Central Archaeological Library_asi_new Delhi

The Sarvadarsanakaumudi Of Madhavasarasvati No Xxiv

K Sambasiva Sastri

PDF Proofread

Front matter

TRIVANDRUM SANSKRIT SERIES. No. CXXXV. sri Citrodayamanjari No. XXIV. THE SARVADARSANAKAUMUDI OF Madhavasarasvati EDITED BY K. SAMBAŠIVA SASTRI, Curator of the Department for the Publication of Oriental Manuecripta, Trivandrum, 1 125 G119 PUBLISHED UNDIR THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS TAK MAHARAJA OF TRAVANCORE, sal Mad Sam ed TRIVANDRUM: PRINTED BY THE SUPERINTENDENT GOVERNMENT IRY A019384 204 Want ** 894208 ORY Fry *, (A12 Rights Reserved.) "TS.S

CENTRAL ARCHAEOLOGIGAY
LIBRARY, NEW Uw lll.
Aco. No.
8119
Date........
57:57
Call No.
***sse sogno appen
SOW

अनन्तशयनसंस्कृतग्रन्थावलिः
ग्रन्थाङ्क: १३५.
श्रीचित्रोदयमञ्जरी
ग्रन्थाङ्क: २४.
माधवसरस्वतीविरचिता
सर्वदर्शनकौमुदी
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोषिता।
साच
अनन्तशयने
महोन्नतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रायित्वा प्रकाशिता!
कोखम्बाब्दाः १६.स्तान्दा १९३८

No text on this page.

-
YATRA
fasureRAYASAWALENDERSEASURMATHARTEReal
॥ श्रीः॥
श्रीमूलावनिपालमौलिमणिना सङ्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतारः स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामाभिधः ।।
भास्वद्वर्णमणिः प्रवालमृदुला श्रुत्यायलङ्कारिणी
श्रीमद्वञ्चिवसुन्धरानवयशोराशिप्रकाशात्मिका ।
उत्फुल्लत्सुकृतिप्रसाधनधृतामोदोन्नदडिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ।।
के. साम्बशिवशास्त्री.
।
RANATHANE
BAHESHAH NWRON
t

No text on this page.

goes PREFACE. The present work, Sarvadarśanakaumudi, develops the heory that the ne-plus-ultra of all the systems of philo. sophy extending up to Uttaramīmāmsa points to the realisation of the supreme soul, recognising as it does the principles of the three-fold Vedis systems, Vaišeșikanyāya, Mimāmsa and Sāňkyha on the one hand and discarding those of Cārvākas Arhatas, and Buddhists on the other. Apart from the exposition of the five or six systems, the principles of other schools of thoughs are also dwelt upon herein en passanta The couplet तस्मादविद्यास्तमयो मोक्षस्स च परात्मता । staatsstraat ara amarilehiaa: 11 (Page 144.) justifies the inference that the author tout a fait depends ou the Vedas, Smrties and Purāņos in quest of sure authorities lending support to his views. The closing sentence "तदेवं श्रुतिस्मृतिपुराणादिष्वाधुष्यमाणा जीवन्मुक्तिरपलपितुं न शक्यते ।" (Page 144) brings home the conception that almost all Darśanas strive after self-cognition on the strength of the truism, "नहि सर्वकामविमोकः परमात्मसाक्षात्करणमन्तरेणोपपद्यते।" (age 144) Thus follows the general that inscrutable is the mental disposition during the final liberation from the present state of life maxim, Sāyaṇamādhavācārya, in his endeavour to expound the fifteen schools of thought commencing from those of Cārvākas and ending with those of Sankara , refutes in the early pages of his work Sarvadarśanakaurudi, the atheistic schools only to affirm the Advaita doctrines as irrevocably as he could nounced his doctrines from the exalted position of the universal preceptorship, before he threw off his mortal coil. The following lines occurring in Kaumudi, "शङ्करभगपत्पादाः सर्वान् मुमुक्षूननुगृह्णन्तः शारीरकस्य केवलाद्वैतपरत्वं निर्णेतुकामा भाष्यं प्राणैषुः । तच्च नवसहस्रम् । तत्तात्पर्य विवरीतुकामा भाष्यकारस्य शिष्याः पद्मपादाचार्यास्तस्य भाष्यस्य टीका कृतवन्तः । सा च केनचिदुष्टेन नाशिता सर्वा ।" Page 113) 11 verses bear out his aversion towards the disciples of Śrī Sankara, despite his devotion and veneration for the universal preceptor. His derisive disposition is made more explicit in referring to them as: 'एतच्च शङ्कराचार्यशिवसुरेश्वराचार्यनितिन् ।' Many are the tastes and methods of exposition of Sāstras. This trea ise serves a good turn to the seekers of knowledge whose finale is invar ably identical. The title Sarvadarśanakaumudī is indicated by the following words of the author himself :--- 'पदवाक्यप्रमाणज्ञो माधवायसरस्वती। कुरुते बालबोधाय सर्वदर्शनकौमुदीम् ॥' (Page 1.) He does not fail to give a glimpse into his personal history inter alia. The subjoined credit the ascetic Mādhavasarasvati, a native of Sodāsī, on the valley of the Sahya mountains wherein is situated the temple of Gokarnamahābali, with this composition. "गोराष्ट्रदेशोऽखिलराष्ट्रवर्यः सदाकरो दक्षिणदेशनिष्ठः । विराजते सद्यगिरीन्द्रसानौ यन्नास्ति गोकर्णमहाबलेशः ।। तद्देशजन्मा यतिरेकदण्डी सरस्वतीमस्तकमाधवाख्यः । विगाहा नया दिशि दक्षिणस्यां सोदास्यपुर्यामकरोत् कृति सः । अनात्मशालप्रतिपादन दोपो यदि स्थान्मम नास्ति दोषः । वेदान्तशास्त्रेण निराकरिष्णोः सर्वस्य भेदस्य पुरोदितस्य । प्रस्थानभेदत्रयभिन्नमेक चेदान्तशास्त्रं परिलोड्य सारम् । सङ्गृह्य वक्ष्यामि हिताय मोक्ष- काङ्क्षावतामात्ममतेश्च शुद्धथै ॥" (Page 112) 11 : १ Just as Murāri was the third among the poets, the author's novel method of elucidation forms the fourth innovation in the Vedāntic system. The remark :-- "एवं वार्तिकविवरणवाचस्पतिसंज्ञकं प्रस्थानत्रयमिति। (Page 114) leads to the inference that this new departure from the common run of commentaries is decidedly the fourth in its kind thus disclosing again that the present treatise is different from that of Sāyanamadhava. The following lines point out that Gokarna forms the western boundary of Sodāsi :- "गोराष्ट्रदेशमध्ये गोकर्णात्पूर्वतोऽपूर्वा । अरसेन्द्र भूप(री?)वसतिस्सोदानगरी समस्ति सत्पुरुषा ॥ तन्त्रास्ते यतिवों माधवसंज्ञः सरस्वतीपूर्वः । ग्रन्थमिमं विरचितवान् यत्र सुबोधानि दर्शनानि स्युः ।। मयूखमाला- -चिन्तामणिटीका मितभाषिणी नाम सप्तपदार्थी टीका मन्दानुकम्पिनी नाम कुसुमाञ्जलिटीका वासिष्ठपञ्चिका नाम वासिष्ठध्याख्या भभिनवलप्तपदार्थी सर्वदर्शनकौमुदी ६ Another stanza : "आभिस्तु षड्भि कृतिनि- रीश्वरः प्रीयतां सदा। अरसेन्द्रमहीपाल- पालिते सोमदापुरे । स्थितो माधवकर्मन्दी व्यधाच्छास्त्राणि तत्परः॥" इति । (Page 145.) attributes five other works to this author. Somadā the napie of his native place may be the refined form of the word Sodā No confirmatory evidence is available to determine the date of Śrīmādhavasarasvatiyati. However, the following information procured on minute scrutiny is noteworthy, iv Mahamahopädhyāya Abhyanker Vāsudeva Šāstri had fixed the date of Madhava Sarasvatiyati, to whom the commentary Saptapadārthatīkā is ascribed, as 1350 A, D. in the introduction to his edition of Sarvadarśanasangraha (vide page 575) wherein other concurrent references also are noticeable. I think, the date is attributable only to Sāyaṇamādhava. Further research on the determination of time can be had later. In fine, Sāyaṇa of the 14th century was a contemporary of those alluded to herein. It is indeed significant that inany an expounder had flourished simultaneously. The original Ms. used for this publication belongs to Kūďallúr Brahmadattan Nainbūri and is 200 years old. Expressing my deep debt of gratitude to the owner of the manuscript, I present the work to the enlightened public. Trivandrum, K. SAMBAŠIVA SASTRI, Curator. 26-9-1712. } ॥ श्रीः॥ निवेदना। इयं सर्वदर्शनकौमुदी वैदिकानि त्रीणि वैशेषिकन्याय-मीमांसा- साङ्ख्यानि साधकानि प्राह्यतया, वैदिकेतराणि चार्वाकार्हतबौद्धानि बाधकानि त्याज्यतया च प्रश्ान्त उत्तरमीमांसापर्यन्तं वेदान्तदर्शनमुपायतया निरूप्य ब्रह्मविज्ञानं परमपेयं मधुरोदारगभीरया सरण्या प्रकाशयति । प्रातिस्विकतयैवं पञ्चषाणां दर्शनानामेव प्रकाशने कृतपदापि काममुपोद्दलकानि मतान्तराणि च तत्र तत्रेयं कौमुदी विशदयत्येव । तस्मादविद्यास्तमयो मोक्षस्स च परात्मता । जीवतोऽजीवतो वापि भवेच्छ्रुत्यादिमानतः ॥ (Page 144) इति मनसि निहितं प्रतिपाद्यसारं सङ्ग्रङ्गतोऽस्य अन्थकर्तुः परमार्थतयाव- लम्बभूतानि प्रमाणानि श्रुतिस्मृतिपुराणादीनीति स्पष्टं प्रतीयते । "नहि सर्वकामविमोकः परमात्मसाक्षात्करणमन्तरेणोपपद्यते" इत्युपपादनमुपसंहरन् " तदेवं श्रुतिस्मृतिपुराणादिष्वाधुष्यमाणा जीवन्मुक्तिरपलपितुं न शक्यते" इति परमान्तिमेन वाक्येन दर्शनैरेभिरपरोक्षतयात्मदर्शनमेव सिद्धा. न्त्यत इति स्फुरति, न तु विदेहमुक्तिः, अवृत्तेरवचनीयोपलम्भाच्च । सर्वदर्शनसङ्ग्रहो नाम श्रीमत्सायणमाधवाचार्यप्रणीतस्तु चार्वाकादीनि शाङ्करान्तानि पञ्चदश दर्शनानि सङ्ग्रहानो, वैदिकानि प्रथमतः खण्डनीया- न्युपन्यस्य परममद्वैतसिद्धान्तमन्ततः साधयतीत्यन्योऽन्यादृशश्च। तत्कारश्चा- चार्या अन्ते श्रीमज्जगद्गुरुपीठमधिष्ठिताः परमं स्वकीयं सिद्धान्तमुदाहरन्त एव सिद्धा इति हस्म पुरा शृणुमः । अत्र च कौमुद्यां "शङ्करभगवत्पादाः सर्वान्मुमुक्षूननुगृह्णन्तः शारीरकस्य केवलाद्वैत- परत्वं निर्णेतुकामा भाष्यं प्राणैषुः । तच्च नवसहस्रम् । तत्तात्पर्य बिवरीतुकामा भाष्यकारस्य शिष्याः पद्मपादाचार्यात्तस्य भाष्यस्य टीकां कृतवन्तः । सा च है यथा महा=17 टीका खिन इति प्रति साय मनेक काङ्क्षावतामात्ममतेश्च शुद्धये ॥" नाशिता सर्वा" (पृ० ११३)इत्यादिभिः पक्तिभिरपारेऽपि भग- नादरभरे तदनुगामिष्वस्वारस्यमरुचिश्च बाढं ध्वनिते । | शङ्कराचार्यशिष्यसुरेश्वराचार्यानिर्मितम् (पृ० ११३)इत्यादिनि- ध्वन्यते । अस्तु नाम रुचिभेदः पथिभेदश्च । सर्वथा पार्यन्तिकं यथाकथञ्चित्प्रसाधनमिदं मन्ये साधनं दर्शनकाक्षिणाम् । मेधानं "सर्वदर्शनकौमुदी"त्यधः प्रदीमाना प्रतिज्ञाकारिका 'पदवाक्यप्रमाणज्ञो माधवाख्यसरस्वती । कुरुते बालबोधाय सर्वदर्शनकौमुदीम् ॥" (Page 1). भेधानमत एवावगतं "श्रीमाधवसरस्वती"ति । ये च क्वचिदेवं ग्रन्थकारः स्वचरितं लिखति “गोराष्ट्रदेशोऽखिलराष्ट्रवर्यः सदाकरो दक्षिणदेशनिष्ठः । विराजते सह्यगिरीन्द्रसानौ यत्रास्ति गोकर्णमहाबलेशः॥ तद्देशजन्मा यतिरेकदण्डी सरस्वतीमस्तकमाधवाख्यः । विगाह नद्यां दिशि दक्षिणस्यां सोदास्यपुर्यामकरोत् कृति सः ॥ अनात्मशास्त्रप्रतिपादनेन दोषो यदि स्यान्मम नास्ति दोषः । वेदान्तशास्त्रेण निराकरिष्णोः सर्वस्य भेदस्य पुरोदितस्य ॥ प्रस्थानभेदत्रयभिन्नमेक बेदान्तशास्त्रं परिलोड्य सारम् । सङ्गृह्य वक्ष्यामि हिताय मोक्ष- PORNO स्वामिना मातृ मखिम (Page 112) एभिः पद्यैः सह्याद्रिसानुपरिसरवर्तिनि सोदासदेशे गोकर्णमहावल- क्षेत्राधिष्ठिते श्रीमाधवसरस्वतीयतिरस्य कर्तेति विशदं प्रतीयते । किञ्च तृतीय इव मुरारेः कविषु, तुरीयमस्य प्रस्थानं वेदान्तेषु गमितम् । 'प्रस्थानभेदत्रय- भिन्नमि'त्यत्र भेदप्रतियोगि च प्रस्थानभेदत्रयम् । "एवं वार्तिकविवरगवाचस्पतिसंज्ञकं प्रस्थानत्रयम्" (पृ० ११४) इति कथनाचदपेक्षं प्रतिनवमस्य प्रस्थानं चतुर्थमिति ज्ञायते । तदितोऽपि श्रीमत्सायणमाधवादिप्रस्थानादन्यत्वमस्य सिद्धम् । प्रन्थान्ते च- “गोराष्ट्रदेशमध्ये गोकर्णात्पूर्वतोऽपूर्वा । अरसेन्द्रभूप(री? )वसतिस्सोदानगरी समस्ति सत्पुरुषा ।। तत्रास्ते यतिवर्यों माधवसंज्ञः सरस्वतीपूर्वः । ग्रन्थमिमं विरचितवान् यत्र सुबोधानि दर्शनानि स्युः ॥" इति कीर्तनाद् गोकर्णदेशोऽस्य पश्चिमावधिः देशपतेर्नगर्या नामधेये च कथितानि । अपि च "मयूखमाला चिन्तामणिटीका मितभाषिणी नाम सप्तपदार्थी टीका मन्दानुकम्पिनी नाम कुसुमाञ्जलिपघटीका वासिष्ठपञ्चिका नाम वासिष्ठव्याख्या भभिनवसप्तपदार्थी सर्वदर्शनकौमुदी आभिस्तु षड्भिः कृतिभिरीश्वरः प्रीयतां सदा । अरसेन्द्रमहीपालपालिते सोमदापुरे । स्थितो माधवकर्मन्दी व्यधाच्छास्त्राणि तत्परः॥" (Page 145). इति दर्शनादेतद्ग्रन्थकर्तुरन्याश्च पञ्च-कृतयो नामग्राहं ग्राह्या भवन्ति । पुरी व सोदेति भाषायाः सोमदेति संस्कृतीकृता च प्रतिभाति । amtapmandal १. Anantanate २. ३. women ४. ५.

श्रीमाधवसरस्वतीयतेरस्य जीवितसमयनिर्धारणां प्रति न कोऽप्युप- टम्भशङ्खः शक्यदर्शनः । अथापि काशकुशावलम्बिनी गतिमाश्रयता मया यथादृष्टमनपलप्य कथ्यते । महामहोपाध्याय-अभ्यङ्करोपाढयवासुदेवशास्त्रि. महाशयैः अभिनवप्रसाधिते सर्वदर्शनसङ्घहे प्रतिदर्शनं प्रवृत्तानां ग्रन्थकाराणां सूच्याम् ५२५ तमे पृष्ठेऽमी माधवसरस्वतीयतयः, मितभाषिण्याः सप्तपदार्थी- टीकायाः कर्तृत्वेन प्रवेश्य क्रिस्त्वब्दीय (१३५०) चतुर्दशशतकजीविनो रोखिताः । अनुवदति च कृतेर्मितभाषिण्या ग्रहणमत्रोद्धृतास्वन्यतामायाः इति मन्ये, समयनिर्णयोऽयमिमान् प्रत्येव लगति । तथा निर्णयस्य सामग्री प्रति चर्चा तु समयान्तरे सम्पत्ता । सद्य एतावता चतुर्दशशतकजीविनां सायणाचार्याणामिमे समसमयजीविन इत्यहो जितं शास्त्रीयप्रस्थानोदयैरनेकेषा- मनेकतो युगपदेव । एतत्प्रसाधनाधारभूता मातृका "कूटल्लूर ब्रह्मदत्तन् नम्पूरिप्पाटु स्वामिका माकी द्विशतवर्षपर्युषिता । अस्याश्च प्रसाधनाय तामिमामद्वितीयां मातृकां प्रदायोपकृतवद्भयस्तेभ्यो महती कृतज्ञतामनुस्मरामि सद्यः कौमुदी- मखिलाडादनायावतारयामि धन्यः ।। अनन्तशयनम्, के. साम्बशिवशास्त्री. १४-९-१११३.

विषयानुक्रमणिका । १ १-३ ४ " " विषयः. इष्टदेवतावन्दनम् मङ्गलवादः दर्शनविभागः त्रीणि त्रीणि वैदिकान्यवैदिकानि च दर्शनानि तेषां भेदप्रभेदाः स्वरूपकथनं च वैदिकदर्शनेषु प्रथमनिर्दिष्टस्य तर्कदर्शनस्य प्रस्तावः तत्र वैशेषिकदर्शने पदार्थविभागः अभावस्य पदार्थत्वस्थापनम् द्रव्यलक्षणम् शक्तिसङ्ख्यासादृश्यानां पदार्थान्तरत्वनिरासः द्रव्यविभागः वायोरपार्थिवत्वनिरूपणम् सुवर्णस्य तेजस्यन्तर्भावप्रतिपादनम् तमसो दशमद्रव्यत्वनिरसनम् सप्तानामपि पदार्थानां साधर्म्यवैधर्म्यनिरूपणम् पृथिवीप्रकरणम् अपप्रकरणम् ५ ७ ८ ९ १०-१३ तेजःप्रकरणम् १४-१६ १६, १७ १७-१९ वायुप्रकरणम् आकाशप्रकरणम् कालप्रकरणम् दिप्रकरणम् आत्मपदार्थः मनःपदार्थः अथ गुणाः तेषां विभागः सामान्यलक्षणं च २० २०-२३ २३, २४ २१ AA पृष्ठम्. विषयः. रूपादिसलयान्तानां लक्षणादि परिमाणादिविभागान्तानां परत्वापरत्वयोः १ २४, २५ २६ सुखदुःखयोः " ३ wwwsapna इच्छादिगुरुत्वान्तानां ३० द्रवत्वादिशब्दान्तानां ३१,३२ बुद्धिनिरूपणम् तत्र विद्याविद्याभेदन बुद्धेद्वैविध्यम् प्रत्यक्षादयो विद्याभेदाः संशयविपर्ययादयोऽविद्याभेदाः तेषु संशयस्य लक्षणम् समानधर्मादयः संशयभेदाः तत्प्रतिपादनं च विपर्ययनिरूपणम् ३३-३८ स्वमानध्यवसाययोर्लक्षणम् विद्याभेदेषु प्रत्यक्षस्य निरूपणम् लैङ्गिकस्य ४१-५१ स्मृतेः ५१, ५२ आर्षस्य ५२ आगमोपमानार्थापत्त्यादीनां यथायथं प्रत्यक्षानुमानयो- रन्तर्भावप्रतिपादनम् ५२-५५ अनुपलब्धेः पृथकप्रमाणत्वनिरासः ५५, ५६ गुणानां परस्परसाधर्म्यप्रदर्शनम् ५६-५८ अथ कर्मनिरूपणम् ५८-६० सामान्यनिरूपणम् ६०,६१ विशेषनिरूपणम् समवायनिरूपगम् ६२,६३ अभावलक्षणस्य पूर्व निरूपितत्वात् तर्कावान्तरभेदस्य नैयायिकदर्शनस्य प्रस्तावः " " ३ पृष्ठम्. विषयः. तत्र प्रमाणप्रमेयादयः षोडशपदार्थाः तेषु प्रमाणपदार्थस्य निरूपणम् प्रमेयपदार्थस्य संशय प्रयोजन-दृष्टान्त-सिद्धान्तानां निरूपणम् ६३ ६४-७० ७१,७३ अवयव-तर्कयोः ७४ ७७ . १५ ७८ " ८० निर्णय-वादयोः जल्प-वितण्डा-हेत्वाभास-च्छलानां जातेः तत्र साधर्म्यसमादयो जातिभेदाः तेषु साधयेवैध→समयोः प्रतिपादनम् लक्ष्य-लक्षण-उत्थानादीनि सप्त जात्यङ्गानि उत्कर्षसमस्य निरूपणम् अकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्यसमानां निरूपणम् प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पति-संशयसमानां निरूपणम् प्रकरण हेत्वर्थ-अर्थापत्तिसमानां निरूपणम् अविशेष-उपपत्ति-उपलब्धि-अनुपलब्धिसमानां निरूपणम् नित्यानित्यसमयोः निरूपणम् कार्यसमस्य अथ निग्रहस्थानस्य तत्र प्रतिज्ञाहान्यादीनि द्वाविंशतिर्निग्रहस्थानानि तेषु प्रतिज्ञाहानेः निरूपणम् प्रतिज्ञान्तर-प्रतिज्ञाविरोध-प्रतिज्ञासंन्यास-हेत्व- न्तर-अर्थान्तराणां निरूपणम् निरर्थक-अविज्ञातार्थ-अपार्थक-अप्राप्तकाल- न्यूनानां निरूपणम् ८२ ८३ ८६ विषयः पृष्ठम् . अधिक-पुनरुक्त-अननुभाषण-अज्ञान-अप्रतिभा- विक्षेप-मतानुज्ञा-पर्यनुयोज्योपेक्षणानां निरूपणम् निरनुयोज्यानुयोग-अपसिद्धान्तयोः हेत्वाभासाः पूर्वं प्रदर्शिता इति निग्रह- स्थानोपसंहारः वादे सम्भवी चतुर्विधो निग्रहप्रकारः ८९ अथ वैदिकदर्शनभेदे द्वितीयत्वेन निर्दिष्टस्य तन्त्रस्य (मीमांसायाः)प्रस्तावः तत्र पूर्वमीमांसायामधिकरणस्य विषयविशयादीनि पञ्चाबानि तेषु विषय-विशययोः प्रतिपादनम् - पूर्वपक्ष-उत्तरपक्ष-निर्णयानां पूर्वमीमांसाशास्त्रप्रपञ्चयितारस्तत्कृतानां ग्रन्थानां नामादि च मीमांसामतप्रक्रिया तत्र पदार्थनिरूपणम् ९१-९६ प्रमाणनिरूपणम् प्रत्यक्षादीनि षट् प्रमाणानि ९७ तेषु प्रत्यक्षम् अनुमानम् उपमानम् ९८ आगमः अर्थापत्तिः अनुपलब्धिः विषयादीनामुदाहरणम् ९९ जैमिनिसूत्रगतप्रथमादिद्वादशान्तानामध्यायानां विषयसङ्ग्रहः १००-१०४ " ५ विषयः. पृष्ठम् अथ वैदिकदर्शनेऽन्तिमत्वेनोद्दिष्टस्य साङ्ख्य- दर्शनस्य प्रस्तावः तत्र निरीश्वरसाङ्ख्यानां मतम् तदनुसारेण पञ्चविंशतितत्त्वाख्यानां पदा- र्थानां निरूपणम् १०५--१०७ सेश्वरनिरीश्वरसाङ्ख्ययोर्भेदः योगसाङ्ख्यनिरूपणम् तत्र यमादीन्यष्ट योगाङ्गानि तत्स्वरूपविवरणम् १०८ अथ त्रिप्रकार अवैदिकदर्शने चार्वाकमतम् आहेत(जैन)मतं तु वैशेषिकमतनिरूपणप्रसङ्गे विपर्ययप्रस्तावादुपपादितमिति बौद्धमतप्रदर्शनम् तत्र वैभाषिकसौत्रान्तिकयोर्भेदः १०९ सर्वास्तित्वमतम् १०९-१११ योगाचारमतम् माध्यमिकमतम् अथ वैदिकदर्शने परिशिष्टस्योत्तरमीमांसायाः प्रस्तावः ११२ तत्र शारीरकमीमांसाशब्दव्युत्पत्तिः चतुर्लक्षण्या विषयसङ्ग्रहादि ११३ प्रस्थानत्रयसम्भवोपपत्तिः ११४ अनुबन्धचतुष्टयनिरूपणम् साधनचतुष्टयप्रतिपादनम् ब्रह्मणोऽद्वितीयत्वस्थापनम् ११५,११६ ब्रह्मणः स्वप्रकाशत्वनिरूपणम् ११७ वेदान्तेनाखण्डार्थबोधनप्रकारः ११८ वेदानामपौरुषेयत्वप्रतिपादनम ११९,१२० वेदान्तानां जगत्कारणब्रह्मबोधकत्वनिरूपणम् १२०,१२१ ब्रह्मणो जगत्कारणत्वस्थापनम् १२२ "

६
विषयः,
भ्रान्त्यधिष्ठानभूतः परमात्मेति निरूपणम्
परमात्मनः परमानन्दवरूपत्वसंसाधनम्
ब्रह्मणः सत्यत्वस्थापनम्
अद्वैतभावप्रपञ्चनम्
आत्मतत्त्वज्ञानमपरोक्षं परोक्षं वेति विचारः
मोक्षसाधनमात्मज्ञानं कर्म वेति विमर्शः
मोक्षवरूपनिरूपणम्
अविद्याश्रयो ब्रह्म जीवो वेति विचिन्तनम्
अविद्यानिवृत्तिमधिकृत्य विचारः
ग्रन्थकर्तुदेशानामादि
पृष्ठम्.
१२२-१२५
१२६,१२७
१२७
१२८
१२८--१३१
१३१-१३४
१३४-१३७
१३७-१४१
१४१ -१४४
१४४.१४५

॥ श्रीः॥
सर्वदर्शनकौमुदी
माधवसरस्वतीकृता।
यत्पादपङ्केरुहरेणुपुञ्जसंरचितामा अपि पामरायाः ।
त्रिलोकवन्या भुवि भान्ति सद्यो जयन्ति कर्णाटयतीश्वरास्ते ।।
पुरा माधवभारत्या बालबोधाय निर्मिताम् ।
यथाशक्ति लिखाम्येनां सर्वदर्शनकौमुदीम् (१)॥
वेदान्तविज्ञानसुनिश्चिताथै-
योगीश्वरैर्येयमजं विशुद्धम् ।
उमानुमाभ्यामधिगम्यमानं
वन्दे महेशं सदनुग्रहाशम् ॥
विधेन्द्रवननामानं श्रीगुरुं प्रणमाम्यहम् ।
विनेयभृङ्गसंलीढपादपङ्केरुहासवम् ॥
पदवाक्यप्रमाणज्ञो माधवाख्यसरस्वती ।
कुरुते बालबोधाय सर्वदर्शनकौमुदीम् ॥
ननु किमिदं ग्रन्थायभिमतकार्यारम्भे आदौ नमस्कारादि क्रियते ।
मानार्थमिति चेत्, किं तस्य फलं, किंवा तस्य कर्तव्यतायां प्रमाणम् । न
तावदारब्धकर्मसमाप्तिः फलम् | समाप्तेः कालान्तरभाविन्याः क्षणविनाशि-
नमस्कारादिकर्मसाध्यत्वायोगात् । कथं तर्हि दर्शादेः स्वर्गसाधनत्वमिति
चेत्, तत्र साधनत्वान्यथानुपपत्त्या कालान्तरमाविस्वर्गसाधक(त्त्वा ?
खेना)वान्तरापूर्वपरमापूर्वयोः कर्मजन्ययोब्यापारयोरित्वेनाभ्युपगमात् ,
यथानुभवस्य क्षणिकत्वेऽपि संस्कारो द्वारं कालान्तरमाविस्मृतिजनने ।
सहि मङ्गलेऽपि प्रतिबन्धकध्वंसो ब्यापारः साधनत्वान्यथानुपपत्त्या द्वारत्वेन
.
G.P.T. 19. 600. 29-9-111.
B

सर्वदर्शनकौमुद्या कल्प्यत इति चेद्, विघ्नात्यन्ताभावस्थले द्वाराभावेन मङ्गलस्य कारणता न स्यात् । द्वारसन्देहेन नियमान्मङ्गले प्रवृत्त्यनुपपत्तेश्च । प्रमाणमपि न तावत् प्रत्यक्षम् । अकृतेऽपि मङ्गले प्रमत्तानुष्ठितकर्मसमाप्तेः । कृतेऽपि मङ्गले किरणावल्यादौ चासमाप्तेः । अतो व्यभिचारेण कारणवस्य प्रत्यक्षेण ग्रहीतुमशक्यत्वात् कारणताग्राहकत्वमन्तरेण प्रत्यक्षेण न तत्कर्तव्यता बोधयितुं शक्यते । नाप्यनुमानम् । मङ्गलं कर्तव्यम् , विशिष्टशिष्टाचार- विषयत्वात् , दर्शवत् इति हि तत् । तत्र फलवत्त्वमुपाधिः । दशैं श्रुत्या फलवत्त्वनिश्चयात् । प्रकृते तु मङ्गलस्य कारणत्वग्राहकाभावेन समा- प्रफलत्वात् फलान्तराभावात् । नाप्यागमः । मङ्गलं कर्तव्यं, नमस्का- रादि कर्तव्यम् इत्येवंविधागमाश्रवणात् । नापि शिष्टाचारेण तागागमो- ऽनुमेयः । व्यभिचारण फलस्यैवाभावात् सहस्रेणाप्यागमेन तत्कर्तव्यता योधयितुं न शक्यत इति । अत्रोच्यते । अभीष्टसमाप्तिकामानां शिष्टानां नमस्कारादिमङ्गलाचरणदर्शनेन तत्कर्तव्यताबोधकश्रुतिरनुमीयते । तथाच श्रुतिरेव मङ्गलकर्तव्यतायां प्रमाणम् । नच व्यभिचारः। श्रुत्या कर्तव्यत्वे बोधिते यत्र मङ्गले कृतेऽप्यसमाप्तिस्तत्र साधनवैकल्यमूहनीयम् । विघ्न- बाहुल्यं वा । विघ्नध्वंसो हि द्वारम् । तत्र कतिपयविद्यमानविघ्नध्वंसेन कतिपयग्रन्थादिनिर्माणं जायते । आगामिविघ्नवशादसमाप्तिः । यत्र स्वकृ- तेऽपि समाप्तिः, तत्र समाप्त्या लिङ्गेन मङ्गलमनुमेयम् । यद्यैहिकं बाधितं, तर्हि जन्मान्तरीयं भविष्यति । श्रुत्या तु मङ्गलसामान्यस्यैव कारणता षोध्यते, न वैहिकादिविशेषस्य । यथा पुत्रेष्टिः 'पुत्रकामो यजेते ति विधि- बोधिता ऐहिकमामुष्मिकं वा पुत्रफलं प्रयच्छति, तथाभीष्टसमाप्तिकामो नम- स्काराद्याचरेदिति विधिना वोधितं मङ्गलमपि समाप्तिमैहिकीमामुभिकी वा जनयति । तथाचैहिकमङ्गलाभावे यत्र समाप्तिस्तत्र जन्मान्तरीयं कल्प्यम् । तथाच मङ्गलकर्तव्यतायां शिष्टाचारानुमिता श्रुतिरेव मानम् । श्रुत्यनु- मानं त्वेवं-नमस्कारो वेदबोधितकर्तव्यताकः, अलौकिकाविगीतशिष्टा- चारविषयत्वात् , दर्शाद्याचारवत् । यथा दर्शायाचारः शिष्टाचारविषयः, सच 'दर्शपूर्णमासाभ्यां यजेत स्वर्गकाम' इति वेदबोधितश्व, तथा नमस्का- रादिरपि अभीष्टसमाप्तिकामानां शिष्टानामाचारस्य विषयः, 'अभीष्टसमाप्ति- कामो नमस्कारादिमकलमाचरेद्' इलेवरूपार्यवेदबोधितश्च भवतीत्यनु- मालवादः। amera मीयते । दर्शादौ वेदः प्रत्यक्षः, अयं त्वनुमेय इति विशेषः । एवं च श्रुतिः प्रमाणम् । अभीष्टसमाप्तिः फलम् । विघ्नध्वंसोऽवान्तरव्यापारः । नच विघ्नात्यन्ताभावस्थले द्वाराभावादफलं मालमिति वाच्यम् । दुरितरा- हित्यस्य काप्यसम्भवात् । सर्वेषु सूक्ष्मापराधसम्भवात् तस्य नमस्कारादि- नैव निरस्यत्वेन तद्ध्वंसद्वारसम्मवात् । विनासम्भव वा तत्र मजलं जन्मान्तरीयफलजनकम् । अत एव क्वचिदैहिकमङ्गलाभावे समाप्तिीयते । भतोऽभीष्टसमातिफलकं नमस्कारादि ग्रन्थादौ कर्तव्यमिति । चिन्तामणि- कारस्तु मङ्गलस्य विघ्नध्वंस एव फलम् । समाप्तिः स्वकारणपत्रमपीलेख नादिनैव भवति । यथा कारीर्या अवग्रहध्वंसे वृष्टिः स्वकारणादेव मेघा- देर्भवति । विघ्नध्वंसकाम एवाधिकारी न समाप्तिकामः, समाप्ति प्रति व्यभि- पारस्योक्तत्वात् । न तत्र जन्मान्तरीयमनुमेयम् । मङ्गलस्य कारीरीव- दैहिकफलत्वात् । यथा शुष्यत्सस्यसञ्जीवनकामः कारीरीनिर्वपेद् इति विधिना बोधितकारीर्या ऐहिकफलत्वं, तथा ऐहिकसमाप्तिकामानां शिष्टाना. माचारेण तथाविधश्रुत्यनुमानात् । फलमप्यैहिकम् । तत्र व्यभिचार उक्त एव । अतः पुत्रेष्टिदृष्टान्तोऽत्र न क्रमते । किन्तु कारीरीदृष्टान्तः । स चै- हिकफल एव । तद्वन्मङ्गलेऽपि विनध्वंस एव फलम् । न तत्र व्यभिचारः, यावन्मङ्गलं तावद् विघ्नध्वंससम्भवात् । समाप्त्यभावस्तु आगामिविघ्नात् कारणाभावाद् वा । व्यतिरेकन्यभिचारस्तु नास्त्येव । अकृते मङ्गले विन. ध्वंसस्याप्यभावात् । ननु विघ्नस्य दुरितरूपत्वेनातीन्द्रियत्वात् तन्निश्च- याभावे तद्ध्वंसकामनानिश्चयाभावात् कथमधिकारिविशेषानिश्चये पुरु- पस्य मङ्गले प्रवृत्तिः, वैदिककर्मण्यधिकारिनिश्चयादेव प्रवृत्तिनियमादिति चेत् । सत्यम् । प्रत्यक्षविधौ हि श्रुतविशेषनिश्चयादेव प्रवृत्तिः, वैदिके कर्मणि निश्चिताधिकारिणामेव प्रवृत्तिदर्शनात् । अत्र त्वनुमिता श्रुतिः । सा च यथाचारदर्शनमनुमीयते । विघ्नसन्देहवतां शिष्टानामाचारो दृश्यते । तथाचान्यत्र कर्मणि निश्चिताधिकारेऽपि मङ्गलं सन्दिग्धाधिकारमेव । अनुमानस्याचारानुसारित्वादित्याह ! वेदप्रामाण्याभ्युपगन्ता शिष्टः । तदनभ्युपगन्ता बौद्धोऽशिष्टः । वैदिकेष्वपि शिष्टाशिष्टव्यवहारस्तु वेद- विहितनिषिद्धकरणाकरणतद्विपरीतव्यवहारनिबन्धनः । तत् सिद्धमेतत् फल- प्रमाणयोः सम्भवाद् ग्रन्थादौ मङ्गलमाचरणीयं, शिष्याशिक्षार्थं च ग्रन्थे निबन्धनीयम् ॥

सर्वदर्शनकौमुद्या तत्र तावद् दर्शनमेदोऽभिधीयते । द्विविधं दर्शनं वैदिकावैदिक- मेदेन । वैदिकमपि त्रिविधं तर्कतन्त्रसाङ्ख्यभेदात् । तर्कोऽपि द्विविधः वैशेषिकनैयायिकभेदेन । तन्त्रं मीमांसा । सा च शब्दार्थभेदेन द्विविधा । व्याकरणमहाभाष्यादिरूपा शब्दमीमांसा । वेदवाक्यविचाररूपा त्वर्थमी- मांसा । सापि द्विविधा । कर्मकाण्डविचाररूपा पूर्वमीमांसा । ज्ञानका- ण्डविचाररूपा तूत्तरमीमांसा । आद्यापि भाट्टप्राभाकरभेदेन द्विरूपा द्वादश- लक्षणी । देवताया विग्रहवत्त्वाविग्रहवत्त्वादिविचाररूपा आष्टलक्षणी पूर्व- मीमांसायामेवान्तर्भूता । चतुर्लक्षणी तूत्तरमीमांसा । साङ्ख्यमपि सेश्वर- निरीश्वरभेदेन द्विविधम् । तत्र सेश्वरं योगशास्त्ररूपम् । निरीश्वरमपि प्रकृति- पुरुषतद्विवेकप्रतिपादनरूपम् । अतो वैदिकदर्शनं योगसाङ्ख्यपूर्वोत्तर- मीमांसानैयायिकवैशेषिकभेदेन षोढा भिद्यते । अवैदिकमपि बौद्धचार्वाका- ईतभेदेन त्रिप्रकारम् । बौद्धं च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिक- भेदेन चतुर्विधम् । तत्र वैभाषिकपक्षे बाह्याः पदार्थाः प्रत्यक्षसिद्धाः । सौ. त्रान्तिकस्य त्वनुमेयाः। बुद्ध्याकारोऽनुमापकः । योगाचारस्य क्षणिकवानं परमार्थः। बहिष्ट्वं तत्रारोपितम्। त्रयाणामपि सर्व क्षणिकमेवेति सिद्धान्तः। माध्यमिकस्य मते शून्यमेव परमार्थः । तत्रैव सर्व कल्पितमिति । चार्वा- कस्य तु भूतचतुष्टयरूपो देह एवात्मा। प्रत्यक्षमेव प्रमाणम् । नास्ति परलोक इति मतम् । आईतं जैनकमित्येकमेव । तस्य देहव्यतिरिक्तो देहपरिमाण वात्मा सततोर्ध्वगमनमूर्तिः । सर्व चानैकान्तिकं सदसद्रूपमिति ॥ तत्रादौ वैशेषिक दर्शनं दर्शयामः । तत्र द्रव्यगुणकर्मसामान्यवि- शेषसमवायाभावाख्याः सप्तव पदार्थाः । अयोगान्ययोगव्यवच्छेदार्थ एव- कारः । तत्र सप्त पदार्था एवेति विशेषणसङ्गत एवकारः शङ्खः पाण्डुर एवेतिवदयोग व्यवच्छिनत्ति । तेन पदार्थानां न्यूनसङ्ख्यानिरासः पदार्थाः सप्तैवेति विशेष्यसङ्गत एवकारोऽन्ययोगं व्यवच्छिनत्ति । यथा पार्य एव धनुर्धर इति । तेन सप्तभ्यो बहिर्भूतस्य न पदार्थत्वम् ॥ नन्वमावस्य न पदार्थत्वं तस्य पदार्थाभावरूपत्वादिति चेत् । मैवम् । द्विविधो हि पदार्थः, भावरूपोऽभावरूपश्च इत्यभ्युपगमात् । अन्यथा तस्य शास्त्रे परीक्षणानुपपत्तेः । परीक्षितश्चामावः । अनादिः सान्तः प्रागभावः । सादिरनन्तः प्रध्वंसः । अनादिरनन्तः संसर्गाभावो- । ।

वैशेषिकदर्शनम् । ऽत्यन्ताभावः । तादात्म्यामावोऽन्योन्याभाव इति । किश्च पदार्थलक्षणस्य तत्र सत्त्वादभावः पदार्थः । लक्षणं ह्यभिषेयत्वं प्रमेयत्वं वा । अभावोऽप्य- भावशन्दाभिधेयः चक्षुरादिप्रमाणगम्यश्च । तस्मात् सिद्धं सप्त पदार्था एवेति ॥ पदार्थस्य सतोऽत्रैवान्तर्भावादन्ययोगव्यवच्छेदोऽपि सिद्ध एव । तत्र सकलपदार्थाधारत्वात् , द्रव्यलक्षणत्वेन सन्निहितत्वात् , जाकाधार- त्वात् , त्रिष्वेव वर्तमानत्वात् , सामान्यप्रतियोगित्वात् , तत्सम्बद्धत्वात्, तद्विरोधित्वाच्च द्रव्यादीनामुद्देशक्रमः । गुणात्यन्ताभावविरोधिमद् द्रव्यम् । अत्यन्ताभावविरोधिनश्च गुणतत्प्रागभावप्रध्वंसाः । तथाच उत्पन्नं द्रव्यं क्षणमगु(णी? ण) तिष्ठतीति न्यायेन प्रथमक्षणे गुणाभावेऽपि तत्प्रागभाव. वत्त्वेन द्रव्यत्वान्नाव्याप्तिः । तथा प्रलयेऽपि कार्यविनाशरूपे पार्थिवपरमा- णूनां गुणप्रध्वंसवत्त्वेन द्रव्यत्वात् तत्रापि नाव्याप्तिः । अन्यदा गुणवत्त्वा. वाव्याप्तिः । गुणवद् द्रव्यमित्यादिचिरन्तनलक्षणानामत्रैव तात्पर्यम् । समवायिकारणत्वात्यन्ताभावानधिकरणं वा द्रव्यम् । समवायिकारणत्वा. सन्ताभावस्तु गुणादौ वर्तते न द्रव्ये । तस्य कदाचित् समवायिकारण- त्वात् । तथाच प्रलये कार्याभावेन गगनादीनां समवायिकारणत्वामावेऽपि नाव्याप्तिः॥ ननु गुणादावपि शक्तिसङ्ख्यासादृश्यानां पदार्थान्तराणां सद्भावात् तस्यापि तानि प्रति समवायिकारणत्वसम्भवात् तत्रातिव्यापकं लक्षणमिति चेत् । मैवम् । शक्तिस्तावन्न पदार्थान्तरं , कारणतास्वरूपत्वात् तस्याः । यद् वस्तु यत्र कारणं, तत् तत्र शक्तमित्युच्यते । ततः शक्तिकारणतयोः पर्यायतैव । यदुच्यते शक्तिवादिभिर्मीमांसकैः- यदि वयादिस्वरूपमेव शक्तिः, तदा वह्नयादेः स्वरूपे सत्यपि मणिमन्त्रादिसम्बन्धे दाहो न जायते । तदभावे च जायते । अतो दाहान्यथानुपपत्त्या वा मण्यादीनां प्रतिबन्धकत्वानुपपत्त्या वा स्वरूपातिरिक्तं किञ्चित् कल्प्यम् । सैव शक्ति- रिति । तत् स्वरूपातिरिक्तकारणतयैवान्यथोपपद्यते । कारणता च सामग्री । सा प्रतिबन्धकसद्भावे प्रतिबन्धकामावसहकार्यभावात् तत्र नास्ति कारणता। सैव प्रतिबध्यते च । अतो नार्थापत्तिः शक्तौ पदार्थान्तरे मानम् ।।

। । सर्वदर्शनकौमुखां ननु स्वरूपशक्त्यमावेऽपि ब्रीहीन् प्रोक्षति ग्रहं सम्माीयादि. विधिविहितप्रोक्षणादिजन्या काचिदाधेयशक्तिरस्ति । अन्यथा अप्रोक्षि. तास(मटितव्रीह्या ? मृष्टत्रीहिग्रहा)दिभिः कर्मकरणे कर्म साङ्गं स्यात् । नच भवति । अतः प्रोक्षणादिजन्यः संस्कारः कल्प्यः । सैवाधेयशक्तिरिति चेत् । न । तत्रापि प्रोक्षणादिजन्यः संस्कारोऽदृष्टरूपो यजमान एवेत्यङ्गीकारात् । तदुक्तं कुसुमाञ्जलौ - "संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः" इति । तस्मानाधेयशक्तिरपि पदार्थान्तरम् । अतः कारणतैव शक्तिः । किच - “नित्ये नित्यैव सा शक्तिरनित्ये भावहेतुजा !” इति वदद्भिः कार्यगुणादिगता शक्तिः गुणादिकारणादेव जायत इत्यभ्युपेयते । अतोऽपि न गुणादेः शक्ति प्रति समवायिकारणत्वमिति नातिव्याप्तिः ॥ नापि सङ्ख्या पदार्थान्तरम् । गुणेष्वन्तर्भावात् तस्याः । तथाच काणादं सूत्रं-'रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानी'ति । ननु गुणादा. वपि सङ्ख्या प्रतीयते । चतुर्विंशतिर्गुणाः, पञ्च कर्माणि, त्रीणि सामान्यानि, बहवो विशेषाः, एकः समवाय इति । तत् कथं गुणेष्वन्तर्भाव इति चेद्, इत्यम् । द्रव्ये गुणादीनां सङ्ख्यायाश्च समवायादेकत्र समवायिलक्षणात् सम्बन्धाद् गुणादावपि जपाकुसुमसम्बन्धात् स्फटिकलौहित्यवदुपाधिवशात् प्रतीयते न वस्तुतः इति वैशेषिकसमयः । अतो न तत्समवायिकारणत्वम् । गुणादीनां स्वरूपभेदस्तु वर्तत एव । गुणादीनां तत्र न सङ्ख्या निमित्तम् । किन्तु तादात्म्याभाव एव । यथा सङ्ख्यासु स्वरूपभेदः तादात्म्याभाव. निमित्तः । अन्यथा तत्रापि स्वरूपभेदस्य सङ्ख्यानिमित्तत्वे अनवस्थैव स्यात् । तत्र त्वौपचारिकी सङ्ख्याप्रतीतिरिति यदि, तर्हि गुणादावपि न सा दण्डवारिता॥ नापि सादृश्यं पदार्थान्तरम् । तस्य गुणावयवकर्मसामान्यरूपत्वात् । तथाहि --- गोसदृशो गवय इति पुच्छखुरविषाणादिसामान्यम् । कम्बलो मषीव कृष्णः इत्यत्र गुणसामान्यम् । जवे गौरश्वसदृश इत्यत्र कर्मसामान्यम्। इत्यौपाधिकसामान्यमेव सादृश्यम् । तदुक्तं भट्टपादैः "सामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिवप्रधानसामान्यवृत्ति सादृश्यमिष्यते ॥" Ramaithun वैशेषिकदर्शनम् । इति । अस्यार्थः --- मिनं पृथग्भूतं प्रधान मुख्य गोत्ववगयत्वादिरूपं सामान्य येवु तेषु वृत्तिर्यस्य एवंविधं सद् गुणानामवयवानां कर्मणां च भूयांसि बहूनि सामान्यान्येव सादृश्यमिष्यते । भिन्नप्रधानसामान्येत्युप- लक्षणं मुख्य कवैधर्म्यस्य । अन्यथा एकजातीये गवादौ इदंगोसदृशः स गौ- रिति सादृश्यल्यवहारो न स्यात् । तस्माद् एकं मुख्यं वैधर्म्यमवलम्ब्य अन्येषां गुणादीनां सामान्यमादाय सादृश्यव्यवहार इति । अन्यथा वैसा- दृश्यमपि पदार्थान्तरं स्यात् । सामान्यादावपि सादृश्यसद्भावादित्यादि- सादृश्यस्यापदार्थान्तरत्वसाधनयुक्तरत्रापि सुवचत्वादिति न तत्समवायि- कारणत्वं गुणादीनामिति । तस्मात् सिद्धं समवायिकारणत्वात्यन्ताभावा- नधिकरणं द्रव्यमिति ॥ तञ्च द्रव्यं नवधा भिद्यते 'पृथिव्यापस्तेजो वायुराकाशकालदिगात्म- मनांसि नवैव द्रव्याणी'ति काणभुजैरुक्तत्वात् । अत्राप्येवकारोऽयोगान्य- योगव्यवच्छेदार्थः । तथाच द्रव्यस्य सतोऽनवबाझखलक्षणमयोगं नव. बाह्यस्य सतोऽद्रव्यत्वलक्षणमन्ययोगं च व्यवच्छिनत्त्येवकारः । द्रव्याणि नवैव नाधिकानीत्यन्ययोगव्यवच्छेदः, नव द्रव्याण्येवेति चायोगव्यवच्छेदः ।। ननु कथमेवकारोऽयोगं व्यवच्छिन्द्यात् , वायोः पार्थिवत्वेन नव- सङ्ख्यापूरकत्वाभावात् । तथाहि, वायुः पार्थिवः अनुष्णाशीतस्पर्शवत्त्वाद् गन्धवत्त्वाच, घटवत् । न चासिद्धो हेतुः । वायौ वाति सति सुरभिरसुर- भिर्वा गन्धः प्रतीयते, शैत्यादिरहितस्पर्शश्च । वायोः पार्थिवत्वे रूपवत्त्वमपि स्यादिति चेद् , घ्राणेन्द्रियवदनुद्भूतरूपवत्त्वसम्भवात् । अत एव मह- तोऽपि वायोरचाक्षुषत्वसम्भवः । उद्भूतरूपं महद् द्रव्यं चाक्षुषमित्यभ्युप- गमात् । तस्मात् पार्थिवो वायुरिति चेत् । मैवं मंस्थाः । गन्धवत्त्वं हि तावद् पायावसिद्धम् । तत्र पुष्पादिसम्बन्धे सत्येव सौरभ्यादेः प्रतीयमानत्वेन तदुपाधिकत्वात् । अन्यथा जलमपि पार्थिवं स्यात् । तत्रापि गन्धवत्त्व- प्रतीते। यदि स्वाभाविकगन्धवत्त्वं वायौ, तर्हि यदा यदा वायुयात्, तदा तदा गृह्येत गन्धः । स्पर्शोऽप्यनुष्णाशीतत्वमात्रो न पार्थिवत्वसाधकः । किन्तु पाकजत्वविशेषितः, घटादौ तथा दर्शनात् । तथाच पार्थिवत्वे साध्ये पाकजस्पर्शवत्वमुपाधिः, तस्य साध्यव्यापकत्वसाधनाव्यापकत्वसद्भा- वात् । यत्र यत्र पार्थिवत्वं साध्यं, तब पाकजस्पर्शवत्त्वं, यथा घटादौ । यत्र । । , । सर्वदर्शनकौमुर्गा यत्रानुष्णाशीतस्पर्शवत्वं साधनं, न तत्र पाकजस्पर्शवत्त्वम् । पक्षीकृते वायौ तदभावात् । नहि घटादाविव वायौ पाकात् काठिन्यादिस्पर्शों जायते । अत उपाधिदुष्टं प्रथमानुमानम् । द्वितीयं त्वसिद्धिदूषितम् । यच्च प्रसङ्ग- साधनं घ्राणेन्द्रियवदित्यादि, तदपि न । रूपवत्त्वमात्रप्रसञ्जने हि तथा स्यात् । न चैवम् । किन्तु उद्भूतस्पर्शवतः पार्थिवस्योद्भूतरूपवत्त्वं प्रस- ज्यते । तथाच न तत्र व्यभिचारः । घ्राणेन्द्रिये रूपस्पर्शयोरुभयोरप्यनुदु- भूतत्वात् । तस्माद् वायुरपार्थिवः, अपाकजस्पर्शवत्त्वात् । यदेवं तदेवम् । यथा जलादीति वायोः पारिशेष्यात् नवमद्रव्यत्वम् । प्रसक्तपार्थिवत्व- निषेधादन्यत्र चाप्रसक्तः । अत एवकारादयोगव्यवच्छेदः सिद्धः।। नन्वयोगव्यवच्छेदेऽपि अन्ययोगव्यवच्छेदो न सखापटीति, नव. बाह्ययोः सुवर्णतमसोः प्रसिद्धद्रव्यविधर्मणोर्जागरूकत्वात् । तथाहि, सुवर्ण तावद् दशमं द्रव्यम् , पीतिमगुरुत्वाश्रयत्वेनातैजसत्वात्, नक्तंदिवमत्य- न्ताग्निसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाश्रयत्वेनापार्थिवत्वात् , नैमित्तिक- द्रवत्वाधारत्वेनाजलत्वात् , रूपवत्त्वादेव वारवाद्यन्तर्भावस्य दूरापास्तत्वात् । अतः प्रसिद्धनवद्रव्यवैधाद् दशमं द्रव्यमिति नैयायिकैकदेशिनः । अत्र भूमः । रूपवत्त्वादेव त्वदुक्तहेतोः सुवर्णं तावत् पृथिव्यादित्रिकान्तर्भूतम् । तत्रापि नैमित्तिकद्रवत्वाधिकरणत्वात् न जलम् । अत्यन्तामिसंयोगे सत्य- नुच्छिद्यमानद्रवत्वाधारत्वान्न पार्थिवम् । तेन परिशेषात् तैजसमेव सु. वर्णम् । पीतिमगुरुत्वाश्रयत्वेन तनिषेधस्तु न सम्भवति । उपष्टम्भक- पार्थिवभागस्य तत्र विद्यमानत्वेन पीतिमगुरुत्वयोस्तदाश्रयत्वात् । उप- एम्भकं नाम उत्पत्तिमारभ्य सहभूतं द्रव्यम् । यथा मणिप्रभा तैजसी, त- झोलकस्तु उपष्टम्भकः पार्थिवः । तथा सुवर्णेऽपि पार्थिवो भागो विद्यत इति न कश्चिद् दोषः । यद्यपि सुवर्णेऽपि द्रवत्वमग्निसंयोगादच्छिद्यत एव, अन्यथा तत्र द्रुतद्रुततरद्रुततमत्वादेरप्रतीतिप्रसङ्गात् । तथापि सुवर्णारम्भक- परमाणौ द्रवत्वं न नश्यति । घृतलाक्षादौ तु पार्थिवपरमाणावपि द्रवत्वं नश्यति । तथाचाग्निसंयोगेऽनुच्छिद्यमानद्रवत्वाधिकरणपरमाण्वारब्धत्वेना. पार्थिवत्वं प्रसाध्य नैमित्तिकद्रवत्वाधारत्वेन चानाप्यत्वं प्रसाध्य एतद्भय- व्यतिरिक्तत्वे सति रूपवत्वेन तेजसत्वं साधनीयमिति परिशेषात् सुवर्णस्य तैजसत्वसिद्धिः । अतो न दशमद्रव्यत्वं सुवर्णस्य ॥

१ वैशेषिकदर्शनम् । ननु तमो दशमं द्रव्यं प्रसिद्धद्रव्यवैधात् । तथाहि मीमांसकाः "तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधयान्नवभ्यो भेत्तुमर्हति ॥" इति । अयमर्थः-तमस्तावद् द्रव्यम् । गुणवत्त्वात् , पटवत् । तचाकाश- कालदिगात्मसु नान्तर्भवति, चलत्वात्, तेषां निष्क्रियत्वात् । नाप्यवनला- निलमनस्सु प्रविशति । नीलरूपबत्त्वात् । तेषां तद्राहेतत्वात् । वायुमन- सोश्च रूपस्यैवाभावात् । इतरयोस्तु नैल्याभावात् । नापि तत् पृथिवी । पृथिवीत्वसहचरितस्पर्शाभावात् तमसि । स चानुद्भूतस्तत्रोत चेद् , उद्- भूतरूपस्य पार्थिवस्योद्भूतस्पर्शवत्त्वनियमात् । किञ्च पार्थिवं चेत् तमः, भालोकसहकृतचक्षुह्यं स्यात् । नीलोत्पलादिवत् । नच गुणवत्त्वमसिद्धम् । परापरविभागानामाश्रयत्वात् । दूरे तमः, समीपे तमः, गृहादिविभक्तं तमः इति प्रतीतेस्तेषां तत्र सिद्धिः । परापरशब्दो भावप्रधाननिर्देशः । विभाग इति संयोगस्याप्युपलक्षणम् । गृहसंयुक्तं तम इति प्रतीतेः सद्भावात् । क्रियादि- मत्त्वादेव नामावस्तमः । तस्मात् तमसो दशमद्रव्यत्वान्नान्ययोगव्यवच्छेद इति प्राप्तम् । एवं प्राप्तेऽभिधीयते-- तमो न दशमं द्रव्यं, तत्साधकहेतो- रसिद्धत्वात्, परत्वादिप्रतीतेरप्यालोकाभावविषयत्वेनोपपत्तेः । नापिनीलरूप- बत्त्वं तमसः, शौक्ल्याद्यभावेन तथा प्रतीतेः । यत्र शौक्ल्याद्यभावः, तत्र रूपवति नैल्यमिति व्याप्तेर्दर्शनात् । अत्र रूपाभावेऽपि शौक्ल्यायभावमात्रेण नीलं तम इति भ्रममात्रमस्ति । न नीलं रूपम् । नापि क्रियावत्त्वम् । तस्या दीपायुपाधिनिमित्तत्वात् । दीपादौ चलति सति तदभावस्य देशा- न्तरप्राप्तिं दृष्ट्वा चलतीति भ्रमः । अन्यथा नीलं नम इति प्रतीत्या नभ- सोऽपि रूपवत्त्वसिद्धेः पृथिव्यादित्रयमेव रूपवदिति नियमभङ्गप्रसङ्गः । तस्मादालोकाभावस्तम इति काणादाः । तम आलोकाभावो भवितुमर्हति । आलोकनिरपेक्षचक्षुह्यत्वात् । प्रदीपाभाववत् । अन्यथा चाक्षुषमाव- रूपत्वे तमस आलोकसापेक्षचक्षुह्यत्वप्रसङ्गात् । अतस्तमसो भावरूपत्वा- भावान्नवैव द्रव्याणीत्युपपन्नम् ॥ व्यातिपक्षधर्मतासिद्धयर्थ साधर्म्यवैधये निरूप्यते। तत्र सप्तानामपि पदार्थानां प्रमेयत्वाभिधेयत्वे । षण्णां त्वस्तिप्रत्ययगम्यत्वम् । अमावस्य तु । - । सर्वदर्शनकौमुद्या निषेधप्रत्ययगम्यत्वम् । सामान्य विशेषसमवायानां नित्यत्वं ज्ञानेतरकार्य प्रत्यकारणत्वं जातिरहितत्वम् । गुणादीनां पञ्चानां निर्गुणत्वनिष्क्रियत्वे । गुणकर्मणोरेवासमवायिकारणत्वम् । समवायिकारणप्रत्यासन्नमवधृतसामर्थ्य- मसमवायिकारणम् । द्विधा च प्रत्यासत्तिः । एका कार्यकार्थप्रत्यासत्तिः । यथा तन्तुसंयोगस्य पटं प्रति कारणत्वे पटेन कार्येण सह तन्तावेकस्मिन् प्रत्यासत्तिः । अपरा कारणैकार्थप्रत्यासत्तिः । यथा तन्तुरूपस्य पटरूपं प्रति कारणत्वे पटरूपसमवायिकारणेन पटेन सह तन्तौ प्रत्यासत्तिः । द्रव्यादीनां प्रयाणां जातिमत्त्वार्थशब्दाभिधेयत्वकारणत्वानि पृथिव्यादीनां द्रव्यत्वजाति- योगः साधर्म्यम् । जातिव्यञ्जकं च गुणवत्त्वम् । समवायिकारणत्वं च । पृथिव्यप्तेजोवाय्वात्ममनसां द्रव्यत्वावान्तरसामान्यवत्त्वम् । पृथिवीजला- त्मनां चतुर्दशसङ्ख्यासङ्खथयगुणवत्त्वम् । पृथिव्यप्तेजोवायुमनसां मूर्तत्व- क्रियावत्त्वे । इतरेषां निष्क्रियत्वामूर्तत्वे । पृथिव्यादीनां पञ्चानां भूतत्वम् । भूतत्वमूर्तत्वे न जाती, परापरभावाभावात् । यत्र यत्र भूतत्वं, न तत्र तत्र मूर्तत्वम् । गगने व्यभिचारात् । नापि भूतत्वं परम् । यत्र यत्र मूर्तत्वं, न तत्र तत्र भूतत्वम् । मनसि व्यभिचारात् । अतो गगनमनसोः परस्परं व्यभिचारात् पृथिव्यादिचतुष्टये च सङ्कीर्णत्वान्न तयोर्जातित्वम् । किन्त्वौ- पाधिकधर्मत्वम् । परिच्छिन्नपरिमाणवृत्त्वं मूर्तत्वम् । बाबैकेन्द्रियग्राह्यविशेष- गुणवत्त्वं भूतत्वम् । पृथिव्यादीनां पञ्चानामिन्द्रियप्रकृतित्वम् । गगनं विहाय चतुर्णा शरीरारम्भकत्वम् । तेषामेव स्पर्शवत्त्वम् । पवनं विहाय तेषामेव रूपबत्त्वद्वत्ववत्वे । पृथिवीतेजसो मित्तिकद्रवत्वम् । जलभूम्यो- गुरुत्वरसवत्त्वे । एवं संक्षेपतः साधर्म्यमुदितम् । इदमेव साधर्म्यमितरेभ्यो व्यावृत्तबुद्धिहेतुत्वात् । वैधयं यथा-द्रव्यत्वं गुणादिभ्यः । वक्ष्यमाणमपि वैधर्म्यमनुवृत्तबुद्धिहेतुत्वात् साधयं च भवति । यथा गन्धवत्त्वं पार्थि- वानाम् ॥ तत्र नवानां द्रव्याणां मध्ये पृथिवीत्वाभिसम्बन्धः पृथिव्या वैधर्म्य लक्षणं च, असाधारणधर्मत्वात् । असाधारणधर्मो हि लक्षणमित्युच्यते । पृथिवीत्वं नाम शीतस्पर्शासमानाधिकरणघटपटवृत्तिजातिः । यद्यपि साध- मपि तावत् लक्षणमेव, तथापि वैधये लक्षणत्वप्रसिद्धिः । इतरव्यावर्त- कत्वाकारण वैधर्म्यम् । असाधारणत्वाकारेण लक्षणम् । तस्य तु प्रयोजनं -- वैशेषिकदर्शनम् । ११ व्यावृत्तिर्व्यवहारो वा । तथाहि --- पृथिवीतरेभ्यो भिद्यते पृथिवीत्वात् । या इतरेभ्यो न भियते नासौ पृथिवी । यथा अबादीति व्यतिरेकी प्रयोगः । यद्यप्यबादयोऽपि परस्परं मिद्यन्ने, तथाप्यबादित्वाकारणाबादिभ्यो न भिद्यन्ते, पृथिव्यपि न भवन्ति । अतस्तत्र व्यतिरेकव्याप्तिः । इतरपदेनात्रा- बादय एवोच्यन्ते, न पृथिवी । तेनाबादीनां पृथिवीसकाशाद् भेदे विद्य- मानेऽपि अवादेरबादिर्न भिद्यते इति तत्र साध्यामावसिद्धिः । एवमबादी- नामितरभेदसाधने प्रयोगो द्रष्टव्यः । व्यवहारपक्षेऽपि प्रयोगः । इदं गन्धयुक्तं द्रव्यं पृथिवीति व्यवहर्तव्यम् । पृथिवीशब्दवाच्यमिति यावत् । पृथिवीत्वात्। यत् पृथिवीति न व्यवह्रियते, न तत् पृथिवीत्वाकान्तम् । यथा अबादीति व्यतिरेकी । अबादिश्च पृथिवीति न व्यवह्रियते । पृथिव्यपि न भवति । इति साध्याभावसाधनाभावयोाप्तिसिद्धिः । पृथिवीत्वजातेरभिव्यञ्जकं गन्ध वत्त्वं, गन्धवति पृथिवीत्वप्रतीतेः । ततो गन्धवत्त्वमपि लक्षणम् । तथा नीलरूपवत्त्वं पाकजरूपवत्त्वं च लक्षणं व्यञ्जकं च । सा च पृथिवी द्विविधा। नित्या च अनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । नित्यायां प्रमाणं- पृथिवीत्वं नित्यवृत्ति । घटपटवृत्तिजातित्वात् । द्रव्यत्ववत् । तच्चाकाशादौ नित्ये वर्तते । घटत्वपटत्वयोरेकैकवृत्तित्वान्न व्यभिचारः । तगतसंयोगादेरजातित्वान्न तत्र व्यभिचारः । तथाच पृथिवीत्वाधारतया या नित्या व्यक्तिः सा परमाणुः । नचानेन हेतुना गगनवर्तित्वस्यापि साधन- सम्भवादतिप्रसङ्ग इति युक्तम् । प्रथमस्य तर्कसहकृतत्वात् , द्वितीयस्य तदभावात् । तथाहि - यदि नित्या पृथिवी न स्यात्, तदा आरम्भका- भावात् कार्यमपि न स्यात् । कार्यस्यैवारम्भकत्वे मूलाभावेनानवस्थाया- मनन्तावयवारब्धत्वेन अजगजयोस्तुल्यपरिमाणत्वादित्यादितर्कः सहकारी प्रथमस्य। "यस्यानुकूलस्तर्कोऽस्ति स एव स्यात् प्रयोजकः ।" इति न्यायात् । ततो नाभाससमानयोगक्षेमत्वमिति परमाणुसिद्धिः । यद्वा, सूक्ष्मपरिमाणापकर्षः क्वचिद् विश्रान्तः परिमाणतारतम्यत्वात् । महत्परि- माणतारतम्यवत् । यत्रापकर्षविश्रान्तिः स एव परमाणुः । अथवा आद्या- वयवी स्वन्यूनपरिमाणावयवारब्धः अवयवित्वात् । घटवत् । स चावयवः परमाणुरेव । तर्कस्तूक्त एवानुसन्धेयः । कार्यरूपा द्विविधा अतीन्द्रिया १२ सर्वदर्शनकौमुद्या प्रत्यक्षा चेति । आद्यापि ह्यणुकरूपा इन्द्रियरूपा च । आद्यायां मान जाला- न्तरसूर्यकिरणमध्ये परिदृश्यमाना त्रसरेणुः सावयवार(ब्धौ ? ब्धा) महत्त्वे सति चाक्षुषत्वात् । पटवत् । गगनस्याचाक्षुषत्वान्न तत्र व्यभिचारः । यसरे- एवंवयवः तद् द्वयणुकम् । पार्थिवेन्द्रियं तु प्राणम् । तच्च नासाग्रवर्ति गन्धग्राहकम् । मानं तु गन्धोपलब्धिः करणपूर्विका क्रियात्वात् । छिदि- क्रियावत् । तच परिशेषाद् प्राणमेव । प्रत्यक्षापि शरीरविषयभेदेन द्विविधैव । शरीरमस्मदादीनां प्रत्यक्षसिद्धम् । ननु शरीरस्य पञ्चभूतात्मकत्वात् कथं पार्थिवत्वमिति चेन्न । प्रत्यक्षाप्रत्यक्षारब्धस्य वायुवनस्पतिसंयोगवदप्रत्यक्ष- वापातान्न पञ्चानां समवायिकारणत्वम् । किन्तु पृथिव्येव समवायि- कारणम् । इतराणि निमित्तत्वेन सहकारिकारणानि उपष्टम्भकतया वर्तन्ते । अतोऽस्मदादिशरीरं पार्थिवमेव ।। गृहारामादिक्षेत्रमणिवत्रादिरूपा विषयमूता सा प्रत्यक्षसिद्धा । मणिवज्रादिगोलकं पार्थिवम् । प्रभा तु तैजसी । ननु गोलकमपि कथं पार्थिवम् । तल्लक्षणस्य गन्धस्य तत्रानुपलम्भादिति चेन्न । तद्भस्मनि गन्धोपलम्भेन लाघवात् तस्यापि तत्परमाण्वारन्धत्वेन भस्मनीव गोलकेऽपि गन्धानुमानात् । अनुपलम्भस्त्वयोग्यत्वादभिभवाद्वा । अभिभावकं तु तेजो- वयवादि।। ननु कथं परमाण्वादिभ्यः स्थूलपृथिव्युत्पत्तिरिति चेदेवम्-ईश्वरस्य सबिहीर्षाप्राण्यदृष्टयोर्वशादन्यावयविस्थूलद्रव्यारम्भकपरमाणुषु क्रिया। ततो विभागः, ततोऽवयवसंयोगरूपासमवायिकारणनाशः । ततो व्यणुक- नाशः। समवायिकारणावयवनाशात् त्र्यणुकनाशः। एवमन्त्यावयविपर्यन्तं कार्य नश्यति । द्रव्यानारम्भकं कार्यद्रव्यमन्त्यावयवि । यद्वा स्थूलावयवक्रिया. विभागारम्भकसंयोगनाशेभ्यः स्थूलोऽन्त्यावयवी नश्यति । ततस्तदवयव- तदवयवक्रियाविभागादिन्यायेन परमाण्वन्तं कार्य नश्यति । ततोऽनारन्ध. द्रव्यादिकाः चतुर्विधपरमाणवस्तिष्ठन्ति । अन्येऽपि नित्यवर्गा आकाश- कालदिगात्मानो मनोभिः सह आप्यादिपरमाणूनां रूपरसस्पर्शाः संख्यैक- त्वपृथक्त्वगुरुत्वद्रवत्वानि सामान्यविशेषसमवायाः । कार्यगतं सामान्य काले तिष्ठति । कार्याकार्यगतं तु स्वाधारे नित्ये अदृष्टरूपं कार्य तिष्ठति ॥

। वैशेषिकदशनन् । एवं कार्यमाश्रव्यरूपप्रलयानन्तरं चतुर्मुखब्रह्मणः शतवर्षान्ते ईश्व- रस्य सिसक्षा जायते । तत्सहकृतात् प्राणिनां भोजकादृष्टात् परमाणुषु क्रिया जायते । क्रिया तु आरम्भकपरमाणुद्वयसंयोगः । ततो अणुकम् । यणुकत्रयात् त्र्यणुकं, न तु परमाणुत्रयात् , महत्त्वानुपपत्तेः । परमाणु- कार्यस्य व्यणुकवदणुत्वापत्तेश्च । ननु तर्हि द्वथणुकद्वयात् त्र्यणुकं भवतु । न । कारणबहुत्वं विना कार्यमहत्त्वानुप(प)त्तेः । कारणमहत्त्वात् कारण- बहुत्वात् प्रचयाद्वा हि कार्यमहत्त्वं जायते। अत्र द्वयणुकस्य महत्त्वप्रचययो- रभावात् तद्बहुत्वादेव त्र्यणुकमहत्त्वं जायते । उत्तरोत्तरमहत्त्वाधिक्यसि- व्यर्थ व्यणुकचतुष्टयाच्चतुरणुकं चतुरणुकपञ्चकात् पञ्चाणुकमित्यादिक्रमेण स्थूलाः पृथिव्यादयो जायन्ते । तत्र वाय्वनलजलपृथिवीक्रमेण सृष्टिरित्येक मतम् । जलपृथिव्यमिवायुक्रमेणेत्यपरम् । ततः पार्थिवतेजसोर्मिश्रणात् सुवर्णरूपब्रह्माण्डमध्ये चतुर्दशलोककल्पनायां तत्र ब्रह्मादिस्थावरान्तशरी- राणि परमाणुचणुकक्रमेण जायन्त इति संक्षेपः॥ बौद्धास्तु परमाणुसमूहादेव स्थूलं कार्य जायते, पुञ्जात् पुञ्जोत्पत्ति- न्यायेनेति वदन्ति । तेषां स्थूलं कार्यमतीन्द्रियं स्यात् । परमाणुभिः साक्षादारब्धत्वाद् द्वषणुकवत् । इदमेकमित्यपि बुद्धिर्न स्यात् , परमाणुपुञ्ज- स्यानेकत्वात् । परमाणुसमूहरूपत्वाद्वा । एकमिति बुद्धिीन्तेति चेन्न । तस्याः सर्वजनसिद्धत्वेन प्रामाणिकत्वात् । अत आरम्भवाद एव श्रेयानिति तार्किकाः॥ इति पृथिवीप्रकरणम् ॥ अप्त्वजातियोगोऽपां लक्षणम् । वैधयं च आकाशावृत्ति । सरि- समुद्रवृत्तिजातिरप्त्वम् । सरित्वं समुद्रत्वं चैककवृत्तिद्रव्यत्वं, सत्ता चाकाशवृत्तिः । अतो न तैरतिव्यातिः । व्यावृत्तिर्व्यवहारो वा पूर्ववदेवानुमेयौ। इयांस्तु विशेषः । स्नेहवत्यो व्यक्तय आप इति व्यवहर्तव्या इति । तासां नित्यादिभेदः पूर्ववत् । नित्याः परमाणवः । कार्याः शरीरेन्द्रियविषयरूपाः । शरीरं जलपरमाण्वादिभिरारब्धं वरुणलोके आगमसिद्धम् । ननु जलारब्धं का भोगक्षममिति चेन्न । पृथिव्यवयवोपटम्भात् । एवं तैजसवायव्ययोरमि ।

सर्वदर्शनकौमुद्या द्रष्टव्यम् । भोगाश्रयत्वं च शरीरलक्षणम् । इन्द्रियं रसना मधुरादिरस- ग्राहिका । सा च जिह्वाग्रवर्तिनी। रससाक्षात्कारिप्रमाकरणमिन्द्रियम् । तल्ल- क्षणं तु रूपादिमध्ये रसस्यैव ग्राहकभिन्द्रियं रसनमिति । रसोपलब्धिः करणपूर्विका क्रियात्वात् छिदिक्रियावदिति सामान्यतो दृष्टेन परिशेषाद् रसनेन्द्रियसिद्धिः । विषयस्तु सरित्समुद्रकरकादिः । करका तु अदृष्टवशात् प्रतिबद्धद्रवं जलमेव । पश्चात् सांसिद्धिकद्रवत्वस्य दर्शनात् । सांसिद्धिक- द्रवत्वं हि जललक्षणम् । तथा स्नेहवत्त्वम् । अपां गुणास्तु रूपरसस्पर्शसं- ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्काराः । एत एव स्नेहरहिता गन्धसहिताश्च पृथिव्या गुणाः । तत्र जले रूपं शुक्लमेव । रसोऽव्यक्तमधुरः। स चामलक्यादिकषायद्रव्यभक्षणेनाभिव्यज्यते । स्पर्शः शीतः । एतत् त्रयमपि लक्षणम् । संख्यादयः प्रसिद्धाः । गुरुत्वं पतनक्रियया- नुमेयम् । द्रवत्वं सांसिद्धिकम् । स्नेहोऽप्यपामसाधारणो धर्मः । घृतादौ तु पार्थिवावयवसङ्गात् स्नेहाधिक्यं दृश्यते, नतु तद्गुणत्वेन । क्षीरादौ सांसि- द्धिकद्रवत्वमपि जलावयवप्रवेशात् । जलावयवास्तु पीतोदकपरिणामरूपाः क्षीरे प्रविशन्ति । संस्कारस्तु जले वेगः स्थितस्थापकश्च । वेगस्तु सरित्सु । सेतुविमोक्षादौ स्थितस्थापकः ॥ । इत्यप्रकरणम् ॥ तेजस्त्वजातियोगस्तेजसो लक्षणम् । वैधयं च पूर्ववदितरभेदादि- साधनम् । नित्यमनित्यं च पूर्ववत् । नित्यं परमाणुः । अनित्यं शरीरादि । शरीरं तैजसमादित्यादिलोके पुराणसिद्धम् । इन्द्रियं तैजसं चक्षुर्नयन- गोलकस्थम् । लक्षणं तु रूपादिमध्ये रूपस्यैव ग्राहकमिन्द्रियम् । तच्च दूरस्थमपि द्रव्यादि गृह्णत् प्राप्यैव गृह्णाति । चक्षुःश्रोत्रे प्राप्यकारिणी । इन्द्रियत्वात् स्पर्शनवत् । जलादि व्यवहितमपि तस्य स्वच्छत्वात् प्राप्यैव गृह्णाति । सूर्यादिरश्मिवत् । रूपोपलब्धिः करणपूर्विका क्रियात्वादिति परिशेषाच्चक्षुस्सिद्धिः । विषयस्तु भौमादिचतुर्विधः । पार्थिवेन्धनसाध्य तेजो भौमम् । तच्च संस्कृतमसंस्कृतमिति द्विविधम् । तत्र संस्कृतं गाई- पत्यान्वाहार्याहवनीयसभ्यावसथ्यादि । द्वितीयं तु लौकिकपाकसाधनम् ।

प्रतिपत्तिः । एकजातीययोरव तयोरेकजातीयं प्रति कारणत्वात् । किन्तु वैशेषिकदर्शनम् । १५ भौमस्य कारणानि तृणारणिमणयः । ननु सहकारिविरहप्रयुक्तकार्याभा- ववत्त्वं कारणत्वम् । दण्डचक्रायभावे मृदादि घटादिकार्य न जनयति । मृदादिसहकार्यभावे दण्डादि कमपि घटादि न जनयति । अतः सहकार्य- भावे एकैकस्मात् कार्याभावः। तथाच सहकारिविरहेण प्रयुक्तः प्रापितः कार्या- भावो दण्डचक्रादिषु वर्तते इति तेषां कारणत्वम् । दण्डादौ सति घटादि जायते । असति न जायत इत्यन्वयव्यतिरेकाम्यां कारणत्वं गृह्यते । तृणारणिमणिषु तत् कथं कारणत्वं ग्राह्यम् । व्यतिरेकव्यभिचारात् । तथाहि न तावदेतेषां वह्निजातीयं प्रति दण्डादेर्घटादाविव सहकारित्वमस्ति । मण्यरण्योरभावेऽपि तृणात् फूत्कारादिसहितात् पावको ज्वालायुक्तो जायते । मणेरपि तरणिकिरणप्रतिफलनसहकृतात् तृणारण्योरभावेऽपि वह्नि- जर्जायते । अरणेरपि मथनादिसहकृतादितरद्वयाभावेऽपि कृशानुजीयते । तथा चैकस्मिन्नसत्यप्यन्यस्माज्जायमानत्वादस्मिन्नसति न जायत इति व्यति. रेकामावादेतेषु कथं कारणताग्रह इति चेत् । सत्यम् । तत्र वह्निपरमाण्वायवय- वास्तावत् समवायिकारणम् । तत्संयोगाश्चासमवायिकारणम् । न तयोर्वि- निमित्तकारणेषु तृणारणिमणिषु विचारः । तत्र फूत्कारादिस्तोमे सति तृणा- देरेव, तरणिकिरणप्रतिफलनादिस्तोमे सति मणेरेव, मथनसहकारिस्तोमे सत्यरणेरेव वह्निर्जायत इति व्यतिरेकोऽस्त्येव । नहि फूत्कारादिषु सत्सु मणेररणेर्वा वह्निर्भवति । मथनादिषु तृणान्मणेर्वा, सूर्यकिरणप्रतिफलनादिषु तृणादरणेति स्थितेः कारणग्रह इत्येके । अपरे तु वदन्ति-यथा कारणे तृणादौ सामग्रीवैजात्यं, तथा कार्येऽपि वहावनेकजातित्वमस्ति । तार्णत्व- मारणेयत्वं मणिजत्वमिति । यथा प्रदीपादाववान्तरजातिः प्रत्यक्षाद्(१) दीपः सूक्ष्मोऽपि भवनान्तः प्रकाशयति, न तथा ज्वालाजटिलोऽपि काष्ठाग्निनि- तरां कारीषो वह्विरेवमवान्तरजातीयं प्रत्येव प्रत्येकं तृणादेः कारणत्वग्रह इति । एवं कारणत्वग्रहात् तृणारणिमणिभ्यो भौमं तेजो जायते इति सिद्धम् ॥ दिव्यं तेजः सौरविद्युञ्चन्द्रनक्षत्रादि । उदय जाठराग्निः अशित- पीतादिपरिणामहेतुः देहोष्णरूपः। आकरजं तेजो रजतसुवर्णकांस्यसीसादि ।

सर्वदर्शनकौमुद्या तस्य तैजसत्वं साधितमधस्तात् । तस्य गुणा रूपस्पर्शसंख्यापरिमाणपृथ- स्वसंयोगविभागपरत्वापरत्वद्वत्वसंस्काराः एकादश । रूपं स्वपरप्रकाशक- त्वलक्षणं शुक्लभास्वरत्वम् । तच्च सुवर्णादौ पार्थिवावयवोपष्टम्माद् अभि- भूतम् । स्पर्शस्तूष्ण एव । स च सुवर्णादौ अभिभूतः । प्रभाचक्षुषोस्त्वनुद् भूतः । प्रकारान्तरेण चातुर्विध्यं तेजसो वदन्ति-उद्भूतरूपमनुभूतस्प- र्शमेकम् । यथा प्रभा । उद्भूतस्पर्शमनुद्भूतरूपमपरम् । यथा निदाघो ष्णम् । उभयानुभूतमपरम् । यथा चक्षुः । उभयोद्भूतमन्यत् । यथा सूर्यादि । संख्यादिस्फुटं दृश्यते । द्रवत्वं तु सुवर्णादौ नैमित्तिकम् । संस्कारो वेगः स्थितस्थापकश्च । वेग ऊर्ध्वज्वलनादौ दृश्यते। स्थितस्थापकश्च तस्य प्रतिषन्धे निवृत्ते पुनस्तथैव स्थितिः । ननु गुरुत्वमपि सुवर्णादौ दृश्यत इति चेन्न । उपष्टम्भकपार्थिवगतत्वात् । तस्य द्रवत्वमपि तथेति चेन्न । तस्यात्यन्ताग्निना सह संयोगेऽप्यनाश्यत्वेन तैजसत्वादिति ॥ । । इति तेजःप्रकरणम् ॥ वायुत्वाभिसम्बन्धो वायोर्लक्षणम् । वैधयं च । व्यावृत्तिव्यवहारौ पूर्ववत् । सोऽपि नित्यः परमाणुरूपः । अनित्यो द्वयणुकादिरूपः । तत्र शरीरमुपष्टम्भकपार्थिववशाद् भोगसमर्थं वायुलोके विद्यते । इन्द्रियं त्वगापादमस्तकव्यापि। तल्लक्षणं तु रूपादिषु मध्ये स्पर्शस्यैव ग्राहकमिन्द्रियं स्पर्शगुणद्वारा द्रव्यग्राहकम् । तत्र मानम् । स्पर्शोपलब्धिः करणपूर्विका क्रियात्वादिति । परिशेषात् तदिन्द्रियसिद्धिः । सा च त्वगेव । विषयस्तु द्विविधः बाह्याभ्यन्तरभेदात् । तत्राभ्यन्तरः पञ्चवृत्तिः प्राणः त्वगिन्द्रिय- गम्यः स्पर्शलिगम्यो वा । बाह्यस्तु स्पर्शशब्दधृतिकम्पलिङ्गैरनुमेयः ।। ननु वायुः प्रत्यक्षः प्रत्यक्षस्पशाधिकरणत्वात् पटवत् । नचासिद्धिः वायौ वाति सति स्पर्शस्यानुष्णाशीतस्योपलम्भात् । नच निदापोष्माणि व्यभिचारः । तस्य पक्षतुल्यत्वात् । नहि पक्षे पक्षतुल्ये वा व्यभिचार इति न्यायात् । अन्यथा पक्ष एव साध्यस्य सन्दिग्धत्वात् हेतोश्च निश्चित- त्वात् सन्दिग्धव्यभिचार इति सर्वानुमानोच्छेदप्रसङ्गात् । तस्माद् वायुः वैशेषिकदर्शनम् । । १७ प्रत्यक्ष इति भाट्टाः । तन्न । प्रत्यक्षत्वमपि हि वायोः स्पार्शनत्वं वाच्यम् ! न चाक्षुषत्वादीति । तथाच द्रव्यस्पार्शनवे उद्भूतरूपत्वमुपाधिः । घ. टादौ तथा दर्शनात् । निदाघोष्मणश्च पक्षतुल्यत्वस्य त्वयैवोक्तत्वात् । न तत्र साध्याव्याप्तिः, प्रभायामुद्भूतरूपत्वेऽपि स्पार्शनत्वाभावात् न समव्या- प्तिरिति चेत् न । विषमव्याप्तेरप्युपाधित्वस्वीकारात् । अन्यथा ध्वंसस्य जन्यत्वेनानित्यत्वे साध्ये जन्यत्वावच्छिन्नसाध्ये भावत्वमुपाधिन स्यात् । यत्र भावत्वं, तत्र जन्यत्वे सत्यनित्यत्वमित्युपाधिपुरस्सराया व्याप्तरात्मादौ व्यभिचारेण तस्य समव्याप्त्यभावात् । तस्मान्न वायुः प्रत्यक्षः, किन्तु अनु- मेय एव । तथाहि ---- अनुष्णाशीतापाकजस्पर्शः क्वचिदाश्रितः गुणत्वात् रूपवदिति द्रव्यमात्रसिद्धौ धरादीनां त्रयाणां पाकजशीतोष्णस्पर्शवत्त्वेन, गगनादीनां स्पर्शरहितत्वेन तदाधारत्वबाधाद्, अष्टद्रव्यानाश्रितत्वे सत्या- श्रितत्वेन हेतुना परिशेषाद् अष्टद्रव्यातिरिक्तं द्रव्यं सिध्यति । स एव वायुः । तथा प्रयत्नाधभावे सति द्रुमादौ यो शब्दकम्पौ तौ स्पर्शवद्वेगवद्- व्यसंयोगजन्यौ विशिष्टकम्पत्वात् नदीसंयोगजनितवेतसादिशब्दकम्पवत् । तथा अन्तरिक्षे तृणादिविशिष्टधृतिः स्पर्शवद्व्यसंयोगजा विशिष्टधृति- स्वात् जलादिधृततृणादिवत् । स एव धारको वायुः । तस्य नानात्वं प्रा. च्योऽयमित्यादिप्रत्ययात् सिध्यति । तस्य गुणाः स्पर्शसङ्ख्यापरिमाणपृथ- क्त्वसंयोगविभागपरत्वापरत्ववेगा नव । स्पर्शः प्रत्यक्षः सङ्ख्यादयस्त्वनु- । मेयाः ॥ इति वायुप्रकरणम् । BIMARISPROUDED शब्दाश्रयत्वमाकाशस्य लक्षणम् । वैधयं च व्यावृत्त्यादि पूर्ववत् । स चैकः सर्वत्र शब्दलिङ्गेनैवानुमेयः । एकत्वेनैव व्यवहारसिद्धौ तन्नाना- त्वकल्पना गौरवम् । स च नित्यः परममहत्त्वाश्रयत्वात् आत्मवत् । परम- महत्त्वं सकलमूर्तद्रव्यसंयोगत्वात् । तचैकत्वेन व्यापकत्वात् । कथं शब्देना- नुमानमिति चेदेवम् । शब्दस्तावद् गुणः बहिरिन्द्रियव्यवस्थापकत्वात् स्पर्शवत् । गुणत्वात् क्वचिदाश्रितः । श्रोत्रेन्द्रियग्राह्यत्वाच्च नेतरद्रव्यगुणः । इतरद्रव्यगुणा रूपादयो न केऽपि श्रोत्रेन्द्रियग्राह्याः । अतः शब्दोऽष्टद्र- व्यातिरिक्तद्रव्याश्रितः । अष्टद्रव्यानाश्रितत्वे सति गुणत्वात् । न यदेवं न । D । १८ सर्वदर्शनकौमुद्या तदेवम् । यथा रूपादीति । परिशेषान्नवभद्रव्यमाकाशः सिध्यति । तस्य गुणाः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाः षट्सङ्ख्याः । स्वगत. मेकत्वं, द्वित्वादिकं तु विजातीयापेक्षया । तथैव पृथक्त्वम् । संयोगवि भागौ तु मूतैरेव । परिमाणं परममहत्त्वम् । एतेऽनुमेयाः । शब्दस्तु प्रत्यक्षो- ऽनुमेयश्च । प्रत्यक्षस्तु श्रोत्रेन्द्रियग्राह्यः । कर्णशष्कुल्यवच्छिन्नं नमः श्रो. त्रम् । तत्र शब्दोपलब्धिरेव प्रमाणम् ! इतरेन्द्रियग्राह्यत्वे बधिरस्यापि श- ब्दग्रहप्रसङ्गात् । ननु श्रोत्रस्यापि इन्द्रियत्वात् प्राप्यकारिता वाच्या । तत्र कथं प्राप्तिः । निरवयवत्वेन क्रियाभावात् स्वयमप्राप्तेः । शब्दस्य चाकाश- गुणत्वेन श्रोत्रेण संयोगसमवाययोरसम्भवात् । तत् कथं शब्दग्रहणमिति चेत् । न । समवायेन ग्रहणात् । तथाहि भेर्यादिदण्डादिसंयोगात् ताल्वो- ष्ठपुटव्यापारद्वारा वा प्रथमं शब्दो जायते । स च जलमध्ये उपलादिप्र- क्षेपे यथा तरङ्गः परितो जायते, यथा वा कदम्बगोलकं जायते, तथा आद्यः शब्दो भवति । तत्र भेाकाशसंयोगोऽसमवायिकारणम् । आकाशः समवायिकारणम् । भेरीदण्डसंयोगादिनिमित्तकारणम् । तदनु शब्दासमवा- यिकारणका द्वितीयादिशब्दा वीचीतरङ्गन्यायेन कदम्बगोलककेसरन्यायेन श्रोत्रपर्यन्तं जायन्ते । तत्र श्रोत्रसमवायात् तत्समवेतः शब्दो गृह्यते। स चोपान्त्यः । अन्त्यस्त्वतीन्द्रिय इति वदन्ति । दूराच्छीघ्र शब्दागमने वायुरेख निमित्तम् । अत एव वायुप्रतिरोधे शब्दो न श्रूयते । अनुकूले च वायौ श्रूयते । तस्य चानित्यत्वं कृतकत्वादिहेतुभिः साधनीयम् । नन्वनुमानानां स एवायं गकार इति प्रत्यभिज्ञया बाधितत्वमिति चेन्न । प्रत्यभिज्ञायाः ज्वालाप्रत्यभिज्ञावत् प्रान्तत्वात् । बाधं विना कथं प्रान्त इति चेत्, इदानी- मुत्पन्नोऽयं गकार इदानीं विनष्टोऽयमिति प्रत्ययेन बाधात् । ननु नेदं रज- तमिति बाधे पुनस्तत्र तदानीमिदं रजतमिति भ्रान्ति!देति । शब्दे तु उ- त्पत्तिविनाशप्रत्ययानन्तरमपि स एवायं गकार इति प्रत्यभिज्ञा जायते । तदनु च तत्रैवोत्पत्तिविनाशप्रत्ययः । अतः कः कस्य बाधको बाध्यश्च का इति न जानीम इति प्राप्तम् । अत्र चिन्तामणिकारः उभयोर्व्यवस्थां ब्रूते । प्रामज्ञा तु जातिविषयिणी । उत्पत्तिविनाशप्रत्ययस्तु व्यक्तिविषय इति उभयमबाध्यम् । यथा ब्रीहिषु भुज्यमानतया विनष्टेष्वपि तानेव ब्रहीनुप- भुज्महे इति प्रत्ययो जातिमवलम्बते, तद्वत् प्रकृतेऽपीति अनुमानस्य प्रत्य- । ।

वैशेषिकदर्शनम्। १९ भिज्ञाबाधो नास्त्येवेति शब्दानित्यत्वसिद्धिः । पराक्रान्तं च सूरिभिरिति विरम्यतेऽस्माभिः ॥ इत्याकाशप्रकरणम् ॥ " परापरप्रत्ययगम्यत्वं चिरक्षिप्रयुगपत्प्रत्ययगम्यत्वं च कालस्य ल. क्षणं, वैधयं च । तथाहि बहुतरतपनपरिस्पन्दान्तरिते वस्तुनि पर इति, अल्पसूर्यपरिस्पन्दान्तरिते च वस्तुन्यपर इति प्रत्ययो वर्तते । तदुभयं सूर्यपरिस्पन्दविशिष्टं प्रतीयते । तपनक्रियायाः पिण्डसम्बन्धमन्तरेण तद्वि. शेषणकप्रत्ययो न भवति । सम्बन्धश्च न संयोगः, द्रव्यक्रिययोस्तदयो- गात् । नापि समवायः, सूर्यसमवेतक्रियायाः पिण्डे समवायासम्भवात् । अतः पिण्डे तपनपरिस्पन्दसम्बन्धजनकं द्रव्यमास्थेयम् । तच द्रव्यं न मूर्तमेव । तस्य घटादिवदुभयसम्बन्धायोगात् । अत उभयसम्बन्धजनकं विभु द्रव्यमभ्युपेयम् । स एव कालः । आत्माकाशयोर्विशेषगुणवत्त्वेन घटादिवत् तपनपरिस्पन्दघटकत्वायोगात् । य(द्यदा? यात्माकाशौ अन्यत्र स्थितस्यान्यत्र सम्बन्धघटको स्यातां, दूरस्थद्रव्यगत गुणायन्यत्र सम्ब- ध्नीयात् । नच कालेऽप्ययं दोषः, सिद्ध्यसिद्धिव्याघातात् । दिशस्तु सन्निकृष्टविप्रकृष्टयोः परापरप्रत्ययनिमित्तत्वेनैव सिद्धत्वात् । इति पारिशे- ध्यात् कालसिद्धिः । अनुमानं तु दिग्विपरीतपरापरप्रत्ययौ विभुद्रव्यसंयोग- निमित्तौ । परापरप्रत्ययत्वात् । दिक्कृतपरापरप्रत्ययवदिति । एवं चिरादि- प्रत्यया अपि तपनपरिस्पन्दसम्बन्धजन्यत्वात् कालसाधकाः । बहुतरतपन- परिस्पन्दान्तरिते चिरप्रत्ययः । अल्पतरतपनपरिस्पन्दान्तरिते क्षिप्रप्रत्ययः । तपनपरिस्पन्दविशेषे बहूनां वर्तमानत्वं प्रत्ययो यौगपा(१) सौरक्रिया- सम्बन्धघटकः काल एवेति । तस्या गुणाः सङ्ख्यादयः पञ्चानुमेया एव । एकत्वैकपृथक्त्वे स्वगतद्विपृथक्त्वादयस्तु विजातीयैः सह । परिमाणं तु परममहत्त्वम् । संयोगविभागौ तु मूतैः। आकाशादिभिर्विभुभिः सह संयोगो नास्त्येव । अन्यतरक्रियोभयक्रिययोस्तत्कारणयोरभावात् । अजसंयोगा- ङ्गीकारे तु तादृशविभागोऽपि स्यादिति दुस्तरं व्यसनमित्यजसंयोगो ना- स्त्येव । लवत्रुटिनिमेषभेदाः सूर्यक्रियोपाधिरूपाः न कालस्वरूपभेदका: इति काल एक एव ।। । इति कालप्रकरणम् ॥

। सर्वदर्शनकौमुद्या कालविपरीतपरापरप्रत्ययनिमित्तत्वं दिशो लक्षणम् । वैधयं च । अल्पवयस्यपि पुरुषे दूरवर्तिनि परत्वबुद्धिः, बहुतरवयस्यपि सन्निकृष्टे अपर इति बुद्धिर्जायते । तदेते कालविपरीतपरत्वापरत्वे । तबुद्धेनिमित्तं दिक् । कालस्य च एतद्विपरीतपरत्वापरत्वप्रत्ययहेतुत्वेनैव धर्मित्राहकप्रमाणसिद्ध- त्वात् । पृथिव्यादीनां मूर्तत्वा(दीनां ! दिना) पूर्ववत् तन्निमित्तत्वनिरासात् । ततश्च यत्संयोगवशादेषा परापरबुद्धिः, सा दिशा । प्रयोगस्तु कालविपरीत- परत्वापरत्वबुद्धी विभुद्रव्यसंयोगनिमित्ते । निमित्तान्तरबाधे सति कार्य- त्वात् । यन्निमित्तान्तरबाचे सति कार्य तत् ततोऽतिरिक्तनिमित्तकम् । यथा पृथिव्यादिनिमित्तबाधे सति तदतिरिक्तात्ममनस्संयोगजन्यं सुखादीति । यद्वा सैव प्रतिज्ञा । परापरप्रत्ययत्वात् । कालकृतपरापरप्रत्ययवत् । सा चैका विश्वी च । प्राच्यादिभेदस्तु सूर्यसंयोगोपाधिकः । प्रागञ्चत्यस्यां सूर्य इति प्राची । अवागञ्चत्यस्यामित्यवाची, दक्षिणा । प्रत्यगञ्चत्यस्यामिति प्रतीची। उदगञ्चत्यस्यामिति उदीची । ऐन्द्यादिदशभेदास्तु इन्द्रावधिपत्युपाधिमे- दात् । पूर्वादिभेदोऽपि सूर्यसंयोगभेदादेव । तथाच सूर्यसंयोगं पिण्डे सङ्क्रा- मयन्ती परापरबुद्धिजनिका दिक्, सूर्यक्रियासक्रामकस्तु काल इति भेदः ।। इति दिप्रकरणम्॥ आत्मत्वामिसम्बन्ध आत्मलक्षणम् । वैधयं च आत्मा इतरेभ्यो मियते आत्मत्वादित्यादि पूर्ववत् । ज्ञानवत्त्वं सुखादिमत्त्वं च प्रत्येकमा- त्मनो लक्षणम् । स च द्विविधः । परापरभेदात् । पर ईश्वरः । अपरो जी- वात्मा । नित्यज्ञानेच्छाप्रयत्नवत्त्वं परस्य लक्षणम् । ईश्वरे प्रमाणमागमानु- माने। “यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते ॥" इति श्रुतेः । 'अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते' इति स्मृतेश्च । अनुमानं तु शरीराजन्यं जन्यं सकर्तृकम् । समवेतत्वे सति कार्यत्वात् । परिदृश्यमान- कार्यवत् । जन्यमात्रस्य पक्षत्वे साध्याप्रसिद्धिः दृष्टान्ताभावात् । ततः शरीरेत्यादि । अजन्यं जन्ममिति विरोधः । ततः शरीरेति । तादृशं च जन्य ।

। Mamta वैशेषिकदर्शनम् । २१ पृथिव्यादि । ननु किमिदं सकर्तृकत्वं, का सह वर्तमानत्वं कर्तृजन्यत्वं वा । उभयथा(सु ? स्म)दादिना सिद्धसाधन, जीवानां व्यापकत्वेन सर्व- संयोगसम्भवात् , भोजकादृष्टद्वारा जीवानामपि सर्वकार्यकर्तृत्वाच । तथाच सिपाधयिषितधर्माभावेन सन्दिग्धसाध्यवतः पक्षस्याभावात् आश्रयासिद्धो हेतुरिति चेन्मैवम् । उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमतः कर्तृ- त्वात् । जीवानां चोपादानपरमाण्वादिविषयापरोक्षज्ञानादेरसम्भवात् । अदृष्टद्वारा जीवानामपि ज्ञानस्योपादानादिविषयत्वसम्भवादस्त्येव सिद्धसा- धनमिति चेत् । न । विषयित्वं नाम ज्ञानेच्छाप्रयत्नानामेव । भतो ना- स्यात्मगुणस्य विषयित्वाभावः । ततोऽदृष्टजनकं ज्ञानमदृष्टसाधनमेव विष- यीकरोति, नतु तज्जन्यकार्यस्योपादानादिकम् । यद्वा अदृष्टाद्वार- केति विशेषणं देयं कर्तृत्वनिरुक्तौ । ध्वंसस्य सति कार्यत्वेऽपि न समवे- तत्वं, जात्यादेः समवेतत्वेऽपि न कार्यत्वमिति न तयोर्व्यभिचारः । अङ्क रादिकार्य च स्वावयवे समवेतमिति नासिद्धिः । तथाच य उपादाना- दिज्ञानवान् स ईश्वरः । सर्वज्ञः स भवति नान्यः इति तत्सिद्धिः । न च शरीरजन्यत्वमुपाधिः, पक्षमात्रव्यावर्तकविशेषणवत्त्वेनोपाधेः पक्षेतर वात् । जन्यत्वमात्रस्योपाधित्वे साधनव्यापकत्वात् । न च पक्षे जन्य- त्वमपि नास्ति । सावयवत्वेन तत्सिद्धेः । तथा शरीरविशेषणं पक्षमात्रच्या- वर्तकं, कार्यस्यापि क्षित्यादेरकर्तृत्वे घटादेरपि तथात्वप्रसङ्गे प्रत्यक्षादि- विरोधो बाधकस्तः । ननु क्षित्यादिकमकर्तृकं शरीराजन्यत्वात् गगनव- दिति सम्प्रतिपक्षते (६१)ति चेत् , अजन्यत्वमात्रस्यैवाकर्तकस्वप्रयोजकले विशेषणवैयर्थ्यात् । असिद्धिवारकत्वेन सार्थकं विशेषणमिति चेत् , तन्न । व्यभिचारवारकस्यैव हेतुविशेषणत्वात् । शरीराजन्यस्यापि सकर्तृकत्वे बा- धाभावेनानुकूलतीभावाप्रयोजकत्वाच्च । “यः सर्वज्ञः सर्ववित्", "यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुतेः सर्वज्ञस्य कर्तृत्वात् । शरी- रित्वे च जगन्निर्माणे सर्वज्ञत्वासम्भवात् । यद्वा ईश्वरो निर्माणकायमधिष्ठाय जगन्निमिमीते स्वयमशरीरोऽपि । तथाच शरीराजन्यत्वमसिद्धमेव । ततश्च क्षित्यादेः कार्यत्वेन कर्तरि सिद्ध स ईश्वरः सर्वज्ञः नित्यज्ञानेच्छाप्रयत्नवान् । ज्ञानादीनां नित्यत्वं विषयाजन्यत्वात् । अत एव विषयनियमाभावाच सर्व विषयत्वं तज्ज्ञानादीनाम् । तथा वेदः सव(क्तृ)कः वाक्यत्वात्, अस्मदा- । २२ सर्वदर्शनकौमुद्यां दिवाक्यवत् । अर्थ बुद्ध्वा हि वाक्यं विरच्यते । तद्बोधृत्वं वक्तुरेव । अतस्तदभावे वाक्यत्वमेव न स्यादिति बाधकस्तर्कः । यद्वा वेदः सर्वज्ञक- तूकः वेदत्वात् । न यदेवं न तदेवम् । यथेदानीन्तनवाक्यम् । यद्यपी- दानीन्तनवाक्यमपि द्विकर्तृकत्वात् सर्वज्ञकर्तपूर्वकं भवति, तथापि ता- खोष्ठपुटव्यापारोऽस्मदादीनामेव । ईश्वरस्य तु उपादानाद्यभिज्ञतामात्रेण कर्तृत्वव्यपदेशः । वेदे तु भूतावेशन्यायेन वा निर्माणकायाधिष्ठानेन वा ताल्वादिव्यापार ईश्वरस्यैव । अतो न दृष्टान्ते साध्याव्यावृत्तिः । “अस्य महतो भूतस्य निःश्वसितमेवैतद् यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस" इत्यादिश्रुतेः । “अहं सर्वस्य प्रभव" इत्यादिस्मृतेश्च । “वेदान्तविद्वेद- विदेव चाहमि" त्यादि स्मृतेश्च । ननु वेदो नित्यः अस्मर्यमाणकर्तृकत्वात् गगनवत् इति मीमांसकाः । अध्यापकपरम्परायां वेदः सर्वदा वर्तत एव । प्रलयश्च नास्त्येव । “अस्य महत" इत्या(ध : दिर)र्थवाद एव । “ऋग्वेद एवा- मेरजायत । यजुर्वेदो वायोः । सामवेद आदित्यात्" इत्सादेर्वाक्यादग्न्यादे- रपि वेदकर्तृत्वप्रसनः । अतो वेदस्य नित्यत्वान्न सर्वज्ञकर्तृकत्वमिति चेन्न। मुक्तकश्लोकादिना व्यभिचारात् । वेदस्येश्वरः कर्तेति गौतमादिमिः कर्तुः स्मर्यमाणत्वादसिद्धेः उक्तागमबाधश्च । नच सोऽर्थवादः, अपूर्वत्वात् । अग्न्यादेः कर्तृत्वेऽपि सर्वज्ञकर्तृकता न हीयते । द्विकर्तृकत्वसम्भवात् । यद्वा अग्न्यादिरूपेण ईश्वर एव सर्गादौ कर्ता । अतो न सत्प्रतिपक्ष- तास्य । तस्मादीश्वरोऽनुमानागमाभ्यां सिद्धः । तस्य ज्ञान सर्व ? वी)- विकल्पकरूपा प्रमा। इच्छाप्रयत्लौ च नित्यौ ।। जीवात्मानस्तु प्रतिशरीरं भिन्नत्वादनन्ता एव । ते तु मानसप्रत्यक्षाः अहं जानामीत्यादौ अहमिति सवैरात्मा गृह्यते । एकः सुखी अपरो दुःखीति सुखादिवैचित्र्यात् तस्य नानात्वम् । सर्वत्र सुखादिकार्योपलम्भाद् विभुत्वम् । धर्माधौं हि सुखदुःखयोः कारणम् । तयोश्च सुखदुःखकारण- भूतविषयसम्बन्धं विना न तत्कारणत्वं सम्भवति । गुणस्य च गुणि. द्वारेणैव सम्बन्धो वाच्यः । गुणिनश्च सम्बन्धो व्यापकत्वेनेति विभुत्वं सिद्धम् । विभुत्वाच्च नित्यः । देहेन्द्रियमनोबुद्धिप्राणव्यतिरिक्तः । देह स्तावदात्मा न भवति । रूपवत्त्वाद्, घटवत् । इन्द्रियमनोबुद्धयश्चात्मानो (न) भवन्ति करणत्वादु, वास्यादिवत् । प्राणवात्मा न भवति । स्पर्श- ..

वैशेषिकदर्शनम् । वत्त्वाद् , वायुवत् । अतिरिक्तात्मसिद्धौ किं मानमिति चेद्, बुद्धयादय एव मानम् । बुद्धीच्छादयः कचिदाश्रिताः गुणत्वाद् , रूपादिवत् । नचासिद्धो हेतुः । बुद्ध्यादयो गुणाः अरूपिले सत्यनित्यत्वे च सत्येकेन्द्रियग्राह्यत्वात् , स्पर्शवत् । नच ते भूतगुणाः, मनसैव गृह्यमाणत्वात् । ये भूतगुणाः, ते मनसैव न गृह्यन्ते यथा रूपादयः । नापि दिकालमनसां गुणाः । विशेष. गुणत्वात् । ये तु दिगादिगुणाः, न ते विशेषगुणाः, यथा संख्यादयः इति । इतरबाधकसहकृतेन गुणत्वानुमानेनातिरिक्तद्रव्यसिद्धिः । यद्वा इतरत्र बाधे सति बुद्ध्यादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिताः, अष्टद्रव्यानाश्रितत्वे सति गुणत्वात् । यदष्टद्रव्यातिरिक्तद्रव्याश्रितं न भवति, तदष्टद्रव्याश्रितत्वे सति गुणो न भवति । यथा रूपमिति व्यतिरेकी । एवञ्च बुद्ध्यायाश्रयत्वेन पृथिव्याद्यतिरिक्तं द्रव्यमात्मा सिध्यति । तस्य गुणाः-- संख्यादयः पञ्च सामान्यगुणाः । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाख्या नव विशेष- गुणाः । अनित्यत्वास्पर्शवत्त्वे सति एकेन्द्रियग्राह्यत्वेन विशेषगुणत्वमेषां साधनीयम् । अहं सुखी, दुःखी, इच्छामि, द्वेष्मि, प्रयते, जानामि, इत्यादि- प्रत्यक्षसिद्धा बुद्ध्यादयः । धर्माधर्मों सुखदुःखादिकार्यानुमेयौ । भावना च स्मृत्यनुमेया । संख्यादयश्च प्रत्यक्षानुमानसिद्धाः ॥ इति आत्मपदार्थः ॥ । मनस्त्वसमवायो मनसो लक्षणम् । वैधयं च । तचाणुपरिमाणं बाह्ये- न्द्रियानुग्राहकं स्वातन्त्र्येण सुखादिग्राहकं बहिरस्वतन्त्रं नित्यं च ॥ ननु मनो विभु, सर्वदा स्पर्शरहितद्रव्यत्वात् , कालवत् । ज्ञाना- समवायिकारणसंयोगाधारत्वाद्वा आत्मवत् । अणुत्वे हि सुखदुःखादेरणु मात्रवृत्तित्वं स्यात् । असमवायिकारणदेशवृत्तित्वात् । विभुविशेषगुणानां भेर्याकाशसंयोगदेशवृत्तिशब्दवत् । मनसोऽणुत्वे तत्संयोगस्याप्यणुदेशत्वात् सुखादेरणुदेशापत्तिरिति चेन्न । प्रतिकूलतर्कपराहतत्वात् । यदि मनो विभु स्यादात्मनोऽपि विभुत्वेन तत्संयोगस्य शरीरमात्रवृत्तित्वेन सर्वेन्द्रियाणा- मेकदा विषयसंयोगे रूपादिसर्वज्ञानानां युगपदुत्पत्तिप्रसङ्गः । नचैवं व्यासङ्गानुपपत्तेः । व्यासङ्गो नामान्यासक्तस्य बहिरिन्द्रियाणां सकलविषय- २४ सर्वदर्शनकौमुद्या संयोगे सत्यप्येकज्ञानोत्पत्तिः । तथाच वदति, शब्दमश्रौष, रूपादि नोपलब्धवान् इति । ननु दीर्वशष्कुलीभक्षणकाले शब्दस्पर्शरूपरसगन्धा युगपद् गृह्यन्त एव इति चेन्न । तत्रापि व्यासजस्ता(ल?)वत् क्रमानुमानात् । शीघ्र क्रमेण सावधानस्य भवन्तीति योगपचाभिमानः । किञ्च विभुत्वे सर्वदा सर्वाङ्गीणं सुखं स्यात् । आत्ममनस्संयोगस्य शरीरमात्रवृत्तित्वात् । विषयसम्बन्धेन प्रदेशवृत्तित्वे ममापि विषयसम्बन्धवशात् सर्वाङ्गीणं सुखं स्यात् । अतो नाणुमात्रत्वप्रसङ्गः । मनसोऽणुले यदा येन बाह्येन्द्रियेण संयुज्यते, तदा तेन ज्ञानं भवतीति न यौगपद्यप्रसङ्गः। तव तु यौगपद्य- प्रसङ्ग एव । अतः प्रतिकूलतर्कपराहतत्वादनुमानद्वयमप्यप्रयोजकम् । द्वितीये तु साधनावच्छिन्नसाध्यव्यापक आत्मत्वमुपाधिः । ज्ञानासमवायिकारणसं- योगाधारत्वे सति (त ? यत्र विभुत्वं तत्रात्मत्वमिति व्याः । न च सावयवं, स्पर्शरहितद्रव्यत्वेनानारब्धद्रव्यत्वात् । स्पर्शवतामेव द्रव्यारम्भकत्वनिय- मात् । तस्मात् परिशेषान्मनसोऽणुत्वं, निरक्यवद्रव्यत्वान्नित्यत्वम् । तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाः । परत्वापरत्वे तु दिक्कृते, न कालकृते । तच्चातीन्द्रियं सुखाद्यसमवायिकारणाधारत्वेनानु- मेयम् । सुखादयो मूर्तद्रव्यसंयोगासमवायिकारणकाः विभुविशेषगुणत्वात् शब्दवत् । यद्वा सुखाद्युपलब्धिः करणपूर्विका क्रियात्वादिति विशेषा- मनस्सिद्धिः॥ इति मनःपदार्थः ॥ । अथ गुणाः। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व- बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मगुरुत्वद्रवत्वस्नेहसंस्कारशब्दाश्चतुर्विंशति- गुणाः । तेषां सामान्यलक्षणं-गुणत्वजातियोगः, कर्मान्यत्वे सति जाति- मात्राश्रयत्वं, सामान्यवानसमवायिकारणं गुणः, कर्मान्य इति वा । एतै- लक्षणैर्व्यावृत्तिव्यवहारौ साध्यौ । रूपादीनां प्रत्येकं रूपत्वाधभिसम्बन्धो लक्षणम् । गुणत्वे सति चक्षुरेकेन्द्रियग्राह्यत्वं स्पर्श केन्द्रियग्राह्यत्वं रूप- स्पर्शयोर्लक्षणम् । रसनघ्राणेन्द्रियाभ्यां ग्राह्यलं क्रमेण रसगन्धयोः ।

वैशेषिकदर्शनम् । १५ श्रोत्रेन्द्रियग्राह्यत्वं शब्दस्य ! गुणपदं सर्वत्र सम्बध्यते । रूपाद्युपलब्धि. सावनत्वं क्रमेण चक्षुरादीनां लक्षणं द्रष्टव्यम् । तत्र रूपं सितासितपीतहरित- लोहितकपिलचित्रभेदात् सप्तविषं महत्यां पृथिव्यां प्रत्यक्षसिद्धं, परमा- वादिषु कार्यगुणेनानुमेयम् । श्यामो गुणः पृथिव्यां स्वाभाविकः । इतरे परमाणुषु पाकजाः, दूधणुकादौ कारणगुणासमवायिकारणकाः । पाकस्तु बह्नयादितेजस्संयोगः । रसगन्धपी अपि पार्थिवपरमाणौ पाकजाः । इतरत्र कारणगुणपूर्वकाः । सर्वेषामपि गुणानां द्रव्यमेव समवायिकारणम् । देश- कालादृष्टकर्नादि निमित्तकारणम् । असमवायिकारणभेदं तत्र तत्र वक्ष्यामः। कार्यगतरूपादीनां चतुर्णा परमाणवाद्यवयवगतरूपादय एवासमवायिकारणम् । रसोऽपि मधुरतिक्तकटुकवायलवणाम्लभेदात् पविधः । ननु चित्ररूपमिव चित्ररसोऽपि किमिति नाभ्युपेयते, यथा षड्वर्णमिश्रेचित्रं रूपमिति व्यवहारः, तथा बड्समिश्रणे चित्ररसन्यवहारस्यापि सम्भवात् । सत्यम् । तथाप्यस्ति विशेषः । को विशेषः । अयं विशेषः । चित्ररूपानङ्गीकारे पटायवयवी नीरूपः : स्यात् । तथाचाचाक्षुषत्वप्रसङ्गः । विजातीयानां नीलपीताच- वयवादीनामेकावयव्यारम्भकत्वे अवयवी न नीलः पीतारब्धत्वात्, नापि पीतः नीलारब्धत्वात् । एवमन्यदप्यूह्यम् । नचानेकविजातीयगुणवदारब्ध. लं, रूपस्य व्याप्यवृत्तित्वविरोधात् । अतश्चित्रावयवैश्चित्रमेकं रूपवदा रभ्यते । तथा चित्ररसानङ्गीकारे न कश्चिद् दोषः । न किञ्चित् प्रमाणम् । चित्ररूपे तु प्रत्यक्षमेव प्रमाणम् ।। गन्धो द्विविधः सुरभिरसुरभिश्च । सुरभिश्चम्पकादौ, असुरभि- मद्यादौ । स्पर्शोऽपि त्रिविधः - शीतोष्मानुष्णाशीतभेदात् । तृतीयोऽपि द्विविधः-पाकजापाकजभेदात् । गन्धः पृथिव्यामेव । रूपरसस्पर्शाः पाकजाः पृथिव्यामेव । शुक्लं रूपं मधुरो रसः शीतः स्पर्शश्च । जले शुक्ल- भास्वरं रूपम् । उष्णस्पर्शश्व तेजसि । अनुष्णाशीतोऽपाकजस्पर्शो वायौ । पृथिव्यां कठिनत्वादयः स्पाः । एतेषु च त्रिषु प्रमाणं प्रत्यक्षानुमाने । एकत्वादिव्यवहारहेतुर्गुणः संख्या । नित्यगतमेकत्वं नित्यम् । अनित्यगतं त्वनित्यम् । द्वित्वादिका परार्धपर्यन्ता संख्या त्वनित्यैव । अव- यविगतैकत्वस्यावयवगतमेकत्वमसवायिकारणम् । अयमेकोऽयमेक इमौ दौ, २६ सर्वदर्शनकौमुद्या अयमेकोऽयमेकोऽयमेक इमे त्रय इत्याचपेक्षाजन्या बुद्धिर्द्वित्वादौ निमित्तम् । एकत्वद्वयैकत्वत्रयाद्यसमवायिकारणमेकत्वं रूपादिवदेव यावद्र्व्यभावि द्रव्यनाशाच विनश्यति । द्वित्वादिकमयावद्रव्यभावि । अपेक्षाबुद्धि- नाशानश्यति, तयैव चोत्पद्यते ॥ मानव्यवहारहेतुः परिमाणम् । तच्चतुर्विधम् -- अणुमहद्दीर्घह्रस्व- भेदात् । अणुस्वं परमाणुमनस्सु नित्यम् । द्वयणुके चानित्यम् । परमाणु- द्वित्वासमवायिकारणकं परमाणुपरिमाणञ्च नारम्भकम् । नित्यपरिमाणत्वात्। गगनपरिमाणवत् । महत्त्वमपि व्योमादौ नित्यम् । व्यणुकादौ तु महत्त्वं कारणबहुत्वात् कारणमहत्त्वात् प्रचयाद्वा जायते । व्यणुके महत्त्वं कारणबहुत्वात् । घटादिपरिमाणं कारणमहत्त्वात् । तूलादिपरिमाणं प्रच- यात् । प्रचयो नाम प्रशिथिलः संयोगः । हस्वत्वदीर्घत्वे तु स्तम्मादौ वर्त- माने अनित्ये एव । केचित्तु अणुत्वसमानाधिकरणं हस्वत्वं तद्वदेव द्विविधं, महत्त्वसमानाधिकरणं दीर्घत्वमपि तद्वदेव नित्यमनित्यञ्चेत्याहुः । चतुर्विध. मपि परिमाणं यावद्रव्यभावि ॥ पृथगित्यसाधारणव्यवहारहेतुर्गुणः पृथक्त्वम् । एकपृथक्त्वमेकत्व- वदेव । द्विपृथक्त्वादिकं तु द्वित्वादिवदिति ॥ संयुक्तव्यवहारासाधारणकारणं संयोगः । स च त्रिविधः- तरकर्मजः उभयकर्मजः संयोगजश्चेति । भाद्यः स्थाणुश्येनयोः। द्वितीयो मल्लयोमॆषयोर्वा । तृतीयस्तु कारणाकारणसंयोगात् कार्याकार्यसंयोगः। यथा तन्तुकेशसंयोगात् पटकेशसंयोगः । तन्तुः कारणं केशोऽकारणं, तयोः संयो. गात् कार्यस्य पटस्याकार्यस्य केशस्य (च) संयोगः । कारणाकारणसंयोगः कर्मजः । कार्याकार्यसंयोगस्तु संयोगज एव, तयोः पृथक्कर्माभावात् । पूर्व- कर्मणः पूर्वसंयोग एवोपक्षयात् । कर्मसंयोगावेवास्यासमवायिकारणम् । विभागविनाश्यश्च । क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिः । अतः कर्मोत्सत्तिकारणम् । विभागो विनाशहेतुः ॥ विभक्तप्रत्ययहेतुर्गुणो विभागः । सोऽप्यन्यतरकर्मज उभयकर्मजो विभाग(ज)श्चेति त्रिविधः । तत्राद्यः स्थाणुश्येनयोः । श्येनकर्मणैव हि स्त्र विभागोजायते । द्वितीयो मल्लयो। तत्र उभयकर्मणा विमागो जायते । ।

வை वैशेषिकदर्शनम् । तृतीयस्तु तन्तुकेशविभागात् पटकेशविभागः । प्रथमः कारणाकारणविभागो- ऽन्यतरकर्मजः उभयकर्मजो वा। कार्याकार्यविभागस्तु विभागज एव, तत्र काभावात् । अन्यतरकर्मादित्रयमेव विभागस्यासमवायिकारणम् । संयो- गामाव एव विभाग इति चेन्न । विमागस्य संयोगनिरूप्यत्वात् । अभावश्च प्रतियोगिनिरूप्यः संयोगामाव इति । विभागस्तु संयोगाभावकारणम् । विधिमुखेन प्रतीयमानत्वाच नामावः, एतावसंयुक्तौ किन्तु विभक्ताविति मेदप्रतीतेश्च । संयोगविनाश्यश्च ।। पर इति व्यवहारासाधारणकारणं गुणः परत्वम् । व्यवहारश्चाभि- ज्ञाभिवदनरूपः। तच्च कालकृतं दिक्कृतं चेति द्विविधम् । बहुतरतपन- परिस्पन्दान्तरितजन्मनि पदार्थे यत् परत्वं, तत् कालकृतम् । प्रमात्रपेक्षया दूरस्थे पदार्थे संयुक्तसंयोगवाहुल्यात् प्रतीयमानं यत् परत्वं, तद् दिक्क- तम् । तस्य दिक्कालपिण्डसंयोगोऽसमवायिकारणम् । अपेक्षाबुद्धिस्तु निमित्तकारणम् । अल्पतरतपनपरिस्पन्दान्तरितजन्मानं सन्निकृष्टं च पिण्ड- मपेक्ष्य परबुद्धेर्जायमानत्वात् । अपेक्षाबुद्धिविनाशविनाश्यं च ॥ अपरव्यवहारहेतुर्गुणोऽपरत्वम् । तदपि पूर्ववदेव द्विविधम् । अल्प- तरतरणिक्रियान्तरितजन्मनि पिण्डे यदपरत्वं, तत् कालकृतम् । सन्निकृष्टे पिण्डे संयुक्तसंयोगाद् भवति यदपरत्वं, तद् दिक्कृतम् । तत्रापि कालदिक्- पिण्डसंयोगोऽसमवायिकारणम् । अपेक्षाबुद्धिनिमित्तकारणम् । बहुतररवि- स्सन्दान्तरितजन्मानं विप्रकृष्टपिण्डमपेक्ष्यापरबुद्धेर्जायमानत्वात् । तद्विनाश- विनाश्यं च । परत्वाभाव एवापरत्वमिति चेन्न । विभागेनैव दत्तोत्तरत्वात् । कारणत्रयजन्यत्वाच नाभावः । अभावो हि निमित्तमात्राज्जन्यते, न त्रित- येन । यथा घटते प्रध्वंसो दण्डमात्रनिमित्तात् । अभावोऽपि किमत्यन्ता- मावः प्रागभावः प्रध्वंसो वा । नाद्यः, तस्य नित्यत्वेनापरे परबुद्ध्यनु- सादप्रसन्नात् । नचैवं, सोऽप्यन्यापेक्षया भवति परः । यो यदपेक्षया अपरः स तदपेक्षया कदाचिदपि परो नेति चेत्, सोऽपि तदपेक्षया विप्र- कृष्ठश्चेत् परो भवत्येव । नापि द्वितीयः, समकाले अप्रतीतिप्रसङ्गात् । अत एव न तृतीयः, कालभेदेन सामानाधिकरण्यप्रसङ्गाच । तस्माद् भावरूपमपस्वम्।। । । . - २८ सर्वदर्शनकौमुद्या बुद्धौ बहुवतव्यसद्भावात् सा पश्चानिरूपयिष्यते । सुखादयस्तु निरूप्यन्ते सूचीकटाइन्यायात् । अनुकूलतया निरुपाधिवेचं सुखम् । सुख- साधनं तु सोपाधिकं सदनुकूलवेद्यम् । सुखमेव तत्रोपाधिः । मुखादीनां चाष्टानामात्म(म)नस्संयोगोऽसमवायिकारणम् । सुखस्य धर्मः सन्निहित- मसाधारण कारणं निमित्तं दुःखस्य चाधर्मः । इष्टानिष्टदर्शनं च द्वयोर्निमि- सकारणम् । आत्मा तु बुध्यादीनां समवायिकारणम् ॥ प्रतिकूलतया निरुपाधिवेचं दुःखम् । तत्साधनं तु सोपाधिवेद्यम् । मच सुखदुःखयोः परस्पराभावरूपत्वम्, अन्योन्यानिरूप्यत्वात् । तस्माद् द्वयमपि भावरूपम् । दुःखस्य चासाधारणकारणमधर्मः । तच्च दुःख- मेकविंशतिप्रकारम् । गौणमुख्यभेदात् । तत्र शरीरं, प्राणरसनचक्षुस्त्वक्- श्रोत्रमनांसि पडिन्द्रियाणि, गन्धरसरूपस्पर्शशब्दबुद्ध्यादयः षड् विषयाः, विषयाणां बुद्धयः षट्, सुखं दुःखं चेत्सेकविंशतिप्रकारं गौणम् । एतच्च दुःखसाधनत्वाद् दुःखम् । मुख्यं तु फलरूपं दुःखम् । एतेषामेकविंशति- प्रभेदानामत्यन्तोच्छेदो मोक्षः॥ ननु कथं दुःखविच्छेदे सुखस्याप्यभावेन तदनुभवाभावात् पाषाण- वदवस्थानं मोक्ष इति चेन्न । सुखस्य दुः(खं ? खा)विनाभावितया दुः(खि ?- ख)त्वात् । तथापि दुःखमात्रमेव हेयं विरोधित्वात्, न सुखमपि । नहि पलालानि सन्तीति धान्यानि परित्यज्यन्ते कृषीवलैः, किन्तु यावदादेयं तावदादाय निवर्त्यते । एवमत्रापि सुखं ग्राइं दुःखमेव हेयमिति चेत् । सत्यम् । नहि धान्यन्यायोऽत्र क्रमते, किन्तु मधुविध- सम्पृक्तानन्यायः । यथा मधुविषाभ्यां सम्पृक्तेऽन्ने विविच्यग्रहणं तस्य न सम्भवति, तथा दुःखमिश्रसुखमपि दुःखपरित्यागेनोपादानाई न भवति । अतस्तदपि मधुवत् साज्यमेव । अत आत्यन्तिकदुःखविमोक एव मोक्षः । ननु किमिदमात्यन्तिकत्वं नाम दुःखविमोकस्य इति । श्रूयतामवधानेन । दुःखप्रागभावासहचरितसमानाधिकरणदुःखध्वंसो मोक्ष इति तन्निर्वचनम् । अस्यार्थः ---दुःखस्य योऽयं प्रागभावः, तेन सहचरितं सह वर्तमानं यन्त्र भवति समानाधिकरणमेकाधिकरणं दुःखम् , अर्थाद् दुःखप्रागभावे- नेति गम्यते, तस्य ध्वंसो मुक्तिरित्यर्थः । दुःखध्वंसमात्रमेकाधिकरणदुःख- - , POORNA बैशेषिकदर्शनम् । २९ ध्वंसो वा संसारदशायामप्यस्तीति तत्रातिव्याप्तिपरिहाराय दुःखेत्यादि । संसारे दुःखध्वंसो यद्यपि वर्तते, तथापि स दुःखप्रागभावसहचरितः । यत्र दुःखध्वंसस्तत्र भावितत्प्रागभावस्यापि सत्त्वं, मोक्षे तु भाविदुःखाभावात् चरमदुःखध्वंसस्य तत्त्रागभावसइवर्तित्वं नास्ति । तथापि शुकादिमुक्तेर- स्मद्दुःखप्रागभावसहचरितत्वात् तत्राव्याप्तिमाशङ्कय समानाधिकरणेति । तथाचास्मदुःखप्रागभावस्य शुका(वर्ति ? वृत्ति)त्वाचाव्यातिः । दुःखप्राग- भावासहचरितत्वं समानाधिकरणत्वं च दुःखविशेष(ण ? णम् ।) ध्वंसविशेषणे हि सति चरमदुःखकाले संसारदशायामतिव्याप्तिः स्यात् । तदा उपान्त्य- दुःखध्वंसस्योक्तलक्षणसद्भावात् । दुःखविशेषणे तु बरमदुःखध्वंसस्यैव मुक्तित्वं नोपान्त्यस्येति न कश्चिद दोषः । ननु यद्यपि दुःखाभावः कण्टकदुःखाभावे पुरुषार्थों इष्टः, अनुभूय- मानत्वात् , तथापि मोक्षो न पुरुषार्थः, ज्ञानस्यापि दुःखकोटिनिक्षिप्ततया सदानीममावादतस्तत्र कथं प्रेक्षावतां प्रवृत्तिः । तदुक्तम् - "दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते ।" इति चेन्मैवम् । जीवन्मुक्तिदशायामेव तदनुभवसम्मवाज्जीवन्मुक्तिदशा- यामेव स्थित्वा योगाभ्यासजनितसाक्षात्कारेणागामिदुःखाभावानुभवाच । ननु कण्टकाद्यभावोऽपि न दुःखामाव(: १) तया पुरुषेणार्थ्यते, अपितु तद- नन्तरभाविसुखार्थतयेति चेत्, तर्हि जीवन्मुक्तिदशाभाविसुखार्थतयेति न कश्चिद् दोषः । तत्र छनेकशरीराण्यास्थाय सुखभोगस्य मोक्तव्यत्वात् । किच दुःखे सति कस्यापि वादिनो मते न मोक्ष इत्यविवादम् । तथाच तदभावस्यावश्यकत्वात् स एव मोक्षोऽस्तु नान्यदिति । नित्यसुखाभिव्यक्ति- मुकिरिति मीमांसका भाट्टा भूषणं च । तन्त्र । तत्राभिव्यक्तिर्विज्ञानम् । त- नित्यमनित्यं वा । आधे प्रमाणाभावात् सुखज्ञानयोरुभयोरपि नित्यत्वा- न्मुक्तसंसारिणोरविशेषप्रसङ्गः, सदा तदनुभवसम्भवात् । द्वितीये तु ज्ञानो. पादनाय शरीराद्यपेक्षायां मुक्तस्य संसारित्वप्रसङ्गः । समलज्ञानसन्तानो- च्छेदे विमलज्ञानसन्ततिर्मुक्तिरिति विज्ञानवादिनः । तन्न । समलज्ञानसन्ता- नस्यात्मत्वात् तदुच्छेदे विमलज्ञानस्योत्पादकामावात् स्वोच्छेदस्यापुरुषार्थ- स्वाच । अत एव शरीरनाशो मुक्तिरिति चार्वाकमतमपास्तम् । आत्माभावे मुक्तेरपुरुषार्थत्वप्रसाच्च । मध्यमपरिमाणस्य जीवस्य सततोर्ध्वगमनं मुक्ति । सर्वदर्शनकौमुखां रिति जैनजनाः ।(न?) तत्र प्रमाणाभावाद् गन्तुः सावयवत्वेन सक्रियत्वेन च नाशप्रसङ्गात् । तस्माद् दुःखध्वंस एव मुक्तिरिति काणादाः॥ इष्टव्यवहारहेतुर्गुण इच्छा । इच्छामीत्यनुभवसिद्धा । चिकीर्षा- श्रद्धासङ्कल्पादय इच्छाविशेषाः । सुखमिच्छां दुःखं द्वेषम् इच्छाद्वेषौ प्रयत्न- मिति न्यायेन सुखादिच्छा जायते प्रयत्नं च जनयति । अत एवेष्टसाध- नताज्ञानादिच्छाद्वारा पुरुषस्य प्रवृत्तिरित्युच्यते । शास्ने इष्टं तु सुखमेव ॥ द्विष्टव्यवहारहेतुर्गुणो द्वेषः । मन्युः क्रोध इत्यादिपदवाच्यः । द्वे(पि १ टी )त्यनुभवसिद्धः । दुःखजन्याप्रयलजनकः। अत एवानिष्टसाध- नताज्ञानाद् द्वेषद्वारा निवर्तते । अनिष्टं च दुःखमेव । कचित् तत्साधनमपि ।। आत्मधर्म उत्साहः प्रयत्नः कृत्युद्योगादिपदवदनीयः । चेष्टाव्या- वृत्तये आत्मेति । अयं यत्न एवाख्यातवाच्यतया मावनेत्युच्यते । इच्छा- देषाभ्यां जायते शरीरक्रियाजनकश्च ।। ननु स्पन्दव्यतिरेकेण प्रयत्नपदार्थो नास्तीति चेन्न । तदमावेऽप्यह प्रयते इत्यनुभवात् । निद्राणस्य निश्चलेऽपि शरीरे श्वासेन प्रयत्नानुमानात् । स च द्विविधः । जीवनयोनिप्रयत्नश्चिकीर्षाधीनप्रयत्नश्चेति । तत्राद्यः श्वास- निमेषादिहेतुः । द्वितीयश्चेष्टादिहेतुः । आद्योऽनुमेयः । द्वितीयः प्रत्यक्षः ।। श्रुत्यादिविहितक्रियासाध्यः पुरुषाणो धर्मः । साक्षात् साध्यत्वमत्र विवक्षितम् । तेन स्वर्गादौ न प्रसङ्गः । प्रायश्चित्तसाध्यदुरितध्वंसे प्रसङ्ग- निवारणाय गुण इति ॥ श्रुत्यादिप्रतिषिद्धक्रियासाध्यः पुंगुणोऽधर्मः । अत्रोभयत्र कार्यमेव प्रमाणम् । यत्राध्ययनकृष्यादीष्टसामग्र्यां समानायामपि फलवैचित्र्यं दृ- श्यते । तत्रादृष्टसामग्रीवैचित्र्यमेवानुमेयम् । कारणवैचित्र्यं विना कार्य- वैचिन्यासम्भवात् । अतोऽदृष्टसिद्धिरिति ॥ मावना तु वक्ष्यते । तया सह बुद्ध्यादयो नवात्मविशेषगुणाः । गुरुत्वमाद्यपतनासमवायिकारणम् । द्वितीयादिपतनस्य वेगजन्य- स्वात् तद्वारणायायेति । तच पृथिवीजलवृत्ति । अतीन्द्रियं च । ननु सुवर्णा- दावपि तैजसे गुरुत्वं दृश्यते इति चेत्, तत्रोपष्टम्भकपार्थिवभाग एव तदुप- बम्बात् । भतो न दोष इति । । ।

बैशषिकदर्शनम् । श्रावस्यन्दनासमवायिकारणं द्रवत्वम् । द्वितीयादेः स्यन्दनस्य वेगः कारणम् । तद् द्विविधं --- सांसिद्धिकनैमित्तिकद्रवत्वभेदात् । तत्राय जल एव । द्वितीयं तु पार्थिवे घृतादौ तैजसे सुवर्णादौ । उभयं प्रत्यक्ष- सिद्धम् । ननूभयत्र गुरुत्वद्रवत्वलक्षणे गुणवविशेषणं द्रष्टव्यम् । अन्यथा तदाधारद्रव्येऽतिव्याप्तिरिति चेन्न । असमवायिविशेषणेन तव्यावर्तना. दिति ॥ स्निग्धव्यवहारहेतुर्गुणः स्नेहः स एव चिक्कण इत्युच्यते । स च द्विविधः । नित्यः परमाण्वाश्रयः । अनित्यः कार्याश्रयः । स च जलमात्र- वृत्तिः पार्थिवघृततैलादौ चोपष्टम्भकजलयोगाद् मासते, न स्वभावत इति नप्रसङ्गः ॥ स्वोत्पादकसजातीयोत्पादकले सति स्वयं तद्विजातीय एकाश्रितो गुणः संस्कारः। यथा ज्ञानजातीयानुभवसमुत्पाद्या भावना ज्ञानजातीयस्मृति- जनिका स्वयं तद्विजातीया। तथा वेमः कर्मजातीयोत्पाद्यः कर्मजातीयोत्पा- दकः स्वयञ्च विजातीयः । स्थितस्थापकब वेष्टनक्रियाजन्यः तज्जनकः स्वयञ्च विजातीयः । स्वोत्पादकस्योत्पादकत्वमसम्भवीति जातीयग्रहणम् । कारणपूर्वके रूपादौ शब्दजन्ये शब्दजनके च शब्देऽतिव्याप्तिवारणाय स्वयं विजातीय इति । संयोगजन्यसंयोगजनककर्मवारणाय गुण इति । कर्मजन्यकर्मजनकसंयोगवारणाय एकाश्रित इति । ननु इच्छाया इष्टसाध- नत्वज्ञानजन्यायाः स्वविषयज्ञानजनकत्वात् स्वयं विजातीयत्वाचातिव्याप्ति- रिति चेन्न । (य?) इष्टसाधनताज्ञाने च ज्ञानत्वावान्तरजाति स्ति परो- क्षत्वापरोक्षत्वाभ्यां परापरभावाभावात् । ज्ञानत्वाकारेण तु तन्नेच्छाहेतुः । द्वेषस्याप्यनिष्टसाधनताज्ञानजन्यत्वेन ज्ञानत्वस्यानवच्छेदकत्वात् । अतो न कश्चिद् दोष इति निर्दुष्टं लक्षणम् । स त्रिविधः वेगो भावना स्थितस्थापक- श्वेति । तद्व्यवहारहेतुत्वमेव तेषां लक्षणम् । तत्र वेग इष्वादौ । भावना आत्मनि । स्थितस्थापकः कटादौ ।। आकाशविशेषगुणः शब्दः श्रोत्रेन्द्रियग्राह्यो वा गुणः । स च त्रि- विधः संयोगजो विभागजः शब्दजवेति । तत्रायो यथा मेरीशब्दः । तत्रा- काशः समवायिकारणम् । मेर्याकाशसंयोगोऽसमवायिकारणम् । दण्डभेरी- संयोगो निमित्कारणम् । द्वितीयस्तु वेणुदळविभागजः । तत्र दाकाश.

। सर्वदर्शनकौमुद्या विभागोऽसमवायिकारणम् । दलद्वयविभागो निमित्तम् । शेषं पूर्ववत् । ननु मेरीदण्डसंयोगो वा दलद्वयविमागो वा किमिति असमवायी न भवति इति चेन। तयोः समवायिकारणप्रत्यासन्नत्वाभावात् । समवायकारणप्रत्या- सन्नमवधृतसामर्थ्य समवायिकारणम् । आकाशमेरीसंयोगादेस्तत्सत्त्वात् । अतस्तावेद संयोगविभागावसमवायिनी । तृतीयस्तु आधादिशब्दजन्यः । शब्दश्च वीचीतरनन्यायल कस्बगोलकन्यायेन वा कर्णपथमवतीणों गृह्यते । स चान्स उपान्यो वा नाधादिः । वेष्टनाकारणागमनं वीचीन्यायः । कदम्बगोलकन्यायस्तु गया कदम्बपुष्पमध्यात् केसराः परितो जायन्ते, एवमायः शन्दः संयोगाद् विभागाद् वा जायते । तत्परम्परा तु कर्णपथ- पर्यन्तमनुकूलवायुवशात् प्रवर्तते । तत्र पूर्वपूर्वशब्दाः परेषामसमवायिनः, उत्तरोत्तरशब्दनाश्याश्च । अन्सस्तूपान्त्यनाशनाश्यः । तस्य गुणत्वं प्रागेव प्रासाधि। अथ बुद्धिनिरूप्यते । बुद्धिरुपलब्धिानमिति पर्यायः । नतु सा- वयवदवान्तरभेदाः । अर्थप्रकाशो बुद्धिः। नतु वादवत् प्रकाशिका ! बुद्धि- जन्ये प्रकाशे ज्ञाततारूपे प्रमाणाभावात् । ननु ज्ञातः प्रकटः पट इति प्रत्यक्षमेव मानमिति चेन्न । तस्य विषयिविषयभावमात्रत्वे विषयत्वेन तद- तिरिक्ताविषयत्वात् । अन्यथा इष्टो द्विष्टः प्रध्वस्तो घट इत्यादावपि विषया- श्रयधर्मापातात् । प्राकट्यस्वीकारऽपि वर्तमाने समवायिनि घटादौ तद् भवेत् । अतीतानागतज्ञानविषये का गतिः । तत्राश्रयमावेन ज्ञानेन विषये प्राकट्यजननायोगात् । प्रत्यक्षामावेनानुमानादेरप्यमावाद् इति । सा च बुद्धिर्द्विविधा विद्या चाविद्या चेति । प्रत्यक्षलैङ्गिकस्मृत्यापलक्षणा विद्या। संशयविपर्ययस्वशानध्यवसायलक्षणा चाविद्या । तत्र विशेषादर्शने सति कोटियावलम्बि ज्ञान संशयः । स च समानधर्मासाधारणधर्मविप्रतिपत्तिभ- दात् त्रिविधः । तत्रायो यथा यथार्थायथार्थवर्तिज्ञानत्वसमानधर्मादिदं ज्ञानं प्रमाणमप्रमाणं चेति । द्वितीयो यथा गन्धवत्त्वादसाधारणधर्मादियं पृथिवी नित्यानित्या वेति । तृतीयो यथा शब्दो नित्य इति मीमांसकाः, अनित्य इति नैयायिकादयः । तत्र मध्यस्थस्य संशयः अयं शब्दो नित्योऽनित्यो वेति । निष्वपि विशेषादर्शनादयं कारणम् । अन्यथा निश्चयानन्तर- (म)पि समानधर्मादेः संशये सन्देहानुच्छेदप्रसङ्गात् । ऊहतको संशय । ।

। ७ वैशेषिकदर्शनम् । एवान्तर्भूतौ । यथा वीथ्यां पुरुष्णानेन भवितव्यमित्यूहः । स चानवधा- रणरूपत्वात् संशय एव । व्याप्यारोपे ब्यापकारोपस्तः। यदि कारणं न स्यात् कार्यमपि न स्यादित्येवरूपः । सब स्वातन्त्र्येणार्थानिश्चाय- कत्वात् संशय एव । प्रमाणानुग्राहकक्ष भवति । यदि घटोऽत्र नाभविष्यत्, तर्हि नोपालप्स्यत, तदभाववदिति अलक्षानुपहः । अनुमाने तु यद्यग्निर्न स्यात् तईि धूमोऽपि न स्यादिति पक्षे विपक्षस्वजिज्ञासाविच्छेदस्तदनुग्रहः । शब्दे च 'ज्योतिष्टोमैन स्वर्गकामो यजेते यत्र यदि यागः स्वर्गसाधनं न स्यात् तातोपदेशेन वेदेन न बोध्येत इत्याचूहनोयम् ।। विपर्य(य)स्तु तदभावात तत्यकारकं ज्ञानम् , अनिदवृत्तिप्रका- रकं ज्ञानं, व्यधिकरणप्रकारकं ज्ञानमित्यादि । तत्राद्यस्थायमर्थः प्रतीयमानस्य रजतत्वाधाकारस्याभाववति पुरोवर्तिनि परमार्थतः शुक्तिका- शकले, तत्प्रकारकं स रजतत्यादिः प्रकार आकारो यस्य तद् ज्ञानं विपर्यय इति । यथार्थज्ञानव्युदासाथ तदभाववतीति । इच्गनिरासाय ज्ञानमिति ।। द्वितीयस्याप्ययमर्थः -- विशेष्ये पुरोवर्तिनि इदं न वर्तते यः प्रकारो रजतत्वादिः स प्रकार आकारो यस्य ज्ञानस्य तदिदं रजतमिति ज्ञानं विपर्यय इति ॥ तृतीयोऽप्येवं व्याख्येयः-- इदन्त्वेन भिन्नोऽधिकरणो रजतत्वादि- यधिकरणः म प्रकारो यस्य तद् ज्ञानं विपर्यय इति । नन्विदं रजतमिति ज्ञानं विशिष्टं न भवति, येनान्यथाख्यातिः स्यात् । किन्तु इदमिति ग्रहणं रजतमिति स्मरणमिति ज्ञानद्वयम् । निरन्तरोत्सन्नतया तत्र मेदाग्रहादेकत्वाभिमानः । तथाच प्रयोगः विवादाध्यासिताः सर्वे प्रत्यया यथार्थाः प्रत्ययत्वाद् अयं पट इति प्रत्ययवदिति प्राभाकराः । साङ्खयाश्चाख्यातिमेव मन्यन्ते । तदसत् । सर्वानुभवसिद्धस्य भ्रमस्यापहोतुमशक्यस्वात् । पतावन्त कालमिदं शक्ति- शकलं रजतमित्यमादिति हि सर्वानुमवः । किञ्च ज्ञानद्वये एकत्वा- भिमान इति वदता भ्रमः स्वीकृत एव । ततो व्याघातः । अनुमाने तु । सर्वदर्शनकौमुद्या विवादाध्यासितपदेन किं विवक्षितं ज्ञानद्वयमेकज्ञानं वा । आधे सिद्ध- साधनम् । तस्य यथार्थत्वमस्त्येव । द्वितीयेऽन्ययाख्यातिस्वीकारः, वि- शिष्टज्ञानस्यैव तथात्वात् । इदमिति धाव वस्तुतः शुक्तिकाशकलं रजताकारेण भासत इत्येवान्यथाख्यातिः । अतः प्रत्यक्षमेव प्रमाण विपर्यये । अनुमानमपि । दिमतं शुक्तिकाशकलं रजतज्ञानविषयं रजतोपायान्यत्वे सति रजतार्थिनां प्रवृत्तिविषयत्वात् सम्यग्रजतवदिति ।। असदेव रजतं पुरोवर्तिनि भासते इत्यसख्याति(वादि)नो (मा)- ध्यमिकाः शून्यवादिनो बौद्धविशेषाः । तदप्यसत् । असत अपरोक्षा- वभासायोगात् । अन्यथा नरविवाणमपि प्रत्यक्ष भासत । आत्मख्यातिवादिनः क्षणिकविज्ञानवादिनो योगाचारा बौद्धवि- शेषाः बुद्धिस्थे रजते बहिष्ठमिढन्त्वमारोप्यत इति मन्यन्ते । रजतं च बुद्धौ सदेवेति मेनिरे । तत्र । अ. बुद्धौ सतो बाधायोगात् । भवनपि बाधो न बहीरजतमिति स्यात् । बाधश्चेदं (न) रजतमिति दृश्यते । अतो नाख्याति. रसख्यातिरात्मख्यातिर्वा (न?) समञ्जसम् । किन्तु अन्यथाख्याति: समञ्जसा । न च वाधासम्भवः । इह बाधितस्य देशान्तरे सत्त्वाङ्गीकारात् ।। विवसनास्त्वनैकान्तवादिनो जैनजनाः सदसद्रूपं रजतं रजतं मन्यन्ते । तदृष्टान्तेन च सर्व प्रपञ्चमनैकान्तं वदन्ति । तथाहि तेषां मते पदार्थाः सप्त सम्मताः । जीवाजीवानवसंवरनिर्जरवन्धमोक्षा नाम । संक्षपतस्तु जीवाजीवौ द्वावेव पदार्थों । यथायोगं तयोरेवेतरेषामन्तर्भावः । बोधात्मको जीवः । जडवर्गस्त्वजीवः । जीवाजीक्योरिममपरं प्रपञ्चमाच- क्षते पञ्चास्तिकाया नाम । तथाहि जीवास्तिकायः, पुद्गलास्तिकायः, धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकाय इति । अस्तीति काय्यन्ते शब्द्यन्ते इत्यस्तिकायाः। 'कै शब्द' इत्यस्य स्वरूपम् । पुद्गलं शरीरम् । तत्र जीवास्तिकायस्त्रेधा -- बद्धो मुक्तो नित्यसिद्धश्चेति । नित्यसिद्धो नाम अग्दिर्शनमूलभूतः । मुक्तः संसाररहितः । बद्धः संसारी। इति जीवास्ति- काय(स्त्र ? )यम् । पुद्गलास्तिकायः षोढा--पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति । एतानि पुग(लाल)साधकत्वात् तद्भेदाः ।

। १ वैशेषिकदर्शनम् । धर्मास्तिकायः प्रवृत्त्यनुमेयः । प्रवृत्तिः शास्त्रचोदितानुष्ठानं शास्त्रीयबाह्य- प्रवृत्तिश्च । ताभ्यामपूर्वाख्यो धर्मोऽनुमेयः । सततोर्ध्वगमनशीलो जीवः । तस्य देहेऽवस्थानेनाधर्मोऽनुमेयः । अधर्मेण ह्यय देहे तिष्ठति । आकाशास्ति- कायो द्विधा--लोकाकाशोऽलोकाकाशश्चेति । तत्रोपर्युपरि स्थितानां लोका- नामन्तवर्ती लोकाकाशः। मोक्षस्थानमलोकाकाशः । तदेवं जीवाजीवौ पञ्चचा प्रपञ्चितौ । आस्रवसंवरनिर्जराः प्रपञ्च्यन्ते । एते त्रयोऽपि प्रवृत्ति लक्षणाः । प्रवृत्तिश्च द्विधा सम्यक् मिथ्या चेति । तत्र मिथ्याप्रवृत्तिरासवः । सम्यक्प्रवृत्ती तु संवरनिर्जरौ । आस्रावयति पातयति पुरुषं विषयेष्विति इ. न्द्रियप्रवृत्तिात्रयः। इन्द्रियद्वारा पौरुषं ज्योतिर्विषयान् स्पृशद् रूपादिज्ञान- रूपेण परिणमत इति ! अन्ये तु कर्माण्यानवमाहुः । तानि कर्तारमभिव्याप्य सवन्ति कर्तारमनुगच्छन्तीत्यात्रवः । सेयं मिथ्याप्रवृत्तिरनर्थहेतुस्वात् । शम- दमादिरूपप्रवृत्तिः संवरः । (साशास्त्रवः सहि) इन्द्रियप्रवृत्तिःत्ति) संवृणो- तीति संवर इत्युच्यते । निर्जरस्तु अनादिकालप्रवृत्तकर्मकषायकलुषपुण्यापुण्य- प्रहाणहेतुः तप्तशिलारोहणादिः। स हि निश्शेष पुण्यापुण्ये सुखदुःखोपभोगेन नितरां जरयतीति निर्जरः । अथ बन्धः । स चाष्टविधिः १५) कर्म । तत्र घातिकर्म चतुर्विधम् । ज्ञानावरणीयं दर्शनावरणीय मोहनीयमन्तरीयं चेति। अधातिकर्म चतुर्विधम् । वेदनीयं नामिकं गोत्रिकम् आयुष्कं चेति । तत्र ज्ञानावरणीयं यथा-सम्यग्ज्ञानं न मोक्षसाधनं नहि ज्ञानाद् वस्तुसिद्धिः, आशामोदकादिज्ञानेभ्योऽपि तृप्तिप्रसङ्गात् । इति विपर्ययः । दर्शनावरणीयं कर्म आईतदर्शनाभ्यासान्न मोक्ष इति ज्ञानम् । मोहनीयं तु कर्मानेकधा विप्रतिषिद्धेषु सूत्रकारैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणम् । अन्तरीयं तु कर्म मोक्षमार्गप्रवृत्तानां मोक्षविघ्नकरं ज्ञानम् । तानीमानि श्रेयोहन्तृ- त्वाद् घातिकर्माण्युच्यन्ते । वेदनीयं तु कर्म शुक्लपुद्गलाकारेण परिणति- हेतुः । तद्धि बन्धोऽपि निःश्रेयसपरिपन्थि न भवति, तत्त्वज्ञानाविधाति- त्वात् । नामिकं तु कर्म शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणम् । तद्धि शुक्लपुद्गलस्याद्यामवस्थां कललबुबुदमारभते । गोत्रिकं तु ततोऽप्याचं शक्तिरूपेणावस्थितमव्याकृतम् । मायुष्कं तु कर्म आयुः कायति कथयति उत्पादनद्वारेति व्युत्पत्त्या तथोच्यते । अत्रायं क्रमः -शुक्लशोणितव्यतिकरे नाते मिलितं तदुभयस्वरूपमायुष्कम् । तस्य देहाकारपरिणमनशक्ति- तु - है तु । सर्वदर्शनकौमुद्या गोंत्रिकम् । शक्तिमति तस्मिन् बीजे कललाख्यद्रवावस्थाया बुबुदात्मक- तायाश्चारम्भकक्रियाविशेषा नामिकम् ! सक्रियस्य बोजस्य तेजःपाकवशा- दीपद्घनीभावः शरीराकारपरिणामहेतुवेदनीयमिति । तानीमानि चत्वारि शुक्लपुद्गाश्रयत्वाद् अघातिकर्माणि । शुक्ल पुण्यं पुद्ग शरीरम् । तदेत- कर्माष्टकं पुरुष बनातीति बन्धः । मोक्षस्तु विगलितसमस्तक्केशतद्वासन- स्यानावरणज्ञानस्य सुखरूपस्यात्मनः उपरिदेशावस्थानमिलेके । अन्ये ऊर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन च बद्धः तद्विमोक्षादूर्व गच्छत्येव, स मोक्ष इति । एते सप्त पदार्था जीवादयः सहावान्तरमेदैरूप- न्यस्ताः । तत्र सर्वत्र चेमं सप्तभङ्गीन नाम न्यायं योजयति । स्यादस्ति, स्यानास्ति, स्यादस्ति नास्ति च, स्यादवक्तव्यः, स्यादस्त्यवक्तव्यः, स्या- नास्ति चावक्तव्यः, स्यादस्ति च नास्ति वावक्तव्यश्चेति । स्याच्छब्दः खस्वयं निपातस्तिङन्तप्रतिरूपोऽनेकान्तद्योती । तथाच स्यादस्तीत्युक्ते कथाशिदस्तीत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ सप्त चैकान्तत्वमाः कथं कदा च प्रसरन्तीसपेक्षायामनन्तविजयः प्रतिपादयामास "तद्विधानविवक्षायां स्वादस्तीति गतिर्भवेत् । स्यान्नास्तीति प्रयोगः स्यात् तनिषेचे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायमाक् । युगपत् तद्विवक्षायां स्यादवाच्यमशक्तितः ॥ आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते। अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ।। समुचयेन युक्तच सप्तमो भङ्ग भष्यते ।" इति। अस्यार्थः---घटाद्यस्तित्वविवक्षायां स्यादस्ति कथञ्चिदस्तीत्यर्थः । घटादिनिषेधविवक्षायां स्यान्नास्ति कथञ्चिन्नास्तीत्यर्थः । क्रमेण घटास्ति- त्वनास्तित्वविवक्षायां समुदायमा प्रयोगः, कथञ्चिदस्ति कथञ्चिन्नास्ती- त्यर्थः । युगपदस्तित्वनास्तित्वयोर्विवक्षायां वाचः क्रमवृत्तित्वादुमयं युगप- दवाच्यमिति स्यादवक्तव्यार्थः । आधास्तित्वमङ्गोऽन्त्येनासवेन सह युग- वैशेषिकदर्शनम् । पदवाच्यमिति स्यादस्तिचावक्तव्यपदार्थः । अन्त्यमायेन भङ्गेन सह युग. पदवाच्य इति स्यान्नास्तिचावक्तव्यपदार्थः । स्यादस्ति नास्तीत्वयं मङ्ग एकैकेन सह युगपदवाच्य इति स्यादस्ति नास्ति चावक्तन्यभनार्थः । इमं सप्तमङ्गीनयं नित्यत्वैकत्वादावपि योजयन्ति । स्यादस्त्येकः स्यादस्ति नित्यमित्यादिना प्रकारेणानेकान्तः सर्वोऽपि पदार्थः । अत' एवेदं रजतं नेदं रजतमिति प्रतीतियाधौ सम्भवतः, सत्त्वात् प्रतीतिरसत्त्वाद् बाधश्च ।। अत्राभिदध्महे -- नायमभ्युपगमो युक्तः, एकस्मिन् विरुद्धधर्मयोः सत्त्वासत्त्वयोरसम्भवात् । सदसत्त्वे वस्तुनो धर्मों, उत स्वरूपम् । नाद्यः । असत्त्वदशायामपि (अ)सत्त्वस्यानुवृत्तिप्रसङ्गात् । असत्त्ववाद ? त् ) सत्त्व- स्यापि वस्तुधर्मत्वात् । न द्वितीयः । सर्वदैकस्मिन् वस्तुनि द्वयप्रसङ्गात् । न कोऽपि सषासन द्वयमेकत्रानुभवति । काल(देशे ? भेदे)न देशभेदेन च तदनुभवेऽपि वस्तुनो द्वैरूप्यं न भवति । नहि देशान्तरे कालान्तरे चासत्त्वे खदेशे काले वाप्यसद् भवति प्रत्यक्षविरोधात् । अतो नैकस्मिन् धर्मिणि युगपत् सत्यासत्त्वादिविरुद्धधर्मसमावेशः सम्भवति, यथा शीतोष्णे एकत्र न सम्भवतः तद्वत् । अन्यथा य एते सप्त पदार्था निर्धारिताः एतावन्त एवं- रूपाश्चेति, तत्रापि स्याद्वादः प्रसरेत् । ते तथैव वा स्युः, इतरथा हि वा। तथा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । किञ्च निर्धा- रणमपि वस्तुत्वाविशेषात् स्यादस्ति स्यान्नास्तीति विकल्पोपनिपातादनिर्धा- रणमेव स्यात् । एवं निर्धारयितुरपि निर्धारणफलस्यापि स्यात् पक्षेस्स्तिा साच पक्षे नास्ति(ता) चेत्येवं सति एवम्भूतस्तीर्थकरः प्रमातृप्रमाणप्रमेय- प्रमितिप्वनिर्धारिता(थ)स्तदुपदेष्टुं कथं शक्नुयात् । कथञ्च शिष्यास्तदमि- प्रायानुसारिणः तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् । ऐकान्तिकफलत्व- निर्धारणे सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते नान्यथा । तथा पञ्चानामस्तिकायानां पञ्चत्वसङ्ख्यास्ति न वेति विकल्प्यमाना स्यात् ताव. देकस्मिन् पक्षे। पधान्तरे तु न स्यात् । अतो न्यूनसङ्ख्यात्वमधिकसङ्ख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानां स्यादवक्त(व्यं ? व्यत्वं) सम्भवति । अवक्तव्याब नोच्येरन् , उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् । उच्य- मानाश्च तदैवावधार्यन्ते नावधार्यन्ते इति च विरुद्धम् । तदा तदवधारण- संबंदर्शनकौमुद्यां (मस्ति ?)फलमस्ति वा नवेति विरुद्धम् । एवं तद्विपरीतमसम्यग्दर्शनमस्ति वा नास्ति वेति प्रलपन भत्तोन्मत्त इव स्यात्, न प्रामाणिकः । स्वर्गापवर्ग- योरपि पक्षे भावः पक्षे चामावः, तथा पक्षे नित्यता पक्षे चानित्यता इत्य- नवधारणायां प्रवृत्त्यनुपपत्तिः । ततश्चानादिसिद्धजिनप्रवृत्तीनां स्वशास्त्रा- वधृतप्रभावानामयथावधृतस्वभावत्वप्रसङ्गः । अतो जीवादिपदार्थेष्वेकस्मिन् धर्मिणि(सत्त्वे सत्य सत्त्वधर्मस्यासम्भवात् , असत्त्वे च सति सत्त्वासम्भवाद् असङ्गतमिति।। ननु अनेकान्तवादे अनुमानं परिवृत्यते । विमतं सर्वमनैकान्तं प्रमे- यत्वात् । सामान्यविशेषवत् हेरम्बवत् नरसिंहवञ्चेति । तत् प्रत्यक्षबाधविधुरी- कृतम् उक्ततर्कपराहतं वा । तथाहि - प्रत्यक्षेण यावता भावानामुपलम्भः, तावतां नियतमेव रूपमुपलभ्यते । नानियतम् । अतोऽध्यक्षषाधः नित्य- सिद्धजीवादिपदार्थे अनेकान्तश्च । तत्रानियतत्वाभावेऽपि प्रमेयत्वसम्भवात् । तत्राप्यनियतत्वेऽपसिद्धान्तः । किञ्च अनैकान्ते यत् प्रमाणमुपन्यस्तं, तत् प्रमाणमेव उताप्रमाणमपि । प्रथमे प्रमेयत्वस्य तत्रैव व्यभिचारः । चरमे सर्वभावानामनैकान्तत्वासिद्धिः, अप्रमाणत्वात् । अथ प्रामाण्यमस्तीति तसिद्धिः, तदा अप्रामाण्यमस्तीति तदसिद्धिरपीति । यश्चायं दृष्टान्तः सा- मान्यविशेषवदिति, स साध्यविकलः । सत्ताव्यतिरिक्तं द्रव्यत्वादि सामान्य- विशेषवत् । तच्च सामान्यम् आश्रयान्तरात् स्वाश्रयस्य व्यावर्तकत्वादुपचाराद् विशेष इत्युच्यते । अतो न तत्राकारद्वयमस्ति । यच्चेदं नरसिंहहेरम्बोदाहरणं तदपि साध्यविकलम् । हेरम्बो नाम नराक्यवैर्गजावयवैश्च सम्भूयारब्धः कश्चिदवयवी । तस्यैकत्वान्न द्वैरुप्यम् । तथा नरावयवैः सिंहावयवैश्व सम्मूयारब्ध(क?) एक एवावयवीति न द्वैरूप्यसम्भवः । अतो नानैकान्तो- ऽनुमानं प्रमाणम् । पिच आत्मनः शरीरपरिमाणत्वेऽनित्यत्वप्रसङ्गः, साव- यवत्वाद् घटादिवत् । तत एव तद्वदात्मनः सुखज्ञानरूपत्वमपि न सम्भ- वति । किञ्च शरीरपरिमाणत्वे यदा अजादिसूक्ष्मपरिमाणं कर्मवशाद् गजादिशरीरं प्रविशति, तदा तत्परिमाणः कथं भवेत् । गजपरिमाणो वा कर्म- वशादजशरीरं प्रविशति, तदा तत्र न स मीयेत । एवं बहुदोषत्वादुपेक्षणीय- मेतत् । एवञ्चाख्यात्यसत्ख्यात्यात्मख्यातिसदसख्यातिपक्षाणामसम्भवाद- न्यथाख्यातिरेव विपर्यय इति स्थितः ॥

लक्षम् । साक्षात्कारिप्रमैन वैशेषिकदर्शनम् । निद्रादुष्टमनोजन्यं ज्ञानं स्वप्नः । न च स्वप्नो विपर्यय एव अतस्मि- स्तबुद्धित्वादिति वाच्यम् । जागरावस्थायां विपर्ययस्य प्रसिद्धत्वात् । स्वप्नेऽपि प्रत्यक्षादिमानव्यवहारवत् संशयविपर्ययादिव्यवहारस्यापि सद्भा- वात् पृथगेव स्वप्नः अनध्यवसायस्तु किंसंज्ञकोऽयमिति संज्ञाविशेषजिज्ञासारूपः । न चायं संशय एव, कोटिद्वयापरामर्शात् । एवमविद्या चतुविधा व्याख्याता ॥ इदानी विद्याभेदाः प्रतिपाइन्ते । तत्र साक्षात्कारिनमाकरणं प्र- फलम् । साक्षात्कारित्वं च ज्ञानगतावान्तरभेदः । स चेन्द्रियजन्यज्ञानवृत्त्यनुमित्याद्यवृत्तिस्मृतित्वान्यजातिः । यथार्थानुभवः प्रमा। अबाधितपरोक्षप्रत्ययः प्रत्यक्षामा । सा च द्वेषा ---योगिप्रत्यक्षा- योगिप्रत्यक्षभेदात् । योगिप्रत्यक्षमपि द्विविधम्- युक्तावस्थायां वियुक्ताव- स्थायां चेति । आयं तु योगजधर्मसहकृतादात्ममनस्संयोगादशेषार्थग्राहकम् । द्वितीयं च योगाभ्यासजनितधर्मदेशकालायुपेक्षया इन्द्रियसञ्चिकर्षात् परमा. ग्वाधशेषार्थग्राहकम् । ग्राहकमित्युपचारः, वस्तुतो ब्रहणमेव । अयोगिप्रत्यक्षं तु देशकालधर्माद्यनुग्रहात् पडिन्द्रिययोग्यार्थग्रहणम् । तद्यथा-चक्षुःस्पर्शन- संयोगाद् घटादिद्रव्यज्ञानम् । एताभ्यामेव संयुक्तसमवायसन्निकर्षात् सत्ता- द्रव्यत्वघटत्वादिसङ्ग्यापरिमाणादिज्ञानम्। चक्षुषैव संयुक्तसमवायाद् रूप- ज्ञानम् । रसनेनैव रसज्ञान, प्राणेनैव गन्धज्ञानं, त्वचैव स्पर्शज्ञानं, मनसैव सुखादिज्ञानम् । तैरेव संयुक्तसमवेतसमवायाद् रूपत्वरसत्वगुणत्वरसत्वादि- ज्ञानम् । श्रोत्रसमवायाच्छन्दग्रहणं, तदाश्रितसामान्यग्रहणं समवेतसमवाया- दिति । एतेषु विशेषणविशेष्यमावसम्बन्धादभावग्रहणम् । तत्र भूतले घटा- भावग्रहणं संयुक्तविशेषणतावलात् । रूपे रसाभावग्रहणं संयुक्तसमवेतविशे- षणताबलात् । रूपत्वादिजातौ भेदाभावग्रहणं संयुक्तसमवेतसमवेतविशे- पणताबलात् । ककोरे गत्वाभावग्रहणं समवेतविशेषणताबलात्। कत्वे भेदा- (भा)बग्रहणं समवेतसमवेतविशेषणताबलात् । इति पञ्चविधसम्बन्धसम्बन्धि- विशेषणताबलादभावग्रहणम् । विशेषणतास्वरूपसम्बन्धो विशेषणविशेष्य- भाव इत्यनर्थान्तरम् । समवायस्तु वैशेषिकसमयेऽतीन्द्रिय एव इत्यत्र सम्बन्धापेक्षा नास्ति । प्रत्यक्षज्ञाने करणमिन्द्रियमेव । तस्य निर्विकल्प(क)- बाने जनयितव्ये षोडा सविकर्षोऽवान्तरव्यापारः । सविकल्पके जनयितव्ये । , ।

सर्वदर्शनकौमुद्यां सन्निकर्षों निर्विकल्पकज्ञाने व्यापारः । हानादिबुद्धिषु जनयितव्यासु सन्नि- कपनिर्विकल्पसविकल्पकज्ञानान्यवान्तरव्यापारः । व्यापारवाद्धि करणम् । नहि व्यापारण व्यापारिणो व्यवधानं भवति कुठारादेरप्यकरणत्वप्रसङ्गात् । तत्र निर्विकल्पकं पुरोवर्तिवस्तुमात्रग्रहणम् । सविकल्पकं तु नामजातिगुण- द्रव्यविशिष्टज्ञानन् । यथा चैत्रो ब्राह्मणः पाचकः शुक्लो दण्डीति क्रमेणो- दाहरणानि॥ तत्र निर्विकल्पकमेव प्रमाणमास्थिषत सौगताः । तथाहि -वस्तु- मात्रस्वरूपं स्वलक्षणं गृह्णनिर्विकल्पकं प्रमाणं भवति । (निर्वि ? सवि). कल्पकं तु कल्पितसामान्यादिविषयत्वादप्रमाणम् । नन्वनुगताकारविषयत्वाद् गोत्वादिकं कल्पितमिति चेदित्यं भूणु । गोत्वादिकं सर्व सर्वत्र वर्तते, स्वव्यक्तिमात्रे । आधे भवादावपि गोत्वप्रसङ्गः । द्वितीये तु प्रत्ययोत्पन्नायां व्यक्ती कथं जातिप्रतीतिः । अन्यतस्तत्रायाति वा पूर्वं तत्रामृद्वा सहोत्पयते वा न प्रतीयत एव वा । न प्रथमः । निरवयवस्य क्रियाभावेन तत्रागमना- सम्भवात् । न द्वितीयः। पूर्व स्वव्यक्त्यभावेन तबासत्त्वात् । न तृतीयः नित्यत्वेनोत्पत्त्यसम्भवात् । न चतुर्थः । व्यक्त्युत्पत्त्यनन्तरं तत्र प्रतीयमान- त्वात् । यथाहु "नायाति नच तत्रासीदस्ति पश्चान्नचांशवत् । जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥" इति । ननु जात्यनङ्गीकारेऽयं गौरयमपि गौरिति व्यवहारः कथमिति चेद् , अन्यापोहादिति गृहाण । अगोव्यावृत्तत्त्वं हि सकलगोव्यक्तिष्वनुगतम् । तेनानुगतव्यवहारः । तस्मात् कल्पितसामान्यादिविषयत्वात् सविकल्पकं न प्रमाणमिति बौद्धाः॥ अत्रोच्यते-सविकल्पकानङ्गीकारे निर्विकल्पके मानाभावात् तदपि न स्यात् । अनुमानाप्रामाण्यप्रसङ्गाच । अनुमानस्य सप्रकारत्वेन स्वलक्षण- मात्राविषयत्वात् । परम्परया तद्विषयत्वमस्ति तत्रापीति यदि, तर्हि सविक- स्पकस्यापि परम्परया स्वरणविषयत्वमस्त्येव । न च सामान्यं कल्पितम्। । । ।

- वैशेषिकदर्शनन् । ४१ अनुगतप्रत्यक्षसिद्धत्वात् । न चान्योऽपोहाइतुगतव्यवहारः । इतरेतराश्रय- त्वात् । गोव्यवहारे सिद्धे तव्यतिरिक्त अगोव्यवहारः । अगोव्यवहारे च सिद्धे तव्यावृत्त्या गोव्यवहार इति । अतो गोव्यवहारार्थ विविरूपा जातिरेवाभ्युपगमनीया । सा च सर्वत्र वर्तते । स्वव्यतया खभिव्यज्यते । प्रत्यग्रोत्पन्ने तु वस्तुनि तत्र स्थितैवाभिव्यज्यते । पूर्वन्तु व्यक्त्यभावान्न प्रतीयते । तस्माद् दूषणश्लोकोऽप्यकाण्डे ताण्डवायते । जातेरवश्याभ्युपेय- त्वाद् , अतव्यावृत्तेरसम्भवात् । अतस्सविकल्पकमपि प्रमाणम् ।। ननु सविकल्पकमेव प्रमाणमिति शाब्दिकाः । तथाहि - सर्वोऽपि प्रत्यक्षन्यवहारः शब्दोल्लेखं विना न प्रवर्तते । चैत्रो ब्राह्मण इत्यादिनैव व्यवहारात् । तदुक्तं 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाहते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।।" इति । तन्न । निर्विकल्पकस्यापि प्रामाणिकत्वात् । यतः शब्दार्थयोः सम्ब- न्धिनोरन्यतरग्रहणे अन्यतरस्मरणमाविरस्ति । यथा पदग्रहणे अर्थग्रहणम् । तथाच निर्विकल्पकेन प्रथममर्थग्रहणाभावे संज्ञास्मरणाभावात् साविकल्पक मेव न जायत । निर्विकल्पकेनार्थग्रहणे सम्बन्धिदर्शनात् । संस्कारोबोधे संज्ञास्मरणात् सविकल्पकं भवेत् । अतः कार्येण कारणानुमानम् । तदुक्तम्-- "अस्ति शालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥" तस्मात् सविकल्पकं निर्विकल्पकमुभयं प्रत्यक्षफलम् । तत्करणं चेन्द्रियं प्रत्यक्षप्रमाकरणमिति वैशेषिकादयः ।। अथ लैङ्गिकम् । लिङ्गाज्जातमनुमितिरूपं ज्ञानं लैङ्गिकम् । तत्का- रणमनुमानम् । अनुमीयते येन तदनुमानं लिङ्गपरामर्शः, परामृश्यमानं वा लिङ्गं व्याप्तिस्मृतिर्वा । तैीनुमीयते व्याप्तिबलेन । गमकं लिङ्गमिति लक्ष- णम् । व्याप्तिश्चाव्यभिचरितः सम्बन्धः, निस्पाधिको वा सम्बन्धः । ।

४२ सर्वदर्शनकौमुद्यां व्यभिचारो नाम हेतोः साध्याभाववति वृत्तिः । तदभावोऽव्यभिचारः । स च भूयोदर्शनसहितसहचारदर्शनव्यभिचारादर्शनवता प्रत्यक्षेण मान- सेन गृह्यते । यत्र साधनं तत्र साध्यमिति अन्वयेन व्याप्तिगहः । यत्र साध्यामावस्तत्र साधनाभाव इति व्यतिरेकेण व्याप्तिग्रहः । उपाधिश्च व क्ष्यते । तदभावसहकृतेन वा प्रत्यक्षेण सतर्केण व्यातिगृह्यते । ननूपाधिः कथं निराकर्तव्यः । योग्यस्य योग्यानुपलब्ध्या निराससम्भवेऽपि अयोग्यो पाधेनिराकर्तुमशक्यत्वात् । अनुपलब्धिमात्रेण निरासे सर्वातीन्द्रियनिरास- प्रसङ्गात् । ततश्च शङ्कितव्यभिचारेण व्याप्तिग्रहोपायस्यासम्भवात् कथं तद्ग्रहणमिति चेत् । मैवम् । अयोग्योपाधिः कथं शङ्कनीयः, भविष्यति कश्चिदत्रोपाधिरिति वा विशेषेण निर्दिश्यमानो वा । नाद्यः, सर्वानुमानो. च्छेदप्रसङ्गात् । चार्वाकस्येयमिष्टापत्तिरितिचेत् तर्हि प्रत्यक्षमात्रवादिनस्तस्य भोजनादौ प्रवृत्त्यसम्भवाज्जीवनमेव दुर्लभं स्यात् । नहीष्टसाधनत्वं प्रत्य. क्षम् । येन तदवगम्य भोजनादौ प्रवृ(त्य ? ति)सम्भ(वात् ? वः) कि- न्त्वनुमेयम् । तथा च तदनङ्गीकारे स्वव्याघात एव स्यादिति । नतु द्वितीयः । स तु योग्य एवेति तस्य योग्यानुपलब्ध्या निरासात् । यदि सविशेष उपाधिलक्षणवान्, तर्हि सोपाधिकत्वमेव हेतोरिष्टम् । किश्चानुकूल- तर्केण हेतोरुपाधिर्निरसनीयः । कार्यकारणभावादिरनुकूलस्तर्कः तद्भङ्गप्रस- मेऽभिहिते पुनः शङ्कव नोदेति । अत उपाध्यभावसहकृतेन भूयोदर्शन- रूपप्रत्यक्षेण व्याप्तिग्रहणमिति सिद्धम् ।। उपाधिश्च विचार्यते - व्यतिरेकधर्म उपाधिस्वरूपम् । लक्षणं तु-साध्यसमव्यापकत्वे सति साधनाव्यापकत्वम् । साध्यव्यापकत्वं च साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् । साधनसमानाधिकरणात्य- न्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । तेन नेतरतराश्रयत्वम् । अन्यथा व्याप्तिसिद्धौ उपाधिसिद्धिः उपाधिसिद्धौ निरुपाधिकसम्बन्धरूपव्याप्ति- सिद्धिरित्यन्योन्याश्रयता स्यात् । साध्येन समानाधिकरणाः साध्येन सह- तयो येऽत्यन्ताभावा अव्यापका(नान्ते ? स्ते)षामप्रतियोगित्वम् । अव्या- पकभावस्य सन् विप्रतियोगी न व्यापकः। व्यापकस्यात्यन्ताभावश्च साध्येन सह नास्ति, तेन सह व्यापकस्यैव वृत्तेः । साधनसमानाधिकरणस्तु यो- (ग्यता?)त्यन्ताभावः, तस्य साध्यव्यापकोऽपि प्रतियोगी भवति ।

। वैशेषिकदर्शनम् । कचित् साधनेन सह तस्यावृत्तेः । यथा हि निषिद्धत्वमधर्मसाधनत्वं साध्यं च्याप्नोति, तेन सह सर्वत्र वृत्तेः । साधनं च हिंसात्वं न व्याप्नोति, पक्षी- कृतवैधहिंसायां हिंसात्वे सत्यपि निषिद्धत्वाभावात् । समपदं तु यत्रोपा- धिस्तत्र साध्यमिति प्रदर्शनार्थम् । यथा यत्र यत्र निषिद्धत्वं तत्र तत्राधर्म- साधनत्वं कलअभक्षणादौ । ननूपाधेः साध्यव्यापकत्वं युक्तम् । पक्षे स्वनिवृत्त्या साध्यव्यावृत्तिहेतुत्वात् । व्याप्यत्वं च दूषणानौपाधिक- त्वात् किमर्थमितिचेत् । सत्यम् । उपाधिपदप्रवृत्तिनिमित्तत्वार्थ व्याप्यत्व- मप्यङ्गीकर्तव्यम् । उप समीपे स्वधर्म(मना ? मा दधातीत्युपाधिरुच्यते । यथा जपाकुसुमं स्वसन्निहिते स्फटिकादौ लौहित्यमादधदुपाधिः । एवमनुमाने दृष्टान्ते ब्रह्महननादावधर्मसाधनत्वेन निषिद्धत्वस्ययव्याप्यत्वं तद्धिंसाले प्रतीयत इत्यसावपि निषिद्धत्वादिरूपाविरुच्यते । व्यापकत्वं च दूषकता- चीजम् । दूषकत्वं चोपाधेयभिचारोन्नायकत्वेनेत्येके । व्याप्यत्वासि- ट्युन्नायकत्वेनेत्यपरे । सत्प्रतिपक्षोत्थापकत्वेने यन्ये । व्यभिचारोन्नायकत्वं त्वेवं-पक्षे व्यापकोपाधिव्यावृत्त्या व्याप्यस्य साध्यस्य व्यावृत्तौ पक्ष- स्यैव विपक्षत्वेन हेतोय॑भिचार इति । व्याप्यत्वासिद्धिस्तु - हेतोळभि- चारादेव व्याप्त्यभावात् । स(म्प्र ? त्योतिपक्षता तु - वैधी हिंसा अधर्म- साधनं, हिंसात्वात्, ब्रह्महिंसावत् इत्यनुमाने वैधी हिंसा नाधर्मसाधनम् । अनिषिद्धत्वात् अग्निहोत्रवत् इत्युपाधिव्यतिरेकेण साध्यविपर्ययानुमानम् । तत्र व्यभिचारोन्नयनस्योपजीव्यत्वात् तदेव दूषण युक्तम् । लक्षणव्यावृत्यं तु अभिनवसप्तपदार्थ्याम् अस्माभिः सम्यङ् निरूपितमिति नेह विपञ्च्यते ।। तच्चानुमानं द्विविध-स्वार्थपरार्थभेदात् । स्वप्रतिपत्तिहेतुः स्वार्थम् । यथा स्वयमेव धूमादिलिङ्गं दृष्ट्वा स्मृतव्याप्तिकः पर्वतादौ वह्निरस्तीत्यनुमिनोति । परप्रतिपत्तिहेतुः परार्थानुमानम् । यथा शब्दादौ कृतकत्वादिना स्वयमनित्यत्वं निश्चित्य तत्र विप्रतिपन्नपरबोधनार्थ पञ्चावयववाक्यप्रयोगः । अवयवास्तु - प्रतिज्ञाहेतूदाहरणोपनयनिगम- नानि । प्रतिज्ञादीनां महावाक्यैकदेशत्वादवयवशब्दवाच्यत्वम् । ततश्चा- क्यवा इवावयवाः । तत्र साध्यसिषाधयिषया पक्षवचनं प्रतिज्ञा । पक्षश्व सन्दिग्धसाध्यधर्मा । यथा शब्दोऽनित्य इति । प्रतिजामाते तो ? ।

सर्वदर्शनकौमुद्या वचनं हेतुः, कृतकत्वात् । कृतकत्वेन यतः कृतक इत्यादिरूपः । सम्यग् दृष्टान्ताभिधानम् उदाहरणम् । यथा यत् कृतकं तदनित्यं यथा घट इत्यादि । दृष्टान्तानन्तरं पक्षे व्याप्तिरव्यापकं वचनमुपनयः यथा तथायं शब्दः कृतक इति । उपनयानन्तरं सहेतुकं पुनः प्रतिज्ञावचनं निगमन, तस्मादनित्य एवेति । निगमनं चावश्यकम् । तस्मादनित्य एवेत्युक्ते नित्यो न भवतीति प्रतीयते । अतः साध्यविपर्ययप्रतिपादकम् । प्रमाणाभावसूचकत्वात् हेतुना पक्षधर्मतामात्रदर्शनाद् व्यातिविशिष्टवर्मत्वप्रतिपादनाय तथा वह्निव्याप्य- धूमवानयमित्येवरूपोपनयोऽप्यपेक्षणीयः । हेतुश्च त्रिविधः, केवलान्वयी केवलव्यतिरेकी अन्वयव्यतिरेकी चेति । तत्र पक्षव्यापकः सपक्षवृत्तिरविद्य- मानविपक्षः केवलान्वयी । यथा शब्दोऽभिधेयः प्रमेयत्वाद् घटवत् । अन- भिधेयस्य कस्यचिदभावादविद्यमानविपक्षः शब्दव्यतिरिक्तः सर्वोऽपि सपक्ष एव । शब्दः सर्वोऽपि प्रमेय एवेति पक्षव्यापकः । अयं च पक्षव्यापकः सपक्षकदेशवृत्तिरपि कश्चित् । अदृष्टादिकं कस्यचित् प्रत्यक्षं मीमांस- कानामप्रत्यक्षवादस्मत्सुखादिवादिति मीमांसकानां प्रत्यक्षातिरिक्तं प्रमाण- गम्यत्वं घटादौ सपक्षे न वर्तते । वर्तते(वा? चास्मत्सुखादाविति सपक्षकदेशवृत्तिः । अप्रत्यक्षस्य कस्याप्यभावादविद्यमानविपक्षत्वम् । पक्षव्यापकोऽविद्यमानसपक्षो विपक्षाद् व्यावृत्तः केवलव्यतिरेकी । यथा- सर्वज्ञप्रणीता वेदाः, वेदत्वात् , (यन्न ? यो न) सर्वज्ञप्रणीतः स न वेदः यथा कालिदासादिवाक्यम् । नचाप्रसिद्धविशेषणः पक्षः, सर्वादिपदार्थानां प्रसिद्धत्वात् । समुदायार्थोऽप्रसिद्ध इति चेत् पदार्थान्वयरूपत्वात् समु. दायार्थस्य, अन्यथा पर्वतोऽग्निमानित्यत्रापि पर्वतीयानिमत्त्वस्य क्वाप्यप्रसिद्धे- रप्रसिद्धविशेषणः पक्षः स्यात् । किञ्च यत्र विपक्षे वाधकस्तों नास्ति तत्राप्रसिद्धविशेषणता दोषः स्यात् । यथा शशविषाणोल्लिखिता भूः, भूत्वात् , व्यतिरेके गगनवदित्यादौ । अन्न सर्वज्ञप्रणीतत्वाभावे अस्मदादिभिर्वेदा- थापीरज्ञानात् तत्प्रणयनासम्भवात् तदर्थानुष्ठानस्यासम्भवात् पारलौकिक- व्यवहारविप्लवप्रसङ्गो बाधकस्तर्कः। पक्षव्यापकःसपक्षवृत्तिर्विपक्षाद् व्यावृत्तो. ऽन्वयव्यतिरेकी । अनित्यः शब्दः कार्यत्वात् , यत् कार्यं तदनित्यम् । यथा घट इति सपक्षव्यापकः । ननु भागभावोऽग्यनित्यत्वात् सपक्षः, तत्र हेतोरभा- वातु कथं सपक्षव्यापकत्वमिति चेन्न। उभयावधिमत्त्वस्यानित्यत्वात् , प्रागand । । वैशेषिकदर्शनम् । भावस्योत्तरावधिसम्भवेऽपि अनादित्वात् । भूखा अभावित वा अनि त्यत्वं, प्रागभावस्य चाभूत्वा भाविस्वान्नानियत्वम् । विनाशित्वं वा अनि. त्यत्वं, प्रागभावस्य भावोत्पादकत्वान्न विनाशः, भावे चोत्पन्ने उपचारा द्विनाशव्यवहारः, स्वरूपादर्शनं चोपचारे हेतुः । नच कार्यत्वं ध्वंसे अनै- कान्तम् , अभूत्वा भावित्वस्व कार्यत्वाद् बंसस्य च भूत्वा भावित्वात् । कारणसमवेतत्वं वा कार्य, ध्वले तदभावात् । अतः सपक्षव्यापको न व्यभि- चारी । अनित्यः शब्दः क्षणिकविशेषगुणत्वात् , सुखादिवदिति सपक्षकदेश- वृत्तिः । क्षणिकत्वमाशुतरविनाशिवं, न क्षणमात्रावस्थायित्वम् । अतो नासिद्धिः । सपक्षे रूपादावमावादेकदेशवृत्तित्वम् । अयं च पञ्चभी रूपैः सम्पन्न एव साध्यस्य साधकः । तानि च रूपाणि --- पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षायावृत्तिः, अबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्च । सिषाधयिषितसाध्यधर्मा पक्षः । तत्र हेतोप्प्यबृत्तित्वं पक्षधर्मत्वम् । निश्चि- तसाध्यधर्मा सपक्षः । तत्र सर्वनैकदेशे वा वर्तमानत्वं हेतोः सपक्षवृत्तित्वम् । साध्यत्वात्यन्ताभाववान् विपक्षः। ततः सर्वस्मा(द्वा? द्वया)वर्तनं हेतोविपक्षा- द्वयावृत्तिः । बलवत्प्रमाणविरोधो बाधः तद्वान् बाधितः । एवंमूतो विषयः साध्यं पक्षे न विद्यते यस्य हेतोः सोऽबाधितविषयः । तस्य भावस्तत्त्वम् । असत्प्रतिपक्षः साध्याभावसाधको यस्य तस्य भावस्तत्त्वम् । केवलव्यतिरेकी तु चतूरूपः, तस्य सपक्षाभावेन तद्वृत्तित्वरूपाभावात् । केवलान्वय्यपि चतूरूपः तस्य विपक्ष? क्षा)भावेन ततो व्यावृत्तिरूपाभावात्। एवं सद्धेतवः त्रिप्रकाराः । असद्धेतवस्तु हेत्वाभासाः । ते चानेकप्रकाराः । तेषामाभासत्वं रू- पान्यतमवैकल्यात् । यद्यप्यनेके हेत्वाभासाः, तथापि वर्गभेदेन पञ्चधा भवन्ति। तद्यथा-- असिद्धो विरुद्धोऽनैकान्तिकः कालात्ययापदिष्टः प्रकरणसमश्चेति। तत्र रूपवैकल्यं कथमितिचेद् एवं पक्षधर्मताभावे चासिद्धः, सपक्षवृत्तिविपक्षा- घ्यावृत्त्योरभावे विरुद्धः, तस्य सपक्षविपक्षयोरेव वर्तमानत्वात् , विपक्षाद्वया- वृत्त्यमावऽनैकान्तिकः । पक्षसपक्षवृत्तित्वाभावे असाधारणः। अबाधितविषय- स्वाभावे कालात्ययापदिष्टः । असत्प्रतिपक्षत्वाभावे प्रकरणसमः । अनुमानस्य द्वे अङ्गे व्याप्तिः पक्षधर्मता च । तदन्यतराभावेन पञ्चाभासा भवन्ति । तत्र व्याप्त्यभावेन विरुद्धव्यभिचारौ । पक्षधर्मताभावाद् असिद्धिः । उभयोरभावाद् बाधः। प्रकरणसमो व्याप्त्यभावादेव । उभयोर्हेत्वोरेकत्र विरुद्धयोाप्त्यमा- सर्वदर्शनकौमुद्यां वात् । तत्रानिश्चितपक्षवृत्तिरसिद्धः । नास्तीति निश्चिता वा पक्षे सन्दिग्धा वा वृत्तिर्यस्येति विग्रहः । व्याप्तस्य हेतोः पक्षधर्मताप्रतीतिः सिद्धिः । तदभा. वोऽसिद्धिः । सा(य? च)व्याप्तिपक्षतद्धर्माणां तज्ज्ञानानाम् अभावेन चतुर्धा इत्युदयनमतम् । तथा च व्याप्त्यभावाद् व्याप्यत्वासिद्धिः । पक्षाभावा- दाश्रयासिद्धिः । पक्षधर्मताभावात् स्वरूपासिद्धिः । एतेषामन्यतमज्ञानाभावा- दज्ञानासिद्धिः । व्याप्यत्वासिद्धौ यथा स श्यामो मित्रातनयत्वात् परि- दृश्यमानमित्रातनयस्तोमवदिति । तत्र शाकाद्याहारपरिणाम उपाधि, तत्र वैद्यशास्त्रान्नरश्यामत्वे शाकाद्याहारपरिणामः कारणत्वेन गृहीत इति साध्यव्यापकः । साधनाव्यापकत्वञ्च सन्दिह्यते । पक्षीकृतमित्रातनये हेतु- निश्चितः । तत्र शाकावन्नपरिणामेन भवितव्यमत्र न प्रमाणमस्ति । समीची नानपरिणामस्यापि गौरत्वहेतोः सम्भवात् । अतः साधनाव्यापकत्वसन्देहा- च्छङ्कितोपाधिः । निषिद्धत्वञ्च निश्चितोपाधिः । तस्याधर्मसाधनत्वसाध्य व्यापकत्वस्य निश्चयाद् वैधीहिंसायां साधनाव्यापकत्वनिश्चयाच तत्र निषि- द्धत्वस्याभावाद् रागतः प्राप्ता शत्रुहिंसा निषिध्यते । नतु विधितः प्राप्ता अग्नीषोमीयहिंसा । 'न हिंस्यादिति सामान्यतो निषिद्धस्य हिंसात्वस्य 'अग्नीषोमीयं पशुमालभेते'ति विशेषविधानबाधितत्वाद् रागतः प्राप्तैव हिंसा निषिध्यते, न तु विधितः प्राप्ता । अन्यथा तद्वैयर्थ्यापातात् । अतो निषिद्धत्वं निश्वितोपाधिः । अयं च हेतुः सोपाधिकत्वाद्वयाप्यत्वासिद्धः । अपरस्तु व्याप्तिग्राहकप्रमाणाभावाद् व्याप्यत्वासिद्धः । यथा सर्व क्षणिक सत्त्वाद् , यथा वा सर्वमनित्यं प्रमेयत्वादिति । अत्र दृष्टान्ताभावाद्वयाप्तिग्रा- हकप्रमाणाभावः ततश्चासिद्धः। आश्रयासिद्धो यथा -खपुष्पं गन्धवत् पुष्पत्वात् चम्पकपुष्पवद् इति । स्वरूपासिद्धो यथा अनित्यः शन्दः चाक्षुषत्वाद् घटवद् इति । सिद्धसाधनमप्याश्रयासिद्धः । सन्दिग्धसाध्य- वतो हि पक्षत्वम् । साध्यस्य निश्चितत्वे सन्देहाभावादाश्रयत्वमेव नास्ति । अतः पक्षसद्भावेऽपि सन्दिग्धसाध्याभावात् पक्षत्वमेव नास्तीति आश्रया- सिद्ध एव । यथा अनित्यः शब्दः कृतकत्वादिति शाक्यं प्रति प्रयोगः, यथा वा घटोऽनित्यः कार्यत्वादिति मीमांसकादीन् प्रति प्रयोगे प्रतिवादिनोऽपि मते साध्यसिद्धत्वात् सिद्धसाधनम् । अत्र साध्यस्य सिद्धत्वात् सन्देहा- samstion वैशेषिकदर्शनम् । भावेन घटादेः पक्षत्वमेव नास्ति । अतो गगनारविन्दादौ विशेष्याभावा- दाश्रयासिद्धतेवात्र विशेषणाभावादाश्रयासिद्धता । तदुक्तम् "आश्रयासिद्धता हेतोः सिद्धधर्मस्य साधने । पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यतः॥" इति । अज्ञानासिद्धो यथा-सर्व क्षणिकं सत्त्वादिति व्याप्त्यज्ञानाद- सिद्धः । अत्र व्याप्तिग्राहकप्रमाणाभावाद्वयाप्तिज्ञानाभावः । इदानीमदृष्ट कार्यजनक भोजकादृष्टत्वात् कार्यानुमितमोजकादृष्टवदित्याश्रयाज्ञाना सिद्धः । देवदत्तो बहुधनो भविष्यति तद्धेतुभूतादृष्टाश्रयत्वादिति स्वरूप- ज्ञानासिद्धः । भागासिद्धव्यधिकरणासिद्धव्यर्थविशेष्यासिद्धादयोऽसिद्धभेदाः स्वरूपासिद्धावेवान्तर्भूताः । यथा अनित्यः शब्दः अपदात्मकत्वात् , सैव प्रतिज्ञा घटस्य, कृतकत्वात् । सैव प्रतिज्ञा कृतकत्वे सति गुणत्वाद, गुणत्वे सति कृतकत्वादित्यादय ऊह्याः । एते चासिद्धभेदाः वादिप्रतिवादि- नोरन्यतरस्याप्रसिद्धत्वेऽन्यतरासिद्धाः । उभयोरप्रसिद्धत्वे उभयासिद्धाः ॥ इलासिद्धः॥ Nan- साध्यविपर्ययव्याप्तो हेतुर्विरुद्धः, पक्षविपक्षयोरेव वर्तमानो हेतुर्वा । स च साध्येन विरुध्यते तदभावव्याप्तत्वादिति विरुद्धः । यथा -नित्यः शब्दः कृतकत्वादिति । नन्वयं व्याप्यत्वासिद्धः कस्मान्न भवनि नित्यत्वेन सह कृत(क)त्वव्याप्त्यभावात् । साधनविकलो वा कुतो न भवति, गगने दृष्टान्ते हेत्वभावात् । सत्प्रतिपक्षत्वं वा किमिति न भवति, कृतकत्वेनानि- त्यत्वसाधनादिति चेत् । मैवं बोचः । विरोधस्योपजीव्यत्वेन तस्यैव दोषत्वात्, नान्येषाम् , उपजीवकत्वात् , 'उपजीव्योपजीवकयोरुपजीव्यं बलवदिति न्यायात् । पुरः स्फूर्तिकत्वेनाप्यस्यैव दोषत्वात् ।। सव्यभिचारोऽनेकान्तः । अन्तशब्दो निश्चयवाची । एकेन साध्येन सह अन्तो निश्चयो न विद्यते यस्यासावनेकान्तः । व्यभिचारो द्विधा- अन्वयेन व्यतिरेकेण चेति । अनेकान्तोऽपि द्वेधा साधारणोऽसाधारणथेति । आद्यः पक्षत्रयवृत्तिः । तस्य चान्वयेन व्यभिचारः । स्वदेशातिलङ्घनं हि व्यभिचारः। हेतोश्च देशः पक्षः सर्वः । सपक्षस्तु सर्वः कतिपयो वा। तद्विहाय । ।

। यथा - सबेदर्शनकौमुद्यां विपक्षेऽपि वर्तनं व्यभिचारः । शब्दोऽनित्यः प्रमेयत्वाद् घटवत् । पक्षमात्र- वृत्तिरसाधारणः । तस्य च व्यतिरेकेण व्यभिचारः । हेतोर्विपक्षाच्यावृत्तिः व्यतिरेकस्य युक्ता । तस्य सपक्षादपि व्यावृत्ति भिचारः स्वस्थाना- तिलचनात् । भूनित्या गन्धवत्त्वाद् गगनवत् । ननु तर्हि केवलव्यतिरे- क्यपि असाधारणः स्यात् , तस्यापि पक्षमात्रवृत्तित्वादिति चेत्, सत्यम् । तत्र सपक्षस्यैवाभावात् । सति सपक्षे हि तत्रावर्तनं दोषः । अत एवोक्तं वरदराजेन- 'सपक्षे सति चामासः स्यादसाधारणस्त्वसौ ।' इति ॥ बलीयसा प्रमाणेन बाषितसाध्यो हेतुः कालास्ययापदिष्टः । पक्षे हि सन्दिग्धसाध्ये सति हेतोः प्रयोगस्य कालः । स च पक्षो यदा प्रत्यक्षा- दिना निश्चितसाध्याभाववान् तदा कालात्ययः तस्मिन्नपदिष्ट उक्तः । दुर्बलेन च बाधो न सम्भवति इति बलीयसेत्युक्तम् । तत्र प्रत्यक्षवाधितो अनुष्णः कृष्णवर्मा द्रव्यत्वाज्जलवदिति । अनुमानबाधितो यथा--- अनित्याः परमाणवः मूर्तत्वाद् घटवदिति । अत्रानित्यत्वानुमानेन स्वधर्मिसिद्धये परमाणवोऽनुमानसिद्धा अपेक्षणीयाः । अन्यथा आश्रया- सिद्धिप्रसङ्गात् । तथाच परमाणुसाधकं बलवद् धर्मिसाधकत्वात् । पर- माणुसाधकं चानुमानं तन्नित्यत्वेनैव साधयति । अन्यथानवस्थाप्रसङ्गात् । अतो धर्मिग्राहकानुमानेन बाधः । परमाणु(र?)साधकं चाधस्तादुदितम् आ- द्यावयवि स्वन्यूनपरिमाणावयवारब्धं कार्यद्रव्यत्वादित्यादिना । आगमस्या- नुमान एवान्तर्भावात् तद्बाधो न पृथङ् निरूपणीयः । तथापि शिष्यशिक्षार्थ- मुच्यते-यागादयो न स्वर्गसाधनं क्रियात्वात् , मर्दनक्रियावदिति । अत्र 'स्वर्गकामो यजेते'त्यागमविरुद्धः । ननु यथा सिद्धसाधनमाश्रयासिद्धः अ. पक्ष(य?)वर्तमानत्वात् तथा (व्या? बा)धितोऽप्यपक्षवर्तित्वादाश्रयासिद्धो भवतु । अपक्षं चैकत्र सन्देहाभावादपरत्र बाधितसाध्यत्वादित्येतावानेव विशेष इति चेत् । सत्यम् । तथापि द्रव्यत्वस्यानुष्णत्वेन व्याप्तिग्रहावस्था- यामनुष्णत्वप्रतियोगितया उप्णत्वं कापि ग्राह्यम् । तच्चोष्णत्वं वहावेव ग्राह्यम् । ततश्च व्याप्तिग्रहसमय एव बाधितविषये पश्चात् पक्षत्वातिपातः । तथाचोपजीव्यत्वाद् बाधक एव दोषः, नाभयासिद्धता । नवा पक्षस्यैव बैशेषिकदर्शनम् । विपक्षत्वादयभिचारः । तथा च बाधेनोपाध्युन्नयनं वा व्यभिचारोन्नयन वा भवति । ततो व्याप्यत्वाभावः । सिद्धसाधने तु व्याप्तौ सिद्धायामेव पक्ष- धर्मत्वस्यैवातिपात इति तस्याश्रयासिद्धता बाधितविषयः सिद्धसाधनं च पक्षाभास इति केचन वदन्ति । तदपि न । उभयोरप्युक्तप्रकारेण दोषत्व. सम्भवात्।। प्रतिसाधनप्रतिरुद्धः प्रकरणसमः। प्रतिरोधो नाम हेतोरर्थनिश्चयप्रति- बन्धः । प्रकरणयोः प्रकृतयोः साध्यताभावयोः सगः रूपत्रयत्वेन प्रतिसाधनस्य समः प्रकरणसमः। सत्प्रतिपक्षो हेतुः प्रकरणसम इत्युदयनः । ननु प्रतिरोधः किं हीनबलेन, समबलेनाधिकबलेन वा । यत्रेधापि न सम्भवति विहीनस्य बाध्यत्वत्वेन बाधकत्वायोगात् , नापि समेन प्रतिरोधः, विरुद्धयोः प्रमाणत्वा- भावात् । तथात्वे वा वस्तुनो द्वैरूप्यापातात् । नाधिकबलेन कालातीत- त्वापत्तेः । सत्यम् । वस्तुतस्तुल्यबलत्वाभावेऽपि अगृह्यमाणविशेषदशाया- माभिमानिकतुल्यबलत्वसम्भवात् । अत एव प्रत्यक्षेणापि तुल्यबलत्वा- भिमाने प्रतिरोधः । यथा शङ्खोऽयं शुक्ल: शवत्वात् , इतरशङ्खवदित्यत्र पीतशङ्खो मया गृह्यत इति प्रत्यक्षेण प्रतिरोधः । अनुमानप्रतिरोधस्तु शब्दो नित्यः कार्यत्वाद् घटवत् , नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् इति । केचिदिमं विरुद्धाव्यभिचारीति वदन्ति । यथाहुभट्टाचार्याः ।। "तत्राप्रत्यक्षता वायोररूपित्वेन साध्यते । स्पर्शात् प्रत्यक्षता चासौ विरुद्धाव्यभिचारिता ॥" इति । विरुद्धयोहेत्वोरव्यभिचारिता एकस्मिन् साध्ये रूपत्रयवत्वमुभयोरिति यावत् । नन्वप्रयोजकानध्यवसितौ हेत्वाभासौ स्तः, तथा च कथं पञ्चैव हेत्वाभासाः इति चेन्न । शङ्कितव्यभिचारस्याप्रयोजकत्वात् । शङ्का त्वनुकूल- तर्काभावेन भवति । अनुकूलतर्केण च सा निवर्तते । तथाचान्यथा- सिद्धिरप्रयोजक उपाधिमानित्यनर्थान्तरम् । अथवा व्यभिचार एवान्तर्भावः, तच्छङ्काहेतुत्वात् । तदुक्तम् - "समासमाविनामावावेकत्र स्तो यदा तदा। (य १ सोमेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः ॥" andincom ५० इति । अयमर्थः , सर्वदर्शनकौमुचां समः अविनामावः सम्बन्धो यस्य स समव्याप्सिक इत्यर्थः । असमः अविनाभावो यस्य सोऽसमाविनाभावः समव्याप्तिरहित इत्यर्थः । तौ समासमाविनामावौ धौ एकत्र साध्ये स्तो यदा, तदा यदि तयोर्धर्मयोर्मध्ये हीनोऽसमाविनाभावः समेन समाविनामावेन नो व्याप्तः व्याप्तिरहितः तर्हि अप्रयोजकः । यथा निषिद्धत्वं समव्याप्तं तस्य साध्य- पुरस्सरा उपाधिपुरस्सरा च व्याप्तिरस्ति हिंसात्वं त्वसमव्यासम् । यत्र हिंसात्वं तत्राधर्मसाधनत्वम् , इत्यस्ति व्याप्तिः व्यर्थहिंसायां दर्शनात् । यत्राधर्मसाधनत्वं तत्र हिंसात्वमिति तु नास्ति अगम्यागमनादेस्तददर्शनात् । तयोर्मध्ये निषिद्धत्वं हिंसात्वं न व्याप्नोति, पक्षे हिंसात्ववति निषिद्धत्वा- भावात् । अतो हिंसात्वहेतुरप्रयोजकः । केचित्तु परप्रयुक्तव्याप्त्युपजीवी अप्रयोजक इति वदन्ति । यथाहुः "व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः । अस्मिन् सत्यमुना भाव्यमिति शक्त्या निरूप्यते ॥ अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः । तैईष्टैरपि नैवेष्टा व्यापकाः (शा? सावधारणाः ॥" इति ! अनध्यवसितस्त्वसाधारण एव, साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः । असाधारणोऽपि तादृश एवेति ॥ उदाहरणाभासोऽपि न पृथक् । हेत्वाभासेष्वेवान्तावात् । तथा- हि-साध्यविकलो दृष्टान्तः साधारणो विरुद्धो वा भवेत् । साध्यविकलो हि दृष्टाविपक्ष एव स्यात् । तत्र च सपक्षान्तरे वर्तमानो हेतुः पक्षत्रयवृत्ति- त्वात् साधारणोऽनेकान्तो भवेत् । तथा शब्दो नित्यः प्रत्यक्षत्वात् सा- मान्यवादित्युक्ते सामान्यदृष्टान्तरूपे विपक्षे घटादौ सपक्षे शब्दे च पक्षे वर्तमानः प्रत्यक्षत्वादिति हेतुः साधारणोऽनैकान्तः, असत्यां तु सपक्षवृत्तौ विरुद्धो भवति । पक्षविपक्षयोरेव वर्तमानत्वात् । यथा अनित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति । अत्र विपक्षे शब्दत्वे पक्षे च शब्दे वर्तमान- त्वाविरुद्धः । दृष्टान्तो यदा साधनविकलः तदा सपक्षादपि हेतोवृत्ती असाधारणानेकान्तो भवति यथा नित्यः शब्दः आकाशविशेषगुणत्वाद् वैशेषिकदर्शनम् । आत्मवद् इति । अयं हेतुः पक्षमात्रवृत्तित्वादसाधारणः, निर्दिष्टसपक्षे अवर्त- मानत्वात् साधनविकलः । ननु नित्यः शब्दः अमूर्तत्वात् परमाणुवदिति साधनविकलः । नचासाधारणः, गगनादौ सपक्षे वर्तमानत्वात् । सकलसप- क्षाद् व्यावृत्तो ह्यसाधारणः । अतः कथं हेत्वाभासः साधनविकल इति चेत् , सत्यम् । तथाप्यनुपदर्शितव्याप्तिकत्वाद्धेत्वाभास एव भवति व्याप्यत्वा- सिद्धरूपः । तथा दृष्टान्तस्योभयविकलत्वे आश्रयहीनत्वे च असिद्धव्याप्तिको हेतुः स्यात् । यथा अनित्यः शब्दः प्रत्यक्षत्वाद्, आकाशवत् तत्कुसुम- वदिति । तत्र व्याप्यत्वासिद्धिरेव वैधयॊदाहरणे च साध्याव्यावृत्तः साध- नाव्यावृत्तः उभयाव्यावृत्तः आश्रयहीनश्चेति चत्वार थाभासाः । तत्र अनित्यं मनः मूर्तत्वात् । यद्यदनित्यं भवति तन्मूर्तमपि न भवति यथा कर्मेति साध्याव्यावृत्तः। यथा परमाणुरिति साधनाव्यावृत्तः । साधनस्य परमाणौ वर्त- मानत्वात् ! यथा घट इत्युभयाव्यावृत्तः, खपुष्पमित्याश्रयहीनः । एतेष्वपि व्याप्त्यप्रदर्शनानि व्याप्यत्वासिद्धिरेवेति ॥ संस्कारासाधारणकारणिका स्मृतिः सा विद्याभेदत्वाद् यथार्था वैशे- षिकसमये । नन्वनुभवगृहीत स्मृतिः । सा चानुभवयाथायें यथार्था, तदयाथायें त्वयथार्था । किञ्च विचार्यमाणे स्मृतेर्याथार्थ्यमपि नास्ति । नहि .... ता गृहान्तर्गता बहिःस्थिता वेति स्मयते । तदा स्मयमाणोऽर्थस्तादृशो भवति । स्मरणसमये सा मृता वान्यत्र गता वा भवति पूर्वावस्थायां निवृत्तत्वात् । न च निवृत्तावस्थामेवार्थस्मृतिरालम्बते, अत एव ततोल्लेख इति वाच्यम् । तथानुभवात् । अन्यथा अननुभूतेऽपि स्मृतिप्रसङ्गात् । नन्वनुभवसमान विषयत्वात् स्मृतेरनुभवार्थत्वे कथं स्मृति- रयथार्थेति चेन्मैवम् । अनुभवकाले अर्थतथाभावात् , स्मृतिकाले तद्वि- पर्ययात् , वर्तमानत्वेन हि गृहीतोऽर्थः स्मृतावतीतत्वेन भासते । नहि पूर्व तदवस्थ इत्युत्तरत्रापि तदवस्थो भवत्यर्थः । तदा पाकरतेऽपि घटादौ श्यामताप्रत्ययो यथार्थः स्यात् । तेन यथार्थानुभवजनितत्वेन स्मृतेरपि यथार्थत्वव्यपदेश इति । स्मृतिरयथार्थैवेति चेन्न । स्मृते हि यथानुभवगृहीत- विषयः स चानुभवयाथायें अयाथायें स्मृतौ भासत एव । अतीतत्वा. कारो यद्यपि न गृहीतः, तथापि स्मृतिस्वाभाव्यात्तथा भास इति स्मृातेयथार्थं वेति । ननु स्मृतियथार्थत्वात् अमेवेति चेन्न । स्मृतिकरणस्य महर्षिभिः । ।

। भी सर्वदर्शनकौमुद्या कणादगौतमजैमिनिप्रभृतिभिः प्रमाणत्वेनापरिगणनात् । उक्तेष्वन्तावाद परिगणना इति चेन्मैवम् । नहि प्रत्यक्षेऽन्तभीवः, असाक्षात्कारिफलत्वात् । नाप्यनुमाने संस्कारस्याज्ञातकरणत्वात् । ज्ञातकरणं ह्यनुमानम् । तस्मा- दात्ममनस्संयोगजक्षणिकगुणत्वादज्ञातकरणजन्यत्वाच न च परोक्षासाक्षा- कारत्वरूपत्वाभावाच न प्रत्यक्षत्वानाधारे स्मृतिः पृथगेव ॥ आर्षम् ऋषिप्रभावजन्यं ज्ञानम् । तत् पृथक् प्रमाणम् । न योगि- प्रत्यक्षान्तर्भूतं योगजधर्मातिरिक्ततपोबलजन्यत्वात् । तावानेव विशेष इति चेत् , सत्यम् । ज्ञाताज्ञातकरणजन्यस्वमात्रेण विशेषणप्रत्यक्षानुमानादेरपि विशेषो न स्यात् । ऋषीणां तु तपःप्रभावेन नातीन्द्रियं सर्व प्रत्यक्षं भवति । तथा च पुराणे श्रूयते "पराशरादयो भाविनमर्थ दृष्ट्वा मैत्रे- यादिभ्य उपदिदिशु"रिति ।। ननु कथं प्रत्यक्षलैङ्गिकस्मृत्योर्षलक्षणत्वं विद्यायाः, आगमोपमानार्था- पत्तिसम्भवैतिह्यचेष्टाभावानामन्येषामपि सम्भवादिति चेन्मैवम् । तेषां प्र. त्यक्षानुमानयोरेवान्तर्भावात् । तथाहि --आगमस्तावत् पदपक्षकार्थपक्ष- कानुमानद्वयरूपः । तथाहि प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्द आगमः प्रमाणम् । प्रयोगस्य गामानयेत्यादिवाक्यप्रयोगस्य हेतुभूतं यदर्थतत्त्वज्ञानं वक्तृगतं तज्जन्यः शब्दः प्रमाणमित्यर्थः । भ्रान्तप्रकारवाक्ययोरर्थतत्त्वज्ञान- जन्यत्वाभावान्न प्रमाणम् । यत्किञ्चिदर्थज्ञानवता पुरुषेण जन्ये वाक्ये तस्य ज्ञानस्य प्रयोगहेतुभूतत्वाभावान्नातिव्याप्तिः। प्रयुज्यमानवाक्यार्थ बुद्ध्वा हि प्रयुज्यते, नतु यत्किञ्चिदर्थं बुद्ध्वा । तथा चाप्तोत्तमाकाङ्क्षायोग्यता- (दि)मत् पदकदम्बकं वाक्यमित्यर्थः । ननु शब्दो न प्रमाणम् , यस्य लक्षणमन्तीवो वा उच्येत, यतः करणविशेषः प्रमाणम् , करणं च तद्, यस्मिन् सति क्रियोत्पद्यत एव नहि शब्दे सति प्रमोत्पद्यत एवेति चेन्न खाकालादिमतः पदा(न्त ?र्थ)स्मरणावान्तरव्यापारवतः प्रमाणत्वात् । तथा- भूतात् प्रमोत्पद्यत एव । अतथाभूतत्वे च फलाजनकत्वस्य करणान्तर- साधारणत्वात् । प्रमाणत्वाचानुमानेऽन्तर्भावः । प्रयोगश्च - गामानय शुक्लां दण्डेनेत्यादिपदानि वैदिकपदानि वा तात्पर्यविषयस्मारितार्थसंसर्ग- बानपूर्वकाणि, आकासादिमत्पदकदम्बकत्वात् , घटमानयेत्यादिपदवत् ।

। वैशेषिकदर्शनम् । अयं श्रोता अनेन वाक्येनेममर्थं बुध्यतामिति वक्तारेच्छा तात्पर्य तद्विषयाश्च ते पदस्मारिता ये पदार्थाः तेषां यत् संसर्गज्ञानं वक्तुः तत्पूर्वकाणि त- ज्जन्यानि । संसर्गस्य बहुप्रकारत्वादनभिमतसंसर्गेणार्थान्तरता मा भूदिति तात्पर्यविषयेति विशेषणम् । अनभिमतसंसर्गस्य तात्पर्याविषयत्वात् । अ. न्यथा शब्दादप्यभिमतबोधो न स्यात् । ननु संसर्गज्ञानपूर्वत्वसिद्धावपि संसर्गः कथं सिध्येदिति चेत् , ज्ञानव्यावर्तक(त)येति ब्रूमः । ज्ञानज्ञानस्य तद्विषयविषयकत्वात् । अनुमितिविषयं हि वक्तृज्ञानज्ञानम् । तद्वक्तृज्ञान- विषयत्वं संसर्गमपि विषयीकरोति । निर्विषयस्य ज्ञानस्य ग्रहीतुमशक्य- त्वात् । तथापि गवानयनमिति विशेषः कथं सिध्येदिति चेत् , सत्यम् । संसर्गमात्रस्य ज्ञानव्यावर्तकतया सिद्धौ पक्षीकृतसम्बन्धिन एव विशेषत्वात पक्षधर्मताबलेन गवानयनविशेषसिद्धेः । अतो वक्तृज्ञानानुमानात् पद पक्षकाद् गवानयनादिसंसर्गसिद्धौ पुरुषस्येष्टसाधनताज्ञानात् प्रवृत्तिः । यद्वा ज्योतिष्टोमेन स्वर्गकामो यजेत, गामानय शुक्लां दण्डेनेति वाक्यश्रवण- समनन्तरं समयबलात् पदार्थमात्रं परिज्ञाय, एते पदार्था मिथः संसर्ग- वन्तः आकाङ्क्षादिमत्पदकदम्बकस्मारितत्वाद् घटादिपदार्थवादित्यर्थपक्षकानु- मानम् । पक्षधर्मतावलात् संसर्गविशेषसिद्धिः । अत्र संसर्गोऽनुमितिविषय- त्यैव सिद्ध्यति। अतोऽर्थपक्षकानुमानमेव ज्यायः। नन्वाकाङ्क्षायोग्यतास- निधयोऽनुमानद्वयेऽपि विशेषणानि तत्राकाङ्क्षा प्रतिपत्तुः जिज्ञासां प्रति यो- ग्यता । गामित्युक्ते श्रोतरि जिज्ञासा भवति आनयामि बन्नामि वेति । भान- येत्युक्ते गां घटं वेति जिज्ञासा भवति । बाधकप्रमाविरहो योग्यता। विप रीतप्रमा तु बाधः पदानामर्थानां वा निरन्तरताज्ञानं सन्निहिते स्वरूपसन्त एव शान्दानुभवं प्रति हेतवः, नतु ज्ञाताः गौरवात् , तद्बोधाभावेऽप्यन्वय बोधदर्शनात् । अन्वयबोधे विलम्बाभावाच लिङ्गविशेषणत्वे ज्ञातत्वं वाच्यम्। अतः कथमाकाङ्क्षादिहेतुविशेषणामितिचेन्मैवं वादीः । आकाङ्क्षादिरहितेऽपि तदभिमानात् संसर्गप्रत्ययोत्पत्तेः ज्ञाता एवाकाङ्क्षादयो हेतवः नतु स्वरूप- सन्त एव । अन्यथा शब्दाभासोच्छेदप्रसङ्गः । किञ्च अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राजा पुरुषमाकाङ्क्षति पुरुषं वेति सन्देहे पुरुषमेवेति। विपर्यये च वाक्यार्थबोधाप्रतिबन्धाच्च । एतच्च ज्ञाताया उपयोगे घटते न स्व. रूपसत्या । स्वरूपसत्या उपयोगे संशयविपर्ययौ न स्त एव, यथास्थितान्वय. । ।

सर्वदर्शनकौमुद्या सम्भवात् । ननु बाधविरहस्य योग्यत्वात् तज्ज्ञानं न सम्भवति सर्व- बाधविरहस्य ज्ञातुमशक्यत्वात् , स्ववाधविरहस्यान्यबाधेऽपि सम्भवेन व्य भिचारात् , अतः कथं तन्निश्चयः इति चेन्न । बाधविरहस्य संशयनिश्चय- साधारणज्ञानमात्रस्यैव हेतुत्वात् क्वचित् स्वपरबाधविरहोऽपि निश्चीयत एव । यथेह भूतले घटो नास्तीत्यत्र स्वयोग्यानुपलब्ध्या घटाभावनिश्चये- नान्यस्यापि घटप्रमाविरहो निश्चीयते । सन्निधिश्च पदानां निरन्तरोत्पन्न स्वमानं तज्ज्ञानञ्चान्वयबोधहेतुः, अत आकाङ्क्षादीनि ज्ञात्वा तानि हेतुरिति लिङ्गविशेषणानीति न कश्चिद्दोष इति शब्दान्तर्भावः ।। उपमानमपि किञ्चित् साक्षादनुमानेऽन्तर्भवति किञ्चिच्च शब्दद्वारा- न्तर्भवति । तत्र वनं गतस्य गवयपिण्डमनुभवतः पुरुषस्य गोसदृशोऽय- मिति ज्ञानानन्तरमेतत्सदृशः स इति मतिर्भवति । तत्र पूर्वमुपमानकारणं उत्तरं तु फलमिति माहा वदन्ति । एतच्च स्मरणमेव । अस्मरणत्वेऽपि वा अनुमानम् । गौरेतत्सदृशः एतन्निष्ठसादृश्यप्रतियोगित्वात् यो यन्निष्ठसादृश्य- प्रतियोगी स तत्सदृशः। यथा -- यमो यमान्तरेण हस्तो वा हस्तान्तरेणेति। यत्तु नैयायिका वदन्ति-यथा गो. रे ? रि)व गवय इति श्रुतातिदेशवाक्यस्य वनं गतस्यातिदेशवाक्यार्थस्मरणसहकृतगवयपिण्डज्ञानमुपमानम् । अयमसौ गवयशब्दवाच्य इति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः फलमिति । सा प्रतिपत्तिः शब्दादेव सम्भवति । श्रुतातिदेशवाक्यस्य यो गोसदृशः स गवयशब्द. वाच्य इति प्रतिपत्तेः सम्भवात् । ननु प्रवृत्तिनिमितस्य गवयवस्य तदानी. मज्ञानात् कथं वाच्यतेति चेन्मैवम् । स्वयं गवयत्वप्रवृत्तिनिमित्ते ज्ञाते वाच्यवाचकभावसम्बन्धोऽपि तस्य (दूरे प्रदर्शयितुमशक्यत्वात् । ) वनेचर- स्तत्सहचरितं सादृश्यमुपदिशति, तेन च गवयत्वमनुमाय श्रोता सङ्केतं ग्रहीष्यति । यथा सहस्राक्षत्वादिनेन्द्रत्वाद्यनुमाय इन्द्रादिपदसङ्केतग्रहः तद्वदिति । तथाच शब्दद्वारा अनुमानेऽन्तर्भावः ।। अर्थापत्तिरप्यनुमानमेव । तथाहि दृष्टार्थापत्तिस्तावदनुमानम् । जी- वन्देवदत्तो गृहे नास्तीति ज्ञानाद् बहिः सत्त्वज्ञानमापत्तिः । तत्रायं प्रयोगः देवदत्तो बहिरस्ति गृहनिष्ठाभावप्रतियोगित्वात् यो यविष्ठाभावप्रतियोगी म ततोऽन्यत्र वर्तते । यथाहं बहिहार्तमानः इत्यन्वयी व्यतिरेकी वा । ।

" वैशेषिकदर्शनम् । यदा यो बहिर्नास्ति स तदा गृहनिष्ठाभावप्रतियोग्यपि न भवति । यथा गृहस्थ एव देवदत्तः । श्रुतार्थापत्तिरप्यनुमानम् । पनिो देवदत्तो दिवा न भुङ्क्ते इति श्रुत्वा रात्रौ भुत इति हि कल्पनमापत्तिः---तत्राप्येवं प्रयोगः पानो देवदत्तः रात्रौ भुते, दिवा अभुञ्जानत्वे सति पीनत्वाद्, यो रात्रौ न भुङ्क्ते स दिवा अभुञ्जानत्वे सति पीनोऽपि न भवति यथा उपवास्यपीन इति । ननु विरोधकरणिकार्थापि कथमनुमानेऽन्तर्भवेदिति चेन्न । मानयो- विरोधाभावात् । विरुद्धयोश्चान्यतरबाधावश्यंभावेन उभयोनित्वाभा- वात् । (तथा शुक्लोऽयं पटोऽयम् ।) इदं रजतं नेदं रजतमित्यत्र । एवं हि विरोधकरणत्वं प्रमाणान्तरेण जीवी चैत्र इत्यवगम्य स च काप्यस्तीत्यवगत्य गृहे च नास्तीत्यवगमात् , अस्तिनास्तीत्यनयोर्विरोधात् तत्परिहाराय बहि- स्सत्वं अर्थापत्या कल्प्यते । अत्र विरोधः करणं बहिस्सत्वप्रतीतिरापत्तिः फलमिति । तत्र काप्यस्तीति मानेन गृहस्यापि विषयीकृतत्वात्तत्र च ना- स्तीति ज्ञानादनयाविरोध इति वाच्यम् । सच नास्ति । गृहेऽस्तित्वना- स्तित्वयोर्विरोधः । काप्यस्ति गृहे च नास्तीत्यनयोन विरोधः । सामान्यस्य गृहादन्यत्र सत्वेनाप्युपपत्तेः, उत्सर्गापवादन्यायवदिति नार्थीपत्त्यपेक्षा । तथापि वा बहिस्सत्वकल्पना अनुमानमेवेत्युदितम् ।। सम्भवोऽप्यनुमानमेव । स हि सहस्र शतं सम्भवतीत्येवंरूपः । तत्रायं प्रयोगः- सहस्रं शतादिसङ्ख्यावद् भवितुमर्हति, अधिकसङ्खधा- त्वात् दशसु पञ्चससथावदिति ॥ अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम् । यथा इह वटे यक्षः प्रतिवसतीति । अस्य वाक्यस्यायं प्रथमवक्तेति न निर्दिश्यते । प्रवादपर- म्परा तु (न?)वर्तते । इदं तु आगमरूपत्वादाप्तोक्तं चेदमनुमानमेव । अनाप्तोक्तं चेदमप्रमाणम् ॥ चेष्टा च प्रयत्नजन्या शरीरतदवयवक्रिया । सा सङ्केतानुसारेण वक्तुरभिप्रायानुमापिका ! यथा तर्जन्यूर्खतादर्शनेन दशसङ्ख्याप्रतिपत्तिः । क्रियेत्युपलक्षणं संयोगस्यापि, यथा अङ्गुल मुखसंयोगविशेषेण पिपासाबुभु- क्षायनुमानम् । तथान्यस्मादपि संयोगात् कर्तुरभिप्रायानुमानम् ।। अनुपलब्धेरपि पृथक् प्रमाणमिति भाट्टाः । तथाहि -प्रमाणपञ्चकं ।

५६ । । सर्वदर्शनकौमुषा हरणं च दर्शयति । चैत्रगृहमात्रमनुभूय गच्छन् मध्येमार्ग केनचिञ्चत्रो गृहेऽस्तीति पृष्टः पश्चात्किञ्चिद् द्रष्टुं सरन् अनुपलब्ध्या चैत्रो नाभूदिति प्रतिपद्यते । तत्र गृहेन्द्रियसन्निकर्षादेरभावादनुलब्धिरेव प्रमाणमिति । तथा इह भूतले घटो नास्तीति ज्ञानमप्यनुपलब्ध्यैव भवति । घटोपलब्धौ घटा- भावस्याज्ञानात् । तदिदमनुपलब्धेरावश्यकत्वात् सैव प्रमाणम् । न प्रत्य- शादीति । उच्यते । इह भूतले घटो नास्तीति ज्ञान प्रत्यक्षम् । इन्द्रिय- व्यापारान्वयव्यतिरेकानुविधायित्वाद् अज्ञातकरणजन्यत्वात् । अनुपल ब्धिरपि भूतलेऽभावज्ञाने जनयितव्ये न ज्ञाता, अनुपलब्धेरभावत्वेन तज्ज्ञानायानुपलब्ध्यन्तरापेक्षायामनवस्थानात् । अतोऽज्ञातैवानुपलान्धस्त- वापि मते करणमिति हेतुसिद्धिः । मम विन्द्रियमेवाज्ञातं करणम् | नन्वि- न्द्रियव्यापारस्य भूतलग्रहणोपक्षीणत्वादभावज्ञानस्य तदन्वयव्यतिरेका. नुविधानमसिद्धमिति चेत् । न । अधिकरणग्रहणस्याभावग्रहणे व्यापार त्वात् । नहि व्यापारेण व्यापारिणो व्यवधानम् । इन्द्रियसन्निकर्षण व्यवधाने रूपादिज्ञानमप्यन्द्रियकं न स्यात् । निर्गन्धं कुसुममिति गन्धा. भावग्रहणे न प्राणव्यापारव्यधिकरणग्रहे उपक्षयः । तेन कुसुमद्रव्यग्रहणा- तत्राभावग्रह एवोपक्षयो वाच्य(म् :) । तद्वदन्यत्राप्यभावग्रहे इन्द्रि- यस्य करणत्वं वाच्यमिति । यदप्यसङ्कीर्णोदाहरणं, तदपि न । तत्रा- प्यनुमानसम्भवात् । अनुपलब्धिस्तत्र ज्ञाता करणम् । स्मर्तुं योग्यस्य चै- त्रस्य स्मरणाभावेनानुपलब्धि ज्ञात्वा तयानुपलब्ध्या चैत्रो नाभूदित्यनुमि- नोति । चैत्रो गृहे तदा नाभूत् उपल(ब्धि)योग्यत्वे सत्यनुपलब्धत्वात् । यो यदा यत्र नोपलभ्यते स तदा तत्र नास्ति यथाहमिति । एवमन्योऽपि कश्चिदभावोऽनुमेयः । आत्मा नीरूपः स्पर्शरहितत्वाद्, आकाशवत् । एवं रामायभाव आगमग्राह्यः । अतोऽनुपलब्धियथायथमन्तर्भूता । अतो विद्या चतुर्विधेति सिद्धम् । तथा अविद्यापि चतुर्विधैव । एवं बुद्धिरष्टविधा ।। अन गुणानां परस्परं साधर्म्य किश्चिदुच्यते । रूपरसगन्धस्पर्शपर- वापरत्वगुरुत्वद्वत्वस्नेहवेगानां दशानां मूर्तगुणत्वं साधर्म्यम् । तत्र दिक्कृते परत्वापरत्वे मनसः । कालकृते दिक्कृते च भूतचतुष्टयस्य । स्पर्शश्च तस्यैव । वेगोऽपि मनसा सह तस्यैव । द्रवत्वरूपे भूतत्रयस्य । भूतदयस्य रसगुरुत्वे । स्नेहो जलस्य । गन्धः पृथिव्यामेव । बुद्ध्यादीन । - वैशेषिकदर्शनम् । नवानामात्यावशेषगुणत्वम् । शब्द सहितान समपूर्त गुणलम् । सहया- दीन पाशानां मूर्तासूतगुणत्वम् । खात् । रूपरसगन्धर्श- स्नेहासिद्धिकद्रवत्वानि बुद्ध्यादयानन्दधेलेले वोडशानां विशेषगुण- त्वम् । वायव्यवच्छेदोयितावान्तरसाना मनिशेवाले विशेषगुणत्वम् । सहयापरिमाणपृथात्मसंयोगविनागरलापरवशागतिक वनेय- स्थियारकानां सामान्यगुणवन् । संयोगानेजमविवानियत्वादीना- मने काश्रितगुणत्वम् । अनेकावित बारकावृतित्वम् ! अन्धामकैक- वृत्तिवन् । रूपरसगन्धरपशब्दानां बालेविनय बाह्यत्वम् ! सङ्ख्यापरि- माणस्थलसंयोगविभागपरवापरतावलानेहवेगानां पायन्टियमावलम् । शुद्धादीनां घण्णामन्तरिन्द्रियाहत्वम् । धर्माधर्मभावनागुरुत्त्रस्थिति- स्थापकानामतीन्द्रियत्वम् । अपाकजरूपरसरामर्शपरिमाणैकत्वैकपृथक्त्व- गुरुत्वद्वत्वानेहस्थितिस्थापकवेगाना कारणगुणपूर्वकल्लम् । पाकस्तु परमा- णावेव । छाणुकादौ वपाकजाः । अपाकजलविशेषणं सान्तानाम् । बु- यादीनां शब्दस्य चाकारणगुणपूर्वकत्वम् । शब्दतूलादिपरिमाणविशेष उत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजानां संयोगजवक्रमेण भेरी- दण्डसंयोगाशिथिलसंयोगपूर्वसंयोगाग्निसंयोगकालादिपिण्डसंयोगाग्निसं- योगाजनकसंयोगविभागवेगानां कमजत्वशब्दोत्तरविभागयोर्विभागजत्व- परत्वापरत्वद्वित्वद्विपृथक्त्वादीनां अपेक्षा बुद्धिजत्वम् । तद्विनाशविनाश्य- त्वं च । रूपरसगन्धस्पर्शशब्दानां भूतगुणत्वम् । रूपरसगन्धानुष्णस्पर्श- परिमाणकत्वैकपृथक्त्वस्नेहानां समानजात्यारम्भकत्वम् । अवयवगताना- मेषामवयविगतारम्भकत्वात् । उष्णस्पर्शस्य द्रवत्वादिविजातीयारम्भकत्व- मप्यस्तीत्यनुष्णेति विशेषणम् । सुखदुःखेच्छाढेपप्रयत्नानामसमानजात्यार- म्भकत्वम् , सुखमिच्छां, दुःखं द्वेषम् , इच्छाद्वेषौ प्रयत्न, प्रयत्नश्च क्रियां जनयति । संयोगवियोगसङ्ख्यागुरुत्वद्वत्वाष्णस्पर्शज्ञानधर्माधर्मसंस्काराणां समानासमानजात्यारम्भकत्वम् । संयोगः संयोगशब्दौ जनयति । वि- भागोऽपि विभागशब्दौ, सङ्ख्या सङ्ख्यापरिमाणे । गुरुत्वं गुरुत्वक्रिये । द्रवत्वं द्रवत्वक्रिये । उष्णस्पर्शश्चोष्णस्पर्शपाकजान् । ज्ञानं स्मृतिसुखा- दीन् । धर्मों धर्मसुखे । अधर्मोऽधर्मदुःखे । भावना भावनास्मृती । वेगो वेगक्रिये। स्थितिस्थापक स्थितिस्थापकक्रिये । जनयतीति समानास- । ।

। सर्वदर्शनकौमुयाँ मानजात्यारम्भकत्वम् । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दानां स्वाश्रयसम- वेतारम्भकत्वम् । बुद्ध्यादय आत्मनि स्वाश्रये सुखादीन् जनयन्ति । श- ब्दस्तु गगने शब्दम् । रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नानां परत्रारम्भ- कत्वम् । परत्र स्वाश्रयादन्यत्र । स्नेहान्ता अवयवगता अवयविनि । प्रयत्नश्च शरीरे क्रियाम् । संयोगविभागसङ्घबैकत्वैकपृथक्त्वगुरुत्वद्रव- त्ववेगधर्माधर्मास्तूभयत्रारम्भकाः । संयोगः स्वाश्रये क्रियां शब्दञ्च । परत्र तु संयोगम् । वेणुदलाकाशविभागः स्वाश्रये शन्दम् । परत्र कायपु- स्तकादौ विभागम् । एकत्वैकपृथक्त्वे स्वाश्रये द्वित्वद्धिपृथक्त्वादीन् जन- यतः । परत्रावयविनि एकत्वैकपृथक्त्वे । गुरुत्वद्रवत्वे स्वाश्रये क्रियाम् । परत्र चावयविनि गुरुत्वद्रवत्वे । वेगः स्वाश्रये क्रियाम् । परत्र च वेगम् । धर्माधौ स्वाश्रये सुखदुःखे । परत्र वाच्वादौ क्रियां जनयत इत्युभयत्रा- रम्भकत्वम् । गुरुत्वद्रवत्ववेगस्थितिस्थापकधर्माधर्मसंयोगविशेषाणां क्रिया- हेतुत्वम् । संयोगविशेषो नोदनाख्यः । रूपरसगन्धानुष्णस्पर्शपरिमाणैक- स्वैकपृथक्त्वस्नेहशब्दानामसमवायिकारणत्वम् । बुद्ध्यादीनां नवानां नि- मित्तकारणत्वम् । संयोगविभागोप्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारण त्वम् । परत्वापरत्वद्वित्वद्विपृथक्त्वादीनामकारणत्वम् । ज्ञानव्यतिरिक्तका. (यत्वं ? य) प्रति इति द्रष्टव्यम् । संयोगविभागात्मविशेषगुणशब्दानां प्रदे- शवृत्तित्वम् । इतरेषामाश्रयव्यापित्वम् । अपाकजरूपरसगन्धस्पर्शपरिमाणे- कत्वैकपृथक्त्वगुरुत्वस्नेहसांसिद्धिकद्रवस्वानां याबद्र्व्यभावित्वम् । इतरेषां तु अयावद्रव्यभावित्वम् । रूपादीनां सर्वेषां गुणत्वाश्रयत्वं द्रव्यात्रि- तत्वं (च) साधर्म्यमेवेतरापे(शा? क्ष)या वैधर्म्यञ्च भवति । इत्याधूद्यमिति ॥ इति श्रीमाधवसरस्वतीविरचितायां सर्वदर्शनकौमुद्यां वैशेषिकदर्शननिरूपणे गुणपदार्थः ।। . अथ कर्मपदार्थः। संयोगविभागद्वयासमवायिकारणजातीयं कर्म । एकैका कारणयो. संयोगविभागयोरिणाय द्वयेति । विनश्यदवस्थद्रव्ये कर्मणि चाव्याप्ति- वारणाय जातीयेति । समवायिकारणप्रत्यासन्नत्वमसमवायिकारणत्वम् ।

वैशेषिकदर्शनम् । द्विविधा च प्रत्यासत्तिः समवायिकारणप्रत्यासत्तिः (अ)समवायिकारणप्रत्या- सत्तिश्चेति । तत्राद्यं पटस्य तन्तुद्वयसंयोगः । द्वितीयन्तु पटशौक्ल्यं प्रति तन्तुशौक्ल्यम् । तच पञ्चधा भिद्यते उत्क्षेप(ण)मपक्षेपणमाकुञ्चनं प्रसारणं यमनश्चेति । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अघोदेशसंयोगहेतुरपक्षेपणम् । अभिमुखसंयोगहेतुराकुचनम् । तियरदेशसंयोगहेतुः प्रसारणम् । विष्वन्देश- संयोगहेतुर्गमनम् । विष्वगित्यनियतदेशः । भ्रमणरेचनस्यन्दनोवंज्वलन. तिर्यपवननमनोजमनादयो गमनविशेषाः । कर्मणान्तु कर्मवजातिसंयोगः साधर्म्यम् । उत्क्षेपणत्वायवान्तरजातिभेदो वैधर्म्यम् । असमवायिकारणत्वं च सर्वेषां कर्मणां साधर्म्यम् । गुरुत्वद्रवत्वसंयोगयत्नजत्वं स्वकार्यसंयोग- नाश्य(त्वम् । त्वं च)। ननु कर्मत्वजातौ किं व्यञ्जकमिति चेत् चलतीति प्रत्ययगोचरे यद् विशेष(णवं?णं) तदेव व्यञ्जकमिति गृहा(णम् १ ण)। ननु कमैव नास्ति, चलतीति प्रत्ययस्य संयोगविभागपरम्पराविषयत्वात् । ततः संयोगादिसन्तानव्यतिरेकेण कर्मपदार्थो नास्तीति भूषणः । उच्यते। यदि चलतीति प्रत्ययः संयोगादिसन्तानविष(यस्या ? यः स्या)त्तदापि पा. लिकादिसंयोगविभागसन्तानयुते स्तम्भादौ चलतीति प्रत्ययप्रसङ्गात् । किञ्च इदमनेन संयुज्यते इदमनेन विभज्यते इ(ति? त्यत्र) संयोगादेः सप्रतियोगित्वं दृश्यते न तथा शाखाग्रं चलतीत्यत्र दृश्यते । अतः कर्म पृथगेवाभ्युपेतव्यम् । नतु गणत्वेन । तचैकद्रव्यसमवेतं मूर्तद्रव्यवृत्ति । परिच्छिन्नपरिमाणं मूर्त्तत्वम् । आशुविनाशित्वञ्च कर्मणः । संयोगवेगस्थित- स्थापकविभागारम्भकत्वं द्रव्यानारम्भकत्वं संयोगिनामभिमतदेशं प्रति मन श्वलनं, सर्गादौ चाणूनां कर्म, अग्नेसर्वज्वलनं वायोस्तिर्यपवनं, प्रतिमा. दावोत्पातिकं चलनम्, अयस्कान्तं प्रत्ययसश्चलनं चोरपरीक्षणायामभिमन्त्रित कांस्यादिगमनमित्याद्यदृष्टजन्यम् । अस्मत्प्रत्यक्षनिष्ठं कर्म प्रत्यक्षमेव अतीन्द्रियगतन्त्वतीन्द्रियम् । कर्मातीन्द्रियमेवेति प्राभाकरः । तं प्रत्युच्यते। अस्मत्प्रत्यक्षनिष्ठं कर्म प्रत्यक्षं भवितुमर्हति, अस्मत्प्रत्यक्षसंयोगसमवायि- कारणत्वात् । यदेवं तदेवं यथा पटतुरीसंयोगासमवायिकारणं तन्तुतुरीसंयोगः अस्मचक्षुर्वा संयोगेतरसंयोगासमवायिकारणप्रकाशवद्रव्यग्राहकोन्द्रय- चात् । यदुक्तसाधनं तदुक्तसाध्यम् । यथा प्रयत्नवदात्ममनस्संयोगासम- वायिकारणं प्रयत्नग्राहकं मनः तथा कर्म अस्मदिन्द्रियग्राह्यवत्त्यवान्तरजाति. ।

मा ६० लकोमुचा मज्जातिमत्वाद् गोवदिति कर्म असावेऽनुमानत्रयम् । (अननु अलमा दीनां ममतेऽन्तीवः किमित्युच्यते जातिभेदा एक किमिति नोयन्ते इति चवम् । जातिसइप्रसक्षात ! कुये बंशपत्रपतने सात प्रवेशत्वयानल- भ्रमणलाना सहरसङ्गः । प्रवेशल गृहादिश्वेशेऽन्यपरिहारेण वर्तते । पतनवं चेष्टादौ । अलणव जलचक्रादौ । तेषां परस्परपरिहारेण मानानां वेणुपत्रपतने सकरप्रसङ्गः । हतक्रियातो मुसलसंयोगः । तस्मा. दूर्ध्वदेशसंयोगहेतुक्रिया हरतसलसंयोगयोर्जायते तदुत्क्षेपणम् । पुनरवी- देशसंयोगेच्छा ततः प्रयत्नः ततो हस्तगुरूलयोरधोदेशसंयोगहेतुभूता क्रिया जायते तदपक्षेपणम् । इत्याधम् ।। । । - अथ सामान्यपदार्था निरूप्यते । समानानां भावस्सामान्यम् । अनुगताकारबुद्धिहेतुस्सामान्यम् । तद् द्विविधम् उपाधिरूपं जातिरूपञ्चेति । पाचकत्वादि तूपाधिरूपम् । पाचकत्वमेव पाकक्रियाद्वारा तदाधारे प्रतीयमानं पाचकत्वम् । एवं प्रमाव- मेव प्रमाविषये प्रमाद्वारा वर्तमान प्रमेयत्वम् । एवमन्यत्रापि स्वरूपाम्ब- न्धेन वर्तमाना जातिरेव उपाविसामान्यमुच्यते नित्यमनेकसमवेतं सामान्य जातिः । केचिद्विशेषव्यावृत्त्यर्थनेकपद दातव्यमिाते वदन्ति । तद् व्यर्थम् । एकस्य विशेषस्थानेकवृत्तित्मागावात् । तब जातिरूपं त्रेधा--परसारं परापरवेति । तत्र परं सत्तासामान्यम् । व्यापकत्वात् । सत्वन्तु न जातिः किन्तु ममेयत्वन्त्वौषाधिक सामान्पमिति प्रामाकरः । तस्य सत्त्वमयानुषं स्यात् । प्रमेयत्वस्य प्रगाघाटेतत्वात् । प्रमायाचाचाक्षुषत्वात् । असदपोह एव सत्ता । इत्यमोहनादिनस्सौगताः । तन्न । इतरेतराश्रयत्वे नापोहजाति- निरासात् । अतो द्रव्यादिनितये सदित्यनुगतधुद्धिहेतुः सत्ताजातिरभ्युदया। सा सामान्यमेव । अनुवृत्तरेव हेतुत्वात् । तत्र मानं विवादाध्यालितानि द्रव्यगुणकर्माणि एकजातिमन्ति सामान्यादन्यभावत्वाद् गोवत् । अपरं घटत्वादि । व्याप्यमानत्वात् । तचावयवसंयोगरूपसंस्थानव्यङ्गं प्राभाकर- स्यापि सम्मतम् । संस्थानविशेषव्यङ्गया जातिरिति तेनाभ्युपगमात् । परापरं द्रव्यत्वादि । सत्तां प्रति व्याप्यत्वात् , गोत्वादिकं प्रति व्यापकत्वाच । केषु.

वैशेषिकदर्शनम् । चिदनु(व्यक्तः वृत्तेः) के पश्चिव्यावृत्तेश्च हेतुत्वाद् द्रव्य मानम् । आकाशकालदिशस्सत्तातिरिक्तजातिमन्तः संयोगविभागजनकत्वात् कर्मवत् गोवद्वा। यज्जातिराकाशादिषु सत्तातिरिक्ता सिद्धातदेव द्रव्यलम् । आला शाबलेयवृत्त्यवृत्तिशाबलेयाने जातिमान् संयोगित्वात् शाबलेयवत् । शाब- लेये गौरवमेवंविधा जातः । पक्षे तु त्यत्वमेव सिद्ध्याते । आजवरप शायलयावृत्तित्वात् । सत्तायाश्च शाबलेयवृत्तिगुणकर्मपतित्वात् । गोत्वस्य बावितत्वात् । अन्यस्या जातेस्तत्राभावात् । गुणवं मान रूपादिकं रूप- त्वाचायकीनाश्रितजातिमद् भवितुमर्हति सामान्यत् त्वे सति कर्मान्यत्वाद् गोवत्। कर्मत्वे माना उत्क्षेपणादिकम् उत्क्षेपणत्वावन्यगुणावृत्तिजातिमत् केवलनिमितच्यावृत्तत्वे सति गुणान्यत्वाद् गौरिव इति । सामा यादिनिरा- साय केवलेल्यादे । यत्र जातेबाधकं तत्रैवोपार्षिक सामान्यम् । व्यक्ते. रभेद इत्यादि तु जातिबाधकम् । तच्चोक्तद्रव्ये एव ।। इति सामान्यपदार्थः ॥ अथ विशेषपदार्थः। सामान्यशून्या अत्य(न्ता ?न्त) आवृत्तबुद्धिहेतवा विशेषाः । य- दुक्तम् नित्येवेव द्रव्येप्वेव वर्तन्त एव तेऽनन्ता विशेषा इति । एक- द्रव्याः स्वरूपसन्तो विशेषा इत्युदयनः । अजातिरेकतिरेति तापिक- रक्षा । स चैकैकद्रव्यमात्रवृत्तिः । यथारमदादीनां द्रवादिषु जातिगुण- क्रियाभियोवृत्तशुद्धिरुपजायते । तथास्मविशिष्टानां योगिनां परमाणु- गणे मुक्तात्मसु मनासु दिक्कालगगनेषु च विशेषपदार्थायावृत्तिर्भवति । परमाणुषु समानजातिगुणक्रियेषु व्यावर्तकान्तराभावात् । यथा, आप्याः परमाणनः समानजलजातीयाः समानशुलगुणाः एकां दिशं प्राची प्रतीची वा गच्छन्तीति समानक्रियाः, तेषु स एवायं यः पूर्वमनुभूत झाते प्रत्यभिज्ञा जायते । तत्र विशेष एवं व्यावर्तकः । एवमुक्तेष्वपि । दिकालयोश्च परस्पर विशेष एव व्यावर्तकः । तेन वेना व्यावृत्त्यसम्भवात् । इदमेकं मानम् । अपरञ्च, अनारब्धकार्याः समानजातिगुणकर्माणः परमाणवो मुक्तात्मानश्च परस्परल्यावर्तकधर्मवन्तः जातिमत्त्वात् कुम्भवत् । विशेषेषु न विशेषा- न्तरम् । किन्तु स्वत एव व्यावृत्तिः । जडप्रकाशनाय दीपोऽङ्गीक्रियते, - ६२ सर्वदर्शनकौमुद्या नतु दीपप्रकाशनाय दीपान्तरम् । एवं सामान्यसमवाययोरपि न विशेषः । आश्रयविशेषादेव सामान्यव्यावृत्त्युपपत्तेः । सम्बन्धिभ्याञ्च समवाय- स्येति ॥ विशेषस्य पदार्थस्य साधनात् कणभुङ्मते । वैशेषिकाख्यया प्रोक्ताः काणादास्तीथिका भुवि ।। इति विशेषपदार्थः ॥ .. । अथ समवायः। नित्यस्सम्बन्धस्समवायः । अयुतसिद्धयोस्सम्बन्धस्समवाय इति वा । अयुतसिद्धौ अपृथसिद्धौ । तदुक्तम् तावेवायुतसिद्धौ द्वौ विज्ञातव्यौ ययोयोः । अवश्यमेकमपराश्रितमेवावतिष्ठते ॥" सच एक एवावयवावयव्यादिभेदाद् भेदेन व्यपदिश्यते । यथा अवयवावयविनोर्गुणतद्वतोः क्रियातद्वतोः सामान्यतद्वतोः विशेषनित्यद्रव्या- णाञ्चैतेषां सम्बन्धिनां भेदाद् भेदव्यवहारः । स च इह तन्तुषु पटः, इह गवि गोत्वं, इह रूपम्, इह क्रियेत्यादिव्यवहारेणानुमीयते। विमत इह- प्रत्यय आधाराधेयसम्बन्धनिमित्तः अबाधितेहप्रत्ययत्वात् इह कुण्डे बदरा. णीति प्रत्ययवत् इति । तत्र संयोगो न सम्भवति । पृथसिद्धयोरेव तस्य सिद्धत्वात् । अन्यस्य मुख्यसम्बन्धस्य भावात् । नच तादात्म्यम् । भि- नयोस्तदसम्भवात् । ततश्च पक्षधर्मताबलाद् यसिद्धयति । स एव समवायः इति । यद्वा नीलं सरोजमिति विशेषणविशेष्यभावस्तत्सम्बन्धपूर्वकः जातिमन्मात्रविशेषणविशेष्यभावत्वात् , दण्डीति विशेषणविशेष्यभावव- दिति । तत्रापि पूर्ववत्परिशेषात्समवायसिद्धिः । अथवा, विमतं द्रव्यादि नित्यसम्बन्धसम्बद्धं, गुणवत्त्वादाकाशवत् । नच भाट्टस्य साध्यवैकल्यं, दृष्टान्ते तेनापि शब्दाकाशयोर्नित्यसंयोगाङ्गीकारात् । स्वमते तु सत्ताकाश- सम्बन्धस्य नित्यत्वात् । तस्मात् समवायः प्रामाणिकः । स च सर्वत्रेह- प्रत्ययमात्रगम्यत्वादेक एव । एतेनानेकसमवायवादिनः प्राभाकरा निर- स्ताः । तत्र प्रमाणाभावात् । एकत्वे अनुमानान्तरञ्च । विमता द्रव्यादयो वैशेषिकदर्शनम् । ६६ गगनशब्दसमवायेन समवायिनः समवायित्वाद् गगनशब्दवदिति । तथाच गगनशब्दयोस्समवाय एव सर्वत्र सिद्ध्यतीत्येकत्वसिद्धिः । अत एव स्वस्यापि सम्बान्धभ्यान्न सम्बन्धान्तरकल्पना स्वरूपसम्बन्धेनैव सम्बन्धि- नोर्वर्तते । संयोगस्य तु कार्यत्वात् कारणे सम्बन्धान्तरापेक्षा । अत एवा- स्मदाद्यतीन्द्रियः प्रत्यक्षाप्रत्यक्षसम्बन्धित्वाद् गगनघटसंयोगवत् । सम- वायः प्रत्यक्षः, विशेषणविशेष्यभावश्चेन्द्रिय सन्निकर्ष इति गौतममतानुसा- रिणः । तन्न । विशेषणविशेष्यभावेन परमाण्वादेरपि ग्रहणप्रसङ्गात् । विशेषणविशेष्यभावश्चागत्या अभावे अङ्गीक्रियते । नान्यत्रेति स्थितिः । स च नित्यः असमवेतभावत्वाद्, गगनवदिति नित्यत्वे मानम् । सामा- न्यरहितभावत्वाद्वा सामान्यवदिति नित्यत्वसिद्धिः । लक्षणं तूक्तमेव । ननु लक्षणमतिव्यापकम् । विभुसंयोगे तस्य नित्यसम्बन्धत्वादयुतसिद्धत्वाच इति चेन्न । विभुसंयोगे कारणाभावात् । अन्यतरकर्म उभयकर्म संयोग - (ज?)श्च संयोगकारणम् । विभुनोस्तदसम्भवः । द्रव्यत्वात् संयोगसाधने तत्त्वादेव विभागसाधनमपि स्यात् । अत्र सूत्रसम्मतिः इहेति यतः कार्य कारणयोस्समवाय इति कार्यकारणयोरित्ययुतसिद्धोपलक्षणम् । युतशब्देना- मिश्रणं गृह्यते । यु मिश्रणामिश्रणयोरिति धातोरमिश्रणार्थस्य स्वीकारात् । अमिश्रणाभावो मिश्रणमेव ततश्चायुतसिद्धत्वमपृथक्सिद्धत्वमिति सिद्धम् ॥ इति समवायपदार्थः॥ ॥ सप्तमो भावपदार्थः पूर्वमेव निरूपितः ॥ इाते श्रीमत्परमहंसपरिव्राजकाचार्यवयविद्येन्द्रवनशिष्य परमहंसमाधवसरस्वतीरचितायां सर्वदर्शनकौमुद्या कणाददर्शनं यथाबुद्धि निरूपितम् ॥ मथनैयायिकदर्शनं निरूप्यते- तत्र गौतमीयं प्रथमसूत्रं विषयप्रयोजनपरम् । “प्रमाणप्रमेयसं. शयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कानर्णयवादजल्पवितण्डाहत्वाभासच्छल- सर्वदर्शनकौमुद्या जातिनिग्रहस्थानानां तत्वज्ञानानिःश्रेयसाधिगमः" । इति । अतस्तेषा पोडशपदाधीनो तक अमान्यात क्षणिकेतरं प्रमाण । तेन सुखादौ नाति- व्याप्तिः तस लायकत्वात् । तद् द्विविधम्--लौकिकमलकिकवेति । आवं प्रमाकर नामाकरणस्य कथं प्रमाव्यातिः, इन्द्रियादौ सति प्रमावश्यमावानात् । सत्यम् । इन्द्रियादिमात्रं हि न करणम् । किन्नु व्यापारवत् । व्यापार मन्दिरसन्निकालिङपरामदिः । व्यापारवतीन्द्रियादौ सति प्रमा मनलेवेति अलाव्यासः । करणस्यन्द्रिय सन्त्रिकमा वा प्रमा- णम् । परमकार पर करणत्वं बदन्तः पतिककारमतानुसारिणोनि- याशरणापि करणलमास्थिपत । तस्य प्रमाव्यातिहल्लेबात न कश्चि. होषः । अलौकिक प्रमाणावरः । तस्य नित्यपमया व्यामित्येव । यथाहः "मितिम्सम्यक् परिच्छित्तिस्तद्वत्ता च प्रभातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ भयोगव्यवच्छेदो व्याप्तिरेव । तथा, "शोन्मेषकलादिभिः किम- परैस्तन्मे प्रमाणं शिव" इति च । नापि प्रमेयेऽतिव्याप्तिः, न वा प्रमातरि । तयोः प्रमाव्याप्त्यभावात् । अज्ञातप्रमेयसिद्धये हि प्रमाणं मृग्यते । सुपु- प्त्यादी प्रमाभावात् । अतो निर्दुष्टं लक्षणमिति । यथार्थानुभवः प्रमा, प्रमा- श्रयः प्रमाता, प्रमाविषयः प्रमेयमिति, प्रमाणमिति करणव्युत्पत्तिरेव विव- क्षिता प्रमीयतेऽनेन तत् प्रमाणमिति । न(त्व ? तु) अमितिः प्रमाणमिति भावव्युत्पत्तिः । नवा प्रमीयते इति कर्मणि, न च प्रमिणोतीति कतरि, ततश्च नाव्यातिः नासम्भवो वा।। अव्युत्पन्नगवादिपदोपेतं यद्वाक्यं तदर्थस्य गवयादिसंज्ञिनि प्रत्य भिज्ञानमुपमानम् । संज्ञासंज्ञिसम्बन्धप्रत्ययः फलम् । तदुक्तम् - सम्बन्धस्य परिच्छेदः संज्ञायां संज्ञिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ इति ॥

न्यायदर्शनम् । तत्रायं क्रमः-- गवयार्थी काबद् गवयमजानानः पुरवासी समा. गतं वनेचरं पृच्छति कीडग् गवय इति । सः प्रतिव्रते गोसदृशो गवय इति । सोऽतिदेशवाक्यश्रवणानन्तरं वनं गतोऽतिदेशार्थ स्मरति । ततः प्रत्यभि- जानाति अयमसौ गोसदृश इति । ततोऽयं गवयशब्दवाच्य इति प्रत्येति । स च प्रत्ययो न प्रत्यक्षकलं नश्रुतवाक्यस्यापि प्रसङ्गात् । नाप्यनुमान- फलम् । व्याप्त्यभावात् । नापि वाक्यफलम् । अदृष्टगवयस्यापे प्रसङ्गात्। नापि समाहारफलम् । वाक्यप्रत्यक्षयोभिन्नकालत्वात् । अतो मानान्तर मुपमानमपेक्षणीयम् । इत्यौदयनः पन्याः । तथा कीडगश्व इति पृष्टो ब्रूते गोवद् द्विशफो न भवत्यश्व इति । तस्मादपि तादृशपिण्डदर्शनानन्तरम् अय- मसौ गोसदृश इति प्रत्यभिज्ञानं भवति । ततोऽयमश्व इति वाच्यवाचक- भावसम्बन्धप्रत्ययो भवति । त(तो? थो)दीच्येन करमं निन्दता उच्यते- दीर्घग्रीवः प्रलम्बोष्ठश्चतुष्पाद्विकटाकृतिः । कठोरकणकाशी च पशुः करम .... || इति । तच्छ्रुत्वा उत्तरापथं गतस्य दाक्षिणात्यस्य तादृशं पशुं दृष्ट्वा भवति मतिः करभोऽयमिति । एवमतिदेशवाक्यार्थत्रैविध्यादुपमात्रैविध्यम् । नचो. पमानादेव संज्ञासंज्ञिसम्बन्धप्रत्ययनियमः । किन्तु उपमानफलं संज्ञासंजि- सम्बन्धप्रत्ययः इति नियमः । तेन प्रत्यक्षोपदेशादिह सहकारवने कोकिलो रौतीति प्रसिद्धपदसमभिव्याहारात् सहकारपदसमभिव्याहाराच्च भवति सङ्केतप्रत्ययः। नन्वनुमानादेव संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर्भविष्यति । गवय- शब्दो गवयत्वस्य वाचकः । असति वृत्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वात्। योऽसति वृत्त्यन्तरे यत्र प्रयुज्यते स तस्य वाचकः । यथा गोशब्दो गोत्व- स्येति प्रयोगादिति चेन्न । विशेषणासिद्धत्वाद्धेतोः। उपचारेणापि पद- प्रयोगोपप(तौ ? त्ताव)सति वृत्त्यन्तर इति विशेषणस्यासिद्धत्वात् । इत- रेतराश्रयत्वाच । असति वृत्त्यन्तरज्ञाने वाचकत्वज्ञानं, वाचकत्वज्ञाने सति वृत्त्यन्तराभावज्ञानमिति । नन्वतिदेशवाक्यादेव वाच्यवाचकभावो गृह्यताम् । यो गोसदृशः स गोशब्दवाच्य इति चेन्न । तदानी प्रवृत्तिनिमि- त्तगवयत्वस्याप्रतीतेः । प्रवृत्तिनिमित्तज्ञानमन्तरेण सङ्केतासम्भवात् । नच सादृश्यमेव प्रवृत्तिनिमित्तम् । तरप गोप्रतियोगि(ता? क)त्वेन गोरपि निमित्तत्वेन वाच्यत्वप्रसङ्गात् । सादृश्यस्योपादिवेन गौरवाच । गवयत्वस्य K ६६ सर्वदर्शनकौमुद्या जातित्वेन लाघवात् तदेव निमित्तम् । तस्य (तस्य ?) तदाज्ञानात् । किञ्च , वनेचरः स्वावगतगवयबोधनायोपदिशति स्वयञ्च वृद्धव्यवहारात् गवयत्वे व्युत्पन्नः, नतु सादृश्ये । तच्च निमित्तं साक्षादवगमयितुमशक्तः तदुप- लक्षकं सादृश्यमुपदिशति । तदवगमान्नागरिकोऽपि वनं गतो बुध्यते गवयोऽयमिति । अतस्तद्वाक्यम् अनन्तरमेवोत्थापयतीति स्थितम् । मीमांस- कादिमतोपमानं तु प्रागेवान्तर्भावितमनुमानेन । यत्तु भूषणेनोक्तं- वाक्या- देव गवयप्रतीतिः, तथा प्रश्नोत्तराभिधानात् । मानान्तरानिर्देशाच्च । कथं त्वं जानीपे गवयनामायमिति पृष्टो ब्रूते, वनेचरवचनादिति । नतु ब्रूते मानान्तरादितीति । तन्न । गवयज्ञानस्य वनेचरोपदेशमूलत्वात् तथाभिधान- सम्भवात् । लागलं जीवनमितिवत् । तदभिप्रायेणैव मानान्तरा(?)दनुप देशः । उपमानसाधनयुक्तेश्योक्तत्वादित्युपरम्यते । अथागमो निरूप्यते । आप्तवाक्यमागमः । यथार्थदर्शी यथादृष्टार्थवादी चाप्तः। आकांक्षा- योग्यतासन्निधिमान् पदसमूहो वाक्यम् । यद्यपि प्रतिपत्तुर्जिज्ञासा नाकांक्षा । जिज्ञासारहितस्यापि वाक्यार्थप्रत्ययोपपत्तेः । अकस्माच्छ्रुतात् पुत्रमरणादिवाक्यात् तदर्थप्रत्ययदर्शनात् । तथाप्यभिधानपर्यवसानमाकासा । गामित्युक्ते किमानयामि बध्नामि वेत्याकाङ्क्षयाभिधानं न पर्यवस्यति । आनयेत्युक्तेऽपि गां घटं वेत्याकांक्षयाभिधानं न पर्यवस्यति ततस्तदभिधानस्य पर्यवसानमेवाकाङ्क्षा । बाधकप्रमाविरहो योग्यता। अग्निना सिञ्चदित्यत्र बाधकामासम्भवादयोग्यता । आसत्तिश्च पदानामविलम्बेनोच्चारणम् । एतत्रितययुक् पदसमूहो वाक्यम् । एतच स्वतन्त्र प्रमाणम् । नानुमाना- न्तर्भूतम् । अनुमानान्तर्भावे हि वक्तृज्ञानविषयतया संसर्गसिद्धिः स्यात् । एतानि पदानि स्मारितार्थज्ञानपूर्वकाणि, आकाङ्क्षादिमत्पदकदम्बकत्वात् वाक्यान्तरवदिति ह्यनुमानम् । तथा च श्रोतुः पदार्थसंसर्गविषयवस्तृ- ज्ञानज्ञानं भवति । न तु साक्षात् संसर्गज्ञानं भवति । साक्षात् संसर्गज्ञानं प्रवर्तकम् । न तु ज्ञानज्ञानम् । अयं घटज्ञानवानिति ज्ञानादन्यस्याप्रवृत्तेः । किन्तु ममेदमिष्टसाधनमिति ज्ञानादेव सर्वस्य प्रवृत्तिदर्शनात् । तच्चानुमान- पक्षे न सम्भवति। अतो वाक्यप्रमाणादेवेटसाधनतां बुद्ध्वा श्रोता प्रवर्तते । न तु वक्तृज्ञानानुमानादिति सिद्धं शब्दस्य पृथक् प्रामाण्यम् ।। ।

न्यायदर्शनम् । यत्तु अर्थपक्षकमनुमानम् --- एते पदार्थाः मिथस्संसर्गवन्तः आकाङ्क्षा- दिमत्पदसमूहस्मारितत्वात् घटमानयेति पदार्थवत् । यद्वा, सैव प्रतिज्ञा योग्यतासत्तिमत्त्वे सति संसर्गपरपदस्मारितत्वात् । अनातवाक्ये योग्यतादि- विरहान्न व्यभिचारः । बाधकामाविरहो योग्यता । अनातवाक्ये तु बाधकसत्त्वात् तज्जन्यज्ञानस्य च भ्रमत्वात् । अतोऽर्थपक्षकानुमानेनाग- मस्यानुमानान्तर्भाव इति । तन्न । यत्र हि विमलं जलं नद्याः कच्छे महिषः चरतीति प्रयुले, श्रोता तु विमलं जलमित्यश्रुत्वैव नद्याः कच्छे महिष- श्वरतीति शृणोति, तत्र नदीकच्छयोः संसर्गवत्त्वाभावेऽपि उक्तविशेषण- विशिष्टपदस्मारितत्वसद्भावाव्यभिचारः । तत्र हि नद्या इत्यस्य न कच्छेन संसर्गः, किन्तु जलेन । नद्या जलं हि विमलमिति प्रतीतेः । कच्छस्य महिषेण सम्बन्धः । तथा च नद्याः कच्छेनाकांक्षादिवर्तते संसर्गश्च नास्तीति भवति व्यभिचारः । अतो नेदमप्यन्तभीवकम् ।। तत्त्वचिन्तामणिकारस्तु शब्दस्य लिङ्गत्वाभावे पार्थक्येन मानत्वे च युक्तिमाह- बाधकप्रमाणाभावो योग्यता। सा चलनलिङ्गविशेषणम् । बाधकप्रमाभावमात्रविरहस्य सर्वत्र निश्चेतुमशक्यत्वात् । स्वस्य बाधप्रमा- विरहनिश्चयेऽपि अन्यस्यान्य बाधकमस्ति नवेति निश्चेतुमशक्यत्वात् । डिम्भविशेषणे तु निश्चयापेक्षा योग्यता । सन्देहेऽपि शब्दान्वयबोधजन- नात् । शब्दप्रमाणे तु योग्यतायां संशयसाधारणज्ञानस्य प्रयोगैकत्वात् । डिम्भे तु योग्यता निश्चितैव प्रयोजकमिति शब्दः पृथक् प्रमाणमिति ॥ जरत्नाभाकरास्तु--- वेदे शब्दः पृथक् प्रमाणं तत्र वक्तुरमा- वात् । लोके चाप्तोक्तत्वनिश्चये सति पदपक्षकार्थपक्षकानुमानाभ्यामेव संसर्गबोधोपपत्ता लौकिकः शब्दोऽनुवादक इति मन्यन्ते । तन्न । नही- यमर्धजरती युक्ता । वेदे क्लप्ससामग्रीतो लोकेऽपि संसर्गप्रत्ययसम्भवात् । अन्यथानुवादकतापि न स्यात् । तथाहि वैदिकवाक्यस्य पदार्था मिथस्संसर्ग- वन्तः योग्यतादिमत्पदसमूहस्मारितत्वाल्लौकिकवाक्यस्य पदार्थवत् । तथा च वैदिकशब्दानामप्यनुवादकत्वम् । इति साधु विचारितं वेदवाक्यमिति ॥ ननु शब्दस्याप्तोक्तत्वेन (न?)प्रामाण्ये स्वीक्रियमाणे वेदस्यापि पौरुषेयतया प्रामाण्यमङ्गीकार्यम् । तथा च 'रागद्वेषादिकालुष्यं पुरुषेषूप सर्वदर्शनकौमुद्यां लभ्यत' इति न्यायेनाप्रामाण्यं वेदस्य स्यादिति चेत् । मैवम् । लोके ह्याप्तो- ऽनाप्तश्चेति द्वैविध्यसम्भवादाप्तोक्तमेव प्रमाणम् अन्यदप्रमाणमिति विभागः सम्भवति । वदे तु परमाप्तः परमेश्वर इाते तत्प्रणीतं सर्वमेव वाक्यं प्रमाणमेव । आतोक्तत्वेन चागमस्य प्रामाण्यं, न तु नित्यनिर्दोषतया । शब्दस्य कार्यत्वेन नित्यत्वासम्भवात् । कार्यत्वस्य च सुखादिवदुत्कर्षापकर्ष- वत्त्वात् । उत्कर्षापकर्षयोश्च कार्यगतयोः कारणोत्क(धनुविधायित्वात् । कारणाभावे कार्ये उत्कादिनापलभ्यतेति बाधकस्तर्क उन्नेयः । उत्कर्षा- दिमत्त्वं च शब्दे प्रत्यक्षम् । तकारोऽयं भकारो मन्दोऽयं भकार इति श्रूयमाणत्वात् । तरमात् परमातेन रागादिदोषरहितेन परमेश्वरेणोदितत्वात् प्रमाणमेव तज्जनितज्ञानस्यापि प्रामाण्यं परत एव । आप्तवाक्यजत्वस्यैव गुणस्य जनकत्वात् । न तु स्वतः । नित्यवेदजनितत्वस्यासम्भवात् । तस्मात् पौरुषेयसङ्केतबलेनार्थे शब्दः प्रमाणमिति सिद्धम् ।। ननु कथं शब्दस्यार्थेन सङ्केतग्रहः । अभिहितान्वयबलादिति नैयायिका वैशेषिका भाट्टाश्च मन्यन्ते । पदैरभिहितानां पदार्थानामाकाङ्- क्षादिबलेनान्वयो ह्यभिहितान्वयः । पदार्थश्च नैयायिकवैशेषिकयोर्जाति- विशिष्टा व्यक्तिः, यथासम्भवमाकृतिश्च । तत्र विशिष्टेऽर्थे उपदेशाद्वा वृद्ध- व्यवहाराद्वा अस्य शब्दस्यायमर्थ इति सङ्केतः । स चेच्छाविशेषः । अनादि- प्रवाहपतितेषु ईश्वरसङ्केतः । चैत्रायाधुनिकपदेषु आधुनिकपुरुषकृतसङ्केतः । वृद्धव्यवहारस्त्वेवम् -- उत्तमवृद्धप्रयुक्तवाक्यं श्रुत्वा मध्यमवृद्धः प्रवर्तते । तव्यवहारं दृष्ट्वा बालो व्युत्पद्यते । यथा गामभ्याज देवदत्त दण्डेन वनादिहेति श्रुत्वा व्युत्पन्नः प्रवर्तते आनयति च । तत्प्रवृत्तिं दृष्ट्वा बालोऽनुमिनोति । विमता चेष्टा प्रयत्नजन्या चेष्टात्वात् , मदीयचेष्टावत् । स च प्रयत्नश्चिकीर्षाजन्यः यत्नविशेषत्वान्मम चिकोर्षाजन्ययत्नवत् । चिकीर्षा चेष्टसाधनताज्ञानजया।चेकीर्षात्वान्मदीयचिकीर्षावत् । इष्टसाध- नताज्ञानं च उत्तमवृद्धप्रयुक्तवाक्यजन्यम् । तदन्वयव्यतिरेकानुविधायित्वात् । यद्यदन्वयव्यतिरेकानुविधायि तत्तज्जन्यम् । यथा तन्त्वन्वयव्यतिरेकानु- विधायी पटस्तन्तुजन्यः । ततश्चात्तमवृद्धवाक्यान्मध्यमवृद्धस्य गवानयन- ज्ञानमिति निश्चिनोति बालः । पश्चादावापोद्वापाभ्यां गां बधान गां मुञ्चति ।

न्यायदर्शनम् । ६९ रूपाभ्यां गोपदस्य जातियुक्तं पिण्डमेवार्थ निश्चिनोति । गोपदस्यानयन- बन्धनमोचनादौ अनुगतत्वात् । क्रियापदानां चावापोद्धारादिना तत्तदर्थ जानाति । एवं व्यवहारात् पदार्थमवगत्य पदार्थानां योग्यतादिवशादन्वयं प्रतिपद्यते । तत्र पदानां ज्ञानं कारणम् । पदार्थस्मृतिरवान्तरव्यापारः । अर्थसंसर्गज्ञानं फलम् । संसर्गे च पदानां न शक्तिः, नापि लक्षणा। ताभ्यां विनैवाकाङ्क्षादिससंगबोधसम्भवात् । अनन्यलभ्यः श दार्थ इति न्यायेन गत्यन्तराभावे शक्त्यादिकल्पनात् । अत्र चाकाङ्क्षादिरेव गत्यन्तरमस्ति । वाक्यार्थः संसर्ग एव न तु संसृष्टः । तदा अर्थवत्त्वं संसर्गेऽपि पदानां शक्तिकल्पनागौरवापत्तेः । संसर्गो यदा यस्येष्टसाधनं तदा तस्य तज्ज्ञानात् प्रवृत्तिः। यदा सोऽनिष्टसाधनं तदा निवर्तते ।। भाट्टानां तु सङ्केतग्रहप्रकारः समान एव । पदार्थस्तु गवादिपदानां गोत्वादिजातिः। व्यक्तिराक्षेपालभ्यते । लक्षणया वा । जातेरानयना(द्यु?य)- नुपपत्तेः । तेषां मते पादार्थः करणम् । तत्स्मरणमवान्तरव्यापारः । संस- गज्ञानं फलम् । वेदान्तिनां प्राभाकराणां चान्विताभिधानबलात् सङ्केत- ग्रहः । योग्येनेतरेण क्रियार्थेनान्विते स्वार्थे कारकादस्य सङ्केतग्रहः । कार- कार्यान्विते स्वार्थ क्रियापदस्य सङ्केतग्रहः । एतदन्विताभिधानं वेदान्तिनाम् ।। प्राभाकराणां तु कार्यान्विते स्वार्थे सकलपदानां सङ्केतग्रहः । कार्य लिलोट्तव्यप्रत्ययादि वाच्यम् । मामानयेत्युक्ते गोपदस्यानयनान्विते गोपिण्डे सङ्केतः शक्तिरूपः । आनयनपदस्य गोपिण्डान्विते । ननु स्वकार्य- पदस्य कार्यान्वितत्वं नास्तीति सकलपदानां कथं कार्यान्विते शक्तिरिति चेत् । मैवम् । कार्यान्वयान्वयिनि हि शक्तिः । अन्वयस्योभयनिष्ठत्वात् कार्या- न्वयं प्रत्यन्वयित्वं कार्यस्थेतरस्य चोभयोरप्यस्ति इति नोक्तदोषः । न च गोप देनैवानयनान्वितकथने आनयनस्यापि कथनात् आनयनपदं व्यर्थम् । आनयनपदे च कारकान्वितक्रियाबोधनात् कारकपदप्रयोगो व्यर्थः । ततकस्मिन् वाक्ये एकेनैव सर्वपदार्थस्याभिधानादितरपदवैयर्थ्यमिति वाच्यम् । अन्वयसामान्यस्थैकेन कथनेऽपि क्रियाकारकविशेषबोधनाये- तरपदाकाङ्क्षणात् । ततश्च प्राभाकरमते क्रियासामान्यान्वयः पदशक्तिगो- चरत्वात् पदार्थः । आनयनादिक्रियाविशेषान्बयस्तु वाक्यार्थः ।। ।

सर्वदर्शनकौमुद्यां वेदान्तिनां तु मते योग्यतरमात्रान्वयः पदार्थः । योग्यविशेषान्व- यस्तु वाक्याथः ॥ गुरुमते पुरुषप्रवतकं कार्यज्ञानम् । कार्य ममदं कर्तव्यमित्येवं- रूपम् । वैदे तु यागादिजन्यमपूर्वरूपम् । तच 'कृत्युद्देश्यं प्रधानं यत्तत्का- यमभिधीयत' इति शालिकनाथन लक्षितम् । कृल्या प्रयत्नेन उद्देश्यत्वं स्वगादरप्यस्तीति प्रधानमिति विशेषणम् । प्रधानत्वं यागादेवात्वर्थस्या- प्यस्तीति कृत्युद्देश्यत्वविशेषणम् । तस्य क्लयरूपत्वेनोद्देश्यत्वाभावात् । तस्मात् कार्यताज्ञान प्रवर्तकम् । गुरुमते तु पदाथों जातिव्यक्तिरपि । तत्र जातौ शक्तिः पदानां ज्ञाता उपयुज्यते । व्यक्ती तु सा स्वरूपसती । यतो जातावेवानुगतरूपायां शक्तिगृह्यते, अतः सैव स्मयते पदश्रवणे। व्यक्तिस्तु जात्याश्रयतया जातिशक्त्यैव गृह्यत इति । इति तु जातिशक्तिवादः प्राभा- कराणाम् ॥ । ? । तार्किकाणां वेदान्तिनां चेष्टसाधनताज्ञानं प्रवर्तकन् । कार्यताज्ञानेऽपि इष्टसाधनताज्ञानं कारणम् । अन्यथा अनिष्टसाधनेऽपि कर्तुं शक्यत्वेन कार्यतास्ति । तज्ज्ञानादपि प्रवृत्तिप्रसङ्गात् । ननु तवापि तर्हि तक्षकचूडा- मण्यादाविष्टसाधने प्रवृत्तिप्रसङ्गादिति चेत् । मैवम् । इष्टसाधनताज्ञाने कृति- साध्यत्वम(प्य ? पि) विषयः । तथाच कृतिसाध्येष्टसाधनताज्ञानं प्रवर्तकम् । तक्षकमस्तकरत्नादौ प्रयत्नेन साधयितुमशक्यत्वात् विशिष्टेष्टसाधनताज्ञानं नास्ति इति न प्रवृत्तिः । इष्टं च बलवदनिष्टाननुबन्धि वाच्यम् । तेन मधु- विषसम्पृक्तान्ने तृप्तिसाधनेऽपि न प्रवृत्तिः । तस्य मरणसाधनत्वेन बलवद- निष्टानुबन्धित्वात् । किश्चिदनिष्टानुबन्धित्वमग्निहोत्रादावप्यस्ति, तस्यापि वित्तव्ययायाससाध्यत्वात् । तथापि स बलवान्न भवति । ततोऽपि बलव- दिष्टं स्वर्गादिफलम् । ततश्च बलवदनिष्टा(न)नुबन्धीष्टं फलम् । कृतिसा- ध्यत्वे सति यत्तत्साधनं तज्ज्ञानं प्रवर्तकमिति सिद्धम् । तस्मादाप्तवाक्यमाग- मप्रमाणम् । तथा च प्रमाणचतुष्टयं गौतमीये मते । अर्थापत्त्यादीनामनै- वान्तर्भावः । स वैशेषिकमते निरूपित एव ।। इति प्रमाणपदार्थः ॥

। न्यायदर्शनम् । अथ प्रमेयपदार्थो निरूप्यते - अस्य प्रमाणानन्तरं युक्तम् । किं पुनरेभिः प्रमाणैः प्रमातव्यमित्य- पेक्षायां प्रमेयस्योपस्थितत्वात् । तत्र सूत्रम् "आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्" इति । साक्षान्मोक्षोपयोगिज्ञानविषयत्वेन मुमुक्षुभिः प्रकर्षण ज्ञेयं प्रमेयम् । किमुक्तं भवति । यविषयं मिथ्याज्ञानं संसारमातनोति तद्विषयं तत्त्वज्ञानं तन्निवर्तयति॥ तत्र चेतन आत्मा चैतन्यात्यन्ताभावानधिकरणत्वस्य लक्षणत्वात् नामुक्तमूर्छितसुषुप्तादावव्याप्तिः । शरीरा(दिना ? दीनां)जडत्वान्नातिव्याप्तिः। तस्य विभुत्वादिकं पूर्वमेव निरूपितम् । तत एवावधेयम् ।। अत्यन्ता? न्त्या)वयवि चेष्टाश्रयः शरीरम् । चेष्टा नाम प्रयत्नव- दात्ममनस्संयोगासमवायिकारणिका क्रिया । ततश्चानलानिलक्रियायां ना- तिव्यातिः । तस्याश्चादृष्टवदात्मसंयोगजन्यत्वात् । तदुक्तम् - अग्नेरूचं. ज्वलनं वायोस्तियक्षवनमणुमनसोश्चाद्यं कायेत्येतान्यदृष्टकारितानी (? ति । अन्त्यावयवीति करचरणादिव्युदासः । कार्यद्रव्यानारम्भ(कः ? कं) कार्यद्र- व्यमन्त्यावयवि ॥ शरीरसंयोगे सत्येव साक्षात् प्र(मि)तिसाधनमिन्द्रियम् । शरीरसंयोगे इति विशेषणेनेन्द्रियार्थसन्निकर्षनिरासः । एवेत्यालोकादयो निवर्त्यन्ते । साक्षादिति शरीरयोगीनि चेष्टादीनि लिङ्गानि । प्रमितीत्यप्र. माहेतवो दोषाः । साधनमिति चेन्द्रियसंस्कारा अञ्जनादयः । तेषां साध- नानुग्राहकत्वेन स्वयमसाधनत्वात् । साक्षात्त्वं तु ज्ञानत्वावान्तरजाति- भेदः । ज्ञानकरणकज्ञानावृत्तीन्द्रियजन्यज्ञानवृत्तिजातिस्साक्षात्त्वम् । ननु साधनपदेन कारणत्वं वा विवक्षितं करणत्वं वा । आये दिक्कालयोरति. व्याप्तिः। तयोरपि शरीरसंयोगे सत्येव साक्षासमितिकारणत्वात् । द्वितीये त्वव्याप्तिः । इन्द्रियसन्निकर्षस्यैव करणत्वेनेन्द्रियस्याकरणत्वादिति चेत् । न । इन्द्रि(यं? य)विशिष्टरय करणत्वं विशेषणस्यापि तथात्वान्नासम्भवः । दिक्कालयोः कारणले वा शरीरसंयोगापेक्षानियमाभावात् तयोः साधारण- खात् । अतो न कश्चिद् दोषः॥

७२ अन्यथा सर्वदर्शनकौमुद्यां इन्द्रियग्राह्या अर्थाः । ते च द्रव्ये पृथिव्यादिचतुष्टयम् आत्मा च । धर्माधर्मसंस्कारगुरुत्वव्यतिरिक्ताः विंशतिगुणाः । पञ्च कर्माणि । सामान्य समवायोऽभावश्च । ते च पूर्वमेव निरूपिताः ॥ अर्थप्रकाशो बुद्धिः । सा चात्मगुणः मानसप्रत्यक्षा, नतु स्वप्रकाशा प्राभाकरवत् । यद् वस्तु तद् वेधं घटवद् इति नियमेन तदसम्भवात् । नापि बौद्धवत् स्वात्मानं स्वयमेव विषयीकरोति । स्वप्रकाशात् कर्मकर्तृविरोधात् परवेद्यत्वनियमाच । विमतं परवेद्यं क्षाणकात्म- विशेषगुणत्वात् सुखवत् । तस्मात् परशकाश्या बुद्धिः । नापि भाट्टवदतीन्द्रिया । तत्र प्रमाणाभावात् । न प्राकट्यं प्रमाणम् । विषयविषयिभावव्यतिरेकेण तत्सद्भावे प्रमाणाभावात् । अतीतादौ प्राकट्याभावेन विषयत्वानुपपत्तेः । ज्ञानस्यातीन्द्रियत्वे घटमनु- भवामीति अध्यक्षविरोधात् । ज्ञानमतीन्द्रियम् । इन्द्रियाविषयत्वादिति साध्यसमो हेतुः । तस्माद् बुद्धिर्मानसप्रत्यक्षा क्षणिकविशेषगुणत्वात् सुख- वदिति ॥ सुखाद्यपरोक्षसाधनमिन्द्रियं मनः । तस्याणुत्वं प्रागेव प्रासाधि । युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति ।। वाङ्मनश्शरीराणां पुण्यापुण्यरूपो व्यापारः प्रवृत्तिः । यदि सत्कर्म करोति वागादिभिस्तहिं पुण्येन पुण्यलोकं प्राप्नोति । यद्यसत्कर्म करोति तर्हि नरकेन पापेन नरकादिदुःखमनुभवति सा प्रवृत्तिः । प्रवृत्तिहेतवो दोषाः । ते च रागद्वेषमोहाः । राग इच्छा । द्वेषो मन्युः । तौ तु साक्षात् पुरुषं प्रवर्तयतः । मिथ्याध्यवसायों मोहः । स च रागद्वेषानुप्राहकतया प्रवृत्तिहेतुः । मूढमेव हि रागद्वेषौ प्रवर्तयतः ॥ मृत्वोत्पत्तिः प्रेत्यभावः । मरणोत्पत्ती तु देहविश्लेषसंश्लेषौ । नि- त्यस्यात्मनो जननमरणासम्भवात् । नित्यत्वं च पूर्वमेव प्रत्यपादि ।। प्रवृत्तिसाध्यं फलम् । तच्च देहेन्द्रियादिसुखादिकम् । प्रवृत्तिश्च पु- ण्यापुण्यमयी क्रियेत्युक्तम् । प्रतिकूलतया वेद्यं दुःखम् । तदपि देहेन्द्रिया- दिकमेव । धर्मसाध्यं पुण्यदेहादि, अधर्मसाध्यं पापदेहादि इति भेदः । तवैकविंशतिप्रकारं पूर्व निरूपितम् ।। ।

न्यायदर्शनम् । एतस्य दुःखस्यात्यन्तिकनिवृत्तिरपवर्गः । आत्यन्तिकत्वं नाम निवृ- तसजातीयस्य तत्रैवात्मनि पुनरनुत्पादः ॥ एतत्त्रमेयं मोक्षे साक्षादङ्गम् । द्रव्यादि तु न साक्षान्निाश्रेयसोप- योगीति गौतमो न लक्षयाञ्चके इति । अथ संशयः । अनवधारणात्मकः प्रत्ययः संशयः । स च त्रिविधः । समानधर्मासाधारणधर्मविप्रतिपत्तिभेदात् । स निरूपित एव । उपल. ध्यनुपलब्ध्योस्तु न पृथक् संशयहेतुत्वम् । किन्तु समानधर्मत्वेनैव इति वार्तिककाराः । तथाहि ---- पूर्व सदेव किञ्चित् केनचियापारेणाभिव्यक्त सदुपलभ्यते, यया प्रदीपेन घटः । किञ्चिच्चासदेव जातमुपलम्यते । यथा कुलालव्यापारेण घटः । तथा च सदसतोः साधारणोपलब्धिधर्मेण संशयः । अनुपलब्धिश्च सतां परमाणूनां भवति । असतां शशशृङ्गादीनां च भवति । ततस्तत्राप्यनुलन्ध्या समानधर्मेण संशयः । अतलिविध एव संशयः ॥ यदुद्दिश्य पुरुषप्रवृत्तिस्तत् प्रयोजनम् । तच सुखतत्साधनादि- कम् ॥ व्याप्तिसंवेदनस्थानं दृष्टान्तः । स साधर्म्यवैधय॑मेदाद् द्विविधः । साधनप्रयुक्तसाध्यधर्मवान् साधर्म्यदृष्टान्तः । साध्यधर्मनिवृत्तिप्रयुक्तसाधन- निवृत्तिमान् वैधर्म्यदृष्टान्तः । यथा वह्निमत्त्वसाधने महानसमहाह्रदौ । सर्वेषां साध्यसाधनादिमत्त्वसम्प्रतिपत्तिस्थानं दृष्टान्त इति निष्कृष्टार्थः ।। आभिमानिकसिद्धिभिः प्रमाणैरभ्युपेतोऽर्थः सिद्धान्तः । वादिनां यत्र प्रमाणमित्यभिमानः स सिद्धान्त इति यावत् । अन्यथा एकस्मिन् शब्दे कस्यचिदनित्यत्वं सिद्धान्तः । कस्यचिन्नित्यत्वम् । तदुभयमेकत्र न प्रामाणिकं वस्तुतः सम्भवति । वस्तुनो विरुद्धधर्मयासम्भवात् । अतो. ऽभिमान एव मूलमिति ॥ स चतुर्विधः । सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तभेदात् । सर्वतन्त्रेध्वविरुद्धः स्वतन्त्रे चाङ्गीकृतः स सर्वतन्त्रसिद्धान्तः । यथा-मानाधीना मेयसिद्धिरिति । योऽर्थः स्वशान एव सिद्धः परशालेण निवारितः स प्रतितन्त्रसि- द्धान्तः । यथा न्यायशास्त्रे ईश्वरस्य प्रमाणत्वम् ।।

सर्वदर्शनको द्या अनुमेयानुषक्तोऽधिकरणसिद्धान्तः । यथा क्षित्यादेः कर्तृमत्त्वे साधिते ईश्वरस्य सिद्धिः । क्षिसाधुपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमतः कर्तुः सिद्धौ ईश्वर एव सिध्यति । अन्यस्य तादृशस्यासम्भवात् ।। यः परतन्त्रे साधितः स्वतन्त्र चाशीक्रियते सोऽभ्युपगमसिद्धान्तः । यद्वा, अन्यत्र साधितस्य विशेषपरीक्षाभ्युपगमः । यथा काणादतन्त्रे साधि- तस्य मनसः इन्द्रियत्वपरीक्षणं गौतमीये।। परार्थानुमानवाक्यैकदेशा अवयवाः । ते च निरूपिताः । ननूपनयनिगमनयोः कृतकार्यत्वादानर्थक्यामिति चेद् । न । व्याप्ति- मत्तया प्रतिसन्धीयमानस्य लिङ्गस्यानुमानत्वात् । उपनयाधीनत्वाच्च तत्प्रतिसन्धानस्य । प्रसिद्धाविनामावस्य साधनस्य पक्षधर्मताप्रतिपादनेन स्वरूपासिद्ध्यन्यथासिद्धिनिरासेनापि प्रयोजनवत्त्वादुपनयस्य नानर्थक्यम् । निगमनेऽपि हेत्वनुवादाङ्गस्य तस्मादेवानिलो नान्यस्मादिति सिद्धसाधन- तानिरासेन प्रयोजनवत्त्वात् । पक्षानुवादस्य चानित्य एवायं न नित्य इति नियमेन बाधकप्रतिरोधयोनिरासेन प्रयोजनवत्त्वाच नानर्थक्यम् ॥ केचन जरन्नैयायिकास्तु, जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशय निरासैः सह दशावयवा इत्याचक्षते । तन्न । परप्रतिपादकस्य वाक्यस्यार्थ यान्यवान्तरवाक्यानि संहस निष्पादयन्ति, तानि बवयवाः । जिज्ञासा- दयस्तु परप्रतिपादनानङ्गत्वान्न साधनवाक्यैकदेशतयावयवत्वं लभन्ते । तस्मात् सुष्टुक्तं पञ्चावयवा इति । अत एवाह भगवान् व्यासो महा- भारते "पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् । इति । अनिष्टप्रसननं तर्कः । अनिष्टं च द्विधा । प्रामाणिकपरित्यागोऽप्रामा- णिकस्वीकारोति । यधुदकं पिपासां न शमयेत् पिपासुना न पीयेत इति प्रामाणिकपरित्यागः । यादकं पीतं परमन्तरवक्ष्यत् तर्हि तदवशिष्टं मामपि दहेद् इत्यप्रामाणिकस्वीकारः । अन्ये च चत्वारस्तर्कभेदाः । आत्माश्रया- न्योन्याश्रयचक्रकानवस्थाभेदात् । एते स्वरूपासिद्धिहेतवो भवन्ति । अनि- टप्रसङ्गस्त्वन्यथासिद्धिहेतुः । तर्कस्यानानि पञ्च भवन्ति । व्याप्तिस्तर्काप्रति- । । न्यायदर्शनम् । हतिविपर्यये पर्यवसानम् अनिष्टत्वम(न)नुकूलत्वञ्चति । प्रसञ्जकस्याहार्य- लिङ्गस्य प्रसजनायेन व्यातिः । यथा यद्यनिन स्यात् तर्हि धूमोऽपि न स्याद् इति वह्नयभावधूमाभावयोाप्तिः। प्रतिकूलतकैरप्रतिपातः (तर्काप्रतिहतिः)। प्रसञ्जनीयस्य विपर्यये पर्यवसानं (विपर्यये पर्यवसानम्) । दृश्यते च धूमः, इति । प्रसञ्जनीयस्यानिष्टत्वं द्विविधमुक्तमेव । अननुकूलत्वं प्रसङ्गस्य विरुद्ध- हेत्वाभासवत् प्रतिपक्षासाधकत्वम् । अन्यतमानामावे तर्कामासो भवति । अस्य तर्कस्याज्ञाततत्त्वोऽर्थों विषयः । आरोपितं लिङ्ग कारणम् । तत्त्वार्थ- निर्णयः फलम् । 'सन्दिग्धे न्यायः प्रवर्तत' इति न्यायात् संशयविषय एव तर्कस्य विषयः । सतामेवान्यादीनामसत्त्वादारोपितलिङ्गत्वं प्रमाणा- स्य तर्कस्य प्रधानप्रमाणफलवेनैव फलत्वात् तत्वनिर्णय एव फलम् । अङ्गानां प्रधानफलत्वेनैव फलवत्त्वस्य दर्शपूर्णमासाघङ्गेषु प्रयाजादिषु स्थितत्वात् । प्रत्यक्षादेः प्रमाणस्य तोऽनुप्राहकः ! नतु स्वतः तत्त्व- निर्णयाय प्रभवति । अनिष्टप्रसजनमात्ररूपत्वात् । तदुक्तं "नहि तत्करणं लोके वेदे वा किञ्चिदीशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहेऽर्थिता ।" इति । प्रमाणविषये तद्विपर्ययशङ्कानिरसनं तर्ककृतोऽनुग्रहः । अनुमाने तु पक्ष एवं विपक्षाजज्ञासायामनिर्भा भूदियेवंरूपायां ज्ञातायां यद्यग्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति तण व्यभिचारशङ्का निवर्त्यते । पक्षे साध्याभावे हेतोवृत्तौ व्यभिचारः । तत्र हेतुरेव न स्यादिति कथिते तत्प- रिहारः ॥ तर्कस्यापि व्यातिमूलत्वात् तत्र तत्र तकापेक्षायाम् अनवस्थेति चेद्, न । कियदुरं गत्वापि तत्र स्वच्याघातादिना शङ्का स्वयमेव निवर्तते । अन्ते गत्वा अकारणकार्योत्पत्तिः स्यादित्युक्ते तथा नाम भवेदित्यपि शङ्का नोदयमासादयति । एवं वदन् कार्यार्थी कारणे प्रवर्तत इति स्वव्याघातः प्रसज्येत । एवमन्यत्रापि तर्कानुग्रह ऊहनीयः ।। प्रमाणतर्काभ्यां विचारसाध्योऽर्थनिश्चयो निर्णय इति ।। अथ कथा । विचारगोचरार्थविषयो नानावक्तृको वाक्यविस्तरः कथा । सा च वादजल्पवितण्डाभेदेन त्रिधा । तत्र प्रमाणतकाभ्यां साधनो- पालम्भाभिमानो यत्र स वादः । सा वीतरागकथेत्युच्यते पत्र तत्त्वनिर्णय- ।

. सर्वदर्शनकौमुखां फलकत्वात् वीतरागाणामेव गुरुशिष्यसब्रह्मचारिणामधिकारः ! न विजि- गीषूणाम् । अज्ञातज्ञानं ज्ञातस्य स्थिरीकरणं संशयनिवर्तनमिति त्रिविध- स्तत्त्वनिर्णयः । स्वपक्षसाधनं परपक्षदूषणं साधनसमर्थनं दूषणसमर्थनम् अपशब्दवर्जनश्चेति पचावयवा अस्य ।। स एव वादः यदा छलजातिनिग्रहसहितः तदा जल्पः । स एव स्वपक्षसाधनरहितः परपक्षमात्रदूषणरूपवेद वितण्डा तयोर्विजयः फलम् । तयोविजिगीषुकथेत्यपि संज्ञा । वितण्डायामपि यः तदनु(?)सिद्धान्तोऽङ्गी- कर्तव्यः । अन्यथा एकस्मिन् सिद्धान्ते दूषिते अन्यसिद्धान्तावलम्ब- नेन प्रत्यवस्थाने कृते शाखाचक्रमणेन कथापर्यवसानं न स्यात् ॥ 'न विगृह्य कथां कुर्यादिति जल्पवितण्डयोनिषेधः श्रूयत इति वैद् । न । निषेधस्य नास्तिकव्यतिरिक्तविषयत्वात् । तदुक्तं-तत्त्वा- ध्यवसायसंरक्षणार्थं जल्पवितण्डे कर्तव्ये बीजप्ररोहसंरक्षणार्थ कण्टकशा- खावरणवदिति । 'ताभ्यां विगृह्य कथनमिति च ।। अथ हेत्वाभासाः । सद्धेतूक्तचतुःपञ्चरूपेषु अन्यतमविकलाः कौश्चि- द्रुपैरन्विता हेत्वाभासाः । ते चासिद्धादयः पूर्वमेव निरूपिताः तत एवावधार्याः ।। अथ छलम् । अर्थान्तरविवक्षया वाक्यप्रयोगे वक्तुरनभिप्रेतमेवा- र्थान्तरं तदर्थत्वेनारोप्य तदर्थदूषणं छलम् । अर्थश्चाभिधेयः औपचारिकः तात्पर्यविषयश्चेति त्रिधा । छलं त्रिविधम् । वाक्छलमुपचारच्छलं सामा- न्यच्छलञ्चेति । अभिधेयान्तरमभिप्रेत्य प्रयुक्तस्य शब्दस्य अभिधेयान्तरक- स्पनया तन्निषेधो वाक्छलम् । यथा आब्योऽयं नवकम्बलत्वादिति नूत नाभिप्रायेण प्रयुक्ते सङ्खयाभिप्रायेण असिद्धो हेतुरिति । उपचारप्रयोगे मुख्यार्थकल्पनया दूषणमुपचारच्छलम् । शक्त्या वाच्योऽर्थो मुख्यः । तदन्य उपचारः । स द्विविधः लक्षणागुणभेदात् । मुख्यार्थानुपपत्त्या तदविनाभूतेऽर्थे प्रतीतिर्लक्षणा । यथा गङ्गायां घोष इत्युक्ते प्रवाहे गृह- स्यानुपपत्त्या तीरे तत्सम्बन्धप्रतीतिः । इयं जहलक्षणा प्रवाहार्थपरित्या- मात् । कुन्ताः प्रविशन्तीत्यत्र कुन्तधरेषु अजहल्लक्षणा । कुन्तार्थापरित्यागेन कुन्तविशिष्टपुरुषेषु प्रवृत्तेः । सिंहो माणवक इति गौणः । सिंहगतक्रौर्यादि गुणयोगात् पदप्रवृत्तेः । तत्रोपचारे मुख्यकल्पनया दूषणमुपचारच्छलम । ।

a यायदर्शनम् । यथा मञ्चाः क्रोशन्तीत्युक्ते छलवाघाह पुरुषाः कोशन्ति न मचाः । गङ्गायां घोषः कथं, कुन्तानामचेतनानां प्रवेशनं कथं, सिंहश्च कथं देव- दत्तः इति दूषणमुपचारच्छलम् : तात्पर्यायवैपरीत्यकल्पनया दूषणं सामा- न्यच्छलम् । अहो ब्राह्मणचतुर्वेदाभिज्ञ इत्युक्तो किमत्राश्चर्य ब्राह्मणे चतुर्वे. दाभिज्ञत्वमिति सम्भावनाभिप्रायेण केनविदुक्त बामणत्वस्य हेतुत्वे तात्पर्य कल्पयित्वा छलवाद्याह न, बायेनानेकान्ताद् इति । त्रयाणामपि द्वि- तीयादिकक्ष्यासु सम्भवात् तदुत्तरकक्ष्योदभाव्यमिति ।। अथ जातिः । स्थापनाहेतुप्रयोगे यदुत्तरं दूषणासमर्थं सा जातिः । स्वव्याघातकमुत्तरं वा जातिः । सा चतुर्विशतिप्रकारा संक्षपेतः सूत्रोक्ता । "साधयंवैधम्र्योत्कर्षांपकर्षवादयविकल्पसाध्यप्राप्त्यप्रातिप्रसङ्गप्रतिदृष्टा- न्तानुत्पत्तिप्रकरणसंशयाहेत्यर्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानि- त्यकार्यसमा" इति । द्वन्द्वान्ते श्रूयमाणत्वात् समशब्दस्य प्रत्येकं सम्बन्धः । साधर्म्यसमा वैधर्म्यसमेत्यादि द्रष्टव्यम् । केचित्तु साधयंवैधय॑समयोः साधारणां प्रतिधर्मसमां जातिं लक्षयन्ति । येन केनचित् प्रमाणेन वादिना साध्योपसंहारे कृते व्याप्त्याउपेक्षिताअरहितेन प्रमाणेन प्रतिरोधतः प्रत्यवस्थानं प्रतिधर्मसमः । निषेधापेक्षया पुल्लिङ्गनिर्देशः । जात्सपेक्षया च स्त्रीलिङ्गनिर्देशोऽपि भवति । नन्वयं प्रकरणसमहेत्वाभास एव स्यान्न जाति- रिति चेद् । न । तत्र व्याप्त्यादिसत्त्वाभिमानोऽस्ति । अत्र सोऽपि ना- स्तीति भेदः । तर्हि प्रकरणसमजातेरस्य च को विशेषः । अयं विशेषः । अत्र प्रतिरोधेन प्रत्यवस्थानं, तत्र बाधेन प्रत्यवस्थानमिति । व्याप्त्यादियु. ताजहीनेन साधयण प्रत्यवस्थानं साधर्म्यसमः । अनित्यः शब्दः कृतकत्वा- दिति प्रयोगे साधम्र्येण वैधयण उभाभ्यां वा उपसंहारे कृते, नैतदेवं यद्य- नित्यघटसाधादनित्यः शब्दः ताकाशसाधम्यांदमूर्तत्वान्नित्योऽपि किन्न स्यादिति । नचेदेवम् अनित्योऽपि तर्हि न स्यात् अविशेषादिति साधhसमः । यथा वैधम्र्येणोपसंहारे कृते, यधाकाशवैधात् कृतकत्वादनित्यः शब्दः तर्हि घटवैधाच्छ्रावणत्वान्नित्यः किं न स्यादिति वैधय॑समः । समुचिताभ्यां प्रत्यवस्थानमुदाहरणीयम् । अनुमानेनोपसंहारे कृते प्रत्यक्षेण प्रत्यवस्थानम् । यद्यनुमानेनानित्यः शब्दः, स एवायमिति प्रत्यभिज्ञया नित्यः किन स्यादिति ॥

सर्वदर्शनकौमुखा । सर्वासां जातीनां सप्लाजाने "लक्ष्य लक्षणमुत्थानं पातनावसरौ फलन् । मूलमित्येवमेतासां सप्ताङ्गानि विदुर्बुधाः ।।" अत्र लक्ष्य प्रतिधर्मसमः । तद्भेदेन च साधम्र्यवैधय॑समौ । लक्षणं तूक्तमेव । प्रतिरोधेन प्रत्यवस्थानं पातनं नाम । क्वचिद्धेत्वाभासे स्थापनम् । तदत्र सत्प्रतिपक्षमतद्धान्तिः फलम् । उत्थानबीजं नाम जातिप्रयोगहेतुः । तदन्न युक्ताङ्गहीनप्रतिप्रमाणोपलम्भः । प्रमादः प्रति- भाक्षयश्चावसरः । अनवधानतो वा जातिप्रयोगो भवति । उत्तरापरिस्फूतौं वा यदासदुत्तरान्न परिस्फुरति तदा निग्रहस्थान प्राप्तमेव ततश्वासदुत्तरे- णापि मम कदाचिद्विजयो भविष्यतीति मत्वा जात्युत्तरं प्रयुक्ते । ततश्च प्रमादः प्रतिभाहानिश्चावसरः । मूलं नाम जात्युद्धारमूलं दुष्टत्वम् । (मूलमित्युच्यते ?)। तच दुष्टत्वमूलं द्विविधम् । साधारणमसाधारणश्चेति । साधारणं दुष्टत्वमूलं सर्वेषां जातिभेदानां स्वव्याघातकत्वम् । असाधारणञ्च त्रिविधम् । युक्ताकहानित्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वञ्चेति । साधारणं तावदेवम् - अयं स्थापनाहेतुर्न स्वसाध्यसाधकः अनङ्गीकृत- युक्ताङ्गेन प्रतिप्रमाणेन प्रतिरुद्धत्वादिति हि जात्यात्मकः प्रतिषेधहेतुः । स स्वात्मानमपि व्याहर (१)न्ति नेदं दूध्यदूषकम् । तथाविधप्रतिप्रमाणेन प्रतिरुद्धत्वादिति । असाधारणं तु युक्ताङ्गहानित्वम् । युक्ताङ्गस्य व्याप्त्यादे- स्नङ्गीकारात् । एवमुत्तरत्रापि दुष्टत्वमूलं द्रष्टव्यम् । कस्याप्यव्याप्तधर्मस्य वाद्युक्तसम्बन्धमात्रेण साध्यधर्मवदृष्टान्तपक्षे उत्कर्ष उत्कर्षसमः । यथा अनित्यः शब्दः कृतकत्वाद् घटवादित्युक्ते अनित्यत्वेनैव मूर्तत्वेनापि सहचरितं घटादावुपलब्धं कृतकत्वं शब्देऽपि मूर्तत्वं साधयेत् । नचेदेवमनित्यत्वमपि न साधयेद् अविशेषादिति । पक्षे अविद्यमानस्य दृष्टान्ते वादिहेतुसहचरितस्य धर्मस्य दर्शनमुत्थानवीजम् । उक्ष्यलक्षणे स्पष्टे । सर्वत्र विशेषविरुद्धत्वमारोप्यम् । पातनं दृष्टान्ते मूर्त. त्वसहितानित्यत्वेन सहचारात् पक्षे च केवलानित्यत्वसहचाराद्विशेषवि. रोधः । कृतकत्वस्य तद्धान्तिः फलम् । साधारणं दृष्टत्वमूलम् । नेदमसा. धकर । विरुद्धत्वात् । नित्यत्वसाधनकृतकत्ववद् इति । जात्युत्तरार्थत्वे ।

न्यायदर्शनम् । सति अत्रापि दृष्टान्तगतधर्मः पक्षे उत्कर्षणीयः । नित्यत्वसाधनकृतकत्वे तरसायकत्वं दृष्टम् । शब्देऽपि नित्यत्वेतानित्यत्वसाधकत्वं स्यादिति स्वव्याघातकत्वम् । असाधारणन्तु युक्ताङ्गहानिः ।। दृष्टान्ते साध्यस्य हेतोः व्यापकत्वेन किञ्चिद्धर्ममारोप्य पक्षे तन्नि- वृत्तेापकाभावे व्याप्यस्याप्यमान इति साध्यस्य हेतोवी पक्षादपकर्षण- मपकर्षः । यथा कृतकत्वादनित्यखे साध्ये दृष्टान्ते कृतकत्वस्य नित्यत्वस्य वा मूतत्व व्यापकम् । तच पक्षाचावर्तमानं कृतकत्वमनित्यत्वं वा व्याव- तयेत् । तथा च हेत्वमावेऽसिद्धिः साध्याथावे व्यभिचारः । दृष्टान्ते व्यापकस्य पक्षेऽभावदर्शनमुत्थानहेतुः असियादिरारोप्यं तद्भान्तिः फलम् । नेदमसाधकमसिद्धत्वादिति जातिवादिनोक्ते चाक्षुषत्वाद्यसिद्धौ दृष्टा- न्तिते तत्र घटत्वादिकं व्यापकं दृष्टम् । तच कृतकत्वामावर्तमान दूषकमपि व्यावर्तयेदिति ॥ पक्षे हेतोर्यादृशं रूपं विवक्षितं तद्रूपहेतुमसया सपक्षोऽपि साध्य इति प्रतिपादनं वर्ण्यसमः । सपक्षवर्तिनो हेतोर्यादृशं रूपं विवक्षितं वद्रूपहेतुमान् पक्षः साध्य इत्यवर्ण्यसमः जातिः । असिद्धिविषयत्वम् आर- ब्धसाध्यज्ञापनसामर्थ्य व्याप्तिप्रमाणशून्यत्वं संशयसमानविषयत्वं स्वरूप भेदश्चेत्येतानि पक्षवर्तिहेतुरूपाणि पञ्च । तद्विपरीतानि पञ्च सपक्षवर्ति हेतुरूपाणि एतानि विपक्षे सपक्षे च व्यवस्थितानि । अन्यत्र तानि रूपाणि अन्यत्र साध्यानि इत्यापादने वावर्ण्यसमौ रूढौ ।। हेतोः केनापि धर्मेण व्यभिचारदर्शनात् साध्येनापि व्यभिचारा- पादनं विकल्पसमः । यथा कृतकत्वस्थ शब्दे विभागजत्वेन सह वर्तमानस्य व्यभिचारो दृष्टः । विभागजस्वं परित्यज्य घटे वर्तनात् । तथा घटे दृष्टेनानित्यत्वेनापि विना शब्दे वर्ततां को दोष इति । व्याघातस्तु दृष्टत्वे हेतुः । अव्याप्तेन व्यभिचारे व्याप्तेनापि न व्यभिचारः । तथात्वे तवापि दोषः समान इति ॥ प्रमाणान्तरसिद्धानामपि पक्षहेतुदृष्टान्तानां तेनैव हेतुना साध्यवसाध्य- त्वापादनं साध्यसमः । तेनैवेत्यनेन वर्ण्यसमातो भेदः । अत्रापि स्वव्या घातः समानः । अयुक्ताङ्गाषिकत्वं च । पक्षादीनां तेनैव हेतुना साध्यत्व- सायुक्तत्वात् । आसामुद्धारसूत्रं 'किञ्चित्सावादुपसंहारे वैधादप्रति- ।

- सर्वदर्शनकौमुद्या षेध' इति किञ्चित्साधयांच्याप्तात् साध्योपसंहारे सिद्धे वैधाद् व्याप्ति- रहितावप्रतिषेध इति ॥ अप्राप्यसाधनेऽतिप्रसङ्गात् साध्यं प्राप्यहेतु साधक इति वक्तव्यम् । तथाथ पूर्वमेवास्य सिद्धिवक्तव्येत्यापादनं प्राप्तिसमः । अविद्यमानस्य सम्बन्धायोगात् पूर्वमेव प्राप्तिर्वाच्या । तथाचोभयोस्समकालत्वात् कि कस्य साध्यं साधनं वेति, अत्र किं कस्य दृष्यं दूषणं वेति स्वव्याघातः ॥ प्राप्तिपक्षे अविशेषात् अप्राप्यसाधकत्वं वाच्यम् । तथा च पर्व सर्वस्य साधकं स्यादिति प्रत्यवस्थानमप्राप्तिसमः । अत्रापि स्वव्याघातः स्पष्ट एव । उद्धारस्तु कचित् प्राप्यापि साधकत्वं दृष्टं यथा प्रदीपस्य । कचिदप्राप्यापि साधकत्वं दृष्टं यथाभिचाराच्छत्रुमारणे ॥ सिद्धे दृष्टान्तहेत्वादौ तब कि साधनं, तत्साधनेऽपि किं साधन मिसनवस्थाभासवचनं प्रसङ्गसमः । ज्ञप्तावप्येषा जातिः हेतौ किं प्रमाणमित्यादिरूपेणानवस्थाप्रसङ्गः । स्वव्याघातस्तु दोषः ।। हेतुरङ्गं साध्यातिदेशे दृष्टान्त एवाङ्गामित्यभिमानेनोत्थानहेतुना प्रतिदृष्टान्तावष्टम्भेन बाधप्रतिरोधाभ्यामन्यतरेण प्रत्यवस्था प्रतिदृष्टान्त- समः । यथा घटदृष्टान्तेनानित्यश्शब्दः आकाशदृष्टान्तेन नित्यस्यैव सिद्धि- रिति बाधः । नित्यस्यापि सम्भवादिति प्रतिरोधः । दूषणस्यापि प्रति- दृष्टान्तसम्भवात् स्वव्याघातः॥ साधनाङ्गानां धमिलिङ्गसाध्यदृष्टान्ततज्ज्ञानानामन्यतमस्योत्पत्तेः पूर्वहेतुवृत्तौ भावात् भागासिद्ध्या प्रत्यवस्थानम् अनुत्पत्तिसमः । तत्र धर्म्य- नुत्पत्तौ यथा--अनित्यः शब्दः कार्यत्वादित्युक्ते अनुत्पन्नस्यापि शब्दस्य पक्षत्वात् तस्य चेदानीमभावादाश्रयभागासिद्धो हेतुरिति । एवमन्यत्रापि द्रष्टव्यम् । उद्धारक्रमस्तूत्पन्नस्य शब्दादेः पक्षादिभावान्नाश्रयासिद्धिः । अनुत्पन्नस्यापि शब्दत्वात् कथं तद्व्यवच्छेद इति चेत् । तस्य तुच्छत्वेना- शब्दत्वात् । तथाचाविषयवृत्तित्वं दूषणस्य । उत्पन्नो हि शब्दादिस्तस्य विषयः अनुत्पन्नस्त्वविषय इति । स्वव्याघातः स्पष्ट एव । दूषणहेतोरपि पक्षादिसद्भावादिति ॥ निर्णयकारणे सत्यपि संशयहेतूनां समानधर्मादीनां सद्भावात् संश- यापादनेन प्रत्यवस्थानं संशयसमः । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।

न्यायदर्शनम् । ८१ निर्णयप्रमागोमासे यदिनिनीयकतदादेव निर्णयः स्यात् तहि संशायक- सद्भावेन समयोऽपि स्वादविशेषात जास्त व संशावक निलानित्ययोः सामान्यघट्योगन्द्रयकल समाना पा सकारणलहावेऽपि संशयानु- पत्तौ निर्णयो न स्थावविशेषात् । मुक्ताहानिरत्र सुटत्वभूलन् । निर्णायका- भावविशिष्टस्य समानधर्मादेः संशयहेतुवाललनहीकारात् । अन्यथा कदा- चिदपि संशयोच्छेदो नस्यात् । सुन्न धातस्तु मातानिर्णयेऽपि सति दूषकतासंशयसद्भावात् संसपः स्वातः । इति अभ्युपगतानधिकवलेन पतिवमानपरकीयहेतोर्वाधा(दिमि)मानेन प्रत्यवस्थान प्रकरणसमः । यथा कृतकलेनानियले साध्ये श्रावणत्वानि- त्यावस्यैव सिद्धरिति प्रत्यभिज्ञायावतत्वादिल्लादिप्रतिप्रमाणोपलम्भ उत्थानहेतुर्बाध आरोप्यः । दुष्टत्वमूलं तु स्वव्याघातः ॥ हेतुः साध्यात पूर्व पश्चाता तेन सह ना उत्पन्नः वापि न सम्भ वति । सहभावे विशेषानामाद हेतुः । पूनभाव किमपेक्ष्वेद साधनं, तदा साध्यस्य प्रतियोगिनोऽभावान । पवादावे पूर्व साध्यस्य सिद्धस्य कथमिद साधनामात प्रत्यवस्था हेतुरामः । हेतुनाहो हेतुसमः इति निष्कर्षः । अत्र प्रतिकूलतर्क उत्थानवी(जा? जम्) । अत्रापि स्वव्याघाता दूषणहेतोरपि समः । उद्धारस्तु जातेपक्षेत्रिकालेऽपि ज्ञानदर्शनादप्रतिषेधः । कृतिपक्षे तु पूर्वकालीनादेव हेतोः पवाभाविनः साध्यन्योत्पत्तेन त्रैकाल्यासिद्धिः । प्रतियोगिनः साव्यस्य यावेऽपि बुद्धिस्थत्वेन साधननि- रूपकत्वसम्भवात् न सरूपस्वाक्षते !! असत्यायेष व्यास वादिवचनानेणाक्षिप्तमित्यभिमानादुक्तवि- परीतमारोप्य प्रत्यवस्थानमापत्तिसमः। यथा-- अनित्यः शब्द इत्युक्ते अर्थादाक्षिप्तमन्यन्नित्यमिति । विशेषविधौ परिसंख्यान्यायेन शेषनिषेधस्य नान्तरीयकत्वात् । तथा च घटादोनत्यत्वात् साध्यविकलो दृष्टान्त इति विरोधः । अनित्यसाधादनि त्यो ? त्यत्वोक्तौ अन्नित्यसाधयान्नित्य इत्यापन्न इति प्रतिरोधः। अनुमानादनित्य इत्युक्ते अथादापन्नः प्रत्यक्षानित्य इति बाधः । एवमन्यदप्यूह्यम् । दुष्टत्वमूलं तु स्वव्याधातः | तस्मादिदं दृष्यमित्युक्ते एतदभावादिदमध्यभपीत्यापन्नमिति ।।

सर्वदर्शनकौमुद्या वादिसाधनव्यतिरिक्तेन केनचिद्धर्मेण स्थापनाहेतुप्रतिबन्धामिप्रा- येण प्रत्यवस्थानमविशेषसमः । यथा- यदि कृतकत्वेन घटशब्दयोरविशेष इष्यते, तर्हि सत्त्वादिना धर्मेण षण्णामप्यविशेषः किं न स्यात् । तत्र कल्प- ना- अविशेषे पक्षाधविभागप्रसङ्गः इत्यादि । अत्र सत्त्वादीनामव्याप्त्य- भावानाविशेषापादक इति ॥ स्थापनानुमाने प्रयुक्त त्वत्पक्षवन्मत्तक्षेऽपि किमपि प्रमाणं भवि. व्यतीति प्रमाणसद्भावमानोपपादनेन प्रत्यवस्थानमुपपत्तिसमः । यथानित्य- शब्दः कार्यत्वाद् घटवदित्युक्ते यद्यनित्यत्वे कार्यत्वं प्रमाणमस्ति तर्हि नित्यत्वेऽपि किमपि प्रमाणं सम्भविष्यति प्रकृतसन्देहविषयत्वात् , विप्र- तिपत्तिविषयत्वाद् वा वादिप्रतिवाद्यन्यतरपक्षत्वात् त्वत्पक्षवदिति । (य? त)था च बाधप्रतिरोधयोरन्यतरत्वापत्तिरिति प्रमाणसम्भावना उत्थान- हेतुः । त्वत्पक्षवदिति निदर्शयता त्वयैव जातिवादिना स्थापनापक्षस्यानुज्ञा. नात् स्वव्याघातः अनुज्ञानप्रतिषेधयोरेकनासम्भवादिति ॥ वादिवाक्ये अवधारणं तात्पर्य तावदारोप्य तद्विशेषं विकल्प्य सर्वथा- वधारणबाधेन अत्यवस्थानमुपलब्धिसमः । पर्वतोऽग्निमानित्युक्ते किं पर्वत एवामिमान् उताग्निमानेव पर्वतः । नायः महानसादीनामपि अग्निमत्त्वो. पलम्भात् । न द्वितीयः । अग्निं बिनापि कदाचित् पर्वतस्योपलब्धेः । ततश्च साध्याभावेऽपि धर्म्युपलम्माद् बाधः । एवं हेतावप्यवधारणविकल्पो द्रष्टव्यः । धूमवत्त्वमसाधकं बाधितत्वादनुष्णत्वसाधकत्ववदिति जाति- वाक्यार्थः । तथाचात्रापि धूमवत्त्वमेवासाधकम् । धूमवत्त्वमसाधकमेव । ने प्रथमः। चाक्षुषत्वादेरपि असाधकदर्शनात् । न द्वितीयः । क्वचित्साधक. स्यापि सम्भवात् । पक्षद्वयेऽपि बाधः । तथा च स्वव्याघात इति दूषणम् ॥ अनुपलब्धिः स्वस्मिन्ननुपलब्धिरूपेण वर्तते नवेति विकल्प्योभयथापि दूषणमनुपलब्धिसमः । यथा शब्दो नास्ति अनुपलब्धत्वादिति प्रयोगे अनुपलब्धेः स्वात्मनि अनुपलब्धिरूपेण वृत्तौ विषयवत् स्व(व्याप्त्य स्या- प्य)नुपलब्धत्वात्तद्वदेवाभावप्राप्तौ अनुपलब्ध्यभावश्चोपलब्धिरिति विपरीता- पत्तिः। स्वात्मनि स्वरूपेणावृत्तौ अनुपलन्धिरेव न स्यादिति तद्विषयः शब्दो. ऽनुपल(म्भो ? धो) न स्याद् इत्युभयथाप्यसिद्धो हेतुरिति । उद्धारस्वेवम् । when BRURATIOHDURB न्यायदर्शनम् । ८३ स्वात्मनि ताद्रूप्येण वर्तत इति पक्षं कक्षाकुर्मः । तच्च न स्वात्मनो विषयी करणम्। किन्तु तदात्मकमिति न स्वरूपव्याघातप्रसक्तिः। तदिदमयुक्ताङ्गा- धिकत्वम् । स्वात्मविषयत्वस्यायुक्तस्याङ्गीकारात् ।। साधयेण वैधयेण वा साध्योपहारे कृते तत्प्रतिबन्धभिप्रायेण साधादिना सर्वस्यापि साध्यधर्मवत्तां प्रदश्य विपक्षस्यापि सपक्षत्वापाद- नमनित्यसमः। यथा यद्याकाशवैधादनित्यः शब्दः, तहिं तद्वैधात् त्रैलोक्यमप्यनित्यं स्यात् । यदि घटसाधादनित्यः शब्दः, तर्हि तत्सा- धात् त्रैलोक्यमप्यनित्यं स्यादित्यादि । अस्य अविशेषसमातो भेदः। त- (न?) पक्षादेरविशेषत्वापादनाद्, अत्र तु विपक्षस्य सपक्षत्वापादनादिति। दूषणं स्वव्याघातः । इदमसाधकम् । असाधकसाधादित्यत्र जातिवाक्येऽपि स्वव्याघातः । इदमदूषकमदूषकसाधादिति शक्यत्वाद्वक्तुम् । अस्ति च तत्रापि प्रतिज्ञाद्यवयवसाधर्म्य स्थापनावाक्येनेति ॥ विवक्षितस्य कस्यचिद्धर्मस्य तद्रूपत्वमतद्रूपत्वं वेति विकल्प्य उमय- याप्यनुपपत्त्यभिधानेन धर्मिणस्तद्विशिष्टस्य खण्डनं नित्यसमः । एवमियं प्रवर्तते-अनित्यः शब्द इति प्रतिज्ञायां साध्यमनित्यत्वं नित्यमनित्यं वा, अनित्यत्वे कदाचित्तदभावाच्छन्दो नित्यः स्याद् इति न पश्चादनित्यत्वाव- काशः नित्यं चेदनित्यत्वधर्मस्य नित्यत्वात् तद्धर्मिणोऽपि शब्दस्य नित्यता स्यात् । अनाश्रयधर्मासम्भवादिति सरूपेण । विरूपेणापीयं प्रवर्तते । तस्या- मेव प्रतिज्ञायामनित्यत्वयोगादनित्यः। तच धर्मिणो भिन्नमभिन्नं वे(ति)। भिन्नं चेद् मिन्नत्वयोगाद् भिन्नं, तदपि भिन्नत्वान्तरयोगाद् इत्यनवस्था. पातः । अनित्यत्वस्य धर्मिणोऽभिन्नत्वे धर्मधर्मिणोरन्यतर एवावाशिष्यते । तत्र धर्ममात्रस्यावस्थितावाश्रयासिद्धिः । धर्मिमात्रस्थिती साध्याभावेन पाषः । अयं दूषणक्रमः । अनित्यः शब्दो भवितुं नार्हति नित्यभूतानित्य- स्वधर्माश्रयत्वात् । नित्यपरममहत्वाश्रयव्योमवदिति जात्युत्तरार्थः । तत्रानि- त्यतया प्रतिषेध्ये शन्दे नित्यभूतानित्याश्रयादिति हेतुः सिद्धश्चेत् तदा शब्दे नित्यमनित्यत्वस्य स्वीकारादनित्ये नित्यत्वाभिमानं व्याहतम् । अथ जात्यु- त्तरहेतुरसिद्धः, तदान प्रतिषेधक इति स्वव्याघातः । भिन्नाभिन्न विकल्पो. ऽपि दूषणे तुल्य इति तत्रापि स्वव्याघातः । एवञ्चासदुत्तराणां सर्वेषां सर्वदर्शनकौमुद्या पक्षहेतुइष्टान्तादिलावनाइयाशिवाझाव्य स्वयं च तत्साधक कि- चिदभिधाय तद्गणेन वादिसामनकापादन कार्यनमः। यथा--- -अनित्यः शब्द: कार्यवादित्युक्ते प्रत्यवांतष्ठते सिद्ध तावत् कार्यत्वम् । तत्साध- नंतु प्रयलानन्तरीय(कोत्वम् एलानिये कमोद कादावनेका. न्तम् । तथा च कार्यवासिडितद्वथैव इति । एवं पक्षादालप्यूहनीयम् । अत्र लक्ष्यलक्षणे उक्ते । अनेकान्तिकलादिदुसाधनोत्प्रेक्षा उत्थानहेतुः । पूर्व साधनादेः असिद्धिारोप्या तान्तिः फलम् । दुशुत्वमूलं तु प्रयत्नाना- न्तरीयकत्वमात्रं न कार्यवसाधकम् । किन्तु अनमियाजकविशेषणसहितम् । प्रयत्नस्य तु शब्दोत्पादकत्वमेव । न त्वभिव्यक्षकलम् । (अस)त एव शब्दस्य अनुपलब्धिकारणे आवरणादौ सति हि व्यसकत्वं स्यात् । नचास्यावार- णादि सम्भवति । नित्यत्वे सर्वदा श्रोत्र सम्बन्धस्य सर्वदा प्रतीतिप्रसङ्गात् । तस्मादनभिव्यञ्जकप्रयत्नानान्तरीयकत्वात् कार्यः शब्दः इलन न कश्चिद् दोषः । अविषयवृत्तित्वं चालाधारण जुटवनूला निर्विशेषणस्य इनोर्यो दोषः तस्य सविशेषणाविषयत्वात् । निहुँ हेतुं त्यक्त्वा सदोपहेत्वङ्गीकारात् । एवं सर्वत्र जातिषु सप्ताहीन्यूहनीयानीति । विस्तरस्तु परिशिष्टतार्किकरक्षादौ द्रष्टव्यः॥ इतिजातिपदाक्षेपः कथायां तत्वाप्रतीतिलिश निग्रहस्थानम् । तच द्वाविंशतिप्रभेदम् । सथाच सूत्रम् ---"प्रतिज्ञाहानिः प्रतिज्ञान्तरं जतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातागपार्थकमनासकालं न्यूनमषिकं पुन- रुत्तमननुगाषणमजानमप्रतिमा विक्षो मतानुसा पर्यनुयोज्योपेक्षणं निरनुयो. ज्यानुयोगोऽपसिद्धान्तो हेत्वाभासाम्म निहत्थानानि इति । वादिना प्रतिवादिना वा पहेतुदृष्टान्तदूषणादीनामन्यतमं नि र्दिष्टं, तस्य दूषणसमुन्मेषेण कथानिर्वाहमपश्यता पुनस्त्यागः प्रतिज्ञा- हानिः । सागश्च द्विविधः । यदि दुष्टमेतत् तर्हि माभूदिति कण्ठतः अन्यथास्त्वित्यर्थतः । पथे तावत् साध्यसाधनधर्मिणां तद्विशेषणानां च त्यागाः षड् भवन्ति । तत्रायो यथा भनित्यः शब्दः ऐन्द्रियकत्वा- दित्यत्र सामान्येन व्यभिचारे दर्शिते, तर्हि शब्दोऽपि नित्योऽस्त्विति ।

न्यायदर्शनम् । साध्यत्यागः । तहिं कृतकवादित्यस्त्विति साधनत्यागः । एवं धर्मि- त्यागादयोऽपि द्रष्टव्याः । दृष्टान्तेऽपि पूर्ववत् षड् भवन्ति । यथा पटवदित्यत्र व्यभिचारेणैन्द्रियकन्वे दूषिते घटोऽपि तहि नित्योऽस्त्विति साध्यत्यागः । एवमितरत्रापि । दूषणहानिस्तु कार्यत्वेनानित्यत्वे साध्य व्यभिचारोद्भावने तस्मिन्निरनुयोज्यानु(यो गेन प्रत्युक्ते तर्हि स्वरूपा. सिद्धिरिति । उक्तं निर्वहेत्, निर्वाह्यमेव वदेदित्युपदेशः ।। पूर्वोक्ते निर्विशेषणे साध्यांशे दूषिते तद्विशेषणाक्षेपः प्रतिज्ञान्तरम् । यंशो हनुमानप्रयोगः साध्यांशः साधनांशश्वति । तत्राद्यः प्रतिज्ञादृष्टा- न्तयोः प्रयोज्यभागो निगमनश्चेति । शेषः साधनभागः। यथा--हेतूपनय- दृष्टान्तप्रयोजकमामाः। तत्र साध्यांशेन प्रतिज्ञान्तरं साधनांशेन हेत्वन्तरमिति भेदः । उदाहरणं तु यथा नित्या वर्णाः श्रावणत्वात् शब्दवदित्यत्र ध्वनिभिरनैकान्तिकत्वोद्भावने सध्वनयो वर्णा इति पक्षान्तरप्रक्षेपः । इयं प्रतिज्ञाहानिरेव अनिष्टस्य त्यागादिति चेत् । न । पूर्वोक्तस्यापरि यागात् प्रक्षिप्तस्य पूर्वमनुक्तत्वादिति । अत्र कक्ष्यान्तरेण न विशेषणीयम् इति रहस्यम् ॥ एकवक्तृकयोरवान्तरवाक्थयोः पदयोवा यः परस्सरव्याधातः स प्रतिज्ञाविरोधो नाम निग्रहस्थानम् । तच धर्मधर्मिनिषेधात् तयोरेव विधाना- चतुर्विधम् । ईश्वरो न कति धर्मनिषेधः । ईश्वरो नास्तीति धर्मिनिषेधः । ईश्वरः किञ्चिज्ज्ञ इति बम ? मि)विधिः । अतीतमस्तीति धर्मविधिः प्रतिज्ञाहेत्वोर्विरोधस्तु गुणव्यतिरिक्तं द्रव्यम् अव्यतिरिक्तत्वादिति ।। स्वोक्तस्य स्वयमेवापलापः प्रतिज्ञासंन्यासः । यथा --मयेदं नोक्त- मिति त्वयेदमुक्तमिति वा । प्राश्निकाधवगतं नापलपेदिति रहत्यम् ॥ साधनांशे दूषिते पुनस्तद्विशेषणप्रक्षेपो हेत्वन्तरम् । यथा--अनित्यः शन्दः अस्मदादिबाह्येन्द्रियग्राह्यत्वादित्यत्र सामान्येन व्यभिचारे दर्शिते सामान्यवत्त्वे सतीति हेत्वन्तरप्रक्षेपः । शेष प्रतिज्ञान्तरवद् द्रष्टव्यम् ॥ प्रकृतसाधनस्य दूषणस्य वा अनुपयुक्ताङ्गवचनमर्थान्तरम् । तच्च स्वपरोमयानुभयभेदेन चतुर्विधम् । स्वमते तावत्-- अनित्यः शब्दः ऐन्द्रिय- कत्वादिति, गुणश्च शब्द: आकाशस्येत्यादि । परमते- तत्रैव प्रयोगे द्रव्यं शब्दः - सर्वदर्शनकौमुद्या वास्यानुभवगम्यम् । तत्र प्रमाणम् । तचतुर्विषं षड्विषं वेत्यादि । अनु. भयमते तु~ तथैवोपक्रम्य हेतुरयं हेतुश्च हिनोतेीतोस्तुप्रत्यये सति सिद्धमि- त्यादिः । झटिति दोषस्फुरणे समाधिमपश्यतः तिरोधानायास्योक्तिसम्भवः । प्रकृतोपयोगमेव वदेदिति रहस्यम् । श्रवाचकप्रयोगो निरर्थकम् । यथा कचटतपानां गबजडदत्वात् समानसङ्केतितैरेव पदैर्व्यवहरेदित्युपदेशः ।। वादिना त्रिभङ्गयन्तरमुक्तेऽपि वाक्ये प्राश्निकैः प्रतिवादिनार अविज्ञायमानार्थं वाक्यम् अविज्ञातार्थं नाम निग्रहस्थानम् । तच्च प्रयोक्तुरेव भवति । पञ्च स्कन्धा द्वादशायतनानीति बौद्धानां कश्यपतनयाधृतिहेतुरयं त्रिणयनतनययानसमाननामधेयवान् तत्केतनवत्त्वादित्यादि । पदवृन्दं वाक्यवृन्दं वा अनन्वितमपार्थकम् । विशेषणविशेष्यमावेन हि शब्दानामन्वयो भवति । तद्रहितमपार्थकम् । यथा-दश डाडिमानि पडपूपा इति । ओदनं सरसि भुक्त्वा स्नातो यातीति व्यवधानान्वयमप्य- पार्थकमेव । मन्वितमेव वदेदित्युपदेशः ॥ अवयवादिविपर्यासवचनमप्राप्तकालम् । अयमिह कथाक्रमः । आदौ सभ्यानुविधेयसंवरणं तदनु जल्पादिकथाविशेषनियमः । ततः सभ्येन प्रति- वादिना वा पृष्ठे प्रमाणमाभिधाय संक्षेपतो विस्तरतो वा हेत्वाभासा उद्ध- रणीयाः। नास्त्यत्र कश्चिदोष इति संक्षेपः । नायमसिद्धः नायं विरुद्धः इत्यादि विस्तः । प्रतिवादिनाप्यनुभाषणपुरस्सरं वादिसाधनं दूषयित्वा स्वपक्षे साधनमभिधेयम् । तत भाभासोद्धारः कर्तव्य इति जल्पे। वितण्डा- यां तु दूषणमात्रे पर्यवसातव्यम् । न स्वपक्षकथनादि साधनीयम् । अत्र सर्वत्र क्रमविपर्यये अनुमानावयवविपर्यये चाप्राप्तकालं नाम निग्रहस्थान भवति । भूषणकारस्तु नियमकथायामेवाप्राप्तकालं दोषं मन्यते, नान्यत्र विपर्यासे व्यर्थप्रत्ययसम्भवादिति । अत्र आकाङ्क्षाक्रमेण ब्रूयादिति । रहस्यम्॥ स्वसिद्धान्तसिद्धावयवादिषु एकेनापि(न्यून) न्यूनम् । नचायमपसि- द्धान्तः । सहि स्वस्वसिद्धान्तविरुद्धाभ्युपगमः । इयन्तु विरोधानभ्युपगमेऽपि समाक्षोमादिना न्यूनता सम्भवति । परिपूर्ण वाच्यमिति हृदयम् ॥ ।

- न्यायदर्शनम् । अन्वितमुपयुक्तमपुनरुक्तं कृतकरमधिकम् । यथा--अग्निमान् पर्वतो धूमवत्त्वादालोकवत्त्वाचेति, धूमादिमत्त्वादिति वा । अत्र चाकृतकरमेव वदेदिति रहस्यम् ॥ प्रयोजनरहितं पुनर्वचनं पुनरुक्तम् । अनुवादस्तु सप्रयोजनकं वचनम् । यथा निगमनम् । इदन्तु प्रयोजनरहितं, यथा-अनित्यः शब्दो. ऽनित्यः शब्द इति । अनित्यः शब्दो विनाशी ध्वनिरिति वा ।। प्राश्निकावगतार्थ वादिना त्रिरक्तमपि वाक्यं यो नानुभाषते तस्या- ननुभाषणं नाम निग्रहस्थानम् । तत्रोभयप्रसिद्धरेव पदैरनुभाषणीयम् । नत्वप्रसिद्धैरन्यतरप्रसिद्धी । नतु वायुक्ताक्षरैरेवानुभाषणीयमिति नियमः । नियमकथायां तु तथैवानुमाषणीयम् । अन्यथाननुभाषणमेव भवति । वादिना विरुक्ते प्राश्निकै तार्थेऽपि वादिवाक्ये प्रतिवादी यदा स्वाज्ञानमुद्भावयति न ज्ञायते मयेति, तदा तस्याज्ञानं नाम निग्रहस्थानम् । यदा त्वज्ञानं नाविष्करोति तदाननुभाषणमेव ।। वादिनोक्तस्य स्वेन चानूदितस्य वाक्यस्य प्रतिवादी यदोत्तरं न ब्रूते तदा अप्रतिमा । न केवलं तूष्णींभावोऽप्रतिभा । अपितु राजादिवाकेश विरचनगगनसूचनादिकरणमप्यप्रतिभैव । तूष्णीभाव एवाप्रतिभा, इतर- करणे त्वर्थान्तरमिति केचित् ॥ कथामभ्युपगम्य परिपदि सावधाने प्रतिवादिनि चैकाग्रे, अद्य मे महत्प्रयोजनमस्ति श्वः परश्वो वा कथयिष्यामीति कस्यविद्याजस्य वचने तस्य विक्षेपो नाम निग्रहस्थानम् । सूत्रोचारणाद्यावश्यकं कर्म न न्यानो भवति॥ अनिष्टभ्रमादन्यस्येष्टापादने मतानुज्ञा । स्वदोषमभ्युपगम्य परस्य दोषापादनं मतानुज्ञेति वा । यथा-त्वं चोर इत्युक्ते पुरुषत्वात् त्वमपि चोर इत्यापादनम् । स्वचोरत्वस्याभ्युपगमान्न परस्येदमनिष्टम् । परस्या- निष्टमेव ब्रूयादिति रहस्यम् ॥ पर्यनुयोज्योपेक्षणव्यतिरिक्तनिग्रहप्राप्तौ तदनुद्भावनं पर्यनुयोज्यो. पक्षणम् । एतत्परिषदा उद्भाव्यम् ॥

८८ सर्वदर्शनकौमुर्धा यस्य निग्रहस्थानमप्रासं तस्य तदुद्रावने वस्तुरेव निरनुयोज्यानु योगो निग्रहस्थानम् । निग्रहस्थानान्तरप्राप्तावपि तदितरनिग्रहे उदितेऽपि निरनुयोज्यानुयोग एव । स चतुर्था । तदुक्तं वरदराजेन "अप्राप्तकाले ग्रहणं हान्याधाभास एव च । छलानि जातय इति चततोऽस्य विधा मताः ।।" इति । प्रतिज्ञाहान्याधामासाः सारसङ्ग्रह एवं द्रव्याः । विस्तरभियात्र नो- च्यन्ते । अप्राप्तकालग्रहणं तु यो यस्योद्भावनकालः तदुल्लञ्चय ग्रहणम् । कालस्तु तार्किकरक्षायामेवोक्तः । "उक्तग्राह्याः केचिदन्येऽनुक्तप्रायास्तथापरे । उच्यमानदशा प्राहा इति कालविधा मतः ।।" इति । मया न ज्ञायत इत्युक्तमेव माह्यमज्ञानम् । तद्वचनमन्तरेण विज्ञात- मात्रमेव ग्राह्य हेत्वन्तरादि । अपशब्दादि तूच्यमानदशाग्राह्यम् । अनर्था- न्तरादिकमपि तथा। एतदन्यकालग्रहणे निरनुयोज्यानुयोग एव । छलजा. तिस्तु दर्शितैव । अनिग्रहे निग्रह इत्यनेन एतत्सर्वमुक्तम् ।। यस्य कस्यचित् सिद्धान्तमभ्युपेत्य कथायां प्रवृत्तायां मध्ये त- सिद्धान्तविरुद्धाभिधानमपसिद्धान्तः । यथा-एकाकृतयो महदादिविकाराः एकस्वरूपान्वितवाद् घटादिवदित्युक्ते का प्रकृतिः को विकार इति पृष्टः साङ्कयो यदि ब्रूयात् असन्तो भावा यतो जायन्ते सा प्रकृतिः, जनन- विनाशवन्तो विकारा इति, तदा सत्कायवादपरित्यागात् तस्यापसिद्धान्त इति । नच सिद्धान्तमनाश्रित्य कथायां प्रवृत्तिः सम्भवति । अन्यथा अ- नित्यः शब्द इति तार्किकेणोक्ते मीमांसको ब्रूयात् सिद्धान्तसाधनमिति । स्वसिद्धान्ताश्रयणेन तथा वक्तुं शक्यते । अतः शाखाचक्रमनिरासाय सिद्धान्त आश्रयणीय इति ।। हेत्वाभासाश्च पूर्व येन प्रकारेणोक्ताः तेनैव ते निग्रहस्थानानि भवन्ति । तदुक्तं सूत्रकृता "हेत्वाभासाश्च यथोक्ता इति ।" तथैव ते निग्रहस्थानानीति शेषः । एते जल्पवितण्डयोः सर्वे सम्भवन्ति । अवश्यमुद्भाव्याच । त- दुक्तम् "एते सम्भविनः सर्वे समुद्भाव्याश्च निग्रहाः । विच्छेदकाः कथायाच योजल्पवितण्डयोः ॥" PARDA न्यायदर्शनम् । इति । तथा वादे निग्रहप्रकारश्चतुर्धा । तदुक्तम् - "चतुर्धा निग्रहगतिर्वादेऽसम्भववर्जिताः । अनुदाव्यास्तथोदाव्याः कयाविच्छेदहेतवः ।।" इति । अर्थान्तरम् अविज्ञातं प्रतिज्ञाहानिः प्रतिज्ञासन्यासः निरर्थकम् अपार्थकं घडेतान्यसम्भावितानि । एतेषां स्वाज्ञानसंवरणपराज्ञानप्रकाशनार्थ- त्वेन प्रवृत्तेर्वादे च तदसम्भवा(त् ? द)सम्भावितत्वम् । प्रमादेन कदाचित् सम्भवेऽप्यनुद्भाव्यानि । विक्षेपाप्रतिभे अज्ञानहेत्वन्त(रं? २)पर्यनुयोज्योपे- क्षणप्रतिज्ञान्तरमतानुज्ञा एते सप्तानुद्भाव्याः । प्रमादेन सम्भविनामप्येषामनु- द्रावनेन कथाप्रवृत्तौ तत्त्वनिर्णयसम्भवात् । एते च सप्त उद्भाव्याः । के ते । न्यूनमधिकमपसिद्धान्तः प्रतिज्ञाविरोधः अननुभाषणं पुनरुक्तमप्राप्तकाल इति। न्यूनत्वादिषितस्य हेतोस्तत्त्वनिर्णायकत्वायोगात् तानुभाव्य तत्समाधानेन कया प्रवर्तनीया। नयेते कथाविच्छेदहेतवः । हेत्वाभासो निरनुयोज्यानुयो- गश्चेति द्वयं कथाविच्छेदहेतुः । हेत्वाभासे सति पूर्वहेतुं परित्यज्य हेत्वन्तरो- पादाने कथा पूर्वा विच्छिन्नैव ! निरनुयोज्यानुयोगश्च विच्छेदहेतुः । अन्यथा कथाभासपरम्पराप्रसङ्गादिति ।। इति संक्षेपतो न्यायशास्त्रं प्रदर्शितम् । अनुक्तं तु पट्पदार्थनिरूपणे पूर्वस्मिन् द्रष्टव्यम् । पदवाक्यप्रमाणज्ञो माधवाख्यसरस्वती। संक्षेपतो न्यायशास्त्रमददर्शत् स्वशक्तितः ।। । ॥ अथ मीमांसा संक्षेपतो निरूप्यते । तत्र मीमांसा सहस्राधिकरणा जैमिनिमुनिनिर्मितसूत्रा। "विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः। निर्णयश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥" विषयो नाम विचारस्य विषयवाक्यम् । यथा --- 'अग्निहोत्रं जुहो- तीति । अत्राग्निहोत्रं गुणविधानं वा कर्मनामधेयं वेति विशयः सन्देहः N ९० । सर्वदर्शनकौमुद्या होमानुवादेनाग्निहोत्रं गुणविधिरिति पूर्वः पक्षः । अग्निहोत्रमिति सायंप्रात- राहुतिविशेषकर्मणो नामधेयमित्युत्तरः पक्षः सिद्धान्त इत्यर्थः । निर्णयस्तु विचारफलभूतः । ईदृशमधिकरणानां पञ्चावयवोपेतं सहस्रं मीमांसायाम् । सा च द्वादशलक्षगी। तत्र पूर्वषट्कमयरसदकं चेति भागद्यम् । तत्र सहस्राधि करणद्वादशलक्षण्या मीमांसायाश्चतुर्विशतिसाहस्त्रं शवरस्वामिकृतं भाष्यम् । तदुपरि प्रस्थानद्वयं भाडं प्राभाकरमिति । तत्र भट्टाचार्याणां पञ्च व्याख्यानानि माष्यस्य । एका वृहट्टीका । द्वितीया मध्यमटीका । तृतीया टुप्टीका । चतुर्थी कारिका । पञ्चमं तन्त्रवार्तिकम् उक्तानुक्तदुरुक्तचिन्तकम् । तत्र बृहन्मध्यम टीके सम्प्रति न वर्तते । त्रयन्तु भागशो वर्तते । प्रथमा कारिकाध्यायप्रथम- चरणे तर्कनामके कारिका । ततः परमध्यायसमाप्तिः । तत्र? तः) वार्तिकम् । तदुपरि टुप्टीका । कारिकायाश्च उकेयनिर्मिता एका टीका कारिकाख्या। अपरा पार्थसारथिनिर्मिता । तन्त्रवार्तिकस्य अजिता नाम टीका । वार्ति- कस्यैव राणकापरपर्याया न्यायसुधापि टीका ।प्टीकायाः पार्थसारथिटीका। द्वादशलक्षण्यां प्रकरणं शास्त्रदीपिका पार्थसारथिनिर्मिता । तन्त्रवार्तिकस्य प्रकरणं न्यायरत्नमाला । विधिविवेकभावनाविवेकौ मण्डनमिश्रकृतौ तयोरेव विचारभूतौ । विधिविवेकटीका न्यायकणिका वाचस्पतिमिश्ररचिता । एतद् भाट्टप्रस्थानम् । प्राभाकरप्रस्थानन्तु भाष्यस्य प्रामाकरकृतं व्याख्यानद्वयम् । एकं विवरणं पट्सहस्ररूपम् । अपरो निबन्धसंजः द्वादशमाहतः। विवरणस्य ऋजुविमला निबन्धस्य दीपशिखा(चेति) टीकाद्वयम् । शालिका नाथकृतं प्रक- रणम् । शालिका नाम नयविवेको भवनायकृतं प्रकरणं द्वादशसाहस्रम् । तट्टीका वरदराजकृता अष्टाचत्वारिंशत्साहस्री। तथा प्रस्थानमित्यादि निबन्धाः सन्ति । तत्र भट्टाचार्यैः कारिकायां प्रथमाध्यायप्रथमचरणव्याख्यायां तर्कचरणसंज्ञितायां पदार्था निीताः । प्रमाणानि च निर्णीतानि । पदार्था अनन्ता भाट्टमते यद्यपि, तथापि द्रव्यादिषु मध्ये द्रव्यगुणकर्मसामान्यानि चत्वारि । विशेषसमवायौ न स्त एव । समवायस्थाने तादात्म्यमभिषिञ्चति । भेदसहिष्णुरभेदस्तादात्म्यम् । तथा च धर्मिद्वारेणाभेदः । धर्मद्वारेणैव भेदः । धर्मी घट एक एव । धर्मास्तु रूपरसादयः कर्मसामान्या. दयश्चानेके । तद्येतेषां भेदादाधारभेदोऽपि स्यादिति चेत् तत्तद्वैः शिष्टयभेदस्त्विष्यत एव । स्वरूपतस्तु धर्मी एक एव । किञ्च धर्म- । मीमांसादर्शनम् । धर्मिणोरत्यन्तभेदे गवाश्ववत् सामानाधिकरण्यप्रत्ययो न स्यात् । अत्यन्ता- भेदे च घटो घट इतिवत् सामानाधिकरण्यप्रत्ययो न स्यात् । अत एतत्त्र- त्ययान्यथानुपपत्त्यैव भेदाभेदसिद्धिः । प्राभाकरमते तु समवायोऽस्त्येव । किन्त्वनेकः । रूपादिव्य(क्त)यस्तु एकैका एव नित्याः । समवायनाशादेव तेषां नष्टत्वबुद्धिः । तदुत्पत्तौ चोत्पन्नत्वबुद्धिः । तथा सादृश्य पदार्था- न्तरम् । संख्या च पदार्थान्तरम् । शक्तिश्चोभयोरपि मते पदार्थान्तरम् तत्रितयसाधकञ्च प्रमाणम् । शक्तिसङ्ख्यासादृश्यानि न द्रव्यं गुणवृत्ति- त्वात् , यदेवं तदेवं, यथा गुगत्वादीति । तथा गुणकर्माग्यपि न भवन्ति, गुणवृत्तित्वादेव, सत्तादिवत् । नापि सामान्यादिकं तत्र वृत्ति- त्वात् । यद् यत्र वर्तते तत्तन्न भवति यथा गुणवर्ति गुणत्वं गुणो न भवति, तथा शक्तिसंख्यासादृश्यान्यपि सामान्यादिवृत्तित्वात् तन्न मवति । अतः पदार्थान्तराणि । तदुक्तम् - 'न द्रव्यं गुणवृत्तित्वाद् गुणकर्मवहिष्कृता । सामान्यादिषु सत्वेन सिद्धा भावान्तरं हि सा ॥" इति । सा शक्तिः सङ्ख्या च । लिङ्गविपरिणामेन (द्रष्टव्यम् ?) सादृश्यमपि द्रष्टव्यम् । तथाच प्राभाकरमते शक्तिसंख्यासादृश्यैः सह विशेषरहिता द्रव्यादयः पञ्च पदार्थाः । अतोऽष्टौ पदार्थाः ॥ भाट्टमते तु दण्डी वनं सेनेत्यादौ वैशिष्टयप्रतीतेः वैशिष्टयं पदार्थान्तरम् । नतु विशेष्यतस्तत्सम्बन्धव्यतिरेकेण वैशिष्टयं नास्त्येव दण्डपुरुषसंयोगप्वेव दण्डिव्यपदेशात् । एकदेशावस्थितानां वृक्षाणामेव वनत्वात् । गजतुरगपदातीनामेव सेनात्वव्यपदेशादिति चेत् । मैवम् । दण्डादयः प्रत्येकं वा विशिष्टव्यवहारजनकाः समुदिता वा । नाद्यः । प्रत्येकदर्शनेऽपि विशिष्टव्यवहारप्रसङ्गात् । न द्वितीयः । वैशिष्टय- स्यैव स्वीकारात् । समुदायस्यैव विशिष्टत्वात् । एकदेशस्थितवृक्षेप्वपि प्रत्येक विशिष्टव्यवहारजनकत्वायोगात् समुदाय एव हेतुः स्वीकार्यः । स वैशिष्ट्यमेव । गजादीनामपि समुदितानामेव विशिष्टव्यवहारहेतुत्वम् । न प्रत्येकमिति वैशिष्टयसिद्धिः । वैशिष्टथानङ्गीकारे सर्वानुभवविरोधः । तस्माद्वैशिष्ट्यं पदार्थान्तरम् ।। ।

९२ सर्वदर्शनकौमुद्या सुवर्ण च पार्थिव , पतिमगुरुत्वाश्रयत्वात् , पटवत् । उपष्टम्मक- भागकल्पनायां पीतिमगुरुत्वयोश्च तनत्यत्वकल्पने च कल्पनागौरवं स्यात् । सुवर्णगतत्वकल्पनायां तु न कश्चिदोषः । अत्यन्ताग्निसंयोगे सत्यनुच्छिबनानद्रवत्वाधिकरणत्वादपार्थिवं, जल. वदिति चेत् । न । हेतोरसिद्धत्वात् । द्रुतं द्रुततरं द्रुततममिति प्रत्यया दाधारनाशाद वत्वस्यापि नाशात् । तथापि तत्परमाणुषु द्रवत्वस्य नाशाभावात् तत्र पुनः पुनः द्रवत्वमारभते । पार्थिवे तु परमाणावपि द्रवत्वं नश्यतीति विशेष इति चेत् तर्हि, सावनविकलो दृष्टान्तः । जलस्या- प्यत्यन्ताग्निसंयोगे सति नाशात् तद्गतद्रवत्वस्यापि नाशात् । जलपर- माणुषु दृष्टान्त इति चेत्, तर्हि सुवर्ण न तैजसं नैमित्तिकद्रवत्वाधिकरण- स्वाद् घृतवदिति वा, सुवर्ण पार्थिव तत एव वा, तद्वदेवेति वा, सत्प्रति- पक्षत्वात् । किञ्च यदि सुवर्ण तैजसं स्यात् तर्हि द्रवत्वाधिकरणं न स्याद् आलोकवदिति तर्कपराहतिः । सुवर्णमतैजसं द्रवत्वाधिकरणवाद् जलवत् । अतैजसत्वे सिद्धे रूपत्वान वाय्वादि । नैमित्तिकद्रवत्वाश्रय- त्वात् पीतिमाधारत्वाच न जलम् । परिशेषात् पार्थिवमेव सुवर्णमिति सिद्धम् । शब्दश्च नवद्रव्यवहिर्भूतं द्रव्यम् । तदुक्तमाचार्यैः "वर्णात्मकाश्च ये शब्दा नित्याः सर्वगताश्च ते। सिद्धं द्रव्यतया ते तु न गुणाः कस्यचिन्मताः ॥" इति । वर्णास्तावन्नित्याः उत्पादकामावाद् आकाशादिवत् । असिद्धो हेतुः तात्वादिव्यापारस्यैवोसादकत्वाद् इति चेत् । न । तस्य व्यञ्जकत्वात् । तर्हि सर्वे वर्णा एकदैव व्यज्येरन् व्यञ्जकस्य सन्निहितसर्वव्यञ्जकत्वदर्शनात् प्रदीपादाविति चेन्न । वक्तृविवक्षानुसारेण वर्णानां प्रतिनियतव्यञ्जकव्यङ्गय. त्वात् । अन्यथा उसादकत्वे कथं युगपन्नोत्पादं ययुः, यथा प्रदीपो युगपदेव तमोविनाशरूपादिप्रकाशवर्तिविकारतैलनाशान् करोति । तथा नित्यत्वे वर्णानां स एवायं गकार इत्यादिप्रत्यभिज्ञापि प्रमाणम् । भ्रान्ता प्रत्यभिज्ञेति चेत् । न । बाधाभावात् । अन्यथातिप्रसङ्गात् । व्यापकाश्च प्रत्य- SASURE मीमांसादर्शनम् । मिशनादेव । तत्रोपलब्ध एवायमत्राप्युपलभ्यते । तदोपलब्ध एवायमि- दानीमप्युपलभ्यते गकार इति प्रत्यभिज्ञानात् । उदात्तादयश्च ध्वनय उत्पद्यन्ते विनश्यन्ति च । तदुपाधिके च उसादविनाशप्रतीती, नतु शब्दे स्वाभाविके । (का ? तारख(म)न्द्रत्वादि- प्रतीतिरप्यनुपाधिका, ध्वनिगतत्वात् तस्याः । ध्वनिश्च कौष्ठयोर्वा युवा (१) नामसो वा। शब्दश्च द्रव्यम् । साक्षादिन्द्रियसम्बन्धेन गृह्यमाणत्वात् पटवत् । साक्षात् सम्बन्धश्च स्वमते संयोगः परमते तु समवाय इति नान्यतरा- सिद्धिः । ननु शब्दो गुणः बहिरिन्द्रियव्यवस्थापकत्वाद् रूपवद् इति गुणत्व- सिद्धिरिति चेन्न । किमिदं बहिरिन्द्रियव्यवस्थापकत्वं तदुसादकत्वं वा तज्ज्ञापकत्वं वा। नाद्यः । शब्देन तदनुत्पादनात् । नापि द्वितीयः । द्रव्यत्वे- ऽपि ज्ञापकत्वसम्भवात् । यथा घटोपलब्धिः करणपूर्विका क्रियात्वादिति करणत्वसिद्धिः, तथा शब्दोपलब्धिः करणपूर्विकेति श्रोत्रसिद्धिः । अतो गुणत्वसाधकाभावात् द्रव्यत्वस्यैव सिद्धिः । महत्त्वसंयोगादिगुणवत्त्वाच शब्दो द्रव्यम् अन्यतरकर्मजादिकारत्वव्यतिरेकेण द्रव्यस्यावस्थानासम्भवात्। तस्माच्छन्दो द्रव्यम् । प्राभाकरमते शब्दो गुणः । तेषां मते शब्दो नित्यः व्योमैकगुण- त्वात् तद्गतपरममहत्त्ववदित्यनुमानम् । श्रावणत्वाच्छन्दत्ववदित्युभयोरपि मते नित्यत्वसाधकम् ।। तमश्च द्रव्यम् । रूपवत्त्वात् क्रियाववादु वा बटवत् । आलोका- भावे रूपादेरारोपादसिद्ध हेतुद्वयामिति चेन्न । अभावे भावारोपाभावात् । नहि घटाद्यभावे रूपादिकं कश्चिदारोपयन् दृष्टः । तस्मात् स्वाभाविकरूपा- दिमत्त्वात् तमो द्रव्यम् । नाभावः । ननु भावरूपचक्षुषा साक्षात्कारे आलो. कसहकृतचक्षुषो जनकत्वानियमात् तन्निरपेक्षचक्षुर्ग्राह्यत्वं तमसः कथमिति चेन्न । नियमस्य तेजस्येव व्यभिचारात् । नहि तेजसि तेजोन्तरं सह. कार्यस्ति । तवापि तदवयवाः सहकारिण इति चेद्, विषयसंस्कारकले इन्द्रियसंस्कारकत्वे वालोकसंयोगेन सहकारित्वं दृष्टम् । न समवायेन । तेजो- वयवानां तु संयोगो न सम्भवति । किञ्च आलोकाभावेऽपि तमसि ।

सर्वदर्शनकौमुद्यां आलोकः सहकारी किमिति नापेक्ष्यते । विरोधादिति चेत् , तदा भावरूपत्वे ऽपि विरोधादेव न तदपेक्षा । विरोधश्च भावत्वे अभावत्वे च समानः । तच्च नाकाशादि क्रियावत्त्वात् । नापि वायुर्मनो वा रूपवत्त्वात् । नापि जलतेजसी नीलरूपवत्त्वात् । नापि पृथिवी गन्धरहितत्वात् । नच नीलरूपवत्वेन गन्धवत्त्वमपि साधनीयम् । बाधात् । तस्मान्नवद्व्यबहिभूतं तमो द्रव्यम् । ननु तन्नित्यमनित्यं वा । नायः । उत्पाद विनाशानुभवाविरोधात् । न द्वितीयः । आरम्भकाभावात् । स्पर्शवतामेवारम्भकत्वात् । तमःपरमाणुषु कल्पितेष्वपि स्पर्शवत्त्वाभावादिति चेन्न । मूतत्वमेवारम्भकप्रयोजकमस्तु न स्पर्शवत्त्वम् । तर्हि मनसोऽप्यारम्मकत्वप्रसङ्ग इति चेत्, तदारब्धशरीरेन्द्रिय- विषयरूपमोग्याभावादारम्भवयात् । तमसस्तु विषयत्वेन भोग्यत्वात् । यद्वा स्पर्शवत्त्वमनुद्भूतं कल्प्यताम् । तथा च स्पर्शवत्वमेवारम्मकप्रयोजक भविष्यति । उद्भूतस्पर्शवदेवारम्भकमिति तु न नियमः । इन्द्रियाघारम्भ काणामवयवानामनुद्भूतस्पर्शवत्त्वात् । उद्भूतत्वे तु तदारव्धेन्द्रियाणां स्पार्शनत्वप्रसङ्गात् । नित्यत्वपक्षस्त्वनङ्गीकृत एव । तदुक्तमाचार्यैः "तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधान्नवभ्यो भेत्तुमर्हति ॥" इति । तस्मात् तमो द्रव्यान्तरमिति सिद्धम् ।। वायुः स्पार्शनप्रत्यक्षः गृह्यमाणस्पर्शाधिकरणत्वात् पटवत् । बहि- रिन्द्रियजद्रव्यसाक्षात्कारे उद्भूतरूपत्वं प्रयोजकमिति चेन्न । तस्य चाक्षुषसाक्षात्कार(क?)मात्रप्रयोजकत्वात् न स्पार्शनप्रत्यक्षत्वे । अन्यथा द्र- व्यप्रत्यक्षत्वे एव उद्भूतरूपवत्त्वस्य प्रयोजकत्वे आत्मापि प्रत्यक्षो न स्यात् ॥ वायोः प्रत्यक्षले तद्गतसङ्ख्यादयोऽपि प्रत्यक्षाः स्युः । द्रव्यस्य प्रत्यक्षले तदाधेयानामपि तेषां प्रत्यक्षवनियमादिति चेन्न । इष्टापत्तेः पूर्वपश्चिमादिभेदेन सङ्ख्याग्रहणात् । कारे च सङ्ख्याः (१) प्रत्यक्षतात् । सर्वमभिव्याप्यागमनदर्शनात् महत्त्वं गृह्यते । स्थूलो वायुरायातीति प्रतीतः । संयोगविभागपृथक्त्वानि प्रसिद्धानि । गमनादिप्रतीतेः कर्म प्रत्य- क्षम् । ननु गृह्यमाणस्पर्शाधिकरणत्वं निदाघोष्मणि भर्जनकपालादिगतानु- मीमांसादर्शनम् । दुभूतरूपाधिकरणे तेजसि व्यभिचत्तीति चेन्न ! तस्यापि प्रत्यक्षत्वात् । अत एव च न्यायः प्रवर्तते 'नहि पक्षे पक्षताव्यभिचार' इति । अन्यथा उद्भूतरूपवत्त्वस्यापि पहिरिन्द्रियजद्रव्यसाक्षात्कारत्रप्रयोजकले प्रभापि सार्शनी स्यात् । तत्रापि तुल्यमेतदिति चेत्, मम स्पार्शनसाक्षात्कारे स्पर्शो- अवस्यैव प्रयोजकत्वात् ॥ ननु बहिरिन्द्रिय(ज)द्रव्यसाक्षात्कारे उद्भूतरूपस्पर्शवत्त्वमुभयं प्रयो- जकमस्तु । तथाच वायुरप्रत्यक्ष एवेति चेन्न । चाक्षुपसाक्षात्कारे रूपस्स स्पार्शने तु स्पर्शस्य च प्रयोजकत्वात् । तस्माद् वायुः स्पार्शन इति सिद्धम् ।। आकाशवाक्षुष इति केचित् । इहाकाशे खगश्चरतीत्यनुभवात् । प्रभामण्डलं तस्य विषय इति चेन्न । इहाकाशेऽन्धकार इत्यप्यनु- भवात् । नीलं नम इति भ्रान्तिरपि नभसः प्रत्यक्षतमावेदयति । अधिष्ठान- प्रत्यक्षत्वमन्तरेण प्रत्यक्षभ्रान्त्ययोगाद् इति ।। कालोऽपि प्रत्यक्षः । यथा (यथा?) षडिन्द्रियाणाम् इयन्तं काल. मिदमहमन्वभूवमिति प्रतीतेः । स्थूलः कालोपाविरेवमनुभूयते न काल इति चेत् । उपाधिरपि सूर्यगत्यादिः । स च स्वतः पदार्थान् सम्बधुमीष्टे । तदुपस्थापकः काल एव । अतः स चास्तु प्रत्यक्ष इति । कालः अतीन्द्रियः विशेषगुणशून्यद्रव्यत्वाद् मनोवदिति चेन्न । प्रत्यक्षवावात्, प्रत्यक्षस्य प्रदर्शितत्वात् ।। आत्मा तु द्रव्यबोधरूपः । तस्य परिणामो बुद्धिः । तया स प्रत्यक्षी. क्रियते । नचात्मानमहं जानामीत्यत्र कर्मकाविरोधः । द्रव्यरूपेण कर्म- त्वात् मतान्तर एव स दोषः । औपाधिकभेदस्यापि दर्शयितुमशक्यत्वा. दिति।। मनश्च विभु, सर्वदा स्पर्शरहितद्रव्यत्वात् । ज्ञानासमवाधिकारणा- धारत्वात् आत्ममनसोर्विभुत्वेन सर्वदा इन्द्रियसम्बद्धत्वात् कदाचित् सवै- विषयैः सम्बन्धे सति युगपज्ज्ञानप्रसङ्गादिति चेद्, ओमित्युत्तरम् । दीर्घ- शष्कुलीभक्षणादौ तथेष्टत्वात् । तर्हि व्यासङ्गानुपपत्तिः । स च दृश्यते । शब्दमश्रीषं, रूपं नाद्राक्षम् , इत्यनुभवादिति चेन्न । करणधर्मत्वेनोत्पादनी. यत्वात् । एकं करणमेकदैकमेव ज्ञानं जनयतीति नियमात् । आत्ममनसोः । । ..

९६ सर्वदर्शनकोनुद्या सर्वशरीरव्यापित्वाद् असमवाधिकारणस्य विभुगुणनियामकत्वात् सर्वाङ्गी. णमेव सुखं स्यात् । मनसोऽणुत्वेन तत्संयोगस्वासमवायिकारणस्य प्रादेशि- कत्वात् तत्र निमित्तकारणसम्बन्ध एवं शरणम् । मम तु प्रादेशिकत्वे तच्छरणं येन भविष्यतीति ! अनुमान धर्मियाहकमानबावितमिति चेत् किं तन्मानं येन वाधः स्यात् । व्यासंग इति चेन्न । तस्य करणधर्मलेनोपपा- दितत्वादिति विभुवं सिद्ध मनसः ।। जलतेजोदिशां यथा निरूपितं न परैस्तथैवाभ्युपगमः । पृथिव्यादीनि तु नित्यानि । सुवर्णस्य पार्थिवत्वं प्रसाधितमेव । गुणास्तु यथापराभ्यु- पगतम् अङ्गीकृता एव ।। प्राभाकरमते पृथक् कर्म त्वतीन्द्रियम् । संयोगविभागदर्शनेन त्वनु- मीयते । चलतीति प्रत्यक्षस्य संयोगविभागावेव विषयः । भट्टस्य तु कर्म प्रत्यक्षमेव ॥ सामान्य तु यथानिरूपितमभ्युपेतम् । प्राभाकरस्य तु सत्तासामान्य प्रमेयत्वमेव । सङ्घयानव्यङ्ग्या जाति!त्वादिरभ्युपेयते । तव द्रव्यत्वादि- रुपाधिरूपः । भामते सादृश्यं सामान्यमेव । यथाहुः "सामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवृत्तिसादृश्यमिष्यते ॥" इति । यथा शुक्लः परः तथा कम्बलोऽपीति गुणसाम्यात् । यथा गौः तथा गवय इत्यवयवसामान्यात् । वायुब धावत्यश्व इति कर्मसामान्यात् । प्राभाकरमते सादृश्यं पदार्थान्तरमेव ।। इति पदार्थनिरूपणम् ॥ अथ प्रामाण्यं निरूप्यते। अबाधितासन्दिग्धानधिगतार्थगन्तृ प्रमाणम् । तदुक्तमाचार्यैः- "तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति । ज्ञानान्तरेण विज्ञानं तत् प्रमाण प्रतीयताम् ॥"

मीमांसादर्शनम्। इति । प्रमितिः प्रमाणमिति व्युत्पत्त्या फलस्यैव लक्षणमुक्तम् । अर्थात् करणस्यापि सिध्यति । तत्र दृढमिति सन्देहनिरासः। उत्पन्नमिति अनुत्पन्नत्वलक्षणाज्ञानानेरासः । ज्ञानान्तरेण न विसंवादमृच्छतीत्यनेना- बाधितत्वमुदितम् । एवंभूतं विज्ञानं प्रमाणमित्यर्थः । अप्रामाण्यं त्रिविधम् । तदुक्तम् "अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः।" इति । तत्प्रमाणं तु षोढा । प्रत्यक्षानुमानोपमानागमार्थापत्त्यभाव- भेदात् । प्रत्यक्षं तु द्विविधं समं नैयायिकैः । योगिनस्तु न सन्ति । तेषां सत्त्वेऽपि दूरसूक्ष्मादियोग्यदर्शनमेव । नत्वतीन्द्रियार्थद्रष्टुत्वम् । यथाहुः- “यत्राप्यतिशयो दृष्टः स स्वार्थानतिलानात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ॥" इति । यथा गृध्रादयो दूरात् सूक्ष्मं पश्यन्ति तद्वदिति भावः । नच तत्र मानं पश्यामः। नन्वदृष्टादिकं कस्याचित् प्रत्यक्षं दृष्टं मेयत्वादिति मानमिति चेद् । न । कस्यचिच्छब्देनास्मदादयो योगिनो वा विवक्षिताः । नाद्यः । बाधात् । न द्वितीयः। तदप्रसिद्धेः । अनेनैव प्रसिद्धावितरेतराश्रयत्वात् पक्षे अनुगतधर्माभावाच । ततो योगिनः सन्ति । ननु प्रमाणसामान्यलक्षणमव्या- पकम् । प्रत्यक्षधारावहनबुद्धावव्याप्तेः । तथानेकशाखासु एककर्मबोधकस्य वाक्यस्याप्रामाण्यापत्तेः, एकेन घोषितस्यापरण बोधनादनधिगतत्वाभावा- दिति चेत् । मैवम् । धारावहनबुद्धौ सूक्ष्मकालवैशिष्टयस्य वा ज्ञातताधु- पाधिविशिष्टस्य वानधिगतस्य सम्भवात् । सूक्ष्मकालाकलने शतपत्रव्यक्ति- भेदे यौगपधाभिमानो न स्यादिति चेत् । सत्यम् । विचारकस्य क्रियाविभा- गादिन्यायाभिज्ञस्य योगपद्यामिमानो नास्त्येव । प्रान्तस्यामिमानो नोदा- हरणमर्हति । भनेकशाखाबोधिते चैकस्मिन् कर्मणि प्रथमेनाज्ञातज्ञापने सिद्धे द्वितीयादेरनुवादकत्वेन तत्र प्रामाण्यम् । एवं विद्वान् दर्शपूर्णमासैर्यजते' इत्यादिवत् । 'स्वाध्यायोऽध्येतव्य' इति विधिना खशाखाध्ययनमेव विहि- तस् । ततः स्वशाखा प्रमाजनिका । इतरास्वनुवादकाः । अनधिगतपदेन स्मृतिव्यावर्तनाबातिव्याप्तिः । व्याप्यव्यापकांशरूपमनुमानम् । तत्र व्याप्यांशेन व्यापकांशोऽनुमीयते । तच्चान्वयव्यतिरेकि केवलान्वयि चेति द्विविधम् । केवलव्यतिरोक तु न प्रमाणमतिप्रसञकत्वादित्याहुः ॥

RAMANANDPAL सर्वदर्शनकौमुखां वनं गतस्य गवयं दृष्ट्वा अनेन सदृशी भदीपा गौरिति ज्ञान- मुषमानम् । आकाङ्क्षादिमत्सदकदम्बकं वाक्यमागमः ! श्रुतार्थापत्ति- रागम एव । दृष्टार्थापत्तिः पृथक् प्रमाणम् । अर्थापत्ती व्याप्तिज्ञानापेक्षा नास्तीति पृथक् प्रमाणमिति केचित् । केवलव्यतिरेकव्याप्त्यपेक्षत्वाद् भिन्नमिति केचित् । अनुपलब्धिम पृथक् प्रमाणम् । उपलब्धिर्ज्ञानं तद- भावोऽनुपलब्धिः । सा पृथक् प्रमाणम् । तदुक्तम् "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽन्यानपेश्वया ॥" इति । अन्यदिन्द्रियादि (न) तदपेक्षयेत्यर्थः । इन्द्रियव्यापारानुविधान च भूतलायधिकरणग्रहणजनने अन्यथासिद्धम् । एकस्मि(ना?न्न)- नुपलब्धे ज्ञाने ज्ञातकरणत्वमज्ञातकरणत्वं (च) कथमिति चेद् । न । एकस्मिन् ज्ञानाख्ये कार्ये ज्ञाताज्ञातकरणत्ववदुपपत्तेः । ज्ञाताज्ञातत्व- विशेषं विहायानुपलब्धिमात्रेण एकाकारत्वोपपत्तेश्च । किञ्च अज्ञातैवानुप- लब्धिः करणमनुपलब्धौ तु ज्ञाता । ननु चैत्रो गृहे निपुणतरमनुसृतो मया नोपलब्धः इत्याप्तादुपश्रुत्य श्रोता ज्ञातानुपलब्ध्या नाभूचैत्र इति निधि- नोति । ततो ज्ञातानुपलब्धिरपि करणमिति चेद् । न । तत्र यनुपलब्धिन पृथक् प्रमाणम् । किन्त्वनुमानत्वेनैवेति न दोषः । इह भूतले घटो नास्ती- स्यादानेव ज्ञातानुपलब्धिः ! पार्थक्येन पृष्टः चैत्रो गृहेऽभूदिति, तदैव किञ्चित् स्मरन् चैत्रानुपलब्ध्यैव तदभावं ज्ञात्वा ब्रूते नाभूदिति । तत्र नेन्द्रिय- गृहसन्निकर्षः, गृहस्य विप्रकृष्टत्वात् । नापि स्मर्तु योग्यः, स्मरणाभावेन चैत्रा- नुपलब्धिमनुमाय तया चैत्रनास्तितानुमानमिति युक्तम् । स्मरणाभावस्यानु- पलब्ध्या व्यभिचारात् । कश्चिदुपलब्धोऽपि संस्कारविनाशान मर्यते, तत्र स्मरणाभावोऽस्ति नानुपलब्धिरिति व्यभिचारः । अतः परिशेषादनुपल. ब्धिरेव करणम् । नच शब्दादिस्तत्रास्ति । अतोऽसङ्कीर्णमुदाहरणमिदमेव । तयाहुः "खरूपमानं दृष्ट्वा तु पश्चात् किञ्चित् स्मरन्नपि । तत्रान्यनास्तितां पृष्टस्तदेवप्रतिपयते ॥" । wwwpm ARRAIMATAS मीमांसादर्शनम् । इति । तस्मादज्ञातानुपलब्धिः पृषक प्रमाणम् । अन्तीवसाधकान्यनुमानानि यथायथं प्रतिकूलतर्कपराहत्यादिना दूषणीयानि । एतत्सर्व मनसि निधायाह सूत्रकारः 'अथातो धर्मजिज्ञासे'ति । 'स्वाध्यायोऽध्येतव्य इति विषयवाक्यम् । भीमांसा आरम्भणीयानारम्भणी - येति संशयः । तदर्थमपरा चिन्ता अध्ययनविधिदृष्टार्थों दृष्टार्थो वेति । तदर्थमपरा चिन्ता- अध्ययन विविरक्षरग्रहणपर्यन्तोऽर्थावबोधपर्यन्तो वा एवं सन्देहे पूर्वपक्षः --- अक्षरमणेनैनाध्ययनस्य चरितार्थत्वात् तस्य बादृष्टद्वारा स्वर्गफलत्वात् फलानारापेक्षाभावाद् अध्येतन्य इति विधेरध्य- यनमात्रपर्यवसानात् , एवं कान इत्लादेरश्रवमेन फलान्तरस्य कल्पयितुम- शक्यत्वाच अक्षरग्रहणानन्तरं नातव्यमित्यर्थावबोधार्थ न मीमांसारम- व्येति । एवं प्राप्ते सिद्धान्तः---गृहीतवेदराबनिरर्थकत्वायोगाद्, अर्थस्य च विचारमाध्यत्वात्, विचारस्य व मीमांसारूपत्वात् , दृष्टेऽर्थावबोधे सम्भ. बत्यदृष्टार्थकल्पनायोगात्, 'यं यं ऋतुमधीते तेन तेन हास्य क्रतुनेष्टं भ- वती'त्यादिवास्यशेषे फलश्रवणाद् अर्थावबोधमन्तरेण तदवगमायोगात्, अर्थावबोधकामोचितेति कल्पनाद् अधरग्रहणमात्रान स्नातव्यं, किन्तु मीमांसारब्धव्येति। ननु अध्ययनविधीवनामावात् कथं विधित्वम् । तथाहि- योतेत्युक्ते भावनाद्वयं प्रतीयते । एका शब्दभावना अपरार्थभावना । लिडा- कारेण शब्दभावना प्रतीयते । यतो यजेतेति विनवणानन्तरमहमनेन प्रवर्तित इति पुरुषस्य धीममायते । प्रवर्तना हि शब्दभावना । अभिषा भावनेत्यर्थः । तिगकारेणार्थभावनोच्यते इति तिडा कारः। यथाहुः "अभिवां भावनामाहुरन्यामेब लिङादयः । अर्थात्ममावना त्वन्या सर्वाख्यातैर्निगद्यते ॥" इति। अर्थभावना पुरुषप्रयत्नः। किं भावयेत् केन भावयेत् कथं भावयेत् (इति) फलकरणेतिकर्तव्यतामेदात् अंशत्रयवती भावना। तत्र शब्दभावनाया अर्थमावना भाव्यांशः । ज्ञाता लिङ्क णांशः । अर्थवाद ातकर्तव्यतांशः । अर्थभावनाया यागेन स्वर्ग भावयेदित्यादौ स्वर्गादिफलं किमंशः, यागादिः धात्वर्थः, करणांशः प्रयाजादिः, करणोपकार इतिकर्तव्यतांशः। तथा च प्रया ra ।

१०० सर्वदर्शनकौमुद्या जादिभिरुपकृत्य यागेन स्वर्गादि भावयेदित्यर्थों भवति। तथा अध्ययनविधौ भावनाद्वयं कथमिति चेदेवं, सावधानमनाः शृणु । 'स्वाध्यायोऽध्यतव्य' इति तव्यप्रत्ययेन स्वाध्यायमधीयीतेति लिङ्प्रत्ययेन च शब्दभावनया स्वाध्यायपदवाच्यमध्यमस्थाः सर्वे लिडादयः प्रेर्यन्ते अर्थलाभादिभिः प्ररो- चनां कृत्वा लिङादिमिः पुरुषः प्रवर्तनीय इति । अर्थमावनया पुरुषोऽर्था- वबोधे नियुज्यते । अध्ययनेन मीमांसयोपस्मृस्य स्वाध्यायार्थबोध भावयेदिति । अतोऽत्रापि द्विविधभावनासद्भावान्नास्ति कश्चिद् दोष इति । एवं प्रथमाध्यायप्रथमचरणेन चोदनादिसूत्रसन्दर्भेण धर्मे वेदस्य प्रामाण्यं प्रत्यक्षादीनानाप्रामाण्यं प्रसाधितम् । द्वितीयेऽर्थवादमन्त्राणां विध्येकवाक्यतया प्रामाण्यमसीषिधत् सूत्रकारः । 'सोऽरोदी(दि) त्यादयो- ऽर्थवादाः, 'उरु प्रथस्वे'त्यादयश्च मन्त्राः। तृतीये च स्मृत्याचारयोः प्रामाण्यं साधितम् । स्मृतयस्तु 'अष्टकाः कर्तव्या' इत्यादयः । आचारस्तु होलाकादिः। चतुर्थेन 'अग्निहोत्रं जुहोति' 'उद्भिदा यजेते त्यादिनामधेयानां प्रामाण्यं समर्थितम् । एवं प्रथमलक्षणे प्रमाणनिर्णयः । द्वितीये लक्षणे शब्दान्तरा. भ्याससङ्ख्यागुणप्रक्रियानामधेयैः पट्नमाणैः कर्मभेदो दर्शितः। तत्र यजेत जुहोति ददातीत्यादियज्ञादिशब्दभेदात् कर्मभेदः । भावना यद्यप्यकैव तथापि यजत्यादिवैशिष्टयभेदाढ़ेदः । तथा अभ्यासादपि कर्मभेदः । यथा 'समिधो यजति', 'इडो यजती त्याद्यभ्यासात् कर्मभेदः । तथा 'सप्तदश प्राजा- पत्यान् पशूनालभते' इत्यत्र सङ्ख्यया कर्मभेदः । द्रव्यदेवतयोरेकवे कमैक्य- माशङ्कय सङ्ख्यया कर्मभेदः स्थापितः । तथा गुणोऽपि द्रव्यदेवतालक्षण- कर्मभेदकः । यथा 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति वाजिनामिक्षारूपगुणभेदाद् वाजिनद्रव्यकं कर्मान्तरम् , आमिक्षाद्रव्यकञ्च कर्मान्तरमिति चिन्तितम् । वाजिनं नामामिक्षोत्पत्ति शिष्टमुदकम् । आमिक्षा नाम पयोदधिमिश्रणजनितं दृढाकारं द्रव्यम् । तथा प्रक्रिया प्रकरणम्। तद्भेदोऽपि कर्मभेदकः । यथा 'अग्निहोत्रं जुहोती'त्यत्राग्नि- होत्रशब्दोऽस्ति । कुण्डपायिनामयने 'मासमग्निहोत्रं जुहोती'त्यस्ति । तदुभय- मेकमेवेत्याशङ्ग्य प्रकरणभेदात् कर्मभेदः स्थापितः । तथा नामभेदोऽपि कर्मभेदकः । यथा---'अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः मीमांसादर्शनम् । १०१ अनेन सहस्रदक्षिणेन यजेते'त्यत्र नामभेदात् । एवं कर्मभेदो द्वितीयाध्याये निरूपितः। तृतीये तु विनियोगविधिनिरूपितः । तथाहि-उत्पीत्तीवधिर्विनि- योगविधिरधिकारविधिः प्रयोगविधिश्चेति चतुर्विधो विधिः। 'आमेयोऽष्टा- कपाल' इत्यादौ द्रव्यदेवतासंयुक्तकर्मस्वरूपबोधको विधिरुत्पात्तीवधिः । 'दर्शपूर्णमासाभ्यां यजेत स्वर्गकाम' इत्यादौ कर्तृसम्बन्धादधिकारबोधको विधिरधिकारविधिः । 'ऐन्या गाईपलमुपतिष्ठत' इत्यादावनेनेदं कर्तव्यमिति विनियोगबोधको विधिर्विनियोगविधिः । भुत्यादिना साङ्गे प्रधाने बोषिते साङ्गं प्रधानं युगपत् कुर्यादिति कल्प्यविधिः प्रयोगविधिः। तत्र विनियोगः शेषशेषिमावः तृतीये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानाध्यते । तत्र 'ऐन्या गाईपत्यमुपतिष्ठत' हतीन्द्रपदवत्या ऋचा गार्हपत्योपस्थानं श्रुत्याव- गम्यते । पदान्तरनिरपेक्षः शब्दः श्रुतिः । तत्रैन्येति तृतीया शेषबोधने समर्था । गाईपत्यमिति द्वितीया तु शेषियोधने । एवं सर्वत्र तृतीया शेषि- बोधने अनपेक्षा । द्वितीया तु शेषबोधने । तयोस्तु गुणगुणिभावेनान्वयो वाक्यगम्यः । लिङ्ग नाम सर्वपदार्थगतसामर्थ्यम् । 'सर्वभावगता शक्तिर्लिङ्ग- मिति वचनात् । यथा 'बहिर्देवसदनं दामी'ति । हे बहिर्दममुष्टे ! देवताना सदनमुपवेशनस्थानं (किं ?) त्वां दामि लुनामीत्यर्थः प्रतीयते । तेन पदार्थ- सामर्थ्य दर्ममुष्टिच्छेदने प्रतीयते । अतो बहिर्लवने लिङ्गेनायं मन्त्रो विनि- युज्यते । एवम् 'उरु प्रथस्वेति मन्त्रः पुरोडाशप्रयने । एवं देवताप्रकाशकाश्च ते ते मन्त्रा अग्निमूर्धादयः । तेऽपि लिङ्गेनैव देवताप्रकाशने विनियुज्यन्ते । तथाच मन्त्राणां विनियोगो लिङ्गप्रमाणगम्यः । साकाङ्क्ष पदद्वयं वाक्यम्। तच्च विनियोजकम् । यथा 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीति वाक्यात् पर्णकायाः पलाशस्य जुह्वा घृतहोमपात्रस्य शेषत्व प्रतीयते। जुहः शेषी । पलाशः शेषः । दर्शपूर्णमासादिप्रधानवाक्यं 'समिधो यजती साद्यवाक्याकांक्षायुक्तं प्रकरणम् । तत्र प्रधानमारभ्याङ्गानामधीत- त्वात् प्रकरणमेव तत्राङ्गाङ्गिभावबोधकम् । दर्शपूर्णमासः प्रधान, प्रया- जाद्यङ्गमिति विनियोजने प्रकरणमेव । स्थानं सन्निधिः क्रम इति पर्यायः। यथा-देवताकाण्डे अग्न्यमीषोमादिदेवताः क्रमेण प्रपद्यन्ते । मन्त्रकाण्डे । Sagma । तु । सर्वदर्शनकौमुद्या मन्त्राः क्रमेण पठयन्ते । तत्र स्थानप्रमाणेन प्रथमदेवतायागस्य प्रथमो मन्त्रः, द्वितीयस्य द्वितीयः, नृतीयस्य तृतीय इति बोध्यते । समाख्या याजिकप्रसिद्धिः । इदं श्रीसूक्तम्' 'इदं पुरुपसूक्तमित्यादिप्रसिद्ध्या तत्तत्त्री- त्यय तत्तत् पठनीयमिति विनियुज्यते । एवं षड्तिः प्रमाणैः विनियोगस्तृ- तीये प्रदर्शितः ॥ चतुर्थे च ऋत्यर्थपुरुषार्मविचारः कृतः । यथा---'अमावास्यायाम- पराले पिण्डपितृयज्ञेन चरन्ती पत्र पिण्डपितृयजः दर्शपूर्णमासाङ्गं वा स्वयं पुरुषार्थों वेति सन्दियाभावास्याकालेऽमिहितत्वात् तहङ्गामिति पूर्वपक्षयित्वा राद्धान्तितम् -- अङ्गाङ्गिमावोवक त्यादिप्रमाणामावादनारम्याधीतत्वाच नाङ्गम् (इति)। ननु फलामावात् कथं पुरुषार्थ इति चेन्न । 'स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वादिति न्यायेन स्वर्गस्यैव फलत्वात् । अतः फलवत्त्वात् पुरुषार्थ एवेति विचारितम् ।। पञ्चमे तु क्रमविचारः कृतः । कर्मणामझाङ्गिभाने निश्चिते साङ्गं प्रधान युगपत् कुर्यादिति भयोगविधिना योगपये विहिते सर्वस्य युगपत् कर्तुमशक्यत्वात् क्रमेण एकानुष्ठानतमा कर्तव्यत्वे प्राप्ते श्रुत्यर्थपठनस्थान- मुख्यप्रवृत्तिकपः (१) प्रमाणसिद्धक्रमेण कर्तव्यम् । 'हृदयस्याग्रेऽवयति अथ जिह्वायाः अथ वक्षस' इत्यत्र अत्यैव क्रमः । 'अग्निहोत्रं जुहोति' 'यवागू पचती'त्यत्रार्यक्रमः । पाठक्रमे ह्यनीक्रियमाणेऽग्निहोत्रस्थ द्रव्यान्तरमश्रुतं स्वीकर्तव्य साधनम् । यवागूपाकस्य च दृष्टोपयोगाभावाददृष्टार्थत्वं कल्प- नीयम् । तदुभयदोषपरिहारार्थम् अर्थक्रमो द्रष्टव्यः यवागू पक्त्वाग्निहोत्रं जुहोतीति । तथा च द्रन्मान्तरकल्पनादृष्टार्थत्वदोपौ न भवतः । समिदाघ- गयागानां यथा पठनं तेनैव क्रमेण कर्तव्यम् । ज्योतिष्टोमे प्रातरग्नीषो- मीयः, मध्याह्ने सवनीयः, सायम् अनुवन्ध्यः पशुरिति पशुत्रयं क्रमेणालम्भ- नीयम् । तद्विकारे साध्यस्क्रयागे सवनीयपशुस्थाने 'सह पशूनालमत' इति श्रूयते । तत्र त्रयाणां योगपद्यायोगात् त्रये सहकर्तव्ये अग्नीषोमीयस्य प्रकृतौ प्राथम्यादिह विकृतावपि सहत्वेन त्रयाणां प्राप्तौ स एव प्रथम मालम्भनीय इति प्राप्ते राद्धान्तितं -- सवनीयस्थाने पठितत्वात् सहत्वस्य सवनीयपशोः प्राथम्यमिवरयोस्त्वैच्छिकः क्रम इति । अथवाग्नीषोमीयस्य प्रकृतौ प्राथम्यात् तस्यैव सवनीयानन्तर्य, ततोऽनुबन्ध्यः। मुख्ययागक्रमाद- मीमांसादर्शनम् । प्यङ्गयागक्रमः । यथा सरस्वतीसरस्वद्यागयोः क्रमे तदङ्गानामपि तथैव क्रमः । प्रवृत्त्यापि क्रमः । 'सप्तदा प्राजापत्लान् पशूनालमत' इत्यत्र सप्त- दशापि पशवो यूपेषु नद्धाः । तत्र प्रोक्षणाभ्युक्षणादयः पदार्थाः कर्तव्याः । तत्र केन क्रमेणेति विशये प्रथमतः प्रमाणान्तराभावावि(हौ ? ह ौ)त एव क्रमः, द्वितीयादिपदार्थेषु इच्छैव नियामिकास्तु इति प्रा राद्धान्तः- प्रवृत्त्यैव क्रमः, नेच्छया । तथाच कालव्यवधानं स्यात् यदा प्रथमं यत्र प्रोक्षणपदार्थः क्रियते सप्तदशे पशौ तत्रैव । यदादावभ्युक्षणं क्रियते तदा तस्य षोडशपशुप्रोक्षणकाडेन न व्यवधानं भवति । यदा विच्छया या- कुत्रापि अन्तिमे मध्यमे वा द्वितीयपदार्थः क्रियते तदा प्रथमपदार्थस्याधिक व्यवधानं भवति । ततो व्यवधानाभावाय प्रथमप्रवृत्तिक्रमेणैव द्वितीयादि कर्तव्यमिति स्थितम् । षष्ठे त्वधिकारचिन्ता । 'अर्थी समर्थो विद्वान् शाशेणापर्युदस्तोऽधि- कारी' । अर्थित्वं सुखादिफलार्थित्वम् । तत्तु तिर्यगादिप्राणिनामप्यस्ति । त - निरासाय समर्थ इति । देहेन्द्रियबलं सामर्थ्यम् । तच कर्मकरणशक्तियोगः । अर्थी समर्थोऽप्य(य)ज्ञानधिकारीति दर्शितं विद्वानिति । वेदवेदाङ्गाभिन्जो विद्वान् । ततः सर्वं शूद्रेऽपि घटयेत् । अत उक्तं-शानेणापर्युदस्त इति । शूद्रस्तु 'शूदो यजेऽनवक्लप्स' इति शास्त्रेण निरस्तः । एवंविध- स्वर्गपशुपुत्रादिकामोऽधिकारीति षष्ठे निरूपितम् । इदं पूर्वषट्कं उपदेश इत्युच्यते । उपदेशो नाम साकर्मनिरूपणम् । उत्तरषट्कमतिदेश उच्यते । अतिदेयो नाम कर्मस्वरूपमात्रनिरूपणम् । यथा 'सौर्य चळं निवपेदिति । 'प्रकृतिवद्विकृतिः कर्तव्ये ति सामान्यातिदेशः सप्तमे। प्रकृतिः साजो- पदेशः । तत्र ये धर्माः प्रयाजादय उपदिष्टाः येन क्रमेण, तेनैव क्रमेण ते धर्माः विकृतौ स्वरूपमा कर्मणि कर्तव्याः। विशेषातिदेशस्त्वष्टमे निरूप्यते । तत्र सर्वासामिष्टीनां दर्शपूर्णमा- सेष्टिः प्रकृतिः । तद्धर्मा विकृतीष्टिषु कर्तव्याः । सोमयागानां ज्योतिष्टोमः प्रकृतिः । तद्धर्मा विकृतिसोमयागेषु रात्रिसत्रादिषु कर्तव्याः । पशुया. गानां सर्वेषामग्नीषोमीयः प्रकृतिः। तदङ्गानि विकृतिपशुयागेषु कर्तव्यानि। महर्गणानां द्वादशाहः प्रकृतिः । तदङ्गान्यन्यत्र सत्रान्तेष्वनुष्ठेयानि । एत. दष्टमे निरूप्यते॥

१०४ सर्वदर्शनकौमुखा नवमे ऊहो निरूप्यते । यथा आग्नेये प्रकृतौ 'अग्नये जुष्टं निर्वपामीति निर्वापः क्रियते । विकृतौ सौर्ययागे 'सूर्याय जुष्टमित्यायूछते । दशमे बाधनिरूपणम् । सामान्यतोऽतिदेशेन प्रामो धर्मों विशेषण बाध्यते । यथा-'बर्हिः स्तृणाती'त्यत्र दर्भपरिस्तरणे प्राप्ते आभिचारिकक- मणि 'शरमयं बर्हिर्मवती' त्यनेन बाध्यते। 'प्राजापत्याञ्छत कृष्णलान् निर्वपे- दि'त्यत्र कृष्णलादीनां ब्रीह्याकारसुवर्णानां निर्वापे तेषामवहननप्राप्तौ वैतुष्य. द्वाराभावादवहननबाधः । सकृदनुष्ठानेन बहूनामुपकारकलक्षणं तन्त्रम् । तन्निरूपणमेकादशे । यथा- 'आग्नेयोऽष्टाकपालः पुरोडाशः' 'ऐन्द्रं दधि' 'ऐन्द्रं पय' इति त्रयाणां यागानां पञ्च प्रयाजाः सकृदनुष्ठिता उपकुर्वन्ति । तदेव तन्त्रेणानु- ष्ठितमुच्यते ॥ द्वादशे तु प्रसङ्गेनोपकारसिद्धिनिरूपणं क्रियते । यथा-लोके आम्र- मूले पितॄणां तर्पणे कृते आममपि सिक्नं भवति पितरश्च तृप्ता भवन्ति । तथा च पितृतर्पणप्रसङ्गेनाप्रसेका, एवं गोदोहनेन पशुकामस्य । अपां प्रणयने 'चमसेनापः प्रणयेत्' 'गोदोहनेन पशुकामस्येति वाक्येन विहिते पशुकामस्य यदप्रणयनं तदर्शपूर्णमासयागयोरप्युपकरोति । स च प्रसङ्गः । एवंविधविचारो द्वादशे निरूपितः । तृतीयषष्ठदशमाध्यायाः पादाष्टकवन्तः । अतः शराभध्याया उच्यन्ते । इतरे पादचतुष्टयवन्तः ।। मीमांसासागरं विद्वान् समुत्तुं क ईश्वरः । एकदेशानुसरणं कृतं मन्दविबुद्धये ॥ पदवाक्यप्रमाणज्ञो माधवाल्यसरस्वती। मीमांसादर्शने कञ्चिदकरोत् पहं सुधीः ॥ अधुनोदीयते सांख्ययोगयोर्मतमुत्तमम् । माधवाख्यसरस्वत्या बालानां बोधसिद्धये ॥ तन्मते प्रधान सत्त्वरजस्तमोगुणात्मकं जगत्कारणम् । पुरुषस्तु कूट- स्थनिल उदासीनः । परिणामिनित्यं प्रधानं प्रकृतिरिति पर्यायः । जगदा- कारेण परिणममानमपि न नश्यति परिणामिनिलम् । पञ्चविंशतितत्त्वा नाम पदार्थाः । यथाहः- साङ्ख्ययोगदर्शनम् । १०५ "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयस्सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥" इति । मूलप्रकृतिरादिकारणम् ।सा न विकृतिर्विकाररूपा न भवति । कार्य- रूपा न भवतीत्यर्थः । मूलत्वादेव तस्या न मूलान्तरापेक्षा । अतो न विकृतिरिति भावः । महदाद्याः, महत्तत्वं बुद्धिः। आदिपदादहङ्कारः शब्द- स्पर्शरूपरसगन्धतन्मात्राणि । एतानि प्रकृतयो विकृतयश्च । उत्तरोत्तरस्य कारणत्वात् प्रकृतिः । पूर्वपूर्वकार्यत्वाच विकृतयः । एता अष्ट प्रकृतय उच्यन्ते । मूलप्रकृतिं विहाय सप्त । विकृतयोऽपि श्रोत्रत्वगक्षिजिह्वाघ्राणवाक्- पादपाणिपायूपस्थमनांसि एकादशेन्द्रियाणिः पृथिव्यादीनि पञ्च भूतानीति षोडश विकाराः । पुरुषस्तूदासीनत्वान्न प्रकृतिः नित्यत्वान्न विकृतिरित्यर्थः । नन्वत्र महदादयः किमर्थं कल्पनीया इति चेत् , पुरुषस्य विषयसम्बन्धार्थम् । पुरुषस्य विषयसम्बन्धः स्वभावान्न भवति । चिद्रूपस्य तस्य विषय- सम्बन्धस्वभावत्वे अनिर्मोक्षप्रसङ्गात् । विषयसम्बन्धनिवृत्तिर्हि मोक्ष इत्युच्यते । स्वभावस्य निवर्तयितुमशक्यत्वात् अनिमोक्ष एव पुरुषस्य स्यात् । न चेष्टापत्तिः । श्रुतिमन्त्रविरोधात् । कोऽयं मन्त्र इति चेदा- कर्णय । 'अजाभेकां लोहितशुक्लकृष्णां बही प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणाऽनुशेते जहात्येको भुक्तभोगामजोऽन्य' इति । अ- स्यार्थः न जायत इत्यजा प्रकृतिः। सा चैका मूलकारणत्वात् । लोहित रजोगुणः। शुक्लं सत्त्वगुणः । कृष्णं तमोगुणः। एतत्रितयरूपा। सरूपाः लोहि- तादिसमानरूपाः। बह्वीः बहुलाः प्रजाः सृजमाना सृजन्ती । एवम्भूतामजां प्रकृतिम् । एकः अजः पुरुषः । भुक्तभोगां भुक्तः भोगः यथा, पुरुषः संसारी- कृतो वयेत्यर्थः, तां जहाति । प्रकृतिपुरुषाववेकात् संसारः, तद्विवेकान्मुक्त्या भवितव्यम् । अतो निर्मोक्षो नेष्टापत्तिः । तर्हि प्रकृतिरेव साक्षात् पुरुषसम्ब• न्धिनी भवतु तत्र नोक्तदोष इते चेत्, तत्रापे स एव दोषो निर्मोक्षप्रस- ङ्गरूपः । प्रकृतेनित्यत्वात् सम्बन्धस्यापि विनाशाभावात् स्वभावस्य दुरपह्न- वत्वात् । तर्हि घटादयो विषया एवाहत्य पुरुषचैतन्यसम्बन्धा भवन्त्वित्यपि न घटेत । तदा घटादेश्चिति सम्बन्धस्वभावस्य दुरपनेयत्वादिन्द्रियसंयुक्त- दशायामिवासंयुक्तदशायामपि प्रकाशप्रसङ्गात् । तथा च कदाचिद् दृष्टत्वं कदाचिददृष्टत्वमिति व्यवस्था न स्यात् । तहन्द्रियमात्रप्रणाड्या घटादि- Cameraman । १०६ सर्वदर्शनकौमुद्या स्तदीयो भवत्वित्यपि न । तदा युगपत् सबैन्द्रियैः शब्दादिविषयेषु सन्नि- कृष्टेषु शब्दमश्रौषं रूपं नाद्राक्षमिति व्यासङ्गायोगात् । अतस्ततोऽधिकमपे- क्षणीयम् । तर्हि मनस्ततोऽधिकमस्त्विति चेत् । न । यदीन्द्रियमनोमात्रेण सर्वविषयाणां पुरुषसम्बन्धित्वं तदा स्वप्नदशायां नरस्यैव सतो मनसा वराहादिरूपे नीते विषयतया पुरुषस्य नरत्वेन सम्बन्धेऽपि अहं नर इति नाभिमन्यते, वराहोऽहं व्यानोऽहमित्येवाभिमन्यते । तत इन्द्रियमनोमात्रेण न निर्वहति पुरुषविषयसम्बन्धः । तर्हि अहङ्कारोऽस्त्वधिकः । स्वप्ने नरत्वे- नाहङ्कारो नास्ति, वराहत्वादिना त्वस्ति । ततः स एव विषयः । न नर- त्वमिति चेत् । न । तावताप्यसम्भवात् । सुषुप्तिदशायामहङ्काराभावेऽपि निःश्वासप्रश्वासजनकप्रयत्नानवस्थानात् । तथा च तत्प्रयत्नाश्रयत्वेना- धिकं किञ्चिदभ्युपगन्तव्यम् । स एव महान् कती । तत्र विहितनिषिद्ध- कर्मजन्यधर्माधर्मों । ताभ्यामिष्टानिष्टरूपो विषयः पुरुषसम्बन्धो भवति । अव- स्थात्रयेऽपि तदेवैतत् सव्यापारम् । इन्द्रियाणि बाह्यानि जाग्रदवस्थायामेव वर्तन्ते व्याप्रियन्ते च । मनोहङ्कारौ जाग्रत्स्वप्नयोरेव व्याप्रियते । भावना- रूपसंस्कारो महत्येव वर्तते । स्वसन्निकृष्टेन्द्रियद्वारा घटादयो विषया बु- द्धिमुपसङ्कामन्ति । पुरुषोऽपि तत्र प्रतिबिम्बति । ततश्चैकान्तः करणस- क्रान्त्या विषयः पुरुषोपधानीभवति । नन्वन्तःकरणरूपं महत्तत्त्वं चेत् प्रयत्नाश्रयः, तर्हि तेनैव चेतनेन भवितव्यम् । नह्यन्यश्चेतयते अन्यः प्रय- तत इति सम्भवति । योऽहं चेतये स एवाहं प्रयत इति सामानाधिकरण्य- प्रत्ययविरोध इति चेत् । न । बुद्धिपुरुषयोर्भेदाग्रहान्निष्क्रियेऽपि पुरुषे अन्तःकरणबिम्बिते कर्तृत्वाभिमानः । अचेतनेऽपि महति प्रतिबिम्बित- पुरुषाविवेकाग्रहाचेतनत्वाभिमानः । भ्रान्तिस्तु साङ्ख्यमते नास्ति । प्राभाकरवदख्यातिवादित्वात् । अतो भेदाग्रह एव विपर्ययव्यवहारकार- णम् । अतः प्रयत्नचैतन्ययोः सामानाधिकरण्यं घटते । तात्त्विकस्तु पुरुषे कर्तुत्वं बुद्धौ च चेतनावत्त्वमिति व्यवहारो नास्त्येव । पुरुषस्य पुष्करप- लाशवनिर्लेपत्वात् बुद्धेस्तु जडत्वादिति । ननु स्वभावतः पुरुषस्य निर्ले- पस्यापि बुद्धिवशाल्लेपो भविष्यतीति चेत् । न । यथा कमलपत्रमुदकसम्ब- द्धमपि न तेन लिप्यते तद्वदिति । एवं महदादिकारणानां पृथगेव व्यापार- ।

साङ्ख्ययोगदर्शनम् । १०७ सद्भावादवश्यं तानि स्वीकर्तव्यानि । तत्रेन्द्रियाणामस्त्विति प्रथमसन्निपात ज्ञानं व्यापारः। विकल्पो मनसः । अविकल्पो निश्चयः। तदुभयमुक्तम् 'इन्द्रियाणि मनः पश्चाद्विकल्पयति निश्चयात्" । इति । अहङ्काररपाभिमानः स चाहं क्रमकाधिकृत इत्येवंरूपः । बुद्धश्च कृत्यध्यवसायः । स च कर्तव्योऽयमित्याकारः । तर्हि विकल्पाध्यवसाययो- रुभयोरपि निश्चयरूपत्वात् को भेद इति न शङ्कनीयम् । विकल्पस्य विषयनिश्चयरूपत्वात् । कृत्यध्यवसायस्य कृतिजनकेन्छारूपत्वात् । बु- द्धिश्च चेतनोपरागविषयोपरागव्यापारावेशरूपांशत्रयवती । सर्वत्र हि म- येदं कर्तव्यमिति त्रितयाकारः प्रतीयते । तत्र मयेति चेतनोपरागो दर्पण- स्येव मुखोपरागो भेदाग्रहादतात्त्विकः । इदमिति विषयोपराग इन्द्रिय- प्रणाळिकया बुद्धौ प्रतिबिम्बितो बुद्धिपरिणाममेदो निःश्वासाहतदर्पणस्येव मलिनिमा पारमार्थिकः । कर्तव्यमिति व्यापारादेशः एतदुभयतात्त्विकाता- त्त्विकायत्तः । तत्रैव व्यापारलक्षणाया बुद्धर्विषयोपरागो ज्ञानम् । तेन सह यः पुरुषोपरागस्यापारमार्थिकस्य सम्बन्धः, यथा दर्पणप्रतिविम्बितस्य मुखस्य मलेन सम्बन्धः, सोपलब्धिः। एवं ज्ञानोपलब्ध्योर्भेदः । सुखादयोऽष्टाव- प्येतन्निष्ठाः, कर्तृभूतबुद्धिसामानाधिकरण्येन प्रतीयमानत्वात् । नच वाच्यं बुद्धिरेव स्वभावतश्चेतनास्त्विति । परिणामित्वात् । चेतनस्य कूटस्थनित्य. त्वादिति । तथाचाचेतनापि प्रकृतिः वत्सविवृद्ध्यर्थं क्षीरमिव पुरुषस्य भोगापवर्गयोः प्रवर्तते । यदा प्रकृतिपुरुषविवेकः तदा मुक्तो भवति । वि- वेकश्च श्रवणादिना भवति । जगतः प्रधानोपादानत्वे किं प्रमाणमिति चेद् अनुमानं तावत् विमतकार्यजातम् अचेतनोपादानकं, कार्यत्वे सत्यचेतन- त्वाद् घटादिवदिति । नच वैशेषिकादीन् प्रति सिद्धसाधनम् । परमा- Uवादीनामपि मूलकारणं प्रकृतिरेवेति ॥ यतः तच्च प्रधानं स्वतन्त्रमेवेति तत्प्रेरणाय न चेतनापेक्षा, तस्मा- नेश्वरसिद्धिः ॥ सेश्वरसाङ्ख्या योगसाङ्ख्याश्चेश्वरमङ्गीकुर्वते । अन्यत् सर्व समानम् । योगशास्त्रेऽपि मोक्षसाधनं योगः। योगाङ्गानि च यमादीनीति तन्निरूप(ण)म- धिकम् । योगश्चित्तवृत्तिनिरोधः । यमनियमासनप्राणायामप्रत्याहारध्यानधार- १०८ सर्वदर्शनकौमुद्यां णसमाधयोऽष्टाङ्गानि । 'अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयार्जवामे'त्यादि यमः । तीर्थे चाप्रतिग्रहः सन्ध्यायां मौनं भोजने मौनम् इत्यादिव्रतधारणं नियमः । पद्मस्वस्तिकादीन्यासनानि । रेचकपूरककुम्भकादिः प्राणायामः । रेचकं प्राणवायुविसर्जनम् । पूरकम् अन्तसकर्षणम् । कुम्भकम् आकृष्टस्य तथैव धारणम् । प्रत्याहारो विषयेभ्यो मनोनिवर्तनम् । धारणं हृदादिदे. हैकदेशे प्राणधारणम् । ध्यानं तु ध्येयदेवताया विजातीयप्रत्ययानन्तरित- सजातीयप्रत्ययप्रवाहसन्ततीकरणम् । समाधिस्तु त्रिपुटीरहितध्येयमात्र परत्वम् ।। इति सासययोगनिरूपणम् ॥ एवं वैदिकदर्शनानि संक्षेपत उक्ताने । इदानीमवैदिकदर्शनं निरू- प्यते । तत्र चार्वाकस्य प्रत्यक्षमेव प्रमाणम् । कायाकारेण परिणतपृथि- व्यादिभूतचतुष्टयमेव चेतनः । एकैकभूतस्य चैतन्याभिव्यञ्जकत्वाभावेऽपि समुदितस्य व्यञ्जकत्वम् । यथा मदशक्तिरेकैकपूगीफलादिना न भवति चूर्ण- पर्णफलेभ्यस्तु भवति तद्वत् । अतीन्द्रियं तु नास्त्येव । स्वर्गादिकमपि प्रत्यक्षसिद्धस्रक्चन्दनादिकमेव । वनिता स्वर्गः चन्दनः स्वर्ग इति प्र- योगदर्शनात् । शरीरत्याग एव मोक्षः । पुण्यपापे न कस्यापि । चतुर्भु- जादिप्रतिमादिकमेव देवता । किं बहुना, प्रत्यक्षासिद्धं नास्ति । यथेष्ट मेवाचरणीयम् ॥ "यावज्जीव सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥" इति तेषां सिद्धान्तः ॥ इति चार्वाकदर्शनसंक्षेपः॥ जैनमतं निरूपितं वैशेषिकमतनिरूपणवेलायां विपर्ययपरतावात् । बौद्धमतं तु निरूप्यते । ते तु बहुप्रकारा यद्यपि तथा(पि) हीनम- ध्यमोत्तमभेदात् त्रिधा। बुद्धिवैचित्र्याद्वा त्रिधा । तत्र बुद्धस्य त्रयः शिष्याः । यस्तु हीनाधिकारी तं प्रति अन्तर्बहिश्च सर्वास्तित्वमबोधि । यस्तु मध्य- माधिकारी तं प्रति ज्ञानस्यैवास्तित्वं बोधितम् । यस्तूत्तमाधिकारी तं प्रति बौद्धदर्शनम् । सर्वं शून्यमिति रहस्यं प्रादाशे । तत्रोत्तमाधिकारिणः साक्षादेव तत्त्वमुप- दिष्टम् । हीनमध्यमस्तु क्रमेण शून्यतायामेवावतरणं भविष्यतीति तथो- पदिष्टम् । तथा च ते बुद्धिवैचित्र्यादधिकारवैचित्र्याद्वा एकमपि तत्त्वं तथा जगृहुः । यथोक्तं बोधिचित्तविवरणे- "देशना लोकनाथानां सत्त्वाशयवशानुगाः । भियन्ते बहुधा लोके उपायहुनिः पुनः ॥ गम्भीरोत्तारभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा ॥" इति । लोकनाथानां बौद्धानां देशना आगमाः प्राण्यभिप्रायवशानुसा- रिण्यः शून्यताप्रतिपत्त्युपायैः क्षणिकत्वसर्वास्तित्वादिभिलोके श्रोतृसमु. दाये पुनर्बहुधा भिद्यन्ते । भेदमाह - गम्भीरेति । अमाधो गम्भीरः, तद्वि- परीत उत्तारः स्थूलदृष्टियोग्यः तद्गुणा । क्वचिद् ग्रन्थप्रदेशे उभयलक्षणा ज्ञानमात्रास्तित्वसर्वबाह्याास्तित्वलक्षणा । तत्र तत्प्रतिपादिनो भिन्नापि दे- शना शून्यता एवाद्वया तल्लक्षणा । तत्र तात्पर्यवती सती अभिनेति श्लोक- द्वयार्थः । यद्यपि वैभाषिकोऽप्यपरोऽस्ति । स च सौत्रान्तिकमध्येऽन्तर्भूतः । एतावांस्तयोर्भेदः- अर्थप्रत्ययवैचित्र्याद् बाह्यार्थोऽनुभोयते सौत्रान्तिकैः । वैभाषिकाणां च बाह्यार्थः प्रत्यक्ष इति । तत्र सर्वास्तित्वमतं तावनिरूप्यते। भूतं भौतिकं चेति चित्तं चैत्तिकं चेति चतुर्धा । भूतं पृथिव्यादिचतुष्टयम् । भौतिक रूपादयश्चक्षुरादयश्च । तत्र पृथ्वी (पी)वरस्वभावा कठिनस्व- भावा वा । आपः स्नेहस्वभावाः । तंजः उष्णस्वभावम् । वायुरीरणस्व- भावः । ईरणं प्रेरणन् । एवंस्वभावाः परमाणवः प्रत्येकं पृथिव्यादिरूपेण संहन्यन्ते मिलान्ते । एते कायाकारेण परिणताः संहता उच्यन्ते । असंह- तास्त इन्द्रियसनेकर्षाद् गृह्यन्त। चित्तत्तिकास्त्वेते वक्ष्यन्ते रूपविज्ञानवे- दनासंज्ञासंस्काररूपाः पञ्च स्कन्धाः । ते त्वध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्ते रूप्यन्ते एभिर्वेिषया इति इन्द्रियाणि । रूप्यन्ते इति कर्मव्यु- त्पत्त्या शब्दादयो विषयाः। तेन सविषयाणीन्द्रियाणि रूपस्कन्धः । अहमि- त्यालयविज्ञानम् । रूपादिविषय इन्द्रियजन्यो दण्डायमानो विज्ञानस्कन्धः, निर्विकल्पकज्ञानरूप इत्यर्थः । रूपस्कन्धस्तु सविकल्पकरूप इति तयो. भेदः । इष्टानिष्टानुभयसम्बन्धे सति सुखदुःखोदासीनवृत्तयश्चित्तस्यालय- १ सर्वदर्शनकौमुद्यां विज्ञानस्यः जायन्ते । स वेदनास्कन्धः विकल्पप्रत्ययः । संज्ञा संसर्गयोग्यः प्रतिभासो यथा--कुण्डली गौरो ब्राह्मणो गच्छतीति संज्ञास्कन्धः। संस्कार- स्कन्धस्तु - रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधौं चेति । एषां समुदायः पञ्चस्कन्धी । ननु भूतभौतिकचित्तचैत्तानि संहन्यन्ते समुदि- तानि भवन्तीत्युक्तम् । तत्र संहन्ता तव मते कोऽपि भोक्ता वा प्रशासिता वा स्थिरो नास्ति । तत् कथं संहननमिति चेत् , शृणु । अविद्यादीनां परस्परनि- मित्तत्वात् संहतिर्घटते। तेन च लोकयात्रोपपद्यते । तस्यां चोपपद्यमानायां न किञ्चिदन्य(दु? द)पेक्षणीयम् । तथाहि --- अविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शनं वेदना तृष्णा उपादानं भवो जातिजरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता इत्येवमविद्यासमूहे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमाने अर्थाक्षिप्ता संहतिरिति संहन्ता नापेक्ष्यते । अवि- द्यादेरयमर्थः- पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातुषु षट्सु कायाकारेषु ये- यमेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा सुखसंज्ञा सत्त्वसंज्ञा पुद्गलसंज्ञा मनुष्यसंज्ञा मातृपितृदुहितृसंज्ञा अहङ्कारममकारसंज्ञा, सेयमविद्या अस्य संसारानर्थ- सम्भारस्य मूलकारणम् । तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहाः विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विज्ञानम् । विज्ञानाच रूपिणो देहोपादानभेदाश्चत्वारः पृथिव्यादयो जायन्ते । तन्नामेत्युच्यते । तानि पृयिव्यादीन्युपादाय कारणत्वेन विकृत्य रूपं सितपीतादिरूपवच्छरीरमभि- निवर्तते । तच्छरीरं नाम रूपमुच्यते । षडिन्द्रियाणि षडायतनम् । षट् पृथिव्यादिधातव आयतनानि यस्य कारणवृन्दस्येति व्युत्पत्त्या पडायतनम् । कारणवृन्दानां नामरूपेन्द्रियाणां सन्निपातः स्पर्शः । स्पर्शाद् वेदना सुखा- दिकाः । वेदनायां सत्यां कर्तव्यमेतत् सुखं पुनर्मयेत्यध्यवसानं तृष्णा भवति । तत उपादानं वाकायचेष्टा । ततो भवः । भवत्यस्माज्जन्मेति भवो धर्मा- धौं । धर्माधर्मकारणकस्कन्धप्रादुर्भावो जातिर्मनुष्यादिः । जन्महेतुका उत्तरे जरामरणादयः। जातानां स्कन्धानां परिपाको जरा । स्कन्धानां विनाशो मर- णम् । नियमाणस्य मूढस्य पुत्रकादावन्तर्दाहः शोकः । तदुत्थं पुत्रकलत्रादि- विषयप्रलपनं परिदेवना। अनिष्टानुभवनं दुःखम् । मानसं च दुःखं दौर्मनस्यम् । मदमानादयश्वोपक्लेशा अविद्यादिषु द्रष्टव्याः । तेऽमी परस्परहेतवः, जन्मा- दिहेतुकाः अविद्यादयः अविद्यादिहेतुकाश्च जन्मादय इति घटीयन्त्रव- । । , १ बौद्धदर्शनम् । दनिशमावर्तन्ते । तत्र बाह्याः पदार्था अनुमेयाः । ज्ञाने यस्य पदार्थस्या- कारः प्रतीयते स बहिरस्तीत्यनुमीयते । विमतो बहिरस्ति, स्वाकारसमर्प- कत्वात् । यद् बहिर्नास्ति तत् स्वाकारसमर्पकं च न भवति यथा नरवि- षाणमिति । सर्व पदार्थाः क्षणिकाः क्षणे क्षणे जायन्ते, विरुद्धधर्माध्या- सात् । विरुद्धधर्मश्च कुर्वत्त्वाकुर्वत्त्वसमर्थासमर्थत्वादि । यद्येकमेव बीज क्षेत्रमध्यपतितमकुर्वत् करोति कुसूलस्थं च न करोतीति कथम् । समर्थस्य क्षेपायोगात् । तर्हि स एवायमिति कथं प्रत्यभिज्ञानमिति चेत् , सादृश्या- दिति ब्रूमः । क्षणिकघटादिसन्तानवर्तिनां सन्तानिनां क्षणानामत्यन्तसाह- श्यात् ज्वालादिप्रत्यभिज्ञानवदिति ग्राह्यम् । चतुर्विधभावनायाः समलचि- त्तसन्तानोच्छेदे सति निर्मलचित्तसन्तानोत्पादो मुक्तिः । भावना तु दुःखं दुःखं स्वलक्षणं स्वलक्षण क्षणिक क्षणिकं शून्यं शून्यमिति निरन्तरचिन्तनम् ।। विज्ञानमात्रवादी तु योगाचारः । तस्य मते क्षणिकं विज्ञानमे- वास्ति, बाह्य नास्त्येव । अत एव ज्ञानाकाररजते बहिष्ट्वमारोप्यते इद- मिति । नेदं रजतमितीदन्त्वमेव बाध्यते । तत्रेदं नेति निषेधो न रजतनिषेधः। रजतं तु बुद्धौ विद्यत एव । ननु विज्ञानस्कन्धमात्रं त्वया कथमुच्यते । यतः प्रमाणप्रमेयप्रमातृप्रमितिषु चतसृषु विधासु सत्त्वस्य पर्यवसितत्वात् । ततश्च तत्त्वं व्यवस्थापयता त्वया चतस्रो विधा अभ्युपगन्तव्या इति चेत् । सत्यम् । बुद्धेरन्याश्चतस्रो विधा न सन्ति । तथापि बुद्धिक- ल्पितः प्रमात्रादिव्यवहारोऽस्त्येव । तथाहि विज्ञानस्वरूपमेवासत्याकार- युक्तं तत् प्रमेयम् । प्रमेयप्रकाशनं प्रमाणफलम् । तत्प्रकाशनशक्तिःप्रमाणम् । स्वरूपमेव प्रमातृ । एवं विज्ञानमन्तरेण किमपि तत्त्वं नास्तीति योगाचार- सिद्धान्तः॥ माध्यमिकानां तु तत्त्वं शून्यमेव । ते ह्युत्तमाधिकारिणः । शून्यादेवा. विद्यावशात् सर्वमारोपितं जायते। असदेवेदमग्र आसीदिति भवदीयश्रुति- रप्यस्माकं सहायमातनोति । 'कथमसतः सज्जायते' त्यपि वेदो दूषयतीति चेत् । सत्यम् । पारमार्थिकसत्त्वे तद् दूषणं लगत्येव । अपारमार्थिकत्वे तु तत्र न कोऽपि दोषः । विज्ञानादि सर्व कल्पितमेव । व्यवहारे क्षणिकत्वादिकं समानमेव । वस्तुतः शून्यमेव तत्त्वं स्थापितम् । प्रमाणप्रमेयप्रमितिप्रमातृ- रूपाश्रतस्रो विधा अपि शून्यतत्वे संवृता अविद्यापरपर्यायाः कल्पिता इति ।।

सर्वदर्शनकौमुद्या पदवाक्यप्रमाणज्ञो माधवाख्यसरस्वती। चार्वाकजिनबुद्धानां मतं संक्षेमतोऽवदत् ॥ गोराष्ट्रदेशोऽखिलरामः सदाकरो द.क्षणदेशनिष्ठः । विराजते सधगिरीन्द्रसानौ यत्रास्ति गोकर्णमहाबलेशः॥ तद्देशजन्मा यतिरेकदण्डी सरस्वतीमस्तकमाधवाख्यः। विगाह्य नद्यां दिशि दक्षिणस्यां सोदास्यपुर्यामकरोत् कृति सः ॥ अनात्मशास्त्रप्रतिपादनेन दोषो य.दे स्यान्मम नास्ति दोषः । वेदान्तशास्त्रेण निराकरिष्णोः सर्वस्य भेदस्य पुरोदितस्य ॥ प्रस्थानभेदत्रयभिन्नमेकं वेदान्तशास्त्रं परिलोड्य सारम् । सगृह्य वक्ष्यामि हिताय मोक्ष- कासावतामात्ममतेश्च शुद्ध्यै ॥ पदवाक्यप्रमाणज्ञो माधवाख्यसरस्वती । वेदान्तशास्त्रसारस्य सङ्ग्रहं कुरुते सुधीः ॥ तत्र बादरायणकृतानि सूत्राणि शारीरकमीमांसाशब्दवाच्यानि । शरीरमेव शरीरकम् । कुत्सितं वा शरीरं शरीरकम् । तत्र भवस्तदभिमानी जीवः शारीरकः । तस्य विचारो मीमांसा । जीवः स्वभावतः संसारी उताविद्यया। यदि प्रथमः, ताई तस्य न संसृतेर्मोक्षः स्यात् । स्वभाव- स्यानपायात् । यदि द्वितीयः प्रकारः, तर्हि तस्य लस्वरूपतालक्षणो मोक्षः सम्भवतीत्येवमाकारो विचारः। सा च शारीरकमीमांसा चतुर्लक्षणी। प्रथम वेदान्तदर्शनम् । समसमन्वयलक्षणम् । तत्र चत्वारः पादाः । तेषु प्रथमे वेदान्तवाक्यानां समन्वयप्रतिपादकत्वं विचारितम् । द्वितीयमविरोधलक्षणम् । तत्रेतरशास्त्रवि- रोधः पर्यहारि। साधनलक्षणं तृतीयम् । तत्र वैराग्यादिमोक्षसाधनानि वि- चारितानि । फललक्षणं चतुर्थम् । तत्र मोक्षस्वरूपविचारः कृतः । अधिकर- णसङ्ख्या तु शारीरकस्य चित्सुखाचार्यैरुक्ता त्रिणवत्युत्तरशतमधिकरणम् । तत्रापि प्रथमेऽध्याये एकचत्वारिंशदधिकरणानि । द्वितीये सप्तचत्वारिंशत् । तृतीये सप्तोत्तरषष्टिः । चतुर्थे अष्टोत्तरत्रिंशत् । यद्यपि नित्याध्ययनविधिना 'स्वाध्यायोऽध्येतव्यः' इत्यनेनाधीतवेदवेदान्तस्य इह जन्मनि जन्मान्तरे वा ईश्वरार्पणबुद्ध्या सत्कर्मावदातस्य शुद्धमनस मापाततो वेदान्तेषु 'आत्मनस्तु कामाय सर्व प्रियं भवतीति श्रुत्वा, पुत्रकलत्रादेः सर्वतो विरक्तस्य 'एतावदरे! खल्वमृतत्वमिति ज्ञानस्यामृतत्वं श्रुत्वा, उपचाराज्ञानममृतत्वं साधनमि- त्यवगच्छतः 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति श्रुत्वा, तदात्मनिदर्शनं द्रष्टव्य इत्यनूध श्रवणादिसाधनं विधीयत इति भवति मतिः। तथापि न्यायेनैव तन्निर्णय इति बादरायण आचार्यों मीमांसा शारीरकस्य प्रणिनाय । तस्या उपवर्षाद्याचार्यविनिर्मिता अनेका वृत्तयः सन्ति । तत्राद्वैतपरत्वं न सम्यक् प्रत्यपादि इति मत्वा शङ्करभगवत्पूज्यपादाः सर्वान् मुमुक्षूननुगृह्णन्तः शारीरकस्य केवलाद्वैतपरत्वं निर्णेतुकामा भाष्यं प्राणैषुः । तच्च नवसहस्रम् । तत्तात्पर्य विवरीतुकामा भाष्यकारस्य शिष्याः पद्मपादाचार्यास्तस्य भाष्यस्य टीकां कृतवन्तः। सा च केनचिद् दुष्टेन ना- शिता सर्वा । चतुस्सूत्रीमात्रा अस्या अवशिष्टा । पुनरपि तैर्निर्मिता पञ्चपा. दानां जाता। तत्र सर्वशास्त्रसङ्गहरूपायाश्चतुस्सूत्रीटीकाया विवरणं चक्रु. विवरणाचार्याः । तत्र विवरणे चतुर्लक्षणी विशदा दृश्यते । तट्टीका अनेका नरेन्द्रगिर्यादिनिर्मिताः । इयं पञ्चग्रन्थी एकं प्रस्थानम् । अपरा तु भाष्यस्य वाचस्पतिमिश्रविरचिता भामती द्वादशसाहस्री । तस्याः कल्पतरुाख्या पञ्चदशसाहस्री । इयं चतुर्गन्थी अपरं प्रस्थानम् । अपरं तु वार्तिक- प्रस्थानम् । तस्य काण्वशाखागतबृहदारण्यकश्रुतिमूलम् । श्रुत्याः शङ्करभाष्यं नवसाहनम् । एतस्य शङ्कराचार्यशिष्यसुरेश्वराचार्यनिर्मितं द्वादशसाहस्रं वार्तिकम् । तस्यानन्दगिर्याचार्यनिर्मिताष्टचत्वारिंशत्साहस्री टीका । एवं Q Jeeuroprera सर्वदर्शनकौमुद्या वार्तिकविवरणवाचस्पतिसंज्ञकं प्रस्थानत्रयम् । स्वीयमतिविशेषस्य तत्र द- र्शितत्वात् प्रस्थानत्रयम् । तथा भाष्यस्य प्रकटार्थन्यायनिर्णयादिटीकाः सन्ति । तदेतेषां सारं विलोक्यात्मबुद्धिशुद्धये मुमुक्षूणां हिताय च सर्वा- नात्मदर्शननिरूपणजनितदोषपरिहाराय च संक्षेपतो वेदान्तशास्त्रं वदामि । तत्रायं परमार्थः गलितनिखिलभेदं स्वप्रकाशस्वरूपं निखिलजगदधीशं प्रान्त्यधिष्ठानभूतम् । परमसुखनिधानं सत्यमद्वैतभावं नमत भजत भक्त्या त परात्मानमाधम् ॥ ननु किमस्य शास्त्रस्यानुबन्धचतुष्टयम् । को विषयः । किं प्रयो- जनम् । कोऽधिकारी । कः सम्बन्धः । "ज्ञातार्थ ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ।।" इति न्यायात् प्रयोजनसम्बन्धौ वक्तव्यौ । विषयश्चावश्यं वाच्यः । प्रति- पायरयाज्ञाने प्रेक्षावतां प्रवृत्त्यसम्भवात् । अधिकारिविशेषश्च वोदितव्यः । नहि सर्व शास्त्रं सर्वाधिकार सम्भवति । तथा सति चिकित्साकामस्य व्या- करणेऽधिकारप्रसङ्गात् । शब्दसाधुत्वकामस्य वैद्यशाने प्रवृत्तिप्रसङ्गात् । ततोऽवश्यमनुबन्धा वक्तव्या इति चेत् । सत्यम् । अज्ञाततत्त्वम्पदार्थयोरक्यं वेदान्तस्य विषयः । अज्ञानं च त्वदुक्तमर्थं न जानामि मामन्यं च न जाना- मीति साक्षिवेद्यम् । तद्विषयश्च तत्त्वंपदार्थयोरैक्यं शास्त्रस्य विषयः । तत्त्वं- पदार्थयोरैक्यं ज्ञातं प्रयोजनम् । तत्सिद्ध्यर्थमेव वेदान्तवाक्यविचारः क्रि- यते। साधनचतुष्टयसम्पन्न एवाधिकारी । साधनं च प्रथमं नित्यानित्यवस्तु- विवेकः । स च युक्त्या सामान्यतो भवति जिज्ञासोः । अनित्यं कार्य दृष्ट- मनुमितं च किञ्चिन्नित्यमन्तरेण न सम्भवतीति नित्यमानं तत्कारणतयानु- मिनोति । तद्विशेषं च जिज्ञासते किं चेतनमचेतनं वेति । इहामुत्रभोग- विरागो द्वितीयं साधनम् । स चापाततः श्रुतिसिद्धः । तद् यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते' 'प्लवा ह्येते अदृढा यज्ञरूपा ।

वेदान्तदर्शनम् । अष्टादशोक्तमवरं येषु कमें'त्यादिश्रुतेः । तत्रापि विशेष जिज्ञासते-किं मुख्येय श्रुतिरुतोपचारार्थेति। तृतीयं साधनं शमदमादिसाधनसम्पत् । सा च शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्येदिति श्रुतिसिद्धा। चतुर्थ साधनं मुमुक्षुत्वम् । तत् स्वानुभवसिद्धम् । विषयग्रन्थयोः प्रति. पायप्रतिपादकभावः सम्बन्धः । ग्रन्थप्रयोजनयोः साध्यसाधनभावः सम्बन्धः। इत्यनुषन्धचतुष्टयसद्भावादारम्भणीयं शास्त्रम् । तत्राद्वितीयं ब्रह्मैव तत्त्वम् । 'एकमेवाद्वितीयं ब्रह्म', 'नेह नानास्ति किञ्चन' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति द्वितीयाद्वै भयं भवति' इति द्वैतनिषेधात् । श्रुत्यनुग्राहकस्तों- ऽप्यभिधीयते । तत्रात्मानो जीवशब्दिताः परमात्मनो न तत्त्वतो भिद्यन्ते, आ- त्मत्वात् परमात्मवत् । कथं पुनर्जीवपरमात्मनोरभेदे तात्त्विक संसायंसंसारि- भावः किञ्चिज्जत्वसर्वज्ञत्वादिभावश्च । जीवानां परस्परं पण्डितमूर्खादिभावश्च असङ्गत इति चेन्न । बिम्बप्रतिबिम्बयोः प्रतिबिम्बानां च तात्त्विकेऽप्यभेदे मिथ्याभेदप्रतिभासवदुपपत्तेः । अभेदे 'तत्त्वमस्या दिश्रुतिरेव प्रमाणम् । तस्या उपक्रमोपसंहारादिना तत्रैव तात्पर्यावगमात् । प्रत्यक्षादिभेदग्राहकप्रमाणस्य स्वप्नभेदग्राहकप्रमाणवत् सांव्यवहारिकत्वेनोपपत्तेः । सावकाशनिरवकाशन्या- यावतारात् । प्रत्यक्षादिकं तु व्यवहारमात्रायोपयुज्यते, नात्यन्तिकं भेदं गृह्णाति । श्रुतिस्तु तात्पर्यवशाद् भेदाभावं गृह्णाति । एवं जीवानां परस्पर- भेदनिरासायेदमुच्यते । प्रतिवादिशरीरादन्यानि सर्वाणि प्रतिवादिन एव भोगसाधनानि, इन्द्रियत्वाद् , भोगसाधनत्वाद्वा प्रतिवादीन्द्रियवत् । एवं चक्षुरादिकमपि पक्षयित्वा प्रयोगः कर्तव्यः । एकेनैवात्मनोपपत्तौ बह्वात्म कल्पने गौरवमेव । आकाशादाविव विपक्षे बाधकस्तर्क उन्नेयः। सर्वेषामेकत्वे सर्वत्र सुखदुःखादिकं सर्वेऽनुसन्दध्युरिति चेत् तर्हि पादावच्छिन्न आत्मा शिरोवच्छिन्नात्मवेदनामप्यनुसन्दध्यात् । तत्र शरीरस्यैकत्वेऽवच्छिन्ना भिन्ना यदि अत्रापि चेतनस्यैकत्वेऽप्युपहिता भिन्ना इति तुल्यम् । तत्रैकस्या- नेकवेदनानुसन्धानं भवेदिति चेद् अस्त्येवेश्वरस्यानुसन्धानमत्रापि तद्वत् । प्रवृत्तिस्त्वस्य न भवति, अभोक्तृत्वात् । भोक्ता हि प्रवर्तते सुखे, दुःखाच निवर्तते । नत्वभोक्ता । ततः पादतलकण्टकोद्धारणाय पाणितलव्यापारव- चैत्रदुःखोद्धाराय मैत्रव्यापारप्रसको नास्ति । किञ्च आत्मानात्मसर्वभेदो मिथ्या, भेदत्वात् स्वप्नभेदवत् , विभक्तत्वाज्जडत्वाद् रज्जुसर्पवत् । नच ।

। , सर्वदर्शनकौमुद्यां प्रत्यक्षादिवाधः । प्रत्यक्षं तु तात्त्विकमेदग्रहासमर्थमित्युक्तत्वात् । नच भेदः सत्यः वस्तुत्वाज्ज्ञेयत्वादात्मवदिति बाधकं वाच्यम् । तत्र वस्तुत्वं किं विवक्षितम् । तात्त्विकत्वं वा, तथाप्रतीयमानत्वं वा । आधे साध्याविशिष्टो हेतुः । द्वितीये शुक्तिरजतादौ व्यभिचारः । ब्लेयत्वमपि तत्रानेकान्तमेव । प्रमेयत्वं च श्रुतिविरुद्धम् । 'नेह नानास्तीति बाधात् । तत्रेहेति ब्रह्मपरा- मर्शात् तत्रैव नानात्वनिषेधः । अन्यत्र भेदो भविष्यतीति चेन्न । कारणाद- न्यत्र कार्यासम्भवात् । तत्र निषेधेऽन्यत्र सम्भावनाभावात् । ब्रह्म जगत्कारण. मिति प्रतिपादयिष्यामः । अद्वैते प्रयोगान्तरमपि -- आत्मानात्मसमुदाय- स्तात्त्विकस्वान्तर्गतभेदहीनः, ज्ञेयत्वाद् , गगनवत् । समुदायस्य सन्दिग्ध- साध्यतया पक्षत्वेऽपि तदेकदेशस्य प्रकारान्तरेण निश्चितसाध्यवत्तयोभयसि- द्धत्वाद् दृष्टान्तत्वं प्रयुज्यते । यथा--सर्वे ब्राह्मणा वसिष्ठवदिति । पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वाद् , घटवदिति वर्तमानादिप्रयोगदर्शनाच । किञ्च भेदस्वभावो धर्मों वा द्वितीयेऽपीतरेतराभावः पृथक्त्वं वा । आधे प्रतियोगिनिरपेक्षत्वापत्तिः । नहि घटः पटादिभिन्न इति कश्चित् स्वभावं प्रत्येति । नच स्वभावग्रहणमात्रेण भेदः प्रतीयते। तथा सति दूराद् वनग्रहे तरु- भेदग्रहप्रसङ्गात् । न द्वितीयः । मेदग्रहणमन्तरेणेतरेतराग्रहादात्माश्रयत्वप्रस- झात् । नापि तृतीयः । पृथक्त्वस्य गुणवेन गुणादौ तदभावात्। तत्र भेदा- प्रतीतिप्रसङ्गात् । नहि घटात् पटो भिन्नः अयमनयोर्भेद इति विशेषणविशे- ध्यभावगर्भो भेदः प्रतीयते । विशेषणविशेष्यभावश्च सम्बन्धपूर्वकः । स च भेदज्ञानपूर्वकः इति चक्रकानवस्थाप्रसङ्गः। तस्माद् भेदयितुमशक्य- त्वादद्वैतं सिद्धम् । एतत् सर्वमभिप्रेल 'गलितनिखिलभेदमित्युक्तम् ॥ अथास्वप्रकाशरूप आत्मा, स्वाधारया वृत्त्या न गृह्यते । एकक्रिया- यामेकस्यैव कर्मत्वकर्तृत्वप्रसङ्गात् । नासिधारेव स्वात्मानं छिनत्तीति दृष्टचरम् । नापि विषयज्ञानाधारतया प्राभाकरवदात्मा न गृह्यते संवित्कर्म- तामन्तरेणापक्षत्वात् संवेदनवत् । ततः परिशेषादात्मनः स्वप्रकाशसिद्धिः । किञ्च, विज्ञानस्वरूपत्वमात्मनो वेदान्तेषु श्रूयते । 'विज्ञानमानन्दं ब्रह्म' 'अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्' इति च । विज्ञानं च स्वप्रकाशः, तदभिन्नात्मा कथमस्वप्रकाशः स्यात् । विज्ञानमेव कथं स्वप्रकाश इति चेद् अनुमानात्। विवादास्पदं घटादिव्यवसायज्ञानं स्वप्रकाश, ज्ञानत्वात्, मयेदं ॥ वेदान्तदर्शनम् । ११७ विदितमित्यनन्तरं जायमानसंवेदनवत् । नच साध्यविकलो दृष्टान्तः । अनुव्यवसायग्राहकज्ञानान्तराभावाद्, भावे वानवस्थाप्रसङ्गात् । किञ्च, ज्ञानं स्वप्रकाशमेवैष्टव्यम् । तद्ग्राहकज्ञानासम्भवात् । तथाहि-ज्ञानं त्रिक्षणाव- स्थायि भवद्भिः स्वीक्रियते । ततश्च युगपदनेकज्ञानोत्पत्त्यभावात् । ग्राह्य- ज्ञानस्थितिकाले ग्राहकज्ञानमुत्पद्यत इति वाच्यम् । ग्राहकस्थितिकाले ग्राह्य नश्येदिति कथं गृहोत । प्रत्यक्षे विशेषस्य सत्तापेक्षणात् । स्वप्रकाशत्वमपि स्वव्यवहारे स्वातिरिक्तदर्शनानपेक्षत्वं, नतु स्वकर्मकत्वम् । तेन न स्वात्मनि वृत्तिविरोधः । अथच प्रदीपवञ्च विज्ञाने वृत्त्युपपत्तिः । यथा प्रदीपः परत्र विषय विज्ञानादिलक्षणं कार्य कुर्वन् स्वात्मन्यपि स्वभावविशेषादेव वि. ज्ञानादिकार्य करोति, नतु दीपान्तरमपेक्षते, तथा विज्ञानमपि विषये व्यव- हारकार्यं कुर्वत् स्वभावभेदादेव स्वात्मन्यपि व्यवहारकार्यं कुर्यात् , विज्ञाना- न्तर नापेक्षते इति किं न स्यात् । तदुक्तम् - "एक कस्यचिदन्यस्य द्वयमेव प्रकाशकम् । अत्यन्तमनपेक्षस्य नैकमप्यस्तु का क्षतिः ॥" इति । तस्मात् प्रथमज्ञानस्य ज्ञानान्तरग्राह्यत्वेऽनवस्था । तर्कोपकृतानुप- लब्ध्या वेदनान्तरासिद्धौ परिशेषात् स्वप्रकाशतासिद्धिः । नच वाच्यं वेदनान्तरवेद्यं, वस्तुत्वात् परवदिति सत्प्रतिपक्षतेति । यद्वस्तु तद् वेद्यमिति व्याप्तिज्ञान एव व्यभिचारात् । तत्र वेदनान्तराङ्गीकारे सर्वोपसंहारसम्भवाद् व्याप्तिग्रह एव न स्यात् । ननु विनाशिनो ज्ञानस्य कथं नित्यात्मत्वसिद्धि- रिति चेन्न । विज्ञानस्य विनाशासिद्धेः । नीलाद्युपधानविनाशे तत्र नष्टत्व- प्रतीतिः । यथा घटविनाशे तदुपहिताकाशविनाशप्रतीतिः । अभिन्ना च संवित् । ततोऽप्यात्मवन्नित्या । अभिन्नत्वे चानुमानं-संवित् स्वान्तर्गत- भेदशून्या उपाधिमन्तरेणाविमाव्यमानभेदत्वाद् , आकाशवत् । ततः संवि दात्मक आत्मा। तस्मात् स्वप्रकाशः । स्वप्रकाशत्वाच्च प्रपञ्चमिथ्यात्व- साधकदृश्यत्वादिहेतूनां तत्र नानेकान्तता । दृश्यत्वं स्वव्यवहारे स्वातिरिक्त- संविदन्तरापेक्षानियमः। जडत्वं चासंविद्रूपत्वम् । तदुभयमप्यात्मनि नास्तीति कथमनेकान्तो हेतुः स्यात् । ननु प्रपञ्चः पक्षः। स च प्रमितो वा न वा । नचेच्छशविषाणवत् पक्षत्वासम्भवः । प्रमितश्चेद् धमिग्राहकप्रमाणबाध इति ११८ सर्वदर्शनकौमुद्यां चेन्न । उभयथापि दोषाभावात् । यद्यायः पक्षः, तदा परप्रसिद्ध्यापरो बोध- नीय इति वेदान्तानुसारेण परप्रमित्यैव पक्षत्वोपपत्तेः। यदि द्वितीयः, तदास्म- पक्षानुसारेण प्रतीतमात्रस्य पक्षत्वोपपत्तेः। व्यर्थमेव शशविषाणवदिति वदता त्वयैव तस्य पक्षत्वाझीकारात् । अन्यथा तस्य पक्षत्वाभावः कथं साध- नीयः । तस्मादात्मनः स्वप्रकाशत्वात् तत्र दृश्यत्वादेर्व्यभिचारादखण्डं ब्रह्म वेदान्तेनापौरुषेयेण बोध्यत इति सिद्धम् ॥ ननु कथमखण्डार्थों वेदान्तेन बोध्यते । सर्वो हि शब्दः संसर्ग वा विशिष्टं वा बोधयति । अभिहितान्वयवादिमते संसर्गम् , अन्विताभिधानमते विशिष्टं बोधयति । यथा-गामानयेत्युक्ते गवानयनयोः संसर्गमानयनान्वितां गां गवान्वितमानयनं वावगच्छति लोकः । ततः कथं वेदान्तवाक्यं पदार्थ- बोधकं सत्यज्ञानादिवाक्यार्थबोधकं तत्त्वमस्यादिद्वितीयरहितमखण्डमात्रं बोधयदिति चेन्मैवम् । अखण्डार्थतायाः प्रमाणसिद्धत्वात् । तथाहि लोके चन्द्रप्रातिपदिकार्थबुभुत्सुं प्रति कश्चिद् वदति - प्रकृष्टप्रकाशश्चन्द्र इति लक्षणम् । स च प्रकृष्टसन्तमसव्यावृत्त्याल्पप्रकाशखद्योतादिव्यावृत्त्या च चन्द्रस्वरूपमात्रमखण्डं जानाति, न तु व्यावृत्तिव्यवहारौ, तयोरबुभुत्सित- त्वादिति सिद्धे सत्यादिवाक्यमस्थूलादिवाक्येन साक्षाद्वयावृत्तिपरेणैकवाक्यं सदितरव्यावृत्त्या ब्रह्मस्वरूपं बोधयति । लक्षणवाक्यत्वात् । तथाच सत्य- पदेन ब्रह्मणो बाध्यत्वं व्यावय॑ते । ज्ञानपदेन जडत्वम् । अनन्तपदेन कालतो देशतो वस्तुतश्च परिच्छिन्नत्वं वार्यते । आनन्दपदेन दुःखरूपत्वं निवार्यते । तत इतरधर्मव्यावर्तनद्वाराखण्डं वस्तु बोध्यते । लक्षणया सत्यादिपदैर्बा- ध्याभावादेर्लक्षितत्वात् । सा च जहलक्षणा गङ्गादिपदवत् ॥ महावाक्ये तु 'तत्त्वमसीत्यादौ जहदजहल्लक्षणया सोऽयं देवदत्त इतिवदखण्डार्थबोधनम् । यथा सोऽयमित्यत्र पूर्वदेशकालावेतद्देशकालौ च विहाय तदिदंपदाभ्यां देवदत्तस्वरूपमात्रं लक्ष्यते, विशिष्टस्यैकत्वा- सम्भवात्, तथा महावाक्येऽपि तच्छब्दपरामृष्टं कारणत्वपरोक्षत्वादि विहाय त्वंपदेन संसारत्वसन्निहितत्वादि विहाय केवलं चैतन्यमानं लक्ष्यते । अतो भागत्यागलक्षणया तत्त्वंपदार्थयोरैक्यं स्वरूपं च वाक्यैरु- भयविधैर्बोध्यते ॥ . - वेदान्तदर्शनम् । नन्वपौरुषेयत्वं वेदान्तानां कथं, येनापौरुषेयेणाखण्डार्थता बोध्येत । सम्प्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादपौरुषेयो वेद इति चेद् न । विशेषणासिद्धेः । प्रलये सम्प्रदायस्य विच्छेदाभ्युपगमात् । विशेष्यमप्य- सिद्धम् । तस्माद् यज्ञात् सर्वहुनः ऋचस्सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत' 'ये वेदा अजायन्त ऋग्वेद एवाग्नेरजायत यजु- वेदो वायोस्सामवेद आदित्यादि'त्यादिश्रुतिभिरेव कर्तुः प्रमीयमाणत्वात् । नचाप्रमीयमाणकर्तृकत्वं न विवक्षितं, । किन्तु स्मरणागोचरकर्तृत्वमिति वाच्यम् । मुक्तकश्लोकादौ व्यभिचारात् । तस्मात् पौरुषेयो वेदः, वाक्य- त्वात्, कालिदासादिवाक्यवत् । शब्दानित्यत्वाच वेदस्य पौरुषेयत्वमिति प्राप्तम् । एवं प्राप्ते उच्यते--किमिदं पौरुषेयत्वं नाम । किं प्रमाणान्तरेणार्थ बुद्ध्वा रचितत्वम् । जन्मश्रवणान्यथानुपपत्त्यैवार्थं बुद्ध्वा रचितत्वं सिध्ये- दिति चेन्न । इदानीमस्मदादिभिरुच्चार्यमाणेषु वेदेषु पुरुषाधीनत्वेऽप्यर्थ बुद्- ध्वा रचितत्वाभावात् । द्वितीयस्तु पक्षोऽङ्गीक्रियत एव । श्रुत्यादिप्रमाणसि- द्वत्वात् । वर्णास्तावन्नित्याः सर्वगताश्च, अमूर्तद्रव्यत्वादाकाशवत् । तथा च कालतो देशतश्च क्रमरहिता वर्णाः अनित्योच्चारणप्रतिपत्तिक्रमवन्तश्च । ततश्च पूर्वपूर्वक्रमानुस्मृतिनिमित्तकोत्तरोचरतत्सदृशक्रमवतां वेदशब्दवाच्यानां सा- म्प्रतमपि पुरुषाधीनोत्पत्तिमत्त्वात् , सृष्टिसमयेऽपि श्रुत्या तथात्वस्य प्रति- पादयितुमुचितत्वात् पुरुषाधीनोत्पत्तिकत्वमस्त्येव । वेदानित्यत्वानुमानं च 'वाचा विरूप नित्यये' त्याद्यागमविरुद्धम् । अन्यथा 'सामवेद आदित्यादिति श्रुतिबलात् तेषामपि कर्तृत्वं स्यात् । तेषां सम्प्रदायप्रवर्तकत्वमात्रमिति यदि तदा ईश्वरस्यापि सर्गादौ तथात्वं न दण्डवारितमिति । तथा च श्रुतिः स्वातन्त्र्यं निषेधति-- 'अस्य महतो भूतस्य निःश्वसितमेवैतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासपुराणानी'ति । ईश्वरस्य सर्वज्ञत्वात् स ईश्वरः कल्पान्तरप्रलयाद्यन्तर्हितमपि स्मृत्वा सर्गादौ करोति । अन्यथा स्वतन्त्रत्वे ब्रह्महत्याश्वमेधादीनां फलवैपरीत्यमपि वदेत् ॥ स्वतःप्रमाणत्वाचापौरुषेयो वेदः । ननु किमिदं स्वतःप्रमाणत्वम् । वेदस्य तावन्नित्यनिर्दोषत्वमेव स्वतस्त्वम् । खतन्त्रपुरुषप्रणीतत्वाभावेनाप्तो- तत्वानपेक्षणात् । पदादिजन्यवृत्तिरूपज्ञानस्य प्रमाप्रमासाधारणविज्ञान- सामग्रीजन्यत्वे सति तदतिरिक्ताजन्यत्वमस्वत:प्रमाणत्वम् । अप्रमायाश्च १२० सर्वदर्शनकौमुद्यां सामान्यसामग्रीव्यतिरिक्तदोषादिजन्यत्वात् परतः प्रमाणत्वम् । मनस्सन्नि- कर्षादिः सामान्यसामग्री । गुणो दोषो वा तदतिरिक्तः । तज्जन्यत्वमुत्पत्तौ स्वतस्त्वमित्यर्थः । अतिरिक्तसामग्रीजन्यत्वकल्पनायां कल्पनागौरवमेव दोषः। ज्ञप्तौ स्वतस्त्वं नाम येन ज्ञानं गृह्यते तेनैव तदा तत्रामाण्यं गृह्यत इत्येतत् । ज्ञानं तु साक्षिवेद्यं वेदान्तिमते । भाट्टानां ज्ञाततान्यथानुपपत्तिग्राह्यं ज्ञानम् । स्वयंप्रकाशं ज्ञानं गुरुमते । त्रय एव स्वतःप्रामाण्यवादिनः । अन्येषां प्रामाण्यस्य परतस्त्वम् । तच्च ज्ञानग्राहकादन्येन ग्राह्यत्वम् । ज्ञानं मनसा गृह्यते । प्रामाण्यमतुमानेन समर्थप्रवृत्तिजनकत्वलक्षणेन । अप्रामाण्यं परत एव गृह्यते । अप्रमास्वरूपं साक्ष्यादिना गृह्यते । अप्रामाण्यं बाधकज्ञानेन । एतावन्तं कालमिदं शुक्तिशकलं रजतमित्यमादित्यादिना प्रामाण्यस्य स्वतस्त्वे ज्ञानग्रहानन्तरं प्रमाणमप्रमाणं वेदं ज्ञानमिति सन्देहो न स्यादिति चेत् । सत्यम् । बुद्धिमानं प्रमेत्येव गृह्यते । विषयापहारकारणदोषादिना सन्देहादि- र्जायते । तथाहुः women "तस्माबोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानरपोद्यते ॥" इति । परतो ज्ञायत इति पक्षे प्रमाणभूतयानुमित्या पूर्वज्ञानप्रामाण्यं गृह्यते । अनुमितेः प्रामाण्यमन्ययानुमित्या, तस्या अप्यन्ययेत्यनवस्था स्यात् । न वाच्यमनवस्था स्वतःपक्षेऽपि समाना, तत्रापि ज्ञाततान्यथानुप- पत्तिप्रसूतयार्थापत्त्या वा ज्ञानप्रामाण्ये सहैव गृह्यते । अनुमितिरप्यनुमित्य- न्तरेण ग्राह्येति । वेदान्तिमते त्वस्यादोषत्वात् । तन्मते ज्ञानं वृत्तिरूपं साक्षिवेद्यं, साक्षी च स्वप्रकाशः इति नानवस्था । तस्मात् स्वतःप्रमाण- भूता वेदान्ता सिद्धं ब्रह्म बोधयन्ति ।। ननु कथं सिद्धे ब्रह्मणि वेदान्ताः प्रमाणम् । सर्वस्यापि वाक्यस्य प्रवृत्तिनिवृत्तिजनकतया प्रथमव्युत्पत्तिदर्शनात् , कार्यान्विते शब्दप्रामाण्यात् । सर्वोऽपि पुरुषो गामानय गां बधानेत्युक्ते प्रवर्तते । तद् दृष्ट्वा बालो व्युत्प- द्यते, नतु गौस्तिष्ठतीत्युक्ते कश्चित् प्रवर्तते, व्युत्पत्तिरपि न भवति । अतो वेदान्ता आत्मा प्रतिपत्तव्य इत्येवं विधिपरत्वेन नेया इति चेन्मैवम् । कार्ये व्युत्पत्त्यसम्भवात् । कार्यातिरिक्तानि पदानि न कार्यान्वितस्वार्थे वेदान्तदर्शनम् । १२१ नियतसामर्थ्यानि, पदत्वात् , कार्यपदवत् । नच साध्यविकलं निदर्शनम् । एकत्र वाक्ये कृत्युद्देश्यतालक्षणकार्यद्वयाभावात् । अतः कार्यपदस्य कार्या- न्तरान्वितस्वार्थगोचरत्वाभावाद् भावार्थरूपकार्यान्वितत्वस्य तैरनङ्गीक- रणात् । विपक्षे तु योग्येतरान्वितस्वार्थमात्रस्य सर्वपदसामर्थ्यप्रयोगजनकत्वे सम्भवति कार्येतरपदानां कार्यान्वितस्वार्थगोचरत्वं, कार्यपदस्य च स्वरूपे सामर्थ्यमन्यान्विते वा सामर्थ्य मिति प्रयोजकद्वयाङ्गीकारे गौरवं बाधक- मुबेयम् । तथा सिद्धार्थेऽपि व्युत्पत्तिदृश्यते । यथा-चैत्रस्य सुतोत्पत्तिं दृष्ट्वा वार्ताहरेण सह चैत्रसमीपं गतस्य भाषानभिज्ञस्य कस्यचित् तटस्थस्य पुत्र- स्ते जात इति वार्ताहरवाक्यं श्रुत्वा विकसितमुखं चैत्रं पश्यतः पुत्रजन्म- वास्य हर्षहेतुरिति विचारवतोऽस्य वाक्यस्य पुत्रजन्मैवार्थ इति समुदाय- व्युत्पत्तिर्भवति । तत आवापोद्धाराभ्यां विशेषसकेतग्रहो भवति । तथा वेदान्तेऽप्युपक्रमोपसंहारादिना ब्रह्मवत्त्वं सम्भवति । न च प्रतिपत्तिविधि- परत्वम् । प्रतिपत्तेः प्रमाणप्रमेयाधीनतया कर्तुमकर्तुमन्यथा वा कर्तुम. शक्यत्वादविधेयत्वम् । ततः कार्यान्वितपरत्वं वेदान्तानां न सम्भवति । सिद्धेऽप्यर्थे शन्दप्रामाण्याय प्रयोगः सिद्धोऽप्यर्थो मुख्यया वृत्त्या शन्द- बोध्यः, प्रमेयत्वात् , कार्यवत् । विपर्यये तु तत्र दृश्यमानोपक्रमोपसंहारा- दिषड्विधतात्पर्यलिङ्गभङ्गप्रसङ्गो बाधकः । मुख्यार्थे सम्भवति लक्षणा- ङ्गीकारोऽपि पाधकः । कार्यान्वितत्वानङ्गीकारेऽपि प्रयुज्यते--- वेदः सिद्ध एवार्थे प्रमाणं, प्रमाणत्वात्, चक्षुर्वत् । नच विधिवाक्ये बाधः, बल- वदनिष्टाननुबन्धी'ष्टसाधनत्वस्य विध्यर्थत्वात् तस्य च सिद्धत्वात् । नच भविष्यदनुमाने व्यभिचारः । तस्य साध्यत्वेऽपि पराभिमतकृत्युद्देश्यत्व- रूपकार्यत्वाभावात् तदितरस्यैव सिद्धस्वस्येह विवक्षितत्वात् । तादृशसिद्ध- त्वस्य भविष्यत्यपि सत्त्वात् । विपर्यये त्वयं बाधः । पराभिमतकार्यस्यापूर्व- वेन मानान्तरागोचरत्वात् तत्र सङ्गत्यनुपपत्तिः । अगृहीतसङ्गतिकानां च बदानां बोषकत्वानुपपत्तिरिति । ननु ममेदं कर्तव्यमिति प्रतिभासात् कार्यता- सिद्धिर्मनसैवेति चेन्नैवम् । कर्तव्यताप्रतिभासस्य चिकीर्षारूपत्वात् तदति- रिक्तस सद्भावे प्रमाणाभावात् । तस्मात् सङ्गतिग्रहासम्भवात् कर्मभागो- ऽपि न पराभिमतकार्यबोधकः । किन्तु इष्टसाधनताबोधकः । किं पुनर्बह्म- भागः सिद्धबोधक इति सिद्धं वेदान्ता जगत्कारणब्रह्मबोधका इति ॥

१२२ सर्वदर्शनकौमुद्यां ननु जगत्कारणं ब्रह्म कथम् । प्रधानपरमाण्वादीनामेवोपादानकार- णत्वात् । अदृष्टादीनां निमित्तकारणत्वात् । चेतनोपादानत्वे कार्यस्यापि चेत- नत्वप्रसङ्गात् । अचेतनं च दृश्यते भूतभौतिकादि । तस्मादचेतनोपादान- मिति चेन्मैवम् । ब्रह्मण एव श्रुत्या कारणद्वयत्वबोधनात् । 'अधीहि भगवो ब्रह्म'त्युपक्रम्य 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति सामान्यतो लक्षणमुक्तम् । तन्निर्णयाय ब्रूते श्रुतिः- 'आनन्दो ब्रह्मेति व्यजानात् 'आनन्दाख्येवेत्यादि । तत्र जननजीवनयो- लयस्य चोपभोगादन्यत्रासम्भवाद् ब्रह्मैवोपादानम् । कर्तृत्वेन निमित्तमपि ब्रह्मैव । अदृष्टस्य निमित्तत्वेऽप्य चेतनस्य चेतनाधिष्ठेयत्वनियमात् तत्प्रेरकं ब्र- खैव । अस्मदादेस्त्वदृष्टादिसाक्षात्कारासम्भवान्न प्रेरकत्वम् । नच चेतनोपादा- नत्वे कार्यस्य चेतनत्वापत्तिः। विवर्तवादाङ्गीकारात् । यथा रज्जुरज्ञानवशात् सर्पदण्डधारादिरूपेण विवर्तते, एवमविद्यावशादेव ब्रह्म जगदाकारण जीवे- श्वराकारेण च विवर्तते । विवों नामातात्त्विकोऽन्यथाभावः शुक्तिरजता- दिवत् । तात्त्विकोऽन्यथाभावः परिणामः क्षीरध्यादिवत्। स च परिणामो ब्रह्मणि न सम्भवति । सर्वथा परिणामे ब्रह्मस्वरूपस्याभावप्रसङ्गः । एक- देशपरिणामस्तु न सम्भवति । निरवयवत्वेन देशाभावात् । आविद्यकस्तु देशो विवर्त एव सम्मवति । तदुक्तम् - आच्छाद्य विक्षिपति विष्फुरदात्मरूपं जीवेश्वर(स्व)जगदाकृतिभिर्मषैव । अज्ञानमावरणविभ्रमशक्तियोगा- दात्मत्वमात्रविषयाश्रयताबलेन ॥ इति । प्रधानादिवादस्य शास्त्रे निरासात् । ब्रह्मवादस्य स्थापितत्वाद् ब्रह्मैव विविध कारणम् । एतत्सर्वमभिप्रेत्य 'निखिलजगदधीशमि'त्युक्तम् ॥ तथा भ्रान्त्यधिष्ठानभूतः परमात्मा । तथाहि शुक्त्यायवच्छिन्नं चैतन्यं भ्रमाधिष्ठानम् । चैतन्यस्थाविद्या रजताद्याकारेण परिणमते। तत्रेद- मिति धर्मिज्ञानमन्तःकरणपरिणामावच्छिन्नं चैतन्यम् । तचैतन्यगताविद्या- वृत्तिरारोपितरजतप्रतिभासः । नचैवं सति एवं सिद्धान्तः । इन्द्रियसन्नि- कर्षस्थले विषयस्य फलव्याप्यत्वं परोक्षे च वृत्तिव्याप्यत्वम् । शब्दादि- जानिता मनोवृत्तिरेव विषयाकारा भवति । वृत्तौ प्रतिबिम्बचैतन्यमात्मादि www । ।

वेदान्तदर्शनम् । १२३ प्रमाणम् । फलव्याप्यत्वस्थले घटादिविषयावच्छिन्नमात्मचैतन्यमेव विषयः । घटादिविषयान्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणम् । अहंवृत्त्यवच्छिन्नं चैतन्यं प्रमाता । तत्र प्रमाणेन प्रमेयावच्छिन्नचैतन्यगताविद्यायां व्यावति । तायां साक्षिचैतन्यप्रकाश एव प्रमाणफलम् । तत्राध्यस्तो घटादिः प्रका- शते तादात्म्यसम्बन्धादिति राद्धान्तः । तथा च सति भ्रान्तिस्थलेऽपि शुक्तीदमंशावच्छिन्नं साक्षिचैतन्यमधिष्ठानं प्रकाशः । तदेव स्वमायाविवर्त भूतं रजताद्यपि भासयति । ततश्च फलस्यैकत्वादेकमेव ज्ञानम् । मनोवृत्ति याङ्गीकारे हि ग्रहणस्मरणवद् ज्ञानद्वयप्रसङ्गः । तचास्माकं नास्तीति नाख्यातिप्रसङ्गः॥ ननु भ्रान्तिसिद्धौ तदधिष्ठानविचारः, सैवानास्तीति प्रामाकरः। तथा हि - विवादाध्यासिताः प्रत्यया यथार्थाः, प्रत्ययत्वात् , सम्मतवदिति सर्वप्रत्ययानां याथार्थ्यमिति चेन्मैवम् । विवादाध्यासितशब्देन विभ्रम- स्वीकारे तवापसिद्धान्तः । तदस्वीकारे आश्रयासिद्धिः । भ्रान्तिसद्भावे किं प्रमाणमिति चेदनुमानं प्रत्यक्षमपि । अनुमानं तावत्-विवादपदं शुक्तिका शकलं रजतज्ञानविषय, रजतोपायान्यत्वे सति रजतार्थिनां प्रवृत्तिविषयत्वात्, सम्यग्रजतवत् । हेतूच्छित्तिरेव विपक्षे बाधकस्तर्कः । प्रत्यक्षं च - एतावन्तं कालमिदं शुक्तिकाशकलं मिथ्यैव रजतमित्यभादिति प्रत्यभिज्ञानम् । तस्मा- दारोपः सिद्धः । आरोप्यमाणं तु विचारणीयम् । किमसत्, किं वा सत्, उत सदसत् , उतोभयविलक्षणमनिर्षाच्यमिति । न तावदाद्यः। असतोऽप- रोक्षतया प्रतिभासानुपपत्तेः । असति प्रवृत्त्यनुपपत्तेश्च । अन्यथा शशविषा णादावपि तदुभयप्रसङ्गात् । नापि सदारोप्यते । सतो नेदमिति बाधानुप- पत्तेः । इह बाध्यत्वादन्यत्रास्तीति गम्यत इति चेद् , बाधानुभवादेवान्यत्र विषयीक्रियते उतार्थापत्त्या कल्प्यते । नायः । नेदमिति बाधादनासत्त्व मात्रं प्रतीयते । नत्वन्यत्र सत्त्वमनुभूयते । नापि द्वितीयः । कल्पनार क्यात् । नान्यत्र सत्त्वमस्यात्र प्रतीतिमुपपादयेत् , प्रदेशभेदात् ' भूनलिनसत्त्वमात्रान्नभोनलिनं प्रतिभासेत । किञ्च इह निषिद्धम न नियमः । मषिष्ठानतादात्म्येन व्यभिचारात् । शुक्तिर निषिध्यते । तदन्यत्र कापि न दृश्यते । ननु नेदं रजतमि १२४ सर्वदर्शनकौमुद्यां म्यमेव निषिध्यते नतु रजतस्वरूपमिति रजतमन्यन्नास्तीति चेत् तर्हि शुक्ति रजतयोलमयोरपि विविक्तयोस्तत्र प्रतिभासापत्तेः । यथा वयोम ? वानस्प- त्योरात् तादाम्यभ्रमे निकटमुपसर्पतस्तादात्म्यनिषेधे विविक्तयोरुपलम्मः । अपि च नेदं रजतमिति सामानाधिकरण्येनैव यदि निवेधः स्यात् तदा तादा- म्यनिषेधोऽपि शक्येत । न चैवं नियमः । वैयधिकरण्येनापि निषेधदर्शनात् । मया न तत्र दृष्टं सलिलमस्ति मया न तत्रानुभूतं रजतमस्तीति। अन्यत्र रजत- मस्तीति त्वं भणसि, स किं बौद्धः । बुद्धौ स्थितं सत्यं रजतं बहिरारोप्यत इति ब्रूषे, तदा गुलापुादौ बुद्धिस्थवढ्यारोपे देहदाइप्रसङ्गः । अन्त- रपि तस्य वढेरतात्त्विकत्वान्न देहदाहप्रसङ्ग इति चेत् तायातमत्यन्तासद- निर्वचनीयं वेति । तर्हि वैशेषिकादिमतं भवत्वत्र बाधितं देशान्तरेऽ- स्तीति चेन्न । देशान्तरादौ स्थितस्येन्द्रियसन्निकर्षामावेन द्रष्टुमशक्यत्वात् । अन्यथा सर्व सर्वत्र दृश्यत इत्यतिप्रसङ्गः। दोषवशाद् दर्शने नातिप्रसङ्ग इलपि न । दोषोऽप्यसदनिर्वचनीयं प्रकाशयेत् तादात्म्यवत् । तादात्म्ये तु प्रका रान्तराभावादसदनिर्वचनीयमभ्युपगन्तव्यम् । तद्वदत्रापि भवतु । देशान्तर- स्थस्यात्र भाने मानाभावात् । तर्हि सदसद्रूपमारोपितमिति जैनमतं भव- विति चेन्न । विरोधात् । एकस्य वस्तुनो विरुद्धद्वैरुप्यासम्भवात् सम्भवे वा न कापि विरोधः स्यात् । सप्तभङ्गीनयस्य निराकृतत्वाच्च । ततः परि. शेषादारोपितमनिर्वचनीयमित्यभ्युपेयम् । अनिर्वचनीयत्वश्च सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वम् । तदपि न तात्त्विकं, येन विरोधः स्यात् । किन्तु अविद्याविलसितमेव ॥ नन्वविधा किनिष्ठा किंविषया । न तावद् ब्रह्मनिष्ठा । तस्य स्वप्रकाशत्वेनाविद्याश्रयत्वासम्भवात् । नापि जीवनिष्ठा । इतरेतराश्रय- लापत्तेः । अविद्यया जीवभावो जीवभावे तदाभयाविद्येति । विषयोऽपि न तावद् ब्रह्म । तस्य स्वप्रकाशस्वभावत्वेनाविद्याविषयत्वाभावात् । अन्यथा तेजसोऽपि तमोविषयत्वं स्यात् । नापि जीवो विषयः । तस्याविद्याकल्पि- ततया तद्विषयत्वायोगात् , कल्पितस्यासत्त्वात् । तस्मादविद्याया बाश्रय- विषययोरभावादसत्त्वमिति चेत् । सत्यम् । परमार्थतस्त्वेवमेव । तथाप्य- विद्यायामेव स्थित्वा सर्व सम्भवति । तत एव सुरेश्वराचार्य:- ।

वेदान्तदर्शनम् । "ब्रह्माविद्यावदिष्ट चेन्ननु दोषो महानयम् । निरविद्येच विमाया आनर्थक्यं प्रसज्यते ॥" इति शकित्वा- "नाविद्यास्येत्यविद्यायामवोसित्वा प्रकल्प्यते । ब्रह्मद्वारा त्वविद्येयं न कयञ्चन युज्यते ॥" इति सिद्धान्तितम् । तथा च ब्रह्मैवाविद्याया विषय आश्रयश्चेति केचि- दाचार्याः प्रतिपेदिरे । कल्पितस्याश्रयविषययोरयोगात् अहमज्ञ इत्यादि- स्वानुभवसिद्धत्वादविद्यायाः साक्षिवेद्यत्वम् । नच स्वप्रकाशे तदसम्भवः । तत्रैव कश्चित् सम्भवात् । जडे तु स्वकार्येऽविद्याया असम्भवात् । तीविद्या न निवतेतेति चेत् । साक्षिसिद्धायाः प्रमाणज्ञानेन निवर्त्यत्वात् । प्रमाणेन त्वविद्या कापि न सिध्यति । दीपेनान्धकारवत् । तमसस्तेजोविष- यत्वं मानाभावान्न सम्भवति । यद्वा जीवाश्रया ब्रह्मविषयाविद्या । नचेतरे- तराश्रयः, बीजाङ्कुरवदनादित्वात् । तस्मादविद्यायाः आश्रयविषययोः स- द्रावात् सदादिवलक्षण्यमप्यतात्विकमित्यनिर्वचनीयमारोपितमिति सिद्धम् । शक्तिरूप्यादिवत् प्रपश्चोऽपि वियदादिः सद्रूपे ब्रह्मण्यारोपितः । विवा- दाध्यासिताः प्रपञ्चभेदाः सद्रूपे परिकल्पिताः, प्रत्येकं तदनुविद्धत्वात् । ये येन प्रत्येकमनुविद्धाः ते तत्र परिकल्पिताः । यथा प्रत्येकं चन्द्ररूपानुवि. द्धास्तत्र परिकल्पिता जलतरणचन्द्रमसः तथा चामी प्रपश्चमेदाः प्रत्येकं घटः सन् पटः सन्नित्यादिरूपेण सदनुविद्धाः । तस्मात् तत्र परिकल्पिता इति । तदनुविद्धत्वं तदाकारेण प्रतीयमानत्वम् । दूरात् तरवो निरन्तरा वनाकारा दृश्यन्ते । तत्र वनानुविद्धत्वेऽपि तत्र परिकल्पितत्वं नास्तीति प्रत्येकमित्यु- दितम् । तरवस्तु न प्रत्येकं वनानुविद्धाः किन्तु समुदिताः । समुदितेष्वेव वनाकारानुभवात् । विपर्यये तु निरधिष्ठानो विभ्रमो निरवधिकश्च बाध- प्रसको बाधकः । नच शून्यमेवाधिष्ठानमवधिध स्यात् । तदनुविद्धमारो पितत्वं मासते । तदधिष्ठानमवधिम्ब निषेधस्य यथा शुक्तीदमंशौ रूप्यस्य । न च कदाचन शून्यानुविद्धं भासते रजतादि , किन्तु इदमवच्छिन्नम् । नहीदमिति शून्यम् अपि तु शुक्तिकादि । अन्यथा भ्रान्तस्य तदुपादानानु- पपत्तेः । तस्माद् भ्रान्त्यधिष्ठानभूतं परमात्मा । एतत्सर्वमभिप्रेत्य भ्रान्त्यधि- छानभूतमित्युदितम् ॥

१२६ सर्वदर्शनकौमुधां तथा परमसुखनिदानं परमानन्दरूपम् । 'आनन्दो ब्रह्मेति व्यजा- नात्', 'आनन्दं ब्रह्मणो रूपम् , 'एषोऽस्य परमानन्दः' इत्यादिश्रुतेः षष्ठ्यत्र पुरुषस्य चैतन्यमितिवदभेदेऽपि द्रष्टव्या । सामानाधिकरण्यश्रुति- बलात् । ननु सुखस्य दुःखाभावरूपत्वात् कथं ब्रह्मणा सामानाधिकरण्य- मिति चेत्, सुखाभावो दुःखमिति विपर्ययेऽस्यापि सुखत्वात् । विधिमुख- प्रत्ययवेद्यत्वं तूभयत्र तुल्यम् । प्रतियोग्यनिरूप्यत्वं बोभयत्र समानम् । तथाप्यनित्येन सुखेन कथं ब्रह्मणस्तादात्म्यमिति चेन्मैवम् । सुखस्य स्वरूप खेन नित्यत्वात् । तथाहि 'विज्ञानमानन्दं ब्रह्म' इति श्रुत्या ब्रह्मसुखयो. रेकत्वबोधनात् । वेदे आनन्दशब्दस्य सुखार्थस्वं त्याज्यं बाधकबला- दिति चेत् , तस्यानिरूपणात् । ब्रह्मात्मस्वरूपो मोक्ष इति तव मतम् । तथा च ब्रह्मानन्दरागान्मोक्षे प्रवर्तमानस्य संसारप्रसङ्गो पाथः । आनन्द- पदस्य सुखार्थत्व इति चेत्, (कृ? कु)त एतद्रागनिबन्धना प्रवृत्तिः । संसारबी- जमिति शास्त्रस्थितिरिति चेन्मेवम्। संसारशब्देनानर्थ उच्यते । ततश्च राग- निबन्धना प्रवृत्तिरनर्थहेतुरित्यर्थः स्यात् । नचैवं, निषिद्धगोचरत्वस्य तत्रोपा. धित्वात् । किन्तु यद्रागनिवन्धना या पुष्कलप्रवृत्तिः सा तत्प्राप्तये हेतु भवति । तथा च ब्रह्मानन्दरागात् प्रवृत्तिरपि तत्प्राप्तये हेतुर्भवति न संसा- राय । प्रत्युत संसारविरोधित्वमेव । मुमुक्षुरागत्य परमानन्दगोचरत्वात् । परमो हि ब्रह्मानन्दः, 'एषोऽस्य परमानन्दः' 'एतस्यैवान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेः । तथा च तद्रोचरो रागः कथमल्पीयस्यनेकदुःख- संयुक्ते सांसारिके सुखे प्रवर्तयेत् । तस्माद् बाधकामावाल्लोकसिद्ध एव वेदे- ऽप्यानन्दपदार्थ इति सिद्धम् । तथा च दुःखाभावपरतया ब्रह्मण्यानन्दशब्दो न योजनीयः। सुखस्यानित्यत्वे प्रमाणमपि नास्तिकात्मत्वमेव (मानम् ?) इति चेत् , तदेव तु तद्विभुविशेषगुणत्वादिति चेन्न । हेतोरसिद्धत्वात् । सुखं मे जातमित्यनुभवः कथमिति चेत् मनोवृत्तिप्रतिविम्बितस्वरूपसुखादिव्यक्तरेवं- रूपत्वात् । पटाकाशो जात इतिवत् सन्तोष्टव्यम् । तत्र घटे जाते तदव. च्छिन्न आकाशो जात इत्युपचारः । अत्र तु वृत्तेर्जनने तत्प्रतिबिम्बस्यापि जातत्वोपचारः । किञ्च परमात्मैव तत्र तत्र ब्रह्मशब्देनोच्यते । ततश्च पर- मात्मा मानन्दस्वभावः आत्मत्वाज्जीवात्मवत् । तत्त्वमस्याद्यसकृदैकात्म्य- श्रुतेः परमात्मत्वम् । तथा च तदभिन्नः परमात्मा तद्विपरीतो मवित । । वेदान्तदर्शनम् । १२७ नोत्सहते । नच साध्यविकलो दृष्टान्तः । परमात्मा परमानन्दस्वभावः पर. प्रेमास्पदत्याद व्यतिरेके बटादिवत् । नचायमसिद्धो हेतुः । परो हि नि- रतिशय आत्मनि प्रेमा सर्वस्य दृश्यते । कथमन्यथापरः सर्वोऽपि तादर्थेन प्रियः स्यात् । लौकिकमपि सुखं स्वार्थतया रोचयन्ते जनाः, नतु स्वरू- पतः । स्वपरानन्दयोरविशेषप्रसङ्गात् । यदा सुखस्यात्मार्थत्वं, तदा किमु व. क्तव्यमन्यत्र । तथा श्रुतिः --- 'आत्मनस्तु कामाय सर्व प्रियं भवतीति । तथा च प्रेमास्पदत्वं भवेत् । परप्रेमास्पदत्वं तु कुत इति चेदेवम् । यच्च यदर्थ प्रियं तत् ततोऽप्यतिशयेन प्रियमिति लोके दृष्टम् । या पुत्रार्थतया प्रियात् तन्मित्रादेः पुत्र इति । हेतुरस्तु साध्यं मा भूदिति चेन्नते. रेव बाधकत्वात् । नहि परप्रेमास्पदत्वं दुःखतत्साधनरूपस्य द्वेष्यस्य बरते। उपक्षणीयस्यापि न घटते । तर्हि दुःखाभावरूपस्य प्रेमास्पदत्वं भविष्य- तीति चेत् । सत्यम् । तथाप्यात्मनो दुःखाभावरूपत्वासम्भवात् , तस्य भाव- त्वात् । तर्हि सुखसाधनमात्मा भवतु तत्र प्रेमास्पदत्वञ्च भविष्यतीति चेन्न । तस्य सातिशयत्वात् । आत्मनि तु निरतिशय प्रेम दृश्यते । तथा सुखसा- धने सुखान्यूनः प्रेमा दृश्यते । आत्मनि तु सुखादप्यधिकः समीक्ष्यते । तथा च यत्र यत्र प्रेगातिशयस्तत्र तत्र सुखातिशयोऽपि दृश्यते लोके । श्रूयते च 'युगा स्यात् साधु युवाध्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् , स एको मानुष मानन्दः, ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामित्यारभ्य देवगन्धर्वदेवकर्मदेवपित्रि- न्द्रबृहस्पतिप्रजापतिषु शतगुणोत्तरमुक्त्वा स एको ब्रह्मण आनन्द' इति निरतिशयमानन्दं दर्शयति श्रुतिः । ततश्व सकलसुखातिशायी निरतिशयः प्रेमात्मनि दृश्यते । तस्मानिरतिशयानन्द एवात्मेत्युपेयम् । तदेव परात्मन आनन्दरूपत्वात् तदमिन्नः परमात्मापि ताश इति परमसुखनिधानं परात्मा । तथा सत्यः परमात्मा अबाध्यः 'नेह नानास्ति किञ्चन'त्यत्रारोपित- बाधावधित्वेन परिशेषात् । 'सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । सत्यम- बाध्यं, बाध्यं मिथ्या । अनन्तमित्यनेन कालतो देशतो वस्तुतश्च परिच्छेद- निषेधादप्यबाध्यत्वम् । कालतः परिच्छेदे यस्मिन् काले इदं नास्तीति बाधो भवति । देशपरिच्छेदेऽग्मिन् देशे इदं नेति बाधः । वस्तुपरिच्छेदे इदमिदं न भवतीति बाधो भवेत् । त्रिधा परिच्छेदनिषेधे अबाध्यत्वमेव ।

१२८ सर्वदर्शनकौमुखा अद्वैतभावश्च द्वैतनिषेधादेव सिद्धः । 'एकमेवाद्वितीयं ब्रह्मेति श्रुतेः। द्विती- यादै भयं भवतीति च । नन्वद्वैतबोधिका श्रुतिः सत्या वा मिथ्या वा । आये ब्रह्मणः सद्वितीयतापत्तिः । द्वितीये तु मिथ्याभूतशन्दप्रमाणेन जाय- मानमद्वैतज्ञानं कथं सत्यं भवेत् । अपरथा दुष्टेन्द्रियेण जायमानमपि रज्जु. सर्पादिज्ञानं सत्यं स्यादिति चेन्मैवम् । स्वयमसत्यस्यापि प्रतिबिम्बस्य सत्यबिम्बबोधकत्वेन प्रामाण्यदर्शनात् । यत्र बिम्बमदृष्ट्वा प्रतिविम्बमेव पश्यति तत्रानुमानं --- विमतं बिम्बपूर्वकं प्रतिबिम्बत्वात् सम्मतवदिति । तथा स्वप्नकामिन्यादरसत्यस्यापि सत्यशुभसूचकत्वदर्शनाच्च । यथाहुः खनाध्यायविदः "यथा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥" इति । तथाच बादरायणसूत्रं -- 'सूचकच श्रुतेराचक्षते हि तद्विदः' इति । ननु तत्र न प्रतिबिम्बस्य प्रमाणत्वं, किन्तु तज्ज्ञानस्य सत्यस्यैव प्रमाणत्वमिति चेन्मेवम् । अनवच्छिन्नस्य ज्ञानस्य न बिम्बानुमापकत्वम् । यस्य कस्यापि ज्ञानस्य तथात्वप्रसङ्गात् । प्रतिबिम्बावच्छिन्नस्य प्रमाणत्वे तस्यापि प्रामाण्यस्यावर्जनीयत्वात् । एतेनेदमपास्तं यद् यदा द्वैते प्रमाण- मस्ति तदा सद्वितीयता, नास्ति चेत् नाद्वैतसिद्धिः । यदाहुः- एवंवि- धस्य परमात्मनो नमनमुपासनं भजनं वेदान्तविचारस्तस्कुरुतेति मुमुक्षून् प्रत्युपदेशः । तदुक्तमाचायः-- "अहं ब्रह्मेति वाक्यार्थबोधो यावद् दृढीभवेत् । शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् ।। श्रुत्वाचार्यप्रसादेन यदा बोधो दृढीभवेत् । निरस्ताशेषसंसारनिदानपुरुषो भवेत् ॥" इति । तस्मादात्मतत्त्वज्ञानान्मोक्ष इति सिद्धम् ।। नन्वात्मतत्त्वज्ञानं परोक्षमपरोक्षं वा । नाद्यः । परोक्षज्ञानेनाविद्यानि वृत्तेरदर्शनात् । अनेकधा सूर्योदयेन प्राचीमनुमायापीयं दक्षिणेति मुह्यन्तो दृश्यन्ते । तत् कस्य हेतोः । अपरोक्षभ्रमस्यापरोक्षतत्त्वज्ञाननिवर्त्यत्वात् । नापि द्वितीयः । अपरोक्षज्ञानकरणाभावात् । न तावदिन्द्रियं करणं, तस्य ब्रह्मगो. ।

वेदान्तदर्शनम् । १२९ चरत्वासम्भवात् । नापि शब्दः । तस्य परोक्षज्ञानजनकतास्वभावात् । अपरोक्ष ब्रह्मणि परोक्षज्ञानजनने भ्रमः स्यादिति चेत् । अयं घट इ- लादिशब्दादपि घटप्रत्यक्षत्वापत्तेः । परोक्षमपि ज्ञानं करणस्वाभाव्यान्न भ्रमः । तस्मात् पक्षद्वयेऽपि दोष इति प्राप्तम् । एवं प्राप्त उच्यते- 'दश- मस्त्वमसी'त्यादिवाक्ये प्रत्यक्षतामतिर्यथा तथा 'तत्त्वमस्या दिवाक्याद् ब्रह्मा- परोक्षधीः । यथा 'दशमस्त्वमसी' त्यादिवाक्यात् पूर्व बहुशः प्रवृत्तमपीन्द्रियं दशमत्वज्ञानं न जनयति, वाक्यादेव दशमोऽस्मीति बुध्यते, तथा 'तत्त्व- मसी' त्यादिवाक्यमपि ब्रह्मापरोक्षज्ञानं जनयति । ननु तत्र केवलं वाक्य- मेव न भवति । किन्तु शरीरगोचरमिन्द्रियाद्यपि सहकार्यस्तीति चेदत्रापि मनः सहकार्यन्तीति तुल्यम् । शब्दस्यापरोक्षज्ञानजनकत्वे प्रत्यक्षान्तर्भावः स्यादिति चेन्न । चक्षुराद्यन्यतमत्वस्यैव प्रत्यक्षताप्रयोजकत्वात् । अन्यथा त्वयापि योगिमनसोर्बाह्यविषयापरोक्षप्रमितिकरताभ्युपगम्यते । तथापि न बाघप्रत्यक्षान्तर्भावस्तयोरभ्युपेयते ! एवं शब्दस्यापरोक्षप्रमितिजनकत्वेऽपि प्रत्यक्षकरणता मा भूत् । धर्माधर्मवोधके वाक्ये कर्मकाण्डेऽपरोक्षज्ञानजन- कत्वं न दृष्टमिति चेत् । 'दशमस्त्वमसी'त्यादौ दर्शितत्वात् । धर्मादेः परोक्ष- रूपत्वात् कर्मकाण्डस्य नापरोक्षताजननम् । इह तु ब्रह्मणः स्वतोऽपरोक्ष- त्वादपरोक्षज्ञानजननं युक्तम् । अत एवेन्द्रियसहितशब्दजन्यं ज्ञानं चैको ब्राह्मण इत्यादि सविकल्पमङ्गीकृतम् । ननु 'दशमोऽस्मी'त्यपरोक्षज्ञान इन्द्रियमेव करणम् । शब्दस्तु सहकारिमात्रमिति चेन्न । शब्द एव कर- णमिन्द्रियं सहकारिमात्रमिति वैपरीत्यस्यापि सुवचत्वात् । अन्वयव्यतिरेक- योरुभयत्र तुल्यत्वात् । विनिगमनाहेतुस्तु क्वचिद् बहलतमे तमसि कचिच लोचनविरहिणोऽपि वाक्याद् दशमोऽस्मीति प्रत्यक्षप्रमितिदर्शनमेव ।। ननु 'मनसैवेदमाप्तव्यमिति श्रुतेर्मन एव करणं ब्रह्मापरोक्षज्ञाने । शब्दस्तु मनोवृत्तिजनकः । 'यन्मनसा न मनुते' 'अप्राप्य मनसा सहे'- त्यादिप्रतिपक्षश्रुतेरपि सत्त्वात् कथमितिचेत् । तस्यानधिकृतमनोविषय- त्वात् । अन्यथा – 'यद्वाचानभ्युदितं' 'यतो वाचो निवर्तन्ते' इत्यादि- प्रतिपक्षश्रुतेः सद्भावाद्वाक्यस्यापि करणता कथं स्यात् । अनधिकृतपुरुष- विषयत्वं तु समानमन्यत्रानभिनिवेशात् । तस्मान्मन एव करणमिति चेद् मैवम् । मनसः साक्षात्करणतासम्प्रतिपत्तेः । सुखादीनां साक्षिवेद्यत्वात् । ।

१३० सर्वदर्शनकौमुद्यां आत्मनश्च स्वयंप्रकाशत्वात् नित्यशुद्धबुद्धमुक्तब्रह्मात्मैक्यसाक्षात्कारहेतु- ताया अत्यन्तासम्भवाद् । भावनासहितस्य मनसो गरुडादिसाक्षात्कारत्व- दर्शनादन्यत्रापि तथेति चेन्न । तस्य विधुरपरिभावितकामिनीसाक्षात्कारव- द्विभुत्वान्मनसः प्रमाणत्वासम्भवात् केवलप्रमाणसहकारित्वमात्रं मनसः । तईि 'मनसैवेदमाप्तव्यमिति श्रुतिः कथमिति चेत् , तत्र चित्तैकाग्र्यान्तरङ्गत्व- प्रतिपादनादिति वदामः । करणत्वस्यासम्भवात् 'तद्धास्य विजज्ञे तमसः पारं दर्शयती'त्यादिनोपदेशानन्तरमेव तस्मादेवापरोक्षप्रमित्युत्पत्तिप्रतिपादनात् । नन्वेतानि वाक्यान्यागमाचार्योपदेशयोः साक्षात्कारहेतुत्वं न प्रतिपाद- यन्ति । किन्तु साक्षात्कारहेतोमनसः सहायताप्रतिपादनपरत्वेनाप्युपपत्तेः । अन्यथा श्रवणादेव साक्षात्कारे जाते मननादिविधानानर्थक्य प्रसङ्गात् । श्रुतवेदान्तानामपि पूर्ववत् संसारानुवृत्तिदर्शनाच न श्रवणमात्रात् साक्षात्कार इति चेत् । सत्यम् । आपादतस्तथा मनननिदिध्यासनाभ्यां क्रमेणासम्भा- वनाविपरीतभावनयोर्निरासेन तत्सहकृतश्रवणस्य विधानाच्छन्दादेव साक्षा- त्कारत्वोपपत्तेर्मनसस्तत्सहकारितैव युक्ता । पूर्ववत् संसारोपलब्धिः स्वप्रति- बद्धविज्ञानपुरुषविषया न सर्वश्रुतवेदान्तविषया ॥ "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥" 'भूयश्चान्ते विश्वमायानिवृत्तिः।' 'तरति शोकमात्मवित् योऽस्माकमविद्यायाः परं पारं तारयसि । "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।" "तरत्यविद्यां विततां मयि तस्मिन् हृदि स्थिते ॥" इति श्रुतिस्मृतिषु ब्रह्मविद्याया एवाविद्यानिवर्तकत्वश्रवणात् ब्रह्मविद्याया वेदान्तवाक्यमेव करणं परिशेषात् । तथा वाक्यस्य करणत्वमपरोक्ष- जनकत्वञ्च श्रूयते । 'नावेदविन्मनुते तं बृहन्तं', 'तं त्वौपनिषदं पुरुष पृच्छामि' । "वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद् यतयः शुद्धसत्त्वाः ।" अत्र हि विज्ञानमिति विशेषणेन विशेषविषयत्वप्रतिपादनान्निश्चय- हेतुत्वे सिद्धे सुशब्दविशेषणेनापरोक्षहेतुत्वप्रतिपादनाचायमों निश्चीयते ।

वेदान्तदर्शनम् । यत् पुनरुक्तं- शब्दस्वाभाव्यात् परोक्षज्ञानजनकत्वमिति तद् दर्शितागम- विरुद्धकालात्ययापदिष्टं दशमादिष्वनेकान्तञ्च । किञ्च नित्यशुद्ध आत्म- न्यह कर्ता भोक्तेल्यादिविभ्रमस्यापरोक्षत्वात् परोक्षज्ञानेन तस्याविलयात् प्रमाणान्तरेण ब्रह्मात्मैक्यापरोक्षतानुपपत्तेः शब्दस्यापरोक्षज्ञानाकरणत्वेऽवि- याया अनिवृत्तेरनिर्मोक्षतैव स्यादिति । तस्मादपरोक्षज्ञानादेव मोक्षः ॥ नन्वात्मज्ञानं न मोक्षफलकम् । अग्निहोत्रादिविधिशेषत्वात् । देह- व्यतिरिक्तात्मतत्त्वज्ञानं विना विहितेषु निष्कम्पप्रवृत्त्यनुपपत्तेः, देहान्तरभो- ग्यत्वात् फलस्य । तथा च भोक्तारमधिगम्य कर्मसु प्रवृत्तिः । स च व्यति- रिक्तो देहादिभ्य इति वेदान्तैः 'अजरोऽमर' इत्यादिभिर्बोध्यते । आत्मज्ञाने फलश्रवणात् कथमन्यशेषत्वमिति चेत् । न । तस्यार्थवादत्वात् । यथा 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीति । अङ्गे फलश्रुतिरर्थवाद इति न्यायात् । तथाचोक्तम् - "आत्मा ज्ञातव्य इत्येतन्मोक्षार्थ न च चोदितम् । कर्मप्रवृत्तिहेतुत्वं चात्मज्ञानस्य लक्ष्यते ॥ विज्ञाते चास्य पारायें यापि नाम फलश्रुतिः । सार्थवादी भवेदेव न स्वर्गादिफलान्तरम् ॥" इति । तथात्मज्ञानिनामपि जनकादीनां कर्मणि प्रवृत्तिदर्शनाच ज्ञानं विधि- शेषः इति । अत्रोच्यते--- 'ऐन्या गार्हपत्यमुपतिष्ठते' इत्यादिवदात्मज्ञानस्य शेषत्वं नास्ति । बोधकश्रुत्याधभावात् । 'यदेव विद्यया करोति श्रद्धयोप- निषदा तदेव वीर्यवत्तरं भवतीति विद्ययेति श्रुतिरत्राप्यस्तीति चेन्न । तस्याः प्रकृतोद्रीयविद्याविषयत्वात् । यथा श्राद्धादीनां कमशेषत्वं तथा विद्याया अपि किं न स्यादिति चेत् । सत्यम् । तथाप्युपासनाज्ञानस्यैव तदङ्गतास्तु, उपासनाप्रकरणे पाठात् । नच जनकादीनां प्रवृत्तिसामर्थ्य लिङ्गम् । 'किं प्रजया करिष्यामो येषां नोऽयमात्मा, किमर्था वयमध्येष्याम' इति वैपरीत्य- स्यापि दर्शनात् । अशनायावतीतात्मविज्ञानस्य सकलक्रियाकारकशून्याद्वैत विषयत्वेन कर्मप्रवृत्तिविरोधकत्वात् । यमनियमादिप्रवृत्तिवत् कर्मणि प्रवृत्ति रपि ज्ञानिनः किं न स्यादिति चेत् । न । अपरोक्षज्ञानिनस्तत्रापि प्रवृत्त्य- भावात् । 'न तस्य कार्य करणञ्च विद्यते', ।

सर्वदर्शनकौमुद्या "ज्ञा(ना)मृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्य किञ्चित् कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥" इति स्मरणात् । तर्हि भिक्षादनादौ कथं प्रवर्तत इति चेत् तत्रापि यदृच्छयैव प्रवृत्तिः, न विधितः । तस्मादात्मज्ञानं न विधिशेषः । किन्तु 'एतावदरे खल्वमृतत्वमिति स्वप्रकरणपठितमोक्षफलमेव ।। ननु कमैंव मोक्षसाधनं, 'कर्मणैव हि संसिद्धिमास्थिता जनका- दय' इति स्मृतेः । 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा', 'यावज्जीव- मग्निहोत्रं जुहुयादि'त्यादिना कर्मण एव करणीयत्वबोधनात् । 'वीरहा वा एष देवानां योऽग्निमुद्वासयते' इत्यादिदोषश्रवणाच काम्यनिषिद्धत्यागेन नित्यनैमित्तिककर्मणां करणेनैव मोक्ष एष्टव्य इति चेन्मैवम् । कर्मणां साक्षान्मोक्षसाधनत्वमभिधीयते, परम्परया वा । नाद्यः । मोक्षस्य चतुर्विध- कर्मफलान्तर्भावासम्भवात् । मोक्षस्य नित्यत्वेन संयमनपिण्डवदुत्पाद्यत्वा. भावात् । स्वत एवाप्तत्वेनाप्यत्वासम्भवात् । 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुतेः । नापि विकार्यत्वमवहननवत् । ब्रह्मरूपस्य मोक्षत्वात् तस्य विकार्यत्वा- सम्भवात् । नापि संस्कारकर्मफलत्वम् । निर्गुणे मोक्षे गुणाधानस्यासम्भ- वात् । प्रोक्षणादिवद् दोषापाकरणस्याविद्यानिवृत्तिरूपत्वात् । तस्याश्च ज्ञाना- दन्येन कर्मसहस्रेणाप्यसम्भवात् । नहि रज्जौ सर्पत्वभ्रमः स्नानशौचादिक- मणा निवर्तते, किन्तु रज्जुत्वज्ञानादेव नश्यति । तथात्मन्यपि तत्त्वज्ञाना- देवाविद्यानिवृत्तिः, नतु कर्मणेति युक्तं , 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।' 'नास्त्यकृतः कृतेन ॥ "कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥" इत्यादिना साधनत्वनिषेधात् । द्वितीयस्त्वम्युपेयते । कर्मणा सत्त्व- शुद्धिः ततो ज्ञानं ज्ञानान्मोक्ष इति परम्परया । कर्मणैव हि संसिद्धिमि त्येतदप्यत्रैव घटते । संसिद्धिर्ज्ञानं तत्र कर्मणां साधनत्वमिति । 'कुर्वन्नेवे' त्या- दित्वविरक्तविषयः । विरक्तस्य तु प्रवजनं श्रूयते 'यदहरेवे' त्यादि । ननु केवलकर्मणामेतानि निषेधवचनानि निषेधकानि भवन्तु, वि. द्याकर्मसमुच्चयस्तु मोक्षसाधनं भविष्यति । तथाचैकैकनिन्दया समुच्चयसाध- नत्वं श्रूयते- my BARSHAN वेदान्तदर्शनम् । १३३ "अन्धं तमः प्रविशन्ति ये अविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः॥" "विद्याञ्चाविद्याञ्च यस्तद्वदोभयं सह । अविद्यया मृत्यु ती विद्ययामृतमश्नुते ॥" इति । अविद्यामूलत्वात् कर्मणोऽप्यविद्यात्वम् । तथाच कर्मणा मृत्युपदवेद- नीयं संसारं तीवा क्षयं कृत्वा विद्यया ब्रह्मज्ञानेन अमृतमश्नुते मोक्षं प्राप्नोति । यद्यपि मोक्ष आत्मरूपतया नित्यप्राप्तः, तथाप्यविद्यामात्रतिरोहितः कण्ठगतचामीकरवत् । तत्राविद्यानिवृत्तेरधिकं कार्यमस्तीत्यविद्यानिवृत्तौ विद्याया एवोपयोगः इत्युभयोरप्युपयोगः श्रूयते । स्मृतिश्च "तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा कल्मषं हन्ति विद्ययामृतमश्नुते ॥ तत्प्राप्तिहेतु नश्च कर्म चोक्तं महामुने ! । यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् ।। एवं तपश्च विद्या च संयुक्तं भेषजं महत् ।” इत्यादिका । तस्माद् विद्याकर्मणी सह मोक्षं साधयत इति चेदत्रोच्यते समुच्चयबोधकश्रुतिस्मृतिवाक्यानां क्रमसमुच्चयपरत्वोपपत्तेः । नित्यनैमित्तिक- कभिर्दुरितक्षय एव क्रियते । अत एव 'अविद्यया मृत्युं तीर्वे'त्युदितम् । केवलविद्यानिन्दा तर्हि कथमितिचेत् , निन्दाया अपरिपक्वज्ञान- विषयत्वेन वा देवताज्ञानविषयत्वेन वोपपत्तेः । एवमितरश्रुतीनामपि क्रमेण समुच्चयो द्रष्टव्यः । अपिच 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनेति श्रूयते । तत्र यज्ञेनेति करणे तृतीया । करणस्य साध्यं विविदिषन्तीति वेदनं धात्वर्थरूपम् । सन्वाच्येच्छायास्तु न यज्ञादि- साध्यत्वम् । विषयसौन्दर्यलभ्यत्वादिच्छायाः इष्टसाधनताज्ञानसाध्यत्वाच । अश्वेन जिगमिषतीत्यादावश्वस्य धात्वर्थ प्रत्येव साधनत्वं नेच्छां प्रति । अतो- ऽश्वगमनं यथा (तथा) यज्ञादिनापि वेदनं धात्वर्थ एव साध्यः । वेदनं मोक्ष- भावनायां करणम् । 'ब्रह्म वेद ब्रह्मैव भवति' इति ब्रह्मभवनरूपमोक्षस्य फलत्वश्रवणात् । वर्तमानापदेशेऽपि रात्रिसत्रन्यायेन विधिसम्भवाद् ब्रह्म- वेदनेन मोक्षं भावयेत् , यज्ञादिना च वेदनं भावयेदित्यन्वयः स्यात् । ततश्च यज्ञशब्दवाच्यानां कर्मणां ज्ञानं प्रत्येव साधनत्वं, नतु मोक्षं प्रति । मोक्षं firman सर्वदर्शनकौमुद्या प्रति ज्ञानमेव करणम् । 'तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते- ऽयनाये'ति श्रुतेः । 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यत' इति च । 'विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण' इति च । ननु यज्ञेनेति सहार्थे तृतीयास्तु । अदृष्टद्वारा वेदनस्य मोक्षं प्रति सहायः । यथा दर्शपूर्णमासयोः प्रयाजादिः स्वर्ग साहाय्यं करोत्सदृष्टद्वारा तद्वदिति चेन्न । वेदनस्य शमादिभिरवेतिकर्तव्यतापूरणादितिकर्तव्यान्त- रानपेक्षणात् । ततश्च यज्ञादीनां ब्रीहिपुरोडाशादिवत् स्वरूपोपकारित्व- मेव न फलोपकार्यङ्गत्वमिति वेदनस्वरूपनिर्वर्तकत्वं कर्मणाम् । ननु श्रव- णादय एव साक्षात् ज्ञानोत्पादकाः, नतु यज्ञादयः । ततस्तेषां कथं तत्र करणत्वमिति चेत् । सत्यम् । परम्परासाधनेष्वपि लोके वेदे च करणत्वा- भ्युपगमात् । लोके तावज्ज्वालाव्यवधानेऽपि पाके काष्ठानां करणत्वम् । वेदे चापूर्वव्यवधानेनैव कर्मणां (करणत्व...स्य ?) करणत्वम् । तथात्रापि प्रतिबन्धकदुरितक्षयद्वारापि यागस्य करणत्वम् । व्यवधानेनैव कर्मणां कर- णत्वं न विहन्यते ज्ञाने। 'अविद्यया मृत्यु तीा विद्ययामृतमश्नुते' इति पौर्वा- पर्याभिधानात् । 'यः सह वेदेति च वेदन एव सहभावश्रवणाच्च । अत्र श्रुता वेदाक्षरयोजना- विद्यां परिपक्वात्मज्ञानलक्षणाम् अविद्याञ्च कर्मलक्षणां यः सह वेद उपायोपेयभावेन वेद सोऽधिकृतः पुरुषः अविद्यया कर्मणा विद्योत्पत्तिप्रतिबन्धकं मृत्युपदवेदनीयं पापं ती| विद्यया परिपक्वब्रह्मसाक्षा- स्कारलक्षणया अमृतं मोक्षमश्नुत इति । अयं भावः --अविद्यापरिपाकाद् यथास्वं विहितं कर्मानुष्ठेयम् । विद्या तु परिपक्का कर्मनिरपेक्षेव मोक्षं साथ- यिष्यतीति । समुच्चयवादिनोऽपि किं काम्यकर्मणा समुच्चयः निषिद्धेन वा नित्यनैमित्तिकाभ्यां वा । नायौ तयोस्त्यागान्मुमुक्षुणा । नच तृतीयः । नित्यनैमित्तिकयोः सातिशयत्वेन मोक्षस्यापि सातिशयत्वप्रसङ्गात् । तस्माद् ज्ञानादेव मोक्ष इति सिद्धम् ॥ अथ कोऽयं मोक्षो नाम । न तावद् विषयोपप्लुतचित्तसन्तानोपरम इति बौद्धमतं घटते । चित्तसन्तानस्यात्मरूपतया तन्नाशस्यापुरुषार्थत्वात् । आत्मनाशार्थ कश्चिद्यतमानो न दृश्यते । नापि निरुपप्लवचित्तसन्तानोत्पादो मोक्षः । बन्धमोक्षयोर्वैयधिकरण्यापत्तेः । यो बद्धस्तस्यैव मुक्तिरपेक्ष्यते ।

वेदान्तदर्शनम् । इह तु सोपप्लुतचित्तसन्तानस्य बन्धो निरुपप्लवचित्तसन्तानस्य मोक्ष इति व्यधिकरणता । नहि विषयोपप्लुतस्य नाशमन्तरेण निरुपप्लवसन्तानस्यो- स्पत्तिः सम्भवति । आत्मनाशस्यापुरुषार्थत्वादेव चार्वाकोऽपि निरस्तः ॥ सततोर्ध्वगमनमलौकिकाकाशे स्थितिर्वा मुक्तिरिति जैनाः । तेषां मते मुक्तेरनित्यत्वप्रसङ्गः । सावयवस्यात्मनो नाशापत्तेः । आकाशस्यैक- त्वात् तद् द्वैविध्यमपि न सम्भवति। ततो न किञ्चिदेतत् । एकविंशतिप्रभेद- भिन्नदुःखस्यात्यन्तिकी निवृत्तिर्मोक्ष इति वैशेषिकनैयायिकयोर्मतम् । तदपि न शोभनम् । तत्रातीतदुःखस्य स्वत एव निवृत्तत्वेनासाध्यत्वात् । वर्तमानस्यापि विरोधिगुणनिवर्यत्वेन मुमुक्षुयत्नान्तरानपेक्षणात्। नाप्यनागतस्य तस्य नि. वर्तयितुमशक्यत्वात् । तद्धेतुनाशात् तज्जातीयस्यानुत्पादो मोक्ष इति चेन्न। अनुत्पादस्य प्रागभावत्वेनासाध्यत्वात् । नाप्यत्यन्ताभावः । तस्यापि नित्य- तयासाध्यत्वात् । तस्यात्मना सम्बन्धः साध्य इति चेन्न । तस्यानिरूपणात् । अत्यन्ताभावस्य प्रतियोग्यनिरूपणाच । अतीतदुःखस्य ध्वंसप्रतियोगित्लाद्वर्त- मानस्यापि तथा । आगामिना गतस्य प्रागभावप्रतियोगित्वात् भवतु वा यः कश्चनाभावः, तस्यानुभवासम्भवात् । तस्यापि दुःखकोटिनिक्षिप्तत्वेन नष्ट- त्वात् । 'दुःखामावोऽपि नावेधः पुरुषार्थतयेष्यत' इति न्यायात् । जीवन्मुक्ति- दशायां तदनुभवोऽस्तीति चेत् परममुक्तौ तदभावेन दुःखामावस्यापुरुषार्थ- त्वापातात् । जीवन्मुक्तिपुरस्सरमेव परममुक्तिरित्यनियमात् । तत्त्वज्ञानप्रति- बन्धे सति जीवन्मुक्तिः, अप्रतिबन्धे तु ज्ञाने तस्मिन्नेव जन्मनि मुक्तिः। भरता- दीनां प्रतिबन्धाज्जन्मत्रयेम मुक्तिः । शुकवामदेवादीनां सद्योमुक्तिश्रवणात् । एकस्मिन्नेव जन्मनि कायव्यूहनिर्माणार्थं जीवन्मुक्तिोगदशाभ्युपगन्तव्या । अन्यथा 'नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।' इति स्मृतः कर्मक्षयाभावेन मुक्त्यभावप्रसङ्गात् । अतः कायव्यूहनिर्माणेन (न?) भोगसिद्ध्यर्थं योगिनोऽङ्गीकर्तव्या इति चेन्मैवम् । "क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।" "ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥"

Rammanasia सर्वदर्शनकौमुद्यां इति श्रुतिस्मृतिशतेभ्यो ज्ञानेनैव कर्मक्षयश्रवणात् भोगेनैव क्षय इति नियमासिद्धेः । ततो न भोगार्थ जीवन्मुक्तिरभ्युपेया। अत एव वर्तमाना- प्यचिश्मनुभूयत इति निरस्तम् । योगिस्वीकारस्यानावश्यकत्वात् । इतरथा मोक्षस्यानुभवासम्भवात् । नामुक्तमिति नियमस्य प्रायश्चित्तप्रनष्टकर्मसु व्यभिचारात् । अकृतप्रायश्चित्तेऽयं नियम इत्यपि न । तादृशानामपि ज्वर- हेतुकर्मणां- 'क्षीराक्तैराम्रपत्रैस्तु ज्वरं सद्यो विनाशयेद्' । इति श्रवणाद्वयभिचारात् । किञ्च अकृतप्रायश्चित्तत्वमेव ज्ञानिकर्मणां नास्ति, सगुणोपासनाया एव ज्ञानिनः प्रायश्चित्तत्वात् । तत्र प्रमाणं किमिति चेत् , कल्पितो विधिरेव एवं हास्य सर्वे पाप्मानः प्रयन्ते एवमेवं- विदि पापं कर्म न श्लिष्यते' इत्यादिवाक्यशेषे श्रूयमाणस्य पापक्षयस्य रात्रिसत्रन्यायेन फलत्वकल्पनया दुरितक्षयकामो ब्रह्मोपासनं कुर्यादिति प्रायश्चित्तविधित्वोपपत्तेः ।। "उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनीपातं ब्रह्मध्यानं समाचरेत् ॥" इति स्मृतेश्च ॥ रात्रिसत्रन्यायस्त्वेवं- 'प्रतितिष्ठन्ति ह वा एते य एता रात्रीरुपयन्ति' इति वाक्यशेषे श्रूयते । रात्रिशब्देन सोमयागाविशेषा उच्यन्ते । अत्र विध्य- श्रवणादर्थवादमात्रमिति प्रापय्य राद्धान्तितम् । 'वचनानि त्वपूर्वत्वात् । अप्राप्तत्वानायमर्थवादः, किन्तु अपूर्वत्वाद्विधिवचनम् । प्रतितिष्ठन्तीति प्रतिष्ठाफलश्रवणात् तत्कामोऽधिकारीति लाभात् प्रतिष्ठाकामो रात्रिसत्रं कुर्यादिति विधिः कल्प्यत इति । तस्मात् 'नाभुक्तं क्षीयत' इति नियमस्य व्यभिचारात् कर्मभोगाय न जीवन्मुक्तिरभ्युपेया इति सिद्धम् । किञ्च, "सत्येनापि शपेयस्तु देवाग्निपितृसन्निधौ । तत्र वैवस्वतो राजा धर्मस्या निकृन्तति ॥" इति स्मरणात् सुकृतस्यापि भोगैकनाश्यत्वानुपपत्तेः। नामुक्तमित्यत्रोत्सर्ग- त्वात् 'ज्ञानाग्निः सर्वकर्माणी'त्यादीनामपवादत्वादपवादविषयं परिहृत्योत्सर्गः ।

वेदान्तदर्शनम् । प्रवर्तत इति स्थितेः भकृतप्रायश्चित्तानामेव कर्मणां भोगेन क्षयः । ज्ञानि- नस्तु ज्ञानमेव प्रायश्चित्तम् । तत्कर्मक्षयाय भोगापेक्षा कायव्यूहेन । सकल- कर्मणां युगपद् भोगोऽपि न सम्भवति । एकैकस्य कर्मफलस्य कल्पमन्व- न्तरादिषु भोक्तव्यस्यैकस्मिन् काले भोगासम्भवात् , दुःखाभावस्य खत. त्रवेन पुरुषार्थत्वाभावात् , सुखविशेषत्वेनैव पुरुषार्थत्वात् । नच वैपरी- त्यप्रसङ्गः, भावस्याभावशेषतानुपपत्तेः । तस्मान्न दुःखनिवृत्तिर्मोक्षः ॥ दुःखप्रागभावो मोक्ष इति प्राभाकराः । तदपि न युक्तम् । प्राग- भावस्थासाध्यत्वेनापुरुषार्थत्वात् । प्रागभावस्य प्रतियोगिजनकतानियमात् कदाचिन्मुक्तस्य दुःखापत्तेः ॥ नित्यसुखामिव्यक्तिर्मुक्तिरिति भाडाः भासर्वज्ञध । तत्र स्वरूप- सुखानीकारे चौपनिषदमतापत्तिः । मित्रस्य सुखस्य तज्ज्ञानस्य च नित्ययोः स्वीकारे अद्वितीयश्रुतिव्याकोपः ॥ सांख्यास्तु प्रकृतिपुरुषविवेको मुक्तिरिति वदन्ति । तदपि न । सार्वविवेकमात्रस्य सुखदुःखाभावान्यतरत्वाभावेनापुरुषार्थत्वात् ।। विवेके सति पुरुषस्य स्वरूपेणावस्थानं पुरुषार्थ इति केचित् । तन्न । पुरुषस्याप्यखरूपत्वात् सुखरूपत्वे 'चापसिद्धान्तात् । अपिच सांख्यैर्व- न्धस्य कर्तृभूतबुद्धिगतत्वाभ्युपगमात् मोक्षस्य पुरुषनिष्ठले बन्धमोक्षयो- वैयधिकरण्यापातात् । बुद्धिगतावेव बन्धमोचौ पुरुषे उपचर्येते इति चेन्न । तत्र सम्बन्धानिरूपणात् । स्वस्वामिभाव एव सम्बन्ध इति चेन्न । सर्वयोदासीनस्य स्वामिभावे दृष्टान्ताभावात् । नच बुद्धेः स्वत्वमपि सम्भ- वति । अनाधेयातिशये पुरुषेऽनुपकारकत्वात् । नच द्रष्टदृश्ययोग्यतालच. णसम्बन्धा, पुरुषस्य द्रष्टुत्वात् प्रकृतेर्दश्यत्वादिति वाच्यम् । मुक्तावपि संसारप्रसङ्गात् । तदापि द्रष्टदृश्ययोग्यताया अनपायात् । नच पुरुषाणा- मनेकत्लादेकं प्रति प्रकृतिगतयोग्यताया अपायः भन्यं प्रति वनपाय इति न मुक्तस्य संसारापत्तिरिति वाच्यम् । अनाधेयातिशयतया पुरुषकृतविशेषा भावे व्यवस्थानुपपत्तेः । तस्मादनाधेयातिशयानन्दस्वमावस्यात्मनोऽविद्या- तिरोधानमेव पन्धः, विद्यानिमित्ततदस्तमयो मोक्ष इति सिद्धम् ।। ननु कस्याविद्या । किं ब्रह्मणः उत जीवानाम् । नायः । सर्वज्ञस्य तदनपपत्तेः । नापि द्वितीयः । तेषां पास्माद मेढोऽभेटो वा । बाटो १३८ सर्ववर्शनकौमुद्या द्वितीयताब्याघातात् । द्वितीये पूर्वदोषानतिवृत्तेः । अविद्याकल्पितभेदे वि- तरेतराश्रयत्वस्याधस्तादेव दर्शितत्वात् । अविद्याया विद्याभावरूपतयाम- तिरोधायकत्वासम्भवाच । भावरूपत्वात् तिरोधानं सम्भवतीति चेन । तथा सत्यनादिभाव- रूपस्यात्मवन्निसत्वापातात् । अथ ब्रह्मैव स्वाविषया संसरति स्वविद्यया च विमुच्यत इति चेत् तदा तस्यैकत्वाद् विद्वदविद्वद्गुरुशिष्यबन्धमोक्षव्य- वस्था न स्युः । यदि नोत्पना विद्या कस्तदा गुरु, आत्मान्तराभावात् । यद्युत्पन्ना विद्या कस्तदा शिष्यः, सर्वमेदप्रविलयात् । मायाविनिर्मिती गुरु- शिष्यौ स्त एवेति चेन्न । उत्पन्न विद्यस्य मायानुत्पत्तेः । किन्च अनादौ संसारे कस्यचिन्मुक्तिरासीन वा । आये इदानी संसारो न दृश्येत, भास्मान्तरा- भावात् । द्वितीयेऽपि कथं भविष्यतीति प्रत्याशा । नच पूर्व विद्याभाबाद- मुक्तिः । शुकवामदेवादीनामजाता विद्यान्यस्य भविष्यतीति का प्रत्याचा । गुरुसम्प्रदायाभावाच । तस्मादैकात्म्यशदे बन्धमोक्षव्यवस्थानुपपत्तेः पार- मार्थिक एवात्मामेद भाश्रयणीयः । "एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षस्सर्वभूताधिवासस्साक्षी चेता केवलो निर्गुणश्च ॥" इत्यागमविरोध इति चेन्न । तस्येश्वरपरत्वात् । 'एष त आत्मा अन्तर्या- म्यमृत' इति चेश्वरपरम् । तस्यान्तर्यामित्वात् - "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥" इति स्मृतेरपीश्वरपरत्वात् । तस्य कायव्यूहनिर्माणेन बहुभावस्याप्युप- पत्तेः । 'तत्त्वमसी'त्यायेककार्योपदेशस्योपासनापरत्वात् । 'द्वा सुपर्णे'त्या- दिना च साक्षाद् भेदो बोध्यते । तथा सुखदुःखव्यवस्थातोऽप्यात्मनानात्व- सिद्धिः । तस्मादविद्या कस्यति निरूपयितुमशक्यमिति प्राप्तम् । एवं प्राप्ते उच्यते । यद्युच्येत सर्वज्ञस्य ब्रह्मणो नाविद्येति तत्र वक्तव्यम् । स्वरूप- सर्वज्ञस्य नाविद्या घटते, प्रमाणसर्वज्ञस्य वा । नायः । यतः स्वरूपज्ञानेन सर्वज्ञं चेद् ब्रह्माभ्युपेयते तदासङ्गस्य ब्रह्मणो नाविद्यामन्तरेणाशेपार्थसाति- रिति चेत् । सर्वज्ञत्वोपपत्यर्थमेव साभ्युपगन्तव्या। ततः सर्वज्ञत्वेन न Rabin वेदान्तदर्शनम् । विरोधः । नापि द्वितीयः । अविरोधात् । प्रमाणतस्सर्वज्ञत्वेऽपि प्रमातृ- त्वस्य प्रमाणप्रमेयसम्बन्धस्यावि वारितरमणीयत्वादनाधविद्यासम्बन्धमन्तरे- णासिद्धेः सर्वज्ञत्वमविद्यावत्तामाक्षिपति नतु प्रतिक्षिपतीति कुतो विरोधः । अविद्या च न विद्याभावः । किन्तु अनादिभावरूपमज्ञानम् । तत्सम्बन्ध. मन्तरेण कूटस्थस्य ब्रह्मणो जगदुपादानत्वायोगात् । सा चावरणविक्षेप शक्तिद्वयवती । आवरणशक्त्या परमानन्दस्वभावमाच्छाद्य नात्मास्ति न भातीति प्रत्ययमाधत्ते । विक्षेपशक्त्या तु जीवेश्वरत्वादिभेदं प्रमातृप्रमाणप्र. मेयकर्तृकर्मक्रियाभोक्तृभोगभाग्यानि च करोति । अत एव शास्त्रे ब्रह्म- विवर्तया ब्रह्मोपादानमित्युच्यते । अविद्यापरिणामित्वादविद्योपादानमित्यपि व्यवहियते । तत्र विद्यानिवर्त्यत्वेनाविद्याव्यवहारः, नतु विद्याभावत्वेन स्वरूपविद्याया नित्यत्वेनाभावासम्भवात् । वृत्तिरूपविद्याया अभावसम्भ- वेऽपि तस्य कादाचित्कत्वेनाभावत्वेन च जगदुपादानत्वासम्भवात् । श्रूयते च कारणत्वमविद्यायाः "मायां तु प्रकृति विद्यान्मायिनन्तु महेश्वरम् ।" इति । ननु प्रकाशस्य ब्रह्मणोऽप्रकाशाविद्याश्रयत्वं कथम् । तमप्रकाशयो रिवाधाराधेयभावासम्भवादिति चेन्मवम् । जडप्रकाशस्याप्रकाशानाधारत्वे- ऽपि चित्प्रकाशस्य सर्वाधिष्ठानस्याप्रकाशाविद्याश्रयत्वसम्भवात् । तयवि. रोधादनिवृत्तिः । सत्यम् । चित्प्रकाशेनानिवृत्तिरेव । तस्य तत्साधकत्वात्। किन्तु प्रमाणज्ञानेन निवृत्तिः । तस्य तया सह विरोधात् । वेदान्तमहा- वाक्यजनितब्रसकाकारविज्ञानं तदवच्छिन्नचित्प्रकाशो वा प्रमाणम् । तेनाविद्यानिवृत्तिः । नच वाच्यं प्रमाणस्य निवर्तकान्तराभ्युपगमेन- वस्था । निवर्तकाभावे ज्ञानस्यानिवृत्तिः । तथाच सति सद्वितीयतापातः इति । कारणनिवृत्त्यैव तस्य निवृत्तिसम्भवात् । अविद्यैव च कारणम् । तर्हि कार्येण प्रमाणेन कारणाविद्याया निवृत्त्यसम्भव इति चेन्न । संस्कारेण तज्जनकानुभवस्य स्मरणेन च संस्कारस्यान्त्यशन्देनोपान्त्यशब्दस्य च परीक्षकै शाभ्युपगमात् । लोके चारणिजनितेन च वह्निनारणे शदर्श- नात् । कदलीफलेन कदलीकाण्डस्य नाशात् ॥ ननु भवत्वेवं ब्रह्माश्रयाविद्या विषयः क इति चेद् । ब्रह्मैव । जीवोऽपि ब्रह्मैव । ततश्च स्वाश्रयातिता समिती सर्वदर्शनकौमुद्यां जानामीति विषये भासमान एवाविद्यायाः स्वानुभवसिद्धत्वात् । जडस्या- विद्यानिर्मितत्वेन तद्विषये विद्यानुपपत्तौ तत्रिवाविद्यायास्तत्रानुपपत्तेश्च । ब्रह्माश्रया ब्रह्मविषयेति पक्षे जीवाश्रयाविद्यापक्षाक्तदोषास्तदनङ्गीकारादेव परास्ताः । यत्तु विद्वदविद्वद्गुरुशिष्यबन्धमोक्षव्यवस्था न स्युरिति । तद- सत् । यावदविद्यासर्वव्यवस्थानां स्वप्नवदुपपत्तेः । निवृत्तायां तु तस्यां न काचिद् व्यवस्था । नचाविद्यानिर्मितस्य गुरोः कल्पितत्वेन विद्यानुपपत्तिः स्वप्न इव विद्यावत्तयैव कल्पनोपपत्तेः । यत्पुनकीदतमनादौ संसारे न काश्चि- न्मुक्त इति चेद् भविष्यति मुक्तिरिति का प्रत्याशेोते । तदसत् । शास्त्रप्रा- माण्यादेव भविष्यति मुक्तिरिति प्रत्याशोपपत्तेः । नच गुरुसम्प्रदायामावः । विद्वत्तया परिकल्पितगुरोस्तदुपपत्तेः । 'एको देव' इत्यादिश्रुतिस्मृतिविरोध- श्रात्मभेदे । नच श्रुतिस्मृती ईश्वरपरे, अप्रसक्तनिषेधप्रसङ्गात् । नहीश्वरस्य (के ?) प्रतिभूतं लोकतो वेदतः परीक्षकसम्मत्या वा भेदः प्रसक्तः । नच सर्वभूतान्तरात्मत्वं भेदे, भेदस्य निरासात्' 'नान्योऽतोऽस्ति द्रष्टा, नान्यो- ऽतोऽस्ति श्रोते त्यादिना । अतः कल्पितभेदेनैवेश्वरस्य नियन्तृत्वं, न पार- मार्थिकमेडेन' यथा घटाकाशस्य महाकाशाधीनत्वम् । 'आत्मनि तिष्ठन्नि'- त्यादिश्रुतिबलात् सत्यभेदेऽपि नियन्तृत्वं भविष्यतीति चेन्न । नित्यद्- व्याणां स्वतन्त्रतयाधाराधयभावासम्भवाच श्रुतेरानर्थक्यप्रसङ्गात् । नच 'तत्त्वमसी'त्यादिवाक्यमुपासनापरम् । तथात्वे प्रमाणाभावात् । उपक्रमोप संहारादिनात्मब्रह्मणोरभेदे तात्पर्यात् । भेदावभास(स्य) बिम्बप्रतिबिम्बयोरि- वोपपत्तेः । तात्पर्य चैवमवगम्यते । 'तत्त्वमसी'ति नवकृत्वोऽभ्यासात् । अनेन जीवनात्मनेत्यर्थवादोपादानात्। 'अथ येऽन्यथा विदुरि ति भेददर्शननिन्द- नात्। 'अथ सम्पत्स्यत' इति फलश्रवणात्। 'एकमेवाद्वितीयम् ऐतदास्यमिदं सर्वमिति चोपक्रमोपसंहारयोरैकरूप्यात् । अपूर्वत्वात् । मृदादिदृष्टान्तेश्वोप- पादनादन्यत्रापि 'अहं ब्रह्मास्मि' 'स एष इह प्रविष्ट आनखाग्रेभ्यः योऽन्यां देवता स इदं सर्व भवतीति श्रवणादेकत्वे तात्पर्यात् । किञ्च 'तरति शो. कमात्मवित्', 'ब्रह्म वेद ब्रह्मैव भवति', 'तमसः पारं दर्शयति', 'मिद्यते हृद- यग्रन्थिः', 'तद्धास्य विजज्ञे' इत्यादिना विद्याया अविद्यानिवृत्तिब्रह्मात्म- भावफलत्वश्रवणात् नोपासनापरत्वञ्च वेदान्तानाम् । 'दा सुपर्णी' इत्यादेश्व लोकसिद्धभेदानुवादकत्वात् । यदि लोकसिद्धो भेदः, तर्हि सत्य एव स्या- .. वेदान्तदर्शनम् । दिति चेन्न । देहात्मभाववञ्चन्द्रप्रादेशिकत्ववदप्रामाणिकत्वात् । एकस्सुखी अपरो दुःखीत्यादिव्यवस्थायाश्च कल्पितभेदाश्रयत्वेनाप्युपपत्तेः । कल्पित- भेदेनोपपत्तौ सर्वशरीरेश्वकस्यानुसन्धानापत्तिरिति चेन्न । अतीतशरीरा दाविवाननुसन्धानोपपत्तेः । वर्तमानशरीरेष्वप्येकस्यानुसन्धाने दृष्टान्ता- भावात् । योगिन एव दृष्टान्ता इति चेन्न । तदनङ्गीकारवादिनां दृष्टान्त- भावात् । योगिवादिनामपि नयनाद्यवच्छिन्नस्य शब्दावननुसन्धानवदेकश- रीरविशिष्टस्य शरीरान्तरेऽनुसन्धानाभावोपपत्तेः उपपादितमेतदधस्तादिति । अपि च सुखादीनामात्मधर्मत्वाभावेन तम्यवस्थाया आत्मभेदासाधकत्वात् । तदेवं ब्रह्म स्वाविद्यया संसरति, स्वविद्यया च विमुच्यत इत्येकजीववादे न कश्चिद् दोषः॥ नानाजीवपक्षे न दोषः । ननु नानाजीवानां किमेकाविद्या कल्पिका, उत प्रतिजीवं भिन्ना । नायः । एकमुक्तौ सर्वमुक्तिप्रसङ्गताद- वस्थ्यात् । नापि द्वितीयः । कल्पनागौरवादिति चेन्न । आद्यस्यानङ्गीकार- परास्तत्वात् । द्वितीयस्त्वभ्युपेयते । ब्रह्मण एवैकस्य तत्तदनाद्यनन्ताविद्याव- च्छेदेनानन्तजीवनि सास्पदत्वाभ्युपगमात् । सति च कल्पके कल्पना- गौरवस्यादोषत्वात् । अस्मिन् पक्षे विद्वदविद्वद्गुरुशिष्यबन्धमोक्षव्यवस्था- सिद्धिश्च । 'नेतरोऽनुपपत्तेरि 'त्यादिसूत्रभाष्यादिरप्यस्सार्थस्य समर्पकः । तस्मात् पक्षद्वयेऽप्यविद्यानिवृत्तिब्रह्मप्राप्तिर्मुक्तिरिति सिद्धम् ॥ ननु केयमविद्यानिवृत्तिः । सती असती वा । आधेऽप्यास्म- खरूपा तब्यतिरिक्ता वा । द्वितीयेऽपि तुच्छत्वमभावरूपत्वं वा । आत्म- रूपत्वे सदा निवृत्तेस्सत्त्वात् संसारानुपलब्धिप्रसङ्गः । आत्मनः पूर्वम- भावादविद्यायाः स्वातन्त्र्यप्रसङ्गः। आत्मव्यतिरिक्तत्वे तु तस्यास्सद्वितीयता. पत्तिः । तुच्छत्वे तु शशविषाणादिवत् ज्ञाननिवर्त्यत्वासम्भवात् । अभाव. रूपत्वे च तस्य निर्वाच्यत्वे द्वैतापातात् । अनिर्वाच्यत्वे च तत्कारणाविद्या. वस्थानादनिर्मोक्षप्रसङ्गः । नापि पञ्चमप्रकाराविद्यानिवृत्तिः। सदसद्विलक्षण- तया तस्या अप्यनिर्वचनीयत्वप्रसङ्गात् । सदसद्विलक्षणमनिर्वचनीयमिति तल्लक्षणाङ्गीकारात् । तस्मान्नाज्ञाननिवृत्तिरुपपन्नेति । अत्रोच्यते--ज्ञात- वेनोपलक्षित आत्मैवाज्ञाननिवृत्तिः । नच संसारानुपलब्धिप्रसङ्गः । ज्ञानात् पूर्व तदुपपत्तेः । यथा लोके कलधौतविभ्रमस्य ज्ञाता शुक्तिरेव निवृत्तिः ।

१४२ सर्वदर्शनकौमुर्गा नच तत्र नेदं रजतमिति परस्पराभावज्ञानं निवर्तकमिति युक्तम् । अज्ञाते शुक्तिकाशकले नेदमित्यस्यैवानुपपत्तेः । ज्ञाते तु तेनैव तन्निवृत्त्युपपत्तौ चे- तरस्य बैयर्थ्यात् । तहाप्यनृतजडदुःखानात्मद्वैतविरोधिसत्यज्ञानानन्दात्मा- द्वयरूपब्रह्मैव वेदान्तवाक्यजनितकाकारान्तःकरणपरिणामदर्पगप्रतिबि. म्बित सत् सविलासाज्ञाननिवृत्ति युक्तमभ्युपगन्तुम् । ननु ज्ञाननाशे ज्ञात- तोपलक्षणनाशात् तेन घटितमुक्तस्याभावप्रसङ्ग इति चेन्मैवम् । पाचका- दिवदवस्थानोपपत्तेः । यथा पचनलवनादिक्रियाया निवृत्तौ देवदत्तः पाचको लावको वा भवत्येव तथा व्यवहारदर्शनात्, तथा ज्ञाततोप- लक्षणाभावेऽपि मुक्तो भवत्येव । इतरपक्षोक्तदोषस्तत्पक्षानङ्गीकारपरास्तः । एतस्मिन् पक्षेऽजीक्रियमाणे 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः, तत्र को मोहः कश्शोकः' 'यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येत्' इत्याद्याः श्रुतयस्सर्वद्वैतजातस्यात्ममात्रतया प्रविलयं प्र(ति)पादयन्त्यो मुख्यार्थतामश्नुवीरन् । अन्यथानिर्वचनीयस्य पञ्चनप्रकारस्य वा ज्ञाननि- वृत्तिरूपस्यास्यानीकारे संसारदशायामिव केवलात्ममात्ररूपेणावस्थानास- म्भवाददाहृतश्रुतय उपचरितार्थाः कदर्थिताः स्युरिति । तस्मादुत्पन्नात्मवि- ज्ञानस्य पुंस आत्मैव सविलासाज्ञाननिवृत्तिरिति सिद्धम् । ननु यद्यज्ञाननिवृत्तिरात्मा तदोत्पन्नतत्त्वज्ञानस्य शरीरानुवृत्तिन स्यात् । तथाच न जीवन्मुक्तिः स्यात् , सयोमुक्तिरेव स्यात् । न चा- विद्यालेशाच्छरीरानुवृत्तिरिति वाच्यम् । विरोधिविज्ञानोदये तल्लेशस्यापि निवृत्तेः । प्रारब्धकर्मप्रतिबद्धं तत्त्वज्ञानं शरीरादिप्रतिभासहेतुमविद्यालेशं न निवर्तयतीति चेन्न । कर्मणोऽप्यविद्याकार्यतया अविद्यानिवृत्ती निवृत्तेः । अनिवृत्तौ वा कर्मणस्तत्कार्यस्य च शरीरादेस्सत्यत्वप्रसङ्गात् । 'क्षीयन्ते चास्य कर्माणी त्यविशेषेणाशेषकर्मप्रक्षयश्रवणात् । कश्चायमविद्यालेशः । किमविद्यावयवः । किंवा तदाकारान्तरम् । नायः । अविद्याया घटादिवत् सावयवत्वानङ्गीकारात् । नापि द्वितीयः । आकारनिवृत्तौ तदाकारस्या- वस्थानायोगात् । ततो जीवन्मुक्तिरयुक्तेति । अत्रोच्यते चित्सुखमुनिभिः- "अविद्यालेशशब्देन मोहाकारान्तरोक्तितः । ज्ञानस्य प्रतिबन्धाच प्रबलारब्धकर्मभिः ॥ ठेशानुवृत्तौ तज्जन्यकर्मादेरनुवृत्तितः । उत्पन्नात्मावबोषात् सा मुक्तिः श्रुत्या प्रसिध्यति ।" । mein वेदान्तदर्शनम् । एवं हि ज्ञानसिद्धिकारैायसुधायामुपपादितं -संसारमूलकारण- भूताविद्या यद्यप्येकैव तथापि तस्यास्सन्त्येव बहव आकाराः । तत्रैकः प्रप- ञ्चस्य परमार्थसत्यत्वविभ्रमहेतुः । द्वितीयोऽर्थक्रियासमर्थवस्तुकल्पकः । तृतीयस्त्वपरोक्षप्रतिभासविषयाकारकल्पकः । तत्राद्वैतसत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पकाकारो न निवर्तते' अर्थक्रियासमर्थप्रपञ्चोपादानमाया- कारस्तत्त्वसाक्षात्कारेण विलीयते । अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्तस्यानिवृत्तस्समाध्यवस्थायां तिरोहितोऽन्यदा देहाभास- जगदाभासहेतुतयानुवर्तते । प्रारब्धफलोपभोगावसाने तु निवर्तते । श्रुतिरपि 'इन्द्रो मायाभिः पुरुरूप ईयत' इत्याद्या मायाया विविधाकारतां दर्शयति । नच लेशस्यापि विरोधितत्त्वज्ञानान्निवृत्तिः किं न स्यादिति वाच्यम् । प्रबलैः प्रारब्धकर्मभिर्ज्ञानस्य प्रतिबद्धत्वात् । कथं प्रबलत्वमिति चेत् । इत्थं यत् कर्म तत्त्वज्ञानाधारशरीरारम्भकं, तत् प्रारब्धं कर्म । तस्मिन् कर्मणि सत्येव ज्ञानार्थानि कर्माणि खफलं ज्ञानमारभन्ते । अन्यथा ज्ञानार्थानामपि कर्मणां भोगार्थत्वप्रसङ्गात् । ततो भोगार्थत्वज्ञानार्थत्वभेदेन कर्म द्विधा । तथाच शरीरारम्भककर्माविरोधेन स्वफलं ज्ञानं प्रयच्छतीति युक्तम् । ततश्च तैः प्रारब्धकर्मभिः प्रतिषद्धशक्तिकत्वात् तत्त्वज्ञानमविद्यालेशं न निवर्तयति। नच प्रारब्धकर्मणामप्यविद्याकार्यत्वात् तनिवृत्तौ निवृत्तिरिति वाच्यम् । प्रारम्धजनकस्याविद्यालेशस्याप्यनिवृत्तेः । 'भूयश्चान्ते विश्वमायानिवृत्तिरिति श्रुत्या क्रमेण सर्वाविद्याकारनाशश्रवणात् न युगपत् सकलाकारनाशः । यत्र भूयो निवृत्तिरिति विशेषणात् । परमार्थसत्यत्वव्यावहारिकसत्यत्वहेतूमय- विधमायाकारनिवृत्तेः अपरोक्षप्रतिभासहेत्वाकारान्तरानुवृत्तेश्च प्रतीयमान- त्वाद् भूयोनिवृत्तिरित्यनेनादौ न निवृत्तिरिति गम्यते । अन्ते विश्वमायानि- वृत्तिरिति श्रवणाद्विद्याशक्तिप्रतिबन्धकस्य प्रारब्धकर्मणः फलभोगेन निवृत्ती प्रतिबन्धकाभावे तत्त्वज्ञानानिश्शेषाविद्यानिवृत्तिरिति प्रतीयमानत्वाच्च । नच 'श्रीयन्ते चास्य कर्माणी ति श्रवणात् प्रारब्धकर्मणो विनिवृत्तिरिति वाच्यम् । सामान्यत्वादस्याः प्रारब्धकर्मव्यतिरिक्तकर्मपरत्वोपपत्तेः । 'तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये कैवल्येने ति श्रवणात् विदुषः प्रारब्ध- कर्मतत्कार्ययोरवस्थानाधिगमाच्च । तस्य तत्त्वज्ञानिनस्तावानेव विलम्बः - १४४ सर्वदर्शनकौमुद्यां यावत् प्रारब्धकर्मणो न विमोक्ष्ये अनन्तरं केवलभावेन सम्पत्स्य इति हि तदर्थः । किञ्च ईश्वरोऽपि गीतायां तत्त्वज्ञानिन उपदेतृत्वं दर्शयन् जीवन्मुक्तिं दर्शयति- 'उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।" इति वदति यतः । नच तत्र परोक्षज्ञानं विवक्षितम् । तत्त्वदर्शिन इति दर्शनशब्देन रूपादिदर्शनवत् साक्षात्कारस्यैवाभिधानात् । स्वात्मनि चाप- रोक्षे परोक्षज्ञानस्य विभ्रमत्वात् । यदुक्तम् आकारिनिवृत्तावाकारावस्थाना- नुपपत्तिरिति । तदसत् । सामान्यविशेषघटितस्य वस्तुनो विशेषनिवृत्तौ सामान्याकारावस्थानस्य परीक्षकैरभ्युपगमात् । अपि च स्थितप्रज्ञलक्षणकथ- नेनापि जीवन्मुक्तिरुच्यते, तत्र साधकविशेष एव तथाभिधीयत इति चेन्न । 'स्थितप्रज्ञस्य का भाषेति प्रश्ने 'प्रजहाति यदा कामानि'त्यादि तदुत्तरे च यानि विशेषणानि तेषां साधकेऽनुपपत्तेः । गुणातीतत्वादेस्तत्रासम्भ- वात् । नहि सर्वकामविमोकः परमात्मसाक्षात्करणमन्तरेणोपपद्यते । "विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ष रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥" इति स्मरणात् । "यदा सर्व प्रमुच्यन्ते कामा यस्य हृदि स्थिताः । अथ मोऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥" इति श्रुतेश्च । "आत्मानं चेद् विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥" इति च। तदेवं श्रुतिस्मृतिपुराणादिष्वाघुष्यमाणा जीवन्मुक्तिरपलपितुं न श- क्यते । तस्मादविद्यास्तमयो मोक्षस्स च परात्मता। जीवतोऽजीवतो वापि भवेच्छ्रुत्यादिमानतः ।। गोराष्ट्रदेशमध्ये गोकर्णात्पूर्वतोऽपूर्वा । अरसेन्द्रभूप(री१)वसतिस्सोदानगरी समास्ति सत्पुरुषा ।

वेदान्तदर्शनम् । १४५ तत्रास्ते यतिवर्यो माधवसंजस्सरस्वतीपूर्वः । ग्रन्थमिमं विरचितवान् यत्र सुबोधानि दर्शनानि स्युः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविद्येन्द्रवनशिष्यपरमहंसपरि- ब्राजकमाधवसरस्वतीविरचितायां सर्वदर्शनकौमुखां वेदान्तदर्शनसंक्षेप: समातः ॥ समाता च सर्वदर्शनकौमुदी॥ मयूखमाला चिन्तामणिटीका, मितभाषिणी नाम सक्षपदार्थीटीका, मन्दानुकम्पिनी नाम कुसुमाञ्जलिपघटीका, वासिष्ठपञ्चिका नाम वासिष्ठ- व्याख्या, अभिनवसप्तपदार्थी, सर्वदर्शनकौमुदी। मामिस्तु षड्मिः कृतिभिरीश्वरः प्रीयतां सदा । अरसेन्द्रमहीपालपालेिते सोमदापुरे । स्थितो माधवकर्मन्दी व्यधाच्छास्त्राणि तत्परः ॥ माधवाख्यसरस्वत्याः सरस्वत्याः सरस्वती। विखरायाः सुस्वरायाः सरस्वत्याः सरस्वती ।। शुभं भूयात्।

No text on this page.

स्मृतग्रन्थाद्यनुक्रमणी। ग्रन्थनाम कर्तृनाम aniyawuneutam किरणावली श्रुतिः 'पुत्रकामो- 'दर्शपूर्णमासाभ्यां 'अभीष्टसमाप्ति- १ ... .. चिन्तामणिः कुसुमाञ्जलिः १ "संस्कारः पुंस- 'नित्ये नित्यैव 'रूपरस...' ६, ९६ । सामान्यान्येव भूयालि ७ / 'पृथिव्यापस्तेजो कणादसूत्रम् भट्टपादाः . .. 'तमः खलु- .00 A.. ११ 'यस्यानुकूलस्तकों- . . चिन्तामणिः श्रुतिः भगवद्गीता श्रुतिः २०, २१ 'यः सर्वज्ञः सर्वविद्-' २२ 'अहं सर्वस्य प्रभो २१, १२२ 'यतो वा इमानि- २२. ११९ 'अस्य महतो भूतस्य- 'वेदान्तविद्वेद- 'ऋग्वेद पवाग्ने २९ 'दुःखाभावोऽपि-- Newimanm , स्मृतिः .00 ... ... भूषणम् अनन्तविजयः 'ज्योतिष्टोमेन ३६ तद्विधानविवक्षायां ४० 'नायाति नच तत्रासीत् 'न सोऽस्ति प्रत्ययो... 'अस्ति द्यालोचना *** १७ ... 44 उदयनः पृष्ठम् वाक्यम् कर्तृनाम श्रुतिः १३ ४६ न हिंस्यात् अलीपोमीयं पशुम् ४७ आश्रयासिद्धता हेतो १, उपजीव्योपजीवक ४८ सपक्षे सति चाभाल :-' स्वर्णकामो........ 'तत्राप्रत्यक्षता वायो:--' 'समासमाविनामाची व्याप्तेश्च दृश्यमानाया . वरदराजः भट्टाचार्याः ... " ३१. ... कणादगौतमजै- [मिनयः १ 'पराशरादयो भाविन पुराणम् ६० मामाकरः ... ६१, तार्किकरक्षा गौतमः ... .. ... १२ लावायुतसिनी-- ६३ प्रमाणप्रमेय ६४ "मितिस्सम्यक् परिच्छित्ति- 'शोन्मेषकलक्षिभिः ६७ रागद्वेषादिकालुष्यं' 'कृत्युद्देश्यं प्रधान- ७१ आत्मशरीरेन्द्रिय ... शालिकनाथ: .. गौतमः काणादतन्त्रम् महाभारतम् व्यासः 'पञ्जावयवयुक्तस्य- ७५ 'सन्दिग्धे न्यायः- 'नहि तत्करण- ७६। 'न विगृह्य कथा--' ताभ्यां विगृह ७७ । साधर्म्यवैधय ७८ 'लक्ष्यं लक्षण- ७९ किञ्चिरसाधात् ८४ प्रतिज्ञाहानिः प्रतिज्ञा ...

aatanaSanuaryata-HIMARYANA JUMP पृष्ठम् না। कर्तृनाम वरदराजः ताकिकरक्षा " ८८ 'अप्राप्तकाले ग्रहणं 'उक्तप्रायाः केचिदन्ये- हेत्वाभासाश्च यथोक्ता "एते सम्भविनः ८९ 'चतुर्धा निग्रह- 80 " M ११ ago जैमिनिमुनिः 'विषयो विशयः 'अग्निहोत्रं जुहोति' श्रुतिः " शबरस्वामी भट्टाचार्या १ बृहष्टीका ... " मध्यमटीका mp4 " दुष्टीका 44 कारिका तन्त्रवार्तिकम् 101 " उकेबकः अजिता न्यायसुधा-रा- शास्त्रदीएका पार्थसारथिः ११ .. १ " . নাম: भावनाविवेका ज्याचकणिका वाचस्पतिमिश्रः नाजुविमला दीपशिखा शालिका-- नय- भवनाथ: [विवेकः शालिकनाथः वरदराज " " , 'न द्रव्यं गुणवृत्ति ९२ 'वर्णात्मकाश्च ये- ९५ 'नहि पक्षे पक्षता--' ...

पृष्ठम् वाक्यम् कर्तृनाम 2 ३ " श्रुतिः 19 , on ܘ ܝ ܫ अतिः 'तस्माद् दृढं यदुत्पन्न 'अप्रामाण्यं निधा--- অধ্যখনিহাখা 'एवं विद्वान् दर्श -- ९७, ९९, १००, ११३) 'स्वाध्यायोऽध्यतव्यः' 'गृहीत्वा वस्तुसन्हावं 'स्वरूपमात्रं दृष्ट्वा- 'अथातो धर्म 'यं यं क्रतुमधीते- 'अभिधां भावना 'सोऽरोदात् १००, १.१ 'उरु प्रथस्व' 'अष्टका: कर्तव्या: १०२ 'अग्निहोत्रं जुहोति 'उभिदा यजेत 'समिधा यजति 'इडो यजति' १०३ 'सप्तदश प्राजापत्यान्-' 'तप्ते पयसि. 'मालमग्निहोत्र-- 'अथैष ज्योति:-' १०१, २०४ | आग्नेयोऽष्टाकपाल: 'दर्शपूर्णमासाभ्यां १ स्मृतिः श्रुतिः " १ 9. " ... १३३ऐन्द्रया गार्हपत्य 9 'सर्वभावगता शक्तिः 'बर्हिदेवसदनं ... श्रुतिः १३१ 'यस्य पर्णमयी १०२ 9. 'इदं श्रीसूक्तम् 'इदं पुरुषसूक्तम् 'अमावास्यायामपराह्न- 'स स्वर्गः स्यात् .. 24 ...

वाक्यम् प्रन्थनाम कतनाम १०२ श्रुतिः ... " १०३ श्रुतिः ... " प ४ 'हृदयस्याग्रेऽवद्यति- 'यवागू पचति' 'सह पशूनालभते' 'अर्थी सर.र्थो विद्वान्, 'शूद्रो यज्ञे-- 'सौर्य चकै निर्वपेत्' 'प्रकृतिवद्वकृतिः 'अग्नये जुष्टम् 'सूर्याय जुष्टम्' 'बर्हिः स्तृणाति' 'शरमयं बर्हिः 'प्राजापत्याञ्छत 'ऐन्द्र दधि' 'ऐन्द्र पयः 'चमसेनाप:-' 'गोदोहनेन पशु- श्रुतिः " " ... ". ११ ० १ , 'मूल प्रकृति श्रतिः १०७ 880 " १०८ 'अजामेकां लोहित 'इन्द्रियाणि मनः 'अहिंसा सत्यम्- 'यावज्जीवं सुख- 'देशना लोकनाथानां-- स्मृतिः . " बोधिचित्तविव- [रण श्रुतिः 'असदेवेदमग्र- 'कथमसतः जिब:, बुद्धः चतुर्लक्षणी बादरायणः चित्सुखाचार्यः ११३ ११३, १२७ १३२ ११३ 'आत्मनस्तु कामाय-' 'एतावदरे खलु- 'आत्मा वा अरे ... श्रुतिः बादरायणः ... शङ्करभगवत्पूज्य- [पादाः वाक्यम् ग्रन्थनाम कर्तृनाम ११३ पद्मपादाचार्याः विवरणाचार्या: वाचस्पतिमिश्र: भामती " " कल्पतरुः सुरेश्वराचार्यः आनन्दगिरिः नरेन्द्रगिरिः ... " ... ... " श्रुतिः .. ११४ 'ज्ञातार्थं ज्ञातसम्बन्धं-' 'तद् यथेह कर्म--" पलवा ह्येते अहढा- ११५. शान्तो दान्त उपरत- ११५,१२८, १४० 'एकमेवाद्वितीय " 3 श्रुतिः 'नेह नानास्ति--- ... " ११६, १२७ 'मृत्योः स मृत्यु ... १२८ द्वितीयाद्वै भयं ००० " ... श्रुतिः ... श्रुतिः ... श्रुतिः } 'तत्वमसि' १९९,१३८ ११६'गलितनिखिल ११६,१२६ 'विज्ञानमानन्द 'अयमात्मा ब्रह्म- ११७ 'एक कस्यचित्-' ११९ 'तस्माद् यज्ञात् सर्व- 'ये वेदा अजायन्त 'वाचा विरूप- 'सामवेद आदित्यात्' १२० 'तस्माद् बोधात्मक- १२२ । 'अधीहि भगवो- १२२,१२६ 'आनन्दो ब्रह्म- 'आनन्दाद्धयेव' 'आच्छाद्य विक्षिपति- " . ... ... -- श्रुतिः .... - ..

पृष्ठम् वाक्यम् कर्तृनाम प्राभाकरः सुरेश्वराचार्यः " श्रुतिः " ... " ... ... बादरायणः ... .. श्रुतिः . १२५ 'ब्रह्माविद्यावदिष्टं - - 'नाविद्यास्येत्यविद्यायां 'आनन्दं ब्रह्मणो रूपम्' 'एषोऽस्य परमानन्दः' 'एतस्यैवान्यानि- १२७ 'युवा स्यात् साधु- 'स एको ब्रह्मण 'सत्यं ज्ञानमनन्तं ११८ 'यथा कर्मसु 'सूचकश्च श्रुतेः 'अहं ब्रह्मेति वाक्यार्थ---' 'श्रुत्वाचार्य- १२९,१३० मनसैवेदमाप्तव्यं' 'यन्मनसान- 'अप्राप्य मनसा 'यद्वाचानभ्युदितं-- 'यतो वाचो १३०,१४० 'तद्धास्य विजज्ञे- 'भिद्यते 'भूयश्चान्ते- 'तरति शोक-- मामेव ये- 'तरत्यविद्यां' 'नावेदविन्मनुते- 'तं त्वौपनिषद- 'वेदान्तविज्ञान- ११५ अजरोऽमर: 'आत्मा ज्ञातव्य- 'विज्ञाते चास्य-- 'यदेव विद्यया- 'किं प्रजया करिष्यामो- ... 80 हृदय---- " Dee . भगवद्गीता ५ *... श्रुतिः ... . ११ श्रुति " पृष्ठभू कर्तृनाम श्रुतिः - ००० 4. বাবা श्रुतिः क . ११ " ॐ D श्रुतिः 0.4 १३१ 'न तस्य कार्य-- १३२ "ज्ञानामृतेन तृतस्य 'कर्मणव लिलिद्धि 'कुर्ववह कर्माणि --- 'यावज्जीवमन्त्रि 'वीरहा था एप नव संन् ब्रह्मा-- न कर्मणा न प्रजया 'नास्त्यकृतः कृतेन' 'कर्मणा बध्यते-- 'यदहरेव- १३३ । 'अन्धं तमः प्रविशन्ति 'विद्यां चाविद्यां च-- 'तपो विद्या च विप्रस्थ-' 'तत्प्राप्तिहेतुज्ञान च 'एवं तपश्च विद्या च- १३३, ३४ 'आवद्यथा मृत्यु "समेतं वेदा- १३३,१४० 'ब्रश वेद ब्राँव १३४ 'तमेव विदित्वा- 'ज्ञानादेव तु- 'विज्ञाय प्रज्ञा 'यः सह वेद १३५ दुःखाभावोऽपि- ... स्मृतिः . P ... " श्रुतिः . है 2 " 9 22 100 स्मृतिः श्रुतिः १३५,१३६'मामुक्त क्षीयते- १३५,१४१) १४३ 'क्षीयन्ते चास्य- १३५,१३६'ज्ञानाशिः सर्वकर्माणि " क्षीराकैरान- 'एवं हास्य सर्व- भगवडीता ..." श्रुतिः वाक्यम् कर्तृनाम स्मृतिः श्रुतिः १ " १३६ 'उपपातकेषु सर्वेषु-' 'प्रतितिष्ठन्ति हवा---- 'वचनानि त्वपूर्वत्वात् 'सत्येनापि शपेत् १३७ " .. भासर्वज्ञः .. वामदेवः " अतिः ... संशतिः श्रात: १ .. ... " , y 132 १३८,१४० एको देवः सर्व १३८ । एष त. आत्मा- 'एक एव हि भूतात्मा १३८,१४० । 'द्वा सुपर्णी १३९ 'मायां तु प्रकृति 'नान्योऽतोऽस्ति- 'आत्मनि तिष्ठन्-' 'अनेन जीवेन 'अथ येऽन्मथा. 'अथ सम्पत्स्यते' 'ऐतदात्म्यमिदं , 'अहं ब्रह्मास्मि' 'स एपइह--- 'तमसः पारं-- १४१ 'नेतरोऽनुपपत्तेः' १४२ यस्मिन् सर्वाणि 'यत्र त्वस्य सर्व- 'अविद्यालशशब्देन 'लेशानुवृत्तौ--- १४३ 'इन्द्रो मायाभि:- 'भूयश्चान्ते विश्व 'तस्य तावदेव- १४४ 'उपदेक्ष्यन्ति ते " 800 " चित्सुखमुनयः A. १ .. न्यायसुधा श्रुतिः 0 ROMANA .. भगवद्गीता पृष्ठम् वाक्यम् प्रन्थनाम कर्तृनाम ३ १४४ भगवद्गीता ७.6 "स्थितप्रज्ञस्य- 'प्रजहाति यदा- 'विषया विनिवर्तन्ते- 'यदा सर्व प्रमुच्यन्ते--- 'आत्मानं चेद् श्रुतिः LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. AS. P. Afro Bhaktimanjari (Stuti) by H. H. Svāti Śrī liāma Varma Mahārāja. 1 0 0 स्यानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svāti Śrī Rāma Varma Mahārāja, with the commentary Sundarī of Rājarāja Varma Koil Tampurān. 2 0 0 Trivandrum Sanskrit Series. No. 1-49 Daiva (Vyäkaraña) by Deva with Puruşakära of Krşmadīlāśukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhi. navakaustubhamala and Daksinamurtistava by Krşmalīlāśukamuni (out of stock). 0 2 0 No. 3oRe*: Nalabhyudaya (Kavya) by Vāmana Bhatta Bäina (second edition). 04 0 No. 4-factoria: Sivalilarnava (Kāvya) by Nīlakanța Dīkşita (out of stock). 2 0 0 No. 5-uitlaa Vyaktiviveka (Alankāra) by Mahima-Bhatta with commentary (out of stuck). 2 12 0 No. 6-daqia: Durghatavrtti (Vyākarana) by Sarañadeva (out of stock). 2 0 0 No 1-ब्रह्मतत्त्वप्रकाशिका Brahmatattvapraka. sika (Vedānta) by Sadāśivencirasara. svatI (out of stock). % 4 0 No. 8-प्रद्युम्नाभ्युदयम् Pradyumnabhyudaya (Nāțaka) by Ravi Varnia Bhūpa (out of stock), 100 RS. AS. Po No. 9-विरूपाक्षपञ्चाशिका Virupaksapancasika. (Vedānta) by Virūpākşanātha with the commentary of Vidyācakravartin (out of stock). 0 8 0 No. 10-FIFTET Matangalila (Gajalakşaņa) by Nīlakantha (out of stock). 0 8 0 No. 11-TTUA Tapatisamvarana (Nāțaka:) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 4 4 0 No. 12-TCARATTA Paramarthasara (Vedānta) by Adišeşa with the commentary of Rāghavānanda (out of stock) .0 8 0 No. 13-Usah Subhadradhananjaya (Nätuka) by Kulasekhara Varma with the commentary of Siyarāma out of stock), 2 0 0 No. 14-aart: Nitisara (Nīti) by Kamandaka, with the commentary of Sankarārya (out of stock). 3 8.0 No. 15-FATA Svapnavasavadatta (Nataka) by Bhāsa (second edition). 1 8 0 No. 16-afari PETRIUH Pratijnayaugandharayana (Nātaka) by Bhāsa (out of stock). 1 8 0 No. 17-OTTEET Pancaratra (Nätaka) by Bhāsa (out of stock). 1 0 0 No. 18-AUTOTTUTTSTE Narayaniya (Stuti) by Nārāyana Bhatta with the commentary of Deſainangalavārya 4 (second edition). No. 19-FTAARIFT: Manameyodaya (Mīmāmsā) by Nārāyaṇa Bhatta and Nārāyaṇa Pandita (out of stock). 1 4 0 No. 20.-- ARAI Avimaraka (Nataka) by Bhāsa (out of stock). 1 8 0 No. 21-azaltan Balacarita (Nāțaka) by Bhāsa (out of stock) 1 0 0 3 RS. AB. P. No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो- रुभङ्गानि Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nātaka) by Bhāsa (out of stock). 1 8 0 No. 23--Tutularie: Nanartharnavasam - ksepa (Kosa) by Keśavasvämin (Part I, 1st and 2nd Kändas). (out of stock). 1 12 0 No. 24–16 haftur: Janakiparinaya (Kāvya) by Cakra Kavi (out of stock). 100 No. 25--Tugas a Kanadasiddhantacandrika (Nyāya) by Gangādharasūri (out of stock). 0 12 0 No. 264 EFFE Abhisekanataka by Bhāsa (out of stock). 0 12 0 No. 27-HREFha: Kumarasambhava (Kavya) by Kalidasa with the two commentaries, Prakātikā of Aruņagirinātha and Vivarana of Nārāyana Pandita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28_OFTETHET: Vaikhanasadharmaprasna (Dharmasūtra) by Vikhanas (out of stock). 0 8 C No. 29-Aparaturardiena: Nanartharnavasam - ksepa (Koša) by Keśavasvämin (Part II, 3rd Kānda) (out oj' stock). 24 0 No. 30—areglaen Vastuvidya (Śilpa) (out of stock) 0 12 0 No. 31-arrerarieta: Nanartharnavasam - ksepa (Koša) by Keśavasyämin (Part III, 4th, 5th and 6th Kāņdas). 1 0 0 No. 32ATCEFHET: Kumarasambhava (Kávya) by Kalidāsa with the two colamentaries, Prakāśikā of Arunagirinātha and Vivaraña of Nārāyaṇa Paņdita (Part II, 3rd, 4th an:) 5th Sargas) (out of stucc). 28 0 RS A8, P. No. 33-TCERIE: Vararucasangraha (Vvākaraṇa) with the commentary Dipnprabhā of Nārāyaņa (out of stock). O 80 No. 84-fürçyor: Manidarpana (Nyāya) by Rājacudāmaņimakhin. 14. O No. 35-UETT: Manisara (Nyāya) by Gopinātha. 1 1 8 0 No. 36-ŞATTEFHE: Kumarasambhava (Kāvya) by Kalidasa with the two commentaries, Prakasika of Arunagirinātha and Vivarama of Nārāyaṇa Pandita (Part III, 6th, 7th and 8th Sargas). 300 No. 37TAL Asaucastaka (Smộti) by Vararuci with commentary. 0 4 0 No. 38-THEFTETTAITH Namalinganusasana (Kosa) by Amarasimha with the commentary Tikāsarvasva of Vandyaghatīya Sarvānanda (Part I, 1st Kāņda). 2 0 0 No. 39-ara Carudatta (Nāțnka) by Bhāsa (out of stock). 0 12 0 No. 40-Tara Alankarasutra by Rājānaka Ruyyaka with the Alaňkā rasarvasva of Mankhūka and its commentary ky Samudrabarıdha (second edition). 2 8 0 No. 41-ETHYECH Adhyatmapatala (Vedānta) by Apastamba with Vivarana of Sri Sankara-Bhagavat-Pāda (out of stock). O 4 0 42-प्रतिमानाटकम् Pratimanataka by Bhasa (out of stock). 1 8 0 No. 43-नामलिङ्गानुशासनम् Namalinganusasana (Kośa) by Amarasimha with the two commentaries, Amarakośodghātana of Kşirasvāmin and Tīkāsarvasva of Vandyaghatīya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 0 10. 44-46# Tantrasuddha by Bhațțāraka Vedottama (out of stock). 040 3 0 RS. AS. P. No. 45TTEETH Prapancahrdaya, 1 0 0 No. 46-CHTWEITT: Paribhasavrtti (Vyakaraña) by Nīlakanţa Dikşita. No. 47-Fargraf Siddhantasiddhanjana (Vedānta) by Krşņānanda Sarasvatī (Part I.) 1 12 No. 48% Do. Do. (Part II). 200 No. 49- The giftet Goladipika (Jyotişa) by Paramešvara, 0 4 0 No. 50-Targa: Rasarnavasudhakara (Alankâra) by Singa Bhūpāla. 3 0 0 No. 51-ara Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakośodghățana of Kşīrasvāmin and Tikāsarvasva of Vandyaghatīya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52-नामलिङ्गानुशासनम् Namalinganusasana (Kośa) by Amarasimha with the commentary Tika sarvasva of Vandyaghatîya Sarvånanda (Part IV, 3rd Kâņda). 1 8 0 No. 53–Taparat: Sabdanirnaya (Vedânta) by Prakaśâtmayatîndra. 0 12 0 No. 54-FEfengarfer: Sphotasiddhinyayavicara (Vyakarana). 0 4 0 No. 55-मत्तविलासप्रहसनम् Mattavilasaprahasana (Nataka) by Mahendravikramavarian. (out of stock). 0 8 0 No. 56-मनुष्यालयचन्द्रिका Manusyalayacandrika (Silpa) (out of stock), 0 8 0 No. 57-tgaraftan Raghuviracarita (Kâvya). 140 No. 58-सिद्धान्तसिद्धाञ्जनम् Siddhantasiddhanjana (Vedanta) by Krşņånanda Sarasvati RS. AS. P. No. 59- TARGE Nagananda (Națaka) by Harsadeva with the commentary Vimarsinf of Sivarâma (out of stock). 3 4 0 No. 60-ygra: Laghustuti by Laghubhattâraka with the commentary of Râghavânanda, 0 8 0 No. 61-farahQTTE Siddhantasiddhanjana (Vedânta) by Krşņânanda Sarasvati (Part IV). 1 4 0 No. 62- HAGE: Sarvamatasangraha. (out of stock). 0 8 0 No. 63-fecratch Kiratarjuniya (Kavya) by Bhāravî with the commentary Sabdârthadīpika of Citrabhânu (1, 2 and 3 Sargas). 2 8 0 No. 64EFFET: Meghasandesa by Kálidāsa with the commentary Pradīpa of Dakşiņâvartanātha. 0 12 0 No. 65-HIHAH Mayamata (Šilpa) by Mayamuni (out of stock). 3 4 0 No. 66-HETAT Maharthamanjari (Daršana) with the commentary Parimala of Maheśvarananda. 24 0 No. 67-Tag: Tantrasamuccaya (Tantra) by Nârâyaņa with the commentary Vimarsinſ of Sankara (Part I, 1-6 Patalās) (out of stock). 3 4 0 No. 68-atart: Tattvaprakasa (Agama) by Srī Bhojadeva with the commentary Tâtparyadipikā of Sri Kumāra 1 12 0 No. 69- Cintagecarafa: Isanasivagurudevapaddhati(Tantra)by Isảnaśivagurudevamiéra Part 1, Sâmānyapâda). 1 8 0 No. 70-Briasgaria : Aryamanjusrimulakalpa (Part I), 7 ** RS. AS. P. No. 71-FEECE: Tantrasamuccaya(Tantra) by Nârâyana with the commentary Vimarsini of Sankara (Part II, 7--12 Patalās) (out of stock). 3 8 0 No. 72-uzaqueta: Isanasivagurudevapaddhati (Tantra) by Ibānaśivagurudevamiśra (Part II, Mantrapāda), 40 No. 73-asatiarah: Isvarapratipattiprakasa (Vedānta) by Madhusādanasarasvati. No. 74-INTET Fregra: Yajnavalkyasmrti with the commentary Balakrida of Visvarûpâcârya. (Part I - Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75--TETCETE Silparatna (Šilpa) by Srikumâra (Part I). 2 12 0 No. 76-3PT Stacey: Aryamanjusrimulakalpa (Part II). 3 0 0 No. 77-aaigreuadayefa: Isanasivagurudevapaddhati (Tantra) by Isanasiva. gurudevamišra (Part III, Kriyä păda 1-30 Patalās). 3 0 0 No. 78m2|ACTAFUTESH Asvalayanagrhyasutra with the commentary Anāvila of Haradattācārya. 2 6 0 No. 79-TERTETH Arthasastra of Kautalya with commentary by, Mahamahopadhyāya T. Ganapati Sastri (Part I, 1 & 2 Adhikaranās). 3 12 0 No. 80 -- Befattery Do. Do. (Part II, 3–7 Adhikaraņās). 4 0 0 No. 81-eriaafa:Yajnavalkyasmrti with the commentary Bâlakrida of Vibyarūpācārya (Part II. Prayascittadhyaya). 200 No. 82-ÅRIETH Arthasastra of Kautalya with commentary by, Mahāmahopådhyāya T. Ganapati Săstri (Part III, 8-15 Adhikaraņās). 3 4 0 RS. AS. P. No. 83--Taqreſa: Isanasivagurudevapaddhati (Tantra) by Išānaśivagurudevamiśra (Part IV, Kriyāpāda 31–64 Patalās and Yogapāda). 3 8 0 No. 84-8A5Ezranet: Aryamanjusrimulakalpa (Part III). 2 0 0 No 85-ryhteAT Visnusamhita (Tantra). 28 No. 86-Haitan Bharatacarita (Kavya) by Kışņakavi. 1 8 0 No. 87-AFTERT: Sangitasamayasara (Sangīta) of Sangītākara Pâráva deva. 1 2 0 No. 88-17: Kavyaprakasa (Alankâra) of Mammaţabhatta with the two commentaries the Sampradāyaprakāśinſ of Śri Vidyacakravartin and the Sâhityacândâmaņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 0 0 No. 89—rtie: Sphotasiddhi (Vyākaraña) by Bharatamiśra. 0 80 No. 90-ATHIETTI Mimamsaslokavartika with the commentary Kāsika of Sucaritamiśra (Part I). 2 8 0 No. 91-ETTETEH Horasastra of Varāhamihirăcārya with the Vivarana of Rudra. 3 0 0 No. 92_#fara Rasopanisat. 2 0 0 No. 93-वेदान्तपरिभाषा Vedantaparibhasa (Vedānta) of Dharmarājādhvarindra with the commentary Prakāśika of Peddādīkşita. 1 8 0 No. 94-99 Brihaddesi (Sangita) of Matangamuni. 1 8 0 No. 95 रणदीपिका Ranadipika (Jyotişa) of Kumāragaņaka, 0 4 0 9 RS, A8P. 2 No. 96-TIENT Rksamhita with the Bhāşya of Skandasvāmin and the commentary of Venkatamādhavārya (Part I, 1st Adhyāya in 1st Astaka) 1 8 0 No. 97–नारदीयमनुसंहिता Naradiyamanasamhita (Smrti) with Bhāşya of Bhavasvāmin. 2 0 0 No. 98-PIETCGH Silparatna (Šilpa) by Srikumāra. (Part II) 8 0 No. 99— THIEP Mimamsaslokavartika(Mīmāmsā) with the commentary Käsikā of Sucaritamiéra (Part II). 2 0 0 No. 100_1679 : Kayyaprakasa (Alankāra) of Mammatabhatta with the two commentaries, Sampradāyaprakasini of Śrīvidyācakravartin and Sahityacadamaņi of Bhattagopala. (Part II, 6-10 Ullasīs). 5 0 0 No. 101-uretera Aryabhatīya (Jyotiņa) of Aryabhatācārya with the Bhāęya of NIlakanthasomasutyan (Part I. Ganitapăda). 2 8 0 No. 102-No Dattila (Sangīta) of Dattilamuni. 0 4 0 No. 103-ame: Hamsasandesa (Vedanta) with commentary. 0 8 0 No. 104-arpaqueirat Sambapancasika (Stuti) with commentary. 1 0 0 No. 105–ffneta: Nidhipradipa of Siddha- Srikanthasambhu. 0 4 0 No. 106-APTEETH Prakriyasarvasva (Vyakarana) of Sri Nariyaņa Bhatta with commentary (Part 1) 1 0 0 10 RS. AS. P. No. 107—Ta Kavyaratna (Kavya) of Arbaddása 0 120 No. 108-alaatsiarra Balamartandavijaya Nataka) of Devarājakavi. 1 8 0 No. 109_Tart: Nyayasara with the commentary of Vasudevasūri. 1 8 0 No. 110-rfHtet Aryabhatiya (Jyotişā) of Aryabhatācārya with the Bhāşya of Nilakanthasomasutvan.(Part II. Kālakriyāpāda) 1 0 0 No. 111-Equi: Hridayapriya (Vaidyaka) by Parameśvara, 3 0 0 No. 112-कुचलोपाख्यानम् अजामिलोपाख्यानं च । Kucelopakhyana and Ajamilopakhyana (Sangſta) by H. 8. Svāti Sri Rama Varma Mahārāja. 0 4 0 No. 113--ustact: Sangitakrtis (Gāna) of H. H. Svāti Sri Rama Varma Mahārāja. 1 0 0 No. 114-TECRİTHIAI Sahityamimamsa (Alankāra) 1 0 0 No. 115~*HET Rksamhita (with the Bhāșya of Skandasvāmin and the commentary of Venkatamādhavārya) (Part II 2nd Adhyāya in the Ist Astaka.) 1 8 0 No. 116--arratuz Vakyapadiya (Vyākaraņa) with the commentary Frakirņakaprakasa oy Helarāja son of Bhatirāja. 1 8 0 11 RS. AS. P. 0 0 es No. 117-Feat THRUTH Sarasvatikantabharana (Vyå karana) by Bhojadeva with the commentary of Sri Närayapa Daņdanātha (Part I). 1 8 0 No. 118--THATH Balaramabharata (Nātya) by Balarama Varma Vanci Māhāraja. 2 8 0 No. 119-aaratus: Vivekamarthanda (Vedanta) of VisvarQpadeva No. 120 शौनकीयम् Saunakiya. (Smrti) 080 No. 121-BUTTETA: Vaikhanasagama (Tantra) of Marici, 2 0 0 No. 122-taseradera Prabodhacandrodaya (Nataka) by Krşņamiśrayati with the commentary Natakibharaña of Sri Govindamptam bhagavän. 200 No. 123-tafaria: Sangramavijayodaya(Jyotişa). 2 0 0 No. 124-hoo Haramekhala (Vaidynka) of Mahuka with commentary (Partl. chapters 2, 3 & 4) 1 8 0 No. 125- TET: Kokasandesa (Kavya) by Vişnutrātā. 0 8 0 No. 126-rafa: Karanapaddhati (Jyotişi). 04 0 No. 127-Readra Thcom Sarasvatikantabharana (Vyakarana) by Bhojadeva with the coinmentary of Sri Narayang Dandanatha. Part II). 1 8 0 No. 128_IT: Bhringasandesa (Kavya) by Vasudeva, 0 6 0 No. 129-CE: Hamsasandesa (Kavya)

12
RS. AS. P.
No. 130--HETYSat: Mahanayaprakasa 080
(Vedānta) by Abhinavaguptācārya.
No. 131-i Yrttavartika
1 8 0
(Chandas) by Rāmapāņivāda.
No. 132-ratge Tantropakhyana 0 6 0
(Kăvya)
No. 133-574aftar Udayavarmacarita.
0 0
No. 134-14 Yogayajnavalkya 0 4
No. 135-regalarazi Sarvadarsanakaumudi
by Madhavasarasvatī,
1 0 0
1 0
Apply to:-
The Superintendent,
Government Press,
Trivandrum

The Sarvadarsanakaumudi Of Madhavasarasvati No Xxiv

Author
K Sambasiva Sastri
Title
The Sarvadarsanakaumudi Of Madhavasarasvati No Xxiv
File name
The Sarvadarsanakaumudi Of Madhavasarasvati No Xxiv
Text
OCR done
Citation
1879
Publisher
The Superintendent Of Government Printing Calcutta
Language
Sanskrit
Pages
188
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
281103
Barcode
5990010902207.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In public domain
VMLT id
6XnSB4pZFRE
Download PDF

The Sarvadarsanakaumudi Of Madhavasarasvati No Xxiv