Bharatiya Vidya Bhavan Library, Mumbai

Advet Martand

Shastri Anant Krishan · 2012/08

PDF Proofread

Front matter

BH
S.HSNSE
अद्वैतमार्तण्ड:
मद्रपुर संस्कृत महाविद्यालयाधमर्ण
कलकत्ता विश्वविद्यालयाध्यापक
महामहोपाध्यायादिविरुदाङ्कित
श्रीमदनन्तकृष्ण शास्त्रिणा
प्रकाशितः।

AAAPAARA
मुद्रा-
किशोरीलाल केडिया,
वीणक् प्रेस,
१. सरकार लेन, कलकत्ता

LIBRARIO
m
--
1
RODDER: REMED8802005
धोकायाकामकोटिपीठाधिष्ठातृ कुम्भघोणाधिष्ठान प्रात स्मरणीय स्वनामधन्य
सनातनधर्मजीवातु-जगदगुरु श्री १००८ शङ्करभगवत्पादा ।
टा
14."
dkar

LATIY, BHAR भमिका LIORARE इदं तु व्यासतात्पर्यनिर्णयप्रतिपायं तत्त्वम्-चत् सांख्याद्यनुवादमहिम्नाऽद्वै- तमतमेव व्यासमतम् तुरीयमेव परमात्मस्वरूपं सर्ववेदान्ततात्पर्यविषयः, नाव. काशः त्रिमूर्तिपु कस्याप्युत्कर्षापकर्षकल्पनायाः, नवा प्रामाणिकत्वं सांप्रतत्वं वा । समालोचनप्रसङ्गेनास्य नियन्धस्य, प्रययन्धुरपरं प्रवन्धं महामहोपाध्याय- वैष्णवोत्तम-श्रीदेशिकाचार्यमहोदया: अभिधानेन व्याससिद्धान्तमार्ताण्डम् । उद्देश्यमस्य निबन्धस्य विरचने “पूर्वाचायः स्वरूपदौस्थ्यादिदूपणसहस्रेणोन्मू- लितमपि मायावादमुज्जिजीवयिपुः कश्विदर्वाचीनो व्यासतात्पर्यनिर्णयनाम्ना क- मपि ग्रन्थं नियवन्ध, अहो मोहमाहात्म्यम् ।अयं किल कपिलायनुवादयुक्त्या मा. यावादं पुनरुन्मिमीलयिपति। असन्निधानात्तु पूर्वाचार्याणां तस्यैतस्य प्रत्यव- स्थानस्य प्रशमनभारः पतितोऽस्मासु' इति स्वयमेव ग्रन्थकारा इमे वदन्ति । वयं तु प्रतीमः-व्यासतात्पर्यनिर्णयकाराः न महामहोपाध्याय-श्रीदेशि: काचार्य महाशयेभ्योऽप्यर्वाचीनाः, न याद्वैतवादसमालोचनमात्रेण मोहमाहात्म्य- स्यैव वशंवदाः। अर्वाचीनत्वं कश्चित्पदप्रयोगेण निकृष्य व्यवहरणं वा न वस्तुगौरवं स्वाभाविकमन्यथयिष्यति । न हि कस्तूरिकामोदः शपथेन निवा पते । सत्यं महामहोपाध्यायाः अदैतमनोन्मूलनभारं तेष्वेव सांप्रतं पतितं मन्य. न्ते, वयं तु स्वल्पज्ञाः सत्स्वेव प्रचण्डेषु व्याससिद्धान्तमार्ताण्डनिराकरणसम- र्थेषु पूज्येषु, स्वयुद्धिविकासार्थमेवादैतमार्तण्डाभिधमिमं नियन्धं व्याससिद्धान्त. मार्ताण्डादिसमालोचनप्रसङ्गेन सांप्रतं प्रियपाठकानामुपहरामः । मुनित्रय. सरूपा इव न वयमात्मा नियोगपर्यनुयोगानह मन्मह इति, छान्दसमार्ताण्ड- पदपरित्यागेन मार्तण्डपदं नामनि योजितम् । व्यासतात्पर्यनिर्णयकाराः महाभारतवाक्यानि, ब्रह्मसूत्राणि, किंबहुना ? श्रुतिवाक्यान्यपि सहस्रमदैनवादसमर्थनपराणि तत्तत्प्रामाणिकभाष्यकारादि- विवरणसहितान्यदैतवाद्व्यबस्थापनार्थ सत्यं शक्यान्युपक्षेतुम् परन्तु मतान्त- , । , रावलम्बिनो विवरणान्तराद्ययलम्बनेन तत्रापि तेप्याचार्या वयमप्याचार्या इति विप्रतिपद्यरन्निति कृत्वैव ग्रन्थान्तरानुवादमवलम्व्यवादैतमतं चैयासिकमिति व्यवस्थापयाम इति प्रतिजानते । व्याससिद्धान्तमार्ताण्डकारा अपि-"यद्यपि नीलकण्ठादिभिर्महाभारतमपि क्लिप्टकल्पनयाऽद्वैतपरतया योजितम्; तथापि प्रश्नप्रतिवचनप्रकारैरदैतपरत्याभावस्य प्रस्फुटतया" इत्यादि वर्णनेन स्वाशय- विरुद्धं नीलकण्ठभाष्यमप्यद्वैतपरत्वोपपादकांशमात्रेऽप्रमाणं मन्यन्ते-पहुष्य परेषु विषयेपु नीलकण्ठभायातमहाभारतपाठस्यैव साधुत्वं व्यवस्थापय- न्तोऽपोति, न व्यासतात्पर्यनिर्णयकाराणां संभावना सर्वथा निरवसरा । सर्वथा तु-आत्मैकत्व-यहुत्वादिविचारप्रकरणादिगतानि महाभारतवाक्यानि ब्यास- सिद्धान्तमार्ताण्डकाराभिमतरीत्या न स्वीयमाशयं प्रश्नप्रतिवचनायेकवाक्यता. भङ्गापत्त्या परिपोपयन्तीति, महाभारतगता अपि आत्मस्वरूपतदेकत्व-व्यापक- त्यादिव्यवस्थापनपरा भागा अद्वैतवादमेवोपवृहयन्ति । ब्रह्मसूत्राण्यपि-परब्रह्मप्राप्तेर्गतिसापेक्षत्वादिविषयमधिकृत्य प्रवृत्तानि गतिनिरपेक्षो ब्रह्मभावः, कार्यब्रह्मप्राप्तिरेव तु गतिसापेक्षेति विशदयन्त्येव । यथाच-कार्य वादरिरस्थ गत्युपपत्तेः” इत्यस्यैव सिद्धान्तसूत्रत्वम्, नतु "परं जैमिनिमुख्यत्वादि'त्यस्य, तथा न केवलमस्मद्वेदान्तपरिभाषाभूमिकायाम्, किन्तु प्रकृतग्रन्थेऽपि सम्पगेच निरूपितम्। बादरिपक्षे पञ्च सूत्राणि,जैमिनिपक्षे तु नीणि सूत्राणि । तत्र जैमिनिपक्षीयसूत्रत्रयस्य निरासार्थ चत्वारि सूत्राणि, स्वपक्षस्था- पनार्थ तु “कार्य चारिरस्य गत्युपपत्तेः" इति पश्चमं सूत्रमिति, व्याससिद्धान्त- मार्ताण्डकाराणा बादरिमतमेव जैमिनिना निरस्थत इति वादो न क्षोदक्षमः । सति चैवम्-"प्रतिषेधादिति चेन्न" "स्पष्टो येकेपाम्" इत्यत्र "स्पप्टो टेके- पामिति पृथगेव सिद्धान्तसूत्रमिति, अद्वैतिनां विवरणमेव सूत्राक्षरानुगुणम् । तैत्तरीयोपनिषदि-ततोऽन्तरस्ततोऽन्तर इत्यानन्दमयान्तस्य निरूपितस्य कारणमुखेन भृगुवल्लो मयट्परित्यागेनोपदेशनार्थ प्रवृत्ता "अन्नं ब्रह्मेति व्यजा- मादित्यादाविव "आनन्दो ब्रह्मेति व्यजानात्", इत्यत्रापि मयट्परित्यागेनैव प्रय- तत इति, नान्नमयादिभ्यो विशेषमानन्दमयस्याभिमैति" इत्यायवगमात्, सूना- . , है णामप्यानन्दमयाब्रह्मतायामेव स्वारस्याधिक्याच कारणत्वमेव ब्रह्मणः तटस्थलक्ष. णविधपा प्रथमज्ञानार्थमपेक्ष्यते, नतु शरीरशरोरिभावः पारमार्थिकः तटस्थरूपो वा; अन्यश कथमन्नमयपर्यायेऽपि शारीरत्वं न निर्दिष्टम्, इत्यादयो बहुतरा विपयाः नियन्धमध्येऽत्र समुपक्षिता इति,आनन्दमयायधिष्ठानशुद्धब्रह्मनिर्णय एव तात्पर्य तैत्तरीयोपनिषद् इति, यादरायणमतमद्वैतमेवेत्यत्र तदप्यधिकरणमनुगुणमेव । 'तदनन्यत्वमारम्भणशब्दादिभ्यः' 'न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि' 'मायामात्रन्तु कात्स्येनानभिव्यक्तस्वरूपत्वात्,' कार्य बादरिरस्य 'गत्युष- पत्तेः' 'वैधाच न स्वप्नादिवत्' 'न विलक्षणत्वाधिकरणादिसूत्राणि, 'प्रियशिर- स्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य पन्धविपर्ययौ' 'प्रकृततावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः' 'भोगमात्रसा- म्यलिङ्गाच्च' 'तन्वभावे सन्ध्यवदुपपत्तेः 'भावे जाग्रदत्' देवताधिकरणादीनि चा- दैतमत एवोपपन्नानीति कथं ब्रह्मसूत्रकाराणां नाद्वैतमतमभिप्रेतम् ? पुरुपसूक्तप्रतिपाद्यम्, सुवालोपनिषत्प्रतिपाद्यं च विष्णुशरीरकं ब्रह्मै- वेति सुबालोपनिषत्पञ्चमखण्डस्य, यत्र विष्णोरप्यन्तर्यामी नारायण इति व्यव- स्थापितम्, अथर्वशिखोपनिपश्च-पत्र चतुष्पाद्ब्रह्मणः प्रथम-दितीय-तृतीय- पादाः ब्रह्म-विष्णु-रुद्राः, चतुर्थपादस्तु पुरुष इति व्यवस्थापितम्, अनुसारेणावग- म्यते। अन्तरधिकरणे 'अक्षिणी'ति द्वित्ववचनेन यक्षस्य व्यावृत्तिरिति वदन्तः सिद्धान्तमार्ताण्डकाराः कथं पुरुषसूक्तप्रतिपाद्यं सहस्राक्षमपि तत्र न व्यावर्तयन्ति? 'ईक्षते शब्दम्' इति सूत्रस्य आशब्दमीक्षतेः, ना पुरुष एव पुरुष सूक्तमतिपाद्यो ब्रह्मेति, पाराशर्यविजयकारैरैव कल्पनेयं देवतान्तरनिरासा- सम्भवेन निरस्तैवेति, पूर्वपक्षांशमात्रमत्र मार्ताण्डकारैः संकलितम् । पाञ्चरात्रप्रामाण्यनिराममेव 'उत्पत्यसम्भवात्' इत्यादिभिः सूत्रैस्स्वर- सतः सूत्रकाराः कुर्वत इति, "सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा" इति वाक्यनिर्दिष्टेषु वैदिकमद्वैतमतमेकमेवावशेपितं सूत्रकारः, यत्रात्मैकत्व-व्या- पकत्वादिपक्षानेव स्वमतान् बादरायणाचार्या स्पष्टमुद्धोपयन्ति महाभारते। " उभय- "विज्ञानादिभावे वा" इति ब्रह्मभावस्थानुसन्धानमनुत्पत्तिसमर्थनार्थ स्वरूपंतः पाञ्चरात्रमते जीवोत्पत्तिमेव सिद्धान्तसिद्धां साधयति । अस्मिन् हि नियन्धे प्रसङ्गतोऽस्मदीयवेदान्तपरिभाषाभूमिकाविम- शोपि स्वनामधन्य-श्रीगोपालाचार्यमहाशयानां समालोनिनः, यस्यैव तत्र तत्र "विमॉक्तिः" इत्यादिनानुवादोऽत्र नियन्धे दरीदृश्यते। विमर्शकारा हि-पाञ्चरात्रपामाण्यविषये, विशिष्टत्रत्मकार्यकारणभावविपये, लिङ्गाधिकरणे, अंशाधिकरणादौ च विमर्श स्वीयं विशेपन आद्रियन्ते । पाञ्च- रात्रप्रामोण्यविपये--शङ्कर भगवत्पादादीनामपि तत्मामाण्यमेवाभिमनमिति कल्पनातु तेषां स्वकपोलकल्पना क्रीडामात्रमित्येव चयं पश्यामः । स्पष्टं हि तत्मामाण्यनिरसनं शाङ्करग्रन्थेषु भामती-कल्पना परिमलादिषु दृश्यते । विशिष्टस्य ब्रह्मग: कारणत्वं न सूबारूदमिति स्वयमेव विमर्शकाराः स्वीकुर्वन्ति । पाञ्चरात्रप्रामाण्यचर्यायामप्रतिकृल्येऽपि विशिष्य "परिमलोक्तं तु नैयाद्रिया- महे" इति व्यर्थमेवेमे परिमलं विद्विषन्ति अतिनां धटपदेन तवच्छिन्नस्य चैतन्यस्य ग्रहणवदस्मन्मतेऽपि सर्वस्प ब्रह्मपकारत्वमिति कल्पनातु-"यादृशं ब्रह्मगः सत्त्वं तादृशं स्यात् जगत्यपो"ति न्यायामृतकल्पनातुल्येति, श्रीमधुसूदनसरस्वनीनां 'विवाहसमये कन्यायाः पित्रा निजगोत्रं पृष्टस्य यदेव भवनां गोत्रम् , तदेव ममापोति वदतो वरस्य भ्राता भवानि" त्युत्तरसदृशमेवोत्तरमत्रापि भवितुमर्हति, वक्तव्यं चात्र सर्व ग्रन्थ एवोपनिबद्धम्। अंशाधिकरणयोजनायामस्माकं योजना भाष्यविरुद्वेति बहुशस्तत्र तत्र विमर्शकारी उपक्षियन्ति । शाङ्करभाष्यगतानुज्ञापरिहारसूत्रावतरणभाष्यानु- सारिण्यस्माकं योजनेति, नात्र भाष्यविरोध इत्याद्यपि विस्तरेण निवन्धेऽत्र "न स्थानतोऽपो" त्यधिकरणसमालोचनपूर्वकं विवेचितमेव । पञ्चदशभिरेव दिनरस्य मुद्रापणप्रयन्वं कार्यान्तरपरित्यागेनापि व्यव- स्थापितवन्तो मुद्रणालयाध्यक्षाः, संशोधनमारमूरोकृतवन्तो महामहोपाध्याय पूज्य श्रीसीतारामशास्त्रमहाशयाश्चास्मानघमणयन्तीति शम् । ।

LIBRARY SN........... LAVAN श्रोग्स्तु । फ्यानुक्रमणिका पृष्ठ संख्या ... २ ... ... ८ ह विषय च्याससिद्धान्त मार्ताण्डानुवादः व्याससिद्धान्तमार्ताण्डसमालोचनोपक्रमः ईक्षते शब्दमित्यस्योक्तविधयोजनान्तरासंभवः २ तुरीयस्यैव परमात्मस्वरूपस्य पुरुषसूक्तप्रतिपाद्यत्वम् अन्तरधिकरणप्रतिपाद्यस्य पुरुषसूक्तप्रतिपायस्य च भेदापत्त्या परोक्तिनिरासः सहस्राक्षादिपदानां रुद्रविष्णुसाधारणानां तदंशिनि परमात्मन्येव मुख्यता ३ विष्णोरपि रुद्रस्येवोत्पत्तिवादयोगः तुरीयस्यैव पुरुषपदमुख्यार्थत्यम् ५ कारणवाक्येषु श्वेताश्वरोपनिषदादौ श्रुत्यन्तरे नारायणपदस्येव रुद्रपदस्यापि प्रयोगः विष्ण्वादिशब्दानां शिवसहस्रनामपठितानामिव विष्णुसहस्रनामगत शंभुरुद्रादि पदानामपि तुरीयपरत्वात् न विष्णावेव त्रिमूर्त्यन्तर्गते शिवादिपदोपपत्तिः कठवल्ल्यादिगतविष्णुपदस्य बल्ल्यन्तरैकवाक्यतया व्यापकस्वरूपपरत्वम् , नतु पुण्डरीकाक्षपरत्वम् शुद्धचैतन्यस्वरूपस्य परमात्मन एव नारायणपदार्थस्य ध्येयत्वेऽथर्वशिखोपनिषदुपष्टम्भः अग्निपुराणगतगीतासारादीनां स्वयं वादरायणानूदितानमद्वैतमत एव निर्वाहः १० यमगीतासारस्याप्यद्वैत एव स्वारस्यम् अद्वैतवादाभिप्रेतस्यात्मैकत्वपक्षस्यैव महाभारततात्पर्यविषयत्वम्, नतु तभेदपक्षस्य विशिष्टाद्वैतवादाभिमतस्य... १२ महाभारत आत्मवहुत्ववाद एवं व्यवस्थापित इति परमतानुपपत्तिः पाश्चरात्रसिद्धान्तस्यैव यादरायणाभिमतत्वनिरासः साङ्ख्ययागाभ्यामव वेदस्यकवाक्यता, नतु पाञ्चरात्रमतेनेति व्यवस्था 'पुरुषकत्वमुक्तवान्" इत्यत्र पुरुषपदार्थो न स्वतन्त्रेश्वरः, किन्तु प्रत्यगात्मैव कर्तृ दोपेण साङ्ख्यादीनां नाप्रामाण्यम्, किन्तु विषयबाधेनेव, स च पाञ्चरात्रेऽप्यविशिष्टः १५ पाश्चरात्रप्रामाण्यस्य वादरायणानभिप्रेतत्वम् पालरात्रप्रामाण्ये वादरायणाचार्याशयः पाञ्चरात्राधिकरणंयस्य तदप्रामाण्यसाधनार्थमेव प्रवृत्तिः, नतु तत्प्रामाण्यसमर्थनार्थम् विज्ञानादिभावस्योत्पत्तिनिवेधार्थत्वेनानुसन्धान जीवानामुत्पत्तिपरत्व एवोपपद्यते पाञ्चरात्रस्यापि पोरुषेयत्वेन वेदविरोधेऽप्रामाण्योपपत्तिः भगवत्पादादीनां पाश्चरात्रप्रामाण्यमतसङ्ग्रहः परिभाषाविमर्शाभिमतभामतीकल्पनर्वादीनां पाञ्चरात्रप्रामाण्यसमर्थनविरोधिता पाञ्चरात्रगतजीवोत्पत्तिवादस्य गौणत्यायोगः श्रीभाप्याभिमतपाञ्चरात्रप्रामाण्यसमर्थनस्यानपेक्षा विमर्शकाराणां व्यर्थ परिमलविद्वेपः २३ ... - . २० २० २२ ...

[ स्व ] पृष्ट संख्य २४ २७. २८ ... २६ ३२ ... ... विपय पाञ्चरात्राधिकरणस्य धीभाष्यमताननुगुण्यम्, अद्वैतवादस्य पूर्वपक्षत्वानुपपत्तिश्च "असत्यमप्रतिष्ठमि"त्यादि गीतादिक्यानामईतनिन्दायामतात्पर्यम् भगवत्पादसम्मत-सौत्राद्वैतवादस्य व्यवहारदृष्ट्या यावज्ञानं कर्मकाण्डप्रामाण्यादि- परस्य न तामसत्वेनानादरणीयत्वम् श्रीभाष्यकारसम्मतविशिष्टाद्वैतवादस्यैव तामसत्वे उक्तपद्मपुराणतात्पर्यम् वाशब्दस्वारस्येन "विज्ञानादिभाव वा" इति सूत्रस्य न सिद्धान्तसूत्रत्वसम्भवः "विज्ञानादिभावे वा तदप्रतिपेध" इत्यत्र तदप्रतिषेधपदार्थविचारः पाञ्चरात्राप्रामाण्यस्यैव सूत्रकाराभिमतत्वे युक्त यन्तरसङ्ग्रहः सुवालोपनिषत्प्रतिपाद्यमपि तुरीयनारायणस्वरूपमेय, नतु त्रिमूर्त्यन्तर्गतविष्णुस्वरूपम् श्रीवैष्णववादे आकाशाधिकरणाचियर्यम् मद्रशब्दघटितानामिव नारायणशब्दघटितानामपि नेतरेतल्यावर्तनेन कारणस्वरूपयोधकत्वम् आनन्दमयाधिकरणस्य विष्णुपरताऽसम्भवः भान्त्रवर्णिकसूत्रेण तैत्तरीयोपनिषदो विष्णुपरत्वव्यवस्थापनासम्भवः सुबालोपनिषदो न विष्णुसन्तिर्यामित्ये प्रमाणता अन्तस्तद्धर्माधिकरणस्य विष्णुपरत्वासम्भवः पुण्डरीकाक्षत्वमन्तरादित्यवाक्याचगतं न विष्णुलिङ्गम् "कप्पासं पुण्डरीकमेवमक्षिणी" इत्यत्र न विष्णूपस्थितिः आकाशाद्यधिकरणानां रुद्रादिचेतनान्तरव्यवच्छेदतात्पर्यासम्भवः प्राणपदस्य रुद्रनिरासेन विष्णुसमर्पणे न तात्पर्यमित्युपपादनम् ज्योतिरधिकरणस्य तुरीयपरत्व एव स्वारस्यम् प्रतर्दनाधिकरणस्यापि न रुद्रनिरासेन विष्णुव्यवस्थापने तात्पर्यम् तुरीयस्यैत्र शास्त्रदृष्ट्यात्मत्यव्यवस्था भगवद्गीतादिगतमापदस्यापि वासुदेवातिरिक्तपरत्वम् अथर्वशिरउपनिपवाक्यानां रद्रान्तर्यामिविवक्षायामप्यदोपत्वम् मुक्तावहम्भावाननुवृत्तिः तत्त्वमस्यादिवाक्येपु स्वरूपैक्यनियन्धनमेव सामानाधिकरण्यम् सूत्रेषु भेदपरामर्शस्याद्वैतसिद्धान्ताविरोधित्वम् अमत्यभेदेन सत्यवस्तृपदेशसम्भवः शरीरशारीग्भिावनियन्धनसामानाधिकरण्यनिरास: "सर्वगत्वादनन्तम्ये"ति वाक्ये तुरीयेनेय प्रहादस्य समानाधिफरण्यानुभरव्ययम्था "मई मनुरभवम्" इत्यादिवामदेवादिवाक्येऽविरोधसमर्थनम् सर्वप्रसिद्धाधिकरणग्यापि सिद्धान्तमार्ताण्डकारानानुगुण्यम् "अत्ता चगनरमहणादित्यादिसूत्राणां विष्णुपरत्वासम्भवः पेपर नहानुपादानत्वे सांग्यप्रत्ययाधानासम्भवः उपोझानत्येन येवलरह्मपरिणामवादम्चीकारान् अनमते मादायप्रत्ययरधानोपपत्तिः पियर्नयादेऽपि मादरपनन्यायानोपपनिः .. ... ... ... ३८ ... ३६ ४० ४० .. ४२ [ग] पृष्ट संग्या ... ४६ ... विषयः वशिष्टब्रह्मकार्यकारणकारणभावस्यासौत्रत्वम् १३ केवलब्रह्मकार्यकारणभावोपपत्तिः केवलनहा-प्रपञ्च कार्यकारणभावेऽतग्रन्थान्तगयविरोधः मायापरिणामयादव्यपदेशोपपत्तिः ४५ घटादीनां चैतन्यप्रफरतयेय भानात्तस्येव तन्छरोरकतया भानरूपत्वात् घटादिशब्देन घटावच्छिन्नस्य चैतन्यस्येवाडैनमते ग्रहणाच्च श्रोभाप्पाढतभाष्ययोरविशेषशङ्कासमाधाने ४६ स्वरूतत एव ब्रह्मकारणत्वादपि मतान्तरादतमतस्य विशेषः विवर्तवादमाश्रित्यापि न विलक्षणत्वाद्यधिकरणोत्थितिसमर्थनम् "प्रतिश्च प्रतिज्ञादृष्टान्तानुपरोधादि"त्यस्य विवर्तीपादानतया योजनम् ४८ परिणामादिति सूत्रस्य विवर्तवादे न स्वारस्यमिति शङ्कासमाधाने वाचारम्भणवाक्यानुसन्धानस्य विवौपादानताविवक्षण एव स्यारस्यम्, उक्तवाक्यार्थपरीक्षा च सिद्धान्तमार्ताण्डकारादिसम्मतबाचारम्भणश्रुत्यर्थ-तत्समालोचने ब्रह्मण एव कारणतावादस्य मनुस्मृतिसिद्धत्रम् .. ५२ कुल्लूकभट्टव्याच्याविरोधः श्रीभाष्यमत एव नाद्वैतमते ५३ न केवलं बादरायणाचार्याणामद्वैतमतेऽनादराभावः, किन्तु समादरविशेषश्च योगाचाराद्वैतयोर्विशेशः, "नाभाव उपलब्धेः” इत्यादीनामद्वैतागोचरत्वं च 'वैधाच्चे”ति सूत्रस्याद्वैतनिरासतात्पर्यकत्वायोगः, श्रीभाप्यमते तत्सूत्रानुपपत्तिश्च स्वरूपेण निषेध इत्यद्वैतपक्षात् योगाचारस्य विशेष: दृश्यत्वस्य मित्थ्यात्व एव हेतुत्वं नतु सत्यत्ये सूत्रकारैः स्वाप्निकस्यैव मिथ्यात्वसांधने उपपत्तयः स्थानिकमित्थ्यात्वस्यैव जागरिकमित्थ्यात्वेऽप्यतात्पर्येऽपि न दोपः अंशो नानाव्यपदेशादित्यादि सूत्राणामद्वैत एच स्वारस्यम् परिभाषाभूमिकोपक्षितविवरणस्य भाप्यारूढत्वम्, अद्वैतसम्मतत्वं च भगवत्पादीयांशपदार्थविवरणस्यैव सूत्रकाराशयानुरोधित्वम् "अंशो नानाव्यपदेशादि"त्यन श्रीभाष्याभिमतविवरणस्य सूत्रानारूढत्वम् औपाधिकनानाश्रयत्वादीनां सूत्रभाच्यादिसम्मतत्वम् "ज्ञोऽत एवे"ति सूत्र औपाधिकं ज्ञानाश्रयत्वं स्वरूपतो ज्ञानरूपत्वमिति भायाकारीयांशव्यवस्था नित्य-धर्मभूतज्ञानकल्पनस्य सूत्राशयविरुद्धत्वम् अविद्यामायादिपदानां नाप्रसिद्धत्वम् ६२ "अन्तःकरणायु पाधित्ववादस्य सौनत्यम्" तर तत्र श्रुतिपु शरीरपदप्रयोगस्याप्युपाधितायां तात्पर्यम् अंशपदप्रयोगस्य न शराराभिप्रायत्यं किन्त्यौपाधिकत्याभिप्रायत्वम् भोक्त्रापनिसूत्रेऽविभागादिति पञ्चम्यापत्तिः अद्वैतमत एव भोक्त्रापत्तिसूत्रे न सूनावृत्त्यादिदूषणम् श्रीभाष्यमते लोकयदिति दृष्टान्तास्वारस्यम् ... ... ... ६१ ... ...

[ घ ] पृष्ठसख्या .. mAGG ७२ ७७ विषय इतरव्यपदेशाधिकरणासार्थक्यमद्वैतमत एव जीवब्रह्मणोर्भेदाभेदव्यवस्था अद्वैतमते भदाभेदयोरविरोधप्रकार इतरव्यपदेशाधिकरणस्याद्वैतनिरासातात्पर्यम् वृत्स्नप्रसक्त्यधिकरणस्य श्रीभाप्यमतेऽस्वारस्यम, अद्वैतमत उपपत्तिश्च 'श्रुतेस्तु श दमूलत्वादिति' सूनोपपत्ति ब्रह्मनिरवयवत्वविचार शरोरशरीरिभावस्य पारमार्थिकस्यासौमत्वम जीवशरीरत्वायोग ब्रह्मणोऽशरीरत्वे प्रमाणसग्रह आत्मबहुत्वे सूत्रकाराशय परीक्षा श्रीभाष्यकाराणामनुज्ञापरिहारसूत्रपिवरणपरीक्षा 'आभास एक चे' त्यादीर्ना श्रीभाष्यविवरणानुपपत्ति ज्ञाने श्राभाष्यकारापादितानुपपत्तिनिरास सौर साइप्यभिमतात्मरहुत्ववादनिरास आत्मोत्पत्तौ श्रीभाप्यमतसमालोचनम्, जीवब्रह्मसामानाधिकरण्यपरीक्षा च म्यानिकमायामानत्वादिव्यवस्थापनस्यातमत एवोपयोग "अधिक नु भेदनिर्देशादि' त्यादिसूत्रोपात्तभेदनिरासस्य यावत्साक्षात्कारमात्यन्तिक भेदश्रुतीना प्रामाण्यस्य च सौत्रत्वम् अभेदवादस्य सोनत्वम् न स्थानतोऽपीति सूनाथपिवार श्रीमाप्यातभाष्यसमीक्षा च भगवत्पादमते 'सर्वत्र हो 'ति हेत्वशेऽध्याहारदोषाभावोपत्ति अनुपङ्गाद्यनपक्षमेव सर्वनही यस्यैव हेतुसमर्पकत्वम् अन्तयामित्राह्मणादीनामा तरपाक्यत्वव्यवस्था शतद्वचनादि त्यत्र तत्पदार्थनिर्णय अरूपदेव ही 'ति सूनार्थपरीक्षा 'प्रकाशनच्चे ति सूनार्थसमीक्षा सत्यकामत्यादिकपितत्वेन सगुणवाक्यसार्थक्योपपत्ति माह च तन्मानमिति सूनस्वारस्यमद्धतमत एच 'अत पर चोपमा सूर्यकादिवत्" इत सनार्थसमालोचनम् "अम्युम्दग्रहणानु तथात्वमिति सत्रापरीक्षा "वृद्धिहासाभायत्वमिति सत्रार्थनिष्कर्ष चिनोत्तमर्ण मुक्तिरिति यादरायणमतमिति प्रतिज्ञा मुन म्ममणापेक्ष चे व्याससिद्धान्तमाताण्डसमाना परनिद्यानिष्ठम्य समाना चारयुपदेशादितिस्प्रेऽपरामश इत्यदेतमतसप्रद शने पति यापये मानांण्टपारमन तन्समारोवाच पादारण्यपटर युभयगतस्य अथ मयाऽमृतो भवतीत्यस्य रिनोत्यमणे मुक्ति AAAAAARAABAR पृष्ट संख्या . ६० ... ६४ ६४ ६५ विषयः रित्यवेकवाक्यतासंभवः 'तस्मात् प्राणा उत्कामन्ति" "तस्य प्राणा उत्कामन्ति' इत्यनयोस्वस्यप्राणायामन्ति इत्यस्यैव प्रायल्येन व्यवस्थापकत्वम् आतभागप्रश्नस्याविद्वद्विषयत्वमिति सिद्धान्तमार्ताण्टमतम् आर्तभागप्रश्नश्याविवद्विपयत्वायोगः अद्वैतमते एकपदास्वारस्याभङ्गः १२ प्रतिषेधादिति चेन्नेति सुत्रार्थनिष्कर्षः विदुपामुत्क्रान्त्यभावेऽविदुषामेवाचिरादिगतौ च प्रमाणसंग्रहः ६३ अचिरादिमार्गस्य मुक्तायनुपयोगः अर्चिरादिमार्गस्य कार्यब्रह्मप्राप्तावेवोयोग इति वादरायणमत संग्रहः कार्याधिकरणनिर्धार्यनिष्कर्षः । तत्र श्रीभाष्यकारमतसमालोचनं च अप्रतीकालम्बनानित्यस्य सिद्धान्तसूत्रत्वं "कार्य वादरिः" परं जैमिनिरित्यनयोरतु. पूर्वपक्षत्वमिति श्रीभाष्यादिमत समीक्षा संप्रसादवाक्ये शरीरादुत्थानं नोत्क्रमणमिति व्यवस्था ६८ स्वरूपाविर्भावस्यावरणनिवृत्तिरूपत्वविचारः परग्रहाप्राप्तौ गत्यनपेक्षायां परं जैमिनिरि"सूत्रगतमुख्यत्वहेतुस्वारस्यम् . ६६ वादरिपक्षस्य पूर्वपक्षत्वमिति मार्ताण्डकारव्यवस्थानुवादः ६६ यादरिपक्षस्यैव सिद्धान्तपक्षत्वमिति, सिद्धान्तमार्ताण्डसमालोचनपूर्विका व्यवस्था १०० प्रजापतिसंवादादिना मुक्त र्गतिसापेक्षत्यशङ्कापरिहारः १०१ मुक्त गतिनिरपेक्षत्वे "सापराये तर्तव्याभावादिति सूत्रोपष्टम्भः १०१ गतेरर्थवत्समिति गुणोपसंहारपादसूत्रस्य मुक्तौ गत्युपयोगपरतया श्रीभाष्यकारादि- विवरणसमालोचनम् उपपन्नस्तलक्षणार्थोपलब्धेरि"ति सूत्रस्याद्वैतमतानुगुणत्वम् १०२ यादरायणाभिमतमुक्तिस्वरूपनिष्कर्षः १०२ 'सोऽश्नुते सर्वान् कामानिति वाक्यस्य ब्रह्मभावमुक्तित्वतात्पर्यम् 'मानन्दमयोऽभ्यासादिति सूत्रस्य मार्ताण्डकाराभिमता योजना १०३ आनन्दमयब्रह्मतायां सताधिकदूषणोपन्यासः आनन्दमयजीवत्वे उपपत्तय १०४ पुच्छ ब्रह्मवादे सिद्धान्तमार्ताण्डापादितदूषणपरिहारः अभ्यासहेतोरानन्दमयब्रह्मतायामनुपपत्तिः। विकारशब्दादित्यादसूित्रवैयर्थ्य च "कामाच नानुमानापेक्षा" इति सूने श्रीभाष्यविवरणानुपपत्तिः १०५ अद्वैतमते "कामाच नानुमानापेक्षा" इति सूत्रसार्थक्याा पपत्ति १०६ आनन्दमीमांसायाः पुच्छब्रह्ममीमांसात्वम् १०७ आनन्दयल्यामानन्दमयस्थाने आनन्दप्रयोगो ब्रह्मरल्यामानन्दमयस्य विकारत्वे गमकः पुच्छब्रह्मपाद एवानन्दमयाधिकरणस्वारस्यम्, "आनन्दमय” इति सूनांशोपपत्तिश्च 'तस्यैप एच शारीर आत्मेति वाक्यस्य पुच्छब्रह्माद एवोपपत्ति । ब्रह्मणोऽशरीरम्य. घोपदेशनिमित्तानि च १०५ १०७ पृष्ठ संरया १११ ११२ ११२ ] च ] विपय जानन्दमयाब्रह्मताया "प्रियशिरस्त्वाद्यप्राप्तिरिति सूत्रविरोध पर ज्योति पदार्थोऽहकारशून्यात्मस्वरूपम ब्रह्मप्राप्तत्वव्यपदेशादीनामुत्क्रमणाविषयत्वम् 'प्रकृततायत्त्वमिति सूत्रस्याद्वैत पर स्वारस्यम् प्रकृततावस्वपदेन शून्यवादनिरास एन मन्यते, नाद्वैतमतनिरास 'तव्यक्तमाह हीति स्वार्थनिष्कर्ष ब्रह्मनिर्गुणत्वे गुणकल्पनावैयर्थ्य मिति शहापरिहार भूमविद्याया अहकारसम्बन्धरहितात्मस्वरूपयोधनेन अद्वैतपर्यवसानस्वारस्यम् । 'स एकधा भरती'त्यादीना स्तुत्यर्थत्वम् अभावाधिकरणस्य सगुणमुक्तविषयत्वम्, सगुणमुत्तेस्सरीराशरीरोभयरूपत्व च आत्मस्वरूपाज्ञान-ज्ञानप्रयुक्तो बन्धमोक्षौ, स्वाप्निकमित्थ्यात्व एर सूत्रस्वारस्य च पराभि-यानात्तु' इति सूनसार्थक्याधु पन्यास 'पराभि-यानात्तु' सूत्रस्याद्वैताभिमतयोजा ना, तल्या एप युक्तत्व च पराभियानस्य तिरोभावहेतुत्वायोग , परामिभ्यानस्य परकमकाभि यानरूपत्वस्यैव १२३ ११४ ११४ १२५ ११५ १२७ श्रौतत्वच १८ १०० १२२ १०८ अज्ञान ज्ञानद्वारेश्वरस्य बन्धमोझहेतुत्वे 'फलमत उपपत्तेरिति सूनाविरोध पराभि यानसूत्रस्य ज्ञाननिय र्य वारयमित्थ्यात्वतात्पयकत्वम् । भेदव्यपदेशा दिसूत्रोपपत्तिश्च 'आत्मेति तूपगच्छन्तीति सूनस्याद्वैत एन रबारस्यम जीनब्रह्मणो स्वरूपैक्ये शास्त्रतात्पर्यम् पूर्वोक्तार्थ सक्षप परमसाम्य न भोगमात्रसाम्यमिति व्यवस्था पूर्नोपपादितमहाभारततात्पर्य सग्रह , विष्णूत्कसूत्रकारानाशयय मुक्तेर्गतिनिरपेक्ष ये महाभारताविरोध परमात्मनो निर्गुणत्वे महाभारतोपरम्भ मुक्त भारत्वे महाभारतोपप्टम्भ न तमतम्यैव बादरायणमतत्वे साटप्यायनुवाद प्रमाणमिति व्यासतारपयनिर्णयानुवाद तत्समर्थनादि सायादिभिर्मुग्य पर वेदान्तार्थोऽनूदित न मापातप्रतिपन्न भान्महन प्रपञ्चमत्यानादीना व्याससूत्रासिद्धत्वम् "योतिरपनमा तु'इति सूत्राय श्रामाण्याननुगुणत्वम् श्रीभाध्यमताय स्त्रानामदत्य निमित्ताना सफरनम् उपसहार पुमाग्रिपादानामपि घेदान्तमतमात्र व्यापपत्य मनमेवे यन वायोपरम्भ प्रमाफरम्याप्प समेत्राचदा मनमित्य हा प्रमाणोपरम्भ LIBRARY RE H SN........ BHAVAN A अद्वैतमार्तण्डः मातामहमहाशैलं महस्तदपितामहम् ।। कारणं जगतां वन्दे कण्ठादुपरि वारणम् ।। श्री व्याससिद्धान्तमार्ता (?) ण्डादिका महामहोपाध्यायादि-श्रीदेशिका- ******चार्यादिकृतीरुपलभ्य प्रार्थनामनु केपांचन सुहृदां सादरमेव तत्स- मालोचना) प्रवर्तामहे । व्याससिद्धान्त मार्ताण्डानुवादः ॥ एते हि परिच्छेदचतुष्टयात्मकेऽत्र नियन्धे "श्रियः पतिर्नारायणः परं ब्रह्म, अप्राकृतदेशविशेषे तत्सायुज्यप्राप्तिरेवापुनरावृत्तिलक्षणमोक्षपुरुषार्थ इति शारीरमीमांसाप्रणेतुर्भगवतो वेदव्यासस्य सिद्धान्त इति प्रतिज्ञाय कारणवाक्या- नामेव ब्रह्मसमर्पकत्वस्य सूत्रकाराभिमतत्वात् तेपांच बहूनां "सदेव सोम्येदमन आसीत्" इत्यादीनां सामान्यशब्दघटितानां तद्विशेपसमर्पकनारायणशब्दघ- दितैः-"एको ह वै नारायण आसीत् न ब्रह्मा नेशानः" इत्यादिभिः पुरुषसू- क्तेन चैकवाक्यतया नारायणमात्रपर्यवसायिनैव स्त्रीकर्तव्येति निरूपयन्तः, "ईक्ष- ते शन्दम्" इति सूत्रमेवं व्याचक्षते-आशब्दम् शब्दपर्यन्तम्, ईक्षतेः ईक्षि तृत्वश्रयणात्, ना पुरुष एव पुरुषसूक्तमतिपाद्यो ब्रह्मेति । अस्मिंश्च प्रसङ्गे गतिसामान्यमपि कारणवाक्यानां सर्वेषां नारायण एव पुरुषोत्तमे श्रियः पत्यो (१) शकन्यादित्वात् मार्तण्ड इत्येव साधु, "पुनमार्ताण्डमिनि दीर्घस्तु छान्दस इनि बालमनोगमादिः।

अतमार्तण्डा चेति "गतिसामान्यात्" इति सूत्राभिमतं यदेते संगृह्णन्ति, तदिदमेत एवं विस्तरेण तृतीयपरिच्छेदेऽधर्वशिखोपनिषदादौ शिवैककारणतावाक्यानामपि विष्णावेव तात्पर्यस्योपपादनेन पाराशयविजये ४५-४८ तमपृष्ठेषु यथोक्तं तथैव निष्कृप्यानुवादेन प्रतिपाद्यन्ति । व्याससिद्धान्तमार्ताण्टसमालोचनोपक्रमः सत्यं शैववैष्णववादाः खण्डनमण्डनप्रणाल्या पूर्वाचायहुभिरेव शिव- तत्वविवेकाद्विारा सुदूरमेव विचारिताः; ब्रह्मास्त्राणामपि विष्णूत्कर्ष एव तात्प. यमिति "ईक्षते शब्दमि"ति सूत्रादीनामन्यथा योजनेन विचारप्रणाली त्वियं श्रीदेशिकाचार्याणां स्वकपोलकल्पनेवेति नाविदितमिदं कस्यापि । यतः पाराशर्य- विजयकारा अपि ईक्षत्यधिकरणे "इतरेतु" इति पक्षविशेषमुपस्थापयन्तो योजन- मिदमुक्तसूत्रस्य प्रदर्शयन्ति । "इनरेतुपक्ष"निराकरणावसरे रुद्रादिचेतनान्तरनि- रासे नोक्तस्य सवस्य तात्पर्यमिति पाराशर्यविजयोक्तं तु स्वाशयविरुद्धत्वादा- चार्यवर्या न संगृह्णन्तीति त्वन्यदेतत् । पुरुषसूक्तादीनामेव श्रुत्यन्तरनिर्णायकत्व- मिति प्रक्रियातु पाराशयविजयेऽपि समुपलभ्यत एव; पुरुषसूक्तस्य क्वापि सूत्रे विचाराभावेऽपि "इदं पुरुपसूक्तं हि सर्ववेदेषु पठ्यते ॥ ऋतं सत्यं च वि. रुपातमृपिसिंहेन चिन्नितम्"। इत्युक्त कारणचिन्तामात्रस्य पुरुपसतार्थ- चिन्तापर्यवसानन्यवस्थापन महाचार्या सत्राणामपि तु पुरुपसत्ताविषयत्वं काल्प- नीयं मन्यन्ते। इक्षतेन शब्दमित्यस्योक्तविधयोजनान्तरासंभवः ।। वयं तु मन्यामहे-ईक्षते शब्दमित्यादिसत्राणामुक्तविघं योजनं न क्षोद क्षममिति । म्दादिचेतनान्तरकारणतानिरासे युक्तसूत्राभिमते न केवलमीक्षते- रितिहेतुनिर्देशायोगः, किन्तु "गौणश्येन्नात्मशब्दात्" इत्यात्मशब्दादितिहेतु- निर्देशायोगोऽपि । नहीक्षितृत्वमात्मशदप्रतिपाद्यत्वं च न म्द्रादिसाधारणम् । अनपात्मशब्दप्रयोगेा कारणस्य चेतनत्वमात्रमुपस्थाप्यते, न चेतनान्तरव्यय- चोदोऽपि । प्रधाननिरासेऽपि म्द्रादिनिरासो न भवतीति शङ्कातु पाशुपताधिकरण एच वारयितुं शक्यत इनि न परोक्तरीत्योक्तशदावारणार्थमुक्तविधं योजनम- - * अद्वैतमार्तण्डः * त्रापेक्षामहे । वस्तुतस्तु-भगवद्रामानुजाचार्या अपि स्वयं पशुपत्यादिपदवाच्यत्वे परमात्मनो न विवादः, किन्तु तन्निमित्तत्वमात्र एवेति वदन्तो रुद्राख्यनारा. यणमेव तुरीयं जिज्ञास्यं ब्रह्म मन्यन्तेऽभिन्ननिमित्तोपादानमिति न तिरोहितमिदम् । इदमेवात्र वयं पृच्छामः-यत् परमात्मनो दशब्दवाच्यत्वं किमनेन निरस्यते, उत कार्यत्वाद्रुद्रस्य न कारणपरमात्मतासम्भव इति । वयंतु प्रतीमः-सर्वशब्दवा- च्यस्य परमात्मनो न कार्यब्रह्मविष्णुरुद्रेवेकमपि पारमार्थिक स्वरूपमिति । तुरीयस्यैव परमात्मस्वरूपस्य पुरुषसूक्तप्रतिपाद्यत्वम् ।। एतेन-शैववैष्णववादयोवैष्णवमतोपबृहकतया पूरुषसूक्तस्य योजनं तबलेन सूत्राणां स्वमतोपवृहकनया विवरणं च-याख्यातम् । पुरुपसूक्तं हि शिव-विष्णु-नारायणादिशब्दगम्यं तुरीयमेव परमात्मानं भगवन्तं विषयीकरोति, नतु श्रीवैष्णवाभिमतं श्रियः पतिं पुण्डरीकाक्षं वयक्षम् ; सहस्राक्षत्वादीनामत- ल्लिङ्गत्वात् । एतेन-श्रीपतित्वमपि व्याख्यातम् ; पुरुषसूक्ते हि "हीश्च ते लक्ष्मीश्च पत्न्यावि"ति लजालक्षम्यात्मकपनोदयवत्वं हि भगवतो नारायणस्य यस्योपक्षिप्तम्, न स भवद्भिमतः पुण्डरीकाक्षो भवितुमर्हति । अन्तरधिकरणप्रतिपाद्यस्य पुरुषसूक्तप्रतिपाद्यस्य च भेदापत्त्या परोक्तिनिरासः । यत्तु- अन्तस्तद्धर्माधिकरणस्य स्वाशयोपयोगितया विवरणावसरगतम्- "एतादृशाक्षिदयवत्वं च नारायणासाधारणो धर्मः; अबाक्षिव्यक्ती विधाना- दपि व्यक्षव्यावृत्तिरिति व्याससिद्धान्तमार्ताण्डवाक्यम्, तदिदं पुरुषसूक्तप्रति- पाद्यस्य सहस्राक्षस्यान्तरधिकरणविपपवाक्यप्रतिपाद्यस्य चक्षस्यच स्वरूपतो भेदं गमयनीति नियतमिदं वक्तव्यम् । यद्यक्षियवतो विधानात्तिनेत्रच्यावृत्तिः, तर्हि कथं न सहस्राक्षव्यावृत्तिरित्याचार्या एवं विवेचपन्तु । अस्मन्मतेतु सहस्रा- क्षोऽपि यक्षपदेन श्रीकण्ठभाप्यदिशा ग्रहीतुं शक्यत इति नानुपपत्तिः । सहस्राक्षादिपदानां रुद्रविष्णुसाधारणानां तदंशिनि परमात्मन्येव मुख्यता ॥ परमार्थतस्तु सहस्राक्षादिपदं विष्णुसहस्रनाममध्ये विष्णाविध शिवसह- ४ * अद्वैतमार्तण्डः * स्रनामस्वपि महाभारत आनुशासनिके पर्वणि ४८ तमेऽध्याये पठ्यते-“सह- स्वाक्षो विशालाक्षः सोमो नक्षत्रसाधकः ।...."सहस्रमूर्धा देवेन्द्रस्सर्वदेवमयो गुरुः । यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात् ।" इति । अस्यैव शिवसहस्र- नामस्तोत्रस्य लिङ्गपुराणशिवमहापुररणयोरप्युल्लेख इत्यन्यत्र व्यक्तम् । अतो मन्यामहे-विष्णुसहस्रनामस्तोत्र-शिवसहस्रनामस्तोत्रादिप्रतिपाद्यं पुरुषसूक्त- प्रतिपाद्यं च कारणं परमात्मस्वरूपमेव गोचरयति, नतु कार्यब्रह्मविष्णुरुद्वेष्वेकम- पीति । यथाच पुरुपपद्मपि तुरीये नारायण एव स्वरसम्, तथाऽनुपमेव स्पष्टी. भविष्यतीति तुरीयमेव कारणवाक्यार्थः । विष्णोरपि रुद्रस्येवोत्पत्तिवादयोगः यथाहि "नारायणाद् ब्रह्मा जायते नारायणानुद्रो जायते" "एको ह वै नारायण आसीत् न ब्रह्मा न च शङ्करः" इति रुद्रस्योत्पत्तिराम्नायते,एवम्--"स. मुनिर्भूत्वा समचिन्तयत् त एते व्यजायन्त विश्वे हिरण्यगर्भाग्नि-पम-वरुण विष्णु-रुन्द्रे न्द्राः" इति विष्णोरप्युत्पत्तिराम्नायते । यद्यपि प्रथमे वाक्ये न विष्णोरुत्पत्तिराम्नायते; तथापि वियद्धिकरणन्यायेनान्तराविज्ञानाधिकरण- न्यायेन वा तस्यापि चतुर्मुखादीनामिवोत्पत्तिरूरीकर्तव्यैव । तत्रैकस्य कर्मा- धोना पराधोना चोत्पत्तिरन्यस्य स्वेच्छाधीनेति न कापि कल्पनायामस्थां विनिग- मना संभवति । सति चैवं "नारायणात् ब्रह्मा जायते" इत्यादी नारायणपदमपि तुरीयपरमेव । एतेन वियोरुत्पत्तिस्त्वैच्छिकी; तस्य "उदेति ह चै सर्वेभ्य पाप्मभ्यः" "अपहतपाप्मा दिव्य एको नारायणः” इत्यादिषु कर्मवश्यत्वाभाव- श्रयणेनोत्सर्गतः प्राप्तायाः कर्ममूलकनापा अपोदितत्वात् । तदिदं विष्णोरवता- रस्पाकर्मकृतत्वं श्रुत्यैव स्पष्टीकृतम् - "अजायमानो बहुधा विजायते" इति परोक्तमपि-प्रत्याख्यातम् ; "अजायमानो बहुधा विजायते” इति वाक्यं हि ब्रामणो न स्वरूपतः परिणामः, किन्तु प्रकृत्या एय, तस्य तु विवर्तीपादानत्व- मात्रमित्येवार्थ प्रतिपादयति, नतु कार्यविगोमतवाक्पार्यतामिति निगव्या- ख्यातमिदम् ।

. * अद्वैतमार्तण्डः तुरीयस्यैव पुरुषपदमुख्यार्थत्वम् पुरुषसूक्तं हि पुरुपमधिकृत्य प्रवृत्तं कं पुरुषपदार्थ विपयीकरोतीति चर्चायामिदमस्माकं प्रतिभाति-पत् ब्रह्म-विष्णु-रुद्ररूपपानयातिरिक्त चतुष्पाग्रह्मणश्चतुर्थपादरूपं तुरीयं ब्रह्मैवेति । अत एवाथवैशिखोपनिपदि- "ओमित्येतदक्षरं ब्रह्मास्य पादाश्चत्वारः" "इत्याद्युपक्रम्य "प्रथमा (मात्रा) रक्तपीता महर्ब्रह्मदैवत्या, द्वितीया विद्युमती कृष्णा विष्णुदेवत्या, तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या, याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा विद्युमती सर्ववर्णा पुरुपदैवत्या" इति तुरीयपाद एव पुरुषपदं प्रयुक्तम् । अत्र द्वितीयपादे विष्णुपदप्रयोगेण तृतीयपादप्रतिपाद्याद् रुद्रादिव विष्णोरपि प्राकृतादन्यदेवस्वरूपं तुरीयं पुरुषपदार्थ इति विशदमिदं तत्त्वम् । अत्रहि ब्रह्म-विष्णु-रुद्राणां पाद- त्रयरूपाणां यद्यपि प्राकृतत्वं न विशदम्; तथापि “अथ यो ह खलु वावाऽस्य रजसोऽशस्सोऽयं ब्रह्माऽथ यो ह खलु वावाऽस्य तोमसोंऽशस्स रुद्रोऽथ यो ह खलु चावाऽस्य सात्विकोऽशः स विष्णुरि" त्यादौ तद्वगम्यत एव । रक्तपीतादि- शब्दै राजसायंशोपस्थापनेनाथर्वशिखोपनिषदि विष्णोरेव तामसत्वम् , रुद्रस्य तु सात्त्विकम्वमिति सूचितमित्यन्यदेतत्। सर्वथा तु न पुरुपपदस्वारस्थमपि पुरुषसूक्तस्प विष्णुपरत्व उपपद्यते । कारणवाकोपु श्वेताश्वतरोपनिषदादौ श्रुत्यन्तरे-- नारायणपदस्येव रुद्रपदस्यापि प्रयोगः अत एव "या ते रुद्र शिवा तनूरघोराऽपापकाशिनी" इत्यादिना शिवप्र- तिपादनानन्तरम्- 'वेदाहमेतं पुरुषं महान्तमि" ति शिवेऽपि पुरुपशब्दप्रयोग उपपद्यने । श्वेताश्वतरोपंनिपदि हि प्रथमद्वितीयाध्यायाभ्यां ज्ञेयत्रत्मस्वरूपं सामान्यतो निरुच्य “य एवैक उद्भवे संभवेच" इति सृष्टिसंहारकर्तृ तया तृती- येऽध्यायेऽभिन्ननिमित्तोपादानं कारणस्वरूपं शिव इति प्रतिपाद्यानन्तरमेवोक्त- वाक्यप्रवृत्ते ' त्र कारणवाक्यविवक्षे" ति पाराशयविजयोक्तमप्यनेन परास्तम् । एतावता विवक्षितः सारांशोऽयमेव-यत् कारणस्वरूपं सर्वशब्दवाच्यं क्वचिच्छिवपदेन क्वचिद् रुद्रपदेन क्वचित्पुरुषपदेन फचिन्नारायणपदेन कचिद् व्र- ८ " पिव्याख्यातः। अव विष्णुपदस्य योगेन व्यापकस्यरूपमेव हि विवश्यते। यद्यपि कञ्चल्या तृतीयरल्याम् -'तदिगो: परमं पदमित्पनन्तः पुरुषः परः" इत्याम्ना- नात् पुरपौत्तम एव विष्णुपदप्रतिपाय इति मनोपते; तथापि पष्टयल्यामेतन्स- * अद्वैतमार्तण्डा तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः । तत्वमेको महायोगी हरिनारायणः प्रभुः ॥ इत्यादीनि वचनानि, तान्यपि संहरणस्वभाव-प्रलयाधिष्ठान-परमात्म स्वरूपपराणीत्येवोरीकर्तव्यम्; अन्यथा हि "हरिनारायणः प्रभुरि" ति श्लोक हरिपवैयर्थ्यमापद्येत । अत्र न केवलमुपसंहारे हरिपदेन साकं नारायणपदन- योगा, उपक्रमे वा "तनो हृतेषु वेदेषु ब्रह्मा कइमलमाविशत् । ततोवचनमीशान प्राह वेदै निराकृतः” इतीशानपदप्रयोगश्च स्वरसः, किन्तु पूर्वोक्त नराणामधन- मिति निर्वचनमपीति मन्तव्यम्, यतः सृष्टिपूर्वतनैवावस्थाऽत्र वर्ण्यते । हरिपदं त्वत्र यौगिकमिति न दोपः । एतेन -- "तत्वमेको महायोगी हरिनारायणः प्रभुः" इति नारायणपदो. पादानं रुद्रनिराकरणार्धम्; अन्यथा लक्षणामसङ्गात्" इति शङ्काऽपि--- परास्ता । यत्तु “आलोय सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेक मुनि- प्पन्नं ध्येयो नारायणस्तदा ॥” इत्यानुशासनिकपर्वगतं वचनम् , वासुदेवं तथा विष्णुमात्मानं च तथा विदुः । संज्ञाभेदैः स एवैकः सर्वशास्त्राभिसंस्कृतः।। इत्यादिपूर्वतनयाक्यानुसारात् शैवादिसर्वशास्त्रमतिपादाब्रह्मतस- मेव नारायणशब्द प्रतिपाद्यं गमयतीति सर्वेषामपि सम्प्रदायानामविरोधि नारा- यणपदमपि सामान्यशब्द इत्येव गम्यते परमात्मादिशब्दवत् । कुत्रचन ब्रह्म- पदं कुवचन परमात्मपदं चेव करन नारायणपदमपि प्रयुनाना भगवामानुजा- चार्यपादा अपि नात्र विस्मरणमर्हन्ति । काठयन्यादिगविणुपदस्य बल्यन्तरंकवाक्यतया व्या पसम्यम्पपत्यम् , ननु पुण्डरोकालपरत्वम् । एतेन--उपनिषदि तत्र तत्र "तविष्णोः परमं पदम्" इति विष्णुपदमपोगोऽ- तदपि-- * अद्वैतमार्तण्डः है मानार्थके प्रकरणे-"इन्द्रियेभ्यः परं मनः मनसस्सत्त्वमुत्तमम् । अव्यक्तात्तु परः पुरुषः व्यापकोऽलिङ्ग एव च" इति पुरुषपदेन व्यापकमशरीरं शुद्ध चैतन्यमेव परपुरुषपदार्थतयाऽवगम्यत इति विष्णुपदेनापि व्यापकस्वरूपविवव युक्ता । एतेन--"सोऽध्वनः परमाप्नोति तद्विष्णोः परमं पदम्" इत्युत्तरमन्वेग प्राप्यो विष्णु- - रिति स्पष्टोकृतमित्युक्तिरपि--परास्ता । मोक्षपर्वणि ३०४ तमाध्यायगतम्-का- * लाद्धि भगवान् विष्णुर्यस्य सर्वमिदं जगत्।" इति वाक्यमप्यत एव-व्याख्यातम् ; • तस्यापि कारणवाक्यत्वेन व्यापकपरमात्मस्वरूपपरत्वात् । तस्य च परमात्मनस्त- । मसः परत्वादी रुद्रायुपास्यत्वे च नास्माकमपि विप्रतिपत्तिः। शिवसहस्रनामसु "विष्णुप्रसादित" इति रुद्राख्यनारायणस्य नामान्तरमपि सांप्रतमेवोपपद्यते । शुद्धचैतन्यस्वरूपस्य परमात्मन एव नारायणपदार्थस्य ध्येयत्वेऽथर्वशिखोपनिपदुपष्टम्भः । नहि विष्णुरेव पुण्डरीकाक्षादिरूपो ध्येय इत्या "लोड्य सर्वशास्त्राणी"ति वाक्पार्थः; यतोऽथर्वशिखोपनिषदि ततोऽन्य एव ध्येयतयोपसंहियते-"ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरश्शम्भुराकाशमध्ये" "शिव एको ध्येयः शिवङ्करस्सर्वमन्य- तपरित्यज्ये"ति । सत्यं शिवस्यापि त्रिमूर्त्यन्तर्गतस्य मात्रात्मना ध्येयस्य पूर्णेनौंका- रेण सामानाधिकरण्यं याषितम् ; शिवङ्करादिपदसार्थक्पार्थ तु शुद्धस्वरुपमेवात्र शिवपदार्थ इति नानुपपत्तिः। शिवङ्करपदं हि शिवपदेन शुद्धं विवक्ष्यत इति सूच- नार्थत्वात् नास्मन्मते वितथम् । विष्णोरपि तु मात्रात्मना ध्येयस्योपक्षेपान न पूर्णे- नौंकारेण सामानाधिकरण्यमिति न दोपः। एतेन-ईशानं प्रध्यातव्यमितीशान- पदप्रयोगोऽपि- व्याख्यातः । सम्बन्धिशब्दासमभिव्याहृतो हीशानशब्दो रुद्र एंव मुख्यः, नतु विष्णाविति योगार्थविवक्षायां तुरीय एव ध्येयता पर्यवस्येत् सर्वेशाने । अत एव "शब्दादेव प्रमितः" इति सूत्रेणापि परमात्मन एव सर्वेशा. नस्य ग्रहणं प्रतिपादितमुपपद्यते । तदिदं सिद्धम्-यत् नारायणशब्दघटितानि कारणतापराणि ध्येयतापराणि वा वाक्यान्युपनिषद्गतानि महाभारतगतानि वा नादैतवादस्य, यत्र कार्य-ब्रह्म-म-विष्णानां सर्वेषां समं प्राकृतत्वमभिप्रयते, विरोधोनीति सूत्रकारा महाभारतकारा वो नाद्वैतवादप्रतिकूलाः ।

* अद्वैतमार्तण्डा * wwwm हमपदेन कचित्सत्पदेन कचिच्चात्मपदेन व्यपदिश्यते श्रुनिस्विति माराय गपद प्रयोगमात्रेण न वयं ब्रह्म-विष्णु-रुद्रेष्वन्यतमं विष्णुमेव कारणस्वरूपं ब्रह्मेति प्रतिपत्तुमर्हामः । अङ्गीकृतं हि पाराशर्यविजयकारैरपि कार्यविष्णुस्वरूपमप्य- परम्-ईश्वराद ज्ञानमन्विच्छेन्मुक्तिमिच्छेजनार्दनात् ॥ "इत्यत्र । विवादिशब्दानां शिवसहस्रनामपठितानामिव विष्णुसहस्रनामगत शंभुरुद्रादिपदानामपि तुरीयपरत्वात् न विष्णायेय त्रिमूय॑न्तर्गत शिवादिपदोपपत्तिः ।। एतेन-शिव-शम्भु-रुद्रादिशब्दानां विष्णुसहस्रनाममध्ये दर्शनाच्छिवा- दिपमन्यत्र कारणवाक्येषु दृश्यमानं विष्णुपरं भवितुमर्हति, हरि-विष्णु-नाराय- गादिपदं तु न शिवपर' भवितुमर्हति" इति शङ्कापि-परास्ता; शिवसहस्त्र नामस्वपि महाभारतानुशासनिकपर्वगतेपु-"धाता शक्रश्च विष्णुश्च मित्र- स्त्वष्टा धुवो धरः। विष्वक्सेनो हरियज्ञ: संयुगापोडवाहनः ॥” इत्यादिषु विष्वादिनाम्नामपि शिवे प्रयोगदर्शनात्। यत्तु-नारायणपदं तावन्निरबकाश- त्वाद् बलीयः, नहि नारायणपदं योगेन रूट्या चा नारायणादन्यत्र सम्भवति; णत्वानुपपत्तेः, रूढिस्त्वर्थान्तरे न सम्भवत्येव; अनुशासनविरहात्, शियादिश- ब्दास्तु सावकाशा; तेषां नानार्थेष्वनुशासनात्-"शुद्धे त्रिपु शिवा क्रोष्ट्र याम्" हरा द्राग्निगर्दभाः" इत्यादि परोक्तम्, इदमप्यत एवं निरवकाशम्; यतो नारायणशब्दस्य भगवान् वासुदेव एव स्वयं रुद्रशन्दाभिधेये संहारकारण एव 'कोलोऽस्मि लोकक्षयकृत्" इत्यादिवाक्पपनिपाये मुख्पां वृत्तिमभिदधाति महाभारत आनुशासनिकपर्वणि ३५० तमेऽध्याये नारायणशब्दनिर्वचनमसझे, नतु शहरमादिधारिणि चतुर्भुजे व्यक्तिविशेपे धसुदेवापत्यादी। सति चैवम् "विष्णुनारायणः कृष्णो वैकुण्ठो विष्टरश्रयाः ।" 'घसुदेयोऽस्य जनक" इति फोशानुशासनमंशांशिमोर भेदमादायैय प्रवृतं न्यायसामान्यात् रुद्रस्यापि नारायणपदयाच्यत्वे न विरुद्ध भयनीति मन्तब्यम् । इमान्यत्रानुसन्यानि महा- भारतबननानि "उग्नवतचरो न्द्री योगी त्रिपुरदारणः । .

* अतमानण्ड.* ७ VAALM . दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ॥ नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे । तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वर ।। संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः । अहमादिहि लोकानां विश्वेषां पाण्डुनन्दन ॥ तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् । मद्रो नारायणश्चेति तत्त्वमेकं द्विधा कृतम् ।। नहि विष्णुः प्रणमति कस्मैचिहियुधाय चै। ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम् ॥ नराणामयनं ख्यातमहमेकः सनातनः । आपोनारा इति प्रोक्ताः आपो वै नरसूनवः ।। अयनं मम ताः पूर्वमतो नारायणोऽस्म्यहम् ॥” इति । अत्र नारायणशब्दस्य कर्मजत्वमेव, नतु केवलढत्वमिति सूचनपूर्वक रुद्रस्य प्रथमतो भगवद्वासुदेवात्मरूपस्य नारायणशब्दप्रवृत्तिनिमित्तम्-"नरा- णामयनं ख्यातमहम्" इति श्लोकेन निरूप्यानन्तरं स्वस्मिन्नपि नारायणशब्द- प्रवृत्तिनिमितं पूर्व जलाधिवासप्रयुक्तं समुल्लिख्यत इति सर्वविदितमिदम् । सति चैवं यौगिकस्य योगरूढस्य वा नारायणशब्दस्य पुण्डरीकाक्ष एवं मुख्या प्रवृत्तिरिति रिक्तमिदं वचनम् । वासुदेवे हि भगवति भूतपूर्वगत्यैव नारायणशब्द- प्रवृत्तिरिति खलु प्रकृतसन्दर्भाशयः । अन्यत्रापि शिवशब्दप्रयोगमात्रं न तस्य नारायणपरताव्याघातकम्, अन्यथा कपिमण्डकादिपरस्य हरिशब्दस्यापि विष्णावपमुख्यैव प्रवृत्तिः कथं परिहरिष्यते ? नह्यन्यत्र प्रयोगोऽन्यार्थताविरोधी; बहुलप्रयोगेन हि पांचन श्लिष्टानां पदानामनेकार्थत्वमपि हि न दोपाय। यानि मोक्षपर्वणि ३५७ तमेऽध्याये- नारायणपरा वेदा यज्ञा नारायणात्मकाः। तपो नारायणपरं नारायणपरा गतिः ।। पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः॥

* अद्वैतमार्तण्डः * nrror AAAAAAAAM - अग्निपुराणगतगीतासारादीनां स्वयं बादरायणानूदितानाम_नमत एव निर्वाहः । अत एवाग्नेयपुराणे- ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये । अयमात्मा परं ब्रह्म अहमस्मीति चिन्तयेत् ।। देह आत्मा न भवति दृश्यत्वाच्च पटादिवत् । प्रसुप्ते मरणे देहादात्माऽन्यो ज्ञायते ध्रुवम् ।। चक्षुरादीन्द्रियाणि नात्मा चै करणं यतः । अहङ्कारोऽपि नैवात्मा देहयद्यभिचारतः॥ उक्तभ्यो व्यतिरिक्तोऽयमात्मा सर्वहदि स्थितः । नित्य-शुद्ध-युद्ध-मुक्त-सत्यमानन्दमद्रयम् ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्दिमुक्त ओम् ॥ गुरुणा योधितो जीवो ह्यहं ब्रह्मास्मि बाह्यतः । मुच्यतेऽसारसंसारात् ब्रह्मज्ञो ब्रह्मविद्भवेत् ॥ अहं ब्रह्म परं ज्योतिः पृथिव्ययनलोज्झितम् । अहं ब्रह्म परं ज्योतिर्विश्व-भाव-विवर्जितम् ॥ अहं ब्रह्म परं ज्योतिः स्वभावस्थादिवर्जितम् । अहं ब्रह्म परं ज्योतिः कार्य-कारणवर्जितम् ।। देहेन्द्रिय-- मनो-बुद्धि -प्राणाहकारवर्जितम् । परमात्मा सर्वपामाधारः परमेश्वरः॥ विष्णुनाम्ना च देवेषु घेदान्तेषु च गीयते ॥ वेदादिविद्या छपरमक्षरं ब्रह्म सत्परम् । तदेतद्गवच्छन्दवाच्य (2) मुपचारेऽचनेऽन्यतः ।। प्रत्यस्तमितभेद यत्सत्तामाश्रमगोचरम् । पचसामात्ममंवेद्यं तज्ज्ञानं ब्रह्मसंजिनम् ॥ तत्र विष्णोः परं रूपमरूपस्याजमक्षरम् । मशक्यं प्रथमं ध्यानुमतो मूर्तादि चिन्तयेत् ॥

* अद्वैतमार्तण्डः * इत्यादिनाऽद्वितीयब्रह्मस्वरूपमद्वैतविज्ञानं च प्रस्तुत्यानन्तरं गीता- सारो हि य उपक्षिप्यते, सोऽयमद्वैतमेव गोतासारं प्रतिपादयति । अन्न "एकज्ञानं सात्विकं स्यात् पृथकज्ञानं तु राजसम्" इत्यादिना जीवब्रह्मणोरभेदज्ञानमे- वोपक्षिप्यते मोक्षसाधनम्, नतु शरीरशरीरिभावादिप्रयुक्तमभेदज्ञानादिकम् । अन्न "श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः" इति श्रीमतामेवां- शत्वं यदुपक्षिप्तम्, तदिदं सर्वशरीरतावादस्याननुगुणमेव । एतेन-अनादिम- त्परं ब्रह्मे" ति गीतावाक्यमपि-व्याख्यातम् । अत्राहि आदिराहित्यं परत्वं चैव जीवस्य योध्यते, नतु 'मत्परमि"ति भगवदाश्रितत्वम् । तदुक्तमाग्नेये- "अनादि परमं ब्रह्म सत्यं नाम तदुच्यते । यमगीतासारस्याप्यद्वैत एव स्वारस्यम् । अत्र हि "पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः । ब्रह्मणा विष्णुसं- ज्ञेन परमेणाव्ययेन च ।'' इति ब्रह्मणा सह मुक्तिदशायां न भेदलेशोऽपीति यत् प्रतिपाद्यते, यच्च "घटध्वंसाद्यथाऽऽकाशमभिन्न नभसा भवेत् । मुक्तो जीवो ब्रह्मणैवं सद् ब्रह्म ब्राम वै भवेत् ॥” “आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा। जीवो ह्यज्ञान-तत्कार्यमुक्तः स्यादजरामरः ॥” इत्यादिना जीवस्य मुक्तौ ब्रह्मभाव एवात्यन्तिको निर्दिश्यते, उभयमिदं कठवल्या यमगीताया वा विष्णुपद्घटिताया अपि भगवत्पादसम्मत एव विवरणे स्वरसं भवति । स्पष्ट हि यमगीतायां कठवल्लीगतं विष्णुपदं ब्रह्मपरम्, नतु पुण्डरीकाक्षादिरूपविष्णुपरमिति प्रतिपादितम् । तदुक्तम् 'ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णु वदन्ति च । स विष्णुः परमं ब्रह्म यतोनावर्तते पुनः' इति । इदंहि 'परापरस्वरूपेण विष्णुस्सर्वहृदि स्थितः', इति वर्णनानन्तरं यज्ञेशं यज्ञपुरुष केचिदिच्छन्ति तत्परम् । केचिद्विष्णुहरं केचित् केचिद् ब्रह्माणमीश्वरमि" ति मतभेदं निरूप्य सर्वमतनिरसनेन प्रवृत्तमिति वि- प्णुपदार्थोऽत्र परं ब्रह्मैवेति निश्चीयते ।तत इदं सिद्धम् यत् आग्नेयपुराणकाराणां बादरायणाचार्याणां महाभारतान्तर्गताया भगवद्गीताया महाभारतस्य वाऽई- त एव पर्यवसानमभिप्रेतमिति । अग्निपुराणे हि ब्रह्मविज्ञानप्रकरणे जीवस्पैकत्व- पक्ष एव स्पष्टमुपक्षिसो न पहत्वपक्ष इति महाभारतेऽपि चादरायणाचार्याणां * अद्वैतमार्तण्डः * . तदेकत्वपक्षोपक्षेप एव तात्पर्यमवगम्यते । पद्मपुराणेऽपि १७५ तमेऽध्याये गीता- माहात्म्यनिरूपणप्रसङ्गे गीतार्थतयाऽद्वैतवाद एवोपक्षिप्यते । तदुक्तं तत्रैव- "मायामयमिदं देवि वपुर्मे नतु तात्त्विकम् । सृष्टिस्थित्युपसंहारक्रियाजालोप- वृहितम् । अतोऽन्यदात्मनो रूपं द्वैताद्वैतविवर्जितम् ।" "रूपमैश्वरमात्मैक्य- गम्यं गीतासु कीर्तितमिति। अत्रात्मकत्ववादस्यैवोपवृहणाद्वैतमात्रपर्य- वसानं गीताया विशदमवगम्यते । अद्वैतवादाभिप्रेतस्यात्मैकत्वपक्षस्यैव महाभारततात्पर्यविषयत्वम्, नतु तद्भेदपक्षस्य विशिष्टाद्वैतवादाभिमतस्य । आत्मैकत्यव्यवस्थापनादिसन्दर्भा महाभारतान्तर्गतास्तु नाद्वैतवादिनां प्रतिकूला:, किन्तु श्रीवैष्णवानामेव, येषां मतेऽहमर्था एवात्मानः साङ्ख्यादिमत इव नानैव मनन्ते । महाभारते हि शान्तिपर्वणि ३६० तमेऽध्याये पुरुषाणामेकत्वं स्वमतेन, साङ्ख्ययोगमतेन तु बहुत्वमिति "यहवः पुरुषा लोके साङ्ख्ययोगविचा- रणे। नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्रह । बहूनां पुरुषाणां च यथैका योनि- रुच्यते । तथा तं पुरुपं विश्वं व्याख्यास्यामि गुणाधिकम्” इति प्रतिज्ञातमस्ति । अनेन चैकं चैतन्यं शुद्धमेव निर्गुणं योनिरधिष्ठानमुपहितं बिम्ब वा, तदेव च गुणत उपाधितो पा नानेति स्वरूपत एकत्वमोपाधिकं बहुत्वमिति पक्ष एव विशदीक्रि- यते । अत एव- “यथा ज्ञानं तु वक्ष्यामि पुरुपं तु सनातनम् । तस्यैकत्वं बृहत्त्वं च स चैकः पुरुषःस्मृतः ॥ महापुरुषशब्दं स विभत्र्येकः सनातनः । एको वायुर्यहुधा वाति लोके महोदधिश्चाम्भसां योनिरेका । पुरुपश्चैको निर्गुणो विश्वरूपः तं निर्गुणं पुम्यं चाविशन्ति ॥" इत्यादिवचनान्युपपद्यन्ते। अत्र निर्गुणस्यैव व्यापकत्वमेकत्वमिति वर्ण- जनात्मनी यहुत्यमर्थत औपाधिकं जानीमः। अत एवाग्निवावादिदृष्टान्तोऽप्युपप- .

१ अद्वैतमार्तण्ड.* धते । आत्मैकत्वपक्षस्य चात्रानुदितस्य पादरायणाभिमनस्य नाटेतमतातिरिक्त निर्वाह इति न श्रीभाष्याभिमतात्मयहुत्ववादादयः सूत्रकाराभिप्रेता दति सिद्धम् । मतम्, महाभारत आत्मवहुत्ववाद एवं व्यवस्थापित इति परमतानुपपत्तिः । एतेन-द्वितीयप्रश्नस्यात्मयहुत्वपक्षीयतया तत्पतिवचनभूतः कृत्स्नोऽपि सन्दर्भ आत्मयहुत्वविपय एवेति निश्चीयते । इत्थं चैकात्म्यमत्र नात्मैक्यरूपम्, किन्त्वेकात्मविशिष्टत्वमित्यादिपरोक्तिरपि प्रत्युक्ता । योनित्वं यत्र सूत्रकाराभि- मतमुपादानत्वरूपमेवेत्यत्रतु न विप्रतिपत्तिः, तत्तु विवोपादानत्वरूपमित्यद्वैत- इतरेषां तु परिणममानप्रकृतिशरीरकत्वमिति त्वन्यदेतत् । वस्तुतस्तु- एकत्वनिर्गुणत्वयोरात्मन उपक्षेपेणैवोपादानत्वमिदं विवोपादानत्वरूपमेवेति पर्य- वस्यति । अत एवानुशासनिक पर्वणि १६५ तमेऽध्याये-जाते तु यस्मिन् ज्ञातव्यं ज्ञातं भवति भारत ।" इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय "निस्तत्व- श्चैव देवेशो चोद्धव्यं तु नयुद्धधते । यदि वुद्धयेत् परं बुद्धं बुद्धधमानः सुरर्पभ । प्रयुद्धो ह्यभिमन्येत योऽयं नाहमिति प्रभो।" इति प्रकृतिवियुक्तस्यैव ज्ञेयत्वप्रति- पादनम् , साक्षात्कारसमनन्तरमहम्भावविमोकश्च प्रतिपाद्यमान उपपद्यते। पाञ्चरात्रसिद्धान्तस्यैव बादरायणाभिमतत्वनिरास । "साङ्ख्यं योगः पाश्चरात्रं वेदाः पाशुपतं तथा । ज्ञानान्येतानि राज विद्धि नानामतानि वै॥ साङ्ख्यस्य वक्ता कपिलः परमर्पिस उच्यते। हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ उमापतिभूतपतिः श्रीकण्ठो ब्रह्मणः सुतः। उक्तवानिदमन्यग्रो ज्ञानं पाशुपतं शिवः ॥ पाञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथाऽगमं यथाज्ञानं निष्ठा नारोयणः प्रभुः॥

ana " १४ दैतमार्तण्डः इत्यादिमोक्षपर्वगतानि तु वचनानि सर्वेषां साङ्ख्यादीनां महर्षिकपिलादि- प्रवर्तितानां निर्गुणे चैतन्ये न विरोध इत्युपपादनपरराणीत्येव प्रतीयते, नतु पाश्चरानमतस्यैव वैपायनाभिप्रेतत्वप्रतिपादनपराणि । सात्ययोगाभ्यामेय वेदस्यैकवाक्यता, नतु पाञ्चरात्रमतेनेति व्यवस्था । सर्वसम्मनिपन्नमिदम् - यत् तुरीयनारायणः तुरोय: सदाशिव एव बा सर्वशास्त्रतात्पर्यविषय इति। तस्य केवलनिमित्तकारणत्वमभिन्ननिमित्तोपादा- नत्वम्, तदपि स्वरूपतो ब्रह्मण एवोपादानत्वेन, मायाया एवोपादानत्वेनेत्यादि. विशेषास्तु तत्तच्छास्त्रकारविप्रतिपन्ना यहवो वर्तन्त इति त्वन्यदेतत् । तत्र पाशुपतपाचरात्रमतयोः केवलनिमित्तत्याभिन्निमित्तोपादानत्वकृते सत्यपि विशेपे तुरीयस्प सगुणत्व स्वरूपतोऽनुपादानत्वे च साम्यमेव । हैपायनाचार्यास्तु तुरीयस्य जोचस्प चा निर्गुणत्वासङ्गत्वादिपक्षमेव धैदिक मतमिति कथञ्चनैकवाक्यता वैदिकमतस्य साझ्ययोगाभ्यामेव भवति, नतु पाशुपतपाश्चरात्राभ्यामिति स्पष्टमस्मिन्नेव प्रकरणे साङ्ख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् । सवैस्समस्तैः ऋपिमिनिकको नारायणो विश्वमिदं पुराणम् । इत्युपसंहारेण सूचयन्ति ; अन्यथा कथमत्र पाञ्चरात्रस्यापि चेदेनेकवा- क्यता नोल्लिखितेति सर्व एवं विभावयन्तु । "पुरुषकत्यमुक्तवान्" इत्यत्र पुरुषपदार्थो न स्वतन्त्रतरः, किन्तु प्रत्यगात्मय । विचारावसरे हि व्यवहारसिद्धजीवभेदादिकमादायैव शास्त्रार्थव्यवस्था. पनस्य युक्त्यात् याद्बामसाक्षात्कारं जीवस्य प्रकृतिसंसर्गकृतं कर्तृ- स्वादिफमित्यादिमफियायलम्पनेन चैदिकमतव्यवस्था, मुक्तिदशायां यत्र सर्वात्मभाया "नारापणो विश्वमिदं पुराणम्" इति वाक्यसिद्धो भवनि, तत्र केवलस्य चैदिकस्य मतस्य प्रतिष्ठा। तदुक्त मोक्षधर्म- "अक्षययाप्रमेय सर्यगइच निरुच्यते। एकइनरति क्षेत्रेषु स्वैरचारी यथा- .

: अईतमार्तण्डः * सुखम् । क्षेत्राणि च शरीराणि वीजं चापि शुभाशुभम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते। सास्येन विधिना चैव योगेन च यथाक्रमम् । चिन्तयामि गतिं चास्य न गति वेनि चोत्तराम् ।" इति। अनहि पुरुषस्य सर्वगत्व- मेकत्वं च स्पष्टमुच्यमानमद्वैतमत एव निर्वहति, न विशिष्टाद्वैतमते। पुरुपो ह्यत्र निर्दिश्यमानः प्रत्यगात्मैव, न नारायण इति "तानि वेत्तिस योगात्मा ततः क्षेत्रज्ञ उच्यते।" इति वाक्येनैवावगम्यते । नहि परमात्मा क्षेत्रादिविज्ञानेन श्रीभाष्य- मते क्षेत्रज्ञः, किन्तु क्षेत्रज्ञशरीरकत्वेनेति सर्वविदितमिदम् । तथाच जीवा- नां बहूनामौपाधिकानामधिष्ठानं ब्रह्माभेदाई प्रत्यगात्मस्वरूपमेवान पुरुपपदार्थ इति "एको हुताशो बहुधा समिध्यते" इत्याद्युपसंहारेणापि गम्यते। नहि श्रीभाष्पमते एकस्यैव परमात्मन औपाधिकं बहुत्वं स्वरूपत एकत्वमिति सिद्धा. न्तसंभवः । स्पष्टं हि व्यासाचार्याः-समासेन तु पद व्यासः पुरुषकत्वमुक्तवा- नि"ति एकात्मवादमेव स्वमतं प्रतिपादयन्ति । "यत्तु-पुरुषकत्वमुक्तवानि"त्यस्य निरुपाधिकस्य पुरुषस्यैकत्वमुक्तवानिति परेप विवरणम्, तत्र न केवलमध्या- हारादिदोपाः, किन्तु ब्रह्मबहुत्वशङ्काया एवाभावादनवसरोक्तिरपि। एतेन- "तस्यैकस्य महत्वं हि स चैकः पुरुपः स्मृतः" इत्यत्रैकस्य महत्ववर्णनात् तदन्येपा महत्त्वव्यावर्तनमिति परोक्तिरपि व्याख्याता; नह्यद्वैतवादेऽपि पुरुषाणा- मौपाधिकानां व्यापकत्वमिति सिद्धान्त इति पुरुषाणामौपाधिकानां भेव्यवस्थापन- परतयोक्तवचनतात्पर्यमूरीकर्तव्यम्। नहि श्रीभाष्यमते औपाधिकाः पुरुषाः बह- वो मताः, यत्राणूनां जीवानां स्वस्वभावसिद्धानां स्वत एव नानात्वमिति न कोऽपि दोपः। अधिकं च प्रसङ्गान्तर निरूपयिष्यते । चैतन्यैकन्वतदुपादानत्वसाध. नेन हि साङ्ख्ययोगयोरेव वैदिकमते निष्ठेति बादरायणाचार्या मन्यन्ते। अत एव प्रकृतिपरिणामितानिरासार्थमेव ब्राममीमांसायां यादरायणाचार्याः प्रवर्त- न्ते। "एतेन योगः प्रत्युक्त" इति हि चेतनाधिष्ठितप्रकृतिपरिणाभवादोऽपि खण्डित इति सर्वसम्मतमिदम् । कर्तृदोषेण साड्यादीनां नाप्रामाण्यम्, किन्तु विषयवाधेनैव, सच पाञ्चरात्रेऽप्यविशिष्ट । साङ्ख्ययोगादिनिरासो हि यादरायणाचार्यः कर्तृरजस्तमोऽभिभूतत्वसं. - ।

* अद्वैतमार्तण्ड: * भावनया न कियते, किन्तु प्रकृतिपरिणामितामात्रेण तन्मात्रीपादानताऽसंभवे- नैध । इयमेव रीतिः “पत्युरसामञ्जस्यादि" त्यादावपि द्रष्टव्या। नहि तत्रापि कर्तृ दोषेणामामाण्यमुपवर्णितम् । एतेन पुराणानां केपांचन तामसत्वेनामा- माण्यशङ्कापि-प्रत्युक्ता । पुराणकर्तुर्वेदव्यासस्य तामसत्वे हि सर्वेषामपि पुराणानामप्रामाण्यमापद्येत। पुराणादिप्रामाण्यं हि न कर्तुस्सात्त्विकत्वेन, किन्तु वेदमूलकत्वेनेति तु निष्कर्षः। पाञ्चरात्रप्रामाण्यस्य वादरायणानभिप्रेतत्वम् । एतेन - अब्रह्मात्मकाकृतिपरिणामवादनिरासाथै योगमायुक्तयधिक रणमिति वादोऽपि-परास्तः। नहि कुत्रापि सूत्रे सूत्रकाराः ब्रह्मा- त्मकप्रकृतिपरिणामवाद सूत्रयन्ति ब्रह्ममीमांसायामुपपादयन्ति वा महा- भारतादी । पाश्चरात्रेऽपितु ब्रह्मात्मकमकृतिपरिणामतावादो नोल्लि- खित इति तु वस्तुस्थितिरिति निर्मूल एवायं ब्रह्मात्मकप्रकृतिपरिणा- मतावादः। शरीरपरिणाममात्रेण शरीरिणोऽपि परिणामितयोपादानत्वविव- क्षायां तु पाशुपनमताको वा विशेप: पाश्चरात्रमतस्येति भवन्त एव विवेचयन्तु । शरीरशरीरिभावो ह्यन्तर्यामित्राह्मणसिद्धो न पाशुमतानामपि विरुद्धः। अतएव ब्रह्माभिन्न निमित्तोपादनत्वेनैव श्रीकण्ठ भाष्यम् । सर्वथातु केवल ब्रह्मा- नुपादानतावादः साङ्ख्य-योग-पाशुपत-पाश्चरात्राभिप्रेतो बादरायणाचा- निभिमत इत्येव तत्त्वम् । एव-वैदिकमतात्पृथक् पाश्चरात्रस्य निर्देश उपपद्यते । इदमेवाभिप्रेत्य ब्रामीमांसाद्वितीयाध्याये साप- योगयोः प्रधान कारणताचंश इव पाशुपतपाश्चरानयोरपि केवलनिमित्तकारणत्व- जीवोत्पत्यादिविषयांशेऽप्रामाण्यमेव सूत्रकाराः सूचयन्तीति भगवत्पादानामेव भाष्यं सूत्रकाराशयानुरोधि । पाश्चरात्रप्रामाण्ये वादरायणाचार्याशयः । पाञ्चरात्रप्रामाण्यविपये च महाभारतस्य व्रामसूत्राणां चैकवाक्यतोत भिन्नवाश्यतेति प्रथममालोचनीयम् । तत्र च मोक्षधर्म :४३ तमेऽध्याये उपरि- घायपतितस्येन वर्णितमयादिसप्तर्पिप्रणीतं यत् पाठ्यरात्रम्, तत्र हिंसादोषत्व- अत * अद्वैतमातेण्डः नियन्वनं पिष्टपशयागस्यैव विधिरिति गम्यते । तस्य च ब्रह्मसूत्रेषु स्पष्टमेव- "अशुद्धमिति चेन्न शब्दात्" इति सूत्रेण श्रोभाध्यमतरीत्याप्यधर्मत्वं स्थाप्यत एव यज्ञोयहिंसाया अदोपत्वव्यवस्थापनद्वारेति तदंशे भिन्नवाक्यतयोभयो- रित्यत्र न विप्रतिपत्तिलेशोऽपि । सति चैवं श्रोभाष्यमतानुयायिभिरप्पस्मिन्नंशे पाञ्चरात्रस्य प्रामाण्यं न यादरायणाचार्यानुमतमूरीकर्तुं शक्यते। अस्मिन् हि प्रकरणे–“संस्थिते तु नृपे तस्मिन् शास्त्रमेतत्सनातनम् । अन्तर्धास्पति तत्सर्वमेतदः कथितं मया" इति पिष्टपशुयागाचारो बृहस्पतिप्रेरणयोपरिचरव- सुकृतोऽपि तच्छास्त्रेण साकं तदनन्तरमन्तर्धान प्राप्स्यतीति वर्णनात् वेदवि- रुद्धांशाः पाञ्चरात्रगता अप्रमाणमेवेति सूच्यते । भत्त्यादिसाधनांशे तु वेदाविरुद्ध नास्याप्रमाण्यशङ्कापि,पतो नात्र भक्तरन्तर्धानमुपक्षिप्तम् । तथाच यथा श्रीभाष्पकाराः पाञ्चरात्राधिकरणे पाशुपतशास्त्राणामपि पशुपत्यंशे प्रामाण्ये- ऽपि तन्निमित्तनामात्रेमामाण्यं मन्यन्ते, एवं पाञ्चरात्रशास्त्रस्यापि जीवोत्पत्त्या- यंशेऽप्रामाण्यव्यवस्था सूत्रकारः सूयते । "तस्मात् प्रवक्ष्यते धर्मान् मनुः स्वार्य- भुवः स्वयम् । उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः । तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ।" इति मनुना महाभारताभिमतो धर्मा वक्ष्यन्ते, पाञ्चरात्राभिमनास्तु शुक्रवृहस्पतिभ्यामिति वर्णनात् धर्माशे मनुमतमेव स्वमतं सूचयन्ति व्यासाचार्याः । अनेन विज्ञायते-यत् वेदविरुद्धांशाः न केवलं जीवो- त्पत्तिवादादयः, किन्तु धर्मा अपि केचन पाञ्चरात्रेषु वर्तन्त इति । यत्तु-"एच. मेकं साङ्ख्ययोगं वेदारण्यकमेव च । परस्पराङ्गान्येतानि पाश्चरानं च कथ्यते। एष एकान्तिनां धर्मो नारायणपरात्मकः।" इति वचनम्, तदिदमपि नीलकण्ठ- भाष्यसमालोचने भक्तिमार्गमात्रेणैव वेनैकवाक्यतां पाञ्चरात्रस्य गमयतीति जीवोत्पत्तिवादादयो न बादरायणाभिमता इति विज्ञायते । पाश्चरात्राधिकरणस्य तद्नामाण्यसाधनार्थमेव प्रवृत्तिः, नतु तत्प्रामाण्यसमर्थनार्थम्। "तदा विशति यो व्रत्मन्मदृश्यो लघुविक्रमः । उत्पन्न एव भवति शरीरं चेष्टयन् प्रभुः ॥

१८ * अद्वैतमार्तण्डः * , स जीवः परिसंख्यातः शेषः संकणः प्रभुः । स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते ॥ तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च। सोऽनिरुदस्स ईशानोऽव्यक्तः स सर्वकर्मसु । यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः । ज्ञेयस्त एव राजेन्द्र, जीवः सकर्षणः प्रभुः ॥ संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते । प्रद्युम्नाद्योऽनिरुद्वस्तु सोऽहंकारस्स ईश्वरः ।" इति हि स्पष्टमेव वासुदेवात्संकणादीनामुत्पत्तिरभिधीयमाना न सूत्रकाराभिमतेत्यत्र तु न विपतिपत्तिः। गौणी द्युत्पत्तिरत्र संकर्पणा- दीनां मन्यत इति कल्पना तु न संभवति, प्रमाणाभावात् । "न च कर्तुः करणमिति जीवात् संकर्पणात्प्रद्युम्नोत्पत्तिः, प्रद्युम्नादाऽनिरुद्वो- त्पत्तिरवासंभाव्यमानतयोपपाद्यमाना केन वा सूत्रेण सूत्रकारैः समयते ? "विज्ञानादिभावे वा तप्रतिषेध' इति सत्यं ब्रह्मभावेन संकर्षणादीनाम- त्यत्त्यसंभवः प्रतिपाद्यते, क्रमानुपपत्तिस्तु न परिहता केनापि सूत्रेणेति कथं वा "विज्ञानादिभावे वा तदपतिव' इति सिद्धान्तसूत्रम् ? विज्ञानादिभा- वेन सत्यमुत्पत्तिप्रतिषेधः संभवति, क्रमनिपेघस्तु न संभवति । तथा- च क्रमिकोत्पत्तिनिपेघो ब्रह्मभावेऽपि न संभवतीत्येव तप्रतिपेघशब्दार्थः । एतेन-विज्ञानादिभावे हि विना क्लेशनुत्पत्तिप्रतिषेधः संभवतीति विज्ञानादि- भावस्योत्पत्त्यसंभवनिपेयहेतुत्वं याधितमिति शङ्कापि -परास्ता ; क्रमिकोत्पत्ति. निपेषाभिमायत्वादस्य वाक्यस्य । इदमेवाभिप्रेत्य भगवत्पादैः-"न हि वासुदेवा- संकर्षणस्योत्पत्तिः संभवति, संकर्पणाच प्रद्युम्नस्प, प्रद्युम्माचानिरुदस्य; अति- शयाभावात्" इति भाषितम् । विजानादिभायम्योत्पत्तिनिषेधार्थत्वेनानुसन्धान जीयानामुत्पनिपगत्व एवोपपयने । उत्पत्तिनिषेधार्य विज्ञानादिभायो हि पाश्चरानदृष्ट्वानुसन्धायन । अद्वैनमार्तण्डः * इति सर्वसम्मतमिदम् । तत्र चेदमेव . पृच्छयते-यत्किमिति विज्ञाना. दिभावोऽत्रानुसन्धेय इति ? जीवत्वेन संकणादीनामुत्पत्तिनिषेधासम्भवं मत्वैव विज्ञानभावोऽत्र हेतुतया निर्दिष्ट इति यदि मन्यते, तर्हि ब्रह्म- व्यतिरिक्तानां जीवानामप्युत्पत्तिवाद एव पाश्चरात्राभिमत इति खलु पर्यवस्यति । जोवोत्पत्तिवादश्च यादरायणाचार्यानभिप्रेत इति नेदं कस्यापि विप्रतिपन्नम् । सति चैवं पाञ्चरात्राप्रामाण्यव्यवस्थापनार्थमेवेदं सूत्रमधिकरणं वा,न तत्प्रामाण्य- समर्थनार्थमिति सुष्टु समर्थितमेतत्-पत् द्वितीयाध्यायद्वितीयपानिरस्य- पाञ्चरात्रप्रामाण्यपरं श्रीभाष्यं न सूत्राशयानुसारोति । अयं भावः-"यो वासुदेवो भगवान् क्षेत्रज्ञो निर्गुणात्मकः । ज्ञेयस्स एव राजेन्द्र जीवः संकर्षणः प्रभुः" इति इति सत्यं संकर्पणस्य वासुदेवात्मत्वं प्रतिपाद्यते ; प्रद्युम्नादीनां तु न वासुदेवभावः प्रतिपाद्यते; अन्यथा वासुदेवादेव सर्वोत्पत्तिवादस्यावश्यक- त्वात् संकर्षणादितः प्रद्युम्नादिभावोऽनुपपन्न एव स्यात् । "उत्पत्यसंभवात्" इति तु पाश्चरात्राप्रामाण्यसाधनपरमिति सर्वसम्मतमिदम् । यदि पाञ्चरात्रे उत्पत्ति- रेष न निर्दिष्टा, तर्हि कथमुत्पत्त्यसंभयोऽप्रामाण्यहेतुः स्यात् ? पाञ्चरावस्यापि पौरुषेयत्वेन वेदविरोधेऽप्रामाण्योपपत्तिः। महाभारते हि--"साव्यं योगः पाशुपतमि"त्यादौ साङ्ख्ययोगादीना. मिव पाश्चरात्रस्यापि पौम्पेयत्वमेव मन्यते । इयान विशेष:-पत् सांख्ययोगादिकं महर्पिकपिलादिप्रवर्तितम्, पाश्चरात्रंतु भगवता वासुदेवेन प्रवर्तितं स्वतन्त्रमि- ति। स्वातन्त्र्यं हि वेदेषु भगवतोऽपि नास्तीति तत एव व्यक्तमिति न वेदसमान- योगक्षेमं पाचरात्रप्रामाण्यमित्येव व्यासाचार्या मन्यन्ते । तथाच वेदविद्वाशे साङ्ख्यादीनामिव पाञ्चरात्रस्याप्यप्रामाण्यमेव ब्रह्ममीमांसावसेयम् । नहि वेद- निन्दांशेऽपि पाञ्चरात्रप्रामाण्यसंभवः । “नहि निन्दा"न्यायेन वेदनिन्दायोजनं तु पाचरात्रमामापयसिद्धावेव सम्भवति, न विपरीते । नहि विशेषतः स्तुतिमात्रेण पात्ररात्राप्रामाण्यासम्भव:, अन्यथा साङ्ख्ययोगयोरपि विशेषतः स्तुतयोः मामाण्यापत्त्या सामन्यमतनिरासोऽनुपपन्नः स्यात् । “विप्रतिषेधाच" इति विप्रतिपेवशब्दो हि व्याधातार्थकोऽप्रामाण्यहेतुरेच "विपतिपेधाच्चासमन्जसम्" * अदेनमानण्टा इत्यादौ प्रयुज्यत इति कथमकस्मादन परं केवलनिषेधार्थकत्वं तस्य श्रीभाष्या- भिमतं युक्तम् ? एतेन-"पाचरात्रस्य प्रामाण्यमुत्कर्षे च प्रशंसति सत्रकार" इति परिभाषाभूमिकाविमोक्तिरपि-प्रत्युक्ता। भगवत्पादादीनां पारावापामाण्यमतसङ्ग्रहः । श्रीभाष्यकाराः श्रुतप्रकाशिकाकारा या अविरोधसमर्थनावसरे जीवो- त्पत्ती संकर्षणादीनां जीवादिभायेन व्यपदेशे च सत्यं काश्चन काश्चनोपपत्तीः संगृह्णन्ति, क्रमानुपपत्तौ तु "नच कर्तुः करणम्" इति सूत्रतद्भाष्यादिप्रतिपादि- तापां तूष्णीम्भावमेव प्रतिपद्यन्ते । स्पष्ट ह्यन भगवत्पादाः पाश्चरात्राप्रामाण्यं स्वशब्देनैव समर्थयन्तीनि नानाधिक किमपि वक्तव्यं पक्ष्यामः । सति चैवं भग- वत्पाद्मतानुयायिनामपि पाश्चरात्रमामापयनिषेधे न तात्पर्यमिति विमर्शोक्त मपि छिन्नमूल मिति सूचितम् । परिभाषाविमर्शाभिमतमामतीकल्पतर्वादीनां पाञ्चरायप्रामाण्यसमर्थनविरोधिता इदमेवात्र विमर्शकारा अपि मन्यन्ते-"यत् सत्यं भगवत्पादाः पाचरात्रस्यांशविशेपेऽप्रामाण्यपरतयेवोक्तमधिकरणं योजयन्ति, परन्तु तयाख्यातारो भामतीकल्पतरुकारादयः ब्रह्मसूत्रवृत्तिकाराः साक्षाद्भग- वत्पादान्तेवासिनो वार्तिककाराश्च नात्र हृदयतः पाश्चराधाप्रामाण्यं सहन्ते" इति । इदमेवानालोधनीयम्-यत्कियवधि विमर्शनमिदं विकल्पसहं भवतीति। तत्रेयं विमर्शसंगृहीता भामती-"अन्यत्र वेदाविसंवादात् यत्राशे विसंवादः स निरस्पत" इति, या जीवोत्पत्तिवादः पाश्चरात्राभिमतः सूत्रकारासम्मत इत्येव गमयति । "अधिष्ठातचेश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेद- सङ्गतात्याजीवोत्पत्तावपि प्रमाणत्वं स्पादि"ति कल्पतरुग्रन्थोऽपि जीवोत्पत्ति- बादः पाश्चरात्रीभिमनोऽप्रमाणसिद्ध इति विशदपति । अयं हि कल्पतरुपन्धो ब्रह्मण एव स्वरूपतः प्रकृतित्वमिति पाञ्चरात्रसिद्धान्त इति सूचनेन चिचि- छरीरकब्रह्मकारणतावादं श्रीभाप्याभिमतं स्वमूलप्रमाणपाश्चरानासिद्ध गमपतीति त्वन्यदेतत् । सत्यं विमर्शसंगृहीतेन -"प्रमाणापहृतविषये गौणं तवचनमि" ति तु कल्पतरुपन्धेन कल्पतरुकारा गौणोत्पत्तिवादपरत्वेन * अद्वैतमार्तण्डः , पाञ्चरात्रपामाण्यसमर्धनमभिप्रयन्ति । एवमभिप्रयन्तोऽपि ते ''संकर्पणात्प्रद्युम्नो जायत इति" क्रमिकोत्पत्तिवादासम्भवग्रन्धं तु भामतीकाराणां यथावदेवानुवद- न्तीति नूनमत्र विरोधोऽपि प्रतीयते । सति च विरोधे कल्पतरुकाराणामिदमेव मतं प्रतीमः-यत् ध्रुवं पाञ्चरात्रस्य भगवत्प्रणीतस्य कथञ्चित्प्रामाण्यसंरक्षण- मस्माभिरस्मन्मताविरोधेन कर्तुं शक्यते, परन्तु नेदं शाण्डिल्यादीनां संकर्ष- णादिक्रमिकोत्पत्तिवादिनामभिप्रेतमिति, तप्रामाण्यसाधनार्थमुत्पत्यसंभवाधि- करणमिति । नहि विमर्शकारा अन्ये वा कल्पतरुकाराणां भाष्यभामत्याद्य- विरोधेन श्रीभाष्यकाराणामिव पाञ्चरात्रप्रामाण्यसमर्थनपरतयैवोक्तमधिकरणं योजयितुमीशते । वेदविप्रतिषेधो व्याख्यातः" इति भामतीग्रन्थः कल्पतरौ "भाष्ये" इति शेपपूरणेन व्याख्यातः" इति भाष्यकारोपक्षिप्त वेदनिन्दादिकं शाण्डिल्यादिप्रवर्तिते पाञ्चराने विद्यमानं ततस्तदप्रामाण्यमेव च कल्पनरुकारा अपि मन्यन्ते। एतेन-विमर्शकाराणां कल्पतरुग्रन्थानुसारेण भगवत्पाद्म- तेऽपि सर्वथा पाञ्चरात्रप्रामाण्यसमर्थनं साहसमूलमिति - सूचितम् । पाञ्चरात्रगतजीवोत्पत्तिवादस्य गौणत्वायोगः पाञ्चरात्रमूलकं श्रीभाष्यमित्यनेन भूमिकावाक्येन न जीवोत्पत्तिवा- दोऽपि श्रीभाष्यकाराभिप्रेत इति विवक्षितम्, येन जीवोत्पत्तिवादः श्रीमद्रामा- नुजाभिप्रेत इति न केनापि वक्तुं शक्यत इति विमर्शोक्तोनामवसरः स्यात्, किन्तु बादरायणनिरस्यपाञ्चरात्रप्रामाण्यपरत्वान्न तद्भाष्यं बादरायणाशया- नुसारोति । वस्तुतस्तु-"विज्ञानादिभावे वे"ति संकर्पणादीनां ब्रह्मभावेन गौणोत्प- त्तिसमर्थनेन हि संकर्षणायतिरिक्तानां स्वरूपतो ब्रह्मव्यनिरिक्तानां जोवानामुल्प- त्तिवाद एव श्रीमद्रामानुजाचार्यैरपि समर्थनीयः ; अन्यथा जीवानां जोवत्वेनापि गोण्या एवोत्पत्तेः स्वीकारात् "विज्ञानभावे वे"ति ब्रह्मभावानुसन्धान वितथमेव स्यात् । न हीदं सूत्रं संकर्षणादिव्यतिरिक्तानां कर्मचशानां जीयानामपि विज्ञा- नादिभावेन गौणोत्पत्तिसमर्थनपरं भवितुमर्हति । न हि श्रीभाष्यकाराः पाञ्च- रात्रकारावा संकर्षणादीनामिव कर्मवशानामपि जीवानां मुक्तावपि ब्रह्मभाव- भूरीकुर्वन्ति । भगवत्पादमते तु यत्रोपाधिको जीवोत्पत्तिः, स्वरूपतस्तु प्रत्मभायेन -- - * अद्वैतमार्तण्डा * इत्यादौ प्रयुज्यत इति कथमकस्मात्र परं केवलनिषेधार्थकत्वं तस्य श्रीभाष्या- भिमतं युक्तम् ? एतेन-"पाञ्चरात्रस्य प्रामाण्यमुत्कर्ष न प्रशंसति सूत्रकार" इति परिभाषाभूमिकाविमॉक्तिरपि-प्रत्युक्ता। भगवत्पादादीनां पाश्चरात्राप्रामाण्यमतसनहः । श्रीभाष्यकाराः श्रुतप्रकाशिकाकारा या अविरोधसमर्थनावसरे जीवो. त्पत्ती संकर्षणादीनां जीवादिभावेन व्यपदेशे च सत्य काइचन काश्चनोपपत्ती संगृह्णन्ति, क्रमानुपपत्तौ तु "नच कर्तु: करणम्" इति सूत्रतद्भाष्यादिप्रतिपादि- तायां तृष्णीम्भावमेव प्रतिपद्यन्ते । स्पष्टं धन्न भगवत्पादाः पाञ्चरात्रामामायं स्वशब्देनैव समयन्तीति नाबाधिक किमपि वक्तव्यं पक्ष्यामः । सति चैवं भग- वत्पादमतानुयायिनामपि पाञ्चरात्रप्रामापयनिषेधे न तात्पर्यमिति विमोक्त- मपि छिन्नमूलमिति सूचितम् । परिमापाविमर्शाभिमतभामतीकल्पतर्यादीनां पाञ्चरात्रप्रामाण्यसमर्थनविरोधिता इदमेवात्र विमर्शकारा अपि मन्यन्ते-"यत् सत्यं भगवत्पादाः पाञ्चरात्रस्यांशविशेषेऽप्रामाण्यपरतयेवोक्तमधिकरणं योजयन्ति, परन्तु तथाख्यातारो भामतीकल्पतरुकारादयः ब्रह्मसूत्रवृत्तिकाराः साक्षागग- वत्पादान्तेवासिनो वार्तिककाराश्च नात्र हृद्यतः पाञ्चरात्राप्रामाण्यं सहन्ते" इति । इदमेवालालोचनीयम् -यत्किरावधि विमानमिदं विकल्पसहं भवतीति। तत्रेयं विमर्शसंगृहीता भामती"अन्यत्र वेदाविसंवादात् यत्राशे विसंवादः स निरस्यत" इति, या जीवोत्पत्तिवादः पाञ्चरानाभिमतः सत्रकारासम्मत इत्येव गमयति । "अधिष्ठातैवेश्वर इति मते निरस्ते प्रकृतिरपि स इति मतस्य वेद- सातार्थत्वाजीयोत्पत्तावपि प्रमाणत्वं स्यादिति कल्पतरुग्रन्थोऽपि जीवोत्पत्ति- वादः पाश्चरात्राभिमतोऽप्रमाणसिद्ध इति विशदयति। अयं हि कल्पतरुग्रन्थो ब्राह्मण एव स्वरूपतः प्रकृतित्वमिति पाश्चरात्रसिद्वान्त इति सूचनेन चिदचि- छरीरफनामकारणतावादं श्रीभाष्याभिमनं स्वमूलप्रमाणपाश्चरात्रासिद्ध गमपतीति त्यन्यदेवत् । सत्यं विमर्शसंगृहीतेन -"प्रमाणापतविपये गौणं ताचनमि" ति तु फल्पतम्यन्येन कल्पतरूकारा गौणोन्पत्तिपादपरत्वेन * अद्वैतमार्तण्डः* २१ पाञ्चरात्रमामाण्यसमर्थनमभिप्रयन्ति । एवमभिप्रयन्तोऽपि ते "संकर्षणात्प्रद्युम्नो जायत इति" क्रमिकोत्पत्तिवादासम्भवग्रन्धं तु भामतीकाराणां यथावदेवानुवद्- न्तीति नूनमत्र विरोधोऽपि प्रतीयते। सति च विरोधे कल्पतरुकाराणामिदमेव मतं प्रतीमः यत् ध्रुवं पाञ्चरात्रस्य भगवत्प्रणीतस्य कथञ्चित्मामाण्यसंरक्षण- मस्माभिरस्मन्मताविरोधेन कर्तुं शक्यते, परन्तु नेदं शाण्डिल्यादीनां संकर्प- गादिक्रमिकोत्पत्तिवादिनामभिप्रेतमिति, तप्रामाण्यसाधनार्थमुत्पत्यसंभवाधि- करणमिति । नहि विमर्शकारा अन्ये वा कल्पतरूकाराणां भाष्यभामत्याद्य- विरोधेन श्रीभाष्यकाराणामिव पाञ्चरात्रप्रामाण्यसमर्थनपरतयैवोक्तमधिकरणं योजयितुमीशते । “वेदविप्रतिषेधो व्याख्यातः" इति भामतीग्रन्थः कल्पतरौ "भाष्ये” इति शेपपूरणेन व्याख्यातः" इति भाष्यकारोपक्षिप्त वेदनिन्दादिकं शाण्डिल्यादिप्रवर्तिते पाञ्चरात्रे विद्यमानं ततस्तदप्रामाण्यमेव च कल्पनरुकारा अपि मन्यन्ते। एतेन-विमर्शकाराणां कल्पतरुग्रन्थानुसारेण भगवत्पादन तेऽपि सर्वथा पाञ्चरात्रप्रामाण्यसमथैनं साहसमूलमिति - सूचितम् । पाश्चरात्रगतजीवोत्पत्तिवादस्य गौणत्यायोगः । पाञ्चरात्रमूलकं श्रीभाष्यमित्यनेन भूमिकावाक्येन न जीवोत्पत्तिचा- दोऽपि श्रीभाष्यकाराभिप्रेत इति विवक्षितम् , येन जीवोत्पत्तिवादः श्रीमद्रामा- नुजाभिप्रेत इति न केनापि वक्तु शक्यत इति विमर्शाक्तीनामवसरः स्यात्, किन्तु बादरायणनिरस्यपाञ्चरात्रप्रामाण्यपरत्वान्न तद्भाप्यं पादरायणाशया- नुसारीति । वस्तुतस्तु -"विज्ञानादिभावे वे"तिसंकर्षणादीनां ब्रह्मभावेन गीणोत्प- त्तिसमर्थनेन हि संकर्पणाद्यतिरिक्तानां स्वरूपतो ब्रह्मव्यनिरिक्तानां जोवानामुत्प त्तिवाद एव श्रीमद्रामानुजाचार्यैरपि समर्थनीयः अन्यथा जीवानां जोवत्वेनापि गोण्या एवोत्पत्तेः स्वीकारात् "विज्ञानभावे वेति ब्रह्मभावानुसन्धान वितथमेव स्यात् । न हीदं सूत्रं संकर्षणादिव्यतिरिक्तानां कर्मवशानां जीवानामपि विज्ञा- नादिभावेन गौणोत्पत्तिसमर्थनपरं भवितुमर्हति । न हि श्रीभाष्यकाराः पाञ्च- रात्रकारा वा संकर्षणादीनामिव कर्मवशानामपि जीवानां मुक्तावपि ब्रह्मभाव- मूरीकुर्वन्ति । भगवत्पादमते तु यत्रोपाधिको जीवोत्पत्तिः, स्वरूपतस्तु ब्रह्मभावेन 3B .

२० , * अद्वैनमार्तण्डः ५ नित्यत्वम् ; तन "विज्ञानादिभावेऽपी"ति सुतरामुपपद्यते । अयमाशयः-जीवो. त्पत्तिणीति मतयसंपतिपन्नमिदम् । इयान विशेषः-यद्वैतमते शरीरो स्परपा जीयोत्पत्तिव्यपदेशः, श्रीभाष्यमते धर्मभूतज्ञानसंकोचविकासाभि- प्राया जीवोत्पत्तिः, न तु स्वरूपोत्पत्तिमभयत्र सम्मता । तत्र स्वरूपोत्पत्त्यभा- वोऽद्वैतमते जीवस्वरूपस्य ब्रह्मभावप्रयुक्तः, श्रीभाष्यमते तु स्वरूपप्रयुक्त एच । स्वतो व्यावृत्ता नित्या बहवो जीवा इति हि तन्मतम् । संकर्षणादीनां सत्यं शरी- रप्रवेशमात्रप्रयुक्त एवोत्पत्तिव्यपदेशः। तदुक्तम्-उत्पन्न एवं भवति शरीरं चेष्टयन् प्रभुरि"ति, नतु धर्मभूतज्ञानसंकोचविकासाभिप्रायोऽपि स इति श्री- 'माष्यकाराणामपि सम्प्रतमिदम् । सर्वथा तु संकर्षणादीनामहकाराद्युपहितानां विशिष्टेन रूपेणोत्पत्तिरेय नानुत्पत्तिरिति कृत्वैव - 'विज्ञानादिभावे वे" ति विज्ञानादिभावस्यानुत्पत्तिसमर्थनार्थत्वेनोपयोग इति वस्तुस्थितिः। सर्वधा तु जीवानां विशिष्टेनोपाधिकेन स्वरूपेगानुत्पत्तिसमर्थनासम्भवं मन्वानाः सूत्र- कारा "विज्ञानादिभावे घेति सूत्रयन्तोति "विज्ञानादिभावे वेति न श्रोभा- प्याभिमतदिशा सिद्वान्तसूत्रतामहति । एतेन-स वादो न पाञ्चरामाभिमत इत्येव तन्मतमित्यादि तबाक्यमपि-प्रत्युक्तम् । न हि ब्रह्मभावेन जीवोत्पत्ति- समर्थनं श्रीभाष्यसिद्वान्तदृष्या पाञ्चरात्र सिद्धान्त दिशा या संभवति । श्रोमायाभिमतपाञ्चरात्रामा समर्थनस्यानपेक्षा । वस्तुलस्तु पाञ्चरात्रप्रामाण्यचर्चा नात्र सावसरा । पाञ्चरात्राणां हि स्मृतित्वेनैव प्रामाण्यं न वेदत्वेनेति चेदाविरुद्रेशे तत्प्रामाण्यमर्थसिद्धमेव । "साटल्यं योगः पाञ्चरात्रं चेदाः पाशुपतं तथा।" इति निर्दिष्टेपु- "स्मृत्यनव- काशदोपप्रसङ्गादिति चेन्नान्यस्मृत्यनवकाशदोपप्रसङ्गात्" "एतेनयोगः प्रत्युक्ता" "पत्युरमामाचस्यात्" इत्यादिभिस्त्रयाणां निरसनेनार्थसिद्ध वेदप्रामाण्यमिव पाचरात्रप्रामाण्यमपि भवनीति व्यर्थ तत्समर्थनार्थमधिकरणान्तरम् । वस्तुतस्तु पाश्चरानागमस्य पाशुपतागमस्येव द्वितीयाध्याये द्वितीयपादे समालोचनेन स्मृतित्वमेव न सूत्रमारा मन्यन्ते, किन्तु केवटयुक्तचनुभचादिमूलकत्वमिति कथं तत्प्रामाण्यसमर्थनं द्वितीयाध्यायद्वितीयपादे सङ्गतम् ? यतो द्वितीयाध्याय- * अद्वैतमार्तण्टा* " प्रथमपाद् एव तत्सङ्गतम् । न हि सूत्रकाराः कुत्रापि पाञ्चरात्रमपि जगत्कारणे ब्रह्मणि प्रमाणमिति मन्यन्ते विशिष्य, येन तत्प्रामाण्यसमर्थनस्यापेक्षा स्यात् । गौणी धुत्पत्तिः श्रीभाष्यकार "नर्मात्मा श्रुतेनित्यत्वाच ताभ्यः' इति सूत्रेण समर्थितैवेति तत्समर्थनेन तत्प्रामाण्यसमर्थनमप्रयोजनमेव पश्यामः । गौण्यपीयमुत्पत्तिः श्रीभाष्याभिमता न सूत्रकाराभिमतेति वेदान्तपरि- भाषाभूमिकायामस्मदीयायां व्यक्तम् । कल्पतरुकारास्तु गौणोत्पत्तिं केवलमा- पादयन्ति, न प्रतिपादयन्ति । एवंच-"श्रीभाष्यकाराः कल्पतरुकाराचाक- कण्ठ्य नोत्पत्तिवदनस्य गौणत्वतात्पर्यवर्णनेन पाञ्चरात्रस्यानान्ततां वेदान्ता- विरोधं कात्स्न्येन प्रामाण्यं च समर्थयन्ती"ति-रिक्तमिदं वचनम् । विमर्शकारणां व्यर्थ परिमलविद्वेषः । परिमलकारास्तु दीक्षितवर्याः विमर्शरीत्यैवात्राविरोधिनोऽपि सन्तो व्यर्थमेवाकुश्यन्ते-“परिमलोक्तमत्र नैवाद्रियामहे" इत्यादिना वाक्यजालेन परिमलनाममात्रविद्वेपप्रदर्शनेन । पाञ्चरात्राधिकरणसूत्राणां श्रोभायमताननुगुण्यम्, अद्वैतवादस्य पूर्वपक्षत्यानुपपत्तिश्च ॥ सूत्राक्षराणि तु श्रीभाष्यकाराणां नानुकूलानि । विमर्शकारा हि "श्रीभाष्यमते पादसङ्गत्यभावेऽप्यनन्तरसूत्रस्वारस्यं तु वर्तन" वदन्तः स्वमते पादासङ्गतिदूषणमपरिहरणीयमेव मन्यन्ते । अत्र भग- वत्पादमते सर्वाणि सिद्धान्तसूत्राणि, श्रीभाष्यमते तु प्रथमद्वितीयसूत्रे पूर्वपक्षसूत्रे, "विज्ञानादिभावे वा तद्प्रपतिषेधः ।" इत्यादि तु सिद्धान्त- सूत्रमिति तु विवेकः । इदमेवादौ परीक्षितव्यम् - यत् को वात्र पूर्व- पक्षी, को वा च सिद्धान्तीति । पूर्वाधिकरणादिषु पाशुपतादय इव पाञ्च- राप्रवादिन एव पूर्वपक्षिणः, व्यासाचार्यास्तु सिद्धान्तिन इति तु वयं पश्यामः । अन्यधाग्रहणेनातिनः पूर्वपक्षिणः, यथार्थग्राहणेन श्रीभाब्याकारानुसारिणो व्यासाचार्या वा सिद्धान्तिन इति कल्पना तु कुत्राप्यधिकरणान्तरेष्वद्वैतवादस्य निरस्यत्वे सूत्रकाराभिते विज्ञात एव संभवति. नान्यथा । व्यासाचार्या हि ना?- वर्तत" इति .

Nowww । अद्वैतमार्तण्ड.* तवादं स्वानभिमतं कुत्रापि सूचयन्ति । यथाच "वैधाच न स्वमादिवत्" "भाभाव उपलब्धेः” इत्यादीनां निरधिष्ठानार्थारोपवादिसौगतमतनिरासार्थ- त्वमेय, न तु साधिष्ठानारोपवादिमायावादिनिरासार्थत्वम्, तथाऽनुपदमेव व्यक्ती- भविष्यति । "असत्यमप्रतिष्ठमि" त्यादि गीतादिक्यानामद्वैतनिन्दायामतात्पर्यम् । 'असत्यमालिष्ठ ते जगदाहुरनीइवरमिति"तु नाद्वैतवादगोधरन. यन्त्र सेश्वरत्वं साधिष्ठानत्वं चासत्पानामूरीक्रियते। नहि भगवद्गीताऽद्वैत- वादानादज्ञापिका, प्रत्युत तस्यैव समादरणीयत्वप्रतिपादिकेति पूर्वमेवाग्नेयपु. राण-पद्मपुराणादिगत-गीतासारानुसारेण प्रतिपादितम् । तदिदं सिद्धम्-यत पाश्चरात्राप्रामाण्यसमर्थनार्थमेव पाचरात्राधिकरणम् । अत एव शाक्यस्मृति- समान-योगक्षेममेवाप्रमाण्यं पाञ्चरात्रस्य तन्त्रवार्तिके कुमारिलोक्तमुपपद्यते । भगवत्पादसम्मत-सौत्राद्वैतवादस्य व्यवहारदृष्ट्या यावत्ज्ञानं कर्मकाण्डप्रामाण्यादिपरस्य न तामसत्वेनानादरणीयत्वम् । "मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते । मयैव कथितं देवि कलौ ब्राह्मणरूपिणा ।। अपार्थं श्रुतिवाक्यानां दर्शयन् लोकहितम् । स्वकर्मरूप त्याज्यत्वमत्रैव प्रतिपाद्यते ॥ सर्वकर्मपरिभ्रष्टैचधर्मत्वं तदुच्यते । परेशजीवपरिक्यं मया तु प्रतिपाद्यते ॥ ब्रह्मणोऽस्य स्वयं रूपं निर्गुणं वक्ष्यते मया । सर्वस्य जगतोऽपत्र मोहनार्थं कलौ युगे। वेदार्थवन्महाशास्त्रं मायया मयैव कल्पितं देवि जगतां नाशकारणात् ।। मदाज्ञया । जैमिनिना पूर्व वेदमपार्थकम् । निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥" इत्यादीनि पाद्मपुराणगतानि वचनानि सर्वकर्मन्यागम् “सर्व ब्रह्म यदिप्य. यवैदिकम् । .

are wen. -- * अद्वैतमातण्डा* : न्ति संप्राप्ते तुकलौ युगे"इति वाक्यप्रतिपादितकेवलब्रह्मवादम्, व्यवहारदृष्टयोऽपि प्रपञ्चमिथ्यात्ववादादिकं च श्रुतिसिद्धं वदतामिदानीन्तनानां केपांचन सौत्राद्वैत- वादस्वरूपानभिज्ञानां तद्रूषणपराणां वा विषयीकरोति, नतु सौत्रं यथासम्भवं व्यवहारदशायां यावच्चित्तशुद्धि यावत्तत्त्वसाक्षात्कारं चा कर्मानुष्ठानावश्य- कतादिव्यवस्थापनपरमद्वैतवादम् । तथाचेमानि वचनानि परेषामदैतमते प्रप- न्च: शशशृङ्गकल्पोऽसन्नेवेति मायिकस्य प्रपञ्चस्यासत्त्वमित्यन्यथाग्रहणग्राह- णादिकमेव तामसं प्रतिपादयन्ति । अत एव "मायावादमसच्छास्त्रमिति"अस- च्छानपदप्रयोग उपपद्यते। सौत्रो हि भगवत्पादसम्मतो मायावादो नाऽसद्वाद इति नासच्छास्त्रमिति सर्वविदितमिदम् । अत एव-स्वकर्मरूपत्याज्यत्वम्" 'सर्वधर्मपरिभ्रष्ट्रधर्मत्वं तदुच्यते" इत्याद्युल्लेखः सप्रयोजनो भवति । अयमन सारांश:- यत् सत्यमद्वैतवादे जीवब्रह्मक्यं मुक्ती सर्वकर्मकारकादि- वाधश्च भवति, स च सात्त्विक एव, यतो यावत्साक्षात्कारं सर्वसत्यत्ववादेन कर्ममार्गोऽपि तत्र भक्तिमार्गेण साकं परिपाल्यते । यस्तु पुनः कर्मयोग-भक्तियो. गादिविरोधेन केवलज्ञानयोगमात्राद्यवलम्बनेन च केपांचनाधुनातनानामदैतवादः, स तु तामस एव । इदं हि प्रकरणं भगवद्भक्तानां दैत्यानां भक्तिमार्गविघात. कशास्त्रपवर्तनमेव विषयोकरोति । तेनच भक्तिमार्गविरोधि सर्वमपि दर्शनं तामसमित्येवोक्तसन्दर्भाशयः। भगवत्पादीयस्तु सौत्रोऽद्वैतवादो न तादृश इति न दोपः। यत्तु-निरीश्वरवादस्य पूर्व जैमिनिप्रवर्तितस्य तामसत्यमत्र चर्णितम्, इदमपि जीवेश्वरविभागेन भक्तिमार्गस्यापि प्रवर्तनमपेक्षितं जैमि- निना न कृतमित्येव गमयतीति न विरोधः । श्रीभाष्यकारसम्मतविशिष्टाद्वैतवादस्यैव तामसत्ये उक्तपद्मपुराणतात्पर्यम् । तदिदं सिद्धम् - यत् न भगवत्पादप्रवर्तितोऽद्वैतवादो न तोमसः, किन्तु श्रीभाष्यसम्मतो विशिष्टाद्वैतवाद एव : यतः-पद्मपुराण एव गीतासारोप. बृहणव्याजेनाद्वैतवाद एव समर्थितः । श्रीभाष्यकारा हि पूर्वोत्तरयोर्मीमांसया- रैकशास्त्र्येण स्वायं सिद्धान्तमुपक्षिपन्तो जैमिनीयकर्मविचारेण साकमेव संपू- , * अद्वैतमातण्डा* र्णतां ब्रह्ममीमांसाया मन्यन्ते । जैमिनीयं तु शास्त्रं तामसमित्यनुपमेवोपक्षि- सं पद्मपुराणवचनानुसारेणेति तामसत्वमंशविशेपे नियतमूरीकर्तव्यम् । अनेन हि विज्ञायते यत् ब्रह्ममीमांसायाः पूर्वमीमांमपा साकमेकत्वेन विवर- णादिकमेव तामसमिति तद्भिन्नवाक्यतया ब्रह्ममीमांसायोजनेन प्रवृत्ता से- श्वरभक्तियोग-कर्मयोगोऽदैतवाद एव प्रामाणिकः। जैमिनीयमीमांसाया एवं सेश्वरमीमांसात्वेन योजनं तु न व्यासाचार्याभिमतम् , यतः- “निरीश्वरण वादेन" इति स्पष्टं जैमिनीयमीमांसाया निरीश्वरत्वं पद्मपुराणे व्यासाचार्या मन्यन्ते। एतेनान्यत्र जैमिनेरपीश्वरनिरासेऽतात्पर्यमित्युक्तिरपि व्याख्याता। न हि सा व्यासाचार्याभिमतेति तु निष्कर्षः। अस्मिन् हि प्रकरणे सात्त्विक- राजस-सामसदर्शनगणनप्रसङ्गे पाञ्चरात्रं तु शास्त्रत्वेनापि न परिगणिनमिति तत्प्रामाण्येऽपि पद्मपुराणं नानुकूल मिति प्रतिभाति। श्रीमद्भागवतं तु-श्रुति- गीतादिस्वारस्यसमालोचनेऽदैत एच स्वरसमिति प्रसङ्गान्तर विवेचयिष्यते । वस्तुतस्तु-श्रीमद्भागवतसम्मतः शुद्धादैतवादः, केवलाद्वैतवादः, विशिष्टाद्वै. तवादः, दैतवादो वेति विप्रतिपन्नोऽयं सांप्रतं विषयः। सर्वथातु पाञ्चरात्रमा- माण्ये सूत्रकाराणामतात्पर्यात् न सत्राक्षरानुगुणं श्रीभाष्यकाराणां पाञ्चरात्रा- धिकरम् । वाशब्दस्वारस्येन "विज्ञानादिभावे वा" इति सूत्रस्य न सिद्धान्तसूत्रत्वसम्भयः । सत्यं चाशन्दः पक्षान्तरपरिग्रहे पूर्वपक्षनिरासेऽवधारणे वा स्वरसः । समुचपार्थेऽपितु फचित् “महद्दीर्घवढा हस्वपरिमण्डलाभ्याम्" "अन्तवत्त्वमसर्व- ज्ञता वा" इत्पादौ प्रयुज्यत इति श्रीभाप्यानुयायिनोऽपि नापहोतुमोशते । हितीयाध्यायहितीयपादे हि प्रायेण प्रत्यधिकरणं चशब्दोऽपिठान्दो वा प्रयुज्यते । तत्र प्रथमान्तेन चशब्दः सप्तम्यन्तेनापिशन्दः । अपिशब्दोऽपि “समुदाय उभयहेतुकेऽपि" इत्यादी पक्षान्तरपरिग्रह एव पर्नत इति "विजानादिभावे "ति मुत्रेऽपि पक्षान्तरपरिग्रहेऽपि न दोषः ; पतः पक्षान्तरमेवेदं "विज्ञानादिभावी जोवानां सङ्कर्षणादीनाम्, यदवलम्पनेनोत्पत्यभावः समयते। नहि चाशन्दः * अद्वैतमातण्ट: * सर्वत्र पूर्वपक्षनिरासार्थ एव ; अन्यथो "अन्तवत्त्वमसर्वज्ञता या" इति सिद्धान्त. सूत्रम्, "पत्युरसामञ्जस्यादि"त्यादि पूर्वपक्षसूत्रमापद्येत । "विज्ञानादिभावे या तदप्रतिषेध"इत्यत्र तदप्रतिषेधपदार्थविचारः । सति चैवं "विज्ञानादिभावे वा तदप्रतिषेधः" इति सूत्रे तदप्रतिपेधपदेन क्रमिकोत्पत्यसंभवाप्रतिपेध एव विवक्ष्यते, न तु पाश्चरात्रप्रमाण्याप्रतिषेधः । पाश्चरात्रप्रामाण्यं यत्र साधनीयं पूर्वपक्ष्युपक्षिप्ताप्रामाण्यहेतुनिरासेनैव साधितं भवति । विज्ञानादिभावेन तु तत्प्रामाण्यप्रतिपेधासंभवोप्युत्पत्त्यसंभवाभ्यनु ज्ञानेनैव वक्तव्यः । तथाच विज्ञानादिभावेनोत्पत्त्यसंभवात् जीवानां पाश्चरात्रप्रा. माण्यमेव यद्यत्र वाक्यार्थः, तर्हि पूर्वोत्तरपक्षयोरेकहेतुकत्वं पर्यवस्यति । पूर्वपक्षि- णापि उत्पत्त्यसंभवादप्रामाण्यमुक्तम् , सिद्धान्तिनाप्युत्पत्त्यसंभवेनैव प्रामाण्यमु- च्यते । इदं च व्याहतम् । अस्मिंश्च पक्षे "विप्रतिषेधादि"ति सूत्रमपि वितथमेव अनेनापि हि सूत्रेण श्रीभाष्यकाराः उत्पत्तिप्रतिपेयमेव जीवानां प्रतिपादयन्ति । विज्ञानभावप्रतिपादनेन यर्थसिद्ध उत्पत्तिप्रतिषेध इति किं वा प्रयोजनमस्य सूत्र- स्येति भवन्त एव विवेचयन्तु। अद्वैतसम्मते तु विवरणे-तप्रतिषेधपदेनोत्पत्त्य- संभवाप्रतिषेधविवक्षणात् विज्ञानादिभावेन नित्यत्वमुत्पत्तिश्चेति व्याघातबोध- नाच सूत्रद्वयेनाप्यप्रामाण्यव्यवस्थापनमेव क्रियत इति न दोषः। अयं भावः- "तदप्रतिपेध"पदे तत्पदेन सूत्रकारा उत्पत्यसंभवमेव स्वशब्दोपत्तं परामशन्ति । सूत्राणां न्यायप्रधानानां सनि संभवे न्यायसंभवासंभवस्थापनार्थत्वस्यैव युक्तत्वा- त् । पूर्वपक्षसूत्रेण पूर्वपक्षसाधकनया निर्दिष्टस्य हेतोरेव तु सिद्धान्तसूत्रे तच्छ- न्देन ग्रहणं सांप्रतम् । एतेन तच्छन्देन प्रकृतस्य पाश्चरात्रस्य तत्प्रामाण्यस्य वा पक्षविपर्यासद्योतकेन वाशब्देनोपस्थापिततया परामर्श स्वारस्यमिति शङ्काऽपि- परास्ता। सर्वधातु पाश्चरात्राप्रामाण्यसमर्थनमेव सूत्रकाराभिमतम् । पाञ्चरात्राप्रामाण्यस्यैव सूत्रकाराभिमतत्वे युक्त यन्तर सङ्ग्रहः । "उस्वामिष्यत एवम्भावादित्यौडलोमिः" इति सूत्रे भामतीकल्पतर्यादिपु पाश्चरात्रमतोल्लेखेन हि पाश्चरात्रमतमोडुलोमिमतं चैकमिति प्रतीयते। नह्यो- डुलोमिमतं व्यासाचार्यमतमिति, पाश्चरात्राप्रामाण्यवाद् एव स्थापितो भवति * अद्वैतमार्तण्डः -~-~~-~~ Min जीवोत्पत्तिवादोऽपि नौडुलोमिसम्मत इति कुत इदमवगम्यते ? येन "अनादिर्जीव इति पाश्चरात्राभिन्नत्वेनौडुलोमिमतमिति न शक्यापहवम् । औडुलोमिन जीवो. त्पत्तिवादी'त्यादि शङ्कानामवसरः स्यात् । तदिदं सिद्धम्-यत् न पाश्चरात्राधि- करणमिदं श्रीभाष्यकाराणां सूत्राक्षराद्यनुगुणमिति । सर्वथातु महाभारतादौ पाच- रात्रोत्कपेप्रतिपादनं विष्णुपरमात्मतावादोपक्षेपणं वा न व्यासाचार्याभिमतमिति न महाभारतानुसारेण विष्णुपाशस्त्यपरत्वं सूत्राणां वक्तुं शक्यते ।। मुबालोपनिषत्प्रतिपाद्यमपि तुरीयनारायणस्वरूपमेव, नतु त्रिमूर्त्यन्तर्गतविष्णुस्वरूपम् । एतेन- सुबालोपनिषदपि-व्याख्याता। अत्र हि 'बीजाज्ञानमहामोहा- पहवाद्यद्विशिष्यते । निर्धाजं त्रैपदं तत्वं तदस्मीति विचिन्तये" इति यदा- स्मना जीवस्वरूपमात्मा ज्ञेयतयोपक्षिप्तः, "किं तदासीदिति प्रश्नसमाधानरूपेण "न सन्नासन्नसदसत्" इति सत्तादिधर्मशून्यं सत्स्वरूपं शुद्ध प्रतिपाद्य तस्यैव महदकारादिसृष्ट्यनन्तरं सर्वतादात्म्यापन्नस्य सहस्रशीपत्वाद्युल्लेखेन सर्वोपाध्युप- हितं तुरीयं चैतन्यमेव पुरुपपदार्थतया प्रतिपाद्यते,नतु लक्ष्मीपतिर्नारायणस्त्रिमूर्त्य- न्तर्गतोऽक्षिद्वयविशिष्ट इति स्पष्टमिदं सर्वेषाम् । सति चै"दिव्य एको नारायण" इत्यादिभिः सर्वतादात्म्येन सर्वशरीरकतया चोक्तोपनिपतित्पाद्यं कारणस्वरूप- मपि तुरीयनारायणस्वरूपमेय, यस्याधिष्ठानं शुद्धचैतन्यमित्युक्तोपनिषदः सारः। अत एव-"अशब्दमस्पर्शमि"त्यादिवाक्यान्युपपन्नानीति, यदि सुचालोपनिपदे- कवाक्यतानुसारेणैध सर्वत्र कारणवाक्येषु गतिस्तावतायि कथं त्रिमूर्त्यन्तर्गत- विष्णुकारणताव्यवस्था ? श्रीवैष्णववादे आकाशाधिकरणादिवैयथ्यंम् । एतेन-आकाशाधिकरणादिपु सर्वत्र सुबालोपनिषदनुसारेण व्यवस्थेति व्याससिद्धान्तमार्ताण्डोक्तिः-परास्ताः; पूर्वपक्षस्यैवानुत्धानात् । पूर्वाधिकरणेपु फारणत्वं विष्णोरेवेति सुबालोपनिपदनुसारेण कारणवाक्येषु निर्णयानन्तरमा- काशादिशब्दैरपि कारणपरैर्विष्णोरेव विवक्षेति न्यायत एव लाभात आकाशश- * अहतमातेण्डः * ब्दस्य विष्णुरुद्रयोरुभयत्र प्रयोगस्यादर्शनाच्च कथं वाऽन्न पूर्वपक्षोथितिरिति पहन्याकाशप्राणायधिकरणानि वितथानि भवेयुः। रुद्रशब्दघटितानामिव नारायणशब्दयटितानामपि नेतरेतरव्यावर्तनेन कारणस्वरूपयोधकत्वम् । वस्तुतस्तु. सूत्रकारैः कुत्रापि मात्रया सर्वत्र सुवालोपनिपदादितात्पर्य गैव कारणवाक्येपु व्यवस्था कर्तव्येति न सृत्रितम् , येन सामान्यशब्दानां तदेकवाक्यतयैव निर्णायकत्वं व्यवस्थापितं स्यात् ; अन्यथा “देवा ह वै स्वर्ग लोकमायंस्ते रुद्रमपृच्छन् को भवानिति ? सोऽब्रवीदहमेकः प्रथममासं वर्तामि भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत्.., यो वै रुद्रः स भगवान् ब्रह्मा तस्मै नमो नमः, यो वै रुद्रः स भगवान् विष्णु- स्तस्मै नमो नमः, यो वै रुद्रः स भगवान् स्कन्दस्तस्मै नमो नमः" इत्यादिभिरथर्व- शिरउपनिपदनुसारेण रुद्रस्यैव ब्रह्मविष्ण्वादिशरीरकस्य सर्वोपनिपत्तात्पर्यविषयत्वं कथं न स्यात् ? शिवोत्कप्रतिपादकमैत्रोय्युपनिषदप्यत्रानुसन्धेया। "स ब्रह्मा स विष्णुस्स इन्द्र" इत्यादि ब्रह्मविष्ण्वादीनामुपक्रमेण किं ब्रह्म ? को ब्रह्मा ? को विष्णुः ? इत्यादि प्रश्नपूर्वकं विष्ण्वायतिरिक्तं ब्रह्म प्रतिपादयन्ती निरालम्बनोपनिषदपि नात्र विस्मरणमर्हति । अयमत्र सारांश:-उपनिषदां सामान्यतो विशेषतो वा प्रवृत्तानाम- विरोधेन समन्वयव्यवस्थापनार्थमेव ब्रह्ममीमांसारम्भ इति सर्वसंप्रतिपन्न- मिदम् । तत्र च विशेषशब्दतया कस्य विवक्षेति विशये तु सत्रकाराः ब्रह्मजिज्ञा- सापदं प्रयुजानाः सुचालोपनिपदादिवाक्यासग्रहणेन "जन्माद्यस्य यतः" इति ब्रह्मशब्दघटितमेव कारणवाक्यं लक्षणवाक्यतया संगृह्णन्तश्च न शैव- वैष्णवादिमतं स्वमतं मन्यन्ते । एवं वदन्तो वयं त्रिमूर्यन्तर्गतस्य शिवस्यैव कारणत्वमिति पक्षमपि न सूत्रकाराभिमतं पश्याम इति निर्मूलैवेयं व्यास- सिद्धान्तमााण्डकाराणां सूत्रयोजना । न हि सूत्रकाराः कुत्रापि स्वीये निवन्धे विषय॑न्तर्गतं विष्णुमेव जगत्कारणं प्रतिपादयन्ति ।

३० * अद्वैतमार्तण्डः * आनन्दमयाधिकरणस्य विष्णुपरताऽसम्भयः । आनन्दमयाधिकरणे अभ्यासेनानन्दमयस्य न विष्णुत्वं साध्यते इति वक्तुं शक्यते; आनन्दमयप्रकरणे कुत्रापि विष्णोरनभ्यासात् । सत्यमादित्या- न्तवर्तिन आनन्दमयस्य चैक्यं “स यश्चायं पुरुषे । यश्चासावादित्ये” इति प्रति- पादितम् ; तावतापि तस्य नारायणत्वं तु न सम्भवति । अन्तरधिकरणविषयवा- क्ये तु न श्रुत्वाऽऽदित्यान्तवर्तिनो नारायणत्वं गम्यते, किन्तु लिङ्गेन । लिङ्ग- तु श्रुतेदु पैलमिति सर्वसम्मतमिदम् । मैत्रायण्युपनिषदि हि -"तत्सवितुर्व- रेण्यमित्यसौ चा आदित्यः सविता स वा एवं प्रवरणाय आत्मकामेनेन्याहुब्रह्म- चादिनोऽथ भर्गो देवस्य धीमहोति सविता वै तेऽवस्थिता योऽस्य भर्गः कं सञ्चि- न्तयामीत्याहुबेह्मवादिनोऽथ धियो यो नः प्रचोदयादिति,बुद्धयो वैधियस्ता योऽस्मा- कं प्रचोदयादित्याहुब्रह्म वादिनोऽथ भर्ग इति, यो ह वा अस्मिन्नादित्ये निहित. स्तारकेऽक्षिणि चैप भर्गाख्यो भाभिर्गतिरस्य होति, भगों भर्जयतीति चैष भर्ग इति रुद्र" इत्पादित्यादिगततया रुद्रपदार्थ एव योध्यते श्रुत्येति, "अन्तरधि. करणविषयवाक्ये श्रीकण्ठभाष्योक्तरीत्या अक्षिणीति द्वित्वस्य ग्रहेकत्ववद्- विवक्षा स्वीकृत्य दयधिकनेत्रस्यैव पूर्वोक्तरीत्या नारायणशाब्दवाच्यस्प ग्रहीत. व्यत्वेन न त्रिमूर्त्यन्तर्गतस्य विष्णोरत्र ग्रहणं भवितुमईति। एतेन आनन्द- मयाधिकरणे -आनन्दमयादित्यान्तवतिनोरक्योपदेशात् आदित्यमण्डलान्तति- नश्च नारायणत्वस्य व्यवस्थापयिष्यमाणतयाऽऽनन्दमयस्यापि नारायणत्वमिति शङ्कापि -परास्ता; सिद्वान्तमार्ताण्डकारा हि-"अजायमानो पहुधा विजायते" इत्यादिवाक्यैकवाक्यतयैव विष्णोरकर्मवश्यत्यमन्तरादित्यवाक्यगतापहतपा- प्मत्येनेपपादयन्तोति पुरुषसूक्तगतं सहस्राक्षत्वमपि लिङ्ग तन्मतविघातकमेव । मान्यवर्णिकसूत्रेण नैत्तरीयोपनिषदो विष्णुपरत्वव्यवस्थापनासम्भवः ॥ एतेन-'सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रे योगरूदेनानन्तपदेन नारा- यणस्यैव व्यवस्थापनात् तस्यैव मान्नवर्णिकस्यानन्दमयशब्दवाच्यत्वमिति शङ्कापि-परास्ता ; अनन्तपदेनैव रूट्या ब्रह्मसमर्पणे ब्रह्मपदयात् । वाम- पदं हि न सामान्यपदम्, किन्तु परमात्मन्येव मुख्यं विशेषपदमेव । अत एव- + . * बहतमातण्डः "परं जैमिनिमुख्यत्वात्" इति मुग्यत्वहेतृपपत्तिः। परिच्छेदाहित्यमेवानन्त- पदार्थ इति श्रीरङ्गरामानुजव्याख्यापि मन्यते भवदीया न नानन्तपदार्थोऽत्र विष्णुरिति । आनन्दमयस्य ह्यात्मा आनन्दः, पुच्छे ब्रह्मेति निर्देशो हि मानन्द- मयः परमात्मा, न वा स विष्णुरेवेति मत एवोपपद्यते । मुबालोपनिषदो न विष्णुसन्तियामित्ये प्रमाणता । सर्वान्तर्यामी ह्यानन्दमयो न विष्णुरिति नेदं भवदीयनारायणास्त्रसुवालो- पनिपदोऽपि सम्मतम् ; यतः सुबालोपनिपदि पञ्चमे खण्डे-'पादावध्यात्म विष्णुस्नवाधिदैवतम्, नाड़ी तेषां नियन्धनम्, यः पादे यो गन्तव्ये यो विष्णौ यो नायो य एतस्मिन्सर्वस्मिन्नन्तरे सञ्चरति सोऽयमात्मा तमात्मानमुपासीताजर- ममृतमभयमशोकमनन्तमिति विष्णोरप्यन्तर्यामी नारायण एवानन्त इति प्रति- पाद्यते। तथाचानन्तपदस्वारस्येनापि मन्त्रिवर्णिको न विष्णुरिति सिद्धयति । अन्तस्तद्धर्माधिकरणस्य विष्णुपरत्वासम्भव, एतेन- 'अन्तस्तधर्मोपदेशात्" इति सूत्रस्थतत्पदेन नारायणविवक्षा- पूर्वकं विष्णुपरत्वव्यवस्थापनमपि सिद्धान्तमार्ताण्डकारणाम्-परास्तम्। पूर्वत्र भवदीयस्य नारायणस्थाप्रस्तुतत्वात्, अन्तरादित्यवाक्योचारणकाले तस्यानुप- स्थितेश्च । वस्तुतस्तु-"नमो हिरण्ययाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्य- पतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः" इति नारायणोपनिपदि हिरण्य- वर्णत्वं नारायणपदवाच्यस्य रुद्रस्यैवावगम्यते, नतु विष्णोस्त्रिमूत्यन्तर्गतस्य । नारायणोपनिषदिति समाख्या पशुपत्यादिशब्देन तस्योपपादनं च मुख्यो नारायण- पदार्थः पशुपतिरेवेति गमयति । नह्यादित्यान्तर्यामी विष्णुः, 'आदित्यो वा एत. मण्डलं तपति ..“य एषोऽन्तरादित्ये पुरुपे हिरण्मयः” इत्यादि वाक्यानन्त- रम्-निधनपतये नमः" इत्यादिना मृत्युञ्जयत्वादिसदाशिवलिङ्गानामेचाम्ना- नादादित्यान्तर्बतित्वं प्रलयाधिष्ठानस्प तुरोयस्यैव प्रतीयते । गायध्यर्थोऽप्यादि- स्यान्तवनी स्तु एवेति पूर्वमेव विवेचितमिति नान्तरादित्यवाक्यप्रतिपाचो विष्णुः । नह्यत्र वाक्ये एकमपि विष्णुलिङ्गं वयं पश्यामः ।

* अद्वैतमार्तण्डः * पुण्डरीकाझत्वमन्तरादित्य पाक्यावगनं न विष्णुलिङ्गम् । पुण्डरीकाक्षत्वं हि समस्तपदप्रतिपाद्यमेव विष्णुलिङ्गम् , नतु व्यस्तपद- प्रतिपाद्यम् । "ब्रह्मण्यः पुण्डरीकाक्षः" "स देवः पुण्डरीकाक्षा" जितं ते पुण्डरीकाक्ष !' इत्यादावपि समस्तमेव पुण्डरीकाक्षपदम् । "कप्यासं पुण्डरीकमेवमक्षिणी" इत्यत्र न विष्णुपस्थितिः । एतेन सूत्रे धर्मोपदेशग्रहणमुपलक्षणम्, पुरुषश्रुति-पुण्डरीकाक्ष- श्रुतिभ्यामप्यादित्यान्तर्वतिनो नारायणत्वावगमादिति शङ्कापि --निरस्ता । विशेष्यपरं रूढं ह्येकं श्रुतिपदेन ब्रह्ममीमांसायां विवक्ष्यते, नतु विशेषण- योधकमेकमनेकानि वा पदानीति, "कप्यासं पुण्डरीकमेव मक्षिणो”ति न श्रुतिः । एतेन ---"यथा कप्यासं पुण्डरीकमेवमक्षिणी" इति विग्रहवाक्येन समस्त पुण्डरीकाक्षपदमुपस्थाप्यत इति कल्पनाप्यसांप्रतमिति-मूचितम् । विग्रह- वाक्येन धनेन कप्पासपुण्डरीकाक्षपदमेवोपस्थाप्येत, नतु पुण्डरीकाक्षपदम् । अनेनेदमपि सच्यते यत् विष्णुलिङ्गस्वमेवास्य पुण्डरीकविशेपसदृशाक्षिद्रय- वयस्य न सम्भवनोति । कप्पासपदार्थस्तु श्रीभाष्यकाराणां भगवत्पादानां च मते विलक्षण इत्यन्यदेतत् । आकाशाद्यधिकरणानां रुद्रादिचेतनान्तर- व्यवच्छेदतात्पर्यासम्भवः । अयं भावः आकाश-प्राण-ज्योतिराद्यधिकरणेषु ज्योतिरादिपदानां वाक्य. विशेषगतानां भौतिकज्योतिरादिनिराकरणेन परमात्मपरत्वव्यवस्थापनमेव यदि सिद्धान्तमार्ताण्डकारामन्यन्ते, तहिं तु नकस्यापीदं विरुद्वम् । यदि त्वाकाशादि- प्रतिपाद्यो विष्णुग्व, नतु मद्रादिरिति मन्यते,नहितु नेदमाकाशस्तल्लिङ्गादिति सूत्रं भवतामनुगुणम् । मान्त्रवर्णिकसूत्रे हि नारायणश्रुतिरनन्तपदमिति भवद्धिरेवोप- क्षिप्तम् । सतिचैवमनन्तत्वमन्तरादित्यरूपं तल्लिनादि" ति लिङ्गतया होतं कथं न विन्दम् ? यस्तुतस्तु-अनन्तपदं योगिकमेव ब्रमपरपु सर्वपु वाक्येपु, तदपि तुरीप एव स्वरसमिति पूर्वाद्धृतम्बालोपनिषदनुसारेण पूर्वमेव सूचितम् ।

* अद्वैतमार्तण्डः * ३३ " " प्राणपदस्य रुद्रनिरासेन विष्णुसमर्पणे न तात्पर्यमित्युपपादनम् । प्राणपदस्याकाशपदस्येव सत्यं ब्रह्मणि प्रयोगो दृश्यते, "पाणस्य प्राण. मि"त्यादौ । विष्णावेव विशिष्य प्रयोगस्तु न कुत्रापि दृष्टचरः “यदिदं किञ्च जगत् प्राण एजति" इति वाक्ये तु "तद्विष्णोः परमं पदमि" ति वाक्यशेपात् सत्यं विष्णुपरत्वं प्रतीयते; परन्तु विष्णुपदार्थोऽत्र व्यापक स्वरूपमेवेति पष्ठ- वल्येकवाक्यतया पूर्वमेव विवेचितमिति न दोषः । अयं भाव:--पष्ठवल्लयाम्-- "तदेव शुक्र तद् ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन" इति ब्रह्मपद्घटितवाक्यानन्तरमेव-"यदिदं किञ्चे" ति वाक्य प्रवृत्तम् । अतोऽपि तु परमात्मैवात्र प्राणपदार्थ इति विज्ञायते । ज्योतिराधिकरणस्य तुरीयपरत्व एव स्वारस्यम् । "ज्योतिश्चरणाभिधानात्” इति सूत्रं चतुष्पाद्ब्रह्मणश्चतुर्थपादत्वाम्नाने- न हेतुना ज्योतिःपदार्थनिर्णायकं यथा भौतिकज्योतिनिरासपरम् , एवं पूर्वो- ताथर्वशिखोपनिपद्गतचतुर्थपादस्याप्युपस्थापनद्वारा ब्रह्म-विष्णु-रुद्रातिरिक्त- पुरुषपद्वाच्य-तुरीयपरमात्मस्वरूपव्यवस्थापकमपि भवितुमर्हति । सत्यं त्रिपा- दस्यामृतं दिवि" इति वाक्यमेवात्र चरणाभिधानशब्देन विवक्ष्यते, तथापि भूतानां पादत्रयत्ववर्णनस्य श्रुत्यन्तरे ब्रह्म-स्द्रादिपावयाभिधानस्य च सति सम्भव एकवाक्यता स्वीकर्तव्येति भूतपदेन (भौतिक) सात्त्विकादिरुद्रादिविव. क्षणात् नानुपपत्तिः । अत्र चतुर्थपादस्य "दिवि" इति वर्णनेनामाकृतत्वमेवा- भिप्रेयत इति तत्वम् । सर्वथा तु तुरीयस्यैव परमात्मनो योधन एव ज्योतिरधि- करणस्वारस्यम् । अनेन पुरुषसूक्तस्यापि - पुरुषविषयकत्वम् , तस्य च चतुर्थ- पादत्वोपक्षेपश्च नितरामुपपद्यते । सति चैवं व्याससिद्धान्तमार्ताण्ड- फारा:-पुरुपसूक्तेऽपि 'पादोऽस्य विश्वा भूतानि त्रिपादस्पामृतं दिवि" इति वाक्यस्यामननात् तदेकवाक्यतयैवार्थो वर्णनीय इति यदन्ति, तदपि दत्तो- त्तरमेव ; यतो वयमपि पुरुपसूक्तकवाक्यतामेवात्र स्वीकुर्मः । इयान विशेषः यत्-पुरुषसूक्त' विष्णुपरमिति मार्ताण्डकाराः, वयं तु पुश्पपदमुख्या- तुरीयपरमिति । सर्वधा तु न म्द्रादिनिरासेन विष्णुपतिपादनार्य ज्योतिरधि. - युक्तम्। * अद्वैतमार्तण्डः ५ करणम् । आकाशप्राणशब्दयोरिव ज्योति पदस्थापि विशिष्य रुद्रविष्ण्वोः प्रयोगस्यादर्शनान्न संशयोत्थानमिति तु दूषणमत्राप्यविशिष्टमेव । प्रतर्दनाधिकरणस्यापि न रुद्रनिरासेन विष्णुव्यवस्थापने तात्पर्यम् । इन्द्रप्रतर्दनाधिकरणे प्राणादिपदस्य परमात्मपरत्वे न कस्यापि विवादः । स हि विष्णुरेव, तस्यैव शास्त्रदृष्टचा सर्वान्तर्यामित्वेनात्मत्वेनेन्द्राथहंमतीति विषयत्वमिति तु न वयमनुमन्यामहे । “शास्त्रदृष्टया तूपदेशः” इति शास्त्रदृष्टि- पदं हि सूत्रकारैरहङ्कारपरित्यागेन चैतन्यस्वरूपमभिप्रेत्यैव प्रयुक्तम्, अतो नाऽहं- प्रतीतिविपयत्वं लोकसिद्धमत्र 'मां' पदार्थसमालोचनावसरे ग्रहीतव्यमिति । लोकदृष्टयाऽऽत्मनोऽहंप्रतीतिविपयत्वम् , शास्त्रदृष्ट्या तु न तदिति तु विशेषोऽत्र शास्त्रदृष्टिपदेन योध्यते । अनेन च कल्पितोऽहंकारसम्बन्धः, तत्त्वतस्तु न स प्रत्यगात्मन इति गम्यत इति सर्वान्तर्यामित्वमपि शुद्धस्य चैतन्यस्यैव तदन्तर्यामित्वं नाम तदधिष्ठानतया सर्वानुस्यूतत्वेन नियन्तृत्वम् । न चैतत् शरीरशरीरिभावप्रयुक्तम् , क्रियादीन्यपि हि नियम्यानीति तदन्तर्यामित्वमपि परमात्मनो ह्यवश्यमूरीकर्तव्यम् । न च क्रियया साकं शरीरशरीरिभावेन सामानाधिकरण्यं परमात्मनः श्रीभाष्यसिद्धान्तेऽपि संभवति । तुरीयस्यैव शास्त्रदृ'ट्यात्मत्वव्यवस्था । ततश्च सर्वानुस्यूतत्वनियन्धनमेवान्तर्यामित्वं परमात्मन इति पूर्वोक्ता- थर्वशिखोपनिषदादिस्वारस्यात् भवदीयनारायणास्त्रमुबालोपनिपदीयपञ्चम- खण्डानुसाराच तुरीयमेव ब्रह्म-विष्णु-द्धातिरिक्तमन्तर्यामिस्वरूपमिति, "मामु- पास्वे" त्यादिनेन्द्रादियोध्यमानमपि तुरोयमेव भवति । स एव हि शास्त्रह- प्ट्यात्मा। सति चैवं गीतागतम् , अथर्वशिरउपनिषद्गतमिन्द्रप्रतर्दनाख्यायि. फागतं वा मापदं तुरीयमेव विषयोकरोनीत्येव युक्तम् । यत्तु- तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे । सम्पूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥ अहमादिहि भूतानां विश्वेषां पाण्डुनन्दन । तस्मादात्मानमेवाग्रे रुद्रं सम्पूजयाम्यहम् ।।

* अद्वैतमातण्डः । इति वचनजातम् , इदमपि तुरीयाशयमेव! 'देवा वै स्वर्ग लोकमार्य: स्ते रुद्रमपश्यन् को भवानिति । सोऽत्रवोदहमेकः प्रथममासं वामिइत्यादि प्रतिज्ञाय “यो वै रुद्रस्त भगवान विष्णुस्तस्मै नमो नम्" इत्यादिना विष्ण्वाद्या- स्मत्वं रुद्रस्य प्रतिपाद्यमानमपि तुरीयाभिप्रायमेव । अत एव "किं ब्रह्म ? को ब्रह्मा ? को विष्णुः ? को रुद्र इति ब्रह्मणो ब्रह्म-विष्णु-रुद्रातिरेकेण प्रश्न उपपद्यते । . भगवद्गीतादिगतमापदस्यापि वासुदेवातिरिक्तपरत्वम् । अत एव-स्वयं स्वस्य ब्रह्मांशत्वोपपादनपूर्वकम् -"मामुपास्वे"ति प्रति- प्रतिपाद्यमानं ब्रमस्वरूपम् -"ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्राम- यन्सर्वभूतानि यन्त्राख्दानि मायया। तमेव शरणं गच्छ” इति परोक्षतयाऽति. रिक्तरूपेण निर्दिश्यते। अत्र- परोक्षतया ब्रह्मस्वरूपनिष्कर्पण हि भगवान् वासुदेव एवं स्वयमहंकारपरित्यागेनैवान्तर्यामिस्वरूपं ज्ञेयं प्रतिपादयतीति, शरी- रशरोरिभावेनाहमित्येव परमात्मापि मुक्तावपि शेय इति निरस्तं भवति । अनेन च यावदहम्भावं वासुदेवोऽपि विभूतिकोटिप्रविष्ट इत्येव गीतासारः । अत एव- वृष्णोनां वासुदेवोऽस्मीत्यहम्भावेन साकमेव स्वस्य विभूतित्वनिर्देश उपपद्यते । अथर्वशिरउपनिषदाक्यानां रुद्रान्तर्यामिविवक्षायामप्यदोषत्वम् । एतेन-"मत्तोऽन्यन्नास्ती"ति प्रतिज्ञाय वक्ष्यामाणवाक्येप्वहंशब्दार्थवि- चरणाय मध्य आह - "सोऽन्तरादन्तरं प्राविशत् दिशश्चाभ्यन्तरं स प्राविशत् सोऽहमि"ति । अत्र तच्छन्दः मसिद्धनारायणपरामशी"ति सिद्धान्तमार्ताण्डो- क्तिरपियाख्याता; यतो वयमपि तुरीयमेव नारायणपद्वाच्यं रुद्राद्यन्तर्यामिणं "मां" प्रतीतिविषयमन्त्र मन्यामहे । यदि तु मार्ताण्डकारा अपि तुरीयं नारायण- मेव सर्वत्र मन्यन्ते, हितु विष्णोरपि कार्यत्वेऽपि रुद्रस्येव न हानिरिति व्यर्थ शि- चविद्रोहणम् । अयं भाव:--'स प्राविशत्" सोऽमिति वाक्यदयेऽपि तच्छ. ब्देन म्द्रस्यैव ग्रहणम् ; प्रकृतत्वात् । इयान विशेषः – यत् सोऽन्तरादिति वाक्ये- उईकारपरित्यागेनान्तर्यामितुरीयात्मना तय ग्रहणं भवेशोपपादनार्थम्, अनन्त- रन्तु सोहमिति साहवारस्य तस्य ग्रहणमिति , पनस्तुरीयस्य प्रवेशनियन्धन * अद्वैतमार्तण्डः * एवाहम्भाव; न तु स्वतः। सति चैवं नानुपस्थितार्थपरामर्शदोपः समापतति । अत एच-ब्रह्मादिनेव विष्णुनापि तादात्म्यमत्र 'यो वै रुद्रः स भगवान् विष्ण- विष्णुस्तस्मै नमो नमः” इति योध्यमानमुपपद्यते । अत्र ब्रह्मादिप्रायपाठात् विष्णुरपि कार्य एवेति गम्यते । मुक्तावहम्भावाननुवृत्तिः। अनेन हि विज्ञायते- यदहङ्कारसम्बन्धश्चैतन्यस्य काल्पनिकः, न नित्यो न वा मुक्तिकालावस्थायीति । अयमेव च बादरायणाभिमतः शास्त्रार्थ इति--- "प्रबुद्धो ह्यभिमन्येत योऽयं नाहमिति प्रभो। इति मुक्तिदशायामहङ्कारनिवृत्ति- प्रतिपादनावगम्यते । सति चैवं वामदेवादीनामहं मनुरभवमिति साहंकारव्यपदे- शानुवादः श्रुतेर्लोकदृष्टिमनुसृस्य ; शास्त्रदृष्टया तु निर्मुक्ताहकारं चैतन्यमेवैता- दृशस्थलेष्वह' मामादिपदार्थः। यथाचाहङ्कारस्य मुत्त्यनन्वयेऽपि "अहं मुक्तः स्यामितीच्छोपपत्तिस्तथा श्लोकवार्तिकाद्यवष्टम्भेनाद्वैतदोपिकायामस्मदीयायां व्यक्तं विवेचितम् । तत्वमस्यादिवाक्येपु स्वरूपैक्यनिवन्धनमेव सामानाधिकरण्यम् । ततश्च स्वरूपपैक्यनिवन्धनमेव सामानाधिकरण्यं तत्त्वमस्पादिवाक्येषु, न तु परमात्मनः स्वस्मिन् व्याप्तिनियन्धनमित्येव बादरायणाशयः, यतो बादराय- णाचार्याः स्वयमेवोपाधिक एव - जीवबहुत्व-तदणुत्व-तदनित्यत्व-तत्कर्तृत्व-तदं शत्व-तज्ज्ञानाश्रयत्वादिव्यपदेशो न वस्तुगत्येति विवेचनपूर्वक "न स्थानतोऽऽपी" त्यादिसूत्रे प्रमनिर्गुणत्वमेव स्वाभाविक प्रतिपादयन्ति । सूत्रेषु भेदपरामर्शस्यादैतसिद्धान्ताविरोधित्वम् । यस्तु-"भेदव्यपदेशाच" इत्यादिभिः सूत्रः सूत्रकार दोपन्यासः, स साहवारजीवचैतन्यस्येश्वरस्य च यावन्मुक्ति विद्यमानभेदगोचरः। 'कल्पित. भेदपरत्वमेतेपां सूत्राणामिति वाक्येन व्यावहारिकसत्यभेदपरतैव विवक्ष्यते, नतु प्रतिभासिफभेदपरता । व्यावहारिकत्यं नाम यावद्ब्रह्मसाक्षात्कारमनुवर्त- मानत्वमिति, बामदेवादीनां नासाक्षात्कारानन्तरं कारणेश्वरभावमाप.

wwww * अद्वैतमार्तण्डः * लानां कारणस्येश्वरस्येचानेकजीववाद ईश्वरभावत्यैव मुक्तित्वात् मायिकाह- माकारवृत्त्या ऽहं मनुरभवमि" त्यादिव्यपदेशो नानुपपन्नः । असत्यभेदेन सत्यवस्तूपदेशसम्भवः । एतेन-तयोः कल्पितभेदः प्रतिपाद्य इति त्ववहेयम् । प्रथममेव मोमु- समानान् पुरुषान्प्रति तन्मोहशान्तये परमार्थोपदेशाय प्रवृत्तः सूत्रकारो मोह द्विगुणयत्यपरमार्थोपदेशेनेति कल्पनायोगादिति शङ्कापि-परास्ता ; भावानव- योधात् । कल्पितभेदोपदेशवादिनो ह्यदैतिनोऽसत्येन भेदेन सत्यवस्तूपदेशं योग्यं मन्यन्ते, यतो विचार प्रति प्रसक्तिमानं विषयाणामपेक्ष्यते, नतु सत्य- त्वम् । अधिकं खण्डनखण्डखाद्यतोऽधिगन्तव्यम् । असत्येनापि वस्तुना सत्य- वस्तूपदेशो हि बहुतरानुभवसिद्धः। तदुक्तं हरिणा-"उपायाः शिक्षमाणानां यालानामुपलालनाः। असत्ये वर्मनि स्थित्वा ततः सत्यं समीहते" इति । तथाच कल्पितत्वेऽपि भेदस्य परामर्थतो मिथ्यात्वस्यैव विवक्षणात् व्यावहारिक- भेदेन सूत्रकाराणां विचारो नानुपपन्नः । सर्वथा तु स्वरूपैक्यनियन्धनमेव सा- मानाधिकरण्यं तत्वमस्यादिवाक्येषु । शरीरशरिभावेन सामानाधिकरण्यस्या- पृथसिद्धाभेदविषयस्यैव हि कल्पना स्वकपोलकल्पना, नतु स्वरूपैक्यनिय. न्धनस्य सामानाधिकरण्यस्य । शरीरशरीरिभावनिवन्धनसामानाधिकरण्यनिरासः । न हि कुत्रापि प्रवेशनिवन्धनं सामानाधिकरण्यं नियन्तृत्वाधीनं वा मुख्य दृष्टचरम् । अहं गच्छामीत्यादावपि शरीरस्य चैतन्येऽध्यासनियन्वनमेव सामा- नाधिकरण्यम् । सामानाधिकरण्यं हि विशेषणविशेष्यभावनियन्धनं पाधा- नियन्धनमभेदनियन्धनं चेति त्रिविधमेव "नीलं घटमानय" "इदं रजतम्" "उद्भिदा यजेत" "सा वैश्वदेवी आमिक्षा" इत्यादी वा दृश्यते । तन सत्यं शक्तिरजनादिपारमार्थिकताभिमानिनां मते पाधायां सामानाधिकरण्यं विपति- पन्नम्, अभेदे तु तन्न विप्रतिपन्नमिति न दोषः । सर्वविज्ञानयाधायें हि "अहं स्थूलः" "अहं गच्छामीत्यादिविज्ञानं गौणसामानाधिकरण्यगोचरमिति वक्त- व्यम् । नहि गन्तृत्वादिकमात्मधर्मः । गौणो फल्पना तु प्रसिद्धभेदयोग्य वस्तुनो- । - AIMA * अद्वैतमार्तण्डः * भवति नान्यत्रेति व्यक्तमिदं भामत्यादौ। यावत्तत्त्वसाक्षात्कारं शरीरात्मभे. दस्तु कस्यापि न प्रत्यक्षः, साक्षात्कारानन्तरं तु न शरीरमेव समस्ति । तदु- क्तम्-"अशरीरं शरोरेख्वि" ति । अनेन चेदमेव विज्ञायते-यत् ब्रह्माशरीर- मेव सत् कथं सर्वशरीरं भवतीति ? अन्तर्यामित्राह्मणं तु नियम्यत्वेन शरीरसमानत्वेन शरीरमिव पृधिव्यादिकं विपयोकरोति, नतु शरीरशरीरिभावम् । अधिकमस्मदीयपरिभापाव्याख्यायामुपसंहारे भूमि- कायां च व्यक्तम् । तदिदं सिद्धमशरीरस्य ब्रह्मणो जीवादिभिस्तामानाधि- करण्यं न शरीरशरीरिभावनिवन्धनम् । नान्यव्याप्त्याऽन्यस्य सामानाधि- करण्पसम्भवः। पारमार्थिक सर्वगत्वादनन्तस्ये"ति वाक्ये तुरीयेनैव प्रह्लादस्य सामानाधिकरण्यानुभवव्यवस्था । "सर्वगत्वादनन्तस्य स एवाहमवस्थितः" इत्यत्रापि सर्वगत्वमेवान- न्तस्प स्वेन सामानाधिकरण्यप्रयोजक मन्यते, सर्वगत्वं हि सर्वत्रानुवर्तमानत्व- मधिष्ठानत्वरूपमेव । नहि लक्ष्मीपतेः पुण्डरीकाक्षस्य वा तेन रूपेण प्रवेशः । अत एव-मत्तः सर्वमहं सर्वमित्युपपद्यते । अन ह्यहम्पदेन स्वरूपचैतन्यमात्रविवक्षणे- नैव "अहं सर्वमि"त्युपपद्यते,यतस्तदेव सच्चिदानन्दरूपेण सर्वत्रानुगतम् । यथाच शाम्हाधिस्सिटरमात्मस्वरूपमा तुरीयमेवाहारादिसम्बन्धवर्जितम्, तथा पूर्वमेव विवेचितम् । सर्वथातु विष्ण्वभिप्रायं न तत्वमसीति सामानाधिकरण्य- मिति तु निष्कर्षः । सति चैवम्-'अहं मनुरभवम्' "अहमेव वामि" इत्या- दिवामदेवदादियाक्यं न तुरीयनियम्यतया तत्र तत्र स्तुतं विष्णु शास्त्रदृष्ट्यात्मानं विषयोकरोतीति, "शास्त्रदृष्टया तृपदेशो वामदेववत्" इति सूने तन्त्रेण घाम- देवपदेन म्द्रस्यापि ग्रहणेनाथर्वशिरउपनिषदर्थसंग्रहणेन रुद्रान्तर्याम्यपि विष्णु रिति गम्पन" इति सिद्धान्तमार्ताण्डोक्तिरपि-प्रत्युक्ता ; यतो नोक्तेनोपनिषद- चनेन विष्णुरन रुद्रान्तर्यामीति गम्यते, प्रत्युत विष्णोरेव वान्तर्यामी रुद्र ति गम्यते । अत एव तत्र प्रमादिभिरिव विष्णु नाऽपि रुद्रस्य सामानाधि- १५५ योधितमुपपद्यते । । .

* अद्वैतमातण्डः। "अहं मगुरमधम्" इत्यादि वामदेवादिवाक्येऽविरोधसमर्थनम् । यत्तु-वामदेवस्य हि तथा व्यवहारः ब्रह्मसाक्षात्कारनियन्धनस्तत्र श्रुता। अदितीयब्रह्मसाक्षात्कारे च सकलभेददर्शननिवृत्तभवद्भिमतत्वात् स्ववाक्य- कदेशविरोधः, जीवन्मुक्तत्वादामदेवस्याविरोध इति कल्पना तु न संभवति ; ज्ञाने सत्यज्ञानानुवृत्तिवादस्य पाधितत्वात्' इति सिद्धान्तमार्ताण्डका- राणां वाक्यजालम् , तदिदं वामदेववाक्यगताहंपदस्य शास्त्रदृष्टतुरीयचैतन्य- रूपात्मपरत्वात्, तस्य च मन्वादिभावाविरोधादनवसरम् । अन्यथा मार्ताण्डकार- मतेऽपि वामदेवस्य लोकसिद्धस्वस्वरूपेण मन्वादिभावासंभवात् कथं न स्ववाक्यक- देशविरोधः ? "तद्वैतत्पश्यन् ऋपिर्वामदेवोऽहं मनुरभवमि"ति श्रुतेरयमनुवादः । श्रुतिश्चात्राहंपदेन लक्षणया चैतन्यमानानुभवं तदीय 'महं मनुरभवम्" इत्यादि- रूपेणानुवदितुं शक्नोत्येव । अनेन ह्यनुवादेन श्रुतिः सर्वात्मभावमेव वामदेवस्य प्रतिपादयति, न तु भेददर्शन मिति कथं वाऽत्र विरोधशङ्कापि ? अयमाशयः- किमत्र मुक्तावहम्भावानुवृत्तिविरुद्वेति मन्यते, उत वामदेवपदव्यवहार्यत्वम् । अहं- पदेनात्र शुद्धस्यैव चैतन्यस्य विवक्षणात भूतपूर्वगत्याऽहंपदेनेव वामदेवपदेनापि श्रु- त्योपदेशे याधकाभावाच न कोऽपि विरोधः । वस्तुतस्तु मुक्तावपि यावत्सर्वमुक्ति जीवानेकत्ववादे ईश्वरभावात् तस्येव मायिकाहम्भावव्यपदेशो न दोपाय । "मामुपास्वे"ति मांशब्देनैव परमात्मन उपदेशनिमित्तमपि प्रत्यगात्मस्वरूपमेव ब्रह्म न ततोऽतिरिक्तमिति सूचनमेव । सर्वधातु- "अहं मनुरभवमिति नि- देशो न लाकसिद्वात्माभिप्राय इति तत्त्वम् । लोकसिद्धो यात्मा भेदर्शनमर्हति, न तु श्रुतिसिद्ध इति न तदृष्ट्या भेददर्शनानुवृत्तिरपि वर्तते। व्यवहत दृष्ट्र- यातु कस्पितो भेदः शुद्धेऽपि ब्रह्मणि न दोपावहः । तदुक्तम्- 'अक्षमा भवतः केयं साधकम्बकल्पने। किन्न पश्यसि संसार तत्रैवाजानकल्पितम्" -इति । तथाच - "अहंमनुरभवमिति नेदं वामदेवयाक्यम्, किन्तु शुद्धचैतन्पाभिमायेण श्रुतिवाक्यमिति निष्कर्षः । सर्वप्रसिद्धाधिकरणस्थापि सिद्धान्तमार्ताण्डकारानानुगुण्यम् । एतेन -"सर्वत्र प्रसिद्धोपदेशात्" इत्यापि - व्याख्यातम् । सर्वतादा- १ * अद्वैतमार्तण्डः * त्म्यं हि यत्र भवति, तदेवान ब्रह्मस्वरूपमिति सर्वसम्प्रतिपन्नम् । तच तुरीयमेवे. त्यत्रैव सुबालोपनिपदमार्वशिखोपनिपदा पुरुषसूक्तानां च तात्पर्यमिति विवेवि. तमिति न "सर्व खल्वि"ति वाक्येऽपि विष्णोरेव विवक्षेति युक्तम् । "अत्ता चराचरग्रहणादि"त्यादिसूत्राणां विष्णुपरत्यासम्भवः "अत्ता चराचरग्रहणात्" इति सूत्रं तु संहत त्वरूपलिङ्गोपस्थापनद्वारा तुरीयमेव ब्रह्मस्वरूपं “यस्य ब्रह्म च क्षत्रं चे" ति वाक्यप्रतिपाद्यं गमयति, नतु संरक्षणैकदीक्षं विष्णुम् । यथाच कठवल्या अपि विष्णुपद्घटितायाः प्रकृतेन मतेनैकवाक्यता, तथा बहुशो विवेचितम् । एतेन-गुहाधिकरण- मपि-व्याख्यातम् । सुबालोपनिषदाद्यनुसारेणैव सर्वत्र पुरुषपदार्थस्य विष्णुत्व- मुत्तराधिकरणादिषु प्रतिपाद्यत इति समालोचितप्रायमिमं विषयं न पिष्टपेषणे- न समालोचयितुमिच्छामः । तद्य निष्कपः-सुबालोपनिषत्पुरुपसूक्तायेक वाक्यतया सर्वेषां वाक्यानां कारणपराणां विष्णुपरत्वमिति व्याससिद्धान्त- मार्ताण्डकारा मन्यन्ते । इदं तृक्तेन प्रकारेण नोपनिषत्तात्पर्यविषय इति, न विष्णूत्कपरतया प्रथमाध्यायस्य ब्रह्ममीमांसागतस्य योजनं क्षीदक्षम भवतीति प्रतिभाति । यतः-महाभारतेऽपि तुरीयमेव ब्रह्म नारायणशब्दवाच्यं प्रतिपा- द्यते बादरायणाचायः । केवलबहानुपादानत्वे सांख्यप्रत्ययस्थानासम्भवः द्वितीयाध्याये हि सूत्रकाराः प्रथमाध्यायसिद्धे कारणस्वरूपे सांख्यादि- स्मृनि-युक्तयनुभवविरोधमाशङ्कय समादधत इति वस्तुस्थितिः। इदं प्रथमा. ध्यायव्यवस्थापितस्य कारणस्य ब्रह्मणः स्वरूपत उपादनत्वपक्ष एव सावसरम्, नान्यथा ब्रह्मात्मकप्रकृतिपरिणामवादस्य प्रथमाध्यायप्रतिपादितत्वे । हि सापादिमन इव प्रकृतेरेय मुख्यमुपादानत्वमिति, न साडव्यस्मृत्या योगस्मृत्या वा विरोधशङ्कापि-प्रसरति । सत्यं न साङ्ख्य-योगस्मृत्योः प्रकृतेः ब्रह्मात्मकत्यमूरीक्रियते, श्रीभाप्यादिमते तु तत्स्वीक्रियत इति समस्ति विशेषः, परन्तु प्रथमाध्यायप्रतिपाद्यं न प्रकृतेर्ब्रह्मात्मकत्वम्, किन्तु कारणं ब्रह्मस्वरूप. मेवेति, प्रत्यकारणत्वे विरोयशङ्कानिरसनमेव द्वितीयाध्यायकार्गम, नतु प्रकृते. तत्र - * अद्वतमातण्डः* ४१ ब्रह्मात्मकत्वं संभवति वा न वेति । न हि कुत्राप्यधिकरणे प्रथमाध्याये ब्रह्मा- त्मकप्रकृतिपरिणामवादः समर्थितः। "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादि ति हि ब्रह्मण एवं स्वयं प्रकृतित्वं सूत्रयन्ति, नतु ब्रह्मात्मकप्रकृतरिति सर्वविदित- मिदम् । सति चैवं ब्रह्मणः प्रकृतेश्च शरीरशरीरिभावसमर्थनेनाविरोधसमर्थन- माकस्मिकमेव संपद्येत । ततश्चेदमत्र नियतं स्वीकर्तव्यम्-यत् ब्रह्मप्रकृतित्व- मेव प्रथमाध्यायवस्थापितं साङ्ख्यस्मृतिविरोधेनानुपपन्नमाशङ्कयत इति । केवलं ब्रह्मोपादानत्यव्यवस्थापनं च न श्रीभाष्यदिशा भवति, किन्तु भगवत्पादभाष्य- दिशैवेति सापप्रत्यवस्थानमसम्भवदुक्तिक स्यात् श्रीभाष्यमतस्यैव सूत्रा- रूढत्ये। सूक्ष्मचिचिद्विशिष्टं ब्रह्म कारणम् , स्थूलचिदचिद्विशिष्टं ब्रह्म कार्यमिति श्रीभाष्यसिद्धान्ते हि न विशेष्यांशस्य ब्रह्मणः कारणकोटौ कार्यकोटौ वा प्रवेशेन परिणामिपरिणामभावः, किन्तु विशेषणभूतयोः मूक्ष्मस्थूलचिदचितोरेवेति तयाविशिष्टयोर्वा सलक्षणत्वात् कार्यकारणभावे न साख्यानां प्रत्यवस्थानं स. म्भदुक्तिकम्। उपोद्घातत्वेन केवलब्रह्मपरिणामवादस्वीकारात् अद्वैतमते सायप्रत्यवस्थानोपपत्तिः अद्वैतमते तु सत्तात्रैविध्यवादः सत्तैक्यवाद इति मतद्वयं वर्तते । तत्र मथममते घटादीनां ब्रह्मणः शुक्तिरूप्यादीनां च व्यावहारिकं पारमार्थिक माति- मासिकं च सत्त्वं पृथक् पृथगरीक्रियते । द्वितीयमते तु ब्रह्मण एव सत्त्वम्, घटा दीनां तु सत्तादात्म्यमात्रम् , न सत्त्वमिति सिद्धान्तः। तत्र, मतद्वयेऽपि ब्रह्म विवर्तोपादानमेव वस्तुगत्या । तत्र प्रथममते कार्यविषमसत्ताफकारणन्वेन वियतों. पादानत्वम्, द्वितीयमते परिणममानाविद्याविपयरूपकारणत्वेनेति तु विशेपः । इयं हि विवर्तोपादनत्वप्रक्रिया वाघायां सामानाधिकरण्योपपादनावसरै नियतम- पेक्षिता। विवर्तमान-विवर्नयोरेव हि वाघायां सामानाधिकरण्यम् । विवर्तमा- नत्ववियनत्वादिप्रक्रिया हि कथञ्चन युक्तिभिमेतरवाध्यत्यादिनिर्णयानन्तरमेव विशिष्टमादरमहति । तावत्पर्यन्तं तु सामानाधिकरण्यं विशिषणविशेप्यभाव- प्रयुक्तमेय मृद्धटयोरिव परिणामिपरिणामभावनैव निवहणीयमित्युपोद्धातत्वेन । 2 ४२ * अद्वैतमार्तण्डः ब्रह्मपरिणामवादोऽपि विचारावसरे समादरमहति । परिणममानत्वमपि ब्रह्मण इदम्, स्वत एव व्रत्मण एव परिणामित्वेनैव निरययस्यापि बादापणाचार्यास्समाद- रणीय मन्यन्ते, नतु परिणममानप्रकृतिशरीरकत्वमात्रेण । अत एव-"कृत्स्न- प्रसक्तिनिरवयत्वशब्दकोपो वेति पूर्वपक्षोपपत्तिः । अन्यथातु परिणममानप्रकृ. तिशरीरकत्वे नोक्तशङ्काया उस्थितिरपि। सर्वधातु ब्रह्मपरिणामितावादोऽपि व्यवहारदृष्ट्या सूत्रकारसम्मत इति वस्तुस्थितिः । व्यक्तं चैतदाकर एव- "भोक्तापत्तेरविभागश्चेत्स्यालोकवत्" इति सूझे। सति चैवम्-अद्वैतमते ब्रह्मण एव परिणामित्वस्य वक्तव्यत्वात् तस्य च विलक्षणस्य तत्त्वासम्भव इति साख्यानां प्रत्यवस्थानं सम्भवदुक्तिकमेव । विवर्तवादेऽपि साइत्यप्रत्यवस्थानोपपत्ति. विवर्तवादेऽपि त्वदैताभिमते नोक्तं प्रत्यवस्थानमसम्भवदुक्तिकम् ; पत- स्तत्राप्यधिष्ठानारोप्ययोरपेक्षितमेव सालक्षण्यम् ; नहि शुक्तिशकल इवेगा- लेऽपि रजतारोपो दृष्टचरः। एतेन-विवर्तपक्षे प्रथमाध्यायद्वितीयपादेऽदृश्य- त्वाधिकरणादौ साधिते कथं द्वितीयाध्यायप्रथमपादे तबिरुद परिणामवादमाश्रित्य पूर्वपक्षः सिद्धान्तश्च सङ्गच्छत इति शङ्कापि - परास्ता ; अविरोधात, अदृश्य- त्याधिकरणादौ हि चेतनं कारणमित्येतावन्मात्रमुपक्षितम्, नतु तत् परिणामि विवर्तमानं वेति निर्धारितम् । निर्धारणं तु द्वितीयाध्यायप्रथमपाद एवं भवि. प्यति । तत्र व्यवहारदृप्ठ्या परिणामवाद् इति-भोक्तापत्तिसूने लोकवदिति दृष्टान्तेन, परमार्थगत्या विवर्तवाद इति "तदनन्यत्यमित्यनन्तरसूत्रगत- चाचारम्भणपदेन इत्याधाकर एवं व्यक्तम् । तदनन्यत्वं हि पापायां सामानाधिकरण्यमिति वाचारम्भणश्रुतिसमालोचनकालिकमेव सूत्र- कारण सूच्यत इति वस्तुस्थितिः । तथाच यावत्तत्समालोचनं परिणामवाद एवं भूमिकारूपेणानुसन्धातव्य इत्यादि संक्षेपशारीरकादितोऽधिकमवगन्तव्यम् । इदमेवाभिमेत्यास्माभिरस्मदीयवेदान्तपरिभाषाभूमिकायाम्--कृत्स्नमसत्तयधिक- रणविपये "इदं हि सूत्र व्यवहारदशायां परिणामवादमूरीकृतमाक्षिप्प समाधानार्थं प्रवृत्तम्" इति वर्णितम् । पूर्व चकेन सूत्रेयोपादेशि भवङ्गशः गम्पत ४३ " अद्वैतमार्तण्ड र परिणामो व्यवहारदृष्ट्या, न परमार्थदृष्ट्येति शङ्कापि परास्ता ; दत्तोत्त- रत्वात्। विशिष्टब्रह्मकार्यकारणभायस्यासौत्रत्वम् । तदिदं सिद्धम्-यत्सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणम्, स्थूलचिदचिछि- शिष्टं ब्रह्म कार्यमिति ब्रह्मणो विशिष्टस्यैव कार्यकारणभाववादोऽयं न सूत्रारूट इति । नहि कुत्रापि सूत्रे विशिष्टं ब्रह्म कारणम्, विशिष्टं ब्रह्म कार्यमिति सूचि- तमपि। "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्"आत्मकृतेः परिणामात् तदनन्य- त्वमारम्भणशब्दादिभ्यः" "कृत्स्नप्रसक्तिनिरवयत्वशब्दकोपो वा" इत्यादीनि तु केवलस्य ब्रह्मण एवोपादानत्वपतिपादनपराणि बहनि सूत्राणि दृश्यन्ते । वाचा. रम्भणमिति मित्थ्यात्वं हि कार्यमात्रस्य प्रतिपाद्यमानं कारणस्य विवर्तमानत्व एवोपपद्यत इति, तत्त्वसाक्षात्कारानन्तरकालिकीमवस्था समालोच्य विवर्तवाद इति सूत्रणात् पूर्वत्र 'लोकवत्" इति दृष्टान्तप्रदर्शनाच्च तावत्पर्यन्तं येन केनापि कार्यकारणभावेनाभेदो निर्वहणीय इति, 'कृत्वाचिन्तया' परिणामवादोऽपि भगवत्पादैस्तदनुयापिभिश्च सूत्रारूढो मन्यते । सर्वथातु विशिष्टब्रह्मकार्य- कारणभावो न सौत्रः। एव-"यतो वा इमानि भूतानि जायन्ते" इति निष्कृप्य भूतमात्रस्य स्थूलचिदचिद्रूपस्य कार्यत्वं प्रतिपाद्यमानमुपपद्यते। घत इति पञ्चमीनिर्देशात्, तद् ब्रह्मेति वास्यशेषाच ब्रह्ममात्रमेव कारणमवगम्यते, नतु विशिष्टं ब्रह्मेति केवलब्रह्म जगतोरेव कार्यकारणभावः सूत्रकारैर्मन्यते । एतेन-"अथोच्येत-चिचिठस्नुशरोरकस्य परस्पैव ब्रह्मणः कार्यकारणभा- वात् शरीरभूतचिदचिदस्तुगत्वाच्च दोपाणां न शरीरिणि ब्रह्मणि कार्याचा कारणावस्थे वा प्रसङ्ग इति, तद्युक्तम् ; जगद्ब्रह्मणोः शरीरशरीरिभावस्वैवाऽ सम्भवात्" इत्यादि श्रोभाष्यवास्यान्यनवलोकितानि भवद्भिरिति शङ्कापि- परास्ना; इदं हि भाष्यम्-"अपोतो तदत्तसगादसमञ्जसम्" इति सूत्रगतस्य पश्नस्याशद्वासमाधानपूर्वकमुपपादनार्धं प्रवृत्तम्। तेन च सत्यं विशिष्टनम- कार्यकारणभाव एवं निरस्पते । तावता चेदमेव सिद्धं भवति यत् केवलन. हम-जगतोः कार्यकारणभावासम्भव एव सायेन चोयत इति । ततश्यायमा.

* अद्वैतमार्तण्डः* शोऽवगम्यते यत् केवलब्रह्म-चिदचित्कार्यकारणभावमादायैव साङ्ख्यानां प्रत्यवस्थानम्, नतु विशिष्टकार्यकारणभावं सिद्धमादाय । इदं च प्रथमाध्याये प्रकृत्यधिकरणेन विशिष्ट कार्यकारणभावसाधने निरवकाशमेवेति भवटुङ्कित- भाष्यसमालोचनेऽपि घट्कुट्यामेव प्रभातम् । वस्तुतस्तु-नेदं भाष्यं विशिष्ट- कार्यकारणभावविषयम्, किन्तु विशेषणस्य शरीरत्वमात्रानुपपत्तिपरमिति तत्प्रकरणत एवेदमवगम्यते । 'अथातो विशिष्टब्रह्मजिज्ञासा" इत्य- सूत्रणेन ब्रह्मजिज्ञासेत्येव सूत्रणात् सूत्रकाराः केवलब्रह्मवादिन एवेति प्रतीयते । एतेन- केवलात् ब्रह्मणः कार्योत्पत्तिः कुत्राप्यसूत्रितेति शङ्कापि- परास्ता। केवलब्रह्मकार्यकारणभावोपपत्तिः। केवलं ब्रह्म कारणमित्यनेन स्वन उपादानत्वं ब्रह्मण एव स्वीक्रियत इत्येव मन्यते, नतु शुद्धं ब्रह्म कारणमिति, येन शुद्धत्वं कारणत्वं च व्याहतमिति शङ्काया अवसरः स्यात, तेन मायाद्युपधानापेक्षत्वेऽपि न हानिः। तथाच श्री- भाष्यमतेऽद्वैतमते च .कारणस्य प्रकृत्युपहितत्वमपेक्षितमिति तु समानमेव । इयान् विशेपा-यत् श्रीभाष्यमते ब्रह्मणः स्वत उपादानत्वमेव न सम्भवति, अद्वैतमते तु तत्सम्भवति । तच्च परिणामित्वमुत विवर्तमानत्वमिति नेदं प्रथ. माध्याये विशिष्य निर्धारितम् । अत एवादृश्यत्वाधिकरणभामत्याम्-"परिणा- मो विवों वे" ति पक्षदयमुल्लिख्यते । “विवर्तस्तु प्रपञ्चोऽयमि" ति तत्रत्यविवर्त- पदं तु परिणामस्याप्युपलक्षणम्, यतः परिणामोऽप्यसदृशस्य साधयिष्यते । एतेन-विवर्तयोधकं पदमेकमपि न पश्याम इत्युक्तिरपि-परास्ता; यतो न व. यमदृश्यत्वाधिकरणमेव विवर्तवादस्य साधकमिति वदामः । तदनन्यत्वाधिकर- णादिसिद्धार्थानुवादेनेव हि तस्य प्रवृत्तिः। “एतद्योनीति भूतानि सर्वाणीत्यवधा- रय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।" इति गीतावाक्यं हि परिणा- वादस्य विवर्तवादस्य चोभयस्यापि गमकमेव । अयमत्र निष्कपः-केवलब्रह्म- कारणतापराणि सर्वाणि भगवद्गीतादियाक्यानि व्यवहारदृष्टया परिणमवादस्य यस्वाल्या विवर्त यादस्य चानुकुलान्येव ।

* अद्वैतमार्तण्डा फेवलब्रह्म-प्रपञ्च कार्यकारणभावेऽतग्रन्थान्तराद्यविरोधः। प्रस्थानभेदाः सर्वेऽप्यद्वैताविरोधिन एवं सिद्धान्तलेशे संगृहान्ते। येहि खलु तहिरोधिनस्तेऽप्रमाणमित्येव सिद्धान्तात् परस्परब्याघातोऽद्वैतमत इति रिक्तमिदं वचः । “तदभिध्यानादेव तु तल्लिङ्गात् सः' इत्यादिस्त्रेण पूर्वपूर्वभूतो- पहितं ब्रह्मैवोत्तरोत्तरस्य भूतस्य कारणमित्येव भगवत्पादभाप्याशयः । तत्र व केबलस्य ब्रह्मण एव विवर्तोपादनत्वार्थ भूतान्तरोपधानमात्र पक्षिप्यते, नतु श्री. भाष्यसिद्धान्तदिशा पूर्वपूर्वभूतपरिणामित्वमात्रेण ब्रह्मणोऽपि तच्छरीरकत्वमा श्रेण वा कारणत्वव्यपदेशमात्रम् । कारणत्वं हि ब्रह्मणः परिणामित्व विवर्तमानत्वं का कल्पितमेव, न पारमार्थिकमिति नाढतमते मतान्तर इव ब्रह्मसविकारत्वं तत्सद्वितीयत्वं वा समापद्येत । उपहितब्रह्मकारणतावादो यद्वैताभिमतो माया- ग्रुपधानमा निमित्ततया परिणामितया वाऽपेक्ष्यत इति सूचनार्थमेवेति, केवल- ब्रह्मकारणताचादे न तत्मतिकूलम् । कार्यत्वं तु भूतानामेव केवलानाम्, नतु तद्वि- शिष्टस्य ब्रह्मणः कुत्राप्युपक्षिप्तमिति न "तदभिध्यानादेवे" ति सूत्रभाष्य भगवत्पादीयं श्रीभाष्यसिद्धान्तपरिपोपकम् । मायापरिणामवाव्यवदेशोपपत्तिः । अयं भावः परिणामवादो विविधोऽदैतमते व्यवहारदृष्ट्या ब्रह्मपरिणा- मतावादः वस्तुगत्या मायापरिणामवादश्च । तत्र प्रथममते न विवर्तीपादानतयाँ प्रमविवक्षा, दितीये तु ब्रह्म विवोपादानम् । ब्रमविवाश्च मायापरिणाम विना न सम्भवन्तीति, तत्र तत्र मायाकारणत्वव्यपदेशोऽपि न याध्यते । तथाच तत्र तत्र मायोपहितकारणतानिर्देशेन सूत्रकारा भगवत्पादा वा विमर्शोक्तरीत्या न विशिष्टकारणतादिपक्षपातिनो भवन्ति । मायाविशिष्टं ब्रह्म परिणामिकारण मिति नायमदेतिनां राधान्तः किन्तु माया परिणामिकारगम्, ब्रह्म तु विवतकारणम्, ब्रह्मैव वा परिणामिकारणम्, माया तु निमित्तकारणामात्रमिति । माडख्य- स्मृतिप्रत्यवस्थानं तु केवलस्प ब्रह्मण एवोभयविधमपि कारणत्वमवल- म्न्यैवेति पूर्वमेवोक्तत्वात न दोपसाम्यम् । एतेन-साइख्यमत्यवस्था- नासम्भयपइनो भवत्पक्षेऽपि मापाविशिष्टग्रह्मकारणतायाः स्वीकारास- * अद्वैतमार्तण्डः * मानः, चैतन्यमात्ररूपस्य ब्रह्मणश्चैतन्यमानन्दादिकं घटादिपु नोपलभ्यत इति विमर्शोक्तमपि - परास्तम् । नहि भवन्त इवाईतिनोऽपि ब्रह्मणः कारणकाधावप्रवेशं मन्यन्त इति विशेपस्तु मतद्वयेपि स्पष्ट एध । चैतन्यानन्दा- दितादात्म्येन घटो भाति' “घट इष्ट" इत्यादिप्रतीतिरपि विद्यत एव । इयान् विशेष:-यत् ब्रह्मणः स्वतश्चैतन्यादिरूपत्वम् , घटादीनां तु तत्तादाम्पमात्र- मध्यस्तमिति । सर्वथातु न मायापरिणाममात्रेण ब्रह्मकारणत्वव्यपदेश इति तु निष्कपः। घटादीनां चैतन्यप्रकरतयैव भानात्तस्यैव तच्छरीरकतया भानरूपत्वात् घटादिशब्देन घटावच्छिन्नस्य चैतन्यस्यैवाद्वैतमते ग्रहणाच्च श्रीभाष्याद्वैतभाप्ययोरविशेपशङ्कासमाधाने । यत्तु-"घटशब्दावन्मते घटावच्छिन्नस्य चैतन्यस्यैव ग्रहणम्, अनेन च घटस्य स्वतो न भानम् , किन्तु घटप्रकारकस्य सत एव भानम्, सर्वदा घटः सद्धि- शेष्यकज्ञानप्रकार एव भासत इति यथा भवन्मतप्रक्रिया, एवमस्मन्मतेऽपि स्थूल- चिदचितां ब्रह्माकारतयैव भानात् तेषां स्वनो न व्यवहार इति घटविशिष्टं ब्रह्म कार्यमित्युच्यते। एवंच भवन्मतेऽपि विशिष्टब्रह्मणोरैव कार्यकारणभावात् उक्तमत्यवस्थानासम्भवदोषस्तद्वस्थ' इति शयने, तत्रेदमेव समाधानम्- सत्यमतिना मते घटादिकं न विना चैतन्यरूपमधिष्ठानं भासमानं भासते । "न सोऽस्ति प्रत्ययो लोके यत्र सत्ता न भासते" इति तत्सिद्धान्तात् । नहि विनो- ऽधिष्ठानज्ञानमारोप्यमात्र विषयकं भानं शुक्तिरूप्यादिस्थले दृष्टचरम् । इद- मेवाभिप्रेत्यादैतिनो निर्विकल्पकं सन्मात्रावगाहि, घटादिज्ञानं तु सविकल्पक- मेवेति मन्यन्ते । इयमेव प्रक्रिया यदि श्रीभाष्यकारैरपि मन्यते, तर्हि व्यर्थ सन्मात्रविषयकनिर्विकल्पकवाद निरसनं श्रीभाष्यकाराणां महासिद्धान्ते । अनेन हीदं प्रतीयते-यत् विना घटादिकमपि चैतन्यमानभानमद्वैतसम्मतमिति । तच सूक्ष्मचिदचित्ताकरकतयैव चैतन्यमानमिति श्रीभाष्यसिद्धान्ताद्वैतभाष्यस्य विशेपं विना नोपपद्यते। सति चैवम्-सन्मात्रचेतान्याध्यस्तत्वात कल्पितेन सत्तादात्म्येनैव घटादिकं भासत इत्येवावेतसिद्धान्तः फलति । अत्र धाधिष्ठान , .

६ अद्वतमातण्ड:- ४७ - भ्रमस्थले नोत्पद्यते,किन्तु तत्तादात्म्यं तत्तादात्म्यापन्नं प्रतिभासिकमारोप्यं चैवो- त्पद्यत इत्येवादैतसिद्धान्तात् न भवन्मत इव घटविशिष्टं चैतन्यं कार्यमित्यद्वैत- मतमिदम् । तन्मते हि घटादीनामध्यस्तानामेव प्रतीतेन निर्विकल्पकमतीति- विषयत्यमित्येव मन्यत इति सत्यं सद्विशेष्यकज्ञानप्रकार एव घटो भासते। इदमेव यदि श्रीभाष्यकारैरपि मन्यतेऽद्वैतमताविशेपोपपादनार्थम्, तहिंतु न विवादलेशोऽपि; घटादिमिथ्यात्वाभ्युपगमात् , सूक्ष्मचिचिच्छरीरकतयैव ब्रह्म- भानास्वीकाराञ्च । सद्विशेष्यकज्ञानप्रकारतयैव घटादीनामद्वैतमत इव ब्रह्मप्र- कारतयैव श्रीभाप्यमते घटादीनां भानमित्येतावन्मात्रे साम्यविवक्षा तु विनोऽधि- धिष्ठानज्ञानमारोप्याभानमिव स्वरूपतोऽपि शरीरस्य विनाऽऽत्मभानमभाने सति सं भवति । नचैतदस्ति; नही दे रजतं न" "नात्र रजत" मित्यादिवत् ब्रह्मात्मकं घटादिकं नश्वरम् , आत्मप्रकारभूतं शरीरं नष्टमित्येव प्रतीतिः । नयदैतमत इव घटादीनां सदृपब्रह्मतादात्म्यमात्रम्, न सत्त्वमिति सिद्धान्तः। ब्रह्मसत्तयैव हि घदादीनामद्वैनमते सत्ता । इदं विवर्तवादाभिप्रायेण । भूमिकारूपे परिणामवादे तु घदादीनां ब्रह्मणश्च सत्तासामान्ययोगित्वमेव सत्त्वं मित्थ्यात्वाविरोधि स्वीक्रियत इति घटपदेन घटावच्छिन्नं चैतन्यं विवक्ष्यत इत्यादिप्रक्रियेव न स्वीक्रियते । जीवानां स्वरूपत एव नानात्वानगीकारात्तु सूक्ष्मचिदशिष्टं कारणं स्थूलचिदिशि- प्टं कार्यमिति श्रीभाष्यकाराणामडैतानभिप्रेतैव प्रक्रिया वर्तत इति कथं या श्रीभाष्यातभाष्ययोः साम्यचर्चाऽवसरति ? नाधिष्ठानारोप्यभावेऽधिष्ठान- व्यतिरेकेणारोप्याभाव इव शरीरशरीरिभावे शरीरिव्यतिरेकेण शरीरभावः श्रीभाष्यकाराभिमतः । अपृधसिद्धिसिद्धाभेदस्तु परिभाषिक एव श्रीभाष्य- कराणाम् । सर्वधा तु माईत-श्रीभाप्यमतयोब्रह्म-त्रपञ्चकार्यकारणभावे साम्यं घटादिविशिष्टत्वेनैव कार्यत्वविपये । स्वरूपत एवं ब्रह्मकरणत्वादपि मतान्तरादतमतस्य विशेपः वस्तुतस्तु-शुक्त्यवच्छिन्नं चैतन्यमिव रजतादेम दवच्छिन्नं चैतन्यं न घटादिकारणम्, किन्तु मूलाज्ञानविषयः शुद्धचैतन्यमुपहितचैतन्यं वैव कारण. मिति भगवत्पादमतम् । तथाच कारणस्य चैतन्यस्य विशिष्टरूपेण न कारण- ४८ * अद्वैतमातण्डः* त्वमिति, 'विशिष्टयोरेव कार्यकारणभाव इत्यतमतप्रक्रियेति वेदान्तसाराव- ल्यनुसारिणो शङ्कापि निरवकाशैवेति "नविलक्षणत्वाधिकरणोस्थितिः केवलब्रह्म- जगतोः कार्यकारणभावपरेऽद्वैतवाद एव, यत्र परिणामवादोऽपि नासम्मतो भूमि- कारूपेण, सम्भवति। विवर्तवादमाश्रित्यापि नविलक्षणत्वाद्यधि- करणोत्थितिसमर्थनम् । भामतीकाराद्यस्तु विवर्तवामाश्रित्यापि "नविलक्षणत्वा"धिकरणो- स्थितिसम्भवमदृश्यत्वाधिकरणादौ सूचयन्तः भाष्यकाराणामदैतपक्षपातिनां नावश्यमन्तव्यः परिणामवाद इति मन्यन्ते । "कृत्स्नासक्तयधिकरणमपि निर्विशेपचैतन्यस्य विवर्तमानत्वे मुक्तावपि प्रपञ्चोत्पत्त्यापत्तिः । साक्षात्कारपूर्व- क्षण इव स्वयं प्रकाशमानत्वं साक्षात्कारानन्तरमपि समानमेव । साक्षात्कार- पूर्वक्षणेऽज्ञानं वर्तत इति कल्पना तु न सम्भवति, निरवयत्वेनतु केनचन रूपेण भानमंशान्तरेणाभानमिति ज्ञानाज्ञानयोरुभयोरपि कल्पना न संभवतीति "कृत्स्नप्रसक्तिनिरवयत्वशब्दकोपो वे" ति सूत्रार्थः । "श्रुतेस्तु शब्दमूलत्वात्" इत्यस्यापि यथा विवर्तोपपत्तिस्तथा कल्पनीयमिति वाक्यार्थः । "प्रकृति प्रतिज्ञादृष्टान्तानुपरोधादि त्यस्य विवर्तीपादानतया योजनम् । एतेन "प्रकृतिश्च पतिज्ञादृष्टान्तानुपरोधात्" इति सूत्रमपि प्रकृतिपदे- नायिकायु पादानविवक्षणात् विवर्तवादस्यैवानुगुणम् । अत एव आत्मकृते: परिणामात्" इत्यात्मकृतिः परिणामश्चोभयं प्रतिपादितमुपपद्यते। अनेन हि विकारात्मना भानमेव परिणामः, नतु तदात्मना मृदादोनामिव विकारित्वमिति विज्ञायते इत्यात्मन एन संकल्पमात्रेण प्रपञ्चभाव इति, "यहु स्यां प्रजायेय इति श्रुत्यर्थ एवानूदात इति वक्तव्यम् । “प्रत्यगात्मविषयत्वाच्च बहुभवनाभिध्यानस्ये" ति भाष्यमत्रवानुकूलम् । आत्मकरणं नाम संकल्पवशात्तदात्मना भानमात्रम् । तदुक्तंभाष्ये-"पूर्वसिद्धोऽपि सन्नारमा विकारात्मनापरिणामपामासात्मा नमि"नि । स्वसंकल्पयन स्वस्यैव नियमाणत्वं हि स्वाभाविकस्वरूपविपरिवृत्ति- , " * अद्वैतमातण्डा ४६ विवक्षायामसम्भवटुक्तिकम् । तथाच-आत्मकरणमत्र स्वरूपरिणामयितृत्वेनैव, नतु स्वस्य विकारकरणेनेति सूचनार्थमेव आत्मकृतिपदं परिणामपदं च । अनेन च क्रियमाणत्वं परिणम्यमानत्वं चैकस्यैव प्रतीयते । तच्चात्मन एव ब्रह्मरूपस्य परिणामित्वं विना नोपपद्यत इति, प्रकृतिपरिणामेन ब्रह्मोपादा- मताचादे नेदं सूत्रं सङ्गतं भवति । परिणामशब्देन ह्यत्र तद्भाव एव विवक्ष्यते। तथाच श्रुतिः-"सच्च त्यञ्चाभवत्" इति । तद्भावो नाम तत्तादात्म्यमात्रमेव, नतु तदात्मना विकारित्वम् स्वस्यापि कार्यत्वरूपम् । सति चैवम्-आत्मकृतेरिति परिणामादिति च सार्थकम् । नहि मृदादिपु परिणामिपु स्वस्यैव कार्यत्ववर्णनेन स्वध्यतिरेकेण कार्यस्वरूपनिषेधोऽपि सूच्यत इति विवर्तवाद एव पर्यवं. सानम् । श्रीभाष्यमते तु ब्रह्माविनाभूत-प्रकृतिपरिणाम एव ब्रह्मपरिणाम इति क्लिष्टमेव योजनम् । अयं भावः- रज्जुसदिस्थलेऽपि विना विकारमन्यस्पान्यभावेऽपि परि- गामशब्दः प्रयुज्यते इनि, ब्रह्मणो विलक्षणप्रपञ्चभाव एवात्र परिणामपदार्थः । उभयसम्मतमिदम्-पत् ब्रह्मणो निर्विकारस्य विकाररूपावस्थान्तरभावो नात्र परिणामपदार्थः संभवतीति । सति चैवमन्यात्मना भानमात्रेण परिणामपदप्रयोग एवान स्वीकर्तव्यः । मृत् घटात्मना परिणमत इतिवत् "रज्जुः सर्पात्मना परिण- मते," "तडाकोदक केदारात्मना परिणमते" इत्यादि यहुतरप्रयोगदर्शनात् मृदा. दिसमानयोगक्षेममेव परिणामिकारणत्वमङ्गीकर्तव्यमिति न नियमः । सर्वधातु- आत्मन एव कार्यत्वं परिणामित्वं च सूबकारनिर्दिष्टं न श्रीभाप्यमते, पत्र विशिष्टस्य ब्रह्मणः, तत्रापि विशेषणांशस्यैव परिणामित्वं, क्रियमाणत्वं च, न तत्रापि तु स्वविशेषणस्य प्रकृतेः, किन्तु स्थूलचिदचिदामेव भवति,नत्र स्वरसम् । परिणामादिति सूत्रस्य विवर्तयादे न स्वारस्यमिति तच्छवासमाधाने । एतेन परिणामात्' इत्यादिसूत्राणामद्वैतमते न स्वारस्यमिनि शक्षापि-परास्ता । इयं हि शमा विमर्शकाराणां यदि स्वमन एव स्वारस्यं भवः तीत्युपपादनाची, तर्हि तु याषितम् । नहि तन्मने ब्रामणः स्वतस्तावमात्ररूपी. ऽपि परिणामोऽन्योऽपि वा परिणामः । यदि तु शुद्धाद्वैतवाददृष्ट्या, तर्हितु विकारि- " * अद्वैतमातण्डः त्वापत्तिस्तन्मतनिरसनार्थ या किलापाद्यते विमर्शकारैः, सैवास्माकमपि समा- पत्तिरिति नास्य चोयस्थात्रावसरः । वस्तुतस्तु-तद्भावपर्याय परिणामशब्दः । सच फचिदिकारपूर्वकः, कचिच्चातादृश इति त्वन्यदेतत् । शक्यतावच्छेदकं तु तद्भावत्वमेवेति नादै- तमते परिणामपदास्वारस्यं केवलविवर्तवादस्यैव स्वीकरणेऽपि । व्यवहारदशायां परिणामवादस्थापि विचारावसरे केपुचनांशेपु प्रपञ्चमित्थ्यात्वाद्यनिर्णयदशायाम- दैतमते स्वीकारात्तु नानुपपत्तिलेशोऽपि । वस्तुतस्तु-अनुवर्तमानत्वमेव परिणामित्वम्। परिणामिकारणं मृदा- दिकमपि घटादावनुवर्तत एव । इदं च परिणामित्वं विवर्तोपादान-परिणा- म्युपादानोभयसाधारणमेवेति परिणामपदं नादैतमतविरुद्धम् । परिणामस्तु सत्यं व्यावर्तमान एव भवतीति नात्मनः परिणामत्वसम्भवः, परिणामयितृत्वं तु तस्य संभवत्येव । सूत्रगतं परिणामपदं परिणामयितृत्वपरमिति मतद्वय संप्रतिपन्नमिदम् । अनेन चोपादानत्वप्रयोजकमनुवर्तमानत्वमेव बोध्यत इति वक्तव्यम् । अनुवर्तमानस्य सत उपादानत्वं विवोंपादानत्वेनापि भवति, परिणा- म्युपादानत्वेनापि। याचारम्भणवाक्यानुसन्धानस्य वियोंपादानताविपक्षण एव स्वारस्यम्, उक्तवाक्यार्थपरीक्षा च । सत्रकारास्तु-प्रकृतिश्चेति प्रथमसूत्रे "प्रतिज्ञादृष्टान्तानुपरोधात्" इति "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति वाक्यार्थनि यस्यापि प्रकृतोपादानत्वनिर्णय उपयोगं मन्यन्त इति, यत्र तस्य सार्थक्यं तदेवोपादानत्व- मत्र वक्तव्यम् । सिद्धान्तमार्ताण्डकारादिसम्मतवाचारम्भणधृत्यर्थ-तत्समालोचने तत्र "योचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति श्रूयते । चाचा-व्यवहारव्याहारोभयार्थ विकारो घटादिः, नामधेयं संज्ञा च स्पृश्यते । "मृन्मयमिति पूर्वयाक्यानुपज्यते । तथाच "घटादिकं मृत्तिके"त्येव सत्यम् प्रमिनमिति वाक्यार्थवर्णनेन मार्ताण्टकारा अन्ये च मृघटयोः परिणामिपरि , " , * अद्वैतमार्तण्डः णामयोरभेद एवोक्तश्रुत्यर्थ इति वर्णयन्ति। अत्र "मृत्तिकापदं कारणब्रह्मोपलक्ष- णम्, मृन्मयपदं तु कार्यसामान्योपलक्षणमिति जगद्ब्रह्मणोरभेदसाधनं क्रियत" इति तदाशयोऽपि तदीये ग्रन्थे विशद एव । इदमेवानालोचनीयम्-यत् मृद घटयोरिव व्रत्मप्रपञ्चयोरेकद्रव्यत्वं कि तन्मतमुत नेति। आये ब्रह्मविकार्यत्वापत्तिः। द्वितीये तळरीर- सूक्ष्मचिचितोः स्थूलचिदचितोश्चैकद्रव्यत्वसाधनेन यदि तवारैकविज्ञा- नेन सर्वविज्ञानं साध्यते, तर्हि न केवलं क्लिष्टकल्पना, किन्तु दृष्टा- न्तास्वारस्यमपि। स्वतःपरिणममानमृत्तिकादृष्टान्तेन परिणममानप्रकृतिशरीर- कब्रह्मविवक्षणे हि कथं तदृष्टान्तस्वारस्यम् ? अतः स्वयमनुवर्तमानब्रह्मरूपकारण- सत्यत्वविवक्षायामेवोक्तवाक्यस्वारस्यमङ्गीकर्तव्यम् । सति चैवमनुवर्तमान कारणं सत्यम्, विकारास्तु व्यावर्तमानाः तद्विलक्षणा मिथ्या इति, सन्,परमार्थः, अनुवर्तमानत्वात्, विकाराः, मित्थ्या, व्यावर्तमानत्वादिस्यनुमानदयमेवान विवक्ष्यते। सति चैवं वेदैकप्रमाणसिद्धोऽभेदस्तव्यव्यतिरेकेणाभावरूपो निरू- पितो भवति । परिणामिपरिणामयोरभेदसाधन हि लोकसिद्धं न श्रुतितात्पर्यवि- पपतामहति । सति चैवं वाचारम्भणशब्दस्य नामधेयशब्दसमभिव्याहतस्य मित्येत्यर्थ एव युक्तः। तथाच कारणव्यतिरेकेण कार्याभावसाधनेन मृत्ति- कापदस्य सर्वकारणब्रह्मोपलक्षणत्वस्वीकारेण च ब्रह्मणो विवर्तोपादानत्वसाधने दृष्टान्तस्वारस्यमपि भवति । अयं भाव:- इदं हि वाक्यं नोपादानोपादेययोरभेदयोधनार्थे प्रवृत्तम्, किन्तृपादानमात्रसत्यत्वब्यवस्थापनद्वारा "ब्रामयिवोपादानत्वसूचनेनै कविज्ञा- सर्व विज्ञान प्रतिष्ठापनार्थमिति, प्रतिज्ञादृष्टान्तानुपरोधसाध्यमुपादानत्वं घमण एवं विवक्षितमदैतमत एच निर्यहतीति सिद्धम् । मार्ताण्डकारा- दिसम्मते वाचारम्भणश्रुत्यर्थे चाचापदस्य व्यवहारव्याहारोभयपरत्वम्, "मृत्तिकेत्येव सत्यमित्यत्र मृण्मयपदाध्याहारः, आरम्भणपदेनालम्भ. नपद कल्पना, विकारमात्रस्यैव घटादिरूपय कारगेनाभेदसायनस्याभीप्सितत्या र मामधेपमाप्त्युपादानवैययम्, मृनिकादृष्टान्तापोग इत्यादीनि पनि ।

MAVM * अद्वैतमार्तण्डः * दूषणानि । अबैतमते तु मृत्तिकापदस्यानुवर्तमानकारणपरत्वात् तेन प्रातिभासिकव्यावहारिकोभयसाधारणस्योपादानस्य विवक्षणात प्रासिमासिकमित्थ्यात्वस्य तदुपादानसत्यत्वस्य च लोकसिद्धरवेनासा धनीयत्वेन व्यावहारिकमित्थ्यात्वसाधनस्यैव प्रातिभासिकदृष्टान्तेन विवक्षित- त्वान्मृत्तिकेतिपदोपादानसार्थक्यम्, पूर्वोक्ताध्याहारादिदोपाभावश्चेति न किञ्चि- दनुपपन्नम्। तदनन्यत्वसूत्रार्थपरीक्षा। इमेवाभिप्रेत्य सूव्रितम्-"तदनन्यत्वमारम्भणशब्दादिभ्यः इति । तद- नन्यत्वपदेन तदभिन्नत्वं यदि विवक्ष्यते, तर्हि तदभिन्नत्वसाधने सिद्धान्तमा- र्ताण्डकारायुक्तरीत्या "मृत्तिकेत्येव सत्यमि"त्यस्यैव वाक्यस्याध्याहारेण व्या- ख्यातस्योपयोगात् "आरम्भणशब्दादिभ्य" इत्यनुपपन्नं भवतीति, तद्व्यतिरेकेणे- तरशून्यत्वमित्यदैतिनां विवरणमेव युक्तम् । तदनन्यत्वपदेन ह्यदैतसम्मतार्थविव- रणे हि ब्रह्मतरमित्थ्यात्वंयोध्यते इति,"आरम्भणशब्दादिभ्य इति"सौत्रहेतुस्स- था सार्थकः । न विद्यतेऽन्यत् यस्य तत् अनन्यम्, अनन्यस्य भावोऽनन्यत्वम् । तस्थानन्यत्वं तदनन्यत्वमिति, स्वेतरशून्यत्वं ब्रह्मणो योध्यते । यद्यप्यत्र साध्य- पदे बहुव्रीह्यादिकल्पनेन क्लेश इव प्रतीयते; तथापि सौचहेतुपदसार्थक्यार्थ सोढव्य एवायमिति तत्त्वम् । अनेन च वाचारम्भणादिवाक्यस्य परेपां विवरण सौत्राशयविरुद्वमपीति--सूच्यते । नदिं सिद्धम्-यत्-"जन्माद्यस्य यत" इति सूत्रोपक्षिप्तं ब्रह्मोपादानत्वं न श्रीभाष्याभिमनम्, किन्तु भगवत्पादाभि- प्रेतमेवेति। ब्रह्मण एव कारणतावादस्य मनुस्मृतिसिद्धत्वम् । यत्तु-"सोऽभिध्याय शरीरात्स्वात् सिमक्षुर्विविधाः प्रजाः। अप एवं ससर्जादौ तासु योजमवासृजत्" इति मनुवाक्यम्, इदं प्रकृतिविशिष्टस्य ब्रह्मण पव शत्त्यात्मना परिणामित्वमिति श्रीभास्करसिद्धान्ताभिप्रायमेव । अतिना- मपि यावन्सर्वमुक्ति जीवानेकत्ववादे ईश्वरभाव एव मुक्तिरिति यादिना तायन्मात्रेण श्रीभास्करसिद्धान्तेनैकवाक्यता सम्मलैच, यतो न मुक्ती जीवानां ध्यापकानां . .

श्रीभाष्यमतमेव मनुमतमिति विमशॉकिरपि - परास्ता । मनूक्तं हि निद- पिडलक्षयाम्---"चापदण्डोऽय मनोदण्डः कायदण्टालेधैव च। पापैते निहिता * अद्वैतमार्तण्ड* पृथकसत्यमोइवरादङ्गीक्रियत उभयैरपि। विरोधस्तु निर्गुणत्रालभाषसम्भाव- नाऽसम्भावनथोरेव । "विशिष्टब्रह्मपरिणामितावादोऽप्यद्वैत सम्मत एव व्यवहार- दृष्ट्ये"ति, पूर्वमेतदभिप्रायेणैव भूमिकारूपेण परिणामवादो विवर्तवादाविरुद्ध इति विवेचितम् । तथाच मनुरपि न शरीरपरिणामितामात्रेण ब्रह्मणः कारणत्वं मन्यते । श्रीभास्करसिद्धान्त एवाताव्यवहितपूर्वतनभूमिकारूपोऽन मनुना समुल्लिख्यत इति श्रीकुल्लुकभव्याख्ययाऽप्यवगम्यते। कुल्लूकभट्टव्याख्याविरोध. श्रीभाष्यमन एव नाद्वैतमते । इयमत्र कल्लूकभव्याख्या-अभिध्यानपूर्विका सष्टिं वदतो मनोः प्रकृति- रेयाचेतनाऽस्वतन्त्रा परिणमत इत्ययं पक्षो न संमतः,किन्तु ब्रह्मवाव्याकृतशत्त्या- मना जगत्कारणमिति त्रिदण्डिवेदान्तसिद्धान्त एवाभिमतः प्रतिभाति । तथाच छान्दोग्योपनिपत्-'तदक्षत बहु स्यां प्रजायेय' इति । अत एव शारीरकसूब- कृता व्यासेन सिद्धान्तितम् 'ईक्षते शब्दम्' इति । ईक्षतेरीक्षणश्रयणान्न प्रधानं जगत्कारणम् । अशब्दं न विद्यते शब्दः श्रुतिर्यस्य तदशब्दमिति सूत्रार्थः । स्वाच्छरोराद्व्याकृतरूपात्; अव्याकृतमेव भगवद्भास्करीयवेदान्तदर्शने प्रकृतिः, तदेव तस्य च शरीरम् । अव्याकृतशब्देन पञ्चभूतयुद्धीन्द्रियकर्मेन्द्रियमाण- मनःकर्माविद्यावासना एव सूक्ष्मरूपतया शत्तपात्मा स्थिता अभिधीयन्ते । अब्याकृनस्य च ब्रह्मणा सह भेदाभेदस्वीकाराट् ब्राह्माद्वैतम्, शत्त्यात्मना च नाम जगद्रूपनया परिणमत इत्युभयमप्युपपद्यते-इति । अनया हि व्याख्यया श्रोभास्करसिद्धान्त एव विडिमतत्वेनात्र इति, सत्यभेदाभेदवादिश्रीभास्करमतस्य यावदीश्वरभावाख्य- भूमिकारूपेणाभ्युपगतपरिणामवादादिना साम्यं वर्नत इति न मनुमतविरुदमदैनमतम् किन्तु श्रीभाष्यमतमेव एतेन-कुल्लूकमव्याख्यायां घिण्टि पददशेनेन गृधत मुक्तिपर्यन्तमद्वैतमतेन कथञ्चन तादृशमिति गम्यते । पदी निदण्डोति स उच्यते इति वाक्यसिद्धं न ब्रहबाटैनिनामपि म साशरणम् ।

* अद्वैतमातेण्डः * "वैधाच न स्वप्नादिवत्” इति सूत्रमपि-व्याख्यातम् । इदं हि सूत्रं स्वप्नवैध- भ्र्येण जाग्रहशायामसत्त्वं साधयति । तच्च-स्वाप्निकस्यार्थस्य न पतीतिरेवेति तु सत्यम् । जाग्रति तु पृथगानामुपलभ्यमानत्वात् न तदृष्टान्ततासंभव-'इत्युप- पानपरमेव । तत्र स्वामिकानामर्थानी प्रत्यहं याध्यमानत्वात् स्वाधिष्ठानचैत- न्यव्यतिरवणाभावनिर्णयेन प्रातिभासिकत्वमवैतिनो मन्यन्ते-सूत्रकाराश्च "मायामात्रं तु” इति सूत्रयन्तः । तब योगाचारमतेऽर्थानामप्रत्यक्षत्वात् अनु- मानेन ज्ञानाकारतयैव तेऽनुमीयन्त इति, तदृष्टान्तेन जाग्रहशायामप्यर्थाः नामनुमेयतावादिनां तेषामेव निरास एवानेन सूत्रेण क्रियते । तथाचार्थाना- मुपलभ्यमानत्वेन प्रत्यक्षत्वात् ज्ञानाकारतानुमानं घाधितमित्येव तात्पर्यम्, नतु स्वप्नदृष्टान्तेनार्थमित्थ्यात्वनिरासपरमपीदं सूत्रम् । "वैधाच्चे”ति सूत्रस्याद्वैतनिरासतात्पश्व त्यायोगः, श्रीभाष्यमते तत्सूत्रानुपपत्तिश्च । अद्वैतमते हि स्वाप्निका अपि प्रत्यक्षा जाग्रत्कालिका अपि प्रत्यक्षा इति नानुमानसाध्यमर्थस्वरूपम्। सूत्रकारसाधितस्वाप्तिकस्वभावेनैव यदि योगाचार- मत इव ज्ञानाकारता साधिता स्पात, तहि सत्यं स्वानिकदृष्टान्तेन मिथ्यात्वनि- रसेऽपि सूत्रस्य तात्पर्यमूरीकर्तुं शक्यते। न हीदं श्रीभाष्यकारानुयापिभिरपि स्वीकर्तुं शक्यते ; अन्यथा स्वाप्तिकानां तन्मतरीत्येश्वरसृष्टत्वात् तद्वधर्म्यषा- काशादीनामनीश्वरसृष्टत्वे सूत्रकारतात्पर्य तैरङ्गीकरणीयं स्यात् । सत्यमनेन सूत्रेण वैधयं स्वाप्निकानां जागरिकाणां च सूत्रकारा मन्यन्ते। नद्यदैतम- तेऽपि स्वानिकानां जागरिकाणां च न वैधय॑म् । स्वाप्निकाः व्यवहा- रदशायामेव थाध्याः, जागरिकास्तु न तयेति सर्वानुभवसिद्धमिदम् । किमपीश्वरंसृष्टत्वाविशेषाधिय स्वाप्निकानां जागरिकाणां चेति वैधाच्चे" ति न सङ्गत्तं भवति। अतोपि हेतोः सूधकाराः स्वामिकमायिकत्वमभिपयन्ति । ज्ञानक्षणिकतावादो योगाचाराणां नाद- तिनामिति विशेषोऽपि सर्वविदित एव । "क्षणिकत्याच" इति सूत्रेण सूत्रकारा योगाचारमतनिरसने वाढतमननिरासोऽपोति श्रीमाप्यमते तु न अपोममर्थ सूत्रपन्त्येवेति, * अद्वैतमार्तण्डः सिद्धान्तमार्ताण्डकाराणामन्येषां च कल्पना छिन्नमूलैव । एतेन-"जगन्मित्थ्या- स्ववादी योगाचारः" इति विमोक्तम्-परास्तम् । मिथ्यात्वं यदैताभिमतं न निःस्वरूपत्वम्, किन्तु पारमार्थिकत्वेनाभावः । अत एवाकाशादीनां सृष्टिराम्ना- यमानोपपद्यते । योगाचरमते त्वर्था निःस्वरूपा इति कथं तत्साम्यमदैतमतस्य ? स्वरूपेण निषेध इत्यद्वैतपक्षात् योगाचारस्य विशेषः । एकसत्तावादः, स्वरूपेण त्रैकालिकनिषेधश्चाद तिनां यद्यपि कल्पितमेव स्वरूपं प्रपश्चानां गोचरयतीति सांवृतसत्यत्ववादियोगाचारमतेन साकं प्रपश्च- मिथ्यात्वे साम्पमस्ति ; तथापि नेदं निःस्वरूपत्वं केवलानुमानगम्यम् , किन्तु श्रुतिमूलानुमानगम्यमिति श्रुत्यप्रामाण्येन केवलानुमानेन सांवृतसत्यत्वमर्थानां न साधयितुमलमित्येव "वैधाच्च न स्वप्नादिवत्" इति सूत्रतात्पर्यम् । नह्य- तिनो योगाचारा इव केवलानुमानसाध्यं प्रपञ्चमिथ्यात्वं मन्यन्ते । दियोयाध्या- यद्वितीयपादगतत्याच्चैषां सूत्राणां श्रुत्यमूलानुमाननिरसनपरत्वमेव गम्पत इति "स्वरूपेण त्रैकालिकनिषेधमतियोगित्वमित्यतिनां पक्षोनानेनाधिकरणेन निरस्यते । अत एव "क्षणिकत्याच्च" इति ज्ञानक्षणिकत्वमप्यप्रामाण्यहेतुतया- ऽत्र निर्दिश्यते । नातिनो ज्ञानक्षणिकतावादिन इति न तिरोहितमिदं तत्वम् । स्थानिकानामुत्पत्तिवर्णनम्, तदनन्तरमेव "न तत्र रथा रथयोगा" इति निषेधवचन चैव खलु मायिकत्वसाधकतया 'मायामात्रमिति सूत्रेण प्रतिपाद्यते । न च योगा- चारमते एकस्मात् चैतन्यादाविर्भावः सर्वेषां तत्रैव बाधश्चोरी क्रियते । निरविष्ठानारोपवादनिरासार्थमेव "क्षणिकत्वाच्चे"ति · सूत्रमिति वक्तव्यम् । यथाच ज्ञानक्षणिकतावादपरित्यागे स्वरूपचैतन्यस्यैव सत्यस्याधिष्ठानतास्वी- फारे च योगाचारमतस्यादै तमतादविशेषः तथा बृहदारण्यकभाष्यादौ व्यक्तम् । तादृशस्तु योगाचारो नात्र निरस्य इति "क्षणिकत्वाच्चे"त्यादिनैवावगम्यते । सर्वधा तु नादै तमननिरसनं सूत्राकाराभिमतम्, प्रत्युत तत्समर्थनमेव । दृश्यत्वस्य मित्थ्यात्व एव हेतुत्वं नतु सत्यत्वे । अयं भावः-लोकसिद्धं स्वाप्निकानामभावं गृहीत्वा योगाचारैर्जागरि- कार्थानामप्यभावो मन्यते । इदं च, लोकानुभावो जागरिकाणां स्थानिकानां च तथाच * अद्वैतमातण्डः ५७ क्यते, वेलक्षण एवं वर्तत इत्युपपादनेन निरस्यत इति स्थितिः। शास्त्रसिद्धस्तु स्वाग्नि- नामभावो न केवलमपलापरूप:, किन्तु स्वाधिकरणतया प्रतीयमाने स्वस्पापल- पमानस्यैवाभावरूपः । इदमेव च मिथ्यात्वम् । अयं ह्यभावोऽर्थानां दृश्यत्ये- हेतुना,जडत्वेन हेतुनाऽन्येन वा साध्यते, "नाभाव उपलब्धेः" इति तु यो दृश्य- चेनामावनिषेधः साध्यते, स चापलापात्मकाभावनिपेव एव भवितुमर्हति । यस्य पस्य दृश्यत्वं तस्य तस्य नापलापो यथा ज्ञानस्येति हि वस्तुस्थितिः। यदि हि "नाभाव उपलब्धेरि"त्यादिकं प्रपञ्चसत्यत्वसाधकतयाऽत्र मन्यते, तर्हि दृश्यत्वं . सत्यत्वव्याप्यमिति वक्तव्यम् । इदं च स्वाप्निकेऽर्थे व्यभिचरितम् । स्वाप्निका- नामपि सत्यत्वविवक्षायां तु "वैधाच न स्वप्नादिवदि"तित्यनन्तरसूत्रास- ङ्गतिः । अनेन हि सूत्रेण लोकदृष्ट्या स्थानिकानामपलापः कथश्चन कर्तुं श- , नतु जागरिकाणामित्येव बोध्यते । ततश्च लोकसिद्धानुभवमूलकार्थनिपे- घायोगपराण्येवोक्तानि सूत्राणि । सति चैधं शास्त्रसिद्धमित्थ्यात्वांशे तु न स्वा. नजागरिकयोपम्यं सूत्रकारा मन्यन्ते । सूत्रकारी स्वाप्तिकस्यैव मिथ्यात्यसाधने उपपत्तयः । उत्पद्यमानस्य सतो मित्ल्यात्वं हि सूत्रकाराभिमतं स्वाप्नजागरिकोभय. माघारगां स्वातिकमादायापि समर्थयितुं शक्यम् , जागरिकमादायापि, उभयमप्यादाय वा। मीमांसाया न्यायप्रधानत्वात् समानन्यायविषयान्यतरमि- त्थयात्वन्यपस्थापनेनैवेष्टनिर्वाहात् स्वाप्निकमिथ्यात्वसाधने क्लेशाभावं मत्या “मायामावमिति" सूत्रम् । “सन्ध्ये सृष्टिराह हो" ति सृज्यमानत्वेन पूर्वपक्षा, सृज्यमानत्वेऽपि मिथ्यात्वोपपादनेन सिद्धान्त इति वस्तुस्थितिः। सनि चैवं न्यायसाम्पात् आकाशादीनामपि सज्यमानानां मित्थ्यात्वमविन्द्धमिति न्यायसिद्ध मिदम् । मित्त्यात्वे हि स्वाप्तिकानां स्वप्रतीत्यनन्तरकालिकाध्य- त्वमेव प्रयोजकम् । तच जागरिकाणामपि वाचारम्भणश्रुत्या पाध्यतया श्रुनाना- अतः स्वाजिकमायामात्रत्वोक्तस्त्रापि तात्पर्यऽपि न क्षनिः । सानिमित्ध्यात्वस्शेर जागरिकमित्थ्यात्येऽप्यनात्पर्येऽपि न दोषः । परंतु-"मापामानं तु" इति स्वाप्तिकमायामानत्वं पन्निरूपिनम्, मविशिष्टमेव । ८ ५८ * अद्वैतमार्तण्डः ५ तत एव जागरिकप्रपञ्चमित्थ्यात्वासिद्धिः, "वैधाच न स्वप्नादिवत्" इति हि विलक्षणस्वभावत्वनुभयोः प्रतिपाद्यते ।प्रातिभासिकं हि स्वामिकम् ,व्यावहारिकाश्च जागरिकाः। अत एव-अनभिव्यक्तस्वरूपत्वहेतुसमन्वयः। न हि स्वाप्तिके- विव जागरिकेष्वपि तत्तदुत्पादकावयवादिपूर्णसामग्र्यभावो वर्तत इति जागरिक मित्थ्यात्वं सूत्रकारैरेव पृथक् सूत्रणीयम् । तच्च सूनितमेव सूत्रकार "स्तदनन्य- स्वमारम्भणशब्दादिभ्य” इति । भगवत्पादा अपि-नच वियदादिसर्गस्याप्या- त्यन्तिकं सत्यत्वमस्ति । प्रतिपादितं हि-"तदनन्यत्वमारम्भणशब्दादिभ्यः" इति समस्तस्य प्रपञ्चस्य मायामात्रत्वम्" इति वदन्तोऽत्रानुकूला इति वदन्ति । एतेन-स्वामप्रपञ्चानां मायिकत्वं सूत्रयन् सूत्रकारो जाग्रत्तपश्चानां कथं न मायि- कत्वं सूत्रयतीति शङ्कापि-परास्ता। मायापदं हि पद्मपुराणादिपु-मायावाद- मित्यादावविद्यायामेव बादरायणाचार्यैः प्रयुक्तमिति सर्वसम्मतमिदम् । 'मायावा- दिन" इति परैस्सर्वैरप्पदैतिन एव व्यपदिश्यन्त इत्यपि न विप्रतिपन्नम् । "जनकस्य कुले जाता देवमायेव निर्मिता" इत्यादिवाक्येऽपि विनोत्पादकसामा- ग्रोमुत्पन्नानिर्वचनीयस्वरूपेवेत्येव विवक्षितमिति मायामात्रपदस्येश्वरसृष्टमित्य- थैवर्णनं भीभाष्यकाराणां कथं सूत्रारूढम् ? अंशो नानाव्यपदेशादित्यादि सूत्राणामद्वैत एव स्वारस्यम् । "अंशो नानाव्यपदेशात्" इत्यादिसूत्राण्यपि वस्तुगत्या जीवब्रह्माभेद- बोधनपराण्येव, नतु शरीरशरीरिभावप्रतिपादनपराणि । अत्र हि सूत्रे-नाना- व्यपदेशेनांशत्वमभेव्यपदेशेन चानंशत्वमपि विवक्ष्यत इति 'अंश इवांश:; नाना- व्यपदेशात् , अन्यथापि व्यपदेशात् इति विवरणेन भाष्यकारा मन्यन्ते। एवं विकृण्वन्तोऽपि भगवत्पादा:--"अनुज्ञापरिहारौ देहसम्बन्धात् ज्योतिरादिवत्" इति सूत्रावतरणकाले-"अनंशत्वमपि हि जीयस्पाभेद्वादिन्यः श्रुतयः प्रति- पादपन्ति" "स्वभावमाप्तस्तु भेदोऽनूद्यते"इति वर्णनेन भेदाभेदयोरुभयोरन विथ- क्षगम्, तत्रापि श्रुतितात्पर्यविषपत्येनाभेद एव मुख्या, भेदस्तु काल्पनिक इति घ्यवस्थापनं च मन्वाना उक्तस्य सुत्रस्य "अंश इवांश' इति विवरणे लक्षणादोपप- रिहारार्थ हृदयतः-अंशः, नानाव्यपदेशात्, अन्यथापि अनंशोऽपि- यस्माद्दाश- * अद्धतमातंण्डः कितवादित्वमयीयत एके इति विवरणमप्यनुमोदन्त एव । वेदान्तपरिभाषाभूमि. कायां हितोयं विवरणमस्माभिः परैलक्षणादोषेण भगवत्पाविवरणे आपातमा तिपन्नेऽनास्था प्रदश्यतेति शङ्कयैव प्रदर्शितम् । परिभाषाभूमिकोपक्षितविवरणस्य भाष्यारुदत्वम्, अद्वैतसम्मतत्वं च । विमर्शकारास्तु-द्वितीये विवरणे भाग्यानारूढत्वम्, प्रथमे विवरणे लक्ष- णादोषइतिदूपयन्तोऽपिहृदयतो द्वितीयविवरणे तत्र तत्र समीचीनभावमपि प्रदर्श- यन्ति । पुतावदेवास्माभिरत्रोपपाद्यते यत् यदस्मदीयमपि विवरणं पूर्वोद्धृत- भाष्यादिदृष्ट्या भगवत्पादभाष्यारूढमिति व्यर्थमेव तत्र तत्राक्रोशनम्- "भूमिकाकारैः शंकरभगवत्पादभाष्यविरुद्वमेव तन्मतमनू दितमिति । भूमिकायां हि-"अंशत्वमनंशत्वनुभयं सूनितम् । अंशत्वे नानाव्यपदेशो हेतुः, अनंशत्वे विभेदश्रुतय इत्यदैतसम्मतं विवरणमित्येवोक्तम्, नतु भगवत्पादीयं विव- रणमिति । नचेदमद्वैतसम्मतमन्ततो गत्वा भगत्पादानामपि न सम्मतम् । भगवत्पादीयांशपदार्थ विवरणएरव सूत्रकाराशयानुरोधित्वम् । वस्तुतस्तु-जीवोत्पत्याद्यौपाविकत्वस्य तदगुत्व-कर्तृ त्वाद्यौपाधिकल्वस्य च प्रतिपादनानन्तरमंशन्यमप्यौपाधिकमेवान योध्यते । तथाचांशः उपाधितः, नाना व्यपदेशात्, नतु स्वतः; अन्यथाव्यपदेशादिति विवरणमेवात्र भाष्यकारा अंश इ वांश इति विवरणेन मन्यन्ते । इमेवास्मन्मतम्-पत् अंशस्वमानबोधनं जीवानां ने बादरायणसम्मतम् , यतो लोकसिद्धं साङ्ख्ययोगविचारसिद्धंच जीवनानात्वं महाभारते स्पष्टमेव यादरायणाचार्यः खपिडतम् । 'अंशो नानाव्यपदेशादित्यत्र श्रीभाष्याभिमतविवरणस्य सूत्रानारदत्यम् । अंशत्वमिह साधनीयं शरीरत्वरूपमिति श्रीभाप्पसम्मतमेव यदि सूत्रकाराभिपेतम् ,तहि-अंशो दाशक्तिवादित्वमधीयते एके इत्येवालम्, नत्यत्र मानाव्यपदेशस्य हेतोपादानमपेक्षितम् । नानाध्यपदेशपदेन हि विन्दस्वभावत्वे- न जोवेश्वराम्नानं विवक्ष्यते । यत्र च वाक्ये नानाव्यपदेशस्तत्र तयोः सामानाधि- करण्यं तु नास्तीति न तत्र शरीरशरीरिभावविवक्षा, पत्र शरीरशरीरिभावविच- " ६० , * अद्वैतमातेण्ड:* क्षा, तेपु वाक्येपु तु न नानाव्यपदेश इति हेतुदयस्य समुचितस्य प्रत्येकमेकैकस्य च कथमंशत्वसाधकत्वमिति, नानाव्यपदेशेनांशत्वम् तद्भेदश्चान्यथा व्यपदेशेन, ॐ भेदश्रुत्यावेति वक्तव्यमिति, कथमंशत्वमात्रसाधनपरं श्रीभाष्यं सूत्रारूटम् ? एते. न-तत्र तत्र भेदव्यपदेशान्यथानुपपत्या द्वैततात्पर्यकत्वं सूत्रकाराणामिति घण्टा नादोऽपि श्रीवैष्णवानाम्-शान्तो भविष्यति । यतः-सूत्रकारा एव अंशत्वा- भिप्रायेणैव भेदव्यपदेशः, सच काल्पनिकः, पारमार्थिकस्त्वभेद इति व्यवस्थापय- न्ति । न केवलं नानाव्यपदेशादित्याद्यनुपपत्तिः श्रीभाष्ये, किन्तु 'अन्यथा- चापो”ति चशब्दवैयर्यमपि। अस्मन्मतेतु-अंशः, अनंशोऽपि, नानाव्यपदे- शात्, अभेदश्रुतेश्चेति विवरणात्तत्सार्थकमेव। एतेन-चशब्दवैयर्यमद्वैत- मत इति शङ्कापि-परास्ता। अस्यैव विवरणस्य सूत्रकाराभिमतत्वे हि व्यव- हारदृष्ट्या जीवेश्वरभेदः, परमार्थदृष्ट्या तु तद्भद इति न केवलं जीवेश्वरैक्यम्, किन्तु जीवानामप्यैक्यं महाभारतसिद्धमनूदितं भवति । सति चैवं श्रुतिपु तत्रतत्र श्रूयमाणो भेद औपाधिक एव ; तदंशेऽनुवाद मानं श्रुतेरित्येव बादरायणाशयः । अंशत्वे व्यपदेशसिद्धत्वमभेदे श्रुतिसिद्ध- त्वं च चदन्तः सूत्रकारा भेदाभेद्योभैद् एव परमं तात्पर्य मन्यन्ते । अधीय- मानत्वेन श्रौतत्वमभेदस्यावगम्यते । “उभयेऽपि हि भेदेनेनमधीयत एक" इति वाक्ये सत्यं भेदस्याप्यधोयमानत्वं शारीरत्वादिना भेद एवं युक्त इति गमयति । न हि वयमधोयमानत्वेन निर्देश्यमानत्वमात्रेणानंशत्यस्यैव श्रीतत्वं वदामः,किन्तु चिम- योरेकस्य व्यपदेशसिद्धत्योपपादनपूर्वकमपरस्याधीयमानत्वनिर्देशेन । 'शारीर- श्चेति सूत्रे तु नाभेदस्य व्यपदेशसिद्धत्वपूर्वकं भेदस्याघीयमानत्वं निर्दिश्यत इति न दोपलेशोऽपि । सर्वथा तु शरीरशरीरिणोस्तत्वेन भानमपृथसिद्धयाख्या- भेदप्रतीतिमादायैन व्यवस्थाप्यते भवद्भिरिति श्रुति-सूत्र-दर्शनान्तरासिद्धा- पूर्वपदार्धकल्पनादीनि यहूनि दूपणानि श्रीभाष्यकाराणां सूत्राविधरणे । अधिक- मवसरान्तरे निरूपयिष्यामः। सोपाधिकशानाशयत्यादीनां सूत्रभाष्यादिसम्मतत्यम् । जीवस्योत्पत्तिरौपाधिको, स्वरूपतस्तु तन्नित्यत्वमिति 'चराचरव्यपाश्र- * अलुतमार्तण्डा यस्तु नात्मा श्रुतेरिति सूत्रद्रयेन तद्भाष्येण च सिद्धम् । यथोचक्तियोः सूत्रया- रन्यधायोजनं श्रीभाष्यकाराणां नोपपन्नम, तथा परिभाषाभूमिकायां व्यक्तम् । अन च विमर्शकारा अन्ये च तृष्णीम्भावमेव प्रतिपद्यन्त इति नात्र किमपि समालोचनीयम् । "ज्ञोऽत एवे"नि सूत्रे औपाधिकं ज्ञानाश्रयत्वं स्वरूपतो ज्ञानरूपत्यमिति भाष्यकारीयांशव्यवस्था । "ज्ञोऽत एवेति सूत्रे तु ज्ञः इति पदेन ज्ञानाश्रयत्वं ज्ञानरूपत्वं च योध्यत इति श्रीभाष्यकारा मन्यन्ते । भगवत्पादास्तु- नित्यचैतन्यरूपोऽयमा. त्मा इति ज्ञानस्वरूप इत्यमेवार्थ स्पष्टं वदन्ति । "नित्यचैतन्यरूपत्वे प्राणा- यानर्धक्यमिति चेत्, न; गन्धादिविषयविशेषपरिच्छेदार्थत्वात्' इति तत्सूत्र- गतभाष्येण तु प्राणादीनां विषयविशेषावच्छिन्नचैतन्याभिव्यञ्जकवृत्तिजनन एषो- 'पयोगात् अध्यारोपेण वृत्त्याश्रयत्वेनैव ज्ञातृत्वव्यवहार इति भगवत्पादाः सूच- यन्ति । सति चैवं यदि 'ज्ञः' इति पदस्य ज्ञानाश्रय इत्यर्थो मन्यते, तावताऽपि न हानिः, ज्ञानाश्रयत्वं तु गन्धादिचराचरव्यपाश्रयत्वप्रयुक्तमेव गन्धादिविषय- 'परिच्छेदार्थवृत्त्याश्रयत्वप्रयुक्तमेव चेति योजनापि न दोपायेति भाष्याशयः । स्पद च सूत्रकारा:--"तद्गुणसारस्वात्तु तद्यपदेशः प्राज्ञवत्" "इति सूत्रे "माज्ञवत्" इति निदर्शनव्याजेनामुमधु सृनयन्ति । तथाच श्रीभाप्यमत इवात्रा- पि ज्ञानरूपत्वं ज्ञानाश्रयत्वमुभयं च मन्यत एव । “ज' शब्दस्प ज्ञानरूप इत्यर्थ- स्तु श्रीभाष्यकाराणामप्यभिमत इति तु तन्निर्देशस्वारस्यमुभयाविशिष्टमेक- रूपमेय । इयान विशेषः यत् नित्यधर्मभूतज्ञानाश्रयत्वमिति स्वसंप्रदायमानसि- दयमै मूतज्ञानेन ज्ञानाश्रयत्वं श्रीभाप्पमते, अहतमते साङ्ख्य-योगदर्शन सिद्धां "कामः सकल्प" इति श्रुत्यनुमोदितां च पृत्तिमाश्रित्य "सायं च योगं च सनातने हे वेदाश्च सर्वे निखिलेन राजन्" इति साट्थ्य-योगाभ्यामेव विशि. प्टैकवाक्यता योपक्षिप्ता, तदनुसारेण ज्ञानाश्रयन्वमिति । सर्वथा तु ज्ञानाश्रपत्व- मोपाधिकमिति सूत्रतद्दाप्यादिसम्मतमिति नेयं विमर्शोक्तरोन्या निरदशा क- ल्पना, येन-"निराशं भवनां पाग्व्यानस्थातव्यम्" इत्युपालम्भनं माच- , * अद्वैतमातण्डः* सरं स्यात् । सति चैवम्-श्रीभाष्यकाराणां तदनुयायिनां च ज्ञानाश्रयत्वादि- प्रक्रिया किं निरङ्कुशोतास्मदादीनामिति सर्व एव समालोचयन्तु । नित्य-धर्मभूतज्ञान कल्पनस्य सूत्राशयविरुद्धत्वम् । संकोचविकासशालि-नित्य-धर्मभूत ज्ञानप्रक्रियादि श्रीभाष्यकाराणाम् "एवं चात्माऽकात्यमिति सूत्रेणैव न्यायसाम्येन प्रतिक्षिप्ता । तत्र हि आत्मनः संकोचविकासशालित्वेऽनित्यत्वमापद्यतेतिभाष्यद्रयसंप्रतिपन्नोऽयमर्थः। इमेत्रा- लोच्यताम्-कथं संकोचविकासशालित्वे धर्मभूतज्ञानस्यापि कथं नानित्यत्व- मिति । यथाच श्रीभाप्यमते सर्वज्ञानयाधाादिप्रक्रिया निरङ्कुशा वहव एव, तथा परिभाषाभूमिकादिषु स्पष्टमेव । अविद्यामायादिपदानां नाप्रसिद्धत्वम् । अविद्यापद्म “विद्यायामन्तरे वर्तमानाः” इति श्रुतिसिद्धम्, मायापदं "मायामेतां तरन्ति ते इति श्रुतिसिद्धम्, "मायावादम्" "मायामात्र "मित्यादि- यादरायणवननसिद्धं च । अनिर्वचनीयपदं तु यौगिकमनृतपदपर्यायम् । “अa- तपदम्” सत्यं चानृतं चेति मिथ्यापर्यायं श्रुतिसिद्धम् । अध्यारोपाध्यासा- दिपदार्थास्तु योगाचारादिदर्शनान्तरप्रसिद्वाः,व्यावहारिक-पारमार्थिक-विभागो यो- गार्थमादाय प्रवृत्तः । "अन्तःकरणाधु पाधित्ववादस्य सौत्रत्वम्" अन्तःकरणाद्युपाधितावादास्तु कादाचित्कयुद्धिसंयोगादिकं सूत्रसिद्धमा- दाय प्रवृत्ताः, न सूत्रार्थासङ्गताः । “तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवत्" इति विज्ञानगुणसारत्ववर्णनानन्तरं "यावदात्मभावित्वाच न दोपस्नदर्शनादिति सूत्र विज्ञानप्लम्पन्धस्य कादाचित्कत्वोपपादनार्थमित्येव युक्तम् । अन्यथा तद्गुणसार- स्ववर्णननैव याबदात्मभायित्वस्य सिद्धत्वात् उक्तसूत्रं वितथमेव स्यात् । पाचदात्मभायित्वेन दोपाभाववर्णनात् तद्गुणसारस्वस्य किश्चिदधिककालत्वशळेव वार्यते ततश्चात्मपदमत्र संसारिपरमिति संसारकालपर्यन्तमेव बुद्धिसंगोगा, नतु नरमिति स्पष्टं सूत्रयन्ति सूत्रकाराः । तथाचान्तःकरणादीनां "भि. अत्र * अद्वेतमार्तण्डा द्यते हृदयग्रन्थिरित्यादिवचनसिद्धवियोगकालोऽपि सूत्रेणानेन सूच्यते । तेषा- मुपधित्वेन व्यपदेशे कारणमिदमेव-यत् दर्पणादौ कादाचित्के स्वसङ्गिनि धर्मान्तरमतीतिनिमित्त एवोपाधिपदं प्रयुक्तमिति सर्वविदितमिदम् । तत्र तत्र थुतिषु शरीरपदप्रयोगस्याप्युपाधितायां तात्पर्यम् । अत एव "पादोऽस्य सर्वा भूतानीति सर्वेषां पादत्वप्रतिपादनमुपपद्यते । श्रोभाष्यमते तु सर्वेषां ब्रह्मशरीरत्वात्पादत्ववर्णनं कथमुपपद्यते । अन्तर्यामि- ब्राह्मणादिक उपासनाविशेषमात्रपरं पूर्वोत्तरसन्दर्भसमालोचने न श्रीभाष्यमतानु- गुणमिति परिभाषाद्वितीयसंस्करणभूमिकाधामन्त एव विवेचितमिति, शरीरशरी- रिभावोऽयं न श्रौतः। सति चैवं शरीरपदप्रयोगोऽपि तत्र तत्रोपाधिताभिप्राये- गैव प्रयुज्यते ; अन्यथा "त्रिपादस्पामृतं दिवी"तिपादज्रयस्य सच्चिदानन्दा- नकस्य ब्रह्मणः कथं "दिवी"ति भूतासम्बन्धेन व्यवस्थोपपद्यते । न हि शरीर- शरीरिणोः शरीरं पाब्रयम्, शरीरी एकः पाद इति कुत्रापि वर्णितम् । अंशपदप्रयोगस्य न शरीराभिप्रायत्वं किन्त्यौ- पाधिकत्वाभिप्रायत्वम् एतेन-"ममैषांशो जीवलोकः" इत्यादिवाक्यान्यपिव्याख्यातानि । अन त्यंशत्वं स्वरूपत्वमेवाभिसंहितम् ; स्वरूपैक्यात् ; अन्यथा श्रीभाष्य- मतस्यैव सूत्रारूढत्वे, प्रकृत्यादीनां स्थूलाचितां च सर्वेषामंशत्वं शरीरत्यापर- पर्यायं कथं न सूचितमिति शङ्का कथं परिहरणीया ? ततश्यांशाधिकरणं न जीव- परमात्मनोः शरीरशरीरिभावनिरूपणपरम् । अत एव-"प्रकाशादिवच्चैवं पर" इति प्रकाशहष्टान्तादिकमुपपद्यत इत्यादि भूमिकायां व्यक्तम् । नहि प्रभा- मभावतोः शरीरशरीरिभावः श्रीभाष्यमतेऽपि । भोक्त्रापत्तिसूत्रेऽविभागादिति पञ्चग्यापत्तिः । एतेन-"भोक्तापत्तरविभागश्चेत्स्वाल्लोकवत्" इति सूत्रस्वारस्पमपि व्याख्यातम् । अब हि भाष्ये श्रीभाष्यकारैः शरीरशरोरिभावेन भोत्कृत्वापत्ति- रेवाशक्य निरस्यत इति स्पष्टं तय श्रुतप्रकाशिकायाम् । तदुक्तम्-"नतु ६४ vir NAA.-.-. * अद्वैतमातंण्टः दृष्टान्तभावात्" इत्यत्रशरीरगतबालत्ययुवत्वादिधर्माणां शरीरिण्यप्रसङ्गं दृष्टान्तीकृत्य परात्मनि दोपामसक्तिरता । अत्र शरीरसंसर्गप्रयुक्तभोक्तृत्वप्रसङ्गः परिहियते” इति । अनेन विशदमिदं ज्ञायते यदनेनैव भोक्तृत्वमपीश्वरस्यापा द्यत इति । भोक्तापत्तिशब्देन च श्रीभाष्यकारा भोक्तृत्वापत्तिं मन्यन्ते, निमित्त च तत्र शरीरशरीरिभायो न सूत्रोपात्तः नयाऽमन्नरशिष्टापरिग्रहाद्यधिकरण- प्रस्तुत इति तद्ध्याहारदोपः समापतति । तत्परिहारार्थे तु सूत्रगतमविभाग- पदमेव शरीरशरीरिभावोपस्थापकमिति वक्तव्यमिति, तत्रभोक्तापत्तिरिति प्रधमा स्यादिति परिभाषा भूमिकातात्पर्यम् । यत्तु भोक्तृत्वापत्तिप्रयुक्ताविभागापत्ति रूपमर्थान्तरमुक्ताधिकरणप्रतिपाद्यम्, तत्तु पूर्वपक्षपयोजनमेवेति न तदर्थमधि- करणान्तरापेक्षा । “स्याल्लोकवत्" इति सिद्धान्तांशेन हि भोत्कृत्वापत्तिनिरास एवं क्रियते श्रीभाष्यइत्यतोऽपीदमेवावगम्यते यत् विभागव्यवस्था प्रयोजन- मिति, तत्साम्यात् अविभागापत्तिरपि प्रयोजनमेवेति युक्तम् । अद्वैतमत एव भोक्तापत्तिसूत्रे न सूत्रावृत्यादि दूषणम्। एतावदेवात्र विवक्षितम्-यत्-"संभोगप्राप्तिरिति चेन्न वैशेष्यात्" इति भोक्तृत्वनिरासानन्तरं पुनरपि भात्कृत्वापत्तिशङ्कादिकं श्रीभाष्यमते न संभवति; अदैतमते तु कार्यकारणयोरभेदात् भोग्यानां भोक्तभावस्य साधनात् सिद्धेन भोक्तभावेनाविभोगापादनमिति न सूत्रावृत्यधिकरणानकत्वादीनि दूपणादीनीति । श्रीभाप्यमते लोकादिति दृष्टान्तास्वारस्यम् । लोकवादिति दृष्टान्तस्वारस्यमपि न श्रीभाष्यमत इति भूमिकायामेव- विवेचितम् । सत्यं विमर्शकाराः "श्रीभाष्यमतमन्यथा गृहीतमि"ति "मित्थ्पा गृहोतमिति क्रियासमभिव्याहारेणोपालभन्ते, परन्तु नवयमुपालम्भमात्र- मुत्तरं कुत्रापि दातुमिच्छामः । इद्मवात्रालोच्यताम्--"यत् कारागृहवासमानेण नियन्तुर्तुःखं न दृष्टमित्येव श्रीभाष्याशय" इति विमर्शकाराणां विवरणं किय- वधि योग्यमिति । श्रीभाष्यकारा हि स्वमतसमर्थनार्थ महता प्रयासेन "संभोग- RARAMANN ~-~- - अद्वैतमार्तण्टा ६५ प्रातिरि"ति सूत्रे शरीरान्तर्वतित्वमात्रेण भोक्तृत्वशङ्कां परिहरन्ति, भोक्तापत्ति सूत्रे तु जीववद ब्राह्मणोऽपि शरीरित्वे तदेव भोक्तृत्वप्रसङ्गो दुर्वार इति विवेश्यन्ति । विमर्शकारास्तु शरीरान्तर्वर्तित्वमात्रेण भोक्तृत्वशङ्कावारणपकार- मेव विवक्षितमत्रेति श्रीभाष्याशयं निष्कृप्य विवेचयन्तः कुत्र या श्रीभाष्य- कारान्नयन्तीति त एवं विमृशन्तु। नहि सशरोरत्वकृतमनिष्टभोक्तृत्वम्, किन्तु कर्मवश्यत्वकृतमिति वेदान्तसारोक्तौ न वयमपि विवदामहे; इदमेवान वयं वदामः-यत्-लोकवदिति दृष्टान्तस्वारस्यं सशरीरत्वेन भोक्तृत्वशङ्कानि- रसने न भवतीति। एतेन-प्रजाराजयोः (8) शरीरशरीरिभावोऽस्तीति स्वप्नेऽपि नोक्तं श्रीभाष्यकारैरिति विमोऽपि-व्याख्यातः ; यत एवं पदन्तोऽपि विमर्शकाराः शरीरित्वप्रयुक्तभोक्तृत्वशङ्कायामशरीर्यभोक्तृत्वनिदर्शनमसांप्रत- मित्येव समर्थपन्ति । तदिदं सिद्धम्-यत् जगदृव्रह्मणोस्तादात्म्यमुपादानो- पादेयभावप्रयुक्तमैव, नतु शरीरशरीरिभावप्रयुक्तमपि । अत एव “सर्व ख- ल्विदं ब्रह्म तज्जलानिति तजवादीनामेव तादात्म्यप्रयोजकत्वनिर्देश उप- पद्यते । , कारणवाक्यविषया ब्रह्मलक्षणादिप्रवृत्तिरपि सूत्रकारागामत एवोपप- यते । “तदनन्यत्वमारम्भगशब्दादिभ्य" इत्यपि सून स्पष्टमभेदः कार्यकारण- भावप्रयुक्त इत्येव योधयतीति श्रीभाष्यकारा अपि मन्यन्ते । तच कारणत्वं स्वगतं साक्षाल्लक्षणमुतान्यगतमिति तु विचारः पूर्वमेव समालोचितः । इदमेवात्र यक्तव्यम्-यत्-अभेदः शरीरशरीरिभावप्रयुक्त इति न कुत्रापि सूत्रे वर्णि- तम् । तदनन्पत्वाधिकरणे तु कार्यकारणभावप्रयुक्त पवाभेद इति व्यवस्थापित- मेव । तस्य चासति याधक साक्षात्कार्यकारणभावविवक्षायामेव स्वारस्यम् । शरीरशरीरिभावस्तु जीवब्रह्मणोः प्रपञ्चब्रह्मणो नेदानीमपि सिद्ध इति, न शरीरपरिणामाभिप्रायं ब्रह्मकारणत्वमिति व्यवस्था सम्भवटुक्तिकेत्येव तदन- न्यत्याधिकरणादिसारः । इतरव्यपदेशाधिकरणसार्थक्यमद्वैतमत एव । अत एव "इतरव्यपदेशाद्विताकरणादिदोपप्रसङ्गः" इति पूर्वपक्षा, ६ 40+AMANANAMAN " अतमार्तण्डः "अधिकं तु भेद निर्देशात् इति सिद्धान्तश्च सङ्गच्छते । अतरव्यपदेशात् इति इतरव्यपदेशस्य सियत्कारेणेश्वरस्य हिताकरणाद्यापाद्यते। इतरव्यपदेशश्व जीवाभेदव्यपदेश एव मतदयसम्प्रतिपन्नः। स च यदि शरीरशरीरिभाव- प्रयुक्तः, तर्हि शरीरशरीरिणोरत्यन्ताभेदाभावात् तदभेदव्यपदेशेनेश्वरकारणत्वं न याघितमिति न पूर्वपक्षास्थितिरिति, अद्वैतसम्मताभेदव्यपदेशेनेच पूर्वपक्ष इति सर्वसंप्रतिपन्नमिदम् । इदं च तदनन्यत्वाधिकरणादी शरीरशरीरिभाषादिव्य- वस्थापनानन्तरं कथं सङ्गतम् ? तदनन्यत्वं हि तत्र कार्यकारणयोरेकद्रव्यत्व- रूपमेव खलु साधिनम्, ततएव च सर्वात्मत्वम् । अतः साधितेऽप्यनत्यत्वे का- र्याणां जीवादीनां वा स्वरूपसतां विशिष्टेन रूपेण नाभेदः, किन्तु तदधिष्ठान- भावेनैवेति सूचनार्थमेव- "अधिकं तु भेदनिर्देशादिति सिद्धान्तेनेतरव्यपदे- शाधिकरणप्रवृत्तिरिति वक्तव्यम् । सति चैवं कारणाभिन्नानामपि कार्याणां कार्येण रूपेण नानात्वमपि विद्यत इत्येवान विवक्षितम्-"कार्यात्मना तु नानात्वमभेदः कारणात्मना"इति । कार्यात्मना तु नानात्वं कार्याणां कल्पितत्वस्य पूर्वाधिकरणे व्यवस्थापनात् का- ल्पनिकमित्यवचनसिद्धमिदम् । अधिकं तु' इति ब्रह्मणोऽधिकत्वमतिरिक्तत्व- मेव भेदनिर्देशेन योध्यते; कार्यात्मना भेदव्यपदेशात्, न तु "शरीरि तु" इति शरीरित्वम् येन शरीरशरीरिभाषाभिप्रायाऽभेदश्रुतिरिति कल्पनार्थमिदमधिकरण- मिति समापद्येत । किञ्च जीवस्य ब्रह्मशरीरत्वं नानाव्यपदेशान्यथाव्यपदे- शान्यामुभाभ्यां "अंशो मानाव्यपदेशात्" इत्यधिकरणे वर्णयिष्यते। सति चैवं कथमत्र परं केवल भेदश्रवणेन शरीरित्वं ब्रह्मणः साध्यत इति प्रश्नो- ऽप्यसमाधेय एव । सर्वथा तु भेदोऽपि केनचन रूपेणोपाधिको वा कल्पितोवा स्वीकर्तव्य इत्युपपादनार्थमेवेतरव्यपदेशाधिकरणमिति कथमिदं श्रीभाप्यानुया- यिनां स्वरसमधिकरणम् ? जीवब्रह्मणोर्मेदाभेद्ध्यवस्था। तदयं निष्कर्षः--सत्यं तत्त्वमसोति जीवब्रह्मणोरभेदो वर्यते । अत्र न तत्त्वंपदवाच्यार्थयोरभेदो विवक्ष्यते, किन्तु लक्ष्ययोरेय । तत्र वाच्यार्थी जीवों- * अद्वैतमार्तण्डा* vironwww. ऽन्नमय-प्राणमय-मनोमय विज्ञानमयानन्दमयान्यतमस्वरूपो जाग्रत्स्वम-सुपुप्त्यव- स्थात्रयवान् तत्पद्वाच्यादीश्वरात् कारणाद् भिन्न एव,स्वरूपचैतन्यस्य स्थूल शरी- राग्रुपाध्यपवादेन निष्कृष्टस्य लक्ष्यस्य तु लक्ष्येण तत्पदार्थेनाभेद इति व्यवस्थाप- नार्थ तदनन्यत्वाधिकरणमितरव्यपदेशाधिकरणं चोभयं जीवस्वरूपविपये योज- नीयम् । एवंच जीवनमणोः सामानाधिकरण्यं न स्वरुपयाधप्रयुक्तं बाधायां सामानाधिकरण्यम् , किन्तृपाधियाधप्रयुक्तमेव । तथाच यावटुपाधियाधं भेद- व्यपदेश एवं युक्तः। तद्वाधानन्तरं तु स्वरूपैक्येऽपि तस्याकारणत्वान्न हि- ताकरणादिदोषरसङ्गः । अयमेवाशयः- "नतु तं वयं जगतः स्रष्टारं ब्रूमः; भेदनिर्देशात् । नन्वभेदनिर्देशोऽपि दर्शितः-तत्त्वमसी"ति, नैष दोपः, आकाशघटाकाशन्यायेनोभयसंभवात्" इति भाष्येण गम्यते । अद्वैतमते भैदाभेदयोरविरोधप्रकारः। एतेन-यदि पूर्वेण तदनन्यत्वाधिकरणेनाभेदो निरणायि, तहि कथं तदि- रोधेन भेदसिद्धान्तनं सङ्गच्छेतेति शङ्कापि-परास्ता; उभयाविरोधस्थानुपदोद्द- तभाप्यदृष्टया स्वीकरणीयत्वात् । तथाच -"अधिकं तु भेदनिर्देशात्" इत्यत्रा- धिकपदेन परस्य प्रत्यगात्मस्वरूपस्यैव विपक्षणेन तेनाभेदस्तत्वमसीत्यत्र वर्णितः, नतु अहंमतीतिगम्यशयलितजीवस्वरूपेण, यतस्तेन ब्रह्मणो भेद एव । इदमेवा- विकपदम्-"अघिकोपदेशात्तु" इति सूत्रेऽपि यादरायणग्रहणोन प्रयुनानाः सूत्रकारा विशिष्ट-शुद्ध-जीवस्वरूपाविभागेन जीवब्रह्माभेदश्रुतीनामन्यथा ग्रह- योन तत्र तत्र पूर्वपक्ष इति सूत्रयन्ति । सर्वथातु न भेट्यपदेशान्यथानुपपत्त्या सूत्रकारा अद्वैतवादविरोधिनः, किन्तु कल्पिताकल्पितभेदाभेदव्यवस्थापनेन तदनुकूला एव। इनाव्यपदेशाधिकरणम्यातनिरासातात्पर्यम् । पत्तु-अद्वैतमत निरासार्थमिदमधिकरणमिति श्रीभाष्यकाराणां विवर- णम्, तब पदि यथार्थाढतवादमाश्रित्यायं पूर्वपक्षः, ताई तु अनुक्तोपालम्भ- नम् । नहि अतिनो विशिष्टेन संसारिणा जीवेन ब्रामणोऽभेदं तत्त्वमसीति महावापा मन्यन्ते । "अधिकं तु भेदनिर्देशादिति सिद्धान्तमनमपि ना- * अद्वैतमातण्डः * दैतमतस्थापि न साधारणमिति कथं तस्यादैतमतनिरासार्थत्वम् ? नहि अद्वैत- मतसाधारणेन सिद्धान्तेनाद्वैतमतस्य निरसनं भवति । "अश्मादिधच तदनुप- पत्तिरि"ति सूत्रमप्यत एवोपपद्यते । अत्र तदनुपपत्तिपदेन"पूर्वपक्षापादितहिता- करणादिदोषानुपपत्तिरेव विवक्षितुयुक्ता, नतु ब्रह्मभावानुपपत्तिः। सत्यपि ब्र- ह्मभावे हिताकरणादिदोपानुपपत्तिरेवान वर्ण्यते। ब्रह्मभावानुपपत्तौ हि अश्मादि- दृष्टान्तोऽनुपपन्नः । श्रीभाष्यकारा हि अश्मादीनामिव जीवस्यापि न ब्रह्मभाव इति व्याचक्षाणा अश्मादिसाम्यं जीवानां केन मतेन मन्यन्त इति समालोच- नीयम् । अदैतमते तु जीवानामपि चेतनत्वात् नाश्मादिसाम्यम्, स्वमते तु कथञ्चन शरीरत्वाविशेषात्साम्यं भवितुमर्हति, परन्तु नेदं परमतनिरासार्थ पर्याप्त लिङ्गम् । तथाच सत्यपि चेतनत्वेन साम्ये विशेषोऽपि कश्चनोपाध्यादि- कृतो वर्तत इति, भेदोऽपि ब्रह्माभिन्नानां जीवानां संभवतीत्येवोक्तसूत्रार्थः । अनेन ह्यधिकरणेनाभेद इव भेदोऽपि जीवेश्वरयोर्योध्यते, तत्र चाभेदश्चैत- न्यात्मना, भेदस्तु कल्पितेन रूपेणेति निष्कर्षः । सर्वथातु नाद्वैतमतानुवादेन तन्निरासार्थमुक्तमधिकरणम् । कृत्स्नप्रसक्त्यधिकरणस्य श्रीभाष्यमतेऽस्वारस्यम् , अद्वैतमत उपपत्तिश्च । तदनन्यस्याधिकरणसिद्धे ब्रह्मभावे,जीवानां हिताकरणादिदोपप्रसङ्गमापाय परिहत्य च, भोक्तापत्तिसूत्रसूचितपरिणामपक्षेऽपि न तादृशी काचनानुपपत्तिः, यावत्सर्वमुक्ति ईश्वरभावस्यैव मुक्तित्वादिति विवेचनार्थम्-"कृत्स्नप्रसक्तिनि- रवयवत्वशब्दकोपो वे"त्यादिशङ्कासमाधानादिः । अत्र कृत्स्नप्रसक्तिः निरवयवत्व शब्दकोपश्च ब्रह्मणः कारणस्य श्रीभाष्यमतेऽसंलग्नमेवोभयमपि । नहि तन्मते ब्रह्म केवलं परिणामिकारणम् ; प्रकृतिरेव खलु कारणम् नवा निरवयवम्; विशि- ष्टत्वात् । निरस्तचिदचिदिभागतया निरवयवत्वं श्रीभाष्याभिमतं तु गौणमपि कथं विरुद्धम् ? एतादृशं हि निरवयवत्वं ब्रह्मण उपादानकारणताव्यवहारोप- पादकमिति खल श्रीभाप्यादिमतम् । सति चैवं कथं ब्रह्मोपादानतायां निरवयवत्व- मिदं विरुद्ध भवति ? कृत्स्नप्रसक्तिस्तु कस्यापायते-किं विशिष्टस्योन विशेषण- , * अद्वतमातण्डः * स्प आहो विशेष्यस्य ? यस्य निरवयवत्वं मन्यते। यदि विशिष्टस्य,तहि विशेषण- भूतप्रकृतिकृत्स्नमसत्तयधीनैव तस्य सा वक्तव्येति, प्रकृतेः सावधवायाः कृत्स्नरू- पेण परिणामस्य मृदादिवदनावश्यकत्वात्कथमिदं दूषणम् ? एतेन-विशे- वणस्येति पक्षोऽपि निरस्तः । विशेष्यस्य केवलस्य तु कारणत्वमेव न भवद्भिमत- मिति कथं कृत्स्नप्रसत्यापत्तिः? अद्वैतमते तु केवलं ब्रह्मैव परिणामिकारण- मिति, तस्य निरवयवत्वादिविरोधात् कृत्स्नप्रसत्त्यापादनं न कथमप्यनुपपन्नम् । एतेन--निरवयवप्रायत्वात्विदं चिददिविभागमाश्रित्येति विमर्शोक्तमपि- परास्तम् । नद्येतादृशं निरवयवत्वं मुख्यमिति, सूबगते निरवयवत्वशब्दे लक्षणा- पत्तिरेको दोपः । गौणमेव निरवयवत्वं सूत्रकाराभिमतमित्यत्र का वा विनिगमना भवद्भिपक्षिप्यते ? नहि गौणनिरवयवत्वशब्दविरोधो दूपर्ण भक्तुिमर्हति । मुख्यार्थविरोधे खलु विरोधः। गौणं च तत् ब्रह्मकारणनोपपादकं कथं विरुद्धमित्य- परं दृपणमित्यादि पूर्वोक्तं सर्वमप्यत्रानुसन्धेयम् । थुतेस्तु शब्दमूलत्वादिति सूत्रोपपत्तिः । अनेन हि सूत्रेण श्रुतौ यत् ययोक्तं तत् तथैव स्वीकर्तव्यमिति,लौकिकन्याय- विरोधो नात्र पर्यालोचनीय इति बोध्यते । अनेन च, न विकारो ब्रह्मण उरूक्रियते परिणामत्वेऽपीत्येवार्थः श्रीभास्करायभिमतो योध्यते । श्रीभाष्यमतेऽपि ब्रह्मनि- रवयवत्वेऽपि पूर्वोक्तरीत्या कृत्स्नप्रसत्त्याचभावात्, कारणत्योपपादनसंभवाच व्यर्थमेवेदं सूत्रमापयेत । "आत्मनि वैचं विचित्राश्च" इति सूत्र वस्त्व- न्तरसम्बन्धिनि आरोपेण वस्त्वन्तरधर्मे दूपणपरतया श्रीभाष्यकारा व्याच- क्षते । नहीदमत्र कथमपि सङ्गतम् । नहि साख्योऽस्मिन्नधिकरणे कृत्स्नप्रसक्तिमा- पादयन् अन्यधर्मस्यारोपेणापत्रापत्तिमापादयति । कारणत्वेऽपितु न कृत्स्नमस- क्तिरिति खलु वक्तव्यमिति-स्वमादी जीवस्य रथादिस्रष्टुरपि न कृत्स्नप्रसक्तिई- प्टेति भगवत्पादविवरणमेव सांपतम् । "श्रुतेस्तु शब्दमूलत्यात्' परिणामवादो ब्रमणः तदभाववादमात्रे व्यपदिश्यते । सय विवर्तवाद एय वस्तुगत्पत्ति विवरण- मपि तु नात्र दोपाप भवति । सर्वथा तु कृत्स्नमसत्ताधिकरणं न श्रीभाष्यकारा- णामनुफलम्। कार्यकोटी विशेष्यस्य वामगोऽपि . कार्यत्येनानित्यन्यापादन * अद्वैतमार्तण्डः। तु कथं न श्रीभाष्यमते ? ततश्चा "संभवस्तु सतोऽनुपपत्तेरि "ति सूत्रम सङ्गतमेव तन्मते स्यात् । अस्मिन् ह्यधिकरणे श्रीभाष्यकारा "ब्रह्मण एवोत्पत्य भावः, तव्यतिरिक्तस्य कृत्स्नस्थाव्यक्त-महदहंकार-तन्मानेन्द्रिय वियत्पवनादि- पपश्चस्य कार्यत्वमेवेति वर्णनेनाव्यक्तपवाच्यायाः प्रकृतेरप्युत्पत्तिं प्रतिपादय- न्ति, तदुत्पत्तिस्तु किंविशिष्टात् ब्रह्मण इति त एवं वदन्तु । अनेन हि श्रीभाष्य- ग्रन्थेन चिचिदिशिष्टमेव ब्रह्मेति वादोऽपि निरस्थत इव स्वयमेव । अधिकं च बहु कृत्स्नप्रसत्यधिकरणमाश्रित्य वेदान्तपरिभाषाभूमिकायामुपक्षिप्तं विम- शंकारलेशतोऽपि नालोचितम् । ब्रह्मनिरवयवत्वविवारः । अत्र निरवयवशब्दस्य निरवयवपायपरत्वोपपादनेन तच्छब्दावा- रस्पमर्धाङ्गोकारेण विमर्श कारा अनुमन्यन्ते। अवयवशो विभागासहत्वे- नैव निरवयवत्वं यदि विमशंकाराः श्रोभाष्यकारा वा मन्यन्ते, तर्हि कथं घटादिकमपि सावयवम् ? तेऽपि हि घटकपालयोरपृथसिद्धिसम्पन्धेनाव- यवशोन विभागार्हा भवन्मतरीत्येति कथं सावयवाः ? सर्वथा शरीरशरीरि- भावेन ब्रह्माव्यक्तयोः ब्रह्मकारणताव्यपदेशादिकं कृत्स्नप्रसत्त्पधिकरणविरु- द्धमेव । शरीरशरीरिभावस्य पारमार्थिकस्यासीत्रत्वम् । वस्तुतस्तु-शरीरशरीरिभावो जीवब्रह्मणोः प्रपञ्चब्रह्मणो न श्रीतो न घा सौत्रः । अन्तर्यामिब्राह्मणं हि वृहदारण्यके तृतीयाध्याये याज्ञवल्क्यं प्रत्युद्दा- लकपश्नोत्तरत्वेन सूत्रात्मना साकमुपक्षिप्तमिति, "वायुव गौतम सूत्रमि"ति यदुपास्यस्वरूपसमर्पणपरमेव । “यो वै तत्काप्य सूत्रं विद्यात् तं चान्तर्यामिणमि" ति सूबेन्तर्यामिणि चैकमेव विद्यात्पदं विद्यमानमुभयोरपि ज्ञेयब्रह्मातिरिक्तत्वं गमयतीति, न वस्तुगत्या शरीरित्वमन्तर्यामिणो विवक्षितम् । अन्यथा "न घ स्मातमतद्धर्माभिलापात् ' "शारीरश्चीमयेऽपि हि भेदेनैनमधीयते" इत्यन्तर्या- मिणः शारीरत्वनिपेघः कथमुपपद्यते ? यद्यपि शारीरपदमन जोधपरं मन्यन्ते श्रीभाष्यकाराः । इदमेवात्र पर्यनुयोगस्य तात्पर्यम्-यत् जीवपरामार्थमेय , * अद्वैतमार्तण्डा "अनुपपत्तेस्तु न शारीरः”. इत्यदाविवात्रापि शारीरपदप्रयोगादशरीरत्व- मेव परमात्मनः सर्वत्र विवक्षितमिति सूत्रकाराशय इति । “अबोभयेऽपि भेदे- नैनमधोयते” इति शारीरस्य परमात्मना भेदस्य श्रुतिगम्यत्वं योध्यमानमपि न शरीरशरीरिभावः सार्वदिक इति गमयति। न हि शरीरशरीरिणोभेद एवा- त्यन्तिक इति भवनामपि मतम्, अन्यथाऽपृथसिद्धिसम्बन्धासंभवे तादात्म्य- प्रतीतेरेचानिर्वाहात् । सर्वमिदमभिप्रेत्यैवास्माभिर्भूमिकायां शारीरत्वं पर- मात्मनः कल्पितमुपासनार्थमित्येव सूत्रकाराशय इति वर्णितमिति पुनरपीद- मेव पर्यनुयुज्यते ब्रह्मणश्चेतनाचेतनात्मकजगतश्च शरीरशरीरिभावः कुत्रोक्त इति ? एतेन-नानोपासनं किमप्युपदिश्यते, अज्ञाततत्त्वयुयोधयिषया चोप- देशः ; नात्रोपासनागन्धोऽपोति शङ्कापि-परास्ता ; उपासनागन्धस्थाप्यभावे कथं ब्रह्मसिद्धिः ? उपास्यतयैव खलु सर्वत्र ब्रह्म सिद्धयतीति भवतां मतम् । यत्तु विमर्शकारैरन-नवीइवरोऽपि शरीरे भवति, सत्यं शरीरे भवति, नतु शरीर एव भवतीति भगवत्पादवाक्यमनुसंहितम्, तदिदं यदि स्वमतसमर्थना- र्थम्, तहिं तु बाधितम्, नहि भवन्तोऽपि ईश्वरः शरीर एव न भवतीति . मन्यन्ते । जीवशरीरत्यायोग: अनेन तु विज्ञायते-पत् कादाचित्कमेव शारीरत्वम्. चेष्टावदन्त्यावय- वादिशरोरसम्बन्ध इवान्यसम्बन्धे न शरीरपदव्यपदेशः प्रयोजक इति; अन्यथा जीवस्यापि भगवच्छरीरत्वमेवेति भवन्मते "आत्मानं रथिनं विधि- शरीरं रथमेव नु" इति आत्मनः पृथक् शरीरग्रहणमतुपपन्नमेव स्यात् । पाप्य- स्य परमात्मनो यदि जीयोऽपि शरीरम्,शरीरमपि तु शरीरम्, तर्हि रथिरथोभय- भावोऽत्र वर्णितोऽनुपपन्नः स्यात । तदर्थं च जीवस्याशरीरत्वविवक्षायामपि यायः । “अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात्" इति सूत्रयन्तः सूत्रकारा अपि तद्धर्मव्यपदेशपदेन सर्वनियन्तृत्वात्मत्वामृतत्यादिकं विवक्षन्तीति भगव- त्पादाः । श्रीभाष्यकारास्तु सर्वनियन्तृत्वं सर्वशरीरकनया सर्वात्मत्यमित्यादि- फं विवक्षन्ति सुयालीपनिषदेकवाक्यनामपि मन्यानाः । तदमेवास्माभिरालोच.

न ५ अद्वैतमार्तण्डः ५ नीयम्-यत् पृथिव्यादिशरीरकत्वांशोऽपि. मुख्यतया विवक्षितो वा मवेति । तत्र भगवत्पादाः आत्मत्वामृतत्वे मुख्ये परमात्मन उपपद्यते उपपद्यते इति पृथिव्यादिशरीरकत्वांशो न प्रधानतया विवक्षित इति मन्यन्ते । प्रतिपर्याय- ममृतत्वमात्मत्वचैकरूपं यथा वर्तते, तथा पृथिव्यादिशरीरकत्वम् । अयं भाव:- यच्छब्दघटितवाक्यानां तच्छब्दावधिका शेऽनुवादकत्वस्यैव न्यायसिद्धत्वात् “एष त आत्मेन्य'तः पूर्वतनभागावगतस्य तस्यानूद्यमान्त्वा- च्छु त्यतात्पर्यविषयत्वं मन्तव्यम् । तथाच पृथिव्यादिशरीरकत्वांशे न तात्पर्य- मन्तर्यामित्राह्मणस्य । ब्रह्मणोऽशरीरत्वे प्रमाणसङ्गहः । अत एव खुयालोपनिषदि-“यस्य पृथिवी शरारम्"इत्यादिना सर्वशरी- रकत्ववर्णनानन्तरम्-"दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्य- मशरीरं निहितं गुहायामिति तस्याशरीरत्वनिर्देश उपपद्यते । तदिदं सिद्धम्- यत् विद्यमानतादशायामपि न सर्व भगवच्छरीरमेव वर्तत इति । एतेन- तत्तत्कालविद्यमानसर्वपदार्थशरीरकं ब्रह्मत्यत्मत्पक्ष इति विमोक्तिरपि- परास्ता; सूक्ष्मचिद्वितामेव सावैदिकन्यात्, तत्तत्कालविद्यमानसर्वप- दार्थशरीरकं व्रत्मेत्यस्मत्पक्ष इति वदन्त आचार्य वर्या ये खलु सुबालोपनि- पद्नुसारेणाव्यक्तमपि भगवच्छरीरमिति मन्यन्ते,अव्यक्तं च नित्यमिति कथमे- तत् पृच्छन्ति-यत् सूक्ष्मचिदचिद्विशिष्टत्वमेव सार्वदिकमिति को वाऽवोचत् इति। "रूपोपन्यासाच्चे" त्यन्तराधिकरणेऽग्न्यादीनां केवलमूर्धत्वादि- परवाक्यजातानि संगृह्णन्तः सूत्रकाराः श्रीभाष्यकारा वा कथमग्न्यादिकं भगवतः उपास्यस्यैव शरीरमिति न मन्यन्ते ! नहि जीवादयोऽपि निर्दिष्टाः केनचनावय- वरूपेण । रूपोपन्यासश्चायं काल्पनिकरूपाभिप्रायः। एतेन-रूपोपन्यासादिति सूत्रं स्थोपष्टम्भकतपोपन्यस्यन्तो विमर्शकाराः कथं नास्मान् विस्मापयन्ति । सर्वधातु न कारणवाक्यं किमपि सूक्ष्मचिचिच्छरीरकं ब्रह्म कारणतयानुवति । तत्रेदं प्रथमत उपपादयाम:-यत् सूत्रकाराभिमतानि सूत्रकाराभिमततया श्रीभाष्यकाराभिमनानि वा “यतो या इमानि भूतानि जायन्ते" "सदेव सोम्ये- * अद्रुतमार्तण्ड: * दमन आसोदि" त्युपक्रम्य प्रवृत्तं "तदक्षत बहु स्यां प्रजायेय' (आनन्दद्मप- र्यापगत ) "सोऽकामयत" "आकाशाद्धयेव खल्तिमानि भूतानि जायन्ते" 'यः सर्वज्ञः सर्वविदित्यादिवाक्यानि लेशतोऽपि सूक्ष्मचिदचिच्छरीरकं न ब्रह्म परामशन्ति; तत्र तस्याप्रकृतत्वात् , "ब्रह्म वनं ब्रह्म स वृक्ष आसीत् "इत्य- वापि स्पष्टं शरीरिणो ग्रहणमित्यत्र न गमकं वर्तते । अन्तर्यामिब्रह्मणे तु बृहदारण्यकगते सुबालोपनिषद्ते वा न कार्यकारणभावः श्रूयते इति, कथं सूक्ष्मचिचिच्छरीरकमेव ब्रह्म कारणमिति सूत्राशयः श्रुत्याशय इति वा निर्णी- यते ? तथाचाव्यक्तशरीरकत्वनिर्देशोऽपि कारणस्यैव ब्रह्मणः तदुपहितत्वाभिमा- य एवं योजनोया, येन शरीरित्वमिवाशरीरित्वमपि तत्र तत्रोच्यमानं सुत- रामुपपद्यते। आत्मबहुत्वे सूत्रकाराशय परीक्षा । साङ्ख्याभिमतप्रधानकारणतावादाद्य तदभिमतात्मबहुत्वां- शोऽपि पद्यपि प्रतिक्षेप्यः स्वकाराणाम्, परन्तु कारणस्वरूपे स्वविरुद्वमता- न्तरनिरास एव द्वितीयाध्यायद्वितीयपादार्थ इति, न सोऽप्यंशस्तन सूत्रकृता समालोचितः । सूत्रकाराभिमतं त्वात्मकत्वमेव, नतु तद्वहुत्वम् , यत्तु देहायुपा- धियुक्तमोपाधिकमेवेत्यात्मस्वरूपविचारपस"ऽशो नानाव्यपदेशादि"त्युपका- न्तेऽशाधिकरणे "अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्" इत्यादी विवे- - चितमेव । श्रीभाष्यकाराणामनुज्ञापरिहार सत्रविवरणपरीक्षा । श्रीभाष्यकारा हि सर्वेपां ब्रह्मांशत्व-शत्यादिनकरूपत्वेनानुज्ञापरिहारा- सम्भवशयेदं सूत्रमयतारयन्ति । इदमेवान्न पृच्छामः-पत् स्वरूपती भि- न्नानां जीवानां केनवन धर्मेण साम्यमात्रेण कथं विधिनिषेधानधिकारशको- त्यितिः ? ब्रह्मांशत्वेन परस्परसाम्यं जीवानां कर्माधिकारिणामेव; ब्राह्मण- त्यादिकं तु विशिष्टकर्माधिकारप्रयोजकम्, नतु सामान्यतोऽनुज्ञापरिहाराधिका- रप्रयोजकम् । जीवस्वरूपमयलम्ब्य कर्माधिकारो जीवस्य वामभेदे सत्येव भवतीति शंकव हि सांप्रनं धारणीया । इदमनेन सिद्धं भवति-पत स्वरूपतो *अहतमार्तण्डः vwww न जोषानामनेकत्वमिति कृत्वैव सूत्रकारणानुज्ञापरिहासंभवशङ्काऽनूद्य दृष्पत इति। अत्रानन्तरसूत्रे “असन्ततेश्चाव्यतिकरः" इति देहसम्बद्धमेवानुकृष्या- सन्ततिवर्णनात् स्वरूपतो नाणुपरिमाणत्वम् , किन्तु विभुत्वमिति सिद्धान्तमपि सूचकाराः सूचयन्ति । अत एवाभासत्वनिरूपणानन्तरमहष्टानियमेनानुज्ञाधि- कारिणां यहूनां विभूनां निराकरणमुपपद्यते । "आभास एव चे"त्यादीर्ना श्रीमाध्यवियरणानुपपत्तिः । "आभास एव चेति सूत्रेणा दृष्टानियमादिति सूत्रेणा चादैतमतनि- रासः सूत्रकारेण क्रिपत्त इति सत्यं श्रोभाष्यकारा व्याचक्षते। तानीमानि श्रीमाप्यवाक्यानि-"अखण्डैकरस प्रकाशमानस्वरूपस्य स्वरूपतिरोधानपूर्व- कोपाधिभेदोपपादनहेतुराभास एव। प्रकाशैकस्वरूपस्य प्रकाशतिरोधानं प्रकाशनाश एवेति प्रागेवोपपादितमिति । परन्तु नेदं भगवत्पादसम्मता- दैतमतनिरासपरम् , यत्राज्ञाने श्रीभाष्यकारापादितानुपपत्तीनामेकापि नाव- काशते । अज्ञाने श्रीभाष्यकारापादितानुपपत्तिनिरासः । अज्ञानस्य ब्रह्मैव चैतन्यरूपमाश्रयो विषयश्चेति भगवत्पादाएव- आक्षेपप्रतिक्षेपपूर्वक-"कथं पुनः प्रत्यगात्मन्यविपयेऽध्यासो विषयतर्मा- शाम्" "इत्यादिना--"तदिवेन च वस्तुस्वरूपाचारणं वियामाहुरि"त्य- न्तेन वाक्यजातेन व्यवस्थापयन्ति । "चैतन्यात्मकत्वात्तु नाज्ञानविषयत्वं स- म्भवति। ज्ञानाज्ञानयोहि विरोधोऽज्ञानपदविभागेनैव गम्यते । ब्रह्म च ज्ञान- रूपं कथमज्ञानस्य विषयः ? नहि तिमिरेण प्रकाशस्यावरणम् । प्रकाशावरणं नाम प्रकाशनाश एवेति ब्रह्मणोऽज्ञानविषयत्वे स्वरूपनाशरसमापद्यते"त्यादीनि ब्राह्मणोऽज्ञानविषयत्वानुपपत्ती यानि दूषणानि श्रीभाष्यकारा मन्यन्ते, सर्वा- गि तानि"प्रत्यगात्मनी"ति पदेन भगवत्पादाः सूचयन्ति । समाधानन्तु-"तहि. वेकेन च"ति चाक्येन भगवत्पादाः प्रमाणजन्यवृत्तिप्रतिविम्बितस्यैव चैतन्यस्य विद्यापदार्थत्वात् तस्यैवाविद्याविरोधित्वमिति सूचनेन विशदयन्ति । अय- मन्त्र सारांश:-शृत्तिः, तत्मतिफलितं चैतन्यं वैवाज्ञानविरोधोत्येवाद्वैतिनो यद्- *अईतमातण्टा* न्ति । वृत्तिपदार्थस्तु नापूर्वोऽदैतपरिभापामावसिद्धो धर्मभूतज्ञानमिवेति, साङ्ख्यादिप्रक्रियावलम्बनेन पूर्थमेव विवेचितम् । तदपरामर्शेनैव तु ज्ञाना- ज्ञानयाविरोधकथामात्रोपक्षेपेणाहतमननिरसनमनुक्कोपालम्भनमेव । एतेन- ब्रह्मणोऽज्ञानाश्रयत्वमपि-याख्यातम्। अज्ञानानुमानन्तु- प्रमाणज्ञानम्, स्व- भागभावव्यतिरिक्त-स्वनिवर्त्य स्वदेशगत-वस्त्वन्तरपूर्वकम् , अप्रकाशितार्थम- काशकत्वात् , इत्यज्ञानभावरूपत्वमेव विषयोकरोति, नत्वज्ञानम् । श्रीभाष्योक्तरीत्या प्रकृतानुमान एव व्यभिचारशङ्कापि नावसरति, अनादि- त्वस्य नाशाप्रयोजकत्वस्य बहुशोऽन्यत्र विवरणादावुपपादितत्वात् न निवृत्यनु- पपत्तिः । एतेन-निवर्तकानुपपत्तिरपि-परास्ता। वृत्तिः, तत्प्रतिफलितं चैत- न्यं वाऽज्ञाननियतकम् , विरोधादिति धनुपदमेव विवेचितम् । स्वरूपं तु तस्था- निर्वचनीयमिति, निर्वक्तुमशक्यत्वमलङ्कार एव। अधिकं च वेदान्तपरिभा- पाभूमिकायामस्मदीयायां विशदं विवेचितम् । सौत्रः साख्यमिमतात्मबहुत्वचादनिरासः । एतेन-अदृष्टानियमसूत्रविवरणमपि श्रीभाष्यकाराणां न त्पादोपादैतमतनिरासपरमिति-सूचितम्; नहि भगवत्पादास्तदनुपायिनो या व्र- माश्रयेनादृष्टेनोपाधिसम्पन्चं व्यवस्थापयन्ति, येन-"उपाधिपरम्पराहेतुभूत- स्यादृष्टस्यापि ब्रह्मस्वरूपाश्रयत्वेन नियमहत्वभावाव्यवस्था" इत्यादि श्रीभा- प्यवाक्यानामवसरः स्यादिति, विभ्वनेकात्मवादनिरास एव सून्नकारता पर्यविषयः, यो भगवत्पादैरत्र व्यवस्थाप्यते । एतेन-~-आत्मबहुत्ववादी साङ्ख्यः किं तदंशे प्रतिक्षिप्यते ? इत्यादिपर्यनुयोगोऽपि निरवकाश इति सूचितम् । आत्गोत्पत्तौ श्रीभाष्यमतसमालोचनम्. जीयब्रह्म- सामानाधिकरण्यपरीक्षा च । विपत्पादविषये भूमिकायामुक्तानि यहनि विमर्शकारींशतोऽपि चुम्थि- तानि । नित्यत्वेऽध्यात्मनान विषदादिवत्मायेत्यम्, किन्तु रूपान्तरेण । स्वरूपतः खट वियदादि कार्यम् , आत्मा तु धर्ममूतज्ञानसंकोच-विकासद्वारा कार्यकोटिमवि- या रूपान्तरेणात्मनः कार्यत्वं वियदादोनांत रूपान्तरेणेति फयमिदं संभ- भगव- : , * अहतमार्तण्ड:* वति ? कथं चेयं कल्पना सूत्रारूदेति विषयमधिकुत्य तु विमर्शकारा एवं वदन्ति । : "नैव रीतिस्सर्वत्र सर्वेरादरणीयेति नियमः" इति। महि वयमपि रीति- परिवर्तने नाधिकारी भवतामिति' वदामः, किन्तु सूत्रकारानभिमतं तदयुक्त- मिति। सत्यमद्वैतिनो जीवानां ब्रह्मणश्च सामानाधिकरण्ये विषये केचनैकामेव- रीतिं याधायां सामानाधिकरण्यं जीवस्यापि विवर्तत्वमते स्वीकुर्वन्ति , व्यक्त वैतत्सिद्धन्तलेशसंग्रहे, केचन तु जीवेन ब्रह्मणः सामानाधिकरण्यमभेद इति । उभयत्रापि तु स्वरूपचैनन्यमानसत्यत्वस्यादैत्यभिमतस्य तु न बाधः । उभयत्र विशिष्टजीवकार्यत्वानित्यत्वादि तु समानमिति, नातमते विषद्विशिष्टजीव- यो रीतिपरिवर्तनम् । एतेन-"किं भवन्त एकामेव रीतिं वर्णयन्ति विपदादे- ब्रह्मणइच सामानाधिकरण्यविषये" इत्यादि पर्यनुयोगोऽपि छिन्नमूल इति सूनि- तम् । शरीरकार्यत्वादेव जीवस्य कार्यत्वं विशिष्टस्यैव,शुद्धस्य तु नित्यत्वमेये"ति "नात्मा श्रुतेरिति सूत्रतात्पर्यम् । तथाच तत्त्वमसीतिवाक्ये विशिष्टग्रहणे बाधायां सामानाधिकरणम्, शुद्धविचक्षायां तु अभेद इति "चराचरव्यपाश्र- यस्तु" "नात्मा श्रुतेरि"ति सूचढयमपि सार्थकम् । “मात्मा श्रुतेरि"ति सूत्रेण विपदादिवदुत्पत्तिनिषेधे श्रुतिवशेन नित्यत्व श्रवणमेव हेतुमच्यते। तेन चोत्पत्तिश्रुत्यपेक्षया नित्यत्वश्रुतेर्बलवत्त्वमेव प्रतिपाद्यत इति प्रथलश्रुतिया- धितोत्पत्तिः प्रकारान्तरेण तदुत्पत्तिमपि कल्पयतीति कथं सूत्रकाराभिप्रेत- मिति संभवति? वस्तुतस्तु जोवस्य रूपान्तरण कार्यत्वमपि भवद्भियदि सूक्ष्माचिद्धि- शिष्टब्रह्मकार्यत्वमभिप्रेत्योच्यते, तहि रूपान्तरेण जीयः जीवः कार्यभूतः कस्य परिणाम इति वक्तव्यम् । यद्यचिदंशस्य, तर्हि बाधितम् । ब्रह्मां- शस्तु न भवतां परिणामिकारणम् । सूक्ष्मचिदंशोऽपि कारणकोटौ यदि प्रवे- इयते, तर्हि नित्यभूतोऽपरो जीवः परमात्मशरोरं प्रकृतिरिव कश्चन वर्तत इत्यत्र प्रमाणं वक्तव्यम् । नहि सूत्रकाराः कुत्रापि जीवान्तरं तादृशं सूत्र- पन्ति । शरीरादिविशिष्टस्य तु जीवस्य कार्यस्यैकेन रूपेण नित्यत्वमपि पर्नत ७७ * अहतमार्तण्डा इत्यत्र न किमपि प्रमाणं प्रदश्यते सूत्रतः श्रीभाष्यकारैरपि । कार्यशरीरावच्छेदे- नौपाधिकं जन्यत्वमेव स्वीकृत्य निर्वाहस्तु सूत्रकारसूचित इति "चराचरख्यपाश्र- यस्तु” इति सूत्रानुसारेणास्माभिरुपपादितमेव । शरीरविशिष्टस्यैव नित्यत्वं कार्यत्वं चेति स्वीकारेतु विशेषणीभूतशरीरादीनां ब्रह्माकार्यत्वात् ब्रह्मशरीरत्वा- निर्वाहः । इदमेवाभिप्रेत्यास्माभिः- “यदि शरीरविशिष्टस्यैव जीवस्यांशत्वम् , तहि सर्वस्थूलाचिद्वैशिष्ट्यं याषितम् । परम्परया सशरीरत्वं घाधितमिति परि- भाषाभूमिकायामेव विशदमुपक्षिप्तम् । तदिदं सिद्धम्-यत् जोवब्रह्मणोः सामानाधिकरण्यं स्वरूपैक्यनियन्धनमेव । अत एव तृतीयाध्यायतृतीयपादे जीवगतावस्थात्रयपरीक्षणानन्तरम्- स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि" इति ब्रह्मनिर्गुणत्वं सूत्रकारव्यवस्थापितमुपपद्यते । श्रीभाष्यमतेतु शरीरशरीरिभावप्रयुक्तभोक्तृत्वादिशङ्काया बहुशः पूर्वत्र समाहितत्वात् व्यर्थमिदमधिकरणमापद्यत । स्वाप्निकमायामात्रत्वादिव्यवस्थापनस्याहेतमत एवोपयोगः । अत्र स्वामार्थपरीक्षा स्वाप्नार्थस्रष्ट्रभावप्रभृतिबहुविधब्रह्ममाहात्म्य- सिद्ध्यर्थेत्युपक्षेपेण विमर्शकारा विस्मापयन्त्यस्मान्, यतः प्रथमाध्यायादिपु निखिलप्रपञ्चस्रष्तृत्ववर्णनेनाप्ययमप्यर्थः सिद्धो भवति । नहि श्रीभाष्यकार- मते यत्र सर्व ज्ञानं प्रमात्मकम्, तत्र न स्वाप्नार्धा जाग्रत्पंपञ्चादिविलक्षणा भवन्ति, येन तन्निरूपणं पृथक् सावसरं स्यात्। न वयं वेदान्तसारावल्यां पादार्थोऽन्यथा न वर्णित इति वदामः । इदमेव वयं मन्यामहे नायं पादार्थ:सूत्र कोराभिमत इति । जीयब्राह्मणोरभेदनिरूपणार्थं तत्वंपदार्थ शोधनमेव हि तृतीया- ध्यापतृतीयपादेन सूत्रकाराः कुर्वन्ति , येन जीवबामणोरभेदोऽपि निरूपिन- . प्राय: स्यात् । "अधिकं तु भेदनिर्देशादि"त्यादिसूत्रोपात्तभेद निरासम्य यावत्साक्षात्कारमास्यन्तिकभेदश्रुतीनां प्रामाण्यम्य च मारत्वम्। एतेन-यदि जोपत्रामणोरभेदमदर्शनमिष्यते सूत्रकृना, तर्हि इतरत्र्य- * अतमार्तण्टः * पदेशाधिकरणे श्रुतियलेन स्पष्टं सिद्धान्तितो जोवब्रह्ममेदः किमर्थं न प्रतिपि. ध्यते केनापि सूत्रेणेति शङ्काऽपि-परास्ता । स्पष्टं हि सूत्रकारा 'भेदादिति. चेन्न प्रत्येकमतचनादि" ति मेदं भेदव्यपदेशादिसूबानूदितमनूध निधन्ति । इदमेव सूत्रमस्माकं भेदव्यपदेशादिसूत्राणामोपाधिकभेदपरतया व्याख्याने गमकम् । ततश्च वयमपोदमूरीकुर्महे भवन्त इव-"कामपि भेदश्रुतिमभे- दश्रुति चा बाधितुमिच्छन्ति सूत्रकाराः। माध्यस्थ्यमवलम्ब्य सन्धिमेव कुर्व- न्ति विरुद्धववभासमानयोः श्रुत्योरि" ति, स्वतन्त्रमत्यन्तभेदेनाम्नानम- त्यन्ताभेदेन चाम्नानमेकनरस्यौपाधिकत्वकल्पनेन यथोपपद्यते, न तथा शरी- रशरीरिभावकल्पनेनेति, शरीरशरीरिभावः श्रीभाष्यकाराभिमतोऽत्यन्ताभेदे. ऽत्यन्तभेदे च न संभवतीति, सूत्रकाराणां केवलाद्वैताशयत्व एव मध्यस्थता भव- दभिमता समर्थयितुं शक्यते, नान्यथा । अभेदवादस्य सौत्रत्वम्। एतेन-"नानाव्यपदेशादिति भेदस्य वाचनिकं ग्रहणं दृश्यते,ब्रह्माभेदं तु न वाचाऽपि निर्देष्टुमिच्छति सूत्रकारः । 'अन्यथेति तु कथञ्चिदंशाधिक- रणे सूचयत्यभेदव्यपदेशमिति विमर्शोऽपि-परास्तः । “सूचनात् सूत्रमुच्यते" इति सूत्रकारसूचितं कथं न तद्नभिमतं भवतीति भवन्त एव समालोचयन्तु । वस्तुतस्तु अभेदस्तु भेदाभावरूपो भेदमित्थ्यात्वसूचनेन भेदनिपेघपुरस्सरमेव सूत्रणोय इत्येव सूत्रकारा मन्यन्ते । अत एव "भेदादिति चेन्न प्रत्येकमच. नात्" इति अतद्वचनादिति अभेद्वचनादिति स्पष्टं सूत्रयन्ति सूत्रकारा अभेदं स्वावसरे। श्रीभाष्यमते हि भेदशब्देन प्रथममवस्थाभेदे लक्षणा, द्वितयतश्चातद्वचनशब्देनानुपस्थितस्यामृतत्वस्य परामर्श इत्यादिकं भूमिकाया. मुपक्षिप्तम् । "न स्थानतोऽपी"ति सूत्रार्थविचारः श्रीभाप्याद्वैतभाप्यसमीक्षा च। "न स्थानतोऽपि परस्येति सूत्रे हि नत्रः श्रवणात् सत्यं वयमपि पश्या- मोभवन्त इव किश्चिद्रनिषेध्यं सूत्रकारा मन्यन्त इति। निषेध्यं च प्रसक्तमेव नाप्रस कमिति,किं सूत्रोपत्तमेवोचितमुताध्याहृतमितितु विप्रतिपन्नमिदम् । अत्रस्थान * अद्वतमातेण्डः * तोऽपोत्पपिशब्देन समुचधार्थनान्वयात्नत्रः स्थानतःस्वरूपतश्चोभयलिङ्गंन ब्रह्मेति स्वरसमन्वयो भवति भगवत्पादमते । सत्यं प्रजापतिवाक्यमात्रस्यात्र विचार्य- स्वे स्थानप्रयुक्तदोपशङ्कामानं तद्वाक्यदृष्ट्या प्रसंक्तमिति न स्थानतो दोष इति, दोषस्थाध्याहार इति समस्त्यवसरः कल्पनाया अस्याः, परन्तु नेदं संभवति, यतः सर्वत्रपवैयर्थ्यमत्र समापद्येत । 'सर्वत्र' पदप्रयोगेण हि सर्वेषां वेदान्तवाक्यानां विवक्षा, "सर्वत्र प्रसिद्धोपदेशादि"त्यादौ क्लृप्तेति,सर्ववेदान्ततात्पर्यविषय एवात्र विचार्यते; नतु वाक्यविशेषगृहीतापुरुषार्थगन्धशङ्कानिषेधादिकम् । स्पष्टं हि "मधबन्मय वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरिरस्यात्मनोऽविष्टान- मात्रो वै, सशरीरः प्रिपाप्रियाभ्याम्, नह वै सशरीरस्य सतः प्रियाप्रिययोरपहति- रस्नोति वाक्यं शरीरासम्बन्धेनैव ब्रह्मणोऽपुरुषार्थगन्धं निषेधति, नतु शरीर- सम्बन्धमपि सिद्धवत्कृत्येति, प्रजापति वाक्यावगते स्वप्नाद्यवस्थाबारेण निर्दि- श्ममाने च नापुरुषार्थगन्धशङ्काया अवसरः। स्थानपदं हि-"स्थानादिव्यप- देशोपपत्तश्चे"त्यादाविव नियम्यस्थानमेवात्रापि परामशतीति, स्पष्टमिदं विज्ञा- यते यत् सूत्रकारा अन्न स्थानसम्बन्धनिपेधेनाशरीरमेव ब्रह्म निर्देष्टुमिच्छन्ति सर्ववेदान्तप्रतिपाद्यतया। यचान पौनरुत्त्यं श्रोभाष्यतत्परिहारोपमर्दनमुखेन भूमिकायमुपक्षिप्तम्, तत्र विमर्शकारैः श्रोभाष्यगतपरिहारांशमात्रमनूदितम्, नतु तदुपरि प्रदर्शितं दूषणं समालोचितम् । तदिदं सिद्धम्-यत् "न स्थानत" इति सूत्रगतस्य नो न दोपेणाध्याहृतेनान्वयः। सम्बन्ध्याकांक्षा हि श्रुतेनो- भयलिङ्गपदेनैव समर्प्यते। नहि प्रजातिवाक्यश्रवणानन्तरं कस्यापि ब्रह्मणि दोपशङ्का समापतति। भगवत्पादमते "सर्वत्र हो"ति हेत्वंशेऽध्याहारदोपाभावोपत्तिः। "सर्वत्र हो”ति हेत्वंशे तु नाध्याहारदोपः, यतः-अनन्तरसूत्रगतमत- द्वचनपदमत्रानुपज्यते। अतद्वचनपदेन त्यनुभयलिङ्गवचनं विवक्ष्यते।तच निविशेप. वचने पर्यवस्यनीति भगवत्पादमततात्पर्यम् । एतेन-हेतुदलस्य स्वेदानुसारणा. ध्याहारो न न्याय्य इति शङ्कापि-परास्ता । नहि मूत्रानुपस्थितं किमप्यत्र यो. ज्यतेऽस्माभिः , भवन्मते तु दोषादिपदस्य सूत्रानुपस्थितस्याध्याहारान्नानु- .

* अतमार्तण्डः पङ्गः । एतदेवाभिप्रेत्यास्माभिरस्मदीयभूमिकायाम्-सर्वत्र होत्यत्र तु निर्विशेप- मेवेत्यध्याहार इव भवनोतीवशब्दः प्रयुक्तः। सर्वत्रातदचनपदेन तात्पर्यतो नि- चिशेपपरत्वमेव विवक्ष्यत इति न हेतोरसिद्धिः। तथाच सर्वाणि वेदान्तवा- क्यानि, न सविशेपब्रह्मपराणि, निर्विशेपैकतात्पर्यकत्वादिति न्यायप्रयोगस्यै-- पात्र विवक्षितत्वान्न दोषः । भवन्मते तु ब्रह्म, निर्दोपम्, सर्वत्रोभयलिङ्गत्वादि- त्यत्र न केवलं सर्वत्रपदम्,किन्तुभयपदमपि व्यमिति, व्यर्थविशेपणत्वात् व्याप्य- स्वासिद्धिः । सूचितं चैतत्परिभापाभूमिकायामेव-सत्यकामत्वादिलिङ्गान्तरस- मर्थनस्य को घोपयोगः, यतोनिरुस्तसमस्तदोपत्वमेकमेव तत्र पर्याप्तमिति ग्रन्थेन ? "भेदादिति चेन्न प्रत्येकमतदचनात्' इति सूत्रान्तरं तु सत्प्र- तिपक्षानुमानान्तरनिरासार्थमेव । “यथा हि निर्विशेपवाक्यगम्यत्वेनोभयलिङ्ग- स्वनिषेधेन निर्विशेषपरत्वं व्यवस्थाप्यते, एवं सविशेषवाक्यप्रतिपाद्यत्वेनाप्यु- भयलिङ्गत्वनिषेधेन सविशेषपरत्वमेव वेदान्तानां भवत्वि"ति शङ्का हि प्रत्युपा- घि तदसम्बद्धस्वरूपप्रतिपादकत्वात् सविशेषवाक्यानां न परमतात्पर्यविषयत्वम्, किन्त्वनुवाद एवेति प्रतिपादनेन निरसनीयेति,भेदादिति सूत्रान्तरम् । पूर्वत्र केव- लमदचनत्वं हेतुरत्र तु प्रत्येकमचनत्वमिति निष्कपः । सति चैवमुभयलिङ्गत्वा- भावमात्रस्य साक्षान्निषेधात् निर्विशेषप्राधान्यात् निर्विशेष एव वेदान्तानां पर्य- वसानमिति सूचनार्थम्-अरूपवदेव होति सूत्रमित्यायुत्तरत्र स्पष्टीभविष्यति । अनुपङ्गाद्यनपक्षमेव सर्वत्रहीत्यस्यैव हेतुसमर्पकत्वम् । अथवा-"सर्वत्र हि" इति सर्वतादात्म्यमेव "सर्व खल्विदं ब्रह्म तज्ज- लानिति शान्त उपासीत" इति वाक्यसिद्धं सर्वोपादानताप्रयुक्तं विनानुपङ्गमध्या हारं वा हेतुरत्र विवक्ष्यते, सति चैवं पृथिव्यादिशरीरसम्बन्धः न पार- मार्थिकः, यतो पाधायामेव सामानाधिकरण्यं सर्वत्र । न हि कुत्रापि ब्रह्म पृथिध्यादिशरीरं समानाधिकरणतया निर्दिष्टम् । अन्तर्यामिब्राह्मणेऽपि हि“यस्य पृथिवी शरीरमित्यादिना भेदेनैवोपदेशो दृश्यत इति, न शरीरशरीरिभावादिकं वास्तवमिति,नोभयलिङ्गं ब्रह्मेति युक्तमिति तथाच ब्रह्म, न स्थानादिपयुक्तसविशेषत्व-खरूपपयुक्तनिविशेषल्वो सन्नाः।

* अद्वैतमातण्डः * ८१ " भयवत्, सर्वतादात्म्येनाम्नायमानत्वात्, इत्यनुमानप्रयोगोऽत्र विवक्षितः। यथा- चोभयलिङ्गत्वे सविशेषत्वं नोपपद्यते, तथा पूर्वमेव सूचितम् । अत्र पक्षे सर्वता- दात्म्यं सविशेपस्यैव भवतु,इति शङ्कावारणार्थम्-"भेदादिति चेन्ने"ति सूत्रम् । परिशेपानुमानपरम्-"अरूपवदि"ति सूत्रमिति विवेकः । सगुणवाक्यानि हि सर्वाणि यहन्यपि या न तात्पर्यतः सगुणपराणोति घण्टाघोपोऽयमतिनामि- ति,-किमर्थं वा विमर्शकारैरिदमुपक्षिप्यते वारं वारं-यत् भूयस्यः सगुण- श्रुतयः, सगुणविद्यापराणि च दृश्यन्ते सूत्राणि बहनोति । अन्तर्यामिब्राह्मणादीनामवान्तरवाक्यत्वव्यवस्था । ततश्चायमेवार्थः सत्रकाराभिमत इति विज्ञायते यदन्तर्यामित्रा- ह्मणादि सगुणं वाक्पं सर्व निर्विशेपपरमिति । यद्यपि नेदानीमन्तर्यामिव्राह्मण. स्थ निर्विशेपपरत्वं व्यवस्थापितमिति हेत्वसिद्धिशङ्का-"न सामान्यमानमनि- र्धारितविशेष हेतृक्रियते बिपाश्चिता केनापीति विमर्शापादिता" "न स्थानत" इति सूत्रमात्रसाहाय्येनास्माभिरर्थस्यास्प साधने साबसरा, परन्तु “भेदा- दिति चेन्ने" ति शङ्कापूर्वकमुक्तसमन्वयस्य साधनान्न दोपः । एवंच प्रथमस्त. जोपात्तहेतुसमन्वयार्थ वितीयसूत्रमिति व्याख्यातं भवति । सति चैवमश- रोरमेव ब्रह्म सर्वत्र विवक्षितमिति पर्यवसित एवार्थः स्पष्टमुपपाद्यते सूत्र कारः-"अरूपवदेव हि तत्प्रधानत्वात्" इति । नधुभयसम्मतेनैव हेतुना सूत्र काराः सर्वत्र साध्यं साधयन्ति; किन्तु स्वासाधारणेन स्वयं साध्यमानेनापीत्यय- श्यमिदमूरीकर्तव्यम् ; अन्यथा मुख्यमोक्षितृत्वादिकं प्रधानवादादिनिरासार्थ. तया सत्रकाराभिमतं न साइख्यानामपि साधारणमिति प्रधानकारणवादनिरा- सायसम्भवदुक्तिकं स्यात्। एतेन-हेतुनिर्देशश्च पक्षयसाधारण इति विमर्शो. तमपि चिन्यमिति-सूचितम् । वस्तुतस्तु-प्रतिपर्यायमेकात्मप्रतिपादनम्, चाक्यविशेपेपु निर्गणस्वरूपपतिपादनं च साधारणमेवात्र हेतुतया निर्दिश्यते। देषगुणराहित्यादिपरतया सोने तु न प्रमाणम, मघा फुत्रापि तथा मृत्रकारैः मुचितम् ।

* अद्वैतमार्तण्डा* ArAAAAAAA पुनरपि "न स्थानतोऽपि" इति प्रथमसूत्रार्थसाधितस्यैव वा तन्मत उपपादनात् अरूपवत्सूत्रवैयर्यमपि समापतति । अरूपपदं यहुव्रीहिसमासेन निर्गुणं योधयति, भरूपवत्पद्मपि तद्वितान्तस्य रूपवत्पदस्य नञ्तत्पुरुपेण तु नि- प्पन्नं तदेव योधयति । सति चैवमरूपमित्येव वक्तव्ये अरूपवत् इति प्रयोगः कथं श्रीभाष्यमतानुयायिनामेवानुकूलम् । मात्रालाधवं तु वैयाकरणानामेव पुत्रोत्सवाय, न वैयासिकानामपि । ब्रह्म निर्गुणमिति योधनं ह्यवाङ्मनसगोचर- स्येदन्तया निर्देशासंभवान् न संभवतीति, "अधात आदेशो नेति नेति" इति प्रक्रियया रूपवत् न ब्रह्मेत्यादिरूपेणैव हि ब्रह्म निरूपणीयमिति मतुप्सार्थ- क्यमद्वैतमतेऽपि संभवत्येव । सत्यं श्रीभाष्यकारा अत्र तत्पदं व्यस्तमेव मन्य- न्ते, परंतु नैतद्युक्तम्, वैद्यर्थ्यात् । प्रकरणादेव हि तदर्थलाभः संभवति, 'प्रघा- नत्वात्' पद्मपितु श्रीभाष्यमते न स्वरसम् । प्रधानत्वपदेन हि मुख्यत्वादित्येव स्वरसतोऽर्थः प्रतीयते, न तु निर्वाहकत्यादिति । अनेन चेदं ज्ञायते-पत्सत्यं सगुणमपि वेदान्तेषु प्रतिपाद्यते, परन्तु न तन्मुख्यम्, किन्तु निर्गुणमेवेति । श्रुतौ हि उपासनार्थ ब्रह्मणो यहनि रूपाणि कल्प्यन्त इति तु सत्यम्, तात्पर्यवि- पयत्वं तु न तेषु गुणेपु; अन्यथा “मनो ब्रह्मेत्युपासीत" इत्यादी कल्पितं मनसो ब्रह्मत्वमपि पारमार्थिकं स्यादिति । उपासनाविपयास्तु अन्यत्र कल्पिता दृष्टा इति, कथं ब्रह्मण्यप्युपास्ये सत्यकामत्यादयो न कल्पिना भविष्यन्ति। श्री- भाष्यकारा हि पुरुषार्थत्वात् ब्रह्मण उपास्यस्य पारमार्थिकं सगुणत्वमपि सम- न्वय सूत्रेण प्रतिपादयन्ति, परन्तु समन्वयशब्दस्य तात्पर्यविपयत्वादित्य- स्मिन्नेवार्थे स्वारस्यात्, पुरुषार्थतयाऽन्वयादिति विवरणं न सूवाक्षरानुगुणमिति सर्वविदितमिदम् । एतेन-जधुपासनार्थानां परमार्थतेत्यस्ति नियमः ; तथा सति "आत्मेत्येवोपासीते"त्युपस्थितया निर्दिष्टस्यात्मैक्यस्याप्यपारमार्थ्यप्रसङ्गा- त्" इति मार्ताण्डोक्तिरपिव्याख्याता; नहि भगवत्पादा अनोपासनां मन्यन्ते; इतिपदसमभिव्याहारात्, किन्तु ज्ञानमेवेति वृहदारण्यकभाष्य एव व्यक्तम् । प्रकाशपति मत्रार्थममीक्षा। अत एव "प्रकाशवच्चायैपयमिति मुत्रमपि सायसरं भवति । यन- JM अत्र प्रकाशपदेन लोकसिद्ध- वर्षनीयः। यथाच विषव्याप्यावतिष्ठमानः प्रकाशः अङ्गल्याद्युपाधियोगे- नार्जवादिकं प्रापयति, विषयविशेषाणां सूक्ष्माणां ग्रहणार्थतया कल्पितक- फ्रादिरूपोऽपि सप्रयोजनः, एवमनापीति तु भगवत्पादाभिमतोऽर्थः। एवं पतेन-~प्रकाशस्यापश्यं दृष्टान्ततयाऽन्वयः सूत्रवाक्यात स्वरसता प्रतीपत्ते , परस्तु-औपाधिकाकारायोगे दृष्टान्ततया योजनात् स्वरससिद्धार्थ- त्यायथ्य एवं प्रभाशहटान्ततामभिप्रेमः। द्वारंतु केवलमोपाधिकाकारा. योगः सत्रकारा हि चैतन्यमानम्पत्वस्य सत्यकामत्यादिभिस्तुगत्या विरोधमेव मन्यन्ते, नाचिरोधम् । व्यवहारष्ट्या तु अधिरोध मन्यन्त इति त्वन्यदेतत् । अद्वैतमार्तण्डः तात्पर्याविषयत्वे गुणानां ब्रह्मणि तत्कल्पनावैयर्थ्यशङ्का स्वरसत उदेतीति, तत्समर्थनमत्र काम्यते प्रकाशदृष्टान्तेन । प्रकाश एव दृष्टान्ततया विवक्षणमहति, नतु "सत्यं ज्ञानमिति वाक्यम् । न हि सूत्रकाराः कुत्रापि “मत्यं ज्ञानमनन्तं ब्रह्मेति याक्यं निर्विशेषकाशस्व- रूपब्रह्मपरं मन्यन्त इति श्रीभाष्यानुयायिनो वक्तुमर्हन्ति, येन-"सत्यं ज्ञान- मनन्तं ब्रह्मे स्यादिभिर्निविशेष प्रकाशैकस्वरूपं ब्रह्मावगम्यते, “यथा सत्यं ज्ञान- मित्यादिवाक्याचयात् प्रकाशझ्यरूपत्वं ब्रह्मणोऽङ्गीक्रियते," इत्यादि भाष्यमुपपन्नं भवति । यदि तु परमतरीत्या दृष्टान्तः, तहि तु परमते सगुण- वाक्योनाप्यवान्तरमामाग्यावीकारान्नाशङ्काया एवोस्थितिः। परे हि सत्या- दिवाक्यं सगुणवाक्यं सर्वे निविशेषब्रह्मयोधकतव प्रमाणं मन्यन्ते । औत- ज्ञानादिपदपरित्यागेन प्रकाशपप्रयोगस्वारस्यमपि श्रीभाष्याभिमतं न सूत्रका- राभिमतमिति ज्ञापयति। नहि प्रकाशपदेन सत्यज्ञानादिशक्यमुपस्थाप्यते । श्रुतिप्राप्तेिषु गुणेषु केपुचित् सार्थक्यम्, केषु चित्तु वैषध्यमिति शङ्काया अकस्मात् गुणाविवक्षादीनां पूर्व सूत्रेष्वसूत्रणे कथमुस्यितिरपि समुदेति ? अतः ब्रह्म,सगुणम्, प्रकाशवत्, उपासनार्थतया तु गुणानां सार्थक्यमित्येवात्र सूत्रा चार्य एवं वस्तुगत्या प्रकाशदृष्टान्ततात्पर्य पर्यवस्थतीति न दोपः । सत्यकामत्यादिकरियनत्येन सगुणवायसार्थक्योपपत्ति । त्याग इति व्याससिद्धान्तमार्ताण्डोक्तिरपि व्याख्याता । घलो वयमपि वस्तु - * अद्वैतमार्तण्डः* अत एव-"एवमप्युपन्यासादविरोधं वादरायण" इति सूत्रेऽपिशब्द- स्वारस्यम् । अत्र हि सूत्रे विरोधेऽप्यविरोधो हि सूत्र्यमाणः रूपान्तरेण विरोधः, रूपान्तरेणाविरोध इति कल्पनायामेव स्वरसो भवति । अन्यथाऽ. विरोधं बादरायण इत्यनेनैव गतार्थत्वात् व्यर्थमेवै “वमपी"तिपदम्। अनेन होदं ज्ञायते यत् सत्यं ज्ञानादियोध्यनिर्विशेषप्रकाशस्वरूपत्वं सत्यकामत्वं च विरुद्ध मिति, सति चैवं कथं वाऽविरोध साधनात्पूर्वमेव-"प्रकाशवदिति सत्य- ज्ञानादिदृष्टान्ततासंभवः ? इदमत्रालोचनीयम्-पत् चतुर्थाध्यायप्रतिपिपाद- यिपितमविरोधं गृहीत्वा किं "प्रकाशबच्चे"ति सूत्रस्य प्रवृत्तिः, उत "का- शवच्चे"ति सूत्रसिद्धमौपाधिकं सत्यकामत्वादिकं गृहीत्वा चतुर्थाध्यायेऽवि. रोधोपसंहरणमिति। तत्र प्रथमपक्षे विरोधशङ्काया एवानवसरः। नहि उभयलिङ्गत्वं प्रथम साधितं कल्पितमिति शङ्काया लेशतोऽप्युत्थितिरस्ती- ति व्यर्थमत्राविरोधसमर्थनम्। द्वितीयपक्षेतु विरोधस्य 'निर्विशेषपारमर्थि- कतायां पुरस्फूर्तिकत्वात् व्यवहारदृष्ट्याऽविरोधसमर्थनार्थमेव चतुर्थाध्यायम- वृत्तिः। "प्रकाशवच्चेति"तु सत्यकामत्वादिकल्पित वव्यवस्थामूरीकृत्य स्वर- सत एवोपपद्यते। "आह च तन्मात्रमिति सूत्रस्वारस्यमतमत एव । यद्यप्येवमप्युपन्पासादिति सूत्राभिमनोऽविरोध एकस्य व्यावहारि- कत्वमपरस्प पारमार्थिकत्वमिति कल्पनया सम्भवति, परन्तु सूत्रकाराभिमतं पारमार्थिकत्वं चैतन्यमानत्वस्य, व्यावहारिकत्वं तु सत्यकामत्वादेरिति, न केवलं "प्रकाशवञ्चावैयर्थ्य मिति" सूत्रमाणावगम्यते, किन्तु -- “आह. च तन्मात्रम्" इति सूत्रस्यापि साहाय्येनेति, सूत्रव्यसिद्धमेवाधेजानं पृथ. क् पृथक् जैमिन्यौटुलोमिमतत्वेन संगृह्य निष्कृप्यानन्तरमेवै"वमप्युपन्यासादि". ति सूत्रेण प्रतिपादयतीति सिद्धयति । "चितितन्मात्रेणे" इति तन्मानपदेन चाय- मर्थः प्रत्यभिज्ञायते । एवं च -"आह च तन्मात्रमिति सत्रमप्यतमतमेवा- नुगहाति। अत्र तन्मात्रपदेन तदितरव्यवच्छेदः प्रतिपाद्यमानस्य गम्यते, तच निविंशेपमात्रप्रतिपाद्यनाविवक्षायामेव स्परमम्भवति ।

८३ " * अद्वैतमार्तण्डः * "दर्शयति चाशो अपि स्मर्यते” इति सूत्रार्थविमर्शः न केवलं सगुणवाक्यशेपा एव निर्गुणयोधकाः, किन्तु स्वतन्त्राण्यपि श्रुति-स्मृति-वाक्यान्पत्र प्रमाणानीति प्रदर्शनार्थम्-'दर्शयति चायो अपि स्मर्यते" इति सूत्रम् । अनेन हि स्पष्टमिदं प्रतिपाद्यते-यत् प्राकाशदृष्टान्तो व्रत्मणि गुणानामौपाधिकत्वेन सार्थक्यव्यवस्थापनार्थ एव, यतः सूत्रकारोक्त निद- निमिदं न स्वतन्त्रम्, किन्तु श्रौतमपीति सूत्रयन्ति सूत्रकारा:-"अत एवचो- पमा सूर्यकादिवत्' इति । इदं हि सूत्रं सूर्योपमया ब्रह्मणो निर्दोपत्वसमन्वया- धमिति श्रीभाष्यकाराः। अबैतिनस्तु सगुणत्वस्यैपाधिकत्वसमन्वयार्थमिति मतदयार्थनिष्कर्षः। "अत एव चोपमा सूर्यकादिवत्' इति सूत्रार्थसमालोचनम् । इदमत्र श्रीभाष्यम्-"अत एव जलदर्पणादिप्रतिविम्बितसूर्यादिवत् तत्र तावस्थितोऽपि निर्दोष इति । प्रतिबिम्बसूर्यकादयोऽपि तु सदोपा एवेति निर्दोषत्वसाधने न तस्य दृष्टान्ततासंभव इति- सूत्रस्वारस्यम्, यतो ह्युपाधि दोपाः सर्वेऽपि प्रतिविम्बगता भवन्तीत्यनुभवसिद्धमिदम् । एतेन-घटाकाशा- दिदृष्टान्तोऽपि श्रीभाष्यगतो व्याख्यातः । घटाकाशोऽपि हि घटोपहितो घट. वदनित्य एव विशिष्टः । अद्वैतमते तु प्रतिविम्यानामिव ब्रह्मणोऽप्युपाघिगुणैरेव सगुणत्वम्, नतु स्वत इति व्यवस्थापनान्न दृष्टान्तताऽसंभवः । वस्तुतस्तु नात्र- घटाकाशादिदृष्टान्तता; उत्तरसूत्रानुत्थानात् । "अम्बुवादग्रहणात्तु तथात्वमि"ति सूमार्थपरीक्षा । एतेन-"अम्बुवग्रहणात्तु न तथात्वमि" ति सूत्रमपि-व्याख्यातम्, इदं हि सूत्रं ब्रह्मणः प्रतिबिम्बत्वाभावादुक्तव्यवस्थानुपपत्तिशङ्कापरमिति मतदयसम्मतमिदम् । अत्र च जलविम्बयोपयवानमियोपविब्रह्मणोव्यवधाना- भावात् न ब्रह्ममतिविम्बत्वमिति शङ्काहृदयम् । इदमेवात्र पृच्छ्यते-यत् सर्व- शरीरक्ब्रह्मवादे शरीरशरोरिभावप्रयुक्तस्य सदोषत्वस्थ प्रतिविम्बदृष्टान्तेन कथं परिहारसंभव इति ?

* अद्वैतमार्तण्डः * vvv अत्र "वृद्धिहासभाक्त्वमिति सूत्रार्थनिष्कर्षः । "वृदिहासभाक्त्वमितिसूत्रं तु श्रीभाष्यमतेऽत्यन्तं प्रतिकूलम् । अत्र हि दृष्टान्तदाप्रन्तिकभावविवक्षितं सारूप्यं न विम्यप्रतिबिम्बभावेन, किन्तु औपाधिकधर्मवत्त्वेनेति स्पष्टं प्रतीयते। श्रीभाष्यमते तु-वृद्धिहासादि- भाक्त्वं निरस्यते इति सूत्रयोजनमिदं सूत्राक्षराननुगुणम, नअध्याहारापत्तिश्च । हि वृद्धिहासभाक्त्वं साध्यतया निर्दिश्यमानं निषेध्यतया साध्यमिति कथं सूत्रकारहृद्यङ्गमं स्यादिति सर्व एव समालोचयन्तु । तदिदं सिद्धम्-यत्-"एवमप्युपन्यासादिति यादरायणसूत्रेणाप्य- देतमतस्यैव परिपोषणात् न "प्रकाशवत्" "आह च तन्मात्रमि" त्यादिसूत्राणां श्रीभाष्याभिमतं योजनं संभवदुक्तिकम् । अद्वैतमते हि अनेकजीववादे यावत्स- वमुक्ति ईश्वरभाव एव मुक्तिरित्येव सिद्धान्तात् अपहतपाप्मत्वादिकमपि दहर- विद्यामकरणादावाविर्भूनजीवधर्मतया प्रतिपाद्यमानं मुक्तधर्म इति सिद्धान्त- लेशसंग्रहादी व्यक्तम् । एवं च "ब्राह्मण रूपेणे त्यादिभिः स्रष्टत्वादिकं मुक्तानी प्रतिपाद्यत इत्येव तत्वम् । विनोत्क्रमणं मुक्तिरिति यादरायणमतमिति प्रतिज्ञा। "जगदचापारवजेमिति सूत्रादि तु अर्चिरादिमार्गणोकान्तिपूर्वकं हिर- ज्यगर्भलोकंगतानामेव भोगमात्रसाम्यं प्रतिपादयति, नतु विनोत्कमणं मुक्ताना- मपि । अयं भावः-अर्चिरादिनोत्क्रमणेन प्राप्तव्रत्मलोकानां केवलं सत्यकामावा- दिकं जगद्व्यापारवज भवति,नतु चैतन्यात्मत्वमपि । मुक्तानां तृभयमपि भवति । तत्र केवलसत्यकामत्वादिप्राप्तिरेवोत्क्रमणसाध्या, चैतन्यात्मता तु सत्यकाम- त्यादिविशिष्टा नोत्क्रमणमपेक्षते। "चितितन्मात्रेण तदात्मकत्यादि"त्यौडुलो- मिमन मुक्ती यादरायणाचार्याणामपि सम्मतमेव । इयान विशेष:-एवं भावात्" यत् मुक्तावेव चैतन्यात्मकत्वं जीवस्येत्यौटुलोमिमतम्, यादरायणाचार्यमनं तु सार्वदिकमिति । तदिदं सिद्धम्-यत् उत्फमणापेक्षश्चितितन्मानभाव इत्यौहलोमिमतम्, यादरायणाचार्यमतं तु विनोत्कमणं चितितन्मात्रभाव इति । मतव्यसंपतिपन्न मिदम्-यदुत्क्रमिप्यत एवंभावात्" इति न यादरायणाभि- * अद्वैतमार्तण्डः * मतमिति, काशकृत्स्नमतमेव तु तन्मतमिति च । इदमेवातालोचनीयम्-पत् एवंभावः किं यादरायणानभिमतः, उत-उलमिष्यत इत्यंश इति । चितितन्मा- प्रभावो ब्रह्मभावो वा बादरायणाचार्याणामप्यभिमत पवेति, मतदयाविरुद्धमि- दम् । परिशेपात्तूलमणापेक्षतद्भाव एव यादरायणाचार्यानभिप्रेत दति पर्यव- स्पति । इदमेघाभिप्रेत्य भगवत्पादा वर्णयन्ति - यत् "ओढलोमिपक्षे पुन: स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदी गम्यते । तत्र काशकृत्स्नीयमतमेव श्रुत्य. नुसारी" ति। काशकृत्स्नमतं तु-अवस्थितिपदस्यार्थभेदकल्पनया भगव- त्पादः श्रीभाष्यकारैश्च स्वस्वमतानुगुणतया व्याख्यातमित्यन्यदेतत् । एतेन- "शंकरभास्करोक्तपक्षदयस्यापि "उत्मामिप्यत" इत्येकेन सूत्रेण सूचितस्ये"ति श्रुतप्रकाशिकानुवादोऽपि परास्तः । सर्वथा तु न मुक्तिरक्रमणमपेक्षत इत्येव बादरायणाचार्यमतम् । सर्वेषामपि मुक्तिमत्क्रमणापेवेति श्रीभाष्यमतं तु विशिदं समालोचितमस्माभिरस्मदीयपरिभापाभूमिकायम् । मुक्तरुत्क्रमणापेशत्वे व्याससिद्धान्तमार्ताण्डमतसमोआ । व्याससिद्धान्तमार्ताण्डसमालोचनप्रसङ्गेन तु पुनरपि किञ्चिदत्र वक्त- मभिलपामः। इदमेव व्याससिद्धान्तमार्ताण्डकाराणां मुक्तिविषये मतम्-पत् "मुक्तिक्रमणापेक्षैवेति। प्रकृतिमण्डलोपरि अप्राकृत-परमपद्वाच्य-स्थानविशे- पावस्थित-परज्योतिःशब्दवाच्य-वासुदेवपात्यनन्तरभाविनी तत्सायुज्यमाप्तिरेय मुक्तिरिति भगवतो वेदव्यासस्य सिद्धान्त इति निश्चीयते। मुक्तिरुकमा- पेक्षवेत्यत्र “समानाचामृत्युपैदेशामृतत्वं चानुपोष्ये”ति सूत्रंच प्रमाणम् । इदं हि सूत्रम्-"अस्य सौम्य पुरुषस्य प्रयतो वाङमनसि संपद्यते मनः प्राणे प्राण- स्तेजसि तेजः परस्पां देवतायाम्" "शतं चैका च हृद्यस्य नाट्यस्तासां मूर्धानम- भिनि:स्तका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति" इति च वाक्यमधिकृत्य प्रवृत्तमिति तन्मतमद्वैतमतेनाविशिष्टमेव । परविद्यानिष्ठस्य “समाना चामृत्युपदेशादितिसूत्रेऽपरामर्श इत्यद्वैतमत संग्रह. इयान विशेषः यत् ब्रह्मविद्यानिष्ठोऽत्र प्रतिपाद्यमानोऽपरविद्यानिष्ठ * अद्वैतमार्तण्डः* इस्पतमतम्, मार्ताण्डकारमतं तु परविद्यानिष्ठ इति । कठवल्यां हि “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मयोऽमृतो भवत्यत्र ब्रह्म समश्नुते । यदा सर्वे अभियन्ते हृदयस्येह ग्रन्थयः । अथ मयोऽमृतो भवत्येतावदनुशास- नम् ।" इति हृदयादिग्रन्थिरूपाभिमानादिविलयानन्तरमिहेव मुक्तिरित्येचानु- शासनमित्युपदेशं समाप्यानन्तरमेव-"शतं चैका चे" ति वाक्यं प्रवृत्तमिति, शतं चैकेति वाक्यं न ब्रह्मभावपरम्, किन्तृपसकफलपरमित्येवाङ्गीकर्तव्यम् । शतं चैकेति वाक्ये मार्ताण्डकारमतं तत्समालोचनं च । मार्ताण्डकारास्तु-“अथ मयोऽमृतो भवत्यत्र ब्रह्म समश्नुते" इत्यत्र ब्रह्मानुभवस्तन्माहात्म्यकृतं पूर्वोत्तरपापविश्लेषरूपममृतत्वमेव च योध्यते, नतु मुक्तिरूपममृतत्वम्; तत्तु-"तयोर्ध्वमायन्नमृतत्वमेती" त्यत्रैव योध्यत इति मन्यन्ते। इदमेवान पृच्छामः-यत् प्रथमश्रुतानां "अन ब्रह्म समश्नुते" इत्यादीनां ब्रह्मप्राप्तिरूपमुख्याभूतत्वपरत्वमुत्तरत्रैव तु हिरण्यगर्भप्राप्त्यादिगौणा- मृतत्वं कथं न प्रतिपादयितुं शक्यते ? "ब्रह्मविदाप्नोति" इत्यादिवाक्यसमा- नार्थकस्य 'ब्रह्म समश्नुते” इति वाक्यस्यार्थान्तरवर्णनं हि न न्यायसिद्धमिति तु वयं पश्यामः । अमृतपदमत्रत्यं "शतं चैके" ति वाक्यगतं च भिन्नार्थपर- मित्यत्र नास्माकमपि विप्रतिपत्तिः । इदमेवात्रास्माकं मतम्-यत् "अत्र ब्रह्म समश्नुते" इति चाक्यसाहवार्यात् मुख्यं प्रथमवाक्य इति । अत एव "न तस्य प्राणा उत्क्रान्ति ब्रह्मैव सन् ब्रह्माप्येति" इति वाक्येन नष्टकामानामुत्फण- निषेधपरेणैकवाक्यतापि सिद्धा भवति । बृहदारण्यकठवल्युभयगतस्य "अथ मत्योऽमृतो' भवतीत्यस्य विनोत्क्रमणं मुक्तिरित्यत्रैकवाफ्यतासंभवः "अथ मयोऽमृतो भवत्यत्र ब्रह्म समश्नुते" इति हि वाक्यं कठवल्या: मिव वृहदारण्यकेऽपि-"अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्म- कामो न तस्य प्राणा उत्मामन्ति ब्रह्मैव सन् ब्रह्माप्येति। तदप्येपश्लोकोभवति- "यदा सर्व प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मयोऽमृनो भवत्यत्रनाम समश्नुते" इति विदुषः प्राणोत्लामणनिधानन्तरमपि श्रूयते इति, पूर्वोक्तकवा-, . .

AMIKARAN -- , .. अद्वैतमार्तण्ड ५ ६० क्यतैव श्रुत्पभिमतेति जानीमः। बृहदारण्यकोपनिपदि हि सकामानां प्राणी- कान्तिरकामानां तदभाव इति वर्गनात् अत्र ब्रह्म समश्नुते" इत्यस्यानुरमान्ति- पक्षविचरणपरत्तथा योजनाच्चेदमपि ज्ञाप्यते यत् "शतं चैका व हृदयस्य नाय" इति प्राणोत्क्रामणपक्ष एव, नतु पक्षान्तर इति । सति चैवं "शतं चैका- चे" ति वाक्ये "उत्तमणे भवन्ती"त्यंशस्यापि सार्थक्यं भवति । अयं हि वि- पयः “यथाऽहिनिल्वयनी वल्मोके प्रत्यस्ता शयीतेचमेवेदं शरीरं शेतेऽथायमशरी- रोऽमृत" इति सनिदर्शनमत्रोपपाद्यत इति, मुख्यं तात्पर्यमत्रावगम्यते । सका- मवाक्ये उस्कमणावधितया प्रसक्तस्यैवानाप्युत्कान्त्यबधित्वमवगम्यत इति, प्रक- रणादेवेद्मवगम्यत इति, तस्य शरीरात् प्राणा नोकामन्तीत्येवार्थः स्पष्टं प्रतीयत इति, मात्र शाखान्तरवचनेनैवार्थनिर्णयः कर्तव्यः । यत्तु शाखान्तरीयं "तस्मात् प्राणा नोकामन्ती" ति, तत्र परं जीवस्योत्कान्त्यवधित्वमप्रसक्तमिति संशयात् निर्णयार्थमुक्तवाक्यापेक्षा वर्तते । "तस्मात् प्राणा उत्लामन्ति" "तरय प्राणा उत्सामन्ती- त्यनयोः "तस्य प्राणा उत्तामन्ति" इत्यस्यैव प्रावल्येन व्यवस्थापकत्यम् । अयं भावः -जीवात्मनः परिच्छिन्नस्योलमणमेवानु प्राणादीनामुत्कम णम्, विदुषां तु ज्ञानेन हृदयग्रन्धि पूर्वोत्तराधादिविनाशेन ,प्राप्तामृतत्वानामुपा- धिकृतपरिच्छेदशून्यानां कथमुत्क्रमण सम्भवति ? सति चैवं बृहदारण्यकपष्ठा- ध्यायचतुर्थब्राह्मणोनैव प्रश्नोत्तररूपेण प्रवृत्तेन स्पष्टेनान व्यवस्था युक्तेति "स्पष्टो येकेपामि"ति सिद्धान्तसूत्रम्, "प्रतिपेधादिति चेन्न,शारीरात्' इति पूर्वपक्षह. मित्यदैतिनां विवरणमेव सूत्रारूढम् । अत एव वृहदारण्यकपञ्चमाध्याय द्वितीय- ब्राह्मणे-यत्रायं पुरुषो म्रियते, उदस्मात् प्राणाः कामन्त्याहो ने "त्यातभागमश्नस्य "नेति होवाच याज्ञवल्क्य'इत्युत्तरमुपपद्यते । आतेभागप्रश्नस्थाविवद्विषयत्वमिति सिद्धान्तमार्ताण्डमतम् । यत्तु व्याससिद्धान्तमार्तापडे आतभागप्रश्नस्याविद्विषयत्वेनोमान्तिपति- पेघासंभवात् अगत्या जीवेन प्राणानामविश्लेप एवात्रापि प्रतिपायते इत्युच्यते, AAAAAmrvvv * अद्वैतमार्तण्डः * इयमतदभिमतोपपत्तिः-यत् वागादीनामाग्न्यादिपु लयप्रतिपादनानन्तरं कर्मानुगुण्येनैव शरीरान्तरस्वीकारोऽस्य पुरुषस्यात्र प्रतिपाद्यत इति बद्ध एवात्र भवतुमर्हति, नतु विदानिति । अत्र हि पुरुषविषयास्त्रयः प्रश्ना ये वियन्ते, तत्र “यत्राऽयं पुरुषो म्रियते, किमेनं न जहाति नामे"ति प्रश्नस्य, “यत्रास्य पुरुषस्प मृतस्याग्निं वागप्येति...कायं तदा पुरुषोभवती"ति प्रश्नस्य चाविद्वद्विपपत्वमुभय सम्मतम् ; नामसम्बन्धस्य कर्माधीनजन्मान्तरसम्बन्धस्य च तत्र व्यवस्थापनात्। सति चैवम्- "उदस्मात् प्राणाः कामन्ती"ति प्रश्नोऽपि मरणानन्तरं जीव- सम्बद्धा एव प्राणा वर्तन्ते उन नेति यद्धपुरुषविषयक एव स्वोकर्तव्य इति । आर्तभागप्रश्नस्याविद्वद्विपयत्वायोगः । इदमस्माकं प्रतिभाति-यत् प्रश्नान्तरमक्रममात्रेण न प्रतीयमानस्य वाक्पार्थस्यान्यथा नयनं युक्तम् । वाक्यार्थस्तु प्राणोत्क्रमणोत्तरवाक्यस्य शरी- रादुत्कान्तिनिषेध एव स्वरसमवगम्यते, यतोऽत्रैव समवलीयन्ते" इति प्राणा- दीनां शरीरस्थान एव लयः प्रतिपादितः। नहि शरीरादुतक्रमणपक्षे तस्योप- पत्तिः संभवति । एतेन-दितीयः पुरुषविषयका प्रश्नोऽपि-व्याख्यातः; तस्या- नन्तनामत्ववर्णनादीश्वरभावापन्नो मुक्त इत्यस्यैवार्थस्य पर्यवसानं गम्यते । एतेन- तृतीयप्रश्नोपि-व्याख्यातः। तत्र हि वागादीनां तत्तदभिमा- निदेवतासु लयप्रतिपादनेन हि मुक्तात्मस्वरूपविषयक एवं प्रश्न इतव गम्यते । वद्वानां हि वागादीनां वृत्तिलयमात्रम्, मनसा चाविभाग इति "वाङ्- मनसि दर्शनादिति प्रतिपादितम्, नतु स्वरूपतो लयः । अत्र तु स्वरूपतो लय इति, कथं वद्धपुरुपविषयकताऽस्य प्रश्नोत्तरसन्दर्भस्य ? अत एव-"कवाऽयं पुरुपस्तदा भवतीति प्रश्नः सुहृद्भावेनावाङ्मनसगोचरत्वेन समाहितः । उत्तरं यत्र-"यदृचतुः कर्म हवै तदृचतुः,यत्प्रशशंसतुः कर्म ह चै तत्पशशंसतुः" इति प्राणादीनामेव घाडमनसगोचरत्वम् नतु, तदुपहितस्येत्येव योधयति । अतो नायमातभागप्रश्नो यद्धपुम्पविषय इति, 'उदस्मादि"ति वाक्ये शरीरस्यैव ग्रहणादस्माच्छन्देना''शब्देन च विदुषां प्राणोकमणनिषेधपरत्वमेयोक्तस्य सन्द- भेस्यावगम्यते । सति चवं विपयव्यवस्थाऽप्यत्र पष्ठाध्यायोक्तचकवाक्यतया * अद्वैतमार्तण्डः . सेत्स्यतीति, नाबापि न ब्रह्मविद्याप्रकरणम् । अयं भावः-प्रश्नवाक्ये हि- अस्मात्पदेन शरीरस्यैव ग्रहणं योग्यम्, यत उत्क्रमणपदार्थो विश्लेप मात्रम् ; अन्यथा-"तमुत्तामन्तं प्राणोऽनृत्क्रामती"त्यादावपि जोवादुत्क्रमणप्रतिपादनेन विश्लेप एव प्राणानां जीवात् प्रतिपाद्यत । एतेन -"आत्मनः सकाशात् प्राणा नोकामन्ति,अत्रैवात्मन्येव समवलीयन्ते संश्लिप्यन्तीति तदर्थ"इति मार्ताण्डो- क्तिरपि-व्याख्याता । 'समवलीयन्ते' पदस्यापि संश्लिप्यन्तीत्यर्थवर्णने हि तद्वैयर्थ्यमेव स्यात्, यत उत्क्रमणनिषेधेन विश्लेपनिपेधेनैवायमर्थो लभ्यते। एवं च मुक्तानामनुत्क्रमणमेव श्रौतमिति तद्व्यवस्थापनार्थम् "प्रतिपेधादिति चेन्न; "स्पष्टो टेकेपा"मित्यत्र स्पष्टो छेकेपामि"त्यस्य पृथकसूत्रत्वमेव युक्तम् । अद्वैतमते एकपदास्वारस्यभङ्गः। वृहदारण्यकपष्ठाध्यायकाण्वशाखावाक्यानुसारेण सिद्धान्तोऽदैतिनाम् , माध्यन्दिनशाखागतवाक्यानुसारेण तु श्रीभाप्यानुसारिणाम् । अवैति. नामातभागप्रश्नोत्तरमप्यनुगुणमिति स्वधिका युक्तिरिति वस्तुस्थितिः । एवं “चैके" शब्दस्याद्वैतमतेऽपि पूर्वपक्ष्यभिमतशास्त्रान्तरात् शाखान्तरपरत्व. मेव स्वीक्रियत इति, नैकपदास्वारस्यमदैतमते। इयान विशेषः-यत् अद्वै. तिभिर्विप्रतिपन्नवाक्यातिरिक्तं शाखान्तरीयं गृहीतम् , श्रीभाष्यकार: विप्रतिपन्नयोरेवैकतरमिति अत्र चैकस्य स्पष्टत्वमपरस्यास्पष्टत्वं शाखान्त- रोयवाक्यद्वयमध्ये इत्यत्र तु विनिगमनाविरह इति, वाक्यान्तरं शाखान्तरी- यमदैतिनो मन्यन्ते । एतेन-एकेपामिति सैत्रपदं शाखान्तरस्थवाक्य एव स्वरसम् , नतु तच्छाखान्तर्गतप्रकरणान्तरस्थवाक्ये इति शङ्का-परास्ता। अनेन चेदमेव योध्यते यत् शाखाविशेपीयस्पष्टवाक्यैकवाक्यतयैव निर्णायकत्वौचित्यात् शाखान्तरगतास्पष्टैकवाक्यानुसारेणोत्क्रान्तिनिषेधनिरा- रसो न योग्य इति । वस्तुतस्तु-एकपदं .न सर्वत्र सूत्रेषु समानवेदीय- शाखान्तरपरमेव :; "कामकारेण चेके" इति हि नैकवेदस्वशाखान्तर- वाक्यानुसारेण सिद्धान्तो दृश्यते। वेदान्तरवाक्यमपि प्रकरणान्तरवाक्य. मेवेति स्वशाखागतप्रकरणान्तरवाक्यग्रहणमपि तु नदोपाय।

* अद्वैतमार्तण्डः * प्रतिरोधादिति चेन्नेति सूत्रार्थनिष्कर्षः । अयमाशय:-"प्रतिपेधात् इति चेन्न शारारात्" इत्यत्रैकमुकान्तिप्रति- पेषवाक्यम् , अपरं तनिषेधवाक्यम् , इत्युभयमन निर्दिष्टम् । तत्रैकं शरीरातु- स्क्रान्तिनिपेघपरमपरं शारीरादिति सूत्रयोजनायां नोभयोरपि विप्रतिपत्तिः । नेदमपि पुनर्विप्रतिपन्नम् यदेकशाखागतमन्त्र स्पष्टमपरशाखागतमस्पप्टमिति सूत्रकारा मन्यन्त इति । इदमेवातालोचनीयम्- यदुक्तान्यतरवाक्यमेव किं स्पष्टतया सूत्रकारा मन्यन्ते, उत शाखान्तरगतमिति । वयं तु पश्यामः- काण्वशाखागतस्यापरस्यैव वाक्यस्य स्पष्टताभिप्रायेण सूत्रकारास्तदनुसारे- जैव सिद्धान्तमन्त्र कर्तव्यं मन्यन्ते इति । अत एवन पूर्वोक्तार्थोपपा- दकत्वम्, किन्तु स्वसाध्यार्थोपपादकत्वम् । नास्मन्मतेऽपि हिशब्दोऽनु- पपादकः । नच शाखान्तरगतमुक्तप्रकरणस्थमपि वाक्यं शारीरात् स्पष्ट- मुत्फमणं निषेधतीति तु भाष्य एव व्यक्तम् । यथाचार्तभागप्रश्नः श्री- भाष्याभिमतरीत्या नाविवद्विषयतामहति, तथा पूर्वमेवोपक्षिप्तम् । एतेन- "यथोदाहतातभागप्रश्नप्रतिवचने शरीरादुत्कान्तिप्रतिषेधः पूर्वोपदर्शितमाध्यन्दिनशोखावाक्ये शारीरादुत्क्रान्तिप्रतिषेधः स्पष्ट इति शङ्का- परास्ता। शरीरोपादनोत्कान्तिरिव शारीरोपादाना सा हि न प्रसिद्धा। अतोऽदैतसम्मतमेव विवरणमत्र सांप्रतम् । अत एवाथाकामयमान इति विशेषप्रतिपादनमुपपद्यते । विशेपोऽत्र प्रतिपाद्यः पुनरावृत्त्यभाव एवं यदि मन्यते श्रुतप्रकाशिकोक्तरीत्या मार्ताण्डोक्तरीत्या वा, तर्हि “न तस्य प्राणा उत्क्रामन्तीति वितथमेव वाक्यम् ; "ब्रह्मैव सन् ब्रह्माप्येती"त्यनेनैव निर्वाहात् । विदुपामुत्लान्त्यभावेऽविदुषामेवाचिंरादिगतौ च प्रमाणसंग्रहः । बृहदरापयकपष्ठाध्यायचतुर्थब्राह्मणं विद्वविधिपयभेदेनोन्फ्रान्तौ विशे- पमभिधाय,तदेते श्लोका भवन्ती" त्युपगम्याऽर्चिरादिमार्ग प्रतिपाद्य "तांस्ते प्रेत्याभिगच्छन्त्यविद्धांसोऽयुधो जना' इत्यर्चिरादिमार्गपर्यन्तमधिकारिणोऽधि- मांस इति विविच्य "आत्मानं चेद्विजानीयादयमस्मीति पूरुपः । किमि- च्छिन् कस्य कामाय शरीरमनुसंज्वरेत्" ? इत्यादिना ज्ञनिनः कर्तव्यपाप्या- स्पष्टः, तथा ANA 5$ ৩০ ২১ एवम्-'अमनोकालम्पमान्नयतीनि पादरायग" इति सूत्रस्यानिकरणान्तरपट- फत्वमपि संभवतीति । सति संभये त्वेकाधिकरणत्ये सर्वपाम्, नास्माफमपि चिरोधः । पूर्वोक्तरीत्या गयन्तरासंभवात्तु विषपभेदादधिकरणभेद एपानाप- लम्बनीयः । एतेन-अमतीकालम्पनान्नयनीति पादापणमातुश्चे"ति सूत्रे तत्मतुपदमपि सार्थक-व्याख्यातम् । श्रीभाष्यमते यत्रानेन सूत्रेण परामात्म. शरीर प्रकृतिवियुक्त प्रत्यगात्मोपासमानामप्पमतोकालम्पनपदेन ग्रहणम्, प्रत्यगात्मनामुपास्यानां "सपनान् वा गमयतो त्यत्रमाप्यारागपदार्थस्वाभायान्न तत्पदस्वारस्यं संभवति । इयमन वेदान्तपरिभाषाभूमिका" एतेन-चतुर्थाध्यायस्य तृतीयपादोऽपि व्याख्यातः । सम भाप्पाय- स्थाप्यचिरादिमार्गस्वरूपनिर्णये न घेपम्प पर्तते । यलम्-अप्रतीकालम्पना- न्नयतीति पादराधणः उभयथा च दोपात् तत्मातुश्चेति सुप्रविधरणे परं मत- प्रयेऽपि विशेषो धर्तते । यहि सूत्रं श्रीभाष्यकाराः 'कार्य पादरिरस्य गत्यु. पपत्तेः" "परं जैमिनिर्मुरूपत्वात्" इति सूध्ययेन कार्योपासकानामधिरादि. मार्गण नयनमथवा परोपामझानामिति मतमय उपक्षिते पादरायणाचार्याः मतो. फालम्पनव्यतिरिक्तान् परं प्रत्मोपासोनान आत्मानं च प्रकृतिपियुमुपासोनान नयतीति मन्यन्त इति म्याचक्षते । अन्न श्रीमाप्यमते पूर्यतनसनदये यादरिजेमिनिग्रहणमा पादरायण. ग्रहणं प पूर्वयोम्योः पूर्यपक्षसप्रत्यं सत्यं सूचयतोष, परंतु - इदमेवाबालोपनी- यम् यत् "आतियाहिकारततिादि"त्यनेन नेतृनिर्णयानन्तरं प्राप्यस्यग्यम्- "स एनान ग्राम गमपती"ति याक्येन गम्यमानमेय ग्गल कार्य परं घेति, फेय. लमितीयान्तपदप्रयोगेण गम्यते, नतृपास्पं फर्म ; अन्योपामीनानिति पदा. ध्याहारदीपः कथं परिहरणीयः १ अत एव गत्युपपत्तरिस निर्देश उपपपते । श्रीमाप्यमते हि पान का पापकानां परांपासकानामुभयेषां गति * अतमार्तण्ड ६७ व्याख्यातम् । इदमेवात्र पृच्छयते- यत् परं जैमिनिमुख्यत्वादिति सूत्र- विवरणावसरगतेन-'नच गमनानुपपत्तिः प्रमाणम् , परस्य ब्रह्मणः सर्वगत- स्वेऽपि विदुषो विशिष्टदेशगतस्यैवाविद्यानिवृत्तिश्शास्त्रादिति "प्रतिषेधा- दिति चेदिति सूत्रानुसारिणा भाष्येण कथं न विरोध इति । अत्र सत्यं पूर्वतनभाष्यं बारिमतेन, इदं तु जैमिनिमतेनेति विरोध- परिहार इत्युत्तरस्यास्त्यवकाशः, तथाप्ययमेव पूर्वतनस्य प्रश्नस्याशयः यत् पूर्वतनपादे प्रतिपेधादिति चेन्ने ति सूत्रेण विदुषोऽपि गतिसाधनानन्तरं मुख्यत्वहेतुकस्य जैमिनिमतस्योत्थितिरेव कथमिति । तथाचोक्तमतद्वयमप्यत्र सूत्रकारैर्गतिविषये मतभेदोऽस्तीति निरूपणार्थमेवेति खलु वक्तव्यम् । इदं च पूर्वतनपाद एव सङ्गतम् , नात्र । अत्र हि नेता नेतव्यः प्राप्यं त्रितयमपि खलु निरूपणीयम् , श्रीभाष्यमते तु नेता नेतव्याश्च निरूप्यन्ते, न प्राप्यम् । एतेन 'सामोप्यात्तु तन्यपदेशः' 'कार्यात्यये तध्यक्षेण सहातः परमभिध्या- नादिति सूत्रद्वयमपि-व्याख्यातम्। सर्वविदितमिदं तत् श्रीभाष्यकारा:- अस्मिन् सूत्रद्रयेऽपि प्रथमतः प्राप्यं कार्यब्रह्म, अनन्तरं तु परं ब्रह्मेति विवृ- पवते इति । - तब यदि श्रीमाष्यकाररीत्या नेतव्यनिरूपणमेव प्रसक्तम् , न प्राप्य. निरूपणम्, तदा को चाऽस्य विचारस्य प्रसङ्गः? एवं कार्योपासकानामपि हिरण्यगर्भप्राप्तिटारा परब्रह्ममाप्तेरेव यादरिमतत्वमिति श्रीभाप्यविवरणे- 'स एनान् ब्रह्म गमयती'त्यत्र ब्रह्मपदस्य हिरण्यगर्भपरत्वमिति यल्लक्ष्यते, तदिदं जैमिनिमतसाधारणमपोति वक्तव्यम् । यतः सर्वेपामुपासकानां ब्रह्मलो- कगमनपूर्वकमेव परमाप्तिस्तैहरीकरणीया । तत्र च यादरिमतेऽपि परस्यापि ब्राह्मणः प्राप्यत्वं विवक्षितमेव । इयान् विशेष:- :-न साक्षात् स्वयं कार्योपासकानां परमाप्तिः, किन्तु हिरण्यगर्भग साकमिति यादरिमतम्, जैमिनिमतं तु विना हिरण्यगर्भापेक्षा स्वत एव पर- सर्वधा तु पादरिमतेऽपि परस्य प्राप्यत्वं संमतमेवेति कथं पादरिमननिरूपणायसरे परस्यागन्तव्यत्वविवरणं श्रीभाष्यकाराणामुपपद्यते। १३ प्राप्तिरित्येव वक्तव्यम् ।

, भईनमार्तण्डः एतावना विवक्षिनः सारांशोऽयमेव । यत् गत्युपपत्तेर्मतन्यसाधार- ण्यात् 'कार्य वादरिरस्य गत्युपपत्तेरि ति मत्रे गत्युपपत्तेः कार्योपासकमान- नेयत्वे कथं हेतुत्वमिति शङ्का परिहरणीया श्रीमाप्यमते भवति। अतः सूत्र- दयेनापि 'स एनान् ब्रह्म गमयती'त्यत्र ब्रह्मपदार्थविचार इत्येव सूत्राशयानुः गुणं विवरणम्। तब च 'गत्युपपत्ते रिति वादरिमते, जैमिनिमते च 'मुख्य न्यात्' इति हेतुयेन किं वाऽत्र सूबकारी सिद्धान्ततयाभिमनमिति विचारे-- 'स एनान् ब्रह्म गमयतीति वाक्ये व्रत्मपदस्य गमयनिषदसमभिव्याहृतस्य गत्युपपत्तियंत्र भवति तत्परत्वमेव युक्तम् । अत एव गतिमार्गपादेऽस्य वाक्य स्प विचारोऽप्युपपद्यत इत्यादिभावं मनसि निधाय प्राप्यवस्तुनिरूपणपरतया यत 'भगवत्पादानां विवरणम् , तदेवात्रापि सूत्रकारहदयङ्गममिति प्रतिभाति । एवं चा प्रतीकालम्बनान्नयती'त्यस्य अप्रतीकालम्वनानिति द्वितीयापहु वचनान्तपघटितस्प-'स एनान् ब्रह्म गमयतो'त्यवत्यैनानपदार्थनिर्णायकतया. ऽधिकरणान्तरपरत्वमेव स्वरसमवगम्यत इति, कार्य पादरि रित्यादिसूत्रघटि- ताधिकरणे सिद्धान्तसूत्रपरतया योजनं श्रीभाष्यकाराणां नोपपन्नमिति प्रति- भाति। एवंच-'प्रतिपेधादिति चेन्ने ति सूत्रेण विटुपोऽनुत्क्रमणाव्यवस्थापन मेव पादरिमतादी गत्युपपत्तेहेतुत्वादिनिर्देशेनापि गम्पत इति, विदुषोऽप्युत्क्रम- णादिव्यवस्थापन श्रीभाष्यकाराणां चिन्त्योपपत्तिकमेव ।। संप्रसादवाक्ये शरीरादुत्थान नोत्ममणमिति व्यवस्था। एतेन-"एवमेवैप संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति वाक्यमपि-व्याख्यातम् । अत्र शरीरात् समुत्थानं नाम स्थूल-सूक्ष्मशारीरबपसम्बन्धविच्छित्तिरेष स्वरूपसाक्षात्कार नियन्धना विवक्ष्यते, नतु स्थूलशरीरादुत्क्रमणम् ; अन्यथाऽविदुषां सकामाना- मपि शरीरादुत्मामणेन स्वरूपाविभीवापत्तिः । स्वरूपाविर्भावस्यावरणनिवृत्तिरूपत्वविचार । पूर्वसिद्भस्य स्वरूपस्य तु कोऽयमिदानीमाविभीयो नामेति चेतिरोधाननि- त्तिरेवेति चदन्तो मार्तापडकारा अपि मुक्तबुकगनिवृत्तिमेव मन्यन्ते इति अद्वैतमार्तण्डः समानम् । इदमेवात्रालोचनीयम्-किन्निमित्तेयमावरणनिवृत्तिरिति। वयं तु मन्यामहे-स्वरूपसाक्षात्कारनिवन्धनैव स्वरूपतिरोधाननिवृत्तिनं तु निमित्तान्त- राधोनेति, 'शरीरात्समुत्थाये,त्यनेन शरीरविविक्ततया स्वरूपानावरणमेव चिव- क्ष्यत इति । एतेन-परंज्योतिःपदार्थोऽपि व्याख्यातः । विकलितान्तःकरणाधु- पाधिकप्रत्यगात्मन एवात्र परंज्योति:पदार्थत्वात् । एतेन–शरीरादुत्थानं नाम शरीरादात्मनो विवेचनमित्यर्थवर्णनं पुनरनुपादेयम् ; अशब्दलभ्यत्वात तस्यार्थस्येति मार्ताण्डोक्तिरपिव्याख्याता! "यावन्न विमोक्ष्येऽथ संपत्स्ये" इति शरीरविमोक एव हि संपत्तिरिति स्पष्टमेवोक्तम् । तत्राप्यचिरादिगति- कल्पना तु स्वकपोलकल्पनैव न श्रुत्यनुसारिणी। परब्रह्मप्रातो गत्यनपेक्षायां "परंजैमिनिरि"ति सूत्रगतमुस्यत्व. हेतुस्वारस्यम् । परब्रह्मप्राप्तिहि गतिमनपेक्ष्यैव भवतीति “परं जैमिनिमुख्यत्वादि". त्यत्र ख्यत्वहेतुमात्र निर्देशेन ज्ञायते। अत्र 'कार्य पादरिरस्य गत्युपपत्तेः' इत्यत्र गत्युपपत्तिहेतुनिर्देशेन हि गतिवाक्येषु सर्वेषु कार्य ब्रह्मैव विवक्ष्यत इति गम्यते इति, मुख्यत्वेऽपि ब्रह्मणो नात्र विवक्षेति सूत्राशयोऽवगम्यत इति, बादरिमतमेव बोदरायणमतमिति विजानीमः । वादरिपक्षस्य पूर्वपक्षत्वमिति मार्ताण्डकाव्यवस्थानुवादः । एतेन बादरिपक्षस्य पूर्वपक्षत्यम्, जैमिनिपक्षस्योत्तरपक्षवं च सूत्रस्वरससिद्धम्, यदि यादरिपक्षीयपञ्चसूत्र्यां जैमिनिपक्षप्रतिक्षेपपर किञ्चित् मृत्रं स्यात्, तदा हि पादरिपक्षस्योत्तरपक्षत्वं स्यात् । न चैवं दृश्यते । प्रत्युत वादरिपक्षप्रतिक्षेपपराण्येव सर्वाणि जैमिनिपक्षीयसूत्राणि दृश्यन्ते । तद्यथा-'परं जैमिनिर्मुख्यत्वात्' इति सूत्रेण 'सामीप्यात्तु तद्यपदेशः' इति सूत्राधः प्रतिक्षिप्यते । 'दर्शनाच' इत्यनेन 'कार्यात्यये तध्यक्षेण संहातः परमभिध्यानात्' इति सूत्रार्थः प्रन्याख्यायते । 'नच कार्य प्रत्यभिसन्धिः' इति सूत्रेण 'विशेपिनत्वाच' इति सूत्रार्थी निरस्पते । जैमिनिमतमनुपपत्ति- दोपडप्टतया, मुख्यत्वेऽपि ब्रह्मगोन संभवनोति शङ्का तु न युक्ता, जैमिनिहि १०० * अडेनमानण्टा मुख्पार्थसंभवं मत्वैव 'मुख्यत्वादिति प्रयुक्तवानिति वक्तव्यम् । अतो गत्युपप- तिरपि जैमिन्यभिमतेति करप्यत इत्यादिमार्ताण्डोक्तिरपि-व्यापाता। यादरिपक्षम्यय सिद्धान्त-पक्षत्यमिति, सिद्धान्तमार्ताप्ट. समालोचनपूर्षिका व्यवस्था। इदं हि मतदयसंप्रतिपन्नम्-यत् जैमिनियादरिपक्षीयसूत्राणां प्रतिक्षे. प्पप्रतिक्षेपकभाव इति। इदमेवातालोचनीयम् - किमन्यामा बादरिणव जैमि- निमतं प्रतिक्षिप्यते, उत यादरिमतं प्राप्नं जैमिनिः प्रत्याचष्ट इति। वयं तु विश्वसिमः-यत् वादरिशेव जैमिनिमतमन्यामा प्रत्याख्यातीतिसूत्रकारा मन्यन्त इति । अत एव गत्यनुपपत्तिमात्रं न परिहृतं मूत्रकारः। 'सामीप्यात्तु तद्य- पदेश” इति सूत्रं हि-'परं जैमिनिमुख्यत्वादिति शङ्कानिरासार्थमिति युक्तम् । अत्र हि लक्षणया ब्रह्मपदस्य चतुर्मुखपरत्वं माध्यते, लक्षणा च मुख्यार्थासं. भवप्रतिसन्धानानन्तरमेवात्मानं लभते इति, मुख्यार्थविवक्षां जैमिन्यभिमतां गत्यनुपपत्याऽनुपपन्नां मत्वैव "सामीप्यात्तु तव्यपदेश' इति सूत्रं प्रवृत्तमिति विज्ञापते । एतेन-"दर्शनाच्चे"ति सूत्रमपि पूर्वपक्षसूत्रमिति- व्याख्यातम् । न हि अमृत्वश्रवणं कथमिति शङ्कां विना "कार्यात्यये तदध्यक्षेणे"त्यस्य स्वरसप्र- वृत्तिः संभवति । अत्र च "स्मृतेश्चेति स्मृतेरप्युपष्टम्भोऽति वर्णनेन हि विशदं सूत्रकाराः 'कार्यात्ययेने'त्येवं सिद्धान्तपक्षं मन्यन्ते । अनेन हि-गतिपू- वैकममृतत्वाम्नानस्थले सर्वत्र हिरण्यगर्भप्राप्तिरेव साक्षाद्विवक्षितेति गम्यते । श्रुतिद्वयविरोघे हि क्रमविशेषमात्रस्यैकत्र कल्पनेन वियद्धिकरणन्यायेन तत्प- रिहार एव युक्त इति तु हृदयम् । एतेन-~-"न च कार्ये प्रत्यभिसन्धिः' इति सूत्र- मपि पूर्वपक्षसूत्रमेवेति-व्याख्यातम् । इयं हि शङ्का-'नास्ति वचनस्याति- भार" इति न्यायेन परिहरणीयेति,-"ब्रह्मलोकान् गमयति" इति बहुवचन- घटितव्रह्मलोकपदान्यथानुपपत्त्या कार्यब्रह्मगतिरैवात्र विवक्षणीयेति सूत्रकाराः सूचयन्तीति, जैमिनिमतनिरासार्थान्येव सर्वाणि बादरिगुणसूत्राणि। जैमिनि- मते त्रीण्येव सूत्राणि, याद्रिमते तु पत्र सूत्राणीति प्रथमसूत्रांशस्य जैमिनिपक्षी- यसूत्रः कैरप्पप्रत्याख्यानात सर्वपां च जैमिनिपक्षीयसूत्रार्थानां पृथक् पृथक् सू- 8886 * अद्वैतमार्तण्डा १०१ अन्यथा त्रेण यादरिपक्षीयेण निरासाच कथं सूत्रकारा जैमिनिपक्षमेव पूर्वपक्षं निरस्यं वा न मन्यन्त इति सर्व एव समालोचयन्तु । एतेन-यदि बादरिपक्षीयपञ्चसूभ्यां जैमिनिपक्षप्रतिक्षेपपरं किंचित्सूत्रं दृश्येत, तदा हि वादरिपक्षस्योत्तरपक्षत्वं स्यादिति शङ्कापि मार्ताण्डकाराणाम्-परिहता। प्रजापतिसंवादादिना मुक्तेर्गतिसापेमत्वशङ्कापरिहारः । या तु "ब्रह्मलोकान्" इत्यादौपाशाधिकरणन्यायेन निपादस्थपत्यधिकरण- न्यायेन च परस्यैव ब्रह्मणो विवक्षा, यच "तद ब्रह्म तदमृतं स आत्मा" इति पर- मात्मस्वरूपनिरूपणानन्तरं 'प्रजापतेर्वेश्म प्रपद्ये यशोऽहं भवामी' त्यादिना प्रजाप- तिसभाप्रवेशादिकमुपक्षिप्तम् ,तदिदम् परमात्मोपदेशपकरणस्य 'स आत्मे'त्यत्रै- व पर्यवसानात्, मुक्तानामीश्वरादितादात्म्योपदेशपरत्वाच न गतिनिरूपणमित्या- दि भाष्य एव व्यक्तम् । प्रजापतिशम्झेन यत्रत्येन नोपदिष्टं ब्रह्म परामृश्यते, यश आदिशब्दानामपि ब्रह्मप्राप्तिपरत्वापत्तेरित्यायन्यत्र विस्तृ- नम् । सर्वथा तु न परब्रह्मप्राप्तिगतिमपेक्षत इत्येव सूत्रकारहृदयम् । मुक्ततिनिरपेक्षत्वे 'सांपराये तर्तव्याभावादिति सूत्रोपष्टम्भः । अत एव 'सांपराये तर्तव्याभावात्तथान्ये' इत्यत्र देहवियोगकाल एव कर्मोपक्षयः प्रतिपादित उपपद्यते अन्यथा कर्माधीनत्वादुत्क्रमणस्य मध्यतन- व्यवहाराणां च, तहिरोधः स्यात् । सति चैवमिदं फलति-यत् कचिदेव गतिः फचिन्नेति । सर्वथा तु गतिसार्थक्यं तु सिद्धमेव । अन्यथा सर्वेषां गतिस्वीकारे हि विदुपामुत्क्रमणनिषेधो याधितः स्यात् । गतेरर्थवचमिति गुणोपसंहारपादसूरस्य मुक्तो गत्युपयोगपरतया श्रीभाष्यकारादिपियरणसमालोचनम् । श्रीभाष्यकारास्तु 'गतेरर्थवत्त्वमिति सूत्रं पूर्वपक्षपरं मन्यन्ते। परन्तु नास्य पूर्वपक्षस्योस्थितिरेव संभवति। यतः प्राप्तव्याभावेन कर्मापक्षयः खलु 'सांपराये तर्तव्यामायादित्यनेन प्रतिपादितः। अनेन हि विदुषां न प्राप्यमन्यर्तित इति सूचनेन गतिनिपेमो हि स्पष्टमय कृत इति, गतिवाक्यमार्धक्यं कथमिति B १०२ * अद्वैतमार्तण्डा* शझैव तत्र समुन्मिपति । सा च फचिद्गतिः फचिन्नेति विभागेनैव परिहर्तव्या । तत्र च विदुषां गतिनिपेधाविद्धद्विपया गतिरिति सूत्रतात्पर्यमनपोहं सिद्ध- यति । ततश्च गतेरर्थवत्वमिति सिद्धान्तसूत्रमेय, येनाधिकरणान्तरोपकमः । "उपन्नस्तलक्षणार्थोपलब्धेरि”ति सूत्रस्यातमतानुगुणत्वम् । एतेन-'उपपन्नस्तल्लक्षणार्थीपलब्धेः' इनि सगुणविद्यायामेय गतिसूच- कपर्यारोहणादीनामुपलब्धिरिति निरूपणपरं सूत्रमपि व्याख्यातम् । श्रीभाष्य- कारा अनेन सूत्रेण विदुषां दग्धकर्मणामपि सूक्ष्मशरीरस्य सत्वाद्गतिरुपपन्नेति, न तदर्थ कर्मापक्षयोऽध्वनि कल्पनीय इति विवृण्वते । तच्छब्दस्याकर्मकृतत्वमिति, लक्षणशब्दस्य च स्वरूपमित्यर्थस्वीकारेण विदुपामपि अप्राकृतविग्रहस्य शास्त्रेषु दृश्यमानत्वात् न कर्मक्षयो मरणकाल एवानुपपन्न इति तदाशयः । अत्र तच्छब्दस्य प्रकान्तिगतिपरामर्शित्वं परित्यज्यामाकृतेत्यर्थवर्णनमेकमस्वा- रस्यम्, द्वितीयं तु 'गतेरर्थवत्त्वमित्यत्र पूर्वपक्षचिह्नाद्यभावेऽपि तत्परत्वाश्रय णमिति द्वितीयम्, तृतीयं तुपपन्नशब्देन पूर्वोक्तार्थोपपादनमात्रस्य ज्ञातस्य परि त्यागेन तद्विरद्वार्थान्तरप्रतिज्ञापरतयो योजनमिति सूत्रकारा न श्रीभाष्याभि- मतं योजनं साधु मन्यन्ते । वस्तुतस्तु विदुपां सूक्ष्मशरीरसत्त्वे न किमपि प्रमा- णम्, येनोत्मामणं साधु स्यात् ; अन्यथा ततव्याभावप्रतिपादनं कथमुपपद्यते ? 'समाना चामृत्युपदेशादिति त्वविद्विषयमिति पूर्वमेवोक्तम् । 'तन्वभावे सन्ध्यवदुपपत्ते:'--'भावे जाग्रहत्' इति शरीरेन्द्रियाणां स्वस्मृष्टानामीश्वरसृष्टानां वा साहाय्येनानुभवितृत्वं मुक्तानामित्यवगमात् विद्यामाहात्म्येन सूक्ष्मशरीर- सम्बन्धमानमयोधितमेव वर्तत इति वादोपि श्रीभाष्याचभिमतोऽनुपपन्न एव । सर्वथा तु विदुपां गतिनिषेध एव सूत्रकाराभिमत इति । यादरायणाभिमतमुक्तिस्वरूपनिष्कर्षः । एतेन-मुक्तिस्वरूपमपि व्याख्यातम् । सूत्रकारा हि 'ब्राह्मण' 'चिति- तन्मात्रेण' 'एवमप्युपन्यासादिति मुक्तस्वरूपं सत्यकामत्वादिभदीश्वरस्व- रूपम् , ईश्वरस्वरूपत्वेऽपि चिन्मात्ररूपत्वमपि तस्य तु वर्तत एवेति सूचयन्ति । सत्यं केवलचैतन्यरूपत्वं सत्यकामत्वादिविशिष्टत्वं च विरुद्वमेय। सर्वमुक्ती *अद्वतमातंण्डः १०३ तन्यमानरूपत्वम्, यावत्सर्वमुक्ति तु ईश्वरभाव इति तु न दोषः । अत्र केवल चैतन्यमानरूपत्ववर्णनेन ब्रह्मणो ज्ञानरूपत्वमेव मुक्तस्यापि जीवस्य, नतु जाना- श्रयत्वं धर्मभूतज्ञानाश्रयत्वं वेति सूत्रकाराः सूचयन्तीति, नाहंपदार्थो मुख्यो जीव इत्यपि सूच्यते । सति चैव 'मविभागेन दृष्टत्वात्' इति सूत्रमपि मुक्तस्येश्वरेण ब्रह्मणा वाऽत्यन्ताभेद एच, नतु शरीरशरीरिभावेन तादात्म्पमिति सूचयति । 'सोऽश्नुते सर्वान् कामानि ति वाक्यस्य ब्रह्मभावमुक्तित्वतात्पर्यम् । 'सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिते' ति वाक्यं हि सर्वज्ञ ब्रह्मतादात्म्यापन्नस्सन् सर्वानानन्दाननुभवतीत्येवमर्थपरमेव युक्तम् । एतेन- अविभागस्थाभेदरूपत्वे 'सोऽश्नुते सर्वान् कामान् सह' इति मुक्तसाहित्यश्रवणा- त्तद्विरोधापत्तिरि' ति शङ्कापिपराहता । यतः तैत्तरीयोपनिषत् ब्रह्मण एवात्म. त्वमभिप्रेत्यैव तस्माता एतस्मादात्मनः' इति आत्मपदादिना ब्रह्मस्वरूपं परा- मृशति । ततोऽन्तरस्ततोऽन्तर इत्यानन्दमयपर्यन्तमुपदिश्य ब्रह्मण एव तत्पुच्छ- त्वेन निरूपणेन हि तैत्तरीयोपनिषत् जीवशरीरकं परमात्मानं नोपदिशतीति विशदमिदं ज्ञायते । जीवप्रकृत्योः खलु आनन्दमयाख्यभवदभिमतपरमात्मा- वयवतया तत्र निरूपणमपेक्षितम, नतु ब्रह्मण एव । अनेन हीदं जायते यत् पर मात्मत्वेऽप्यानन्दमयस्य न शरीरित्वं तस्य भवितुं युक्तमिति । वस्तुतस्तु आन- न्दमयपदं नात्र ब्रह्मणो योधकम्, किन्तु जीवस्यैव । सर्व चात्र वक्तव्यं पाराशर्य- विजयसमालोचनपूर्वकमस्मदीय-निर्णयसागरमुद्रापित-शाङ्करभाष्यभूमिकायां वि- वेचितमेव । 'आनन्दमयोऽभ्यासादिति सूरस्य मार्ताण्टकारामिमता योजना। यत्तु-'आनन्दमयोऽभ्यासादि'त सूत्रमानन्दमयमतायामेव स्वरसम्, न तु तजीवनायाम् । इयमत्र सूत्रयोजना, 'भेदव्यपदेशाचान्यः' इति सूत्रादन्य- पदमाकृष्य 'आनन्दमयः, जीवातिरिक्तः, जोयानन्वयि शतगुणोत्तराभ्यस्थ. मानानन्दवत्यात्, इति केचन-मन्यते । आनन्दमय ब्रह्मनायां सनाधिपणोपन्यासः। तत्राभ्यासशब्दस्पाभ्यस्यमानानन्दयत्ये लक्षणापत्तिरेको दोपः। 'सैपा -~ Aamrvina १०४ अद्वैतमार्तण्डा ऽऽनन्दस्य मीमांसा भवतीति ब्रह्मग पवानन्दरूपस्य वामनसापरिच्छे. द्यत्वेन 'रसो चै स' इत्यादिना प्रस्तुतस्यानन्दमयातिरिक्तस्यानन्दयत्त्वनिपे- धेनानन्दस्वरूपमात्रत्वस्योपपादनार्धमेवोक्तसन्दर्भस्य प्रवृत्तत्वात् हेत्यसिद्विरपरो दोषः। 'ईक्षते शब्दमिनिवन्निषेधशब्दपुरस्सारणाप्रवृत्तत्यादेनेन पददिशै- पेण ब्रह्मस्वरूपविवक्षाया एव साध्यत्वातीत्या, अभ्यासपदस्प तात्पर्यग्राहक- लिङ्गपरस्यार्थविशेषपरतया व्याप्तस्थान्तरभेदाव्याप्ततया च न सत्रकाराणा- मुक्तार्थतात्पर्यमिति तृतीयं दूपणम् । स एको ब्रह्मण आनन्द' इत्पन्तता प्रतिपादितस्य चतुर्मुखब्रह्मगोपि शतगुणोत्तरकमेणाभ्यास्यमानानन्दवत्वात् व्य- भिचारो विरोधश्चेति चतुर्थं दूपगम् । यदि तु शतगुणोत्तरमामेणाभ्यासपुरस्सरा- वाङमनसगोचरत्वाभिधानादिति विवक्ष्यते, तदानीं न केवलं सूत्रार्थत्यागः, किन्तु भवाङ्मनसगोचरत्वात् इत्यनेनैव निर्वाहेण व्यर्थविशेषणत्वमिति पञ्चम दूपणम्। अनन्यपरपुनःश्रवणस्यैवाभ्यासत्वात् मानुपानन्दवाक्यानामानन्दमया- परत्वात्, 'यतो वाचो निवर्तन्ते' इति च वाक्यस्य 'आनन्दमानन्दमयस्य विद्रानि'- ति वक्तव्ये 'आनन्दं ब्रह्मणो विदानि'त्येव श्रवणेन तस्य पुच्छब्रह्मविषयकत्वस्यैव- स्वरसमवगमेन चानन्दमयेऽभ्यासलेशस्याप्यसंभव इति पप्ठं दूपणम् । एतेन- 'आनन्दमयपदोत्तरमभ्यासपदं प्रयुजानः सूत्रकार आनन्दमयस्प ब्रह्मत्वमभि- प्रेती ति, विपरीतोक्तिरिति-सूचितम् । आनन्दमयजीयत्वे उपपत्तयः आनन्दमयः, जीवः, प्रियाद्यवयववस्वात्, आनन्दमयो ब्रह्मातिरिक्तः, ब्रह्मपुच्छकत्वात्, न हि पुच्छमेव पुच्छि भवितुमर्हति, इति सत्प्रतिपक्षानुमा- नमिति सप्तमं दूपणम् । अन्यान्यपि दूपणानि यहूनि ब्रह्मसूत्रभाष्यभूमिकाया- मस्माभिरुल्लिखितानि तत एवावगन्तव्यानि । नहि विकारार्थकमयटन्तपर्यायगत- मानन्दमयपदमविकारं ब्रह्म योधयितुं शकोतीति,नानन्दमयोऽत्र ब्रायेति युक्तम् । 'रसोवै सः' 'रसं ह्येवायं लब्ध्वाऽऽनन्दीभवतीति आनन्दप्राप्त्याऽनन्दमयो भव- तोति निरूपगात्मकृतसन्दर्भोऽपि आनन्दप्राप्तिनिमित्तमानन्दित्वम् , नतु तद्धर्मि- त्वेनेति निरूपणेन, ब्रह्मैवानन्दरूपो नत्वानन्दमय इति गमयति । न हि ब्राँव .

* अद्वतमार्तण्डः * पुच्छ ब्रह्मवादे सिद्धान्तमार्तापडापादितपणपरिहारः। यत्तु पुच्छब्रह्मवादे - आनन्दमय इति श्रुतस्य धर्मिणो हानम् , अश्रुतस्य धर्मिणः कल्पनम्, पूर्वोत्तराधिकरणेष्वनुवृत्तस्य प्रधानजीववैलक्षण्यरूपस्य सा- ध्यस्प हानम् , तेष्वदृष्टस्य साध्यस्य कल्पनमिति दूपणोपक्षेपणम् , तत्र पूर्वो- क्तरीत्याऽऽनन्दमयपदस्य तदीयपर्यायपरत्वात् न प्रथमद्वितीयदोपयोरवसरः । पुच्छब्रह्मण एव प्राधान्येन प्रतिपादनम्, नानन्दमयस्य जीवस्य, कामादि- श्रुतेनवा प्रवानस्येत्येव पुच्छब्रह्मवादेऽपि स्वीकारेण पूर्वोत्तराधिकरणानुवृत्तजीव- प्रधानलक्षण्यस्य साध्यस्यापि निर्वाहात् न तृतीयो दोपः प्रसज्यते । अन्तरा- दिवाक्यानां सदादिवाक्यानां च पूर्वोत्तराधिकरणेपु तेपां तेषां वाक्यानामव- धारितं ब्रह्मपरत्वमेवात्रापि व्यवस्थाप्यत इति, नैतेष्वदृष्टस्य साध्यस्य कल्पन- मिति, न कस्यापि दोपस्यात्र प्रसङ्ग इति नानन्दमयोऽभ्यासादिति सूत्रमानन्द- मयब्रह्मतासाधनपरम् । अभ्यासहेतोरानन्दमयब्रह्मतायामनुपपत्तिः । विकारशब्दादि. त्यादिसूत्रवैयर्थ्य च। अयं भावः-'विकारशब्दान्नेति चेन्न प्राचुर्यात्' इति सूत्रे प्राचुर्यशब्देन श्रीभाष्यानुयायिनो 'गुणविभूतिप्रकर्पप्रयुक्तनियतिशयानन्दवत्त्वरूपार्थो विच- ध्यत' इति मन्यन्ते। अनेन च शतगुणोत्तरकमेणाभ्यस्यमानानन्दवत्वमेव हेतुः प्राचुर्यादिति प्राचुर्यशब्देनापि गम्यते इति विशदमिदम् । यद्ययमेवा- र्थोऽत्र प्राचुर्यशब्देन सूत्रकाराभिमतः, तर्हि अभ्यासादिति वितथम् । यद्य- भ्याससाधनार्थं प्राचुर्यादिति, तहिं तु अभ्यासात् प्राचुर्यम्, प्राचुर्यादभ्यास इति परस्पराश्रयो दोषः। अतश्चाभ्यासात् इति हेतुसार्थक्यमपि पुच्छ- ब्रह्मवाद एव सम्भवति, नान्यत्रेति स्पष्टम् । सति चैवं 'अभ्यासादिति हेतु. निर्देशः कथमानन्दमयब्रह्मतासाधकः ? यदि तु अभ्यासशब्देनैव पूर्वोक्तार्थ- विवक्षा, तर्हि तु विकारशब्दादिति सूत्रवैयर्थ्यम् । "कामाच नानुमानापेक्षा' इति सूत्रे श्रीभाप्यविचरणानुपपत्ति: । एतेन-'कामाच नानुमानापेक्षा' इति सूत्रमपि-व्याख्यातम् । इद- , अद्वैतमार्तण्डः मपि सूत्रमानन्दमयपदेन व्रत्मसमर्पणमिति पक्षे वितश्रमेव । अनेन हि-आन- मन्दमयस्य न प्रधानापेक्षा जगत्कारगत्ये जीवस्येवेति प्रतिपाद्यत इति श्री- भाष्यसम्मतं विवरणम्। अन्न प्रधानशब्देन सूक्ष्माचिदेव श्रीभाष्यकारैरपि वक्तव्या, नान्यत्किमपि। सति चैवमिदमेव निवेद्यते-कथं विनाऽचित्संसर्ग परमात्मनोऽपि भवन्मते स्रष्तृत्वमिति। नहि स्वरूपतो ब्रह्म परिणमत इति भवन्तो मन्यन्ते। संकल्पहेतुभूतेन्द्रियशरीराधनपेक्षेति तु विवरणम- नुमानशब्देन कुत्रापि सूत्रकारेण प्राकृतशरीरं विवक्षितमित्यत्र गमकं विना न सम्भवति । सूत्रकारास्तु प्रत्युत-'नानुमानमतच्छब्दात्' 'आनुमा- निकमप्येकेपामिति चेत्' इति सांख्यपरिकल्पितमेव प्रधानमनुमानशब्देन व्यपदिशन्तीति, कथमत्रार्थान्तरकल्पनम् ? किंचानुमानानपेक्षायां कामो हेतुरन विवक्ष्यते पञ्चमीप्रयोगेण । तत्रानुमानशब्देन करणेन्द्रियादिपरिग्रहे कामोऽनुमानापेक्षाहेतुरेव स्यात्, न तु तदनपेक्षाहेतुः। कामपदेन चान स्वकामस्प ग्रहणेन स्वत एव कामयितृत्वमिति विवरणं तु क्लिष्टं स्वाक्षराननुगुणं च । वस्तुतस्तु दिव्यविग्रहवति भगवति किमनुपपन्नम् ? सर्व तु कामयितृत्वादिकमुप- पद्यत एवेति नेदं सूत्रं श्रीभाष्यानुगुणम् । अद्वैतमते "कामाच नानुमानापेक्षा" इति सूत्रसार्थक्याशु पपत्तिः । अद्वैतमते तु–'ब्रह्म पुच्छमिति प्रतिपादितमानन्दमयाधिष्ठान चेतनम चेतनं वेति न तद्वाक्येन, न वा 'असन्नेवेति तच्छलोकेनावगम्यत इति,प्रधानाश- झावारणार्थ 'कामाच्चे ति सूत्रमपेक्षितमेव । अनेन च चेतनत्वं ब्रह्मणो ज्ञानरूपत्वं चा साध्यत इति न किञ्चिदनुपपन्नम् । 'सोऽकामयते'ति तच्छब्दस्य पुल्लिङ्गस्य प्रयोगस्तु पुच्छब्रह्मणो वस्तुगत्याऽऽनन्दमयाभेदः, यः खलु 'तस्मात्रा एतस्मादा- स्मनः' इत्युपक्रान्तः तस्मादा एतस्मादन्योऽन्तर आत्माऽनन्दमय इत्युपसंहृतश्च, तभिप्रायेणादुष्टः । 'सैपाऽऽनन्दस्य मीमांसा' इत्यादिकं तु आनन्दमयाधिष्ठान नानन्दरूपब्रह्ममीमांसैव, नानन्दमयमीमांसा, मयडश्रवणात् । आनन्दमयाधि- प्ठानं शुद्धं ब्रह्म खलु तदैवावधारितं स्यात्, यदि हिरण्यगर्भपर्यन्तानां सर्वेषां जीवानां तद्विकारत्वम्, तत्तात्म्यमात्रेणानन्दवत्वम्, नतु पादितं स्यात् । , स्वरूपत इत्युप- * अहतमार्तण्डः १०७ आनन्दमीमांसायाः पुन्छब्रह्ममीमांसात्वम् प्रतेन-यद्यानन्दमयो न परमात्मा, तर्हि 'सैपानन्दस्य मीमांसे'ति कस्या- नन्दमीमांसा ? न तावत् ब्रह्मणः ; ब्रह्मण आनन्दवत्तायास्त्वत्पक्षे प्रागनुक्तत्वात्' इति पर्यनुयोगोऽपि-समाहितप्राय एव । आनन्दस्वरूपजिज्ञासा हीयं नानन्दरूप- धर्मजिज्ञासा । ब्रह्मानन्दपर्यन्तमेवानन्दधर्मावधारणं भवति । अत एव–'यतो वाचो निवर्तन्ते' इत्यत्रानन्दं ब्रह्मणो विद्यानित्यभेद एव पष्ठी राहो: शिर इति- वत् । यतो 'रसो वै स'इत्यनुपदमेवानन्दरूपत्वं ब्रह्मणः प्रतिपादितम्, नतु,तव्र- ब्रह्माबोधकमिति कस्यापि मतम् । 'रसो वै सः' 'रसं ह्येवायं लब्ध्वे ति वाक्ये सशब्देन परोक्षमयंशब्देन च प्रत्यक्षं स्वरूपं निर्दिश्यते। तत्र पूर्वतनवाक्यप्र- स्तुतमपि ब्रह्म परोक्षत्वात् सपदेन, अयंपदेन चानन्दमयः परामृश्यत इत्येव युक्त- मिति, नेदं प्रकरणमानन्दमयब्रह्मतायां गमकम् । अतश्चानन्दमया, न ब्रह्म, ब्रह्म- प्राप्तिनिवन्धनानन्दवत्वात्, इति सत्प्रतिपक्षानुमानान्तरमप्यानन्दमयब्रह्मतावादे समापततीति सूचितम् । अयमेवार्थ:--'नेतरोऽनुपपत्तेः' 'भेव्यपदेशाच' इति सूत्राभ्यां योध्यते। इतरः आनन्दमयः, न ब्रह्मेति योजना 'रसं लब्ध्वेति 'भेव्यपदेशाच्चेति। आनन्दवल्यामानन्दमयस्थाने आनन्दप्रयोगो ब्रह्मपल्यामानन्दमयस्य विकारत्वे गमकः। अत्र ब्रह्मवल्यन्नमयादिभेदव्यपदेशात् कार्यान्नमयादिमुखेन मयडन्तप- देन ब्रह्मस्वरूपम्, भृगुवल्ली तु मयट्परित्यागेन तत्कारणान्नादिमुखेन कारणं ब्रह्म निर्दिशतीति वक्तव्यम् । सति चैत्र वल्लीद्वये मयड्प्रयोगतद्भावयोरुपपत्तिः संभवति । सति चैवं भृगुवल्यामपि आनन्दपर्याये मयपरित्यागेनैवानन्दमय- स्थाने आनन्दपदप्रयोगात् आनन्दमयस्याप्यधिष्ठानं शुद्धं व्रत्मैव तत्र योध्यत इति विशदं प्रतीयते । अन्यथाऽन्नमयादिविलक्षणत्वस्थानन्दमये विवक्षायां भृगुवल्लयां मयपरित्यागेनानन्दमयोपदेशस्यैव युक्ततया तत्परित्यागेन-'आनन्दो ब्रह्मेति व्यजानात्' इति विना मयटमानन्दपदमात्रप्रयोगोऽनुपपन्न एव स्यात् । भृगुवल्यां कारणमुखेनैव तभिन्नतया ब्रह्म निर्दिश्यत इति 'सैपा भार्गवी वारुणी विद्या पर- १०८ .५ अडेनमार्तण्डः * AAAAAAAAAm व्यामन् प्रतिष्ठितेति वाक्येनापि गम्यते। अत्र परमव्योमपदप्रयोगेणाकाशा. धिकरणवाक्यं स्मारितं भवतीति, 'यतो वा इमानि भूतानि जायन्ते' इत्युपदे- शोपक्रमस्यापि स्वरसता सिद्धा भवति । अयमेवार्थ:-'तद्वेतुव्यपदेशाच्चे'ति सूत्रेण सूच्यते । यधाचा'नन्दमयमात्मानमुपसंक्रम्ये'त्युपसंझामितव्यत्वश्रवणमपि 'अहमन्नमहमन्नमिति तादात्म्योपपादकमद्वैतमत एव स्वरसम्, तथाऽन्यन्न पक्तम् । पुच्छब्रह्मवाद एवानन्दमयाधिकरणस्यारस्यम्, 'आनन्दमय" इति सूत्रांशोपपत्तिश्च । एवं च पुच्छब्रह्मप्राधान्यवाद एव सूत्रस्वारस्यम्, यतोऽत्राभ्यासपदं ता- त्पर्यग्राहकपरमेव स्वीक्रियते, न लक्षणयान्यार्थयोधकम् । आनन्दमयपदं तु पक्ष- समर्पकं तद्धटितवाक्यपरमिति कल्पनायामपि न दोषः, यतोऽत्र वाक्यानामेव विषयता। आनन्दमयवाक्यं च पुच्छवाक्यान्तमेव सर्वैरपि विवक्षणीयम् । एवं च आनन्दमयवाक्यम् , पुच्छब्रह्मप्रधानम् , अभ्यस्यमानब्रह्मशब्दद्घटितवा- फ्यशेषवत्त्वात् इत्येवात्र सूत्रार्थः । पुच्छब्रह्मप्राधान्ये चार्थात् जीव एवानन्दम- यो भवति । सर्वतादात्म्येऽपि ब्रह्मणोऽभेदे सामानाधिकरण्यं जीवेनैव, नान्येनेति 'तत्त्वमसी'ति वाक्यार्थ एवात्राऽन्ततयाऽऽनन्दमयात्मतयैवोपदेशसमापनेन ज्ञा- प्यते । तत्रच जीवेनाभेदे सामानाधिकरण्यं चैतन्यांशमात्रमादायैवेति सूचनार्थं पुच्छब्रह्मवाक्यम् । सति चैवे विगलितकोशके प्रत्यगात्मस्वरूपमेव ब्रह्म, नातिरिक्तं किश्चिदिति फलति । 'आनन्दमयोऽभ्यासोदिति सूत्रे आनन्दम- यपदप्रयोगोऽपि जन्मादिसूत्रप्रतिपादितं ब्रह्मस्वरूपं प्रत्यगात्मस्वरूपमेवेति सूच- नार्थ एव। 'तस्यैव एव शरीर आत्मेति वाक्यस्य पुच्छब्रह्मवाद एवोपपत्ति. । ब्रह्मणोऽशरीरस्यैवोपदेशनिमित्तानि च । अत एव-तस्यैप एव शारीर आत्मा। यः पूर्वस्ये त्यानन्दमयस्यापि शारीरोऽयमुपदिश्यमान आत्मेति वर्णितमुपपद्यते । श्रीभाष्यमते तु-आनन्द्- भयस्याप्ययमेवात्मेति स्वस्मिन्नेव प्रतिष्ठितत्वं प्रतिपाद्यत इति वाक्यस्यास्य * अहतमार्तण्ड.* १०६ अन्यथा विवरणं कर्तव्यमिति, पूर्वतनपर्यायगतैतदाकारवाक्यविलक्षणतया योजनमपि दुषणमपरिहरणीयमेव । अत्रैपपदेनाव्यवहितनिर्दिष्टपुच्छब्रह्मविवक्षायां तु नेदं दूपणमवसरति। परमात्मा यदि शारीरत्वेन श्रीभाष्योक्तदिशा प्रतिपि- पायिपितः, तर्हि अन्नमयपर्याये कथं न शारीरत्वमाम्नातम् ? इदमेवातो जानोमः यत् शरीरशरीरिभावेनाभेदोपदेशार्थ नेदं प्रकरणम् । स्थूलचिदचिच्छरीकत्वात् परमात्मनोऽन्नमयशरीरमिव प्राणादिकमपि तस्यैव शरीरमिति–'अन्योऽन्तर आत्मा प्राणमयः, अन्योऽन्तर आत्मा मनोमय' इति भेद निरूपणं कथमुपपद्यते ? कथं वा चान्नमयादिपद- मपि मुख्यव्रह्मनिरूपणपरमेव न भवति ? इष्टापत्ती चानन्दमय इति सूत्रास्वा. रस्पमपरिहरणीयमेव । अधिकमद्वैतदीपिकायामस्मदीयायां व्यक्तम् । एतेन- प्रथमं स्थूलं शरीरम्, तदनन्तरं प्राणमयम्, तदनन्तरं मनोमयम्, तदनन्तरं विज्ञानमयम्-'एप स आत्मेत्युपदिश्य तैत्तरीयोपनिपडुपरतेति मार्ताण्डोक्ति- रपि-व्याख्याता । इदं हि व्याख्यानं यदि स्वमतरीत्या, तर्हि कथमनन्तरस्या- नन्तरस्यैवात्मतया परमात्मनिरूपणमुपपद्यते ? न तु सर्वस्यात्मतया । आनन्दमयाब्रह्मतायां • प्रियशिरस्त्याचप्रातिरि"ति सूत्रविरोधः । इदं तु श्रीभाष्यानुयायिभिरपि स्वीकर्तव्यम्-यदानन्दमयपर्याये न प्रियशिररत्वादिमान् परमात्मा प्रतिपाद्यते इति । अन्यथा हि-'प्रियशिरस्त्वाद्य. प्राप्तिरुपचयापचयौ हि भेदे' इति भेदनिषेधपुरस्मरं प्रियशिरस्त्वादीनां न ब्रह्म- धर्मत्वमिति प्रतिपादनं तत्रासङ्गतमेव स्यात्। सम्मतं चैतत् श्रीभाष्यकाराणा- मपि- यत् शिरःपक्षपुच्छाद्यवयभेदे सति ब्रह्मणोऽप्युपचयापचयो प्रसज्येयाताम् । तथाच सति 'सत्यं ज्ञानमनन्तं ब्रह्मेति विरोधो न' इति वदताम् । इदमेवात्रा- लोचनोयम्-यदनेन सूत्रेणानन्दमयस्यावयवित्वमेव बाध्यते, उत ब्रह्मणोऽपि तस्य प्रियशिरस्त्वादिकंन धर्म इति तस्य ब्रह्मधर्मत्वनिषेधमात्रमिति । इदं तु प्रतिभाति - यत् सत्यज्ञानवाक्यप्रस्तुतं ब्रह्म ज्ञेयं नानन्दमयवाक्येन समप्यते, किन्तु वा- क्यान्तरेणैव ; अन्यथा हि ब्रह्मणोऽनित्यत्वं स्यादित्येव सूत्रकारा मन्यन्त इति, 'मान्त्रवर्णिकं ब्रम नानन्दमयवाक्यार्थः, किन्तु पुच्छब्रह्मवाक्यस्यैवार्ध': इति ; ..

१२० * अद्वैतमार्तण्टः * अन्यथा कल्पितमेव प्रियशिरस्त्वादिकं किमिनि ज्ञेयस्य वाम गस्तव निर्दिश्यते इति सर्व एव समालोचयन्तु । सति चैवं-'प्रियशिरस्त्वाद्यप्राप्तिरिति वस्तुगतिनिरूपणपरं वाक्य केपां. चनानन्दमयब्रह्मतावादनिषेधार्थमेवेति गम्यत इति, स्वयमेव सूत्रकाराः. आनन्द मयोऽभ्यासादित्यत्रानन्दमयपदस्प यथाश्रुतस्य न पक्षसमर्पकत्वम्, किन्तु तत्प- यघटकब्रह्मशब्दस्यैव तदिति सूचयन्ति । सूत्रघटकानां पदानामेवं योजन हि-'सर्वत्र प्रसिद्धोपदेशादि'त्यत्र' सर्वं खल्वितिघटकब्रह्मपदं सर्वत्रपदेन विव- क्ष्यत इनि मन्वानानां श्रीभाष्यकाराणामपि न विप्रतिपन्नम् । एतेन-यद्यान. न्दमयस्याब्रह्मतामभिद्ध्यात् सूत्रकारः, कथं तर्हि प्रियशिरस्त्वादीनामब्रह्मधर्माणां सर्वत्र प्राप्तिमाशङ्केत' इति प्रत्ययस्थानमपि परिहतम् । नहि ब्रह्मधर्माणां तेषां निषेधोऽपि सुशक इत्यानन्दमयाधिष्ठान-परज्योतिरेव ब्रह्म, नत्वानन्दमयः । पर ज्योतिः पदार्थोऽहंकारशून्यात्मस्वरूपम् । 'संपद्याविर्भाव'इति आविर्भूतं स्वरूपं प्रतिज्ञाय 'मुक्तः प्रतिज्ञानादिति सूत्रणात् स्वरूपाविर्भावो नाम नातिरिक्तं स्वरूपमादाय, किन्तु निर्गलितय. न्धमेवेति सूच्यते । तथाचाहंकाराद्युपाधिविलय एव मोक्षः, येन शुद्धत्वमा- त्मनो भवति । सति चैवं 'परंज्योतिः' पदार्थोऽध्यात्मैव योध्यते । आत्मपदेन चात्र स्वस्वरूपमेयोच्यते । तच्च व्यष्टिसमष्टयुपहिता- भेदवादृष्टयेश्वरस्वरूपमेवेति-ब्राह्मणेत्यादि सूत्रेण वर्ण्यते । एवंच फलाध्यायप्रतिपाद्यं सर्व वस्तु ब्राह्माधिकरणेनैव समापितम् । सगुणविद्यानामपि कासांचिदर्चिरादिना ब्रह्मलोकपापणद्वारा परम्परया मोक्षोपयोगः, योऽयमभि- मतः 'कार्यात्यये तध्यक्षेणे'त्यादि सूत्रसूचितः, तत्रापि गौणमोक्षरूपत्वात् कार्यव्रह्ममाप्यादेः, तत्रत्या अपि विशेषाः समालोचनीया इति 'संकल्पादेवे- त्यायधिकरणजातमिति वस्तुस्थितिः । अनया च परिस्थित्या विशदमिदं ज्ञायते यत् परमसाम्यमभेद एवात्रात्यन्तिको विवक्षितः, नतु शरीरशरीरि- भावादिः। इदमत्रालोचनीयम्-यत् श्रीभाष्यमतेऽपि यत्र मुक्तिदशायां विक- * अद्वैतमातण्डः ५ Ame सितधर्भभूतज्ञानात्मकानां जीवानां ब्रह्मणा शरीरशरीरिभाव एव विवक्ष्यते, तत्रोपक्षीणकर्मणां शरीरनाशमात्रेण विनापि लोकान्तरगमनं कथमुक्तरूपा मुक्तिन भवति ? भगवदिच्छया तिरोहितस्यापहतपाप्मत्वादेरिदेव भगवत्साक्षा- कारे सति भगवदिच्छया संभव इति कल्पनायामपि न दोपो भवितेति व्यर्थं मुक्तरुत्क्रमणापेक्षा तेपामपि मते। ब्रह्मप्राप्तत्वव्यपदेशादीनामुत्क्रमणाविषयत्वम् । 'विज्ञानसारधिर्यस्तु मनःप्रग्रहवान् नरः। सोऽध्वनः परमानोति तद्विष्णोः परमं पदम्' इति हि कष्ठवल्लीवाक्यं व्यापकपरमात्मरूपस्थानम- ध्वनः परमतिक्रान्तमार्गम् , गत्यागत्यादिसम्बन्धरहितम्, मनोनिग्रहादिपूर्वकज्ञान- मात्रप्राप्यम्, नतु आतिवाहिकामानवपुपादिसाहाय्यमत्राप्येध्यत इति बोधयत् विशदमुत्क्रान्तिनिरपेक्षतां मुक्तर्गमयति। एतेन-'सोऽध्वनः परमामोति' इति मन्त्रे तद्विद्यानिष्ठस्य चैष्णवपद्माफ्यभिधानात् तत्पद्माप्तेश्च देहादुत्का- न्तिसाध्यतया तस्याप्युकान्तिरिति शङ्कापि-परिहृता ? अध्वनः परमित्यादि विशेषणवैयर्थ्यात् । प्राप्तव्यत्वव्यपदेशस्तु ब्रह्म- णोऽप्राप्तत्वभ्रमनिवारणार्थ एवेति तत्र तत्र व्यक्तम् । प्राप्यत्वं हि प्राप्तस्या- विद्यांशनिसनेनोपसर्पणसदृशम्, नतूरक्रम्य गम्यमानत्वमिति सूत्रकारा मन्यन्ते । अत एव 'मुक्तोपसृष्यव्यपदेशात् इति मुक्तोपमृप्यत्यमेव वर्णितम, नतु केवलप्राप्यत्वमत्यन्तविभागसाध्यम् । एतेन-मुक्तोपमृप्यसूत्रस्योत्क्रान्ति- सूचकनया स्वानुगुणं योजनमपि-परास्तम्। जलूकोदाहरणमविद्वद्विपयम्, नतु विद्विषयम्। नहि तत्रोपसंक्रमणं प्रतिपादितम, किन्त्वाकमणपूर्वकमुप- संहरणम्। आक्रमणपूर्वकोपसंहरणं हि संकोचविकाससाध्यं न सुत्रकाराभिमत- मिति कृत्वैव भगवत्पादा भाविशरीरविज्ञानमात्रपूर्वकं पूर्वतनशरीरत्यागं मन्यन्ते। एतेन-अन्नमयाद्युपमंक्रमणमपि व्याख्यातम् । नद्युत्क्रमणसाध्यं सदाक्रमणम् , किन्तु विज्ञानमात्रम्। नहि शरीरत्यागपूर्वकं प्राणमयादिना- तथाचानन्दमयब्रह्मतावादेऽपि विज्ञानमात्रमेवोपसंक्रामणं विवक्षित- प्तिः ।

* अद्वैतमार्तण्डः * अन्यथा कल्पितमेव प्रियशिरस्त्वादिकं किमिति ज्ञेयस्य वाम गस्तत्र निर्दिश्यते इति सर्व एव समालोचयन्तु । सति चैवं-'प्रियशिरस्त्वाद्यप्राप्तिरिति वस्तुगतिनिरूपणपरं वाक्यं केपां. चनानन्दमयब्रह्मतावादनिषेधार्थमेवेति गम्यत इति, स्वयमेव सूत्रकाराः. आनन्द मयोऽभ्यासादित्यत्रानन्दमयपदस्य यथाश्रुतस्य न पक्षसमर्पकत्वम्, किन्तु तत्प- र्यायघटकब्रह्मशब्दस्यैव तदिति सूचयन्ति । सूत्रघटकानां पदानामेवं योजन हि-'सर्वत्र प्रसिद्धोपदेशादि'त्यत्र' सर्वं खल्वितिघटकब्रह्मपदं सर्वत्रपदेन विव- क्ष्यत इति मन्वानानां श्रीभाष्यकाराणामपि न विप्रतिपन्नम् । एतेन-यघान- न्दमयस्याब्रह्मतामभिद्ध्यात् सूत्रकारः, कथं तर्हि प्रियशिरस्त्वादीनाममधर्माणां सर्वत्र प्राप्तिमाशङ्केत' इति प्रत्यवस्थानमपि परिहृतम् । नहि ब्रह्मधर्माणां तेषां निपेघोऽपि सुशक इत्यानन्दमयाधिष्ठान-परज्योतिरेव ब्रह्म, नत्वानन्दमयः । पर ज्योतिः पदार्थोऽहंकारशून्यात्मस्वरूपम् । 'संपद्याविर्भाव'इति आविर्भूतं स्वरूपं प्रतिज्ञाय 'मुक्तः प्रतिज्ञानादिति सूत्रणात् स्वरूपाविर्भावो नाम नातिरिक्तं स्वरूपमादाय, किन्तु निर्गलितव- न्धमेवेति सूच्यते। तथाचाहंकाराद्युपाधिविलय एव मोक्षा, येन शुद्धत्वमा- स्मनो भवति । सति चैवं 'परंज्योतिः' पदार्थोऽप्यात्मैव योध्यते । आत्मपदेन चात्र स्वस्वरूपमेयोच्यते । तच्च व्यष्टिसमष्टयुपहिता- भेदवाददृष्टयेश्वरस्वरूपमेवेति-म्राह्मणेत्यादि सूत्रेण वर्ण्यते । एवंच फलाध्यायप्रतिपाद्यं सर्व वस्तु ब्राह्माधिकरणेनैव समापितम् । सगुणविद्यानामपि कासांचिदर्चिरादिना ब्रह्मलोकप्रापणद्वारा परम्परया मोक्षोपयोगः, योऽयमभि- मतः 'कार्यात्यये तध्यक्षेणे'त्यादि सूत्रसूचितः, तत्रापि गौणमोक्षरूपत्वात् कार्यतत्पप्राध्यादेः, तत्रत्या अपि विशेपाः समालोचनीया इति 'संकल्पादेवे. त्याद्यधिकरणजातमिति वस्तुस्थितिः । अनया च परिस्थित्या विशदमिदं ज्ञायते यत् परमसाम्यमभेद् एवात्रात्यन्तिको विवक्षितः, नतु शरीरशरीरि- भावादिः । इदमत्रालोचनीयम्-यत् श्रीभाष्यमतेऽपि यत्र मुक्तिदशायां विक- - * अद्वतमातण्डः ५ Amr सितधर्भभूतज्ञानात्मकानां जीवानां ब्रह्मणा शरीरशरीरिभाव एव विवक्ष्यते, तत्रोपक्षीणकर्मणां शरीरनाशमात्रेण विनापि लोकान्तरगमनं कथमुक्तरूपा मुशिन भवति ? भगवदिच्छया तिरोहितस्यापहतपाप्मत्यादरिदेव भगवत्साक्षा- कारे सति भगवदिच्छया संभव इति कल्पनायामपि न दोपो भवितेति व्यर्थ मुक्तरुकमणापेक्षा तेपामपि मते। ब्रह्मप्रातत्वव्यपदेशादीनामुत्क्रमणाविषयत्वम् । 'विज्ञानसारधिर्यस्तु मनःप्रग्रहवान् नरः। सोऽध्वनः परमानोति तद्विष्णोः परमं पदम्' इति हि कष्ठवल्लीवाक्यं व्यापकपरमात्मरूपस्थानम- ध्वनः परमतिक्रान्तमार्गम् , गत्यागत्यादिसम्बन्धरहितम्, मनोनिग्रहादिपूर्वकज्ञान- मात्रप्राप्यम्, नतु आतिवाहिकामानवपुरुपादिसाहाय्यमत्राप्येक्ष्यत इति बोधयत् विशदमुत्क्रान्तिनिरपेक्षतां मुक्तेर्गमयति । एतेन-'सोऽध्वनः परमामोति' इति मन्त्रे तद्विद्यानिष्ठस्य वैष्णवपद्माफ्यभिधानात् तत्पदप्राप्तेश्च देहादुरका- न्तिसा-यतया तस्याप्युकान्तिरिति शङ्कापि-परिहृता ? अध्वनः परमित्यादि विशेषणवैयर्थ्यात् । प्राप्तव्यत्वव्यपदेशस्तु ब्रह्म- णोऽप्राप्तत्वभ्रमनिवारणार्थ एवेति तत्र तत्र व्यक्तम् । प्राप्यत्वं हि प्राप्तस्या- विद्याशनिसनेनोपसर्पणसदृशम्, नतूत्क्रम्य गम्यमानत्वमिति सूत्रकारा मन्यन्ते । अत एव 'मुक्तोपमृप्यव्यपदेशात्'इति मुक्तोपमृप्यत्वमेव वर्णितम, नतु केवलप्राप्यत्वमत्यन्तविभागसाध्यम् । एतेन-मुक्तोपमृप्यसूत्रस्योत्क्रान्ति- सूचकनया स्वानुगुणं योजनमपि-परास्तम्। जलूकोदाहरणमविद्वद्विपयम्, नतु विद्वद्विषयम्। नहि तत्रोपसंक्रमणं प्रतिपादितम्, किन्त्वाकमणपूर्वकमुप- संहरणम्। आक्रमणपूर्वकोपसंहरणं हि संकोचविकाससाध्यं न सूत्रकाराभिमत- मिति कृत्वैव भगवत्पादा भाविशरीरविज्ञानमात्रपूर्वक पूर्वतनशरीरत्यागं मन्यन्ते। एतेन अन्नमयाापमंक्रमणमपि--व्याख्यातम् । नद्युत्क्रमणसाध्य तदाक्रमणम् , किन्तु विज्ञानमात्रम्। नहि शरीरत्यागपूर्वकं प्राणमयादिना- तथाचानन्दमयब्रह्मतावादेऽपि विज्ञानमात्रमेवोपसंक्रामणं विवक्षित- प्तिः।

, अहतमातण्टा मिति वक्तव्यम् । एवंच एतादृश्येय प्राप्तिर्वमण इति प्राप्तिवचनान्यथा- नुपपत्या न तत्सगुणत्वादि युक्तम्। सर्वथा तु सगुणवाक्यानि निर्गुणवाक्या- नोति द्विविधानि वाक्यानि गृहीत्वैव वालमीमांसायाः प्रवृत्तिः, नतु सगुणविद्या- मात्राभिप्रायतया। तत्र च निर्गुण एव परमतात्पर्यमिति, न केवलम् -न स्थानतोऽपीत्यधिकरणेन, किन्तु 'प्रकृततावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः' इत्याधिकरणेनापि लभ्यते। 'प्रस्ततायत्त्वमिति सूत्रस्याहत एवं स्वारस्यम् । तथाहि-'प्रकृतैतावत्वं हि प्रतिपेति' इति सूत्रं हि प्रकृतमेतावत्त्वं परिच्छिन्नं भूर्तामूादिरूपं निपेति-'अथात आदेशो नेति नेतो'ति । अत्र कर्मधारयसमासात् पष्ठी समासो गुरुरिति 'निपादस्थपत्यधिकरण न्यायेनातिना विवरणमेव योग्य प्रतिभाति, नतु प्रकृतानां गुणानामियत्तामिति विवरणमन्ये- पाम् । तदुक्तं मार्ताण्डे-'नेति नेतो'त्यस्य गुणनिपेधपरत्वे तदुत्तरं बहुतरगुण- विधानायोगात्-नेति नेतो' त्ययं निषेधो न गुणविभूतिविषयः, किन्तु रूपये- ऽभिहिते एतावद्धपस्य रूपमिति रूपैयत्ता या प्राप्ता,तढिपय इति । श्रीभाष्येऽप्यु- तम् -'प्रकृतगुणविशेपयोगित्वमानं ब्रह्मणः प्रतिपेयति' इति । एतेन-'भव- दूपणं केवलाज्ञाननियन्धनम् ; नात्र गुणेपत्तानिषेधो वर्णितः श्रीभाध्ये इति विमर्शोऽपिव्याख्यातः । मार्ताण्ड-श्रीभाष्यकारादिभिरेयास्य दत्तोत्तरत्वात् । इदमेवात्र पृच्छयते-'उक्तमकारमानं विशिष्टं ब्रह्म न भवतीति भवदनूदित- श्रीभाष्ये ब्रह्मणि गुणान्तराणामपि साधनीयत्वात् प्रकृतगुणविशेषमान्नं 'नेति- नेतीति निषेधविषय इति खल्वर्थ इति,कथं गुणोयत्तानिषेधपरत्वं श्रीभाष्यकारा- णामित्येतदनुवादोऽनुपपन्न इति भवन्त एव स्वयमाचार्याः समालोचयन्तु । प्रस्ततावत्वपदेन शून्यवादनिरास एव मन्यते, नाद्वैतमतनिरासः । 'पाव व्रत्मणो रूपे मूत चामूर्त ति मूर्तामूर्तपदयोध्यात् रूपादतिरिक्त हि गुणादिकं किम् ? यत् परिशेपितमस्ति । यस्य समर्थनार्थमियत्तानिपेयोऽत्र वि. पक्षणीयः । तथाच प्रकृतं परिच्छिन्नत्वं सगुणत्वं गुणा एवं प्रतिपिद्धयन्ते नतु ब्र. झापीति शून्यवादनिरास एषात्र विवक्षितः। एतेन-रूपप्रतिमतिषेधस्य विव- * अद्वैतमातेण्डः * क्षितत्वे 'प्रकृततावद्वी ति युच्येत, नतु तथोक्तम् । अतः सूत्राक्षराननुगुणत्वं स्पष्टमिति शङ्कापि-परिहता; 'एतावदि' ति सूत्रणे हि धर्मिणोऽपि निषेधः स्यादिति, धर्ममात्रनिषेधार्थत्वेन तथा सूत्रणसार्थक्यात् । अत एव 'ततो ब्रवीति च भूय' इति सूत्रांशः स्वरसो भवति । 'अयात आदेशो नेति नेतीति वाक्यानन्तरं हि 'अथ नामधेयमिति 'सत्यस्य सत्यमित्यधिष्ठानमेकमेव सत्य- पदाभिधेयं बोध्यते, नान्ये केऽपि गुणा इति, श्रीभाष्यकाराणामुपरि गुणानामप- रेपामुपदेशपरतया विवरणमसांप्रतमेव । 'तव्यक्तमाह ही' सूत्रार्थनिष्कर्षः। एतेन तद्व्यक्तमाह ही'त्यपि-व्याख्यातम्। अनेन हि ब्रह्मणोऽवा- मानसगोचरस्याव्यक्तस्य न प्रतिपेययोग्यतेति प्रतिपादनमेव सङ्गतमिति मत- द्वयसंप्रतिपन्नमिदम् । इयान विशेषः-यत् सगुगं ब्रह्म विवक्ष्यत इति मतान्त- रम, शुद्ध चैतन्पमात्रमित्यस्माकम् । सूत्रकारास्तु -गुणनिषेधानन्तरमव्यक्तपदं प्रयुञ्जाना निर्गुणं स्वरूपमेवात्र विवक्षन्तीति पिष्टपेपणमिदम् । अव्यक्तं च तत्स्वरूपं न केवलं श्रुत्पा, किन्तु स्मृत्याप्यवगम्यते-यत् ध्यानकाले सर्वैरपि प्रत्यक्षीकरणमहतीत्यादौ न विप्रतिपत्तिलेशोऽपि । एतेन-'नेति नेतीत्यस्य गुणनिषेधार्थत्वे तदुत्तरं पुनर्वहुतरगुणविधानायोगाच्चेति' मार्ताण्डोक्तिः-- व्याख्याता। बृहदारण्यकद्वितीयाध्याये द्वितीयत्राह्मणस्या धात आदेश' इति वाक्येनैव समाप्तिः, अनन्तरं तु मैत्रेयोयाज्ञवल्क्य संवादादिकं विषयान्तरमेवेति, कुत्रवोत्तरं बहुतरा गुणा विधीयन्ते । ब्रह्मनिर्गुणत्ये गुणकल्पनावैयय मिति शङ्कापरिहारः । 'प्रक्षालनाद्धि पङ्कस्ये' ति न्यायानुसारेण शङ्कातत्समाधानादिकं सर्व भाष्य एव व्यक्तम् । निर्गुणस्य हि ब्रह्मगः कल्पितेन रूपेणैवोपदेशः संभव- ति । लोकसिद्धानां ब्रह्मणि कल्पनामात्रेण निषेधो हि न दोपाय -'मूपामिपिक्त- द्रततानादि' न्यायेनेति व्यक्तमिदं सूचितं तैत्तरीयोपनिषदि ; अन्यथा त. वापि श्रुत्युपदिष्टस्य शरीरात्मभावस्प श्रुत्यैव निषेधेऽप्युन्मत्तप्रलापापत्या शरीरात्मवादोऽपि श्रोतः स्यात्, प्राणाद्यात्मतावादोऽपीति कथं तत्मामाण्यस्यैव ११४ अद्वैतमार्तण्डः निर्वाहः ? एतेन-महता प्रबन्धेन वेदान्तेषु प्रतिपादितस्य ब्रह्मणो मूर्तामूादिप्रप- ञ्चेन रूपवत्त्वस्य मानान्तराप्राप्तत्वेनानुवादानहतया श्रुत्या विधित्सितत्वेनैवाभ्यु- पगन्तव्यतया प्रतिषेधोऽनुपपन्न इत्यादिशङ्कापि-परास्ता । अन्नमयवाक्यावग- तशरीरादिमात्रात्मनावादोऽपि हि प्रमाणान्तरासिद्ध एव, यतः प्रत्यक्षेणे- न्द्रियादीनामपि प्राणादीनामिवात्मताऽनुभूयत इति तस्यापि इति तस्यापि हि श्रीत- स्वापत्तिः। बाया अहंकारसम्बन्धरहितात्मस्वरूपयोधनेन अद्वैतपर्यवसानस्वारस्यम् । एतेन-भूमविद्यापि व्याख्याता; तस्या अपि निर्गुणब्रह्मण्येव तात्प- र्यात् । अत एव-भूमविद्यायास्तमसः पारं दर्शयति भगवान् सनत्कुमार' इत्युपसंहार उपपद्यते। तमसः पारशब्देन हि तमाशब्दवाच्यप्रकृतिसम्बन्ध- शून्यं भूमाख्यं ब्रह्मेति गम्यत इति, प्रकृतिशरीरं ब्रह्म कथं वोक्तविद्यातात्प- विषयः स्यात् ? न केवलमुपसंहरः, किन्तु 'तरति शोकमात्मयित्' इत्युपक्रमः 'अथात आत्मादेश' इति मध्यपरामर्शश्चात्र प्रमाणम् । अत्र हि प्रकरणे भूमाख्यं ब्रह्माहंकारादिविविक्तं केवलानन्दरूपमात्मस्वरूपमेव ततस्ततो भूयस्त्वेन प्रतिपाद्यते इति कथं वा ब्रह्म चिचिदच्छरीरकमिति वाद उक्तपकरणार्थी भवेत् ? स एकधा भवतीत्यादीनां स्तुत्यर्थत्यम् । आत्मन एव सर्वोत्पत्त्यादिवर्णनानन्तरं 'स एकधा भवनी'त्यादिना बहुभाववर्ष नमपि स्तुत्यर्थमेवान प्रतिपाद्यत इति स्थितेऽपि न हानिः-सगुण- विधायामपि बहुभावे किमु वक्तव्यं निर्गुणभाव इति । तथाच सगुणविद्याफल- स्पैचात्रानुवादः स्तुत्यर्थ इति फलनि। अभावाधिकरणे फलपादेऽपि सगुण- विद्योपासकानामेव निरवग्रहैश्चर्य व्यवस्थाप्यत इति न किञ्चदनुपपन्नम् । एतेन-'स एकधा भवति' इत्यादेः स्तुतिमात्रत्वेऽभावाधिकरणे फलपादे उक्त- श्रुतिप्रमापोनानेकशरीरपरिग्रहलक्षणैश्वर्यस्य सगुणविद्याफलत्वयवस्थापनास- तेरिति शङ्कापि-परिहता।

* अद्वैतमार्तण्डा अभायाधिकरणस्य सगुणमुक्तविषयत्वम्, सगुणमुक्तेस्लरीराशरीरोभयरूपत्वं च । अभावाधिकरणं हि सगुणविद्योपासनया प्राप्तब्रह्मलोकानपुनरावर्तमानान् मुक्तकल्पानेव विषयीकरोति, नतु मुख्यमुक्तानिति हि भगवत्पादा मन्यन्ते । सति चैवम्-'यदि सगुगमुक्तिनिर्गुणमुक्तिश्चेति मुक्तिर्टिविधा, तब निर्गुणमुक्तिरश- रोरत्वरूपा, सगुणमुक्तिः सशरीरत्वरूपेति सूत्रणं स्यात्'इति शङ्कापि नाद्वैतमतम- धिकृत्य संभवति ; यतो नाबातिना निर्गुणमुक्तरशरीरत्वं सगुणमुक्तः सशरी- रत्वमिति व्यवस्थापयन्ति , किन्तु सगुणमुक्तावावान्तरमुक्तिरूपायां सशरीर- त्याशरीरत्वे । अत एव तन्वभावे सन्ध्यवदुपपत्तेरि ति सूत्रमुपपद्यते। न हि निर्गुणमुक्तौ सन्ध्यवदपि सशरीरत्वम् । अत्र-तन्वभावे सन्ध्यवत्' 'भावे जा. ग्रदत्' इति विभागोऽयं श्रीभाष्यमतेऽनुपपन्न एव स्यात् । यत उभयत्रापीश्वर- सृष्टेन प्रपञ्चेन व्यवस्थां श्रीभाष्यकारा मन्यन्ते-मायामात्रमित्यस्येश्वरसृष्टत्व- मित्यर्थवर्णनेनेति, सगुणमुक्तिमेवाधिकृत्याभावाधिकरणम् । इयान विशेष:-यत् सेयमवान्तरमुक्तिरेव न परमा मुक्तिरिति । परममुक्तौ हि नाचिरादिमार्गापेक्षेति पूर्वमेव विवेचितम् । 'संपद्याविर्भाव' इति सूत्रं हि परज्योतिरुपसदनसाध्य एव स्वरूपाविर्भावः, नतु गत्यादिसाध्य इति विवेचयति । नतु गत्यादिसाध्य इति विवेचयति । अत्र परज्योतिरुपसदन- मात्मसाक्षात्कार एव, नतु देशविशेषावस्थितस्वरूपसाक्षात्कारादिः । अन्यथा हि 'शरीरात् समुत्थाये' ति पदं वितथमेव स्यात् । नहि विना वारीत्क्रमणं न पर- ज्योतिःप्राप्तिरिति सर्वविदितमिदम् । अनो ज्ञाप्यते परज्योतिरूपसदनं नोक्रम- यामपेक्ष्य, किन्तु शरीरादुत्थानमपेक्ष्यैव । तच ततो विवेकग्रहणमेवेत्यादि पूर्वमेव विवेचितम् । एतेन संपद्याविर्भावाधिकरगे-अचिरादिमागेंग देशविशेपे वा- सुदेवाख्यपरज्योतिरुपसन्नस्य मुक्तिरुक्ता' इत्यादिशङ्कापि-पराहता। यत्तु 'तदोकोग्रज्वलनं तत्प्रकाशितहारो विद्यासामर्थ्यात् तच्छेपगत्यनुस्मृतियोगादिति सूचम् , तत्पूर्वोक्तः कारणैरपराविद्याविषयम्, नतु परविद्यायिषपमित्यपि व्या- ख्यातप्रायमेव । आत्मरवरूपाज्ञान-ज्ञानप्रयुक्तो वन्धमोक्षौ, स्याग्निकमित्थ्यात्व एव सूत्रस्वारस्य च । शरीरादिवियेकाग्रहणमेव हि सर्वस्य बन्धस्य निदानम्, परमात्मभाव- ५ अद्वैतमार्तण्डः। प्रतिवन्धकं च । 'तरति शोकमात्मविदि'त्यात्मज्ञानमेव हि यन्धनिवर्तक शास्त्रमा- वेदयति । तदिदं सिद्धम्-यत् परज्योतिरूपनिष्कृष्टपरमात्मस्वरूपाज्ञानप्रयुक्तो धन्धः, तत्स्वरूपसाक्षात्कारप्रयुक्तो मोक्षस्तविपर्ययरूप इति । अयमेवार्थ:-'परा- भिध्यानात्तु तिरोहितम्, ततो ह्यस्य वन्धविपर्ययो' इति सूत्रेणापि योध्यते। इदं हि सूत्रं स्वालिकानामर्थानां मायिकत्वसाधनानन्तरं प्रवृत्तमिति मतदयसंपतिप- न्नमिदम् । इयान् विशेषः-श्रीभाष्यकाराभिमतं मायिकत्वमीश्वसृष्टत्वम्, अद्वैताभिमतं तु तदनिर्वचनीयत्वम् । अनेन यधिकरणेन स्थानिकानां जागरित- प्रपञ्चविलक्षणत्वं प्रतिपाद्यत इत्यद्वैतमतम् । 'वैधाच न स्वप्नादिवत्' इति विप- याणां ज्ञानाकारातिरिक्ताकारव्यवस्थापनार्थमेव स्वानिकानां ज्ञानाकारत्वाभ्युपग- मवादेन प्रवृत्तम्, नतु एकस्प मायिकत्वमपरस्यामायिकत्वमिति वैधयनिरूपणेन । अन्यथा श्रीभाष्यकाराणामप्युभयेपामपोश्वरसृष्टत्ववादिनां चैधर्म्यमेव न स्यात् इति, 'वैधाच्च न स्वनादिवत्' इति सूत्रमनुपपन्नं स्यात् । अतश्च वैध- म्य मायिकत्वमुभयं च सूत्रकाराभिमतं व्यावहारिकत्वप्रातिभासिकत्वरूपमेव पर्यवस्यतीति सूत्रकाराणामदैतस्वारस्यमवचनसिद्धमेव। एतेन-'वैधाच्च न स्वमादिवत्' इति सूत्रविरोधोऽपि स्वानिकपारमार्थिकतायामिति-सूचितम् । अत एव "सूचकश्च हि श्रुतेराचक्षते' इति सूत्रं सफलं भवति। श्रीभाष्यमते तु स्वामिकानामीश्वरसृष्टानां पारमार्थिकानामर्थक्रियाकारित्वाभावशकैच नोदेतीति, ध्यमिदं सूत्रम्। मायिकत्वमारम्भणाधिकरणेनैव सत्यं साधितम्, परंतु तदनुमो- दितं व्यावहारिकसत्यत्वमपि नास्तीति सूचनार्थमधिकरणान्तरमिति न दोषः । अनेन चेदमेव सूच्यते- यत् स्वाभिकानां प्रातिभासिकानामप्यर्थक्रियाकारित्वे मि- त्थ्याभूतानां व्यावहारिकाणां तत्र किमु वक्तव्यमिति । अधिकं तु द्वितीयसंस्करण- वेदान्तपरिभाषाभूमिकातोऽवगन्तव्यम् । सर्वथा तु स्वामिकानामीश्वरसृष्टता- स्थापनं न सूत्रकाराभिमतम् । नाभिव्यक्तस्वरूपस्यापि जीवस्य स्रष्ट्रत्वसं- भवः श्रीभाष्यमते। कारणत्वनियन्तृत्वाद्यतिरिक्तमेव जीवधर्म इति खलु श्री- भाष्यकाराः 'उत्तराच्चेदाविर्भूतस्वरूपस्तु' इत्यत्र यदन्ति । व्यक्तं चैतत्-'जग- व्यापारवर्जमित्यत्रापि।

अतमार्तण्डः * -nam-vuve - . 'परामिध्यानात्तु' इति सूत्रसार्थक्याथु पन्यासः । सति चैवं सत्यकामत्वादोमामभिव्यक्तत्वं तिरोहितत्वम्, तन्निमत्तस- माचोलनं च सर्वमत्र प्रकरणे सूत्रकाराणामसङ्गतमेव स्यात्, अद्वैतमते तु-मायि- कत्वे चैतन्यविवर्ततावादस्यैवाभिमेतत्वात् , अन्तःकरणोपहित चैतन्यवि- वर्तता स्वाप्निकानां कथं न भवतीति शङ्कावारणार्थ 'पराभिध्यानात्तु' इति सूत्र- मपेक्ष्यते। अनेन च सत्यं जीवब्रह्मणोरभेदः, जीवस्यापि मुक्ततादशायामी- श्वराभेदात् स्रष्तृत्वादि संभवति, तथापि जीवत्वं तु विरोधानप्रयुक्तं याव- दुपाधि व्यावहारिकमेवेति, न तस्य परमात्मनाऽत्यन्ताभेदः। तथाच यस्मात ततः चैतन्यत एव यन्धो मोक्षश्च, तदज्ञानात् पन्धः, तज्ञानाच्च मोक्षः, तस्मात् तिरोहितं केवलचैतन्यमानत्वं पराभिध्यानादेव निर्वर्तते, नतु पूर्वमिति, प्राग ब्रह्मसाक्षात्कारात् ईश्वराभेदाभावात् न जीवकर्तृकसृष्टिविषय: स्वाम- प्रपञ्च इति युक्तम् । एतेन-तिरोहितमैश्वर्य पराभिध्यानादाविर्भवतीत्यर्थवर्ष- के जीवस्य स्वाभपदार्थसष्ट्युपयुक्तैश्चर्यतिरोधायक एवोत्कटजिज्ञासोदयेन तदनभिधानेऽनावश्यकवक्तव्योक्तिदोपप्रसङ्ग इति शङ्का-परास्ता। इदं हि सूत्रं जीवस्य स्वाभाविकमपहतपात्मत्वादिकमादाय सट्टत्वशङ्कावारणपरमिति मतदयसम्मतपिदम्। अत्र श्रीभाष्यकारा:-अपहतपात्मत्यादिकं यद्य- पि स्वाभाविकम्; तथापि परमात्मसंकल्पातिरोहितमिति-व्याचक्षते । अदैति- नस्तु-पराभिध्यानात् , परसाक्षात्कारानन्तरं हि जीवस्य ब्रह्मभावः, ततः पूर्व तु तत्तिरोहितम् , इत्येवं व्याचक्षते । अयमेव भावो भगवत्पादैः-तत्पुन- स्तिरोहितं परमेश्वरमभिध्यायतः कस्यचिदेवाविर्भवति इति वाक्येन योध्यते । पराभिध्यानात्तु सूत्रस्याद्वैताभिमतयोजाना, तल्या एवं युक्तत्वं च। एवं चेयमत्र सूत्रयोजना तिरोहितं तद्पहतपाप्मत्वादिकं पराभिध्याना- नन्तरमेव भवति ; यतः, परमात्माधीनावेव बन्धमोक्षाविति, नानाध्याहारलेशो- ऽपि । अन तिरोधानमन्यस्य बन्यसाधनमन्यस्य ध्यानं मुक्तिसाधनमिति भ्रम- वारणार्थ 'ततो यस्य बन्धविपर्ययाविति सूत्रांश: ।तेन च सत्यमोश्वर एवं वन्ध- अद्वैतमार्तण्डा * in मोक्षोभयकारणम्, तथापि तस्याज्ञायमानतया बन्धसाधनत्वम्, तदिपर्यये साक्षा- कारे तु बन्धविपर्ययसाधनत्वमिति -विपर्ययशब्दप्रयोगेण साधयति । श्रीभा. ध्यसंमते तु विचरणे ईश्वरसंकल्प एवोभयत्र कारणमिति विचक्षायामीश्वरस्प वैपम्यनैपयदोपापत्तिरपि प्रथम संभाव्यते इति तद्वारणार्थमाराधितेश्वर- संकल्पो मोक्षकारणमनाराधितेश्वरसंकल्पो बन्धकारणमित्यध्याहारदोपोऽप- रिहरणीय एव। पराभिध्यानस्य तिरोभावहेतुत्यायोगः, पराभिध्यानस्य पाकर्मकाभिध्यानरूपत्वस्यैव श्रौतत्वं च । यत्तु-पराभिध्यानात्तु' इत्यत्र पराभिध्यानस्य तिरोधानं प्रति हेतुत्वं श्रुतम्, न त्वाविर्भावं प्रति। ततश्च परकीयव्याख्याने श्रुतहानमश्रुतार्थकल्पन- मध्याहारश्चेति मार्ताण्डोक्तम् ,नत्रास्मदीयव्याख्यानदृष्ट्या तिरोहितमनूद्य पराभि- ध्यानानन्तरत्वस्यैव विधानमभिप्रेतम् , यतो ब्रह्माभिन्नत्वात् कथं न जीवस्रष्ट्र त्वमिति शड्दैवात्र वर्तते, नतु तिरोधारनिमित्तं किमिति । बहुशो हि पूर्वा- ध्यायादी जीवपरमात्मनोविशेषः साधितः सनिमित्तम्। सत्यमद्वैतमतरीत्या कल्पितमंशत्वमनंशत्वं च स्वाभाविकमित्यादिकमपि सूचितम् , तथापि कियत्का- लपर्यन्तं जीवस्य तदीपाधिक रूपम्, कस्पां वावस्थायामभेदोऽत्यन्त इति विवेचन सूत्रकारा इदानीमेव निरूपयन्ति । एवं च यायत्स्वप्नाद्यवस्था, तारजीवस्य जीवत्वम्, साक्षात्कारानन्तरं तु न स्वप्नाद्यवस्था,नवा जीवत्वमिति सूत्राशय इति फलति । 'ततो यस्य यन्धविपर्यया वित्यस्य हि वक्यस्यार्थः - ईश्वरादेव व वन्धो मोक्षश्चेत्येव; यत ईश्वर एव वन्धमोक्षोभयकारणमिति-'प्रधानक्षेत्रजपतिर्गुणे- शस्संसारमोक्षस्थितिवन्धहेतुरिति श्वेताश्चरतरोपनिपदि प्रतिपाद्यते । श्वेता- इवतरोपनिषद्वि हि-संयोग एपां नत्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः' इति प्रकृत्यविवेकनियन्धनं बन्धनमभिवाय-'पृथगात्मानं प्रेरितारं च मत्वे'ति प्रकृतिपुरुपविवेकजानात मोक्ष इति प्रतिपादनात् आत्मैव प्रकृतिसंयुक्तोऽ. 'विद्ययाऽऽन इति यावत् धन्य हेतुः, म एव च विविक्तनया ज्ञायमानो मोक्षहेतु- रित्युपक्रमेण प्रवर्तते । अनेनायमेवार्थोऽवगम्यते यत् केवलं चैतन्यमात्मस्व. - * अलुतमार्तण्डः * १९६ . " रूपं प्रकृतिसम्बन्धात् जीवभावमापन्नमज्ञादिपदयाच्यमनीशतां गच्छति, चैतन्य तु तद्विविविक्तमोशंभावम् । तदुक्तम्-क्षरं प्रधानममृताक्षरं हर क्षरात्मा नावशिते देव एकः' इति । अत्र चोपनिपदि मध्ये 'तस्याभिध्यानाद्योजनात्तत्त्व- भावात् भूयश्चान्ते विश्वमायानिवृत्तिः ।' 'इति बन्धविपर्ययः पूर्वोक्तात्मस्व- रूपविज्ञानप्रयुक्ततदात्मभावेनेति स्पष्टमवगम्यते । इदमेव चाक्यम् - 'पराभि- ध्यानात्तु' इति सूत्रेऽपि प्रत्यभिज्ञायत इति पराभिध्यानशब्देन परकर्मकध्यानमेव विवक्ष्यते, नतु तत्कर्तृकः संकल्पविशेषः। अनन्तरवाक्ये हि-'ज्ञात्वा देवं सर्वपापमहाणिः । क्षीणैः क्लेशैर्जन्ममृत्युमहाणिः ।' इति स्पष्टमेव तत्कर्मक- साक्षात्कार एवं तदभिध्यानपदार्थ इति विज्ञायते। ततश्चायमेवार्थः उप- संहारेऽपि-प्रधानक्षेत्रज्ञपतिर्गुणेश' इति वाक्येऽपि विवक्षणीय इति, तेन वाक्येन परमपुरुषाज्ञान-तदभावयोरेव पन्धमोक्षहेतुत्वं परमात्मनः प्रतिपाद्यत इति वक्तव्यम्, नतु तत्संकल्पविशेपसाध्यौ वन्धमोक्षाविति । अज्ञान-शानद्वारेश्वरस्य यन्धमोक्षहेतुत्वे फलमत उपपत्तेरिति सूत्राविरोधः । एवं पदन्तोऽपि वयम् -- 'फलमत उपपत्तेरि'ति स्वसिद्धं प्रसादादि- दारेश्वरस्यैव तत्तत्कर्मफलदातृत्वमिति सिद्धान्तं तु न सूत्रकारानभिमतं बदामः । अयमन विवेका-तत्तत्कर्मफले उपासनाफले वेश्वरः प्रसादद्वारा कार- णम्, बन्धमोक्षयोस्तु तदज्ञान-तद्विज्ञनाभ्यामेव स हेतुरिति । एवंच न विरोधले- शस्याप्यवसरः। एतेनेदमपि निगव्याख्यातम्-यत्- तानहं दिपतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजत्रमशुभानासुरीष्वेव योनिपु॥ मचित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । मत्प्रसादात् परां शान्तिं मत्स्थां प्राप्स्यसि शाश्वतीम् ॥ इत्यादि सगुणोपसनादिकमवाक्याभिपायम् , ज्ञानमात्रेण मुक्तिप्रतिपाद- कानि तु पूर्वोक्तपरमात्मविषयाणोति एतेन -यथा लौकिकेश्वरः ईशितव्य- चेतनस्य कोपप्रसाद्वारा यन्धमोक्षहेतुर्भवति, तद्वदयं जगदीश्वर इति प्रती- यते । अनेन चेश्वरस्य क्षेत्रज्ञसन्धमोक्षहेतुत्वं तत्तदनुगुणप्रवर्तनेनेति लभ्यते ।

१२० vv v v v v. * अद्वतमार्तण्डः * अधमर्थो भगवद्गीतासु स्पष्ट मुपदिष्टः–तानहं द्विपतः रान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरोष्वेव योनियु। मचित्तः सर्वदुर्गाणि मत्प्रसादात्तरि- प्यसि' इत्यादिनेति परोक्तिरपि निरवसरेति-सूचितम् । पराभिव्यानसूत्रस्य ज्ञाननिवर्त्यत्वारपमित्थ्यात्वतात्पर्यकत्वम् । भेदव्यपदेशादिसूनोपपत्तिश्च । पराभिध्यानशब्देन च फलाभिमुखस्य ध्यानस्य साक्षात्कारपर्यवसाबिताया एव विवक्षणात श्वेताश्वरतरीयवाक्यशेपवशात् ज्ञाननिवार्यत्वमेव पन्धस्य प्रति- पाद्यते, नतु तत्सत्यत्वम् । अत्र स्वानिकप्रपञ्चमायिकत्वस्थापनावसरे जागरिताप- श्वसाधारणयन्धस्येश्वरज्ञाननिवर्त्यत्वमिति, श्वेताश्वतरोपनिपत्मत्यभिज्ञानेनेद- मपि सूच्यते - यष्ठिानस्वरूपाज्ञानमात्रप्रयुक्ताः स्वाप्निका व्यवहारदशायामपि याध्यन्त इति विशेषे सत्यपि बाध्यत्वमात्रेण न विशेपस्तेषां परस्परमिति । 'अधिकं तु भेदनिर्देशात्' इत्यादीनां न श्रीभाष्यमते स्वारस्यम्, किन्त्वदैत एवेति पूर्वमेवोक्तत्वात् जीवात्मभेदमेव सूत्रकाराभिमतं कृत्वा तत्र तत्र सुदूरमाक्रमणं परेपां नास्माभिः पुनरपि समालोच्यते । स्वरूपैक्यमेव जीवेश्वरयोः शास्त्रार्थः सूत्रकाराभिमतश्चेति पहुशोऽन्यत्र प्रतिपादितम् । आत्मेति तूपगच्छन्ती ति सूत्रस्याद्वैत एव स्वारस्यम् । 'आत्मेति तूपाशनि ग्राहयनित चेति सूरमपितर प्रमाणमिति सांज- तमुपपायामः । इदं हि सूत्रं ब्रह्म तत्र तत्र ज्ञेयतया निर्दिष्टमहंरूपेण ग्रहीत- व्यमिति चोधयतीति मतढयसंप्रतिपन्नोऽयमर्थः । इयान विशेषः -- यत् श्री- भाष्यकाराः स्वात्मतया स्वनियन्तृत्वेन ब्रह्मानुसन्धातव्यमिति मन्यन्ते, अद्वै- निनस्तु स्वस्वरूपत्वेनेति । तथाचात्रात्मशब्दः स्वरूपवाच्युत स्वान्तर्यामिवा- चीति विचारः कर्नव्यः । वयं तु प्रतीमः यत् श्रीभाप्यमते परमात्मनः सर्वनि- पन्तस्येन सर्वशरीरकत्वस्प तत्तद्वाक्यसिद्धत्वात् पृथक् स्वशरीरितयोपासन- व्यवस्था विफलेति, स्वस्वरूपतया ब्रह्मानुसन्धानमेव सूत्रार्थहृदयमिति । अत्र हि वाम जीवश्च स्वरूपत एकमिनि सुचनं मुख्यं फलं सिध्यति । तथाच स्वरू- पैश्यनियन्धनमेय वामदेवादीनामिन्द्रादीनां वा ब्रमण्यहंशब्दप्रयोग इत्यपि अद्वैतमार्तण्डा १२१ सूचितम् । "न वक्तुरात्मोपदेश' इति चेन्नाध्यात्मसम्बन्धभूमा यस्मिन्' इति सूत्रे वक्तुरात्मा नोपदिश्यते, 'मामितो'न्द्रोपदिष्टो न तस्यात्मा, किन्तु फेवला- त्मेति यत् योध्यते सूत्रकारस्तदिदम्-उपासितुरात्मान्तरं न कुत्रापि ज्ञेयमिति स्पष्टमेव योधयति । तधाचाहं ब्रह्मास्मीत्यादि स्वरूपैक्यनियन्धनमेव । श्री- भाध्यमते 'मामुपास्वेति इन्द्रेणापि तस्यैवात्मोपदिश्यत इति कथं न वक्तरात्मेति निषेध उपपद्यते? जीयब्रह्मणोः स्वरूपैक्ये शास्त्रतात्पर्यम् । न हीन्द्रोऽसत्त्ववित्, येनातत्त्वविदामियाहंदृष्टिरिन्द्रस्यापि स्वात्ममात्र- विपयिणोति कल्पनाया अवकाशः। अध्यात्मसम्बन्धानां यहनामाम्नानं च यदुपक्षिप्तम्, तन्न निखिलचेतनाचेतननियन्र्तृत्वादिकमेव खलु धर्मजातमुपक्षि- तम्, नतु स्वशरीरित्वादिकमसाधारणमिति,स्पष्टमिदं विज्ञायते-यत् सर्व-नियन्तृतया सर्वकारणतया चाभिमतं परमात्मस्वरूपं स्वरूपत एव स्वाभिन्न- मिन्द्रादिभिर्मन्यते,नतु स्वशरीरित्वनियन्धनमिति । परमात्मा धन सर्वकारणत्वा- दिनैवोपक्षिप्यते। स्वरूपचैतन्यमेवात्मेन्द्रस्य पारमार्थिक इति शास्त्रो- पदेशतो विज्ञायत इति, समुचितमेव सूत्रकारा अपि शास्त्रदृष्ट्या जीवब्रह्मणोः स्वरूपैक्य एव तात्पर्य मिति गमयन्ति । सत्यं भेदोऽपि श्रुतिभिः प्रतिपाद्यते, अभेदोऽपि ; तथापि पड्विवतात्पर्यलिङ्गोपेताभेदश्रुतेरेव प्रावल्यात अभेदश्रुति- मार्थितस्वनिध्यभेदसमर्पणपरतया भेदश्रुतीनां सार्थक्यान्न दोप इति–'अवैति- नामभेदे नियामकाभावेनाभेदसिद्धान्तायोग' इत्यपि परोक्तिः...परास्ता। अपृथक्सिद्धविशेषणत्वेनैवाहंमतीतिविषयत्वं शरीरादीनामिति तु कल्पना- मात्रम्, इदं रजतमित्यादौ आरोपेणेवात्रापि शरीरस्य आत्मन्यारोपनियन्धन एघाभेदप्रत्यय इलि कल्पनैव हि युक्ता। नहि चेतनशरीरयोः द्रव्यगुणभावः, कि- याक्रियावद्भावोऽवयवावयविभावो था, येन तददविनाभावनिवन्धनोऽभेदप्रत्यय- निर्वाहः स्यात् । तथाच स्वरूपैक्यनिवन्धन एवाहंभावो ब्रह्मणीत्येवोक्तसूत्रार्थ इति नोत्क्रमणापेक्षा तत्रेत्येवानेनापि सूत्रेण सूच्यते । एतेन-अत्र युपासने पर- मात्मा स्वशरीरकत्वेनैवोपास्यते इति परोक्तिरपि बाधितेति-सूच्यते । तदिदं १२२ * अद्वैतमार्तण्डः * सिद्धं यत् जीवब्रह्मणोः स्वरूपैक्यनियन्धन एवैक्यव्यपदेश इत्येव सूत्रा- शय इति । पूर्वोपपादितानामेव पुनरप्युपपादनं तु मार्ताण्डकारानुकरणमेवेति न दोपः। पूर्वोक्तार्थ संक्षेपः । सति चैवं सूत्रकाराः जीवेश्वरस्वरूपैक्य-स्वाप्निकमायिकत्व-जागरिता- दिविवर्तत्व-केवलब्रह्मकेवलप्रपञ्चकार्यकारणभाव-ब्रह्मभावोत्क्रमणनिरपेक्षमुक्ति-पा- ञ्चरात्रादिमतनिरास-ब्रह्मगतनिर्विशेषत्वाख्यैकलिङ्गाविवक्षाद्यद्वैतासाधारणप्रक्रिया - विशेपव्यवस्थापनात् , नित्यधर्मभूतज्ञान-चिचिच्छरीरकब्रह्मकार्यकारणभाव- ज्ञानमात्रप्रमात्व-भगवत्प्रसादसाध्यमुक्तिवाद- देशविशेषावच्छिन्नसायुज्यवादादि श्रीभाष्यासाधारणप्रक्रियाणामसमर्थनाचाद्वैतमेव स्वाभिमतं मन्यन्ते । 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' इत्यादीनां केवलब्रह्मोपादानतापराणामत एवोपपत्तिः । 'आत्मकृतेः परिणामात्' इत्यात्मन एव करणं यत् प्रतिपादितम्, तदिदं प्रकृ- तिदारकब्रह्मपरिणामपक्षेऽनुपपन्नम् । आत्मकरणं च तदात्मना भावेन विवर्त- रूपेणैवेति परिणामपदमत्रत्यं तद्भावमात्रपरमिति, केवलब्रह्मपरिणामवादे सूत्र काराणां न तात्पर्यमिति मतदयसम्मतम् , इयान विशेष:-परिणामवादे सवि- कारेऽवान्तरतात्पर्य व्यवहारदृष्ट्येत्यदैतमतम्, श्रीभाष्यमतं सर्वथा न ब्रह्म केवलं परिणामिकारणमिति, । इदं चात्मकृतेरिति स्त्रविरुद्धमेव , अद्वैतहटल्या तु न विरुद्धम्। विवर्तवादस्त्वेकसत्तावादाभिप्रायेणेत्यादि पूर्वमेव विवेचितम् । इदं तु प्रातिभासिकत्वं ब्रह्मप्रमातिरिक्तबाध्यत्वम् , इत्यभिप्रायेण। न्तुकदोपजन्यत्वं तदिति स्वीकारे तु सत्तात्रयवादृष्ट्यापि विवर्तवाद इत्याद्य- न्यत्र व्यक्तम्। अत एव-ब्रह्म वेद ब्रह्मैव भवति' इति मुक्तानां ब्रह्म- भावोपपत्तिः । ब्रह्ममावोऽयं तु प्रत्यगात्मभाव एवेति-'आत्मा प्रकरणादिति सूत्रेणापि योध्यते। ततश्च परमं साम्यं ब्रह्मणा जीवस्य ब्रह्मभाव इत्येव सूत्र- काराशयः। परमसाम्यं न भोगमात्रसाम्यमिति व्यवस्था । 'निरसनः परमं साम्यमुपैतीति साम्ये परमविशेपणं तु श्रीभाष्यमते नि.

* अद्वैतमार्तण्डार . रफकम् । एतेनेदमपि व्याख्यातम्-यत् 'भोगमात्रसाम्यलिङ्गाच्चेति न परममु- क्तपरम्, किन्त्ववान्तरमुक्तपरमेव । अत एव-'भोगमात्रेति सूत्रे साम्यपद- मेवाम्नायते, न परमसाम्यम् । सत्यं 'यदा पश्यः पश्यते रुक्मवर्णमिति म. विशेष एवाम्नायतेऽनुपदम् , तथापि तद्दर्शनसमनन्तरस्वरूपसाक्षात्कारवत एवात्र विवक्षा । अत एव तदा विवानिति पुनर्विवत्पदप्रयोगः सफलो भवति । अनेन च सगुणोपासनेन साम्यमात्रेऽपि परमसाम्यं तत्त्वसाक्षात्कारमात्रसाध्यमेव योध्यते । एतेन-विशिष्टब्रह्मवेदनं विधाय 'परमं साम्यमुपैति' इति विधानात् परमसाम्यं सगुणवेदनस्यैव फलम्, परमसाम्यशब्दश्च सादृश्यमात्रपर इति परोक्तिरपि न सूत्राक्षरानुगुणेति-व्याख्यातम् । पूर्वोपपादितमहाभारततात्पर्य संग्रहः, विष्णूत्कएँ । सूत्रकारानाशयश्च । यथाच महाभारतीयमोक्षपर्वापि सम्यगेव समालोच्यमानमदैतमत एव स्वरसम्, 'तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतो मुखैः। तत्वमेको महायोगी हरिर्नारायणः परः ।' इत्यादीनि वाक्यानि च न त्रिमूर्धन्तर्गतविष्णुगोचराणि,तथा पूर्वमेव विवेचितम् । नहि महाभारतमात्मबहुत्वाभिप्रायम्, किन्तु तदेकत्वपक्षा- भिप्रोयमेव, नद्यहम्भाव आत्मस्वरूपान्तर्गत इत्यादिकमपि पूर्वमेवोपक्षिप्तम् । स्वयमेव भगवान् रुद्राख्यनारायणमेव स्वान्तरात्मानं स्वप्रत्यगात्मस्वरूपं वा मन्यत इति हि महाभारते व्यक्तमिति, 'सर्वाणि वेदवाक्यानि ब्रह्मसूत्राणि घा शिवनि- पेधेन विष्णुप्राधान्यपराणी'ति मार्ताण्डविवरणमिदं चिन्त्योपपत्तिकमेव । नारा- यणब्रह्मतावादो हि न सूत्राक्षरानुगुणः । नहि कुत्रापि सूत्रे नारायणपदं वर्तते । 'ईक्षते शमिति सूत्रस्य मार्ताण्डाभिमतं याजनं पाराशर्यविजयकार: 'इतरे तु' इति पक्षोपपदनावसरे सत्यमुपक्षिप्तमिति नेयमपि परमार्थगत्या मा- र्ताण्डकाराणां स्वकपोलकल्पनैव । परन्तु ईक्षितृत्वस्य देवतान्तरव्यावर्तकत्वाभा- वात् आशब्दम्, ना इति घोजनं पाराशर्यविजयकारैरेवान्ते'. इतरपक्षनिराकर- णावसरे खण्डितमिति नास्माभिः पुनरपि तत्र व्याप्रियते। अत्रं हि प्रकरणे 'आदिदाख्यमदिविष्ण्याख्यं च न जगत्कारणमिति योजनं न सूत्राक्षरानुगुण- .

१२४ * अद्वैतमार्तण्डः * मिति वदन्तः पराशर्यविजयकाराः आदिब्रह्मणो रुद्रपद्याच्यत्वे विष्णुपदवाच्यत्वे वा नाग्रह इति स्पष्टं विवेचयन्ति । अयमेव चाशयो व्यासतात्पर्यनिर्णयकारैरपि दितीयपरिच्छेदे विशदमुपपादित इति किमिति विद्रोही व्यासतात्पर्यनिर्णय. विरोधेन शिवद्रोहतात्पर्यमात्र पर्यवसयिना। कारणस्य चेतनत्वसमर्थन एवास्य सूत्रस्य तात्पर्यमिति हि तदीयो :निर्णयः। ततश्च नापदेनापि चेतनविवव तद्धिमता, नतु नारायणपरता रुद्रपरतानिपेधेनेस्यद्यन्यत्र विस्तृतम् । एतेनात्मैकत्ववादोऽपि व्याख्यातः। सम्मतमिदं मार्ताण्डकाराणा- मपि-कापिला हैरिण्यगर्भाश्चोभयेपि प्रधानभूतं कंचित् पुरुषं नेच्छन्ति, अतः यहूनां पुरुषाणामेकपोनित्वेनोच्यमानं पुरुषमाख्यास्पामीति प्रतिज्ञाय, पक्ष्य- माणार्थे पुरुषसूक्तं प्रमाणमिति सूचयित्वा, कापिलादिभिरध्यात्मशास्त्रप्रव तकैर्यथायथमुक्तम् , व्यासेन तु पुरुषात्मैक्यमभिहितमिति वदताम् । इद- मेवाबालोचनीयम् --यत् सांख्यादिभिर्यस्यात्मनो बहुत्वमभिमन्यते, तस्यैवै. कत्वं किं मोक्षपर्वाभिमतम्, उतान्यस्येति । द्वितीये तु पक्षे 'बहवः पुरुपा राजन्नु ताहो एक एव तु'इति विकल्पो नोपपद्यते। एकविषयत्वे खलु विकल्पः । एतेन- 'को पत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते' इति प्रश्नान्तरमपि-व्याख्यातम् । अयमस्याशयः-पत् बहुपुरुषत्वे एकपुरुषत्वे वा श्रेष्ठत्वं कस्य ? कस्य च योनि- त्वमिति ? एकपुरुपतावादिभिरपि हि आत्मभेदस्तु सुखदुःखादिव्यवस्था सिद्ध- पर्थमवश्यमूरीकर्तब्य एव, तत्र च योनिभूतः पुरुषः एकः, अपरेतु तत्कार्यभूता इति वक्तव्यम् । सति चैवं को वा स योनिभूतः पुरुष इति 'को वा योनिरि- होच्यते' इति प्रश्नतात्पर्यम् । तथाच बहुपुरुषवादे श्रेष्ठताप्रश्नः, एकपुरुषता. वादे योनिप्रश्न इति फलितम्। योनिशब्दो हि कारणपरोऽधिष्ठानस्यरूपमेव गोचरयतोति नेदं स्वतन्त्र प्रश्नान्तरम् । अत एव–'को घन पुरुषः श्रेष्ठः को. पा योनिरिहोच्यते।' इति प्रश्नेऽपि 'अत्रे'ति, 'इहेति च निर्देश उपपद्यते ? अनेन हि पुरुपयटुत्वैकत्यप्रश्नयोरेवावान्तरं प्रश्नदयमनेन वाक्येन कियत इत्येव प्रतोयते इति,-'न केवलमात्मैकत्ययहुत्वमात्र विषयः प्रश्नः, किं तर्हि ? जगह- पादानकारणपुगपविशेषविपयोऽपि' इति परकीया कल्पनापि-निरयसरैय।

अद्वैतमातण्डार १२५ अस्यां हि कल्पनायां व्यासाभिमन पुरुपयदुत्ववादस्य सर्वेषां च जोवा- नामेकमुपादानकारणमित्यत्रैव पर्यवसानम् । तत्र च बहवः पुरुषा लोके सा. ङ्ख्ययोगविचारणे' इति पुरुपयतुत्ववादस्य व्यासनिरस्पसाङ्ख्याभिमतत्वोक्त्य. नुपपत्तिः । 'समासतस्तु यद् व्यासः' इति व्यासमनस्य साङ्ख्ययोगमतविलक्ष णत्वं हि प्रतिपादितमेव। एतेन-सूत्रकारैः कथमात्मयहुत्ववादो न खण्डिन इति शङ्कापि- परास्ता। योनिपदेन प्रश्ने जगदुपादानप्रश्नः, उत्तरे तु जीवाना- मेवानुपपन्नोपादानव्यवस्थपनानुपपत्तिः। जीवा हि तहहुतावादे साङ्ख्पाभिम- तेऽनुपपदमुपपादित न जन्या इति न तेपामुपादानोपादेयभावसंभवः । इदमेवात्र पृच्छयते-यत् साङ्ख्याभिमतं जीवस्वरूपमभिप्रेत्य यदि पादरायणाचार्या अत्र तदुपादानकरणं प्रतिपादयन्ति, तहिं कथं जोवकर्तृत्व-सा- वैदिकनदहनोतिविषयत्व-तणुत्वादीनां यादरायणाभिमतत्वम् ? साया- भिमतात्मघहुत्वं तु नान बादरायणाचार्यप्रतिपाद्यमिति, तद्वहुत्वानुवादेनो- पादानोपादेयभावानुपपत्तिरिति, साङ्ख्यानभिमतं पुरुषकत्वं प्रथमतः प्रसाध्य व्य. वहारसिद्धजीवभेदस्यापि स्वीकारेणावत्यसन्दर्भप्रवृत्तिरित्येव इति, योनिशब्दार्थोऽत्राधिष्ठानमित्येव स्वीकर्तव्यमित्यधिष्ठानविषयक एवात्र प्रश्नः । पुरुषकत्वमुक्तवानिति पाठे मार्ताण्डकाराभिमते तु विवरणे साङ्ख्यमतात् व्यासमतस्य स्वतन्त्रपरतन्त्रतयोरेव विशेप इत्येव कल्पनात् आत्मविभुत्वादिकं व्यासाभिमतं कथं न श्रीभाष्यकारैरप्पसाधनोपमित्यपि प्रश्नोऽ समाधेय एव । अयं च प्रश्नः स्वरूपचैतन्यविषयकत्व एवोपपद्यते । साङ्ख्ययो. ग्यादिभिः साकं तद्रूपस्य जीवस्यैव भेदमात्रे विवादो वर्ततेऽध्यात्मशास्त्रेषु । योनिपदेन परमात्मस्वरूपविषक्षायां तु बहुत्वैकत्व संख्यामावविप्रतिपत्तिनिरू- पणमत्रासङ्गतमेव स्यात् । अत एव- उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः अध्यात्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥ समासतस्तु यद् व्यासः पुरुषैकत्वमुक्तवान् । सत्तेऽहं संमवश्यामि प्रदादादमितौजसः ।। महाभारतार्थ १२६ * अद्वैतमार्तण्डः * इति व्यासाभिमतं पुरुपैकत्वमेव साङ्ख्यादिप्रतिद्धन्द्रितया प्रतिपादनीयं प्रतिज्ञायत इत्युपक्रमस्वारस्यं परमार्थगत्यैकजीववाद इति च सिद्ध्यति । समा- घानावसरेऽपि। 'शृणु पुत्र यथा ह्येपः पुरुषः शाश्वतोऽव्ययः । अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ क्षेत्राणि हि शरीराणि वीजं चापि शुभाशुभम् । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ चिन्तयामि गतिं चारूप न गतिं वेभि चोत्तराम् । तस्यैकत्वं महत्वं च स चैकः पुरुषः स्मृतः॥ महापुरुपशब्दं स विभयेकः सनातनः। इति जीवस्यैव क्षेत्रज्ञादिपवाच्यत्वनिमित्तनिरूपणपूर्वकमेकत्वं स्वरूपतः, उपाधितश्च बहुत्वं च प्रतिज्ञायते। गुणसम्बन्धकृतमेव बहुत्वम्, वस्तुगत्या तु निर्गुणत्वेनैव तस्यैकत्वमिति वाक्यशेपेण विशदमवगम्यते । सोऽयमत्र वाक्यशेप:- एको हुताशो बहुधा समिद्वयते,एकः सूर्यस्तपसो योनिरेका । एको वायुर्वहुधा वाति लोके, महोदधिश्वाम्भसां योनिरेका ।। पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुपं चाविशन्ति । हित्वा गुणमयं सर्व कर्म हित्वा शुभाशुभम् ॥ उभे सत्पाढते त्यत्त्या एवं भवति निर्गुणः॥ इति सन्दर्भ उपपद्यते । अनेन हि विशदमिदं ज्ञायते यत् गुणानां त्यागे व निर्गुणत्वं पुरुपस्येति, कल्पितमेव सगुणत्वं बहुत्वं च जीवस्येति । अयं च पुम्पो यदि परमात्मा, तहिं तु गुणत्यागादिना निर्गुत्वादिवर्णनमनुप- पन्नमेव स्पात् । अतोऽपि ज्ञायते -नायं परमात्मपरः प्रश्नोत्तरसन्दर्भ इति, मध्यतनपरामर्शोऽपि पारमार्थिकजीवैकत्यविपय एव । उपसंहारस्तु- एक हि परमात्मानं केचिदिच्छन्ति पण्टिताः।

* अहतमार्तण्डा एकात्मानं तथाऽऽत्मानमपरंऽध्यात्मचिन्तकाः ॥ तत्र पः परमात्मा हि स निन्यो निर्गुणः स्मृतः। स हि नारायणो ज्ञेयः सर्वात्मा पुम्पो हि सः' । इति परमात्मैवकन्यप्रतिपाद पर इव प्रतीयते, परन्तु एकं हि परमात्मा- नमिति ईश्यरागोकर्तृयोगिमतमन्य'एकात्मानं तधात्मानमपरेऽध्यात्मचि- न्तका' इति जीवात्मनामेकात्मस्वरूपत्वमेव, न ततो भेद इति, यद्धजीवानां स्वरूपतश्चैतन्यतोन नानात्वम्, किन्त्वैक्यमेवेत्येव धोध्यते । सति चैवं पूर्व महा. गुरुपादिशब्दशदित-निर्गुण-स्वरूप-चैतन्यमेव नारायणादिपदयोध्यमपि निरूपि- । भवति। यतः सर्वेषां नराणामयनमधिष्ठानमिन्येव “स वै नारायणो ज्ञेय इत्यादिद्याक्यानामपि तात्पर्यमित्यूरीकर्तव्यम् । अयं भायः-एकमेव शुद्धचैतन्यं सर्वाधिष्ठानत्वादेकः परमात्मा, कर्म- पन्यादिसम्बन्धात्तु जीवो यहुविधश्च भवतीत्येवोक्तसन्दर्भतात्पर्यम् । व्यक्तं चैतदनन्तरेण चाक्पशेपेणापि- स हि नारायणो ज्ञेयः सर्वात्मा पुरुपो हि सः । न लिप्यते फलैश्चापि पद्मपत्रमियाम्भसा ।। कर्मात्मा त्वपरो योऽसौ मोक्षवन्धैस्स युज्यते । स सप्तदशकेनापि राशिना युज्यते च सः। एवं पहुविधः प्रोक्तः पुरुपस्ते यथामामम् ।। इत्याकारेणोपसंहारगतेन । इदं हि प्रकरणं साख्ययोगिमतेन व्यासमत- स्यात्मस्वरूप विशेषनिरूपणार्थमेवेति पुरुपसूक्तानामप्यदैत्यभिमतैकात्मताबादमेव पादरायणाचार्या मन्यन्त इति गम्यते । सर्वपुरुपाधिष्ठानकपुरुषनिरूपणपराणि सूक्तानि पुरुपसूक्तानीति स्पष्टमत्रैव प्रकरणे महाभारते। यत्तु व्यासोक्तं तु पुरुषकात्म्यमेव, तच्चकेन पुरुपेण विशिष्टत्वमिति परेपां विवरणम्, तदिदं पुरुपकत्वस्यैव व्यासमतत्वस्यावगमात् पुरुपकात्म्यशब्दस्य चान • प्रकरणेऽभावात् न ध्यासाशयवर्णनम् । कुवयन तादृशपाठ दर्शनेऽपितु पुरुषस्यैकात्मत्वं पुरुषकात्मत्वमिति षष्ठीसमास एवान विवक्षितो न बहुव्रीहि- १२८ * अद्वैतमार्तण्डा wnnnn समासः, यतः पूर्वोक्तरीत्या प्रश्नस्य पुरुषकत्वविपयकत्वमेवोक्तप्रकरणस्थस्येति स्वरसत एवावगम्यते । मुर्गतिनिरपेक्षत्वे महाभारताविरोधः। मुक्तिस्वरूपमपि व्यासाभिमतं निर्गुणात्मतया भवनमेव, न गत्यागति- साध्यमिति- हित्वा गुणमयं सर्व कर्म हित्वा शुभाशुभम् । उभे सत्यान्ते त्यक्त्वा एवं भवति निर्गुणः ॥ इति वाक्येनावगम्यते । एतेन-अप्राकृतदेशविशेपावस्थिततत्प्राप्ति- पूर्वकतत्सायुज्यप्राप्तिरेव मोक्षपुरुपार्थ इति महाभारतनिर्णय इति परोक्तिरपि धाधि- तेति-सूचितम् । सत्यं 'मोक्षपर्वणि सप्तचत्वारिंशदधिकदिशततमाध्याये शुकं प्रति व्यासवचनम्-- विद्यया तदवाप्नोति यत्र गत्वा न शोचति । यत्र गत्वा न म्रियते यत्र गत्वा न जीर्यते ॥ इति स्थानविशेषप्राप्तिविद्याफलम्" इति गमयति , परन्तु विद्यापदा- र्थोऽत्र निवृत्तिमार्गः सन्यास एव, न तत्वसाक्षात्कारः । अत एव-~ यदिदं वेदवचनं कुरु कर्म त्यजेति च । कां दिशं विद्यया याति का दिशं याति कर्मणा ॥ इति शुक्रपइने- प्रवृत्तिलक्षणो धर्मो निवृत्ती च व्यवस्थितः । कर्मणा बढ्यते जन्तुविद्यया च प्रमुच्यते ॥ इति निवृत्तिमार्गस्यैव प्रक्रम उपपद्यते । एतेन-"एतटै ब्रामणः स्थान जापकस्य महात्मनः । तत्रस्थं परमात्मानं व्यायन् वे सुसमाहितः। हिरण्य- गर्भसायुज्यं प्राप्नुयाद नृपोत्तम । आत्मकेवलता प्राप्तस्तत्र गत्वा न शोचतीति मोक्षपर्वणि १९६ तमाध्यायगतमपि वाक्यम्-व्याख्यातम् । एतदि जाए- कानां हिरण्यगर्भलोकदृष्ट्या लोकमाप्त्यादिकं योधयत् कार्यव्रह्मण एवं गति- प्राप्पयमित्यतसिद्धान्तस्यानुगुणम्, उत व्याससिद्धान्तमार्ताण्डस्येति तदीया अद्वैतमार्तण्डा - १२६ Annwwwwvorvv एवं पश्यन्तु । अनेन प्रकरणोन हिरण्यगर्भलोकदृष्ट्या लोकपालेन्द्रादित्यादि- लोकस्यामकृष्टत्वमेव योध्यते, गतिप्राप्येषु लोकेषु, नतु ब्रह्मसाक्षात्कारवतां मुक्तिरपि गतिसापेक्षेति, नेदमपि प्रकरणं परेपामनुकूलम् । यत्तु-"मोक्षपर्वणि ३०७ तमाध्याये-'शृणु मे त्वमिदं कृत्स्नं सांख्यानां विदितात्ममाम् । विदितं यतिभिसर्वैः कपिलादिभिरीश्वरै रिति सख्यं ज्ञानं प्रस्तुत्य प्रकृतिपुरुपविवेकिनो ज्ञानिनोऽधिकृत्य "तरन्ति मुनयः सिद्धा ज्ञानपानेन भारत। तोऽतिदुस्तरं जन्म विशन्ति विमलं नभः । तत्र तान सुकृतीन साङ्ख्यान सूर्यो वहति रश्मिभिरित्यादिनोपक्रान्तं 'सत्वं वहति शुद्धात्मा परं नारायणं परमित्यादि वचनजातम् , तदिदं साङ्ख्यदर्शनस्तुतिपरम, नत्वौ- पनिपदमतं स्वाभिमतं प्रति । 'एतत्प्रकरणगतम् 'प्रकृतिं चाप्यतिकम्य गच्छत्यात्माममव्ययम्। परं नारायणं देवं निईन्हें प्रकृतेः परम्' इति वाक्य- मपि साख्याभिमलनिर्गुणाकर्तृपुरुषप्राप्तिपरमेवेति, कथमनेन प्रकृत्यवियुक्ता- त्मवेदनस्यैव मोक्षसाधनत्वमभ्युपगच्छतां परेपामानुकूल्पमिति न वयं जानीमः । साङ्ख्पोभिमतस्य पुरपस्पापि नारायणत्वं यौगिक स्वयंप्रकाशमानत्वेन देवत्वं च न विरुद्धम् , प्रकृत्यतिक्रमणमन्तःकरणाद्यविवेकविच्छित्तिः, आत्मा च स्व- रूपमिति, तस्य प्राप्यत्वं तदात्मभाव एवेत्यादि प्रकृतेऽनुसन्धेयम् । “स्पष्टं हि व्यासमतं कापिलमततो भिन्नमिति महाभारत एवोक्तमिति, पूर्वमेव विवे- चितमिति, नातिनां मते फोपि विरोधः । एतेन-अत्र भक्तियोगेन देहं विहाय परमपदं गच्छतो विदुषः सूर्य- प्रासरनन्तरं वायुप्राप्तिरनन्तरं वस्वाद्यधिष्ठातृप्राप्तिरिति, प्रकृतसन्दर्भतात्पर्य परोक्तमपि-याधितम् ; अस्य साक्ष्यज्ञानप्रकरणत्वेन भक्तियोगस्यात्राप्रस्तु- तत्वात्। 'ये हि निष्कल्मषा लोके पुण्यपापविवर्जिताः । तेपा ह्यक्षपमध्वानं गच्छतां द्विजसत्तम । सर्वलोकनमोहन्ता ह्यादित्यो द्वारमुच्यते ॥' इत्यादि मो. क्षपर्वगत ३५४ तमाध्याय वचनान्यपि नारायणमन्त्रजयपरान् शुद्धान्त:कर- णानेव विपयोफरोति; नतु तत्त्वज्ञानिनः । अत एव-तानपैटिधियन्मन्त्रान्नारा- यणगतान् बहन् । इत्युपसंहार उपपयते। अब 'विधतपुण्यपापा इति' पुण्यपा- १३० * अद्वेतमार्तण्डः * गुरुः ॥ पोभयविनाशो हि नारायणमन्त्रजपमात्रसाध्य इति, मन्त्रजपस्तुतिरेव विव- क्ष्यत इति न दोपः । परमात्मनो निर्गुणत्वे महाभारतोपष्टम्भः । न हि रूपवान् परमात्मेति श्रीमहाभारतमतम् येन तस्य मुख्यं प्राप्य- त्वमुपपायेत । मोक्षपर्वणि ३४७ तमेऽध्याये- अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः। निर्गुणो निष्कलश्चैव निईन्द्रो निष्परिग्रहः ॥ एतत्वया न विज्ञेयं रूपवानिति दृश्यते । इच्छन्मुहूर्तान्नश्येयमोशोऽहं जगतां माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं ज्ञातुमर्हसि ॥ इत्यादोनि हि वाक्यानि-"मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम ।" इति वाक्यानन्तरं प्रवृत्तानीति, मां शब्दनिर्दिष्टं तत्स्वरूपमरूपवदेव युक्तम् । तत्र च प्रवेश:-"जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते" इत्यादि सर्वलयाधारत्ववर्णनानन्तरमेवास्य वाक्यस्य प्रवृत्तत्वादप्ययस्तद्भाव एवेति,-'य. प्रयन्त्यभिसंविशन्ती'ति श्रुत्यर्थ एव 'मां प्रविश्यं भवन्तीहे'ति वाक्येन संग- ह्यते । न धन्यः प्रवेशपदार्थस्तत्र संभवति । सति चैवं मुक्तानां तानि परे तथा ह्याह हो ति सूत्रप्रतिपादितब्रह्मभाव एव प्रवेशपदार्थ इति नानोत्क्रमणं वाक्य- तोऽवगम्यते । एतेन-अत्र 'मां प्रविश्येति वासुदेवप्राप्त्यनन्तरभावित्वं मुक्ते. रिति स्पष्टमिति परोक्तमपि-निरस्तम् । तथाच मुक्तस्त्क्रमणापेक्षेति श्रीभाप्य. मतं न महाभारताभिमतमिति सिद्धम् । नैवं त्वं मुक्तघ्रामावत्वे महाभारतोपष्टम्भः अन मुक्तिस्तदात्मभाव पव, नतुतत्साम्यमित्यत्रापि महाभारतमनुकूल- मिति पूर्वमुपक्षिप्तमेव । युक्तं चैतत्-भेदाभेदयो भंदो नश्वरोऽभेद एव निस्य इति मोक्षपर्वणि ३१० तमाध्याये- ९.

*अतमार्तण्डा "एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते। पञ्चविंशतिनिष्ठोऽयं यदा सम्यक् प्रचक्षते ॥ एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥ इति वचनैः प्रतिपायत इति, ब्रह्माभेद एव मोक्ष इति गम्यते । तदिदं सिद्धम्...यज्ञदृष्ट्या भेदः, ज्ञानिदृष्ट्या त्वभेद इति भारतार्थनिष्कर्ष इति । यत्तु- यदा तु मन्यतेऽन्योऽहमन्य एचमिति द्विजः । तदा स केवलीभूतः पड्दिशमनुपश्यति ॥ अन्यश्च राजन् परमस्तथान्यः पश्चशिकः । तत्स्थत्वादनुपश्यन्ति एक पवेति एवेति साधवः ॥ तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । इति मोक्षपर्वणि ३२३ तमेऽध्याये उपक्षितम् , तदिदमपि जीवेश्वरयोः पञ्चविंशकयहूशियोरत्यन्तभेदमेव मन्यते , नतु शरीरशरीरिभावम्, एकत्वा- नुभवो धन तत्स्थत्वपयुक्त औपाधिक एव, न ह्यत्र पञ्चविंशकशरीरक पडिविंशं ज्ञेयं निर्दिशन्ति व्यासाचार्याः । निरीश्वरसाख्यक्रिया हीयमिति न तत्कल्पनाया- साधुत्वमपि । एतेन -'तत्स्थत्वादिति वर्णनादत्रापि शरीरशरीरिभावप्रयुक्त- सामानाधिकरण्यमेव विवक्ष्यत इति शङ्कापिपरास्ता । अत्र हि जीवेश्वरयो- वस्तुगत्या भेदनिरूपणानन्तरं तत्स्थत्वप्रयुक्तमेकत्वं हि यादरायणाचार्य: केवलं निन्द्यते । तत्स्थत्वं त्वत्र साङ्ख्याभिमतं तदविविक्तत्वमेव । अत एव 'तेनैतन्नाभिनन्दन्ति' इति वाक्यशेष उपपद्यते। परमार्थतस्तु-तत्स्थत्वादिति पड्विंशपरमात्मस्थत्वात् पञ्चविंश एवैक इत्येवात्र वाक्यार्थ इति नेदं प्रकरणं जीवशरीरतापक्षानुगुणम्, किन्तु जीवस्य शुद्धचैतन्याध्यस्ततावादस्यैवेति हि वस्तुस्थितिः । मोक्ष पवैणि ३१२ तमेऽध्याये-"गुणा गुणेषु लोयन्ते तदैका प्रकृति- भवेत्" इति प्रकृतिपुरुपयोरेक-वमुपवर्णितम् , सत्यं सांख्यप्रक्रियाया एवात्रानुवा- दात् तत्साम्पोपत्तिरेव. न स्वरूपक्यम् । एतदेवाभिप्रेत्योक्तमय-साम्यमेक- १३२ * अद्वैतमार्तण्डा* त्वतां यास्ये यादृशस्तादशस्वहम् । तुल्यतामिह पश्यामि सदृशोऽहमनेन धै। योऽहमज्ञानसंमोहादज्ञया संप्रवृत्तवान् । ससङ्गयाऽहं निःसङ्गः स्थितः कालमि- मन्त्वहम् ।" समानयाऽनया चेह सहवासमहं कथम्" इत्यादि। एतेन-उपा- सकस्य परब्रह्मसाधप्रपञ्चनेन पूर्वाध्याये साम्यशब्दार्थो विवृतो भवतीति मार्ताण्डोक्तिः प्रकरणविरुद्वेति --सूचितम् । नद्यत्र वैयासिक जीवब्रह्मैक्यपदार्थो वित्रियते। मोक्षपर्वगत ३१३ तमाध्यायोऽपि सांख्याभिमतनानात्वैकत्वनिरूपण- द्वारा तदीयमुक्तिस्वरूपनिरूपणपरः "परेण परधर्मा च भवत्येव समेत्य वै" इत्यादिना न जीवबौक्यरूप व्यासाभिमतमोक्षनिरूपणाशय इति, नैतदच. मानुसारेण साम्पपदार्थनिर्णयोऽपि परेपां सांप्रतमिति सूचितम् । एतेन-'अपेत्या मिमां हित्वा संश्रयिष्ये निरामयम् । अनेन साकं यास्यामि नानयाऽहमचेतसे ति वाक्यमपि-व्याख्यातम् । अनेन विविक्ताहकार- केवलासङ्गचैतन्यसाम्पमेव योध्यते, नतु चिदचिच्छरीरकब्रह्मसाम्यम् । साम्यं चात्रैकत्वमेव; प्रस्तुतत्वात् । नानात्वैकत्व विज्ञानं खल पूर्वाध्याये प्रस्तु- तम्, नतु नानात्व-साम्पविज्ञानम्। सर्वथा भोगमात्रसाम्पं साहंभावजीवस्य श्रीभाष्याभिमतमुक्ताध्यायविरुद्वमित्यत्र तु न विशयलेशोऽपि । अत एव-- नच मात्रानया कार्यमहङ्कारकृतात्मना।' इदानीमेव शुद्धोऽस्मि निर्ममो नि- रहंकृतिः' इत्यादि वचनान्युपपद्यन्ते । तदिदं सिद्धम्...यत् जीवब्रह्मणोने साम्य- मेव मुक्तिः । ब्रह्म हि पूर्वमानन्दस्वरूपो नानन्दमय इति विवेचितमिति, मुत्य- वस्थायां जीवस्याप्यानन्दभाव एव, नत्यानन्दानुभवितृत्वमित्येव श्रुतिस्मृति- पुराणेतिहासाशयः। यत्तु-"प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययमिति" मोक्षपर्वणि २१९ तभाध्यायगतं वचनम्, तदप्युपासकपरमेव ; 'यथाज्ञानमुपासन्तः सर्वे यान्ति परां गतिम्" इति [पासनाया एवं प्रकरणमिदम्, नतु ज्ञानस्य । एतेन-उक्तवच- नस्प मुक्तानामानन्दानुभवितृत्वे प्रमाणतयोपक्षेपोऽपि-परास्तः। परमर्थतस्तु नाममीमांसाप्रतिपादितः, उक्तसांख्ययोगप्रक्रियादिप्रकरणोपक्षिप्तश्च मागा- * अद्वैतमार्तण्डः १३३ ऽत्यन्तमेव भिन्न इति, सांख्या दिमतनिरासकसूत्रकाराशयनिर्णये मोक्षपर्व- गतानां मार्ताण्डोद्धृतानां केपामपि वचनामां नोपयोगः । अन्ये तु विषया रुद्रापेक्षया नारायणोत्कर्पादिपतिपादका महाभारतानुसारिणः पूर्वमेव समा- लाचिताः । तदिदं सिद्वम्-पत् न केवलब्रह्मसूत्रदृष्ट्या, किन्तु महाभारतदृष्ट्या- प्पदैतमतमेव व्यासाभिमतं वेदान्ततत्त्वमिति । अद्वैतमतस्यैव यादरायणमतत्वे साट्स्यायनुवादः प्रमाणमिति व्यासतारपर्यनिर्णयानुवाद-तत्समर्थनादिः । सति चैवमात्मैकत्व-प्रपञ्चमित्थ्यात्वादीनां सांख्यादिग्रन्थेषु वेदान्ति- मतत्वेनानुवदोप्युपपद्यते। व्यासमतमेव वेदान्तमतमिति सर्वसम्प्रति- पन्नम्। सांख्यादिग्रन्थेषु तु अद्वैतमतं वेदान्तमतमिति कीयंत इत्यपि न विवा- दास्पदम् । एवं च व्यासाचार्याणामद्वैत एव तात्पर्यमिति कथं न सिद्धय- तीति व्यासतात्पर्यनिर्णयकारा मन्यन्ते । एतेन-अन्याशस्यैव व्याससिद्धा- न्तस्य सोपपत्तिकं प्रदर्शितत्वात् , व्यासतात्पर्यसंशये तदीयग्रन्थान्तरेण तन्नि- यस्यैवोचिततया पुरुषान्तरीयानुवादयलेन तन्निर्णयस्यायुक्तत्याच"ति परोक्ति- रपि परास्ता; पुरुपान्तरीयानुवादेन हि महाजनपरीगृहीतत्वमेवाद्वैतमतस्य व्यास- मतत्वे हेतुतया प्रतिपाद्यते। तचोपबृंहकयुक्त्यन्तरमेव , नतु सैव युक्तिरिति न दोषः । वस्तुतस्तु...व्याससिद्धान्तोऽदैन एवेति न केवलं ब्रह्मामीमांसाशास्त्रण, किन्तु महाभारतेनापि गम्यते । पुरुपान्तरानुवादोऽपि वस्तुगत्या व्यासमतमद्वैत- मतमेवेत्यत्र प्रमाणं भवितुमर्हत्येव । महाभारत-ब्रह्मसूत्रादीनामप्यद्वैतविषयत्वे विसंवादे हि महाभारतादीनां उदासीनगृहीता भावा अपि तत्त्वनिर्णयायालम् । तथाच श्रीभाष्यकाराः केवलमद्वैतं न व्यासाभिमतमिति, स्वप्रौढिमनिवन्ध- नमेव वदन्ति स्वीपस्यैव भाष्यस्य सौत्रत्वसमर्थनार्थमिति फलितम् । उदासीना हि साङ्ख्या ब्रह्मसूत्रादीनामद्वैतपर्यवसानं यन्मन्यन्ते, तत्तु भगवत्पादमतानुया- यिनां कथं नौपष्टम्भकं भवति ? कपिलादिसूत्रकारा अवैतवाद सूत्रविशेषा- भिमतमेव निरस्यन्तीति व्यासतात्पर्यनिर्णयकारोक्तिरेवात सांप्रतमिति पश्यामः ।

१३४ * अद्वैतमार्तण्डः * सास्यादिमिर्मुख्य पत्र चेदान्तार्थोऽनूदितः, नत्यापातप्रतिपन्नः । अनेन चेदमपि सूच्यते-पत् तीर्थकरमहाजनापरिगृहीतत्वमपि श्री. भाष्यसिद्धान्तस्य वर्तते इति, न तत्र व्यासतात्पर्यनिर्णयः संभवतीति । यातु- वेदान्तेष्वापानतः प्रतीयमाना आत्माद्वैत-प्रपञ्चमिथ्यात्वीपाधिकभेदाविद्योपा. हितब्रह्मोपादनत्यादयोऽस्मिन् साङ्ख्यशास्त्रे तेपु तात्विकत्वबुद्धिवारणाय निरी- क्रियन्ते इति परेपामुक्तिः, इयंतु व्यासेनापि वेदान्ततात्पर्यनिर्णयार्थप्रवृत्तेन तन्निराकरण एव संभवति । नहि व्यासेन कुत्रापि सूत्रे आत्मा भिन्न इति वो, प्रपञ्चः सत्य इति वा, अविद्योपहितं ब्रह्म न विवर्तकारणमिति चा घोधितम् । आपातप्रतिपन्ना ह्याः साङ्पैरिव व्यासेनापि कथं न निर्णयाः? इदमनेन व्या- साचार्याणां पृथक् तत्र प्रयासानाश्रयणेनावगम्यते यत् व्यासाचार्याणामापातपतिप- न्नतया साङ्ख्यायभिमता एवार्थाः स्वाभिमता अपोति । वेदान्तनिर्णयार्थ प्रवृत्त- यासाचार्यैः सन्दिग्धानि सर्वाणि वाक्यानि विचारणीयान्येवेति,यत्र तदीयन्याया- विरोधे विशिष्य न विचारः कृतः, आपातप्रतिपन्न एवार्थस्तत्र ग्रहीतव्य इति, व्याससम्मतमिति निर्धायते । सर्वथा तु व्यासतात्पर्यमेवानूद्य साङ्ख्यादिदर्शनेषु निराकृतमिति, व्यासतात्पर्यमद्वैत एव न श्रीभाष्पादिमत इति सिद्धम् । आत्मद्वैत-प्रपञ्चसत्यत्वादीनां व्याससूत्रासिद्धत्वम् ।। एतेन-ब्रह्ममीमांसायामात्मादैत-जगन्मित्थयात्वाविद्योपहितब्रह्मोपादा नत्वादेः कचिदप्यसूत्रितत्वेन प्रत्युत तत्रापि तेषां तत्र निराकरणेन साङ्ख्य- सूत्राण्यापातप्रतिपन्नवेदान्तार्थपराणोति शङ्कापि-निरवसरा। यथाच चराचरव्य- पदेशाधिकरणादिष्यात्माद्वैतानिरासः, 'वैधाच न स्वमादिवदित्यस्य प्रपश्वसत्य- त्यनिरूपणे न तात्पर्यम्, तथा पूर्वमेव विवेचितम् । सर्वथा तु न वैयासिकं मत श्रीमाष्पमतम् । न हि श्रीभाष्याभिमतः प्रकृति द्वारकब्रह्मपरिणामवादः कुत्रापि सूत्रितः। केवलं खल ब्रह्म कारणं सूत्रकारा मन्यन्ते । नहि सूत्रकाराः कुत्रापि परिणामः प्रकृतेरेव न ब्रह्मण इति सूचयन्ति । 'अजामेका लोहितशुक्लकृष्णा मिति याक्यं तु तेजोऽयन्नात्मकदेवतापरमेव, नतु भवदीयप्रकृतिपरम्। नहि तस्या ब्रह्मकारणकन्वं भवन्तोऽपि मन्यन्ते प्रकृतिनित्यत्ववादिनः । कार्यावस्था . U * पद्धतमार्तण्डः * १३५ स्थूलावस्थामाश्रित्य तु प्रकृत्यात्मकस्थूलप्रपञ्चानामेव ब्रह्मकार्यत्वं न प्रकृतेः। अजामेकामिति भागोऽवस्थाभेदेन लोहिताद्याकारत्वपर इति ‘कल्पनायामपि न प्रमाणम् ।. "योतिरूपक्रमातु"इति सूत्रस्य श्रीभाष्याननुगुणत्यम् । "ज्योतिरुपकमा तु"इति केवलं सूत्रितम्, नतु प्रकृतिरिति । ज्योति:- शब्दस्तु वाक्पशेषगतलिङ्गवशेनैव ब्रह्मपम्, नान्यत्रापीति "ज्योतिश्चरणाभिधा- नात्" इत्यादी व्यवस्थापितम् । 'ज्योतिपां ज्योतिरित्यत्रापि द्वितीयेनैव ज्योतिः शब्देन ब्राह्मणो ग्रहणम् । सूत्रगतस्य तु ज्योतिःशब्दस्य ब्रह्मपरतायां न तथा गम- कमुपलभ्यते। स्वायत्ते हि शब्दप्रयोगे किमिति व्रमपदमेव न प्रयुक्तमिति शङ्कापि दुप्परिहरैव । उपकाशब्दोऽपि प्रभृतिपर्याय एव स्वरसः, नतु कार्यता- रपः, सापितु प्रकृतेर्याघितैवेति पूर्वमेयोक्तम् । अजाशब्देन तु प्रकृतिरेव केवलं श्रोभाष्यकाररपि साध्यते । ब्रह्मात्मकत्वं तदधिष्ठितत्वं चा चाक्यशेयवशेन निर्धार्यते। पदार्थविपये तु न साङ्ख्यैः साकमपि विरोधः । पदविशेपार्थनिर्ण- पदारेण वाक्यार्थनिर्धारणार्थ खलु प्रथमचतुर्थपादप्रवृत्तिः । इदंच वाक्पशेपगत- लिङ्गेन व्यवस्थापनं प्रथमपाद एव सङ्गतम्, न चतुर्थपादे। अत्र तु ब्रह्मपरत्वा- भावे निर्णीतेपि सायप्रक्रियाणां श्रुतिष परामर्शाभावमानं प्रतिपाद्यते इति प्रधानं वोत तेजोयन्नात्मकदेवता वेत्येव संशयो युक्तः । प्रकृतिपरिणामितावादिनां 'यहोः प्रजाः जनयन्ती सरूपा' इति न विरुदम् । सर्वथातु नात्र ब्रह्मात्मक कार्य- कारणभावावस्थप्रकृतिसमर्थनं सूत्रकाराभिमतम् । तेजाबन्नात्मिकायाः देवता- यास्त्रिवृत्करणेनैकीमावादजेत्येकवचनमित्याद्यन्यत्र विस्तृतम्। श्वेताश्वतरादौ ब्रह्मणो मायाधिष्ठातृत्वमानं घोध्यते, नतु ब्रह्मात्मकत्वं तच्छरीरत्वं वेति- "तथा ह्यधीयत एके" इत्यस्यापि श्रीभाष्यमते न सङ्गतिः । अयं भावा-सत्यं मायेश्वराधीना प्रवर्तते परिणमते वेति सूत्रकारा मन्यन्ते, परन्तु नेदं तत्सम्मतं यत्मायापरिणामित्वेनैव ब्रह्मोपादानमिति । तथाच ब्रह्माधिष्ठान मायापरिणामवादः, "तदधीनत्यादर्थवत्" इति सूत्रितः प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" इति सूत्रसिद्धः साक्षात्प्रमोपादनतावादश्चोभयं मा- * अद्वैतमार्तण्डा* यापरिणामः प्रपञ्चः ब्रह्मैव भवतीत्यर्थस्वीकरणेनैवोपपद्यते । ब्रह्मणः प्रपञ्चभावो न मायाया हव परिणामित्वेन । “परिणामात्" इति सूत्रितः तद्भावो विवर्त एवं पर्यवस्यति । एतेन-जगदुपादानभूतायाः प्रकृतेरीश्वरप्रवर्तनेनैव महदाद्या- त्मना परिणामः "तधीनत्वादर्थवत्' इति सूत्रेण समर्थित इति परोक्तिरपि- व्याख्याता । नहि तावता श्रीशाध्यमतस्य सौनत्वसिद्धिः । तावता हि ब्रह्मानु- पादानत्वे तन्निमित्तत्वेन योगिमतम्, तस्याप्युपादानत्वेऽत्वद्वैतमतमेव चा सूत्रारदं भवितुमर्हति । " . श्रीभाष्यमतस्य सूत्रानारूढत्वे निमित्तानां संकलनम् । तदयं निष्कर्षः-पत् व्यासनिरस्यपाञ्चरात्रसमर्थकत्वेन, सूत्रकारनिरस्त- पुरुपयहुस्वावलम्पनेन, सूत्रानभिमतमुक्तिगतिसापेक्षत्वोपपादनेन, सूत्रकारा- नुपपादित चिचिच्छरीरकतावादानुसारेण, सूत्रकाराप्रतिपादितविशिष्टब्रह्म- कार्यकारणभावाभ्युपगमेन, सूत्रकारसमर्थितस्वाग्निक-जागरित-प्रपञ्चविशे- पानुपगमेन, सूत्रकारासूचितनारायणब्रह्मतोरीकारेण, सकारानभिप्रेतजीबो- त्पत्ति-धर्मभूतज्ञानादिस्वकल्पितप्रक्रियाविशेपारोण, सूत्रोपात्तमुक्तजीव- ब्रह्मात्यन्ताभेदतिरस्कारेण, सूर्यकादिदृष्टान्तेन सांधितोपाधिकंजीवभेदानकी- कारेण, "न स्थानतोऽपि" "मायामात्रं तु" "आभास एव च" 'ज्योतिरुपक्र- मा तु" "ज्ञोऽत एव” "उत्क्रान्तिगत्यागतीनाम् कार्य यादरिरस्य गत्युपपत्तेः" "अप्रतीकालम्पनात्नयति" "आत्मेति तृपगच्छन्ति"तद्भिध्यानात्तु तिरोहितम्" "तदनन्यत्वमारम्भणशब्दादिभ्यः" "आनन्दमयोऽभ्यासात्" "वृद्धिहासभा. क्त्वम्" "कृत्स्नप्रसक्तिनिरवयत्वशब्दकोपो वा" प्रकृततायत्वं हि प्रतिपेपत्ति' "जन्मायस्प यत:" "प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् 'भोक्तापत्तेरविभाग- श्चेत्" इत्यादि बहुतरसूत्राणां क्लिष्टयोजनया व्याख्यानेन, बहुतरसूत्रया- घन श्रीभाष्यमतं सूत्रारूढम्, किन्तु पूर्वोक्तप्रकारेण यादरायणाभिमतजीकत्व. चादस्यैव समयलम्यनेन, तत्सूचितीपाधिकजीवभेदावलम्बनेन, सर्वेषां सूत्राणाम- त एव विशिष्टस्वारस्यप्रदर्शनेन, अद्वैताभिमतमुक्तस्वरूपस्यैव सबकाराभिमत- र, प्रपञ्चमिरध्यत्योपहितब्रह्मोपादानत्यादीनामेच सूत्रकाराभिमनानामुररीका- " * अद्वैतमार्तण्डः * , रेगा, अत्यन्तभेदस्प जीवेश्वरयोरौपाधिकस्यैव सूत्रकाराभिमतस्यादरणेन चाडैत- मतमेव सूत्रारूढम् । आनन्दमयाधिकरणविपये वक्तव्यं सर्वमेव पूर्वमेयोक्तमिति, नानन्दमयाधिकरणस्वारस्य श्रीमाप्यमते; सर्वेषां तत्तच्छरीरकब्रह्मण्येव मुख्यान- याऽऽकाशादिपदानां भूताकाशादौ भाक्तत्वस्यैव स्वीकारात् आकाशाधिकरणादौ रूहिमवलम्ब्य कृतस्य पूर्वपक्षस्यैवानवसर इति, पहन्यधिकरणानि वितधानि भवेयुः । स्थालीपुलाकन्यायेन कृतस्य विचारस्य 'यक्षानुरूपो बलिरिति न्यायेन स्थालीपुलाकन्यायेनैव समालोचनमप्यस्माभिः संपादितम्। सर्वधा तु व्यास- तात्पर्यनिर्णयकाराणां ध्यासतात्पर्यनिर्णयोऽप्रकम्प्य इत्येवास्माकं प्रतिभाति । इदमिदानीमालोचनीयम् -'यत् कापिलसूत्रखण्डिना अद्वैतप्रकियाविशेषाः सर्वेऽपि किं ब्रह्ममीमांसासिद्धा उत नेति ? वयं तु पश्यामः यत् "मायामात्रंतु" इत्यविद्यावादः, 'पराभिध्यानात्त' इति सूत्रसिद्धस्तदवस्तुतावादः, तदनन्यत्वमार- म्भणादिसूत्र सिद्धो मिथ्यात्ववादः, उक्तमहाभारतवचनसिद्धः, अंशाधिकर- गादिसिद्धस्वाभाविकात्माभेदवादाक्षिप्तो वा जीवैकत्ववादश्च ब्रह्ममीमांसा- सिद्ध एवेति । यथाच तदभिध्यानादेवे'त्यादि सूत्राणां श्रीभाज्याभिमता योजना न स्वकाराभिमता, तथा पूर्वमेव विवेचितम् । एतेन-ब्रह्ममीमां- सायां कचियवस्तुभूताविद्याया जगदुपादानत्वस्थानुक्ततया परं ब्रह्म जगदुपा- दानमिति तन्नितिऽर्थ-आत्मा वा अविद्या वा उभयं वेति विकल्पस्याव. काशविरह इति परोक्तिरपिव्याख्याता । 'मायामात्रमिति सूत्रेण 'पराभिध्या- मात्तु'सूत्रसहितेनावस्तुभूताविद्या सून्यन एच; तदृष्टान्तेन च दृश्यत्यादिनापि मिथ्यात्वं तदनन्धत्वाधिकरणसिद्धमादायोक्तविकल्पसंभवात् । परिणामपदेन तद्भाचो विवक्ष्यत इति, परिणामादिति सूत्रस्याप्यत एव तात्पर्य पूर्वमेवो पपादितम् । एतेन-महाभारतसिद्धो जोयेस्न्यवादोऽपि व्याख्यातः । यधमिल्या. त्यं कथंचन सांगताभिम पक्तं शक्यम्, आत्मैकत्यवादनिरासस्तु नान्येषा- मिति, न व्यासमनमतिरिच्य मतान्तरनिरास एवं कपिलादिमत्राहदयमिति कल्पना विकल्पसहा । सांग्यमृत्रपण्डित औपाधिरुभेदस्तु-"अत एव चोपमा- १८ १३८ यथा- * अद्वैतमार्तण्डः * सूर्यकादिवत्" इति ब्रह्ममीमांसासूत्रसिद्ध इति सर्वविदितमिदम् । नोक्तसूत्राणां श्रीभाष्याभितेऽर्थे न तात्पर्यम्, 'बृद्धिहासभाक्त्वमित्यादी ना- ध्यारादिप्रसङ्गात् तथा पूर्वमेव विवेचितम् । स्पष्टं 'ांशी नानाव्यपदेशात्' इति सूत्रे स्वरूपतोऽनंशत्वमौपाधिकर्मशत्वमिति व्यक्तीकृतम्। स्वयं ह्युनिष- देव - "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना पहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेवेवमजोऽयमात्मा" इति भेदोऽयमौपाधिक इति प्रति- पादयतीति-"अत एव चौपमा सूर्यकादिवत्" इति सूत्रं तदर्थमंग्राहकमौ- पाधिकमेव भेदं गोचरयतीत्यवचनसिमिदम् । एतेन-उपाधीनां भेदेऽपि तेषां भोगानाश्रयतया भोगाश्रयस्यात्मन ऐक्ये तडोगसाङ्कर्यमुपाधिभेदो न परिहर्तु क्षम इति शङ्कापि-परिहता। केवलं हि चैतन्यमेकावेऽपि न भोक्त, औपाधिकं तु भोगाश्रयं भिन्न- मिति न भोगसांकर्यापत्तिः । नापाघिधर्मो भोक्तृत्वमात्मनोऽध्यस्यते इति वदामः; किन्तृपहितस्यैव धर्म इति कर्ता शास्त्रार्थवत्वादि'त्यधिकरणे व्यक्तमिति न दोपः । विशदं चैतद“सन्ततेश्याव्यतिकर" इति सूत्रे भाष्येऽपि । सति चैवमा भास एच चेति सूत्रमौपाधिकभेदस्य भोगव्यतिकरानुपपादकत्थव्यवस्थापनार्थ- मिति शङ्कापि- निरवसरा। 'असन्ततेश्चेति सूत्रात देहसम्बन्धात् पूर्वतन- सूत्रतोऽनुवृत्तात अव्यापकत्वेन परिच्छिन्नत्वव्यवस्थापनेनाव्यतिकरो योध्यत इत्येव वक्तव्यम्। अन्यथांशत्वेऽपि जीवस्यैकत्वस्य सर्वजीवानां परस्परात्म- भेदस्प याऽनङ्गीकारान्नानुज्ञापरिहारानुपपत्तिशङ्का श्रीभाप्यमते, मवाऽणुत्वे- नापि ब्रह्माशंत्वेन साम्यप्रयुक्ताया उक्ताशङ्कायाः परिहारसंभव इति-'अनु- ज्ञापरिहारों 'असन्ततेश्चेति सूत्रद्वयमपि वितथमेव स्यात् । नहि सत्यपि देह- सम्पन्धे सत्यपि वाऽणुत्वे ब्रह्मांत्वेन साम्यमिदानीमपि परिहियत इति, औ. पाधिकदेहसम्मन्यात्, तत्सम्बन्धप्रयुक्ताणुत्वेन च जीवानां परस्परभेदाद- सम्बन्धान न भोगसंकर इत्येवोक्तमत्रतात्प मिति, 'आभास एवं त्यस्या- देतिनां विवरणमेव सांपनम् । इदमेवाभिमेत्य साङ्ख्यादिप्रवर्तकरपि अझै- तमतमेव व्यासमनम्वेनानूदितम् ।

* अद्वैतमातण्डः * ११९ उपसंहारः ब्रह्मसूत्राणां महाभारतवाक्यानामन्येषां च वैयासिकसिद्धान्तनियन्धा- नानां तात्पर्यमदैतमत एवेति, भगवत्पाद्मतमेव श्रोभाष्यकारैरन्यैश्चान्यथाऽन्यथा घ्याख्यानेनाक्षिप्यते । सति चैवं व्यासतात्पर्य निर्णये व्यासग्रन्था अपि यदि न प्रमागम् , तहिं वेदान्तमतमेव वैयासिकं मतमित्यत्र सर्वेपामाचार्याणामनैककण्ठ- यात् वेदान्तमतत्वेन साङ्ख्याद्यनूदितमेव व्यासमतमिति कल्पनैव साधीय- सो। साङ्ख्यास्त्वत्र समीचनं मध्यस्थत्वमर्हन्ति । श्रीभाष्यमतप्रकि- या हि अद्वैतमतपक्रियेव कुत्रापि नानू दिता केनापि तीर्थकरेण दर्शनकारेणापरे. णेति कथं वा वेदान्तमतं वैधासिकं मतं वा श्रीभाप्यमतमिति दुप्परिहरोऽयं पर्यनुयोगः। अयमेव चाभिप्रायोव्यासतात्पर्यनिर्णयकाराणामपि-यत् ब्रह्मसूत्राणां महाभारतादीनां वा समालोचने व्याख्याभेदमनु विप्रतिपन्ना नैव व्यासमतं वेदान्तमतं वाऽदैतमेवेति निश्चेतुमर्हन्तीति सूचनार्थ प्रणाल्यन्तरमेवा- लम्पनीयम् , नतु महाभारतादीनां ब्रह्मसूत्राणां वा सिद्धान्तवादैतपर्यवसान- व्यवस्थापनमसम्भवीति । यथाच महाभारतादीनां ब्रह्मसूत्राणां चाद्वैत एव परम तात्पर्य स्वारस्यं च, तथा विशदमेवान्पत्रापि विस्तरेण विवेचितम् । कुमारिलपादानामपि चेदान्तमतमात्मव्यापकत्यमतमेवेत्यत्र वार्तिकोषष्टम्भः । यधाच वेदान्तमतमात्मव्यापकत्वादिसिद्धान्त एव न तदणुत्वसिद्धान्ते, तथा इत्याह नास्तिक्यनिराकरिष्णुरात्मालितां भाष्यकृदन युक्त्या । दृढत्या मेतदिफ्यः प्रयोषः प्रयाति वेदान्तनिपेयगेने" इति वानिकेनावगम्यते । 'ना- शक्तिस्वभावोऽनो नित्यः सवगतः पुमान्" इति व्यापकन्चमात्मनो निरूप्य तदनन्तरमेयोक्तवाक्यमवृत्तेरामव्यापकता सिद्धान्त पव वेदान्त सिद्धान्त इति कुमारिलपादा मन्यन्ते । प्रभाकरस्याप्यनिमेय ग्रामचिदा मनमिन्यत्र युदनीप्रमाणोपष्टम्मः । मभामरगुरयोऽपि-"परतु नमविदामेप निश्चयः-पपलभ्यते न तत्त. ।

* अद्वैतमार्तण्ठः थ्यमिति, यन्नोपलभ्यते तत्तथ्यमिति, नमस्तेभ्यः !! विदुषां नोत्तरं वाच्यम् ।” 'विज्ञातृरूपता तु विज्ञानस्यानाशङ्कनीया; अनाशङ्कितत्यात्, युक्तं चानाशङ्कितम्, कर्मप्रवण वात् । तदुक्तं भगवता -'म बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनामि"त्या- दि चदन्तोऽदैतप्रक्रिया ब्रह्मवित्सम्मतेति विशदयन्तो ब्रह्ममीमांसाशास्त्रमद्वैतपर्य- वसाय्येवेति मन्यन्ते । एतेषां हि श्रीभाष्यसिद्वान्तेऽतसिद्वान्ते वा न कुत्राप्या- ग्रहविशेष इति, एतेषां वेदान्तमतानुवादावसरेऽद्वैतमतस्यैव संग्रहणमपि वेदान्त- मतमतानुगुणं प्रचार्यमाणमेव योग्यमित्यत्र प्रयलमेव प्रमाणम् । सर्वथा तु व्या- साचार्याणां स्वरूपचैतन्यव्यतिरिक्तानामुपहितब्रह्मपर्यान्तानां कार्यतावादस्यै- वाभिमतत्वात् त्रिमूतिपु विष्णोरुतकर्ष इत्यादौ तात्पर्याभावात् शैववैष्णववाद- विशेषाः केऽपि यादरायणाचार्यानभिमता इत्येव निष्कर्षः । व्यासतात्पर्यनिर्णयकारा अपि-शिवस्यैव प्रधानत्ववादमेव कण्ठतो वि. शिष्य निरसितुं प्रवृत्ताः प्रसङ्गतोऽनुपङ्गतो वा विष्णूत्कर्पमपि न सांमतं निरूप- यन्ति। मन्यामहे व्याससिद्धान्तमार्ताण्डकारा:-अनुपङ्गतोऽपि निरस्यमानं विष्णकर्पवादमसहमाना एव स्वीयं नियन्धं पाराशर्यविजयाद्यबलम्बनेन विरच- यितुं प्रावर्तन्तेति । अयमेव विशेषो व्याससिद्धान्तमार्ताण्डस्य यदंशतो पारा- शर्यविजयमंशतः श्रुतप्रकाशिकावाक्यानि च तत्र तत्र स्वसिद्धान्तव्यवस्थाप: नाप शाणीकुर्वन्ति । ग्रन्थकाराणां व्यासतालपर्यनिर्णयकारादीनां वा केपामदि वैयक्तिकनिन्दवादो लेशनोऽपि नावलम्यनीय इति नोतिरियमान्तं ग्रन्थशरीरे सिद्धान्तमार्ताण्डकारैः परिपालितव । स्वमूलाचार्यमतस्थापनार्थे सारे प्रयनने, प्रसङ्गेन स्वेतेन बहुतरग्रन्थ- समालोचने, वाक्येऽपि ग्रन्थकालक्षेपेणैव स्वीयायुर्विनियोगसमुद्योगे च महा- महोपाध्याय श्रीदेशिकाचार्या अनुकरणोया एव सर्वेषामित्यत्र तु न कस्यापि विप्रतिपत्तिः। अधिकं सत्यवतरेऽवतरान्तरे निवेदयिष्याम इति शिवम् । ॥ इति मद्रपुर संस्कृतमहाविद्यालयाधमर्ण-महामहोपाध्यायानन्त-शास्त्रिय कृतिषु यतमातयः ॥ +.. .. -

Advet Martand

Author
Shastri Anant Krishan
Title
Advet Martand
File name
Advet Martand
Text
OCR done
Citation
1937
Published
2012/08
Publisher
Calcutta.,anant Krishan Shastri
Language
Sanskrit
Pages
153
Library
Bharatiya Vidya Bhavan Library, Mumbai
Classification
Devotional
DLI number
405242
Barcode
99999990292333.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
6gIlwudWA4m
Download PDF

Advet Martand