S.P College, Srinagar

Sri Panchartng Gita

Vishnu And Others · 2013

PDF Proofread

Front matter

ASRISA CARRINA GABRINA 1

No text on this page.

No text on this page.

HARE
कृष्णं वन्दे जगद्गुरुम
श्रीपञ्चरत्नगीता
(सचित्र)
व
गीताप्रेस, गोरखपुर
HAR

No text on this page.

ri Pratap Collect
T
॥ कृष्णं वन्दे जगद्गुरुम् ॥
श्रीपञ्चरत्नगीता
श्रीमद्भगवद्गीता,
श्रीविष्णुसहस्रनाम,
श्रीभीष्मस्तवराज,
श्रीअनुस्मृति,
श्रीगजेन्द्रमोक्ष ।
Srinagar,
गीताप्रेस, गोरखपुर

मुद्रक तथा प्रकाशक-धनश्यामदास जालान,गीताप्रेस, गोरखपुर
891.26
535
सं० १९९३ से २००० तक (डिमाई) २०,०००
सं. २००८ चतुर्थ संस्करण
२०,०००
सं० २०१० पञ्चम संस्करण
२०,०००
कुल ६०,०००
M
साठ हजार
14
192023
मूल्य =) तीन आना
पता-गीताप्रेस, पो० गीताप्रेस (गोरखपुर)

श्रीहरिः
विषय-सूची
१३-११६
११७-१३६
१-श्रीमद्भगवद्गीता
२-श्रीविष्णुसहस्रनामस्तोत्र
३-भीष्मस्तवराज
४-अनुस्मृति
५-गजेन्द्रमोक्ष
१३७-१५२
१५३-१६८
१६९-१८२
चित्र-सूची (लाइन ब्लाक)
१४
११८
१-अर्जुन
२-शेषशायी
३-शरशय्यापर भीष्मजी
४-श्रीनारायणदेव
५-जराजकी रक्षा
१३८
::
१५५

ॐ श्रीपरमात्मने नमः
॥ अथ गीतामाहात्म्यपारम्भः ॥ ।
धरोवाच
भगवन् परमेशान भक्तिरव्यभिचारिणी।
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥१॥
श्रीविष्णुरुवाच
प्रारब्धं भुज्यमानो हि गीताभ्यासरतःसदा।
समुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥२॥
महापापादिपापानि गीताध्यानं करोति चेत् ।
क्वचित्स्पर्श न कुर्वन्ति नलिनीदलमम्बुवत् ॥
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते ।
तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥४॥
सर्वे देवाश्च ऋषयो योगिनः पन्नगाश्च ये ।
गोपाला गोपिका वापि नारदोद्धवपार्षदैः।
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते ॥५॥
यत्र गीताविचारश्च पठन पाठनं श्रुतम् ।
तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ ६॥

( ५ )
गीताश्रयेऽहं तिष्ठामि मीता मे चोत्तमं गृहम्।
गीताज्ञानमुपाश्रित्य त्रील्लो कान्पालयाम्यहम् ।
गीता मे परमा विद्या ब्रह्मरूपा न संशयः।
अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ।८
चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् ।
वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता ॥९॥
योऽष्टादश जपेन्नित्यं नरो निश्चलमानसः।
ज्ञानसिद्धि सलभते ततो याति परं पदम् ॥१०॥
पाठेऽसमर्थः संपूर्ण ततोऽर्थे पाठमाचरेत् ।
तदा गोदानजं पुण्यं लभते नात्र संशयः ॥११॥
त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत्
पडंशं जपमानस्तु सोमयागफलं लभेत् ॥१२॥
एकाध्यायं तु
यो नित्यं पठते भक्तिसंयुतः।
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥
अध्यायं श्लोकपादं वा नित्यं यः पठते नरः ।
स याति नरतां यावन्मन्वन्तरं वसुन्धरे ॥१४॥
गीतायाःश्लोकदशकं सप्तपश्च चतुष्टयम् ।
द्वौत्रीनेकंतर्धवा श्लोकानां यः पठेन्नरः॥१५॥

चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् । गीतापाठसमायुक्तोमृतो मानुषतां व्रजेत् ।१६॥ गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमाम् ।' गीतेत्युचारसंयुक्तो म्रियमाणोगतिं लभेत् ।१७। गीतार्थश्रवणासको महापापयुतोऽपि वा। वैकुण्ठं समवाप्नोति विष्णुना सह मोदते १८ गीतार्थ ध्यायते नित्यं कृत्वा कर्माणि भूरिशः। जीवन्मुक्तः स विशेयो देहान्ते परमं पदम् १९ गीतामाश्रित्य बहवो भूभुजो जनकादयः। निर्धूतकल्मषा लोके गीता याताः परं पदम् २० गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् । वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः॥२१॥ एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः। स तत्फलमवानोति दुर्लभां गतिमाप्नुयात् ॥ सूत उवाच माहात्म्यमेतद्गीताया मया प्रोकं सनातनम् । गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् २३ ।

( ७ )
अथ द्वितीयमाहात्म्यम्
गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान् ।
विष्णोःपदमवाप्नोति भयशोकादिवर्जितः ॥१॥
गीताध्ययनशीलस्य प्राणायामपरस्य च ।
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च ॥२॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ।
सकृद्गीताम्भसि स्नानंसंसारमलनाशनम् ॥ ३॥
, गीतासुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥४॥
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् ।
गीतागणोदकं पीत्वा पुनर्जन्म न विद्यते ॥५॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सःसुधीर्मोक्ता दुग्धंगीतामृतंमहत्।।
एकं शास्त्रं देवकीपुत्रगीत-
मेको देवो देवकीपुत्र एव ।
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा ॥ ७॥

( ८ ) अथ करन्यासः ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य भगवान्वेदव्यास ऋषिः । अनुष्टुप् छन्दः। श्रीकृष्णः परमात्मा देवता । अशोच्यानन्व- शोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः ॥ अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इत्यङ्गुष्ठाभ्यां नमः । न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ॥ अच्छेद्योऽयमदाह्योऽयम- क्लेद्योऽशोष्य एव च इति मध्यमाभ्यां नमः ॥ नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ॥ पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति कनिष्ठिकाभ्यां नमः ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति करतलकरपृष्ठाभ्यां नमः॥ इति करन्यासः॥

( १ ) अथ हृदयादिन्यासः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक इति हृदयाय नमः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोप्य एव च इति शिखायै वषट् ॥ नित्यः सर्वगतः स्थाणु- रचलोऽयं सनातन इति कवचाय हुम् ॥ पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश इति ॥ नानाविधानि दिव्यानि नानावर्णाकृतीनि च इति अस्त्राय फट् ॥ श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ॥ ॐपार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् अद्वैतामृतवर्षिणी भगवती- मष्टादशाध्यायिनी- मंब त्वामनुसंदधामि भगव- गीते भवद्वेषिणीम् ॥ १॥ नेत्रत्रयाय वौषट ---

( १० )
नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः
प्रज्वालितो शानमयः प्रदीपः ॥२॥
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥
भीष्मद्रोणतटा जयद्रथजला
गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी
कर्णेन वेलाकुला।
अश्वत्थामविकर्णधोरमकरा
दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवैरणनदी
कैवर्तकः केशवः ॥५॥

नानाख्यानककेसरं ( १ ) पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कट हरिकथा- सम्बोधनाबोधितम् । लोके सजनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपङ्कज कलिमल- प्रध्वंसि नःश्रेयसे ॥६॥ मूकं करोति वाचालं पहुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७ ॥ मा

पद्मनामं
( १२ )
अथ ध्यानम्
शान्ताकारं भुजगशयनं
सुरेशं
विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
यं ब्रह्माषणेन्द्ररुद्रमरुतः
स्तुन्वन्ति दिव्यैः स्तवै-
वंदैः साङ्गपदक्रमोपनिषदै-
र्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा
पश्यन्ति यं योगिनो
यस्यान्तंन विदुःसुरासुरगणा
देवाय
तस्मै
नमः॥

XXXXXXXXXXXXX
ॐ
श्रीमद्भगवद्गीता
XXXXXXXXXXXXXXXXXXXXXX
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्व मम देवदेव ।।
XXXXXXXXXXXXXXXXXXXXXX
XXXXXXXXXXXXXX

013 WARHAMA wanan

*श्रीपरमात्मने नमः
अथ श्रीमद्भगवद्गीता
अथ प्रथमोऽध्यायः
धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥४॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
• पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥६॥

१६ श्रीमद्भगवद्गीता अस्माकंतु विशिष्टा येतान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्त्रवीमि ते॥७॥ भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तत्विदमतेषांवलंभीमाभिरक्षितम् ॥१०॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥११॥ तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः । सिंहनादंविनद्यांच्चैःशङ्ख दध्मौ प्रतापवान्।१२। ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत्।१३। ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौप्रदध्मतुः॥

अध्याय १
१७
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ।।
द्रपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुःशङ्खान्दध्मुः पृथक-पृथक् ॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोव्यनुनादयन् ॥१९॥
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥२०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२१॥
यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥२२॥

१८
श्रीमद्भगवद्गीता
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥२३॥
संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ।।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।२५।।
तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा
श्वशुरान्सुहृदश्चैव
सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयःसर्वान्वन्धनवस्थितान्
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्।।२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥२९॥

अध्याय १ १९ गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।। निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा खजनमाहवे ॥ न काङ्ग्रे विजयं कृष्ण न च राज्यं सुखानि च । किं नोराज्येन गोविन्द किंभोगै वितेनवा।। येषामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाःश्वशुराःपौत्राःश्याला सम्बन्धिनस्तथा एतान हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । निहत्य धार्तराष्ट्रानः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदसाम्हत्वैतानाततायिनः॥३६॥ तस्मानार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । खजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 4 २० श्रीमद्भगवद्गीता यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोपं मित्रद्रोहे च पातकम् ॥३८॥ कथं न ज्ञेयमस्माभिः पापादसान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्म नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥४१॥ संकरो नरकायैव कुलग्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ।। दोषैरेतैः कुलम्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥४४॥ अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्वाज्यसुखलोमेन हन्तुं खजनयवाः ।४५॥

अध्याय २ २१ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥ संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरंचापं शोकसंविग्नमानसः॥४७॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥१॥ श्रीभगवानुवाच - कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन ॥२॥ क्लैन्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥ तं न २२ श्रीमद्भगवद्गीता अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजाविरिसूदन॥४॥ गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान्।। चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखेधार्तराष्ट्राः।। कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।७।। न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।

अध्याय २ २३ अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८॥ संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥१०॥ श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः॥११॥ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ।१२। देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्ति/रस्तत्र न मुह्यति ।१३। मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तास्तितिक्षस्व भारत स्तु तु २४ श्रीमद्भगवद्गीता यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ।१५। नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तचदर्शिभिः१६ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ।१७। अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।१८। य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते१९ न जायते म्रियते वा कदाचि- नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषःपार्थ कंघातयति हन्ति कम्।२१॥

अध्याय २
२५
न
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि
विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही॥२२॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
चैनं क्लेदयन्त्यापो नशोषयति मारुतः।२३॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः २४
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापित्वं महाबाहो नैवं शोचितुमर्हसि॥२६॥
जातस्य हि ध्रुवो मृत्युधुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थेन त्वं शोचितुमर्हसि॥२७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना॥२८॥

२६ श्रीमद्भगवद्गीता आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ३० स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते। यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थलभन्ते युद्धमीदृशम्३२ अथचेचमिमंधय संग्रामं न करिष्यसि । ततः स्वधर्म कीति च हित्वा पापमवाप्स्यसि ॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् संभावितस्य चाकीर्तिमरणादतिरिच्यते॥३४॥ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥

अध्याय २
२७
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।३७
सुखदुःखे समे कृत्वा लामालाभौ जयाजयो।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।३८॥
एषा तेऽभिहिता सांख्ये बुद्धिोंगे विमांशृणु।
बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
खल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।४०
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ।।
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः।४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुला भोगैश्वर्यगति प्रति ।४३॥

२८
श्रीमद्भगवद्गीता
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥
त्रैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुन ।
निर्द्वन्द्वोनित्यसच्चस्थो निर्योगक्षेम आत्मवान्।।
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।४६।
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्स्वकर्मणि।४७
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्धयसिद्धयोःसमोभूत्वा समत्वं योग उच्यते
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्धिच्छ कृपणाः फलहेतवः।४९।
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।,
कर्मजं वुद्धियुक्ता हि फलं त्यक्त्या मनीषिणः।।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ।।

अध्याय २
२९
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।।
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ।।
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीतव्रजेत किम् ।।
श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ।
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।५६।
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।५७
यदा संहरते चायं कूर्मोऽङ्गानीय सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता५८

। ३० श्रीमद्भगवद्गीता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते ।५९। यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभमनः॥६॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता६१ ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामःकामात्क्रोधोऽभिजायते॥ । क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाबुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥ रागद्वेषवियुक्तस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।६४ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।६५ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । नचाभावयतः शान्तिरशान्तस्य कुतःसुखम्॥

? ܢ
अध्याय २
३१
इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
। तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ।६७
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः शः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमामोति न कामकामी ॥७॥
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारः स शान्तिमधिगच्छति ।।
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो
नाम द्वितीयोऽध्यायः ॥ २ ॥

ॐ श्रीपरमात्मने नमः अथ तृतीयोऽध्यायः अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्कि कर्मणि घोरे मां नियोजयसि केशव॥१॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ। ज्ञानयोगेनसांख्यानां कर्मयोगेनयोगिनाम्।३। न कर्मणामनारम्भान्नैष्कयं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥४॥ न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥५॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते।।

अध्याय ३
OY
my
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तःस विशिष्यते॥७॥
नियतं कुरुकर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ।।८।।
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः।
तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥९॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक १०
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।११
इष्टान्भोगान्हि वोदेवादास्यन्ते यज्ञभाविताः।
तैर्दत्तानप्रदायेभ्यो यो भुते स्तेन एव सः ।१२।
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।
भुञ्जते ते त्वघं पापाये पचन्त्यात्मकारणात् ।।
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥१४॥

३४
श्रीमद्भगवद्गीता
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।१५।
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।
अघायुरिन्द्रियारामो मोघंपार्थ स जीवति ।१६।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।
आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ।१७।
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥१८॥
तस्मादसक्तः सततं कार्य कर्म समाचर ।
असक्तोद्याचरन्कर्म परमाप्नोति पूरुषः ।१९।
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥२०॥
यद्यदा चरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१॥
नमेपास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव चकर्मणि ॥२२॥

अध्याय ३ ३५ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।२३। उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः२४ सक्ताः कर्मण्यविद्वांसोयथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्।।२५।। न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्।२६। प्रकृतेः क्रियमाणानि गुणेः कर्माणि सर्वशः । अहंकारविमुढात्मा कर्ताहमिति मन्यते ॥२७॥ तचवित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ।२८ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।। मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा। निराशीनिर्ममो भूत्वा युध्वस्व विगतज्वरः ।। ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।

३६
श्रीमद्भगवद्गीता
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपिकर्मभिः।।
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः॥३२॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति ।।
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ।३४।
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३५॥
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः॥
महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ॥
धूमेनात्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३८॥

अध्याय ४
३७
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुप्पूरेणानलेन च ॥३९।।
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ।।४०॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ।४१॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धे
परतस्तु सः।४२
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुमहाबाहो कामरूपं
दुरासदम्॥४३॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो
नाम तृतीयोऽध्यायः ॥३॥
अथ चतुर्थोऽध्यायः
श्रीभगवानुवाच
इमं विवखते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥१॥

३८ श्रीमद्भगवद्गीता एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परंतप ॥२॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।३। अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयांत्वमादौ प्रोक्तवानिति॥४॥ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥ अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया॥६॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानंसृजाम्यहम् ॥७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥८॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्वतः ।

अध्याय ४ ॥ ३९ त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन । वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः॥१०॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । ममवानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥ काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।। चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ।। न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कमैं व तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥ *किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् कर्मणो ह्यपि योद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥१७॥ स ४० 1. श्रीमद्भगवद्गीता कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।। यस्य स समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किश्चित्करोति सः॥ निराशीर्यतचित्तात्मा त्यक्तसपरिग्रहः। शारीरं केवलं कर्म कुर्वनामोति किल्बिषम् ।। यदृच्छालाभसंतुष् समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥ ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२४॥ देवमेलापरे यज्ञं योगिनः पर्युपासते ।। ब्रह्माग्नापरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । द्वन्द्वातीतो विमत्सरः। - अध्याय ४ ॥ ४१ शब्दादीविषयानन्य इन्द्रियाग्निषु जुह्वति ॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगानो जुह्वति ज्ञानदीपिते॥२७॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयःसंशितव्रताः ।२८ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्या प्राणायामपरायणाः ॥ अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥३०॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम । एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्याने ज्ञात्वा विमोक्ष्यसे।। श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।। तद्विद्धि प्रणिपातेन परिप्रश्नेन सेपया। परंतप ।

४२ श्रीमद्भगवद्गीता उपदेष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।। अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥३६॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । हि ज्ञानेन पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परांशान्तिमचिरेणाधिगच्छति।। अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । न सदृशं अध्याय ५ ४३ छिचैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥४२॥ 'ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यास- योगो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । - यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते।। ज्ञेयः स नित्यसंन्यासी योन द्वेष्टि न काङ्क्षति । निर्द्वन्द्वोहि महाबाहो सुखं बन्धात्प्रमुच्यते।३। सांख्ययोगौ पृथग्वालाःप्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ यत्सांख्यः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगंच यः पश्यति स पश्यति॥

४४ श्रीमद्भगवद्गीता संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिब्रह्म नचिरेणाधिगच्छति॥६॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥ नैव किंचित्करीमीति युक्तो मन्येत तच्चवित् । पश्यशृण्वन्स्पृशञ्जिघनश्नन्गच्छन्स्वपञ्चसन् प्रलपन्धिसृजन्गृह्णन्नुन्मिपन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ।९। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वाकरोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥ कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।। युक्तःकर्मफलं त्यक्त्वा शान्तिमामोति नैष्ठिकीम् अयुक्तःकामकारेण फले सक्तो निबध्यते ।१२। सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।। नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥१३॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । कु

अध्याय ५
४५
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥१४॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।१५।
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥१६॥
तबुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिज्ञाननिधूतकल्मषाः।१७
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनिचैवश्वपाकेच पण्डिताः समदर्शिनः।१८।
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ।।
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद् ब्रह्मणि स्थितः।२०।
बायस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत्सुखम्
सब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ।।२१।।
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तःकौन्तेय न तेषु रमते बुधः॥२२॥

४६
श्रीमद्भगवद्गीता
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगंस युक्तःससुरखी नरः।२३।
योऽन्तःसुखोऽन्तरारामस्तथान्तर्योतिरेव यः
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति।२४।
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।२५।
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ।।
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ।।
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधोयःसदामुक्त एव सः।२८
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगो
नाम पञ्चमोऽध्यायः॥५॥

ॐ श्रीपरमात्मने नमः अथ षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्य कर्म करोति यः । ससंन्यासीच योगीचन निरग्निर्न चाक्रियः १ यं संन्यासमिति प्राहुर्योगंतं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगीभवति कश्चन॥२॥ - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥३॥ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुपजते । सर्वसंकल्पसंन्यासी योंगारूढस्तदोच्यते॥४॥ उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः।

४८ श्रीमद्भगवद्गीता शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥७॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥८॥ सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥ योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः।१०। शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्११ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।१२। समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् १३ प्रशान्तात्मा विगतभीब्रह्मचारिखते स्थितः । मनःसंयम्य मच्चित्तो युक्त आसीत मत्परः ।। युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

अध्याय ६
४९
शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन।१६।
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वभावबोधस्य योगोभवति दुःखहा ।१७
यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहःसर्वकामेभ्यो युक्त इत्युच्यते तदा ॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ।।
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तच्चतः।२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते॥
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

५० श्रीमद्भगवद्गीता स निश्चयेन योक्तव्योयोगोऽनिर्विण्णचेतसा ।। संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ।२४। शनैः शनैरुपरमेवुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।२६। प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥२७॥ युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥२८॥ सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥२९॥ यो मां पश्यति सर्वत्र सर्व च मयि पश्यति । । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

अध्याय ६
५१
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ।३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ।।
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थिति स्थिराम्
चञ्चलं हि मनः कृष्ण प्रमाथि बलबदृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ।३४।
श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ।३५।
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तुयतता शक्योऽवाप्तुमुपायतः॥
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धि कांगति कृष्ण गच्छति।
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

५२ श्रीमद्भगवद्गीता
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि।३८
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छत्ता न ह्युपपद्यते।३९।
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिदुर्गतिं तात गच्छति॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती:समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ।४२।
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ।४३।
पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।।४।।
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः।'
अनेकजन्मसंसिद्धस्ततो याति परांगतिम्॥४५॥

अध्याय ७ ५३ ३ तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६॥ योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते २ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्वतः॥३

५४
श्रीमद्भगवद्गीता
भूमिरापोऽनलो वायुः खं खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवःप्रलयस्तथा॥६॥
मत्तः परतरं नान्यत्किश्चिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥७॥
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥
पुण्यो गन्धः पृथिव्यांच तेजश्चास्मि विभावसौ।
जीवनं सर्वभूतेषु तपश्चास्मि तपखिषु ॥९॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ।१०।
बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षम ॥११॥

अध्याय ७ ५५ मूढाः ये चैव साचिका भावा राजसास्तामसाश्च ये। , मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि॥१२॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यःपरमव्ययम्।१३। देवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।१४। न मां दुष्कृतिनो प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः।१५। चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्को जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।१६। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः१७ उदाराः सर्व एवैते ज्ञानी त्यात्मैव मे मतम् । आस्थितःस हि युक्तात्मा मामेवानुत्तमां गतिम् बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।१९।

५६ श्रीमद्भगवद्गीता कामैस्तैस्तैहतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ।। स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते चततःकामान्मयैव विहितान्हि तान् ।। अन्तयत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।। अव्यक्तं व्यक्तिमापनं मन्यन्ते मामबुद्धयः । परंभावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥ नाहं प्रकाशः सस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्२५ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन।। इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥२७॥ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।

अध्याय ८
५७
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम्।।
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।३०।
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो
नाम सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः
अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्म किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदै किमुच्यते ॥१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
• प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।२।
श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भयकरो सिगः कर्मसंज्ञितः ॥३॥

५८ श्रीमद्भगवद्गीता अधिभृतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यःप्रयाति स मद्धावं याति नास्त्यत्र संशयः।५। यं यं वापि स्मरन्भा त्यजत्यन्ते कलेवरम् । तंतमेवैति कौन्तेय सदा तद्भावभावितः॥६॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥७॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥ कवि पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूप- आदित्यवर्ण तमसः परस्तात् ॥९॥ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।

अध्याय ८ ५९ भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥१०॥ यदक्षरं वेदविदो वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥११॥ सर्वद्वाराणि संयम्य मनो हदि निरुध्य च । मूाधायात्मनःप्राणमास्थितो योगधारणाम् ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।। अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।। मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानःसंसिद्धि परमां गताः ।। आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥१६॥ न ६० श्रीमद्भगवद्गीता सहस्रयुगपर्यन्तमहर्यद्रह्मणो विदुः । रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ अव्यक्ताद्वयक्तयः सर्वाः प्रभवन्त्यहरागमे । राज्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञक॥१८॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । राज्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।१९।। परस्तस्मात्तुभावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः यः स सर्वेषु भूतेषु नश्यत्सुन विनश्यति।।२०॥ अव्यक्तोऽक्षर इत्युक्तप्तमाहुः परमां गतिम् । यं प्राप्यन निवर्तन्ते तद्धाम परमं मम ॥२१॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ।। यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । अग्निोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।

॥ अध्याय ९ ६१ धृमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसंज्योतिर्योगी प्राप्य निवर्तते ॥ शुक्लकृष्णे गती ोते जगतः शाश्वते मते । एका यात्यनावृत्तिमन्ययावर्तते पुनः॥२६॥ नैते सृती पार्थ जानन्योगी मुद्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तोभधार्जुन ॥२७॥ वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥२८॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाटमोऽध्यायः ॥८॥ अथ नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।

६२
श्रीमद्भगवद्गीता
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धयं सुसुखं कर्तुमव्ययम् ॥२॥
अश्रद्दधानः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवमनि ॥३॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः॥४॥
न च मत्स्थानि भृतानि पश्य मे योगमेश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ।५।
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ।६।
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ।।
प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥८॥
न च मां तानि कर्माणि निबध्नन्ति धनंजय।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥

अध्याय ९ my मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१०॥ अवजानन्ति मां मूढा मानुषी तनुमाश्रितम् । परं भावमजानन्तो मम भृतमहेश्वरम् ॥११॥ मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः ।। महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन चाप्यन्ये यजन्तोमामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥१५॥ अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥१६॥ पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ।१७।

प्र ६४ श्रीमद्भगवद्गीता गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ।। तपाम्यहमहं वर्ष निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥१९॥ विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान्॥२०॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्म मनुप्रपन्ना गतागतं कामकामा लभन्ते ॥२१॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।। येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।।

अध्याय ९ ६५ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । नतु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते ॥ यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहतमश्नामि प्रयतात्मनः॥२६॥ यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ।। समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।। अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितोहि सः॥ छिन भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति गी. पं०३-

६६
श्रीमद्भगवद्गीता
मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परांगतिम्
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्य-
योगो नाम नवमोऽध्यायः ॥ ९ ॥
अथ दशमोऽध्यायः
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः।
यत्तेऽहंप्रीयमाणाय वक्ष्यामि हितकाम्यया।॥१॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥२॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मत्र्येषु सर्वपापैः प्रमुच्यते ॥३॥

६७ अध्याय १० बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । - सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥४॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्तिभावाभूतानां मत्त एव पृथग्विधाः।।५।। महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाःप्रजाः। एतां विभूति योगं च मम यो वेत्ति तत्वतः । - सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।७।। अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः।। मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति चरमन्ति च ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगंतं येन मामुपयान्ति ते॥१०॥ तेषामेव नुकर म्पार्थमहमज्ञान तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥

पु ६८ श्रीमद्भगवद्गीता अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१२॥ आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि म।१३॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्ति विदुर्देवान दानवाः॥१४॥ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१५॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ।। श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

अध्याय १०n aur ६९ प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ।। अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च॥२०॥ आदित्यानामहं विष्णुर्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ रुद्राणां शंकरश्चामि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ।। पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसाममि सागरः।। महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलोमुनिः। उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

७०
श्रीमद्भगवद्गीता
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ।।
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितृणामर्यमा चास्मि यमः संयमतामहम् ।२९।
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ।।
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झपाणां मकरश्वास्मि स्रोतसाममि जाह्नवी ।
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादःप्रवदतामहम् ।।
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ।।
मृत्युः सहरश्वाहमुद्भवश्व
भविष्यताम् ।
कीर्तिःश्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा
बृहत्साम तथा सानां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।३५॥

७१ अध्याय १० द्युतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सचं सत्चवतामहम्।। वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवामि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ यच्चापि सर्वभूतानां वीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ।। नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप । एष तूद्देशतः प्रोक्तो विभूतेविस्तरो मया॥४०॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम्॥४१॥ अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टम्याहमिदं कृत्स्नमेकांशेन स्थितो जगत ।। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥ 1

ॐ श्रीपरमात्मने नमः
अथैकादशोऽध्यायः
अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वंदर्शयात्मानमव्ययम् ॥४॥
श्रीभगवानुवाच
पश्य में पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च।
पश्यादित्यान्वमन्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥

अध्याय ११ ७३ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ॥७॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥८॥ संजय उवाच एवमुक्त्या ततो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९॥ - अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ।१०। दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ।११ दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता यदिभाः सदृशी सा स्याद्भासस्तस्य महात्मनः।। तत्र कस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा। • अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥१३॥ ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥ प

७४
श्रीमद्भगवद्गीता
अर्जुन उवाच
पश्यामि देवांस्तव देव देहे
सांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषीश्च सर्वानुरगांश्च दिव्यान् ॥१५॥
अनेकवाहूदरवक्त्रनेत्रं
पश्यामित्वांसर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादि
पश्यामि विश्वेश्वर विश्वरूप ॥१६॥
किरीटिनं गदिनं चक्रिणं च
तेजोराशि सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुनिरीक्ष्यं समन्ता-
द्दीप्तानलार्कद्युतिमप्रमेयम् ॥१७॥
त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
11. सनातनस्त्वं पुरुषो मतो मे ॥१८॥

७५
हि
अध्याय ११
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम्
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ।।१९।।
द्यावापृथिव्योरिदमन्तरं
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं
तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥
अमी हि त्वां सुरसङ्घा विशन्ति
केचिद्भीताः प्राञ्जलयोगृणन्ति
वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः
स्तुवन्ति त्वांस्तुतिभिः पुष्कलाभिः।२१
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विसिताश्चैव सर्वे ॥२२॥

७६ श्रीमद्भगवद्गीता रूपं महत्ते महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाःप्रव्यथितास्तथाहम् ॥२३॥ नमःस्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो॥२४॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लमे च शर्म प्रसीद देवेश जगन्निवास ॥२५॥ अमी च त्वां धृतराष्ट्रस्य पुत्राः सहैवावनिपालसङ्घः। भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ सर्वे ७७ तवामी अध्याय ११ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गः ॥२७॥ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥२८॥ यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगाः॥२९॥ लेलिह्यसे ग्रसमानः समन्ता- लोकान्समग्रान्वदनैज्वलद्भिः। तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥३०॥ 19222 ७८ श्रीमद्भगवद्गीता आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमायं न हि प्रजानामि तव प्रवृत्तिम् ।।३१।। श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्यांन भविष्यन्ति सर्वे येऽवस्थिताःप्रत्यनीकेषु योधाः॥३२॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुक्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन ॥३३॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा रणे सपनान् ॥३४॥ युध्यस्ख जेतासि ७९ अध्याय ११ संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥३५॥ अर्जुन उवाच स्थाने हृषीकेश तव प्रकी- जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥३६॥ करमाच्च न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रे । अनन्त देवेश जगनिवास त्वमक्षरं सदसत्तत्परं यत् ॥३७॥ त्वमादिदेव पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम्।

८० श्रीमद्भगवद्गीता नमः वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥३८॥ वायुर्यमोऽग्निवरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥३९॥ पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वसमामोषि ततोऽसि सर्वः॥४०॥ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥४१॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।

1 अध्याय ११ ८१ एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥४२॥ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् । नत्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥४३॥ तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पुत्रस्य सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥ अदृष्टपूर्व हृपितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगनिवास ॥४५॥ किरीटिनं गदिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव । पितेव सखेव रूपेण चतुर्भुजेन न ८२ श्रीमद्भगवद्गीता तेनैव सहस्रबाहो भव विश्वमूर्ते ॥४६॥ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमायं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥ न वेदयज्ञाध्ययनैर्न दान- न च क्रियाभिर्न तपोभिरुप्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥४८॥ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृशमेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥४९॥ इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। संजय उवाच अध्याय ११ ८३ आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥५०॥ अर्जुन उवाच दृष्ट्दं मानुषं रूपं तव सौम्यं जनार्दन । इदानीममि संवृत्तःसचेताः प्रकृतिं गतः॥५१॥ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाशिणः ५२ नाहं वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा।५३ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥५४॥ मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥५५॥ • ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ॥ ११ ॥ न

ॐ श्रीपरमात्मने नमः
उवाच
अथ द्वादशोऽध्यायः
अर्जुन
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१॥
श्रीभगवानुवाच
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥२॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥४॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेनमां ध्यायन्त उपासते ॥६॥

८५
अध्याय १२
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
•भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ।।
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊध्वं न संशयः॥८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेनततो मामिच्छाप्तुंधनंजय॥९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥
अथैतदप्यशक्तोऽसि कतुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागंततः कुरु यतात्मवान्॥११॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाट्यानं विशिष्यते
ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखःक्षमी॥१३॥
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
• मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ।।
यस्मान्नोद्विजते लोको लोकानोद्विजते च यः।
हर्षामषेभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥१५॥

८६ श्रीमद्भगवद्गीता अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तःस मे प्रियः॥ यो न हृष्यति न द्वेष्टि न शोचति न कासति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥ समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।१८। तुल्यनिन्दास्तुतिौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः।।' ये तु धामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥ अथ त्रयोदशोऽध्यायः श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥१॥ ये तु ८७ अध्याय १३ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । 'क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥२॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन शृणु ॥३॥ ऋषिभिर्वहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदेश्चैव हेतुमद्भिर्विनिश्चितः ॥४॥ महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकंच पञ्च चेन्द्रियगोचराः॥५॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥६॥ अमानित्वमदम्भित्वमहिंसा शान्तिरार्जवम् । आचार्योपासनंशोचं स्थैर्यमात्मविनिग्रहः॥७॥ इन्द्रियार्थेषु वैराग्यमनहंकार एव च । • जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥८॥ • असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥९॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

८८ श्रीमद्भगवद्गीता विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१०॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा|१११ ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१२॥ सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१४॥ बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥१६॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ।। इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। भो अध्याय १३ ८९ मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१८॥ प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ।१९। कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।२०। पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।२१। उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः॥ य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये सांख्येन योगेनकर्मयोगेन चापरे॥२४॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् । من ९० श्रीमद्भगवद्गीता क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥२६॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । नहिनस्त्यात्मनात्मानं ततो याति परां गतिम्।। प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानमकर्तारं स पश्यति ।२९। यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥३०॥ अनादित्वानिर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ यथा सर्वगतं सौक्षम्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मानोपलिप्यते॥३२॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नंप्रकाशयति भारत॥३३॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।

अध्याय १४ ९१ भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।। * ॐतत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः।। इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये नव्यथन्ति च॥२॥ मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥३॥ सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥४॥ सचं रजस्तम इति गुणाः प्रकृतिसंभवाः । निवघ्नन्ति महाबाहो देहे देहिनमव्ययम् ॥५॥ तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

९२ श्रीमद्भगवद्गीता मुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥६॥ रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥७॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥८॥ सत्त्वं मुखे संजयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥९॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्वं रजस्तथा ।१०। सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ।११॥ लोभःप्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।१२। अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।१३। यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

क "कैलिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते।।२१॥ अध्याय १४ तदोत्तमविदां लोकानमलान्प्रतिपद्यते ।१४। भजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ।१५। कर्मणः सुकृतस्याहुः सात्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ।१६। सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।१७। ऊध्वंगच्छन्ति सवस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ।। गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥२०॥ अर्जुन उवाच ९४ श्रीमद्भगवद्गीता श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्गति उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥२३॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः।। मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । - सर्वारम्भपरित्यागी गुणातीतः स उच्यते ।२५। मां च योऽव्यभिचारेण भक्तियोगेन सेवते । सगुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ।२६। ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । ॐतत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ।। १४ ।।

ॐ श्रीपरमात्मने नमः अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ अधश्चोर्ध्व प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्व मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥२॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा। अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन छित्त्वा ॥३॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥ क 1 द्वन्द्ववि मुक्ताः ९६ श्रीमद्भगवद्गीता निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। सुखदुःखसंज्ञ गच्छन्त्यमूढाः पदमव्ययं तत् ॥५॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥६॥ ममैवांशो जीवलोके जीवभूतः सनातनः। मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानिकर्षति॥७॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चाय विषयानुपसेवते ॥९॥ उत्क्रामन्तं स्थितं वापि भुञ्जानं वागुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥

अध्याय १५ ९७ यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ।। गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाःसोमो भूत्वारसात्मकः।। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।। सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५॥ द्वाविमौ पुरुषो लोके क्षरश्वाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। यस्मात्क्षरमतीतोऽहमक्षरादपि अतोऽसि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ गी० पं० ४-- पु चोत्तमः।

९८ श्रीमद्भगवद्गीता यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥१९॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जनमंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ।। १५ ।। अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानंदमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥२॥ तेजःक्षमाधृतिःशौचमद्रोहो नातिमानिता। भवन्ति संपदं देवीमभिजातस्य भारत ॥३॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।

अध्याय १६ ९९ अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ।। दैवी संपद्विमोक्षाय निवन्धायासुरी मता । मा शुचः संपदं देवीमभिजातोऽसि पाण्डव ।। द्वौ भूतस! लोकेऽस्मिन्दैव आसुर एव च । देवो विस्तरशःप्रोक्त आसुरं पार्थ मे शृणु ॥६॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरम्परसंभृतं किमन्यत्कामहैतुकम् ।।८।। एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥९॥ काममाश्रित्य दृप्पूर दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः।। - चिन्तामपरिमयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः।११ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।

من १०० श्रीमद्भगवद्गीता ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ।। इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥१३॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी । आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्ष्ये दास्यामि मो देष्य इत्यज्ञानविमोहिताः॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेशुचौ ॥ आत्मसंभाविताः स्तब्धाधनमानमदान्विताः। यजन्ते नामयज्ञस्ते दम्भेनाविधिपूर्वकम्॥१७॥ अहंकारं बलं दर्प काम क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥१८॥ तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥१९॥ आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि ।

अध्याय १७ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ।। एतैर्विमुक्तः कौन्तेय तमोद्वारैसिभिर्नरः । आचरत्यात्मनःश्रेयस्ततो याति परांगतिम् ॥ यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ।। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुर- संपद्विभागयोगो नाम षोडशोऽध्यायः ॥१६॥ अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः॥ ब्रह्म-

१०२ श्रीमद्भगवद्गीता
श्रीभगवानुवाच
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
साविकी राजसी चैव तामसी चेति तां शृणु ॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥
यजन्ते साचिका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः॥
अशास्त्रविहितं घोरं तप्यन्त ये तपो जनाः ।
दम्भाहंकारसंयुक्ताः कामरागवलान्विताः ।।
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
मांचैवान्तःशरीरस्थं तान्विद्धयामुरनिश्चयान्।।
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥७॥
आयुःसत्त्ववलारोग्य-
मुखप्रीतिविवर्धनाः
रस्याः स्निग्धाः
स्थिरा
हृद्या
आहाराः सात्त्विकप्रियाः ॥८॥

अध्याय १७ १०३
कट्वाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहाराराजसस्येष्टा दुःखशोकामयप्रदाः।।९।।
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामध्यं भोजनं तामसप्रियम् ।।
अफलाकाटिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स साविकः॥
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
- इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥१२॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥१३॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसाच शारीरं तप उच्यते ॥१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यन् ।
'स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ।
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६॥

१०४ श्रीमद्भगवद्गीता श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः। अफलाकाटिभिर्युक्तः सात्त्विकं परिचक्षते ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥१८॥ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥१९॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रेच तदानंसात्विकंस्मृतम् ।। यत्तु प्रत्युपकारार्थ फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तदानं राजसंस्मृतम्।।२१।। अदेशकाले यदानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२२॥ ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।' प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।।

हु अध्याय १८ १०५ तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकादिभिः। सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छन्दः पार्थ युज्यते॥ यज्ञे तपसि दाने च स्थितिःसदिति चोच्यते । कर्म चैव तदीयं सदित्येवाभिधीयते ॥२७॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ।। ॐ तत्सदिति श्रीमद्भगवद्गीतःसूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सतदयोऽध्यायः ॥ १७ ।। अथाष्टादशोऽध्यायः अर्जुन उवाच संन्यासस्य महाबाहो तचमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१॥ श्रीभगवानुवाच काम्यानां कर्मणांन्यासं संन्यासं कवयो विदुः।

२.०६ श्रीमद्भगवद्गीता सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।२॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपः कर्म न त्याज्यमिति चापरे॥३॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।। यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् ॥५॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितंमतमुत्तमम्॥६॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥७॥ दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ।। कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव सत्यागः सात्विकोमतः न द्वेष्टयकुशलं कर्म कुशले नानुषञ्जते ।

अध्याय १८ म १०७ त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः।। * न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ।। अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य नतु संन्यासिनां क्वचित्।। पञ्चैतानि महाबाहो कारणानि निबोध में । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।। अधिष्ठान तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ।। शरीवामनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।। यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापिस इमाँल्लोकान हन्ति न निवध्यते ।। ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।

१०८ श्रीमद्भगवद्गीता करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ सर्वभूतेषु येनके भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि साविकम्।। पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ यत्तु कायदेकस्मिन्कार्ये सक्तमहतुकम् । अतचाथेवदल्पं च तत्तामसमुदाहृतम् ॥२२॥ नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।।२३।। यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥२४॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥२५॥ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।

अध्याय १८ १०९ सिद्धयसिद्धयानिर्विकारः कतोसाचिक उच्यते * रागी कर्मफलप्रेप्सुक्षुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।। अयुक्तःप्राकृतःस्तब्धःशठोनैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते।।२८॥ बुद्धर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥२९॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षंच या वेत्ति बुद्धिःसा पार्थ साच्चिकी।। यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्म धर्ममिति या मन्यते तमसावृता । सर्वार्थाधिपरीतांश्च बुद्धिः सा पार्थ तामसी। धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिःसा पार्थ साविकी यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन ।

११० श्रीमद्भगवद्गीता प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुश्चति दुर्मधा धृतिः सा पार्थ तामसी। सुखं त्विदानी त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥ यत्तदने विषमिव विषमिव परिणामेऽमृ परिणामेऽमृतोपमम् । तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ।। विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् परिणाम विषमिव तत्सुखं राजसं स्मृतम्।।३८॥ यदग्रे चानुबन्धे च सुख मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥३९॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सचं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ।। ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभत्रैर्गुणैः॥४१॥ शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । - अध्याय १८ १११ ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ।। शोर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥४३॥ कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४॥ स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धि यथा विन्दति तच्छृणु।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः।। श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ।। सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥४८॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ सिद्धि प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।

११२ श्रीमद्भगवद्गीता समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥५०॥ बुद्धया विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषो व्युदस्य च।। विविक्तसेवी लव्वाशी यतवाकायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः।।५२।। अहंकारं बलं दर्प कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥५४॥ भक्त्या मामभिजानाति यावान्यश्चास्मि तच्चतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्वयपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।। चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।। बुद्धियोगमुपाश्रित्य मचित्तः सततं भव ।।५७॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । ते

अध्याय १८
११३
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनश्यसि ।।
• यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैप व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति।।
स्वभावजेन कौन्तेय निवद्धः स्वेन कर्मणा
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
श्रामयन्सर्वभूतानि यन्त्रारूढानि मायया।६१
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परांशान्ति स्थानंप्राप्स्यसि शाश्वतम्
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।६३॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
मामकं शरणं व्रज ।
सर्वधर्मान्परित्यज्य

श्रीमद्भगवद्गीता अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।। इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ।। य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः।६८ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि।६९। अध्येष्यते च य इमं धर्म्य संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।७०॥ श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तःशुभाँल्लोकान्याप्नुयात्पुण्यकर्मणाम् कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥७२॥ अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धात्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥७३॥ म् अध्याय १८ ११५ संजय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥७४॥ व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ।। राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः।७६। तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान्यजन्हष्यामि च पुनः पुनः॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीविजयो भूतिधुवा नीतिमतिर्मम।।७८॥ ॐ तत्मदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ।। १८ ।। भी

央的北
的###########%$####
##出88名
站88888**
$$#%%%%%%为共888

ॐ
श्रीपरमात्मने नमः
श्रीविष्णुसहस्रनामस्तोत्रम्
स्वमेव माता
च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव
80000000
सर्व
मम देवदेव ॥

ไ
.
4
© 2099)
()
รัง
ระยะ
ระ
5

श्रीपरमात्मने नमः
अथ श्रीविष्णुसहस्रनामस्तोत्रम्
समस्तभूतान
यस्य स्मरणमात्रेण जन्मसंसारवन्धनात् ।
विमुच्यते नमस्तस्पै विष्णवे प्रभविष्णवे ॥
नमः सामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥
वैशम्पायन उवाच
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ।।
युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तःकंकमर्चन्तःप्राप्नुयुर्मानवाः शुभम्।।
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किंजपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥

१२० विष्णुसहस्रनामस्तोत्रम्
भीष्म उवाच
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥४॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ।।
ब्रह्मण्यं सर्वधर्मज्ञ लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥७॥
एप मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥८॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महब्रह्म परमं यः परायणम् ॥९॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं देवतानांच भूतानां योऽव्ययःपिता।१०।
यतःसर्वाणि भूतानि भवन्त्यादियुगागमे।
यसिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥११॥

विष्णुसहस्रनामस्तोत्रम् १२१ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ।१२। यानि नामानि गौणानि विख्यातानि महात्मनः। ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये १३ ॐ विश्व विष्णुषिटकारो भूतभव्यभवत्प्रभुः। भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१४॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।१५। योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः।१६। सर्वःशः शिवः स्थाणुर्भूतादिनिधिरव्ययः । सम्भवो भावनो भर्ता प्रभवःप्रभुरीश्वरः।१७ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः। अनादिनिधनोधाता विधाता धातुरुत्तमः।१८। अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

१२२ विष्णुसहस्रनामस्तोत्रम्
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥२०॥
ईशानःप्राणदः प्राणी ज्येष्ठःश्रेष्ठः प्रजापतिः
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥२१॥
ईश्वरो विक्रमी धन्धी मेधावी विक्रमः क्रमः ।
अनुत्तमा दुराधर्षः कृतज्ञः कृतिरात्मवान् ।।
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरी व्यालः प्रत्ययः सर्वदर्शनः नः॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥
वमुर्वसुमनाःसत्यः समात्मा सम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः।
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतः स्थाणुवरारोहो महातपाः ॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनी जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्ग्रहश्चतुर्दष्ट्रश्चतुर्भुजः॥२८॥

पु
विष्णुसहस्रनामस्तोत्रम् १२३
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
* अनघो विजयो जेता विश्वयोनिः पुनर्वसुः।२९।
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः।
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ।।
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दोगोविन्दो गोविदांपतिः॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥
अमृत्युःसर्वक
संहः सन्धाता सन्धिमान्स्थिरः
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥
धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषःसवी वाचस्पतिरुदारधीः॥
अग्रणीग्रामणीःश्रीमान्न्यायो नेता समीरणः।
गुरुगुरुतमो

१२४ विष्णुसहस्रनामस्तोत्रम् सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्।३७। आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥३८॥ सुप्रसादः प्रसन्नात्मा विश्वग्विश्वभुग्विभुः। सत्कर्ता सत्कृतः साधुर्जगुर्नारायणो नरः ।३९। असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः। सिद्धार्थःसिद्धिसंकल्पःसिद्धिदःसिद्धिसाधनः।। वृषाही वृषभो विष्णुवृषपर्वा वृषोदरः । वर्धनोवर्धमानश्च विविक्तः श्रुतिसागरः ।४१। सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूप शिपिविष्टः प्रकाशनः।४२॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ अमृतांशूद्भवो भानुः शशविन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥४४॥ भूतभव्यभवनाथः पवनः पावनोऽनलः। कामहा कामकत्कान्तःकामः कामप्रदःप्रमुः।

विष्णुसहस्रनामस्तोत्रम् १२५ युगादिकृयुगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ।। इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥४७॥ अच्युतःप्रथितः प्राणः प्राणदो वासवानुजः। अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥४८॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥४९॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूल शतावर्तः पद्मी पद्मनिभेक्षणः॥५०॥ पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभृत् । गरुडध्वजः ॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः। सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः॥ विक्षरो रोहितो मार्गों हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः॥५३॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । महर्द्धिऋद्धो वृद्धात्मा महाक्ष १२६ विष्णुसहस्रनामस्तोत्रम् करणं कारणं कर्ता विकर्ता गहनो गुहः॥५४॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदोध्रुवः। परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ।५५। रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ।। वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्ती वायुरधोक्षजः ।। ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ।। विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम्। अर्थोऽनर्थो महाकोशो महाभोगो महाधनः।। अनिविण्णः स्थविष्ठोऽभर्धर्मयूपो महामखः । नक्षत्रनेमिनक्षत्री क्षमःक्षामःसमीहनः॥६०॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ।। सुव्रतः सुमुखः सूक्ष्मः सुघोपः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुविंदारणः॥६२।।

धर्मगुर
विष्णुसहस्रनामस्तोत्रम् १२७
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरोवत्सलोवत्सी रत्नगर्भो धनेश्वरः।।६३।।
धर्मकृद्धी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः।।६४॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः।।६५।।
उत्तरी गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयःसत्यसन्धो दाशार्ह सात्वतां पतिः
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः।।
अजो महार्हः स्वाभाव्यो जितामित्रःप्रमोदनः।
आनन्दो नन्दनो नन्दःसत्यधर्मा त्रिविक्रमः ।।
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

१२८ विष्णुसहस्रनामस्तोत्रम् गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥७१॥ वेधाःम्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः वरुणो वारुणो वृक्षःपुष्कराक्षो महामनाः॥७२॥ भगवान् भगहानन्दी वनमाली हलायुधः । आदित्योज्योतिरादित्यः सहिष्णुर्गतिसत्तमः।। सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः।। त्रिसामा सामगःसाम निर्वाणं भेषजं भिषक । संन्यासकृच्छमः शान्तोनिष्ठा शान्तिःपरायणः शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुचलेशयः। गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।७६। अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षा:श्रीवासःश्रीपतिःश्रीमतांवरः।। श्रीदःश्रीशःश्रीनिवास श्रीनिधिःश्रीविभावनः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥ स्वक्षःस्वङ्ग शतानन्दो नन्दिर्योतिर्गणेश्वरः। विजितात्मा विधेयात्मासत्कीर्तिग्छिन्नसंशयः।। श्रीधरः श्रीकरः यो विष्णुसहस्रनामस्तोत्रम् १२९ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणोभूतिविंशोकःशोकनाशनः।८० अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः। अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।८१॥ कालनेमिनिहा वीरः शौरिः शरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहाहरिः।। कामदेवः कामपाल कामी कान्तः कृतागमः। अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ।८३॥ ब्रह्मण्यो ब्रह्मकमा ब्रह्म ब्रह्मविवर्धनः। ब्रह्मविहाह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः।८४। महाक्रमो महाकर्मा महातेजा महोरगः । । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥८५॥ ॥ स्तव्यास्तव प्रियः स्तोत्रं स्तुतिःस्तोता रणप्रियः। : 1 पूर्णः पूरयिता पुण्यःपुण्यकीर्तिरनामयः॥८६॥ । मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । । वसुप्रदो वासुदेवो वसुईसुमना हविः ॥८७॥ यः सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । गी० पं० ५-- । 1 .

न् । १३० विष्णुमहस्रनामस्तोत्रम् शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥८॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥८९॥ विश्वमूर्तिर्महामूर्तिीप्तमूर्तिरमूर्तिमान अनेकमूर्तिरव्यक्तःशतमूर्तिः शताननः॥१०॥ एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुलोकनाथो माधवो भक्तवत्सलः।९१॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शन घृताशीरचलश्चलः ।९२॥ अमानी मानदोमान्यो लोकस्वामी त्रिलोकधृक् सुमेधा मेधजो धन्यः सत्यमेधा धराधरः।९३। तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः। प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥९४॥ चतुर्मुर्तिश्चतुर्बाहुश्चतुर्ग्रहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥९५॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।९६।

विष्णुसहस्रनामस्तोत्रम् १३१ शुभाङ्गो लोकसारङ्गः सुतन्तुम्तन्तुपर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥९७॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनःशृङ्गी जयन्तः सर्वविजयी।९८॥ सुवर्णविन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाहदो महाग” महाभूतो महानिधिः।९९। कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः।१००। सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ सहस्राचिः सप्तजिह्वः सप्तधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः।१०२ अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वतः स्वास्यः प्राग्वंशो वंशवर्द्धनः॥ मारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । ३

१३२ विष्णुसहस्रनामस्तोत्रम्
अपराजितः सर्वसहा नियन्ता नियमो यमः ॥
सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रिया) प्रियकृत्प्रीविवर्धनः॥
विहायसगतिर्योतिः सुरुचिर्तुतभुग्विभुः ।
रविर्विरोचनःसूर्यः सविता रविलोचनः।१०७/
अनन्तो हुतभुम्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विणः सदामी लोकाधिष्ठानमद्भुतः ॥
सनात्सनातनतमः कपिलः कपिरव्ययः।।
स्वस्तिदःस्वस्तिकृत्स्वस्ति स्वस्तिमुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूतिशासनः।
शब्दातिगः शब्दसहः शिशिरः शरीकरः॥
अक्रूरः
पेशलो दक्षा दक्षिणः क्षमिणां वरः
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः।१११॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वमनाशनः ।
वीरहा रक्षणःसन्तोजीवनःपर्यवस्थितः।११२।
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रोगभीरात्मा विदिशो व्यादिशो दिशः।।
स

विष्णुसहस्रनामस्तोत्रम् १३३ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः।११४। आधारनिलयो धाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः । प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः।११७। यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृयज्ञगुह्यमन्नमन्नाद एव च ॥११८॥ आत्मयोनिःस्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ।। शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्धा गदाधरः । स्थाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१२०॥ ॥ सर्वप्रहरणायुध ॐ नम इति ॥ इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥

१३४ विष्णुसहस्रनामस्तोत्रम्
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह चमानवः।।
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्योधनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ।।
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम्
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ।१२५/
यशःप्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमामोति श्रेयः प्राप्नोत्यनुत्तमम्।।
न भयं क्वचिदामोति वीर्य तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्यलरूपगुणान्वितः।१२७
रोगार्लो मुच्यते रोगाबद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ।।
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥
वासुदेवाश्रयो मयों
मत्यों वासुदेवपरायणः।
पु

विष्णुसहस्रनामस्तोत्रम् १३५
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ।१३१॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ।।
ससुरासुरगन्धर्व
सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ।१३५॥
इन्द्रियाणि मनो बुद्धिः सत्वं तेजो वलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ।।
सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः।१३७
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥

१३६ विष्णुसहस्रनामस्तोत्रम्
योगोज्ञानं तथासांख्य विद्याः शिल्पादि कर्मच
वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनात् ॥
एको विष्णुमहद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुते विश्वभुगव्ययः
इमं स्तवं भगवतो विष्णोर्म्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्तिये पुष्कराक्षंनतेयान्ति पराभवम् १४२
ॐ तत्सदिति श्रीमहाभारते शतसाहस्यां संहितायां
वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिर
मंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥
हरिः ॐ तत्सत् हरिः ॐ तत्सत् हरिः ॐ तत्सत्

भीष्मस्तवराजः प्रारभ्यते ।

:
слаг
ars
-

श्रीपरमात्मने नमः
भीष्मस्तवराजः
जनमेजय उवाच
शरतल्पे शयानस्तु भरतानां पितामहः ।
कथमुत्सृष्टवान् देहं कश्च योगमधारयत् ॥१॥
वैशम्पायन उवाच
मृणुष्वावहितो राजञ् शुचिर्भूत्वा समाहितः ।
भीष्मस्य कुरुशार्दूल देहोत्सर्ग महात्मनः ।।२।।
निवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे ।
समावेशयदात्मानमात्मन्येव समाहितः ॥३॥
विकीणांशुरिवादिन्यो भीष्मः शरशतैश्चितः ।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः॥४॥
व्यासेन वेदविदुषा नारदेन सुरर्षिणा ।
देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना ॥५॥
तथाजैमिनिना चैव पैलेन च महात्मना ।
शाण्डिल्यदेवलाभ्यां च मैत्रेये पेण च धीमता॥६॥

भीष्मस्तवराजः असितेन वशिष्ठेन कोशिकेन महात्मना । हारीतलोमशाभ्यां च तथात्रयेण धीमता ॥७॥ बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः । सनत्कुमारःकपिलो वाल्मीकिस्तुम्बुरुः कुरुः।८। मौद्गल्यो भार्गवो रामस्तृणबिन्दुमहामुनिः। पिप्पलादोऽथ वायुश्च संवतः पुलहः कचः।।९॥ काश्यपश्च पुलस्त्यश्च क्रतुदेक्षः पराशरः । मरीचिरङ्गिराः काश्योगौतमो गालवो मुनिः।। धौम्यो विभाण्डो माण्डव्यो धौम्रः कृष्णानुभौतिकः। उलूकः परमो विप्रो ॥११॥ भास्करिः पूरणः कृष्णःसूतः परमधार्मिकः । एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः॥१२॥ श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहै। भीष्मस्तु पुरुषव्याघ्र कर्मणामनसा गिरा॥१३॥ शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः मार्कण्डेयो महामुनि भीष्मस्तवराजः १४१ स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् ॥१४॥ योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् । कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः। भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्॥१५॥ भीष्म उवाच आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम्। तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः १६ शुचिं शुचिपदं हंसं तत्पदं परमेष्ठिनम् । मुक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् १७ अनाद्यन्तं परं ब्रह्म न देवा एकोयं वेद भगवान्धाता नारायणो हरिः॥१८॥ नारायणादृषिगणास्तथा सिद्धमहोरगाः। देवा देवर्षयश्चैव यं विदुः परमव्ययम् ॥१९॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । यंन जानन्ति को ह्येप कुतोवा भगवानिति २० यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥२१॥ नर्पयो विदुः।

१४२ भीष्मस्तवराजः यस्मिन्निन्ये तते तन्तौ दृढे स्रगिव तिष्ठति। सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ।२२। हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । सहस्रबाहुमुकुटं महस्रबदनोज्ज्वलम् ॥२३॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणायसामणीयांसं स्थविष्ठं च स्थवीयसाम् २४ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥२५॥ यं वाकेन्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्माण सत्यं सत्येषु सामसु ।२६। चतुर्भिश्चतुगत्मानं सत्वस्थं सात्वतां पतिम् । यं दिव्यैर्देवमर्चन्ति गुद्यैः परमनाममिः॥२७॥ यस्मिन्नित्यं तपस्तप्तं मदङ्गेष्वनुतिष्ठति । सर्वात्मा सर्व सर्वज्ञःसर्वमावनः॥२८॥ यं देवं देवकी देवी वसुदेवादजीजनत् । भोमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवाणिः।२९। यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् । दृष्ट्वानन्त्याय गोविन्द पश्यत्यात्मानमात्मनि ॥३०॥ वित सर्व भीष्मस्तवराजः १४३ अतिवाविन्द्रकर्माणमतिसूर्यातितेजसम् । अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ३१ पुराणे पुरुष प्रोक्तं ब्रह्म प्रोक्तं युगादिषु । क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥३२॥ यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् । नान्यभक्ताःक्रियावन्तोयजन्ते सर्वकामदम् ३३ यमाहुर्जगतः कोशं यस्मिन् सन्निहिताःप्रजाः। यस्मॅिल्लोकाःस्फुरन्तीमे जलेशकुनयो यथा३४ तमेकाक्षरं ब्रह्म यत्तत्सदसतोः परम् । अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः। यं सुरासुरगन्धर्वाःसिद्धा ऋषिमहोरगाः।३५॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनि सनातनम्॥३६॥ अप्रेक्ष्यमनभिज्ञेयं हरि नारायणं प्रभुम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् । वदन्ति जगतोऽध्यक्षमपरं परमं पदम् ॥३७॥ .

१४४ भीष्मस्तवराजः हिरण्यवर्ण यं गर्भमदितिर्दैत्यनाशनम् । एकंद्वादशधा यज्ञे तस्मै सूर्यात्मने नमः॥३८॥ शुक्ले देवान् पित कृष्णे तर्पयत्यमृतेन यः। यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः॥ महतस्तमसः पारे पुरुष ह्यतितेजसम् । यं ज्ञात्या मृत्युमत्येति तस्मै ज्ञेयात्मने नमः।४० यं वृहन्तं वृहत्युक्थे यमग्नौ यं महावरे । यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः।४। ऋग्यजुःसामधामानंदशाहविरात्मकम् । यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः।४२ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनाभ्यां तस्मै होमात्मने नमः॥४३॥ यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः । रथन्तरं बृहत्साम तस्मै स्तोत्रात्मने नमः ॥ यः सहस्रसमे सत्रे जज्ञे विश्वसृजामृषिः । हिरण्यपक्षःशकुनिस्तस्मै हंसात्मने नमः।४५॥ पदाङ्गसन्धिपर्वाणं स्वरव्यञ्जनभूषणम् ।

वै भीष्मस्तवराजः १४५ यमाहुरक्षरं दिव्यं तस्मै वागात्मने नमः ।४६। यज्ञाङ्गो यो वराहो वै भूत्वा गामुजहार ह। लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ।। यः शेते योगमास्याय पर्यङ्के नागभूपिते । फणासहस्ररचिते तस्मै निद्रात्मने नमः ।। यस्तनोति सतां सेतुमृतेनामृतयोनिना । धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः।४९ - यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः । पृथग्धमैः समर्चन्ति तस्मै धर्मात्मने नमः।५०। यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः । उन्मादाः सर्वभूतानां तस्मै कामात्मने नमः ।। यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः क्षेत्रक्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः॥५२॥ र यं त्रिधात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । पाहुःसप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः।। यं विनिद्राजितश्वासाःसत्त्वस्थाःसंयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः

१४६
भीष्मस्तवराजः
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।
शान्ताःसंन्यासिनो यान्ति तस्मै मोक्षात्मने नमः
योऽसौ युगसहस्रान्तप्रदीमार्चिविभावसुः।
संभक्षयति भृतानि तस्मै घोरात्मने नमः ।५६।
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः।।
तद्यस्य नाभ्यां संभूतं यस्मिन् विश्वं प्रतिष्ठितम् ।
पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः॥५८॥
सहस्रशिरसे चैव पुरुषायामितात्मने ।
चतुःसमुद्रपर्याययोगनिद्रात्मने नमः॥५९॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः।६०
यस्मात् सर्वाः प्रसूयन्ते सर्वप्रलयविक्रियाः।
यसिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ६१
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः ।
इष्टानिष्टस्य च द्रष्टा तस्मैद्रष्ट्रात्मने नमः॥६२॥

भीष्मस्तवराजः
१४७
अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम् ।
वैकुण्ठस्य च तद्रूपं तस्मै कार्यात्मने नमः ॥६३।।
त्रिःसप्तकृत्वो यः क्षत्रं धर्मवित् क्रान्तगौरखम् ।
क्रुद्धो निजम्ने समरे तस्मै क्रौर्यात्मने नमः ॥
विभज्य पञ्चधात्मानं वायुर्भूत्वा शरीरगः।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥
युगेष्वावर्तते योगैर्मासर्वयनहायनैः ।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः।६६।
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः।।
यस्याग्निरास्यं द्योख्खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ६८
परः कालात् परो यज्ञात्परात्परतरश्च यः।
- अनादिरादिविश्वस्य तस्मै विश्वात्मने नमः ६९
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ।
प्राहुर्विषयगोप्तारं तस्मै गोत्रात्मने नमः।७०।
अन्नपानेन्धनमयो रसप्राणविवर्धनः
-

१४८
भीष्मस्तवराजः
यो धारयति भूतानि तस्मै प्राणात्मने नमः७१
प्राणानां धारणार्थाय योऽन्नं भुङ्क्तेचतुर्विधम्।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ७२
पिङ्गक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् ।
दानवेन्द्रान्तकरणं तस्मै हप्त्यात्मने नमः।७३।
यं न देवान गन्धर्वा न दैत्या न च दानवाः ।
तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः।।
रसातलगतः श्रीमाननन्तो भगवान् विभुः ।
जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः।७५॥
यो मोहयति भूतानि स्नेहपाशानुबन्धनैः ।
सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ।७६
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पश्चस्ववस्थितम् ।
यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः॥
अप्रमेयशरीराय सर्वतोबुद्धिचक्षुषे ।
अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः ७८
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ।७९

भीष्मस्तवराजः १४९
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने।
भस्मदिग्धोलिङ्गाय तस्मै रुद्रात्मने नमः ८०
चन्द्रार्द्धकृतशीय व्यालयज्ञोपवी तिने ।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ।८१
सर्वभूतात्मभृताय भृतादिनिधनाय च ।
अक्रोधद्रोह मोहाय तस्मै शान्तात्मने नमः।८२।
यस्मिन् सर्व यतःसर्व यः सर्व सर्वतश्च यः।
यच्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ।८३।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव ।
अपवर्गस्थभूतानां पञ्चानां परतःस्थित ।८४
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।
नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः ८५
नमस्ते भगवन् विष्णो लोकानां प्रभवाप्यय ।
त्वं हि कर्ता हपीकेश संहर्ता चापराजितः।८६।
नहि पश्यामि ते भावं दिव्यं हि त्रिषु वर्मसु ।
त्वां तु पश्यामि तत्वेन यत्ते रूपं सनातनम्।८७।
दिवं ते शिरसा व्याप्तं पद्भया देवी वसुन्धरा ।

१५० भीष्मस्तवराजः विक्रमेण त्रयो लोकाः पुरुषोऽसिसनातनः1८८ दिशोभुजारविश्चक्षुर्वीयं शुक्रःप्रतिष्ठितः। सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः।८९। अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्।९०। एकोऽपि कृष्णस्य कृतःप्रणामो दशाश्वमेधावभृथेन तुल्यः। दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥९१॥ कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिताये। ते कृष्णदेहाःप्रविशन्ति कृष्ण- माज्यं यथा मन्त्रहुतं हुताशे ॥९२॥ नमो नरकसन्त्रासरक्षामण्डलकारिणे । संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ।९३।। नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः९४

भीष्मस्तवराजः १५१
प्राणकान्तारपाथेयं संसारोच्छेद भेषजम् ।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ।९५।
यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत् ।
यथा विष्णुमयं सर्व पाप्मा मे नश्यतां तथा ॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ९७
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ९८
नारायणः परं ब्रह्म नारायणपरं तपः।
नारायणपरो देवः स नारायणः सदा ।९९।
वैशम्पायन उवाच
एतावदुक्त्वा वचनं भीष्मस्तद्गतमानसः ।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ।१००।
अभिगम्य तु योगेन भक्ति भीष्मस्य माधवः ।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ।।
तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः ।
भीष्मं वाग्मिर्वाष्पकण्ठास्तमानचुमहामतिम्॥

तु १५२ भीष्मस्तवराजः ते स्तुवन्तश्च विप्राग्रयाः केशवं पुरुषोत्तमम् । भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ।। विदित्वा भक्तियोगं भीष्मस्य पुरुषोत्तमः। सहसोत्थाय संहृष्टो यानमेवान्वपद्यत ।१०४॥ केशवः सात्यकिश्चापि रथेनैकेन जग्मतुः । अपरेण महात्मानौ युधिष्ठिरधनञ्जयो ।१०५। भीमसेनो यमौ चोभी रथमेकं समाश्रिताः। कृपो युयुत्सुः सूतश्च सञ्जयश्च परन्तपः।१०६। ते स्थैर्नगराकारैः प्रयाताः पुरुषर्षभाः । नेमिघोषेण महता कम्पयन्तो वसुन्धराम् १०७ गिरः पुरुषवरस्तवान्विता द्विजेरिताः पथि सुमना स शुश्रुवे । कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत ।१०८।। इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासन- . पर्वणि भीष्मस्तवराजे सप्तचत्वारिं- शत्तमोऽध्यायः ॥४७॥ ततो

पायाnanu
aam
अथ अनुस्मृतिः
प्रारभ्यते ।
wint
S

S अथ अनुस्मृतिः शतानीक उवाच महामते महाप्राज्ञ सर्वशास्त्रविशारद । अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥१॥ सततं किंजपेजाप्यं विवुधः किमनुस्मरन् । मरणे यजपेजाप्यं यं च भावमनुस्मरन् ॥२॥ यंचध्यात्वा द्विजश्रेष्ठ पुरुषो मृत्युमागतः । परं पदमवाप्नोति तन्मे वद महामुने ॥३॥ शौनक उवाच इदमेव महाप्राज्ञ पृष्टवांश्च पितामहम् । भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥४॥ युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद । प्रयाणकाले किंचिन्त्यं मुमुक्षोस्तत्त्वचिन्तकैः।। किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते । प्राप्नुयां परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः॥

१५६ अनुस्मृतिः भीष्म उवाच तद्युक्तं स्वहितं सूक्ष्म प्रश्नमुक्तं त्वयानघ । शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् ॥७॥ श्रीवत्साङ्कं जगदीजमनन्तं लोकसाक्षिणम्। पुरा नारायणं देवं नारदः परिपृष्टवान् ।।८॥ नारद उवाच त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् । आहुर्वेद्यं परं धाम ब्रह्माणं कमलोद्भवम् ।।९।। भगवन भूतभव्येश श्रद्दधानजितेन्द्रियैः । कथंभक्तर्विचिन्त्योऽसि योगिभिर्मोक्षकातिभिः किं नु जाप्यं जपेन्नित्यं कल्य उत्थाय मानवः। कथं जपेत्सदाध्यायेद् ब्रूहि तचंसनातनम् ११ भीष्म उवाच श्रुत्वा च तस्य देवर्षेर्वाक्यं वाक्यविशारदः। प्रोवाच भगवान्विष्णुर्नारदाय च धीमते ।१२। श्रीभगवानुवाच हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् । मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् ।१३।

अनुस्मृतिः १५७ यामधीत्य प्रयाणे तु मद्भाबायोपपद्यते । ॐकारमग्रतः कृत्वा मां नमस्कृत्य नारद ।१४। एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् । ॐ नमो भगवते वासुदेवाय इत्ययम् ॥१५॥ अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः। पुमान् विमुच्यते सद्यः सिंहवस्तैर्मृगेरिख ।१६। क्षराक्षरविसृष्टस्तु प्रोच्यते पुरुषोत्तमः । अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ।१७। प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम् । लोकनाथं सहस्राक्षमक्षरं परमं पदम् ॥१८॥ भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् । स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ।१९। पद्मनाभं हषीकेशं प्रपद्ये सत्यमच्युतम् । हिरण्यगर्भममृतं भूगर्भ तमसः परम् ॥२०॥ प्रभोः प्रभुमनायं च प्रपद्ये तं रविप्रभम् । , सहस्रशीर्षकं देवं महर्षेः सत्त्वभावनम् ॥२१॥ प्रपद्ये सूक्ष्ममचलं वरेण्यमनघं शुचिम् ।

१५८ अनुस्मृतिः नारायणं पुराणेशं योगावासं सनातनम् ।२२। संयोग सर्वभूतानां प्रपद्ये ध्रुवमीश्वरम् । यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ॥२३॥ ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे । एकस्तिष्ठति विश्वात्मास मे विष्णुः प्रसीदतु ।। यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् । चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु ॥२५॥ आभूतसंप्लवे चैव प्रलीने प्रकृतौ महान् । योऽवतिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु॥ येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः। शरण्यः सर्वलोकानां स मे विष्णुः प्रसीदतु।२७। यस्य हस्ते गदाचक्रंगरुडो यस्य वाहनम् । शङ्खःकरतले यस्य स मे विष्णुः प्रसीदतु ॥२८॥ कार्य क्रिया चकरणं कर्ता हेतुःप्रयोजनम् । अक्रियाकरणे कार्ये स मे विष्णुःप्रसीदतु ।२९। चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनीभ्यां स मे विष्णुप्रसीदतु ।३०।

अनुस्मृतिः १५९. शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः । रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु।३१॥ अग्निसोमाताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् । यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ।३२। पर्जन्यः पृथिवी सस्य कालोधर्मः क्रिया फलम्। गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ।३३। योगावास नमस्तुभ्यं सर्वावास वरप्रद । हिरण्यगर्भ यज्ञाङ्ग पञ्चगर्भ नमोऽस्तु ते ॥३४॥ चतुर्भूतपरं धाम लक्ष्म्यावास सदाच्युत । शब्दादिवासनान्योऽसि वासुदेव प्रधानकृत् ॥ अजः संगमनः पार्थो ह्यमूर्तिर्विश्वमूर्तिधृक् । श्रीः कीर्तिः पञ्च कालज्ञो नमस्ते ज्ञानसागर ।। अव्यक्ताद्वयक्तमुत्पन्नमव्यक्तायः परात्परः। र यस्मात् परतरं नास्ति तमस्मि शरणं गतः ।३७। चिन्तयन्तोह्यजं नित्यं ब्रह्मेशानादयः सुराः । निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः।३८ जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः । .

१६०
अनुस्मृतिः
यंप्राप्यन निवर्तन्ते तमस्मि शरणं गतः ।३९।
एकांशेन जगत्कृत्स्नमवष्टभ्य स्थितःप्रभुः।
अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः॥
सोमार्काग्निमयं तेजो या चतारामयी द्युतिः।
दिवि संजायते तेजः समहात्मा प्रसीदतु ।४१॥
गुणात्मा निर्गुणश्चान्योरश्मिवांश्चेतनो ह्यजः।
सूक्ष्मः सर्वगतोऽदेहः स महात्माप्रसीदतु।४२॥
अव्यक्तं सदधिष्ठानमचिन्त्यं तमसः परम् ।
प्रकृतिः प्रकृति भुते स महात्मा प्रसीदतु।४३॥
क्षेत्रज्ञः पञ्चधा मुळे प्रकृति पश्चभिर्मुखैः।
महागुणांश्च योभुते स महात्मा प्रसीदतु ४४।
सांख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु।४५।
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे।
ये चत्वांनाभिजानन्ति तमस्मि शरणं गतः।।
कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः।
अनन्यभक्ता जानन्ति न पुनर्नारकी जनः।४७॥

अनुस्मृतिः १६१ एकान्तिनो हि निर्द्वन्द्वानिराशाः कर्मकारिणः। । ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति मनस्विनः॥ अशरीरं शरीरस्थं समं सर्वेषु देहिषु । पापपुण्यविनिर्मुक्ता भक्तास्त्वां पर्युपासते।४९। अव्यक्तबुद्धयहंकारमनोभूतेन्द्रियाणि च । त्वयि तानि न तेषुत्वं तेषुतानि न ते त्वयि।५०॥ एकत्वाय च नानन्यं ये विदुर्यान्ति ते परम्। समत्वमिह काड्नेयं भक्त्या वैनान्यचेतसा ५१ चराचरमिदं सर्व भूतग्रामं चतुर्विधम् । त्वयि तन्तौ च तत्प्रोतंसूत्रे मणिगणाइव ॥५२॥ स्रष्टा भोक्तासि कूटस्थो ह्यचिन्त्यः सर्वसंज्ञितः अकर्ता हेतुरहितः पृथगात्मा व्यवस्थितः ॥५३॥ न मे भूतेषु संयोगः पुनर्भवतु जन्मनि । र अहंकारेणबुद्धया वान मे योगस्त्रिभिर्गुणैः ५४ १ नमेधर्मो ह्यधर्मो वा नारम्भो जन्म वा पुनः। जरामरणमोक्षार्थत्वां प्रपन्नोऽस्मि सर्वगम् ।५५॥ विषयैरिन्द्रियैश्चापि न मे भूयः समागमः। गी० पं०६-

१६२
अनुस्मृतिः
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तत्ते हि त्रिदशेश्वर ।५६।
पृथिवीं यातु मे घ्राणं यातु मेरसनं जलम् ।
रूपंहुताशने यातु स्पर्शो मे यातु मारुते ।५७०
श्रोत्रमाकाशमभ्येतु मनो वैकारिकं पुनः ।
इन्द्रियाणि गुणान्यान्तु स्वेषु स्वेषुच योनिषु॥
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् ।
वायुराकाशमभ्येतु मनश्चाकाशमेव च ।५९॥
अहंकारं मनो यातु मोहनं सर्वदेहिनाम् ।
अहंकारस्तथा बुद्धिं बुद्धिव्यक्तमेव च ।६०
प्रधानं प्रकृति यातु गुणसाम्ये व्यवस्थिते ।
विसर्गः सर्वकरणैर्गुणभूतैश्च मे भवेत् ।६१।
सत्त्वं रजस्तमश्चैव प्रकृति प्रविशन्तु मे ।
नैष्कैवल्यपदं देव काङ्ग्रेऽहं ते परन्तप ।६२१
एकीमावस्त्वया मेऽस्तु न मे जन्म भवेत् पुनः ।
नमो भगवते तस्मै विष्णवे प्रभविष्णवे।६३॥
त्वबुद्धिस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः।

अनुस्मृतिः
१६३
त्वामेवाहं मरिष्यामि मरणे पर्यवस्थिते ।६४।
पूर्वदेहे कृता ये मे व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च मां दुःखान्यणं मे प्रतिमुच्यताम् ।।
अनुध्येयोऽसि मे देव न मे जन्म भवेत्पुनः ।
अस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ।।
उपतिष्ठन्तु मा सर्वे व्याधयः पूर्ववञ्चिताः।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥
अह भगवतस्तस्य मम वासः सनातनः ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
कर्मेन्द्रियाणि संयम्य पञ्चभृतेन्द्रियाणि च ।
दशेन्द्रियाणि मनसि अहंकारंतथा मनः ।६९।
अहंकारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।
आत्मबुद्धीन्द्रियं पश्येद्बुद्ध्या बुद्धेः परात्परम्॥
है एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
ततोबुद्धेः परंबुद्ध्वालभते न पुनर्भवम् ।७१॥
ममायमिति तस्याहं येन सर्वमिदं ततम् ।
आत्मन्यात्मनि संयोज्य परात्मानमनुस्मरेत् ॥
.

१६४ अनुस्मृतिः नमो भगवते तस्मै देहिनां परमात्मने । नारायणाय भक्ताय एकनिष्ठाय शाश्वते ।७३। हृदिस्थाय च भूतानां सर्वेषां च महात्मने । इमामनुस्मृति दिव्यां वैष्णवीं पापनाशिनीम् । स्वपन्विबुद्धश्च पठेद्यत्नेन च समभ्यसेत् ।७४। मरणे समनुप्राप्ते यदेकं मामनुसरेत् । अपि पापसमाचारःसयाति परमां गतिम् ।७५। यद्यहंकारमाश्रित्य यज्ञदानतपःक्रियाः। कुर्वन् फलमवाप्नोति पुनरावर्तनं च तत् ।७६। अभ्यर्चयन् पितॄन् देवान् पठन् जुहु बलिं ददव ज्वलदग्नौ स्मरेद्यो मां लभते परमां गतिम् ।७७) यज्ञो दानं तपश्चैत्र पानानि मनीषिणाम् । यज्ञदानतपस्तस्मात्कुयोद्रागविवर्जितः ॥७८॥ पौर्णमास्याममावास्यांद्वादश्यां च तथैव च । श्रावयेच्छ्रद्दधानश्च मद्भक्तश्च विशेषतः॥७९॥ नमइत्येव योब्रयान्मद्भक्तःश्रद्धयान्वितः। तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ८० किं पुनर्ये भजन्ते मांसाधका विधिपूर्वकम् ।

अनुस्मृतिः १६५
श्रद्धावन्तो यतात्मानस्ते यान्ति परमां गतिम् ।।
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽनन्तमश्नुते ।
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः ।८२॥
अज्ञानां चैव यो ज्ञानं दद्याद्धर्मोपदेशतः ।
कृत्स्नां वापृथिवींदद्यात्तेन तुल्यं न तत् फलम् ।।
तस्मात्प्रदेयं साधुभ्योजपं बन्धभयापहम् ।
अवाप्स्यसि ततः सिद्धि प्राप्स्यसेच पदं मम ।।
अश्वमेधसहस्त्रैश्च
वाजपेयशतैरपि।
नासौ पदमवाप्नोति मद्भक्तर्यदवाप्यते ।८५।
भीष्म उवाच
हरेः पृष्टं पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच ततः शम्भुस्तदुक्तं समनुव्रतः ॥८६।।
श्रुत्वैवं नारदो वाक्यं दिव्यं नारायणोदितम् ।
अत्यन्तं भक्तिमान् देव एकान्तित्वमुपेयिवान्।।
त्वमप्येकमना भूत्वाध्याहि ध्येयं गुणाधिकम्
मजस्व सर्वभावेन परमात्मानमव्ययम् ॥८८।।
नारायणमृषि देवं दशवर्षाण्यनन्यभाक् ।
इमं जपित्वाचाप्नोति तद्विष्णोः परमं पदम् ।।
.

१६६ अनुस्मृतिः किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्वतैः । नमो नारायणायेति मन्त्रः सर्वार्थसाधकः॥ किं तस्य दानः किंतीथैः किंतपोमिः किमध्वरैः योनित्यं ध्यायते देवं नारायणमनन्यधीः।९१॥ ये नृशंसा दुरात्मानः पापाचाररतास्तथा तेऽपि यान्ति परंस्थानं नारायणपरायणाः।९२॥ अनन्यया मन्दबुद्धया प्रतिभाति दुरात्मनाम् । कुतर्काज्ञानदृष्टीनां विभ्रान्तेन्द्रियवर्त्मनाम् ।। नमो नारायणायेति ये विदुब्रह्म शाश्वतम् । अन्तकाले जपाद्यान्ति तद्विष्णोः परमं पदम् ॥ आचारहीनोऽपि मुनिप्रवीर भक्त्या विहीनोऽपि विनिन्दितोऽपि । किं तस्य नारायणशब्दमात्रतो विमुक्तपापो विशतेऽच्युतां गतिम् ॥१५॥ कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु संयुगे । दस्युभिः सन्निरुद्धश्च नामभिर्मा प्रकीर्तयेत्९६ जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणांक्षीणपापानां कृष्णेभक्तिःप्रजायते।९७॥

न अनुस्मृतिः १६५ नानोऽस्ति यावती शक्तिःपापनिहरणे हरेः । • श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्विषम् ।। न तावत्पापमस्तीह यावन्नामाहृतं हरेः । अतिरेकभयादाहुः प्रायश्चित्तान्तरं वृथा॥९९।। गत्वा गत्वा निवर्तन्ते चन्द्र सूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः१०० वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम् । न वासुदेवात्परमस्ति दैवतं तं वासुदेवं प्रणमन्न सीदति ॥१०१॥ इमां रहस्यां परमामनुस्मृति योऽधीत्य बुद्धिं लभतेच नैष्ठिकीम् । विहाय पापं विनिमुच्य सङ्कटात् स वीतरागो विचरेन्महीमिमाम् ।१०२। इति श्रीमन्महाभारते शतसाहस्रयां संहितायां वैयासि- क्यामानुशासनिके पर्वणि दानधर्मे श्रीविष्णोदिव्य- मनुस्मृतिस्तोत्रं सम्पूर्णम् ॥ शुभं भवतु ॥ दै प

***
****
***
Araw 1411 a scritinu
Posisi
XS
11
*****
UT NJUTA CIMRJ21

One
अथ गजेन्द्रमोक्षः
प्रारभ्यते ॥
H

DA

श्रीपरमात्मने नमः
अथ गजेन्द्रमोक्षः
नारद उवाच
याञप्यान्भगवद्भक्त्या प्रह्लादो दानवोऽजपन् ।
गजेन्द्रमोक्षणादींस्त्वं चतुरस्तान्वदस्व मे ॥१॥
पुलस्त्य उवाच
शृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन ।
दुःस्वप्ननाशो भवति यैरुक्तःसस्मृतैःश्रुतैः॥२॥
गजेन्द्रमोक्षणं त्वादौ शृणु त्वं तदनन्तरम् ।
सारस्वतौ ततः पुण्यौ पापप्रशमनौ स्तवौ ॥३॥
सर्वरत्नमयः श्रीमांत्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरो स्करातेः ॥४॥
क्षीरोदजलवीच्यग्रेौतामलशिलातलः ।
उत्थितःसागरं मिच्चा देवर्षिगणसेवितः ॥५॥
अप्सरोभिः परिवृतःश्रीमान्प्रस्रवणाकुलः।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणगुह्यकैः ॥६॥

गजेन्द्रमोक्षः
विद्याधरैः सपत्नीकैः संयतैश्च तपस्विमिः ।
वृकद्वीपिगजेन्द्रश्च धृतगात्री विराजते ॥७॥
पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः ।
चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः ॥८॥
शालैम्तालैम्तमालेश्च सरलार्जुनपर्पटैः।
यथान्येविविधवृक्षः सर्वतः समलङ्कृतः ।।९।।
नाना धात्वङ्कितःशृङ्गः प्रस्रवद्भिः समन्ततः ।
शोभितो रुचिरप्रस्थैत्रिभिर्विस्तीर्णसानुभिः१०
मृगैः शाखामृगैः सिंहमातङ्गश्च सदामदैः।
जीवं जीवकसंघुष्टैश्वकोरशिखिनादितैः॥११॥
तस्यैकंकाश्चनं शृङ्ग सेवते यदिवाकरः ।
नानापुण्यसमाकीणं नानागन्धादिवासितम्१२
द्वितीयं राजतंशृङ्ग सेवते यन्निशाकरः ।
पाण्डुराम्वुदसङ्काशं तथा रत्नचयोपमम् ।।१३।।
वजेन्द्रनीलवैडूर्यतेजोभिर्मासयन्दिशः ।
तृतीयं ब्रह्मसदनं प्रहृष्टं शृङ्गमुत्तमम् ॥१४॥

गजेन्द्रमोक्षः १७३ न तत्कृतघ्नाः पश्यन्ति नृशंसा नैव राक्षसाः । नातप्ततपसो लोके ये च पापकृतोजनाः॥१५॥ तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णराजहंसोपशोभितम् ।।१६।। कुमुदोत्पलकलारैःपुण्डरीकैश्च शोभितम् । कमलै शतपत्रैश्च काश्चनैः समलङ्कृतम्॥१७॥ पत्रैर्मरकतप्रख्यैः पुष्पैः काञ्चनसन्निभैः। गुल्मैः कीचकवेणूनां समन्तात्परिवेष्टितम् ।१८। तमिन्सरसि दुष्टात्मा निगूढोऽन्तजेलेशयः आसीद्ग्राहो गजेन्द्राणां दुराधर्षो महाबलः।१९। अथ दन्तोज्ज्वलवपुःकदाचिद्गजयूथपः। मदस्रावी जलाकाङ्क्षी पादचारीव पर्वतः॥२०॥ वासयन्मदगन्धेन गिरिमैरावतोपमः । ४ सगजोऽञ्जनसङ्काशोमदाघूर्णितलोचनः ।२१॥ । तृपितः स्नातुकामोऽसाववतीर्णश्च तज्जलम् । सलीलः पङ्कजवने यूथमध्यगतस्त्वरन् ॥२२॥ गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना।

१७४ गजेन्द्रमोक्षः पश्यन्तीनां करेणूनांक्रोशन्तीनां चदारुणम्॥ हियते पङ्कजवने ग्राहेणातिवलीयसा । गज आकर्षते तीरं ग्राह आकर्षते जलम् ॥२४॥ तयोदिव्यं महायुद्धं जातं वर्षसहस्रकम् । वारुणैः संयुतःपाशैर्निष्प्रयत्नगतिः कृतः॥२५॥ वेष्टयमानः सुघोरैस्तु पाशैर्नागो द्वैस्तथा विस्फर्य च यथाशक्ति विक्रोशश्च महारवान् २६ व्यथितः सन्निरुच्छ्वासो गृहीतो घोरकर्मणा। परमामापदं प्राप्य मनसाचिन्तयद्धरिम् ॥२७॥ स तु नागवरः श्रीमान्नारायणपरायणः । तमेव शरणं देवं गतः सर्वात्मना तदा ॥२८॥ एकात्मानुगृहीतात्मा विशुद्धनान्तरात्मना । जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे ॥ आद्यं देवं महादेवं पूजयामास केशवम् । मथितामृतफेनाभं शङ्खचक्रगदाधरम् ॥३०॥ सहस्रशुभनामानमादिदेवमजं विभुम् । प्रगृह्य पुष्कराग्रेण काश्चनं कमलोत्तमम् । आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदीरयत् ३१ गजेन्द्रमोक्षः १७५ गजेन्द्र उवाच ॐ नमो मूलप्रकृतये अजिताय महात्मने । अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तु ते ३२ नम आद्याय वामाय आयादिप्रवर्तिने । अनन्तराय चैकाय अव्यक्ताय नमो नमः।३३। नमोगुह्याय गूढाय गुणाय गुणवर्तिने । अतायाप्रमेयाय अतुलाय नमो नमः॥३४॥ नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने । सनातनाय पूर्वाय पुराणाय नमो नमः ॥३५।। नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने । नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः।३६ नमोऽस्तु पद्मनाभाय सांख्ययोगोद्भवाय च । विश्वेश्वराय देवाय शिवाय हरये नमः ॥३७॥ नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने । नारायणाय विश्वाय देवाय परमात्मने ॥३८॥ नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।

१७६ गजेन्द्रमोक्षः
श्रीशाङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय॥३९॥
गुह्याय
वेदनिलयाय महोरगाय
सिंहाय दैत्यनिधनाय चतुर्भुजाय।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय
देवोत्तमाय सकलाय नमोऽच्युताय।४।।
नागेन्द्रभोगशयनाय च सुप्रियाय
गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय
विश्वाय चारुमुकुटाय नमोऽक्षराय।४१॥
नाभिप्रजातकमलस्थचतुर्मुखाय
क्षीरोदकावनिकेतयशोधराय ।
नानाविचित्रकनकाङ्गदभूषणाय
सर्वेश्वराय वरदाय नमो वराय ॥४२॥
भक्तिप्रियाय वरदीप्तसुदर्शनाय
देवेन्द्रविघ्नशमनोद्यतपौरुषाय ।
फुल्लारविन्दविमलायतलोचनाय
योगेश्वराय वरदाय नमोवराय ॥४३॥

गजेन्द्रमोक्षः १७७ ब्रह्मायनाय त्रिदशायनाय लोकायनायात्महितायनाय नारायणायात्मविकाशनाय महावराहाय नमस्करोमि ॥४४॥ कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवम् । युगान्तशेषं पुरुषं पुरातनं तं देवदेवं शरणं प्रपद्ये ॥४५॥ योगेश्वरं चारुविचित्रमौलि- मज्ञेयमग्रयं प्रकृतेः परस्थम् । क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ॥४६॥ अदृश्यमव्यक्तमचिन्त्यमव्ययं ब्रह्मर्षयो ब्रह्ममयं सनातनम् । , चदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये ॥४७॥ यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ।

१७८ गजेन्द्रमोक्षः तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम् ॥४८॥ कार्य क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम् । महाबलं देवनिधिं सुरेशं व्रजामि विष्णुं शरणं जनार्दनम् ॥४९॥ किरीटकेयूरमहार्हनिष्कै- मण्युत्तमालङ्कृतसर्वगात्रम् । पीताम्बरं काञ्चनभक्तिचित्रं मालाधरी केशवमभ्युपैमि ॥५०॥ नारोद्भवं वेदविदां वरिष्ठं योगात्मनांसांख्यविदांवरिष्ठम् । आदित्यरुद्राश्विवसुप्रभावं प्रभु प्रपद्येऽच्युतमादिभूतम् ॥५१॥ श्रीवत्साई महादेवं देवगुह्यं मनोरमम् । प्रपद्ये सूक्ष्ममतुलं वरेण्यमभयप्रदम् ॥५२॥ प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् । प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम॥५३|| गजेन्द्रमोक्ष १७९ भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम् । शरण्यं शरणंभक्त्या प्रपद्ये भक्तवत्सलम्।।५४॥ त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम्। योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम्।५५ आदिदेवमजंशम्भुंव्यक्ताव्यक्तंसनातनम् नारायणमणीयांसंप्रपद्ये ब्राह्मणप्रियम् ॥५६॥ नमो हराय देवाय नमः सर्वमहाय च । प्रपद्ये देवदेवेशमणीयांसं तनोः सदा ॥५७॥ एकाय लोकतत्त्वाय परतः परमात्मने । नमः सहस्रशिरसे अनन्ताय महात्मने ॥५८॥ त्वामेव शरणं दैवमृषयो वेदपारगाः। कीर्तयन्ति च यंसर्वेब्रह्मादीनां परायणम् ।५९। नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद । अब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ६० पुलस्त्य उवाच । भक्तिं तस्यानुसश्चिन्त्य नागस्यामोघसम्भवः । प्रीतिमानभवद्विष्णुःशङ्खचक्रगदाधरः ॥६॥ सान्निध्यं कल्पयामास तस्मिन्सरसि केशवः ।

१८० गजेन्द्रमोक्षः गरुडस्थो जगत्स्वामी लोकाधारस्तपोधन ।६२॥ ग्राहग्रस्तंगजेन्द्रंतंतंच ग्राहंजलाशयात्। उजहाराप्रमेयात्मा तरसा मधुसूदनः॥६३॥ जलस्थं दारयामास ग्राहं चक्रण माधवः । मोक्षयामास नागेन्द्रंपाशेभ्यः शरणागतम्६४ एवं हि देवशापेन हुहूर्गन्धर्वसत्तमः । ग्राहत्वमगमत्कृष्णान्मोक्षं प्राप्य दिवंगतः६५ गजोऽपि विष्णुनास्पृष्टोजातो दिव्यवपुःपुमान पापाद्विमुक्तौ युगपद्गजगन्धर्वसत्तमौ ॥६६॥ प्रीतिमान्पुण्डरीकाक्षः शरणागतवत्सलः। अभवत्वथ देवेशस्ताभ्यां चैव प्रपूजितः॥६७॥ इदं च भगवान्योगी गजेन्द्रं शरणागतम् । प्रोवाच मुनिशार्दूल मधुरं मधुसूदनः ॥६८॥ श्रीभगवानुवाच ये मां त्वां च सरश्चेदं ग्राहस्य च विदारणम् । ) गुल्मकीचकवेणूनां रूपं मेरुसुतस्य च ॥६९॥ । अश्वत्थं भास्करंगङ्गां नैमिषारण्यमेव च। संमरिष्यन्ति मनुजाःप्रयताः स्थिरबुद्धयः७० गजेन्द्रमोक्षः १८१ कीर्तयिष्यन्तिभक्त्याच श्रोष्यन्ति च शुचित्रताः दुःस्वप्नो नश्यते तेषां सुस्वप्नश्वभविष्यति ७१ मात्स्यं कौम च वाराहं वामनंतायमेव च । नारसिंहं चनागेन्द्रंसृष्टिप्रलयकारकम्॥७२॥ एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः। सर्वपापैः प्रमुच्यन्ते पुण्याँल्लोकानवाप्नुयुः७३ पुलस्त्य उवाच एवमुक्त्वा हृषीकेशोगजेन्द्रंगरुडध्वजः। स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ॥७४॥ ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनम् । जगाम विष्णुं शरणं नारायणपरायणः ॥७५॥ ततो नारायणः श्रीमान्मोक्षयित्वा गजोत्तमम् । पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ७६ ऋषिभिः स्तूयमानश्च देवगुह्यपरायणैः । ततःसभगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः॥७७।। । गजेन्द्रमोक्षणंदृष्ट्वा देवाः शक्रपुरोगमाः। ववन्दिरे महात्मानंप्रभुनारायणं हरिम्।।७८॥ महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् ।

१८२ गजेन्द्रमोक्षः विस्मयोत्फुल्लनयनाःसंस्तुवन्ति जनार्दनम्७९ प्रजापतिपतिर्ब्रह्मा चक्रपाणेविचेष्टितम् । गजेन्द्रमोक्षणं दृष्ट्वा इदं वचनमब्रवीत् ॥८०॥ य इदंशृणुयान्नित्यंप्रातरुत्थाय मानवः। प्राप्नुयात्परमां सिद्धिं दुःस्वप्नश्च विनश्यति८१ गजेन्द्रमोक्षणं पुंसां सर्वपापप्रणाशनम् । कथितेन स्मृतेनाथ श्रुतेन च तपोधन ॥८२॥ एतत्पवित्रं परमं सुपुण्यं सङ्कीर्तनीयं चरितं मुरारेः। यस्मिन्किलोक्त बहुपापवन्धना- ल्लभेत मोक्षं द्विरदोनु यद्वत् ॥८३॥ अजं वरेण्यं वरपद्मनाभं । नारायणं ब्रह्मनिधिं सुरेशम् । देवगुह्यं पुरुषं पुराणं वन्दाम्यहं लोकपतिं वरेण्यम् ॥८४॥ इति श्रीवामनपुराणे वामनप्रादुर्भावे गजेन्द्रमोक्षणं नाम पञ्चाशीतितमोऽध्यायः । तं

श्रीहरिः
गीताप्रेस, गोरखपुरकी गीताएँ
सजिल्द, मूल्य
गीता-तत्त्वविवेचनी टीकासहित (प्रश्नोत्तररुपमें
सरल-सुबोध व्याख्या) पृष्ठ ६८४, चित्र
रंगीन ४, कपड़ेकी जिल्द, मूल्य
४)
गीता-शांकरभाष्य [ हिंदी अनुवादसहित ]
इसमें मूल श्लोक, भाष्य, हिंदीमें भावार्थः
टिप्पणी, तथा शब्दानुक्रमणिका भी दी
गयी है । पृष्ठ ५२०, ३ तिरंगे चित्र,
२।।)
गीता-रामानुजभाष्य [ हिंदी-अनुवादसहित ]
डिमाई आठ पेजी, पृष्ठ ६०८,
३ तिरंगे चित्र, सजिल्द, मू०
२॥)
गीता-मूल, पदच्छेद, अन्वय, साधारण भाषा-
टीका, टिप्पणी, प्रधान और सूक्ष्म-विषय
एवं 'त्यागसे भगवत्प्राप्ति' लेखसहित,
मोटा टाइप, कपड़ेकी जिल्द, पृष्ठ ५७२,
२१)
चित्र ४, मूल्य

184
( १८४ )
و به همان را
१
)
1071 wat
गीता-[ मझली ] प्रायः सभी विषय ११)वाली
नं० ४ के समान, साइज
और टाइप
कुछ छोटे, पृष्ठ ४६८, रंगीन चित्र ४,मूल्य
अजिल्द ||-), सजिल्द
गीता-श्लोक, साधारण भाषाटीका, टिप्पणी,
प्रधान विषय, मोटा टाइप, पृष्ठ ३१६,
मूल्य ॥), सजिल्द
..||)
गीता-मूल, मोटे अक्षरवाली, पृष्ठ २१६, सचित्र,
मूल्य अजिल्द ।-), सजिल्द
...11-)
गीता-केवल भाषा, अक्षर मोटे हैं, १ चित्र,
पृष्ठ १९२, मूल्य
गीता-पञ्चरत्न, भूल, पृष्ठ १८४, सचित्र, मूल्य )
गीता-साधारण भाषाटीका, पाकेट साइज,सचित्र,
पृष्ठ ३५२, मूल्य अजिल्द )||, स० )।
गीता-विष्णुसहस्रनामसहित, पृष्ठ १२८, सचित्र,
मूल्य
..'-)||
पता-गीताप्रेस, पो० गीताप्रेस (गोरखपुर)
-

No text on this page.

मिलनेका पता- गीताप्रेस, पो. गीताप्रेस (गोरखपुर)

No text on this page.

Sri Panchartng Gita

Author
Vishnu And Others
Title
Sri Panchartng Gita
File name
Sri Panchartng Gita
Text
OCR done
Published
2013
Publisher
Gita Press Gorukhpur
Language
Sanskrit
Pages
192
Library
S.P College, Srinagar
Classification
Religion. Theology
DLI number
242088
Barcode
99999990879835.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
6VbIT2vg5ec
Download PDF

Sri Panchartng Gita