Bharatiya Vidya Bhavan Library, Mumbai

Tatva Prakash (granthank-68)

Bhojdev · 2012/08

PDF Proofread

Front matter

PREFACE, Tattraprakâra is a rare ancient work on the Saira System of Philosophy. The author of the work is king Bhoja Deva. It is probable that he is the same as the Bhoja Dera, the repnted author of Sarası atikanthabharana, Sringiraprakása, Patanjalasūtravritti and other trorks, as the latter is well-known to have been a master of varied branches of learning. There Frere three bings of the name of Bhoja in the Parmar Dynasty; one of them lived aloput 575 s. 1)., the other about 665 a. D., and the third about 1,044 4. n.; but it is not certain which of them in the present author. The Work is cited authority in the Saivaudar ana of the Sarudarsanaagraha The uathor of the commentary Tátraryadipikisis Sci- Lumâra. It is not known when and there this cotomentator lived, but it is certain that he is later than Paramesrarâcharya the author of the Laghu Bribmini, a commentary on the Laghustuti, as the Lagha Brihmini is quoted in the prescut commentary The edition of this work with commentary is lased on the following turce manuscripts: 1 (6) Lent by Mfr. Anantakrishna Sastri of Ariya. nayalipuram. 2. (a) Belonging to Mr. Voewarin Bluttatbiri, Thiruvalla. Do. Do, Do All these manuscripts are in Malayalam characters ou palm leaves, and the fint is an extremocy worn-out one. 3. (1) Trivandrum, 3th l'ebruary 1990 T. CAXAPATI SÂSTRI.

निवेदना। तत्त्वकाशो नामायमपूर्वोपलव्य. पुरातनो अन्यः पाशुपतदर्शन- गतानि तत्त्वानि संक्षिप्य प्रतिपादयति । अस्य अन्थस्य प्रणेता श्रीभोनदेवनृपतिः सरस्वतीकण्ठाभरण- शृङ्गारप्रकाश-पातालमूत्रष्टत्यादिकdभोजदेवादभिन्नः सम्भाव्यते, यतो भोजदेवस्य सर्वतन्त्रस्वतन्त्रत्वख्यातिरस्ति । भोजदेवाश्च परमारवश्यास्त्रय आसन् एकः ३६७७तमे कलिवर्षे, अपरः ३७६७तमे, अन्यः ४१४६तमे। तेषु प्रकृतः कतम इत्यनिश्चयः । किन्त्यय मन्यः सर्वदर्शनसवहे शैवदर्शने स्मर्यते । एतव्याख्यायास्तापर्यदीपिकायाः कर्ता श्रीकुमारः कुत्र कदा स्थित इति न ज्ञायते । किन्तु लघुस्तुतिव्याख्यां सघुबंदणी स्मरनयं लघु- बृहणीकारात परमेश्वराचार्यादर्वाचीन । सन्याख्यस्य तत्वप्रकाशस्य संशोधनाधारभूतास्तु अन्या एते -- १. श्रीयुतैः (हरनायकीपुरम्) आर्. अनन्तकृष्णशास्त्रिभिरुपकृतः क.संज्ञः (जीर्णत्रुटितपत्रः)। २. श्रीयुत-(तिरुवल्ला) महेश्वरभट्टतिरिसम्बन्धी ख.संज्ञः । ग.संज्ञः। सर्व एते. फेरलीयलिपयस्तालपत्रात्मकाश्च । अनन्तरायनम् त. गणपतिशास्त्री. तथा विपयानुप्रामणी। पुटम् . १२ १३-१७ २३-११ मथमः परिच्छेदः। विषयः इष्टदेवतास्तुतिच्छतेन सकलशास्त्रार्थसहः । अ- पवा निकलस्य प्राप्यस्य शिवतत्त्वस्याभिधानम् । प्रथम श्लोकचिताया इष्टदेवतास्तुतेरुतर श्लोफेन विवरणम् । अथवा निप्पलशिवतत्त्वप्राप्त्युपायभूतस्य स. फरस्य तेजसो ज्योतिर्लिंगरूपेगावस्थितिः । शक्तिसहितस्यैव शिवस्यानुप्राहकत्वाद् अखिलभु- वनजनन्या महेश्वर्याः स्तुतिः। विषयसम्रमप्रयोजनवत. शास्त्रस्य करणप्रति- ज्ञानम् । पतिपशुपाशात्मकतत्त्वत्रयनिरूपणम् शिवप्रसादात् पशूना मलादिपाशापगमे मुक्तिः, मुक्तानां शिवम्वभावत्वं , पञ्चमन्त्रात्मकम्य शिवम्यैकस्यैव नित्यमुक्तत्वम् । पतितत्त्वस्य लक्षण परीक्षा च । अर्थात् सर्गादि- पन्चकत्यान्यथानुपपत्त्या महेश्वरसिद्धिनिरूपणम् । पशुनिरूपणम् । विज्ञानकलप्रलयाकलसकलभेदेन पशूना त्रैविन्यम् । तत्र विज्ञानकलत्य मलयुतत्वं प्रलयाक- लस्य मलकर्मयुतत्वं च । सकलस्य मलमायाकर्मयुतत्वम् । एतेषु त्रिपु आद्य- स्य विज्ञानकलस्य समाप्तकलुपत्यासमाप्तकलुषत्वभेदेन द्वै- विध्यम् । तत्र समासकलपाणां विज्ञानकलाना विद्यधरस्थाने नियोजनम् , असमाप्तकपाणा विज्ञानकलाना सप्तकोटि- मन्त्रदेवतात्वकरण च। १२,४३ ४१,४५ ४६,१७ ४८ .

विषयः प्रलयाकलसफलयोः म्वरूपनिर्णयः , मलयालेषु केपाश्चिन् पक्कमलकर्मणा भुवनपत्तिखकरण केपान्चिद् गणेशत्वकरणं, सकलेषु केषाञ्चित् पक्कमलकर्मणां मन्ने- श्वरत्वकरणं, सर्वेषामेपां कर्मवमाद् देवमनुष्यादियोनिषु गमनं च। तत्र सकलेपु मण्डलिनामष्टकं, क्रोधादीनामएक, वीरेशश्रीकण्ठयोकिं, रुद्राणा शतकमिति विभागक्रम. । संसरतां पशूनां मोक्षमार्गेऽवतारनिरूपणम् । सूक्ष्मदेहेन बद्धाना शेषाणां सकलानां विषयभु- वत्यर्थ देवादिम्यानेषु स्थूलदेहेन संयोजनम् । पाशानां लक्षणं परीक्षा च । मलकममायीयति- रोभायकभेटेन पाशानां चतुर्विषत्वम् । मगध्यस्य पागस्य लक्षणम् । कर्माख्यम्य पाशस्य लक्षणं, तद्विभागः, माया- यस्य मागस्य स्वरूपनिरूपणं च । तिरोगायिकाया विभोः शक्तेश्चतुर्थपाशत्वेनाभिधा- नम् । एव त्रिविधतत्त्वनिरूपणेन प्रथमपरिच्छेटोपसहारः । , , ५८-७२ प्रय दिनीयः परिच्छेदः। पूर्वस्मिन् परिच्छेदे संक्षेपेणोक्ताना पनिपशुपाशा- नापत्र विम्होणोपदेशः । तत्र शियास्यम्य शुद्धतत्वस्य शिवशक्तिमदाशिवधरविद्याभेदेन पञ्चविधव, शुद्धाशुद्ध- सत्यम्य माया-तलार्यपञ्चक तदुपहितपुरुषभेदेन ससवि- पत्व, केवनामुदतत्वम्यान्यक्तादिपृथिव्यन्तम्य मायात उथ । ."

पुटर. ७५,७६ ७७-७१ ८१ २ विषयः पुरुषस्य पद्योभोंगा प्रयोविंशतेस्तत्त्वानामुत्पत्ति कपनम् । प्रथमोद्दिष्टस्य शिवतत्त्वस्य लक्षणम् । निष्क्रियस्य शिवतत्त्वस्य निखिलतत्स्वकारणलो- पपादनम् । द्वितीयस्य शक्तितत्त्वस्य लक्षणम् । तृतीयचतुर्थयोः सदाशिवश्वरतत्वयोः सरूपनि- रूपणम् । पश्चमस्य विद्यातत्त्वस्य स्वरुपवर्णनम् । शास्त्रान्तरप्रसिद्धयो दविन्दुतत्त्वयोः शिवतत्त्वे, वियेश्वरविधामन्त्रतत्यानामीश्वरतत्त्वे चान्त ववर्णनम् । पञ्चानामप्येया शुद्धतत्त्वानां काल्पनिकक्रमस- द्राववर्णनम् । एकस्यापि शिवतत्त्वस्य शक्तिव्यापारोपाधिवशा- देव सदाशिवादिभेदवर्णनम् । चितामचिता चानुग्रहकरणाय भगवतः पूर्वोक्त- रूपपरिमहवर्णनम् । सर्वानुमाहकस्य शम्भोः पाशवर्गा- नुग्रहकरणप्रकार। अनादिकर्मणो भोगप्रदानपूर्वकं चितां शिवसायु- ज्यलक्षणस्यानुग्रहस्य वर्णनम् । मोग विना कर्मनाशासम्भवाद् भोगार्थमेव शरीरे- न्द्रियभुवननिष्पनिर्भगवतः, कार्यान्यथानुपपल्या कर्तुरुपा- दानकारणस्य करणस्य च सामान्येन सिद्धिनिरूपणम् । विशिष्य चानुमानागमाभ्या जगकर्तुः परमेश्वरस्य सदावोधनेन द्वितीयपरिच्छेदोपसंहारः । ८७ ८८ अथ ठनीयः परिच्छेदः। कार्यस्य जगत, करणभूनानां परमेश्वरशक्तीना- उपासनमनाया मायायाध म्वरुपनिरूपणम् ।

पुटम्. १९४-११७ ११७,११८ १२० १२१ विषयः मायाया जगन्मलोपादानत्वसिद्धिनिरूपणम् । शम्भोः खायेच्छादिशक्तिभिः पुरुपस्य भोगार्थ शरीरोन्द्रियाद्याधानम् । मायात. प्रथमं कालतत्त्वोत्पादः । मायात एवानन्तर नियतितत्त्वस्योत्पत्तिस्तल्ल क्षणं च । तत एवानन्तरं कलाख्यस्य तत्त्वस्योत्पत्तिस्तल्लक्षण तत्सद्भावसिद्धिश्च । कालनियत्युपसृष्टया क्लया मायाया अवन्यन्तका- यजानविधानम् । पुरुषस्य कर्तृशक्त्यभिव्यक्तिहेतु भूतायाः कलाया अशुद्धविद्यातत्त्वोत्पतिः। इह संसारमार्गेऽन्यैव विद्यात- स्वस्य प्रष्टकरणत्वम् । बुद्धितत्त्वेनैव विषयप्रदर्शनसिद्धरतिरिक्तस्य विद्या- तत्त्वस्य परिकल्पने उपपत्तिनिरूपणम् । रागतत्त्वनिरूपणम् । ईश्वरस्य कालनियातकलाविचारागारल्यैरुक्तः पच्च- भिम्तत्त्वः सम्बन्धात् पशुभावमाप्रया भोस्तृत्वावस्था. प्राप्तिः, पुरपमनालामा, शिवतत्त्वव्यतिरेण तत्वेषु गणना चत्येवं तृतीयपरिच्छेदसमाप्तिः । १२२ १२२,१२३ १२ १२५ अथ चतुर्थः परिच्छेदः। पुरषम्य सुमाघनुभवाय मायावरवादन्यतोत्पतिः, अन्यक्तपदम्यान्यन्यस्यनं च । मध्यमाद् पम्यात्मकगुणवत्योपदि। गुजरया निवासनि, बुद्धिनवम्य लक्षण २२७ - नोरिम्प । १२४-१५५ ५ विषय पुटम्. १४१ बुद्धितत्त्वादहभारोत्पत्ति तम्य जीवनसरम्भगर्वभे- देन अविध्यम् । तस्यैव सात्विरराजसतामसभेदेन पुनवैविध्यम् । एतस्मादेन निविषादहहारादिन्द्रियतन्मात्रमनसा अष्टिनिरूपणम् । मनसो जानेन्द्रियाणा च यरूपनिरू- पणम् । ज्ञानेन्द्रियाणा पञ्चाना विषयनिरूपणम् । ज्ञाने- न्द्रियाणा लक्षण म्यम्पसिद्धिश्च । पञ्चाना फोन्द्रियाणा सद्रायसिद्धि , बुध्यहार- मनोभेदनान्त करणवैविध्यनिरूपण च। नायेन्द्रियाणा दशविधत्व तन्मात्रेभ्य पञ्चमहा- भूतोत्पतिश्च । तन्मात्रामा स्वमतेभ्यो महागतोत्पत्तियाग्ध । पम्चाना भूताना न्यापार.1 पर चतुर्थपरिच्छे दोपसहार.। ११९ १५०,१५१ १५१,१५४ १५५-१५९ अथ पश्चम. परिच्छेदः। मपानादुरुप माना अयोनिशतेतत्त्वाना कार्यकार- मा मना देवियम् । ताधार्यम्प सन्माप्रपनकमतान- पारमना दारात्य, पारणस्य पाणम्यन्तरभेदेन त्रयोदश- विपत्त र । के पशिउरे शियानि सदाशिवध. रविधात्यार थाना तत्सना चिटन, माया- पानिपनिर पिपारा पुरयाना ममान नरपाना निरिगए मालव, मनगमतुगिनेन. स्मानारहितारम १६१-१६१ विषयः मततन्मात्रात्मके दशके भावसाल्यविशेषनिरू- पणम् । उक्ताना सर्वेषा तत्त्वाना सृष्टिक्रमेण मायाया ल. यनिरूपणम् । मायाया. परपा शुद्धतत्वाना शक्तितत्त्वे लयः, तस्य शिवतत्त्वेनेक्यं, प्रलये मायापुरुपशियाना ज. गत्कारणाना सद्भावान् पुनरपि जगदुत्पत्तिसम्भवनिरू- पणम् । संसारतापतताना मर्वेषा प्राणिनां विश्रान्त्य महे- श्वरस्य प्रलयनिर्माण च । हत्थ पञ्चमपरिच्छेदसमाप्तिः । १६५ १६६-१७५ अथ पष्ठः परिच्छेदः। भोगेन कर्मबन्धनिवृत्तिद्वारा पशूनामपवर्गोपलम्भ- ना) देहेन्द्रियविषयष्टिनिरूपणम् । करणानिष. शम्भी. परिपकमलाना पशनर दी. शाविधानेन वन्धमोचनकरणम् । पनिशरवाना लक्षणकयन, तत्त्वलक्षणानाका- न्तवाच्चरीरघटादेग्नत्त्वान्तरत्वयुदासः, प्रतिज्ञातार्थोप- सहारध। स्त्रीयशास्त्रम्बीकरणाय कर्तृनामनिर्देश.। एव पा. परिच्छेदममाप्ति । . १०४ तत्त्वप्रकाशव्याख्यायां स्मृता ग्रन्थाः । -- २९. अथर्वशिखा अथर्वशिरः ध्वसिदि: आगमः आरणम् ईशावास्यम् ईश्भरगीता ऐतरेयोपनिषत् किरणम् १०९, १३६. २९. ७,८,९, १२, ११६. २०, २५, ३१, ५५, ५७, ११५, १२५. ३३, १७७. ८०, १५८, १५९. ३. फौर्मम् गुरदेवपद्धविः चन्द्रज्ञानम् वैचिरीयम् पम्रकाध्यायः देवीमन्यकल्पः नीलरुद्रसूक्तम् न्पापात्रम् पारपेश्वरम् ३, २९. १४६. २०, २५, ४३, ११९, १२३, १२४, १४३, १४७, १५५, १५७, १५८, ८,१५. ३२. पुराणागमः प्रयोगपअरी श्रृंगणी सरदारप्पकम् भारतम् ३०.

भुवनेश्वरीकल्पः भूतशुद्धितन्त्रम् मानवम् मोक्षधर्मः रौद्रसूक्तम् लिङ्गोद्रवः ११. २९. ६, १५, १६, ४२,५०,१२८, १३६. लैनोपरिमागः वायवीयम् विष्णुपुराणम् वैशेपिकभाप्पम् शतरुद्रीयम् शिवधर्मोत्तरम् शिवमूयम् शैवरहस्यम् ११, १७, २५, ४२, ४८,८६, ८७. ११६, १६३० १४६. २९. १९, २६, ७६, ८६, १४७. सेवागमः युतिः १८, २४, २५, ३२, ४५, ५२, ७४, ७५, १२२, १४५, १५८, १६१. २३, २५, ३०. २,३,४,५,६,७, ८, ११, १५, २१, २२, २९, ३१, १०४, १११, ११६. ३, ६, ७, १७,२२,२९, ७६. १७. १८, ३२, ४९, ५२, ५९, ७६, ८०, ८१. घेताश्वतरम् सनत्मजातम् सिद्धान्नट्यम् , ८२. सिदान्तागमः समुतिः २, ३, ६, ७, ९, २२, ७१, १०५.

तत्त्वप्रकाशव्याख्यायां स्मृता ग्रन्थकर्तारः । ५४. १७४. ३०. अगस्त्यः अवधृतपाद: आर्याकारः गुरुदेवाचार्यः दधीचः न्यायविदः पतञ्जलिः बादरायणः भगवान् विष्णुः भट्टपाद: मनुः मातहः ४, १०,४७, ६६. १४२. १६३. १८, ७९. १३८. ६१, ७९, १२१, १२४, १४७, १५६, १५९. ६२, ११४, १३५. ११८. मार्कण्डेयः रामः वेदव्यासः वैशेषिक: शतककार: शिवः (सूत्रकर्ता) शिवसूत्रवार्तिककर शैवाः साक्ष्याः ३. ६८. १४२, १४६, १४७, १४८. १२, ६८,११२, १२६, १२७, साइपाचार्याः ॥श्रीः॥ श्रीमोजदेवमाहीत तत्त्वप्रकाशः श्रीकुमारविरचितया तात्पर्यदीपिकाख्यया व्याख्यया समेतः। । नमः शर्वाय देवाय कारणत्रयहेतवे । निर्मलाय सदानन्दचित्स्वरूपाय शम्भवे ॥ शक्ति सदाशिवं शं नत्वा देवी सरस्वतीम् । तत्त्वप्रकाशतात्पर्यदीपिका क्रियते मया ॥ प्रारिप्सितस्यास्य शास्त्रस्याविनेन परिसमाप्तिप्रचय- गमनाद्यर्थम् इष्टदेवतास्तुति करोति- चिद्धन एको व्यापी नित्यः सततोदितः प्रभुः शान्तः। जयति जगदेकवीजं सर्वानुग्राहकः शम्भुः॥१॥ इति । नन्विष्टदेवतास्तुतिनमस्कारादेः शास्त्रपरिस- माप्तिप्रचयगमनादिहेतुता कुतोऽवगम्यते । शिष्टाचारानुमि- तादागमादिति ब्रूमः । शास्त्राद्यारम्भे शिष्टैरिष्टदेवतास्तुति- नमस्कारादेः क्रियमाणस्य तदिष्टपरिसमाप्त्यादिहेतुतां विना न सम्भवः । तेनास्य तहेतुत्वम् । तच्चागमादेवावगम्यते । अन्यस्य प्रमाणस्यावासम्भवात् । तथा "मङ्गलाचारयुक्तानां, विनिपातो न विद्यते।" (PT 49 500 1618 २ तत्त्वप्रकाशे सन्याख्ये इति स्मृतेश्च तदवगमः । तथा परिसमाप्तेः कादाचित्क- तया कारणापेक्षा । तच्चान्यस्यासम्भवान्नमस्कारादिजनितो धर्मविशेष इति कल्प्यते । कथं तस्य तद्धेतुत्वमिति चेद, उच्यते । नमस्कारादिः कायिको वाचिको मानसो वा धर्मविशेष सम्पादयन् विघ्नहेतुभूतमधर्म पर्यस्य परिसमा- प्त्यादिहेतुतामधिगच्छति, तस्येष्टत्वादिष्टहेतुत्वाच्च धर्मस्ये- ति । कथं तर्हि कचित् कृते नमस्कारे परिसमाप्त्यभाव इति चेत् . तद्वैगुण्यादिति त्रूमः । यथा कारीर्यादौ वृष्ट्यादि- माधनऽनुष्ठिते वृष्ट्याद्यभावात् तद्वैगुण्यकल्पना, प्रतिवन्ध- काधर्मप्राचुर्यकल्पना वा । एवमत्रापीति न विरोधः । कथं तर्हि नमस्काराद्यभावे कचित् परिसमाप्तिः, कारणाभावे का. योत्पत्त्यसम्भवादिति चेद, नैवम् । तत्र वाचिकनमस्का- गभावेऽपि कायिकमानसादेरनुमेयत्वाद् , अन्यथा परिसमा- तेरसम्भव इति । ननु तर्हि स एवास्त्वत्रापि, किं वाचिकेन ग्रन्थप्राचुर्यसम्पादकेनति चद्, नैवम् । वाचिके प्रयोजनान्त- ग्सम्भवेन तदुपादानात् । तथाहि -- यस्तु विस्मृत्येष्टदेवता- स्तुतिनमस्कारादि श्रवणे प्रवर्तते, तेनाप्याद्यश्लोकत्रयपाठ- मात्रादेव नमस्कारः कृतो भवतीति प्रयोजनान्तरसम्भवात् तदुपादानमिति न कश्चिद विरोधः । अथ पदार्थः -चिर- न इति चैतन्यधनः, चैतन्यमारः, चिन्मात्र इति यावत् । "अर्थप एव परमानन्दोऽनन्तरोऽपारो विज्ञानघन" इत्यादि- श्रुतेः, "आद्यन्तरहितं शुद्धं चिदानन्दमयं शिवम्" . , , प्रथमः परिच्छेदः। इत्यादिस्मृतेश्च भगवतः शम्भोश्चिद्रूपत्वं सिद्धम् । तथा शिवेन सूत्रका 'चैतन्यमात्मे'त्यनेन प्रथमसूत्रेणात्मनश्चैतन्यरूपत्व- मुपवर्णितमित्युपपन्नं चिढन इति। एक इति अद्वितीय इत्यर्थः । 'एकमेवाद्वितीयम्', 'अहमेकः प्रथममानं वर्तामिच भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः' इत्यादिश्रुतेः। तथा 'एको रुद्रो न द्वितीयाय तस्थुरिति श्वेताश्वतरे । 'एक एव रुद्रोन द्वितीयाय नस्थे' इति त्रयम्बकाध्याये। नीलरुद्रे च ~~ 'सर्वो रुद्रस्तस्मै रुद्राय नमोऽस्वित्यादिनाद्वितीयत्वप्रतिपादनादु- पपन्नं शिवाहितीयत्वमिति। न च प्रत्यक्षादिप्रमाणैरनेकार्थी- वभासादनुपपन्नं शिवाद्वितीयत्वमिति वाच्यम् । एकस्याप्यवः स्थानभेदेनानेकधा भासनोयपत्तेः । यथैकस्यैव मृत्पिण्डस्य घ- टशरावकुम्भकुड्यमृदङ्गाद्यात्मनावस्थानभेदवशेनानेकधा भा- सनं , सुवर्णपिण्डस्यैकस्यैवाङ्गुलीयकरुचककटकमकुटाधव- स्थानभेदवशेन, एवमेकस्यैव सतो रुद्रस्य घटः सन् पटः सन् कुसूलः सन् अस्तीत्यादिप्रत्यक्षतोऽखिलरूपतयाव- भासम्य 'एक सद् विप्रा बहुधा वदन्ति', 'एक सन्तं बहुधा करूपयन्ती'त्यादिश्रुतितश्वावस्थानभेदवशेनानेकधा भासनमु. पपद्यत इति न प्रत्यक्षादि(विरोध)सम्भवः । अपौरुषेयतयास- म्भवदोषण स्वतःप्रमाणभूतेन प्रवलेन वेदराशिना शिवाहिती- य(त्वस्य सिद्धत्वात् तद्विपरीतदुर्यलप्रत्यक्षादिसिद्धानेकत्वस्य याध्यत्वाच्च । तथाहि वेदवाक्यानामपौरुषेयत्वं प्रतिपाद्यते । तेनाप्रामाण्यकारणानामज्ञानरागपादीनां वेदवाक्येऽसम्भवा. दप्रामाण्यासम्भवः । न हि शब्दे स्वतो दोयः सम्भवति .

४ तत्त्वप्रकाशे सत्र्यास्ये आप्तानाप्तवाक्ययोः प्रामाण्याप्रामाण्यनियमसम्भावनात् ।न हि वक्तगतदोपतदभावानुसारं विना स्वतो दोपगुणाम्यो प्रामाण्यामामाण्ययोरभ्युपगमे तन्नियमः सम्भवति, आप्त्यना- प्योस्तदकारणत्वात् । नित्यस्य वेदराशेरनाप्तकृतत्वाभावे. नाप्रामाण्यासम्भवात्, स्वतःप्रमाणत्वे सति तत्सिद्धशिवाहि- तीयत्वस्य प्रयलयमाणसिद्धत्वान्न प्रत्यक्षादिविरोधसम्भवः । न च कर्प्रभावेन गुणस्याप्यभावात् प्रामाण्यस्याप्यभाव इति वाच्यम् । व्युत्पन्नपदपदार्थस्य तहाक्यश्रवणसमनन्तरमेव त- दर्थविषयप्रमोत्पत्तेरुपलम्भात् । गुणसहावश्च न प्रामाण्यका- रणम् , अप्रामाण्यकारणभूतदोपपरिहारार्थत्वादिति । तथा तत्परवेदसिद्धत्वाच शिवाहितीयत्वस्य न प्रत्यक्षादिबाधः । शिवाहितीयताप्रतिपादकस्य वाक्यस्य तत्र तात्पर्य पड्विध. लिङ्गसहावादवगम्यते । तदुक्तं न्यायविह्निः- "आदिमध्यान्तसङ्गानमभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥" इति । एतानि लिङ्गानि रुद्राहितीयताप्रतिपादकश्रुती स- न्त्येव । तथाहि - 'सर्वो वै रुद्रः', 'पुरुषो वै रुद्र', 'सवों झेप रुद्रः' इत्यादिमध्यान्तसङ्गानाख्यं तात्पर्यलिङ्गमुपलभ्यते । तथा 'सर्वो वै रुद्रः', 'सवा ह्येप रुद्रः इत्यसकृटुपदेशादभ्या- सलक्षणं च तात्पर्यलिङ्ग सिद्धम् । तथा 'विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्येप रुद्रः' इत्या. दिश्रुतेरज्ञातार्यत्यरूपं च तात्पर्यलिङ्गं सिध्यति । तथा तमेवं विहानमृत इह भवति', 'विद्यया विन्दतेऽमृतम्', 'आत्मा . प्रथमः परिच्छेदः। ज्ञातव्यः', 'तरति शोकमात्मवित्', 'न च पुनरावर्तते', 'भूय- श्चान्त विश्वमायानिवृत्तिः, 'य एवैक उहवे सम्भवे च', 'य एतं विदुरमृतास्ते भवन्ति' इत्यादिभिः शिवात्मैकत्वज्ञानस्य फलश्रवणात् तत्प्रतिपादकश्रुतीनां तत्र तात्पर्यसिद्धिः। 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति स्तुत्यर्थवादस- हावादेकत्वे तच्छ्रुतेस्तात्पर्य सिध्यति । तथा य एतस्मिन्नुदर- मन्तर कुरुते, अथ तस्य भयं भवति' अविदुपस्त्वथ तस्य भयं भवतीत्यादिनिन्दार्थवादसद्भावाच्च तत्सिद्धिः । तथा 'सर्वो वै रुदः' इत्यादिवाक्यसिद्धं रुद्रस्य सर्वात्मकत्वं वाक्या- न्तरेण 'पुरुष एवेदं सर्व, यकृतं यच्च भव्यमित्यनेन विरु- ध्येत। तत्र 'पुरुषो वै रुद्रः' इत्यविरोधोपपादनादुपपत्त्याख्यं च तात्पर्यलिङ्गं सिध्यति । तथा 'सदेव सोम्येदमय आसीदि'- त्यादिवाक्यान्तरसिद्धसदद्वितीयत्वविरोधं च परिहरद् 'रुद्रः सन्निति वाक्यमुपपादकम् । तथा 'वेदाहमेतं पुरुषं महा- तम्' इत्यादिना 'नान्यः पन्था अयनाय विद्यते' इत्यन्तेन श्रुतिवाक्येन सिद्धमहापुरुषादयत्वविरोधं च 'रुद्रः सन् मह(?) इति वाक्यं परिहरदुपपादकम् । तेन सुतरां रुद्राद्वितीयत्वे ऽस्याः श्रुतेस्तात्पर्यसिद्धिः । तदेतदनुवादसिद्धं शिवाद्वितीय- त्वमाश्रयणीयम् । अन्यथा तदानर्थक्यादिति । तदुक्तमा- र्याकारण "अज्ञातोऽर्थः फलवानसकृत् सम्भावितश्च दृष्टान्तैः । पौर्वापर्यानुगतः श्रुतः कथं कथ्यते तथा नेति ॥" इति । तस्मान्न प्रत्यक्षादिना दुर्वलेन बाधावकाश इति । - " ६ तत्वप्रकाशे सव्याख्ये प्रधान इति वा, 'नवा ओजीयो रुद्र! त्वस्ति', 'भी- पास्माद् वातः पवते । भीपोदेति मूर्यः। भीषास्मादग्निश्वेन्द्रश्च । मृत्युर्धावति पञ्चमः' इत्यादितैत्तिरीयात् श्वेताश्वतराच्च सर्व- प्राधान्यं भगवतो महेश्वरस्य रुद्रस्यावगम्यते । तथाहि----'य एवैको जालवानीशत इशनाभिः सर्वान लोकानीशत ईश- नीभिरि'त्यादि। "सर्वस्मादधिकत्वं य न वदन्ति पिनाकिनः । साधारणं स्मरन्त्येनं सदारस्त्वं समाविश ॥" इत्युक्तं लैङ्गे पुराणे । तस्मात् तत्प्राधान्यं श्रद्धातव्यमिति । व्यापीति । व्यापोऽस्यास्तीति व्यापी, सर्वगत इत्यर्थः । अगत्वा सर्वमूर्तसंयोगित्वं सर्वगतत्वम् । अगमनं च सर्वत्र- सद्भावाद् गगनदिति, 'आकाशवत् सर्वगतश्च नित्यः' इत्या- दिश्रुतेः, " "स हि सर्वेषु भूतेपु स्थावरेपु चरेषु च । वसत्येको महावीर्यो नानाभावसमन्वितः॥' इत्यादिस्मृतेश्च । न चाकाशवदेवास्य जडत्वमिति वाच्यम् । चिट्ठपताप्रतिपादकश्रुतिविरोधात् । अथवा व्यापित्वं सर्वस्व- रूपत्वमेकत्वे हेतुतयोक्तम् । तच्च "स इज्योतिः स यजमान आसीत् सो मातरिश्वा स उदेति सूर्यः । म चन्द्रमाः स पृथ्वी जलायः म आकाशो विश्वा भुवना विवश ॥" १. 'म' स. पाटः. २. ग. पाट.

प्रथमः परिच्छेदः। इति मूर्त्यष्टकप्रतिपादकलिङ्गसूक्तिश्रुतिसिद्धम् । नित्य इति । अविनाशीत्यर्थः । क्षरं प्रधानममृताक्षरं हरः' इति श्वेताश्वतर- श्रुतेः । कालत्रयव्यापित्वं वा नित्यत्वं तदाहित्यं वा । 'सर्वेषु कालेप्वनुसन्ततात्मेत्यादिश्रुतेः, 'परस्त्रिकालादकलो हि दृष्ट' इत्यादिश्वेताश्वतरश्रुतेश्च तदवगमः । सततोदित इति ।सततं सर्वदा उदयः प्रकाशो यस्यासौ तथोक्तः । अनुदितास्तमित- प्रकाशः, खयंप्रकाश इत्यर्थः । 'अत्रायं पुरुषः स्वयंज्योतिः' (इति श्रुतेः), 'सर्वगः पुरुषः पर' इतीश्वरगीतास्मृतेश्च तदव- गमः । प्रभुरिति । कर्तृकर्मकरणादिसकलकारकार्थवाहित्वरू- पाप्रतिहतैश्वर्य प्रभुत्वम् । तच्च यथोर्णनाभिः सृजत्येवमेवासौ सृजतीति श्रुतेः, "संसारहेतुः संसारो मोक्षहेतुश्च निर्वृतः" "प्रजायसे जनयसि जन्यसे मुहुः" इत्यादिस्मृतितश्च सिद्धम् । करणादि विना सकलकार्यजन- कत्वं वा । तच्च 'आत्मा वा इदमेकमेवान आसीन्नान्यत् किश्चन मिपत् । स ईक्षत लोकान्नु सृजा इति । स इमा- लोकानसृजत' इत्यादिश्रुत्यवगतम् । निष्क्रियकर्तृत्वं वा । "यथा मणिरयस्कान्तसान्निध्यादुपकारकः । अयसश्चलतस्तहच्छिवोऽप्यस्येति सूरयः ।। यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते। मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ।। १. मकर्तृकर' ग. पाठ. २. 'ते स ज ख. पाठ.. । " तत्वप्रकाशे सव्याख्ये - इत्यादिपुराणागमादवगतं तस्य तत्प्रभुत्वं , श्रमाद्यसम्भ- वात् । सन्यापारकर्तृत्वस्याप्रभुत्वरूपता च श्रमादियोगात् । तत्र हेतुमाह-शान्त इति । सर्वव्यापाररहितः शिवो यतः, अतोऽसौ प्रमुरिति । अथवा जगत्सृष्टिस्थितिध्वं- सादिकर्मसम्बन्धवशात् कर्मवश्यशरीरादिप्रसङ्गेन या संसा- रित्वप्रसक्तिभंगवतः, सा च निषिध्यते शान्त इति । स- क्रियारहिततयोदासीनस्वभावस्य परमेश्वरस्य सर्वज्ञस्य न परगतकियया संसारसम्भव इति । "निष्कलं निष्क्रिय शान्तं निर्गुणं तं निरञ्जनम्।" इत्यादिश्रुतेस्तवगमात् । तथा "पश्यन्ति ऋषयो मुक्ताः खात्मानं परमार्थतः। विकारहीनं निर्दुःखानन्दमात्मानमव्ययम् ॥" इतीश्वरगीतास्मृतेश्च । मुक्त इति वा । "तदेकमजमव्यक्तं नित्यलुप्तमलुप्तदृक्" इत्यादिश्रुतेः, "अहं ब्रह्माव्ययः शान्तो निमूलो निष्क्रियोऽव्ययः। एकाकी भगवान् मुक्तः केवलः परमेश्वरः इत्यादिस्मृतेश्च तदवगमः । जयतीति । सर्वोकण वर्तत इत्यर्थः । 'यस्मात् परं नापरमरित किश्चित् ' 'अणोरणीयान् महतो महीयानित्यादिश्रुतस्तदवगमात् । ."सर्वेन्द्रियेभ्यः परमं मन आहुमनीषिणः । मनसभाष्यहंकारः अहङ्कारान्महान् परः॥ १. 'तम्ब' स्व. पाठ २. 'तरम्' क. पाठ .. " ॥

प्रथम पारच्छदं । महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ प्राणात् परतरं व्योम व्योमातीतोऽमिरीश्वरः । ईश्वरान्न परं किञ्चित् ॥ इत्यादिस्मृतेश्च । (सो'स्त्रो)पासकानां श्रवणाद्युपजातपरमार्थ- दर्शने ज्ञानादेरभिभवादभिभवो वा जयतेरर्थः । तथा सर्वमा- स्मनो वशे कृत्वा वर्तत इति वशीकारोवा। तथा लयोदये निखिलकार्यजालं स्वात्मन्येव स्वीकृत्यास्त इति स्वीकारोवा। जगदेकबीजमिति। जगतः कालादेःकार्यजातस्य ए(तत् ? क) प्रधानं बीजं कारणं, मूलकारणमिति यावत् । अथवा जग- तामेकः कर्ता च वीजमुपादानं चेति जगदेकबीजं, निमि- चोपादानभूत इति यावत् । 'यतो वा इमानि भूतानि जा- यन्ते', 'यत् प्रयन्त्यभिसंविशन्ति', "एको रुद्रो मृत्युरव्यक्तमेकं वीजं विश्वमेकः स एव" इत्यादिश्रुतेः, "अस्माद्धि जायते सर्वमत्रैव प्रविलीयते" इतीश्वरगीतास्मृतेश्च परमेश्वरस्य जगदुपादानभावो गम्यते। तथा 'द्यावाभूमी जनयन् देव एकः', 'भुवनस्य पितरं गीर्भिराभिः स विश्वकृविश्वविदात्मयोनिः' इत्यादिश्रुतेः, 'सर्गकाले च करोति सर्गम्' इत्यादिस्मृतेश्च तस्य नि- मित्तभावोऽवगम्य इति मायाशरीरस्य परमेश्वरस्य जग- निमित्तत्वोपादानत्वे सम्भवत इति न विकारित्वादिप्रसङ्गः। सर्वानुग्राहक इति । सर्वपां चेतनानामचेतनानां चानु- अहं मोक्षायं करोतीति तथोक्तः । वक्ष्यति च-मुक्ति ' तत्त्वप्रकारे सव्यास्ये मुक्तिमणूनामिति । ननु यदि स्वप्रयोजनार्थमनुग्रहकरणं, तहि सर्वान(न्दावहानिः, तत्साध्यसुखस्य तदुत्पत्तेः प्राग(स). त्त्वात् । स्वप्रयोजनाभावे तु प्रवृत्त्यसम्भवः । तदुक्तं न्याय- विद्भिः "प्रयोजनभनुद्दिश्य न मन्दोऽपि प्रवर्तते । यदि प्रयोजनोद्देशो हीयेतानन्दरूपता ॥' इति । नैवम् । करुणया स्वभावतो वा प्र(वृत्युपपत्तेः । ननु यदि करणयानुग्रहकरणं, तर्हि मोक्षमेबासौ सृजेत्, न संसा- रात्मकं जगत्सर्जनं, तस्यान्याय्यत्वात् । तथाहि-दु:- खदर्शनपूर्वकं करुणया प्रवर्तमानानां तदुःखसंप्रहाणायैव प्र- वृत्तिरुचिता , न तदुःखसम्पादनाय । अतो न युक्तं दुःखा- त्मकं जगत्सर्जनम् । नैव(म्। अ)ज्ञाननिवृत्त्यात्मकस्यापवर्गस्य ज्ञानतत्कारणाद्यपेक्षत्वेन जगत्सर्जनोपपत्तेः तथाहि-ज्ञानं तावदपरोक्षभूतमपवर्गकारणम् । आपरोक्ष्यं च निदिध्यासने- नाविद्यासंस्कारतिरस्कारे सत्युङ्गवति । निदिध्यासनं च श्रव- णमननाभ्यां शिवात्मज्ञाने सजाते सम्भवति । ते चान्तःक- रणशुद्धितः सञ्जायते । सा काम्यप्रतिपिडकर्मपरिहारेण नि. त्यनैमित्तिककर्मानुष्ठानाद् भवति । तदनुष्ठानं पशुसस्यराज- रक्षादिपूर्वकम् । अतो यदिदं तत् सर्व मोक्षशेषमिति न व्यर्थ जगत्सर्जनम् । कामनाश्रुतयश्चैहिकफलाः 'चित्रया यजेत प- शुकाम' इत्यादय ऐहिकफलनिविष्टचित्तान् विमान् वैदिक- मार्गे प्रवर्तयितुं प्रवृत्ताः, स्वर्गफलाच तदुत्सुकानिति । ये च शत्रुनाशोत्सुकास्तान् वैदिकमार्ग प्रवर्तयितुं श्येना.

-- प्रथमः परिच्छेदः। (चि? जि)राद्यभिचारकर्मविधयश्चेति । ततश्च विहितस्तानपा- पक्षयकर्मानुष्ठानान्वाधानामिहोत्रादिना क्रमान्मनश्शुद्धिसम्भवे सति कामनानिवृत्तौ नित्यनैमित्तिककर्मानुष्ठानाद् आत्मवि- विदिषारूपान्तःकरणशुद्धयुद्भवे श्रवणमननाभ्यां शिवात्मज्ञाने संजाते निदिध्यासनाभ्यासादविद्यातत्संस्कारापनयना(न)न्तरं शिवात्मापरोक्ष्ये सति मोक्ष इति । तदुक्तं मोक्षधर्मादौ "सर्वत्र विहितो धर्मः स्वर्गः सत्यफलोदयः । बहुहारस्य धर्मस्य नेहास्ति विफला क्रिया॥" इति । अब ये महेश्वरनियुक्ते श्रौते स्मार्ते वा कर्मणि प्रवर्तन्ते, ते मुच्यन्ते । ये तु न प्रवर्तन्ते, ते संसरन्ति । तदु. क्तमैतरेयोपनिषदादौ---- "एष पन्था एतत्कर्म तस्मान्न प्रमा- येत नातीयात् न हत्यायत् पूर्वे येऽत्यायंस्ते पराबभूवुः" इ- त्यादि । अनुग्रहस्वभावत्वाहा प्रवृत्तिः । तदा च तस्य कार- णापेक्षितया न सकलजगन्मोक्षप्रसङ्गः। तदुक्तं श्रीवायवीये "अनुग्रहस्वभावत्वे न सर्वान्मोचयेच्छिवः । स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् ॥ न हि स्वभावतोऽसन्तमर्थ कर्तव साधयेत् । यथा विकासयत्येव रविः पद्मानि भानुभिः ।। समं न विकसन्त्येव स्वस्वभावानुरोधतः । एवं पक्कमलानेव मोचयेन शिवः परान् ।।" इत्यादि । शम्भुरिति । शं सुखं तस्मिन् भवतीति शम्मुः,. स्वयमानन्दरूप इत्यर्थः । 'विज्ञानमानन्दं ब्रह्मेत्यादि- श्रुतेः, 'आनन्दमजमव्यक्तं निष्कलं तदुदाहतमि'त्यादश्विर- १२ तत्त्वप्रकाशे सब्यारण्ये गीतास्मृतेश्च तदवगमः। ननु शिवस्यानन्दमयत्वे प्रीत्यात्मक- सत्त्वगुणरूपत्वेन सगुणत्वात् परिणामादिदोपप्रसङ्गः । तथा- हि सांख्याचार्यरुक्तं "प्रीत्यप्रीतिविपादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ।।" इति । नैवम् । प्रीत्यानन्दशब्दयोर्भिन्नार्थत्वात् । तथाहि विपयेन्द्रियसम्प्रयोगजन्यानित्यसातिशयसुखं प्रीतिशब्देनो- च्यते, सततेकरूपनित्यनिरतिशयात्मस्वभावसुखमानन्दशब्द- वाच्यमिति नोक्तदोपावकाश इत्येके अन्ये तु सत्त्वगुणे निर्म- ले पुण्यहेतुना विपयेन्द्रियसंप्रयोगेण परिणते नित्यसुखमेव प्रतिविम्बितं प्रीतिशब्देनोपदिष्टमें। "एतस्यैवानन्दस्यान्योनि- भृतानि मात्रामुपजीवन्तीति श्रुतेः सत्त्वगुणस्यै न सुखात्म- ता, सुखप्रतिविम्बाश्रयतया सुखरूपत्वाभिधानमिति मन्यन्ते। अस्य प्रथमश्लोकस्य सकलशास्त्रार्थसंग्रहरूपत्वाद् एतत्सृचितामिष्टदेवतास्तुतिमुत्तरश्लोकेन विवृणोति । अथवा इष्टदेवतास्तुतिच्छलेन निष्कलं प्राप्यं शिवतत्त्वमभिधाय त- साप्त्युपायभूतं सकलनिकलात्मकं तेजो ज्योतिर्लिङ्गादि- रूपेणावस्थितं स्तौति-~- नोदयति यन्न नश्यति निर्वाति न निईति प्रयच्छति च। ज्ञानक्रियास्वभावं तत् तेजः शाम्भवं जयति ॥ २॥ इति । अयमर्थः -यत् तेजो नोदयति नाविर्भ- वत्सादित्यादिवत् । न च नश्यति नारतं गच्छति। निर्वाति न न्या म्' क.पाट . २. 'म्यामु' स. पाठः. ३. "तिलिजात् लिन्ना क. पाठ. . - प्रथमः परिच्छेदः। न मुच्यते । अज्ञानतन्मूलरागद्वेपतत्प्रयुक्तप्रवृत्तिधर्माधर्मतह- श्यशरीरेन्द्रियाद्यभावेन संसाराभावात् । अज्ञानाभावश्च सर्व- ज्ञत्वात् । अपक्षयलक्षणविनाशप्रतिषेधो वा निर्वाणं, नितरां वानम् अपक्षयः न्यूनत्वं, तन्नास्ति, सततैकरूपत्वात् । तञ्च नित्यत्वात् । निर्वृति प्रयच्छति चेति । निर्वतिर्मुक्तिः तां प्र- यच्छति प्रददाति स्वोपासकानामिति । ज्ञानक्रियाखभावं ज्ञप्तकर्तृस्वभावं तच्छाम्भवं शम्भोरिदं शाम्भवं तेजः इतरते- जोनिकरेम्यः उक्तैः कारणैरुत्कृष्टमिति । अथवा, शाम्भवं ते- जो रूपं मन्त्रात्मकं विग्रहं, तत्प्राप्युपायभूतं सकलमिति या- वत् । जयतीति । सर्वस्मादुपरि वर्तत इत्यर्थः । कुतः, अस्य विग्रहस्येतरविग्रवदुत्पत्तिनाशाद्यभावात् । तच्च वेदमयत्वाद् वेदस्य च नित्यत्वादिति ॥ २॥ एवं महेश्वरं स्तुत्वा महेश्वरी महादेववल्लभामखिलभु- वनजननी नित्यसहिताम् "एप ते रुद्रभागः सह स्वस्राम्बि- कया तं जुपस्व” इत्यादिश्रुतिसिद्धपूजास्तुत्यादिसाहित्यप्रद- र्शनाय फलाप्तये च स्तौति- शको यया स शम्भुर्मुक्तो मुक्तौ च पशुगणस्यास्य । तामेकां चिद्रूपामाद्यां सर्वात्मनास्मि नतः ॥ ३॥ इति । अयमर्थः- यया शक्या भगवान् महेश्वरः पशु- गणस्यास्य भुक्तिप्रदाने मुक्तिप्रदाने च शक्तः समयों भवति, तां नतोऽस्मीति महेश्वरीस्तुतिकर्तव्यता प्रतिपादिता । तया विना भगवतोऽनुग्राहकत्वासंभवात् । तथाहि-शिवस्य तत्वपयागे सव्यारये सर्वगतस्य केवलस्य निष्क्रियस्योदासीनतनोः पशुसमुदायं प्रति भुक्तिमुक्तिप्रदानासंभवाच्छक्तिमत एव तत्पदानोपप- त्तिः । अतः शक्तिसहितस्यैवानुग्राहकत्वमिति । एकामि- ति । अद्वितीयामित्यर्थः । ननु शिव एव सर्वमिति पूर्व शि- वाहितीयत्वं प्रतिपादितम् । अतः कथमिहाद्वितीयतावाचो. युक्तिरिति चेत् । सर्वस्यापि वस्तुनो देवीदेवात्मकत्वसहा- वेनोभयाद्वितीयतावचनोपपत्तेरिति ब्रूमः । तथाहि --केव- लात्मावस्थानलक्षणस्यापवर्गस्य तावच्चिदानन्दरूपतया दे- वीदेवात्मता विद्यते । मोक्षस्यानन्दरूपत्वाभावे पुरुषार्थता हीयेत, सुखस्यैव मुख्यपुरुषार्थत्वात् । न च दुःखाभावस्यापि पुरुषार्थतयापवर्गस्यानन्दरूपत्याभावेऽपि दुःखसंस्पर्शविरहेण पुरुषार्थत्वसंभव इति वाच्यम् । दुःखाभावस्य सुखानुगु- णतया पुरुपैरर्थ्यमानत्वेन मुख्यपुरुषार्थवाभावात् । त- स्मात् सुखस्यैव मुख्यपुरुषार्थत्वेनानन्दरूपतापवर्गस्याश्रय- गीया ! सा चाननुभूयमानो न पुरुषार्थतां भजत इति तद- नुभवोऽप्याश्रयणीय इति सुखचिदात्मको मोक्ष इति तस्य देवीदेवात्मकत्वसिद्धिः । तत्र परमानन्दसंविद् देवी संविदा- नन्दो देव इति, 'एपा विया ह्यहं वेद्य' इति पुराणागमात् तदवगमः । तथा देवीमन्त्रकल्पे चोक्तम् - "आदिनाथ ऋपिदछन्दो देवी गायत्रि उच्यते । देवता परमानन्दसंविदत्रोपदिश्यते ॥" इति । भुवनेश्वरीकरपे च- १. 'ना पु' स्व. ग. पाठः.

प्रथमः परिच्छेदः। १५ "बोधस्वरूपवाची संवित् प्रोक्ता च देवता गुरुभिः" इति। तथा विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतेश्च तदवगमः। "थानुभूतिरजामेयानन्तात्मानन्दविग्रह्म । महदादिजगन्मायाचित्रभित्तिं नमामि ताम् ॥” इत्यभियुक्तवचनाच्च तदवगमः । न च संवित्सुखे पर- स्परमात्मनश्च भिन्ने आत्मगुणरूपे इति वाच्यम् । 'चि- दानन्दात्मकः शिवः' इत्यादिश्रुतिविरोधाद्, भेदाभ्युपगमे तद्गुणत्वासंभवप्रसङ्गाच्च । ननु चिदानन्दयोरभेदेऽन्यतस्त- दनुभवासंभवात् स्वयंप्रकाशतया मोक्षसंसारयोरविशेषप्रस- ङ्गः । नैवम् । संसारावस्थायां जपासन्निहितस्वयम्प्रभस्फ- टिकवदात्मनोऽसत्कैल्पतयानन्दानुभवासंभवेनाविरोधादिति । तदिदमानन्दं ब्रह्मणो रूपम् । तच्च मोक्षेऽभिव्यज्यत इति श्रुतिसिद्धम् । नन्वस्तु शुद्धतत्त्वस्य देवीदेवात्मतो । कार- तत्त्वस्य मायाशवलितस्य कथं देवीदेवात्मतेति चेत् । नि- मित्तोपादानभावनावस्थानादिति ब्रूमः । तदुक्तं लैङ्गे- , "अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः । गृहिणी प्रकृतिदिव्या प्रजाश्च महदादयः॥" इति । कार्यतत्त्वस्य चात एवं चिदचिदात्मतया देवीदेवरू- पत्वम् । तथार्च भूतानां चतुर्दशविधानां देहदेद्यात्मना है- रूप्याद् देवीदेवात्मता । ननु भूतानां कथं देवीदेवात्मकत्वम्। तद्विभूतित्वादिति ब्रूमः । तथाच बृहदारण्यकश्रुतिः--"ए- १. '' ग. पाठः, २. 'क' स. पाठः. ३. 'णशब्दम्य मा', १. 'न्य' ग. पाद . ५. व चिठा, ६. 'हि' क. पाठः, तत्त्वप्रकाशे सव्यारसे काकी न रमते । स द्वितीयमैच्छत्। स हैतारानासापुरत्वं स्त्री- सं चापातयत् । पतनात् पतिः पत्नी च।सा गौरभवत् ।ऋषभ इतरः। ताभ्यां गावः । सा बडवाभवदश्व इतराताभ्यामश्वाः" इत्यादिवाक्यरखिलजन्त्वात्मना देवदेव्योर्जगत्कारणयोरव- स्थानावभासादखिलस्य तद्विभूतित्वसिद्धिः । मानवे च- "द्विधाकृत्वात्मनो देहमर्धन पुरुषोऽभवत् । अर्धन नारी तस्यां च विराजमसृजत् प्रभुः ॥" "पुल्लिङ्गमखिलं देवः स्त्रीलिङ्गं परमेश्वरी ।" इति लैङ्गवचनाच्च तत्सिद्धिरिति । महेश्वरीमहेश्वरयोर्भेदा- भावेनोभयाद्वितीयत्ववचनम् । तथाहि-~-एकमेव शिवतत्त्वं पुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्गशब्दळववियते । भावानां तत्रै- विध्यदर्शनेनास्यापि भावतयान्यतमरूपप्रसक्तो तन्नियाम- कासंभवात् । तथाहि-शिवतत्त्वस्य स्त्रीत्वनपुंसकत्वयोर- भावेन घटस्य घटशब्देनेव महेश्वरशब्देन पुल्लिङ्गेन व्यवहा- रः । न च पुंस्त्वसहावाद् घटस्य घटशब्देन व्यवहार इति वाच्यम् । पुस्त्वस्यात्यन्तमत्रानुपलम्भात् । तथापि तस्य सत्त्वा- भ्युपगमे शशविपाणादेरपि सत्त्वप्रसङ्गः । तथा पुंस्त्वनपुंस- कत्वयोरप्यभावाच्छिवेति स्त्रीलिङ्गशब्देन व्यवहारः। न च तस्य स्त्रीत्वसद्भावादिति वाच्यं, शालामालादिशब्दानां तद्- भावेन, स्वार्थे. वृत्त्यभावप्रसङ्गात् । न च घयदौ, स्त्रीलिङ्गश- ब्दस्यापि प्रवृत्तिप्रसङ्ग इति वाच्यं, पङ्कजशब्दस्येव कचि. देव प्रवृत्तेरिष्टत्वात् । एवं पुरत्वस्त्रीलयोरप्यभावाच्छिवत- १. 'म्दभात्रा' क. पाठ.

१ - प्रथमः परिच्छेदः। त्वस्य नपुंसकलिङ्गेन ब्रह्मेत्यनेन शब्देन व्यवहारः, न च नपुंसकत्वसनावात्, कुण्डमित्रादिशब्दानां तदभावेन स्वार्थे वृत्त्यभावप्रसङ्गात् । तथा पुरुषादिशब्दानामितररूपासत्वाद् निमित्तात् प्रवृत्तिज्ञेया, लाघवस्य सद्भावादात्मनि च पुं- स्वरहिते वृत्तिसद्भावाच्चेति । तस्मान्महेश्वरीमहेश्वरयोर्मेदा. भावादुपपन्नमुभयाद्वितीयत्ववचनमिति। तदुक्तं बृंहण्यां- "शिवो देवः शिवा देवी शिवं ज्योतिरिति विधा। अलिङ्गमपि यत्तत्वं लिङ्गभेदेन कथ्यते ॥" इति । भगवता श्रीवादरायणेन सनत्सुजाते चोक्तं- "सा प्रतिष्ठा तदमृतं लोकास्ते ब्रह्म तद् यशः। भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च ॥" इति । पुंस्त्वाद्यभावश्च "नैव स्त्री न पुमानेप नैव चायं नपुंसक" इत्यादिश्वेताश्वतरश्रुतेः, "न च स्त्री न पुमानेप न चैवेदं नपुंसकम्' इत्यादिश्रीवायवीयागमाञ्च सिद्धः । कथं तर्हि भेदेन नमस्कार इति चेत्। शिवोपलक्षितशक्तेः शक्त्युपलक्षितशिवाद् भेदोपप- त्तेरिति त्रूमः । शक्तिशक्तिमतोरभेदादद्वितीयतोपपत्तिः । न च धर्मधर्मिभावेन शक्तितहतोरभेदासंभव इति वाच्यम् । केवल- भेदाभ्युपगमेऽस्यायं धर्म इति व्यपदेशाभावप्रसङ्गात् । न च स- म्बन्धसद्भावात् तदुपपत्तिरिति वाच्यम् । सम्बन्धस्यापि संव- न्धान्तराभ्युपगमेऽनवस्थाप्रसङ्गात् । अनाश्रयणे च सम्बन्धस्य १. 'स्त्वाहि' ग. पाठ.

. १८ तत्त्वप्रकाशे सव्याख्ये सर्वसाधारण्येनास्यायमिति व्यपदेशाभावः । तस्माद् धर्मध- मिजोरभेदोऽभ्युपगन्तव्य इति, कथञ्चिद्भेदस्थापि सहावेन भेदव्यवहारो मुखोदरादिभेदव्यवहारवदिति । शिवशक्त्यो- रभेदे हेतुमाह -चिद्रूपामिति । शिवश्चिहनः, (इ)यं च चिपा चित्स्वरूपा चिन्मात्रेति न तयोर्भद इति । अयमर्थः शैवरहस्ये चोक्तः- "अग्न्योण्यक्दद्वैधं द्वैधं च मिथः कथञ्चन दधाते । शक्तिशिवी बरवैक्यं मणिप्रभावद् यतो युक्तम् ॥" इति।आद्यामिति । अखिलकारणतया प्रथमोद्भूतामित्यर्थः। वक्ष्यति च-चिचिदनुग्रहहेतोरिति । सिद्धान्तहेदये चोक्तं. "सिसृक्षोराद्य उन्मेषः शक्तिसाम्यात्मकोऽस्य यः । तदुपाघिः शिवः शक्तितत्त्वमित्यभिधीयते ॥" इति । सर्वात्मनास्मि नत इति । मनसा वाचा कर्मणा प्रप- न्नोऽरमीत्यर्थः ।। ३ ॥ एव मिष्टदेवतास्तुत्यादिना निरस्तसमस्तान्तरायः शा- स्त्रकर्ता विपयसंवन्धप्रयोजनवच्छात्रं कर्तुं प्रतिजानीते लोकानुग्रहहेतोः करुणारसनिर्भरेण चित्तेन । तत्त्वप्रकाश एप क्रियतेऽस्माभिः समासेन ॥४॥ इति । लोकानुग्रहहेतोरिति । लोकानां पशूनामनुग्र- होऽपवर्गः, तदर्थमिति प्रयोजननिर्देशः। तदनभिधाने शास्त्र- स्याग्रहणं स्यादिति । तदुक्तं भगवता भट्टपादेन- "सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यत् प्रयोजनं नातं तावत् तत् केन गृह्यते ॥"

प्रथमः परिच्छेदः । १९ इति । वक्ष्यति च 'चिदनुग्रहस्त्वयं किल' इति । लोका- नुग्रहहेतोः एष तत्त्वप्रकाश इत्युक्तेः शास्त्रप्रयोजनयोः सा. ध्यसाधनभावसम्बन्धसिद्धिः, अन्यथा तार्थ्यासम्भवात् । तत्त्वानि प्रकाश्यन्ते प्रदर्श्यन्ते येन शास्त्रेण स तत्त्वप्र- काश इत्यनेनास्य शास्त्रस्य विषयः प्रतिपादितः । तत्वाना- मत्रे प्रतिपाद्यमानतया विपयत्वात् । ननु च शास्त्रात् प्रति- पाद्यमानतत्त्वविपयज्ञानमुत्पद्यते । अतः कथमस्यापवर्ग- साधनत्वमिति चेदुच्यते । तत्त्वज्ञानत्यावान्तरच्यापारत्वेन शास्त्रस्य तत्साधनत्वोपपत्तेः । तथाहि-शास्त्रश्रवणात् तत्त्वज्ञानं शास्त्रविषयमुत्पद्यते । तस्मिन् सत्यज्ञानान्यथाज्ञा- नयोनिवृत्तिः। ततस्तन्मूलरागाधभावः ततस्तत्कार्या प्रवृत्ति- निवर्तते । ततो धर्माधर्मयोरनुत्पत्तिः । पूर्वोत्पन्नयोः सश्चि- तयोः दीक्षाकर्मणा विनाशः। आरब्धकार्ययोस्तयोरस्तशरवद् विनियुक्तत्वादुपभोगादेव प्रक्षयः । ततः शरीराद्युपाधिविरहा. जीवात्मनः शिवस्वभावस्य घटाकाशस्य तदुपाधिघटविनाशे परमांकाश इव परमेश्वरे शिवे लयोऽपवर्गाख्यो भवतीति । एतदुक्तं श्रीकौम- "घटाकाशमिवाकाशे सरित्तोयसियार्णवे। जीवो मे विलयं यातु शिवाख्ये परमात्मनि ।। इति । शिवधर्मोत्तरे च "जगतरतत्त्वसंबोधादज्ञानं विनिवर्तते। अज्ञानविनिवृत्तौ च रागादीनामसम्भवः ॥ १. '' क. पाठ. " - २० तत्त्वप्रकाशे सध्याख्ये रागाद्युपशमात् पुंसां पुण्यपापपरिक्षयः। तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते ।। अशरीरं च संक्लेशैः सर्वेरेव न वाध्यते । क्लेशमुक्तः प्रसन्नात्मा मुक्त इत्यभिधीयते ॥" इत्यादि । तस्मात् शास्त्रात् तत्त्वज्ञानदारेणापवर्गों भवतीति सिद्धम् । ननु च यद्यस्मादेव शास्त्रात् तत्त्वज्ञानोत्पत्तिः, तर्हि शास्त्रकर्तुस्तत्वज्ञानाभावप्रसङ्गः, प्राक् शास्त्राभावात् । न च शास्त्रकरणानन्तरं तच्छ्रवणात् तस्य तत्त्वज्ञानमिति वाच्यं , तज्ज्ञानाभावे तत्त्वप्रतिपादकशास्त्रकर्तृत्वस्यैवासम्भ- वात् । न ह्यज्ञातेऽर्थे शब्दप्रयोगो घटत इति । नैतदेवम् । किरणपारमेश्वरादिपु तत्वानां प्रतिपादितत्वेन तच्छ्वणात् त- स्य तत्त्वज्ञानोपपचेः।न चारमदादीनामपि तथा तत्त्वज्ञानो- पपत्तेरनारम्भणीयमिदं शास्त्रमिति वाच्यम् । अस्मदादीनां तथाविधज्ञासामर्थ्याभावेन विप्रकीर्णतया विस्तरेण च प्रतिपाद्यमानतत्त्वविपयज्ञानस्याशक्यसम्पादनत्वात् । अथ तत्त्वज्ञानस्यापवर्गसाधनत्वे समुत्पन्नतत्त्वज्ञानारत्वनन्तरमेव मुच्यन्त इति शास्त्रकरणतद्यास्यानाद्यसम्भवाद् अस्मदा. दानां तत्त्वज्ञानासम्भवः । अथ शास्त्रकर्ता तदर्थमवतिष्ठत एवेति चेत् । न तर्हि तत्वज्ञानमपवर्गे साधनम् । तज्ज्ञान- सद्भावेऽप्यपवर्गाभावादिति । नेप दोपः । शिवात्मज्ञानस्या- परोक्षभूतस्यापवर्गजनकत्वाभ्युपगमात् । तथाहि --- श्रौते तत्त्वज्ञान संजातेऽपि न भवत्यपवर्गः । निदिध्यासनसम्भयस्य १. 'न' ग. पाठः प्रथमः परिच्छेदः। ज्ञानापरोक्ष्यस्य तदानीमभावात् । श्रौते हि तत्त्वज्ञाने सं- जाते मननसापेक्षपुनर्निदिध्यासनसंभवं शिवात्मैकत्ववि- घयम् अपरोक्षज्ञानं देहादिविपयापरोक्षभूताज्ञाननिरसना- त्मकमपवर्गमुपजनयति । तचापरोक्षभ्रमस्य परोक्षज्ञानेन नि- वृत्त्यसंभवात् । स चोदीच्यामुदित आदित्य इत्यपरोक्षदि- ग्भ्रमस्य तदुदयपूर्वकपूर्वदिक्त्वानुमानेन निवृत्त्यदर्शनादव- गम्यते । पुनश्वाभ्यासवशादपरोक्षज्ञानोगवे निवृत्तिदर्शना- च्चेति । तथाहि श्रुतयः श्रुतिशिरसि वर्तमाना एकमेवार्थमु- पपादयन्ति । तथा च 'अरे आत्मा द्रष्टव्य इति निर्दा- रेणापवर्गसाधनं शिवात्मदर्शनमेव विहितम् । तदुपायत्वेन श्रवणमनननिदिध्यासनानि विधीयन्ते 'श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इति। तेन न श्रवणमात्रजनितं विज्ञानमय- वर्गसाधनम् । किन्तु निदिध्यासनसम्भवं शिवात्मदर्शनमिति गम्यते । एपां श्रवणादीनां सद्वारेण निर्झरेण चौत्मदर्शनं प्रत्यङ्गत्वं, "श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः। ज्ञात्वा च सततं ध्येय इति "एते दर्शनहेतव" इति सिद्धं च । अतो न शास्त्रक- रणतयाख्यानाद्यसंभवः, तत्त्वज्ञानिनां यावदापरोक्ष्यमवस्था- नाभ्युपगमादिति। न च शरीरादिव्यतिरिक्तात्मासत्त्वेनाधिका- यभावात् स्वर्गापवर्गफलदमिदं शास्त्रमनारम्भणीयमिति वा- च्यम् । शरीरादिव्यतिरिक्तस्य नित्यस्य जीवात्मनः सद्भावस्य " १. चिक. ख. पाठ. २. 'चाद' ख. ग. पा. ३. 'स्य जी' क. पाठः, तत्त्वप्रकाशे सव्याख्ये वक्ष्यमाणत्वात् । न च मोक्षतत्साधनप्रतिपादकशास्त्रान्तरस- म्भावनादनारम्भणीयमिदं शास्त्रमिति वाच्यम् । शास्त्रान्त- राणां शिवतत्त्वाप्रतिपादकानां "यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥" इत्यारणवाक्येन श्वेताश्वतरेणापवर्गहेतुताप्रतिक्षेपाच्छिवप्रति- पादकानां चेतरतचव्यावृत्त्यात्मकशिवज्ञानविधायकवाक्यै- रपवर्गहेतुता प्रतिक्षिप्ता । तथाहि --द्विविधमिह शिवज्ञान- मपवर्गकारणम् इतरव्यावृत्त्या स्वरूपतश्चेति । श्रुतिस्मृत्यो- स्तथा विधानात् । 'आत्मा ज्ञातव्यः', 'प्रकृतितो विवेक्तव्यः', अन्यदेव तहिदिताद् अथो अविदिताद्' इत्याद्याः श्रुतयः इतरव्यावृत्त्या, 'सत्यं ज्ञानमनन्तम्', 'आनन्द', 'प्रज्ञानं ब्रह्मे- त्यादयः स्वरूपतोऽपि विज्ञानं प्रतिपादयन्ति । "नायं पृथ्वी न सलिलं न तेजः पवनो नभः । न प्राणो न मनोऽन्यक्तं न शब्दः स्पर्श एव वा ॥ न रूपरसगन्धाश्च नाहकर्ता न बागपि । न पाणिपादी नो पायुर्न चोपस्थं द्विजोत्तमाः! ॥ ने कर्ता न च भोक्ता वा न च प्रकृतिपूरुपौ। न माया नैव च प्राणश्चैतन्यं परमार्थतः॥" इत्याधाः स्मृतय इतरन्यावृत्त्या, १. 'नच क.. पाठ प्रथमः परिच्छेदः। ३ "आत्मायं केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षी चिन्मात्रस्तमसः परः ॥" इत्याद्याः स्वरूपतः शिवात्मज्ञानं प्रतिपादयन्तीत्युभयथा विज्ञानस्याश्रयणीयत्वात् । तथाविधविज्ञानसाधनमिदं शा- स्त्रमारम्भणीयमिति सिद्धम् । करुणारसनिर्भरेण चित्तेने- ति । करुणायाः संजातो रसः करुणारसः अनुजिघृक्षा । अ. थवा करुणा चासौ रसश्चेति । तेन निर्भर विशृङ्खलं यत् तत् करुणारसनिर्भरं, तेन । चित्तेन मनसा । न ख्यातिलाभपूजार्थं शास्त्रकरणं, किन्तु केवलं करुणानुन्नमानसरस्माभिः क्रियत इत्यर्थः । आत्मनि गुरुपु बहुवचनविधानादस्माभिरिति बहुवचननिर्देशः । समासेनेति शैवागमेपु विप्रकीर्णतया वि- स्तरेण चोक्तानां तत्त्वानां मन्दबुधनुग्रहार्थ समासेन संश्ले- पणेन, संक्षेपेण वेत्यर्थः ॥ ४ ॥ तत्त्वप्रकाशः क्रियत इत्युक्तं, तत्रेदमाशङ्कते कानि तानि तत्त्वानि, कियन्ति चेति । एकादिपत्रिंशान्तं बहुभिराचार्यंबहुधा तत्वानां प्रतिपादितत्वादाशङ्कासमुद्भवः । तामाशङ्कामपनेतुमाह शैवागमेष मुख्यं पतिपशुपाशा इति क्रमात् त्रितयम् । तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशः॥ शैवेति । अयमभिप्रायः- एकादिपशिान्तेपु त- त्त्वपक्षविशेपेषु सर्वेष्वपि मुख्यत्वादनभ्युपगमे दोपप्रसङ्गाच्च १. 'ती' ग. पाठः.

तत्वप्रकाश सम्पाख्ये पतिपशुपाशात्मकत्रैविध्यमाश्रयणीयम् । तथाहि-पशोःसं- सारिणोऽनभ्युपगमे धर्माधर्मजन्ममरणसुखदुःखानुभवलक्षण- स्य संसारस्य तन्निवृत्तिलक्षणस्य चाश्रयाभावादसत्त्वं, तत्प्रति- पादकश्रुतिस्मृतीतिहासपुराणादेश्च निर्विपयतयाप्रामाण्यप्रस- गच स्यात् । तथा पाशानां संसारहेतुभूतानां मलकममाया- ख्यानामभावे शरीरादरभावे स्वर्गनरकगमनजन्ममरणादेरभा- वप्रसङ्गः । आत्मनो निष्क्रियस्य तदखिलासंभवात् । तथा पत्युः परमेश्वरस्थाभावे जगत्सृष्टिस्थितिध्वंसधर्माधर्मवन्धमोक्ष- विचारादेरसंभवः , जीवानामसर्वज्ञानां शरीररहितानां तदसं. भवात् । तस्मात् तत्त्वत्रैविध्यं सर्वेष्वपि पक्षविशेषेप्वभ्युपेय- मिति । ननु तत्वैकत्वहित्वपक्षयोः कथं तदाश्रयणम् । उपा. धिभेदकृतभेदसहावादिति ब्रूमः । तथाहि-एकमेव जल- तत्वमुपाधिवशात् तरङ्गफेनबुहृदात्मनाप्रव्युतस्वस्वभावं यथा त्रैविध्यभागवगम्यते, तथायं शिवोऽप्यनच्युतस्वस्वभावस्त्रै- विध्यं पतिपशु(भावा?पाशा)त्मकमनुभवति । तदुक्तं शैव- रहस्ये- "अनुभवति हि पशुभावं शिव एवाणवतिरोहितात्मगुणः । सोऽपि मलो यः कश्चन शक्तिलवः सर्वथा शार्यः ॥" इति । प्रकृतिपुरुषात्मना हैविध्ये प्रकृतितदुपहितानुपहिता- स्मना विध्यसम्भव इति पत्रिंशान्तेषु चतुष्टयादिपु चेत- रतत्त्वानामत्रवान्तभावात् तंत्रविध्योपपत्तिः। तथाहि-पत्यौ शुद्यानां तच्चानामन्तर्भावः । मायाकार्याणां शुद्धाशुद्धाना १. 'णाभ्यु' पाट:. २. 'म्य . म. पाठ , प्रथमः परिच्छेदः। "पत्यौ शिवस्वभावाः सर्वे सर्वात्मना प्रकाशन्ते । केचन पाशेपु पशुपु चान्तर्दधते निरवशेपम् ।।" इति । अत एवास्य त्रितयस्य मुख्यत्वम्, अन्येपामनैवा- न्तर्भावाद् । अथवा क्रमान्मुख्यत्वमिति । ननु कथमेतद- वगम्यत इत्यत आह-शैवागमेविति । ते च- "कामिकं योगज चिन्य कारण वैजितं परम् । दीप्तं सूक्ष्मं सहस्रं च अंशुमान सुप्रभेदकम् ॥ विजयं चैव निःश्वासं स्वायम्भुवमतः परम् । वीरं च रौरवं चैव मकुटं विमेलं तथा । चन्द्रज्ञानं च विम्वं च प्रोद्गीतं ललितं तथा । सिई सन्तानसर्वोक्तं पारमेश्वरमेव च ॥ किरणं वातुलं चैव त्वष्टाविंशतिसंहिताः। मूलभेदमिति ख्यातमसंख्यमुपभेदकम् ॥" एपूक्तत्वादिति । तथाहि पारमेश्वरे तावत्- "पाश्यः पाशयिता पाशास्त्रयमेतद् व्यवस्थितम् ।” इति । किरणे च. "पशुपाशपतिज्ञानविचारप्रतिपादकम् । किरणाख्यं महत् तन्त्रम् इत्यादि । श्रीवायवीये च- "अजडं च जडं चैव नियन्त च तयोरपि । पशुः पाशः पतिश्चेति कथ्यते नितयं ऋमात् ॥" शेवेति शिवप्रणीतत्वविशेषणेनागमानां प्रामाण्य सूचितम् । तवाहि-शिवस्य सर्वज्ञतयाज्ञानान्यथाज्ञानरागद्वेषादेरमा- १. 'च', २. 'दुम त' स. पाठ. A तत्वप्रकाशे सव्याख्ये माण्यवाक्यरचनाहेतोरभावात् तद्रचितानामागमानां सिध्य- त्येव प्रामाण्यम् । न हि सर्वज्ञस्याज्ञानं संभवतीत्यज्ञाना- दप्रमाणवाक्यरचनेति वक्तुं न शक्यते । अज्ञानाभावा- देव तन्मूलरागद्वेपादेरभावात् तन्मूलाप्रमाणवाक्यरचना- सम्भवः । तस्मात् क्षीणदोपतयातेन महेश्वरेण रचितानां प्रामाण्यसहावात् तदुक्तप्रमेयतथात्वमभ्युपेयमिति । तदुक्तं शिवधर्मोत्तरादी- "विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकम् । लोकानुग्रहकर्ता यः स मृपार्थ कथं वदेत् ॥ सर्वज्ञपरिपूर्णत्वादन्यथा केन हेतुना । घूयाद् वाक्यं शिवः शान्तः सर्वदोपविवर्जितः ॥ यद् यथावस्थितं वस्तु गुणदोपैः स्वभावत्तः । यावत्फलं च यत् पुण्यं सर्वज्ञस्तत् तथा वदेत् ॥ रागाज्ञानादिभिविग्रस्तत्वादनृतं वदेत् । ते चेश्वरे न विद्यन्ते ब्रूयात् स कथमन्यथा ॥ अपारताशेपदोपेण सर्वज्ञेन शिवेन यत् । प्रणीतममलं वाक्यं तत् प्रमाणं न संशयः ॥ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता। यथार्थ पुण्यपापेषु तदश्रद्धो बजत्यधः ॥" इति । नन्त्रीश्वरप्रणीततागमानां कुतोऽवगम्यते । तदागमेरे- वेति चेत् । तदतरेतराश्रयता । अथागमस्य प्रमाणभूतस्या- तकपेक्षायां तदन्यस्यातीन्द्रियार्थदर्शिनः कर्तृत्वासंभवाच्च १. 'योक्तन' ख, ग. पाठ.

प्रथमः परिछेदः। सर्वेश्वरस्य सर्वकर्तुः सर्वज्ञस्यागमकर्तृत्वं निश्चीयते इति चेत् । नैवम् । आगमप्रामाण्यानिश्चयादेवं कल्पनानुपपत्तेः । तथा आप्तान्तराप्रणीतत्वे प्रमाणाभावादतीन्द्रियार्थदर्शिनः कर्तृत्वाविरोधाच न शिवप्रणीतत्वविशेषणस्यार्थवत्त्वमिति । नैतदेवम् । आगमस्य प्रतिपत्तिसामर्थ्यात्मकात् प्रमाणान्त- रात् प्रामाण्यसिद्धेः । तथाहि-द्विविधो ह्यागमः, दृष्टार्थोऽह- टार्थश्चेति । तत्र दृष्टार्थानां चित्रायागविधायकवाक्यमह- शानां तदुक्तकर्मानुष्ठानेन तदुक्तफलसंभवदर्शनात् प्रामा- ण्यमनुमाय तत्कर्तुरतीन्द्रियार्थदर्शित्वेन परमाप्तत्वनिश्चयेऽन्ये- पामदृष्टार्थानामपि तत्कर्तृकतया दृष्टार्थवाक्यवत् प्रामाण्य- मनुमीयत इति । न च पूजाजपादिविशिष्टकर्मणां विशि- टतत्तत्फलसाधनतामध्यक्षतोऽवगच्छन्नागमकर्ता भवेदेसर्व- ज्ञः, एतद्दर्शिनो - ह्यदृश्यवस्वन्तराभावात् । न चानुमाना- दिममर्थमुपलभ्य तत्र वाक्यरचनेति वाच्यम् । व्याप्तिन- . हणलिङ्गादेरसम्भवात् । अनुमानं हि लिङ्गलिङ्गिनोः प्रत्यक्षतो व्याप्तिग्रहणे सति लिङ्गमांत्रदर्शनादुपजायमान लिङ्गवि- ज्ञानम् । तथाहि-प्रत्यक्षतो महानसादौ धूमाग्न्योलिङ्ग- लिङ्गिनोरविनाभावे गृहीते देशान्तरे पर्वतादौ धूमदर्शना- दग्न्यनुमान प्रवर्तमानं दृष्टम् । तदन फलकर्मणोः साध्य- साधनभावस्य लिङ्गलिङ्गनोः प्रत्यक्षतया लिङ्गानुपलम्भाच व्याप्तिग्रहणासंभवान्नानुमानसंभव इत्यनुमानमूलता नागमा- १. 'स्याम' सं. पाठः, २. 'त् स' क. पाठः, तत्त्वप्रकागे सव्यख्ये नाम् । नाप्यागमान्तरमूलता । तस्यापि पौरुषेयत्वेनागमा- न्तरमूलताभ्युपगमेऽनवस्थाप्रसङ्गात् । न च वेदव्यतिरिक्त- मपौरुषेय वाक्यं पश्यमः, येन तन्मूलता करप्येत । तस्मा- नागमान्तरमृलतागमानाम् । न च योगिनामतीन्द्रियार्थद- शिनामागमकर्तृत्वमिति वाच्यम् । तेषां महेश्वरप्रसादापेक्षस- वज्ञतथा तदुपायदीक्षापूर्वकपूजाद्यावेदकागमानां सहावस्य प्रागेवाश्रयणीयत्वाद् जगत्कर्तुः शिवादन्यस्यागमकर्तृत्व- कल्पनायां गौरवापाताच स एवागमानामपि कर्तेति क- रुप्यतेन च परस्परविरुद्धधर्मप्रतिपादकागमानां एकातकर्त्र- भ्युपगमासंभवादनेकाप्तकर्चम्युपगमप्रसङ्ग इति वाच्यम् । वर्णाश्रमाद्यधिकारिभेदवशेन वेद्यस्य चकस्यैव शिवस्य करु- णानिधेविरुद्वधर्मोपदेशोपतत्तेरिति नेतरेतराश्रयत्वादिदोपः । न च लोकपरिग्रहे स्यादन्योन्याश्रयत्वमिति वाच्यम् । तस्य प्रामाण्यपरिज्ञानमूलवाभावात् । तथाहि-प्रथमं तावद् आ- गमानं विरचय्य ब्रह्माणं स्वसुतं महेश्वरी ग्राहयामास । ततः स्वमुतान ब्रह्मा, ततस्तेऽपि स्वमुतानिति, वेदपरिग्रहबदा- गमपरिग्रहोपपत्नोंक्तदोपावकाशः। ननु शिवप्रणीततयाग- मप्रामाण्यं पूर्वमुपवर्णितम् । संप्रति प्रतिपत्तिसामर्थ्यादिति पूर्वापरविरोध इति चेद्, न उत्पत्तिज्ञप्त्यपेक्षया उभयोर- प्युपपत्तेः । तथाहि-शिवमणीततयागमानां प्रामाण्यमुप- जातं तत्प्रतिपत्तिसामयनानगम्यत इति न कश्चिद्विरोधः । वेदमूलत्वाहागमनामाण्यम् । तदानीमपि शिवप्रणीत्वादागम- १. निवे' ग. पाठः. २. समाग' स. ग. पाठः- प्रथमः पारच्छदः। प्रामाण्यं द्रढयति, शिवदृष्टस्य वेदार्थस्याबाध्यत्वादिति।स चा- गमो द्वेधा, प्रत्यक्षश्रुतिमूलोऽनुमेयश्रुतिमूलश्चेति। तत्र प्रत्यक्ष- श्रुतिमूलानाम् आगमानांप्रत्यक्षश्रुतिमूलवत्प्रामाण्यम्,अनु- मेयश्रुतिमूलानाम् अष्टकादिश्रुतिमूलवदिति आगमेघु प्रति- पाद्यमानानामर्थानां श्रुतिपूपालम्भात् तन्मूलतागमानामव- गम्यते । तथाहि - 'रुद्रोऽवश्यं यष्टल्य' इति श्रुतिवाक्याद् रुद्रयागकर्तव्यतावभासते । तन करणादिकं मन्त्रार्थवादाव- गतमागमैः प्रतिपाद्यत इति तन्मूलतागमानाम् । तथाहि-- 'तमु छुहि यः स्विपुः सुधन्वा य' इत्यत्र पूजास्तुतिनमस्कारादे, रुद्धगोचरस्य महत्सौख्यनामकापवर्ग प्रति हेतुतावगम्यते । 'अन्तरिच्छन्ती'त्यत्र ध्यानजपौ रुद्रविपयौ कर्तव्यौ इत्य- वगम्यते । 'यज्ञं रुद्राय मीढुपे' इत्यत्र पान्तं पानीयं सोमाख्यमन्धो हवी रुद्राय हरध्वमित्यवगम्यते । एवं शत- रुद्रीयनीलरुद्रसूक्तश्वेताश्वतरेशावास्याथर्वशिरस्तच्छिखारौद्र - सूक्तारणादिप्वागमप्रतिपाद्यमानानामर्थानां सहावो द्रष्टव्य इति । अत्र प्रयोगाः-विवादपदं तन्त्रशास्त्रं प्रमाणं, यथार्थ- त्वात् सम्प्रतिपन्नवाक्यवत् । तथा तन्त्रशास्त्रं प्रमाणम्, भा- तोक्तत्वात् , यद्यदाप्सोक्तं तत्तत्प्रमाणं, यथा पुराणादि, त- थेदमातोक्तं, तस्मात प्रमाणम् । तथागमा: शिवप्रणीताः, तद- न्याजन्यकार्यत्वाद्, यद्यत् तदन्याजन्यकार्य तत्तन्छिवप्र- णीत, यथा प्रपन्नः । तथा चैते । तस्मान्छिवप्रणीताः । तन्त्रशास्त्र कार्य, वेदान्यवाक्यत्वात् , यद्यद् वेदव्यतिरिक्तवा- क्यं तवज्जन्यं दृष्टम् । क्या भारतादि । न च प्रपञ्चस्य २. 'स. पाठ. ३. भ्यताका' ग. पाठ, तत्वप्रकाशे मव्याल्ये शिवप्रणीतत्वासिद्धेः साध्यविकलो दृष्टान्त इति वाच्यम् । तस्योपरिष्टादुपपाद्यमानत्वात् । तथा तन्त्रशास्त्रं प्रमाणं, वेदमृलवाद , मन्वादिस्मृतिवत् । तद् बेदमूलं च, तदु- तार्थप्रतिपादकत्वाद्, मन्वादिस्मृतिवदिति । अथ, शास्त्र- मप्रमाणम् अनाप्तकृतत्वात्, सम्प्रतिपन्नवदिति प्रत्यनुमान- वाधादोपप्रसङ्ग इति चेद्, नैवम् । विकल्पानुपपत्तेः । तथाहि - अनाप्तकृतत्वादिलस्य कोऽर्थः । यद्याप्तेनाकृ- तत्वम्, आहारिवदनाप्तेन कृतत्वं, यद्याद्यः पक्षः, तर्हि वेदवाक्यभिचारः, तेपां प्रमाणभूतानामेयाप्तेनाकृतत्व- हेतोः सद्भावात् । असिद्धाध्यायं हेतुः, आप्तकृतत्वस्य साधितत्वात् । यद्युत्तरः पक्षः, तदा चातकृतत्वादेवासिद्धता । न चानाप्तरचिता आगमाः, बौद्धाद्यागमव- दिति साधयितुं शक्यत्वान्नासिद्धतेति वाच्यम् । वेदार्थप्रतिपा- दकतया वेदमूलानामागमानां वेदविरुद्धत्वस्याप्यसिद्धत्वात् । तस्मान्छवागमेपृक्तवैविध्यादिकं मार्कण्डेयागस्त्यरामदधीचा- दिसकलशिष्टजनः परिगृहीतत्वाचादरणीयमिति । पतिपशुपा- गा इति । पतिका पशवच पाशाथेति तथोक्ताः। के ते इ. साकाक्षायामाह -तत्र पतिः शिव उक्तः पशवो घणयो- ऽर्थपशकं पाशः इति । तत्र तेपो मध्ये पशूनां पालनात् पतिशब्देन शिय उत्तोऽभिहितः। पदावाधणयः अणुत्वस- म्पादकमलादिसंबन्धिनः। शिवस्वभावा जीवाः पशवः न वेदविरुद्धत्वाद १. ' पाठ. २. नी. १3.

-- प्रथमः परिच्छेदः। चतुप्पाद एव, द्विपदां च पशुत्वश्रवणात् । तथाहि- -"एतावन्तो चै पशवो द्विपादश्चतुप्पादश्च । यो वामिन्द्राव- रुणा हिपात्सु पशुपु यो चा चतुप्पात्सु पशुप्वि"सादिश्रुतेः। तेषामीश्वरत्वाद् भगवतः शिवस्य पशुपतित्वं, "येपामीशे पशुपतिः पशूनां चतुप्पदामुत च द्विपदामिति श्रुतेः । लै- डोपरिभागे च- "ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः । पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ॥ तेषां पतित्वाद् भगवान् रुद्रः पशुपतिः स्मृतः। इति । ननु केन कारणेन जीवात्मनां शिवस्वभावानां मला- दिपाशसम्बन्ध इति चेदुच्यते । मलपाशसंवन्धात् कर्मपाशसं- वन्धः। तत्संबन्धान्मायापाशसम्बन्धः । मलपाशसंबन्धस्य त्व- नादित्वेन न कारणापेक्षा । यस्य वस्तुनः आदिमत्त्वं तस्यैव हि कारणापेक्षित्वम् । अस्य वनादित्वान्न कारणापेक्षति । तदुक्तं किरणे- "अनादिमलसंबन्धान्मलिनत्वमणी स्थितम् । अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे ।। आदिमत्वं यदा सिद्धं निमित्तं कथ्यते तदा । ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुई यथार्थतः । विशुद्धः स्फटिकस्तस्मात् तानं सकालिकम्। (2) यथास्मिन्न निमित्तं स्यात् तथा न स्याच्छिवात्मनो" इति । ननु तर्हि पशूनां शिवत्वाभावप्रसङ्ग इति चेत् । नैवम् । तेपां शिवस्वभावत्वे श्रुत्यादिप्रमाणसद्भावस्य वक्ष्यमाणत्वात्। अत एवं पाशवदत्वात् पशुत्वम् । तेन किञ्चित्कर्तृत्वादि- - .

, - १२ तत्त्वप्रकाशे सव्याख्ये नाणुत्वं, न परमाणुवदवस्थानात्। तेपामव्यापकत्वेन तदसं- भवादिति । अर्थपञ्चकं पाश इति । अर्थानां मलकर्मसूक्ष्म- स्थूलमायापाशानुग्राहकशिवशक्तीनां पञ्चकमर्थपञ्चकं, तत्पा- शाख्यं तत्त्वमिति । तदुक्तं- "मलं कर्म च माया च मायोत्थमखिलं जगत् | तिरोधानकरी शक्तिरर्थपञ्चकमुच्यते ॥" इति । ननु अर्थपञ्चकं पाश इतीह प्रतिपादितम् । शा- स्त्रान्तरे तु पाशानां त्रैविध्यमुक्तमिति विरोधः। तथाहि शैवरहस्ये तावत् - "सहजमनादि मलं स्यात् पाशेपु विष्वपि प्रधानतमम् । कर्म च माया च मले सति पाशतया प्रवर्तते ॥" इति । प्रयोगमञ्जयों च 'पाशास्त्रयो निगलयन्तीति । नैवम् । ईश्वरशक्तेः पाशानुग्राहितयैव पाशत्वाभिधानान्मा- यापाशस्य स्थूलसूक्ष्मात्मना दैविध्येन च पञ्चधा भेदाभि- धानादिति । अध्वपञ्चकं पाश इति केचित् पठन्ति । तदा- ध्वनां पण्णां तत्त्ववर्णमन्त्रभुवनपदकलानां पञ्चकमध्वपश्चकं पाश इति । तदुक्तं सिद्धान्तहृदये- "शियः पशुपतिः प्रोक्तः पशवो ह्यणवो मताः । ते पाशबन्धात् पशवः पाशः स्यादध्वपञ्चकम् ॥ अध्यानस्तत्त्वभुवनकलार्णपदमन्त्रकाः । यैरमी पुरुपा बडाः संसरन्ति भवाद् भवम् ॥ - १. 'द्धा प ग. पाठ.

- प्रथमः परिच्छेदः । मलादिजाः पडध्वानः तत्त्वाद्यारते च पञ्चधा । निवृत्त्यादिविभागेन तदुक्तं यध्यपञ्चकम् ॥" इति । गुरुदेवपद्धतौ च- "अथाध्यानां क्रमादेषां व्याप्तिः सम्यङ् निगद्यते । पृथ्वीतत्त्वं क्षवर्णश्च मन्त्री हृदयसको। कालाग्निरपि कूश्माण्डहाटको ब्रह्मवैष्णवे । रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्य भवन्ति षट् ॥ अण्डाद् बहिः शर्त रुद्रा दशदिक्षु व्यवस्थिताः कपालीशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः॥ विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः । प्राच्यां दिशि अग्नी रुद्रो हुताशश्च पिङ्गलः खादको हरः ॥ ज्वलनो दहनो बभ्रुः भस्मान्तंश्च क्षयात्मकः । आग्नेय्यां दिशि- यमो मृत्युहगे धाता विधाता तथापरः॥ कर्ता चैव च संयोक्ता नियोक्ता धर्म एव च । तह धर्मापतिस्तत्र दशमो दक्षिणे स्थिताः ॥ निर्मतिर्मारणो हन्ता क्रूरदृष्टिभयानकः । उकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ॥ नैनीत्यां १. 'त' स. पार

-
तत्त्वप्रकाशे सत्र्यास्त्र
बलो हतिवलश्चैव पाशहस्तो महाबलः ।
श्वेतोऽथ जयमद्रश्च दीर्घहस्तो बलान्तकः ॥
वारुण्यां मेघनादश्व सुनादश्च प्रकीर्तितः ।
शीघ्रो वायुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
वायव्यां-
निधीशो रूपवान् धन्यः सौम्यदहो जटाधरः॥
लक्ष्मीधरो रनधरः श्रीधरश्च प्रसाधनः ।
प्रकामो दशमवेति कौवयाँ दिशि संस्थिताः ।
विद्याधिपेशसर्वज्ञा ज्ञानभुम् वेदपारगः ।
सुरेशशर्वज्येष्ठाश्च भूतपालो बलिप्रियः ॥
ऐशान्यां -
विपो विषधरोऽनन्तः क्रोधनो मारुताशनः।
न्यग्रोधोदुम्बरीशश्च फणीद्रो वज्रदंष्ट्रिणौ ॥
अधोभागे
शम्भुर्विमुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ।
संवाहश्च विवाहा नभोलिप्मुत्रिलोचनः ।।
तेपामुपरि रुद्राणां वीरभद्रो व्यवस्थितः।
भद्रकाल्याश्च भुवनमेवमष्टाधिकं शतम् ।।
भुवनानि ऋमोक्तानि रुद्राणां स्वाख्यया पृथक् ।
मन्त्रावसानिकपदान्महादेवपदावधि ॥
विलोमतः पदानि स्युरष्टाविंशतिमंख्यया ।
इत्यध्यपश्यकं पष्टया निवृत्तिकलया समम् ॥

प्रथमः परिच्छेदः।
३५
व्याप्तं सञ्चिन्तनीयं स्यादध्वपटकं विभागतः ।
आपोऽनिर्वायुराकाशो गन्धश्च रसरूपके ॥
स्पर्शः शब्दश्च वाक्पाणी पादपायुभगानि च ।
श्रोत्रं त्वक्चक्षुपी जिह्वा प्राणश्चेतीन्द्रियाणि च ॥
मनोहङ्कारबुद्ध्यन्तमन्तःकरणकत्रयम् ।
सर्वेषां त्रिगुणाथ स्यात् प्रकृतिः कारणं परा ॥
त्रयोविंशतितत्त्वानि विलोमादिति संख्यया ।
हादिटान्तास्ततो वर्णास्त्रयोविंशतिसंख्यकाः ॥
शिरश्च वामदेवाख्यो मन्त्रौ तहत् पुराणि तु ।
पट्पञ्चाशत् क्रमेण स्युरमरेशादिनामभिः ॥
अमरेशं प्रभासं च नैमिशं पुष्करापढी।
डिण्डिमुण्डिर्भारभूतिरित्यष्टावम्बुतत्त्वके ।
हरिश्चन्द्रश्च श्रीशैलो जल्पीशाम्रात्तकेश्वरौ ।
मध्यमेशो महाकालः केदारो भैरवस्तथा ॥ _
भुवनाप्टकमित्येतत् तेजस्तत्त्वे व्यवस्थितम् ।
गया चैव कुरुक्षेत्र नोखलं कनखलं तथा ।
विमलेशोऽट्टहासश्च महेन्द्र भीमकेश्वरम् ।
इत्सप्टौ भुवनानि स्युर्वायुतत्त्वगतानि तु ॥
वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः ।
गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ।।
भुवनाष्टकमाकाशसंज्ञतत्त्वे व्यवस्थितम् ।
छगलण्डो हिरण्डश्व मार्को गोमण्डलेश्वरः॥

तत्त्वप्रकाशे सव्याख्ये
my
कालजरं दारुवनं शङ्कुकर्ण स्थलेश्वरम् ।
प्रारभ्य गन्धतन्मात्रमहङ्कारान्तमध्वनि ॥
स्थितानि भुवनान्यष्टावेतानि तु यथाक्रमम् ।
पैशाचं राक्षस याक्षं गान्धर्व चैन्द्रसौम्यके ॥ .
प्राजेशं ब्राह्ममित्येतद् देवयोन्यष्टकं धियि ।
अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवे ॥
कौमारमौमं श्रीकण्ठमिति योन्यष्टकं स्मृतम् ।
गुणप्रकृतितत्त्वे तु स्थिरमेतत् तु भौवनम् ॥
अष्टकैः सप्तभिरत्वेवं पट्पञ्चाशद् यथाक्रमम् ।
भुवनानि स्थितान्येवं पादान्यप्येकविंशतिः॥
महेश्वाराख्यात् प्रारभ्य स्यादरूपिन्पदावधि।
एवं पञ्चविधाध्या स्मात् प्रतिष्ठाकलया समम् ॥
पठया व्याप्तं विचिन्त्यं स्यात् पोढाध्वव्याप्तिरीदृशी ।
अथ विद्याकलायां तु पुरुषो राग एव च ॥
अशुद्धविद्या च कला नियतिः काल एव च ।
माया च सप्त तस्त्रानि वर्णसप्तकसंयुतम् ।।
अकारादि धकारान्तं शिखाघारौ च मन्त्रको।
वामादिभुवनानि स्युः सप्तविंशतिसंख्यया ॥
वामो भीमस्तथैवोयो भवश्वेशान एव च।
एकवीरश्च पुरुषः पडेते भुवनेश्वराः॥
प्रचण्डोमापतिश्चाजी ह्यनन्तश्चैकरुद्रकः ।
रागतत्त्वे स्थितं वेतद् भुवनानां तु पञ्चकम् ।।
१. 'नक श्रीकमि', २. 'चा' क. पाट:. ३. 'यो' ग. पाठः.
३

३७
प्रथम परिच्छेद ।
क्रोधचण्डावशुद्धायां विद्याया तुव्यवस्थितौ ।
नियत्यां ज्योतिसंवतों ततः स्करसंज्ञितः ।।
पञ्चान्तकवीरौ च शिवदश्च कलागताः ।
महादेवो वामदेव उद्भवश्वकैपिङ्गलः ।।
एकनेत्रस्तथेशानो भुवनेशस्ततः परः।
अङ्गुष्ठमात्र इति चाप्यष्टावेते स्थलेश्वराः॥
कालतत्त्वे च मायाया भौवनी सप्तविंशतिः ।
व्यापिन्निति समारभ्य ध्यानाहारपदावधि ॥
पदाना विशतिश्चात्र स्याद् विद्याकलयाखिलम् ।
व्याप्तं सञ्चिन्तयेदेव पइविधाध्वव्यवस्थितिः॥
अथ शान्तिकलाया स्याच्छुद्धविद्येश्वरावधि ।
सदाशिवश्च तत्त्वानि त्रीणि तस्या स्थितानि हि ॥
वर्णास्त्रयः स्युर्गखका मन्त्री कवचपूरुपौ। ,
अष्टादशैव भुवनान्यत्र वामादिसंज्ञया ॥
वामा ज्येष्ठा च रौद्री च काली कलविकारिणी।
बल'विकरणी चैव बलप्रमथिनी तथा ।।
सर्वभूतदमन्येका नरमी तु मनोन्मनी ।
शुद्धविद्याढ्ये तत्वे स्थितान्येवमनुक्रमात् ॥
अनन्तेशश्च सूक्ष्मश्च ततश्चापि शिवोत्तमः ।
एकनेत्रकरुद्रस्त्रिमूर्तिस्तु तथापरः ॥
श्रीकण्ठश्च शिखण्डी च भुवनानीश्वराहये।
१ '' ग
पाठ
२
'ल क पाठ.

३८
३
तत्त्वप्रकाशे सव्याख्ये
सदाशिवाख्यं भुवनं स्थित तत्त्वे सदाशिये ||
पदान्येकादशात्रैव नित्ययोगिन आदितः ।
व्योमव्यापिपदान्तानि स्थितान्येवं तु पञ्चधा ।।
पष्ठ्या तु शान्तिकलया व्याप्तान्येवं विचक्षणः।
पविधाध्वमयी व्याप्तियोद्धव्या क्रमशो भवेत् ॥
तथैव शान्त्यतीतायां शिवतत्त्वं व्यवस्थितम् ।
वर्णाः पोडश सर्गाद्याः स्वराः स्युस्ते विलोमतः ॥
अस्त्रेशानी तथा मूलमन्त्रो मन्त्रा भवन्ति हि ।
निवृत्यादीनि भुवनान्यत्र पञ्चदशैव हि ।।
निवृत्तिश्च प्रतिष्ट्वा च विद्या शान्तिस्तथैव च ।
शान्यतीतेति हि कलाः स्युर्विन्दौ भुवनानि हि ।।
इन्धिका दीपिका रोचिौचिका चोर्ध्वगा तथा ।
भुवनानीति पञ्च स्युस्तानि नादकलाः खलु ॥
व्यापिनी व्योमरूपा चाप्यनन्ता चाप्यनाथया ।
अनश्रिता चेति कलाः शाकाः म्युर्भुवनान्यपि ॥
मन्त्राद्यं प्रणवं यत् तद् विलोमेनान्तकं तु तत् ।
पदमेकं भवेदेवमध्वायं पञ्चधोदितः॥
शान्त्यातीतकलान्याप्तं विद्यादित्यध्वनां क्रमात् |
पड्विया व्याप्तिरुद्दिष्टा शंवागमविनिर्णयात् ॥
पडघ्यज्ञानवान्मुच्येन्मोचयेच भवार्णवात् ।
एकनाध्या पहिधैकादश स्युः
मन्त्रारत्येकं चाप्यातिः पदानि ।

-
प्रथमः परिच्छेद।
पट्त्रिंशञ्चाप्यत्र तत्त्वानि वर्णाः
पञ्चाशत् स्युः पञ्चसंख्या कलेति ॥
अर्थ पदोहारः-
प्राक्पदं प्रणवं तत् स्यादेकवर्ण शिवात्मकम् ।
व्योमव्यापि चतुर्थ्यन्तं द्वितीयं पञ्चवर्णकम् ॥
तृतीयं व्योमरूपाय पञ्चामपरं तथा ।
सर्वव्यापि चतुर्थ्यन्तं शिवायेत्यथ पञ्चमम् ॥
त्र्यक्षरं च विजानीयात् पञ्चाङ्गानि शिवस्य तु ।
अनन्तायेत्यनन्तस्य वाचकं चतुरक्षरम् ॥
अनाथायेति सूक्ष्मस्य पदं स्याञ्चतुरक्षरम् । ।
अनाश्रिताय पञ्चार्ण पदं शिवतमस्य तु ॥
ध्रुवायेति पदं व्यर्णमेकनेत्ररय कीर्तितम् ।
शाश्वतायैकरुद्रस्य पदं स्याच्चतुरक्षरम् ।
योगपीठसंस्थिताय चाष्टार्ण तु त्रिमूर्तिनः।
श्रीकण्ठस्य पदं नित्ययोगिने पञ्चवर्णकम् ।।
ध्यानाहाराय पञ्चार्ण पदमेतच्छिखण्डिनः ।
नमःशिवायेति पदं पडर्ण प्रणवादिकम् ॥
सर्वप्रभुचतुर्थ्यन्तं पञ्चार्ण पदसन्ततौ ।
शिवाय पदमन्यच्च चतुर्थ्यन्तं त्रिवर्णकम् ।
पदमीशानमूर्धाय पडर्ण मुनिसत्तम!।
तदीशानस्य बोद्धव्यं सप्तार्ण पूरुपस्य तु.॥
१. 'नन्ताये' ग. याठ.

तत्वमाश मन्यान्ये
स्यात् तत्पूरुपवक्त्राय अघोरहदयाय च ।
सप्तार्ण बहुरूपस्य तद्वद् वामस्य कीर्तितम् ॥
स्याद् वामदेवगुह्याय सद्यस्याप्यथ कथ्यते ।
सद्योजातमूर्तयेति सप्तवर्णमुदीरितम् ॥
प्रणवादि प्रयोक्तव्यं पञ्चाणं च नमो नमः ।
गुह्यातिगृह्याय पदं पड्वर्ण वर्णकं परम् ॥
गोप्ने पदं चतुर्वर्ण मातङ्गे निधनाय तत् ।
अकारपूर्व पञ्चाण चन्द्रज्ञाने प्रकीर्तितम् ॥
सर्वविद्याधिपायेति पदं स्यात् सप्तवर्णकम् ।
सर्वयोगाधिपूर्व तु गतायेत्यष्टवर्णकम् ॥
ज्योतीरूपाय पन्चार्ण पदमेतत् सुशोभनम् ।
परमेश्वरपूर्व तु परायेत्यष्टवर्णकम् ॥
अचेतनाचेतनेति सप्तवर्ण पदं विदुः ।
व्योमिन्व्योमिचतुर्वर्ण व्यापिन्व्यापिस्तथा पदम् ॥
अरूपिंश्च हिरभ्यस्य पड्वर्ण पदमीरितम् ।
प्रथमेति द्विरभ्यस्तं पड्वर्णमपरं तथा ।
तेजस्तेज इति प्रोक्तं चतुर्वर्ण पदं विभोः ।
ज्योतिर्योतिःपदं तहद् विज्ञेयं चतुरक्षरम् ॥
त्र्यण पदमरूपाख्यं तथानग्ने पदं शुभम् ।
त्रिवर्ण स्यादधूमाख्यममस्माख्यं तथा पदम् ।।
अनादे व्यर्णमुद्दिष्टं नात्रयं धूत्रयं तथा ।
ऑमृस्तद् व्यक्षरं ज्ञेयमोंभुवश्च त्रियक्षरम् ॥

प्रथमः परिच्छेदः।।
भोस्खोवर्णद्वयं चानिधनाख्यं चतुरक्षरम् ।
निधनाख्यं त्रिवर्ण स्यात् पञ्चार्ण निधनोडवम् ।।
यक्षरं स्याच्छिवपदं धर्ण शर्वपदं विभोः ।
परमात्मंश्चतुर्वर्ण महेश्वरपदं तथा ॥
चतुर्वर्ण समुदिष्टं महादेवपदं हि यत् ।
सहावेश्वरसंशं तु पञ्चार्ण मुनिसत्तम! ॥
महातेज इति प्रोक्तं पदं वर्णचतुष्टयम् ।
पदं पश्चार्णमुद्दिष्टं योगाधिपतिसंज्ञकम् ॥
मुञ्चमुञ्च चतुर्वर्ण पड्वर्ण प्रमथात्मकम् ।
शर्वशर्वपदं चात्र बोद्धव्यं चतुरक्षरम् ॥
भवयुग्मं तथा तहद् भवोद्भवपदं पुनः।
पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम् ॥
सर्वसान्निध्यपूर्व तु करान्तं सप्तवर्णकम् ।
पदमष्टाक्षरं ब्रह्मविष्णुरुद्रपरम्परम् ॥
अनर्चितं द्विरभ्यस्तमष्टाणे पदमुच्यते ।
असंस्कृतपदं तहत् पूर्वस्थितपदं तथा।
साक्षिस्तुरूपदे तहचतुर्वर्णे द्विरुक्तितः ।
पट पतङ्गपदे वर्णाश्चत्वारः पिङ्गसंज्ञके ॥
तज्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे ।
ब्यक्षरं स्याच्छिवपदं तथा शर्वपदं विभोः ॥
ज्यक्षरं सर्वदपदं प्रणवादि नमोनमः ।
पञ्चवर्ण शिचायति त्रियक्षरमुदीरितम् ॥
१. 'तु दकारान्तं सव' ख. ग. पाठ.

- ५ तत्त्वप्रकाशे सन्याख्ये नतियुग्मं पञ्चवणं सतारं पदमुत्तमम् ॥" इति ॥५॥ ननु पशूनां शिवस्वभावतया पतिव्यतिरेकासम्भवात तत्चद्वैविध्यप्रसङ्ग इत्याशङ्कयाह - मुक्तात्मानो हि शिवाः किन्त्वेते तत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः ॥ ६॥ मुक्तेति । अयमभिप्रायः-मुक्तात्मनामेव शिवस्व- भावत्वम्। किन्तु तेषामपि मुक्तेः प्राङ् न शिवात्मता, ताम्ना- देः स्वर्णस्वभावाच्छादक कालिमाकल्पमलादिपाशमच्छादित- शिवस्वभावतया पशुत्वात् । अत एव ते तत्प्रसादतो मु. क्ताः । स शिवस्त्वनादिमुक्तः। एक इति । एक एव नि- त्यमुक्त इत्यर्थः । कालत्रयेऽपि मलादिसम्बन्धरहितत्वात् । तदुक्तं श्रीवायवीये "अनादिमलसंश्लेपप्रागमावात् स्वभावतः। अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥" इति । पञ्चमन्त्रतनरिति । नादविन्दुपदवर्णवाक्यात्मना प. नात्मकसकलमन्त्रशरीर इत्यर्थः । मन्त्रस्वरूप इति वा । "तस्योणिग्लोमानि त्वग् गायत्री त्रिष्टुम्मांसमनुष्युत् स्नावान- स्थि जगती पङ्क्तिमज्जा प्राणो वृहती"त्यादिश्रुतेः वैदिका- दिमन्त्राण त्यातुमयत्यप्रतिपादनाच्छ्यित्य मन्त्रशरीरत्याय. गमः। अथवा प्रणववेदचतुफात्मना पश्चात्मकमन्त्रतनुरिति । तदुक्तं लैट्सवादी • कालिका' इति स्यात् ।

प्रथम परिच्छेद । . - "ओंकाररूपमृग्य सामजिह्वासमन्वितम् । यजुर्वेदमहाग्रीवमथर्वोष्ठमजं विभुम् ॥" इति।बीजबिन्दुनादशक्तिशान्तात्मना पश्चात्मकप्रणवतनुरिति वा । "ओमिति ब्रह्म, ओमित्यथो योऽसौ तपती"त्यादिश्रुतेः। पञ्चाक्षरतनुरिति वा, निवृत्त्यादिपञ्चतत्त्वतनुरिति वा, पञ्चव- मतनुरिति वा । तदुक्तं लिङ्गोमवें- "अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् । ईशानमीशमकुटं पुरुषास्य पुरातनम् ॥ अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम् । सद्यपादं महादेवं महायोगीन्द्रभूषणम् ॥ निष्कलं सूक्ष्ममव्यक्तं सकल च महेश्वरम् । सर्गप्रतिष्ठासंहारलीलार्थ लिङ्गरूपिणम् ॥ प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः।" इत्यादि । पारमेश्वरे च. "पञ्चमन्त्रतनुः श्रीमान् सकलं परिपठ्यते । योगयोगीश्वरः स्वामी स्वतन्त्रः पशुपाशहा ॥ ईशानमूर्धा पुंवक्त्रो ह्यघोरहदयः प्रभुः । उच्यते वामगुह्योऽयं सधमूर्तिमहेश्वरः ॥ एवं मन्त्रास्तु पञ्चैते यैनिबद्धा तनुः शिवा।" इत्यादि । तस्मादेव विज्ञेयः विशेषेण भेदेन पशुभ्यो ज्ञेयः शिव इति । न च परमेश्वरवाचकस्य वेदमन्त्रादेवाच्यात पर- १. 'सौ यो त' क प पाठ, २ 'प' ख ग. पाठ.

तत्त्वाशे सन्याख्ये २ मेश्वराद् भेदसावेन तस्य वेदमयत्वाभाव इति वाच्यम् । तयोर्भदेवाच्यवाचकनियमाभावप्रसङ्गात्। न च सम्बन्धात्त- नियमः सम्बन्धस्य सम्बन्धान्तराश्रयणादनवस्थादिदोपस्यो. तत्वात् । न च वाचकत्वशक्तिर्नियामिकेति वाच्यम् । तस्या- व वाच्याद् भेदसद्भावेऽन्यशक्तिवदनियामकत्वात् ।शक्ती- च्यासाधारण्यमप्यभेदव्यतिरिक्तं न संभवतीति वाच्यवाचक- योरेवाभेदोऽभ्युपगन्तव्यः । किमनया शक्तिकल्पनयान च वाच्यवाचकभावस्य भिन्ननिष्टतया तयोरभेदेऽसंभव इति वा- भ्यम् । गुणगुणिभेदबद् भेदस्याप्यत्र सद्भावात् । न च भे- दाभेदयोविधिप्रतिपेधरूपत्वेन विरोधादेनत्रासम्भवः । वाच्य- वाचकभावान्यथानुपपत्तिप्रमाणसिद्धत्वात् । तथा घटोऽयं पटोऽयं शब्दोऽयमिति वाचकसंपृक्तार्थप्रतिभासाद् घटश- ब्दोऽयमित्यसंपृक्तशब्दप्रतिभासाच शब्दार्थयोरेक्यमाश्रय- णीयम् । अत एव तत्वादिवाचकमन्त्रविन्यासात् तत्वादिसा- निध्यमिति सर्वमवदातम् ॥ ६ ॥ ननु पतिसद्भावे प्रमाणाभावात् तत्त्ववैविध्यासंभव इत्याशङ्कयाह. पञ्चविधं तत्कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः । तदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य ॥७॥ पञ्चेति।अयमर्थः सर्गस्थितिसंहारतिरोभावानुग्रहा- १. 'रियन', २. ६ स. पाट . ३ 'प्रामाणिकन्या' क. १. 'सान् प्रग, पाठ ५. 'त्यर्थस' क. स, पाठ. पाट.

- प्रथमः परिच्छेदः। मना पञ्चविध पश्चप्रकारं तत्कृत्यं महेश्वरकार्य तस्मिन् प्रमाणं, तस्यैव कर्तुं शक्यत्वादिति । न चान्यो जीयो माया वा जगत्सृष्टयादिकं कर्तुं शक्नोति । पशोरुपादानोपकरण- विनियोगक्रमज्ञानाभावाद् , मायायाश्चाचेतनतया तदसम्भ- वादिति । स सर्गः पश्चविधः । भावतत्त्व वनभूतप्रत्ययात्म- सृज्यस्य पञ्चविधत्वात् । तदुक्तं शैवरहस्ये-- "भोगेन परिणमयितुं कर्माणि घृणानिधिः पतिः सृजति । भावं तत्त्वं भुवनं (भूत) पा(त्यैात्ययि)कमपि सर्गम् ॥" इति । विस्तरत उपरिष्टादुपपाद्यते । स्थितिः पालनम् । सं. हृतिविनाशः, स्वेपु स्वेष्वसाधारणकारणेपु कार्यस्य लयः, सू- क्ष्मरूपेणावस्थानमिति यावत् । आत्मनां पाशैः प्रच्छादनं तिरोभावः । अनुग्रहकरणं मोक्षादि । ननु विरुद्वमिदमुक्तं पाशैरात्मप्रच्छादनहारेण संसारहेतुत्वम् आत्मप्रच्छादनमला- दिपाशनिरसनेनापवर्गप्रदानं चेति चेत् । नैवम् । विषयभेदे- नानयोरविरोधात् । येषां साधनचतुष्टयसंपत्तिः, तान् प्रत्य- नुग्रहकरणम् । येषां तभारित, तान् प्रति संसारहेतुत्वमिति । प्रोक्तं सततोदितस्यास्यति । कर्जा विनाकार्योत्पत्त्यसंभवाद- न्यस्य कर्तृत्वासम्भवाच्चास्य महेश्वरस्य सततोदितस्य स्वयंप्र- काशचैतन्यमात्रस्य परिपूर्णस्य निर्व्यापारस्योदासीनस्यापि साक्षिणः परमेश्वरस्य सृष्ट्यादिपु कर्तृवं प्रोक्तम् अभिहित- मित्यर्थः । तदुक्तं १. 'नकरण' ग. पाठ. २. 'ते' स्व. पाठ, तत्त्वप्रकाशे सब्याख्ये "यथा ह्यविक्रियो वहिर्जलतण्डुलविक्रियाम् । तथा करोत्युदासीनः शम्भुर्मायादिविक्रियाम् ॥" इति । ७ ।। एवमुद्देशकमेण पतितत्त्वस्य लक्षणं परीक्षां च कृत्वा- नन्तरप्राप्तपशुतत्वनिर्णयार्थमाह- पशवस्त्रिविधा या विज्ञानप्र(वि)लयाकलाः सकलाः । मलयुक्तस्तत्राद्यो मलकर्मयुतो द्वितीयश्च ॥ ८॥ पशव इत्यादि । पाशाः कथ्यन्ते, तैर्ये बद्धास्ते पशव इति । अथ शरीरादिव्यतिरिक्तस्गेहलोकपरलोकसंचा- रिणः संसार्यात्मनः पशोः सहाचे प्रमाणाभावादाश्रयासिद्ध- मिदं पशुलक्षणमिति चेत् । नैवम् । शरीरव्यतिरिक्तस्य नि- त्यस्यात्मनो जातिस्मृत्यादिभिः प्रमाणैः सहावावगमात् । तथाहि-पूर्वजन्मनि निहितं निध्यादिकमपरस्मिन् जन्म- नि मयेदमन निहितं पूर्वमित्युपादीयमानमुपलभ्यते । अतो देहातिरिक्तस्यैकस्य नित्यस्य निधिविन्यासकर्तुः पशोः स- हायः । अन्यथा तदुपादानासम्भवात् । न चान्यनिहितम. न्येनोपादीयत इति याच्यम्।अन्यानुभूतेऽन्यस्य स्मरणासम्भ- वेन तत्पूर्वकोपादानासम्भवात् । न चासी भ्रान्तिमूलेति वान्यम् । बाधाभावात् , प्रत्यक्षतरतदुपलम्भेन संवादतः प्रामाण्यसिदेवेति । तथा 'योनिमन्ये प्रपद्यन्ते' इत्याद्या. गमाच पूर्वदारीरपरित्यागेन शरीरान्तरपारुपलम्भात् शरी- रव्यतिरिक्तात्मसिदिः । न च प्राण आत्मा, वायुरूपत्वाद् प्रथमः परिच्छेद । बाह्यवायुवत् । मम प्राणा इति प्राणात्मनोर्मम वस्त्रमितिवद् भेदोपलम्भाच्च । आईतैकदेशीयोक्तमिन्द्रियात्मत्वं तत्तदि- न्द्रियानुभूतार्थेषु तत्चदिन्द्रियविनाशेऽपि स्मृतिदर्शनात प्रत्य- स्तम् , अन्यानुभूतेऽन्यस्य स्मरणासंभवात् । तथा नियतवि- पयग्राहकाणामिन्द्रियाणामनियतविषयावगन्त्रात्मत्वासम्भवा- त् । तच्च योऽहं चक्षुपा रूपमन्वभवं , सोऽहमिदानीं श्रोत्रेण शब्दमनुभवामीत्यनुसन्धानसिद्धमिति । नापि मन आत्मा, करणत्वात् कुठारवत् , तथा परिमितत्वात् कार्यत्वाच घटा- दिवत् । तथात्मनि सिद्धे युगपैदिन्द्रियार्थेषु युगपज्ज्ञानानु- स्पत्त्या मनसः पुनः सद्भावसिद्धनात्मा मन इति । तथान्तः- करणवृत्तिरूपबुद्धयात्मत्वं यौ?ः कल्पितं स्मरणासंभवप्रसङ्गेन निरसनीयम् । तथाहि-पूर्वबुध्यनुभूतेऽर्थे बुध्यन्तरस्या- न्यत्वेनानुभवाभावात् स्मरणासंभवः । न चाननुभूतेऽर्थे स्मृ- तिः संभवति, अनुपलम्भात् । न च सा बुद्धिरवतिष्ठत एवेति वाच्यम् । वुद्धेः प्रतिक्षणविनाशस्य सर्ववादिसम्मतत्वात् । एकसन्तानत्वेन वासनानुगमात् तदुपपत्तिरिति चेत् । न । यासनासन्तानयोरपि क्षणिकत्वे पूर्वोक्तदोषापातात् । तथा तयोर्शानाव्यतिरेकेण परिहारः । अक्षणिकत्वे व्यतिरेके च स्वसिद्धान्तविरोधः । तदुक्तं न्यायविद्भिः "अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैपि भावम् । २. 'द्धये यु' ग, पाठ. १. 'पज्ज्ञा', १. 'वि' ख. पाठ. "ति' ख. पाठ तत्त्वप्रकाशे सव्याख्ये उत्तिष्ठ भिक्षो! फलितास्तवाशाः सोऽयं समाप्तःक्षणभङ्गवादशा" इति । विषयानन्दरमा १ आ)त्मा अनन्यार्थत्वाद् अत्यन्त- प्रियबुद्धिविपयत्वाञ्चेति केचित् । तदपि विपयेन्द्रियमनो- बुद्यात्मसंवन्धनोत्पधमानं धुद्धिकल्पमित्युपेक्षणीयमेवेति । तस्माद् बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्त आत्मा पाशबद्ध- त्वात् पशुरिति सिद्धम् । तदुक्तं श्रीवायवीये- "बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्तो विभुर्भुवः । अस्त्येव कल्पितात्मेति हेतुस्तत्र सुदुर्गमः ॥ घुडीन्द्रियशरीराणां नात्मता सहिरिप्यते । स्मृतेरनियतज्ञानादयावदेहवेदनात् ॥” इत्यादि । तदेवं प्रतिपादितानां पशूनां विभागमाह -त्रि- विधा ज्ञेया इति । (त्रि)प्रकारा ज्ञातव्या इत्यर्थः । कथमि- त्यत आह --विज्ञानप्रलयाकलाः सकला इति । तेपा मलयुक्तः मलपाशसंवद्धः । तत्र तेपां मध्ये । आद्यो विज्ञानकलः । मलकर्मयुतः मलकात्मकपा- शहयसंबद्धः द्वितीयः ॥ ८॥ सकल इति सकललक्षणपूर्वकं विज्ञानकलविभा- गमाह- मलमायाकर्मयुतः सकलस्तेपु द्विधा भवेदाद्यः । आद्यः समाप्तकलपोऽसमाप्तकलुपो द्वितीयः स्यात् ॥९॥ क्रमेण लक्षणमाह- १. 'माय. ॥', २. 'पा' स पाठ, ४९ प्रथमः परिच्छेदः । मलेति । मलश्च माया च कर्म च मलमायाकर्माणि, तैर्युक्तः संबद्धः सकल इति तेषु त्रिषु आद्यो विज्ञानकलो द्विविधो भवति-समाप्तकलुपोऽसमाप्तकलुपश्चेति । तत्राद्यः प्रथमः, अणूनां प्रथमत्वात् । समाप्तकलुप इति । मलशक्तिः कालुप्यं तत् समाप्तं नष्टं यस्य स समाप्तकलुपः । असमा- तकलुषो द्वितीयः । तेनासौ प्रच्छन्नज्ञानक्रियाशक्तिर्भव: तीति ॥९॥ ननु विज्ञानकलस्य द्विविधस्यापि मलपाशसम्बन्ध- सद्भावात् तन्निवृत्त्यात्मकं न शिवसायुज्यं, नापि स्वर्गन- रकमध्यस्थानेषु देवादिभेदेनावस्थानं , दीक्षया कर्मविनाशे सति श्रवणादिनानात्मन्यात्मबुद्धिरपाकृताविद्याकृतमाया- सम्बन्धाभावात् । अतः कुत्रास्यावस्थानमित्याशङ्कयाह आद्याननुगृह्य शिवो विद्येशवे नियोजयत्यष्टौ । मन्त्रांच करोत्यपरास्ते चोक्ताः कोटयः सप्त ॥१०॥ आद्यानिति । आद्यान् समाप्तकलुपान् विज्ञानकलान् अनुगृह्य दीक्षापूर्वकश्रवणमननाभ्यां परोक्षज्ञानप्रदानात्मक- मनुग्रहं कृत्वा। नौपरोक्षज्ञानप्रदानात्मकं, तस्य निदिध्यास. नमध्ये कर्मक्षयान्तरायनिपातेनोत्पातासंभवात् । विद्येशत्वे विद्येश्वरपदेशत्वे मुक्तिकल्पे नियोजयत्यष्टौ विज्ञानकलान् । इतरान् मन्त्रान् मन्त्रदेवतारूपान् करोति भगवान् शिव इति । तदुक्तं सिद्धान्तहृदये- "विद्येश्वरान् करोत्यष्टावीशोऽन्यान् मनुदेवताः" - . १. न प' क. पाठ. २. 'प' ख. पाठ. म - तत्त्वप्रकाशे सव्याख्ये इति। कति मन्त्रा इत्याकांक्षायामाह --ते चोक्ताः कोटयः सप्तेति । ते च महामन्त्राः सप्तकोटिसंख्यया संख्याता इति ॥ इदानी प्रलयाफलसकलयोः स्वरूपनिर्णयार्थ श्लो- कनयमाह प्रलयाकलेपु येषां पक्के मलकर्मणी वजन्त्यन्ये । पुर्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात् ॥ ११ ॥ कांश्चिदनुगृह्य वितरति भुवनपतिवं महेश्वरस्तेपाम्। स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानि ॥ १२ ॥ शेपा भवन्ति सकलाः कलादियोगादहर्मुखे काले। शतमष्टादश तेपां कुरुते स्वयमेव मन्त्रेशान् ॥ १३ ॥ इति ।अयमभिप्रायः-प्रकपण लयं गतं कालादि- घरान्ततत्त्वात्मकं शरीरं येपां ते प्रलयाकलाः। प्रलयावस्था- यां मलकर्ममात्रपाशसंत्रद्वा आत्मान इति यावत् । तेषु । येषां मलय कर्म च मलकर्मणी पके परिपाकं गते । ज्ञानाग्निना साहचर्यात् । तेषां महेश्वरो भुवनपतित्वं वितरति । तेभ्यः प्रयच्छति, ददातीत्यर्थः । तेषां तेष्वपि कांश्चित् पक्ककर्म- काननुगृह्य गणेशान् करोति । कांचित् पकमलान् मन्त्र- तन्त्रेश्वरान् करोति द्रष्टुत्वेनेति । कति मन्त्रेश्वरा इत्याका- झायां शतमष्टादोति । स्वयमेवति। ब्रह्मादिमहायान्तरमन- पेत्यैवेति । तदुक्तं लेने- "नाधिकान् न च हीनांन्तान् मानसानात्मनः समान् । सहन्नं हि महताणाममृजत् कृत्तिवाससाम् ॥ १. तन्त्रदान्' ग. पाठ.

प्रथमः परिच्छेद । इत्यादि । एभ्याऽन्ये ये पक्कमलकर्माणः शेषाः शिष्टास्ते स- कलाः भवन्ति, कलादितत्त्वयोगात् । अहर्मुखे काल इति । सृष्टिकाले सर्वमेतत् करोति भगवान् महेश्वर इति । पुर्यष्ट- कदेहयुतास्त एव निखिलासु योनिषु देवमनुप्यतिर्यगादिषु वजन्ति चरन्तीत्यर्थः। नन्वात्मनां व्यापकत्वादमूर्तत्वाच्च कथं निखिलयोनिगमनागमनसंभव इत्याशङ्कयाह-पुर्यष्टकदेह- युता इति । सूक्ष्मशरीरस्य पुर्यष्टकास्यस्य जीवोपाधेः से- भवात् तदनुसारेण पशोरपि क्षेत्रज्ञस्य गमनागमने संभ- वत एव । यथा घटाकाशस्य तदुपाधिभूतघटगमनागमना- भ्यां गमनागमने, तथात्राप्युपाधिधर्माणां गमनादीनामु. पहिते क्षेत्रज्ञे संभव उपपद्यत एवेति । कर्मवशादिति । कर्मानुरूपेणेत्यर्थः । ननु जीवोपाधिभूतं पुर्यष्टकं किमित्या- शङ्कयाह स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानी- ति । पुरि स्थूलशरीरे वर्तमानं यदृष्टकं तत् पुर्यष्टकम् । तत् अन्तःकरणं धीकर्मकरणानीति । धु- यहंकारमनांस्यन्तःकरणं, धियः कर्म व्यापारो विपयनि- श्चयो धीकर्म, तत्करणानि तन्निमित्तानि शब्दादीनि च पु. र्यष्टकमिति केचित् । तदुक्तं- "शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । मनो बुद्धिरहंकारः पुर्यष्टकमुदीरितम् ॥" गुरवस्तु धीकर्म च करणानि च धीकर्मकरणानीति ब्रुवते । तत्राष्टकत्वं शब्दरपर्शरूपरसगन्धबुद्धीन्द्रियकर्मेन्द्रियान्तः- १. 'सद्भावा' क. स. पाठ - किमित्यत आह , પર तत्त्वप्रकाशे सव्याख्ये करणात्मना विभागाद् भवति । परे कमन्द्रियबुद्धीन्द्रियान्तः- करणचतुष्टयप्राणादिपञ्च(क)तन्मात्रापश्चककामकर्माविद्यात्म नाष्टविघं पुर्यष्टकमित्याहुः । तथाचोक्तं "कमेन्द्रियाणि खलु पश्च तथापराणि बुद्धीन्द्रियाणि मनआदिचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पूः॥" इति ॥ ११, १२,१३ ॥ शतमष्टादश मन्त्रेश्वरा इत्युक्तम् । के त इत्याका- ङ्कायामाह तत्राप्टो मण्डलिनः क्रोधाद्यस्तित्समाश्च वीरशः। श्रीकण्ठः शतरुद्रः शतमित्यष्टी दशाभ्यधिकम् ॥१४॥ इति । तत्र मन्त्रेश्वराणां मध्येऽष्टी मण्डलिनः, को- घाद्याः तत्समाः, अष्टावित्यर्थः । शिष्टा वीरेशादय इति । एतदुक्तं सिद्धान्तहृदये- "विविधास्ते च विज्ञानकलाश्च प्रलयाकलाः । सकलाश्चेति तेप्याद्या मलमात्रयुताः पर मलकर्मयुता मायामलकर्मसमायुताः । सकला इति तेप्याद्या द्विविधाः पककल्मपाः ॥ अपककल्मपाश्चेति अत्राद्याननुगृह्य तु । विद्येश्वराने करोलष्टावीशोऽन्यान् मनुदेवताः ॥ १. 'या', २. 'न्तरे अष्टा' ग. पाठ:. - - . ॥ -- प्रथम परिच्छेद। धेकपक्कद्विपक्काः स्युश्चतुर्धा प्रलयाकलाः । पक्कोभयान् पुराधीशान् गणेशान् पक्ककर्मगान् ।। रुद्रान् पक्कमलानन्यानष्टादशशताधिकान् । सकलस्त्वष्टधा त्रिद्वयेकपक्वाश्च व्यपककाः ।। हिरण्यगर्भः+++सनकाद्याश्च योगिनः । आचायश्चैिव देवांश्च क्रमात् तेप्वकरोत् प्रभुः॥” (१) इत्यादि । शैवरहस्ये च- "विज्ञानकलसंज्ञः (१) प्रलयाकलसंज्ञकोऽथ सकलाख्यः । त्रिविधोऽयं पुरुषः स्यादेकोचरवन्धसंबन्धात् ॥" इति । "विज्ञानकलसंज्ञान (?) समाप्तकलुपान् करोति विद्येशान् अष्टावनुगृह्य शिवो मन्त्रानपि सप्तकोटिमिदान् ॥ प्रलयाकलाथ केचिद् भुवनेशाः पक्ककलुपकर्माणः । कर्मवशादवशिष्टा निखिलास्वपि योनिपु चरन्ति । सकलाः कलादियोगात् सृष्टिदशायां त एव निर्दिष्टाः। शतमष्टादश तेप्वपि मन्त्राणामीशितारः स्युः ।। शतरुद्राः क्रोधादिकमष्टकमङ्गुष्ठमात्रपूर्वमपि । वीरेशश्रीकण्ठौ मन्त्रेशत्वेन वर्तन्ते ।।" इत्यादि ॥ १४ ॥ नन्वेवं संसरतां पशूनां तर्हि मोक्षमार्गेऽवतारो न स्या- दित्याशङ्कयाह- परिपकमला ये तानुत्सादनहेतुशक्तिपातेन । योजयति परे तत्वे स दीक्षयाचार्यमूर्तिस्थः ॥ १५ ॥ - । तत्त्वप्रकाशे सव्याख्ये इति । द्विविधा हि परमेश्वरस्य शक्तिः, बन्धकरा मोचिका चेति । तयोराद्यानादिकालमेव प्रवृत्ता पशून् पाश- जालैर्वनाति । तस्यां कालवशात् कर्मसाम्येन विरोधादुपरत- व्यापारायां मोचिका शक्तिः स्वपतनकालमन्येपयन्ती महेश्वरे वर्तमाना तेषु पशुपु निपतति । ततश्च संसारोत्सादनहेतुभू- तशक्त्यां निपतितायां भगवानाचार्यमूर्तिमास्थाय दीक्षां कृत्वा मलादिपाकं विधाय परमेश्वरतत्त्वे संयोजयतीति नासंपायो मोक्षमार्गेऽवतार इति । तदुक्तं- "समे कर्मणि सजाते कालान्तरवशात् पुनः । तीनशक्तिनिपातेन गुरुणा दीक्षितो यदा ॥ सर्वज्ञः स शिवो यहत् किञ्चिज्ज्ञत्वविवर्जितः । शिवत्वध्यक्तिसम्पूर्णः संसारी न पुनस्तदा ॥" इत्यादि । शक्तियं च भगवतावधूतपादेनोक्तं वघ्नाति काचिदपि शक्तिरलुप्तशक्तः क्षेत्रज्ञमप्रतिहता तब पाशजालैः। ज्ञानासिना च विनिकृत्य गुणानशेषा- नन्या करोत्यभिमुखं पुरुपं विमुक्तौ ॥" इति ॥ १५ ॥ इतरविनियोगपूर्वमुपसंहरति वद्धान्छेपानखिलान् विनियुङ्क्ते भोगभुक्तये पुंसः। तत्कर्मणामनुगमादित्येवं कीर्तिताः पशवः ॥ १६ ॥ १. 'स' स. पाठ. - -- प्रथम परिच्छेद । इति । सूक्ष्मदेहेन च पुर्यष्टकाख्येन बद्धान् शेषान् सकलान् भोगभुक्तये विषयभुक्त्यर्थ विनियुङ्क्ते देवादिस्था- नेपु स्थूलदेहेन संयोजयतीत्यर्थ इति ॥ १६ ॥ इदानीमवसरप्राप्तानां पाशानां लक्षणपरीक्षार्थमाह- पाशाश्चतुर्विधाः स्युः पुंसो मलकर्मसंज्ञको प्रथमो । मायीयतिरोधायकशिवशक्तिसमुद्भवौ चान्यौ ॥ १७ ॥ इति । पशूनां बन्धकाः पाशाः। ते च चतुर्विधाः चतु- प्रकाराः स्युः । पुंसः पुरुपस्य पशोः।तेपु प्रथमौ आद्यौ। मलकर्मसंज्ञकौ मलकर्माख्यौ । तत्रापि मलः प्रथमः पाशः, तत्पूर्वकत्वात् कर्मादीनाम् । स तु ज्ञानप्रागभाव इत्येके । परे तिमिरसदृशो जडात्मको भावरूपो ज्ञाननिवर्त्य इति । गुरव- स्तु अविद्यासंस्कारात्मक इत्याहुः । तदुक्तं "ज्ञानं बन्धः" इति शिवसूत्रवार्तिककृता "अहं ममेदमिति यज्ज्ञानं भेदप्रथात्मकम् । शब्दानुवेधतो जातं मायीयं मलकारणम् ॥ तद् बन्धनं समाख्यातमविद्यावृत्तिलक्षणम् ।" इति । किरणे चः "मलो ज्ञानं पशुत्वं च तिरस्कारकरस्तमः । अविद्या ह्याकृतिमा पर्यायास्तस्य वाचकाः ॥" इति । द्वितीयः कर्माख्यः पाशः । मायीयो मायाजन्यः सूक्ष्मस्थूलात्मकशरीरादिरूपः । स तृतीयः । तिरोधायकशि- 'पशूना', २. 'कृत्वा विम' ख. पाठ १ - तत्त्वप्रकाशे सव्याख्ये वशक्तिसमुद्भवस्तस्वरूपश्चतुर्थ इति । वन्धस्य संसारस्य जन्ममरणादिलक्षणस्य बन्धकाभावेऽसंभवात् पाशसद्भावसि- द्धिः । बन्धस्तु श्रुत्यादिप्रमाणसिद्ध इति । ननु मायाकार्य- त्वाद् मलकर्मणोर्मायायां प्रवृत्तायां तयोरुद्भवः, प्रथमभूतयो- स्तयोरुद्भवे मायायाः प्रवृत्तिरितीतरेतराश्रयप्रसङ्ग इति चेन्न। वीजाङ्कुरवदनादित्वेन तत्परिहारोपपत्वेरिति ॥१६॥ प्रथमोद्दिष्टस्य मलस्य लक्षणमाह- एको ह्यनेकशक्तिईक्रिययोश्छादको मलः पुंसाम् । तुपकम्बुकवज्ञयस्ताम्राश्रितकालिमावद् वा ॥ १७ ॥ इति । एकोऽनेकशक्तिरिति मलस्य लक्षणम् । कर्म- मायीययोरनेकत्वात् तन्निवृत्त्यर्थमुक्तमेक इति । तिरोधायक- शक्तरपि पाशत्वे सत्येकत्वाद् मलत्वप्रसङ्ग इति तन्निव- त्यर्थमनेकशक्तिरिति पदम्। नन्वविद्यासंस्काररूपतायां मल- स्यानेकत्वादयुक्तमेको मल इतीति चेन्न । जलनिधिनिमग्ना- नन्तनदीजलवदेषामप्यनन्तानां संसर्गादेवकत्वोपपत्तेरित्ये- के । अन्ये तु जात्सपेक्षयकलवचनम् । अवान्तरानेकजाति- सहावान्मायाकर्मणोरनेकत्वम् । तदभावाद बासनाया एकत्व- मिति त्रुवते । तथा ज्ञानाभावरूपतायां च जात्यपेक्षयैवैक- त्ववचनम् । अन्यथा कस्यचिज्ज्ञानोदये मति ज्ञानप्राग- भावनिवृत्तेः सकलजगन्मक्षिप्रसङ्गादिति । भावात्मकले मुख्यमेवैकत्ववचनम् । एकस्य ज्ञानोदयेऽपि निवृत्त्यनिवृत्त्यो- स्तमोबदुपपत्तेः मलस्यानेकशनिस्वाच्चैकस्य झानोदये तं - - " प्रथमः परिच्छेदः। प्रत्येवप्रच्छादनशक्तेविनाशादितरेपामपवर्गाभावः संभवत्येव। तस्मादेकोऽनेकशक्तिर्मल इति । तदुक्तं किरणे- "विभोरपि मलस्यास्य तच्छक्तः क्रियते वधः। उपायाच्छक्तिसंरोधः करिमश्चित् क्रियते मले। शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् । यथाग्नेहिका शक्तिमन्त्रेणाशु निरुध्यते ।। तहत् तच्छक्तिसंरोधः इत्यादि । दृक्किययोश्छादको मलः पुंसाम् । तुषकम्बुकवझे- य इति । यथा तुपकम्बुको तण्डुलेन सहैकीभूतौ मूला. कुराधुत्पत्तेः कारणं, तथा मलोऽपि पशूनां खरूपभूतज्ञा- नक्रियाप्रच्छादकत्वेन कर्ममायादिमूलाङ्कुराद्युत्पत्तिकारण- तयात्मना सहकीभूतस्तिष्ठतीति । तदुक्तं किरणे- "मलश्चिष्छादको नैजो विशुद्धिः शिवता स्वतः” इति । ताम्राश्रितकालिमावति । यथा ताम्राश्रिता कालि- मा सहजातस्य स्वरूपभूतस्वर्णतां प्रच्छाद्य ताम्रतामभिव्य- ज्य चावतिष्ठते, तथा मलोऽप्यात्मनो ज्ञानक्रियात्मकं स्व- रूपं प्रच्छाध पशुत्वं चाभिव्यञ्जयन्नवतिष्ठत इति । ननु मलस्य सहजत्वे तत्क्षये तहतोऽपि विनाशप्रसङ्ग इति चेत् । नैवम् । ताम्राश्रितकालिमाविनाशे तत्स्वरूपाविनाशवत् सहजमलविनाशेऽप्यात्मस्वरूपाविनाशोपपत्तेः । तदुक्तं- " सहजा कालिमा ताने तत्क्षयान्न च तत्क्षयः । क्षयस्ताम्रस्य यत् स्यात् पुरुषस्य मलक्षयः ।। १. 'को' ग.. पाठः, २. 'नो' स. ग, पाठ, २ -- I तत्यप्रकारे सध्याध्ये यथा तण्डुलकम्बूके प्रक्षीणे न च तत्क्षयः ।" इत्यादि ॥ १७ ॥ मलानन्तरं कर्ममायात्मकं पाशद्वयमुत्तरलोकपूर्वा- परार्धाभ्यां निरूपयति- कर्मानादि प्रोक्तं धर्माधर्मात्मकं विचित्रं च । माया च वस्तुरूपा मूलं विश्वस्य नित्या सा ॥१८॥ इति । कर्मानादि । प्रवाहरूपेण, न चैकस्यैव कर्मणः सर्वदावस्थानेन । तथा सति भावरूपस्य कर्मणोऽनादित्वे- नात्मयन्नित्यतयानिर्मोक्षप्रसङ्गात् । न हि कर्माविनाशे संसा- रनिवृत्तिः संभवति । इत्येवं प्रोक्तं तत्वज्ञैः । धर्माधर्मात्मक- मिति धर्माधर्मरूपेण द्विविधमिति । विचिन्नं चेति विविध- फलहेतुत्वाद् विचित्रमित्यर्थः । तथाहि-सुखासाधारण- कारणं धर्मः, दुःखासाधारणकारणमधर्म इसके । अन्ये तु चोदनालक्षणोऽयों धर्मः, तल्लक्षणोऽनोंऽधर्म इति युवते । . अपरे धर्मः पुरपगुणः कर्तुः प्रियहितमोक्षहेतः, तद्विपरीतो- ऽधर्म इति । अहिंसालक्षणो धर्म इति केचित् । चैत्यवन्द- नादिलक्षणो धर्म इति बौदाः । परे परोपकारलक्षणो धर्म इति । तत्रान्यं त्रयमनुपपन्नं, प्रमाणाभावात् । न च बौद्धा- द्यागमाः प्रमाणं, तेषां पौरुषेयतया मूलप्रमाणाभावे प्रामा- ण्याभावात् । न चैषां मूलप्रमाणं किञ्चिदुपलभ्यते । प्रत्य- क्षादेधर्म प्रति मामाण्यासंभवस्योक्तत्वादान चोपकारलक्षणस्य - . - प्रथमः परिच्छेदः। धर्मत्वं, ब्राह्मणादिहिंसादेरपि तच्छत्रुपकारादिना धर्मत्वमस- ङ्गात् । नापि हिंसाया अधर्मत्वं, ब्रीह्यवघातदुष्टनिग्रहानीपो- मीयपशुहिंसादेरधर्मत्वप्रसङ्गादिति । स धर्मविविधः, नित्यनै- मित्तिककाम्यात्मना तस्य भेदात् । तत्र यावजीवममिहोत्रं जुहुयात्', 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत', 'यावज्जीवं ज्योतिष्टोमेन यजेते त्येवमादिवाक्यनियमेन विहिता नि- त्याः । निमिचादुपजायमाना नैमिचिकाः । तद्यथा--- 'वैश्वानरं द्वादशकपालं निर्वत', 'पुत्रे जातेऽटका कर्त- व्यत्येवमादिविहिता जातेष्टयादयः । कामनापूर्वकाः काम्याः। 'अग्निहोत्रं जुहुयात् स्वर्गकामः', 'दर्शपूर्णमासाभ्यां स्वर्ग- कामो यजेत', 'ज्योतिष्टोमेन स्वर्गकामो यजेते'त्येवमादि- वाक्यविहिताः। ते द्विविधाः---सविद्याः केवलाथेति ।सविद्या ईश्वरस्मरणपूर्वकाः । इतरास्तद्रहिता इति । एवंलक्षणो धर्मो हिविधः-इष्टः पूर्तभेति । तत्रेप्टो वैदिकः, पूर्तस्तान्त्रिक इति। प्रतिषिद्धोऽधर्मः । तद्यथा--'ब्राह्मणो न हन्तव्यः', 'सुरां न पिवेत्', 'न शम्सेन पियेत तोयम्' इत्यादिवाक्यनिषिद्धा ब्राह्मणहिंसादयः ।अपरे त्वधर्मश्च त्रिविध इत्याहुः। नित्याकरणं नैमित्तिकाकरणं प्रतिषिद्धकरणं चेति । नित्यनैमित्तिकाभ्यां प्रत्यवायपरिहारः काम्यात स्वर्गादिप्राप्तिः। अधर्मान्नरकादि- गमनमिति । एतदुक्तं सिद्धान्तहृदये- "क्रियायाः सूक्ष्मरुप हि कर्माहुदि विधं च तत् । इष्टं पूर्त च तत्रेष्टं वैदिक तान्त्रिकं तथा ॥ १. 'त्यादि', २. 'द' ग. पाठः.

तसप्रकारे सव्यास्ये
पूर्तमित्युच्यते सद्भिस्तत् पुनस्त्रिविधं मतम् ।
धर्मोऽधर्मस्तथा चित्रमिति धर्मो विधेः पदम् ॥
स पुनस्त्रिविधः काम्यनित्यनैमित्तिकात्मना ।
निषिद्धोऽधर्म इतरच्चित्रं काम्यं पुनर्दिधा ।।
सवियं केवलं चेति विद्या चेश्वरचिन्तनम् ।
प्रत्यवायहतिर्वा स्यादुपात्तदुरितक्षयः॥
नित्यनैमित्तिकाभ्यां स्यादधर्मान्नारकी गतिः।
अर्वाचीना मनुष्यातु पापाणान्ता सुदुस्तरा ॥
काम्यात् स्वर्गगतिस्तस्मादूर्वा ब्रह्मावसानिका ।
सविद्या देवयानेन पुनरावृत्तिवर्जिता ॥
केवला पितृयानेन गतिः संसरणात्मिका ।
धर्माधर्माख्ययोः साम्ये मानुष्यं लभते पुमान् ।।
कर्मणोः सर्वगामी स्याचित्राचित्रफलोदयः ।
कर्मास्योऽयं महापाशो दुर्मोचस्तेन जन्तवः॥
इतस्ततः समाकृप्य नीयन्ते पशवो यथा ।"
इत्यादि । एवं मलकर्मवशाद् महेश्वरेच्छयो माया पुण्यापु-
ण्यफलानुभवाय त्रिस्थानेषु देवादिशरीरेन्द्रियविपयात्मना
पुनः पुनः परिणमते । तदुक्तं -
"मलात् कर्तृत्वभोक्तृत्ले कर्तृत्वात् कर्म कर्मणः ।
भोगस्तदाक्षेपवशान्मायावन्धस्ततस्तनुः॥
भोगाधिकरणं भोग्या लोकाश्च करणानि च ।
इन्द्रियाणीति जायन्ते भोगसिधै ततो मलः ।।
१. 'मनुष्यान् पाग. पाट.
२. 'या पु' का,
३. 'पुण्य'
२.ग. पाट.

प्रथम. परिच्छेद । अभिलापात्मकश्चेति बीजाङ्कुरफलादिवत् । अनादिः पाशजालोऽणून बध्नाति भवचक्रके ॥" इत्यादि । विचित्रं चेत्यनेन कर्मसद्भावे प्रमाणमप्युक्तम् । तथाहि-ईश्वरदरिद्रादिभेदभिन्नं विचित्रं जगद् विचित्र- कारणं विनो न संभवति । तच्च न दृष्टमुपलभ्यत इत्यह- कारणकल्पनेति तत्सिद्धिः । तदुक्तं मातङ्गे- "जगतः सुप्रसिद्ध हे धर्माधौ तु कर्मणी । अनादिकालसंरूढे ताभ्यां पु वासितः सदा॥" इत्यादि । तस्या मायायाश्च लक्षणमाह-विश्वस्य मूलमिति। विश्वस्य व्यक्तजातस्य कालादेर्मूलभूता उपादानभूता सा मायेति। तदुक्तं-- 'कालादीनां तत्त्वानामविवेको मायेति । लक्षणपदेनैव तस्यां प्रमाणमप्युक्तम् । तथाहि-विश्वं जगद् एकोपादानजन्यम् एकाकारत्वाद् यद्यदेकाकारं तत्तदेकोपादा- नजन्यं, यथा घटकुम्भमृदङ्गशराबकुड्यवत्मीकादयः एका- कारा एकमृदुपादानजन्याः । तथेदमपि जडत्यादिनैका- कार, तस्माद् एकोपादानजन्यमिति । यदन्त्र सकलकाला- धवनिपर्यन्ततत्त्वजाताविवेकात्मकमुपादानं, सा मायेति त- सिद्धिः । विस्तरेणतदुपरिष्टादुपपादयिष्यामः । मायाशब्दवा. ध्यतया तस्यापरमार्थत्वशङ्का स्यादिति तन्निवृत्त्यर्थमाह- - १. 'ना स' क.ग, पाठ तत्त्वप्रकाशे सयारये वस्तुरूपेति । सा माया वस्तुरूपा परमार्थभूता विश्वमूलत्वा- दीश्वरवदिति । नित्या च सा माया । विश्वमूलत्वादीश्वर- वदेवेति । अनित्यत्वे तस्या मूलान्तराभ्युपगमे विश्वमूल- त्वाभावात् । न च माया महेश्वरमायाव्यतिरिक्तानामेव मूलमिति विश्वमूलत्वाभावस्तस्या इति वाच्यं, जन्यस्यैव मूलापेक्षत्वादजन्यमूलत्वाभावे विरोधाभावादिति । न च प- रमेश्वरस्य विश्वमूलत्वे प्रमाणाभावात् साधनहीनमुदाहरण- मिति वाच्यं, तस्य विश्वमूलत्यश्रवणात् । तथाहि- 'यतो वा इमानि भूतानि जायन्ते', 'स इमाडोकानसृजत', 'आत्मन आकागः सम्भूतः' इत्यादिभिर्वदवाक्यैः परमेश्वरस्य जग- न्मूललमवगम्यते । ततो न साधनविकलमुदाहरणमिति । तथा परमर्पिणा घेदव्यासेन सूत्रकृता परमेश्वरस्य विश्वमू- लत्वं 'जन्माद्यस्य यतः' (व. १. १. २) 'शास्त्रयोनित्वात्' (ब० १. १. ३) इति सूत्रद्दयेनोपवर्णितमिति । ननु तर्हि न मायाया विश्वमूलत्वं, परमेश्वरस्यैव विश्वमूलत्यादिति चेत् । नैवम् । परस्परसंसृष्टयोरेब मायामहेश्वरयोर्विश्वमूल- खेनोभयोरपि नदुपपत्तेः । तथाहि -माया तावन्न परमे- श्वरानधिष्टिता जडा जगदुपादानं भवति । महेश्वरश्च चेत- नोऽपि न मायां विना विश्वमूलतां भजते, निर्व्यापारोदा- सीनमात्र त्यादिति तयोः संसृष्टयोरेय जगन्मूलत्वम् अय:- पिण्डाग्न्योरिख कार्यकारणोदीति । माया चेति चशब्देन मायाकार्यस्य विश्वस्य वस्तुरूपत्वमुपवर्णितम् । न च प्रप- १. 'म्यविधायरि', २. 'णा इनि' . पाठ, , प्रथमः परिच्छेदः। चस्य मिथ्यात्वाद् एतदनुपपन्नमिति वाच्यं, तत्र प्रमाणा- भावात् । नतु विमतः प्रपञ्चो मिथ्या, दृश्यत्वाद् यद्यद् दृश्यं तत्तन्मिथ्या, यथा शुक्तिरजतं, तथायमपि दृश्यः, तस्मान्मिथ्येत्यनुमानात् प्रपञ्चमिथ्यात्वसिद्धिरिति चेत् । नैवम् । शुक्तिरजतस्य तव्यतिरिक्तस्येदं रजतमिति भ्रान्ति- गोचरस्यापरमार्थभूतस्य सम्हावे प्रमाणाभावात् । ननु विमतं रजतज्ञानं रजतविषयं रजतज्ञानत्वात् सम्यग्रजतज्ञानव- दित्यनुमानात् तत्र शुक्तौ रजतसद्भावः सिद्धः । नासौ सत्, तदानीं भ्रान्तत्वबाध्यत्वयोरसंभवात् सम्यग्रजतवत् । नाप्यसत्, शशविषाण इव ख्यातिवाधयोरसंभवप्रसङ्गात् । नापि सदसद् , विरुद्धत्यादिति सिद्धं तस्य सदसद्विलक्षण; त्वम् । तदेवानिरूपितरूपत्वं मिथ्यात्वं चेति । तदुक्तं. "सत्वेन भ्रान्तिबाधौ स्तां नासत्वे ख्यातिबाधकौ । सदसयामनिर्वाच्याविद्या वेयैः सहभ्रमा ।" इति । तदेतदसारम् । अलौकिकस्य रजतस्य परमार्थभूतस्य तन्त्र प्रतिभासात् । तथाहि-द्विविधं हि रजतं लौकिक- मलौकिक चेति । तत्र लौकिकं वलयकरणादिसमर्थम् । अ- लौकिकमंत्र प्रतिभासमानं तदसमर्थम् । तस्य च हित्वादि- साम्येन परमार्थत्वान्न मिथ्यात्वम् । न च नेदं रजतमिति ज्ञानेनास्य वाधः, अपेक्षितलौकिकरजतविवेकख्यापकत्वेना- स्यावाधकत्वात् । अथालौकिकरजतायवोधे लौकिकरजता- र्थिनस्तत्र प्रवृत्यभावप्रसङ्ग इति चेन्न । मलौकिकस्यापि १. 'घर', २. 'न ख. पाठ .

तत्त्वप्रकाशे सध्याख्ये लौकिकभेदाग्रहणेन प्रवृत्त्युपपत्तेः । अथवालौकिकस्य लौकि- कतां मन्यमानस्तत्र प्रवर्तत इति । तथानिर्वचनीयरजताव- वोधे च प्रवृत्त्यसम्भवाद् भवता च मदुक्तमार्गानुसार आ- श्रयणीय एव । अतो नानिर्वचनीयापरमार्थरजतसद्भाव इति दृष्टान्ताभावान्न प्रपञ्चमिथ्यात्वसिद्धिः । ननु भेदाग्रहणस्य प्रवर्तकत्वे नालौकिकरजतकल्पना सङ्गच्छते । शुक्तिरजत- योरेव गृह्यमाणस्मर्यमाणयोर्मेदाग्रहणाद् रजतार्थिनस्तत्र प्र- वृत्त्युपपन्चेः कल्पनागौरवप्रसङ्गात् । तथाहि - इदं र. जतमित्यत्र इदमैनुभवः पुरोवर्तिशुक्तिविषयः । रजत- मिति तु सदृशदर्शनसमुद्बुद्धसंस्कारजं देशान्तरगतरजतवि- पयं स्मरणम् । तत्रानुभूयमानस्मर्यमाणयोः शुक्तिरजतयो- भंदाग्रहणादेव रजतार्थिनः पुरोवर्तिनि शुक्तिरजते प्रवृत्यु- पप लौकिकरजतकल्पनेमुपपन्नमिति । तत्र च न मि- ध्याभूतं किञ्चिदस्तीति प्रपञ्चमिथ्यात्वानुमानस्य दृष्टान्ता- भावादप्रामाण्यमिति । नैवम् । तच्छन्दोल्लेखनशून्यतया रजतज्ञानस्य स्मृतिरूपत्वासंभवात् । तस्मादत्रालौकिक र. जतं भासत इति। नैतदेवम्। अलौकिकरजतग्रहणस्य प्रवर्तक- त्यानुपपत्तेः । न चालौकिकस्य लौकिकता मन्यमानः प्रवर्तत इति वाच्यम् । अन्यथाख्यातिवादप्रसङ्गात् । न च लौकिकमे- दाग्रहणात् प्रवृत्तिः स्वर्णभेदाग्रहणेन तदधिनस्तत्र प्रवृत्तिप्र. सङ्गात् । न च गृह्यमाणयोर्मेंदाग्रहणं प्रवर्तकमिति स्वर्णा- ग्रहणेन तदथिनरतत्र प्रवृत्त्यभाव इति वाच्यम् । लौकिकर- १. 'मित्यनु ग. पाठः.

प्रथमः परिच्छेदः । जतस्याप्यगृह्यमाणतया तदर्थिनस्तत्र प्रवृत्त्यसंभवात् । न चानेन रजतज्ञानेन तस्यापि ग्रहणमिति वाच्यं, देशान्तरस्थ- तयेन्द्रियगोचरत्वासंभवात् । न चेदं स्मृत्यनुभवात्मकं पु- रोवर्तिदेशान्तरगतरजतद्वयविषयं विज्ञानहयमिति वाच्यम्, इन्द्रियसंप्रयोगजन्यत्वात् तच्छब्दोल्लेखशून्यत्वाच्च रजतज्ञा- नस्य स्मृतित्वासंभवात् । तस्मादत्र भासमानं रजतमसदिति शून्यवादिनो मिथ्यात्वं चासद्विषयत्वमिति प्रपञ्चमिथ्यात्वा- नुमानात् प्रपञ्चस्याप्यसत्वमिति । नैतदेवम् । असद्जताव- बोधे रजतार्थिनस्तत्र प्रवृत्यनुपपत्तेः । अथासद्रजतस्य सद्र- जतभेदाग्रहात् तदभेदग्रहाहा प्रवृत्युपपत्तिरिति चेत् । वम् । रजतशुत्योरेख भेदाग्रहणादभेदग्रहणाहा प्रवृत्युप- पत्तौ तद्यतिरिक्तामद्रजतकल्पनासंभवात् । तस्मादत्र रजत: ज्ञानं स्वगतं रजताकारं बहिःशुक्तिमस्तके प्रकाशयतीत्या- मख्यातिवादिनः, असतः स्यानायोगात् सतश्च देशान्तरस्थ- त्वाद् अरजतस्य रजतधीगोचरत्वासंभवाच्च ज्ञानगतरजता- कारस्य बाह्यतयावभासो भ्रम इति । जाग्रज्ञानानि च स्वा- कारव्यतिरिक्तार्थशून्यानि ज्ञानत्वात् स्वप्नज्ञानवदिति ज्ञाना- द्वैतवादी, ज्ञानमात्रं सर्वं तदन्यासत्वस्यानेनानुमानेनावगत- त्वादिति। नैवम् । अस्यानुमानस्य पक्षहेतुदृष्टान्तादिग्राहक- ज्ञानैः स्वव्यतिरिक्तार्थवन्दियभिचारात् । तेपामग्राह्यत्वेऽस्या- नुमानस्याश्रयासिद्विस्वरूपासिद्धिधर्म्य(?)सिद्धदृष्टान्तत्वादि- १. 'यज्ञ' क. पाठः.

तत्त्वप्रकाश सव्यारये दोपप्रसङ्गः। न च स्वमज्ञानानां स्वाकारग्राहकत्वं, विज्ञाना- नां साकारत्वे प्रमाणाभावात् । न च नीलज्ञानं पीतज्ञानमि- त्यादिप्रतिकर्मव्यवस्थान्यथानुपपत्त्या तज्ज्ञानानां नीलपीता- द्याकारवत्वसिद्धिः । नीलपीतादेः कर्मकारकतया प्रामाण्यात् । तस्मात् स्वाकारं बहीरूपतया न ख्यापयन्ति भ्रान्तय इत्या- मख्यालसंभवः । किं तर्हि भ्रान्तिज्ञानानां भ्रान्तत्वम् , अनादिवृद्धव्यवहारावगतस्वविषयपरित्यागेन विषयान्तरोप- सर्पणमिति ब्रूमः । तत्र च प्रमाण नेदं रजतम्, अपि तु शुक्ति- केति बाघकप्रत्ययानन्तरमिदं शुक्तिशकलं रजतरूपेण मया प्रत्याकलितमित्यवाध्यमानं प्रत्यभिज्ञात्मक प्रत्यक्षमुपलभ्यत इति । तद्विपरीतनिर्वचनीयालौकिकाख्यात्यसत्ख्यात्यात्म- ख्यात्यादिप्रतिपादकानां प्रमाणानामग्न्यनुष्णत्वप्रतिपादककृ- तकत्वानुमानवदप्रामाण्यमिति । तदुक्तं न्यायविह्निः-- "विज्ञानानां यथार्थत्वं सर्वपां केचिदूचिरे । तदसाध्वन्यथाख्यातिमानस्या मीयते धिया ।" इति । तथा अनुमानादप्यन्यथाख्यातिरत्रावगम्यते । तथा- हि-~-विमता रजतार्थिनां पुरोवर्तिनि शक्तिशकले प्रवृत्तिः स्वगोचरे रजतज्ञानपूर्विका, रजतादित्साधीनप्रवृचित्वात् , सम्यग्रजतप्रवृत्तियदिति । शक्तिशफलं वा रजतज्ञानविषयः, रजतादित्साधीनप्रवृत्तिविपयत्वात् , सम्यग्रजतवदिति । तथा नेदं रजतम्, अपितु शुक्तिकेति बाधकप्रत्ययश्च पक्षान्तरेपु नोपपद्यते । शुक्त रजतरूपताप्राप्यभावात् । प्रकारा.

६७ प्रथमः परिच्छेदः। न्तरेण वाधकप्रत्ययप्रसङ्गश्च-नेदं सद्रजतम् , अपित्वंस- द्रजतमिति , नान सद्रजतमस्ति , अपित्वन्यत्रेति वानिर्व- चनीयख्यातिपक्षे , नान वलयकरणसमर्थ रजतमस्ति (अ- पि?) अपित्वन्यत्रेति, नेदं वलयकरणसमर्थ रजतमपित्व- लौकिकमिति वा प्राभाकरैकदेशी(या ? यमीमां)सकपक्षे, नेदं सद्रजतम् अपि त्वसदजतमिति नात्र सद्रजतमस्ति अपित्व- न्यत्रेति वासख्यातिपक्षे, नात्र रजतमस्त्यपित्वान्तरमित्यात्म- ख्यातिपक्षे, रजताद भिन्नमिदं शुक्तिशकलमिति भेदाग्रह- पक्षे भवेदिति । तस्मादन्यथाख्यातिव्यतिरिक्तख्यातीना- मसंभव इति । रजतार्थिप्रवृत्त्यसंभवाञ्च ख्यात्यन्तरासंभवः। अनन्तवस्तुभेदाग्रहणसहावात् पुरोवर्तिनि तदर्थिनां प्रवृत्ति- प्रसङ्गः । न च गृह्यमाणयोर्मेंदाग्रहणात् प्रवृत्तिः । घटपट- योगृह्यमाणयोस्तदानीम् भेदग्रहपाभावेन घटार्थिनः पटे प्रवृ- त्तिप्रसङ्गात् । न च धर्मिप्रतियोगिग्रहणवेलायां त दग्रह- णोपपत्तिः । उभयग्रहणपूर्वकत्वाद् भेदप्रवृत्तेरिति । अथ भेदस्य स्वरूपत्वात् स्वरूपाहणेन भेदस्यापि गृहीतत्वाद भेदाग्रहणाभावेनाप्रवृत्तिरिति चेत् ।-न तर्हि रजतार्थिनः पुरोवर्तिनि शुक्तिशकले प्रवृत्तिः । स्वयम्प्रकाशमानयोग्रह- णस्मरणयोरिदं रजतमिति ज्ञानयोगृह्यमाणमयमाणयोश्च: शुक्तिरजतयोः स्वरूपाग्रहणेन भेदाग्रहणासंभवात् । किञ्च भेदाग्रहणस्य प्रवर्तकत्वे शब्दार्थसंबन्धग्रहणासंभवप्रसङ्गः । तथाहि-गामानयेति प्रयोजकवाक्यश्रवणसमनन्तरं प्र- १. स्वपरमार्थमि' ख. ग. पाठ, २. 'घ' ग. पाठः, ६८ तत्त्वप्रकारे सव्याख्ये योज्यवृद्धप्रवृत्तिमुपलभमानो बाल एवमवगच्छति-अ- स्य गमनक्रियाहेतुः प्रयलो जीत इति, स्वात्मनि गम- नादिक्रियायाः प्रयत्नपूर्वकत्वदर्शनात् । प्रयत्नकारणत्वेनेच्छां गमनानुमितप्रयत्नेनानुमिनोति, इच्छाकारणत्वेन चेप्टसा- धनज्ञानकारणत्वेन च प्रयोजकवृद्धवाक्यं ज्ञानपूर्वकालवर्ति, तत्कारणवस्त्वन्तराभावात् । तत आनीयमानमर्थमुपलभ- मानोऽयमर्थसमुदायोऽनेन शब्दसमुदायादवगत इति जा- नाति। पश्चादावापोहापाभ्यां विशेषतोऽध्यवस्यति--अस्या- विशेषस्यायं शब्दविशेषो बाचकः, अस्य पदविशेपस्या- यमर्थविशेपो वाच्य इति वा । अत्राग्रहणस्य ज्ञानप्रागभा• वरूपतयाशब्दजन्यत्वाच्छन्दशक्तिकल्पनानवकाशः, ज्ञान- हारेणेच्छाप्रयत्नावुत्पाद्य शब्दस्य प्रवर्तकत्वादिति चन्द्रद्धि- स्वशलपातिमादिभ्रमादिपु न भेदाग्रहणसंभव इति । तस्मान्न भेदाग्रहणात् प्रवृत्तिः, अपित्वन्यथाग्रहणादिति ब्रूमः । ननु शैवः शास्त्रेऽन्यथाख्यातिराश्रीयत इति कुतोऽवगतं, भूतश- द्वितन्त्र उक्तत्वात् । तथाहि - "अन्यधारयामुपाश्रित्य सांस्यवच्छियशासनम् । या अनिर्वचनीयेति तथा सिद्धान्तबादतः ।। वेदान्तबादिनां दृष्टिमाश्रितं वैष्णवं मतम्।' इति । मांख्यमिति च सेश्वरसांख्यं विवक्षितम् । इतरस्या- ख्यातियादित्वात् । तथाप्युक्तं सांग्ल्याचार्यः-"विपर्ययो १. 'गायन' ग. पाठ , प्रथमः परिच्छेदः। मिथ्याज्ञानमतद्रूपप्रतिष्ठेमिति सुत्रेणान्यथाख्यातिप्रतिपाद- नात् । तस्माच्छुक्त्यविद्यासमुद्भूतस्य शुक्त्यधिष्टितस्य शु. क्तिव्यतिरिक्तस्याधिष्ठानयाथात्म्यज्ञाननिवर्त्यस्य मिथ्याभू- तस्य रजतस्याभावात् प्रपञ्चमिध्यात्वानुमानं धर्म्यसिद्धदृष्टा- न्ततया न प्रामाण्य संपदमधिगच्छत्तीति। तचात्मनोऽपि स्वतः सिद्धस्य श्रुतिप्रमाणदृश्यत्वाद्धेतोर्व्यभिचारः। किञ्च प्रपञ्चस्य मिणो दृश्यत्वेन हेतुना यथा साध्यते, तथा दृश्यत्वस्य हेतोमिध्यात्वस्य साध्यधर्मस्य मिथ्यात्वं यद्यनेनैवानुमानेन साध्येत, तदा हेतोः पक्षकदेशतया पक्षे वृत्त्यभावादनिश्चित. पक्षवृत्तिरसिद्ध इत्यसिद्धत्वं प्रपञ्चमिध्यात्वस्य धर्मिणोऽन्यत्र प्रपञ्चवदमिनेगश्रेयकदेशासिद्धत्वं च प्रसज्यते। तवयस्य मिध्यावासाधन तत्र वर्तमानत्वाद् दृश्यत्वस्य व्यभिचारः । प्रमाणान्तरेण तन्मिध्यात्यसाधने तन्मिध्यात्वत्य मिध्यात्वा- साधनात् तत्र द्वयोर्व्यभिचारः। तस्यापि मिथ्यात्वसाधनेऽन्ति. मस्य मिथ्यात्वस्य मिध्यात्वासाधनात् तत्र इयोर्व्यभिचारः । तस्यापि मिध्यात्वासाधनऽन्तिमस्य मिथ्यात्वम्य मिथ्यात्वा- साधनान् तर यर्नमानतया हेनोर्व्यभिचारः । तथा मिथ्यात्वं यवसच नदा सन् घटः सन् पट इत्यादिप्रत्यक्षबाथः । प्रपञ्चस्य धर्मिणो मिथ्यात्वस्य धर्मस्य हेतोदृश्यत्वस्य शुति रजतस्य दृष्टान्तग्य च विणकल्पनाश्रयागिरया- दिदोषणमदः । तेषां समाये हनोव्यभिचारः । इत्युभयथा शुन्यरादिनांन यादेऽधिकारः। तदुनम्- Po, २. it'पट, :. R ...

तत्त्वप्रकाशे सव्याख्ये "अधिकारोऽनुपायत्वान्न वादे शून्यवादिन" इति । यदि ज्ञाननिवर्सलं, तदा च प्रत्यक्षादिविरोधः । प्रत्यक्षादिना मुद्गरप्रहारादिनिवर्त्यत्वोपलम्भन कार्यकल्प्य- ज्ञाननिवर्तनयोग्यताया असंभवात् । न च कल्पकोटि- शतसहस्रवर्तिनां पदार्थानो कारणान्तरविनष्टानामज्ञानादवि- नाशो घटत इति । यदि सदसद्विलक्षणत्वं मिध्यात्वं, तदापि प्रत्यक्षादिविरोधः। प्रत्यक्षादिना पदार्थानां सत्चासत्चयोरुप- लम्भात् ।तथा विरुहत्वाच्च सदसत्त्ववदेकस्य पदार्थस्य न स. दसबैलक्षण्योपपत्तिः । देशकालभेदेन त्वर्थानां सदसत्त्वयोरुप- पत्तिः। उभयबैलक्षण्यं तुन कथञ्चिदुपपद्यत इति। अथवाध्य- त्वमिति चेदस्तु । बाध्यत्वं यदि नाशित्वं, तदांगे सिद्धसाध्य- तांश मिग्राहकप्रमाणबाधा च । कालाधवनिपर्यन्ततत्त्वानां तत्कार्याणां च विनाशित्वस्य सिद्धत्वाद् मायायाः स्वग्राह- रूप्रमाणेन नित्यत्वस्य सिद्धत्वाच्चेति विश्वकार्यकलापस्य का- रणापेक्षायां तन्मूलतया मावासद्भावसिद्धिः । अतस्तस्या नि- सत्य, विश्वकार्यकारणतयाकार्यत्वेनौनित्यत्वासंभवात् तस्या- श्व कारणान्तरकल्पनायामनवस्थाप्रसङ्गाच । नित्सवं कस्यचि. दाश्रयणीयम् । तत् कल्पनागौग्यपरिहाराय प्रथमभूताया मा- याया एवाभ्युपगतमिति धर्मिग्राहकणव प्रमाणेन तन्नित्य. त्यमपि मिडमिति(न)मिग्राहकपमाणविरोधः । न चानेन तस्य बाधासंभवः । अस्य तन्मूलनया तदभावे मायासहा. १. 'बादला', १.ता का पाठ... 'नासहरास.पाठः.

प्रथमः परिच्छेद.1 वसिद्धेराश्रयासिद्धिदोपप्रसङ्गात् । अथ वाधात्मकबोधविषय- त्वं बाध्यत्वं, तस्य शुक्तिरज्ज्वादावुपजातरजतसदिज्ञानेऽप्य- स्तीति न साध्यहीनमुदाहरणम् । तथाहि-अनादिसिद्ध- स्वविषयरजतादिपरित्यागेन विपयान्तरे शुक्स्यादावुपसर्पणा- मिथ्येदं ममोत्पन्नं रजतादिज्ञानमिति बाधात्मकबोधविषय- ता रजतादिज्ञानानामुपलभ्यते । तदृष्टान्तबलात् प्रपञ्चस्या- पि बाधात्मकबोधविषयत्वं साध्यत इति न कश्चिद्दोप इति चेत् । नैवम् । सिद्धसाध्यताप्रसङ्गात् । तथाहि - "सर्वो वै रुद्रः" इत्यादिश्रुतेः, "विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम् ।” इत्यादिस्मृतेश्च शरीरशरीरिरूपतया सर्वस्य रुद्रात्मकत्वा- वगमात् सर्वेपामपि पदार्थानां रुद्रात्मकत्वावभासस्य भ्रम- रूपत्वं, तेन नायं प्रपञ्चोऽशिवात्मकः, किन्तु रुद्रात्मक एवेति बाधात्मकबोधविषयत्वस्य सिद्धत्वात् सिद्धसाध्यताप्रसङ्ग इति । अथाशिवात्मतागोचरा ये प्रत्ययाः प्रपञ्चविपयास्तपां मिथ्यात्वमन्यथाख्यातिरूपत्वं साध्यत इति चेत् । तर्हि सि- दं नः समीहितं, प्रपञ्चसत्यत्वाविरोधात् । नहि रजौ सर्पज्ञा- नोत्पादेन रज्जुसत्यत्वं विरुध्यत इति । तस्माद् युक्तमुक्तं माया च वस्तुरूपेति। अपरमार्थात् परमार्थवस्तूत्पादासम्भवाचेति । अपरे पुनर्माया च वस्तुरूपेत्येतद् वाक्यमन्यथा व्याचच- क्षिरे । तथाहि-माया वस्तुरूपा शिवरूपा तत्का(य- खीय) च जगच्छिवरूपम् । शिवा भिन्नस्य कस्यचि- १. 'नवप्य' ख. पाठ. , - तत्त्वप्रकाशे सबम्ये दसंभवात् । तथाहि. ज्ञानस्वभाव एवायमात्मा शिवो मायातकार्यात्मनावभासते । ततः स एव तदुभयमिति ।-न च तथा सति शिवस्य परिणामित्वमिति वाच्यं, विवर्तवा. दाश्रयणात् । अप्रच्युतस्वस्वभावस्य वस्तुनोऽन्यथाभावो वि. वर्तः । यथा रजोः सर्पत्वम् । न हि रज्जौ सर्पभावकाले परिणामादि दृष्टमिति महेश्वरस्यापि जगद्रूपत्वे तहदेव परि- णामादिकामभव इति शिव एव मायातकार्यात्मना भासत इति । तदुक्तमीश्वरगीतायां "स एव मूलप्रकृतिः प्रधानः पुरुषोऽपि च । -विकारा महदादीनि देवदेवः सनातनः ॥" इति । नहि रजतादेरन्यत्र विद्यमानस्य शुक्तिकादौ भ्रम- दर्शनादस्य प्रपञ्चस्यान्यत्रासंभवाद् भ्रमरूपत्वासंभव इति वाच्यम् । पूर्वदर्शनमात्रस्य भ्रमहेतुसंस्कारहेतुतया प्रयोजक- खेनान्यत्र विद्यमानतया अग्रयोजकत्वात् । तस्मात् पूर्वपू- वैदिवसजन्मकैल्पादिप्यनुभूतस्योत्तरोत्तरदिवसजन्मकैल्पादि- पु भ्रमसंभव इति न कश्चिद् दोपः। तदुक्तं शतककारेण-- "सर्वविकल्पविहीनं शुद्धं शान्तं व्यंयोदयविहीनम् । यत् परतत्त्वं तस्मिन् विभाति पट्त्रिंशदात्म जगत् ॥ दर्पणविम्ये पहनगरनामादि चित्रमविभागि । भाति विभागेनैव च परस्परं दर्पणादपि च ॥ २ १. 'जी', २. विदि, १. करमपादि' क. पाट. ३. करमपादि' रा. पाठ.

प्रथमः परिच्छेद.। विमलतरपरमशाम्भवयोधात् तहद्विभागशून्यमपि । अन्योन्यं च ततोऽपि च विभक्तमाभाति शिवरूपम् ।।" इति ॥ १८॥ इदानी शक्तिगणं निरूपयति- पाशानुग्राहित्वात् पुरुपतिरोधायिका विभोः शक्तिः । पाशत्वेनाभिहिता पाशाश्च चतुर्विधास्त्वेवम् ॥ १९ ॥ इति । मलकर्ममायाकार्याणां पाशानामचेतनतया परमेश्वरशक्त्यावेशं विना पशुबन्धनसामर्थ्याभावात् स्वावेशेन पाशानुग्रहं स्वकार्ये प्रवर्तनं कुर्वती पुरुषतिरोधायिका पुरुषा- च्छादिका विभोः परमेश्वरस्य शक्तिः पाशतयोक्ता तत्वज्ञै- रिति। पाशाश्च चतुर्विधारत्वेवमित्युपसंहरति । एवमुक्तेन प्र. कारेण पाशाश्चतुर्विधा इत्यर्थः । नन्वर्थपञ्चकं पाश इत्युपक्र- म्य पाशाश्चतुर्विधा इत्युपसंहारे पूर्वापरविरोध इति चेन्नैवम् । स्थूलसूक्ष्मविभागेनोक्ताया मायाया एकत्वादिवक्षया चातुर्वि- ध्याभिधानादिति। पाशाच चतुर्विधास्त्वेवमित्युपसंहारवाक्य- स्थेन चशब्देन शास्त्रार्थोपसंहारो द्योतितः। एवं त्रिविधं तत्त्व- मिति ॥ १९॥ इति सत्यप्रकारातात्पर्यदीपिकाया पतिपशुपाशात्मकविचारः प्रथमः परिच्छेद। १. 'पूर्वमु' क. पाठ .

अथ द्वितीयः परिच्छेदः। अथ संक्षेपेणोक्तानां पतिपशुपाशानां विस्तारमुपदिशति- शुद्धानि पञ्च तत्त्वान्याद्यन्तेपु सरन्ति शिवतत्त्वम् । शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वे च ॥ १॥ पुंसो ज्ञकर्तृतार्थं मायातस्तत्त्वपञ्चकं भवति । कालो नियतिश्च तथा कला च विद्या च रागश्च ॥२॥ अव्यक्तं भायातो गुणतत्त्वं तदनु बुद्धग्रहंकारौ । चेतोधीकर्मेन्द्रियतन्मात्राण्यपि च भूतानि ॥३॥ इति । अत्राद्यं पञ्चकं शिवस्वरूपत्वाच्छुद्धं, मध्यम सप्तकं शुद्धाशुद्धं, पशुरूपत्वात् । कथमन सप्तकत्वमित्यत आह-पुंसो शकर्तृतार्थं मायातस्तत्त्वपञ्चक भवतीति। पुरु- पस्य ज्ञानार्थ कर्तृत्वार्थ च मायातः तत्वपञ्चकमुत्पद्यते। तेन कारणभूता माया कार्यभूतं पञ्चकं तदुपहितः पुरुपः सप्तमः इति सप्तकत्वम् । तदुक्तं शैवरहस्ये "माया कालो नियतिः कला च विद्याभिलापकृत् पुरुपः । क्लप्तानि सप्तधैवं शुद्धाशुद्धानि तत्त्वानि ॥" इति । शिष्टं फेवलाशुद्धम् अव्यक्तादिपृथिव्यन्तम् । अव्य- क्तस्य मायात उद्भवः, अव्यक्ताद् गुणतत्त्वस्य, गुणतत्त्वा- द् बुद्धेः, धुद्धितच्चादहंकारस्य, अहंकारान्मनोबुद्धीन्द्रियकरें- न्द्रियतन्मात्राणामुद्भवः, तन्मात्रेम्य आकाशादिपृथिव्यन्ता- नामिति ॥ १,२,३ ॥ किमर्थमेषामुत्पादः कृतो भगवता महेश्वरणेत्याश- कयाह- - - द्वितीयः परिच्छेदः । पुरुपस्य हि भोगार्थ प्रधानतो विंशतिर्भवेत् त्र्यधिका। यस्मात् प्रकृतिगुणानां नात्यन्तं वस्तुतो भेदः ॥४॥ इति । पुरुषस्य पशोः स्वकृतपुण्यापुण्यफलभूतसु. खदुःखानुभवार्थमेषामुत्पत्तिः। भोगस्तु भोगायतनं भूतात्मकं शरीरं भोगसाधनानीन्द्रियाणि भोग्यान् शब्दादिविषयान् वि. ना न संभवतीति भोगार्थमेषां जन्मेति सिद्धम् । अव्य- क्तगुणतत्त्वयोरत्यन्तभेदाभावाद् न च तत्त्वाधिस्यमिति । एतदुक्तं शैवरहस्ये- "अव्यक्तबुद्धयहंकृतिमनांसि चत्वारि शब्दमात्रायम् । श्रोत्रायं वागायं वियदाद्यं पञ्चकं च पृथक् ॥ तत्त्वचतुर्विंशतिकं त्रिगुणात्मतयैव केवलाशुद्धम् ।" इति ॥ ४ ॥ प्रथमोद्दिष्टं शिवतत्त्वं लक्षयति- व्यापकमेकं नित्यं कारणमखिलस्य तत्वजातस्य । ज्ञानक्रियास्वभावं शिवतत्त्वं जगदुराचार्याः ॥ ५॥ इति । व्यापकं, व्याप्तं सर्वगतमित्यर्थः । एकमावि- तीय, सर्वभूतस्त्ररूपेणावस्थितमित्यर्थः । नित्यम् अनश्वरम् । अखिलतत्त्वजातस्य कालादिशथिव्यन्तस्य कारणमुत्पादकम्। ज्ञानक्रियास्वभावमिति । ज्ञानमानं क्रिया व्यापारः साक्षित्वं स्वभायो यस्य तत्त्वरय, तत् शिवतत्वमिति तल्लक्षणम् । जगदुराहुः आचार्याः आगमविद इति । अथवा स्वव्य- तिरिक्तमस्ति चेत् तदखिलं व्याप्नोतीति व्यापकमित्युक्तम् । स्वसमानासमानपुरुषान्तराभावादेकत्वम् । व्याप्त्येकत्वे चा.

तत्त्वप्नकाशे सव्याख्ये - काशस्यापि स्त इति तन्निवृत्त्यर्थं नित्यपदोपादानम् । व्या- प्तिनित्यत्वैकत्वानि पशोरपि विद्यन्त इति तन्निवृत्यर्थ का- रणमखिलस्य तत्त्वजातस्येति पदम् । मायायाश्च व्यापकनि- त्यत्वैकत्वाखिलकारणत्वसहावात् तन्निवृत्त्यर्थ ज्ञानक्रिया- स्वभावमित्युक्तम् । अतो यद् व्यापकमेकं नित्यमखिलतत्त्व- कारणं ज्ञानक्रियास्वभावं, तच्छिवतत्त्वमिति । एतदुक्तं श्वे. ताश्वतरे- "सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी स भगवास्तस्मात् सर्वगतः शिवः॥" इति । शिवधर्मोत्तरे च- "आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः । सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे ।" इति । सिद्धान्तहदये च- "कूटस्थममृतं ब्रह्म सत्यमेकमविक्रियम् । निप्प्रत्यनीकं चित्सौख्यं नित्यतृप्तमलुप्तदृक् ॥ भध्वातीतं परं व्योम विश्वव्यापि निरामयम् । अणीयोऽणोरजं नित्यमुक्तं च महतो महत् ॥ अप्रतक्यमरूपादि निरोपम्यमलक्षणम् । सदात्मकं स्वयंज्योतिरवाड्मनसगोचरम् ॥ अतन्निपेधमार्गेण ज्ञायते यच्च सूरिभिः । यच्च नामकवत् कर्तृ जापकं च प्रदीपवत् !! १. तिफलोद' ख. पाठः द्वितीय परिच्छेदः । मायासहायं तत् प्राहुः शिवतत्वं मनीषिणः।" इति ॥५॥ ननु निष्क्रियस्य शिवतत्वस्य कथं निखिलतत्वका- रणत्वमित्याशङ्कयाह- अस्मिन्निलीय निखिला इच्छाद्याःशक्तयःस्वकं कृत्यम् । कुर्वन्ति तेन तदिदं सर्वानुग्राहकं प्राहुः ॥ ६॥ इति । अस्मिन् परमेश्वरतत्वे निलीनास्तचत्वमवल- म्व्य स्थिता इच्छाद्याः शक्तयः स्वकार्य कुर्वन्ति, न स्वातन्त्र्येणों तासां शिवसामर्थ्यरूपत्वात्। तेनासौ शिवो निखिलतत्त्वका- रणम्, अत एव सर्वानुग्राहकश्च भवतीति । अस्य शिवतत्वस्य षडध्वव्याप्तिः । स्वराः पोडश वर्णावा ताराचं नवकं पदम् । मन्त्रौ षड्वर्णपञ्चाणी तत्त्वं तत्र शिवात्मकम् ॥ नेन्तं नमःपरायायं त्रिपश्चभुवनान्यपि । निवृत्त्यादीनि पञ्चात्र शान्त्यतीतादयः कलाः ॥ सर्वत्रान्ते पदं योन्यं स्यात् पडध्वात्मने नमः ॥६॥ अथ शक्तितत्त्वमाह चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेपः । तच्छक्तितत्वमभिहितमविभागापन्नमस्यैव ॥७॥ इति।अयमर्थः---- पशुपाशानुग्रहार्थ सिसृक्षोः परमे- श्वरस्यायो य उन्मेपः उन्निद्रभाषः, ईक्षणमिति यावत् । तच्छ- .. - १. 'प' स. ग. पाठ.

७८ तत्त्वप्रराशे सव्यास्ये २ क्तितत्त्वमित्युक्तं, शिवतत्त्वादभिन्नं च, शक्तितहतोर्मेंदासंभ- वादिति । ननु कथं शक्तेः सद्भावावगमः । कार्यानुपपत्त्येत्ति यूमः । निफियस्य शिवस्य जगत्सृष्टयादिकं शत्यभावे ने संभवतीति तत्सिद्धिः । तथाहि. यथाग्नेरङ्गुलिसंयोगे वि- द्यमानेऽपि (बन्धा ? मण्या)दिप्रतिवन्धकसद्भावदशायां रफोट- कार्यानुभवादग्न्यङ्गुलिसंयोगव्यातिरिक्ता दाहिका शक्तिः क- ल्प्यते, तथात्रापि पच्चविधकार्यान्यथानुपपत्त्या शक्तिसद्भाव- सिद्धिः । न चारन्यङ्गलिसंयोग एव स्फोटहेतुरिति वाच्यम् । तस्य प्रतिबन्धाप्रतिवन्धावस्थयोः सद्भावेनाविशेषेण स्फोट- कार्योदयप्रसङ्गात् । न च प्रतिबन्धकाभावात्मककारणाभावात् तदानी कार्यानुदयो न शक्त्यभावादिति वाच्यम् । प्रतिव- न्धकाभावस्याकारणत्वात् । भूतानां भविष्यतां देशान्तरे वर्त- मानानां च प्रतिबन्धकानामभावसहावेऽपि स्फोटकार्यानुत्प- चेस्तस्याकारणत्वसिद्धिः । न चैतस्य प्रतियन्धकामावस्य कारणत्वेन तव्यतिरिक्ताभावसहावेऽपि कार्यानुदयो घटत इति वाच्यम् । एतदभावस्य कारणले प्रमाणाभावाद विपरी- तप्रमाणसहावाच्च । तथाहि --विमतो भावः स्फोटाजनकः प्रतिवन्धकाभावत्वात् तदन्याभाववदिति । तथैतत्पतिवन्ध. कविगमने एतदभावसद्भावेऽपि प्रतिवन्धकान्तरसद्भावे स्फो. टकार्यानुदयाच्चतस्याकारणत्वसिद्धिः । न च सर्वपां प्रति- वन्धकानामभावः कारणम् 1 उपरिदीपनयनस्याङ्कुरोत्पति- १. 'म तत् म', २. "नि त' ग. पाठः. ३. 'नुपपते' स. पाठ'.

द्वितीयः परिच्छेदः। प्रतिबन्धकस्यापनयने वीजादरोत्पत्तिप्रसङ्गात् । अथ (न) दीपनयनप्रध्वंसः कारणं, तत्प्रागभावस्य कारणत्वात् । स चान नास्तीति तस्य तत्र नीतत्वादिति चेद् । नैवम् । उपरिदी. पनयनप्रागभावान्तरसद्भावेनाङ्करोत्पादप्रसङ्गात् । न चासावेव कारणमिति वाच्यम् । उपरिनीतदीपेषु बीजाकरेप्वेतद्दीपन- यनप्रागभावस्य सद्भावात् तेभ्यो बाजेन्योऽङ्करोत्पत्तिप्रस. ङ्गात् । अतो दपिनयनादतीन्द्रियं किमपि कारण नष्टमित्य- वगम्यते । तदभावाप्रतिबन्धावस्थायां कार्यानुदयनप्रतिवन्ध- काभावस्याभावादिति । ननु शक्तेविनाशे कारणाभावात् प्र. तिवन्धकार्यगमेऽनेः स्फोटकार्याभावो गतिस्तम्भने च सर्पा- देर्गमनाभावश्च प्रसज्यते । मन्त्रेण नष्टशक्तित्वादिति चेद् । नैवम् । नष्टशक्तिचालानाशे पुनरुत्पद्यमानज्वालायाः शक्ति- नाशाभावेन स्फोटोदयोपपत्तेः । सर्पस्य तु ध्यातभारवशात् गमनाभावः, न शक्तिनाशादिति पुनर्गमनोपपत्तेः । तस्माद कार्यान्यथानुपपत्त्या शक्तिसद्भावसिद्धिः । तदुक्तं भट्टपा- देन- "शक्तयः सर्वभावानां कार्यार्थीपत्तिगोचरा" इति । सेयं परा शक्तिः परमेश्वरादभिन्ना । तस्या विकारा इच्छाद्याः शक्तयस्तदभिन्ना इति । तदुक्तं मातङ्गे- "पत्युः शक्तिः परा सूक्ष्मा जाग्रतो द्योतनक्षमा । तया प्रभुः प्रवुद्धामा स्वतन्त्रः स सदाशिवः ।।" १.पर, पाठ ८. तत्त्वप्रकाशे सव्याक्ष्ये - -- इति । अस्य शक्तितत्त्वस्य षडध्वव्याप्तिः- "अनन्तायेति पूर्व यत् पदानां तु चतुष्टयम् । तत्त्वशक्तिः कलातीता पूर्वस्मात्तु विशिष्यते ॥७॥ अथेदानी सदाशिवादिशुद्धतत्यानां स्वरूपं निरू- पयितुमाह जानक्रियास्यशचयोरुत्कपनिकर्ययोरभावन । यः प्रसरस्तं प्राहुः सदाशिवाख्यं बुधास्तत्त्वम् ॥ ८ ॥ इति । अयमभिप्रायः -- पराशक्तिविकारभूतज्ञाने- च्छाक्रियाशक्तीनां प्रसरावस्थायां ज्ञानक्रियात्मकशक्तिहय. साम्ये सतीच्छोडेको यदा विवक्ष्यते, तदा शिवतत्त्वं सदाशि- वाभिधानमिति । तदुक्तं सिद्धान्तहृदये- "ज्ञानक्रियाख्ये न्यक्तुल्ये शक्तीच्छोद्रेकमजते । यदा सदाशिवाख्यस्तु तदासौ शिव उच्यते ॥" इति । तत् तत्वं स्फटिकनिनम् । तदुक्तं चन्द्रज्ञाने- "सदाशिवाख्यं विमलं शुद्धस्फटिकसन्निभम्" इति । अस्य सदाशिवतत्त्वस्य पड़वव्याप्तिः । वर्णायात्र ककारः स्याच्छाश्वेतायादिकं त्रिकम् । पदाध्वा च वयं तत्वभुवने शान्तिरेव च ॥ ८ ॥ ईश्वरतत्त्वनिरूपणार्थमाह- न्यम्भवति यत्र शक्तिनिारयोद्रिततां क्रिया भजते । ईश्वरतत्त्वं तदिह प्रोक्तं सर्वार्थकर्तृ सदा ॥ ९ ॥ 2. पति नन् पूर्वप'. २. 'स्व' ग. पाठ. - - द्वितीयः परिच्छेदः। इति । न्यग्भूतज्ञानेच्छात्मकशक्तिहयसास्ये सति यदा कियोद्रेको भवति, तदा शिवतत्त्वमीश्वराभिधानं भव- ति। तत् सर्वतत्त्वानां कर्तृस्वभावं, कियोद्रेकात् । तत् पाव- काभम् । तदुक्तम्- "अत ऊर्व भवेदन्यदीश्वरावरणं महत् । दीप्तपावकवर्णाभं विद्यशास्तत्र संस्थिताः॥" इति । ननु ज्ञानेछान्यग्भावे क्रियाशक्तेरसंभवः, तत्पूर्वक- स्वात् क्रियाया इति-चेत् । नैवम् । ज्ञानेच्छान्यग्भावस्य स्वविषयं प्रकाश्य तूष्णीम्भावरूपत्वेनासत्त्वरूपत्वाभावात्। तदुक्तं सिद्धान्तहृदये "ज्ञानेच्छे न्यक्समे शक्ती क्रियाधिक्यं यदाश्नुते । तदासाधीश्वराख्यां तु लभते परमेश्वरः ।।" इति । अस्य पडध्वव्याप्तिः खकारो वर्णाध्या । ध्यानाहा- रायेत्यादीनि त्रीणि पदानि । 'नं ईशानमूनें', 'नमः शिवाये- ति मन्त्रौ । स्वयं तत्वाध्या । अनन्तादिशिखण्ड्यन्तानि भुव- नानि । विद्या कलाध्वा ॥ ९॥ विद्यातत्त्वं वर्णयति- न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र । तत् तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात् ॥ १० ॥ इति । न्यग्भूतेच्छाक्रियाशक्तिसाम्ये सति यदा ज्ञानो- देको भवति, तदा शिवतत्वं विद्याख्यं भवति। तदप्युक्तम्- १. सिद्धत्व ग. पाठः २. 'नादि फ. पाठः, ८२ तत्त्वप्रकाशे सव्याख्ये - "उद्रिच्यते ज्ञानशक्तिः क्रियेच्छे न्यक्समे यदा । तदासौ शुद्धविद्याख्यः सर्व विद्यानिधिः शिवः ।।" इति । प्रयोजनमाह -- प्रकाशकमिति । तत्र हेतुमाह- ज्ञानरूपत्वादिति । पद्मरागसमानवर्णा । तदुक्तं- "तहाह्ये शुद्धविद्या स्यात् कोटीनां शतलक्षका । सुदीप्ता निर्मला सूक्ष्मा पदारागसमप्रभा ।" इति । अस्याः पडध्वव्याप्तिः-गकारो वर्णः। शिवायेत्या- दीनि त्रीणि पदानि । म तत्पुरुपवायेति 'नमः शिवाये- ति मन्त्री । शुद्धविद्या तत्वम् । बामाद्या नव भुवनानि । प्र- तिष्ठा कला ॥१०॥ ननु नादविन्दु शास्त्रान्तरे तत्त्वमध्ये कथितौ । अत- स्तत्त्वाधिक्यमनयोरन्त वो वा वक्तव्यः । तथाहि- "तदूर्ध्व चैन्दवं तत्त्वं निर्मलं सर्वतोमुखम् । परमं सर्वतत्त्वानामनन्तं ज्योतिरव्ययम् ।" इत्यादि । तथा विद्येश्वरविद्यामन्त्राणां सदाशिवे वृत्तिमन्ये म- न्यन्ते । ततस्तन्निरासार्थ तयोरन्तर्भावार्थ चाह - नादो विन्दुः सकलो सदा शिवं तन्वमाश्रितो कथितौ। विद्यशाः पुनरीशे मन्त्रा विद्याश्च विद्याख्ये ॥ ११ ॥ इति । अयमभिप्रायः-नादविन्दु कलावत्तया स. कली सदा सर्वदा शिवाख्यं तत्त्वमाश्रितो, तदभिन्नौ कथि- तावित्यर्थः । केचित् सदाशिवं तच्चमाश्रितावित्याहुः । वि- धेशानन्तादयः ईश्वरतच्चे वर्तन्ते । तदुक्तं सिद्धान्तागमे- - द्वितीयः परिच्छेद । "अनन्तसूक्ष्मौ शिवतमैकनेत्रैकरुद्रकाः । त्रिमूर्तिपूर्वः श्रीकण्ठः शिखण्डी च ततोऽष्टमः ॥ एते विद्येश्वरास्त्वष्टावीश्वरे संप्रकीर्तिताः।" इति । मन्त्राश्च विद्याश्च प्रकाशकतया प्रकाशकं विद्यातत्त्व- माश्रित्य वर्तन्त इति । तदुक्तं- "मन्त्रा विद्याश्च विद्यायां बीजभूता भवन्ति हि" इति ॥ ११ ॥ ननु नित्यतया विभुत्वेन चैषां क्रमासंभवात् कथं तत्सद्भावप्रतिपादनमित्याशङ्कयाह - पञ्चानामप्येपां न हि क्रमोऽस्तीह कालरहितत्वात् । व्यापारवशादेषां विहिता खलु कल्पना शास्त्रे ॥ १२ ॥ इति । अयमभिप्रायः -देशकालकृतस्य प्रथमच. रमभावात्मकस्य क्रमस्यासंभवेति ? ऽपि) शक्तिव्यापारभेदोन्ने- यभेदवशादेषां तत्त्वानां सद्भाव आश्रीयत इति ॥ १२ ॥ ननु किमर्थ परमेश्वरतत्त्वस्य स्वत एवामी भेदा ना. भ्युपगम्यन्ते, येन शक्तिव्यापारोपाधिकृतभेदाश्रयणमित्या- शङ्कयाह- तत्त्वं वस्तुत एकं शिवसंज्ञं चित्रशक्तिशतखचितम् । शक्तिव्यातिभेदात् तस्यैते कल्पिता भेदाः ॥ १३ ॥ इति । यतः शिवतत्त्वस्य परमार्थतो भेदासंभवस्ततः शक्तिव्यापारोपाधिकृता एवामी पञ्च भेदाः । तदासंभवश्व ईश्वरानेकत्वकल्पनासंभवादिति । भेदस्वरूपासंभवाहा । स १. 'न्ये ख. पाठ.

तत्त्वप्रकाशे सन्याल्ये चाश्रयासंभवात् । तथाहि-कोऽयं भेदाश्रयः । भिन्नो वा स्यादभिन्नो वा । यद्यभिन्ने वस्तुनि भेदस्य वृत्तिः, तदैकप. दार्थाभावप्रसङ्गः, भेदसमावेशात् । यदि भिन्ने भेदस्य वृत्तिः, किं तर्हि भेदेन प्रयोजनम् । वस्तुनः पूर्वमेव भिन्नत्वात्। अस्तु भेदवति भेदस्य वृत्तिः । तत्र यदि भेदान्तरेण भिन्ने तदृत्त्यभ्युपगमः तदानवस्था । भेदान्तरस्यापि भिन्नवृत्ति- त्वात् । न च स्वेनैव भिन्ने स्वयं वर्तत इति वाच्यम् । आ- स्माश्रयप्रसङ्गात् । तस्मादभिन्न एव वस्तुनि भेदस्य वृ. तिरभ्युपगमनीया। तदो च तस्य चन्द्रभेदवदपरमार्थत्वम् , अभिन्नवृत्तित्वादिति । न च स्वरूपमेव भेदः । अयमरमाद् भिन्न इति सापेक्षस्य भेदप्रतिभासस्थाभावप्रसङ्गात् । न च घट इत्यघटव्यावृत्तेरप्यवभास इति वाच्यं, पदार्थेपु वर्तमा- मताद्यवभासेनावर्तमानतादिव्यावृत्त्या क्षणिकत्वादिप्रसङ्गा- त् । तत्वं वस्तुतः परमार्थतः एकम् अभिन्नम् अद्वितीयम् । किं तदित्यत आह- शिवसंज्ञं शिवाख्यम् । “प्रमाता प्र- मितं च विश्वम् शिवः सदैको बहुधा चाकशीती"ति श्रुतेः । चित्रशक्तिशतखचितमिति नानारूपशक्तिसहस्रमुद्रितम् । तदुक्तमध्वसिद्धी- "चित्रगक्तिसहस्राढ्यं शिवतचं समातिगम् । विभक्तं पञ्चधा चैकं शक्त्युल्लासविभेदतः ॥" इति । तरमाच्छक्तिव्यापारभेदादेव तस्य महेश्वरस्यैते स- दाशिवादिभेदा इति ॥ १३ ॥ १. 'यादित' ग. पाठः.

द्वितीयः परिच्छेदः। ननु किमर्थमेतानि रूपाणि करोति भगवानित्याश- चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा । कुरुते चितामनुग्रहमनादिमलरुद्धशक्तीनाम् ॥ १४ ॥ इति । अनादिमलमच्छादितशिवस्वभावानां पशूना पाशानां जडानां चानुग्रहं कर्तुमेतानि रूपाणि स भगवान् करोतीत्यर्थः । तदुक्तं- "शिवात्मकमिदं विश्वं शिव आधारकारणम् । अस्य शक्तिर्विपत्री स्यान्नियन्ता च सदाशिवः ॥ ईशः कर्ता कारकश्च शुद्धविद्या प्रकाशिका । एभिरीशोऽनुगृह्णाति क्लुप्तै दैश्चराचरम् ॥", इति ॥ १४ ॥ चितामचितां च कीदृशम् अनुग्रहं करोति भगवानि. त्याशङ्कयाह- भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थताधानम् । जडवर्गस्य विधचे सर्वानुयाहकः शम्भुः ।। १५ ॥ इति । भुक्तिं सुखदुःखानुभवरूपा मुक्ति नित्यानन्दानुभव- लक्षणाच अणूनां संसार्यात्मनाम्। स्वव्यापारसमर्थताधानं ज- उवर्गस्य पाशवर्गस्य विधत्ते करोति । सर्वानुग्राहकः।अतः का- रणाच्छंभुरिति ननु सुखदुःखानुभवप्रदानस्य कथमनुग्रहरूप- त्वं, नित्यनिरतिशयानन्दे विद्यमाने विपदृपितमध्वन्नकल्पमु- खलेशमदानस्यानुग्रहरूपत्वासम्भवात् । दुःखानुभवप्रदान स्थाननुग्रहरूपत्वं सर्वेषां सम्मतमेवेति चेत् । उच्यते। सुखानु- १. 'एख. पाठः ३ तत्त्वप्रकाशे सव्याख्ये भवस्य तथाभूतस्यापि नित्यसुखरागोत्पादवारेणापवर्गहेतुत- यानुग्रहरूपत्वम् । दुःखानुभवस्यापि संसारवैराग्योद्वेगजनन. हारेणापवर्गहेतुतयानुग्रहरूपत्वमिति तत्प्रदातुरंनुग्राहकत्वम्। ननु तथाप्यस्य न सर्वानुग्राहकत्वं, दक्षाध्वरादी दक्षादिनि- ग्रहश्रवणात् । घृणानिधित्वं च तेनैव बाधितम् । नहि घृ. णावतः कदाचिदपि प्राणिहिंसा दृष्टेति । रागादिमत्त्वं च ते- नैवानुमित्तम् । नहि रागादिरहितस्य प्राणिहिंसा दृष्टेति । नै- वम् । तन्निग्रहस्य दोपनिहरणार्थतया सर्वलोकपथ्यतया चा- नुग्रहरूपत्वात् । तदुक्तं श्रीवायवीये- "ये के च निग्रहा लोके ब्रह्मादिपु निदर्शिताः । तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ सदोषा एव देवाद्या निगृहीता यथोचितम् । अतस्तेऽपि विपाप्मानः प्रजाश्च विगतच्चराः ॥" इति । अनेश्वरनिन्दा दक्षादीनां दोपः । तस्या दोपत्वं “अथ य एनं दृष्टि, स एव पापीयान् भवतीत्यादिश्रुतेरवगम्यते । एवेत्यवधारणा । अनन्तफलत्वं च तथा । "शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दुपणम् । देवद्रव्यापहरणं गुरुद्रव्यविनाशनम् ॥ हरन्ति ये च संमृटाः शिवज्ञानस्य पुस्तकम् ! मुमहापातकान्याहुन्त्यिनन्तफलानि पट् ॥" इति शिवधात्तरागमाच तदवगमः । अतोऽनन्तफलस्ये शिवनिन्दादीपस्य फलानुभवलक्षणेन यमदण्डेन विनाशा- २. 'कन' ग, पाटः. ३ नुक. पाठ' १. 'एस निग. पाठ. १. 'म' फ. पाठ.

८७ -- द्वितीयः परिच्छेदः। संभवं मन्यमानो भगवान् करुणान्नहदयो निग्रहण द- क्षादीन् स्ववशान् कृत्वा स्वप्रणामात्मकं स्वनिन्दाप्राय- श्चित्तं कारयामास । नहि प्रायश्चित्तान्तरैः खद्योतकल्पैर्ने- शतमाकल्पमहेश्वरनिन्दादोषपरिहारो घटते । तेषां परिमित- विषयतया परिमितानामपरिमितमहेश्वरविषयापरिमितनिन्दा- परिहारासंभवात् । यथा नैशतमसोऽनन्तस्याप्यनन्तादित्यो- दयेन प्रबलेन विनाशस्तथा महेश्वरप्रणामेनानन्तेनानन्तत. निन्दाप्रतिक्षेप इति । तदुक्तं श्रीवायवीये- "निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः । अत-एव हि दण्ड्येपु दण्डो राज्ञां प्रशस्तये ।। सर्वोऽपि निग्रहो लोके न च विहेपपूर्वकः । नहि देष्टि पिता पुत्रं यो निगृह्यापि शिक्षयेत् ।। निदानज्ञस्य भिपजो रुरणे हिंसां प्रयुञ्जतः । न किश्चिदपि नैपुण्यं घृणैवात्र प्रयोजिका " इति । तस्मादुपपन्नं सर्वानुग्राहक इति ॥ १५ ॥ ननु तर्हि भुक्तिमुक्त्योरनुग्रहयोर्मुख्यतमं निःश्रेयस-- मेवासौ विदध्यात् । नामुख्यं भोगात्मकमित्याशङ्कयाह- चिदनुग्रहस्त्वयं किल यन्मोक्षः शिवसमानतारूपः। सोऽनादित्वात्कर्मण इह भोगमृते न याति संसिद्धिम् ।। इति । सत्यं संसारनिवृत्त्यात्मकापवर्गप्रदानमेव मुख्या- नुग्रहो न भोगप्रदानम्। तथापि जात्यायुर्भोगफलानां कर्मणा- मनादिभूतानां फलभोग विना नाशासंभवात् तन्नाशं विना १. 'नन्दह', २. 'यतयाप ख. पाठ..

, ८८ तत्त्वप्रकारे सन्यास्ये निःश्रेयसानुपपत्तेस्तदर्थमेव भोगप्रदानमाश्रयणीयम् । स मोक्षः किमात्मक इत्याशङ्कयाह -शिवसमानतारूप इति । शिवे- न समानता निर्विशेषताविधकता रूपं स्वरूपं यस्य स शिव- समानतारूपः, सायुज्यलक्षण इति यावत् ॥ १६ ॥ ननु तर्हि कर्मफलभोग एव विधातव्यः, न जगदा- रम्भमित्याशङ्कयाह तेन विभुस्तद्भक्त्यै कुरुते तनुकरणभुवननिष्पत्तिम् । का विना न कार्य न तथोपादानकरणाभ्याम् ॥ १७॥ इति । यतो भोगं बिना न कर्मनाशः, अतस्तहुत्यै भ- गवांस्तनुकरणभुवननिप्पादं करोति । तनुः शरीरं, सूक्ष्मस्थूला- त्मना द्विप्रकारम् । करणं च द्विविधं वाह्यमान्तरं चेति । तत्र वाद्यं कर्मेन्द्रियज्ञानेन्द्रियात्मना दशविधम् । अन्तःकरणं त्रि- विघं मनोऽहंकारो बुद्धिश्चेति । भुवनशब्देन चतुर्विशत्यधिकहा- तहयलोका उच्यन्ते । तान्येतानि भगवान् महेश्वरः करोति भोगामिति । ननु करमान्महेश्वरस्तानि मुवनानि कृतवानि. त्युच्यते । भवतु तेषां संबंश्वरेण विनोत्पाद इत्यत आह- की विना न कार्य न तथोपादानकरणाम्यामिति । यतः कर्तुरभावे न कार्यसंभवोऽनो महेश्वरम्तनुकरणभुवनानि कृतवानित्युच्यते । तथा तहदुपादानकारणाभावे च न कार्य जायेत । अतस्तत्रोपादानकारणमपि किचिदाश्रयणीयम् । एवं करणाभावे न कार्यगंभव इति करणं चात्र किचिदम्यु- 1.1. पाटः १. कि. ग. पाहा.

, द्वितीयः परिच्छेद । ९. पेयमिति । तथाहि-घटाद्युत्पत्तौ तावत् कुलालादिः कर्ता, ह. स्तपादादिकं करणं, मृदाद्युपादानं, चक्रायुपकरणमिति दृष्टं, तेषामेकस्याप्यभावे कार्यस्य घटादेरुत्पादासंभवात् । अतो- त्रापि तान्यवश्याश्रयणीयानि । अन्यथा जगदात्मकस्य का. यस्योत्पादासंभवादिति । ननु किं जगत्कर्तृसद्भावे प्रमाणम् । अनुमानागमावरमदादीनाम् । अस्मद्विलक्षणानां योगिनां प्रत्यक्षमपीति ब्रूमः । तथाहि -विमतं कालाधवनिपर्यन्तं कार्यजातं बुद्धिमत्कारणकं, कार्यत्वाद्, यद्यत् कार्य तत्तद् बुद्धिमत्कारणकं दृष्ट, यथा घटः, तथदं कालाधवनिपर्यन्तं कार्य, तस्माद् बुद्धिमत्कारणकमिति । न च क्षित्यादीनां का. यत्वस्यानुपलम्भादनिश्चितपक्षवृत्तिरसिद्ध इत्यसिद्धत्वं हेतो- रिति वाच्यम् । अनुमानागमाभ्यां तत्कार्यत्वसिद्धेः । त- थाहि-क्षित्यादि कार्य, मूलोपादानव्यतिरिक्तजडत्वाद्, य- द्यन्मूलोपादानव्यतिरिक्तं जडं तत्तत् कार्य, यथा घटः, तथेदं, तस्मात् तथेति । न च क्षित्यादरेव परमाणुभावापन्नस्य मूलो- पादानत्वाभ्युपगमादसिद्धमस्माकं मूलोपादनातिरेकित्वविशे- पणमिति वान्यम्। परमाणोर्मूलत्वप्रतिषेधस्य वक्ष्यमाणत्वात ) तथा शित्यादि कार्य, परतन्त्रत्वात् , त्रिगुणात्मकत्वात् , आत्ममूलान्यवस्तुत्वाच्च, घटादिवदिति । तथा ''आत्मन आकाशः सभूतः, आकाशाद् वायुः, बायोरग्नि , अग्नरापः, अद्भ्यः पृथिवी'त्यादिनागमेन क्षित्यादः कार्यत्वमवगम्यते । तथा आत्मव्यतिरिक्तस्य सर्वस्य मायामूलत्वप्रतिपादनाच । तथाहीधरगीतायां- - " तत्वप्रकाशे सव्याख्ये "चतुर्विशतितत्त्वानि मायाकर्मगुणा इति । एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ एतेषामेव पाशानां माया कारणमुच्यते ।" इति न स्वरूपासिहं क्षित्यादिपु कार्यत्वामिति । ननु विमतं जगद् सद् भासमानत्वात् , शुक्तिरजतवदित्यनुमानेन क्षित्यादेरसिद्धत्वनिश्चयात्, शशशृङ्गं तीक्ष्णं शृङ्गत्वात् , गो- शृङ्गवदिति वास्याश्रयासिद्धतेति चेद् । नैवम् । भ्रान्तिज्ञा. नस्य शुक्तिविषयतया तदन्यासद्रूपरजतगोचरत्वानुपपत्तेः, असहजतासंभवेनास्य धर्म्यसिद्धदृष्टान्ततयाप्रमाणत्वात् । कार्यत्वहेतोरिवास्याप्याश्रयासिद्धत्वसाम्याच्च । प्रत्यक्षतः क्षि- त्यादेः सच्चावगमन प्रत्यक्षविरोधाश्चात्याप्रमाणत्वमिति । न च नियतिकालाव्यक्तगुणाहंकारादेरसिद्धत्वादाश्रयैकदेशासिद्धि- रिति वाच्यम् । तेपामागमादिसिद्धत्वस्योक्तत्वात् । न च कालाकाशादेनिसत्वेन कार्यत्वस्याभावाद् भागासिद्धो हेतु- रिति वाच्यम् । तत्कार्यत्वस्यानुमानागमाभ्यां साधितत्वात् । नन्विदमनुमानं सिद्धसाध्यतालक्षणासिहत्वसहावादप्रमा- णम् । तथाहि-बुद्धिमत्कारणवत्त्वं क्षित्यादेर्भवता साधि- तम् । तदस्माकमपि सिद्धम् । बुद्धिमतामस्मदादीनामप्यदृष्ट- द्वारेण कालादितत्त्वकला प्रति कर्तृत्वस्य सद्भावात् । न च पुण्यापुण्यात्मके कार्यान्तरे यत् कर्तृत्वं न तदेव जगदात्मके कर्तृत्वं भविष्यतीति वाच्यम्। कारणकारणतया तदुपपत्तेः। यथा (पाप)टकारणतन्तुसंयोगमात्रकर्तुः कुविन्दस्य पेटकर्तृ- १. 'घ' क. पाठ, द्वितीयः परिच्छेदः। वं, शरादिक्षेप्नुर्वा शत्रुहिंसाकर्तृत्वम्, एवं जगत्कारणकर्मक- तुरेवारमदादेर्जगत्कर्तृत्वोपपत्तेः सिद्धसाध्यताप्रसङ्ग इति । नै- वम्। उपादानोपकरणसंप्रदानप्रयोजनविषयप्रत्यक्षबुद्धिमत्का- रणवत्त्वस्य बुद्धिमत्कारणत्वशब्देन विवक्षितत्वात् । अतो- ऽस्मदादीनां तच्चतुष्टयविषयापरोक्षज्ञानाभावान्न सिद्धसाध्य- तेति। नन्वप्यंशे सिद्धसाध्यताप्रसङ्गः, व्यणुकादिजन्यकार्या- णाम् उपादानं ज्यणुकादिकं, भूतादिजन्यकार्याणामुपादानं भूतादिकं वास्मदादिप्रत्यक्षम् । अदृष्टद्वारेण कर्तृत्वं चास्मदा- दीनां सिद्धम् । उपकरणं च कालादि किञ्चित् प्रत्यक्षम् । संप्रदानभूताश्च देवदचादयः प्रत्यक्षसिद्धाः । प्रयोजनं च स्थानासनादिकं प्रत्यक्षमिति भवेदेवांशे सिद्धसाध्यतेति । नैवम् । विमतस्यैव क्षित्यादेस्तथाविधकर्तृमत्तासाधनाद् यत्र घणुकन्यणुकादीनामुपादानादि कालादीनां वा न प्रत्यक्ष, तत्र तथाविधकर्तमत्तासाधनान्नोक्तदोपायकाश इति । ननु च शक्यकियत्वमुपाधिः, तस्योपाधिलक्षणसद्भावात् । त- थाहि-साधनाव्यापकः साध्यसमव्याप्तिरुपाधिरिति तस्य लक्षणम् । तदरय घटादिपु सर्वेप्चनुगतत्वाद् मूलहेतुना का- यत्वेनासाध्यताच्चास्तीति सोपाघिवेनाप्रयोजकत्वात् कार्य- त्वस्य व्याप्यत्वासिद्धिरिति । नैवम् । शक्यक्रियत्वस्योपाधि- लक्षणाभावेनास्य सोपाधित्वाभावात् । स च साधनव्यापक- त्वात् । तथाहि-क्षित्यादि कस्यचित् शक्यक्रिय कार्यत्वाद् घटादिवदिति मूलसाधनेन साधयितुं शक्यत्वात् साधनव्या- पकत्वमिति । न च क्षित्यादि कस्यचिन्छस्यक्रिय कार्यत्वाद् १२ तत्त्वपकाशे सव्याख्ये घटादिवदित्यस्यापि कर्तृमत्त्वाद्युपाधिवशादप्रयोजकत्वमिति वाच्यम् । शल्यक्रियत्वकर्तृमत्त्वादि यद्यदुपाधितया भवता प्रतिपाद्यते, तस्य सर्वस्याप्येकनैव प्रयोगेण साध्यतया सा- धनव्यापकत्वेनोपाधित्वासंभवात् । तथा सर्वानुमानेषु समा. नत्वाञ्च । तथाहि-पर्वतोऽग्निमान् धृमवत्वाद् महानसादि- चदित्यत्रापि जायमानभस्मवत्त्वस्योपाधेः सहावा धूमानुमा. नस्याप्यप्रयोजकत्वप्रसङ्गः । अथ तत्र धूमवत्त्वेनैव जायमा- नभस्मवत्वस्यापि साध्यतया नोपाधिसमित्यस्य नाप्रयोज- कत्वमिति चेत् । नैवम् । तत्राप्यनिमत्त्वस्यैवोपाधेः सहा- वेन तत्साधनासंभवात् । अथ धूमबत्त्वादेव जायमानभस्मव- स्वाग्निमत्त्वादिसर्वोपाधेः साध्यतया साधनव्यापकत्वसहावे- नानुपाधित्वान्नात्र तदोप इति चेत् । तर्हि कार्यत्वेनैवात्रापि सर्वस्य शङ्कितस्योपाधेः साध्यतया सोपाधित्वासंभवान्नोक्त- दोपावकाश इति । किञ्च शक्या क्रिया चलनलक्षणा यस्य तच्छक्यक्रियं, तस्य भावः शक्यक्रियत्वमिति यद्यभ्युपगमः, तदा परमाणुमनसोरपि नित्ययोर्भवत्पक्षे शक्यक्रियत्वसद्भा- वात् साध्यसमव्याप्त्यभावेन तस्योपाधित्वाभावः । यदि शक्या क्रिया उत्पत्तिलक्षणा यस्य तन्क्यक्रियं तस्य भावः शक्यक्रियत्वमिसभ्युपगमः, तदाधिकविशेषणत्वापरनामकं व्यर्थविशेषणत्वं प्रसज्यते । उत्पत्तेरेव कर्तृमत्वमयोजकत्वेन शक्यपवयात् । न चाइकुरादरप्युत्पत्तिसहावे कर्तृशू- न्यतया तयवच्छेदार्थ शक्यपदोपादानमिति वाच्यम् । तेषां घ शक्योत्पादनतया व्यवच्छेदासंभवात् । तथेतरतगश्नयम- द्वितीय. परिच्छेद.1 सङ्गाच्च क्षित्यादेः, कर्तृशुन्यले सिद्धे तद्यवच्छेदकशक्य- विशेषणसार्थता, विशेषणोपाधिसद्भावेन कार्यत्वस्याप्रयो- जकत्वे सिद्ध कर्तृशून्यतासिद्धिरिति । तदुक्तं - "निश्चिते तदकर्तृत्वे सोपाधित्वं भवेदिह । सोपाधित्वेऽनुमानस्य कर्तृभावविनिश्रयः ॥" इति । न च करचरणादिनोदनीयत्वमुपाधिः । प्रासा- दप्राकारादौ तदभावात् । प्राणादौ तदसहावेन च साध्य- समव्याप्त्यभावात् । तथा वित्यादि कस्यचित् करचरणादि- नोदनीय, कार्यत्वाद , घटादिवदिति साधनव्यापकत्वाचास्य नोपाधित्वमिति । न च करादिजन्यत्वमुपाधिः । अधिकवि. शेषणत्वात् । न च क्षिसादेर्व्यवच्छेद्यत्वम् अन्योन्याश्रयप्र- सङ्गादित्युक्तमिति, सर्पाद्याकर्षणस्वदेहप्रेरणादौ सकर्तृके कर. जन्यत्वाभावेन साध्यसमव्याप्त्यभावाचेति । न च कार्यविशे- षस्य की व्यातिरिति वाच्यम् । विशेषस्यानुपलम्भात् । ननु किचित् कार्यमुपलभमानरय सकर्तृकत्वबुद्धिर्भवति, कि- श्चिदुपलममानस्य न भवतीत्येतदन्यथानुपपत्त्या कार्यवि- शेषोऽभ्युपगन्तव्यः । स च विशेपो घटादिपु सकर्तृकेवन- स्यूतस्तृणादिभ्यो ह्यकर्तकेभ्यो व्यावृत्तः सन्नेव रसविशेषपद- निर्देश्यः । तदुक्तं- "सकर्तृकेप्वनुस्यूतो व्यावृत्तोऽन्येभ्य एव सः। किञ्चित्कार्यविशेषोऽन्यैः स्वीकार्यों मतिभेदतः॥ 4 १ तामवि' म पाट तत्त्वमकाये सव्याख्ये किंरूप इति वादोऽयमिक्षुक्षीरगुलादिषु । माधुर्यभेदप्रत्यक्षदृष्टान्तादुपशाम्यति ॥" इति । तस्मात् स एव का व्याप्यते, न कार्यसामान्यमि- ति । नैवम् । गर्वोन्नयनादिकार्ये सकर्तृके ताशबुद्धभावे- नानेकान्तात् । तदुक्तं- "गन्नियनकार्यस्य चिरकालात्यये सति । सकर्तृकत्वीगम्यभावो नैवोपलभ्यते ।।" इति । प्रसिहानुमानेऽपि समानोऽयं पर्यनुयोगः । तथा. हि-पर्वतादौ धूमदर्शिनोऽपि कस्यचिदग्निमत्वं नाव- गम्यते, असंभावनादिना प्रतिबन्धात् । अत एव हि पर्वतो- ऽग्निमान् घूमबत्त्यादित्यादिपरोपदेशसापेक्षपरानुमानोप- न्यासः । तेन तत्रापि विशेषकल्पनया तस्यैवाग्निना व्याप- कवादप्रयोजकं धूमानुमानमापद्यत इति । अथ तत्र धूमवा- नग्निमानिति सामान्यव्याप्तिग्रहणवलादनुमान प्रवर्तत इति चेद्, अत्रापि तर्हि कार्य कर्तृपूर्वकमिति सामान्यच्याप्तिग्रह- णवलादनुमानप्रवृत्तिराश्रयणीया विशेपाभावादिति । न च घटत्वं कर्तृमत्त्वे प्रयोजकम् । पटस्य तदभावेन कर्तृमत्वाभाव- प्रसङ्गात् । नापि पटलं, घंटादेस्तदभावनाकर्तृमत्त्वप्रसङ्गात् । न च घटत्वपटत्वकुड्यत्वादयः सर्व एव कर्तृप्रयोजका इति वाच्यम् । प्रयोजकबहुत्वापातात् । न च तद् युक्तं,व्यक्तीना- मेव कर्तृप्रयोजकत्वप्रसङ्गेन घटान्तरस्याकर्तृमत्त्वप्रसङ्गाद । आनन्त्येन को सह च्याप्तिग्रहणासंभवस्योभयत्रापि तुल्यत्वा- त्। तथा महानसत्वशालात्वादेः प्रयोजकत्वापातेन धूमवत्त्व- द्वितीयः परिच्छेदः । , स्याप्रयोजकत्वमसङ्गः । तदुक्तं. "घटादिव्यक्तिमात्राणां का व्याप्तिन गृह्यते । यथानन्यं तथा जातेर्घटत्त्वादेः प्रतीयताम् ॥” इति । ननु तर्हि प्रमेयत्वादेरेवाधिकव्याप्त्या का व्याप्ति- राश्रयणीया, न कार्यत्वस्येति चेत् । न । अन्यथासिद्धत्वात् । स्वगोचरज्ञानमात्रेण प्रमेयत्वं सत्त्वं च कर्वभावेऽपि पदा- नामभ्युपगतं भवता । अस्मत्पक्षेऽपि मायापुरुषशिवानां कर्तृहीनानामपि प्रमेयत्वं सत्त्वं चाभ्युपगतम् । अतः प्रमेयत्वा- देः कर्तृव्याप्त्यसंभव इति । कार्यत्वं तु कारणविशेषस्य कर्तुः कारणान्तरसम्पादकतया प्रधानभूतस्याभावे न संभवति । न हि मृदण्डचक्रादिसद्भावेऽपि तत्प्रयोक्तुः कुलालस्याभावे घटो- सादो घटते । कुलालसद्भावे तु कारणान्तरनिष्पत्त्या कार्यज- न्मोपपत्तिरिति कार्यत्वात् कर्तृसद्भावसिदिरिति । किञ्च का- यत्वं हि पदार्थानामुत्पत्तिः। सा च कारणक्रियामपेक्षते । सा च पुरुषव्यापार विना न भवति । स तु प्रयत्नादृते न स्यात् । स चेच्छां विना न भवति । इच्छा चेष्टसाधनज्ञानं विना न स्यादि तिकार्यत्वं बुद्धिमत्कारणाभावे न भवतीति तत्प्रयोजक- त्वान्नास्यासिद्धत्वमिति। नापि विरुद्धोऽयं हेतुः। पक्षविपक्षयो. रेव वर्तमानो विरुद्ध इत्युक्तविरुद्धलक्षणाभावात्। तथाहि- सपक्षे घटादौ कार्यत्वस्य वर्तमानत्वाद् विपक्षे चाकर्तके मू- लकारणशिवादी कार्यत्वस्याभावादस्य पक्षविपक्षयोरेव वर्तमा- नत्वासंभवाद् विरुद्धत्वाभाव इति । ननु सर्वज्ञकर्तृकत्वं क्षि- - १. : यर' क. पाठः.

तत्त्वप्रकाश सव्याख्ये त्यादेः साध्यते, नान्यकर्तृकत्वम् । असर्वज्ञस्य प्रपञ्चकर्तृत्वा- संभवात् । तथाहि-जगदुपादानादिचतुष्टयविनियोगक्रम- विषयप्रत्यक्षज्ञानवत एव कर्तृतं साध्यते । ततस्तस्य सर्वज्ञ- त्वम् । सर्वज्ञनिर्मितस्य चान्यस्य संप्रतिपन्नस्याभावात् सप- क्षाभाव इति सपक्षे सत्त्वाभावः । तेन कार्यत्वस्य क्षित्यादि कालान्ते पक्षे वर्तमानस्य सर्वज्ञनिर्मितस्वसाध्यरहिततया विपक्षभूतघटादौ च वर्तमानतया पक्षविपक्षयोरेव वर्तमान- वाद् विरुडत्वमिति । तथा शरीरिकर्तृत्वस्याप्यङ्कुरादाब. सत्त्वेनाशरीरिकर्तृकत्वमपीह साध्यते । तत्र च सपक्षाभावेन सपक्षे सत्त्वाभावात् कार्यत्वस्य पक्षविपक्षयोरेव वर्तमानत्वाद् विरुद्धत्वमिति । नैवम् । सर्वज्ञाशरीरिकर्तृकत्वरयात्रासाध्य. स्वात् । तथाहि - विप्रतिपत्त्यनुरूपेणात्र साध्यनिर्देशाद् यदा किं सकतकं क्षित्यादि अकर्तृकं वेति विप्रतिपत्तिः, तदा सकर्तृकं क्षित्यादीति साध्यनिर्देशः। यदा बुद्धिमत्पूर्वकं वा नवेति, तदा बुद्धिमत्पूर्वकं क्षित्यादीनि साध्यनिदेशः । यदा सोपादानोपकरणादिप्रत्यक्षता जन्य वा नवति, तदा उपादानादिप्रत्यक्षवता जन्यमिति साध्यनिर्देशान्न विरुद्धत्वं, घटादा सपक्षे साध्यमाधनयोः सद्भावात् । न च कदाचिदपि सर्वज्ञाशरीरिकर्तृकं क्षिसादाति साध्यनिर्देशः, तथा विप्रति- पत्त्यभावात् । स चासर्वज्ञशरीरिककत्वस्य शित्यादीनां भव- गिरनाधितत्वादिति । ननु तथा साध्यनिर्देशऽपि तथाविध- कर्तुरभिप्रेततया कार्यत्वस्य विरुद्धत्वमिति चेद् ।न । सर्वानु- मानेपु समानत्वात्।तथाहि--- पर्वतस्याग्निमत्त्वं यः साधय ति , तस्याप्यतद्देशकालानुमेयसंप्रतिपन्नप्रत्यक्षामिनानिमत्त्वं द्वितीयः परिच्छेदः । नाभिप्रेतम् । किन्तु महानसादिगतवहिव्यतिरिक्तपर्वतग- ततत्कालोनुमेयविप्रतिपन्नाप्रत्यक्षापुरुषपूर्वकतरुसंघट्टजन्याग्नि- नाग्निमत्वमभिप्रेतम् । तस्य महानसादावभावाद् धूमानुमान- मपि विरुद्धमापद्येत । अथ तथापि तत्साध्यस्य शब्देनानुपा- दानात् पर्वतस्य स्वगताग्निनाग्निमत्वस्य साधनाचे न वि. रोध इति चेत् । तर्हि प्रकृतेऽपि सर्वज्ञाशरीरिकर्तृकत्वस्य शब्देनानुपादानात् क्षित्यादेः स्वोपादानसमर्थकर्तृमत्त्वस्य साधनाच नोक्तदोपावकाश इति । न चॉसर्वज्ञशरीरिव्याप्त- त्वात् कार्यत्वमपि शरीरिसर्वज्ञविशेपं प्रतिक्षिपतीति वाच्यम् । कार्यत्वस्य शरीरिकर्तृव्याप्यभावात् । स च तृणादौ तथा- विधकर्तुरभावेऽपि कार्यत्वोपलम्भादवगम्यते । तदुक्तं - परोऽपि न शरीरस्य व्याप्तिमिच्छति वस्तुतः। प्रत्यक्षवाधया देही नाश्रितो यदिहाङ्कुरे ॥" इति । न च शरीरिकर्तुरभावे कर्तृमात्रस्यासत्त्वं, तस्यायो- ग्यत्वात् । तदुक्तं- "न चाशरीरिकर्तृत्वं वाथ्यं देहे तु वाधिते । शरीरस्येव योग्यत्वं यतो नास्ति परात्मनः ॥" इति । ननु न कार्यत्वं स्वव्यापकशरीरिकर्तृविरुद्धत्वान्नाशरी- रिकर्तृनिषेधकं, किन्तु स्वव्यापककर्तृसामान्यविरुद्धत्वादिति ब्रूमः । यत्र कुलालादौ कर्तृत्व, तत्र नाशरीरित्वम् । यत्र मुक्तात्मन्यशरीरित्वं, तन न कर्तृलमिति कर्तृवाशरीरित्वयोः 1. 'लाननु', २. 'च वि, ३. स. पाठ. फ. पाठः, ५ 'रक, ६. २, ७. रा. पाठ.. " ५ ४. च' . २ तत्त्वप्रकाशे सव्याल्ये सहानवस्थानलक्षणविरोधसहावेन खव्यापककर्तृविरुद्धत्वाद् अशरीरिकर्तारं कार्यत्वमेव प्रतिक्षिपति । धूमवत्वमिवाशीत. भास्वराग्निच्याप्तं शीतान्धकाराग्निमिति चेत् । नैवम् । कार्य- त्वस्य कर्तृसामान्येन व्याप्त्यभावे प्रतिक्षेपायोगात् । तथा च यदि कार्यत्वस्य कर्तृसामान्येन व्याप्तिः, तर्हि न कार्य- त्वव्यापकः कः । तेन तहिरडत्वेऽप्यशरीरित्वं न प्रतिक्षि- पेत् । स्वाव्यापकाविरुडत्वात् तस्य । यदि कार्यत्वं कर्तृसा- मान्येन व्याप्तं, तदा च न प्रतिक्षेपः, कर्तृसामान्यापर्यवसा- नलभ्यत्वाद् विशेपस्य । यथा पर्वते परिदृश्यमानधूमेनाग्नि- सामान्यमनुमाय तदपर्यवसानान्महानसादायपरिदृष्टोऽग्निवि- शेपः पर्वते कल्प्यते, तथैव प्रपञ्चे परिदृश्यमानं कार्य क- तीरं विनानुपपद्यमानं कर्तृसामान्यमवस्थापयत् तस्यापि विशे- पणद्वारेण सम्बन्धसिद्ध्यर्थ शरीरिविशेषणमसंभवात् परिहत्य तद्विपरीतं सर्वज्ञमशरीरिविशेष व्यवस्थापयत्येव । अन्यथा स्वव्यापककर्तृसामान्यव्यवस्थापनासंभवात् । न च तद्युक्तं, व्याप्यसहावे व्यापकासत्त्वस्यानुपपन्नत्वात् । नहि धूमस- हावेऽग्न्यभाव उपपद्यत इति । न चाव्यातत्वेऽपि व्याप्त्यु- पलम्ममात्रेण प्रतिक्षेप इति वाच्यम् । तस्याप्रमाणत्वात् । नहि कृतकत्वं नित्यताव्याप्तमिति केनचिदुक्ताप्रमाणवाक्य- सिडव्याप्त्यपेक्षया कृतकत्येन तद्विरुद्धानित्यत्वप्रतिक्षेपो घट- त इति । न च कर्तृत्वमदेहित्वप्रतिक्षेपकं, कार्यत्वेन साधि. १. '' क. पाठः. २. 'ग. पार:. ३. स. ग. पाठः. १. 'स्वमदेहिता' स. पारः, २ द्वितीयः परिच्छेदः। तस्य कर्तृत्वस्याशरीििवशेषाभावेऽनुपपन्नतया तस्याक्षेप्यत्वा- त्। न च शरीरिविशेषाक्षेपेणाशरीरिविशेषप्रतिक्षेपः । तस्य योग्यानुपलम्भनिरस्ततयाक्षेपासंभवात् । न च साधितस्य क- र्तृत्वस्य विशेषद्वयराहित्य संमवतीत्यशरीरिकर्वभ्युपगम इति । नाप्यकुरादावसाधितस्यादेहित्वप्रतिक्षेपकत्वम् , अविरो- धादिति । तथा मोक्षावस्थायां शरीरेन्द्रियाद्यभावेऽप्यात्मगु- णनित्यसुखविषयबुद्धिसन्ततिसंभवं भगवान् भट्टपादो मन्य- ते। तेनादेहित्वैबुद्धिमत्कारणत्वयोर्न विरोधः। पूर्वबुडिविशि. एस्यात्मनः उत्तरबुद्धयुत्पत्तिहेतुत्वाभ्युपगमादिति । किञ्च य- दि जगत्कर्चनुमानस्यैवं विरोधोडावनं, तदा परमाण्वनुमान- स्यापि भवताभ्युपगतस्य विरोधप्रसङ्गः। तथाहि -आद्य कार्य स्वन्यूनानेकसमवायिकारणं, कार्यद्रव्यत्वाद् घटादिव- दिति परमाण्वनुमानम् । तेनाद्यकार्यकारणतया परमाणूना नि त्यत्वनिरवयवत्वकार्यत्वनिरतिशयाणुत्वादिकमर्थादवगम्यते । तत्राप्ययं दोषः सुव्यक्तः। यत्र भवत्पक्षे व्योमादौ नित्यत्वं, तत्रासर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वं नास्ति । यत्र पुनर्घ- टादौ मूर्तत्वं; न तत्र नित्यत्वमिति मूर्तत्वनित्यत्वयोः सहा- नवस्थानलक्षणविरोधसद्भावात् परमाण्वनुमानमपि विरुद्धमा- पद्यते इति, तथा परात्मानुमानमपीति । तथाहि~-परशरीरचे. प्टा आत्मपूर्विका जीवच्छरीरचेष्टात्वाद् अस्मच्छरीरचेष्टावदि- ति परात्मानुमानम् । तत्रापि यत्रात्मलं स्वात्मनि तत्र न १. 'तु' स. पाठ . २. 'र' स. ग. पाठः. ३. 'स्वबुद्धि' ख. पाठः, २ १०० तत्त्वप्रकाशे सन्याख्ये परत्वं, यत्र परत्वं घटादौ तत्र नात्मत्वमिति परत्वात्मत्वयो. विरोधात् परात्मानुमानासंभव इति । अथ यदि द्रव्यसम- वायिकारणस्य मूर्तस्य नित्यत्वमन्यत्र न दृष्टं, तथाप्याद्यकार्य- कारणतया नित्यत्वं तस्याभ्युपेयम् । अन्यथानवस्थाप्रसङ्गात् । तस्य च नित्यत्वमर्थादवगम्यते । आद्यकार्यस्य स्वन्यूनसम- वायिकारणकत्वमात्रसाधनान्नात्र विरोधः । तथा परात्मानु- माने (ति ?) परशरीरगतायाश्चेष्टाया आत्मपूर्वकत्वमात्रसाध- नात् स्वव्यापारस्य तत्र योग्यानुपलम्भनिरस्तत्वात् परत्वमर्था- दवगम्यते न शब्दत इति न विरोध इति चेत् । एवं तर्हि जगत्कर्चनुमानेऽपि सकलविनाशे सत्याद्यकार्यकारणस्य बुद्धि- मन्मात्रस्य साधने तस्यानित्यतायां कत्रन्तरकारणान्तरकल्पन- यानवस्थानप्रसङ्गेन तस्य नित्यत्वमर्थादवगम्यते न शब्दत इति । तथा कर्तृमात्रसाधने शरीरिणो योग्यानुपलम्भनिरस्त- त्वेनाशरीरिणोऽर्थादवगम्यमानतया च न विरोध इति समा. नः पन्थाः। ननु पक्षधर्मताव्यातिग्राहकप्रमाणाभ्यां प्राप्तयोर्वि- शेषयोर्विरोधे न कश्चिदर्थः सिध्यति । तथाहि ----व्याप्तिबला- च्छरीर्य सर्वज्ञानीश्वरसंसारी कौवगम्यते । पक्षधर्मतया च कार्यस्य तदुत्पादनसमर्थः सर्वज्ञोऽशरीरी नित्यो नित्यमुक्तः सर्वेश्वरः कर्तावगम्यते । तदनयोरितरेतरसापेक्षयोर्विरोधे न किञ्चित् सिध्येत् । नैवम् । सर्वानुमानेपु समानत्वात्।तथा- हि-~-घूमानुमाने तावद् दृष्टान्त भूमिगतप्रत्यक्षाननुमेयसंप्र- १. 'पा', २. पति तथा प' क. पाठ:. ३. 'का' स. ग, पाठ . १. '' य.ग. पाठ.

. द्वितीयः परिच्छेदः। तिपन्नापर्वतगताचन्दनेन्धनपुरुषजन्यत्वादिधर्मविशिष्टो यहि- विशेषो व्याप्तिग्राहकप्रमाणेनावगम्यते । पक्षधर्मतया तु पर्वत गतानुमेयविमततरुसंघट्टजन्याप्रत्यक्षचन्दनेन्धनत्यादिधर्मवि- शिष्टोऽवगम्यते। तत्रापि न किञ्चित् सिध्येदिति । अथ धूमवा. नग्निमानिति सामान्येन व्याप्तिग्रहणं न विशेषत इत्यत्रानु- मानप्रवृत्तिराश्रीयत इति चेत् । तहि प्रकृतेऽपि कार्य बुद्धिम- कारणकामति सामान्येनैव व्याप्तिग्रहणं न विशेषतः, अकु- रादौ तथाविधकर्तृदर्शनादिति भवत्येवानुमानप्रवृत्तिविशेषा- दिति । ननु किं तर्हि दृष्टान्तदृष्टमाश्रयणीयं दार्टान्तिके इति चेद्, अविरुद्धमिति ब्रूमः । न च शरीरकरणनिवृत्त्या कर्तृ- त्वनिवृत्तिरिति वाच्यम् । स्वशरीरप्रेरणाकर्पणादिष्विवेच्छा- त्मककरणान्तरसद्भावादपि कर्तृत्वोपपत्तेः । न च स्वशरीरप्रे- रणे प्रेयस्य शरीरस्य करणत्वं संभवति । कर्मणः करणत्वा- 'संभवात् । नामुल्यग्रेण तदग्रस्पर्शनमुपपद्यत इति । न च तत्र शरीरान्तरं करणमिति वाच्यम् । अनवस्थाप्रसङ्गात् । न च पक्षे देहेसंबन्धः सर्वत्राव्यभिचारेण करणमिति वाच्यम् । देहसंवन्धस्य हस्तामुख्यादिप्रेरणे कीनपेक्षितत्वात् । तथा- हि-हस्तस्यात्क्षेपणमवक्षेपणं वा कुर्वन्नात्मा तत्सम्बन्धमेवा- पेक्षते, न तु पुनर्देहसंबन्धम्। तस्मिन् विद्यमाने हस्तसंबन्धवि. नाशे काष्ठीभूतेऽस्मिन् हस्तक्रियाकर्तृत्वादर्शनात् । अतः केवल- व्यतिरेकात् साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यत्वमेवात्र १. 'न्त' क. ख. पाठ २. 'का' ख. पाठः. ३. बदतर ग.पाठः, १०२ तत्त्वप्रकाश सत्याध्ये प्रयोजकम् । तत् प्रपञ्चे भगवतोऽनुमानसिद्धम् । तथाहि- विमतं मूलकारणादि कस्यचित् साक्षादिच्छानुविधायिक्रियाश्र- यत्वयोग्यम् अचेतनत्वाद् देहवदिति । अत एवाशरीरित्वेऽपि पुराणोक्ताष्टमूर्तिच्चविरोधः परिहतः। साक्षादिच्छानुविधायि. क्रियाश्रयतादेहलक्षणसद्भावेन मूलाधवन्यन्ततत्त्वजातस्य म. हेश्वरदेहतया मूर्तिमत्वोपपत्तेः । ननु कथं तीदेहित्ववच- नम् । उच्यते । यथोपादानभूतमृचत्त्वाद्यतिरिक्तं शरीरं कु. लालकुविन्दादेरुपलब्धं, तथा मूलकारणतत्कार्याद्यतिरिक्तमत्र शरीरं नास्ति भगवत इत्यदेहित्वोपपत्तिरिति । नाप्यनैका- न्तिकत्वं, पक्षत्रयवृत्तिरनैकान्तिक इत्युक्ततल्लक्षणाभावात् । तथाहि-यदि कालाधवन्यन्तेपु विमत्यधिकरणतया स- न्दिग्धसाध्येपु पक्षेषु घटादिपु च निश्चितसाध्यतया सपक्ष- भूतेषु कार्यत्वस्य वृत्तिः तथापि निश्चितसाध्यव्यतिरेकतया विपक्षभूतेषु मायापुरुषशिवेषु कार्यत्वहेतोवृत्त्यभावात् पक्षत्र- यवृत्त्यभाव इति । नन्वङ्कुरादिपु कर्तृशून्येषु कार्यत्वस्योप- लम्भात् पक्षत्रयवृचिन कार्यत्वस्यानेकान्तत्वमिति चेद् । न । भकुरादेः पक्षत्वेन विपक्षत्वाभावात् । ननु नाकु- रादेः पक्षत्व, सन्दिग्धकर्तृकत्वाभावात् । तथाहि-सन्दि- ग्धसाध्या पक्ष इति हि पक्षलक्षणम् । तदछुरादेनास्ति । निश्चितसाध्यव्यतिरेकतया विपक्षत्वादिति चेद् । नैवम् । प- रस्य बुद्धिमतःसाध्यस्य प्रत्यक्षानहत्वेनासत्त्वानिश्चयादगुरादेः १. 'र' ग. ग, पाठ . २. 'यन्यति' ग. पाठ.

- . द्वितीयः परिच्छेदः। सन्दिग्धसाध्यत्वोपपत्तेरिति । न च सन्दिग्धानकान्तिकत्वं कार्यत्वस्याशङ्कनीयम् । विपर्यये बाधकतर्कस्योक्तत्वात् । तदुक्तं- "कारकाणां च सर्वेषां नियोक्तुर्यदि नास्तिता। वैययं स्यात् तदा तेषां सतामप्यसतामिव ॥" इति । नाप्यनध्यवसितत्वं, साध्यासाधकपक्ष एवं वर्तमा- नोऽनध्यवसित इति तल्लक्षणाभावात् । न हि नित्या भूः गन्धवत्वादितिवत् कार्यत्वस्य पक्ष एव वृत्तिः, सपक्षे घटादौ च वर्तमानत्वादिति । न चासौ कालात्ययापदिष्टः, प्रमाणेचा- धिते प्रतिज्ञाताथै वर्तमानो हेतुः कालात्ययापदिष्ट इति प्रोक्ततल्लक्षणाभावात् । न चानुष्णोऽग्निः कृतकत्वाद् जलव. दितिवदस्य प्रत्यक्षविरुद्धकालात्ययापदिष्टत्वं, परात्मनो बुद्धि- मत्कारणस्य प्रत्यक्षानहत्वात् । प्रत्यक्षानहस्यापि तदनुपल. म्भेनासत्त्वान्युपगमे सर्वानुमानोच्छेदप्रसङ्गः । तथा घटादा- वपि कर्ता कुलाला प्रत्यक्षतो नावगम्यते । शरीरस्य कर- णभूतस्यैव प्रत्यक्षत्वात् । न तु शरीरस्य कर्तृत्वमचेतनत्वात् कुठारवदिति कुलालादिशरीरस्य कर्तृत्वे निपिढे तदा- त्मनः कर्तृत्वं शरीरस्य च करणल्यमवशिष्यत इति न क. चिदपि कर्तुः प्रत्यक्षाईत्वमिति न तदनुपलम्भेनासत्त्वमिति केचित् । अन्ये तु शरीरत्वेऽपि कर्तुः सूक्ष्मत्वदूरस्थत्त्वादिना- नुपलम्भसंभवात् कार्यदेशे तदनुपलभो नासत्वादिति बु यते । तदुक्तं- १. 'नव' क. ग. पाठ.. २. 'या' ख. पाठ . ३. 'म्मे क. पाठ १०१ तत्त्वप्रकाशे सव्याख्ये "यतः कार्यस्य क| तु विना भावो न विद्यते । अतो देशान्तरस्थोऽयमिच्छया कुरुते जगत् ।।" इति । द्विविधमिह कार्य कायिकव्यापारजन्यमिच्छामात्रजन्य चैति । तत्र कायिकव्यापारजन्यं घटादि। तदेव शरीरस- निधानमपेक्षते । इच्छामात्रजन्यं त्वाकर्पणादि । न तच्छ- रीरसन्निधानमपेक्षते । योजनशतव्यवहितसर्पाद्याकर्पणस्य दू- रस्थैः क्रियमाणत्वादिति । अपरे तत्र वर्तमानस्य शरीरस्या- योग्यत्वात् प्रत्यक्षेणानुपलम्भो नाभावादिति अवते । त- दुक्तं- "अथवा दृश्यमेवास्तु शरीरं चक्षुरादिवत् । श्रुतिस्मृतिभ्यां तत् सिद्धं शशशृङ्गो न तादृशः ॥" इति । ननूक्तं शरीरस्यानित्यत्वे स्वयं निजशरीरस्य निर्मा- णमतिसाहसं, कर्वन्तरविनिप्पचावीश्वरानन्त्यमापतेदिति । सत्यम् । वीजाकुरवद् दहस्यानादित्वेन न विरोध इति के. चित् । तदुक्तं "पूर्वसिद्धेन देहेन शरीरान्तरकर्तृता । तञ्च पूर्वेण देहेनेत्यनादित्वमिहाश्रितम् ॥" इति । एकब्रह्माण्डतद्वतिसकलकार्यबिनाशे ब्रह्माण्डान्तरस- हावात् तत्र स्थित्वासौ कार्य करोतीति न कश्चिद् दोपः । अण्डानां बहुत्वं श्रुतिस्मृतिसिद्धम् । “यथा खल्बलावूल- तायां विततानि फलानि, एवं महेश्वरशक्ती ब्रह्माण्डसहस्रा- णी"ति श्रुने, २. 'हिन' ख. पाठ - .

- . द्वितीयः परिच्छेद । ईदृशानां तथाण्डानां कोट्यो ज्ञेयाः सहस्रशः । तत्र तत्र चतुर्वक्रा ब्रह्माणो हरयो भवाः ।।" इति स्मृतेश्च तदवगमः । अन्ये नित्यं माहेश्वरै शरीरम् अ- नादित्वात् , तच्चानादिसप्ट्यादिकर्तुमहेश्वरस्य देहानादित्व- स्याभ्युपगमनीयत्वात् । तच्छरीरं मायेति चाहुः । अपरे श- ब्दब्रह्मतनुत्वं भगवतो मन्यन्त इति । अथ प्रत्यनुमानबा- धितमिदमनुमानम् । तथाहि ~~क्षित्याद्यसर्वज्ञकृतं कार्य- त्वादित्यनुमानात् सर्वज्ञकर्तृकत्वानुमानस्य सप्रतिसाधनत्व- मिति । तदसत् । विकल्पानुपपत्तेः । किं सर्वज्ञकर्तृनिषेधमा विवक्षितं, किंवा किञ्चिन्नकर्तमत्त्वं, किं वा कतैशन्यत्वम् । नाद्यः पक्षः । असर्वज्ञकत्रभ्युपगमप्रसङ्गाद् बामेनीक्ष्णा न पश्यतीति विशेषनिषेधवत् । विशेपनिपेधस्य शेपाभ्यनुज्ञा- विषयत्वात् । अथ परस्य सर्वज्ञकर्तृकत्वमभिमतमिति तन्नि- पेधमात्रमत्र क्रियत इति चेन्नैवम् । कर्तृमात्रनिषेधादेव सर्वज्ञ- कर्तनिषेधसिद्धेस्तदेव निषेध्यं न विशेष इति । तथा घटा- दीनामप्यदृष्टादिप्रेरणद्वारेण सर्वज्ञजगत्कर्तृपूर्वकत्वस्याभ्युप- गमीयत्वात् साध्यविकलदृष्टान्तता च भवेत् । न च त- नान्यः कर्ता। कर्तृभेदे प्रमाणाभावात् । न च कार्यमहत्त्वात् कर्तृबहुत्वकल्पनं कार्यमिति वाच्यम् । इच्छामात्रजन्ये कार्य बहुत्वस्यानुपयोगित्वात् । कायिकव्यापारजन्ये तु तदुपादाना- दिनोदनमुपायान्तरेण यत्रैकस्यैव न स्यात् तत्रैव बहुत्वक- ल्पना । अथवा सप्वपि कार्यवेकस्यैव कर्तृत्वान्न कचिदपि नस.पाठ.

तत्वप्रकाशे सव्याख्ये बहुत्वकल्पना, एकाचार्यानुगमात् । बहुत्वेऽपीतरेपां वास्या- दिवदकर्तृत्वाहा ।आचार्यानेकत्तायां च ज्ञानाधिक्यवशादे- कस्यैव कर्तृत्वं तत्साम्ये च कार्यभेदेन भागभेदेन वैककर्तृ- लोपपत्तिः। इतरथा तद्वैयर्थ्यापातादिति तथा कार्यमहत्त्वस्य तु कर्तृमहत्त्वादप्युपपत्तेर्न बहुत्वकल्पनासंभवः। धर्मिकल्पानायां गौरवापातात् । तथा समाभिप्रायत्वे वैयर्थ्य, बिरुद्धाभिप्रायत्वे कार्यवैशसप्रसङ्ग इति न सर्वथा कर्तृबहुत्वकल्पनोपपत्तिरिति । तथा घटाघदृष्टव्यापारः क्षितिकर्तृविनिर्मितः अदृष्टव्यापा- रत्वात् क्षित्याद्यदृष्टव्यापारवदित्सेककर्तृत्वे सिद्धे तस्य स- वज्ञसर्वेश्वरत्वादिसिद्धिः । अथ किञ्चिज्ज्ञकर्तमत्त्वं विवक्षित- मिति चेन्न । अपसिद्धान्तताप्रसङ्गात् । नहि मीमांसकादयो जगतः कर्तृमात्रमभ्युपगच्छन्ति । अतो दूरनिरस्तं किञ्चि- ज्ज्ञकर्तृकत्वमिति । तथा किञ्चित्त्वस्य कार्योत्पादानुपयोगि- त्वाद् वैयर्थ्य च । तथासर्वज्ञस्य सर्वकर्तृत्वासंभवाद् माता मे बन्ध्यतिवत् प्रतिज्ञाविरोधप्रसङ्गः । यदि किञ्चिज्ञस्यापि कर्तृत्वं साध्येत, तदा सिद्धसाध्यता । क्षेत्रज्ञानामप्यदृष्ट- द्वारेण जगत्कारणत्वाभ्युपगमात् । न च जीवानामेव कर्तृत्वसाधनात् परमेश्वरस्याकर्तृत्वमिति वाच्यम् । उपादा. नाद्यभिज्ञकर्तुः पञ्चरूपवतानुमानेन साधितत्वात् । न च जीवानां कर्तुत्वं, (माहे)तुत्वमात्रस्य विवक्षितत्वात् । अथा- कत्वं विवक्षितमिति चेन्नैवम् । घटादेः कर्तृमत्त्वेन सा- ध्यविकलदृष्टान्तत्वात् । मूलकारणदृष्टान्तत्वे साधनविकलमु- दाहरणं, तत्र हेतोरभावात् । सत्चप्रमेयत्वादिसाधनोपन्यासे द्वितीयः परिच्छेदः। घटादिभिर्व्यभिचारः । घटादेव पक्षतायां प्रत्यक्षविरोध इति धूमानुमानेऽप्ययं दोषः समानः । पर्वतो धर्मी अपर्वतगता. ग्निनाग्निमानिति साध्यो धर्मः धुमवत्त्वान्महानसबदिति वक्तुं शक्यत्वादिति । ननु महेश्वरः क्षित्यादिकर्ता न भवति अशरीरत्वात् पुरुषत्वाहा मुक्तात्मत्वाहास्मदादिवञ्चैत्यनुमा- नविरोध इति चेन्नैवम् । भवतां जगत्कर्तृत्वसिद्धेराश्रयासि- इताप्रसङ्गात् । अथ भवत्पक्षे जगत्कर्तासिद्ध इति नाश्रया- सिद्धिदोष इति चेन्नैवम् । परसिद्ध प्रमाणमूलस्त्रे तेनैव धर्मि- ग्राहकेण प्रमाणेन वाध्यमानत्वात् ।(न च) विपरीतानुमानस्या- नुत्थानान्नानेन तस्य बाध इति वाच्यम् । तस्य तन्मूलतया । तहाधकत्वासंभवात् । तथापि यदि वाधाभ्युपगमः, तदा म. हेश्वरस्याप्रसिद्धत्वादस्याश्रयासिद्धताप्रसङ्गः। अथ न प्रमाण- मूला परप्रसिद्धिरिति चेन्न । तर्हि विपरीतानुमानोपन्यासः कार्यः। प्रमाणाभावादेव प्रमेयासिद्धरस्याश्रयासिद्धिदोपप्रसं- गाचेति । ननु प्रमाणसिद्धस्यापि तस्य पक्षत्वमुपपद्यते । सि- इत्यादेवाश्रयासिद्धिदोपाभावादिति चेन्नैवम्।सुरभि गगन- कुसुमं कुसुमत्वात् सम्प्रतिपन्नवादित्यस्यापि गगनकुसुमश- ब्दसिद्धतया आश्रयासियभावप्रसङ्गात् । न च पुरुषः क्षि. त्यादिकर्ता न भवति । पुरुषत्वादस्मदादिवदिति वाच्यम् । सिद्धसाध्यताप्रसङ्गात् । विशिष्टपुरुषपक्षीकरणेऽपि जगत्कर्तृ- त्वव्यतिरिक्तकर्तृविशेषणविशिष्टत्वे सिद्धसाध्यता । जगत्कर्तृ: त्वरिशिष्टपुरुषपक्षीकरणे भवेदेवानयासिद्धिः, धमिग्राहकप्र- १०८ तत्त्वममा मव्याय माणाधो वेति । न च सर्वे पुरुषाः क्षित्यादिकारो न भवन्ति पुरुषत्वाव कुलालादिवदिति वाच्यम् । अंशे सिद्धसाध्यता- श्रयासिद्धिर्मिग्राहकप्रमाणवाधात्मकदोपनयापाताद् दृष्टा- न्ताभावाञ्चति । ननु विमतः पुरुषः क्षित्यादिकर्ता न भवति पुरुषत्वादित्यस्मिन् साध्ये न दोपत्रयावकाशः । न तावदा- श्रयासिहिः, आत्मनः पुरुपस्य सिद्धत्वात् । नापि सिद्धसा- ध्यताविप्रतिपत्तिः। अन्यपुरुपव्यवच्छेदात् । नापि धर्मियाहं- कप्रमाणवाधः । तस्य जगत्कर्तृत्वानङ्गीकारेण सिद्धत्वादिति चेद् नवम् । पुरुषमात्रे विप्रतिपत्त्यभावात् । क्षित्यादिकार्यम- धिकृत्य विप्रतिपत्तिन पुरुषे । अस्तु वा पुरुपे विप्रतिपत्तिः । तथापि न पुरुषमात्रे । तस्य जगत्कर्तृत्वानभ्युपगात । विशि- प्टे चेत । केन विशेषणेन । विशिष्टे यदि किश्चिन्नत्यादिना विशिष्टे, तत्र च न विप्रतिपत्तिः । यदि सर्वज्ञत्वादिविशेप- णविशिष्टे, तत्र च न विप्रतिपत्तिः । जगत्कर्बनुमानप्रवृत्तेः प्राक् तस्याप्रसिहत्वात् । नवप्रतिपन्ने धर्मिणि धर्ममूला विप्रतिपत्तियुक्ता । जगत्कनुमानप्रवृत्त्युत्तरतश्च न विप्रति- पत्तिः, तस्य प्रमाणसिहत्वात् । तस्माद् न विप्रतिपत्तेयंव- च्छेदकत्वमिति । तथेश्वरः शरीरादिमान् कर्तृत्वादित्यादयश्च निरसनीयाः, उक्तन्यायसाम्यादिति । अथ क्षित्यादि कर्तशून्यं तयापकशरीररहिवत्वात् यद् ययापकरहितं तत् तद्व्याप्ये- नापि रहितं, यथा जलं धूमव्यापकानिरहितं धूमेनापीत्सनु- मानविरोधाद् इति चेत् । न । अस्यानुमानस्य विशेपणा- १. स्या' द. पाठः, २. नरिशिष्टे । तर च नविप्रतिपतिः। जगकरनुमानम' ग. पाठ द्वितीयः परिच्छेदः। सिद्धत्वेनाप्रामाण्यात् । शरीरकर्तृत्वयोः व्याप्यव्यापकभावेन तयापकशरीररहितत्वस्यासिद्धत्वात् । अस्मदनुमानाप्रामाण्ये भवदनुमानासिद्धिपरिहारः भवदनुमानबाधयामिदनुमानाप्रा. माण्यामिति इतरेतराश्रयप्रसङ्गश्च । अस्मदनुमानस्य भवदनुमा- नस्याप्रामाण्यमन्तरेणापि रूपपञ्चकोपपत्तनिरपेक्षं प्रामाण्यनि- त्युभयोः परस्परविरुद्धयोर्वाध्यबाधकसाम्येऽपि भवदनुमान- स्य विशेषणासिद्धिरूपदोषान्तरसहावादबाधकत्वमिति अथ क्षित्यादि कर्तृशून्यं शरीररहितत्वादिति हेतूपन्यासादसिद्धिप- रिहारो भवेदिति चेत् । न । घटादिव्यभिचारात् । घटायो- ऽपि शरीररहितास्तथापि कंत्रशून्या इति । अथ शरीराजन्यत्वं विवक्षितमिति चेत् । न । शरीरविशेषणवैयर्थ्यात् । अजन्य- त्वस्यैव कर्तृशून्यताब्याप्तत्वादिति । न च स एव हेतुरिति वाच्यम् । स्वरूपासिद्धताप्रसङ्गादिति । तथाग्नीपोमीयप- शुहिंसा धर्मफला हिंसात्वाद् ब्राह्मणहिंसावदितिवत्। नास्या- गमविरुद्धकालात्ययापदिष्टत्वम् कर्तृभावप्रतिपादकागमानु- पलस्मात् । न च, "अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम्" इत्याद्यागमविरोधः । तस्य सव्यापारकर्तृत्वमात्रनिषेधत्वात् । तचागमान्तरैः : "न तं विदाथ य इमा जजान मा नो हिं- सीजनिता यः पृथिव्याः" इत्यादिभिः परमेश्वरस्य ज. गत्कर्तृत्वप्रतिपादनादवगम्यते । तस्मादयस्कान्तवन्निव्यापा- रकर्तृत्वमस्येति सिद्धमिति । न चासौ प्रकरणसमः, स्वपरप- क्षसिद्धावत्रिरूपो हेतुः प्रकरणसमः इत्युक्ततल्लक्षणाभावात् । १. 'स्य व्प' ग. पाठः .

तत्त्वप्रकाशे सध्यारये तथाहि-यथा क्षित्यादि बुद्धिमत्पूर्वकं कार्यत्वाद् घटवादि- त्यस्मिन् प्रयोगे अस्य कार्यत्वस्य पक्षधर्मत्वसपक्षसत्ववि. पक्षव्यावृत्त्यात्मकरूपत्रयसहावः, न तथा क्षित्सादि बु. हिमत्पूर्व न भवति कार्यत्वान्मायावदिति परपक्षसाधनेऽस्य रूपत्रयसहावः, मायादौ कार्यत्वरयाभावेन सपक्षे सत्त्वाभा- वाद् घटादौ विपक्षे कार्यत्वसहावेन विपक्षाद् व्यावृत्त्यभा- वाञ्चेति । तस्माद् रूपपश्चकसदाबाद् इदमनुमानं जगत्कर्तुः परमेश्वरस्य सद्भावे प्रमाणमेवेति सिद्धम् । आगमाश्च 'वि. श्वतश्चक्षुरित्याद्याः परमेश्वरस्य जगत्कर्तुः सहाव बोधयन्ति । नच ,तेपां विधिशेषत्वात् स्वार्थेऽप्रामाण्यमिति वाच्यम् । वेदवाक्यत्वाद् विधिवाक्यवदिति । न च 'आदित्यो यूपः' इत्यादिवदौपचारिकत्वम् । स्वार्थे वाधाभावात् । तथा वा- मणादौ तदुक्तमृपिणेति मन्त्राणां स्वार्थे प्रामाण्यप्रतिपाद- नाच्चेति । तस्मादनुमानागमाभ्याम् अस्मदादीनां सिद्धो म- हेश्वर इति । योगिनां तु करतलामलकबदखिलमवलोकयतां प्रत्यक्षतोऽपि सिद्धः । तथाहि - परमेश्वरः केपाश्चित् प्रत्य- क्षसमधिगम्यः प्रमेयत्वात् करतलामलकवदित्यनुमानान्म- हेश्वरस्य प्रत्यक्षगम्यत्वसिद्धिः । योगिनां सद्भावश्च अस्मदा. धमत्यक्षा मूलकारणधर्माधर्मादयः प्रधानपुरुपणत्यक्षरः प्रमेय- त्वात् करतलामलकवदित्यनुमानसिद्धः । तत्र प्रधानपुरुषो महेश्वरोऽप्रधानपुरुपा योगिन इति तत्सिद्धिरिति ।। १७ ॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धवर्गविनिर्णयो द्वितीयःपरिच्छेदः ॥

अथ तृतीयः परिच्छेदः। अथेदानी करणोपादानयोः स्वरूपनिरूपणार्थमाह --- शक्तय इहास्य करणं मायोपादानमिप्यते सूक्ष्मा । एका नित्या व्यापिन्यनादिनिधना शिवा सोक्ता॥१॥ इति । अयमभिप्रायः-पराशक्तिविकाराः इच्छाद्याः शक्तयः परमेश्वरस्य करणं हस्तादिस्थानीयम् । "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इति श्रुतेः शक्तिकरणसद्भावसिद्धिः । मायोपादानं मृत्तन्त्वा- दिस्थानीयमिति “मायां तु प्रकृति विद्यादिति श्रुतेस्तदुपादा- नत्वसिद्धिः । तर्हि सा माया कस्मानोपलभ्यते घटवदित्यत- आह - सूक्ष्मेति । सूक्ष्मत्वादनुपलम्भो मायाया नासत्वा- दित्यर्थः । तथाहि - अतिदूरत्वातिसामीप्येन्द्रियघातमनो- नवस्थानसौक्ष्म्यव्यवधानाभिभवसमानाभिहारानुद्भवाः सत एवार्थस्यानुपलम्भकारणभूता लोके दृष्टाः । उत्पतन् व्योम्नि पक्षी सन्नप्यतिदूरतया प्रत्यक्षतो नोपलभ्यते । अतिसामी- प्याच्चक्षुस्थमञ्जनं सदपि नाध्यक्षतोऽवगम्यते । मनोनवस्था- नाव कामाद्युपातचेताः परिषदादिकं न पश्यति । इन्द्रिय- घातादन्धत्ववधिरत्वादेर्घटरूपशव्दाद्यनुपलम्भो भवति । सौ- स्यात् परमाण्वादिकं प्रणिहितचित्तोऽपि न पश्यति. व्य. वधानादन्तःस्थवटाउनुपलम्भः । आदित्यप्रभाभिभूतत्वाद् दिवा तारका नोपलभ्यन्ते । समानाभिहारात् तोयदमुक्तजल. १. 'क' स. पाठ ११२ तत्त्वप्रकाशे सन्याख्ये धाराणां जलाशयेऽनुपलभ्भः । अनुहंवात् क्षीराद्यवस्थायां दध्याघनुपलम्भ इत्येभिः कारणैः सत एवार्थस्यानुपलम्भ- दर्शनान्नानुपलम्भमाबादसत्त्वनिश्चयः । सप्तमरसस्य प्रमाणा- भावादसत्त्वेनानुपलम्भो नैमिः कारणैरिति । मायाया विद्य- मानायाः सूक्ष्मतयानुपलम्भः, कार्यस्य जगतः उत्पादनका- रणतया तत्सद्भावसिद्धेरिति । तदुक्तं सांख्याचार्यः-- "अतिदूरात सामीप्यादिन्द्रियघातान्मनोनवस्थानात् । सौम्याद् व्यवधानादभिभवात् समानामिहाराच्च । सौम्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदनुपलब्धेः ।” इत्यादि । कालाद्यवनिपर्यन्ततत्त्वजात स्वात्यन्तसदृशोपादान- कारणवत् कार्यत्वाद् यद्यत्कार्य तत्तत् स्वात्यन्तसदृशोपादा. नकारणवद् दृष्टम् । यथा घटशरावादयो मृन्मयाः स्वात्यन्त- सदृशमृदुपादानजन्याः, तथेदं तत्त्वजातं कार्यम् । तस्मात् खात्यन्तसदृशोपादानकारणदिति । यच्च सर्वेषां तच्चानां जडानां जडतया सदृशमुपादानं तन्मायाख्यं तत्त्वमिति तरिसडिः । तदुक्तं- "कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ।" इति । तथा कालाधवनिपर्यन्तानि तत्त्वान्यपरिमितकोपादा- नानि परिमितत्याद गझन् परिमितं तदारिमितकोमाधान दृष्टम् । यथा घटशराबादयः परिमिता अपरिमितैकमृदुपा- दानास्तथा कालादयः परिमिताः । तस्माद् अपरिमितकोपा. दाना इति । यदत्रैकमेपामपरिमितमुपादानं सा मायेति । तथा कालादयः स्वाव्यतावस्थाकारणवन्तः, व्यक्तत्त्वात्। - " तृतीयः परिच्छेदः। कूर्माद् व्यज्यमानतदङ्गवदिति सिद्धा माया । एका सा, अनेकत्वे प्रमाणाभावात् । नन्वेकवे च प्रमाणाभावादनेक- त्वमिति चेत् । नैवम् । एकत्वस्य सत्त्वमात्रेणैव सिडत्वात् । अनेकत्वस्य पुनः प्रमाणान्तरापेक्षया सहायसिडिरपि । सा नित्या च । तस्या उपादानान्तराभावेनाकार्यत्वात् । तदभा- (वश्व ? वेचा)नवस्थाप्रसङ्गः। "एतेपामेव पाशानां माया कारणमुच्यते । मूलप्रकृतिरव्यक्ता" इति मायाया 'मूलप्रकृतित्वोपादानाच्च सिद्धा । व्यापिनी च सा स्वकार्येषु सर्वेष्वनुगमात् । अनादिनिधना उत्प- त्तिनाशरहितेत्यर्थः । शिवा शुद्धा, गुणवन्धशून्यत्वात् । सैवमुक्ता तत्वविद्धिरिति । अथवा एकेत्यनेकोपादानजन्यता प्रपञ्चस्यारम्भवाद्यभ्युपगतां प्रत्याचष्टे । तथाहि-पृथिव्य- तेजोवायुतदवयवादीनां चावयव(विभा)गेनापरमाण्वन्तो वि. नाशः संहारः । न च परमाणोविनाशः संभवति, अवयव वि. भागासंभवात् । स चावयवाभावात् । स च परमाणुत्वात् । ततश्च सृष्टिदशायां परमाणुद्वयसंयोगादाद्यकार्यस्य ब्यणुक- स्योत्पत्तिः । तत्र परमाणुद्वयमुपादानकारणं, कार्याश्रय- त्वात् । तत्संयोगोऽसमवायिकारणं, स्वाश्रये कार्यारम्भक- लात् । शेषमदृष्टादि निमित्तकारणम् । ततो घणुकैस्त्रिभिस्न्य- णुकस्योत्पत्तिः । तत्र च व्यणुकत्रयं समवायिकारणम् । त- संयोगोऽसमवायिकारणम् । शेपं निमित्तकारणमिति । तार- देवमवगन्तव्यं, यावदन्त्यावयव्युत्पत्तिरित्यारम्भवादिनो वै. शेषिकनैयायिकभाट्टमाभाकरादयः । पटादिपु स्वन्यूनानेको- तत्त्वप्रकाश सन्यात्ये पादानत्वोपलम्भात् प्रपञ्चस्यापि स्वन्यूनमनेकम् उपादान- मिति प्राहुः । तत् प्रत्याचष्टे ---- एकेति । एकस्मान्मृत्पिण्डोपा- दानादनेकघटशरावकुम्भमृदङ्गादयः, रुचकस्वस्तिकाङ्गुली- यकादयो वा स्वर्णपिण्डाद् , वृक्षाहा मजूपाफलकादयः य- तोऽध्यक्षेणैव जायमाना उपलभ्यन्ते , असो जगतः कार्यत्वे- नोपादानकारणकल्पनायां गौरवपरिहाराय तदेकत्वं कल्पनी- यमिति नानेकत्वं मूलोपादानस्येति । तदुक्तं भगवता वेद- व्यासेन "एकस्माद् वृक्षाद् यज्ञपात्राणि तक्ष्यात् मुक् च द्रोणी बोडनी पीडनी च" इत्यादि । नित्या विनाशरहिता । व्यापिनी घटशरावकुम्मा- दिपु मृहत् स्वकार्येषु कालाद्यवन्यन्तेषु जडतयानुस्यूता इति। अनादिनिधना वृद्धिव्ययशन्या अवयवोपचयो वृद्धिः, तदपचयो व्ययः। तवयरहितेत्यर्थः । एकत्वान्नित्यत्वात् सर्व- गतत्वाच्चेति । शिवासक्तेति केचित् पठन्ति । तदा शिवे आसक्ता आभीक्ष्ण्यन संबडा । शिवस्य विग्रहत्वेनावस्थि- तेत्यर्थः ॥ १॥ तस्या रूपमाह साधारणी व पुंसां कारणमपि चेयमाग्विलभुवनानाम् । निखिलजनकर्मखचिता स्वभावतो मोहसञ्जननी ॥२॥ इति। अयमभिप्रायः-सकलजीवसाधारणी समाना। यतः सर्वजन्तुशरीरेन्द्रियविषयात्मना परिणममाना सर्वपुरुषो- पभोग्या माया, अतोऽस्याः सर्वपुरुपसाधारण्यमिति। ननु सर्व- पुरुषमाधारण्ये मुक्तस्यापि पुरुषस्य दारीराद्यारम्भप्रसङ्ग इत्या. -- - तृतीयः परिच्छेदः । शङ्कयाह निखिलजनकर्मखचितेति । सकलामुक्तजन्तु- पुण्यापुण्यमुद्रिता । तेन मुक्तानां कर्नाभावात् तन्निमित्तश- रीराद्यारम्भाभाव इति भावः । अथवा प्रलयावस्थायां कर्मणां कुत्र वृत्तिरिति वाच्यम् । न तावदात्मनि । तस्य स्वच्छचैत- न्यरूपतया निरञ्जनस्य तदाश्रयत्वानुपपत्तेः । तदुक्तं- "यथा सर्वगतं सौक्ष्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥' “यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् । अन्तःकरणजैर्भावरात्मा तन्न लिप्यते ॥" इति । न च तदा सूक्ष्मदेहाश्रितं कर्मेति वाच्यम् । तस्य तदानी प्रकृतौ निलीनतयासत्त्वात् । न च तदानी कर्मणा- मसत्त्वेनाश्रयत्वस्यानिरूपणीयतेति वाच्यम् । कर्मणामसत्वे. निमित्ताभावेन पुनः सृष्टयभावप्रसङ्गात् । तस्मात् क तदानीं कर्मणां वृत्तिरित्याशङ्कयाह - निखिलजनकर्मखचितेति । स्वभावतो मोहसञ्जननीति। स्वीयेन जडत्वभावनात्मप्रच्छा- दनं कृत्वा स्वस्मिन्नात्मबुद्धिं कुर्वती पशुन् मोहयतीति । तदुक्तं किरणे- "माया विमोहनी प्रोक्ता विषयास्वादभोगतः। यत्र तत्र स्थितस्यात्य स्वकर्ममलहेतुतः ॥ इति । नन्वव्यक्तं सकलकार्योपादानकारणम् । अतस्ततो- " १. 'या' ख. पाठ.. २. 'ट्या' क. पाठ उत्त्वप्रकाो सन्यास्ये ऽन्या माया न कल्पनीयेति चेत् । नैवम्।तस्य त्रिगुणात्मतया कार्यत्वेन तत्कारणभूतनित्योपादानान्तरस्यावश्यमाश्रयणीय- त्वात् । तथाहि-प्रधान कार्य त्रिगुणात्मकत्वाद् घटादि- वदिति तस्य कार्यत्वसिद्धिः । न चाव्यक्तस्य त्रिगुणात्मक- त्वमसिद्धमिति वाच्यम् । संवरजस्तमसा साम्यावस्थारूपत- या तस्य त्रिगुणात्मकत्वसिद्धः। तथा 'अजामेकां लोहितशु- क्लकृष्णामित्यादिश्रुतेश्च तत्सिद्धिः । ननु "प्रकृतिः पुरुपश्चैव नित्यो कालथ सत्तम!" इत्याद्यागमयाधादयुक्तमेतदिति चेत् । नैवम् । 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीति वाक्यबोधितसुकृताक्षय्य- त्ववन्महदादिकालापेक्षयाधिककालसंवन्धस्य विवक्षितत्वात् । ननु तत्र अनित्यं चातुर्मास्यफर कार्यत्वाद् इतरकर्मफलबदि- त्यनुमानादिना प्रमाणान्तरेण तदनित्यत्वसिडेर्युक्तमक्षय्यप- दस्य दीर्घकालसंबन्धपरत्वकल्पनामिति चेत् । न। अत्राच्यव्य- तानित्यत्वबोधकरयानुमानस्योक्तवाद, आगमस्य सहावाञ्च। तथा- "अव्यक्तादभवत् कालः प्रधानं पुरुषः परः । तभ्यः सर्वमिदं जातम्' इतीश्वरगीतायां प्रधानोत्पादप्रतिपादनात् तदनित्यत्वसिद्धिः, श्रीविष्णुपुराणे च प्रधानपुरुपकालानामुत्पादप्रतिपादनाच ।। तथाहि "विष्णोः स्वरूपात परतो दितेऽन्ये रूपे प्रधानं पुरुषश्च विन।। तस्यैव तेऽन्येन धृते वियुक्त रूपं तु यत्तद्विज! कालसंज्ञम् ॥"

A तृतीयः परिच्छेदः। इति । 'मायां तु प्रकृति विद्यादिति मायामूलोपादानत्वप्र- तिपादनाच्च तत्सिद्धिरिति । तस्मान्माया जगन्मूलोपादान- मिति सिद्धम् । सा माया हरितालनिभा । तदुक्तं "तद्वाह्ये तु भवेन्माया हरितालाभसन्निभा" इति । अस्याः षडध्वव्याप्तिः धकारो वर्णः । अघोरहद- यायेत्यादीनि त्रीणि पदानि । शिम् अधोरहदयाय पञ्चाएँ मन्त्रौ । माया तत्वम् । महातेजादि सप्त भुवनानि । निवृत्तिः कला॥२॥ ननु कथं भगवान् जगत् सृजति, कैः करणैः, कि- . मथै चेत्याशङ्कयाह कर्माण्यवेक्ष्य शम्भुर्मायां विक्षोभ्य शक्तिभिः स्वाभिः । प्रतिपुरुपं भोगार्थं वपि करणानि चाधत्ते ॥३॥ इति। कर्मानुरूपेण प्रतिपुरुषं शरीरेन्द्रियाणि च शब्दा. दिविषयांश्च भोगार्थ शम्भुरिच्छाभिः स्वाभिः शक्तिभिः मायां विक्षोभ्य विविध क्षोभ विकारं कृत्वति । नापादानादिकं कार- णं कांप्रेरित कार्योत्पादने पर्याप्तमिति क्षोभसिद्धिरिति॥३॥ अथेदानी सर्वकार्यकारणतया तेषु प्रथमोद्दिष्टं काल- तत्वं लक्षयति- नानाविधशक्तिमयी सा सृजाति (हि) कालतत्त्वमेवादो। भाविभव(द?)भूतरूपं कलयति जगदेप कालोऽतः ।। इति । इच्छादिबहुविधशक्तिप्रेरिता माया जनयति का- लाख्यं तत्त्वम् । आदौ प्रथम, कालजन्यानां तच्चान्तराणां तत्त्वप्रकाश सव्याख्ये - कालानुत्पत्तौ जननासंभवात् । ततस्तस्थान्तराणि तज्जन्या- नीति । यथा घटोत्पादनाय तत्कारणभूतचकादिकं कुलाल: प्रथममुत्पादयति, तदनुसच्ची घटोत्पादनासंभवात् , तथा(पि?) कालं प्रथम सृजति माया , तस्य स्व(व्यतिरिक्तसर्वकारण- त्वादिति कालस्य तु स्वोत्पत्ती कालापेक्षायां कालान्तराभ्युप- गमेनानवस्थामसङ्गात् तदुत्पत्तौन कालापेक्षेति शिवशक्तिक- ममायात्मकचतुष्कजन्यः काल इति । तस्य लक्षणमाह भाविभवभूतरूपं कलयति जगदेष कालोऽत इति । यह त. चवशात् पदार्थेषु भाविभवद्भूतरूपावभासं तत् कालाख्यं तत्त्वम् । अथवा यत् तत्त्वं भाविभवद्भूतरूपं जगत् कलयति बध्नाति, क्षणलबादिरूपेण संख्यापत्ति वा तत् कालास्य तत्त्वमिति । तथा वैशेषिकादिमिरप्युक्तं ---- "परापरव्यति- करचिरक्षिप्रादिप्रत्ययहेतुः कालः" इति ।यूनि दिकृतपरत्वाश्र- येऽपरत्वावमासः, स्थविरे च स्वकृतापरत्वाश्रये परत्वावभासः परापरव्यतिकरः तस्य, चिरव्यवहारस्य विमव्यवहारस्य च, आदिशब्देन युगपत् करोति क्रमेण करोतीत्यादिव्यवहारस्य च यो हेतुः, स काल इति । अनेनैव लक्षणवाक्येन कालत. चे प्रमाण चौपन्यस्तम् । तथाहि -- भूतत्वादिविशिष्टा बुद्धिः विशेषणपूर्विका विशेष्यज्ञानवाद यद्यद विशेष्यज्ञानं तत्तद् विशेषणपूर्वकं, यथा दण्डी कुण्डली छत्रीत्यादि विशे. प्यज्ञानं दण्डादिविशेषणपूर्वकं, तथा चेदं विशेष्यज्ञानम् । १. 'य. पाठ:. २. 'वी का क. पाठ - । - तृतीयः परिच्छेद.। तस्माद् विशेषणपूर्वकम् । यदत्र विशेषणं नियत्साद्यनिष- यन्ततत्त्वव्यतिरिक्त, तत् कालतत्त्वमिति तत्सिद्धिः । तस्य चित्रं वर्णम् । तदुक्तं- "ततः कालनियत्याख्यः सम्पुटो व्याप्य चावृतः। शितिः श्यामोऽरुणः शुक्लः कचिद् व्यामिश्रकस्तथा ॥” इति । अस्य पडध्वव्याप्तिः- डकारो वर्णः। ओं नमोनम इत्यादि वे पदे । वां वामदेवगुह्याय पञ्चाी मन्त्रौ । सुखदैक- वीरौ भुवने । शान्त्यतीता कला ॥ ४ ॥ अथ नियत्या लक्षणमाह नियतिनियमनरूपा मायातः साप्यनन्तरं भवति । नियमयति येन निखिलं तेनेयं नियतिरादिष्टा ॥ इति । मायातत्त्वादेव नियतितत्त्वं कालतत्त्वादन. न्तरमुत्पद्यते । कालस्यापि नियत्युत्पत्ती कारणत्वात् । तस्या निरुक्तिपूर्वकं लक्षणमाह-नियमयतीति । येन नियम- यति व्यवस्थापयति निखिलं, तेनेयं नियतिसंज्ञयोद्दिष्टा । अनेनैव वाक्येन तस्याः प्रमाणमप्युक्तम् । तथाहि- लोके तावत् तिलेपुतैलं, न सिक(तेपुरतासु)त्रिीहिपु तण्डुलाः, न मुद्गादिपु । एवमूधसि पयो नान्यावयवेप्वित्यादिनियमोनि- यामकेन विना न संभवाति तन्नियामकं किञ्चिदभ्युप- गन्तव्यम् । अन्यथा तन्नियमासंभवप्रसङ्गात् । यत्र तन्नि. यामकं तन्नियतितत्त्वमिति तत्सिद्धिः । तदुक्तं पारमेश्वरे- "अथेदानी मुनिव्याघ्र! कारणस्यामितद्युते!।

१२० - तत्त्वप्रकाशे सम्याल्ये शक्तिर्नियामिका पुसो महासत्त्वेन सर्पता ॥ नियामकेन भावेन नियमस्थितिहेतुना । ययाणुर्भोगसन्ताने नियम्य विनिवार्यते ॥ व्यवस्थाकारिणी नान्या विद्यते तत्त्वसन्ततौ । कोटिद्वयमसंख्यातं धर्माधर्मात्मकं पशोः ॥ यदर्थ व्यक्तिमायाति शरीरं सर्वदेहिनाम् । तद्विपाकेबनायासं क्षेत्रनं सुनिरूप्य तु ॥ नियामयति यस्मा तस्मान्नियतिरुच्यते । तयोरभ्यधिकं यच्च दुःखं वाप्यथवा सुखम् ॥ न ददाति समं धत्ते स्ववीयणैव नान्यथा ।" इत्यादि । नियतेश्च कालवहर्णम् । अस्याः पडध्वव्याप्तिः- चकारो वर्णः । गोप्ने निधनायेति हे पदे । यं सद्योजात. मूर्तये पञ्चार्गी मन्त्रौ । नियत्याख्यं तत्त्वम् । संवर्तज्योतिषी भुवने । शान्तिः कला ॥ ५ ॥ अथ कलातत्त्वं निरूपयति मायातस्तदनु कलामलं नृणामेकतस्तु कलयित्वा । व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा !! इति । कालनियतितत्वादनन्तरं कलात्तत्त्वं मायात एवोत्पद्यते । येन पशूनामाणवं मलमेकस्मिन् प्रदेशे संकु- चय्य तेषां कर्तृशक्तियक्तीक्रियते, तत् कलातत्त्वम् । यतः कर्तृशक्तिरनेन व्यक्तीक्रियते, ततोऽस्याः सहावसिद्धिः । तदुक्तं-- १. 'वान' ग. पाट:.

१२१ तृतीयः परिच्छेदः। "कलो तदनु माया सा कलयित्वैकतो मलम् । कर्तृत्वव्यजिको नर्ते कर्तारं हि जडोहवः ।।" मातङ्गे च- "यथामितप्तमृत्पात्रं जतुनालिङ्गने क्षमम् । तथायुं कलया विद्धं भोगः शक्नोति वासितुम् ॥ भोगपात्री कला ज्ञेया तदाधारश्च पुद्गलः । भोगानामपि नान्योऽस्ति कलां त्यज्य समाश्रयः ॥ ततोऽयं नियतः स्पष्टः संसारोऽतिदुरुत्तरः।" इत्यादि । तस्मात् कॅलाख्यं तत्त्वमभ्युपेयमिति ॥ ६ ॥ तत्त्वत्रयं सर्वत्रोपयुज्यत इत्याह- कालेन नियत्या चाप्युपसर्जनतामुपेतया सततम् । विदधाति व्यापार (नि?नी)मेपाधवनिपर्यन्तम् ॥ ७ ॥ इति । यया कालनियतिसहितया माया मात्राव- स्थानाधवन्यन्तकार्यजातं विदधाति करोति, सेयं कलेति । वर्णश्वास्याः श्वेतपीतारुणकृष्णमिश्रात्मकः । तदुक्तं- "कलातत्त्वं परं तस्माद् विद्यातत्वादशोभनम् । श्वेतपीतारुणं कृष्णं मिश्रवर्ण कचित् तथा।" इति । अस्याः पड़ध्वव्याप्तिः ऐकारो वर्णः । सर्वयोगा- धिगतायेत्यादि दे पदे। ये अस्त्राय पश्चाौँ मन्त्रौ । क- लाख्यं तत्त्वम् । पञ्चान्तकसूकरौ भुवने । विद्या कलाः ॥ १. व्यक्तिसोन' क. पाठः. २. 'ता', ३. 'वम् स. पाठः १. 'का' ग., 'व' ख. पाठ.. ५. '' ग. पाठः. - R तत्त्वप्रकाशे सब्याख्ये - . इदानीमशुद्धविद्यास्वरूपमाह - उबुद्धकर्तृशक्तेः पुंसो विषयप्रदर्शननिमित्तम् । विद्यातत्वं सूत्रे प्रकाशरूपं कलेवपा ॥८॥ इति । कलयाभिव्यक्तकर्तृशक्तेः पुरुषस्य विषयानुभ- वार्थ कला विद्यातत्त्वं जनयति । तस्याः प्रकाशरूपत्वेन विषयप्रदर्शनहेतुत्वसम्भव इति । अन्ये तु मायात एव विद्योत्पचि ब्रुवते । तदुक्तं शैवरहस्ये "सुखदुःखमोहवपुपो भोग्या या व्यञ्जिका च सौ बुद्धः। मायात एव विद्या प्रकाशरूपा समुद्भवति ॥" इति ॥ ८॥ तस्या विषयप्रदर्शनप्रकारमाह आवरणं भिस्वैपा ज्ञानाख्यायाः स्वकर्मणा शक्तः। दर्शयति विषयजातं करणं सेहात्मनः परमम् ॥९॥ इति । एषा विद्या वसामयनैव पुद्गलस्य ज्ञान- शक्तस्तिरोधानं सम्भिद्य विपयसमूहं दर्शयतीति सा विचेह संसारमार्गे पशोरात्मनः प्रकृष्टं करणमिति ॥९॥ ननु शब्दादिविषयाध्यवसायो बुद्धिः । अतस्तयैव विषयप्रदर्शने सिद्धे किमर्थ विद्यातत्वपरिकल्पनमित्याश- ड्याह बुद्धिर्यदास्य भोग्या सुखादिरूपा तदा भवेत् करणम् । विधेयं करणं स्याद विषयग्रहणे पुनर्बुद्धिः ॥ १०॥ १. 'स' ग. पाठः- - . तृतीय परिच्छेदः। इति । यदा सत्त्वरजस्तमोगुणात्मिका बुद्धिः सुखदु:- खमोहरूपेण परिणता भोक्तुरात्मनो भोग्या भवति , तदेयं विद्या करणं भवेत् । विषयग्रहणे तु बुद्धिरेव करणं भवि- प्यतीति बुद्ध्याध्यत्रसितमर्थ पुरुषश्चेतयतीति । तदयुक्तं , पुरुषस्य चितेरक्रियात्मकत्वाद् विरुद्धक्रियत्वाञ्चेति । तस्माद् बुद्धयाध्यवसितमशुद्धविद्ययानुभवति पुरुप इति युक्तम्) पुरु- पाद् भिन्नत्वान्मायाकार्यवाचाशुद्धविद्यायाः परिणामादिसंभ- वादिति । न च बुद्धिः स्वप्रकाशामिका कार्यत्वात् सगुणवाद् घटादिवदिति बुद्धेः स्वव्यतिरिक्तप्रकाश्यत्वसिद्धिः । तथा बु- द्विःप्रकाश्या जडत्वाद्, जडा च सा कार्यत्वाद् घटादिवदिति। न च बुद्ध्यन्तरग्राह्या बुद्धिः । तदभावात् । न च वृत्य- न्तरेण तद्ब्रहणम् । चुहेरेकदैव वृत्तिद्वयासम्भवात् । न चा- सुद्धं शुद्धविद्या वेदयतीति । यदशुद्धावेदकं परं तदशुद्धवि- द्याख्यं तत्त्वमिति तत्सिद्धिः । तदुक्तं पारमेश्वरे. "प्रतिपत्त्यागतान् भोगान् क्रमशो व्यूढगोचरान् । भोगभुक् प्रतिजानाति विद्ययात्मनिषण्णया ।। দ্বাৰ: আর্নিকা নাম্বাল দ্বিবিধা। यदा तदात्मवर्तिन्या विद्यया सुनिरूप्यताम् ॥" इति । अशुद्ध चुडितत्वं वेदयतीत्यशुद्धविद्या, अशुद्धा चासौ विद्यति बा, मलादिनाशुद्धस्य क्षेत्रज्ञस्य विद्येति वा तस्याः सिद्धिः शुद्धविद्यातः शुद्धविद्यायाः शिवाव्यतिरिक्तया स्वयम्प्रकाशया परमशक्त्येति शैवसिद्धान्तः । - , १२४ तत्त्वप्रकाशे सन्याख्ये "विद्येयं सर्वभावानामशुद्धार्थप्रदायिका । शिवसहायकुशला विद्यान्या शुद्धगोचरा ॥" इत्याधुक्तत्वात् । तस्या वर्णमिन्द्रगोपनिभम् । तदुक्तं- "विद्यातत्त्वं परं रागादशुद्धं पशुमोहनम् । इन्द्रपोषकसंकाशं क्वचिच्चामीकरप्रभम् ॥" इति । अस्याः पडध्वव्याप्तिः-जकारो वर्णः। ज्योतीरूपाये- त्यादि हे पदेवा नेत्रत्रयाय पञ्चाौँ मन्त्रौ। अशुद्धविद्यालय तत्त्वम् । चण्डक्रोधौ भुवने । प्रतिष्ठा कला ॥१०॥ इदानी रागतत्त्वं निरूपयति- रागोऽभिवतात्मा विषयच्छेदं विनैव सामान्यः। पुरुषप्रवृत्तिहेतुर्विलक्षणो वुद्धिधर्मेभ्यः ॥ ११ ॥ इति । अभिप्वङ्गात्मा रागो विषयमन्तरेण पुरुषप्रवृत्तेः सामान्यो हेतुः। केचिद् रागतत्त्वस्य बुद्धिधर्मत्वमिच्छन्ति । त- निरस्यति-विलक्षणो बुद्धिधर्मभ्य इति । विषयप्रदर्शनहारण पुरुषप्रवृत्तिहेतुभूतो बुद्धिधर्मो रागः । अस्य विषयावभासेन विना पुरुषप्रवृत्तिहेतुत्वाद् बुद्धिधर्मवैलक्षण्यसिद्धिः । मुमुक्षो- विपयतृष्णस्य तत्साधने विषयावभासेन विना प्रवृत्तिर्दृष्टा । अतस्तत्प्रवृत्तिहेतुभूतं रागतवमभ्युपेतव्यम् । तदुक्तं मतङ्ग- पारमेश्वरे- "अथाणोविसृतस्यास्य कलाविद्वस्य वेगतः । प्रवृत्तस्याभिलापेण विद्ययोन्मीलितस्य च ॥ १. 'मा' ग. पाठः २. विद्यार्णी' क. पाठ..

तृतीयः परिच्छेद । १२५ येनासौ रञ्जितः क्षिप्रं भोगभुग भोगतत्परः। रागोऽन्योऽपि परः सूक्ष्मो विशिष्टोऽस्मान्मदात्मकात् ॥ येन नैःश्रेयसे पुंसां प्रवृत्तिरुपजायते । दृश्यते च विरक्तानां नराणां बन्धगोचरात् । आचार्यान्वेषणे रागः शिवमुद्दिश्य सादरम् ।।" इत्यादि । किरणे च "रागरजितचिद्धर्म युक्तश्च त्रिभिर्गुणैः । बुट्यादिकरणानीकसम्बन्धाद् बध्यते पशुः॥" इत्यादि । तस्माद् रागतत्वसद्भावैः सिद्धः । तस्य वर्ण कुकु- माभम् । तदुक्तं "तहाटे रागतत्त्वं तु कुङ्कुमोदरसन्निभम् ।" इति ।अस्य षडध्वव्याप्तिः झकारो वर्णः । परमात्मन्नि- त्यादि दे पदे । शि कवचाय पञ्चा# मन्त्रौ । रागा. ख्यं तत्त्वम् । प्रचण्डादीनि पञ्च भुवनानि । निवृत्तिः कला ॥ ११॥ अथेदानी पुरुषतत्वस्वरूपमाह तत्त्वैरेभिः कलितो भोक्तृत्वदशां यदा पशुतिः। पुरुपाख्यतां तदायं लभते तत्त्वेषु गणनां च ॥१२॥ इति । यदायमीश्वरः एमिः कालनियतिकलाविद्यारा. माख्यैः पञ्चभिस्तत्वैः सम्बन्धात् पशुभावं प्राप्य भोक्तृत्वा. १. 'वसिद्धि', २. निरम्त' न पाठः १२६ - तत्वप्रकाशे सन्याख्ये वस्था प्राप्नोति, तदा व्यक्तादिचतुर्विंशतितत्त्वमये पुरि शय- नात् पुरुषसंज्ञां च लभते, शिवतत्त्वव्यतिरेकेण तत्वेपु गणानां चेति । तस्य वर्णः स्वतः शुद्धः, उपाधितोऽनेकवर्णः । अस्य पडध्वव्याप्तिः-अकारो वर्णः । व्योमिन्नित्यादि वे पदे । म शिखायै पञ्चाणी मन्त्री । पुरुषाख्यं तत्त्वम् । वामादीनि पड् भुवनानि । शान्त्यतीता कला ॥ १२ ॥ इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धाशुद्धविनिर्णयः तृतीयः परिच्छेदः। अथ चतुर्थः परिच्छेदः । अथेदानीमव्यक्तस्वरूपनिरूपणार्थमाह- पुरुषस्य हि भोगार्थ किलैव तस्मात् प्रसूयतेऽव्यक्तम् । अनभिव्यक्तगुणत्वादव्यपदेशं तदव्यक्तम् ॥ १॥ इति । पुरुषस्य मुखाद्यनुभवाय मायातत्त्वादेवाव्यक्त- मुत्पद्यते । अव्यक्तपदप्रवृत्तिनिमित्तमाह --- अनभिव्यक्त- सत्त्वादिगुणवत्वादिदं तत्वमव्यक्तमित्युच्यते । सत्त्वरजस्त- मसां साम्यावस्था प्रकृतिरिति सांख्याचार्या आहुः । अतोऽन- भिव्यक्तगुणत्वमस्य सम्भवति।भूततन्मात्रेन्द्रियमनोहङ्कारयु- डीनामव्यक्तकार्याणां सुखदुःखमोहहेतुतया त्रिगुणात्मक- त्वात् तत्कारणस्याव्यक्तस्य त्रिगुणात्मकत्वसिद्धिः। तस्यै खरूपममतय॑म् । तदुक्तं-- "तहाटे तु भवेदन्यदव्यक्तं तत्त्वमुत्तमम् । अप्रतक्यमविज्ञेयं निर्वाणयद्यस्थितम् ॥” १, 'सि', २. 'स्य रु' ग. पाठः.

चतुर्थ. परिच्छेदः । इति । अस्य पड़ध्वव्याप्तिः -टकारो वर्णः । अरूपिन्नि- त्यादि हे पदे । नं शिरसे पञ्चा! मन्त्रौ । गुणप्रकृत्याख्य तत्वम् । कृताकृतादीन्यष्टौ भुवनानि । शान्तिः कला ॥१॥ गुणतत्त्वं लक्षयति - अव्यक्ताद् गुणतत्त्वं प्रख्याव्यापारनियमरूपमिह । सत्त्वं रजस्तमोऽपि च सुखदुःखं मोह इति च ॥२॥ इति । गुणसाम्यस्वभावादब्यक्ताद् गुणतत्त्वं वैषम्यात्मक जायते । प्रख्याव्यापारनियमरूपं तहत्तिकम् । प्रख्या प्रका- शो ज्ञानं वृत्तिः, सत्त्वगुणस्य निर्मलत्वात् । व्यापारः क्रिया रजसो वृत्तिः, चलत्वात् । नियमो नियमनं वृत्तिस्तमसः, गुरुत्वादिति सत्वरजस्तमोनामकं च सुखदुःखमोहस्वरूपकं च गुणतत्त्वमिति । तदुक्तं सांख्यैः- "सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः। गुरु वरणकमेव तमः प्रदीपवञ्चार्थतो वृत्तिः ॥" इति । अस्य गुणतत्वस्य वर्ण शुक्लरक्तकृष्णात्मकम् । तदुक्तं "तहाह्ये तु भवेदन्यद् गुणावरणसंज्ञितम् । इन्द्रनीलमहारत्लशुद्धस्फटिकसन्निभम् ।। इति ॥२॥ इदानी बुद्धितत्वं निरूप्यते- भवति गुणत्रयतो धीविपयाध्यवसायरूपिणी चेति । सापि त्रिविधा गुणतः प्राक्तनकानुसारेण ॥३॥ - - बास.ग, पाठः, १२८ तत्त्वप्रकाशे सव्याख्ये इति । गुणानां सत्त्वरजस्तमसा त्रयं गुणत्रयं तस्माद् बुद्धिरुत्पद्यते । तस्या लक्षणमाह - विषयाध्यवसायरूपिणी चेति । विषयेषु शब्दादिप्वध्यवसायो निश्चयो रूपं वृत्तिर्यस्याः सा तथोक्ता । चकाराद् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्या- नैश्चर्यात्मनाष्टविधवृत्तिमत्त्वं बुद्धेः सूचितम् । तदुक्तम् - "अध्यवसायो बुद्धिधमों ज्ञानं विरागमैश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥" इति । तन्नाभ्युदयनिःश्रेयसयोर्यो हेतुः, स धर्मः । तत्र कामनापूर्वयागाद्यनुष्ठानजनितो धर्मोऽभ्युदयस्य स्वर्गादिसु. खस्य हेतुः । तद्रहितयागाद्यष्टाङ्गयोगानुष्ठानजनितो धर्मों निःश्रेयसस्य हेतुः । योगलक्षणमुपरिष्टाद् वक्ष्यामः । ज्ञानं सम्यग्ज्ञानम् । तद् द्विविधं-~~-प्रमाणं च स्मृतिश्चेति । अ- नुभूतविषयासंप्रमोपः स्मृतिः । तद्यथा सा मे माता, स मे पिता, तद् गृहमित्यादि हि ज्ञानं पूर्वानुभवजनित. संस्कारमात्रमुद्भवति । सम्यगनुभवः प्रमाणम् । तदुक्तम् । "अनुभूतिः प्रमाणं सा स्मृतेरन्या तु सा स्मृतिः । पूर्वानुभवसंस्कारमात्र ज्ञानमुच्यते ॥" इति । सम्यक्पदेनात्र विकल्पविपर्ययादिव्युदासः क्रियते । अनुमवपदेन स्मरणं व्युदस्तम् । तद् द्विविधम् - तखा- वेदकमतत्त्वावेदक चेति । तत्रात्मानात्मविवेकज्ञानं तत्त्वावे- दकम् । तदुक्तं लैङ्गे- १. मग. पाट. २. 'स्य धर्मो हेस. पाठः, - चतुर्थः परिच्छेदः। , "अव्यक्ताये विशेषान्ते विकारेऽस्मिन्नचेतने । चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥" इति । अनात्मविषयं प्रमाणज्ञानमतत्त्वावेदकम् । तदुक्तं- विद्ये वेदितव्येऽत्र परा चैवापरा तथा । कर्मा(तिदि)विद्या छपरा परा चोपनिषद्गता।" इति । तदेतत् प्रत्यक्षमेवेति चार्वाकः । स्पष्टास्पष्टात्मना द्विविधमित्यार्हताः । प्रत्यक्षानुमानात्मना द्विविधं प्रमाण- मिति बौद्धवृद्धवैशेषिकौ । तत्रागमस्याप्रामाण्याद् द्वैविध्यं बौद्धः :: कल्पितम् । शब्दादीनामप्यनुमानेऽन्तर्भावाद् दैविध्य. मितरो ब्रूते । सशाब्दं चैतत् प्रमाणमिति साङ्ख्यनूतनवै- शेषिकभूषणकाराः । तबयमुपमानसहितं वृद्धनैयायिकः । सा- र्थापत्ति तच्चतुष्कं प्रभाकराचार्यों ब्रूते । साभावं तत्पञ्चक भट्टपादोपनिषदः । ऐतिहासिकपौराणिका ऐतिह्यसम्भवचेष्टा- विरोधसहितं तत्पट्कमाहुः । तदुक्तं "चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द ततं पारमर्षः सहितमुपमया तवयं चाक्षपादः। सार्थापत्ति प्रभाकृद् बदति तदखिलं पञ्चकं तच भाट्टः साभावं हे प्रमाणे दिनपतिसमये स्पष्टतास्पष्टता च ॥"

तत्त्वप्रकाशे मव्याख्ये इति । - , "अन्यथाख्यामुपाश्रित्य सांस्यवच्छिवशासनम्" इति वचनादस्माकं तत् त्रिविधमेव प्रत्यक्षमनुमानमागम इति । परे चाहुः-तचैविध्यमन्द्रियकं लैङ्गिक शाद चेति । अथेन्द्रियसंप्रयोगात् संप्रयुक्तेऽर्थे विज्ञानं प्रत्यक्षम् । विज्ञानं प्रत्यक्षमित्युक्ते विकल्पे व्यभिचारः। तन्निवृत्त्यर्थ- मर्थ इति पदम् । अर्थ जानमित्युक्ते विपर्यये व्यभिचारः । तन्निवृत्त्यर्थ संप्रयुक्त इति पदम् । अनुमानादिव्यवच्छेदा. र्थम् अर्थन्द्रियसंप्रयोगादिति पदम् । तद् द्विविधं -नि- विकल्पकं मविकल्पकं चेति । तत्र नामजात्युल्लेखशून्यं प्र- त्यक्षज्ञानं निर्विकल्पकं , यथा प्रथमाक्षसन्निपातजं वस्तुमा. त्रावभासकं विज्ञानम् । तदुक्तम् - "आस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥" इति । नामादिसम्बन्धोल्लेखि प्रत्यक्षज्ञानं मविकल्पकम् । तद्यथा-देवदत्तेति नामविकल्पः । दण्डी कुण्डलीत्यादयो द्रव्यविकल्पाः । शुक्लः कृष्णो महानित्यादयो गुणविक- ल्पाः । गच्छत्यागच्छति पतीत्यादयः क्रियाश्किल्पाः। म. नुष्यः पशुर्घट इत्यादया जातिविकल्पाः । इति पञ्चविधं सविकल्पकमिति । तत पुनर्हि विधं. -योगिप्रत्यक्षमयोगि. प्रत्यक्षं चति । देशकालस्वभावविप्रकृष्टार्थविषयमपरोक्षज्ञानं योगिप्रत्यक्षम् । तहिपरीतमयोगिप्रत्यक्षम् । तद्यथा शविप्रकृष्टा मर्वादयः । कालविप्रकृष्टा गवणादयः । स्वभा- चतुर्थः परिच्छेदः । वविप्रकृष्टो मूलकारणोन्द्रयादयः । तेषु यदपरोक्षं विज्ञानं योगिनां, तद् योगिप्रत्यक्षम् । इतरस्योदाहरणमुक्तमिति । लिङ्गादुपजायमानं लिङ्गिविज्ञानमनुमानम् । निरुपाधिकसा. ध्यसंवन्धि लिङ्गम् । तत् त्रिविधं पूर्ववत् शेपवत् सामा- न्यतोदृष्टं चेति । कारणेन कार्यानुमानं पूर्ववत्, यथा वि- शिष्टमेघोन्नत्या भविष्यति वृष्टिरिति विज्ञानम् । तदुक्तं न्या- यविह्निः-- "सविद्युतां विदधतां गर्जाडम्बरमम्बरे । घनानामुन्नतिर्दृष्टा न वृष्टिव्यभिचारिणी ॥ त्वङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्त्येते नैवंप्रायाः पयोमुचः ।" तथा- "शिखण्डिमण्डलारव्धचण्डताण्डवडम्बरैः। प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ।।" इति । कार्येण कारणानुमानं शेषवत् । तद्यथा--- नदपूरणे- नोपरिष्टाद् वृष्टयनुमानम् । तदन्यत् सामान्यतोदृष्टम् । तद्य. था -रसाद् रूपविषयं विज्ञानमिति । अपरे दृष्टस्वलक्ष- णसामान्यविषयं पूर्ववत । तद्यथा-धूमादिलिङ्गदर्शनादध्य- क्षयोग्येऽग्नावनध्यक्ष संजायमानं विज्ञानम् । सामान्यतोह- प्टम् अदृष्टस्वलक्षणसामान्यविपयम् । तद्यथा रूपाधुपल- धिः करणजन्या क्रियात्वात् छिदिकियावदितीन्द्रियसाधक- मनुमानम् । इन्द्रियत्वस्यानुमानविषयस्य स्वलक्षणं पूर्व न १. 'टा का', २. ' ग. पाठ.

, १३५ तत्त्वप्रकाश सब्यास्य. प्रसिद्धमिति नास्य पूर्ववत्त्वम्। अनयोरन्वयमुखेन प्रवर्तमान- त्वाद् वीतत्वम् । व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तदेव शेपबदनुमानम् । शिष्यत इति शेपः। स विपयतया- स्त्यस्यानुमानस्येति शेषवदिति। तदुक्तं-प्रसक्तप्रतिपे- धेऽन्यत्रामसङ्गाच्छिप्यमाणे संप्रत्ययः, तच्छेपबदनुमानमिति । तद्यथा-सर्व कार्य सर्वज्ञनिर्मितं, कादाचित्कत्वात् । यद्यत् सर्वज्ञनिर्मितं न भवति तत्तत् कादाचित्कमपि न भवति यथा मायादि। न च तथेदमकादाचित्कम्। तस्मात् सर्वज्ञा- निर्मितमपि न भवतीति। तत् पुनर्द्विविधं स्वार्थ परार्थ चेति। तदुक्तं - "परोपदेशानपक्षं स्वाथै स्वस्थानुमापकम् । परोपदेशसापेक्षं परार्थमभिधीयते ॥" इति । परोपदेशः पञ्चाक्यवं वाक्यम् । प्रतिज्ञाहेतूदाहरणोप- नयनिगमनान्यवयवाः पञ्चति तार्किकाः। प्रतिज्ञाहेतूदाहर- णाख्यात्रय इति मीमांसकाः। उदाहरणोपनयौ द्वाविति चौ- हः । तत्र प्रतिपिपादयिपया पक्षवचनं प्रतिज्ञो, यथाग्नि- मान् पर्वत इति । साधनत्वस्यापकं लिङ्गवचनं हेतुः, यथा धूमवत्यादिति। स त्रिविधः - अन्ययव्यतिरेकी केवलान्व- वो केवलव्यतिरेकी चेति । तत्र पञ्चरूपोऽन्त्रयव्यतिरेकी । रूपाणि तु पक्षधर्मत्वं, सपक्षे सत्त्वं, विपक्षाद् व्यावृत्तिरवाधि- तविषयत्वम् , अमत्प्रतिपक्षत्वं चेति। तत्र साध्यधर्मविशिष्टो ३. 'बावचनं, य' ग. १. 'त्रग. पाठ २. 'कारसा', ४. 'दीन' स. पाठ. पाटा.

चतुर्थः परिच्छेदः । धर्मी पक्षः। तत्र व्याप्यवृत्चित्वं हेतोः पक्षधर्मत्वम् । साध्य- समानधर्मा धर्मी सपक्षः। तत्र सर्वस्मिन्नेकदेशे वा हेतोवृत्तिः सपक्षे सत्त्वम् । साध्यन्यावृत्तधर्मा धर्मी विपक्षः। तत्र हेतो- वृत्तिविपक्षाद् व्यावृत्तिः । प्रमाणाविरोधिनी प्रतिज्ञातार्थे हेतोवृत्तिरबाधितविषयत्वम् । स्वपरपक्षसिद्धावत्रैरूप्यमसत्त. तिपक्षत्वमिति । तद्यथा-~~-क्षित्यादि बुद्धिमत्पूर्व कार्यवाद् घटादिवदित्यादि । पक्षसपक्षवृत्तिरविद्यमानविपक्षः केवला- न्वयी । तद्यथा--विवादास्पदम दृष्टादि कस्यचित् प्रत्यक्षं प्रमेयत्वात् करतलादिवादिति । पक्षवृत्तिरविद्यमानसपक्षो बि- पक्षाद् व्यावृत्तः केवलव्यतिरेकी । तस्योदाहरणम् अवी- तानुमानमिति । तथाहि -विमतं कालादिकं मायातो न भिद्यते मायाकार्यत्वाद्, यत्तु भिद्यते न तन्मायाकार्य, य- था पुरुषशिवौ । (न?)तथा न मायाकार्य कालादि । तस्मान्न मायातो भियते इति । एवं हेतुलक्षणोत्या हेत्वाभासा नि- राकृताः। ते चासिद्धविरुहानैकान्तिकानध्यवसितकालात्यया- पदिष्टप्रकरणसमाः पक्षधर्मत्वादिरूपाभावाद् भवन्ति । तत्रानि. श्चितपक्षवृत्तिरसिद्धः। यथा-शब्दो नित्यश्चाक्षुपत्वादित्यादि। पक्षविपक्षयोरेव वर्तमानो विरुद्धः । यथा -आकाशविशेष- गुणः शब्दः प्रमेयत्वादित्यविद्यमानसपक्षः । क्षित्यादिकाला- न्तं नित्यं कार्यत्वादिति विद्यमानसपक्षः । पक्षत्रयवृत्तिरने- कान्तिकः । यथा नित्यः शब्दः प्रमेयत्वादिति साध्या- साधकः । पक्ष एव वर्तमानोऽनध्यवसितः। तद्यथा नित्या ।

तत्त्वप्रकाशे सव्यास्ये भूः गन्धवत्वादिति विद्यमानसपक्षः । सर्व क्षणिक सत्वादित्यविद्यमानमपक्षः । प्रमाणबाधिते प्रतिज्ञातार्थे वर्त- मानो हेतुः कालात्ययापदिष्टः । शुचि नरशिरःकपालं प्राण्य- इवात् शवदित्यागमविरुद्धः । उलूको दिवा रूपं पश्य- ति, चक्षुष्मत्वादित्यनुमानविरुद्धः । रूपदर्शनाविनाभाविचे- टाभावेन रूपदर्शनाभावानुमानादिति । अनुप्योऽमिः म- थनजन्यत्वाद् नवनीतवदिति प्रत्यक्षविरुद्धः । स्वपरपक्षास- द्धावभिरूपो हेतुः प्रकरणसमः । तद्यथा अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् घटादिवदित्यस्य नित्यः शब्दः पक्ष- सपक्षयोरन्यतरत्वाद् मायावदित्यत्रापि त्रैरूप्यसहावादिति । सम्यग्दृष्टान्ताभिधानमुदाहरणम् । व्याप्तिग्रहणभूमिदृष्टान्तः । तद्यथा यो यो धूमवान् स .सोऽमिमान् यथा महानस इति साधम्योंदाहरणम्, अन्वयमुखेन दृष्टान्ताभिधानत्वात् यस्त्वमिमान्न भवति स.धूमवानपि न भवति, यथा जल- मिति बैधयोदाहरणं, व्यतिरेकमुखेन दृष्टान्ताभिधानत्वात् । अनेनादाहरणाभासा व्युदरताः । तथाच नित्यं मनः मूर्त- त्वाद् यद्यन्मूत तत्तन्नित्यं यथा घट इति साध्यविकलः, य. • थात्मेति साधनविकला, यथा कर्मत्युभयविकलः, यथा खपुष्प- मित्याश्रयहीनः।यन्नित्यं न तन्मूत यथात्मेति साध्यान्यावृत्तः, यथा घट'इति साधनाच्यावृत्तः, यथा मायेत्युभयाव्यावृत्तः । १. 'दम् ।' ख. पाठ:.

चतुर्थः परिच्छेदः। शिवतचाद् न्यूनतया मायाया मूर्तत्वम् । व्याप्तिस्तु स्वकार्य- व्याप्ततयैवोच्यते । यथा खपुप्पमित्याश्रयहीनः, असौ महाराज्य करिष्यति सोमवंशोद्भुतत्वाद् भविष्यद्राजपुत्रवदिति सन्दि- ग्धाश्रय इत्यादि । दृष्टान्ते प्रसिद्धव्याप्तिकस्य हेतोदृष्टान्तोपमा- नेन पक्षे व्याप्तिख्यापकं वचनमुपनयः । तथाचायं धूम- वानिति साधोपनयः । न च नथा धूमवानयं पर्वत इति वैधोपनयः । उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं नि- गमनं तस्मादग्निमानेवेति । तदुक्तं भगवता वेदव्यासेन “पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् । उत्तरोनरवक्ता च ब्रुवतोऽपि वृहस्पतेः ।।" इति । अन्ये तु पक्षधर्मत्वमपक्षेसत्त्वविपक्षाढ्यावृत्त्यात्म- करूपत्रयवानन्वयव्यतिरेकी । पक्षादिलक्षणे च सन्दिग्ध- साध्यः पक्षः। सन्देहश्च विप्रतिपत्तेः । निश्चितसाध्यः सपक्षः । निश्चितसाध्यव्यतिरेको विपक्ष इत्यतोऽग्न्यनुप्णतासाधकस्य कृतकत्वस्य विपक्षाड्यावृत्तिस्पाभावेनागमकतया बाधित- विषयत्वस्य विपक्षायावृत्तावन्तर्भावः । स्वपरपक्षसिद्धावेच स्य त्रैरूप्यासंभवादसत्प्रतिपक्षत्वरूपाभावः । पक्षसपक्षयो- रन्यतरत्वस्य चैकस्यासंभवान् । तदुक्तं- "यच्चानुमेयसंबन्धं प्रसिद्धं च तदन्विते । तभाये च नारत्येव तल्लिङ्गमनुमापकम् ॥ १. 'ण', २. 'वात् । खक पाठ.

तत्वप्रकाशे सन्याख्ये विपरीतमतो यत् स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥" इति । एवं केवलान्वयी च रूपहयवान् विपक्षाद्यावृत्ति- रूपाभावात् । व्यतिरेकी च तथा, सपक्षाभावेन सपक्षे सत्त्वरूपाभावादिति मन्यन्ते इति । शब्दजन्यं सम्यग्ज्ञा- नमागमः । स हिविधः पौरुपेयवाक्यजन्योऽपौरुपेयवा- क्यजन्यश्चेति । तत्र तन्नेतिहासपुराणमन्वादिवाक्यानि पौ- रुपेयाणि । वेदवाक्यान्यपौरुषेयाणीति । ननु वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् भारतादिवाक्यवदित्यनुमानात् तेषां पौरुषेयत्वसिद्धिरिति चेत् । नैवम् । "तस्मै नूनमभिद्यवे वाचा विरूप! नित्यया" इत्यागमेन चेदनित्यत्वसिद्धरस्य कालात्ययापदिष्टत्तयाप्रा- माण्यात्। "प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे । एकोऽहं संस्थितो देवि! न द्वितीयोऽस्ति कुत्रचित् ।। सस्मिन् वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिताः । ते नाशं नैव सम्प्राप्ता मच्छक्तया ह्यनुपालिताः॥" इति लैङ्गागमविरोधाच्चेति । न च प्रत्युच्चारणं वेदस्योत्प- त्तिनाशोपलम्भाद् अनुपपन्नं तन्नित्यत्वमिति वाच्यम् । उच्चारणाया अभिन्यजकत्वेन तदुभयाभावात् । तच्च चतुर्यः परिच्छेदः । स एवायं वेद इति स एवायं स्तम्भ इतिवत् प्रत्यभिज्ञामत्य- क्षेण प्रागपीदानीमुपलभ्यमानस्य वेदस्य सत्यावगमादव- गम्यते । न च प्रलयावस्थायां वेदधारणसमर्थपुरुषाभावेन वेदस्य विनाशे पुनः सर्गादौ वेदानां परमेश्वरैरचिते तत्वे)- नानित्यत्वमिति वाच्यम् । द्विजातीनां वेदधर्तृणामभावेऽपि परमेश्वरस्य वेदधर्तुः सद्भावात् । तथाहि--सर्गादाबुत्प- नस्य वेदस्य यावालयमवस्थानं वैशेषिकादिभिर्वेदानित्य- त्ववादिभिरभ्युपगम्यते । ततस्तत्र न विवादः । प्रलयकाले तु सझावः साध्यते । तथाहि-प्रलयकालो वेदवित्पुरुष- समन्वितः कालत्वादितरकालवदिति । न च भूभूधरादिस- त्वमपि तेनैव न्यायेनानुमातुं शक्यत्वादतिप्रसङ्ग इति बा- घ्यम् । भूभूधरादिशून्यकालस्य प्रलयत्वेन तस्य तद्वत्तासा- धने माता मे वन्ध्येतिवत् प्रतिज्ञाविरोधप्रसङ्गात् । एकत्र- राण्डवतिसकलवैदिकपुरुषविनाशेऽपि ब्रह्माण्डान्तरवर्त्यन- न्तवैदिकपुरुषसहावाच वेदनित्यत्वम् । ब्रह्माण्डान्तराण्य- प्येतवेदवन्ति ब्रह्माण्डत्वात् संप्रतिपन्नवदिति सर्वत्र वे- दैकत्वम् । वेदानित्यत्वपक्षेऽनन्तशाखाविततानन्तवेदजन- ननाशतत्कारणकल्पनायां कल्पनागौरवप्रसङ्गः । नित्य- 'त्वे तु सिद्धस्य वेदस्य नित्यत्वमानकल्पनाया लाघवान्न क. श्चिद् दोष इति । तथा वेदकर्तुरसम्भाञ्च न वेदपौरुषेयत्नम्। तथाहि-नेश्वरः कर्ता वेदस्य । पूर्ववेदपरित्यागे कार- णाभावात् । न च पूर्वकल्पे वेदाभाव इति वाच्यम् । १. 'रवि' ख, ग. पाठः. २. 'दोषप्र', ३. 'बा' क. पाठः. - २ T सत्त्वप्रकाशे सन्यास्स्ये पूर्वकल्पे वेदसद्भावस्यानुमानसिद्धत्वात् । तथाहि-पूर्वः सर्वोऽपि कल्पो वेदवैदिकयुक्तः कल्पवादिदानीन्तनकल्पव- दिति । न चेदानीन्तनकल्पवदेव भावानामद्यतनानामपि कल्पान्तरे सद्भांवानुमानादतिप्रसङ्ग इति वाच्यम् । प्रमा- णाविरुद्धभावसहावस्येष्टत्वात् । तदुक्तं भगवता मनुना--- "यथा)प्वतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा 'ब्रह्मा हरादिपु ।" इति । तस्मादपौरुषेयो वेदराशिरिति सिद्धम् । वेदाः प्रमाणम् अनाप्तकृतशब्दत्वात् सम्प्रतिपन्नवत् । विमतं वेदाध्ययन तद्वेदाध्ययनपूर्वकं वेदाध्ययनत्वाद् इदानीन्तनवेदाध्ययन- वदिति। उपमोपमानम्।गोसदृशो गवय इति वाक्यं तवनितं या विज्ञानं यापमानं, तदागम एव न प्रमाणान्तरम् । यो- ऽयमस्य मोसशस्य गवयशब्दो वाचक इति संज्ञासंज्ञि- संबन्धविषयः प्रत्ययः, स चानुमानमेव । तथाहि --- गोस- दृशस्यास्य गवयशब्दो वाचकः, तत्र वृद्धः प्रयुज्यमानत्वात् । यो हि शब्दो यत्र वृद्धः प्रयुज्यते, सोऽसति वृत्त्यन्तरे तस्य वाचकः । यथा गोशब्दो गोत्वे प्रयुज्यमानस्तस्य वाचकः। तथा प्रयुज्यते चायं गवयशब्दो गोसदृशे । तस्मात् तस्य वाचक इति ज्ञानमनुमानान्न भिद्यत इति । यश्च प्रत्यक्षे ग- बये गोसादृश्यप्रत्ययः, सोऽक्षसंयोगजत्वात् प्रत्यक्षान्तर्भूतः । तथैव प्रत्यक्षमेव स्मर्यनाणायां गवि गवयसादृश्यज्ञानम् । * 'मावा युगादिपु इति देवताधिकरणस्वमारमाश्यपाटः ।

चतुर्थः परिच्छेदः। तस्यैकतया प्रत्यक्षगम्यत्वाविरोधात् । तथाहि- भूयोवय- वसामान्ययोगो जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते तस्यैकतया गवये प्रत्यक्षगम्यस्य गोस्मरणानन्तरं गविप्र- त्यक्षत्वाविरोध इति पूर्ववन्निर्विकल्पकानुभूतत्वेन स्मर्यमाणं वा गवि गवयसादृश्यमिति नोपमानवेद्यं किशिदरतीति न प्रमाणान्तरमिति । एवं जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य प्रमाणान्तरानवगतस्य परिकल्पनात्मिकार्थाप- चिरपि न प्रमाणान्तरम् , अनुमानत्वात् । सदेव यदेकत्र नास्ति, तदन्यत्रास्ति । सन्नेवाव्यापको यदेकत्रास्ति, तद- न्यत्रास्तीति स्वशरीर एव व्याप्तिग्रहणसंभवात् । तथाच दे- बदचो बहिर्देशसंवन्धी सत्त्वे सति गृहेऽविद्यमानत्वात् च- हिःस्थवृक्षादिवदिति गृहाभावे लिङ्गेन बहिर्भावज्ञानमनुमा- नमेवेति । न च सत्त्वमात्रावेदकगृहासत्त्वावदकप्रमाणयोः ज्योतिःशास्त्रप्रत्यक्षयोः परस्परविरोधादेकं विषयव्यवस्थया- र्थापत्तिरिति वाच्यम् । अनवच्छिन्नावच्छिन्नयोः सत्त्वमात्रगृ- हासस्वयोर्विरोधाभावेनाविरोधापादनासंभवात् । नहि यत्र कचन सत्त्वस्य गृहासत्वेन विरोधः संभवति । भिन्नविषय- स्वात् । न च निश्चितो गृहाभावः पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षिप्यते, प्रबलत्वादसत्त्वस्य । न च देश- सामान्येन पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् गृहाभावः स- वमानं प्रतिक्षेतुं सांशयिकस्वं वा नेतुं शक्नोति । तस्य तत्रौदासीन्यादिति । सत्त्वमात्रगृहासत्त्वयोविरोधाभावादवि- - २ तत्त्वप्रकाशे सन्याख्ये रोधापादनं नार्थापत्त्या क्रियत इति न सा प्रमाणान्तर- मिति । न च भावान्तरादन्योऽरत्यभावः, यत्सिद्यर्थमभा- वाख्यं प्रमाणमाश्रीयेत । नहि भूतलपरिणामविशेपात् कैव- ल्यलक्षणादन्यो घटाभावो नाम । प्रतिक्षणपरिणामिनो हि सर्वे भावा ऋते चितिशक्तः परमेश्वरादिति स परिणामभेद इन्द्रियसिद्ध इति । अथवा भवतु भावान्तराद् व्यतिरिक्तो- भावः । तथापि प्रत्यक्षादिप्रमाणसिद्धत्वात् तत्सिद्ध्यर्थ न प्रमाणान्तरमभ्युपगन्तव्यम् । तथाहि-चक्षुर्विष्फारणान्व- यव्यतिरेकानुविधानादिह भूतले घटो नारतीत्यभावज्ञानस्यै. न्द्रियकत्वम् । तथा बहिःस्थत्वेन घटादीनां गृहासत्वं स्व- शरीरवनुमीयते । तथा भारतपुरुषाणामभावो भारतागमे. नावगम्यत इति । तस्मान्नाभावाख्यं प्रमाणान्तरमस्तीति । सम्भवस्तु खार्या द्रोणाढकप्रस्थावगमः । स चानुमानं , खा- रीत्वस्य द्रोणादिव्याप्ततया तेन तदनुमानादिति । यच्चा- निर्दिष्टप्रवक्तृकं प्रवादमात्रमिति होचुर्वृद्धा इलैतिचं, यथेह वटे यक्षः प्रतिवसतीत्यादि, इदं न प्रमाणान्तरम् । आप्तोक्त्यनिश्चयेन सांशयिकत्वात् । आप्तवक्तृनिश्चये त्वा- गम एवेति न प्रमाणान्तरमिति । चटा चाभिनयः । स च समयरलेन परोक्षानुभवसाधनत्वादागम एवेति न प्रमाणा- न्तरमिति । एवं विरोधोऽपि । इदमध्यऽन्यभावज्ञानं तदनु- मानमेव । जलाग्न्योः परस्परविरुद्धयोरेकनासम्भवेनेतरेतरा- भावव्याप्तत्वादिति त्रीण्येव प्रमाणानीति । तदुक्तं- १. 'नाद् ना', २. 'ति' स. पाठ, - -- चतुर्थः परिच्छेद । "दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । निविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि । प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिभिपूर्वकमाप्तश्रुतिराप्तवचनं च ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् ॥" इति । ऐहिकामुत्रिकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यं न रागाभावः । तदैहिकामुत्रिकविषयाणामनित्यत्वसातिश- यत्वादिदोषदर्शनादुपजायत इति । अविघातकरणमैश्वर्यम् । तदष्टविधम् --- "अणिमा माहमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥ तत्राणुत्वमणिमा परमाणुवदवस्थानम् । महत्त्वं महिमा याव. दिच्छं स्थूलीभावः । लघिमा लघुत्वं , यतः सूर्यमरी- चीनालम्ब्य सूर्यलोकं गच्छति । गुरुत्वं गरिमा अन्यैरचाल्य- त्वेनावस्थानम् । ईशित्वमीशभावः भूतभौतिकानां प्रभ- वादिहेतुत्वम् । वशित्वं वशीकरणभावः सर्वस्य स्वेच्छावश- वर्तित्वम् । प्राप्तिः प्रापणं, येनामुल्यग्रेण स्पृशति चन्द्र- मसम् । प्राकाम्यमिच्छानभिघातः, भूमौ चोन्मज्जति नि- मज्जति यथोदक इति। सत्यसङ्कल्पतेत्यपरे । यथास्य सङ्कल्पो भवति, तथैव भूतानि भवन्तीति । अस्मदादीनां निश्चयाः " - १. 'श्य' क. पाठ तत्त्वप्रकाशे सव्याख्ये प(रा ? दार्थानुरूपाः, योगिनां तु निश्चयानुविधायिनः प. (रा ? दार्था इत्येतच्चतुष्कं समासतः सात्त्विकं, मत्वादुत्पन्नं रूपमिति । चत्वारस्तामसाश्च विपरीताः अधर्माज्ञानावै. राग्यानैश्वर्याभिधाना इति । तामसारतमस उत्पन्नाः । अघ. मोऽनभ्युदयानिःश्रेयसहेतुः । अज्ञानं ज्ञानविपर्ययः, अस- म्यग्ज्ञानमिति यावत् । तत् त्रिविधं-विपर्ययो विकल्पो निद्रा चेति । विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठं शुक्ति- कादौ रजतादिज्ञानम् । शब्दज्ञानानुपाती वस्तुशून्यो विक. ल्पः। तद्यथा-शशविपाणादिशब्दश्रवणानन्तरं तदर्थविष- यज्ञानमिति जाग्रत्स्वप्नप्रत्ययाभावहेतुतमःप्रकर्षमवलम्व्य या बुद्धिवृत्तिरुद्भवति, सा निद्रा। तदुक्तं पतञ्जलिना भगवता- "अभावप्रत्ययालम्बना निद्रा" इति सूत्रेण । अवैराग्यं च दृष्टानुश्रविकविपयरागः । अणिमादिप्रादुर्भावविरोधी बुद्धिध- मोऽनैश्वर्यमिति । अन्ये तु परमेश्वरतत्त्वावेदकं ज्ञानं तदन्यद- ज्ञानमिति ध्रुवते । एतदुक्तं सायैः- - "धर्मेण गमनमूर्ध्व गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिप्यते बन्धः ।। वैराग्यात् प्रकृतिलयः संसारो राजसाद् भवति रागात् । ऐश्वर्यादविघातो विपर्ययात् तद्विपयोसः ॥" इति। विपयाध्यवसायरूपिणीत्यनेन बुद्धः सदावश्च प्रतिपा- दितः । तथाहि-विषयाध्यवसायादिवृत्तेः परिदृश्यमानाया - चतुर्थः परिच्छेदः । मूलभूतं वृत्तिमहुद्धितत्त्वमभ्युपगन्तव्यम् । अन्यथा वृत्त्य- भावप्रसङ्गादिति । तदुक्तं पारमेश्वरे - "अथ बुद्धेविकासो यः स्वधर्मेणानुमीयते । क्षुब्धेभ्यः सहसा पूर्व गुणेभ्यो भूतगोचरा ॥ बुद्धिरध्यवसायेन भावानां जननी शुभा । वर्ण्यतेऽएगुणोपेता संविभज्य यथाक्रमम् ।।" इत्यादि । तस्या विभागमाह सापि त्रिविधेति । सो - डिस्त्रिप्रकारा । कुत इत्यत आह. गुणतः प्राक्तनकर्मा- नुसारेणेति । पुरुषस्य पूर्वजन्मनि कृतपुण्यापुण्यात्मककर्मानु सारेण गुणभेदादिति । तदुक्तं- "बुद्धिः कर्मानुसारिणी" इति । तथाहि --- पुण्येनैकेन सात्त्विकी बुद्धिरपुण्येन तामसी मिश्रेण राजसीति । तथा जाग्रत्स्वप्नसुपुप्त्यात्मना च कर्मा- नुसारेण गुणभेदात् त्रिविधा बुद्धिरिति वा । तथाहि--- स्थू- लकर्मनिमित्वं सात्त्विकी बुद्धिर्जागर्ति । सूक्ष्मकर्मवशाद् रा- जसी स्वप्नं गच्छति । जाग्रत्स्वप्नवृत्त्यभावहेतुभूततमःप्रकर्ष- मवलम्बमाना बुद्धिः सुपुप्तिमुपगच्छति । विश्रमार्थमात्मनः सर्वदैकस्वभावस्य सर्वगतस्य चिन्मात्रस्य जायत्स्वप्नसुषुप्ति- साक्षिणो जाग्रदादित्रयाभावाद् बुद्धेविकारवतोऽवस्थात्रयवत्व- मिति । तस्या वर्णमादित्योदयनिभम् । तदुक्तम् --- "अहङ्कारस्य बाह्येऽपि बुद्धितत्त्वं व्यवस्थितम् । आदित्योदयसंकाशं चोघयन्तमिवाखिलम् ।।" १. 'क्षयेभ्यः क. पाठः २. 'सापि बु', ३. 'ण भै स. पाठः, १११ -- तत्त्वप्रकाशे संव्याख्ये इति । तस्याः पडध्वव्याप्तिः-ठकारो वर्णः। तेजस्तेज इत्यादि दे पदे । तारहदयपश्चार्णमन्त्रः । धुयाख्यं तत्त्वम् । पैशाचाद्यष्टभुवनानि । विद्या कला ॥ ३९ ॥ इदानीमहंकारतत्त्वं निरूपयति स्यात् त्रिविधोऽहंकारो जीवनसंरम्भगवरूपोऽयम् । संभेदादस्य सतो विपयो व्यवहार्यतामेति ॥ ४०॥ इति। वुद्धितत्त्वादहंकारात्मकं तत्त्वमुत्पद्यते।अहंकृ- तिरहङ्कारः। अमित्येवंरूपन्यापारवानित्यर्थः । विभागमाह- त्रिविध इति । केन रूपेणेत्याशङ्कयाह-जीवनसंरम्भगर्व- रूपोऽयमिति । जीवनाहङ्कारः संरम्भाहङ्कारो गर्वाहङ्कारश्चेति । तत्र जीवामीत्याकारो जीवनाहङ्कारः। अहं करोमीति संर- म्भाहङ्कारः। प्रबलोऽस्मि रूपवानित्यादि गर्वाहङ्कारः । एतानि रूपाणि यस्य स तथोक्त इति । प्रमाणमाह संभेदादि- त्यादि । अहङ्कारसंबन्धाच्छब्दादिविषयो व्यवहार्यतामनुभ- चाहतां यातीति । तथाहि आत्मा तावन्निर्गुणो निष्क्रि- यश्चिन्मात्र उदासीनस्वभावः । तस्मादसी न शृणोति, न च पश्यति, न च वक्ति, न च करोतीत्ययमहङ्कारः श्रोत्रा- दिकृतश्रवणादिकं वागादिकृतवचनादिकं बुद्धिकृताध्यवसा- यादिकं चित्तकृतसंशयादिकं चाहं शृणोमीत्यादिभिरहं बच्मी- त्यादिभिरहमध्यय(स्यास्यामि) इत्यादिभिश्च वृत्तिभिरात्मनि साक्षिणि संघनाति । तेनाहकारख्यं तत्त्वमभ्युपगन्तव्यम् । १. 'अ' ग. पाठ चतुर्थ परिच्छेद । १४५ अन्यथा देवदत्तकृतस्य यज्ञदत्त इव श्रोत्रादिकृतस्य श्रव- णादेरात्म(नि)संवन्धाभावप्रसङ्ग इति । तदुक्तं शैवरहस्ये. "संवन्धप्रतिभासो ज्ञातुज्ञेयेन देशकालाभ्याम् । सुलभोऽभिमाननामा व्यापारोऽहङ्क्तेरस्याः ।।" इति ॥ ४॥ तस्यैव प्रकारान्तरेण त्रैविध्यमाह- सात्विकराजसतामसभेदेन स जायते पुनस्त्रेधा। स च वैकारिकतैजसभूतादिकनामभिः समुच्चसिति ॥ इति। सत्त्वरजस्तमोविकारतया सात्त्विकराजसतामस- भेदवानहङ्कारस्त्रिविधो भवति । स पुनरहङ्कारो वैकारिकतै- जसभूतादिकनामभित्रिविधो भवतीति । सत्त्वोद्वितः सा- त्विको बैकारिकाख्यः रजोद्रिक्तस्तैजसः केचिद् बैपरीत्यमि- च्छन्ति, स च तैजसबैकारिकभूतादिकेति ग्रन्थपाठयेत्याहुः । तमोद्रिक्तस्तामसः। स भूतादिनामेति गुणतो नामतश्च त्रैवि- ध्यमहङ्कारस्य भवतीति ॥ ५॥ कार्यमाह- तेजसतस्तन्न मनो वैकारिकतो भवन्ति चाक्षीणि । भूतादेस्तन्मात्राण्येषां सर्गक्रमोऽयमेतस्मात् ॥ ६ ॥ इति । एतस्मादेव त्रिविधादहड्वाराद एपा ज्ञानकर्मे- न्द्रियतन्मात्रमनसां पोडशानां सर्गः। किमात्मकान्मनस उत्पत्तिः, किरूपादिन्द्रियाणां, कथंभूतात् तन्मात्राणामित्या- १. क. पाठ. - U तत्त्वप्रकाश सन्यान्य शङ्कय तेपामुत्पत्ति विभागेनाह-तैजसत इत्यादि । तैजसा- ख्यादहङ्काराद् राजसाञ्चलस्वभावं मन उत्पद्यते, वैकारिकात् सात्त्विकात् प्रकाशलाघयोपेतमिन्द्रियदशकम् । भृतादेस्ताम- सात् तमोबहुलानां तन्मात्राणामुद्भव इति । तैजसात् सात्त्वि- कात् स्वच्छं लघूत्पद्यते मन इत्यन्ये। सात्त्विकसहकृताद् वैका- रिकाद् राजसाद् बुद्धीन्द्रियाणामुत्पत्तिः, ज्ञानसाधनत्वात् । तामससहकृताद् वैकारिकात् कर्मेन्द्रियाणामिति । सांख्याः सात्त्विकादेवाहङ्कारादेकादशेन्द्रियाणां, तामसात् तन्मात्राणा- मुत्पत्तिं मन्यन्ते । सत्त्वतमसोनिष्क्रियतया स्वयमुत्पादना- सामाञ्चलस्वभावेन रजसा प्रेरितयोस्तयोः कारणत्वमि- त्युभयमपि रजसा निमित्तेनोत्पद्यत इति न तु तस्योपादा- नत्वं, तत् सत्त्वतमसोरेवेति ब्रुवते । तथाहि- "साविक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥" इति । एषां सर्गक्रमोऽयमेतस्मादित्यनेन पुनरक्तेन पञ्चभूतेभ्यः पञ्चानां बुद्दीन्द्रियाणामुहवं तार्किकाद्यभिमतं निरस्यति । तथाहि - "घाणरसनचक्षुस्त्वक्श्रोत्रेन्द्रियाणि भूतेभ्यः" इति न्यायसूत्रम् । 'भूतानां वायैकैकेन्द्रियग्राह्यविशेषगुणव- वेन्द्रियप्रकृतित्वे साधर्म्यमिति प्रशस्तपादीयं वैशेषिकभाप्यं च पृथिव्यादिभ्य इन्द्रियाणां प्राणादीनां शब्दादीनां च स- मुहवमभिधत्ते । मनश्च नित्यमिति तार्किकमीमांसका आहुः । , १. 'लम' क. पाठ..

तुः परिच्छेदः।
तदेतदागमविरुहत्वादनुपपन्नम् । तथाहि-पारमेश्वरे ता.
वत,
..
"सत्त्वधर्मस्त्रिधा तावदहंकारस्य सुत्रता ।
बैकारिकरतैजसश्च भूतादिश्चेति स विधा ।।
सत्त्वेनोत्कृष्टवीर्येण गर्यो वैकारिकः स्मृतः।
रजसा भूरिसंपृक्तस्तैजसः परिकीर्तितः ।।
भूतादिस्तमसोत्कृष्टस्तेषां वक्ष्यामि वृत्तयः ।
वैकारिकोऽक्षसेनायाः कारणं योनिरुच्यते ।।
• मिथुनाजायते गर्वान्मनश्चैवोभयात्मकम् ।
तस्माद् वैकारिकादेव गर्वात् कर्मेन्द्रियाण्यपि ॥
व्यक्तिमायान्ति संक्षोभात् सिसक्षोः कारणात्मनः ।
भूतादेरप्यहङ्कारात् तन्मात्राणि भवन्ति हि ॥"
इत्यादि ।
शिवधर्मोत्तरे च
"प्रधानादभवद् बुद्धिर्जगहेतुः शिवेच्छया ।
बुद्धेरपि च संक्षोभादहङ्कारखिधाभवत् ।।
अहङ्काराच सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ।"
इति । अनुमानाच्च । तथाहि-विमतानीन्द्रियाणि भौति.
कानि न भवन्ति इन्द्रियत्वान्मनोवादिति । अनित्यं मनः
इन्द्रियत्वाच्चक्षुरादिवत्, सर्वाणीन्द्रियाणि जन्यानि आत्ममू-
लकारणव्यतिरिक्तवस्तुत्वान्मूलकारणातिरोकेजडत्वात् सगु-
१. 'क', २. नि म ग पाठ.
-

- तत्त्वप्रकाशे सव्याप्ये णत्वान्मूर्तत्वाडा घटादिवदित्याद्यनुमानादभौतिकत्वकार्यत्व- - सिद्धाविन्द्रियाणां कारणापेक्षायामागमवलादहङ्कारस्य कार- णत्वमाश्रीयत इति । अत एव नाहङ्कारिकाणीन्द्रियाणीन्द्रिय- स्वान्मनोवदित्यनुमानस्य कालात्ययापदिष्टत्वात् साध्यवैकल्या- च्चाप्रामाण्यमिति | तथा पृथिव्यतेजोवायवो गन्धरसरूपरपर्ची- पादाना न भवन्ति भूतत्वाद् व्योमवत् , व्योम च न श- ब्दोपादानं भूतत्वात् पृथिवीवदिति, शब्दादीन्युपादानकार- णवन्ति कार्यत्वात् , कार्याणि च मूलकारणातिरि(क्तक्तानि) जडत्वाद् घटादिबद् इत्यनुमानाद् भूतव्यतिरिक्ततदुपादाना- हङ्कारसहावसिद्धिः । तस्य वर्ण पाचकनिभम् । तदुक्तं- "तद्वाह्ये तु भवेत् तत्त्वमहङ्काराख्यमव्ययम् । दीप्तपावकसंकाशं भीमरूपं दुरासदम् ॥" इति भस्य पडध्वव्याप्तिः-धकारो वर्णः । अरूपेत्यादि हे पदे। ईशानपश्चा# मन्त्रौ । अहङ्काराख्यं तत्त्वम् । छगल ण्डहिरण्डौ? भुवने । प्रतिष्ठा कला ॥ ६ ॥ अथ मनःपूर्वाणामिन्द्रियाणां स्वरूपमाह इच्छारूपं हि मनो व्यापारस्तस्य भवति सङ्कल्पः । बुधाक्षाणि श्रोत्रं त्वग् दृग् जिह्वा च नासा च ॥ इति। इच्छारूपं प्रार्थनारूपं, मन इति । व्यापारः यू- चिस्तस्य मनसः सङ्कल्पः अनिर्धारितविशेषरूपः संशयरूप- इति यावत् । अनेन लक्षणमुत्तम् । सहायश्च संशयात्मि- १. ग. ग. पाठ.

चतुर्थः परिच्छेदः । कया वृत्त्या वृत्तिमतोऽनुमानादिति । तथा चक्षुरादिकरणस: म्बन्धेष्टविषयेषु युगपज्ज्ञानानुत्पादनाच्चक्षुरादिव्यतिरिक्तं कर. णान्तरमस्तीत्यवगम्यते । यदि तन्न स्याद् युगपट्टपादिज्ञानं जायेत । अतः करणान्तरमस्तीति तन्मन इति तत्सिद्धिः । तस्याणुकल्पत्वं त्वयुगपद् ज्ञानादेवावगम्यत इति विभुत्वानु- मानं कौमारिलोक्तं धर्मिग्राहकप्रमाणविरुद्धत्वादप्रमाणमिति । बुद्ध्यक्षाणि बुद्धिवृत्तिसाधनानीन्द्रियाणि । कानि तानीत्यत आह श्रोत्रं त्वग् ग् जिह्वा च नासा चेति ॥ ७ ॥ तेषां विषयमाह ग्राह्यास्तेषां शब्दः स्पशों रूपं रसश्च गन्धश्च । इत्येतेषां विषयाः क्रमेण पश्चापि पञ्चानाम् ॥ ८॥ इति । बुद्धीन्द्रियाणां श्रोत्रादीना पञ्चानामेते पञ्च शब्दादयो विषया यतो ग्राह्या,अतस्ते विषयाः। तान् क्रमेण दर्शयति-शब्दः रपर्शो रूपं रसश्च गन्धश्चेति ॥ ८॥ वुद्धीन्द्रियाणां स्वरूपं चाह- शब्दादीनां ग्रहणं व्यापारः कीर्तितः क्रमादेषाम्। वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि स्युः ॥ ९ ॥ इति शब्द आदियेषां ते शब्दादयः तेषां ग्रहणं तदा- कारभजनम् एषामिन्द्रियाणां व्यापारः उक्तः, तत्चरित्यर्थः। क्रमादित्यन्यस्यान्यग्रहणं न संभवति। अनेन लक्षणमुक्तंप्रत्येक - १. 'स्य' ग. पाठ.

तत्त्वप्रकाशे सव्याख्ये श्रोत्रादीनामिति परीक्षापरं चेदं वाक्यम्। तथाहिं—शब्दग्रहणं करणजन्यं क्रियात्वात् छिदिक्रियावदिति श्रोत्रसद्भावसिद्धिः। एवं स्पर्शरूपरसगन्धग्रहणकरणतया त्वगादीन्द्रियसिद्धिरव- गन्तव्या । तथाहि-वर्णावात्मना द्विविधशब्दग्रहणं श्रोत्रेण करणेन विना नोपपद्यते । बधिरस्य तद्ब्रहणादर्श- नात् । एवं शीतोष्णमृदुकठिनद्रवतीक्ष्णादिस्पर्शग्रहणं च त्वगिन्द्रियेण विना न स्यात् । त्वग्दोपदूषितस्य तदनुपल- म्भात् । तथाहि-श्वेतरक्तकृष्णपीतहरितधूम्रश्यामहूस्वदी. र्यादिभेदेभिन्नरूपग्रहणं चक्षुः करणं विना न संभवति । अ- न्धस्य तद्दर्शनासंभवात् । एवं मधुराम्लतिक्तलबणकटुकपा- यात्मना पड्डिधरसग्रहणमपि तत्पवर्तकरसनकरणेन विना न स्यात् । जाड्योपप्लुतरसनेन्द्रियवतस्तदैनगमात् । तथा सुरभ्यसुरम्यात्मना द्विविधगन्धग्रहणं च तत्करणनासिकाक- रणं बिना न संभवति । अघार्तृत्वदूषितेन्द्रियस्य तदनुपल- व्धेरिति ॥ ९ ॥ कर्मेन्द्रियाणि वाक्पाणिपादपाय॒पस्थानीति पञ्च भ- चन्ति । तेपां व्यापारमन्तःकरणानां विभागं चोत्तरश्लोके. नाह वचनादानविहरणोत्सर्गानन्दाश्च कर्मयाम् । अन्तःकरणं निविधं बुद्धिरहंकारचेतसी चेति ॥१०॥ १. 'म्। प'ग. पाठ'. २. 'दम' ख. पाठः. ३. 'दव' क. पाठ.. ४. 'ल' म्व. पाठ.

चतुर्थः परिच्छेदः। इति । एषा कर्मसाधनतया कमेन्द्रियाणां वचनादीनि कर्माणि । परीक्षार्थ चेदं वाक्यम् । तथाहि-शब्दोच्चारणान्य थानुपपत्त्या तत्करणभूतवागिन्द्रियसझावोऽवगम्यते । न च तदधिष्ठान वागिन्द्रियमिति वाच्यम् । मूकस्यापि शब्दोच्चा- रणप्रसङ्गादिति। एतदिन्द्रियान्तरेप्वप्यवगन्तव्यम् । अन्यथा कोण्यपङ्गुत्योदावर्तक्लैब्यात्मकेन्द्रियवतः आदानादिप्रसङ्गात् । तदुक्तं सांख्यैः "वाधिर्य कुष्ठितान्धत्वं जडताजिप्रता तथा । मूकता कोण्यपनत्वं क्लैब्योदावर्तमन्दताः ।" इति । तस्मादधिष्ठानातिरिक्तानामतीन्द्रियाणामिन्द्रस्यात्म- नश्चिह्नत्वेनेन्द्रियशब्दवाच्यानां सद्भावः सिद्ध इति । बिम- तानीन्द्रियाण्यतीन्द्रियाणि इन्द्रियत्वान्मनोयदिति च तेषा- (मि मती)न्द्रियत्वसिद्धिरिति । आभ्यन्तरं करणमन्तःकरणं त्रिविधं केन रूपेणेत्यत आह --बुद्धिरहंकारचेतसी चेतीति। बुद्धिरहङ्कारो मनश्चेति । अथवा अन्तःकरणमेकैकं निविधं भूतभविष्यवर्तमानविषयभेदात् । तदुक्तं मातङ्गे- "यदन्तःकरणं नाम निकालविषयात्मकम् । यतोऽवसीयते तस्माचिरकालानुसश्चितम् ॥ वर्तमानमतीतं च यच्चेष्यमनुमानतः 11 इति । तथा साङ्ख्यैश्च - "साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्" इति ॥ १० ॥ १. 'यं मतम्' स. ग. पाठ..

- तत्त्वप्रकाशे सत्र्यास्ये बाह्यकरणभेदं तन्मात्रवृत्तिं चाह -- बुद्धीन्द्रियकर्मेन्द्रियभेदाद वाह्यं पुनर्दशधा । तन्मात्रेभ्यः खपवनतेजोम्भमेति पञ्च भूतानि ॥ ११ ॥ इति । बाह्य करणं दशविधं. -- पञ्च वुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीति । अथवा अन्तःकरणं बुद्ध्यहंकारमनो- रूपम् । कर्मेन्द्रियबुद्धीन्द्रियात्मकं बाह्यं च कार्यभेदात् त्रि- विधं च । अन्तःकरणस्य प्राणादिवृत्त्या शरीरधारणलक्षणं, बुद्धीन्द्रियाणां प्रकाशः, कर्मेन्द्रियाणामाहरणमिति तदुक्तं- "करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्" इति। मनःपूर्वाणामिन्द्रियाणां पडध्यन्याप्तिःक्रमेणोच्यते-- उकारो वर्णः। आधुमेत्यादि । पदे । तत्पुरुषपञ्चाणी मन्त्रौ । मनरतत्त्वम् । माकोटाख्यं भुवनम् । निवृत्तिः कला । न- कारो वर्णः । शर्वमहेश्वरी पदे । कवचपश्चार्णी मन्त्री श्रोत्रा- ख्यं तत्त्वम् । मण्डलेश्वरं भुवनम् । शान्त्यतीता कला प. कारो वर्णः । महादेवेत्यादि हे पदे । शिखापञ्चाी मन्त्री। त्वगात्मकं तत्त्वम् । कालजेरं भुवनम् । शान्तिः कला । ढे- कारो वर्णः। महातेजादि द्वे पदे। शिरःपश्चार्णी मन्त्री । चक्षु- राख्यं तत्त्वम् । शङ्कुकर्ण भुवनम् । विद्या कला । वकारो वर्णः । मुश्च मुञ्चत्यादि है पदे । हृदयपश्चार्जा मन्त्री । वागा. त्मकं तत्त्वम् । मण्डलेश्वरं भुवनम् । शान्त्यतीता कला । यकारो वर्णःसर्वसान्निध्यकरणेत्यादि । पदे । अघोरपञ्चाी २. 'अ' क. पाठ, ३. 'म', ३. 'फ', ४ 'रेत्या' व. पाठ..

चतुर्थः परिच्छेदः ।। मन्त्रौ । पाण्यात्मकं तत्त्वम् । कालञ्जरं भुवनम् । शान्ति: कला । र इति वर्णः । अनचितेत्यादि द्वे पदे । वामदेव- पञ्चाो मन्त्रौ । पादात्मकं तत्वम् । शकुकर्ण भुवनम् । विद्या कला । लकारो वर्णः । पूर्वस्थितेत्यादि हे पदे । स- योजातपञ्चा# मन्त्री । पाय्वात्मकं तत्त्वम् । स्थूलेशं भुवनम् । प्रतिष्ठा कला । वकारो वर्णः । तुरु तुर्वित्यादि द्वे पदे । अस्त्रपश्चार्गौ मन्त्रौ । उपस्थात्मकं तत्त्वम् । स्थलेश्वरं भुवनम् । निवृत्तिः कला ॥ ११ ॥ तन्मात्रेभ्य इत्यत्र कानि तन्मात्राणि तेभ्यः कथं भू- तानामुत्पाद इत्यत आह. तन्मात्रापयविशेषाःशब्दादीनां प्रकीर्तिताः पञ्च । भूतानि पञ्च तेभ्यो भवन्ति तान्येकगुणवृद्धया ॥१२ ।। इति। अविशेषाः सूक्ष्माः शब्दादयः पञ्च तन्मात्राणी- त्युच्यन्ते । मात्रशब्देन भूतसंश्लेपो भूतभावेन परिणामो वा व्युदरतः । केवलाः शब्दादयः सूक्ष्मत्वेनावस्थितास्तन्मा. जाणीत्यर्थः । तेभ्यरतन्मात्रेभ्यः पञ्चभ्यः पञ्चभूतान्येकैक- गुणवृद्ध्या भवन्तीति । तथाहि-शब्दतन्मात्राच्छब्दैकगुण- माकाशमुत्पद्यते । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्द- स्पर्शगुणो वायुः। उक्ततन्मानद्वयसहिताद रूपतन्मानाच्छब्द- स्पर्शरूपगुणं तेजः। उक्ततन्मात्रसहिताद् रसतन्मात्राञ्चतुर्गुणा आपः | शब्दस्पर्शरूपरसत्तन्मात्रसहिताद् गन्धतन्मानोपा. १. 'रू' ग. पाठ..

१५४ तत्त्वप्रकाशे सव्याख्ये दानकारणाच्छब्दस्पर्शरूपरसगन्धात्मकपञ्चगुणा पृथिवी समु त्पद्यत इति । अपरे केवले यस्तन्मात्रेभ्यः केवलानि भूता- नीत्याहुः । अन्ये तु शब्दतन्मात्रादाकाशस्पर्शतन्मात्रावुत्प- घेते। स्पर्शतन्मात्राद् वायुरूपतन्मात्रौ । रूपतन्मात्रात् तेजो- रसतन्मात्रौ । रसतन्मात्राजलगन्धतन्मात्रौ । गन्धतन्मात्रात् केवला पृथिवीति । तदुक्तं- "तामसतो भूतादेरहंकृतेर्भवति शब्दतन्मात्रम् । तस्मादपि तन्मात्रादाकाशः स्पर्शतन्मात्रः ॥ रूपरसगन्धमानं पवनायैः सह यथोचरं भवति । पूर्वस्मात् तन्मात्रात् केवलतो गन्धतः पृथिवी ॥" इति । परे शब्दतन्मात्रादाकाशः, तस्यसहितात् स्पर्शत. न्मानाद्वायुः। तचयसहिताद् रूपतन्मात्रात् तेजः, तचतुष्क- सहिताद रसतन्मात्रादापः, तत्पञ्चकसहिताद् गन्धतन्मात्रात् पृथिवीत्याहुः । अपरे शब्दतन्मात्रादाकाशः, तस्मात् स्पर्श- तन्मात्रं, तस्माद् वायुः, तस्माद् रूपतन्मानं, तस्मात् तेजः, तस्माद् रसतन्मात्रं, तस्मादापः, ताम्यो गन्धतन्मात्र, तस्मात् गृथिवीति युवत इति । तन्मात्राणां पडध्वव्याप्तिः–णकारो वर्णः । अनादेत्यादि हे पदे । अघोरपञ्चाी मन्त्री । शब्द- तन्मात्रं तखम् । मण्डलेश्वरं भुवनम् । शान्यतीता कला । तकारो वर्णः । धूत्रयादि हे पद । वामदेवपञ्चाो मन्त्री । स्पर्शतन्मात्र तत्त्वम् । कालजरं भुवनम् । शान्त्यतीता कला । थकारो वर्णः । ओं भुव इत्यादि । पदे । सद्यो. जातपञ्चाणी मन्त्री । रूपतन्मात्रं तचम् । शकुकर्ण भुव- - चतुर्थ. परिच्छेदः। नम् । विद्या कला । दकारो वर्णः । अनिधनादि वे पदे । अस्त्रपञ्चाो मन्त्रौ । रसतन्मात्रं तत्त्वम् । स्थूलेशं भुवनम् । प्रतिष्ठा कला । करो वर्णः। निधनोद्भवेति पदम् । नेत्रप- चाणों मन्नौ । गन्धतन्मात्रं तत्त्वम् । स्थलेश्वरं भुवनम् । निवृत्तिः कलेति ॥ १२ ॥ अथ पञ्चानां भूतानां व्यापारमाह अवकाशव्यूहनपाचनसंग्रहधारणं क्रमादेपाम् । व्यापारो भूतानां व्योमादीनां समुद्दिष्टः ॥ १३ ॥ इति । अवकाशः स्थानप्रदानं व्योम्नो व्यापारः, भेदकारणत्वात् । व्यूहनं विविधवहनं बायोापारः, पुञ्जी- करणं वा । पाचनं परिपाककरणं तेजसो व्यापारः । संग्रहः संश्लेषणमपां व्यापारः, क्लेदनं वा । धारणं सम्भरणं पृथिव्या व्यापार इति । तदुक्तं- "व्योम्नोऽवकाशदानं व्यूहो वायोर्हविर्भुजः पाकः । संग्रहणमपां धारणमुक्ः सर्वात्मना वृत्तिः॥" इति । आकाशमत्र परमं भूतं, तच्छन्दगुणं, शब्दतन्माना- दुत्पन्नत्वात् । यथा मृदुत्पन्नो घटो मृद्गुणः, कार्पामादु- पनस्तन्तुः कासगुणः एवं शब्दादुत्पन्न आकाशः शब्द- गुण इति । तदिदं भूतमवश्याश्रयणीयम् । अन्यथा मूर्तव- स्तुनो गमनागमनवृद्धिसरोहणव्यायामादिसर्वव्यापाराभाव- प्रसङ्गादिति। तदुक्तं पारमेश्वरे- " 1. 'धा', २. 'हगुण ख. पाठ'.

- तत्त्वप्रकाशे सन्यास्ये "आकाशं शब्दतन्मात्रादवकाशकलक्षणम् । व्यक्तं व्यक्तिकर विन! पृथक् संस्थानसिद्धये ॥" इति । तदेकममूर्तमूर्तघटकुम्भमठपाद्यपाधिभेदादनेकभेद- भिन्नम् । तस्य वर्णमनिर्देश्यं शुद्धस्फटिकसन्निभमिति । अ- परे चन्द्रमण्डलाकारं मण्डलमिति । तदुक्तं -- "तहाटे तु भवेद् व्योम भूतत्त्वे संव्यवस्थितम् । अप्रतय॑मविज्ञेयं मोक्षस्थानमिवापरम् ॥" इति । अस्य पडध्वव्याप्तिः---शकारो वर्णः । पिङ्गपिङ्गेत्यादि हे पदे । नेत्रपश्चार्णी मन्त्रौ । आकाशात्मकं तत्त्वम् । वस्त्रा- पदाद्यष्टौ भुवनानि । शान्त्यतीता कला | नीरूपस्पर्शवान् वायुः । स शब्दस्पर्शगुणः । 'आकाशाद वायुरित्यागमवलात् परमाणोरुत्पत्तिर्वाधिता । स त्रिविधः शरीरं प्राणो विषय- श्वति । यातनादेः शरीरस्य वायत्रीयत्वं तदाधिक्याद् ,न ता- वन्मानत्वात् । प्राणः शरीरस्थोऽन्तःकरणसामान्यवृत्तिरूपः। तदुक्तं- "स्वालक्षण्या वृत्तिस्त्रयस्य सपा भवत्ससामान्य सामान्यकरणवृत्तिः पाणाद्या वायवः पञ्च ॥" इति । इतरो विपयत्रायुः । तदुक्तं मातङ्गे- "येनाविष्टं जगत् कृल्नं स्फुरते बुद्धिमेति च । यत्र बहा विमानानां कोटयोऽष्टौ च विंशतिः ।। भ्रमन्ति चक्रवत् सोऽयं वायुः प्राणभृतां वरः।" इति । "अस्यासननिभं वर्ण वृत्तं पड्विन्दुमण्डलम्।'

- चतुर्थः परिच्छेद । तदुक्तं "तहाह्ये वायुतत्त्वं तु भिन्नाञ्जनसमप्रभम् । घर्घरारावमुखरं महाबलजनाकुलम् ॥" इति। अस्य पडवव्याप्तिः - यकारोवणः । शब्दशब्देत्यादि दे पदे । कवचपश्चार्णी मन्त्रौ । वाय्वात्मकं तत्वम् । गया- यष्टौ भुवनानि । शान्तिः कला । भास्वररूपं तेजः । तद् द्विविधम् आभ्यन्तरं बाह्यं चेति । शरीरान्तर्वर्तिमुक्ताहा- रपाकसाधनमाभ्यन्तरम्, इतरद् बाह्यम् । तच्च द्विविध शरीरं विषय इति । देवीणां देहत्तैजसः । "तेजसानि शरीराणि भवन्त्यहुतकर्मणाम्" इति वचनात् । इतरत् सूर्यसोमवह्विविद्युदादि । तस्य वर्ण विद्युन्निभम् । तदुक्तं- "तेजस्तत्वं तु तद्वाह्ये विद्युत्कोटिसमप्रभम् । मेघस्तनितनि|पं तेजोरूपं जनाकुलम् ॥” इति । मण्डलं स्वस्तिकलान्छितं त्रिकोणम् । अस्य पड़ध्व- व्याप्तिः --सकारो वर्णः । शिवशति पदम् । शिखाप- शार्णो मन्त्रौ । तैजसं तत्त्वम् । श्रीशैलाद्यष्टौ भुवनानि । विद्या कला । स्वतोद्रवा आपः शब्दस्पर्शस्परसगुणाः । तत्र स्वकीयो रसगुणः । योऽन्ये सङ्करजाः। तदुक्तं पा- रमेश्वरे "रसः स्वाख्योऽत्र बोदव्यस्त्रयोऽन्ये सकरोड़वाः" इति । तद् द्विविधं शरीरं विपय इति । शरीरं वरुण- १.' 'पयत्तेज' ग. पाठ. - - १ - १५८ सरपप्रकाशे सव्याख्ये लोकस्थानाम | विषयभूतमितरद्, भोग्यत्वात् । स्फटिक- वर्ण चैतत् । तदुक्तं चन्द्रज्ञाने- "पृथिवीतत्त्वमाक्रम्य जलं दशगुणं बहिः । ब्रह्माण्डाधारभूतं तु शुद्धस्फटिकसन्निभम् ॥" इति । अस्य पडध्वव्याप्तिः हकारो वर्णः । सर्वदादि दे पदे । शिरःपश्चाौँ मन्त्री । अवात्मकं तत्त्वम् । अमरेशा- द्यष्टौ भुवनानि । प्रतिष्ठा कला । गन्धवती पृथिवी, पञ्च- गुणा च । तदुक्तं पारमेश्वरे- "संक्षुब्धाद् गन्धतन्मात्राद् गुणैः पञ्चभिरन्विता। स्वाख्योऽस्या गन्ध एवोक्तश्चत्वारोऽन्येऽनुपङ्गजाः ॥ सारं तावत् परा काष्ठा नखदन्तास्थिजातयः।" इत्यादि।सा चेयं शरीरं विषय इति द्विविधा । शरीरं च स्था- वरजङ्गमात्मना द्विविधम् । स्थावरं तृणादिवृक्षान्तम् । जङ्गमं चतुर्विधं जरायुजमण्डजं स्वेदजमयोनिजं चेति । मनु- प्यपशुमृगाणां जरायुजम् । पक्षिसरीसृपाणामण्डजम् । यूक- मत्कुणपतगादर्दानां स्वेदजम् । भुवनेशदेवर्षीणामयोनि चेति । ब्रह्माण्डतदन्तर्वतिसप्तद्दीपपातालाष्टाविंशतिकोटिन. रकतावत्संख्यविमानादयः पुराणशतेतिहाससिद्धा विषयाः, भोग्यत्वादिति । भण्डात्मकं क्षितितत्वं शतकोटियोजनविस्तृ. तम् । तदुक्तं शैवरहस्ये "पार्थिवमन्तिमतत्वं ब्रह्माण्डात्मकमखण्डमपि तावत् । विस्तारायामाभ्यामुक्तं शतकोटियोजनम्। १. 'वादि', २. 'यनः।' ग. पाटः.

चतुर्थः परिच्छेदः। इति । मतङ्गपारमेश्वरे च- "एवं कोटिशतं पूर्ण पार्थिवं तत्वमत्र तु । अस्माद् दशगुणं तोयं तोयादग्निस्ततोऽनिलः || वायोः खं खादहङ्कारस्तरमाञ्च परतो महान् । महतः परतो ज्ञेयं गुणानां त्रितयं मुने! ॥ गुणत्रयात् प्रधानाख्यं तत्वं दशगुणोत्तरम् । शतोचरगुणानि स्युर्मायान्तान्यपि रागतः ॥ सहस्रवृद्ध विद्याख्यं लक्षमशं ततस्ततः । कोट्या विवर्धितं भूयः शिवतत्त्वं प्रकीर्तितम् ॥ अनन्तरमनन्तं स्यादप्रमेयं च शाश्वतम्।" इति । एतत् क्षितितत्त्वं स्वर्णनिभम् । तदुक्तं चन्द्रज्ञाने- "सौवर्ण पृथिवीतत्त्वं सूर्यकोटिसमप्रभम् । कुक्कुटाण्डनिभं चैतद् ब्रह्माण्डं परिकीर्तितम् ॥" इति । चतुरश्रं वज्रलाञ्छितं चन्द्रमण्डलम् । "ब्रह्माया देवता ज्ञेयाः क्षमादीनां पञ्च वै कमात् । शिवादिपृथिव्यन्तेषु तत्वेषु सकलेवपि । भुवनानि चतुर्विशत्यधिकं तु शतद्वयम्।" अस्याः पडध्वव्याप्तिः-क्षकारो वर्णः । शिवायों नमो नम इति पदम् । हृदयपञ्चाी मन्त्रौ । पार्थिवं तत्त्वम् । कालाग्न्यादिभद्रकाल्यन्तान्यष्टोत्तरशतं भुवनानि । निवृत्तिः कला इति ॥ १३॥ इति तत्त्वप्रकाशतापर्यदीपिकायामशुद्धवर्गविनिर्णयः पतुर्थः परिच्छेदः। १. 'पि, २. 'नम ख. पाठः अथ एञ्चमः परिच्छेदः । अथैवं गुणसाम्यात्मकात् प्रधानादुत्पन्नानि त्रयोवि- शतितत्त्वानि कार्यकारणात्मना हिविधानि । तत्र तन्मात्रा- पञ्चकभूतपन्चकात्मना दशविध कार्यम् । बाह्याभ्यन्तरमे- देन त्रयोदशविधं कारणम् । तयोर्विनियोगं दर्शयति- कार्यमिदं दशधा यत् तत् करणेः कार्यते समाविश्य । करणान्यसमर्थत्वात् कार्य संश्रित्य चेष्टन्ते ॥ १ ॥ इति । अयमभिप्रायः दशविधं यत् कार्य तत् करणः कार्यते स्वीक्रियते गृह्यत इति यावत् । कार्य शरीरं मूक्ष्मस्थूलात्मना दशविधम् । समाविश्य संश्रित्य । आश्रयं विना तेषां चेष्टितुमशक्यत्वादित्यर्थः । अथवा कार्य विय- यम्(?) । दशविधमिदम् । तत् करणैः विपीक्रियते । समा- विश्य सम्बध्येति ॥१॥ तदेवं पद्मिशत्तत्स्वानां स्वरूपमभिधाय साम्प्रतं शुद्धानीत्यादिना सृचितं शुद्धत्वं शुद्धाशुद्धत्वमशुद्धत्वं च प्रतिपादयितुं तहेतुमाह - पञ्चानामायानां चिदृपतयान्वयः परेषां तु । मायाद्यानां द्वेधा सप्तानां कीर्तितः शेवे ॥२॥ अव्यक्तप्रभृतीनां गुणेस्तु सुखदुःखमोहरूपतया । अन्वय इह निखिलानां दशके ह्यन्ते विछोपोऽयम् ॥३॥ इति । अयमभिप्रायः - एकजातिसमावेशोऽन्वयः ममानरूपत्वम् ऐकात्म्यमिति यावत । तत्र पन्चानामाद्यानां १. योयोग' स. पाठ.

पञ्चम परिच्छेद । शिवशक्तिसदाशिवेश्वरविद्यातत्वानां चिद्रूपतयान्वयः । तेन कारणेन तेषां शुद्धत्वं, ज्ञानरूपस्याज्ञानमलसम्बन्धासंभ- वात् । मायाकालनियतिकलाविद्यारागपुरुपाणां सप्तानां द्वेधा चिदचिद्रूपतयान्वयः । चिदनुविद्धाचिद्रूपत्वाद् मायादीनां पुरुषव्यतिरिक्तानां वेधा समन्वयः। पुरुषस्य चित्स्वभावस्यो- पाधिकृताचिद्रूपत्वादिति । यथा जपासन्निधानात् स्वतः शुद्धस्य स्फटिकस्य रागः, तथा पुरुषस्याप्युपाधिधर्माध्यारो- पादचिद्रूपत्वमिति । तेन सप्तानां मायादीनां शुद्धाशुद्धत्व- मिति । अव्यक्तादीनां वाह्यतया चित्संबन्धरहितानां सुख- दुःखमोहरूपत्वेन गुणैरन्वयः । तेन तेषां केवलाशुद्धत्व- मिति ॥३॥ अन्ते दशके भूततन्मात्रात्मके वक्ष्यमाणो(यं यो) वि- शेषः स किंलक्षण इत्यत आह - शब्दादेर्गुणसाम्ये तुल्यत्वेनान्वयोऽत्र विज्ञेयः ।। अङ्गानिभावविहितो भवति विशेषस्तु केपाञ्चित् ॥ ४ ॥ इति । शब्दादीना सैगुणत्वसाम्ये सत्यप्यममतया सम्बन्धो वेदितव्यः । अङ्गाङ्गिभावः कार्यकारणभावः, तेन विहितः प्रतिपन्नो भावसर्गाख्यो विशेष; केषांचित् कार्य- रूपाणां कालाधवन्यन्तानां विज्ञेय इति । कार्याणां स्व- साधारणकारणेषु सत्वं भावसर्गः । तदुक्तं शैवरहस्य - "प्रातिस्विकेषु हेतुषु तत्तत्तत्त्वात्मकस्य सूक्ष्मस्य । कार्यस्यावस्थानं भावः सत्कार्यवादिमते ॥" १ 'पान्व', २. 'म्य तु चि', ३. शन्दग' ख. पाठ , तत्त्वप्रकाशे सव्याख्ये इति । सोऽयं भावसर्गः कार्यकारणभावेनावगम्यते । तथा- हि-कार्यकारणभावसंबन्धो नासति संवन्ध्यन्तरे कार्य सम्भवतीत्यसतः खरविषाणादेरदर्शनात् । विमतानि कार्या- णि कारणेपु सन्त्येव, उत्पत्तिमत्त्वात् । यत् कारणेष्वविद्य- मानं न तदुत्पत्तिमत् यथा खरविषाणम् । नच तथैता- नि नोत्पत्तिमन्ति । तस्मात् कारणेषु सन्त्येव इति । तथा उपादानकारणस्वीकाराच्च । यदि तिलेपु तैलं न स्यात्, तर्हि तैलार्थिनः सिकतप्विर तिलेप्वपि स्वीकारो न स्यात् । न तदस्तीति तिलेपु तैलसद्भावसिद्धिः । एतस्मादेव कार- णात् सर्वसद्भावाञ्च सदेव कार्यम् । यदि कारणेष्वसत् कार्य जायेत, तर्हि तस्मादेवाखिलकार्यसंभवप्रसङ्गः, असत्त्वस्य सर्वत्राविशेषात् । न च तदस्तीति सदेवोत्पद्यत इति । श- तात् कारणाच्छक्यकार्यजननाच्च । यदि कारणेष्वविद्यमानं कार्य जायेत, तद्यशक्तादपि तदुद्भवप्रसङ्गः, असत्त्वे शक्ति- कल्पनावैयर्थ्यात् । तथा शक्तेः कार्यमूक्ष्मावस्थारूपत्वाञ्च सत् कार्यम् । तथा यद्यसत्कार्यमशक्यमपि तदा कार्य जा- येत, कारणस्य शक्तत्वात् न चासति कार्ये तत्रैव शक्तिरिति- वक्तुं न शक्यते, असत्त्वेनाविशेषादिति । कारणत्वाच्च सत् कार्यम् । यदि कार्य कारणे न स्यात् तदास्य कारणत्वमपि न स्याद् इतरसाधारण्यात् । तद् दृष्टमतः सत् कार्यमिति । तदुक्तम्- "असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तम्य शक्यकरणात् कारणभावाञ्च सत् कार्यम् ॥" १. 'क' स. पाठः. - पञ्चमः परिच्छेदः ।। -- - इति । नच सत्कार्यवादे कारणवैयर्थ्यप्रसङ्ग इति वाच्यम् । कारणानामभिव्यक्त्यर्थत्वात् । यथावघातदोहनापीडनैः तण्डु- लक्षीरतैलानामुत्पत्तिः, तथा कालाद्यवन्यन्ततत्त्वानां तद्विका- रभूतघटादीनां चोद्भव इति । विनाशक्ष तेषां तिरोभाव एव, नासत्त्वमिति । नचाभिव्यक्तेरभिव्यक्त्यन्तराभ्युपगमे- नवस्थेति वाच्यम् । उत्पत्तेरपि समानत्वात् । तथा पदो- त्पत्तिः स्वकारणसमवायः स्वसत्तासमवायो वा नोत्पद्यते । 'तथापि तदनि कारकाणि व्यापार्यन्ते । एवं सत एवं ध- टादेः स्वत एवाविर्भावाय कारणापेक्षेति युक्तम् । तदुक्तं भगवता विष्णुना. "नासतो वियते भावो नाभायो विद्यते सतः" इति । श्रीविष्णुपुराणे - "तदेतदक्षयं नित्यं जमुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥" इति । अथवा अङ्गाङ्गिभावविहितः कल्पितो विशेषः, हेतुम- स्वान्नित्यत्वात् । व्यापित्वसनियत्वानेकत्वाश्रितत्वलिङ्गत्व- सावयवत्वपरतन्त्रत्वादिधर्मः कालाद्ययन्यन्तानां व्यक्तानां वि. द्यत इति त्रिगुणत्वाविवेकित्वविषयत्वसामान्यत्वाचेतनत्वप्र- सवमित्वा(द्य ? न्य)व्यक्ताख्यस्य मायातत्वस्यापि सन्ति । चिन्मात्रस्य शिवस्य पुसो हेतुमचादिकं त्रिगुणत्वादिकं च १. 'पात ग. पाठः. २. 'गन्मुनि' ख. पाठः... 'वर्ग. का, ४. सिदिध' क. पाठः . -- सस्वामे सम्भाग्ये नास्ति । तयोः कार्यकारणभावविहितयोः कार्यकारणत्वशून्ये पुरुषऽसंभवादिति केषांचिदेवायं धर्म इति । तदुक्तं-- "हेतुमदनित्यमन्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयव परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ।। त्रिगुणमविवेकिविषयं सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥" , इति । अथवा अङ्गमचेतनं चेतनार्थत्वात् । तस्याङ्गी चेतनः शेपित्वात् तस्य । तयोर्भावः संबन्धः । तद्विपरीतो विशेपः इतरेतराध्यासोऽङ्गाङ्गिभावविहितो विशेष इति । तदुक्तं "तस्मात् तत्सयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः ।" इति । अथवा अङ्गाङ्गिभावः प्रधानाप्रधानभावः । बुद्धिः प्रधानभूता, पुरुपस्यातिसन्निकृष्टत्वात् । तस्यास्तेनाङ्गित्वम् । बाह्यन्द्रियाण्यङ्गानि अप्रधानानि, तत्साध्यत्वात् । तयोर्भाव- विहितो विशेषः केपांचित् कारणानामस्तीति । तदुक्तम् --- "एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषात् । कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥" सर्व प्रत्युपभोगं यस्मात् पुरुपस्य साधयति बुद्धिः । सैव च विशिलष्टि पुनः प्रचालपान्तरं सूक्ष्मम् ।' इति । तस्मादेव तत्स्वानामुत्पत्तिरिति ॥ ४॥ एवं तत्त्वानां सृष्टिकर्म स्थितिंचोक्या संहारक्रममाह- १. पि' ग. पाट.

पञ्चम परिच्छेद तत्त्वानां स्थितिरेया कथिता सृष्टिक्रमेण सर्वेषाम् । प्रतिलोम परिणामान्मायायां तानि लीयन्ते ॥ ५ ॥ इति । एतेषां तत्वानामुक्तेन प्रकारेण सृष्टिः स्खे स्वे कारणे स्थितिश्च कथिता । परिणामप्रतिलोमेन मायायां तानि से स्खे कारणे लयं प्राप्य लीयन्त इति ॥ ५ ॥ मायायाः परस्ताद् यानि तत्त्वानि तेषां कुन लय इत्याशङ्कयाह - मायायाः परतोऽध्या शुद्धः शक्ती निलीयते सकलः। सर्वात्मनि सापि शिवे तिष्ठत्यविभागमापन्ना ॥६॥ इति।मायायाः परतो यस्तत्त्वावाशुदाख्यः, स सर्वो. ऽपि शक्तितत्त्वे लयं याति । सा शक्तिः शिवेनैक्यं प्राप्य तिष्ठति । निलीयत इति, "आनीदवातं स्वधया तदेकमि"ति श्रुतेस्तदवगमात् ॥ ६ ॥ ननु संहारदशायां सकलस्य विनाशेन पुनरुत्पादा- संभव इत्याशङ्कयाह माया पुरुषः शिव इत्येतत् त्रितयं महार्थसंहारे। अवशिष्यते पुनस्तत् प्रवर्तते पूर्ववत् सृष्टो ।। ७ ।। इति । महार्थानां कालाधवन्यन्ततत्त्वानां शुद्धानां च विद्येशसदाशिवानां सहारे मायापुरुपाशिवानां जगत्कारणानां सहायात् पुनरपि जगदुत्पत्तिः संभवत्येव पूर्ववदिति॥७॥ ननु तर्हि किं प्रलयेनेत्याशङ्कयाह - संसारे सिन्नानां सर्वेषां प्राणिनां प्रभुः कृपया। कुरुते महार्यसंहतिमेतेपामेव विश्रान्त्ये ॥ ८॥ . - - तत्वप्रकाश सन्याख्ये इति । अनवरतमुपजायमानशरीरोन्द्रियविषयसंपर्क- जातमुखदुःखानुभवव्यापारमजातश्रमाणां प्राणिनां विश्रा- न्त्यर्थ करुणानुनहृदयः प्रभुमहार्थसंहारं करोतीति । तदुक्तं- "कार्यव्यासक्तचित्तानां विश्रान्त्यै रजनी यथा । संहारं भवखिन्नाना कृपया कुरुते शिवः॥" इति ॥ ८॥ इति तत्वप्रकाशतात्पर्यदीपिकाया सामान्यवाद. पञ्चमः परिच्छेदः। - अथ पष्टः परिच्छेदः। अथ तर्हि पुनः सर्गकारणमयुक्तं, विश्रामस्यैव पुरु- पार्थवादित्याशङ्कयाह- कर्मविपाचनहताः पशुदयया पुनरपीह परमेशः । सृष्टिं विधाय कर्माण्येवं पाचयति देहभृताम् ॥ १ ॥ इति । अयमभिप्रायः -निश्शेषदुःखनिवृत्तिनित्य- निरतिशयानन्दात्मकापवर्गविहीनान् पशुतयानधिगतपुरुषा- ान् कर्मवद्धान् दयाहान् पशूनवलोकयन भगवान् भोगेन कर्मबन्धविनिवृत्तये तत्साधनदेहेन्द्रियविषयष्टिं विधत्ते । तेपां कर्मबन्धविनिवृत्तिश्च मोक्षायति मोक्षार्था सृष्टिरुपपन्ने- त्यर्थः ॥ १ ॥ ननु केन तर्हि कर्मपाका, फर्या मोक्षसमय इत्सत आह भोगेन कर्मपाकं विधाय दीक्षां शियः शक्त्या । मोचयति पशृनखिलान् करुणेकनिधिः सदा शंभुः॥२॥ १. 'हा' स. पाठ.

षष्ठः परिच्छेद । इति । अयमाशयः -भोगेन कर्मणः पाकं विनाशं कुर्वन् भगवान् कालं प्रतीक्षमाणः कर्मसाम्ये सति शक्तिो- चिकां ? पाचयित्वाचार्यो भूत्वा दीक्षां विधायापवर्गार्हान् पशूनखिलान् सर्वदा सदा परमकारुणिकः शंभुचिय- तीति । ननु न मोक्षायः पुरुषार्थोऽस्ति, नापि स्वर्गाख्या, तयोः सद्भावे प्रमाणाभावात् । न चानुमानागमाभ्यां तयोः सद्भावसिद्धिरिति वाच्यम् । अनुमानागमयोरप्रामाण्यात् । तत्रानुमानस्थाप्रामाण्यं व्याप्तिग्रहणसापेक्षस्यानुमानस्य तदसं- भवात् । स च देशान्तरकालान्तरगततयानध्यक्षयोः साध्य. माधनयोः, साहित्यनियमात्मकस्याविनाभावस्याध्यक्षतो ग्रह- गासंभवात् । नचानुमानात् तदविनाभावग्रहणमिति वाच्यम् । अन्योन्याश्रयप्रसङ्गाद् , व्याप्तिग्रहणे सत्यनुमानप्रवृत्तिः, अनु- मानप्रवृत्ती व्याप्तिग्रहणमिति । नचानुमानान्तरेण व्या- सिग्रहणम् । अनवस्थाप्रसङ्गात् । नचागमाद् व्याप्तिग्रहणम्। तस्य सन्दिग्धत्वात् तद्नुपलम्भाचेति । नचागृहीताविना- भावात् साधनात् साध्यसिद्धिरिति वाच्यम् । अतिप्रसङ्गात् ।। तस्मात् प्रत्यक्षमेव प्रमाणम् । तच्च स्वर्गापवर्गों नावगमय- तीति काम एव मुख्यः पुरुषार्थ:, अर्थश्च तत्साधनत्वादिति। तदुक्तं "वृत्तिसाध्या प्रीतिः पुरुषार्थः, स काम एव ना- न्यो मोक्षादिः, दृष्टहान्यदृष्टकल्पनाप्रसङ्गादिति । तथा पृथि- व्यतेजोवायव एव तत्त्वानि, शरीरेन्द्रियविपयाणां तत्समुदा- यरूपतया तत्त्वान्तराभावात् । नच ज्ञानं तत्वान्तरम् । तस्य १. ख्यं ग. पाठ.. - ..

तत्त्वप्रकाशे मव्यास्ये रजनीचूर्णसंबन्धादुपजायमानरागवद् भूतसमवायजन्यतया तद्धर्मत्वनिश्चयादिति चार्वाकः । तद्युक्तम् । अतुमानागमा. प्रामाण्ये सन्दिग्धं विपर्यस्तं वा प्रतिपाद्यं प्रति प्रतिपादकस्य शब्दप्रयोगासंभवप्रसङ्गात् । तथाहि-अस्याज्ञानं सन्देहो विपर्यासो वा विद्यत इति प्रतिपाद्यशब्दादिना लिङ्गेनानु- माय मयोच्चारितेन शब्देनास्य यथार्थप्रतिपत्तिर्भविष्यति । सा तदज्ञानादिकं निर्गुदस्यती?त्याद्यनुमानपूर्वको हि परं प्रति- पायं प्रति प्रतिपादकस्य, शब्दप्रयोगः । अतत्पूर्वकत्वे शब्द- प्रयोक्तुरुन्मत्तवदुपेक्षणीयताप्रसङ्गेन च परगताज्ञानसन्देहवि- पर्यासाः प्रत्यक्षतोऽवगन्तुं शक्यन्ते । अतोऽनिच्छतापि चावी- केणानुमानस्य चागमस्य च प्रामाण्यमभ्युपेतव्यम्। शब्द- स्याप्रमासाघकत्वे प्रयोगासंभवप्रसङ्गात् । नच व्याप्तिग्रह- णासंभवादनुमानाप्रामाण्यम् । सामान्योपग्राहकव शादखिल. व्यक्तिपु संबन्धग्रहणवत् तदुपपत्तेः । तथाहि-व्याप्तिग्रहण- वेलायामल्पत्वादिविशेष परित्यज्य धूमजातीयममिजातयिं न व्यभिचरतीति सामान्योपग्राहकवशादजातातिवृत्तप्रत्युत्पन्ना- खिलव्यक्तीनां तत्तज्जातीयतया तथा व्याप्तिग्रहणे व्याप्तेही- तत्वान्न व्याप्तिग्रहणासंभव इति।सामान्ययोरेव व्याप्तिग्रहणम्, मधिकरणसिद्धान्तन्यायेन विशेषसिदोरिति । तदपास्तम् । "विशेपेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । तहतोऽनुपपन्नत्वाद् अनुमानकथा कुतः॥" इति । यतो व्याप्तिग्रहणादिसंभवस्याक्तत्वात् । तथा भोज- १. 'पत्ते.', २. 'णसं' ग. पाठ:.

पाठः परिच्छेदः। नादिसर्वकियासंभवश्च। तासामनुमानपूर्वकत्वात्। किञ्च, अव- गताविनाभावस्य पुरुषस्य धूमदर्शनादग्मिज्ञानमुपलभ्यते। तत् किंरूपमास्थेयम् । न तावद् विपर्ययरूपम्। वाधकाभावात्,प्रं- त्यक्षस(म्भारम्भ)वाच्चानापि विकल्परूपम्। “शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इत्युक्ततल्लक्षणाभावात् । नापि निद्रा। सुपुप्त्यभावात् । न च स्मृतिरूपम्। धूमादिसंभवसंस्कारमात्रज- न्यत्वाभावादिदन्तया भासमानत्वात् तथाविधपूर्वानुभवाभा- वाञ्चेति । नापि संशयरूपम् । अनवधारणज्ञानं संशय इत्यु- क्तसंशयलक्षणाभावात् । तस्मादेतज्ज्ञानं प्रमाणमेव । न च तत् प्रत्यक्षम् । अर्थेन्द्रियसंप्रयोगाजन्यत्वात् । न चाग्नेरर्थस्य चक्षुरादिना सम्प्रयोगोऽस्ति, आवृतत्वाद् इत्यग्निज्ञानकारणधू- मज्ञाननिष्पादनार्थ चक्षुर्विज्ञानमग्निज्ञानार्थम् । स्वर्गादिज्ञा- नकारणशब्दज्ञानार्थश्रोत्रव्यापारवदिति । न चानुमितानुमान नादौ चक्षुरायपेक्षेति प्रमाणान्तरमेवानुमानाख्यमिति सिद्धम- नुमानमिति । आगमप्रामाण्यं च पूर्वमुपवर्णितमित्यलमतिप्र- सङ्गेन । तथाहि-शरीरेन्द्रियवृत्तिसङ्घातः परार्थः भोग- साधनत्वात् , भोगसाधनं च जडत्वात् , जडं च कार्यत्वात् , गृहक्षेत्रादिवदिति भूतव्यतिरिक्तः पर आत्मा सिद्धः । तस्य नित्यत्वं, शरीरनाशे(त्य?ऽप्य)विनाशात्। स च जातिस्मृत्या- दिनावगम्यते । तस्य मोक्षो बहत्वात् । अतो मोक्षस्य कादा. चित्कतया कारणापेक्षा । कारणं च हिंसालक्षणधर्माधर्मसंयुताद् १. म्पादाच' ग. पाठः. २. 'सम्मवा' ख. पाठः. ३. 'यस' ग. पाठः. x तत्त्वपकाशे सन्याध्ये "अहिंस्यदेहाद्युतिमोक्षमाहुर्दिगम्बराः' इति। तथाहि --नित्य(भारता)यांग्रह अनित्यत्वे च द्वेप इत्यु- भयपरिहारार्थानेकान्तभावना। तथाहि -घटादिः मृदादि- रूपेण नित्यः, सर्वावस्थासूपलम्भात्।घटादिरूपतया अनित्यः, तदपायात् । एवं स्वदेशकालकारणाधारतया सत्त्वमर्थानामन्य- देशादिप्वसत्वं, स्वकार्ये कर्तृत्वं कार्यान्तरे चाकर्तृत्व, स्वशब्दे- नाभिधेयत्वम्, अन्यशब्देनानभिधेयत्वमित्यायूह्यमर्थानामने- कान्तत्वमिति दिगम्बराः । तदिदमनुपपन्नम्। अनेकान्तभाव- नायां मिथ्यारूपतयापवर्गसाधनत्वासंभवात्। तच्च स्वदेशादिपु सत्त्वादिनियतरूपस्यैवोपलम्भात् । तथा घटादेश्व कार्यस्य नित्यत्वान्मृदादेः कारणस्य च नियमेन नित्यत्वाच्च नोभया- त्मकत्वम् । एवं स्वशब्देनाभिधेयत्वमेवान्यशब्देन चाभिधे- यत्वमेवेति नानेकान्तत्वमिति । या चेयमुभयरूपता प्रोक्ता तत्र विवादः । इतरेतराभावाभ्युपगमेनास्माभिरप्यभ्युपगत- त्वात् । यदि च स्वदेशादिष्वप्यसत्त्वादिकं स्यात् , तदा स्या- दर्थानामनेकान्तता । न च तदस्ति । तस्मान्नानेकान्तत्वम- नामिति मिध्याभूतत्त्वान्नापवर्गकारणमनेकान्तज्ञानमिति । न चानकान्तताभावनावशाद् विशिष्टप्रदेशे अक्षयशरीरादि- प्राप्ती प्रमाणमस्तिान च तेषामागमःप्रमाणम् । तस्य प्रमाण- मूलत्वाभावात् । न च प्रत्यक्षानुमाननित्यागमा मूलानामान- त्यागमानु(?)शब्दानां प्रामाण्यं संभवतीत्युक्तम् । न च १. कार्याप' ग. ठः. २. 'म' ख, पाठः ३. 'मा' ग. पाठः, पष्ठः परिच्छेदः। शरीरेन्द्रियविपयाणां कार्याणां नित्यत्वं संभवति । अतिप्रस. ङ्गात् । यच्च शरीरपरिमितस्यात्मनः शरीरनाशे नक्षत्रादिवद- वस्थानं निःश्रेयसमित्याहतैकदेशीयैरुक्तं, तदपि न चतुरश्रम् । देहपरिमितस्यात्मनो देहवन्मूर्ततयानित्यत्वप्रसङ्गात् । तथा गजशरीरावस्थितस्य मशकशररिप्रवेशे मृदङ्गपिहितप्रदीपप्र- भाया घटपिधान इव सङ्कोचविकासाश्रयणेन परिणामित्व. प्रसङ्गः । तस्माद् रूपरसगन्धरपर्शशब्दज्ञानात्मकेषु पट्पदा- थेषु यद् दुःखसमुदायनिरोधमार्गाख्यं पदार्थचतुष्कं तस्मिन् क्षणिकादिभावनापवर्गकारणं, शुद्धचित्तसन्तानोत्पत्तिरपवर्ग इति सौगताः । दुःखं रूपादिस्कन्धपञ्चकम् । तच्च रूपस्क- न्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्क. न्धश्चेति स्कन्धपञ्चकम् । तत्र वर्णगन्धरसस्पर्शात्मना चतु- विधो रूपस्कन्धः। सुखा बेदना दुःखा वेदना मध्यमा वेदनेति त्रिविधो वेदनास्कन्धः । चक्षुःसंज्ञा जिह्रासंज्ञा श्रोत्रसंज्ञा घ्रा- णसंज्ञा स्पर्शसंज्ञेति पटप्रकारः संज्ञास्कन्धः। संस्कारस्कन्धो हिप्रकारः कुशलाकुशलभेदात् । तत्राकुशलो दशविधो मनो- वाकायभेदैः। तत्र मानसा मिथ्यादर्शनाभिलापप्रवेपास्त्रयः। वाचिका अनृतश्चनपैशुन्यपरनिन्दाविप्रलम्भवचनानि च- त्यारि । कायिका हिंसापरस्त्रहरणमैथुनयोगात्रयः । इति ?- त्य)कुशलाः । कुशलाश्च दश विपरीताः। एवं संस्कारस्कन्धो विशतिप्रकारः । चक्षर्विज्ञानं श्रोत्रविज्ञानं घ्राणाविज्ञान स्प- शविज्ञानं जिहाविज्ञानं मनोविज्ञानं चेति पट्पकारो विज्ञा- नस्कन्धः । इत्येप दुःखकारणत्वात् दुःसमिश्रत्वात मुखमपि १७२ तत्वमका सव्याख्ये दुःखम् । तस्य कारणं समुदायः । तयोनिरोघो विनाशः, तस्योपायो मार्गः। क्षणिकादिभावेनैप क्षणिकमिति भावनाव- शात् (प्रा? रागादिनिवृत्तिः । ममेदमिति सम्बन्धाभावात् । तथा निरात्मकभावनातच रागादिनिवृत्तिः, स्वपरसम्बन्धा- भावात् । एवं सर्वं शून्यमिति भावनया रागादिनिवृत्तिः, असत्त्वात् । नहि गगनकुसुमवन्ध्यासुतादी रागादिसम्भव इति शुद्धचित्तसन्तत्युद्भवोपपत्तिरिति वैभाषिकसौत्रान्तिक- ज्ञानाद्वैतवादिनो बौद्धाः शुद्धचित्तसन्ततेरपि विनाशोऽपवर्ग इति शून्यवादिनः । तदिदमनुपपन्नम् । क्षणिकादिभावनाना मिथ्यारूपतया निःश्रेयससाधनस्वासंभवात् ।नच सर्वे भावाः क्षणिकाः सत्याद् विज्ञानवदित्यनुमानात् पदार्था(ना) रूपर- सगन्धस्पर्शविज्ञानानां क्षणिकत्वसिद्धः क्षणिकत्वभावनाया न मिथ्यात्वमिति वाच्यम्। तस्याग्न्यनुप्णतासा(ध)ककृतकत्वा- नुमानवत् स एवायं घट इत्यादिप्रत्यक्षबाधया प्रामाण्यात् । न च स एवायं नखः, त एवामी केशा इत्यादिप्रत्यभिज्ञाव- दस्यापि न प्रामाण्यमिति वाच्यम् । अस्य बाघकाभावात् । न चाननवानुमानेनास्य वाध इति वाच्यम् । अनुमानस्य प्रत्यक्षमूलस्य स्वमूलधाधकत्यासम्भवात् । न चौनुष्णतासाध. केनोप्णताग्राहिप्रत्यक्षं बाध्यत इति । तथा विज्ञानस्य विक्ष. णम्यायितया क्षणिकत्वाभावात् साध्यविकलो दृष्टान्त इति । नन्वक्षणिकस्वार्थकियाकारित्वलक्षणसत्त्वासंभवादुपलम्यमान २. खपाठ १. बन्धक, पाठ. १. 'वाद' ग. पाट.

पष्टः परिच्छेदः। सत्त्वं पृथिव्यादिक्षणिकतां साधयेत् । तथाहि-~-क्षणिको यदि से निष्पाद्यं सर्व युगपदेव करोति, नद्युत्तरादिक्षणेष्वपि । तदेव सर्वं ज्ञायत (१)तत्कारणस्य विद्यमानत्वात् । नहि कारणे सति कार्यानुत्पत्तिर्घटत इति । नापि क्रमेण । प्रथमक्षण एवो- त्तरादिक्षणभाविना कार्याणां कारणभूतस्यास्य सद्भावेन विल- म्वनासंभवात् । न च सहकारिप्राप्त्यनुरूपेण कार्यजनन- मिति वाच्यम् । सहकारिणो क्रियमाणस्य कारणातिशयविना- शस्य वा कारणाद् भिन्नत्वे तदितरविश्ववदुपेक्ष्यत्वात् । तथा- नतिशयानिवृत्त्यतिशयाधानहेतुत्वे सहकार्यपेक्षकारणभिन्नत्वे- ऽतदुत्पत्तौ तदुत्पादप्रसङ्गः । अतिशयाधानानतिशयानिव- तकत्वे तदितरविश्ववत् सहकारिणामप्युपेक्ष्यत्वप्रसङ्ग इति । तस्मादर्थक्रियाकारित्वलक्षणसत्त्वविरहादसन्तोऽक्षणिका इति। अत्र प्रयोगः- यत् (क्रमा)कमाभ्यामजनकं तन्नास्ति यथा खरविषाणम्। क्रमाक्रमान्यामजनकाश्चाक्षणिका इति। तस्मात् पृथिव्यादिपु पक्षभूतेपूपलभ्यमानं सत्त्वं विपक्षे वृत्त्यसम्भ- वात् सपक्षाभावेऽपि क्षणिकत्वं साधयतीति। नैवम् । अक्षणि- कानामपि क्रमाक्रमाभ्यां सहकारिप्राप्तौ तथैव जनकत्वोपप- तेः । ननूक्तं सहकारिणातिशयाधानं तदनतिशयनिवृचिति विकल्पोक्तं सत्त्व स्वादनुपपन्नमस्यैवातिशयत्वात् । यद् यस्य सद्भावे कार्य करोति, स तस्यातिशय इति मृदादिकारणं - १. हि ~ अक्ष', २. 'स्व', ३. 'णा' स. पाठः. ५. '५, क्ष ग. पाठः ६. 'ससुम' स. पाटः.

१७४ तत्त्वप्रकाशे सव्याख्ये है - चकादिसहकारिसमवधाने घटादिकार्यजनकमुपलब्धमिति तत् तदतिशय इति ॥ २॥ ननु न पत्रिंशत् तत्त्वानीति शक्यते वक्तुं, शरीरघ- टादेरपि सहावादित्याशङ्कयाह- आप्रलयं तिष्ठति यत् सर्वेषां भोगदायि भूतानाम् । तत् तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः॥३॥ इति । अयमभिप्रायः-शरीरघटादेस्तत्वलक्षणा- भावान्न तत्सहावेन 'तत्त्वाधिक्यम् । तथाहि यद् आप्र- लयावस्थायि सर्वभूतभोगकारणं तत्त्वमिति तत्त्वलक्षणं न श- रीरघटादेशस्ति । तद्देशतत्कालव्याप्यभावात् । तथा शरीरध- टादीनां पृथिव्यादितत्त्ववृत्तिरूपतया बुद्धिवृत्तिरूपाध्यवसा- यादिवत् तत्त्वान्तरत्वासम्भवाञ्च न तत्त्वाधिक्यमिति । तदुक्तं गुरुदेवाचायण- "स्तत्वात् सन्ततत्वाच्च तत्त्वानीति ततो विदुः । ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः॥ लक्षादियोजनव्यापि तत्त्वमा प्रलयात् स्थितम् । अन्यथा स्तम्भकुम्भादिरपि तत्त्वं प्रसज्यते ॥" इति ॥ ३॥ प्रतिज्ञातार्थमुपसंहरति- तत्त्वं यतो भवेद् यत् कारणमापूरकं च तत्त्वस्य । कथिता व्यवस्थितियन्निखिलानामेव तत्त्वानाम् ॥ ४॥ - १. 'तद्याप्य', २. 'स्य सम्भ' य. पाठ. ३. 'स' ग. पाठ, पष्ठः ५ रच्छदः । इति । अयमर्थः----शिवाद्यवनिपर्यन्तानां निखिला- नां तत्त्वानां व्यवस्थितिः कथिता। तथा निखिलानां तत्वाना- मापूरकमाभीक्ष्ण्येन पूरकमध्वातीतं शिवाख्यं निष्कलं रूपं च कथितम् । "तेनेदं पूर्ण पुरुषेण सर्वम्” इति श्रुतेः। यतो भवति यत् तत्त्वं यत् कारणं चापूरकमुपकरणं वा, तच्च क- थितमिति ॥ ५॥ शास्त्रस्वीकरणाय कर्तारं स्वात्मानमभिद्योतयति - तत्त्वानामपि तत्त्वं येनाखिलमेव हेलया कथितम् । श्रीभोजदेवनृपतिय॑धत्त तत्वप्रकाशं सः ॥ ५॥ इति । तत्स्वानामपि तत्त्वं स्वरूपं येनाखिलं कृत्स्न- मेव हेलयाश्रमेण पूर्व कथितं , स एव तत्त्वप्रकाशं व्यघत्त विभागेन कृतवानिति। नन्वाप्तकृतत्वावबोधेन (न) शास्त्रस्वी- कारः । शास्त्रस्वीकारस्य युक्तियुक्तावबोधपूर्वकत्वात् । तदुक्तं भट्टाचार्येण- "कणान् वा भक्षयेत् कामं माहिषाणि दधीनि वा। युक्तियुक्तनिवन्धश्चेत् तद्धि ग्राह्यं मनीषिभिः ॥" इति । नैतदेवम् । इतरेतराश्रयदोपप्रसङ्गात् । श्रवणे प्रवर्त- मानस्य युक्तियुक्तावबोधः, युक्तियुक्तावबोधे सत्यैव श्रवणे प्रवृत्तिरिति । तस्मादाप्तकृतत्वावबोध एवादी श्रवणे प्रवृत्ति- हेतुः । यथा हि मनुना प्रणीतं व्यासेन प्रणीतमिलादिक- २. न्या' क. पाठः, २. 'त् । नया श्र', ३. 'युपन' ग, पाठः, . १. खपाठ..

- दमका प्रन्याय बहुमानाद प्रवृत्तिरिति युक्तं कर्तृसंकीर्तनामिति । अत्र नि. वृत्तिः कलाध्वा तत्वाध्वा पृथिवी । भद्रकाल्यादिकालाग्न्य- न्तान्यष्टोत्तरशतं भुवनाध्वा । क्षकारो वर्णावा । ळकारो वा- ष्टाविंशतिपदानि पदाध्या । सद्योजातहृदयाल्यौ मन्त्राध्या । पदोद्धार उच्यते - "चतुर्वर्ण समुद्दिष्टं महादेवपदं हि यत् । सद्भावेश्वरसंशं तु पञ्चार्ण मुनिसत्तम! ॥ महातेज इति प्रोक्तं पदं वर्णचतुष्टयम् । पदं पञ्चार्णमुद्दिष्ट योगाधिपतिसंज्ञितम् ॥ मुअमुञ्चचतुर्वर्ण पवर्णं प्रथमात्मकम् । • शर्वशर्वपदं चार बोद्धव्यं चतुरक्षरम् ॥ भवयुग्मं तथा तहद् भवोद्भवपदं पुनः । पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम् ।। सर्वसानिध्यपूर्व तु कान्तं सप्तवर्णकम् । पदमष्टाक्षरं ब्रह्मविष्णुरुद्रपरं परम् ॥ अनर्चितं हिरम्यस्तमष्टाणे पदमुच्यते । असंस्कृतपदं तहत पूर्वस्थितपदं तथा ॥ साक्षिन्तुरुपद तवचतुर्वणे हिरुक्तितः। पट्पतङ्गपदे वर्णाश्चत्वारः पिङ्गसंज्ञके ॥ तहग्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे । ट्याक्षरं स्यान्छिवपदं तथा शर्वपदं विभोः ।। १. देव इ' ग. पाठः १. 'शकम् ' क. पा. ३. 'दु', 'झि', ५. विरु' ग. पाठ ३

पष्टः परिच्छेदः।
१७७
ज्यक्षरं सर्वदपदं प्रणवादि नमो नमः ।
पञ्चवर्ण शिवायेति व्यक्षरं समुदीरितम् ।।
नतियुग्मं पञ्चवर्ण सतारं पदमुत्तमम् ।"
इति । ननु कुतः कथं कलानामुत्पत्तिः । शिवेच्छया विन्दो-
रिति ब्रूमः । तदुक्तं गुरुदेवपद्धती-
"विन्दो दात्मकात् तस्माच्छिवेच्छातः प्रवर्तिताः ।
कलाः पञ्च निवृत्त्याद्या यासु विश्वं प्रतिष्ठितम् ॥
मन्त्राः पदैरतानि वर्णातानीह समन्ततः।
वर्णास्तु भुवनैाप्तारतत्त्वैाप्तानि तानि च ।।
कलाभिस्तानि तत्वानि व्याप्तानीह कलाः ऋमात् ।
सदाशिवादिभूम्यन्तं शक्तितत्वं व्यवस्थितम् ॥
सदाशिवादिकं त्वेवं स्वकार्य व्याप्य संस्थितम् ।
चतुर्युगमहापादं पृथिवीतत्त्वकन्दरम् ॥
कालतत्त्वात्तनामं तत् पश्चाशद्भावकण्टकम् ।
मायातत्त्वबृहद्रन्थि शुद्धविद्याजेशोभितम् ॥
विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम् ।
पीठमेवंविधं कल्प्यं मातृकाबीजसंभवम् ॥"
इति ।
"कलाध्योक्ताङ्गसम्पूर्णो भुवनाथ्वोक्तरोमधृक् ।
वर्णाध्योक्तत्वचोपेतो मन्त्राध्वरुधिरान्वितः ।।
पदाध्वोक्तसिरामांसशुक्लमज्जास्थितत्त्वगः ॥
सदाशिवषडध्वात्मा तस्य प्राणः शिवः स्मृतः।
१. ग. पाठ, २. 'ब्द' क ख. पाठः,

तत्वप्रकाशे सन्याख्ये पराबरो महादेवो ध्याने सकलरूपधृक् ।। निष्कलस्तदभावे तु अष्टत्रिंशत्कलात्मकः । आसनं मूर्तिराबाह्यमेतत् त्रितयमध्वनि ॥ व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत् । आसनं शुद्धविद्यान्तं मूर्तिः शक्त्यन्तगोचरा । आवाह्यं शिवतत्त्वं स्यादेतच्छैवानुशासनम् ॥" इति ॥ इति तत्वप्रकाशतात्पर्यदीपिकाया निवृत्त्यारय. पष्टः परिच्छेदः। यस्याखिलं करतलामलककमेण देवस्य विप्फुरति चेतसि तत्त्वजातम् । श्रीमोजदेवनृपतिः स शिवागमार्थ- तत्वप्रकाशमसमानमिदं व्यवत्त ।। नमस्तस्मै भगवते भोजायाक्लिष्टकर्मणे । शिवाय शिवमक्ताय शिवैकाहितचेतसे ॥ नमः सर्वजगज्जन्मस्थितिभडैकहेतवे ।। सर्वदैकस्वभावाय शिवाय शिवदायिने ।। तत्त्रप्रकाशव्याख्यानं भक्तिनिर्मरचेतसा । अविज्ञाय कृतं यत्तु सन्तस्तत् क्षन्तुमर्हथ ।। इति मारद्वाजकुलालकरणमूतेन शकरसूनुना विपिविहित सोमरसास्वादनपरितोषिणा शिवामियमद्वयासक्त- मधुरायमाणमानसेन श्रीमता श्रीकुमारेण रचिता तत्तारातात्पर्यदीपिका परिपूर्णा ॥ शुभं भूयात् ।

शुद्धिपत्रम् । सुदम्. पृष्ठम्. पक्तिः भशुद्धम्. ५६ ७ १७ (एनदनुसारेण विंश- लोकमभिव्याप्य संख्या शोध्या।) ३९ 1४४ " दया स ५ ७ - READY FOR SALE. RS. 18. r. af (Stati) by H. H. Srâti Sri Rama Varme Mahârijah. 100 Trivandram Sanskrit Series. e No. 1-9:(Vyakarana) by Dera with Puru. shakira of Krishnalilâsukamuni.' LO 0 No. 2-anak AHTSI-ut by Krishnalilásukamuni. 0 20 No. 3-Tetogen: (Kêvya) by Vâmana Bhatta Båna (Second Edition). 04 0 No 4-fararstaroa: (Karya) by Nilakantha Dikshita. 2 0 0 No. — (Alankara) by Maluma Báacta with commentary. , 2 12 No 6-: (Vyakarana) by Samnadera 200 No. Transmitter (Vedanta) by Sadda. sivendra Sarasvati 24 No S-9172944 (Nataka) by Ravi Varma Bhupa 1 0 0 No. 9-a (Vedinta) by Virûpâksha- Datha with the commentary of Vidyachakravartın. O No. 10 Ster (Gajalakshana) by Nilakantha. O No 11-YÁTENE (Nataka) by Kulasekhara Varma with the commentary of Siva. rėma. 40 Yo 19_n (Vedanta) by Bhagavad Adi. sesha with the commentary of Raghav. &nanda. 08 0 No. 13-HTETITE Nátaka) by Kutasellura Varms with the commentary of Sivarima 8 0 RS AS 1 1 No 14-ten (Nita) by Kamandaka, with the commentary of Sankararfa 3 80 No 15-RHETE (Nataka) by Bhasa (Second Edition) 1 60 No 16-osmatramoura (Nataka) by Bhasa 1 8 0 No 17_TE Do Do 1 0 0 No 18-arquiten (Stuti) by Narayana Bhatta with the commentars of Deramangala Vary+ 0 0 No 19-ATATATEA (Mimamsa) by Narayana Bhatta and Narayana Paudita 1 No 20 mm (Nataka) by Bhâsa 8 0 No 21-erican Do Do 0 0 No 22-gram-gratta-ALTSZOTTIEHATA (Nataka) by Bhasa 8 0 No 23-atraretuiaget (Kosa) by kesajastamin (Part I Ist & and bandas) 1 12 0 No 24m realita (havya) by Chakrakara 1 0 0 No 23-materiaaleight (Ngâga) by Gangådharasürt 12 Yo 26.- Total (Nataka) by Bhasa 0 12 No 27-** (hatsa) by baldlåsa with the two commentaries, Prakasika of Arunagarinatha and Vivarana of Nara yana Pandita (Part I. let 2nd Sargas) I 12 0 No 28 TARTÁTH (Dharruasutra) by Vikbanas 8 0 No 29aimetoit (host) by hesavaswåmia (Part II 3rd kanda) No 30-ruftans (Silpa) 0 19 No 31-radi (hoa) by Kestiazkimin (Part III 4th, 5th & 6th hundas) 1 0 0 0 0 0) 0 3 BS.AS. P. - No. 32-ART: (Kavya) Lş Kalidasa with the tno commentaries, Prakásila of Aruna. giriostla and l'irarana of Narayana Pandita (Part II. Srd, 4th & 5th Sargas) 2 80 No. 33-TETRAE: (Vyakarana) trith the com. mentary Dipupmbhê of Narayana. 0 8 0 No. 34-: (1.garage:) (Nyaya) by Raja. chádấmanitcaklin, I 40 No. 33-afdeks: (21949 :) (saya) by Gopia nåtha. I 8 0 No. 36-4Crita: (Kérya) bg Kálidasa with the two commentaries, Prakasiki of Arunagirinatha sind l'ivarana of Narayana Pandita (Part III. 6th, 7th & 8th Sargas) 3 0 0 No. 31-— Tapa (Smriti) by Varuruchi with commentary. O No. 38-lattiat (Kosa) by Amarasimba with the commentary Tilasarvasva of Vandynghatiya Sarrânanda (Part I. 1st Kanda). 200 No 39 T (Nataka) by Bhasa 0 120 No 40%TESETTENTE (Alankara) by Rajenaka Sri Ruyyaka with the Alanbärasarvasva of Sri Mankhuka and its commentary by Samudrabandha. 98 0 No 41.PAYZET (Kalpa) by Araszamba with Visarina of Sri Sankara Bhagavat Pada. 0 4 0 No. 42-CA (Nataka) by Bhesa 80 Ho. 43-RESTE (Kota) by Amarasimba with the two commentaries, Amarakosodghatana of Kshirastamin and Tiks. Sarisswa of fundjaghatiya Sarananda (Part II, 2nd Kanda I~6 Vargas) 28 0 R$. A8, P. 0 No 44-45 (Tantra) by Bhattaraka Sri Ve. dottama, 4 0 No. 45~5926747 (Prapanchabrdays) 1 0 0 No 46-47#418ft (l'yekamna) by Nilakantha Dikshita. 8 No. 47—foretara (Vedanta) by Sri krishuậpanda Samsvati. (Part I.) 1 12 0 No. 48 Do. Do (Part II.) 2 C No. 49-estett (Jyotisha) by Parameswara. 0 4 0 So 50-tariant: ( Alankara) by Singa Bhupala 3 0) 0 No 51rfekt RATA (Kosa) by Amarasimha Frith the two commentaries, A marakoso dghatana of Kshirssâmn and Tikasarsaana of Vandyagiiatiga Sarvananda (Part III. 2od Kanda 7–10 Vargas) 2 0 0 No. 52-577** (Eora) by Amamsimba with the commentary Titásarasva of Vandyagbatiya Sarsananda (Part IV. 3rd Kapda) 1 No. 53-51farin. (Vedanta; by Pralásâtmayatindra 0 12 No. 54-Araturan (Vyakarana) 0 4 No 35~HETTETRICH (Nâtaba) by Sri Vabendragkramavannan No. 56mC(Silpa). 8 U Xo 57-reftit (Karya). No. 58-STATE (Vedanta) by Sri Krishnananda Samanati (Part 111.) ? 0 No 39-TITRA (Nataka) by Sriharshadera with the commentary Nagananda. vimarsini of Sisarama Yo Goygfa (Stut) by Sri Laghubbattâraks with the commentary of Sri Rayas- Yananda - 0 $0 8 0 0 8 0 1 D 3 ប 5 RS. 48. 1. 0 0 61-forereti(Vedanta) by Sri Krishna nanda Sarasvati (Part IV.) 1 8 0 Jo. 62--TÉRE. (Sarvamatasangraha) 08 0 Jo 63-faclarinina (Karya) by Bharavi with the commentary Sabdarthadipika of Chitrabhann (1, 2 and 3 Sargas) 2 8 0 Na 64-ASAR, (Kavya) by Kalidasa with the commentary Pradipa of Dakshinavarta- Datha. 1 No 65W (Silpa) hy Mayamuni 3 & 0 No 66% HETÜHS (Darsana) with the commentary Parimala of Maheswarânanda No. 67-geri (Tantra) by Narayant with the commentary Vimarsipi of Sankara (Part I. 1-5 Patalas) 3 40 No 68-408an: (Agama) by Sri Bhojadeva with the Commentary Tátprrya dipika of Sri Kumara 2 0 0 Apply to: The Agent for the sale of Government Sanskrit Publications, Trivandrum.

Tatva Prakash (granthank-68)

Author
Bhojdev
Title
Tatva Prakash (granthank-68)
File name
Tatva Prakash (granthank-68)
Text
OCR done
Citation
1920
Published
2012/08
Publisher
Rajkiya Mudranalay
Language
Sanskrit
Pages
195
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311408
Barcode
99999990320298.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
6YAEKms80wW
Download PDF

Tatva Prakash (granthank-68)