Library

Brihati-1

Prabhakarmishar · 2006/01/14

PDF Proofread

Front matter

1930. THE OWKHAMBA SANSKRIT SERIES, A JECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, NO. 391 सर्वतन्त्रस्वतन्त्र-'गुरु' पदाभिधेय - प्रभाकरमिश्रविरचिता बृहती॥ ( शाबरभाष्यव्याख्या) महामहोपाध्यायमिश्रशालिकनाथविरचितया ऋजुविमलया विभूपिता श्रीकाशीहिन्दूविश्वविद्यालयमीमांसाप्रधानाध्यापकेन "वेदविशारदेन" "मीमांसाकेसरिणा" पं० श्रीचिन्नस्वामिशास्त्रिणा यथामति संशोधिता ॥ BRHATI (I COMENTARY ON SABARABHASHY.I) . By SARVATANTRASVATANTRA, ( CALLED "CURU” ) PRABHAKARA MISRA WITH THE COMMENTARY THE RJUVIMALA OF I AHAMLAHOPADHYAYI SALIKANATHA MISRA Edited by Pandit St. Chinnaswami Sastri FASCICULUS I-9. PUBLISILED & SOLD BY TILE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, lyja Vilas Press, North of Gopal Mandir, Benarps. 1929 -- - HOM/ONCocke 0000 श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृत ग्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तबकः-३६१ रएGoD9. Printed by Jui Krishna Das Gupta out the Vidya Vilas Press, Benares. Xo Agents: 1 Otto Harrassowitz, Leipzig: GERMANY, 2 Arthur Probsthain, Oriontal & Foreign Bookseller, LONDON. 3 The Oriontal Dook-supplying Agency, POONA.

३ वृहती [ अ० १.पा०१.सू०१. शङ्का निवृत्तिः प्रयोजनम् । कुत एतत् ? स्वाध्यायाध्ययनविधेरवि बक्षितार्थत्वनिराकरणात् । कथं पुनरविवक्षाशङ्का ? स्वाध्यायाध्य. यनविधेरधिकाराश्रवणात् , आचार्यकरणविधिप्रयोज्यत्वाच्च ।कथं पुनरम्यस्य विधे(१)रन्येन प्रयुक्तिः ? प्रयाजादिविधिधदिति चेत्, नः तत्र (२)वधिकाराभेदाद्युक्तम् । अत्राप्यधिकारांशो न भिद्यत -- अथातो धर्मजिज्ञासा ॥ १ ॥ 'लोक'इत्यादिभाष्यं यत्नगौरव'प्रसज्येतेत्येवमन्तमथशब्ददूषणार्थमौ. चित्यानुभाषणपरमिति वार्तिककारेण व्याख्यातम् । तत्तु मन्दप्रयोजनं इति मत्वा टीकाकारः प्रयोजनं दर्शयति-लोक इत्यादि भाष्यस्थेत्यादिना । स. वसूत्रस्थसर्वपदविषयञ्छेदमुच्यते । तेन बहुवचनाविरोधः । प्रवृत्तत्वा त् प्रतिपन्नत्वाचाथातःशब्दयोरेवालौकिकार्थाशङ्कानिवृत्तिः प्रयोजनम् । सति सम्भव इति । लौकिकार्थसम्भव इत्यर्थः । कुत एतदिति । लौकिकार्थ. सम्भवे कथमलौकिकार्थाशङ्का ? असम्भवश्चेत् कथमिह प्रयोजनं सिध्यति ? उत्तरम्-स्वाध्यायाध्ययनेति । न्यायाभासादसम्भवः । तन्नि राकरणेन तु सम्भव एव प्रतिप्राद्यते । कथं पुनरविवक्षाशङ्केति । दृष्टपुरुषीप योगिकर्मावबोधहान्या स्वर्गोऽर्थवादस्थं वा फलं न युक्तमिति भावः । इदानीं पूर्वपक्षं कर्तुं संशयबीजमुपन्यस्यति-स्वाध्यायाध्ययनविधेरधिकाराश्रव- णादिति । नाध्यापनाधिकारो ऽध्ययनेऽपि श्रूयते, अनङ्गत्वादिति । आचार्य करणविधिप्रयोज्यत्वाच्चेति । तं प्रयुज्यता प्रथमोपनिपातिनी तत्सिद्धिरे. वाध्ययनविधेः प्रयेजनं, न तु पश्चाद्भाविकर्मावबोध इत्याशयः । कथं पुनरन्यस्य विधेरिति । यदि तावदङ्गता नास्ति, कथं विध्यन्तरस्य विध्यन्तरेण प्रयुक्तिः ? प्रयाजादिविधिवदिति चेदिति । इत्यर्थः-यस्मा. तत्राधिकारान्तराभेदात् प्रयुक्तियुक्ता साक्षाच्छ्रुततत्पुरुषसम्बन्धनिर्वा. हितसाध्यभावाधिकाराविधिसन्निधौ निरधिकारेषु प्रयाजादिषु प्रथम न विधयः साध्यतया भवन्तीति । किन्तु कर्मस्वरूपाण्ये वाधिकारसिध्यर्थानि । तदर्थता तु क्षणिकानां स्वरूपेण न सम्भवतीति पुनर्विधयः साध्यतया विक्रियन्ते तेनाङ्गभूता ह्यते विधय इति युक्ता भेदेऽपि प्रयुक्तिः। अत्रापीति आचार्यविध्यध्ययनविध्योः अधिकारांशो न भि . १. अन्यनाक्षेप इति ख. पुस्तके । २. स्वाधिकाराभेदात् इति ख.

धर्मजिज्ञासाधिकरणम् ] ऋजुविमलोपेता। इति चेत् , न ; अङ्गाङ्गिभावाभावात् । कथं पुनरङ्गता नास्ति,(१) प्रयोज्यत्वं च ? न प्रयुक्तिरङ्गत्वे हेतुः । कस्तर्हि ? विनियोगः । ननु-विनियोगः पाराय कारणम् । विनियुक्तस्यैव ह्यङ्गत्वं दर्शयति । न चाविहितमङ्गं भवति । फलवत्सन्निधावफलं तदङ्गमिति च । मैवम् ; पारार्थ्यमेव ह्यङ्गतोच्यते । परस्योत्पत्तौ कार्ये वा य. दनुग्रहाय वर्त्तते तत्परार्थमित्युच्यते । तदेव चाङ्गम् ; तस्माद्विनि योगकृतमेवाङ्गत्वं न प्रयुक्तिकृतम् । (२)कथं तर्हि पश्वेकत्वादीनामङ्गत्वम्? उक्तं हि (३)पशोरुपादान. शेषत्वम् ; प्रयुक्तिकृतं च तत् । तदपि नैव प्रयुक्तिकृतम् । किं तहिं ? विनियोगकृतमेव । ननु--विभक्तिभिः प्रातिपदिकार्थो विनियुज्यते, न पुनरेक- स्वादयो विभक्त्यर्थाः । सत्यं न विनियुज्यन्ते । न पुनर्विनियुक्तो- इति । अङ्गाङ्गिभावाभावादिति। श्रुत्यादयो ह्यङ्गत्वख्यापकाः तदभावेऽनङ्गस्यासं. बनास्याक्षेपो न युक्तः । एवं तावदङ्गता नास्तीति गृहीत्वैव प्रयुक्तिर्दूषिता। इनानी प्रयुक्तिमङ्गीकृत्यानङ्गत्वं दूषयति-कथं पुनरङ्गता नास्ति प्रयोज्वत्वं चेति। न प्रयुक्तिरङ्गत्वे हेतुरित्यनन्तरं चोद्यं परिहरति । नन्विति पारार्थ्याङ्गत्वयोर्भेदावधिव्यापारमात्रोपादानादङ्गतामिच्छ- तश्चोद्यम् । मैवमिति ऐक्येऽपि परिहरति । परस्योत्पत्ताविति । यथा द्रव्य. देवतादिकम् । कार्य इति । यथा प्रयाजादयः, स्वामिसंस्काराश्च । कथं तर्हि पश्वकत्वादीनामिति । उपादानभात्रात् तदङ्गताऽस्ती- ति मन्यते । तदपि नैव प्रयुक्तिकृतमिति नैव प्रयुक्तिकृतमिति । अत्रायमाशयः--विभक्त्या तावत्प्रातिपदिकार्थो विनियुज्यते । विनियुक्तोऽसावुपादातव्यः । न चा. नवच्छिन्नस्योपादानं संभवति। तेनावच्छेदकाकाङ्क्षायां गृहीततद्विशेष. गैकत्वादिकमेव तदवच्छेदकं गृह्यते । तेन यत् पूर्वमपि विनियुक्त प्राति पदिकार्थमात्र संख्यादिकमासीत् तदुपादानेन विनियुक्तपश्वादिस्थं क्रियते । विनियोगस्तु तस्य तात्स्थ्येनैव । यथा पर्णत्वादयः क्रतुविनि युक्तजुह्वादिद्वारेण विनियुक्तस्थतया क्रत्वङ्गानि । विनियुक्तस्थता तु १. प्रयोज्यत्वं च न. इति नास्ति क. पुस्तके । १. कथं पुनरेकत्वादीनामिति क.ख.पुस्तकयोः । ३. पशोस्तु इति ख. पुस्तके ।

बृहती [अ०१.पा०१.सू०१. . पादानेऽपि नावगम्यते । विभक्तिभिर्विनियुक्त(१)स्यैवैकत्वादयो वि. भक्तिभिरभिधीयन्ते, असम्बन्धस्यानवगमात् । अत एव चैकवाक्य. त्वं संख्याविधानस्य विभक्तिविधानस्य च । तस्माद्युक्तमुपादान- शेषत्वमेकत्वादेः । स्वाध्यायाध्ययनं तु न विनियुक्तं, नापि विनि- युक्तत्वमवगम्यते । अतः प्रयोज्यं न चाङ्गमिति सिद्धम् । कथं पुनरविनियुक्तमसम्बन्धमेवेदमाक्षिप्यते ? नैव विनियोग आक्षेपे हेतुः । किं तर्हि ? कार्यम् । विनियुक्तत्वमपि कार्येणैवाक्षि- प्यते न त्वङ्गत्वे हेतुः। यत्पुनरिदमुक्तं-'न चाविहितमङ्गं भवति, फलवत्सन्निधावफलं तदङ्ग-इति च । (२)कार्याङ्गत्वप्रतिपयर्थोऽसौ ग्रन्थः, न पुनरगत्वप्र. तिपयर्थः । अस्ति हि कामस्याधिकारे प्रयोज्यत्वं, नचाङ्गता । त- तत्र जुह्वादीनामव्यभिचरितक्रतुसंबन्धात्तद्धितश्रुत्यैव, इह तूपादानात् इति विशेषः । विनियुक्तस्यैवैकत्वादयो विभक्तिभिरभिधीयन्त इति । यद्वस्तु श्रु. त्या विनियुक्तं तस्येत्यर्थः । अत एव चैकवाक्यत्वं संख्याविधानस्य विभक्तिविधानस्य चेति । उपादानन्यापारवशेन यतः कारकस्था एवैकत्वादयो भवन्ति कर. जादौ काभवन्ति इति 1(2) कथं पुनरविनियुक्तमसम्बन्धमेवेदमिति प्रथमचोद्यं परिहर्तु स्मार्यते । नैव विनियोग आक्षेपे हेतुः । कस्तहि, कार्यमिति । अत्रायं भावः-आचार्य- करणविधावुपनयनं पदश्रुत्या दूरस्थमप्यङ्गतया समर्पितम् । तच्च स्वभा. वत उपनेयनिष्ठमुपनेयासत्तिद्वारणोपकारकम् । तत्रासाद्यमानो माण. वको यद्यकिश्चित्करः, तदा तदासादनमनुपयोगि । आसादनानुपयोगे चोपनयनमप्यनुपयोगि। ततश्चासाद्यमानस्य कर्मापेक्षायामुपनयनक मप्रक्रमादुपनीतकर्तृकमध्ययनं श्रूयमाणं तत्कर्मतया विज्ञायते । तेनोप. नयनं स्वाङ्गभूतमाक्षिपन्नाचार्यकरणविधिरध्ययनमाक्षिपति । तदाक्षिप्ता. ध्ययनानुष्ठानसिद्धश्चाध्ययनविधिः स्वसिद्ध्यर्थ नाधिकारान्तरमपेक्षते । यत् पुनरिदमुक्तं न चाविहितमङ्गं भवतीति । यदङ्गं श्रुत्यादिभिर्नियोगासंव. लितैः तस्यैव यत्कार्य प्रत्यङ्गत्वं तत् नियोगव्यापारनिबन्धनमिति दर्श- यति । न पुनरङ्गत्वमेव विनियोगानपेक्षं नियोंगमाक्षिपति । विधेश्च १. एवकारो नास्ति ख. पुस्तके । २. कार्यत्वप्रति इति ख. पुस्तके ।

धर्मजिज्ञासाधिकरणम् ] ऋजुविमलापता । . स्मादन्यत् प्रयोज्यत्वं अन्या चाङ्गता । (१)तथा चोभयं पदानामस्ति प्रयोज्यत्वं, न शेषता । मन्त्रस्य हि विनियोगे न शेषतोच्यते । (२) नाक्षिप्तपदानाम्, अमन्त्रत्वात् । नस्मात् प्रयोज्यत्वादनङ्गत्वाञ्च स्वा- ध्यायाध्ययनस्य भवति संशयः--किं प्रयोज्यत्वादेककार्यत्वम् , (३)उतानङ्गत्वाद्भिन्नकार्यत्वम् ? इति । अत्र पूर्वपक्षवादी प्रयोज्यत्वादेककार्यतां मन्वानोऽविवक्षा में ने। तन्निराकृतय इदं 'अथातः' इति पदद्वयमङ्गीकृतवान् सूत्रका. रः। न चानेन पदद्वयेनायमर्थो(४)निराकृत इति पाठादेवावगम्यते । पूर्वमनुपन्यस्तस्वादस्यार्थस्य । अतो (५)भवत्सलौकिकार्थाशङ्का कस्यचित् । अतः (६)स्थितपूर्वपक्षनिरसनसमर्थ पदद्वयं मन्यानो भाष्यकार आह-(७)'लोके यष्वर्थेषु प्रसिद्धानि पदानि व्यापारो ग्राहकलक्षणान्विताभिधानसिद्धः । न वाध्ययनेन सहाचार्यक. रणाविधेरन्विताभिधानम् , पदश्रुत्याध्ययनविधिनैवान्विताभिधान. सिद्धेः । अस्ति हि कामस्येति । काम्यस्येत्यर्थः । तस्मादुभयं सिद्धं प्रयो- ज्यत्वमनङ्गत्वं चेति । तदाह-प्रयोज्यत्वादनङ्गत्वाचेति । किं प्रयोज्यत्वादककार्यत्वमि. ति । प्रथमोपनिपातादाचार्यकरणविधेरेव प्रयोजनमित्यर्थः । उतानङ्गत्वा- द्भिनकायतेति । पश्चाद्भाव्यपि तत्कर्तृसमवेतं प्रयोजनमित्युक्तं युक्तम् । अध्यापनाङ्गविहित-पुरुषान्तरगतं प्रयोजनं न शक्यते वक्तुं, विनियुक्त विनियोगविरोधादित्यर्थः । न चानेनेति । यदि पूर्वपक्षमुक्त्वा पदद्वयं पठितं स्यात् , तस्यालौकिका शिङ्का न स्यात् । पूर्वपक्षनिराकरणार्थमेव लौकिकार्थमिद मिति ज्ञायते, अन्यथा पूर्वपक्षेण सम्बन्धात् । अनुपन्यस्ते तु पूर्वपक्षे अलौकिकार्थ- शङ्काप्यस्तीत्यतः स्थितपूर्वपक्षनिराकरणायेदमुक्तमिति न्यायवलान्म- न्यमानो भाष्यकार आहेति । १. तथा [भयं इति ख. पुस्तके । २. नह्याक्षिप्तपदानां इति ख. पुस्तके । ३. उतानङ्गत्वात् भिन्नकार्यतेति ऋजुविमलापाठः । ४. निराक्रियते इति ख. पुस्तके । ५. भवति लौकिकार्थाशङ्खा इति ख. पुस्तके । ६. अन्तर्गतपूर्वपक्ष इति ख, पुस्तके । ७. शा.भा.पं.१.प,१. इयं च पृष्ठसंख्या चौखम्बासंस्कृतपुस्तकावलीमुद्रितशाबरभाष्य- पुस्तकानुसारेण वेदितव्या । तत्र प्राथमिकी पृष्ट संख्या ; द्वितीया च पंक्ति संख्येति ध्येयम्। । .

वृहती [ अ.?.पा.१.सू.१ तानि सन्ति सम्भव तदर्थान्येव सूत्रेष्चित्यवगन्तव्यं ना. ध्याहारादिभिरेषां (१)कल्पनीयोऽर्थः परिभाषितव्यो वा" इति । किञ्च न केवलपस्थालौकिकार्थाशङ्कानिरासोऽवगम्यते । प- रिभाषादियनगौरवकरणात् । (२)"तन्त्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियाओं दृष्टः । न चेह किञ्चिद्वृत्तमुप. लभ्यते" इस लौकिकार्थाशङ्कां प्रकटयति । (३)"भवितव्यं तु तेन" इति न्यायानपेतत्वमाशङ्कायाः कथयति । श्रुतसिद्ध्यर्थं हि प्रकरणाद्यन्वेष्यम् । श्रुतस्य ह्य यथार्थत्वे न श्रुतत्वमेव कारणम् । तच्च प्रकरणादिकं सर्वमत्रास्तीति । (४) तत्तु वेदाध्ययनम्", इत्युक्तम् । "तस्मिन् हि सति साऽवकल्पते" इति । इदानीमविवक्षितार्थस्वाध्यायाध्ययनस्याबाह(?) इति तावद्भ वान् सकलस्तत्रार्थपर्यालोचनया वेदाध्ययनस्य वृत्तवं मन्यते । तदयुक्तम् । स्वाध्यायाध्ययनविधेराचार्यकरणविधिप्रयुक्तत्वादविव- क्षितस्वार्थतैवावगम्यते । अथादृष्टार्थमेवेदं सूत्रं-वेदमधीत्यानन्तरं । किञ्च न केवलमस्येति एवं वेदवाक्यान्येवेति भाध्यं व्याचष्टे । अस्यार्थः-ए. वं लौकिकार्थग्रहणे वेदवाक्यान्येव केवलानि ब्याख्यायन्ते । इतरथा अलौकिकार्थत्वे वेदवाक्यानि व्याख्येयानि पारिभाषिकालौकिकार्थानि च सूत्रपदानि व्याख्येयानि । तद्यत्नगौरवं प्रसज्येत । न च प्रसक्तम् । अतो मत्वाऽऽह-लौकिकार्थान्येव पदानीति । अलौकिकार्थाशङ्कां प्रकटयतीति । तत्र लोक इत्यादिभाष्ये अनुपददर्शितोऽयं पूर्वपक्ष आसीत् । तस्य स्फुटकिर णार्थमिदमिति दर्शयति-श्रुतसिध्यर्थ हि प्रकरणाद्यन्वेष्याम् । कस्मात् ? श्रुतस्य ह्यया. थार्थत्वे न श्रुतत्वमेव कारणमिति । यत्र हि विषये श्रुतस्य शब्दस्यायथार्थत्वं तत्र न श्रुतत्वमेव कारणमर्थावगतो, किं तर्हि ? प्रकरणादिकमपि । तच्च प्रकरणादिकं सर्वमत्रास्तीति । इदानीमविवक्षितेति तावद्विवक्षितार्थत्वे न्याय उक्तः। यदि परं शास्त्रे १. परिकल्पनीयः. इति मुद्रितभाष्यपुस्तकेषु पाठः । २. शा.भा.पु.१.पं.५. ३. शा.भा.पृ.१.पं.६. ४. शा.भा.पृ.१.पं.८ ।

७ - धर्मजिज्ञासाधिकरणम् ] ऋजुविमलोपेता। धर्मजिज्ञासेति, एवं तमर्थद्वय विधानं प्राप्नोति-वेदमधीस, अ. नन्तरं चेति । यदि च वेदमधीत्येत्युच्यते अन्यस्यापि कर्मणोऽनन्तरं धर्म- जिज्ञासाऽवकल्पते । अथानन्तर्य विधीयते, प्रागपि वेदाध्ययनात् प्राप्नोति । न चादृष्टार्थस्य वाक्यस्यार्थद्वयविधानं द्विधा सम्भवति । उच्यते-नैवेदमदृष्टार्थ मूत्रं वेदार्थविचारायवेदमारभ्यते । कुतः ? (१) तादृशीं तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवा- नाचार्यः, या वेदाध्ययनमन्तरेण न सम्भवति । (२)वेदवा. क्याथै विचार इह वर्तिष्यत" नन्वविक्षितस्वार्थ वेदाध्ययन. (३)मित्युक्तवान् । विवक्षिते वा किं वेदाध्ययनपूर्वकेणानन्तर्यविधा- नेन, स्वतः प्राप्तेः। (४)"अपि चैवं सति नैव वयमिह वेदाध्य. यनात्पूर्व धर्मजिज्ञासायाः प्रतिषेधं शिष्मः परस्ताच्चा- नन्तर्यम् । नह्येतदेकं वाक्यं पुरस्तावेदाध्ययनाद्धर्मजिज्ञा सां ()प्रतिषेधति परस्ताच्चानन्तर्य(६)मुपदिशति, भि. येत हि तदा वाक्यम् । वेदानधीत्येत्येकस्यां विपरीत. परिभाषादिविरहात् वेदार्थविचाराच्च लौकिकार्थाश्रयणेन वेदाध्ययना. नन्तरं तद्धेतुका धर्मजिज्ञासा कर्तव्येत्यदृष्टार्थमुपदेष्टव्यम् । तत्र वाक्य- भेद इति। नैवेदमदृष्टार्थमिति । यदि ह्यदृष्टार्थमुच्यते ततो ज्ञानेच्छामात्रपर्यवसा. नाद्वेदवाक्यानामनेकविधो विचारो न स्यात् । भाष्ये च तादृशी. शब्देन विचारपर्यन्ततोच्यते, नन्वविनक्षेति । न्यायानभिधानादनुशयोऽ. स्त्येव । विवक्षित इति सूत्रानर्थक्यशङ्का । वेदाध्ययनवदानन्तर्यमपि प्रा. तत्वादनुपदेश्यमिति । अपि चैवं सतीति । वेदाध्ययनं विवक्षितार्थम् । एवं सति वेदाध्ययनपूर्वकमानन्तर्यमपि न विधेयम् । पूर्व अर्थद्वयविधानमः १. शा.भा.पृ.१.पं.१०-१२ । २. वेदवाक्यानामनेकविधो विचारः, इति मुद्रितपुस्तकपाठः। ३. इत्युक्तं इति ख.पु.। ४. शा.भा.पृ.१.पं.१२ - १९ । ५. प्रतिषेधिध्यति इति मुद्रितपुस्तकपाटः । ६. प्रकरिष्यति. " ? , बृहती [अ०१.पा०१.सू०१. (१)मेकस्याम् । अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति" अत एवा. दृष्टार्थाशङ्का नैव सूत्रे कर्तव्या। किमर्थं तर्हि सूत्रम् ? स्वाध्यायाध्ययनविधेराचार्यकरणाद्गु. रुकुलनिवृत्तिरेवानन्तरं भाति । अनङ्गत्वात्तु स्वार्थपरेतैव न्याय्या, नाविवक्षितार्थतेति सूत्रस्य प्रयोजनम् । तदिदमाह-(२)"किं चा. धीते वेदे द्वयमापतति-गुरुकुलाच समावर्तितव्यं वेदवा. क्यानि विचारयितव्यानि । तन्मा समावर्तिष्ट कथं नु वेदवाक्यानि विचारयेदित्येवमर्थ उपदेशः" । यद्येवं न तर्हि वेदाध्ययनं पूर्वम् , अनन्तरं धर्मजिज्ञासाया अविवक्षितस्वार्थतां वेदाध्ययनस्य स्मृतिकारो मन्यते-वेदमधीय स्नायादिति । न चेदमन्याय्यं स्मृतिवचनं, स्वाध्यायाध्ययनविधेर्विनियुक्तविषयः स्वात् । तत्पूर्वकत्वाच्च स्वार्थावगतः। तस्मादविवक्षितार्थतैव न्याय्या वेदादवगम्यते। (३) न चम्नायोऽतिक्रमितव्यः । तदुच्यते- भ्युपगम्यवाद इति अपिचेत्युक्तम् । अत एवादृष्टार्थत्वशङ्काऽपि नास्ति, वाक्यभेदात्। किमर्थ तर्हि इति। उभयानभिधाने किमर्थ सूत्रमिति । स्वाध्यायाध्ययननिधेरि- ति । पूर्वपक्षोत्थाविवक्षानिराकरणार्थमित्यर्थः । यद्येवं न तहीति । धर्मजि. ज्ञासायाः पूर्व स्यादपि वेदाध्ययनं, आनन्तर्य तु नास्तीति भाष्यं पूरय- त्यनन्तरशब्दं प्रक्षिपन् । वेदमधीत्य स्नायादिति । वेदमित्येतदुक्तं भवति । वेदमधीत्य, स्नायादिति यत् तत् स्मृतिकारा अध्ययनविधिनैवानुवच. नान्तार्थोपदेशिनैवं समामनन्ति-वेदाध्ययनानन्तरंगुरुकुलान्निवर्तितव्य. मिति । न पुनरेवं भाष्यं योजयितव्यं वेदमात्य स्नायादित्यनेनैव समाम नन्तीति स्मृतिषु समास्नायव्यपदेशाभावात् । न चेदमन्याय्य स्मृतिवचनं स्वाध्यायध्ययनविधेर्विनियुक्तविषयत्वात् तत्पूर्वकत्वञ्चार्थावगतेरिति । अथ कस्मात् कर्मविधय एवार्थावबोधद्वारेणोपकारकं प्रसिद्धमध्यः यनविधि न प्रयुञ्जत इत्याशङ्याह--विनियुक्तविषयत्वादिति । विनि युक्तमुपनयनमाचार्यकरणविधावात्मनेपदश्रुत्या, तद्विषयश्चाध्ययनवि. १. अन्यस्याम् इति मुद्रितपुस्तकेषु । २. शा.भा.पृ.१.पं.१९-२१॥ ३. शा.भा.पृ.२.३-५ । न चान्नायो नाम इति मुद्रितभाष्य पु० । .

धर्मजिज्ञासाधिकरणम् ] ऋजुविमलोपेता। अतिक्रमिष्याम इभमानायन । अनतिकामन्तो बेदमर्थ. वन्तं सन्तमनार्थक कल्पम" आचार्य यकरणविधध्ययनमा- त्राच नार्थावबोधप्रत्यार्थिता सम्भवति । ननु च-स्वाध्यायाध्ययन विधेः प्रयोजनद्वयासंभवादविव:- व । केन चोक्तं स्वाध्यायाध्य यनविधेः प्रयोजनमतदिति ? (१) "दृष्टोहि तस्थार्थ: कारबोधनं नाम । उक्तं चाशेषत्वं स्वा. ध्यायाध्ययनस्य । तम्याधिकाराश्रवणात् । तदिदमाह-(२)"न च तस्याध्ययनमात्रात्तत्रभवन्तो याज्ञिकाः फलं समामन. न्ति । यदपि च समामनन्तीव, तत्रापि'द्रव्यसंस्कारकर्मसु धिः उपनीतकर्तृकाध्ययनविषयत्वादुपनयनस्य विषयानुप्रवेशादु. पनयनमध्ययनविधिविषय इत्युक्तम् । एवं सत्यङ्गद्वारेणाचार्यकरण विधेः प्रयुक्तिः। उपकारमात्रेण तु कर्मविर्धानाम् । यस्य चाङ्गद्वारेण प्रयोजकत्वं तदेव प्रयोजकमित्यामिक्षाधिकरणे (पू. मी. २-२-८) वश्या. मः । अध्ययनोत्तरकालभावी चार्थावबोध इति न तन्मुखेन कर्म- बिधीनां प्रयोजकत्वम् । अत एव द्रव्यार्जननियमवत् दृष्टोऽप्यर्थावबो. धोऽधिकारिविशेषणतया न परिगृह्यते । अध्ययनपूर्वकत्वादविबोधस्य प्रागध्ययनात कामनानुपपत्तेः । उत्तरकालभावितयैव चार्थावबोधोऽपि प्रयोजनान्तरं न स्वीक्रियते । केन चोक्तं स्वाध्यायाध्ययनविधेः प्रयोजनमेतदिति । आचार्यकरणनिष्पत्तिः। किं तर्हि प्रयोजनमिति । दृष्टो हि तस्यार्थः कर्माव- बोधनमिति । कस्मात् पुनराचार्चकरणनिष्पत्तिरेव प्रथमोपनिपातिनी प्र. योजनं न भवति ? । उच्यते-यत्कर्तृको हि यो विधिः तत्पुरुषयोग्येवास्य प्रयोजनमित्युत्सर्गः । यत्र पुनस्तन्न दृश्यते तत्र पुरुषान्तरगतमपि गृ. ह्यते । दृश्यते चात्र पश्चाद्भाव्यपि कर्मावबोध इति । तदेव प्रयोजन न पुरुषान्तरगताध्यापनसिद्धिः। उक्तं चाशेषत्वं स्वाध्यायाध्ययनस्य, तस्याधिकारा. श्रवणात् । यदि ह्याचार्यकरणविध्यधिकार्यवाध्ययनेऽप्यधिकारी श्रूयते, तदा तदर्थमेवाध्ययनं स्यात् । अध्ययननिम्पत्त्यर्थश्व स्वाध्यायशब्दवा. न्योऽक्षरराशिः। ततश्चान्यपरत्वाच्छब्दस्य व्युत्पत्यभावादर्थो न विव. क्षितः स्यात् । यदिदमाहाधिकाराश्रवणं भाध्यकारः। न च तत्रेति । यदपि च समानन्तीव तत्रापि द्रव्यसंस्कारकर्मस्विति । ननु च किमध्ययनं संस्कारः ? १. शा.भा.पृ.२.पं.५. । २. शा.भा.पृ.२.पं.५-८. । २ बृ० ऋ० बृहती [अ०१.पा०१.सू०१. परार्थत्वात् फलश्रुतिरर्थवादः स्था' ( पू.मी. ४-३-१ .) दित्यर्थवादतां वक्ष्यती"ति ! ननु -नैवान विरोधी विद्यते । किं विरोधनिराकरणार्थेन मू. वेण? कथमविरोधः ? (:)"न चाधीतवेदस्य स्नानानन्तर्यमे तद्विधीयते । नह्यानन्तर्यस्य वक्ता कश्चिच्छब्दोऽस्ति । पूर्वकालतायां हि क्त्वा स्मयंते, नानन्तर्ये । दृष्टार्थता चा. ध्ययनस्यानन्तर्ये व्याहन्येत" । स्यादेतदेवं यद्यस्याः स्मृतेमूलान्तरमस्ति । आचार्यकरणविध्यर्थपरिसमाप्तिरेवास्य मूलम् , बेदानुवचनान्तकत्वादाचार्यकरणविधेः । (२)"किन्तु उच्यते--अनारभ्यविधानात् विधेरेव साध्यत्वात् प्रधानकर्मेदम् । न च स्वाध्यायस्य कचिदपि विनियोगः, येन तन्मुखन विध्यन्तरसाध्यतैवात्र स्विष्टकृदादिवञ्च दृष्टोऽक्षरसंस्कारः। तन्मुखेनार्थावबोधोऽपि पुरुषार्थों न युज्यते । यदि त्वसौ न दृश्यते विधिमात्रमेव साध्यः स्यान् । नाप्यर्थ वादादेव कल्प्यं फलम् । विध्यर्थनिष्पत्त्यैव प्रयोजनववाद्विधेदृष्टार्था- वबोधस्यापि वेदार्थस्यानन्योपायत्वानियमासम्भवेऽपि नानर्थक्यम् । तदुक्तम्-नियोगार्थनिवृत्तेः किमन्यत् प्रयोजनं सर्वविधीनामिति । पुरुषोपयोग्यर्थावबोधप्रयोजनस्वीकाराच्च पुरुषार्थवदैश्वर्यलक्षणोऽधि. कारोऽपि सिद्ध इति । ननु नैवात्रेति। यदि हि स्मृतिविरोधः स्यात् ततस्तत्परिहारार्थ सूत्रमारभ्येत । न चैवमिति । दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत । अध्ययः नानन्तर्ये व्याहन्येत । अध्ययनस्य दृष्टार्थता च क्वाप्रत्ययस्यानन्तर्येऽर्थे स्वीक्रियमाणे व्याहन्येत। अतो नानन्तर्य 'क्वा' प्रत्ययस्यार्थः। एतदुक्तं भवाति-यद्यपि त्वाप्रत्ययेनानन्तर्यविशिष्टा पूर्वकालतोच्यते, तथाप्य. ध्ययनविधिविरोधात् पूर्वकालतामात्रमेवार्थों गृह्यत इति । स्यादेतदेवामिति । यदि स्मृतेर्वेदमधीत्य स्नाया'दिति वेदाध्ययनोत्तरकालताविशिष्टस्नान मात्रविधायकत्वं स्यात्, ततः स्मृतेरपि मूलान्तरं कल्प्यं स्यात् । यदा स्वध्ययनानन्तरमस्नानादिनियमनिवृत्त्यर्थता भवेत् ततः पूर्वपक्षन्यायमू- लत्वान्नादृष्टमूलान्तरानुमानं स्यात् । तत्रादृष्टकल्पनाया असम्भवात् दृष्टे पूर्वपक्षन्याये सति तन्मूलत्वमेव न्याय्यं स्मृतेः। तन्मूलत्वे चास्ति विरोधः। १. शा.भा.पृ.२.पं.८-१०। २. शा.भा.पृ.२.प.११। किन्तु' इति नास्ति मुद्रित पुस्तके ।

धर्मजिज्ञासाधिकरणम् ] ऋजुविमलोपता। - लक्षणया त्वेषोऽर्थः स्यात्" । किमिदमुच्यते- वेषोऽर्थः स्यादिति ? इदमुच्यते-(१)"नचेदमदृष्टार्थ विधी- यते । किन्तु लक्षणया अस्नानादिनियमस्य पर्यवसानं वे. दाध्ययनसमकालमाहुः-वेदमधीत्य स्नाधादिति” । अतोऽपन्यायमूलतां कथयितुं सूत्रम् । गुरुकुलान्मा समा- वर्तिष्टेति मूलान्तरत्वं च स्मृतेरदृष्टं कल्पयितव्यम् । अतो ऽदृष्टार्थतापरिहारायैवाचार्यकरणविधिरेवास्या मूलम् । तस्माद्वे दाध्ययनमेव पूर्वमभिनिर्वानन्तरं धर्मो निज्ञासितव्य इति स्थि तमथशब्दप्रयोगसामर्थात् । एवञ्चन्नेदमदृष्टार्थ, प्राप्तत्वात गुरुकुल. निवृत्तिरेव निर्वायते । (२)"न बमोऽन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्येति । वेदमधीत्य न त्वरितेन स्ना. तव्यम् । अनन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्यार्थः" । (३)"अतशब्दो वृत्तस्यापदेशको हेत्वर्थः । (४)ननु- कस्य वृत्तस्य(५) हेतुतामपदिशति ? वेदाध्ययनस्येति ब्रूमः पूर्वपक्षे ह्यनुवचनान्त एवाचार्यकरणविध्यर्थः । तस्मिन्निवृत्ते तत्प्रयुक्ताः सर्वेऽध्यस्नानादयो नियमा निवर्त्तत इति वेदाध्ययनानन्तरमेव गुरुकु- लानिवृत्तिः। अतोऽपन्यायमूलतां स्मृतेः कथयितुं सूत्रमिति स्थि. तम् । गुरुकुलान्मा समावर्तिष्टेत्येवमर्थः । अदृष्टार्थता परिहारायैवेति भाष्यम् । पूर्व तावददृष्टमूलत्वान मूलान्तरकल्पनेत्युक्तम् , अधुना स्नानविधेरह- ष्टार्थतापरिहारार्थमपि मूलान्तरं न कल्प्यमिति दर्शयति। तयाचष्टे- मूलान्तरत्वं चेति । एवं चेदिति । यदा स्मृतिबाधनार्थमिदं सूत्रं तदा दृष्टार्थ न भवति । किं तु अपन्यायसूचनार्थम् । नापि दृष्टार्थमिति । नापि सर्ववादिसम्मतन्यायनिबन्धार्थ, विप्रतिपन्नत्वात्स्मृतिकारस्य । न बमो ऽन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्येत्यदृष्टार्थतां निरस्यति । किंतु वेदम धत्येित्यनेन सर्ववादिसम्मतार्थतां स्मृतिकारविप्रतिपत्या निराकरोति । अतशब्दो वृत्तस्यापदेशको हेत्वर्थः इति भाष्यम् । कस्य वृत्तस्य हेतु. १. शा.भा.पृ.२.पं.११-१३ २.शा.भा.पृ.२.पं.१६-१८ ३. शा.भा.पृ.२.पं.१९ ४. ननु इति स्थाने 'तेन' इति ख. पुस्तके । ५. हेतुतामुपदिशति इति क.पु. । - १२ बृहती [अ०१.पा.१.सू०१. कथं पुनर्वेदाध्ययनस्य हेतुता ? अध्ययनानन्तरमर्थावबोधदर्श. नात् । अमोऽधीलवस्यानन्तरं धर्मजिज्ञासा । तदिदमथेत्युः क्तम् । अतो(१)ऽर्थावगमार्थ धर्मजिज्ञासाहेतुरध्ययनम् । (२) यथा क्षेमसुभिक्षोऽयं देशः, अतोऽहमस्मिन्देशे वसामी"ति। पूर्वो. तस्य वाक्यस्यात शब्दो हेतु तामुपदिशतीति लौकिकार्थतां दर्शयति- (३)"एवमधीतो बेदोधर्मजिज्ञासायां(४) हेतुतिः । अन- न्तरं धर्मो जिज्ञासितव्य" इत्यथशब्दव्याख्यानमेव प्रयुक्तवान् हेतुत्वावगमाय । (५) धर्माय हि वेदवाक्यान्यनधीतवेदो विचारयितुं न शक्नुयात्" इसनेनाधिकारशून्यां स्वार्थ- विवक्षां दर्शयति । अत एतस्मात्कारणादनन्तरं धर्म जि. ज्ञासितुमिच्छेदित्यर्थः । निगमनवाक्यमेतत् । “धर्म जिज्ञासितु. मिच्छेत्" इति कस्य सूत्रावयवस्य व्याख्यानमेतत् ? धर्मजिज्ञासा. तां दर्शयति ? वेदाध्यायनस्यति । वेदाध्ययनमेव ह्यध्ययनानन्तराया धर्म- जिज्ञासाया हेतुरित्यर्थः। अध्ययनानन्तरमर्थांवबोधदर्शनादिति । (६)अथ सूत्रार्थव- र्णना-अतो वेदाध्ययनाद्धेतोः धर्मजिज्ञासा अध्ययनानन्तरमेव कर्तव्या। हेतोः सिद्धत्वाद्विलम्बानुपपत्तेः। कथमध्ययनमानन्तर्यहेतुः ?। यस्मा. दध्ययनानन्तरमर्थावबोधः तस्माद्ध्ययनं हेतुरिति । तदिदमथेत्युक्तम् । हेतुमदानन्तर्य हेतुत्वावगमायेति हेतुमता विना हेतुत्वावगमासिद्धहेतुम- दथशब्दव्याख्यानं युक्तम् । धर्माच्या हि वेदनाक्यानि निचारयितुमनधीतवेदो न श- क्नुयादिति । वेदाध्ययनं विना वेदार्थविचारा (७)शक्तेर्वेदाध्ययनस्य हेतुतामाह भाष्यकारः। एतच्चाभिदधता भाष्यकारेण वेदाध्ययनं विना तदर्थावबोधस्यानवगतत्वात् कामनानुपपत्तेरर्थावबोधकामोऽध्ययने- ऽधिक्रियते इति निराकृतम् । तदाह-अनेनाधिकारशून्यामिति । निगमननाक्या. मेतदिति । उपसंहारवाक्यमेतदित्यर्थः । कस्या सूत्रागावस्या व्याख्यानमेतदिति द्वितीयेच्छाश्रवणात् पृच्छति । धर्मजिज्ञासापदस्यति । अत्रायमभिप्रायः-जिज्ञासा १. अतोऽनन्तरार्थावगमार्थ इति ख.पु. । २. शा.भा.पृ.२.प.१९-२०, ३. शा.भा.पृ.२.पं.२०-२१ ४. हेतुर्जात इति ख. पु.। ५. शा.भा.पृ.२.पं.२२. ६. अत्रेत्थं सूत्रार्थवर्णना इति ख. पुस्तके । ७. विचारायशक्तेरिति क. पुस्तके ।

धर्मजिज्ञासाधिकरणम् ] ऋजुविमलोपता। पदस्यति ब्रूमः । ननु-धर्म जिज्ञासेदिति वक्तव्यम् । प्रकृतिप्रत्यययो- हि प्रत्ययार्थस्य प्राधान्यमित्युत्सर्गः । धर्मजिज्ञासापदे पुनः प्रकृ- त्यर्थप्राधान्यप्रदर्शनायायं प्रयत्नः । (१) धर्माय (२)हि जिज्ञासा धर्मजिज्ञासा" कथं पुनः प्रकृत्यों ज्ञानं, प्रत्ययार्थ इच्छा ? यस्मादीहश एवार्थे सन् स्मर्यते "धातोः कर्मण" (पा.मू.३.१.७. ) इति । एवं तर्हि ज्ञानस्य प्राधान्यं न धर्मस्य । न ह्यनन्यार्थी क्रिया प्रधान भ- वतीति । धर्मकर्मिकैव सा प्रधानम् । अतो धर्मार्थी जिज्ञासा । प्रति धर्मस्य प्राधान्यम् ,(३)तच्च प्रधानं यद्येन ब्याप्तुमिष्यते । अतश्चप्रा. धान्यं(४)वक्तुं द्वितीयेच्छति। ननु धर्म जिज्ञासेदिति वक्तव्यमित्येतमभिप्रायमजा नतः प्रश्नः। प्रकृतिप्रत्यययोर्हि इत्यभिप्राय विवरणम्-यदि हि द्वितीयच्छा न प्रदर्श्यते ततो धर्मप्राधान्यं न स्यात् । द्वितीयेच्छाप्रदर्शनेन हि धर्मस्य प्राधानं शक्यते दर्शयितुम् । यदि तु न तथा प्रदर्श्यते तदा प्रत्ययार्थ- त्वादिच्छायाः प्राधान्यं स्यात् प्रकृत्यों विज्ञानं तद्विशेषणं स्यात् । ज्ञानविशेषणश्च धर्मः स्यात, न तु प्रधानम् । तेन धर्मजिज्ञासापदे प्रकृ. त्यर्थस्य प्राधान्यप्रदर्शनाय द्वितीयेच्छा प्रदर्शिता। द्वितीयेच्छायां हि द. र्शितायां धर्मस्य प्राधान्यं, तत्प्राधान्यं च तादर्थे ज्ञानस्य, तादर्थ्य च ज्ञानस्येच्छायाः तादर्थ्य भवतीति द्वितीयेच्छाप्रदर्शनेन धर्मस्य प्राधान्यमुक्त्वा प्रकृत्यर्थप्राधान्यप्रदर्शनं कृतं भवतीति । तेनायमर्थः- धर्माय जिज्ञासा धर्मजिज्ञासेति । कथं पुनः प्रकृत्यर्थो ज्ञान प्रत्ययार्थ इच्छा यस्मादीदृश एवार्थे सन् स्मयते "धातोः कर्मण" इति । धात्वर्थस्येच्छाकर्मत्वात् कर्मणश्चेष्यमाणस्य प्रधानत्वात् । एवं तर्हि ज्ञानस्यैव प्राधान्यं न धर्मस्य अधात्वर्थत्वात् । न्यार्थी क्रिया प्रधानं भवति क्लेशात्मकत्वात् क्रियायाः । अन्यार्थाया एव प्राधान्यम् । तेन धर्मज्ञानस्य धर्मार्थत्वात् धर्मस्यापीच्छां प्रति प्राधान्यम् । अतो धर्मार्था जिज्ञासा। एवञ्च तादर्थ्यस्य प्रतीयमान- त्वाच्चतुर्थीसमास एवायं धर्माय जिज्ञासा धर्मजिज्ञासेति । तदिदं धर्मस्य प्राधा- न ह्यन. १. शा.भा.पृ.२.पं.२५ ३. तत् इति ख. पुस्तके। २. हि शब्दो नास्ति मुद्रितभाष्यपुस्तकेषु । ४. लब्धुमिति ख. पुस्तके ।

वृहती [अ०१.पा० १.सू०१. तादिदमाह-(१)"सा हि तस्य ज्ञातुमिच्छा" इति । उक्ता धर्मार्था जिज्ञासा । स पुनः कथं जिज्ञासितव्यः (२)को धर्म: ? कथंलक्षण: ? कान्यस्थ साधनानि ? कानि साधनाभासानि? किंएरश्चेति । एवमविज्ञातो धर्मो नानुष्ठाना. यालं भवति । अननुष्ठितो धर्मो न धर्मकार्य करोतीत्युक्तम्-(३)"आ. सां प्रतिज्ञानां पिण्डत्यैतस्सूत्रम्-अथातो धर्मजिज्ञासे. ति" । केयं किपरता नाम? अधिकाराभिप्रायमेतदुच्यते-"क पुरु- षपरत्वं ?क वा पुरुषो गुणभूत ? इति" च । धर्मः प्रसिद्धोऽप्रसिद्धो वेति च कोऽभिप्रायः ? यदि पुनर्वेदा. न्यमाह-सा हि तस्य ज्ञातुमिच्छेति । तस्य धर्मस्य सा इच्छा, किमर्थम् ? ज्ञातुम् । कथं ज्ञातो धर्मो भवोदेति । स कथं जिज्ञासितव्यः?। केन प्रकारेण जिज्ञासा.क्रियमाणा धर्मार्थ भवतीति । एवं जिज्ञासितव्यः । को धर्मः ? किरूपो धर्मः । कथंलक्षणः ? सापेक्षत्वनिरपेक्षत्वलक्षणयोः (४)किप्रकार- प्रमाणकः ? । कान्यस्य साधनानि ? कानि साधनानां करणेतिकर्तव्यतारूपा. णि? किंपरश्च? किमधिकारपर्यन्तश्चेति । एवमविज्ञातो धर्मों नानुष्ठायालं भवति । एवं विज्ञातोऽनुष्ठातुं शक्यते । तेनेत्थं जिज्ञासा क्रियमाणा धर्मार्था भव. ति। ननु-मा नामानुष्टीयताम् । तथाऽपि किमिति तादर्थ्य न भवती. त्याह-अननुष्टितो हि धर्मो न धर्मकार्य करोतीति । किं पुनर्धर्मस्य कार्यम् ? । अ: धिकारसिद्धिरित्युक्तम् । आसां प्रतिज्ञानां पिण्डस्यैतत्सूत्रमिति । यत उक्तन्यायेन धर्मार्था जिज्ञासा सूत्रेणोक्ता एवं क्रियमाणा जिज्ञासा धर्मार्था भवति । तस्मात् सर्वासां प्रतिज्ञानां पिण्डस्यैतत् सूत्रमिति । केयं किपरता नामेति । अयमभिप्रायः-धर्मो हि नियोगः । स हि स्वनिष्ठो न कश्चित्प्रति गुणभूत इति । अधिकाराभिप्रायमतदुच्यते इत्यस्यार्थ:-अधिकारः पुरुषस्यैश्वर्य कर्मणि । तदभिप्रायमेतदिति । एतदुक्तं भवति-पुरुषाधिकारपर्यन्तो धर्म इति । परशब्दश्च पर्यन्ताभिमायण क्व पुरुषपरत्वं क्व वा पुरुषा गुणभूत इति चाधिकाराभिप्रायम्। यदि पुनर्वेदादेवाय(५)मर्थो गम्यते किमत्र जिज्ञास्यत इत्यस्यार्थः-वेदाद्वे. १. शा.भा.दृ.२.पं.२५. २. शा.भा.पृ.२.पं.२६-२७ ३. शा.भा.पृ.२.पं.३०- ४. किंप्रमाणकः इति क. पुस्तके । ५. अयमर्थोऽवगम्यते किमत्र जिज्ञासितव्यं इति ख. पुस्तके ।

धर्मलक्षणाधिकरणम् ] ऋजुविमलोपता। १५ देवाय मर्यो गम्यते किमत्र जिज्ञास्यते ? सत्यम् ; विप्रतिपन्नास्तु महर्षयः केचित्यमाणान्तरपूर्वकमर्थ वर्णयन्ति । केचिन्मन्त्रार्थवा. दानामपि यथाश्रुते एवार्थे प्रामाण्यमिच्छन्ति अकार्येऽप्यर्थे वेदः प्रमाणमिति वदन्तः । अतोऽस्यां विप्रतिपत्तौ सत्त्यां प्रारभ्यते जिज्ञासा तत्वावगमाय । तत्त्वेनापरिज्ञातोऽर्थोऽनुष्ठीयमानो विह. भ्यनुष्ठातारम् , ज्ञात्वाऽनुष्ठितो निःश्रेयसेन संयुनक्तीत्यारभ्य. ते जिज्ञासा ॥१॥ इति प्रथमं धर्मजिज्ञासाधिकरणम् ॥ १ ॥ - अथ द्वितीयं धर्मलक्षणाधिकरणम् ॥२॥ चोदनालक्षणोऽर्थो धर्मः ॥ २॥ सर्वविचाराणां प्रतिज्ञापूर्वकत्वात्तदभिधीयते-(१)"चोद- दार्थेऽवगम्यमाने वेदोऽपि विवक्षितार्थ एवावगम्यते । अनवग म्यमाने त्वध्ययनविधि(२)सिद्ध्यर्थमेवाध्ययनम् । सर्वथा न जिज्ञा. सावकाशोऽस्ति । सत्यं विप्रतिपन्नास्त्विति । सत्यं गम्यते । किन्तु गम्यमाने ऽप्यर्थे विप्रतिपत्तिरस्ति । तेन तन्निवृत्तये जिज्ञासोचिता । केचित्प्रमा- णान्तरपूर्वकमर्थं वर्णयन्ति, वेदस्य पौरुषेयत्वमिच्छन्तः। केचित् मन्त्रार्थवादानामपि यथाश्रुतमेवार्थ वर्णयन्ति-सिद्धरूपेऽकार्येऽप्यर्थे वेदः प्रमाणमिति वदन्तः मात्रप्रामाण्यपक्षे हि कार्यानुगुण्याहुणवादादिभि(३)र्याख्यानम्। इतरथा श्रौत एवार्थः स्यात् । तत्वेनापरिज्ञातोऽथोऽनुष्ठीयमानोऽपि विहन्त्य नुष्ठातारमधिकारसिद्धिं न प्रापयति । ज्ञात्वा चानुष्ठितो निःश्रेयसे. ना( )धिकारिणं योजयतीति प्रारभ्यते धर्मजिज्ञासा ॥१॥ इति प्रथमं धर्मजिज्ञासाधिकरणम् ॥ । कार्य अथ द्वितीयं धर्मलक्षणाधिकरणम् ॥ २ ॥ चोदनालक्षणोऽर्थो धर्मः ॥ २॥ १. शा०भा०३.९ २. सिध्यथत्वमेवाध्ययनस्येति ख. पुस्तके। ३. व्याख्यातः । ४. अधिकारेण योजयति" इति ख. पुस्तके ।

१६ वृहती [अ०१. पा०१. सू०२. नेति क्रियाशाः प्रवर्तक वचनमाहु"रिति । कार्येऽर्थे वेदस्याप्रामाण्यं दर्शयति "तल्लक्षणो धर्म' इति वदन् । .० । कार्यऽर्थ इति । न कार्यावगमं विना प्रवृत्तिरुपपद्यते । तेन कार्याभिधा. यकतयैव वचनस्य प्रवर्तकता । कार्याभिधायकेन(१) च कार्यमेव लक्ष्यते, तेन कार्य एव वेदः प्रमाणम् ! तल्लक्षणो धर्म इति । अस्यार्थः-चोदनाल. क्षणसूत्रेण चोदनालक्षणः कार्य रूप एवार्थो न सिद्धरूप इति प्रतिज्ञा तम् । तदनेन भाध्येण व्याख्यायते । धर्मशब्दश्च वेदार्थमात्रपरः । (२)अत्रापरेऽपरिपक्वविद्यावलपोद्रेकतिरस्कृतविवेकाः परिचोदयान्त- कथं पुनः कार्यरूपो वेदार्थः ? यावता वेदान्तानां सिद्ध एवार्थः "विज्ञानमानन्दं ब्रह्मे"(बृ.३-१-२८)ति प्रतीयते। स्यान्मतम्-अपरिपूर्णत्वात्तत्र योग्यविध्यध्याहारः क्रियत इति । (३)तन तु । अपरिपूर्तेः कारणाभावात् । अथोच्येत-वृद्धव्यवहार एव श. दानां स्वार्थे व्युत्पत्तिः । प्रवृत्तिनिवृत्त्यात्मकत्वाञ्च व्यवहारस्य,कार्यावगम- पूर्वकत्वाच्च प्रवृत्तिनिवृत्योः(४)कार्यान्वित एवार्थः सर्वशब्दाभिधेयः। न चेह कार्यमस्ति । (५)तेन कार्यान्वयं विना अपरिपूर्णत्वात् कार्यमध्याहियत इति । तदेतत् स्वसमयपरिकल्पितम् । विनापि व्यवहारेण सिद्धार्थेष्वपि वाक्येषु कार्यान्वयरहितेषु व्युत्पत्तिसंभवात् 'पुत्रस्ते जात' इत्येवमादिषु । नन्वर्थविशेषविषयां प्रतीतिमनुमाय शब्दतद्भावभाविनी शब्दस्य स्वार्थे शक्तिनिरूपणा व्युत्पत्तिरुच्यते । न च व्यवहारं विना परबुद्धिर नुमातुं शक्यते । उच्यते-हर्षादिनिबंधनमुखप्रसादादिभिरपि लिङ्गैः शक्यानुमानैव परेषामपि बुद्धिः । मुखप्रसादादिर्हर्षमनुमापयति । स च हर्षहेतुम् । प्रियार्थप्रतिपत्तिश्च हर्षहतुः । सा च वाक्यनिबन्धनेति "पुत्रः स्ते जात" इत्यनेन हर्षहेतुभूतार्थप्रतिपत्तिः कृतेति ज्ञायते । हर्षहेतुश्च पुरुषस्य पुत्रजन्मैव केवलमस्तीत्यवगच्छन् विशिष्टार्थविषयां शब्दस्य शक्तिमध्यवस्यति । आवापोद्धाराभ्यां च प्रतिपदं (६)व्यवहार इव व्युत्पत्तिरत्राप्युपपद्यत इति निरवद्यम् । . १. 'च' इति क. पुस्तके नास्ति । २. अत्रापरोऽपरि.....'कः परिचोदयति" इति क. पुस्तके. । ३. तन्न. इति ख. पुस्तके। ४. कार्यान्वयिन एवास्सर्वशब्दाभिधेयाः. इति ख० पुस्तके । ५. तेनेह इति ख० पुस्तके । ६. व्यवहारवत् इति ख० पुस्तके ।

धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता । ताव. - अपि च व्युत्पन्नेतरपदविभक्त्यर्थों वर्तमानापदेशेऽपि 'काष्ठैः पच. ती'ति काष्ठपदार्थे व्युत्पद्यते कार्यान्वयरहित एव । किं च व्यवहारेऽपि व्युत्पत्तौ यद्यप्यन्वितार्थतैव पदानां, तथापि न कार्यान्विताभिधायिः तया व्युत्पत्तिः । किन्तु अर्थान्तराभिधायितयैव । यो हि विशेषा. न्विताभिधानमिच्छति इच्छत्यसावर्थान्तरान्विताभिधानम् । ता च प्रयोगप्रतिपत्युपपत्तौ न शक्यते विशेषान्विताभिधानकल्पना । तथा च लोके सिद्धार्थान्येव भूयिष्टानि वाक्यानि दृश्यन्ते- कुशलं ते ? (१)कुशलं, इत्येवमादीनि । किं च कार्यमपि तदु. ध्यते यदपेक्षितोपायम् । तेन सिद्धव कर्मणामपेक्षितोपायता (२)कार्य- परेषु वाक्येषु गम्यते । अतः सिद्ध एव वेदार्थः । तदेतद्वालभाषितं बालेम्वेवादरणीयतां लभते । नहि वृद्धव्यवहार. मन्तरेण व्युत्पत्तिः सम्भवति । विशिष्टार्थविषया हि प्रतिपत्तिरर्थविशे. षाभिधानकल्पनानिमित्तम् । न च हर्षो हर्षहेतुविशेषानुमाने प्रभवति । न च पारिशेष्येण हेतुविशेषनिश्चयः। कालत्रयवर्तिव्यवहितविप्रकृ. ष्टानां हर्षहेतूनां पारिशघ्यावधारणानुपपत्तेः । व्यवहारः पुनर्विशिष्टा. र्थविषय एव प्रत्यक्षमुपलभ्यमानस्तद्विषयामेव प्रतीतिमनुमापयन् शब्दस्य विशिष्टार्थाभिधानकल्पनायां हेतुयुत्पत्तावादिमार्गभूतः का. र्यान्विताभिधायकत्वमेव सर्वशब्दानामापादयति । अत एव (३) काष्ठैः पचतीति वर्तमानापदेशेऽपि या व्युत्पत्तिः साऽपि कार्यान्वितार्थान्त. रसम्बन्धानुगुण्यात्कार्यान्वायन्येव । यच्चेदमर्थान्तरान्वितमात्राभिधाने पदानि व्युत्पद्यन्त इति, तदपि बालिशभाषितम् । सर्वेषु वृद्धव्यवहारवाक्येषु कार्यान्वितार्थप्रतीतेना. र्थान्तरमात्रान्विता(४)भिधानकल्पना संभवति । यदि कार्यान्वयोऽपि कचिद्व्यभिचरति तदाऽर्थान्तरमात्रान्विताभिधानं कल्प्येत । न च तदस्ति। ननु च-'निधिमानेष भूमागः, 'प्रतिरोधकवानयमध्ये'ति विनाऽपि कार्यान्वयं प्रवृत्तिनिवृत्तिकरवाक्यमुपलभ्यते । वाक्येन हि निधिम १. 'कुशलं मम' इति ख. पुस्तके । २. कार्यपरेषु वाक्येषु स्वतस्सिद्ध एव वेदार्थः. इति ख. पु. । ३. काष्ठैः पचतीति ख. पुस्तके नास्ति । ४. अभिधानं कल्प्येत इति ख. पुस्तके । ततो 'यदि इत्यादिः 'अस्ति' इत्यन्तो ग्रन्थः ख. पुस्तके नास्ति । ३ बृ० ऋ० वृहती [अ.१.पा.१.सू.२. कार्यरूप एवेति दर्शयति-चोदना हि भूतमिति । यदि कार्य एवं चार्थे वेदस्य प्रामाण्यं कथं तर्हि भूताद्यर्थावगतिमन्त्रार्थवादेषु ? त्तायां बोधितायां तदुपादिलोः प्रवृत्तिः । प्रतिरोधकवत्तायां च तजि. हासोनिवृत्तिरिति । अत्र ब्रूमः-यत्र तावत्प्रवृत्तिनिवृत्ती विद्यते तत्र तत्तत्कारणी भूता कार्यावगतिरस्ति । न हि तां विना ते भवतः । शब्दान. न्तर्याच शब्देनैव सावगतेति कल्पयति पावस्थः । न च कार्यार्थः शब्दो न श्रूयत इत्येतावता शब्दस्याकारणत्वम् , अध्याहारादिलक्ष्यः स्थापि वाचकत्वाविरोधात् । योग्यताविशेषेण चाध्याहार्यविशेषाव: गमसिद्धेः । न च प्रमाणान्तरेणापि कार्यावगमो घटत इति शब्दस्य तत्रौदासीन्यं शक्यं कल्पयितुम् । शब्दश्रवणे प्रवृत्तिदर्शनादानन्त. र्येण शब्दस्यैव तत्र कारणत्वावगमात् । प्रमाणान्तरेणापि त्वसावों लभ्यत इति कामं शब्दोऽनुवादः स्यात् , न कारणम् । न चानुवादकत्वं पुरुषवचसां दोषः। तेन साक्षाच्छुत्याऽध्याहारेण वा सर्वव्यवहारवा. क्येषु कार्यान्वयाव्यभिचारात्तदन्वितार्थाभिधानं लिङादीनां कार्याभि धानमेवति सिद्धम् । तेन सर्वपदानि तावत्कार्यान्वितमेवार्थमाहुः । न च प्रतिपदं विषयाभावः। प्रणाड्यापि तादोपपत्तेः। प्रणाडीसमा: श्रयणे च परस्परपदार्थान्तरसम्बन्धावगम एव प्रमाणम् । अन्यथा प्रति पदं विषयभावेऽनुबन्धभेदाद्भिन्नेषु नियोगार्थेषु संभेदानामरुणैकहायनी. न्यायवैलक्षण्यात् । परस्परसम्बन्धावगमश्चक्रिययैव स्यात् । एतश्च प्रति. पदाधिकरणे (पू. मी.२-१-१) निपुणतरमुपपादयिष्यामः । लोके तु यः सिद्धार्थमात्रपरत्वेन प्रयोगः स लोकवचसा प्रमाणांतरप्रतीतार्थपरत्वा. ल्लाक्षणिको द्रष्टव्यः। कार्यान्वयो हि परस्परान्वयाव्यभिचारीति लाक्षणि. कोपपत्तिः । न चापेक्षितोपायतैव कार्यता। कृति साध्यं कार्यम् । साधनमुः पायः । साध्यत्वोपायत्वे च भिन्ने । किन्तु क्लेशात्मकं कर्मापेक्षितोपाय- तया कार्य प्रतीयत इति कार्यता साधनतां न व्यभिचरतीति तादर्थ्य: भ्रमो मन्दानाम् । तथा च सुखं स्वयमेव कार्यम् । एवं सर्वपदानां कार्यान्विताभिधायकत्वाद्यदि वेदान्तेषु कार्य योग्य मध्याहारादिभिर्लभ्यते तदा कार्यार्थ तैव वेदान्तानामपि । अथ न, त. तोऽनभिधायकत्वमेव, व्युत्पत्तिविरहात् । अतो विधिनिराकरणमपि वेदान्तेषु न क्षतिमावहति । तस्मात्सिद्धं कार्य एव वेदस्य प्रामाण्यम् । चोदना हि भूतमिति । यदि हि कार्य एवार्थे वेदस्य प्रमाण्यं कथं तर्हि धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता। १९ तेषामपि हि कार्यार्थतां द्वितीये पादे वक्ष्यति । तदुक्तम्- (१)"शक्नोत्यवगमयितु"मिति । न च प्रमाणान्तरावगम्यो ऽयमर्थ इति (२)"नान्यत्किंचनेन्द्रिय"मिति दर्शयति । (३)"नन्वतथाभूतमप्यर्थ ब्रूयाचोदने"ति शब्दस्यार्थासं. स्पर्शितां वदन प्रतिज्ञादोषमाह । कथं पुनरर्थासंस्पर्शिता शब्दस्य ? उच्यते-अर्थसंस्पर्शि हीष्यते प्रमाणम् । तस्य वाधकज्ञानोत्पत्तौ सत्यां पुनः प्रतिपक्षविज्ञानं तन्निमित्तमेवोत्पद्यते । शब्दे पुनः स्पष्टेऽपि वाधकज्ञाने पुनः शब्दनिमित्तमेव प्रतिपक्षविज्ञानमुदेति-अङ्गु. मन्त्रार्थवादेषु भूताद्यर्थावगतिः १ अकार्यभूतत्वात् तेषाम । तत्राह भाग्य- कारश्वोदना हति । तद्याचष्टे-तेषामपीति । अस्यार्थःभूतादिकोऽप्यर्थः का. वियित्वात्तेन रूपेणाकार्य एव । तेन चोदनैव कार्यप्रतिपादिकमेव वा. क्यं भूतादिकमप्यवगमयितुं शक्नोतीति कार्यरूप एव वेदार्थ इति न प्रति. शाहानिः । ननु-भूतादिकोऽप्यर्थो मन्त्रार्थवादविषयः प्रमाणान्तरा. वगम्य इत्यर्थः ।(१) नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदनेति शब्दस्यार्थासंस्पर्शितां वदन् प्रतिज्ञादोषमाहेति । न कश्चिञ्चोदनालक्षणो नाम । यदि हि कञ्चिदर्थ चोदना प्रमिमीते तदा चोदनालक्षणो नाम प्रसिद्येत् । चोदना हि शब्दात्मिका शब्दश्चार्थ व्यभिचरति । तथा हि-असत्यप्यर्थे नदीतीरे फलानि सन्तीति ज्ञानमुत्पद्यते। नन्वेवं प्रत्यक्षमपि व्यभिचारि स्यात् । तत्रापि विनाप्यर्थेनैन्द्रियकं ज्ञानं दृश्यते शुक्तिकायां रजतमिदमिति । न तत्रैन्द्रियकं ज्ञानं व्यभिच. रति । एकं हि तत्र ज्ञानमिदमिति चाक्षुषम् । अपरमपि रजतमिदमिति रजतावलम्बि स्मरणज्ञानम् । तयोविवेकाग्रहणनिबन्धनो भ्रमोऽयं, न पुनरैन्द्रियकं विज्ञानं व्यभिचरति । बाधकं च तत्र ज्ञानं विवेकग्राह- कम् । यदि च शाब्देऽपि विज्ञाने एवमेवाङ्गीक्रियते तदा ज्ञानोदये विवे- केऽवधारिते पुनर्भमो नोत्पद्येत । उत्पद्यते तु बाधकेऽपि विज्ञानेऽङ्गु ल्यग्रादिवाक्येषु ज्ञानम् । तथा प्रत्यक्षादिषु दोषवशादिन्द्रियं न सम्पूर्ण कार्य करोति । तेन विवेकाग्रहणात् भ्रमः। शाब्दे तु (४)विज्ञाने शब्द १. शा.भा.पृ.३.पं.१३. ३. शा.भा.पु.३.पं.१५. २. शा.भा.पृ.३.पं.१३. ४. ज्ञाने इति स. पुस्तके।

२० बृहती [ अ.१.पा.१.सू .२. ल्यग्रे हस्तियूथमास्ति । तथा न शुक्तिकारजतादिष्वन्यार्थस्य सं. भवः । तस्मादर्थासंस्पर्शित्वाञ्चोदनायास्तल्लक्षणो धर्म इति प्रतिज्ञा नोपपद्यते । (१)उच्यते-अर्थ चावबोधयत्यर्थासंस्पर्शि चेति चित्रम् । यदि तावद्भाधकज्ञानावगम्यमर्थासंस्पर्शित्वं नैव तत्प्रमाणजन्यम् । (२)विशेषाग्रहणात् स्मृतिज्ञानं तदिति प्रतिपादयिष्यामः । वेदे पुन- वधिकज्ञानाभावात् अर्थासंस्पर्शिताशङ्कापि नास्ति । एव (३)करणम् । न च तदन्तर्गतो दोषोऽस्ति । पुरुषगतास्तु दोषाः (४)लामग्रीबाह्या इति न ते कार्यक्षतिहेतवः । (५)तस्माच्छाब्दं ज्ञानं व्यभिचरति । यच्च व्यमिचरति न तन्निश्चायकम् । (६)निश्चायकं च प्रमाणम् । तेन (७)निश्चायिका चोदना अर्थासंस्पर्शिनीति न तल्लक्षणो नाम कश्चिदप्यस्तीति तात्पर्यार्थः। बाधकज्ञानोत्पत्तौ सत्यां विवेकेऽवधारिते (८)तमेव व्यभिचर- तीति प्रतिपक्षविज्ञानं विवेकग्रहणनिबन्धनम् । भ्रान्तिज्ञानं न त. निबन्धनं बाधकावस्थाभाविनिर्दोषेन्द्रियादिसामग्रीप्रभवम् , किन्तु दोषखण्डितशक्तिकशानजननकारणचक्रोत्थम् । शब्दे पुनः स्पष्टेऽपि बाधकज्ञाने अवधारितेऽपि विवेके शब्दनिमित्तमेव सम्यग्ज्ञानं सा. मग्रीभूतादुष्टशब्दजन्यमेव प्रतिपक्षज्ञानं तत्प्रतिपक्षासद्भूता- र्थग्राहीत्यर्थः । एतच्च नन्वतथाभूतमिति भाग्येण (९)व्यभिः चारदर्शनोत्थं संशयरूपमर्थासंस्पर्शित्वनिबन्धनमुपन्यस्तवानाचार्यः । उच्यते-अर्थ चावबोधयत्यर्थासंस्पर्शि चेति चित्रमेतत् । नैव कदाचिः द्विज्ञानं (१०)व्यभिचरति, येनानिश्चयः स्यात् । बाधकज्ञानमपि नैवार्थ. व्यभिचारितां दर्शयति । किन्तु ग्रहणस्मरणयोर्विवेकमवधारयति । वेदे पुनरीशोऽपि बाधो नास्तीत्यतिदूरोत्सारितमेवानिश्चयलक्षणम १. तदुच्यते. इति. ख. पु. पा. २. विशेषग्रहण स्मृति ज्ञाने इति.क.पु. ३. कारणम् इति ख. पु.। ४. सामग्री वा बोध्यः इति क पु.। ५. तस्माच्छाब्दन्द्वये यच्च इति अनन्वितोऽपपाठः क. पुस्तके । ६. निश्चायकं इति नास्ति क. पु. । ७. निश्चयात्मिका इति ख पु. । ८. तमेव व्यभिचरति इति नास्ति ख. पुस्तके। ९. व्यभिचरति शब्दोत्थं संशयरूपं इति क. पुस्तके । १०. व्यभिचरति वेद्य, इति ख. पुस्तके ।

पुरुषा वाक्यानि धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता । ननु च सत्यपि बाधकज्ञाने लौकिकेषु वाक्येषु शब्दादेव ज्ञानमुत्पद्यते निमित्तभावात् । अङ्गुल्यग्रे हस्तियूथशतमिति । तद. द्धा परिहृतवार्थासंस्पर्शिताशङ्का । नैवम् ; अनभिज्ञो भवान् बाध्य- बाधकभावस्य । अङ्गुल्यग्रे हस्तियूथशतमिति प्रमाणान्तरद. निमत्र बाध्यते, न पुनर्हस्तियूथशतमिति । तदिदमाह-(१)"वि. प्रतिषिद्धमिदमभिधीयते ब्रवीति च वितथं चोति' । अत. संस्पर्शित्वम् । ननु चेत्यादिना प्रागुक्तमनुभाषते । नैवमिति । अत्रायमभिप्रायः-सर्वत्र पौरुषेयेण वचसा न साक्षादर्थ एव प्रतीयते । पुरुषेच्छापरतन्त्रत्वात् । असत्यप्यर्थे प्रयुञ्जाना दृश्यन्ते । तेनार्थ प्रति नियमा. भावान्न तेभ्योऽर्थसिद्धिः । वक्तुरभिप्रायं तु स्वकारणं सूचयेयुः। स चाभिप्रायः प्रमाणपूर्वकश्चेत् ततस्तस्य प्रमाणस्य (२)प्रमाऽविनाभा. वात्तन्मुखेन वाक्याथै निश्चयाऽनुमानमेव । तेनानुमानस्यायं बाधः । तदाह-प्रमाणान्तरदर्शनमत्र बाध्यते (३)न पुनर्वाह्य वस्तु हस्तियूथशतरूपमिति । एतदुक्तं भवति–अनुमानावसेयं प्रमाणान्तरदर्शनमत्र बाध्यते न पुनर्बाह्य वस्तु हस्तियूथशतरूपं इति, तत्र वचनस्याव्यापारात् । यत्र विषये यत्प्रमाणं प्रवृत्तं तत्र तस्य बाधो भवति, न वचनस्य बाह्येऽप्यर्थे प्रवृत्तिः, तत्र तस्य प्रवृत्तिनियमाभावादित्युक्तम् । तदुक्तमनभिज्ञो भवानिति । न चायमनुमानस्यापि बाधः। किन्तु (४)अलिङ्गे लिङ्गस्य साधारण- रूपं पश्यन्नलिङ्गतामविविञ्चन् लिङ्गतामन्यत्र दृष्टां स्मरन् लिङ्गव्यवहार प्रवर्तयन्नलिङ्गज्ञानेन लिङ्गव्यवहारान्निवर्त्तते । (५)तथा हि श्रुतिलिङ्गा. धिकरणे दर्शितम् । तदिदमाह-विप्रतिषिद्धमिदमभिधीयते ब्रवीति च वितथं चेति । ब्रवीतीति च ज्ञानं जनयति वितथमपिज्ञानं न जनयतीति विप्रतिषिद्धम् । ज्ञानाजनकत्वमेव वितथत्वं नान्यत् । अत एव तचेत्प्रत्ययितादित्युक्तम् । यत एव लिङ्गभूतं पौरुषेयं वाक्यं अत एव प्रत्यायितस्य नियमेन प्रमा. णान्तरपूर्वकाभिधायिनो वचनं सत्यम् । तथा श्रोतुरिन्द्रियविषयम. प्रत्ययितवचनमपि सत्यम्। यत्पुनरप्रत्यायतवचनं श्रोतुश्चन प्रमाणान्तः रपूर्वकं न तत्सत्यमित्युक्तम् । प्रमाणान्तरपक्षे हि सर्वत्रैवार्थासंस्पर्शि. १. शा.भा.पृ.३.पं.१६. २. प्रमेयाविनाभावात् इति ख. पु. । ३. वाद्य वस्तु इति नास्ति ख. पुस्तके । ४. लिङ्गे वचने लिङ्गसाधारणं इति ख. पु. । ५, यथा इति ख. पु.॥

वृहती [ अ.१.पा.१.सू.२. तव्यम् । एव तच्चत्प्रत्ययितादित्युक्तम् । प्रत्ययितस्य हि वचनमव्यभिचारि प्रमाणान्तरपूर्वकं, यत्रोपलभ्यमानविषयम् । यत्र तु द्वयं नास्ति तत्र प्रमाणान्तराविपर्ययाद्विपर्ययः । वाक्यार्थे पुनरुक्तो विपर्ययः। कस्मा. पुनः पौरुषेये (१)वचसि प्रमाणान्तर(२)विपर्ययाद्विपर्ययः ? ज्ञातं ह्यर्थ परस्मै प्रतिपादयितुं पुरुषाः प्रयुञ्जते वाक्यानि। न चाप्रतीतोऽ. र्थों ज्ञातो भवतीति प्रमाणान्तरसंवादिना पौरुषेयेण वचनेन भवि. (३)तदिदमुक्तम्-(४)"अशक्यं हि तत्पुरुषेण ज्ञातुमृते वचना"दिति । नन्वशक्यं हि तत्पुरुषेण ज्ञातुमृते प्रमाणान्तरादिति वक्तव्ये ता स्यात्, तुल्यत्वात्सामग्याः। (५)लिङ्गपक्षे तु यदेव प्रमाणान्तर- कार्यतथा वचनं निश्चीयते तदेव लिङ्गभूतमर्थाव्यभिचारि भवति नान्य- दिति युज्यते। ननु-यावद्वाक्यस्यापि विपर्ययोऽस्ति तदार्थासंस्पर्शिता प्रसक्ते त्याशङ्ख्याह-वाक्यार्थे पुनरुक्तो विपर्यय इति । अस्यार्थः-योऽयं विपर्ययः नासौ वाक्याथै, कि तर्हि ? लिङ्गार्थे । एतच्चोक्तमनभिज्ञो भवानिति । कस्मात्पुनः पौरुषेये वचसि प्रमाणान्तरस्यानुमानस्य विपर्ययाद्विप- र्ययः,न पुनः शब्दविपर्ययादिति । अत्रोत्तरम् । ज्ञातं हीति । अयमभिप्रायः- पुरुषाणां हि वाक्यप्रयोगः प्रतीतार्थप्रत्यायनार्थः । (६)स च प्रतीताव्य. भिचारीति प्रमाणान्तरप्रतीतिपर्युपस्थापकेन तेन भवितव्यम् । तथा च प्रतीत्युपस्थापकत्वाद(७)नुमानतैव गम्यते। तेन विपर्ययोऽप्यनुमान. स्यैव न शब्दस्यति । तदिदमाहेति । यदेतत् ज्ञातार्थप्रतिपादनार्थत्वात् प्र. योगस्य प्रमाणान्तरसापेक्षत्वं तदिदमाह-अशक्यं हीति ग्रन्थेन । (८)य. पुरुषेण वाक्यं प्रयुज्यते तत्प्रतीतार्थप्रतिपादनाय । न च प्रमाणान्तरं विना प्रतीतिरस्ति । तस्मात्प्रमाणान्तरसापेक्षं लौकिकं वचनमिति । (९)ऋते प्रमाणान्तरादिति वक्तव्य इति । सामान्य परित्यज्य किमिति १.वचने इति.ख.पु. ३. तदिदमाह. इति ऋजुविमलापाठः ५, लिङ्गपक्षे हि इति ख. पुस्तके । ७. अनुमानत्वं तस्य. इति ख. पुस्तके । ९. गृह्यते प्रमाणम् इति अधिकं ख पु. । २. प्रमाणान्तरविपर्ययः इत्येव क.पु. ४. शा.भा..३.पं.२८. ६. तेन प्रती इति ख. पु. । ८. यत् पुनः पुरुषेण इति ख. पु.।

धर्मलक्षणाधिकरणम् ] ऋजुचिमलोपेता। अतः ऋते वचनादिति कोऽभिप्रायः? उच्यते-ननु च काार्थत्वेऽपि पौरुषेयतैव वचसः प्राप्नोतीत्यस्य परिहारार्थमिदमुच्यते-ऋते वच. नादिति । ननु च प्रमाणान्तरसंवादितवं न प्रदर्शिता भवति । बाद प्रदार्शता, सापेक्षत्वनिराकरणदर्शनात् नान्तरीयकानपेक्ष. स्वसिद्ध्यर्थं तु विशेषोदाहरणम् । नन्वृते वचनादित्युक्तेऽपि अपरस्मात्पौरुषयावचनात् प्रा. प्नोत्येव पौरुषेयत्वं चोदनायाः । उच्यते--वचनादि. त्युक्त प्राप्नोत्येव कार्येऽर्थे वचनस्य स्वातन्त्र्यम् । पुरुषपरम्परायामपि न प्रमाणान्तरगोचरो धर्म इति सि. विशेष आश्रीयत इत्यर्थः। उच्यत इत्यनेनैतदर्शयति-आशङ्कापरिहा. रार्थमिदमुक्तमिति । का पुनराशङ्का ? । इयमसौ । यद्यपि चोदना कार्य मर्थ प्रतिपादयति तथापि पौरुषेयी चोदना प्राप्नोति वचनस्य स्वात- च्यादर्शनात् । ततश्च (१)प्रत्ययान्तरसापेक्षत्वादप्रामाण्यमापद्यत इति । कः परिहारः ? । अयमुच्यते-यदि चोदना कार्यमर्थ प्रतिपाद. यति तदा न पौरुषेयी। पुरुषा हि प्रमाणान्तरप्रतीतार्थप्रतिपादनाय वाक्यं प्रयुञ्जते । न च कार्य प्रमाणान्तरप्रमेयम् । तेन तत्प्रतिपादकस्य न पौरुषेयत्वम् । अतोऽदृष्टमपि स्वातन्त्र्यं कल्प्यते, कार्यप्रतीतिबलेन । चैत्यवन्दनादिषु (२)तु पौरुषेयत्वेन स्मरणम् । तेनानापेक्षत्वं चोदनायाः । एतदेव दर्शयितुं वचनादृत इति विशेषाभिधानम् । ननु चेति वाक्यमेवैवं. परमिति मन्वानस्य चोद्यम् । बाढमिति वाक्यं सापेक्षत्वपरं विशेषस. कीर्तनस्यैतत्प्रयोजनमिति परिहारः । सापेक्षत्वनिराकरणदर्शनादिति। सापे. क्षत्वं निराक्रियमाणं दृश्यते यस्माद्वचनस्य तस्मानान्तरीयकमनपे- क्षत्वं सिध्यतीत्यर्थः। ननु च यद्यपि (३)कार्यमर्थ चोदना प्रतिपादयति तथापि पौ. रुषेयत्वं चोदनायाः किमिति न भवति ? । प्रमाणान्तरशून्यत्वा. दिति चेत्--न ; अपरस्मात्पौरुषेयावचनादवगतिसिद्धेः । तदाह- अपरस्मादिति भाष्यण। तद्याचष्टे--नन्वृते वचनादित्युक्तेऽपीति । (४) अत्रो. त्तरं भाष्यम्-तदपि हि तेनैव तुल्यमिति । तस्य व्याख्यानमुच्यते-वचनादित्युक्त १. प्रत्ययान्तरापेक्षत्वात् इति ख. पु.। २. तु. इति नास्ति ख. पुस्तके । ३. साध्यमर्थ इति ख. पुस्तके। ४. भाष्यं इति नास्ति ख. पु. ।

बृहती [.१. पा.१. सू.२. द्धम् । कथं पुनरिदं सिध्यति ? पुरुषपरम्परोपदेशान्य थानुपपत्या किमप्युपलं भकमस्तीति शक्यते कल्पयितुम् । न स्वातन्त्र्यं बचनस्य । नैतदेवम् । (१)"उपदेशो हि व्यामोहादपि भवति । असति व्यामोहे वेदादापि भ. वति" । मूलद्वये सम्भवत्येतस्मिन् परिगणितप्रमाणव्यतिरिक्तं न प्रमाणान्तरमस्तीति शक्यते वक्तुम् । अतः प्रमाणान्तरविपर्ययासम्भ. यात् न श्रुतश्चार्थासंस्पर्शिता शक्यते वक्तुं चोदनायाः । तस्मात्सुः ष्ठु प्रतिज्ञातं 'चोदनालक्षणोऽर्थो धर्मः' इति । इति । नन्वविदुषामित्युपदेशान्यथानुपपत्त्या उपलम्भ(२)कारणानुमा नं शक्यते। तद्याचष्टे-कथं पुनरिदं सिध्यतीति । नैतदेवमुपदेशो हीति भा. ध्येण परिहरति । अस्थार्थः-न तावदुपलम्भकारणान्तरं शक्यानुमानम्, परिगणितप्रमाणसामग्रीव्यतिरिक्तस्याभावनिश्चयात् । उपदेशस्तु (३)व्यामोहादप्युपपद्यते । असति व्यामोह वेदादप्युपपद्यते । अतः प्र. माणान्तरस्यानपेक्षणान्न तद्विपर्ययेणा (४)प्रामाण्यं चोदनायाः। स्वतश्चा. र्थप्रतिपादकतयार्थसंस्पर्शितेति(५)सम्भवी प्रतिज्ञातार्थः । “अपि च पौरुषेयाद्वचना"दिति भाष्यम् ; (६)तत् पौरुषेयस्य वचसो लिङ्गत्वेन गमकत्वमिति दर्शयति । पूर्व हि प्रमाणान्तरप्रतीतप्रत्यायक: तया पौरुषेयस्य वचनस्य न स्वातंत्र्येणार्थप्रतिपादकत्वम् । अपि तु अ. न्तर्भावितपूर्वप्रमाण(७)स्यैव । तथा च प्रमाणान्तरोपस्थापकतया लि. त्वमेवेत्युक्तम् । लिङ्गव्याभिचाराच्च शब्दस्यार्थासंस्पर्शिताशङ्कापि ना; स्ति इत्युक्तम् । अधुना(८)त्वनुमानबाह्यत्वबुद्धिर्नास्तीति कथ्यते । क. थम् ? पुरुषवचनादानिश्चयात् । वक्तृबुद्धिनिश्चये चा(९)नुमानत्वम् । अर्थो हि न कारणं वचनस्य। वक्तृबुद्धिस्तु कारणमेव । कार्यतस्तु कार• णावगतिरनुमानमेव । अनुमानमपि पौरुषेयवाक्यसमुत्थज्ञाने यथा व्युत्पत्तिस्तथोत्पत्तिकसूत्रे (पू. मो. १-२-५.) वक्ष्यामः । तमिमर्थमस्य । । १. शा.भा.पृ.४.पं.४. उपदेशा हि इति बहुवचनान्तपाठः मुद्रितभाष्यपुस्तके । २. कारणानुमानमाशङ्कते इति ख. पु. । ३. व्यामोहेनापि इति ख. पु. । ४. प्रामाण्यम् इति ख. पुस्तके । ५. सम्भवति इति ख. पु. । ६. तदिति नास्ति क. पुस्तके। ७. एवेति नास्ति ख. पुस्तके । ८. अनुमानादन्यत्वदुद्धिः इति ख. पुस्तके। ९. अनुमानत्वमेव इति ख. पुस्तके ।

धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता। २५. किं च पुरुषवचनाद्विज्ञातोऽयमनेनार्थ इति निश्चयो भवति ।न पुनः प्रमाणान्तरबुद्धिरुपजायते । तदुक्तम्-(१)"अपि च पौरु- षेयावचनादेवमयं पुरुषो वेदेति भवति प्रत्ययो, नैवमय- मर्थ इति"। किंवाऽर्थान्तरावगतौ प्रमाणान्तरावगतिर्भवति ? बा- ढम् , अर्थानुसारि हि तदा प्रमाणमवकल्पते । ननु-वेदेवेसदपि कल्पनीयमेव, न प्रसिद्धकारणत्वात्संविदः, अप्रसिद्धमूलत्वाचार्थस्य । वेदेत्येतदपि तावत्पुरुषवचनान्नावग- तिर्भवति, विक्षेपस्य सम्भवाच्चित्तानाम् । किसुतार्थे; तद्दर्शयनि-(२) "विप्लबते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्यय" इति । भाष्यस्य व्याचष्टे-किंचेत्यादिना । किंवार्थावग(३)त्यनुमानात्प्रमाणान्तरं शाब्दमित्यवगतिर्भवति ? बाढं भवति । अर्थानुसारि(४)हि तदा कार. णभूतमर्थमुपस्थापय(५)च्छाब्दमनुमानात्प्रमाणान्तरमित्यवकल्पते । ननु वेदेत्यपि वक्तृबुद्धिः कल्पनीया पौरुषेयाद्वाक्यान् । ततश्च तत्क- ल्पकतयाकिमिति प्रमाणान्तरं न भवति?न;प्रसिद्धं हि कारणं वाक्यस्य वक्तृबुद्धिः। (६)अतस्तकल्पना । कार्यतः कारणानुमानम् । अप्रसिद्धं च (७)कारणमर्थः। ततस्तद्वगतिर्नानुमानम्। विप्लवते खल्वित्यनेन दूरोत्सारि. तं पुरुषवचनादर्थनिश्चयं दर्शयति । (८)तथा हि-प्रतारका अन्यथा जान न्तोऽप्यन्यथा वाक्यानि प्रयुञ्जते । तथा प्रमादिनो दुष्टसामग्रीकाश्चान्य. वाक्यविवक्षायामन्यदेव वाक्यमुच्चारयन्ति । तेषां वाक्यात् वक्तृबुद्धि रपि निश्चेतुं न शक्यते, दूरेणार्थः । तदाह-वेदेत्येतदपीति । बक्तृवचना- नार्थवगतिः, विक्षेपम्य प्रतारणाशयप्रमादलक्षणस्य चित्तगस्य सम्भ- वात् । एतच्चोपलक्षणम्(९)उच्चारणदोषोऽपि द्रष्टव्यः । न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणमस्तीत्युक्तम् । १. शा.भा.पृ.४.पं.५. २. शा.भा.पृ.४.पं.६. ३ अनुमानप्रमाणात् प्रमाणान्तर, इति क. पुस्तके । ४ अर्थानुसारि ह्यकारण इति क. पु.। ५ शाब्दमिति नास्ति० क. पु० । ६ अतश्च कल्पना इति क. पु० । मूलमर्थ इति क. पुस्तके। ८ तथाहीत्यारभ्य 'वाक्यात्' इत्यन्तो ग्रन्थस्त्रुटितः क० पुस्तके । ९ उच्चारणकारणदोषो द्रष्टव्यः इति ख० पुस्तके । ४ बृ०३० बृहती [अ.१.पा.१.सू.२. ? किमिदं सामान्यतो दृष्टम् ? द्विविधस्यापि निरस्तत्वात् । किमन्यदवशिष्यते येनेदमुच्यते-"ननु सामान्यतो दृष्ट"मिति । सत्यमेवम् ? किन्तु विषयान्तरे सामान्यतो दृष्टमनपास्तं मन्यते । विप्ल. वते खल्वपि कश्चित्पुरुषकृताद्वचना(दित्युक्तम् )। तदान्यथैवार्थोऽन्यथा शब्दाविज्ञानम् । तदिदमुपपन्नार्थ भवति । अस्यां किमुपपत्तौ(?) प्रस. क्ता खल्बर्थासं स्पर्शिता शब्दस्य-अशब्द वाद विप्लुतार्थवदिति । सत्यं यदि विप्लुतौ शब्दादयथार्थत्वम् , अयथार्थस्य विषये शब्दाद- वगम्ये (स)ति,नायथार्था(त् )। तदिदमुक्तं-(१)"नान्यत्वा"दिति। अथ एवायथार्थत्वे हेतुः शब्दाविषये स्यात् । अथापि शब्दादेव विप्लवः तथाप्येतदनुमान नैवोपपद्यते । अदुष्टप्रतिज्ञापनसापेक्षं हेतुवचनं भवति । दुष्टश्चायं पक्षः, संविदः प्रयक्षत्वात् । तदिदमुक्तं-(२)"प्रत्य- क्षस्तु वेदवचनात् प्रत्यय" इति । प्रतीतिः प्रत्ययः । ननु च नैव कार्यों धर्मः। कस्तर्हि ? गुणः। तथा च केचित् बुद्धिगुणं मन्यन्ते । केचिदात्मगुणम् । तस्मात् 'क्रियायाः प्रवर्तकं ननु सामान्यतो दृष्टं प्रमाणमस्तीति भाष्यम् । तदाक्षिपति- किमिदं सामान्यतो दृष्टमिति । द्विविधस्यापि प्रत्ययान्तरापेक्षित्वार्थासं. स्पर्शित्वलक्षणस्याप्रमाण्यहेतोनिरस्तत्वात् । सत्यमेवमिति समाधिः । विषयान्तरे लौकिक(३ वाक्यगम्यात् सिद्धरूपादन्यस्मिन् विषये कार्यरूपे सामान्यतोदृष्टमनपास्तं मन्यते । पूर्व हि पुरुषकृताद्वचनाद्विपल- वाभिधानाद्वचनादेव विप्लव उक्तः । ततश्च व्यभिचारिणो वचनस्यार्था- संस्पर्शित्वनिबन्धनमप्रामाण्यम् । सत्यं यदीति परिहारः। अत्रायमभिप्रायः यत्र विप्लवः तत्र यदि शब्दादयथाभूतस्यार्थस्यावगमः स्यात् । किंतु शब्दस्तत्र लिङ्गम , तेन तत्र तस्य वक्तृ(४)बुद्धिव्यवस्थापकत्वम् । व. क्तृबुद्धिमुखेन चार्थावगमः । तेनायथार्थत्वस्य वक्तृबुद्धिर्विषयः, न शब्दः । अथापीत्यादि अभ्युपगम्यवादः । ननु च नैव कार्यो धर्म इति । अस्यार्थः-यदि कार्यात्मको धर्मः (५)स्यात् १. शा.भा. पृ.४.पं. ९. २. शा.भा.पृ.४.पं.१२. ३ वाक्यावगतात् इति ख० । ४ पर्यवस्थापकत्वं इति ख० । ५ स्यादिति नास्ति क० पुस्तके । ()एतत्कुण्डलान्तर्गताः पाठाः विद्यावाचस्पति.म.म. कुप्पुस्वामिशास्त्रिपादैरुल्लिखिताः। - , धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता। वचन, चोदनालक्षणोऽर्थो धर्म इति वचनं च नोपपचते, अकार्य- स्वाद्धर्मस्य । अतस्तन्निराकरणाय चोदना लक्षणस्तत्रोपसंहारमुखे. नोपन्यस्तवान् भाष्यकार:(१)-"तस्माच्छ्रेयस्करो धर्म' इति । एवमपि कथं पुनर्निरातः? शब्दार्थसम्बन्धस्य लोकव्यवहारगम्य. स्वात् । कार्ये चार्थे धर्मशब्दं लौकिकाः प्रयुञ्जते । “यो यागमनु तिष्ठति" इत्येवमादिना प्रदर्शिते अर्थशब्दस्यान्वयप्रयोजनप्रदर्शनार्थ भाष्यकारेण(२) उभयमिह चोदना लक्ष्यते अर्थोऽनर्थइचे". ति । पुनरपि च प्रश्नपूर्वकमिदमुक्तं (३) कोर्थः ? यो निःश्रेयसा. य ज्योतिष्टोमादिः कोऽनर्थ ? य: प्रत्यवायाय श्येनादि". रिति निःश्रेयसप्रत्यवायलक्षणं धर्माधर्मत्वमुक्तम् । एवञ्चोपदर्श- यतोभयं चोदनालक्षणमित्युक्तं भवति । तत्र यो निःश्रेयसाय तस्यैव तदा कार्यप्रतिपादकचोदनालक्षणो धर्मः स्यात् । यावता कार्यात्मको धर्मों न भवति । कस्तर्हि ? बुद्धिगुणः आत्मगुणो वा विवक्षितः। (४)अतः कथं चोदनालक्षणो धर्मः स्यादिति । श्रेयस्करो धर्म इत्युक्ते कथं कार्य: स्य धर्मत्वम् ? अपूर्वाधिकरणे तस्यैव श्रेयस्करत्वस्य(५)स्थापितत्वात् । अत्र च पक्षे यागाद्यनुष्टातरि धार्मिकशब्दप्रयागो नियोगानुष्ठाननिमि- त्तकः । तथा ह्यनधिकृत यागाद्यानुष्ठातर्यपि धार्मिकशब्दो न प्रयुज्यते नियोगसिद्धिमन्तरेण । नियोगसिद्धिश्च चोदितयागाद्यनुष्ठानसमधिग- म्येति तेनाशयेनोक्तम्-यो यागमिति । सूत्रस्याप्येवं योजना-चोदना- लक्षणः कार्यरूपो वेदार्थः नेन्द्रियादिलक्षणः क्रियाकारकसंसर्गादिः । तत्रार्थो यो निःश्रेयसफलः स धर्मः, नानर्थः श्येनादिनियोगः ॥ उभयमिह चोदनयेत्यादि भाष्यमर्थशब्दस्यान्वयप्रयोजनप्रदर्शनार्थम् । (६)पुनरपि कोऽर्थ इति प्रश्नं कृत्वा यो निःश्रेयसायेत्युत्तरमुक्तम्। तथा कोऽनर्थ इति प्रश्ने पुनरुत्तरमुक्तं यः प्रत्यवायायेति । अनेन च ग्रन्थेन निःश्रेयसप्रत्यवायहेतुत्वेन धर्माधर्मत्वमुकम् । एवं चोपदर्शयता भाष्य- कारणोभयमप्यर्थानर्थत्वेन चोदनालक्षणामत्युक्तम् । इद तर्हि तथा च सत्ययुक्तं यदुक्तं तत्र यो निःश्रेयसाय तस्यैव धर्मता कथं नाम स्यात् ? ? १. शा.भा.४.१३. २.शा.भा.४.२१. ३. शा.भा.पृ.४.२१. ४ अतःइति नास्ति क० पु० । ५ ज्ञापितत्वात् इति क० पु० । ६ पुनरपि इति नास्ति ख• पुस्तके ।

.. बृहती [अ.१.पा.१.सू.२. प्रत्यवायहेतोर्मा भूदिति। इदं तबयुक्त(१) "कथं पुनरनर्थः कर्तव्यतयोपदिश्यत" इति । कथं कर्तव्यतयाऽनुपदि. इनानोऽर्थश्चोदनालक्षणो भवति? कथं वा चोदनालक्षणस्य सतो धर्मत्वनिवृत्यर्थमर्थशब्दान्वय उपपद्यते ? पुनरपि च स्पष्टीकरोति-(२) "नैव श्येनादयः कर्तव्यतया विज्ञापन्त"इत्युत्तरेण । कर्तव्य- तया च नोपदिश्यते चोदनालक्षणश्चेति संकटमिवोपलक्ष्यते । यदपि च कथं पुनरसायनर्थ इति प्रश्नमुल्लिख्य "हिंसा हि सा सा च प्रतिषिद्ध'त्युक्तं तदपि पूर्वापरविरुद्धम् । प्रत्यवायलक्षणमनर्थ- त्वमुक्त्वा पुनः प्रतिषेधलक्षणमुक्तवान् तस्मादसामञ्जस्यम् । अथ प्रतिषेधप्रयवाययोरप्यविरोधितोच्यते, प्रत्यवायस्य प्रतिषेधहेतुत्वात, तदयुक्तं, ननस्यानन्यार्थत्वात् । नर्थपर्यवसाय्येव प्रतिषेधविधिः न पुनस्तदर्थस्यान्यार्थतामवगमायतुं क्षमः । अत्राह-अनिरूपित. प्रत्यवायहेतोर्मा भूदिति । इदं तहीति पूर्वेण सहैकग्रन्थः । कथं पुनरनथः कर्तव्यतयोपदिश्यत इति भाष्यम् । (३)तव्याचष्टे-कथं कर्तव्यतयानुपदिश्यमानोऽर्थः चोदनालक्षणो भवति ? कथं वा चोदनालक्षणस्य सतो धर्मत्वानिवृत्यर्थमर्थशब्दान्वय उपप- द्यते ? । अत्रायमभिप्रायः-यकिल चोदनालक्षणं तत्कर्तव्यतयोपदिश्यते । यच्च कर्त्तव्यतयोपदिश्यते न तदनर्थः । कर्त्तव्यतावगमादेवानर्थत्वनि- वृत्तेः । अथोच्येत-अनर्थ एव श्येनादिनियोगः; न तर्हि कर्तव्यतयो. पदिश्यते । यच्च कर्तव्यतया नोपदिश्यते न तत् चोदनालक्षणम् । अत. श्चोदनालक्षणानिवृत्त्यर्थमर्थग्रहण (४)मिति। तन्नोपपद्यते। अचोदानाल. क्षणत्वेनैव व्यावृत्तिसिद्धेः । एतच्चाक्षेपानुगुणमिति कृत्वा व्याख्यातम् । यदप्यत्रोत्तरं तेनापि प्रत्युत चोद्यमेव प्रकटीकृतम् । तदाह-पुनरपि च स्पटीकरोतीति । नबर्थस्यानन्यार्थत्वादिति । न हि निषेधेन नगर्थस्याकरणे प्रत्यवायपरिहारार्थता । यदि नविधिर्नअर्थस्य प्रत्यवायपरिहारा. र्थतां गमयेत् ततो गम्येताकरणे प्रत्यवाय इति । तदा चैतदपि सि. येत्-प्रतिषिद्धं प्रत्यवायायेति । न त्वेवमस्ति । आक्षेपमिदानी परिहा रति-(५)अत्राहानिरूपितनियोगव्यापारस्येदं चोद्यमित्यादिना । अयमभिप्रायः- यदि १. शा.भा.पृ.४.पं.२२. २. शा.भा.पृ.४.पं.२५. ३ अनुभाष्य व्याचष्टे इति ख० पु. ४ इति नोपपद्यते इति ख० पुस्तके । ५. अत्राहेत्यादिना इति क. पुस्तके ।

धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता। २९ नियोगव्यापारस्येदं चोद्यम्-कर्तव्यताविषयो नियोगः न पुनः कामाधिकारेऽपि नियोगो यागस्य कर्त्तव्यतां वदेत् स च यागः फलसाधनभूतोऽकर्तव्ये फले न कर्त्तव्यः स्यादिति फलस्याप्यर्थी नियोग एव कर्तव्यतां वदेत् । ततश्च फलेऽपि विध्याक्षिप्तौपादानिकी प्रवृतिरिति श्येनफलं हिंसा "न हिंस्या दित्यनेन प्रतिषेधुं न शक्यते, प्रतिषेधस्थ पुरुषार्थत्वात् । औपादानिकप्रवृत्तिनिषेधे च क्रत्वर्थप्रसक्ते, "नानृतं वदे"दितिवत् । तथाऽप्रतिषिद्धपुरुषाभिलषितशत्रुक्षयफ- लत्वाच्छयनादिनियोगो नानर्थः (१)स्यात् । स हि नियोगोऽनर्थः यः प्रतिषिद्धफलः । न च कामाधिकारे नियोगोयागस्य कर्तव्यतां वदति, फलत एव कर्तव्यतासिद्धेः। यद्यपि नियोगः कर्तव्यतया प्रती. यते तत्साधनतया च यागः, तथापि कामाधिकारेषु काम्यमानफल. सिद्धिपर्यन्तत्वाच्छास्त्रस्य न नियोग एव स्वसिद्ध्यर्थ पुरुषं प्रयुते । गगाक्षिप्तप्रवृत्तित्वात् पुरुषाणां फलत एव प्रवृत्तिसिद्धेः । तथा च यागे फले च प्रवृतिौपादानिकीति तत्प्रतिषेधो न क्रत्वर्थः स्यादिति श्येनफलस्यापि प्रतिषेधो नानुपपन्न इति निषिद्धफलत्वादनर्थः श्येना. दिनियोगश्चोदनालक्षणो न धर्म इति न किंचिदनुपपन्नामिति । भाध्याक्षरयोजना-उभयमिह चोदनया लक्ष्यते-अर्थोऽनर्थश्चेति । अर्थों ऽनिषिद्धफलः, अनर्थश्च निषिद्धफलः । कोऽर्थः ? यो निःश्रेयसायानिषि- द्धफलो ज्योतिष्टोमादिः । कोऽनर्थः ? यः प्रत्यवायाय(२)निषिद्धफलः श्येनो वज्र इषुरित्येवमादिः। तत्राना धर्म उक्तो मा भूदित्येवमर्थमर्थग्रहणम् । कथं पुनरसावनर्थ इति औपादानिकी फले प्रवृत्ति मन्वानस्य चोद्यम् । हिंसा हि सा, सा च प्रतिषिद्धेति । कामिनां(३)स्वतः फले प्रवृत्तत्वात्तदर्थितयैव कर्मणि प्रवृत्तेः “न हिंस्या"दिति प्रतिषेधाविरोधात् । कथं पुनरनर्थः कर्तव्य- तयोपदिश्यत इति पूर्वोक्तमेव चोद्याभिप्रायं विवृणोति । उच्यते नैव श्येनादयः (४)कर्त्तव्यतया विज्ञायन्त इति । नैव विधिना श्येनादयः (५)कर्त्तव्या इति प्रतिपाद्यन्ते, फलार्थितयैव प्रवृत्तेः, यो हि हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेश इति । फले स्वयं प्रवृत्तेस्तत्तदिच्छयैव कर्मण्यपि प्रवर्तते इति भावः । एतदेव स्फुटीकरोति-श्येनेनाभिचरन्यजेतेति हि समामनन्ति नाभिचरि. तव्यमिति । अभिचारे स्वतः प्रवृत्तिं दर्शयति । १. स्यादिति नास्ति क० पुस्कते। २. निषिद्धाय इति ख. पुस्तके । ३. स्वयं इति क० पु.। ४ कर्तव्या विज्ञायन्ते इति क० पुस्तके । ५. कर्तव्यतया इति ख पु० ।

बृहती [ अ.१.पा.२.सू.२. ? ? कर्तव्यतामाह । कथं तर्हि कार्येऽर्थे प्रामाण्यं वेदस्येत्युक्तम् ? युक्तं तद्विषयत्वान्नियोगस्य । कोऽयं विषयविषयिभावः ? यस्मिन्नयं पुरुषो नियुज्यते स विषयः । तस्मान्नैव विधिः कर्तव्यतामाह । विषयतया तूपादत्ते । कस्मात् ? यद्यदुपादीयते तत्तद्विधेयमिति तन्त्रव्यवहारः । यत्तूपादानहेतुतां प्रतिपद्यते तदधिकृतौ कारणम् । तस्मादधिकार- टीकार्थस्तु-अनिरूपितनियोगव्यापारस्य न निरूपितः उपादानल क्षणो नियोगव्यापारो येन तस्येदं चोद्यम् । यागकर्त्तव्यतानुष्ठानविषयो (१)नियोगः। तेन नियोगःसाध्यते। न तु नियोगो यागस्यानुष्ठानं ज्ञापयः ति । कथं तर्हि कार्येऽर्थे वेदस्य प्रामाण्यमिति। यदि यागादेः कर्त्तव्यता न ज्ञाप्य. ते कथं वा कार्थेऽथै वेदस्य प्रामाण्यम् ? (२)कार्याप्रतिपादकत्त्वादिति भावः। युक्तं तद्विषयत्वानियोगस्येति । अत्रेदमभिप्रेतम्-यद्यपि यागादेः कर्तव्यता न ज्ञाप्यते तथापि यागविषयोनियोगः कर्तव्यतया प्रतिपाद्यत इति का- र्यप्रतिपादकत्वादुक्तं (३)कार्य प्रति प्रामाण्यम् । कोऽयं विषयविषयिभाव इति पृच्छतोऽयमाशयः--कर्मणि प्रेरकत्वान्नियोगस्य कर्मणो विषयत्वं नि: योगस्य विषयित्वम् । तथा च विधित एव कर्मणि प्रवृत्तिरिति । यस्मि- नर्थे पुरुषो नियुज्यते स विषय इति नैव कर्मणि प्रेरकतया विषयिभा. का। किं तर्हि ? यत्र कर्मणि पुरुषो नियुज्यते कार्य बोध्यते इति । कार्य- बोधनमेव हि पुरुषस्य नियोजनम् । एतदुक्तं भवति-कर्मणि यागादौ कार्यभूतो नियोगः प्रतीयते, न पुनः कर्मण्येव प्रेरयति । एतच्चापूर्वाधि. करणे वक्ष्यामः । तस्मान्नैव विधिः कर्त्तव्यतामाहेति । (४)साधितार्थमुपसंहरति विषयतया तूपादत्ते स्वीकरोति । यतश्च विधिर्न कर्त्तव्यतां कर्मणोऽवबोधय- ति तस्माद्यद्यदुपादीयते तत्तद्विधेयमिति तन्त्रे व्यवहारः, न पुनर्यद्य. कर्तव्यतया ज्ञाप्यते तत्तद्विधेयमिति मीमांसासिद्धांते व्यवहारः । ननु मा भवतु यागकर्तव्यताज्ञापनद्वारेणाभिचारे वैधी प्रवृत्तिः । स्वत एव तत्र किमिति वैधमुपादानं न भवति । तत्राह-यत्तूपादान- हेतुतां प्रतिपद्यते तदधिकृतौ (4)कारणमिति । अस्यार्थः--अभिचारस्ताव- दधिकारिविशेषणतया अधिकारे कारणम् । (६)यच्चोपादाने हेतुः १. नियोगस्य इति ख पुस्तके । २. कार्याप्रतिपादकत्वात् इति ख० पु० । ३. कार्येऽर्थे वेदस्य प्रामाण्यम् इति ख पु० । ४ साधितमर्थ, इति० ख० पु.। ५. करणमिति ख० पु० । ६. यच्चोपादाने हेतुभूतं तदधिकारे कारणं भवति इत्यधिकं ख० पुस्तके ।

धर्मलक्षणाधिकरणम् ] ऋजुविमलोपेता। - निमित्तत्वमङ्गीकृसैतदुक्तम्-"हिंसा हि सा सा च प्रतिषिद्धे" ति। उपादानगतो हि प्रतिषेधः क्रत्वर्थः स्यानाधिकारगतः । 'न हिंस्याद्भूतानी"ति चाधिकारगतोऽयं प्रतिषेधः पुरुषार्थश्च । तस्माद. भिचारस्यानर्थता प्रतिपादयितुं क्षमो नाग्नीषोमायादेः, क्रत्वर्थत्वात् । अथ कस्मान्नोभयार्थः प्रतिषेधोऽयम्-'न हिंस्याद्भूतानीति? 'न टेकस्य विधेः प्रयोक्तृत्वाप्रयोक्तृत्वे भवतः । अथ क्रत्वर्थ एवायं कस्मान्न भवति ? प्रयोक्तृत्वाप्रयोक्तृत्वयोः प्रयोक्तृत्वं नासाधुपादेयः । तेनाभिचारे नौपादानिकी प्रवृत्तिरिति सिद्धम् । यत एवमधिकारनिमित्तभूतं वैधमुपादानं नास्ति अत एव 'न हिंस्या' दिति प्रतिषेधोऽवतरति । तस्मादधिकारनिमित्तमव्यभिचारमभिप्रेत्यैः (१)तदुक्तम्-हिंसा हि सा सा च प्रतिषिद्धेति । नन्वेवमपि किमिति क्रत्वर्थता प्रतिषेधस्य न भवति ? तत्राह- उपादानगतो हि प्रतिषेधः क्रत्वर्थः स्यात् । प्रतिषेध्यायाः प्रवृत्तेः क्रतुप्रवृत्यधी. नत्वेन क्रतुसम्बन्धात् । नाधिकारगतः, स्वतन्त्रत्वात्तत्र प्रवृत्तः । नन्वेवमग्नीषोमीयादिहिंसापि किमिति न प्रतिषिध्यते ? ततश्च प्रतिषिद्धा(२)नर्थफलानुसम्बन्धित्वाद्यथानर्थतया श्येनादेन धर्मत्वं एवं प्रतिषिद्धाङ्गानुबन्धित्वाज्ज्योतिष्टोमादेरपि स्यात, तत्राह--न हिंस्या- द्भूतानीति चाधिकारगतोऽयं(३) प्रतिषेधो नोपादानगतः। औपादानिकी चाङ्गेषु प्रवृत्तिः । तत्र स्वयं प्रागप्रवृत्तेः । (४)फले हि स्वतः प्रवृत्तिः । फलार्थि- तया च प्रधाने । प्रधानोपकारकतया चाङ्गेषु । प्रधानप्रवृत्त्यैवाङ्गेषु प्रवृ. त्तिरिति वक्ष्यते । तस्मात्क्रतुसम्बन्धात्प्रतिषेधोऽपि क्रत्वर्थः । पुरुषा. र्थश्चायं प्रतिषेधः। तस्मादभिचारस्यानर्थतां ज्ञापयितुं क्षमो नाग्नीषो. मीयादेः, क्रत्वर्थत्वात्तस्य । अथ कस्मानोभयार्थः क्रतुपुरुषार्थः प्रतिषेधो यन्न हिंस्यात सर्वा भूता. नीति । तत्रोत्तरम्-न ह्येकस्य विधेः पुरुषार्थत्वपक्षे प्रयोजकत्वं त्व. थत्वपक्षे त्वप्रयोजकत्वं संभवति, विरोधात् । क्रत्वर्थ एवायं प्रतिषेधः प्रयुक्तिलाघवात्कस्मान्न भवति ? १. अङ्गीकृत्य इति ख० पुस्तके । २. अनर्थासम्बन्धित्वात् इति ख० पुस्तके । ३. स्वतन्त्रप्रवृत्तिगतोऽयं इत्यधिक ख. पुस्तके । ४. फले हि स्वतः प्रवृित्तः फलार्थिनः । या च प्रधाने प्रधानोपकाराय चाङ्गेषु इति क० पुस्तके । अथ ३२ बृहती [अ.१.पा.१.सू.२. औतम्, अनपेक्षावगमात् । अप्रयोक्तृत्वं तु वाक्यान्तरपालोचन. याऽवगतम् । न च 'न हिंस्यादभूतानीति वाक्यान्तरावगतिर्भवति, अनारभ्यविधानात् । तस्मादधिकारावगत एवायं प्रतिषेधः । भवति च चोदनालक्षणः तद्विषयत्वात् श्येनविधेः । तस्मादु“भय. मिह चोदनया लक्ष्यत" इत्येवमायुपपन्नाथ भाष्यम् । (१)"नन्वशक्तमिदं सूत्र"मिति लौकिकवैदिकवाक्ययोर्वि- वेकप्रदर्शनार्थम् । 'अथ वा अर्थस्य सत' इति यथावाक्यमप्येकार्थत्वं सम्भवतीति प्रदर्शयितुम् ॥ इति द्वितीयं धर्मलक्षणाधिकरणम् ॥ (२)अत्रोत्तरम्-प्रयोजकत्वाप्रयोजकत्वयोः प्रयोजकत्वं श्रौतं अनपेक्षावगतेः। प्रथम हि लिङादयः कार्य बोधयन्ति । तच्चानुष्ठापकम् । (३)अप्रयोजकत्वं तु वाक्यान्तरपालोचनयाऽवगम्यम् । सन्निहितेऽधिकारविधौ वाक्यान्त रगता लिङादयश्चानुवादका एव । न च 'न हिंस्यात्सर्वा भूतानी"ति वाक्यान्तरावगतिरस्ति, अनारभ्य विधानात् । तस्मादाधिकारगत- एवायं प्रतिषेधो नोपादानगतः। भवति च चोदनालक्षणः श्येनविनि योगः । तद्विषयत्वात्प्रमेयत्वाछयेनविधः। श्येनयागश्च प्रतिषिद्धाभि- चारफलत्वादनर्थक इति सिद्धं प्रत्युदाहरणम् । तस्मादुभयमिह चोदनया लक्ष्यत इत्युपपन्नार्थ भाध्यम् । नन्वशक्तमित्येवमादि भाष्ये वाक्यभेददोषेण सूत्रमाक्षिपति । तच्चा. नुपपन्नम्, पौरुषेयवचसां प्रमाणान्तरप्रतीतार्थप्रत्यायनपरत्वेन प्रमा. णान्तरवशाद्वाक्यभेदादयो दोषा एव न भवन्तीति। तदिदं भाष्ये समर्थः यते-नन्वशक्तमिदं सूत्रमिति। लौकिकवैदिकवाक्ययो(४)विवेकप्रदर्शनार्थमिति। अस्यार्थः- यदेवेदं लौकिकवैदिकयोर्वाक्ययोः प्रमाणान्तरापेक्षनिरपेक्षत्वात्प्रमा. णान्तरवशेन स्वातन्त्र्येण चार्थप्रत्यायकत्वं तदेव चोद्यपूर्वकं भाष्ये. णोच्यत इति । अथवाऽर्थस्य सतश्चोदनालक्षणस्येति भाष्यमेकवाक्यत्वमाह । तच्चानुपपन्नम् । अस्मिन्नपि पक्षे विशिष्टानुवादलक्षणवाक्यभेदापत्तेः । १.शा.भा. ४. २५. २. उत्तरम् इत्येव क. पु. ३. अप्रयोजकम् । ननु वाक्यान्तर. इति क. पु. ४. वाक्ययोः इति नास्ति क० पुस्तके ।

प्रत्यक्षलक्षणाधिकरणम् ] ऋजुविमलोपेता । ३३ अथ तृतीयं धर्मलक्षण परीक्षाधिकरणम् ॥ तस्य निमित्तपरीष्टिः ॥ ३ ॥ 'तस्य निमित्तपरीष्टि'रिति हेत्वभिधानावसरः कथ्यते । कथं पुनः कार्येऽर्थे चोदनैव निमित्तम् ? अन्यस्य प्रत्यक्षादेरसम्भवात् । कथमसम्भव: ? इति निमित्त परीक्षाधिकरणम् ॥ अथ प्रत्यक्षलक्षणाधिकरणम् ॥ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनि- अत्र टीकाकारः प्रति समाधत्ते-अथ वार्थस्य सत इति यथावाक्यमप्येकार्थता सम्भवतीति प्रदयितुम् । अत्रायमभिप्रायः-विध्यावृत्तिलक्षणो वाक्यभेदो नास्ति । अन्वयभेदमात्रं तु भवत्येवेति । इति द्वितीयं धर्मलक्षणाधिकरणम् ॥ अथ तृतीयं धर्मलक्षणपरीक्षाधिकरणम् ॥ तस्य निमित्तपरीष्टिः ॥ ३ ॥ तस्य निमित्तपरीष्टिरिति हेत्वभिधानावसरः कथ्यत इति । अनेन सूत्रं तात्प. यतो व्याचष्टे । चोदनालक्षणसूत्रेण श्रुत्यर्थाभ्यां वेदार्थस्वरूपं तत्र च प्रमाणं प्रतिज्ञातम् । तत्र किं स्वरूपं तावत् भेदाभेदरूपेण कथ्यता. म् ? उत प्रमाणप्रतिज्ञायां हेतुरिति संशये प्रधानत्वात् स्वरूपस्य तदेव भेदाभेदाभ्यां कथनीयमिति प्राप्त भेदाभेद(१)निर्णयस्यानपेक्षत्वसव्य. पेक्षत्वात् प्रामाण्ये हेत्वनपेक्षत्वमधुना कथनीयमिति सूत्रेण कथ्यते । तथा च भाष्यम्-इदानीं तस्य निमित्तं परीक्षिण्यामह इति । तस्माद. नपेक्षत्वरूपप्रामाण्यहेत्वभिधानावसरकथन सूत्रेण क्रियत इति । इति तृतीयं निमित्तपरीक्षाधिकरणम् ॥ अथ चतुर्थ प्रत्यक्षादिलक्षणाधिकरणम् ।। सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनि- १. नियमस्य. इति क० पु० ५ बृ०३० बृहती [अ.१.पा.१.सू.४. मित्तं विद्यमानोपलम्भनत्वात् ॥ ४ ॥ अथ कस्मादनुमानादेरनिमित्तत्वम् ? अनुमानादीनां हि नि. मित्तग्रहणपूर्वकं स्वार्थे प्रामाण्यम् । निमित्तं चात्र प्रयक्षग्राह्यमेव वर्णादि । तस्मात्तदप्यप्रमाणम् । ननु च शाब्दं प्रमाणमात्रं प्रमाणान्तरसापेक्षमेव लौकिकवाक्य. व्यवहार उपलभ्यते । सत्यं प्रमाणान्तरविषयमेवोपलभ्यते । न तु मित्तं विद्यमानोपलम्भनत्वात् ॥ ४ ॥ सत्सम्प्रयोगे पुरुषस्य द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानेोपलम्भनत्वादि- त्यनेन वर्तमानोपलम्भनत्वात् प्रत्यक्षस्य कार्यस्य चावर्त्तमानत्वादनि मित्तत्वमुक्तम् । अत एव पृच्छति-अथ कस्मादनुमानादेरनिमित्तत्वमिति । अयम- भिप्राय:-यद्यपि वर्तमानकविषयत्वात्प्रत्यक्षमनिमित्तं तथाप्यनुमाना. दीनामवर्तमानविषयाणामपि कथमनिमित्तत्वमिति । अनुमानादीनां हि निमित्तग्रहणपूर्वकमिति । अयमाशयः-लिङ्गसादृश्यादीनां निमित्तानां ग्रहणे सति स्वार्थेऽनुमेयादावनुमानादीनि प्रवर्त्तन्ते । कार्ये चाथै वर्णादि निमित्तं, नान्यत; तस्य प्रत्यक्षप्रतीतत्वादन्यस्य चाप्रतीयमानत्वात्। व. र्णादेश्च न लिङ्गत्वादिकमुपपद्यते । तस्माल्लिङ्गादिग्रहणमन्तरेण प्रतीय. मानत्वान्न कार्येऽर्थेऽनुमानादेरपि निमित्तत्वम् । भाष्यं चैवं योज्यम- प्रत्यक्षवर्णादिद्वारत्वात् कार्यस्य तस्य च लिङ्गत्वाद्यनुपपत्तेरनुमाना. दीनामपि कार्येऽनिमित्तत्त्वमिति । ननु च शाब्दं प्रमाणमात्रं प्रमाणान्तरसापेक्षमेव लौकिकव्यवहार उपलभ्यत इति । पौरुषेये हि वाक्ये प्रमाणान्तरापेक्षमेव शाब्दम् । एतदेव वाक्यस्य पौरुषेयत्वं यत्प्रमाणान्तरापेक्षस्वार्थप्रतीतार्थप्रत्यायनपर. तया प्रयोगः, न वर्णादिकार्यता । अतो लोकावगतसामर्थश्च शब्दो वेदेऽर्थबोधकः । तेन वेदेऽपि शब्देन प्रमाणान्तरसापेक्षमेव कार्य प्रत्याय्यते । न च तत्प्रमाणान्तरमस्तीत्यभाव एव कार्यस्य प्रसक्तः। सत्यं प्रमाणान्तरविषयमुपलभ्यते न तु प्रमाणान्तरसापेक्षम् । स्वार्थे टोत्पत्तिकी शब्दशक्तिः । अस्यार्थः--प्रमाणान्तरप्रतीतमर्थ शब्दो ब्रवीति स्वरूपेणैव, न तु प्रमाणान्तरप्रतीतत्वेनैव । एतदुक्तं भवति-यत् वस्तुतः प्रमाणान्तर. प्रतीतं तदाह, न तु प्रमाणान्तरप्रतीतत्वमेवाहेति । यस्मात् स्वार्थ एव स्वाभाविकी शब्दस्य शक्तिः । तेनानपेक्षार्थमात्रप्रत्यायकत्वादसत्यपि प्रत्यक्षलक्षणाधिकरणम् ] ऋजुविमलोपेता। तथा. प्रमाणान्तरसापेक्षम् । स्वार्थे ह्यौत्पत्तिकी शब्दशक्तिः । तदुक्तम्-- इति प्रत्यक्षमूत्रम् ।। प्रमाणान्तरे शब्द एव कार्येऽर्थे प्रमाणमिति । ननु-कथं वृद्धव्यवहाराप्रसिद्धं स्वार्थमात्रे शब्दस्य सामर्थ्यम् ? । अत्र ब्रमः-अत्र स्वार्थप्रतिपादकत्वे स्वाभाविकेऽपि प्रमाणान्तरप्रती. तार्थपरतया प्रयुक्तत्वात् सापेक्षार्थप्रतिपादकत्वमुपपद्यते । भूतस्य च लिङ्गत्वमपि घटते । प्रसिद्धकारणत्वात् प्रतीतिविषयी- भूतस्यार्थस्य । वाक्यप्रयागो हि पुरुषाणां प्रतीतार्थपूर्वकः । सत्यमे. वमेतत, तथापि लोके स्वातन्त्र्यमदृष्टपूर्व न शक्यते कल्पयितुम् । उच्यते-लिङादिशब्दस्तावत्प्रमाणान्तराविषयं कार्यमर्थमवबोधयति । शब्दान्तराण्यपि च कार्यस्यानन्यार्थत्वात् तत्परानेव स्वार्थानभिद. धति । तदन्वायनश्च तऽप्यर्थाः प्रमाणान्तरस्य विषयभूताः । तेनार्थ स्वभावालोचनया(२)परं न सापेक्षता । ननु च-लोके प्रमाणान्तरप्रतीतार्थविषयत्वात् प्रयोगस्य कथ(२)म. नन्यगोचरे कार्य लिङदिप्रयोगः ? सत्यमेवं पौरुषेये । किन्तु अपौरुषेये वेदे कार्याभिधायकत्वं तावल्लिङादेरवलीयते, न त्वप्रवृत्तिः । (३) [नत्व पेक्षितोपायतैव] । न चापौरुषेयत्वाच्छक्यं वक्तुभ्-कथमनन्यगोचरमर्थ- माहेति । ननु चा-नन्यगोचरे कथं सम्बन्धग्रहः ? । अगृहीतसम्बन्धस्य च कथमनिधायकत्वम् ? । अत्रोच्यते-लिङादियुक्तवाक्यश्रवणानन्तरं तनावभाविनी प्रयोज्यवृद्धस्य प्रतिपत्तिं प्रवृत्त्यानुमाय पार्श्वस्थः प्र. त्तिहेतुभूतीर्थोऽनेनास्माच्छब्दा(४)प्रतीत इति कल्पयति । (६)प्र. वृत्तिहेतुभावश्च कार्यावगतेदृष्टः । सर्वो हि यावत् ममेद कार्यमिति नावबुध्यते तावन्न प्रवर्तते । नन्वपेक्षितोपायावगमात् प्रवृत्तिः । मैवम् ; अपेक्षितोपायोऽपि यावत्कार्यतया नावसीयते तावन्न(६)प्रवर्तते । नन्वपेक्षितोपायतैव कार्यता । न; कार्यता कृतिसाध्यता । (७)उपायता तु साधनता। अन्या । १. तावत् इति. ख. पु. २. अन्यागोचर. इति. क. पु. ३. [ ] एतच्चिह्नान्तर्गतो भागः ख० पुस्तके नास्ति । ४. प्रतीयत इति. ख.पु. ५. प्रतिपत्तिहे. इति. क. पु. ६. प्रवृत्तिः इति. क. पु. ७. अपेक्षितोपायता इति. ख० पु.

बृहती [अ.१.पा.१.सू.५. ? अथ पञ्चमं शब्दार्थसम्बन्धनित्यत्वाधिकरणम् ।। औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञान- मुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायण स्थानपेक्षत्वात ॥ ५॥ (१)"वृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयांचकार" इति व्या ख्यानान्तरोपन्यासः कस्मै प्रयोजनाय ? यदि तावदूषणाभिप्रायः, तदयुक्तम् ? सम्यगर्थाभिधानात् । उपरितनस्य सूत्रन यस्यार्थान्तर हि साधनता, अन्या साध्यता । किन्तु लोके श्रेयालाधनतया कार्याः वगमः । तेन (२)च रूपेण कार्याभिधायका लिङादयः । यदि परं पौरु षेये वाक्ये सापेक्षकार्याधबोधकत्वं प्रमाणान्तरावगम्या च श्रेयःसाधन भूतायाः क्रियाया एव कार्यता। तेन लोके क्रियैव कार्यतया शब्देनाभि धीयते । वेदे तु स्वर्गकामपदपर्यालोचनया स्वर्गसाधनानुगुणकाला- न्तरस्थायिकार्याभिधानसामर्थ्यमवधार्यते न च तत्प्रमाणान्तरावग. म्यमिति कार्यार्थतैवानपेक्षत्वम् । न च प्रमाणान्तरावगम्यमाना का. र्थिव प्रतीयमाना त्यागमहति । अनपेक्षितार्थाभिधायकत्वेऽपि लोके सापेक्षत्वोपपत्तेः । नन्वेवं तर्हि वृद्धव्यवहारप्रसिद्धार्थग्रहणं वेदे न स्यात् । मैवम् ; व्यवहारप्रसिद्ध एवार्थः। स तु प्रमाणान्तरनिरपेक्ष इति स्थितम् ॥ इति प्रत्यक्षलक्षणाधिकरणम् ।। अथ शब्दार्थलम्बन्धनित्यत्वाधिकरणम् ॥ आत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः तस्य ज्ञानमु- पदेशोऽव्यतिरेकश्वार्थेऽनुपलब्धे तत् प्रमाणं बादरायण- स्यानपेक्षत्वात् ॥ ५॥ औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति । वृत्तिकारस्तु-यदि तावदुषणा- भिप्रायमिति । यदि परमतं दुष्टमित्यभिप्रेत्योपन्यासः सोऽयुक्तः । सूत्रत्र यस्यापि सम्यगर्थत्वात् । उपयोग्यर्थान्तरवर्णनार्थत्वेऽपि वृत्तिकार २. चरूपेण इति नास्ति क. पु. १.शा.भा.६-९.

औत्पत्तिकसूत्रम् ] ऋजुविमलोपेता। ३७ , प्रदर्शनार्थमिति चेत् , तत्रापि वृत्तिकारग्रहणययुक्तम् । अर्थान्तरक- थनेन वा विना किं न सिध्यति ? उच्यते-द्वयमप्यस्ति दुषणमर्था- स्तरकथनञ्च ! किमत्र दृपितम् ? निमित्त परीक्षणं न कर्तव्यमित्ये- तत्तावदयुक्तम् । नमोऽश्रुतत्वात् , अस्त्यर्थस्य नित्यप्राप्तः । यदपि हेत्वभिधानं-प्रसिद्धानि प्रमाणानीति, तदप्ययुक्तम् , विपतिपत्तिदर्शनात् । स्वयं चोक्तं-ननु-व्यभिवरति प्रत्यक्ष. मिति। निमित्तपरीक्षणेन चाव्यभिचारितोक्ता । सूत्रकारेण च तदेव प्रतिज्ञातं परीक्ष्यतया । कथमत्र नबोऽध्याहार उपपद्यते ? वक्तव्य च निरालम्बनतानिराकरणार्थम् । तच्च नोक्तं वृत्तिकारेण । तस्मा- दुषणम् । वक्तव्यं पुनः किमन्यदर्थान्तरम् ? उच्यते-पूर्वोक्तस्य ग्रहणानर्थक्यम् । अस्याप्यर्थस्य स्वाभिप्रेतत्वात् । अर्थान्तरकथनस्था. प्युपयोगो न दृश्यते । उच्यते-द्वयमप्यस्तीति । वृत्तिकारग्रहणं परमत. त्वप्रदर्शनार्थम् । निमित्तपरीक्षानिषेधस्तावदयुक्तः । सूत्र ननोऽश्रुतत्वात्। क्रियापदान्तराश्रवणे चास्त्यर्थस्य नित्यप्राप्तः । योऽपि हेतुः प्रमाणानां सिद्धत्वं नाम(१)तस्याप्यसिद्धः । वादिनां प्रमाणसंख्या(२)स्वरूपविषयादिषु विवादात् । केचिदेकं द्वे त्रीणि चत्वारि पञ्च षट् चेति संख्याविवादः। स्वरूपविवादस्तु(३)"कल्पना पोढमभ्रान्तं प्रत्यक्ष"मित्यादि विषयविवादः ! सामान्यमेवानुमानस्य विषय इत्येवंविधः । स्वयं चोक्तं-ननु व्यभिचरति प्रत्यक्षमिति । तेन प्रमाणान्यपि व्यभिचरन्तीति विप्रतिपत्तिरस्ति । निमित्तपरीक्षणेन चाव्य - भिचारितोक्तेति । सिद्धान्तेऽपि यदव्यभिचारित्वमुक्तं तत्परीक्षां कृत्वैव । तेन परीक्षानिषेधस्स्वानुमानविरुद्धः । सूत्रकारेण च तदेव प्रतिज्ञातं परीक्ष्यतया चोदनालक्षणसूत्रेण कार्येऽर्थे प्रमाणं चोदनेति प्रतिज्ञातम् । तेन प्रमा. णमेव परीक्ष्यतया प्रतिज्ञातम् । अन्यथा लोकप्रसिद्धत्वात् किं प्रमाणप्र- तिज्ञया । सूत्रकारस्य च प्रमाणप्रतिज्ञाप्याऽऽर्थी संमता। कार्यो धर्म इति सिद्धे चोदनालक्षणग्रहणात् प्रामाण्यहेत्वाभधानाच्च । वक्तव्यं च निमि- त्तपरीक्षणम् । अन्यथा प्रत्यक्षस्य निमित्तपरीक्षणेनाव्यभिचारित्वेऽप्रद. शिते निरालम्बनता ज्ञानानामापयेत । वक्तव्यं पुनः किमन्यदर्थान्तरम् । किम- १. सोप्यसिद्धः इति. ख० पु० २. स्वरूपादिषु. इति. ख० पु. ३. न्यायबिन्दु. १.४. - वृहती [ अ.१.पा.१.सू.५. सूत्रत्रयार्थस्य साधनभूतमन्यदर्थान्तरमनेनोक्तं प्रदर्शयितुम् । तथाच तत्सतोयत्ययो लक्षणाभिधानं च सर्वप्रमाणानाम् । यत्पुनः प्रत्यक्षलक्षणस्यान्ते(१) “यस्य च दुष्टं करणं यत्र च प्रिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्य" इत्यवधारणम्, किमने नावधार्यते ? उच्यते-यश्येदं द्वयं नास्ति नासौ मिथ्याप्रत्यय इत्यवधार्यते । कः पुनरसौ ? नामजात्यादियोगेनो- र्थमन्यदर्थान्तरं सूत्रत्रयस्य वक्तव्यं पुनरित्यर्थः । एतदुक्तं भवति--किमर्थ सूत्रत्रयस्यापरमर्थान्तरमुच्यते । यावता स्वातन्त्र्येणैव किमित्येत. नोच्यते । पूर्वोक्तसूत्रत्रयाक्षेपलब्धमिति । उच्यते--पूर्वोक्तसूत्रत्रयार्थ- स्य साधनभूतमन्यदर्थान्तरमनेनोक्तमिति प्रदर्शयितुम् । अस्यार्थः-यदेवेदं पूर्वसूत्र- त्रयं अनेनैव पूर्वोक्तार्थसाधनभूतमर्थान्तरमुक्तं, न पुनराक्षेपलभ्यमि- ति दर्शयितुं पूर्वोक्तसूत्रत्रयार्थत्वेनैवार्थान्तरमुक्तं न स्वातन्त्र्येणेति । किं पुनस्तत् ? यदर्थतो न लभ्यते इत्यत्राह--तथा च तत् सतोयत्ययो लक्षणाभिधानं च सर्वप्रमाणानाम् । अनिमित्तपरे हि सत्संप्रयोगः सूत्रे पूर्वव्याख्याने तत्सतोर्व्यत्ययो न लभ्यते । ततश्चान्यसंप्रयो गेऽप्यन्यविषयविज्ञानप्रत्यक्षत्वानिरालम्बनपक्षसिद्धेः पूर्वोक्तं सर्वमेव न सिद्ध्येत् ! लक्षणाभिधानं च सर्वप्रमाणानाम् । पूर्वोक्तव्याख्याने हि न लक्षणपरता, किं त्वनिमित्तपरता। अस्मिस्तु व्याख्याने लक्षणपर त्वेन तत्सम्प्रयोगसूत्रस्य प्रदर्शनार्थतया सर्वप्रमाणलक्षणाभिधानं सिध्यति । सर्वप्रमाणलक्षणोपयोगस्त्वव्यभिचारप्रदर्शनेन निरालम्ब- नत्वनिरासः। "यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्य इत्यनेन (२)भाध्येण बाधकारणदोषज्ञानाभावेऽपि (३)मिथ्याप्रत्य- यः पूर्वपक्षिणा शङ्कितो निराकृत इति प्रतिभाति, स एवासमीचीन इत्यवधारणात् । तत्र टीकाकारः पृच्छति-किमनेनावधार्यत इति । उत्त रम्-यस्येदं द्वयं नास्तीति । कः पुनरसाविति--पुनरपि विशेषनिर्धारणाय प्रश्नः। नामजात्यादि(४)योगेनोत्पद्यते य इति विशेषेणोत्तरम् । नामयोगेन यथा- देवदत्त इति । जातियोगेन यथा-गौरयमिति । गुणयोगेन यथा-शुक्लो. १.शा. भा० ८.१. इति नास्ति ख० पु. २. भाष्येण इति नास्ति० क० पु. ४. योजनया इति० ख० पु. ३. मिथ्याप्रत्ययः औत्पत्तिकसूत्रम् ] ऋजुविमलोपेता। ३९ त्पद्यते यः। न चेदं द्वयमस्ति तस्य । तथा च परैरान्तरालम्बनता ने प्यते-अस्य निर्विकल्पकामितविषयतैवेष्यते विकल्पमात्रमेवायमिति वदद्भिः । स एव च संऋतिरित्युक्तम् । ननु चास्मिन्नपि राद्धान्ते नि विकल्पकात्य यप्रमितविषयत्वेष्यते सविकल्पकानां जात्यादिप्रत्य. ऽयमिति । क्रियायोगेन-पचतीति । द्रव्ययोगेन--दण्डीनि । नचेदं यमस्ति तस्य । न हि लौकिकानां बाधकशानं कारणदोषज्ञानं वा तत्र विद्यते । परीक्षकाणा तु यौक्तिको बाधोऽस्त्येव । कथं पुनरवगम्यते नामजात्यादियोगेनोत्पद्यमानस्य(१) निर्विशक्षितज्ञानस्य विकल्पसंज्ञक स्य लौकिकानां बाधकारणदोषज्ञानाभावऽपि यौक्तिकबाधबलेन परेषां मिथ्याभावोऽभिमत इति ? । अत्राह- तथा चेत्यादि। अर्थान्तरभूता व्यक्ति. तो ये जात्यादयस्ते विकल्पप्रत्ययस्यावलम्बन मिति परैनप्यते । किन्तु निर्विकल्पकेन प्रत्ययेन प्रथमभाविनेद्रियजेन या व्यक्तिः प्रतीता सैव सविकल्पकन प्रत्ययेनाप्यालम्ब्यते । तामेव चावलम्बमानमपि जात्या. दियोगितया विकल्पमात्रमेवेदं न वाहावस्त्ववच्छेदकमुत्पद्यत इति परैरुक्तम् । (२)एवं च ब्रुवाणैः परमिथ्यात्वमभ्युपगतमिति गम्यते । स एव च संवृतिरित्युक्तम् । स एव विकल्पप्रत्ययः संवृतिरिति च(३) यस्मात् परैरुक्तं तस्मात्परैमिथ्यात्वमिष्टम् । केन पुनः(४) कारणेन विकल्पप्रत्ययः संवृतिरित्युच्यते ? संवियतेऽनेनेति । विकल्पप्रत्ययो हि स्वाकारेण जात्यात्मकेन पररूपं स्वलक्षणस्यात्यन्तिकभेदं संवृणो. ति आच्छादयति । तदाह कीर्तिः- पररूपं स्वरूपेण यया संवियते धिया । स्वकार्यप्रतिभासिन्या भावनाश्रितया तया ॥ तया संवृतिनानात्वात् प्रकृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपण केनचित् ॥ तस्याश्चाभिप्रायवशात् सामान्य(५) सम्प्रकीर्तितम् । तदसत्परमार्थ च यथा सङ्कल्पितं तथेति ॥ ननु चास्मिन्नपि राद्धान्त इति । परेषामपि सिद्धान्ते नैवास्य मिथ्याश- १. निर्विशङ्कितेति नास्ति क० पु० २. परञ्च ब्रुवाणैः परः इति क० पु. ३. यस्मात् परैरुक्तं इति क० पु.नास्ति । ४. प्रकारेण. इति क० पु. ५. परिकीर्तितम् इति. ख० पु.

तु -- बृहती [ अ.१.पा.१.सू.५. यानाम् । इयांस्तु विशेष:-पूर्वानुभूतार्थीनुसन्धानेनास्मिन्नपि निर्विक ल्पकप्रसयममितविषयता नापैति । अनुसन्धानप्रत्ययस्यापि नार्था- तरानुसन्धानेन विषयान्तरत्वं प्लविकल्पकस्य शक्यते वक्तुम् । तस्मादर्थान्तरविषयत्वान्नैवास्य मिथ्याशङ्कोपपद्यते । द्वयस्य चा. भावः । तस्मात्तदर्थमिदमवधारणं मन्दनरफलमेव प्रतिभाति । ननु च त्वयैवेदमुक्तं-इयांस्तु विशेष इति । अनेन विशेषेण परैः रिदमुक्तमनुसन्धीयमानोऽर्थः संहितार्थान्तरविषयत्वान्नवास्य एकप. सयविषयोऽर्थः परिच्छेद्यतामस्य प्रत्ययस्य प्रतिपद्यते । आलम्ब. नतां तु प्रतिपद्यते । तस्मान्न परिच्छेदकत्वमनुमन्धानप्रत्ययस्येच्छन्ति कोपजायते, यस्मानिर्विकल्पकप्रत्ययप्रमितमव स्वलक्षणं स विकल्प. कानां विषय इष्यते । तल्लक्षणं च परमार्थतोऽस्त्येव । सदर्थविषयं ज्ञानं(१) सत्यं, न मिथ्या, यथा निर्विकल्पकज्ञानम् । इयांस्तु विशेषः- निर्विकल्पकेन सह पूर्वानुभूतं यत्स्वलक्षणं तस्य यदनुसंधानमर्थान्तर- घटनं योजनं तेनेदमुत्पद्यते सविकल्पकज्ञानम् । निर्विकल्पकं तु न पूर्वानुसन्धानेनोत्पद्यते । अस्मिन्नपि सिद्धान्ते निर्विकल्पकप्रमितविष- यता पुनः समानैव । अनुसन्धानप्रत्ययस्यापि समानविषयत्वे सविक ल्पकं मिथ्या निर्विकल्पकं सत्यमिति न युक्तम् । द्वयस्य चाभावः। न हि लौकिकानां द्वयमिदमस्तीति । तस्मान्मिथ्यात्वशङ्काभावान्नास्ति पूर्वः पक्ष इति निगकरणमनुपयोगि । ननु च त्वयैवेति पूर्वपक्षसमर्थनम् । अनेनैव विशेषेण जात्याद्यनुस. न्धानेनैव जायत इति परैरिदमुक्तं-निर्विकल्पकेन यत् स्वलक्षणं(२)बा- ह्यार्थरूपं प्रतीयते तद्विकल्पप्रत्ययस्य परिच्छेद्यं न भवति, आलम्बनं तु भवतीति । एषोऽभिप्रायः-न हि बाह्य वस्तु जात्यादिभिर्योजयितुं शक्य. ते, तस्य विकल्पैरसंस्पर्शात् । किन्तु(३) तदगृह्णन्तोऽपि विकल्पास्तद्र हाभिमानिनो भासन्ते । तदभिमानानुरोधेन तदालम्बना इत्युच्यन्ते । परमार्थतस्तु निरालम्बना एवेति । एवं च मिथ्यात्वमुक्तमेव परैः। तस्मान्न परिच्छेदकत्व (४)मनुसन्धानप्रत्ययस्येच्छन्ति स्मृतिवदेतद्विकल्पज्ञानमिः १. सत्यं. इति नास्ति. क० पु. २. वाक्यार्थ. इति क० पुस्तके ३. तद्गृह्णन्तोऽपि विकल्पास्तद्गुणाभिमानिनः इति एक० पु० । ४. अस्य, इत्यधिकं ख० पु० ।

वृत्तिकारमतम् ] ऋजुविमलोपेता। ४१ . स्मृतिवदिति वदन्तः । इष्यते चास्मिन् राद्धान्ते सविकल्पकस्यापि प्रमाणत्वम् । न च परेषामप्यनुसन्धानपत्यये विकल्पमात्रवादिनाम् । द्वय मस्तीति सिद्धम्। तस्मादस्य प्रमाणत्वमिच्छता कृतमिदमवधारणम्। कथं पुनरनुसन्धानप्रत्ययं कल्पनां मन्यन्ते ? जातिजातिमतोर- भेदात, अनुसन्धानप्रत्यये भेदाभ्युपगमाञ्च । अयं गौरिति लौकिकाः प्रतिपद्यन्ते, नेदं गोत्ववव्यमिति । ननु च-भेदप्रत्ययेऽप्यभेदो. पचारो दृष्टः-कुन्तान् प्रवेशयेति । सत्यमभेदोपचारः । न पुनरयं ति वदन्तः । यथा स्मृतिज्ञानं बाह्य वस्तु न गृह्णाति अस्फुटावभा. सित्वात् , बाह्यस्य च म्फुटरूपत्वात् । न च ग्राहकसामग्रीभेदेन स्फुटा. स्फुटावभासभेदः, वद्याभेदात् । अतो बाह्यावभासाभावेऽपि तदध्यवः सायिनोपजायमानं तदालम्बनमिव भाति स्मृतिज्ञानम् । तथा विक- ल्पकज्ञानमपि । तदुक्तं (१)कीर्तिनव-शास्त्रचिन्तकाः खल्वव विवेचयन्ति, न तु प्रतिपत्तारः । ते तु दृश्यविकल्पावर्थावेकी कृत्य बाह्यमेवानुमन्यमा. नाः प्रवर्तन्त' इति । इप्यते चाम्मिन् मीमांसकानां राद्धान्ते सविकल्पकस्यापि प्रमाणत्वम् । न च परेषामनुसन्धानप्रत्यये विकल्पमात्रवादिनाम् । द्वयमिदं बाधका. रणदोषरूपं लौकिकानां साक्षादस्तीति सिद्धं सर्वेषाम् । तस्मात् पूर्व- पक्षसम्भवादस्य विकल्पप्रत्ययस्य प्रमाणत्वमिच्छता भाष्यकारेण कृतमिदमव. धारणम्-~स एवासमीचीनः प्रत्यय इति । कथं पुनरनुसन्धानप्रत्ययं कल्पनां मन्यन्ते । अयमभिप्रायः-जात्यादिकं हि पर. मार्थतोऽस्त्येव । तद्विशिष्टतया स्वलक्षणं गृह्यमाणं पारमार्थिकमेव । अतः सत्याऽर्थप्रतिपत्तिः (२)कल्पना न भवतीति । पूर्वपक्षी त्वाह-जाति. जातिमतोरभेदादनुसन्धानप्रत्यये भेदाभ्युपगमाचीत । जातिर्जातिमतः स्वलक्षणात भिन्ना नास्ति, अथ च विकल्पप्रत्यये भिन्नेव प्रतिभाति, तद्विशिष्टत्वे- नावगतः । कथं पुनरवगम्यते भिन्ना जातिर्न भवतीति ? तत्राह- अयं गौरिति हि लौकिकाः प्रतिपद्यन्ते, नेदं गोत्ववद्रव्यमिति । अस्यार्थः-जाति. मतोऽभिन्ना जातिःप्रतीयते न भिन्ना। यदि भिन्ना प्रतीयेत इदं द्रव्यं गोत्ववत् इत्यवगतिः स्यात् । न चासावस्ति । ननु च भेदप्रत्ययेऽप्यभेदो- पचारो दृष्टः-कुन्तान् प्रवेशयेति । अस्यार्थः-यद्यपि प्रतीतो भेद एवावभाति, तथाऽपि समानाधिकरणशब्दप्रयोगमात्रं भवत्येवोपचारात । यथा. १. अयमेव धर्मकीर्तिबौद्धाचार्यः । २. कल्पना न भवति इति क० पु० नास्ति । ६ बृ०३० ..

बृहती [अ.१.पा.१.सू.५. गौरित्यत्रोपचारबुद्धिलौकिकानाम् । तस्मादुपचारितोऽयं प्रत्यय इति न शक्यते वक्तुम् । न च स्व लक्षणपर्यवसाय्येवायं प्रत्ययः, अर्थान्तरानुसन्धानात् । अतो मन्यामहे कल्पनैवेयमिति । यद्ययमन्यथाग्राही प्रत्ययः स्यात् कथं न विपर्येति ? उच्यते- यत्र हि द्रव्यं द्रव्यान्तरात्मनाऽवसीयते तत्र विपर्ययो भवति । नचेदं गोत्वादि द्रव्यान्तरं नीलपीतादिवाद्विशेषेभ्यः; पृथक्त्वेनाग्रहणात् । यत एव हि विशेषास्सामान्यप्रत्ययेनाबलम्ब्यते, अत एव च पुरुषसमानाधिकरणकुन्तशब्दप्रयोगः, न पुनः प्रतीतो तादात्म्या. वभासः । उत्तरम्-सत्यमयमभेदोपचारः 'कुन्तान् प्रवेशये ति; न पुनरयं गौरित्यत्र लौकिकानामभेदोपचारबुद्धिः, प्रत्यये तादात्म्यावभासात । उपचारो हि शब्दप्रयोगमात्रम् , न बुद्धौ तादात्म्यसंवित्तिः । तस्मादुपचरितोऽयं प्रत्यय इति न शक्यते वक्तुम् । प्रत्ययस्यौपचारिकत्वाभावात् । शब्दप्र. योगमात्रं झुपचरितो भवति । ननु तर्हि जातिरभिन्ना भवतु, तथाऽपि कथं कल्पनात्वम? तत्राह-न च स्वलक्षणपर्यवसाय्येवायं प्रत्ययः, अर्थान्तरानुसन्धा. नात् । अस्यार्थः-यद्यपि भिन्नाजार्तिर्नास्ति तथाऽप्ययं प्रत्ययः स्वलक्ष. णरूपो यो विषयस्तन्मात्रपर्यवसायी न भवति, विशेषप्रत्ययत्वात् । अर्थान्तरेण जात्यादिनाऽनुसन्धाय योजयित्वा जायमानत्वात् । अतो- ऽर्थान्तरयोजनायामर्थान्तरसम्बन्धरहितेऽपि स्वलक्षणे जायमानत्वात कल्पनैवेयमिति मन्यामहे । अत्र चोदयति-यद्ययमन्यथाग्राही प्रत्ययः स्यात् कथं न विपर्येति ? यो ह्यन्यदन्यरूपेणावभासयति यथा शुक्तिकारजतादिज्ञानम् , तस्य 'नेदं रजत'मिति विपर्ययो भवति। न गवादिषु प्रत्ययविपर्ययोऽस्ति। तस्मा. नायमन्यथाग्राहीति । अत्र समाधिः-यत्र हि द्रव्यं द्रव्यान्तरात्मनाऽवसीयते तत्र विपर्ययो भवति। यथा-शुक्तिकायां रजतात्मनाऽवसीयमानायाम् । नचेदं गोत्वादि द्रव्यान्तरं नलिपीतादिवद्विशेषेभ्यः । यथा नीलात् पीतं द्रव्यान्तरं न तथा विशेषभ्यो गोत्वादि । कस्मात् ? पृथक्त्वेनाप्रहणात् । यत् खलु यतोऽर्था- न्तरं तत् ततो भेदेन गृह्यते यथा-अङ्गुलीभ्योऽङ्गुष्ठः । न च विशेषेभ्यो भेदेन गृह्यते जातिः । अतो न भिन्नति । ननु चायं गौरिति प्रत्यये भेदेनैव(१)जाति ति, तत्राह-यत एव ही- ति । यस्माद् विशेषाः सामान्यप्रत्ययेनावलम्ब्यन्ते तस्मात् पृथक्वेन १. जातिरवभाति० इति० ख० पुस्तके ।

वृत्तिकारमतम् ] ऋजुविमलोपेता। प्रमाणविपर्ययाभ्यामयमन्यो विकल्पाख्या प्रत्ययः इति विकल्प विदः । गुणकल्पनाप्यनेनैव व्याख्याता-पृथगग्रहणादिति । ननु च नाम्नः पृथगेव ग्रहणम् । न ; तत्राप्ययं विष्णुमित्र इत्यभेदप्रत्ययात् । इयांस्तु विशेषः-जातिगुणकल्पनाभ्यां यदेकत्राभिन्नयोर्भेदकल्पना इतरत्र भिन्न योरभेदकल्पना । तस्मा- दुपाधिविशेषोऽयं न कल्पनाविशेषः । ग्रहणं नास्ति । अत एव हि प्रमाणविपर्ययाभ्यामन्यो विकल्पाख्यः प्रत्यय इति विकल्प. विदः । यत एवार्थान्तरात्मनाऽर्थान्तरं न गृह्णातीति न विपर्येति अत एव विकल्पविदो वदन्ति-प्रमाणादयमन्यो विकल्पाख्यः प्रत्ययः, अन्य. थानाहित्वात् । विपर्ययाच्चान्य एवेति, साक्षाद्वाधाभावात् कारणदोषा भावाच्चेति । गुणकल्पनाऽप्यनेनैव व्याख्याता -पृथगग्रहणादिति । (१)योऽयं भिन्न जातिनिराकरणे हेतुः, (२)अनेनैव गुणकल्पनाऽपि व्याख्याता । यथा हि व्यतिरिक्ता न प्रतीयते जातिरिति जातिकल्पना, तथा गुणोऽपि गुणि नो भिन्ना(३)नावभासते । शुक्लमिदमिति हि लौकिकाः प्रतियन्ति, नेदं शुक्लवद्रव्यमिति । पृथगग्रहणादिति हेतुर्द्विधा विवरणीयः । यदा व्य. क्तिः प्रतीयते तदा तावत् पृथङ्न गृह्यते जातिः। तथा यदि भिन्ना जातिः स्यात् तदा व्यक्त्यग्रहेऽपि कदाचिद् गृह्येत, न च गृह्यते। तस्मा. न भिद्यते जातिः। ननु च नाम्नः पृथगेव ग्रहणमिति नामकल्पनामाक्षिपति । नाम हि ना. मिनो भिन्नम् , भिन्न हि तस्मिन् नामयोजनाकल्पना न युक्ता । समर्थः यन्नाह-न; तत्राप्ययं विष्णुमित्र इत्यभेदप्रत्ययात्। अस्यार्थः-यद्यपि भिन्नं ना. म तथाऽपि न भेदेनैव प्रतीयते। किन्तु अभेदेनैव । अयं विष्णुमित्र इति प्रत्ययः, भिन्ने चाभिन्न प्रत्ययो ऽ(४)प्यपरमार्थः कल्पनैव स्यात् । इयांस्तु विशेषः-जातिगुणकल्पनाभ्यां यदेकत्र जातिकल्पनायामभिन्नार्जाति- र्जातिमतोर्मेदकल्पना । अन्यत्र नामकल्पनायां मिन यो मनामिनोरभेद. क (ल्पनेति । तस्मादुपाधिविशेषोऽयं कल्पनाप्रकारविशेष इत्यर्थः । न पुनः ) कल्पनात्वे विशेषोऽस्ति, असत्यविषयत्वस्य तुल्यत्वात् । १. योऽयमिति नास्ति० क. पुस्तके । २. तेनैव. इति. ख. पु० ३. नावभाति• इति० ख० ४. अपरमार्थविषयः इति. ख० पु. ( ) एतत्कुण्डलान्तर्गतो भागः ख० पुस्तके नास्ति ।

बृहती [ अ.१.पा.१.सू.५. ननु च कर्मकल्पनायां द्वयमप्येतन्न सम्भवति, भिन्नयोरेव कि- याकारकयोः सम्बन्धोऽवगम्यते, व्यपदिश्यते च । (१)एवमत्रा. प्यभेदोपचार एवावगम्यते । व्यपादश्यते च "पचति देवदत्त" इति सामानाधिकरण्यदर्शनात् । ननु च वैयधिकरण्यमपि दृश्यते- 'ओदनं पचति' 'काष्टैः पचतिपच्यते देवदत्तेनेति । किमिदं प्रलप्यते वैयाधिकरण्यदर्श नादिति । जात्यादावपि चैयधिकरण्यं दृश्यते - गोभावो गो. स्वं, पटस्य भुक्तत्वं, अस्येयं संज्ञेति । भिन्नाभिन्न कल्पना प्रत्य. भिन्नस्यायं व्यपदेशः । न पुनर्भिन्नस्य चार्थान्तरस्यावगतिरस्ति । तस्मादियमपि च कल्पना-देवदत्त इति । द्रव्येऽप्येवम् दण्डयमित्यभेदोपचारात् । तस्मात्पञ्चविधेयं कल्पना । नेयं प्रमा ननु चेति कर्मकल्पनामाक्षिपति-द्वयमप्येतद्भिन्नाभिन्नत्वकल्पनं कर्म- कल्पनायां नैव सम्भवति । भिन्नं हि कारकात् कर्म भेदेनैव प्रतीयते- काष्ठैः पचति, देवदत्तेन पच्यत इति । नैवमित्यादिना समाधानम् । अत्रापि कर्मकल्पनायामप्यभेदोपचारः अभेदप्रतीतिरेव दृश्यते, पचति देवदत्त इति सामानाधिकरण्यदर्शनात् । ननु वैयधिकरण्यमपि दृश्यत इत्यनेनैतदाह-वैय्यधिकरण्यदर्शनात् भेद एवावसीयते । सामानाधिकरण्यं तु व्यपदेशमात्रमिति । किमिदं प्रलप्यत इति । अस्यायं भावः-यथा वैय्याधिकरण्यं दृश्यते तथा सामानाधिकरण्यमपि । न चैकस्य वस्तुनोऽभिन्नत्वं भिन्नत्वं च सम्भवति । तस्मानास्त्येव भिन्नमभिन्नं वा वस्तु । परस्पर विरोधे. नानयोः प्रतीत्योः पराहतत्वात् । अविद्यमानवस्त्ववभासि च प्रत्ययो विकल्पमात्रमेवेति । अक्षरार्थस्तु-यथा कर्मणि वैयधिकरण्यं दृश्यते तथा जातिगुणनामस्वपि । न च तानि भिन्नानि, अभेदावगमात् । अतोऽवि. द्यमानमेव कदाचिद्भिन्नतया कल्पयते, कदाचिदभिन्नतयोत मन्तव्यम् । द्रव्येऽप्येवं दण्ड्ययमित्यभेदोपचारात् । अस्यार्थः--दण्ड्ययमिति प्रतीतिः पुरुषमेव प्रतिपद्यते । न च पुरुषमात्रपर्यवसाय्येवायं प्रत्ययः, विशेषप्रत्ययात् । पूर्वपक्षमुपसंहरति-तस्मात्पञ्चविधेयं कल्पना न प्रमाणम् । अविद्यमानजा. १. नैवम्' इति ब्याख्यानसम्मतः पाठः ।

ऋजुविमलोपेता। वृत्तिकारमतम् ] ४५ , णम् । नाप्यप्रमाणम् । उच्यते-भवति कल्पनाज्ञानं यदि प्रत्यक्षस- मधिगम्यता ज्ञानस्य स्यात् । आनुमानिकत्वं तु ज्ञानस्य वक्ष्यति । नन्वप्रयक्षज्ञानपक्षे ज्ञानस्याकारमात्रमालम्बनम्, अन्यथा ज्ञानस्योत्पत्तिोपपद्यते । कोऽयमन्यथाभावः ? अयमन्यथाभावः । शुक्तिका हि रजतवत्प्रकाशते । शुक्तिकालम्बनं हि तद् ज्ञान, न रजतालम्बनम् । कथमवगम्यते ? शुक्तिकासम्पयुक्त चक्षुषि दर्शनाः दन्धस्यानुत्पादात् , न ह्यन्धश्शुक्तिका रजतमिति व्यपदिशति। च. क्षुष्मानेव हि शुक्तिका रजतमिति मन्यते-रजतसन्निकृष्टं मे चक्षु. त्याद्यध्यासेनोपजायमानत्वात् । नाप्यप्रमाणम् । बाधकारणदोषज्ञान: योस्साक्षादनुत्पत्तेः । उच्यतं इत्यादिना सिद्धान्तमुपक्रमते ! तत्र चेदमाकू. तम्-जात्याद्यवभासीनि तावदेतानि ज्ञानान्युत्पद्यन्ते । न चाविद्यमानमे. वाकारं ज्ञानमवगमयति । स्वलक्षणरूपवत्सत्त्वेनावभासनात्। तत्र विद्यमानता कदाचित् बहिरर्थरूपतया कदाचित् (१)ज्ञानाकारत. या। तत्र यदा विज्ञानं (२)प्रत्यक्षं न भवतीति स्थितं तदा पारिशेष्या. दर्थाकारतैवावशिष्यते । तथा च विद्यमानाकारग्रहणान्न कल्पनारूप. तेति । तदाह-भवति कल्पनाज्ञानं, यदि प्रत्यक्षसमाधिगम्यता ज्ञानस्य स्यात् । आ- नुमानिकत्वं तु ज्ञानस्य वक्ष्यति । नन्वप्रत्यक्षज्ञानपक्षे ज्ञानस्याकारमात्रमालम्बनमन्यथा ज्ञानस्योत्पत्तिोंपपद्यते। अनेन बलात् प्रत्यक्षता ज्ञानस्याङ्गीकरणयित्यापादयति । कोऽयमन्यथाभाव इति पृच्छति । उत्तरम्-(३)अयमन्यथा भावः-शुक्तिका हि रजतवत् प्रकाशते इति । अनेन "ननु-व्यभिचारातू परीक्षितव्यं निमित्तम्, इति भाष्यं व्यावष्टे। तस्य चार्थः- शुक्तिकायां रजतमिदमिति ज्ञानमिन्द्रियतद्भावभाविप्रत्यक्षमेव ज्ञानम् । तच्च बहिः रजताकाराभावात् ज्ञानगतमेव रजताकारमवभासयतीति । शुक्तिकालम्बनं च तज्ज्ञानं न रजतालंबनमित्यनेन ये मीमांसकास्ते द्वे एते विज्ञाने, इदमित्येकं ग्रहणात्मकं, रजतभित्यपरं स्मरणात्मकमित्याहुः तानिरा. करोति । एकमेवेदं विज्ञानमन्यथाग्राहि जायते । तच्च रजतरूपेण शु. क्तिकामेवालम्बते न रजतम् । कथमवगम्यत इति प्रश्नः । शुक्तिकासंप्रयुक्ते च. क्षुषे तद्भवति। अन्धस्यानुत्पादात् । न ह्यन्धः शुक्तिका रजतमिति व्यपदिशति । चक्षुष्मा. नेव हि शुक्तिका रजतमिति मन्यते-रजतसन्निकृष्टं मे चक्षुरिति । अस्यार्थः-यदि १. बहिर्जानाकारतया इति क०पु० । २. अप्रत्यक्षमिति स्थितम् इति० ख०पु० । ३. अयमन्यथाभावः इति नास्ति०ख०पु० ।

वृहती [ अ.१.पा.२.सू .५. . रिति । अतः शुक्तिकालम्बनं च तत् ज्ञानं न रजतालम्बनम्। न चाप्रत्यक्षज्ञानपक्ष एतत्सम्भवति । अतोऽविद्यमानाकारालम्बन मपि ज्ञानमस्तीति प्रतिपत्तव्यम् । सेयं पञ्चविधा कल्पना । ननु चाविद्यमानाकारालम्बनज्ञानपक्षे निरालम्बनतैव ज्ञानस्प पाप्नोति । मैवम् ; निरालम्बनपक्षे न ह्यन्य स्यान्येन व्यपदेश उपपद्यते । भवति चायं व्यपदेशः रजतमिति शुक्तिकायाः । निरालम्बनज्ञान: पक्षे हि कस्य केन च व्यपदेशो भिन्नत्वाच्छुक्तिकारजतज्ञानयोः । रजतमिति स्मरणशानभेतत्स्यात् तदा चक्षुर्निरपेक्षत्वात्स्मरणस्यान्धः स्यापि स्यात् । न चान्धस्येदमस्ति । यदा तु शुक्तिकालम्बनमेकमेव ग्रहणज्ञानं तदा चक्षुरपेक्षित्वात् स्यादन्धस्या(१)नुत्पादाच्चक्षुष्मत एवोत्पत्तियुक्ता । अनन च-यत्प्रत्यक्षं न तद् व्यभिचरति । इदमिति ग्रहणज्ञानं रजतमिति स्मरणाद्भिन्नं यद्याभिचरतीति । भवदभिमतमको वेदं रजतमिति ज्ञानं तत्प्रत्यक्षमेव न भवति । कीदृशं तर्हि प्रत्यक्षम् ?, तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धि जन्म सत्प्रत्यक्षम् । यद्विषयं विज्ञान मुत्पद्यते तेनैवेन्द्रियसंप्रयोग इन्द्रियाणां या पुरुषस्य बुद्धिर्जायते तत् सत् प्रत्यक्षम् । यथा इदमिति विज्ञानम् । यत्तु अन्यसम्प्रयोगे शुक्तिका सम्प्रयोगे अन्यविषयं रजतग्राहि विज्ञानमुत्पद्यते न तत्प्रत्यक्षम् । किं तर्हि स्मरणमेव । कथं पुनरवगम्यते-इदमन्यसंप्रयोगे, इदं नान्यसंप्र. योग इति ? शुक्तिका हि संप्रयुक्ता। अतः शुक्तिकाविषयमेवेदमपि ज्ञानं यतो रजतमिति शुक्तिकामेव व्यपदिशति । यस्माच्छुक्तिकासंप्रयुक्त चक्षुषि रजतसन्निकृष्टं मे चक्षुरिति मन्यत-इति भाष्यार्थो दर्शितः । न चाप्रत्यक्षज्ञानपक्ष एतत् सम्भवति। अतः प्रत्यक्षं ज्ञानम् । प्रत्यक्षं चेजा. त्यादिकमपि ज्ञानरूपमेव । तस्मात्स्वाकारभूतजात्याद्याकारतया बाह्य वस्तु गृह्णत् कल्पनाज्ञानमेवेदमापतितम् । ननु चाविद्यमानाकारालम्बनज्ञानपक्षे निरालम्बनतैव ज्ञानस्य प्राप्नोति । अस्या- थः यदाकारावभासि यत् ज्ञानं तत्तदालम्बनमुच्यते । शुक्तिका चन रजताकारा । तस्माद्रजताकारस्य ज्ञानस्य न शुक्तिकालम्बनम् । तस्मा. निरालम्बनमेवेदमापद्यत इति चोद्यम् । मैवमिति । अस्यार्थः-निरालम्बनत्वे हि रजतज्ञानस्य शुक्तिकायां रजतमिति व्यपदेशो न स्यात्, भिन्नत्वाच्छु. १. अनुत्पादः इति क. पु०।

वृत्तिकारमतम् ] ऋजुविमलोपेता। . नन्वालम्बनपक्षेऽप्यन्याकारस्य विज्ञानस्यान्याकारमालम्बन ज्ञानमिति नोपपद्यते । इदमेव ह्यालम्बनस्यालम्बनत्वं यदुतार्याकार- मेव ज्ञानमुत्पादयतीति । अन्यथा हि चक्षुरादिवदव्यापृतस्यापि ज्ञानोत्पत्तावालम्बनव्यपदेशो न स्यात् । केन चोक्तमालम्बनस्या- कारनिरपेक्षैवेयं कल्पनेति । कथं तर्हि कल्पना ? अर्थान्तरानुस- धानतया । किमिदमर्थान्तरानुसन्धानतयेति ? इदमिदं यस्य लक्षणान्तरेणैकतापत्तिः, स्वात्मनि च भेदाध्यासः । कथं तीवि. क्तिकारजतज्ञानयोः । एकमत्र शुक्तिकालम्बनम् , अपरं तु निरालम्ब. नम् । अस्ति चायं व्यपदेशः । तस्मादेकमेवेदं ज्ञानं शुक्तिकामेव रज- ताकारणालम्बते। नन्वालम्बनपक्षेऽपीति । आलम्बनस्य ज्ञानमालम्बनज्ञानम् । एतदुक्तं भवति-आलम्बनमेव ज्ञायते न त्वनालम्बनमित्यस्मिन्नपि पक्षेऽन्याकार- मालम्बनमन्याकारग्राहि च ज्ञानमिति नोपपद्यते । इदमेव ह्या(१)लम्बनस्या- लम्बनत्वं यदुतात्माकारमेव ज्ञानं जनयति । यदि पुनः कारकतामात्रमेवार्थस्य स्यात्तदा चक्षुरादीनां ज्ञानोत्पत्ती व्यापूतानामपि यथाऽऽलम्बनभावो नास्ति तथार्थस्यापि स्यात् । तस्माद्यदालम्बनमभिमतं तदाकारण ज्ञानेनापि भवितव्यम् । अन्यथाऽऽलम्बनत्वानुपपत्तरिति । केन चोक्तमि- ति । अत्रायमाशयः-शुक्तिकालम्बनमिदं ज्ञानमभिमतम्, शुक्तिकाकारमेव तावदिदमुत्पद्यते । न पुनस्तदाकारं गृह्णाति । यदि परं तमेवार्थान्तरमे. वार्थान्तरयोजनया गृह्णाति तेन तदाकारग्राहित्वात्तदालम्बनं तावदवि. रुद्धम् । अक्षरार्थस्तु-केनेदमुक्तमालम्बनीभूतस्यार्थस्याकारमनपेक्ष्यैवेयं (२)कल्पनोपेयत इति ? किन्तु आलम्बनीभूतस्वलक्षणाकारग्राहिण्ये (३) वेयमिति । कथं तर्हि कल्पनेति । स्वलक्षणग्राहित्वे सति निर्विकल्पकवत् कल्पनात्वं न युक्तमित्यर्थः । अर्थान्तरानुसन्धानतयेति ह्यार्थान्तरेणा नुसंधानं योजनं तद्भावादित्यर्थः । किमिदमर्थान्तरानुसन्धानतयेति स्वरूपवि- चारणाय प्रश्नः । इदमिदं यत् स्वलक्षणान्तरेणैकतापत्तिः । गौरयमिति ज्ञाने व्यक्त्यन्तरेण सहैक्यं तावदवभाति । स्वात्मनि च भेदाध्यासः। यद्यप्य. साधारणकात्मकं स्वलक्षणं तथापिद्यात्मकमिव प्रतिभाति । कथं तहीति। । १. अवलम्बनस्यावलम्बनत्वम् इति ख० पुस्तके । २. कल्पना जायन इति ख० पु. पा० ३. इयं कल्पना इति ख० पु.

४८ बृहती [ अ.१.पा.१.सू.५. , द्यमानजात्यादिविषया एव जात्यादिप्रत्ययाः ? स्वलक्षणे ह्यवि- द्यमान भेदाभेदाध्यासादविद्यमानविषया इत्युच्यन्ते । कोऽयमध्यासो नाम ? विवेकाग्रहणात् स्वरूपमात्रग्रहणात भेदाननुसन्धानात् सामान्याध्यासः। अभिन्नस्य चार्थस्यान्तरेण सादृश्यं सदृशाननुसन्धानात् भेदाध्यासः। सदृशानवधारणं तु भे. दाननुसन्धानात् । सेयं पञ्चविधा कल्पनेति। कया युक्त्या सम्ब. द्यत्वालंबनव्यतिरिक्त रूपमस्याह ? अर्थान्तरानुसन्धानरूषितं तु । न यद्यालम्बनाकारनिरपेक्षेयं कल्पना न भवति, स्वलक्षणं चालम्बनं (१)तञ्च विद्यमानमेवेति कथमविद्यमानविषया जात्यादिप्रत्ययाः ? अत्रोत्तरम्- स्वलक्षणे ह्यविद्यमानभेदाभेदाध्यासादविद्यमानविषया इत्युच्यन्ते जात्यादिप्रत्ययाः। कोऽयमध्यासो नामेति पृच्छतोऽयमभिप्रायः-पूर्वपक्षिणा हि विज्ञानं साकारं प्रत्यक्षमित्यभ्युपगतम् । तत्र यद्यपि ज्ञानस्यैवाकारः तथापि स्वलक्षणासंस्पर्शात् स्वलक्षणभेदाभेदावभासो न घटते । तेन वर ज्ञाने चार्थे चाविद्यमानस्याकारस्याध्यारोपोऽध्यासो युक्तः इति । विवेका ग्रहणादित्युत्तरम् । (२)अत्रायमाशयः-साकारे हि विज्ञाने तदीयोऽयमाकारः स्खलक्षणस्य यद्यपि न भवति, तथापि विवेकमगृह्णतः स्वलक्षणसम्बन्धि. तेत्युपपद्यते । सर्वथाऽविद्यमानेऽ(३'नुपपत्तिः । स्वरूपमात्रग्रहणात् भेदाननुस- न्धानात् सामान्याध्यासः। यदिदं ज्ञानं साधारणाकारं जातं तस्य स्वलक्षणात् भेदो नानुसन्धीयते । केवलं स्वरूपमात्रं गृह्यते । तेन स्वलक्षणमेव सा. मान्याकारणानुसन्धीयते । अभिन्नस्यार्थान्तरेण सादृश्यं सदृशाननुसन्धानात् भे. सादृश्यानवधारणं तु भेदाननुसन्धानात् । यदेतत्ला- धारणाकारं विज्ञानमुपजायतेऽर्थान्तरभूतं तस्य स्वलक्षणेन सहात(४). द्यावृत्ततया सादृश्यं नानुसन्धीयते, भेदस्याऽनुसन्धीयमानत्वात् । ततश्च तदपि साधारणाकारं ज्ञानं स्वलक्षणेन सहाननुसंधीयमान (भेदं स्व. लक्षणतादात्म्येनैवावभाति । एवं चैकमिदं स्वलक्षणसाधारणासाधारण) रूपं शात्मकमिवाश्रीयते । साधितमर्थमुपसंहरति-सेयं पञ्चविधा कल्पना । न चालम्बनव्यतिरिक्तं स्वलक्षणव्यतिरिक्तं रूपं ग्राह्यमत्रास्ति । अर्था- । दाध्यासः । . १. तच्च इति. नास्ति क० पु. २. अत्रेति नास्ति ख० पु० ३. अनुपपत्तरिति० ख० पु० ४. व्यावृत्तितया इति क. पु० ( ) कृण्डलान्तर्गतो भागः क० पुस्तके नास्ति वृत्तिकारमतम् । ऋजुविमलोपेता। , चार्थान्तरमाथान्तानुसन्धितयाऽऽलम्बन मिति । अतोऽर्थान्तरा- नुसन्धानात खलक्षणालम्बनमपि कल्पनेत्युच्यते । तस्मात्स्व सम्वे. द्यज्ञानपक्ष एवैतदेशालम्बनत्वेऽपि ज्ञानान्यत्वसम्वेदनमुपपद्यते । अन्यथा ह्यालम्बनमात्रावगतिरेव स्यान स्वलक्षण सामान्यावगतिः । स्वलक्षणव्यतिरिक्तं च न सामान्य मस्तीति प्रदर्शितं-रूपान्तराग्रह- णात् तदग्रहे तबुध्यभावादिति । अर्थान्तरस्यानुमन्धानाच्च । अनु. सन्धानं च ज्ञानभेद उपपद्यत इत्युपपन्नस्सामान्यविशेषव्यवहारो लौकिकः । एवं चानित्ये नित्य बुद्धिः, असुरखे सुखबुद्धिः, अना स्मन्यात्मबुद्धिरित्युपपन्नारपसार हेतको विपरीतग्रहाः । तदिदमुक्त- म्-(१)"प्रारबाधकज्ञानोत्पत्तेः कथमिदमवगम्यत" इति । न्तरानुसन्धानरूषितं तु अर्थान्तरानुसन्धानमिश्रितम् । न चार्थान्तरं स्वलक्ष- णमालम्बनं कल्पनाज्ञानस्यार्थान्तरानुसन्धितया अनुसन्धानमनुसन्धिः त. द्भावेनेति । स्वलक्षणालम्बनपि कल्पनेत्युच्यते । तस्मात(२)स्वसंबेद्यज्ञानपक्ष एवैतदुपपद्यते--ज्ञानान्यत्वसंवेदनम् , न स्वलक्षणकालम्बनतेति; ज्ञानाका- रस्यापि भासमानत्वात् । यदि त्वप्रत्यक्ष ज्ञानं स्यात तदाऽऽलम्बन. मात्रावगतिरेव स्यात् । न च बाह्यमेव सामान्यमस्ति, यद्रहणादाकार- द्वयावगमो घटते । रूपान्तराग्रहणात सामान्यं नास्तीति प्रतिपादित. मेव यतः। नन्वेवमपि सर्वदैव सामान्यप्रत्ययेन भवितव्यम् , ज्ञानाका- रस्य सन्निहितत्वात् । तत्राह-अर्थान्तरस्यानुसन्धानाच्चेति । एतदुक्तं भवति- सर्वदैव विकल्पज्ञान(३)मर्थान्तराकारेणोत्पद्यते । तेनात्पत्तिपक्षे सामा- न्यप्रतीतिरनुत्पत्तौ स्वलक्षणमात्रावगम इति । एवं च यदा ज्ञानमेव साकारं प्रत्यक्षं तदाऽनित्ये नित्यबुद्धिरसुखे सुखबुद्धिरनात्मन्यात्मबुद्धिरित्युपपन्ना- स्संसारहेतवो विपरीतग्रहाः । नित्यात्मसुखानां ज्ञानाकारत्वात् । तदिदमुक्तम्- प्राग्बाधकज्ञानोत्पत्तेः कथमवगम्यत इति । एषा च भाष्ययोजना-ननु-प्रत्यक्ष व्यभिचरति । कल्पनाज्ञानं प्रत्यक्षम् । तयाऽविद्यमानार्थान्तरानुसन्धा- नात् व्यभिचरति । ननु कथमविद्यमानमर्थान्तरमनुसन्धातुं शक्यते ? स्यादेतदेवं योकान्तेनेदमविद्यमानं स्यात् , स्वलक्षणे ह्येतदविद्यमानम् । ज्ञाने १. शा. भा. पृ.६ पं. २४. २. स्वसंवेद्यसाकारज्ञानपक्ष एव इति क० पु० ३. अर्थान्तराकारं नोपपद्यते इति ख० पु. ७६० ऋ० Ppre- बृहती [ अ.१.पा.१.सू.५. S एकालम्बनाभिप्रायेण सामान्यविशेषज्ञानयोः । न ह्यन्य सम्प्रयुक्त चक्षुष्यन्यालम्बनस्य ज्ञानज्योत्पत्तिसम्भवति, अन्धस्यानुत्पा- दादित्युक्तम् । अत एवेदमुच्यते-नान्याकारमालम्बनमन्याका. रस्य ज्ञानस्योत्पत्तिहेतुरिति । कथं तर्हि विपरीतग्रहाः अनात्मन्यात्मादयः ? उच्यते- तु विद्यमानत्वाच्छक्यते ऽनुसन्धातुम् । ननु ज्ञानमप्रत्यक्षम् । में. वम् ; शुक्तिका हि रजतवत्प्रका काशते, न च रजताकारः शुक्तिकायामः स्ति । अतो ज्ञानस्यैवायमाकारः प्रथते । तच्चाप्रत्यक्षे ज्ञानेऽनुपपन्नम् । न चढ़ रजतज्ञानं स्मरणं, पुरोऽवस्थितस्य ते नाकारेण व्यपदेशात् । अ. तः प्रत्यक्षमेवदं ज्ञानं, तच्च रजनाकारावभासीति । तत्रोत्तरम्-नेदं रजतज्ञानं प्रत्यक्षं यद्विषयं ज्ञानमुत्पद्यते तेनैवेन्द्रियसम्प्रयोगे यत् ज्ञानं जायते तत् प्रत्यक्षम् । न च रजतेनेन्द्रियं सम्प्रयुक्तम् । तस्मा. नदं प्रत्यक्षम् । स्मरणमेव । तच्च बहिः रजताकारसम्भवात् बाह्या. लम्बनमवति सिद्ध ज्ञानस्याप्रत्यक्षत्वम । नन-कथमिदं ज्ञायतेऽतत्सम्प्रयोग रजतमिदमिति ? उच्यते- बाधकज्ञानोदये सति तत्र च रजताभाव ख्यापित अतत्सम्प्रयोगजत्वं ज्ञायते । यत्र तर्हि बाधक प्रत्यय एव न जायते तत्र न शक्यते ऽतत्स. प्रयोगजन्वं वक्तुम् , यथा जात्यादिप्रत्यये । तस्माजात्यादिप्रत्ययः प्रत्यक्षः अविद्यमानजात्याद्याकारत्वन व्यभिचरतीति । कथं पुनर्बाध. कप्रत्ययो जात्यादिप्रत्यये नास्ति ? तत्राह-एकालम्बनाभिप्रायेणेति । स्वलक्ष. णज्ञान ऽपि स्वलक्षणमवालम्बन सामान्यज्ञानेऽपि तदेवात प्रागुक्तम् । कथं पुनरे(१)कमालम्बनम् ? न ह्यन्यसम्प्रयुक्त चक्षुष्य(२)न्याकारस्य ज्ञान- स्योत्पत्तिस्सम्भवति. अन्धस्यानुत्पादादित्युक्तम। अत एवेदमुच्यत इति राद्धान्तमुपक्रः मते । अस्याथः-स्वलक्षणमात्र(३)मालम्बनमिन्द्रियसम्प्रयुक्तम् । अन्या. कारस्य स्वलक्षणमन्याकारस्य ज्ञानस्यात्पत्तिहतुन भवति । यदि तथा नदेन्द्रियसम्प्रयोगाभावात्तादृशेनार्थनान्द्रयसम्प्रयोगानपेक्षत्वे. उन्धस्यापि स्यात् । न चासावस्ति । तस्मादुभयाकारत्वात् ज्ञानस्योभ- याकारमेवालम्बनम् । कथं तर्हि विपरीतग्रहा अनात्मन्यात्मादयः ? अयमभिप्रायः--तवापि ताव- १. एकालम्बनता इति ख० पु. २. अन्यालम्बनस्य इति मूलपुस्तकपाठः ३. आलम्बनमिति नास्ति ख० पु. स्यात्, वृत्तिकारमतन् ] ऋजुविमलोपता विषयान्तरमहशमालम्ब्य (१)अगृहीनायक शत् ज्ञानमुत्पन्न तत्स दृशविषयान्तरे स्मृतिहेतुतां प्रतिपद्यते स्वरामीति ज्ञानशू. न्यस्य । उपपन्नानि तावत् शुक्तिकादिषु रजतादिज्ञानान्यना- त्मादिषु । स्वप्नादिषु कथम् ? स्वप्नादिषु च तावत्पूर्वोक्तभ्यो विशेषमभिधाय निरालम्बनबादेषु पुनरविशेषं वक्ष्यति, आत्मवादे चानात्मादिषु । तस्मान्नार्थान्तरानुसन्धानाध्यासनिमित्तं शुक्सा- दिज्ञानम् । विपरीतग्रहाः केचित्सम्मताः । तत्र यदि यथाज्ञानमेव वस्तु, न तर्हि विपरीतत्वम् । अथ विपरीतत्वं, न तर्हि यथाज्ञानमेवा. लम्बनमिति । उत्तरम् --उच्यत इत्यादि । विषयान्तरं रजताच्छुक्तिका रजतसदृशीमालम्ब्येदमित्यगृहीतविशेष रजतात् भेदावगमहेतवो ये शुक्तिकायां विशेषास्तानिन्द्रियदोषेण सतोऽप्यगृहीत्वा साधारणानेव शुक्तिकाया धर्मान् गृह्णतो यत् ज्ञानमुत्पन्नं तत्सदृशान्तरे स्मृतिज्ञानहेतुतां प्रतिपद्यते । दोषवशात् खण्डितशुक्तिक मनस्यनुभूतावमर्शाभावेन स्मरामीति ज्ञान- शून्यस्य । तेन गृह्यमाणस्मर्यमाणयोर्भेदो नावसीयते । विज्ञानद्वयं चैतत् इदमिति प्रत्यक्षं, रजतमिति स्मरणम्, अन्यथा रजतावगत्यसम्भवात् । न हि तदिन्द्रियजम् , तेन संप्रयोगाभावात् । असंयुक्ते चेन्द्रियं वि- ज्ञानं न जनयति । अन्धस्यानुत्पादात् । स्मरणमेवदम् । उपपन्नानि तावच्छुक्तिकादिषु रजतादिज्ञानानि स्मृतिरूपतयाऽनात्मादिषु । स्वप्नादिषु पुनः कथम् ? आत्मादीनां कदाचिदप्यननुभूततया स्मरणानुपपत्तेः । स्वप्नमद मूर्छादिषु च स्मृतिसंस्कारोद्वोधहेतोरभावात् कथं स्मृति रिति । स्वप्नादिषु तावत्पूर्वेभ्यो रजतादिप्रत्ययेभ्यः संस्कारोबोधहेत्वभा. वेन स्मृतित्वं न सम्भवतीति विशेषं पूर्वपक्षेऽभिधाय पुनः सिद्धान्ते अहः टस्योद्वोधहेतुत्वादविशेषं स्मृतित्वमेव वक्ष्यामः । आत्मवादे चानात्मादिषु परमार्थात्मतयैव विद्यमानत्वाद्विपरीतग्रहत्वमेव नास्तीति वक्ष्याते । तस्मानान्तरानुसन्धानाध्यासनिमित्तं(२)जात्यादिग्रहणम् । परमार्थतो ज्ञानबलेनैव जात्यादिभावात् , यथाज्ञानमेवालम्बनाभ्युपगमात् । १. अगृहतिविशेषं इति व्याख्यानसम्मतम् । २. शुक्त्यादिवानमिति मूले.

वृहती [ अ.१.पा. १.सू.५. 1nAORY V । - यत्तु रूपान्तसग्रहणाताहे लशुधव भावादित्युलन् , तदसि. दम, अर्थान्तरानुसन्धानज्ञानस्य दामिष्टम् । सामात्र मानिनोऽर्थ एक प्राप्नोति । तस्मादसिद्धमिदं रूपा- न्तराग्रहणाचदग्रहे तबुध्यभावादिति । लमायुक्तमन्य सम्पयुक्त चक्षुधि अन्यविषयं ज्ञानं न प्रत्यक्षमिति । कथं तर्हि विपर्ययः ? अग्रहणादेवेति वदामः । अग्रहणनिमि. त्तता च दर्शिता भाष्यकारेण (१) यदि चक्षुरादिभिरुपहतं भन" इति । कथमनेनाग्रहणनिमित्तता दर्शिता भवति ? यदन्य. विषयं ज्ञानमित्यस्याः प्रतिज्ञाया हेतुत्वेनोपन्यासात् । युक्तं च (२)यत्तु रूपान्तराग्रहणात्तदग्रहे तबुध्यभावादित्युक्तम् , तदसिद्धम् । यस्माद. र्थान्तरानुसन्धानज्ञानस्य स्वलक्षणज्ञानादन्यविषयत्वमिष्टम् , अन्यथा कल्पनैव वक्तुं न शक्यते । ननु सत्यमिष्टमेवार्थान्तरविषयत्वम् । तत्तु ज्ञानाकारग्राहि त्वेन । तत्राह-तचाप्रत्यक्षज्ञानवादिनोऽर्थ एव प्राप्नोति । तस्मादसिद्धं हेतुद्वयम् । तस्मात्सूक्तमन्यसंप्रयुक्ते चक्षुष्यन्यविषये ज्ञानं न प्रत्यक्षमिति । कथं तर्हि विपर्यय इति । इदमिति ज्ञानं गृह्यमाणसत्यविषयं न विपरीतार्थम्। रजतमित्यपि स्मृतिरविपरीतार्थवांते। अग्रहणादेवेति वदामः । अस्यार्थः- विवेकाग्रहणात् गृहमाणस्मर्यमाणयोरिव ग्रहणस्मरणयोरपि भेदं न मन्यते । तेन ग्रहणव्यवहारं स्मरणे प्रवर्त्तयति । स्मरणं नाम गृहीतग्रहः णम्, तत्र गृहीतत्वाननुसन्धाने ग्रहणमात्रमवावभाति । तङ्ग्रहणव्यवहार. हेतुतां प्रतिपद्यमानं व्यवहारविसंवादकत्वाद्व्यवहारे विपर्ययमावहति । अग्रहणनिमित्तता च विपर्ययस्य दर्शितैव भाष्यकारेण-यदि चक्षुरादिभिपहतं मन इति । कथमनेनाग्रहणनिमित्तता दर्शिता भवति ? यदन्यविषयं विज्ञानमित्यस्याः प्रतिज्ञा या हेतुत्वेनो- पन्यासात् । अस्यार्थः-यदन्यविषयं विज्ञानमयसम्प्रयोगे भवति न तत्प्रत्य. क्षम् । तत्र पुनः पृष्टम्-कथं पुनरन्यसम्प्रयोगेऽन्यविषयविज्ञानं भव. तीति। तत्र हेतुरयम्-यदि चक्षुरादिभिरुपहतं मन इति । नन्वेवमपि कथमग्रहणनिमित्तता दर्शिता भवति ? तत्राह-युक्तं च दुष्टतायाः कार्यकरणाक्षम त्वम् , न पुनः कार्यान्तरसामर्थ्यम्। न हि दुष्टत्वादयः शाल्याद्यङ्कुरप्रसव समर्थतां भ जन्ते । यच्चोक्तं-भस्मकस्य दोषस्य कार्यान्तरोत्पादकत्वामिति, तत्र शारीरस्य वह्वेर्बलपुष्टयादिकं कार्यम्, तत्रतत्तु नास्त्येव, यत्तु जरणं तद. १. शा. भा. पृ. ६ पं. २५ यदा हि चक्षुरादिभिः इति मुद्रितभाष्यपुस्तकपाठः । २. यत् पुनरुक्तं इति० ख० , निरालम्बनवादः অভাবলা। . दुष्टतायाः कार्याक्षमत्वं, न पुनः कार्यान्सरसामर्थ्यम् । (१)तस्मादग्रह गनिबन्धन एव विपर्यय इति । अतस्सिद्धम्-'यस्य च दुष्ट करणं यस्य च मिथ्येति प्रत्ययः स एवासमीचीनः प्रखयो नान्य' इति । (२)ननु सर्व एव निरालम्बनः पल शात्प्रत्ययः, कु. तस्तसंप्रयुक्तत्वमतसंप्रयुक्तत्वं बा, येन विशेषेण प्रत्यक्षाप्रत्यक्ष- योर्विशेष उपलभ्येत । कथं पुनः सर्व एक निरालम्बनः प्रत्ययः ? (३) प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षित. स्वप्ने" । ननु च-शुक्तिकायां रजतज्ञानं स्मरामीति प्रमोषा- स्मृतिज्ञानमुक्तम् । युक्तं रजतादिषु । तत्र हि शुक्तिकायां यद्भास्वरं रूपं चक्षुषा परिच्छिन्नं तदरजतस्मृतेरुद्धोधकमित्युपपद्येतापि । स्वप्नादिषु पुनः कस्यचिदग्रहणादर्थान्तरे स्मृत्युद्रोधपरिहारः श. क्य इव प्रतिभाति । तस्माद्वासनानिबन्धनमेवेदं ज्ञानजालमिति प्र. निमात्रस्य, तदपेक्षया च न दोषत्वम् । अनन्तरमुपसंहरति-तस्मादग्रहण- निबन्धनोऽर्थविपर्यय इति । अधिकरणार्थमुपसंहरति-अतसिद्धमिति । ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः । कुतस्तत्संप्रयुक्तत्वमतत्संप्रयुक्तत्वं वा; येन विशेषेण प्रत्यक्षाप्रत्यक्षयोर्विशेष उपलभ्येत इत्यनेन सङ्गतिमाह। यदि परमा. थतोऽर्थः स्यात् तदा संप्रयोगजं प्रत्यक्षमिति शक्यते वक्तुम् । सर्वप्र. त्ययानां तु निरालम्बनत्वे पारमार्थिकार्थाभावे नेदं सिध्यतीति प्रत्यक्ष- लक्षणाक्षेपेण सङ्गतिरित्यर्थः। कथं पुनः सर्व एव निरालम्बनः प्रत्ययः । उत्तरम्-प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः स्वप्ने । एतदेवासिद्ध. मिति मत्वाऽऽह-ननु च शुक्तिकायां रजतज्ञानं स्मरामीति प्रमोषात् स्मृतिज्ञानमुक्तम् । एवं च स्वप्नज्ञानमपि स्मृतिरूपत्वात्सालम्बनमिति भावः । युक्तं रजता- दिष्विति विशेषमाह--तत्र भास्वरं यद्रूपं शुक्तिकावर्ति चक्षुषा परिच्छिन्नं तद्रजत. स्मृतेरुद्बोधकमित्युपपद्येतापि स्मृतित्वम् । स्वप्नादिषु पुनः कस्यचिदग्रहणादर्थान्तरे स्मृत्युबोधपरिहारः(४)शक्य इव प्रतिभाति । कस्मात् बाह्यस्यार्थस्य स्मर्यमाणस्य गृह्यमाणस्य च कारणत्वानुपपत्तेः। तस्माद्वासनानिबन्धनमेवेदं ज्ञानजालमिति प्रतिपद्यामहे । नन्वेववमपि क्वचिदर्थः क्वचिद्वासना कारणमिति कथमिद १. तस्माद्धमानबन्धना एव विपर्ययाः इति मूलपुस्तकपाठः । २. शा. भा. पृ. ७. पं. ३. ३. शा. भा. पृ. ५. पं. ३. ४. शक्य इति. इति ख० पु. । । ..

वृहती अ.१.पा.५.सू.५. तिपद्यामहे । सदृशदर्शनात् सदृशेऽर्थान्तरे स्मृतेरुद्रोधः । स्वमे पुनः कस्यचिदग्रहणादित्युक्तम् । तस्माद्वासनैव निमित्तमिति लम्बी कल्पना । नार्थान्तराश्रयणम् , अव्याः । अतः कुड्यादिष्वपि ज्ञानं वासनानिमित्त मेछ, न कुड्याद्यनिमित्त मिति स्थितिः । उच्यते-कार्यसिद्ध्यर्थे हि कारणं कल्प्यते, न पुनः कार्यवि. नाशाय | स्वप्नादिषु बहिरवभासा संवित्, सा च बाह्यार्थमन्तरेण न संभवति। येन च विना यन्न संभवति तत्तस्य कारणम् । तस्मादर्थ एव कारणमिति युक्तं कल्पयितुम् । निरालम्बनता तु नैव संवेद्यते प्रत्यक्षावबोधेन । तस्मादक्षज ज्ञानं न वासनानिमित्तमित्युक्तम् । ननु-स्वप्नोपलब्धं मिथ्येति प्रतिबुद्धस्य ज्ञानमुत्पद्यते । न च मिथ्याभावस्य कारणकल्पना युक्ता । मेकान्तेन निश्चीयते-वासनैव निमित्तमिति तत्राह-सदृशदर्शनात् सदृशेऽर्था- न्तरे स्मृतेरुद्बोधः शुक्तिकारजतादिष्वेव सम्भवति । स्वप्ने पुनः कस्य चिद. ग्रहणात्स्मृत्युद्धोधो न सम्भवतीत्युक्तम् । वासना तु रजतादिज्ञानेष्वपि सम्भवति । तस्माद्वासनैव निमित्तमिति लघ्वी कल्पना । सर्वत्र सम्भवात् । नार्थान्तरा. श्रयणम्, मव्याप्तेः स्वप्नादिषु । साधिमुपसंहरति-अतः कुड्यादिष्वपि ज्ञानं वासनानिमित्तमेव न कुड्याद्यर्थनिमित्तमिति स्थितिः । उच्यते-कार्यसिद्धयर्थं हि कारणं कल्प्यते, न पुनः कार्यविनाशायेति सर्वजनसि. द्धम् । स्वप्नादिषु च बहिरवभासा ज्ञानातिरिक्तग्राहिणी संवित् । सा च ताहशी बाह्यमर्थमन्तरेण न सम्भवति । प्रतिभासविरोधात् । येन च विना यन्न भवति तत् तस्य कारणम् । तस्मादर्थेन विनाऽनुपपत्तेरर्थ एव कारणमिति युक्तं कल्पयि. तुम् । ननु च स्वप्नादिषु केन प्रत्ययेन निरालम्बनत्वमेव ख्याप्यते ? तत्राह-निरालम्बनता तु नैव संवेद्यते प्रत्यक्षावबोधेन, किन्तु विवेको गृह्यते । यस्मात्स्वप्नेऽर्थ एव कारणं तस्मादक्षजं ज्ञानं न वासनानिमित्तमित्युक्तं भाष्य. कारण। ननु च प्रबुद्धस्य स्वप्नोपलब्धं मिथ्येति ज्ञानमुत्पद्यते । न च मिथ्याभावस्य कारणकल्पना युक्ता । अस्यार्थ:-स्वप्नादिक्षानं तावन्मिथ्येति सिद्धम् । तच्च यदि बाह्यालम्बनमेव, ततो मिथ्याभाव एव न घटते ! जाग्रतस्सम्यक प्रत्ययवत् । न चार्थत्वे सत्यपि मिथ्यात्वे कारणमन्यत्कल्पयितुं युक्तम्। तस्मादर्थशून्यतव मिथ्यात्वमिति ।

, निरालम्बनवादः ] ऋजुचिमलोपेता। ननु चाकारणस्य मिथ्याप्रत्ययस्याप्युत्पादोन घटते । सत्यं न घटते, न त्वगत्यनुगुणं तत् । तदानुगुण्ये हि मिथ्याज्ञानव न स्यात् । तस्माद्यामोहतको मिथ्याप्रत्ययाः । व्यामोहनिबन्धनाश्च सांसारिक्यो वासनाः । अतो वासनानिबन्धनमेवेदं ज्ञानजालमिति तत्वविद्भिरुदितम् । ननु-परिहृतमेतत्-स्मरामीति ज्ञानशून्यानि स्मृतिज्ञानान्ये. तानि । ननु-च स्मृतरुद्रोधकारणाभावान्नैतत्संभवतीत्युक्तम् , त. दसिद्धम् ; स्वप्नादावपि हि चिन्ताऽदृष्टादिसंभवात् । स्वप्नेऽपि हि मुखदुःखमनुभूयते । मुखदुःख हेतुश्चादृष्टम् । अतोऽदृष्टहेतुकमेव स्वप्नादि ज्ञानम् , किंचिचिन्तादिहेतुकमित्युपपन्नं शुक्तिकादिज्ञान- नन्वकारणस्य मिथ्याप्रत्ययस्याप्युत्पादो न घटते। अस्याथः-यथा मिथ्यात्वं स. त्यर्थ न घटते, तथार्थाभावे ज्ञानोत्पत्तिरपि न घटते । तेन ज्ञानोत्पत्यर्थे- नार्थोऽप्यङ्गीकार्य इति । सत्यं न घटते, न त्ववगत्यनुगुणं तत् । तदानुगुण्ये हि मि. थ्थाज्ञानतैव न स्यादिति । एतदुक्तं भवति-यद्यपि ज्ञानोत्पादनाय कारणं कल्प- नीयम, तथाप्यर्थ एव न कल्प्यः । किन्तु वासनामात्रम् । तस्माद् व्यामोहहे. तवो मिथ्याप्रन्ययाः । व्यामोहोऽर्थशुन्यत्वं मिथ्याप्रत्ययस्य हेतुः। ननु वास ना कथं सम्भवति ? तत्राह-व्यामोहनिबन्धनाश्च सांसारिक्यो वासनाः । एतदुक्तं भवति -वासानातो ब्यामोहो व्यामोहाद्वासनेति अनादित्वात् बीजाङ्क- रवददोष इति । अतो वासनानिवन्धनमेवेदं ज्ञानजालमुदितं तत्वविद्भिः । ननु परिहृतमेतत्स्मरामाति ज्ञानशून्यानि स्मृतिज्ञानान्यतानीति । अनेन सि. द्धान्तमुपक्रमते । स्मरामीत्यस्यांशम्य प्रमोषात्प्रत्यक्षव्यवहारप्रवर्तक तया मिथ्यात्वमुपपन्नमालम्बनत्वेऽपि स्वप्नादिज्ञानस्येत्यर्थः । ननु च स्मृतेरुद्बोधकारणाभावान्नतत् सम्भवतीत्युक्तं, तदसिद्धम् ; स्वप्नादावपि हि चिन्ताऽदृष्टादिसम्भवात् । चिन्ता च न तदानींतन्येव स्वप्नकारणम् , किन्तु कियत्यपि पुरस्तात्काले निर्वृत्तापि संस्कारमुखेन । तेन जाग्रद्दशाभा. विनी चिन्तापि स्वप्नस्य हेतुः (रित्यर्थः) । अदृष्टं च । कथमदृष्टस्य हेतु. त्वम् ? तत्राह-स्वप्नेऽपि हि सुखदुःखमनुभूयते, सुखदुःखहेतुश्चादृष्टमिति । स्वप्ता. दिज्ञानोत्पादनद्वारेणादृष्टमेव सुखदुःखे जनयत् स्वप्नज्ञानहेतुरित्यर्थः । अतोऽदृष्टहेतुकमेव स्वप्नादिज्ञानमदृष्टस्य हेतोर्गमकम् । स्वप्नादिज्ञान- मन्यथाऽसम्भवात् किञ्चिचिन्तादिहेतुकामत्युपपन्नं शुक्तिकादिज्ञानतुल्यत्वम् । अत्रा- .

845 वृहती [अ.१.पा.१.सू.५. .. तुल्यत्वं स्वामविज्ञानस्य । तदिदमुक्तम् - (१) स्तम्भ इति जानको बुद्धिस्सुपरिनिश्चिता कथं विपर्थसिष्यति" ? रुथमने लेदमुक्तम् ? निश्चितम वच्छिन्नमित्यर्थः । कथमवच्छिन्नोर्थोऽ. नवच्छिन्नो भवति ? कथं तर्हि प्रबुद्धो मिथ्येति जानाति ? उक्तं समरामीति स्मृतिप्रमोषात (२)प्रत्यक्षसम्मितं तत् । प्रतिबुद्धस्य चा- पैति प्रत्यक्षाभिमानः । अमुमेधार्थ स्पष्टीकरोति-(३)"अथ प्रती. तिस्तथाभावस्य हेतुः, न शक्यते(४) प्रत्ययादशमन्य इति बदितुम"। यदि प्रत्ययस्वादिति च । नावगति मिथ्येति मन्य- यमाशयः-यत्र चिन्ता न दृश्यते तत्र स्वप्नज्ञानकार्यबलेनैव कारण कल्पना । यत्र चिन्तादिकमस्ति तत्र तदेव कारणमिति । एतेनेदमपि निराकृतम्-यदाहुः किमिति जाग्रतोऽपि स्वप्नतुल्यविभ्रमा न भवन्तीति। यतः कार्यकगम्यमदृष्टमेतददृश्यमाने कार्ये नास्त्येवेति । तदिदमुक्तम्- यदिदमस्माभिरुच्यते-अग्रहणात्मकः प्रमोषो मिथ्यात्वहेतुरिति तदेव भाष्यकारेणोक्तं--जाग्रतो बुद्धिः सुपरिनिश्चिता कथं विपर्यसिध्यतीति भाष्येण । कथमनेनेदमुक्तम् ? इत्थमुक्तम् । निश्चितमवच्छिन्नमित्यर्थः । कथवच्छिन्नोऽर्थोऽनवच्छिन्नो भवीत ? भाष्यकारो हि सुपरिनिश्चयेन मिथ्यात्वाभावं ब्रुवन्ननिश्चयान्मि- ध्यात्वाह । यदि च प्रमोषादन्यथैव मिथ्यात्वं कथं निश्चयेन मिथ्या त्वम् ? तस्मात्सुपरिनिश्चयेन विपर्यासाभावाभिधानादग्रहणमेव मिथ्या- स्वकारणम । नन्वग्रहणान्मिथ्यात्वे सर्वज्ञानानि मिथ्या स्युः, सर्वात्मना. र्थस्य केनचित् ज्ञानेनाग्रहणात्। अनेनाभिप्रायेण पृच्छति-कथं तर्हि प्रबु- द्धो मिथ्येति जानातीति । उत्तरम्-उक्तं स्मरामीतिस्मृति प्रमोषात्स्मृतित्वापरामर्शात् प्रत्यक्षसम्मितं तदिति । प्रत्यक्षसाधारणेन रूपेण प्रतिभासमाना प्रत्यक्ष व्यवहारं प्रवर्तयतीति व्यवहारविसम्बादादप्रामाण्यम् । कथं तर्हि नि. श्चयः स्मरणमेतदिति ? अत्राह--प्रतिबुद्धस्य चापैति प्रत्यक्षाभिमानः । इन्द्रियः दौर्बल्ये हि निश्चिते प्रत्यक्षतानुपपत्तेः स्मृतित्वनिश्चयः । अमुमेवार्थमः ग्रहणात्मको भ्रम इति स्पष्टीकरोति-अथ प्रतीतिस्तथा भावस्य हेतुः, न शक्यते प्रत्ययादयमन्य इति वदितुम् , यदि प्रत्ययत्वादिति च । कथमनेन भाष्ये. णेदं स्पष्टीकृतमित्यत्राह-नावगतिं मिथ्येति मन्यते। अन्यतो हि स्वप्नप्रत्ययस्य १. शा. भा. पृ. ७. प. ६. २. प्रत्यक्षसमानं इति क, पु. ३. शा. भा. पृ. ७. ११. ४, अत्र मुद्रितभाष्यपुस्तकेषु पाठभेदोऽस्ति ।

निरालम्बनवादः ] ऋजुविमलोपेता। . ते। (१)"अन्यतो हि स्वप्नज्ञानस्या मियाभाव" इति प्रमो- पनिमित्ततां दर्शयति । कुतः ? इन्द्रियदौर्बल्योपन्यासान्निद्रा- क्रान्तं मे मन इत्यादिना। दौर्बल्यं च कार्याक्षमत्वं न कार्यन्तरो- त्पत्तिसमर्थत्वमित्युक्तम् । ननु च(२) “शून्य"स्त्विति सैव निरालम्बनतोपन्यस्ता प्रत्ययस्या- र्थशून्यतां वदता। निरस्ता च सा शुक्तिकारजतज्ञानतुल्यताभिधानेन । स एवायं निरासः पुनराक्षिप्यते । कया युक्त्या ? संवेद्यविषयत्वात् संविदः।सा चात्मनो बुद्धर्वा ज्ञान एवं वा । स एवास्या विषयो युक्तः। तस्मात्सा संवित् । एवं च स एव संवेद्य इति प्राप्नोति। तस्मान्न वि. षयान्तरं संवेदयितुं क्षमः । शब्दस्पर्शरूपरसगन्धात्मकता विज्ञा. मिथ्याभाव इति प्रमोषानमित्ततां दर्शयति । कुतः प्रमोषनिमित्ततोक्तेत्यत्राह- इन्द्रियदौर्बल्यं यस्माद्दर्शितं--निद्राऽऽक्रान्तं मे मन-इत्येवमादिभाष्येण, दौर्बल्यं च कार्याक्षमत्वं, न कार्यान्तरोत्पत्तिसामर्थ्यमित्युक्तं वृत्तिकारग्रन्थे। तस्मा. दग्रहणात्मको भ्रमो नार्थशून्यात्मक इति सिद्धम् । ननु "शून्य'स्त्विति सैव निरालम्बनतोपन्यस्तेत्यनेनाधिकरणारम्भमाक्षिपति। आक्षेपे च युक्तिनिरालम्बनता पूर्व निरस्तैव । शुन्यस्त्विति भाष्येणापि सैवोपन्यस्ता। न चैवमाशङ्कनीयं-पूर्वत्र बाह्यालम्बनाभाव आशङ्कय निरस्तः, सम्प्रति ज्ञानस्याप्यभाव इति माध्यमिकदर्शनमुपन्यस्य निराक्रियत इति । यस्मात्प्रत्ययस्यैवेयमर्थशून्यतोपन्यस्ता, न पुनः प्रत्य. योऽपि नास्तीति । तस्माद्वाह्यालम्बनशून्यतैवेयमुच्यते । सा च निरस्ता । तस्मात्पुनर्निरासायाधिकरणारम्भोऽनर्थक इति । अत्रोत्त. रम् - स एवायं निरासः पुनराक्षिप्यत इति । कया युक्त्येत्याक्षेपयुक्तिं पृच्छति- उत्तरम्-सम्वेद्यविषयत्वात्संविद इति । अस्यार्थः-यत् सम्वेद्यते प्रतिभास्यते तदेव संविदो विषयः । सा चात्मनो वुद्धेर्वा ज्ञान एव वा सा च संवित् आत्म. नो धर्मः, बुद्धी मनसो वेत्यर्थः। बुद्धिशब्देन मन एवोच्यते । ज्ञान एवावस्थितो ज्ञानधर्मो वेत्यर्थः । ततः किमित्यत्राह-स एवास्या विषयो युक्तः । यत्स्था संवित् सम्बन्धयति । तस्मान्न विषयान्तरमाश्रयात् संवेद- यितुं क्षमा संवित् । तथा च सति शब्दस्पर्शरूपरलगन्धात्मकताश्रय. भृतस्य ज्ञानभ्यात्मनो बुद्धा प्रतिपत्तव्या। शब्दादीनां प्रतिभासमा १. शा. भा. पृ. ७. पं. १२. २. शा. भा. पृ. ७. पं. १९. ८ब० ऋ० बृहत्ती [ अ.१.पा.१.सू.५. नस्यात्मनो बुद्धेवा प्रतिपत्तव्या । किमर्थज्ञानयोराकार भेदं नोप. लभामह इति ज्ञानशब्दः प्रदर्शनार्थ एवाभिप्रेतः । न ; संविदाधारे हि संदेशे ज्ञानमेवावशिष्यते । बुध्यात्मनोः शब्दादितुल्यत्वात् । ज्ञा- नाविनाभूना च संचित् ! सुषुप्त्यवस्थायां संविद आत्मनि बुद्धौ चादर्शनात् । ज्ञानोपसंहतिर्हि वापः । तादिदमालोच्योक्तम्- 'अर्थ- ज्ञानयोराकारभेदं नोपलभामह' इति । कपुनरिदं दृष्टम् -विषय एव (हि) संविदा संवेद्यत इति । संवेद्य. नत्वेन विषयत्वाद्विषयस्य चाश्रयत्वात् , ज्ञानादीनां चाश्रयत्वेन सम्भा- व्यमानत्वात् । किमर्थज्ञानयोराकारभेदं नोलपलभामह इत्यत्र भाष्ये ज्ञानशब्दः प्रद- र्शनार्थ एवाभिप्रेतो बुध्यात्मानावप्युपलक्षयति । नेत्युत्तरम् । नोपलक्षण. मेतत् ज्ञानमेव । यतः संविदाधारे हि सम्वेद्ये ज्ञानमेवावशिष्यते । कस्मात् ? बुध्या. त्मनोः शब्दादितुल्यत्वात् । अस्यार्थः--संवित्तावत्प्रत्यक्षा, तदप्रत्यक्षत्वे सर्वाः र्थानां दर्शनानुपपत्तेः । तदुक्तम्-- अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति । नत्र(१)निराकारा प्रत्यक्षा युक्ता । एकश्चायमाकारो गन्धाद्यात्मकः प्रतीय(मानस्थ विषयत्वे एकस्यास्सीवदो विविक्तो विषयः स्यात् । न चाश्रयायिभावादन्यः सम्बन्धोऽस्ति । तस्मादाश्रय एव विषय इति यु: क्तम् । एवं च सति स एवाश्रय एव संवेद्य)ते। अतोऽसावाकारः संविद एव। सा च संविन्न बुद्धिरूपा नाप्यात्मरूपा, तयोः शब्दादितुल्यत्वात्, संविधति. रेकेणापि भावात् तादात्म्यानुपपत्तेः। झानात्मकता तु संविदो युक्ता । ज्ञानाब्यभिचारित्वात् । तदाह-ज्ञानाबिनाभूता च संविदिति । ननु सुषुप्त्यव- स्थायां ज्ञाने सत्यपि संविन्नास्तीति यो मन्यते तं प्रत्याह--ज्ञानोपसंह- तिर्हि स्वाप इति । तदिदमालोच्योक्तमर्थज्ञानयोराकारभेदं नोपलभामह इति । अभिप्रायमजानन् पृच्छति-क्व पुनरिदं दृष्टम्-विषय एव संविदा संवेद्यत इति । यावता संवेद्यतयैव हि संवेद्यतामवगच्छामः, न विषयतया । विषयशब्देना. श्रय एवाभिप्रेतः कथं पुनरत्रानाश्रयस्यासम्बन्धस्य संवेद्यत्वम् ? किमत्र सम्बन्धान्तरेण, संवेद्यतैव हि सम्बन्धः । तथा च सत्यप्याश्र- यत्वे गुणं प्रति द्रव्यस्य न संवेद्यता। यदि सम्बन्धान्तरापेक्षा, अनव १. निराकारायाः प्रत्यक्षता इति ख. पु. ( ) कुण्डलान्तर्गतो भागोऽधिकः ख, पुस्तके ।

निरालम्बनवादः ] ऋजुविमलोपेता। तयैव हि संवेद्यतामवगच्छामो, न विषयतया । केन चोक्तं न संवेद्य. तया संवेद्यताऽवगम्यत इति ? किन्तु ? संविदः प्रत्यक्षत्वात्तस्याश्च ज्ञानात्मकत्वाच्छब्दादिरूपता तस्यैवेति मन्यामहे । को हि नाम द्वयोः प्रत्यक्षतामव कल्पयति संविदः शब्दादश्च । तस्मात्संविद्रूपमेवेदं शब्दादिजातमिति स्थितिः, न बाह्यं किञ्चनास्तीति । ननु च-अयथार्था संचित् प्राप्नोति। शब्दाद्याकारत्वे हि संविदो ग्राह्य ग्राहकसंवेदनं नोपपद्यते । तस्मात्कल्पना सेति कल्पनीयम् । न च सर्वलोकावगम्योऽर्थः कल्पनेति युक्तम् । न चा न चार्थन्तरानुसन्धाना- ननुविद्धं कचित्कल्पनाशब्दाभिलपनीयं लोके दृष्टम् । तस्माद्वरमुभयोः प्रत्यक्षता, न पुनरवगतेरपलापः । संविदेव हि तदा हीयेत । कस्येयं शब्दादिरूपता ? युक्तं यदि ग्राह्य ग्राहकसंवेदनमाकारान्तरेण स्यात्। न चाकारान्तरमुपलभामहे। नीलाद्याकारमेव ाभयं प्रतिभाति । एकाकारं चोभयपति भानं किमन्यदतः प्रतिभानात् । तदिदमुक्तम्- स्था स्यात् । पूर्वोक्तमभिप्रायं विवृणोति-केन चोक्तमित्यादिना । को हि नाम द्वयोः प्रत्यक्षतामवकल्पयति-संविदः शब्दादेश्च । तस्मात्संविद्रूपमेवेदं शब्दादिजातमिति स्थितिः, न बाह्यं किं चनास्तीति । ननु चायथार्थी संवित्प्राप्नोति । शब्दाद्याकारत्वे हि संविदो ग्राह्यग्राहकसंवेदनं नोपप- द्यते । एकत्वात् संविदो ग्राह्यग्राहकत्वं नोपपद्यत इत्यर्थः। तस्मात्कल्पना सेति कल्पनीयम् । नान्यथोभय प्रतिभालोपपत्तिः। न च सर्वलोकावगम्योऽर्थः कल्पनेति युक्तं वक्तुम् । बाधकत्वात् कारणादोषाभावाच्च । न चार्थान्त- रानुसन्धानाननुविद्धं कल्पनाशब्दाभिलपनीयं लोके दृष्टं, -निर्विकल्पकमेव । न चार्थान्तरेण योजनाऽस्ति, यथा शुक्तिकारजतादिज्ञाने। तस्माद्वरमुभयोः संविदः शब्दादेश्च प्रत्यक्षता, न पुनरवगतेरपलापः, दृष्टविरोधप्रसङ्गादिति भावः । संविदेव हि तदा हीयेत, कस्येयं शब्दादिरूपता । अत्र(१) समाधिः- युक्त यदि ग्राह्यग्राहकसंवेदनमाकारान्तरेण स्यात् । अस्यार्थः-यदि ग्राह्यस्य ज्ञानस्य संविदश्चाकारात्रितयमेव भालेत, तदा त्रितयमपि प्रत्यक्षं स्यात् । न चाकारान्तरमुपलभामहे । नीलाद्याकारमेव ह्युभयं प्रतिभाति । एका- कारं च यदुभयप्रतिभानं तत् किमन्यदतः प्रतिभानात्, प्रतिभानमात्रमेव १. समर्थनम् इति ख० पु. . यथा- वृहती [ अ.१.पा.१.सू.१. (१) अर्थज्ञानयोकार भेदं नोपल मामह" इति । प्रत्यक्षा च मो बुद्धिरित्येतदुक्तं भवति- प्रत्यक्षा च नः संविदिति । प्रत्य- क्षश्चायं नीलाघाकारः । अतस्तदाकारेयं संविदुभयथा प्रतिभाति । तस्मादर्थशून्येयं संविदिति सिद्धम् । अतस्तत्संप्रयोगात्तसंप्रत्यय इति प्रलापोऽयम् । किनिमित्तं पुनरुभयथा प्रतिभानम् ? आकार- भेदं नोपलभामह इति प्रत्युक्तम् । प्रतिभानकारणं तु प्रतिभानदर्श . भवेदित्यर्थः । तदिदमुक्तमर्थज्ञानयोराकारभेदं नोपलाभामह इति । प्रत्यक्षा च नो बुद्धिरिति । मीमांलकस्य बुद्धेरनुमेयत्वादसिद्धमेवेति मत्वाऽन्यथा व्या चष्टे--प्रत्यक्षा च नो वुद्धिरित्येतदुक्तं भवति- प्रत्यक्षा च नस्संविदिति । यदा प्रत्यक्षा संवित् तदा निराकारायाः प्रत्यक्षत्वानुपपत्तेर्नीला. धाकारोऽपि तस्या एवेति । तदाह-प्रत्यक्षश्चायमित्यादि। शेषं सुगमम् । तस्मादर्थशून्यः प्रत्ययः । अत्राथं पूर्वपक्षसंक्षेपः-संवित्तावत्प्रत्यक्षा। तत्र यदि ज्ञानमपरमर्थश्चापरोऽभ्युपगम्येत तदात्र त्रयाणामाकारास्त्रयो भ. वेयुः । एकश्वायमाकारो नीलादिः प्रथते । स चेदर्थस्य ज्ञानस्य वा(२) आस्थीयेत, तदा निराकारा संविदप्रत्यक्षा स्यात् । तदप्रत्यक्षत्वे चा. र्थों ज्ञानं च द्वयमसंवेद्यमापद्यत । संविदि चेदयमाकारो निवेशितः, अ. पढ्नुते तर्हि भवेतामर्थशाने । तयोराकारविरहे संवेद्यत्वानुपपत्तेः, अ. संवेद्यस्य च दुरभ्युपगमा सत्तेति । यत्पुनः कीर्तिनोदितम्-यदि नीलाद्याकारा संविन्नाभ्युपेयेत तदा प्र. तिकर्मविभागो न स्यात् । न हि निराकारं संवित्तिमात्रं नीलसंविदिति शक्यावगमम् । तदुक्तं-न हि संवित्तिसत्तयैव तद्वेदना युक्ता, तस्या स्सर्वत्राविशेषादविशेषप्रसङ्गात् । तां तु सारूप्यमाविशत् सरूपयितुं ध. टयेदिति । साकारा चेत् संवित् , ऊरीकृतोऽर्थः । इदानीं तदतिरेकी विद्यत इति गलितसारेयं कथा। तदङ्गाकारे प्रमाणाभावात् । आका. रवैचित्र्यं तत् संविदामन्यथाऽनुपपद्यमानं प्रमाणविशेषादप्रमाणमिति (३)कल्पितम् । न समनन्तरप्रत्ययप्रभावादपि तदुपपत्तेः । तदुक्तम्- नियमं यदि च ब्रूयात्प्रत्ययात्समनन्तरादिति । दृष्टश्चायं समनन्तरप्रत्ययस्थ महिमा स्वप्नादिषु बाह्यार्थविरहेऽपि , १. शा०भा०पृ. ७.प.१९ २. स्यात् इति ख. पु. ३. कल्प्यते इति ख. पु.

निरालम्बनवादः ऋजुविमलोपेला। ६१ नादेवास्तत्यिवगन्तव्यम् । सा चेयं वासबाऽनादिकालीनेत्युक्तं शू. न्यवादिभिः । विविधाकारसंवेदनादयादिषु विवादात् । तथा यदपर कीर्तिनाऽभिहितम् --यदि संविदो नीलादिकं भिद्येत त. दा किमिति संविदं विनापि नावभासते ? । न हि भिन्नयोघंटपट योस्तहोपलम्भो नियतः कदाचिदसहाप्युपलम्भो भवेत् । न हि सं. विदं विना कस्यां चिदशायामर्थः प्रकाशते । तस्मादर्थतद्धियोरभेद इ. ति । तदुक्तम्- सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानदृश्यतेन्दाविवाद्वये । इति ॥ तथा संविदतिरेकी प्रकाश इति नोपपद्यते, जडस्य प्रकाशायोगा दिति । ततः किमिति नोपन्यस्तम् ? किमत्र पृच्छयते ? अनुपन्यसनी. यमेवेदं, पूर्वपक्षानहा॑त् । तथा हि-प्रतिकर्मविभागो विनाऽप्यर्थाकारतां घटत एव । विशिष्टार्थसम्बन्धित्वेनैव फलभूतायाः संविदो निराका. राया अपि स्फुरणात् व्यतिरिक्त एवार्थः संविदो विशेषमावहती. ति(१)सर्वस्य संवेद्यम् । किञ्च यदि यदाकारं यतश्च संवेदनमुत्पद्यते तदालम्बनम्, तर्हि धारावाहिकविज्ञानानां पूर्व पूर्वमालम्बनमुत्तरोत्तरस्य स्यात् , उत्पादकत्वात्स्वरूपत्वाच्च । तदुक्तं कीर्त्तिनैव-- "तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्यस्यासमानार्थविज्ञानं समनन्तरमिति' ॥ तथा-- "सहोपलम्भनियमोऽपि विचारणीय एव । किं संविसंवेद्यं च स. हैवोपलभ्यते यतः तस्मादभेद इति । तदिदमसिद्धम् । न हि संविदो. ऽर्थस्य वाऽपर उपलम्भोऽस्ति । अथार्थस्य स एवोपलम्भो या संवि. संविदोऽपि नापर उपलम्भोऽस्ति, स्वयमुपलम्भरूपत्वात् । अतोऽर्थ- स्य संचिदस्स एवोपलम्भो भेदेऽनुपपद्यमानोऽभेदं साधयती"ति । तदपि नोपपद्यते, भेदेऽप्युपपत्तेः । भिन्नस्यापि हि नीलादेः सम्बन्धिनी संवि. स्वयं प्रकाशरूपत्वान्न प्रकाशान्तरमपेक्षतेति काऽनुपपत्तिः ? अतो. ऽयमहेतुः। यञ्चेदमुच्यते-यदि भिन्नोऽर्थः तदा संविदं विनापि किमिति न १. सर्वस्वसवेद्यम् ।

वृहती [ अ.१.पा.१.सू.५. उच्यते-उभयत्र प्रतिभानं नीलपीतादाचासिद्धम् । ग्राह्यतयैव तत्प्रतिभाति, न ग्राहकतया । किन्तु ग्राहकं ग्राहकामित्येव मनुते, न नीलं पीतमिति वा । तदिदमुक्तं-(१)"ल हि बहिर्देशन भालत इति । तदिदं वालजल्पितमिन प्रतिभाति । किमिदं संविद्वयति- रिक्तं भासमानं नाम ? यदसत्यां सविदि किमिति न भवतीति पर प्रत्याशङ्कयते । संविदेव भासनं, तां च विना भासमानं नास्त्येव । न हि संविदोऽपरा संविदस्तीति । तथा जडत्यापि सम्बन्धिनी संविद. विरुद्धा । न चाजडस्य संविदपेक्षत्वमस्ति ! तस्मादतिपेलवमिदं सक लमेव कीर्तिना भाषितमिति लोपन्यस्तं टीकाकारणेत्यनवद्यम् ! उच्यते-उभयत्र प्रतिभानमित्यादिना सिद्धान्तमुपक्रमते । तत्र चायमाशयः- संविदर्थश्च द्वयं तावत्प्रत्यक्षं न तु ज्ञानम् । तत्र यद्यप्येक आकारःप्र. तिभाति तथापि न संविदद्वैतम् । (२)अर्थस्य संवित्ते देनावभासनात् । न च भेदो मिथ्येति युक्तम् । बाधकारणदोषाभावेऽपि मिथ्यात्वेऽभ्युप. गभ्यमानेऽतिप्रसङ्गदोष(३)लमालात । न च वाच्यं-नीलधाकाराति. रेकिणी निराकारा संवित् कथमध्यक्षेति । तस्याः फलमात्ररूपत्वात् । न फलस्य रूपान्तरापेक्षा । अपेक्षायां फलत्वानुपपत्तेः। कथमिदानीं ज्ञानसिद्धिः ? उच्यते-फलभूतायाः संविदः कार्यरूपत्वात् कार्यस्य च कारणमन्तरेणानुपपत्तेर्नित्यकार्योदयापत्त्या चात्मानः स्थिरस्य कारणत्वे निरस्ते(४)कादाचित्कं ज्ञानमनुमीयते । ननु--किं रूपं तदनुमीयताम् ? तत्र नीलादिकमेव तदीयं रूपं भवितुमर्हति। तदतिरेकिणोऽपरस्याभावात् । अविशेषज्ञस्य चौद्यमेतत् । न हनुमेयानां रूपान्तरोपलब्बिरस्ति । सन्मात्रग्राह्यनुमानम् । तस्मादालम्बनता लिद्धा प्रत्ययानामिति । उभयत्र प्रतिभानं ग्राह्यग्रा. हकाकारप्रतिभानं नीलपीतादावसिद्धम् । यदि पुनर्नीलादिकं ग्राहकात्मक ज्ञानरूपं प्रतीयेत तदा विज्ञानविषयापि प्रत्यक्षा संवित् तदा विज्ञानमेव नीलात्मकं स्यात् । न त्वेतदस्ति । ग्राह्यतयैव नीलादिकं प्रतिभाति, न ग्राहकतया ज्ञानरूपतया । ननु--यदि ग्राहकं नीलादिरूपं न भवति किं रूपं तदित्यः त्राह--किन्तु ग्राहकमित्येव मनुने युक्त्या कल्पयति । युक्त्या कल्पनं मननं, ग्राहकैकरूपं ज्ञानमनुमीयत इत्यर्थः । तदिदमुक्तमर्थज्ञानयोरन्यत्वं-स हि १. शा० भा० पृ. ७. पं. २२ २. तयार्थस्य इति क. पु. ३. समासक्तेः इति ख० पु० ४. कदाचित् ज्ञानं कल्प्यते इति. क. पु० ? निरालम्बनवादः] जुबिमलोपता। म्बद्धः प्रत्यक्षनुपलभ्यत इति । 'अर्थविषया हि प्रत्यक्षा बुद्धिः न(१) बुद्धिदि पति ग्राह्यतमैच रूपप्रतिमानं दर्शयति । ग्राहकप्रतिभानं तु न रूपविषयाश् , किं तर्हि ? ज्ञानविषयम् । ननु च रूपान्तरमेव(रेणैव) नोपपद्यत इत्युक्तम् । कथमत्र वि षयान्तरोपन्यासः ? न हि, प्रत्यक्षवादिन एष दोषः । आनुमानि. कज्ञानवादिनस्तु नायं पर्यनुयोगः । नाप्यनुमानाद्रूपग्रहणं, सन्मा. वग्राह्यनुमानं भवति । ननु च संवित्प्रत्यक्षेत्युक्तम्। अन्या च संवित् अन्यत्संवेद्यम् । द्वयोरपि प्रत्यक्ष रूपद्वयोपलब्ध्या भवितव्यम् । न चासावस्ति । तस्मात्स एवायं विषयापलापो न्याय्यतां प्रतिपद्यते । अविवेको ऽयमायुष्मतः। न हि फले रूपान्तरतेष्यते । रूपान्तरसंवित्तौ हि फलटू. बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यत इति । कथं पुनरन्यत्वम् ? तत्राह-अर्थ- विषया हि प्रत्यक्षा बुद्धिर्न बुद्धिविषयेति ग्राह्यतयैव रूपप्रतिभानं दर्शयति । न च ज्ञानमध्यनुमीयमानं नीलादिरूपमनुमीयते तदाह-ग्राहक्रप्रतिभानं तु न रूपविषयं, किं तर्हि ? ज्ञानविषयम् । ननु च रूपान्तरमेव(२)नोपपद्यते इत्युक्तम् । तेन नीलादिरूपमेव ज्ञानं बलादापद्यत इति कथमत्र विषयान्तरोपन्यासः ? नीलादिप्रतिभाले ग्राह्य विषयम, ग्राहकप्रतिभानं तु ज्ञानविषयमिति विषयान्तरोपन्यासो न घटते । (३)उभयप्रत्यक्षवादिनो ह्ययं दोष इति पूर्वमेव व्याख्यातम् । ननु च संवित्प्रत्यक्षेत्युक्तम् । ततः किमित्यत्राह-अन्या च संविदन्यत् संवेद्यमिति भवान् मन्यते। तथापि किमित्यत्राह-द्वयोश्च संविसंवेद्ययोः प्रत्यक्षत्वे रूपद्वयोपलब्ध्या भवितव्यम् , न चासौ रूपद्वयोपलब्धिरस्ति । तस्मात्स एवाय विषयापलापो न्याय्यता(४)मापद्यत इति । अस्यार्थः-पुनरपि सिद्धमद्वैतं ज्ञानस्यापि तदानी संविदतिरिक्तस्यानुपपत्तेः । सर्वसंविदा स्वात्ममात्रपर्यवसायिनीनां विषयान्तरसिद्धावव्यापारात् संविदायत्त- त्वाच्च सर्वसिद्धीनामिति । अविवेकोऽयमायुष्मतः । न हि फले रूपान्तरतेष्यते । तेन नीरूपा संवित्प्रत्यक्षेत्यर्थः । कस्मात्पुना रूपान्तरं नेष्यते ? तत्राह- १. न बुध्यन्तरविषया इति मुद्रितभाष्यपुस्तकपाठः । २. नोपलभ्यते. इति ख० पु० पा० ३. उभयं प्रत्यक्षं" इति. क. पु० ४. प्रतिपद्यत इति मूलपुस्तके पा० - बृहती [ अ.१.पा.१.सू .५. यापत्तिः । एकसम्वेद्यविषयैव ह्येका संबित् । न सा वेद्यद्वयविष. या। किमसंवेद्यैव संवित् ? न ब्रूमो न संवेद्या संविदिति । संवित्यैत्र हि संविसंवेद्या न संवेद्यतया। केयं वाचोयुक्तिः संवेद्या न संवेद्यति ? इयमियं वाचो युक्तिः । नास्याः कर्मभावो विद्यते इत्यर्थः । कर्म च संवेद्या- भिधेयं न संवित् । तस्मान्न पृथक् संवेद्यतया ग्रहीतुं शक्यते । न चासंवेद्यैव संवित् । तन्मूलत्वात्सर्वभावाना संवेद्यभावस्य । किं तात्रानुमानिकम् ? फलमेव हि प्रमाणमिति प्रमाणविदो मन्यन्ते । किमिति मन्यन्ते न पुनः फलमेवेति स्थितोऽभिप्रायः । । । रूपान्तरसंवित्तौ हि फलद्यापत्तिः स्यात् । नीलादेः संवेद्यस्यैकं तावत्फलम् । तथा संविदोऽपि यद्यपरं फलातिरेकि रूपान्तरं स्यात् तदा फला. स्तरं भवेत् । न चैतदस्ति, एकसंवेद्यविषयैव ह्येका संविन्न सा वेद्यद्वयविषया । किमसंवेचैव संविदिति-यधेकमेव नीलादिकं संवेद्यं एवं तर्हि किमसंवेद्येव संवित् । तथा च सति कथं शशविषाणवदेवासंवेद्यायाः सत्ताभ्यु. पगम इति हृदि स्थितम् । न ब्रूमो न संवित् संवेद्येति संवित्तयैव हि संविसं. वेद्या न संवेद्यतया । केयं वाचोयुक्तिः ? संवेद्या न संवेद्येति । इयमियं वाचो युक्तिः-नास्याः कर्मभावो वि. द्यत इति । कर्म च संवेद्याभिधेयं न संवित् , स्वयं प्रकाशरूपत्वात् संविदो न पराधीनप्रकाश इति न कर्मता। न च प्रकाशाभावः । प्रकाशमान चा. स्तीत्युच्यते, न पुनः कर्मतैव विवक्षिता। प्रत्यक्षशब्दोऽपि संविदामपरो. क्षतया, न पुनरिन्द्रयज्ञानवेद्यतयैवेति मन्तव्यम् । न चासंवेद्यैव संविदिति । न चाप्रकाशरूपेत्यर्थः। तन्मूलत्वात्संवेद्यभावस्य सर्वभावनाम् । न हि संवित्तावप्रका. शमानायां(१)संविदितमिदमिति भवतीति । किं तयत्रानुमानिकमिति । य. दि संवित् प्रत्यक्षा । किमपरमनुमेयम् ? न च वाच्यं फलभूता संवित् तत्र कारणं प्रमाणरूपं फलजनकत्व(२)मुन्नेयमिति । फलमेव हि यस्मा. प्रमाणमिति प्रमाणविदो मन्यन्ते । किमिति मन्यन्ते ? । न पुनः फलमेवेति स्थितोऽभि- प्रायः । एकस्मिन् वस्तुनि किमिति विभाग आश्रित इत्यर्थः। उत्तरम्- एवं हि लौकिको व्यवहारः इति । तेल लौकिकव्यवहारानुसारित्वादुभयः १. 'संवेमीद मिति ख. पुस्तके । २. अनुमेयं, इति ख. पु.।

निरालम्बनवादः ] ऋजुविमलोपेता। , . एवं हि लौकिको व्यवहारः। किमिदं लौकिको व्यवहार इति । आकारद्वयं हि लौकिकाः प्रतिपद्यन्ते इत्यर्थः । सिद्धं तबर्थद्वयम् । विज्ञानस्यासंवेद्यत्वात् , अर्थस्य च संवेद्यत्वात् । किमसम्बेद्यमेव विज्ञानम् ? बाढमसम्वेद्यम् , न स्वप्रमेयम् । कः पुनः प्रमेयसम्बेद्ययोर्विशेषः ? यत्र हि विषयस्य स्वरूपं परि. च्छिद्यते तत्सम्वेद्यमित्युच्यते । अतस्सम्वेदनं प्रत्यक्षमिति प्रमा. णविदः। असम्वेदना च प्रमितिज्ञाने आकारान्तराग्रहणात् । तस्मात् ज्ञानं प्रत्यक्षमित्य युक्तम् । क्षणिकत्वञ्चास्य प्रत्यक्षता न सं. मङ्गीक्रियते इति । प्रत्युत्तरम्-किमिदं लौकिको व्यवहार इति । प्रतिवचः नमिदम्-आकारद्वयं लौकिकाः प्रतिपद्यन्त इत्यर्थः । एतदुक्तं भवति-लौकिकाः कार्यकारणरूपेणाकारद्वयं प्रतिपद्यन्ते, न पुनरेकता कार्यकारणयोर्मन्यन्त इति । (१)अस्योपरि ब्रूते-सिद्धं तद्यथद्वयं संविद्व्यतिरिक्तम् । एक स्तावदर्थों ज्ञानरूपः, अपरश्च नीलादिरूपः । कथं पुनरर्थस्य ज्ञानस्य च भेदः ? तत्राह-विज्ञानस्यासम्वेद्यत्वादर्थस्य च सम्बेद्यत्वादिति । एतदुक्तं भवति- प्रत्यक्षोऽर्थः, अनुमेयं ज्ञानम् । तेन तयोर्भेद इति । सम्वेद्यशब्दस्यार्थ विवेकेनाजानन् पृच्छति--किमसम्वेद्यमेव विज्ञान- मिति । प्रमेयं सम्वेद्यं चैकं मन्यमानो ब्रवीति-बाढमसम्वेद्यं, न त्वप्रमेयम् । कः पुनः प्रमेयसम्वेद्ययोर्विशेषः ? यत्र हि विषयस्य स्वरूपं परिच्छिद्यते तत्सम्वेद्यमित्युच्यते । अतः सम्वेदनं प्रत्यक्षमिति प्रमाणविदः । यतो यत्र स्वरूप परिच्छिद्यते तत्सम्वेद्यमित्युच्यते, ततः स्वरूपपरिच्छेदः सम्बेदन यते । अतः स्वस्य प्रतिपत्तुः सम्वेदनं प्रत्यक्षमित्युच्यते । स्वरूप- ग्रहणं हि प्रत्यक्षं विहायान्यदतो नास्तीति स्वरूपग्रहणं प्रत्यक्षम् । स्व. रूपग्रहणं च सम्वेदनम् । अतस्सिद्धं सम्वेदन प्रत्यक्षमिति । ज्ञानस्ये. दानी प्रमेयतामसम्वेद्यतां चाह-असंवेदना च प्रमितिज्ञाने आकान्तराग्रहणात् । स्वरूपाग्रहणात् ज्ञानमप्रत्यक्ष अनुमेयत्वाञ्च प्रमेयमिति । तस्मात् स्वरूपा. ग्रहणात् ज्ञान प्रत्यक्षमित्ययुक्तम्। क्षणिकत्वाच्चास्य प्रत्यक्षता न सम्भवति, प्रमाणफलयो. रसाम्प्रतत्वात्। अस्यार्थः-ज्ञानं तावत्स्वरसभङ्गुरम् । तेन (२)ज्ञानं ज्ञानान्तरो- दयकाले विनष्टं न प्रत्यक्षम्, अविद्यमानत्वात् । विद्यमानविषयं च प्रत्यः क्षम् । न चाविद्यमानविषयमपि प्रत्यक्षमास्ति जात्यादिग्विति शङ्कनी १. अस्योपपत्तिं ब्रूते, इति ख. पुस्तके । २. ज्ञानं इति नास्ति ख. पुस्तके ।

वृहती [अ.१.पा.१.सू.५. भवति । प्रमाणफलयोसांप्रतत्वात् । तदिदमाह-(१)"क्षणिका हि सान बुद्ध्यन्तरकालमवस्थास्यत" इति अथायमभिप्राय:-स्वयं प्रमाणरूपत्वात् न प्रमाणान्तरमपेक्षते ज्ञानमिति । तदुक्तं--(२)"उत्पद्यमानवासौ ज्ञायते ज्ञापयति चार्थान्तर प्रदीपवदिति यधुच्येते"लि । सत्यं प्रमाणं प्रमाणान्तरं नापेक्षते प्रमितौ। न च वयं प्रमाणतयैव विजानीमः, तहेतुत्वाद्विज्ञा- नस्य । न च तदवस्थं ज्ञानं ज्ञेयतया (तदा) ज्ञानान्तरस्यापि वदामः । किन्तु तदवस्था तावदस्तीत्यनुमानस्य विषयः । न ह्य सत्यामव- स्थायामवस्थावतोऽस्तित्वं शक्यते ज्ञातुम् । तदिदमुक्तम्-(३)"न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते चानुमानादवग- च्छति । तत्र योगपद्यमनुपपन्न"मिति । ननु च ज्ञातमिति प्रमेयमनुस्मरन्ति प्रमाणविदः । ससं ज्ञातं यम् । प्रमाणफलयो(४)रसम्प्रवृत्तत्वादित्युक्तं वृत्तिकारग्रन्थे। तदिद. माह भाष्यकार:-क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यत इति । अथायमभिप्रायः-स्वयं प्रमाणरूपत्वान्न प्रमाणान्तरमपेक्षते ज्ञानमिति। न कारक कारकान्तरमपेक्षते, न(५)[दकाहरणे घटो घटान्तरमपेक्षते । तदुक्तं- उत्पद्यमानवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवदिति यद्युच्यतेति । सत्यं प्रमाणं प्रमाणान्तरं नापेक्षते (६)प्रमितावर्थपरिच्छेदे। किन्तु स्वरूपपरिच्छेदे प्रमाणमपि प्रमाणा- न्तरमपेक्षत एव । न च वयमिति परिहारान्तरम्। यदि हि प्रमितिकारण- तयैव प्रमाणं विजानीमः तदा यावत् विज्ञानं विज्ञानान्तरं नापेक्षेत । न चैवम् , तद्धेतुत्वात्, प्रतिपत्तिहेतुत्वाद्विज्ञानस्य । हेतोश्च बीजादेः जायमानस्य ज्ञानापेक्षा दृष्टैव । न च तदवस्थं ज्ञानं ज्ञेयतया ज्ञानान्तरस्यापि वदामः। न च कार्यजननावस्थं ज्ञानं ज्ञानेन ज्ञायते, किन्त्वतिवृत्तजनकभावम् , किन्तु तदवस्था तावदस्तीत्यनुमानस्य विषयः । कस्मात्पुनस्तदवस्थं न ज्ञायते इत्य. त्राह-न ह्यसत्यामवस्थायामवस्थावतोऽस्तित्वं शक्यते ज्ञातुम् । अतिक्रान्तत्वाद वस्थायाः। तदिदमुक्तम्-न ह्यज्ञात इत्यादि। ननु च ज्ञातमिति प्रमेयमनुस्मरन्ति प्रमाणविदः । अस्यार्थः-ज्ञातमिति स्मर. १. शा. भा. पृ. ७. पं. २. शा. भा. पृ. ७. प. २४. ३. शा. भा. पृ. ७. पं. ४. असाम्प्रतत्वात् इति. ख.पु. । ५. उदकधारण इति क. पु. । ६. प्रतिपत्तौ इति ख. पु.। - . २३.

। निरालम्बनवादः ] ऋजुविमलोपेता। ६७ स्मरान्ति, न तु ज्ञातमिति । तदुक्तं (१) सत्यं पूर्व बुद्धितत्पद्यते, न तु पूर्व ज्ञायते" इति । ननु चेदं लोकविरुद्धम् - ज्ञातो वर्थ इति (स्मरणं) व्यपदिशान्ति, न घटोऽयमिति । सत्यं विरुद्धं यदि सर्वदैव व्यपदेशः स्यात् । (२)"भवति हि कदाचिदेतत यत् ज्ञातोऽर्थस्सन्नज्ञात इत्युच्यते”। यत्र हि ज्ञात इति स्मृतिः सा प्रमाणद्वयव्यापारजातत्वात् । तस्मात् विवेकशून्यमिदं वचः-स्मुते. रुत्तरकालं चेति । किश्च उभयोः प्रत्यक्षत्वेऽर्थेन ज्ञानस्य व्यपदेशो नोपपद्यते रुपस्पर्शयोरिव । न चार्थव्यपेदशमन्तरेण बुद्धेरूपोपलम्भनम् । त- स्मान्न बुद्धिविषयं प्रत्यक्षम् । अर्थविषयं हि तत् । अतस्सिद्धमानु. णमज्ञाते ज्ञाने नोपपद्यते । तेन ज्ञानं प्रत्यक्षम् । सत्यं ज्ञातं स्मरन्ति, न तु ज्ञातमिति, ज्ञातं प्रमेयं स्वरूपेण स्मरन्ति, न पुनर्ज्ञानविशिष्टम् । तदुक्तं- सत्यं पूर्व बुद्धिरुत्पद्यते न तु पूर्व ज्ञायते इति भाष्येण । अत्राह-ननु चेदं लोकविरुद्धं ज्ञातो ह्यर्थ इति व्यपदिशन्ति, न घटोऽयमिति । ज्ञात इति व्यपदेशो ज्ञानविशिष्टे- ऽवकल्पते । सत्यं विरुध्यते यदि सर्वदैवायं व्यपदेशः स्यात् । भवति हि कदाचि. द्यत् ज्ञातोऽर्थः(३)सन्नज्ञात इति । अत्र चेदमभिप्रेतम्-यदि प्रत्यक्षं ज्ञानं स्यात् तदा सर्वदैव ज्ञातत्वात् ज्ञानस्य ज्ञात इत्येव व्यपदेशः स्यात् । आनु. मानिकत्त्वे तु ज्ञानस्य कदाचिल्लिङ्गाननुसन्धानात् तदज्ञात्वा भवेदव्यः पदेशः। कदाचिल्लिङ्गानुसन्धानात् ज्ञानं ज्ञात्वा भवेद्व्यपदेश इत्युप. पन्नम् । तदाह-यत्र हि ज्ञात इति स्मृतिः सा प्रत्यक्षानुमानप्रमाणद्वय व्यापारजा । तस्माद्विवेवकशून्यं वचो (४)दिग्नागस्य- स्मृतेरुत्तरकालं च न ह्यसावविभावित इति । किं च उभयोरर्थज्ञानयोः प्रत्यक्षत्वेऽर्थेन ज्ञानस्य व्यपदेशो घटज्ञानमित्यादि. को नोपपद्यते रूपस्पर्शयोरिव । न हि रूपव्यपदेशेन स्पर्शः प्रतीयते । न चार्थ- व्यपदेशमन्तरेण बुद्धरूपोपलम्भनम् । तस्मान्न बुद्धिविषयं प्रत्यक्षम् , अर्थविषयं हि तदिति । अतः सिद्धमानुमानिकत्वं बुद्धेः फलतः सम्विद्रूपात्कादाचित्कस्य का. रणं विनाऽनुपपद्यमानात् । काममेकरूपत्व इत्यादि भाष्यम् । तत्रेदमुपपा. १. शा. भा. पृ. ७. पं. २८, २. शा. भा.पृ. ९. पं. २९. ३. सन्न ज्ञायते इति ख. पु. । ४. दिडनागोऽयं बौद्धसमयाचार्यो महापण्डित आसीत् । तस्य च समयः ३४५- ४२५ ईसवीयः। - दम्। वृहती [अ.१.पा.१.सू... मानिकत्वं बुद्धेः फलतः । यश्चासावविवेकः फलप्रमेययोः प्रमाणा न्तराभावादतद्विषयो युक्तः । अतः प्रमाणापळाप एव न्याय्यो, न प्रमेयापलापः । (१) अतः काममेकरूपत्वे बुद्धरेवाभावो न त्वर्थस्य प्रत्यक्षस्य सतः" । न चैकरूप्यम् । निराकारामेव हि बुद्धिमनुमिमीमहे । साकारं चार्थ प्रत्यक्षमवगच्छामः । तस्मादर्थाल. म्बन: प्रत्ययः । किं पुनः कारणं तुल्ये फलापलापे प्रमाणस्यैवापलापोन त्वर्थस्य प्रमेयस्य ? उभयोः फलायत्तत्वात् । मैवम् उत्पत्तौ ह्युभयो। फलायत्तता, न पुनः प्रमितौ। कस्योत्पत्तौ?ज्ञापके हि फले प्रमेयमेव ज्ञेयम् , नोत्पाद्यम् । प्रमाणायत्ता च मितिरिति उत्पत्तावित्य सम्ब- प्रमितौ हि क्रियाकारकत्वमङ्गीकृत्योत्पत्तिरुक्ता, नावगम्य- यति--एकरूपत्व इति । किमर्थमिदमुक्तम् । एवमर्थम् --यश्चायमविवेकः फल प्रमेययोः प्रमाणान्तराभावात् अतद्विषयो युक्तः । एकसंवित्संबद्यत्वात् घटा. देर्घटादिसंविदश्च परस्परं विवेको न गृह्यते । तेन संविदो घटादिव्यति. रिक्ताया एवा(२)पलापो युक्तः । अतः प्रमाणापलाप एव न्याय्यः अनुमानग म्यत्वात्तस्य फलाभावेऽनुमानानुपपत्तेः । अतः काममेकरूपत्वे बुद्धेरेवाभावो न त्वर्थस्य प्रत्यक्षस्येति । किं पुनः कारणं तुल्ये फलापलापे प्रमाणस्यैवापलापो न प्रमेयस्य ? उभयोः प्रमा. णप्रमेययोः फलायत्तत्वात् प्रमितिनिबन्धनत्वात् । मैवम् ; उत्पत्ती झुभयोः फलायत्तत्वं, न पुनः प्रमितौ । प्रमाणप्रमेययोः करणकर्मकारकयोः फलो. त्पत्तिनिबन्धना कारकत्वोत्पत्तिः । प्रमितिस्तु प्रमेयस्य प्रत्यक्षतः फल. निरपेक्षा । प्रमाणस्य चानुमानिकत्वात् फलायत्तैवेति । इममर्थमजा नन् पृच्छति-कस्योत्पत्तौ ? ज्ञापके हि फले ज्ञेयं प्रमेयमेव नोत्पाद्यम् । फलेन ज्ञा. पकेन ज्ञेयं प्रतीयते एव परं, नोत्पद्यते । ज्ञाने तु विपर्ययोऽपाति यावत् । प्रमाणायत्ता च प्रमितिः प्रमाणोत्पाद्यमेव हि फलमित्युत्पत्तावित्य. सम्बद्धम् । उत्पत्तावुभयोस्तदायत्तत्वमित्यसम्बद्धमित्यर्थः । प्रमितौ हि क्रियाकारकत्वमङ्गीकृत्योत्पत्तिरुक्ता । प्रमित्यायत्ता प्रमाणप्रमेययोः कार. कत्वोत्पत्तिरित्यर्थः । नावगम्यमानता(३)माश्रित्योत्पत्तिरुक्ता । । .. नावग. २. अपहव इति ख. पु.। १. शा. भा. पृ. ८ पं. १. ३. अङ्गीकृत्य इति. ख. पु.

अनुमानलक्षणम् ] ऋजुविमलोपेल ? मानताम् । ज्ञाने स्ववगम्यमानतापि फलायत्तैवेति युक्तम् । किश्च ज्ञानमात्रवादे हि ज्ञानवासनयोरेव जन्यजनकभावो न ज्ञानस्य ज्ञानान्तरेण । अतस्तन्तुज्ञानोत्पादेऽपि पटज्ञानोत्पादो नो. पपद्यते । (१)"दृष्टश्च नियतनिमित्तस्तन्तुष्वेषोपादीयमानेषु पटप्रत्ययः। इतरथा (हि) तन्तुपादाने ऽपि कदाचिद्धट- बुद्धिरविकलेन्द्रियस्य स्यात्" । तस्मान्न वासनानिबन्धनमेवेदं ज्ञानजालम् । किन्तर्हि ? अर्थनिबन्धनमिति स्थितम् । अत उपपन्नं प्रमाणलक्षणाभिधानम् ॥ (२) अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरे ऽसनिकष्टेऽर्थे बुद्धि"रिति । ज्ञात सम्बन्धस्येत्युच्यते । कस्य ज्ञात- सम्बन्धस्य ? नन्वेकदेशस्य । नेतदुपपद्यते । दर्शनोपसर्जनत्वादेक. तिरुत्पत्तिशब्देनोक्ता । यदि तथोच्यते तदा प्रमेयस्य तदायत्तता न स्यात् , फलाननुमेयत्वात्प्रमेयस्य । ज्ञाने त्ववगम्यमानतापि फलायत्तैवेति युक्त. मुक्तम् । अनुमेयत्वात् ज्ञानस्य फलायत्ता प्रमितिः। तेन फलापलापः प्रमाणापलाप एवापद्यते नार्थापलापः। अपि च नियतनिमित्तक इत्या. दिभाष्यम् । तदयुक्तम् , ज्ञानमात्रवादेऽप्यर्थयोरिव ज्ञानयोरपि प्रतिनियतः कार्यकारणभावो भविष्यतीति । अत्रोत्तरं लिखति-किं च ज्ञानमात्रवादे हि ज्ञानबासनयोरेव जन्यजनकभावः, न ज्ञानस्य ज्ञानान्तरेण । अतस्तन्तुज्ञानोत्पादेऽपि पटज्ञानोत्पादो नोपपद्यते । दृष्टश्च नियतनिमित्तकस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः । इतरथा तन्तूपादानेऽपि कदाचित् घट- बुद्धिविकलेन्द्रियस्य स्यात् । वासनोद्वोधस्यानियतनिमित्तत्वात् । तस्मान वासनानिबन्धनमेवेदं ज्ञानजालं, किं तर्हि अर्थनिबन्धनमिति स्थितम् । अत उपपन्नं बहि. रर्थस्य सद्भावादिन्द्रियार्थसन्निकर्षस्य सम्भवात् प्रत्यक्षस्य प्रमाणस्य लक्षणमिति। अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसंनिकृष्टेऽर्थे बुद्धिरित्यनुमानलक्षण. मनुवदति व्याख्यातुम् । ज्ञातसम्बन्धस्येत्युच्यते कस्य ज्ञातसम्बन्धस्य ? । अस्यार्थः- ज्ञातसम्बन्धशब्देन कस्य निर्देश इति पृच्छति। नन्वेकदेशस्येत्युत्तरम् । एकदेशस्य ज्ञातसम्बन्धस्य दर्शनादित्यर्थः । नैतदुपपद्यते । दर्शनोपसर्जन- १. शा. भा. पृ. ८. पं. ३. २. शा. भा. पृ. ८. पं. ८.

वृहती [ अ.१.पा.१.सू.५. ? . देशस्य । नापसर्जनं पदं पदान्तरेण सम्बध्यते राजपुरुषवत् । न हि पुरुषसमुदाययोरनुपादानादेवासम्बन्धः । तस्मान्न विद्मः कस्य. ज्ञातसम्बन्धस्येति । उच्यते-सम्बन्धापरिज्ञाननिबन्धनोऽयं व्या. मोहः। कः पुनरसौ सम्बन्धः ? अयमसौ । अनुमानमे- केदशदर्शनादेकदेशान्तरेऽसंनिकृष्टेऽर्थे बुद्धिः । कस्यैकेदशस्य दर्शनात् ? ज्ञातसम्बन्धस्य ! नन्वस्निन्नपि सम्बन्ध एकदेशस्योपसर्जनता तदवस्थैव । उप. त्वादेकदेशस्य । ज्ञातसम्बन्धशब्देन दर्शनं प्रत्युपसर्जनीभूत एकदेशो विशे. ष्टुं न शक्यते । कुतः ? । न ह्युपसर्जनं पदं पदान्तरेण सम्बध्यते राजपुरुषवत् । यथा राजपुरुषे राज्ञः पुरुषोपसर्जनीभूतस्य पदान्तरेण विशेषणं न भव ति । न हि भवति ऋद्धस्य राजपुरुष इति । न हि पुरुषसमुदाययोरनुपादाना- देवासम्बन्धः । अथोच्यते मा भूदेकदेशस्य ज्ञातसम्बन्धशब्देन निर्देशः । ज्ञातः सम्बन्धो येन स ज्ञातसम्बन्धः पुरुषो विशेष्यताम् ।ज्ञातः सम्ब न्धो यस्येति समुदायैकदेशयोर्वा लिङ्ग लिङ्गिनर्विशेष्यताम् । तत्रैवं सम्ब न्धो भवति-ज्ञातसम्बन्धस्य पुरुषस्य बुद्धिरिति । न च तत्रानुपात्तान्य- पदार्थतादोषः । बुद्धिसम्बन्धेनैव बोधुरुपस्थानात् । तथा ज्ञातसम्ब. न्धस्य समुदायस्यैकदेशदर्शनात्तस्यैवैकदेशान्तर इति । अत्रापि चैक. देशाभ्यां समुदायोपस्थानादनुपात्तान्यपदार्थता नास्ति । समुदायचो. पलक्षणम्, (१)एकदेश्यपि द्रष्टव्यः । (२)एतदपि न सम्भवति । गम्य मानस्यार्थस्य विशेषणादर्शनात् । तदाहुर्तिककारमिश्राः- गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्त्या वा धूमोऽयं ज्वलतीतिवदिति ॥ साधितमर्थमुपसंहरति-तस्मान्न विद्मः कस्य ज्ञातसम्बन्धस्येति । अत्र परिहरति-उच्यते-सम्बन्धापरिज्ञाननिबन्धनोऽयं व्यामोहः । कः पुनरसौः सम्बन्धः (३)अयमसौ । अनुमानमेकदेशदर्शनादेकदेशान्तरेऽसनिकृष्टेऽर्थे बुद्धिः। कस्यैकदेशस्य दर्शनात् ? ज्ञातसम्बन्धस्येति । नन्वस्मिन्नपि सम्बन्धे एकदेशस्योपसर्जनता तदवस्थैव । ततश्च कथं ज्ञातसं. बन्धशब्देनैकदेशो विशेष्यते ? । यदि परं वाक्यभेदमात्रमाधिकम् । अत्रोच्यते-पौरुषेये वाक्ये वाक्यभेदापत्तिरदोष इत्यसकदुक्तम् । यत्तू- १. एकदेशस्यापि इति ख. पु. २. तदेतदपि. इति क. पु. ३. अयमसौ इति नास्ति ख. पु.

अनुमानलक्षणम् ] ऋविमलोपता। , सर्जनमिति नायं सम्बन्धहेतुः । आकाङ्कितपूरणसमर्थ च संब- धितामापद्यते । अत्र चैकदेशदर्शनादित्युक्त कस्यैकदेशस्येत्याकाला दर्शनस्य च दृश्यप्रधानत्वात , तज्जन्यत्वात्वाच्चार्थान्तरबुद्धेः । अत एव चात्रोत्तरपदप्रधानता, अत्र पूर्वपदप्रधानतेति क्वचिक्त्वचि- स्थापितम् । तस्मात्प्रयोगसिद्ध्यर्थैवेयमुपसर्जनसंज्ञा ! अर्थसम्बन्धे हि यस्मादर्थाकाङ्क्षा हेतुः नोपसर्जनताऽनुपसर्जनता वा, कस्य गुरु- कुलमित्येवमादिषु दर्शनात् । उच्यते-व्याप्यं हि दृष्टं व्यापकं गमय. ति । ज्ञातसम्बन्धस्येति च न व्याप्य एषा षष्ठी। सम्बन्धिमा. पसर्जनत्वेनासम्बन्ध इति, तत्राह-उपसर्जनमिति नेदं सम्बन्धे कारण. म् । (१)तथाऽनुपसर्जनमित्यपि। येनानुपसर्जनत्वाभावे सम्बन्धो न स्यात् । किं तर्हि?कारणमिति । अत्राह-आकांक्षितपूरणसमर्थं च सम्बन्धितामाप. छते । तत्र चैकदेशदर्शनादित्युक्ते कस्यैकदेशस्येत्याकाला भवति । तेन सत्यामाकाङ्क्षा. यामाकाङ्क्षापूरणसमर्थ ज्ञातसम्बन्धपदमेकदेशविशेषणं भवति। कार. णान्तरश्चाह-दर्शनस्य च दृश्यप्रधानत्वात्। उपसर्जनतापि चात्र नास्ति दर्शनं प्रत्येक देशस्य प्रधानत्वात् । न च प्रधानतापि न निर्वहति, तज्जन्यत्वाच्चार्थान्तर. बुद्धेः । एकदेशादेव दर्शनसंस्कृतादाकारा बुद्धिरुपजायते। तस्मात्प्रधान- भूत एकदेशः पदान्तरेण सम्बध्यते । यतश्च पूर्वपदार्थभूतोऽप्येकदेशः प्रधान अत एव चात्रोत्तरपदार्थप्रधानता, अत्र पूर्वपदार्थप्रधानतेति क्वचिक्विचित्स्थापि- तम् । अन्यथा सर्वत्र तत्प्रत्युत्तरपदार्थप्रधानतैव स्यात् । यस्मादेवमाकां- क्षया सम्बन्धः तस्मात्प्रयोगसिध्यथैवेयमुपसर्जनसंज्ञा । (२)"प्रथमानिर्दिष्ट समास उपसर्जन"मिति येयमेकदेशस्योपसजनसंज्ञा पूर्वनिपातमात्र- सिध्यर्था । (३)"उपसंजनं पूर्व"मिति न पुनरुपसर्जनत्वेन पदान्तरास- म्वन्धार्था । कस्मादित्याह-अर्थसम्बन्धे हि यस्मादर्थाकाङ्क्षव हेतुर्नोपसर्जनताऽनुपस- जनता वा। कस्य गुरुकुलामत्यादिषु उपसर्जनात्मकस्यापि दर्शनात् । कस्य गुरुकुलमि. त्याकाङ्क्षायां गुरुकुलविशेषणैर्देवदत्तादिभिः सम्बन्धदर्शनाद्देवदत्तस्ये. ति । (४)तथाचोक्तम्-“अथ शब्दानुशासनम् । केषां शब्दानाम् ? लौकि. कानां वैदिकानां चेति । उच्यते-व्याप्यं हि दृष्टं व्यापकं गमयति । ज्ञातसम्बन्धस्ये- १. अत्रग्रन्थस्त्रुटितः। २. पा. सू. १-२-४३.। ३. पा. सू. २-२-३०. ४. अथवोक्तम् इति क. पु. "शब्दानुशासनं नाम शात्रमाधिकृतं वेदितव्यम्" इत्य- धिकं ख० पुस्तके। ७ अनुमान गन् ऋजुचिमलोपता। स्यान्मतम्-सादलहेतुरनुमीयते । प्रवृत्तसामर्थ्यरूपहेतुसहकारि च रसहेतू रसजनक इति । तथाविधकारणानुमानात्प्रवृत्तसामथ्र्य रूप हेतूपस्थापनात्तस्य न कार्याव्यभिचाराद्रलाद्रूपानुमानमिति । तदिदम- झीकृतपक्षरक्षणाक्षिप्तचेतसः कुशकाशावलम्बनमित्यनादरणीयम् । न ह्येवं लौकिकाः प्रतिपद्यन्ते । लौकिकं च प्रमाणं परीक्षकैरप्यनुः सरणीयम् ! यञ्चेदं कारणात्कार्यानुमानम् , न तत्स्वभावहेतुकम् ! भिन्नत्वा. स्कार्यकारणयोः । नापि हेतोः, कारणस्य कार्यत्वासरुभवात् ! अपि च कार्यमपि कारणं कथमवगमयति ? तदध्यभिचारादिति चेतू-तद्यन्य. स्यापि यद्यव्यभिचारः स्यात् को गमकत्वमपहरेत् ! न चान्यस्याव्य- भिचारो न शक्यतेऽवगन्तुमित्युपरिष्टाद्वक्ष्यामः । न च तादात्म्ये ग. म्यगमकता घटते, एकस्य सकृत् ज्ञातत्वाऽज्ञातत्वायोगात । उदाह. रणमपि कल्पनानिरासात् वृक्षत्वशिंशपात्वयोर्भेदादनुपपन्नम् । एतेन येऽपि (१)समवाय, संयोगै, कार्थसमवाय, कार्यकारणभा. व, विरोधाख्यान् पञ्च सम्बन्धाननुमानाङ्गमाहुः तेऽपि निराकृताः। कृ. त्तिकोदयाद्रोहिण्या हनुमाने पञ्चानामसम्भवात् । यत्पुनर्नियमापरपर्यायां व्याप्तिमेव सम्बन्धान्तरभूतामनुमानका. रणं मन्यन्ते, तदपि न सुन्दरम् । न हि स्वस्वामिभावादिव्यतिरि. का व्याप्तिर्नामाऽपरस्सम्बन्धोऽस्ति । किन्तु सम्बन्ध एव कार्यकार- णभावादिः कस्य चिद्यापकः कस्यचित्तु नेति विशेषः। तत्र यस्य सम्ब- न्धेन व्याप्यता-यथा धूमस्य, तस्य गमकता। धूमो हि वह्निकार्यतया वह्निसंयोगितया(२)व्याप्यः। अग्निस्तु न सर्वदा धूमसम्बन्धीति गम- कः । तेन कार्यकारणभावादय एव सम्बन्धा इहानुमानाङ्गत्वेनाभिमताः । ननु कथं व्याप्यता धूमादेरवसीयते ? । न तावत्प्रत्यक्षस्य तत्र सामर्थ्यम् , तस्य वर्तमानकालाकलितसन्निहितदेशावस्थितार्थमात्र. विषयत्वात् । अव्यभिचारो हि व्याप्तिः । अव्यभिचारश्च सकलदेश. व्यापित्वे सतीति । नचानुमानमत्र प्रमाणम् , स्वयमसिद्धत्वात् । नापि शाब्दम् , कार्यकविषयत्वात्। नोपमानम् , सादृश्यमात्रविषयत्वात् । १. व्याप्तिः इति ख०पु० । २. इदं च वैशेषिकमतं “अस्येदं कार्य, कारणं, संयोगि विरोधि, समवयि, चेति लै. शिकम्' इति वैशषिकसूत्रम्। (वै. द. अ.९ आ. २ सू १)। एवमेव मुद्रितपुस्तकेधूपलभ्यते पाठः। परन्तु “अस्यदं कारणं कार्य सम्बन्ध्ये, कार्थसमवायि विरोधि चेति लैङ्गिकम् " इत्यनूदितं प्रकरणपञ्चिकायाम् । (पृ. ६८) १० बृ० ३० .

वृहती [अ.१.पा.१.सू.५. . ইদ্বত্ব কিছুর বিশ্রাম জেলিস্তি ল ন জ্বল। यदपि कोश परिपक्क पद पक्तिमाया भाषया मते मानलमिदमेवं विधं प्रत्यक्षदीयत इति । तदणि न निरालादरमहति । यतः सर्वत्र मनलो बहिरर्थेषु सहकारि निरपेक्षस्य न प्रवृत्तिः । सहकारिविशेषा- पेक्षायां च तस्यैवासाधारणत्वात्तेनैव व्यपदेशात् (१)न प्रमाणान्तराप. त्तिः । असाधारणकारणानुप्रवेशनिबन्धनं हि प्रमाणान्तरत्वम् । अन्यथा सर्वत्र मनसो व्यापाराजमानस मेक प्रत्यक्षं स्यात् । अत्र प्रमाणमालापरिमलविमलमतयः प्रतीकारमारभन्ते-यद्वस्तु येन प्रमाणेन सम्बन्धावशिष्टं गृह्यते, यथा प्रत्यक्षेण धूमोऽग्निसम्बन्धः विशिष्टः, तस्य तेनैव प्रमाणेन सम्बन्धे व्याप्यताऽपि गम्यते । तथा हि-स्वसंवेदनं तावदिदं भवान् भावयतु-धूमोऽयमग्निसम्बद्ध इति । किमत्र देशकालाभ्यां धूम एव केवलमाकलितः (२ प्रतीयते ? अथ(३)सम्वन्धतापि तस्य देशकालव्यवच्छिन्ना प्रतीयत इति। तत्र वयं तावदिदंतया सन्निहितवर्तमानात्मिकया लिङ्गिनो घर्मिभूतो धूमो. विभातीति पश्यामः । न च धर्मभूतोऽग्निलम्बन्धोऽपि परविशेषणभा. वोपक्षीणस्वभावः । तत्र धूमसत्तैव केवलं कालान्तर(४)देशान्तरवृत्ती प्रमाणान्तरमपेक्षते । अग्निसम्बन्धस्तु प्रमाणान्तरानुबन्धसिद्ध एव । तत एव च प्रतीतेऽपि विषये प्रमाणान्तरत्वे यत्नः करिष्यते । नन्वेवं तर्हि वह्निरपि धूमसम्बन्धी लिङ्गं स्यात् । न स्यात् , एतद- सम्बन्धोऽपि तस्यास्तीति । धूमस्य च भविष्यतीति किमत्र प्रमाणम् । अत (५)स्तत्सम्बन्धब्याप्तिको धूमोऽपि स्यात् । तत्र त एव प्रमाणवि. चारपारदृश्वानो विशेषमभिद्धति-यद्विधे हि यस्य दर्शनं तथाभूत एव तदाशङ्काऽस्तरति । यस्य च कुताश्चिदुपाधेस्सम्बन्धः, यथाग्नेरा ट्रॅन्धनसम्बन्धात्, तस्य तदुपाधिविगमादसम्बन्धोऽपि । न च धूमस्या ग्निसम्बन्ध औपाधिकः । कथमयं विभागो विवेचनीय इति चेत-तदन्व. यव्यतिरेकाभ्यां तु । यस्य हि यत्रोपाधित्वं सम्भाव्यते तद्विगमेऽपि चे. दुपलभ्यते ज्ञायते नायं तदुपाधिक इति । एतच्चासदर्शनप्रभावा. दित्युक्तं-अव्यभिचारस्त्वसकृद्दर्शनगम्य इति । तदियं दिगुपदशिता । अत्र ज्ञातसम्बन्धशब्देन साधारणासाधारणविरुद्धा हेतुदोषा निरस्ताः। १. "न" इति नास्ति ख० पु० । २. प्रथते इति ख० पु० । ३. संवेदितापि० इति० ख० पु० । ४. देशान्तरप्रवृत्तये इति ख० पु. । ५, तत्सन्दिग्धव्याप्तिक० इति ख. पु० ।

अनुमानलक्षणम् । ऋजुविमलापता। तत्तु द्विविधामिति । किमिदं विश्यम् ? लक्षण विध्य ताव- नास्ति । एकदेशदर्शनादित्ये कत्याल्लक्षणस्य । अश प्रमेयद्वैविध्य- मङ्गीकृत्यैतदुच्यते-एकत्र विशेषाद्विशेषोऽवगम्यते, अन्यत्र सामान्याद सामान्याबगनिरिति । एवं च हेतुमद्भेदाढेतोरपि भेद उक्तो भ- वति । किं पुनरनयोर्भेदकथन प्रयोजनम् ? लक्षणाभिधानेल चा- व्यभिचारितोक्ता भवति । तदर्थं चायं प्रयासः । हेतुहेतुमतो. विध्यं भवतु वा मा वा। अत्र केचिनीतिज्ञमन्या अनाधृतस्वलक्षणमेव किंचिदनुमानेन अत्रासाधारणो-गन्धवत्वान्नित्या पृथिवीति । अस्य हि भूमात्रवर्ति- त्वात् तस्याश्च लिसाधयिषितनित्यतास्थधर्मत्वासिद्धौ च संबंधिना सह सम्बन्धावधारणानुपपत्तेन ज्ञातसम्बन्धत्वम् । साधारणस्तु-नित्यः शब्दः, प्रमेयत्वादिति। अस्य प्रमेयत्वलज्ञणस्य धर्मस्य नित्यतया सह सम्बन्धोऽस्ति, व्याप्तिस्तु नास्ति । तेन ज्ञातः सम्बन्धो यस्येति षष्ठयर्थाभावान ज्ञातसम्बन्धत्वम् । विरुद्धः पुनः-पटो नित्यः, कृतकत्वादिति । अस्य सम्बन्ध एव नास्ती. त्यज्ञातसम्बन्धता । एकदेशदर्शनादित्यपक्षधर्मस्य हेतुत्वं, निरस्तम् । यथा-'प्रत्यक्षं कर्म रूपवत्वादिति। न हि कर्मणो रूपं धमः । कस्य तर्हि? द्रव्यस्य। तथा असिद्धस्य हेतुत्वं दर्शनग्रहणेन निरस्तम् । तदेवं सम्बन्धे व्याप्तिपक्षधर्मत्वे हेतो रूप निश्चितेऽनुमानाङ्गमिति स्थितिः । तत्तु द्विविधमित्यनेन भाष्यं पठितभाक्षिपति-किमिदं द्वैविध्यम् ? लक्षण- दैविध्यं तावत् नास्ति, एकदेशदर्शनादित्येकवाल्लक्षणस्य । एकदेशदर्शनादि. त्येकं लक्षणम् , ज्ञातसम्बन्धस्येति विशेषणम् । तच्चोभयोरप्येकम् । अथ प्रमे यद्वैविध्यमङ्गीकृत्यैतद्वैविध्यमुच्यते, प्रमेयद्वैविध्यं च दर्शयति-एकत्र विशे- पाद्विशेषोऽवगम्यते । धूमाकृनिकात् धुमाकृत्युपलक्षणेन ज्ञाताग्निसम्ब. ग्धव्याप्तिरन्याकृतिको विशेषोऽवगम्यते । अन्यत्र सामान्याद्देशान्तरप्रा. प्तिमात्रादादित्ये तद्धेतुमात्रमनुमयित इति हेतुद्वयभेदाद्धेतोरपि द्वैवि- ध्यं विशेष सामान्यात्मकत्वात् । अत्राह-किं पुनरनयोर्भेदकथनेन प्रयोजनम् ? न किंचिदित्यर्थः । लक्षणाभिधानेन चाव्यभिचारितोक्का भवति, तदर्थश्वायमव्यभि- चारित्वार्थः प्रयासो लक्षणात्मकः । हेतुहेतुमताद्वैविध्यं भवतु वा मा वा । अत्र केचिनीतिज्ञमन्या अनवधृतस्वलक्षणमज्ञातप्रत्यात्मविशेषालम्बन्धित्वेना.

. [अ.१.पा.१.सू .. सामान्य लो शृखत इति मन्यन्ते । तद्धमापनोदनायैतदुक्तम्-तत्तु द्विविधमिति ! अदृष्टस्व लक्षणाविषयमनुमान मस्ति क्रियादिषु । कथं पुन(१)रदृष्टवलक्षणे सम्बन्धिदर्शनम् ? उत्पत्तिमतः (स्व)फलस्य दृष्टमेव किंचिदनुमानेन सामान्यतः लामान्यरूपेण गृह्यत इति मन्यन्ते । तद्भूमापनुत्तये इदमुक्तम्-तत्तु द्विविधमिति । विप्रतिपत्तिनिरालार्थमुक्तमित्यर्थः । ननु स विषयो नास्त्येवैवविध इत्यत्राह-अदृष्टस्वलक्षणविषयमनुमानमस्ति क्रियादिषु क्रियायां शक्तौ च । चोद्याभिप्रायमिदानीमाह--कथं पुनरदृष्टस्व. लक्षणयोः सम्बन्धग्रहणम् विना सम्बन्धिबोधात्सम्बन्धानुपपत्तेः उत्पत्तिमतः फलस्य दर्शनादित्युपपादितमस्माभिः शून्यवादे । अस्यार्थः-तन्तुसंयोगे सति पटावयवी दृश्यते । अत्रोत्पत्तिमतस्तन्तुसंयोगात् प्रत्यक्षस्य फ. लस्यावयवविलक्षणस्य दर्शनादृष्टस्वलक्षणयोरपि सम्बन्धदर्शनं भव. तीति । एतच्च शुन्यवादे प्रमाणफलयोर्भेदं लौकिकाः प्रतिपद्यन्ते इत्यत्र प्रदर्शितमस्माभिः । एतदनेनाभिसंहितम्-यद्यत् फलभूतं तत्तदुत्पत्ति मतोऽनन्तरमिति सामान्यतस्तत्वादि संयोगादि चावयवीति(?) सम्ब. न्धदर्शने सति देशान्तरप्राप्ति कादाचित्की फलभूतामवधार्योत्पत्ति मत्प्राभावि किञ्चिदनुमीयते । तत्र च लोकस्य कर्मशब्दप्रयोगः । न च द्रव्यमेवोत्पत्तिमदिति शक्यावगमम् , तस्य प्रत्यभिज्ञया स्था. यित्वेनावधृतत्वात् । न च दृष्टविरुद्धमनुमानमवरोधिनि संभवतीति युक्तम् । तस्माद्रव्यातिरेकि कर्मानुमीयते। परोत्कर्षव्यालोककलुषितान्तःकरणः कर्मणः प्रत्य- क्षतामाकाङ्क्षते । तामाह-ननु नानुमेयं कर्म, किंतु रूपिद्रव्यसमवेत. चाक्षुषमेव, गच्छत्ययमिति प्रतीतरिन्द्रियव्यापारायत्तत्वात् । तथा च तन्त्रान्तरे सूत्रम् (२)“संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाञ्चाक्षुषाणी"ति । अथ संयोगवि भागानुमितक्रियाविषयोऽयं प्रत्यय इति । तदनुपपन्नम् । आकाशस्या- तीन्द्रियत्वात्तेन सह संयोगस्य वायुवनस्पतिसंयोगवद्प्रत्यक्षत्वाल्लि ङ्गाभावात् पतत्सु पतत्रिषु पततीति बुद्धिर्न स्यात् । अथोच्यते-विहायसि विततेस्तराणिकिरणैस्सह संयोगविभागो प्रत्यक्षौ लिङ्गमिति, तन्न ; सान्द्रतरान्धकारे निशीथे झटिति तडिति १. अदृष्टस्वलक्षणयोस्सम्बन्धग्रहणम् इति व्याख्यानसम्मतः पाठः । २. वै. सू. अ. ४. आ. १. सू. ११ अत्रापरः .० कर्मणोऽनुनेयस्वसाधनम् ] ऋजुविमलोपेला । स्फुरन्त्यां चलतीति प्रतीते। अपि च संयोगविभाग गम्ये गन्तरि हा स्तः । ताभ्यां चेत्कर्मानुमेय गन्तरीव तबुद्धिनस्येऽपि स्यातू । किं च कार्यविरोधि कर्म । ततश्च संयोगादुपरते कर्मणि वर्तमानावमालो न स्यात् । किं च न संयोगविभागौ कर्मानुमापयितुमीशाते । तस्यापि कादाचिकत्वेन हेत्वन्तरापेक्षत्वात्तद्धत्वभिमतादेव तयोरुपपत्तेः । तदेतद्वधिरदोषविलासमात्रम् । अनुमितक्रियानिमित्तश्चलतीति प्रत्ययः। विद्युति तु मेघावयवसंयोगविभागलिङ्गानुमिता चलनक्रि- येति नानुपपत्तिः । न च गम्ये क्रियानुमानम् , गन्तृलमवेतयैव क्रियया संयोगविभागयोरुपपत्तेः । न चेदं विपरीतमापादयितुं शक्यते, गम्यक्रिययैव गन्तरि फलं प्रस्तुतमिति उत्तरदेशसंयोगस्य(१)गन्त. रि क्रियान्तरानुमापत्तेः । देवदत्तगता तु क्रिया पूर्वप्रदेशेन विभागमु. त्तरदेशेन संयोगं चारभत (२)इत्युपपन्नम् । न च चलतीति वर्तमानावबोध एकक्रियाक्षणाभिप्रायेण, क्षणस्य पौर्वापर्याभावात् । तस्माक्रियाक्षणानां सन्ताननिमित्त एवायं चलतीति वर्तमानतावसायः । तेन क्षणान्तरे नष्टेऽपि क्षणान्तरेऽनागतेऽपि प्रार. ब्धापरिसमाप्तत्वादेकफलावच्छिन्नस्य क्रियासन्तानस्य (३)वर्तमानता नानुपपन्ना । सम्भवति च फलोद्देशनोत्तरक्षणपरामर्शादेषा प्रतीतिः । तदुक्तम्-यदा त्वाद्यपरिस्पन्दप्रभृत्याफललाभतः क्रिया पूर्वापरीभूता लक्ष्यते वर्तते तदेति । न च कर्महेतोरेव संयोगविभागोदयः । तथा हि--आत्म- शरीरसंयोगादात्माश्रितप्रयत्नानुगृहीतात्पादहस्तादिषु कर्मेष्यते तदुक्तम्--(४)"आत्मशरीरसंयोगप्रयत्नाभ्यां हस्ते करें"ति। संयोगश्च संयोगिन्येव कार्यमारभते । यथावयविनमवयवसंयोगः। संयो. गविभागौ च न केवलमाश्रयसमवेतौ । अनाश्रयेऽपि देशे समवायात्। तेनात्मसंयोगातिरिक्तमपरं कर्मानुमीयते, न च तत्रायं नियमो दृष्टः-स्वाश्रयमेव फलमारभत इति । तस्यापूर्वत्वात् । तेनानुमे. यत्वेऽपि न कश्चिद्दोषः । प्रत्यक्षं तु प्रतीतिविरुद्धम्। न हि संयोगविभा. गातिरिक्तं निपुणमपि निरूपयद्भिरपरं वस्तूपलभ्यते । तदुक्तम्-(५) "न हि ते प्रत्यक्षे" इति। किमर्थं तर्हि (६)"देवदत्तस्य गतिपूर्विकां देशान्तरप्रा. प्तिमुपलभ्यादित्येऽपि गतिस्मरण"मित्युक्तम् ? देवदत्तेऽप्यनुमेयत्वात् । १. 'गन्तरि' इति नास्ति. ख. पु. २. इत्युभयमुपपन्नम् । इति ख. पु. ३. वर्तमानताऽनुपपन्ना इति. ख. ४. वै. सू . ५. १. १. ५. शा. भा. पृ. २२. पं. १६. ६. शा. मा. पृ.८.पं. ११.

.. [ अ.१.पा.१.सू.५. दर्शनादित्युपपादितमधस्तादस्माभिश्शून्य वादे । अतः सामान्यमा- पर्यवसाय मालमस्ति । दर्शितं च देवदतस्य गतिपूर्विकापिति। कः पुनरनुमाने व्यभिचारः १ यथा प्रत्यक्षे शुक्तिकादिषु । नन्धिदानीमेव द्विविधं शाब्देन प्रदर्शितम् । नन्वानुमानिकेत्या. नुमानिकं निरसनीयम् । न पुनरानुमानिकस्योद्धारो वक्तव्यः । कश्चात्र विशेषः ? येऽपि ह्यानुमानिकमनानुमानिकमिच्छन्ति तेऽ. प्यनुमानं व्यभिचारयन्त्येव । तस्मादत्रापि व्यभिचारनिवृत्तिरेव लक्षणाभिधानस्य प्रयोजनम् । किं च प्रमेयेऽपि सङ्करः । न महानसादिषु दृष्टो धूमः पर्व तस्थमग्निं प्रतिपादयितुं क्षम इति केचित् । विशेषा एवावगम्यन्त उच्यते-देवदत्ते तावदात्मसंयोगातिरेकिण्यनुमिते तत्सामान्यादादि त्येऽपि गतिरेवानुमीयते । देवदत्ते देशान्तरप्राप्तेस्तत्कारणत्वेन नि. श्चितत्वात् । एतदुक्तं भवति-सर्वत्र चेतने वाऽचेतने वा गतिरेव देशान्तरे प्राप्तौ निमित्तमिति । अतः सामान्यमात्रपर्यवसाय्यनुमानमस्ति। दर्शितं च देवदत्तस्य गतिपूर्विकामिति । इदानी लक्षणाभिधानप्रयोजनं पृच्छति--कः पुनरनुमाने ब्याभिचारः यथा प्रत्यक्षे शुक्तिकारजतादिषु । व्यभिचारनिराकरणार्थ हि लक्षणमुच्यते । अप्रमाणे हि प्रमाणाभिमानो व्यभिचारः । न चालावनुमानेऽस्ति (१) । (नन्विदानीमेव द्विविधं शब्देनोक्तं सामान्यतो दृष्टमनुमानं नास्तीति विप्रतिप. त्तिनिराकरणाय द्वैविध्यमुक्तमिति ।) नन्वानुमानिकेत्यानुमानिकत्वं निरसनीय, (२)न पुनरानुमानिकस्योद्धारो वाच्यः। अत्र पुनराक्षेपाभिप्रायमाह-कात्स्न्येनो द्धाटनमुद्धारशब्देनोच्यते । कश्चात्र विशेष इति । प्रमाणविषयं ह्यज्ञानं निर. सनीयम् । इदमपि चाज्ञानं यदानुमानिकमुच्यते । तदाह-येऽपि ह्यानुमा- निक क्रियादि ज्ञानमनानुमानिकमिच्छन्ति तेऽपि ह्यनुमानं व्यमिचारयन्त्येव लो. कप्रसिद्धादनुमानरूपादनुमानं व्यभिचारयन्त्येव । तस्मात्तदपि नि- राकार्यम् । तस्मादत्रापि व्यभिचारनिवृत्तिरेव लक्षणाभिधानस्य प्रयोजनम् । किंच प्रमेयेऽपि संकरोऽस्ति अविवेकोऽस्ति । लोऽपि लक्षणेन निवर्त्यते 'न महानसादिषु दृष्टो धूमः पर्वतस्थमग्नि प्रतिपादयितुं क्षम इति केचित् । अन्यस्य १. एतत्कुण्डलान्तर्गतो भागः ख. पुस्तके नास्ति । २. न पुनरनुमानस्योद्धारो वक्तव्यः इति ख. पु.

. कर्मणोऽनुमेयत्वसाधनम् ] ऋजुनिमलोपेता। इसपरे । स्मृनिकाल्यो । तस्मात् ज्ञान सम्बन्धस्यैकदर्शनादेक- देशान्तरे ज्ञान मसनिकृष्ट इति विशिष्टि । किमनेन निराकृतम् ? स्मरणं तावनिरस्त सन्निकृष्ट इति वचनात् । अप्रतिपत्तिरपि निर. स्तैव, बुध्युत्पादवचनात् । सम्बन्धावगमादिति विशेषावगतिरपि निरस्तैव । ननु च न बुध्युत्पादवचनमात्रात् प्रमाणता शक्यते वक्तुम् । शुक्तिकादिषु व्यभिचारात् । असम्बन्धस्य तु दर्शनं सम्बन्धाभिधा. नादेव प्रत्युक्तम् । सम्बन्धावगमे च पूर्वानुभवो दुर्निवारः । अहोग्न- याविवेकिनो(१)महान् प्रमादः । किं पूर्वदृष्टस्यानुभवो न सम्भवति । अनुभूतिश्च न प्रमाणम् । अन्या च स्मृतिरन्योऽनुभवः । सत्यं सम्बन्धे गृहीतेऽन्यस्यागमकत्वात् विशेषा एवावगम्यन्त इत्यपरे । मान्यतो दृष्टस्य सम्बन्धग्रहणाभावेनानुपपत्तेः । स्मृतिमात्रमित्यन्ये । सम्बन्धिव्याप्तिग्रहणेन गृहीतत्वात् । यस्मादेवं संकरोऽस्ति तस्मात् ज्ञातसम्बन्धस्यैकदेशस्येत्येकदेशं विशिनष्टि । एकदेशान्तरेऽसनिकृष्ट इत्ये. कदेशान्तरंविशिनष्टि । किमनेन विशेषणेन निराकृतम् ! स्मरणं तावदसन्निकृष्ट इति निरस्तम् । असन्निकृष्टतया ह्येकदेशान्तरे प्रतीयते । अप्रतिपत्तिरीप निरस्तव बुध्युत्पादवचनात् बुद्धिशब्देन लक्षणगतेन । न चाज्ञातसम्बन्धस्य गमः कत्वं सामान्येनोपलक्षितानां सम्बन्धज्ञानात् । सम्बन्धावगमादिति विशे- षावगतिरपि निरस्तैव । सम्बन्धग्रहणस्य सामान्यतो विशेषतश्च सम्भवा- द्विशेषावगतिरेवानुमानेनेति निरस्तम् । अत्राह-ननु न बुड्युत्पादमात्रात्प्रमाणता शक्यते वक्तुम् , शुक्तिकारजतादिषु स्मृति. रूपासु व्यभिचारात् । अथ मा भूत्स्मृतिरिति सम्बन्धज्ञानापह्नवः क्रियते। तत्राह-असम्बन्धस्य तु दर्शनं(१)सम्बन्धाभिधानादेव(२)निरस्तम् । सम्बन्धावगमे च प्र- तिसम्बन्धितया पूर्वानुभवोऽग्न्यादीनां दुर्निवारः। अहोऽविवेकिनो महान् प्रमादः यस्मादेवमुच्यते । किं पूर्वस्यानुभूतस्यानुभवो न सभवति ! यदा हि यत्पूर्वानुः भूतं तत्र च यदि पुनरनुभवो न सम्भवेत् तदा स्मरणमात्रमेवेदं भवेत् । अस्ति धारावाहिकादिष्वप्यनुभूतिः । अनुभूतिश्च न प्रमाणं धारावाहिकवि. ज्ञानान्तरवत् । नन्वत्र सम्बन्धस्मरणे सम्बन्धितयाऽग्निः स्मर्यत एव, तत्राह-अन्या च स्मृतिरन्योऽनुभवः । तदेवाह-सत्यं सम्बन्धस्य दर्शनादि स्मृतिधूमे. १. सम्बन्धावगमाभिधानादेव इति ख. पु. । २. प्रत्युक्तम् इति मूलपाठः ।

[अ.३.पा.१.सू.५. सम्बन्धस्य दर्शनादि स्मृतिः । सम्बन्ध्यन्तरे त्वनुभव एव । ततश्चा- (१)संशयं पुनः पुनदृश्यमानं दृश्यत एवेति लौकिका व्यपदिश. न्ति, न पर्यत इति । (२)सिद्धं चानुमानादिषु प्रमाणत्वमनुभूतेः । कि तासनिकृष्ट इति ? स्मरणाभिमानशून्य इत्यर्थः। सनिकृष्टावमर्श हि स्मरणमेव मन्यन्ते । ननु च स्मृतिप्रमोषतुल्यतैवं प्राप्नोति । न; कारणान्तरस्य विद्यमानत्वाल्लिङ्गादेः । न ह्यत्र पूर्वानुभूतिरेव कारणम् । तत्र हि प्रमोषः स्मृतिविपर्यये हेतुः । इह तु लिङ्गादि प्रत्युत्पन्नं कारणम- ऽग्निसम्बन्धितया। सम्बन्ध्यन्तरेऽग्न्याख्ये त्वनुभव एव । स इत्यप्रतीतेः। यतश्च पूर्वानुभूतेऽप्यनुभवो भवति । ततश्चासन्नं पुनःपुनर्दृश्यमानं दृश्यत एवेति लौकिका व्यपदिशन्ति, न स्मर्यत इति । अतः सिद्धमनुमानादिषु प्रमाणत्वमनुभूतेः । एतेन ये कालातिरेकेण प्रामाण्यं धारावाहिकेम्वाहुः ते निराकृताः । क्षणभेदस्यावेद्यत्वात् । येऽपि तत्र तदाद्यदर्शनमव प्रमाणमिति बौद्धा आहुः तेऽपि सर्वेषां तुल्यत्वेन निराकृताः । (३)किमिदं तपसन्निकृष्ट इति स्मरणाभिमानशून्यत्वादित्यर्थः । असन्निकृष्टत्वेन गृह्यते, तेन स्मरणाभिमानो नास्ति । (४)संनिकृष्टावमर्श हि स्मरणमेवेति मन्यन्ते । न वात्र संनिकृष्टावम #ऽस्ति । तस्मान्नेदं स्मरणम् । ननु च स्मृतिप्रमोषतुल्यतैवं प्राप्नोति । गृहीतविषयत्वात, गृहीतत्वाननुस न्धानाञ्च । न ; कारणान्तरस्य विद्यमानत्वाल्लिङ्गादेः । अयमाशयः-पूर्वानुभवोपजी वि विज्ञानं स्मरणम् । तच्च तदुपजीवित्वं प्रतिभासतो वा, स घट इत्या. दावनुभूतत्वस्य विद्यमानत्वात् । कार्यतो वा, रजतादि प्रतीतेरन्यथा भा. वात् । अनुमानस्य लिङ्गाद्येव कारणमस्तीति पूर्वानुभवोपजीवित्वं नास्ति। अतः (१)प्रमाणमेवेदं न स्मरणम् । तदाह-न ह्यत्र पूर्वानुभूतिरेव कारणं यथा रजतादिप्रतीतेः। ननु(६) रजतादिप्रतीतेः कथं स्मृतित्वम ? ग्रहणबुद्धेरि. त्यत्राह-तत्र हि प्रमोषः स्मरामीत्यंशस्य खण्डनं स्मृतिविपर्यये ग्रहणाभिमाने हेतुः । नन्वत्रापि प्रमोषनिबन्धनः प्रमाणाभिमानः किं न भवतीत्यत्राह- इह तु लिङ्गादि प्रत्युत्पन्नं कारणमस्तीति । कार्यान्यथानुपपत्या हि स्मृतिरूपता १. आसन्नं इति व्याख्यानपाठः । २. अतस्सिद्धमनुमानादिषु इति व्याख्यानपाठः । ३. अत्र मूलव्याख्ययोः पाठे भेदोऽस्ति । ४. सन्निकृष्टावमर्शनं हि इति ख. पु.। ५. प्रमाणान्तर, इति ख. पु. । ६. रजतादिबुद्धेः इति ख. पु. । ७ शब्दप्रमाणनिरूपणम् ] मजुधिमलोपेला । स्तीति सिद्धं प्रामाण्यम् । तस्माइनानि यत्प्रमाणं न तव्यभिः चरतीति वक्तव्यम् , उक्तं च ॥ इदयुपमानादिष्वपि योज्यम् । (१)शास्त्रं शब्दाविज्ञानाद सन्निकृष्टेऽथै विज्ञानम् । किमि- दं शब्दविज्ञानादिति ? किं शब्दाद्विज्ञानं शब्दविज्ञानम् ? शब्द एव वा विज्ञानं शब्द विज्ञानम् ? यदि तावच्छब्दे विज्ञानं शब्दालम्बनमि- त्यर्थः, तदयुक्तम् । न तस्माच्छासनमवगम्यते । शासनाद्धि शास्त्रम् । अथ शब्दाघदर्थे विज्ञानमुत्पद्यले तच्छब्द विज्ञानम् । तत्र वि. शेषावगतौ कारणं वक्तव्यम् , तदुक्तं च शास्त्रमिति । शास्त्रं हि शास. नात् । तच्चाविषय एव विज्ञान उपपद्यते, न शब्दविषये । द्विती- प्रतीत्यनारूढापि कल्प्यते । इह तु कारणान्तरमस्तीति सिद्धं प्रामाण्य. मिति । अननोपसंहारः-यस्मादेवं व्यभिचारसम्भवोऽनुमाने तस्मादत्रापि यत्प्रमाणं न तवभिचरतीति वक्तव्यम् , उक्तं च भाष्यकारेण ॥ इदमुपमानादिष्वपि योज्यम् । तत्रापि स्वरूपविप्रतिपत्तिरेव ब्यभिचारः लक्षणाभिधानेन चाव्यभिचार उक्तः। शास्त्रं शब्दविज्ञानादसनिकृष्टेऽर्थे विज्ञानम्। किमिदं शब्दविज्ञानादिति ? किं शब्दा- द्विज्ञानमर्थविषयं शब्दविज्ञानमभिमतम् ? उत शब्दे विज्ञान शब्दविज्ञानम् । यदि तावच्छब्दे विज्ञानं शब्दविज्ञान शब्दालम्बनमित्यर्थः । तत्रानन्तरपक्षे दोषमाह- तदयुक्तम्, न तस्माच्छासनमवगम्यते । प्रेरणं च शासनम् , यतश्च शासनमः वगम्यते तच्छास्त्रम् । शासनाच्छास्त्रमिति लौकिकव्युत्पत्तेः । न च शब्दाल- म्बनाद्विज्ञानाच्छासनावगतिः । किन्तु कार्यावगतिः । कार्यावगमाद्धि प्रे- रणावगमः। तस्माच्छब्दालम्बनात् विज्ञानादर्थ विज्ञानं शास्त्रमिति लक्षणमयुक्तम् । अथ शब्दाद्यदर्थे विज्ञानमुत्पद्यते तच्छब्दविज्ञानं कार्यविज्ञानम् । तस्मादस. निकृष्टेऽर्थे प्रेरणायां यविज्ञानं तच्छास्त्रमिति । सत्यमेवमुपपद्यते लक्ष. णम् । किन्तु विशेषावगतौ कारणं वक्तव्यम् व्युत्पत्तिविशेषावगमे पञ्चमीस. मासपरिग्रहे कारणं वाच्यम, सप्तमीसमासस्यापि सम्भवातू । अत्र परि- हरति-(२)तदुक्तं च शास्त्रमिति । उक्तं च विशेषावगतौ कारणं शास्त्रमि- ति । लक्ष्यानुरूपं हि लक्षणवर्णनम् । इह तु शास्त्रं लक्ष्यते तेन तदनुरूपं लक्षणं वक्तव्यम्। सवत्वेवं, तथापि किमित्याह -शास्त्रं हि शासनात् । तच्चार्थ- १. शा. भा. पृ. ८. पं. १२. २. उक्तं च शास्त्रमिति ख. पु.। ११ बृ०३० बृहती [अ.१.पा.१.सू.५. येऽपि पक्षे तन्निमित्त त योपपत्तेः सिद्धं शास्त्रलक्षणम् । ननु च शब्दाभासमणि -एम बन्ध्या सुतो यातीत्येवमादि। तदपि शब्दादेवावगम्यते । न हि बाष्पादितुल्यं किञ्चित्कारणा- न्तरअनोपल भामहे । परिहतमेतत् तच्चत्प्रत्ययिता दिति । लक्षणाभिधानेन चायमेव व्याभिचारो निरस्तः । (१)"उपमानमाणि साहच्या सान्निकृष्टेऽथै बुद्धिमुत्पा- दयलि, यथा-पचपदर्शनं गोवरण"ति ! सादृश्यमिति कि विषय एव विज्ञाने विज्ञानशब्दे पश्चापतिमासाश्रयणेन गृह्यमाण उपपद्यते न शब्दस्वरूपविषये । तस्मात्पञ्चमीलमासोऽयमिति निश्चीयते । द्वितीयेऽपि पक्षे सप्तमीसमासेऽपि कार्यज्ञानेन व्यवधानेनापि शब्दा लम्बनज्ञानस्य प्रेरणाज्ञाननिमित्ततया लक्षणस्योपपत्तेः सिद्धं शास्त्रलक्षणम् । शास्त्रग्रहणात् लक्ष्यानुरूपेण पारंपर्येण निमित्तत्वमाश्रयणीयमि- ति यावत्। ननु च शब्दाभासमपि दृष्टमेष बन्ध्यासुतो यातीत्यादि । तदपि शब्दादेव गम्यते । अनेनातिव्याप्ततया लक्षणदोषमाह-शब्दाभालेऽपि लक्षणस्य विद्यमान स्वात। तदपि हि शब्दविज्ञानादेवार्थविज्ञानम् । कुत इत्याह-न हि बाष्पादितुल्यं यथानुमानाभाले लिङ्गाभासः किंचित्कारणान्तरमत्रोपलभामहे तत्रापि शब्दतदभावभावित्वाच्छब्द एक कारणम् । अत्र समाधिः-परि. हृतमेतत् तच्चेत् प्रत्ययितादिति । (२)अस्यार्थः-पौरुषेयं वाक्यं लिङ्गभूतं प्रमाणान्तरोपस्थापनमुखनार्थ (३)प्रतिपादयति । ततश्च लिङ्गाभासोत्थ मेतदिति तत्प्रत्ययितादिति भाष्ये व्याख्यातम् । लक्षणाभिधानेन चायमेव व्यभिचारो निरस्तः। पौरुषेयवाक्यलमुत्थानमपि ज्ञानं शाब्दमिति ये म. न्यन्ते तेऽपि निरस्ताः । तद्ध्यनुमानमित्युक्तम् । उपमानमपि सादृश्यमसन्निकृष्टेर्थे बुद्धिमुत्पादयति, यथा-मवयदर्शनं गास्मरणस्येति। अत्र वदन्ति-सादृश्यं नाम न किंचिदस्ति द्रव्यगुणकर्मसामान्यविशे. पातिरिक्तं तदन्तर्भूतं वा। तेषां सनव्हे अपठितत्वादिति पदार्थविदः । अत्रोच्यते-सादृश्यमिति किं सादृश्यम् ? अस्यार्थः-सादृश्यमिति यत्र ज्ञान त. त्सादृश्यम् । अस्ति चेदं ज्ञानम् , तन्निबन्धना च विषयव्यवस्था। तेन ज्ञानबलेन गुणादिव्यतिरिक्तं नदन्तर्निवेशि वा सादृश्यमभ्युपगमनी १. शा. भा. पृ. ८. पं. १३. २. अयमर्थः इति ख. पु. । ३. प्रतिपादनाय तत्तल्लिङ्गाभासोत्थमिति क. पु. ।

ISSUESTI उपमानलक्षणम् ] जाकिमलोपता। ८३ सादृश्यम् ? गोस्मरणरूया । ननु च ज्ञानसम्बन्धिता तुल्या । सा चात्र लक्षणम् । तत्र बान्या बेलि शेव पाइन्छ । एक- देशदर्शनादिति हि तन्त्र लक्षणम् । ज्ञातसम्बन्धस्योति विशेषणम् । अतो गक्ष्यस्थं सादृश्यं न सहशावगरेकदेशः । किं च असकृदृदृष्टसम्बन्धो ह्यनुमानस्य हेतुः, असजातीय- व्यावृत्तिसव्यपेक्षश्च । द्वयमन्त्र नास्ति प्रमाणान्तरम् । यम् । गोस्मरणस्येति भाग्यमयुक्तम् । न हि स्मरणस्य बुद्धिरुत्पद्य- ते। तत्राह-गोस्मरणस्येति । अनुभूतयोः पुरुषस्येत्यर्थः । गोस्मरणस्ये. ति गवि स्मरणं यस्येति बहुव्रीहिर्वा । गाः स्मरतीति वा कतरि(१)"न. न्द्यादिभ्यो ल्युः" इति ल्युस्मरणात । गोः स्मरणो गोस्मरण इति ष. ष्ठीसमासः । किं पुनरत्रानुमानाद्विशिष्यते ? अत्रापि हि सादृश्यं ज्ञात- सम्बन्धमेव मवये दृष्टं गवि ज्ञानमुत्पादयति । गोसादृश्यं हि गवयव. र्ति गोवर्तिना गवयस्ता दृश्येन ज्ञातसाहचर्यसम्बन्धः । अयमेव विशे. षो धूमादिभिः-यद्भिन्नधर्मिधर्मभूतो गम्यगमकः, अनुमानं हि धूमा दिहि यत्र दृष्टस्तत्र ज्ञानमुत्पादयति । एतच्चैकदेशान्तर इत्यत्रान्तर शब्देनोक्तम् । सादृश्यं त्वन्यत्र । ननु च ज्ञातसम्बन्धिता तुल्या सादृश्यस्य धूमादेश्च । सा चात्रानुमानेऽपि लक्ष- णम् । तत्र वान्यत्र वेति क्वेदमुपयुज्यते ? बाढमुपयुज्यते (भृशमुपयुज्यते) एकदेश. दर्शनादिति हि तत्र लक्षणं एकदेशस्य प्रधानत्वात् । ज्ञातसम्बन्धस्येत्येकदेशवि- शेषणम् । उपसंहराति-अतो गवयस्थं सादृश्यं गोरेकदेशभूतं न संभवति । किंभूतस्य गोः ? सदृशावगतेः सदृश इत्यवगतिर्यवेत्यर्थः । पक्षीभूतस्य जिज्ञासितधर्मिण इति यावत् । किञ्च असकृदृष्टसम्बन्धो ह्यनुमानस्य हेतुः । निरुपाधिकत्वेन सम्बन्धिनि गृ. हीते हेतुता । निरुपाधिकत्वं चानेकदर्शनगम्यमित्युक्तम् । सादृश्यं तु न ज्ञातसम्बन्धम् , प्रथमदर्शनेऽपि विज्ञानोत्पत्तेः। तथाऽल दर्शना. काङ्गापि नास्ति, सकदर्शनेऽपि गमकत्वात् । असजातीयव्यावृत्तिसव्यपेक्ष. श्व असजातीयेभ्योऽनग्निभ्यो या धूमस्य व्यावृत्तिः तदपेक्षश्च । तदाह वार्तिककारः- यावञ्चाव्यतिरेकत्वं स ांशेनापि(१)शक्यते । १. नन्दिग्रहिवचादिभ्यो ल्युणिन्यचः” ( पा.सू.३.१.१३४ ) इत्येतत्सूत्रस्याकारः, अत्र त्वर्थानुवाद इति द्रष्टव्यम् । .. - बृहती [ अ.१.पा.१.सू.५. किं पुनरत्र व्यभिचारदर्शनम् यानित्यर्थमिद अक्षणम् । कि- अन्यदतः सहशामालात् । अत्र सामान्यमेव कश्चित् सादृश्यमुक्तम् , न तत् सादृश्यम् । किं तर्हि ? अन्यदेव हि तत् , गोत्वादेरेकत्वात् । ननु चात्र प्रमेयमेव नास्तीति केचिन्मन्यन्ते । तदयुक्तम् , अनुभूतमपि कारणान्त रावगम्यं प्रमेयमेवेत्युक्तम् । (१) अर्थापत्तिरपिदृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना,यथा-जीवतो देवदत्तस्य गृहाभाव दर्शनेन विपक्षस्य कुतस्तावद्धतोर्गमकताबलमिति ॥ अत्र त्वसजातीयव्यावृत्ति पेक्ष्यते इतीदं प्रमाणान्तरमुपमानम् । किं पुनरत्र व्यभिचारदर्शनम् ? यन्निवृत्यर्थमिदं लक्षणम् । किमन्यदतः सदृशाभा. सात व्यभिचारदर्शनम् । लदृशाभाले हि सदृश इति यत् ज्ञानं तदुपमानं न भवतीति दर्शितम् , तस्य सादृश्यानुपपत्तेः । न हि यो येन सदृशो न भवति स तेन सदृश इति, यथा-पलालकूटं दृष्ट्वा एतत्सदृशो ह. स्तीति ज्ञानं सहशाभासविषय इति । उक्तं तावत्सादृश्यज्ञानग्राह्य सादृश्यमस्तीति । इदानीं कि सामा. न्यमेव उतान्यदिति विवेक्तुं परमतमुपन्यस्यति-अत्र सामान्यमेक कैश्चि. त्सादृश्यमुक्तं सामान्यमेव गुणावयवकर्मत्वादिकंधय॑न्तरगतं ज्ञायमानं सा. दृश्यमुक्तं सामान्यानि च भूयासिगुणावयवकर्मणां भिन्नप्रधान(२)लामा. न्यव्यक्तं सादृश्यमुच्यत इति । तत्राह-न तत्सादृश्यं सादृश्यं भिन्नं अन्यदेव हि गवि गवये सादृश्यं, अन्यञ्च गवये गोसादृश्यम्। (३)गुणत्वादिकं तु तदेव तद्धय॑न्तरे गोत्वादेरेकत्वात् । कर्णत्वादेरपि तदविशेषादेकत्वमेव । ननु चात्र प्रमेयमेव नास्ति । पूर्व हि येन गौईष्टस्तस्य गोसादृश्यं गवये प्रतिभाति । तस्य च दृष्टगोः पुरुषस्य किमपरं प्रमेयमस्तीति केचिमन्य- न्ते, तत्राह-तदयुक्तं, अनुभूतमपि कारणान्तरावगम्यं प्रमेयमेवेत्युक्तमनुमाने । इह पुनरननुभूतमेव गवि गवयसादृश्यं कारणान्तरेण गवयगतगोसाह. श्येन सम्प्रति दृश्यमानेनानुभूयत इति सुतरां प्रामाण्यं युक्तम् । उप. मानस्वरूपं तु सादृश्यात् दृश्यमानाधप्रतियोगिनि जायते सादृश्य- विषयं ज्ञानमुपमानं तदुच्यते । अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना, यथा-जीवतो देवद- १. शा. भा. पृ. ८. पं. १४. २. सामान्यमुक्तं इति क० पु. ३. कर्णत्वादिकं इति ख० पुरू अर्थापत्तिनिरूपणम् ] ऋजुविमलोपेता। ८५ D बहिर्भावस्थादृष्टस्य कल्पना । केयमन्यथानुपपत्तिरिति ? यदि तावदस्यानेन विना सद्भावो नोपपद्यते इति । तदेवेदं कार्यतः कार- णानुमानुमुपन्यस्तं न प्रमाणान्तरम् । अथेदमुच्यते-ज्ञातसम्बन्धस्ये. त्यनुमानलक्षणं, अज्ञातश्चात्र सम्बन्धः, तस्मात् प्रमाणान्तरमिति, तदयुक्तम् । कथमज्ञातः सम्बन्धः शक्यते (१)वक्तुम्-अयमनेन विना नोपपद्यत इति । न ह्यन्यथानुपपत्तिः प्रत्यक्षसमधिगम्या। कार्याव्य- भिचारसमधिगम्या हि सा । अव्यभिचारश्चासकृद्दर्शनपूर्वकः । दत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनेति व्याख्येयम्। केयमन्यथानुपपत्ति- नर्नामेत्यादिना अनुमानान्तर्गतत्वेनार्थापत्तेः (२)पृथग्रहणं न कार्यमित्याह- यदि तावदस्य सद्भावोऽनेन विना नोपपद्यत इति, तदा तदेवेदं कार्यतः कारणानुमानमुप- न्यस्तं न प्रमाणान्तरम् । अन्यथाशब्देन हि प्रकृतप्रकारव्यतिरिक्त प्रकारान्तरवाचिना (३)कल्प्याभाव उक्तः। नोपपद्यते इत्यनेनापि नास्ति- त्वम् । तेनायमर्थः सम्पद्यते-कल्प्याभावेऽयमर्थों नास्तीत्यवगम्यार्था- न्तरकल्पनेति । तथा च कार्यतः कारणानुमानमिदं प्राप्तम् । कार्यमपि हि कारणेन विना नोपपद्यत इत्यवगतं सर्वत्र कारणमनुमापयति । अ. थेदमुच्यते-ज्ञातसम्बन्धस्येत्यनुमानलक्षणं अज्ञातश्चात्र सम्बन्धः तस्मात्प्रमाणान्तरमिति । अयमाशयः--यद्यप्यन्यथानुपपत्तिस्तुल्या, तथापि सम्बन्धज्ञानासम्भ- वादननुमानत्वमिति । तदयुक्तम् , कथमज्ञातसम्बन्धः शक्यतेऽवगंतुमयमनेन विना नोपपद्यत इति। कस्मान्न शक्यत इत्याह-न ह्यन्यथानुपपत्तिः प्रत्यक्षसमधिगम्येति । यदि ह्यन्यथानुपपत्तिः प्रत्यक्षेणावगम्यते तदा सम्बन्धज्ञानं विनाप्य- सौ निश्चीयते । न चासौ प्रत्यक्षसमाधिगम्या। न चेद वाच्यम्-अन्यथानुपपत्तिरनिश्चितैवावगामिकेति । यतो भाग्य. कारेणोक्तम्-अन्यथा नोपपद्यत इति । इति शब्दश्च ज्ञाननिर्देशप्रधानो लोके दृष्टः । न चानिश्चितायामनुपपत्तौ विशिष्टावगमकारणमस्ति । तस्माना- वगतैवानुपपत्तिः कारणम् , किन्तु कार्याव्यभिचारसमाधगम्या हि सा। कार्यस्य हि कारणाव्यभिचारणेदं समधिगम्यते-कार्य कारणेन विना नोपपद्यत इति । अव्यभिचारश्वासकृद्दर्शनपूर्वकः । असकृदर्शनेन हि कार्यस्य स्वाभा. विकः कारणसम्बन्धो निश्चीयते । स्वाभाविककारणसम्बन्धनिश्चय- २. पृथक् करण, इति. ख० पु. १. अवगन्तुमिति भाष्यानुसारी पाठः । ३. कल्प्याभावादुक्तं इति. क. पु.

८६ वृहती [ अ.१.पा.१.सू.५. . तस्मात् दृष्टमदृष्टं वा ज्ञातसम्बन्धमेवावगम्यतेऽन्यथानुपपत्या। अतः प्रमाणान्तरं मृगतृष्णिकैवेति । सत्यं यदि यद्येन विना नोपपद्यते तदेवावगमकं स्यात् । इह तु यन्नोपपद्यते तदेवावगम्यम् । किञ्चात्र नोपपद्यते ? जीवतो गृहाभा. वदर्शनादन्यत्राभावो नोपपद्यते । ततः किम् ? नात्रामावस्य गम्य- श्चाव्यभिचारनिश्चयः । तस्मादृष्टमदृष्टं वा ज्ञातसम्बन्धमेवावगम्यतेऽन्यथानुपपत्त्या । अतो दृष्टं स्वलक्षणतो दृष्टं सान्यतो दृष्टं तज्ज्ञातसम्बन्धमेव तदन्यथा. नुपपत्त्यान्यथानुपपद्यमानत्वेन विज्ञायते ! न पुनरज्ञातसम्बन्धमपीति । अतो ज्ञातसम्बन्धादर्थादियमवगतिरनुमानमेवेति प्रमाणान्तरं मृगष्णिकैवेति। सत्यं यदि योन विना नोपपद्यते तदेवावगमकं स्यात् । अस्यार्थः-यस्य येना- नुपपत्तिः यदि तत्तस्यावगमकं स्यात् तदानुमानमिदं भवेत् । इह तु यन्नो- पपद्यत्ते तदेवावगम्यम् । एवं सिद्धान्तिनोक्ते पूर्वपक्षी ब्रूते-किंचात्र नोपपद्यते । जीवतो गृहाभावदर्शनादन्यत्राभावो नोपपद्यत इत्येकग्रन्थेन । जीवतो हि गृहा. भावे दृष्टेऽन्यत्राभावोऽनुपपन्नः, जीवनाभावप्रसङ्गात् । ततः किमिति पृष्टे स्वाशयमाविष्करोति-नात्राभावस्य गम्यता । कस्य तर्हि ? भावस्य । न चासौ गृहाभावदर्शनेनोपपद्यत इति । बहिर्देशे भावोऽवगम्यते । तदुक्तं बहि- र्भावस्यादृष्टस्य कल्पनेति । न च तस्य गृहाभावे सत्यनुपपत्तिः । प्रत्यु- त यावदुपपत्तिरेव । यस्य चाभावस्यानुपपत्तिः न तस्य गम्यता। ते नानुपपद्यमानमेव गम्यतेऽर्थापत्येत्यघटमानम् । अथोच्येत-सत्यं गृहाभावदर्शने सत्यन्यत्र भावस्यानुपपत्तिा- स्तीति, किन्तु गृहाभावदर्शनेन विना (ऽनुपपत्तिर्भवत्येव । बहिर्भावस्य हन्यथाशब्देन बिनाशब्दार्थ एवोच्यते । तेन गृहाभावदर्शनव्यतिरे- केणानुपपत्तिर्बहिर्भावस्यति । तेन चासौ गृहाभावदर्शनेन विनोपप. द्यते। योऽपि हि देवदत्तादेBहाभावं न पश्यति तस्यापि बहिर्भावमात्र दर्शनेऽनुपपत्तिप्रतिभासो नास्ति । तस्मादयमपि हि प्रकारो नोपपद्यते। बाढं नोपपद्यत इति सिद्धान्ती वदति । अत्रेदमाकूतम्-नात्र गृहाभावदर्शने- न विनाऽनुपपत्तिरुच्यते, किन्तु गृहाभावदर्शनेन विना बहिर्भावो नो. पपद्यत इति । तेन गृहाभावदर्शनं बहिर्देशसम्बन्धेऽनवगते भावस्या. नुपपत्तो कारणम् । अनुपपत्तिश्च प्रमाणान्तरविरोधः। गृहाभावदर्श ने सत्यवनबगते बहिर्देशसम्बन्धे प्रमाणप्रतीतमपि जीवनं कथमिह ( ) एतत्कुण्डलान्तर्गतो भागो नास्ति ख. पु.

अनुमानतोऽर्थापत्तेर्भेदः ] ऋजुनिमलोपेता। ता। कस्य तर्हि ? भावस्य । न चासौ यहाभावदर्शनेनोपपद्यते। बादं नोपपद्यते । न हि गृहाभारदर्शनेन विना बहिर्भाव उपपद्यते । ननु च दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यते इति गमकस्था. न्यथानुपपद्यमानता दर्शयति । अग्रन्थज्ञो देवानां प्रियः । दृष्टः श्रु. तो वाऽर्थोऽर्थकल्पना : किमिदमर्थकल्पनेति ?! दृष्टः श्रुतो वार्थोऽ. र्थान्तरस्य प्रमाणमित्यर्थः । अन्यथा नोपपद्यत इति केन सम्बध्य. ते? प्रमित्येति वदामः। अन्यथानुपपद्यमानत्वमापादयनान्तरं (मत्र). गमयति । किमत्र ज्ञातसम्बन्धिता नैवापेक्ष्यते ? अपेक्ष्यते हि स. . नास्ति जीवति वेति संशयमान बहिर्देशसम्बन्धितयाऽवगम्य. ते। अतोऽत्र स एवानुपपन्नो भावस्स एवावगम्यत इति सिद्धम् । न हि गृहाभावदर्शनेन विना बहिर्भाव उपपद्यत इति । गृहाभाघदर्शनेन बहिबिना. भावो नोपपद्यत इति ग्रन्थार्थः । बाढशब्देन चानुपपत्तिरतिशये. नेत्युक्तम् । ननु च दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इति गमकस्यान्यथानुपपद्यमानतां दर्शय- ति। न गम्यस्य। दृष्टोऽर्थोऽन्यथा नोपपद्यत इति सम्बन्धःप्रतिभातीत्य. भिप्रायः । अग्रन्थज्ञो देवानां प्रिय इति । आक्रोशे षष्ट्या अलुक् । आक्रोशे देवानां प्रिय इत्यस्योपसंख्यानं कर्तव्यमिति । परमार्थ दर्शयति-दृष्ट- श्रुतो वार्थोऽर्थकल्पनेति । किमिदमर्थकल्पनाते । सामानाधिकरण्यं नोपपद्यत इत्यर्थः । दृष्टः श्रुतो वाऽर्थोऽर्थान्तरस्य प्रमाणमित्यर्थः। कल्पनाशब्दोऽत्र प्रमिति- पर इत्यभिप्रायः । अन्यथा नोपपद्यत इति केन सम्बध्यत इति । यदि दृष्टः श्रुतो वेत्यनेन न सम्बन्धः केन तहि सम्बध्यत इति । प्रमित्येति वदामः । येयम- पत्तिसंशिका प्रमितिः, तया सम्बध्यत इति बदामः । तत्र वचन. व्यक्तिमाह-अन्यथानुपपद्यमानतामापादयन्नर्थान्तरं गमयतीति । अन्यथा कल्प्य. स्याकल्पनायामनवगते बहिस्सम्ब म्बन्धेऽनुपपद्यमानतां प्रमाणान्तरविरो. धमापादयन् गृहाभावो बहिर्भावं अर्थान्तरं गमयतीति । किमत्र ज्ञातस. म्बन्धिता नैवापेक्ष्यते। अनेन पुनरप्याशङ्कते । अस्यार्थः-यावजीवनं देशे- न नित्यसम्बद्धमिति नावगतं तावद्गृहाभावदर्शनेन बहिर्भावमा नववुध्यमानस्यापि नानुपपत्तिः । तेन सम्बन्धिज्ञानापेक्षित्वादनुमान- मेवेदम् । अपेक्ष्यते हि सम्बन्धमात्रज्ञानं, न तु सम्बन्धिता। सत्यं जीवनस्य दे. शेन सह सम्बन्धोऽपेक्ष्यते । न पुनर्गमकस्य गृहाभावस्य बहिर्भावेन बृहती [अ.१. पा.१.सू.५. म्बन्धमात्रज्ञानम्, न तु सम्बन्धिला । अनुमाने तु ज्ञातसम्बन्ध- स्येति षष्ठया सम्बन्धितैवागमिकेत्युक्तम् । न सम्बन्धमात्रज्ञानम् । दृष्टः श्रुतो वेति दर्शनश्रवणोपन्यासः किं कारणान्तरव्युदासाय (१)सम्बन्धिता । अतोऽर्थापत्तौ जीवनस्य देशेन सह सम्बन्धमात्र ज्ञान(२ मवगमकमिष्यते । अनुमाने तु ज्ञातसम्बन्धस्येति षष्ठ्या सम्बन्धितैवावग- मिकेत्युक्तम् । ज्ञातः सम्बन्धो यस्येति विग्रहवाक्यगतया षष्ठया सम्ब न्धिन एवैकदेशस्य दृश्यमानस्य गमकत्वम् । तेन यस्य जीवनस्य देशेन सम्बन्धोऽवगतः तस्य गमकत्वं नास्ति । यस्य च गमकत्वं त. स्य सम्बन्धज्ञानापेक्षा नास्तीति लिद्धं प्रमाणान्तरम् । अत्र श्लो. का भवन्ति। बिना कल्पनयार्थेन तया नानुपपन्नताम् । अर्थान्तरं कल्प्यते यत्तदर्थापत्तिगोचरः ।। अभावेन गृहेऽभावो बहिः कल्पनया विना । न तयानुपपन्नत्वं(३)कल्पनातो बहिर्यथा ॥ गम्यस्थानुपपन्नत्वमिह कल्पनया विना । मानान्तरविरोधेन सन्देहापत्तिलक्षणम् ॥ देशेन हि विना भावो न कदाचन दृश्यते । गृहाभावेन सिद्धोऽपि तेन सन्देहमृच्छति ॥ तत्संदेहव्युदासाय कल्पना या प्रवर्तते । सन्देहापादकादर्थादर्थापत्तिरसौ स्मृता ।। गमकस्यानुमाने तु विवक्षा सत्वलक्षणम् । गम्यतेऽनुपपन्नत्वं विना गम्येन(४)वस्तुना ॥ तत्सामग्रीविभेदेन भिन्ने एते परस्परम् । अर्थापत्त्यनुमानाख्ये प्रमाणे इति निश्चितम् ॥ दृष्टः श्रुतो वेति दर्शनश्रवणोपन्यासः किं कारणान्तर(स्य)प्रमाणान्तर(स्थ) व्युदा- साय ? दृष्टग्रहणेन प्रत्यक्षपरिच्छिन्नो गृह्यते, श्रुतग्रहणेन तु शब्दावगतः। यदि तु दृष्टग्रहणेनोपलब्ध उच्यते । श्रुतग्रहणमति. रिच्येत तस्मात्प्रमाणद्वयपरिग्रहाय परप्रमाणव्युदासाय च दृष्टः श्रुतो वेत्युक्तमिति पूर्वपक्षवाद्येवावेदयति । ततश्च प्रमाणान्तरपूर्विका. पत्तिन संगृहीतेति दूषणं हृदि स्थितम् । सिद्धान्ती त्वाह-नेति वदाम इति । १. सह सम्बन्धिना इति. क. पु०। २.अवगत्यङ्गं इति ख• पु० । ३. कल्ष्यमानः इति. ख० पु० ४. गम्येत हेतुना इति क० पु. ? .

अर्थापत्तिनिरूपणम् ] ऋजुविमलोपेता । नेति वदामः । उपलब्धोऽर्थ इत्यर्थः ! श्रुतग्रहणमिदानी किमर्थम् ? दृष्ट इत्येव वक्तव्यम् । उच्यते-आभिधानान्तरमेवेद (दृष्टश्श्शुनो बेति) न प्रमाणान्तरव्युदासाय, किं तर्हि दृष्टः श्रुतो वेति उपलब्धोऽर्थ इत्यर्थः । ततश्चोपलब्धिमात्रग्रहणादर्थात्सर्वप्रमाणसङ्ग्रहो भवतीत्यर्थः । श्रुतग्रहण- मिदानी किमर्थम् ? दृष्ट इत्येव वक्तव्यम् । दृष्टग्रहणेनैवोपलब्धवाचिना श्रुतस्यापि सहीतत्वादिति । ननु च-यद्यपि श्रुनोऽप्युपलब्ध एव तथापि श्रुतपूर्विकार्थापत्तेः प्रमाणग्राहिणीत्वेन विशेष सूचयितुं श्रुतः ग्रहणं कृतमिति । ननु श्रुतार्थापत्तावपि श्रुतो दिवाभोजनाभावो रात्रिभोजनं विना पानत्वस्यानुपपन्नत्वे सत्यनुपपद्यमानो रात्रिभोजनमेव कल्पयति, न शब्दम् । न हि शब्देन विनाऽर्थस्यानुपपत्तिः, किन्तु अर्थेनैव । सत्य- मेवम्, अर्थमेव कल्पयितुं प्रवृत्तार्थापत्तिः । तस्यार्थस्य सविकल्पकज्ञा. नग्राह्यत्वाच्छब्दपुरःसरतया प्रतीतेः शब्द एव त्ववगतोऽर्थमुत्थापयति । नन्वेवं प्रत्यक्षादिष्वपि सविकल्पकज्ञानान्यर्थ न गृह्णीयुः, किन्तु शब्द एव पर्यवस्येयुः। तिर्यगादिप्रतीतिषु शब्दशून्यास्विन्द्रियस्यार्थ एव सामर्थ्यमवधृतम् । तेन सविकल्पकदशायामपि तत्रैव भवितुमर्ह ति । नान्यत्र, शक्तिकल्पनापरीक्षयात् । श्रुतार्थापत्तिस्तु कदाचिदपि तिरश्चां नास्ति, शब्दव्युत्पत्तिनिबन्धनत्वात्तस्याः। न ह्यव्युत्पन्नः शब्द. पूर्वकं वाक्यार्थमवबुध्यते । ननु दृष्टार्थापत्तौ तावदर्थापत्तरर्थ एव सामर्थ्यमवधृतम्, अत्रापि त- थैव भवितुमर्हति । सत्यमर्थ एव सामर्थ्य दृष्टम् । किन्तूपपादकत्वेन । न ह्यर्थोऽपि स्वरूपतः प्रतीयते । किन्तूपपादकतया । तचापपादक यस्मिन्नवगतेऽनुपपत्तिः शाम्यति । शब्देऽपि साक्षादुच्चरितेऽनुपप- त्तिशान्तिर्भवतीति प्रथमोपनिपातिनि शब्द एव श्रुतार्थापत्तापा. रः। तदाह भगवान् वार्तिककारः- न चार्थनार्थ एवायं द्वितीयो गम्यते तु नः। स विकल्पकविज्ञानग्राह्यत्वात्तु तिरोहितः॥ अग्निरिन्द्रियलिङ्गाभ्यां नाग्निरित्येव गृह्यते । तथा चात्मनवायं तिर्यग्भिरपि दृश्यते । श्रुतार्थापत्तिबोधस्तु तिरश्चां न कदाचन ॥ शब्दव्युत्पत्तिजा ह्यषा श्रुतार्थापत्तिधीमता। शब्दान्तराणां बुद्ध्याऽसौ नार्थमेवाधिगच्छति ॥ १२ बु० ऋ० ९० वृहती [अ.१.पा.१.सू.५. . तेनै नियतं तावत्प्रथम वाक्यगोचरा। बाक्यमेव तु वाक्यार्थ मृत्तस्वाद्मयिष्यतीति ।। तदेतत् टीकाकारो भगवान मुख्याते, यथागुरुदर्शनं किञ्चिदुच्या ते-सविकल्पकविज्ञानेषु शब्दोऽर्थावच्छेदकरूपः प्रतीयेत वाचकतया च शब्दोऽर्थमवच्छिनत्ति । तेन गौरिति ज्ञाने बोशब्दवाच्योऽयमित्ये. वमर्थः परिगृह्यते । न च शब्दवाच्यतां शब्दो वक्ति । तेनार्थस्याप्रति पादकोऽस्मिन् विषये शब्दः । किन्तु वृद्धव्यवहारावगतया पाचकत. या वाच्यं विशिष्ट(१)ल भवति । तेनासावर्थानुपस्थापकत्वात्प्रथमभा व्यपि नानुपपत्तिं शमयितुमलमिति नापत्तिप्रमेयतामनुभवितुमर्हती. ति । तेनार्थविषयैवेयमपीति विशेष प्रदर्शनार्थमपि श्रुतग्रहणं न भवति । ये तु शब्द एव विश्वजिदादिष्वपरिपूर्णत्वादनुपपन्न इति मन्यन्ते, तेन तदुपपादकः परिपूरकश्शब्द एव कल्प्यत इति वदन्ति, ते स्वमनी षिकाकल्पनया विक्लवं भाषमाणा उपेक्षामहन्तोऽपि बालेराहता इति बालजनपरिबोधनाय किञ्चिदुच्यते-का तावदिह शब्दस्यानुपपत्तिरर्थाः नुपपत्त्यतिरेकिणी ? अपरिपूर्णता चेत् , का पुनः शब्दस्यापरिपूर्णता ? अर्थ एव हि केन चिदर्थभागेन विनाऽपरिपूर्णो भवति । अर्थापरिपूतः शब्दोऽप्यपरिपूर्ण इति चेत्, भवत्वेवम् । यन्निबन्धना हि तस्यानुपप- त्तिः तस्यैव त पपत्तिरङ्गीकरणीया। अन्यथा तदवस्थैव शब्दस्या परिपूर्णता स्यात् । तस्मादपरिपूर्णत्वेऽपि शब्दस्यार्थ एव कल्पनीयः । न चार्थानुपपत्तौ शब्दस्यानुपपत्तिः, भिन्नत्वाच्छब्दार्थयोः । अथोच्योत-अर्थानुपपत्तौ प्रमेयाभावे शब्दस्य प्रमाणताऽप्यनुपः पन्नैवेति । एवमपि प्रमाणतानुपपन्ना स्यात , न शब्दः । न च प्रमाण ता पृथगनुपपन्ना किन्तु अर्थानुपपत्त्यैव । एवं चेन्मूलभूतार्थानुपपत्ति रेवार्थापत्त्युपस्थापिकाऽस्तु । अपि च प्रमाणतापि केन चिदर्थेन वि. ना प्रमेयाभावशङ्कयानुपपन्ना न शब्दाभावेन, येन शब्दं कल्पयदि- त्यलमतिविचारेण दूरमन्तरिता वयम् , प्रकृतमनुसरामः । अत्रोत्तरम्-अभिधानान्तरमेवेदमुपलव्धेर्वाचकम् । अस्यार्थः-दृष्टशब्दमात्रे ण न सर्वपरिग्रहः, किन्तु श्रुतशब्दसहितेन, तेन श्रुतग्रहणं नानर्थकम् । कथं पुनः श्रुतग्रहणस(र)हितेन दृष्टशब्देनोपलब्धं नोच्यते । श्रूयताम्- दृष्टशब्देन यद्यप्युपलब्धमात्रमुच्यते तथापि श्रुतशब्दसनिधानात् गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तमुच्यते । नन्वेतस्य गोबली. . १. नावभाति । इति ख. पु.

अनुपलब्धिलक्षणम् ऋजुनिमलोपेता। मुपलब्धवाचकम् ॥ (१)"अभावोऽपि प्रमाणामाको नास्तीत्यर्थस्थासनि. कृष्टस्य" । अभावोऽपि प्रमाणाभाव इति किमिदं प्रमाणलक्षणम् ? ओमित्युच्यते । किमनेन प्रमीयते ? उक्तम्-नास्तीत्यमर्थः । वर्दन्यायस्याऽऽश्रयणे किं प्रयोजनम ? उच्यते-लौकिका वयम् । लोक श्रेत्थमपि व्यवहरमाणो दृश्यते । न च लोके पर्यजुयोगावकाशोऽस्ति, अनादित्वात् । अत इदमुक्तमभिधानान्तरमेवेदं लोकप्रतीतमुपलब्धेर्वाचकमिति । अभावोऽपि प्रमाणाभावो नास्तीत्यर्थस्यासनिकृष्टस्य । अभावोऽपि प्रमाणाभाव इति किमिदं प्रमाणलक्षणमिति पूर्व पक्षवादिनः प्रश्नः ! अत्र चायम. भिप्रायः-यदि प्रमाणलक्षणमिदं तदनुपपन्नम् , प्रमेयाभावात् । अथ न प्रमाणलक्षणं, तर्हि षष्ठं प्रमाणमिांत प्रसिद्धिबाधः । तदा ग्रन्थो. ऽयमसङ्गतो निष्प्रयोजनश्चेति । आचार्यदेशीयः प्राह-ओमित्युच्यत इति । प्रमाणलक्षणमिदमङ्गीक्रियत इत्यर्थः । अयं च तत्राभिप्रायः-भूतला- दिषु घटादीनामभावस्तारत्प्रतीयते-भूतले घटो नास्तीति। न हीयं प्रतीतिर्भूतलमात्रालम्बना, सत्यपि घटे प्रसङ्गात् । न च निरालम्ब. ना, स्वयमेवालम्बनसाधनत्वात् । तेनेयमभावमेवालम्बते । न चेयमः प्रमाणम् , बाधकामावानिश्चयात्मकत्वाच्च । अत एवास्यां प्रमाणा- त्मिकायां प्रतीतौ प्रतिभासमानत्वात् प्रमेयत्वमपि तस्य युक्तम् । य. दि चाभावो न प्रतीयते भूतलादिषु चरणन्यासादिव्यवहारो न स्यात् । न ह्यसौ भूतलमात्रपरिच्छदात, कण्टकादिमत्यपि भावात्। न च के. वलभूतलग्रहणात् , अमावस्याप्रमेयत्वे कैवल्यापरिच्छेदात् । कैवल्यं हि भूतले धर्मों नाभावादन्यत् , न चान्यासंदृष्टस्वरूपमात्रग्रहणात्, सूक्ष्मकण्टकादियोगिान भूतले स्वरूपमात्रेण गृहीते प्रवृत्तिप्रसङ्गात् , प्रयत्नपूर्विकाया जिज्ञासाया अयोगात्। तथा अभावस्याप्रमेयत्वे शश. विषाणादीनामप्यनुमानं निर्बाधमालज्येत । तस्मादभावः प्रमेयः । न चेयमभावप्रतीतिः प्रत्यक्षा, अनिन्द्रियलम्प्रयोगजत्वात् । ननु च भावप्रतीतिवदिन्द्रियसम्प्रयोगानुविधायिनी कथभनिन्द्रि यजा? उच्यते-भावग्रहणपुरस्सरोऽयमभावावसायः, भावग्रहणं चेन्द्रि येणेति तद्भावभावित्वमन्यथासिद्धम् । किमत्र प्रमाणमिति चेत् ? गृही. तभावस्वरूपमात्रस्योपरतेन्द्रियव्यापारस्यापि देशान्तरगतकारणान्त. १. शा. भा. पृ. 6. पं. १० ।

बृहती [ अ.१.पा.१.सू.५. - किञ्च तनास्ति ? प्रमीयमाणस्थ्य प्रमेयता । अतश्चाप्रमितेः रोपजातजिज्ञासस्याभावप्रतिपत्तिदर्शनात् । न चन्द मनुमानमपि, सम्बन्धग्रहणानुपपत्तेः । न घगृहीते संबन्धिः नि सम्बन्धावसायः सुगमः । न चाभावस्य सम्बन्धिनो ग्रहणमस्ति । तदिदमभावाख्यं प्रमाणान्तरं भाष्येणानेन लक्षितमिति । तत्राहाऽऽचा. य:-किमनेन प्रमीयत इति । न किञ्चिदस्य प्रमेयमिति भावः। उक्तं नास्तीत्य- यमर्थ इति । नास्तीत्यस्यार्थस्यासनिकृष्टम्यत्यनेन नास्तीत्ययमर्थः प्र. मीयत इत्युक्तम , एतनिराकरोति-किञ्च तन्नास्तीति । नेदमत्र प्रतीयत इत्यर्थः । ततश्च नास्तीति यदुच्यते तदस्य प्रमेयमित्येतदापद्यते । त. था च सति यन्न प्रमीयते तत्प्रमेयमित्यप्रमीयमाणस्य प्रमेयत्वं, यञ्च न प्रमीयते न तस्य प्रमितिरस्ति । अन्यथा हि प्रमीयमाणतैव स्यात् । ततश्चाप्रमितेः प्रमाणत्वमित्यलौकिकमिव प्रतिभाति । ननु मा भूद्यन्न प्रमीयते तस्य प्रमेयत्वम्, किन्तु तस्य तु यन्नास्ति. स्वमभावशब्दवाच्यं भूतलाद्याधेकरणं तत्प्रमेयमस्त्विति , नेत्युच्यते. अप्रमीयमाणत्वमेव हि नास्तित्वं, नापरम् , । योऽपि हि पृथग्भूतम. भावमाह, तेनापि(१)भूतलस्यापि प्रमीयमाणताऽप्यङ्गीकरणीयैव । तयैव च नास्तित्वव्यवहारोपपत्तेः किमर्थान्तराभ्युपगमनेन ? न चाप्रमीयमा. गतैव प्रमेयम्,यस्मात्तदर्थासंसृष्टानुभवयुक्ततैवात्मनस्तस्यार्थस्याप्रमीय. माणता । सा चावस्थाऽऽत्मनः स्वसंविदितैव । नातः प्रमेयमवशिष्यते । किं च योऽप्यभावं प्रमाणमाह, तस्यापि तज्ज्ञानोत्पत्ती(२)तदसं. भवानुभवयोग एव कारणम्, स च न चक्षुरादिवदज्ञात एव सत्तामात्रे ण ज्ञानजनकः, यतः सम्प्रति दृश्यमानेऽपि भूतलादिषु कस्मिंश्चिदर्थे ऽसत्यपि तदनुलम्भेनासीदिदं प्रागिहेति प्रतीतिर्दश्यते । अतः सम्प्रति नास्तित्वबुद्धिः प्राक्तनादेव केवलोपलम्भादधुना स्मृतिसमारूढादुपजा- यत इति बलादभ्युपगमनीयम् । ततश्च केवलोपलम्भलक्षणमेव ना. स्तित्वमस्तु । किमर्थान्तरपरिग्रहेण? या च सा केवलोपलम्भयोगिता. ऽऽत्मनः, सा च क्वचिदर्थोपलम्भकसामग्रीवेकल्येन, क्वचिच्च साकल्येनैव, तत्र येयमभावव्यवहारं प्रवर्तयति तामेव हि ताशी दशामनुसंदधतः 'क्षितितले घटो नास्तीति व्यवहारः प्रवर्तते । न चात्रातिप्रसङ्गोऽस्ति । संयुक्तेऽप्यभावव्यवहारः स्यादिति संयुक्तोपलम्भात् केवलोपलम्भस्या- न्यत्वात् । प्रयत्नपूर्विकापि च जिज्ञासा भूतलादिषु सूक्ष्मकण्टकादिषु १. भावस्याप्रमीयमाणता इति ख- पु. २. तदसंसृष्टेति ख० पु.

RAN अनुपलब्धिनिरूपणम् ] ऋजुविमलोपेता। प्रमाणतेखलौकिकमिव प्रतिभाति । लक्षणमपि प्रमाणाभाव इति प्रमाणाभाव इत्येव लक्षयति । अस्ति चेयं प्रसिद्धि- मीमांसकानां षष्ठं किलेद प्रमाणमिति । न चास्य ग्रन्थतो लोकतश्च प्रमाणताऽवसीयते । अतो न विद्मः प्रसिद्धः किं बीजमिति । किमत्र न ज्ञायते ? ग्रन्थतस्तावत्प्रमाणाभाव एवावसीयते । ना. स्तीत्युक्ते प्रमेयस्यैवाभावं लौकिकाः प्रतिपद्यन्ते । किं तर्हानेन ल. क्षितेन ? प्रमाणावगसर्थोऽयमारम्भः। तदनुसारी शनिश्चयः कथं स्यादिति । अत एवेदमुच्यते, यस्मात्प्रमाणावगत्यर्थोऽयमार. म्भः। किमनेन पूर्वोक्तानां प्रमाणानां स्वरूपमवसीयते ? यत्पूर्वोक्तैरेव स्वलक्षणे वसीयते । सर्वलक्षणाभिधानवाक्यशेषोऽयं ग्रन्थः । विषयोपलम्भहेतुसाकल्येऽप्येषाऽवस्थेति पषितमिति काऽनुपपत्तिः ? अन्यथा हि सूक्ष्मत्वादियमवस्थाऽऽत्मन इति शङ्कया निश्शङ्को नाभाव. व्यवहारः स्यात् । अस्यामेव च प्रतिपक्षभूतायां नास्तित्वात्मिकायां सिद्धायानुमानं शशादिसम्बन्धिनां विषाणादीनां न प्रवर्तते इत्यभा. वस्य प्रमेयान्तरं नास्तीति सिद्धम् । लक्षणमपि च प्रमाणाभाव इति (१)प्रमाणं न भवतीति लक्षयति । प्रमाणाभावोऽभाव इत्युक्ते प्रमाणं न भवतीति प्रती. यते । न हि प्रमाणं प्रमाणाभाव इति शक्यते वक्तुम् , तस्मान्नेदं प्रमा. णलक्षणम् । अधुना पूर्वपक्षी ब्रूते--अस्ति चेयं प्रसिद्धिर्मीमांसकानां षष्ठं प्रमा- णमिति । न चास्य ग्रन्थतो लोकतश्च प्रमाणताऽवसीयते । अतः तस्मान विद्मः प्रसिद्धः किं बीजमिति । अनेन प्रसिद्धिविरोध दर्शयति । सिद्धान्ती त्वाह--किमत्र न ज्ञायत इति । निर्मूलापि प्रसिद्धिरस्तीति भावः । प्रन्थतस्तावत्प्रमाणाभाव एवावसीयते । नास्तीत्युक्ते प्रमेयस्याभावं लौकिकाः प्रतिपद्यन्ते । ततश्च प्राग्व्याख्यातत्वान्न पुनर्व्याख्यायन्ते । किं तानेन लक्षिते- नेति । लक्षणग्रन्थविरोधं पूर्वपक्षवाद्याह--यस्मात्प्रमाणावगत्यर्थोऽयमारम्भः त. दनुसारी प्रमाणानुसार्यर्थनिश्चयः कथं स्यादित्येवमर्थ प्रमाणलक्षणमुच्यते । यश्च प्रमाणमेव न भवति किं तेन लक्षितेनेति । अत्रोत्तरम्--अत एवेदमु. च्यते, यस्मात्प्रमाणावगत्यर्थोऽयमारम्भःप्रमाणावगमार्थ एवेदं लक्षणमित्यर्थः। किमनेन पूर्वोकानां प्रमाणानां स्वरूपमवसीयत इति प्रश्नः। यत्पूर्वोक्तैः स्वलक्षणीव- सीयत इत्युत्तरम् । यस्य रूपं पूर्वोक्कलक्षणै वसीयते तदनेनावसीयत इत्यर्थः। कथमित्याह--सर्वस्वलक्षणाभिधानवाक्यशेषोऽयं प्रन्थः । किं पुनरनेन स्वलक्ष. १. प्रमाणाभाव इत्येव लक्षयति ख० पुरु वृहती [अ.१.पा.१.सू.५. -- न झुत्पादमात्रात् ज्ञानस्याथै तस्मिन् प्रमाणस्य प्रमाणताऽवसीयते । अतः स्वलक्षणमात्राभिधानानिश्चयः । स्वरूपेण प्रमाणस्य समधिग- म्यमानत्वात् सर्वप्रमाणानाम् । तस्मात् कार्यप्रसस्तमयात् नास्तीत्यः नेन पूर्वोक्तस्यैव लक्षणस्य साधुतोच्यते । केयं तर्हि प्रसिद्धिः ? प्रसिद्धिवटयक्षप्रसिद्धिवत् । यदि पुनर्व्यवहारान्यत्वात् कारणान्यत्वं णाभिधानवाक्य शेषभूतेन ग्रन्थेन क्रियत ? इति । तत्राह--(१)ना. त्पादमात्रात् ज्ञानस्यार्थे तम्मिन् प्रमाणस्य प्रमाणताऽवसीयते न [त्पन्नं ज्ञान. मित्येतावताऽथै स्वविषये ज्ञानस्य प्रमाणभूतस्य प्रमाणताऽवसीयते, यत. स्तत्सम्प्रयोगजत्वादिके प्रतीतेऽपि न प्रमाणतावसीयते । तस्मात्कार्य समधिगम्यत्वात्सर्वकारकाणाम् , प्रमाणं हि नाम करणकारकम् । सर्व च कारकं कार्यसमधिगम्यम् । कार्य च प्रमाणस्यार्थनिश्चयार्थलक्षणम् । निश्चयश्चायमेवेति सावधारणोऽनुभवः । अवधारणं चार्थान्तराद्यव. च्छेदः । तदुक्तं तन्त्रान्तरे-- अयमेवेति यो ह्येष भावे भवति निर्णयः । न स वस्त्वन्तराभावसंवित्यनुगमादृते || इति । तत्र यदानेन ग्रन्थेन नास्तीत्यस्यासंनिकृष्टस्याप्रमीयमाणस्य यः प्रमाणाभावः सोऽभाव इत्यभावलक्षणं कृतम् । श्लोकश्चात्र भवति-- यन्नास्ति भूतलादो घटादि तस्याप्रमीयमाणस्य । योऽसौ प्रमाणविरहः प्रमाणविषयेऽपि सोऽभावः ॥ इति । तदा पूर्वोक्तनैव लक्षणेन निश्चयपर्यन्तमपि प्रमाणस्वरूपं लक्ष्यत इति ज्ञायते । यस्मादर्थान्तरव्यवच्छेदोऽप्युपलम्भकसामग्रीसाकल्ये(२) केवलं न लक्षणं तत्प्रमाणानुत्पादात्मक एव । तस्मात्कार्यप्रत्यस्तमयात्प्रमाण कार्यसंविदनुदयात्केवलोपलम्भादिति यावत् , नास्तीति व्यवहारो यस्मा- त्तस्मादनेन पुर्वोक्तस्यैव प्रमाणलक्षणस्य साधुतोच्यते । यदि हि यावदन्य एवाभावो नाम भावात्, तदा पूर्वोक्तं प्रमाणलक्षणं सर्वभेवासाधु स्यात्त. मात्रेणाभावानवगमात्तत्पुरस्सरवस्तुनिश्चयाभावादनिश्चयफलस्य प्रमा. णत्वानुपपत्तेः । अप्रमाणं च प्रमाणमिति लक्षणमा बालजल्पितमेव स्यात् । केऽयं तर्हि प्रसिद्धिरिति पुनः प्रसिद्धिप्रश्न उत्तरदानाय । प्रसिद्धि- १. न ह्युत्पादनमात्रादित्यादि इति० ख० पु० । २. केवलोपलम्भलक्षणः तत्प्रमाणानुवादात्मक एवेतिः ख• पु०। -- चित्राक्षेपग्रन्थः ऋविमलोपेता। ९५ . । मन्यन्ते किं कुर्मः ? न हि व्यवहारान्यत्वात् प्रमाणान्यत्वासद्धिः। अत: स्व लक्षणमेवेदम् । इदमेव च तल्लक्षणम् । तस्मात् प्रसिद्ध त्वादपरीक्ष्यं निमित्तम् ।। (१) प्रत्यक्षादीन्यन्यानि भवन्तु प्रमाणानि । शब्द स्तु न प्रमाणम् । कुतः १ अनिमित्तं विद्यमानोपलम्भ. नत्वात" । अनिमित्तमप्रमाणं शब्दः। यो झुपलम्भन विषयो नोपलभ्यते स नास्ति, यथा-शशस्थ विषाणम् । उपलम्भनानि चेन्द्रियाणि पश्चादीनाम् । न च पशु: कामेष्टयनन्तरं पशव उपलभ्यन्ते । अतो नेष्टिः पशुफला। वटयक्षप्रसिद्धिवदिति । व्यामोहपूर्विकेयं प्रसिद्धिरिति यावत् । यदि तावधव. हारान्यत्वात्कारणान्यत्वं मन्यन्ते तदा वयं किं कुर्मः । (२) (भावव्यवहारो विना- पि दृश्यानुपलम्भानुसन्धानेन भवति । अभावव्यवहारस्तु दृश्येऽपि तस्मिन्नर्थे केवलोपलम्भानुसन्धानादित्येतस्मादेवन व्यवहारास्यत्वात् । यदि तावत्केचिन्मीमांसकाः प्रमाणान्यत्वं मन्यन्ते ततश्च वयं किं कुर्मः। ) न हि व्यामुग्धानलङ्करुते पुरुषप्रयत्न इति तेषामुपेक्षा कार्या ।। ननु व्यवहारान्यत्वात्परमार्थ एव कस्मात्प्रमाणभेदो न भवती. त्यत्राह-न हि व्यवहारान्यत्वात् प्रमाणान्यत्वसिद्धिः । प्रमेयान्यत्वेन हि प्रमा. णान्यत्वं भवति। नहि व्यवहारान्यत्वमात्रात् प्रमेयान्यत्वमिति न प्रा. माणान्तरमिदम् । उपसंहरति-अतः (३)स्वलक्षणमेवेदं लक्षणं, तेषां प्रमाणानामे- वेदं लक्षणं (४)न स्वतन्त्रप्रमाणान्तरलक्षणम् । इदमेव च तल्लक्षणं तस्या. भावस्येदमेव लक्षणं, न पुनरन्यद्वस्तु धर्मोऽभावो नामेत्यादिकम् । यथा चान्यन्न लक्षणं, तथोक्तमिति । तस्मात्प्रीसद्धत्वादपरीक्ष्यं निमित्तमिति मूलप्र. स्ताव उपसंहृतः। प्रत्यक्षादीन्यन्यानि भवन्तु प्रमाणानि शब्दस्तु न प्रमाणम् । कुतः ? अनि. मितं विद्यामानोपलम्भनत्वात् । अनिमित्तमप्रमाणं शब्दः योऽप्युपलम्भनविषयो नोपलम्यते स नास्ति, यथा-शशस्य विषाणम् । उपलम्भनानि चेन्द्रियाणि पश्वादी. नाम् । न च पशुकामष्ट्यनन्तरं पशव उपलभ्यन्ते । अतो नेष्टिः पशुफला । प्रत्यक्षादीन्य. १. शा. भा. पृ. ८. पं १० । २. ( ) एत कुण्डलान्तगतो भागः ख० पु. नास्ति. ३. अतस्तल्लक्षण इति ख० पु० । ४, अतः स्वलक्षणमेवेदं इति क. पु. ।

बृहसी [ अ. १. पा.१.सू.५. अन. प्रत्यक्षादीन्यन्यानि भवन्तु प्रमाणानि शब्दस्तु न प्रमाणमिति कोऽ. भिप्रायः ? अयमभिप्राय:-यदुक्तमनपेक्षत्वादिति प्रमाणान्तरानव- गम्यमर्थमवगमयतीत्यतावन्मृषा । कुतः ? भविष्यश्चैषोऽर्थ इति भा. व्यतया प्रामाण्यमुक्तम् , तदत्र न सम्भवति । कथं पुनरसम्भवः ? किमनियोगकं वाक्यमस्तीति । किमत्र नियोगः करिष्यति। प्रमा. णान्तरावगम्ये हि तस्य दर्शनात् स्मृयादौ । तस्माद्विनियोगा. वगम्यमेवार्थमालोच्य विषयो वक्तव्यः। स चायं विनिश्चयोऽसौ विद्यमानोपलम्भनविषय एवोपलभ्यते "चित्रया यजेत पशुकाम" न्यानि भवन्तु प्रमाणानि शब्दस्तु न प्रमाणमिति कोऽभिप्रायः ? अस्य प्रश्नस्यायः मर्थः-शब्दादर्थविषयं विज्ञानं जायमानं कथमप्रमाणमिति । अमयभि. प्रायः-यदुक्कमनपक्षत्वादिति प्रमाणान्तरानवगम्यमर्थमवगमयतीत्येतावन्मृषा । पेक्षत्वादिति सूत्रावयवेन प्रमाणान्तरानवगम्यमर्थ शब्दोऽवगमयति प्रमापयतीति यदुक्तं तन्मृषा, कुतः ? यस्मद्भविष्यश्चैषोऽर्थ इति भाष्येण भाव्यतया कार्यतया शब्दार्थत्य कार्यस्य चानन्यप्रमाणावगम्यत्वात्स्वा. तन्त्र्यण प्रामाण्यमुक्तं तदत्र चित्राद न सम्भवति । कथं पुनरसम्भवः ? किमनियोगक (१)नियोगानभिधायकं नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगशब्दा. भिधयलिङादिरहितं वाक्यमस्ति येनासम्भवःयावता सर्वमेव सनियो गकं वाक्यम्, तथा च सति कार्याभिधायकत्वात्सम्भवत्येव प्रामाण्यम्। अत्रोत्तरम्-किमत्र नियोगो लिङादिशब्दः करिष्यति ? न स्वातन्त्र्येणार्थमव. गमयतीति यावत्। प्रमाणान्तरावगम्येऽपि परतंत्रेऽप्यर्थे तस्य लिङादेर्दर्शनात्स्मृत्या. दौ । एतदुक्तं भवति-लिङादेः परतन्त्रार्थत्वं तावदविवादम् । स्वातन्त्र्यं च न क्वचिदपि दृष्टम्। दृष्टानुसारिणी च कल्पना न्याया । तस्मात् विनियोगावग- म्यमेव परस्परान्विताभिधायिपदजातगम्यमेव । चित्रायागस्य पशुनां च योऽर्थः साध्यसाधनसम्बन्धः प्रतीयते तमालोच्य नियोगस्य लिङादे. विषयो वक्तव्यः । एतदुक्तं भवति-फलसाधनतानिबन्धनामेव कार्यतां यागस्य लिङादिर्वदतीति । एवं खल्वभ्युपगम्यमाने शब्दस्वातन्त्र्यमदृष्टं न कल्पित भविष्यति । पारतंत्र्यं च दृष्टं न परित्यक्त भविष्यति । किश्च सचाय विनियोगान्वयाभिधायि पदजातात्मको विद्यमानोपलम्भन विषय एव विद्यमानमुपलब्धिकारणं प्रमाणान्तरम् । यस्य यागेन सह पशु- १. नियोगाभिधायकतया नियुज्यतेऽनेन इति ख० पुऽ । .

, काशी संस्कृतसीरीज़ । द्याचार्यतरत्नन्यायरत्न गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः। (न्या० वि० ७) रु० २-० प्रौढमनोरमा । म. म. श्रीमट्टोजीदीक्षितविरचिता तत्पौत्र म. म. श्रीहरिदीक्षितविरचितलघुशब्दरत्नाख्यव्याख्ययासमेता। म. म. पण्डितश्रीभैरवमिश्रविरचितशब्दरत्नव्याख्यया युक्ता । श्रीयुतभाण्डारीत्युपामाधवशास्त्रिविरचित प्रभानामकटि प्पण्या समलता। श्रीयुतजगन्नाथशास्त्रिविरचितयाव्य- यीभावस्य शब्दरत्नप्रदीपकनामकटीप्पण्याऽलङकृता (अव्य. यीभावान्तःप्रथमो भागः) (व्याकरण वि०९) रु. ५--- आपस्तम्बगृह्यसूत्रम्। श्रीहरदत्तप्रणीतयाऽनाकुलाख्ययाव्याख्यया, श्रीसुदर्शनाचार्यप्रणीतया तात्पर्यदर्शनाख्यया व्याख्यया च समलङ्कृतम्, पृथक् सूत्रपाठेन, पाठभेदेन, मीमांसापदार्थवि. वरणेन च संयोजितम्। ( कर्म वि०५) रु० ४-० नाट्यशास्त्रम् । भरतमुनिप्रणीतम् ( सम्पूर्णम् ) साहित्योपाध्याय एम.ए. इत्यादिपदवीभाजा पण्डित बटुकनाथ शर्मणा तथा साहित्यशास्त्रि एम.ए. पदवीभृता पण्डित बलदेवोपाध्यायेन च सम्पादितम्। ( नाट्यशास्त्र वि० १) रु०५-० काव्यालङ्कारः । श्रीभामहाचार्येण विनिर्मितः । काशीविश्ववि. द्यालयाध्यापकाभ्यां पण्डित बटुकनाथ शर्मा हित्योपाध्यायः तथा पण्डित बलदेव उपाध्याय एम० ए० साहित्यशास्त्री इत्येताभ्यां भुमिकादिभिः समलङ्कत्य सम्पा दितः, काशी विश्वविद्यालयोपकुलपतिपदं विभुषयद्भिः श्री. मदाचार्यप्रवरैः आनन्दशङ्कर ध्रुव महोदयैः लिखितेन प्राक्- कशनेन सनाथीकतः । (अलङ्कार वि० २) रु.२-८ ब्रह्मवादः । गोस्वामि श्रीहरिरायजी महाराज विरचितः । श्री. गोपालकृष्णभट्ट विरचित विवरणाख्यव्याख्यासमलङ्कतः । तथा गोस्वामी श्रीब्रजनाथविरचितो ब्रह्मवादः । तथा शुद्धा. द्वैतपरिष्कारः श्रीमद्रामकृष्णभट्ट विरचितः । श्रीरघुनाथ. शास्त्रि विरचित शुद्धाद्वैतपरिष्कारतात्पर्यम् । श्रीहरि- शङ्कर शास्त्रि-वेदान्तविशारदेन विस्तृत् भूमिकया विवि. धपरिशिष्टे षानुवादेन टिप्पण्यादिना च समलङ्कतः । (शुद्धाद्वैतसम्प्रदाय वि० १) रु० १-० प्रेमरसायनम् । श्रीविश्वनाथपण्डितरचितम् ( का०वि०८) रु०१-० व्याप्तिपञ्चकरहस्यम् सिंहव्याघ्रलक्षणरहस्यं च । श्रीमथुरानाथ- तर्कवागीशकृतम् । न्यायाचार्य पं. शिवदत्तमिश्र विरचित गंगानिर्झरिणीच्याख्यया टिप्पण्यादि विभूषितं च । (न्या० वि० ८ ) रु० ०-१२ एम० ए० सा.

६ - ऋतम्। रु०२- - काशीसंस्कृतसारीज़ । ६५ सिद्धान्तबिन्दुः । श्रीमधुसूदनसरस्वती विरचितः। श्रीभगवान् शङ्कराचार्य विरचित दशश्लोकव्याख्यारूपः श्रीगौड ब्रह्मा. नन्दविरचित न्यायरत्नावली-नारायणतीर्थ विरचित व्याख्या टिप्पणीसहितः। ( वेदान्त वि०८) रु०५- ६६ अन्त्यकर्मदीपकः आशौचकालनिर्णयसहितः । प्रेतकर्मब्रह्मीभूतय तिकर्मनिरूपणात्मकः । महामहोपाध्याय पं० श्री नित्यानन्द. पन्तपर्वतीय विरचितः। (कर्मकाण्ड वि०६) रु०१- ६७ सांख्यदर्शनम् । श्रीमद्विज्ञानभिक्षुक्त सांख्यप्रवचनभाप्यसमल (सांख्य वि०१) रु. २- ६८ अनेकार्थसङ्कहो नाम कोशः । आचार्यश्रीहेमचन्द्रेण विरचितः । (कोश वि०२) ६९ शिशुपालवधम् । श्रीमन्नाघकविनिर्मितं श्रीवल्लभदेवकृतया सन्देहविषौषधिव्याख्यया महामहोपाध्याय श्रीमल्लिनाथकृतया सर्वकषाव्याख्यया समेतम् । ( सम्पूर्णम् ) रु०३- ६९ (संपूर्णम् ) रफ मोटा कागज रु०२- ७० व्याप्तिपञ्चकम् सिंहव्याघ्रलक्षणं च श्रीजगदीशतर्कालङ्कार- कृतम् । न्यायाचार्य पं० शिवदत्तमिश्र विरचित गंगानिरि णीव्याख्यया टिप्पण्यादि विभूषितं च । (न्याय वि०९) रु० -- ७१-१ ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूत्र्यन्त पूर्णानन्दीय व्याख्या सहितया श्रीगोविन्दानन्द प्रणीतया रत्नप्रभया समन्वितम्। द्वितीयाध्यायस्य द्वितीयपादान्तो प्रथमोभागः रु०२-- ७१-२ ब्रह्मसूत्रशाङ्करभाष्यम् । रत्नप्रभया सहितम् । द्वितीयाध्यायस्य द्वितीयपादान्ताश्चतुर्थाध्याय पर्यन्तः द्वितीयोभागः। (यन्त्रस्थ ७२-१ सिद्धान्तशिरोमणिः । श्रीभास्कराचार्य विरचितः । गणि. ताध्यायः वासनाभाप्य सहितः । ज्योतिषाचार्य म. म. श्रीक्ष्मवापूदेवशास्त्रिकृटिप्पणी सहितः । (ज्यो० वि०४)२- ७२-२ सिद्धान्तशिरोमणिः। गोलाध्यायः वासनाभाष्य सहितः । ज्योतिषाचार्य म. म. श्रीक्ष्मद्वापूदेवशास्त्रिकृतटिप्पणी सहितः । (ज्यो०वि०४) २- ७३ काकचण्डीश्वरकल्पतन्त्रम्। पण्डित रामकृष्ण शर्मणा सम्पा दितम् । पण्डित बटुकनाथ शर्मा एम. ए. साहित्योपाध्याय इत्येतेन लिखितया प्रस्तावनया सनाथीकृतम्। (आयुर्वेद शास्त्रविभागे १) जयकृष्णदास-हरिदासगुप्तः, चौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस गोगालमन्दिर के उत्तर चटक बनारस मिटी। Im " " रु० -

Brihati-1

Author
Prabhakarmishar
Title
Brihati-1
File name
Brihati-1
Text
OCR done
Citation
1929
Published
2006/01/14
Publisher
Vidya Vilas Press Banaras
Language
Sanskrit
Pages
98
Classification
Literature
DLI number
486732
Barcode
1990010094448.00
Scanning centre
IIIT, Allahabad
Rights
In Public Domain
VMLT id
6r1yMT9hXpq
Download PDF

Brihati-1