Bharti Bhawan Liabrary, Allahabad
Bhagirathi Champu
Front matter
8 मा श्रीः रामकृष्णसूरिविरचिता भार्गवचम्पूः। प्रथमः स्तबकः । श्रीपति प्रणमट्टन्दारकवृन्दाभिनन्दनम् ॥ भवबन्धच्छिदं वन्द्यं वन्दे मान्द्यनिवृत्तये ॥ १ ॥ देवः शारदपद्मकोरकमदप्रध्वंसिपमाकुच- प्राग्भारस्फुटचारुपत्ररचनाचातुर्यरत्नाकरः ॥ लक्ष्मीनेत्रकटाक्षवीक्षणशरव्यापारलक्षीकृतः क्षिप्रं पक्षिपतिव्वजो वितनुतां शास्तं प्रशस्तं मम ॥२॥ निर्निमेषपदावाप्त्यै संविशन्ति वनवमी ॥ गुणजालपुताः सन्तो धीवरा इति मे मतिः ॥ ३ ॥ मानससंचारिपदा भव्यगुणा भूतिमाश्रिता सरसा ।। सस्कृतिरपि बहुकाकैः कलहंसीव प्रदूप्यते कुजन : ॥४॥ १ वृन्दार कवृन्दी देवसमूहः । २ जडबुद्धित्वनाशाय । 3 शरत्कालीन. पद्मकलिकागर्वहरौ यो कुचप्राग्भारौ (प्राग्भारौ शैलशृङ्गो (टेकडीति भाषा- यां) ताविव कुचौ स्तनौ, 'उपमितं व्याघ्रादिभिरिति समासः ) तयोः स्पष्टा या चार्वी सुन्दरा पत्ररचना कस्तुरीकुमादिभिश्चिःलेख्यं तद्विषय या चतुरता तस्या रलाकर इव । अतीव कशल इत्यर्थः । 'शैलाने शिखर Pटङ्ग दन्तः प्राग्भार इत्यपि' इत्यभिधानम् । ४ गरुडध्वजः । ५ शास्तं मङ्ग- लम् । ६ निर्निमेषा देवा मत्स्याश्च । ७ काननेषु उदकेषु च । ८ भतिरैश्चय भार्गवचम्पूः । भाव्यालंकृतिहृद्यवर्णसुपदन्यासोज्झितामछतिः केयं नूनमनल्पदूषणपदं स्यादेव किं तावता ॥ सन्तः सन्ति सदा यदास्यसरणीसंचारिणः प्रस्फुर- दोषास्तेपि गुणाः स्युरम्बुदमुखैरम्भासि सिन्धोरिव ॥५॥ अस्ति च चतुःसमुद्रवलयमध्यगतसकलवसुन्धराखण्डमण्डनं खर्वीकृतशर्वारिगर्वपर्वतैः विनिर्जितकोपाटोपैः स्फुरज्जटामुकुटवि. राजितोत्तमाङ्गः पुरन्दरादिवन्दितवन्धसुन्दरमुकुन्दपदारविन्दम करन्दष्ट्पदैरविरतानन्यानित्यवस्तुविचारपरक्शेर्मुनिजनैनितसी- भाग्यं सारिकासा रसहंसशुकचक्रवाककोकेपरपुष्टकण्ठध्वनिभिः पान्यानाह्वयदिवातिरमणीयमसमप्रदेशं कस्तूरीहरिणवराहम- मुत्तुङ्गमातङ्गगवयकृष्णसारमृगपञ्चाननप्रभृतिभिर्वनचरैरप्यन्योन्य- मवनपरैः पशुभिरधिष्ठितम् अधरीकतनन्दनवनरामणीयक नि- नाविमलकीलालबहुललोलकल्लोलोच्छलल्ललिततरतुषारपवित्रिता- खिलराशे(?)जनाभखण्डसुकीर्तिकेतुयष्टेः स्नानार्थीगतकिन्नरीगण- निधौतस्तनकुङ्कमपङ्काङ्कितोत्तुङ्गतरङ्गवत्या भगवत्याः सरस्वत्यास्ती- रम् ।यत्र परोपकारार्थजन्मानोऽनेकशाखिनः कमनीयपरिच्छदाः फैनपा इव पादपाः सन्ति । यत्र च लताः सर्वर्तुपुष्पवयोपि अप्रदोषावेकासिन्यो मुनिनिचयावचितकुसुमाः सन्ति । चूताश्वत्थकपित्थकुन्दतिलकप्लक्षाक्षसन्तानकै- बिल्वानीलतमालतालपनसप्रोच्चाप्रियालेङ्गदैः॥ wamilar १ हस्वीकृत- लघूकृत- । २ परपुष्टाः कोकिलाः । 3 रामणीयकं सौन्द. वम । ४ कीलालं उदकम् ।५ फनपा: मेघटवा ? । ६ 'तिळवा' इति भाषा- याम । ७ कल्पवृक्षाः । ANA प्रथमः स्तबकः। ३ खरार्जुनभू लोध्रवकुलैराम्रातकाद्यैरपि व्याप्तं तद्वरभूरिभूरुहगणदेवैर्यथा विष्टपम् ॥ ६ ॥ बहुलशकुनि विपुलार्जुनमभितसकृपेमीष्मशतद्रुपदम् ॥ सुबहुशिखण्डिसमधिकं भारतचरितात् सरस्वतीतीरम्।। नूनमीभिरादिव तयैव सरस्वत्या । अमरपुरसमृद्धिस्पर्द्धया वर्धयित्वा निजरुचिरतटाकप्रान्तसौभाग्यभाग्यम् ।। तदनुभवसमोदस्तापसानां समूहः समकतमुरसम्पद्यस्य हः सस्पृहोपि ॥ ८ ॥ कदाचित्तत्र निगमाध्ययनचयनादियजनदत्तावधाना विषविष- मविषयाविषारयग्रस्तविवेकग्राम्यजनानुग्राहका निखिलनिगमा- पारदृश्वानो वशीकृतकरणान्तःकरणमातरिश्वानो भार यज्वा- नस्तपस्विनोवतरुयैषामतिविचित्रतमं चारतम् ॥ भवे रता अप्यभवाश्च केचिद्रमापसत्ताअपि नो रमापाः।। हिरण्यगर्भापसृतास्तथापि हिरण्यगर्भास्तु न ते द्विजाच्याः॥९॥ १ आम्रातको मधूकवृक्षः । २ जगत् । ३ शकुनिः पक्षिः दुर्योधनमा- तुलश्च । ४ अर्जुना वृक्षाः अर्जुनो भीमानुजः । ५ सकृपाणि सुदर्शनानि भी. प्रमाणि भयङ्कराणि शतानि अनन्तानि द्रुपदानि वृक्षस्थानानि यस्मिन् पक्षे. कृषः कृपाचार्यः भीष्मः प्रसिद्ध ः द्रुपदः द्रुपददेशराजा प्रसिद्धः । ६ शिव- ण्डी मयूरः भीष्मशत्रुश्च । ७ करणानि इन्द्रियाणि । ८ भवः शङ्करः संसार व । ९ रमापः श्रीपतिर्विष्णुः द्रव्यवांश्च । १० जगदुत्पत्तिकरी विष्णुः ११ हिरण्यगर्भः श्रीमान् ।
४ "FE EFF EYE PERF भार्गवचम्पूः । संसारतापसंशान्त्यै तपोभिस्ते तपस्विनः ।। चित्रं सततमर्चन्ति श्रीवरं जनतापदम् ॥ १० ॥ अवतीर्य सरस्वतीतीरं वीरुत्तरुणतरुसमुन्द्रिसान्द्रकुसुमसमूहो- मद्भमरमञ्जुसिञ्जनप्रणुन्ना इव स्वयमापे तत्तटपावित्र्यहृतचित्ताः सत्रार्थ मन्त्रयामासु। इतो भूमी रम्याऽसितमृगपदाङ्करातेतरा- मितो दर्भाः शश्वद्धरित इह नीवारपटलम् ॥ इतो वातः सारस्वतनलकणान् मूर्छति वहन् पिकः प्रोच्चै रम्यं मधुसमयमावेदयति नः ॥ ११ ॥ आपि चास्माकम् । मुर यज्ञसम्भारसौलभ्याद्विलुभ्यन्मनसामिह ॥ वृत्तिमुत्साहयत्येतत्तीरं सारस्वतं क्रतौ ॥ १२ ॥ तद्युज्यतेत्र यज्ञभागभुजः सुधाभुजः सभाजयितुम् । ततः । खि युक्तमित्येव ते सर्वेप्यनुमान्य समुत्सुकाः ॥ समयां सत्रसामग्री कल्पयांचक्रुरञ्जसा ॥ १३ ॥ अनन्तरं कर्षणादिना भूशुद्धिं विधाय विरचितश्च । तत्तञ्चिन्हवदुन्नतोन्नतचतुरः सुधारंजितः प्रत्यग्रस्फुरदाम्रपल्लवभरकप्तोल्लसतोरणः ।। सडूरैरभिशोभितश्च निगमध्वानैकशाली पृथु- प्राग्वंशः कुशनिर्मितास्तरणवान् रम्यः क्रतोर्मण्डपः२४ ॥ अ १ दुष्टजनानां तापदं जनता जनसमूहः तस्य पदं स्थानम् । २ लतास, यमूहः वीरुत् । ३ प्रणुनाः प्रेरिताः । ४ सुधया चर्णेन रञ्जितः धवल इत्यर्थः । नाः पृथुः भव्यः प्राग्वंशः यस्मिन् । हविमहात्पूर्वदेशे सदस्यादीनां यद्गुई म प्राग्वंश इत्यभिधीयते। HAMARIES प्रथमः स्तवकः । अग्निशालायां च गार्हपत्याहवनीयादीनां शरणानि मेखला भिरूपशोभितान विरचय्य । ततः स्वात्वाथ सलिले सरस्वत्या मुनीश्वराः कृतजप्याश्च ते विप्रा यज्ञवाटमुपागमन् ॥ १५ ॥ प्रविश्य तस्मिन्विशालेपि सशाले मण्डपे प्रागग्रेषु दर्भेष्पबि- ष्टाः प्रविभक्तकार्याधिकारा मुनयो महता पुण्याहघोषेण दीक्षा वर्तयामासुः । तत्र प्रथमं मुख्यदेवतोदेशेन क्रियमाणे सङ्कल्पे विकल्पस्तेषामन्तःकरणसदनं मदमत्तमातङ्ग इवोच्चशिलोञ्चयदरी- मध्यमध्यतिष्ठन् हरिहरविधयः । जगतामीश्वरत्वेन त्रयः पूज्यास्तथाप्ययम् ॥ नरः कस्यानुसरणादत्यन्तं क्षेममभुते ॥ १६ ॥ इति तथाविध व्यतिकरे हिरण्यगोपासकाः प्रोचुः । अ- हो कथमेते पण्डिता अपि हस्तस्थितवस्तुवीक्षणकृते दर्पणापेक्षा- बता पन्थानमनुसरन्ति । यतः स्पष्टमेवैतत् । येन स्वीयेन धाना ज्वलदनलचलज्जालमालागारम्णा पुष्टेनेष्टैत्तपोभिर्लपसमयतमस्तोमलीदान्तराणाम् ॥ नृणां पूर्णात्मबोधप्रमदमविदुषां दृष्टिरुन्मीलिता द्राक् यष्टव्यः सृष्टिनाथः स तु सततमतः सर्ववेदैकसर्गः ॥१७॥ तदुत्तरं सानुशयं शैवाः । यदक्षिार्थागतमादेतवृन्दारकजनः प्रभाचक्रभ्राजन्मुकुटतटसंघटगलितः ॥ १ स्थानानि । २ यज्ञस्थानम् ।३व्यसनो ४हिरण्यमों देवः (ब्रह्मदेवः)।
भा भार्गवचम्पूः। स्फुरत्नैनित्यं जनितसिकतं प्राङ्गणमहो यदीयं तं देवं भवमिह भजामः सुरवरम् ॥ १८ ॥ तदूर्व भागवताः। यो नेत्रश्रुतिभारतीप्रभृतिभिर्विज्ञायते नो गुणै. खा यश्चाम्नायसमूहशीलनपरस्तात्पर्यवृत्त्योच्यते । तत्त्वानां निचयं प्रविष्ट इति या सम्भाव्यते स्वेच्छया भक्तानां च भवाय भाविततनुः सेव्यो हरिः सर्वदा।।१९।। इत्याग्रहग्रहोपमग्रस्तान्तरात्मानो महान्मानः स्वस्वोपासन पा वासनापरवशवेन परस्परं निजगदुः । ततः केचित् सुविचार- मुन शोलनपराः । आः किमेतेन विचाराचतुरेण भवतां विवादेन । मव तन्निशम्य वैष्णवादयः सर्वेप्येकीभूताः । कथमविचाराचतुरत्वम- जा स्मद्विवादस्य यतो ब्रह्मादिदेवतानाम् । खि तिसृणामापि भूरिभाग्यभाजां जगदीशत्वमयं जगाद देवः ।। नि स्मृतयश्च ततो वयं प्रपन्नाः शरणं तच्चरणावघापहत्यै ॥२०॥ विवेकिनः सत्यमुक्तं तथापि । यथा वा । दीपानामरुणसितादिकाचसारैः कृप्तेषु स्फुटचर्षकेषु संस्थितानाम् ।। दीपत्वं यदि च समं तथापि कान्तिः श्वेतस्थे बहुलतमा तमांसि हन्ति ॥ २१ ॥ एवमेव निगमस्तुतपदनीरजानां तदुपाधिकृतवैषम्यजुषां तेषामी- विश्वरत्वाविशेषेपि यत स्तूर्णमर्णवसारे संसारे निमजतां जन्मिनामज्ञान- , स्वतन्त्रपात्रषु ।
प्रथमः स्तबकः । निवृत्तिद्वारा तत्स्वरूपसम्प्राप्तिफलमञ्जसा भविष्यतीति विज्ञानार्थ कश्चित्संप्रेषयितव्यः । ततः सर्वेप्यैकमत्यमनुसृत्य को वै प्रेषयि- तव्यः कश्च कार्यक्षम इति च विचारयामासुः । विचार्य च भैर्बचातुर्यादिचर्यावदुर्य विधातृपुत्रं भृगुं तद्योग्यं मत्वा तं प्रत्यूचुः। भृगो याहि क्षिप्रं प्रथितगुणशाली सकरुणो भवाब्धेरातङ्काचरणशरणोत्तारणपरः ॥ जगज्जन्मत्राणप्रशमनविलासेष्वयमिति त्रिषु ज्ञात्वहि त्वं मुनिनिचयमादाय झटिति ॥ २२ ॥ स इत्यमाकर्णितमुनिजनवचनो भृगुः खचित्तेऽचिन्तयत् । अहो किमेतत् । छलसाध्यमिदं कार्य मा प्रत्युपदिशन्ति । नायं हितोपदेशस्तर्हि त्यजेदेकं कुलस्याथै इति सर्वेपि मां महदव- ज्ञान्धकूपे प्रवेशयन्ति । तदिदमकार्यमनार्यक्षममवधार्य प्रावोचत् । कथं जगत्पूज्यपदेषु शश्वच्छलप्रयोक्ता भविता समृद्धः ॥ जिजीविजुः प्राणहरं निगीर्य क्रूरं गरं को हि भवेत्कृतार्थः २३ एतन्निशम्य मुनयः । न त्वमीशानां छलमकार्यं कृत्वापि पा- पभाक् । यतः स्वार्थ न प्रवृत्तः सर्वलोकशङ्कापरिहारेण परोपका- रार्थम । अकार्यकारिणोपि परोपकारिणो न दूष्यन्ते । शृण तावत् । सशम्भोरम्भोधि प्रभवमभियातुं पशुपते. विषं किं व्यापारो जगति कथयस्वास्तुतिपदम् ॥ स्तुतस्त्वाष्ट्रप्राणप्रमथनविधातुः सुरपतेः प्रवृतिः सौभाग्यं वितरति परेषामुपकृतौ ॥ २१ ॥ प्रसिद्धगुणयुक्तः । २ आतको रोगःपीडा वा ।
८ रा भार्गवचम्पः । तस्मात्परोपकारार्थमकार्यप्रवृत्तिरपि न दूषणार्हा । प्रत्युत भीतेष्वपि फलतीति । पश्य । सम्प्राप्तं बत कर्दमादिभिरलं कष्टात्कलत्रं हरे- स्तुष्टादेकमथाच्युतेन धरणीजन्मानमुन्मथ्नता ॥ आदित्यार्थकरेण सार्धमभितस्तेषां सहस्त्राधिक लब्धं कोपि समीहतेष्टफलके लोकोपकारं विना ॥२५॥ तत्तावत् त्वमप्यनया लोककर्तृप्रवृच्यापि भविण्यास प्रशंसापा- त्रमित्युक्त्वा तूष्णीं स्थितेषु तेषु महर्षिषु । अथ परिहतशङ्कातङ्कपको मुनीना- मनुनयपटुवाचां वाचमुच्चैर्निशम्य ॥ तदुदितनयवर्मन्यापुतात्मार्यवृतः सरभसमभिगन्तुं व्यापृतोभूत्तदर्थे ॥ २६ ॥ इति सूरीन्द्रश्रीमद्रामकृष्णविरचितायां भागवचम्प्वां प्रथमस्त- बकोयं समाप्तः ॥१॥ भा म 2 खि नि क RANDubani ०:० द्वितीयस्तबकः । अत्रान्तरे । प्रभंततमतमविनीतमस्तोमसम्भूतन ननयनोपरो धसंहारैकचतुरकरः सहस्रकरः समतिक्रम्य प्राचीमुखान्नभःसैर- णि स्वकरपरिमृष्टवारुणीदिगम्वरः कामुक इव शनैरस्ताचलवि- शालमौलिमनुस सार । आश्चर्यमिदम् । बम व . अतिशयेन प्रभूता । २ आकाशमार्गम् ।
द्वितीयः स्तबकः । पुंसां पांसुहृदंशुमानयमहो निर्दोषरागामिमां मानार्हामपि पद्मिनी स्वरमणी त्यका प्रतच्यिां रतः ॥ तत्सङ्गाय तदम्बरं पारमृशन् दोभिः प्रयात्यग्रतः कष्टं धामवतोपि तत्य चरितं जारापराधस्तु कः ॥ १ ॥ अपि च । कृत्स्नं भूचक्रवालं निजकरनिकरैः सम्प्रशाम्य प्रचण्डै- श्चातुर्वर्ण्य च तत्तत्सुविहितकरणे योजयित्वाऽव्यलीकम् ॥ प्राते कालेथ पश्चात्सपदि पुनरयं दीपसंक्रामितश्री- रस्तं प्रत्यति कृत्वाप्यहह दिनकरः कोकलोकं सशोकम् ॥२॥ अभ्युदये भवति नरः पूज्यो न विनाशकाल इति सिद्धम् ॥ अद्भुतमिदं यदर्थेरुदयेऽस्तमनेपि पूज्यते भाखान् ॥३॥ इति कौतूहलादनेकविधं तर्कितवत्सु जनेषु । अस्तंगतवति भगवत्यंशुमाते अतिबहलतमतमस्तोमसंपूरिताम्बरतलोयं भुव- नगोलको रत्यञ्जनकरण्ड इव संवृत्तः । अथ वा । निजकरपरिमोद्भूतनूत्नप्रमोद- प्रसरसमनुरञ्जद्वारुणीसङ्गसक्तः। रविरसितपटेन व्यावृणोद्गन्तुकामो भुवनमिव सलज्जास्त्वन्धकारच्छलेन ॥ ४ ॥ ततः सुगूढतरप्रस्तरोञ्चयकन्दराधिष्टितेषु वनचरसमुहेषु । भ- यादिव सञ्चरत्यूपवनतरुकोटरान्तरालतलं विहङ्गेषु । सनदत्सु च काककुलस्पर्द्धान्धीकतदिवान्धेषु । मानवतीष्विव मुकुलितासु १ तेजस्विनः । २ सुखेन यथातथा । ३ चकोर भार्गवचम्पः । कमलिनीषु । प्रियविरहद्यमानसेषु कोकलोकेषु । प्रोद्यद्भव्ययौ- वनमदालसाङ्गनाङ्गरङ्गेषु रन्तुकामे रङ्गोपनीविनीव शनैः सञ्चरतीव भमवति मकरध्वजे। व्यसने इव सप्तांशुदीप्तजिह्वाप्रदाहिते नभसि प्रोद्यताः किंतु स्फोटका इव तारकाः ॥ ५ ॥ अपि च । भास्वत्कराग्निसदग्धं नभोभस्मेव मेचकम् ।। यास्तस्मिन्विस्फुरत्तारास्ता हुताशकणा इव ॥ ५ ॥ न ENEF FE अथ वा। S SAR RSS F A LETES ध्वान्तस्यान्ताय गच्छन्नवविरहवती प्रागदिशं प्रेक्ष्य दत्वा सूर्यो धुर्यः स्वहस्ताहृतगगनसरस्तारहारानयासीत् ॥ मग्नं तं पश्चिमाब्धौ परयुवतिवशाद्वीक्ष्य पूर्वाकृतोरो- घातभ्रश्यत्सुमुक्तो ज्वलितमिव नभस्तारकाढ्यं वदन्ति ॥७॥ ततः कलावानपि स्वीयकलाकलापेन निखिललोकलोचनानि कुवलयानि चाह्लादयन्नमितशिखरराजितमुदयाचलमूर्धानमारुरोह रतिनाथसहायतां प्रपन्नः कुमुदानन्दकरः कुरङ्गलक्ष्मा ।। ककुभां वलयं विभासयन्त्सन्नुदगादिन्दुरमन्दकान्तिकन्दः ८ ननमिन्दिराबन्धोरिन्दोर्मदनसहायत्वं श्रिया प्रार्थितेन भग- वता श्रीशेनैव प्रतिपादितम् । गीर्वाणः संप्रमथ्य प्रसभमपहृत श्रीः पिता मे कलावां- स्तत्सूनुबन्धुरिन्दुमम वितर विभो वित्तिमत्सानुरूपम् ।। १ चक्रवाक समहेषु । २ चन्द्रे । ३ चित्र वर्णम् । PMEANI द्वितीयः स्तबकः। पद्मावाक्यानुरोधादिति दनुजरिपुः स्वीयसूनोः शशाई वीरं विश्वं जिगीषोः सपदि रतिपतेः साह्यभूतं चकार ॥९॥ यातेस्तं चण्डभानौ निशि निबिडतमस्तामसं पूरिताया- मिन्दुर्नीलाम्बरेणावृतवपुरसितस्यास्यमकच्छलेन । कृत्वैवं मानिनीनां मनसि मतमहो मानमाच्छिद्य चित्रं भोत्यारूढः कुरङ्गे परिपतति नभस्याशु राजा द्विजानाम् १. अत्र हेतुः । मानाभावात्सपत्न्या अनुनयननितं सौख्यमप्राप्यमाणं हृत्वा न्यासात्तदिच्छुस्तमथ विनिदधे रोहिणीचित्तवृत्तौ ।। स्वस्यासौ सन्निधानादपसरति ततस्तन्न विज्ञाय जाड्या- दूयोभूयस्तदर्थे विधुरतियतते नाधुनाप्याप्तकामः ॥ ११ ॥ अपि च । वयं विजितहृच्छया विषयसङ्गशून्या वयं वयं प्रशसितेन्द्रिया इति च गर्वभाजो नराः ॥ स्मरेण जयता ध्रुवं विजित एष तन्नासिका- विलेपनकते सुधाचषक इन्दुरुज्जृम्भते ॥ १२ ॥ सौभाग्यं किल मूर्तमेव ककुभां लीलारविन्दांशितं लक्ष्भ्या देवनकन्दुकः किमु रतेः पात्रं सुधापायिनाम् ॥ शृङ्गारस्य करण्डकः किमुदधेः फेनस्य पिण्डश्चिरा- दित्यं सजनयन्भ्रमं समुदितः प्रोद्दामधामा विधुः ॥१३॥ १ नक्षत्रराट् चन्द्रः । २ प्रीत्युत्पन्नम् । 3 जितकामाः । ४ सुधपात्र या अमृतं चूण च । ५ दिशाम् । ६ क्रीडागण्डकः ।
१२ भार्गवचम्पः। इत्थं तर्कयत्सु लोकेषु भृगुरपि सुधांशुधामधवलितविपुलता- रान्तरालो वियच्चरचकोरनिचयस्यामृताशनशालामिव सम्प्रवृत्तां त्रियामा समालोक्य विष्टम्भितगमनवेगः सम्पादितसान्ध्यविधि- श्व तैरेव तपस्विभिः सह तत्रैव तां निशामनैषीत् । कोकानां विरहेण नूतनरतौ सीदन्नवोढाधिना कान्ताश्लेषसुखानुरक्ततरुणीप्रेमातिरेकेण च ॥ पद्मानां परिमीलनेन कुमुदप्रोन्मीलनेन स्वप- लोकस्वापसुखेन सार्धमगमद्दोषा दिशं पश्चिमाम् ॥१४॥ पा ततः। न EFF Ft PF LEFB अर्धोन्मीलकमलमुकुलोपान्तनिर्मुक्तगुञ्ज- षट्पादालीकलरवनुतस्फीतसौभाग्यपूरम् ॥ दिग्मालिन्यप्रसरगरलग्रासकर्पूरगौरः सुप्तोबुद्धद्विजकलकलैः प्रादुरासीत्प्रभातम् ॥ १५ ॥ तस्मिन्नवसरे । क्रीडामुत्थितपक्षिपक्षचलनैर्मालिन्यसत्यांगतः सत्कारं वपुषो जनोत्सवचयप्रेक्षास्फुटत्पङ्कजैः ।। हास्यं चापि विधाय भत्रुपगमाद्यानं विना चालये प्राची सङ्गतभर्तृकेव समभूदुत्तीर्णचर्णिव्रता ॥ १६ ॥ अपि च । खण्डितामिव तां प्राचीमनुनेतुमिवांशुमान् ।। स्वकरस्पर्शमात्रेण कृतवाननुरागिणीम् ॥ १८ ॥ NE १ दांपा रात्रिः । २ रञ्जितां प्रीतियुक्तां च ।
द्वितीयः स्तबकः। १३ बृहत्तिमिरसिन्धुरप्रमथनार्थमुद्गच्छतो हरेः सपदि कस्यचित् समुपलेलिहानस्पृहा । मुखाद्वहिरुपागता ललितशोणजिह्वति किं ततान भुवि विस्मयं तरणिबिम्बमोदितम् ॥ १९ ॥ नभोम्भस्तामित्रप्रसरदतिमालिन्यशरदः सहस्रांशोरुच्चैरुदितवति बिम्बे द्युतिमति । तमोनाष्टगोत्राविवर इव संलनिपरमं मुनीनां यञ्चित्ते तदपि परिहर्तुं भृगुरगात् ॥ २० ॥ उपसि सरिजले निमज्जनं विधाय कार्यभरादिव संजातसङ्को- चनं नित्यकर्म समाप्य कृतविषयवासनानिधानांस्तपोधनानविल- म्बितं जिगमिषुर्भृगुः सविनयमिदमभाषत । भवत्तथ्यवचः पथ्यपाथेयपथिकः पुमान् ।। पाथोधिमपि वीथ्याम्बुप्रायं न मनुते कथम् ॥ २१ ॥ तत्कृतकल्याणरचनेन भवदाशीर्वचनेन समुत्पन्नकार्यविधान- दाक्ष्योहं निर्विघ्नं गन्तुमुत्सुकोस्मि मामनुजानन्तु भवन्त इति । अथ कथनीयकीर्तय ऋषयः प्रोचुरुच्चैः । पन्थानश्च शिवास्तवामलमते गछन्तु कण्ठीरैव- क्रीडादारितदन्तिराजकलभैर्जुष्टां दशामातयः ॥ याहि क्षिप्रमुपहि तात चपलं स्तुत्यं च कृत्यं बुधै- राक्लिष्टं प्रविधाय सायक इव श्रीकण्ठेचापच्युतः ॥२२॥ १ सिंहस्य सूर्यस्य । २ गुहायानित्यर्थः । ३ सिंहेन क्रीडया उत्पाटिती या करिशावकः तत्प्राप्ताम् । ४ पीडाः । ५ पिनाकधनुषः परितः । २ भार्गवचम्पूः । तत्तात कृतकृत्यस्य तव क्षिप्रं पुनर्दर्शनमस्तु इति । मुनीशानां याशीर्वचनरचनोत्पादितधृतिः प्राशन्तव्यामोहः सपदि सनितान्तप्रमुदितः ।। त्रिलोकीसञ्चारक्षमगतिरजस्यौधिवसति- प्रतस्थे प्रस्थानोचितविधिमुपास्येष्टफलताम् ॥ २३ ॥ इति सूरीन्द्ररामकृष्णविरचितायां श्रीभार्गवचप्वां द्वितीय- स्तबकोयं समाप्तः ॥ २॥ तृतीयस्तबकः। FFFFFFERF ततो भूगुर्गच्छन्नध्वनि कृत्पसिद्धिसूचकान शुभशकुनानवलो क्य सहर्षम् । ध्वाना दक्षिणतः प्रयान्ति सहसा चाषाः पुनः सव्यत- श्वेतो मोदभरानतं च हरिणी शावेन साकं ययौ ।। मन्दं गन्धनलौघबिन्दुनिचयप्रोद्भूतभारादिव वाति श्लिष्टवियोगिनीहृदवनीसीरः समीरः पुनः ॥ १ ॥ तत्सर्वथा कृतकायोहमार्यदर्शनार्थमागयिष्यामीति विचिन्त्य अनेककोटिविमानवलयशालिना त्रिदिवाध्वना विलम्बितपदं सं- चरन् । ज्योतिष्टोमादिना प्राप्तनाकसौख्यान् सुकृतिमुख्यान विलोकयामास । १ ब्रह्मणः स्थानम् । २ काकाः । ३ वियोगिनीहृदयरूपायां पृथिव्यां लालमिव दुःखप्रद इत्यर्थः । ४ पुण्यवन्मुख्यान् । का INS तृतीयः स्तबकः। १५ कचिद्विवुधसुन्दरीसरसतानसारस्वर- प्रभूतरसलालसप्रसृतकर्णशृङ्गारकः ॥ क्वचिद्युवतिकोमलावयवसौष्ठवालोकन- प्रदत्तनिमिषोज्झितस्तिमितनेत्रपङ्केरुहः ॥ २ ॥ कचिच्चटुलकोकिलाविकलकण्ठघण्टारव- प्रतिध्वनितपूरिते महति नन्दनाख्ये वने ! स्मरप्रहितसायकव्यतिकरातिभीरुः स्वयं प्रयाति च मृगीदृशः स्तननगान्तराले जवात् ।। ३ ।। क्वचिकुलितनीविसंत्रुटितहारभारागुत- व्युदस्तकुचचोलके घटितहस्तमात्तालकम् ॥ प्रदष्टरदनच्छदं त्रिदशवारवामध्रुवा समं समरमारभत्स्मरजयाय कश्चित्कृती ॥ ४ ॥ इति सपदि विलोकयन्नयज्ञो दिविचरकलिकलाकलापमारात् । सुरसदनसदो विनिन्द्य दूरात् ।। त्वरितपदं प्रययावसजमानः ॥ ५ ॥ अपि च । गीर्वाणवाणिनीभिः सहपुण्यजनव्ययोपयोग्याभिः ॥ रमतः सुरानमन्यत राजा वाराङ्गनाभिरिव लुब्धान् ॥ ६ ॥ इत्यतिव्रज्य वृन्दारकवृन्दममन्दगतेन तत्पुरस्थान्यतिक्रमितुं कृतवेगे भृगौ। १ वेगेनेत्यर्थः । २ नीतिज्ञः ।
" EFF F) FEELF भार्गवचम्पूः। स्वलोकं समतीत्य गच्छति पुरस्तस्मिन्नतर्किस्फुटं देवैर्वाप्सरमात्रलखितहारश्चक्रः स सौरो हरिः ।। किंवा पादपपादपाटनपटुस्तीब्रो नभस्वान्पुनः काकुत्स्थस्य किमुत्पथाशरशिरःसञ्चारसारः शरः ॥७॥ एवं तर्कितवत्सु सुपर्व महलोंकादिलोकानतिक्रम्य किन्नरैः रा किन्नरीभिः समं सततं सङ्गीतविनुतरिङ्गतरङ्गां गङ्गामवगा- ह्याग्रतः प्रतस्थे। जनकमवावृत्तान्तं विज्ञातुं व्योमवर्त्मनेव सुधीः ॥ रभसा लङ्कास्थानं विधिसूनुरगात् समीरसूनुरिव ॥ ८ ॥ सत्यलोकाभिधा यस्य सार्थकानन्यपेक्षया ॥ नान्धस्येव पितृप्रीत्या नाम राजीवलोचनः ॥ ९ ॥ न यत्र गच्छन्त्यघसंघसंगिनो न नास्तिकाचारपथानुसारिणः ।। खि न योगनैष्ठित्यशमाद्यकारिणस्ते यान्ति येधर्मधनैकशालिनः १ ० ॥ नि यस्मिच्छीमद्भगवतो विराड्रपस्य विष्णोः शिरोभूते स्वीकता- कृतयः श्रुतयः समवलोक्यन्ते । नैतावतैव । संवत्सरायनयुग सपक्षमास- काष्टाक्षणप्रहरवस्त्रमुहूर्तकाद्याः॥ कालप्रधानमहदिन्द्रियचित्तधर्म- प्राणादयस्तनुभृतो निवसन्ति यस्मिन् ।। । यच। १ स्नात्वा । २ हनूमान् ।
तृतीयः स्तबकः । बृहद्रतवतां प्रेडदिमानैः सर्वतो वृतः ।। यथा सूर्योदयोन्मीलत्पझकोशः शीलीमुखैः ॥ ११ ॥ परिखानाकारोच्चतरगोपुरैः सर्वतः कमनीयतमस्तमांन्मे स्वकान्तिकलयाकवलयन् विराजते । यत्समंततः सततवसद्धसन्ता- शितवासं कारिकासिममसौरभ्यलुभ्यन्मधुकरनिकरमृदुमधुर- झाङ्काराभिसाराव्याप्तविरहाधीरमधुकरीगणपक्षविपक्षोत्यवमान- सञ्चलन्म सन्तानतरुपल्लवैरनिशं दिव्याङ्गनासंगातिसत्तानां यूनां हतमारविडम्बनानि संत्युपवनानि ॥ १३ ॥ यत्र स्वयं सृष्टिविधानदक्षो दक्षादिकाध्यक्षगृहीतशिक्षः ॥ साक्षात्स्वयम्भूनिवरूत्यभीक्ष्णं कः क्षीणधीस्त क्षमते प्रतोष्टुम् १४ यस्मिन्निखिलजगन्निर्याणवैदग्ध्यनिधेर्विधेरित सभा । यस्या- मखिलनिगमार्थपरिशीलनपरिज्ञातधर्माद्यनेकसाधनसमूहपरिहृत- हृत्कघायास्तत्क्षणे मोक्षपदप्राप्तिक्षमा अपि स्वोपास्यचतुरास्या- भिमत्या सम्प्राप्तद्विपरार्धावसानव्यवधानाः पूर्वचित्याद्यप्सरसां मधुमाधुरीसमधुरीकरणपटुमाधुर्यसरसङ्गीतश्रवणनितानन्दतुन्दि लमनसस्तपस्विनः सभ्यत्वं भजन्ति । यस्यां च वासवादिविबुधवि- द्याधरसिद्धगन्धःनिजमुकुटतटखचितविमलहीरनीराजितचरणरा- जीवः प्रजासर्गनोदितप्रजापतिमण्डलो जगन्निर्माणप्रवणान्तःक- रणः स्वीयमध्यासनमध्यारते । तस्मिन्महताध्वना सञ्चरन् क्वा- प्यसज्जमानोधैव मजनहजानामीति सजमानः सजनाणीः पथि १ङ्गसमुदाय । HAR खं पा भार्गवचम्पूः । पथि नमज्जननमस्यानपेक्षो विघटितपटुकपाटिकाद्वारः समतिक- म्य इन्द्रनीलमणिविरचितसम्यकुटियान्तरान्तरनिबद्धविधुकान्त- कान्त्युपहसितभरणं सभाङ्गणमुल्लङ्य भृगुः । परिहृततिमिरौध पावकोद्वर्तकात- स्वरविरचितभित्तिव्युप्तरत्नप्रभाभिः ।। अथ झटिति सभान्तं न्यस्य भीतिर्दिवेशे निजजनकसुनृत्यद्भूतटीसूत्रधारः ॥ १५ ॥ सति कृतप्रवेशे तस्मिन् । चिरसङ्गतयोः पितृपुत्रयोः प्रियसङ्गमम् ।। पश्यामो हन्त हृष्यामः प्रणयोद्रेकदर्शनात् ॥ १६ ॥ एवं समुत्सुकेषु सभासत्सु भृगुरपि विधातुरविदूरे सञ्चरन्नप्य- कृतगुणवर्णनप्रणामः स्वप्रौढं नाटयन् सार्वज्ञं निजपितरमनवे- क्ष्यैव संविवेश । सानन्दोपि सवन्दनादिपु पितुस्त्यक्तार्यमर्यादव- त्सावज्ञं न चकार कारणवशात्तस्मै प्रणामादिकम् ॥ सोत्कण्ठापि चिरागतप्रियपरिष्वङ्गाय लज्जावशा- दुन्मुक्तप्रणयेव भरि परीरम्भं सतीवाङ्गना ॥ १७ ॥ तत्रावसरे सदासमक्षमात्मावहेलं मन्वानः स मन्वादिजन- पिता कमलासनः। रोषावेशकषायिलोचनगुणभ्रूचापवेगच्युता- पाङ्गोदामशिलीमुखैः स बिभिदे हृत्पङ्कजातं भृगोः ॥ 441 य १ कार्तस्वरं सुवर्णम् । २ प्रणयः प्रीतिः उद्रकः अतिशयः। ३ गतप्रीतिः ।
तृतीयः स्तबकः । नैव स्नेहवशेन ते विदधिरे भेदं मुदा रेमिरे तस्मिन्नस्तमितासुते पुनरहो मोहस्य चित्रा गतिः ॥१८॥ एवमपि रोधनिःशेषितधृतिर्विधूतनयं निजतनयं दिधक्षन्निव विलोकयांचवे। आश्चर्य किमिदमधीरमानसानां क्रोधो यदुरतितरां धृति नराणाम् ।। यस्यास्योदयसमकालमेव चक्रे सावज्ञं शतधृतिमाशु धैरिक्तम् ॥ १९ ॥ पुनः स्वतनयेऽविनयसम्भवः कथमित्याशङ्कय चिरं चिन्त- याञ्चकार । दक्षा दक्षादयः सर्वे तनया नयवर्त्मनि ॥ अयं कथमिवोत्पन्नः चन्दनात्कुटजाङ्कुरः ॥ २० ॥ विस्पष्टं दुष्टसङ्गेन कष्टं भ्रष्टो हि मत्सुतः ॥ न किं मृगमदामोदो हिङ्गुसंगेन नश्यति ॥ २१ ।। तथाभूतानां केषाञ्चित्सङ्गेनैतद्भाव प्राप्तस्यास्य दृगौद्गत्येन कि- मप्याश्चर्यम् । काकानां कुरुते नतेन फणिनां दशेन हिंसाशया व्याघ्राणामसदाखुतः सुवसनछेदेन वित्तः क्षणात् ॥ क्रोडानामथ रक्षसां द्विजवधादुर्वायुना पानतो दुष्टानामनयादिदुर्गुणचयाडा हन्त को विस्मयः ॥२२ ॥ , भ्रष्टनातिम् । २ दग्धुमिच्छन् । ३ दृष्ट्युन्मत्तेन । NER २. 1722 FFFFFFAL LEF ल भार्गवचम्पूः । अथ वा नैकस्य सोप्यपत्यानि गुणैः समान्येव भवन्तीति- विस्मयः। कमलासुधासुधाकरहालाहलशंखवारुणीकरिणः तरुतुरगधेनुभिषगप्सरसः सिन्धोरपत्यानि ॥ २३ ॥ अपि च। त एते सूनवः ख्याता नूनं किरणमालिनः ।। भिषजावश्विनौ शास्ता यमः क्रूरः शनैश्चरः ॥ २४ ॥ पटीयाननघः श्रीमान् वदान्योपीच्यदर्शनः ॥ विनीतस्तनयः पुण्यैरगण्यैरिह लभ्यते ॥ २५ ॥ तदकृतभारिसुकृतोहमेव किमेतेन शिक्षितेनेति विचारपरवशे मनसि विमनसि । सम्बन्धभाषणमुखाकृतिभिः परेषां जानन्ति हृच्चरममध्यमबुद्धिमन्तः ।। तत्रार्यधीगुरतः पितुरिङ्गितेन स्वान्तं प्रचण्डतरकोपवशं बुबोध ॥ २६ ॥ बुद्ध्या पितुस्तेन कृतावमाने हेतु विनिश्चेतुमलं न सभ्याः ॥ एवं हि गम्भीरतरान्तरास्ते प्रारम्भदुज्ञेयविधेयमार्गाः ॥२७॥ एवं स्वपितरि मुनिरुपदिष्टशान्ते कारुण्यादिसद्गुणाभावम नुभूय ततः स्वौद्धृत्यपरिहाराय धातारमनुप्रणमन् सरस्वतीती- रस्थमुनिजनादेशकरोहं न ज्ञेयमुद्गतत्वमित्यनुवेलं विज्ञापयांबभू- व । ततः । स निःशेषितकोपपङ्कः पङ्कजासनः सविनयं निजच- १ लक्ष्मीः । २ बृहस्पतिः ।
चतुर्थः स्तबकः । २१ रणप्रणतं भृगुमुत्थाप्य शिशिरतममात्मजालिङ्गनानन्दं क्षणमनु- भूतवान् । कर्पूरः स हिमालयः समलयः मानन्दनश्चन्दनः सपालेयरविः शुचिप्रवहतां पूरः सरित्पाथसाम् ।। स प्रातः शिशिरो मरुत्कमलिनीनालं परेपीदृशाः पुत्रालिङ्गनपथ्यशैत्यनिवहस्याहन्ति नैते कलाम् ॥ २८ ॥ लोकोत्तरमस्येदं दाक्ष्यमिति सविस्मयेषु सभ्येषु ॥ निजपितरमनुज्ञाप्य प्रस्थानं चाकरोद्धृगुस्तस्मात् ॥ २९॥ इति श्रीमत्सूरीन्द्ररामकृष्णपण्डितविरचितायां भार्गवचम्प्वां तृतीयस्तबकः ॥ ३॥ 0 .. चतुर्थः स्तबकः। ततः कतिपयक्षणैः प्रणतजन्मिजन्मार्जित- प्रभूतदुरितद्रुमक्षयदवस्य गौरीपतेः ॥ शिलोच्चयमगाद्रुतं द्रुहिणसुनुरुत्संसर- समीरणरयाधिकप्रबललोललोलागतिः ॥ १ ॥ ततो विदूरे पुर एव पुरारिगिरिमपश्यत् । स्वर्गङ्गोदकफेनपारदसुधाकुन्दन्डेमुक्तास्फुर- द्विान्निर्जरधेनुनिर्मलपयःकर्पूरकम्बुप्रभाम् ॥ मुष्णन्युञ्चतरेण कान्तिपटलेनात्युन्नतो राजते कैलासः सुरधुर्यपूर्जाटयशःसंघात एव ध्रुवम् ॥ २ ॥ यत्र।
ख पा भार्गवचम्पूः। नोल्लासः पङ्कजानामविकसनमथो नैवामन्दीवराणां योगः कोकाङ्गनानामभिमतिरनिशं कामिनीनां न यस्मिन्॥ तापः सचारभाजां रविकरनिकरान्नेन्दुपीयूषभाजां क्षुद्वोधश्चाण्डजानां त्रिपुरहरशिरश्चन्द्रिकासन्निधानात् ३ गौरीकर्पूरगौरोरगतुहिनकरोक्षादिभिः क्षीरगौरै- ईग्दोपान्ताय चात्तं नयनगलफणामध्यमुष्केषु नैल्यम् ॥ नूनं तस्मादिनाच्छस्फटिकमाणशिलाजालशाली स शैलः प्रावृण्मेघानुकारिद्युतिभरमधुरान्सिन्धुरान्संदधार ॥ १ ॥ इतो बकुलमण्डलं नवतमालमालामितः कदम्बपटलीमितस्तिलकतालसन्धानितः ।। इतश्च कदलीरितो विबुधपादपानां कुलं पुपोष महतामहोच्छूितजनेनुकम्पाभरः ॥५॥ इति कौतूहलाञ्चितचितः स द्विजः क्षणमवलोकयांचक्रे । तस्मिन्ननवरतवसन्तावतारविस्फारितनवकिसलयकुसुमभराभुग्नब- न्धुरस्कन्धतरुसमारूढकलकण्ठकण्ठ वानिप्रतिव्वानवति । अत्यु- चतरतरुशिखरारूढकिन्नरमिथुनषड्जादित्वरगीयमानमहेशयशः- पीयूपमधुरिमाणमास्वाधानन्दसन्दोहपरवशतया विगालेतस्मृतिः क्षणं बभ्राम । ततः कार्यवशादाप्तस्मृतिभृगुः । हरचरणराजीवा- खि 서 그 전 비 | nanga , सूर्यकान्तमाण-प्रफुल्लितः । २ बन्धुरो वृक्षविशेषः ( सापल्या- चे झाड)। Mein चतुर्थः स्तबकः । लोकनोत्कण्ठितस्वान्तर्विवुधविद्याधरतापसादिभिरनिशमभ्यस्तया पदव्या श्रीमन्महेशद्वारप्रदेशमाससाद । भ्रमद्भुकुटिविभ्रमद्विकटचण्डदण्डायुध. प्रचण्डभटमण्डलीभुजभुजङ्गभङ्गामैः ।। तुषारगिरिगौरवैः प्रथमयूथनाथाधिपैः सुगुप्तमनिशं निशाकरकलावतंसानुगैः ॥ ६ ॥ तत्र । निजनाथस्य शिवस्य अनुजन्मा कनिष्ठभ्राता अयं भृगुः पूर्व रुद्रो भृगुरप्यनन्तरं ब्रह्मणः पुत्रोयमिति सविनयं नम- द्भिः प्रमथगणैरनिवारित एव प्रविवेश । वारणशतानि विप्रैः प्राप्यन्ते सुद्रभूपतेारे ॥ द्वारे धनदपतेरपि नैकमपि प्राप वारणं स भृगुः ॥ ७ ॥ अथ चपलपदं सदःसन्निधि स विधिसुतः समासाद्य अत- कितकार्यविधानदक्षः शोणाक्षिकोणेन क्षणमपश्यत् यस्मिस्तत्वा- वमर्शहर्पिततनूरुहैः सनकादिसिद्धसमूहैरनुक्षणमुपास्यमानः स भगवान् भवः सततमास्ते । गौरवं गीयते तस्य विमन्यैर्जगतां गुरोः । सद्योजातोपि यः प्राचामाचार्यपदवीं गतः ॥ ८ ॥ क नारीपीनोरःप्रभवपारिरम्भव्यतिकरः क शून्यव्यामोहव्यसनततिरात्मन्यभिरतिः ॥ तयोरेकत्रैव स्थितिमपि निसर्गाद्विषमयोः सदान्यस्तासूयं घटयितुमलं कस्तदपरः ॥ ९॥ 1 वारणं हस्ती निवृत्तिः। ।
२४ पण पा FFEE FILF,ल भार्गवचम्पः । यस्याद्भुतं चारित्रम् । यः सकललोकभवभयसंहरणोपि भव- भीमश्च सर्वामरमौलिस्थलीव्युत्तचिन्तामणिरपि कपर्दी । जगन्नि- वासोपि श्मशानवासः सर्वजगन्धःप्रदोपि भिक्षाशनः । जग- त्प्रावरणोपि कौपीनधरः । दिक्पालार्पितश्रीरप्यकिंचनः । अ- हो मित्रपदवी प्राप्तः कुबेरोप्येतत्प्रसादनात् विपुलसम्पदरोपि लोकेकृतघ्नतानिर्भयत्वेनास्य किंचनत्वं कथमुपेक्षते । कौपीनेन्दुकपालकृत्तिभासिते प्रेतास्थिमालाविष- व्यालालङ्करणस्य सद्वयपतेरर्धाङ्गजायाकृतेः ॥ दारिद्यं दधतः श्मशानवसतेयगुह्यकेशः सखा ख्यातोसौ धनदो मुधा बुधजनों नाभिजातः खलु॥१०॥ अत्र कारणमेतदेवेत्यवगम्यते । लोके यत्किल वैभवं तदखिलं गौरीशकारुण्यतो निःस्वत्वे खलु तस्य कारणमदः शङ्केहमेकं पुनः ॥ यक्षाक्रान्तधना हि यान्ति धनिनो नैःस्वं तु यक्षाधिपः कोशो यस्य सदाधितिष्ठति न कियास्यत्यसौ निःस्वताम् ११ स इत्थं सभोपान्ते तिष्ठन् स्वान्ते एव सविस्मयं तर्कयामास। ततो भगवानपि चिरादुपगतमात्मबन्धुमवलोक्य सोत्कण्ठम् । उत्सङ्गाच्छैलकन्यां त्वरितमपनयन्वन्धुविश्लेषदुःखं स्वान्तादुत्कृत्य पीठात्वरितमथ सुहृत्स्नेहपाशाविव द्वौ ॥ दोर्दण्डौ सम्प्रसार्य प्रसभपदगतिः लेहविक्लिन्नचेता आश्लेषार्थं समायादृगुसविधमहो मोहपाशो बलीयान् ॥१२॥ १ व्युप्तः 'डुवप बीजसंताने'क्तः । २ कपर्दो जटाजूटः 'कवडी'। 3 अन्धः अन्नम् । ५ कुबेरः । NATAK चतुर्थः स्तवकः । इत्थं नीलकण्ठं निजोपकण्ठं समागतमवेक्ष्य सतिरस्कारं भूग- रंवोचत् । श्रूयतामनभिज्ञ । स्फुटं प्रीतिलोंके समगुणवतामेव सुभगा क ते शीलं भूषा चरितमथ वासः क्व च मम ॥ न मां स्प्रष्टुं योग्यः किमुत परिरब्धुं त्वमशुचिः समीहे सम्बन्धं न तब भव दूरीभव जवात् ॥ १३ ॥ किंच। चिताभसितभूषितं विगतशौचमाभीषणं कपालवदशोभनं शषवितण्डमुण्डस्त्रजा ॥ श्मशान मिव ते वपुर्यदनवेक्षणीयं सदा सदाचरणशालिनः किल न रन्तुमस्मिन् क्षमः ॥ १४ ॥ एवमखिल श्रुतिनिकरसन्नुतपदपङ्कजः शङ्करः अकारणं दुरु- कैस्तुदन्तं भृगु शोणायमानहक्कोणेनावलोक्य । कोपाटोपावधूतन्त्रकटितटभवद्दान्तसम्पातदीप्य- दालस्थोदग्रवह्निप्रसरदुरुतरज्वालमालावलीढम् ।। ब्रह्माण्डं संविधित्सन्निव पवनगतिर्वाडवं हन्तुमुच्चै- रुद्यम्योद्दामशूलं प्रमथपतिरगादाशु वीतानुरागः ॥१५॥ संप्रत्यतिपरुषतरमभाषत । १ अशुद्धम् । २ कुम्भशकलयुक्तं पक्षे भिक्षापात्र(परळ)युक्तम् । ३ मस्तुतपादकमलः । ४ क्रोधेवेशेगावधतं यशकुटितटं तन्मध्ये उत्पन्नः दान्त- सम्पाती दमितवगी भालस्थः प्रचण्ड: वद्विस्तृतीयनेन्नानल: तस्य प्रसरन्त्यः उरुतराः अतिशयेन ज्वालमाला: ज्वालासमूहाः तेनावलीदं व्याप्तम । ५ दग्धुमिच्छन् । ६ शिवः।
भार्गवचम्पः। सत्रानपीवरनितम्ब कथं बतासि त्वं नित्यहोमभवधूमविधूसराक्षः ॥ किं मर्तुकाम इव जल्पमि मामनल्पं शूलाहतस्त्यज कुलायमिदं मदने ॥ १६ ॥ एवं भगवतः खण्डपरशोरकाण्डविध्यण्डभङ्गशङ्काशंसिनृशंस- रोषभीषणानलज्वालावलिषु पतङ्गायितमात्मानमवेक्ष्य समृगुमना- त्रः सरभसमभयलम्भनाय श्रीशम्भुसम्भावनीयसौभाग्यभुवं भवा- नी संस्तवैरदम्भं सम्भावयामास । सरम्भसतरसरवाञ्चण्डदोर्दण्डसन्मण्डलाकृष्टकोदण्डदण्डाग्र निर्मुक्तनालीकरंहस्त्रसन्न्यस्तशस्त्रासुरस्तोमसम्भावितोदारपादाम्बुजे प्रमथितजगदण्डवेतण्डदण्डायुधक्रोधावस्फाजतप्रोद्भवद्भीतिबिभ्य- नताधिप्रशान्तिक्षमोदारकीर्तीन्दुभूरिप्रभापूरिताशेषदिग्मण्डले ।। प्रचलदमलकर्णताटङ्ककोपान्तसव्युप्तकद्वीरकोद्गच्छदच्छप्रभाचक्र- वालस्फुटोदारसञ्चारलीलाभिभूतोदितग्रीष्मति मांशुतिग्मप्रभे । प्र- कुपितशिवकोपसम्प्रच्यवद्भरिदानोदयोदामदन्धिगन्धद्विपालान- संदर्शने पाहि मामद्य भूताधिपोदग्रशूलाज्जगद्धात्रि तुभ्यं नमः ॥ १॥ तदानीमनुकम्पया तदवनाय । दरद्योतोदारप्रहसितगुणारुष्टपुरनि- न्मनोमीनामानापनयनविधौ व्यग्रमनसा ॥ मुत नि घा १ कुलाथ जीवस्थानं देहामति यावत् । २ नालीका बाणाः । ३ हस्ति- बन्धनस्तम्भः । ४ दरः शंखस्तरय योत इव उदारं प्रहसितं हास्यम् ।
२७ चतुर्थः स्तवकः । सदा भाव्यं यस्याः प्रमथपतिना प्रादुरभव- च्छिवा साक्षादक्षान्धकदमनकोपप्रशमने ॥ १८ ॥ क्रोधोद्धतान्धकसपत्नविरञ्चिसून्वो- मध्ये रराज गिरिराजसुता नतभूः॥ लोकत्रयान्तकरमृत्युमुमूर्षुमध्ये दिव्या जरामृतिहराऽमृतवळरीव ॥१९॥ अत्रान्तरे। प्रदोषप्रारम्भे दरविकसदिन्दीवरदलो- लसल्लीलालास्याहृतिपटुरपाङ्गो नगभुवः ॥ भृगोभ्रंश्यद्बुद्धे यमपनयन्नाविरमव- दृशं कोपाविष्टं शमनशमितारं च शमयन् ॥ २०॥ तदानीम् । प्रभवति मत्प्रतिघातादनिशमसाविति समन्सरमनङ्गः ॥ दुर्मापाङ्गसहायः कोपान्ते शिवमनस्यथाविरभूत् ॥२५॥ ततः पञ्चेषुशरवञ्चितकुरङ्गमनङ्गरिपुमवगम्य विरञ्चिसुताच पलतरपञ्चलदङ्गलिकसंचारसञ्चालितवीणागुणनिचयसम्भूतगम्भी- रमचुर स्वरमाधुरीविडम्बनपटुतरेण सविनयमिदमूचेऽचलकन्या । अविदितपरिणामः कर्मणामप्रवीणः प्रवणमैतिरथास्ते तेष्वदस्तावदास्ताम् ।। त्वमसि विदिततत्त्वो दुष्कलस्यास्य कस्माद् । द्विजमनुजमिमं ते देवर मभिहसि ॥ २२ ॥ । १ अन्धकसपत्नः शङ्करः । २ प्रवणमतिः नम्रमतिः । ३ ब्रह्मणः सका- शाद्रुद्रस्य भृगोश्वोत्पत्तिरतः पार्वत्या भृगौ देवरत्वम् ।
al २८ भार्गवचम्पूः । इति तुहिनगिरीन्द्रकन्यकास्यप्रवचनपाशनिबदहृद्विहङ्गे ।। गतवति शममीश्वरे स सद्यश्चपलपदमपासरंदस्य दृष्टिपातात् २५ कुपितमृगेन्द्रमुखादिव प्रमुक्त श्वकितविलोलविलोचनः कुरङ्गः ।। चपलपदं तमसः परं पुरस्ता- सभृगुरगारमगादधान्तकस्य ॥ २४ ॥ इति श्रीमन्सूरीन्द्र रामकृष्णपण्डितविरचितायां भार्गवचम्प्वां चतुर्थस्तबकः ॥ ४ ॥ 9 94. पश्चमस्तबकः । खि TE र ततोऽध्वनि गच्छन् भृगुः सहर्षम् । अहो मुनिवराशीर्वचन- कवचेनैवाद्य संरक्षितोस्मीति वदन्नकस्मादेव पुरस्तेजसां रा शिमपश्यत् । किमेतदिति तत्र सादरं दृष्टि प्रसार्य श्रीरमणचर- णपरिचरणावाप्तसालोक्यानां महाभागवतानां शरत्किरणमालिम" ण्डलोवलप्रभैरनेकैः समानैरपि विमानैः सर्वतः परिवृतं श्रीम- द्वैकुण्ठाख्यं लोकं ददर्श । मना येतितरां पुरामपुनरावृत्त्यै पुराणः स्तुतः श्रीशो यच्छरदिन्दुसुन्दरयशःपीयूषवारांनिधौ ॥ चा १ श्री विष्णोः । २ समानाकातभिः । ३ विमानैः यानैः । ४ पुराणपुरु. षः श्रीविष्णुः ।
पञ्चमः स्तबकः । २९ ते मायापटलं व्युदस्य विगलत्तापत्रयाः सर्वतो वैकुण्ठं खलु यान्ति नैवमपरे सारेतरैः साधनैः ॥ १ ॥ किंच। नमन्त्रमुचिसूदनस्फुरदुदारमौल्युल्लस- न्मणिप्रकरसंवलद्बहलकान्तिनीराजिते । हरेः पदसरोरुहे रतिभृतां न भूयो भवो- इवो भुवि भवान्तक वनभाग्यभाजां सताम् ॥ २॥ अपि च । यस्याः शोमनशोणकणितचलसक्कोणनैसर्गिक- श्वक्षणापाङ्गतरङ्गितेक्षणकते यक्षेन्द्रदक्षादिमिः। तप्यन्ते नितरामुरीकृतमहायत्नैर्यदावासतः सा श्रीराश्रयते श्रियं श्रितनुतां लोकः स कैः स्तूयते॥१॥ यत्रत्याः पशुपक्षिणोपि नितरामानन्दचिन्मूर्तयः सर्वे शर्ववदुर्वनुग्रहजुषः क्षीरोदकन्यापतेः ॥ धन्यं तद्धि पशुत्वमेव महतां शोच्यं न यत्संमतः श्रीशानुग्रहभाजनं तदितरव्यर्थ सुरत्वं दिवि ॥ ४॥ वैचित्र्यात्कर्मणां यत्र वैजात्यं नैव जन्मिनाम् ॥ नूनं मनोविनोदाय श्रियः कान्तेन कल्पितम् ॥ ५ ॥ अपि च । यत्रारामसुरम्यसीमविलसत्कासारतीराश्रितो हंसीभिः स्मरदीपदीपनवरैर्भावैरपि भ्रामितः ॥ १ मक्तिधारकाणाम् । २ भवोद्भवः जन्मप्राप्तिः ।
SARAN न ख भार्गवचम्पूः। हंसः कंसनिषूदनस्य यशसा मालापमालामिव श्रुत्वोद्यत्कलकण्ठकण्ठनिनदं तत्याज रत्यादरम् ॥६ । अधरीकतामरीजनगानझरीमाधुरीधुरीणापि ॥ हरिचरणशरणमनसां न मनःक्षोभाय मधुकरी गीतिः ॥७॥ अपि च । प्रोन्मीलन्नव पुष्पपल्लवफलोदारढिभारानतै- रर्थिप्रार्थितकिंचिदर्थनिवहाधिक्यप्रदैः पादपैः ।। स्वच्छा या सुविहारधीरमनसामस्तप्ररोहं पुन- यंत्राकारि मनोभिवाञ्छितफलासिद्धेरभावः सदा ॥८॥ ग्रावाणो मणयो यत्र धेनवः कामधेनवः ।। तरवः कल्पतरवो नराः श्रीशाः स्त्रियः श्रियः॥९॥ स तस्मिन्नजान्मजः सुविशुद्धसुधामधवलिमाधरीकरणपटुसि- सौधावलीमध्यविन्यस्तशस्तावना अतिविमलकान्तिकान्ता- जनसहचरसिद्धगणगीयमानानवयद्यशः संशृण्वन् नमन्दारक- वृन्दसंमदसञ्चलन्मौलिसंघविगलदनेकरत्नावलीसैकतचित्तं श्रीपते- रिप्रदेशमाससाद । द्वारे हीरप्रवरकिरणोद्योतिते वारणौघ- व्याप्ते श्रीपत्यनुचरवराधिष्ठितेपि द्विजायः ॥ चित्रं लेभ श्रुतिविदपि नो वारणं तत्र हेतु- यस्मिन्नित्यं निवसति विभुर्वारणोद्धारदक्षः ॥ १० ॥ मि व १ कृष्णस्य । २ पक्षिशब्दम् । ३ अप्सरआदि । ४ धुरीणा अग्रस्थाना- स्थिता । ५ भृगुआरवः । ६ शिलाः । ७ हस्तिसमुदायव्याप्त पक्षे वारण मन्तर्गमन निषेधः । ८ गजेन्द्रमोक्षकतत्यर्थः । 2 पञ्चमः स्तबकः। ३१ तत्र सम्प्राप्तोऽनिवारितप्रवेशः स विप्रः क्षिप्रमन्तर्मनमा- विवेश । प्रभूतकिरणावलीलसदनकरलोपलैः स्फुटं घटितकुटिमं चतुरदूतसंवेष्टितम् ॥ तदङ्गणमतीत्य स त्वरितमाविवेशाग्रतः प्रभोः शयनशालिकानिकटमुत्कटोत्कण्ठया ॥१९॥ तत्रानेकशतमणिमयस्तम्भराजिविराजितान्तरालां रुक्मम- यकुब्यसंव्युत्प्रदीपमणिदीपांशुजालविदलितनिःशेषतिमिरोपरोधां- गवाक्षरन्ध्रनिर्गतसुरभिधूपामोदसुरमितहरिदन्तराला । सुविशा- लां शयनशालां प्रविश्यापश्यत् । पर्य के सुरधेनुनिर्मलपयःफेनायमानोन्नम- प्रोद्यत्काान्तमदुतरच्छदवति प्रत्वापदराक्षणः ॥ पद्मालोलकरोपलालितपदः प्रद्योतमानः प्रभुः शेते शर्वसरोल्होद्भवमरुद्गीर्वाणनाथस्तुतः ॥ १२ ॥ तथाभूतं तमवलोक्य रुष्टो मुनिः । अहो कष्टमैश्वर्यमदपुष्टो- धृष्टतया स्पष्टमस्मद्विधगरिष्ठागमनपि नष्टवभद्रां निद्रामनु- भवति । गृहमागतवति पूज्ये सुविनयसद्धर्मतत्परैर्मनुजैः ॥ प्रत्युत्थानादिविधिनमनुष्ठीयते न मदमत्तैः ॥ १३ ॥ विद्याभिजनजन्मौजोरूपयौवनबुद्धिजाः ।। मदाः सर्वाप नाहन्ति श्रीमदस्य कलामपि ॥ ११ ॥ यं १ सुवासीकृतदिशामध्यम् ।२ शर्वः शिवः । सरोरुहोद्भवो ब्रह्मा । मरुतः । गीर्वाणनाथ इन्द्रः । ३ ऐश्वर्यमदोन्मत्तः ।
SARAN 04 HH 4 भार्गवचम्पूः । एवं मत्वा विवृतनयनः सञ्चलद्दन्तवासा- रोषावेशाकलितमनसा निःश्वसन्नर्तितभ्रः ।। धावन्नुच्चः सरभसमहो श्रीमनोहारिविप्रः श्रीशस्योरःसबलमघृणः स्वाङ्गिणा संतताड ॥ १५ ॥ ततः प्रबुद्धो भगवान् ब्रह्मण्याग्रणीः करुणापीयूषरसपूरित स्वान्तः स्वान्तिके प्रान्तारक्तनयनमम्भोजभूतनयनमवेक्ष्य तत्क. तासत्कृतासस्कृतिमविचिन्त्य निगमागमपारावारपरिशीलनेद्गो- च्छदच्छमतिविभवमहानुभावबुद्धि सिद्धान्तितापवर्गप्रदविप्रानुवृत्ति- रूपसद्धर्म जनसंग्रहार्थ स्वयमाचरन् चपलपदं पर्यङ्कादुत्तीर्य विनयमनिसुरचरणकमलमुपसृत्य नमयाञ्चकार । पर्यङ्कोपर्युपावेश्य द्विजवर्यं तमार्यधीः ।। सुरवर्यः समर्यादमुदारं वक्तुमुद्यतः ॥ १६ ॥ धन्योहं कृतकृत्यतामुपगतस्त्वत्पादसंदर्शनं जातं मेतिचिरार्जितोरुसुकृतादद्यानवद्या जनिः ॥ किंवा दुष्कृतमस्ति यन्त्रिकृतवान्प्रन्युद्गमप्रश्रय- प्रत्युत्थाननमस्कृतीश्च कुशलप्रश्नं च तत्क्षम्यताम् ॥१७॥ परितोगस्यनभिज्ञे कुप्यति न दीनवत्सलाः सन्तः ॥ श्वासं विनैकमद्धा निद्रितमृतयोश्च कः पुनः पिशुनः॥ १८॥ प्रभूतदुरितावलीविदलिताघ मे दौर्भगं प्रणष्टमभवजगत्य तुलकीर्तिरत्युज्ज्वला ॥ सq १ स्वसमीपे । २ ब्रह्मणः पुत्रम् | 3 ब्राह्मणपादकमलम् । ४ जन्म । ५ कृताराधे।
पञ्चमः स्तबका। जगत्रितयपावनो भुवनपालनाविर्भव- बलस्तदखिलं भवचरणपद्मसंस्पर्शनात् ॥ १९ ॥ कि च। L भवेदाशीर्वचनाजरया प्रतिमुक्तनव्यपदकमला ॥ चपलापि नैव मुञ्चति कमला मां तदनुरागहीनमपि॥२०॥ छायेवातिचला रमा कथमहं कुर्या पुराणः पुमाने- तस्याः परिपालनं त्विति परा चिन्ता ममाऽसीत्पुरा ॥ अद्य त्वत्पदमुद्रया तदवने दुद्यया शक्तया संवृत्तोस्मि गतज्वरोत्र किमहं प्रत्यर्पये भो तव ॥ २१ ॥ किंच। मया प्राप्तं युष्माद्वेधविबुधभूदेवचरण- प्रसादाद्वैकुण्ठाद्यखिलबृहदैश्वर्यमतुलम् ॥ अतः सर्वस्वस्याप्यहमहह विश्राणनविधी भवेयं किंवालं किल समुपकर्तुं च भवताम् ॥ २२ ॥ अपि च । सुजातसरसीरुहान्तरदलान्तसन्मार्दवा- धरीकरणपञ्चमं चरणपङ्कजातं तव ॥ स्वभावपविनिवरं प्रबलदानवेन्द्रायुध- प्रघटनपतात्कणप्रकरशालिवक्षो मम ॥ १३ ॥ तदेत्तन्मदुत्वेनातिदूनं ते मदमिति नितान्तचिन्ताचित्तस्य मे मानसं दुनोतीति प्रत्युत सोच्युतस्तत्पदमङ्के निधाय शन्तमेन स्व- पाणिना सशकं पस्पर्श । नूनमत्र । । १ दानविधौ । २ पविर्वजम् । ३ कल्याणतर्मन । । ।
। FFEE भार्गवचम्पः । न प्रायो निःश्रीके श्रीस्पर्शिन्येव सेवनीयत्वम् ।। हरिरप्यतः सिषवे स्वस्योरासि रमाभिमृष्टपदम् ॥ २४ स्पर्शमणिनिजघातकमपि सदयमयोपि हेमतां नयति || हरिद्वत्सङ्गा सगुणा द्विज महमपि सेव्यतां तथा कमला॥ २५ ॥ किंच। हरेखरासि संस्थितागपि निजन्निवानिन्दिरां पदा भरतिस्फुटं विरतिमत्वमस्याद्भुतम् ॥ ध्रुवं ननु तदादिकं द्विजपदापलग्नेव सा- वतिष्ठति न तत्करोपि सुचिरं प्रयत्नार्जिता ॥ २६ ॥ ततः पुनः सवितर्क भगवानाह । अहो बत तमोमुद्रया नि- याद्य मुषितास्मि । अभद्रेयं निद्रा बत बललतामित्रपदवी बलाद्वालाबालानाप विपुलमोहं वितनुते ॥ तदेनां देवो वा न रूलु मनुजो वातिविभृया- द्रमाविभ्रन्भ्रष्टो भवति सुकतेभ्यस्त्वहमिव ॥ १७ ॥ पुनः सविनयम् । भो विद्वन्कुरु मय्यनुग्रहमिह प्राप्तोसि कस्माहृतं तत्कार्यं वद साधये महदपि प्राणेन चार्थेन च ॥ वैकुण्ठं प्रपुनीहि पादरजसा विप्रास्तु मदैवतं जीवाम्येष तदर्थमेव भवतां दासोस्मि निष्कैतवैः ॥२८॥ इत्येवम् । ब १ अयालोहम् । २ बालाबालान् बालान्वृद्धास्तरुणानपि । ३ निष्कपटः ।
पञ्चमः स्तबकः मधुरपदध्वनिललितां कलितसुवर्णामलंकृतां सरलाम् । ब्राह्मीमनवद्यगुणां गिरमवदन्मनोहरां श्रीशः ॥ २९ ॥ ततो ब्रह्मण्यदेवस्य श्रीपतेः प्रसन्नमुखराकासुधाकरकरोपनि- रूपन्दनातिमधुरवाइसुधाझरीसुरसमास्वादापि द्विजचित्तचकोर स्तृष्णान्तं न जगाम । प्रमोदादुनिष्टविपुजपुछकाउंछतवपुः- कलोन्मीलञ्चतुर्विमलगलदानन्दसलिलः ॥ पृथुप्रेमोद्गाराकलितहृदयो गद्गदगलः क्षणं तूष्णीमासीदृगुरुचितवामक्षमतया ॥ ३० ॥ ततः समाविर्भवत्प्रेमरसप्रसरपरवशं मानसं कृच्छ्रासंस्तभ्य प्रभूतानन्दसन्दोहोद्भवद्भूर्यश्रुधारापिनद्धाक्षिणी प्रमृज्य श्रीमद्भग- वतो वैकुण्ठपतेरकलङ्कमुखशशाङ्के दरा चक्षुर्बद्धाञ्जलि गुः । वक्तव्यं किमु कञ्जनाम यदहं निर्हेतुकं ते रमा- वासे वक्षसि साहसादकरवं हन्तावघातं पदा ॥ तन्मे सन्ततिदुष्कृतं न गणयन् यद्वन्दसे क्षम्यतां दासोस्मीति वदन् कृपाजलानिधे ह्येतत्तवैवोचितम् ॥३१॥ अहो आश्चर्यमकारणलतापराधितया परिवादाहमपि मां स्तो- षि यतः। स्तव्यताव्यक्तमव्यस्ता व्याप्ता गुर्वनुवर्तिभिः ॥ पदा पितामहं हत्वा पितामहमगां कथम् ॥ ३२ ॥ 1 कमलनाभ । २ निन्दायोग्यम् । ३ भृगोः पितामहो विष्णुः ।
क भा मा भार्गवचम्पूः। सागर्वसुपर्वशर्ववलाभेद्भुर्वादिकव्यादिमि- दिव्यश्राव्यसुकाज्यनव्यतिभिर्यस्तूयसे सर्वदा ॥ स त्वं सत्त्वनिधेसि किं मम पदस्पर्शात्कृतार्थः परं ज्ञातं धर्मभृता त्वयाद्य महता ब्रह्मण्यताविष्कृता ॥३३ स्वेनावाप्तवमस्तनिस्तुलगुणग्रामोसि किं वाददे त्वामाशीर्वचनं तथापि सीरते देयं यथा तजलम् ॥ स्वस्त्यस्तु द्विनभक्तिरस्तु भवते श्रीरस्तु वास्तु क्षमा वीर्य धैर्यमपारमस्तु विजयः शान्तिर्यशोऽस्त्वस्तु शम्२४ मो सद्भक्तजनैकवत्सल जगद्धातर्धरोद्धारक श्रीश स्वाश्रितकामपूर करुणापीयूषपाथोनिधे ॥ मामागस्कृतमद्य पाहि करुणापाङ्गेन येन त्वयाऽ- द्यब्रह्मण्यकरीन्द्रमूर्धसु कृतं शार्दूलविक्रीडितम् ॥३५॥ माय कुरु कृपावलोकं करुणाकर मामकोयामति बुद्ध्या ॥ उचितं वाक्यमपरं मामनुजानीहि मापते यामि ॥ ३६ ॥ ततः सरस्वतीरोधास तापससमूहसन्निदेशवशादागतेन मया भवत्प्रसादात्कृतकार्यत्वमवाप्तम् । इति पुरुषोत्तममनुज्ञाप्य शि- रसा तच्चरणावभिवाद्य तं प्रदक्षिणीकृत्य समुदयानुरागाकलित- चित्तः स विप्रः क्षिप्रतरं प्रतस्थे । इति श्रीमत्सूरीन्द्ररामकृष्णपण्डिताविरचितायां भार्गवचम्प्वां पंश्चमःस्तवकः ॥ ५ ॥ 04 घ १ सरिते नद्यै । २ ऋषिसंघाज्ञया । 3 सम्यगुदितप्रीतिव्याप्तमनाः षष्ठः स्तबकः। ३७ Ltf अथो विष्णुपदमेवैकं सेव्यमिति गाढमति गुः विष्णुपदात्म- स्थितोपि विष्णुपदाध्वना विष्णुपदानुरक्तान्मुनिजनानभिनन्दयितुं भगवत्याः सरस्वत्यास्तीरमाजगाम 1. सोत्कण्ठनीलकण्ठोपकण्ठे मेघोदयो यथा ॥ तथा प्रादुररभूत्तेषामग्रेऽव्यग्रमतिभृगुः ॥ १ ॥ महर्षिभिश्च सानन्दगतिमुखप्रसृतिभ्यां कृतार्थोऽयमागत इत्य- नुमितस्तानभिवाद्य तदुपदिष्टसुशासननिर्वाहकदापि कुशासनं भेजे. ततः सत्कृत्य मुनिभिः पृष्टस्तात यथा त्वया ॥ यद्यत्समनुभूतं तद्वदस्व मुनिसंसदि ॥ २ ॥ तन्निशम्य सहर्ष भृगुरवोचत् भवतां भगवतामाज्ञयाहं प्रथ- मं पारमेष्ठ्यपदं गतवान् । तत्र सदस्यकृतप्रणतिस्तुतिमुपविष्टं मामवलोक्य कुपितापितुः सकाशाद् मद्रक्षणे पुत्रस्नेह एवालं बभूव । ततः कैलासेपि मामागतमवलोक्य वन्धुत्नेहात् परिरब्धु- मुपागतो मदुर्वचनाभितमना रुद्रः शूलेन मां हन्तुं दुद्राव । बन्धुस्नेहः सुतस्नेहस्तयोर्मध्ये परो बली ॥ पूर्वोपंकृत्या नश्येत द्वितीयो न कदाचन ॥ ३ ॥ तदातितस्तेन मया प्रार्थितया देव्या आगत्य कथञ्चिदहं वि। मोचितो वैकुण्ठं गत्वा प्रभोः शयनशालां प्रविश्य महान्तमनय- माकमिति साश्रुपातम् । ५ सुशासनं सम्यगाज्ञा । २ कुशासनं विष्टरं (कुशानां दर्भाणा मासनम् )। ३ ब्रह्मादेवस्थानम् । ४ अपकारेण ।
FFFF भार्गवचम्पः। सुप्तं न प्रतिबोधयेदिति विधि धिकृत्य मोहान्मृदु श्वक्ष्णं पद्मकराधिवासितमुरः सुप्तस्य पत्युः श्रियः ।। कष्टं निष्करुणं पदाभिहतवांस्तत्रापि शान्तिद्रुमो यामूचे प्रतिबुध्य वाचमुचितां वक्तुं न सा शक्यते ॥४॥ तदा समुच्छलत्प्रेमभराकलितचित्ततया मयाप्युक्तम् । भो संवित्सुखशेवधे गुणनिधे सद्योगिहृत्सान्निधे कारुण्यामृतवारिधे भवभयत्राणाय दत्तावधे । पापन्नामलनामधेयभजतां दुःखैणसत्पारधे भय्यद्धा विनिधेहि हन्त करुणां मोहं पिधेहि द्रुतम् ५ करुणाजलदस्य तस्य श्रीनिवासस्य किं किं वर्णनीयम् । सा शान्तिः सविशुद्धभाग्यमाहिमा स प्रौढिमा सा मतिः सा सद्वाडवभक्तिरद्भुतनयः सप्रश्रयः सा रूपा ॥ सप्रेमप्रसरः सुधामधुरिमोद्गाराक्षरालंकृता सा वाग्यत्स्मृतिमात्रतः स पुलकप्रेमाश्रुपातो मम ॥ ६ ॥ तस्मात् । किं देवैदिवि दिव्यसम्पदि पदभ्रंशैकचिन्ताकुलैः किं वा सृष्टिविधानदीनमनसा पित्रा विधात्रा मम || धूलिव्यालकपालशूलगरलााग्रेण रुद्रेण वा सेव्यः सर्वजनैः कृपाजलनिधिकुण्ठनाथो हरिः ॥ ७ ॥ किंच। नामम य १ दुःखरूप एणो मृगः तस्य पाराधः मृगयाकारी । २ सद्राह्मणभक्तिः ।
षष्ठः स्तबकः। वागक्षिश्रुतिहस्तमस्तकमदस्वान्तं प्रशान्तात्मना पुंसात्यन्तहिताय विष्णुभजने योज्यं त्वदम्भ क्रमात् ॥ तल्लीलाकथने तदीक्षणविधौ तत्कीर्तने तच्छुभा- र्चायां तत्र नमस्तदालयगतौ तञ्चिन्तनेहनिशम् ॥ ८ ॥ अपि च। ध्रुवो ध्रुवपदाधिपः शिशुरकारि दन्तावलः स्वपार्षदसदश्चरः प्रकृतिवक्रनक्रादितः ॥ परागसि कृते रोपि दिवि निर्जरो येन त. किमन्यकृपणार्जनात्सकरुणाद्य नः सेव्यताम् ॥ ९ ॥ किं च । कुरङ्गोयमिति भ्रान्त्या व्याधो विव्याध तत्पदम् ॥ मत्यैवाहमसद्वृत्तः पदोरः समताडयम् ॥ १० ॥ तस्माद् व्याधादप्यतिक्रूरकर्माणमपि मां यः स्तुतिपात्रं च- कार । तस्मिन् शान्त्येकधाम्नि करुणापारावारे दीनवत्सले हरौ सेव्ये सति ये केवलमुदारार्थमेव धनमदान्धीकृतरूपणधनिकानु- पासते तेवीव मन्दाः अहो कष्टं वृत्तं कृपणानाम् । प्राणादपि परो येषामोंऽनर्थावहश्चलः ॥ तदर्थ हन्त संत्यक्तं पुमर्थत्रयमर्थपैः ॥ ११ ॥ पश्यन्त्वार्यास्तावत् । भो भो याचक दुर्गतद्रुपरशो कष्टं नकारा इमे त्वदेहे कति सन्ति तत्कथय मे तस्मिन्महान्विस्मयः ।। १ दन्तावली गजेन्द्रः २ एतन्नामा व्याधः । धमार्थकाममोक्षात । ४ वित्तपालकैः ।
खं रा पा भार्गवचम्पूः । बाल्यात्तद्वययकारके त्वयि पुनस्त्वद्यापि नाभूक्षयः किं जानासि न मूढ सोव्ययपदं प्राप्तस्तदन्तः कथम् ॥ अन्यच्च । गतदशनं वदनं ते तदपि कथं वदति नेति चित्रपदम् ॥ अर्थिन्किमत्र चित्रं तन्न रसनवत्त्वमस्ति तद्धेतुः ॥ १३ ॥ अपरं च । त्वद्नेहं भूरिसम्परूपणकथमभूदाहि तस्मिन् विचार कोसौ यच्चाव्ययानां वदति मतमनेकार्थतां पाणिनीयम् ॥ तच्छ्रुत्वा संविचार्य स्वयमहमभवं चाव्ययस्तद्विदित्वा मह्यं स्वज्ञातिरित्थं सकरुणमभवत्साह्यभूतो नकारः ॥ ११ ॥ अत्राहं मन्ये । भोगेनात्र परत्र सद्वितरणव्याजाद्वदान्यः पुमान् स्वर्वामाधारबिम्बचुम्बनछते वित्तं करोत्यात्मसात् ॥ मुते नेन्द्रियलौल्यसम्भवभिया स्वभॊगभीतो ध्रुवं नो दत्ते सुविचारशीलनपरो योगीव लुब्धः पुमान्॥१५॥ ईदृशानामपि द्वारि पराशापरवशमनसः कवयोपि मुधैवायु- य॑यं कुर्वन्ति । तदस्तु नामालमीदृशाधमवार्तया मुमुक्षुभिस्तु सु विशुद्धशान्त्याद्यखिलसद्गुणगणातिदारिद्यमुद्रितान् ब्रह्मादीनापि विहाय दीनबन्धुः स एक एव सेवनीयः केशवः । भवभुजगभीतिशमनः स्वजनवृजिनभञ्जनो विपद्दमनः ॥ क्षीराब्धिसुतारमणः शरणागतपालनः सुराधीशः ॥ १६ ॥ १ अव्ययानामनेकार्थत्वमिति पाणिनीयं व्याकरणम् । २ अव्ययत्वात 15 KB । ३ दाता।
षष्ठः स्तबकः । ४१ २॥ न केवलं ज्वरनिवृत्त्यर्थमेव कटुक्काथस्येव भवतापनिवृत्यर्थमेव सेव्यत्वमस्य किंतु अतिसुभगतया मनोरमत्वादपीति । नीलाम्बुवाहद्युतिरम्बुजाक्षो निर्सगमन्दीस्मतसुन्दरास्यः ।। कुन्दैद्विजः पीनभुजः सुवक्षा मनोरमश्चिन्तयतां नतानाम् १णा किंच अस्य हरेराराधनेस्ति सर्वेषामप्याधिकारः । देवा वा दनुजास्तथा निशिचरा विप्राश्च शूद्राः स्त्रियो ये चान्ये कुलकर्मजातिविकलाः पापाः कुयोनिस्थिताः ॥ ते सर्वेप्यधिकारिणोत्र भजने विष्णोस्त्रिधा सम्पत- पादोद्भूतसरित्पवित्रितजगद्वारस्य भर्तुः श्रियः ॥ १८ ॥ किंच तस्यौपासनमागोपि नात्यायाससाध्यः । फलैर्वा पुष्पैर्वा नवकिसलयैर्वाथ सलिलैः प्रसन्नैः सप्रेमप्रसरपरिदत्तैरपि सदा ॥ सदैश्वयोंद्रेकस्वसुखनिभृतस्तुप्यति हरि- दयालुर्दीनानामनिशमँतिशं दातुमुदितः ॥ १९ ॥ यस्यानवद्यगुणवर्णनपूर्तिमाप्तुं शेषः सहस्रवदनोप्यनलं बभूव ।। तत्रान्यपामरजनैः किल तस्य विष्णो- रासाद्यते कथमनन्तगुणाब्धिपारः ॥ २० ॥ इति स्वानुभूतं वृत्तमत्यादरान्निवेद्य तूष्णींस्थिते तस्मिन् ह- १ नीलमेघकान्तिः । २ निसर्गतः स्वभावतः । 3 कुन्दपुष्पवत् द्विजाद- न्ता यस्य स कुन्दद्विजः । ४ विकला विहीना इत्यर्थः । ५ नवपल्लवैः । ६ अ- तिशयेन कल्याणम् । ७ अपूर्ण यथातथा !
खे भार्गवचम्पः । र्षिततनूरुहा महर्षय सहर्ष तमार्यवयं भृगुं मुनीन्द्रमभिनन्द्य स्वसत्रेन्यदेवतायजनमनादृत्य श्रीरमणचरणपरिचरणप्रवणान्तः- करणास्तमेवाराधयामासुः । सिद्धान्तितं निगमभूपतिना पुरैव विष्णोः पदार्चनमनन्यमनन्यभन्या ।। निर्णीय तत्तदनुवति महर्षिवर्यै- रादर्शितं सुखदमार्तिहरं नराणाम् ॥ २१ ॥ सर्वदा कमलोपेतं विचित्रपतनोचितम् ॥ कुंपदाक्रमणाख्यातं मावरं भज मावरम् ॥ २२ ॥ नखधवलकान्तिररुणं चरणतलं नीलमूवमापे यस्य । गङ्गा विधिजा यमुना स पुनातु हरेः पदप्रयागो माम्॥२३॥ हाते रामकृष्णसूरिविरचितायां श्रीभार्गवचम्प्वां षष्टस्तबकः॥६॥ 2) HH 44 4 eman Summam नि सप्तमः सबकः ॥ अथ वैकुण्ठात्तस्मिन् गतवति भृगौ तदा अत्युत्कटकोपानल- कौलाकलितकलुषतरान्तरा विप्रकृतनिजरमणावमत्यसहमाना स- तो मजलनयनापागावलोकनेन भगवन्मुखारविन्दमुदीक्षन्ती सा- ङ्गलिभङ्गं साक्षेपं इदमवदत् । T 1 अद्वितीयम् । २ पृथिव्याः पदेनाक्रमणेन ख्यातम् । 3 लक्ष्मीपतिम् ।। मा अवरं इतिछेदः । ५ पदोपरितनोभामः । ६ कीला ज्वाला । ७ अवम- ति: अपमानः ।
सप्तमः स्तवकः । ४३ द्विजोयमुन्नड इवाजपुत्रो निरागसः शान्तिमुखैकधाम्नः ।। पदा त्वहन्वक्षसि तेन्धबुद्धिनिरङ्कशा विप्रजना हि नूनम॥' । हेकान्त तदेतद्वाक्यविनिपातेनादयं दण्ड्यो नीचेदहमिती ग च्छामीति । ततो ब्रह्मण्यदेवो हरिः । निगमागमखगनीडं वाडवकुलमुज्ज्वलं ममैव सुखम् ।। कथमुत्सहेपकर्तुं तदहं तद्विपदि मद्विपदयिते ॥ २ ॥ विप्रमोहभराक्रान्तस्वान्तोहं त्वमपि प्रिये ॥ विप्रवासफलं तस्मान्मम तेपि च निश्चितम् ॥ ३ ॥ यद्यपि त्वं हठादेव मामुत्सृज्य गमिष्यसि ।। तेषामाशीर्वचःपाशवद्वैव पुनरेष्यसि ॥ ४ ॥ इत्येवं भगवद्वचनसंवर्धितामर्षधर्षितहृत्कमला कमला। मत्तोपि यदि ते नूनं मतो विप्रजनः प्रियः ॥ तस्य समान नैवाहं वसामि तवं तन्मतेः ॥ ५ ॥ एवमुक्त्वा सरभसं रुषा वैकुण्ठान्निर्गत्व करवीरक्षेत्रं भुवि नि वासाय रोचयामास । ततो भगवानापे तस्मात्कलहान्तरितरमा नुनयार्थमादिवराहाध्यासितं अशेषशैलमौलि शेपाच मंशन ग- त्वा तदनुमतेन तपश्छलात्तत्र निवासमकरोत् । इतः सर्वतः । म भगतमे वैकुण्ठेपि स्वरूपानन्दनिवृत्तव्यामोहप्रसरः सर्वदात्माग मः परिपूर्णापि रमाविरहव्यालातिव्याकुलीकृतमना मनागार शममलभमानो मानवती तामेव दूयमानेन मनसा चिन्तयन स्व- भवनत्यागोद्यतमतिरासीत् । १ वेदशास्त्ररूपखमाना वसतिस्थानम् । २ ब्राह्मणकुलम् । ३ च यम्या श्याहाः। ।
ख 3 4 5 पा मुन भार्गवचम्पूः। प्रेमाविलमतिविमलं सत्कुलमकलङ्कशीलमनुकूलम् ॥ लावण्यसरःकमलं सरलमलं किल कलत्रमिह विरलम् । ततः श्रीकान्तः स्वकान्ता क नु गतेति वितळ निश्चिनोति। वर्णनीयान्वयभुवां साध्वीनां सुन्दरभ्रुवाम् ॥ पितुर्वा पत्युरागारं गतिरन्यानयावहा ॥ ७ ॥ तन्नूनं क्षीरनिधेः स्वपितुरेवालयं गतेति निश्चित्य प्रमदासक्त- चित्तानामेव व्यवस्थितिारीत लोकान्निदर्शयन्स्वयमेव क्षीरााब्ध- मुपजगाम । तत्रापि तामदृष्ट्वातिआन्ततया शेषपर्यके क्षणं प्रस्वा- पदत्तावसरोभूत् । तत्रावसरे । दैत्यांशोद्भवभूरिभूपति चमचक्रार्दितां गामिमा- मादाय त्रिदशत्रिनेत्रविधयस्तीरं ययुः क्षीरधेः ॥ कृत्वाग्रे विधिमद्भुतामलपदस्तोत्रैः शनैरच्युत विध्वस्तस्वपदाश्रितापदमलं भक्तेष्टदं तुष्टुवुः ॥ ८ ॥ ततः कृपालुभंगवान् उर्ध्या यदुकुले सर्वेपि सुपर्वाणस्तत्प- न्यश्चांशेन सम्भवन्तु । ततः सहस्त्रवदनावामपि शौरिनायोरप- त्यतामुपेत्य भूभारं क्षपयिष्यावः । योगमायापि कार्यवशेन नन्द- सद्मनि जनिष्यते इत्येवं ब्रह्माणमादिदेश । असनिधानात्पद्मायास्तदानी जगदीश्वरः ॥ तजन्मकथनं नैव कृतवान् परमेष्टिने ॥ ९ ॥ हरेः स्ववृजिनान्नानं भक्तदुःखं सुदुःसहम् ॥ अतस्तदवमुच्यापि श्रितत्राणार्थमुद्यतः ॥ ११ ॥ नि नि । १ सुकुलजानाम् ।
सप्तमः स्तबकः। ४५ 117 ततो देवान्प्रभूतं निवेद्य वसुन्धरामाश्वास्य वेधाः स्वधाम प्रत्यपद्यत । देवाश्च सर्वे प्रभोरादेशे तस्थुः । शेषोपि शौरिपन्यां रोहिण्यामवततार । ततः । मायामादिश्य दृप्यनुजनिकदने चण्डदोर्दण्डसारः शौरेः क्षेत्रेथ साक्षात्स्वयमतुलगुणः प्रादुरासीदजन्मा ।। लीलाविध्वस्तकंसाद्यखिलखलमदः प्राप्त दारानुदारा- न्पार्थानापद्विमुक्तानकृत परिहरन् भारमु| मुरारिः ॥१२॥ श्रीरपि भीमनृपसुता भूत्वा तदवाप्तये ऽनुरागवती ॥ हरये द्रुतं समहिनोच्छुभकरवीरप्रियाहमिति दूनम् १२ ततः कदाचिद्वारवत्यां विविधकामकलाकलापोपकरणालंक- तसद्मनि मकरध्वजवह्निविध्वस्तधैर्यद्रुमसुधामिवाधाय राधामङ्के पर्यङ्के निःशङ्कं पुलकाञ्चिताङ्गया तया सह दिव्यं तन्निनदयित- मवेक्ष्य रोषदूतहृदयसमा पद्मा निश्वसन्ती पुनस्तत्सम संत्यज्य लोहंदण्डं निर्जगाम । अपराधे प्रकुप्येत मयि श्रीरिति तयात् ।। हरावनपराधेपि रुष्टातो लोहदण्डभाक् ॥ १४ ॥ ततः श्रितजननिर्जरतरुः श्रीपतिरपि तद्विरहपरिश्रान्तस्वा- न्ततया विहाय स्वान्तःपुरं तदनुनेतुफामस्तामन्वेषयन्ननेकगिरि- सरिस्कान्ताराण्यतिविदितावगालतवत्सनद्वयो दिग्वसन एव वल्ली- कृताङ्गदः श्रीवैजयन्तीमीनकुण्डलालंकृतो भार्गवपदमुद्राङ्कितो- १ शुभंकरोयो वीरो विष्णुः स एव प्रियो यस्य । शुभं यत्करवीरं नाम क्षे- त्रं तदेव प्रियं यस्या इति वा । २ एतनामकं क्षेत्रम् ।
भार्गवचम्पूः । H * 4 मु रस्थलः स्वप्रियां श्रियमुपलभ्य सानन्दं सान्त्वयामास । तत्रा विकलानुनयश्चिन्तयामास । गृहिणी गृहमित्याहुस्तदर्थं वित्तसद्मनी ॥ सा विरक्ताथ किं तेन धनेन सदनेन मे ।। १५ ॥ तदत्र पुण्यतमक्षेत्रे सर्वत्वव्ययेनाहमपि तद्रूपश्चरामीति । त त्रावसरे। पितृभजनलीनमनसं मुनिवरमिह पुण्डरीकनामानम् ॥ वृत्वा पुरोधसं निजहृद्गतमस्मै निवेदयाञ्चक्रे ॥ १६ ॥ ततः सोपि पात्रापात्रविचारेणास्येशस्य प्रभूतवित्तव्ययः क- थं स्यादिति विचार्य परमकारुणिको मुनिः । ज्ञानविज्ञानहीनानां मृदानां पापिनामपीत्यादिना मोक्षमुपलक्षीकृत्य महत्तासने तिष्ठन्ने व सर्वस्वं प्रतिपादयेत्युपदिष्टवान् । तिष्ठन्नेवेत्युक्तं मुनिना यत्तत्र हेतुरयमेव दीनाः सुदवीयांसोप्यस्य कृपालोकगोचराः सन्तु ॥ १७ ॥ मद्दत्तासन इत्यत्र हेतुर्यत्कृपया द्विजैः ।। दत्तं तदचलं चास्य त्यागानहमपि स्फुटम् ॥ १८ ॥ तद्वागबन्धः स्वसिद्धामलविमलकलापालिताशेषलोकः शोकन्नः स्वांश्रितानामिति मुदितमनाः पुण्डरीकण दत्ते ।। तिष्ठन् पीठेष्टसिद्धित्रिदशविधिमुखावासवैकुण्ठसम्प- सायुज्यादिप्रदानोप्यतमतिरजितो राजते दीनबन्धुः ॥१९॥ द्विजेन पुण्डरीकेण दर्शितेनाध्वनैव यत् ॥ th ( य १गुरुम।
सप्तमः स्तबकः । पि यात्यतः पुण्डरीकाक्षं मेनेहं विट्ठलं विभुम् ॥ २० ॥ नामान्यस्य हरेः श्रुतिस्मृतिगणैरुक्तानि गौणान्यपि प्रोन्नीतानि महात्मभिः प्रतिपदं तिष्ठन्त्यलं कोटिशः ।। तत्राप्यत्र किलादरानुपनिषद्गीतश्रवाश्रीपति- र्दीनानामनुकम्पयैव विदधे श्रीविठ्ठलेत्याह्वयम् ॥ २१ ॥ जघनाहितपाणिरुन्नतांसो मृदुमन्दस्मितसुन्दरास्यचन्द्रः ।। समचारुपदेक्षणः शरण्यः स तु मां पातुतमां तमालनीलः २२ तदारभ्य अयं क्षेत्रराजोपि अघविध्वंसनस्य श्रीनिवासस्य निवासादघविध्वंसनः । श्रीनिवासश्चाह । ये मन्दाः स्वकलत्रपुत्रकनकाद्यासक्तचित्ताः सदा यात्रामत्र विधातुमक्षमतया नैवागताः कर्हिचित् ।। तेपि सोद्यमसम्भ्रमादपि बलादश्रद्धया दूरतो- प्येनं वीक्ष्य यदृच्छयापि च सहद्धन्याःस्युरुत्कल्मषाः२३ यात्राद्वयमिहेशस्य दिवसे मासि वत्सरे ॥ नियमेनानुतिष्ठन्ति तेऽपुनर्भवभागिनः ॥ २४ ॥ शुचावप्यत्र सङ्गत्य शुचि तिष्टन्ति किं जनाः ॥ श्रीविठ्ठलकृपालोकात् विशोकाः सभवन्त्यमी ॥ २५ ॥ पदना यदविज्युता जडाधःपतना वक्रगतिश्च जाह्नवीयम् ॥ समतां किमु पुण्डरीकनाम्ना किल जगुद्विजसूनुना समेति २६ अपि च । १ विदा ज्ञानेन ठान् शठान् लाति गृह्णाति इति विटलः । २ आषाढे । 3 शुचि यथातथा।
भार्गवचम्पूः। मुकुन्दमुचुकुन्दयो रहासे संविदे ब्राह्मणै- रवाप्यमितरत्र नैवामिति यच्च सिद्धान्तितम् ॥ तदत्र पदमूर्जितं जगति सूकरेणार्जितं प्रदक्षिणविधानतः सपदि पुण्डरीकालये ॥ २७ ॥ किं पुनः क्षेत्रराजस्य प्रदक्षिणविधौ फलम् ॥ जानाति दिवि वा भूमौ विबुधोपि न कश्चन ॥ २८ ॥ रा किंच। भ # 9 म दशशतवदनोप्यलं न वक्तुं भवतनुजामहिमानमत्र यस्याम् ॥ स्ववृजिनपरिमार्जनायं सद्यः समभिसरन्ति हि मध्यमेहि नद्यः२९ अपि च । भीमापि या विबुधजनकमनीया तदपि न स्वरबलेयम् ॥ सुजडापि वेणुनादानुसरणशीलापि वल्लवी नैव ॥ ३० ॥ गुर्वी तीर्थानामपि नीचपथालम्बिनी न पतितेयम् ।। भवतनयापि भवन्नी तदपि न पितृघातिनीति चित्रमिदम् ३१ क्षेत्रेषु तीर्थेषु च दैवतेषु भक्तेषु सर्वेष्वपि संगरिष्ठम् ॥ श्रीपुण्डरीकं त्वथ चन्द्रभागा श्रीपाण्डुरङ्गो मुनिपुण्डरीकः ३२ वृन्देहं सम्पूरीतमन्देहं देवमस्तसंदेहम् (?) ॥ किं देहं भरभजनैः किं ते त्वं ते क्षमाः परित्रातुम्॥३३॥ वहवः सन्ति सुमनसः स्विष्टा इह कामदाः सकामानाम् ॥ धर्मार्थमोक्षवितरणपटुरेको जयाते विठ्ठलो जगति ॥ ३४ ॥ य १ भीमानान्नी भयंकरा च । २ स्वर्गाङ्गना शब्दकारिणी च । ३ डलयोः सावा सुजला इत्यपि । ४ भवः संसारः शिवश्व ।
सप्तमः स्तबकः । वन्दे देवशिखामाणं कलिमलप्रध्वंसदक्षं रमा- नाथोद्भासितमौलिमानसलसद्राजीवरोलम्बकम् ।। यश्चित्तं मुनिपुण्डरीकवचसा बद्धोप्यविद्यागुणै- बंद्धानुडरते नरान्नयवतो दीनान् दयाम्भोनिधिः ॥ ३५॥ अविरतमनुकम्पाकम्पदीपोरुकान्ति- प्रशमितनतपापध्वान्तपतिः समन्तात् ॥ विधिविबुधमुनीन्द्रैः सेव्यमानाङ्गिपद्मः सजलजलदनीलं विटलं तं नतोस्मि ॥ ३६ ॥ आस्तमितत्सदुपनिषदां हृद्यमाद्यं सुविद्यै- रावेद्यं यत्किमपि तमसः सन्निविष्टं पुरस्तात् ।। अम्भोदामं समपदकटिन्यस्तहस्तं स्मितास्य तिष्ठद्वल्यङ्गदमिह मनस्याविरास्तामिदं नः ॥ ३७ ॥ सान्द्रग्रावेन्द्रनीला किल बहलरजःसंन्निहन्त्री जनित्री सत्त्वानां स्वप्रभावाच्छशितरणितिरस्कारिणी तापहन्त्री ॥ सानन्दा नीलकण्ठाद्यभिमतरचिताविट्टलाख्यानुकम्पा पाथोभिस्तर्पयन्ती हृदि वसतु मुदे कापि कादम्विनी मे ३८ पतगपतितुरङ्गः कुञ्जकेलिप्रसङ्गः कृतनतभवभङ्गः सन्मन कञ्जभृङ्गः ॥ करविधृतरथाङ्गः पार्वतीशान्तरङ्ग- छविविजितपतङ्गः पातु मां पाण्डुरङ्गः ॥ ३९ ॥ १ स्निग्धेन्द्रनीलमणिपाषाणवनीला ।
। खे रा Aal) 1689 भार्गवचम्पः। इत्थं वा कुसुमैर्मयाल्पमतिना चम्पूरियं निर्मिता नाहन्ते वनमालिनास्त्वति वरं ब्रीडाजडीभूतधीः ॥ तावत्तत्स्मृतिमागतं तव वचो यद्यत्करोषीत्यहं तेनावाप्तधृतिस्तवाङ्ग्रेकमले तामर्पये त्वन्मुदे ॥ ४० ॥ कथं वासौ मद्वाक् तव गुणगणौघं गणयितुं क्षमा क्षामा सामीलतदनुजदाहिकशिपो । तपः सम्पत्पूतामितमतिमदैश्वर्यमपि य- द्यशःपारावारे रज इव निमग्नं महदपि ॥ ४१॥ न जानेहं पातञ्जलकपिलकाणादकमुनि- प्रबन्धानाधीतं नतवरदसारस्वतमपि ॥ तथाप्यडा बहाः पितरमिव तोकस्य नितरां गिरो मे रोमाञ्चाञ्चितमथ भवन्तं विदधतु ॥ १२ ॥ न विज्ञातं ज्ञेयं नहि तव च भक्तिर्न विरति- स्तमत्त्यागो योगः स्वहितमथकर्मापि न कृतम् ॥ असह्यान्यायानां खनिरवनिभारोस्मि सदयं दयाब्वे यद्युक्तं तव कुरु तदेवाणिनि माये ॥ १३ ॥ गुणानामन्तरते न निगमपुराणागमशतै- स्वया वा विज्ञातस्वमसि तदनन्तः किल यथा ॥ मि १ क्षामा अतिलघु । २ क्षामांकृता नाशिताः । ३ पातज्जलं व्याकरणं कपिलेनोक्तं सांख्यं कणादेनोक्तं तर्कशास्त्रम् । ४ सारस्वतमपि व्याकरणम् । अथवा अलंकारादि । ५ बालस्य ।
सप्तमः स्तबकः । ५१ ८..........। तथा मे दोषाणामतसिसुमसाधारणरुचे नचेद्दीनं मामुद्धरासि वद कोन्योस्ति सदयः ॥ ४ ॥ पिता माता भ्राता तनुननिरुपास्यः प्रियतमो गुरुस्त्राता मित्रं सुहृदपि भवानेव भगवन् ॥ दयालो दीनोयं त्विति दयय मामुद्धर हरे हरे मां संसारव्यसनततिमादर्शय पदम् ॥ १५ ॥ आत्तोंडारपरायणत्वमिह ते नैसर्गिकं तद्भवान् दीनं मां द्रुतमुद्धरिष्यति भयादित्यस्ति मे प्रत्ययः । कैश्चिकिकिललोकलोचनतमःशान्त्यर्थमभ्यर्थित- स्तेजोराशिरसौ सहस्रकिरणः प्राचीदिगन्तर्गतः ॥१६॥ भासत्सद्गुणमणि त्रिजगतां पापापनुत्कणि स्वेषामार्पतशर्माण श्रुतिमतोयद्धर्मभृहर्माण ॥ शश्वत्पालनधर्मणि प्रियरहः क्रीडेन्दिरानमणि प्रज्ञाताखिलमर्मणीह रमतां हृद्विष्टले ब्रह्मणि ॥ ४७ ॥ यत्सेव्यं तदसेव्यं नासेव्यभिति किमर्थना(१) । इति निजमौग्ध्यविलज्जितबुद्धेतत्क्षमन्तु सत्कवयः॥१८॥ श्रीमद्विट्ठलपादपद्मविगलत्पीयूषधारारस- स्वादासक्तावविक्तचित्तमधुपश्रीरामसवंशभूः ।। १ अतसि नाम 'जवस' इति भाषायाम् । २ अन्योन्योपकारकं मित्रम् ३ उपकारमनपेक्ष्योपकारी सुहृत् ।
भार्गवचम्पूः । ख्यातरूयम्बक इत्यथास्य तनयः सद्रामकृष्णाय- श्चम्पूकाव्यमिदं चकार स हरेदीसोपनामा कविः ॥१ ख हृद्तन निदेशेन ह्यनीशेनापि यन्मया ॥ कृतं युक्तमयुक्तं वा श्रीविठ्ठल मुदेस्तु तत् ।। ५० ॥ येनेत्थं यत्प्रीत्यैकाव्यमिदं कृतमतीव रसयुक्तम् ।। तस्मिन्कवौ स विष्णुर्वत्सतरे गौरिवास्तु सुप्रीतः ॥५५ का इति श्रीमद्भक्तशिखामणिश्रीमद्रामान्वयसम्भूतन्यबकसुतरा कृष्णविरचितभार्गवचम्प्वां सप्तमः स्तबकः ॥ ७ ॥ पा मु मर E E-imansion S : समाप्ता चम्पूः । -- कपिलेनो भथवा अमुद्रितमतन्मुम्बय्यांगोपालनारायणजनतया स्वर्क