Carnegie Mellon University

Shrauthartha Sangraha

Anubhavandaachar^ya · 2006/04/7

PDF Proofread

Front matter

No text on this page.

श्रोत्रिदण्डिग्रन्थमालायाः श्री समान
वेदान्तविषयक प्रथम पुष्पम्
भाष्यकारजगद्गुरुश्रीरामा नन्दाचार्याय नमः
पीठनामकधीअनुभवानन्दद्वारपीठसंस्थापकाचार्य
द्गुरुश्रीअनुमवानन्दाचार्यप्रणोतः
श्रीतार्थसंग्रहः

श्रीकोसलेन्द्रविहारिणे नमः । भूमिका वैदिकतत्त्वजिज्ञासुओंके आरम्भिकज्ञानोपयोगी धौतार्थसंग्रह नामक वेदान्त के लधु प्रमेय-प्रबन्धको प्रकाशित करते हुए मुझे परम हर्ष हो रहा है। इस प्रबन्धके रचयिता श्रीअनुभवानन्दद्वारपीठ नामकौरामानन्दपीठाचार्य अगद्गुरु श्रीअनुभवानन्दाचार्य जी है। श्रुति स्मृत तथा श्रीसम्प्रदायाचार्यों के वचनों से प्रमाणित यह प्रबन्ध श्रीरामानन्दवेदान्त में प्रविष्ट हो वाले के लिए सरल वेदान्त- मार्गोपदेशक है । साथमें उक्त द्वारपीठाचार्य जो कृन श्रीरामन्द्रविशतिनामक स्तोत्र और श्रीगीतार्थसुधा भी प्रकाशित हैं। श्रीगीतार्थसुबामें श्रीमद्भगवद्गीताके प्रत्येक अध्यायका सार स्त्रग्धराछन्दोंमें वर्णित है । यह यथा नाम तथा गुण- वाली है । साथमें प्रतिपक्षिभयङ्कर जगदगुरु श्रीयानन्दाचार्य सिद्धशिरोमणिकृत प्रमाणदीपिका नामक प्रबन्ध भी प्रकाशित है जो प्रमाणज्ञान का अतिलघु किन्तु भतिउपयोगी है। आशा करता हूँ मेरे इस प्रशनसे तत्त्वजिज्ञासुओं को पूर्ण सहायता मिलेगी। गुरुपूर्णिमा सं. २०३९ वि. । स्वामी श्रीरामेश्वरानन्दाचार्य साहित्यरत्न नव्यव्याकरण श्रीरामानन्दवेदान्ताचार्य श्रीरामानन्दपोठ (शेषमठ शोंगड़ा सौराष्ट्र) --

महामहोपाध्याय जगदविजयी स्वामी श्री स्वृधगचायजीनामरी
आविर्भाव :- विक्रम संवत १९४३ आश्वन शुक्ल विजयाददाम
निरोभाव :- विक्रम संवत २००७ मात्र गुस्ल वसन्नांचा

No text on this page.

पश्चिमाम्नाय-श्रीरामानन्द-पीठ-श्रीशेषमठाधीश- जगदगुरु-श्रीरामानन्दाचार्य-योगिराज- स्वामि-श्रीरामप्रपन्नाचार्य-दर्शनकमरीजी महाराज श्री कोसलेन्द्रमठ अहमदाबाद-७ श्री शंषमठ (विश्राम द्वारका) शींगडा (सौराष्ट्र)

No text on this page.

जगद्गुरुश्रीत्रिदण्डिग्रन्थमालायाः श्रीरामानन्द- वेदान्तविषयकं प्रथमं पुष्पम् । प्रस्थानत्रयान्दभाष्यकारजगद्गुरुश्रारामानन्दाचार्याय नमः श्रीरामानन्दपीठनामकश्रोअनुभवानन्दद्वारपोठसंस्थापकाचार्य- जगद्गुरुश्रीअनुभवानन्दाचार्यप्रणीतः श्रौतार्थसंग्रहः SA जगद्गुरु श्रीअनुभवानन्दाचार्यजी اعلالحاحال - संशोधकः- महामहोपाध्याय स्वामी श्री रघुवरावार्य वेदान्तकेसरी श्रीरामानन्दपीठ (शेषमठ शोंगडा) प्रकाशक:- स्वामी श्री रामेश्वरानन्दाचार्य सा. र. व्या. रामानन्दवेदान्ताचार्य श्री रामानन्दपोठ-शेषमठ विश्रामद्वारिका-शोंगड़ा पोरवन्दर (सौराष्ट्र) ५० पैसे प्रति ५०० आवृत्ति द्वितीय सर्वाधिकारसुरक्षित सन् १९७३ ई० मुद्रक- श्रीरामानन्द प्रिंटिंग प्रेस कांकरिया रोड अहमदाबाद-२२ श्रीसीतारामाभ्यां नमः । आनन्दभाष्यकारश्रीरामानन्दाचार्याय नमः । श्रीअनुभवानन्दद्वारपीठसंस्थापकजगद्गुरु श्रोअनुभवनन्दाचार्यप्रणीतः श्रौतार्थसंग्रहः वन्दे सीतापति सीतां मारुतिं च महामतिम् । आनन्दभाष्यकृद्रामानन्दाचार्य यतीश्वरम् ॥१॥ नत्वाऽहं स्वगुरुं भावानन्दाचार्य जगद्गुरुम् । श्रौततत्त्वावबोधाय कुर्वे श्रौतार्थसंग्रहम् ॥२॥ "सर्वे वेदा यत्पदमामनन्ति" इति “रामपदेनासौ परब्रह्मा- भिधीयते” इत्यादिश्रुतिप्रामाण्यात् परब्रह्मपदाभिधेयः सर्वेश्वरः श्रीराम एव मुख्यं श्रौतं तत्त्वम् । मोक्षावाप्त्यर्थ तज्ज्ञानमेव मुमुक्षुभिः सम्पा- दनीय "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतिप्रामाण्यात् । स च भगवांश्छारामः सर्वदा चिदचिद्विशिष्ट एवावतेष्ठते । तथा चाहुराचार्यसार्वभौमा श्रीराघवानन्दाचार्याः श्रीराघवेन्द्रमङ्गलमालायाम्- 'चिदचिद्भ्यां विशिष्टाय शिष्टपक्षसुरक्षिणे। सच्चिदानन्दरूपाय राघवेन्द्राय मङ्गलम् ॥१॥ इति वेदान्तरहस्यमार्तण्डभाष्येप्युक्तम्- "बोधायनवृत्तिकारभगवत्पुरुषोत्तमाचार्यबोधायनप्रशिष्यैराचार्य- चक्रचूडामणिभिः श्रीसदानन्दाचार्यैरप्युक्त' वेदान्तसारस्तवे- - - "चिताऽचिता विशिष्टाय सूक्ष्मयाऽसूक्ष्मयाथ च । कारणकार्यरूपाय श्रीरामाय नमो नमः ॥" इति ॥" चिदाचतोः श्रीरामस्य विशेषणत्वं तु “य आत्मनि तिष्ठन्ना- त्मनोऽन्तरो यमात्मा न वेद यस्यास्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः" "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यम- यति स त आत्माऽन्तर्याम्यमृतः" इत्यादिश्रुतिनिचयप्रतिपादिततच्छरी- रत्वादेव । निगदितं चैतदुपेयोपायदर्पणे जगद्गुरुभिः श्रीश्रुतानन्दा- चार्य :-"ईशस्य देहरूपत्वात् प्रकारौ कथितावुभौ । उभाभ्यां च विशिष्टो हि सर्वेशो रघुनायकः ॥” इति । सिद्धान्तविजयिभिः श्रीश्रि- यानन्दाचार्यैरप्युदितं-"प्रमिताक्षरासारे-तनुत्वेन श्रुतो जीवो ब्रह्मणो हि विशेषणम्" (प्र. सा. २।३।२२) "तनुत्वात् तत् प्रकार- त्वेनाचितो ब्रह्मणोऽशता" (प्र. ३।२।९) इति । भगवद्रामानन्दा- चार्य आचार्यसार्वभौमोऽप्याह-"चिदचिद्वस्तुशरीरतया तत्प्रकार ब्रह्मैव सर्वदा सर्वशब्दाभिधेयम् ।" (आनन्दभाष्य २।१।१४) शरीरं तु चेतनं प्रत्याधेयं विधेयं शेषभूतं चापृथसिद्धं द्रव्यम् । तथा हि-भाष्यम्-"प्राणशरीरः"-सर्वेषां प्राणानां धारकः “यस्य प्राणः शरीरम्" इति श्रुत्या प्राणस्य शरीरत्वनिर्देशादाधेयत्वविधेयत्वाङ्गत्वादय- स्तस्मिन् फलन्ति । लोकेऽपि शरीरपदेनाधेयत्वादय एव गृह्यन्त इति तान्येव शरीरपदबोध्यानोति ।" (आनन्दभाष्य १।२।२) इति ।

Maracae पतेन चिदचिदीश्वरश्चेति त्रय एव श्रीताः पदार्था इत्युक्तं भवति । तथा हि श्रुतिः-"क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः” इति । उक्त च सदाचार्य सुरेन्द्रः श्रीराघवानन्दाचार्य : श्रौत- तत्त्वसमुच्चये-'भोक्ता भोग्यं प्रेरितार च मत्त्वे" त्यादिश्रुतिप्रामाण्या- चिदांचीश्वरश्चेति त्रीण्येव श्रौतानि तत्त्वानीति ।" इति । १-अथ चिद्रूपार्थनिरूपणम् तत्र चित्पदवाथ्यो जीवः । स चाणुचेतनो विशेषणानुक्तावोश्वरे विशेष्यानुक्तौ प्रकृतिकार्येऽतिव्याप्तिात उभयोपादानम् । चेननो नाम ज्ञानाश्रयो जानामोतिप्रतीते 'बर्बोद्धा कर्ते' तिश्रुतेश्च । "एष द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” (प्रश्न०५१९) इतिश्रुतिप्रंण्याज्ञानाश्रयोऽपि जीवः । सिद्धान्ते ज्ञानरूपतयाऽङ्गीकृतोऽत एव स ईश्वरवत् प्रत्यक्षदवाच्यः । यः स्वस्मै स्वयमेव प्रकाशते स प्रत्यक् । एक्कारेण नित्यविभूतिधर्ममूत- ज्ञानयोावृत्तिः । जीवस्य स्वरूपभूतं ज्ञानं धर्मिभूतज्ञानत्वेन तदाश्रितं तद्गुणभूतं च ज्ञानं धर्मभूतज्ञानत्वेनाभिधीयते "सुखमहमस्वाप्समि" तिप्रतीत्या. जीवः स्वयम्प्रकाशो ज्ञानत्वाद् धर्मभूतज्ञानवदित्यनुमानाच्च जीवे स्वप्रकाशत्वसिद्धिः । जीवात्मनो नित्यत्वम् । स च जीवो नित्यः “न जायते म्रियते वा विपश्चित्" "नित्यो निन्यानां चेतनश्चेतनानामि' त्यादिश्रुतेः । जीवस्य जन्ममरणाव- स्थाऽवाप्तिशङ्का तु देहसंयोगवियोगावादाय समावेया। जीवस्यानि- त्यत्वे तु कृतविप्रणाशाकृताभ्युपगमो दोषौ भवेतामिति नित्यत्वमेवाभ्यु- पगन्तव्यं तस्य ।

६ "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमि"ति श्रुतिविरोधस्तु न शङ्कनीयः, सिद्धान्ते सृष्टेः प्राङ् नामरूपविभागानहचिदचिद्विशिष्टस्यै- कस्य ब्रह्मणः स्वीकारात् । अत उक्तमेतच्छृतेरानन्दभाष्ये भगवद्भिः श्रीरामानन्दाचार्यैः-"यद्यप्ययं सच्छब्दो विशेष्यलक्षणपरमात्मबोधकस्त- थापि कारणविषयत्वसामर्थ्यात् कारणताप्रयोजकगुणविशिष्टप्रकृतिपुरु- षकालशरीरकं परमात्मानमेव समुपस्थापयति ।" (छादोग्यानन्दभाष्य ६।२।१) इति । इदं प्रत्यक्षादिप्रमाणेन परिदृश्यमानं जगद् विभक्त- नामरूपं बहुत्वावस्थं सृष्टेः पूर्व निमितान्तररहितमविभक्तनामरूपतया एक सच्छब्दशब्दितं ब्रह्मलक्षणमेवाभवदिति ।" (छान्दोग्यानन्दभाष्य ६।२।१) इति च । जीवात्मनोऽणुत्वम् "एषोऽणुरात्मा चेतसा वेदितव्यः" "बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्याय कल्पते ॥" आराममात्रो ह्यवरोऽपि दृष्टः ।" इत्यादिश्रुतिप्रामाण्यादणुपरिमाणो- ऽयं जीवात्मा । स्थूलदेहमपहाय सूक्ष्मदेहोपादानकाले सकलस्यावकाशाभा- वात् स्वरूपशैथिल्यप्रसङ्गाद्धेय एव सर्वथा जीवमध्यमपरिमाणवादः । ननु सङ्कोचविकाशावङ्गीकृत्य स्थूलसूक्ष्मजीवानां क्रमात् सूक्ष्मस्थूलदेह- प्रवेशस्योपपन्नत्वेन समीचीन एव जीवमध्यमपरिणामवाद इति चेन्न, तथात्वे जीवानां सावयवत्वेनानित्यत्वापत्तः । ननु शरीरव्यापिसुखदुःखाद्युपलब्धये सुदूरदेशेऽपि जीवादृष्टप्रयुक्त- जीवभोग्यपदार्थोत्पत्तये जीवविभुत्वमेवाङ्गीकर्तव्यमिति चेन्न, तथात्वे जीवोत्क्रान्त्यादिप्रतिपादकश्रुतिव्याकोपप्रसङ्गात् । तथा चाहुर्ब्रह्मसूत्रकारा भगवन्तो बादरायणाः-'उक्रान्तिगत्यागतीनाम् ' (ब्र०स०२।३।२१) व्याख्यातञ्चैतत् पारमाणे सूत्रञ्चैवमेवानन्दभाष्यकारैर्भगवद्भिः श्रीरामा- नन्दाचार्य : श्रीसम्प्रदायप्रधानाचार्य स्वभाष्ये । तथा हि- "आत्मनः सर्वगतत्वं निराकरोति" उत्क्रान्तोत्यादिना । ताभ्य इत्यनुवर्तते। नायमात्मा सर्वगतः किन्त्वणुरेव । उत्क्रान्तिगन्यागतीनाम् । आत्मो- त्क्रान्तितद्गतितया गतिश्रुतिभ्य इत्यर्थः । “तेन प्रद्योतेनैष आत्मा निष्क्रामति" (ब.६।४।२)"ये वै के चास्मान् लोकान् प्रयान्त चन्द्रमम- मेव ते सर्वे गच्छन्ति" (कौषीतको १।२) "तम्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे" (ब.६१४२) इत्यादिगत्यागत्युत्क्रान्तिश्रुतिभ्य आत्मनः सर्वगतत्वं नोपपद्यते किन्त्वणुत्वमेव । सर्वगतम्य विभोर्गेनिश्चागतिश्च नोपपद्यते । तस्मादात्मनोऽणुत्वमेव ।" (आनन्दभाष्य २।३।२१)इति । घटोपाधिकाक शबच्छ्रुत्यननुमतस्यान्तःकरणोपाधिकचैतन्यान्मक- जीवस्य गत्यादिस्वीकारे तु "अथैष मम्प्रसादाऽस्माच्छगरात् ममु- त्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” इत्यादि श्रनिवि- रोधोऽनिवार्य एव । तस्मादपुपरिमाण एव जीवः । गृहकोणस्थितस्यापि दीपस्य स्वप्रभया गृहस्य सवैप्रदेशे व्या- प्तिरिवाणुपरिमाणकस्यापि जीवस्य स्वधर्मभूतज्ञानद्वारा देहस्य सर्वप्रदेशे व्याप्तिरस्त्यतो न काचिदनुपपत्तिः शरीरब्यापिसुखाद्यपलब्धौ ! एवं जीवादृष्टमपि सर्वव्यापीश्वरेच्छाऽनर्थान्तरमेव । अत एवोक्तमाचार्य- ८ सार्वभौमैः श्रीद्वारानन्दाचार्य :-'दैवाभिधास्ति जीवानां पूर्वकर्मफल- प्रदा । यस्येच्छा सदसद्रूपा रामचद्रं नमामि तम् ॥" (श्रीराम- चन्द्रदशकम्) इति । अतो दूरदेशेऽपि अदृष्टप्रयुक्ततत्तज्जीवभोग्यपदा- र्थोत्पत्तिरप्यनुपपत्तिशून्यैवेति ध्येयम् । कर्तृत्वम् "एष द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः" (प्रश्नोपनिषद् ५।६) इति श्रुत्या बोद्धेत्येवंरू- पेण ज्ञानाश्रयत्ववत् कर्त्तत्येवंरूपेण कर्तृत्वाश्रयत्वमपि प्रतिपादितं जीवा- त्मनोऽतस्तस्याकर्तत्वापादनं श्रुतिविरुद्धमेव । अत एवोक्तं जगद्- गुरुभिः श्रीचिदानन्दाचार्य श्चिदात्मप्रबोधे–'अकर्ता विभु थवा मध्य- मानो न वा ज्ञानशून्यो जड़ो दुःखरूपः । अणुब्रह्मणोंऽशः शरीर च शेषः परं रामचन्द्रस्य दासश्चिदात्मा ।। इति । सूत्रितं च ब्रह्मसूत्रकारैर्भगवद्भिर्बादरायणैः-'कर्ता शास्त्रार्थव- त्वात्' (अ.सू.२।३।३४) इति । व्याख्यातं चैतत् प्रमिताक्षरावृत्त्या- ख्ये श्रीबोधायनवृत्तिसारे जगद्गुरुभिः श्रोदेवानन्दाचार्यैः । तथा हि -"आत्मा कर्ता" । न तु प्रकृतिः । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिशास्त्राणामप्रवृत्तस्य पुरुषस्य प्रवर्तकबोधोत्पादनद्वारा प्रवृत्त्यु- त्पादनेनार्थवत्त्वात् । अन्तःकरणस्य प्रवर्त्यत्वस्वीकारे तु तस्याचेतन- त्वेन प्रवर्तकबोधोत्पादनासम्भवाच्छास्त्रवैफल्यमनिवार्यमेव ।" (बोधा- यनवृत्तिसारः) इति । जीवकर्तृत्वं च न जीवायत्तं किन्तु परमात्माऽऽयत्तमेव । ऊचु- ३च 'परात्त तच्छ्रते' रित्येतत्सूत्रभाष्य आनन्दभाष्यकारा आचार्य- सार्वभौमा भगवन्तः श्रीरामानन्दाचार्या:-''तु शब्दः पूर्वपक्षत्र्यावृ- त्यर्थः । तज्जीवस्य कर्तृत्वं पराज्जीवान्तर्यामिण परमा-मन एव भवति । कुतः? तच्छु तेः । 'अन्नः प्रविष्टः शास्ता जनानां सर्वान्मा" (त०- आ० ३।११।१०) 'य आत्मानमन्तगे यमयति" बृ० ३७१२२) "एष ह्येवैनं साधुकर्म कारयति तं यमन्वानुनेषत्येष एवैनमसाधु कर्म कारयति तं यमेन्यो लोकेन्यो नुनुत्मते" (कौषी० ३।९) इति तस्य जीवकर्तृत्वस्य परमायत्तत्वश्रुतेः । तस्माज्जीवकर्तृत्वं परमपुरु- पायत्तमेव । (आनन्दभाष्य २।३।४१) इति । कर्तृत्वप्रतिपादनाद् भोक्तृत्वमपि प्रतिपादितं भवति जीवानाम् । देहादिभ्यो वैलक्षण्यम् जीवश्च न देहेन्द्रियप्राणबुद्धिस्वरूप: 'मम देहः' 'मम चक्षुरा- दीनीन्द्रियाणि' 'मम प्राणाः' 'मम बुद्धेि' श्चेत्यादिप्रतीतेः । ऊचुश्च श्रौततत्त्वसमुच्चये भगवन्तः श्रीराघवानन्दाचार्या:- “स च 'यस्यात्मा शरीरमि' तिश्रुतिप्रामाण्यादोश्वरशरीररूपोऽपि न पाश्चभौतिकस्वशरोर- रूपोऽहमित्युपलभ्यमानत्वात्, "मम पाञ्चभौतिकं शरीरम्' इति शरीरात् पृथक्त्वेनोपलभ्यमानत्वात् "न जायते म्रियते वा विपश्चित्" " "नित्यो नित्यानां चेतनश्चेतनानाम्" इत्यादिश्रुतिभिर्नित्यत्वेन प्रतिपादित- त्वाच्च । इन्द्रियप्राणबुद्धिवैलक्षण्यमप्यनयैव रीत्या बोध्यम् । अत एवोक्तं जगद्गुरुश्रीश्रुतानन्दाचार्य:- -"सुखाश्चाणुचिजज्ञातृरूपोऽस्ति जीवः परब्रह्मणोंशस्तनुनित्यशेषः । -

न देहेन्द्रियप्राणबुद्धिस्वरूपो
विकारी जडो ब्रह्मरूपोऽपि नैव" इति।।
उक्तञ्च बोधायनमतादर्शाख्यायां सहस्रश्लोक्यां जगद्गुरु-
श्रीश्रुतानन्दाचार्यप्रशिष्यैर्जगद्गुरुश्रीपूर्णानन्दाचार्यः सिद्धान्त-
सार्वभौमः
"स्थूलश्चाहं हि गच्छामि" प्रत्ययाच्चेतनस्तनुः ।
मृते देहे तु चैतन्यं प्राणनिर्गमनान्न हि ॥ ८७७ ॥
इति चेन्न वरं चैतद्, बिकल्पासहता यतः ।
देहस्यावयवे तच्चैकस्मिन् सर्वेषु वाऽस्ति हि ॥ ८७८ ॥
नाद्यः प्रतीयते यस्माच्चैतन्यमितरत्र च ।
बहुचेतनवत्त्वं स्यादन्त्ये चैकतनावथ ॥ ८७९ ॥
उच्छेदो व्यवहारस्य वैमत्ये तु मिथो भवेत् ।
हस्ताद्यन्यतमोच्छेदे स्मृतेश्चानुपपन्नता ॥ ८८० ॥
संघातरूपवत्त्वान्न त्वात्मा तनुर्यथा घटः ।
देहस्यानात्मता सिद्धा चेत्येवमनुमानतः ॥ ८८१ ॥
"मम देहः" प्रतीतेश्च नात्मता मन्यते तनोः ।
अनित्यत्वाज्जडत्वाच्च शरीरस्यात्मता न हि ॥ ८८२ ।।
इन्द्रियस्य न चात्मत्वं "ममेन्द्रियं" प्रतीतितः ।
जोवत्वं न च नेत्रादेस्तच्छून्ये जीव्यते यतः ।। ८८३ ।।
"मन एव मनुष्याणां कारणं बन्धमोक्षयोः।"
भोगोपकरणं चैव तस्मादात्मा मनो न हि ॥ ८८४॥

"मम प्राणः' प्रतितेश्च प्राणस्य चात्मता न हि ।
"प्राणोऽम्मी"तिश्रुतौ चोक्तः प्राणदेही परेश्वरः॥ ८८५ ॥
"अहं जानामि" चेत्यत्राहमर्थस्यात्मता खलु ।
तम्य धमैतया ज्ञाने जाते सा न कथञ्चन ।। ८८६ ॥ इति ।
जवाउच “ममैवांशो जीवलोके जीवभूतः सनातनः" इति
भगवद्वचनप्रामाण्याद् विशिष्टस्य विशेषणवद् ब्रह्मणोंशभूनाः ।
जीवानां मिथो भेदः
अनन्ताः परस्परभिन्नाश्च जीवाः । अन्यथा 'नित्यो नित्यानाम्'
'न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः
सर्वे वयमतः परम् ।' इत्यादिश्रुतिस्मृतिव्याकोपः प्रसज्येत । जोवाना-
मैक्य एकः मुख्यपरो दुःखी केचिद् बद्धा केचिच्च मुक्ता इत्यादिव्यव-
स्था च न स्याद् अत एवोक्तमानन्दभाष्यकारैभर्गवद्भिः श्रीरामानन्दा-
चार्ययतिसार्वभौमैर्गीताभाष्ये-
'किचात्मनां भेदाभावे गुरुशिष्यव्यवस्थामङ्गोऽपि स्यात् । एवं
शिष्यतया कञ्चन शिक्षणीयमुपलभ्यानुपलभ्यतया वोपदिशल्याचार्यः ?
आधे स्वस्माद् भिन्नमभिन्नं वा ? प्रथमे सत्यमसत्यं वा ? नायोऽपसि-
द्धान्तात् । अन्त्ये तु तस्य मिथ्यात्वेनोपलम्भे तस्मा उपदेशासम्भवः ।
सत्यत्वेनोपलन्भे तु भ्रान्तत्वेनाचार्यत्वहःनिराचार्यम्य ! अभिन्नत्वपक्षे
कथमुपदेशः । अनुपलभ्येति पक्षे तु कस्मा उपदिशति ?
एवमात्मभेदानभ्युपगमे बद्धमुक्तव्यवस्थाभङ्गश्च भवेत् ।" (गोताया
आनन्दभाष्यम् २।१२)इति ।
श्रौत प्रमेयचन्द्रिकायां श्री श्रियानन्दाचार्यैरप्युक्तम्-
एककाले सुखी चैको दुःखी चान्योऽवलोक्यते ।
विज्ञैः परस्परं भेदश्चात्मनां मन्यते ततः ॥ २१ ॥

मुखीदुःखीतिभेदो नन्वन्तःकरणभेदतः । मैवं कुतो यतश्चैवं सौभर्यादौ कथं न हि ॥ २२ ॥ मुक्तामुक्तत्वभावश्च बोध्यबोकता तथा । मृतामृतव्यवस्था च ह्यात्मैक्ये सम्भवेन्न हि ॥ २३ ॥ नन्वात्मनामभेदोऽस्ति 'भोक्ता भोग्यमि'तिश्रुतेः । मैवं यतः प्रकारक्याज्जीवानां च तथा श्रुतिः ॥२४॥ आहुश्च नवरत्नीकाराः श्रीश्यामानन्दाचार्याः -अहं देहेन्द्रिया- दिभ्यः प्राणेभ्यो ज्ञानतोऽपि च । अन्यात्मभ्यश्च रामाद्धि भिन्नो रामतनुस्तथा ॥" इति । अतश्चैकजीववादः श्रुतिविरूद्धो युक्तिविरुद्धश्चास्तीति बोध्यम् । बद्धजीवाः जीवास्त्रिविधा बद्धमुक्तनित्यभेदात् । उक्तञ्चेत्थमेव भाष्ये- "एतेन जीवानां बद्धमुक्तनित्यभेदेन त्रैविध्यमपि दर्शितं भव- तीत्यन्यत्र विस्तरः । (श्रीरामानन्दभाष्यम् १।१।१४) इति । तत्राना- दिकालीनस्वनियामकपुण्यपापात्मककर्मानुगुणजनिनिधनत्वादिधर्ममापन्ना आब्रह्मकीटादयो जोवा बद्धाः । भगवान् श्रीरामोऽपि जीवस्य प्राक्तनं कर्मानुसृत्यैव फलप्रदोऽतो न तत्र स्वातन्त्र्यप्रयुक्तवैषम्यनैण्य- दोषोऽत एवोक्तमाचार्यशिरोमणिश्रीश्रुतानन्दाचार्यैः "विकारच रामो दयाब्धिस्तथात्वे दयाशून्यतां पक्षपातञ्च नैति । प्रकारे विकारस्तथा चित्रसृष्टौ च हेतुर्यतः प्राणिनां प्राच्यकर्म ।" इति । (श्रौतसिद्धान्तबिन्दुः)

मुक्तजीवाः
अनन्तजन्मोपार्जितपुण्योदयेन सत्त्वोद्रेकात् सद्गुरुमुपसद्य ततो-
ऽनन्तब्रह्माण्डनायकनिखिलदोषप्रत्यनीकानन्तकल्याणगुणसागरं परं ब्रह्म
भगवन्तं श्रीराममवबुध्य तद्भक्तिप्रपत्तिभ्यां बन्धकारणभूतानि कर्माणि
विनाश्य कर्मोपार्जितदेहं परित्यज्य दिव्ये श्रीसाकेतधामनि भगवत्सा-
युज्यमवाप्ता जीवा मुक्ताः ।
भक्तिः
भक्तिश्च ध्रुवा स्मृतिः । उक्तञ्च महर्षिश्रीपुरुषोत्तमाचार्यबो-
धायनोक्तसाधनसप्तकस्य पद्यात्मिकायां साधनदीपिकाख्यायां व्याख्यायां
श्रीबोधायनचरणचञ्चरीकैराचार्यसुरेन्द्रः श्रीगङ्गाधराचार्यैः-
रामस्य ब्रह्मणोऽनन्यभक्त्यैव मुक्तिराप्यते ।
भक्तिर्बुवा स्मृतिः सा च विवेकादिकसप्तकात् ॥ इति ।
भक्तिमधिकृत्याभिहितं चापरबोधायनाचार्यजगद्गुरुश्रीदेवा-
नन्दाचार्यवेदान्तविद्यानिधिभिः प्रामिताक्षराकारैर्योगपञ्चके-
"श्रीरामस्यानवच्छिन्नं स्मरणं प्रीतिपूर्वकम् ।
श्रीमद्वैष्णवाचार्यभक्तियोगतया मतम् ॥२३॥
अङ्गमष्टाङ्गयोगोऽङ्गी भक्तियोगः प्रकीर्तितः।
लभ्यते भगवान् रामो भाक्तियोगेन नान्यथा ॥३॥
भक्तिर्बोधायनप्रोक्तैविवेकादिकसाधनैः।
ध्यानध्रुवस्मृतीत्यादिशब्दवाच्या प्रजायते॥३४॥
संसारिता मताऽभक्त्या भक्त्या मुक्तिरुदीरिता।
आमृत्युसमयं भक्तरावृत्तिश्च मता श्रुतौ ॥३५॥
प्रारब्धान्ते मता भाक्तिर्मुक्तिदा चाचिरादिना ।
अङ्गिनी च मता भक्तिरङ्गे तु ज्ञानकर्मणी ॥३६॥

"श्रवण कीर्तनं विष्णोः स्मरण पादसेवनम् अर्चन वन्दनं दास्यं सख्यमात्मनिवेदनम्' ॥३७॥ एवं महापुराणे श्रीभागवते हि मुक्तिदाः। भक्तेश्च नवधा भेदाः प्रह्लादेन प्रकीर्तिताः॥३८॥ एभिराराधितो रामो भक्ते परं प्रसोदति । योगक्षेम वहँल्लोके चान्ते मुक्तिं प्रयच्छति ॥३९॥ घृतं जलात् तथा तैल सिकतातश्च निःसरेत्। तथाऽपि भगवद्भक्ति विना मुक्तेन सम्भवः ॥४०॥ पूर्वाधनाशिनी चाथ पराघश्लेषवर्जिनी। भक्तिरेव ततः सैव पुंसां संसारनाशिनी" ॥५१॥ इति । आनन्दभाष्यकारैराचार्यसार्वभौमैर्भगवद्भिः श्रीरामानन्दाचार्यैर- प्यभिहितमेवमेव श्रीवैष्णवमताब्जभास्करे- "सा तैलधारासमनित्यसंस्मृतेः सन्तानरूपेशि परानुरक्तिः। भक्तिविवेकादिकसप्तजन्या तथा यमाधष्टमुबोधकागाः ॥ इति । श्रीरामानन्दभाष्येऽपि-''सा च भक्तिः परमप्रेयो भगवदितरवै- तृष्ण्यपूर्वकपरमपुरुषानुरागरूपो ज्ञानविशेष एव (मा० भा० ११११११) इति । प्रपत्तिः "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपा- पेभ्यो मोक्षयिष्यामि मा शुचः” (गो० १८६६) इत्येतस्य श्लोक- स्यानन्दभाष्ये भगवद्भिः श्रीरामानन्दाचार्यैः प्रपत्तेः स्वरूपमपि निरूपि- तम् । तथाहि--'सर्वज्ञस्य सर्वशक्तेर्वात्सल्यजलधेः स्वभाव एवैष यत्

.......
स प्रार्थित एव सर्व कगेतीत्युपायन्वप्रार्थनाऽवश्यं कर्तव्येत्यपि ध्येयम् ।
सेयमुपायत्वप्रार्थनैव प्रपत्तिः ।......
प्रार्थनांशेन शरणागतिपदवाच्य आत्मनिक्षेपांशेन न्यासपदवाच्यश्च
प्रपत्तियोग एव । आनुकूल्यस्य सङ्कल्यः प्रातिकृल्यस्य वर्जनं रक्षिष्यतीति
विश्वासो गोप्तृत्ववरणं कार्पण्यञ्चतोमानि प्रपत्तियोगस्य पचांगानि ।
तथा हि शास्त्रं "आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्य-
सीतीति वश्विासो गोतृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये षड्विधा
शरणागतिः ।" (अहिर्बुध्निसंहिता ३७२८) इति । पञ्चापीमानि
प्रपत्यङ्गानि बोधायनवृत्तिकृता भगवता श्रीपुरुषोत्तमाचार्यबोधायनेन
श्रीपुरुषोत्तमप्रपत्तिषट्के विहितानि । तथा हि-
"राम दोनोऽनुकूलोऽहं विश्वस्तोऽप्रातिकूल्यवान् ।
त्वयि न्यस्यामि चात्मानं पाहि मां पुरुषोत्तम !॥"
(गीताया आनन्दभाष्यम् १८६६)
प्रपत्तिं समधिकृत्य व्याहृतं चापरबोधायनाचार्जगद्गुरुमिः
श्रीदेवानन्दाचार्यैर्वेदान्तविद्यानिधिभिः प्रमिताक्षराकारैर्योगपञ्चके-
"श्रीरामाय ससीताय स्वात्मस्वोयानुबन्धिनाम् ।
रक्षाभरार्पण पुसो न्यासयोगः प्रकीर्तितः॥४२॥
आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
विश्वासोऽकिञ्चनत्वं च गोप्तृत्ववरणं तथा ॥४३॥
आचार्यैरुक्कमेतद्धि न्यासयोगाङ्गपञ्चकम् ।
अङ्गपुष्टो प्रजातायामनिपुष्टिर्मता ध्रुवा ॥४४॥
श्रीमद्रामानुकूलोऽहं भविष्याम्यवतः खलु।
इत्यानुकूल्यसङ्कल्पो न्यासयोगाङ्गमादिमम् ॥४५॥

श्रीरामप्रतिकूलोऽहं भविष्याम्यद्यतो न हि। पतन्न्यासद्वितीयाङ्ग प्रातिकूल्यस्य वर्जनम् ॥४६॥ अवश्य जानकीनाथो मम रक्षां विधास्यति । विश्वासनामकं चैतन्न्यासाङ्ग हि तृतीयकम् ॥४७॥ त्वामेव हि प्रपन्नं त्वं रक्ष राम शरण्य माम् । एतन्न्यासचतुर्थाङ्ग गोप्तृत्ववरणं मतम् ॥४८॥ प्रपन्न साधनहीनं मां पाहि रघुनन्दन । न्यासस्य पञ्चमं चाङ्गमाकिञ्चन्यमिति स्मृतम् ॥४९॥ मानसादिविमेदेन न्यासोऽयं त्रिविधो मतः । न्यासस्यैवापरे नानो प्रपत्तिशरणागती ॥५०॥ प्रतिज्ञातं च रामेण प्रपत्त्या सर्वतोऽभयम् । राम एव प्रपद्यो यद् रामो द्विर्नाभिभाषते ॥५१॥ अयं प्रपत्तियोगो हि प्रारब्धस्यापि नाशकः । अस्य प्रपत्तियोगस्याधिकारः सर्वदेहिनाम्" ॥५२॥ इति । मुक्तावस्थायां "निरञ्जनः परमं साम्यमुपैति" इति श्रुतिप्रति- पादितपरमसाम्यापन्नोऽपि मुक्तजीवः सर्वेश्वरो न भवति साम्यस्य भेदघटितत्वादत एव सूत्रितं ब्रह्ममीमांसायां भगवता बादराणेण- "जगद्व्यापारवज प्रकरणादसन्निहितत्वाच्च" (ब्र.सू.४।४।१७) इति । अभिहितञ्चैतस्य सूत्रस्यानन्दभाष्य आचार्यसार्वभौमैर्भगवद्भिः श्रीरामा- नन्दाचार्य:--"पूर्वं संकल्पमात्रेण मुक्तस्य सवकामावाप्तिरभिहिता- ऽनन्याधिपतित्वञ्चोक्तम् । तथा- सतीदानी विचार्यते । किं मुक्तस्य संकल्पमात्रेण परमपुरुषस्येव सर्वेश्वरत्वमपि प्राप्यते आहोस्वित् सर्व- कामप्राप्तिरूपमैश्वर्यमेवेति संशये सर्वजगतामीश्वरत्वमपि । कुतः ? मुक्तत्वादनन्याधिपतित्वेनार्थात् सर्वाधिपतित्वोपपत्त्या परमेश्वरस्येव , औतार्थसंग्रहः सर्वनियन्तृत्वोपपत्तेः। "निरञ्जनः परमं माम्यमुपैनि" इति परमपुरुष- साम्यापत्तिश्रवणाज्जगत्सृष्ट्यागिकर्तृत्वभाप मुक्नस्य सम्भवतीति प्राप्ते- ऽभिधीयते-जगद्व्यापारवर्जनिति । जगद्व्यायागे जगदुत्पत्यादिकर्तृ- त्वं तच्चाशेषचेतनाचेतनस्वरूपपस्थितिप्रवृत्तिभेदनियमनं नवजमविद्या- तिरोधानराहित्यपूर्वकपरब्रह्माऽनुभवरूपम् “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिना" इति श्रुत्यभिहितसङ्कल्पमात्रेण सर्वकामावा- तिरूपं मुक्तस्यैश्वर्यमस्ति न तु जगदीश्वरत्वमपि, तत्तु परमपुरुष- स्यासाधारणम् । कुतः ? प्रकरणात् । 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद् ब्रह्म।" (ते.३।१) इति परमात्मानमेव प्रकृत्याम्नातं न तु मुक्तात्मानम् । एवं "तदैक्षत बहुस्याम्प्रजायेयेति तत्तेजोऽसृजत" (छा० ६।२१३) इत्यादिप्रकरणान्तरेष्वपि ज्ञेयम् । असन्निहितत्वाच्चापि मुक्तस्य । न हि जगन्नियमनादिषु मुक्तस्य सान्निध्यमप्यस्ति येन तस्याप्ययं व्यापारः स्यात् ।" (आनन्दभाष्य ४।४।१७) इति । तस्मान्मुक्तो जीवो ब्रह्मभिन्न एव न तु ब्रह्मस्वरूप इनि बोध्यम् । नित्यमुक्तजीवाः “यत्र पूर्वे साध्याः सन्ति देवाः" इत्यादिश्रुतिप्रतिपादिता हनुमदादयो नित्यमुक्तास्तु भगवत्प्रतिकूलाचरणाभावात् कदाचिदपि संसारं नाप्नुवन्ति । नित्यमुक्तानामवतारास्तु भगवदिच्छया स्वेच्छया वा भवन्ति । भगवन्नित्येच्छया सनातनत्वेन व्यवस्थापितास्तेषामधि- कारविशेषा इति ध्येयम् । २ : जगद्गुरुश्रीअनुभवानन्दाचार्यकृतः उक्तं च जीवतत्त्वमधिकृत्याचार्यसार्वभौमैरानन्दभाष्यकारैर्भग- वद्भिः श्रीरामानन्दाचार्यैर्वेदान्त सारे- "नित्योऽज्ञश्चेतनोऽजः सततपरवशः सूक्ष्मतोऽत्यन्तसूक्ष्मा मिन्नो बद्धादिभेदैः प्रतिकुणपमसौ नकधा सूरिवर्यैः । श्रीशाक्रान्तालयस्थो निजकृतिफलभुक् तत्सहायोऽभिमानी जौवः सम्प्रोच्यते श्रीहरिपदमुमते तत्त्वजिज्ञासुवेद्यः॥” इति । इत्यनुभवानन्दद्वारपीठनामकश्रीरामानन्दपीठसंस्थापकैर्जगद्गुरु- श्रीमदनुभवानन्दाचार्यविरचिते श्रौतार्थसंग्रहे जीवनिरूपणात्मकः प्रथमः परिच्छेदः ॥१॥ - २-अथाचिदर्थनिरूपणम् अथ क्रमप्राप्तमचित्तत्त्वमभिधीयते- अचिन्नाम ज्ञानविरहितं तत्त्वम् । तच्चावस्थान्तरापत्तिरूपवि- काराश्रयरूपमत एव द्रव्यम् । तद् द्विविधं जडाजडभेदात् । तत्र परप्र- काश्यं जडम् । तद्भिन्नमजडम् । अजडं द्विविधं पराक्प्रत्यग मेदात् । तत्र स्वयंप्रकाशमानत्वे सति परस्मा एव भासमानत्वं पराक्त्वम् । परागपि द्विविधं शुद्धसत्त्वज्ञानभेदात् । शुद्धसत्त्वम् शुद्धसत्त्वं नाम त्रिगुणभिन्नं शुद्धसत्त्वगुणाधिकरणमचिद्व्यम् । तन्नित्यमजडमधःप्रदेशे परिच्छिन्नमूर्ध्वप्रदेशे चान्तरहितम् । "आदित्यवर्ण - श्रौतार्थसंग्रहः १९ तमसः परस्तात्" (श्वेता० ३।८) "तद्विष्णोः परमं पदं मादा पश्यन्ति सूरयः” (नृ० पु० ५।१०) इत्यादिश्रुतयस्तत्र प्रमाणभूताः । तदीश्वरसं- कल्पान्नित्यमुक्तेश्वराणां भोग्यभोगोपकरणभोगस्थानरूयं भवति । नित्यविभूतिनिन्यधामपरमधामपरमव्योमाक्षरधामसाकेतादिशब्दाः शुद्ध- सत्त्वपर्यायाः । ज्ञानम् अर्थप्रकाशो ज्ञानम् । तच्च प्रभावद् द्रव्यगुणात्मकमाजड विभु- द्रव्यम् । तच्चेश्वरस्य नित्यानां च सदैव विभु, मुक्तानां बद्धावस्थायां तिरोहितं मुक्तौ विभु बद्धानां तु तिरोहितमेव । ज्ञानं हि नित्यं द्रव्यम् "न विज्ञातेर्विपरिलोपो विधाते" (बृ. ४।३।३०) इतिश्रुतेः । 'ज्ञानमुत्पन्नम्' 'ज्ञानं नष्टम्' इत्याशिष्यवहारस्तु ज्ञानसम्बन्धिसंकोचविकासावस्थाहेतुक एवेति ध्येयम् । झालं, मतिः, प्रज्ञा, संवित्, धिषणा, धोः, मनीषा, शेमुषी, बुद्धिरित्यादयाः शब्दा ज्ञानपर्यायाः । परप्रकाश्यं जडमित्युक्तं प्राक् । जडं द्विविधं प्रकृति कालमेदात् । तथा चोक्तं श्रौतसिद्धान्तविन्दुकारश्रीश्रुतानन्दाचार्यचरणैः अचिन्नाम तत्त्वं द्विधा ज्ञानशून्यं जडञ्चाजडं नैव मिथ्या कदाचित् । जडं मिश्रसत्त्वं तथा कालतत्त्वं मनीषाऽजडं शुद्धरूपं च सत्वम् ॥इति॥ अत्र मिश्रसत्त्वपदेनाविद्यामायाद्यपरपर्याया प्रकृतिरक्ता । , जगद्गुरुश्रीअनुभवानन्दाचार्यकृतः प्रकृतिः प्रकृति म सत्त्वरजस्तमोरूपगुणात्रयाश्रयरूपं द्रव्यम् । तत्र सत्त्वं नाम ज्ञानसुखतदुभयसङ्गोत्पादको गुणः । रजोनाम रागतृष्णाकर्म- सङ्गोत्पादको गुणः । तमोनाम विपरीतज्ञानानवधानालस्यनिद्रोत्पादको गुणः । उक्तं च श्रौततत्वसमुच्चयकारैराचार्यसार्वभौमैर्भगवद्भिः श्रीरा- घवानन्दाचार्य:-"तत्र सत्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वेदेहिनाम् ।" (गीता ) इति भगवद्वचनप्रामाण्यात् सत्वं नाम ज्ञानस्य सुखस्य तदुभयसङ्गस्य च जनको गुणः । रजोनाम रागतृष्णा- कर्मणां सङ्गानां जनको गुणः । तमोनाम विपरीतज्ञानानवधानालस्य- निद्राणां जनको गुणः ।" (श्रौततत्त्वसमुच्चयः) इति । प्रलये प्रकृतेस्त्रयोऽपि गुणाः साम्यमापन्ना एव भवन्ति । 'तदैक्षत बहुस्याम्' इतीश्वरसङ्कल्पवशात् प्रकृतिर्गुणवैषम्यप्रयुक्तां कार्योन्मुखावस्था- मवाप्याव्यक्तपदवाच्या भवति । महत्तत्वम अव्यक्तपदवाच्यायाः प्रकृतेर्यः प्रथमो विकारः स महान् । स च त्रिविधः । सात्विकराजसतामसभेदात् । अहङ्कारः महतः प्रथमो विकारोऽहङ्कारः । सोऽपि सात्विकादिभेदात् त्रिविधः । एते साविकराजसतामसाख्या अहङ्काराः क्रमाद् वैकारिक- तैजसभूतशब्दैरप्यभिधोयन्ते ।।

औतार्थसंग्रहः एकादशेन्द्रियाणि राजसाहङ्कारसहकृतात् मात्विकाहङ्कागदेकादशेन्द्रियाणि जायन्ते । तानि द्विविधानि । ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च । ज्ञानप्रसरणे शक्तानीन्द्रियाणि । ज्ञानेन्द्रियाणि । तानि षइविधानि । मनः श्रोत्रं त्वक् चक्षू रसनं घ्राणञ्चेति । तत्र स्मृत्यादिकरणमिन्द्रियं मन: । हृदयदेशवृत्तिः । शब्दमात्रग्रहणसमर्थमिन्द्रियं श्रोत्रम् । कर्णशष्कुलीवृत्ति । सर्पाणां तु नेत्रगोलकवृत्ति । स्पर्शमात्रग्रहणसमर्थमिन्द्रियं त्वक् । सर्वशरीरवृत्ति । रूपमात्रग्रहणसमर्थमिन्द्रिय चक्षुः । नेत्रवृत्ति । रसमात्रग्रहणसमर्थमिन्द्रियं रसनम् । जिह्वाग्रवृत्ति । गन्धमात्रग्रहणसमर्थमिन्द्रियं ब्राणम् । नासांप्रवृत्ति । उच्चारणाद्यन्यतमकर्मसमर्थानीन्द्रियाणि कर्मेन्द्रियाणि । तानि पञ्चविधानि वाक्पाणिपादपायूपस्थभेदात् । तत्रोच्चारणकरणमिन्द्रियं वाक् । हृदयादिस्थानाष्टकवृत्तिः । शिल्पादिकरणमिन्द्रियं पाणिः । अंगुल्यादिवृत्तिः । सञ्चारकरणमिन्द्रियं पादः । चरणादिवृत्तिः । मलोत्सर्जनकरणमिन्द्रियं पायुः । गुदादिवृत्तिः । मैथुनकरणमिडियमुपस्थः । मेहनादिवृत्तिः । तन्मात्रपञ्चकं भूतपञ्चकं च राजसाहकार सहकृतात् तामसाहङ्कराच्छन्दतन्मात्रमुत्पद्यते । तन्मात्रं नाम भूतोपादानं द्रव्यम् । तत् पश्चविधं शब्दस्पर्शरूपरसगन्ध- २२ जगद्गुरुश्रीअनुभवानन्दाचार्यकृतः मेदात् । विशिष्टशब्दादिगुणाश्रयो भूतम् । तदपि पञ्चविधमाका- शवायुतेजोऽप्पृथिवीभेदात् । तत्र तामसाहङ्काराव्यवहितोत्तरावस्थाविशिष्टं द्रव्यं शब्दतन्मा- त्रम् । तस्मादाकाशमुत्पद्यते । रूपरहितं विशिष्टशब्दाधिकरणं द्रव्य- माकाशम् । तच्च शब्दगुणकम् । आकाशाव्यवहितोत्तरावस्थाविशिष्टं द्रव्यं स्पर्शतन्मात्रम् । तस्माद् वायुरुत्पद्यते । रूपरहितं विशिष्टस्पर्शवद् द्रव्यं वायुः । स च शब्दस्पर्शगुणकः । वायोः स्पर्शोऽनुष्णाशीतोऽस्तीति बोध्यम् । देहधा- रको वायुविशेषः प्राणः। स पञ्चविधः । प्राणापानव्यानोदानसमान- भेदात् । तत्र प्राणो हृदयवृत्तिरपानो गुदवृत्तिानः सर्वशरीरवृत्ति- रुदानः कण्ठवृत्तिः समानश्च नाभिवृत्तिरिति बोध्यम् । वाय्वव्यवहितोत्तरावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् । तस्मात्तेज उत्पद्यते । उष्णस्पर्शवद्र्व्यं तेजः । तच्च शब्दस्पर्शरूपगुणकम् । तेजसो रूपं भास्वरं शुक्लमिति बोध्यम् । तेजोऽव्यविहितोत्तरावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् । तस्मादाप उत्पद्यन्ते । शीतस्पर्शवत्य आपः । शब्दस्पर्शरूपरसा अपां गुणाः अपां रूपमभास्वरं शुक्ल रसश्च मधुर इति बोध्यम् । अबव्यवहितोत्तरावस्थाविशिष्टं द्रव्यं गन्धतन्मात्रम् । तस्मात् पृथिव्युत्पद्यते । विशिष्टगन्धवद् द्रव्यं पृथिवी। सा च शब्दादिगुणप- ञ्चकशालिनी। पृथिव्यां स्पर्शोऽनुष्णाशीतो रूपं शुक्लरक्तकृष्णपीतेति चतुर्विधं रसो मधुराम्ललवणकटुकषायतिक्तभेदात् षविधो गन्धो सुरभ्य

२३
औतार्थसंग्रहः
सुरभीति द्विविधः । तत्र रूपमभास्वरशुक्लमिति बोध्यम् । पृथिव्या
रूपरसगन्धस्पर्शाः पाकनिमित्तकाः ।
पञ्चीकरणम्
सर्वेश्वरो भगवान् श्रीरामो भूतसृष्टि विधायकैकस्य मूतस्य
समानभागद्वयं कृत्वैकं विहायापरस्य समभागचतुष्टयं विधायकक तद-
र्धातिरिक्तेषु भूतार्थेषु संयोजयति । एतदेव भूतानां पञ्चीकरणम् । अत
एवाकाशादिषु सर्वेषु भूतेषु शब्दादानां सर्वेषां गुणानामुपलब्धिः ।
इत्थं सर्वभूतेषु सर्वभूतानां विद्यमानत्वेऽपि पृथिव्यादिव्यपदेशः स्वभा-
गस्य भूयस्त्वादपरभागस्य चाल्पोयस्त्वादेवेति बोध्यम् । वेदे त्रिवृतक-
रणोपदेशः पञ्चीकरणसप्तीकरणयोरप्युपलक्षणम् ।
भूतादिव्यहारजनको गुणत्रयशून्यो जडद्रव्यविशेषः कालः ।
अखण्डकालो नित्यो विभुपरिमाणश्च । निमेषादिरूपस्त्वनिन्यः ।
उक्तं चाचित्तत्त्वमधिकृत्यापरबोधायनाचार्यजगद्गुरुश्रीदेवानन्दाचार्य-
वेदान्तविद्यानिधिभिः प्रमिताक्षराकारैयोगपञ्चके --
"चिदात्माभिहितो द्रव्यं चतुर्धाऽचिदचेतनम् ।
जीवेशयोर्गुणो ज्ञानमर्थाभासोऽजडं विभु ॥ १९ ॥
संकोच्यः कमणा नित्योऽन्तरङ्गं भक्तिसाधनम् ।
शुद्धसत्वगुणा नित्यविभूतिरजडा मता ॥२०॥
कालावश्या तथा विभ्वीभोग्यभागस्थलादिका ।
सत्वादिस्हितः कालो विभुर्जडो हरेस्तनुः ॥२१॥

२४
जगद्गुरुश्रीअनुभवानन्दाचार्यकतः
कालभिन्ना जड़ा नित्या प्रकृतिस्त्रिगुणाश्रयः ।
तद्विकारो महानाद्यस्तभेदाः सात्विकादयः ॥२२॥
सत्वादिगुणभेदेनाहङ्कारस्त्रिविधस्ततः ।
इन्द्रियाणि दशैकं च सात्विकाहंकृतेरथ ॥२३॥
तामसाहंकृतेश्चाथ राजससहंकारतः ।
जायते शब्दतन्मानं स्पर्शहेतुस्ततो नभः ॥२४॥
स्पर्शाद वायुस्ततो रूपं रूपात् तेजस्ततो रसः ।
रसादापस्तथा चाभ्यो गन्धो जाता क्षितिस्ततः ॥२५॥
तन्मात्रं द्रव्यरूपं चाद्रव्यं शब्दादयो गुणाः ।
शब्दादयो गुणा भिन्नाः शब्दादिकतन्मात्रतः ॥२६॥
पञ्चीकृत्य च भूतेम्यो रामो जगत करोति हि ।
स एव रक्षति तद्वत् प्रलयं विदधापि ॥२७॥
पञ्चीकरणतः पूर्वा सृष्टिः समष्टिरुच्यते ।
उत्तरा व्यष्टिसृष्टिस्तु क्रियते ब्रह्मदेहिना "॥२८॥ इति ।
उक्तं च प्रकृतित्तत्त्वमधिकृत्याचार्यसार्वभौमैरानन्दभाष्यकार -
गवद्भिः श्रीरामानन्दाचार्यैर्वेदान्तसारे-
"पृष्टानामेकमायं त्रिकमपि शृणु तद्भेदतो नामभेदै-
नित्याऽज्ञाऽचेतना सा प्रकृतिरविकृतिविश्वयोनिः शुभैका ।
नाना वर्णात्मकाजा त्रिगुणमुनिलयाऽव्यक्तशब्दाभिधेया
निर्व्यापारा परार्था महदहमितिसूरुच्यते तत्त्वविद्भिः।" इति ।
इत्यनुभवानन्दद्वारपीठनामकश्रीरामानन्दपीठसंस्थापकैर्जगद्गुरु-
श्रीमदनुभवानन्दाचार्यैर्विचिते श्रौतार्थसंग्रहेऽचिदर्थ-
निरूपणात्मको द्वितीयः परिच्छेदः ॥२॥

३-अथेश्वरार्थनिरूपणम् ईश्वरस्तु विभुचेतनः । विशेषणानुपादाने जीवे विशेष्यानुपादाने कालेऽतिप्रसङ्गवारणायोभयोपादानम् । तत्र चेतनत्वं नाम ज्ञानाधिकरण- त्वम् । विभुत्वं तु स्वरूपतो ज्ञानतः शरीरतश्च व्यापकत्वम् । , स ईश्वरः 'सत्वादयो न मन्तीशे यत्र तु प्राकृता गुणाः' इति पचनप्रमाण्याद्धेयप्राकृतगुणरहितः, 'परास्य शक्तिविविधैव श्रूयते स्वाभा- विकीज्ञानबलक्रिया च' इत्यादिश्रुतिप्रामाण्यान्निरुपाधिकानन्तकल्या- णगुणविशिष्टः, 'आनन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिश्रुतेः सच्चिदानन्दरूपः, देशकालवस्तुपरिच्छेदशून्यात्मकानन्तत्वविशिष्टत्वा- दनन्तः, ब्रह्मशब्दवाच्यः, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' 'यतो वा इमानि भूतानि जातानि....' इत्यादिश्रुतेरस्य जगतोऽभिन्ननि- मित्तोपादानकारणरूपो भक्तिमुक्तिप्रदश्चास्ति । ईश्वरस्य जगदुपादानत्वस्वीकारे निर्विकारत्वप्रतिपादकश्रुतिविरो- घस्तु न शङ्कनीयस्तत्र सद्वारकोपादानताया एव स्वीकारात् । उक्तं च जगदगुरुभिः श्रीश्रुतानन्दाचार्य:-विकारञ्च गमो दयाब्धिस्तथात्वे दयाशून्यतां पक्षापातञ्च नैति । प्रकारे विकारस्त था चित्रसृष्टौ च हेतुर्यतः प्राणिनां प्राच्यकर्म !" इति । "रमन्ते योगिनो यस्मिन् सत्यानन्दे चिदात्मनि । इति रामप- देनासौ परं ब्रह्माभिधीयते ॥" (रामतापनीय) इतिश्रुतिप्रमाण्याद् ब्रह्मपदाभिधेयः स चेश्वरः श्रीराम एव ।

२६ जगद्गुरु श्रीअनुभवानन्दाचार्यकृतः "ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयर्गुणादिभिः ॥" "तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण अन्यत्र [पचारतः ॥” इत्यादिवचनप्रामाण्याद् भगशब्द- वाच्यज्ञानशक्तिबलैश्वर्यवीर्यतेजोरूपषड्विधैश्वर्यशालित्वात् स हि भगव- च्छब्दवाच्यश्च । उक्त च बोधायनवृत्तिकारस्य श्रीपुरुषोत्तमाचार्यस्य शिष्यवर्यः श्रीगङ्गधराचायः- "ज्ञानशक्तिबलश्वयवीर्यतेजांसि षड्गुणाः । भगत्वेनेरिताः सन्ति श्रीरामे भगवान् स तत् ॥ श्रीरामे भगवच्छब्दो मुख्यवृत्त्या प्रवर्त्तते । गौण एव स चान्यत्र षड्विधैश्वर्यलेशतः ॥" (श्रीरामभगवत्त्वम्) इति 'नित्यो नित्यानाम्' इत्यादिश्रुतिप्रामाण्यात् स चेश्वरो नित्यः "यदा पश्यः पश्यते रुक्मवणं कर्तारमीशं पुरुषं ब्रह्मयोनिम्” (मु० ३ ।१।३) इत्यादिश्रुतेदिव्यमङ्गलविग्रहश्चास्ति । अत एवोक्त भगवद्भिरान- न्दभाष्यकारैः श्रीरामानन्दाचार्यैराचार्यसार्वभौमै :--"अतएव श्रुत्युप- हणीभूतेतिहासपुराणादिषु बहुशस्तत्र तत्र भगवतो दिब्यमङ्गलविग्रह- स्योपवर्णनं सङ्गच्छते ।" (आनन्दभाष्य १११।२१) इति । सच सर्वेश्वरो भगवान् श्रीरामः परव्यूहविभवान्तर्याम्यर्चावता- ररूपेण पञ्चधा स्थित । तथा चागमः- "मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः । परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥ अर्चावतारश्च तथा दयालुः पुरुषाकृतिः।

भौतार्थसंग्रहः
२७
am-
इत्येवं पञ्चधा प्राहुर्मा रहस्यविदो जना ॥” इति
(विष्वक्सेनसंहिता)
समुदोरितश्चैतदीश्वरतत्त्वमधिकृत्य प्रमेयोद्देश-
भास्करे सिद्धान्तवाचस्पतिजगद्गुरुश्रीचिदानन्दाचार्यैः-
"रामश्च ब्रह्मकता हि विष्णुत्वमुपजिग्मिवान् ।
परव्यूहादिरूपेण सीतानाथश्च पञ्चधा ॥७४॥
परश्च परलोके हि साकेते सोऽधिगजते ।
दिव्यदेहगुणो नित्यो दिव्यशस्त्रास्त्रभूषणः ।।७५॥
अनन्तकरुणावत्या सीतया जगदम्बया ।
सिंहासने समासीनो दिव्ये दिव्यपुरे परे ॥७६॥
सर्वज्ञः सर्वशक्तिश्च भगवान् करुणाम्बुधिः ।
नित्यमुक्तैः स्तुतश्चाथ वेदेवेद्यः परात्परः ॥७७॥
व्यूहतां याति रामश्च सृष्टयाद्यर्थमुपामितुम् ।
चतुर्धा च मतो व्यूहो वासुदेवादिभेदतः ॥७८॥
वासुदेवात् त्रिधा व्यूहा भवन्ति केशवादयः ।
सङ्कर्षणाच्च गोविन्दादयस्त्रिधा भवन्ति हि ॥७९॥
प्रद्युम्नाच्च त्रिधा व्यूहा ऋषीकेशादयो मताः ।
भवन्त्यानिरुद्धाच्च त्रयः श्रीवामनादयः ॥८०॥
रामः सर्वावताराणामवतारी समोरितः ।
परित्राणं च साधूनामवतारप्रयोजनम् ॥८१॥
सर्वेभ्यश्चाभयं दत्ते रामः सकृत् प्रपत्तितः।
स्वाश्रितस्यापराधाश्च रामः स्मरति नैव हि ॥८२॥

जगद्गुरुश्रीअनुभवानन्दाचार्यकृतः साक्षाद गौणस्तथाऽऽवेश इत्येवं विभवास्त्रयः । मुख्यमुख्यतरत्वादिभेदात् साक्षात् त्रिधा मतः ॥८३॥ नृसिंहवामनभेदाद् द्विधा मुख्यः प्रकीर्तितः । मुख्यतरश्च श्रीकृष्णो रामो मुख्यतमस्तथा ॥८४॥ मत्स्यकूर्मादिभेदैश्च मतो गौणस्त्वनेकधा । कलास्वरूपशक्तीनामावेशात् त्रिविधोऽन्तिमः ॥८५॥ विभवाश्च कलावेशात् पृथुधन्वन्तरादयः । शुद्धावेशस्तथाऽशुद्धावेशो द्विधा च मध्यमः ॥८६॥ शुद्धावेशाश्च विज्ञेयाः श्रीव्यासकपिलादयः । मता परशुरामादावशुद्धावेशिता बुधैः ॥८७॥ शक्त्यावेशो द्विधा शुद्धाशुद्धत्वभेदतो मतः । आदिमोऽपि द्विधा मुख्यगौणमेदात् प्रकीर्तितः ॥८८॥ हंसादयो मता मुख्या गौणा बुद्धादयो मताः । अन्तिमोऽपि द्विधा मुख्यगौणभेदादुदीरितः ॥८९॥ तत्रऽब्रह्मादयो मुख्या गौणा मन्वादयो मताः। अन्तर्यामी द्विधा मूर्तामूर्तभेदात् प्रभाषितः ॥१०॥ स्थापितो वैष्णवैर्मन्त्रैश्चतुर्धाऽर्चावतारकः । स्वयं व्यक्तश्च देवश्च सैद्धश्च मानुषः स्खलु ॥९१॥ इति । तत्र परो नाम नित्यधाम्नि श्रोसाकेते जगज्जनन्या श्रीसीता- म्बया सह दिव्यसिंहासनोपरि विराजमानो दिव्यायुधालंकारविशिष्ट- विग्रहशाली नित्यं नित्यमुक्तपरिसेवमानः । सर्वावतारी परिपूर्णब्रह्म भग- वान् श्रीरामः ।

औतार्थसंग्रहः जगत् स्रष्टुमुपासितुं च वासुदेवमङ्कर्षणप्रमुम्नानिरुद्धरूपेण चतुःऽवस्थितो भगवान् श्रीरामो ब्यूहः । नत्र वासुदेवे ज्ञानशक्त्या- दिगुणषट्कं सङ्कषणे ज्ञानबलद्वयं प्रभन्ने वीर्येश्वर्यद्वयमनिरुद्धे च तेजः- शक्तिद्वयं वर्तते। मत्स्यादितत्तत्सजातीयरूपेण स्वेच्छयाविभूतो भगवान् श्रीरामो विभवः । योगदृष्टयाऽनुभूयमानः सर्वत्र सर्वदा सर्वथा च जीवस्य परम- सुहृद्रूपेण हृदयस्थितो भगवान् श्रीरामोऽन्तर्यामी । देशकालादिनियमविहीनस्तत्तत्स्थल भक्ताभिमतहिरण्यादिशरोर- ऽप्राकृतशरीरविशिष्टरूपेण वर्तमानः स्नानभोजनादिष्वर्चकायत्ततां गतो मूर्तिविशेषरूपो भगवान् श्रीरामोऽर्चावतारः । उक्त चेश्वरतत्त्वमधिकृत्याचार्यसार्वभौमैरानन्दभाष्यकारै भगवद्भिः श्रीगमानन्दाचायुर्वेदान्तसारे "विश्वं जातं यतोऽद्धा यदवितमखिलं लीनमप्यस्ति यस्मिन् सूर्यों यत्तेजसेन्दुः सकलमविरतं भासयत्येतदेषः । यभीत्या वाति वातोऽवनिरपि सुतलं याति नैवेश्वरो ज्ञः साक्षी कूटस्थ एको बहुशुभगणवानव्ययो विश्वभर्ता ॥३॥ श्रीमानयः शरण्यो बहुविधविबुधैर्योगिगम्यांघ्रिपद्मो ऽस्पृश्यः क्लेशादिभिः सत्समुदितमुयशाः मूरिमान्यो वदान्यः। शश्वच्छोरामचन्द्रः सुमहितमहिमा साधुवेदैरशेपै- निर्मृत्युः सर्वशक्तिर्विकलुषविजरो गीमनोभ्यामगम्यः"॥४॥ -

३०
जगद्गुरुश्रोअनुभवानन्दाचार्यकृतः
इति ।
इत्यनुभवानन्दद्वारपीठनामकोरामानन्दपीठसंस्थापकैर्जगद्-
गुरुश्रीमदनुभवानन्दाचार्यविरचिते श्रौतार्थसंग्रह
ईश्वरार्थनिरूपणात्मकस्तृतीयः परिच्छेदः ॥३॥
समाप्तोऽयं ग्रन्थः ।
X
जगद्गुरुश्रोअनुभवानन्दाचार्यविरचिता
श्रीरामचन्द्रविशतिः
रामं ब्रह्म तथानन्दभाष्यकारं जगद्गुरुम् ।
नत्वा करोमि भावार्य श्रीरामचन्द्रविंशतिम् ॥
सोदरहतराज्यश्रीः सुग्रीवः सह मन्त्रिभिः ।
यस्य चाश्रितवान् पादं रामचन्द्रं नमामि तम् ॥१॥
रावणन्यक्कृतो दान्तो विभीषणो भियाकुलः ।
स्वजनैर्यत्पदं चागाद् रामचन्द्रं नमामि तम् ॥२॥
रक्षोधिनाथसंक्षुब्धा सीता स्मृतवती च यम् ।
स्वभक्तवन्दितं नित्यं रामचन्द्रं नमामि तम् ॥३॥
चन्द्रांशुशोभिते रम्ये पुरा सरोवरोत्तमे ।
सस्मार यं गजो मुक्त्यै रामचन्द्रं नमामि तम् ॥४॥
पतिव्रता शिरोरत्नं गौतमधर्मचारिणी।
अस्मरच्छापमुक्त्यै यं रामचन्द्रं नमामि तम् ॥५॥
कालिन्दीपुलिने रम्ये ध्रुवः सस्मार यं मुदा ।
लोकोत्तरपदप्रात्यै रामचन्द्रं नमामि तम् ॥६॥

श्रीरामचन्द्रविशतिः
३१
दोनाऽप्राप्तसहाया च कृष्णा सस्मार यं प्रभुम् ।
दयालु कृष्णरूपं श्रीरामचन्द्रं नमामि तम् ॥णा
जनकजनितक्लेशात् कयाधूनन्दनश्च यम् ।
दीनानाथेति सस्मार रामचन्द्रं नमामि तम् ।:८॥
यस्त्राता वेदशास्त्राणां दण्डकवनपाव ।
स्वभक्तवन्दितं शान्तं रामचन्द्रं नमामि तम् ॥९॥
नक्तश्चरसमूहाश्च वेदमार्गावदूषकाः ।
मुक्ताश्च दर्शनाद् यस्य रामचन्द्रं नमामि तम् ॥१०॥
रावणभग्नपक्षश्च जटायुमासभोजनः।
यं दृष्ट्वा सद्गति लेभे रामचन्द्रं नमामि तम् ॥११॥
स्वधर्मत्यागतो भ्रष्टोऽजामिलः पुत्रव्याजतः ।
यन्नामस्मरणान्मुक्तो रामचन्द्र नमामि तम् ॥१२॥
बाली बालरविप्रख्यं यत्पदं च पुरःस्थितम् ।
ध्यायन् मोक्षपदं लेभे रामचन्द्र नमामि तम् ॥१३॥
त्यक्त्वा सर्वाणि कृत्यानि शरभंगस्तपोधनः ।
नत्त्वा यं च गतो मुक्किं रामचन्द्रं नमामि तम् ॥१४॥
यच्चरणाम्बुजोद्भूता गंगा दुर्गतिनाशिनी।
तापत्रयविनाशित्री रामचन्द्रं नमामि तम् ॥१५॥
सुगति शवरी लेभे निगमकर्मगर्हिता।
आतिथ्यकरणाद यस्य रामचन्द्रं नमामि तम् ॥१६॥

३२
जगद्गुरुश्रोअनुभवानन्दाचार्यकृताः
ध्यायन् यस्य पदाम्भोज भरतः साश्रुलोचनः ।
अवसत् त्यक्तराज्यश्री रामचन्द्रं नमामि तम् ॥१७॥
गुहराजोऽप्यहन् पापं यच्चरणाम्बुपानतः ।
भवदारिद्रयहन्तारं रामचन्द्रं नमामि तम् ॥१८॥
उपादानं निमित्तंच जगतोऽस्य प्रभुः परः ।
ध्येयोऽमोघश्च वन्द्यो यो रामचन्द्रं नमामि तम् ॥१९॥
मुच्यते स्मरणाद्यस्य सद्यो भवभिया नरः।
ब्रह्मेशाधमरैर्वन्धं रामचन्द्रं नमामि तम् ॥२०॥
रामानन्दप्रशिष्येणानुभवार्येण निर्मिता।
पठतां ध्वान्तहृद् भूयाच्छोरामचन्द्रविंशतिः ॥
-
श्रीजानकीशो विजयतेतराम् ।
आनन्दभाष्यकारजगद्गुरुश्रीरामानन्दाचार्याय नमः ।
श्रीअनुभवानन्दद्वारपीठसंस्थापक-
जगद्गुरुश्रीअनुभवानन्दाचार्यप्रणीता
श्रीगीतार्थसुधा
उत्पत्त्यादिविधायकं च जगतो हेतुं परं चेश्व
जीवाजीवशरीरिणं सुशरणं भक्त्यैव
सायुज्यदम् ॥
निर्दोष सुगुणाकरं निखिलविद्वेदान्तगभ्यं विभु
गीतोक्तं वरदं नतोऽस्मि करुणाम्भोधि प्रभु राघवम् ॥१॥

भीगीतार्थसुधा नत्वा गुरुं तथाऽऽनन्दभाष्यकारं जगद्गुरुम् । करोम्यनुभवानन्दः सुधां मृत्युविनाशिनीम् ॥२॥ कर्मज्ञानप्रसाध्या भगवति परमा भक्तिरेकोभ्युपायः श्रेष्ठो मोक्षस्य वाच्यो मत मितिविदितं ज्ञापयिष्यन्मुकुन्दः। धर्माधर्मप्रसंगाद् विकलितमनसं पार्थमुद्दिश्य गीता- माहोपोद्घातरूपः सुदृढमभिहितस्तत्र चाद्यः प्रपाठः ॥३॥ प्रोक्तौ देहात्मबुद्धया स्वजनममतया बालिशे मोहशोको क्षीयेते तौ च बोधात् फलमतिरहितात् कर्मणः सोऽपि सिध्येत् । तस्माद् भक्तिः परेशे नियमितमनसा प्राप्यते सत्त्ववृद्धया तस्याः शान्तिर्धवात्मा फलमिदमशिषत् कृष्णचन्द्रो द्वितीये ॥४॥ ज्ञानं कर्मेति निष्ठाद्वयमिह जगति प्राहुराम्नायविज्ञाः कर्मारम्भं विहाय क्षणमपि भजते नैव कश्चित् प्रशान्तिम् । तस्मात् कर्मानुवृत्तिर्भगवति मनसा न्यस्य कर्माणि सम्यक् कर्तव्या पुण्यपुंसा गलितफलतृषा प्रोक्तमेतत् तृतीये ॥५॥ ग्रोक्ता कर्मप्रसंगान्निजविभवकथा नित्यकर्माणि पश्चात् कर्माकर्मस्वरूपं मतिसृतिमशिषत् कर्मभिः मम्प्रवृत्ताम् । यज्ञानां द्वादशानामनुकथनमितो ज्ञानयज्ञस्य मौख्यं ज्ञानाग्निर्नाशयत्येव वृनिननिचयं त्र्य इत्यभ्यधत्त ॥६॥ ज्ञानाकारं विधत्ते श्रुतिविदितफलं कर्म सम्पच्यमानं सन्यासस्तस्य नेष्टः सममतिरुदिता ह्यात्मलब्धेरुपायः । ३ जगद्गुरुश्रीअनुभवानन्दाचार्यकृता भोगानां दुःखदत्त्वाद्विरतिरतितरां पण्डितैस्तेभ्य इष्टा स्वर्थानेतानवादीत् प्रणतसुरतरुः पञ्चमे वासुदेवः ॥७॥ योगाभ्यासस्य रीतिर्विरतिरतिशया संसृतेर्मोहजाला- चातुर्विध्यं प्रतीतं सममतिरधिको योगिनां तत्र चोक्तः । योगस्योत्कृष्टसिद्धिः परगतिफलका श्रद्धया यः स युक्तो योगिवेष्तेषु चेड्य भजति हरिमिति प्राह षष्ठे पदार्थान् ॥८॥ याथार्थ्यं स्वस्य चोकं जगति जनचयो मायया मोहमाप्त- स्तामेतां ततुकामैंः स्वररिपुचरणे सुप्रपत्तिर्विधेया । सेवा देवान्तराणां परिमितफलदा नैव कार्या प्रपन्नै- आनी श्रेष्ठः समेषामितिमतमवदत् सप्तमे श्रीमुकुन्दः ॥९॥ प्रश्नाः पार्थस्य सप्त प्रतिवचनमथो वर्णनं चान्तिमस्य ब्रह्माऽनुध्यानतोऽद्धा ह्यसुगतिसमये ब्रह्मभावं सदैति । क्षेत्रज्ञस्याप्युपास्तौ प्रकृतिविरहिणः सद्गतिः सैव शुक्ला हेतुर्ने वागतेः सा सृतिरितिभगवानष्टमे स्पष्टमाख्यत् ॥१०॥ माहात्म्यं स्वस्य दिव्यं जगति भगवतो व्याप्तिरन्तः समस्मिन् भक्त्याराध्यः परेशः सुमहितमनसां लक्षणं कार्यमेषाम् । आवृत्तिश्चात्र भूयो विलयमुपगते कर्मिणां स्वर्गलोके ब्रह्मोपास्तेः स्वरूपं ततमिति नवमे प्रादिशद् देवदेवः ॥११॥ व्याप्तं विश्वं समस्तं किल चरमचरं येन सर्वाधिपेना- त्रासीमैश्वर्यशाली विमलगुणनिधिर्यः स्वतन्त्रः परात्मा ।

श्रीगीतार्थसुधा ३ यत्स्वायत्तस्वरूपस्थितिगतिरुदिता यद्विभूतिस्त्वनन्ता सर्वात्मा सोऽयमेकः प्रभुरितिदशमे निश्चिकायादिदेवः ॥१२॥ पार्थश्चैशं दिदृक्षुर्हि वपुरतिततं चर्म चक्षुर्न योग्य तस्मै दत्त्वा तु दिव्यं स्मयभय जनकं दर्शयामास कृष्णः । मेघान् विद्युन्महोध्रान् क्षितिजलधियुतान् सूर्यचन्द्रादिदेवान् दृष्ट्वा देवस्य देहे शरणमुपगतोऽवोचदेकादशेऽर्थान् ॥१३॥ श्रेष्ठोपायस्तु मुक्तेर्भगवति सुदृढा प्रीतिरेकैव शुद्धा तत्राशक्तस्य कर्मण्यभिरुचिरुचिता ह्यात्मनिष्ठस्य पुंसः । आत्मोपास्तेः प्रकारा अतिरतिमदिशत् स्वस्य भक्ते परेशः स्वार्थानेतानवादीच्छ्रितजनरतिकृद् द्वादशे च प्रपाठे ॥१४॥ क्षेत्रक्षेत्रज्ञरूपं प्रकृतिपुरुषयोर्भेद आत्मस्वरूप- ज्ञानोपायास्तथाऽत्र त्रिगुणपुरुषयोर्योगतो विश्वसृष्टिः । कर्तृत्वे हेतुरेका प्रकृतिरथ पुमान् भोक्तृभावे च हेतु- बन्धोच्छेदो विवेकात् त्रिसहितदशमे शौरिणोक्ता इमेऽर्थाः ॥१५॥ सूते विश्वं समस्तं प्रकृतिरनुपमा ब्रह्मस्वायत्तमूर्तिः सत्वादीनां त्रयाणां प्रकृतिगुणतया देहिनो बन्धकत्वम् । लिङ्गं कार्यञ्च तेषां खल्लु मतिकृतिभिर्दर्शितं तत्कृतोऽयं बन्धो भक्त्या प्रहेयो द्विगुणित उदिताः सप्तकेऽर्थी मुदते ॥१६॥ संसारोऽश्वत्थवृक्षः श्रुतिविदितपदोऽव्यक्तमूलश्च तं वै छित्वाऽसङ्गाख्यहेत्या प्रपदनमनिशं राघवेशे विधेयम् ।

३६ जगद्गुरुश्रीहयानन्दाचार्यकता बद्धान्मुक्तात् परश्चोत्तमपुरुष इति ख्यात ईशः स्वतन्त्रो भर्ता चास्म्येक एवावददिति दशमे पञ्चयुक्तेऽर्थजातम् ॥१७॥ दैवी सम्पज्जनानां भवति सुकृतिनां मुक्तये कर्मबन्धा- नित्यं बन्धाय लोके कुटिलमतिजुषामासुरी सा दुरन्ता । कार्याकार्यव्यवस्थां दिशति हिततमं शास्त्रमेतस्य त्याग- श्चासुर्या मूलमुक्तं निरयफलमिमे षोडशे वर्णितार्थाः ॥१८॥ वैधं शास्त्रीयकर्म त्रिगुणपरवशं यज्ञदाने तपश्च त्रैविध्यं तस्य वेद्यं सुकृतियुतनरैः सात्विकैः सात्विकं वै ग्राह्यं नैवासुरं तत् खलु फलरहितं लक्षणं तस्य सम्यक् श्रीमत्कृष्णेन चोक्तं वरमिह दशमे सप्तयुक्ते प्रपाठे ॥१९॥ सन्यासः त्यागरूपो जगति मनुजैः सत्वमालम्बनीयं सीतानाथः परेशोऽमलगुणजलधिर्दिव्यदेहोऽवतारी । सर्वज्ञः सर्वशक्तिः कृतिचयफलदः कर्मणां संविधाता सायुज्यं तत्प्रपत्त्या भवति तनुभृतां प्रोक्तमन्त्येऽत्र चैतत् ॥२०॥ श्रीगीतार्थसुधा चैषाऽनुभावानन्दनिर्मिता। जन्ममृत्युविनाशाय भूयान्मननशालिनाम् ॥२१॥ (स्वशताब्दीमहोत्सवे जगद्गुरुश्रीअनुभवानन्दाचार्योपदिष्टः प्रबन्धः)

श्रीसीतारामाभ्यां नमः।
प्रतिपक्षिभयङ्करजगद्गुरुश्रीहर्यानन्दाचार्य-
सिद्धशिरोमणिप्रणीता
प्रमाणदीपिका
(स्वशताब्दोमहोत्सवे श्राहर्यानन्दाचार्योपिदिष्टः प्रबन्धः)
राम सीतां तथाचार्य श्रियानन्दं प्रणम्य च ।
प्रमाणानां प्रकाशाय कुर्वे प्रमाणदीपिकम् ॥१॥
अथ प्रत्यक्षप्रमाणमयूखः
चिदचिदोशतत्त्वाना ज्ञानं प्रामाणिकं च यत् ।
मोक्षस्य साधनं तद्धि 'भोक्ता भोग्यमितिश्रुतेः ॥२॥
प्रमायाः करणं तत्र प्रमाणं सम्मतं वुधैः ।
अबाधव्यवहारस्यानुगुणा तु मतिः प्रमा ॥३॥
करणं चावगन्तव्यं व्यापारशालि कारणम् ।
त्रिधा प्रमाणमध्यक्षानुमानशब्दमेदतः ॥४॥
सम्भवस्योपमानस्य चार्थापत्तेस्तथैव हि ।
अन्तर्भावोनुऽमाने तु तत्त्वज्ञैरुररीकृतःः ॥५॥
ऐनिह्यमाप्तमूलं यच्छब्दे चान्तर्भवत्यदः ।
अनुमानाङ्गतर्कस्य मन्यते स्वाङ्गिरूपता ॥६॥
भावान्तरेण चभावप्रतीतिरुपपद्यते ।
अभावाख्यः पदार्थश्चातिरिक्तो मन्यते न तत् ॥७॥

जगद्गुरुश्रोहानन्दाचार्यकृता
अतिरिक्त प्रमाणं तन्नानुपलब्धिनामकम् ।
अभावसाधकत्वेन प्रमाण हिं मन्यते ॥८॥
अनुमाध्यक्षशाब्दीतिभेदात् त्रिधा मता प्रमा।
ज्ञानाकरणकं ज्ञानं प्रत्यक्षत्वेन सम्मतम् ॥९॥
प्रत्यक्षं द्विविधं चाथ तत्राद्य निर्विकल्पकम् ।
अनेकवृत्तिजात्याद्यविषया शेमुषी च तत् ॥१०॥
प्रत्यक्ष चापरं प्रोक्तं विद्वद्भिः सविकल्पकम् ।
अनेकवृत्तिजात्यादिविषया शेमुषी च तत् ॥११॥
प्रत्यक्षं द्विविधं चैतद् द्वैविध्यं च गतं पुनः ।
अर्वाचीनमथानर्वाचीनञ्चेतिविभेदतः ॥१२॥
एकमिन्द्रियसापेक्षमपरं तद्विलक्षणम् ।
स्वयंसिद्धं च दिव्यं च द्विविधमादिमं तथा ॥१३॥
योगजन्यं च तत्राद्यं परञ्चेशप्रसादजम् ।
प्रत्यक्षानुभवे तत्र करणमिन्द्रियं मतम् ॥१४॥
व्यापारस्तत्र संयोगः संयुक्ताश्रयणं तथा ।
अर्वाचीनेतरद् बोध्यं प्रत्यक्षमीशमुक्तयोः ॥१५॥
पूर्वानुभवतश्चात्र संस्कृतिरुपजायते ।
सदृशादृष्टचिन्ताधैरुदबुद्धा संस्कृतिर्भवेत् ॥१६॥
उद्बुद्धसंस्कृतेर्जाता स्मृतिः प्रत्यक्षमेव हि ।
प्रतिभाप्रत्यभिज्ञे च प्रत्यक्षे एव सम्मते ॥१७॥

प्रमाणदीपिका
'यथार्थ सर्वविज्ञानमिति वेदविदां मतम् ।
शुक्तावपि हि रौप्यांशाः पञ्चोकरणतो मताः ॥१८॥
शुक्तिरौप्यमतेस्तस्मात् सत्यालम्बनता मता।
शुक्तिरौप्यमतिर्धान्ता रौप्यांशाल्पत्वहेतुतः ॥१९॥
इतिप्रतिपक्षिभयङ्करजगगुदरुश्रीहर्यानन्दाचार्य-
सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायां
प्रत्यक्षप्रमाणनिरूपणाख्यः
प्रथमो मयूखः॥१॥
अथानुमानप्रमाणमयूखः
अनुमाकरणं चाथानुमानं परिकीर्तितम् ।
साधकतममेवात्र करणं प्राज्ञसम्मतम् ॥१॥
ततो लिङ्गपरामर्शोऽनुमायां करणं मतम् ।
व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामिका ॥२॥
तज्जा चानुमितिः पक्षे साध्यबुद्धिमता बुधैः ।
साध्याधारस्थता हेतौ व्याप्तिः प्राज्ञैः प्रकीर्तिता ॥३॥
साहचर्यस्य भूयिष्ठदर्शनाद् व्याप्तिधीर्भवेत् ।
तदर्शनं सपक्षे हि भवेन्निश्चितसाध्यके ॥४॥
साध्यशून्यो विपक्षश्च पक्षः सन्दिग्धसाध्यकः ।
अन्वयव्यतिरेकी हि हेतुश्च केवलान्वयी ॥५॥
यत्सत्त्वे खलु यत्सत्त्वमन्वयव्याप्तिरीरिता ।
यच्छून्यत्वं च यच्छून्येऽभावव्याप्तिर्हि साधने ॥६॥

जगद्गुरुश्रीहर्यानन्दाचार्यला
अन्वयव्याप्तितश्चाथान्वयी हेतुर्बुधैर्मतः ।
अभावव्याप्तितो हेतुर्व्यतिरेकी समीरितः ॥७॥
सिद्धान्ते द्विविधश्चैव सद्धेतुर्बुधसम्मतः ।
केवलव्यतिरेकी तु सिद्धान्ते मन्यते न हि ॥८॥
उभे चात्रानुमानाङ्गे व्याप्तिश्च पक्षधर्मता ।
द्वयोरन्यतरस्याथ विरहे हेतुदुष्टता ॥९॥
व्यभिचारी विरुद्धोऽथासिद्धः सत्प्रतिपक्षकः ।
बाधितश्चेति पञ्चापि हेत्वाभासाः प्रकीर्तिताः ॥१०॥
हेतुश्च व्यभिचारी हि स्वस्थानातिक्रमे भवेत् ।
स ह्यनैकान्तिकश्चाथ द्विविधः परिकीर्तितः ॥११॥
विपक्षेऽपि स्थितश्चेत् स साधारणो मतस्तदा ।
बुधैः सपक्षमात्रस्थोऽसाधारण उदाहतः ॥१२।।
साध्याभावेन स व्याप्तो विरुद्धत्वेन सम्मतः ।
आदिमस्त्रिष्वसिध्देष्वाश्रयासिद्धः समीरितः ॥१३॥
पक्षश्च पक्षताऽवच्छेदकशून्यश्च तत्र हि ।
पक्षे च हेतुराहित्यं स्वरूपासिद्धता स्मृता ॥१४॥
व्यप्यत्वासिद्धता चात्र द्विधा प्राज्ञैः समर्थिता ।
व्याप्तिग्राहकमानस्य शून्यत्वात् तत्र चादिमा ॥१५॥
हेतावुपाघिसत्त्वाच्च द्वितीया सम्मता बुधैः ।
साध्यव्यापकतायां च साधनाव्यापकत्वकम् ॥१६॥

उपाधित्वेन सम्प्रोक्तं हेतोः परमदूषणम् । प्रतिपक्षस्य सत्त्वे तु हेतोः सत्प्रतिपक्षता ॥१७॥ यस्य प्रबलमानेन साध्याभावो विनिश्चितः। दार्शनिकैः स हेतुहि बाधितः सम्प्रकीर्तितः ॥१८॥ अनुमानं द्विधा स्वार्थ परार्थ :चेति भेदतः । स्वार्थेन स्वानुमा चात्र परार्थेन परानुमा ॥१९॥ न्यायजस्तु परामर्शः परानुमितिकारणम् । न्यायस्तत्र प्रतिज्ञाद्यवयवपञ्चकं मतः ॥२०॥ प्रतिज्ञा साध्यनिर्देशो हेतूक्तेर्हेतुता तथा । व्याप्तिनिर्देशपूर्वा हि दृष्टान्तोक्तिरुदाहता ॥२१॥ च्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । निगमनं तु साध्यस्योपसंहारवचः खलु ॥२२॥ नैयायिका भवन्त्येतत्पञ्चावयववादिनः । वेदान्तिनो वदन्त्येष्वनुमासिद्धौ यथारुचि ॥२३॥ इति प्रतिपक्षिभयङ्करजगद्गुरुश्रीहर्यानन्दाचार्य- सिद्धाशिरोमणिप्रणीतायां प्रमाणदीपिकाया-- मनुनानप्रमाणनिरूपणाख्यो द्वितीयो मयूखः ॥२॥ अथ शब्दप्रमाणमयूखः अनाप्तानुक्तवाक्यस्य शब्दप्रमाणता मता । द्वारं पदार्थबुद्धिश्च शक्तिधीः सहकारिणी ॥१॥ --

जगद्गुरुश्रीहर्यानन्दाचार्यकता
वाक्यं पदसमूहश्च शक्तं पदतया मतम् ।
अभिधाख्या च शक्तिर्हि वेदस्यार्थावबोधिता ॥२॥
मुख्या वृत्तिः पदस्यार्थे सब प्रारुदीरिता ।
घटेत्युक्ते घटे चैवं शक्तिर्घटपदस्य हि ॥३॥
सम्बन्धोऽभिहितः प्राज्ञैर्वृत्तिः पदपदार्थयोः ।
मुख्यार्थस्य हि बाधे तु वृत्तिमतौपचारिकी ॥४॥
गौणी च लक्षणा चेति भेदात् सा द्विविधा पुनः ।
शक्यस्य गुणवत्त्वेन त्वाद्या वृत्तिर्मता बुधैः ॥५॥
लक्षणा शक्यसम्बन्धः साऽन्वयानुपपत्तितः ।
जहदथाजहच्चेति द्विधा सा परिकीर्तिता ॥६॥
आकांक्षायोग्यताऽऽसत्तिमद् वाक्यं हि प्रमापकम् ।
प्रमाणमखिलो वेदः सिद्धे व्युत्पत्तिसम्भवात् ॥७॥
भागद्वयं हि वेदस्य कर्मब्रह्माभिधायकम् ।
तत्राद्ये कथितं कर्म ब्रह्माराधनलक्षणम् ॥८॥
शास्त्रे हि पूर्वमीमांसाऽऽख्येऽस्य शंकाः समाहिताः ।
ब्रह्मणो वर्णितं चान्त्ये स्वरूपं च गुणादिकम् ॥९॥
एतच्छङ्कासमाधानं मीमांसा चोत्तरा मता ।
मता मीमांसयोस्तस्मादुभयोरेकशास्त्रता ॥१०॥
विध्यर्थवादमन्त्रेतिभेदाद् वेदस्त्रिधा मतः ।
सम्मतस्तत्र विद्वद्भिर्विधिवाक्यं प्रवर्तकम् ॥११॥

प्रमाणदीपिका
विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गोयते ॥१२॥
इत्येवं हि विधिः प्राज्ञेस्त्रिविधः सम्प्रकीर्तितः ।
नित्यो नैमित्तिकः काम्यश्चापि भेदा विधेर्मताः ॥१३॥
प्रवृत्त्युत्तम्भकं वाक्यमर्थवादतया मतम् ।
मन्त्रत्वेन मतो वेदोऽनुष्ठेयार्थप्रकाशकः ॥१४॥
शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा ।
कल्पश्चेति षडङ्गानि वेदस्योक्तानि वैदिकैः ॥१५॥
पूर्वक्रमविशिष्टा हि वेदाश्चेशसमीरिताः ।
नित्या अपौरुषेयास्ते तस्माद् बुधैश्च सम्मताः ॥१६॥
नित्यो वेदश्च निदोषो वाभावाद्धि सम्मतः ।
प्रामाण्यं हि बुधैर्वेद स्वीकृतं स्वत एव तत् ॥१७॥
स्मृत्यादेस्तु प्रमाणत्वं वेदमूलतया मतम् ।
शास्त्रं वेदविरुद्धं च नैव याति प्रमाणताम् ॥१८॥
देहस्य वाचकाः शब्दा पर्यवस्यन्ति देहिनि ।
सर्वशब्दकवाच्यस्तद् रामः सर्वशरीरकः ॥१९॥
इति प्रतिपक्षिभयङ्करजगद्गुरुश्रीहर्यानन्दाचार्यसिद्धशिरोमणिप्रणीतायां
प्रमाणदीपिकायां शब्दप्रमाणनिरूपणाख्यस्तृतीयो मयूखः ॥३॥
श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता।
प्रकाशिका प्रमाणानां भूयात् प्रमाणदीपिका ॥२०॥

जगद्गुरुश्रीमदनुभवानन्दाचार्याष्टकम्
रक्षकं वैष्णवानां च धर्मवारिधिवर्धकम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥१॥
रामानन्दकृतानन्दभाष्याब्जस्य प्रभाकरम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥२।।
भक्तिगङ्गाप्रवाहेण मुक्तिदं लोकपावनम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥३॥
विशिष्टाद्वैतवादेन वादिवादापसारकम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥४॥
सर्वसिद्धिप्रदातारं सिद्धेन्द्रं सिद्धसेवितम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥५॥
मुद्रोर्ध्वपुंड्रमालादे रक्षकं परमं बुधम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥६॥
श्रीगीतार्थसुधाकारं सदाचारोपदेशकम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥७॥
त्रयाणां च रहस्यानां भव्यव्याख्याविधायिनम् ।
नमाम्यनुभवानन्दं द्वाराचार्य जगद्गुरुम् ॥८॥
वैष्णवभाष्यकारश्रीवैष्णवाचार्यनिर्मितम् ।
अष्टकं भवतादेतत् सर्वकल्याणकारकम् ॥९॥

जगद्गुरु श्रीद्वन्द्धरामाचार्यजी Sta जगद्गुरुश्रीदुन्दुरामाचार्यप्रणीतं भक्तनिरूपणम् श्रीसुशीलासुतं नत्त्वा भाष्यकार तथा गुरुम् । भक्तलक्षणबोधाय कुर्वे भक्तनिरूपणम् ॥१॥ ज्ञानिनः शान्तचित्ताश्च दयाशीला गतस्पृहाः । परेषां पोडका ये न श्रेष्ठा भक्ताश्च ते मताः ॥२॥ अन्यदोषं न पश्यन्ति सर्वप्राणिहितैषिणः । ईर्ष्याविरहिता ये च श्रेष्टा भक्ताश्च ते मताः ॥३॥ संग्रहवृत्तिहोनाश्च तुष्यन्ति स्वल्पतश्च ये । भगवत्पादभक्ताश्च श्रेष्ठा भक्ताश्च ते मताः॥१॥ रामयज्ञसहायाश्च सर्वत्र समदर्शिनः । श्रीरामपूजका ये च श्रेष्ठा भक्ताश्च ते मताः ।।५।। नन्दन्ति वीक्ष्य रामार्चा स्वाचार्य ग्रन्थपाठकाः ।

निन्द्यकर्मविहीना ये श्रेष्ठा भक्ताश्च ते मताः ॥६॥
नासत्यवादिनो ये च प्रियसत्यस्य भाषिणः ।
ग्राहकाः सद्गुणानां ये श्रेष्ठा भक्ताश्च ते मताः ॥७॥
परेषां हानिलाभौ तु स्वीयवद् वीक्षकाश्च ये ।
साधुसेवारता ये च - ष्ठा भक्ताश्च ते मताः ॥८॥
भागवतकथायाश्च श्रवणे कथने तथा ।
निरताः सात्विका ये च श्रेष्ठा भक्ताश्च ते मताः॥९॥
उत्कण्ठिताश्च ये नित्यं भगवन्नामकीर्तने ।
रोमाञ्चशालिनो ये च श्रेष्ठा भक्काश्च ते मताः ॥१०॥
च्युता नाश्रमधर्मेभ्यश्चातिथिपूजकाश्च ये ।
गुरुशास्त्रवशा ये च श्रेष्ठा भक्ताश्च ते मताः ॥११॥
संस्कारपञ्चकापन्ना आकारत्रयशालिनः ।
रहस्यत्रयवेत्तारः श्रेष्ठा भक्ताश्च ते मताः ॥१२॥
अर्थपञ्चकतत्त्वज्ञा रामकैकर्यकारकाः ।
सदाचाररता ये च श्रेष्ठा भक्ताश्च ते मताः ॥१३॥
सात्विकाहारशीलाश्च वैष्णवा हरिचिन्तकाः ।
एकादशीव्रतासक्ताः श्रेष्ठा भक्ताश्च ते मताः ॥१४॥
सच्छास्त्रे सद्गुणे सक्ताः सन्निष्ठाः सत्प्रवृत्तयः ।
विषयेभ्यो विरक्ता ये श्रेष्ठा भक्तश्च ते मताः ॥१५॥
वैष्णवानाश्च पूजायां र्कीत्तने वन्दने तथा ।
श्रद्धयोत्कण्ठिता ये च श्रेष्ठा भक्ताश्च ते मताः ॥१६॥
द्वारपीठेश्वरश्रीमदुन्दुरामार्यनिर्मितम् ।
भगवद्भक्तिद भूयादेतद् भक्तनिरूपणम् ॥१७॥

नमः परब्रह्मणे भगवते श्रीरामाय । श्रीविशिष्टाद्वैतसिद्धान्तो विजयतेतराम् । जगद्गुरु श्रीश्रियानन्दाचार्यसिद्धान्तविजयिप्रणीतः सिद्धान्तविजयः कार्यकारणरूपं च चिदचिद्देहिनं विभुम् । दिव्यदेहगुणं वन्दे श्रीमदरामं परेश्वरम् ॥१॥ भक्तिज्ञाननिधिं नत्वा पूर्णानन्दं जगद्गुरुम् । सिद्धान्तेविजयं कुर्वे सत्सिद्धान्तावबुद्धये ॥२॥ सिद्धान्तेषु च सर्वेषु विशिष्टाद्वैतमेव हि । श्रौतत्वात् युक्तियुक्तत्वाद् विश्वे विजयतेतराम् ॥३॥ प्राचीनैस्तत्त्वविद्भिर्हि वाल्मोक्यादिमहर्षिभिः । स्वीकृतत्वाद् यशश्चास्य दिङ्मण्डले सुविस्तृतम् ॥४॥ ग्रन्थैः सूत्रादिभिश्चास्य व्यासादयः प्रचारकाः । बोधायनाख्यवृत्त्याऽतिबर्धकः पुरुषोत्तमः ॥५॥ मेदामेदाभिनन्दिन्यः सन्ति याः श्रुतयश्च ताः। सर्वाः समन्विताश्चास्मिन् सिद्धान्ते बुधसम्मते ॥६॥ भोकाभोग्येति मेदोक्तिविशेषणविशेष्ययोः । अद्वैतश्रुतिवृन्दस्य विशिष्टाद्वैतबोधिता ॥७! देहात्मनोविभिन्नत्वे देहिनश्चकता यथा । मेदे चिदचिदीशानां विशिष्टस्यैकता तथा ॥८॥ घटकश्रुतिभिर्देही चेतनाचेतनौ मतौ । मतश्चात्मतया ब्रह्म ताभिश्चिदचितोरथ ॥९॥ सम्बद्धे त्वपृथसिद्धया रामे चिदचिती यतः ।

ततो ब्रह्मशरीरत्वाद् विशेषणे मते च ते ॥१०॥ व्यावृत्तिः स्वीकृता यस्माच्चिदचित्तत्त्वयोमिथः । तयोर्विशेषणत्वं तद् व्यावर्तकतयाऽक्षतम् ॥११॥ सूक्ष्माचिच्चिविशिष्टं हि ब्रह्म कारणमुच्यते । स्थ्लाचिचिद्विशिष्टंतु ब्रह्म कार्यतया मतम् ॥१२॥ विशिष्टयोस्तयोरैक्चं विशिष्टाद्वैतमुच्यते । कार्यकारणयोरैक्यं सिद्धान्ते स्वीकृतं यतः ॥१३॥ अन्यथा सर्वविज्ञ नमेकविज्ञानतः कथम् । सिद्धयेच्छुतिमतं चैतद् भावनीयं मनीषिभिः ॥१४॥ यतो वेत्यादिवाक्येनाभिहिता ब्रह्महेतुता । सत्त्यद्भावश्रुतत्वाद्धि कार्यता ब्रह्माण मता ॥१५॥ अक्षतं निर्विकारत्वं ब्रह्मणः श्रुतिसम्मतम् । सद्वारिका मता यस्माद् ब्रह्मणः परिणामिता ॥१६॥ नामरूपविभागस्यानर्हता सूक्ष्मता मता । तद्भिन्ना स्थूलता चात्र चिदचितोरुदीरिता ॥१७॥ विशेषणान्वयि द्वित्वं मतं विशिष्टयोरिति । अरुणाम्बुजयोश्चाथ शुक्लकलशयोरिव ॥१८॥ वेदविद्भिश्च तत्त्वज्ञैब्रह्मोपसनतत्परैः । सर्वश्रेष्ठतया प्रोक्तं विशिष्टाद्वैतमेव तत् ॥१९॥ पूर्णानन्दायशिष्यश्रीश्रियानन्दार्यनिर्मितः । सिद्धान्तविजयो भूयात् सिद्धान्तबोधकः सताम् ॥२०॥ -

प
Aatmla
Hon
HTM
जगद्गुरुश्रीभावानन्दाचार्यप्रणोतं
शिक्षादशकम्
श्रीसीतेशसमारम्भा श्रीशुकाचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥१॥
रामानन्दं गुरूं नत्वा ह्यानन्दभाष्यकारकम् ।
शिक्षाया दशकं कुर्वे सदाऽऽनन्दप्रदायकम् ॥२॥
नित्यं विहाय निद्रां हि मुहूर्ते ब्रह्मसंज्ञके ।
चिन्त्यतां ब्रह्मसंज्ञश्च सीतानाथः परात्परः ॥३॥
हन्तुं हि लोकदुःखारिं हतुं चाज्ञानजं तमः ।
वोक्षितुं सत्यपन्थानमुत्थानं सुविधीयताम् ॥४॥

साहाय्यं क्रियतां नित्यं दीनानामिष्टसिद्धये ।
दुःखं च दुःखिनां दृष्ट्वा दुःखिना स्वेन भूयताम् ॥५॥
मनसा वचमा चाथ कर्मणा चर्यतां तथा ।
सदयः स्यात् सदाचारी सत्यभाषो यथा जनः ॥६॥
लोभत्रोधमदादींश्च महाशत्रून् सुहन्यताम् ।
एतेषां बलवत्वे तु श्रियतां साधुसंगतिः ॥७॥
सद्विचारसदाचारावुपादेयौ सदा भुवि ।
तदर्थं मानवैनित्यं सत्सेवा सु विधोयताम् ॥८॥
निःश्रेयसस्य सन्मार्गों रामभक्तिर्विनिश्चिता ।
तस्याश्चालम्बनं कार्य सर्व त्यक्त्वा मुमुक्षुभिः ॥९॥
स्वसमः क्रियतां लोको गुणिना सुखिना तथा ।
उभावप्यधिको शोभां प्राप्नुयातां तथा भुवि ॥१०॥
आलस्यं वर्जयित्वाऽत्र सत्कर्म क्रियतां जनैः ।
रामाषितं कृतं कर्म श्रेष्ठं नैष्कर्म्यतो मतम् ॥११॥
आत्मानात्मद्वयज्ञानमयतां सद्गुरोर्जनैः ।
गुरुं रामं च संसेव्य तरणायो भवार्णवः ॥१२॥
शिक्षाया दशकञ्चेदं रामानन्दार्यशिक्षितम् ।
भवाब्धितारकं भूयाद् भावानन्दार्यनिर्मितम् ॥१३॥

No text on this page.

Shrauthartha Sangraha

Author
Anubhavandaachar^ya
Title
Sharutar^tha San'graha
File name
Shrauthartha Sangraha
Text
OCR done
Published
2006/04/7
Publisher
Ramananda Peet,gujarat
Language
Sanskrit
Pages
58
Library
Carnegie Mellon University
Classification
Philosophical Systems
Keywords
Visistadvaita Philosophy
DLI number
486248
Barcode
1990020102860.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
6raIVlMAjNE
Download PDF

Shrauthartha Sangraha