Svclrc

Sriman Nyaya Sudha Vol - 8

14/11/2002

PDF Proofread

Front matter

। श्रीम.दिग्विजयसमो विजयते ॥
श्रीमत्-जयतीर्थ(टीकाकृत्पादाचार्य)विरचिता
श्रीमन-न्यायसुधा
सनाभिः
१) श्रीमद्विद्याधीशतीर्थयतिकृता
वाक्यार्थचन्द्रिका
२) श्रीमत्सत्यव्रततीर्थयतिकृता
सुधाविवृत्तिः
३) श्रीमद्राघवेन्द्रयतिकृतः
परिमळं:
४) श्रीमद्यदुपत्याचार्यकृता
सुधाटिप्पणी
५) श्रीमच्छ्रीनिवासतीर्थकृतम् टीकाऽधृतसुधावाक्यार्थविवरणम्
६) श्रीमन्मन्नारीकृष्णाचार्यकृतः
चषकः
इति पट्टिप्पणीभिः समलमृता
तस्याश्चायम्
अष्टमो विभागः
श्रीमन्मध्वाचार्यमूलमहासंस्थानश्रीमदुत्तरादिमठाधीशैः
श्री १००८ श्रीमत्सत्यप्रमोदतीर्थश्रीमचरणैः
नैकविद्वद्भिः संशोध्य
श्रीमन्मध्वसिद्धान्ताभिवृद्धिकारिणीसभातः
प्रकाशितः।
उत्तरादिमठ, बसवनगुडी

प्रथममुद्रणम् १००० प्रतयः अस्य ग्रन्थस्य सर्वेऽधिकाराः प्रकाशकायत्ताः 5x2, R68, ।) H83.8 । संशोधकविद्वद्घन्दः श्री. पं. पू. रामाचार्य कट्टी ( श्री. श्री. सत्याभिज्ञतीर्थश्रीचरणानां पूर्वाश्रमतनूजाः) श्री: पं: पू. रंगाचार्य गुत्तल ( श्री. श्री. सत्यप्रमोदतीर्थश्रीचरणानां पूर्वाश्रमतनूजाः ) श्री. पं. पू: हयग्रीवाचार्य गुत्तल श्री. पं. रंगाचार्य कल्लापूर श्री. पं. गोपालाचार्य माहुली श्री. पं. नरसिंहाचार्य वालकोंडा श्री. पं. केशवाचार्य कट्टी CENTRE DE श्री. पं. मध्वाचार्य चिंतामणि श्री. पं. माधवाचार्य कट्टी श्री. पं. राममूर्त्याचार्य तिरुपति UAR भी पं. रंगनाथाचार्य हेब्बणी श्री.. पं. भीमसेनाचार्य वरखेडकर SRI VENKATRENARA I am .. 31५१० .... Mate.. ...... TURUN TIRUPATI Lico. Ad Perte.... baRameram. वरखेडकरोपाहवालाचायतनूजो धनंजयः सुधामुद्रणमन्दिरम् उत्तरादिमठीयावारः, बसवनगुडी बेगडून ५६०००४

This book is published
with the financial assistance of
Tirumala Tirupati Depasthanams
Under thier scheme
aid to publish religious books

तयाऽभेदभानाभ्युपगमानौचित्यात् । अन्यथा राज्ञः पुरुष इत्यत्रापि षष्ठ्याः साधुत्वार्थकताऽपत्त्याऽन्वयत- यैव संबन्धो भासत इत्यपि स्यात् ।। चन्द्रिकायां तु शक्यतावच्छेदकेन रूपेणाभेदस्य सामानाधिकरण्यमुख्या- र्थत्वात् गौणार्थतावच्छेदकेन सादृश्ये नाभेदस्य तदमुख्यार्थत्वात्तदभिप्रायेण टीकायां सामानाधिकरण्य- गौणतोक्तिर्न तु तत्पदादिरूपप्रकृतेः न सादृश्ये गौणीत्यभिप्रायेणेत्युक्तम् । तत्तु सिंहस्याध्ययनं सिंहो देव- दत्त इत्यादावेकरूपतालाभाय टीकोक्तमात्रादिपदास्वारस्यं सोवेति द्रष्टव्यम् । उक्तरीत्या टीकोक्तपक्ष- स्यातिस्वरसत्वात् । अत एव तर्कताण्डवे एवमेव सुधाभिप्रायवर्णनमिति द्रष्टव्यमिति वाक्यार्थचन्द्रिकाकृतां निरूढपन्थाः । सिंहो देवदत्त इत्यादिवदिति । न चात्र सिंहपद एव गौणीवृत्तिन सामानाधिकाण्य इति वाच्यम् अप्रधानप्रत्ययार्थस्वारस्येन प्रधाने प्रातिपदिके गौणीकल्पनस्यान्याय्यस्यादित्यभिप्रायात् । वक्ष्यते चैतत् पृथगधिकरणे । सु०--- ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्वंपदयोलाक्षणिकत्वं व्याख्येयम् । किंवा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वंपदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनि- गमनायां हेतुरस्ति । न नास्ति । त्यजेदेकं कुलस्वार्थ इति न्यायस्य विद्यमानत्वात् । तात्पर्य- लिङ्गानां तत्र तत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् । तदिदमुक्तं भेदेनैवेति । अत्राप्येवकारसूचितन्यायप्रदर्शनाय तन्निवत्या शङ्कामुत्थापयति नन्विति ॥ (तात्पर्य- लिङ्गैरिति ॥ 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये' इत्युक्तै- रित्यर्थः ।) ननु तात्पर्यलिङ्गैस्तत्त्वमसीत्यस्याभेदपरत्वे निर्माते कथं न्यायमात्रेण भेदपरत्वमित्यतः एकविज्ञानेन सर्वविज्ञानरूपस्यैकमेवाद्वितीयमित्यादेश्वोपक्रमस्य स्वपरपक्षानुगुण्यानानुगुण्ययोः प्रकृत्यधि- करणे निपुणतरं प्रतिपादयिष्यमाणत्वात् । ऐतदात्म्यमित्याद्युपसंहारस्य तत्त्वमसीत्येतत्तल्ययोगक्षेमत्वा- तत्त्वमसीत्यभ्यासस्य च सत्यत्वात्तेनेति पूर्वत्रात्र पृथगधिकरणे च तयोः (तयोरिति । स्वपरपक्षानुगुण्यानानु- गुण्ययोरित्यर्थः । एवमुत्तरत्र ।) प्रतिपादनादपूर्वतायाश्च पूर्वत्र 'न च मानान्तरोपेय'मित्याद्युत्तरत्र तयोः प्रतिपादनात् 'सम्पत्स्यत' इति 'तस्य तावदेव चिरमिति फलार्थवादयोर्भेद एव स्वारस्यस्य स्पष्टत्वात्तत्त्वमसीत्यस्य परोक्तार्थे उपपत्तिविरोधस्य स्वोक्तार्थे तदानुगुण्यस्य चानेकस्थलेषु व्युत्पादनान्न तबलादभेदपरत्वं युक्तमित्याशयेनाह तात्पर्येति । स०- त्यजेदेकं कुलस्यार्थ इति । यथा प्रामाणिकानेकपरिरक्षणायाप्रयोजकस्यैकस्य परित्यागस्तथा प्रामाणिकभेदपरिरक्षणाय सामानाधिकरण्यं गौणमङ्गीकृत्य तत्वंपदयोर्मुख्यार्थता ॥ व्याख्यातव्येति विनिगमनमस्तीति भावः। नचैक्य एव तात्पर्यलिङ्गानामानुगुण्यस्य सत्वेन तस्यैव प्रामाणिकत्वात्तत्परिरक्षणाय वैपरीत्यं कुतो न व्याख्येयमित्यत आह तात्पर्यलिङ्गानामिति । वा ॥ 52 । या० च० - - प० तंत्रतत्रेति । तत्वनिर्णयादौ । त्यजेदेकमिति । इदमुपलक्षणम् । प्रत्ययापेक्षया प्रातिपदिकस्य प्राधान्यमपि विनि- गमकं द्रष्टव्यम् । न च सामानाधिकरण्यस्याप्यनेकविभक्तिरूपत्वेन कथमेकत्वमिति वाच्यम् प्रातिपदिक- द्वयनिष्ठत्वेन ज्ञातकविभक्ते रेवाभेदबोधकत्वेन सामानाधिकरण्यशब्दार्थत्वात् अत एवोक्तं ब्रह्मत 'नामादि- प्राणपर्यन्तमुभयोः प्रथमावतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति' इति । केचित्तु नीलं घटमान- येय,दौ विशेप्यविभक्त्या घटगतकर्मत्वादेरुक्त्या विशेषणविभक्तेरेवाभेदार्थकत्वेन सामानाधिकरण्यरूप- त्वात्सर्वत्राप्येवमित्यभिप्रेयैतदुक्तमित्याहुः । त्यजेदेकमिति । इदमुलक्षणं प्रत्ययापेक्षया प्रातिपदिकस्य प्राधान्यमपि विनिगमकं द्रष्टव्यम् । न च सामानाधिकरण्यस्याप्यनेकविभक्तिरूपत्वेन कथमेकत्वमिति वाच्यम् । प्रातिपदिक- द्वयनिष्ठत्वेन ज्ञातैकविभक्त रेवाभेदबोधकत्वेन सामानाधिकरण्यशब्दार्थत्वात् । अत एवोक्तं ब्रह्मतर्के 'नामादि प्राणपर्यन्तमुभयोः प्रथमात्वतः । ऐक्यदृष्टिरिति भ्रान्तिरबुधानां भविष्यति'इतीत्यपि व्याकुर्वते । नामादि प्राणपर्यन्तमिति ब्रह्मतर्कवचन उभयोरेकप्रथमाप्रकृतित्वानभिधानेन तदपि प्रातिपदिकद्वय प्रकृति- कैविभक्तिरित्यर्थे नोपोबलकम् । चन्द्रिकायां "लक्षणावृत्त हीत्यादिना । परमते पदद्वयलक्षणा । मम तु तत्पदमाने गौणी । तत्रालयबाधेनवो पत्तौ बहुबाधोऽन्याय्य इति भावः । टीकायां सामानाधिकरण्यस्य गौ गत्वोक्तेस्तत्पदं सर्वकर्तृत्वादिविशिष्टब्रह्मपरमेव । तत्वंपदयोः सामानाधिकरण्यं तु नाभेदपरं किं तु सादृश्यपरमिति नाभिप्रायः । सिंहस्याध्ययनमित्यादी सामानाधिकरण्याभावेऽपि सिंहप्रातिपदिकस्यैव सहशे गौणत्वात् । सन्न्यायरत्नावल्या तत्वमसीत्यत्र जगत्स्यूपरामशिनस्तच्छब्दस्यैव त्वंशब्दवाच्ये गौण वृत्या. श्रयणेन तत्वंपदयोरुभयोरपि लक्षणाश्रयणस्य पराहतत्वादिन्युक्तत्वाच्च । अपि तु तत्पदेनैव गौणवृत्या सादृश्ये लब्धे परस्परान्वितानेकप्रातिपदिकनिष्ठकविभक्तिरूपसामानाधिकरण्यार्थस्य मुख्यस्य तत्पदशक्यतावच्छेदकेन ब्रह्मत्वेन रूपेण ब्रह्माभेदस्य जीवेऽसत्वेऽपि अमुख्यस्य चेतनत्वादिरूपेणाभेदस्य सत्वात् सामानाधि- करण्येनाभेदलाभ इत्येवाभिप्रायः । अस्ति सिंहश्चैत्र इत्यत्रापि चैत्रे सिंहत्वेन रूपेण सिंहाभेदाभावेऽपि शूरत्वेन तदभेदः । एतदेवाभिप्रेत्यानुव्याख्याने 'अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रया'दिति । 'चेतनत्वादिसादृश्यं यद्यभेद इतीप्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता कचिदिति चोक्तं यद्यपि तच्छब्दस्य तत्सदृशेऽर्थे सति तस्य गौणार्थतावच्छेदकेन सादृश्येनैव रूपेण त्वंपदार्थजीवाभेदो मुख्य एव । तथापि शक्यतावच्छेदकेन ब्रह्मत्वेनाभेदो न मुख्य एवेति द्रष्टव्यमिति व्याख्यातम्। तत्तु टीकोक्तमात्रादिपदास्वारस्यापादकमित्यंभिसन्दधाना एव तर्कताण्डवे। "अत्रोक्तं सुधायाम् । 'अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्या- -- ..

एतल्लक्षणस्य तटस्थ त्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १०९१ भेदसंश्रयादित्यनुव्याख्यानव्याख्यावसरे "तत्वमसीत्यत्र गौणी चेत्प्रधान पदद्वयं मुख्याथै सामानाधि- करण्यमात्रे सादृश्ये जघन्या । लक्षणा चेत्पदद्वयं अमुख्यार्थम् । सामानाधिकरण्यमात्रं मुख्यमिति प्रधानबाधादनेकबाधाच्च लक्षणा जघन्येति । अयं च न्यायो यद्यपि तत्वमसीत्यादिवाक्य एव सिंहश्चैत्र इत्यत्र सिंहसंबन्धिनि सिंहसदृशे चैत्रे लक्षणा चेत्सिहप्रातिपदिकस्यैव बाधेनानेकबाधा- भावात् । तथाप्येकस्यापि प्रधानस्य बाधात्तत्रापि लक्षणा जघन्येति ज्ञेयम् । न च सामानाधिकरण्य. बाधेऽप्यनेकविभक्तिबाध इति वाच्यम् । नीलं घटमानयेत्यादौ विशेष्यविभक्त्या घटगतकर्मत्वादेरुक्त्या विशेषणविभक्तरेवाभेदार्थकत्वेन तन्मात्रबाधात् । बहुत्वप्रयुक्तबलादपि स्वभावप्रयुक्तबलस्य बलवत्वाच्च प्रातिपदिकप्राधान्यं च प्रयाजशेषेणेत्यादौ सिद्धम् । न च लक्षणायामपि गङ्गापदं मुख्यार्थमेव सप्तम्येव प्रवाहस्यैव परम्परया घोषाधारतायाममुख्येति वाच्यम् । प्रवाहस्य परम्परयापि अनाधारत्वात् । तीराधारताया एवाभिप्रेतत्वाच्च । अनुव्याख्यानोक्तं सादृश्यस्य गौणाभेदत्वं तु चैत्रे शूरत्वेन सिंहाभेदे सत्यपि औत्सर्गिकस्य पदार्थतावच्छेदकसिंहत्वेनाभेदस्याभावात् । उक्तं ह्यनुव्याख्याने । चेतनत्वादिसादृश्यं यद्यभेद इतीप्यते। अङ्गीकृतं तदस्माभिने स्वरूपैकता कचित्'इति । सन्न्यायरत्ना- वल्यां तु तत्त्वमसीत्यत्रापि जगत्त्र परामर्शिनस्तच्छन्दस्यैव त्वंशब्दवाच्ये जीवे गौणवृत्याश्रयणेन तत्वंपदयोरुभयोरपि लक्षणाश्रयणस्य पराहतत्वादिति तत्पदस्यैव गौणत्वमुक्तं तदपि तत्त्वमसीत्यादि प्रस्तुतपरमेव फलतः सुधोक्तसादृश्याभेदपर्यवसितं च । सुधायामपि सिंहस्याध्ययनमित्यादी सामानाधिकरण्याभावात् सिंहप्रातिपदिकमेव सदृशे गौणमि'त्यन्तेन सौधसामानाधिकरण्यमात्रमिति विन्याससामंजस्य संपादयन्तः, सति सामानाधिकरण्ये तस्यैव गौणीवृत्तिस्तदभावस्थले. च प्रातिपदिक- : स्येति सिद्धान्तम् प्रातिष्ठिपन् । तत्र च 'नीलं घटमानयेत्यादौ विशेष्यविभक्त्या घटकर्मत्वादेरुक्त्या विशेषणविभक्तेरेवाभेदार्थकत्वेन तन्मात्रयाधात्' इत्यादिग्रन्थेन सामानाधिकरण्यस्थले विशेषणविशेष्य- वाचकप्रकृतिकविभक्तिद एव तर्क ताण्डवादिसौवाकरसिद्धः भाष्यकैय्यटदीधित्यादितन्त्रान्तरसिद्धश्चत्य- वसेयम् । सु० - किश्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया 'तत्त्वमसि' इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो नाम न तावदविवक्षामात्रमित्युक्तं प्राक् ॥ अथ सोऽयं देवदत्त इत्यादिवद्विरोध्याकारस्यानित्यत्वम् । तत्राह कथमिति । अनु० - कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ।। नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते । अस्येश्वरस्येत्युपलक्षणम् । जीवेऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् । यथोक्तं पुराणे 'अल्पशक्तिरसार्वज्ञम्' इति । 5ख १०९२ ॥ न्यायसुधा ॥ (भ.१ पा.१ अ.२ सू.२ वा० प्रागिति । सत्यत्वात्तनेत्येतद्व्याख्यावसर इत्यर्थः । एवं च तत्प्रकारस्यात्राप्युप- लक्षणेन बोद्धव्यत्वान्न भाष्ये न्यूनतेति भावः ॥ नित्यगुणत्वं चेति । 'ज्ञानं नित्यमि'त्यादिप्रमाणो. दाहरणेन 'नित्यत्वादि'त्यादिना बाधकपरिहारेण चेत्यर्थः ॥ जीवस्यापि प्रकृतत्वेऽप्यस्प्रेत्येकवचनादी- श्वरस्य गुणित्वेन जीवस्य च दोषित्वेन नित्यगुणस्येत्यनुसाराद् गुणशब्दस्य धर्ममानपरत्वेऽपीश्वर- धर्मनित्यताया उपपादयिष्यमाणत्वेन नित्यगुणस्येति सिद्धवदुक्तिसम्भवाच्चास्येत्येतदीश्वरमात्रपरतया व्याख्याय तर्हि जीवगुणहानेन नित्यगुणस्यापीश्वरस्य न जीवैवयानुपपत्तिरित्यतोऽन्येत्यस्य जीवोप. लक्षणतां दर्शयस्तदोषनित्यतोपपादकं च दर्शयति अस्येश्वरस्येति ॥ पुराणे महाविष्णुपुराणे । तद्वाक्यं पठति अल्पशक्तिरसार्वज्ञमिति । पारतन्व्यमपूर्णता । 'उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । 'स्वाभाविकं तयोरेतन्नान्यथा स्यात्कदाचन । वदन्ति शाश्वतावतावत एव महाजनाः ॥' इति तद्वाक्यशेषः । स०-अल्पशक्तिरसावयमितीति । 'अल्पशक्तिरसार्वइयं पारतन्त्र्यमपूर्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । स्वाभाविकं तयोरेतन्नान्यथा स्यात्कदाचन ॥ वदन्ति शाश्वतावेतावत एव महाजनाः ॥' इति महाविष्णुपुराणे यथोक्तमित्यर्थः ।। प०-- प्रागिति । प्रथमाधिकरणे 'सत्यत्वात्तेन दु:खादेः' इत्यादिव्याख्यानावसरे ॥ लिङ्गपाद इति । 'ज्ञानं नित्यं क्रिया नित्या' इत्यादिनोत्तरपादे साधयिष्यत इत्यर्थः ॥ पुराण इति । 'अल्पशक्तिरसाश्यं पारतन्त्र्यमपूर्णता । उपजी कत्वं जीवत्वमीशत्वं तद्विपर्ययः । १ । स्वाभाविकं त्ये रेतन्नान्यथा तु कथञ्चन ।' इति द्वितीयगीतातात्पर्योक्तमहाविष्णुपुराण इत्यर्थः । या० --- प्रागिति । प्रथमाधिकरण इत्यर्थः ॥ अल्पशक्तिरिति । 'अल्पशक्तिरसायं पारतन्त्र्यमपूर्णता। उपजीरकत्वं जीवत्वमीशत्वं तद्विप यः ॥ स्वाभाविकं तयोरेतन्नान्यथा स्यात्कदाचन । वदन्ति शाश्वतावेतावत एव महाजनाः ॥' इति विष्णुपुराण इत्यर्थः । श्री०- सोऽयं देवदत्त इतिवदिति । तद्देशकालविशिष्टैतद्देशकालविशिष्टयोरैक्यायोगाद्विरो- ध्याकारपरित्यागेनैक्यं बोव्यते । तत्र विरोध्याकारपरित्यागो नामानित्यत्वमेवेत्याशयः । लिङ्गपादे 'ज्ञानं नित्य क्रिया नित्ये'त्युत्तरपादे ॥ प्रागिति । 'जिज्ञासानये सत्यत्वात्तेन' इति प्रतीकव्याख्यावसर इत्यर्थः ॥ अल्प- शक्तिरिति । 'अल्पशक्तिरसार्वज्ञ पारतन्ध्यमपूर्णता 1. उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः । स्वाभाविकं तयोरेतन्नान्यथा स्यात् कदाचन । वदन्ति शाश्वतावेतावत एव महाजनाः ॥' इति महा- विष्णुपुराणे अभिहितमित्यर्थः । च०- एतल्लक्षणस्य तटस्थत्वकल्पनायाः भयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १०९३ वा० - सु० -- ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्वार्थो न विरोध्याका- राविवक्षामात्रणेति नाप्यनित्यत्वेनेति । किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न । निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् । तथा हि । तन्निर्गुण किं सगुणादीश्वराद्भिन्नमुता- मिन्नम्(वा)। द्वितीये तस्यापि सगुणत्यप्रसङ्गेन निर्गुणत्वव्याघातः । आये दोषमाह सदैवेति । अनु० सदैव गुणवत्वेऽम्य भिन्न स्यान्निर्गुणं सदा ।। यदि निर्गुणं सगुणादत्यन्तमिनै तर्थस्य सगुणस्य नित्यं सगुणत्वात्तस्मानित्यमेव निर्गुणं भिन्न प्रसज्येत । तथा च न कदाचिदपि कैवल्यं स्यादिति । नन्वविवक्षाऽनित्यत्वपक्षयोर्दूषितत्वानि.थ्यात्वपक्षस्य च न चेत्यादिना दूषयिष्यमाण- त्वा सदैवेन्युत्तरमूलं व्यर्थमित्यतोऽत्र मूलोक्तस्य सगुणस्य सदा सगुणत्वात्सगुणान्नित्यमेव निर्गुण भिन्न स्यादिति दूषणस्य निर्गुणं सगुणादत्यन्तभिन्नमिति पक्ष एव सम्भवात्तत्कल्पप्रसक्तेश्च निर्गुणेन जीवैक्यमिति पराभिप्राय विनाऽसंभवात् । तत्र च निर्गुणं सगुणाभिन्नमिति प्रसक्तपक्षान्तरस्य च स्पष्टदूषणतया न चेत्यादिवक्ष्यमाणरीत्या तद्पणलाभाच्च भाष्यकारेणोपेक्षणाद्गूढाभिसन्धेः परस्य निर्गुणेन जीवैक्यमिति पक्षनिरासाभिप्रायोन्नयनान्नासङ्गतिरित्याशयेनोत्तरमूलमवतारयति नेति ॥ अत एव तदनुकूलमापादकमध्याहरति यति ॥ गुणवत्त्व इत्यस्यापादकसमर्पकताभ्रान्ति वारयितुं गुणवत्त्व इत्यस्य सतिसप्तमीत्वमभिप्रेत्य तदभिप्रायमाह सगुणत्वादिति ॥ आपाद्यस्यानिष्टतां दर्शयितुं योग्य तत्फलमापाद्यमध्याहरति तथा चेति । गूढाभिसन्धिराह किन्तु निर्गुणेनेति । तथा च मिथ्यात्वेनैव गुणानां परित्याग इति भावः ॥ कैवल्यमिति । अद्वितीयब्रह्मावस्थानरूपमित्यर्थः । श्री० इत्येवेति । तथाच विरो-याकारपरित्यागो नाम तस्य मिथ्यात्वमेवेत्याशयः । कैवल्यं निर्गुणब्रह्मभावरूपम् ॥ च०- कैवल्यमिति । अद्वितीय ब्रह्मतादात्म्यापत्तिरूपमित्यर्थः । या० सु०-ननु स्वभावतो निर्गुणमेवारोपितैमिथ्यागुणैः सगुणमिति बालेरभिलप्यते । आरोपितनीलिम्ना गगनमिव नीलत्वेन । आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्टम् । तथा च मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशोऽपि नानुपपन्नः । नीरूपं गगनमिति यथा । यथा वा यदिदं रजतं सा शुक्तिरित्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह न चेति । 5ग १०९४ ॥ न्यायसुधा ॥ (भ.१ पा.१ ७.२. सू.२ अनु०- न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ।। मिथ्येत्यसदुच्यतेऽनिर्वचनीयं वा । नाद्यः । अनङ्गीकारात् । न द्वितीयः । अनिर्वा- च्यस्य प्रथमसूत्र एव निराकृतत्वात् । अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरू- पणम् । ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते । मन्यन्ताम् । न हीदानीं निर्गु. णवस्तुनिराकरणं प्रस्तुतम् । किं नामाद्वैतिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति । गुणशब्दे- ना(चा)त्र धर्ममात्रं प्रकृतम् । तद्गुणादिष्वपि सर्वसंमतम् । गुणादीनां च सगुणत्वं परमावा- रम्भनिरासे वक्ष्यते । ननु (च) 'साक्षी चेता केवलो निर्गुणश्च' इति निर्गुण ब्रह्म श्रूयते । मैवम् । उक्तानुप- पत्तिपराहतत्वेनान्तिरपरत्वात् । अन्यथा साहित्यादीनामपि धर्मत्वाद्याघातश्च । साक्षाद्रष्टा हि साक्षी । यथाऽऽह पाणिनिः । साक्षाद्रप्टरि संज्ञायामिति । वा०- न चेत्यादि न पक्षान्तरनिराकरण किन्तु सामान्योक्त्यभिसन्ध्युद्धाटनेन निर्गुण सगुणाभिन्नमिति द्वितीयपक्षाङ्गीकारेण तत्रोक्तदूषणे परेण निरस्ते तन्निराकरणमित्याशयेनावतारयति नन्विति । अत्र स्वभावतो मिथ्यागुणैरिति व्याघातपरिहारः । असद्गुणैः सगुणत्वानुपपत्तिरित्यत उक्तमारोपितैरिति ॥ आरोपमात्रेणापि तद्वत्त्वमसंभावितमित्यतः संभावककथनम् आरोपितेति । आरोपस्य कादाचित्कत्याद् गुणनित्यताप्रतिपादकश्रुतिविरोध इत्यत उक्तमारोपितेति ॥ तर्हि निर्गुणस्य गुणानां मिथ्यात्वे भेदप्रसक्तेरभावादैक्योपदेशवैयर्थ मित्यत उक्तं तथा चेति । अत्रापि संभावककथनं नीरूपमिति ।। ननु नायमैक्योपदेशोऽपि तु गगने रूपाभावप्रतीतिमात्रमित्यतः प्रकृतोपयोगितया सप्रतिपन्नं दृष्टान्तमाह यथा वेति । यद्वा । विरोध्याकारनिवृत्तेरपि तत्र भानादैक्योपदेशमात्रे पूर्वदृष्टान्तः । विरोध्दैक्यो- पदेशवत्प्रतीयमानविरोध्याकारपरित्यागेन विशेष्यैक्योपदेशे द्वितीयो दृष्टान्त इति द्रष्टव्यम् ॥ निर्गुणेन ब्रह्मणा जावैक्यमिति परकीयसामान्योक्तेः प्रसक्तिमात्रेण पक्षान्तरमस्माभिनिरस्तम् । वस्तुतस्तु तथो. क्रयमेवाभिप्राय इति सूचयति स्वाभिसन्धाविति । पराभिमतद्वितीयपक्षप्राप्तदूषणनिरासकस्यापि न चेति मूलनिवर्त्य मिथ्यात्वपक्षस्य सदेवेत्याद्यपक्षदूषणनिरासकत्वस्यापि संभवात्तदानन्तयं न चेति मूलस्य नानुपपन्नम् । अनेनाविवक्षादिपक्षनिराकरणमपि प्रसक्तिमात्रेणेति सूचितं भवति ॥ ननु निर्गुणस्वरूप. निराकरणं पदार्थविन्मतविरुद्धमिति गूढाभिसन्धिः शङ्कते नन्विति ॥ निर्गुणमात्रनिरासे तन्मत. विरोधेऽपि निर्गुणब्रह्मनिरासे न तन्मतविरोध इति तथैवोत्तरमाह न हीति ॥ ननु निरासकन्यायतौल्ये तन्निरासोऽपि प्राप्त एव, तत्परिहारोपाय एव च ममापीति पराशयं ज्ञात्वा तथापि वैलक्षण्यान्नानु- ज । जन्माधिकरणम् ॥ । पपत्तिपरिहारसाम्यमित्याशयेनाह गुणशब्देनेति ॥ वस्तुगतिमनुरुद्धयेदं मतवैलक्षण्यमुपपादितं तदभिप्रेतं निर्गुणत्वं चाप्रामाणिकमेवेत्याह गुणादीनां चेति । कैवल्यमिति । केवलत्वं निर्गुणभाव इति यावत् । सगुणस्येत्यनुकर्षः ॥ बालैरिति । विशेपानभिज्ञैरित्यर्थः ॥ गुणराहित्यलक्षणं निर्गुणत्वमित्यस्य वैशेषिकपरिभाषितगुण- शून्यत्वमर्थ इति मन्वानो मन्दः शङ्कते गुणादिपञ्चकस्येति । गुणकर्मसामान्यविशेषसमवायरूपपञ्चकस्य । पदार्थविदो नैयायिकाः ॥ शक्यमितीति । प्रस्तुतमित्यनुकर्षः । अत्रेदानीम् अभिमतं निर्गुणत्वं गुणादिपञ्चकेऽपि नेत्याह गुणशब्देनेति । पारिभाषिकरूपादिचतुर्विंशतिगुणराहित्यमपि नेत्याह गुणादीनां चेति । वैशेषिकाधिकरणे समयपादे वक्ष्यत इत्यर्थः । उक्तानुपपत्तीति । निर्गुणस्यैव निरूपयितुमशक्यत्वादित्यादिनोक्तानुपपत्तीत्यर्थः । यद्वा 'न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात्'इत्युक्तानुपपत्तीत्यर्थः ।। अर्थान्तरेति । प्राकृतगुणराहित्यरूपार्थान्तरत्वादित्यर्थः । व्याख्यातेषा श्रुतिः कर्मनिर्णयटीकायाम् ॥ अन्यथेति । धर्मसामान्यनिषेधे ॥ यथाऽऽहेति । पञ्चमस्य द्वितीयपादे 'साक्षादृष्टरि' इति साक्षाच्छब्दरूपादव्ययार्थे संज्ञायां विषये इनिप्रत्यये 'अव्ययानां भमात्रे टिलोप:' इति टिलोपश्च भवतीत्यर्थः । द्वितीयं पक्षमङ्गीकृत्य तत्रोक्तं विरोधं परिहतु शकते नन्विति ॥ विरोध्याकारबाधा दशायामैक्योपदेशमुदाहरति नीरूपमिति ।। तदबाधदशायां तमुदाहरति यथा वेति । रजतं रसमा तया तव प्रतीयमानं सा शुक्तिरेवेति भ्रान्तं प्रति कश्चिदाप्त उपदिशतीत्यर्थः ॥ निर्गुणब्रह्मनिराकस्मिक मुपसंहरति अत इति । अत्र गुणगहित्यलक्षणमित्युक्तिर्गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव निर्गुणत्वं परिशेपेण साधयितुं प्रसक्तप्रतिषेधायेति ज्ञात यम् । यद्वा । तत्त्वमसीति श्रोतैक्यनिर्देशस्य नीरूपं गगनमिति दृष्टान्तः । जन्माद्यस्येति सौत्रैक्योपदेशस्य वक्ष्यमाणरीत्या यथा वेतिष्ठस्त्रिी दृष्टान्तः । एवमग्रे धर्मराहित्यलक्षणमित्युक्तेरपि प्रयोजनं ज्ञेयम् ।। सर्वथेति । तदाश्रयस्य सगुणस्य निर्गुणस्य वा ब्रह्मणो वक्तुमशक्यत्वादित्यर्थः । क ननु माऽस्तु सगुणस्य तद्भिन्ननिर्गुणस्य वा ब्रह्मणस्तदाश्रयत्वम् तथाऽपि गुप्ताविपञ्चाोषः तदाश्रयो भविष्यतीत्याशयेन प्रकृतमनालोचयन्मन्दः शङ्कते ननु गुणादिपञ्चकस्येति म हीसिया गुणशब्देन वैशेपिकाभिमतगुणविवक्षायां तद्राहित्यरूपं निर्गुणत्वं ब्रह्मणि न संभक्तीतोषपूES कापि तन्न संभवतीति । येन गुणादिपञ्चकोदाहरण सङ्गतं स्यादिति भावः || मोनिकायकोबार मुदितम् । वस्तुतस्तु गुणशब्देन धर्ममात्रमेव विवक्षणीयम् ॥ सदेव सोम्येत्यादिप्रसfire ऽबन्नादिनमृत्वादिरूपधर्मजातस्यैव तच्छब्दपरामर्शविषयतया प्रकृतत्वाद्धर्मराहित्यत्रकी निपुणत्वनि या० 5घ १०९६ ॥ न्यायसुधा । (अ.१ पा.१ भ.२ सू.२ कापि संभवति गुणादेरपि सधर्मकत्वात् ; इत्याह गुणशब्देन चात्रेति ॥ गुणशब्देन वैशेषिकाभिमत- गुणविवक्षायानपि तदाहित्यरूपं निर्गुणत्वं न कापि संभवति ॥ गुणादिपञ्चकस्यापि सङ्ख्यापृथक्त्वादि- रूपगुणवत्वस्य वैशेषिकपरीक्षायां वक्ष्यमाणत्वादित्याह गुणादीनां चेति ॥ साक्षाष्टरीति | साक्षाच्छब्दोऽव्ययम् । तस्मादिनिप्रत्ययो भवति । द्रष्टार वाच्ये संज्ञाग्रहण- मभिवेयनियमार्थम् । तथा च साक्षीत्युपद्रष्टैवोच्यते न दाता न गृहीता चेति सूत्रार्थः । अत्र च प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्यलुक् । उदाहरणे च 'अव्ययानां भमात्रे टिलोपः' इति ज्ञेयम् ।। श्री०- नीलत्वेनेति । तेन वास्तवं नीरूपत्वं न विहन्यत इति भावः ॥ नीरूपमिति । आरोपितनैल्याकारपरित्यागानन्तरं विचार्यमाणे नीरूपमित्यर्थः ॥ सा शुक्तिरिति । आरोपितरजताकार- परित्यागानन्तरं विचार्यमाणे शुक्तिरेवेत्यर्थः ।। साक्षादृष्टरीति । साक्षाच्छवाष्टर्यभिधेये इनिप्रत्यये 'अव्ययानां भमात्रे टिलोपः' इति भसंज्ञकस्य हिभूतस्य आत् इ यस्य लोपे साक्ष् इन् साक्षिन् इति 'नकागन्तं प्रातिपदिकं द्रष्टव्यम् । च० अभिन्नत्वकल्पमुपेत्य तत्रोक्तक्षत्यपनिनीषया शङ्कते नन्विति ॥ विरोध्याकार- परित्यागदशायामैक्योपदेशं निदर्शयति नीरूपमिति ॥ तस्य बाधप्रतिसन्धानदशायां तं निदर्शयति यथा वेति । रजतं रजतत्वप्रकारकप्रतीतिगोचरं; सा शुक्तिरिति भ्रान्तोद्देश्यकं भ्रान्तिज्ञम्य वच इत्यर्थः ।। यथाह पाणिनिरिति ।। साक्षादित्यव्ययात् द्रष्टयभिधेये 'इनि 'प्रत्यये । अव्ययानां भमात्रे टिलोप इति टिलोपे साक्षीतिरूपं निप्पद्यत इति भावः ।। सु० एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण योऽङ्गीकरोति तं प्रति सोल्लुण्ठमाह निर्गुणत्वमिति । अनु०- निर्गुणत्वं तदा च स्यादासुरत्वं न चान्यथा ।। तदा च युक्त्या निर्गु(णे)णत्वे निराकृतेऽपि यदि निर्गुणत्वं परस्मै रुचितं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् । अन्यथानिरूपयितुमशक्यत्वस्योक्त- त्वात् । तेनैक्यं च मायावादिनामनुमन्यामह इति । एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम् । न हि नानाविधकार्यक्रियावेशात्मत्वं तत्प्रसवशक्त्यात्मकं वा जिज्ञास्यविशुद्ध- ब्रह्मान्तर्गतं भवितुमर्हतीति । तदपि निरस्तं वेदितव्यम् । निर्गुण(त्व)स्यैव निराकृतत्वात् ।। यच्चोक्तम् 'नेदं ब्रह्मणो विशेषणम् प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात् इति; तदुत्तरत्र निराकरिष्यत इति ।

एतल्लक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १०९७ वा० ननु निर्गुणत्वस्य निरासादुत्तरग्रन्थवैयर्थ्यम् । दूषणान्तरपरत्वे च तस्यैव वक्तव्य- तयाऽसुरत्वोक्तिश्चायुक्तेत्यत आह एवमिति । नैयायिकाभिमतनिर्गुणत्वस्यापि प्रस्तुतत्वात्तावन्मात्रस्या सुरत्वानापादकत्वाद्धर्मेत्याद्युक्तम् ॥ आग्रहं मूलारूढं कतु तदा चेत्येतत्तदर्थतया व्याख्याति तदा चेति ॥ निर्गुणत्वमुपजीव्य परकीयं लक्षण, तटस्थत्वोपपादने प्रकारान्तरमपि, निर्गुणत्वनिरासेनैव निरस्तमिति न तदनिरासप्रयुक्तन्यूनतेत्याशयेनाह एतेनेति । नानाविधकार्य क्रियावेशात्मत्वं नाना- विधकार्यगोचरक्रियाऽऽश्रयत्वमित्यर्थः ॥ प्रकारान्तरेण परकीयं तटस्थत्वोपपादनं च सर्वज्ञत्वादीनां सोपाधि- कत्वमाशङ्कय ज्ञानादिप्रतिबन्धा निरसिष्यमाणत्वात्प्रतियोगिसापेक्षस्याप्यैक्यस्य ब्रह्मस्वरूपतायास्तन्मते वक्ष्यमाणत्वाच्च तन्न्यायेन निरस्तप्रायमित्याह यच्चोक्तमिति । 'सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्न हि । इति चेञ्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम्' इत्याद्युत्तरत्रेत्यर्थः । स०- परस्मै रुचितमिति ॥ 'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी ।। तदुत्तरत्र निरा. करिष्यत इति ॥ 'अन्यापेक्षा यदि स्युष्टे सत्तैव देशकालगा' इति भक्तिपादे निराकरिप्यते इत्यर्थः । सोल्लुण्ठम् सोपहासम् ॥ परस्मै रुचितमिति । 'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी । यत्तटस्थत्वमुक्तं तन्निरस्तमित्यन्वयः ॥ तटस्थत्वोक्तिपरं वाक्यं पठति न हि नानेति ।। तत्प्रसवेति । नानाविधकार्यजनकेत्यर्थः ॥ विशेषणमिति । स्वरूपलक्षणमित्यर्थः । उत्तरत्रेति । अतोऽनन्तगुणं ब्रह्म' इत्यत्र ब्रह्मस्वरूपविशेषण(षय)त्वोपगमेन तन्मात्रत्वानङ्गीकारेण निराकरिष्यत इति भावः । या०. परस्मै रुचितमिति । 'रुच्यर्थानां प्रीयमाणः' इत्यनेन चतुर्थीति ज्ञातव्यम् ।। क्रियावेशात्मकत्वमिति । क्रियाश्रयत्वमित्यर्थः । अनेन कर्तृत्वरूपं तत्प्रसवं शक्त्यात्मकत्वं वेत्यनेनोपादानत्वरूपं कारणत्वमुक्तमिति ज्ञातव्यम् ॥ विशेषणमिति । स्वरूपमित्यर्थः ॥ प्रपञ्चो- पाधित्वेनेति । प्रपञ्चसापेक्षत्वेनेत्यर्थः ।। उत्तरत्रेति । भक्तिपादे 'अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा। देशकालानपेक्षा हि न सत्ता कापि दृश्यते ॥' इत्यत्र सत्ताया अपि देशकालरूपपरापेक्ष- स्वाब्रह्मस्वरूपान्तर्गतत्वं न स्यादिति निराकरिष्यत इत्यर्थः । श्री०- सोल्लुण्ठं सोपहासम् ।। असुरत्वमेव स्यादिति । निर्गुणत्वमसुरत्वमेकमेव स्यादि- त्यर्थः । न चान्यथेति मूलाभिप्रायमाह अन्यथा निरूपयितुमिति । निर्गुणत्वस्येति शेषः । तथाच सकलशुभराहित्यं विहायान्यथा प्रकारान्तरेण निर्गुणत्वं न च नैव निरूपयितुं शक्यमिति मूलार्थो द्रष्टन्यः तेनैक्यं चेति । निर्गुणेनैक्यं नामासुरेणैक्यमित्यर्थलाभादित्यर्थः ।

, माणोऽर्थः संप्रदानं स्यात् । हरये रोचते भक्तिरित्युदाहरणम् । तद्वदिनमपि बोध्यम् ॥ क्रियावेशा- त्मकत्वम् क्रियाश्रयत्वम् प्रसवशक्त्यात्मकत्वम् । तदुत्पादशक्त्याश्रयत्वम् । एतेन कारणत्वमुपा- दानतारूपमिति ध्वन्यते ॥ विशेषणम् स्वरूपम् । प्रपञ्चोपाधित्वेन मिथ्याभूतप्रपञ्चघटितत्वेन । निरुपाधिकेति । मिथ्याभूतपदार्थाघटितेत्यर्थः । उत्तरत्र भक्तिपादे 'अन्यापेक्षा यदि स्युष्टे' इत्यादिना सत्ताया अपि देशकालरूपपरा पेक्षतया ब्रह्मस्वरूपान्तर्गतत्वं न स्यादिति निराकरिष्यत इत्यर्थः । ( इति तदुक्तस्य धर्मराहित्यलक्षणनिर्गुणत्वस्य सत्रकारैः निषेधः । ) ( अथ तदुक्तस्य 'गुगगुणिनोः अन्यत्वानन्यत्वाभ्याम् अनिरूपणम्' इत्स्यय दुष्टता । ) सु०-- यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादि. सिद्धये परेणोक्तं तदुपथितुमनुवदति लक्ष्यलक्षणयोरिति । अनु० लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् । यदत्र जगजन्नादिकारणत्यं मुख्य)खतो लक्षणमभिहितं सर्वज्ञत्यादिसमस्तगुणवत्वं चाभिप्रायव्या(प्रा)समित्युक्तम् । तदुभयमपि लक्षणं लक्ष्याब्रह्मणो भिन्नमभिन्न भिन्नाभिन्नं वा । नाद्यः । मेरुमन्दरवलक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः । संवन्धसद्भावानेति चेत् (न) तस्यापि संबन्धिभ्यामन्यत्वानन्यत्याभ्यामनिरूपणात् । न द्वितीयः । अनेकैरभिन्नस्य ब्रह्म- णोऽप्यनेकत्वापत्तेः । तथा चैकमेवेति श्रुतिविरोधात् । लक्षणानां वैकत्वमापयेत । तथा च 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः । लक्ष्यलक्षणभावो गुणगुणि. भावश्चाभेदे नोपपद्यते । प्रसिद्धेन ह्यप्रसिद्ध लक्षणीयम् । न च तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् । गुणी च गुणवान्भवति । न च स्वेनैव तद्वान्भवति । न तृतीयः। परस्परविरो- धात् । अतोऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम् । किन्तु तटस्थमेव । न च तटस्थेन तेन ब्रह्मणोऽद्वितीयत्वभङ्गः । यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति । तटस्थत्वादीत्यादिपदेनानिर्वाच्य वग्रहणम् ॥ तदुभयमपीति । 'लक्ष्यलक्षणयोः'. इत्यत्र लक्षणपदेन न केवलं जन्मादिकारणवस्यैवोपादानं किं तु अतोऽनन्तगुणम्' इत्युत्तरग्रन्थानुसारेण समस्तगुणत्वस्यापीति भावः । एतदभिप्रायेणैव पूर्वमपि तथाऽभिप्रायकथनमिति द्रष्टव्यम् ॥ ननु तट. स्खलक्षणमपि सत्यतहानिः, मिथ्यात्वेऽनेन व्यावृत्यसिच्या तदुक्तिवयापत्तिः, इत्यतः पूर्वमन- भ्युपगमेनापाकृत्य मिथ्याभूतस्यापि व्यावर्तकावं, दृष्टान्तोक्त्या संभावयति-न चेत्यादिना । वा० . BUSINM एतल्लक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १०९९ अन्यत्वानन्यत्वा- स०- तस्यापीति । यदि तस्य संबन्धिभ्यामन्यत्वं तर्हि लक्ष्यलक्षणभावाद्युपपतिः । अभिन्नत्वे तस्य स्वरूपत्वेन पुनस्तदनुपपत्तिरेवेति भावः । प०- इत्युक्तमिति । स्वरूपलक्षणवादिना सिद्धान्तिनोक्तमित्यर्थः ।। भ्यामनिरूपणादिति । अन्यत्वे संबन्धसंबन्धिनोः संबन्धान्तरेण भाव्यम् । तत्राप्येवमित्यनवस्थानात् । अनन्यत्वे संबन्धसंबन्धित्वव्याघातादिति भावः ॥ पुनरुतीति । 'यतो वा' इतिश्रुतौ उक्तजन्मस्थि- तिभङ्गरूपलक्षणत्रयस्याप्येकत्वेन 'इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभि. संविशन्ति' इत्येषामेकार्थत्वादिति भावः ॥ इतिवदिति । यजगजन्मादिकारणत्वेन प्रतीतं तद्ब्रह्म इत्येवंरूपेण मिथ्याभूतकारणत्वेनोपलक्षणसंभवात् ; इत्यर्थः । या०- तटस्थत्वादीति । आदिपदेन मिथ्यात्वसंग्रहः ॥ तदूषयितुमिति । अनेन मूले गुणगुणिनोरित्युपलक्षणया ग्राह्यमिति सूचयति । यद्यपि विवरणकारेण गुणगुणिभावानुपपत्तिरेव दर्शिता न लक्ष्यलक्षणभावानुपपत्तिः; तथाऽपि सा तदभिप्रेतेति वा, तदीयैः कैश्चिदुक्तेति वाऽत्रानूदितेति द्रष्टव्यम् । श्री० मेरुमन्दरवदिति । अत्यन्तं भिन्नयोः संबन्धाभावादिति भावः ॥ पुनरुक्तीति । सर्वेषां लक्षणानामेकत्वात् यतो वेत्यनेनोक्तं सृष्टिकर्तृत्वं, येन जातानि जीवन्तीत्यादिनोक्तं स्थितिकर्तृत्वादिकं चैकमेवेति पुनरुक्तिरित्यर्थः ।। तटस्थनानेनेति । तटस्थस्यापि प्रपञ्चकारणत्वरूपलक्षणस्य सत्यत्वादिति भावः । मिथ्याभूतेनापीति । यन्मियाभूतजगजन्मादिकारणत्वेनोपलक्षितं तद्विचार्यमाणे ब्रह्मवेत्यर्थ- करणेन तटस्थलागस्यापि मिथ्यात्वेन सत्यवानङ्गीकारान्नाद्वितीयत्वभङ्ग इत्यर्थः । सु०-एवमनूय निराकर्तुमारभते इति पृष्ट इति । अनु० इति पृष्टे वक्तव्यमिति शेषः । पृष्ट इत्युपलक्षणम् । दूषिते चेत्यपि ग्राह्यम् । दूषणानामत्यन्ता. संबद्धत्वात्पृष्ट इत्येवोक्तम् । किं वक्तव्यमिति । दूषणस्यापि परेणोक्तत्वात्प्रश्नमात्रे प्रतिबन्दीग्रहणानुपयोगाच्च भाष्येऽनुवादे न्यूनता- परिहाराय पृष्ट इत्युपलक्षणतया व्याख्याति पृष्ट इति ॥ लक्षणाप्रयोजनमाह दूषणानां चेति । श्री० - इति पृष्टे वक्तव्यमित्युक्तम् । तत्र किं वक्तव्यमित्याशङ्कयोत्तरमाह किं वक्तव्यमिती- त्यादिना । वा० ११ ॥ न्यायसुधा ॥ अ.१ पा.१.२ सू.२ अनु० वा० - सु० तत्र जगजन्मादिकारणत्वादीनां धर्माणां भेदाभावेऽपि विशेषस्य सद्भावात्त- द्वलेन सर्वमुपपद्यत इति वक्तुं निर्भदवस्तुनि परेण विशेषस्थानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यमावुपपादनीय इति मन्धान आह तदेति । तदैक्यस्य गतिरेव न विद्यते ।। यो पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिनिरूपणप्रकारो न विद्यते । अयमभिप्रायः । द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् । एकं जीवब्रह्म- णोरैक्यपरं महावाक्यम् । यथा तत्वमसीत्यादि । अपरं तत्स्वरूपपरमवान्तरवाक्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि । तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकारणीयम् । गत्यन्तराभावात् । ननु परेण विकल्प्य दूपणे कृतेऽन्यतम पक्षाभ्युपगमेन पक्षान्तरप्रतिपादनेन वा समा. धानं वक्तव्यम् । प्रतिबन्दीग्रहणं त्वसङ्गतम् । न च तत्रत्यप्रकारेण स्वप्रमेयसमर्थनाय प्रतिबन्दीग्रहण- मिति वाच्यम् । तन्मतस्य दुष्टत्वे या प्रकारान्तरेण तत्समाधाने वा स्वमतस्य दुष्टत्वापरिहारात् । न च भेदाभावेऽपि विशेषबलात्सर्वमप्युपपद्यत इति स्वमतेन समाधानमिति वाच्यम् । तर्हि तस्यैव वक्त- व्यत्वेन प्रतिबन्दीग्रहणानुपपत्तः। प्रतिबन्दीग्रहणे वा प्रसिद्धघटादिपरित्यागेनैक्यपर्यन्तधावनानुपपत्ते- रित्यनः 'अतोऽनन्तगुणम्' इत्यादिना भेदाभावेऽपि विशेषबलात्सर्वमुपपद्यत इति स्वमते समाधानस्य वक्ष्यमाणत्वात् । तस्य च विशेषस्य. परेण क्वाप्यनङ्गीकारेण प्रतिबन्दीमुखेनैवाङ्गीकारयितव्यत्वात् । परस्याप्ये नदनुपपत्तिपरिहारकप्रकारान्तराभावात्स्वमतदुष्टतायाश्च परेणाङ्गीकर्तुमशक्यत्वात्परमुखेनैव विशेष. मानेतुं प्रतिबन्दीग्रहणस्यावश्यकत्वाद्धटादीनां चानिर्वाच्यतया परेणाभ्युपगतानां भिन्नत्वादिनाऽनिरू- पणीयत्वस्य परं प्रत्यनिर्वाच्यतासाधकत्वेन तदनुपपत्तिपरिहारकविशेषाकल्पकत्वेन घटादेख्द हरणतानु. पपत्तयुक्तमैक्यपर्यन्तधावनम् ; इत्याशयेन वक्ष्यमाणं साक्षात्स्वपक्षसमाधानं सूचयन्नेव प्रतिबन्दीप्रतिपाद- कोत्तरवाक्यतात्पर्यमाह तत्रेति ।। निर्भदेति । भेदाभावे तत्कार्यनिर्वाहकविशेषस्य परेणानङ्गीकृतत्वा. दित्यर्थः । यदिवोभयं तदेत्यस्यार्थ वदन्नेव प्रकृतोपयोगाय गतिशब्दं निरूपणप्रकारपरतया व्याख्याति यदीति । अत्रैक्यस्येति सामान्योक्तावप्युत्तरत्राभेदे, शास्त्रप्रतिपाद्यत्वाभावस्य त्वमसी यंशवैयर्थ्यस्य भेदे, शास्त्रातत्वावेदकत्वस्य सत्यादिपदानां पर्यायत्वस्य पदान्तरवैयर्थ्यस्येत्येवमादीनां वाक्य. निष्ठानामेव दोपाणां वक्ष्यमाणत्वान्महावाक्यावान्तरवाक्यार्थतया पराभ्युपेतैक्यसत्यत्वादेरेव चोपा- दानात् । महावाक्यावान्तरवाक्यरेक्यसत्यत्वादिधर्मिणं सिद्धवत्कृत्य एकधैव'इत्यादिश्रुत्या चैक्यादेब्रह्मा- भेदं च सिद्धवत्कृत्य तत्र चानुपपत्तीरभिधाय तदुभयान्यथाऽनुपपत्यैव च विशेषस्य परमुखेनानेयत्वाद- एतल्लक्षणस्थ तटस्थत्वकल्पमाया: अयुक्तत्वम् ॥ जन्माधिकरणम् ॥ ११०१ न्यथाऽनुपपत्या भेदादिपक्षवदैक्यादौ उदभेदपक्ष च परेण त्यक्त तन्मुखेनैव विशेषस्यानेतुमशक्यत्वाच्चो- त्तरग्रन्थाद्यनुसारेण वाक्यपरतामैक्यादिशब्दस्याभिप्रेत्य भाष्याभिप्रायमाह अयमभिप्राय इति । प०- इतिवक्तुमिति । 'अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते' इत्यनेन वक्तुमित्यर्थः । अस्फुटत्वादाह् ॥ अयमभिप्राय इति । नास्तीतीतिशब्दम्येत्ययमभिप्राय इत्यन्वयः । श्री०- निर्भदे वस्तुनि ब्रह्मणि । वस्तुनिष्ठं वस्तुप्रतिपादकम् । सु०. तत्र तावदाद्यस्य गत्यन्तरं नास्ति । कथमिति चेत् उच्यते । तत्त्वमसीत्यादि. वाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् । परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति ऐक्याभेद इति । अनु०- ऐक्याभेदे न शास्त्रण शेयं तत्स्वप्रकाशतः । ऐक्यस्य चैतन्यस्वरूपाभेदेऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् । कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् । तन्मात्रस्वरूपत्वाच्चैक्यस्य । न हि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् । वैयर्थ्यप्रसङ्गात् ।। किश्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परेणाङ्गीकृतम् तथा च स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् ।। अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति; यथोक्तम् सिद्धं तु निवर्तकत्वा- दिति । न । ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात् । तत्त्वाप्रतिपत्तेभ्रान्तिहेतुत्वात् । ऐक्यं न प्रकाशत इति चेन्न । स्वप्रकाशचैतन्यमानत्याविरोधात् । अविद्यावशात्स्वप्रकाशस्या- प्यनवभास इति चेन्न सर्वथाऽप्यनवभासप्रसङ्गात् । तथा चाधिष्ठानानवमासेऽविद्यारोपस्याप्य- नुपपत्तेः । न ह्यखण्डे वस्तुन्यंशतोऽविद्यावरणं संभवति । असंभवनीयावभासचतुराऽविद्येति चेत् । तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या । अनुपपत्तेस्तुल्यत्वात् ।। तथा च 'सा न जडेषु वस्तुषु' इत्ययुक्तम् ।। न शास्त्रेण ज्ञेयं तदित्युपलक्षणम् । शास्त्रप्रतिपाद्यत्वेऽपि तत्पदेनैव सिद्धत्वात् । त्वमसीति व्यर्थमित्यपि द्रष्टव्यम् । तदित्येतावता न भेदभ्रमनिवृत्तिः । अत- स्त्वमसीति सार्थकमिति चेन्न । तत्पदेन(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेद- भ्रमस्य निरस्तत्वात् । अन्यथा कदाऽप्यनिवृत्तिप्रसङ्गात् ।। तत्पदेनैक्यस्याप्रतिपादितत्वे तदुप- लक्षितचैतन्यमात्रत्वानुपपत्निः ॥ ननु कथं तर्हि सोऽयं देवदत्त इति वाक्यम् । अत्रापि विशे- पानङ्गीकारेऽनुपपत्तिरेवेति ।

११०२ ॥ न्यायसुधा॥ (भ.१ पा.१ अ.२ सू.२ -- - वा० ऐक्यस्य तत्पदवाच्यचैतन्याभेदे तच्छास्त्रप्रतिपाद्यत्वाभावस्य परं प्रतीष्टत्वादुत्तरदूषणा. सङ्गतेश्चाह तत्पदेति ॥ व्यावृत्यादिरूपप्रयोजनवद्यथाकथञ्चिच्छास्त्रज्ञेयत्वभ्रान्तिनिरासाय शास्त्रपद- सममिव्याहारेण ज्ञेयपदार्थमाह प्रतिपाद्यमिति ॥ पराभ्युपेतस्वप्रकाशशब्दार्थमादाय व्याहतिरूप- दूपणान्तरप्रतिपादकत्वेन मूलस्य प्रकारान्तरेण व्याख्यास्यमानत्वात् । स्वविषयप्रकाशत्वरूपं स्वप्रकाश- शब्दप्रसिद्धार्थ मनसि निधाय तस्य शास्त्रप्रतिपाद्यत्वाभावेन हेतहेतुमद्भावं व्युत्पादयितुं साक्षात्तत्साध्य दर्शयति स्वरूपस्येति । न चावेद्यत्वं नाम फलाव्याप्यत्वं, वृत्तिव्याप्यत्वं त्वङ्गीक्रियत इति शास्त्र- प्रतिपाद्य वसंभवान्न व्याहतिरिति वाच्यम् । त्वदभ्युपेतफलाप्रामाणिकत्वस्य वक्ष्यमाणत्वेन वृत्त्यव्याप्यत्वस्यैवावेद्यत्वपदार्थतया वक्तव्यत्वात् । वृत्तिव्याप्यत्वाङ्गीकारे दृदय- त्वादेव्यभिचारापत्तेश्चेत्याशयात् ॥ ननु न सामग्री बुद्धिमती येन स्वकार्यस्यान्येन कृतवात्स्वयं न प्रवर्तत । न हि छिन्न छिदाऽन्तरवत्प्रकाशमाने प्रकाशान्तरासंभवः । अतः प्रकाश- मानस्याप्यस्तु शास्त्रप्रतिपाद्यत्वमित्यत आह न हीति ॥ तथाऽप्यनुपादेयत्वं स्यादेवेत्याह वैययति । स्वप्रकाशत्वरूपभाप्योक्तहेतुबलादेव परकीयव्याहत्यादिपरिहारप्रकारान्निराकरोति अथेत्यादिना ॥ मूले न्यूनतां परिहरति न शास्त्रणेति ॥ ननु तदेतद्देशकालविशिष्टदेवदत्तयोरेक्यस्य देवदत्तमात्रत्वाद्देवदत्त. दर्शनेनैव तत्सिद्ध्या वाक्यवैयर्थम् । एकपदेनैव वा तत्सिद्धेः पदान्तरवैयर्थ्य चेति सोऽयं देवदत्त इति वाक्येऽप्यनुपपत्तेस्तत्परिहारन्यायेन ममापि परिहारसौलभ्यान्न त्वदुक्तविशेषाङ्गीकार इत्याशङ्कते नन्विति । स० - किश्चावेद्यत्व इति ॥ न च फलाव्याप्यत्वस्यैवावेद्यत्वशब्दार्थत्वेन वृत्त्यविषयत्व- स्यावेद्यत्वशब्दार्थत्वेनानङ्गीकारात् ऐक्यस्य वृत्तिविषयत्वेनाङ्गीकृतत्वात् कथं व्याहतिरिति वाच्यम् । फलस्यैव निरूपयितुमशक्यत्वेन वृत्तिविषत्वस्यैव तत्वेनाङ्गीकर्तव्यत्वात् तदात्मकमैक्यं शास्त्रप्रतिपाद्यमिति कथं न व्याहतिरिति भावः ॥ सिद्धं त्विति ।। चैतन्यस्य स्वप्रकाशत्वेऽप्यारोपिताकारनिवर्तकत्वा- च्छास्त्रस्यार्थवत्त्वं सिद्धमिति || अनुपपत्तेस्तुल्यत्वादिति ॥ यत्प्रकाशप्राप्तिस्तस्यैक्यस्यापि प्रकाशेना. वरणीयाभावादावरणानुपपत्तिः यदि च प्रतिबन्धस्तर्हि सर्वस्यापि प्रतिबन्धेन प्रकाशप्राप्तेरेवाभावप्रसङ्गः । एवंच प्राप्तप्रकाशप्रतिबन्धरूपावरणकृत्याभावलक्षणानुपपत्तेरचेतनेऽपि तुल्यत्वादित्यर्थः । प०- तावदिति । अवान अवान्तरवाक्यस्य गतिर्नेति सत्यज्ञानादिकेप्येवमित्यत्र वक्ष्यमाणत्वा- तावच्छब्दः । ननु स्वकर्मकप्रकाशात्मकत्वरूपस्वप्रकाशत्वं न परेणाङ्गीकृतम् । येनायं दोषः स्यादि- त्यतः तद्रीत्यापि दोषोक्तिपरतया व्याचष्टे विञ्चावेद्यत्व इति ।। सिद्धं त्विति । ऐक्यस्य, स्वप्रका- शात्मस्वरूपत्वेन सदा प्रकाशमानत्वेऽपि शास्त्र योपादेयत्वं सिद्धमेव । शास्त्रस्य भेदभ्रमनिवर्तकत्वा- दित्यर्थः । शास्त्रस्य भेदभ्रमनिवर्तकत्वेनोपादेयताशङ्कां निराह नेति ॥ स्वरूपस्यापीति । ऐक्य.

एतलक्षणस्य तटस्थ त्वकल्पनायाः अयुक्तत्वम् ।) || जन्माधिकरणम ॥ ११०३ स्येति योज्यम् ॥ सर्वथाऽप्यनवभासेति । आत्मनोऽप्यनवभासप्रसङ्गादित्यर्थः ॥ अविद्याऽऽरोप- स्थापीति । तथाचाविद्यावशादैक्यानवभासोक्तिरयुक्ता स्यात् । अविद्याया एवानुपपत्तेरिति भावः । नन्वात्मस्वरूपांशेऽविद्यावरणं नारित किन्त्वैक्यांश एवेत्यत आह नहीति ।। अनुपपत्तेस्तुल्यत्वा- दिति । अधिष्ठानानवभास इत्यादिनोक्ताया इत्यर्थः । असंभावीयेत्याद्युक्तपरिहारस्यापि तुल्यत्वा. दित्यपि ज्ञेयम् || इत्ययुक्तमिति । इति यत्त्वयोक्तं तदयुक्तमित्यर्थः । तत्पदेनैक्यस्य प्रतिपादि- तत्वादिति । तत्पदयो यचैतन्यस्वरूपत्वादैक्यस्येति भावः ॥ तदुपलक्षितेति । तल्लक्षणया तत्पद- बोधितेत्यर्थः ॥ ननु कथमिति । तस्मिन् वाक्ये स इति तत्पदेनैव देवदत्तस्वरूपस्य तदभिन्नस्यैक्यस्य च बोधितत्वेन शिष्टपदवैयर्थ्यापत्तिरिति भावः ॥ अनापीति । सोयमितिवाक्यबोव्याभेदस्थले ऽप्यैक्यस्य पिण्डस्य च सविशेषाभेदानगीकार इत्यर्थः । या० अवेद्यत्वे सतीति । अत्र घटादाबतिव्याप्तिपरिहारायावेद्यत्वे सतीति विशेषणम् । अतीन्द्रियव्यावृत्तयेऽपरोक्षव्यवहारेति विशेष्यम् ॥ सिद्धं तु निवर्तकत्वादिति । शास्त्रस्य सार्थक्यं सिद्धमेव । भेदभ्रमनिवर्तकत्वादिति तद्वाक्यार्थः । स्वप्रकाशचैतन्यस्यापीति । स्वप्रकाशचैतन्यामिन्न- स्यापीत्यर्थः ।। सर्वथेति । चैतन्यस्यापीत्यर्थः । ननु जडेषु प्रकाशप्राप्तेरेवाभावेन प्राप्तप्रकाशप्रतिबन्ध. रूपावरणकृत्याभावान्न विद्या तत्रागीकार्यत्यत आह अनुपपत्तेरिति । यदि प्रकाशप्राप्तिस्तक्यस्यापि प्रकाशेन तत्प्रतिबन्धानुपपत्तिः । यदि च प्रतिबन्धः सर्वम्यापि प्रतिबन्धेन प्रकाशप्राप्त्यभाव इति प्राप्तप्रकाशप्रतिबन्धरूपावरणकृत्याभावरूपानुपपत्तश्चतनेऽपि तुल्यत्वादित्यर्थः । यद्वा । अनुपपत्तिपदेन तत्परिहारो लक्ष्यते । तथा चासंभावनीयावभासचतुराऽविद्येति परिहारस्य जडेप्वपि तुल्यत्वादित्यर्थः ।। नन्वेवं सोऽयं देवदत्त इति वाक्येऽपि तत्पदेनैव देवदत्ताभिन्नम्यैक्यस्य सिद्धत्वादयमित्यादिपदवैयर्थ्य- प्रसङ्ग इत्याशयेन शङ्कते ननु कथमिति । श्री० तचाप्रतिपत्तेरिति । वस्तुनो यत्तत्त्वं तदप्रतीतेरित्यर्थः । तथा चैक्याप्रतिपत्ती किल भेदभ्रमो वक्तव्यः । सा नास्तीत्याशयः ॥ स्वरूपस्यापीति । चैतन्यस्वरूपस्याप्यैक्यस्येत्यर्थः ॥ सर्वथाऽपीति । चैतन्यस्यापीत्यर्थः ॥ इष्टापत्तिरिति चेत्तत्राह तथा चेति ।। नन्वैक्यस्य चैतन्याभेदेऽपि चैतन्यांशेऽविद्या नाऽऽवरणं किन्नामैक्यांश एवेत्युच्यत इत्यत आह न हीति । अखण्डे निरंशे ।। अन्यथेति। ऐक्यप्रतीतावपि भेदभ्रमानिरास इत्यर्थः । तदुपलक्षितेति । तत्पदप्रतिपाद्यसार्वज्ञाद्युप- लक्षितेत्यर्थः ।

११०४ ॥ न्यायसुधा ॥ (अ.१ पा.१ अ.२ सू.२ च० अवेद्यत्वे सतीति । घटादावनतिप्रसङ्गायाद्यदलोपादानम् । अतीन्द्रिये तद्विधनना- योत्तरदलोपादानम् ॥ सिद्धं तु निवर्तकत्वादिति । भेदगोचरविपर्यासनिवर्तकत्वाच्छास्त्रस्यार्थवत्वं सिद्धमिति तत्फक्किकार्थोऽसेयः । ननु सोऽयं देवदत्त इति वाक्येपि तत्पदेनैव देवदत्ताभिन्नस्यै क्यस्य प्रतीत्या अयमित्यादिपद. वैयर्थं प्रसज्येतेत्यभिसन्धिना शङ्कते ननु कथमिति । अनु भेदे मिथ्यात्वतो भेदसत्यत्वं स्याहलादपि । सु० द्वितीयं निराकरोति भेद इति । ऐक्यस्य स्वरूपाद्भेदेऽङ्गीक्रियमाणेऽपसिद्धा- न्तस्तावत् । तत्त्वमस्यादिवाक्यस्याखाडार्थनिष्ठताया मायावादिनाऽङ्गीकृतत्वात् । यात्व- प्रसङ्गोऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात् । अन्यथाऽद्वैतेनैव सत्येना- द्वैतव्याघातात् । ऐक्य मिथ्यात्वे किनश्छिन्नमिति चेन्न । मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदि- त्यनुवर्तनात् । अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् । किश्च जीवब्रह्मणोरेक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् । कुतः बलाढ्यारिबलादित्यर्थः । ननु न कुत्रापि सत्यो भेदोऽस्माभिरभ्युपेयते सत्कथं व्याप्तिः । मैवम् । आस्तां तावत्परमार्थचिन्ता । ययोर्दूरस्थ- योर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् । अथवा यस्य स्वरूपेण सतो योऽभावो मिथ्या तस्य तद्विपरीतः सत्यो यथा ब्रह्मणोऽनृतत्वादेमिथ्यात्वे सत्यत्वादिकं सत्यमिति सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः यथाहुः 'परस्परविरोधे तु न प्रकारान्तरस्थितिः' इति । वा० भेद इत्यनुवादमात्रसूचितमपिशब्दस्य 'मिथ्यात्वं च'इत्यत्रापि संबन्धे बुद्ध्या विवेकेन वा सूचितमपसिद्धान्तमाह ऐक्यस्येति ॥ मूले कण्ठोक्तमिथ्यात्वप्रसङ्गं दूषणान्तरपरतया योजयति मिथ्यात्वेति ॥ मिथ्यात्वप्रसङ्गसाध्यं दूषणं सूचयता मिथ्यात्वप्रसङ्गस्येष्टापत्तिः परेण शङ्कितुं शक्येति सूचितम् । तां शङ्कते ऐक्येति ॥ 'मिथ्यात्वतः' इत्यस्यानुवृत्तेन संबन्धेऽतत्वावेदकत्वस्यापि मूलारूढ- तालाभादाह न मिथ्यात्वत इति ॥ मूले कण्ठतः प्रतीतं 'मिथ्यात्वतः' इत्यस्य 'भेदसत्यत्वम्' इत्यनेन संबन्धमुपपादयति किंचेति ॥ व्यावहारिकपारमार्थिकत्व विभागस्याद्याप्यसिद्धत्वादर्थक्रियाकारित्वरूपव्या- वहारिकत्वेन त्वदभ्युपेतस्येव पारमार्थिकतया म(त)दभ्युपगतमात्रस्य च व्याप्तिः सुखदर्शनीयेत्याह आस्तामिति ॥ यद्वैतदस्वरसादेवाह अथवेति । अथवा यस्य स्वरूपेणेति । ननु गजस्य प्रामाणिकत्वं प्रति यत्रकुत्र गजसत्त्वस्यैव प्रयोजकत्वेन तस्यैव तद्विरोधित्वे यत्रकुत्रचिदसत्वं स्यादित्यापादने इष्टापत्तरिति भावः । स० एतलक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ ११०५ -- - द्वितीयमिति । तत्पदलक्षिताच्चैतन्याद्भिन्नमैक्यमिति पक्षमित्यर्थः । मूलोक्तमुपलक्षणं मत्वाऽऽह अपसिद्धान्तस्तावदिति । मिथ्यात्वत इत्यनुवादलब्धमाह मिथ्यात्वप्रसङ्ग इति ।। अन्यथेति । चैतन्याद्भिन्नस्याद्वैतस्य सत्यत्वेऽद्वैतेनैव ऐक्येनैव सत्येनाद्वैतस्य सदेकमेव तत्त्वमित्यस्य व्याघातादित्यर्थः । मूलं योजयति · | मिथ्यात्वत इति । दोषान्तरविवक्षयोत्तरान्विततयाऽपि योजयति । किञ्चति । अपीत्यस्यान्क्योक्तिः सत्यत्वमपीति । न प्रकारान्तरेति । परस्परविरुद्ध- योरन्यतरस्थिति विना प्रकारान्तरेण स्थितिनत्यर्थः । तथा च विरुद्धयोरन्यतरस्य मिथ्यात्वेऽन्यतरस्प सत्यवं स्यादेवेति भावः । या० अनुवर्तनादिति । अन्यथा अपिशब्दवयीमिति भावः ।। श्री० अखण्डार्थनिष्ठनाया इति । निर्भेदार्थनिष्ठःवरूपाखण् डार्थनिष्ठताया इत्यर्थः । तथा च ब्रह्मवरूपभिन्नैक्यरूपार्थप्रतिपादकत्वाङ्गीकारे उक्तरूपाखण्डार्थत्वहानिरिति भावः । सर्वस्येति । तन्मध्ये ऐक्यम्यापि पतितावादिति भावः ।। चैतन्यातिरिक्तम्य सर्वम-यपतिनैक्यस्य मिथ्यात्वानङ्गीकारे बाधकमाह अन्यथाऽद्वैतेनैवेति । मिथ्यात्वतस्तदैक्यं शाम्ने ग न ज्ञेयमित्यस्याभिप्रायमाह अन्यथेति । ऐक्यस्य मिथ्यात्वाङ्गीकार इत्यर्थः । तत्कथं व्याप्तिरिति । यथोरैक्यं मिथ्या तयोर्भेदः सत्य इति व्याप्तिरित्यर्थः । च-विशेषणप्रतीतिमन्तरेणति । विशेषणनानासमवधानदशायां विशिष्टप्रतीत्यापत्ति. वारणाय विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषणज्ञानत्वावच्छिन्नम्य हेतुतायाः स्थितत्वादिति भावः । अत्रायमभिसन्धिः । भेदो हि न व्यसनतया मन्दप्रयोजन एवोरी क्रियते । अपि तु धर्माभिमतैक्यस्य धर्मि- तयाऽभिमतब्रह्मणश्च विशेषणविशेष्यभावाधाराधेयभावादिनिर्वाहायैव । स चाप्रतीयमानस्तत्र नेष्ट इति तत्प्रतीतिरवश्योपैयैव । सा च विशेषणतया विशेष्यतया वा भेदमवगाहमानैवेति पूर्वपूर्वभेद- प्रतीतेरवश्यमपेक्षितत्वादिति ।। अनवस्थाऽपीति । स्फुटत्वादिति भावः । -- सु० तृतीयं निराचष्टे भेदाभेदाविति । अनु० भेदाभेदी यदि जीवब्रह्मणोरक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियते । तदा वक्तल्यं तौ किं चैतन्या- दमिनावुत भिन्नौ अथ भिन्नाभिन्नाविति ।। आये चैतन्यस्यापि द्वित्वं तयोकत्वमित्याद्या. पद्येत । द्वितीययोर्दोषमाह तदेति । अनु० तदा स्यादेव ह्यनवस्थितिः ।। 6 ११०६ ॥ न्यायसुधा ॥ . (अ.१ प.१ .२ सू२ हिशब्देनानवस्थाव्युत्पादनस्य स्पष्टतामाचष्टे । तथा हि। स भेदः किं - भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिनो वा । प्रथमे मोऽपि भेदस्तथेत्य नवस्था । द्वितीये शब्दपर्यायत्वा. दयो दोपाः । तृतीयस्तु तृतीयेऽन्तर्भवति । तत्राप्युक्तविधयाऽनवस्थैवेति । ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था । उत्पत्ति- ज्ञप्तिप्रतिवन्धकत्वाभावादिति चेन्न । विशेषेणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपन्या ज्ञप्तिप्रति- बन्धकत्वात् । तदिदमुक्तं स्यादेवेति । यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथाऽपि स्फुटत्वानोक्तः । एवमेक्यस्य स्वरूपा दपक्षेऽनवस्थाऽपीति । वा--भेदाभेदयो चैतन्याभेदपक्षेऽनवस्थितेरसंभवाद्विकल्प्याभेदपक्ष लक्षणानां लक्ष्याभेदे परोक्त- न्यायेनोपर्येव दूपणमभिधाय भेदभेदाभेदपक्षपणतया मूलं योजयति जीवेति ॥ भेदस्य भेदाभेदयो. श्चाभेदपक्षेऽनवस्थाऽनुपपत्तराह तथा हीति । 'पर्यायत्वादयः' इत्यत्रादिपदेन भेदभेदिभावानुपपत्त्यादे- ग्रहणम् । तत्रापीति । तावपि भेदाभेदो भेदाभेदिभ्यामभिन्नों उत भिन्नौ अथ भिन्नाभिन्नाविति विकल्प्याभेदपक्षे तयोरेकत्वादिकमापाद्य भेदपक्षेऽपि स भेदो भेदिभ्यां भिन्नोऽभिन्नो भिन्नाभिन्नो वेति विकल्प्य भेदपक्षेऽनवस्थामापाद्याभेदपक्षे पर्यायत्वादिकमापाद्य भेदाभेदपक्षं परिशेप्य पुनस्तद्रूपणं तावपि भेदाभेदावभिन्नौ मिन्नौ भिन्नाभिन्नौ वेत्युक्तरीत्या ज्ञातव्यमित्यर्थः ।। विशेषणप्रातिमन्त- रेणेति । विशेषणविशेष्यभावादिप्रतीतेये खलु भेदोऽभ्युपगम्यते । स च प्रतीयमान एव । तद्धेतुस्त- प्रतीतिश्च विशेषणःदिभावनैवेन्युत्तरोत्तरभेदप्रतीतेरवश्यमपेक्षितत्वादिति भावः ॥ भेदाभेदाङ्गीकारे विरो- धम्यैक्यम्य स्वरूपारेदपक्षेऽनव स्थायाश्चासंभवादाप्यकारीयानुक्तिरिति भ्रान्ति निवर्तयति यद्यपीत्यादिना । विशेषणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्येति । ननु विशेषणीभूतभेदप्रतीते- रावश्यकत्वेऽपि न तस्य तद्रेदान्तरमपि ज्ञेयम् । न हि विशेपणीभूतो भेदोपि भिन्नोऽयं भेद इति प्रतीयते । येन तस्य तद्भेदान्तरस्यापि विशेषण या तत्प्रतीतेरप्यावश्यकत्वेनानवस्था किन्तु अनयोर्भेद इति । तथा च कथमनवाथेति चेन् न । विशेषगीभूतभेदस्येतरसङ्कीर्णतया ज्ञाने विशेषणत्वस्यानयोर्भेद इति सङ्कीर्णव्यवहारस्य वाऽयोगेन असङ्कीर्णतया ज्ञातव्यत्वे भिन्नत्वनैव ज्ञानस्य प्राप्तत्वात् भिन्नत्वातिरिक्ता- सङ्कीर्णताया अभावादित्यभिप्रेतत्वात्। एवं विशेषणीभूतभेदाभेदगतं भेदाभेदान्तरमप्यवश्यं ज्ञातव्यम् । न हि सङ्कीर्णतया ज्ञातस्य विशेषणत्वं नाप्यत्यन्तविविक्ततया । अभिन्नयोरपि, भेदविशेषण- त्वप्रसङ्गात् ; दण्डसंबन्धस्य न देवदत्तविशेषणवत; अतो विशेषणत्वान्यथानुपपत्यैव भेदाभेदवत्त्वज्ञान- मावश्यकमिति तत्राप्यनवस्था दुप्परिहरेति द्रष्टव्यम् । -- ..

एतल्लक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ ११०७ - प० तृतीयं तत्पदलक्षितचैतन्यादैक्यं भिन्नाभिन्नमिति पक्षम् ॥ स्वरूपादिति । चैतन्य. स्वरूपादित्यर्थः ॥ इत्याधापाद्यत इति । तच्छब्दपर्यायन्वं अन्यतरमात्रपरिशेषापत्तिश्चत्यादिपदार्थः ॥ भेदिभ्यामिति । चैतन्यरूयवस्तुना भेदाभेदाख्यवस्तुना चेत्यर्थः ।। शब्देति । चैतन्यशब्दभेद- शब्दाभेदशब्दानां पर्यायत्वं चैतन्याद्यन्यतरपरिशेषत्वभेदाभेदयोरेकत्वभेदानेकत्वरूपदोषा इत्यर्थः ।। तृतीय इति । भेदिभ्यां भेदो भिन्नाभिन्न इति पक्षः । ऐक्यं चैतन्याद्भिन्नाभिन्नमिति पक्षेऽन्तर्भवति । तथा च तद्दोषेणैव दुष्टो भवतीति भावः । तत्र वा को दोप इत्यत आह तत्रापीति ॥ विशेषणेति । चैतन्यादैक्यं भिन्नाभिन्नमिति विशिष्टप्रतीतिर्हि विशेषणत्वेन भेदाभेदभानमपेक्षते । विशेषणत्वेन भेदाभेदभानं च भेदाभेदरूपविशेषणस्य विशेष्यभूतैक्यस्य च भेदस्य वा भेदाभेदस्य वा भानाभावे- अनुपपन्नम् । तद्धानमपि विशेषणत्वेन तज्ज्ञानं विना नेत्येवमुत्तरोत्तरभेदादिभानं विना पूर्वपूर्वभेदादि- भानं न युक्तमिति ज्ञप्तिप्रतिबन्धकत्वादोष एवेत्यर्थः ॥ अनवस्थापीतीति । स्कुटत्वान्नोक्तेति योज्यम् । या० विशेषणप्रतीतिमन्तरेणेति । ननु विशेषणीभूतभेदप्रतीतेरावश्यकत्वेऽपि न तद्गतं भेदान्तरमपि ज्ञेयम् । न हि विशेषणीभूतो भेदोऽपि भिन्नोऽयं भेद इत्येव प्रतीयते । येन तद्गत. भेदान्तरस्यापि विशेषणतया तत्प्रतीतेरप्यावश्यकत्वेनानवस्या । किन्त्वनयोर्भद इत्येव । एवं विशेषणी- भूतयोर्भेदाभेदयोमा॑नस्यावश्यकत्वेऽपि न तद्गतभेदाभेदान्तरमप्यवश्यं ज्ञेयम् । विशेप्यतयाऽपि तयो. निसंभवात् । तथाच कथमनवस्थेति चेन्न । विशेषणतया वा विशेष्यतया वा वस्तुप्रतीतेस्तद्गतभेद- प्रतीयभावेऽसंभवात् । अन्यथा दण्डपुरुषयोः कदाचिदभेदभ्रमो न स्यात् । (तस्मा)स्याच्च कदाचिद- भिन्नयोरपि विशेषणविशेभ्यभावभ्रमः । तथा च भेदस्य विशेषणतया वा विशेष्यतया वा प्रतीतिस्तद्गत. भेदप्रतीतिसापेक्षैवेति सुस्था ज्ञप्तिप्रतिबन्धकानवस्थेति । एवं भेदाभेदयोरपि नाप्रतीतभेदाभेदयोर्विशेषण- तया विशेष्यतया वा भानमिति तत्राप्यनवस्था ज्ञप्तिप्रतिबन्धिका । विशेषणविशेष्ययोर्भेदस्य तावज्ज्ञान- मुक्तरीत्या आवश्यक्रमपरभेदस्य च परेण तदुभयसंसर्गस्थानाभिषिक्तत्वेनाभ्युपगमात् । तस्य च ज्ञातस्यैव विशिष्टधीनियामकत्वं नाज्ञातस्येति वैशेषिकपरीक्षायां वक्ष्यमाणत्वादिति ॥ अनवस्थाऽपीति । स्फुटत्वान्नोक्तेत्यर्थः । श्री०-शब्देति । चैतन्यशब्द-भेदशब्द भेदाभेदशब्दानां पर्यायत्व चैतन्याद्यन्यतरपरिशेपत्व. भेदभेदाभेदयोरेकस्वरूपदोषा इत्यर्थः ॥ तृतीये इति । भेदिभ्यां भेदो भिन्नाभिन्न इति पक्षः । ऐक्यं चैतन्याद्भिन्नाभिन्नमिति पक्षेऽन्तर्भवति । तथा च तदोषेणैव दोषो भविष्यतीति भावः । तत्रैवैक्ये को दोष उक्त इत्यत आह तत्रापीति ॥ 6ख ܟܘ ܀ ; न्यायसुवा ॥ (अ.१ पा.१ अ.२ सू.२ सु०--नन्वैक्य चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनों निर्वक्ष्यति(हिष्यति)। यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम् । तयोश्च भेदाभेदान्तरा- भावेऽपि स्वविर्वाहकत्वाद्यवहारोपपत्तिरिति चेन्न । विशेषानभ्युपगमे स्वनिर्वाहभत्वस्यापि वक्तुम- शक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति । अनु० --- स्वनिर्वाहकता चेत्स्यात् ऐक्यस्य भेदाभेदयोवा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् । तदा पृच्छामः स्वस निर्वा- हकं हि स्वनिर्वाहकं तस्य भावः स्वनिर्वाहकता। स्वस्येति च कर्मणि पष्टी । ककर्मणोः कृतीति वचनात् । तथा चैकस्यैवैकस्यामेव निर्वाह क्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाह- कत्यमित्युक्तंभवति । तनिधित्व निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु- (तान्यं)त मि(नामि)क.मिति । आये दोपमाह वाह्यमिति । अनु०- वाह्य वाहकमित्यपि ॥ पर्यायो भेदवान्वा स्यादनवस्थोभयत्र च ॥ - निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहणमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् । न च तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते । द्वितीयमनूय दूषयति भेदवानिति । वाशब्दो यद्यर्थे । यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा च भेटवान् स्यात्तदा त - दद्वयस्थ भेदिस्वरूपमात्रत्वे पर्यायत्यादिदोषप्रसङ्गा दान्तरवदित्यङ्गीकरणीयम् । तथा च परस्परं भेदं धर्मिभेदं वाऽऽश्रित्योभयत्रानवस्था स्यादिति । ननु स्वनिर्वाहकत्वपक्षदूषणमयुक्तम् उक्तदूषणापरिहारेण परेण तस्यावक्तव्यत्वा- सिद्धान्ते विशेषस्य स्वनिर्वाहकताऽङ्गीकारात् । स्वव्याहतं च तद्रूषणमित्यत 'ऐक्याभेदे न शास्त्रेण'. इत्युक्तदूषणस्य भेदाभेदपक्षेऽनवस्थायाश्च परिहारेण परेणापि तस्य वक्तव्यत्वमेव विशेषांनभ्युपगम एव तदनुपपत्तिप्रतिपादनान्न स्वव्याहतिरपीत्याशयेनोत्तरवाक्यमवतारयति नन्विति । उक्तपक्षयोर्मूला- रूढतायै योग्यधर्म्यध्याहार ऐक्यस्य भेदाभेदयोर्वेति ॥ ननु निर्वाहकत्वस्य शब्दाल्लाभेऽपि निर्वाह्यस्य कथं वा० प०. -- लाभ इत्यतः समासावयवकर्मषष्ठयेत्याशयेनाह स्वस्येति । अपिपदवललब्धोक्तिः ॥ धर्मिणेत्यादि। भेदवान्वेति पूर्वकल्पे दूषणान्तरपरस्वत्रंतीते: कल्पान्तरदूषणपरत्वं मूलारूढं करोति वाशब्द इति । निर्वाह्यत्वादीत्यादिपदेन निर्वाहकत्वनिर्वाह क्रिययोग्रहणम् । तद्भदद्वयमित्युभय।त्यनुसारात्त्रयाणां धर्माणां भेदस्य - परम्परभेदत्वेन क्रोडीकारेण धर्मिभेदस्य पृथक्कारणेति द्रष्टव्यम् । - भेद यस्य भेदिस्वरूपत्वे मूलोक्तानवस्थाऽसंभवेन पूर्ववाक्यात्पर्याय इत्यनुवर्त्य तत्पक्षे दूषणं योजयित्वा भेदबानित्यावर्त्य भेदान्त- स्वत्त्वपरतया तव्याख्याय तत्रानवस्था द्रष्टव्येत्याशयेनोभयत्रेत्येतद्विषयं दर्शयन्नेव वाक्यं योजयति भेदीत्यादिना । निर्वहिष्यतीति । निर्वक्ष्यतीति वाच्ये इडागमो लेखकदोपमूलो वा निर्वचनार्थभ्रम- निरासाय कृतो वेति ध्येयम् ।। व्यवहारोपपत्तिरिति । भिन्नाभिन्नमैक्यं चैतन्यादित्यादिविशिष्टः व्यवहारोपपत्तिरित्यर्थः ।। कतकर्मणोः कृतीतिवचनादिति । निर्वाहकशब्दस्य ण्वुल्प्रत्ययान्तत्वात्तस्य च 'कृदतिङि'त्यनेन कृत्संजवात्तद्योगे कर्तरि कर्मणिं च पष्ठी भवतीति पाणिमिवचनादित्यर्थः । कतकर्मणोः कृतीति । कृयोगें कर्तरि कर्मणि च षष्ठी म्यादिति सूत्रार्थः । व्या सस्य कृतिः भारतम्य श्रवणमित्युदाहरणम् । अत्र चं निहिशदम्य वुलन्तत्वात् ण्वुलश्च तृतीयधात्वः धिकारे विहितस्य कृत्वादिति भावः । कर्तृकर्मणोः कृतीतिवचनादिति। कृद्योगें कतरे कर्मणि पष्ठी स्यादिति सूत्रार्थः । उदाज-हुश्च 'शोभना खलु पाणिनेः सूत्रस्यं कृतिः'इति। तृतीयलगे धात्वधिकारेविहितस्य ण्वुल: कृदतिहितिकृत्त्वात्त दृशकृत्सममिव्याहाराधीना मुंपों धात्विति लुप्ता समासरूपप्रातिपदिकावयवभूतो स्वादो तग पष्ठी निकलाप्रत्यासत्या निर्वहणक्रियाऽन्धितकर्मत्वार्थिकेत्याधयतया प्रकृत्यर्थविशेपित यकर्म ननिरूपकनिर्वहणकियाकरीत्यर्थः पर्थवस्यतीतिभावः । था च०- रे.... एवं विशेषानभ्युपगमे महावाक्याथनुपपत्तिमभिधायावान्तरवाक्येऽपि तामसि- दिशति सन्येति । अनु सत्यज्ञानादिकेऽप्येवं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिकेवान्तरवाकोऽप्येवं विन्ध्य दूषणमभिधानीय- मित्यर्थः ॥ तथा हि । सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभि वा भिन्न वा भिन्नाभिन्न वा । नाद्यः। तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्राप्रतिपाद्यत्वप्रसङ्गात् । सत्यज्ञानादिपदानां पर्यायत्यापत्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च । न द्वितीयः । अपसिद्धा- G ॥ न्यायसुधा ॥ (भ.१ पा.१ ७.२ सू.२. वाल न्तात् । मिथ्यात्वापस्या शास्त्रस्सातत्त्वावेदकत्वप्रप्रसङ्गाच्च । अज्ञानत्वादेः सत्यत्वापत्तेश्च । न तृतीयः । अनवस्थाप्रसङ्गात् । खनिवहिकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति ।। तत्तन्मूलसूचितान्यतिदिष्टविकल्पदूषणानि प्रतिपादयति तथा हीति । १०- महावाक्येति । तत्त्वमसातिवाक्येत्यर्थः । प्रागुक्तविकल्पान् तदोषांश्च व्यनक्ति तथाहि सत्यज्ञानादिकमित्यादिना । श्री०--- अज्ञानत्यादरिति । ज्ञानत्यादेब्रह्मभिन्नत्वेन मिथ्यात्वाङ्गीकारात्परस्परविरुद्धयोरन्यत- रनिषेधस्यान्यतरविधिनान्तरीयकन्वेन ज्ञानत्वादेब्रह्मणि सत्यत्वं स्यादित्यर्थः ।। वा० सु०-- ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव । न च तावता सत्य. ज्ञानादिपदानां पयायत्वम् । वाच्यार्थभेदसद्भावात् । परापरमामान्यवाचिनां सगुणब्रह्म- वाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्यङ्गीकारात् । न च वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यम्, अधिकलक्षणायां च नावण्डार्थतासिद्धिरिति । लक्ष्यार्थभेदा- भावेऽप्यारोपितासत्यत्वादिव्यावृत्त्यर्थत्वेन पदान्तराणी सप्रयोजनत्वात् । अत एव न शास्त्र- वैयर्थम् ॥ स्वप्रकाशेऽप्यारोपिताकारल्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्त्वादिति चेन्न । किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते । किंवा स्वतन्त्र एव व्यावृत्तिबोधः । परापरेति । कुम्भाद्यनुगतसत्ता परा जातिः । अन्न:करणवृत्युपधानलब्धभेदचिदा- नन्दविशेषानुगते ज्ञानानन्दत्वे चापरजाती । एवं च सत्यज्ञानानन्दादिशब्दानां लक्ष्यार्थाभेदेऽपि क्रमेणोक्तजातिवाचित्वान्न पर्यायत्वमिति कल्प-रावुक्तत्वादिति भावः । परापरसामान्यबाचिनामिति । सत्यपदं व्यापकीभूतसत्तासामान्यवाचि ज्ञानानन्दपदे तद्व्याप्यज्ञानत्वा दिवाचिनी । इदं च जातावेव शक्तिरिति भाट्टमताश्रित्योक्तमिति द्रष्टव्यम् । प० --- परापरसामान्येति । सत्ताशब्दितसत्यत्वरूपव्यापकजातिज्ञ नत्वादिरूपव्याप्यजाति. वाचिनां सत्यज्ञानादिशब्दानामित्यर्थः । न च वाच्यमित्यस्य सिद्धिरित्यनेनान्वयः। अत एवेत्युक्तं व्यनक्ति स्वप्रकाशेऽपीति । 'सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्म'इत्यादिशास्त्रस्य हि ब्रह्म असत्यं न अज्ञानं न, परिच्छिन्नं नेत्याद्यर्थकत्वेनारोपितासत्यत्वाद्याकारव्यावृत्यर्थत्वेन प्रयोजनववादित्यर्थः । या०--परापरसामान्यवाचिन मिति । सत्यपदं व्यापकीभूतसत्तासामान्यवाचि ज्ञानानन्दपदे तव्याप्यज्ञानत्वादिवाचिनी। इदं च जातादेव शक्तिरिति भाट्टमतमाश्रित्योक्तमिति द्रष्टव्यम् ॥ तार्कि- कादिमतेनाह सगुणं ब्रह्मेति । स० e- -- एतदक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ ११११ श्री०- अधिकेति । सत्यपदेन लक्षितादधिकस्य विशेषस्य ज्ञानपदेन लक्षणायामित्यर्थः ॥ ॥ अखण्डार्थतेति । निर्विशेषार्थनिष्ठत्वरूपातिखण्डार्थतेत्यर्थः । च०..-परापरसामान्यबाचिनामिति । जातावेव पढ़ानां शक्तिमुपगच्छतां भाट्टानां मते सत्यप. दस्य व्यापकघटादिसाधारण पत्ताजातिवाचित्वाज्ज्ञानानन्दादिपदानां व्याप्यभूतज्ञानत्वानन्दत्वादिजातिवा- चित्वान्न तत्पदानां पर्यायत्वमिति व्यवहारे भट्टनय इति परिभाषामुपेयुषा कल्पतरुकृताऽभिहितत्वादिति भावः । सु० --- आधे दोपमाह न व्यावृत्त्येति । अनु० न व्यावृत्त्या प्रयोजनम् ॥ व्यावृत्तस्याविशेपत्वे इत् भूतलक्षणे तृतीया । ब्रह्मविशेषणत्वेनासत्यत्वादिच्यावृत्तिलक्षणं प्रयोजनं सत्यादि- पदा तथा रक्तुं न शक्यते ।। कुत इत्यत आह व्यावृत्तम्येति । व्यावृत्ततया प्रतीतस्य ब्रह्मणोऽविशेष सतीत्यर्थः । अभावविशेपाङ्गीकारे च भावविशेषैः किमपराद्धम् । हिती दूषयनि न व्यावृत्त्येति । व्यावृत्तव्यावृत्तस्य ब्रह्मणोऽविशेषत्वे सा स्वतन्त्र ब्यावृत्तिन प्रयोजनम् । अजिज्ञास्तित्वात् । मुमुक्षुणा ब्रह्मा वा तद्धनों वा जिज्ञासितव्यः । तत्र यावृत्ति ब्रह्म तय भावरूपत्वादकत्याभिरूपादिकत्याच । ब्रह्मधर्मोपि न चेत्कथं सुक्षुषा जिहार बैत । अजिज्ञासित्वोधनं च कथं प्रयोजनं स्यादिति । अन क्रियाऽनुपादानाट्यावृत्ते स्वयं प्रयोजनत्वेन प्रयोजनान्तराहेतुतया कर्तृकरणहेतुपु तृतीयानुपपत्तेराह इत्थंभूनेति कश्चित्प्रकार प्राप्त इत्थंभूतस्तस्य लक्षणं चिन्हं तत्र तृतीयेत्यर्थः । तया च प्रयोज-विस्वरूपप्रकार प्राप्तसत्यादिपदानां व्यावृत्तिरूपप्रयोजनमेव चिह्नम् । अनेनैव तेषां प्रयोज नवत्वादिति भावः । व्यावृत्तनिरासावरे व्यावृत्तस्येति सिद्धवदनुवादानुपपत्तेराह व्यावृत्त. तयेति । तया च वागः साखण्डत्वापत्त्याऽपसिद्धान्त इति भावः । न चात्र व्यावृत्तिवैशिष्टयस्यार्थिक. तया शब्दार्थाय न सखण्डत्वं यश्चार्थादर्थो न स चोदनार्थ इति न्यायान् ‘मानान्तरादपोहस्तु न शब्दम्तेन स स्मृनः' इति पुरेश्वरी कचेति वाच्यम् । आर्थिकेनापि विशेपेण ब्रह्म गोऽखण्डत्यहानेरपरिहारात्तस्या एवं चापादनात् । अनन्तादेनान्सवय, वृत्तेः साक्षादुक्तेश्च । शब्दस्य व्यावृत्तिवैशिष्टयेऽतात्पर्य आथि- कव्या वृतरप्यरिद्धेध। स्वरूपमात्रस्य सिद्धतया तत्रातात्पर्यात् । व्यावृत्तिविशिष्टेऽप्यतात्पर्य तात्पर्य . विषयशून्यतयाऽप्रामाण्यापातेनागतिकतया सत्यादिपदानामपि व्यावृत्तिवैशिष्ट्ये तात्पर्याभ्युपगमे शब्दस्यापि वा० - - - 54 १११२ ॥ न्यायसुधा । (अ.१ पा.१ अ.३ सू.३ सवण्डार्थतापत्तेश्च । उपलक्षिते तात्पर्याभ्युपगमेऽपि काकवद्गृहमित्यादिवत्सखण्डार्थताऽपरिहाराञ्चति ।। अभावेति । परमसिद्धान्तपरित्यागेऽपि नेह नानेति श्रुतिविरोधस्य दुरित्वात्तत्परिहारोपायस्य च भावविशेपेष्वपि साम्यादिति भावः । ननु व्य वृतविशेषत्वेऽपि ब्रह्मरूपत्वात्प्रयोजनत्वजिज्ञासितत्वा. भावोक्तिानुपपन्नेत्यतो व्यावृत्त्येत्यावतिरस्य पञ्चम्यर्थत्वेन षष्ठ्यर्थत्वेन च विपरिणतस्य व्यावृत्तस्येत्यनेना- विशेषत्व इत्यनेन चान्वये भावक्तान्तस्य व्यावृत्तस्यैवावृत्त्या कर्मक्तान्तेन तेनैवान्वये वा व्यावृत्तावृत्त. स्येति व्यावृत्तेब्रह्मविशेषत्वाभाव इति वाऽर्थस्य लामे ब्रह्मरूपव्यावृत्तिपक्षस्य व्यावृर ब्रह्मविशेषत्वपक्षस्य च दूषणमपि सिध्यतीत्याशयेताह व्यावृत्तेरिति । व्यावृत्यतिरिक्त येत्यर्थः । ब्रह्मणोऽविशेषत्व इत्येत- छनार्थकथनं स्वतन्त्रेति । योग्यं हेतुमध्याहरति अजिज्ञासितत्वादिति । अत एव तथैव विकल्पयति मुमुक्षुणेति ! व्यावृत्तेर्यावृत्तयेत्यनेन सूचितहेतू नाह तस्येति । व्यावृत्तरन्याहशत्वादिति भावः स०-- इत्यंभूतलक्षणे तृतीयेति । ननु कञ्चनप्रकारं प्राप्त इत्थंभूतस्तलक्षणे तज्ज्ञपके तृतीया स्यादिति ह्यभ्यार्थः । यथा छात्रेणोपाध्यायमद्राक्षीदिति । अत्र सत्यादिपदप्रयोजनरूपं प्रकार प्राप्त प्रयोजनं व्यावृत्तिरेव सा कथं तज्ज्ञापिका अभेदादित्याशङ्कापरिहारायोक्तं व्या वृत्तिलक्षणं प्रयोजन- मिति । तथाचाभेदेऽपि सामान्यविशेषरूपयोस्तयोरवच्छेदकभेदेन शिंशुपा वृक्ष इत्यत्रेव ज्ञाप्यज्ञापकामावो युक्त: विशेषस्य सामान्यज्ञापकत्वादिति ध्येयम् । केचित्तु असत्यादिव्यावृत्तिबोधकत्वरूपप्रकारान्तरं प्राप्तानां सत्यादिपदानां व्या वृत्तिश्चिह्नमिति तत्र तृतीयेत्याहुः व्यावृतेया॑वृत्तस्येति । व्यावृत्ते- रविशेषत्व इत्यन्त्रयः अविशेषत्व इत्यर्थः । ५०--इत्थंभूतलक्षण इति । कश्चिप्रकार प्राप्त इत्थंभूतस्तस्य लक्षणे ज्ञापके तृतीया भवति। छात्रे. णोपायायमद्राक्षीदित्यत्रोगव्यायत्यप्रकार प्राप्तम्य छात्रशन्दिनः शिष्यो ज्ञापक इति तत्र तृतीयोक्ता पाणि- निना । तयेहापि व्यावृत्त्या व्यावृत्तिरूपचिह्ननेत्यर्थ वादेवमुक्तम् । यद्वा इत्थंभूतस्य यलक्षणं तत्र तृतीयेत्यर्थ. वत् इत्थंभूतं यल्लक्षणं तत्र तृतीयेत्यप्यर्थमुपेत्यैवमुक्तम् । विशेषगत्वरूपप्रकारान्तरं प्राप्ते व्यावृत्तिरूपे लक्षणे तृतीयेत्यर्थोऽत्र ध्येयः । विशेषणीभूना व्यावृत्तिः प्रयोजन नेत्यत्र फलितोऽर्थः । उक्तं च तृतीयेऽध्याये ऋमाप्यटीकायां सप्तदशे वर्गे 'अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम्'इत्येतद्भाप्यस्य 'व्याप्तया गिरा जरायै संस्तुतित्वेन तृतीया भावरूपिणी' इत्यस्य व्याख्यावसरे 'जरायै' इत्यत्र जरयेति व्यत्ययमुपेत्य तृतीयाया इत्यंभूतलक्षणत्वमभ्युपेत्य जरया संस्तुत्यः संस्तुतित्वेन स्तुतित्वरूपेणोपेतया' इति । तदेव व्यनक्ति ब्रह्मेति । नन्त्र त्यादिव्यावृत्तीनां अभावरूपत्वात्तासां ब्रह्मविशेषणत्वेऽपि न निर्विशेषत्वा- ङ्गीकारभङ्गः । भावविशेषाङ्गीकाराभावादित्यत आह अभावेति । व्य वृत्तरितिपदद्वयम याहृत्य मूलं योजयति व्यावृत्तेरविशेषत्वे सतीति । विशेषणाभा ले सतीत्यर्थः । किं प्रति इत्यतो व्यावृत्तस्ये- ॥ - ।

एतल्लक्षणस्य तटस्थत्वकल्पनायाः भयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १११३ --- त्यनूद्य ब्रह्मण इति विशेष्यमुक्तम् । 'न व्यावृत्त्या प्रयोजनम्' इत्यस्यार्थः सा स्वतन्त्रेत्यादि । निरुपाधिकत्वाचेति । अन्यानिरूपितत्वादित्यर्थः । व्यावृत्तयम्त्वभावरूपत्वादनेकरूपत्वात्सोपाधिकत्वा- ञ्चत्युक्तत्रितयविपरीता इति भावः । ननु कर्तृकर्मगोस्तृतीयेति कर्तृकर्मणोस्तृतीया विहिता । न चात्र व्यावृत्तेः कर्तृत्व करणत्वं वा सम्भवति । अतः कथं तृतीयेत्यत आह इत्यम्भूतलक्षण इति ॥ ननु कञ्चन प्रकारं प्राप्त इत्थम्भू. तम्तल्लक्षणे तज्ज.पंक तृतीया स्यादिति ह्यस्यार्थः । यथा छात्रेणोपाध्यायमद्राक्षीदिति । अत्र सत्यादि- पदप्रयोजनस्वरूपं प्रकार प्राप्त प्रयोजा व्यावृत्तिरेव सा कथं तज्ज्ञ पिकाऽभेदादित्यत उक्तम् व्यावृत्ति- लक्ष प्रयोजनमिति । तथा चाभेदेऽपि सामान्य विशेषतयाऽबच्छेदक भेदेन शिंशुपारूपो वृक्ष इत्यत्र ज्ञाप्यारकमायो युक्तो विशेषस्य सामान्यज्ञापकत्वादिति ध्येयम् । यद्वा । प्रयोजनस्वरूपं प्रकार प्राप्तानां सत्यादिपदानां व्यावृत्तिज्ञापि केति । तत्र तृतीयेत्यर्थः । देऽपि सामान्यविशेषभावेन ज्ञाप्यज्ञापकभ योऽत्रापि विवक्षित इति । किमपरामिति । अत्र कश्चित्तु "अभाववैशिष्टयस्याऽऽर्थि- कल्येन न शानार्थस्य सखण्डत्वम् । 'यश्चार्था दर्थो न स चोदनार्थः' इति न्यायात् । 'मानान्तरादपोहस्तु न शाब्दस्तेन संस्मृतः' इति सुरेश्वरोक्तेश्च'इत्याह तनुच्छ । । आर्थिकेनापि विशेषेण ब्रह्मणोऽवण्डत्वहांनेः । अन्तशडे तान्नबध वृत्तः साक्षादुक्तेश्च । सत्यादिपदानां सत्यवादिरूपव्यावर्तकधर्मवैशिष्ट्या तात्पर्य थिकव्य बृक्षप्त सद्धर्वक्ष्यमाण वाच्चेति ॥ व्यावृत्तेच्या वृत्तस्येति । अत्र व्यावृत्तेरविशेषत्व इत्य. भवः । अविशेषण व इत्यर्थः । नियाधिक चेत्यान्तरं व्यावृते स्वभावरूपत्वादनेकत्वात्सोपाधिकत्वा. चेति पूरणीयम् ॥ च-चत्रेण चक्षुषा दृश्यते घट इत्यादाविव क्रियावाचकपदसमभिव्याहाराभावेन कर्तृ. त्वकरणत्वार्थकत्वायोगे। कथं व्यावृत्तिपदोत्तरा तृतीयेत्यततस्तां घटयति । इत्थंभूतलक्षण इति ॥ अथ जटाभितापस इत्यादी जटापदोत्तरतृतीयोपस्थापितज्ञाप्यत्वस्य निरूपितत्वप्रत्यासत्या प्रकृत्यर्थ- विशेषि स्याश्रयतासंगण तापपदार्थतावच्छेदके तापमत्वे अन्वयितावच्छे इकरूपेणानुपस्थिते सम- भिवाह पदार्थान्तरान्वयायोगेन एकदेशान्वयानुपगमेन वा संपन्नो ग्रीहि रेत्यादी स्वाश्रयप्रकृत्यर्थतावच्छे- दक व्यपारम्पर्थग बीहावेव व्रीहि पदोत्तरैकवचनार्थकत्वान्वयात्तापस एव वा तादृशपारम्पर्यणान्वयोपगमेन कञ्चन प्रकार प्राप्तस्य ज्ञापके द्योत्ये तृतीयेति सूत्रोदाहरण-वम्य सुसङ्गत्वेपि प्रकृते प्रयोजनत्वरूपप्रकारे प्रमाया व्यावृते पकत्वाभावेन एतत्सूत्रोदाहरणत्वं दुःसङ्गममिति चेन्न । अत्र व्याचक्षाणा: प्रकार प्राप्त इत्थंभूतस्तस्य लक्षणं चिन्हं तत्र तृतीयेर्थः । तथाच प्रयोजनवत्वरूपं प्रकार प्राप्तानां सत्यादिपदानां व्यावृत्तिरूपप्रयोजनमेव चिह्नमननैव तेषां प्रयोजनवत्वादिति भावः ।" इति व्याचक्षते । 'कञ्चन १.११४ । न्यायसुधा ॥ (अ.१ पा.१ अ.२ सू.२ 'अत्र सत्यादिफ्दप्रयोजनत्वरूप प्राप्ता व्यावृत्तिरेव तज्ज्ञापिकापि सैव । अभेदेऽपि सामान्यविशेषरूपतया ऽवच्छेदकभेदेनायं वृक्षः शिशुपा इत्यत्रेव ज्ञाप्यज्ञापकभावो युक्तः" इत्यपि व्याकुर्वते । किमपराद्ध मिति । अत्रार्थिकं व्यावृत्तिवैशिष्ट्यं न शब्दार्थयात्राडार्थतामझाय प्रभवतीतिशङ्का आर्थिकविशे- पेणाप्यखण्डत्वभङ्गेनानन्तपदेनान्तवयावृत्तेः साक्षादे वाभिधानेन सत्यत्वा दिव्यावर्तकधर्मवैशिष्ट्यमन्तरेण तन्नियन्त्रितव्यावृत्त्यसिद्धेश्वाभिधास्यमानतया च निर्दलच । किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानमिदधत्यसत्त्वादिव्यावृत्ति- प्रयोजनानि । उतान्यथा वा । नायः अनङ्गीकारादित्याह न व्यावृत्त्येति । व्यावृत्तस ब्रह्मणोऽविशेषत्वेऽङ्गीकृते सति, विशेषगाभिधानमुग्वेन व्यावृत्तिः पदानी प्रयोजनमिति बक्तुं न शक्यत इत्यर्थः । द्वितीयं दृश्यति न व्यावृत्त्येति । व्यावृत्तस ब्रह्मणो विशेषन्वे सत्यत्वादि- धर्माप्रतिपादन इति यावत् । असत्यत्यादिव्यावृत्तिः पदानी प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्यमनभिदधतो नदीपदस्यानदीवव्यावृत्तिः प्रयोजन भवति । विशेष्या- कारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् ।। यदुक्तं शास्त्रं चारोपिताकारच्यावृत्या स्वप्रकाशेऽपि प्रयोजनादिति । तदप्यनेनैव निरस्तम् ॥ निर्विशेषे स्वयंप्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति बोत्तम् । न च सत्यत्वादेरतात्पर्यविषयस्यापि प्रागभिधाकाले प्रतीतिमात्रेण लक्ष्यस्य तव्यावृत्ति. सिद्धिरिति वाच्यम् । नद्यां घोष इत्यत्र तीरस्यानदीतोऽपि व्यावृत्तिसिद्धयापत्तरित्याशयेनाह न हि तीर इति । व्यावृत्तेब्रह्मविशेषणत्वस्वातन्त्र्या सत्यादिपदैः सत्यत्वादिसमर्पणमुखान्यथात्वाभ्यां च व्यावृत्ति. बोधप्रकारस्य निरासे क्याभेद, इत्यु कदूषणपरिहारः परकृतोऽप्ययुक्त इति सिद्धमित्याह यदुत्तमिति । उक्तदूपणं चात्र स्मारयति निर्विशेष इति । ५०-- अभिदधीति शत्रन्तम् । अभिदधानानीत्यर्थः । तदप्यनेनेति । व्यावृत्तिविशेषण वा स्वतन्त्रा बेत्य दिविकल्पपूर्वकदूषणेनेत्ययः । क्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः' इत्यत्र महा. वाक्यार्थखण्डनप्रस्तावोक्तदोषान्तरं च स्मारयति निर्विशेष इति । श्री० अभिदधति सन्तीति शेषः । न हि तीरे नई समिति । नदीपदलक्ष्याथै तीरे नदीत्वर्षिणाभावेनैव नदीपदस्य तीरेऽनदीव्यावृत्तिबोधक नास्ति एवं सत्यादिपवलक्ष्यार्थ बह्मण्यपि सत्य- खाद्यर्पणाभावेनासत्यादिव्यावृत्तिबोधकत्वं नेत्यर्थः । अत एव न शास्त्रवैयर्थमित्यादिनोक्तं दूषयति यदुक्त मिति ।। अनेनेति । 'न व्यावृत्त्या प्रयोजनम्' इत्यनेनेत्यर्थः ॥ दूषणान्तरमाह निर्वि.प इति । वा० १ गतल्लक्षणस्य तटस्थत्वकल्पनाया: भयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १११५ सु० ---- एवं विशेषानङ्गीकारे वाक्यद्वयसानुपपत्तिमभिधायोपसंहरति तदिति । अनु० तदरखण्डं च खण्डितम् ॥ तत्तस्मादखण्डं निविशेष वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः । वाक्यद्वयस्येति । महावाक्यावान्तस्वाक्यरूपवाक्यद्वय येत्यर्थः । श्री० वाक्यद्वयस्थ महावाक्यावान्तररूपवाक्यद्वयस्य । -- सु०-स्वक्रियाविरुद्धं च निविशेषत्ववचनमित्याह निर्विशेषत्वमिति । यथा मूकोऽह- अनु० निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ।। मित्येतत्त्वक्रियाविरुद्धम् । वक्तृत्वाभावो ह्यनेनोच्यते वचनक्रियया च वक्तृत्वमिति । तथा निर्विशेष ब्रह्मेति स्वक्रियाविरुद्धं भवेत् । कथम् । एतेन निविशेषत्वेन विशेषणापतितेन हेतुना । विशेषाभावो हि निविशेष ब्रह्मेति वाक्येन प्रतिपादयितमिष्टः । प्रतिपादनक्रियया च विशेषा- भावलक्षणो विशेषः प्रामोतीति । अयमपि विशेषो निविशेषमित्यनेन निराक्रियत इति कुतस्त- त्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । तर्खेतद्वचनकर्तृत्वमपि मूकोऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः । प्रतीतिविरोध इति चेत् । समसमाधिः । परबोधनोपायाभावाद्विशेषाभाव उपादीयते न तु ब्रह्मविशेषतयेति चेत् । अत्रापि पर- बोधनोपायाभायादेवेदं वचनम् । वस्तुतर त्यसौ मूक एवेत्यस्तु । निविशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम् । न निविशेषत्वविशेषविधौ । अतः कथं विरोध इति चेत् । तहिं मूकोऽह- मित्यस्यापि वक्तृत्वनिरासे तात्पर्यम् । नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः । स्ववचनविरोधः । किन्तु स्वक्रियाविरोध इति चेत् । प्रकृतेऽपि किमन्योऽभिहित इत्यास्तां प्रपञ्चः। तदिदमुक्तं मूकोहमितिबदिति । ननु सर्वविशेषान्निराकुर्वता निर्विशेषमित्यनेन विशेषाभावरूपविशेषम्यापि निगसान्न प्रतिपादनक्रियाप्राप्तः कश्चिद्विशेषोऽम्ज्यतः कथं स्वक्रियाविरोध इति शङ्कते अयमपीति ।। निर्विशेप- मिति सर्वविशेषनिरासान्न प्रतिपादन क्रियाप्राप्तः कश्चिद्विशेषोऽस्तीति बद प्रष्टव्यः सर्वविशेषाणामनेन निरासान्न विशेषाभावप्रतिपादनक्रिया नापि तत्प्राप्तो विशेष इति मन्यसे आहोस्वित्सत्यामपि तत्प्रतिपा- दनक्रियायां तस्या विशेषाप्रापकत्वमिति । द्वितीयेऽपि तस्या अन्यथासिद्धत्वात्तदप्रापकत्वमुत निर्विशेष- मिति बाक्यस्य निर्विशेषत्वरूपविशेषविधौ तात्पर्याभावाद्वा । अत्राये पक्षे स्वयमेव प्रतीतिविरोधे वक्तुं शक्येऽपि मूले मूकोऽहमित्युक्तिपामयन प्रतिवन्दीग्रहणस्य प्रस्तुतत्वात्तन्मुखेनैव प्रतीतिविरोधे वक्तुं नत्र -- बा० । न्यायसुधा (अ.१ पा. १ अ..सू२ १२ - मूकोऽहमित्यत्राप्येतत्साम्यमुपपादयति तहीति । सर्ववचनयक्तृत्वाभावं वदता मूकोऽहमित्यनेनैतद्वचन वक्तृत्वस्यापि निरासेनैतद्वचनक्रियायास्तत्प्राप्तवक्तृत्वस्याप्यभावेन तत्रापि स्वक्रियाविरोधो न स्यादि- त्याशयः । मूकोऽहमित्यनेन तन्निराकरणमात्रेण न प्रतीतिसिद्धवचनक्रियातत्प्रयुक्तवक्तृत्वयोरपलापो युक्तः । अतोऽत्र स्वक्रियाविरोधः स्यादेवेति चेत्तर्हि निर्विशेषमिति निराकरणमात्रेण न प्रतीतिसिद्धप्रतिपादन क्रिया- तत्प्राप्तविशेषापलापो युक्त ऽतोऽत्रापि स्वक्रियाविरोध इत्याह प्रतीतीति । विशेषाभावप्रतिपादनोपाया- न्तराभावात्तदुपायत्वेन प्रकृततयाऽन्यथासिद्धायाः प्रतिपादनक्रियाया न विशेषप्रापकत्वमिति द्वितीये आय शङ्कते परेति । तर्हि वक्तृत्वाभावबोधनोपायान्तराभावेन तदुपायत्वेन प्रवृत्ततयाऽन्यथासिद्धर्वचनक्रियाया अपि न वक्तृत्वप्रापकन्वमिति तत्रापि स्वक्रियाविरोधो न स्यादित्याह अत्रापीति । निर्विशेषामित्यस्य विशेष. यिधावतात्पर्यात्तन्निरास एव च तापयर्यान्न तत्प्रतिपादनक्रियाया विशेषप्रापकस्वमिति द्वितीये द्वितीयं शङ्कते निर्विशपमि यस्येति । साम्येन समाधत्ते तहीति । ननु निर्विशेषमिति वावयवलादेव विशेपाभावस्य नपविशेषम्य च प्रात रेकप्रकरणप्राप्तयोरुभयोरेक तात्पर्य नान्यत्रेति स्ववचनविरोधपरिहारे कर्तुं शक्येऽपि मूकोऽहमित्यनेन वक्तृत्वाभावमात्रप्राप्तेर्वचनक्रियया च वक्तृत्वप्राप्तेन वाक्यतात्पर्यभावाभावाभ्यां स्वक्रियाविरोधपरिहारो युक्त इति न साम्यमित्याशयेन शङ्कते न तत्रेति । अत्रापि वाक्याद्विशेपा भावस्यैव प्राहि: प्रतिपादनक्रिययैव च विशेषस्यैत्युक्ततया साम्यसेवेत्याह प्रकृतेऽपीति । वैलक्षण्यप्र- काराप्रतिपादनेऽप्यत्र स्त्रवचनविरोध एव, मूकोऽहमित्यत्र तु स्वक्रियाविरोध एवेत्याग्रहमात्रस्योपेक्षणीय- तैव युक्तेत्याशयेनाह आस्तामिति । अथ चैवं वैलक्षण्याभासव्युत्पादने प्रकारान्तरेण परेण कृतें तन्निरासकसाम्यप्रकार: शिप्यैरेवोह्य तामित्याशयेनाह आस्तामिति । ५०-- यथा मूकोऽहमित्येतत्स्वक्रियाविरुद्ध तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धमित्यन्वयः । दृष्टान्तस्य स्वक्रियाविरोधमुपपादयति वक्तृत्वाभाव इत्यादिना । अनेन मूकोऽहमिति वाक्येन ।। एतद्वाक्योच्चारणक्रियया वित्यर्थः । शङ्कोत्तराभ्यां स्वक्रियाविरोधमेव व्यक्ति अयमपीति । निर्विशेषमित्यत्र स्ववचनविरोध एवोक्त. इति मत्वा शकते निर्विशेषमित्यस्येति ॥ गूढाभिसन्धिरुत्तरमाह तर्हि मूकोऽहमित्यस्यापीति, ॥ अभिसन्धिमुद्घाटयति प्रकृतेऽपीति । - या० MA- सु०- यदर्थमयं प्रयत्नस्तदाह अभिन्नपीति । अत उक्त प्रकारेण महावाक्यावान्तर- अनु० अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः । बक्ययोरन्यथाऽनुषपत्तिबलाझेदरहितेऽपि ब्रह्मव्ययमनुपपपत्तिशान्तिहेतुर्विशेषो नाम शक्ति- एतदक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ।) ॥ जन्माधिकरणम् ॥ १११७ विशेषोऽङ्गीकरणीयः प्राप्नोति । इदमुक्तं भवति । महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्य- प्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव । एकधैवानुद्रष्टव्यमित्याघेकरस(त्व)- प्रतिपादकश्रुतेः । न चोक्तदोषः । यतो भेदहीनेऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेपो येन प्रकाशमानमपि न प्रकाशन इत्यादि युज्यते । स च विशेषोऽनयैवार्थीपत्त्याऽवगम्यत इत्येव त्वया वक्तव्यमिति । पा० अत इत्यस्य व्याख्या. उक्तप्रकारेणेत्यादि । ननु वस्तुसिद्धेः प्रमाणा- यत्तवात्कथं बलाद्विशेषसिद्धयुक्तिरित्यतो महावाक्यावान्तरवाक्यान्य न्यथाऽनुपपत्तिरूपप्रमाणस्यैव बल शब्देन विवक्षितवान्नानुपपत्तिः इत्याह महावाक्येति । ननु विशेषेऽप्रस्तुतत्वादयमिति निर्देशानुप. पत्तिरित्यतस्तस्यानुपपत्तिशान्तिहेतुत्वं मूलारूढं कर्तुं विवक्षितार्थमाह अयमिति । ऐक्यादेब्रह्माभेदपक्षे उक्तानुपपत्त्या भेदादिपक्षवदभेदपक्षम्यापि त्याज्यत्वस्यैवापातेन विशेपासिद्धया यथास्थितानुपपत्तेरभिन्न- ऽपीत्यनुवादेनाभेदपक्षपरिग्रहस्य सिद्धवदनुवादेनकधैवेत्यादितत्प्रमाणस्य सूचनात्तत्र प्राप्तानुपपत्तिपरिहार. कनया विशेषस्योपन्यासाद्विशेषप्रमाणत्वेन क्याद्यभेदप्रमाण सदनुपपत्तिप्रमाणरूपोभयान्यथाऽनुपपत्ते शेवा- भिमतत्यान्नानुपपत्तिरिति भाप्याशयमाह इदमुक्तं भवतीति । त्वया वक्तव्यमित्यनेन नेदं ब्रह्माभिन्ने जीवैक्यादौ विशेषत्रलादनुपपत्तिपरिहारप्रतिपादनं वस्तुवृत्ताभिप्रायेण येन भाप्यकारस्यापसिद्धान्तः स्यात् । किन्तु प्रतिबन्दी घटयितुं परं प्रति वक्तव्यशिक्षणमिति सूचयति । अयं प्रयत्न इति । लक्ष्यलक्ष गयोर्भद इत्यादिना महावाक्यार्थावान्तरवाक्यार्थखण्डन- प्रयत्न इत्यर्थः ।। शक्तिविशेषो वस्तुसामर्थ्य विशेषः । उक्तदोषोऽभेदपक्षोक्तदोपः । श्री० --अनयैवार्थापत्येति । प्रकाशमानस्याप्यप्रकाशनान्यथाऽनुपपत्त्येत्यर्थः ।। प० -- सु०-नन्वङ्गीकृतेऽपि विशेषे नानुपपत्ति शान्तिः । सोऽपि हि विशेषो यदि वस्तुन भिमस्तर्हि भेदानवस्थादि दोपः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति । विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषवलाच विशेषतद्वद्भावोऽप्युप- अनु० विशेपतद्वतोश्चैव स्वनिर्वाहकता भवेत् ।। पादनीय इति शेषः । तथापि विशेषपरम्परयाऽजवस्था स्यादित्यत आह स्वनिर्वाहकतेति । स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति । एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्रलादेव सियतीत्यङ्गीकरणीयमिति ।

॥ न्यायसुधा ॥ (अ.१ पा.१ अ.२ सूत्र वा० --ननु विशेषस्याङ्गीकारितत्वादुत्तरवाक्यं व्यर्थमित्यतम्तघ्यावां शङ्कां दर्शयति नन्विति । ननु तर्हि विकल्पितपक्षान्यतराङ्गीकारेण तद्पणपरिहारेण समाधानं कर्तव्यं स्वनिर्वाहकोक्तिरयुक्ता । स्वनिर्वाहकत्वोक्तेरनवस्थापरिहारकत्वेनानवस्थायाश्च भदपक्ष प्रसक्त्या लदङ्गीकारोन्नयने चापसिद्धा. न्तापातादित्यतो विशेषतद्वतोरिति वाक्यं पृथक्कृत्य तत्र पक्षविशेषाङ्गीकारं तदुपपादनप्रकार चाध्याहृत्य विशेषपरम्पराप्राप्तानवस्थापरिहारकतयोत्तरवाक्यं योजनीयमित्याशयेनाह विशपेत्यादिना ॥ तावताऽपि 'वार्य वाहकमित्यपि पर्यायः' इति दूषणं न प्रसज्यत इत्याह एकस्यैवेति । स० स एव विशेष इति । यथा घटप्रकाशनायानीतः दीपः स्वप्रकाशमपि स्वशक्त्यैव साधयेत् तथा भेनव्यवहारायाङ्गीकृतः विशेषोऽपि स्वीयव्यवहारनिर्वाहाय न विशेषान्तामपेक्षते । अत एव दीपस्य प्रकाशत्वमित्र स्वनिर्वाहकत्वं चास्यैव युक्तियुक्तम् न घटादेरित्यर्थः । न च सर्व भेदकार्यका. रिल्वे भेदम्यैव विशेष इति नामान्तरमिति शङ्कयं एकसत्वेष्यपरनाशाग्य भेदामाधारणकार्यस्या विशेषेऽ- नङ्गोकारेग सिंहासनारोहायगजासाधारणकार्यातिरिक्त कलकार्यकर्तरि मन्त्रिणि राजप्रतिनिधित्ववत भेदप्रतिनिधित्वस्यैव न्यायप्राप्तत्वात् ।। - . मु० -- नन्वमिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात(नः) सिद्धमित्यत आह भेदहीने विति । तुशब्द ऽवधारणे । अपर्यायशब्दान्तरनियामक इत्यशेपभेदकार्थनिर्वा- अनु० भेदहीने त्वपर्यायशब्दान्तनियामकः ॥ विशेषो नाम कथितः हकत्वोपलक्षणम् । एतदुक्तं भवति । जीयब्रीक्यादीन,मेकधैवेत्यादिश्रुत्या चैतन्यम्यरूपमात्रत्वं प्रतीयते । चैतन्ये स्वप्रका तया सिद्धेऽप्यसिद्धिरपर्याय शब्दवेद्यत्वम् , चैतन्यप्रकाशस्य नाविद्यानिवर्तकन्यमद्वैतज्ञानस्य तभिवर्तकत्वमित्यर्थक्रियाविशेषः । चैतन्यमेकं सत्यत्वादीन्यने- कानीति सङ्ख्याबैलक्षण्यमि यादिभेदक.याणि चावगम्यन्ते । एतदुभयान्यथाऽनुपपत्त्या भेद- रहितेऽपि चैतन्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीति कर प्यते । गत्यन्तरा- भावात् । तथा चापच्या स्वरूपग्राहिण्या मेदकार्यनिर्वाहक एव( च)।सौ सिद्ध इति किं नत्र प्रमाणान्तरान्वेषणेनेति । अनेनैव विशेषस्य लक्षणं चोक भवति । भेदहानेऽप्यनुपचारितभेद- व्यवहारनिमित्तं विशेष इति । अपर्यायशब्दान्तरमात्रनियामकत्वे कार्यान्तरानुपपत्तिसाम्याद्विशेषाभ्युपगमः मित्यत आह ।। अपयायेति । नन्वेतावता विशेषस्य भेदकार्यनिर्वाहकल्वे किं प्रमाणमुक्तं भवतीत्यती विशेषस्व- वा० एतलक्षणस्य तटस्थत्वकल्पनायाः अयुनत्वम् ।) ।। जन्माधिकरणम् ॥ स० । रूपग्राहकार्थापत्या भेदकार्यनिर्वाहकतयेव तत्सिद्धन तत्र पृथक प्रमाणं गवेषणीयमिति मूलाभिप्राय वक्तुमभिन्नेऽपीयुक्तार्थापत्तिस्वरूपं विवेचयति इदमुक्तं भवतीति । स्वस्वकार्याकारिणि भृत्यपुत्रादौ नायं मृत्यो नायं पुत्र इत्यादिव्यवहारम्य विशेषानिमित्तकत्वादनुपचरितेति व्यवहार विशेषणम् । अनुपचारितेति । पदार्थम्य स्वरूपमित्यादिव्यवहारहेतुव्यावृत्यर्थमनुपचरितेति व्यवहार- विशेषणम् । न चापर्यायशब्दान्तरनियामकत्वेन तत्रापि विशेपोऽनुसर्तव्य इति वाच्यं अनन्यथासिद्धा- पर्यायशब्दान्तरनियामकत्वस्य विशेषकार्ययाऽभिप्रेतत्वेन न घटत्वव्यावृत्तिलक्षणप्रवृत्तिनिमित्तभेदेन प्रकृते अन्यथासिद्धेः । न चास्योपचरितत्त्रे मानाभावः घट एव स्वरूपमिति मुख्यव्यवहारसत्वात् । न चानन्दं ब्रह्मण इत्य यापि विज्ञानमानन्दं ब्रह्मेति व्यवहारनिरुद्धत्वादुपचरितमिति वाच्यं अभेदम्य माना. राप्राप्त वेन भेदबोधन एव विज्ञानमितिश्रुतेश्चरितार्थत्वेन संबन्धव्यवहारबाधन एव तात्पर्यादिति द्रष्टव्यम् । पुरुष एव पुरुषोचितकार्यकारित्वाभावेनौपचारिके नायं पुरुष इति व्यवहारे अतिव्याप्ति- परिहारायानुपचरित पदम् । अनयैवेति । ऐक्यस्य एकधेत्यादिश्रुतिभेदकार्यक्रपोभयान्यथानुपपत्तिरूपार्थापत्येत्यर्थः । .. व्यक्ता चपाऽपि भेदहीनेप्यनुपचरितभेदव्यवहार निमित्तमिति । घटपटनिष्ठभेदेऽतिव्याप्तिनिरासाय मंदहीनेऽपीन्युक्तिः । राहोः शिर इत्याधुपच र नव्यवहारहेती अतिव्याप्तिनिरासायानुपचरितेति । घटा दिव्यवहारहेतुघटत्वादावनतिव्याप्तये भेदव्यबहारेन्युक्तिः । अनुषचरितेति । अशक्त पुरुषे पुरुपकार्यकारित्वाभावेनोपचरिते नायं पुरुप इत्यादिभेद व्यवहारे यन्निमित्तं पुरुषकार्यकारित्वाभावरूपं तत्रातिव्याप्तिवारणायानुचरितेत्युक्तमिति दृष्टव्यम् । सु० -- एबमद्वैनवादिना विशेषमङ्गीकारयित्वाऽज्यानप्यङ्गीकारयति सोऽस्तीति । अनु०.. सोऽस्ति वस्तुप्चशेषतः ॥ न केवलं ब्रह्मणि मायावादिना विशेपोऽङ्गीकरणीयः । किं नाम प्रपञ्चसत्यतावादिमिरप्यशेष- द्रव्येषु स विशेपोऽङ्गीकर्तव्यः)र्यः । तथा हि पटस्तच्छौक्यं च तावन्न भियते । अङ्गुली- द्वयवद्भेदेनानुपलभ्भात् । अयुतसिद्धत्वादिति चेत् । किमयुतसिद्धत्वं नाम । अवश्यमाश्रया- श्रयिभावेनावस्थानमिति चेत् । किमेतावता भेदेन न प्रत्येतव्यम् । नापि कुण्डमिव पटोऽधि- करणत्वेन बदराणीव शौक्ल्यमाधेयत्वेन परिस्फुरति । किं नाम तदेव तदिति । न चैषा प्रतीतिभ्रान्तिः । वाधकाभावात् । शौक्ल्यपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि वाधिका भवेत् । अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासंभवात् । न च भेदावगाहिनी प्रत्यक्ष- या १ प्रतीतिरस्तीत्युक्तम् । तेन प्रत्यक्षत एव सिद्धः पटशौक्ल्ययोरभेदः । दृश्यन्ते च भेदकार्याणि, पटशौक्ल्यबुद्ध्योरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं, जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छक्लानानयनं, शुक्लमानयत्युक्ते नियमन पटस्थानानय नम्, अपटः पट इतिवदशुक्ल: पट इत्यनयोविरोधाभावः, अन्धभ्यापि पटोऽयमिनि बच्छुकोऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्रानिप्रत्तिवत्पटाप्रतिपत्पभावः, महारजनसंपर्कण शुक्लत्ववत्पटस्था(प्या)वृतत्वाभावः, पटवद्वा शौक्ल्यस्यायनावृतत्वाभावः; इन्येवमानि। न चैपा प्रतीतिान्तिः । बाधितत्वाभिमानस्य प्यभावात् । व्यवहाराद्यविसंवादाच नदेनयोर भेदभेदकार्य- प्रतीत्योरन्यथाऽनुपपल्या निर्भदेऽपि पटेऽस्ति कश्चिदतिशयो भंदप्रतिनिधिद्वशादिदं सर्व सम- असं स्यादिन्येव कल्पनीयम् । स चातिशयोऽमिनेऽपि विशेषकत्याद्विशेष इनि गीयते । पर- मन्यत्रापि द्रव्ये विशेष प्रतिपत्तव्यः । ननु भेदाभेदाङ्गीकारणानुपपत्तेः शमनात् किं विशेषणति चन्न । परम्परविरुद्ध- योर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेपस्याप्यङ्गीकरणीयत्वात् । प्रतीतत्वात्को विरोध इति चेत् । सत्यम् । प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुम्वभावातिशयस्यानुसरणीयत्वात् । भेदाभेदानवस्थापरिहारार्थमपि विशेषाङ्गीकारस्यावश्यकत्वस्योक्तत्वादिति । वा० ---सत्यत्ववादिनं प्रति ब्रह्मण्येव विशेषो व्युत्पादनीय इति न निर्बन्धः किन्तु सर्वत्रापीत्या- शयेनाशेषत इति व्युत्पादयितुं प्रपञ्चसत्यत्ववादिभिरिति विशेषणम् ।। अवश्यमिति । नियमेनेत्यर्थः । सम्बन्धविनाशस्य सम्बन्धिविभागस्य च कालान्तरेऽप्यभावेनेति यावत् । पटतच्छकिययोः कुण्डबदरपोश्च भेदे संबन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशस्य सम्बन्धविभागादेर्वा प्रत्यक्षप्रतीत्यप्रयोजक. तयाऽऽश्रयायिभावेनावस्थानतौल्यात्तद्वदेव भेदेनोपलम्भः स्यादेव । न हि यावदयाबद्रव्यभाविश्याम- तास्थले श्यामतादशायां प्रतीतिवैलक्षण्यानुभवः कस्यचिदित्याशयेनाह किमेतावतेनि || आश्रयाश्रयि- भावेन प्रतीतिमभ्युपेत्येदमुक्तं वस्तुतस्तु न तथा प्रतीतिरपि त्वभेदेनवेत्याह नापीति ।। अनुमाना- दीनामिति । अन्यथा कालात्ययापदिष्टोच्छेद एव ग्यादिति भावः । असजानबाधस्थलवदुपपत्ति निरस्यति व्यवहारादीति ॥ एवमिति । तन्तुरटादिवुद्धीनां भिन्नघटादिवुद्धिती वैलक्षण्यं तावदनुभू- यते । तच्च न तावत्सम्बन्धविषयत्वेन । कुण्डबंदरादिबुद्धितोऽपि वलक्षण्यानुभवात् । नापि संयोगान्य- संबन्धविषयत्वेन । घटतज्ज्ञानतदभावादिबुद्धितोऽपि वैलक्षण्यानुभवात् । नापि स्वरूपप्रत्यासत्ति- संयोगान्यसम्बन्धविषयत्वेन । घटतद्धर्मिकान्योन्याभावादिबुद्धेधटपटादिबुद्धितो थैलक्षण्याभावापातात् । नाप्ययुतसिद्धिविषयत्वेन । आश्रयायिभावनियमो ह्ययुतसिद्धिः । तत्र च तदानीन्तनाश्रयायिभावः एतल्लक्षणस्य तटस्थत्वकल्पनायाः अयुक्तम् ।) ॥ जन्माधिकरणम् ॥ ११२१ . .. कुण्डबदरादिबुद्धावपि भाति । नियमस्तु न तन्तुपटादिबुद्धावपि । न हि प्रत्यक्षा तन्तुपटादिधीस्तन्तुप. टसम्बन्धनाशो वा तन्तुपटविभागो वा न भविष्यतीत्याकारा । नापि कुण्डबदरादिधीस्तयोः सम्बन्धनाशो वा कुण्डबदरादिविभागो वा भविष्यतीत्याकारा । नापि समवायविषयत्वेन । उक्तरीत्या सम्बन्धनित्यत्वस्य सम्बन्ध्ययुतसिद्धत्वस्य वा तत्रास्फुरणात् । तस्मादभेदविषयत्वेनैव वैलक्षण्यं वाच्यम् । अत एव ह्यातान. वितानात्मकास्तन्तव एव पट इत्यादिरेव प्रत्ययो न त्वाश्रयाश्रयिभावेन कस्यचित् । दृश्यन्ते च भेदकार्याणि तन्तुपटबुद्धयोरन्यूनातिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वम्, अपर्यायशब्दस्मारकत्वं; शीतनिवारणा- द्यर्थक्रियाभेदः, सामानाधिकरण्यव्यवहार इत्येवमादीनि । न चैतयो धोऽस्ति येन भ्रान्तित्वं शङ्केत । तदे- तयोरभेदभेदकार्यप्रतीत्योरन्यभाऽनुपपत्त्या तत्रापि विशेषः प्रतिपत्तव्य इत्यर्थः । भाष्यकारोकान्यथाs नुपपत्तिं समर्थयितुमन्यथोपपत्ति शकते नन्विति । यद्वा मीमांसकेनापि विशेषमङ्गीकारयितुं तन्मतेनान्यथोपपत्ति शङ्कते नन्विति ।। उक्तयुक्तिं स्मारयति भेदाभेदेति । स० अंगुलीद्वयवदिति । न चैकपात्रनिक्षिप्तक्षीरनीरादौ अंगुलीद्वयवद्भेदेनानुपलम्भात् भेदो न स्यादिति वाच्यं तत्रापि हंसादीनां भेदेनोपलम्भस्य विद्यमानत्वादितिभावः । न च भूतले घटाभाव इत्यत्र दोषतादवस्थ्यमिति वाच्यं, ततोऽपि वैलक्षण्यस्य शुक्लः पट इत्यत्रानुभूयमानत्वात् ।। पटमानयेत्युक्त इति । इदं चैकमेवरूपं अनुगतमिति प्राभाकरमतानुसारेणोक्तमिति ध्येयम् ।। अशुक्लः पट इति । अशोकल्यं पट इत्यर्थः इति प्रतिभाति । प० - अङ्गीकारयित्वेति । अङ्गीकारशब्दात् 'तत्करोति तदाचष्टे' इति णिचि कृते ण्यंतात्क्त्वाप्रत्यये रूपम् । अङ्गीकार्य, इति शङ्कानवकाशः । अस्तीत्यस्य तात्पर्यमाह अङ्गीकर्तव्य इति ।। अर्थापत्तेरन्यथोपपत्तिमाशलय निराह ननु भेदाभेदाङ्गीकारेणेति ।। एकत्रेति । यस्य येन भेदाभेदौ सत्र वस्तुनीत्यर्थः । उक्तत्वादितीति । 'भेदाभेदी यदि तदा स्यादेव हनवस्थितिः' इत्यादाविति भावः । या० अस्ति इत्यस्य तात्पर्यमङ्गीकर्तव्य इति । अन्यथाऽन्यानप्यङ्गीकारयतीत्युक्तस्यालाभ इति द्रष्टव्यम् ।। अयुतसिद्धत्वादिति । तथा चोक्तानुमानेऽन्यथासिद्धिरिति भावः ॥ अवश्यमिति । कुटु- म्बदारादिव्यावृत्यर्थमिदम् । नियमेनेत्यर्थः । अत्राविनश्यतोरिति विशेषणीयम् । तेन विनश्यदवस्थ. योराश्रयायिभावेनावस्थानाभावादव्याप्तिरितिनिरस्तम् । यथाहुः 'तावेवायुतसिद्धौ द्वौ विज्ञातव्यो ययोर्द्वयोः अविनश्यदेकमपराश्रितमेवावतिष्ठत' इति । ननु कथमेतत् । अविनश्यतोरि त्यस्य हि विनश्य- ताशून्ययोरित्यर्थो वर्णनीयः । अन्यथोक्ताज्याप्त्यपरिहारात् । तथा च नित्यायुतसिद्धयोरप्रसिद्धेः । न च ययोर्द्वयोः सत्त्वदशायामिति विवक्षितम् । भूतलधटाभावयोरप्ययुतसिद्धताप्रसङ्गात् । न च 72 ११२२ il यायसुधा ॥ .१ पा.१ अ.३ सू. ३ । भावयोरित्यपि विवक्षितम् कालघटत्वयोरपि तत्त्वप्रसङ्गादिति चेन्न । उभयस्थित्य- वच्छिन्नकालावच्छेदेन नियताधारताप्रयोजकीभूतसम्बन्धातिरिक्तसम्बन्धाश्रयत्वमेवायुतसिद्धरः मि यत्र तात्पर्यात् । एतेन प्रलयकाले व्यक्त्यभावेऽपि जातेः सत्वात्कथं तयोराश्रयायिभावेनावस्थानमिति निरस्तम् । उभयस्थित्यवच्छिन्नकालावच्छेदेन तत्रापि तत्सत्त्वात् । इदमयुतसिद्धत्वं भेदोपलभ्भानुकूल. मेव न प्रतिकूलमतो नोक्तान्यथासिद्धिरित्याशयेनाह किमेतावतेति ॥ येनान्यथासिद्धिरुक्ता तदयुतसिद्ध- त्वमसिद्धं चेत्याह नापि कुण्डमिवेति ।। ननु विरुद्धधर्माधिकरणत्वरूपमनुमानं तदन्यथाऽनुपपत्तिरूपा. पित्तिा वैशेषिकसमयरूप आगमो वा तयोर्मेंदे मानमित्यत आह अनुमानादीनामिति ॥ अन्यूना- तिरिक्तेति । पटं विना शौक्लयबुद्धेबलाकाऽऽदौ शौक्यं विना पटबुद्धे रक्तपटादौ सत्वादिति भावः ।। जलाहरणार्थक्रियेति। अतद्गुगसंविज्ञानबहुव्रीहिणा शीतनिवारणाद्यर्थक्रिया ग्राह्येति वा घटशौ. क्वघयोरित्यादिपाठमपेक्ष्य वेदमिति ज्ञातव्यम् । घटमानयेत्युक्त इत्यादि । नन्वत्र ययोः पटशुक्लरू. फयक्तिविशेषयोरभेदः प्रत्यक्षसिद्धः । न तयोरेतानि भेदकार्याणि किन्तु पटशौक्लयसामा- न्ययोः तयोश्च नाभेदः प्रत्यक्षसिद्धः । न हि पटमात्रं शुक्लमात्राभिन्नमिति कस्यचित्प्रतीतिरम्ति । तथा च कथमेतत्सङ्गतमिति. चेत् । उच्यते । सत्यं, पटशौक्लयसामान्याश्रितानीमानि भेदकार्याणीति । तथापि नासङ्गतिः। व्यक्तिविशेषाभेदविषयकेणापि पटशौक्लयसामान्यन्यक्त्योरपि अभेदावगाहनस्य विशेषव्यक्तिरूपातिरिक्तस्य सामान्यव्यक्तिस्वरूपस्यैवाभावात्पटत्वशुक्लत्वयोरपि धर्मत्वेन पटशौक्लयरूपधर्म्यभिन्नत्वात् । उक्तं हि भगवत्पादैः। 'व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः' इति । एतयाख्यावसरे सुधायामप्येवमेवोक्तम् । 'व्यावृत्तस्वरूपामिन्नस्य प्रतिनियतसामान्या. कारस्याभ्युपगमेन विशेषसामान्यरूपं सर्वमपीप्यत' इति । तथा च शुकः पट इति सामान्याका. रेणाभदावगाहिनी प्रत्यक्षप्रतीतिः सामान्ययोरप्यभेदमवगाहत इति तदाश्रितभेदकार्यपदर्शनं नासङ्गतम् । यदत्रोक्तम् पटमात्रं शुक्लमात्राभिन्नमि ते न प्रतीयत इति तत्तथैव । उक्तरीत्या सामान्ययोरभेदे तत्र भेदकार्यनिर्वाहकविशेषानङ्गीकारेऽस्यापि भेदकार्यस्यानुपपत्तेः । नन्वस्तु सिद्धान्त इत्थं समाधानम्, प्रकृते तार्किकादीप्रति कथमिदं सङ्गतमिति चेन्। तान्प्रत्यपि पटशौक्यव्यक्त्योर्मेदानुपलम्भेनादावभे प्रसाध्य तदाश्रितयोः पटत्वशुक्लत्वसामान्ययोरपि तेनैव हेतुना स्वाश्रयाभेदे सिद्धे तेन परस्परमपि तरुत्ववृक्षत्वयोरिवाभेदमापाद्य तदाश्रितभेदकार्यान्यथाऽनुपपत्त्युद्भावनात् । यद्वा । पटशक्तविशेष- योरत्यन्ताभेदे पटशुक्लसामान्ययोरपि अत्यन्ताभेदः प्राप्नोति । घटघटयोरिव विशेष्यसामान्य- योरत्यन्ताभेदस्याप्रतीत्या विशेषानङ्गीकारे विरुद्धयोर्मेदाभेदयोश्च समाधातुमशक्यत्वस्य वक्ष्यमाणत्वेन प्राप्तः । .

च विशेषानतिरिक्तसामान्यस्यैव वक्तव्यत्वादिति भावः ॥ ननु तहतिशय एव कल्पनीयो न विशेष इत्यत आह स चातिशय इति । श्री० अन्यूनेति । समानविषयत्वाभावः । पटबुद्धौं प्रतीयमानः शौक्लयबुद्धौ न प्रतीयते । तत्र प्रतीयमानः पटबुद्धौ न प्रतीयत इति भावः । - ते -- सु०- ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भियते, प्राप्त तर्हि सकल- वस्तूनामैक्यमित्यत आह विशेषा इति । अनु० विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।। स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥ प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति । न पुनरेक एव सर्वत्रातो नोक्तदोषः। सोऽस्तीत्येकवचनं तु समुदाया- पेक्षया प्रयुक्तमिति भावः । नन्वेकैकस्मिंश्च द्रव्ये विशेषोऽप्येकैकोऽस्ति तदा पटो महाश्छुक्ल- श्वलतीति विचित्रानेकव्यवहारानुपपत्तिः । न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्ति- दृष्टा | तथा सत्याकस्मिकत्वप्रसङ्गात् । ततश्चं विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इंति । तेऽप्युक्तलक्षणा विशेषा अशेषतोऽपि वस्तुषु प्रत्येकमनन्ताः सन्त्यतो नोक्तदोषावकाशः अनन्ता इत्युपलक्षणम् । यत्र यावन्तो व्यवहारास्तन तावन्तो विशेषा इति ज्ञातव्यम् । प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् । भेदाविनाभूतत्वादनेकत्वस्य । तथा च भिन्नानां द्रव्याभेदे. द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परम्परेति । परस्परविशेषवत्त्वे- नैवानेकत्वं संभवति । विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः । विशेषाणामपि विशेषान्तराङ्गीकारेऽनवस्थेत्यत आहे स्वनिर्वाहकतेति । पूर्व द्रव्येण विशेषस्याभेदचिन्ताः इदानीं तु परस्परमिति स्फुटोऽर्थभेदः । सर्व चैतद्विशेषस्वरूपसाध- कार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् । न हि स्वयमनुपपन्नमनुपपत्यन्तरशान्त्यै प्रभवति । किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्यार्थापत्यैव कल्प्यते । यद्यपि विशेषः प्रत्यक्षो. ऽपि भवति । येन प्रत्यक्षसिद्धेन' इति वक्ष्यमाणत्वात् । तथाऽपि विप्रतिपन्नो न तन्मात्रेण वोधयितु शक्यत इत्यर्थापत्तिरुपन्यस्तेति । . ख ११२४ । न्यायसुधा (अ.१ पा.१ १.२ सू.२ वा०- सोऽस्तीत्येकवचनाद्रान्तः शङ्कते नन्विति ।। न चैव सोऽस्तीत्यनेन विरोध इत्यतः शङ्कामूलं विघटयति सोऽस्तीतीति ॥ एकस्मिन्नप्यनेकविशेषप्रतिपादनपरतया विशेषास्तेऽपीत्ये देव योजयितुं तव्यावर्त्यशङ्कां दर्शयति नन्विति ।। नन्वीश्वरस्यानन्तधर्मवत्त्वात्तत्र तावद्विशेषसत्त्वेऽपि नाशेषव- स्तुष्वनन्तविशेषा इत्यत आह अनन्ता इत्युपलक्षणमिति । सङ्ग्राहकमुपलक्ष्यतावच्छेदकमाह यत्रेति ।। 'विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत्' इत्यनेनापाततः प्राप्तां पौनरुक्त्यशङ्को परिहरति पूर्वमिति ।। ननु प्रतिज्ञामात्रेण भाष्यकारेणोक्तं 'विशेषास्तेऽपि'इत्यादि प्रमाणानुक्ती कथं सिव्यतीत्यत आह सर्वे चैतदिति । 'प्रथमप्राप्तप्रत्यक्षपारेत्यागेनार्थापत्त्युक्त्या प्राप्ता भाष्यकारस्याचातुरी परिहरति यद्यपीति । स.--- ननु 'विशेषतद्वतोश्चैव' इत्यनेनैव स्वनिर्वाहकत्वस्य प्रतिपादितत्वेन पुनः स्वनिर्वाहकता. युक्ता' इत्यनेनापि स्वनिर्वाहकत्वस्यैव प्रतिपादनात् .. पौवनरुक्त्यमित्यत आह पूर्व द्रव्येणेति । तथापि पूर्व विशेषस्य द्रव्येणाभेदमङ्गीकृत्य तत्र विशेषविशेषिभावनिर्वाहकस्वनिर्वाहक-यमुपपादितम् इदानीं परस्पराभेदमङ्गीकृत्य तत्र भेदकार्यनिर्वाहार्थ स्वनिर्वाहकत्वमुपपादितमिति न दोष इति भावः ।। प०--सोऽस्तीत्युक्या एक एव विशेषः सर्ववस्तुष्वनुगत इतिभ्रान्तः शङ्कते ननुसर्ववस्तु. विति ॥ ऐक्यमिति । घटाद्यमिन्नविशेषाभिन्नत्वात्सर्ववस्तूनां यो यदभिन्नधर्माभिन्नः स तदभिन्न इति व्याप्तेरिति भावः ॥ असंभावनानिरासायाह अनन्ता इत्युपलक्षणमिति ॥ अपौनरुक्त्यायाह पूर्वमिति । 'विशेषतद्वतोश्च' इत्यादावित्यर्थः ॥ 'सर्व चैतत्' इत्याद्युक्तं व्यक्ति नहीति ॥ येनेति । येन प्रत्यक्षसिद्धेन 'व्यवहारोऽखिलो भवेत् । भावाभावविभागेन यं विना न कथञ्चन । एतादृशे विशेषेऽस्मिन्को द्वेषो वादिनां भवेत् ।।' इति वैशेषिकनये वक्ष्यमाणत्वादित्यर्थः । सोऽस्तीत्येकवचनेन प्रान्तः शङ्कते ननु सर्वेति ॥ ननु पूर्वमेकस्यैव विशेषस्योक्त- त्वाचे विशेषा इति बहूनां परामर्शः कथमित्याशक्कायां न बहुत्वस्य परामर्शः । किन्तु विशेषस्वरूपस्यैवे. त्याह ते प्रकृतस्वरूपा इति ।। यत्र यावन्त इति । इदं च भगवदितरचेतनज्ञेयविशेषानपेक्ष्यैवो. क्तम् । अतो घटादावपि स्वभिन्नानां सूक्ष्मरजसां कालक्षणानामीश्वरगुणानां चानन्तानां सत्वात् । तत्प्रति. योगिकत्वरूपानन्तविशेषविशिष्टभेद त्मकत्वेनानन्तविशेषप्राप्त्येदमनुपपन्नमिति चोद्यानवकाश इति ध्येयम् । यद्वा । तत्तत्प्रतियोगिकत्वानामनात वेऽपि तेषां भेदधर्मत्वेन प्रतिद्रव्यं च भेदस्यैकत्वेन घटादौ द्रव्येऽनन्त- भेदकार्याणामभावः । अनन्तपरमाणुकालसम्बन्धस्यापि अनित्यघटादावभावात् । यद्यपीश्वगनन्तानन्तरूप- गुगकर्मसम्बन्धः सर्वस्य यस्ति । तथाऽपि तत्तन्निरूपितत्वानामनन्तत्वेऽपि न सम्बन्धानन्तत्वम् । भेदवदनन्तप्रतियोगिकत्वस्यैकस्यापि सम्बन्धस्योपपत्तेः । प्रतियोगिभूतगुणकर्मसु भेदाभावाञ्चेति द्रष्टव्यम् । या० - श्री. प्राप्तं तहीति । यद्यदभिन्नाभिन्न तत्तेनाभिन्नमिति व्याप्तेरित्यर्थः ।। महानित्यादि . महत्वादिधर्मवान् ।। 'सन्ति वस्तुष्वशेषतः' इति वक्ष्यमाणं 'विशेषास्तेऽप्यनन्ताश्च'इत्यनन्तरं सम्बध्यत इत्याशयेन योजयति तेऽप्युक्त लक्षणा विशेषा इत्यादि । मूले स्वनिर्वाहकतायुक्ताः सन्ति' इत्यस्य स्वनिर्वाहकन्वरूपधर्मयुक्ताः सन्तीत्यर्थो द्रष्टव्यः ॥ भेदप्रसङ्ग इति । अनेका भिन्नत्वादिति भावः ।। . मु०-- यदर्थ यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिविशेषोङ्गीकारितस्तदिदानी- माह अत इति । अनु -- अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।। निर्भदमपि ब्रह्मातो विशेषसामादनन्तगुणं भण्यत इति ।। यत्परेण पृष्टं लक्ष्य, लक्षणयोर्भेद इत्यादि तस्येदमुत्तरम् ब्रह्म निर्भेदमिति । यदत्रोक्तमनेकलक्षणाभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वाऽनेकत्वानुपपत्तिः, शब्दपर्यायत्वं, गुणगुणित्वाद्यनुपपत्तिरितिः तस्योत्तरं. निर्भेदमप्यतो विशेषाद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावो, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यते इति । अत्र जगजन्मादिकारणत्यमिति वक्तव्येऽनन्त गुणमिति वचनमिद मूत्रमनन्तगुण(वत् त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय जगजन्मादि- कारणत्वलक्षणं प्रतिपादयितु प्रवृत्तमिति सूचयितुम् । तदेवं जगज्जन्मादिकारणत्वस्य स्खलक्षणत्वे बाधकाभावान्न तटस्थत्वंकल्पनं युक्तमिति. सिद्धम् ॥ वा०- एवं योग्यमन्वयं प्रदय पक्षपरिग्रहतद्पणपरिहारभाष्यांशी विविच्य दर्शयति यत्परेणेति ।। वक्तव्य इति । सूत्रानुसारात्स्वो क्रिमानुसाराचेत्यर्थः । प० ... भणनमिति । कथनमित्यर्थः । सु० ----अत्राह । किमर्थ लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विपवलेन सर्वव्यवहारसमाधान क्रियते । भेद एव कस्मान्न ङ्गीक्रियते । गुणगुणिभावस्तु समवायसंबन्धाद्भविष्यति । यदि च सूत्रकारेण समवायो निरकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम् । न हि पटादौ मैदाभावेऽपि विशेषवलाध्यवहारविशेपदर्शन. मात्रेण ब्रह्मण्यपि तथा कल्पयितु युक्तम् । निश्चायकामाणाभावात् । निश्चायकप्रमाणोपन्या- साथ हि संभावना कल्प्यते । यथाऽऽहु: 'संभावितः प्रतिज्ञाया अर्थः साध्येत हेतुना । न ११२६ ॥ न्यायसुधा ॥ (भ.१ पा.१ भ.२ सू.२ तस्य हेतुमित्राणमुत्पतमेव यो मृतः' इति । न पुनः संभावनैवार्थ(स्य )साधिकेत्यत आह एवं धर्मानिति । m अनु० एवंधर्मानिति श्रुत्या तदभेदोऽप्युदीयते ॥ १-१-२ ॥ अपिशब्दाद्विशषोऽपि । अत्र हि ब्रह्मधर्माणां पृथक् दर्शननिन्दयाऽभेदोऽवगम्यते । धर्मानिति च धर्मबहुत्वोक्त्या सविशेषत्वम् । न च धर्मानित्यनुवादमात्रम् । श्रुतिं विना तद- सिद्धः । मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निभेदमेव ब्रह्म विशेष- बलादेव नानाव्यवहारालम्बनमिति । वा०. ब्रह्मतद्गु गादी नामभेदे पूर्व प्रमाणानुपन्यासादुत्तात्र तदुपन्यासात्तघ्यावय॑तया भेदेना. न्यथासिद्धिशङ्कामुत्थापयति अत्राहेति ॥ लक्षगादीनां ब्रह्मणाऽभेदमभ्युपगम्य विशेषवलेनैव तदनुपप- त्तिनिरासो गत्यन्तराभावाद्वा पटादौ क्लप्ततया वा । आद्य निषेधति भेद एवेति । ननु पटादौ भेदाभावेऽपि विशेषवलादेव व्यवहाराणामुपपादनादन्यत्र क्लप्ततया ब्रह्मण्यपि तथा कल्पना युक्तेति द्वितीयं निराह न हीति ।। निश्चायकेति । अस्याश्च सम्भावनात्वादिति भावः । सम्भावनाया निश्वायकप्रमाणोपन्यासार्थत्वे सम्मतिं दर्शयति यथाऽऽहुरिति । अत्र साक्षादभेदोक्तिभ्रान्ति निराकरोति अत्र हीति । धर्मबहुत्वोक्त्येत्यत्र धर्मत्वोक्त्या तेषां बहुत्वोक्त्या चेत्यर्थः । पटादौ भेदाभावेऽपि विशेषबलाढ़ेदव्यवहार इत्यस्तु प्रमितत्वात्, न बह्मणिः तत्र भेदेनैव व्यवहारोपपत्तौ सविशेषाभेदकल्पकाभावादिति मन्वानमुत्थापयति अत्राहेति ॥ लक्ष्यलक्षणयोरिति । इदमुपलक्षणम् । गुणगुणिनोरित्यपि द्रष्टव्यम् ॥ प्रकृते बह्मणीति शेषः ।। स्वभावभेद इति । स्वरूप- सम्बन्धविशेष इत्यर्थः । तथा च बह्मणि गुणभेदेऽपि स्वरूपसम्बन्धविशेषेणैव गुणगुणिभाव इति भावः ।। ननु घटादौ सविशेपाभेदस्य समर्थितत्वाब्रह्मण्यपि तथैव कल्पनीयं सम्भावितत्वात् , सम्भावनया अपि विप्रतिपन्नार्थसिद्धेलॊके बहुलमुपलम्भात् । इत्यत आह न हि पटादाविति ॥ अनुवादमात्र. मिति । तथा च न धर्मबहुत्वे तात्पर्य यदर्थ विशेषः कल्पनीय इति भावः । श्री० - श्रुतिं विनेति । प्राप्तस्यैवानुवाददर्शनादीश्वरनिष्ठधर्मबहुत्वस्य श्रुतिं विना प्राप्त्यसिद्धेरि- त्यर्थः ।। मूलश्रुतीति । ईश्वरधर्मबहुत्वप्रापकेत्यर्थः ॥ इति जन्माधिकरणम् ।। ॥ १-१-२॥ छ ।। या० सु०- अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेवोतोपादानत्वमेवाथो- भयमपीति विमृश्य तृतीयः पक्षः (परिगृहीतः । उपादानत्वं च परिणामित्वेनेति कश्चित् । प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः । तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते ।

एतल्लक्षणस्य तटस्थत्वकल्पनाया: अंयुनत्वम् । ) ॥ जन्माधिकरणम् ।। ११२७ - ---- वा० अत्र परेण विरुद्धप्रमेयान्तरे प्रतिपादितेऽपि तदनिरासप्रयुक्तां भाष्यकारस्य न्यूनता निरस्यति अत्रेति ॥ १-१-२ ॥ छ । या० नन्वत्र निर्णीतं जगत्कारणत्वं यदि पररीत्योपादानस्वरूपम् । तर्हि न तेन गुणपूर्णता सिद्ध्यति । तस्य च परिणामरूपत्वेऽल्पगुणजगदभेदेनाल्पगुणप्राप्तेः । भ्रमाधिष्ठानरूपत्वे तु गुणानामेवा- प्राप्तिदूरे तत्पूर्णत्वस्य इत्यत आह अत्र यत्परेणेत्यादिना ॥ अत्र यद्यपि मायावादिनाऽत्रायं विमर्शो न स्पष्टमभिहितः किन्तु प्रकृत्यधिकरण एव । तत्रापि बम किं निमित्तमेवोतोपादानमपीति द्विकोटिक एव विमर्शः प्रदार्शितो न त्रिकोटिकः । तथाऽपि तदभिप्रेतानुवादो व्यावृत्तिकारान्तरोत्तो वा त्रिकोटिको विमर्शोऽत्र प्रदर्शित इति द्रष्टव्यम् ॥ १-१-२ ॥ छ ।। च०- अत्राद्वैतवादिप्रदर्शितप्रतीतप्रमेयान्तराप्रतिविहितिनियंत्रितभाष्यकृन्न्यूनतापरिजि. हर्षिया तदनुवदति अत्र यत्परेणेति ।। प्रतिविधत्ते तदेतदिति । -- सु०-- तम्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् ।। ।। इति जन्माधिकरणम् ॥ १-१-२ ॥ छ । कण्ठोक्तमार्थिकं चाधिकरणाथ फलोक्त्योपसंहरति तस्मादिति । जगज्जन्मादि- हेतुत्वानन्तगुणत्वरूपलक्षणद्वयेत्यर्थः ।। १ । १ । २ ॥ च० --- एतन्नयार्थ निगमयति तस्मादिति ।। छ । इति जन्माधिकरणव्याख्या ॥ ( इति मायाघायुक्तस्य निर्गुणत्वस्यापि सूत्रकारैरेव निराकृतता ॥) (इति एतल्लक्षणस्य तटस्थत्वकल्पनायाः अयुक्तत्वम् ॥) 7घ इति जन्माधिकरणम् १-१-२.

अथ शास्त्रयोनित्वाधिकरणम् १-१-३.

वा ( अब जगत्कारणत्यस्य पाशुपताद्यागमानुमानायष्टम्भेन अतिव्याप्तिशङ्का । ) मु० ॥ ॐ शास्त्रयोनित्वात् ॐ || जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षण- ममिहितम् । तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाधचेतषु च पाशुपताद्यागमानुमानावष्टम्भे. नानियाप्तिमाशङ्कयात्र परिहरति भगवान्त्सूत्रकारः ।। ॐ शास्त्रयोनित्वात् ॐ ।। अधिकरणप्रतिपाद्यस्य सङ्गतेश्च स्पष्टत्वात्पूर्वपक्षाद्युक्त्या ज्ञातुं शक्य वाच्च भाष्यकारानुक्तमधिकरणप्रतिपाद्यं ससङ्गतिकमाह जगदिति । उक्तलक्षणस्यातिव्याप्ति- परिहारण समर्थनादनन्तरसङ्गतिरिति भावः । प० --- ।। ॐ शास्त्रयोनित्वात् ॐ ॥ पूर्वेणाधिकरणेनास्याधिकरणस्य सजतिफले आह जगदिति ।। परिहरतीति । शास्त्ररूपप्रमाणोक्त्येति योज्यम् । च.--- {{ॐ शास्त्रयोनित्यात् ॐ ॥ "प्रकृतनयंप्रतिपाद्यप्रमेमस्य प्राक्तननयनिरूपिततन्नया- यिकरणकमातेश्च प्रौढमतीनां सुगमतया पूर्ववादिमतप्रवर्तनादिना सुप्रतिपदतया च भाष्यकारानमिहि. नपि नादृङ्मतीनरमप्रतिपदवाय तादृशसङ्गतिविशेषिततादृशंप्रमेयमभिधते जगदिति । पत्रनयनिरूपिनतन्नयवृत्तिराक्षेपिकी सङ्गतिरिति भावः । तथाच मु० - नत्र पूर्वपक्षमारचयति शैवाद्येति । शिवेन रचितः शैवः । आदिग्रहणाद्धिरण्यगर्भादिरचिता गृह्यन्ते। तैः संप्राप्तं तदुक्त- माधनानुष्ठानसंप्राप्तम् । दृष्टं दृष्टिः प्रत्यक्षमिति यावत् । तत्सिद्धं दृष्टगं । फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः । प्रमाणत्वं इति विषयसप्तमी । दृष्टफलार्थ साधनानि विदधद्वाक्यं नावन् प्रमाणतयाऽनुमीयते । केन लिङ्गन । फलेन । तस्य पक्षासंबन्धिनोऽनुमापकत्वं कथ- मित्यत उक्त शैवाद्यागमसंप्राप्तेति । अज्ञानासिद्धि परिहर्तुमुक्तं दृष्टगेनेति । तुशब्दोऽनुमानद्वये हेतुविशेषद्योतकः । ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः । अयमर्थः । द्विविधो हि शिव- प्रणीत आगमः । कश्चित् प्रत्यक्षयोग्यसंपदादिफलमुद्दिश्य साधनानि विदधत् । अपरस्तु बगोपवग द्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसर्वशक्तित्वसत्य- मङ्कल्पत्वावशेषगुणपूर्णत्वं निरवद्यत्वं च प्रतिपादयति । तत्रायस्तावत्प्रमाणम् । तदुक्तसाधना. नुष्ठाने मति प्रत्यक्षत एवं फलदर्शनात् । नदयं प्रयोगः । विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुता- दिवन् । यद्यप्रमाणमभविष्यत् न समर्थी प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् । तदुक्तम् ब्रह्मलक्षणस्य जगत्कारणत्वस्य सूत्रकारण भातन्प्राप्तिशकनम्) ॥शास्त्रयानित्याधिकरणम् ॥ 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्' इति । ततश्च तत्प्रणेतुः शिवस्य परमा- सत्वमवधार्य तदृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते । प्रयोगः । विप्रतिपन्न आगमः प्रमाणं शिक्वाक्यत्वात्संप्रतिपन्नवदिति । विपक्ष शिवस्थानाप्त- स्वप्रसङ्गो बाधकः । तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्व(स्याभिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शेवाः ॥ अनयैव दिशा तत्तदागमप्रामाण्य प्रसाध्य तत्तद्देवतावादिनों प्रत्यवस्थानानि द्रष्टव्यानि ।। उपलक्षणं चैतत् । अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं शक्य- साधनम् । तथा हि। क्षित्यादिकं सकर्तृकं कार्यत्वावटवत् । विवादाध्यासितं कर्म प्रयत्ना- धारजम् कर्मत्वात्संप्रतिपन्नवत् । विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, संप्रतिपन्नवत् । क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्संप्रतिपन्नवत् । इत्यादिभिरनुमान- विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसंभवात् भगवांश्छिव एव परिशेषा- ज्जगज्जन्मादिकर्ता सिध्यति । यथा च (वि)चित्रादिकार्यदर्शनात्तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदर्शनात्(नेन) कल्प्यमानोऽपि कर्ता तदनुगुणः सार्वज्ञादिमानेव सिध्यति । अथवा क्षित्यादीनां कर्तेत्येतदन्तर्गतमेव सर्वज्ञत्वादिकं न यत्नान्तरमपेक्षते । निमित्तोपादान- फलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वात् । एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति ।। वा०-'शिवादिभ्योऽग्' इत्यपत्येऽणो विधानात्प्रकृते च तदर्थानुपयोगात्तत्कृतग्रन्थेऽत्र शिवशब्दा- दण् द्रष्टव्य इत्याह शिवेनेति । (कृते ग्रन्थे इत्यनेन सूत्रेण तत्कृते ग्रन्थेऽस्मिन्नर्थे । अत्र शैवेत्यनेत्यर्थः) ॥ आगमानां फलं प्रति कारकत्वाभावादाह तदुक्तेति ॥ फलेनेत्यस्य प्रमाणत्वेऽनुमीयत इत्यनेनान्वयस्य जगत्कारणत्वाद्यदृष्टार्थवाक्ये फलेन प्रामाण्यानुमानासंभवेन बाधिततयेशवाक्यत्वत इति हेत्वन्तरोक्त्य- नुपपत्तेश्च दृष्टार्थवाक्यप्रामाण्यासाधने तद्वाक्योपमयेत्यस्यानुपपत्तेश्च फलेन स्वित्यस्यानन्तरं योग्यमध्या. हरति फलेन त्यिति ॥ एवं पदार्थ व्यारव्याय तद्वाक्योपमयेत्येतल्लब्धं दृष्टार्थवाक्यप्रामाण्यानुमानस्य प्राथमिकत्वं वदन्नेव वाक्यार्थमाह दृष्टेति ।। शैवादीति । दृष्टगेनेति । विशेषणयोरन्यतरवैयर्थपरिहारा. योक्तार्थ मनसि निधाय पृथक तव्यावर्त्यमाह तस्येत्यादिना ॥ शैवादीत्यादिशब्दानुसारादाह ईशेति ॥ ननु शैवागमस्यैकत्वात्तदुपमया कथं तत्र प्रामाण्यानुमानं कथं च सर्वत्राविद्यमानेन व्यधिकरणेन च फलेन तदनुमानम् । ईशवाक्यत्वोक्तेश्च न प्रयोजनम् । कथं च हेतोरप्रयोजकतापरिहारः कथं चानेन भ.१ पा.१ ४.३. सू.३ ... न्यायसुधा । १९३२ शिवानां जगत्कारणतासिद्धिरित्यत आह अयमर्थ इति ।। उक्तेऽर्थ सम्मतित्वेन पक्षिलभाष्याद्यवाक्यं प्रमाणयनि तदुक्तमिति ॥ अर्थवदिति । नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । अर्थाव्य- भिचारिता च देशकालान्तरावस्थान्तरेप्वविसंवादोऽर्थस्वरूपप्रकारयोस्तदुपदर्शितयोः । तत्र हेतुः कंवलयतिरेकी ।। प्रवृत्तिसामथ्यादिति । समर्थप्रवृत्तिजनकत्वादित्यर्थः । प्रमाणम्य समर्थप्रवृत्ति- जनकन्वं च न साक्षाम्किन्वर्थप्रतिपादनद्वारे वेत्युक्तम् ॥ प्रमाणतोऽर्थप्रतिपत्ताविति । उत्तरानुमाने विपक्षबाधकतया शिवस्यानामत्वप्रसङ्गं वक्तुं पूर्वानुमानपर्यवसानं दर्शयति ततश्चेति ॥ आदिः दादाभिप्रायमाह अनयवेति । अनुमानत इति भाप्यं 'न पृथक् चानुमेश्वरे' इति सिद्धान्तानुव्याख्यानं च मनसि निधायाह उपलक्षणं चैतदिति ।। आकाशेऽव्यभिचाराय गुरुत्वे सतीति । अत्र न्यायविवरणी को- पक्षानरेगासम्भवपर्यन्तत्यपूर्व रक्षे तदनुसारेणातिव्याप्तिपर्यन्तत्वपूर्वपक्षे च शिव एवेत्येवकारो विष्णु- यावर्तकतयाऽपिव्याग्दयेयः । श्रुतेः स्वप्रामाण्यनिषेधकत्वात्तदुक्ते कर्तरि नानुमानं पर्यवम्यति किन्तु स्वप्रधानकागमोक्त इति पूर्वपक्षाशयो वर्णनीयः । अन्यथाऽनुमानस्याप्यन्यथासिद्धत्वे शिवकारणत्वेऽनन्य. भासिद्धप्रमाणाभावेनानन्यथासिद्धविषयश्रुत्या प्रतिपक्षानुपपत्याऽतिव्यालेः शङ्कितुमप्यशक्यत्वात् । तथा चानुमानस्य शिवादिमात्रविषयकत्वेऽपि विष्णुमात्रविषयकश्रुत्यादिसाम्यामिमानेनातिव्याप्तिपर्यन्तः पूर्वपक्ष. म्नम्य श्रुत्याद्यपेक्षया प्राबल्याभिमानेनासम्भवपर्यन्तः स इति द्रष्टव्यम् । अत्र परिशेषसूचनं च पुंस्त्वहे. तुबलादिति प्रतिपक्षोक्त्येति द्रष्टव्यम् । वनकृत्त्वादिरूपेणेति प्रतिपक्षोक्त्या सूचितं सर्वज्ञत्वादिसाधनं द्वेषा व्युत्पादयति यथा चेत्यादिना ।। नन्वेवं परिशेषे हिरण्यगर्भादीनां जगत्कारणत्वासिद्धि- रित्यनो विप्रलम्भादिमूलत्वाभावभावाभ्यां स्वस्वेतरागमयोः प्रामाण्यतदभावाभिमानेन सर्वेषां परिशेपसि- द्विरप्रत्यूहेन्याशयेनाह एवमिति । हेतुविशेषद्योतक इति । हेतुव्यावृत्तिद्योतक इत्यर्थः ॥ चरकसुश्रुनादिवदिति । चरकं वैद्यशास्त्रं सुश्रुतं शाकुनशास्त्रमितिवदन्ति ॥ प्रमाणतोऽर्थप्रतिपत्ताविति । प्रमाणतोऽर्थे प्रतिपन्नेऽपि यावत्प्रवृत्तिसामर्थ्य तत्र न ज्ञायते तावत्तत्रार्थवत्वं तद्धटितं प्रामाण्यं न निश्चीयते, किन्तु प्रवृत्तिसामर्थ्या. रममर्थप्रवृत्तिजनकत्वात्प्रमाणत्वेनाभिमतं ज्ञानं अर्थवत् प्रामाण्यवदवसीयत इति शेषः ॥ विवादाध्या- सितं कमनि । ह्यणुकासमवायिकारणसंयोगजनकपरमाणुकर्मेत्यर्थः ।। स्थितिकर्तृत्वसाधनायाह विप्रति- पने पृथिव्युदक इति । भूसागरावित्यर्थः । आकाशे व्यभिचारवारणाय सत्यन्तम् । इत्यादिभिर- नुमानरिति । 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्सङ्ख्याविशेषाच्च साध्यो विश्वकृद- व्ययः । इतिकारिकायामुक्तानि परित्यज्यान्यानि आदिशब्दग्राह्याणि । म०.

ब्रह्मलक्षण जगत्करणत्व सूत्रकारण (मतिपतिशक) ॥शास्त्रयोनिलाधिकरणम् ॥ भावे निष्ठेन्युपेत्याह दृष्टं दृष्टिरिति । केन लिङ्गेनेत्यस्योत्तरं फलेनेति ॥ इत्यत उक्तमिति । फलजनकसाधनबोधकत्वरूपसंबन्धसिद्ध्यर्थमुक्तमित्यर्थः ॥ अनुमानद्वय इति । दृष्टान्ते दान्तिके च प्रामाण्यसाधकानुमानद्वये यथाक्रम सफलप्रवृत्तिजनकत्वशिववाक्यत्वरूपहेतुविशेषद्योतक इत्यर्थः ।। चरकेति । वैद्यग्रन्थविशेषः ॥ विपक्षे बाधकतर्कमाह यदीति ।। न्यायसूत्रसंमतिमाह तदुक्तमिति ।। 'अनुमानतोऽन्ये न कल्पनीयाः' इति भाष्यं मनसि कृत्वाऽऽह उपलक्षणं.चैतदिति । शैवाद्यागमेत्यादिनाऽऽगमावष्टम्भेनः शिवादीनां जगत्कारणवसाधनमित्यर्थः ॥: सृष्टिकर्तृत्वस्थितिकर्तृ- स्वलयकर्तृत्वेष्वनुमानान्याह क्षित्यादिव मित्यादिना ॥ कर्मेति । आद्यकालीनं परमाणुकर्मेत्यर्थः ।। ननु कथमस्य शिवत्वं सार्वश्यादेरभावात् इत्यत आह यथा चेति । या० -- ॥ ॐ शास्त्रयोनित्वात् ।। ॐ ।। ननु शैवाद्यागमेत्यत्र न कर्मधारयः । . शिवादि- भ्योऽणित्य सेनापत्यार्थे शिवादिभ्योऽण्प्रत्ययस्य विहितत्वेनागमानां चानपत्यत्वेन सामानाधिकरण्याभावात् । षष्ठीतत्पुरुषत्वे तु शिषाद्यपत्यकृतानां स्कान्दादीनामेव प्राप्त्या पाशुपताद्यप्राप्तिप्रसङ्गात् । अतः कथमेत- दित्यत आह शिवेन रचित इति । तथा चात्र नापत्यार्थकोऽयमण्प्रत्ययः । किन्तु 'कृते ग्रन्थे' इत्यनेन विहिस्तकृतग्रन्थार्थकोऽण्प्रत्यय इति भावः ॥ कर्मणि प्रत्यये वेतद्व्यर्थमतो व्याचष्टे दृष्टं दृष्टिरिति ।। अनुमानद्वय इति । अनुमानद्वयकरण इत्यर्थः । अनुमानद्वयकरणे तुशब्दसूचिंत हेतुविशेषं दर्शयति द्विविधो हीति । तथा च शिवप्रणीतागमस्य द्वैविध्यमेवानुमानद्वयकरणे हेतुरिति भावः ॥ चरकसुश्रुती वैद्यकग्रन्थविशेषौ ॥ अत्र न्यायभाप्यसम्मतिमाह तदुक्तमिति । अत्र प्रमाणमर्थवदिति नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । तेनार्थाव्यभिचारीत्यर्थः ।। अत्र हेतुः प्रवृत्तिसामर्थ्यात् । समर्थप्रवृत्ति नकत्वात् । प्रवृत्तिजनकत्वं तु न प्रमाणस्य साक्षात् किं त्वर्थप्रतिपत्तिद्वारेणेत्याह प्रमाणतोऽर्थप्रतिपत्ता- विति । अर्थास्यापेक्षिोपायताप्रति पत्तिधार्थ प्रतित्तिशब्देनेह विवक्षिता तस्यामित्यर्थः । अनुमानतोऽ ये न कल्पनीया इति भाष्यं मनसि निधायाह उपलक्षणं चैतदिति ॥ विवादा- ध्यासितं कर्मेति । व्यणुकासमवायिकारणसंयोगजनकं परमाणुकर्मेत्यर्थः ॥ स्थितिकर्तृत्वसाधनायाह विप्रतिपन्ने पृथिव्युदके इति । भूमागरौ इत्यर्थः । गुरुत्वे सति इत्याकाशादी व्यभिचारवारणाय । पतनदशायां फलादौ व्यभिचारवारणाय विशेष्यम् । अत्र गुरुत्वप्रतिबन्धकवेगसंयोगयोरभावे सति इत्यपि विशेषणीयम् । तेन न वेगवति शरादौ वृक्षसंयोगवति फलादौ व्यभिचार इति ध्येयम् ।। सम्प्रतिपन्न- बदिति । गगनतलगतखगशरीरादिवदित्यर्थः ।। विनाश्यत्वादिति । स्वन एव विनाशिनो घटविशे. पादेः पक्षतुल्यत्वान्न व्यभिचार इति. ध्येयम् || शिव एव परिशेषादिति । जगत्कारणादिकं शिवानेष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति परिशेषादित्यर्थः । न चात्र विष्ण्वादिनि- - ११३१ । न्यायसुधा ॥ अ.१ पा.१ अ.३ सू.३ छन्वोपपत्त्या विशेषणासिद्धिः । सामान्यतो विश्वोदयादिकर्तृसाधकानुमानस्य स्वप्रामाण्यनिषेधकश्रुत्युक्ते कर्तरि न पर्यवसानम् । किंतु शैवाद्यागमोक्त एवेत्याशयात् ।। तदनुगुण एवेति । तदनुकूलज्ञाना. दिमानित्यर्थः । कारण कारणत्वादि । एवमग्रेऽपि । १० ननु शिवशब्दप्रकृतिकाण्प्रत्ययस्य 'शिवादिभ्योऽणि'ति लक्षणलक्षितापत्यप्रत्यायकता. कतया तत्कृतत्वार्थकषष्ठमा समस्तेनागमपदेन शिवापत्यभूतस्कन्दादिरचितागमा एव प्रतीयेरन् न तु पाशुपतागम इत्याशङ्कायां 'कृते ग्रन्थे' इत्यनुशिष्ट तत्कृतग्रन्थार्थकाणप्रत्ययस्यैव शिवशब्दप्रकृतिकत्वोपगमेन शैवपदेन पाशुपतागमप्रत्यायनात्तेन कृतबहुव्रीहिणा तद्गुणसंविज्ञानेन तादृशागमस्कान्दागमादिघटितसमु. दायावगतिः सङ्गच्छत इत्याह शिवेन रचित इति ।। दृष्टं दृष्टिरिति । 'नपुंसके भावे क्तः' इति भावे क्त इति भावः || अनुमानद्वय इति । . पक्षे निदर्शने चानुगतमनुमानद्वये सफलप्रवृत्तिजनकत्वशिव. वाक्यत्वरूपहेतुविशेषद्वयं ध्वनयितुमित्यर्थः ॥. विदधत् शत्रन्तः, 'नाभ्यस्ताच्छतुः इति नुनिषेधः । विदधानः शानजन्तः, प्रकृत्यंशस्य जित्वात्पदद्वयम् । वाक्यवदिति । प्रथमान्ताद्वतिः उपमेये प्रथमा- दशनात् । 'स्थानिवदादेशोऽनल्विधौ'इतिवत् । असंयोगालिट्किद्वद्भवति अपिसार्वधातुकं द्विद्भवति । अब्रह्मदत्तं ब्रह्मदत्त इत्याह । तेन मन्यामहे ब्रह्मदत्तवद्द्ययं भवतीत्यादिभाष्यकारीयनिर्देशाच्च । 'तत्र तस्येव' इत्यादीनां प्रायिकतया व्याख्यातत्वात् ।। . अनुमानद्वय इति । ' पक्षे निदर्शने चानुगतमनुमानद्वये मफलप्रवृत्तिजनकत्वशिववाक्यत्वरूपहेतुविशेषद्वयंः ध्वनयितुमित्यर्थः । चरकपदं सुश्रुतपदं च भिषजां प्रन्थविशेषसंज्ञे । अभिहितार्थे न्यायभाप्यं प्रमाणयति । तदुत्तमिति ॥ उपलक्षणं चैतदिति । 'अनुमानतोऽन्ये न कल्पनीयाः' इति भाष्यप्रतीकमभिसन्धायैतत् । विवादाध्यासितं कर्मेति । प्रकृत- साध्यतदभावकोटिकविमतिविषयीभूतं. व्यणु कोत्पादप्रयोजकपरमाणुद्वयसंयोगारम्भकपरमाणुगतकर्मेत्यर्थः । जगकर्तृत्वपर्यवसायीदमनुमानद्वयम् । स्थितिकर्तृत्वसाधकमनुमानमाह विप्रतिपन्ने इति । गगनादाव- नैकान्त्यमपहस्तयितुमाद्यदलं पतनदश वच्छिन्नफलादौ तद्विधूननायोत्तरदलम् । अत्र गुरुत्वकार्यभूतपतन- प्रतिबन्धकवेगसंयोगवृत्तिप्रातिस्विकधर्मावच्छिन्नाभाववत्त्वे सतीत्यपि हेतुशरीरे निवेश्यम् । तेन वेगवति शगदौ, प्रयत्नवति पतत्त्रिगि, नानैकान्त्यावकाशः । स्फुटीभविष्यति चैतदुपरिष्टात् । संहर्तृत्वसाधक- मनुमानमा क्षित्यादिकमिति ।। शिव एव परिशेषादिति । इदमनुमानजातं स्वप्रामण्यनिषेधक- श्रुत्युक्ते कर्तरि न पर्यवस्यति किन्तु पाशुपताद्यागमोक्त इत्याशयेनेदम् । तेन दर्शितानुमानानां विष्णोर. परिपन्थितया परिशेषानुपपत्तिरिति शङ्काऽनवकाशः । ( इति जगत्कारणत्वत्य पाशुपताद्यागमानुमानावष्टम्भेन अतिव्याप्तिशङ्का ॥) ।

या०.. .-- सु-एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्त प्रतिविहितं सूत्रकृता । आग- मादनुमानतो वाऽन्ये जगत्कारणत्वेन न कल्पनीयाः । कुतः । शास्त्रयोनित्वात् । ऋग्यजु- स्लामाथीश्चेत्यादिनोक्त शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनि तस्य भावः शास्त्रयोनित्वं तस्मात् । एतदुक्तं भवति । जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिः गम्पत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् । किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाऽभ्युपगन्तव्य इति । ननु प्राप्तपक्षव्यावर्तकत्वेन सूत्रमवतार्य तदर्थभावयोरकथनात्कथमेतद्व्याख्यानमित्यतः सूत्रभाप्याम्यां सर्वस्य सिद्धत्वात्सौत्रहत्वसिद्धिपरिहाररूपपरोक्तागमप्रामाण्यसाधकनिरासायैतद्भाप्यमित्या. झायेन प्रतिनादिकमवश्यवक्तव्यं दर्शयन्नेव तत्सङ्गततयाऽनुव्याख्यानं योजयितुमाह एवमिति । साध्यमव्याहृत्य तत्र हेतुत्वेन सूत्रं योजयति आगमादनुमानतो वेत्यादिना । एतेन भाप्यानुभाप्ययोविरोधोऽपि प्रयुक्तः । उपलक्षणतयोभयत्र द्वयोरपि ग्राह्यत्वादिति दर्शितम् ।। इत्यादिनोक्तमिति । भाप्योक्तप्रमाणेदोक्तमित्यर्थः । कथमनेनोक्तशङ्कानिगस इत्यत आह एतदुक्तं भवतीति ।। जगज्जन्मादिकारणस्य वस्तुन इति । एतेन पूर्वसूत्रेऽध्याहृतं तदितिपदं तस्येति घट्यन्ततया विपरिणम्यानुवर्तत इति मूचितम् । प० - --- सु० -- स्यादेतत् । यदि शास्त्रैकसमधिगम्यन्वं मौत्रो हेतुः सिद्धः स्यान्न चैवम् । प्रत्यक्षागम्यत्वेऽपि शैवाद्यागमैरनुमानैथोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्; इत्या- शङ्कय सौत्रहेतुसिद्धये शैवाद्यागमगभ्यत्वं तावन्निराचिकीर्षस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमान- मपाकरोति इति चेदिति । तद्ः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च मोऽस्यास्तीति तद्व्यभिचारि वाक्यं तेन दृष्टान्तभूतेन शिशदीनां जगत्कारणत्या(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुना. प्रामाण्यानुमितिश्च स्यात् । एतदुक्तं भवति । यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्या- नां प्रामाण्यमजुमाय तदृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारबद्दृश्यते तस्य, विमतमप्रमाणमसमर्थ- प्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तदृष्टान्तेन शिवादिवाक्यत्वादिहेतु- नेवादृष्टार्थानामपि, विमतान्यप्रमाणानि शिवादिवाक्यत्वात् संप्रतिपन्नवदित्यप्रामाण्यमनुमातुं ११३६ ॥ न्यायसुधा। (अ.१ पा. १ अ. ३ सू. ३ शक्यत एव । न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् । विफलप्रवृत्तिजनक- स्थापि बहुलमुपलम्भात् । ननु तदपि वाक्यं प्रमाणमेव । फलव्यभिचारस्तु कर्तृकर्मादिवैगुण्य- निमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवादस्तु काकतालीयो वा जगधामोहकानां शिवादीनां गुडजिहिका वेत्यस्तु । प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्तादिवैगुण्यं कारण कल्पनीयम् । फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् । शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न । तथापि फलविसंवादिन्यनैकान्त्यात् । किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा । नाद्यः । परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् । न द्वितीयः । अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः । अथ तदनुमानमप्रयोजक हिरण्यगर्भवाक्यत्वेऽप्यागन्तुकेन विप्र- लम्भादीनां दोपेणैकस्याप्रामाण्यसंभवादिति चेत् । समं समाधानम् । अनेनैव न्यायेन चैत्य- बन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् । न हि तद्वक्ता कदापि सत्यं नावाद तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिध्यति(इति) । प्रत्यक्षागम्यत्वेऽपीत्यनेन शास्त्रैकसमधिगम्यत्वरूपं हेतुं साधयतोऽवश्यनिरसनीयप्रत्यक्ष- गम्यत्वानिरासप्रयुक्तन्यूनता पूर्वपक्षिणाऽपि तदम्युपगमान्न प्रसज्ज्यत इति सूचयति । बहुव्रीहिपक्षे मतुपो वैयर्थ्यात्समासान्तरात्स इत्याह तद् इत्यादिना । 'न कर्मधारया- न्मत्वर्थीय' इत्यस्यापि 'न बहुव्रीहिनिर्वाह्ये भवन्ति मतुबादय' इत्येतन्मूलकत्वात्तस्य च शब्दगतगौरवप्र- युक्तत्वाद्गौरवस्यापि प्रयोजनाभाव एव दोषत्वात्प्रकृते च तद्व्यभिचारेणेत्येतदपेक्षया तद्गव्यभिचारिणेत्यत्र शब्दाधिक्याभावात्तद्गतेन व्यभिचारेणेत्यर्थान्तरभ्रान्तिनिवारणरूपप्रयोजनसत्वाच्च 'न कर्मधारयात्' इति निषेधविषयता नास्त्येवेत्याशयः । तद्व्यभिचारस्य हेतुत्वभ्रान्तिनिरासाय दृष्टान्तभूतेनेति । हेत्वभावप्र- युक्तन्यूनतापरिहारायेशेति ।। ननु प्रतिबन्दी गृह्णा सर्वसाम्यस्य वक्तव्यत्वात्कथमेतदित्यत इति चेदिति सूचितमापादकं स्पष्टयन्पूर्ववत्क्रमेणानुमानद्वयप्रकारं पूर्वपक्षानुमानवैषम्यनिरासप्रकारं च व्युत्पादयितुमाह एतदुक्तं भवतीति ।। तद् इत्यनेन सूचितमाह न हीति ॥ हेवन्यथासिद्धया वैपम्यं शङ्कते नन्विति ।। काकतालीयो वेति । बालव्यामोहकानां गुडजिहिकावज्जगद्व्यामोहकानां फलसंवाद इति त्वदनुमाने ऽप्यन्यथासिद्धिरित्याह जगदिति ॥ नन्वेवं वेदेऽपि फलव्यभिचारस्य कळदिवैगुण्यप्रयुक्ततोत्तरत्र कल्प्यमानाऽयुक्ता स्यादित्यतोऽपौरुषेयत्वेन प्रामाण्यसिद्धयनन्तरं तत्कल्पनाया इतरेतराश्रयताऽनापादकतया फलाव्यभिचारेणैव प्रामाण्यकल्पनायाश्च तदापादकतया न वेदसाम्यमित्याशयेनाह प्रामाण्ये हीति ।। किञ्च हिरण्यगर्भाद्यागमानामपि प्रामाण्यस्य समानन्यायतयाऽवश्याभ्युपगमनीयत्वात्तद्विरुद्धत्वाच्छैवा- वा०- १ जगत्कारणस्य शैवाघागमाऽनुमाऽगोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः) ॥शास्त्रयोनित्याधिकरणम्॥ ११३७ गमप्रामाण्यासिद्धिः तत्राप्रामाण्यप्रयोजकव्युत्पादने च तत्प्रकारस्य शैवागमेऽपि साम्यात्तस्यापि प्रामाण्यासि- द्धिरित्युभयथाऽपि प्रामाण्यासिद्धिरित्याह किञ्चेति । अनेनागमान्तरप्रामाण्ये तद्व्यभिचारिणाऽगमान्तर- सिद्धार्थव्यभिचारित्वेन तद्विरुद्धार्थत्वेन त्वदागमाप्रामाण्यानुमा च स्यात्, आगमान्तराप्रामाण्ये च तद्व्यभिचारिणा प्रत्यक्षसिद्धार्थव्यभिचारिणाऽऽगमान्तरेण दृष्टान्तभूतेन तत्समानन्यायतयेति यावत् त्वदागमस्याप्यप्रामाण्यानुमितिः स्यादिति योजनया मूलात् ध्वनितोऽयमर्थ इति सूचयति ॥ आभासस- मानयोगक्षेमत्वाच्च नैवं साधनं युक्तमित्याह अनेन न्यायेनेति । अनेन च तद्व्यभिचारिणाऽऽभासतया निर्णीतचैत्यवन्दनादिवाक्येन दृष्टान्तभूनेन तत्समानन्यायतयेति यावत्, अप्रामाण्यानुमा च स्यात् ; इति योजन ध्वनयति । स० गुडजिविकेति ॥ पिचुमन्दपत्रभक्षणार्थ प्ररोचकन्वेन गुडादिकं दीयते; सेयं गुड- जिहिका । न चैं पुत्रकामः पुढेष्टया यजेतेत्यादिदृष्टफलविधायकवेदवाक्येपूकफलादर्शने कर्तृकर्मादि- वैगुण्यनिमितकत्वं फलादर्शनस्य कल्प्यमानं कथमित्याशङ्कयाह प्रामाण्ये हीति ॥ वेदस्यापौरुषेयत्वेनैव प्रामाण्यं निश्चितं न भवन्मन इव फलाव्यभिचारेणातस्तत्र कादिवैगुण्यनिमित्तकत्वं फलादर्शनम्य कल्पयितुं शक्यमिति भावः । प० तद्गत्या दिमूलमुत्सूत्रमितिभ्रमनिरासाय सौचहेतुसा साधनपरतयाऽवतारयितुं शङ्कामाह स्यादेतदिति ।। नन्वेवं कथं तर्हि सिद्धान्ते 'न विलक्षणत्वा'दित्यधिकरण वेदादौ फलविसंवादः कादिवै- गुण्यनिमित्तक इति समाधास्यत इत्यत आह प्रामाण्ये हि सुदृढनिरूढ इत्यादि । इतरेतराश्रयत्व. मिति । सिद्ध प्रामाण्ये फलव्यभिचारस्यान्यनिमित्तकत्वकल्पनम् । सिद्धे च तस्यान्यनिमित्तत्वे फल. संवादेन प्रामाण्यकल्पनमित्यन्योन्याश्रयत्वमित्यर्थः । विमतान्यप्रमाणानि शिववाक्यत्वादिति प्रागुक्त- प्रयोगे दोषमाशङ्कय प्रतिबन्धोत्तरमाह शिववाक्यत्वमित्यादिना । तथापीति । शिववाक्यत्वेन प्रामाण्यमनुमिमानस्यापीत्यर्थः ॥ कथं तर्हि निर्णय इत्यतः प्रतिबन्दीमुविनाप्रामाण्यमेव निर्धारयति किञ्च यःशिवागमस्येत्यादिना । प्रामाण्यसाधकानुमानमिनोप्यप्रयोजकमित्याह अनेन न्यायेनेति । तत्र फल संवादिवाक्यमेव नास्ति । येन तदृष्टान्तेन बुद्धवाक्यत्वेन हेतुना प्रामाण्यानुमितिः स्यादित्यत- आह न हीति । या० बहुव्रीह्याश्रयणे इनिप्रत्ययो व्यर्थः स्यादतः कर्मधारयमाह तद् इति । बहुव्रीहिनिर्वा- ह्येऽपिप्रयुक्तोऽयमिनिभूमाऽर्थः । अतो 'न बहुव्रीहिनिर्वाह्ये भवन्ति मतुवादय' इत्यस्याप्रसङ्ग इति ध्ये. यम् ।। नन्येवं पुत्रकामः पुत्रकामेष्ट्या यजेतेत्यादिदृष्टफलविधायकवेदवाक्येपूरुफलादर्शने कर्तृकर्मादिवै- गुण्यं निमित्तं भवद्भिः कल्प्यमानं कथमित्याशङ्कायामाह प्रामाण्ये हीति । वेदस्य प्रामाण्यमपौरुषे. - 8क ११३८ ॥ न्यायसुधा ॥ (अ.१ पा.१ भ.३ सू.३ MA फलाव्य- यत्वेन सुदृढनिरूढं शिवादिवादिवाक्यस्य सुः नेति भावः ननु तत्रापि.प्रामाण्यं फलाव्यभिचारेणैव सुदृढनिरूढमिति कल्प्यते इत्यत आह फलाव्यभिचारेणैवेति । श्री ॥ ॐ शास्त्रयोनित्वात् ॐ ॥ ननु तदपीति । विफलप्रवृत्तिजनक वाक्यम. पीत्यर्थः ॥ तदपि वाक्यमिति ॥ समर्थप्रवृत्तिजनकं वाक्यमपीत्यर्थः ॥ फलाव्यभिचारेणैवेति । विमत आगमः प्रमाणं समर्थप्रवृत्तिजनकत्वादित्यनुमानस्योक्तत्वादित्यर्थः ॥ स्पु.टमिति । भिचारेण प्रामाण्यसिद्धिस्तसिद्धौ च फलव्यभिचारस्य कर्तृकर्मादिवैगुण्यनिमित्तत्वपरिकल्पनायाः संभवेन फलाव्यभिचारसिद्धिरितीतरेतराश्रयत्वं स्फुटमित्यर्थः । च० व्यभिचार सदस्य तद्पदेन कृतबहुव्रीहिताया मिनिप्रत्ययवैयपित्त्या कर्मधारयादिनि. माश्रयते तद् इति । 'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' इत्यादिपरीक्षकप्रयोगोपलम्भेन 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः' इत्यस्यानित्यत्वादित्यवसेयम् । ( इति शेवाद्यागमप्रामाण्यमाधकानुमाननिरासः ।। ( अथ जगत्कार गत्वे अनुमानानवकाश इति व्युत्पादनम् । ) सु० --- मा भूच्छवाद्यागमाज्जगज्जन्मादिकर्तृसिद्धिः । उक्तानुमानस्तु भविष्यति । तत्कथं शास्त्रकसमधिगम्यत्वं जगत्कारणस्येति चेत् । किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते । उत स्वतन्त्रम् । आधस्त्वङ्गीक्रियत एव । तेनास्मत्पक्षस्यैव सिद्धेः । शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् ।। द्वितीयं दूषयति न पृथगिति । अनु० -- न पृथक् चानुमेश्चरे । ईश्वरे जगत्कारणे पृथक् स्वतन्त्रानुमा च न मानमित्यर्थः । तथा हि। यत्तावन्सा- मान्यतो जगत्कर्तृत्व सिद्धाउनुमानम् तत्र किं कारणादिसाक्षात्कारवत्कर्टपूर्वकत्वं साध्यम् । मकर्तृकत्वमानं वा । आये दृष्टान्तस्य साध्यवैकल्यम् । न हि कुलालादिर्घटादिकारणानि धर्मा- धर्मादीनि साक्षात्कुरुते । अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् । किमेतावता | साध्य. बैंकल्यापरिहारात् । कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् । केवल- व्यतिरेकी तर्जायमस्त्विति चेन्न । विशेषणासिद्धेः । द्वितीये सिद्धसाधनम् । अदृष्टवतां जीवा. त्मनामेव कर्तृत्वोपपत्तेः । तेषां कारणानभिज्ञत्यामेति चेन्न । कुलालादीनामकर्तृत्वप्रसङ्गात् । अदृष्टाविष्टात्राऽपि केनचिद्भाव्यमिति चेन्न । अधिष्ठात्कृत्याभावात् । न तावन्नोदनादिकम् । अद्रव्यत्वात् । न चातिशयजन्म । गुणे गुणान्तरानुपपत्तेः । न चातीन्द्रियाधेयशक्तिः ।

अनभ्युपगमात् । न च सहकारिसमवधानम् । अदृष्टादेव तदुपपत्तेः । नापि कार्यकारित्वम् । तस्यादृष्टस्वभावत्वात् । तहथुत्पत्यनन्तरमेव किं न कुर्यादिति चेत् न । प्रबलादृष्टान्तरप्रतिबन्धा- दिनेति वदामः । किञ्च कार्यत्वं पक्षे कुतः सिद्धम् । अभूत्वाभावित्वादिति चेन । तस्यैव कार्यत्वात् । कथञ्चिद्भेदेऽपि भागासिद्धत्वात् । न खलु गिरिसागरादीनामभूत्वाभावित्व- मस्माभिरुपलभ्यते । तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यन्वसिद्धिरस्त्विति चेन । सावयवत्वं (हि) समवाथिकारणवस्वमुन परिणामिकारणवत्वम् वा । आये प्रतिवाद्यसिद्धिः । द्वितीये वाद्यसिद्धिः । किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपतिः स कथं कारणवत्तामेवाभ्युपेयात् । ननु क्षित्यादीनां प्रत्यक्षत एवं प्रदेशवचमनुभूयते । अन्यथा कथं भूतले घटभावाभावौ युगपत्संभवत इति चेन्न । तद्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् । कथमन्यथा (गगने) पक्षिणो भावाभावौ युग- पदिति तत्रापि वक्तुं शक्यत्वात् । संयोगस्य स्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत् । समं प्रकृतेऽपि । खननादिना येषां विमागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् । तल्कि संयोगविभागिसजातीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्तम् । आद्ये परमाणुभिर्व्यभिचारः । द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिद्धिश्चति । एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् । यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम् । तदपि पूर्ववत्सिद्धसाधनम् । किञ्च संयोगवेगप्रयत्नबददृष्टमपि कस्माद्गुरु- त्वप्रतिबन्धकं न कल्प्यते । अपातित्वं च सन्दिग्धासिद्धम् । महत्त्वेन पतनानुपलम्भसंभवात् । एतेन चरमानुमानमपि निरस्तम् । क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तकत्वाद्गगनवदि- त्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् । अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः । परमुखादी व्यभिचार इति चेन्न । तस्यानुमानादुपलब्धेः। तर्हि क्षित्यादिकर्ताऽप्यनुमानादुपलभ्यत इति चेन्न । अनुमानादीश्वरोपलब्धावस्मदनुमानस्य । दुष्टत्वम् । तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रयप्रसङ्गात्वात् । अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि(इति)। वा०—'न पृथक् चानुमेश्वरे' इति वाक्यं स्वतन्त्रानुमाननिरासकतया योजयितुं तघ्यावयं दर्श- यन्नेव पृथक्पदप्रयोजनं च दर्शयति मा भूदित्यादिना । जगत्कारणतासाधकानुमानस्य. साम्प्रतं निरसनीयत्वात्कारणत्वपरतयेश्वरशब्दं व्याख्याति ईश्वर इति । अत्र पृथगित्युक्तिसूचितदूषणानि वक्तुं प्रतिजानीते तथा हीति । कारणादात्यदिपदेन कार्यक्रियाफलादीनां ग्रहणम् । अप्रतिहतेच्छत्वस्य हेतुविशेषणत्वाद्धेतोश्व केवलव्यतिरेकित्वेन घटादेरन्वयदृष्टान्ततयाऽनुपादानान्न साध्य वैकल्यादीति गूढा..

॥ न्यायसुधा ॥ . १.१४० (म.१ पा.१ भ. ३ सूः३ भिसन्धिः शङ्कते अत एवेति ॥ · अभिसन्धिमजानानं इवोक्तदूषणापरिहारादसङ्गगतिमाह किमेता. वतेति ॥ साधनवैकल्यं वक्तुं किञ्चिदभिसन्धिमुद्घाटयति कथञ्चिदितिः । वक्ष्यमाणविशेषणासिध्य- भिप्रायेण कथञ्चिदिति विशेषणम् ॥ स्वाभिमन्धिमुद्घाटयति केवलेति ॥ तेषामिति । कारणामि- ज्ञत्वस्य कर्तृत्वरूपत्वात्तव्यापकत्वाद्वेति भावः ॥ चेतनानधिष्ठिता चेतनादृष्टस्य कार्याजनकत्वादधिष्ठातृत्वे. नेश्वराभ्युपगमस्यावश्यकत्वे किमदृष्टमादाय सिद्धसाधनोद्भावनफलमित्याशयेन शङ्कते अदृष्टेति ।। अतिशयोऽपि गुणादिकं वाऽऽधेयशक्तिति विकल् मनसि निधाय क्रमेण दूषयति गुण इत्यादिना ।। अधिष्टातृकृत्यन्तरं शङ्कते न च सहकारीति । प्रतिबन्धादिनेत्यत्रादिपदेन कालविशेषस्यादृष्टस्यैव तादृशस्वभावविशेषस्य वोप.दनम् । न च, न कारणादिसाक्षात्कारवकर्तृपूर्वकत्वं वा सकर्तृकत्वमानं वा साध्यं किन्तूगदानसाक्षात्कारवत्कर्तृपूर्वकत्वम् । एवं च न साध्यवैकल्यादि । नाप्यदृष्टमादाय सिद्ध- साधनमिति वाच्यम् । तावता सार्वज्ञासिद्धेः, उपादानत्वस्य समवायिकारणरूपत्वे समवायस्योत्तरत्र निग़साहाधितविषयत्वं, परिणामिकारणत्वरूपत्वे त्वां प्रत्यसिद्धविशेषणत्वमित्या दिदूषणं च सावयवत्व- विकल्पनिरासकन्यायेनोन्नेतुं शक्यमेवेत्यशयात् । ननु कार्यत्वं कृतिविषयत्वम्, अभूत्वाभावित्वं च प्रागमा वावच्छिन्नसत्तायोगित्वमतो भेद इत्यत आह कथञ्चिदिति । कृतिविषयत्वस्य साध्यकोटिनिविष्टतया न हेतुत्वं युक्तमित्याशयेनोक्तं कथञ्चिदिति । अत्र प्रसिद्धकर्तृशून्योद्भिज्जगिरिदरीवर्त्यनुरादीनाम. भूत्वाभावित्वाभ्युपगमेन भागासिद्धत्वोक्तिः ॥ द्रव्येषु तावदिति । भागासिद्धिनिरासायैतत् । कार्यद्रव्याश्रितगुणत्वादिना तद्गुणादीनां कार्यत्वं पश्चात्साधयिष्यामीत्याशयः ॥ अवयवसंयुक्तत्वस्यः पटावयवतन्तुसंयुक्ताकाशादी, अवयवसमवेतत्वस्य जात्यानी, द्रव्याश्रितद्रव्यत्वस्य च वारिनिहितपार्थि- वपरमाणौ, द्रव्यसमवेतद्रव्य वस्य व्यणु कसमवायवत्पार्थिवपरमाणौ व्यभिचारस्य स्पष्ट यात्, समवायवृत्त्या द्रव्याश्रितत्वम्य चोधिरीभावासम्भवेन पक्षेऽसिद्धः, मध्यमपरिमाणत्वस्य चाकार्यत्वेऽप्यनुपपत्त्यभावेनाप्र- योजकत्वम्य च स्पष्टत्यात्, अवयवसमवेतत्वस्य च समवायिकारणत्व एव पर्यवसानात्पक्षान्तरमनाशङ्कय द्वयमेव विकल्प्य दूषयति सावयवत्वं चेति । ननु न तत्र पक्षिणो भावाभावावपि तु संयोगस्य, तयोश्च न विरोध इति शङ्कते संयोगस्येति ॥ व्यर्थेति । आरब्धत्वमात्रस्याव्यभिचारादिति भावः ।। एतेनेति । अदृष्टजनकप्रयत्नाधारीवानादाय सिद्धसाधनत्यनेत्यर्थः ॥ किञ्चति । दूषणान्तरं तदनुमाने वक्तुं यदपीति योगविभागः ॥ एतेनेति । अदृष्टद्वारा जीवानामेव विनाशकत्वस्यापि सम्मवादिति भावः ॥ ननु सर्वैरनुपलभ्यमानकर्तृकत्वं सन्दिग्धासिद्ध कैश्चिदनुपलभ्यमानकर्तृकत्वं तु घेटादावनैकान्तिमित्यत आहे अनुपलभ्यमानत्वं चेति ॥ अ..यैव दिशेति सर्गाद्यव्यणुकासमवायि- कारण परमाणुकर्म, चेतनपूर्वकम् कर्मत्वान्मच्छरीरकर्मवत् । ब्रह्माण्डादिकं प्रयत्नवदधिष्ठितं धृतिम- . जगत्कारणस्य शैवाद्यागमाउनुमा गोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः ) ॥शास्त्रयोनित्याधिकरणम्॥ ११४१ . स्वात् । सा च गुरुणो द्रव्यस्यापतनात् । घटादिनिर्माण, स्वतन्त्रपुरुषविश्रान्तं, निर्माणत्वात्स्वेच्छालिंपि - निर्माणवत् । घणुकादिपरिमाणकारणतयाऽवश्याभ्युपेयं परमाणुद्वयादि, अपेक्षाबुद्धिसापेक्षं द्वित्वादित्वाद्ध- टपटद्वित्वादिवदित्याद्यनुमानान्यपि, प्रथमस्यादृष्टद्वारा चेतनपूर्वकत्वेन सिद्धसाधनत्वात् , द्वितीयस्य च प्रयत्न वता धृनेत्यनेन तुल्ययोगक्षेमत्वात् , तृतीयस्य चाप्रयोजकत्वादीश्वरानङ्गीकारिणा कुलालादेरेव तत्तत्का यस्वातन्त्र्याभ्युपगमेन सिद्धसाधनत्वाच, चतुर्थस्याप्यप्रयोजकत्वात्, सर्वेषु प्रतिसाधनसौलभ्याञ्च युक्त- दिशैव निराकार्याणीत्यर्थः । अस्यानुमानस्य केवलव्यतिरेकित्वेन साध्यवैकल्यं परिहतु तत्र कार्यत्वहेतोः व्यतिरेकस्य दृष्टान्तेऽभावेन कथं केवलव्यतिरेकित्वमित्याशङ्कय हेतावप्रतिहतेच्छेतिविशेषणस्याभिप्रेतत्वेन घटादौ कुलालादेरप्रतिहतेच्छकार्यन्वाभावेन युक्तो घटादी हेतुव्यतिरेको युक्तं च हेतोः केवलव्यतिरेकित्वमिति गूढाभिसन्धिराशङ्कते अत एव कदाचिदिति ॥ अभिसन्धिमनूद्योत्तरमाह किमेतावतेति ॥ किञ्चिद- भिसन्धिमुद्घाटयति कथञ्चिदिति ॥ संपूर्णाभिसन्धिमुद्धाटयति केवलव्यतिरेकीति । विशेषणा- सिद्धेरित्यर्थः । जगकर्तुरप्रतिहतेच्छत्वस्यासिद्धरित्यर्थः । अत एवं प्राक् कथञ्चिदिन्युक्तम् । ननु सकर्तृकत्वमात्रमेव साध्यं तथाऽपि न दोपः। कुतः । कारणाभिज्ञत्वस्य व्यापकत्वेन तस्य च कुलालादाव- भावेन व्यापकनिवृत्ती व्याप्यनिवृत्तेरावश्यकत्वेन तव्यापकीभूतकारणाभिज्ञत्वस्याभावेन तद्व्याप्यभूत सकर्तृकत्वस्याप्यभावेन न दोष इत्यभिप्रेत्य शङ्कते तेषामिति । तस्य व्यापकत्वाङ्गीकारे कुलालादावपि- व्यापक-यमित्यभिप्रेत्यो तरमाह कुलालादीनामिति ॥ कथञ्चिद्भेद इति । कृतिमाध्यत्वमेव कार्यत्वमिति साध्यभूतकार्यत्वस्य पृथनिर्वचनेऽपीत्यर्थः। एवं चेदुक्तकार्यस्वानुमाने. नेश्वरसिध्युपपती सर्तृकत्वानुमान व्यर्थमित्यभिप्रेत्य कथञ्चिदिन्युक्तमिति द्रष्टव्यम् । यद्वाऽभूत्वाभावि- त्वम्यामनः सत्तासंबन्धन कार्यत्वम्य च प्रागभावप्रतियोगिरूपत्वेन कथञ्चिद्भद इत्युक्तमिति ज्ञेयम् । द्वितीय व्यर्थविशेषणत्वमिति ॥ संयोगविभागिस जातीयद्रव्यविशेषणं व्यर्थमित्यर्थः । तत्याग आह पूर्वप्रदसिद्धिश्चेति ॥ तदारब्धत्वम्य तत्समवायिकारणकत्वे प्रतिवाद्यसिद्धिः । तत्परिणामित्वे वाद्यसिद्धि- रित्यर्थः । एतेनेति । प्रयत्नाधार जमित्यत्र तदुपादानमाक्षात्कारवत्प्रयत्नाधार मिति विवक्षित उत. प्रधानाधारमात्रजमिति । आधे साध्यवैकल्यम् । द्वितीये सिद्धसाधनमिति । प्रयत्नाधारजमित्यत्र पक्षयस्य प्रसक्तत्वेन विकल्पदूषणग्यावकाशः । प्रयत्नवता धृने इत्यत्र तु धार्यमात्रज्ञानस्यावश्यकत्वेन तदुपादानसाक्षात्कारस्यानपेक्षितत्वेन धार्यज्ञानम्य व कुलालादो सत्वेन साव्य वैकल्या भावात् । विकल्प्य दूषगद्वयस्यासंभवेन पृथगाशक्य एकैनैव दूपगेन दूषितमिति बोत्यम् । गुरुत्वे सत्यपातित्वहेतोरन्यथा- सिद्धिमप्याह किञ्चति । पतनविरोधी ऊर्चशाखाया अधत्तनशाखासंयोगः, मध्ये शरपात- तदभावावस्या न तस्य ग ११४२ ॥ न्यायसुधा ॥ (भ.१ पा.१ भ.३ सू.३ विरोधी वेगः, पापाणपतनविरोधी हस्तादिना धारणप्रयत्न इति विवेकः । गुरुत्वप्रतिबन्धकं गुरुत्व- कार्यपतनप्रतिबन्धकम् । एतेन प्रयत्नवान् यो जीवः तद्विनाश्यत्वसंभवेन सिद्धसाधनत्वेनेत्यर्थः । १०- उक्तेति । कार्यत्वाद्यनुमानैरित्यर्थः । ननु यदि वेदादिशास्त्रं शिवादिकारणतां ब्रूयातर्हि- तदनुसायनुमानमपि शिवादेरेव कारणतां वदेदिति कथं तेन भवत्यक्षम्य सिद्धिरित्यत आह शास्त्रस्येति ।। ईश्वरेऽनुमानागम्यतोक्तेः प्रकृतानुपयोगाद्विवक्षितमर्थमाह जगत्कारण इति ।। अनुमा चेति । न केवल. मागम इति चार्थः ॥ कथञ्चिदस्य हेतुविशेषणत्व इति । धर्मादिसाक्षात्कारपूर्वककृतिजन्यत्वादिति हेतुविशेषणत्व इत्यर्थः ॥ विशेष्यांशमादाय साध्यावैशिष्टयनिरासः शक्य इति भावेन कथञ्चिदित्युक्तम् तहाँति । अन्वयव्याप्तौ साधनवैकल्यपक्ष इत्यर्थः । घटादौ व्यतिरेक-याप्तिसंभवादिति भावः ।। अदृष्टवतामिति । न्यायमते सर्वस्यापि यथायथं तत्तज्जीवोपभोग्यतया जीवादृष्टनिर्मितत्वेनादृष्टद्वारा जीवानामेव कर्तृत्वोपपत्तेरित्यर्थः ।। न चातिशयजन्मेत्युक्तम् । स चातिशयः किं गुणोऽथ शक्तिस्त सहकारिसमवधानं अथ कार्यकारित्वमिति विकल्पान्क्रमेण निराह गुण इति । न्यायमतेऽदृष्टस्य गुणत्वा- दिति भावः ॥ अनभ्युपगमादिति ! तार्किकमत इति योज्यम् । तार्किका भिमतस्येश्वरानुमानिकत्व. म्यात्रापाकरणप्रस्तावादिति भावः ॥ तहथुत्पत्तीति । स्वजन्मोत्तरक्षण एवेत्यर्थः । अभूत्वाभावित्वा- दिति । प्रागविद्यमानस्येदानी विद्यमानत्वाद्धतोः कार्यत्वं सिद्धमित्यर्थः ॥ कथञ्चिदिति । कृतिघटित- त्यात्कार्थत्वस्य ततः कथञ्चिद्भेद इत्यर्थः । ननु सावयवत्वं नाम कारणवत्त्वं ब्रूमः, तच्च त्वन्मते परिणामि- कारणवत्वं मन्मते समवायिकारणवत्वं अतो न दोप इति वदन्तं प्रत्याह किश्चेति । कुतस्तद्विषवत्त्वशे- मित्येवकारार्थः ॥ परमाणुभि-यभिचार इति । परणाणूनामपि परमाण्वन्तरसंयोगविभागवत्वेनोक्त- रूपहेतुसत्त्वेऽपि कार्यत्वाभावाट्यभिचार इति भावः । व्यर्थेति । आरब्धत्वमात्रस्य कार्यत्वाव्यभिचारा- दिति भावः ॥ पूर्ववदिति । अभूत्वाभावित्वादिति हेतोरिवेत्यर्थः । तत्रोक्तसाध्यावैशिष्ट्याद्यनु. सन्धानाय पूर्ववदित्युक्तिः । कार्यत्वादिहेतुनिरासप्रपञ्चनं चेश्वरवादे तर्कताण्डवे व्यक्तम् । एतेनेति । अदृष्टद्वारा जीवात्मभिः सिद्धसाधनत्वदोषेणेत्यर्थः । पूर्ववरिषद्धसाधनमिति । अदृष्टवज्जीवात्ममि- सिद्धसाधनमित्यर्थः ॥ संयोगेति । द्वन्द्वान्तस्थो वतिः संयोगवत्प्रयत्नवदिति प्रत्येकमन्वेति । संयोगा- दिना प्रतिबद्धं गुरुत्वं यथा न पतनहेतुः तथा जीवादृष्टप्रतिबद्धमपि न पतनहेतुः स्यात् । एवं च प्रयत्नवानीश्वरो नाङ्गीकार्य इति भावः ॥ ननु तथात्वे पतमानपतत्रिशरीरवदुपलम्भः स्यादित्यत आह महत्त्वेनेति । एतेन चरमेति । क्षित्यादिकं प्रयत्न पद्विनाश्यं विनाशित्वादित्येतदपि हेतौ संदिग्धा. सिद्धत्वदोषेण निरस्तमित्यर्थः ॥ ननु यत्किञ्चित्पुषानुपलभ्यमानत्व(भ्यत्वं) वा सर्वानुपलभ्यमानत्वं- (भ्यत्व) वा । आद्यं व्यभिचारि अन्त्यं संदिग्धासिद्धम् ; इत्यत आह अनुपलभ्यमानत्वं (अनुपलभ्यत्वं) ।

जगत्कारणस्य वायागमाऽनुमा गोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः ) शास्त्रयोनित्वाधिकरणम्॥ ११४३ चेति । अस्मदुपलब्भ्यविषयत्वमिति वक्तव्ये यदयोग्यत्वमित्याह. तदस्मदनुमानाविषये देशान्तरगतपर- सुखादी व्यभिचारवारणाय । तत्रास्मदनुमितिविषयत्वाभावेऽपि तद्योग्यत्वस्य सत्त्वादिति बोध्यम् ।। तथा चेति । अस्मदनुमानस्य दुष्टत्वे सतीत्यर्थः । यानि 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । बाक्यात्सङ्ख्याविशेषाञ्च साभ्यो विश्वकृदव्ययः' इत्युदनयनोक्तानुमानान्तराणि तैर्विश्वकर्तृसिद्धिरस्त्वित्यत आहे अनयैवेति ॥ निरसनीयानीति । निरासप्रकारश्च तर्कताण्डवे व्यक्तः । या गूढाभिसन्धिराह अत एवेति । अप्रतिहतेच्छेति हेतुविशेषणमित्यभिसन्धिढ इति द्रष्टव्यम् । अविदिताशय इव परिहरति साध्यवैकल्येति ।। ननु न साध्यवैकल्यं स्वतो दोपः किन्तु व्यभिचारादिरूपतया । यथाऽऽह । 'साधारणो विरुद्धो वा दृष्टान्ते साध्यवर्जितः' इति । तथा च व्यभिचारपरिहारायाप्रतिहतेच्छकार्यत्वादिति हेतुर्विवक्षितोऽनो-नोक्तदोष इति. परेण स्वाभिसन्धावुद्धाटिते सत्याह कथञ्चिदिति। अभ्येत्यनेन प्रकृतप्रतिहतेच्छपरामर्शनोक्तदोषापरिहारात्कथं तम्य हेतुविशेषण- त्वमित्यन उक्तम् कथञ्चिदिति । उक्तरीत्या निषेधद्वारा विशेषणत इत्यर्थः ।। वस्तुतस्त्वप्रतिहतेच्छ- स्याधुनाऽप्यसिद्धत्वान्न तस्य हेतुविशेषणत्यमुचितमित्याशयेन कथञ्चिदित्युक्तमिति द्रष्टव्यम् ॥ तेपर कारणानभिज्ञत्वादिति । तथा च कारणांभिज्ञत्वमेव कर्तृत्वम् । तच्च न जीवानामतो · न सिद्ध. साधनमिति भावः ।। कुलालादीनामिति । तथा च साध्यवैकल्यमिति भावः ।। अदृष्टाधिष्ठात्रेति । अदृष्टद्वारा जीवात्मनामेव कर्तृत्वमादाय सिद्धसाधनतामाशङ्कमानेनाप्यन्ततोऽदृष्टाधिष्ठातृतयेश्वरोऽङ्गी- कार्यः । चेतनस्याधिष्ठातुरभावेऽचेतनस्य स्वतःकारणताया क्वाध्यदर्शनात् । तथा चादावेब साक्षात्कर्तृतया- प्राप्त ईश्वरः कस्मादपोद्यत इति भावः || नोदनं संयोगविशेषः । : आदिपदेन परिम्पन्नः । न चाति- शयति । देवताधिष्ठानेन प्रतिमायामिवेति भावः । अदृष्टे जायमानोऽप्यतिशयो न तावद्गुणकर्मद्रव्यरूपः गुणे तेपामभावात् नापि सामान्यविशेषसमवायरूपः । तेषां जन्माभावात् ; इत्याशयेनाह गुणे गुणायन्तरेति ।। कश्चिद्भेद इति । कृतिसाध्यत्वं कार्यत्वमिति साध्यभूतकार्यत्वस्य भेदेऽपीत्यर्थः । एवं चेदुक्तकार्यत्वानुमाननैवेश्वरसिद्ध ,पपत्ती सकर्तृकानुमानयर्थ्यप्रसङ्ग इत्यभिप्रेत्य कथञ्चिदित्युतम् ।। द्वितीये व्यर्थविशेषणत्वमिति । संयोगविभागीति सजातीयद्रव्यविशेषणं व्यर्थमित्यर्थः ॥ तत्त्यागे वाह पूर्ववदसिद्धश्चेति । तदारब्धत्वम्य न-समवायिकारणवझपये प्रतिवाद्यसिद्धिः । तत्परिणामरूपत्वे वाद्यसिद्धिरिति पूर्ववदसिद्धिरित्यर्थः ॥ एनेनेति । जीवानामेवाद्वारा कर्मजनकप्रयत्नाधारत्वसंभवा- सिद्धसाधन नेत्यर्थः । गुरुत्वप्रतिबन्धकं गुरुत्यकार्यपतन प्रतिबन्धकम् । यथा वृक्षसंयोगः फलपतने, वंगः शरीरादिपतने, ‘प्रयत्नो गगनतलगतग्क्गशरीरादिपतने प्रतिबन्धकः । तथा पृथि युदकयोः पतने क्लमानां तेषामभावेऽपि जीवादृष्टमेव प्रतिबन्धक्रमित्यस्तु । धर्मिकल्पनाऽतो धर्मकल्पना लघीय- . 1. 8घ ११४४ ॥ न्यायसुधा। भ.१. पा.१ न.३ सू.३ . सीति न्यायात् । तथा चोक्तानुमानस्यान्यथासिद्धिरिति भावः । इत्यादिनेति । विवादाध्यासितं कर्म, न प्रयत्नाधारजम्, अनुपलभ्यमानस्वजनकप्रयत्नाधारकत्वान्, संप्रतिपन्नवत् । सम्प्रतिपन्ने पृथिव्युदके, न प्रयत्नवता धृते, अनुपलभ्यमानस्वजनकप्रयत्नंवत्कत्वात् , संप्रतिपन्नवत् । क्षित्यादिकं, प्रयत्नवद्विनाश्यं न, अनुपलभ्यमानस्वविनाशकप्रयत्नवत्कत्वात्, सम्प्रतिवन्नवदिति सत्प्रतिपक्षानुमानान्यादिपदोपात्तानि ज्ञातव्यानि ॥ नन्वीश्वरस्य योगिभिरुपलम्भादसिद्धिरित्यत आह अनुपलभ्यमानत्वं चेति । अस्मदुपलब्ध्यविषयत्वमिति वक्तव्ये यदयोग्यत्वमित्याह तदस्मदनुमानाद्यगोचरे देशान्तरगतपरसुखादौ व्यभिचारवारणाय । तत्रामदनुमितिविषयत्वस्याभावेऽपि तद्योग्यत्वस्य सत्वादित्यवगन्तव्यम् ॥ ननू. क्तसिद्धसाधनतापरिहारायानुमानान्तराणि सामान्यजगत्कर्तृसाधकानि बहूनि सन्ति । तथा हि । अदृष्टाद्वारकखोपादानगोचरंजन्यभिन्नानि समवेतानि जन्यानि । स्वजन्यादृष्टप्रागभाकव्याप्यप्रागभाव- प्रतियोगिमिन्नोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि । स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञा- नचिकीर्षाकृतिमज्जन्यानि वा, अपरोक्षज्ञानचिकीर्षाप्रयत्नविषयीभवदुपादानानि .. वा समवेतत्वे सति प्रागभावप्रतियोगित्वात् । भावकार्याद्वा। घटवत् । अत्र पक्षे जन्यानीत्येवोक्ते ध्वंसस्यापि पक्ष स्वेनाशे बाधः । तस्योपादानाभावात् । तन्निवृत्त्यर्थ समवेतानीत्युक्तम् । तावत्युक्ते घटादेरपि पक्षत्वेनांशे सिद्धसाधनम् । तन्निवृत्त्यर्थ जन्यभिन्नानीति । तावत्युक्तेऽश्रादेरपि जन्यत्वादाश्रयासिद्धिः । तन्निः वृत्त्यर्थ जन्यकृतीति । तावत्युक्ते शब्दफूत्कारादेः पक्षता न स्यात् । तस्य शब्दादिनिमित्तभूतमृद- ताल्वादिगोचरास्मदादिनिष्ठकृतिजन्यत्वात् । तदर्थ स्वोपादानगोचरेति । तज्जनकास्मदादिनिष्ठकृते. निमित्तीभूतमृदङ्गादिगोचरत्वेऽप्युपादानीभूताकाशादिगोचरत्वाभावात् । तावत्युक्ते कालीरूपादेः पक्षता न स्यात् । तस्य स्वोपादानीभूतशरीरगोचरकृतिजन्यत्वेन तद्भिन्नत्वाभावात् । तदर्थमदृष्टद्वारकेति । कालीकृतिस्त्वदृष्टद्वारैव रूपजनिकेति न दोषः । सा ये यद्यपि ज्ञानचिकीर्षाकृतीनां मध्ये एकैकोक्ताव. पीश्वरसिद्धिस्तथाऽपि यावदभिमतविशेषगुणसिद्धयर्थ त्रितयोक्तिः । अपरोक्षपदं तूपादानज्ञानस्यापरोक्ष-. त्वेनैव हेतुत्वाध्यापकतासिद्धयर्थम् । उपादानगोचरपदं तु ध्वंसव्यावृत्तसकर्तृकत्वसिद्धयर्थम् । तावत्युक्ते सिद्धसाधनम् । अङ्खरादेरपि स्वजनकादृष्टजनकयकिञ्चिदुपादानभूतहविरादिगोचरज्ञानादिमदस्मदादि. जन्यत्वात् । तदर्थमदृष्टेत्यादिमिन्नान्तं ज्ञानादिविशेषणम् । एवं च न सिद्धसाधनम् । कारणप्राग- भावस्य कार्यप्रांगभावं प्रति व्याप्यत्वेनास्मदादिनिष्ठादृष्टजनकज्ञानादिप्रागभावस्य स्वजन्यादृष्टप्रागभावं प्रति व्याप्यत्वेन तद्भिन्नत्वाभावाद् । अत्र यद्यप्यदृष्टजनकभिन्नेन्युक्तेऽप्यस्मदादिमिन सिद्धसाधनम् । तथाऽपीश्वरज्ञानादेरप्यदृष्टजनकत्वाद्वाधः स मा भूदिति वक्रोक्तिः । एवं च न बाधः । ईश्वरज्ञानादेर- नादित्वेन प्रागभावप्रतियोगिभिन्नत्वात् । तावत्युक्ते दृष्टान्तस्य साध्यवैकल्यम् । कुलालनिष्ठस्य.घट-: - .. जगत्कारणस्य शैवायागमानुमाऽगोचरत्वेन सूत्रेण भतिव्याप्तिनिरास:।) ॥शास्त्रयोनित्वाधिकरणम्॥ ११४५,.. जनकज्ञानादिप्रागभावस्य तन्निष्ठविहितादिक्रियान्तरादिनोत्पत्स्यमानादृष्टप्रागभावं प्रति व्याप्यत्वात् । तदर्थ स्वजन्यत्वेनादृष्टं विशेषितम् । एवं च न साध्यवैकल्यम् । उत्पत्स्यमानादृष्टस्य घटोत्पादनविषयक. ज्ञानादिजन्यत्वाभावात् । द्वितीयसाध्येऽमदादिमिः सिद्धसाधनवारणाय स्वजनकादृष्टोत्तरेति तृतीये च विषयीभवदितिविशेषणम् । तथा विमतं परमाण्वादि, चेतनाधिष्ठितं स्पन्दते, जडत्वाच्छरीरवदि- त्यादीति । तथा च कथमेतदित्यत आह अनयैव दिशेति । अत्र कारणशब्दः कर्तृपरः । अनुप- लभ्यमानकर्तृत्वेन - सत्प्रतिपक्षत्वात् । ... उक्तानुमानरुपलब्धावन्योन्याश्रयादित्युक्तदिशेत्यर्थः । यद्वा । प्रसङ्गादाह अनयैव दिशेति केवलानुमानवादिमिर्यानि जगदुपादानकारणसाधनानि यानि चादृष्टा- दिनिमित्तकारणसाधनान्युच्यन्ते तानि सर्वाग्यप्यनयैव रीत्या निरसनीयानीत्यर्थः ।। श्री० - केवलेति । कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वरूपसकर्तृकत्वाभावस्याप्रतिहतेच्छकार्य- त्वाभावस्य च घटे सत्वा दित्यर्थः ॥ विशेषणेति । एतदनुमानप्रवृत्तेः पूर्वभप्रतिहतेच्छत्वरूपविशेषणस्ये- घरेऽसिध्याऽस्मान्प्रति विशेषणासिद्धिरित्यर्थः ॥ अदृष्टादेवेति । तथाच नेश्वरेण कृत्यमिति भावः । गुणादौ सावयवत्वाभावेन कार्यत्वसाधनायोगात् द्रव्येविन्युक्तम् । कारणवत्तामेवेति । समवायि- कारणवत्त्वादिकं दूोल्मारितमिति भावः । प्रदेशवत्वमिति । इदमेव च सावयवत्वमिति तस्यासिद्धिरिति भावः || आकाश(गगनादीनामपीति । तथाच व्यभि वार इति भावः ॥ हेतोरभावान व्यभिचार इत्यत आह कथमन्यथेति । गगनेऽपि प्रदेशवत्वरूपसावयवत्वानङ्गीकार इत्यर्थः । पक्षिणो भावाभावा- विति । इह पक्षी. नेह पक्षीति पक्षिसंयोगभावाभावावित्यर्थः ॥ संयोगस्येति ।। एवञ्च गगने पक्षिसंयोगभावाभावावच्छेदकत्वेन प्रदेशो न कल्पनीय इति हेतोरेवाभावान्न कार्यत्वसाधनप्रसङ्ग इत्या- शयः ॥ एवमिति । पक्षिसंयोगभावाभावी गगने युक्तावित्यर्थः ॥ सममिति । घटसंयोगभावाभावा- वच्छेदकत्वेन भूतलेऽपि प्रदेशवत्वं न कल्पनीयमिति स्वरूपासिद्धिरिति भावः ॥ परमाणुभिरिति । एकस्य परमाणोः संयोगिविभागिसजातीयद्रव्यान्तरं परमाण्वन्तरम् । तद्वत्वस्य विद्यमानत्वेन व्यभिचार इत्यर्थः । एतेनेति । जीवात्मनामेवादृष्टद्वारा विनाशकत्वोपपत्त्याऽर्थान्तरत्वेनेत्यर्थः ।। अस्मदनुमानस्य दुष्टत्वमिति । स्वरूपासिद्धत्वेन दुष्टतया सत्प्रतिपक्षत्वासंभव तद्विरोधाभावात्कार्यत्वानुमानस्य समीचीनतासिद्धिरित्यर्थः । च० - साधनवैकल्यस्या भिधित्सया स्वाशयमीषदाविर्भाग्यति कथञ्चिदिति । अप्रतिहतेच्छत्वस्य संप्रत्यसिद्धतया कथञ्चिदिति ॥ विशेषणासिद्धेरिति । अप्रतिहतेच्छत्वरूपविशेषणस्यैवासिद्धौ तद्धटितहे. तोरप्यप्रसिद्ध्या 'सभ्यामभावो निरूप्यते' इति नियमेन विशिष्टहेतुव्यतिरेकस्याप्रसिःया तन्निरूपितव्याप्तेः साध्यव्यतिरेके दुग्रहत्त्वादिति भावः ॥ नोदनं संयोगविशेषः । परिस्पन्दसंग्राहकमादिपदम् । - ११४६ ॥ न्यायसुधा 0 म.१ पा.१ अदृष्टस्याद्रव्यतया गुणकर्मद्रव्यरूपातिशयायोगेन सामान्यविशेषसमवायानां च जनिराहित्येन नादृष्टेऽति. शयोत्पाद इत्याह गुण इत्यादि । एतेनेति । जीवानामेवादृष्टद्वारा व्यणुकासमवायिकारणसंयोगो. त्पादकपरमाणुकर्मजनकयत्नाश्रयत्वसंभवनियन्त्रितसाधनत्वेनेत्यर्थः ॥ संयोगः पत्रादिपतने, इधुपतने वेग: अम्बरतलवर्तिपतन्त्रिपतने प्रयत्नः प्रतिवन्धकोऽवसेयः । सु०- यञ्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् । नाद्यः । शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् । द्वितीयं दूषयति न पृथक् चेति । ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः । तत्कथमित्यत आह पुंस्त्वेति । अनु०- पुंस्त्वहेतुबलादेव पूर्वोक्तनैव वर्मना || पूर्वोक्तेन(एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव । सत्प्रतिपक्षत्वेनै- वेत्यर्थः । एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोपे सतीति द्योतयति । वा०-- अत्र पुंस्त्वहेतुबलादित्युक्तस्य सामान्यानुमानप्रतिपक्षताया विभिन्नधर्मिकत्वादिनाऽस- म्भवादार्थिकप्रतिपक्षतायामप्याश्रयासिद्धिर्मिग्राहकबाधयोः प्राप्तस्तदर्थतया वनकृत्त्वादिरूपेणेति वक्ष्यमा- णप्रकाराश्रयणे. प्रथमातिकमे कारणामावेन तस्मात्रैवोक्तिप्रसङ्गात्सर्वज्ञत्यादौ विशिष्य दूषणमुक्त्वा परिशेष एव तदनुक्तिप्रयुक्तन्यूनताप्राप्तेश्च घुम्त्वहेतुबलादित्यस्य परिशेषे प्रतिपक्षप्रतिपादनपरता प्रतिपा. दयिष्यतत्परतयाऽनि 'न पृथक् चानुमेश्चरे' इति वाक्यं योजयति यच्चेति ॥ अत एवेश्वरशब्दस्य शिवे रुढिं जगत्कर्तृत्वे योगं चाश्रित्य विशेषविषयतां मूलारूढां करोति ईश्वर इति ॥ पूर्वोक्तेनैवेत्यस्य सामान्यानुमानानां भाप्यभिप्रेतदूषणगणेषु प्रतिपक्षस्य स्वयमुक्तत्वेऽप्यागमप्रामाण्यानुमाननिरास इव भाष्यकारेणैव विशिष्यप्रतिपक्षानुक्तेरव्यवहितपरत्यासम्भवाम्यवहितपरामर्शकत्वेन तद्योजयति पूर्वोक्तेने. त्यादिना ।। अतिदेशस्य सामान्यविषयत्वाभिप्रायं दर्शयति सत्प्रतिपक्षत्वेनैवेत्यर्थ इति । प्राक्सामान्यानुमाननिरासकतया योजितमेव वाक्यं परिशेषानुमाननिरासकतयाऽप्यवत ये न्याचष्टे चेति । ईश्वर इत्यस्य प्रतिपदं शिव इति । प्रकृतोपयोगायाह जगत्कर्तरीति। शिवो जगत्कर्तेत्यस्मिन्नर्थे चेत्यर्थः । - ईशवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह पुंस्त्वेति । पूर्वोक्तेन(एव) वर्मनेति सत्प्रतिपक्षतामात्रमतिदिष्टम् । न तु स हेतुरिति भावः । अयमत्र प्रयोगः । शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति ॥ ननु शिवः केन जगत्कारणस्य शैवाद्यागमाऽनुमाऽगोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः) ॥शास्त्रयोनित्वाधिकरणम्॥ ११४७ - प्रमाणेन सिद्धः । अथ परिशेषतो जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धः । लोकप्रवादादिनेति चेत् । ममापि तथेत्यस्तु । भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न । केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् । ननु जगत्कारणत्वं शिवनिष्ठ- मन्यत्रानुपपत्तौ सत्यां किञ्चिनिष्ठतया प्रमितत्वादिति हि परिशेपानुमानम् । तत्कथमस्यायं प्रतिपक्ष इति चेन्न । विरुद्धार्थसाधनमात्रेण प्रतिपक्षसंभवात् । प्रयोगतोऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात् अन्यथैव विधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावनादूषणत्वप्रसङ्गात् । न चैवमरित्यति वाच्यम् । प्रतिरोधकत्य(स्याप्रतिवन्धकत्व)स्यानुभवसिद्धत्वात् । नन्वेवं सति सामान्यसिद्धिरनुपपन्नाऽऽपद्यत इति चेत् । आपद्यताम् । तदनुमानानां दूपितत्वात् । वा० अभिप्रायमजानानम्य शङ्कोत्तरतया हेतुविशेपोक्ति योजयति ईशेति ।। उक्ताभि- प्रायोक्त्या शङ्कां विघटयति पूर्वोक्तेनेति ।। अस्य च प्रतिपक्षत्वेऽनुपपत्तिं परिहर्तुभनुपपत्त्यादेः प्रतिप्र. योगप्रकारदर्शनेन विनाऽप्रसङ्गात्प्रयोगप्रकार दर्शयति अयमत्रेति ।। ननु शिवासिद्धावाश्रयासिद्धिस्तत्सिद्धौ च जगत्कारणत्वेनैव तसिद्धेमिग्राहकबाधो मदनुमाने च शिवम्यापक्षत्वान्नैतदूषणावकाश इति दूषणं मनसि निधाय यथेश्चन्त्वं सर्वज्ञानादिघटितजगत्कर्तृत्वादिकमेव नान्यत्, तथा शिवत्वमेव न जगत्कारणत्वं किन्तु देवविशेषत्वमेव शिवत्वं च सर्वज्ञत्वादिघटितजगत्कर्तृत्वा. दिसिद्धिरीश्वरसाधकेनैवेतीश्वरः किञ्चिज्ज्ञः पुंस्त्वादित्यनुमाने धर्मिग्राहकविरोधादिप्राप्ती तन्निमितप्रयत्नसार्थक्येऽपि शिवसाधकागमानुमानादेस्क्ती शिवस्वरूपवज्जगत्व र्तृत्वादि. साधकत्वाद्धर्मिग्राहकविरोधोक्तिसम्भवेऽपि शिवस्वरूपमात्रग्राहकप्रमाणोक्ती न धमिंग्राहकविरोधो वक्तुं शक्यत इति धर्मिग्राहकविरोधमीश्वरः किञ्चिज्ज्ञ इत्युत्तरानुमान इव स्पष्टमनुक्त्वा सामान्येन प्रमाणमेव पृच्छति नन्विति । एवं चोत्तरत्र धर्मिग्राहकविरोध स्पष्टमुक्त्वा तन्निवृत्तये यत्नान्तरमाच. रितम् । अत्र त्वन्यथेति वैषम्यमयुक्तमिति निरस्तमिति द्रष्टव्यम् ।। एवं तहिं शिवस्यापक्षत्वेऽपि साध्यविशेषणतया तत्प्रवेशस्यावश्यकत्वात्तदप्रसिद्धावप्रसिद्धविशेषणता प्रसिद्धौ च तेनैव शिवे जगत्क- तृत्वसिद्धेः परिशेषानुमानवैय्यर्थ्यमिति दूषणं साधनानुमानेऽपि मया वयतुं शक्यत एवेति मनसि निधाय शिवस्वरूपमात्रे प्रमाणोदाहरणे वैय्यादेवतुमशक्यत्वा स्वयमपि सामान्यमुखन समाधत्ते अथेति ।। ननु शिवस्वरूपमात्रविषयकलोकप्रवादानुमानादेर्मयाऽपेक्षणान्नाप्रसिद्धविशेषणता नापि वैय्य. •दीति शङ्कते लोकेति ॥ तर्हि मयाऽपि तादृशस्यैवापेक्षणान्न धर्मिग्राहकविरोधो नाप्याश्रयासिद्धिरिति समाधत्ते ममापीति ।। त्वत्यक्ष इब न मक्षिकान्त्यप्रसर इति वैषम्यान्तरं शङ्कते भवदिति ॥ मदभिप्रायाज्ञानेन त्वयोद्भावितस्य न मसक्षऽपि प्रसर इति समाधत्ते केवलेति ॥ एकथर्मिकप्रयोगाभावेन तथा तस्य ११४८ ॥ न्यायसुधा ॥ अ.१ पाः१ अा३ सू.३ । सत्प्रतिपक्षत्वस्यैवाभावाद्वैपम्यादिविचारो दूरोत्सारित इत्याशयेन शङ्कते नन्विति ॥ शङ्कामूलं विघटयति प्रयोगतोऽपीति । प्रतिरोधकत्वस्येति । एवमप्यदूषणत्वे हेत्वाभासलक्षणस्यातिव्याप्तिः । दूषणत्वेन त्वत्सम्मतानामप्रदूषणत्वापत्तेश्चति भावः ॥ नन्यन्यथा सामान्यसिद्धित्वव्याघाताद्विशेषान्तरवि- षयत्वेन परिशेपे त्वयाऽपि वाच्ये तत्राप्येतद्दूषणसाम्यात्तत्परिहारस्य च ममापि साम्यान्नदं युक्तमिति शकते नन्वेवं सतीति ॥ ईश्वरमभ्युपगम्य सामान्यसिद्धियलेन तत्साधनस्य मदभिप्रेतत्वे कथञ्चित्पा. म्यप्रसक्तावप्यनीश्वरवादाङ्गगीकारेण सामान्यसिद्धिमपि निराकुर्वतो मम नैतत्साम्यप्रसक्तिरिति समाधत्ते आपद्यतामिति । नन्त्रित्यारभ्य बलादित्ये तव्यावर्त्यकथनमपि द्रष्टव्यम् । स० आर्थिकेति । अर्थन: एकथर्मिनिष्ठाः । प्रतिपक्षाः, आर्थिकप्रतिपक्षा इत्यर्थः । प. (अनीश्वरवादाङ्गीकारेणेति । शास्त्र गम्यत्वाभावाङ्गीकारेणेत्यर्थः । स एव पुंस्त्व- शब्दार्थः । तथा च न ब्रह्मणि व्यभिचार इति भावः ।।) अयं प्रतिपक्ष इतीति । शिवो न जग. कारणमिति प्रयोग इत्यर्थः । पक्षसाध्यादिभेदादिति भावः ॥ प्रमाणेति । प्रमाणप्रयोजनाभ्यां शून्यत्वादित्यर्थः ॥ अन्यत्रेति । असिद्ध्या दिहेत्वाभासान्तर इत्यर्थः । प्रतिबन्धकत्वस्येति । अनुमिति प्रतीति योज्यम् ।। नन्वेवमिति । परिशेषानुमानस्य दुष्टतया सामान्यस्य शिवे पर्यवसाना. भावे सति कार्यत्वादिहेतुभिः कर्तृसामान्यसिद्धिन युज्यत इत्यर्थः । तदिति । कर्तृसामान्यसाधकानु- मानानामित्यर्थः । या० तत्कथमस्येति। समानधर्मिकवाभावादिति भावः । एवंविधार्थिकेति । अर्थत एवैकवामिनिष्ठा न प्रयोगतस्तेपामित्यर्थः । तानि च शब्दोऽनित्यः कृतकत्वादित्यत्रानित्यत्वं शब्द- निष्ठात्यन्ताभावप्रतियोगि जात्यन्यत्वे सति शब्दमात्रवृत्त्यन्यधर्मत्वात् शब्दान्योन्याभाववत् घटरूपवच्च । शब्द्धनिष्ठात्यन्ताभावो वाऽनित्यत्वप्रतियोगिकः शब्दवृत्तिनित्याभावत्वात् शब्दनिष्ठान्योन्याभावव. दित्यादीनि सांच्यावहारिकाणि द्रष्टव्यानि । प्रयोगोऽपि धायक्यनिर्बन्धः परेणापि त्याज्यः । कथम. न्यथा केवलान्वयिन्यसत्प्रतिपक्षत्वसम्भवः । तत्र सत्प्रतिपक्षत्वप्रसक्तरेव तत्पक्षेऽम्भवात् । न हि शब्दोऽभिधेयो न भवतीति सत्प्रतिपक्षप्रयोगः सम्भवति । अभिधेयभेदस्याप्रसिद्धः । धर्मेक्यनिबन्धाभावे तु अभिधेयत्वं शब्दनिष्ठात्यन्ताभावप्रतियोगीत्यादिरूपेण विशेषादर्शनदशायां तत्रापि सत्प्रतिपक्षप्राप्तिसंभ. वात् । उक्तं च गणेशोपाध्यायेन । न पक्ष्यैक्यमपि तन्त्रम्, विरोधस्यैव दूषकत्वात् , अधिकस्य व्यर्थत्वादिति । अस्य केवलान्वयिन्यपि सम्भव इति च । श्री०- विरुद्धार्थति । तथाहि । घटः पटो न भवतीत्युक्ते घटे प्रतियोगितावच्छेदकभूतं पटत्वं नास्तीत्यर्थलाभेनान्योन्याभावस्यात्यन्ताभावव्याप्यतया शिवो न जगत्कारणमिति शिवे जगत्कारण- - प्रतियोगिकान्योन्याभावे साधिते सति शिवे प्रतियोगितावच्छेदकभूतं जगत्कारणत्वं नास्तीत्यर्थलाभेन जगत्कारणत्वं शिवनिष्ठमित्येतद्विरुद्धार्थसाधकत्वेनार्थिकप्रतिपक्षत्वमस्येति ध्येयम् । सामान्यसिद्धिरिति । क्षित्यादिक सकर्तृकमित्यादिका सामान्यसिद्धिः कर्तारमादाय पर्यवस्यति न कनपीति व्यथैवापन्ने त्यर्थः । सु०-- किमतो यद्येवमिति चेत् ; सिद्धः सौत्रहेतुरित्याह शास्त्रयोनित्वमिति । अनु०- शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥ एतेनोक्तप्रकारेण । कारणस्य जगत इति शेषः । बलात्प्रकारान्तरेणासिद्धिबलात् । बलादिति पृथक् श्रवणाहल शब्दार्थभूनप्रकारान्तरासिद्धयुपपादकातिदेशार्थकत्वेनैतेनेति न्याचष्टे एतेनेति ॥ बलान्तरस्यासम्भवाव्याप्त्यादिरूपस्य तम्य प्रकृतानुपयोगात्तदुपयुक्तं बलशब्दार्थमाह बलादिति । प० -- यद्यमिति । इति चेदित्यादिग्रन्थेनोक्तदिशा जगत्कारणम्यागमानुमानाभ्यामगम्यत्वे सतीत्यर्थः वा० - o- सु० जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह नावेदविदिति । अनु०- नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।। तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ।। 'नावेदविन्मनुते(द)तं बृहन्तम् ।' 'नैषा तर्केण मतिरापनेया।' 'नेन्द्रियाणि नानुमान वेदा धेवैनं वेदयन्ति' इत्यादिवाक्यतः, इति ज्ञायत इति शेषः । तर्क इत्यनुमानमात्रोफ्लक्ष णम् । ईशितारं जगत्कारणं(त्कर्तारम्) । कथञ्चन सामान्यतो विशेषतश्च । योगमाश्रित्येशितारमिति व्याख्याति ईशितारमिति । उभयविधानुमानावेद्यतायाँ श्रुत्युक्तताप्रदर्शनाय प्रवृत्तं कथञ्चनेत्येतत्तदर्थतया व्याख्याति कथञ्चनेति ।। 'कथञ्चन' इत्यनन्तरं पदद्याच्याहारमाह इति ज्ञायत इति शेष इति । "दूषणानु: मानमात्रभ्रमनिरासायाह तर्क इति । प्रकृतोपयोगायेशितृ शब्दार्थमाह जगत्कारणमिति । या० प्रकृतोपयोगार्थमाह ईशितारं जगत्कारणमिति । t वा०.. •mya- प०- -- सु०- यदपि कार्थत्वादिहेतोः पक्षधर्मत बलादन्यस्माद्वाऽनुमानादीश्वरस्यै सर्विज्ञादि- सिद्धिरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह वनकृत्त्वादीति ।

अनु० ---- वनवेत्त्वादिरूपेण पक्षभूतस्य चेशितुः ॥ किश्चिन्नत्वं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ।। नन्वत्रै प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पुरत्वाद्देवदत्तवदिति । तत्रेश्वरः प्रमितो या न वा। आधे येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेमिग्राहक(प्रमाण)विरोधः । द्वितीये त्वाश्रयासिद्धिः । तत्कथमुच्यते इशितुः किश्चिज्ज्ञत्वं च पुंरत्वेन साधयितुं शक्यं हीति तत्राह सुखमिति । तत्कथमित्यत उक्तं वनकृत्त्वादिरूपेण पक्षभूतस्येति। प्रसिद्धकर्तरहितं बन सकतक कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न. कोऽपि दोष इत्याशयः । वनकृत्वं पर्वताधारक मित्यादिरूपो धर्मस्तेनोपेतस्य । न हि वन कर्तेत्येताक्त सर्वज्ञ इति लभ्यते । प्रसिद्धवनकर्तुरसर्वज्ञत्वात् । स एवक्षित्यादिकर्तेति कथं न सार्वत्यमिति चेन्न । तद्भावे प्रमाणाभावात् । न हि कार्यत्वादिहेतुः कतरिमिव तस्य सर्वत्रै. कत्वं गमयितुं शक्नोति । लाघवादेकत्वमाश्रीयत इति चेत्(न)। लोकदर्शन नुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्योचित्वात् । लोके हि गजगवयगर्दभादीनां घटदीनां च निर्मातारो विजातीया एवोपलभ्यन्ते । न च वनकतो किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् । तस्य चेश्वरतायाः परेणा । अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् । वनकृत्वादीत्युत्तरग्रन्थस्योक्तोपपादकताम्रान्तिनिरासाय तत्प्रतिपाद्यमाह यदपीति ।। धनकृत्त्वादिरूपेणेति प्रयोगप्रकारविशेषप्रदर्शनात्यावर्त्यशकाग्रन्थे प्रसक्तप्रकार प्रदर्य तत्रानुण्पत्तिमु- अद्भावयति नन्वत्रेति ।। नन्वत्र प्रसिद्धवत्कर्तृपक्षीकारे सिद्धसाधनता अप्रसिद्धतत्पक्षीकारे त्वाश्रयासिद्धि- रिति नायमपि प्रकारो युक्त इत्यत एवं प्रयोगप्रकारप्रदर्शकभाप्याभिप्रेतमाश्रयासिद्धिपरिहाराय तत्साध- कानुमानान्तरोपजीवनप्रकारमाह प्रसिद्धति ॥ ननु वनकादीनां पक्षत्वे तथैवोक्तिप्रसंङ्गगेनैतादृशोक्तौ गौरव, वनकृत्वादिस्वरूपस्य पक्षत्वाभिप्राये बाध इत्यत आदिपदार्थ दर्शयन्नेव विवक्षितमर्थमाह बनक- स्वमित्यादिना । ननु वनकर्तुः पक्षवेऽपि धर्मिग्राहकविरोधतादवस्थ्यमिति गूढाभिसन्धिना शङ्किते स्वय. मभिप्रायमजानान इव परिहारमाह न हीति । ननु वनकाने सार्वज्ञासिद्धावपि वनकर्तुः क्षित्यादिकर्तु. श्चैकत्वरिक्षत्यादिकर्तुश्च सार्वश्वस्य तदनुमानेन सिद्धत्वादेतद्धर्मिणो वनकर्तुरपि सार्वज्ञं सिद्धमेवेति क्षित्यादि कत्रनुमानमनुपजीव्य वनक-नुमानोपजीवनेऽपि वन्यनुप्णत्वानुमान इव धर्मिग्राहिजातीयविरोधः स्यादेवेति स्वाभिसन्धिमुद्धाटयति स एवेति । वन्हिजातीयैकतायाः प्रामणिकत्वेन तत्र तथात्वेऽपि, वनकर्तुः क्षित्या. घा० --- जगत्कारणस्य शैवाद्यागमाऽनुमाऽगोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः ) ॥शास्त्रयोनित्वाधिकरपास दिकर्तुश्चकतायां न प्रमाणमिति न साम्यमित्यत्शयेन समाधत्ते तद्भाव इति ॥ ननु वनकर्तुरेव क्षित्यादिकर्तृत्वे क्षित्यादिकर्तुरीश्वरत्वाद्वनकर्तुरसार्वज्ञे साधिते, क्षित्यादिकर्तुस्तत्प्राप्ताव पि, तयोर्भदे वनकर्तुरनीश्वरत्वात्तद सार्वज्ञसाधनं नासाकमनिष्टसाधनमित्याशकते न चेति । प्रसिद्धकर्तृशून्यवनकर्तुरीश्वरताया अकामेनापि त्वया वाच्यत्वादन्यथा क्षित्यादिकर्तुरपीश्वरता न स्यात्समानन्यायत्वादिति भावेनाह तस्य चेति ॥ नेदमस्माभिरुपपादनीयं परेणैव तादृशानुमानानामीश्वरसाधकतयोपन्यासादित्याशयेनाङ्गीकृतत्वादियुक्तं विशदयति अन्यथेति। अत्र वनकर्तृसाधकानुमानोपजीवनेन प्रवृत्तनास्मदीयेनेवरकिञ्चिज्ज्ञतासाधकानुमानेन क्षित्यादिकं सकर्तृक कार्यत्वादित्यनुमानेन पर्यवसानगत्येश्वरसार्वज्ञसिद्धेः प्रतिपक्षोऽयं न तु वनकर्तृत्वानु- मानस्य तस्य सार्वश्येऽपर्यवासनात्पर्यवसाने वा धर्मिग्राहकविरोधापत्तेः । न च वनकर्तुः क्षित्यादिकर्तृ भेदे नानेन क्षित्यादिकर्तृरसा येसिद्धिरिति वाच्यम् । तस्येश्वरसार्व: ये पर्यवपाने नास्यापीश्वरासार्वज्ञ- साधकत्वेन परं प्रत्यनिष्टतया प्रतिरोधकत्वोक्तरुपपत्नवादिति द्रष्टव्यम् । -नन्यत्रैवं प्रयोक्तव्यमिति । इयमाशङ्का पक्षधर्मताबलात्लावियसिद्धिरितिपक्षे द्रष्टव्यम् - अनुमानान्तरात्सार्वश्यसिद्धिपक्षे वक्ष्यमाणधर्मियाह केविरोधासंभवात् धर्मिग्राहकप्रमाणेन च कर्तृत्वमात्र- स्यैव सिद्धेरिति ध्येयम् । ५०-- (ईश्वरः सार्वक्ष्यादिगुणवान् सर्वजगत्कर्तृत्वात् व्यतिरेकेण कुलालवदित्यनुमानं हृदि कृत्वाह अन्यस्माद्वेति । यद्यपि पक्षधर्मताबलादपि व्यापकस्य पक्षीयतामात्रं सिध्यति तथापि नाधिकदिति पृथगुक्तिरिति भावः ।।) कर्तेत्येतदन्तर्गतमेव सर्वज्ञत्वमित्येतदपि निराह न हि कर्तेति ।। क्षित्यादिकर्तेत्युक्त्या तल्लाभोऽस्तीति भावेनाशय निराह स एवेति । या० --पक्षधर्मताबलादिति । या ता विना पक्षे न साध्यपर्यवसानं तावत्सर्वमपि पक्षधर्मता. लभ्यं न तु व्यापकतावच्छेदकावच्छिन्नस्य पक्षसम्बन्धमात्रमिति भावः ॥ अन्यस्माद्वेति । ईश्वरः सार्यत्रादिगुणवान् सर्वजगत्कर्तृत्वात् व्यतिरेकेण देवदत्तवदित्यस्मादित्यर्थः । पक्षधर्मताबलादपि व्याप- कतावच्छेदकावच्छिन्नस्य पक्षीयत्वमानं सिध्यति नाधिकमतिप्रसङ्गादिति भावः ।। नन्वति । इयमा- शङ्का पक्षधर्मताबलात्सार्वज्ञसिद्धिरिति पक्षे अनुमानान्तगतसिद्धिरितिपक्षे वक्ष्यमाणधमिंग्राहकविरोधा- सम्भवादिति ध्येयम् । स एव क्षित्यादिकति । तथा च धर्भिग्राहकमानविरोधस्तदवस्थ एवेति- भावः । यद्यप्यत्र यद्धर्मिग्राहक वनकर्तृसाधकमनुमानं न तत्र क्षित्यादिकत्रैक्यादिकं भासते, यत्र च स्थापनायां क्षितिवनादिसर्वक–क्यादिकं भासते न तद्धर्मिग्राहकतया सिद्धान्त्यभिमतम ग्राहकमानविरोधशङ्का । तथापि कāक्यादिसाधकस्थापनानुमानस्य पूर्व प्रवृत्तत्वासापनीतं कक्ष दिकं वनकतृसाधके मिग्राहकेऽनुमाने भासते एवेति शङ्कितुरभिमानोऽतो धाविसमा । न्यायसुधा ॥ (अ.१ पा.१ ७.३ सू.३ - युक्तैवेति । स्यादेतदेवं कथञ्चित् यदि पूर्वप्रवृत्ते स्थापनानुमाने कāक्यादिभानं स्यात् । तदेव न सम्भवतीत्याह तद्भाव इत्यादिना । श्री० तेनोपेतस्येति । तेन वनकृत्त्वादिरूपेणेत्यनन्तरमुपेतस्येति शेष इत्युक्तं भवति । ननु प्रसिद्धकर्तृरहितं वनं सकर्तृकमित्युक्त्यैव सर्वज्ञत्वमिति लाभेन तस्य किञ्चिज्ज्ञत्वसाधने धर्मिग्राहक- मानबाध इत्यत आह न हीति ।। स एवेति । वनकतैवेत्यर्थः ॥ तद्भावे इति । प्रसिद्धकर्तृरहित- बनकर्तुरेव क्षित्यादिकर्तृत्वभाव इत्यर्थः । ननु कार्यत्वहेतुबलादेव व कर्तुरेव क्षित्यादिकर्तृत्व सिध्यति । अनेककर्तृकल्पने गौरवापत्तेरित्यस्ति प्रमाणमिति चेत्तत्राह न हीति । । सु०-- न केवलं किञ्चिज्ज्ञन्यसाधनं सुकरम् । किन्तु वकृतकार्याज्ञत्वमपि शक्य- साधनमित्याशयेनाह वृक्षकृदिति । अनु० वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्वाद्धि चैत्रवत् ।। वृक्षदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिद्धिपरिह.रायोक्तम् । प्रसिद्धकर्तृरहितेत्यांप योज्यम् । अन्यथा सिद्धसाधनताप्रसङ्गात् । अखिरु मित्यारम्भक. वयवसङ्ख्यापलपरिमाण- विशेषसहितम् । अस्मदादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भाबाद+कान्त्यपरिह रयासिल मित्यु- क्तम् । हीति विपक्षे बाधकामावं सूचयति । न हि यो यत्कर्ता स सकलं तज्जानातीति नियमः । कुलालादावभावात् । अनुपयोगाच्च तज्ज्ञानस्येति । अनेनैव न्यायेन सर्वत्र प्रतिपक्ष भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्व- दुःखादिराहित्यादिकमपि नानुमानेन साधयितुं शक्यमित्याशयवानाह इत्यादीति । अनु० - इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।। शक्त विज्ञापने आदिशब्दः प्रकारवचनः । परेशितुः सत्यसङ्कल्पत्याद्युपेतस्य । वृक्षकृदित्युत्तरवाक्येऽपि प्रकारान्तरेण किञ्चिज्ज्ञत्वमेवोच्यत इति तस्यात्यन्तमुपयोगा. भाव इति शङ्का तत्राप्यवान्तरविशेषप्रतिपादकत्वेन परिहरन्नखिलपदतात्पर्यलब्धं तदमिप्रायमाह न केरलमिति ॥ नन्वेकस्याखिलवानुपपत्य ऽनेकविवक्षायां पैक चनानुपपत्तेस्तस्य जात्यभिप्राये च वृक्ष. कर्तुस्तत्स्वरूपज्ञानस्यावश्यकत्वेन तदभावसाधने बाधापत्त्या नाम्लित्व विशेषणमुपपन्नमियत एकस्मिन्नपि विवक्षाविशेषेणाखिलत्वमुपपादयाति अखिलमितीति ।. विपक्ष इति । विप्रतिपन्ने पक्षे उदाहते प्रतिपक्षानुमान इति यावत् । प्रतिकूलतकरूपबाधकामावम् । यद्वोदाहृतप्रत्यनुमाने बाधकत्वेन परेण वा०- - नत्वाधिकरणम्॥ यक्तव्ये, यद्यखिलनो न स्यातर्हि कर्ता न म्यादिति प्रतिकूलतर्के, विपक्षे बाधकामावं, सूचयतीति हि, शब्दार्थः । सतश्च तम्याप्रयोजकतेति भावः ॥ अथवैतस्य यत्र कर्तृत्वेन सार्वश्यसाधकानुमाने प्रतिपक्षता तत्र विपक्षे वाधकाभावं सूचयतीत्यर्थः । ततश्च तस्याप्रयोजकत्वमित्यस्य प्राबल्यवर्णनेन बाधकसूचनम् । न हि प्रतिपक्षो यावज्जीवं प्रतिपक्ष इति भावः ।। बाधकभाव इत्येव पाठे तु न काऽप्यनुपपत्तिः । अस्मदनुमाने प्रतिकूलतकरूपं साधनानुमाने च विपक्षे बाधकं भवद्यद्यखिलतज्ज्ञो न स्यात्तहिं तत्कर्ता न स्यादिल्याकारकं वक्तव्यं तत्र व्याप्त्यभाव इत्याह न हीति ॥ कुन इत्यतः प्रसिद्धकर्तृगां पुंसामखि. लसत्कार्यज्ञानाभावस्य दृष्टत्वात्तत्कार्यकरणेऽखिलतज्ज्ञानस्यानुपयोगेन चाखिलतज्ज्ञानाभावः पुंस्सु निश्चित इति हिसन्दमूचिंत हेतुं दर्शयति कुलालादावियदिना ॥ इत्यादीव्युत्तरवाक्यस्य किञ्चिज्जत्वसाधक- प्रतिपक्षान्तरपरल्वे तदुक्तेविशेषप्रयोजनाभावात्सत्यसङ्कल्पवादिनिरासस्य मूलानारूढताऽऽपाताच्च पूर्वन्या- यातिदेशेन विषयान्तरनिगसपरतया वाक्यं व्याख्याति अनेनैवेति ।। तर्हि प्रभृत्यर्थकादिशब्दानुपपत्तिरित्यत उक्तन्यायातिदेशस्य मूलारूढ नायै आदिपदं व्याख्याति आदिशब्द इति ॥ जगत्कारणत्वरूपोक्तविषया- न्यस्य विषयविशेषस्य मूलारूढताऽर्थमाह परेशितुरिति । --- प० प्रसिद्धकर्चिति । प्रसिद्धकर्तृरहितं यद्वनं तत्कृदिति ध्येयमित्यर्थः । विपक्ष इति । परोक्ताग्विलज्ञत्वविपक्षऽखिलज्ञत्वाभाव इत्यर्थः ॥ बाधकामावं व्यनक्ति न हि यो यत्कर्तेति । - या० ननु तत्कर्तृत्वादेव तदखिलवेत्तृत्वं सिद्धमतः सत्प्रतिपक्षमेतदित्यत आह हीति विपक्ष इति । विपक्ष प्रतिपक्षे । तत्साधकानुमान इति यावत् । बाधकभावं व्याप्त्यभावरूपं सूचयतीत्यर्थः । तमेव दर्शयति न हीत्यादिना । बाधकामावमिति पाठे तु शङ्किते सत्प्रतिपक्षानुमाने पक्षस्य विप- क्षत्वे साध्याभाववत्त्वे बाधकामावादप्रयोजकत्वं सूचयतीत्यर्थः । एतदेव दर्शयति न हीत्यादिनेति योज्यम् । यद्वा । विपक्षे सार्वश्यसाधकानुमानप्रतिपक्षभूतपुंस्त्वानुमाने विरोधिप्रबलप्रमाणाभावं सूचय- तीत्यर्थः । ननु वृक्षकर्तृत्वमेव साकल्येन वृक्षानभिज्ञत्वे बाधकमित्यत आह न हीति । आदिशब्दस्य प्रभृत्यर्थकत्वे पूर्वोतस्यासावश्यसाधकानुमानस्य सत्यसकल्लाद्यनुमाने प्रतिपक्षत्वं प्रतिभाति । तच्च न सम्भ. वतीत्यतोऽन्यथा व्याचष्टे आदिशब्द इति श्री०-- योज्यमिति । वृक्षेत्रांतत्पूर्व योज्यमित्यर्थः ॥ विप्रतिपन्नेति । प्रसिद्धकर्तृरहित- वृक्षेत्यर्थः । ज्ञानमात्रेति । सामान्याकारणेत्यर्थः । 9क सु०- आभाससमानयोगक्षेम चेश्वरानुमानजातमित्याह चातिप्रसङ्ग इति । अनु०---- चातिप्रसङ्गोऽनुमयेदृशा ॥ ईदृशा आगमादिसहायसंपदमपहायात्यन्तातीन्द्रियार्थे(पु) प्रयुज्यमानया अनुमया अति- प्रसङ्गश्चभवतीत्यर्थः । अतिप्रसङ्गमेव दर्शयति वस्तुत्वादिति । अनु वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्ख सुतैयुता ।। चित्रिणी च रसः पष्ठो रसत्वात्सोत्तरो भवेत् ॥ चित्रिणी वन्ध्या । पष्ठो रसो रसान्तरवानित्युक्त प्रथमादिरसेन सिद्धसाधनं स्यात् । सप्तमरसवानित्युक्ते अप्रसिद्ध विशेषणता स्यात् । अतः सोत्तर इत्युक्तम् । ईश्वर!नुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः । ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न । तस्यापि पक्षत्वात् । तुरगशृङ्गादीनामनुपलम्भवाध इति चेत् । क्षित्यादिकर्तुरप्येवमेव । अयोग्यत्वान्नोपलभ्यत इति चेत् । तुरगविषाणमपि एवम(मेवा)स्तु । न च(नु) विषाणं नाम महत्त्वे सत्सुद्भूतरूप(:) शरीरावयव विशेषः । स कथमुपलब्ध्ययोग्यः स्यादिति चेत् । कर्ताऽपि तर्हि कुलालादिखि महत्त्वे सत्युद्भूतरूपशरीरवान्कथमुपलब्ध्ययोग्यो भविष्यति अशरीरत्वानोपलभ्यत इति चेत् । रूपाभावात्तुरगविषाणमपि तथाऽस्तु । विषाणं रूपवदेवेति चेत् । कतोऽपि शरीरवानेव । शरीरं कर्तृत्वेऽनुपयुक्तमिति चेत् न । किमुपयोगेन । न हि तदुत्पत्त्या व्याहिद्धान मिा भक्ताम् । धर्मादिमचं शरीरित्वे प्रयोजकमिति चेन्न । तस्यापि कर्तृत्वेन साधनादिति ॥ ननु कयमा प्रयोक्तव्यम् । अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ(अपि) वर्ततेत्येव मिति । अव्यवहित पूर्व विषय एवोत्तरवाक्यम्यातिप्रसङ्गपरत्वमिति भ्रान्ति निवारयन्नेवाभास- समानयोगक्षेमत्वरूपं प्रसङ्गस्वरूपं च दर्शयति आभासेति ॥ ईदृशानुमयेत्यस्योक्तप्रतिपक्षानुमानपर वे तस्यातिप्रसङ्गरूपत्वाभावाद्वक्ष्यमाणानुमानपरत्वे चेदृशेत्यस्य वैयर्थ्या त्याऽऽभाससाम्यं यदनुमानानामुच्यते तावदीश्वरविषयकानुमानानां विवक्षाया अलाभाच्च तदनुमानजातस्य मूलारूढतायै न पृथक् चानुमेश्वर इत्युक्तागमादिसहायशून्यातीन्द्रियार्थविषयानुमानमात्रपरामर्शपरतया तव्याख्याति आगमादीति ॥ आभाससाम्यस्यातिप्रसङ्गरूपताया मूलाभिनतम्बं दर्शयति अतिप्रसङ्गमेवेति ॥ चित्ररूपवस्त्रियः पुत्रयुतत्व- साधनं नाभास इत्यत आह चित्रिणीति ।। अनुमानस्वरूपमात्रपरस्यास्य वाक्यस्यातिप्रसङ्गस्वरूपे तात्पर्य- सिद्धये आपाद्यासादकस्वरूपप्रदर्शकमुचित शेषं पूरयति ईश्वरानुमानस्येति ।। साम्योक्त्या सूचिंत वैषम्य- परिहारं वक्तुं वैषम्यं शकते नन्वित्यादिना। प्रतिज्ञादूषणवाधपरिहारस्य प्राथम्येऽपि, सूचीकटाह वा०.

जगत्कारणस्य शैवायागमानुमाऽगोचरत्वेन सूत्रेण अतिव्याप्तिनिरासः।) ॥शास्त्रयोनित्याधिकरणम्॥ ११५५ - न्यायेनाल्पत्वाद्धतुदूषणानकान्तिकपरिहारस्य, प्राथम्यमनुसृतं । शरीरमित्यप्रयोजकत्वस्य, धर्मादिमत्त्वमि. त्यन्यथासिद्धेः, शङ्केति द्रष्टव्यम् ॥ नन्वनुमानस्य प्रमाणविशेषत्वादीश्वरानुमानानामनुमानत्वाभ्युपगमे प्रामा. ण्यस्यैवाभ्युपगमात्तदभ्युपगम्येश्वरानुमानस्य प्रमाणतायामित्यापादकत्वनिर्देशेनानुपपत्तिः। आभासत्वा. भिमतस्य चानुमानत्वाभ्युपगमेऽनिष्टत्वाभावेनैषामपि प्रामाण्यं स्यादित्यापादनानुपपत्तिश्चाप्रयोजकता च दृष्टान्ताभावश्चेति कथमेतदित्याशङ्कते ननु कथमिति । न पृथक् चानुमेश्वर इत्यारभ्य नान्या स्याद- नुमा तत इति पूर्वोत्तरवाक्ययोधमिभूतानुमाया एव निर्देशात्तदनुसारेणेश्वरानुमानस्य प्रमाणतायामेषामपि प्रामाण्यं स्यादिति शेषपूरणे व्याख्यातेऽपि प्रयोगप्रकार एवमभिमत इत्याह अनुमानत्वमिति । स० नहि तदुत्पत्त्येति । तन्तूनां पटोत्पादकत्वव्याप्तत्वेपि, कर्तृत्वस्य शरीरोत्पाद्यत्वाभावात् तयाप्तत्वाभाव इति न वाच्यम् । यद्यदु पाद्यं तत्तयाप्यमिति उत्पतिनिमित्तिका बौद्धानामेव व्याप्तिन तु भवता, रूपरसादी व्याप्त्यङ्गीकारादिति भावः ।। प०- न हि तदुत्पत्या व्याप्तिरित्यादि । तदभिन्नयोः कार्यकारणयोश्च व्याप्तिरिति बौद्धमतम् । तथा च यथा बौद्धानां हि कार्यकारणयोरेव व्याप्त्यङ्गीकारो न तथा भवतां तार्किकाणाम् । तथा च नित्यनानेच्छाकृतिषु शरीरस्या जनकत्वेपि चैत्रादायन्यत्र व्याप्तिदर्शनेनेहापि व्याप्तिबलात्स्यादेव शरीरमित्यर्थः । या०-- तदुत्पत्त्येति । तत्तादात्म्यं बा तदुत्पन्नत्वं वा तद्व्याप्यत्वे निमित्त, नान्यदिति बौद्ध- मतं, न भवतामतादृशस्यापि रसादे रूपादिव्याप्यतोपलम्भादित्यर्थः । ननु यदीश्वरानुमानं प्रमाण स्यात्तदोक्तानुमान जातमपि प्रमाण स्यादित्युक्तावतिप्रसङ्गरूपतर्के वैय्यधिकरण्यम्, आपाद्यापादकयोः प्रका. रान्तरं च न मूले प्रतीयत इत्याशयेन पृच्छति नन्वत्रेति । यद्यपि यद्येनाविशिष्ट तत्तथेति व्याप्तौ सत्यां न वैय्यधिकरण्यं तथाऽपि तुष्यत्विति न्यायेन मूलाभिप्रेतं सामानाधिकरण्यं दर्शयति अनुमानत्वं यदीति । श्री०- ईदृक् शब्दस्य तृतीया ईदृशेति ॥ (पूर्ववदिति । कार्यत्वविप्रतिपन्नं प्रत्यन्यत्वस्या- सिद्धत्वादित्युक्तरीत्येत्यर्थः 1) ईदृश्येति भाव्ये छान्दसत्वाददोषः ॥ अनुपयुक्तमिति । तथा च यः कर्ता स शरीरवानेवेति नेत्यर्थः । न हि तदुत्पत्त्येति । यदि कार्यकारणभावोपेतयोरेव धूमवयोरिव व्याप्तिः स्यात्तदैव कर्तृत्वे शरीरं न जनकमिति तयोर्जन्यजनकभावाभावात्कर्तृत्वाङ्गीकारेऽपि शरीरेण किं. शरीरस्य कर्तृत्वाजनकत्वादिति वक्तुं शक्येत । न ह्येवम् । अतादृशयोरपि रूपरसयोरविनाभाव. दर्शनादेवं प्रकृतेऽपि शरीरकर्तृत्वयोजन्यजनकभावाभावेऽप्यविनाभावसद्भावात्कर्तृत्वाङ्गीकारे शरीरं प्राप्त- मेवेत्याशयः । न . न्यायसुधा । (भ.१ .पा.१ ७.३ सू.३ सु०- ननु विचारशाखमारभ्य जगत्कारणेऽनुमानानवकाशव्युत्पादनं व्याहतमित्या- शङ्का परिहरन्नुपसंहरति उपक्रमादीति । अनु०- उपक्रमादिलिङ्गेभ्यो नान्या स्यादनुमा ततः ॥ ३ ॥ आगमानुगृहीतानुमानोपलक्षणमेतत् । आगमानुग्रहे हि सर्वाण्येतान्यनुमाना- न्येव । पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतः प्रमाणेन शास्त्रेण सिद्धेः। प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्केपः । तदेवं जगत्कारणत्वस्य (णस्य) शास्सैकसमधिगम्यत्वान्नानु- मानादिना लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् ॥ छ । -- वा० ननूपक्रमादीत्यादिशब्देन तात्पर्यज्ञापकत्वेन वाक्यार्थज्ञानोपयुक्तत्वेन च सजाती- यानामुपसंहारादीनां श्रुत्यादीनां च ग्रहणेन तदन्येषामीश्वरानुमानादीनां न मानत्वमित्युपक्रमादीति वाक्येनोच्यत इति भाति; तथात्वे जगत्कारणेऽनुमानानवकाशव्युत्पादनव्याहतिशङ्काया न निरासः, न पृथक् चानुमेश्वर इत्यत्रत्यपृथगित्यस्य वैयर्थ्य च, 'न तु दृष्टान्तभावात्' इत्येतत्सूत्रार्थतयेश्वरादिसाधककार्य. स्वादिहेतूपन्यासानुपपत्तिश्च; इत्यत 'आगमानुगृहीता तु मानमेषाऽनुमाऽपि तु'इत्यनुव्याख्यानं मनसि निधाय विजातीयताहगनुमानोपलक्षणतयोपक्रमादिशब्दं व्याख्याति आगमेति ॥ ननूक्तरीत्याऽसिद्धिप्रति पक्षादिप्रसक्तेः कथमागमानुग्रहमात्रेणानुमानत्वमित्यतः अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः'इत्य. नुव्याख्यानं मनसि निधायागमोपकारं दर्शयति आगमेति । प्रथमादिपदेन व्याप्त्यादेः संग्रहः । द्वितीयादिपदेनोपाध्यादीनाम् ।। ननु उपाधिप्रतिपक्षौ तु क नामातीव दुर्वचौ' इत्युक्तेः सर्वत्र प्रतिपक्षादे. रवकाशान्नेदमर्धजरतीयं युक्तमित्याशङ्कानिरासः 'अन्यथाऽस्याप्रतिष्ठा च स्ववाचा व्याहतैव हि'इन्युत्तर- वाक्योक्तव्याहत्या द्रष्टव्य इत्याह इति सङ्केप इति ।। छ । छ । १०- विचारशास्त्रम् । अनुमानरूपन्यायनिबन्धनशास्त्रम् ॥ कर्मनिर्णये युक्तिश्चेत्यादिग्रन्थे कर्तृत्वादौ कार्यत्वादीनां अनुमानानामङ्गीकारादाह आगमानुगृहीतेति ॥ संक्षेप इति । विस्तरस्तु तर्कताण्डवे ।। छ॥ mous श्री० उपलक्षणमेतदिति । उपक्रमादिलिङ्गेभ्यः उपक्रमादिलिझोपेतागमानुगृहीतेभ्योऽ- नुमानेभ्यः इत्यर्थो द्रष्टव्यः ।

तथा (अब अन्न परकीप्रभा यस्य अपव्याख्यानत्वम् ।) मुं०-अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कुर्व)ते । तदनुपपन्नम्. प्रकृतानुपयोगात् । न हि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः । व्याप्त्यदर्शनात् । पूर्वसत्रे जगत्कारणत्वेन प्रतीत सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन । वेदस्यापि सकलजगद. न्तर्भावात् । कथं चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटं तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् । अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितु हेतु- खेनोक्तं सार्वज्ञ शास्त्रयोनित्वेन साध्यत इति चेन । असिद्धिप्रसङ्गात् । न हि ब्रह्मणो जग- कारणत्वमनङ्गी कुर्वाणो वेदकारणत्वमङ्गीकरोति । आगमेन साध्यत इति चेत् । तर्हि जग- कारणत्वमेव तेन किं न साध्यते । ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तताप्रसङ्गाच्च ।। जगत्कारणत्वेन सर्वज्ञत्वं न सिध्यति वेदाकर्तृत्वादित्याशङ्कयेदमुक्तमिति चेन्न । सति प्रतिज्ञामात्रत्वप्रसङ्गात् । वियदादिविषयेप्येवमाशङ्काप्रसङ्गात् । वियदधिकरणादौ साऽपि निराकरिष्यत इति चेत् न । तर्हि तेनैवेदं गतार्थ स्यात् । किश्च वेदकर्तृत्वाभावे(न) सायं न संभवर्तीति शङ्कच निर्दला । न हि तत्क.व तज्ज्ञातव्यमिति नियमोऽस्ति । किञ्च वेदकर्तृत्वं कथं सार्वश्यसाधकम् । यो यावदर्थप्रतिपादकस्य वाक्यस्यप्रणेता स ततोऽप्यधिकमर्थं जानात्येव । यथा पाणिन्यादिः । अयं चाशेषार्थप्रतिपाद- कस्य शास्त्रस्य प्रणेताऽतः कथं न सर्वज्ञ इति चेत् न । किमिदं वेदप्रणेतृत्वं नाम। किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि) बन्ध(न)कर्तृत्वं किं वोच्चारणमात्रम् । आधे पौरुषेयत्वापत्तिः । द्वितीये सार्वझ्यासिद्धिः । उपाध्याय(दि)वत् । रजौ भुजङ्गबद्ब्रह्मण्या- रोपितो वेद इति चेत् । कथं तर्हि पाणिन्यादिदृष्टान्तः । न हि पाणिनावारोपितं व्याकर- णम् । कथं चैवं सति सार्वश्यसिद्धिः । तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत्(न)। वियदादीनामपि प्रकाशशक्तिप्रसङ्गात् । अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्र- सङ्गात्(च)। किश्च वेदे ज्ञानकरणत्वशक्तिब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्ग- तम् । कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति । तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः ॥१-१-३ ।। नन्वेतावता ग्रन्थेन कारणस्य प्रमाणान्तरागम्यत्वेन शास्त्रकसमधिगम्यत्वव्युत्पादनं भाष्यकारीयं तदा युक्त स्याद्यदि शास्त्रैकसमधिगम्यत्वं सूत्रार्थः स्यात् । न चैवम् । परोक्तरीत्या समास. प्राबल्याच सूत्रस्यान्यार्थत्वादिति शिष्यहादेशका परिहर्तुमर्थान्तरानुपपत्ति दर्शयितुं तमनुवदति अत्र केचि. 9ग ११५८ न्यायसुधा । दिति ॥ पूर्वसूत्रेण लक्षणेऽभिहिते लक्षणविशिष्टे प्रमाणस्यैवाकाङ्कितत्वेन वेदकारणत्वादेरनाकाशि- तत्वादाकाङ्गादिवशादेव वाक्यार्थत्यावधेयत्वाद्योनिशब्दं प्रमाणवाचिनमङ्गीकृत्य बहुव्रीहिवंशांदस्मदुक्ता- र्थस्यैव प्रकृतोपयोगेऽपि, प्रकृतानुपयोगान्नायं वाक्यार्थ इत्याह प्रकृतेति ॥ ननु शास्त्रकारणत्वं पूर्वसूत्रो. तजगत्कारणत्वे हेतुत्वेनानेनोच्यतेऽतो नानाकाश्रिताभिधानमित्यत आह प्रकृतेति । हेतुत्वेनोपयोगाभावं दर्शयति न हीति || हिशब्दार्थ प्रपञ्चयति व्याप्तीति । उपलक्षणं चैतत् । एकदेशकारणत्वेन समुदायकारणत्वानुमानेऽतिप्रसङ्गाच्चेत्यपि द्रष्टव्यम् । न च नायं निश्चय- हेतुः किं स्वशक्यसृष्टेर्वेदस्य स्रष्टुः सर्वजगत्स्रष्ट्रत्वं सम्भवतीति सम्भावनाहेतुरिति वाच्यम् । अधिके. नाल्पस्थ सम्भावनेऽप्यल्पनाधिकस्यासम्भावनादिति भावः ।। श्रुतेजगत्कारणत्वे हेतुत्वेनासङ्गतावपि तदुक्त्यर्थलभ्यसार्वज्ञे हेतुत्वेनान्वयान्नासङ्गतिरित्याशङ्कने पूर्वेति ॥ जगदेकदेशवेदस्रष्टुत्वेन सार्वज्ञसिद्धा. वन्तर्भावितवेदस्य जगतः स्रष्टत्वेन सुतरां सार्वज्ञ सिद्धयत्येवेत्यर्थादपि जन्मादिसूत्रेणैव सार्वज्ञस्य स्फुटं प्रतीतत्वेन पुनर्हेत्वाकाङ्क्षाया अभावेनासङ्गतिस्तदवस्थैवेत्याह वेदस्यापीति ।। एवमपि पूर्वसूत्रोक्तजग- कारणत्वेन स्फुटं सार्वज्ञाप्रतीतौ शास्त्रकारणत्वोक्त्याऽपि न तत्प्रतीतिरित्येतदुक्तिरयुक्तैवेत्याह कथं चेति । उपलक्षणं चैतत् । पूर्वसूत्रेऽर्थलब्धसर्वशक्त्या दित्यागेन सार्वज्ञस्यैव स्फोरणे निमित्ताभावाचेत्यपि द्रष्टव्यम् । न च 'अस्य महतो भूतस्य निःश्वसितं'इति श्रुत्या नामरूपात्मकस्य सर्वस्यापि प्रपञ्चस्य निःश्व. सितवदप्रयत्नसाध्यब्रह्मकार्यत्वोक्तेस्तादृशश्रुत्युदाहरणेन सर्वशक्त्याद्यपि दृढीकृतमेवेति वाच्यम् । श्रुत्यन्तर- स्यापि सूत्रसूचितत्वसम्भवेनास्या एव सूत्रोपातत्वे नियामकाभावात्सार्वज्ञे कण्ठत एव शास्त्रयोनित्वरूप. साधकमभिधाय तत्सूचितप्रमाणेनार्थतः सर्वशक्त्यादिसाधने निमित्ताभावाच्चेत्याशयात् ॥ ननु न पूर्व- सूत्रेणार्थतो लब्धस्य सार्वज्ञस्य स्फुटीकरणार्थमिदं येनोक्तदोषः स्याकिन्तु प्रधानादिव्युदासेन जगत्कार- णत्वं ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञ शास्त्रयोनित्वेन साधयितुमिदम्, अतः सार्वज्ञस्यैव विशिष्य साधनमुपपन्नम्। इति शकते तथेति ॥ आगमेन शास्त्रयोनित्वं तेन च सार्वयं प्रसाध्य तेनान्यव्युदा- सेन ब्रह्मणि जगत्कारणत्वसाधनाद्वरं श्रुत्यैवान्यव्युदासेन ब्रह्मण्येव जगत्कारणत्वसाधनमित्याह तहीति । ईक्षत्यधिकरणादीत्यादिपदेन चतुर्थपादोपादानम् ॥ ननु प्रधानादिव्युदासेन ब्रह्मण्येव जगत्कारणत्व- साधकतया सार्वश्यसिद्धेरावश्यकत्वाज्जगत्कारणत्वेन सायं न सिद्धयति वेदाकर्तृत्वादिति शङ्कया च जगत्कारणत्वेन सार्वज्ञसिद्धरसम्भवाद्वेदकारणत्वेन सार्वश्यसिद्धयर्थमिदमुच्यते । भयमेव जगत्कार- णत्वेनास्फुटं सावश्यं स्फुटीक्रियत इत्यस्याभिप्राय इत्याशयेन शकते जगदिति ॥ तर्हि नोक्तशङ्काया अनेन परिहारो वेदकारणत्वे हेतोरनुपन्यासादित्याह तथा सतीति । तर्हि 'यावद्विकारं तु विभाग:' इत्यादिसूत्रोक्तैर्भिन्नत्वादिसाधारणहेतुभिब्रह्मेतरसनित्यताया वियदधिकरणादौ प्रतिपादनेन तेनैव तच्छ.

परकीयभायखण्डनम्) ॥ शास्त्रयोनित्याधिकरणम् ।। . क.निवृत्तेस्तदर्थत्वे तेनास्य गतार्थता स्यादित्याह तहीति । न चात एव हेतुमनुपन्यस्य प्रतिज्ञामात्रमुक्त. शङ्कानिरासमूचनाय कृतमिति वाच्यम्, वियदादिविषयेऽपि तथा प्रतिज्ञायाः कर्तव्यत्वात्त्वद्भाप्येऽस्य महत इत्य दिप्रमाणोपन्यासानुपपत्तेश्च । न च तत्रि श्रुत्या शास्त्रयोनित्वसाधनं तत्र युक्त्येति न गतार्थतेति वाच्यम्, वियदादिकारणत्व इवैतत्कारणत्वेऽपि श्रुत्यादेस्तत्रैवोपन्यसनीयतया वैलक्षण्ये निमित्ताभावात् । अन्यथा वियदादिविषये श्रुन्युपन्यासायात्र यत्नः कर्तव्यः स्यादिति भावः ॥ एतेन 'अथवा वेदनित्यत्वाद्ब्रह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तु शास्त्रयोनित्वमुच्यते' इति सार्वश्यप्रस- गमपहाय जगत्कारणत्वासम्भवशङ्कापरिहारकत्वेन सूत्रसार्थक्यप्रकारः कल्पतरूक्तो निरस्तो वेदितव्यः । प्रतिज्ञामात्रत्वप्रसङ्गस्य वियदादिवलक्षण्याभावप्रयुक्त होपस्य चापरिहारात् ॥ एवं च साश्यसिद्ध्यर्थ ला स्त्रयोनितोऽनश्यं वाच्ये एतच्छङ्कापरिहारोऽप्यनुपङ्गगतः सिव्यतीत्येव कल्पतरुतात्पर्य न तु सार्वश्यसि. द्वयर्थतामस्यापहायतत्सूत्रस्थै नच्छङ्कानिरासक:यमेवेत्यत्रेाते केनचिदुक्तं निरन्तम् । अस्य सार्वक्ष्यसिद्ध्यर्थताया निरस्तत्वान्निराकरिप्यमाणत्वाच्च प्रतिज्ञामात्रेण शङ्ककाया अपरिहारादानुषङ्गिकतासिद्धेरनुपपत्तेश्चति प्रधानादिव्युदासेन ब्रह्मण्येव जगत्कारणत्वं साधयितुं हेतुत्वेनोक्तसार्वज्ञ शास्त्रयोनित्वेन साध्यत इत्यभि. प्रायस्य वेदाकर्तृत्वाज्जगत्कारणत्वेन सर्वत्रत्वं न सिध्यतीत्यभिप्रायम्य च सूत्रावतारिकावसरे विवरण- ग्रन्थात्स्पष्टप्रतिभासेऽपि चन्द्रिकायां तत्तदाशङ्कापरिहारौ तु पक्षान्तरनिरासेनार्थत एतदभिप्राये दूषण- लाभाभिप्रायेणेति द्रष्टव्यम् । सर्व पक्षमाधारणं दूपणमाह किञ्च वेदकर्तृत्वमिति । एतेन यद्भामतीविवरणयोर्जगत्कारणत्वेन सिद्धे सार्वज्ञे शास्त्रयोनित्वं हेत्वन्तरमुच्यत इत्युक्तं तदपि निरस्तं भवति ॥ यो यावदिति । वेदः स्ववियाधिकज्ञानवाणीतो वाक्यप्रमाणत्वात्याणिन्यादिशास्त्रवदिति वा ब्रह्म वेदविषयादधिकविषयज्ञ तत्कर्तृत्वात्यागिन्यादिवदिति वा प्रयोगप्रकारो द्रष्टव्यः। सर्वावभासकवेदकर्तृत्वेन पक्षधर्मताबलात्सार्वज्ञ- सिद्धिरित्याशयेन तदनुगुणतया व्याप्तिस्वरूपं प्रदय पक्षधर्मतास्वरूपमपि दर्शयति अयं चेति । यद्यपि सकलवेदकर्तृत्वहेतूकरणबलात्सकलवेदार्थविषयत्वमीश्वरज्ञानस्य सिध्यतीति तावतैव तस्य सार्वश्य- सिद्धरधिकविषयत्वविशेपण व्यर्थम् । अद्यतनपुरुपपाणिगतवराटकसङ्ख्यादिज्ञानस्य चाधिकविशेषणेनाप्य- सिद्धिरेव । इक्षुक्षारादिमाधुर्यादिविशेषाणां शब्दाबोल्यानुभवमात्रगोचराणां ज्ञानस्य सिद्धयर्थं तदुपादाने च तादृशाधिकविशेपविषयत्वेन सा-यस्योपपत्त्याऽर्थान्तरापत्तिस्तथाऽपि सकलवेदार्थाभिज्ञत्वमेव साध्यम् । सामान्यव्याप्तिल स्वप्रयुक्तवाक्यार्थाभिज्ञत्वमात्रसिद्धावपि विशिष्य सकलदार्थाभिज्ञत्वसिद्धिः सकल वे कर्तृत्वहे गुपक्षधर्मावललभ्या । वेदार्थाधिकाऽद्यतनवृत्तान्ताद्यभिज्ञत्वसिद्धिरतु स्वतः सर्ववेदार्थगोचर- मीश्वरज्ञानमन्यदपि गोचरयेदिति न्यायसाम्यात् । अधिकविषयत्वस्य साध्यानुप्रवेशनं तु, पाणिनीयादि- १५ . अपरत्र माध्यसिद्धिदात्यार्थमिति परस्याशयः । यद्यप्येकार्थमात्रज्ञेन प्रयुक्ते प्रतीयमानानेकार्थकवाक्ये स्वविषय. ज्ञानवत्प्रणीतत्वस्याप्यभावेन व्यभिचारस्तद्वदुपपत्त्या चार्थान्तरता, दुष्करकरणसमर्थस्यापि सुकरकरण. सामर्थ्याभावदर्शनेन वेदार्थाभिज्ञस्यापि पाणिगतवराटकाद्यज्ञानोपपत्त्या न्यायबलेनापि तज्ज्ञ नालाभनेत्या- दिपणमपि वक्तुमुचितम् तथाऽपि यत्परेणैतदनुमानहेतौ विकल्पदूषणमाशङ्कय समाधानमभिहितं तन्निरा. सेन तदेव तदचातुरीं प्रदर्शयितुमुद्भावयति विमिदमिति ॥ रजाविति । एवञ्च वेदारोपाधिष्ठानत्वं तत्प्रणेतृत्वमित्युक्तं भवति । तर्हि दृष्टान्ते साधनवैकल्यमित्याह कथं तहीति । कार्याध्यस्तयोरुभयो:- कारणाधिष्ठानाधीनन्वमात्रेण तदुक्तौ तूभयानुगताधीनताया निर्वस्तुमशक्यत्वाच्छब्दसाम्यमात्रेण दृष्टान्तता. याध्यातिप्रसञ्जकत्वेनायुक्तत्वादिति भावः । अप्रयोजकत्वं चाह कथं चेति । वियदादीनामित्यादि- पदेनाविद्यादिग्रहणम् । ननु कार्यगतत्वेन निश्चितशक्ते. कारणशक्तिं विनाऽनुपपत्तावपि कारणगतसर्व- शक्तेः कार्यगतत्वनियमानभ्युपगमात्कथमेतदित्यतः साऽप्यनुपपत्तिर्नास्तीत्याह अविधादीति । प्रकृते कार्यकारणयोरेकशक्तिकत्वमभ्युपगम्य तन्नियमाभावव्युत्पादनं कृतं वस्तुतस्तु तदेव नास्तीत्याह किञ्चति । न च बोधकत्वमात्रमुभयानुगतमस्तीति वाच्यम् । एकत्र बोधकत्वं नाम तत्करणत्वमेव । तत्कर्तृत्वमेवेत्यर्थभेदे सति शब्दसाम्यमात्रस्याप्रयोजाकत्वादित्याशयः । किञ्च प्रसिद्धोपादानोपादेययोरेक शक्तिमत्त्वस्य कचिद्दशनेऽपि त्वदभिमताधिष्ठानाध्यस्तयोस्त्वनयोन कचिदपि दृष्टमित्याह कुत्र चेति ।। नम्मादिति । भाप्यकारीयः शास्त्रैकसमधिगम्यत्वसाधनायासो युक्त एवेति भावः ॥ १-१-३ ॥ तस्यैव विज्ञानशक्तीति । अत एव शास्त्रमर्थप्रकाशकम् । तथा च रौप्यगता या शक्तिः सा सर्वाप्यधिष्ठानगतैव नान्येति शङ्कितुरभिप्रायः । ५० -- अद्वैतमतं प्रत्याचष्टे अत्र केचिदिति ॥ वेदस्यापि सकलजगदन्तर्भावादिति । तथा च पूर्वसूत्र एव वेदकारण वस्यापि प्राप्त्या पुनरिह तदुक्तौ पौनरुक्त्यं स्यादिति भावः ॥ दोषान्तरं चाह कथं चेति । हेतुत्वेनोक्तमिति । पूर्वसूत्रे जगत्कारणत्वेनोक्तमित्यर्थः । अथ जगत्कारणत्वं प्रधानादिव्युदासेनेत्याद्युक्तार्थे दोषमा ईक्षतीति । तत्रापीक्षणरूपहेतुना प्रधानकारणत्वनिरासा दिति भावः । आदिपदेनानुमानिकमप्येकेपामित्यस्य ग्रहणम् ॥ इदमिति । शास्त्रयोनित्वादित्येतदित्यर्थः ।। प्रतिज्ञामात्रत्वेति ।शास्त्रयोनिल्वे प्रमाणस्य सूत्रेऽनुपन्यासादिति भावः । इतिनियमोऽस्तीति । घटाद्यकतुरपि घटादिज्ञानदर्शनादिति भावः ॥ शङ्कते तस्यैवेति । ब्रह्मणो या विज्ञानशक्तिः तयैव ब्रह्म शास्त्रस्वेन भ्रमविषयत्वमापद्यत इति शास्त्रस्य ब्रह्मविज्ञानशक्त. तथा च परकीयभायखण्डनम्) ॥ शास्त्रयोनित्वाधिकरणम् ॥ ११६१ ॥ विवर्तत्वं । अत आरोप्ये वेदे विज्ञानजनकत्वादधिष्ठानेपि ब्रह्मणि विज्ञानशक्तिः सत्यभूतोपेयेति सार्वज्ञ- सिद्धिरिति भावः ॥ वियदादेरपि शास्त्रस्येव विज्ञानशक्तिविवर्तत्वस्य वाच्यत्वाच्छास्त्रस्येव तस्याप्यर्थ- ज्ञानजनकत्वं स्यादित्याह वियदादीनामपीति ॥ आरोप्यगता शक्तिरधिष्ठानेऽवश्यमङ्गीकार्येत्यत्र दोषान्तरमाह अविद्यादीति ॥ तत्कतत्वेति । ज्ञानकर्तृत्वेत्यर्थः । आरोपितवेदस्य ज्ञानजननशक्तित्वे- प्यधिष्ठाने विज्ञानशक्तिसिद्धिर्नास्ति येन सार्वज्ञसिद्धिः स्यादिति भावनाह कुत्र चेद- मिति ॥ १ । १ । ३ ।। या० सूत्रवाक्यादापाततः प्रतीयमानं हेतुत्वं दूषयति न हीति व्यात्प्यदर्शनादिति । वेदादिप्रणेतुरन्यस्याभावेन दृष्टान्ताभावादिति भावः ।। भाष्योक्तां सङ्गतिमाशङ्कते पूर्वसूत्र इति । विवरणोक्ता सङ्गतिमाशङ्कते अथेति ॥ हेतुत्वेनोक्तमिति । पूर्वमूत्र इति शेषः । ईक्षत्यधिकरणादिने- त्यत्रादिपदेनानुमानिकमप्येकेपामिति चेदित्यादीनां ग्रहणम् । विवरणोक्तमेव सङ्गत्यन्तरं शङ्कते जगत्कारणत्वेनेति ॥ तेनैवेदामिति । 'प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः' इत्यादिसूत्रार्थतया त्वदुक्त- न्यायसाम्यादिति भावः ।। ॥ मीमांसकमतानुसारेणोदाहरणादित्वेन तद्भाप्याभिप्रेतमनुमानमनुवदति यो यावदर्थेति । इदमिहानुमानं । ब्रह्म, वेदविषयादधिकवियज्ञ, तत्कर्तृत्वादिति । ननु सकल वेदकर्तृत्वरूपहेतुबलात्सकलवेदार्थविषयत्वमीश्वरज्ञानस्य सिध्यतीति तावतैव तस्य सार्वश्यसिद्धरधिक- विषयत्वं विशेषणान्तरं किमर्थम् । न च तावता तस्य सार्वज्ञ न सिध्यति । अवेदप्रतिपादिताद्यतनवृत्ता. साद्यभिज्ञत्वस्य तेनासिद्धेरिति वाच्यम् । अधिकविषयत्वविशेषणेनापि तदसिद्धेरिति चेत् । उच्यते । सकलवेदार्थाभिज्ञत्वमेवेह साध्यम् । पक्षधर्मतावलात्सार्वज्ञसिद्धयक्तिरिति तन्मताभिप्रायः । वेदार्थाधिकाद्य- तनवृत्तान्ताद्यभिज्ञतासिद्धिस्तु स्वतः सर्ववेदार्थगोचरमीश्वरज्ञानमन्यदपि सर्व गोचरयेदिति न्यायसाम्यात् । अधिकविषयत्वस्य सायानुप्रवेशनं तु पाणिनीयादिदृष्टव्याप्तिबलादधिकविषयत्वमपि से मर्हति किमुत वेदार्थविषयत्वमिति कैमुत्यादिन्यायेन सिमाधयिपितसाध्यदाढर्यार्थमनुमानप्रवृत्यनन्तरभाविन्यायलभ्यार्थी- नुवादरूपं चेति ज्ञातव्यम् ॥ सार्वज्ञसिद्धिमाशङ्कते तस्यैव विज्ञानशक्तीति । अयं भावः । अस्ति तावत्कार्य शास्त्रे प्रकाशनसामर्थ्यम् । तच्चीपादानकारणधर्म एव । प्रदीपगतप्रकाशनसामर्थ्यस्य वह्नि- धर्मतादर्शनात् । कार्योगदानयोः शक्तिद्वयकल्पनाऽयोगात् । एवं च सर्वार्थप्रकाशनसमर्थत्वात्सर्वज्ञ ब्रह्मेति । कारणगतैव शक्तिः कार्य इति नियमस्यान्वयव्यभिचारमाह वियदादीनामिति ॥ व्यतिरेक- व्यभिचारमाह अविद्या(दि)गतेति ।। वह्निदीपादावेकशक्तिकत्वसम्भवेऽपि न प्रकृते तत्संभव इत्याह किञ्च वेद इति ।। कुत्र चमिति । वह्निश्च न दीपारोपाधिष्ठानभूतः । अतस्तदुदाहरणं प्रकृतासङ्गतमेवेति ।। ॥ १-१.३ ॥ छ। न -- ११६२ न्यायसुधा ॥ (म.१ पा.१ अ.३ सू.३ - श्री०- ननु कथं निर्दलत्वं यो यत्कर्ता तेनैव तस्य ज्ञातत्याह्मणश्च वेदाकर्तृत्वे वेदज्ञानं न स्यादित्यतं आह न हीति । तथात्वे कुलोलकृतघटस्य कुविन्दादिनाऽज्ञेयत.प्रसङ्गादित्याशयः । एवं चान्यकृतस्यापि वेदस्य ज्ञानमीश्वरस्य संभवतीति ध्येयम् । अधिष्ठानगता शक्तिरारोप्ये भवतीत्यम्य व्यभिचारेणासंभवेऽप्यारोप्ये शक्तिर्या प्रतीयते सा शक्तिः सर्वाप्यधिष्ठ,नगतै ति नियम्स्य व्यभिचारा. भावादित्यत आह अविद्येति । अविद्यायाश्चैतन्ये आरोपितत्वादिति भावः । ब्रह्मणीति । ब्रह्मचैत- ... न्यस्य प्रकाशकत्वेन तत्रावरणशक्त्यभावादिति भावः ॥ अस्तु वाऽधिष्ठानगता शक्तिरारोप्ये । आरो- प्यगता शक्तिरधिष्ठाने प्रतीयत इति नियमः; तथाऽपि न ब्रह्मणः सार्वज्ञ सिद्धयर्त.त्याह किति । न ह्यधिष्ठानगता ज्ञानकर्तृत्वशक्तिरारोप्ये वेदेऽस्ति । न वाऽऽरोप्य वेदगता ज्ञानाकरणत्वशक्तिरधिष्ठ.. नेऽस्तीति ब्रह्मगतविज्ञानकर्तृत्वशक्तिविवर्तत्वस्य वेदेऽभावान्न तेन सार्वज्ञरि द्धिरिति भावः । कुत्र चेति । भुजङ्गगतभयजनकत्वशक्त रज्जावभावादिति भावः ॥ छ ॥ १-१-३ ॥ छ । अद्वैतवादिव्याख्याप्रत्याचिख्यासया तामनुवदति अत्र केचिदिति । तदीयभाष्य भाषितां सङ्गतिमाशङ्कते पूर्वसूत्र इति । वैवरणिकौं सङ्गतिं शङ्कते अथेति । अनेत्थमनुमिमानाना- माशयः । पाणिन्यादौ निखिलपाणिनीयादिकर्तृत्वान्निखिलपाणिनीयप्रतिपाद्यार्थज्ञानवत्ता यथा तद्व. ब्रह्मण्यपि निखिलवेदकर्तृत्वरूपहेतोः पक्षवृत्तित्वबलान्निखिलवेदप्रतिपाद्यार्थज्ञानवत्ता निखिलवेदजनिता- न्वयधीनिरूपितविषयतात्वावच्छिन्नव्यापकस्वनिरूपितविपयतात्वावच्छिन्नकज्ञानवत्तारूपा सिध्यतीति । स्व- निरूपितविषयतात्वावच्छिन्ने तादृशान्वयधीनिरूपितविषयतात्वावच्छिन्नाभावसमानाधिकरणत्वनिवेशफल- कस्याधिकविषयकत्वविशेषणस्योपादानं मन्दप्रयोजनमेव । न च सार्वसिद्धिफलकं तद्विशेषणोपादान. मिति वाच्यम् । तादृशवेदजनितान्वयबोधाविषयीभूतानामद्यतनपुरुषपाणिगतवर टकसङ्ख्यादी शब्दा- बोव्यानुभवगोचरेक्षुक्षीरादिमाधुर्यादिविशेषाणां तादृशाद्यतनवृत्तान्तादीनां च ज्ञानस्य तद्विशेषणोपादा- नेनाप्यसिध्या सार्वज्ञसिद्धिफलकत्वस्य दुरुपपादत्वात् । दुष्करकण्टकाद्यदनकर्तर्यपि सुकररम्भाफलादन- कर्तृत्वाभावदर्शनेन दुष्करातीन्द्रियार्थविषयीकरणचणमीश्वरज्ञानं सुकराद्यानपुरुषपाणिगतवराटकसङ्ख्यादि विषयीकरणे कथं नेष्ट इन्युक्तिरप्यसमञ्जसैव । यथाश्रुते साध्यशरीरे तादृगविशेषणनिवेशनं तु पाणि न्यादौ दृष्टव्याप्तिबलादधिकविषयत्वमपि सेत्धुमर्हति किमुत वेदार्थविषयत्वमिति कैमुन्येन सिपाधयिषित- साध्यसिद्धिदाढर्थिमिति स्थितमिति । भङ्गयन्तरेण सार्वज्ञरिद्धिमाशङ्कते । तस्यैव विज्ञानशक्तीति । सदाश्रितविज्ञानशक्तिजन्यस्यादित्यर्थः । . ब्रह्मगः कार्यभूते शास्त्रे वर्तमाना निखिलार्थप्रकाश-शक्ति- स्तदुपदानभूतब्रह्मगततादृशशक्तिनियन्त्रितैव । प्रदीपगतप्रकाशनशक्तेस्तदुपादानवह्निधर्मतादर्शनेन कार्यों पादानयोरेकशक्तिमत्तानियमादित्थं च वेदसर्वार्थप्रकाशनशक्त्यनुरोधेन तादृशशक्तिमब्रह्मेति तस्य सार्वज्ञम- ।

परकीयभाष्यखण्डनम् । शास्त्रयोनित्वाधिकरणम् ॥ ११६३ सैसीदेवेति भावः । अभिहितनियमस्यान्वयव्यभिचारमाह वियदादीनामिति । व्यतिरेकव्यभिचार- माह अविद्यादिगतेति । वविदीपयोरेकशक्तिमत्तायां प्रकृते ब्रह्मवेदयोरेकशक्तिमत्तैव दुरुपपादेत्याह किञ्चेति । वन्हेर्दीपारोपाधिष्टानत्वायोगेन तदुदाहरणमपि प्रकृतासङ्गतमित्याह कुत्र चेदमिति । अपव्याख्यापतिविहितिं निगमयति तस्मादिति ।। इति शास्त्रयोनित्वाधिकरणम् १-१-३.

अथ समन्वयाधिकरणम् १-१-४.

पूर्वपक्षरचना) ॥ समन्वयाधिकरणम् ॥ ११६५ वा०. -- - सु-- ॐ तत्तु समन्वयात् ॐ ॥ अस्तु शास्त्रकसमधिगम्यं जगत्कारणम् । तथापि शास्वत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्यप्रतीतेरतिव्यापकमिदं लक्षणम् । न च तच्छास्त्रं विष्णुपरमिति वाच्यम् । अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् । यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते । तथाऽपि न तात्पर्य प्रमाणमस्ति । यत्परः शब्दः स शब्दार्थ इति हि न्यायः । न च शक्तिमात्रेण तात्पर्य कल्पयितुं युक्तम् । अतिप्रसङ्गात् । अन्यत्र तात्पर्य(स्य च )ज्ञापकमभियुक्तव्याख्यानमस्ती- त्युक्तम् । तस्मादलक्षणमेतदित्याशङ्कय परिहतं सूत्रकता तत्तु समन्वयादिति । ब.सू.- ॥ ॐ तत्तु समन्वयात् ॐ॥ तत्तु समन्वयात् ॐ || शास्त्रयोनित्येन कारणत्वस्य नातिव्याप्तिरिति पूर्वा- धिकरणफलस्य शास्त्रयोनिवेऽपि कारणत्वम्यातिव्याप्तिरेवेत्याक्षेपादाक्षेपिकी पूर्वाधिकरणेनास्य सङ्गतिं सूच. यन्नेव न च पाशुपतशास्त्रोदितत्वादिशास्त्रप्रतिपाद्यत्वे कारणमिति न्यायविवरण मनसि निधाय स्पष्टत्वा. दत्रानुक्तं पूर्वपक्षमारचयति अस्त्विति । अत्र प्रथमादिपदेन तत्तद्वाद्यभिमतानां चेतनानां द्वितीयेन चाचेतनानां ग्रहणम् ॥ यद्यपि न्यायविवरणे प्रतीतेरादिपदेनोपादानाध्याख्यानेऽविश्वासशङ्कानिरासाय प्रतीत्यनुसरणेन प्रतीतिसघीचीनश्रुत्युक्तटीकायां पूर्वपक्षो दर्शितः, तथाऽपि तत्रत्यादिपदस्वारस्याय व्याख्यानप्रतीतिभ्यां निरपेक्षाभ्यामपि पूर्वपक्षो दर्शयितुं शक्य इत्याशयेन प्रतीतिमननुसृत्य तच्छास्त्रो- दितत्वादिति वक्तव्ये पाशुपतादिशब्दप्रयोगेण लब्धमभियुक्तत्वमविश्वासशङ्कानिरासकत्वेन योजयन्नेव तदुक्तं हेतुं विष्णुपरत्वे बाधकतया योजयति अभियुक्तैरिति । 'ज्ञात्वा शिवं शान्तिमत्यन्तमेति' इत्यादि- शास्त्र शिवस्य मोक्षदत्वादिपरमिति दागमेक्तत्वाव्याख्येयस्य व्याख्यानानुसारितायाश्च सुप्रसिद्धत्वा. दिति भावः ॥ जन्माधिकरणे 'यं नामानि विशन्त्यद्धा' इत्यादिना भाग्योक्तमेतच्छङ्कापरिहारमन्यथासिद्धत् कर्तु शङ्कते यद्यपीति । आदिपदेन 'यो देवानां नामधा' इत्यस्य ग्रहणम् ।। तथापीति । 'सर्वे वेदा यत्पदमाभनन्ति' इत्यादिश्रुतिस्तत्र मानम् । तस्याः शिवे वेदतात्पर्यमित्येवंपरतया तदाग व्याख्यातत्यात् । नापि 'वदैश्च सर्वैरहमेव वेद्यः' इत्यादीतिहासो वा पञ्चरात्राद्यागमो वा तत्र मानम् तथाऽपि प्रतिपक्षापत्या विष्णावेव तात्पर्यमित्यवधारणासिद्धेः । नाप्युपक्रमादिम्तत्र मानम् । 'श्रद्ध- जुव्हती'त्युपक्रमम्य इति तु पञ्चम्यामाहुतावाप' इत्युपसंहारस्य च 'तस्यैष एव शारीर आत्मा यः पूर्वम्य' इति जीवप्रापकोपसंहारस्य ब्रह्मशब्दाभ्यासस्य च 'जीवाद्भवन्ति भूतानि इति जीवशब्दाभ्यासस्य ब्रह्म परत्वेऽपूर्वतायाश्च ‘असतः सदजायत' इत्यसतः सदुसत्तावपूर्वताया ब्रह्मानुत्पत्तौ फलस्य च कर्मसु न ताव ।

११६६ । न्यायसुधा ॥ (म.१ पा.१ अ.४ सू.४ पश्वादिफलस्य 'कर्मणा ज्ञानमातनोति, ज्ञानेनामृतीभवति' इत्याद्यर्थवादस्य च तत्त्वमसीत्यादावभेदपरत्वे- ऽर्थवादस्य भेदे उपपत्तेश्च सत्त्वात्तपों च - परस्परविरुद्धत्वेनोभयानुसारेण तात्पर्यनिश्चयस्याशक्यत्वादेक- प्रहाणेनापरेण तन्निश्चये च तत्र तत्र तस्य तस्य तात्पर्यव्यभिचारेण नैकस्यापि तात्पर्य निश्चायकत्वम् । न चैकेनापरबाधनिश्चयः । बाध्यबाधकभावप्रयोजकप्राबल्यदौर्बल्ययोर्नियामकाभावेन निश्चतुमशक्यत्वात् । तथा च तात्पर्य न किमपि प्रमाणमिति भावः ॥ ननु माऽस्तु तात्पर्य तथाऽपि शक्तिविषयत्वमात्रेण शब्दार्थत्वसिद्धिरित्यत आह यत्पर इति ॥ ननु माऽस्तु प्रमाणान्तरं शक्तिरेव तत्र मानं भविष्यती- त्याशय निषेधति न चेति । अतिप्रसङ्गादिति । गङ्गायां घोष इत्यस्य प्रवाहे तात्पर्यापत्तरित्यर्थः ।। प्रतिपक्षस्योभयत्र तात्पर्य प्रमाणाभावमात्रेणोपपत्तावपि स्वपक्षेऽभ्युच्चयेनाधिक्यमुपपादयति अन्यत्रेति ।। तस्मादिति । उपलक्षणं चैतत् । शास्त्रबुद्रादीनां कारणत्वप्रतीतेरबाधितप्रतीत्या तात्पर्यस्यापि निश्चेतुं शक्यत्वाच्छास्त्रातिरिक्तम्य च साधकत्ववद्वाधकत्वस्याप्यभावाद्विष्णोजगत्कारणत्वसाधकस्य रुद्रादेः कारण. त्वनिषेधकशास्त्रस्य च वैपरीत्यस्यापि संभवेन शङ्कितुमशक्यत्वेन बाधकाभावादतिव्याप्तिरिति पूर्वपक्षोs. ध्यत्राभिमतः । अत एवं व्याख्यानसमकक्षतया प्रतीति वक्ष्यतीति बोध्यम् । ॐ तत्तु समन्वयात् ॐ ॥ मूले सूत्रार्थस्यैव भाषणेन सूत्रस्य गमनिकानुक्तेः पूर्वाधिकरणफलाक्षेपपूर्व पूर्वपक्षं बदन्सूत्रं स्वयमवतारयति अस्त्वित्यादिना ॥ हरेति । 'एक एव रुद्रो न द्वितीयोवतस्थे (एको रुद्रो न द्वितीयाय तस्थे,' 'हिरण्यगर्भः समवर्तताग्रे' 'प्रधानादिदम्' 'आविरासीत्' 'जीवाद्भवन्ति भूतानि' इत्यादिशास्त्रतो हरा देः प्रतीयत इत्यर्थः ॥ ननु न प्रतीतिमात्रादर्थसिद्धिः, तथात्वे यजमानः प्रस्तर इत्यादौ ऐक्याद्यर्थसिद्धिप्रस्ङ्गात् ; किन्तु याक्यतात्पर्यविषयत्वादेव; तथा च कथमेतत् ; इति भावेनाशङ्कयाह न चेति । अभियुक्तैः पशुपत्यादिभिः संप्रतिपन्नरित्यर्थः ॥ न तात्पर्ये प्रमाणमस्तीति । उपक्रमादिकं हि प्रमाणतया वक्तव्यम् । तत्तु न तात्पर्यनिर्णायकम् । अन्योन्यं बलाबलनिर्णयासंभवादिति भावः ॥ अतिप्रसङ्गादिति । गङ्गायां घोष इत्यादावपि प्रवाहादी तात्पर्यकल्पनाप्रसङ्गादित्यर्थः ॥ कथं तर्हि रुद्रादिकारणत्वेऽपि तात्पमित्यत आह अन्यत्रेति । व्याख्यानं पाशुपताद्यागमरूपम् । ननु 'नारायणो वा इदमग्र आसादि'त्यादौ विष्णोरपि कारणत्वं प्रतीयते । न च तच्छिवादिपरम् । अभियुक्तविष्ण्वादिकृतपञ्चरात्रादिना विष्णुपरत्वेन व्याख्यानात् । विष्णोरपि कारणत्वं सिद्धमिति चेत् । अस्त्वेवं कालादिभेदेन द्वयोरपि कारणत्वोपपत्तेरित्येतावान् ग्रन्थोऽत्र तस्मादित्यतः प्राक् योज्यः । तेनातिव्यापकमिदं लक्षणमिति प्राचीनो ग्रन्थस्साधुः। सौत्रो. ऽवधारणार्थस्तुशब्दश्च समञ्जसो भवतीति ध्येयम् ।

पूर्वपक्षरचना) ॥ समन्वयाधिकरणम् ॥ ११६७ या०- ।। ॐ तत्तु समन्वयात् ॐ ।। तथापि न तात्पर्य इति । ननु शक्त्यतिरिक्तं किं तात्पर्यम् । तात्पर्यवृत्तरतिरिक्ताया अन्यत्र निराकृतत्वादिति चेत् । सत्यमेवम् । तथाऽपि तयोरस्ति भेदः । पदस्य सामान्यत इतरान्विते या वृत्तिः सा शक्तिः । एतस्या एव पदान्तरादिसमभिव्याहारेण विशेषान्वयप्रमाजनकत्वे पर्यवसानं वा तदाहितशक्त्यन्तरं वा तात्पर्यमिति । तथा च तत्प्रमितिजनक- त्वमेव तात्पर्यशब्दार्थ इत्यवगन्तव्यम् ।। श्री०- ॐ तत्तु समन्वयात् มัว ॥ अतिप्रसङ्गादिति । भोजनसमये सैन्धवमानयेति पदस्याश्वे शक्तः सत्वेऽपि तत्र न तात्पर्यमपि तु लवणे इत्यस्ति तदपि न स्यादित्यर्थः । - च० ॐ तत्तु समन्वयात् ॐ ॥ जगजन्मादिहेतुत्वस्य शास्त्रजन्यप्रमितिविषयत्वरूप. शास्त्रयोनित्वेन तदुपरक्ततादृशप्रमितिविषयतानापन्ने शिवादी लक्षणस्य नातिप्रमङ्ग इति पूर्वनयफलस्य शिवादीनामपि तद्धेतुत्वोपरक्तताहशप्रमितिविषयतापन्नतया तत्र तस्यातिप्रसङ्गः स्यादेवेत्याशङ्कनात्पूर्वनय- निरूपितैतन्नयवृत्तिराक्षेपिकी सङ्गतिरिति ध्वनयन्नेव न च पाशुपतशास्त्रोदितत्वादिशास्त्रप्रतिपाद्यत्वे कारण- मिति न्यायविवृतिमनुसन्दधानः स्फुटत्वनियन्त्रितभाष्यकृदनभिहितताकपूर्ववादिमतमप्रौढमनीपविनेयानु- जिघृक्षया विशदयति अस्त्विति । शास्त्रत एवेति । 'एको रुद्रो न द्वितीयाय तस्थे' 'हिरण्यगर्भः समवर्तता' 'जीवाद्भवन्ति भूतानि' 'प्रधानादिदमाविरासीत्' इत्यादित इत्यर्थः । अत्र प्रथमतद्गुण- संविधानघटकादिपदेन तत्तद्धर्मोपरागेण तद्वाद्यभिमतचेतनानां द्वितीयेन तादृशेन तेन तादृशाचेतनानां परिग्रहः । तथापि न तात्पर्य इति । अत्र शक्त्यतिरिक्त तात्पर्यवृत्तेस्तकताण्डवादी प्रत्याख्याततया कथमेतदिति शङ्कमानाः 'सत्यमेवं, तथापि तयोरस्ति भेदः; पदस्य सामान्यत इतरान्विते स्वार्थे या वृत्तिः सा शक्तिः, तस्या एव पदान्तरादिसमभिव्याहारेण विशेषान्वयप्रमाजनकत्वे पर्यवसाने तदाहितशक्यन्तरं वा तात्पमिति । तथा च तत्प्रमितिजनकत्वमेव तात्पर्यशब्दार्थ इत्यवगन्तव्यम्' इति व्याकर्तारः समादधति । यत्परः यत्तात्पर्यकः । अतिप्रसङ्गादिति । लक्षकपदानां लक्ष्यार्थेऽपि तात्पर्यप्रसङ्गादित्यर्थः । स्वपक्ष आधिक्यं तहाधनौपयिकमुपपादयति । अन्यत्रेति । शिवादावित्यर्थः । पूर्ववादिमतं निगमयति । अत्र चानुपपदं प्रतीति व्याख्यानयोरिति प्रतीतेाख्यानतुल्यकक्ष्यापन्नतया निदेशेन शास्त्रोत्पादित. शिवादि धर्मिकजगजन्मादिहेतुत्वोपरक्ताबाधितप्रतीत्या तत्र तात्वर्यस्याप्यवधृत्या शास्त्रान्यस्य साधकत्व. बाधकःचौदासीन्याद्विप्णोस्तद्धेतुत्वसाधकस्य शिवादेस्तत्प्रतिविधायकस्य च वैपरीत्यस्यापि सुशङ्कतया- बाधकाभावादितिप्रसङ्ग इत्यपि पूर्ववादिमतावतारोऽवसेयः । ।

बा० सु०- तत्रान्त्रयपदार्थमाह त एवेति । अनु०- त एवान्वयनामानः उपक्रमादय एवान्वीयन्ते शत्तितात्पर्यगोचरेण संबध्यन्ते तथा ज्ञायन्त इति यावत् वाक्यान्यतः इत्यन्वयनामानः । अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणेने- (हेणे)दं सूचयति । न शास्त्रतात्पर्यावगतावापातप्रतीतिर्व्याख्यातृवचनं वा लिङ्गम् । किन्तूप- क्रमादय एव । तेषामव्यभिचारित्वात् । प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् । यत्रापि प्रतीव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव न तु स्वतः । अत उपजीव्य- स्यादुपक्रमादीनामेव तात्पर्यलिङ्गसमिति । तदिदमाह त एवेति । उपक्रमादिलिङ्गेभ्य इति पूर्ववाक्ये लिङ्गशब्दोपसर्जनस्यापि बुद्ध्या विवेकेनोपक्रमादे- रेवात्र तच्छब्देन परामर्शोऽन: पुलिङ्गोपपत्तिरित्याशयेनाह उपक्रमादय एवेति ॥ नामग्रहणोत्थरूढि- मात्राभिप्रायभ्रान्ति निवारयति अन्धीयन्त इति ॥ तथा चोपक्रमादीनां तात्पर्यज्ञानकारणत्वोक्त्या पूर्व- पक्षनिरासः सिद्धो भवतीत्याह अत्रेति ॥ नन यादृानाशप्रतीतिव्याख्यानयोस्तात्पर्यव्यभिचारेऽपि नाबाधितप्रतीतिमानान्तराविरुद्धव्याख्यानयोस्तव्यभिचारः अन्यथा यादृशतादृशोपक्रमादेरपि तव्यभिचारा. तेषामपि तात्पर्यज्ञानकरणत्वाभावापत्तेः; तथा च प्रतीत्याद्यवज्ञानेनोपक्रमादीनामेवान्वयपदेन तात्पर्य- जानकारणत्योतिरनुपपन्ना; इत्याशङ्कायाः 'त एव' इत्यवधारणेन सूचिंत परिहारं दर्शयति यत्रापीति । ५०-- रूढेरभावाद्योगमाह अन्बीयन्त इति । अनुपूर्वादिग्गतावित्यतः करणे 'एरच्' इत्यच्प्रत्यये सत्यन्वय इति रूपनिष्पत्तिरिति भावः ॥ उपक्रमादीनामविद्यमानसंबन्धकारक(ण त्वा. भावादाह तथा ज्ञायन्त इति । संबद्धतया ज्ञायन्त इत्यर्थः ॥ अत्रेति । सूत्रे ।। सूचयतीति । सूत्रकार इति शेषः ॥ व्याख्यातृवचनं वेति । वेदगतोपक्रमाद्यननुगुणं यत्पशुपत्यादिरूपव्याख्यातॄणां पाशुपतादिग्रन्थरूपवचनं तदित्यर्थः । वाशब्दद्वयमन्योन्यनिरपेक्षं सत्प्रत्येकमेव पूर्वपक्षप्रापकं न टीका. यामिव मिलितमिति सूचयति अव्यभिवारित्वादिति । तात्पर्याव्यभिचारित्वादित्यर्थः ॥ ननु तीतिव्याख्यानयोस्तात्पर्यव्यभिचारित्वोक्तिरयुक्ताप्रतीतेः पञ्चरात्रादिव्याख्यानस्य च विष्णुकारणत्वे वेदस्य यत्तात्पर्य तदव्यभिचारित्वदर्शनादित्यत आह यत्रापीति । या०- तेषामव्यभिचारित्वादिति । अन्वयपदेनोक्तयोगेनाव्यभिचरितसम्बन्धस्य सूचनादिति भाव:॥ श्री०- गोचरेण अर्थेन । तथेति । शक्तितात्पर्यविषयार्थसम्बद्धत्वेन । तत्प्रतिपादकत्वेने. त्यर्थः ।

सूत्रवाश्यग्नोजना) ॥ पमन्वयाधिकरणम् ॥ च० इत उत्तरम् । 'भावे 'अकर्तरि च कारके' इत्येतत् 'कृत्यल्युटो बहुलमिति यावत् द्वयमप्यनुवर्तत इत्युक्त्या 'एरजि'त्यत्र तदनुवर्तनादनूपसृष्टस्येणः करणसाधनाच्प्रत्ययमभिप्रेत्य व्याचष्टे एतैरित्यन्वयनामान इति । शक्तितात्पर्यगोचरेण शक्तितात्पर्य वेपयत्वेन । तेषामव्यभिचारित्वादिति। अन्वयपदेनावयववृत्याऽव्यभिचरितसंबन्धस्य ध्वनितत्वादिति भावः । सु० --- सूत्रवाक्यं योजयति तैरिति । अनु०- तैः सम्यक् प्रविचारिते। मुख्यार्थो भगवान्विाणुः सर्वशास्त्रस्य नापरः ॥ १-१-४ ॥ अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति । तेन च तेषामविरोधं सूचयति । संशब्दार्थः सम्यगिति । तस्य च प्रविचारित इत्यध्याहतक्रियया संबन्धो दर्शितः । ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात्कथं लिङ्गत्वमित्याशङ्का- निरासाय मम्यक् प्रविचारित इत्युक्तम् । उपक्रमादीनां श्रु यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबलविनिश्चयपुरस्सरं विरोधे बलवता दुर्बलंबाधया वाक्यार्थविमर्शः सम्यक् प्रविचारणम् । तेन नोपक्रमादिमा लिङ्गमुच्यते । येन व्यभिचारोद्भावनं मङ्गच्छेत । किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यापारोपेता एवोक्रमादयः । न च ते कचियभिचर: न्तीत्युक्तं भवति । प्रविचारित इति भावे क्तः । प्रविचारे कृते सतीति । शास्त्रे प्रविचारितें सतीति वा । एतदवगम्यत इति वाक्यशेषः । मुख्यार्थ इत्यावृत्त्या संशब्दस्यान्तरम् । सर्वेः त्यपि संशब्दार्थ एव। शास्त्रस्यार्थ इति शास्त्रयोनीति पूर्वसूत्रादनुवृत्तस्य व्याख्यानम् । भगवान्विष्णुरिति तच्छब्दार्थः । तुशब्दोऽबंधारणे । तयाख्यानं नापर इति । बहुपुं सूत्रकारीयसमुदायविवक्षाया न प्रयोजनमित्यतस्तद्दर्शयति तेन चेति ।। कचि- दिति । एतद्विवरणं पूर्वपक्षदशायां कृतमनुसन्धेयम् ॥ उपक्रमादीनामिति । उपक्रमादिप्वेकैकस्थले सन्निपातस्यैवाभावादेकार्थसन्निाते च दिरो स्यैवाभावात् । एकत्र प्रकरणे विरुद्धार्थयोरुभयसन्निपाते स्वस्वरूपे उपक्रमसापेक्षस्याप्युपसंहारस्य व्याख्यानरूपत्वेन स्पष्टत्वादुपक्रमोपमर्दैन प्रवृस्योपक्रमवद्वाधका- भावमपेक्ष्य साशङ्कितप्रवृत्तेरभावाच्च तात्पर्यावगताबन्यनिरपेक्षतया झटिति तद्धतुत्वात् । उपक्रमस्य चोपसंहारविरोधे प्रामाण्यानुपपत्त्या तददिरोधेन तदनुस। आर्येऽर्थे तात्पर्यज्ञापने विलम्बेन विप्रकर्षात् । एकवारोक्त्यपेक्षया बहुवारोक्त्या झटिति तात्पर्यज्ञानदर्शनेनेकोक्तिमात्रो।संहारादेरभ्यासापेक्षयाऽविप्रकर्षात् । अपूर्वार्थबोधार्थप्रयुक्तवाक्यस्य प्राप्तार्थापेक्षयाऽप्राप्ता लाभे तत्रैव झटिति तात्पर्यावगमात् । परप्रयोजनो- वा० 10क ११७० । न्यायसुधी। (७.१ पा. १.४ सू. ४ देशेन प्रवृत्तवाक्यस्याप्राप्तापेक्षया प्राप्तेऽपि सफले झटिति तदवगमात् । फलमात्रोक्त्यपेक्षया करणाकरण. थोरिष्टानिष्टकथनरूपार्थवादोपेते झटिति तात्पर्यज्ञानदर्शनात् । उपक्रमादिसद्भावेऽप्युपपन्न एवार्थे तात्पर्य- दर्शनोपपत्तेःसर्वमूलत्वात्तात्पर्यावगतावुत्तरोत्तरेषां सन्निकर्षापूर्वपूर्वेषां विप्रकर्षादुपक्रमादिवृत्तरोत्तरेषा स्वभाव- प्राबल्यमिति भावः । श्रुत्यादीनां त्वीशानाधिकरणटीकोक्तरीत्या स्पष्टमेव पूर्वपूर्वप्राबल्यम् ।। नन्वेवमुप- क्रमादीनां श्रुत्यादीनां च विपरीतोऽपि बाध्यबाधकमावस्तत्र तत्र कथमिप्यते तद्विरोध इत्यत उत्सर्गोऽय. मित्याह सावकाशत्वादिना चेति ॥ एवं पदार्थमुक्त्वाऽनेनोक्तशङ्कानिराससिद्धिप्रकारं दर्शयति तेनेति ॥ प्रविचारित इत्यत्र विशेप्यानुक्तिन्यूनतां तस्यैव विशेष्यपदत्वप्रदर्शनेन परिहरति प्रविचारित इति । विशे- षणपदत्वमङ्गीकृत्य विशेप्यपदाध्याहारेण शास्त्रस्येत्या वृत्त्स्य विपरिणामेन वा तां परिहरति शास्त्र इति । शास्त्रविचारस्य विष्णुमुख्यार्थत्वादिकारकत्वाभावादाह एतदिति ॥ सर्वेत्यपीति । अत्राप्यावृत्त्येति बोद्धयम् । अत्र सर्वत्वमुख्यत्वयोः संशब्दार्थतयाऽनुव्याख्याने व्याख्यातत्वात्तयोश्च शास्त्रार्थत्वार्थकपूर्व- सूत्रानुवृत्तशास्त्रयोनिदेनान्वये प्रतिज्ञाकोटिनिवेशापत्त्या पूर्वसूत्रे च तयोरप्रतिज्ञाततया तदन्वयातम्भवे. नान्वयपदेनैवान्वयः । एवञ्च सौत्रान्वयपदस्योपपत्त्यादिवच्छक्सितात्पर्यलक्षणसम्बन्धोऽप्यर्थः । त एवा. न्वयनामान इति तु शक्तितात्पर्यगोचरेण सम्बद्धतया ज्ञायन्त इति व्याख्यातत्वाझुद्ध्या विवेकेनोमय. विषयकं ज्ञातव्यम् । wear- स० तत्तु समन्वयात् ॐ ॥ उपक्रमादीनामपि कचिदिति । उपक्रमादेयंत्र प्रबलश्रुतिलिङ्गादिना बाधस्तत्रेत्यर्थः । प० तेन चेति । सौत्रैकवचनेनेत्यर्थः । तद्धि एकत्वं गमयति । तत्रैकत्वं भिन्नदेशस्थानां उपक्रमो पसंहारादीनामेकार्थप्रतिपादकत्वरूपैकोप धिग्रस्तत्वेनैव वाच्यम् । नान्यथेति नानार्थप्रतिपादकत्वा- भावरूपमविशेध सूचयतीत्यर्थः ।। भावे निष्ठां मत्वाह अध्याहृतक्रिययेति । सूत्रेऽन्वयादित्येव पूर्ती समित्युक्तियत्यतः तस्य कृत्यं व्यक्ति ननु चेति ।। क्वचिदिति । प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे- त्यादिब्रह्मविद्यायामियं विद्या प्राणपरा प्राणोपक्रमववादित्यत्र; तथा 'याम्यमि प्रथमं स्वस्तये' इत्यादि- सावित्रसूक्ते इदं सूक्त पग्निपरं तदुपक्रमववादित्यादौ चोपक्रमस्य; तथा ब्रह्मवल्लीरूपब्रह्मविद्याया'तस्यैष एव शारीर आत्मा य: पूर्वस्य' इति च जीवोपसंहारस्य जीवपरत्वे व्यभिचारः । तथा 'इतरव्यपदेशात्' इत्यत्र 'जीवाद्भवन्ति भूनानि जीवे तिष्ठन्त्यचञ्चलाः' इत्यत्राभ्यासस्य जीवपरत्वे व्यभिचारः; तथा 'असद्वा इदमन आसीत्ततो वै सदजा यत' इत्यत्रापूर्वतायाः सन्नानो विष्णोः जनिपरत्वे व्यभिचार; तथा 'उद्भिदा यजेत पशुकामः' इत्यादिषु फलवत्त्वस्य काम्यकर्मपरत्वे व्यभिचारः; 'उत्क्रमिप्यत एवं भावात्' इत्यादी ज्ञानाङ्गत्वस्य वक्ष्यमाणत्वात् । तथा यावन्न विमोक्ष्येऽथ संपत्स्यत इत्याद्यर्थवादस्याद्वैतप्रकरण.

सूवाक्ययोजना) ॥ समन्वयाधिकरणम् ॥ ११७१ गतस्याद्वैतपरत्वे व्यभिचारः । तथा 'उपवयन्तं भुञ्जाम' इत्यर्थवादस्यास्मद्विद्याया अग्निपरत्वव्यभिचार इत्यादि द्रष्टव्यम् ॥ सन्निकर्षविप्रकर्षाभ्यामिति । एतत्सूत्रे शब्दादेवेत्यत्र च श्रीमद्भायटीकायामुक्त- रीत्येत्यर्थः । कर्मणि निष्ठामभ्युपेत्यानुवर्त्यमानशास्त्रयोनिपदस्थेन शास्त्रपदेन बुद्ध्या विविक्तेनान्वयमाह शास्त्र इति ॥ एतदक्गम्यत इति शेष इति । मुख्यार्थ इत्यतः प्रागिति योज्यम् । उत्तरार्थोक्तमेतच्छब्दार्थः । अत्रार्थपदस्य बुद्ध्या विविक्तस्य शास्त्रस्येत्यनेनान्वयं वक्ष्यति । वचनवृत्तिरूपं मुख्यत्वमेवावर्तितसंशब्दस्यार्थ इति ज्ञेयम् । अत एवाग्रे सम्यग्यचनवृत्त्येत्यनुवादः ॥ मुख्यार्थ इतीति । संशब्दस्यावृत्त्या मुख्यार्थ इत्यर्थान्तरमित्यर्थः । प्राक् सम्यगित्येकस्यार्थस्योक्तत्वादिति भावः । या-क्वचित्तात्पर्यव्यभिचारदर्शनादिति । यथा प्रथमे श्रवणादित्यत्र श्रद्धां जुह्वतीत्युप- क्रमस्याश्वप्रतिग्रहष्टिनये वेदोपक्रमाधिकरणे चोपसंहारस्यात्राप्यानन्दमयाधिकरणे तस्यैप एव शारीर आत्मेति जीवप्रापकोपसंहारस्य इतरव्यपदे गादित्यत्र जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यञ्चचला इत्याद्यभ्यासस्यासम्भवस्तु सतोऽनुपपरेरित्यत्रासद्वा इदमग्र आसीत्ततो वै सदजायतेति वाक्येन ब्रह्मणोऽसत उत्पत्त्यङ्गीका रेऽपूर्वताया उत्क्रमिप्यत एवम्भावादित्यत्र काम्यकर्मप्रकरणे श्रुतानां स्वर्गादिफलानां पृथगुप- देशादित्यत्र येनाश्रुतमित्याद्यभेदप्रापकार्थवादस्य नत्रैवाभेदसाधकोपपत्तरपि तात्पर्यव्यभिचारदर्शनादित्यर्थः ।। सकिर्पवित्रकर्षाभ्यामिति । अर्थसन्निकर्षविप्रकर्षाम्यामित्यर्थः । इदं च श्रुत्यादीनामेव । श्रुत्यादेर्लिङ्गाद्य. पेक्षयाऽर्थसन्निकण प्राबल्यस्य श्रुत्याद्यपेक्षया लिङ्गवाक्यादेरर्थविप्रकर्षण दौर्बल्यस्य च तत्त्वप्रकाशिकादा- वुपादितत्वात् । सावकाशत्वादिना चे येतत् सर्वविपयम् । तत्रादिषदेन निरवकाशत्वमुपक्रमादीनां व्याख्यानव्याख्येयभावादिकं च ग्राह्यम् ।। मुख्यार्थ इत्यावृत्त्येति । अत्रार्थदस्य वुद्ध्या विविक्तस्य शास्त्रस्येत्यनेनान्वयं वक्ष्यति । वचावृत्तिरूपं मुख्यत्वमेव चावर्तितसंशव्दार्थ इति शेयम् । अत एवाने तत्र सम्यम्बचनवृत्त्येत्येवानुवादः । .... श्री० - समुदायेति । अस्माभिर्जातिस्थाने तस्याभिषिक्तत्वादिति भावः । तेन चेति । समु- दायापेक्षत्ववचनेनेत्यर्थः ॥ तेषामिति । एकवचनस्य समुदायार्थत्वे उपक्रमादीनां समुदायो नामक. स्मिन्नर्थे प्रतिपादकतयाऽवस्थानमेकार्थप्रतिपादकत्वरूपमुक्तं स्यात् । न च विरुद्धानामेकत्रार्थे प्रतिपादक- तयाऽवस्थान सम्भवतीत्येवं तेषामुपक्रमादीनां विरोधः सूचित इति ध्येयम् । अध्याहृतक्रिययेति । 'उपसर्गाः क्रि.योगे' इन्युक्तत्वादिति भावः । सन्निकर्पः साक्षाद्विप्रतिपन्नार्थनिष्ठावं विप्रकपरतदभावः । संशब्दस्यावृश्येत्यन्वयः । 10ख ११७२ । न्यायसुधा ॥ (.१ पा.१ भ. ३ सू.३ .. च०-क्वचित्तात्पर्येति । 'प्राणो ब्रह्म कं ब्रह्म ख ब्रह्मे'त्यादिब्रह्मविद्यायामियं विद्या प्राण. परा प्राणोपक्रमवत्वादित्यत्र, तथा 'हयाम्यमिं प्रथमं स्वस्तये' इत्यादि सावित्रसूक्ते इदं सूक्तमग्निपरं तदुपक्रमवत्वादित्यादौ चोपक्रमस्य, तथा ब्रह्मवल्लीरूपब्रह्मविद्यायां 'तस्यैष एव शारीरआत्मा यः पूर्वस्ये'ति जीवोपसंहारस्य जीवपरत्वे व्यभिचारः, तथा 'जीवाद्भवन्ति भूतानि जीवे तिष्ठत्यचञ्चला: जीवे तु लय- मृच्छन्ति न जीवात्कारण परमि'त्यत्राभ्यासस्य जीवपरत्वे व्यभिचारः, तथा 'असद्वा इदमग्र आसीत्ततो वै सदजायत' इत्यत्रापूर्वतायाः सन्नाम्नो विष्णोर्जनिपात्वे , व्यभिचारः, तथा 'यावन्न विमोक्ष्यथ संपत्स्यत' इत्याद्यर्थवादस्याद्वैतप्रकरणगतस्याद्वैतपरत्वे व्यभिचारः, तथा 'उपवयं तं भुञ्जाम' इत्यर्थवादस्यास्मद्विद्याया अग्निपरत्वव्यभिचार इत्यादि द्रष्टव्यमिति स्थितम् । सन्निकर्षविप्रकर्षाभ्यामिति । प्रकृतसूत्रीयायां शब्दादेवेतिसूत्रीयायां च श्रीमद्भाष्यटीकायामेव प्रपञ्चितमेतत् विशेष्यवाचकपदसमभिव्याहारवैधुर्यात् 'नपुंसके भावे क्तः' इति भावसाधनतामभिप्रेत्य योजयति प्रविचारित इति । वा०- क सु० तथा चैवं सूत्रयोजना। अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रवि. चारिते सति सर्वशास्त्रस्य भगवत्येव सम्यग्यचनवृत्याऽन्वयाच्छक्तितात्पर्यलक्षणसंघन्धावगमात्तद्वि- ण्याख्यं ब्रह्मैव जगजन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय इति । अनन्तगुण- परिपूर्णत्वं हि प्रधानलक्षणम् । तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम् । लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात् । वाच्ये तद्गुणप्रसङ्गाच्च । एवं कतिपयवाक्यैरनन्तगुणा- प्रतिपादनात् । वाक्यान्तरविषयस्य च तद्गुण(व)वप्रसङ्गाच्च । अतः संशब्दस्यावृत्तिरुपपन्ना । अनुवृतशास्रयोनिपदस्य तु शास्रजन्यप्रमाविषयत्वमर्थ इत्यभिप्रत्य सूत्रयोजना दर्शयति तथा चेति । तत्त्वप्रकाशिकायां तूपक्रमादिलिङ्गैः सम्यक् निरूप्यमाणे तदेव शास्त्रगम्यमिति भाष्ये मुख्यत्वसर्वत्वयोः संशब्दार्थत्वेनाव्याख्यातत्वात्तदनुसारेण तैश्च सम्यक् शास्त्रे विचार्यमाणे ब्रह्मैव शास्त्रगम्यं प्रतीयत इत्येवोक्तम् । चन्द्रिकायां च तदनुसारेणान्वयशब्द उपपत्यादिमात्रपरतया व्याख्यात इति द्रष्टव्यम् । ननु स्यादियं योजना यदि संशब्दस्यावृत्त्योक्तोभयार्थत्वं स्यात्, न चैवम् तहमैव जगत्कारणत्वेन शास्त्रयोनीति प्रतिज्ञातार्थस्य शास्त्रकदेशस्य लक्षणया तत्परत्वेऽप्युपपत्तेः इत्यत. स्तदुपपादयति अनन्तेत्यादिना । प०- अन्वयपदस्य संपदस्य शास्त्रपदस्य चावृत्तिमुपेत्य योजनामाह तथा चैवमिति ॥ प्रविचारित इति शेषोक्तिः ।। शास्त्रयोनीति । परममुख्यया वृत्त्या कृत्वशास्त्रजन्यप्रमाविषय इति साध्यार्थः । तेन मुख्यया वृत्त्या एकदेशे कर्मदेवतादिप्रमाजननाविरोधः । ननु संशब्दस्यावृत्तिमुपेत्य या० कात्यार्थत्वं मुख्यार्थत्वं च किमर्थमुपेयम् । कारणवाक्यानामेव यथाकथञ्चिब्रह्मपरत्वोक्तिमात्रेण जन्मादि. सूत्रोक्तलक्षणस्यादुष्टतोपपत्तेरित्यत आह अनन्तेति ॥ सर्वमेव चेति । शास्त्रमित्यनुषङ्गः ॥ वचनवृत्त्या सर्वमेव चेत्युक्तं द्वयं क्रमेण व्यक्ति लक्षणादिनेति । संशब्दस्यावृत्तिद्रयमुपपादयति अनन्तगुणेत्यादिना । वाच्ये तद्गुणेति । तथा चातिव्याप्तिरिति भावः । श्री०-- वचनवृत्त्येत्येतदुपपादयति लक्षणादिनेति । शास्त्रस्येति शेषः । तत्तत्पदवाच्या. र्थस्य गुणस्यालाभेनानन्तगुण पूर्णत्वलक्षणस्यासम्भव इति भावः ॥ वाच्य इति । किञ्चिदर्थवाचकस्यैव कुत्रचिलक्षणा दृष्टेति तत्पदवाच्येऽन्यस्मिन्वक्तव्ये तम्मिन्याच्य एवार्थे तद्नु गलाभेनानन्तगुणवत्वलक्षणस्याति- व्याप्तिरिति भावः ॥ सर्वमेवशास्त्रमिन्युक्तमु पादयति अप्रतिपादनादिति । तथा चोक्तानन्त- गुणवत्त्वलक्षणस्यासम्भव इत्याशयः । वाक्यान्तरविषयस्य त प्रतिपाद्यस्यान्यस्य ॥ तद्गुणवत्त्वेति । तद्व.क्यप्रतिपाद्यगुणवत्त्वेत्यर्थः । तथा चातिव्याप्तिरिति भावः । कर्म पावननिष्ठात्यो पगमेऽपि सप्तम्यन्त नास्त्र पहपूरणेन समभिव्याहृ षष्ठयन्तशास्त्रपदस्या- वृत्तिमुपेय पष्ठ्याः सप्तमीत्यं प्रकल्प्य वा विशेषणवाचकपदतया योजनां दर्शयति शास्त्र इति । कर्मणि निष्ठामुपेत्यानुवर्तमानेन शास्त्रयोनिपदस्थेन शास्त्रपदेन बुद्ध्या विविक्तेनान्वयमाह शास्त्र इति इत्यपि स्थितम् । सु० ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम् । तदेवात्र मण्डकप्लुत्याऽनुवर्तिष्यने । किं पुनरत्र तद्हणेन । मैवम् । तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थ- मुपादेयः । न च तस्य तदित्य नुक्तौ अन्वयः प्रत्येतुं शक्यते । यतोवधारणं ततोन्यत्र निषेध इति वचनात् । न चानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम् । श्रुतेनान्वयादित्यनेनैव संबन्ध- प्रतीतिप्रसङ्गात् । तत्रोपयोगाभावान्नेति चेन्न । प्रतीतिव्याख्याननिरामार्थत्योपपत्तेः । अन्वय- पदादेव तसिद्धिरिति चेन्न । तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एवं चरितार्थत्वसंभवात् । अतः सार्थकं सूत्रे तद्ग्रहणम् । संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् । निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् । वा० नन्वितव्यावृत्त्यर्थकावधारणार्थकतुशब्देनेतरव्यावृत्तिप्रतीत्या किं तस्यान्यान्वयेनेत्यतो यदवधारणं यदन्वितं तस्य तदितरव्याबृत्तिप्रत्यायकत्वेऽपि न केवलस्य यत्किञ्चिदितव्यावृत्तिप्रत्याय. कत्वम इत्यत्र नियामकं वचनमुदाहरति यत इति । पार्थ एव धनुर्धर इत्यादी तथा दर्शनादिति भावः । -- 10ग भ्यायसुधा । - ११७४ संशब्दापव्याख्याननिरासप्रयुक्तन्यूनता परिहरति संशब्देनेति ॥ निरस्तमिति । जन्माधिकरण इति शेषः ॥ निराकरिष्यते चेति । 'कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् । योऽसौ शब्दस्य मुख्यार्थ- स्तत्रैव स्यात्समन्वयः ॥' इत्यादिनेत्यर्थः । यतोऽवधारणं यत्पदसमभिव्याहृतं तत्पदार्थान्यस्मिन् विशेषणपदार्थनिषेधः । यथा पार्थ एव धनुर्धर इति पार्थान्यस्मिन् धनुर्धरत्वनिषेधः । इदं विशेप्यसङ्गतावधारणविषयमित्यवगन्तव्यम् ।। अन्वयपदादेवेति । उक्तरीत्या यौगिकादित्यर्थः ।। ५०-- सौत्रतःपदवैयर्थ्यमाशङ्कय समाधत्ते नन्वित्यादिना ॥ मण्डूकप्लुत्येति । यथा मण्डूकः उप्लुत्यत्प्लुत्य गच्छति। एवं तत्पदं शास्त्रयोनिसूत्रमुत्प्लुत्य तत्रासंबद्धयेहानुवर्तिप्यत इत्यर्थः । यद्यपि पूर्वसूत्रेपि तत्पदं पष्ठवन्ततया विपरिणम्य संबध्यत एव अन्यथा जगत्कारणस्य शास्त्रयोनित्यादि- त्यन्वयो न स्यात्, तथापि प्रथमान्ततत्पदाभिप्रायेण मण्डूकप्लुत्येत्युक्तम् ।। इतरेति । रुद्रादिव्यावृत्त्यर्थ- मित्यर्थः । महातात्पर्थविषयत्वेनेति योज्यम् ॥ मास्तु तत्पदेनान्वय इत्यतस्तथात्वे जगद्धेतुत्वेन शङ्कित. रुद्रादिव्यावृतिन सिध्यदिति भावेनाह यत इति । यत्रेत्यर्थः ।। अनुवृत्तेनेति । तत्पदेनेति योज्यम् ।। निरस्तमिति । जन्मादिसूत्रे ।। उत्तरत्रेति । ईक्षत्यधिकरणे ।। या० यतोऽवधारणमिति । यतोऽवधारणं यदर्थपरपदसमभिव्याहृतमवधारण ततोऽर्थादन्य. स्मिंस्तफलमवधारणफलं व्यवच्छेदप्रतीतिरूपं भवतीत्यर्थः । यथा पार्थ एव धनुर्धर इत्यत्र पार्थवाचक- पइसमभिव्याहृनावधारणेन पार्थान्यस्मिन्धनुर्धरत्वव्यवच्छेदप्रतीतिर्भवति । इदं विशेप्यसझतावधारणविपय. मित्याहुः । प्रकृते च तदित्यनुक्ताववष्यनिरूपणात्तदन्यस्याप्रतीतौ तत्र व्यवच्छेदान्वयः प्रत्येतुं न शक्य इति भावः ॥ अन्ययपदादेवेति । उक्तरीत्या यौगिकादन्वयपदादव्यभिचारसूचनेन व्यभिचारिणोः प्रीतिव्याख्यानयोनिरासोऽसिद्धयतीत्यर्थः । उत्तरत्रेति । भक्तिपाद इत्यर्थः । श्री नन्यव्यवतहिपूर्वसूत्रे त त्यस्याननुवृत्तत्वाजन्मादिसूत्रेऽनुवृत्तेन तेनात्रान्वय. प्रतिपत्तिः कथमित्यत उक्तम् मण्डूकप्लुत्येति ॥ अत्र तद्हणेनेति । अत्र सूत्रे तच्छब्द- ग्रहणेनेत्यर्थः । तुशब्द: सौत्रः ॥ इतरेति । नापर इत्युक्तरीत्येत्यर्थः । तस्य इतरव्यावृत्त्यर्थक- तुशब्दस्य । कुत इत्यत आह यत इति । यत्पदसमभिव्याहृतमवधारणमित्यर्थः । अत्र च तत्सदाभावेऽवधारणार्थकतुशब्दस्य पदसमभिव्याहाराभावादिति भावः ॥ अनुवृत्तेनेति । प्रकृतेन त त्यनेनानुवृत्तेनेत्यर्थः ॥ अन्वयेति । तीवेतीत्यन्वयेत्यर्थः ।। भविष्यतीति । तुशब्दस्येति शेषः ।। श्रुतेनेति । तथा चान्वयादेवेत्येव सम्बन्धप्रतीत्या न तद्ब्रह्मेत्यनेन सम्बन्धः प्रतीयतेऽतस्तद्रहणं सूत्रे युक्तमेवेत्यर्थः ॥ तत्रेति । तुशब्दस्यान्वयादित्यनेन सम्बन्धे उपयोगाभावात्त त्यनेनैव - सूत्रवाक्ययोजना) ॥ समन्वयाधिकरणम् ॥ ११७५ सम्बन्धो विज्ञातो भविष्यतीति तद्रहण न युक्तमित्यर्थः । प्रतीतिः शास्त्रतात्पर्यावगी। आपात. प्रतीतिर्व्याख्यातुर्वचनं वा न लिङ्गम् । तयोर्व्यभिचारित्वात्किन्तूपक्रमादय एव तेषामव्यभिचारित्वादित्येवं प्रतीतिव्याख्याननिरासार्थत्वेन समन्वयादेवेत्यनेन सम्बन्धे उपयोगोऽस्तीति तेनैवान्वयप्रतीतिसम्भवात्तद्वा- रणार्थ तहणं सार्थकमित्यर्थः ॥ अन्वयेति । शक्तिशात्पर्यप्रतिपादकत्वेन वाक्यान्येतैयिन्त इति यौगिकान्वयपदादेव प्रतीतिव्याख्याननिराससिद्धेः स्मन्वयादित्यनेन तुशब्दस्य सम्बन्धकरणे उपयोगा. भावात्मेत्यनेनैवानुवृत्तन सम्बन्धप्रतीतिसम्भवाद्रहणं व्यर्थमित्यर्थः ॥ तस्येति । यौगिकान्वयपद- स्येत्यर्थः । तथा च वाक्यानां शक्तिशात्पर्यविषयीभूतार्थप्रतिपादकत्वरूपे साध्ये उपक्रमादीनां लिङ्गत्व. मित्येवं तेषां उपक्रमादी लिङ्गत्वप्रतिपादन एव यौगिकान्वयपदस्योक्तरीत्या चरितार्थत्वेनान्यथासिद्धत्वान्न प्रतीतिव्याख्याननिरासोपयोगित्वमस्ति । प्रतीतिव्याख्यान निरासश्चावश्यकरतदर्थ च समन्वयादित्यनेन सम्बन्धकरणे उपयोगसद्भ वातनवान्वयप्रतीतिः स्यान्नानुवृत्तेन तद्ब्रह्मेत्यने सातः सूत्रे तद्ग्रहणं सार्थकमिति भावः ।। छ।॥ १-१-४ ।। च० ---मण्ड कलुत्येति । मण्डूका यथा उप्लुत्योत्प्लुय गच्छन्ति एमधिकारा अपीति महाभाष्यकृदुक्तेरिति भावः । यतोऽवधारणमिति । यत्पदार्थोपस्थापकविशेष्यवाचकपदसमभिव्याहृत- मवधारणार्थकं तत्सदोपस्थाप्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदवति तत्पदसमभिव्याहृतपदान्तरोपस्थाप्य- प्रतियोगिकव्यवच्छेदप्रतीतिरूपं फलं भवतीत्यर्थः । यथा पार्थ एव धनुर्धर इत्यादौ पार्थवाचकपद. ममभिव्याहृनावधारणार्थकैवकारेण पार्थत्वावच्छिन्नप्रतियोगिताकभेदवति धनुर्धरपदोपस्थाप्यनिष्ठतादात्म्य. संसर्गावच्छिन्नप्रतियोगिताकव्यवच्छेदप्रतीतिर्भवतीत्यर्थः । इदं च विशेष्यवाचकपदममभिव्याहृताव- धारणार्थकस्थलाभिप्रायकमिति स्थितम् । प्राञ्चित चैतन्न्यायामृतमाधुर्याभन्माभिः । प्रकृते च तत्पद- समभि याहाराभावे प्रतियोग्यनुपस्थित्या त प्रतियोगिकभेदविशेपिताधिष्ठानानुपस्थित्या तत्र समभिव्याहृत. पदार्थान्तरप्रतियोगिकव्यवच्छेदस्य दुष्प्रतिपदत्वादिति भावः । अन्वयपदादेवेति । दर्शितदिशावयव- वृत्त्यान्वयपदादेवाव्यभिचारस्य ध्वनिततया व्यभिचीर्णप्रतीतिव्याख्यान युदासस्यासिद्धेरित्यर्थः । उत्तरत्र भक्तिपादे । सु० तदेवं जगजन्मादिकारणत्वेन मुख्यया वृत्या वर्णपदवाक्यात्मकाशेषशास्त्र- प्रतिपाद्य नारायण ख्यं ब्रह्मैवेति सुस्थ लक्षणमिति सिद्धम् ॥ १-१-४॥ छ । वा. चतुर्थशादीयज्योतिरधिकरणोक्तसमन्वय स्याप्रतिज्ञात ताशङ्कामुपसंहारव्याजन परिहरति तदेवमिति ॥ १-१-४ ॥ 10 ॥ न्यायसुधा ॥ (अ.१ पा. १ अ. ४. मृ.. प०-- या०- - फलोक्त्योपसंहति तदेवमिति ॥ १-१-४ ॥ नारायणाख्यमेवेत्येवकारान्वयः । न तु हरहिरण्यगर्भाख्यमित्यर्थः । अत्र विष्ण्वाख्य- मिति बकाये यन्नारायणारयमिति वचनं तद्ब्रह्मशब्दव्याख्यानसूचनायेत्यवगन्तव्यम् ।। १ -- १-४ ॥ छ ।। तुरीयपादीयज्योतिर्नयव्युत्पादयिष्यमाणसमन्वयस्याप्रतिज्ञातताशङ्कां निगमनभिषेणाप- हम्तयतं तदेवमिति ॥ च०- इति समन्वयाधिकरणम् १-१-४.

अथ ईक्षत्यधिकरणम् १-१-५ ११७८ ॥ न्यायसुधा ॥ (म.१ पा.१ न. ५ सू.५ ।। ॐ ईशते शब्दम् ॐ ॥ वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम् तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते । तथा हि । 'यतो वाचो निवर्तन्ते' 'अशब्दमस्पर्शम्' इत्यादिश्रुतेः, 'इन्दो न यत्र पुरुकारकवान्' इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते। वचनवृत्तिश्च द्रव्यगुणक्रियाजाति- निमित्ता । न च ब्रह्मणो द्रव्यादियोगोऽस्ति । 'केवलो निर्गुणश्च' 'निष्कलं निष्क्रिय शान्तम्' इत्याद्यागमात् । तत्कथं तस्य वाच्यता संभवति । औपनिषदत्वं (तु) च लक्षणया वृत्या संभवन्न वाच्यतामपेक्षते । अतोऽवाच्यत्वाब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्व मिति ॥ अपर आह न सर्वशास्त्रातिपाद्यत्वं ब्रह्मणः संभवति निश्चयोपायाभावात् । उपक्रमादयो हि तनिश्चयोपायाः। तैश्चःम्मदाद्यधिगतशास्त्रस्य कथञ्चिाविषयतावधारणेऽप्यस्मदनधिगतशास्त्रस्य तत्परतावधारणा- योगात् । 'अनन्ता वै वेदाः' इति श्रुतेरनन्तं हि शास्त्रमवगम्यते । न चानन्तशास्त्राधिगमोऽ. स्माकं कल्पकोटिशतैरपि संभवति । विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः । एकदे- शान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात् । न च वस्तुनि विकल्पः संभवति इति अत्रापि सन्देहः समास्कन्दति; इत्यतो न सर्वशास्त्रप्रामाण्याजगजन्मादिकारणं ससस्तगुणपरिपूर्ण ब्रह्म सिध्यति ।। इत्येवं प्राप्ते अवाच्यत्वशङ्का तापभिराचष्टे सूत्रकारः ईक्षते शब्दमिति ॥ ७. सू..-- ॥ ॐ ईक्षते शब्दम् ॐ ॥ तयाचष्टे ईक्षणीयत्वत इति । man- । वा० ।। ॐ ईश्तेन शब्दम् ॐ ॥ अनन्तरसङ्गतिं दर्शयन्नधिकरणप्रतिपाद्यं च सूचयति वचनवृवेति । तदा (तच्छब्देनेत्यर्थः) वचावृत्तेः साकल्यस्य च परामर्शः । तेन संशब्दार्थस्य वाच्यत्वस्य कायस्य वेहाक्षिप्य समाधानादनन्तरसङ्गतिः । 'गतिसामान्यात्' इत्यस्य संशब्दार्थसमर्थ- नरूपतयैक्यादेकाधिकरणान्तर्भाव इति सूचितं भवति । अशब्दमित्यादेः शब्दादिगुणशून्यं शब्दाविषय- श्वेत्यर्थः । पुरुकारकवान् कर्मत्याद्यर्थकद्वितीयादिविभक्त्युपेत इति क्रियार्थः । क्रियाप्रतिपादक इति सुबन्ततिङन्तग्रहणेन शब्दमात्रप्रवृत्त्यभाव उक्तो भवति । ननु श्रुतेरर्थान्तरस्यापि संभवेन सावकाशत्वात्कथमेतदित्यतो 'दृष्टा गुणक्रियाजीतिरूढयः शब्द- हेतवः । नात्मन्यन्यतमास्त्वेषां तेनात्मा नाभिधीयते ।।' इत्युक्तिमनुरुद्धय प्रवृत्तिनिमित्ताभावात्कथं वाच्य- स्वमिति श्रतिस्वाभिमतःर्थोपोडलकयक्तिमाशते नवनिति । सिपी - OTA ब्रह्मणः सकलशास्त्रवाच्यत्वसमर्थनम् ) ॥ ईक्षत्यधिकरणम् ॥ निष्कलं 'मिरवयवमित्यवयवभूतव्ययोगस्य शान्तमपरिणामीति कार्ययोगस्येति द्रष्टव्यम् । यद्यपीह भाष्यकारेण गतिसामान्यादिति सूत्रं न व्याख्यायते । तथाऽप्यधिकरणसङ्गतिकथनदशायां तदवतारिका- रूपपूर्वपक्षकथनदशायी चाधिकरणान्तर्गतसूत्रसङ्गत्यादिकथने नानुपपत्तिरित्याशयेन पूर्व तत्सूत्रसङ्गति प्रदर्य तन्निवत्यपूर्वपक्ष च दर्शयति अपर आहेति । एकदेशान्तरे विपरीतप्रतिपादनशङ्कया वस्तु- विकल्पासंभवेनात्रापि सन्देहः समास्कन्दतीति वक्ष्यमाणानुसारेण कथञ्चिदित्युक्तम् ॥ अस्मदनधिर- तेति । स्वरूपम्यैवानवधारणे तदुपक्रमाअवधारणस्य दूरोत्सारितत्वादिति भावः ॥ अस्माकमि ते । अन्यायुःप्रजानामित्यर्थः । नन्वस्म दधिातशास्त्रस्य ब्रह्मविश्यत्वावधारणमात्रेणास्मदभिमतसिद्धः किं सर्वस्य तदवधारणेनंत्यत आह विफलश्चेति । चशब्दस्तुशब्दार्थ ऽध्यवसाय इत्यनेन संबद्धयते ॥ नन्वेक- देशान्तरेऽन्यस्यापि जगत्कारगत्वप्रतिपादने विष्णोस्तदभावप्रतिपादने वाऽस्तु तद्युभयानुसारेणोभयोर्जन्मा. दिकारणत्वं विष्णोस्तद्भावाभावी बा को दोष इत्यतो जगत्कारणत्वस्य तत्प्रयुक्तसर्वोत्तमत्वस्य चोभयत्रा- जोकारे एकैकत्र तःकारण-वकार्यत्वयोम्तदुत्तमत्वानुत्तमत्वयोश्च प्राप्त्या तयोर्भावाभावयोश्च सिद्धस्वरूपत्वा- दनुष्ठाने विकलासंभवेऽपि सिद्धे वस्तुनि विकल्पो न संभवतीत्याशयेनाह न चेति । ॐ ईशतेन शब्दम् ॐ ॥ नन्वस्तु एकदेशान्तरे विपरीतप्रतिपादनशङ्का तथाप्यस्म. दधिातशास्त्रैकदेशे ब्रह्मपरत्वाध्यवसाये किं बाधकमित्यत आह न च वस्तुविकल्प इति । सर्वोतम- वस्तुयायोगादिति भावः । प०. ॐ ईक्षतेनाशब्दम् ॐ ॥ आक्षेपकी सङ्गतिमाह वचनवृत्येति ॥ वचनवृत्त्यैवेत्येत. दंशाक्षेपप्रकारं तावद्ध्यनक्ति यतो वाच इत्यादिना । 'अशब्दम्' इति श्रुत्यन्तरम् । शब्दो वाचको यस्य तदिति विग्रहोऽग्रे व्यक्तः । 'शब्दो न यत्र' इाते भागवतवाक्यम् ।। ब्रह्मणो वाच्यत्वे युक्ति चाह वचनवृत्तिश्चेति । औपनिवस्त्यमुनिश्रतिपाद्यत्वम् ।। सकलशास्त्रगम्यमित्येतदंशाक्षेप. प्रकारमाह अपर आहेति ॥ एकदेशनिर्णयेनालं किं सर्वाधिगमेनेत्यत आह विफलश्चेति ॥ अयुक्तश्च शास्त्रैकदेशस्यापि ब्रह्मारत्वाध्यवसाय इत्याह एकदेशेति । ततश्च किमित्यत आह न च वस्तुनि विकल्प इति । वस्त्वेवमनेवं भवतीति विकल्प इत्यर्थः ।। अत्रापीति । एकदेशाधिगतेपि वातुनी- त्यर्थः ।। अवाच्यत्वशङ्को तावदिति । द्वितीयशङ्का तु 'गतिसामान्यात्' इत्यनेन निराकरिष्यते । तयाख्यानं चोपासनापादे तृतीये करिप्याम इति भावः । या० ।। ॐ ईक्षते शब्दम् ॐ ॥ पुरुकारकवानिति भावप्रधानो निर्देशः । तथा च यत्र विषये शब्दः पुरु साकल्येन कारकवान्प्रतिपादकत्ववानेत्यर्थः । यत्र येन कारकवान्. कर्मकार- कानिति वा ॥ 'गतिसामान्यादिति सूत्रनिवर्त्यपूर्वपक्षं दर्शयति अपर आहेत्यादिना। नन्वस्त्वेकदेशा- न विद्यते ॥ भ्यायसुधा ॥ ११८० न्तरे विपरीतप्रतिपादनशङ्का तथाऽप्यस्मदधिगतशास्त्रैकदेशे ब्रह्मपरत्याध्यवसाये किं बाधकमित्यत आह न च वस्तुनीति | विकल्पो नानात्वम् । सर्वोतमवस्तुद्यायोगादिति भावः ।। श्री ॐ ईक्षतेनीशब्दं 30 ॥ इत्युक्तमिति । संशब्देनेति शेषः । कल्पकोटिशतैः कल्पानां कोटिशतैः। ॐ ईक्षतेन शब्दम् ॐ ॥ पूर्वनयनिरूपितामेतन्नयवर्तिनीमाक्षेपिकी सङ्गतिं दर्शयन्नेव प्रकृतनयप्रतिपाद्य वनयति वचनवृत्त्येति । शक्तिवृत्त्येत्यर्थः ॥ तदाक्षिप्येति । पूर्वसूत्रघटकोपसर्गाशेन वाच्य-वकासयोल्पम्यापिततया तादृशशक्तिवृत्त्यधीनकृत्स्नशास्त्र जनितप्रतीतिविषयत्वमाशङ्कयेत्यर्थः । वचनवृत्त्यैतदंशाशङ्कनभङ्गी तावद्दर्शयति यत इति ।। निवर्तत इति । यन्निास्वनिरूपितप्रतिपादकता. संसर्गावच्छिन्न प्रतियोगिताकाभावप्रतियोगिन्यो वाच इत्यर्थः ।। पुरुकारकवानिति । यति सप्तम्या तृतीयात्यविपरिणामेनाभेदः प्रत्याप्यते । कारकशब्दश्च लक्षगया कर्मकारकत्वावच्छिन्नपर: 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति वचनात् । तथाच यदभिन्नकर्मकारकवान्नेत्यर्थः । शास्त्रे साकल्यांश निवर्तनीयां गतिसामान्यादिति सूत्रावतरणिकारूपां शङ्का दर्शयति अपर आहेति। विकल्पः विरुद्ध- धर्मद्वयसमावेशः। :: सु० अत्र ईक्षतेरिति धातुनिर्देशः। न चाविवक्षितार्थ शब्दमानं ब्रह्मणो वाच्यत्वे हेतु वे तुतीति तदर्थोऽने गोपलक्ष्यते । न च ब्रह्मासंबन्धीक्षगमप्यत्र हेतुभवति अतिप्रमङ्गात् । संब वश्च न कर्तृत्वादिरूपः श्रुयानुग नात् विपक्षे वाधकामा(वाञ्च)वप्रसङ्गाच्च । अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् । न चैतदपि युक्तम् व्यधिकरणत्यप्रसङ्गात् । तस्मादीक्षणकर्मत्वमेव हेतुतया विक्षितम् ; इत्याशयेनोक्तम् ईक्षणीयत्वत इति । अनु० ।। ॐ ईक्षते शब्दम् ॐ ॥ ईक्षणीयत्वतो विष्णुर्वाच्य एव तदित्यनुवर्तते । तेन विष्णुरित्याह । न विद्यते वाचकः शब्दो यस्य तदंशब्दम् । अवा- च्यमित्यर्थः । वाच्यमिते वक्तव्ये नावाच्यमिति वचनं द्वौ नौ प्रकृतमर्थ सातिायं गमयतः' इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं वाच्य एवेति ।। नन्ववधारणमपि किमर्थम् । उच्यते । तत्वनिर्णयार्थ हि न्यायसूत्रम् । निर्ण:श्च स्वपरपक्षसाधनोपालम्भाभ्यामेव भवति । नान्य- तरमात्रेण । यथोक्तम् । विमृश्य पक्षातिपक्षाभ्यामर्थावधारणं निर्णय इति । तदत्रावधारणे कते वाच्यत्वविधिरवाच्यत्वनिषेधश्वेत्युभयमपि श्रुत्य भ्यां प्रतिज्ञातं स्यात् । उभयसाधनार्थ- ब्रह्मणः सकलशाववाच्यत्वसमर्थनम् ) ॥ इक्षत्यधिकरणम् ॥ श्वेक्षणीयत्वहेतुर्विज्ञायते । तथा च निर्णयो भवेत् । वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् । न च तदर्थमन्यत्सूत्रमस्ति । अतो युक्तोऽयं निर्देशः ॥ एवमन्यत्रापि वेदितव्यम् । इदमुक्त भवति । ब्रह्म वाच्यं भवितुमर्हति; न पुनरवाच्यमीक्षणकर्मत्वाइटवत् । ईक्षणीयत्वं च ब्रह्मणः स एतम्माजी धनात्परात्परं पुरिशयं पुरुषमीक्षते' 'आत्मन्येवात्मानं पश्येत्' इत्यादिश्रुतिसिद्धमिति । ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् । ईक्षणीयत्वं न स्यात् । तथा च ब्रह्मज्ञाना- भावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न । वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्या- प्यत्वाच्च । न ह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति । ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभामनिमित्तं व्यापकं युक्तम् । वाच्यत्वं च शब्दवृत्तिविशेपोपाधिक व्याप्यमेवेति ।। मैवम् । न तावदिदं मोक्षार्थमुपदिष्टं ब्रह्मेक्षणं प्रमाणाभासजन्यम् । भ्रान्ते- रविद्यानिवर्तकत्वाभावात् । नापि प्रत्यक्षानुमानजम् । शास्त्रैकसमधिगम्यतायाः साधितत्वात् । तथा च प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधक संभवत्येव । न च व्याप्त्य(भा)संभवः । व्यतिरेकसंभवात् । यत् यत्कारकाविषयः तत् तत्क्रि- याऽविषयः यथा कुठारायविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसंभवाच्च । भाप्योक्तमर्थ मूलारूढं कर्तुमाह अत्रेत्यादिना ॥ ईक्षतेरिति धातुनिर्देश इति । ध तोरनुक णमित्यर्थः । नन्वीक्षतेरिति कथं शब्दरूपनिष्पत्तिः । न चेक्षधातोः 'इश्तिपौ धातुनिर्देशे' इति स्मरणात् श्तिपि 'कर्तरि शम्' इति शपि तच्छन्दनिप्पत्तिरिति वाच्यम् । 'कर्तरि शप्' इति कर्बर्थे सार्वधातुके परत एव शपो विधानात् । रितपः शित्त्वेन सार्वधातुकत्वेऽपि (तिशित्सार्वघातु- कमिति स्मृतेरिति भावः) कर्थत्वाभावात् 'कर्तरि शप्' इति शपः प्राप्त्यसंभवादिति चेन्न । शितपः शिकरणसामर्थन सार्वधातुकमात्रे परतोऽपि शपोऽभ्युपगमादित्येके । तन्न। पिबति यतिरित्यादौ पिबाद्यादेशप्रवृत्त्याऽऽत्वनिवृत्त्या च शिवस्य चरितार्थत्वेन तत्सामर्षस्य कल्पयितुमशक्यत्वात् । वस्तुतस्तूपसर्गात्सुनोति सुवति ध्यायतेः संप्रसारण चेति निर्देशादेव कर्तर्यपि श्तिसिद्धयेक्षतिरिति शब्द- निष्पत्तेः संभवात् ।। मुख्यार्थानुपपत्ति दर्शयति न चेति ॥ ननु यत्र मुख्येक्षणं नास्ति ततो मुख्यार्थ- स्येक्षतिधातोरपि व्यावृत्तरर्थवद्धातोरपि लिङ्गत्वसंभवादीक्षतिपदस्य धातुपरत्वेऽपि नानुपपत्तिरित्यतोऽर्थस्य ब्रह्मणो व्यावृत्त्यवगर्भ विना तद्वाचकस्य धातोस्ततो व्यावृत्त्यवगमासंभवेन प्रथमोपस्थितार्थस्यैव तल्लिङ्गत्व. मुचितमित्याशयेनाविवक्षितार्थ शब्दमात्रमित्युक्तम् ।। तदर्थ इति । विषयविषयिभावरूपशक्यसंबन्ध- वा० ॥ न्यायसुधा ॥ (अ.१ पा.१ अ.५ सू.५ मूचनम् । इतिकर्तव्यताविधिशून्यसौरादियागानां पूर्वप्राप्तप्रतीतिकर्तव्यंतयैवेतिकर्तव्यताकत्वमित्यर्थ- प्रतिपादके इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वमिति सप्तमस्थ जैमिनिसूत्रे यजतेरिति निर्देशात्सूत्रकाराणा- मर्थविवक्षया धातुप्रयोगस्य प्रचुरन्वेन रूढलक्षणात्वेन न प्रयोजनसापेक्षत्वमस्या इति प्रयोजनाप्रदर्शनमिति द्रष्टव्यम् । ननु तर्हि तदैक्षतेत्यादिस्तादृशश्रुतिरेयोपादीयतामित्यत आह विपक्ष इति ॥ व्यधिकर- गवति । पुरुषनिष्ठेक्षणम्य ब्रह्मनिष्ठवाच्यत्वव्यधिकरणत्वादित्यर्थः । यद्यप्यन्यकर्मकपुरुषनिष्ठेक्षणस्य मगो याच्यावेन विमाऽनुपपत्ताभावामकर्मकस्यैव तस्य चेति ब्रह्मकर्मकन्योपजीवनेन व्याप्तौ सत्त्यां न यधिकरणासिद्धेोत्यम् । तथाऽपीक्ष पस्य ब्रह्मकर्मकत्वमुपजीवता ब्रह्मण ईक्षणकर्मत्वस्यावश्याभ्युपगम- गायत्वात्तदुक्त्यैव च व्यधिकरणासिद्धो पेन्वाग्रहणं प्रत्यपि वैयधिकरण्यपरिहार संभवे किमिदानी तदोप-याभावव्युत्पादनेनेत्याशयेन तद्दो पत्याभिधानात् ॥ तस्मादिति । ईक्षणमेव हेतुः पक्षधर्मताप्रयोज. कसबन्धश्च कर्मवलमग इति वा लक्षितलझगया सौत्रेक्षतिशब्दस्येक्षणकर्मत्वमर्थ इति वाऽस्याशयो प्रत्यः । वाच्य एवेति भाष्यस्य सूत्रन्याख्यानतां दर्शयितुं तदनुगुणतया सौत्राशब्दशब्दं व्याख्याति न विद्यत इति । एवेत्यस्य सूत्राक्षरार्थत्वं दर्शयति वाच्यमितीति ।। द्वौ नाविति । 'सविशेषणे हि' इति न्यायेनावाच्यमित्यभावविशिष्टवाच्यविशेषणस्य नो विशेषणीभूताभावविश्यत्वे समभिव्याहृतं वाच्यमेव नन्हयार्थः । तहिं तद्वैयर्थ्यमित्यतो वाच्यमिति तल्लाभेऽपि नद्धयेन निधनिषेधरूपातिशय- स्यापि लाभाइवधारणसिद्धिरित्याशयः । अत्र न्यायसूत्रसम्मतिमाह यथोत्त.मिति । अत्र पक्षप्रतिपक्ष- शब्दाभ्यां तसाधनोपलम्भो लक्ष्यते । विमर्शशब्देन साधनोपलम्भविषयौ संभवासंभवौ द्विवचनेन मेलनम् । तथा च संभवासंभवाविषयीभूताभ्यां तत्साधनोपालम्भाभ्यां स्वपर पक्षसाधनोपालम्भाभ्यां स्वपरपञ्चसाधनोपालम्भसंभवासंभवाभ्यामिति यावत् मिलिताभ्यां ताभ्यामर्थावधारणं निर्णय इति तर्क- विषयनिर्णयलक्षणमेनन् । प्रत्यज्ञादिसाधारणनिर्णयस्य त्वर्थावधारणमात्रं लक्षणमिति द्रष्टव्यम् ।। श्रुययीभ्यामिति । अभावाभावो भाव इति नद्धयस्यापि समभिव्याहृतार्थवा चकत्वं वैयन्यिथाः ऽनुपपत्त्या चे तरनिषेधसिद्धिरिति पक्षे नावाच्यमित्यत्र वाच्यत्वविधिः श्रौतः अवाच्यत्वनिषेधस्त्वार्थिकः । अभावाभावो भावव्याप्य इति नन्दयस्य निषेधनिषेधमुखन समभिव्यहृतार्थज्ञापकत्वमिति पक्षे तु विपरीत श्रौतार्थिकभाव इति द्रष्टव्यम् । यद्वा । नेदं नन्दय स्थलाभिप्रायेगापि तु 'वाच्य एव । वह्निमानेव' इत्याद्यपचार गस्थलमात्राभिनायेग नद्धयमप्यवधारणार्थ प्रकृतमित्येव । वाच्य एवेत्यादौ च श्रुत्या वाच्यत्वविधिगर्थिक इतरनिषेध इति द्रष्टव्यम् ।

उत्तरवाक्योक्तविपक्षे वाधकनिवाऽप्रयोजकत्वशङ्काप्रसक्तये एतद्राक्याभिमतानुमानप्रकारं दर्शय. नेव भाप्योक्तरीत्या तद्धत्वसिद्धिपरिहारं चाह इदमुक्तं भवतीति ॥ ननु न चान्यथेति ब्रह्मणो वाच्यत्वाभावे लक्ष्यत्वानुपपत्तिरूपविपक्षबाधकपरोत्तरवाक्यमयुक्तम् । इष्टापत्या तर्काभासत्वात् । न चेक्षणीयत्वरूपहेतूच्छित्तिलक्षणविपक्षबाधकस्योत्तरवाक्याभिमततया तत्रावाच्यस्यापि लक्षणयेक्षणोपपत्ती परेण शङ्कितायामवाच्यत्वे लक्ष्यत्वानुपपत्तिकथनान्नेष्टापत्तिशङ्केति वाच्यम् । वाच्यत्वस्येक्षणीयत्वव्यापक. तया व्यापकनिवृत्त्या व्याप्यनिवृत्तेरापादयितुं शक्यतयाऽन्यथोपपतिशङ्काऽनवकाशात् । न चेक्षणीयत्वस्य प्रत्यक्षादिबहुनिमितकतया वाच्यत्वस्य विशेपोपाधिकतया तथा व्याप्यव्यापकमावस्यैवानुपपत्त्या न व्याप्यनिवृत्त्या व्यापकनिवृत्तिरापादयितुं शक्येत्यन्यथोपपत्तिशङ्कोदय इति वाच्यम् । तथा सति प्रत्य- क्षादिनापीक्षगोपपत्तिकासंभवेन विशिष्यलक्षणयैव तदुपपत्ति शङ्कानिरासाय भाप्यकारीययत्नानुपपत्ते. रित्यत 'औपनिपदत्वान्नावचनेनेझगम्' इति भाष्यदिशा प्रत्यक्षादिनाऽन्यथोपपत्तिपरिहारप्रकारस्य सुगमत्वादेतदनुपपत्तिपरिहारस्य च सर्वशब्दावाच्यस्य लक्षणायुक्तेरिति भाष्येऽस्पष्टत्वाद्युक्तोऽत्रेव मूल- कारीयो विशिष्य यत्न इत्याशयेन विपक्षबाधकप्रश्नपूर्व हेतूच्छित्तिरूपविपक्षबाधकं तव्याप्यव्यापकभावा- नुपपत्तिशङ्का भाष्यदिशा तत्परिहारप्रकार ततो लक्षणयोपपत्तिशङ्कां च दर्शयन्नव तन्निवर्तकतयोत्तरमूलं योजयति नन्वित्यादिना || आपाद्यस्यानिष्टत्वं दर्शयितुमाह तथा चेति ॥ न तावत्स्पष्टदृष्टव्यभिचा. रेणानयोाप्यव्यापकभावानुपपत्तिरपि तु ब्रह्मण्येवेक्षणमन्यथा कि न स्यादिति शङ्कया सेति वाच्यम् । सा च ब्रह्मेशणस्य भाष्योक्तदिशा प्रकारान्तरेणानुपपन्नतया शङ्का न युक्तेत्याह न तावदित्यादिना । उपदिष्टमितीक्षणमेवासिद्धमिति शङ्कानिरासाय मोक्षार्थमित्युक्तिप्रयोजनकथनं भ्रान्तेरिति । निषदत्वादिति भाष्यमुपलक्षगमित्युक्तं भवति ॥ प्रकारान्तराभावे सतीति । प्रमाणाभासप्रत्यक्षानुमान- रूपेक्षणनिमित्तकारकविषयत्वे सतीत्यर्थः । तथा च वाच्यत्वाभावमात्रस्यापादकत्वासंभवेऽपि प्रकारान्तरा- संभवविशिष्टस्य तस्यापादकतायां नोकानुपपत्तिरिति भावः । यदीक्षणीयं तत्प्रकारान्तरासंभवे सत्यवाच्य. मपि नेति व्यतिरेक याप्तेर्वटादावेव सुप्रसिद्धत्वादन्वयव्याप्तिग्रहणस्थलाभावेऽपि नानुपपत्तिरित्याह व्यतिरेकेति ॥, सामान्यव्याप्तेः सुज्ञानत्वाच्च नानुपपत्तिरित्याह यद्यदिति । अत्र तर्कमूलच्याति- कथनावसरे प्रकारान्तरांभावस्यापि कारकाविषय इति व्याप्यकोटिनिवेशसूचनेन कारकान्तराभावे सतीत्यस्य ब्रह्मरूपपक्षविशेषणत्वमभिप्रेतमिति भ्रान्तिः परिहृता भवति । तथा चात्र पूर्वप्रदर्शितो वाच्यत्वेक्षणीयत्वयोरेव साध्यसाधनभावो न तु प्रकारान्तराभावे सतीत्यस्य हेत्वादिविशेषणत्वं स्पष्टदृष्ट- व्यभिचारायभावात् अप्रयोजकत्यपरिहाराय विशेषणप्रक्षेपस्य चायुक्त वाद्विपक्षबाधकतर्के च सामान्य- विशेषयोविपरीतव्याप्यव्यापकभावानुपपत्त्या व्यापकनिवृत्त्या व्याप्यनिवृत्तरापादयितुमशक्यतया तदुप- तथा चौप.

(अ.१ पा.१ अ.३ सू. । न्यायसुधा । ११८ पादनायापादके विशेषणप्रक्षेपोऽभिमतः । तत्वप्रकाशिकायों तु 'औपनिषदत्वात्' इति भाष्यस्वारस्यानुरोधेनं विशिष्टेक्षणीयत्वान्यथानुपपत्तिपरिशेषयोः कथनम् । अत्र स्वीक्षणीयत्वतो विष्णुर्वाच्य एवेत्यनुव्याख्या- स्वारस्यानुसारेण केवलयोः साध्यसाधनभावो विपक्षवाधकतर्के च विशेषणप्रक्षेपोऽमिमतं इति बोध्यम् । स०- श्रुत्यननुगमादिति । 'पुरि शयं पुरुषमीक्षते' इति पुरुषस्येक्षणकर्मतयोक्तत्वादिति भावः ॥ अवधारणार्थमिति । इतरकोटिव्यवच्छेदकसाहित्येन प्रकृतार्थावगाहिनिश्चयोत्पादार्थमित्यर्थः । अत एव 'प्रकृतमर्थ सातिशयं गमयत' इत्युक्तम् । इतरकोटिव्यवच्छेदलक्षणातिशयसाहित्येनेत्यर्थः ।। नववधारणमपीति । एतादृशज्ञानजनकप्रतिज्ञा किमर्थ कर्तव्येत्यर्थः । न्यायसारोक्तसंमतिमाह विमृश्य पक्षेति । विमृश्यशब्देन सन्देहो गृह्यते । विमृश्य सन्देहं संपायेत्यर्थः । अत्रं पक्षप्रतिपक्ष गन्दी स्वपक्षमाधनपरपक्षोपालम्भनपरौ तथाच सन्देहपूर्व स्वपक्षसाधनपरपक्षोपालम्भाग्यामुन्नीयमानमर्थाव- घारण निर्णय इत्यर्थः । परार्थनिर्णयस्येदं लक्षणम् । तेने स्वपक्षे साधनादिविना करस्थितामलकनिर्णये नाव्याप्तिरिति द्रष्टव्यम् ।। नन्वेवं नन्छयोपेततया प्रतिज्ञाकरणे परपक्षे प्रतिक्षेप एव प्रतीयते न स्वपक्ष- विधिः, तत्प्रापकपदाभावात् इत्याशङ्कापरिहरन्नवधारणार्थमित्युक्तमुपपादयति तदत्रावधारणे कृत इति । उक्तावधारणरूपज्ञानजनकनन्द्धयप्रयोगे सूत्रकृता कृत इत्यर्थः । श्रुत्यर्थाभ्यामिति । यथायोग्यं संबन्धो न यथाक्रमम् । वाच्यत्वविधैरुक्तप्रतिज्ञायामार्थिकत्वात् । नन्वेवं वाच्यत्वविधेरार्थिकत्वे परपक्षप्रतिक्षेपस्य च श्रुतत्वस्य प्रथमप्रतीत्यापत्त्या अप्राप्तकालत्यप्रसङ्ग इत्याशङ्कापरिहाराय सूत्रकाराभिमतश्योगप्रकार दर्शयति इदमुक्तं भवतीत्यादिना ॥ शंकते ईक्षणीयत्वं न स्यादिति ॥ सामान्यव्याप्तिसंभवाचेति । प्रकृने च शब्दलक्षणकारकाविषयो ब्रह्म । न तजन्ये ईशगरूपक्रियाविषय इति व्याप्त्यनुगमों द्रष्टव्यः । अत्रेति । सूत्रे ॥ तदर्थ इति । धात्वर्थो दर्शनरूप इत्यर्थः । अर्थोऽनेनोपलक्ष्यत इत्यनुक्त्वा तदर्थ इति शक्यसंवन्धद्योतनार्थम् ॥ श्रुत्यननुगमादिति । पुरुषमीक्षतं इति श्रुतौ पुरुषस्ये- क्षणकर्मतयोक्तवादित्यर्थः ॥ विपक्ष इति । ब्रह्म वाच्यं ईक्षं गकर्तृत्वात् इत्यत्र अस्वीक्षणकर्तृत्वं मास्तु वाच्यत्वम् इत्यत्र बाधकामाव इत्यर्थः ॥ अवधारणार्थमिति । अशब्दमिति प्रागुक्तश्रुत्यनुगमाय चंत्यपि ध्येयम् । तेन वाच्यमेवेति कुतो न सूत्रितमिति । तथा तत्तु इति पूर्वसूत्रात्तुशब्दमनु- वर्त्य तत् वाच्यं तु इति योजनायामपि वाच्यमेवेतिलाभादीक्षतेर्वाच्यमित्येव सूत्रणीयमिति च चोचं निरस्तं ध्येयम् । तत्पदान्वितावधारणार्थतुशब्दस्य तत्पदान्ययभङ्गेनान्यत्रान्वये तस्वित्याध्यायसमाप्ति- प्रतिनयं साध्यापकतयाऽनुवृत्त्यनापत्ते चेति । अवधारण(णार्थ)मपीति । अवधारणार्थकनद्वयमपीत्यर्थः । यथोक्तमिति । ताकिकः ॥ विमृश्येति । पक्षप्रतिपक्षाभ्यां विमृश्य जायमानं अर्थावधारणमित्यर्थः ।। प० --- ॥

ब्रह्मणः सकलशास्त्रवान्यत्वसमर्थनम् ) ॥ इक्षत्याधिकरणम् ॥ ११८५ या०. श्रुत्यर्थाम्यामिति । यथाक्रममन्वयः । सूत्रे नाशब्दमित्युक्तेर्वाच्यमेवेति विन्यासस्याभिमतत्वात् । अत एव चाग्रे ब्रह्म वाच्यं न अवाच्यमेव इति चेत्युक्तम् । एक्मन्यत्रापीति । 'हेयत्वावचनाच' 'अन्यत्राभावाञ्च न तृणादिवत्' 'अम्वुवदग्रहणात्त-न.. तथास्वम्' इत्यादावित्यर्थः । यद्वा अन्यत्रापि आनन्दमय इत्यादी तस्वित्यवधारणकृत्यं ध्येयमित्यर्थः ।। कथमत्र प्रयोग इत्यत आह इदमुक्त भवतीति । ईक्षणकर्मत्वात् ज्ञानकर्मत्वादित्यर्थः ॥ हेतोरसिद्धिं निरस्याप्रयोजकतामाशङ्कते ननु ब्रह्मण इत्यादिना मैवमितिपर्यन्तेन । सिद्धान्ती हेतूच्छित्तिबाधकमाशङ्कते ईक्षणीयत्वं न स्यादित्यादिना ।। पूर्ववादी निराह इति चेति । अध्यापकत्वादिकमेव व्यतिरेकमुग्वेन व्यनक्ति ईक्षणीयत्वं हीति ॥ वृत्तिविशेषेति । शक्तिरूपति भावः । न च व्याप्त्यभाव इति । वाच्यत्वरूपसाव्याभावस्य शब्द- कजन्यत्वविषयत्वरूपहेन्वभावेन सह व्याप्त्यभाव इत्यर्थः । सर्वम्यापि वस्तुनो वाच्यत्वेन साध्याभावस्य काप्यभावादिति भावः । यत्र शब्दैक ममधिगम्यत्वं तत्र वाच्यत्वं यथा धर्मादीति दृष्टान्तसंभवा- यतिरेकव्याप्तिसंभवादित्युक्तम् ।। तत्क्रियाऽविषय इति । तज्जन्यक्रियाया अविषय इत्यर्थः । धातुनिर्देश इति । 'इश्तिपौ धातुनिर्देश' इति स्मरणादिति भावः ।। तदर्थ इति शक्यसम्बन्धद्योतनार्थम् ॥ श्रुत्यननुगमादिति । 'पुरुषमीक्षते' इति श्रुतौ पुरुषस्येक्षणकर्मनयोक्तत्वादिति भावः ।। अवधारणार्थमिति । अवधारणस्यैवकारस्यार्थ इति कोटिव्यवच्छेदरूपो यस्य तदवधारणार्थ- मित्यर्थः ॥ अवधारणमपीति । अवधारणार्थकं नद्वयमपीत्यर्थः ॥ न्यायसूत्रसम्मतिमाह यथोक्तमिति । विमृश्य संशय्य पक्षप्रतिपक्षाभ्यां स्वपक्षसाधनपरपक्षोपालम्भाभ्यामर्थतत्त्वावधारणं निर्णय इति सूत्रार्थः । अत्र संशयोत्तरनिर्णयध्यैव लक्ष्यत्वेनाभिमत-वात् । करतलामलकादिनिर्णयेऽव्याप्तिकथन- मसङ्गतम् । परपक्षशब्देन च स्वानभिमतपक्षो ग्राह्यः । न तु पोदीरित एवातः स्वस्यैव विमर्शानन्तरं जायमाने निर्णये पराभाबादव्याप्तिशताऽनवकाश इति ध्येयम् ॥ नन्वेवं नवयेन प्रतिज्ञा करणे परपक्ष. प्रतिषेध एव प्रतीयते न स्वपक्षविधिस्तत्प्रापरुपदाभावादित्याशङ्कां परिहरन् अवधारणार्थमित्युक्तमुपपा. दयति तदत्रावधारण इति । अवधारणार्थकनद्र्यप्रयोगे सूत्रकृता कृत इत्यर्थः ॥ श्रुत्यर्थाम्यामिति । अत्र यथायोग्यं सम्बन्धो न यथाक्रपम् । वाच्यत्वविधैरुक्तप्रतिज्ञायामार्थिकत्वात् ।। एवमन्यत्रापीति । 'अन्तस्तद्धर्मोपदेशादि'त्याद्यधिकग्णेष्वपि पृथक् परपक्षोपालम्भादर्शनात् । तत्त्वित्यनुवर्तितावधारणेन प्रतिज्ञाते परपक्षोपालम्भेऽपि तद्धर्मोपदेशादिरेव हेतुरिति वेदितव्यम् । यत्र द्वितीयाद्यध्यायेषु प्रतिज्ञा. यामवधारणं न दृश्यते । तत्रापि तदध्याहारेण सिद्धान्तहेतुरुभयसाधनार्थो वेदितव्य इत्यर्थः । अतो न तत्र निर्णयलक्षणाच्याप्तिरति भावः ॥ नन्वत्र वाच्यत्वविधेरार्थिकत्वे परपक्षोपालम्भस्यैव प्रथमप्रती. त्याऽप्राप्तकालत्वप्रसङ्गादित्याशङ्कापरिहाराय सूत्रकाराभिप्रेतप्रयोगप्रकारं दर्शयति इदमुक्तं भवतीत्या- -- 11क ११८६ ॥ न्यायसुधा ॥ (भ.१ पा.१ अ. ५ .५ दिना । लाघवाय सूत्रस्य तथास्त्रेऽपि प्रयोगसमये वाच्यत्वमेव प्रथम प्रतिज्ञायां वक्तव्यम् ।...अतों नोक्तदोष इति सूत्रकाराशय इति भावः ॥ शङ्कले ।। ईक्षणीयत्वं न स्यादिति । नन्वीक्षणीयत्ववाच्य. स्वयोरुभयोरपि केवलान्धयित्वेन समव्याप्ततया कथं वाच्यत्वस्याव्यापकत्वादित्यादिकमित्यतस्तदभिप्रायमाह ईक्षणीयत्वं हीति । अनयैव विवक्षयेक्षणीयत्वस्याव्यापक्रत्वं चोक्तम् । न तु व्यभिचारदर्शनेनेति भावः ।। सत्यमीक्षणीयत्वं बहुविशेपनिमित्तकं व्यापकमेव भवितुं युक्तमिति तथाऽपीतरविशेषप्रतिधेध- सहकृतम् तद्वाच्यत्वव्याप्यमपि भवितुमर्हतीत्यत ईक्षणीयत्वं न स्यादिति बाधकाभिधानं युक्तमेवेत्याह न तावदिदमित्यादिना ।। सामान्यच्याप्तीति । प्रकृते च शब्दलक्षणकारकविषयो ब्रह्म न तज्जन्येक्ष- गरूपक्रियाविषय इति व्याप्त्यनुगमो द्रष्टव्यः । श्री०- तदर्थ इति । ईक्षतिधात्वर्थरूपमीक्षणमित्यर्थः ।। विपक्ष इति । ईक्षतिकर्तृत्वाद्यदि वाच्यत्वं साध्येत तदाऽस्त्वीक्षणकर्तृत्वं मास्तु वाच्यत्वमित्यप्रयोजकताशङ्कायां बाधकाभावादित्यर्थः ॥ व्यधिकरणत्वेति । ब्रह्मवाच्यमीक्षणस्य ब्रह्मकर्मकत्वादिति व्यधिकरणत्वेत्यर्थः ।। वाच्यत्वाभाव इति । ईक्षणीयत्वमङ्गीकृत्य वाच्यत्वाभावाङ्गीकार इत्यर्थः । अप्रयोजकताशङ्कायामिति यावत् । सिद्धान्ती हेतून्छित्तिमेव बाधकमाशङ्कते ईक्षणीयतामिति । ब्रह्मणो वाच्यत्वाभाव इति वर्तते ॥ तथा चेति । ईक्षणीयत्वाभाव इत्यर्थः ॥ ब्रह्मज्ञानेति । ब्रह्मकर्मकज्ञानेत्यर्थः ।। वाच्यत्वस्येति । यदि ईक्षणीय. त्वस्य वाच्यत्वं व्यापकं स्यात्तदा व्यापकीभूतवाच्यत्वाभावेन व्याप्यभूतेक्षणीयत्वाभावस्यापादनं सम्भवति । न चैवमित्यर्थः । अध्यापकनिवृत्तरव्यापकीभूतनवाच्यत्वनिवृत्तिः । अव्याप्यनिवृत्तिमव्याप्यभूतेक्षणीयत्व. निवृत्तिम् । तथात्वेऽयोगोलके धूमनिवृत्त्या वन्हि निवृत्तिरपि स्यादित्यतिप्रसङ्ग इति भावः ॥ ईक्षणीयत्वस्य व्याप्यत्वाभावमुपपादयति ईक्षणीयत्वं हीति । व्यापकं वाच्यत्यापेक्षयाऽधिकवृत्तित्वादिति भावः । वृत्तिविशेषः शक्तिरूपशब्दवृत्तिविषयत्वरूपं वाच्यत्वमित्यर्थः । तथा चेक्षणीयत्वापेक्षया न्यूनवृत्तित्वेन वाच्यत्वस्याव्यापकत्वात्तदभावेऽपि प्रत्यक्षादिनेक्षणीयत्वं सम्भवतीति भावः ।। मोक्षार्थमिति । अविद्या- निवृत्तिरूपमोक्षार्थमित्यर्थः ।। व्याप्त्यभाव इति । वाच्यत्वस्य केवलान्वयित्वेन तदभावस्य कुत्राप्यभावेन तर्के व्याप्त्यभावादिति भावः ॥ व्यतिरेकेति । यत्रेक्षणीयत्वं तत्र वाच्यत्वं यथा घट इति व्यतिरेक. व्याप्तिः सम्भवतीति भावः ।। तत्क्रियेति । तत्कारकजन्य क्रियेत्यर्थः च० धातुनिर्देश इति । 'इश्तिपौ धातुनिर्देशे वक्तव्यो' इति कात्यायनोक्तरिति भावः । धातुस्वरूपप्रत्यायकेन रितवन्तेन स्ववाच्यधातुवाच्यत्वसंबन्धसत्त्वेनेक्षणं लक्ष्यते तस्य च स्वनिरूपित- कर्मतासंसर्गेण हेतुत्वमीक्षणकर्मत्वस्य हेतुत्वमिति चानान्तरमित्यभिप्रेत्याहोक्तमित्यन्तेन ॥ द्वौ नजा- विति । 'व्यर्थ सत्किञ्चिज्ज्ञापयति' इति परिभाषया नद्धयाविनिर्मोकेप्यर्थप्रतीतौ जायमानायां .

ब्रह्मण : सकलशाम्बवाच्यत्वसमर्थनम् ) ॥ ईक्षत्यधिकरणम् ॥ ११८७ समासघटकप्राथमिकना समभिव्याहृतो द्वितीयो नञ् स्वाभावासामानाधिकरण्यरूपातिशयं प्रकृतेऽर्थे ध्वन- यतीत्याशयः । तेन 'भूतले घटो न पटश्च न' इत्यादावप्येतन्यायसञ्चारापत्तिरिति क्षत्यनवकाशः । न चैवमपि भूतलमम्नेहं न जलं गन्धवदित्यादौ दर्शितन्यायसञ्चारापत्तिः 'भूतले घटो नेति न' इत्यादी उक्तन्यायसन्चागनापत्तिश्च दुबारैवेति वाच्यम् । प्रतियोगितासंसर्गावच्छिन्नकिञ्चिद्धर्मावच्छिन्नप्रकारता. निरूपिताभावत्वावच्छिन्नविशेष्यतारूण तवच्छिन्ना वा तादृशसंसर्गावच्छिन्ना या प्रकारता तन्निरूपित. स्त्रोपस्थाप्यतावच्छेदकावच्छिन्नविशेष्यताशालिशाब्दबोयौपयिकाकामाशाली नञ् स्वोपस्थाप्यार्थे तादृश- प्रकारतापन्नाभावासामानाधिकरण्यापातिशयं प्रकाशयतीत्यत्र तात्पर्यात् । तेन 'चैत्रमैत्री दण्डं वहत' इत्यादावेकत्वविशिष्टदण्डकर्मकवहन क्रियाकर्तृत्व चैत्रमैत्रोभयत्वावच्छेदेन यथा प्रतीयते तद्वत्प्रकृतेऽपि नद्वयत्यावच्छेदेनकाधगमकत्वं भायात् । तत्तु बाधितम् । प्रथमनना बोव्याभावादतिरिक्ताभावस्य भावरूपस्थ द्वितीयनचो यत्वादिति निरस्तं वेदितव्यम् ।। अवधारणार्थमिति । परपक्षप्रतिक्षेपसाहित्येन स्वपक्षाधिगमार्थमित्यर्थः । प्रकृतप्रतीकमुपाददाना अवधारणार्थकं नझयमपीत्यर्थ इत्यप्यार्तीथपन् । अभिहितार्थे न्यायसूत्रं प्रमाणयति यथोक्तमिति । विमृश्य संशय्य पक्षप्रतिपक्षाभ्यां वादिप्रतिवाद्यभिमत. विधिनिषेधकोटिभ्याम् । तथा च तादृशकोटिद्वयवृत्तिविरोधघटितधर्मावच्छिन्नप्रकारताशालिसन्देहोत्तर- कालीनार्थावधारणत्वं निर्णयलक्षणमिति समुदितार्थः । अत्र च तादृशस-देहोत्तरकालीननिर्णयपदवाच्य स्वस्य लक्ष्यतावच्छेदकतामुपेत्य सन्देहानुत्तरकालीननिर्णयेऽव्याप्तिर्निरसनीया। कथाफलीभूतनिर्णयेतरेषु विशेषादर्शनसाधारणधर्मदर्शनादिघटितसामग्रीनिप्पाद्यस्थाणुत्वादिसन्देहोत्तरकालीनपुरुषत्वादिनिर्णयेषु को- टिद्वये वादिप्रतिवाद्यभिमनत्वाभावनिबन्धना व्याप्तिस्तत्र तागंशानिवेशेनैव परिहरणीया । न तूक्तदिशा नन्द्रयस्य प्रतिज्ञावाक्यघटकतायां तदधानान्वयबोधे परपक्षप्रतिविहितिरेव भायात् . न स्वपक्षविधि- स्तत्प्रत्यायकपदराहित्यादित्याशङ्कायां श्रयमाणपदसमभिन्याहारेण परपक्षप्रतिषेधो भासते उदीच्यबोधेऽर्था- स्वपक्षविधिरित्याशयेन समाधत्ते तदत्राबधारण इति । उक्तदिशावधारणफलकाद्धयघटितसौत्र- विन्यासाश्रयण इत्यर्थः ।। श्रुत्योभ्यामिति । यथायोग्यं संबन्धो न यथाक्रम वाच्यत्वविधैरुक्त- प्रतिज्ञायामार्थिकत्वात् । अभावाभावो भाव इति नन्द्रयस्यापि समभिव्याहृतार्थवाचकत्ववैयर्थ्यान्यथा- ऽनुपपत्त्या चेतरनिषेधसिद्धिरिति पले नावाच्यमित्यत्र वाच्यत्वविधिः श्रौतः अवाच्यत्वनिषेधस्त्वार्थिकः अभावाभावो भावव्याप्य इति नन्दयस्य निषेधनिषेधमुग्वन सममिव्याहृतार्थज्ञापकत्वमितिपक्षे तु विपरीतः श्रौतार्थिकभाव इत्यपि स्थितम् ॥ एवमन्यत्रापीति । परपक्षप्रतिविधायकनादिसमभि- व्याहारविनिर्मुक्तेप्वन्तरित्यादिनयेषु तत्तु समन्वयात् इत्यतस्त। दशतुशब्दसर्वनाम्नोराऽध्यायसमाप्ति प्रधान- सूत्रेप्वनुवृत्तः समर्थिततया समीहितं मेत्स्यतीति येयम् । यादृशस्थले नावधारणार्थकपदसमभिव्याहारस्तत्र 10ख कारक. ॥ न्यायसुधा । (*.१ पा. १ अं. ५ सू . ५ तपरणव निर्वाह इति भावः । नन्देवं सति सूत्रघटकपदविन्यासेनानाकाङ्कितपरपक्षप्रतिषेधावगाहि ह्य- व्यधारेवोदीयादित्यप्राप्तकालताप्रसङ्ग इत्याशङ्कापरिजिहीर्षया सूत्रकृदभिप्रेतस्थापनाभङ्गीं दर्शयति इदमुक्त भवःत्यादि ॥ लाघवानुरोधेन सूत्रघटकपदानुपूर्यास्तादृशत्वोपगमेऽपि स्थापनायां प्रतिज्ञा- घटकनया बाच्यपदमेव निर्देष्टव्यं प्राथम्येनातो नोक्तक्षतिरिति सूत्रकृदाशय इति भावः । अत एव अयशब्दानुशासनमिति भाप्यप्रतीकव्याख्यावसरे अथशब्दः प्रारम्भस्य द्योतकः न तु वाचकः निपात. त्यान् चादिवदित्याद्याकरप्रयोगः सङ्गच्छत इति भावः । शङ्कते ईक्षणीयत्वं न स्यादिति । वाच्यत्वेक्ष. णीयत्ययोः केवलान्वयित्वेन परस्परममनियततया वाच्यत्वस्याव्यापकत्वादित्यादिकं सौवं कथं सङ्गमनीय- मित्यतः स्वाशयमाविर्भावयति ईक्षणीयत्वं हीति । वाच्यत्वस्याव्यापकत्वोक्तिनैक्षणीयत्वसमानाधिकरणा- भावप्रतियोगित्वदर्शननिवन्धना किन्नूक्तविवक्षाविशेषनियन्त्रितैवेति भावः । शब्देतरजन्यज्ञानविषयत्व- बाधसहकृतं ज्ञानविषयत्वं वाच्यत्वव्याप्यं भवतीति बाधकाभिधानं सङ्गच्छत इत्याह न तावदिद- मित्यादिना ॥ व्यतिरेकसंभवादिति । दर्शितबाधसहकृतशब्दज्ञानविषयत्वरूपापाद्यव्यतिरेकस्य वाच्यत्वरूपापादकव्यतिरेकस्य च व्याप्यव्यापकभावसंभवा दित्यर्थः ।। सामान्वव्याप्तीति । वियित्वाभावत्वस्य क्रियाविषयत्वाभावत्वस्य च शब्दरूपकारकविषयत्वाभावत्वज्ञानरूपक्रियाविषयत्वाभ्यां सामान्यधर्मत्वादिति भावः ।। सु ननु मा भूत्प्रमाणाभासैः प्रत्यक्ष नुभानाभ्यां चेक्षणं ब्रह्मणः, मा च भूद्वाच्यम्; तथाऽपि शब्दलक्ष्यतयेक्षणीयं च भविष्यति; तथा च विपक्षे बाधकामावादप्रयोजको हेतुः, इत्यत आह न चेति । अनु लक्ष्यत्वं कापि दृष्ट हि हि यस्मादन्यथा वाच्यत्वाभावे लक्ष्यत्वं क्वापि न दृष्टम् । तस्मादवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल्लक्षणयाऽपि नेक्षणीयत्वमिति शेषः। केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल्लक्ष्यं दृष्टमिति । वा० ननु शब्दवचनवृत्त्यविषयस्यापि लक्षणया शब्दवृत्तिविषयत्वसंभवात्प्रकारान्तरासंभयो- ऽसिद्ध इात नेई वायक्रमित्य शकत नन्विति ॥ फलमाह तथा चेति ।। ननु वाच्यत्वाभावे लक्ष्यत्वा- दृष्टयुक्तिमात्रेण न किञ्चिदपि विपक्षबाधकमुक्तं भवतीत्यतस्तदुक्तिलब्धं विपक्षे बाधकं तत्फलतयोक्ताशङ्का- निवृत्तिं च शेषपूरणेन मूलार्थतया दर्शयति तस्मादिति । ननु विपक्षबाधकतव्यातिन सुग्रहत्यतोऽन्यथा। - . न चान्यथा ॥ - ब्रहणः सकलशावास्यत्वसमर्थनम् ) ॥ क्षत्यधिकरणम् ॥ ११८९ ने अष्टमित्येतन्मूललब्धां व्यतिरेकव्याप्ति दर्शयति केनचिदिति । एतद्विशेषणं च गङ्गापदलक्ष्यस्यापि तीरस्य तत्पदवाच्यत्वाभावादयुक्तमित्यतो न लक्षकपदवाच्यत्वमेव लक्ष्यस्य वयमाशास्महेऽपि तु तदन्य- त्किञ्चित्पद्रवाच्यत्वमतो न दोष इति सूचनाय । यद्वा । तत्पदवाच्यत्वाभाव एव तल्लक्ष्यत्वं दृष्टमिति कथं न दृष्टमिन्युक्तिरित्यतः स्वाभिप्रायप्रकटनाय केनचिदित्यादि । अनेन वाच्यत्वाङ्गीकारे लक्ष्यत्वस्य सूपपादत्वान्न प्रतिप्रसङ्ग इत्यपि सूचित भवति । प० ---- न तावदित्यादिना ईक्षणीय चहेतोरप्रयोजकत्वं हि कारणान्तरजन्यज्ञानविषयत्वनिमित्तं वृत्त्यन्तरविषयत्वनिमित्तं च । तत्राद्यं शास्त्रयोनिसूत्रादिपर्यालोचनया सुपरिहरमिति स्वयं परिहत्य द्वितीयाप्रयोजकत्वचोद्यनिवर्तकतया मूलमवतारयति ननु मा भूदित्यादिला । वाच्यत्वस्य लक्ष्यन्या. व्यापकत्वात्कथं तदभावेन लक्ष्यस्वाभावापादनमित्यत आह केनचिन्छब्देनेति । ननु वाच्यन्वम्य लक्ष्यत्वाव्यापकत्वात्कथं तदभावेन लक्ष्यत्वाभावापादनमित्यत माह केनचिच्छन्देनेति । वह्निमानेव धूमवानित्यादी वन्ह्यादेरिव वाच्यमेव लक्ष्यमित्युक्ते वाच्य स्वस्य व्यापकतोक्ता भवतीति ज्ञातव्यम् । यद्वा । गङ्गाशब्दावाच्यमपि तीरं तल्लक्ष्यं दृमियुक्ततकें व्यभिचार इत्यत आह केनचिच्छब्देनेति । वाच्यत्वसामान्याभावस्यापादकतयाऽत्र विवक्षितत्वान्नोक्तव्यभिचार इति भावः । या स --- तथा च सु० नन्ववाच्यमपि लक्ष्यं किं न स्यात् । ततश्च विपक्षे वाधकाभावादप्रयोजकोध्य प्रसङ्गहेतुः; इत्यत आह किं तदिति । अनु० किं तदित्यनवस्थितिः ॥ अन्यथेत्यनुवर्तते । यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते; तदा किं तदिति जिज्ञा- माप्रवृत्तावनवस्थितिः (स्यात्) । इदमुक्तं भवति । लाक्षणिको हि शब्दो न श्रुतमात्रोऽर्थान्तरे धियमुपजनयति तत्रागृहीत क्तित्वात् । किन्तु वाच्यार्थ(3) बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति । न तावताऽपि । वाच्यार्थानुपपत्तिदर्शनस्य तन्यागमात्रहेतुत्वात् । किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसंबन्धितया चावगतो गङ्गादिशब्देन हि स्वरूपतो गङ्गादिरंबन्धित्या चावगतमेव तीरादिकं लक्ष्यं दृष्टम् । नानवगतस्वरूपं कूर्मरोमादि । नाप्यन्यसंबन्धितयाऽवगतं तीरादि । तथा च वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या । न च तीरादिवत्तत्य- क्षादिना तस्य प्रतीतिः (संभवति)। ततो लाक्षणिक शब्दे प्रयुक्त वाच्यार्थेऽनुपपत्तिं पश्यतो लक्षणीयेऽर्थे किं तद्यदनेन लक्ष्य मिति जिज्ञामायां शब्द एव प्रयोक्तव्यः । तेनापि चेन वाच्य सत्याम् । 11ग ११९.० ॥ न्यायसुधा ॥ म.१ पा.१ भ.५ सू.५ ५ . चा० - किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् । तेनापि चेहक्ष्य मेव पुनर्जिज्ञासवेत्यपर्यवसानं स्यात् । पूर्वपूर्वलक्षणाऽसिद्धावुत्तरोत्तरलक्षणाऽसिद्धे- भूलक्षतिः । यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिकार्थं प्रतीयात् । वाच्यत्वेऽपि संबन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न । अमिमान्य- धिकरणे वक्तव्यत्वात् । तस्माद्विपक्षेऽनवस्थालक्षणवाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तोऽतिप्रसङ्ग इति । 'किं तदित्यनवस्थितिः' इत्यापाद्यं प्रत्यापादकम्य मूलारूढतायै अन्यथेत्यनुवयं प्रकृतो. पयोगितया तदर्थमाह अन्यथेति । किं तदित्यस्यानवस्थाप्रकारप्रदर्शकल्वाभावादनवस्थाप्रयोजकप्रदर्शकत्वं दर्शयति जिज्ञासाप्रवृत्ताविति ॥ ननु जिज्ञासाप्रवृत्तौ तन्निवृत्तये लक्षकशब्द एव प्रयोक्तव्ये खल्वनवस्था स्यात् । न चैतदस्ति । नियमेन जिज्ञास प्रवृत्ती नियामकाभावात् । न च लक्ष्यार्थप्रतीतिपूर्वकत्वा- लक्षणाया लक्ष्यार्थजिज्ञासानियम इति वाच्यम् । शक्तिस्थल इव लक्षणास्थलेऽपि शब्दश्रवणमात्रेण वा शक्यार्थानुपपत्तिप्रतिसन्धानसहकृतेन वा तेनार्थप्रतीत्युपपत्या पूर्व लक्ष्यार्थप्रतीतेनियामकाभावेनानावश्य- कत्वात्तदावश्यकत्वेन जिज्ञासाप्रवृत्ती वा तीरादिवत्प्रत्यक्षादिनाऽपि लक्ष्यार्थप्रतीत्युपपच्या न शब्द एव प्रयोक्तव्य इतेि नियमः । तत्प्रयोगनियमे वा वाचकशब्दप्रयोगेनाप्युपपत्तौ लाक्षणिकशब्दप्रयोगनियमो- ऽप्यनावश्यक एव । तस्याप्यावश्यकतवे परम्परामात्रसद्भावेऽपि मूलक्षयाभावान्नानवस्था । अथाऽपि तदापत्तौ शक्तिपक्षेऽपि तस्यान्तुल्यत्वात् । वाच्यत्वपक्षोऽप्ययुक्त एवेति नेदमापादनं युक्तमित्यतो मूलाभिप्रायमाह इदमुक्तं भवतीति । अत्र 'लाक्षणिको ही त्यादिनाऽन्यथासिद्धिशङ्कानिरासः । 'गङ्गादिशब्देन ही'त्य दि ।ऽन्वयव्यतिरेककथनम् । तथा चानन्यथासिद्धान्वयव्यतिरेकाभ्यां लक्ष्यार्थ- प्रतीतेः कारणत्वसमर्थनमिति द्रष्टव्यम् || पूर्वपूर्वेति । लक्षणाप्रयोजकप्रतीतिकारणत्वेन कल्प्यमान- लक्षणायाः पूर्वत्वं प्रयोज्यायाश्चोत्तरत्वम्, तथा च पूर्वपूर्वलक्षणाऽसिद्धयोत्तरोत्तरलक्षणाया अप्यसिद्धया ब्रह्म शब्दगम्यमिति प्रामाणिकस्य हानिरिति प्रयोजनपरिक्षय इति वा, सर्वशब्दावाच्यं ब्रह्म, लक्षणया शब्दगभ्यमित्यस्य प्रामाणिकत्वे हि तबलात्तत्प्रयोजकतया लक्षणान्तरं कल्पनीयं स्यादिति कल्पकलक्षणाया: पूर्वत्वं कल्प्यायाश्चोत्तरत्वम् तथा च कल्पकीभूतपूर्वपूर्वलक्षणाऽसिद्धौ कल्प्यभूतोत्तरोत्तरलक्षणाया असिद्धिरिति कल्पक परिक्षयो वा मूलक्षय इत्यर्थः ॥ संबन्धग्रहणायेति । संबन्धज्ञानस्य संबन्धिज्ञान. पूर्वक वादित्याशयः ।। अभिनान्यधिकरण इति । शास्त्रोक्तवस्तुनश्चव व्युत्पत्तिः शास्त्रलिङ्गतः इत्यभिमान्यधिकरणे लोकतो गृहं तसङ्गतिकावयवार्थे संसर्गस्य यौगिकेन शब्देन समासेन वाऽपूर्वस्यैव प्रतीतेस्तत्र व्युत्पत्तेरनपेक्षणात् ब्रह्मणश्चसंसृष्टाक्यवार्थरूपतया तत्प्रतीतिसंभवस्य वक्ष्यमाणत्वादित्यर्थः ।

प० न चैव मलेऽपि लक्षणानयोजकब्रह्मप्रतीत्युपपत्तिरिति. वाच्यम् । त्वया ब्रह्मणः संसगरूपत्वस्य ससृष्ट. रूपत्वस्य वाऽनभ्युपगमेन तस्य वाक्यार्थरूपत्वाभावाद्वाक्यस्याखण्डार्थनिष्ठतायाश्च निरस्तत्वादित्यनुपदमेव वक्ष्यमाणत्वादिति भावः । प्रसङ्गहेतुरिति । प्रसञ्जनहेतुरापादकमिति यावत् । वस्तुतस्तु प्रसङ्गसहितो हेतुः । तथाच प्रसङ्गस्याप्रयोजकत्वे हेतोरप्यप्रयोजकत्वमित्यर्थः । अन्यथा हेतुशब्दवैयपिरेरिति द्रष्टव्यमित्याहुः । अभिमान्यधिकरण इति । शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः' इति वक्ष्यमाणत्वादित्यर्थः । यौगिकैः शब्दैवाक्याश्रमर्यादया पूर्वार्थोपस्थितौ तत्रेतरपदशक्तिग्रहोऽस्मन्मते संभवति । नैवं त्वया वक्तुं शक्यते । ब्रह्मणोऽरखण्डस्या संसर्गभेदरूपतया वाचया रूपत्वाभावादित्याशयः । प्रसंगहेतुरिति । प्रसङ्गरूपहेतुः दूपणानुमानगित्यर्थः ॥ अन्यथेत्यनुवर्तत इत्युक्तं तस्यार्थमाह यद्यवाच्यमपि ब्रह्म लक्ष्यमियङ्गीक्रियतेति ॥ स्वव्याघातकोऽयं तर्क इति शङ्कते वाच्यत्वेऽपीति ।। पूर्णसिद्धेरिति । संबन्धस्य द्विनिष्ठ-बेन संबन्धज्ञानस्य संबन्धिज्ञानाधीनत्वात शब्द- रूपसंवन्धिनः प्रत्यक्षत्वेऽपि ब्रह्मरूपसंबन्धिन औपनिषदत्वेन शब्देनैव पूर्व तसिद्धेर्वाच्यत्वेन तत्राप्येव- मित्यनवस्थेत्यर्थः ॥ अभिमान्यधिकरण इति । यौगिकानां शब्दानां वाक्यतुल्यतया पृथक् सङ्गति- ग्रहणानपेक्षत्वादित्यादिसमाधानानां 'शास्त्रोक्तवस्तुनश्चव(स्त्वेव) व्युत्पत्तिः शास्त्रलिङ्गतः' इत्येतद्व्याख्या- प्रस्तावे वक्ष्यमाणत्वादिति भावः । वक्तव्यत्वादित्यनेन तदधिकरणव्युत्पाद्यमिदमिति दर्शितम् । युक्तो. ऽतिप्रस इत्यादौ अतिप्रसङ्गशब्दः प्रसङ्गपर्यायः । तथा च न 'अति' इत्यस्याधिक्यशङ्केति भावः । या० ..-- प्रसङ्गहेतुरिति । प्रसङ्गरूपो हेतुर्दूषणानुमानमिति यावत् । प्रसङ्गः प्रसञ्जनम् । तत्र हेतुरापादकमित्यन्ये । वस्तुतस्तु प्रसङ्गसहितो हेतुः प्रसङ्गहेतुः । उभयोरप्यप्रयोजनत्वमित्यर्थः । ईक्षणीयत्वहे नोरप्रयोजकत्व कायां लक्ष्यत्वं न स्यादिति प्रसङ्गोऽभिहितः । अस्य चाप्रयोजकत्वे हेतोरप्रयो. जकत्वं तदवस्थमेवेत्याशयः ॥ अभिमान्यधिकरण इति । 'शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः' इत्यत्र योगिकैः शब्दैर्वाक्यमयोदयाऽपूर्वार्थो स्थिती तत्रेतरपदशक्ति ग्रहोऽतो नानवस्थेति वक्ष्यमाण वा. दित्यर्थः । नैवं परेग वक्तुं शक्यम् । ब्रह्मगोऽखण्डस्यासंसर्गभेदरूपतया वावयार्थरूपत्वाभावादित्या- शयः । युक्तोऽतिप्रसङ्ग इत्यादावतिप्रसङ्गशब्दः प्रसङ्गशब्दपर्यायः अतोऽती'त्यस्य वैय्यर्थ्यशङ्काऽनवकाश इति ध्येयम् । श्री० -- प्रसङ्गहेतुरिति । अवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गे हेतुरापादकभूतमवाच्यत्व- मप्रयोजकमित्यर्थः । पूर्वपूर्वलक्षणाऽसिद्धाविति । एवं लक्षणापरम्पराश्रयणे तत्रैव कालपर्यवसानापल्या मूलभूनप्रकृन लक्षणायाः कर्तुमनकाशाभावेन मूलक्षयकरत्वादनवस्था दूषणमित्याशयः ॥ सम्बन्धेनि ।

एकेन पदेन ब्रह्मणो वाच्यत्वं ज्ञातव्यम् । तत्र वाच्यत्वस्य सम्बन्धरूपत्वेन सम्बन्धज्ञाने च सम्बन्धि- जानम्य कारणत्वात्सम्बन्धिभूतब्रह्मज्ञानेन भाव्यं तज्ज्ञानं च न प्रमाणान्तरेणेति पदेनैव वाच्यम् । तदपि पाचकमेव । तेन च पुनर्वाच्यत्वे ज्ञातव्ये तस्य सम्बन्धरूपत्वेन सम्बन्धिज्ञानापेक्षायामनवस्था स्यादिति भावः । वैदिकपदानां यौगिकतया तैरपूर्वार्थोपस्थित्यङ्गीकारेण तत्र शक्तिग्रहम्याङ्गीकारात् । यथा महन्त्र दिप न्यत्र गृहीतसङ्गतिकैः सहस्राण्यक्षाणि यस्येत्यपूर्वार्थोपस्थितौ सत्यां यः सहस्राक्षः स इन्द्र इति तन्द्रादिपदशक्तिग्रहो भवति एवं चक्रपाण्यादिशब्दैरन्यत्र गृहीतसङ्गतिकैश्चक्रं पाणी यम्येत्य- पूर्वार्थो स्थिती सत्यां यश्चक्रपाणिः स ब्रह्मपदवाच्य इति तत्र ब्रह्मादिपदशक्तिग्रह इति नानवस्थेति भावनाइ अभिमानीति । च० .. अभिमान्यधिकरण इति । 'शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः' इत्यनुन्याळ्या- व्याख्यावसरे यौगिकशब्दानां वाक्यतुल्यतया पृथक्सङ्गतिग्रहणानपेक्षत्वादित्यादिपमाहितीनामभिधास्य- मानवादित्यर्थः । अतिनये तु ब्रह्म गोऽखण्डतया संमर्गसंमृष्टान्यतरलक्षणवाक्यार्थरूपताराहित्येन नैवं सुवचमिति भावः । युक्तोऽतिप्रसङ्ग इति । अतिप्रसङ्गशब्देनाऽऽपत्तिरभिधीयते । आपत्तिवचनप्रसङ्गपद. पर्यायत्वादतिप्रसङ्गपदम्य न 'अति' इत्यस्य वैययशङ्कावकाश इति स्थितम् । । सु०-- नन्विक्षुक्षीरगुडादीनां विशेपास्तावद्विद्यन्ते । अनुभवसिद्धत्वात् । न च ते केनापि शब्देन वाच्याः । तद्वाचकशब्दाभावात् । तथापि लक्ष्या दृश्यन्ते । अन्यथा तत्र वाग्व्यवहाराभावग्रसङ्गान् । अतोवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः । यथोक्तम् 'इक्षुधीरगुडादीनां माधुर्यस्यान्तरं महत् । भेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते' इति । यथा (च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीनतामात्रेण लक्ष्यत्वम् । तथा ब्रह्मणोऽवाच्यस्यापि स्वयंप्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं संभवतीत्यत आह माधुर्यादीति । अनु०- माधुर्यादिविशेषाश्च तच्छरुदिताः सहा ।। तच्छब्दैमाधुर्गदिविशेष शब्दैः । सदेत्यवधारणार्थे । उदिता वाच्या एवेति ॥ ननु माधुर्य(दि)विशेषशब्दः माधारणः। किमेतावता । न हि गोशब्दोऽनेकार्थ इनि न कस्यापि वाचकः । तथा च लक्षकोऽपि न स्यात् । वाच्यार्थद्वारवालक्षणायाः । ननु (च) वाचकत्वं पदधर्मः । माधुपादिविशेष इति च न पदं किन्तु वाक्यमेव । अनेकपदात्मकत्वात् । तथा च कथं तच्छब्दरुदिता इति । मैवम् । ऐकपद्यमैकस्वयं च समासप्रयोजःमिति शाब्दैरङ्गी- कृनत्वात् । अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धींचकशब्दैरुदिता इति व्याख्येयम् । तथा ब्रह्मणः सकलशावाच्यत्वसमर्थनम् ) ॥ इक्षत्यधिकरणम् ॥ चोक्तम् 'विशदं क्षीरमाधुर्य स्थिरमाज्यस्य तीक्ष्णकम् । गुडस्य पनसादीनां निहारीत्यभिधी- यते ॥ इति । यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिर विदिता अपि श्रुतिखरजातिरामादि- शब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः । ततश्च 'इक्षुक्षीरगुडादीना' इति वचनमात्मनो व्युत्पत्य- भावख्यापनार्थ शारदानिन्दया प्रत्यवायार्जनार्थ च । अतो न प्रशिथिलमूलोऽतिप्रसङ्ग इति । यदपि स्वप्रकाशतया सिद्धत्वाब्रह्मणो लक्ष्यत्वोपपत्तिरिति तदुपरिष्टाभिराकरिते(ति)। वा०. ननु माधुर्यादाववान्तरविशेषस्यैवाभावाझावे वा तस्य शब्दवाच्यत्वेऽप्यनुपपत्तर- भावाद्भावे वाऽलक्ष्यत्वस्यापि संभवेन तत्र व्यभिचारादिप्रसक्तेरभावादुत्तरभाष्यं व्यर्थमित्यतस्तन्प्ररूक्ति दर्शयति नन्विति ।। तद्वाचकशब्दाभावादिति । माधुर्यादिविशेषशब्दस्य च साधारणत्वेन वाक्य- वेन चाबाचकत्वादन्यस्य चाभावादित्याशयः । प्रशिथिलमूलो व्याप्तिरूपमूलशून्य इत्यर्थः ॥ यथोक्त- मिति । इक्ष्वादिमाधुर्यम्य यद्यपि महदन्तरं महान्विशेपो वर्ततेऽनुभवसिद्धत्वात् । तथाऽपि स भेदो विशेषः । वरूप इति नाख्यातुं शक्यत इत्यर्थः । न केवलं माधुर्यादिविशेपे व्यभिचाराध्याप्तिशून्यत्वं प्रसङ्गस्य , किन्तु या चावाच्यस्य ब्रह्मणो लक्ष्यत्वानुपपत्तिस्त्वदभिमता साऽपि न । अवाच्यत्वेऽपि स्वप्रकाशतया लक्षणाप्रयोजकमतीत्युपपत्त्या ब्रह्मणो लक्ष्यत्वोपपत्तेः । न चावाच्ये प्रतीतिमात्रेण न लक्ष्य. त्वमिति वाच्यम् । माधुर्यादिविशेषवदेवोपपत्तरित्युक्तानुपपत्तिपरिहारसंभवाचायमप्रसङ्ग इत्याह यथा चेति । अत्र माधुर्यादिविशेषाणां वाच्यताया मूले प्रतिपादनेनोक्तोभयविधशङ्कापरिहारः सिद्धयर्त.त्या शयेन शङ्काग्रन्थे उभयनिवेश इति द्रष्टव्यम् । एतेन प्रकारान्तरेण प्रतीत्यनुपपत्तौ सत्यां वाच्यत्वस्या- 'यभावस्यालक्ष्यत्वं प्रत्यापादकतयाऽभिमतत्वान्माधुर्यादिविशेष प्रकारान्तरेण प्रतीतेः सत्त्वेन विशिष्टस्य तस्य न व्यभिचार इति शङ्काऽप्यपहस्तिता भवति । तर्हि ब्रह्मण्यपि प्रकारान्तरेण प्रतीत्युपपत्त्या विशिष्टस्य तस्यासियापत्तरिति । शब्दार्थसंबन्धम्य स्वाभाविकत्वासिद्धतया सदेति व्यर्थमित्यतस्तदर्थ दर्शयन्नन्वयं च दर्शयति मदेतीति । अवधारणलब्धमनुपपत्तिमाधानं दर्शयितुमनुपपत्तिप्रकारं दर्शयति नन्विति । माधुर्यादि- शव्दवन्माधुर्यादिविशेषशब्दस्य माधुर्यादिविशेषत्वेन रूपेण विशेषमात्रवाचकत्वेऽपि तत्तदवान्तरदिशेप- स्वाकारेण तद्वाचकत्वाभावात्तादृशवाचकविशेषाभावप्रसङ्गेनास्योदाहरणं युक्तम् , अन्यथा माधुर्यादिशब्द एव किं. नोदाहृत इत्याशयः । माधुर्यत्वादिवन्न माधुर्यादिविशेषत्वमेकं सामान्य येन माधुर्यादिशब्द- तुल्यताऽस्य स्यात् । किन्तु गवादिशब्दवन्नानार्थ एवायं माधुर्यादिविशेषशब्दः । न चैकविशेषसमर्प. कत्ववद्विशेषान्तरसमर्पकत्वस्यापि भावेन साधारण्यमभिमतं न त्वेकसामान्यावच्छिन्नवस्तुवाचकत्वमिति ११०४ ॥ न्यायसुधा । (अ.१ पा.१ अ.५ सु.५ वाच्यम् । नानार्थगवादिशब्देऽपि सत्त्वेन तस्यावाचकत्वाप्रयोजकत्वात् । एवं च गवादिशब्दानी धेनुत्मनाक्त्वादिनाना प्रवृत्तिनिमित्तावच्छिन्न तत्तव्यक्तिविशेषवाचकत्ववन्माधुर्यादिविशेषशब्दस्याप्यनुभवसिद्ध तत्तवान्तरनिशेपावच्छिन्नव्यक्तिविशेषवाचकत्वमेवेति नैतदुदाहरणस्यासङ्गतिरित्याह किमतावतेति ।। तथा चेति । तादृशलामान्याभावेन तदवच्छिन्नवाचकत्वाभावाद्विशेषावच्छिन्नवाचकत्वस्याप्यभावेऽवाच. कम्य लक्षक !!ऽपि न स्यादित्याशयः । नन्वस्यावाचकत्वं न साधारणत्वार्दिक स्वपवादत्वात् । लक्षकता वर्धनन्तर्वतु अदि'इत्यादौ दृष्टत्वाद्वाक्यरूपस्यापि तस्य युक्तेत्याशयेन शङ्कते ननु चेति । यद्वा । अवधा- रणनिव_मनुपपत्त्यन्तरं शङ्कते नन्विति ।। ऐकपद्यमिति । समर्थं ममम्यत इत्युक्तम् । सामर्थ्य च विविधम् । व्यपेकार्थीनावश्चति । तत्कतर स्मिन्सामर्थ समासो भवतीत्याशङ्कयोक्तमैकपद्यमिति । एकः संमिन्नस्वरूपः पांसूदकवदविभागापन्नोऽर्थः । पद्यते गम्यते येन तदेकपदं तस्य भाव ऐकपद्यम् । एका भाव इति यावत् । समासस्य समस्यमानस्य समाससंज्ञाया वा प्रयोजनं प्रयोजक इत्यर्थः । एकार्थीभाव समासः स्वार्थपर्यवसायि. पदानामाकाङ्गादिवशात्परस्परसंबन्धरूपाया व्यपेक्षायां तु वाक्य- मिति भावः । ऐकपद्यमेकनुबन्तत्वं समाससंज्ञाप्रयोजनमित्यर्थ इति केचित् । तन्न । तस्य प्रातिपदिक. संज्ञाप्रयोजत्वात् । पाऽपि समाससंश्यैव सम्पद्यत इति चेन्न । अर्थवत्प्रातिपादिकमित्येव तत्सिद्धः । (अर्थवदधातुरप्रत्ययः प्रतिपदिकम् । धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वाऽर्थवच्छब्दरूपं प्रातिपदिक- संजू स्यात् । अर्थवदयातुः। प्रत्ययं प्रत्ययान्न चेति । प्रत्यय यव पशुंदासे कृत्तद्धितेति सूत्रेण कृत्तद्धितान्तस्य विधानं व्यर्थं स्यात् । न च तत्रापि तदन्तं न ग्राह्यमिति वाच्यम् । अर्थवदित्यनु- वृत्तिसामथ् त्तिदन्तग्रहात् । न च थैवदित्यम्य पूर्वमूत्र चरितार्थता । धातुप्रत्ययपयुदासेनैव तल्लाभात् । तस्मात्प्रत्ययान्तं वर्जयित्वेत्युचितमेव । यदि तु प्रत्ययो न पर्युदस्येत तर्हि सात्पदाद्योरिति सूत्रे सादितिग्रहणं व्यर्थ स्यात् । अर्थवदिति किम् । धनं वनमित्यादी प्रतिवर्ण संज्ञा मा भूत् । अधातुरिति किम् । अहन् । लोपो मा भूत् । न च कार्यकाल पक्षे प्रत्ययान्नत्वेन पर्युदासोऽस्त्यिति वाच्यम् । प्रत्यय लागेनोक्तायुदासाप्रवृते कि संयोरिति निषेधेन ज्ञापितत्वात् । कथनन्यथा राजेत्यादौ नलोप: म्यात् । अप्रत्यय. किम् । हरिषु । करोपि । अत्र सुप्तिपोर्मा भूत् । अप्रत्ययान्तः किम् । तत्रैव विभक्तिविशिष्टयोर्मा भूत् ) । कृत्तद्धिरे त्यत्र समासग्रहणं हि नियमार्थ न विध्यर्थमिति स्थितत्वात् । एका भाव एवैकपद्यम् । तच्च समासप्रयोजनमित्यपि न । एकार्थीभावस्य समासकरणत्वेन तत्प्रयोजन. स्वाभावात् । ऐकमित्य पे प्राविकम् । अन्वत इत्यादी तयैवान्तश्च युगपदिति द्वैस्वयंविधानात्त. स्मादेकार्थीभाव समासो व्यपेक्षायां वाक्यमित्येवार्थः । तथा चैकार्थत्येन पदत्वस्य शास्तत्वात्समासस्य वाक्यत्वाभावाद्वाचकत्वं युक्तमिति भावः ॥ अनेकानुपात्तिनिरासनिरपेक्ष पक्षान्तरमाह अथवेति ।।

সম্মু: নক্ষকাশমণ) ॥ ईक्षत्यधिकरणम् ॥ ११९५ स० . ननु कथमभिधानाद्यप्रसिद्धानां तेषां तद्वाचकलोक्तिरित्योऽसंभावनां परिहरति यथा चेति ॥ तत्तदधि- कृतेष्विति । सूदादिशास्त्रेवियर्थः ॥ यथा चेत्युक्त दूपणं दृष्टान्ते वाच्यत्योपपादनेन निरस्तमिति दान्तिके विशिष्य दूपणाश्रमनुवदति यदपीति । तदुपरिष्टादिति । एतदधिकरणान्ते 'यदि तत्स्या - दगोचरम्' इत्यादिनाऽऽचार्य एव निराकरिप्यतीत्यर्थः । तदुपरिष्टानिराकरिष्यत इति । 'यदि तत्स्यादगोचरम्' इत्यादिनेति शेषः । प०- द्वितीयप्रघट्टकैतरेयभाष्योक्तमाह विशदमिति ॥ तदुपरिष्टान्निराकरिष्यत इति । 'विज्ञेयवाच्यलक्ष्यत्वपूर्व' इत्यादिव्याख्यावसरे । या --- पक्षादिप्रविभागोत्तरं क्रियमाणा व्यभिचारशङ्का, यथा विपक्षे हेतुः साध्यं विनाऽस्ति तथा पक्षेऽपि साध्यं विनवास्त्विति पक्षेऽप्युपपादनीया । अन्यथा वैय्यात् । तथैव कथकसम्प्रदा. याच्च । न चैवं प्रकृते सम्भवति माधुर्यादिविशेषाणां प्रतीतत्वेन लक्ष्यत्वसम्भवेऽपि ब्रह्मणः प्रतीत्यस. भवेन लक्ष्यत्यासम्भवस्यक्तवादित्याशङ्कां परिहरन पशेऽपि व्यभिचारशङ्क मुपपादयति यथा चेत्या- दिना ।। साधारण इति। तथा च यथा घटशब्दः सर्वत्र नीलघटादौ प्रयुज्यमानो नैल्यादिविशिष्ट विशेष लक्षणयैवोपस्थापयति तथा माधुयर्यादिविशेषशब्दोऽपि सर्वविशेषेषु प्रयुज्यमानस्तत्तद्विशेषान् लक्षणयैवोपस्था- पयत्यतो नोक्तव्यभिचारपरिहार इति भावः अत्र साधारणत्वं किं घटादिशब्दवत्सामान्याकारमात्रवाचकत्वं किंवा गवादिशब्दवदनेकार्थत्वम् । नाद्यः असिद्धेः । माधुर्यादिविशेषशब्दस्य तत्तद्विशेषमात्रोपस्थापक- स्वानुभवेन सर्वसाधारणसामान्याकारोपस्थापकत्वाभावात् । न द्वितीयः गवादिशब्देषु व्यभिचारादित्याह किमेतावतेत्यादिना । एतेन सर्वत्र प्रयोगमात्रसाधारण्यमित्यपि निरस्तम् । गवादिशब्देष्वेव व्यभि- चारात् ॥ ऐकपद्यमिति । तथा च नेकपदात्मकेऽपि समास एकपदत्वमप्यस्त्येवेति भावः ॥ नन्विदं पारिभाषिक समासे पदत्वं न वाचक्रत्वोपयोगि। वाक्यस्य वाचकतायाः केनाप्यनङ्गगीकृतत्वादित्यस्टर- सादाह अथवेति । श्री०- अन्तरमिति । यद्यपि महदन्तरं महान्भेदोऽस्ति तथाऽपि स भेद इति योज्यम् ।। इप्टापत्तिरिति चेत्तत्राह तथा चेति । प्रशिथिलमूल इति । व्याप्यव्यापकभावानापन्नापाद्यापादकक इत्यर्थः ॥ ऐकपा- मिति । तथा च पाणिनीयैरनेकपदघटितसमास ऐकपद्यमध्यूसिकृतमिति भावः । पारिभाषिकपाणिनीया- धरीकृतसामासिकैकपद्यस्य वाक्यस्य वाचकतायाः परीक्षकैरनङ्गीकृततया वाचकन्चौपयिकता नेत्यरुच्या कल्पान्तरमाश्रयते अथवेति । अनेकानुपपत्तिनिरासनिरपेक्षं पक्षान्तरमाह अथवेति इत्यप्यवतारितम् । :

। न्यायसुधा ॥ ११९६ (म.१ पा.१ अ. ५. सू.५ सु० नन्धवाच्योऽपि नदीतीरफलसंमर्गलक्षणो वाक्यार्थों लक्ष्यो नद्यादिपदैरुप- लक्ष्यते । यथोक्तम् 'वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिः ।' इति । तथा च व्याप्त्यभावाद प्रयोजकोऽयं प्रसङ्गः । वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः । अतो लौकिक- घाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह वाक्यार्थोपीऽति । अनु० - वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ।। एवशब्दस्योदित इति(अनेन) संबन्धः । वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वेऽन्यत्तद्वाच्यं वाच्यम् । न ह्यस्म मिर्लक्ष केनैव शब्देन वाच्यत्वमा शास्यते। किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्य मिति भावः । अयं चाङ्गीकारवादो ज्ञेयः । अन्विताभिधानस्य सम- थितत्वात् । ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वाऽनङ्गीकारादयुक्तम् । वाक्यस्या- खण्डार्थनिष्ठताया निरस्तत्वात्(इति)। वा० भट्टवार्तिकसंमतिमाह यथोक्तमिति । 'न विमुञ्चन्ति सामर्थ्य वाक्यार्थऽपि पदानि नः इति पूर्वार्धोक्तं पदानां वाक्यार्थबोधकत्वरूपं सामर्थ्यमुपपादयितुं लोकवेदयोर्वाक्यार्थस्य पदलश्यत्वमुत्तरार्धनानेोच्यते । न केवलमुत्तरमूलं वाक्याथै व्यभिचारशङ्कानिवर्तकं किन्तु वाक्यार्थन्यायप्राप्ताप्रयोजकत्वशङ्कान्तरनिवर्तकं चेत्याशयेनाह वाक्यार्थश्चेति । एतेन वाक्यार्थस्य अवाच्यम्य लक्ष्यत्वेऽपि पदार्थभूतब्राह्मणो नावाच्यस्य लक्ष्यत्वम् । तथा च पदार्थत्वविशिष्टा. वाच्यत्वरूपापादकस्य न व्यभिचार इति शङ्क ऽप्यपहस्तिता भवतीति द्रष्टव्यम् ॥ ननु वाक्यार्थस्य वाक्याथशब्दवाच्यत्वं कुतः । तथात्वेऽपि वाक्यगतपदवाच्यत्वं तु नैव प्राप्तमित्ययुक्तमेतदित्यत एवकारसूचितं भावमाह वाक्यार्थशब्दस्येति । वाक्यार्थश्च ब्रह्माभ्युपेयत इति द्वितीयदूषणं दृष्टान्ते वाच्यत्वोक्त्या निरस्तमपि दार्टान्तिके विशिष्यदूषणेन निगकरोति ब्रह्मण इति । स० ननु न संसर्गादेरेव वाक्यार्थत्वम् । प्रकृष्टादिवाक्येऽखण्डचन्द्रादिस्वरूपस्यापि वाक्यार्थत्वदर्शनात् । प्रकृते ब्रह्मणोऽप्यखण्डतयाऽस्तु वाक्यार्थत्वमित्यत आह वाक्यस्याखण्डार्थ- ताया इति । प० वाक्यार्थ इति । 'नदीतीरे पञ्चफलानि सन्ति' इति वाक्यार्थ इत्यर्थः । अयं चेति। 'नदीतीरे पञ्च फलानि सन्ति' इति वाक्यार्थी नद्यादिपदैलक्ष्यत इति वाद इत्यर्थः ।। समर्थितत्वादिति । 'शक्तिश्चवान्विते स्वार्थे' इत्यादिना जिज्ञासाधिकरणे पदानामेव पदार्थेऽन्वय. रूपवाक्यार्थे च शक्तेः प्रतिपादितत्वादित्यर्थः । वाक्यार्थश्च ब्रह्माभ्युपेयत इत्युक्तं निराह ब्रह्मण इति ।।

ब्राह्मण : सबल शाखवायसनम् ) ॥ ईक्षत्यधिकरणम् ॥ ११६७ अनङ्गीकारादिति । अखण्डत्वभङ्गभियेति भावः । ननु वाक्यार्थो न संसर्गरूपो न संसृष्टरूपश्च किन्त्वखण्ड एवातो न दोष इत्यत आह वाक्यस्येति । जन्मादिसूत्रे निरस्तत्वादिति भावः । . या० वाक्यादेव लक्षणया वाक्यार्थबोध इति वदतां मीमांसकैकदेशिनो मतमाश्रित्य तत्र व्यभिचारमाशंकते नन्ववाच्योऽपीत्यादिना ॥ मनु नदीतीरफलसंसर्गलक्षणो वाक्यार्थः, वाक्यार्थपद- बाच्योऽपि नद्यादिपर्दैन ‘वाच्यः, किन्तु लक्ष्य एवातो न व्यभिचारपरिहार इत्यत आह न ह्यस्मा- भिरिति ।। अन्विताभिधानस्येति । तथा च शक्त्यैवान्वयबोधोपपत्तौ तदर्थ लक्षणाङ्गीकारो न युक्त इति भावः ॥ समर्थितत्वादिति । 'शक्तिश्चैवान्विते स्वार्थे' इत्यत्रेति शेषः ॥ ननु संसर्गादिरेव न वाक्यार्थः । प्रकृष्टादिवाक्येऽखण्ड चन्द्रादिस्वरूपस्यापि वाक्यार्थत्वदर्शनात् । तथा प्रकृतेऽखण्डरूपतया ब्रह्मणोऽपि वाक्यार्थत्वमस्त्वित्यत आह वाक्यस्याखण्डार्थनिष्ठताया इति ॥ निरस्तत्वादिति । द्वितीयाधिकरण इति शेषः ।। श्री. अयं चेति । इतरपदार्थसंसर्गरूपवाक्यार्थस्य पदलक्ष्यत्वमङ्गीकृत्य समाधिरङ्गीकारवाद इत्यर्थः । ननु स्वबोध्यसंबन्धोपलक्षणेत्यभिदधानानां मीमांसकानां मते गभीरायां नद्यां धोप इत्यादी गभीरायां नद्यामित्यम्यैव गभीरनदीतीरे लक्षणोपगमात्प्रकृतेऽपि तद्दिशा सामञ्जस्यमित्याशङ्कते नन्विति । भट्टानां वार्तिकं प्रमाणयति यथोक्तमिति । 'न विमुञ्चन्ति सामर्थ्य वाक्यार्थेपि पदानि नः' इति पूर्वार्धाभिहितं, पदानां वाक्यार्थबोधकत्वरूपसामोपपादनाय लोकवेदयोर्वाक्यार्थस्य पदलक्ष्यत्वत्वं,उत्तरा- र्धन अनेनाभिधीयत इति हृदयम् ॥ समर्थितत्वादिति । 'शक्तिश्चैवान्विते स्वार्थे' इत्यत्रेत्यादिः । तथा चान्वयोऽपि शक्य एवेति भावः ॥ निरस्तत्वादिति । जन्मादिनय इत्यादिः । प्रकृष्टप्रकाशचन्द्र इत्यादावप्यखण्डार्थनिष्ठत्वं न संप्रतिपन्नमिति भावः । सु०- एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह नावाच्यमिति । अनु० नावाच्यं तेन किञ्चित्स्यात् लक्ष्यमिति शेषः ।। अथवा ब्रह्मणोऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् । यतोऽवाच्यं किञ्चिदपि नास्ति इतिप्रसङ्गान्तरसूचनमिदम् । घा०- एवं तेनेत्येतत्स्वारस्यानुरोधेन लक्ष्यमित्यध्याहृत्य मूलमुपसंहारपरतया व्याख्यायेदानी किञ्चिच्छब्दस्वारस्यानुशेषाद्विशेपार्थलाभाञ्चातिप्रसङ्गान्तरसूचकतयाऽपि तद्व्याख्याति अथवेति । श्री०-यतोऽवाच्यमिति । यस्मात्कारणाद्यत्किञ्चिदवाच्यं तत्सर्वं नास्ति । अत्यन्तासदवस्त्विति यावत् । यथा शशविषाणमित्यर्थः ।।

। न्यायसुधा ॥ (.१ पा.१ भ.५ .५ सु०-ननु 'यतो वाचो निवर्तन्ते' इत्याद्यागमविरोधात्कालात्ययापदिष्टमीक्षणीयत्वेन वाच्यत्वसाधनम् । प्रमङ्गानां च विपर्ययापर्यवसानमिति ॥ स्यादेतदेवम् । यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात् । न चैवम् । तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह यत इति । अनु० यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ।। यत इत्यादिशब्दब्रह्मोक्त्या (हि) तस्यावाच्यन्वं वाच्यम् । अन्यथा यस्यकस्यचिदवाच्य- ताऽऽपत्तेः । तथा च यत इत्यादिकैः पदे व वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् मूकोऽहमितिवत्स्वक्रियाविरोधात् । सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह । ~ वा० --ननु यत इत्यादिकैरित्युत्तरभाष्यमुक्तार्थोषपादनाभावाव्यर्थम् । न च परोक्तावाच्यत्वसाधक- श्रुतिनिरासार्थत्वान्न तद्वैयमित वाच्यम् । स्वपक्षमाधकानामद्याप्यसमाप्ततया तन्निरासानवसरात्, 'अभुत. स्वादवाच्यं तन् ,इत्यादिनाऽर्थान्तरकथनेन निरसिप्यमाणत्वाच्च, वदन ब्रूयादित्यादिना वादिदूषणम्यैव प्रतीयमानतया साधकनिरासादर्शनाच्चेत्य तोऽस्मदुक्तसाधकविघटनाय परोपन्यस्तश्रुतेस्तदभिमतार्थे दूषणो- द्भावनेन तद्विघातकत्वाभावप्रतिपादनार्थत्वात् श्रुत्यर्थतया तथा व्याख्यातृदोषाभिधानमुखेन तम्य श्रुत्यर्थत्वा- भावस्यैव प्रतिपादनान्न काऽप्यनुपपत्तिरित्याशयेन तद्वाक्यमवतारयति नन्निति ।। ननु यत इत्यादि. शब्दैह्मण उक्तग्नावश्यकत्वान्न स्वक्रियाविरोध इत्यतो भाप्यकारेण वदन्निति सिद्धवदुक्त्या सूचित तदनुक्तौ बाधकं वक्तुमाह यत इत्यादिशब्दैरिति ॥ श्रुत्यर्थतयेत्युक्त्या श्रुत्यर्थत्वनिरासस्य भाष्या- रूढतासूचनेनासङ्गतिः परिहृता भवति । दृष्टान्तोक्त्या स्पष्टलब्धदूषणप्रदर्शन स्वक्रियेति । यद्यस्य दूपण- परता तर्हि पुधीरित्येतद्विरोध इत्यत आह सुधीरिति । या० प्रसङ्गानां चेति । लक्ष्यत्वं न स्यादित्येकः प्रसङ्गः । अनवस्थारूपो द्वितीयः । वस्तुत्वमेव न स्यादिति तृतीयः । अतो बहुवचनमिति द्रष्टव्यम् । प्रसङ्गानां चेति । लक्ष्यत्वाभावानवस्थावस्तुत्वाभावापाद्यकापत्तीनामित्यर्थः । -- च०- सु०-स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृश्योक्त्वा तस्यावाच्य- त्वमुच्यते । नत्वेवम् । किं नाम यत इत्यादि शब्दैर्लक्ष्यमेवेत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह येनेति । अन येन लश्यमिति पोलादेन सोऽवदन ॥

ब्रहणः सफलशासबापासार्थम्) ॥क्षत्यधिकरणम् ॥ ११९९. ब्रह्म लक्ष्यमिति वदताऽपि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम् । तथा च किं शब्दा- न्तरेणापराद्धम् । अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात्तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनरस्था स्यात् । अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षण- यवेति परिहारे कुतोऽनवस्थेति चेन्न । अनवबोधात् । न हि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना प्रत्यायकान्तराभा- वात्तत्रापि लक्षणाऽऽश्रयणे मूलक्षयात् । अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानु- मानादेः कश्चिदोषः । अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति । वा० ..--यकिञ्चिच्छब्दलक्ष्यत्वस्य स्वक्रियाविरोधाशामकल्येन परेणावक्तव्यत्वाद्येन लक्ष्यमित्येतद्यत इत्यादिशब्दविषयमिति दर्शयंस्तेनोक्तपणपरिहारं च दर्शयतन्निवर्तकतयोत्तरमूलमवतारयति स्यादेव- मिति । एवं तह्यन्यथा यस्यकस्यचिदवाच्यत्वापत्तरिति बाधकमुक्तमेवेत्याशङ्कते किं नामेति ॥ यत इत्यादिशब्दैरिति । शक्त्या ब्रह्मानुक्तावपि लक्षणया तदुक्तेनक्ति बाधकमिति भावः ॥ नन्वस्तु लक्ष्यशब्दवाच्यत्वं तथाऽपि यत इत्यादिशब्दावाच्यत्वान्न तदुपजीवनेन प्रवृत्तः स्वक्रियाविरोध इत्यतो लक्ष्यशब्दवाच्यत्वं वदतो भाष्यकारस्य न तावन्मात्रे तात्पर्य येन स्वक्रियाविरोधो नोपपादितः स्यादपि तु लक्ष्यशब्दवाच्यत्वाभ्युपगमेऽवाच्यत्वभङ्गस्य तुल्यत्वात्समानन्यायतया यतइत्यादिशब्दवाच्यत्वमकामेनाप्य- ङ्गीकर्तव्यं स्यात् ततश्च स्वक्रियाविरोध इत्याशयेन ह तथा चेति । अत्र भाप्यकारेण लक्ष्यशब्दवा- च्यत्वपक्षं सिद्धवत्कृत्वोक्तं स्वक्रियाविरोधमुपपादयितुं 'पुनःपुनर्लक्षाणायामपि स्यादनवस्थितिरि'ति भक्ति- पादीयां 'किं तदि'त्यव्यवहितपूर्वा वाऽनुव्याख्यां मनसि निधाय लक्ष्यशब्दलक्ष्यत्वपक्षं दूषयितुमनुवदति अथेति । किं तदित्यनवस्थितिरित्याद्यनुव्याख्याऽभिप्रेतानवस्थाप्रकारं पूर्वदर्शितमपि स्पष्टं दर्शयितुं तदनवबोधनिमित्तकभ्रान्तिप्रयुक्तपरकीयानवस्थापरिहारप्रकारं शङ्कते अथेति । एवं च लक्ष्यशब्दलक्षणा- पक्षस्यानवम्यादोपदुष्टतया तद्वाच्यत्वपक्षेऽभ्युपगमनीये समानन्यायतया यत इत्यादिशब्दवाच्यताप्राप्त्या स्वक्रियाविरोधसिद्धिरित्युपसंहरंस्तत्फलं दर्शयति अत इति । अर्थान्तराभावेन श्रुत्यप्रामाण्यापत्त्या स्वक्रियाविरोधः कथञ्चिदुभयसमाधेय इत्यत आह ।। अविरुद्धं त्विति । ५० --- उत्तरत्रेति । 'अद्भुतत्वादवाच्यम्' इत्यत्रेत्यर्थः । उत्तरत्रेति । 'अद्भुतत्वादवाच्यं तत्'इत्यत्र' इत्यर्थः । श्री०- तत्रापि प्रत्यायकशब्दान्तरेऽपि पुनर्ब्रह्मणि लक्षणात्वाश्रयण इत्यर्थः ॥ मूलक्षया. एवं लक्षणापरम्पराश्रयणे तत्रैव कालपर्यवसानापत्त्या मूलभूताया ब्रह्मशब्दलक्षणायाः कर्तुमवकाशाभावेन मूलक्षयकरत्वादनवम्थादूपणमेवेत्यर्थः । परंपराऽनङ्गीकारे मूलक्षयप्राप्त्या अनवम्था- या० दिति ।

॥ न्यायसुधा ॥ (भ.१ पा.१ अ. ५ म.५ दूषणमित्यर्थ इत्यप्याहुः ॥ ननु 'यतो वे'त्यादिश्रुतेर्मदीयव्याख्यानं स्वक्रियाविरुद्धं चेत् कि तह्यविरुद्धं व्याख्यानमित्यत आह अविरुद्धं त्विति । च० . . उत्तरत्रेति । 'अद्भुतत्वादवाच्यं तत्' इत्यत्र इत्यर्थः । सु०--- इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह एकम्यापीति । अनु० --- एकस्यापि हि शब्दम्य गौणार्थस्वीकृतौ सताम् ।। महती जायते लज्जा यत्र तत्राखिला रवाः ।। अमुख्यार्था इति वदन्यस्तन्मार्गानुवर्तिनाम् ।। कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ।। यत्र वेद सतां विदुपामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (मत्यां) महती लजा जायते । तत्राखिला अपि शब्दा अमुख्यार्थी इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशत्तितात्पर्यजत्वं वक्तुं कथं लजा न जायते । केभ्यस्तन्मार्गानुवर्तिनों शब्द- शक्तितात्पयानुसारिणा विदुषां सका नादिति योजना । तस्य व्याख्यातुमार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् । ननु न तावन्मुख्यार्थपरित्यागेनामुग्ध्यार्थम्वीकार एक लजाहेतुः । तथा सति गङ्गायां घोषः' 'कुण्ड. पायिनामयने मासमग्निहोत्रं जुहोति'इत्यादावमुख्यार्थग्रहण भावप्रसङ्गात् । किं नाम मुख्यार्थे संभवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुधारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं नभवेत् । यत्र तुमुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लजाहेतुः। 'गङ्गायाँ घोषः' 'सिंहो देवदत्तः' इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य ) एव दोषः (दुष्टत्वदर्शनात्) । तत्कथमेतत् । सत्यमे- वैतत् । प्रकृतेऽपि न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते । बाधिकायाः श्रुतेर्निर्गुण- खोपपत्तश्च निरस्तत्वादिति । उतरवाक्यतात्यानवबोधान्न केवलं सर्वशब्दानां ब्रह्मणि लक्षणाश्रयणेऽनवस्थामात्र- मनौचित्यं चेति तत्तात्पर्यमाह इतश्चेति । अप्रपक्ततयाऽवैदिकशब्दानां ब्रह्मणि लक्षणया प्रवृत्तेः परेणाप्यनङ्गीकारादखिला इत्यनुपपन्नमित्यतो यत्र तत्रेति यद्भाप्य उक्तं तत्तात्पर्यकथनं वैदिकानामिति । अनेन वैदिकशब्दलक्षणाऽऽश्रयणस्यातिजघन्यता सूचयति । कर्मकाण्डगतानां ब्रह्मकाण्डेऽप्युपासनादिपराणां वा० ब्रह्मणः सकलशास्त्रवाव्यत्वसमर्थनम् ) ॥ इंशत्यधिकरणम् ॥ १२०० सका न परे ब्रह्मणि लक्षणाश्रितेत्यत उक्त ब्रह्मणि श्रुतानामिति । अनेन वैदेऽखिला अपीत्यस्यापि सङ्कोच: सूचितो भवति । प्रकृतोपयोगितया सच्छब्दव्याख्यानं विहुपामिति । अमुख्यार्थस्य जघन्यप्रतिपत्तिक. तया तत्स्वीकारण्य लज्जाहेतुतायाः प्रथमोपस्थितमुख्यार्थपरित्यागकारणाभावप्रयुक्ततया लज्जाहेतुताप्रयोजक. स्वेन तस्याप्यत्र विवक्षणीयत्वे कारणाभावे सति मुख्यार्थपरित्यागस्यापि लज्जाहेतुत्वमित्याशयेनोक्तम- मुख्याथैति । अत एवोत्तरत्र तथैवोपपादयिष्यतीति बोध्यम् । अत्र समानन्यायतयाऽमुख्यार्थ इत्युत्तर. भाष्यानुरोधेन च गौ गशब्दो लक्षणाऽऽदिमाधारण इत्याशनोक्तममुख्यार्थेति । शाब्दत्वमित्यस्यापि प्रकृतोपयोगितया व्याख्यानं शक्तीति । विदुपामित्यनेन सतामित्यस्यात्राप्यनुवृत्ति सूचयति । शादिति षष्ठयर्थकथनम् । यच्छन्दप्रकृतस्यैव तच्छन्दपरामर्श परामर्शस्वारस्यमित्यायेशनाह तस्येति ।। तथा सतीति । तथा च तस्यात्मनः शाब्दत्वं तेषां चात्मनां शाब्दत्वं वक्तुमिति योजना सूचिता भवति । यत इति श्रुतिनिगसानन्तरं भाप्यकारेणै नदूपणोक्त्या सूचितेन मुख्यार्थस्वीकारे बाधका- भावविषयक वाभिप्रायेण निवां शङ्कां दर्शयन्नेत्र मुख्यार्थत्यागामुख्यार्थस्वीकारयोरनौचित्यहेतुत्वं शङ्कामुग्वेनैव दीयति नन्विति । सर्वत्रायमेव न्याय इति दर्शयितु लौकिकवैदिकयोः क्रमेणोदाहरण- कथनं गङ्गायामित्यादि । यद्वा लक्षणागौण्योः क्रमेणोदाहरणमेतत् । कुण्डपायिनामयनं नाम सत्रम् । अत एव 'उक्तं क्रियाभिधानं तच्छुनावन्यत्र विधिप्रदेशः स्यात्' इति । सप्तमे, सामानाधिकरण्यनिमित्तकत्वा- नामत्वस्य तस्य चोभयत्रापि भावादुभयत्रापि मुख्यनामत्वसंभवान्न गौणत्वकल्पनयाऽतिदेशकत्वमिति पूर्व पक्ष्योभयनामत्वे शब्दस्याने सादृष्टशक्तिकल्पनाप्रसङ्गेनावश्यभाविन्यन्यतमगौणत्वे, यत्र गुणाः सन्ति तत्र मुख्यत्वं, तद्गुगयोगादितरत्र गौ गत्वम् , न हि निर्गुणे मुख्यस्यान्यत्र गौणता घटते। वाच्यगुण- योगे हि वृतेर्गौणत्वं निर्गुणे तु वाच्ये कथं गौ गत्वम् । तस्मान्नैमित्तिके मुख्योऽन्यत्र गौणोऽग्निहोत्र. शब्दोऽनोऽग्निहोत्रज्जुहोतीति वाक्यार्थ इत्यग्निहोत्रशब्दस्य मासाग्निहोत्रे नैयमिकाग्निहोत्रधर्मातिदेशेन गौणता प्रतिपादितेति ॥ तत्कथमेतदिति । श्रुत्यादेः प्रकृते बाधकत्वादिति भावः । निर्गुणत्वेति । जन्माधिकरणे तस्या निरस्तत्वादिति भावः । - स०. कुण्डपायिनामयन इति । कुण्डगयिनामयनाख्ये सत्रे 'मासमग्निहोत्रं जुहोति' इति श्रूयते, तत्र मिहोत्रशब्दः नित्यामिहोत्रपरः, उन कर्मान्तरपर इति सन्देहः । . कर्मा तरपक्षे द्रव्यदेवता- कल्पनागौरवप्रसङ्गात् नित्याग्निहोत्रविधायक इति प्राप्ते अस्य नित्याग्निहोत्रप्रकरगत्वाभावात् मासादि- गुणकमिदं कर्मान्तरमेव विधीयते । तत्राग्निहोत्रशब्दो यद्यपि स्वाभिधेयनित्य ग्निहोत्रपर इति वक्तुं शक्यते मासादिगुणकस्य कर्मविशेषस्य नित्य ग्निहोत्रप्यसंभवात् । तथाप्यमिहोत्रवज्जुहोतीति गौण्या - 11 १२०२ । न्यायसुधा ॥ म. पा.१ भ. ५ सू.५ या०. । वृत्त्या नित्यामिहोत्रधर्मातिदेशपर इति सिद्धान्तितम् । अमुख्यार्थग्रहणस्य च लज्जाहेतुत्वे तदपि न स्यादित्यर्थः । प०----कुण्डपायिनामयन इति । कुण्डपायिनामयनं नाम कश्चित्सत्रयागः । तत्रैकमासं क्रिय- माणकर्मविशेषस्यामिहोत्रमिति नाम, अग्निहोत्रमियाग्निहोत्रमिति गौणमित्युक्तं पूर्वतन्त्रे 'उक्तं क्रियाभि- धान तत् श्रुतावन्यत्र विधिप्रदेश: स्यात्' इति सप्तमाध्यायतृतीयपादीयाद्यनये । तथाचामिहोत्रपदेन मुख्या- धनित्याग्निहोत्रत्यागेन गौणार्थग्रहणं तत्र न स्यादित्यर्थः ।। (एवमेवेति । निष्कारणमेवेत्यर्थः ।) दोष इन्युक्त व्यक्ति मुख्यार्थों हीति ।। दुष्टत्वदर्शनादिति । घोषानन्वयत्वरूपदुष्टत्वेत्यर्थः ।। श्रुतेरिति । 'यतो वाच' इत्यादिश्रुतेः 'यत इत्यादिकैर्वदन्' इत्यादिना निरस्तत्वात् । अवाच्यत्वसाधकनिर्गुणत्वरू- पोपपत्तेश्च जन्मादिसूत्रे निरस्तत्वादित्यर्थः । कुण्डपायिनामयन इति । कुण्डयायिनामयनात्ये सत्रे 'मासमग्निहोत्रं जुहोति' इति श्रूयते । इदं नित्याग्निहोत्रात्कर्मान्तरपरमेवेति तृतीये स्थितम् । तत्रैवान्या चिन्ता । किमग्निहोत्रशब्दो नित्यामिहोत्रधर्मानिहातिदिशेन्न वेति। तत्र यद्ययं गौणः स्यातदाऽग्निहोत्रवज्जुहोतीत्यतिदिशेद्धर्मान् । न स्वयं गौगः । जुहोतिसामानाधिकरण्यस्यात्रापि तुल्यत्वेन नामधेयत्वात् । अग्निदेवताविधानार्थत्वाद्वा । अतो नातिदिशेदिति प्राप्ते सिद्धान्तः- न ताग्दत्राग्निदेवता विधातुं शक्या । प्रकृतिविकारभावाभावेन चतुर्थीपमासासम्भवात् । तत्र सिद्ध कर्म देऽने कार्यत्वम्यान्याय्यवान्, एकत्राग्निहोत्रशब्दो मुख्यः अन्यत्र गौणोऽङ्गीकार्यः । नित्याग्निहोत्रे च नामप्रवृत्तिनिमित्तम्य ग्निदेवता सम्बन्धस्य भावात्तत्रैव मुख्यता । अतः परशनः परत्र मुख्यमादृश्यमुपादाय प्रवर्तते । तसिद्धयर्थ नित्यधर्मानतिदिशेदिति । सप्तमेऽत्र- त्यामिहोत्रशब्दो गौग इति समर्थितम् । तदपि न ग्राह्य म्यादित्यर्थः । आदिपदात् 'सोमेन यजेत'- इत्यादौ मत्वर्थलक्ष गाऽपि न ग्राह्या स्य दिति ग्राह्यम् । निरस्तत्वादिति । प्रथमाधिकरणे श्रुतेर्द्वितीया- धिकरणे निर्गुणत्वस्य निरस्तत्वादित्यर्थः । श्री- तस्य व्याख्यातुरिति । इति वदन्य तम्य व्याख्यातुः सङ्करस्य मार्गमनुवर्तमानाना- मित्यर्थः । तन्मार्गानुवर्तिनामि यस्य विशे। गम्यापेक्षितं विशेयपदम याह(ति तथा सतीति । एवं व्याख्याने सतीत्यर्थः । तथा च तत्मार्गानु प्रति तामात्मनो विवरणकारादीनां शाब्दत्वं वक्तुमित्यर्थः । अस्मिन्व्याख्याने आत्लन इति पदमुर्वरितम् । तस्येत्थं योजना । आत्मनश्चैव व्याख्यातुः पङ्करस्यापि शाब्दत्वं वक्तुं कथं न लज, ज,यत इति ॥ तत्कायमेदिति । प्रकृते च ब्रह्मगः शब्दमुख्यार्थत्वग्रहणे 'यतो वाच' इति श्रुते लक्ष्यलक्ष गयोमैद' इत्युक्तनिर्गुगत्वोपपत्तेश्च बाधिकायाः सत्वेन मुख्यार्थसम्भवा- भावादमुख्यार्थस्वीकारो न दोषायेत्याशयः । - - सु० 'क्रियाभिधानं तत् श्रुतावन्यत्र विधिप्रदेशः स्यात्' इत्यायनये । कुण्डपायिनामयन इति । कुण्डपायितामयनं नाम कश्चित्सत्रयागः । तत्रैकमासं क्रियमाण- कर्मविशेपस्याग्निहोत्रमिति नाम । अमिहोत्रमिवाग्निहोत्रमिति गौणमित्युक्तं पूर्वतन्त्रे । सप्तमाध्यायस्य तृतीयपादे तथा चामिहोत्रपदेन मुख्यार्थनित्यामिहोत्रत्यागेन गौणार्थग्रहणं तत्र न स्यादित्यर्थः । अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्य शुद्धबुद्धमुक्त- स्वभावं परिपूर्णम् । तदेव मायाशवलितत्वे अर्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चा- निवांच्यतया तदवच्छिन्नस्य न तथाभावस्ताचिक इति न कूटस्थताह.निः । तत्र सगुणमेव परा- त्परं पुरिशयं पुरुषमीक्षत इत्यादादीक्षणीयत्वेनोच्यते । ततश्चक्षणीयत्वं वाच्यत्वेन विना नोट- पद्यते चेत्मगुणं वाच्यमस्तु न निर्गुणम् । तस्येक्षणीयत्वे प्रमाणभावात् । न हान्यगतेन व्याप्येनान्यत्र व्यापकसिद्धिः । अतिप्रसङ्गात् । न च परात्परमित्याहीन्येव निर्गुणविषयाणि- ज्ञापकाभावात् । न च वाच्यं मा भूइनुमानेन निर्गुणरस वाव्यत्यसिद्धिः । पक्षीकृते लिङ्गा. भावात् । लिङ्गवति सिद्धसाधन(त्व).त् । तथापि सर्वे वेदा यत्पढमामनन्ति तपांसि सर्वाणि च यद्वदन्ति' इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति । माषाशबले गृहीत- सङ्गतयस्सर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थो पत्तेः । न चावाच्यस्य लक्षणानुपपत्तिदोषः प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणातीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । न च तदेवेक्षणीयत्वं येन वाच्यत्व सक्तिः । किन्तु प्रमेयत्वम् । न च स्वप्रका- शस्य प्रमेयत्तमिति ॥ तदेतदाशङ्कय परिहरति मूत्रकारः गौ गश्चन्नात्मशब्दादिति । ब्र.सू.. ॥ ॐ। गौगश्चेत्रात्मशब्दात् । ॐ ।। 'परात्परम्' इत्यादिश्रुतिषु गौण एवात्लेक्षणीयत्वेनोच्यते । अतस्स एव वाच्योऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमियादिश्रुतीनां च तत्परत्वे ज्ञापका- भावात् । किन्तु लक्ष्य एवासौ'' इति चेन्न । आत्-शब्दात् । उपलक्षणमेतत् । ईक्षणीये वस्तु- न्यात्मब्रह्मपुरुषादिशब्दश्रवणात् । तेषां च पूर्णाभि नायित्वेन निर्गुणशा.कत्वादिति । भवेदात्मादिशब्दः पूर्थिवाची । तथाऽपि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोप इत्याराकापरिहारार्थ (अपरं) सूत्रम् तन्निउस्य मोशेष. देशादिति । ७. स.- ॥ॐ । तन्निष्ठस्य मोक्षोपदेशात् । ॐ॥ 12वं १२०४ । न्यायसुधा ॥ (अ.१ पा.१ अ.५ सू.५,६,७ वा०- नायं नियमो युज्यते । 'यस्थानुवित्तः प्रतिबुद्ध आत्मा' 'तरति शोकमात्मवित्' इति(आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् । न हि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति । आत्मब्रह्मादय इत्युत्तरानुव्याख्यानं गौणश्चदिति तन्निष्ठम्येति सूत्रयोर्यथास्थितप्रतीय. मानतात्पर्यकथनपरमिति भ्रान्तिनिरासाय भाष्यरीत्या प्रतीयमानतात्ययस्य स्फुटत्वात्तात्पर्यान्तरप्रतिपादक मेनदनुव्याख्यानमिति प्रतिपादयिप्यन् भाप्यरीत्या म्फुटप्रतीयमानतात्पर्य कथयितुमुत्तरो ग्रन्थः । नन्यत्र सौत्रशङ्क ग्रन्थे सगुणस्य दृश्यत्वं वाच्यत्वं च न निर्गुणस्येति शङ्कितराशयः प्रतीयते । तत्र निर्गुमात्सगुणं भिन्नमभिन्नं वाऽभिमतम् ! भिन्नत्वे 'सदैव गुणवत्वेऽस्य भिन्न म्यान्निर्गुणं सदा' इत्युक्तरीत्या कैवल्यानुपपत्तिदोपः । 'एकधैव'इत्यादिश्रुतिविरोधश्च । अभिन्नत्वे कूटस्थत्वहानिरिति पूर्वोक्तदोषात्कथमेतच्छङ्कावकाशः । सगुणम्येक्षणवाच्यत्वाङ्गीकारे च सिद्धान्ते सगुणस्य विष्णोरेवेक्षणेन वाच्यत्वस्य सिपाधयिपितत्वात्कथं तद्विरोधित्वम् । पराभिमतनिर्गुणस्यासत्कल्पस्य तेन लक्ष्यत्वाभ्युपगमेऽपि न सिद्धान्तिनोऽनिष्ट किञ्चित् । परात्परमित्यादिश्रुतेर्निर्गुणविषयत्वस्यापि संभवेन गौणस्यैवेक्षणेन वाच्यत्वं न निर्गुणस्येति शङ्कितुमशक्यं च । नस्या: सगुगमात्रविषयक वे वाऽनुमानेन निर्गुणम्य वाच्य वासिद्धाबपि सर्वे वेदा इत्यादिश्रुतिबलात्तसिद्धिः संभवेदेव । श्रुतेक्ष गाऽऽदिविषयत्वे । सावकाशत्वे वा वाच्ये प्रकारा. न्तरेण प्रतीत्यसंभवेन लक्षगानुपपत्तिोर एव । यथाकथञ्चिग्रीन्युपपादने च तत एवेक्षणीयत्वलाभा द्राच्यत्वसाधनं सुकरमिति नायं सूत्रोक्त से प्रकार : सदल इत्यतोऽस्मदभिमतस्य विष्णोरेवसत्त्वादिगुण शून्यतयानिगु गत्वेन परेण व्यवयि नाणत्वात्तन्यैव मायासंबन्धेन सगुणतया सगुणनेदेऽपि गुणानाम- निर्वाच्यमायासंबन्धप्रयुक्त या कूटस्थत्व हानिकरत्वाभावात् । अमेदेऽपि व्यावहारिक भेदेन सगुणेक्षणेन निर्गुणस्य वाच्यत्याप्रतिक्षणश्रुतेश्च निगशापका मावेन सगुणमाविषयत्वेनानुमानासंभवाच्छतेश्च लक्षगादिविषयकत्वेनापि सावकाश सम्वप्रकाशतया प्रतीतरप्युपपत्तेः । स्वप्रकाशत्वस्य चेक्षणीयत्वरूप. स्वाभावात्सबल एव पूर्व पक्ष इति तदा रायमाह अत्राहेति । शुद्धमि यादेर्मायाऽजीतं बोधस्वरूपं सत्त्वादि- गुण संबन्धशून्यं सर्वशक्ति परिपूर्णमित्य दिरर्थः ॥ एवं गौणनिर्गुणस्वरूपां भूमि सिद्धवत्कृत्येदानीं शङ्का. प्रकारं विशदयति तत्रेति । ज्ञापकाभावादिति सिद्धान्तीयज्ञापकोक्तिव्यावस्यकथनम् ।। तथाऽपीति । अनेन पूर्वसूत्रे सर्वे वेदा इति श्रुत्याद्यपि वाच्यत्वसाधकतया सूत्राभिमतमीक्षणायन्धरूपन्यायस्य तु तदुपोहलकतयोक्तिरत एव भाप्ये श्रुतिस्मृत्योरेतत्सूत्रव्याख्यानावसरे उदाहरणमिति सूचितं भवति ॥ नन्धवाच्ये लक्षणानुपपत्तेहतत्यान्न तथा श्रुतिसावकाशत्वव्युम्पादनं युक्तमित्याशङ्कय निषेधति न चेति । ननु लोके सगुणस्यैव प्रसिद्ध धात्कथमेतदि-यत: सगुगस्य लोकप्रसिद्धिमेव निर्गुणप्रसिद्धित्वेनोपपादयति सगुणेति । यद्वा पूर्व ब्रह्मशब्दादिना प्रसिद्विरुक्ताऽधुना सगुणस्य स्वप्रकाशप्रतीतिमेव च तःप्रतीति- ॥ इक्षत्यधिकरणम् ॥ १२०५ त्वेनाह सगुणेति ॥ सगुणप्रतीत्या कथं निर्गुणप्रतीतिरित्यत उक्तम् तदिति । तदपि कुत इत्यतो निर्गुणस्य सर्वात्मकत्वादित्याशयेनोक्तम् सर्वेति ॥ स्वत इति । स्वप्रकाशतयेत्यर्थः ॥ किं त्विति । वृत्ति प्रतिबिम्बितचैतन्यादिरूपफलव्याप्यत्वरूपप्रमेयत्वरूपत्वादीक्षणीयत्वस्येत्यर्थः ॥ स्वप्रकाशस्येति । फलाव्याप्यस्येत्यर्थः । अनेन 'गौण आत्मा दृश्यों वाच्यश्च । न निर्गुण इति युक्तम्' इति भाष्याभि. प्रायो वर्णितो भवति । उक्तनभिप्रायं सूत्रारूढं कर्तुमाह परादिति । अत इत्यनेन भाष्ये दृश्यो वाच्यश्चत्यनयोर्हेतु- हेतुमद्भावेनान्व-यो द्रष्टव्य इत्युक्तं भवति । गौ गपदप्रयोगललब्धार्थकथनं न निर्गुण इति । सिद्धान्तीय. ज्ञापकोक्तिबलेनोक्तप्रतिज्ञायां हेतुकथनं तस्येत्यादि । किन्तु लक्ष्य एवेति 'सर्वे वेदाः' इत्यादिश्रुत्या- धन्यथासिद्धिसूचनम् । वक्ष्यमाणश्रुरहान्य द्युक्तिसौहार्थं च । अत्र प्रायः पूर्वपक्षसष्टीकरणम् तात्पर्यान्तरकथनावमरे वक्ष्यमा गरूप गसौकाय चेति द्रष्टव्यम् । अत्र सूत्रे परात्परमितीक्षतिधान्चनुग- तिमद्वाक्ये विद्यमानपुरुपपदं विहाय तत्र विद्यामानस्याप्यात्मशब्दस्योपादानं, यस्मिन्कस्मिंश्चिदपि ज्ञानकर्म- त्वबोधकवाक्ये निर्गुगसापकोक्तिमात्रेणेक्षणेन निर्गुणस्य वाच्यत्यसिद्धेनं वाक्यविशेष एव तज्ज्ञापकं वक्तव्यमिति निबन्ध इति सू चयितुं, न तु परासरमिति वाक्ये तदभावादित्याशयेनाह उपलक्षणमिति । अत एवोत्तरसूत्रनिवय॑शङ्काग्रन्थे दृश्ये वस्तुनि प्रयुज्यमानात्मादिशब्दस्य सगुणविषयत्वनियमाभ्युपगमः । अंज एव च तत्र परिहारेऽपि यन्किश्चिदीक्षगीयर बोधकवाक्यनिष्ठस्य तनिष्ठस्य मोक्षोपदेशस्योक्तिरिति द्रव्यम् । स० किन्तु प्रमेयत्वमिति । प्रमाणजन्यज्ञानविषयत्वमित्यर्थः । ५०. ईशगीयत्वहेतोयधिकरणासिद्धिनिरासकतया गौणश्चदितिसूत्रमवतारयितुमाह अत्रा- हेत्यादिना । शुद्धति जडमिश्रम् । बुद्धति ज्ञानस्वभावः । तथाभाव सगुणभावः ॥ मा भूद्वाच्यत्व- सिद्धिः इत्येतच्याक्ति पक्षीकृत इति ।। वाच्यत्वे युक्त रेवागमस्यापि साधनत्वेनाभिमतःवात्तमप्याशय निराह पूर्ववादी तथापीत्यादिना ॥ सर्वात्मन इति । सर्वजीवस्य अहमितिसाक्षिसिद्धत्वादित्यर्थः । प्रमेयत्वं प्रमाणजन्यवृत्तिविषयत्वम् । तत्स्वभावभूतत्वोपपादनायैव सर्वात्मन इत्युक्तम् ॥ किन्तु प्रमेयत्वमिति। प्रमाण जन्यज्ञान विषयत्वमित्यर्थः स्वप्रकाशस्येति । परानपेक्षप्रकाशस्येत्यर्थः ॥ छ । छ । श्री० -- ननु मायायाः सत्यत्वे तदवच्छिन्नस्य सगुणत्वं सत्यमेव स्यात् । तथा च कूटस्थत्वहानि- रित्यत आह मायायाश्चेति ॥ न कूटस्थत्यहानिरिति । न ह्यारोपितेन नीलिमा गगनस्य नीरूपत्वमपै. तीति भावः । कुतो मा भूदित्यतस्तदुपपादयति पक्षी त इति । ईशणीयत्वस्य निर्गुणे स्वरूपा.. द्धि- या० - 12ग ११०६ ।। न्यायसुधा ॥ (भ.१ पा.१ अ.५ सू.६.७ रित्यर्थः । ननु तर्हि यत्रक्षेणीयत्वहेतुरस्ति मगुणे तस्यैव पक्षत्वमभिप्रेतमिति चेत्तत्राह लिङ्गवर्तीति । सगुणे वाच्यत्वस्य सिद्धत्वादित्यर्थः ।। लक्षणोपपत्तेति ॥ तथा च शब्दशक्यैव प्रतीतत्वं नापेक्षित- मित्याशयः । ननु निर्गुगस्य यथाकथञ्चिद्वा प्रसिद्धिः कथमम्तीत्यस्तदुपपादयति सगुणेति । विशिष्टप्र- तीतौ विशेष्यस्यापि प्रतीतत्वादिति भावः ॥ ननु । निर्गुगस्य स्वतः सिद्धत्वं तावत्वयैवोपपादितम् । स्वतः सिद्धवमेव चेझ गीयत्वमिति निर्गु गत्येक्ष गीयत्वं त्वयैवाङ्गीकृतमतः स्वत:सिद्धत्वरूपेक्षणीयत्वान्य. थाऽनुपपत्या वाच्यत्वं प्र-क्तमेव । तथाच निर्गुणस्येक्षणीयत्वे प्रमाणभावादित्युक्तमयुक्तमित्याशङ्कक्य निषेधति न च तदेवेति । तथात्वे घटादाबसाधारण्यापत्तरिति भावः । प्रमेयत्व मिति । प्रमाणज. न्यज्ञानविषयत्वमित्यर्थ ।। स्वप्रकाशस्येति । प्रमाणावेद्यस्य प्रमाणाजन्यज्ञानविषयत्वाख्यं प्रमेयत्वं व्याह तमिति भावः । ॐ गौगश्चेन्नात्मशब्दात् ॐ ॥ तत्परत्वे, मुख्यया वृत्त्या निगु गवाचकः । श्रुतीनां निर्गुणवाचकत्वाभावे उपनिषदां ब्रह्मकाण्डत्वभङ्ग इत्याशयेन पृच्छति किन्त्विति ॥ उत्तरयति लक्ष्य एवासाविति । निर्गुण इत्यर्थः । -- - ---- सु० अत्र प्रथमसूत्रे पर परमियादिषु वाक्येषु निर्गुणज्ञापकोक्त्या हेतुसिद्धिस्सम- थिता। ज्ञापकस्य चान्यथासिद्धिरुत्तरसूत्रे परिहतेत्तावत्सूत्रद्वयत.त्पर्य स्फुट वगम्यते । अधिकं विवक्षुराह आत्मेति । अनु० ॐ गौणश्चेन्नामाब्द.त् ॐ ।। ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ।। आत्मब्रह्मादयः शब्दा: साक्षात्पूर्णाभिधायिनः ॥ जन्मादिकारणं ब्रह्म लक्षित च यदा तदा ॥ वनयापुत्रोपमं मायाशबलं वाच्यमित्यपि ।। कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन्पदैः ॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्ताबसाधनम् ॥ आह श्रुतपरित्यागः स्यावास्याश्रुतकल्पना । स्यात्सर्वत्र च यो वादी तदेतदनिवाच्यमाय ख्याज्ञानशबलं किञ्चिद्रह्म कल्पयित्वा तदेव वैदिकैरशेष- पदाच्यमित्यपि कल्पयित्वा मायातातं शुद्धं सर्वशं सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदै- ..

गीणश्चा ... । बधस्य ॥) ॥ ईक्षत्यधिकरणम् ॥ १२०७ लक्ष्यमिति बद दति । अस्य वादिनः श्रुतपरित्यागस्सर्वत्र सर्ववाक्येषु स्यात् । कथम् । वचन- वृत्त्यैव प्रथमप्र तिस्स शुद्धस्य ब्रह्मगो विना कारणेन परित्यागात् । कथं शुद्धस्य प्रतीतत्वम् । आत्मब्रह्मादि दानां वेदे श्राणात् । आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णभिधायिनो यदा यस्मात्त तस्मात् श्रुतपरित्याग इति । न केलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् । कथम् । माया. श्वलस्य ब्रह्म-गो बन्ध्य.पुत्रोपमत्वात् । तत्कथम् । विना मानम् । मानाभावात् । तदपि कथम् । श्रु तेष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूगांभिधायित्वेन मायाशबलाविषयत्वात् ।। ननु युष्माभिरेव जन्मादिमूत्रे माया बलस्य लक्ष्यत्वेनाङ्गीकृतत्वात्कथं (तत्)वन्ध्यापुत्रोपमः मिति । मैवम् । प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्ज जन्मादि- कारणत्वेन रू. क्षितत्वाङ्गीक.रादित्याद्यसूत्रतात्पर्यम् । अत्मागुदोदितर येति द्वितीय स्य । आत्मा- दिशब्दः पू... थोऽपि दृश्ये श्रुनो गौणविषय इति नियमं यो ब्रवीति स तथा विधानाव्दोदितस्य ज्ञानं मुक्ता साधनमेवाह । गौणात्मज्ञानस्य भोक्षसाधनत्यानुपपत्तेः । तथा चास्य श्रुतपरित्यागः स्यात् । ह बात्नजानस्य मोक्षसाधनताया 'यस्यानुवित्तः' इत्यादौ श्रुतत्वादिति । नयमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति । अनु०- यत्रैकमपि लोको जुगुप्सते ।। यत्र ययोर्मध्ये एकमपि प्रसक्तम् । किमुभयमिति शेषः । वा अधिकतात्पर्यकथनावसरे परोक्तमगुणवा नस्त्वनि गु लक्ष्यत्वबाधकत्वेन श्रुतहान्यश्रुत कल्पनाप्रसा य प्रयोजनतया वक्ष्यमाणत्वात्तदगङ्कीर्ण नायै ज्ञ.पक्रोक्त्या हेत्वसिद्धिपरिहारं ज्ञापकान्यथा, सिद्धि रिहारं च प्रयो जनतया दर्शयति अत्रेति !! अत्र श्रुतपरित्यागाश्रुतकल्पनोपपादकानां सङ्करेणो पपादनाद्विा ज्य तदन्वयं दर्शयति यो वादीत्यादिना । वदन्नित्येतद्वललब्धकथनं वादीति । लटः शतृशाचा प्रिथमासमानाधिकरण इत्यत्र ( लटः शतृशानचावप्रथमासमानाधिकरणे। अप्रथमान्तेन सामानाधि : रण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य । पचमानं चैत्रं पश्य । ) तदीयव्या. ख्यानरीत्या पर्युदासाश्रयणेन द्वितीयान्तादिसामानाधिकरण्याभिप्राये तस्य प्रकृतेऽभावाद्वदन्निति शत्रनु- पातिः । गीताभाष्यटीकोक्तरीत्या प्रसञ्जयप्रतिषेधाश्रयणेन प्रथमासामानाधिकरण्यनिषेधमात्राभिप्राये चास्येत्येत प्रतिसंवन्धितया वदन्नित्यस्यानुवाद्यसमर्पकताद्योतनाय यो वादीत्यव्याहारस्यावश्यकत्वात्प्रथमा- सामानाधिकरण्येन शत्रनुपातेरित्यतो लटाहानुवृत्तौ ( लडिति । यद्यपि प्रथमान्तं प्रकृतं तथाऽपि ॥ न्यायमुत्रा ॥ (म.१ पा. भ. पष्ठया विपरिणम्यत इति भावः । ) पुनलडग्रहणेन ( पुनरिति । एवं हि पुनर्विधिः सम्पद्यते । सच प्रथमेनाप्राप्नेऽपि वनित्प्रवृत्त्यर्थ इति भावः । उपलक्षणमिदम् । अप्रथमान्तेन सामानाधिकरण्याभावे. उपत्यर्थः । नेन कुर्वतोऽपत्यं कौर्वतः । कुर्वन्गे भक्तिः कुर्वद्भक्तिः । कुर्वाणभक्तिरिति प्रत्ययोत्तरपद. योपि सिद्धयति । शानन । आने मुक् । अङ्गस्वातो मुक् । पचमानः । ) क्वचि प्रथमासमानाधि ग्णऽपि भवन्योऽम्ति व मगः सन्त्राह्मग इत्याद्युपपन्नमिन्युक्तत्वात्प्रथमासमानाधिकरणे नानुपपत्तिरित्या . गये। यो मादीन्य याहत्य तत्रैवानुवादसमाप्तिद्योतनाय वदन्निति व्याख्याति वदतीति । अनिर्वाच्येति. विशेगेन परोक्नकटन्यबहानिपरिहारम्य मूलारूढन्वम्य प्रदर्शनम् । ब्रमेति ब्रह्मद्वैविल्यसूचनम् । वैदिकैरित्यश्रुतकल्पनोरपादकेनानुक्तोनालम्भनिरसनम् । असतो यकिञ्चित्पन्दवाच्यत्वेऽपि न क्षतिरित्य- गरिति । पाभिननशुद्धम्य निर्विशेषत्वेनासन्कल्पत्वेन वेदेऽश्रुतनया तम्य लक्ष्यत्वेऽपि न श्रुतहानिरिति गद्धमि यने नाभि मतं वाभिमतं ब्रह्मत्याह शुद्धमित्यादिना । श्रुतपरित्यागस्य वाक्यनिष्ठापगत्वादाह मर्वत्रेति । आत्मब्रह्मादय इत्यनुव्याख्यानोक्तहेतुबललब्धं श्रुनहानिप्रसङ्गे साक्षादुपपादकं दर्शयति ।। बचनवृत्त्यवेति । शुद्धम्य साक्षात्प्रकृतत्वोपपादकम्यैतदनुःयाख्याबललब्धस्य योग्यस्या याहार आत्मेति । तम्य हेतु यममर्थनार्थनयाऽनुव्याख्यानोक्तं हेतुं योजयति आत्मेति । 'यदा तदेति हेत्वर्थे कालार्थ चापि भण्यत' इत्यभिधानानुसारेणोक्तं यस्मात्तम्म दिति । मानाभावोपपादकन्येनात्राप्यात्मब्रह्मादय इत्यनुयाख्यानोक्तहेतुर्द्रष्टव्य इत्याशयेन श्रुतिष्वात्म- शब्दाश्रवणे तेषां पूर्णत्वाभिव यक गेतिपयय तहललब्धं श्रुति यात्मादिशब्दश्रवणस्य मानाभावं प्रति साझाद्धेतुन्वं पूर्ववदेवात्राप्यभिनतमित्य शयेगाह श्रुतिष्विति । पूर्णवाभिधायकत्वोक्तिफलकथनं मायेति । ब्रह्मशब्दप्रयोगमूचिनयुक्ति थिनं प्रथमेत्यादि । आत्मशब्दोदितज्ञानम्य मया मुक्त्यसाधनताया अनुक्तेर . नुक्तो गलम्भोऽयमित्यतोऽव्याग्न्यानेऽन्ये ये तबलात्तच्छनाध्याहारेण सूत्रनिवर्त्यनियमानङ्गीकर्तस्तत्प्रति संवन्धित्वमित्याशयेन योग्यप्रतिसंवन्याहारेण तदनुक्तिनिरासायाह आत्मादिशब्दा इति । तथार्थः । इत्यम्यात्मशब्दविशेषणचे दृश्ये श्रुत इति तदर्थः । आत्मशब्दोदितविशेषणत्वे तु दृश्य इति तदर्थः । एवकारमूचितहेतुकयनं गौगेति ॥ ननु मुक्त्यसाधनोक्तिमात्रं न दोष इत्यतः श्रुतपरित्यागमात्रं तत्फल. नया प्रमज्य तदुपपादकतया मूत्र योजयति तथा चेत्यादिना । आपाद्यानिष्टत्वप्रदर्शनायोत्तगनुव्याख्यानमित्याह न चैवमिति । यत्रेत्यम्यकपरामर्शकल्वे निर्धा- रगासंभवादर्थान्नगनुपपत्तेश्चाह तयोरिति । आपादितत्वस्य मूलारूढताय प्रसक्तमित्युक्तम् । यद्वा । श्रुनहान्यादेव्यभिचागदिवन्न स्वरूपेण दूषणत्वं किन्तु तर्करूपेणैवेति तत्प्रसञ्जनमेव दूपणमित्याशयेनेद- मुक्तम् । उभयानिष्टत्यस्य मूलारूढतायें अपिशब्दबललब्ध योग्यमध्याहरति किम्विति । ।

गोणचन्न... । तनिष्टस्य ॥) ॥ ईक्षत्यधिकरणम् ॥ १२०९. प०- अधिकं श्रुतहान्यादिकं दोषं सूत्रार्थतया विवक्षुारेत्यर्थः । मूलपदानि योजयति .यो. वादीत्यादिना ॥ वदन्नित्यस्यार्थो वदतीति ॥ इत्यायसूत्रतात्पर्य मिति । 'यो वादी इत्यादिनोक प्रमेयं 'गौणश्चत्' इति सूत्रतात्पर्यमित्यर्थः ॥ द्वितीयस्येति । 'तनिष्ठस्य मोक्षोपदेशात्' इतिसूत्रस्ये- त्यर्थः । या०- ॥ ॐ गौणश्चन्नात्मशब्दादिति ॥॥ ॐ तनिष्ठस्य मोक्षोपदेशादिति ॐ ॥ अधिकमिति । श्रुतहान्यश्रुतग्रहरूपमधिकं दोषं सूत्रार्थतया विवक्षुराहेत्यर्थः । ननु युष्माभिरेवेति । यद्यप्यस्माभिः सगुणं ब्रह्मैव जन्मादिसूत्रे लक्ष्यमित्यभिहितं न तु मायाशबलम् तथाऽपि स्वमते मायाशबलस्यैव सगुण पात् । सगुणस्य लक्ष्यत्वाङ्गीकारे भवद्भिरपि मायाशबलस्यैव तदङ्गीकृतमिति भ्रान्तस्येयमाशङ्केति ध्येयम् । श्री० ॐ तनिष्ठस्य मोक्षोपदेशात् ॐ ॥ ज्ञापकोक्त्येति । आत्मशब्दादिरूपेत्यर्थः ।। हेतुसिद्धिरिति । ईणीयत्वाख्यहेतुसिद्धिरित्यर्थः ॥ गौणात्मज्ञानस्येति । गुणवद्धात्मज्ञानाद्गुणनि- वृत्तिरूपमोक्षानुपपत्तिरित्यर्थः ॥ ननु गौणज्ञानस्य मोक्षहेतुत्वं न श्रुतमेव । येन श्रुतहानिः स्यादित्यः आह दृश्यात्मेति । गौणात्मेत्यर्थः ।। अ० सु य लोकजुगुष्मितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति । नियमेनोमयं स्य द्धि यस्य स्वपरयोमते ।। अलङ्कृतः मनेवायं दुर्घट रेव भूमणे: । अस्माभिर पाद्यते परेणाङ्गीक्रियते । न हि लोकजुगुप्मितं नामैकं प्रतिज्ञाहान्यादिकमि निग्रहस्थानमस्ति । लोकस्याव्यवस्थितत्वात् । 'गतानुगतिको लोकः' इति वचनादिति मन्द - ननेति स्वपरथोमी मतेन । थस्य नियमनोभय मिदं स्यादयं दुर्घटेरङ्गीकारानभूपर्णविपरीत. लक्षणया दूषणैः कृतः स्यात् । यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते नहि सकलोऽपि वेदार्थस्त्यज्यताम् विशेषात् । यदि चाश्रुतमपि मायार.बलं ब्रह्म करूप्यते । तदा चैत्यवन्दनादः स्वर्गसाधनत्यादे (दिकम)पि कल्पनी(यं यत्वं स्यात् । विशेषाभावादित्याशयः । ननु लोकजुगुष्पिताङ्गीकारप्रसक्तेरेवाभावात्तत्रानिष्टप्रतिपादकोत्तरव.वयमसङ्ग:मित्यः स्त सङ्गमयति अति ।। ननु स्वमतेन श्रुनहान्यादिप्रसक्तरेवाभावात्परं प्रति तदापादनेऽपि तन्मत । तदप्रसक्तेः स्वप गेमतेनेत्यनुपपन्नमित्यत आह अस्माभिरिति । अनेनापादनीयतयःऽस्मदभिमत वं स्वमतेनेत्यस्यार्थः । परेणाङ्गीक्रियमाणत्वं च परमतनेत्यस्येत्याशयः । यद्वा । स्वशब्दस्य समभिव्या. वा० ॥ न्यायसुधा ॥ - (म.१ पा.१ भ.५ सू.५.६,७ १२१० हुनपरत्यापादनीयतयाऽस्मदभिमतत्वं परमतेनेत्यस्यार्थः । परेणाङ्गीक्रियमाणत्वं च स्वमतेनेत्यस्येति द्रष्टव्यम् । पराङ्गीकारमुपपादयति न हीति । अनेन शङ्काभिप्राय उक्तो भवति । दुर्घटस्योद्भावनाऽसंभवा- दाह अङ्गीकारानहेरिति । दूपणापादनावसरे पर प्रति भूपणापादनं न युक्तमित्यत आह विपरीतेति । श्रुतहान्यश्रुतकल्पनयोरङ्गीकारेऽयुक्तं स्यादिति दूपणान्तरस्यापादयितुमशक्यतया श्रुतहान्यश्रुतकल्पनयोरेव चापादनानुपपत्त्या कथमेतदित्यतः प्रकृतश्रुतविशेषहान्यादेरापादकत्वेन परं प्रत्यनिष्टश्रुतविशेषहान्या- देगपाद्यमेन विवक्षायां न कोऽपि दोष इत्याशयेतदनुव्याख्यानसूचितमतिप्रसङ्गमाह यदीत्यादिना । याप्न्युपपादनमांवशेषादिति । मु०--- स्वपरयोर्मत इत्येतदुपपादयति अस्माभिरापाद्यत इति । जुगुप्सितं परेणाङ्गीक्रियत इति गंबन्धः । प०-- स्वपरयोर्मत एत्यनेन दोषद्वयस्योभयसंमतिरुक्ता । तत्कथमित्यतोऽस्मामिरापाद्यमान- स्वादम्म संनतत्वं परे गाङ्गीक्रियमाणत्वात्परसंमतत्वमितिभावेनाह अस्माभिरिति ॥ अङ्गीकारे परस्य किं बाजमित्यत आह न हीत्यादिना मन्वानेनेत्यन्तेन । इतिमन्वानेनाङ्गीक्रियते इति पूर्वणान्वयः । उपादितं मूलारूढं दर्शयति इति स्वपरयोर्मतेनेति । या०— स्वपश्योर्मत इत्येतदुपपादयति अस्म भिरापाद्यत इत्यादिना ॥ जुगुप्सितं कथं परे. णाङ्गीक्रियत इत्याशङ्कापरिहाराय पराभिप्रायमाह न हीत्यादिना इतिमन्यानेनेत्यन्तेन । इति मन्त्रानेन परेणाङ्गीक्रियत इति सम्बन्धः । सु०-न केरलं श्रौतस्य परमात्मनम्त्यागेऽतिप्रसङ्गमात्रम् । महाप्रत्यवायोऽध्यस्तीत्याह अन्धमिति । अनु० ---- अन्धन्तमो नित्यदुःखं तस्य स्याद्वसनद्वयम् ।। अन्धयतीत्यन्धम् । अलङ्कृतस्य वसनाभ्यां भाव्यम् । 'वस्त्रहीनमलङ्कारं घृतहीने तु भोजनम् । भावहीनं तु सल्लापं न प्रशंसन्ति पण्डिताः ।। इति वचनात् । अतो वमनद्वय- मिदं स्यादिति परिहासः । अत्र प्रमाणमाह अनन्दा इतिः । अनु०- अनन्दा नाम ते लोका अन्धेन तमसावृताः तांस्ते प्रेत्याभिगच्छन्ति येऽविद्वांसो बुधो जनाः । असुर्या नाम ते लंका अन्धेन तमसावृताः ।। तास्ते प्रेत्य भिगच्छन्ति ये के चात्महनो जनाः ॥ इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।। 129 गणचन्न । तन्निष्टस्य ॥ इक्षत्यधिकरणम् ॥ वा० न विद्यते नन्द आनन्दो येषु ते अनन्दाः ते इति प्रसिद्धाः । बोधनाद्वेदस्तस्मादपि येऽविद्वांसो वेदेन मुख्यया वृत्या प्रतिपादितमपि परमात्मस्वरूपमपलपन्त इत्यर्थः । सुष्ठु- रमणविरुद्धत्वादसुरप्राप्यत्वाचासुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाबासु । दपणकथावसरेऽन्धन्तम इत्यादि किमुच्यत इत्यतस्तत्तात्पर्यमाह न केवल मिति । प्रत्यवायोऽप्यस्तीत्या हति मूलव्याख्यावसरे गीताभाप्पटीकोक्तरीत्या प्रत्यवायशब्दोऽनिष्टपरः । यद्व।। एतन्मूलानुसारेणागत्या तत्र तथा व्याख्यानेऽयनि मिति वक्तुं शक्ये बलादेवप्रयोगस्यानुचितत्वादत्रा- निष्टोक्त्या प्रत्यवायरतद्धतुभूतो गम्यते । तस्य च महत्वान्महाप्रत्यवायलाभ इत्याशयो द्रष्टव्यः । अचेत नस्य नममोऽन्धत्वासंभवादाह अन्धयतीत्याधमिति । वमनोक्ति परिहासोपयोगितया सङ्गमयति अलङ्कृतस्येति । नित्यदुःखमित्यम्य तमोविशेषणत्वेऽपि तद्विशेष गबलात्तमोरूपम्थलस्य तत्रत्यदुःखस्य च पृथक्त्वविवक्षयकम्य तमस एबोर्वाधरभागविवक्षया वा द्वित्वं द्रष्टव्यम् । अलङ्कारवसनोक्तितात्पर्यमाह परिहास इति । 'नित्यदः 'यस्वरूपत्वादनन्दं तनमो मतम्' इति 'तेऽपि यान्ति तमो घोरं नित्योद्रिक्ता- सुखात्मकम्' इति च बृहद्धाप्यं मनसि निधायानन्दशब्दं व्याख्याति न विद्यत इति । एवं च नित्य दुःखस्वरूपत्वाद्युक्तिस्तत्तात्पर्यबललब्धेति भावः । यद्यपि नन्दविरुद्धदु खमनन्दं तद्येषु तेऽनन्दा इत्यपि व्याख्याने तदुक्तिरर्थकथनमेव भवति । तथाऽपि प्रतिपतिौरवापत्तिभयेवमुक्तम् । पूर्व लोकविशेषस्या. प्रकृतत्वे तच्छब्देन परामर्शा तम्भवात्तमस्त्वस्याला भाच त इति पुनः श्रुनत्यादौनरुक्त्या च प्रसिद्धयर्थता तच्छब्दं व्याख्याति त इनीति । यद्यपि 'बोधके विद्यमानेऽपि ये विदुः परं हरिम्' इति 'बोधनाज्ज्ञानवान् भुत्स्यात्तत्सकाशाच्च ये हरिम्' इति च तद्भाप्ये भुन्छब्दं ज्ञानिपरमभिप्रेत्याविद्वांस बुधो जना इति वाक्यं प्रकारान्तरेण व्याख्यातं तथाऽपि बोधकर्तरीव तत्कऽपि कर्तृत्वविक्षया बोधक इति बोध्यर्त त्या. दिशब्दानां बहुलं प्रयोगात् 'इत्यादिश्रुनयो मानं शतशोऽत्र' इत्येतदनुयाख्यानस्वारस्यानुरोधाबृहदा- प्योक्तममानन्य यन्वाच्च प्रकृतोपयोगितया व्याख्याति बोधनादित्यादिना ।। असुर्यगव्दव्याख्यानरूपमी शावास्यभाप्यं प्रायोऽनुकरोति सुष्ठिति । मुगु रमणं सुर्य तद्विरुद्धमहादुःखवत्त्वादित्यर्थः । सुर्यबिरुद्ध- मसुर्य तद्येषु तेऽसुर्या इत्यर्थः । असुगगां प्राप्यत्वादित्यनेत सकलसुग्वराहित्यमुपलक्ष्यते । असुरैयन्ते तेऽसुर्या इति || 'महादुःवकहेतुत्वात्प्राप्यत्वादसुरैस्तथा । असुर्या नाम ते लोकास्तान्यान्नि विमुखा हरौ' इति तद्धाप्ये आत्महन इत्येतदर्य योनम्य हरौ बैमुव्यस्यैवमपि सम्भवात्प्रकृतोपयोगिनयाऽऽन्महन इत्येतद्व्याख्याति आत्महन इति ।। अत्रेत्यस्य समन्तत इत्यनेन सम्बन्धे आसु सर्वासु शास्वास्विति - या० - भ्रान्तिनिरासायोक्तेऽर्थे प्रमाणत्वस्य मूलारूढतायै चाह अत्रेति। अनेकशाखास्थवाक्योदाहरणात्तदनुसा- रेण समन्तत इति व्याख्याति समन्तत इति । महाप्रत्यवाय इति । महाननर्थ इत्यर्थः । प०- पञ्चम्यन्तत्वेन बुध इतिपदं व्याचष्टे बोधनादिति । बोधजनकत्वादित्यर्थः । बुद्ध्यतेः किम् ।। श्रुतिगीतातात्पर्योक्तार्थमाह सुष्ठिति । महाप्रत्यवाय इति । यद्यपि मूले नित्यदु:ग्वाविर्भावरूपं फलमेवोच्यते न प्रत्य. बायः । तथाऽपि कार्योक्त्या कारणमप्युक्तप्रायमेरेत्यभिप्रेन्यै नदुक्तमित्यवगन्तव्यम् ॥ छ । छ ।। श्री० भाव्यमिति । यथोक्तं सन्न्यायरत्नावल्यां 'वस्त्रहीनालङ्कारस्यानुचितत्वात्' इति ॥ अनुचितत्वमेवोपपादयति वस्त्रही मिति ॥ वमनद्व मि.मिति । अन्धन्तमस्तत्रत्यं नित्यदुःखं चेत्यु. भयमुत्तरीयं प्रधानवस्यै च स्यादित्यर्थः । यथोक्तं तत्रैव 'अन्धन्तमो नित्यदुःख चोत्तरीयप्रधानवस्त्रत्वेन स्वीकुर्यात्' इति । सुव दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकचं वाक्यं पूरयति हेयत्वेति । ब्र... ॥ ॐ । हेयत्वावचनाच । ॐ॥ अनु० ॐ ॥ हेयत्वावचनाच्च ॐ ॥ हेयत्वावचनाच्चैव नात्मा गौण. श्रुतौ श्रुतः ।। एक्शब्दो नैवेति संबद्यते। दृश्यत्वेनेति शेषः । उत्तरवाक्ये सूत्र व्याख्यानादर्शनात्तद्वैय्यर्थ्यमित्यतः सूत्रप्रतिपाद्यं प्रदर्शयन्नेवोत्तरवाक्य तात्पर्यमाह दृश्य इति ।। चशब्देन विरोधादेवकारं भिन्नक्रमतया व्याख्याति एव शब्द इति ।। श्रुतौ श्रुतस्य सर्वस्यात्ननो गौणत्वेन मयाऽप्यनङ्गकाराद्धयत्यावचनेन गौणत्वाभावसाधने सिद्धसाधनतेत्यतः पराभिमतनियमाभावसाध,मेतदियाशयेन सूत्रनिषेव्यनियमस्य मूलारूढतायै शेषं पूरयति दृश्यत्वेनेति शेष इति । - वा० सु०- एवं सूत्रस्वरूप निधीय व्याचष्टे तमेवेति । अनु० तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।। उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ।।

हयत्वावधनाच) ॥ ईक्षत्यधिकरणम् ॥ १२१३ बा० दृश्य आत्मा गौण एवेति नियममङ्गी कुर्वाणन 'तमेवैकं जानथ आत्मानमन्या वाचो विमुश्चथ, अमृतस्यैप सेतुः' इति श्रुतोऽप्यात्मा गौणोऽङ्गीकरणीयः। तस्य तं जानथेति दृश्य- स्वश्रवणात् । कथं चायं गौणोऽङ्गीकर्तुं शक्यः । यतोऽसौ गौणो मुमुक्षुणा हेयेषु अन्या वाचो- विमुञ्चथ'इति श्रुतः । अस्य च हेयत्वावचनात् । प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच- (इति)। चशब्दो वाक्यार्थद्वयसमुच्चयार्थः । हेत्याश्चर्ये । ननु तमेवैकमिति वाक्यश्रुतस्यात्मनो गौणत्वाभावेऽपि न ममानिटं किञ्चिदिति तत्साधन . मनुपपन्नमित्यनो नियमभङ्गेन कथं नानिष्टमित्याशयेन सूत्रार्थभूतभाप्यं सङ्गमपयितु पीठमारचयति दृश्य- आत्मेति ।। गौत्रयत्वावच नचललब्धमन्यहेयत्ववचनं भाप्यकारेण हेतुतया निर्दिष्टं प्रकृतसाव्ये हेतुत्वेन सङ्गमयन्नवोदाहृतश्रुन्यंशं योग्यतया श्रुन इन्येतदन्विततया च दर्शयति यत इति ।। धर्मितया निर्दिष्टस्य श्रोता. मनोऽसाविति परामर्श इति भ्रान्तिनिरासाय 'कथं गौण' इति निधिप्रतियोगितया प्रकृतगौणम्यायं परामर्श इत्याह असौ गौण इति । 'अमृतम्यैप सेतुः' इति वाक्यशेपबलेन हेयत्वं घटयति मुमुक्षुणेति ।। पक्षशब्दः कोटिपर इत्याशये। हेयेग्विाते तात्पर्य कथनम् ।। गौणहेयत्ववचनमात्रं नैतस्य गुणत्वाभावसाधकमित्यतः साक्षा-सूत्रोक्तहेतुं सङ्गमयति अस्य चेति । अस्यापि यत्किञ्चिदन्यत्वादेतदेव हेयत्ववचन मिति तदवचन- मसिद्धमित्यनः सूत्रे नो भिन्नक्रमत्वेन सूचित चशब्देन वा समुच्चिंत 'तमेवैकम्' इतिश्रुत्यंशोदाहरणेन भाप्यकारेग सूचित नुपादेयत्ववचनं च हेतुतया व्यापारयति प्रत्युतेति ।। भाप्ये चशब्दो न श्रुत्युक्तक्रिया- द्वयसमुच्चयार्थो वैय्यर्थ्यांपत्तेः किन्तु कथमयं गौणोऽङ्गीकर्तुं शक्य इति साध्ये समुच्चितयोर्हेतु वज्ञापनायेति 'अन्या वाचो विमुञ्चथ' 'तमेवैकं जानथ' इति वाक्यार्थभूतगौ गहेयत्वदृश्यात्माहेयत्वयोः समुच्चयार्थ इत्याह चगब्द इति ।। हेत्याश्चर्य इति । उपादेयत्वेन श्रुतस्य दृश्यात्मनो हेयत्वेन श्रुतगौणत्वं वदन्नद्भुत इति भावः । च शब्द इति । मुञ्चथ चेति चशब्द इत्यर्थः । तमेवैकं जानथ' इति 'अन्या वाचो विमुश्चथ' इति बाक्ययोः यावी. 'अस्य च हेयत्वावचनात्' इत्यादिनोक्तौ, तद्द्वसमुच्चयार्थ इत्यर्थः ।। आश्चर्य इति । अगौणतया प्रतीतमपि गौणं बदतीत्याश्चर्य इत्यर्थः । एवं वक्तारो दुर्ल मा इति भावः । ॐ हेयत्वावचनाच्च ॐ ॥ उपादेयत्ववचनाच्चेति । अनेना हेयत्यवचनाचेति सूत्रयोजनोक्तिरिति दृष्टव्यम् ।। श्री० ॐ हेयत्वावचनाच्च ॐ ॥ सूत्रस्वरूपं निर्धार्यति साध्यभागपूरणेन सूत्रवाक्यं निराका असं कृत्वेत्यर्थः ॥ वाक्यार्थद्वयेति । अस्य हेयत्वावचनात् । प्रत्युत तमेवैकमित्यहेयत्ववचनात प०- - या० १२१४ ॥ न्यायसुधा॥ (भ.१ पा.१ ७.५ सू. ८ उपादेयत्ववचनादिति यावदित्येको वाक्यार्थः । 'अन्या वाच' इत्यन्येयो हेयत्ववचनादित्यपर इति वाक्यार्थद्वयेत्यर्थः । - सु-ननु गौगानामपि ब्रह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गादबद्धास्त्वित्यादौ । अतो ऽनैकान्तिकोऽयं हेतुरित्यत आह परिवारतयेति । अनु०-- परिवारतया प्र.ह्या अपि हेयाः प्रधानतः ।। सत्यं विष्णुपरिबारतया बाह्या ब्रह्मादयः(द्याः)। तथाऽपि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम् । अमृतस्यैप सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति । वा०- परिवारतयेयुत्तरवाक्यामिप्र यत्वेन भाष्याभिमतं यत्प्राधान्येनोपादेयत्वस्य हेतुत्वं तत्र प्राधान्यरू हेतुविशेषणप्रयो ननं दर्शयन्नुतावाक्यमवतारयति नन्विति । एवं च मायावाद्यभिमतस्या. सदभिननेधाजोबादि वेक्षणाय शमगो गौ गत्ये गीयत्वाच्यत्वयोः पराभिनतत्वे तैस्याधिकता. त्पर्थकथनदशायामनुभाष्यकारीया वयात्रो ..त्याधुक्तिः, जीवादिरूपगौ णात्मत्वाभिप्राये च हेयत्वा द्युक्तिरिति न पूर्वोत्त'विरोधः । भाप्ये तु गौ गात्मनो वन्ध्यापुत्रोपमत्वाद्युक्तेरभावात्तदनुसारेण तत्त्वप्रकाशि कायां गौणश्चदिव्येय ख्यावसरे जीपाख्य इति विशिष्यैवोक्तिरिति द्रष्टव्यम् ॥ प्रकृतोपयोगितयाऽन्वयं दर्शयति सत्यमिति ।। प्राधान्यविवक्षाज्ञापकलेन श्रौतज्ञापकमाह अमृतस्येति । प०.- अङ्गेति । अङ्गावबद्धान्तु न शाखालु हि प्रतिवेदम्' इत्युपासनापादीयाधिकरणे अझैरङ्गदेवैरवबद्धाः संबद्धा अङ्गदेवताभूतब्रह्मादिविस्या इति यावत् । उपासनाः परिचर्यादयःकार्या इति वक्ष्यमाणत्वादिति भावः ।। अनैकान्तिः ति । निर्गुणव्यभिचारीत्यर्थः । प्रधानत इति भावप्रा धानं मत्वाऽऽह प्रधानत्वेनेति । या० ननु गौणानामपीति । ननु गौणशब्देन मायाशवलस्य पूर्वमुत्तत्वादत्र जीवानां ग्रहणं कथमिति चेत् । उच्यते । यत्र दृश्यत्यादिकमुच्यते तत्र सर्वथा निर्गुणं न वाच्यम् । किन्तु. मायाशबलं वा गुण बद्धा जीवा वा वाच्या इत्यभिप्रायः पूर्वपक्षिणोऽजो न विरोध इति ज्ञातव्यम् ॥ अनैकान्तिको हेतुरिति । निर्गुणत्वव्यभिचारीत्यर्थः ॥ अमृतस्यैष इति । एष परमात्माऽमृतस्य मोक्षस्याथै सेतु ख्याश्रयः । अतः प्राधान्येन स एव ज्ञेय इति तद्वाक्याभिप्रायः । अतोऽस्य प्रकृत. सङ्गतिरिति ध्येयम् ।। छ । छ ।। १. वा.र.-गौणश्दिशादियाधिकतात्पर्यकथनदशायाम ।

स्वाप्ययात्) ॥ इक्षत्यधिकरणम् ॥ १२१५ बा..-- सु० एवमात्मशब्दस्य निर्गुणविपयत्यमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । हेत्वन्तरेणास्यैवार्थस्योपपादकम् 'स्वाप्ययात्' इति सूत्रं व्याचष्टे पूर्णस्येति । ब्र.सू. ॥ ॐ । खाप्ययात् । ॐ॥ अनु० --- ।। ॐ स्वाप्ययात् पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते । इति स्वस्यैव पूर्णस्य पूर्णऽप्यय उदाहृतः ॥ पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्रलीनभाव उदाहृतः । खाप्ययशब्दश्च सौत्र उपलक्षणमात्रम् । पूर्णत्वमप्युडाहर्तव्यम् । ताभ्यामसौ निर्गुण इति ज्ञायते । श्रुन्युक्तत्वाञ्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिद्धिरिति । पूर्वमूत्रवदुत्तरसूत्रस्यापीक्षणीयस्य गौणन्वनिः सकत्वमेव न तु प्रधानसाध्यहेतुसमर्पक- त्वमिति भ्रान्ति निरसितुं पूर्वसूत्रचतुष्टयस्यैकहेतुसमर्थनपरत्वमुत्तरम्य तु वाच्यत्वहेत्वन्तरसमर्पकत्वं च दर्शयन्नेव गौप्यमवतारयति एवमिति । अत्र, इति स्वस्येन पूर्णम्य पूर्णऽप्यय उदाहृत इत्यनुव्याख्याना- नुसारेण पूर्णत्वविशिष्टस्य पूर्णत्वविशिष्ट लयस्य विशिष्टस्यैव निपुणत्वसाधकावं प्रतीयते । तच्च स्वस्य स्वस्मिन्नध्ययमात्रस्य तत्वाधकम्योपपादकभाष्येण पूर्णत्व मात्रस्य तत्साधकत्योपपादकेन 'कथं मायाव्य- वच्छिन्न' इत्युतगनुव्याख्यानेन विरुद्धमतोऽत्रापि स्वाप्ययमात्रस्यैव हेतुत्वमभिमतं पूर्णस्य पूर्ण इत्युक्तिस्तु सौत्रहेतोरुपलक्षणत्वज्ञापनाय न तु विशिष्टहे वभिप्रायेणेत्याशयेन भाप्यं व्याख्याति पूर्णस्येत्यादिना ॥ सौत्रोपपादनस्य साक्षात्साव्यं परमसाध्यं च दर्शयन्प्रकृतोपयोग दर्शयति ताभ्यामित्यादिना । श्रुत्युक्तत्वाच वाच्य इति । 'पूर्णमदः पूर्णमिदमिति श्रुत्युक्तत्वाञ्चेत्यध्याहृतसूत्रं वाच्यतासाधनाय प्रवृत्तम् । अस्याः श्रुतेः सगुणपरतानिरासाय स्वाप्ययादिति सूत्रं प्रवृत्तम् । अत एव तत्र चशब्दाभाव इति द्रष्टव्यम् । ननु सौत्रस्वाप्ययहेतोः तदुपलक्षितपूर्णत्वहेतोश्च 'पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते'इतिश्रुन्युत्तो निर्गुण इति सा-येनैवान्वयेन वाच्यत्वरूपसाध्येनान्वया- भावात्कथमस्यैव वाच्यत्वस्यैवोपपादकं 'स्वाप्ययात्' इति सूत्रमिति पूर्वमवतारितमित्यतः परंपराभिप्रायेणेति भावेन हेत्यन्तरमध्याहृत्य!ऽऽह श्रुत्युत्तत्वाञ्चेति । एतेन हेत्वन्तरत्वे चशब्दः स्यादिति निरस्तम् । पूर्णनद इत्यादिश्रुन्युक्त वाच्चेति वाच्यत्वे हेतुत्वाशयेन हेत्वन्तरेणेति पूर्व क्तिसंभवात् ॥ नन्वेवमीक्षणीय- त्वादिति प्रधानहेतोर्हि श्रुत्यैकजन्यज्ञानविपयत्वादित्यर्थस्याभिमतत्वात्तेनारय हेतोरविशेषः । श्रुन्युक्तत्वादि. स०. - प० १२१६ ॥ न्यायसुधा ॥ (अ.१ पा.१ अ.५ सू.९, त्यन्यापि श्रुतिजन्यज्ञानविषयत्वादित्यर्थकत्वादिति चेन्न । तत्र तु श्रुतिसामान्यजन्यज्ञानविषयत्वादा- मावाच्य इत्यर्थस्य अत्र स्वाप्ययपूर्णत्वरूपधर्मद्वयोपेतपूर्णमद इत्यादिश्रुतिविशेषजन्यज्ञानविषयत्वान्निगुण आन्मा वाच्य इत्यर्थस्याभिमतत्वेन सामान्यविशेषरूपतया पौनरुक्त्याभाव इति तात्पर्यात् । एवं श्रुतत्वा. चेन्यत्रापि ध्येयम् । स्वाप्ययात् ॐ ॥ उपपादकमिति । वक्ष्यमाणरीत्या परम्परयोपपादक- नित्यर्थः ।। श्रुत्युक्तत्वाच इति । अत्र वाच्यतासाधनाय 'श्रुत्युक्तत्वाच्च' इति सूत्रमध्याहार्यम् । 'पूर्णमदःपूर्णम्' इति श्रुभ्युक्तत्वाच्च वाच्यो निर्गुण इति तदर्थः । अस्या अपि श्रुतेः सगुणपरता किं न न्यादिति शानिरासाय स्वाप्ययात् इति सूत्रम् । अत एव तत्र चशब्दाभाव इति सम्प्रदायः । या ॥ --- Cam- सु० ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् । मैवम् । सगुणस्य स्वाप्य- यानुपपत्तिस्त.वाप्य एवोक्ता । पूर्णत्वानुपपत्तिमाह कथमिति । अनु० कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥ व्याघातादिति भावः । वा०- उतरानुव्याख्याने स्वाप्ययानुपपत्त्यव्युत्पादनं न स्वाप्ययस्याहेतुन्वान्नापि तस्य सगुणा- विश्यत्यशकाऽनवकाश किन्तु भाप्ये स्वाप्ययानु पत्तेः 'न हि गौग आत्मनि निः ।स्य लयः' इति प्रति- पादनादतो न तस्य हेतु-त्रेऽपि तदनुपपत्त्यप्रति गदनप्रयुक्तन्यूनतेत्याशयेोत्तरवाक्यमवतारयति नन्विति । ५० --- भाष्यएवेति ।। न हि गौण आत्मनि निर्दो तस्य लय इति भाष्य इत्यर्थः । व्याख्यातं च तद्भायीकायां । यद्ययं स्वाप्ययवान् गौणस्तर्हि स निर्गुणश्चोभौ प्रलये लयहीनौ तिष्ठत उौक म्मिनन्यस्य लयो भवति । नाद्यः । इदं वा अग्रे नैव किंचनासादित्यादिविरोधात् । द्वितीयेऽपि न ताव. गौ गम्य निगुणे लयः । तम्य स्वाप्यये विस्थाऽभ्युपगतेः । तथा च निर्गुणस्य सगुणे लयो वाच्यः । स चामक्यः । गौ गात्मनि निषिस्य सत्यादिगुणही .स्य शुद्वस्य यत्प्रयंति' इत्य. दिश्रुतिविरोधेन लयानुपपत्ते- रिति । श्री० खाप्ययात् ॥ स्वस्मिन्नव पूर्ण एव । लीनभावो लीनत्वम् । नान्यत्र लीनभावोऽन्यत्र लीनत्वाभाव इत्येवकारव्यावर्थप्रदर्शनम् ॥ भाष्य एवेति । न हि गौणात्मनि निर्दोषस्य लय इति भाप्य इत्यर्थः । स्पष्टमेतत्तत्त्वप्रकाशिकायाम् ।। व्याघातादिति। सगुणस्य मायाऽवछिन्नत्वा- देव न देशतः पूर्णत्वं व्याहतेः । अवच्छि नस्य अनित्यत्वादेव न क.लतः पूर्णत्वं व्याहतेः । अवच्छि. नम्य अनित्यत्वादेव न कालतः पूर्णत्वं व्याघातात् । तादृशस्य गुणतोऽपि पूर्णत्वमनुभवादिविरुद्धमिति -- - द्रष्टव्यम् । यथोक्तं सन्न्यायरत्नावल्याम् 'पूर्णमद' इत्यादिनाऽऽत्मशब्दार्थस्य ब्रह्मणो मूलरूपस्यावतार. रूपस्य च त्रिविधं श्रूयमाणं पूर्णत्वं भायाऽवच्छिन्नस्य प्रतिपाद्यत्वे व्याहतं स्यादिति । सु उन्न हिसामान्यादिति सूत्रं न तावद्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्या नन्तत्वान सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चतु शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकर- पशुध्या याबिरयासुस्तदुल्लखितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरण- साङ्कर्यस्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजन- मिनि शूचनम् । तेन चावृत्या संशब्दस्यानेकार्थताज्ञापनम् । अन्यथैकेनार्थेन चरितार्थस्या- थन्तरं न ज्ञायेत । तथा च न लक्षणद्वयस्य शास्त्रीयता स्यादिति । वा० पूर्वपक्षदशायामाक्षेपद्वयं कृतं यदाद्भिग्तयुक्तमेतदधिकरणे द्वितीयाक्षेपपरिहारादर्श- नात् इत्यतः तदाक्षेपपरिहारार्थकसूत्रम्य भाष्यकारेगात्राव्याख्यातत्वान्ना नुगपत्तिरित्याशयेन तदुलच निमित्तं दर्शयति उ.नेति । शुद्धिरमार्यम् । तर्हि न्यूनतेत्यत आह व्याख्यास्यति चेति । सूत्रक रा- चातुरी प्रयोजनमद्भावेन परिहरति सूत्रेति ॥ अनेकार्थताज्ञाप.मिति। उपक्रमादिनिष्ठसम्यक्त्वस्यैव शब्दनिष्ठात्रवृत्तिसाकल्ययोरपि तदर्थत्वज्ञापनमित्यर्थः ।। एकार्थेनेति । सम्यक्त्वरूपणेत्यर्थः ॥ तथा चति । सम्यक्त्या पनमात्रे ग जगत्कारणत्वस्य शास्त्रीयतासिद्धावप्यनन्तगुणपूर्णत्वम्य शास्त्रीयता मुख्यत्व- साकल्याज्ञापने न सिदित्यर्थः । प्रकरणमुद्रेति । वाच्यत्वपराण्येव सूत्राणि व्याचिख्यासुरित्यर्थः । अन्यथा मध्ये पाठक्रममनुवृत्य गतिसामान्यादितिसूत्रत्याख्याने वाच्यत्यसमर्थनप्रकरणं परित्यक्तमिति प्रतीतिः स्यादिति भावः । ननु तर्हि तत्सूत्रव्याख्यानाभावान्न्यूनतेत्यत आह व्याख्यास्यति चेति । 'कथं समन्वयो ज्ञेयः स्वल्पशाखा विदां नृगामि'त्यादिना तृतीये व्याख्यास्यतीत्यर्थः । ननु सूत्रकारेणापि सर्वशाखा- प्रतिपाद्यत्वसमर्थापरं 'गतिसामान्यात्' इति सूत्रं वाच्यत्वसमर्थनप्रकरणमध्ये किमर्थ निवेशितमित्या- शङ्कःयामाह सूत्रकारस्यापीति ॥ आक्षेपट्टयसमाधानस्येति । पूर्वपक्षिणा कृतं, ब्रह्मणो न वाच्यत्वं युक्तं, न वा सर्वशास्त्रप्रतिपाद्यत्वं युक्तमिति यदाक्षेपद्वयं तत्समाधानम्यास्मिन्नधिकरणे क्रियमाणस्येत्यर्थः । अनेकार्थताज्ञापनमिति । 'मुग्न्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापाः' इत्यनेन 'मुख्यवाच्यत्व- सर्वशास्त्रप्रतिपाद्यत्वरूपानेकार्थता' इत्यर्थः ॥ अन्यथेति । प्रकरणसाकर्याभाव इत्यर्थः । प्रकरणसाकर्य हि फिमर्थगेवमुक्तमित्यूहोदये तानेकार्थता ज्ञायते नान्यथेति भावः ॥ लक्षणद्वयस्येति । जगज्जन्मादिकारणत्वस्य समनगुगपूर्णत्वस्य चेत्यर्थः । यदि वाच्यत्वरूपमर्थान्तरं न ज्ञायेत तदा लक्षणया सर्वशास्त्रप्रतिपाद्यत्वसंभान वाच्यार्थगुणाला नोक्तलक्षणद्वयम्य न शास्त्रासिद्धिः संभवति । यदि वा 132 (अ.१ पा.१ ५.५ सू.९ न्यायसुधा याः सर्वशास्त्रप्रतिपाद्यत्वरूपमर्थान्तरं न ज्ञायेत तदापि शाखान्तरेऽन्यस्यापि वाच्यत्वशङ्कयोक्तलक्षणद्वयस्थ न शास्त्रादःयवसायः संभवतीति भावः । १०-- प्रकरणशुद्धयेति । वाच्यत्वप्रकरणमविच्छेदेन व्याचिख्यासुरित्यर्थः । पाठक्रममनुसृत्य गतिमूत्रव्याख्याने वाच्यतासमर्थनप्रकरणं विच्छियेतेतिभावः ।। उत्तरत्रेति । उपासनापादे ॥ तेनेति । सूचनेनेत्यर्थः । तज्ञायेत चेत्तन्मां विज्ञायीत्यत आह तथाचेति। गुणपूर्णत्वलक्षणस्य जगत्कारणत्वल. क्षणस्य चेत्यर्थः । ॐ गतिसामान्यात् ॐ ॥ प्रकरणशुद्धयेति । वाच्यत्वप्रकरणमविच्छेदेन व्याचिख्या- म्युरित्यर्थः । अन्यथा पाठक्रममनुसृत्य मध्ये 'गतिसामान्यात्'इति सूत्रव्याख्याने वाच्यत्वसमर्थनप्रकरणं विच्छिद्येनेति भावः ॥ ननु तर्हि सूत्रयाख्यानाभावान्न्यूनतेत्यत आह व्याख्यास्यति चेति । 'कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् इत्यादिनोपासनापादे व्याख्यास्यति चेत्यर्थः ॥ सूत्रकारेणापि विष्णोरेवानन्तगुणत्वेन सर्वशाखाप्रतिपाद्यत्वमिति प्रतिपादयद्यत् गतिसामान्यात्' इति सूत्रं तत्किमर्थ वाच्यत्वसमर्थनप्रकरणम में निवेशितमित्याशङ्कायामाह सूत्रकारस्यापीति ॥ आक्षेपद्वयसमाधानस्येति । पूर्वपक्षिणा कृतं, ब्रह्मणो न वाच्य वं युक्तम् . न वा सर्वशास्त्रप्रतिपाद्यत्वमिति यदाक्षेपद्वयं तत्समाधान- स्यास्मिन्नधिकरणे क्रियमाणस्येत्यर्थः ।। अनेकार्थताज्ञापन मिति । 'मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य नापर इत्यनेनोक्तवाच्यत्वसर्वशास्त्रप्रतिपाद्यत्वरूपानेकार्थताज्ञापनार्थमित्यर्थः ॥ अन्यथेति । प्रकारणसाङ्का- र्याभाव इत्यर्थः । प्रकरण पाङ्कथे हि किमर्थमेवमुक्तमित्यूहोदयेोक्तानेकार्थता ज्ञातुं शक्या नान्यथेति भावः ।। लक्षणद्वयस्येति । जगज्जन्मादिकारणत्वस्य समस्तगुणपूर्णत्वस्य चेत्यर्थः । यदि वाच्यत्वरूपोऽर्थो न ज्ञायेत तदा लक्षणयाऽपि सर्वशास्त्रप्रतिपाद्यत्वसम्भवेनोक्तलक्षणद्वयस्य न शास्त्रासिद्धिः । यदिवा सर्वशास्त्र प्रतिपाद्यत्वरूपमर्थान्तरं न ज्ञायेत तदाऽपि शाखान्तरेऽन्यस्यापि वाच्यत्वशङ्कयोक्तलक्षणद्वयस्य न शास्त्रा. द-यवसाय इति भावः । इदमुपलक्षणम् । शाखान्तरे सत्वादिगुणयुक्तेऽप्यात्मशब्दो मुख्यतयोच्यता तज्ज्ञानान्मोक्षादिश्वोच्यताम् । अतश्च नात्मशब्दादिना निर्गुणस्येक्षणमिति शङ्कानिरासकत्वाच्च गति- सामान्यस्य वाच्यत्वसाधकेक्षत्यधिकरणान्तर्गतिः । अत एव भाष्यकृता गतिसूत्रं 'न च कासुचिच्छा खास्वन्यथेच्यते' इति सामान्यपरतयैव व्याख्यातम् । सूत्रकृता च वाच्यत्वसाधकात् 'श्रुतत्वाच्च'इत्यस्मा. प्रागेर गतिसामान्यादित्येतन्निवेशितमिति चन्द्रिकोक्तप्रयोजनमपि द्रष्टव्यम् ॥ छ । श्री० 0 ---|| आवृत्त्येति । 'मुख्यार्थो भगवान्विष्णुः सर्वशास्त्रस्य' इत्युक्तरीत्याऽऽवृत्त्येत्यर्थः । न ज्ञायतां को दोषः इत्यत आह तथा चेति ।

श्रुतत्वाचा ॥ इक्षत्यधिकरणम् ॥ च०- प्रकरणशुयेति । वाच्यत्वप्रकरणमविच्छेदेन व्याचिख्यासुरित्यर्थः । पाठक्रममनुरु- न्धानो मध्ये गतिमामान्यादिति सूत्रं यदि व्याकुर्यात्तदा वाच्यत्वसमर्थनप्रकरण विच्छिद्यतेतिभावः । व्याख्यास्यति चेति । 'कथं समन्वयो ज्ञेयः स्वल्पशाखा विदां नृणाम्' इत्यादिना साधनलक्षणे उपासनाचरणे व्याकरिष्यति चेत्यर्थः । सु०- उपपश्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाञ्चेति । ॥ ॐ । श्रुतत्वाच । ॐ॥ तस्वार्थः । ‘एको देवः' इत्यस्यां श्रुनौ निर्गुणय ब्रह्मणः श्रुतत्वाचास्य वाच्यत्वमुपपन्न- ब्र.सू. मिति। ॐ - वा० अत्र श्रुतोऽपि सगुणः किं न स्यादित्यत आह पदं चेति । अनु०-- || शुतत्वाच पदं च निर्गुण इति कथं गौणं वदिप्यति ।। अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते । निर्गुण इति च पदं कथं गौण वदिष्यति । व्याहतत्वात् । अतो न सगुणोत्र श्रुत इति । यद्वा मुख्यार्थत्वंसाकल्यरूपयोरनयोरकार्थज्ञापनेऽपि न गुणपूर्णतासिद्धिरिति तदाशये- नायं ग्रन्थो योज्यः । न पूर्ववत्सूत्रव्याख्यानपरमुत्तरभाष्यमपि तु तदुक्तहेतूपपादकमित्याशयेन सूत्रमव. तार्य तदर्थ स्वयं दर्शयस्तदुपपादकतया भाष्यमवतारयति उपपत्यन्तरेणेति । निर्गुणपदस्य गौणावाच- कत्वेऽप्येतत् श्रुतिप्रतिपादितस्य गौणत्वं किं न स्यादित्यतो भाष्याभिमतं पीठमारचयति अत्र हीति । भाष्यं योजयति निर्गुण इतीति । सगुगस्य हीत्य दिना स्वयमेव व्याघातमुपपादयिप्यति । श्री०- ॐ श्रुतत्वाच्च ॐ ॥ श्रुतत्वाचेति । निर्गुगपदेनैवेति शेपः । सु० -- सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुण ब्रह्मेति । किन्तु लक्षणयैव । तथा च कथमनेन निर्गुणस्य वाच्यत्वसिद्विः। न च वाच्यं निर्गुणशब्देन निर्गुणं चेल्लक्ष्यं तर्हि तद्वाच्यं वाच्यम् । वाच्यार्थद्वारत्या क्षणायाः । न च सगुणं निर्गुणपदवाच्यम् । व्याघातात् । सगुणस्य निर्गुणत्वं तथा सति स्यादिति । गुणाभावविशिष्ठस्य वाच्यत्वाङ्गीकारात् । निर्वि- कल्पक रूपमात्र योपलक्ष्यमात् । एकमेव हि निर्विशेष वस्तु परमसूक्ष्मं गुणाभावागुपाहिरि- रीपत्स्थूलं जातम् । गुणाद्युपादिभिस्तु स्थूलतर मित्यतो निर्गुणाब्देन गुणाभाविष्टियाच्यद्वारा 130 १२२० ॥ न्यायसुधा ॥ (भ.१ पा.१ २.५ सू.११ वा०- स्वरूपमुपलक्ष्य मिति न कश्चिद्विरोधः । एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्या- शङ्कयोक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति । अनु० गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ।। निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः । अपि तथाऽपि, तत्पदं लक्ष्यपदम् । ब्रह्मणो वाचकमङ्गीकरणीयम् । तथा च वाच्यत्वमेवापतित- मित्यर्थः । अत्रोत्तरवाक्ये गुणाभावस्यार्थस्योपलक्षकत्वासम्भवान्निगुणपदस्य प्रकृतस्योपलक्षकत्व- मुच्यते । तच्च न गौणस्य पलक्ष्यत्याभिप्रायेण तहिं पदं तदपि वाचकम्' इति परिहारासङ्गतेः । नापि निर्गुणत्योपलक्ष्यत्या मित्र,येग निर्गुणस्यैतच्छ्रुतिप्रतिपाद्यत्वमनम्युपगच्छतस्तदुक्तंबैय्यर्थ्यात् । अभ्युपगमे कथं तस्य प्रकृतोपयोगः । कथं च तदभ्युपगम. । अनेकानु पत्तिग्रस्तत्वादित्यतस्तदभ्युपगमं परस्य, तत्फलं, निर्गुणोपलक्ष्यमिति वक्तव्ये गुणाभावग्रहणसूचितं नदनुपपत्तिपरिहारं च दर्शयस्तच्छङ्कानिवृत्तये येन लक्ष्यमिति प्रोक्तमित्य दिपरिहारस्मारकत्वेनोत्तरवाक्यमवतारयति सत्र मित्यादिना ।। सगुणस्य हीति । निर्गुणादप्रवृत्तिनिमित्तस्य निर्गुणत्वस्य सगुणेऽमत्वे तत्पदव च्यत्वानुपपत्तरित्यर्थः । गुणाभावविशिष्टस्यापि वाच्यत्ने लक्ष्यस्वरूपालाम इत्यत आह निर्विकल्पक तिरे ब्रह्मणी। ननु सगुणं निर्गुण चेति वदता तृतीयं कथमुच्यते । किञ्च तद्गुणाभावविशिष्टं सगुणोपलक्ष्याम्यां भिन्नमभिन्न था। अभिन्न चेद्विरोधो वाच्यत्वलक्ष्यत्वव्यवस्थाऽनुपपत्तिश्च । भिन्नं चेदेकधैवेत्यादिश्रुतिविरोधः । तत्कथमेतदित्यत औपाधिको दाय यस्थोपपत्तिः स्वाभाविकतदभावाच्च न. विरोध इत्य शयेनाह एकमेव हीति । पूर्णादिपदानामपि परिच्छेदाभावविशिष्टवाच्यद्वारा स्वरूपोपाधिलक्षकत्वाल्लक्षणया तेषां वाक्या. निर्गुणपरत्वेऽपि न तैर्वाच्यत्वसिद्धिरिति पूर्वसूत्राभिप्रेतहेत्वाक्षेपोऽप्यत्राभिमत इत्याशयेनाह एवमिति । आदियदे । स्वाप्ययात्मादिशब्दग्रहणम् । पदान्तरस्य वाचकत्वानुक्त्या समुच्चायकत्वासंभवा- प्रकृतोपयोगितया तदर्थमाह अपि तथापीत्यादिना । पूर्ववत्स्वक्रियाविरोधादेवक्तुमशक्यत्वात्फलतया उपसिद्धान्तमेवाह तथा चेति । उत्तरवाक्यमवतारयितुं शङ्क मुत्थापयति सत्यमित्यादिना द्रष्टव्य इत्यन्तेन ॥ न च वाच्यमिति । अस्य, तथा सति स्यादिति न च वाच्यमित्यन्वयः । या-- ॐ श्रुतत्वाच्च ॐ ॥ निर्विकल्पति । अभावरूपा अपि विशेपा यत्र प्रकारीभवितुं नाहन्ति नामस्वरूपस्येत्यर्थः । नन्वेवं ब्रह्मभेदेऽद्वैतहानिरित्यत आह एकमेव हीत्यादिना ॥ परमसूक्ष्म- मिति । केनापि प्रकारेण विशिष्टतया ज्ञातुमशक्यमित्यर्थः । निर्विकल् कस्वरूपमिति यावत् ।। ईष- -- श्रुतत्वाञ्च) ॥ इक्षत्यधिकरणम् ॥ १२२१ स्थूलमिति । आदावभावरूपकतिपयधर्मविशिष्टतयाऽधिकारिबुद्ध्या विषयीक्रियत इत्यर्थः ॥ गुणा- दति । गुगक्रियाज त्या दिरूपैरपरैरपि विशिष्टतया ज्ञायत इत्यर्थः । एकमेव वस्त्यारोपितैरलपैर्बहुभिर्वा विशेषैः क्रमेण विशिष्टतया ज्ञायत इत्येव न तु तत्र भेदोङ्गीक्रियतेऽतो नोक्तदोष इति भावः । एतेना- नाद्यपरिच्छिन्ने ब्रह्माणि कथं स्थूलसूक्ष्मादिव्यवहारः, कथं वा जात इति व्यवहार इति निरस्तम् । तथा तथा ज्ञानजन्मन एव विवक्षितत्वात् । श्री०- व्याघातमेवोपपादयति सगुणस्य हीति । तथा सति सगुणस्य निर्गुणपदवाच्यत्वे ।। निर्विकल्पकस्वरूपस्येति । विशेष्यांगभू नस्येत्यर्थः । एवमिति । पूर्णत्वादिविशिष्टवाचन पूर्णादि. पदेन निर्विकल्पकस्वरूप लक्ष्यमित्यङ्गीकारादित्यर्थः । सु० - ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न बाच्यामिति चेन्न । अनवस्थाया उत्तत्मात् । विश्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् । न तावदन्यत् । तत्र निर्गुणपदस्यैवा- श्रवणेन तल्लक्ष्यपदस्य दोत्सारितत्वात् । शुद्धं चेतिक लक्षणया ।। किश्चैवं यद्यद्ब्रह्मतया प्रति. पायो ततवाति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति अत इति । अनु० - अोऽनवस्थितिमुखसर्व दोषमहास्पदम् ।। कथमेतन्मतं सद्भिराद्रियेत विचक्षणः ॥ एतन्मतं ब्रह्मणोऽवाच्यत्वमतम् । अनादरणे च रिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः । वा०. ननु प्रपञ्जकाभावात्कथमनवम्था, कथं च दूषणम्वरूपाप्रदर्शने सर्वेत्युक्तिमात्रेण तत्सि- द्विरित्यतः प्रपन दर्शयन् उर्वशब्दस्य बहुत्वार्थकमभिप्रेय दूषगत्रयं दर्शयनुत्तरभाप्यमयतारयति नन्धिाते । अधिकारगर्थो महारत्वस्य मूसहायै सामान्याई विशेषपरतया व्याख्याति एतन्मत- मिते ॥ ननु तन्नतानादरणोपसंहारस्य ना धकर गर्थो रसंहारत्वमत आह अनादरणे चेति । ५० तदनादरणे किं भवतां फलमित्यत आह अनादरणे च सिद्धमिति । था० न तावदन्यदिति । ईस्थूलं स्थूलतरं नेत्यर्थः । श्री० अब्रह्म, शुद्धब्रह्म न भवति, किन्तु वचनवृत्या प्रतिपाद्यमन्यदेवेति बदतेत्यर्थः । ननु कथमनेनाधिकरणार्थोपसंहारः । ब्रह्मणः सर्वशस्त्र मुख्यार्थत्वमेव ह्यधिकरणार्थः । न हि स उप- संहियते । किन्त्ववाच्यत्वमतानादरणम् । न ह्येतदीक्षत्यधिकरणार्थ इत्यत आह अनादरणे चेति । . . ग13 . १२२२ ॥ न्यायसुधी। (म.१ पा.१.५ सु०- 'एवमीक्षतेन शब्दमित्यारभ्य श्रुतत्वाचेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेपां व्याख्यानं प्रत्याख्याति न चेति । अनु०- न च साङ्ख्यनिराकृत्यै सूत्राण्येतान्यचीक्लपत् ।। भगवान . "सर्वशं सर्वशक्ति जगदुत्पत्तिस्थितिनी शफारण ब्रह्म वेदान्तवेद्यमित्युक्तम् । तत्र साङ्ख्या मन्यन्ते । यानि ब्रह्मणो जगत्कारणत्वप्रतिपादकतयाऽभ्युपगतानि 'सदेव सोम्येदमन आसीत्' इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं प्रधानमेव जगत्कारणा.प्रतिपादयन्ति । कुनः । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् । ज्ञानक्रियाकार्यदर्शनोनेयसद्भावे हि ते। न च ज्ञानक्रिये चिदात्मनः स्तः । तस्यापरिणामित्वात् । एकत्वाच्च । त्रिगुणे तु प्रधाने परि- णामिनि न तयोरसंभवकारणमस्तीत्यतस्तदेव 'सदेव सोम्येदमग्रे' इत्यादौ जगत्कारणतया प्रति- पाद्यत इत्येवं प्राप्ते प्रतिविधीयते ईक्षते शब्दम् इति । न साङ्खयपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दन्वम् । ईक्षतेः । तदैक्षत बहुसां प्रजायेयेति, तत्तेजोऽसृजत' 'स ऐक्षत लोकानुसृजा इति, स इमांश्लोकानसृजत', 'स ईक्षा चक्रे, स प्राणम मृजन' इतीक्षितृत्वश्रवणात्कारणस्य । न चाचेतनस्य प्रधानस्येक्षितृत्वं संभवति । नन्वयमीक्षतिगाणो व्याख्येयः । तत्तज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठित- त्वात् । यथा ह्यासन्नपतनं कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः । तथाऽऽसन्नसर्ग प्रधा- नेऽप्यक्षतेत्युपचारो भविष्यतीत्यतः परिहारं पठति गौणश्चन्नात्मशब्दात् । अप्तेजसोरिवाचेतनेऽपि प्रधाने गौगोऽयमीक्षतिरित्यसत् । कुतः । आत्मशब्दात् । अनेन जीवेनात्मनेति । न हि जीवश्चेतनोऽचेतनस्य प्रधानस्यात्मा संभवति । स आत्मा तत्त्वमसीति च । न हि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् । अथोच्येत । अचेतनेऽपि प्रधाने भवत्यात्मशब्दः । आत्मनः सर्वार्थकारित्वात् । यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शना- दिति । तत्रोत्तरम् तन्निष्ठस्य मोक्षोपदेशात् । नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् । स आत्मा- तत्वमसीति श्वेतकेतोस्तनिष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् । न ह्यचेतननिष्ठस्य मोक्षो युक्तः । स्यादेतत् । ब्रह्मैव ज्ञीप्सितम्। तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राह- यितुमिति तत्संबद्धं प्रधानमेव स्थूलतयाऽऽत्मत्वेन ग्राह्यते । अरुन्धतीमिवातिसूक्ष्मा दर्शयितुं तत्सन्निहितां स्थूलतारका दर्शयन्तीयमरुन्धतीति । अस्यां शङ्कायामुत्तरम् हेयत्वावचनाच्च । एवं सति स्थूलतारावनायमात्मेति हेयत्वं ब्रूयात् । न चैवमब्रवीत् । अतो नैषा कल्पना युक्ता ।

(परव्याख्यानप्रत्याख्यानम्) ॥ शास्त्रयोनित्याधिकरणम् ॥ १२२३ चशब्द एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधं समुचिनोति । स्वाप्ययात् । सच्छब्दवाच्य प्रस्तुत्य स्वं ह्यपीतो भवतीत्युच्यते । न ह्यचेतने चेतनस्याप्ययः सुक्षौ लये च सम्भवति । अतश्च न प्रधानं सन्छब्दवाच्यम् ।। गतिसामान्यान् । यदि च कचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु । तथा सति कथञ्चिदीक्षणादिकं करप्येत । न चैवम् । अतो वेदान्तो- त्पाधाया गतेरवगरैफरूप्याच्च न प्रधान जगत्कारणमिति ॥ श्रुतत्वाच्च । स. कारणं कारणा- विपाधिप इति याक्षात्सर्वजस्ये धरस्य जगत्कारणत्वं श्रूयते । अतश्च न प्रधानं जगत्कारणं वेदान्तवेयम् । ज्ञानक्रिया सत्ती वपरिणामिगोपीधरस्य सवितुरिख युज्यते । इत्येवं माङ्खय- निराकरणायैतानि सागि भगवान्तावकारश्चकार ।।" इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः । कुतो नेति चेत् न । सूत्राक्षराणामानुगुण्यात् । वा० -- ननु सूत्रव्याख्यानस्योपसंहारेण समापितत्वार्तिक 'न च'इत्यादिनाऽप्रसक्तं मूत्राणां साय. मननिरामकत्वं निरम्य त इत्यतम्तात्पर्य माह एवमिति । एतानीत्यस्यातीतसर्वसत्रपरामर्शक वभ्रान्तिनिरासाय तम्पराव्यं दर्शयति ईक्षतरित्या दिना व्याख्यायेत्यन्तेन ।। स्वमतेन सूत्रव्याख्यानाकरणप्रयुक्तन्यूनता- भावभपयाख्या प्रत्य.रठ्या गम्य स्वव्याख्यानदाढर्थिनां च सू चयति साङ्खयनिगकृ यै इति मूले सामान्ये नोक्तत्मात्यकारादीने दूपणानां दुःयत्वात्तं दर्शयति सर्वशमियादिना । अपव्याख्याता पूर्वपक्षोपक्षे- पायाती समूत्रार्थमनुबदति सर्वामिति । पूर्व पक्ष ब्रमणि निराकार्ययोविशेषणयोहण, मिति ध्येयम् । ननु श्रुतिसिद्धेऽग्मिन्प्रमेये का नामानुपपत्तिरित्यतः श्रुतिसिद्धत्वासिद्धि पूर्ववाद्यभिमतां दर्शयति तत्रेति । तत्र ताशेरगविशिष्टतया ब्रह्म गो वेदान्तवेद्यन्वे । प्रधीयतेऽस्मिन् जगदिति प्रधानं ब्रह्मापि भवतीत्याम्लिगुणमिति विशेषणम् । परिणामयोग्यताप्रतिपादनायाचेतनमिति । एवेति ब्रह्मप्रतिपाद- कताव्यवच्छेदाय । सर्वज्ञस्य सर्वशक्तेब्रह्मणो जगत्कारणत्वसम्भवे कुतरतदप्रतिपादकत्वमित्याशङ्कते कुत इति । यस्य हि किश्चिन्मात्रजननशक्तिः किञ्चिन्मात्रज्ञानशक्तिर्वा न सम्भवति कुतस्तस्य सर्वविषयजन नशक्तिः सर्वविषयकज्ञानं च भवेत मित्याशयेनाह ब्रह्मण इति । ज्ञानक्रिययोः शक्ती ताभ्यां रहितत्वा. दित्यर्थः । न तावद् ब्रह्मणो ज्ञानक्रियेऽनित्ये । तथा सति ब्रह्मणस्तदात्मना परिणामो वक्तव्यः । स चायुक्तः । ब्रमगध तनवादित्य. शये चिहात्मनइति हेतुगर्भविशेषणम् । तस्य ज्ञानक्रिययोरभावे हेतुत्वं घटयति तस्येति । चैतन्यरूपरय तस्य परिणामो नोपपद्यत इत्यर्थः । ननु च ब्रह्मणो ज्ञानक्रिये नित्ये । न च ते प्रति सर्वत्रो जानाति करोतीति ब्रह्मणः स्वातन्त्र्यानुपपतिः । सर्वज्ञ इत्यादिषु कर्बर्थप्रत्यययोर्शानाद्या- श्रयत्व पत्रे गोपपद्यते । सविता प्रकाशते चैत्रः पश्यति करोतीत्यादी धात्वर्थाश्रयत्वमात्रस्यापि तदभिधेय - त्वदर्शात् । तथा चापरिणामि-तो-पि ज्ञानगुणः प्रयलागुणश्च किं न स्यानामित्यत आह एकत्वाचेति ।

॥ यायसुधा । । कथ्यते । १२२४ (म.१ पा.१ ४.५ एकरूपत्वान्निर्गुणत्वादित्यर्थः । अथवैकत्वादित्यपरिणामित्वसाधनम् । निरवयवत्वादिति यावत् । तथाऽपि प्रधानं प्रतिपादयन्तीति कुत इत्यत आह त्रिगुण इति । सौत्रनशब्दं व्याचष्टे न साङ्खचेति । तत्र सौत्रम् अशब्दमित्येनद्धतुतया योजयति अशब्दं हि तदिति । सदेनेत्यत्र सच्छब्दस्यैव तच्छब्दत्वान्नाशब्दत्व. मित्याशङ्कते कथमिति । सौत्रपदमवतार्य व्याकरोति ईक्षतेरिति । श्रुतोगदानस्य चेतनत्वार्थमाह तदै- क्षतेति । तस्योपादानत्वार्थमाह बहुस्यामिति । ईक्षणफलमाह तदिति । एवमुत्तरत्रापि द्रष्टव्यम् । छन्दोगश्रुतिवत् श्रुत्यन्तरमपि प्रधानवादविरोधीत्याह स ऐक्षतेत्यादिना। ननु गौणमुख्ययोमुख्यम्यैव ग्राह्यत्वाकथं गौणग्रहणमित्यतो 'यत्प्राये श्रूयते यच्च तत्ताहगवगम्यते । भाक्तप्राये श्रुतमिदमतो भाक्त प्रती- यते' इति भामत्युक्तां युक्तिमाह तत्तेज इति । गौणप्राये गौणप्रकरणे । उपचारनिमित्तप्रदर्शनपूर्वकम- चेतने चेतनवदुपचारं दृष्टान्तेनोपपादयति यथा हीति । प्रत्यासन्नसर्ग इति कार्योन्मुखत्वरूपोपचारनि- मित्तप्रदर्शनम् । अनेन पूर्वसृष्टयनुभूतेन जीवेन प्राणधृतिहेतुनाऽऽत्मना स्वरूपेणेत्यर्थः । अस्यां श्रुतौ सच्छब्दवाच्यपरदेवतायाः जीवात्मना तेज आदिदेवताः प्रविश्य नामरूपे व्याकरवाणीत्येवमीक्षणप्रकार: तत्र जीवशब्दस्य चेतनार्थत्वादात्मशब्दस्य च स्वरूपार्थकत्वादचेतनस्य प्रधानस्य चेतनात्म- त्वायोगान्न सच्छब्द प्रधानमित्याशयेनाह न हीति । जीवशब्दार्थश्चतन इति, अचेतनस्य प्रधानस्य चेतनः आत्मा चेतनात्मत्वमिति यावत्, न हि संभवतीत्यर्थः । स आत्मा तत्त्वमसीति तु श्रुतिः सदणि- मानमात्मानमारमशब्देनोपदिश्य चेतनं श्वेतकेतुं प्रति तत् सत् ते स्वरूपमिति तस्यात्मत्वेनोपदिशति । तच्च सतोऽचेतनत्वे नोपपद्यत इत्याह न हीति । चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमचेतनस्यात्मत्वेनोपदेष्टुं न ह्युपपन्नमित्यर्थः । एवञ्च सति चेतनस्वरूपत्वबोधकात्मशब्दरूपनियामकविशेषेण तस्य मुख्येक्षितृत्वनिर्णयेन विषयाभावात् । तानियामकविशेपे गौणेक्षित्रप्तेज:प्रायपाटोऽकिञ्चित्कर इति भावः । नन्वचेतन- स्यापि प्रधानस्य श्वेतकेतोरात्मत्वेनोपदेशो नानुपपन्नः। आत्मशब्दस्यापि गोण्या वृत्त्या प्रवृत्तत्वादित्या- शकते अथेति । गुणयोगं दर्शयति आत्मन इति । प्रधान ह्यात्मनो भोगापवर्गों कुर्वदुपकरोतीति भावः । प्रयोजनाभावात्खायत्तन्यायविरोधपरिहाराय रूढिं दर्शयति यथेति । पूर्वसूत्रान्नअनुषङ्गेन योग्यतत्प्रतियोगिसमर्पणेन प्रतिज्ञां दर्शयति नैवमिति । तत्त्वमसीत्युक्तक्यप्रमित्या सर्वबन्धनिवृत्त्या देहादिदृष्टयनुपपत्तिशङ्कायां भोगेन प्रारब्धनिवृत्तिपर्यंत प्रारब्धकर्मणा तदृष्टानुवृत्तिप्रतिपादकेन 'तस्य तावदेव चिरम्' इति वाक्येन श्वेतकेतोस्तदैक्यज्ञानस्य मोक्षसाधनतालाभादिति भावः । सतोऽचेतनत्वे च तदनुपपत्तिरित्याह न हीति । हेयत्वावचनादित्यस्य भामत्युक्तपरिचोदनां दर्शयति स्यादेतदिति ।। चशब्द इति । भोग्यवर्गोपादा..त्यात्प्रधानस्य तज्ज्ञानेन भोग्यवर्गज्ञानादिसंभवेऽपि भोक्तवर्गानुपपादाना- तज्ज्ञानासंभवेन प्रतिज्ञा विरोध इत्यर्थः । स्वशब्देन प्रस्तुतः सच्छब्दवाच्य आत्मा परामृश्यते ।

(परव्याख्यानप्रत्याख्यानम्) ॥ शास्त्रयोनित्वाधिकरणम् ॥ १२२५ । अपिपूर्वम्येतेलयार्थत्वं च प्रभवाप्ययादित्यादिप्रयोगसिद्धम् । एवञ्च स्वपितीति जीवे प्रसिद्धस्य स्वपितीति नाम्नो निर्वचनार्थ प्रवृत्ते स्वं ह्यपीतो भवतीति वाक्ये स्वशब्दम्य स्वरूपार्थकत्वे सच्छब्दवाच्याचेतनस्य जीवस्वरूपत्वानुपपत्तेः । स्वशब्दयात्मीयपरत्वेन प्रधानार्थकत्वे वाऽचे ने प्रधाने पुरुषस्य लय इत्युक्तस्यात्त- चायुक्तमित्याह न हीति ।। यदि चेति । वेदान्तेष्वपि यदि भिन्ना कारणावगतिरभविष्यत्क्वचिच्चतनं ब्रह्म जगतः कारणमिति, कचिच्चाचेतनं प्रधानमिति, क्वचिदन्यदेवेति, तर्हि प्रधानकारणवादानुरोधेनापीक्षण- श्रवणमकल्पयिष्यत् । चैवम् । समानैव हि सर्ववेदान्तेषु कारणावगतिः । यथाऽग्नेचलतः सर्वा विष्फु- लिङ्गाविप्रतिष्ठेरन् । एवमेवास्मादात्मनः सर्वे प्राणा यथाऽऽयतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका इति सर्वे वेदान्ता आत्मकारणत्वमेव दर्शयन्तीति भावः । तस्य सर्वेश्वरत्वं वक्तुं श्रुतौ कारणाधिपा- धिप इति विशेषणमुपात्तम् । कारणानामिन्द्रियाणामधिपा जीवास्तेषामधिप इति तदर्थः । तदेक्षतेतीक्षण- मानं जगत्कारणस्य श्रुतं न तु सर्वविपयं जगत्कारणसंबन्धितयाऽर्थात्सर्वविषयमवगतम् । श्वेताश्वतरोप निपदि तु 'ज्ञः कालकालो गुणी सर्वविद्यः' इति प्रस्तुत्य स कारणमिति परामर्शात्, सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेपं सूचयति साक्षात्सर्वज्ञस्येश्वरस्येति । स्वतो नित्यस्यापि ज्ञानस्य तत्तदर्थावच्छिन्नस्य कार्यत्वात्तत्र स्वातन्त्र्यं प्रत्ययार्थो ब्रह्मणः सिध्यति दाह्यप्रकाश्यसंयोगे सवितुर्दाह. प्रकाशस्वातन्त्र्यवदित्याशयेन वाऽपरिण मिनोऽपि सवितुः प्रकाशाश्रयत्वमात्रेण प्रकाशयति प्रकाशत इत्यादिव्यपदेशवज्ज्ञाननित्यत्वेऽपि तदाश्रयत्वमात्रेण जानातीत्यादिस्वातन्त्र्यव्यपदेशोपपत्तिरित्याशयेन वा पूर्ववाद्युक्तानुपपत्ति परिहरति ज्ञानेति । अत्र 'न हि' इत्यादिना मूलेन परपक्षे सूत्राक्षरानानुगुण्यस्यापि प्रतिपादनादत्रापि 'एतानि'इति तत्सूचनात्तदर्थ सूत्राणां साङ्ख्यमतनिरासार्थत्वप्रकारमनूदितमेवंशब्दान्याहारेण मूलेन सङ्गमयति एव- मिति । अपव्याख्याननिरासस्य मूलारूढतायै यदित्यादि । अस्य वाक्यस्य साङ्खयनिराकृत्यै न ह्येतानि सूत्राणि भगवानचीक्लण्दसङ्गतत्वादित्यपि तात्पर्यम् । एवं साङ्ख्यनिराकृत्यै 'न हि एतानि' इत्येतेषा- मेवं व्याख्याने च साङ्ख्यमतनिरासार्थता न संभवतीत्येतदर्थस्य सूत्राक्षरानानुगुण्येऽपि तात्पर्यम् । तत्र 'न हि' इत्याद्यव्यवहितोत्तरवाक्यस्यासङ्गतिप्रतिपादक-वानुपपत्त्या तत्प्रतिपादनस्य 'समन्वये प्रतिज्ञाते' इत्युत्तरवाक्ये स्पष्टत्वाच्च सूत्राक्षरानानुगुण्यप्रतिपादनपरतया 'न हि' इति वावयं योजयितुं स्पष्टतया ज्ञातुं शक्यत्वान्मूलानुक्तां शङ्कापूर्व तदनानुगुण्यप्रतिज्ञां दर्शयति कुत इत्यादिना । स०. शक्तिरहित्यं कथं ज्ञातव्यमित्यत आह ज्ञानक्रियाकार्यदर्शनेति । ज्ञानक्रियालक्षणं यदुभयं शक्तिकार्य तदर्शनेन शक्तिद्वयसद्भावोऽनुमेय इत्यर्थः ॥ तस्यापरिणामित्वादिति । तथाच अपरिणामिन एकस्य च ब्रह्मणः कार्यवत्वमेव न, सुतरां तद्विशेषज्ञानक्रियावत्वमिति भावः ॥ एकत्वाति १२२६ ॥ न्यायसुधा ॥ अ.१ पा.१ ५.५ सत्वादेरने कात्मकस्यैवकारणत्यो पलम्भादिति भावः ॥ त्रिगुणत्वेति । अत एव अनेकात्मके इत्यपि द्रष्टव्यम् ।। ज्ञानक्रियाशती स्विति । शक्यौजन्यत्वे हि परिणामापेक्षा, इमे तु नित्ये इति भावः । ननु नित्यत्वे कथं 'इदं जानाति' 'इदं को' इत्या दिव्यपदेश इन्युक्तम् सवितुरिवेति । यथा प्रततोष्णप्रकाशेऽपि 'सविता इदं दहति' 'इदं प्रकाशयति इति व्यपदेशस्तथेत्यर्थः । यथा पूर्व विद्यमानक्रियाश्रयस्यापि सवितुः कादाचिकविषयावच्छेदकमात्रेणोत्तो व्यवहारस्तथा प्रकृतेऽपीति भावः । पराभिनताधिकग्णशीर मनुवदति समित्यादिना ।। उक्तमिति । पूर्वाधिकरणे उक्त मे यर्थः । ज्ञाप्रक्रिया कार्यते । जाकि पयोधकार्य तद्दर्शना नुमेयसत्ता के ज्ञानक्रिये इत्यर्थः । अपरिगामित्वाज्ज्ञानात्मना न परिणामः । एकत्वान्न नेकात्मना परिगाम इत्यर्थः ॥ सायाध्याहारेण सूत्रार्थमनुवदति न साङ्खयेति ॥ आब्दं हि तदिति । शब्दाप्रतिपाद्यत्वादिति हेतुगर्भविशेषणमिति 'भावः ॥ ‘स ऐक्षत' इति श्रुत्यन्ताम् । ‘स ईशा चक्रे' इत्यपि वाक्यान्तरम् । द्वितीयसूत्रमवतार्यार्थ मनुबदति ननु इत्यादिना उपपत्रमित्यन्तेन । गौगाये गौणसन्निधौ ॥ गौणत्वप्रकारं व्यनक्ति यथा हीति । 'अनेन जीवनात्मनेति' इत्यस्य आत्मशब्दात् इति सूत्रांशेनान्वयः ॥ इति चेति । आत्मशब्दादित्यन्वयः । तृतीयसूत्रमवतार्य तदर्थमाह अथेत्यादि युक्त इत्यन्तेन । यथा यजमान- कार्यकारित्याद्यजमानशब्दः प्रस्तरे 'यजमानः प्रस्तरः' इति प्रयुज्यते तथा आत्मनो जीवस्य ये सर्वे अर्थास्तत्कारित्वात्प्रयानस्यात्रात्मशो युक्त इति भ वेनाह अत्मनः सतीर्थक रित्वादिति । चतुर्थ- सूत्रमवतार्य तदर्थमाह स्यादेतदित्यादिना समुचिनोतीत्यन्तेन । ज्ञाप्सितं ज्ञापयितुमिष्टम् ।। ग्राह्यत इति । केतुरिति शेषः । गिवि कर्मगि रूपम् ।। एकविज्ञानेनेति । 'येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इति व.क्ये । एकविज्ञानेन सर्वविज्ञान प्रतित्रायते । तच्च ब्रह्मण एव प्रतिपाद्यत्वे संभवति । प्रधानस्य प्रतिपाद्यन्ये तु विरुद्ध्यन इत्यर्थः ।। पञ्चममूत्रं पठित्वाऽर्थभाह स्वाप्ययादिति ।। पठार्थमाह गतीति ॥ सप्तमार्थमाह श्रुतत्वाञ्चेति ।। सवितुरिवेति । प्रत्यहमपरिणामिनः सवितुर्यथा सर्वप्रकाशनादिशक्तिस्तथेत्यर्थः । स्वसिद्धेनेति । मूत्रकारसिद्ध नेत्यर्थः । या० नाकारणमित्यु पलक्षणम् । सर्वशक्ति सर्वज्ञ चेत्यपि द्रष्टव्यम् । प्रतिपादयन्तीत्यतःपर सर्वजननशक्तरचेतने स्वविकारविषयायाः सार्वज्ञस्यापि तम्मिन्सर्वज्ञानकारण'भूनसत्त्वात्मके संभवादित्युप- पादनं न ब्रह्मेति प्रतिज्ञा चाध्याहार्या ।। नानक्रियेति । सामान्ययोनिक्रियाशक्त्योरभावे तद्विशेषयोः सर्व जननशानशक्त्योरभावोऽपि नै मुत्येनैव सिद्ध इति भावः । अतो नासङ्गतिः । उक्तं च भामत्याम् ज्ञा क्रियाशक्त्यभावाह्मणोऽपरिणामिनः । न सर्वभक्तिविज्ञाने प्रधानत्वस्ति संभवः' इति । ज्ञान क्रिया- शक्त्यभाव एव कुन इत्यत आह ज्ञानक्रियेति ॥ न च ज्ञानक्रिये इति । कार्यभून इति शेषः । अत्र me- F परभ्याख्यानप्रत्याख्यानम् ॥शक्षत्यधिकरणम् । १२२७ , क्रियाशब्देन प्रयत्नो प्राथः । नन्वपरिणामिन्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामित्यत आह एक- स्वाञ्चेति । एकरूपत्वान्निर्गुणत्वादित्यर्थः । अथवा अपरिणामित्वं साधयत्यनेन । निरवयवत्वादिति यावत् । निरवयवत्वं च कृत्स्नप्रसक्त्यधिकरणपूर्वपक्षन्यायेन परिणामित्वबाधकमिति ध्येयम् || आसन्न- पतनमिति । निश्चितपतनमित्यर्थः । तेन 'आशङ्कायामचेतनेषूपसङ्ख्यानमि'त्युक्तत्वात् कथमयमुपचार इति शङ्काऽनवकाशः ।। आत्मा संभवतीति । आत्मा हि नाम स्वरूपं नाचेतनप्रधानस्य चेतनो जीव: स्वरूपं भवितुमर्हतीत्यर्थः । विधान्तरेण हेतुं व्याचष्टे ।। स आत्मेति । यः सदाख्यः प्रकृतोऽणिमा स आत्मा सर्वस्य निरुपचरितं रूपम् । हे श्वेतकेतो त्वं च तदेवात्मरूपमेवासीत्येवं चेतनस्य श्वेतकेतोरात्माभेदो बोध्यते। आत्मत्वेनोपदिष्टं च यदि. प्रधानं स्यातहीदमनुपपन्नार्थक स्यादित्यर्थः । कथमित्यत आह न हि चेतनस्येति । तथा च चेतनस्यात्मशब्दान्न तस्य प्रधानतेत्यर्थः । आत्मत्वेन ग्राह्यत इत्यनन्तरं श्वेतकेतुरिति शेषः ॥ चशब्द इति । तथा लानुक्तसमुच्चायक इत्युक्तं भवति । अयमर्थः । सत्यपि, हेयत्ववचने प्रति. ज्ञाविरोधः 'प्रसज्येत । करणविज्ञानाद्धि सर्व विज्ञातमिति प्रतिज्ञातम् । 'येनाश्रुनं श्रुतं भवति' इत्यारभ्य 'यथा सौम्यैकेन मृत्पिण्डेन' इत्यादिदृष्टान्तानमिधाय. 'एवं सौम्य स आदेशो भवति' इति वाक्योपक्रमे श्रवणात् । न च सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तवर्गो विज्ञातो भवति । अप्रधानविकारत्वादोक्तृवर्गस्य । तस्मात्मधानस्यैवात्मतया ग्रहणे प्रतिज्ञा विरोध इति चशब्दे- नाह सूत्रकार इति । स्वमपीत इति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवति । अपिगतो भवतीत्यर्थः । अपिपूर्वस्येतेलयार्थत्वप्रसिद्धेः । न चास्यानाद्यन्तस्य स्वाभाविको लयः संभवति किन्त्यौपाधिक एव । देहेन्द्रियमनोरूपस्थूलसूक्ष्मोपाध्यपगमो हि सुप्तिलययोर्जीवस्य भवति । तेनासौ तदा प्रलीन इवेति स्वमपीतो भवतीत्युच्यते । वस्तुतस्त्वैक्यमेवाप्यय इत्यत्राभिप्रेतम् । तच्च प्रधान- ग्रहणे न संभवतीत्याह न ह्यचेतन इति ॥ साक्षात्सर्वज्ञस्येति । तदैवतेत्यत्रेक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । तथाऽपि जगत्कारणसंबन्धितया तदर्थात्सर्वविषयमवगतम् । श्वेताश्वतरोप- निषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमित्यर्थः । 'ज्ञः कालकालो गुणी सर्वविद्यः' इति प्रकृत्य सकारणमिति परामर्शात् । जगत्कारणस्य सर्वज्ञताऽत्र साक्षादुक्तेति द्रष्टव्यम् । तस्य सर्वेश्वरत्वमाह • कारणाधिपेति । कारणानामधिपाः स्वामिनो जीवास्तेषामधिप. इत्यर्थः । 'न तस्य कश्चिजनिता न चाधिपः' इति वाक्यशेपाद्धिरण्यगर्भादिव्यावृत्तिरित्यवगन्तव्यम् । ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वादिति ': पूर्वपक्ष्युक्तानुपपत्ति परिहरति ज्ञानक्रियाशक्ती विति । ज्ञानक्रियारूपधर्मावित्यर्थः । कार्यत्वे हि . तयोः परिणामापेक्षा । ती च नित्यौ ब्रह्मस्वरूपभूती चातो न निर्गुणत्वविरोधोऽपीति भावः ॥ नन्वेव- मपि न ब्रह्मणः सार्वज्ञादिकंसंभवति । प्रकृत्यर्थसंभवेऽपि प्रत्ययार्थस्य कत्वस्यासंभवात् । क्रियायां . - -- .

स्वतन्त्रकारकं खलु कर्ता। न च नित्यक्रियायाः कारकं संभवति । दूरे तद्विशेषः कर्ता । तथा च 'तदैवत' 'इदं सर्वममृजन इत्यादिस्वातन्त्र्यव्यपदेशानुपपतिरित्यत उक्तम् सवितुरिवेति । पूर्व विद्यमान- क्रियाश्रयस्यापि सवित्रादेर्थथा सविता प्रकाशते चत्रः पश्यति स्वपित ईक्षति करोतीत्यादिस्वाताव्य- व्यपदेशात्तत्तत्कर्तृत्वावभारतथा ब्रह्मगोऽपीति भावः । 'इदं च भाप्योक्तमापातत एव । ज्ञानस्वभावे तदाश्रयत्वस्यापि वास्तवस्यासंभवात् वस्तुतस्तु ब्रह्मस्वभावभूतस्य नित्यस्यापरिच्छिन्नस्यापि ज्ञानादेतद्वि- पयोपाधिभेदेन कल्पितभेदम्यानित्यत्वं कर्तवं चास्त्येव । अतस्तत्र स्वासव्यलक्षणं कर्तृत्वमुपपन्नम् । इदं च कूटस्थे उदासीनम्वभावे ब्रह्मणि न वास्तवं किन्त्वबिद्याकल्पितमेव भासत' इति भामत्युक्त समाधानं द्रष्टव्यम् । श्री०- उपचारेति । ननु कथमयमुपचारः । पिपतिपतीति सन्नन्तो हिशब्दः । इच्छाांय सन्नियुक्त गोऽसंभवेऽप्याशङ्कायामचे नेपूरसंख्यानं श्वा मुमूर्पतीति यथेति संभावनायामिच्छाहितेप्वपि सनो विधानान् । श्वा मुमूर्णतीति लोकसंभावना विप्रयो जात इतिवदत्रापि कूलं. पिपतिषतीति लोक- संभावनाविषयो जातं इति से पाबनायां द्योत्यार्या साः - संभवेनोपचारायोगांदिति चेत् । सत्यम् । अनासन्नपतनमित्यस्य निश्चितपतनमित्यर्थः । तेनाशङ्कायामित्यस्य वार्तिकस्य त्राप्रसक्तिरेव - पतनस्य निश्चयेनात्र पतनाशङ्काया अभावेनैतद्वार्तिकस्यात्रामवृरेर्युक्त पंचारत्वम् ॥ भविष्यति । तथा च तदैक्षतेत्यस्य सर्गे आसन्ना जाता, कार्योन्मुखा जातेत्यर्थः ॥ · सर्वार्थति । जीवस्याभीष्टसर्वपुत्रादि- पदार्थाकारेण प्रधानम्यैव विकृतत्वात् । तथा च गौगोऽयमात्मशब्दः प्रधाने इति भावः ॥ झीप्सितम् जीवा भिन्नत्वेन ज्ञापयितुमिटम् । ग्राहयितुं जीवाभिन्नत्वेनेति शेषः । तत्संबद्धं ब्रह्मसंबद्धम् । एकरूप्यात् ब्रह्ममात्रविषयकत्वात् । च० इयता ग्रन्थमन्दर्भग स्वमतेन सूत्रव्याख्यारूपानुव्याख्याग्रन्थं विशदीकृत्य - पराप. व्याख्याप्रत्याख्यानरूपनगन्धव्याचिकीर्पयाऽवतारयति एवमीक्षरित्यादि । प्रतिपादयन्तति । सर्वजननशक्तेर्षिकारविषयायाः अचेतने सर्वज्ञानहेतुभू सर्वात्मके सार्वश्यस्य. च संभवात्, ब्रह्मणि च चिद्रो मत्वाद्यनात्मके तयोरसंभवादिति हृदयम् ॥ न च ज्ञानक्रिये इति । सामान्यधर्मावच्छिन्न- प्रतियोगिताकाभावस्य विशेषधर्मावच्छिन्नप्रतियोगिताकाभावनियततया ज्ञानत्व क्रियात्वरूपसामान्यधर्मा- वच्छिन्नाभावे सर्वज्ञानत्वसर्वप्रयत्नत्वरूपविशेषधर्मावच्छिन्नाभावस्य कैमुत्यसिद्धत्वादिति भावः । अभिहितं चैतन् भामत्याम् 'ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनः' इति ।। सूत्राक्षराणामननुगुण. त्यादिति । तदभिहितार्थस्य सूत्राक्षरानुपूर्वी नहिमाधीनान्वयधीविषयत्वाभावादित्यर्थः । शब्दगो वरत्वं शब्दवृत्तिशक्तिलक्षणाऽन्यतरवृत्त्यनिरूपकत्वम् । शब्दावाच्यत्वम् शब्दशक्त्यविषयत्वम् | अवैदिकत्वम् . ..... ...

परव्याख्यानप्रत्याख्यानम् ) ।। ईक्षत्यधिकरणम् ॥ १२२९ वेदगतपदजनितान्वयबोधाविषयत्वम् । कारणतया अवैदिकत्वम् वेदगतपदजनिता कारणत्वाकारिका या अन्वयधीस्तदविपयत्वम् । ~ सु०- तथा हि । अशब्दं हि तदिति हेत्कृतमशब्दत्वं नाम शब्दागोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयादिकत्वं वा । सर्वत्राप्यसिद्धिरित्याह नहीति । असो अनु० नह्य शब्दत्वं प्रधानेङ्गीकरोत्यसौ ॥ सारथ्यः । स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न । यतोऽसौ सूत्राकारोऽशब्दत्वं प्रधानेनाङ्गी- करोति । उपपादयिष्यते चैतत् । फिञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेशत्वम् । आटे तदुपपादनायेक्षतेरुपन्यासोऽनुपपन्नः । अत एव नोत्तरः । द्वितीयो ब्रह्मण्यनैकान्तिकः । तृतीय चतुर्थयोः साध्याविशिष्टत्वम् । किं चेक्ष नैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेमन्तर कल्पनं व्यर्थम् । ईक्षितृत्वं चेक्षणगुणयोगित्वम् । तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिना- ङ्गीकरणीयम् । तथाच गौश्वेदिति व्यर्थम् । क्षितेगौणत्वकल्पनस्य वाचकाभावमनुत्वाऽऽत्म- शब्दादित्यसंगतम् । परेण प्रायपाठो बाधक उपन्यस्तस्तदविरोधाय वैपम्यमुच्यत इति चेन्न । नेजो व भानामपि देवतात्वेन प्रायपाट विरोधात् । तनिष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधान- क्योपदेशानुपपत्ति विवक्षिता । तज्जरय मोक्षानुपपत्तिर्वा । आधे ब्रह्मपक्षेपि समानो दोपः । न हि जीवस्यापि ब्रह्मैक्योपदे से युक्त इत्युक्तमधस्तात् । द्वितीयस्त्वनुपपन्न एव । आत्मा- नात्मविवेकार्थमनात्मज्ञानस्यावश्यकत्वात् । आत्मब्दस्य गौणत्वे चोदिते बाधकामाव एव- वक्तव्यः । हेयत्वावचनादित्यम्य परिचोदनैवानुपपन्ना । न हि सांख्योऽतज्ञानार्थ प्रधानो- पदेशं मन्यते । हेयत्वावचंन चानकान्तिकम् । अन्नमयप्राणमयादीनामब्रह्मत्वेऽपि हेयलाच- नाच्च । उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत् (न)। अत्रापि तथाविधज्ञापकसौलभ्यात् । प्रतिज्ञा विरोधस्तु ब्रह्मवाद एव न प्रधानवादे। प्रधानस्य सर्वात्मकत्वाभ्युपगमात् । भोक्तवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् । सत्यम् । ब्रह्मणस्तु न किञ्चित् । एतेन स्वाप्ययोऽपि निरस्तः एकीभावस्य ब्रह्मपक्षेऽप्यभावात् । परिष्वङ्गमात्रस्य प्रधानेऽपि सम्भवात् । ब्रह्मविषयं गतिसा- मान्यं परस्यासिद्धमेव । ईक्षणादिना तज्ज्ञापने प्रथमस्त्रेण गतार्थता। अत एव श्रुतत्वादित्य- सिद्धम् । गताय च गतिसामान्यनत्यपादिक । अआयत्वस्वरूपाशाने मूलोकासिद्धदुनित्वाकारणवाक्ये प्रधानप्रतिपादकशब्दाभावस्य - -- वा० । । शब्दवाचाशब्दत्वविकल्पपूर्व तत्सरिहारसमर्पकतया मूलं योजयति तथा हीत्यादिना । शब्दशब्दः सामान्यपरो बदमापविशेषपो वा । आधेऽपि प्रतिपादकत्वेन न विद्यते शब्दो यस्येति वा, वाचकत्वेन न विद्यते शब्दोऽस्येति वा; द्वितीयेऽपि सर्वथा वेदासिद्धत्वं वा कारणतया तदसिद्धत्वं वेति कल्पान्मनसि निधाय विकल्पयति अशब्दं हीति । समासोपसर्जनतया प्रकृतस्यापि साङ्ख्यस्य बुद्धया विवेन परामर्श इत्याह असाविति ॥ स्वसिद्धनेति । परं प्रति त्वशब्दत्वं साधयिष्यामीति भावे- नैवेक्षतरूपन्यास इति भावः । यतोऽमाविति । अत्र च सन्निहितपरामर्श उक्तानुपपत्त्यभावश्चति भावः। ननु सूत्रकारेणैव 'महतः परमव्यक्तम्' 'अजामेकाम्' इत्यादिपु प्रधानपरत्वमाशंक्य तेषां तत्परत्वाभावस्य 'आनुमानिकम्'इत्याधिकरणोपु व्युत्पादितत्वेन चतुर्थपादे तदशब्दत्वप्रतिपादनात्कथमेतदित्यतस्तदपव्या- ख्यानस्य 'नमब्दवाच्यतेवात्र' इत्यादितदधिकरणानुव्याख्याने निरस्यतया नानुपपत्तिरित्याशयेनाह उपपादयिष्यते चैतदिति । नन्वयं तत्सूत्रव्याख्याकलह इत्यतोऽनुपपन्नस्याशब्दत्वस्य न सूत्रकारा- ही राहतेत्याशयेन तदनुपपत्ति दर्शयति किञ्चति । यद्वा । चतुर्विधेऽप्याद्यस्य तदसाधकहेतूपन्यासेन सूत्रकारानभिमत-बाहितीयादेश्च स्वादूगण या न सूत्रकाराङ्गीकारार्ह तेत्याह विश्चति । शब्दागोचरत्वं निरुपाख्यत्वमित्याशयेनाद्यः । शब्दशब्दम्य प्रमाणविशेपार्थकत्वादेकविशेपनिषेधे तदितरविशेषाभ्यनु. ज्ञानमित्याशयेन द्वितीयः कल्पः ॥ आद्य इति । ईक्षितृत्वरूपचेतनधर्मस्य यत्र कारणवाक्ये श्रवण तत्कारणवाक्यस्य तेनाचेतनप्रधानपरत्वाभावरि द्धावपि यत्र तदश्रवणं तत्कारणवाक्येन वा वाक्यान्तरेण वा प्रमाणान्तरण प्रधानसिद्धीक्षितृत्वेनासिद्धयाऽसत्त्वरूपसाध्यासाधकत्वात्तदुपन्यासोऽनुपपन्न इति प्रमाणाभावरूपनद्धपन्यास एव कर्तव्य इति भावः ॥ अत एवेति । प्रमाणान्तर- वेद्यन्यरूपसाध्यसाधनाय तद्वतोरेवोपन्यसनीयतयोक्तरी येक्षितृत्वस्य स्वश्रवणोपेतकारणवाक्यस्य प्रधानपर स्वाभावसाधकत्वेऽपि तदनुपेनवारणवाक्येन वाऽकारणवाक्येन वा प्रतिपाद्यत्वासाधकत्वेन शब्दातिरिक्त. प्रमाणवेद्यत्वासाधकत्वादेवेत्यर्थः ॥ तृतीयचतुर्थयोरिति । वेदासिद्धत्वरूपतृतीयस्य, कारणत्वेन वेदान्तावेद्यस्वरूपमा यापेक्षया सामान्यत्वेऽपि तस्य सा-यवत्सन्दिग्धत्वेन, चतुर्थस्य तु साध्यानतिभिन्न- नाहे तुम्बगिति भावः । अत्राद्यद्वयनिकरणं न ह्यङ्गीकरोतीत्यनेन तृतीयचतुर्थनिराकरणं तूभयविधम- शब्दत्वं न घई करोति साय: किन्तु मायवत्-न्दिग्धं वा साध्यानतिभिन्नं वेति तात्पर्य केणाननैव वाक्येन सूचितमिति द्रष्टव्यम् । ननु स.येनासिद्धावुद्भावितायां तत्साधकतया सूत्रे ईक्षन्युक्तेः कथम- सिद्धयुद्धावनमित्यतम्नहींक्षितृत्वर्गव प्रतिज्ञातार्थसाधनसंभवेऽपि परम्पराश्रयणमचातुर्यावेदकमेवेत्याह किन्चति । कल्पनमित्यनेनास्गदुत्तरीत्या सायप्रतियोगिसमर्पणयोग्यस्य नोऽन्वयसंभवे प्रतियोग्यध्याहारेण हेतुविभक्तिशून्यस्य हेतुत्वेन कल्पनमप्रामाणिक.मिति सूचयति । इदमपि दूषणमशब्दत्वस्यारिद्धिबोध- । चा परव्या त्याख्यानम् ) ॥ इक्षत्यधिकरणम् ॥ १२३१ कैतद्वाक्यसूचितमेवेति द्रष्टव्यम् । एतानि सूत्राणि साङ्ख्यमतनिरासाय नाचीक्लपदिति प्रतिज्ञायैकस्मि न्सूत्रेऽनुपपत्ति प्रदर्शयता भाष्यकारेणोपलक्षणतया सूत्रान्तरानुपपत्तेरप्यभिप्रेततया ता दर्शयति ईक्षितृत्वं चेति । गौणश्चेदितिसूत्रमीक्षितृत्वस्य गौणत्वनिरासेन मुख्यत्वप्रतिपादनाय प्रवृत्तं तत्तदा सार्थकं यदि सिद्धान्ते तस्य मुख्यत्वं स्यात् । न चैवमतो व्यर्थं तदिति भावः। नन्वीक्षितृत्वस्यावास्तवत्वेऽप्युपाध्य- वच्छिन्ने ब्रह्मणि तन्मुख्यमेव । नैतावताऽचेतने प्रधाने ता कम् । चैतन्यसामानाधिकरण्येनैव तत्प्रतीत्याऽचेतनेऽवास्तवस्यापि तस्याभावात्तत्र गौणमिति कथं सूत्रवैयर्थमिति चेन्न । तदवास्तवताया अद्याप्यसिद्धत्वात् । अन्यथा केवलचेतने तदप्रतीत्याऽचेतनावच्छिन्नचेतने तत्प्रतीतेर्वक्तव्यत्वे, नियाम. काभावेन तस्मा एव प्रतीतेश्चेतनावच्छिन्नाचेतननिष्ठतद्विषयकन्वोपपत्तेविपरीतगौणमुख्यभावस्याप्यापत्त्या गोणश्चेदिति सूत्रानुपपत्तिरेवेत्याशयात् । नन्वीक्षितृत्वस्य गौणत्वनिरासे न सूत्रस्य तात्पर्यमपि तु गौणे. क्षणोपजीवनेन प्रधानपरत्वशङ्काया आत्मशब्देन तत्परत्वनिरासमात्र इति चेन्न । तथा सत्यप्रयोजक- स्येक्षणस्य प्रथमसूत्र एवानुपन्यसनीयत्वात् । आत्मशब्दरूपपरिहारासङ्गतिं प्रायपाठं निरसितुमाह किञ्चेति ।। वैषम्य मिति । सति अप्तेजसोश्चक्षितृत्वमुख्यतानिर्णायकचेतनात्मत्वार्थकात्मशब्दसदसद्भावरूप- मित्यर्थः ॥ नेति । देवताशब्दस्याप्यात्मशब्दवच्चतनमानपरत्वादिति भावः || तभिष्टस्येति । यदि ह्यचेतनं सच्छब्दवाच्यं तदीति ग्राहयेन्मुमुक्षु चेतनं सन्तमचेतनोऽसीति तदा शास्त्रमप्रमाणं स्यादित्या- दिनैतत्सूत्रार्थकथनदशायां प्रधानक्यानुपपत्तेः परेण प्रतिपादनान्मोक्षोपदेशस्य च तदुपपादकाभ्युच्चययुक्ति- त्वेनाप्युपपत्तेराद्यस्य, द्वितीयकल्पस्य तु सूत्रानुरोधात्स्पष्टमेव प्रसक्तिरिति द्रष्टव्यम् । तथा च निष्ठाशब्द ऐक्यपरो वा स्थितिमात्रपरो वेति भावः ॥ तज्ज्ञस्येति । प्रधानज्ञस्येत्यर्थः ।। अधस्तादिति । सत्यत्वात्ते- नेत्यादिनेत्यर्थः । तथाविधेति । सदुक्त्यनन्तरं तन्मे विजानीहि भूय एव मा भगवो विज्ञापयस्वि. त्याद्युक्त्वा दृष्टान्तान्त ।युक्तिरूपज्ञापकस्यात्रापि संभवात् । तस्यान्यथासिद्धौ चान्नमयादिप्वप्यन्यथा- सिद्धिसंभवादिति भावः । अत एव तथाविधेत्युक्तम् । अप्ययशब्दार्थो लयोऽपि ध्वसरूपस्य तस्या- संभवादेकीभावो वा परिष्वङ्गमानं वेति विकल्पं मनसि निधायाह एकीभावस्येति ॥ दिगिति । ब्रह्मकारणत्वप्रतिपादकवाक्यमात्रोदाहरणेऽपि सर्ववेदान्तोत्याद्यावगतेरेकरूपत्वावेदकवाक्यस्यास्माभिरिव त्वयाऽनुदाहरणादुदाहृतवाक्यस्थात्मशब्दस्य प्रधानेऽपि सावकाशत्वात्सर्वज्ञकारणतायाः श्रुतत्वेऽपि मुख्य- सार्वज्ञस्य ब्रह्मण्यप्यभावादारोपितस्य च प्रधानेऽपि भावाचन्द्रिकोक्तदूपणान्तरस्यापि संभवाच्च नेनं व्याख्यानं युक्तमित्यर्थः । स० उपपादयिष्यते चैतदिति । चतुर्थपाद इति शेषः । अत्रापि तथाविधज्ञापक- सौलभ्यादिति । अत्रापि मृदृष्टान्तेऽभिहिते 'तद्धास्य विज्ञौ' इति ब्रह्मज्ञानवचनेन पूर्वोक्तस्याब्रह्मत्वमिति . simamp- ॥ न्यायसुधा ॥ -- १२३२ (अ.१ पा.१ अ.५ वक्तुं शक्यमिति भावः । यद्वा सदेव सौम्येत्यादिना प्रतिपादितस्याब्रह्मन्चे 'कथं नु भगवः स आदेशो भवति' इति पुनः प्रश्नकरणमेव ज्ञापकं वक्तुं शक् मिति भावः ॥ प्रतिज्ञाविरोध इति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा विरोध इत्यर्थः । तदेव दर्शयति एकीभावस्येति ।। ब्रह्मविपः मिति । प्रधानं कारण वाक्याप्रति सद्य वेदान्तोत्साद्यगतेबसविषयत्वादित्यभिप्रेत्वेन तत्र वेदान्तोताद्यमब्रह्मविषयत्वं परस्यासिद्ध कारणवाक्योत्पाद्यमतिविषयत्वस्य परेण प्रधान एवाङ्गीकारादिति भावः । ननु कारणवाक्येषु ईक्षणादेः श्रवणात्तस्य प्रवाने असंभवेन तदुत्पाद्यगतिविपयत्वस्यापि ब्रह्मण्येवाङ्गीकर्तव्यत्वेन सर्ववेदान्तोत्पाद्या ति- विषयत्वस्य ब्रह्मण्येव सत्येन नासिद्धिरित्याशङ्कयाह ईक्षणादिनेति ।। अत एवेति । ब्रह्मविषयग तिसामान्यस्य परं प्रत्यसिद्धत्वादेवत्यर्थः । सकारणं कारणाधिपाधिपत्यत्रापि प्रधानमेव प्रतिपाद्यमिति परो वदिप्यतीति भावः ॥ गतार्थ चेति । श्रुत्यवष्टम्भेन ब्रह्मकारणत्वस्य गतिसामान्य दित्यत्रैव समर्थितत्वादिति भावः । 'न ह्यशनम्' इत्येतदेव वाक्यं तन्निगकरणपरतयापि योजयति यतोऽमाविति । उप- पादयिष्यत इति । चतुर्थवादे 'न शवाच्यतैवात्र प्रधानस्य निपि यते' इत्य दिनेति भावः । विश्वाधे प्रधानस्येति । शब्दागोचरत्वपक्ष इत्यर्थः ॥ तदुपपादनायेति । असत्त्वोपपादनायेत्यर्थः ॥ अत एवेति । प्रमाणान्तरवेद्यत्योपपादनायेक्षन्युपन्यासस्यायुक्तन्वादेवेत्यर्थः ।। द्वितीय इति । शब्दावाच्यत्यः हेतुरित्यर्थः । तादृशस्यापि ब्रह्मणो वेदान्तेषु कारणतया प्रतिपाद्यत्वोपगमाद कान्तिको हेतुरिति भावः ।। तृतीयचतुर्थयोरिति । अवैदिकत्वहेतोः कारणतयाऽवैदिकल हेतोश्च कारणतया वेदान्ताप्रतिपाद्यत्व- रूपसा ये कार्थत्वादिति भावः ॥ नेति । प्रधान न कारणतया वेदान्तवेद्यमिति प्रतिज्ञार्थसिद्धा. वित्यर्थः । शङ्कते परेणेति ॥ इदमिति । आत्मशब्दादित्येऽदित्यर्थः । 'ततेज ऐक्षत' इत्यादा वाम रानाभावादिति भावः ॥ देवतात्येति । अभिमानिये तथा वक्ष्य नाणत्वादिति भावः ।। अधस्तादिति । 'यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत्' इत्याद्यधिकरण इत्यर्थः । सौत्रो मोक्षोप- देशादिति हेतुश्चायुक्त इत्याहुः ॥ आत्मशब्दस्येति । अथोच्येतत्ये त्सूत्रावतारिकाय मुक्तदिशा गौणलो शङ्कित इति भावः ॥ परिवोदनैवेति । अवतारिकारूपाशङ्क पायुक्तेत्यर्थः । पूर्वपक्षीभूतः सांख्यो ह्येवं म्थूलारुन्धतीन्यायेनाशङ्कन इति वाच्यम् । न चैवं संभवतीत्याह न हीति । प्रधान नामेति हेयत्यावचनात् प्रधानमे पात्नत्वेन मूक्ष्मजमज्ञानार्थमुच्यत इति नेति प्रागुक्तमूत्रार्थ च प्रत्याह हेयत्वाववनं चेति ।। हेयत्वावच नादिति । अन्ननयादि न अमेत्ये रूपबच भावादित्यर्थः । उपलक्षणं चैतन् पुच्छरूपब्रह्मज्ञानार्थ व मत्वेनोपदेशसत्त्वाचति पूर्वोतसाध्याभावोऽपि ध्येयः ॥ उत्तरोत्तरेति । अन्नमयस्याब्रह्मत्वे 'ये प्राण ब्रह्मोपासते' इति प्राणमयस्य ब्रह्मत्ववचनं ज्ञापकम् । एवं प्राणमयस्याब्रह्मत्वे परच्याख्यानप्रत्याख्यानम्) ॥ इक्षत्यधिकरणम् । मनोमयस्य ब्रह्मत्ववचनं ज्ञापकमित्येवं ज्ञेयम् ॥ अनापीति । सदेव सोम्येत्यादिप्रकरणेऽपि सच्छब्दा- र्थस्याब्रह्मत्वे भूय एव मा भवान्विज्ञापयत्तित्यादिप्रश्नप्रतिवचनपौनःपुन्यरूपज्ञापकसौलभ्यादित्यर्थः ।। प्रतिज्ञाविरोधस्त्विति । हेयत्वावचनाचेति चशब्दसमुच्चितकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोध- स्त्वित्यर्थः । न किञ्चिदिति । भोग्यात्मत्वभोकात्मकत्वयोर्म-य इत्यर्थः । जडैक्यस्य त्वयानङ्गीकारा. दोक्यस्य च यजमानप्रस्तरत्वमित्यादिना अस्माभिर्निरस्तत्वादिति भावः ॥ एषा दिगिति । अयं भावः । सिद्धान्ते कि प्रधानं सदेवेत्यादिवाक्यबोध्य नेति निरस्य विशिष्टब्रह्मगः परिणामित्वमेतद्वाक्य- बोध्यमित्युच्यते किं वा कर्तृत्वं बो-यमिति । यद्वा शुद्धस्य भ्रमाधिष्ठानत्वं बोध्यमिति । नाद्यद्वितीयौ । विशिष्टे सदेवेत्यादिवाक्योक्तसञ्चायोगापूर्वसूत्रेऽखण्ड एव समन्वयस्य प्रतिज्ञातत्वेनात्राखण्डस्यैव वाच्यत्वाच्च । द्वितीये वैयधिकरण्यं च । न हि प्रधान परिमि गामीति प्राप्ते ब्रह्मर्तृवसिद्धान्तो युक्तः । अत एव 'न तृतीयः । प्रधानं परिणामीति प्राप्तेऽधिष्ठान अ त्यस्य व्यधिकरणत्वादित्यादिरूपेण चन्द्रिकोक्तदिशा ध्येयः । या०-उपपादयिष्यत इति । 'सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहान्' इत्यादिना चतुर्थपाद इति शेषः ॥ किवाद्यपले प्रधानस्येति । आद्यपक्षस्य कि प्रधानासच्चे पर्यवसानमुतं तस्य प्रमाणा- न्तरवेद्यत्वे इति विकल्पार्थः ।। ईक्षतेरुपन्यास इति । ईक्षतिना हिं तत्समभिव्याहृतशब्दविशेषागोचर- त्वमेव सिध्यति । न च तावता प्रधानस्यासत्त्वमुपपादितं भवति । तदसमंभिव्याहृतशब्रैस्तत्सत्त्व- सिद्धिसंभवादित्यर्थः । एवं प्रमाणान्तरवेद्यत्वोपपादनायापि नेक्षतेरूपन्यासो युक्तः । ईक्षतेः प्रधानस्य स्वासमभिव्याहृतशब्दप्रमाणकत्वमादायाप्युपपन्नत्वेन तस्य शब्देतरप्रमाणवेधतोपपादनासामर्थ्यादित्याश- येनाह ।। अत एवेति ॥ अनैकान्तिक इति । जगत्कारणतया वेदान्तवेद्यत्वाभावरूपसांध्यस्यावाच्ये ब्रह्मण्यभावादिति भावः साध्याविशिष्टत्वमिति । तृतीयपक्षे साध्यवत्सन्दिग्धत्वेन साध्याविशिष्टत्व- मिति द्रष्टव्यम् ॥ व्यर्थमिति । अत्र कश्चिदाह । प्रकृत्यर्थम्येक्षणस्य प्रधाने गौणताशङ्कायां न प्रकृत्यर्थस्य गौगताङ्गीकारो युक्तः ब्रह्मपक्षे प्रत्ययार्थस्य कर्तृत्वस्य गौणत्वेऽपि प्रकृत्यर्थस्येक्षणस्य मुख्य. त्वात् । प्रकृतेः प्रथमश्रुतत्वनिरपेक्षत्वान्यां प्रबलत्वेन तदमुख्यताया जघन्यत्वादित्यत्र तात्पर्यात्तत्सूत्रं व्यर्थमित्याह । तत् स्वसिद्धान्तविस्मरणविजृम्भितमित्युपेक्षणीयमेव । वन्मते ब्रह्मणोऽवाच्यत्वेन प्रकृतेरप्यमुख्यत्वादिति ।। तदविरोधायेति तद्विरोधाभावायेत्यर्थः ॥ दूषणान्तरमाह आत्मशब्दस्येति ।। अद्वैतज्ञानार्थमिति । यद्यपि ब्रह्मैव ज्ञीप्सितमित्युक्तत्वाब्रह्मज्ञानार्थमित्येव वक्तव्यम् । तथाऽपि स आत्मा तत्त्वमसातीहोपदिष्टं स्यादित्यादितद्भाप्यादद्वैतज्ञानार्थत्वस्यावगमादेवमुक्तमित्यवगन्तव्यम् ।। उत्तरोत्तरेति । 'प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजामात्' इत्याद्युत्तरोत्तरवचनमित्यर्थः ।। 142 २१३४ न्यायसुधा॥ (अ.१ पा.१ ७.५ अनापि तथाविधेति । अत्रापि चरमदृष्टान्तेऽभिहिते तद्धास्य विजज्ञ विति ब्रह्मज्ञानवचनमेव पूर्वोक्तस्याब्रह्मत्वज्ञापकं सुलभमित्यर्थः परस्येति । साङ्ख्यस्येत्यर्थः ॥ अत एवेति । ब्रह्मांवेषयगति. सामान्यस्य परं प्रत्यसिद्धत्वादेवेत्यर्थः । सकारणं कारणाधिपत्यत्र च प्रधानमेव प्रतिपाद्यमिति परो वदिप्यतीति भावः ॥ गतार्थ चेति । श्रुत्या ब्रह्मकारणत्वम्य गतिसामान्यादित्यत्र समर्थितत्वादिति भावः । दिगर्थस्तु चन्द्रिकायां द्रष्टव्यः । श्री. शब्दागोचरत्वं शब्दाप्रतिपाद्यत्वम् । स्वसिद्धेन सूत्रकारेणेदं निराकरणं स्वमतसिद्धन हेतुना कृतमित्यर्थः । बाधकामावमिति । ईक्षतेर्गौणत्वं न कल्प्यं मुख्याथै बाधकामावादित्यनुक्स्वेत्यर्थः । शङ्कत परेणति ।। वैषम्यामिति । आत्मशब्दबलेन सतश्चतनत्वावगमेनेक्षतेमुख्यत्वमेवेति न गौणप्राय- पाठविरोध इति भावः । देवत.त्वेनेति । तथा च नन्वयमीक्षतिौणो व्याख्येयः 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त'इतिगौणप्रायाठितत्वादित्यस्यायुक्तत्वेन प्रायपाठविरोधस्यैवाभावे, गौणश्चदिति व्यर्थमेवे. त्याशयः || बाधकामाव एवेति । न तु तन्निष्ठमोक्षोपदेश इत्यर्थः । चशब्दार्थ निरस्यति प्रतिज्ञेति । ब्रह्मविज्ञानेन न सर्वविज्ञानं संभवति । सर्वस्य ब्रह्मविकारत्वाभावेन ब्रह्मात्मकत्वाभावादिति भावः ॥ न किञ्चिदिति । सांख्यमते भोक्तृवर्गस्य प्रधानात्मकत्वाभावेऽपि भोग्यवर्गस्य तावदङ्गीकृतमेव । वन्मते तु भोक्तृवर्गस्य भोग्यवर्गस्य वा ब्रह्मविकारत्वासंभवेन तदात्मकत्वं नैव संभवतीत्यर्थः । स्व.प्ययो नाम किमेकीभाव उत परिप्वङ्गमात्रमिति विकल्प्य क्रमेण दूपयति एकीभावस्येत्यादिना । प्रधाने अपीति । लिङ्गदेहपरिप्वङ्गसद्भावात्तस्यापि प्रधानत्वादिति भावः । असिद्धमन्यतरासिद्धम् । ईक्षति. कर्तृत्वन गतिसामान्य ज्ञाप्यत इत्या आह ईक्षणेति ।। प्रथमसूत्रेणवेति । ईक्षतेनाशन:मितिसूत्रेणे इत्यर्थः । च०- (पृ. १२२८ पं. २६) शब्दगोचरत्वं (पृ. १२२९ पं. २) विषयत्वम् । सु०- अस्तु वा यथाकथञ्चित्सूत्रगमनिका । तथापि प्रकृतसङ्गतिपालोचनयात्र वाच्यत्वसमर्थनमेवोपपन्नं न सांख्यनिराकरणमित्याह समन्वय इति । अनु०- समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।। प्रथमप्रतिगाद्या स्यात् तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति यद्यपि मुख्यया वृत्या शब्दगो ता सांख्य निराकरणं चेत्पुभयभपि प्रतिपाद्यं भवति । उभा- भावेऽपि समन्वयानुपपत्तेः तथाऽपि शब्दगा रव प्रथमप्रतिपाधा स्यात् हि यस्मात्तस्मा वात्र परण्याख्यानप्रत्यास्थानम्) ॥ इक्षत्यधिकरणम् । प्रतिपाद्यते न सांख्यनिराकरणम् । तत्पुनरीक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति । कुनश्शब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह तदभाव इति । अनु०- तदभावे कुतोऽन्वयः ॥ अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः। जगत्कारणत्वादिवाक्यविचारस्तु दूरे। मांख्यनिराकरणाभावे तु सृष्टयादिवाक्यानामेव समन्वयानुपपत्तिः। अतः प्रथमं वाच्य- स्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति । वा०-ननु समन्वये प्रतिज्ञात इत्यादिना 'न ह्य शब्दत्वम्' इत्य दिवत्सूत्राक्षरानानुगुण्याप्रतिपाद- नात्तस्य प्रकृतासङ्गतिः । 'न च सावधनिराकृयै' इत्यंशसूचितपराभिमताधिकरणप्रयोजननिरासोपपादनस्या- सङ्गतिप्रतिपादनेन क्रियागत्यान्नासङ्गतिरिति वाच्यम् । तदुक्तार्थस्याक्षरानानुगुण्येनार्थत्वाभावे सिद्धे तदर्थक वोप जीवनप्रवृतासङ्ग युद्धावनस्यानुचितत्वा दित्यतः सूत्राणां तदर्थकत्वाभ्युपगमे नासङ्गत्युक्तिरित्या- शो तरवाक्य नवतस्यति अस्तु वे ते ॥ ना शब्दगो वरताया अधिकरणसङ्गतिकथनावसरोक्तरीत्या समन्वयो स्योगेन प्रतिपाद्यन्वेऽपि साङ्खयमतनिगसस्य प्रतिपाद्यत्वे न नियामकम् । आनन्दमयोऽभ्यासादि- त्यादौ तत्प्रतिपादनानुपलब्धेश्चेति प्रथमग्रहणानुपपत्तिरित्यतस्तदुपपादयति तत्त्विति ॥ हिशब्दलब्ध योग्यं मूलाभिमतं साध्यं दर्शयति सैवेति । विशेषविचारोपयुक्तसामान्यसंभावकत्यरूपां मूलाभिप्रेतां शब्दवाच्यत्वप्रतिपादनस्य प्राथमिकत्वे युक्तिं वक्तुं पूले कण्ठत उक्तमसंभावनाप्रकारमुपपादयति अवाच्यत्वे हीति । कुन इत्येतद्वललब्ध- अस्त्ववाच्यत्वे शब्दसंबन्धानुपपत्तिः किं तावता साङ्ख्यमतनिराकरणस्य प्राप्त- मित्यतोऽनवसरग्रस्तत्वमित्याशयेनाह जगदिति । वाक्यविशेषसंवन्धविचार इति यावत् ॥ नन्वस्तु जगत्कारणत्वा दिवाक्यविचारस्य दूरत्वं साङ्ख्यनिराकरणस्यानवसरग्रस्तत्वं कथमित्यतस्तस्य विशेषविचारार्थ- स्वादित्याह साङ्खयेति । श्री० गमनिका व्याख्या । सु० ननु वाच्यत्वाभावेऽपि लक्षणया वृत्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेप निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्ख्यमतं निराकृतमित्यङ्गीकारे कथमसङ्गतिरित्यत आह कथं कथनमेवेति । - चेति । . अनु० कथं च लक्षणावादी ब्रूयामसमन्वयम् ॥ स्यादेवम् । यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् । न चैतदस्ति । यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रेति । तदा कथं समन्वयं ब्रूयात् । किन्त्वन्वयमात्रं 14 १२३६ ॥ न्यायसुधा ॥ (म.१ पा.१.५ यात् । समन्वयं चाब्रवीत् । तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्ति रेवेति। वा० ननु समन्वयोक्त्या लक्षणापक्षनिरामस्य न प्रकृत पङ्गतिः । सांख्यनिरामे सूत्रकारस्यानव- सरस्यापरिहारादित्यत उत्तरवाक्यं प्रकृतेन सङ्गमयति नन्विति । लक्षणागादि मायावादि प्रयुक्त दूपणेन कथमुक्तशङ्कापरिहार इत्यतो वाद शब्दस्य भिप्रायार्थक-चं लक्ष गागादिशब्दस्य मूत्रकार परत्वं यदी- त्यव्याहारेण तस्यानुवाद्ययमर्पकत्वं कथमित्यादे तु विधेयसमर्पकत्वम् एवं चोक्तशङ्क, परिहारसिद्धिरित्याशयेन मूलाभिप्रेतं फलं कथयन्नेव मूलं योजयति स्यादेः मियादिना । समन्वयं त्रुवतः कथं मुख्यवृत्ति भिग्रेोति ज्ञायत इत्यत आह योऽसाविति । अनु०- योऽसौ शब्दस्य मुख्यार्थम्तत्रैव स्यात्मन्वयः ।। समी बीमो (हि)अन्वयः समन्दयः । स च शब्दस्य वाच्यार्थ एव घटने । नत्रैत्र माक्षा. च्छक्तिमत्वात् । लक्ष्यार्थे तु वाच्यार्थद्वारेणान्यो न समीतीनः । अतः समन्वय ब्दं प्रयु. जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात ति ज्ञायते स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाऽप्यसंभावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमि मिति । इदं चामुपगम्योक्तम् लक्ष- गाबादेऽन्वय एव नो पयो । कुतः समन्वयः । अबच्चे लक्षण.ऽसंभवस्योक्तत्वादिति । सत्यम् । समीची मोऽन्वयः समन्वयः । समीीनता तु तात्पर्यवत्ता । सा च लाक्षणिकेऽप्यर्थे शब्दानां संभवतीति न समन्वयसिद्धार्थ वाच्यत्वं समर्थनीयमिति चेन्न । संमब्दस्यार्थान्तरं व्याख्यायापि जघन्यवृत्या लक्षणया समन्वयाश्रयणनिय धे कारणाभावात् । वा० योऽमावि-युत्तस्वाक्यं न वस्तुस्थितिकथना प्रवृत्तं ये ॥सङ्ग स्या किन्तूक्तहेतुसाध्य- योहेतुहेतुमद्भावोपपादनार्थमित्याशये ह समन्वमिति । प्रस्तुतत्वादभिप्रेत इत्येव वक्त ये प्रतिज्ञात इन्युक्तिरवाच्यत्वशङ्कापञ्जकामूच य । समन्वयशब्दरूपविशेषोक्त्त्यनुपपत्त्युक्त्य.ऽन्यसामान्यमभ्यनुज्ञा- तम् । तच्च वस्तुगतिमनुः येतिभ्रान्ति निवारयति इदं चेति । ननु निर्गुणे समन्वयस्याप्रतिज्ञा तत्वादिना निरसन कथञ्चिन्सनन्यायसूत्रे कर्त यमपि कथम ङ्गतमत्रोत्तरवायेन नियत इत्यत संशब्स्यार्थान्तरं प्रकल्प्य लक्षापोऽपि सनन्याशीपत्त्या वाच्यत्वस्यासमर्थनीयत्वे परेण शङ्किते कारणाभावेन संशब्दार्थान्त'- कानया लक्ष गाय नाऽऽयोगेऽमा मे ने तत्कारण वे निर्गुगे समन्वय प्रतिज्ञाने परेण शकिते तन्निरासान्न प्रकृतासङ्गतिरित्याश्येोत्तरवाक्यमवतारयति सल मिति । उक्तनवाच्ये लगाऽसंभवमनालोच्य गङ्कने सत्यं समीचीनन्य इति । या० उक्तमवाच्ये लक्षणाऽसम्भवमनालोच्य शङ्कते सत्यमित्यादिना ॥ ६०- -- .. सु०- नन्वस्ति कारणम् । तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः । न च तत्र शब्दानां वचनवृत्तिः संभवति । तस्या द्रव्यादिसंबन्धनिबन्धनत्वात् । निर्गुणे च तदभावात् । अतो ज्ञायते लक्षणाऽऽश्रिता सूत्रकृतेति । एवं च सति संशब्दस्या- युक्त एवार्थो निश्चीयत इति । स्यादप्येवम् । यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् । न चैवम् । तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शोऽङ्गीक्रिपेयते । उत सगुणस्य प्रकृतत्वेऽपि तत्परामर्शासंभवेन जहदजहलक्षणया निर्गुणपरामर्शोऽभ्युपेयते ॥ आद्यं दूषयति जन्मादीति। अनु० जन्मादिकारणे साक्षादाह देवः समन्वयम् ।। उक्तं तदेव जिज्ञास्य कावकाशोऽत्र निर्गुणे ।। अत्र तत्तु समन्वयादिति सूत्रे । निर्गुणे समन्वयस्थावकाशः प्रसङ्गः क्वास्ति । नास्ती- त्यर्थः । कुनः । यतोव त्रिमूत्र्यामतीतायाम् । निर्गुणे विषयसप्तमीयम् । निर्गुणस्यावकाशः (प्रसङ्गः) कास्ति । न वापीत्यर्थः । कथम् । लक्षणपूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः । न च तमिर्गुणं जन्मादिकारणत्वगुण- योगात् । ननु जन्मादिकारणत्वं तटस्थमेव सत्ब्रह्म लक्षयतीति बमः । अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाजन्मादिकारण इति । उपपादितं चेतत्तत्रैव । मा भूल्लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् । प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव । न हि तस्य कश्चिद्धर्मः श्रूयत इति न वाच्यम् । यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लिलक्ष- यिपितमेव, जिज्ञास्यमुक्तम् । न ह्यन्यजिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते । अनुप- योगादिति ॥ अत्र तत्तु समन्वयादिति निर्गुणे समन्वयप्रतिज्ञोपपादनाय प्रकृतत्वान्निगुणस्य तदिति परामर्शविषयत्वं वदन्तं प्रति हि जन्मादिकारण इत्युत्तरवाक्ये निर्गुणस्याप्रकृतत्वे व्युत्पादिते न हि तेनैव सगुणस्य प्रकृतत्वेऽपि तत्परित्यागेन निर्गुणस्य तदिति परामर्शविषयत्यमिति वक्तुं शवयते येन बाधका. भावेन प्रकृतसगुणपरित्यागानौचित्यप्रतिपादकमुत्तरवाक्यं तं प्रत्येव सङ्गच्छेतेत्याशयेन निर्गुणे समन्वय. प्रतिज्ञानरूपसामान्योक्तेरुभयथाऽपि संभवाद्विकल्प्य तत्तत्कल्पनिरासपरत्वेन पूर्वोत्तरवाक्ये योजयति तथा हीत्यादिना । तदिति निर्गुणस्य परामर्शाभावस्य तत्प्रयोजकस्य पूर्वत्र तदप्रकृतत्वस्य च मूला- रूढतायै मूलस्थप्रतिज्ञाभागमावृत्या द्वेधा योजयति अत्रेत्यादिना। प्रसङ्गः प्रतिज्ञातता । तदिति निर्गुणपरामर्शाभावेन तत्समन्वयस्य प्रतिज्ञातता नेत्यर्थः । एतदन्तर्भावेन त्रिसूत्रीत्वभ्रान्तिनिरासायाती. " - वा० 147 १२३८ ॥ न्यायसुधा । (म.१ पा.१ म.५ तायामिति । प्रसङ्गः प्रसक्तिः । उपस्थितिरिति यावत् । सूत्रत्रये नैकत्रापीत्यभिव्याप्तौ कापीत्यपिः । सूत्रेऽप्रकृतत्वं मूलारूढं कर्तुं जन्मादिकारण इत्यस्य सूत्रव्यापारप्रदर्शकत्वं दर्शयति लक्षणसूत्र इति । कापीत्युक्तिलब्धं तृतीयसूत्रव्यापार दर्शयति शास्त्रमिति ॥ तस्येति । शास्त्रस्येत्यर्थः । जन्मादिकारण इत्येतदर्थपरमपीत्यभिप्रेत्य तन्निर्गुणत्वाभावहेतुममर्पकतयाऽपि योजयति जन्मादति । साक्षादित्यस्यान्ये. नान्वये प्रकृतानुपयोगादभिमतान्वयं प्रदर्शयितुं तव्यावय॑माह नन्विति । उक्तं तदेव जिज्ञास्यमिति विशिप्योक्तिप्रयोजकतया शङ्कायां बी नविशेष दर्शयति न हीति । एतच्छङ्कःनिवर्तकहेतोमूलसूचितन्त्र लाभाय तदेवेति परामर्शविषयं दर्शयति जन्मादिति । ५०- अत्रेत्यनूद्यार्थमाह अत्र तत्तुसमन्वयादिति सूत्र इति । कावकाशात्रेत्येतदेव वाक्यं प्रकारान्तरेण योजयति यतोत्रेति । तदेवेत्यनुवादः जन्मादीत्यादि व्याख्या । - सु० - द्वितीयं दूषयति कथं चेति । अनु० - कथं चासंभवस्तस्य मुख्यार्थस्य निराकृतौ ।। तस्यानुक्रान्तायां त्रिसूच्या प्रकृतस्य मुख्यार्थस्य वाच्यस्य समन्वयविषयतया त्यागेऽ. संभवः कथम्, न कथश्चिदित्यर्थः । अतो निर्गुगसमन्वयस्याप्रतिज्ञातत्यान लक्षणाऽऽश्रयणमत्र युक्तम् । किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति । तदर्थ एव संशब्दोऽपीति । वा०- प्रकृतस्यापि सगुणस्य परित्याग इति द्वितीय पक्षस्य मूल रूढतायै तस्येत्यादिकं तदनुगुणतया व्याख्याति तस्येत्यादिना । प० द्वितीयमिति । सगुणस्य प्रकृतत्वेपि इत्यादिनोक्तपक्षमित्यर्थः ।। श्री०- निराकृतावित्यम्य व्याख्यानं समन्वयविषयतया त्याग इति । च० --- त्रिमूच्यामिति । द्विगोरिति की । -- सु०- किश्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते । तदा तत्र लक्षणाऽपि न संभव- तीति व्यर्थ समन्वयमूत्रमाप मिति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति मानेनेति । अनु०- मानेन केन विशेयमवाच्याशेयनिर्गुणम् ॥ निर्गुण वस्तु केन मानेन विज्ञेयम् । न केनापि । कुतः । अज्ञेयत्वात् । ज्ञेयमेव हि प्रमेयं दृष्टं घटादि । शब्दप्रमाणाविषयत्वे ऽवाच्यत्वं हेतुः । वाच्यस्थैव तद्विपयत्वदर्शनात् । पत्वाङ्गीकारे च निर्गुणत्वव्याघातात् ।

परण्यास्थानप्रत्याख्यानम् ) ॥ इक्षत्यधिकरणम् ॥ वा०-- तच्छब्देन निर्गुणपरामर्श संभावितपक्षद्वयस्य निरस्ततया वक्तव्यान्तराभावादुत्तरवाक्य- वैयर्थ्यमित्यतो वक्ष्यमाणदूषणान्तरसाधकहेतुसमर्थनपरतया न वैयर्थ्यमित्याशयेन तद्योजयति किञ्चति । यद्यप्यमेयं चेदित्युत्तरवाक्येऽमेयत्वमेव हेतुत्वेनोच्यते तथाऽप्यज्ञेयत्वेनात्र तत्साधनादमेयत्वस्याज्ञेयत्वमात्रत्वे तेन तत्साधनानुपपत्तेर्मानेनेत्यत्रोक्तत्वाच्चाप्रमेयत्वमेव तत्राभिमतमित्याशयेनाप्रमेयत्वमित्युक्तम् । यद्यप्यवा- च्याज्ञेयनिर्गुणवस्तुनि प्रमाणाभावप्रतिपादनपरत्वमस्य वाक्यस्य भाति । तथाऽपि निर्गुणस्येवावाच्याज्ञेय- योरव्यवधानेनाप्रकृतत्वादव्यवहितनिरासपरत्वस्यैव श्लिष्टत्वादुत्तरवाक्ये चामेयत्वम्यैवापादकत्वेनोपादानाद्वि- ज्ञेयवाच्यलक्ष्यत्वपूर्वेत्युत्तरवाक्ये निर्गुणासत्त्वस्य प्रमाणाभावेनोपपादयिष्यमाणत्वाचेदमप्रमेयत्वसाधकपरतया व्याख्यातम् । यद्यपि चावाच्यादिहेतुपाये निर्गुणं पठितम् । तथाऽपि बुद्ध्या विवेकेन सा यधर्मिसमर्पकम् । तद्धेतुप्रायपाठस्तु निर्विशेषत्वरूपनिर्गुणत्वस्य हेतुभूनाज्ञेयत्वाद्युपपादकत्वस्यापि भावात् ; इत्याशयेनाह निर्गुणमिति । ज्ञेयत्वस्य सामान्यतया प्रमेयत्वरूपविशेष न्यायकत्वाद्युक्तं व्यापकनिवृत्त्या व्याप्यनिवृत्ति- साधनमित्याशयेनाह ज्ञेयमेव हीति । शब्दप्रमाणविषयत्वस्यैव पराभिमततया विशेषहेतुना तदभाव- साधनमित्याशयेनावाच्यत्वं तत्र हेतुत्वेन योजयति शब्देति ॥ वाच्यस्थैवेति । अवाच्ये लक्षणाया असंभवस्योपपादितत्वादिति भावः । निर्गुणस्य हेतुप्रायपाठसूचितर्थ ज्ञेयत्वादीति । श्री०-- अज्ञेयत्वादिति । ज्ञेयत्वं सामान्य प्रमाणज्ञेयत्वं विशेषः । सामान्याभावेन च विशेषाभावः साध्यत इत्यदोषः । ज्ञेयमेव हीति । अज्ञेयत्वान्न प्रमाणगम्यमित्यत्र व्यतिरेकव्याप्ती वह्निमत्त्वादेव धूमवस्वमितिवच्याप्यव्यापकभावो द्रष्टव्यः । हेत्वन्तरमाह । शब्देति । स्वरूपत इतरपदा- नन्वितत्वेन । सु०-- अस्त्वप्रमेयमेव निर्गुणं ब्रह्म ततः किमित्यत आह अमेयं चेदिति । अनु०- अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।। निर्गुणं ब्रह्मामेयं चेदङ्गीकृतम् । तद्दमेयत्वात्तत्र शास्त्रस्य कथंचनलक्षणयापि वृत्तिन संभवतीति समन्वयसूत्रं व्यर्थमेव प्राप्तम् । लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा । न हि तीरं स्वरूपतो गङ्गासंबन्धित्वेन च प्रमाणतोऽप्रतिपन्न गङ्गाशब्देन ज्ञाप्यते । लाक्षणिकोऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते । अन्यथा प्रयोजनान्तराभावेन वैयर्थप्रसङ्गात् । तथा चाप्रमेये हेतुफलयोरसंभवात्कथं लक्षणासंभवः । ननु प्रसिद्धिरेव लक्षणाहेतुर्न प्रमाणप्रसिद्धिः विशेषणवैयर्थ्यात् । तथा च स्वतः सिद्ध कथं लक्षणा न संभवतीति । एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति ॥ ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तोऽपि विपरीताकार- व्यावर्तनेन(एव) प्रयोजनवन्तो भविष्यन्तीति । न । निराकृतत्वादिति । 114 १२४० ॥ न्यायसुधा ॥ (म.१ पा.१७.५ 6 - वा० कथश्चनेत्यस्य शक्त्या लक्षणया वेति व्याख्यानस्य शक्तः परानभिमतिपराहततया अश्लिष्टत्वात्कथमपि त्वदभिमता या लक्षणा तयाऽपीति व्याख्यानं कृतम् । आपाद्यस्यानिष्टत्वाय प्रकृतो. पयोगिसमन्वयसूत्रवैयर्थरूपतत्फलं प्रदर्शितम् । अप्रमेयत्वस्य लक्षणाऽनुपपत्तिप्रयोजकत्वं कारणफलयोर. संभवेनोपपादयति लक्षणा हीति । परोक्तरीत्या कारणफलसंभवस्य वक्ष्यमाणरीत्योक्तरीत्या च सुनिरस्य. त्याभिप्रायेग मूलकारेगानिरस्तम् । त-संभवं स्वयमाशङ्कयोक्तवक्ष्यमागरीतिमेव तन्निरासकतया सूचयति नन्वित्यादिना। अमेयत्वमुपपाद्य लक्षणानुपपत्तिरिदानीमभिधेया । स्वप्रकाशवेऽपि स्वेनैव प्रकाशा. न्तराविषयत्वेन शब्दाविषयत्वस्य परेणैवोक्ततया तद्विशेपलक्षणादिविचारो दूरोत्सारित इत्याशयेन सुतरामिन्युक्तम् । वक्ष्यतीति 'यदि नत्स्यादगोचरम्' इति स्वप्रकाश शास्त्राविषयत्वप्रतिपादनेनेत्यर्थः । विपरीताकारल्यावृत्तेरब्रह्मतया ब्रह्मधर्मत्वस्याप्यभावे मुमुक्षजिज्ञास्यतया तस्याः प्रयो ननत्वासंभवस्य 'न व्य.वृत्त्या प्रयोजनम्' इत्यादिना निराकृतत्वादित्याह नेति । .- स० अर्णवशब्दस्य नित्यपुल्लिङ्गत्वात्कथं गुणार्णवमिति युज्यत इतिशङ्कायामस्य पचाद्यचाद्य- जन्नत्वास्त्रिल्लिङ्गत्वोचयत्तेरित्याह अर्णव इवाचरतीत्यादिना । 'सर्वप्रातिपदिकेभ्यः विबाचारे' इति वचनादर्णवशब्दादाचारार्थे विपि कृते तस्य 'सनाद्यन्ता धातब'इति धातुसंज्ञायां 'नन्दिग्रहिपचादिभ्य इत्यनेन पचादित्वेन कर्तर्यच्प्रत्यये कृते चार्णव इवाचातीत्यर्थकोडणवशब्दम्मिलिङ्ग इत्यर्थः । अत एव अर्णव इवाचरतीत्यर्णवशब्द इत्यन्वयो द्रष्टव्यः । अन्यथा विपि आचारमात्रार्थनाचातीत्याचारकर्तृत्व प्रदर्शनायोगादिति द्रष्टव्यम् । प०. हेतुफलयोरिति । लक्ष्यवस्तुनः स्वरूपेण मुख्यार्थसंबन्धित्वेन चोरस्थितिरूपहेतोः लक्ष्यार्थप्रमितिरूपफलस्य चासंभवादित्यर्थः ॥ वक्ष्यतीति । 'यदि तत्स्यादगोचरम्' इत्यादिग्रन्थेनेति भावः ॥ अवेद्यत्वेऽपि लक्षणालिमाशङ्कते ननु लाक्षणिका इति । शङ्का निराह नेति ॥ तत्र हेतुमाह निराकृतत्वादिति । सत्यज्ञानादिकेप्येवं न व्यावृत्या प्रयोजनमित्यादिना जन्मादिसूत्र इति भावः। या. एवं तहि सुतरामिति । स्वतः सिद्धिर्नाम प्रमाणान्तरव्यावृत्तिरेव परस्याभिप्रेता । तस्यां च सत्यां सुतरां लक्षगा नोपपद्यते । लक्ष्यज्ञानरूपमागुक्तकारणाभावात । लक्षणया शब्दबोध्य. त्वाङ्गीकारे च शब्दलक्षणप्रमाणवेद्यन्वापातेन फलासम्भवाच्चेत्यभिप्रायः ॥ वक्ष्यतीति । यदि तत्स्याद- गोचरमि यात्रेति शेषः । अवेद्य-धेऽपि लक्ष गाफलमाशङ्कने ननु लाक्षणिका इति ।। निराकृतत्वा. दिति । सत्यज्ञानादिकेऽप्येवं न व्यावृत्त्या प्रयोजनमित्यत्रेति शेषः । -- परभ्याख्यानप्रत्याख्यानम) ॥ इक्षत्यधिकरणम् । १२४१ श्री. अप्रमेये लक्षणायां लक्ष्यार्थप्रमितिरूपहेत्वभावमुपपाद्य फलाभावमुपपादयति । लाक्ष- णिको हीति ॥ लक्ष्यप्रमोत्पादायेति । लक्ष्ये तीरादौ घोषादितीरपदार्थान्वितत्वप्रमोत्पादायेत्यर्थः । तेन लक्ष्यार्थप्रमितेरेकस्या एव कारणत्वं फलत्वं च विरुद्धमिति कथमेतदिति चोद्यानवकाशः ॥ लक्ष- णेति । सत्यादिपदानां लक्षणायाः सम्भवादित्यर्थः । भविष्यन्तीति । तथा च नात्र प्रकूने फलास. म्भव इत्याशयः । च० हेतुफलयोरिति । लक्ष्यार्थप्रमितिपूर्वकलक्षणायाः हेतुभूतायाः फलीभूताया लक्ष्य- प्रमायाश्चाभावेनेत्यर्थः । सु०-- निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति तस्मादिति । अनु० तस्माच्छाम्त्रण जिज्ञास्यमस्मदीयं गुणार्णवम् ।। वासुदेवाज्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।। यतो निर्गुणे समन्वयो नोपपन्नः। तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्य- मङ्गीकरणीयम् ।। ननु पूर्व विष्णोजिज्ञास्यत्वमुक्तम् । इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तम् बामदेवाख्यमिति । तथापि प्राक् म् गुणस्य हेयत्वादिकमभिहितम् , इदानीं तु जिज्ञास्यत्वमिति कुनो न विरोध इत्यत उक्तम् गुणार्णवमिति । पूर्वमनिर्वचनीयाविद्याव- च्छिन्नस्य मगुण त्याप्रामाणिकत्वम् प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चामिहितम् । इदानीं तु ज्ञानानन्दायनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यत इति को विरोधः ।। अर्णव इवाचरतीति क्विपि कृतेऽर्णवनेः पचाद्यचि कृतेऽणवशब्दः त्रिलिङ्गः साधुः ॥ नन्वे- कमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तम् अद्व- न्द्वमखिलोत्तममिति । अद्वन्द्वमसमम् । समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः । नन्वप्रतिज्ञातो मंह,रो न युक्त इत्यत आह निर्गुण इति । उपसंहारस्य व्यतिरेक- मुखत्वं मूलारूढं दर्शयितुमस्मदीयमित्यनूद्य सगुणमेवेत्युक्तम् । उक्तहेतोर्जिज्ञास्ये कारकत्वाभावादङ्गी- करणीयमित्युक्तम् । अस्मदभिमतपरब्रह्मयोक्त्यैव वासुदेवाख्यत्वगुणार्णवत्वसिद्ध्या तद्विशेषणवैयर्थ- मित्यत उक्तविरोधपरिहारं तत्प्रयोजनतया दर्शयति नवित्यादिना । गुणार्णवमिति ज्ञानानन्दाद्यनन्त- गुणवत्त्वोक्त्योभयव्यावृत्तिलाभ इत्याशयेनाह इदानीमिति । पुमानित्यधिकारे देवासुरात्मस्वर्गगिरि- समुद्रनग्यकेशीति लिङ्गानुशासनसूत्रे समुद्रनाम्नां पुल्लिङ्गत्वविधानादर्णवशब्दस्य पुल्लिङ्गत्वाद्गुणार्णवमित्य- नुपपन्नमित्यत: 'सर्वप्रातिपदिकेभ्य: किवाचारे' इत्यर्णवप्रातिपदिकादाचारक्किप्यर्णवतीति कर्थे पचाद्यचि वा० - - १२४२ न्यायसुधा ॥ (.१ पा.१ १.५ च निष्पन्नस्यार्णवशब्दस्य यौगिकत्वेन विशेष्यनिन्नत्वाब्रह्मशब्दविशेषणतया नपुंसकोपपत्तिरित्याह अर्णव इति । शीतोष्णादिराहित्यस्याद्वन्द्वपदार्थत्वेऽल्पार्थत्वम् । अद्वितीयपदव्याख्यानत्वानुपयत्तिश्च । 'अत: समो द्वितीयः स्यादद्वितीयोऽसमत्वत' इत्यद्वितीयपदस्य समराहित्यार्थकतया तद्भाप्यव्याख्यानं मनसि निधायाह अद्वन्द्वमसममिति । उक्तशङ्कापरिहारस्य मूलारूढतायै अद्वितीयपदव्याख्यानरूपपदोपादानेन मूलसूचितमर्थमाह समेति । यद्यप्यस त्वमद्वितीयशब्दार्थत्वेनोक्त्वा 'साधिकः कुन एव स्यादित्याह परमश्रुति' रित्यधिकराहित्यस्य कैमुत्यलब्धत्वं तद्भाष्य एवोक्तम् । तथाऽपि समनिषेधादद्वितीयपदबललब्ध- स्वादद्वितीयपदार्थतयाऽधिकरराहित्योक्तिरिति द्रष्टव्यम् । अने वाभिप्रायेण पृथगधिकरणे एतत् श्रुतिव्या- ख्यानावसरेऽद्वितीयं समाधिकरहितमिति वक्ष्यतीति ध्येयम् । प०-- इति क्विपि कृत इति । 'उपमानादाचार' इतिप्रकरणे 'सर्वप्रादिपदिकेभ्यः किबि- त्येके, इतिवार्तिकेनेति भावः । क्विपि कृते सनाद्यन्ता धातव इतिधातुसंज्ञायां तिपि कृते अर्णवतीति- रूपम् । तस्य पष्ठीनिर्देशोऽर्णवतेरिति । क्विबन्तार्णवशब्दात् 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यच इतिसूत्रेणा प्रत्यये पररूपे अर्णवेति रूपमिति भावः । या०- परं ब्रह्मेति । न तु मायाशबलमित्यर्थः ।। नन्वर्णवशब्दस्याभियुक्तप्रयोगेषु नित्य- पुल्लिङ्गतादर्शनात्कथं गुणार्णवमितिप्रयोग इत्याशङ्कायामाह अर्णव इवेति । सर्वप्रातिपदिकेभ्यः विब्वा- चार इति वचनादर्णवशब्दादाचाथै विपि कृते तस्य सनाद्यन्ता धातव इति धातुसंज्ञायां 'नन्दिग्रहिपचा- दिभ्यो ल्युणिन्यच' इत्यनेन पचादित्वेन कर्तर्यच्प्रत्ययो द्रष्टव्यः । अन्यथा किप आचारमात्रार्थत्वेनाचर- तीत्याचारकतत्वप्रदर्शनायोगादिति द्रष्टव्यम् । एवं च यः समुद्रपर्यायोऽर्णवशब्दः स एव नित्यपुल्लिङ्गः प्रकृतस्तु न तथेति भावः । त्रिलिङ्ग इति स्वरूपकथनार्थम् । वस्तुतस्त्वनियतलिङ्ग इत्यर्थः । - च०-- ननु लिङ्गानुशामने अथ पुमानित्यधिकृत्य देवासुरात्मस्वर्गगिरिसमुद्रनखकेश. दन्तस्तनभुजकण्ठखङ्गशरपङ्गाभिधानानाति समुद्रपर्यायाणां नित्यपुल्लिङ्गतायाः विहिततयाणवशब्दस्य क्लीवता कथं सङ्गच्छत इत्यत आह अर्णव इति । सर्वप्रातिपदिकेभ्यः किन्वा वक्तव्य' इति कात्यायनवचनादर्णवशब्दादाचारकि मन्तात् 'सनाद्यन्ता' इति धातुत्वे पचादित्वात् . 'नन्दिग्रहि' इति विहितकर्तृसाधनाच्प्रत्यये निष्पन्नोर्णशब्दोऽनियतलिङ्ग इति क्लीबता सङ्गच्छत इति भावः । सु०-- न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते । किन्तु तस्य सत्त्वमेवानुपपन्न- मित्याह विज्ञेयेति ।

परभ्याख्यानप्रत्याख्यानम् ) ॥ ईक्षत्यधिकरणम् ॥ १२४३ वा०- अनु० - विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ निर्गतं मनसो वाचो द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसंबध्यते । पूर्वपदेन रूपादीनां ग्रहणम् । तन्निर्गणं ब्रह्म नान्त्येवेति बहिरेव प्रतिज्ञा द्रष्टव्या । कुतः । मनसो वाचश्चागोचरं यतः । उपलक्षण- मेतत् । सर्वप्रमाणागोचरत्वाच्छशविपाणवदिति द्रष्टव्यम् । गर्वा ज्ञानानां चरो वृत्तिरस्मिन्निति गोवरम् । विषय इति यावत् । तेन नपुंसकोपपत्तिः। सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति | विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः । वाच्यत्व. लक्ष्यत्वसदृशगुणयोगित्वाभावाच न शाब्दत्वम् । रूपावभावाच न प्रत्यक्षत्वम् । लिङ्ग- संबन्धाभावाच नानुमेयत्वमिति । उपसंहारानन्तरं पुनस्तदुपपादनानुपपत्तिरित्या उत्तरग्रन्थस्य विषयान्तरं दर्शयति न केवल मिति । तत्पुरुषादावेकैकपदार्थप्राधान्यात्तत्पर त्व'प्रत्ययम्य प्रत्येकपदार्थसंबन्धासंभवेऽपि द्वन्द्वे सर्वपदार्थानां समप्राधान्यात्तत्पर 'स्व' प्रत्ययस्य प्रत्येकसंबन्धेन विवक्षि तार्थसिद्धिरित्याशयेनाह द्वन्द्वादिति । अनेन, त्वप्रत्ययान्तेन द्वन्द्व इति प्रान्तिरपि निरस्ता भवति । लायन्ववाच्यत्वग्रहणेन शब्दरूपप्रमाण- विशेषविपयत्वासंगवारद्धेः प्रमाणान्तगविषयत्वे हेतुसमर्पकाणां रूपम्पर्शादीनां लिझसंबन्धस्य च पूर्वपदालाभ इत्याशयेनाह पूर्वपदेनेति । निगुणविषय एवासत्त्वरूपानुपपत्तिः प्रदीत इति प्रकृतसंबन्धप्रदर्शनार्थ प्रयुक्त तच्छब्दं धर्मिसमर्पकतया व्याख्याति तन्निर्गुणमिति । ननु नोक्ताभिप्रायो मूलात्प्रतीयत इत्यतो यदि तत्स्यादित्युत्तरवाक्यबललब्धप्रतिज्ञाऽध्याहारं दर्शयति नास्त्येवेति । योग्यतया मनस इत्यादि तद्धतुततया यो जयति मनस इति । करणान्तरगोचरत्व संभवात्करणविशेपागोचरत्वस्य नासत्त्वसाधकत्व- मित्यत आह उपलक्षणमिति । गोचरसञ्चरेति गोचरशब्दस्य घान्ततया निपातनाद्धान्तश्चेति लिङ्गानु- शासने तस्य पुल्लिङ्गत्वविधानान्नपुंसकानुपपत्तिरित्यतोऽधिकरणे घान्तन्वेऽपि बहुव्रीहिसमासस्य विशेष्य- निम्नत्यान्नानुपपत्तिरित्याह गवामिति । विज्ञेयत्वाभावस्य प्रमाणसामान्याविषयत्वे हेतुत्वमवाच्य. त्वादीनां तत्तद्विशेषाविपयत्व इति सामान्यतो विशेषतश्च सर्वप्रमाणाविषयत्वसिद्धिरित्याशयेन विविच्य योजयति विज्ञेयत्वाभावादिति । स० ---ननु गोचरशब्दस्य गोचरसञ्चरेति पुंसि निपातितत्वे । कथमगोचरमिति नपुंसकतेत्यत आह गर्वा ज्ञानान.मि.ते । तथा च नायं गोचाशतसूत्रनिपातितः किन्तु बहुव्रीहिरूपोऽन्य एव । तस्य च विशेष्यनिनवान्नपुंसकनोपपत्तिरिति भावः । ननु मा वदेदिति कथं, माङि लुङिति मायोगे मावादीति लुङा भाव्यमित्यत आह माशब्दोऽयं न माडिति ।

१२४४ ॥ न्यायसुधा ॥ (भ.१ पा.१ ७.५ तदित्यनुवादः निर्गुण ब्रह्मेति व्याख्या । नास्त्येवेति शेषोक्तिः । निर्गतमिति तदि त्यस्य विशेषणमिति भावः । गोचरा इन्द्रियार्थाश्चेत्यमरोक्त्यागो चरशब्दस्य नित्यपुंल्लिङ्गत्वाब्यधिकरण बहुव्रीहिमाश्रित्यविशेष्यनिघ्नतामाह गवामिति । या०- ननु गोचरशब्दस्य गोचरसञ्चरेति पुंसि निपातितत्वेन कथम् गोचरमिति नपुंसकतेत्यत आह गवां ज्ञानानामिति । तथा च नायं गोचरशस्तत्सूत्रनिपातितः किन्तु बहुव्रीहिरूपोऽन्य एव । तस्य विशेष्यनिष्तत्वान्नपुंसकतोपपत्तिरिति भावः । उपलक्षणं चैतत् । चरश्चरणमस्यास्तीति मत्वर्थी. याच्प्रत्ययान्तत्वेन 'त्रयी न श्रुतिगोचरा' इति प्रयोगेण च विशेष्यलिङ्गतोपपत्तिरित्यपि द्रष्टव्यम् । च० - ननुः गोवरसञ्चर इति घान्ततया निपातितगोचरशब्दस्य लिङ्गानुशासने 'अथ पुमान्' इत्यधिकृत्य घान्तश्चेत्यनेन पुंसि संज्ञायां घः प्रायेणेत्यनेन च नित्य पुल्लिङ्गताया विहिततथा न प्रकृते क्लीवनिर्देशः सङ्गच्छत इत्यत आह गया ज्ञानानामिति । तथाचाधिकरणमाधनधान्तस्य बहुव्रीहिभिन्नस्य निपातिततया अताहशस्य बहुव्रीहिरूपप्रकृतस्य विशेष्यनिघ्नतया क्लीबतोपपद्यत इति भावः । एवं च गोचरशब्दस्य मत्वर्थीयाजन्तताश्रयणेन 'त्रयी न श्रुतिगोचरा' इति प्रयुक्त्या च विशेष्यनिन तोपपादनीया। प्रपञ्चितं चैतच्चन्द्रिकाभावदीधितावीक्षतिनयेऽस्माभिः । सु०- ननु प्रमाणागोचरस्थापि निर्गुणस्य स्वप्रकाशतया सिद्धिर्भविष्यतीत्यत आह यदीति । अनु० यदि तत्स्यादगो वरम् । अस्तु तन्मा वदेद्वादी न चास्मच्छास्त्रगं तु तत् ।। एवमपि यदि स्व प्रकाशतया तद्ब्रह्म स्यात् तीस्तु । किन्तु समन्वय विषयतया न वक्तव्यम् । यतोऽस्मच्छास्त्रगं वेदादिविषयो न भवति । तद्विषयत्वे स्वप्रका महानि सङ्गात् । प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभित्रेता मायावादिना । तदिदमेकं सन्धित्सतोऽन्य- च्च्यवत इत्यायातम् । यद्ब्रह्मास्तित्वमभिलपितः शास्त्राविषयत्वमापतितम् । वादीति परिहासः । माशब्दोऽयं न माङ् । अतो लिङा संबन्धः । चा०-- प्रमाणाधी नसिद्धिकत्वात्प्रमेयस्य सर्वप्रमाणाविषयत्वेनासत्त्वे उपपादिते प्रसञ्जकाभावेन तत्प्रसक्तेरेवाभावात् 'यदि तत्स्यात् इति' शङ्क निर्दला । अत एव तदभ्युपगमेन परिहारोऽप्यतीव निर्दल इयतस्तत्प्रसञ्जकं दर्शयन्मुत्तस्वाक्यमवतारयति नन्विति । अस्ति चेत्कथं न वक्तव्यमित्यतोऽभिप्रायमाह किन्त्यिति । पराभ्युपेतस्वप्रकाशत्वहानिमेव शास्त्रविषयत्वप्रयोजकतयाऽऽह तद्विषयत्व इति । नन्वे.

परव्याख्यानप्रत्याख्यानम्) ॥ ईक्षत्यधिकरणम् ॥ १२४५ तावताऽपि प्रतिज्ञातारास्वपरित्यागो दोष इत्यतो वैकल्पिकतयैव प्रतिज्ञाततया न दोष इत्याह तदिद. मिति । 'अमानोनाः प्रतिधे' इति गणपठितनिषेधार्यकमाशब्दत्वेनास्य माङ्वाभावात्सर्वलकारापवादक- लुङो न प्रसक्तिरित्याह माशब्द इति । प० 'यदि तत्स्यात्' इति पात्रयार्थ सोपस्करमाह एवमपीति । मा वदेदित्यस्यार्थो न च वक्तव्यमिति । अस्मच्छास्त्र' मित्यनुवादः । वेदेत्यादि व्याख्या ॥ ननु 'माङि लुङ्' इति पाणिन्युक्ते; 'भा बादीत्' इति वाच्यमित्यत आह माशब्दोऽयमिति । 'अमानोनाः प्रतिषेधे' इति निषेधार्थो माशब्द इत्यर्थः । ननु मा वदेदिति कथम् । 'माङि लुङ्' इति मायोगे मावादीदिति लुका भाव्य. मित्यत आह माशब्द इति । श्री०- ननु माङि लुङिति मायोगे लुङो विधानान्मावादीदिति लुङा भाव्यम् । मा वदेदिति विधिलिङ् कथमित्यत आह । मा शब्दोऽयमिति । अमानोनाः प्रतिपेध इति सूत्रोक्तः प्रतिषेधार्थक. माशब्दोऽयं न माङ् । अतो लिङअपत्तिरित्यर्थः । ननु माङ्समभिव्याहारे 'माफि लुङ्' इति सर्वलकारापवादभूतलुङा भवितव्यतया कथं लऊँ निरदिक्षदित्यत आह माशब्द इति । 'अमानोनाः प्रतिषेध इति वचनादिति भावः ।। या० च० सु० - आह । स्वप्रकाशस्यापि ब्रह्मणो न शास्त्रविषयत्वं विरुद्धम् । वचनजन्य. स्फुरणाश्रयतया तत्कर्मतया वा बवनविषयत्वाभावेन स्वप्रकाशत्वम् । वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरिति । तदसत् । स्फुरणं हि ज्ञातता वा ज्ञानं वा । नायः । स्वरूपस्यैव निराकरिष्यमाणत्वात् । द्वितीयेऽपि ज्ञानाश्रयतया विषयत्वं न कचिदिति कर्मत्व- मेवाश्रयणीयम् । ज्ञानकर्मत्वं च ज्ञानविषयताऽतिरिक्तं नास्ति । ततश्च वचनजन्यज्ञानाविषयत्व- मुक्तं स्यात् । वृत्तिरिति च झानं तदतिरिक्तं वोच्यते । न तावत्तदतिरिक्तम् । प्रमाणा- भावात् : आधे तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञान विषयत्वमेवोक्तं स्यात् । तथाच व्याघातप्रसङ्गेन नैकमपि सिद्धतीत्याशयवानाह अवाच्यमिति । अनु अवाच्यं वाच्यमित्युक्त्वा किमित्युन्मत्तयन्मृपा ॥ अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूपकः ॥ अवाच्यं वचनजन्यज्ञानाविषयः इत्युक्त्वा पुनश्च वाच्यं वचनजन्यज्ञानविषयो भवती. त्युन्मत्तात्लोक्तिदूपको व्याहतभाषी । किमिति मृपा वृथैवास्मच्छास्त्रस्य वेदस्य चौयाय वा० निर्गुणविषयतया योजयितुं यतते । न हि व्या हतभापिणः किञ्चित्सिध्यति । उन्मत्तव- चोरवच्चेति । ननु स्पष्टव्याघातप्रसङ्गेनावाच्यं वाच्यमित्युक्तेरसंभावितत्वात्तदुक्तेः प्रकृतोपयोगाभावेन परेणावक्तव्यत्वाच्च तदुक्त्युपजीविदूषणपरोत्तरमूलमनुपपन्नमित्यतः स्वप्रकाशस्यापि शास्त्रविषयत्वोपपाद कतया व्यवस्थाविशेपे परेणोपन्यस्ते तत्पर्यवसानगत्याऽवाच्यं वाच्यमिति परोक्तिलाभात्तदुपजीवनेन व्याघातप्रतिपादकमुत्तरवाक्यं नासङ्गतमित्याशयेनाह आहेति ।. 'न च प्रमाणतोऽन्या स्यार मितिर्नाम कुत्रचित् इति' भक्तिपादे ज्ञाततास्वरूपस्य निरस्यतया तदाश्रयत्वतत्कर्मत्वादिसदसद्भावविचारो दूरोत्सारित इत्याह स्वरूपस्यैवेति । घटादिज्ञानाश्रयत्वेन तद्विपयत्यव्यवहागभावात्तत्कर्मणि च तथा व्यवहारादिति भावः । ज्ञानकर्मत्वं न तावज्ज्ञानजन्यातिशययोगित्वम् । व्यवहार दिरूपातिशयस्य ब्रह्मण्यपि सत्त्वात् । ज्ञाततारूपस्य वा पराभिमतप्रतिबिम्बितचैतन्यादिरूपफलस्य वा तस्याप्रामाणिकत्वेन घटादावप्य. सत्वात् । एतेन परसमवेतक्रियाफलशालित्वं तदित्यपि निरस्तम् । अतो न विषयत्वातिरिक्त कर्मन्व- मित्याह ज्ञानकर्मसमिति । घटा दिप्रकाशकज्ञानस्यैवानुभवसिद्धत्वेन तस्य चोक्तरीत्या त्वदभिमतफल . रूपत्वासंभवेन वृत्तिरूपताया एव वक्तव्यत्वेन न ज्ञानातिरिक्ता वृत्तिरित्याशयेनाह न तावदिति । दूषणस्वरूपं तत्फलं च दर्शयति तथा चेति । अवाच्यं वाच्यमित्युक्त्वा स्वोक्तिदूषक इत्यनेनावाच्यं वाच्यमित्युक्तेर्वचनान्तरेण व्याघात इति प्रतीयते । तच्चानुपपन्नम् । वचनान्तराभावात् । एतदुक्तेरेव व्याघातस्य वक्तव्यत्वाञ्चत्यतो यथायोग्यमन्ययं दर्शयन्वाक्यं व्याख्याति अवाच्च मिति । मदुक्तमयदिति स्वोक्तिदूषकत्वाभावात्तदभिप्रायतया व्याह तिं मूलारूढां करोति स्त्रोक्तीति । 'न चास्मच्छास्त्रगं तु तन्' इयुक्तसिद्धाहत्युक्तिफलत्वं दर्शयितुमस्मच्छास्त्रस्येत्य देस्तभिप्रायमाह वि मित.त्यादिना । तथा योजयितुपरकीययत्नस्य सत्यत्वेन मृपात्वासंभवा द्वित्वा मृपाश्रुः' इतित्यादिवन्द्र शबदो वैयथिक इत्याह मृपैव वृथैवेति । उक्तयोाहतभाषणशास्त्रविषयत्वारि द्धयोः सामान्यमुग्वन हेतुहेतुमद्भावमुपपादयति न हीति । चौर्यायेत्युक्त्याऽपि चोरस्योन्मत्तबदृष्टान्तत्वमेवाभिमतमित्या शयेताह चोरवंचति । प०- परकीयचोद्यमनुवदति आहेति । इत्या हेति वक्ष्यमाणेतिपदेनान्वयः । वचनविपयत्वं हि त्रेधा । वचनजन्यस्फुरणाश्रयतया वा वचन जन्यस्फुरणकर्मत्वेन वा वचजन्यवृत्तिव्याप्यतया वा । आद्यद्वयस्याभावेन स्वप्रकाशत्वस्य संभवात् । अन्त्ये शास्त्रविपयत्तसं भवान्न कोपि लोप इत्यर्थ. । निरा करिष्यमाणत्वादिति। युक्तिपादे 'न परिच्छेदकार्थे च प्राणमिति च प्रमा' इत्यत्र ..च प्रणतोऽन्या स्यात्ममिति म कुत्रचित्' इत्यादिना भक्तिपादे च ।। ज्ञानाश्रयतयेति । ज्ञानाश्रयत्वेन हेतुनेत्यर्थः । - घातात । वचनजन्यज्ञानाविषयतया स्वप्रकाशत्व वचनजन्यज्ञानावपयतय मित्यस्य व्याहतत्वेन स्वप्रकाशत्वशास्त्रविषयत्वयोरन्यतरदपि न सिध्यतीत्यर्थः । या०- निराकरिष्यमाणत्वादिति । 'न च प्रमाणतोऽन्या स्यात्प्रमिति म कुत्रचित्' इत्या- दिना भक्तिपाद इति शेषः । न क्वचिदिति । तथा च घटादेरपि स्वप्रकाशतापत्तिरिति भावः । यतो वा इमानि भूतानि जायन्त इत्यादी सर्वश्रेत्यन्वयः । सर्वनेत्यस्योपक्रमादावित्यर्थः । ततश्चोक- शानिरासो लभ्यत इति ज्ञेयम् । श्री०-विषयत्वाभावेनेति । आश्रयकर्म गोरुभयोरपि विषयत्वेन व्यवहारादिति भावः । न कचिदिति । वचनजन्यज्ञानाश्रयत्वाभावेन वचनविपयत्वाभावरूपं स्वप्रकाशत्वं घटादावप्यस्तीत्यति- व्याप्तिरित्यर्थः ॥ कर्मत्वमिति । द्वितीयः पक्ष इत्यर्थः ।। नैकमपीति । वचनविषयत्वाभावरूपस्वप्रका. शत्व, वचनजन्यवृत्तिव्याप्यत्वेन वचाविपयत्वयोरुभयोर्मध्य इति शेषः । सु० ... स्यादेतत् । श्रुतिमूत्रयोस्तावदेकार्थत्वं युक्तम् । अन्यथा करणेतिकर्तव्यताभावा- नुपपत्तेः । श्रुतयश्चोपक्रमादिवशात् नित्य शुद्धयुद्ध द्वितीयं निर्गणमेव प्रतिपादयन्त्यो निरव- कायाः प्रतीयन्ते । ततस्तन्मीमांसाऽपि तपियैन । तथा चान्यथाऽनुपपत्र्यथाकथञ्चित् श्रुति- सूत्रयोनिर्गुणविषयत्वमुपपादनीयम् । अन्यथा विषयाभावेनाप्रामाण्यापत्तरित्यत आह । जन्मादीति अनु० जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् । वदन्ति श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ।। प्रवृत्तमस्त्ववाच्य ते मैवं ब्रूयाः कथञ्चन ॥ न श्रुतिसूत्रयोनिविषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम् । सगुणविषयत्वेन सविषयत्वोपपत्तेः । न चोपक्रमादिवैगुण्यम् । 'यतो वा इमानि भूत.नि जायन्ते' इत्यादी साक्षाजन्मादिकारणत्वेन, 'नारायणं महाज्ञेय'मिति नारायणादिशब्दोदितगुणवत्तया च सर्वत्र सगुणस्यैव प्रतीतेरिति भावः । वा० ननूत्तरवाक्ये श्रुत्यादिविषयत्वं वाच्यस्याङ्गीकृत्यावाच्यस्यावक्तव्यत्वमसङ्गतं किमित्यु- च्यते । निर्गुणस्यैव शास्त्रविषय या मुख्यतः परेण प्रसज्जिततयाऽवाच्यस्य तथाऽप्रस्तुतत्वात् । श्रुतिसूत्रयोः पृथकारे च न किञ्चि कारणं। जन्नादिकारणं नारायणाभिधमिति विशेषणयोश्च न किञ्चित्प्रयोजनम् । न च सगुणस्य श्रुत्यादिविषयत्वमुपपाद्य तद्वलेन मीनांयाशास्त्रस्यापि तद्विपयत्वमभिप्रेत्य निर्गुणस्य तद्विषयत्वाभावस्योत्तरवाक्ये प्रतिपादनान्न कोऽपि दोष इति वाच्यम् । निर्गुणे श्रुतिशास्त्रविप- ॥ न्यायसुधा ॥ १२४८ (अ.१ पा.१ अ.५ यत्वाभावस्य निपुणतरं प्रतिपादितत्वेन पुनस्तद्विषयकत्वपक्षस्योज्जीवनासम्भवेन तत एव सगुणविषयकत्वे बाधकलेशन्याभावेन तद्विपयकत्वनिर्गुणविषयकत्वाभावयोरत्राप्रतिपादनीयत्वादुक्तसौत्रतच्छब्दपरामर्शानुप. पत्रपरिहारे मूत्रस्य तद्विपयस्वशङ्काऽप्रसराच्च । श्रुतेनिगुणविषयत्वे वा कुतः सूत्रस्य तद्विषयकत्वमतोऽनुपप- नमेवोत्तरवाक्यमित्यतः सगुणस्यै प्रतीत्यभिप्रायकेण विशेषणद्वयेनोपक्रमादिवैगुण्यरूपसगुणविषयकत्व. वाधकपरिहारप्रतीतः । ततश्चोपक्रमादेः श्रुत्यादिनिर्गुणविषयकत्वसाधकतया पराभिप्रायसूचनान्सिद्धान्ते श्रुत्यादिकार्थ्यमङ्गीकृत्य सूत्राणां सगुणविषयतां व्युत्पादयता परस्याप्यैकार्थ्याङ्गीकारेणैव सूत्राणां निगुणविषयत्वस्याभिमत कायाः सूचनादुपक्रमादिवलेनैव चास्मदुक्तानुपपत्तेः कथञ्चित्परिहार्यत्वस्यापि सूचनाद्विपयान्तरसद्भावक नेन च विषयाभावेनाप्रामाण्यापत्तिरूपबाधकस्यापि सचनामूलनिवांशङ्का सहलैयेत्याशयेनाह स्यातिदिति ॥ श्रुतिसूत्रयोरिति । अनयोर्निर्गुणविषयत्वोपपादनप्रकारबैलक्षण्येऽपि फलम्यकविधत्वाभिप्रायेण भावकथनावसरे तस्यैव कथनमेतदिति शेयम् । या - सर्वोपक्रमादौ सगुणस्यैव प्रतीतिः कुत इत्यत उक्तम् नारायण महाज्ञेयमित्यादि । अनेन श्रोतनारायणादिशब्दार्थसमाख्यैव गुणप्रीतिसाधिकेत्युक्तं भवति । ननु यतो वेत्यादी सर्वत्र प्रतीतस्य सगुणस्य कथं नारायणशब्दोदितगुणवत्वरित्यत उक्तम् साक्षाजन्मादिकारणत्वेनेति । तथा च नराणामिदं जन्मादि नारं दातृतया तदाश्रयत्वान्नारायण इति व्युत्पत्त्योपक्रमादौ सर्वत्र श्रुता गुणास्ते सर्वेऽपि नागवणशब्दोदिता एवेति युक्ता समाख्येति भावः । श्री. अ यथेति । निर्गुणविषयत्वानङ्गीकार इत्यर्थः ॥ विषयेति । श्रुतेरुपक्रमादिविरो- धेन निर्गुणविषयकत्वायांगे म मांसाया अपि तद्विायकत्वायोगेनेत्यर्थः ॥ अप्रामाण्येति । श्रुतिसूत्रयोरिति वति । मूलेऽवाच्यं ते वं ब्रूप।' इत्यत्र तेऽवाच्य मित्यन्वयः । ते त्वदीयं यदवाच्यं ब्रह्म तच्छास्त्रविषयं- मैव ब्रूया इति योजना । तत्रावाच्यं ते मैव ब्रूया इत्यस्य तात्पर्यम्वाच्यस्यापि तद्विषयत्वं न कल्प्यमिति । ये name सु० - सर्वप्रमाणाविषयस्य शासविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सुक्ष्मेक्षि- कामाश्रित्य । येन सूक्ष्मेक्षिकायामविद्यमानमामि दूषणं स्पुरतीति शङ्कवेत । यथाऽऽह 'न चात्रातीव कर्तव्यं दोपदृष्टिपरं मनः । दोपो ह्यविद्यमानोऽपि तत्पराणां प्रदृश्यते ।' इति । किन्तु स्थूलदृष्टिमिरप्ययं व्याघातः सुज्ञान इत्याशयवानाह सर्वशब्बैरिति । अनु०- सर्वशब्दैरवाच्यं तदुक्त्वा तद्विषयं पुनः ।। शास्त्रं वदन्तमुन्मत्त कथं लोको न वारयेत् ।। उन्मत्तं व्याहतभाषिणम् । - (परण्यापानप्रत्याख्यानम्) ॥ईक्षत्यधिकरणम् ॥ १२४९ वा. उत्तरवाक्यस्याव्यवहितैतद्वाक्येन साक्षात्सङ्गत्यदर्शनादवाच्यं वाच्यमिति पूर्ववाक्यपौन- रुक्त्याच्चानुपपत्तिरित्यतो लोकपदप्रयोगलब्धतदभिप्रायोक्त्या पौनरुक्त्यं परिहरति सर्वेति । नन्वेवंवादि- नस्तथा व्यवहाराभावान्नोन्मत्तत्वम् पूर्ववाक्ये तदुपमत्वोक्तिविरोधश्चत्याशङ्कानिरासाय व्याघातस्य स्थूल- दृष्टिविषयताया मूलारूढतालाभाय चोन्मत्तपदं तोपममभिप्रेत्य व्याख्याति उन्मत्तमिति । सु०- निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति मा वद इति । अनु० मा वदो मा विजानीहि त्यजामच्छास्त्रचोरताम् ।। यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहोऽपि त्याज्य इति भावः ।। मा वद इति । स्मशब्दोऽत्राध्याहार्यः । तेन च लडपपत्तिः । मा विजानीहीति माशब्दोऽयम् । अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्याद्वचनवृत्त्यैव समन्वयोऽयमिति ताच्यत्वसमर्थनमेव प्रथम- सङ्गतं न साङ्खयनिराकरणमिति सिद्धम् । वा उत्तरवाक्ये उपसंहारज्ञापकाभावेन शास्त्रस्य निर्गुणविषयत्वाभावस्योक्तस्यैवोक्तिरिति प्रतीतेस्तस्मादित्यध्याहारेण निर्गुणविषयकत्वाभावरूपावान्तरप्रमेयनिरासोपसंहारत्वं तस्येत्याह निर्गुण इति । मा .ब्रद इत्यादेरथं वदन् तस्य त्यनेत्याद्यभिप्रेतार्थहेतुत्वं तस्मादित्य-याहारेणाह यत इति । माझ्योगे सर्वलकारापवादत्वाल्लुङोऽत्र लङनुपपत्तिः । माशब्दत्वे च लातीतत्वस्यात्रान्वयानुपपत्ति- रित्यत आह मा वद इतीति । मा विजानीहीत्यत्रार्थानुपपत्तेरभावान्माशब्दमङ्गीकृत्य लोटमुपपादयति मा विजानीहीति । समन्वये प्रतिज्ञात इत्युकासङ्गतिरूपपरमप्रमेयनिरासोपसंहाराभावात्तदुपसंहारा- नुक्तिप्रयुक्तन्यूनतापरिहारायासङ्गतिरूपपरमप्रमेयोपसंहारस्यैतद्वाक्याभिप्रेततामभिप्रेत्याह अत इति । स०-ननु मा वद इति कथं । माङ्योगे लुङाभाव्यमित्यत आह मा वद इति स्मशब्द इति । तथाच सोत्तरे लङित्युक्तत्वेन लडपपत्तिरिति भावः ॥ मा शब्दोऽयमिति । अत्रापि मावद इत्यत्रेव शङ्का द्रष्टव्या । प०- 'मा वदो मा विजानीहि'इत्यनयोस्तार्यमाह वक्तुं ज्ञातुं च न शक्यमिति । तेन लुडुपपत्तिरिति । 'स्मोत्तरे लञ्च' इतिसूत्रेण सोत्तरमाङयोगे लङो विधानादिति भावः । 'ननु माङि लुड्.' इति लुङा भाव्यमित्यत आह माशब्दोऽयमिति | या.. ननु मा वद इति कथम् । न च पूर्ववन्माशब्दोऽयमित्युपपत्तिः । लङर्थस्याती- तत्स्य प्रकृतेऽनन्वयादतो मायोगे सर्वलकारापवादकेन लुङा भाव्यमित्यत आह मा वद इति ॥ स्मशब्द इति । तथा च स्मोत्तरे लङ्वेत्युक्तत्वेन लङपपत्तिः। तस्यापि सर्वलकारापवादकत्वमस्तीति तदर्थस्य प्रकृतेऽन्वयोऽपि सम्भवति । यतस्त्वं न वदसि न जानासीति लङर्थतया व्याख्यानादिति 15 १२५० ॥ न्यायसुधा ॥ म.१.पा.१ मा भावः । अत एव तत्तापर्यमुक्तम् यतो वक्तुं ज्ञातुं च न शक्यमिति । माशब्दोऽयमित्यस्यापि मा वद इत्यत्रेव शङ्का द्रष्टव्या । श्री०-- ननु माङि लुङिति मायोगे लुङो विधानान्मावादीदिति लुङा भाव्यम् । मावद इति कथं लङ्मयोगो मा वद इत्यवादीत्यत आह । मावद इति स्म शब्द इति । मावद इत्यान्तरं स्मश ब्दोऽध्याहार्य इत्यर्थः । तथा च स्मोत्तरे लञ्चेति सूत्रेण माझ्योगेपि स्मशब्दस्योत्तरत्र सद्भावे लड्वि धानाददोष इति भावः । यद्यप्यत्र माशब्दोऽयं न माङिति पूर्वोक्कमेव समाधानं शक्यते वक्तुं । तथाऽपि सति तस्मिन्निंद समाधानान्तरमित्यवगन्तव्यम् ॥ ननु मायोगे लुङो विधानात् मा विजानीहीति कथं लोटप्रयोग इत्यत आह । मा विजःनीहीति माशब्दोऽयमिति । न माडित्यर्थः । सु०-- ननु यथा सूत्राविवक्षित साङ्खयनिराकरणं कुर्वतो मम दोषः तथा मनिरा- करणं कुर्वतो भवतोऽपि कथं न दोपः स्यात् । न हीदं कस्यचित्सूत्रस्यार्थतयोच्यत इत्यत आह वयमिति । अनु० - वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वाऽस्मच्छास्त्रमञ्जसा ।। विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥ त्वामपव्याख्यातारं श्रुतियुक्तिभ्यां बद्ध्या निराकृत्यास्मच्छास्त्रं वेदं सूत्रसूचितामिः श्रुतिभिर्युक्तिभिश्वाञ्जसा नैरन्तर्येण सादरं च शिष्यैर्विचारयाम इति । अनेनेदमुदितं भवति । यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्तं सूत्राणां निजार्थेऽप्य- खसाऽऽदरं कुर्युः । किमसौ सूत्रार्थः किं वाऽयमिति सन्देहावस्कन्दनात् । निराकृते त्वप- व्याख्याने नैरन्तयांदराभ्यानमदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् । अतो मा(न म) भूदयं सूत्रार्थस्तथाऽपि सूत्रार्थग्रहणोपायत्वाव्याकरणादाबुदाहरण- प्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति । किं नाम गुणहेतुरेव भवतीति ।। । वा- ननूरसंहारेण पूर्वप्रमेयस्य समापितत्वेन विशेषव्युत्पादनानपेक्षणात् 'वयंत्वाम्' इत्युत्तरवाक्यं व्यर्थम् । न चेयताग्रन्थेन कृतस्य मायावादिनिरासस्याप्रयोजनताशङ्कानिरा पाय तदिति वाच्यम् । प्रसञ्जका- भावेन तच्छङ्काऽनुत्थानादित्यतः साङ्ख्यमतनिरासं कुर्वतो ममासङ्गत्यादिना निराकरणमेव मस निरासं कुर्वतस्तवाप्यसङ्गत्यादिना निरासस्य प्रसञ्जकम् । सूत्रविवक्षितत्वाविशेषात् । इयोस्तु विशेषः । यन्मया सूत्रार्थतया तन्निरासस्य व्याख्यातत्वात्सूत्रानानुगुण्यं ममाधिकम् । त्वया तु सूत्रार्थतया. मनिरा- साव्याख्यानात्तव तदनानुगुण्याभावः । मूत्राविवक्षितार्थप्रतिपादक तूभयोरकिशेपमेव । एवञ्च न मां प्रत्येव पर्यनुयोगो युक्त इत्याशङ्कानिरासायोत्तमूलस्य प्रवृत्तत्वान्न तद्वैश्वर्य मि.त्याशयेन तन्मूलनदतारयति नन्विति । सूत्राविवक्षितत्वस्यासिद्धिशङ्कान्निरासायाह न हीति । अत्र सूत्राणामनेकत्वात्कस्यचि-. दित्युक्तम् । अपव्याख्याननिरासरूपत्वादस्मत्कृतत्वन्निरासस्य त्वत्कृताताशसाङ्खयनिरासाद्वैलक्षण्यमित्या- शयस्य मूल लाभाय त्यामिति व्याख्याति त्यमिति । श्रुतियुवत्यो रज्ज्वादिवद्वन्धनासाधनत्वाइन्धनो- क्तेरनुपयोगाचाह बद्ध्वेति । मीमांसारूपास्मच्छास्त्रस्य स्वोत्प्रेक्षितधुतियुपत्यादिना यो विचारस्तस्य सूत्रेग क्रियमाणविचाररूपत्वाभावेन सूत्रे ग क्रियमाणविचारप्रतिपादनस्यैव सूत्रव्याख्यानरूपत्वेन मीमां- साविषयकविचारम्य सूत्रव्याख्यानरूपत्वाभावात्स्वव्याख्यार्थतामुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्सा शिष्यप्रवृत्त्यर्थकता नोक्ता स्यादिति तल्लाभायोक्तं वेदमिति सूत्रमूचिताभिरिति च ।. अपव्याख्यान- निरासस्य सूत्रव्याख्यातॄनस्मान् प्रति सादरविचारसाधनत्वभ्रान्तिनिरासायाह शिष्यरिति । ननु मध्याख्याननिरासस्य कथं त्वयाख्याने सादरशिष्यप्रवृत्यर्थता । अस्तु वा सा तथाऽपि सूत्राविवक्षिताः र्थप्रतिपादनरूपत्वान्मन्निरासस्य दोषहेतुत्वोक्तेः कः परिहार इत्यत आह अनेनेदमुदितं भवतीति निदो पेऽप्यर्थ इति विरोधिशङ्कायां सत्यां स्वरूपेण निर्दोपत्वस्यादरायोजकता सूचयलि. व्याकरणादा विति । पूर्वमीमांसाभाष्यादेरादिपदेनोपादानम् । प्रदर्शनादिवदित्यादिपदेन सूत्रार्थग्रहणोपयुक्तलौकिक- न्यायादेस्तायादी व्युत्पादितस्य ग्रहणम् । सु० -- ननु यदि वाच्यमेव ब्रह्म कोऽर्थस्तवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह अद्भुतत्वादिति । अनु० अद्भुतत्वादवाच्यं तदताशेयमेव च ॥ अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ॥ आचर्यतमत्वात् । कथमाश्चर्यतमत्वम् । अनन्तगुणपूर्णत्वात् । दुर्लभं ह्याचर्य भवति । न ह्यनन्तगुणपूर्ण सुलभम् । भासनोपसभापेत्यात्मनेपदम् । वाच्यत्वस्थोपपादितत्वात् । अर्थ- कथनमात्रेणैवालम् । श्रुत्युदाहरणं तु दाढर्थार्थमित्यवगन्तव्यम् । नन्वियता प्रबन्धेनावाच्यत्वनिरासादद्भुनन्वेनावाच्यत्वप्रतिपादनपरश्रुत्युदाहरण प्रकृत- विरुद्धमित्यत उत्तरवाक्यतात्पर्य वक्तुं शङ्कःमुत्थापयति नन्विति । अद्भुतशब्दस्यादिभूभ्यां डतजि- त्यद्भवतीति वाद्भूयत इति वाऽतमिति कर्तरि कर्मणि वा डुमच्प्रत्ययान्तत्वेऽप्यौणादिकानां रूढिमा. नित्य प्रवृत्तिनियमात् । आश्चर्य तढिमाश्रित्याह आश्चर्यतमत्वादिति । बहुगुणत्यैव दुर्लभत्वादा- श्वर्यत्वेऽप्यनन्तगुणपूर्णत्वादित्यद्भुतत्यप्रयोजकेऽतिशयोक्त्या प्रयोज्ये आश्चर्यत्वेऽप्यतिशयो भाप्येऽभिमतः । - वा० १२५२ । न्यायसुधा ॥ (१.१ पा.१ १.५ आश्चर्यस्यैवावाच्यत्वेन व्यवहारात् । अत एव 'अवाच्यमिति लोकोऽपि वक्त्याश्चर्यतमं भुवि' इति वक्ष्यतीत्याशयेन तमबन्ततया व्याख्यातम् । अनन्तगुगपूर्णत्वस्य हेमन्तरन्चे चशमाभावादप्रयोजकन्या पाताच्च हेतुसाधकतया तदवारयति कथमिति । तस्य हेतुत्वं घटयति दुर्लभं हीति । बदतेः 'शेषात्कर्तरि परस्मैपदम्' इति परस्मैपदित्वादात्मनेपदानुप त्तिरित्यत आह भासनेति । उपसान्त्वनरूपोप- संभाषाया उच्छन्दनरूपोपमन्त्र गस्य च धातुविशेषणत्यम् । भासनादीनां च धात्वर्थविशेषणत्वम् . तत्र चोयसंभाषायत्नविमत्युपमन्त्रणानां प्रकृतेऽसंभवाद्भासनज्ञानयोर्धात्वर्थविशेषणत्वम् । तथा च वदते चार्वीलोकायत इत्यत्र शिष्य. स्तूयम नो भासते । तथा चोपर्युपरि शास्त्रार्थप्रतिभासासष्ट सूत्रपदार्था- न्वक्ति । तेजोम. तु न शक्नुयाद्वदितुमिति भास तस्य धात्वर्थभूतवदनं प्रति हेतुतया विशेषणत्ववत्तत्र तत्रैवोदाहरणे वदितुं जानातीति ज्ञास्य विपयिन्वेन धात्वर्थ भूतपदा विशेष गत्यबद्वा सष्टतया भासमाना श्रुतिरिममर्थ सुष्टु वदतीति वा स्पष्टत्वादियं श्रुतिरिमन वदितुं जानातीति वा धात्वर्थविशेषणत्वेन भासनादेर्विवक्षितत्वादात्मनेपदमित्यर्थः । अर्थकथनमात्रस्याप्रयोजकत्वादर्थ कथनपरश्रुभ्युदाहरणं भाष्य इति भ्रान्ति निरस्यति वाच्यत्वस्येति । । . -ननु वदतेः परस्मैपदित्वात्कथं ऊद इत्यात्मनेपदप्रयोग इत्यत आह भासनोपसंभाषेति । अयं च भासनार्थकः । तथाच पैंगिनां श्रुतिरित्यर्थपूदे प्रकटीचकारेत्यर्थः ।। प० 'वदव्यक्तायां वाचि' इत्यस्य परस्मैपदित्यादि-युवादेति प्रोक्तव्ये कथमित्यूद इत्यात्मने पदप्रयोग इत्यत आह भासनेति । भापनं दीप्तिः । उपसंनापा सांत्यनम् । तथा चोद उक्तशङ्का कारं पारेसांत्वयतीत्यर्थः । यद्वा भासनोपभापति . 'भारसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद' इति सूत्रेणार्थविशेषेषु आत्मनेपदविधानादिह भासनारूपार्थे आत्मनेपदम् । स्पष्टमुराचेत्यर्थ इति भावः । या० ननु बदतेः शेवा कर्तरीति परस्पादित्वात्कथमूदे इत्यात्मनेपदप्रयोग इत्यत आह भासनेति । 'भासनोपसम्भाषाज्ञानय-विनन्युमभन्त्रगेषु वद' इति सूत्रस्यायमर्थः । भासः दीप्तिः । उपसम्भापोपसान्वनम् । उपमन्त्रणमु च्छन्दः प्रार्थनमिति यावत् । एषु विशेषणेषु सत्सु वदतेरात्म- नेपदं भवतीति । अत्र भासनोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते भासमानो ब्रबी. तीत्यर्थः । भृत्यानुपपदते सान्त्ययतीत्यर्थः । ज्ञाने शस्त्रे व इते । यन्ने क्षेत्रे वदते । विमती क्षेत्र विवदन्ते। उपमन्त्रणे भार्या बदत इत्यादिकमुसाहरणं द्रष्टव्यम् । प्रकृने चायं वदति जनार्थ उपसम्भा- पार्थश्चविवक्षितः । ततश्चकरणे कर्तृत्वोपचारापैझिकानां श्रुतिर्भासमाना ब्रवीति । उक्तशङ्काकर्तारं सान्त्व- यतीति चार्थः सम्पद्यत इति ध्येयम् ॥ १-१-५॥ इति श्री नायवुधायामधिकरण परकं माहम् .. छ ।। ।

च० श्री०- नन्विममर्थ श्रुत्यनुदाहरणे परः कथमङ्गीकरिप्यतीत्यत उक्तम् वाच्यत्वस्येति । अर्थकथामात्रेणैवेति । अवाच्यत्वप्रतिपादनपः श्रुत्यादीनामद्भुतन्वादिरूपार्थकथनमात्रेणैवालम् । अद्भुत- वादवाच्यं तदित्यादि पैङ्गिश्रुत्युदाहरणं किमर्थ कृतमित्यर्थः । अथ बदतेरात्मनेपदनिमित्तभूतङित्वानुदात्तत्वस्वरितत्वमित्वविनिर्मुक्ततया 'शेषात् कतरे' इति परम्मैपदितैव न्याय्येति कथमात्मनेपदिनिर्देश इत्यत आह भासनेति । भासोपसंभाषा- ज्ञानयत्नविमत्युपत्रणेषु बद इत्यस्यार्थः । उपसंभाषोरमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः ॥ अस्य उदाहरणानि । शास्त्रे वदते भासमानो बबीतीत्यर्थः । भृत्यानुपवदते । सांत्वयतीत्यर्थः । ज्ञाने शास्त्र वदते । तत्वं जानातीत्यर्थः । यत्ने क्षेत्रे वदते प्रयतत इत्यर्थः । विमती विप्रा बदन्ते विवदन्तीत्यर्थः । भार्यामुपवदते प्रार्थयत इत्यर्थः । प्रकृते च वदतेभालनार्थतयोपसंभाषार्थतया वा करणे कर्तृत्योपकारेण श्रुति समाना ब्रवीति दर्शि दिशा शङ्कमानान्सान्त्वयतीति वार्थः सङ्गच्छत इति मन्तव्यम् । -- । सु०-- आश्चर्य हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्देष्टुं शक्यते । व्युत्पत्यभामात् । वागमयोर्यालय द्वेत्यतोवाच्यमित्युच्यते। मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजामि ते चेत् । सादयं प्रयोजानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् । नैतदस्ति । रूढत्व त् यथोकम् , 'रूढोकगारो रूढलक्षणोपच रो लक्षणा' इति । अन्योऽप्याह 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजन त्' ति । तदिदमाह अवाच्यमिति । अनु० अवाच्यमिति लोकोऽपि वक्त्याचयतमं भुवि ।। इत्यनुव्याख्याय:मधिकरणपञ्चकं समाप्तम् ।। छ ।॥ ५ ॥ अत्राच्यमित्युत्तरवाक्ये रूडप्रयोगवात्प्रयोजनानपेशाप्रतिपादने नावाच्यशब्दे गौणी तिराश्रितेति प्रतीतेश्वाच्यादि वाच्छब्द पर्यादया तदप्रतीतेश्च द्रुतत्वादिति नावाच्यपदप्रवृत्तिनिमित्तकथनं नापि गुणकथ ।म् । शौर्यादेः सिंहनिष्ठत्यवदवाच्य पदमुख्यार्थेऽछ . :स्य भावान् । अतो गुणप्रयोजक- कथनमेतदित्याशये। तस्य गुणलाभार्थतां व्युत्पादयति आश्चर्य हीति ।। अवाच्यमिति । समासेन वा यतो वाचो निवर्तन्त इति वा वाक्येन स्व.वयवादशक्यसंवर्गविशिष्टे सर्वथा वाच्यत्वाभाववति मुख्यार्थ वस्तुनि वाचकपदाभावे। निमशक्यत्वं तावद्वर्तते । स च निर्दे गुमशक्यत्वरूपो गुण आश्चर्ये वस्तुन्यपि तेन ते कारेग विशेषतो निमश त्ये वर्तते । न च तत्तदाकारविशेषवाचकशब्दाभावे सो... च्च पदादिमुख्यार्थ एव । बद्भावे वा कथं तेन निमशक्यत्वमिति वाच्यम् । वाचकशब्द. वा० १२५४ ॥ न्यायसुधा ॥ (७.१ पा.१ १.५ तथा च तन सद्भावेऽपि व्युत्पत्यभावेन वा वाङ्मनसयोर्व्याकुलत्वाद्वा तेन निर्देठुमशक्यत्वोपपत्तेः । गुणेन निमित्त नाश्चर्येऽवाच्यमिति प्रयोगोपपत्तिरिति भावः । नन्वेवं यदि गौणी वृत्तिरभिमता तर्हि रूढिप्रयोजकप्रयोगप्रदर्शकोत्तरवाक्यविरोध इत्यतस्तद्वौ गत्योपपादकतया तदवतारयति मुख्येति । ननु गोण्या अमुल्यवृत्तित्वात्कथं तत्र रूढयाश्रयणमित्यतोऽमुख्यवृत्तावपि रूढारूढ भेदं सिद्धान्तसंमत्या काव्य- प्रकाशसंमत्या च दर्शयति यथोक्तमित्यादिना । मुख्यवृत्ताविवामुख्यवृत्तावपि बहुलप्रयोगभावाभावाभ्यां रूढारूढनेदाश्रयणे वाधकाभावादिति भावः । यथा चैतत्तथाऽऽकर एव स्फुटं वक्ष्यति ॥ १-१-५ ॥ मध्वशास्त्रार्थजलयावामनो जगृहे रसम् ॥ तद्वृष्ट्याऽतोषयत्प्राज्ञान्गुरुमेधं तामश्रये ॥ १ ॥ मया विचिता न्यायसुधावाक्यार्थचन्द्रिका || अनया भावि यत्पुण्यं तदामोतु गुरुर्मम २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीमद्वेदव्यासतीर्थपूज्यपादानां शिष्येण विद्याधीशयतिना विरचितायां श्रीमन्न्यायासुधाविवृतौ वाक्यार्थचन्द्रिकायामधिकरणपञ्चकं समाप्तम् ।। श्रीकृष्णार्पणमस्तु । ५०-- अमुग्यवृत्तौ रूढारुडभेदेन द्वैविध्यं कुत्रोक्तमित्यत आह यथोक्तामिति । न्याय. विवरणे || अन्योपीति । काव्यप्रकाशिकाकार इत्यर्थः । च०- वाअनसयोरिति । 'अचतुरविचतुर' इत्यादिना अजन्ततया निपातितत्वात्साधुताs- यसेया । सु-नन्वेनच्छुतिच्यारूपानं मूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कित- सात् । अत्र व्याख्यानं तु न सङ्गनमिति ।। मैवम् सूत्रपूर्वपक्षिणेवाअव्याख्यात्राऽपि लक्ष- णया ब्रह्मणि समन्वयं समर्थयमानेनच्छ्रतिरमृत्युपादानस्य कर्तुमुचितत्वात् । तथा चोभौ प्रति सूत्रव्याख्याऽपव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति ।। श्री० --- सूत्रव्याख्यानानन्तरमेवेति । न त्वपव्याख्याननिराकरणानन्तरमित्यर्थः । अपव्या. ख्यानकळ स्योक्तप्रमेये अशठ इमित्य दिश्रुनेरनुपात्तत्वादीति भावः । तत्रैवेति । समन्वयसूत्रे संशब्देन ब्रह्मगो वाच्यत्वोक्तौ सूत्रपूर्वपक्षिगाऽशब्दमित्यादिश्रुत्यवष्टम्भेनावाच्यत्वे पूर्वपक्षिते ईक्षतेरित्यादिसूत्राण्य- वाच्यतानिराकरशेन वाच्यत्वसमर्थनपरतया व्याख्याय तदनन्तरमेव पूर्व पक्ष्याशङ्किनश्रुतिव्याख्यानं कर्त- व्यमित्यर्थः । कर्तुमिति । लक्षणया समन्वये प्रमाणत्वेनैतच्छुत्युदाहरणस्य कर्तुं शक्यत्वादित्यर्थः॥छ॥ १-१-५ ॥ ॥ छ ॥ इत्यधिकरणपञ्चकं समाप्तम् । छ ।

(परव्याख्यानप्रत्याख्यानम् ॥ इक्षत्यधिकरणम् ॥ सु०- तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच युक्तं समन्वयसूत्रमिति सिद्धम् ।। इति सुधायामधिकरणपश्चकं समाप्तम् ॥ १-१-५॥ छ । प०- पूर्वसूत्रसंशब्दार्थद्वयाक्षेपसमाध्यर्थमिदमित्युक्तमेतदधिकरणोपक्रमे । तत्समाधिप्रकार व्यञ्जयन्नुपसंहरति तदेवमिति । गतीति । सर्वशास्त्रोत्पाद्यज्ञानस्यैकरूपत्वादित्यर्थः । एतच्च तृतीयतृतीये विवरिष्याम इति भावः। च०. अधिकरणार्थ निगमयति तदेवमित्यादिना सिद्धमित्यन्तेन ॥ सौधपञ्चाधिकरणीदुर्वेदतमफक्किकाः । काश्चिदार्तीथपत्कृष्णो गुरुपादाब्जसंस्मृतेः ।। इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणश्रीसत्यप्रियतीर्थपूज्यपादतनूजसर्वतन्त्रस्वतन्त्रश्रीनिवासार्यान्तेवा- स्यन्तेगणगणितेन कृष्णशर्मणा विरचिता सौधचपकनाम्री ईक्षतिनयव्याख्या समामोत् ।। 268,572,।। H83.8 SRI VENKATESWARA CENTRUL LIBRARY & RESEARCH CENTRE, 31490. Acc. ita ........ Date ............ ...8 PAN इति जन्माधिकरणात् आधेकरणचतुष्टयम् (१-१-२ तः १-१-५)

Sriman Nyaya Sudha Vol - 8

Title
Sriman Nyaya Sudha Vol - 8
File name
Sriman Nyaya Sudha Vol - 8
Text
OCR done
Citation
1983
Published
14/11/2002
Publisher
Sriman Madhu Sidhanthabhi Vridhi Karini Sabha, Basavannagudi
Language
Sanskrit
Pages
171
Library
Svclrc
Classification
Philosophy
DLI number
382886
Barcode
99049990030286.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATI
VMLT id
6iTb4HptDyx
Download PDF

Sriman Nyaya Sudha Vol - 8