापि-सामान्यप्रयोगे ऽपि । प्राग्वदाह *इदमिति । उक्तविशेषणमेवेत्यर्थः । * तत्र-नित्यसापेक्षप्रधानसमासे । अत एव पुरुषव्यान इत्यादौ समाससिद्धिः, अन्यथा आक्षिप्तसाधारणधर्मा- न्वयस्योभयत्राप्यावश्यकत्वेन तत्रापि समासो न स्यात् ॥ २८ ॥ एवञ्च इवादियोगे साधारणधर्मसम्बन्धरूपा उप- मा वाच्या, सादृश्यप्रतीतिरार्थी । सदृशादिपदयो- गे सादृश्यप्रतीतिः शाब्दी उपमा त्वार्थी । सादृश्यं तु साधारणधर्मसम्बन्धप्रयोज्यं सदृशादिपदशक्य- निपातार्थनिरूपणम् । तावच्छेदकतया सिद्धम् , सदृशदर्शने संस्कारोबो- धकत्वस्य सर्वसंमतत्वेन तत्त्वेन तत्कारणतावच्छे. दकतया च सिद्धनखण्डअतिरिक्तः पदार्थः । नचातिरिक्तपदार्थत्वे गोतमकणादोक्तपदार्थसंख्या- विरोध इति वाच्यम् । प्रमेयपदार्थे गोतमोक्त अन्तर्भावात् । किश्च पदार्थसंख्यावन्धनमुपलक्षणमेव । तदुक्तं गोतमेन "संख्यैकान्तासिद्धिः कारणानु. पपत्त्युपपत्तिभ्याम्" इति । 'पदार्थगतसंख्यानियमस्यासिद्धिः कारणप्रमाण- स्यानुपपत्तेः । उपपत्तौ न तन्नियमः, साधनस्य साध्या- तिरेकादु' इति तदर्थं तद्याख्यातार आहुः । किञ्च"अकर्तरि च कारके"इति सूत्रे भाष्ये"-"न- जिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः" । नञ्यु- क्तमिवयुक्तं चान्यस्मिंस्तत्सदृशे कार्य विज्ञायते, तथा ह्यर्थो गम्यते । तद्यथा-अब्राह्मणमानयेत्युक्ते ब्राह्म. णसदृशं पुरुषमानयति नासौ लोष्टमानीय कृती भवति, एवमिहापि "अकर्तरि" इति कर्तृप्रतिषेधा- दन्यस्मिन्नकर्तरि कर्तृसदृशे कार्य विज्ञायते । किञ्चा- न्यत् अकर्तृ कर्तृसदृशं कारकम्" इत्युक्तम् । एवं च सूत्रे कारकग्रहणं प्रत्याख्यातम् । “कर्तृप्रतिषेधा- दु" इत्यस्यारोपितकर्तृयोधादित्यर्थः । अनेन हि भा- येणाभेदेऽपि सादृश्यमिति सूच्यते । अन्यथा ऽन्य- स्मिन्नित्यस्य वैयर्थ्यापत्तिः। तथा इवयोगे ऽपि भेद- सादृश्ये गम्ये, न तु तद्वाच्ये द्योत्येचेति प्रतीयते । इक- . ..

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । युक्तोदाहरणम् "इवे प्रतिकृती"इत्यधिकारे "शाखा. दिभ्यो यः" इति ये सोम्य इत्यादि । तत्र सोमसदृश स्तद्भिन्नः प्रतीयते न तु सोम एव । एतेन भेदनियतं सादृश्यमित्यपास्तम् । अस्था मुखसदृशमस्या मुखमित्यादावभेदे ऽपि सादृश्य- प्रतीतश्च ॥ २९ ॥ (कुं० टी०)*वाच्या-शब्दलभ्या । *गोतमेति । प्रमाण- प्रमेयादयः षोडश पदार्था इति गोतमः, सप्तेति कणादः। *वन्ध- नम्-नियमनम् । “एकमेवाद्वयम्" इत्यादिश्रुतिबलात् द्वितीयाभा- वमाशङ्याह #संख्यैकान्तासिद्धिरिति । संख्यैकान्तो नियमो न सिद्ध्यति । प्रमाणस्यानुपपत्तेः-असत्त्वात् । वस्तुमात्रस्य ब्रह्मरू- पत्वे तद्यतिरिक्तस्य प्रमाणस्य वक्तुमशक्यत्वादिति भावः । उपपत्तौ वा अतिरिक्तप्रमाणानि सन्त्येवेति न संख्यैकान्तः । साधनस्य साध्यातिरिक्तस्यापेक्षितत्वादिति तदर्थः । साध्यस्य एकत्वेन साधनीयस्य वस्तुमात्रस्य पक्षतया पक्षातिरिक्तहेतो- रभावादिति भावः । एका संख्यैव पदार्थ इत्यत्र, सप्तत्वविशि- टाः पदार्थाः साध्यन्ते तत्रापि तदतिरिक्तप्रमाणसत्चासत्त्वा- भ्यामुक्तरीत्या दोषो बोध्यः । अन्ये तु सादृश्यस्यातिरिक्तत्वे सुसदृशमीपत्सदृशमित्यु- स्कर्षापकर्षाभावप्रसङ्गः । सिद्धान्ते तु सामान्याल्पत्वभूयस्त्वाभ्यां तदुपपचिरिति सामान्येऽन्तर्भावः । तद्गतभूयोधर्मवत्त्वस्य साह- श्योपाधित्वेन प्रमेयत्वादिवत्सामान्ये ऽपि वृत्तेः। न च सामान्यनिष्ठं प्रतियोगिसादृश्यं च सप्रतियोगिकमि- ति शश्यम् ।

निपातार्थनिरूपणम् । इतरनिरूप्यं हि सप्रतियोगिकत्वं तद्गतधर्मवत्त्वलक्षणं तथा । ननु भाष्ये कर्तृप्रतिषेधादित्ययुक्तमकर्त्तरीत्यस्य पर्यु- दासत्वादत आह * आरोपितेति। भेदसादृश्ये गम्ये इति भावः । * सादृश्यं च-प्रतीयते इत्यर्थः । *भेदनियतमिति । तदुक्तं हरिणा। सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते । भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ॥ इति ॥ २९ ॥ (क० टी०) विशेषं वक्तुं प्रकाशतात्पर्यमाह *एवञ्चति । तथा सिद्धान्तेचेत्यर्थः । * आर्थीति। हेतुहेतुमतोर्नित्यसम्बन्धेन ता- त्पर्यतो वक्रादिवैशिष्टयेन च व्यञ्जनया तत्प्रतीतेरिति भावः । न- न्वयुक्तमेतत् सादृश्यस्य धर्मरूपत्वेन ततो भेदाभावादत आह *सा. दृश्यन्त्विति । अस्य जनकमाह *साधारणेति । ज्ञापकं सिद्धान्तमते- नाह *सहशेति । परमतेनाप्याह *सदृशेति । परमतनिरा. सायाह *अस्त्रण्डमिति । तस्य क्वचिदप्यन्तर्भावासम्भवादाह अ. तिरिक्तमिति । *संख्योति । षोडशत्वसप्तत्वेत्यर्थः । आधाविरोधस- म्भवान्न तथेत्याह प्रमेयेति । द्वितीयविरोधमाद्योक्त्याऽन्यथा परिहरति *किश्चेति । पदार्थगतसंख्यानिबन्धनमित्यर्थः । तत्र "अ- थेमे संख्यैकान्ताः-सर्वमेकं सदविशेषात, सर्व द्वेधा नित्यानित्यभे. दात, सर्व त्रेधा ज्ञातृज्ञानशेयभेदात्, सर्व चतुर्धा प्रमातृप्रमाणप्रमे- यप्रमितिभेदात् । एवं यथासम्भवमन्येष्वपीति । तत्र परीक्षा संख्यैकान्तेति । यदि साध्यसाधनयो नात्वं तदैकान्तो न सि. ध्यति व्यतिरेकात् । अथ साध्यसाधनयोरभेदः एवमप्येकान्तो न सिध्यति साधनाभावात् । नहि तमन्तरेण कस्यचित्सिद्धिः" इति वात्स्यायनभाष्यं तदाह *पदार्थेति । *उपपत्तौ-तत्रापि । एतेन त- नियमपरतया व्याख्यानं तत्परिष्कारं च कुर्वन्तोर्वाचीननैयायिकाः परास्ताः। मूलविरोधात । सर्वपरमतनिरासाय स्वमते साधका. न्तरं विशेषं वक्तुमाह *किश्चेति । प्रसज्यप्रतिषेधात्पर्युदासो न्याय्य इत्याह *नभिवति । नञ्युक्तमिवयुक्तञ्चति यत्किञ्चित् दृश्य- ६३८ टीकायोपेतायां लघुमञ्जूषायाम् । ते तत्र तस्मादिति शेषः । योगश्च प्रयोगभेदेन बोध्यः । तथा- चचो वाथै । *तत्सदृशे-अधिकरणे द्रव्ये । *तथाहीति-हि यतः, लोके ताहशार्थप्रतीतिरेवास्तीत्यर्थः । तदेवाह *तद्यथेति । *लोष्टम्- मृत्पिण्डम् । *एवञ्चेति । पर्युदासेन तथा लाभेचेत्यर्थः । एतेन फलान्तरम्, अर्थान्तरञ्चास्या वदन्तः सीरदेवादयः परास्ताः । नन्वेवं कथं प्रतिषेधोक्तिरत आह कर्तृनिषेधादिति । सिद्धान्तमतेनाह *आरोपितेति । अनेनायं शाब्दः स आर्थ इति सूचितम् । प्रकृतोप- योगमाह *अनेनहीति । हि यतः, सादृश्यस्यातिरिक्तत्वात् । *तथे- वेति । यथा नश्योगे उक्तविषये तथाशाब्दार्थन भेदसाहश्ययोः परिभाषाप्रतिपाद्ययोर्गम्यत्वं तथेत्यर्थः । तुल्यतया प्रतिपादना- दिति भावः । *तद्वाच्ये-इववाच्ये । नन्वेवमिवयुक्तोदाहरणा- सम्भवः, 'चन्द्र इव मुखम्' इत्यादावभेदवत् भेदस्यापि शाब्दत्वात्। अत एव "तत्र तस्येव" इति विहितवत्यन्तमपि न, नापि केवलं चन्द्रइवेत्यादि तस्य प्रसिद्धार्थे प्रयोगेऽपि तदर्थे शिष्टप्रयोगाभावादत आह *इवेति । *अधिकारेइति । पठितेनेति शेषः । तत्रारोपितसो- मवोधस्य शाब्दत्वादाह #तद्भिन्नः । *प्रतीयत इति । ननु तत्र गम- कासम्भवात् उक्तार्थासम्भवे ऽपि सादृश्यमिववाच्यमेवास्तु, भेदस्य तु तदर्थत्वमेव तत्प्रागुक्तं तदेतद्धनयन्नाह * नतुसोम एवेति । एवं. च परिभाषायामिवस्तादृशनअर्थसजातीयार्थक एव । तद्युक्तत्त्वम- प्यर्थतो नतु शब्दत इति बोध्यम् । नैयायिकादिमतं खण्डयति *एतेनेति । अन्यपदघटितपरिभापाव्याख्यातृभाष्यविरोधेनेत्य- र्थः । मतद्वयसंग्रहायाह *भेदनियतमिति । अतएवाह *अ- स्याइति ॥२९॥ नचाभेदे साधारणधर्माभावात् कथं तत्प्रयोज्यं सादृश्यमिति वाच्यम् । अनेकवृत्तिधर्मस्यैव साधा- रणधर्मत्वेन तत्रावृत्त्या एकस्याप्यनेकत्वात् । अत एच अइउणसूत्रे भाष्ये-"एकां कपिलां स- हस्रमृषय एकैकशो दत्त्वा तया सर्वे ते सहस्रदक्षिणा:

निपातार्थनिरूपणम् । सम्पन्नाः" इति श्रौतेन स्मार्तेन वा व्यवहारेण एकस्या अप्यावृत्त्या अनेकत्वं सूचितम् । अत एव "सप्तदश सामिधेन्यो भवन्ति इति श्रुतौ पठितत्रयोदशसामि- धेनीमन्त्राणां प्रथमान्त्यमन्त्रयोस्निरावृत्त्या ससद- शत्वमुक्तं श्रौतसूत्रे । अत एव "एक एवाकारः" इति पक्षे 'घटिक' इत्यादाबावृत्तिकृतयच्त्वेन “नौयचः ष्ठन्" इतिष्टन्नुक्तो भाष्ये । एतेनायं व्यवहारो गौण इति परास्तम्। मुख्यध्यचि चारितार्थेनात्राप्रवृत्यापत्तेः। उत्तरसंख्यया पूर्वसं- ख्यायाधात् । घटेनेत्यादौ "सावेकाचः" इति स्वरो न स्यादिति चोक्तम् । एवंचैकस्यैव ब्राह्मणस्थावृत्त्या भोजनदानेन द- शादिब्राह्मणभोजनसङ्कल्पः सिद्ध्यतीति बोध्यम् । एवं प्रकृतेऽपि मुख्यस्थानेकत्वेनैकस्यापि धर्मस्य साधारण- धर्मत्वम् । नचैकस्यैवावृत्त्या ऽनेकत्ववत् कालादिभेदेन भेदं प्रकल्प्य मुखमिव मुखमित्यादावुपमैवास्त्विति वाच्यम्। तस्य भेदस्य शब्देनासंस्पर्शात् । अतएव "उपमानानि" इति सूत्रे भाष्ये "यदे- वोपमानं तदेवोपमेयं क इहोपमाऽर्थः गौरिव गौः" इति । उपमानोपमेयभावद्योतकेवशब्दप्रयोगे किं प्रयोजनं कर्मकरणरूपोपमानोपमेयभावस्यैकत्रासम्भ- वात् इवस्यार्थान्तराभावात् । न च द्वितीयस- दृशव्यवच्छेदप्रतीतिः फलम्।गोसदृशो गौरित्यतो. ऽपि तत्सम्भवात् । अभेदेऽपि सादृश्याङ्गीकारेण तस्य बोधकत्वाद्बोधकैतत्प्रयोगो न स्यात् । एवं.

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । चोपमालंकारस्य, अस्य सूत्रस्य चोक्तिसम्भवाभाव इ. त्याशयकमुक्का, "तस्माचत्र किश्चित्सामान्यं कश्चिच विशेषस्तत्रोपमानोपमेये भवतः"इति सिद्धान्तितम् । तत्र भिन्नगोव्यक्त्योस्तद्वोधनार्थ आरोपितभेवतोस्त- द्वोधनार्थों वा तत्रेवशब्दप्रयोग इत्याशय कैयटेनो- तम्-तस्य भेदस्य शब्देनासंस्पर्शात्सामान्यमुखेन द्रव्यावसायादिति भावः' इति । अत्र पक्षे 'घन इव श्यामः' इत्यादेः सम्भवेनो. पमालङ्कारस्य सूत्रस्थ चौक्तिसम्भवः । गौरित्यादौ तूपमानत्वाधप्रतीत्या ऽनन्वयालङ्कार एवेत्यादि बोध्यम् । तस्मादर्भदे ऽपि साधारणधर्मसम्बन्धस्तत्प्रयोज्यं सादृश्यं चावश्यं स्वीकार्यम् । काव्यप्रकाशकृता. ऽपि 'साधम्र्थमुपमा भेदे' इतिवदता भेदे साधारण. धर्मसम्बन्धस्याङ्गीकारात् । यत्र साधारणधर्मेण सा. मान्यरूपताप्रतीतिः, प्रत्येकरूपेण शब्दतो विशेषरूप. ताप्रतीतिस्तत्रोपमानत्वादिप्रतीतिरिति सिद्धान्तार्थों भाष्ये । एतेन रामरावणगोयुद्धं रामरावणयोरिवे. त्यादौ कल्पभेदेन भिन्नयोयुद्धयोरुपमैवेति परास्तम् । तस्य भेदस्य शब्देनासंस्पर्शात् । मुखसदृशं मुखमित्यादावपि आर्थ्याः, गौ रिव गौरित्यादौ शाव्द्या शाब्द्या उपमाया प्रतीतेरार्थः, शाब्दश्वानन्वयः । उपमासम्बन्धाभाव एवानन्वयः तत्रेप्रती मर्यादा-भेदे सदृशादिशब्दप्रयोगे आर्थी उपमा । गम्यस्योपमानोपमेयभावस्य प्रतीतः।

निपातार्थनिरूपणम् । ६४१ अभेदे तत्प्रयोगे तु अनन्वयः । सर्वथा तदप्रती- तेः । तत्र भेटसमानाधिकरणसादृश्यमुपमाव्यञ्जक- मिति बोध्यम् । अनन्वयालङ्कारे एकस्यैवोपमानोपमे. यत्वमिति व्यवहारस्तु तत्सादृश्यात् । अत एव "ऊकाल" इति सूत्रे भाष्ये "ऊअज्' इत्येच सामर्थ्यांदुकारसदृशो ऽजित्यर्थेनैव सिद्धे कालग्रहणं श्रूयमाणेनैवोकारेण कालं विशेषयितु- मिति द्विमात्रादीनां न हस्वसंज्ञेत्युक्तम् । भेदे एव सादृश्यमिति वदतां मते तुकारस्य हस्वसंज्ञा दुर्लभा स्यात्, भेदाभावादित्यलम् ॥ ३० ॥ (कुं० टी० ) *सप्तदशेति । सामिधेनीमन्त्रेषु पठ्यमानेषु अध्वर्युणाऽऽहवनीयोपरि समिध आधीयन्ते। मन्त्रकाण्डे तु सा- मिधेनीमन्त्रास्त्रयोदश सन्ति । तत्र प्रथममन्त्रस्य वारत्रयं पाठात् वारत्रयं चान्त्यमन्त्रस्य पाठात्सप्तदशसंख्या भवति । *मुख्यध्य- चि-बाहुकादिशब्दे। *उत्तरसंख्यया-आरोपितद्वित्वसंख्ययां । * पूर्वसंख्यायाः-अनारोपितैकत्वस्य । *तस्य भेदस्य-काल- कृतभेदस्य । * असंस्पर्शात्-अबोधात् । * यदेवोपमानमिति । अयं भावः-शस्त्रीश्यामा देवदत्तेति श्यामत्वं सर्वाश्रयनिष्ठं य- धेकमेव विवक्षितं तदा तद्द्वारेणोपमानोपमेयभावो वाच्यः । श्यामत्वस्य चोभयत्राविशेष इति तद्द्वारा तयोरप्यभेदः इत्य- भ्युपगतं भवति । अस्मिन्पक्षे शस्त्रीशब्दप्रयोगवैयापत्तिः । अथाश्रयभेदात् श्यामत्वस्य भेदः। शस्त्रीदेवदत्तागतयोः श्या- मत्वयोर्भेदान्नास्ति तवारक उपमानोपमेयभाव इति कैयटः। कर्मकरणरूपार्थाभेदे ऽपि द्वितीयसदृशव्यवच्छेदफलस्य गौरिव टीकाद्वयोपेतायां लघुमञ्जूपायाम् । गौरिति प्रयोगस्य दर्शनात् सर्वत्रैव तथैव किमिति प्रश्न इसन्ये । *तदेवेति । उपमानोपमेययोर्मेंदे सामानाधिकरण्यामानात् स- मासाप्राप्तिः । अभेदे उपमानत्वस्यैवासम्भव इत्यर्थः । * कइहो- पमार्थ इति। उपमानोपमेयभावबोधकेवादिपायोगे किं फलम्, कर्मकरणरूपोपमाजोपप्रयत्वबोधस्पैकनासम्भवादित्यः । द्विती- योपमानव्यवच्छेदार्थत्वे तु नोपमानत्वव्यवहार इति भावः । भाष्यार्थमनुवदति * उपमानोपमेयमालेति । उपमानमिति करणे ल्युत् । उपमेयमिति कर्मणि यत् । नचैकस्य कर्मत्वं करणत्वं च सम्भवतीति भावः । *तत्सम्भदादिति । अनेदे ऽपि साश्या- ङ्गीकारागोसदृशो गौरित्यत्र प्रयोगः स्यात् । भवनि स्वयं वाचकः, गौरिव गोरिति प्रयोगस्त्ववाचकत्वान स्यादित्यर्थः । *उक्तिस- म्भवाभावइति । गौरिव गौरित्येवोदाहरणं वक्त तञ्च न स. म्भवतीति भावः । *किञ्चिसामान्यमिलि । शब्दोपातमत्वे- कधर्मेण शस्त्रीत्वदेवदत्तात्वादिना भेदः, श्यामत्वादिसाधारण- धर्मेण चाभेद इत्यर्थः । आश्रय भेदात् श्यामत्वस्य भेदेऽपि श्यामत्वजारेकत्वादसाधारणधर्मत्वमिति । *भिन्नगोव्यक्त्योः- वास्तविकभेदबत्योः । *तबोधनार्थ:-उपमानोपमेयभावबोध- नार्थः । *आरोपितति । एकस्यायेव व्यक्ती भेइमारोप्य वा तद्वोधनार्थ इत्यर्थः । * अत्र पक्षे-यत्र सिञ्चित्सामान्यमिति पक्ष। असंस्पर्शादित्यत्र हेतुः #सामान्येति । तत्तव्यक्तित्वेनानुपस्थिते- त्यर्थः । *इत्याशझ्योति । गौरिव गौरित्यत्र सूत्रस्योक्तिसम्भव- माशोत्यर्थः । *तस्य भेदस्य-व्यक्तिगतभेदस्य । *तत्साह- श्यात्-उपमानोपमेयसादृश्यात् । *नहस्वसझेति । यावच्च तप- रकरणं तावत्कालग्रहणमित्येकमात्रस्यैव हस्वसज्ञा ॥ ३० ॥ (क० टी० ) नन्वभेदे सादृश्यमतमपि दुर्घटं तत्प्रयोजकसाधा. -- निपातार्यनिरूपणम् । .. अत्त -- रणधर्मसम्बन्धामावात्, धर्मे साधारणत्वस्य भेदनियतत्वरूपत्वा- दित्वाशन शाह नोति । धर्मस्यवेत्येवेनोक्तव्यवच्छेदः । *तत्र- अभेदस्थले । एवञ्च सुखत्शदेस्तत्त्वं सिद्धमिति नोक्तदोपः । मानवाह एजेति । तस्य तस्वीकारादेवे- त्यथैः । मापसहसमित्यत्र कर्मधारय इति सूधयशाह *सहल- मिति । *तथा-एककपिलया । *सहरति । सहगोदक्षि- णादानफला इत्यर्थः । तस्य छान्दसत्वसूचनकात परसंमतभा- ष्यीयत्वनिराललूचनायाह *धौलेनेति । स्पट श्रोतव्यवहारमाह *अतएवाते । उत्तोऽर्थः । एवमरे ऽपि *इतीत्यस्य सदशास्वमि- মা: নাস্বত্র ভিযো:। হু *ন एवेति । एलेनेवस्वार्थमा * ख्याति । अन्य दयाह *उपरति । त. त्रैव पक्षे इति भावः । प्रासङ्गितमाह * एवं चेति । तस्दा गौण. त्वचेत्यर्थः । प्रकृते लथाSSE *समिति । तद्वदित्यर्थः । एकस्यति शेपः। *धर्मस्य-मुखत्वस्य । नन्वेवमनन्वयालङ्कारोच्छेदापत्तिरि- त्याशयलाह * चकति । *भेदेन-तेनापि । एतेनानन्वयव्यवच्छे. दः । *असंस्पर्शः-तदप्रतिपाद्यत्वम् । तत्त्वं प्रतिपादकोश्चारित- भिन्नशब्दनियतम् । नन्वारोपितालेदस्योपमायां यथा शब्दबो- ध्यत्वं तथा तत्रास्त्वत आह *अन एवंति। तस्य तहसंस्पर्शादेवे- त्यर्थः । अस्योक्त्वा सिद्धान्तितमित्यत्रान्वयः। अभेद एव उपमानो- पमेयभाव इति पझे आह *यदिति । *यदेवलदेवेत्येवाभ्याम् यत्तत्प्र- तिपादितमोरत्वन्ताभेदः सूचितः । शङ्काशयं सार्थमाह *उपमा- नेति । उपमाशब्दः प्रयोगान्ते लाक्षणिकः । अर्थशब्दः फ- लवाचीति भावः । *कर्मेति । रूपशब्दो भावशब्दवदू धर्मपरः । त. योरभेदः । कर्मकरणत्वरूपं यदुपमानोपमेयत्वं तद्वोधस्येत्यर्थः । धर्यभेदे तु व्युक्रमाद्यथासंख्यासम्भवेनासाधुत्वाचासङ्गतिः स्पष्टैव । *करणत्वरूपति पाठस्तु सुगमः । नन्वेवमप्यन्यद्यो- तकत्वमिवस्यास्तामत आह *श्वस्येति । उत्प्रेक्षादेरसम्भवादि- ति भावः । ॐनचेति । तदभावेऽपि तत्पदप्रयोगसामर्थ्यात् । त- थाच तत्र तथा दर्शनात्सर्वत्र तथैव किमिति प्रश्नतात्पर्यम् । य- द्यपि तत्र नोपमानत्वादिव्यवहारस्तथाऽप्यगत्या तदभ्युपगमेऽप्याह गोसशइति । *तत्सम्भवात्-तद्यवच्छेदवोधसम्भवात् । *तद्वो- ६४४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । धेतिच पाठान्तरे ऽप्यर्थः स एव । तावता “किम्" इति शङ्कानिरासा- यास्याप्यावश्यकत्वात् कथं प्रयोग इति शङ्कां निराचष्टे *अभेदे- ऽपीति : * अबोधकेति । उक्तार्थाबोधकेत्यर्थः। प्रश्नतात्पर्यमाह *एवं चेति । फलाभावादप्रयोगापत्तावित्यर्थः । अत्र पक्षेऽस्यैवोदाहरणत्वन तत्र चोपमानत्वाद्यप्रतीत्या सर्वथेवादिघटितप्रयोगस्य बोधकस्य मु. ख्यस्यासम्भव इति उपमोदाहरणासम्भवः, "उपमानानि" इति सु- प्रवैयर्य चेत्यर्थः । *इत्याशयकमिति । एतेन कैयटोक्ताशयः परास्त इत्युयोते स्पष्टम् । एवन्तीत्यस्य तत्रत्यस्यार्थः *तस्मादिति । *तत्र-प्रश्नभाष्ये । व्यक्तिभेदे आह *भिन्नेति । तदिति । उप- मानोपमेयभावेत्यर्थः । व्यक्त्यभेदे ऽप्याह *आरोपितेति । * तत्र- गौरित्यत्र । *तस्य-अन्यतरस्य । तत्र बीजमाह *सामान्येति । शब्दै. क्यादिति भावः । ननु सिद्धान्ते कथं द्वयोरुक्तिसंभवो ऽत आ. ह *अत्रेति । सिद्धान्ते इत्यर्थः । *इत्यादेः-इवघटितप्रयोगस्ये- त्यर्थः । अत एव तत्र गतिमाह *गौरिवेति । किञ्चेत्यायुक्तमुप- संहरति *तस्मादिति। अत्रालंकारिकसंमतिमप्याह *काव्येति। तत्र भेदपदस्यानन्वयव्यावृत्त्यर्थत्वेनोक्तेः। सिद्धान्तभूतोक्तभाष्यतात्पर्य- माह * यति । *साधारणधर्मण-श्यामत्वादिना । *सामान्यति । अभेदेत्यर्थः । *प्रत्येकेति । शस्त्रीत्वादिनेत्यर्थः । *विशेषति । भेदेत्य. थः । नैयायिकोक्ति खण्डयति *एतेनेति । *इत्यादौ-अनन्वयलक्ष्ये । एवेन तत्खण्डनम् । एतेनेत्यस्यार्थमाह *तस्यति । नन्वेवमपि प्रागुक्त गोसदृशो गौरित्यत्र को अलङ्कारो ऽत आह *मुखेति । दृष्टान्तविधया आह *गौरिवति । तत्र तदप्रतीत्या तद्वदत्रापि तदप्रतीतेः स एवेत्यर्थः । अन्यतरत्रान्यतराप्रतीत्याऽन्यतरोपमा तूः क्तरीत्या दुर्वचैवेति भावः । ननु कथं तत्र सः तद्वत् द्योतकासमभि- व्याहारणोपमात्वाद्यप्रतीत्या तल्लक्षणानाक्रान्तत्वादत आह *उपमे. ति । यत इत्यादिः । शब्दसंस्पृष्टभेदसमानाधिकरणसाधर्म्यरूपोप. मायाः सम्बन्धस्य प्रतियोगित्वादेरभावो यत्रेत्यर्थः। एतेन न विद्यते ऽन्वयः सम्वन्ध उपमाया यत्रेति व्युत्पत्त्या ऽन्वर्थमलङ्कारनामानन्व- यपदमिति सूचितम् । तदभावश्च भेदाभावकृतः। साधर्म्यस्योक्तरी- त्या सत्त्वात् । अत एवोपमानान्तरव्यवच्छेदः फलितः । तमेव च गृहीत्वा उपमानान्तरसम्बन्धाभावो ऽनन्वय इति प्रकाशप्रदीपादा- । ।

निपातार्थनिरूपणम् । ६४५ वुक्तम् । व्याख्यातं तथैव तदुद्द्योते ऽपि गुरुचरणैः । अत एव न मिथस्तैश्च विरोधः । तथा च द्वितीयसदृशव्यवच्छेदबुद्धिफलक- वर्णमात्रविषयैकनिष्ठोपमानोपमेयत्वं तथेति सिद्धम् । एवं चानन्व- यविषये आपाततः शाब्दबोधोपपत्तये उपमानान्तरव्यवच्छेदवोधाव चाहार्यों भेदाभावे ऽपि भेदविशिष्टसाधोपचारः इति तत्रेवादेरुदे- श्यभूतस्वसमभिव्याहृतभेदविशिष्टसाधर्म्यस्य निरुपमस्य च द्यो. तकत्वमिति गोभिन्नो गोसहशो निरुपमो गौरित्यादिरीत्या बोधः । एवंच मुखसदृशं मुखमित्यादावपि गौरिव गौरित्यादाविव वस्तुतो भेदाभावेन द्विविधोपमाया अभावेऽपि दृष्टान्ते तदद्योतकेवादिसत्त्वात् तस्य शाब्दत्वं केवलसादृश्यस्यार्थत्वम् , आये सदृशादिपदस्य सा. दृश्यमात्रबोधकत्वात्तस्य चोक्तरीत्या ऽभेदेऽपि सत्त्वात्ततोऽपि तद्य- पच्छेदसम्भवात्तस्य केवलं शाब्दत्वमुक्तान्वयस्यार्थत्वमिति भावः । नन्वेवं चन्द्रसदृशं मुखमित्यादावपि तद्वच्छन्दतस्तदप्रतीत्या तद. भावसत्त्वादनन्वयापत्तिरिति सिद्धान्तविरोधापत्तिरत आह *त- त्रेति । उपमाऽनन्वयविषये इत्यर्थः। *भेदे-वस्तुतः । *प्रतीतेरिति । तथाच तत्सम्बन्धस्यैव सत्त्वेन तदभावाभावान्नानन्वय इति भावः । *सर्वथेति । अर्थतः, शब्दतश्चोपमाया अप्रतीतेरित्यर्थः।भेदा- भावादिति भावः । ननुपमायाः शाब्दत्वे कारणसत्त्वे कार्यसत्ताssव- श्यकतया तात्पर्यतया सादृश्यप्रतीतेरार्थत्वेऽपि साहश्यस्य शाब्दत्वे तत्र कथं उपमाया गम्यत्वमपि । कार्येण कारणानुमानन्यायेन तथेति चेत् तर्हि मुखसदृशं मुखमित्यादावपि तदापत्तिरिति प्रागु- तासङ्गतिरत आ६ *तत्रेति । भेदविपये तत्प्रयोगे इत्यर्थः । एवंच नातिप्रसङ्ग इति भावः । नन्वेवमनेकत्वे तत्र कथं तल्लक्षणसमन्व- यस्तस्यैकत्वघटितस्य प्रकाशाधुक्कत्वादत आह *अनन्वयेति । च समानार्थक एकशब्दो न संख्यापर इति भावः । अभेदे सादृश्यसत्त्वे भाष्यान्तरमपि गमकमाह #अत एवेति । सा. दृश्यस्याभेदे सत्त्वादेवेत्यर्थः । यथाश्रुते प्रथमवाक्ये ऽणुदित्सू- त्रप्रवृत्त्या प्राप्तातिप्रसङ्गवारणायाह *ऊ अजित्येवेति । अभेदेना- न्वयेऽच्पदानर्थक्यादाह *सामर्थ्यादिति । एवेनाणुदित्सूत्रगृ. हीतव्यवच्छेदः । वहुवचनं व्यक्त्यभिप्रायम् । अत एवेत्यस्याशय. माह *भेदेएवेति । प्रयोगादिभेदेन भेदं स्वीकृत्य तदुपपादने तथा ६४६ टीकाद्वयोपेतायां लघुमञ्जूषायाश् । तु तस्य सार्वत्रिकत्वेन व्यावाभावात्तदुक्तिनैष्फल्यमेव तदाह *इत्यलमिति ॥ ३०॥ साहश्यस्यतिरिक्तत्वादेव 'अनेनायं सदृशः' इत्युक्तं केन घर्षणानयोः सादृश्यमित्येव जिज्ञासा नतु को धो ऽलयाः सादृश्यमिलिअत एव क्षमया पृथ्वी- सदृशः धर्मतः साश्यनित्यादि आअस्येनैवोपपद्यते । तच व्यकधर्मभेदाद, आअथभेदात् , निरू- पकभेडाच भित्रम् । अतएवोभयोरुभयं वर्तते सादृश्यमूलाभेदाध्यवसायेन उपमानश्योपोये अभे- दान्वय इति सिद्धान्तपक्षे "एवमपि सादृश्य- निमित्तं गुणो न निर्दिष्ट" इति शङ्का “संनि- धानात् श्यामत्यमेव गुणः" इति समाधानं च भाष्ये सङ्गच्छते । साधारणधर्मस्यैव सादृश्यरूपत्वे तदसङ्ग- लिः स्पष्टव। मम तु-प्रतीयमानं सादृश्यं किंधर्ममूल- कम्' इति शङ्का 'उपात्तधर्मभूलकमेव' इत्युत्तरमिति न दोष इत्यलम् । 'मातेव हितकारिणीम्' इत्यादौ त्विवस्य साह- श्यवाचकता । इवशब्दार्थसादृश्येच मातुरन्वय इति प्रातिपदिकार्थे प्रथमैव । न च षष्ट्यापत्तिः। प्रतियोगिविशिष्टसादृश्यवत इवार्थत्वेन तदेकदेशे प्रतियोगिनि मातुरभेदेनान्व- यात् षष्ठ्यप्राशेरिति कश्चित् । असाध्वेवेदम् । क्रियान्वये एव प्रथमायास्साधु- त्वात् । अत एव "तिङ्समानाधिकरणे प्रथमा" "अभिहिते प्रथमा" इति च वात्तिकम्, प्रथमायाः निपातार्थनिरूपणम् । कारकविभक्तित्वपरं भाष्यं च सङ्गच्छते इत्यन्ये । तत्र तेषां गमकसरचे द्योतकता अन्यथा वाचक- तैव । वृत्तियकल्पनागौरवात् । न च तस्य वाचकत्वे 'इवास्ति' इत्याद्यपि 'सादृश्यमास्ति' इत्यादिवत्स्यादिति वाच्यम् । तथा शिष्टप्नयांगाभाषेनोपमानादिपदोपसंदानेनैव प्रयोग तेषां साधुत्वाङ्गीकारात् ॥ ३१ ॥ (९० टी०) व्यञ्जनेति । चन्द्र इव मुखपित्यादौ । व्यअकः आल्हादकत्वादिः । आभयो-लुखादिः । निरूपकचन्दादिः । *अतएव-सादृश्ययातिरिक्तवादेव । अश्य सङ्गन्छते इत्य- त्रान्वयः *उभयोः-उपमानोपमेययोः। *उपनिति । उपसान- वाचक उपमेयवाचकश्चेत्यर्थः। *सिद्धान्तपक्षेइति । एलरूप इति- शङ्केत्यत्रान्वयः। *गुणो न निर्दिष्ट इति । शस्त्रीश्यामेत्यत्र श्या- मशब्दस्योपमेयपरत्वे इत्यर्थः । *प्रतियोगिविशिष्टेति । मातृम- तियोगिकनाश्ववतीमित्यर्थात् । कारकवियक्तित्यपरनिति । पुत्रेण सहागतः पितेत्यत्रोपपदविभक्तेरिति न्यायेन प्रथमासि- द्धावप्रधानग्रहण न कर्त्तव्यमिति भाष्यकृतोतत्वात् । वस्तुतस्तु इतिन्यायेनेत्यस्य इतिरीत्येत्यर्थः । यथा हि तनान्तरङ्ग- वात्सवलत्वं तथा प्रथमाया अपीत्यर्थः । *मकसच्चे-तात्पर्य- ग्राहकसत्त्वे । *अन्यथा-गमकाभावे । *वृत्तिद्वयेति । अभिधा- द्योतनारूपेत्यर्थः ॥ ३१ ॥ (कल्टी०) तस्यातिरिक्तत्वं द्रढयति *सादृश्येति । एवव्यवच्छे- द्यमाह *नत्विति। *अतएव-तस्यातिरिकत्वादेव । * इत्यादि-इत्या. द्यपि । प्रकृत्यादित्वादभेदतृतीययोपपनी क्लेश इत्याह *आञ्जस्ये- नेति । नन्वेवमपि तस्यैकत्वे वहपप्लवापत्तिरत आह *तञ्चेति । सा.

६४८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । दृश्यं चेत्यर्थः । तथैव तस्य सिद्धिरित्याह *व्यञ्जकेति । नित्यत्वप- क्षेणेदामति न पूर्वविरोधः । ननूपमानस्थोपमेयवृत्तित्वं वाधित- मत आह *सादृश्यति । अत एवेत्यस्यार्थ सूचयन्नाह *साधारणे- ति । *ममत्विति । शस्त्रीश्यामेत्युक्ते इति भावः । एतेन “न त. स्वान्तरं सादृश्यं प्रत्यक्षोपलव्धेः" इतिसांख्यसूत्रेण प्रत्यक्षेण सा. धारणधर्मरूपस्यैवोपलव्धेरित्यर्थकेनोक्तमपास्तम् । उक्तप्रमाणसिद्ध. त्वात् । कंबुग्रीवादिमत्त्वाद्यतिरिक्तघटत्वादेरपि प्रत्यक्षेणानुपलम्भा- त्तेषामपि तत्त्वान्तरत्वानापत्तश्च । तदाह *इत्यलमिति । इवां- शे शरित्यतो विशेषस्तावत्पररीत्या आह *मातेवेति । राज- न् हरीतकी भुश्वेत्यादिः । *प्रतियोगीति । एतेन प्रागुक्ते शुद्धसा- दृश्यमिवार्थ इतिपक्षे षष्ठयापत्त्यनिवारणात्स पक्षोऽयुक्त एवान्यथाऽ- साधुत्वमस्य स्यादिति सूचितम् । अत एव सादृश्यस्य भेदेनोपमेये ऽन्वयः नामार्थयोरिति व्युत्पत्तिनिपातातिरिक्तविषयेत्यपि निरस्तम् । उक्तयुक्तेः। तस्या नामत्वात्, पदार्थ इतिन्यायेन प्रधानान्वये सम्भवति एकदेशान्वयासंभवेनोक्तदोषाच्च । तदेतवनयन्नाह *सादृश्यवत इति । अत एवाह *तदेकदेशइति । प्रधानान्वयासंभवेन व्युत्पत्तिवै- चियादिति भावः । कश्चिदितिमूचितारुचि कथयन् सिद्धान्तमाह * असाध्वेवेदमिति । तथा व्युत्पन्नस्य दुर्निवारत्वादिति भावः । *वार्तिकमिति । जातावेकवचनम् । निपातस्थले तादृशे प्रागुक्तो. भयपक्षव्यवस्था सामान्यत आह *तत्रेति । क्रियागतविशेषबोधका- धकातिरिक्तनिपातस्थले इत्यर्थः । *तस्य-ताहशनिपातस्य । तेषा- मित्यस्योभयत्रान्वयः । चैत्रस्येव मैत्रस्य धनमित्यादावुभयत्रापि धनयोगे षष्ठी । चैत्रादधीते इत्यादौ चैत्रादित्यस्य तदपादानके अध्ययने लक्षणा, उक्तरीतिर्वा, नत्वधीते इत्यनेनान्वयः । आख्या- तवाच्यस्योपमानत्वाभावादित्यायूह्यम् ॥ ३१ ॥ 'घटो नास्ति' इत्यादावभावस्य विशेष्यतया बो- धान्नमो वाचकत्वम्। “नानुयाजेषु" इत्यादौ सप्तम्याः साधुत्वार्थ द्योतकत्वमपि।आरोपितानुयाजेषु यजति- विति तदर्थ भेदे प्रतियोगित्वेनान्वयेनानुयाजभिन्ने- निपातार्थनिरूपणम् । वित्यर्थे सप्तम्यनुपपत्तिः। आरोपविषयत्वं तत्र न- द्योत्यम् । अतएव 'अघटः' इत्यादौ नञ्तत्पुरुषस्यो- त्तरपदार्थप्राधान्यं सङ्गच्छते । अभावस्य तुप्रतियोगिनिरूपितविशेष्यतयैव भा- नस्य सर्वसिद्धत्वात्तदनुपपत्तिः स्पष्टवाअत एव अस' इत्यादौ सर्वनामकार्यम् , अन्यथा गौणत्वात्तन्न स्यात्। इतरविशेषणत्वेनोपस्थितिविषयत्वस्यैव गौणत्वात् । यहा नञ् स्वसमाभिव्याहृतघटादिपदानामारोपित- प्रवृत्तिनिमित्तबोधकत्वे तात्पथग्राहसः । यथा सिंहो माणवक इत्यादौ माणवकादिपदानि सिंहादिपदस्था. रोपितसिंहत्ववद्वोधकत्वे । 'अजुदरा कन्या'इत्यादाव- प्यल्पत्वेनोदराभाषमारोप्य नसमाभिव्याहारे आरो- पितोदरवुद्ध्या तन्मूलाल्पत्वादी विश्रमः।अद्विज इत्या. दौ च तङ्गेदमूलकमारोपितप्रतिनिमित्तकत्वमिति भेदे विश्रान्तिः । अधर्म इत्यादौ च विरोधिनि । आरोपितत्वस्थ नवाच्यत्वे तु तस्य ब्रामणादिप- दशक्येऽनासोपारब्राह्मण्यवति सम्बन्धो दुरुपपादः । तत्र प्रसिद्धार्थपरित्यागो ऽप्रसिद्धार्थपरिग्रहश्चेत्युभयं द्योतककृत्यमिति नाचे भाष्ये स्पष्टम् । इदमेव नो द्योतकत्वं नाम । एतावतैव तत्रैका. भावव्यवहारः। विशिष्टानुपूा द्योत्यार्थान्ती- घेण शक्ततावच्छेदकत्वाद्विशिष्टस्यार्थवत्त्वम् । समा- सविधायकशास्त्रबलाद् अत्र एवमेव कल्पनोचिता। प्रजयतीत्यादौतु नैवम् । अडादिव्यवस्थार्थमन्यथातत्र कल्पनात् । लोकस्य तु तत्रापि विशिष्टशक्त्यैव बोधः। ૨ ६५० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अवयवशक्तिबोधनद्वारा विशिष्टस्य विशिष्ट शक्ति बोधकमेव व्याकरणमिति दिक् । असन्देह इत्यादावारोपितसन्देह इति बो. धः। भेदसम्बन्धेनारोपितज्ञानाच्च तदत्यन्ताभावप्र. तीतिः॥ ३२॥ (कुं० टी०) *विशेष्यतयेति । घटकर्तृकसत्ताऽभाव इत्य- र्थात् । साधुत्वार्थमिति । "यजतिषु येयजामहं करोति, नानु- याजेषु" इत्यत्र नबर्थे अधिकरणस्यान्वयासम्भवेनानुयाजेषु न करोतीत्यर्थासम्भवात् । यजतिलक्षणं तूक्तं श्रौतसूत्रेषु-तिष्ठ- दोमा वषट्कारप्रदाना याज्यापुरोऽनुवाक्यावन्तो यजतय इति । अध्वर्युणा यजेति षे कृते होत्रा प्रयुज्यमानो मन्त्रो याज्या, बहीति प्रैषानन्तरं प्रयुज्यमानो ऽनुवाक्या । देवं बर्हिरित्यादि- ना क्रियमाणा होमा अनुयाजाः। *सप्तम्यनुपपत्तिरिति । प्रत्य- यानां प्रकृत्यर्थे एवान्वयात् । तदनुपपत्तिः-उत्तरपदार्थप्रा- धान्यानुपपत्तिः । तस्मादभावो नार्थ इति भावः । नन्वारोपि- तत्वार्थकत्वेऽपि गौणत्वमत आह इतरोति । नजिति । तात्पर्य- ग्राहक इत्यत्रान्वयः। *विश्रमइति । “नोदात्तोपदेशस्य" इति वृ. दिनिषेधः । अल्पत्वेनोदराभावारोपादल्पत्वे पर्यवसानमित्यर्थः । *दुरुपपादइति । अनारोपितब्राह्मण्यवति ब्राह्मणपदार्थे आरो- पितत्वान्वयो विरोधादसम्भवीति भावः । *प्रसिद्धार्थेति । मु- ख्यब्राह्मणादीत्यर्थः । *द्योतककृत्यम्-द्योतकस्वभावः। *विशि- टेति । समुदितानुपूर्व्याः शक्ततावच्छेदकत्वादित्यर्थः । *नवम- न समुदायस्यार्थवत्त्वम् । *तादात्म्येतरेति । घटो नास्तीत्यत्र घटसंयोगाभावप्रतीतेः । *तादात्म्याभावइति । घटः पटो नेत्यादौ स्वमते निपातार्थनिरूपणम् । घटतादात्म्याभाववान् पर इति बोधपर्यवसानम् । तादात्म्य. सम्बन्धावच्छिन्नप्रतियोगिताकघटाभाववान् पट इति तार्किकमते वोधः ॥ ३२॥ (क० टी० ) अथ प्रसङ्गान्निपातविशेषनअर्थ तत्र गमकेत्याधुक्त. स्य तावदप्युदाहरणमाह *घटो नास्तीति । प्रसज्यप्रतिषेधविषये इत्यर्थः । यथाचैतत्तथा ऽनुपदमेव स्फुटीभविष्यति । पर्युदास- विषयमाह *नानुयाजेष्विति तत्त्वमुपपादयति *आरोपितेति । “यजतिषु येयजामहं करोति" इति वक्ष्यमाण- श्रुत्यर्थसिद्धं तदादिरित्याह *यजतिग्वितीति । तथाच तस्य ते. न सामानाधिकरण्यात्तदुपपत्तिः । विपक्षे बाधकमाह *अन्य- थेति । तथाऽर्थानङ्गीकारे इत्यर्थः । भेदस्य वाच्यत्वपक्षे विशेष्य- तयैव बोधादाह *भेदेइति । तस्य द्योत्यत्वेन विशेषणत्वे ऽपि नअर्थस्य प्रतियोगिन्यन्वयेन तद्वत्तदसामानाधिकरण्यात्तदनुपप- तिरेव, तदेतद्धनयन्नारोपमात्रं नञर्थो विषयत्वं संसर्गो लाघवादि. ति दीक्षितभूषणायुक्तेः प्रागुक्तरीत्या विना प्रत्ययं तेन सम्बन्धेन बोधासम्भवनासाङ्गत्यात्प्रथमपक्षत्वेन तदुक्तमेवाह *आरोपेति । *तत्र-पयुदासस्थले। समासे तथाऽङ्गीकारे दोषद्वयसत्त्वादिदमत्या- वश्यकमिति तदैकरूप्यमपीत्याह *तस्य तत्रेति । तद्द्योत्यत्वादेवे- त्यर्थः । *प्राधान्यम्-भाप्योक्तम् । *लवेति । तदादिकार्यम् । ननु न गौणमुख्यन्यायघटकगौणत्वमत्र, अत आह इतरेति । आरोपविषये घटादिपदानां शक्तिनमो धोतकस्वमित्यपि तदुक्तमयुतम् । वृ. तिद्वयकल्पने विशिष्टयक्तिकल्पनेऽक्लप्तकल्पनेच गौरवादता शक्य- तावच्छेदकारोपो लक्षणेति सिद्धान्तरीत्या लघुभूतं सिद्धान्त- माह *यद्वेति । नबित्यस्य प्राहक इत्यत्रान्वयः। अन्यत्र तेषामना- रोपितप्रवृत्तिनिमित्तवति शक्तेराह #स्वेति । आरोपितं यत् प्रवृत्ति- निमित्तन्तद्रूपेण बोधकत्वे इत्यर्थः । यद्वा बहुव्रीहिरारोपितप्रवृत्ति निमित्तकबोधे इत्यर्थः । तथाच तद्वति ते लाक्षाणका इति सूच- यन्नाह *यथेति । अत एव वृत्त्युद्धोधकत्वमिति प्रागुक्तम् । अत्रेयं रीतिः क्लप्तेति भावः । एवञ्च लाक्षणिकतामात्रेण न गौणत्व. मिति न कापि शङ्केति तात्पर्यम् । एवं सति तत्सादृश्यमभावश्चे- ।

६५२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । त्यादिप्राचीनोक्तषडर्थोपपत्तिः । सादृश्योदाहरणस्याब्राह्मणमित्य. स्य प्रागुक्तत्वात् तत्क्रमानादरेणाह *अनुदरेत्यादि । आरोप्ये- त्यस्य जायमानयेति शेषः । आरोपितोदरबुछोति पाठः । वि. श्रम इति पाठः । तादात्म्यारोपस्य भेदसादृश्ययोः सतोरेव सत्त्वेन संसर्गारोपस्य तदभावे एव सत्त्वेनारोपितत्ववोधोत्तरं प्रकरणा- दितात्पर्यत्राहकवशादर्थतो मानलः सादृश्याभावाबर्बोध इत्यर्थः । अनश्वइति प्राचोलभेदोदाहरणस्याब्राह्मग इत्यतो ऽविशेषाश्चि- न्त्यत्वमिति सूत्रयबाह *अद्विजइति । प्रतिनिमित्तारोप इत्य- र्थः । *इतिहेनौ। *इत्यादौवेति । तद्विरोधमूलकस्तत्प्रवृत्तिनि- मित्तारोप इतीति शेषः। *विधान्तिरित्यस्मानुपङ्गो ऽग्रे । अपापम्, अपशवः इति अभावानाशस्त्ययोरुदाहरणे बोध्ये । नन्वेवं तस्य वाच्यत्वे ऽपि विशेषणत्वान प्रागुक्तदोषा इति किमर्थं द्योतक- त्वमत आह *आरोपितेति । अत्र भाव्यसंमतिमाह *तत्रेति । नमसमभिव्याहारे सर्वत्र इत्यर्थः । *इदमेव-तत्त्यागपूर्वकतत्परिग्राह- कत्वमेव । एवेन पूर्वमतव्यवच्छेदः । नन्वेवं पृथगर्थाभावेनैकार्थी- भावाभावात्कथं समासो ऽत आह *एतावतैवेति । तद्योतकत्वे- नैवेत्यर्थः । उत्तरपदार्थप्राधान्यवत् एवेन वाचकत्वव्यवच्छेदः। नन्वेवमप्युत्तरपदार्थान्यार्थस्याप्रतीत्या विशिष्टस्य शक्त्यभावेना- नर्थकत्वात् कथं प्रातिपदिकत्वमत आह विशिष्टेति । तत्र बीजमाह द्योत्येति । उत्तरपदलक्ष्येत्यर्थः । समासे सर्वत्र श- क्तिस्वीकारादाह शक्ताविति । ननु रूपसिञ्चा भिन्नार्थत्वमेवा. स्त्वत आह *समासेति । ऐकपद्यैकस्वार्थमिति भावः । नन्वेवं द्योतकत्वाविशेषात्प्रजयत्यिादावपि विशिष्टस्यैवार्थवत्त्वापत्तिरत आह *प्रजयतीति । शास्त्राप्रामाण्यं परिहरति । *अवयवेति । न केवलमत्रैवेत्थमपि तु अन्यत्रापीदमावश्यकम् । किंच रेखागव- यन्यायेनापि शास्त्रोपयोगो वोध्यः । तदाह *इति दिगिति ॥३२॥ असमस्ते त्वभावो नअर्थः । स विधा-अत्यन्ता- भावो भेदश्च। तत्र तादात्म्येतरसम्बन्धाभाव आद्यः, तादात्म्याभावोऽन्त्यः । तादात्म्यमतिरिक्तं तवृत्य.

निपातार्थनिरूपणम् । ६५३ साधारणधर्मरूपं वेत्यन्यद् । लमनियताभावस्थले एक- स्थानेकप्रतियोगिकत्वबदनयोघंटादिप्रतियोगिकत्वम- पि । तत्राथस्तिऊर्थक्रियान्वय्येव । असमस्तनअर्थात्य- न्ताभावविशेष्यकबोधे तिङ्लमभिव्याहृतधातुजन्यो- पस्थितेहेतुत्वात् । अतएव 'अहं नास्मि, घटो नास्ति' इत्यादौ पुरुषव्यवस्था घटौ न स्तः, घटान सन्ति इत्या- दो वचननियमश्वोपपद्यत । युष्मदादेः तिङसामानाधि- करण्यात् । मदभावोऽस्तीत्याधन्वये च स न स्यात् । आख्यातार्थसंख्यान्ययित्वस्य तु न सामानाधिकरण्य. पदार्थत्वम् । किंच तियादिविधिना "येकयोः" इत्यस्यै- कवाक्यतया-एकत्वे तिषित्यादिवाक्यार्थे कस्यैकत्वे इत्याकाङ्क्षायां प्रत्यासत्त्या तिबाद्यान्वपिन इत्यस्यैव लाभेनाभावप्रतियोगिन्यनन्वयात् । घटसत्ताऽभावबो- धे समनैयत्यादेव नियमेन घटाभावबोधो ऽपीति न तद्विषयसन्देहादि । एवं समनियतभावयोरपि एक- ज्ञाने नियमेनापरज्ञानं बोध्यम् । अतएव घटज्ञाने तत्सत्तासन्देहादि न । समनियतानामैक्यमेव । नच प्रतीतिभेदे जाग्रति एवंकथनस्य न कश्चिदुपयोगः । लाघवात्पदार्थ एक एव धर्मभेदात्प्रतीतिभेद इत्यस्य वक्तुं शक्यत्वात् । घटत्वाभावघटभेदयोरिव, घट- त्वघटभेदाभावयोरिव च सति समनयत्ये भावयोरपि तत्त्वमुचितमेव । हेतोः समत्वात् इति केचित् । तन्न । एक एव धर्मी तत्रैव धर्मभेदकल्पनेन व्यवहार- भेदोपपत्तौ धर्मिभेदस्य न्यायादिनये ऽपि विलयाप. तेः। तद्रूपतद्रसादेरप्यैक्यापत्तेश्च । तत्र भासमानता- ६५४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । वच्छेदकरूपत्वादिना न समैनयत्यम् । तद्रूपं भासते इत्यादे रूपत्वादिना व्यक्तिविशेषो भासते इत्येवार्थः । एतेन अधिकरणानालिङ्गिताभावबुद्धेरभावाद 'इह घटो नास्ति'इत्यादातदधिकरणकाभावप्रति- योगिघटकर्तृका सत्तेति बोध इत्यपास्तम् । वक्ष्यमाणरीत्या प्रतियोग्यधिकरणस्यैवाभावा- धिकरणत्वेन तस्य पृथगधिकरणाकाङ्क्षाभावात् । अधिकरणकारकस्य क्रियान्वये क्रियान्वयिकर्तृक- मान्वये वा साधुत्वेनासाधुतापत्तेश्च । अत्यन्ताभा. वार्थकनमा प्रतियोगिभूतक्रियान्वयनियमाच्च । एतेन भूतले न घट इत्यादी तात्पर्यवशात् कदाचिद् भूत- लादौ घटाभावः कदाचिद् घटादो भूतलवृत्तित्वा- भावः प्रतीयते । अन्यथा इह घटो नास्तीत्यादितो बोधानुपपत्तिः। तथाहि-पदार्थानां क्रमेणान्वयेन घटसत्तारूपो- ऽर्थः प्रथमं बुद्धो नया निवर्तयितुमशक्यः सतो निषेधायोगात् । असतस्त्वसत्त्वादेव निवृत्तिसिद्ध्या नमो वैयर्थ्यम् । तदुक्तम्- सतां च न निषेधोऽस्ति सो ऽसत्सु च न विद्यते। जगत्यनेन न्यायेन नअर्थः प्रलयगतः ॥ इति । नच घटास्तिपदाभ्यां या घटविषया ऽस्तिबुद्धिर्जा- ता सा नमा निवर्त्यते इति वाच्यम् । वुद्धेः शब्दावाच्यत्वेन नत्रा तनिषेधायोगात् । एतेन तस्याबुद्धमिध्यात्वं नमा क्रियते इत्यपास्तम् ।

निपातानिरूपणम् । ६५५ घटाभावाद्यनवगतिप्रसङ्गाच्च । कणादसूत्रे ऽपि नास्ति घटो गेहे इति सतो घट- स्य गेहसंसर्गप्रतिषेध इत्युक्तम् । सतः सत्त्वेन बुद्ध- स्य । एवं च घटकर्तृकसत्ताऽभावो बोधयितुमश- क्य इति विशेषणीभूतगेहसंसर्गाभावप्रतीतिरिति तदर्थः ॥ ३३ ॥ (कुं० टी०) ननु संयोगितादात्म्यं संयोग एव तथाच संयोगसम्बन्धावच्छिन्नप्रतियोगिताके संयोगिनोऽत्यन्ताभावे ऽतिव्याप्तिरत आह *अतिरिक्तमिति । ननु तत्र संयोगस्य संयोगत्वेनैव सम्बन्धता नतु तादात्म्यत्वेनेति नातिव्याप्तिरत आह *तद्वृत्तीति । *समनियतेति । वड्यभावस्य वह्नित्वेन प्रमे- याभावस्य चैक्यस्वीकारात् । एकस्येति । अमावस्येति शेषः । *अनयोः-संयोगादिसंबन्धाभावतादात्म्यसम्बन्धाभावयोः *घटादीति । वहिसंयोगाभावस्य वहिरिव उभयोरप्यभावयो- घंटः प्रतियोगीत्यर्थः। *आद्यः-अत्यन्ताभावः। *अहंनास्मी- नि । मत्कनुकसचाऽभाव इत्यादुत्तमः पुरुषः सिद्ध इत्यर्थः । तार्किकास्तु नसमाभिव्याहारे भावनान्वय्यभावप्रतियोगिनि संख्यान्वयो नातो घटौ न स्त इत्यादौ द्विवचनाद्यनुपपत्तिरित्या- हुः । तन्न। तेनैव वचनारम्भेण गौरवम् । तार्किकोक्तं युष्मदिसा. मानाधिकरण्यमनुवदति *आख्यातार्थेति । *नेति । शब्दमर्या- दया तस्यार्थस्यालाभात् । *अनन्वयात्-अन्वयासम्भवात् *समनियतभावयोः-घटतत्सत्तयोः । केषांचिन्मतमाह *समनि- यतानामिति । समाधत्ते *लाघषादिति । पदार्थो लाघवा- देक एव प्रतीतिभेदस्तु धर्मभेदादित्यर्थः । *इवेति । यथा ६५६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । घटभेदाभावो घटत्वामित्यर्थः । *तत्त्वमिति । अभावयोरिव युक्तिसाम्यात्समनैयत्येन भावयोरप्पैक्यमुचितमित्यर्थः । *एक- एवेति । घटत्वपटत्वादिधर्मभेदादेव व्यवहारभेदोपपत्तौ घ. टपटादीनामपि भेदानापत्तिरित्यर्थः तद्रूपेति । एकद्रव्य- वृत्तिरूपरसयोरित्यर्थः । नन्वेकव्यक्तिनिष्ठयोरूपरसयोरेकस्य भाने अपरस्य भानं कुतो नेत्यत आह *तत्रेति । ननु भास- मानयोरूपरसयोः समनैयत्यमेवेत्यत आह *इत्येवार्थ इति । *अधिकरणानालिङ्गितेति । केवलं घटो नास्तीसप्रतीतेः । एत- दधिकरणको योऽभावस्तत्पतियोगी घट इत्यादिरर्थः । अधि- करणानालिङ्गितेति युक्तिं निराकरोति वक्ष्यमाणेति । *प्रति. योगिभूतति । प्रतियोगिभूता या क्रिया तद्वाचकेनैवान्वयनियमा- दित्यर्थः । *कदाचिच्चेति । पटादौ प्रसिद्धस्य भूतलवृत्तित्वस्य घटादावभाव इत्यर्थः । * अशक्य इति । स्वकारणाद् वृत्यात्म- लाभस्य निवृत्तिरशक्येत्यर्थः । दौद्धपदार्थानभ्युपगमे खण्डन- कारोक्तं दूषणं भूतलाधिकरणिका घटकर्तृका सत्तेत्यर्थेऽपि दर्श- यति सताश्चेति । सतो हि निषेधः कर्तुं न शक्यते यथा तथा असतो ऽपि प्रतियोग्यप्रसिख्या निषेधासम्भव इत्यर्थः । तस्माद्वौद्धस्यैव निषेध इति भावः । अत्र तु मते भूतलवृत्तित्व- स्य निषेध इत्याशयो वोध्यः। *घटास्तिपदाभ्यामिति । विच्छे. देन 'घटो ऽस्ति' इति बुद्धिर्जाता सा निवर्यते इत्यर्थः । *श. ब्दावाच्यत्वेनेति । शब्दवाच्य एवार्थो नना निषिध्यते वुद्धि- स्त्वाल्लब्धा न शब्दवाच्येत्यर्थः । *कणादसूत्रे ऽपीति । प्राचा मतेऽत्यन्ताभावस्तत्रैव यत्र प्रतियोगिनो ऽसत्त्वमेव । यथा जले पृथिवीत्वं नास्तीति । भूतस्य योऽभावः स तु ध्वंस एव । भवि- प्यतो ऽभावस्तु प्रागभाव एव । एवं सति यत्र गेहे कदापि न निपातार्यनिरूपणम् । ६५७ *न घटस्य सत्त्वं तत्रात्यन्ताभावमुपपादयति #गेहसंसर्गेति । घटश- ब्दस्य घटसंसर्गे लक्षणया तदत्यन्ताभाववोध इति भावः॥३३॥ (क० टी०) सिंहावलोकनन्यायेनाभावोदाहरणमत्राग्रे विशेष सूचयितुमाह *असन्देहइति । *भेदेति । तन्मूलकसम्बन्धेनेत्य- र्थः । *चस्त्वर्थे । “रक्षोहागमलध्वसन्देहाः" इत्यत्र त्वगत्या तत्प्रा- गभावधीरित्यन्यत्र स्पष्टम् । अथ घटो नास्तीत्याद्युक्तं विशदयति *असमस्ते विति । समासादितो वैलक्षग्यसूचकस्तुः । अर्थः-नश्वाच्यः । *तत्र-तयोर्मध्ये । यत्तु नैयायिकाः नित्यसंसर्गाभावस्तादात्म्येतरसंसर्गावच्छि. नप्रतियोगिताकाभावो वाऽत्यन्ताभावस्तादात्म्यसंसर्गावच्छिन्नप्र. तियोगिताकाभावो ऽन्योन्याभाव इति । तन्न । तस्य प्रागुक्तरीत्या नित्यत्वाभावात्, गुरुत्वाञ्च । तवनयन्नाह *तादात्म्येतरोति । अन्योन्याभावे ऽनतिप्रसङ्गामिदम्। *सम्बन्धा- भाव इति । सम्बन्धप्रतियोगिकाभाव इत्यर्थः। एवमग्रेऽपि । ननु ता. दात्म्यमत्र न धर्मिरूपम्, अशब्दार्थत्वात्,अत एव न सम्बन्धरूपमपि, सम्बन्धलक्षणानाक्रान्तत्वाञ्च, अत एव न भेदविशिष्टाभेदरूपमपी. त्यत आह *तादात्म्यमिति । सम्बन्धविशेष इत्यर्थः । ततो लाघ- वादाह *तवृत्तीति । साधारणधर्मस्य तत्र ततो ऽनुपस्थितेरतित्र- सक्तत्वाचाह * असाधारणति । अत एव तादात्म्याभाव इत्येवोक्तं न तु तत्सम्बन्धाभाव इति। नन्वेवं कथमनयोः सर्वसंमतं घटादिप्रति. योगिकत्वमत आह *समनियतेति । द्रव्यत्वगुणाश्रयत्वक्रियाश्रयत्वा- भावादिस्थले इत्यर्थः । परैस्तेषामैक्याङ्गीकारादाह *एकस्ये. ति । अभावस्येत्यर्थः । घटादितत्सत्तातत्सम्बन्धानां समनै- यत्यादेवाह *अनयोरिति । अत्यन्ताभावान्योन्याभावयोरित्या र्थः । एवं च न तदतिरिक्तः कश्चिद् घटाद्यभावादिरिति भावः । कृद्वारणायाह *तिङिति । फलादिवारणाय *क्रि- येति । एवेन द्रव्यादिव्यवच्छेदः । तत्रैव तत्प्रयोगसाधुत्वे बी. जमाह *असमस्तेति । तत्त्वंच समाससंशकशब्दघटकभिन्नत्वम् । नन्ववमिदं विशेषणं व्यर्थम् , असन्देह इत्यादौ समासे तथा बो. धस्यैवाभावात् । नच. पूर्व तदभावेऽपि पश्चाजायमानात्यन्ताभा. ८३ , टीकाद्वयोपेतायां लघुमञ्जूपायाम् । घबोधे व्यभिचार इति तदावश्यकमिति वाच्यम् । एवमपि न- इसमासस्यापि वैकल्पिकत्वेन तदीयलौकिकवाक्ये 'न सन्देहः' इत्या- दावपि तथा बोधेन व्यभिचारतादवस्थ्यादिति चेन्न । तत्त्वस्य समासायोग्यसमूहघटकत्वरूपस्य विवक्षितत्वात् । नन्वेवमप्यस- मस्तनार्थत्येतावन्मात्रोक्तौ नानुयाजेषु अद्विज इत्यादौ पूर्व तथा बोधाभावेऽपि पश्चात्तथावोधेन व्यभिचार एवात आह *अ- त्यन्तेति । तत्र तु भेदविशेष्यकत्वमिति समासः । तथाच प्र- सज्यप्रतिषेधीयो नअिति तात्पर्यम् । तत्र तूक्तहेतोः+ पर्युदास एव । सामर्थ्य खत्त्वे ऽपि समासो वैकल्पिकत्वान्नाद्ये । एतेनोभयसं. शये समासापत्त्या पर्युदासो न किन्तु प्रसज्यप्रतिषेध इत्याश- झ्योक्तरीत्या पर्युदासे एव समासाभावो ऽपि, विभाषति तु कार्य- मेति बाधलक्षणे सिद्धान्तोत्या तस्य न क्रियान्वयनियमो ऽन्य- त्राप्यन्वयसिद्धेरिति परास्तम् । विभाषेत्यस्याफलत्वस्यान्यथा भाष्ये स्पष्टत्वाच्च । अत्रापि वीजमाह *अत एवेति। तस्य तदन्वये एव सा- धुत्वादेवेत्यर्थः । अस्योपपद्यते इत्यत्रान्वयः । व्युत्क्रमेणाह *अह- मिति । औत्सर्गिकैकवचनेन तत्सिद्धेराह *घटाविति । पुरुषवि- धायकसूत्रक्रमेणाह *युष्मदादेरिति । उक्तक्रमेणाह *मदेति । इत्यादिवदन्वये चेत्यर्थः । नन्वाख्यातार्थसंख्याथा भावनान्व. यिनीव परमते भावनान्वायनअर्थप्रतियोगिन्यप्यन्वयो व्यु. त्पत्तिवैचित्र्यादू, एवञ्च तदर्थसंख्यान्वयित्वमेव. तत्सामाना- धिकरण्यमिति पुरुषवचनव्यवस्थोपपत्तिरत आह तार्थेति । अभ्युपेत्येदम् । वस्तुतः स एव नेत्याह *किञ्चति । नन्वेवं घटो नास्तीत्यादितो घटकर्तृकसत्ताऽभावादिबोधे ऽपि ध- + अत्र १ पु० पत्तेश्चेति खण्डितमुपलभ्यते हेत्वन्तरसमुच्चाय- कम् । परन्तु २ पु० तदनुपलम्भात्खण्डितत्वाचात्र नोपन्यस्तम् । (१) अन्वयः । औत्सर्गिकैकवचनेन तत्सिद्धराह घटाविति । पुरुषविधायकसूत्रविधायकसूत्रक्रमेण त्वमित्यायुक्तिक्रमेणाह युष्म- दादेरिति । तत्क्रमेणैवाह त्वदेति' इति पुस्तकान्तरे उपलभ्य- मानः पाठः । मूले उपलभ्यमानस्तु स्थापित एव । (२) अन्वयेत्वित्यर्थमूले इति पाठः पु-२। *आख्या- निपातार्थनिरूपणम् । ६५९ । टाभावाद्यबोधात् घटादिविषयकलन्देहापत्तिः, तद्वत्ताज्ञानस्याप्रति- वन्धकत्वापत्तिश्चाविरोधादित्यत आह *घटसन्तति । आदिना तद- प्रतिबन्धकत्वपरिग्रहः । एतेन 'न पचति चैत्रः' इत्यादौ पाककृत्य- भाववांश्चैत्र इत्यादिवत् घटो नास्तीत्यादावपि सत्ताश्रयत्वासाववान् घट इतिबोधान्तयोर्व्यवस्था सिद्धा। कर्तृत्वनियामकं चाख्याततत्सम- भिव्याहतनतदन्यतरार्थाश्रयत्वमेव । संख्या तु भावनाप्रतियोगि- कनार्थान्वय्यन्वयिन्यपीति न दोष इति नैयायिकोक्तमपास्तम् । सर्वानुभवसिद्धघटाभाववोधानुपपत्तेः । ममतु घटकर्तृकसत्ताऽभाव- स्य घटाभावसमानियतत्वेन तद्वोधोपपत्तेः,वक्ष्यमाणदोषाच्च । विशेष वक्तुं तुल्ययुक्त्या प्रसङ्गात्तदर्थमाह *एवमिति । समनियताभाव. वदित्यर्थः । सन्देहादीत्यादिना तदभावबुद्धिपरिग्रहः । खण्डयितुं नैयायिकमत आह *समेति । समनियताभावानामित्यर्थः । क- चित्तथा पाठ एव । तत्र बाधकमाह *नचेति । तस्यान्यविषयक- तया न बाधकत्वमित्याह * लाघवादिति । स्वतः स्वरूपभेदेऽप्यै- क्ये दृष्टान्तमाह *घटत्वेति । एकस्मिन्नेव भेदत्वेन घटप्रति- योगिकता अत्यन्ताभावत्वेन च घटत्वप्रतियोगिकतेति भावा । भावाभावयोरैक्ये दृष्टान्तमाह *घटत्वेति । *भावयोरपि-घटतत्स. ताऽऽद्योरपि । *तत्त्वम्-ऐक्यम् । *हेतोः-लाघवादित्याशुक्तस्य । असमनैयत्यमादाय दोषमाह *एक एवेति । उभयकल्प- नेनेत्यर्थः । आदिना धर्मितात्त्विकत्ववादिसकलान्यमतसंग्रहः । * अपिः सिद्धान्तमतसमुच्चये । यथा तत्र तत्वं तथा प्रागुक्तम् । अत एवेष्टापत्तौ समनयत्यमादायैव दोषान्तरमाह *तद्रूपे- ति । उक्तयुक्त्यैव । इदं तु नेष्टं तेष समवायक्यमादाय दो. पापत्तिवारणाय तद्भेदावश्यकत्वात् । अत्र द्वितीयदोष परिहरति तत्रेत्यादिकेचिदित्यन्तेन । *तत्र-तद्रूपतद्रसादौ । तस्याप्रस- कत्वात् । ननु रूपं भासते इत्यादिप्रतीतिनैव, सर्वरूपभानासम्भ- वात्, किन्तु विशेषप्रतीतिरिति तदवच्छेकेन तद्रूपत्वादिना तदस्त्येवेत्यत आह *तद्रूपमिति । एवेन तस्य व्यावृत्तिः । नन्वेवन्ते- षामभावानान्तयोर्भावाभावयोः भावयोश्च समनैयत्यं न स्यात् रू. (१) पर उद्धरतीत्यपि पाठः क्वचित् ।

६६० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पत्वादिवदभावत्वभेदत्वसत्तात्वादेर्भासमानताऽवच्छेदकस्यातिप्रस- तत्वादत आह *क्रियायाइति । *तत्र-तेषु । तथा च तत्र तत्तद- भावत्वतत्तत्सत्तात्वादि भासमानताऽवच्छंदकं रूपम्, नोक्तरूपमिति न दोषः । केचिदित्यरुचियीजं तु तत्रापि तद्रूपत्वादर्भासमानताव. च्छेदकत्वमन्यथा लक्षणाऽऽपत्तेः । किञ्च तद्वद्रूपादेरप्याश्रयविशे- पालिङ्गितस्यैव भानम् । किञ्च तस्यास्तदनालिङ्गितायास्तस्य च तदनालिङ्गितस्य भानं प्राक् प्रतिपादितं तथाच उभयतःस्पाशा रज्जुरिति न्यायायितम् । एवञ्च द्वितीयदोषो ऽपि स्थिर एवेति । स्वपरसाधारणपरमतं खण्डयति *एतनेति । तस्य तदाकाङ्क्षत्वा- दाह *अधिकरणानामिति । घटाभावेत्युक्तौ वचनपुरुषव्यवस्थादि न स्यादतस्तत्सिर्थमाह *अभावप्रतियोगीति । एतेनेत्यस्यार्थमाह *वक्ष्यमाणे इति । अत्रैव प्रकरणेति भावः । *तस्य-अभावस्य । *आकाङ्क्षाऽभावात-तस्या अभावात् । साक्षात्तदन्वयाभावादाह *कर्तृकर्मेति । असाधुनति । इहेत्यादेरिति भावः । उक्तकार्य- कारणभावादाह #अत्यन्तेति । एतेन तादृशो घटः सत्ताऽश्रिय इति बोधान्न तदनुपपत्तिरित्यप्यपास्तम् । तस्य सत्तायां तत्कादा वाs. न्वयेतु यत्किञ्चिनिष्ठाभावप्रतियोगी घट इहास्तीत्येवं वोधः स्यात् । तथा च महदनिष्टम् । न च तस्य क्रियान्वयेऽपि तत्समभिव्या. हृतनजस्तद्वत्यभावे लक्षणाऽङ्गीकारान्न दोषः ॥ एतद्देशवृत्त्यभावप्र- तियोगिनि घटे एतवृत्तिसत्ताऽभावनिश्चयसत्त्वात्तत्र तदधिकर- णकसत्ताश्रयत्वबोधानुपपत्तेः । नवादायुक्तपरमतं निराचष्टे *एतेनेति । चरमदोषेणेत्यर्थः । अस्य विस्तर इत्यपास्तमित्यत्रा- न्वयः । *अन्यथा-तथाऽनङ्गीकार कियाध्याहारेण तथा बोधाङ्गी- कारे । ननूक्तरीत्या एतदधिकरणकघटकर्तृकसत्ताऽभाव इति बोधः सूपपन्न एव, अत आह *तथाहीति । *क्रमेण-आकाङ्क्षाक- मेण । अत एवाह *घटसत्तेति । तस्य सत्त्वे आह *सत इति । भ्र- मत्वे आह *असतइति । तदुक्तम्-खण्डनकृता । *सा-निषेधः द्वितीये सार्थक्यमाह *न चेति । तस्याः सत्त्वात् क्षणिकत्वाश्चेति भावः। विरोधिवुद्धस्तद्बुद्धिनिवर्तकत्वेऽपिप्रयुज्य. माननञ्वाच्यनिवृत्तीच्यसाकाङ्क्षत्वादत्रासम्भवमाह *वुद्धरिति । *एतेन-उक्तहेतुना । इत्यप्यपास्तमिति पाठः । उभयसाधारणं दो- निपातार्थनिरूपणम् । ६६१ पान्तरमाह * घटाभावेति । आदिना भूतलवृत्तित्वाभावपरिग्रहः । तस्मान्न तथा बोधः । किन्त्वगत्या तथा बोधः कादाचित्क इति सिद्धम् । तत्र सम्मतिमप्याह *कणादेति । इत्यनेन संसर्गस्य प्रतीति पाठः । सतो घटस्येति हेतुगर्भतया सफलं नान्यथेत्याह *सत इति । *गेहसंसर्गेति । तद्वृत्तित्वेत्यर्थः ॥ ३३ ॥ नचाव्ययीभावस्य नित्यत्वाद् 'भूतले न घटः' इति वाक्यं दुर्लभमिति वाच्यम् । अर्थाभावशब्दे नत्रो घटकतया सूत्रगृहीताव्ययत्वेन ना अव्ययीभावा. भावात् । अत एव 'पूर्वपदार्थप्रधानो नञ्तत्पुरुषः' इति पक्षे तत्पुरुषेणाव्ययीभावस्य बाधप्राप्त्याऽव्ययीभावा- सिद्धिस्वरूपं दूषणं भाष्ये नोपन्यस्तम् । अत एव तत्र पक्षे 'अवर्षा हेमन्तः' इत्यादौ लिङ्गसङ्ख्यायोगो न स्यात् पूर्वपदार्थत्वेनासत्त्वभूतत्वादित्याशा शब्द- शक्तिस्वभावेन परिहृतम् । अत्र तु पक्षे ऽनेकमित्या- दावेकवचनासिद्धिं मनास निधाय उत्तरपदार्थप्रधानत्वं सिद्धान्तितम् । असंहितमिति तु सन्धानरूपसंहिताs- परपर्यायभावसाधनक्तान्तनपुंसकसंहितशब्देन नञ्- तत्पुरुष बोध्यम् । सूत्रवार्तिकप्रामाण्यादुभयलिङ्गः संहिताशब्दः । 'जात्यवदा तथा वाऽन्तौ' इति प्रा- तिशाख्यव्याख्याने संहितवदिति तद्भाष्ये प्रयुक्त- मित्यन्यत्र विस्तर इत्यपास्तम् । सत्त्वेन नि- श्चितस्य निषेधाभावेऽपि तत्त्वेन संभावितस्य नि- षेधसम्भवाच्च । नसमभिव्याहार एव च तस्य तत्त्वे प्रयोजकः । कणादसूत्रे तु समनियताभावानामैक्यं बोधयितुं तथोक्तिः । गेहसंसर्गस्यापि प्रतिषेध इ- त्यादिति दिक् ।

टीकाद्वयोपेतायर्या लघुमञ्जूषायाम् । पृथिव्यां गन्धो न जले इत्यादौ प्रतीतेरेकविशे- ध्यकत्वानुभवस्तु स्ववासनाकल्पित इति दिक् ॥३४॥ (कुं० टी० ) *अर्थाभावेति । अभावशब्दे नञोऽन्तर्भूत- त्वेन सूत्रगृहीतत्वान्न समासः । सर्वपश्चादिति भाष्यप्रयोगात् । *नोपन्यस्तमिति । तत्पुरुषेण वाधापत्तावव्ययीभावो न स्यादिति दूषणं नोक्तम् । *अत्र तु पक्षे-पूर्वपदार्थप्र- धान इति पक्षे । अव्ययीभावस्यात्रानिष्टत्वादेवेत्यर्थः । रपदार्थप्रधानत्वे क्लीबत्वमुपपादयति *असंहितमितित्विति । *अपास्तमिति । अधिकरणकारकस्याभावादावन्वयासम्भ- वात् । तत्वेन-सत्वेन । ननु कथं तत्र घटादेः सम्भावनेत्य- त आह *नममभिव्याहारएवेति । *तस्य-घटस्य । *तत्त्वे. सम्भावितत्वे । *तथोक्तिः-गेहसंसर्गाभावो निषिध्यते इत्यु. क्तिः । *संसर्गस्यापीति । अपिना घटसत्ताऽभावः । नन्वधिक- रणस्य क्रियायामेवान्वये पृथिवीवृत्तित्वजलवृत्तित्वाभावयोर्गन्धे बोधो न स्यादत आह *पृथिव्यामिति । *एकविशेष्यकत्वति । गन्धविशेष्यकत्वेत्यर्थः ॥ ३४ ॥ (क० टी० ) अत्र मते दीक्षितभूषणादिरीत्या प्राप्तदोषमुद्धर्नु शङ्कते *नचेति । नञ्तत्पुरुषस्य वैकल्पिकत्वान्न तत्प्रयुक्तदोष इत्याह *अव्ययीति । पक्षद्वयेऽपीति सूचयन्नाह *भूतले न घट इती- ति । अव्ययीभावाभावादिति । "अचः परस्मिन्" इति सूत्रस्थात् "ततः पश्चाद्" इति भाष्यप्रयोगाद्, “यथाऽसादृश्ये"इति सूत्रे "सा. दृश्यसंपत्तीति प्राप्नोति" इति भाष्योक्तेश्च । तत्सूत्रे तत्तदर्थवोधक- पघटकतया गृहीताव्ययेन तत्तदर्थकेन न समासः सः। यथाशब्देन तु भवत्येवोत्तरसूत्रारम्भादित्यर्थः । अत्र भाष्यान्तरमपि गमकमाह *अत एवेति । ततस्तदभावाङ्गी- कारादेव चेत्यर्थः। इति पक्षे-द्वितीय। नोपन्यस्तमिति।तथा चन्यू- निपातार्थनिरूपणम् । नताऽऽपत्तिः। ननूपलक्षणं तदत आह *अत एवेति।उक्तोऽर्थः । *तत्र पक्षे-पूर्वपदार्थप्रधानः स इति पक्षे । *शब्दति । वाक्ये नमोऽसत्त्वभू- तार्थाभिधायित्वेऽपि समासे सत्त्वरूपार्थाभिधायित्वं तत इत्यर्थः । तेनाव्ययीभावस्येष्टत्वे तु तेन तद्योगसिद्ध्या तावत्पर्यन्तगमनासं. गतिः स्पष्टव । ननु नेदं सिद्धान्तभाष्यं तत्पुरुषस्योत्सर्गत उत्त- रपदार्थप्रधानत्वादतः कथं ते उक्तार्थसिद्धिरत आह *अत्रात्वि. ति । उक्तदोपद्वयाभावसूचकस्तुरिति तदंशे तस्य सिद्धान्तत्वमे- वेति भावः । *वचनासिद्धिम्-वक्ष्यमाणाम् । *प्रधानत्वमिति । अथवा पुनरस्तूत्तरपदार्थप्रधान इत्यनेनेति भावः । नन्वेवं कथम् "अद्रुतायानसंहितम्" इति संहितासूत्रस्थवार्तिकप्रयोगो ऽत आह *असंहितमिति विति । आरोपितः परः संनिकर्ष इति त- दर्थः । *सूत्रेति । एतदुभयप्रामाण्यात्स्त्रीनपुंसकलिङ्ग इत्य- र्थः । संहितशब्द इति पाठः । अत्रान्यसंमतिमप्याह *अत एवेति । क्लीवाङ्गीकारादेवेत्यर्थः । एतन सूत्रवार्तिकप्रयोगाद- व्ययीभावेन सह नञ्तत्पुरुषो वैकल्पिक इति दीक्षितायु. कमपास्तम् । असन्देह इत्यस्य गतिरुक्तैव । तदाह *अन्यत्रेति । शेखरादावित्यर्थः । तदुक्तदोषमुद्धरति *सत्त्वेनेति । तस्यैव तत्प्र- तिबन्धकत्वात् । ननु तत्रैव न मानमत आह *नमिति । *तस्य तत्वे. सम्भावितत्वे । नन्वेवमपि कणादोक्तिविरोध एवा. त आह कणादेति । तल्लाभे वीजमाह #संसर्गस्यापीति । अपिना सत्तादिसमुच्चयः । एवं च तत् प्रागुक्तरीत्या ऽयुक्तमेवेति तद्रीत्या पूर्व दृष्टान्तदानं न स्वरीत्येति न सिद्धान्ते तद्विरोध इति च वो- ध्यम् । किञ्च उक्तभाष्यादपि अत्यन्ताभावार्थकनञः क्रियादि- प्रतियोगिकाभाववोधकत्वेनोत्तरादिपदार्थनानन्वयादसामर्थ्यनाव्य- यीभावो न निर्मक्षिकमित्यादिवदिति तथा वाक्योपपत्तावपि तथा बोधस्यैव लाभ इति तथा बोधो ऽयुक्त एव । न सन्देह इत्या- दौ तु सन्देहस्य गुणत्वाद्भवत्येव ना तदभावबोधनमिति सामर्थ्यमस्त्येव । सो ऽप्युक्तरीत्यैवेति न दोषः । इदमनुपदमे- घटस्य (१) नामक्षिकमिति पाठः । (२) 'स्वोक्तार्थसाधकतया तदुक्तमेव' इति पाठः ।

टीकाद्वयोपेतायां लघुमञ्जूषायाम् । व स्फुटीभविष्यतीति न पूर्वविरोधः । एतेन भूतले न घट इत्यादौ घटात्यन्ताभावे भूतलाद्यन्वितस्य सप्तम्यर्थाधेयत्व- स्येव तात्पर्यवशात् घटादौ सप्तम्यन्तभूतलादिवृत्तित्वाभाव- स्यान्वयबोधो ऽनुभवसिद्धः । अन्यथा तादृशवाक्यजन्यस्याप्रा. माण्यज्ञानानास्कन्दिताभावबोधस्य भूतले घट इत्यादिवाक्यज- न्यघटादिविशेष्यकभूतलाधेयत्वप्रकारकबोधविरोधिताया अनुपप- त्तेः । नञ्पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसम. भिव्याहाराद्भवति तादृशसमभिव्याहारस्थले नसत्त्वे तत्र धर्मिणि तदभावः प्रतीयते इति अनुभवापलापप्रसङ्गात् इति व्युत्पत्तिवादा- धुक्तमप्यपास्तम् । उक्तयुक्तेः। उक्तरीत्या प्रतिबन्धकत्वोपपत्तेः, ततो ऽपि क्रियाविशेष्यकवोधस्यैवोक्तरीत्या सत्त्वाञ्चेति दिक् । त- दाह *इतिदिगिति । यत्तु त्वन्मते पृथिव्यामित्यादौ प्रतीतेरेकविशे. ध्यत्वानुभवो विरुध्येतातो मदुक्तमेव युक्तमिति सा, तत् खण्ड- यति *पृथिव्यामिति । तात्पर्यवशात्कदाचित्प्रातिपदिकार्थवि. शेष्यकविभक्त्यर्थवृत्तित्वाभावप्रतीत्यङ्गीकारण गन्धः पृथिवी- वृत्तित्ववान् जलवृत्तित्वाभाववांश्चेति बोधादाह *प्रतीतेरेके. ति । अन्यथा न जले इत्यत्र गन्धपदावृत्तिप्रसङ्ग इति तद्भा- वः । यत्तु पृथिवीवृत्तिगन्धप्रतियोगिकाभाववजलमित्यर्थ इति । त- न । जले इति सप्तम्यनुपपत्तेः । तदभावो जलवृत्तिरिति बोधे पृथिव्यामिति सप्तम्यनुपपत्तिः, तत्पदवैयर्थ्यापत्तिश्च । तस्मात्सि- द्धान्तरीत्या प्रतीतिद्वयं भिन्नविशेष्यकम् । एतेनोक्तरीत्या सप्तम्य- र्यान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयाद् भूतलवृत्त्यभावप्र- तियोगी घट इतिवजलवृत्त्यभावप्रतियोगी गन्धः पृथिव्यामिति विनैवावृत्तिं बोध इति मतमपि निरस्तमिति दिक् । तदाह *इति दिगिति ॥ ३४॥ ब्रह्म- "नेक्षेतोद्यन्तमादित्यम्" इत्यादौ तस्य चारिणो व्रतमित्यनुष्ठेयवाचिव्रतशब्दोपक्रमाद्भावस्य चाननुष्ठानादीक्षतेर्नसमभिव्याहारादीक्षणाभावसं- कल्पबोधकतेति बोध्यम् ।

प्राप्त्या निपातार्थनिरूपणम् । ६६५ यत्वत्र पर्युदासस्तवाभावस्थाननुष्ठेयत्वाइतश- दोपक्रमाच्च तद्भिन्नक्रियायाः सामान्यतः चानीक्षणसङ्कल्पे लक्षणेति । तन्न । ईक्षणभिन्नसङ्कल्पे तात्पर्याभावात् । तथा शि- ष्टाचाराभावाच्च । नेक्षिष्यामीति ईक्षणाभावसङ्क- ल्पस्यैव सर्वैराचरणाच्च । किं च यत्र नत्रसमभिव्याहारे पदार्थस्याभेदेना- न्वये आकाङ्क्षा तत्रैव नक्सभिव्याहारे भेदप्रती- तिनान्यत्र । नच प्रकृते तथा। अत एव 'न पचति तिष्ठति'इत्यादौ न भेदवोधः । अत एव तिङन्तसम- भिव्याहृतनमो ऽत्यन्ताभावार्थकत्वमेव । अयमेव प्रसज्यप्रतिषेध इत्युच्यते। प्रसज्य विधाय विहितस्य प्रतिषेध इति तदर्थः । नसूत्रे भाष्ये तु-"प्र- सज्य क्रियागुणौ ततः पश्चानिवृत्तिं करोति" इत्युक्तम् । तेन गुणाभावबोधे ऽपि प्रसज्यप्रतिषेध इति लभ्यते । 'नास्माकमेकं प्रियम्' इत्युदाहरणम् । अत्र हि एक- प्रियप्रतिषेधे बहुप्रियप्रतीतिः । 'न सन्देह' इत्यादौ च सन्देहाभावप्रतीतिः। सन्देहस्य गुणत्वात् । सर्वत्र क्रियाप्रतिषेधे हि गुणपदोपादानं भाष्ये अनर्थक स्यात्। प्रसज्यप्रतिषेधो ऽसौ क्रियया सह यत्र नम् ॥-- इत्यत्र क्रियाग्रहणं गुणस्याप्युपलक्षणमिति बहवः॥३५॥ (कुं०टी०) *नेक्षेतेति । अत्र प्रतिषेधवाचिनो नमः क्रिया- यामन्वयादीक्षणनिषेधो वाक्यार्थः । निषेधश्च प्राप्तिपूर्व- ६६६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् क इति यत्र क्रतो सूर्येक्षणं विहितं तत्रोदयकालिकम र्येक्षणनिषेधः क्रत्वर्थ इति पूर्वपक्षे ऽभावस्थानुष्ठानासम्भवा- नमः पयुदासपरतणाऽनीक्षणसङ्कल्प एव पुरुषार्थो विधीयते इति मीमांसकाः । *किञ्चयोति । नगो ऽभावे यत्राभेदा- न्वयसम्भावना तत्रैव नसमभिव्याहारे भेदान्वयः । घटः पटो नेत्यत्र हि नबो ऽभावे नामार्थयोरिति न्यायादस्त्यभेदमा- सिरिति भावः । *नभेदबोधइति । पाकस्थित्योरभेदाप्रसङ्गाद् भेदवोधो ऽपि नेत्यर्थः ॥ ३५ ॥ (क० टी०) सिद्धान्ते प्राप्तदोषमुद्धरति भनेक्षेतोद्यन्तमिति । अस्तं यान्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नमसो गतम् । इत्यस्य परिग्रहः । इदं च स्नातकवतान्तर्गतं न मानवम्, थाशवलस्यीयम्, नाप्यापस्तम्वीयम्, किन्तु ब्रह्मचारिधर्मभूतप्रजापतिव्रतान्तर्गतम् । तदुत्सर्ग "कर्माणि पुरुषार्थाय” इत्यादितुर्याद्यपादस्थजैमिनिसूत्रविषयभूतन्तदाह *तस्येति । *ब्रह्मेति । *ईक्षणाभावेति । स्नातकव्रतप्रकरणे “उद्यन्तमस्तं यन्तमादित्यं दर्शने वर्जयेद्" इत्यापस्तम्बः सङ्गच्छते । एवञ्चोक्तनियमात्प्रसज्यप्रतिषेध एव तत्रेति भावः । तत्सूत्रस्थमीमांसकविज्ञानेश्वरादिमतं खण्डयति *यत्त्विति । *तत्र-पर्युदासे । *बतेति । तद्वाचीत्यादिः । अत- एव सामान्यप्राप्तिः, तत्र निषेधलब्धमादायाह तद्भिनेति । नत्रि- वयुक्तन्यायेनाह *क्रियायाइति । *प्राप्त्याचेति । तविशेपजि- ज्ञासायां पुरुपक्रियामात्रम्य सङ्कल्पपूर्वकतया प्रत्यासत्या तत्स- मभिव्याहारेण चेति शेषः । अन्यथा मन्वाश्वलायनापस्तम्बादि- कृततथोपक्रमविरोधः स्पष्ट एवेति भावः । उदयास्तमयकालयोः प्रत्यहं सङ्कल्प इति तन्त्ररत्नाद्युक्तमसङ्गतमिति ध्वनयन्नुक्तापस्तम्ब- मूलकमेवाह *नेक्षिष्यामीति । यथा चैतत्तथा स्पष्टं मिताक्षराव्या- ख्वायाः सूच्याम् । अतएव विज्ञानेश्वरेणापि मांसभक्षणविधि- अस्य व्याख्या अत एव निपातार्थनिरूपणम् । निषेधयोर्मन्वाकवाक्यतया तथैव सङ्कल्पो दर्शितः । इदमप्यभ्युपे. त्योक्तम् । वस्तुतस्तदेव नेत्याह *किञ्चेति । *धनेति । स्ववाश्योपात्ते इत्यर्थः। एतेन व्रतेन तत्लस्वाच्चिन्त्यमित्यशास्तम् । तस्य वाक्या- न्तरत्वात् । तथा लात तथाऽन्यथव खत्वेन तदाकालामात्रस्यै- वाभावाच्च । अन्बयस्य बाधितत्वादाह *आकालोति । तन्मात्र. मित्यर्थः । मिनाक्षात तस्य पोधे ऽपि समाधिमजिनामार्थयोरि- तिव्युत्पत्त्या तदाकाला सम्भवति, तस्या असहिषमाया अपि बहु- शो दृष्टत्वादिति भावः । नच नहि । तदविषयतया बाधेन च व्युत्पत्त्यन्तरेण भेदसम्बन्धेनैवान्ययस्य तस्य तदाकाहायाश्च सत्त्वा- त् । घटो न नील इत्यादौ च वक्ष्यवाणरीत्या ऽत्यन्ताभावधीरेव, न भेदधीः। तत्र तदभावे तथाऽन्वयस्यैव सत्त्वेन तदाकाङ्क्षामात्रस्या. सत्त्वाच्च । वक्ष्यमाणरीत्या विपरीतधारपिन । एतेन नो ऽभावे यत्रासेदेनान्वयवाधस्तत्र नत्राऽत्यन्ताभा. वधीयंत्र तदभावे ऽभेदेनान्वयस्ता तेन भेदधीस्तत्र च तत्तदा- काशाशानाधेव नियामकमिति नैयायिकाद्युक्तपास्तम् । तदेतद् ध्वनयन्नाह *अत एवेति । उक्तनियमादेवेत्यर्थः । परमते तु घटः पटो नेत्येतत्तुल्यतया त्रापि स स्यादिति भावः । उपसंहरनाह *अत एवेति । उक्तोऽर्थः । अतएवा 'न पचति चैत्र' इत्यतः 'चैत्रभिन्नकर्तृकः पाक' इत्यवोधः । विशेष वक्तुमाह *अयमेवेति । तत्लमभिव्याहृतनञ्बोध्यात्यन्ताभाव एवेत्यर्थः। प्रसज्येत्यस्यार्थः *विधायेति । विशिष्टफलितार्थमाह *विहितेति । विधानं च तदसमभिव्याहृतवाक्यतो बोध्यम् । तमेव विशेषमाह *नसूत्रे इति । *तेन-भाष्यीयतथा- कथनेन । “न एकं प्रियम्" इति तत्रोक्तम् । नद्वित्वाशयकमित्यर्थत आह *नास्माकामिति । येननाप्राप्तइतिवन्नेत्याह *अत्रहीति । बहु- प्रियशव्दः पात्रादिः। बहुप्रियतेतिपाठस्तु सुगम एव । प्रागुक्तदाढा- योदाहरणान्तरमाह *नसन्देह इति । अभियुक्तोक्तिविरोधं परिहरति *प्रसज्योति । एवं च न तथैव कार्यकारणभावः, किन्तु तत्र तादृशधा- तुगुणवाचकपदान्यतरजन्योपस्थितिः कारणमिति बोध्यः ॥ ३५ ॥ अन्त्यो घटः पटो नेत्यादौ।

: ६६८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । यत्त्वत्र भेदो नसर्थः तत्र प्रतियोगितासम्बन्धे. न पटस्यान्वयः । नच गृहस्योचैरित्यादाविव षष्ट्या- पत्तिः । एवं तर्हि पटपदं पटप्रतियोगिकपरम्, तस्य भेदे ऽभेदान्वयः । भेदस्याश्रयतया घटे ऽन्वयः । अभेदान्वयव्युत्पत्तिस्तु निपातातिरिक्तविषया। यद्वा भेदवान्नार्थः । भेदवत्ति लक्षणति तु न यु- तम् । निपातानामनेकार्थत्वेन लक्षणानवसरात्, के. वलभेदस्य काप्यबोधाचेति । तन्न । न ब्राह्मणैरेतैरुपद्रुतमित्यादौ भेदाश्रयभेदप्रतियो- गिनोः समानविभक्तित्वस्य दुरुपपादत्वात्, समास- वाक्ययोस्तुल्यार्थत्वौचित्याच्च । तस्मादत्रापि आरो- पितपटाभिन्नो घट इति बोधः । नञ् द्योतक एव । एच. श्व समानविभक्तिकत्वं सिद्धम् । घटभेदबोधस्त्वार्थः। तत्समनियतत्वाद् घटत्वाभावबोधो ऽपि तत्रार्थः । यद्यपि भेदो निरूपयितुमशक्यः । तथाहि- घटः पटाद्भिन्न इति भेदज्ञानं भिन्नत्वेन गृहीतधर्मि- प्रतियोगिज्ञानपूर्वकम् । तत्र स भेदो ऽयमेव चे- दात्माश्रयः । भेदान्तरं चेत्तदपि भिन्नयोरेव ध- मिप्रतियोगिनोज्ञातव्यम् । स चेत्पूर्वभेद एव तदाऽन्योन्याश्रयः । तृतीयो भेदोऽन्यश्वेच्चक्रकाप- त्तिः । भेदपरंपरांस्वीकारे अनवस्था । अन्ति- मभेदासिद्ध्या मूलभूतभेदपर्यन्तमसिद्धेर्मूलक्षयात् । अत एव भेदस्यासत्सामान्यशब्देन कैयटादौ व्यवहा- रः। असत्त्वमुक्तरीत्या,सामान्यत्वं केवलान्वयित्वात्। तथाऽप्यविचारितरमणीयेनैव मायिकेन भेदेन व्यव- निपातार्थनिरूपणम् । हाराद्यावहारिकस्यैव सत्त्वेनाक्षतिः, घटाद्यर्थस्य घटा- दिपदवाच्यत्ववत् । अन्यथा घटत्वाश्रयत्वेन अधं घटः, घटवृत्तित्वेन चेदं घटत्वमित्यन्योन्याश्रयात् । पदा- र्थमात्रस्याविचाररमणीयस्यानिर्वचनीयस्यैव व्यवहा- रप्रयोजकत्वात् । अत एवोक्तं श्रीहर्षेण- समस्तलोकशास्त्रैकमत्यमाश्रित्य नृत्यतोः । का तवास्तु गतिस्तस्तुधीव्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैरशकनीययोः । अनिर्वक्तव्यतावादपादसेवा गतिस्तयोः ।। यथा सतो जनिनैवमसतोऽपि जनिनच । जन्यत्वमेव जन्यस्यानिर्वाच्यत्वसमर्पकम् ॥ इति। तथा- भेदसत्यपरस्तर्को भेदमायापरो ऽपरः । भेदसत्यपरस्तकों ह्यसन्वेदविरोधतः ।। एकविज्ञाननिगमान्नेहनानेति च श्रुतेः । इत्यलम् । एवमघटस्य दर्शनमित्यादौ"सर्व वाक्यं सावधार- णम्" इति न्यायेन घटभिन्नस्यैव दर्शनमित्यर्थात् घटस्थ दर्शनाभावोऽपि आर्थः प्रतीयते । अघटदर्शनमित्युक्त तु न । तद्भिन्नदर्शने ऽपि तद्दर्शनाभावाभावेन तयोः समनैयत्याभावात् । एवकारान्तर्भावेण वृत्तौ तु न मानम् । एतच "तस्य भावः, "नयो गुणप्रतिषेध-"इ- त्यादिसूत्रेष्वाकरे स्पष्टम् ॥ ३६ ।। (कुं०टी०) *अन्त्यः-तादात्म्यसम्बन्धाभावः । तत्र- -भेदे।

६७० टीकाद्वयोपेनायां लघुमजूषाचाम् । *प्रतियोगितेति । घटनालियोगिकमेवानित्यर्थः । गृह- स्योच्चैरित्यादाविति । “न लोक-” इत्यत्र पूर्वोत्तरसा- हचर्यात् कुव्ययत्व ग्रहणात् । *पष्ठयापत्तिरिति । घटसम्बन्धिभेदवानियाद *नयुक्तमिति ! शत्येव निर्वाहात् । नबालगैरिति । अत्र भेदातियोगिनो ब्राह्मणाः, दाश्रया एते, वाजणप्रतियोगिक श्वन्त খুন হই নাম্বালম্বিয়ালৰ বিন্ধালাবন্তি- रित्यर्थः । तत्समनियतत्वात्-बटभेदसानियतत्वात् । *ध- मिप्रतियोगीति । घटः पटो नेत्यत्र धर्मी घटः प्रतियोगी पटः अनयोर्मेदवत्वेनोपस्थितयोरेवेयं बुद्धिरित्यर्थः। *चक्रकामिति । त्रयाणां परस्परापेक्षा चक्रकम् । अत ऊर्ध्वमनवस्था । असत्सा- मान्यपदयोरथयाह अलत्वनिति। *उक्तरीत्या-भेदासिद्धिरि- तिरीत्या । *अतएवोक्तमिति । यदि घटबुद्धिविशेष्या घटसिद्धि- स्तदा घटबुद्धिरपि घटबुद्धिबुद्धेरेव वाच्या इत्यनवस्था । नन्वेवं सर्वलोकशास्त्राविसंवादेन प्रवर्त्तमानयोर्वस्तुधीव्यवहारयोः का गतिरिति पृच्छति *कागतिरिति । वस्तुधीव्यवहारयोः संपति- पत्तिमात्रं विचारतस्तु तयोरुपादानमशक्यमित्याह उपपादयि- तुमिति। *इत्युक्ते तु नेति । अत्र घटदर्शनाभावबोधो नेत्यर्थः । अत्र हेतुमाह तद्भिन्नेति । घटभिमपटादिदर्शने घटस्य दर्शनं न भवतीति नेत्यर्थः । तयोः-अघटदर्शनघटदर्शनाभावयोः ॥३६॥ (क० टी०) एवं तदात्यन्ताभावं निरूप्य भेदं निरूपयति *अन्त्य इति । भेद इत्यर्थः सोऽपि समासवदार्थ एव, न शाब्द इति प्रतिपादयितुं मीमांसकनैयायिकमतं खण्डयति *यत्त्विति | *नार्थः-तद्वाच्यः । *एवं तीत्यस्य यत इत्यादिः । लक्षणया आह *पटपदमिति । *भेदे-नअर्थे ।

निपातार्थनिरूपणम् । ६७१ * अभेदान्वयः-अभेदेनान्वयः। ननु व्युत्पत्तिविरुद्धमन्त्यमत आह *अ- भेदेति । नन्वेवमाद्ययाधोऽपि न स्यायत आह *यति । भेदेन्यस्य प्रतियोगिविशिष्टेत्यादिः । तथा च सामाइत्वात्प्रतियोगिनि पटस्य अभेदेनान्धयो विशिष्टस्य घटे तथेति । तस्माइन्ययात्वेऽपि न को- ऽपि दोषो ऽति भावः। एकदेश्युकं खण्डपति परः *भेइवतीति । भेदे शक्तस्य पर्युदाले सामानाधिकरण्यानुरोधेन तत्र लक्षणेत्यर्थः । सिद्धान्तमतेन दूरणमाह *निपातानामिति । परोक्तदोपमाह *केव- लेति। घटः पटो नत्यादौ परमते साधुत्वेन लिहिमभ्युपेत्याह *न- ब्राह्मणैरिति । अत एव तल्लाधारण दोषान्तरं समासस्थले पूर्व तथा प्रतिपादितत्वादाह *समासयाल्यथोरिति । *अनापि वाक्येऽपि तदीये । अपिना ललाससमुश्शयः। अतरवाह *एवञ्चति । साधुन्वार्थ प्रथमेति तु न युक्तम् । तथाऽनुशासनासावात् । औत्सर्गिकैकवचन- स्यापि गमके सत्येव सस्वाञ्च । जन्वेवं कथं तद्भेदधीः सर्वजनप्र. सिद्धाऽत आह *घटभेदेति । समनियताभावानाक्यमेतस्मिन्नेव भेदत्वेन घटप्रतियोगिकत्वम्, अत्यन्ताभावत्वेन च घटत्वप्रतियोगि- कत्वमिति मतस्य दूषितत्वादाह *तत्समनियतत्वादिति । भेदस्य न वास्तवत्वमित्याह *यद्यपीत्यादि । घटी घटाद्भिन्न इत्यादिवारणा- याह *भिन्नत्वेनेति । तत्त्वेन गृहीतौ यो तस्याश्रयप्रतियोगिलो तयो- र्यज्ज्ञानं प्रतियोग्यधिकरणरोनिं तत्पूर्वकमित्यर्थः । तत्र-पूर्वतन- तज्ज्ञाने । स्वस्मिन्साक्षात्स्वापेक्षासत्वाद् आह आत्मति । इदमुद्ध- रति *भेदान्तरमिति । स चेत्-तृतीयभेदश्चेत् । * पूर्वभेद एव-स- ाद्यभेद एव । एकमन्तरा स्वस्मिन्स्वापेक्षालस्वादाह अन्योन्यति। इदमप्युद्धरति* तृतीयति । चतुर्थस्य सर्वाद्यरूपत्वे ऽनेकद्वारा स्वस्मिन्स्वापेक्षासवादाह *चक्रक्षेति । धातरिति सुत्र स्पष्टमे- तत् । तत्र हि-"आत" इत्यत्र “धातोः" इति विहितविशेषणम्, "आत” इत्यानन्तर्यविशेषणमित्यभ्युपेत्यापि लोपे कृते जुम् नेति समाधावलुनन् इत्यादी लोप ईत्वेन वाध्यते, तशान्तिभावेन, सच जुस्भावेन, सच लोपेन, सचेत्वेनेत्वमन्तिनाऽन्तिर्जुला सच लो- (१) प्रतीतेश्चेति पाठः।

६७२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । इत्यत पेनेति चक्रकमुक्त्वा ऽऽयन्नादिषपदशिवद्भावनान्तरङ्गत्वादादावन्ति- भावे लोपेन व्यवस्थेति परिहतमेकदेशिना । अन्योन्याश्रयस्तु वृद्धिसूत्रभाष्यादी प्रसिद्धतरः । एतदोषाभावाय चतुर्थादेरपि भिन्नत्वाङ्गीकारे आह *भेदेति । अस्या दोषत्वे बीजमाह *अन्ति- मति । एवं सति कचिद्विश्रान्तेरसम्भवादाह *पर्यन्तमिति । अ- एवोक्तम्-"एवमप्यनवस्था स्याद्या मूलक्षयकारिणी" इति । *अत एव-तदशक्यत्वादेव । *कैयटादाविति । *उक्तेति । तदश- क्यत्वेनेत्यर्थः । न केवलमत्रैवेदं किन्त्वन्यत्रापि सर्वत्रेत्याह *घटाद्यर्थेति । इदमुपपादयति *अन्यथेति । उक्तरीत्यनङ्गी- कारे इत्यर्थः। *अन्योऽन्याश्रयादिति । तदापत्तेस्तलिद्धेरप्यभा- वापत्तरित्यर्थः । उपसंहरति *पदार्थेति । तस्मादित्यादिः। मात्रम् कात्स्न्ये । अनिर्वचनीयत्वस्वरूपं प्रागुक्तम् । प्रयोजकत्वमिति पा. ठः । समस्तेत्यादिविशेषणेनाविप्रतिपतिर्वस्तुनो धीव्यवहारयोः सू. चिता । नर्तनं च सर्वदेशसम्बन्ध एव । तव तस्तयोः का गतिः स्यात्कुत आह *उपपादयितुमिति । एवं प्रश्ने सिद्धान्तमाह *अनिर्वचनीयेति । ननु तत्त्वमेव कुतो ऽत आह *यथेति । *सतः ब्रह्मणः । *एवम्-तथा। *असतः-नृशृङ्गादेः । *नच-नहि । नैवेति पाठेऽप्येवम् । उभयत्र वीजमुक्तमेव प्रपञ्चे त्वाह *जन्यत्वमेवेति । एवं सामान्यत उक्त्वा विशेषतः प्रकृतसंमतिमाह *तथेति।सत्यमायाशब्दौ धर्मपरौ तयोर्मध्ये आह *भेदेति । *ह्यस- न्-असन्नेव । *विरोधतः-पञ्चम्यन्तात्सार्वविभक्तिकस्तसिः। वेद- मेवाह *एकेति । एकविज्ञानेन सर्वविज्ञानमित्यपि प्रागुक्तश्रुतेरित्य- र्थः । *चश्रुतेः-श्रुतेश्च । यद्यपि “तत्त्वमास" इत्यादयोऽभेदप्रतिपादि- काः, नित्योऽनित्यानाम्" इत्यादयो भेदप्रतिपादकाश्चेति श्रुतीनामपि द्वविध्यम्, तथापि लाघवतर्कानुगृहीताभेदश्रुतिवलात्तासामुपाधिक- ल्पितव्यावहारिकभेदानुवादकत्वमेव । किञ्च श्रुत्यैव भेदतिरस्कारो ऽपि कृतः-"नेह. नानास्ति किञ्चनेति, । “य एतस्मिन्नुदरमन्तरं कुरुते ऽथ तस्य भयं भवति मृत्योः स मृत्युमाप्नोति यदु ह नानेव पश्यति" इत्यादिस्तग्निन्दापराऽपि । नैवमभेदस्य तत्त्वपरा श्रुतिर- स्ति भेदवाक्यानुरोधादभेदवाक्यानामविभागलक्षणादि- भेदपरत्वं यथोक्तं शुद्धमाक्षिप्तं तागेव भवति । किञ्चावि- यया निपातार्थनिरूपणम् । तथा *एव- भागो नाम विभागाभावो न संयोगविरोधी विभागाभावस्य संयोगस्वरूपत्वेन संयोगाभावरूपविभागाभावस्य सुतरां त. स्वरूपत्वेन द्वयोर्व्यापकयोर्जीवब्रह्मणोरप्राप्तिपूर्वकप्राप्तिरूपसंयो. गाभावेन तदसम्भवात् । तस्माद्विभुनित्यानामविभागो नामा- भेदापरपर्याय एव । एतद् ध्वननार्थमेव नेहेत्यादिहेत्वन्तरमुक्तम् । एवं च तादात्म्यमारोपितं भेद एव वास्तवो वस्तूनामिति व्य. वहारोऽप्यविद्याविलसित एवेति बोध्यम् । तदाह *इतीत्यल- मिति । अन्यत्रापि तत्प्रतीतिमुपपादयति मिति । तत्र घटत्वाभाववदित्यर्थः । *अर्थात्-आर्थिकात् । शाब्दस्तु आरोपितघटस्यैव दर्शनमिति । *अभावाभावनेति । त- दर्शनाभावे ऽपि तद्भिन्नदर्शनाभावेनचेत्यपि बोध्यम् । *ए. तञ्चति । समासे तदज्ञानं चेत्यर्थः । तत्राये "स्वतल्भ्यां नलमासः पूर्वविप्रतिषेधेन" इत्यत्र युगपद्विवक्षामाश्रित्य व्याख्यातम् , तच्च तत्रैवकारान्तर्भावे सति असम्बद्धं स्यात् । भेदस्यावास्तवत्वमपि तद्भाष्यादौ स्पष्टम् । द्वितीये गुणप्रतिषेधे इत्यस्य गर्दभरथमर्हति "तदर्हति" इति ठक्, गार्दभरथिकादन्य इत्यर्थकस्यागार्दभरथिक इत्यस्य दत्तस्य प्रत्युदाहरणस्योपपत्त्यर्थ व्याख्यातृभिर्व्याख्यातम् । नचास्य गर्दभरथाहणकर्तृभिन्न इत्यर्थः, तत्रार्थत अर्हत्वाभावस्यापि बोधनादस्त्येव गुणप्रतिषेधः, यथा घटभिन्न इत्युक्ते घटत्वाभाव. वानिति प्रतीयते इति वाच्यम् । न गर्दभरथमहतीति गर्दभ. रथस्य नाहीभ्यां युगपदेकार्थीभावविवक्षायां परत्वात्तद्धिते एकदेशद्वारकसामर्थ्यमाश्रित्य तद्धितान्तेन समासे आरोपित गर्दभरथमहतीत्यर्थके ऽतिप्रसङ्गवारणार्थत्वादिति । अन्यथैत- दसङ्गतिरपि स्पष्टैव ॥ ३६ ॥ नयोत्यो भेदो विशेषणम्, भेदप्रतियोगी घट इत्यर्थ इति तु न युक्तम् । अघटमानयेत्युक्ते यत्किञ्चिनिष्ठभेदप्रतियोगिनो यकिश्चित्पतियो- गिकभेदवतो वा घटस्यैवानयनापत्तेः । अत ए- १ मूलपुस्तकत्रितये भावादिति पञ्चम्यन्तः पाठ उपलभ्यते ।

६७४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । घोत्तरपदार्थप्रधानत्वे नञ्तत्पुरुषस्य अब्राह्मण इत्युक्त ब्राह्मणमात्रस्थानयनं प्राप्नोतीत्याशय नञः प्रयोगा- नर्थविशिष्टस्यानयनं भविष्यतीत्युक्त्वा "कः पुन- रसौ नत्रर्थविशिष्टः" इति प्रश्ने "निवृत्तपदार्थक"इति भाष्य उक्तम् । निवृत्तः पदार्थों मुख्यं ब्राह्मण्यं यस्मि- न्स क्षत्रियादिरित्यर्थः । सादृश्यादिना अध्यारोपित- ब्राह्मण्यो नद्योतिततद्वस्थ इत्यर्थः इति कैयटः । यत्तु निवृत्तेति भावे क्तः, निवृत्तमभावः पदार्थों यस्येति एतदुभाष्यार्थ इति । तद् भ्रान्त्यैवेति स्पष्टं भाष्यविदाम् । किश्च प्रतियोग्यभावौ तुल्ययोगक्षेमा- विति तान्त्रिकोक्तेनञ्वाच्यभेदस्य विशेषणता न युक्ता । यत्र प्रतियोगिनः प्रकारता तत्रैव तदभाव- स्थापि सा, यत्र तस्य विशेष्यता तत्र तदभाव- स्थापि सेति तदर्थः । बाधवुद्धिप्रतिवन्धकताऽपि यथाऽनुभवं कल्प्यति न तदनुरोधेन ऋष्यनुभव- सिद्धबोधान्यथाभाव उचितः । अनेनैव न्यायन प्रति- योग्यधिकरणमेवाभावाधिकरणमिति दिक् ॥ ३७ ॥ (कुं०टी०) *निवृत्तपदार्थक इति । अयं भावः-यो ऽयं ब्रा- ह्मणार्थः स बहिरसन् केवलं भ्रान्त्या क्षत्रिये अध्यवसित इति स्वाभाविकी ब्राह्मणार्थनिवृत्तिरेव ना द्योत्यते, तस्मादाया- पेक्षयैव निवृत्तपदार्थकत्वम् उपचारसत्ताऽपेक्षया तु प्रयोग इति । घटप्रकारकभूतलविशेष्यकनिश्चयं प्रति घटाभावप्रकारकभू- तलविशेष्यकनिश्चयः प्रतिबन्धक इत्यादि दूषयति *वाध- बुद्धीति । *अन्यथाभावः-अन्यथात्वम् । *अनेनैवेति । नत्रो- निपातार्थनिरूपणम् । ६७५ ऽभावे यत् प्रतियोग्यधिकरणं तत् नममभिव्याहारे अभावा- धिकरणामित्यर्थः ॥ ३७॥ (क० टी०) दीक्षितभूषणकारादिमतमाद्यं खण्डयति *न- द्योत्य इति । इदंच वाक्यसमासोभयपरम् । भेद पव नज- थः तस्य तत्त्वादेव सर्वनामकार्यम् , तस्य तत्वाधान्यम् , अत्वं भव. सीत्यादौ पुरुषव्यवस्था, अनेकमित्यादौ तनियमश्च । अनेके इति त्वेकशेषेण साधु । समासे वक्ष्यमाणं त्वन्यथापरमिति न पौन- रुक्त्यम् । समासवाक्ययोस्तुल्यार्थत्वात् । अतएवाह *अघटमि- ति । सामर्थ्यस्योभयत्रापि सत्त्वेन विनिगमनाविरहादाह *य- त्किञ्चित्प्रतीति । उत्तरपदार्थप्राधान्ये राजपुरुषमानयेत्यादौ तथा दृष्टत्वात् । *अत एव-तत्र पक्षे तदापत्तेरेव । *नजि- ति । पूर्वान्वयि । मात्रपदेन शौचाचारादिहीनब्राह्मणस्य, क्षत्रि- यादेश्च निवृत्तिः । भाष्ये नञ्पदमर्थपरामित्याह *नथैति । भे- दस्य नार्थत्वे तावताऽप्यवारणादाह *कःपुनरिति । नायं न- अर्थमात्रविषयकः प्रश्नः, सर्वनाम्नां प्रधानपरामर्शित्वस्योत्ल. गित्वाद्, अतस्तदर्थमाह *नार्थविशिष्ट इति । अभावस्यैव नन- र्थत्वेन प्रसिद्धत्वात्प्रमितोत्तरपदार्थव्यतिरिक्तः कोऽसौ नविशि. ट उत्तरपदार्थ इत्यर्थः । कप्रत्ययसूचितबहुव्रीहिसूचितमर्थमाह *निवृत्त इति । कर्मणि क्त इति भावः । सर्वथा निवृत्तपदार्थत्वे विशेषणमेव न युज्यतेत्यतस्तत्तात्पर्यार्थमाह *सादृश्यादिनेति । आदिना साहचर्यादि । निवृत्तमुख्यब्राह्मण्यादारोपिततद्वानिति मा. प्याक्षरार्थस्तदाह नमिति । एवं चारोपितस्वप्रवृत्तिनिमित्तवा- नुत्तरपदार्थ इत्यत्र ताप्तर्यग्राहको नभिति तात्पर्यम् । उत्तरपदार्थप्रा- धान्यमप्येतदेवेति बोध्यम् । तदुक्तिमेव खण्डयति *यत्त्विति । *त. दिति । उक्तयुक्तेः । पूर्वोत्तरसन्दर्भाञ्चोक्तस्यैव भाष्येष्टत्वेन तथाऽर्थ- सम्भावनाया एवाभावात् । यथाचैतत्तथा स्पष्टमुद्योते । अभ्युपेत्य दोषान्तरमाह *किञ्चेति । तान्त्रिकाः-नैयायिकादयः । परम- तेनाह *नवाच्येति । प्रसिद्धयोगक्षेमतुल्यत्वाभावादाह *य- वेति । नन्वेवं घटादिज्ञानस्य तत्प्रतिवन्धकता न स्यात्, ग्राह्याभावानवगाहित्वादन आह *बाधेति । ननु परेषां तथैवा.

६७६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । नुभवो ऽत आह *ऋष्यनुभवेति । ततस्तस्य प्रावल्यात् । त- स्यार्थान्तरमप्याह *अनेनैवेति । प्रतियोग्यभावावित्युक्तेनेत्यर्थः । विनिगमनाविरहादिति भावः । किश्चार्थिकतज्ज्ञानमादाय ताह- शवाधवुद्धपि प्रतिवन्धकत्वसम्भवः । वस्तुतो वाधबुद्ध व ज्ञा. ने प्रतिवन्धकत्वमिति प्रागुक्तम् । एतेन प्रतियोग्यभावान्वयौ तु. ल्योगक्षेमौ तेन यत्पदोपस्थापितस्य प्रतियोगिनो ऽनुयोगिनि आधाराधेयभावसम्बन्धेनैवान्वयनोधस्तत्र तत्संसर्गाभावस्यापि तथा, यथा पचति चैत्र इत्यादौ तिङर्थकृत्यादेः प्रथमान्तपदोप- स्थाप्ये एव तत्र तथेति, ततदभावस्यापि तथेति उक्तसिद्धान्तं जीर्णशाब्दिकमतत्वेनानूद्य तत्र सर्वत्राभावबोधस्थानुभविक- त्वादिति च नैयायिकोक्तमपास्तम् । तदाह *इतिदिगिति ॥ ३७॥ यत्तु-"नानुयाजेषु" इत्यादौ पर्युदास एव, न प्रस- ज्यप्रतिषेधः, शास्त्रीयविहितप्रतिषिद्धत्वाद्विकल्पाप- त्तेर्वाक्यभेदापत्तेश्च । तथाहि क्रियायाः कारकाका- सत्वेन विनिगमनाविरहात्सकलकारकविशिष्टां भा. वनां प्रतियोगिभूतामुद्दिश्याभावस्य विधिस्तत्र वाच्यः । एवञ्चोद्देश्यस्य प्रतियोगिनः प्रसिद्ध्यर्थं प्रा. प्तिसापेक्षता प्रतिषेधस्य । प्राप्तिश्च कचिद्रागतः, यथा "न कलशं भक्षयेद्" इति । तत्राहि रागेण कलअभक्ष- णादरिष्टसाधनत्वावगत्या प्रसक्तायाः कलनभ. क्षणभावनाया निषेधशास्त्रेण निवृत्तिविषयत्वे ऽवग. ऽर्थात्तद्विषयकल नभक्षणादेरनिष्टसाधनत्वाक्षे- पान्नित्यं ततो निवृत्तिः । प्रकृते च येयजामहेशास्त्र- त एव सा । साच प्रमारूपति उपजीव्या चेति तस्या अत्यन्तबाधायोगात् विकल्प एव प्रामोति । विकल्प च प्रथमं व्रीह्यनुष्ठाने यवशास्त्रस्याप्रामाण्यस्वीका. रात्मा प्रतीतप्रामाण्यपरित्यागः, वेदे विपर्यासरूपा. ते ६७१ " निपातार्थनिरूपणम् । प्रमितिजनकत्वासम्भवात्। ततः प्रयोगान्तरे यवोपा. दाने यवशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागात्मकं परित्यक्तप्रामाण्योपादानम् , ब्रीहिशास्त्रे स्वीकृतप्रामा- ण्यपरित्यागरूपो ऽप्रतीताप्रामाण्यस्वीकारः, पुनस्त- तीयप्रयोगे ब्रीह्युपादाने व्रीहिशास्त्रस्य स्वीकृताप्रामा. ण्यपरित्यागात्मा त्यक्तप्रामाण्यस्वीकार इति चत्वारो दोषाः । यथाकथश्चिनेदारोपेणाष्टौ वा दोषा इति । तन्न । निषेधशास्त्रानालोचने सामान्यशास्त्रालो- चनमात्रेण भ्रमात्मकप्रतियोगिप्रसिद्ध्याऽभावबोधस- म्भवेन विकल्पाप्राप्तः । ननु निषेधशास्त्रस्यैव प्रथममालोचने विशेषद- शनसत्त्वेन सामान्यशास्त्रतो भ्रमानुपपत्या ताह- शप्रतियोगिनो ऽप्रसिद्धौ तदुद्देश्यकप्रमाऽनुपपत्ति- रिति चेन्न । निषेधशास्त्रस्य प्रथममालोचनं नाम तवाक्यज्ञा. नमुन तदर्थज्ञानम् ? । नाद्यः । तावन्मात्रेण विशेषद- शनासम्भवात् । नान्त्यः । प्रतियोग्यप्रसिद्ध्या तदस- म्भवात् । किञ्च निषेधस्य प्रथममालोचने बाधबुद्धेः सत्त्वेन विधिवाक्यतः प्रमा दुरुपपादेति विकल्पा- पत्त्युक्त्यसम्भवः । यदा तादृशे विषये आहार्यभ्रमात्मिका प्रतियो- गिप्रसिद्धिरस्तु। एवमेव हि “नान्तरिक्षे जुहोति"'हदे वहिर्नास्ति' इत्यादौ प्रतियोगिप्रसिद्धिः सर्वैरुपपाया। प्रतियोगिज्ञानस्यालावधीहेतुत्वेऽपि तत्कारणताव- च्छेदककोटावनाहार्यत्वनिवेशे मानाभावात् । ससं- ६७८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । बन्धिकपदार्थज्ञाने संबन्धितावच्छेदकप्रकारकज्ञानका- रणव विशेषणतावच्छे दकप्रकारकज्ञानकारणतैव वा प्रतियोगिज्ञानकारणतेति पक्षेऽप्याहार्यानाहार्य- साधारणज्ञानत्वेनैव हेतुता । आहार्यतज्ज्ञानादाहार्य एव स इत्यनेनैवातिप्रसङ्गभङ्गात् । आहार्यः शान्बोधो नेति त्वश्रद्धेयमेव । हृदवृत्तित्वाभावबोधो वन्हावि- त्यादि त्वधिकरणकारकस्य कर्तृकर्मद्वारा क्रियान्वय- नियमादयुक्तम् । प्रसक्तं निषिध्यते इत्यस्य प्रसञ्ज- नाहमित्यर्थः । यदि निषेधो न स्यात् स्यादेव सामा. न्येन प्रसक्तिरिति बोध्यम् । किञ्च विध्युपमर्दकत्वेन उपजीव्यादपि तस्मानि- षेधो बलवान्। एतदेवाभिप्रेत्य "निषेधाश्च बलीयांस" इति भाष्यकृतः। किश्च उपजीव्यविरोधो विकल्पवादिनो ऽपि तथाहि-यागत्वावच्छेदेन येयजामहकर्मकभावनारूप- वाक्यार्थी निषेधस्योपजीव्या, तस्य च यत्रानुयाजे तदकरणं तदंशे विरोधः, अवच्छेदकावच्छेदेन प्रतीतेरप्रामाण्यं च । अनुयाजवाक्ये तु एकवाक्य- तालाभेन पर्युदास इति तत्त्वम् । अतएव “इन्वेच" "विभाषा जास" इत्यादीनां चारितार्थ्यम् । अत एव "सुडनपुंसकस्य" इत्यादी भाष्ये पर्युदासप्रसज्यप्रतिषेधयोः फलाविशेष उक्तः संगच्छते ॥ ३८॥ (कुं० टी०) *शास्त्रीयेति । विधानप्रतिषेधयोः शास्त्री- निपातार्थनिरूपणम् । यत्वादित्यर्थः । *वाक्यभेदेति । नमः क्रियायामन्वयात् । *सकलेति । सकलकारकविशिष्टक्रियाया एव निषेधा- दित्यर्थः । * नकलञ्जमिति । नबर्थस्य धात्वर्थेऽन्वयासम्भवाद् भक्षणप्रवर्तनायां नार्थो ऽन्वेतीति मीमांसकाः । 'ओक्श्रावय' इति अध्वर्युणोक्ते 'अस्तु औषद्' इति आग्नीध्रः, 'यज' इति पुनरध्वर्युः। ये३यजामहे इत्यादि होता । “वषट्कार मामा आयुः प्रमोषी:"इत्यादि च यजमानः, इति येयजामहः।*सा-प्राप्तिः। *प्र- मारूपेति । शास्त्रविहितत्वात् ।* उपजीव्येति । अभावज्ञाने प्रतियो- गिज्ञानस्य हेतुत्वात् । *वाधायोगादिति-शास्त्रापामाण्यप्रसङ्गात् । *विकल्पेचेति । चत्वारो दोषा इत्यत्रान्वयः । *विपर्यासेति । वेदे भ्रमजनकत्वरूपाप्रामाण्यासम्भवात् प्रामाण्यस्वीकार एवे- त्यर्थः। *यथा कथञ्चिदिति । प्रामाण्यपरित्यागो ऽपामा- ण्यस्वीकार इति दोषद्वयं मीमांसकाः व्यवहरन्ति-तन्मतेऽष्टौ इत्यर्थः । *अभाववोधेति । भ्रमप्राप्तस्यैव निषेध इति भावः । *विशेषेति । करचरणादिविशेषदर्शने स्थाणुर्वा पुरुषो वेति स- न्देहाभाववत् । *एवमेव-भ्रमात्मिकैव । * अन्तरिक्षे-अनाहते। *प्रतियोगिज्ञानस्येति । अयं भावः-प्रतियोग्यविषयकामाव- प्रत्यक्षस्यानुदयादभावलौकिकप्रत्यक्षे प्रतियोगिज्ञानस्य हेतुता कल्प्यते । नच प्रतियोग्यविषयकाभावप्रत्यक्षस्याभावेनापाद्या- भावादेव सिद्धौ किं हेतुत्वकल्पनेनेति वाच्यम् । इन्द्रियसम्बद्ध- विशेषणताबलादेव अभावप्रत्यक्षस्यैव प्रतियोगिशून्यकालेऽप्या- पत्त्यैव फलतः तत्पर्यवसानादिति । अपिशब्देनास्वरसः, तद्वीज तु पूर्वोक्तहेतुत्वे मानाभावः । प्रतियोगिज्ञानाभावे आपादकाभा. वेनैवापत्यभावात् । नहि केवलसंनिकर्ष एवापादकः इतरका- रणस्यापि सहकारित्वादिति । 4 ६८० टीकाद्वयोपेतायां लघुमञ्जूपायाम् । यत्तु प्रतियोगिज्ञानस्याहेतुत्वे घटत्वादिनिर्विकल्पकानन्तरं 'विशेष्ये विशेषणम्' इति न्यायेन घटो नास्तीति प्रतीत्यापत्ति- रिति । तन्न । विशिष्टवैशिष्ट्यवोधात्मकस्यैवाभावप्रत्यक्षस्य स्वीकारात् । एतेन प्रतियोग्यमिश्रितनेत्याकारकप्रत्ययापत्तिरित्यपा. स्तम् । विशेषणतावच्छेदकप्रकारकनिर्णयहेतुतयैव गतार्थत्वात् । तदाह *विशेषणतावच्छेदकति । अत एव पीतः शङ्खोऽत्र नास्ति किन्तु द्वीपान्तरे इति प्रतारकेण वाक्यं प्रयुज्यते । * आहार्यत. ज्ज्ञानादिति । प्रतियोगिज्ञानस्याहार्यत्वात्पतियोग्यप्याहार्य एवे- त्यर्थः । *नातिप्रसङ्ग:-न विकल्पप्रसङ्गः । ननु नौकायां प्र- सिद्धस्य हुदवृत्तित्वस्याभावो बन्हाविति न प्रतियोग्यप्रसिद्धि. रत आह *वहावित्यादीति । अयुक्तमित्यत्रान्वयः । अत्रैव हेतुमाह *अधिकरणेति । यागत्वावच्छेदेनेति । यागत्वस- मानाधिकरणाभावाप्रतियोगित्वं च तदर्थः । *प्रतीतेरिति । अवच्छेदकावच्छेदेन या प्रतीतिस्तस्या अप्रामाण्यमित्यर्थः । किमर्थं तदीयानुयाजवाक्ये पर्युदासः स्वीक्रियते इत्यत आह *अनुयाजवाक्येविति । *एकवाक्यतेति । वाक्य भेदवारणायैव प्रसज्यप्रतिषेधत्याग इति भावः । *चारितार्थ्यमिति । अन्यथा "इन्द्वेच'इत्यनेनैव विकल्पलाभे"विभाषा जसि"इत्यस्य वैया. पत्तिरित्यर्थः । *अतएव-प्रसज्यपतिपेधे ऽपि विधेरकल्पनादे- व । *फलाविशेषइति । तत्र हि "अनपुंसकस्येति निषेधादनानि इत्यादौ सर्वनामस्थानसंज्ञा न पामोति"इत्याशक्य "मुडिति प्रा- प्तिरेव प्रतिपिध्यते" इत्युक्तम् । तेन तत्र प्रतिषेधपर्युदासयोः फलसाम्यमिति भावः ॥ ३८ ॥ (क० टी०) सिंहावलोकन न्यायेन उक्तविषये वाधलक्षणे निपातार्थनिरूपणम् । तस्या । मीमांसकोक्तं खण्डयति *यत्त्वित्यादि । *नानुयाजेविति । "नानुयाजेषु येयजामहं करोति" इति आपस्तम्बसूत्रायुक्ते इत्यर्थः । तत्राद्यदोषमुपपादयति *तथाहीत्यादि एवाभावप्रतियोगित्वादाह प्रतियोगीति | *तत्र-अनुवाजे- षु । *एवञ्च-तस्या उद्देश्यत्वेच । *रागेणेति । कदाचि. त् वैद्योपदिष्टतद्भक्षणेन रोगनिवृत्तेरनुभूतत्वात्क्षुन्निवृत्त्यर्थत्वाचति भावः । क्वचिदितिसूचितासार्वत्रिकत्वलब्धमाह *प्रकृते चेति । यत्तु अनुयाजविषये “यजतिषु यजामहं करोति" इति ततः पूर्ववाक्येन प्राप्तिरिति सकलमीमांसकनैयायिकादिग्रन्थकाराः। तन्न। तस्य खपुष्पायमाणत्वात् । नन्वेवं कथं प्राप्तिरिति चेत् । शृणु "ओधावयेति चतुरक्षरं अस्तुश्रौषडिति चतुरक्षरं यजेति द्वयक्षरं येयजामहे इति पञ्चाक्षरं यक्षरो वपदकार एप वै सप्तदशाक्षरः प्रजापतिर्यज्ञमन्वायत्तं वेद" इति अनारभ्याधीतवाक्येन तदुपदेश इति ततस्तत्प्राप्तिरिति । तदेतदभिप्रेत्याह *येयजेति । यद्यपि तेन सर्वप्राप्तिस्तथापि प्रकृतत्वात्तावन्मात्रमुक्तम्, । तद्बोधकोकश्रु. तिकल्पितशास्त्रत एव सा प्राप्तिरित्यर्थः । ननु निपेधस्य विशु न्मूलकत्वेन बलवत्वमत आह * उपजीव्यति । तथाच तस्या अपि बलवत्वमिति भावः। ननु विकल्पे इयापत्तिग्रहणाग्रहणनद्रा आह *विकल्पचेति । दोषान्वयो ऽस्य । ननु कथमनयोरैक्यमाच- स्यान्यार्थकत्वादत आह *वेदेति । तत्र सर्वत्रोक्तरीत्या प्रमाणश- व्दत्वात् । नन्वेवमष्टदोषदुष्टस्त इति मीमांसकादिसिद्धान्तविरो- धोऽत आह *यथाकथञ्चिदिति । अयं तेषामाशयः-यद्यपि प्रामा- प्यपरित्यागो नाम प्रामाण्याभावस्वीकार एव, अप्रामाण्यस्वी. कारो ऽपि स एव, वेदे विपर्यासरूपप्रतीतिजनकत्वस्यासम्भवा- दिति नानयोर्भेदः, तथापि प्रामाण्याभावस्वीकारे दोषत्वीजं द्वि- विधम्, प्रामाण्ये प्रमाणस्य निदोपत्वादः सद्भावरूपमेकम्, प्राभा. ण्याभावे प्रमाणस्य प्रामाण्यानुपलम्भस्थामावरूपमपरम् । एवं च भावप्रमाणसद्भावोपाधिक आधः, अभावप्रमाणाभावोपाधिको द्वितीय इति द्वैविध्यविवक्षेति । वस्तुत एतावता भिन्नदोपत्वा- ङ्गीकारो न युक्त इति दोषचतुष्टयमेव सारम् । सर्वथाऽपि विकल्पो दुष्ट एवेति यथाकथञ्चिदित्यनेन सूचितमिति बोध्यम् । *आलोचने- .

६८२ टीकाद्वयोपेतायां लामञ्जूपायाम् । सति। प्रथममित्यादिः । मानपन्हमवधारणार्थकम् । तेन भिन्नदेश. स्थत्वेन तदा तदालोचनजिरासः । बायकसम्भावनया सर्वाश प्रमा- त्वासम्भवादाह समेति । वांधेति । प्रत्यर्थः । अतएवाने प्र. मेत्यादि वक्ष्यति । तस्याः भ्रमत्वादेवाह *विकल्पति । तच्छशीरे प्रामाण्यनिवेशादिति भावः । तदाशयं प्रकाशयन्द्रक्तदोष खण्डयति * नन्विति । प्रत्यक्षत्वाह निपवेति । उक्कादायनवाह *शास्त्रस्यैवति । *तादृशेति । भ्रमात्मकेत्यर्थः । *प्रति । तदभावत्यादिः । *चन्नेति । तस्यैवासम्भवादिति शेषः । तमेवाह *निवेति । तदभ्युपगमे मूले एव कुठारमाह *किञ्चति । उक्त एवाशयः । * विकल्पति । तस्या रवासम्भव इत्यर्थः । ननु परैरप्रसिद्धप्रतियोनिकाया अप्य. भाववुद्धेः स्वीकारस्य वक्ष्यमाणत्वात्तन्मते प्रानिपेघशानसम्भ- वेन नन्वित्युक्तदोष एवातस्तन्मतेनैवाह *यद्वति । *ताहशे इति । निषेधशास्त्रस्य प्रथमालोचनविषय इत्यर्थः । इच्छायास्तत्रो- त्तेजकत्वादाह #आहायति । इदमन्यत्रावश्यकमित्याह *एकमेवति। एतेन खण्डशः प्रसिद्धिरित्यपास्तम् । प्रतियोगिप्रसिद्धिर्हि यस्य प्रतियोगितापर्याप्त्यधिकरणप्रसिद्धिरित्यर्थात् त्वन्मते ऽपि तत्र तवृत्तित्वाप्रसिद्धः, अन्यथाऽतिप्रसङ्गापत्तेश्च । सिद्धान्त्यन्यसर्वसं. ग्रहायाह *सर्वैरिति । नन्वनाहार्यप्रतियोगिज्ञानस्यैव तत्कारण- त्वात्कथं तावताऽपालिद्धिरत आह *प्रतियोगीति । ननु नायं पृथक् कार्यकारणभावः इतो व्यापकसामान्यकार्यकारणभावेनैव निर्वाहात् तत्र चातिप्रसङ्गभङ्गाय तथा निविष्टमत आह * ससम्ब- न्धिकेति । ततोऽपि सामान्यं व्यापकमाह *विशेषणामिति । नन्वेवमाहार्यज्ञानादनाहार्यज्ञानापत्तिरप्यत आह * आहायति । *आहायति । वाधकालिकच्छाजन्यज्ञानविषय एव । *सः-प्रति- योगी । एवञ्च तथा कार्यकारणाभावेन न विशिष्टवुद्धिरित्यर्थः । तथैव कारणसामग्रीसत्त्वात् । नन्वेतावता प्रत्यक्षे निर्वाहे ऽपि न । (१) यथेति । तथाच प्रमारूपत्वरूपोक्तबलवत्तावीजाभावन तस्य ततो बलवत्वे प्रमेत्यर्थो मानस इति भावः। पाठोऽयं १ पुस्तके । (२) विशेषं वक्तुमभ्युपेत्यैव सम्भावितमन्यत्र दृष्टं पक्षान्त- रमाहेति पाठः २ पु०।

निपाताथनिरूपणम् । ६८३ शाब्दे, तत्र तस्थाभावाद, एवं च तत्रानतिप्रसङ्गाय तत्र तन्नि- वेशावश्यकत्वे उत्सदोष एवात आह * आहाति । नियुक्तिक- त्वादिति भावः । एवमेवेत्येवव्यवच्छेधं परोकमाह *हृदेति । इत्या- दि प्रकारान्तरं त्वित्यर्थः । नन्वेवं प्रसक्तं निषिध्यते इति नैयायिकायुक्तरसाङ्गत्यं स्यादत आह *प्रसक्तमिति । अर्हता- मेवाह *यदीति । तन्मते दोषान्तरमाह *किञ्चति । *तस्माद्- विधेः । *एतदेवेति । तत्वन ततोऽपि ते वलीयांस इति तदर्थः । अत्यन्तवाधे उपव्यिविरोधापत्तिर्विकल्पसाधकतयोक्ता वाधकत्वे पर्यवस्यतीति तन्नव बलवत्त्ववीजमित्याह किञ्चे- ति । *यत्र-यस्मिन् । दोषान्तरमाह* अवच्छेदकति । नन्वेवं तयाधिकरणस्थ गतिरत आह *अनुयाजे- ति । द्वितीयहेतोयुक्तत्वात् । समासस्तु वैकल्पिकत्वान्नेत्युक्तमेव *अतएव-उक्तरीत्या सामान्यविशेषस्थले विकल्पाभावादेव । अन्यथा विधिनिषेधाभ्यां विकल्पापत्या जसि तवेष्टसिया "वि- भापा जसि” इति व्यर्थम् । ननु तत् नियमार्थम्, उत्तरार्थत्वे ऽपि सामान्यभिन्नसूत्रस्य तत्वसम्भवात् । अन्यतरपदं विना ऽन्यतर. पदस्य तु न तत्त्वम्, अक्षरमर्यादया ऽप्रतीतरत आह *आदीति । तेन प्रथमेत्यादिसूत्रचतुष्टयसंग्रहः । यद्यपि पूर्वेत्यादिसूत्रत्रयस्य तयजेमयोश्च प्राग्वन्नियामकत्वं सम्भवति प्रथमादौ त्वप्राप्तवि- भाषैव, तथापि तेषां लायवेन तदभावज्ञापकतयैव सार्थक्यमु- चितमिति तात्पर्यम् । *अतएव-पर्युदासवत्तत्र विकल्पानवसरादेव । अन्यथा तदसङ्गतिः स्पष्टैव ॥ ६८ ॥ एतदेव सकलमभिप्रयोक्तं "नवा"-इतिसूत्रे भाष्ये नवेत्यखण्डनिपातार्थस्य विभाषासंज्ञित्वे यद्यप्यप्रा- तविभाषाविषये निषेधकल्पितविधेरचारिताथ्येन वि. कल्पः सिद्ध्यति तथापि प्राप्तविभाषायां कृतसामर्यो विधिरिति प्रतिषेध एव स्थान्न विकल्प इति। “अपितु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्प: स्याद्" इति जैमिनिसूत्रे "प्रतिषेधे विकल्पः स्याद" ६८४ टीकाद्वयोपेताथां लघुमञ्जूषायाम् । यभ्युच्चयः । युक्तिसिजपनञ्जलिवाक्यविरोधात । कामवशेषत्वादित्यस्थैकथाक्यत्वलाभादित्यर्थः । ननु तत्तच्छास्त्रैः साधुत्वविकल्पे एकस्यैव सदस्य साधुत्वेन धर्मजनकत्वम् , असाधुत्वेन अध जगकतेति विरुद्धमापद्यतेति न तद्विकल्प इति नति सूत्रे भाष्ये सिद्धान्तितम् । एवं च "अतिराने फोडशिनं गृह्णाति" इति ग्रहणवाक्येन तस्य धर्मज- नकला बोध्यते, "नातिरात्रे षोडशिनं गृह्णाति" इत्यनेन निषेधेन तस्याधर्मजनकतेति विरुद्धस्वीकारः कथमिति चेद् । सत्यम् । उभयत्र संकल्पलक्षणया संकल्पद्य- स्यापि धर्मत्वबोधनात् । तयोरन्यतरस्य चेच्छयापरि- ग्रहः । एवं सर्वत्र स्नातवैदिकविकल्पस्थले बोध्यम् । अत एव वैकल्पिकेष्वादितोऽवधारणमित्युद्- घोष इति । तत्र प्रतिषेधे यी गतिः-प्रतिषेधं दृष्ट्वा पश्चा- दुन्सर्गस्य तद्विषयत्वाभावज्ञाने प्रामाण्यग्रह इत्येका, एवमुत्सर्गापवादस्थलेऽपि । तदुक्तं हरिणा- ब्राह्मणानां श्रुतिर्दनि प्रक्रान्ता माठरं विना । माठरस्तकसम्बन्धात्तत्राचष्टे यथार्थताम् ॥ इति । 'दधि ब्राह्मणेभ्यः' इत्यादी माठरवर्जमेव दधि- दानमुपक्रान्तम् उत्तरकालं 'तक्रं माठराय' इत्येतत् तस्य यथार्थत्वं गमयतीति भिन्नवाक्यतायामप्राप्त्य- नुमान बाध इति पुञ्जराजः ।

निपातार्थनिरूपणम् । ६८५ उत्सर्गापवादनियमनिषेधानामेकवाक्यतेत्यपरा। तदुक्तम्- अनेकाख्यातयोगे ऽपि वाक्यं न्याय्यापवादयोः । एकमेधेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥ नियमः प्रतिषेधश्च विधिशेषस्तथा सति । इति । न्याय्यः, उत्सर्गः । आपाततो भिन्नवाक्यत्वा- वभासे ऽपि सर्वस्याप्युत्सर्गस्य विशेषविधिनियम- निषेधविध्याकाहानियमेन तल्लाभे वाक्यैकवाक्यता तयोः । तदलाभे तु स्वार्थे एव पर्यवसानम् । एकवाक्यता चेत्थम्-यतो माठराय तक्रमतस्तद्- तिरिक्तभ्यो दधीत्येवेत्यलम् ॥ ६९ ॥ (कुं०टी०) *अखण्डेति । निषेधार्थस्य नवेत्यखण्डनिपातस्य ग्रहणे इत्यर्थः। *विकल्पः सिद्ध्यतीति । निषेधवलेन विधेरपि कल्पनाद्विकल्पः सिद्ध्यतीत्यर्थः । *कृतसामर्थ्य इति । क्लुप्त- शास्त्रेणैव विधिः कृतसामर्यो विहितशक्तिकः प्रतिषेधविषया- तिरिक्त इत्यर्थः । *न विकल्पइति । तत्र विधिकल्पनाभावा- निषेधमात्रप्रत्ययः स्यादिति भावः । *साधुत्वविकल्पे इति । शब्दानां नित्यत्वाद् व्याकरणेन साधुत्वमेव बोध्यते, ततश्च विकल्पोऽपि साधुत्वस्यैव स्यात् । तस्मात्कार्यशब्दवाद एवाश्रयणीय इति भावः । *षोडशी-ग्रह- विशेषः। गृह्यते सोमादेरसोऽनेनेति ग्रहः । अतिरात्रो यागविशेषः । *आदितोऽवधारणामिति । वैकल्पिकपदार्थानां मध्ये यो जिघृ. क्षितस्तस्य कर्मादौ निश्चयः कर्त्तव्य इत्यर्थः ।

६८६ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । वैकल्पिकेषु सर्वेषु स्वयमकैकमादितः । अङ्गीकरोति यं कर्ता स विधिस्तस्य नेतरः ॥ इति- स्मृतेः । माठरवर्जयेव दधिदानमुपक्रान्तमिति यदुक्तं तत्र हेतुः *तस्य यथार्थत्वं गमयतीति । उक्तविषयपरिहा- रेणेवार्थवत्तां गमयतीत्यर्थः । *तस्य--पूर्वोक्तार्थस्य । यथा “तुल्यास्यप्रयत्नम्" "नाज्झलौ" इत्यनेन इत्या- दिरीत्या उत्सर्गस्यापवादादिभिः सहकवाक्यतेत्यर्थः । *तदुक्तमिति । अनेकाख्यातयोगेऽपि क्रियाभेदे ऽपि उत्सर्गापवादयोस्तत्कालं भिन्नवाक्यत्वप्रतीतावपि एकवाक्य- त्वमित्यर्थः । *नियम इति । तथा सति "इकोगुणद्धी” इति नियमः "सार्वधातुकार्धधातुकयोः" इति विधेरेच शेपः, "अलुगु- त्तरपदे" इति निषेधश्च “सुपो धातुप्रातिपदिकयोः"इतिविधेरेव शेषः । अन्यथा "भुक्तवन्तम्" इति न्यायविरोधात् । *विशेष विधिः-अपवादः। अत्र त्रयाणां इन्द्रः । * तल्लाभे---विशेषवि- ध्यादिलाभे । *तयोः-उत्सर्गापवादादिवाक्ययोः । *तद- लाभे-विशेषविध्याचलाभे ॥ ६९ ॥ (क० टी०) अत्र भाष्यान्तरसंमतिमायाह * एतदेवेति । "तन. निषेध" इत्याधुकं सर्वमित्यर्थः। *सज्ञित्वे-अस्थिततत्पले। *विधेः- समानविषयस्य । *विभाषायाम्-तद्विषये। * कृतेति । क्षीणेत्यर्थः । एवं सति जैमिनिविरोधं परिहरति *अपित्विति । *अभ्युच्चय इति। आर्षत्वाविशेषेशपे नियुक्तिकत्वेनोक्तरीत्याऽयुक्तमित्यर्थः । तदाह *युक्तिसिद्धेति । अत एव तत् पश्चादुपात्तम्, मुख्यं तत्त्वसाधकं वा. क्यत्वसम्पादनमेव, अतएव तत् प्रागुपात्तं तदाह *वाक्येति। तस्मा- सामान्यविशेषस्थले विकल्पाभावे ऽपि तुल्यविषयस्थले दुष्टस्या. प्यगत्या तत्स्वीकार इति न तदुच्छेदः । अत एव "तुल्यार्थास्तु वि. कल्पेरन्” इति जैमिनिना सूत्रितम्। तत्र नवेतिसूत्रभाष्यप्रसङ्गादन्य- निपातार्थनिरूपणम् । ६८७ नेप्रसाधन- था आह अनन्विति । *तत्तदिति । विकल्पविधायकैरित्यर्थः । शास्त्रं साधुत्वविधायकं साक्षादिति पक्षे इति भावः । *एवं च-समानवि. षये विरुद्धापत्या तत्त्यागे च । समानविषयमेवाह *अतीति । *षो- डशिनमिति । तैत्तिरीयश्रुतौ मन्त्रादौ तथा स्पष्टत्वात् । एवं च षोडशी गृह्णातीति पाठः केपाश्चिद् ग्रन्थेषुपलभ्यमानश्चिन्त्य एवे- ति बोध्यम् । *वाक्येनेति । विधिवाक्यनत्यर्थः । *तस्य- षोडशिग्रहणस्य यत्तु तत्र पोडशिग्रहणं मिति नार्थः ग्रहणविधिविरोधात्, किन्तु षोडशिग्रहणाभाव इटसाधनमिति व्युत्पन्नश्च नसमभिव्याहृतधात्वर्थस्या- भावे विभक्त्यर्थान्वय इति नैयायिकादयः । तन्न । प्रत्यया- नामिति न्यायविरोधापत्तर्दोषान्तरस्य विधिवादे वक्ष्यमाणत्वाच्च । तदेतत् ध्वनयन्नाह * उभयत्रापीति । तत्रानुष्ठानव्यवस्थामाह तयोरिति । सर्वादाविति भावः । ब्रीह्यादावपि परिग्रहस्तथैवेत्याह *एवमिति । अल्पाच्तरत्वेन स्मार्तस्य पूर्वनिपातः । *अत एव-त- श्रेष्वन्यनियामकत्वाभावादेव । *आदितः-ऐच्छिकप्रथमारम्भात् । स्पष्टश्चेदं त्रिकाण्डमण्डने । तत्र युक्तम् - द्रव्यं वैकल्पिक किश्चिद्यत्र सङ्कल्पितं भवेत् । तदभावे सदृग्ग्राह्यं नतु वैकल्पिकान्तरम् ॥ एवञ्च कातीयानां तथा अनुष्ठानं चिन्त्यमिति बोध्यम् । *इतिः-उक्तसमाप्तौ । प्रसङ्गादाह *तत्रेति । भिन्नविषयस्थले इत्य- र्थः । *प्रतिषेधे-तद्विषये । पश्चादित्यस्य ग्रहे ऽन्वयः । उत्सर्गस्येत्य- स्याभावे ऽन्वयः । ज्ञाने पूर्व जाते प्रामाण्येति पाठः। अप्रामाण्ये- त्यपपाठः । तुल्यन्यायादाह *एवमिति । *श्रुतिः-संप्रदानत्वेन । *दनि-विषये। नन्वेवमुत्तरवाक्यवैयर्थ्यमत आह *माठर इति । इत्या- दौ । तद्विषयवर्जमिति णमुलन्तम् । *कालमिति-क्रियाविशेषणम् । उक्तहेतोरवाह अपवादेति । *निषेधानामिति । मिथ इति शेषः । *तदुक्तमिति । तदप्युक्तं तेनैवेत्यर्थः । भिन्नरूपमिवेत्यस्यार्थमाह *आपातत इति । * तल्लाभे-सति। अत एवाह *तदेति । अनेकेत्यनेन तल्लक्षणानाक्रान्तत्वात्पंदकवाक्यत्वाभावप्रतिपादनाद्वाक्यैकवाक्यता- ऽत्रोत्याह *एकति । एवं यतः अज्ज्ञलोर्न सावर्ण्यमतस्तदन्येषामेव ६८८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तद्, यतःस्वादिविधायेव नलोपो ऽसिद्धो ऽतोऽन्यत्र नासिद्धत्वमिति बोध्यम् । एतेन यत्तु तत्र करणनिषेधे विकल्पापत्ते दपरतति । तद. सत् । विशेषनिषेधे सामान्यविधेस्तदन्यपरताया ब्राह्मणेभ्यो दधि दातव्यं कौण्डिन्याय न दातव्यमित्यादौ व्युत्पत्तिसिद्धत्वेन विक- ल्पानवकाशात् । नच तत्रापि कौण्डिन्यभेदो बोध्य इति तद्भिन्नेभ्य इत्यर्थः। कौण्डिन्यपदस्य विरुद्धैकवचनावरुद्धत्वात्। नहि खलु महतो राज्ञो न महतो राज्ञ इत्यत्रेच महतां राज्ञो न महतां राज्ञ इत्यत्र राज- नि महदभेदभेदी प्रतीयते । एको न द्वावित्यादिवत्कथंचित्समर्थने- ऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गादिति नैयायिकोक्त- मपास्तम् । द्वितीयतद्घटितप्रयोगस्य ऋष्यनुभवविरुद्धत्वाद् । अत एव भाष्ये "ब्राह्मणेभ्यो दधि दीयतां तक्र कौण्डिन्याय" इत्येवो- क्तम् । तदाह *इतीत्यलमिति ॥ ६९ ।। नचात्यन्ताभावार्थकमनः क्रियाऽभावबोधकत्वे- न क्रोधो न च मात्सर्थ न लोभो नाशुभा भतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोतमे ॥ इत्यादावनेकनमा वैयर्थ्यमनन्वयश्चति वाच्यम् । प्रत्येकं तदभवनाभावस्य समुदितानां च भवना- भावस्य बोधनायानेकनां भवन्तीति बहुवचनस्य च सत्त्वात । तत्र प्रत्येकं भवतीत्यध्याहारः । भव- न्तीत्यत्र चैतेनेत्यस्यानुकर्षः । एतेन- न तं विरिज्च्यो न भवो न लक्ष्मीन धनाधिपः । दातुमर्हन्ति विभवं विष्णोराराधने न यः ।। इत्यपि व्याख्यातम् । समुदितानां बल- वत्त्वेऽपि दानयोग्यत्वाभावप्रतिपादनाय च बहु- वचनं समुदितानां वैमत्येनादातृत्वे ऽपि प्रत्येक दातृत्वाभावबोधफलकं नजनकत्वमित्यदोषात् । - निपातार्थनिरूपणम् । 'मैत्रस्येदं न चैत्रस्य' इत्यादी आरोपितचैत्रस्वा. मिकत्ववदिदं मैत्रसम्बन्धीति बोधः । यत्त्वत्र स्वत्ववान षष्ठयर्थः, चैत्रस्वत्ववद्भिन्नमिति बोध इति । तन्न । यनिरूपिते यनिष्ठे ऽर्थे वा या वि. भक्तिस्तदर्थस्य तेनैव तत्रैवान्वयौचित्येन विभक्त्य- र्थस्य प्रतियोगितया नर्थे ऽनन्वयात् । अन्यथा एक. स्वाभाववन्ती पाककर्तारौ चैत्रौ इत्यर्थे न पचति चैत्री इत्यस्याप्यापत्तिः, एको न द्वावितिवत् । किश्च चैत्रस्येत्यादेः संबन्ध्यन्तराकामाया वि- शेषाकासाया वा नियमतः सत्त्वेन तत्सम्बन्धं विना नअर्थस्य प्रतियोग्याकामयातत्सम्बन्धो वक्तुमशक्यः, स्वाकाङ्क्षानिवृत्त्युत्तरमेवान्याकासापूरणस्यौचित्यात् । एवं च कृतियापारसामान्यं वा तिङर्थ इति चि- न्त्यमेव । न पचतीत्यादितस्तदभावबोधानापत्तेः । प्रथमान्तार्थनिष्ठस्य नियमतस्तदाकाङ्क्षस्य च कृत्या- देरेव तव प्रत्ययार्थत्वात् । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं चाभावे व्युत्पत्तिबल लभ्यम् । नीलघटवति 'अत्र घटो नास्त' इत्यव्यवहारात्। पीतघटो नास्ति'इतिव्यवहा- राञ्च। ध्वनितं चेदं "विरामोऽवसानम्"इत्यत्र भाष्ये। अत एव वायौ रूपं नास्तीति प्रतीत्या सामान्या- भावसिद्धिः।विशेषाभावकूटस्थ ततो बोधासंभवात् । अन्वयितावच्छेदकशब्देन नमर्थान्वयिविशेषण- मुच्यते । यथा-पीतघट इत्यत्र पीतरूपम् । प्रति- योगितावच्छेदकं च तत्रापि घटत्वमेव । विशिष्ट- टीकाद्वयोपेतायां लघुमञ्जूषायाम् । बोधे विशेष्यवृत्तिधर्मयैव प्रतियोगितावच्छेदक- त्वात् । तदवच्छिन्ना प्रतियोगिता च पीतत्याद्या. दिविशेषणबलात् पीनघटव्यक्तिनिष्ठेव । विशिष्टं च प्रधानान्नात्यन्तमतिरिक्तम् । सर्वथाऽतिरिक्तत्वे तु वैशेषिकाणां पदार्थ विभागन्यूनतापत्तिः । अत एवाभियुक्तः अन्वयितावच्छेदक'-इत्युक्तंनतु प्रतियोगितावच्छ दरोति । यथा घटपटादीनां घटत्वा- दिना शक्तावपि प्रकरणादिना कासां चिदेव व्यक्तीनां बोधः, तथा प्रकृते विशेषणबलात्। एवमाधारताव. च्छेदकावच्छेदेनाभावान्वयः । घटे पीतघटत्वाभाव इत्यव्यवहारात् । एवं नीलघटो न घट इत्यपि न । आरोपितघटत्वस्य तत्राभायात् । अज्ञानशब्दे अ- धर्मशब्दे इव विरोध्यर्थको नञ् , तेन भावपदार्थ एव स सविषय इत्यन्यत्र विस्तरः । अभावपदे च विरोध्यर्थक एव सः। भावविरोधी- त्यर्थः । एवं चाभावस्य भावप्रतियोगिकत्वमेव । अ- भावाभाव इत्यादिव्यवहारो वर्वराणामामाणिक एव । घटाभावो नास्तीत्यादौ तत्कनुकसत्तायामे- वाभावप्रतियोगित्यम् । एवमेव नासहस्रदस्तत्रास्ते इत्यादावपि बोध्यम् । 'येन नाप्राप्ते' 'नाविष्णुः पृथिवीपतिः' इत्यादी नदयस्य प्रकृतार्थगतदायद्योतकत्वम् । तदुक्तं "विनभूभ्याम्" इति सूत्रे भाष्ये "दौ प्र- तिषेधौ प्रकृतमर्थ गमयतः, न न सह सहैव" इति । यहा अविष्णुः पृथिवीपतिनं भवतीत्यन्वयः।

निपातार्थनिरूपणम् । ६९१ ममामि कौरवशतं समरे न कोपादित्यादौ काकुसहकारेण नसा मन्थनादिगतं निश्चितत्वं द्यो- त्यते । तदेवाभिलष्यने-मथ्नाम्येवेति । शशशृङ्गं नास्तीत्यादी बौद्धप्रतियोगिप्रसिद्धः सत्वान्न दोषः। वह्नित्वेन घटो नास्तीत्यादौ अप्रसिद्ध प्रतियो. गिकाया अभावबुद्धेःसोन्दडादिभिः स्वीकाराच॥७०॥ (कुं० टी०) *प्रत्येकमिति । प्रत्येक क्रोधाद्यभावाय अने- कनां प्रयोगः, समुदिताभावबोधनाय तु भवन्तीति । * वैमत्ये- न ऐकमत्याभावेन । *यनिरूपितेइति । यथा चैत्रस्येदं धन- मित्यत्र चैत्रनिरूपिते धननिष्ठे स्वत्वसम्बन्धे षष्ठी । *तदर्थस्य- ताद्विभक्त्यर्थस्य । *विभक्त्यर्थस्य-स्वत्ववतः । * नअर्थे-भेदे । *अनन्वयात्-अन्वयासम्भवात् । *अन्यथेति । पचति- पदोपात्तैकत्वाभावबोधसम्भवात् । *सम्बन्ध्यन्तरेति । धना- दीत्यर्थः । *विशेषः-सम्बन्धविशेषः । *आकाङ्केति । स्वा. र्थे परिपूर्णयोरेव चैत्रस्य धनमित्यनयोर्नअर्थसाकासत्वात् । *नार्थस्येति । प्रतियोग्याकाझ्या नवर्थे षष्ठ्यर्थान्वयो- ऽसम्भवीत्यर्थः । *तत्सम्बन्धविनेति । चैत्रधनयोः स- म्वन्धमपहायेत्यर्थः *तत्सम्बन्धः-प्रतियोगिसम्बन्धः स्वत्वादिरूपः । *एवं चेति । यनिरूपिते यनिष्ठेऽर्थे वि. भक्तिरित्यादिनियमसत्त्वे इत्यर्थः । *व्यापारसामान्यमिति । फलं धात्वर्थों व्यापारस्तिर्थ इति मण्डनमिश्रमतम् । ॐबो- धानापत्तेरिति । चैत्रादिनिष्ठयत्ने तिविधानेन यत्नस्य चैत्रा- दावन्वयानापत्तेरित्यर्थः । *तदाकासस्य-प्रथमान्तार्थसाका- ६९२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । इस्य । ननु नीलघटवर्तिपीतघटाभावसत्त्वाद् घटो नास्तीति प्रयोगापत्तिः, घटकर्तृकसत्ताऽभावबोधे घटत्यावच्छिन्नातियोगि- ताकाभाववोधाभावाद् अत आह *अन्वयितावच्छेदकोति । नीलघटाभावस्य प्रतियोगिता नीलघटत्वावच्छिना न शुघट- त्वावच्छिन्नेति न नीलघटाभावाति शुद्धघटो नास्तीति प्रत्ययः। यद्यपि घटत्वेन वह्निास्तीति प्रतीतरप्पनुभवसिद्धतया तत्र घटत्वावच्छिन्नत्वमेव प्रतियोगितायां प्रतीयते तथापि प्रति- योगितावच्छेदकत्वमिवान्वयितावच्छेदकत्वमपि घटत्वे स्वी- क्रियते । विशेपाभावकूटमेव सामान्याभाव इति मतं निरा. करोति । अत एवेति । अन्वयितावच्छेदकेत्यायुक्तव्युत्प- तेरेव । यत्तु विशेषाभावापेक्षया सामान्याभावो ऽन्यः प्रति- योगितावच्छेदकभेदस्याप्यभावभेदहेतुत्वात् । अन्यथा 'न' इत्य- त्यन्ताभावान्योन्याभावप्रागभावानां भेदानापत्तिः, ममतु कचि- तादात्म्यम् , कचित्संसर्गो ऽवच्छेदक इति । तन्न । सर्वसाधार- णस्यावच्छेदकस्य दुर्वचनत्वात् । तादात्म्यस्यावच्छेदकत्वे मानाभावाच । तस्मादभाववद् भावभेदो ऽपि विरुद्धधर्माध्या- सादेव । ननु पीतघटत्वाच्छन्नाभावबोधो ऽसम्भवी, तत्रापि घटत्वादेरेव प्रतियोगितावच्छेदकत्वाद् अत आह *नमन्व- यीति । यथा नीलघटो नास्तीत्यत्र नार्थान्वयी घटस्तद्विशे- षणं नीलत्वादि, पीतघटत्वं तु नान्वयितावच्छेदकं गुरुत्वात् । अन्वयितावच्छेदकावच्छिन्नाया एव च प्रतियोगिताया ग्र- हणान्न पीतघटाभावप्रत्ययः । प्रतियोगितावच्छेदकेत्यपहाय अन्वयितावच्छेदकेति यदुक्तं तत्र वीजमाह प्रतियोगिताव- च्छेदकञ्चेति । *विशिष्टबोधे इति । नीलघटवोधे घटत्वमेव प्रतियोगितावच्छेदकमित्यर्थः । *प्रधाना-केवलात् । *का.

निपातार्थनिरूपणम् । ६९३ सांचिदेवेति । घटपानयेत्युक्ते तात्पर्यविपयाभूतानामेवानयन- दर्शनात् । तथाप्रकृते इति । घटत्वमात्रस्यैवावच्छेदकत्वे ऽपि पीतघटत्वावच्छिन्नैत्र प्रतियोगिता प्रतीगते इत्य- र्थः । * आरोपितघटत्यस्य-नन आरोपितोत्तरपदार्थवोधक- त्वात् । * अज्ञानेति । अधर्मशब्दे इव अज्ञानशब्दे विरो- ध्यर्थको नबित्यन्वयः । अप्रामाणिकएवेति । अभावो नाम हि भावविरोधी, तथाचाभावबोध इत्यत आह *स. ताया एवेति । घटाभावकर्तकसत्ताऽभाव इति बोधः । यदपि घटाभावाभावो घटस्वरूप इति । तदपि ना घटाभावो नास्तीत्य- बाधितप्रतीते वरूपत्वासम्भवात् । *मथ्नामीति । याव- स्कौरवशतं न मथ्नामि तावद्युधिष्ठिरः सन्धि करोत्विति कु- पितभीमसेनवाक्ये मथ्नाम्येवेति प्रतीतिः । * अप्रसिद्धति । तत्र वह्नित्वावच्छिन्नघटस्पैव प्रतियोगित्वात्, अन्यथा घटवति तादृशाभावप्रत्ययानापत्तेः । *स्वीकाराचेति । यद्यपि पति- त्वेन घटो नास्तीत्यत्र घटस्यैव प्रतियोगित्वं सोन्दडोपाध्यायः स्वीक्रियते तथाऽपि वह्नित्वस्य तत्राविद्यमानस्याप्यन्वयिताव- च्छेदकत्वं स्वीक्रियते ऽन्यथाऽन्वयितावच्छेदकेत्यादिन्यायवि. रोधात् ।। ७० ॥ (कल्टी०) सिद्धान्ते आह *नचेति । चो व्युत्क्रमे । यथासङ्ख्य- मन्वयः । यथाश्रुते तदलाभाद् आह *तत्रेति । पूर्वार्द्ध इत्यर्थः । तत्रत्यचबोध्यसमुच्चयलब्धं योग्यमाह *एते इति । इत्यध्याहार इत्यनुषङ्गः । *एतन-उक्तरातिसम्भवेन । *नतभिति । वैष्णवमिद- म् । य इत्यस्य लभ्यते इति शेषः । इत्यपीत्यपिना- नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी विमुक्तिदाद् ॥ इति भागवतसमुच्चयः पूर्वत्र कवितात्पर्य यत्तत्प्राप सूच.

६९४ टीकाद्वयोपेनायां लघुमञ्जूषायाम् । भावः। आये आ- यन्नत्र कवितात्पर्यमाह *समुदितानामिति । तथा च भगव- द्भक्त्याराधनादेर्माहात्म्यातिशयसूचनद्वारा ऽत्यन्तोपादेयतासूचना. य तथाक्तिरिति गूढाकूतम् । भेदस्योदाहरणान्तरमाह *मैत्रस्ये दमिति । नैयायिकोक्तिं खण्डयति * यत्त्विति । *स्वत्ववा- निति । तस्यापि शेयत्वात् । ननु स्वामित्ववान् । तस्य धना- द्यवृत्तित्वेन चैत्रीये ऽपि धने 'नेदं चैत्रस्य' इति प्रसङ्गात् । निरू- पकत्वादेः सम्बन्धस्य प्रतियोगितानवच्छेदकत्वादिति *चैत्रोति । चैत्रसम्बन्धिस्वत्ववद्भिनमिदं मैत्रसम्बन्धिस्वत्ववदिति बोध इत्यर्थः । एतेनात्र स्वत्वाभावस्य बोधात्प्रतिषेधार्थक- नञः क्रियामात्रान्वयित्वमयुक्तमित्यपास्तम् । विनिगमनाविरहा. दाह *यन्निष्ठेइति । *तदर्थस्य-तद्विभक्त्यर्थस्य । ह *तेनैवेति । अन्त्ये आह *तत्रैवेति । प्रत्यासत्तरति भावः । *अन्यथा-प्रत्यासत्यनङ्गीकारे । *एकत्वेति । सति तात्पर्य एककृत्यभाववांश्चैत्र इतिवत्तथा वोधसम्भवात् । दो. पान्तरमाह *किश्चेति । सामान्यतस्तस्यापि लाभादाह *विशेषेति । अन्तरङ्गन्यायमूलकत्राह *स्वाकाङ्क्षति । एवञ्चे- ति । नैयायिकमतखण्डनम् । तदर्थं सूचयन्नाह तीति । *तदभावेति । कृत्याद्यभावे इत्यर्थः । *सच-तत्सं- मतः । आद्यरीत्या आह *प्रथमान्तेति । द्वितीयरीत्या आह *नियमतइति । *प्रत्ययः-तिविभक्तिः । नैयायिकायुक्तमपि युक्तिसिद्धत्वात्सिद्धान्तिसंमतत्वेनाह *अन्वयीति । तत्रात्यन्ता- भावे आह * नीलेति । तत्समतिमेवाह ध्वनितञ्चदमिति । त. त्र हि लक्षणयोर्दोषो "भावाविरामभावित्वाच्छब्दस्यावसानलक्ष- णं न" इति दत्तः । वर्णानामभाव इत्युक्तेर्वर्णत्वावच्छिन्नप्रतियोगि- ताकाभाव इत्यर्थः, स च न वर्णसत्त्वे इति तदर्थः । *अत एव- तत्र तल्लभ्यत्वादेव । यद्यपि सिद्धान्ते तत्सत्ताऽभावः शाब्दो न तदभावस्तथाऽज्युक्तरीत्या तस्य आर्थत्वेन रूपसामान्या- भावस्यापि सिद्धिरित्यर्थः । अत एव सामान्येनोक्तम् । ननु सा. मान्यरूपेण विशेषप्रतीतिरिति तद्भावकूटस्यैव ततो वोधेन न त. सिद्धिरत आह *विशेषति । तथा सत्येकस्यैव वोधो न स- वेषामिति तदलाभ इति भावः । नम्वेवमपि तत्र पीतघटो ना. *नपच. तस्य निपातार्थनिरूपणम् । ६९५ आह स्तीति व्यवहारो न स्यात् तत्र घटस्यैवान्वयितावच्छेदकत्वेन तदवच्छिन्नाभावप्रतीतेर्वाधितत्वादत आह * अन्वयितेति । प्रत्यास- तेराह *नार्थेति । सत्तावत् घटस्यापि आर्थिकनअर्थान्वयित्वादाह *पोतरूपमिति । पीतघट इति तद्वाक्यैकदेशः । प्रतियोगिताव- च्छेदकेत्युक्ते तु उक्तदोष एवेत्याह *प्रतीति । अपिना केवल- समुच्चयः । नचैवन्तद्वत्तस्यापि विशेष्यमात्रनिष्टत्वान्न साऽन्वाय- ताऽवच्छेदकावच्छिन्नेत्युक्तदोप एवेत्यत *तदवच्छि- नेति । विशेष्यवृत्तिधर्मावच्छिन्नेत्यर्थः । ननु विशेषणसत्त्वे ऽपि विशिष्टस्यातिरिक्तत्वात्केवलनिधायाः कथं तनिष्ठत्वमत आह *विशिष्टंचेति । सर्वथाऽनतिरिक्तत्वे दोषबाहुल्यस्य स्पष्ट- स्वादाह *सर्वथेति । एवं च विशपगविशिष्टव्यक्तिनिष्ठत्वात्साऽन्व- यितावच्छेदकावच्छिन्ना भवतीति तथोक्तौ नोक्तदोषस्तदाह *अत एवेति । ननु शक्तिमहादेः समानविषयत्वात्कथं तावताऽपि व्य- क्तिविशेषधारत आह * यथेति । तथा च गमकासत्त्वविषयकः स नियम इति न दोषः । तद्वत्तदनुक्तं व्युत्पत्यन्तरमाह एवमि- ति । एवमत्यन्ताभावे उक्त्वाऽन्योन्याभावे आह *एवमिति । अपिना घटो न नीलघट इत्यस्य समुच्चयः । नीलधटो न पीत. घट इत्यादि तु भवत्येवेति भावः । प्राचा तस्य तत्रोदाहृत. स्वादाह *अधर्मेति । नन्वेवमपि सोऽभावरूप एवास्तु तस्या- पि तत्त्वादिति चेन्न । अस्ति कश्चिदेतद्वाक्यार्थ इति सामान्येन जानतो विशेषरूपेण तमजानत एतदुक्तस्यार्थ न जानामीत्यनु. भवात् । अभावरूपत्वे हि तत्प्रत्यक्षादावभावज्ञानस्य विशिष्ट बुद्धित्वात्तज्ज्ञाने प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिज्ञान- कारणत्वस्य यथाकथंचिदावश्यकत्वात्प्रतियोगिज्ञानापेक्षा । नहि तत् सम्भाव्यते वाक्यार्थज्ञानत्वस्य तदानीं विद्यमाने सा- मान्यज्ञान सत्त्वेन प्रतियोगितानवच्छदकत्वात् । अभावाधिक- रणवृत्तिपदार्थावृत्तिधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । ता- दृशस्य विशेषज्ञानत्वस्य तु प्राग् विशेषानवगतेातुमशक्यत्वम् । तस्मादज्ञानम् भावरूपं सविषयम् । नहि सविषयस्य ज्ञाने विषय- तावच्छेदकावच्छिन्नविषयज्ञानापेक्षानियमः । जिज्ञासाज्ञाने व्य. भिचारात् । अनवगतशास्त्रार्थविशेषज्ञानेच्छायाः शास्त्रार्थ जि.

६९६ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । ज्ञासे इत्यवगतसामान्याकारावच्छेदेन अनुभवात् । अत एवौपनि. षदैरज्ञानं तथाऽङ्गीकृतं साक्षिण्यध्यस्तं साक्षेपास्यमिति चोक्तम् । तदाह इत्यन्यत्रेति । गुरुमञ्जूषादावित्यर्थः । एवेनाभावार्थ- कत्वव्यच्छेदः। तथा सति आत्माश्रयापत्तिरिति भावः। एवंनाभावप्र. तियोगिकत्वव्यवच्छेदः । अत एवाह *अभावति । नन्वेवं घटाभा- वो नास्तीत्यादेः का गतिरत आह *घटाभाव इति । नन्वेव- मपि येन नाप्राप्ते इत्यादौ का गतिरत आह *येनेति । आदि- ना "नारुद्रः क्रमपाठकः” इत्यादि । विशेषणत्वायाह *प्रकृते. ति । निपातानामनेकार्थत्वात् । एकस्य तु न तथा, तथा प्रयोगाभावात् । तदेतद् ध्वनयन्नाह तदुक्तमिति । * प्रतिषेधौ- नौ । नद्वयाभावेनोक्तगतरसम्भवादभावस्यैवासत्त्वेनैकेनैव नमा तद्वोधनासम्भवाच्च । सिद्धान्ते प्रसक्तदोषमुद्धरति *मनामीति । वेणीसंवरणे भीमवाक्यं सहदेवं प्रति । आदिना दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेनेत्यस्य सङ्ग्रहः । काकु निविका. रविशेषः। आदिना 'जातौ जातिनास्ति' 'हदे वन्हिर्नास्ति' 'नान्तरिक्ष जुहोति' इत्यादि । अयं सिद्धान्तः,प्रागुक्तं तु पररीत्येति न विरोधः। तदेतद् ध्वनयनत्रापि तथैवाह *चन्हित्वेनेति । अत्रत्यं तत्त्वं तु का. रंकप्रकरणे स्फुटीभविष्यति । एतेन सर्वत्र विशेष्ये विशेषणाभावो नना वोध्यते इत्येकीयमते 'जातौ न सत्ता' इत्यादावगतिदोषः जा. तिसमवेतत्वस्य तत्राप्रसिद्धत्वात्सम्बन्धान्तरेण जातिवृत्तित्वस्य तत्रासत्त्वादिति नैयायिकोक्तमपास्तम् ॥ ७० ॥ अत्रेदं बोध्यम्-प्रतियोग्यारोपोऽभावज्ञाने त. यवहारे च हेतुः, प्रतियोग्यनालिङ्गिनाभावबुद्धेरभा. वात् । सर्वपे सुमेरुभेदतदत्यन्ताभाषयोर्व्यवहाराभा- वाच । नच 'न न' इत्यत्र तदनालिङ्गिताभावबोधो भाष्ये स्वीकृत इति वाच्यम् । तादृशभाष्याप्रसिद्धः। नसूत्र "न न एक प्रियम्"इति भाष्ये प्रयुक्तम् । तस्य च नोऽस्माकमेकं प्रियं नेत्यर्थः कैयटेनोक्त इति प्र- निपातार्थनिरूपणम् । ६९७ तियोग्यालिङ्गितैव तत्राभाववुद्धिः । तथा "आबाधे च" इति सूत्रे भाष्ये 'नन' इति द्वित्वे उदाहृतं तदपि न न जागर्ति' इत्येकदेश इति कैयटेन व्या. ख्यातम् । एवमन्यदपि भाष्ये परिदृश्यते तदप्ये- धमेव व्याख्येयमिति सूचितम् । किच विपरीतं नसूत्रे "नेत्युक्ते सन्देहः स्यात्- कश्च पदार्थों निवर्तते" इति ग्रन्थेन नित्यं प्रतियो- ग्याकाझैव दर्शिता। एतदेवाभिप्रेत्य नसूत्रे भाष्ये उक्तं ब्राह्मणदृष्ट- गुणस्य गौरत्वादेर्दर्शनात् दुष्टोपदेशादा अब्राह्मणे पूर्व 'ब्राह्मणोऽयम्' इत्यध्यवस्यति ततः पश्चादुपल- भते 'नायं ब्राह्मणः' इति, तत 'अब्राह्मणोऽयम्' इति प्रयुङ्क्ते । आतश्च तदृष्टगुणदर्शनाद् दुष्टोपदेशादा ब्राह्मणत्वाध्यवसायपूर्वकमेव 'अयं न ब्राह्मणः' इति ज्ञानम् । नह्ययं कालवर्णमापणे आसीनं दृष्ट्वाऽध्यव. स्थति 'ब्राह्मणोऽयम्' इति यथास्थितं वस्तुतत्त्वं तस्य नितिं भवतीति तदारोपाभावान्न तदभावज्ञानं तत्रेति ब्राह्मणाब्राह्मणशब्दयोरुभयोरपि तत्र प्रयो. गाभाव इत्यर्थकम् । एतेन प्रतियोग्यारोपस्यान्वयव्य- तिरेकाभ्यां स्पष्टमेवाभावज्ञाने कारणतोक्ता । एतदे- वाभिप्रेत्य आरोपितरजतत्वायामेव शुक्तौ 'नेदं रज- तम्' इति प्रतीतिरिति लीलावत्युपाये उक्तम् । अत एव प्रतियोग्यधिकरणाभ्यामभावो निरूप्यते इति वृद्धाः । अधिकरणपदेन संनिधानात्प्रतियोग्यारोपा- धिकरणमेव, तदेव चाभावाधिकरणम् । आरोपस्पैव ६९८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । शब्दप्रयोगकारणत्वात्, बोधुरपि तदारोपितविषय- स्यैव प्रतीतरारोपितत्वमेव नार्थ इति युक्तम् । 'अत्र ब्राह्मणो नास्ति'इत्यादावपि एतद्देशाधिकरणिका आरोपितब्राह्मणकर्तृका सत्तेत्येव बोधः, आर्थस्तु त- दभावबोधः । अत एव तत्र तत्सदृशेतरसत्ताप्रती. तिः। अत एव नन एक प्रियम्' इत्यादौ "स्वसम्बन्ध्ये. कप्रियनिषेधे ऽनेकप्रियप्रतीतिः" इति भाष्ये उक्तम् । एवञ्च यत्र तादात्म्यारोपस्तत्रारोपितत्वं नामा- र्थगतम्, एवं यत्र संसर्गारोपस्तत्र क्रियागुणगतं त. दिति व्यवस्था। इदमेव युक्तम्, अन्यथा 'न कलशं भक्षयेद्'इत्या. दावनुपपत्तेः । यदि कलञ्जभक्षणाभावः प्रेरणाविषय इति बोधः तदा प्रत्ययानां प्रकृत्यान्वितस्वार्थबोध- कत्वव्युत्पत्तिभङ्गः । तस्मादारोपितकलाभक्षणं प्रे. रणाविषय इति बोधः । अनिष्टसाधनत्वं बुध्यते इति तु विधिवादे दूषयिष्यते । अत एव- तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः॥ इत्यभियुक्तवाक्ये सादृश्याद्यार्थिकार्थेषु अभा- वभेद्योगणनमिति दिक् ॥ ७१ ॥ (कुं०टी०) *सर्पपेइति । सर्षपे सुमेरुत्वारोपासम्भवान सर्षपे सुमेरुभेदप्रत्ययः अतिविसदृशत्वादिति भावः । ब्राह्मण- दृष्टेति । तदुक्तं भाष्ये-"गौरं शुच्याचारं पिङ्गलं कपिलकेशं दृष्ट्वा- निपातार्थनिरूपणम् । ६९९ ऽध्यवस्यति-'ब्राह्मणोऽयम्' इति ततः पश्चादुपलभते नायं ब्राह्म- ण इति" इति । * दुष्टोपदेशाद्वेति । अमुष्मिन्नवकाशे ब्राह्मणस्तमा- नयेत्येवमविवेकेनोपदेश इत्यर्थः । *आतश्चेति । अस्माच्च हे. तोरित्यर्थः । *कालवर्णमिति । रूपाभावकथनमेतत् । *आप- णे आसीनमिति । आचाराभावकथनम् । निज्ञातमिति । सं. देहबीजाभावाबाह्मण्यमेव तत्र निर्मातं भवतीति ब्राह्मण्यारोपा- भावानाब्राह्मणशब्दप्रयोग इत्यर्थः । प्रतियोग्यधिकरणाभ्या- मिति । सद्भ्यामिति शेषः । अन्यथा शशविषाणस्याप्यभावप्र- तियोगित्वापत्तिरिति भावः । निरूप्यते-प्रत्याय्यते । *आ- रोपितेति । असमस्तनञः क्रियायामन्वयात्सत्ताया एवारोपि- तत्वम् । ॐतत्सदृशेति । तत्सदृशोऽयम् इतर इत्यर्थः । नामा- थ:-प्रातिपदिकार्थः। तद्गतमारोपितत्वं तत्रेत्यन्वयः । *व्यु- त्पत्तिमा इति । भक्षणे एव प्रेरणान्वयौचित्यात् । *अभाव- भेदयोरिति । तयोरप्यार्थिकत्वात् ॥ ७१ ।। (क० टी०) भूषणाचसाङ्गत्यं ध्वनयन्सिवान्ततत्वमाह *अत्रे. दमित्यादिना । आये आह *प्रतियोग्यतेति । द्वितीये आह *सर्षपे- इति । आद्यहेतुं विघटयति *नचेति । अप्रसिद्धिमेवाह *नसूत्रे इति । एवम्-एतादृशम् । दृश्यते इत्यत्रान्वयः । यदीत्यनेनादर्शन- मेवेति ध्वनितम् । *सूचितमिति । सूचितमेव, कैयटेनेत्यर्थः । एवं तत्साधकभाष्यानुपलम्भमुक्त्वा तत्साधकतदुपलम्भमाह *किञ्चे ति । *विपरीतमिति । दर्शनक्रियाविशेषणम् । *नेत्युक्ते. इति । उत्त. रत्वेनोक्त इत्यर्थः । *सन्देहइति । समभिव्याहृतपदस्य बोधकस्या- भावानिवृत्तिरूपार्थस्य प्रतियोग्याकाङ्क्षाया अनिवृत्तेरबोधकत्वेन च तदप्रयोग एव स्यात् । वाचकत्वे तु सन्देहः स्यादित्यर्थः। तदाकारमाह *कस्येति । पदस्य पदार्थ इत्यर्थः । भाभिधेयपरः पदार्थशब्दः सन्देहपदेन निर्णयाभावो विवक्षित इति तत्वम् । एतदाशयेनैवात एव नेत्युक्तमिति प्रागुक्तम् । एतेन टीकादयोपेतायां लघुमजूवायाम् । तत्र तथाङ्गीकारादिदं चिन्त्यमित्यपास्तम् । नत्र परानुबादसत्त्वेना. सिद्धान्तत्वात्। तपः श्रुतश्चेत्याद्युक्त्वा तेषामपि तत्त्वस्य तत्रोक्तत्वा- दाह *गौरत्वादेरिति । अन्ययमुक्त्वा व्यतिरेकमाह *आतश्चेति । इतोऽपीत्यर्थः । काल:-श्यामः । आपणे-हट्टे! तत्तात्पर्यार्थमाह *तदा. रोपेति। *एतेन-भाष्येण। नैयायिकसंमतमपीदमित्याह *एतदेवेति। *उक्तम्-वर्धमानोपाध्यायैः । *अतएव-तस्य तत्र कारणत्वादेव । नन्धवमभावस्य पृथगधिकरणाकाला समागतेति प्रागुक्तविरोधी ऽत आह *अधीति । एवं सति क्रियागुणान्यसमभिव्याहृतना इव तत्समभिव्याहृतनोऽप्यारोपितत्वार्थकत्वमेवेति सर्वत्रैकरूपते. त्याशयेनाह *आरोपस्येति । एवञ्चत्यादिः । *नअर्थः-नद्यो- त्यः । अस्मिन्सिद्धान्ते तत्र बोधाकारमाह *अत्रेति । वाक्यघटक- मिदम् । अपिना "न न एकं प्रियम्" इत्यादि । *सन्देह इत्यादि । आदिना 'पीतः शङ्ख नास्ति' इत्यादिपरिग्रहः । नच विशिष्टसत्ताया अप्रसिद्धः कथमारोपः। उक्तोत्तरत्वात्। एवेन प्रागुक्तबोधव्यवच्छेद। नन्वनुभवसिद्धाभावबुद्धेरपलापः कथम् अत आह *आर्थस्त्विति । तमादायैव प्रतियोगिज्ञानप्रतिबन्धादि सङ्गमनीयम् । उक्तरीतिर्वा । *अत एव-तत्रापि तथैवाङ्गीकारादेव । नजिवयुक्तन्यायेनेति भावः । अत्राप्रमाणत्वं निराचष्टे *अतएवेति । तथाप्रतीतेरेवे. त्यर्थः । नन्वेवमसमासे क द्रव्यान्वयः, क क्रियाद्यन्वय इत्यत्र नियामकाभावादव्यवस्थापत्तिस्तव, मम तु भेदार्थकत्वे-आरोपिता- र्थकत्वे द्रव्यान्वयो ऽन्यन्ताभावार्थकत्वे क्रियाद्यन्वय इति व्यवस्था. सम्भवोऽत आह *एवञ्चेति । तथाऽर्थस्य प्रमाणसिद्धत्वे चेत्यर्थः । *संसर्गेति। तदितरेत्यादिः। उक्तं समर्थयते *इदमेवेति । *अन्यथा- अभावार्थकत्वे। तामेवाह *यदीति । नच तत्र लक्षणा नञ् द्योतकः । तथा सति तस्य विशेषणतापत्या प्रागुक्तदोषापत्तेः। तद् ध्वन- यन्नाह #तस्मादिति । इष्टसाधनत्वं विध्यर्थो नसमाभिव्या. हारे त्वनिष्टसाधनत्वम्, इति नोक्तदोषो ऽत आह *अनिष्टेति । एतेन कलअभक्षणाभावविषयकं कार्यमिति प्राभाकरोक्तमप्यपा. स्तम् । *अत एव-तस्यैव तच्छब्दार्थत्वादेव । अन्यथा तदसङ्गतिः स्पष्टैव । एतेन चिन्त्यमिदम् अनुभवसिद्धाभावबुद्धरप. पे मानाभावात् । किन उक्तरीत्या तत्र अव्यवस्थापत्तेः । करी.

६ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमियरत्नावश्न श्रीक्षमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाशः जैमिनीयबादशा णिकृतदीधिन्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (६०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः । ( मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- शात्मकः । सापिण्यदीपकश्व २२ (१०) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- मांसादर्शनम् । महामहोपाध्यायत्री शालि- (३१) वीरमित्रादयः । महामहोपाध्यायश्रीमि- अमिश्रविरचितः आहिकप्रकाश: कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृता मीमांसासारसंग्रहन सम्पूर्णः (मीमांसा) ३ (३२) स्मृतिसारोद्धारः विद्वद्ररविश्वम्भरात्रिपाठे. संकलितः (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- (३३) वेदान्तरत्न मञ्जूषा । श्रीभगवत्पुरुषोत्त- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- माचार्यकृत।। २ मलकृतः । (वेदान्तः) (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- मजीमहाराजविरचित. २ श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (६५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाध्यं श्रीनिम्बार्काचार्यविरचितम् । २ चितं सम्पूर्णम् ( वेदान्तः) (६६) योगदर्शनम् । परमहंसपरिवाजकाचार्य (२१) श्रीहर्पप्रणीतं खण्डनखण्डखाद्यम् । आ- नाराणतीर्थविरचित-योगमिद्धान्तचन्द्रि नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीतिप्र- (६०) वेदान्तदर्शनम् । परमहंसपरिवाजका सिद्धया समेतम् । (वेदान्तः) १४ चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२२) आख्यातचन्द्रिका श्रीभमल्लविरचितार ऽमृतवर्षिणीसमाख्यव्याख्यासंवलितम् । ४ (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् हेश्वरमरिविरचितः। (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ- (१९) श्रीमुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता ट्टकृता (वेदान्तः) २ श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपतसंग्रहः । अत्र श्रीकालीशहरसि- थदीक्षितविरचितटिप्पणीसहिता । श्रीम- द्वान्तवागीशविरचितानि अनुमानजागदी- द्रागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्याः प्रत्यक्षानुमानगादावर्याः प्रत्यक्षानु- धिनीटिप्पण्यो:-प्रकाश: गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्निवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुक्तिवादस्य शब्दशक्तिप्रकाशिकायाः कु- (४०) पारामित्रोदयः । महामहोपाध्यायश्रीमि- सुमाञ्जलेश्च कोडपत्राणि प्रमिश्रविरचितः पूजाप्रकाशः । (२६) बह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- ट्टरचितसिद्धान्तसेतुकाभिधटीकासहि रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्र चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका प्रसाद शर्मकृता अध्यात्मसुधातरजि- पिलजैनवैशेषिकजैमिनीयदर्शनसंक्षेपः । ण्याख्यटीकयासहिता ३ मणिभद्रकृतटीकया सहितः । हरिभद्रम- (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिबाज रिकृतः । काचार्यनारायणाश्रमशिष्यमाधवाश्रमावर. (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहित:! चितः । स्वकृतटीकाविभूषितश्च । ८ ... ... २ १ १

No text on this page.

(५३) याज्ञवल्कस्मृति: । बालम्भ टीममाख्या भीमदवलाचार्य बालम्भट्टाभ्या विर- याख्यासमलङ्कृतमिनाक्षरासाद्देता । व्य- चितकुञ्जिकाक्लाटीकायसवालेता। वहाराध्यायः (४७) व्याकरणसिद्धान्तसुधानेधीः । पर्वतीय (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- विश्वेश्वरसरिविरवितः। तिकृता । श्रीगङ्गशोगाध्यायविरचिततत्त्व- (४८) विरभित्रोदयः । लक्षणप्रकाशः । चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि- महामहोपाध्यायत्रीमित्रामिप्राविरचितः। ६ विराचितदीधिया च गर्भिता । (४५) शासदीपिका । श्रीपार्थसारथिभिन्न प्राणि- (४९) बृहदारण्यकवार्तिकसार श्रीमद्विचारण्यस्वा- ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या- मिविरचितः । महेश्वर तीर्थकृतयालघुसं- ख्य व्याख्यया सहिता तर्कपाद । प्रहारल्यया टीकया समलंकृतः । (४६) वैयाकरणसिद्धान्तलघुमञ्जूपा महामहो (५०) विरभित्रोदयः। राजनीतिप्रकाश: । महा- पाध्याय- श्रीनागेशभट्टविरचिता । महोपाध्यायश्रीभित्रभित्रावरचितः। ४ ४ पत्यादिप्रेषणस्थानम् हरिदासगुप्तः, चौखम्बा बनारस सिटी

Vaiyakarana Siddhanta Laghu Manjusha No 227

Author
Sri_nagesa_bhatta
Other authors
Ccl
Title
Vaiyakarana Siddhanta Laghu Manjusha No 227
File name
Vaiyakarana Siddhanta Laghu Manjusha No 227
Text
OCR done
Citation
1929
Publisher
Chowkhamba_sanskrith_series_office
Language
Sanskrit
Pages
102
Library
Scl
DLI number
326708
Barcode
2020010009077.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
6PHYgoVfN9r
Download PDF

Vaiyakarana Siddhanta Laghu Manjusha No 227