Sringeri Sharada Peetham
Taittiriyopanishat
Front matter
आनन्दाश्रमसंस्कृतग्रन्थावलिः
ग्रन्थाङ्कः १२
कृष्णयजुर्वेदीया
तैत्तिरीयोपनिषत् ।
आनन्दगिरिकतटीकासंवलितशांकरभाष्योपेता ।
'पण्डित वामनशास्त्री इसलामपुरकर । इत्येतैः
संशोधिता।
तथा
शंकरानन्दकृता तैत्तिरीयोपनिषदीपिका ।
एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम् ।
पुस्तकमेतत्
बी. ए. इत्युपपदधारिभिः
विनायक गणेश आपटे
इत्येतैः
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितम् ।
पञ्चमीययमङ्कनावृत्तिः।
शालिवाहनशकाब्दाः १८५१
खिस्ताब्दाः १९२९
( अस्य सर्वेऽधिकारी राजशासनानुसारेण स्वायत्तीकृताः)।
मूल्य पादोनरूपंकद्वयम् (११२)।
- . - . आदर्शपुस्तकोल्लेखपत्रिका -परी- तैत्तिरीयोपनिषद आदर्शपुस्तकानि येषां मिलितानि तेषां नामानि पुस्तकानां संज्ञाश्चाधोदेशे प्रदर्श्यन्ते- क. इति संज्ञितम् - तैत्तिरीयोपनिषद्भाष्यम् । वैराजक्षेत्रनिवासिनां वे. शा. सं." शिवराम वीरेश्वर शास्त्री भट्ट" इत्येतेषाम् । ख. इति संज्ञितम्-मूलं सटीकं काश्यां शिलामुद्रितम् | रा. रा." महादेव चिमणाजी आपटे " इत्येतेषाम् । मुद्रणकालः संवत् १९४१। ग. इति संज्ञितम्-मूलं सटीकम् । इन्दूरपुरनिवासिनां किबे इत्युपाहानां श्री. रा. रा. “ भाऊसाहेब बाळासाहेब " इत्येतेषाम् । घ. इति संज्ञितम्-मूलं सभाष्यम् । पुण्यपत्तननिवासिनां 'खाजगीवाले' इन्युपालानां श्री. रा. रा. “ तात्यासाहेब " इत्येतेषाम् । ङः इति संज्ञितम्-मूलं सभाष्यम् । पुण्यपत्तनिवासिनो खाजगीवाले' इत्युपाहानां श्री. रा. रा. “ तात्यासाहेब" इत्येतेषाम् । च. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यं शीक्षा भृगुवल्लीद्वयात्मकं समूलं सटी- कम् । खेहकरोपासानां श्री. रा. रा. आनन्दराव लक्ष्म- ण ( भाऊसाहेब ) " इत्येतेषाम् । इ. इति संज्ञितम्-तैत्तिरीयोपनिषद्भाष्यम् । विंचूरपुरनिवासिनां श्री. रा. रा. " रावसाहेष अण्णासाहेब इत्येतेषाम् । न. इति संज्ञितम्-मूलं सटीकम् । चिंचूरपुरनिवासिनां श्री. रा. रा. साहेब अण्णासाहेब" इत्येतेषाम् । झ. इति संज्ञितम्-मूलं सटीकम् । बिचूरपुरनिवासिनां श्री. रा. रा.. " राव. साहेब अण्णासाहेब इत्येतेषाम् । लेखनकालः शके १६३२॥ न. इति संज्ञितम्-मूलं सटीकभाष्योपेतम् । करवीरपुरनिवासिनां श्रीयुतानां वे. शा; सं. गुरुमहाराजानाम् । लेखन काल संवत् १८६६। " राव- (२) है. इति संज्ञितम्-वैचिरीयोपनिषद्भाष्यम् । करवीरपुर निवासिनी द्रविडो. पाहानां वे. शा. सं. रा. रा, नानाशास्त्रिणाम् । उ. इति संज्ञितम्-वैत्तिरीयोपनिषद्भाष्यम् । समूलं सटीकम् । कलिकातानगरे मुद्रितं पुण्यपत्तननिवासिनो के. के. शा. सं. देवोपाहबाल- शास्त्रिणाम् । इ. इति संज्ञितम्-तैत्तिरीयोपनिषद्राव्यं सटीकम् । नागपुरनिवासिनी श्री. रा. रा. " अप्पासाहेब बुटी" इत्येतेषाम् । अथ शंकरानन्दविरचित दीपिकाया आदर्शाल्लेखपत्रिका । क. इति संज्ञिता-वैत्तिरीयोपनिषदीपिका । पुण्यपत्तननिवासिनो श्री. रा. रा. " भाऊसाहेब नगरकर" इत्येतेषाम् । स. इति संज्ञिता--तैत्तिरीयोपनिषदीपिका । वटोदरनिवासिना पटवर्धन इत्यु पाहानां रा. रा. कृष्णराव भीमाशंकर " इत्येतेषाम् । ग. इति संज्ञिता-तैचिरीयोपनिषदीपिका शीक्षाध्यायमात्रा। प्रान्तिनसका. शादागता*। प. इति संज्ञिता-तैत्तिरीयोपनिषद्दीपिका। रा. रा. ." महादेव चिमणाजी आपटे" इत्येतेः प्रेषिवा +। समाप्लेषाऽऽदर्शाल्लेखपत्रिका ॥ * एतत्स्वामिनो नाम न ज्ञायते । एतत्पुस्तकस्यापि स्वामिनी नाम न बातम् ।
" ॐ तत्सब्रह्मणे नमः। कृष्णयजुर्वेदीयतैत्तिरीयारण्यकान्तर्गता तैत्तिरीयोपनिषत् । आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता। ४ ६ यत्प्रकाशसुखाभिन्नं यन्मन्त्रेण प्रकाशितम् । विवृतं ब्राह्मणे तत्स्यामदृश्यं ब्रह्म निर्भयम् ॥ १ ॥ यजुर्वेदशाखामेदं तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यं ब्रह्म जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षित, सत्यज्ञाना- दिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं नमस्कारच्छलेन संक्षेपतो दर्शयति- यस्माज्जातं जगत्सर्व यस्मिन्नेव प्रलीयते । येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥ १ ॥ : यस्माज्जातमिति । निमित्तोपादानत्वयोः पञ्चम्याः साधारण्यादुभयविधमपि हेतु- त्वमविवक्षितम् । कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह-यस्मिन्नि- तिः । कार्यसाधारणस्य निमित्ते धर्मादावपि प्रसिद्धत्वात्साधारणकारणत्वमाह येनेति । ज्ञानात्मन इति स्वरूपलक्ष सूचनम् ॥ १॥ गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति-- यैरिमे गुरुभिः पूर्व पदवाक्यप्रमाणतः । व्याख्याताः सर्ववेदान्तास्तानित्यं प्रणतोऽस्म्यहम् ॥ २॥ यैरिति । पदानि च वाक्यानि च प्रमाणं चानुमानादि तद्विवेचनेन व्याख्याता इति ॥ २ ॥ चिकीर्षितं निर्दिशति-- तैत्तिरीकसारस्य मयाऽऽचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संपणीयते ॥ ३ ॥ १ ख, ग. च. ज. झ. ट. यन्मात्रेण । २ ख. ग. च. 'रबले । ३ क. घ. च. छ. ज. झ. व विधीय । ब व विली । ४ क. ख. ग. ज. ठ. 'पि कारणत्व । ५ क. ख. ग. च. ज. झ.ट. "वमिहावि । ६ क. ख. ग. च. ज. ट. तेऽपि ध । ७ क. ख. ग. च. ज. ट. मादौ प्र। ८ ख. मा न. रणं का"। ९ म. °णमाम्यह । १० क. ख. ग, च. ज. ट. इत्यर्थः ॥ २॥ ११ ख. ग. न. निदर्शयति ।
३ आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- तैत्तिरीयकेति । व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसंभवात्पदस्मारितपदार्थानां संसर्गायैव वाक्यार्थत्वात्सूत्रकारेणोपनिषत्तात्पर्यस्य निरूपितत्वाच्च व्यर्थः पृथाव्याख्यारम्भ इत्याशवयाऽऽह--विस्पष्टायति । मन्दमतीनां स्वत एव निःशेषपदार्थस्मरणासंमवा- दुपनिषद्तनिःशेषपदार्थानां विशिष्य निःसंशयं ज्ञानं ये रोचयन्ते तेषामुपकारायेत्यर्थः।।३। नित्यायधिगतानि कर्माण्युपात्तदुरितक्षयार्थानि, काम्यानि च फलार्थिनां पूर्वस्मिन्नन्थे । कर्मविचारेणैवोपनिषदो गतार्थत्वादुपनिषत्प्रयोजनस्य निःश्रेयसस्य कर्मभ्य एव संभ- वात्पृथव्याख्यारम्भो न युक्त इल्याशङ्कामपनेतुं कर्मकाण्डार्थमाह-नित्यानीति। " अथातो धर्मजिज्ञासा ” इति जैमिनिना धर्मग्रहणेन सिद्धवस्तुविधारस्य पर्युदस्त- त्वानोपनिषदो गतार्थत्वमित्यर्थः । तानि च कर्माणि संचितदुरितक्षयार्थानि “धर्मेण पापमपनुदति" इति श्रुतेर्न निःश्रेयसार्थानि । न केवलं जीवतोऽवश्यकर्तव्यान्यधिगतानि फलार्थिनां काम्यानि च । न तान्यपि निःश्रेयसार्थानि । "स्वर्गकामः" "पशुकामः" इत्यादिवन्मोक्षकामोऽदः कुर्यादित्यश्रवणात् । अतः संसार एव कर्मणां फलमित्यर्थः । इदानीं कर्मोपादानहेतुपरिहाराय ब्रह्मविद्या प्रस्तूबते । कर्महेतुः कामः स्यात् । प्रवर्तकत्वात् । आप्तकामानां हि कामाभावे स्वात्मन्यवस्थानात्मवृत्त्य- नुपपत्तिः । आत्यकामत्वे चाऽऽप्तकामता । आत्मा हि ब्रह्म । तद्विदो हि पर- माप्तिं वक्ष्यति। अतोऽविद्यानिवृत्ती स्वात्मन्यवस्थानं परप्राप्तिः । “अभयं प्रतिष्ठा एतमानन्दमयमात्मानमुपसंक्रामति " इत्यादिश्रुतेः । कर्मकाण्डार्थमुक्त्वा तत्राविचारितमुपनिषदर्थमाह-इदानीमिति । कर्मणामुपादा- नेऽनुष्ठाने यो हेतुस्तनिवृत्त्यर्थं ब्रह्मविद्याऽस्मिन्ग्रन्थ आरम्यते । अतः सनिदानकर्मोन्मू- लनार्थत्वादुपनिषदः कर्मकाण्डविरुद्धत्वान्न गतार्थत्वमित्यर्थः । कर्मानुष्ठाने हेतुर्नियोगस्तस्य प्रमाणसिद्धत्वान्न विद्यया विरोध इत्याशङ्कयाऽऽह-कर्महेतुरिति । अस्येदं साधनमि- स्येतावच्छास्त्रेण बोध्यते । यस्य यत्राभिलाषः स तत्र प्रवर्तते कामत एव । अतो न नियोगस्य प्रवर्तक[ त्व ]संभावनाऽपीत्यभिप्रायः । सति कामे प्रवृत्तिरित्यन्वय उक्तः। कामाभावे न प्रवृत्तिरिति व्यतिरेकमाह-आप्तेति । अभिलषितविषयप्राप्तिः कामनिवृत्ती ९ विन्दते ॥ १. संस्मृ । १ क. ट. त्पदैः संस्मा । ख. ज. पदैः स्मा।३ झ. 'दार्थसं । ४ झ 'रेगीप १५ स. च. च. अ. झ. ट. 'नां निर्विशिौं । ६ ट. इतिव । ७ घ. छ. ज. निवृत्यर्थे in. च. "खेनाऽऽप्त' । ९ ङ. 'तेः । ननु का । १० क..ख. ग.. च. न. झ. र. :मण उपा। ११ झ. प्रारभ्यते।
३ १. प्रथमोऽनुवाकः] ... तैत्तिरीयोपनिषत् । हेतुः । न विद्या । अतः कथं कर्महेतुपरिहाराय विद्यारम्भ इत्याशङ्कयाऽऽह-आत्मका- मैत्वे चेति । कामितविषयोप्त्या कामस्य तात्कालिकोपशममात्रं न तूच्छेदः । पुनर्वि. षयाकाङ्क्षौदिदर्शनात् । आत्मकार्मेनाऽपि निरङ्कुशाऽऽत्मैव वस्तु नान्यत्ततोऽस्तीत्ये. वरूपाऽऽत्मकामत्वे सति भवति कॉमितेच्छाभावात् । आत्मनो यद्वयानन्दरूपमजान- नेव व्यतिरिक्तं विषयं पश्यन्कामयते । ततः कामस्याऽऽत्माविद्यामूलत्वादात्मविद्यैव तन्निवृत्तिहेतुरित्यर्थः । भवत्वात्मविद्या कामविरोधिनी कर्महेतुंपरिहाराय ब्रह्मविद्या प्रस्तूयत इति कथमुक्तं तत्राऽऽह--आत्मेति । आनन्दमयं परमात्मानमादाय श्रुति- रुदाहृता। काम्यप्रतिषिद्धयोरनारम्भादारब्धस्य चोपभोगेन क्षयानित्यानुष्ठाने प्रत्य- वायाभावादयत्नत एव स्वात्मन्यवस्थानं मोक्षः । अथवा निरतिशयायाः पीतेः स्वर्गशब्दवाच्यायाः कर्महेतुत्वाकर्मभ्य एव मोक्ष इति चेन । कर्माने- कत्वात् । अनेकानि ह्यारब्धफलान्यनारब्धफलानि चानेकजन्मान्तरकतानि विरुद्ध फलानि कर्माणि संभवन्ति । अतस्तेष्वनारब्धफलानामेकस्मिञ्जन्मन्यु- पभोगक्षयासंभवाच्छेषकर्मनिमित्तशरीरारम्भोपपत्तिः कर्मशेष सद्भावसिद्धिय " तर्धं इह रमणीयचरणाः " " ततः शेषेण" इत्यादिश्रुतिस्मृतिशतेभ्यः । इष्टानिष्टफलानामनारब्धानां क्षयार्थानि नित्यानीति चेन्न । अकरणे प्रत्पना- यश्रवणात् । प्रत्यवायशब्दो ह्यनिष्टविषयः । नित्याकरणनिमिसस्य प्रत्यवायस्य दुःखरूपस्याऽऽगामिनः परिहारार्थानि नित्यानीत्यभ्युपगमानानारपफल- कर्मक्षयानि । यदि नामानारब्धकर्मक्षयार्थानि नित्यानि कर्माणि तथाऽध्य- शुद्धमेव क्षपयेयुर्न शुद्धम् । विरोधाभावात् । न हीष्टफलस्य कर्मणः शुंदरूपत्वा- नित्यैर्विरोध उपपद्यते । शुद्धाशुद्धयोर्हि विरोधो युक्तः । एवं तावत्कर्मकाण्डेनागतार्थत्वात्कर्मभ्योऽसंभाव्यमाननिःश्रेयसप्रयोजनत्वाञ्चोपनिषदो व्याख्यारम्भं संभाव्य पुनरनारम्भवादिनोऽभिप्रायमुद्भावति-काम्यप्रतिषिद्धयोरिति । आत्यन्तिकागामिशरीरानुत्पादे स्वरूपावस्थानं निःश्रेयसं, शरीरानुत्पादश्च हेत्वमावादेव ५ १९ । १ ग. च. त्वेनेति । २ ख. ग. च. ज. प्राप्तौ का । ३ क. ख. ग. च. न. र. 'क्षाद'।४ क. ख. झ. ट. 'मताऽपि । ५ क. ख. ज. ट. कामयितव्याभावादेवाऽऽत्मानं स । ६ ८. "म्भात्यार। ७ . 'ब्धयोश्चोप। ८ ख. ग. ङ, च. छ. न. झ. भोगक्ष । ९ ङ. न च । १० क .. स्वात्माव' । ११ रु. च. शयी । १२ अ. 'ब्धकर्मफ° । १३ घ. °षसंभव । १४ क. यदिह । १५ क. ङ. अ. "तः कर्मशे । १६ ब 'दिस्मृति । १७ ङ. 'यस्यासुखरू । १८ ख, ग, च. "शुभमे । १९ घ. न पुनः शु । २० ख. ग घ. १. च. छ. अ. ट. शुद्धिसः । २१ घ..., ८. शुद्धयशुद्धयोहि । २२ घ. छ. 'नरार । .
आनन्दागरिकृतटीकासंवलितशोकरभाष्यसमेता- [अक्षाध्याये- १ सेत्स्यति किं ज्ञानार्थोपनिषदारम्भेणेत्यर्थः । मतान्तरमाह-अथवेति । यदेव स्वर्गसाधा ज्योतिष्टोमादि तदेव मोक्षसाधनं निरतिशयप्रीतेः । स्वर्गपदार्थस्य मोक्षादन्यत्रासंभवात्मनि शरीरे क्लेशावश्यंभावादित्यर्थः । ऐकभविकपक्षमाचं मतं प्रत्याख्याति-नेत्यादिना । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्धं च नाऽऽरभेत मुमुक्षुस्तथाऽपि संचितस्यानेकस्य संभ- वाद्धेत्वभावोऽसिद्ध इत्यर्थः। प्रायेणानभिव्यक्तानि सर्वाण्येव कर्माणि संभूयेकं शरीरमारमन्तै तत्र सर्वेषामुपभोगेन क्षयि(पि)तत्वात्संचितं कर्मैव नास्तीतिशङ्कानिराकरणायोक्तम्-विरु- द्धफलानीति । स्वर्गनरकफलानां ज्योतिष्टोमब्रह्महत्यादीनामेकस्मिन्देहे भोगेन क्षयास- भवात्प्रायेणास्य सर्वाभिव्यञ्जकत्वे प्रमाणाभावालवता प्रतिबद्धस्य दुर्बलस्यावस्थानं सम- वतीत्यर्थः। संभावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्कयाऽऽह-कर्मशेषेति । प्रेत्य स्वक कर्मानुभूय ततः शेषेण जन्म प्रतिपय॑न्त इति स्वर्गादवरोहतां कर्मशेष(प)सद्भावं दर्शयती- त्यर्थः । संचितकर्मसद्भावमङ्गीकृत्य देहान्तरारम्भो न भविष्यतीत्याह-इष्टेति । एतद्भ- (भा)ट्टानां सिद्धान्तविरुद्धमित्याह-नेति । मुमुक्षुणाऽनुष्ठितस्य नित्यादेः संचितकर्मक्ष- यार्थत्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह- यदि नामति । न च कर्महेतूनां कामानां ज्ञानाभावे निवृत्त्यसंभवादशेषकर्मक्षयोपप्रत्तिः । अनात्मविदो हि कामोऽनात्मफलविषयत्वात्स्वात्मनि च कामानुपपत्तिनित्यपा- तत्वात्स्वयं चाऽऽत्मा परं ब्रह्मेत्युक्तम् । नित्यानां चाकरणमभावस्ततः प्रत्यवा- यानुपपत्तिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति “अकुर्वन्विहितं कर्म ' इति हि शतुर्नानुपपत्तिः । यञ्चोक्तं " मुमुक्षुः काम्यानि वर्जयेत् " इति तदप्यसति विवेकवले दुर्घटम् । सति मूलाज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह-न च कर्महेतूनामिति। ननु कामो नाज्ञा- नमूलः। आत्मविदामपि कामदर्शनादित्यत आह–स्वात्मनि चेति । सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामामास एव । वास्तवाभिनिवेशाभावादित्यर्थः । तेषामप्यचिरादिमार्गेण ब्रह्मप्राप्तेः कामनाs- स्तीति नाऽऽशङ्कनीयमित्याह-स्वयं चेति । यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारा र्थानि नित्यानीति तत्राऽऽह-नित्यानां चेति । आगामि दुःखं 'प्रत्यवाय उच्यते । तस्य मावरूपस्य नाभावो निमित्तम् । . पापः पापेन " इति श्रुतेः। निषिद्धाचरणनि- मित्तत्वादुःखस्येत्यर्थः । 1 4 १ ख. र्थः । एक । २ क. ख. ग. च. ज. झ.ट. स्वकर्मफलमन । ३ ज. झ. शतः ४ ज. झ. हणं कुर्वतां । ५ घ. हु. छ. तद्भादि १ प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसज्जचन्द्रियार्थेषु नरः पतनमृच्छति "। इति शतृप्रत्ययादकरणस्थापि प्रत्यवायनिमित्तत्वमवगत्तमित्याशङ्कयाऽऽह–अतः पूबैति । यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यत्तदा संचितदुरितक्षयोऽभविष्यत् । न वाय विहितमका दित्यतः प्रत्यवायो भविष्यतीति शिष्टलक्ष्यते। याँ विचिकित्सश्रोत्रिय इति । यतः शतृप्रत्ययस्यान्ययाँ व्युत्पन्नत्वान्न तहलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः । अन्यथाऽभावाद्भावोत्पत्तिरिति सर्वप्रमाणव्याकोप इति । अतोऽअत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । ननु-लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययस्योभयत्र विधाने सति किमिति हेतुत्व. मेव न गृह्यते तत्राऽऽह-अन्यथेति । भावरूपस्य कार्यस्य मावरूपमेव कारणमिति प्रत्यक्षादिमिरवगतं, शतृप्रत्ययादमावस्य हेतुत्वाभिधाने सर्वप्रमाणविरोधः स्यादित्यर्थः । ननु त्वयाऽप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम् । भाट्टैश्वानुफ्लम्मस्थाभावप्रमितिह- सुस्वमिष्यते । तार्किकैश्च प्रतिबन्धकाभावस्य तत्तत्प्रागमावस्य च तत्तत्कार्यव्यवस्थापक- त्वमिष्यते । तत्कथं भावस्यैव कारणत्वम् । तदुक्तम्-" भावो यथा तथाऽभावः कारण कार्यवन्मतम् " इति । उच्यते । अस्माभिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टम् । किंतु तज्ज्ञानस्य प्रत्यवायगमकत्वमिष्टम् । तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते । 'नित्याकरणज्ञाने प्रत्यवायाभावप्रसङ्गात् । भाट्टानामपि च केषांचिज्ज्ञानस्य योग्यानुप- लम्भस्याभावप्रामतिहेतु ध्वसतया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः । तार्कि- काणामपि प्रतिबन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम् । प्राग- भावस्थापि ज्ञातरूपेण जैन्यज्ञापकत्वमेव । यस्मादिदं प्राङ्नाऽऽसीत्तस्मादिवानी जात- मित्ति । न तु जनकत्वं प्रागभावस्य नियतप्राग्मावित्वेन कारणत्वे प्राक्कालस्थ स्ववृत्ति- तापालः ॥ प्राग्भांवित्वमपि चान्यथासिद्धमित्युक्तं तत्त्वालोके । यस्मादकरणानिमिसप्र. त्यवायपरिहारार्थ न नित्य कर्म किं तु " कर्मणा पितृलोकः । सर्व एते 'पुण्यलोका भवन्ति" इति श्रुतेः पितृलोकप्राप्तिफलम् , तस्मान्न यथोक्तचरितस्य 'शरीरानुत्पाद इत्याह-अयत्तत इति । १. ख. ग. च. ज... ट.पि न प्र ।२ क. स्व. ग. च..ट. दतः। ३त्क. स.मा. ब. झ.. 'वायी भ॥ ४ ख. ग. च. 'थाऽवि । ५ क, ख. ग. ज.. "थाऽप्युपपन। ६ बन.पा. घ... च. छ.अ."णको । ७-क. -ख. ग. ज. ट. "वधारितं. क णत्वं कयामि। घ. इ. स.रणाने । १० का. यासंभव । ११ क, ख. ग. च. झ.. तुस्वतया RE.. ग, घ. च. न. झ. द. जन्मज्ञा । १३ झ. °पि नान्य° ।
m आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [शीक्षाध्याये- यञ्चोक्तं निरतिशयपीतेः स्वर्गशब्दवाच्यायाः कर्मनिमित्तत्वात्कारब्ध एव मोक्ष इति । तन्न । नित्यत्वान्मोक्षस्य । न हि नित्यं किंचिदारभ्यते । लोके यदारब्धं तदनित्यमिति । अतो न कारब्धो मोक्षः । विद्यासहिताना फर्मणां नित्यारम्भसामर्थ्यमिति चेन्न । विरोधात् । नित्यं चाऽऽरभ्यत इति विरुद्धम् । यद्विनष्टं तदेवं नोत्पद्यत इति । प्रध्वंसाभाववनित्योऽपि मोक्ष आरभ्य एवेति चेन्न । मोक्षस्य भावरूपत्वात् । प्रध्वंसाभावोऽप्यारभ्यत इत्य- भावस्य विशेषाभावाद्विकल्पमात्रमेतत् । भावप्रतियोगी भावः । द्वितीयमतमनूध दूषयति-यच्चोक्तमित्यादिना । विद्यासहितेनापि कर्मणाऽऽरभ्य- श्वेन्मोक्षस्तीनित्य एव । यत्कृतकं तदनित्यमिति व्याप्तिदर्शनादित्युक्तं तत्र व्याप्तिमङ्गं मन्वानः शङ्कते- यद्विनष्टमिति । भावरूपत्वादिति । यद्भावरूपं कार्य तदनित्यमिति व्याप्स्तव च मोक्षस्य निरतिशयप्रीतर्भावत्वादनित्यत्वं स्यादेवेत्यर्थः । प्रध्वंसामावस्य कार्यत्वमभ्युपगम्य यत्प्रध्वंसातिरिक्तकार्य तदनित्यमिति व्याप्तिाहयाते । वस्तुतस्तु प्रध्वंसस्य कार्यत्वमपि नास्तीत्याह-प्रध्वंसेति । जन्याश्रयत्वं तावत्प्रध्वंसस्य । न कार्यत्वम् । जनै रुक्ते (क्ते मा )वविकारत्वाभ्युपगमात् । नापि प्रागसतः सत्ता- समवायादिलक्षणम् । तदनभ्युपगमात् । नाप्युत्तरकालयोगः । कालेन संबन्धाभावात् । अवच्छेदावच्छेदकभावस्य समवायमूलत्वात्संबन्धान्तरमूलकत्वदर्शनादुत्तरकालस्य प्रध्वं. सावच्छेदकत्वं स्वभावश्चदन्यावच्छेदकत्वं स्वभावो न स्यात् । तस्मादमावस्य निर्विशेष- कत्वात्कार्यत्वं कल्पनामात्रपरमिति भावः । किंच, अमावस्याभावविशेषमात्रस्वभावत्वा- द्भावविरोधित्वाच्च न भावरूपो धर्मः संभवतीत्याह-भावेति । यथा ह्यभिन्नोऽपि भावो घटपटादिभिर्विशेष्यते । अभिन्न एव घटभाव: पटभाव इत्येवं निर्विशेषो भावाभावः क्रियागुणयोगाद्व्यादिवद्विकल्प्यते । न ह्यभाव उत्पलादिद्विशेषणसहयावी । विशेषणवत्त्वे भाव एव स्यात् । विद्याकर्मकर्तृनित्यत्वाविद्याकर्मसंतानजनितमोक्षनित्यत्वमिति चेन्म । गङ्गास्रो- तोवत्कर्तृत्वस्य दुःखरूपत्वात् । कर्तृत्वोपरमे च मोक्षविच्छेदात् । तस्माद- विद्याकामकर्मोपादानहेतुनिवृत्तौ स्वात्मन्यवस्थानं मोक्ष इति । स्वयं चाऽऽत्मा १ ङ. छ. . ट. 'रभ्य ए। २ क. ख. ग. घ. ङ. च. छ. म. 8. रभ्यो मो' । ३ क. ख. ग. घ. ङ. च. अ. °ति च वि । ४ क. ख. ग. च. यद्धि न । ५ क. 'व च नो । ६ घ. ड. ज. झ. एव चे। ७ क. ख. च. ज. झ. यद्धि न। ८ खः ग. अ. स्तन्मोक्ष। ९ क.ख. ग. च. झ. ट. ख्याता । । १० क. ख. ग. च. ज. ट. °व । परमार्थतस्तु प्र. ११ क. ख. ग..ज. झ. ट. "च्छेद्याव । १२ क. ख. ग. च. झ.ट. "स्य संबन्धस' । १३ क. ख. ग. घ. अ. ट.. 'षोऽपि भा' । रु. °षोऽप्यभा । १४. क वत्सहभावी विशेषणेन वि। १५ . °णसहवर्तित्वे भा। -- - १ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । १ ब्रह्म तद्विजानादविद्यानिवृत्तिर्मोक्ष इति ब्रह्मविद्यार्थोपनिषदारभ्यते । ननु-अभावश्चतुर्विधः । तत्रानित्यः प्रागभावः । प्रध्वंसादयस्तु नित्याः । ततः कथं निर्विशेषत्वमित्याशङ्कयाऽऽह-यथा हीति । भावप्रत्ययस्यैकाकारत्वादेक एवं 'मावाभाव(वोऽव)च्छेदकभेदाद्भिन्न इव प्रकाशते । तथा निषेधप्रत्ययस्यैकाकारत्वादेक एवाभावोऽवच्छेदकमेदाद्भिन्न इव प्रकाशते । जायते नश्यति चेति क्रियायोगात्संख्या. गुणयोगाव्यवदभावो विकल्प्यते । न तु तत्त्वतः सविशेष इत्यर्थः । इतश्च न तत्त्वतः सविशेष इत्याह-न हीति । विशेषणं हि विशेष्यान्वयि प्रसिद्धम् । प्रतियोगिना च विशेषणेन नाभावस्य सहभावोऽस्ति । घटप्रध्वंसस्य नित्यत्वे घटस्यापि नित्यत्वप्रसङ्गात् । घटसहमावित्वे च तदभावत्वव्याघाताद्भावामावयोः सहानवस्थानरूपविरोधाभ्युपगमात् । ततः प्रतियोगिविशेषादभावः सविशेषः कार्यत्वादिधर्मवानिति विभ्रममात्रमित्यर्थः । एवं प्रध्वंसदृष्टान्तेन शङ्कितं नित्यत्वं परिहृत्य प्रकारान्तरेणाऽऽशङ्का निषेधति -विद्याक- मेंत्यादिना । विद्याकर्मणोः कर्ता नित्य इति साधनसातत्यात्साध्यसातत्यं न वाच्यम् । कर्तृत्वस्यानुपरमेऽनिर्मोक्षप्रसङ्गादुपरमे च साधनसांतत्याभावान्मोक्षस्य विच्छित्तिः स्यादित्यर्थः । यस्मानिःश्रेयसं ब्रह्मज्ञानं विना दुष्प्रापं तस्मादित्युपसंहारः । उपनिषदिति यिद्योच्यते । तच्छीलिनां गर्भजन्मजरादिनिशातनात्तदवसा- दनाद्वा ब्रह्मणो वोपनिगमयितृत्वादुपनिषण्णं वाऽस्यां परं श्रेय इति । तदर्थ- त्वाद्ग्रन्थोऽप्युपनिषत् । ब्रह्मविद्यायामुपनिषच्छब्दप्रसिद्धिरपि विद्याया एव निःश्रेयससाधनत्वे प्रमाणमित्याह- उपनिषदिति । निशातनाच्छिथिलीकरणादित्यर्थः । अस्यां विद्यायां निमित्तभूतायां परं श्रेयो ब्रह्म जीवस्योपनिषण्णमात्मतयोपस्थितं भवतीत्यर्थः । । हरिः ॐ ह शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । शं सुखं प्राणवृत्तेरहश्वाभिमानी देवतात्मा मित्रो नोऽस्माकं भवतु । तथै - - 5 १ क. ख. ग. च. ज, ट. 'ति । विधिप । २ क. ख. ग. ज. झ. ट. व भांवो यथा भा। प.ब. 'मेदामिव । ४ ख. ग. च. ट. 'हाव । ५ क. ख. ग. च.'झ. टः शङ्क्य नि । कटानसातत्या'..::::- ८ आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता- [शीक्षाध्यायें- वापानवृत्ते रात्रश्चाभिमानी देवतात्मा वरुणः । चक्षुष्यादित्ये चाभिमान्यर्यमा कल इन्द्रः । वाचि बुद्धौ च बृहस्पतिः। विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयो- रभिमानी । एवमध्यात्मदेवताः । शं नो भवत्विति सर्वत्रानुषङ्गः । तासु हि सुखकृत्सु विद्याश्रवणधारणोपयोगा अप्रतिबन्धेन भविष्यन्तीति तत्सुखकर्तृत्वं प्रार्थ्य-शं नो भवत्विति । एवमुपनिषदां व्याख्यारम्मं संभाव्य प्रतिपदव्याख्यामारभते-शं सुखमित्यादिना । शं नो भवत्त्विति । सुखकृद्भवत्वित्यर्थः । अध्यात्मप्राणकरणामिमानिनीनां देवतानां सुखकुंत्यत्व किमिति प्रार्थ्यते तत्राऽऽह-तासु हीति । श्रवणं गुरुपादोपसर्षणपूर्वक वेदान्तानां तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणम् । उपयोगः शिष्येभ्यो निवेदनम् । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तार- मवतु । अवतु माम् । अस्तु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ सत्यं वदिष्यामि पञ्च च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये प्रथमोऽनुवाकः ॥१॥ ब्रह्म विविदिषुणा नमस्कारवन्दनक्रिये वायुविषये ब्रह्मविद्योपसर्गशान्त्यर्थ क्रियेते । सर्वक्रियाफलानां तदधीनत्वाद्ब्रह्म वायुस्तस्मै ब्रह्मणे नमः । महीभावं करोमीति वाक्यशेषः । नमस्ते तुभ्यं हे कायो । नमस्करोमीति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किंच त्वमेव चक्षुराद्यपेक्ष्य बाह्य सनिकृष्टमन्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात्तस्मात्त्वामेव प्रत्यक्षं ब्रह्म वदि. च्यामि ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्य । क. 'रभि । २ ख. ग. घ. 'वमाद्याच्या । ३ ख. म. च. श. पदो व्या । ४ क. स. ग. च, झ. 'पदं व्या' । ५. ख. ग. च. ज. ट. "कृत्त्वं कि १६ क. स.का. "झविद्या विविदि।
२. द्वितीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । सदपि त्वदेधीनत्वात्स्वामेव वदिष्यामि । सत्यमिति वाकायाभ्यां संपाद्यमानः सोऽपि त्वदधीन एव संपाद्य इति त्वामेव सत्यं वदिष्यामि । तत्सर्वात्मकं चायवाख्यं ब्रह्म मयैव स्तुतं सन्मां विद्यार्थिनमवतु विद्यासंयोजनेन । तदेव ब्रह्म वक्तारमाचार्य वक्तृत्वसामर्थ्यसंयोजनेनावतु । मामवतु वक्तारमिति पुन चनमादरार्थम् । ॐ शान्तिः शान्तिः शान्तिरिति त्रिवचनमाध्यात्मिकाधिभौ- तिकाधिदैविकानां विद्यामाप्त्युपसर्गाणां प्रशमार्थम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दमगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ अन्यद्गह्म वायुश्चान्य इति नाऽऽशङ्कनीयमित्याह-परोक्षेति । ब्रह्मेति परोक्षण स ब्रह्मेत्याचक्षत इति श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्ष- त्वादित्यर्थः । यद्यपि सूत्रात्मरूपेण वायुः परोक्षस्तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्म- शब्दवाच्यत्वेऽप्यपरोक्षत्वमित्याह--किंचति । बाह्यं चक्षुरादि रूपदर्शनाद्यनुमेयत्वा. व्यवहितम् । प्राणस्त्वव्यवधानेन साक्षिवेद्यः संनिहितश्च भोक्तुरिति चक्षुराद्यपेक्षया प्रत्यक्ष इत्यर्थः ।हणाद्ब्रह्म । प्राणकृतेन श्वसनादिना शरीरादेव॒हणं प्रसिद्धमित्यर्थः । यथा राज्ञो दौवारिकं कश्चिद्राजदिक्षुराह त्वमेव राजेति तथा हार्दस्य ब्रह्मणो द्वारपं.प्राणं हादै ब्रह्म दिदृक्षुर्मुमुक्षुराह -त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीति । ब्रह्मवदनक्रिया प्राणदेवतास्तुत्यर्था । स्तुत्यन्तरमाह--ऋतमित्यादिना ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये प्रथमोऽनुवाकः ॥१॥ + अथ शीक्षाध्याये द्वितीयोऽनुवाकः । ॐ श्रीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सं. तानः। इत्युक्तः शीक्षाध्यायः (१)। शीक्षां पञ्चा इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २॥ १ क. स. ज. ट. ब्रह्मण इ । २ क. ख. ग. च. ज. झ. ट. शरू आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- अर्थज्ञानप्रधानत्वादुपनिषदो ग्रन्थपाठे यत्नोपरमो मा भूदिति शीक्षाध्याय आरभ्यते-शिक्षा शिक्ष्यतेऽनयेति वर्णाधुच्चारणलक्षणम् । शिक्ष्यन्त इति वा शिक्षा वर्णादयः । शिव शीक्षा । दैर्ध्य छान्दसम्। तां शीक्षां व्याख्यास्यामो विस्पष्टमा समन्तात्कथयिष्यामः । चक्षिडो वा ख्यात्रादिष्टस्य व्यापूर्वस्य व्यक्तत्वात्क(वाक)मण एतद्रूपम् । तत्र वर्णोऽकारादिः । स्वर उदात्तादिः । मात्रा ह्रस्वाद्याः । बलं प्रयत्नविशेषः। साम वर्णानां मध्यमवृत्त्योचारणं समता । संतानः संततिः। संहितेत्यर्थः । एष हि शिक्षितव्योऽर्थः। शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्याय इत्येवमुक्त उदित उक्त इत्युपसंहार उत्तरार्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये द्वितीयोऽनुवाकः ॥ २॥ यत्नोपरम इति । स्वरोष्मव्यञ्जनप्रमादो मा भूदित्यर्थः । अन्यथा विवक्षितार्थसि- द्विरेव न स्यात् । तदुक्तम्- " मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तैमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् " इति ॥ लक्षणमिति । लक्षणं शास्त्रम् । ऋटुरषाणां मूर्धा, इचुयशानां तावत्यादि । तस्यान्यत्रैव सिद्धत्वादिह कर्मव्युत्पत्तिरेव शिक्षाशब्दस्य ग्राह्या । [रूपमिति ] | " " वा लिटि" इति सूत्रेण ख्याजादिष्टो यस्तस्येदं रूपं न ख्या प्रकर्थने" इत्यस्य, सोपसर्गस्य प्रयोगानभिधानादित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २॥ " चक्षिडः ख्याञ् " अथ शीक्षाध्याये तृतीयोऽनुवाकः । सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अधुना संहितोपनिषदुच्यते । तत्र संहितायुपनिषत्परिज्ञाननिमित्तं यद्यशः - - 13. 'न्तास्प्रकल्पयि । २ क. ख. ग. ड. च. छ. ट. त्वाद्वाकर्म । ३ ख.ग.च.ज. 'अनादिन । ४ क. ग. च. ज. झ. ट. भूत् । । ५ ग. च. तदर्थ । ६ क. ख. ग. च. म. 2. 'थन एतस्य सों।
३ तृतीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । ११ प्रार्थ्यते तनावावयोः शिष्याचार्ययोः सहैवास्तु । तनिमित्तं च यद्ब्रह्मवर्चस तेजस्तच्च सहैवास्त्विति शिष्यवचनमाशीः । शिष्यस्य ह्यकृतार्थत्वात्मार्थनोपप- द्यते नाऽऽचार्यस्य । कृतार्थत्वात् । कृतार्थो ह्याचार्यों नाम भवति । संहिता वर्णानां संनिकर्षस्तद्विषयमुपासनं प्रथमं कैथ्यत इत्याह-अधुनेति । संनि- धानाच्च स्वशाखाँसंहितैव ग्राह्या । शं नो मित्र इत्याशीर्वादः कृत्स्नोपनिषच्छेषः । संहितोपनिषच्छेषमाशीर्वादान्तरमाह-तत्रति । अथातः सहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अघिलोकमधिज्यौतिषम- धिविद्यमधिप्रजमध्यात्मम् । ता महासहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरू- पम् । चौरतररूपम् । आकाशः संधिः (१)॥ अथानन्तरमध्ययनलक्षणविधानस्य यतोऽत्यर्थ ग्रन्थभाविता बुद्धिर्न शक्यते सहसाऽर्थज्ञानविषयेऽवतारयितुमित्यतः संहिताया उपनिषदं संहिताविषयं दर्शनमित्येतद्वन्यसंनिकृष्टामेव व्याख्यास्यामः । पश्चस्वधिकरणेष्वाश्रयेषु ज्ञान- विषयेष्वित्यर्थः । कानि तानीत्याह-अधिलोकं लोकेष्वधि यदर्शनं तदधि- लोकम् । तथाऽधिज्यौतिषमधिविद्यमधिप्रजमध्यात्ममिति । ता एताः पञ्चवि- षया उपनिषदो लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च महत्यश्च ता: संहिता महासंहिता इत्याचक्षते कथयन्ति वेदविदः । अथ तासां ययोपन्य. स्तानामधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थोऽयशब्दः सर्वत्र । पृथिवी पूर्वरूपं पूर्वो वर्णः पूर्वरूपम् । संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा चोत्तररूपमाकाशोऽन्तरिक्षलोकः । संधिर्मध्य पूर्वोत्तररूपयोः संधीयेते अस्मिन्पूर्वोत्तररूपे इति ॥ । १ क, ख, ग. च. छ. अ.ट. ड. प्राप्यते । २ च. कल्प्यत । ३ ख. ग. च.न. खासं- निहित । ४ क. ख. ग. च. ज. ट. 'त्याद्या आशीर्वादाः कृ । ५ क. ख. ग. घ.. च. छ. ग. ८. व ता म° । ६ घ. °न्ति वेदब्रह्मोव । छ. द. "न्ति ब्रह्मवि । ७ कु. दः । दर्शनक्रमविषयोऽ- यशब्दः ।। .
। '. १ १२ आनन्दगिरिकृतदीकासंवलितशांकरभाष्यसमेता- [ीक्षाध्याये- वस्तूपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःशब्देनोक्त इत्याह-यतोड़ त्यर्थमिति । पञ्चस्विति सप्तमी तृतीयार्थे विपरिणेया । अधिकरणशब्दश्च विषयपर्यायः । पञ्चभिः पदार्थविशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शन(न) प्रतिमायामित्यर्थः । लोकेष्वधीति । लोकानधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्याशब्देन विद्याप्रतिबद्ध आचार्यादिर्विवक्षितः। तथैव प्रजाशब्देन प्रजाप्रतिबद्धः पित्रादिविवक्षितः । अध्यात्म- मिति । आत्मानं भोक्तारमधिकृत्यं यद्वर्तते जिहादि तद्विवक्षितम् । सर्वत्र तत्तदभिमा- निनी देवतैव ग्राह्या । अन्यस्योपास्यत्वासंभवादिति । विधिशेषमर्थवादमाह-ता एता इति । संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः । कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह-अथ तासामित्यादिना । कर्तुरेकत्वादनुष्ठेयानां बहुत्वादवश्यंमा- विनि में विशेषनियमार्थोऽयशब्दः । वायुः संधानम् । इत्यधिलोकम् । अाधि- ज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्ते- ररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम् । अर्थाधिविद्यम् । आचार्यः । पूर्वरूपम् ( २ )। अन्तेवास्युत्तररूपम् । विद्या संधिः : । प्रवचन५ संधानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररू- पम् । प्रजा संधिः । प्रजनन: संधानम् । इत्य- धिप्रजम् (३) । अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्संधिः। जिह्वा संधानम् । इत्यध्यात्मम् । - ". १ क. ख. गं. घ. च. ट. "घु कर्तव्यम् । २ क. ख. ग. च. न. ८. 'यत्वं नेत्य। ३. ..ब. "त्य यो वर्तते जिवादिः स विवक्षितः। स । ४ खः गच.ट क्रमवि । ५ क. स्व. ग. च.न. द. 'मार्था मथशन्दाः।
तैत्तिरीयोपनिषत् । तृतीयोऽनुवाकः] १३ वायुः संधानम् । संघीयतेऽनेनेति संधानम् । इत्यधिलोकं दर्शनमुक्तम् । अथाधिज्यौतिषमित्यादि समानम् । इतीमा महासहिताः । य एवमेता महासहिता व्याख्याता वेदः । संधीयते प्रजया पशुभिः । ब्रह्मवर्चसेनानायेन सुवर्येणं लोकेन (४)॥ संधिराचार्यः पूर्वरूपमित्यधिमजं लोकेन । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३॥ इतीमा इत्युक्ता उपप्रदर्श्यन्ते । यः कश्चिदेवमेता महासंहिता व्याख्याता वेदोपास्ते । वेदेत्युपासनं स्याद्विज्ञानाधिकारात् " इति प्राचीनयोग्योपारस्व" इति च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्ययसंततिरसंकीर्णा चातत्म- त्ययैः शास्त्रोकालम्बनविषया च । प्रसिद्धश्वोपासनशब्दार्थो लोके. गुरुमुपा- संते (स्ते), राजानमुपास्त इति । यो हि गुर्वादीन्संततमुपचरति स उपास्त इत्युच्यते। स च फलमाप्नोत्युपासनस्य । अतोऽत्रापि च य एवं वेद संघीयते प्रजादिभिः स्वर्गान्तः प्रजादिफलान्याप्नोतीत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दमगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये तृतीयोऽनुवाकः ॥ ३॥ " हृदयस्याग्रेऽवैद्यत्यय जिह्वाया इतिवदुपप्रदर्श्यन्ते । अधिकारविधिप्रदर्शनाय यथा दर्शादयः षड्यागाः समुच्चिताः फलसाधनमधिकारांशे- नामेदात्, तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह-य: कश्चिदित्यादिना । फलकामिनाऽनुष्ठीयमानं संहितोपासनं कामितफलाय भवति । फलान- मिसंधिना त्वनुष्ठीयमानं ब्रह्मविद्यार्थ भवति । मेधाहीनेन ब्रह्मणोऽवगन्तुमशक्यत्वान्मेधा- कामस्य जपोऽपि. ब्रह्मविद्यार्थो. भवति । श्रीविहीनेन सत्त्वशुद्धयर्थ यागाद्यनु- 3 अथ वक्षसः ..... च । अतस्तत्तः । २ क. स. ग. 'त्यया शा" । ३ . सिद्धो पुपाः । ४ ष, म. द. लोकं । ५५. रु...म. 'वत्यथ ।
४ १४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- छातुं न शक्यत इति श्रीकामस्य होमोऽपि परम्परया ब्रह्मविद्योपयोगीति महत्तात्पर्य विद्यासंनिधिसमानातानां सर्वत्र द्रष्टव्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमनछंकरभर वच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि- पच्छांकरभाष्यटीकायां शीक्षाघाये तृतीयोऽनुवाकः ॥ ३॥ अथ शीक्षाध्याये चतुर्थोऽनुवाकः । " यश्छन्दसामृषभो विश्वरूपः । छन्दो. योऽध्यमृतोत्संबावं । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । यश्छन्दसामिति । मेवाकामस्य श्रीकामस्य च तत्माप्तिसाधनं जपहोमावुच्येते " स मेन्द्रो मेधया स्पृणोतु " " ततो में श्रियमावह" इति च लिङ्गदर्शनात् । यश्छन्दसां वेदानामृषभ इवर्षभः । प्राधान्यात् । विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तः, तद्यथा शङ्खना" इत्यादिश्रुन्यन्तरात् । अत एवर्षभत्वमोंकारस्य । ओं- कारो ह्यत्रोपास्य इति ऋषभादिशौ स्तुतियाय्यैवोंकारस्य । छन्दोभ्यो वे- देभ्यो वेदा ह्यमृतं तस्मादमृतादधिसंवभुत । लोकदेववेदव्याहृतिभ्यः सारिष्टं जिघृक्षोः प्रजापतेस्तपस्यत ओंकारः सारिष्ठत्वेन प्रत्यमादित्यर्थः । न हि नित्य- स्योंकारस्याञ्जसैवोत्पत्तिरेव कल्प्यते । स एवंभूत ओंकार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रज्ञया स्पृणोतु प्रीणयतु बलयतु वा । प्रज्ञाबलं हि पार्थ्यते । अमृतस्यामृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य तदधिकारात्, हे देव धारणो धारयिता भूयासं भवेयम् । किंच भरी मे मम विचर्षणं विचक्षणं योग्य- मित्येतत् । भूयादिति प्रथमपुरुषविपरिणामः । अवान्तरतात्पर्यमभिप्रेत्याऽऽह-यश्छन्दसामित्यादिना । संबभूवेति जन्मवाचके पदे श्रूयमाणे किमिति "प्रजापतिर्लोकानभ्यतपत् " इत्यादिश्रुत्यन्तरानुसारेणाऽऽत्मज्ञा- १ क. ख. ग. च. ज. ट. 'ठातुमशक्यत्वादिति । २ छ. न. झ. त्तिरिव।३ न. झ.प्रार्थयते। ४ क, ख. ग, च. 'रेण कार्यश्रेष्ठत्वेनाऽऽत्म। .
४. चतुर्थोऽनुवाकः ] तैत्तिरीयोपनिषत् । .. १५ .. नयोग्यकार्यश्रेष्ठत्वेन प्रतिमानं व्याख्यायते तत्राऽऽह-न हीति ।. पुरुषविपरिणाम इति । भूयासमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषत्वेन विपरिणामः कर्तव्य इत्यर्थः । जिह्वा मे मधुमत्तम । कर्णीयां भूरि- विश्रुवम् । ब्रह्मण. कोशेऽसि मेधया पिहितः । श्रुतं मै गोपाय। आवहन्ती वितन्वाना(१)। कुर्वाणाऽचीरमात्मनः। जिह्वा मे मधुमत्तमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां श्रोत्रा- भ्यां भूरि बहु विश्रुवं व्यश्रवं (?) श्रेता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकारणसंघातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते । ब्रह्मणः परमात्मनः । कोशोअसि । असेरिवोपलध्यधिष्ठानत्वात् । त्वं हि ब्रह्मणः प्रतीक त्वयि ब्रह्मोपलभ्यते । मेधया लौकिकमज्ञया पिहित आच्छादितः स त्वं सामान्यप्रज्ञैरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष । तत्प्राप्त्यविस्मरणादि कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । होमास्त्विधुना श्रीकामस्य मन्त्रा उध्यन्ते । आवहन्त्यानयन्ती । वितन्वाना विस्तारयन्ती। तनोतेस्तत्कर्मत्वात् । कुर्याणा निर्वतयन्ती। अचीरमचिरंक्षिप्रमेा । छान्दसो दीर्घः । चिरं वा कुर्वाणा । अचेतनशब्दं प्रति प्रार्थना कथं, कथं चेन्द्रशब्देनाभिधानमित्याशङ्कय ब्रह्माभेदविवक्ष- येत्यभिप्रेत्याऽऽह-ब्रह्मण इति । ब्रहा मेदेन प्रार्थितदाने समर्थश्चेदोंकारः किमिति सोंपास्यत इत्याशङ्कयाऽऽह-येयोंते । लौकिकमज्ञयति । शालग्रामादिष्वपि देवतार्बुद्धिरित्यर्थः । नैतेष्वर्षियादि मृग्यम् । ब्राह्मणोत्पन्नत्वात् । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोनशां पशुभिः सह -- १ ख. ग. च. छ. ट. व व्यश्र(विश्रु)वमित्यत्राडभावश्छान्दसः । झटिति श्रो'। ख. ग. घ. . "तसस्व । ३. "त्मविज्ञानं मे । ४ ङ. दिना कु । ५ क. ख. ग. घ. च. छ.भ.ट. 'स्य । होमास्त्विधुनोच्यन्ते मन्त्राः। आ । ६ . 'ना म° । ७ छ. "यन्त्यात्मनः । । ८ क. ग. घ. च. छ. अ. द.व । चि । ९ क. ग. घ. उ. दिष्विव दे । ११ क. ख. ग. 'बुद्धेरि । १० ग.च. ट..म् । ब्रह्म।
१६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- शीक्षाध्याये- स्वाहा । आ मा यन्तु ब्रह्मचारिणः स्वाहा । विमाऽऽयन्तु ब्रह्मचारिणः स्वाहाँ । म माऽऽयन्तु ब्रह्मचारिणः स्वाहा । दायन्तु ब्रह्मचारिणः स्वाहाँ । शायन्तु ब्रह्मचारिणः स्वाहा (२)। आत्मनो मम, किमित्याह-वासांसि वस्त्राणि मम गावश्च गाश्चेति यावत् । अभपाने च सर्वदेवमादीनि कुर्वाणा श्रीर्या तां ततो मेघानिर्वर्तनात्परमावहाss नयः। अमेधसो हि श्रीरनायैवेति । किंविशिष्टाम् । लोमशामजाव्यादियुक्ता. मन्यश्च पशुभिः संयुक्तामावहेत्यधिकारादोंकार एवाभिसंबध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आयन्तु मामिति व्यवहितेन संबन्धः। ब्रह्मचारिणो वि माऽऽयन्तु प्रमाऽऽयन्तु दमायन्तु शमायन्त्वित्यादि। यशो जनेऽसानि स्वाहा । श्रेयान्वस्य सोड- सानि स्वाहा ।तं त्वा भग प्रविशानि स्वाहा। स मा भग प्रविश स्वाहा । तस्मिन्सहस्र. शाखे । निं भंगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रताऽऽगन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धात- राय॑न्तु सर्वतः स्वाहाँ । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व (३)। वितन्याना शायन्तु ब्रह्मचारिणः स्वाहा पातरा- यन्तु सर्वतः स्वाहैकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ १क... "शियं च श्रियं लो। ख. घ. 'शिष्टौ च लोमा श्रियम । २ क.स.म. क. द. 'नार्य इत्यर्थः । क. 'नार्यः स्वाहाकारः । आ । ३. आ मा यन्विति ।। -- ४ चतुर्थोऽनुवाकः] तैत्तिरीयोपनिषत् । १७ यशो यशस्वी जने जनसमूहेऽसानि भवानि । श्रेयान्प्रशस्यतरो वस्यसो वसीयसो वसुतराद्वसुमत्तराद्वाऽसानीत्यन्वयः । किंच तं ब्रह्मणः कोशभूतं त्वा त्वां हे भग भगवन्पूनावन्मविशानि प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । स त्वमपि मा मां भग भगवन्पूजावन्धविशाऽऽवयोरेकत्वमेवास्तु । तस्मिंस्त्वयि सहस्रशाखे बहुभेदे निमजे शोधयाम्यहं पापकृत्याम् । यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति । यथा च भासा अहर्जरं संवत्सरोऽ- हर्जरः । अहोभिः परिवर्तमानो लोकाञ्जरयतीत्य हानि वाऽस्मिीर्यन्त्यन्तर्भव. न्तीत्यहर्जरः। तं च यथा मासा यन्त्येवं मां ब्रह्मचारिणो हे धातः सर्वस्य विधातः, मामायन्त्वागच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमापनयनस्थान- मासन्नगृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशस्त्वच्छीलिनां सर्वपापदुःखा- पनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयाऽऽत्मानं प्रपद्यस्व च । मां रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याम- करणेऽभिधीयमानो धनार्थः । धनं च कर्मार्थम् । कर्म चोपात्तदुरितक्षयाय । तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः " ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।। यथाऽऽदर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि " ॥ इति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाप्ये चतुर्थोऽनुवाकः ॥ ४ ॥ वस निवासे, वस आच्छादने ' इति धातुद्वयादुप्रत्ययः शीलेऽर्थे । वसुर्वसन- शीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्वसीयांस्तस्माद्वसीयसः । ईलोप. इछान्दसः । वसुमान्वसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह-वसुमत्तरावति । पूर्वोक्तस्य प्रयोजनमाह-किंचेति । यदुक्तं मामायन्तु ' इति तत्र दृष्टान्त- माह-यथेति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि- षच्छांकरभाष्यटीकायां शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ - ब्रह्मचारिणो - १ . द्वा। अनेकार्थत्वाद्धातूनां तुल्यजातीयानां विशेषवान्धनवत्स्वजातीयपुरुषाद्विशेषवानसा २ क. ख. घ. च. छ. ट. 'नीत्यर्थः । किं । ३ क. मासाः संवत्सरमह । ४ क. 'रो ह्यहर्ज । ५ छ, 'यार्थम् । त। ६ घ. दर्शे तनुप्र। ७ छ. प्रस्थे । ८ ख. ग. च. र्थे । स्ववेश्मसु वस' । १८. ल. वसुः । । ३ १८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- अथ शीक्षाध्याये पञ्चमोऽनुवाकः । - भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः। तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रव- दयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः (१)। मह इत्यादित्यः । आदित्येन वाव सर्व लोका महीयन्ते । भूरिति वा अभिः । भुव इति वायुः । सुवरित्योदित्यः । मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीषि मही- यन्ते । भूरिति वा ऋचः। भुव इति सामानि । सुवरिति यजूंषि ( २)। संहिताविषयमुपासनमुक्तं तदनु मेधाकामस्य श्रीकामस्य मन्त्रा अनुक्रा- न्तास्ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणोऽ. न्तरुपासनं स्वाराज्यफलं प्रस्तूयते । भूर्भुवः सुवरित्युक्तोपप्रदर्शनार्थः । एता. स्तिस्र इति प्रदर्शितानां परामर्शार्थः । परामृष्टी: स्मार्यन्ते वेत्यनेन । ति एता: प्रसिद्धा व्याहृतयः स्मार्यन्ते तावत् । तासामियं चतुर्थी व्याहृतिर्मह इति । तामेता चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते । उ ह स्म, इत्येतेषां वृत्तानुक- थनार्थत्वाद्विदितवान्ददर्शेत्यर्थः । माहाचमस्यग्रहणमार्षानुस्मरणार्थम् । ऋषिस्म- रणमप्युपासनाङ्गमिति गम्यत इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याह- तिर्मह इति तद्ब्रह्म महद्धि ब्रह्म । महश्च व्याहृतिः । किं पुनस्तत् । स १ घ. ङ. याः स्मर्य । १ ख. ग. ३. ज. णमाया । ३ क. ख. ग. घ... ... न. ३. ऋभ्यनुस्म।
५ पञ्चमोऽनुवाकः ] तैत्तिरीयोपनिषत् । १९ आत्मा । आप्नोतेाप्तिकर्मणः । आत्मेतराश्च व्याहृतयो लोका देवा वेदाः प्राणांश्च मह इत्यनेन व्याहत्यात्मनाऽऽदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः। अतोऽङ्गान्यवयवा अन्या देवताः । देवताग्रहणमुपलक्षणार्थ लोकादीनाम् । मह इत्येतस्य व्याहृत्यात्मनो देवलोकादयः सर्वेऽवयवभूताः । यत आहाऽऽदि- त्यादिभिलोंकादयो महीयन्त इति । आत्मनो ह्यङ्गानि महीयन्ते महनं वृद्धि- रुपचयो महीयन्ते वर्धन्त इत्यर्थः । * अयं लोकोऽग्निर्ऋग्वेदः प्राण इति प्रथमा व्याहृतिभूरिति । एवमुत्तरोत्तरैकैका चतुर्धा भवति । वृत्तानुवादपूर्वकमुत्तरानुवाकस्य संबन्धमाह-संहिताविषयमित्यादिना । व्याहृ. तीनां श्रद्धागृहीतत्वात्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृति- शरीरं हिरण्यगर्भाख्यं ब्रह्मान्तर्हृदय ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृताव- जिब्रह्मदृष्टिः कर्तव्या । तत्र किं साम्यमित्यत आह-महद्धीति । यथा देवदत्तस्य पादादीन्यानि मध्यमागश्चाङ्गीतरेषामङ्गानामात्मा कथ्यते व्यापकत्वात्तथा महो- व्याहृतिर्हिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादा- द्यवयवत्वेन कल्प्यन्ते । प्रथमव्याहृतिः पादौ, द्वितीया बाहू, तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः । इदानीमङ्गविशेषविधिः कथ्यते-भूरिति वा अयं लोक इत्यादिना । तत्रैकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह- अयं लोक इत्यादिना। मह इति ब्रह्म । ब्रह्मणा वाब सबै वेदा मही- यन्ते । भूरिति वै प्राणः। सुव इत्य पानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे पाणा महीयन्ते । ता वा ए॒ताश्चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स -- - । - M * अत्र-व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्तिविधिरुक्तः । इदानीमङ्गविशेषविधिः कथ्यते' इति घ. पुस्तकेऽधिकं दृश्यते । ११, पाश्चेत्य । २ ग. घ. छ. 'ये ज्ञेय ।
- २० । आनन्दगिरिकृतटीकासंवलितशंकरभाष्यसमेता- [शीक्षाध्याये- वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति (३)॥ असौ लोको यजूषि वेद द्वे च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये पञ्चमोऽनुवाकः ॥ ५॥ मह इति ब्रह्म । ब्रह्मेत्योंकारः । शब्दाधिकारेऽन्यस्यासंभवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वा एता भूर्भुवः सुवर्मह इति चतस्र एकैकश- चतुर्धा चतुष्पकाराः । धाशब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यश्चतुर्षा भव. न्तीत्यर्थः । तासां यथाक्लप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । ता यथो- क्तव्याहृतीयों वेद स वेद विजानाति । किं ब्रह्म । ननु-तद्ब्रह्म स आत्मेति ज्ञाते ब्रह्मणि न वक्तव्यमविज्ञातवत्स वेद ब्रह्मेति । न । तद्विशेषविवक्षुत्वाद. दोषः । सत्यं विज्ञानं चतुर्थव्याहुन्यात्मा ब्रह्मेति न तु तद्विशेषो हृदयान्तरुपल- भ्यत्वं मनोमयत्वादिश्च । 'शान्तिसमृद्धम् ' इत्येवमन्तो विशेषणविशेष्यरूपो धर्मपूगो विज्ञायत इति तद्विवक्षुर्हि (क्षु हि?) शास्त्रमविज्ञातमिव ब्रह्म मत्वा स वेद ब्रह्मेत्याह । अतो न दोषः । यो हि वक्ष्यमाणेन धर्मपूगेन( ण) विशिष्टं ब्रह्म वेद स वेद ब्रह्मेत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यताऽस्यो- भयो नुवाकयोरेकमुपासनं लिङ्गाच्च । भूरित्यग्नौ प्रतितिष्ठतीत्यादिकं लिङ्ग. मुपासनैकत्वे विधायकाभावाच । न हि वेद उपासितव्य इति विधायकः कश्चिच्छन्दोऽस्ति । व्याहृत्यनुवाके ' ता यो वेद ' इति च वक्ष्यमाणार्थत्वा- नोपासनभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वाराज्यप्राप्तौ सत्या. मित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाप्ये पञ्चमोऽनुवाकः ।। ५ ॥ एकैका व्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ते तदा षोडशकलः पुरुष उपासितो भवती- त्यभिप्रेत्य संक्षेपमाह-ता वाएता इति । स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न संकी- य॑तेऽधिकारविधिवाक्ये । किंतु वक्ष्यमाणानुवाकेनास्मिन्नेव ब्रह्मोपासने गुण- विधानं भविष्यतीति सूचयितुमित्याह-न तद्विशेषविवक्षुत्वादित्यादिना । यदि १ क. इ. च. छ इत्यन्तो।
षष्ठोऽनुवाकः ] तैत्तिरीयोपनिषत् । २१ व्याहृत्यवयवमेव ब्रह्मोत्तरत्रापास्यते तदेवोपासकस्य प्रथमव्याहत्यात्मकेऽनौ प्रतिष्ठाभिधानं घटेत । तस्माद्व्याहत्यात्मकदेवताप्राप्त्यभिधानम् । उपासनैकत्वे लिङ्गमाह-लिङ्गाचेति। किंचैकत्र प्रधानविद्याविधिरपरत्र गुणविधिरित्येवमनुवाकभेदे चरितार्थे नानन्यथासिद्ध भेदकं प्रमाणमुपलभ्यत इत्याह-विधायकाभावाचेति । किं विधार्यकात्मक इति मिनविद्याबोधक इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी. योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ शीक्षाध्याय षष्ठोऽनुवाकः । भूर्भुवःसुवःस्वरूपा मह इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इत्युक्तम् । यस्य ता अङ्गभूतास्तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थ च हृदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः । तम्मिन्हि तब्रह्मोपास्य- मानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते । पाणाविवाऽऽमलकम् । मार्गश्च सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते- स य एषोऽन्तहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते। सेन्द्रयोनिः । यत्रासौ केशान्तो विव- तते । व्यपोह्य शीर्षकपाले । भूरित्य नौ प्रतितिष्ठति । भुव इति वायौ (१) । स इति व्युत्क्रम्य 'अयं पुरुषः' इत्यनेन संबध्यते । य एषोऽन्तर्हृदये हृदय- स्यान्तहृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर १ ख. "र्थेऽनुवाकभेदप्रमाणं तु नोपासनाभेदात्सिध्यतांति वाच्यम् । तस्य गुणपरत्वेनान्यथासि- दत्वात् । तस्मादन्यथासिद्धमुपासनाभेदेनैव सिद्धं प्रमाण नोपल । २ क. ख. ग. च. ज. स. ट. यक ई। ३ ङ. लप्स्यत्युपा । ४ ङ. 'शः स स्था' । ५ ङ. "पासनं ।
२३ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [शीक्षाध्याये- ऊर्धनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तर्य एष आकाशः प्रसिद्ध एव करकाकाशवत् । तस्मिन्सोऽयं पुरुषः। पुरि शयनात्पूर्णा वा भूरादयो लोका येनेति, पुरुषो मनोमयः । मनो विज्ञानम् । मनुतेनिकर्म- मस्तन्मयस्तदुपलभ्यत्वात् । मनुतेऽनेनति वा मनोऽन्तःकरणं तदभिमानी तन्मयस्तल्लिङ्गो वा । अमृतोऽमरणधर्मा हिरण्मयो ज्योनिमयः । तस्यैवलक्षण. स्य हृदयाकाशे साक्षात्कृतस्य विदुष आत्मभूतस्येन्द्रस्येदृशस्वरूपंपतिपत्तये मार्गोऽभिधीयते । हृदयाय प्रवृत्ता सुषुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा। सा चान्तरेण मध्ये प्रसिद्ध तालुके तालुकयोगता । यश्चैष तालुकयोर्मध्ये स्तन इवावलम्बते मांसखण्डस्तस्य चान्तरेणेत्येतत् । यत्र च केशान्तः केशानामन्तोऽ- बसानं मूलं केशान्तो विवर्तते विभागेन वर्तते मूर्धप्रदेश इत्यर्थः। तं देशं -प्राप्यं तत्र विनिःसृता। व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले विनि- गंता या सेन्द्रयोनिरिन्द्रस्य ब्रह्मणो योनिर्मार्गः स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तयैवं विद्वान्मनोमयात्मदर्शी मूनों विनिष्क्रम्यास्य लोकस्याधिष्ठाता भूरिति- व्याहृतिरूपो योऽग्निर्महतो ब्रह्मणोऽङ्गभूतस्तस्मिन्ननौ प्रतितिष्ठत्यग्न्यात्मनेमं लोकं व्यामोतीत्यर्थः । तथा भुव इति द्वितीयव्याहृत्यात्मनि वायौ । प्रतितिष्ठ. तीत्यनुवर्तते । तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यत्वाद्वयारित्यर्थः । तस्यै मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यनाडी योगशास्त्रे बोध्यते । तस्य शास्त्रे सकलकरणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तल्लिङ्गत्वमुक्तमित्यर्थः । सुवरियादित्ये । मह इति ब्रह्मणि । आमोति स्वाराज्यम् । आमोति मनसस्पतिम् । बाप- तिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एत- ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मनआनन्दम् । शान्तिसमृद्धम- । १. य. 'स्तत्प्रायत्वा। २ क. पस्य ब्रह्मणः स्वरूपप्र । ३ न. मनः प्र । .:. ट. 'प्यमाणा तेनान्तरेण त। ५ ख. ग. ङ. च. छ. तथैवं।.६ क. ख. ग. च. ट. भ्यमानत्वा । ५ क. ख. इ. "स्य गड़स्य म14 च. छ. अ. ने हिरण्यगर्भोऽनुमायत । त।
२३: १ षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । मृतम् । इति प्राचीनयोग्योपास्स्व (२)॥ चायावमृतमेकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६॥ सुवारीत तृतीयव्याहृत्यात्मन्यादित्ये । मह इत्यङ्गिनि चतुर्थव्याहत्या त्मनि ब्रह्मणि प्रतितिष्ठति । तेष्वात्मभावेन स्थित्वाऽऽग्नोति ब्रह्मभूतः स्वाराज्यं स्वराड्भावं स्वयमेव राजाधिपतिर्भवति । अङ्गभूतानां देवानां यथा ब्रह्म । देवाश्च सर्वेऽस्मै बलिमावहन्त्यङ्गभूता यथा ब्रह्मणे । आप्नोति मन- सस्पतिम् । सर्वेषां हि मनसां पतिः । सर्वात्मकत्वाब्रह्मणः । सर्वैर्हि मनोभि- स्तन्मनुते । तदामोत्येवं विद्वान् । किंच वाक्पतिः सर्वासां वाचां पतिर्भवति। तथैव चक्षुष्पतिश्चक्षुषां पतिः । श्रोत्रातिः श्रोत्राणां पतिः । विज्ञानपतिर्विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किंच ततोऽ. प्यधिकतरमेतद्भवति । किं तत् । उच्यते । आकाशशरीरमाकाशः शरीरमस्याऽऽ काशवद्वा सूक्ष्म शरीरमस्येत्याकाशशरीरम् । किं तत् । प्रकृतं ब्रह्म। सत्यात्म सत्यं मूर्तामूर्तमवितथं स्वरूपं चाऽऽत्मा स्वभावोऽस्य तदिदं सत्यात्म । प्राणा- रामं प्राणेष्वा[ राम आरमणमाक्रीडा यस्य तत्प्राणारामम् । प्राणानां वाऽऽ. रामो यस्मिंस्तत्प्राणारामम् । मनानन्दम् । आनन्दभूतं सुखदेव यस्य मन: स्तन्मनआनन्दम् । शान्तिसमृद्धं शान्ति रुपशमः शान्तिश्च तत्समृद्धं च शान्ति- समृद्धम् । शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतममरण- धर्मि । एतच्चाधिकतरं विशेषणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनो- मयत्वादिधर्मविशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्वेत्याचार्यवचनो- क्तिरादरार्थी ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ . १ घ. राममानन्दभूतप्राणे । २ क. ख. च. छ. न. र. प्राणेष्टार'।
आनन्दगिरिकृत टीकासंवलितशांकरभाष्यसमेता- [ शीक्षाध्याये- स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्स्स्रष्टुत्वादिलक्षणं न भवतीत्याह- अङ्गभूतानां देवानामिति । सावधिकमैश्वर्यमेवाऽऽह-प्रामोतीत्यादिना । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ शीक्षाध्याय सप्तमोऽनुवाकः । यदेतद्व्याहृत्यात्मकं ब्रह्मोपास्यमुक्तं तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपे. जोपासनमुच्यते । पञ्चसंख्यायोगात्पङ्क्तिच्छन्दःसंपत्तिः। ततः पाङ्गत्वं सर्वस्य। पाङ्क्तश्च यज्ञः । “पञ्चपदा पङ्क्तिः । पाङ्क्तो यज्ञः" इति श्रुतेः । तेन यत्सर्व लोकाद्यात्मान्तं च पाङ्क्तं परिकल्पयन्ति(ति) यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसंपद्यते । तत्कथं पातमिदं सर्वमित्यत आह- पृथिव्यन्तरिक्षं यौर्दिशोऽवान्तरदिशाः । अग्नि- र्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । पृथिव्यन्तरिक्षं द्यौर्दिशोऽत्रान्तरदिशा इति लोकपाङ्क्तम् । अग्निर्वायुरादि- त्यश्चन्द्रमा नक्षत्राणीति देवतापाङ्क्तम् । आप ओषधयो वनस्पतय आकाश आत्मेति भूतपाङ्क्तम् । आत्मेति विराड्भूताधिकारात् । इत्यधिभूतमित्यधिलो- काधिदैवतपाद्वयोपलक्षणार्थम् । लोकदेवतापात योश्चाभिहितत्वात् । उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्मोपासनविषय इत्याह-यदेतदित्यादिना। पृथिव्यादेः कथं पाङ्क्तत्वमित्याकासाया पङ्क्तयाख्यस्य च्छन्दसः संपादनादित्याह- पञ्चसंख्येति । न केवलं पञ्चसंख्यायोगात्पङ्क्तिच्छन्दःसंपादनं यज्ञत्वसंपादनमपि कर्तु शक्यत इत्याह-प्राक्तश्च यज्ञ इति । पत्नीयजमानपुत्रदेवमानुषवित्तः पञ्चभिः संपाद्यत इति यज्ञः पाङ्क्त इत्यर्थः । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः १ग. घ. च. 'न्तं न पा।
२५ - ८ अष्टमोऽनुवाकः ] तैत्तिरीयोपनिषत् । समानः । चक्षुः श्रोत्रं मनो बाक्त्वक् । चर्म मास५ स्त्रावास्थि मज्जा। एतदधिविधाय ऋषिरवोचत् । पात वा इद५ सर्वम्। पाले- नैव पाङ्क्त५ स्पृणोतीति (१)। सर्वमेकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये सप्तमोऽनुवाकः॥ ७ ॥ अथानन्तरमध्यात्म पाङ्क्तत्रयमुच्यते-प्राणादि वायुपाङ्क्तम् । चक्षुरा- दीन्द्रियपाङ्क्तम् । चर्मादि धातुपाङ्क्तम् । एतावद्धीदं सर्वमध्यात्मम् । वाह्यं च पाङ्क्तमेवेत्येतदेवमधिविधाय परिकल्प्यषिर्वेद एतद्दर्शनसंपन्नो वा कश्चिदृ. पिरवोचदुक्तवान् । किमित्याह-पाङ्क्तं वा इदं सर्व पाङ्क्तेनैवाऽऽध्यात्मि- केन संख्यासामान्यात्पाङ्क्तं वाह्यं स्पृणोति वलयति पूरयति । एकात्मतयोप- लभ्यत इत्येतदेव । पाङ्क्तमिदं सर्वमिति यो वेद स प्राजापत्यात्मैव भवतीत्यर्थः। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ " उत्कृष्टदृष्टिनिकृष्टे फलवती ” इति न्यायाबाह्यपाक्तरूपेणाऽऽध्यात्मिकपाङ्क्त- त्रयमवगन्तव्यमित्यभिप्रेत्याऽऽह-एकात्मतयेति । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ शीक्षाश्यायेऽष्टमोऽनुवाकः । ध्याहृत्यात्मनो ब्रह्मण उपासनमुक्तम् । अनन्तरं च पाङ्क्त स्वरूपेण तस्यै- वोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्योंकारस्योपासनं विधित्स्यते । परापरब्रह्मदृष्टया ह्युपास्यमान ओंकारः शब्दमात्रोऽपि परापरब्रह्ममाप्तिसाधनं भवति । स ह्यालम्बनं ब्रह्मणः परस्यापरस्य च । प्रतिमेव विष्णोः । ॥ एते- नैवाऽऽयतनैनकतरमन्वति" इति श्रुतेः ।
२६ आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता- शीक्षाध्याये- ओमिति ब्रह्म । ओमितीदर सर्वम् । ओमिति । इतिशब्दः स्वरूपपरिच्छेदार्थः। ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा धारयेदुपासीत । यत ओमितीदं सर्वं हि शब्दरूपमोंकारेण व्याप्तम् । तद्यथा शकुना" इति श्रुत्यन्तरात् । अभिधानतन्त्रं ह्यभिधेयमित्यत इदं सर्वमोंकार इत्युच्यते । वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति- व्याहृत्यात्मन इत्यादिना । वेदविदा हि सर्वाः क्रिया ओंकारमुच्चार्य प्रवर्तन्ते ततस्तस्य श्रद्धागृहीतत्वात्तत्परिहारेणोपदिष्टं ब्रह्म न बुद्धिमारोहेदतम्तमादायवोगासनं विधीयत इत्यर्थः । नन्वोंकारस्य शब्दमात्र- स्याचेतनत्वादहमनेनोपासित इतिज्ञानाभावात्कथं फलदातृत्वं स्यादित्याशङ्कयाऽऽह- परापरेति । प्रतिमाद्यर्चन मिव सर्वथेश्वर एव फलदातेति भावः । ओंकारे ब्रह्मत्वाध्यासे किं सादृश्यमित्यत आह-ओमितीदमिति । सर्वास्पदत्वमोंकास्य ब्रह्मणा सादृश्य- - मित्यर्थः । ओमित्येतानुकति ह स्म वा अप्यो श्रीव- येत्यावयन्ति । ओमिति सामानि गा- यन्ति । ओशोमिति शस्त्राणि शमन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमि- ति बला प्रसौति । ओमित्यनिहोत्रमनुजा- नाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवानीति । ब्रह्मैवोपामोति (१)॥ - ओं दश ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्यायेऽ- टमोऽनुवाकः ॥ ८॥ ओंकारस्तुत्यर्थमुत्तरो ग्रन्थः । उपास्यत्वात्तस्य । ओमित्येतदनुकृति. रनुकरणम् । करोमि यास्यामि चेति कृतमुक्तमोमित्यनुकरोत्यन्यः । अत ओंकारोऽनुकृतिः । ह स्म वा इति प्रसिद्धावद्योतकाः । प्रसिद्ध -- ९ नवमोऽनुवाकः] तैत्तिरीयोपनिषत् । छोंकारस्यानुकृतित्वम् । अपि च " ओ श्रावय " इति औषपूर्वकमाश्रावयन्ति प्रतिश्रावयन्ति । तयोमिति सामानि गायन्ति सामगाः । ओमिति शस्त्राणि शं- सन्ति शस्त्रशंसितारोऽपि। तथोमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ब्रह्मा प्रसौत्य- नुजानाति प्रैषपूर्वकमाश्रावयति । ओमित्यग्निहोत्रमनुजानाति । जुहोमीत्युक्त ओमित्येवानुज्ञां प्रयच्छति । ओमित्येव ब्राह्मणः प्रवक्ष्यन्प्रवचनं करिष्यन्नध्ये- प्यमाण ओमित्येवाऽऽह । ओमिनि प्रतिपद्यतेऽध्येतुमित्यर्थः । ब्रह्म वेदमुपान- वानीति प्राप्नुयां ग्रहीष्यामीति । उपाप्नोत्येव ब्रह्म । अथवा ब्रह्म परमात्मा तमुपाप्नवानीत्यात्मानं प्रवक्ष्यन्प्रापयिष्यन्नोमित्येवाऽऽह । स च तेनोंकारेण ब्रह्म प्राप्नोत्येव । ओंकारपूर्व प्रवृत्तानां क्रियाणां फलवत्त्वं यस्मात्तस्मादों- कारं ब्रह्मेत्युपासीतेति वाक्यार्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायमाप्येऽ- ष्टमोऽनुवाकः ॥ ८॥ शस्त्राणि गीतिरहिता ऋच उच्यन्ते । प्रतिगरमिति । ओ थामो देवेतिशब्दम- ध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति । प्रतिशंसनमुच्चारयतीत्यर्थः । प्रवक्ष्यनिति । वच परिभाषणे " इत्यस्य रूपं प्रथमव्याख्याने । द्वितीये : वह प्रापणे " इत्यस्य द्रष्टव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्यायेऽष्टमोऽनुवाकः ।। ८ ॥ - अथ शीक्षाध्याये नवमोऽनुवाकः । ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च। तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अमयश्च स्वाध्यायप्र- वचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवंचने च । मानुषं च - २८ आनन्दगिरिकृतटीकासंचलिर,शांकरभाष्यसमेता- [शीक्षाध्याये- स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रव- चने च । प्रजनश्च स्वाध्यायप्रवचने च । विज्ञानादेवाऽऽप्नोति स्वाराज्यमित्युक्तत्वाच्छ्रौतस्मार्तानां कर्मणामानर्थय प्राप्तमित्यतस्तन्मा प्रापदिति कर्मणां पुरुषार्थ प्रति साधनत्वप्रदर्शनार्थमिहोप- न्यासः । ऋतमिति व्याख्यातम् । स्वाध्यायोऽध्ययनम् । प्रवचनमध्यापन ब्रह्मयज्ञो वा । एतान्यतादीन्यनुष्ठेयानीति वाक्यशेषः । सत्यं च सत्यवचन यथाव्याख्यातार्थ वा । तपः कृच्छादि । दमो बाह्यकरणोपशमः । शमोऽन्त:- करणोपशमः । अग्नय आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्चं पूज्याः । मानुषमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा चोत्पाद्या । प्रजनश्च प्रजननमृतौ भार्यागमनमित्यर्थः । व्यवहितानुवाकेन संवन्धमाह-विज्ञानादेवेत्यादिना । अपरविद्यासहकारितया तरफलेनैव फलवत्त्वसिद्धयर्थमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः। प्रजानिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवर्चा राथीतरः । प्रजातिः पौत्रोत्पत्तिः । पुत्रो निवेशयितव्य इत्येतत् । सरतैः कर्मभिर्यु. तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थ सर्वेण सह स्वाध्या- यमवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानायत्तं च परं श्रेयः । प्रवचनं च तदविस्मरणार्थ धर्मप्रवृद्धयर्थ च । अतः स्वाध्यायप्रवचनयोरादरः सत्यमिति सत्यमेवानुष्ठातव्यमिति । सत्यवचाः सत्यमेव वचो यस्य सोऽयं सत्यवचा नाम वा तस्य । रॉथीतरो रथितरस्य गोत्रो राथीतराचार्यों मन्यते । कार्यः । पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह-सवरेतैरिति। किमिति यत्नतोऽ. नुष्ठये तत्राऽऽह-स्वाध्यायाधीनमिति । त्रयाणामृषीणां मतभेदोपन्यासेन स्वाध्याय. प्रवचनयोरेवाऽऽदरं विवृणोति--सत्यमित्यादिना । १ ग. च. एतदादीन्यू । २ क. ख. ग. ङ. च. अ. वदनं । ३ क. इ. अ. 'जाश्चोत्पाद्याः । प्र। ४ क. ट. 'किको वि। ५ऊ. राधीतरो। ६ ङ. राधीतरा।
० दशमोऽनुवाकः] तैत्तिरीयोपनिषत् । २९ तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि : पंचदि तपः (१)॥ प्रजा च स्वाध्याय च षट् च ।। इति कृष्णयजुर्वेदी यतैत्तिरीयोपनिषदि शीक्षाध्याये नवमोऽनुवाक: : ९॥ तप इति तप एव कर्तव्यमिति : तपोनिन्यस्तपसि नित्यस्तपःपरस्तपोनित्य इति वा नाम । पौरुशिष्टिः पुरुशिष्टस्यापत्यं पीरुशिष्टिराचार्यों मन्यते। स्वाध्या. यमवचने एवानुष्ठेये इति नाको नामतो मुद्गल ल्यापत्यं मौद्गल्य आचार्यों मन्यते । तद्धि तपस्तद्धि तपः । हि यस्मात्स्वाध्यायप्रवचने एव तपस्तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये नवमोऽनुवाकः ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोपनि- पच्छांकरभाष्यटीकायां शीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ शीक्षाध्याये दशमोऽनुवाकः । अहं वृक्षस्य रेरिया । कीर्तिः पृष्ठं गिरे- रिव। ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये प्रकरणात् । विद्यार्थ हीदं प्रकरणम् । न चान्गार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्प्यते । अहं वृक्षस्योच्छेदात्मकस्य संसार- क्षस्य रेरिवा प्रेरयिताऽन्तर्याम्यात्मना । कीर्तिः ख्यातिगिरेः पृष्ठमिवोच्छ्रिता । ऊर्ध्वपवित्र ऊर्ध्वकारणं पवित्रं पावनं ज्ञानप्रकाश्यं पवित्रं मम आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- परमं ब्रह्म यस्य सर्वात्मनो मम सोऽहमूर्खपवित्रः । वाजिनीव वाजवतीव । वाजमन्नं तद्वति सवितरीत्यर्थः । यथा सवितर्यमृतमात्मतत्त्वं विशुद्ध प्रसिदं श्रुतिस्मृतिशतेभ्य एवं स्वमृतं शोभनं विशुद्धमात्मतत्त्वमस्मि भवामि । स्वाध्यायार्थ इति जपार्थः । 'इथे त्वेति शाखां छिनत्ति " इतिवत् । अन्यत्र वि- नियोजकं श्रुत्यादिप्रमाणमपि नोपलभ्यत इत्याह-न चान्यार्थत्वमिति । अक्षितमसी- त्यादिवदुपासनाविधिविशे(विशे)षत्वं वा वक्तुं न शक्यते । ज्ञानसाधनक्रियाविधेः प्रक्रान्तत्वादित्यर्थः । द्रविण५ सर्वर्चसम् । सुमेधा अमृतोक्षितः। इति त्रिशङ्कोर्वेदानुवचनम् (१) ॥ अह षट् ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये दशमोऽनुवाकः ॥ १०॥ द्रविणं धनं सवर्चसं दीप्तिमत्तदेवाऽऽत्मतत्त्वमस्मीत्यनुवर्तते । ब्रह्मज्ञानं वाऽऽत्मतत्त्वप्रकाशकत्वात्सवर्चसम् । द्रविणमिव द्रविणं मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः। सुमेधाः शोभना मेधा सर्वज्ञ. लक्षणा यस्य मम सोऽहं सुमेधाः । संसारस्थित्युत्पत्त्युपसंहारकौशलयोगात्सु- मेधस्त्वम् । अत एवामृतोऽमरणधर्माऽशितोऽक्षीणोऽव्ययः । उक्षितो वाऽमृतेन वोक्षितः सिक्तः । “अमृतोक्षितोऽहम्" इत्यादिब्राह्मणम् । इत्येवं त्रिशङ्को ब्रह्मभूतस्य ब्रह्मविदो वेदानुवचनं वेदो वेदनमात्मैकत्वविज्ञानं तस्य प्राप्तिमनु वचनं वेदानुवचनम् । आत्मनः कृतकृत्यताख्यापनार्थ वामदेववत्रिशडनाऽऽ- र्षेण दर्शनेन दृष्टो मन्त्रानाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽवगम्यते । ऋतं चेत्यादिकर्मोपन्यासादनन्तरं च वेदानुवचन पाठादेतदवगम्यते । एवं श्रौतस्मातेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये दशमोऽनुवाकः ॥ १० ॥ १. परं । २ ङ. "ताप्रख्या" । ३ न. "ति गम्यते । ।
११ एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ३१ अहं वृक्षस्येतिमन्त्रस्यर्षिस्त्रिशङ्कुः, पङ्क्तिश्छन्दः, परमात्मा देवता, ब्रह्मविद्यार्थे जपे विनियोगः । न केवलमस्य जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह-ऋतं चेत्या- दिना। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये दशमोऽनुवाकः ॥ १० ॥ अथ शीक्षाध्याय एकादशोऽनुवाकः । वेदमनूच्याऽऽचार्योऽन्तेवासिनमनुशास्ति । वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मविज्ञानानियमेन कर्त- व्यानि श्रौतस्मातकर्माणीत्येवमर्थः । अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्याऽऽत्मज्ञानमञ्जसैवोत्पद्यते । तपसा कल्पषं हन्ति विद्ययाऽमृतमश्नुते" इति स्मृतिः । वक्ष्यति च -तपसा ब्रह्म विजिज्ञा. सस्व" इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासन- शब्दादनुशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणां केवलब्रह्म. विद्यारम्भाच्च पूर्व कर्माण्युपन्यस्तानि । उदितायां च विद्यायां " अभयं प्रतिष्ठां विदन्ते " न विभेति कुतश्वन " " किमहं साधु नाकरवम्" इत्ये- वमादिना कर्मनैकिंचन्यं दर्शयिष्यतीत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च-" अविद्यया मृत्यु तीवी विद्य- याऽमृतमश्नुते " इति । अनादीनां पूर्वत्रोपदेशानर्थक्यपरिहारार्थः । इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यनियमार्थः । वेदमनूच्याध्याप्याऽऽचार्योऽन्तेवासिनं शिष्यमनुशास्ति ग्रन्थग्रहणादनु पश्चाच्छास्ति तदर्थ ग्राहयतीत्यर्थः । अतोऽवग- म्यतेऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति । "बुद्ध्वा कर्माणि चाऽऽरभेत्" इति स्मृतेश्च । उत्तरानुवाकस्य तात्पर्यमाह-वेदमनूच्येत्यादिना । विद्योत्पत्त्यर्थं नित्यनैमित्तिका. न्यवश्यान्यनुष्ठेयानीत्येको नियम उक्तः । प्रागेव चानुष्ठेयानीति नियमान्तरमाह-मागु- पन्यासाच्च कर्मणामिति । संग्रहवाक्यं विवृणोति-केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीत्वेति मन्त्रोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः । १.क. घ. ऊ. ट. स्मार्तानि क° । २ ख. ति श्रुतिः । अ' । ३ १. र्माणीति । अ' ४ ख. ग. घ. द. च. भ. ट. “देश आन ।
३२ - आनन्दगिरि कृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- " ऋतं च स्वाध्यायप्रवचने च " इत्यादिना पूर्वत्र कर्मानुष्ठानमुक्तमेवातः पौनरुक्त्य- मित्याशङ्कयाऽऽह-ऋतादीनामिति । विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् । किंत्व- ध्ययनविधेरर्थावबोधक (न)द्वारेण पुरुषार्थपर्यवसायितासिद्धयर्थमक्षरग्रहणानन्तरमाव- बौधे प्रयतितव्यमित्याह-ग्रन्थग्रहणादन्विति । वेदमवीत्य स्नायादिति स्मृतिरप्येतच्छु- तिविरुद्धेत्याह-अतोऽवगम्यत इति । सत्यं वद । धर्ग चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमा- हृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । कथमनुशास्तीत्याह-सत्यं वद यथाप्रमाणावगतं वक्तव्यं तद्वद । तद्वद्धर्म चर । धर्म इत्यनुष्ठेयानां सामान्यपचनं सत्यादिविशेषनिर्देशात् । स्वाध्यायाद- ध्ययनान्मा प्रमदः प्रमादं मा काणी । आचार्यायाऽऽचार्यार्थ प्रियमि धनमा हत्याऽऽनीय दत्त्वा विद्यानिष्क्रयार्थम् । आचार्येण चानुज्ञातोऽनुरूपान्दारानाहत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छे-सीः प्रजासंततेविच्छित्तिनै कर्तव्या । अनु- त्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकणां तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्रायः । प्रजाप्रजननप्रजातित्रयनिर्देशसामति । अन्यथा प्रजननश्चेत्येतदेकमेवावक्ष्यत् । वक्तव्यमिति । वचनाहै परम्य इतमियर्थः । सत्यान्न प्रभदि जम् । धर्मान्न प्रमदि. तव्यम् । कुलिन प्रमदितव्यम् । भूत्यै न प्रमदिम । स्वाध्यायप्र- वचनाम्यां न प्रदितव्यम् (१)। सत्यान्न प्रमदितव्यं प्रमादो न कर्तव्यः । सत्याच प्रमदनमनृतप्रसङ्गः। प्रमादशब्दसामर्थ्यात् । विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः । + अन्य- - + अत्र ख. पुस्तके ' अनृतवदनविषये दोषश्रुतश्च, “ योऽनृतं वदति समूलो.वा एष परिशु- पति" इति । न सत्यात्परमो धर्मो नानृतात्पातकं परम् " इति स्मृतेः । इत्यधिकं दृश्यते । १ ख. ग. च. बोधाय प्र । २ छ. तित्रितय । ३ घ. 'त्येतावदे । ४.ख. देवमे ।
११ एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ३३ थाऽसत्यवदनप्रतिषेध एव स्यात् । धर्मान्न प्रमदितव्यम् । धर्मशब्दस्यानुष्ठेय- विषयत्वादननुष्ठानं प्रमादः स न कर्तव्यः । अनुष्ठातव्य एव धर्म इति यावत् । एवं कुशलादात्मरक्षार्थात्कर्मणो न प्रमदितव्यम् । भूतिर्विभूतिस्तस्यै भूत्यै भूत्यर्थान्मङ्गलयुक्तात्कर्मणो न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम- दितव्यम् । स्वाध्यायोऽध्ययनं प्रवचनमध्यापनं ताभ्यां न प्रमदितव्यम् । हि नियमेन कर्तव्ये इत्यर्थः । देवपितृकार्याश्यां न प्रमदितव्यम् । मातृदेवो भव । पिर्तृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि। तानि सेवितव्यानि । नो ईतराणि। यान्य. स्माक५ सुचरितानि । तानि त्वयोपास्यानि (२)। नो ईतराणि । तथा देवपितृकार्याभ्यां न प्रमदितव्यम् । दैवपित्र्ये कर्मणी कर्तव्ये । मातृ- देवो माता देवो यस्य स त्वं मातृदेवो भव स्याः । एवं पितृदेव आचार्यदेवोऽ- तिथिदेवो भव । देवतावदुपास्यां एत इत्यर्थः । यान्यपि चान्यान्यनवद्यान्य- निन्दितानि शिष्टाचारलक्षणानि कर्माणि तानि सेवितव्यानि कर्तव्यानि त्वया। नो अकर्तव्यानीतराणि सावधानि शिष्टकृतान्यपि । यान्यस्माकमाचार्याणां सुचरितानि शोभनचरितान्यानायाद्यविरुद्धानि तान्येव त्वयोपास्यान्यदृष्टा- थान्यनुष्ठेयानि । नियमेन कर्वव्यानीति यावत् । नो इतराणि विपरीतान्याचा यकृतान्यपि । ये के चास्मच्छेयांसो ब्राह्मणाः। तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । १ सं. च. त् । तथा ध° । २ ख, ग. च. 'स्या एवैत । ३ छ. भनानि च ।
आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- - ये के च विशेपिता आचार्यत्वादिधर्मरस्मदस्मत्तः श्रेयांसः प्रशस्यतरास्ते च ब्राह्मणा न क्षत्रियादयस्तेषामासनेनाऽऽसनदानादिना त्वया प्रश्वसितव्यम्। प्रश्वसनं प्रश्वासः श्रमापनयः, तेषां श्रमस्त्वयाऽपनेतव्य इत्यर्थः । तेषां चाss. सने गोष्ठीनिमित्ते समुदिते तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः। केवलं तदुक्तसारग्राहिणा भवितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् ।संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् (३)। ये तत्र ब्राह्मणाः समर्शिनः। युक्ता आयुक्ताः। अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाश्या- ख्यातेषु । ये तत्र ब्राह्मणाः समर्शिनः। युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते' तेषु वर्तेरन् । तथा तेष वर्तथाः। किंच यत्किंचिद्देयं तच्छ्रद्धयैव दातव्यम् । अश्रद्धयाऽदेश्यं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । हिया लज्जया च देयम् । भिया च भयेन देयम् । संविदा च । संविन्मित्रादिकार्थम् । अथैवं वर्तमानस्य यदि कदाचिते तव श्रौते स्मार्ते वा कर्मणि वृत्ते वाऽऽचारलक्षणे विचिकित्सा संशयः स्यात् । ये तत्र तस्मिन्देशे काले वा ब्राह्मणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संबन्धः कर्तव्यः । संमर्शिनो विचारक्षमाः । युक्ता अभियुक्ताः कर्मणि वृत्ते वा । आयु- क्ता अपरमयुक्ताः । अलूक्षा अरूक्षा अक्रूरमतयः । धर्मकामा अदृष्टार्थिनोड- * ख. पुस्तके टिप्पण्यां " देयमित्यपि विद्यारण्यैरुक्तम् " इति धर्तते। १ ख. ग. च. 'रविल' । २ ख. ग. च. 'स्याचेत् । ३ ख. 'कामाः स्युरह।
११ एकादशोऽनुवाकः ] तैत्तिरीयोपनिषत् । कामहता इत्येतत्स्युर्भवेयुः । ते यथा येन प्रकारेण ब्राह्मणास्तत्र तस्मिन्कर्मणि वृत्ते वा वर्तेरस्तथा त्वमपि वर्तेथाः । अथाभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्य- मानेन संयोजिताः केनचित्तेषु च यथोक्तं सर्वमुपनयद्ये तत्रेत्यादि । एवं कर्तव्यमर्थमुपदिश्यानुष्ठानकाले समुत्पन्नसंशयनिवृत्त्यर्थं शिष्टाचारः प्रमाणयि- तन्य इत्याह-अयैवमित्यादिना । अपरप्रयुक्ता इति । स्वतन्त्रा इत्यर्थः । अभ्युक्ता अमिशस्ता इत्यर्थः । एष आदेशः । एष उपदेशः । एषा वेदो- पनिषत् । एनर्दनुशासनम् । एवमुपासि- तव्यम् । एवमु चैतदुपास्यम् ( ४ ) । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन्त्सप्त च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये एकादशोऽनुवाकः ॥ ११ ॥ एष आदेशो विधिः । एष उपदेशः पुत्रादिभ्यः पित्रादीनाम् । एषा वेदो पनिषदेदरहस्यं वेदार्थ इत्येतत् । एतदेवानुशासनमीश्वरवचनम् । आदेशवा क्यस्य विधेरुक्तत्वात्सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवं तस्मा देवं यथोक्तं सर्वमुपासितव्यं कर्तव्यम् । एवमु चैतदुपास्यमुपास्यमेव चैतन्ना- नुपास्यमित्यादरार्थ पुनर्वचनम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये एकादशोऽनुवाकः ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याय एकादशोऽनुवाकः ॥ ११ ॥ १ द. देव चानु । २ म. नुशमन ।
६ आनन्दगिरिकृत टीकासंघलितांकरभाष्यसमेता- [शीक्षाध्याये- अथ शीक्षाध्याय द्वादशोऽनुवाकः । - शं नौ मित्रः शं वरुणः । शं नौ भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्ष ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋत- मेवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तर कारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ( १ ) ॥ सत्यमेवादिषं पञ्च च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२॥ * अतीतविद्यामाप्त्युपसर्गशमनार्थ शान्ति पठति-शं नो मित्र इति । व्याख्यातमेतत्पूर्वम् । शं नो मित्र इति । तदपरं ब्रह्म मामपरविद्यार्थिनमावीदरक्षदित्यर्थः ॥ अत्रैतचिन्त्यते विद्याकर्मणोविवेकार्थ किं कर्मभ्य एव केवलेभ्यः परं श्रेय उत विद्यासव्यपेक्षेभ्य आहोरिवद्विद्याकर्मभ्यां संहताभ्यां विद्याया वा कर्मा- पेक्षाया उत केवलाया एव विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् । समस्तवेदार्थज्ञानवतः कर्माधिकारात् । "वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मरणात् । अधिगमश्च सहोपनिषदर्थेनाऽऽत्मज्ञानादिना । "विद्वान्यजते " " विद्वान्याजगति " इति च विदुष एव कर्मण्यधिकारः प्रदयते सर्वत्र। ज्ञात्वा चानुष्ठानम् ” इति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते वेदोऽनर्थकः स्यात् । * 'अतीत' इत्यारभ्य 'पूर्वम्' इत्यन्तं क. ख. ग. घ. ङ. च. छ. अ. ट. पुस्तकेषु न विद्यते । १ ग. च. वाप्यत ।
। १२ द्वादशोऽनुवाकः ] तैत्तिरीयोपनिषत् । आद्यानुवाके केवलाया विद्याया निःश्रेयससाधनत्वमुक्तमपि स्फुटीकर्तुं कर्मविधिमुपलम्य प्रसङ्गात्पुनर्विचारयितुमुपक्रमते-अत्रैताञ्चिन्त्यत इत्यादिना । विवेकार्थमिति पृथक्फ- लत्वज्ञापनार्थमित्यर्थः । । भूतं भव्यायोपदिश्यते' इति न्यायेनाऽऽत्मज्ञानस्यापि कर्म- कर्तृसंस्कारतया कर्मविधिशेषत्वाच्छूतस्यापि फलस्यार्थवादमात्रत्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः। न । नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्यानित्यत्वं प्रसि- दं लोके, कर्मभ्यश्चेच्छ्रेयोऽनित्यं स्यात्तच्चानिष्टम् । “ तद्यथेह कर्मचितो लोकः क्षीयते” इतिन्यायानुगृहीतश्रुतिविरोधात् । काम्यप्रतिषिद्धयोरनार- म्भादारब्धस्य च कर्मण उपभोगेन क्षयान्नित्यानुष्ठानाचे ज्ञाननिरपेक्ष एव मोक्ष इति चेत् । तच्च न । शेषकर्मसंभवात्तन्निमित्तशरीरान्तरोत्पत्तिः प्राप्नो- तीति प्रत्युक्तम् । कर्मशेषस्य च नित्यानुष्ठानेनाविरोधारक्षयानुपपत्तिरिति च यदुक्तं समस्तधेदार्थज्ञानवतः कर्माधिकारादित्यादि । तच्च न । श्रुतज्ञानव्य- तिरेकादुपासनस्थ । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते नोपासनामपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते । मोक्षफलमर्थान्तरपसिद्धं च स्यात् । " श्रोतव्यः" इत्युक्त्वा तद्व्यतिरेकेण " मन्तव्यो निदिध्यासितव्यः" इति यत्नान्तरविधानान्मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । सिद्धान्तमाह-न नित्यत्वादित्यादिना । यद्यप्यध्यनविधिपँत्यु(यु)क्त्या कृत्स्नो वेदार्थ एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययन प्रतिवाक्यार्थविचारं च व्यापारमे- दात्तत्प्रत्यु(यु)क्त्याऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसंभ- वाद्ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्या- ह-तच्च नेति । यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः। उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह- श्रुतज्ञानेति । श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण १ क. ग. च. अथ ग्रन्थादावाद्या' । ख. अथाऽऽद्य आ° । ज. अथाऽऽदावाद्यवाद आ'। ऽऽदावाद्य झ. अथाऽऽदावद्या । २ ङ. "स्कारार्थत १३ ख. ग. च. ट. यस्य चानि । ४ ख. ग. च. चं तत्प्रत्यवायानुत्पत्तेान । ५ क. ख. ग. च. ट. सनम । ६ ट, 'ते। मानाभावात् । उ'। ५ ख.. ग. झ. प्रयुक्तः कृ । ८ क. ग. च. वाक्यमध्य । ९ ख. ज. झ. 'त्प्रयुक्ताभ्यु। १० ख. 'नत्वमा ११ ग. वादन स । १२ ख. ज. युक्तो ३ । १३ ख. य. ज. झ. अ. सनसा ।
२८ आनन्दगिरिकृवटीकासंवलितशांकरभाष्यसमेता- [शौलाध्याये- कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमपेक्षते व्यतिरेकभावादित्यर्थः । अध्ययनवि- धिन्यापारोपरमेऽनुष्ठेयं तथाभूतं ब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमि- स्याह-उपासनं चेति । एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम् । वस्तुतश्च श्रोत- न्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्डविचारोऽप्युत्तरविधि- प्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः । विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् । यथा स्वतो मरणज्वरादिकार्यारम्भ- सामर्थ्यानामपि विषदध्यादीनां मन्त्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसाम- य॑म् । एवं विद्यासहितैः कर्मभिर्मोक्ष आरभ्यत इति चेत् । न । आरभ्यस्या- नित्यत्वादित्युक्तो दोषः । वचनादारभ्योऽपि नित्य ऐवेति चेत् । न । ज्ञाप- कत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकं विद्यमानस्य कर्तृ । न हि वचनशतेनापि नित्यमारभ्यत आरब्धं वाऽविनाशि भवेत् केवलं कर्म मोक्षसाधनमिति पक्षं निरस्य विद्यासमुच्चितं मोक्षसाधनमिति पक्षान्तरमा- शङ्कय निषेधति-एवं तहत्यिादिना । ' न स पुनरावर्तते " इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापक. त्वात् । न चाऽऽरभ्यस्य नित्यत्वे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वास- कात् । " अन्धो मणिमविन्दत्" इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह-न ज्ञाप- कत्वादित्यादिना। एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् । विद्याकर्मणी मोक्ष- प्रतिबन्धहेतुनिवर्तके इति चेत् । न । कर्मणः फलान्तरदर्शनात् । उत्पत्तिसं. स्कारविकाराप्तयो हि फलं कर्मणो दृश्यते । उत्पत्त्यादिफलविपरीतश्च मोक्षः। गतिश्रुतेराप्य इति चेत् । सूर्यद्वारेण "तयोर्ध्वमायन्" इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् । न । सर्वगतत्वाद्न्तृभिश्चानन्यत्वादाकाशादिकारण- वात्सर्वगतं ब्रह्म । ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः । अतो नाऽऽप्यो मोक्षः । गन्तुरन्यविभिन्न देशं प्रति भवति गन्तव्यम् । न हि येनैवाव्यतिरिक्त यत्चत्तेनैव गम्यते तत् । अनन्यत्वप्रसिद्धेश्च । तत्सृष्ट्वा तदेवानुपाविशत् " क्षेत्रनं चापि मां विद्धि " इत्येवमादिश्रुतिस्मृतिशतेभ्यः । १ ज.म. रेकामा।-२ ज. "दित्यत आह । ३ ख. ङ छ. द.न च न च । ४ ज. •कं यत्ते । ५ क, ख, ग, घ.. छ. ज. ठ. 'सिद्धिश्च ।
S १२ द्वादशोऽनुवाकः ] तैत्तिरीयोपनिषत् । कर्म प्रधानं विद्या चोपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति- एतेनेति । अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः । मोक्षेति । मोक्षस्य प्रतिबन्धहेतुरविद्याधर्मा- दिस्तन्निवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् । प्रध्वं- सस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । “ भिद्यते हृदयग्रन्थिः" इत्यादिश्रुतेः । केवलविद्यासाध्यैवाविद्यानिवृत्तिः । न तत्र विद्यायाः सहकार्यपेक्षा । कर्मफलं त्वन्यदेव प्रसिद्धमित्याह-न कर्मण इति । उत्पत्तिः पुरोडाशादेः । संस्कारो ब्रीह्यादेः। विकारः सोमस्य । आप्तिर्वेदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादना- धेयातिशयत्वादविकार्यत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः । गतिश्रुतेरिति । अ- चिरादिगतिश्रवणाद्ब्रह्माण्डाहहिःस्थितब्रह्मप्राप्तिर्मोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः- गत्वा प्राप्तिः किं संयोगलक्षणा तादात्म्यलक्षणा वा, नोभयथाऽपीत्याह-न सर्व गतत्वादिति । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् । अथापि स्याद्यद्यप्राप्यो मोक्षस्तदा गतिश्रुतीनां, " स एकधा स यदि पितृलोककामो भवति " " स्त्रीभिर्वा यानैर्वा " इत्यादिश्रुतीनां च कोपः स्यादिति चेन्न । कार्यब्रह्मविषयत्वा- तासाम् । कार्ये हि ब्रह्मणि रूयादयः स्युर्न कारणे “ एकमेवाद्वितीयम् " यत्र नान्यत्पश्यति " तत्केन के पश्येत् " इत्यादिश्रुतिभ्यः । विरोधाच विद्याकर्मणोः समुच्चयानुपपत्तिः। प्रविलीनकादिकारकविशेषतत्त्वविषया हि विद्या तद्विपरीतकारकसाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कादिविशेषवत्तच्छ्न्यं चेत्युभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्यतरन्मिथ्या स्यादन्यतरस्य च मिथ्यात्वप्रसङ्ग युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्य मिथ्यात्वम् , " यत्र हि द्वैतमिव भवति " "मृत्योः स मृत्युमामोति" "अथ यत्रान्यत्पश्यति तदल्पम्" " अन्योऽसावन्योऽहमस्मि " अथ तस्य भयं भवति" इत्यादिश्रुतिशतेभ्यः । सत्यत्वं चैकत्व- स्यैकधैवानुद्रष्टव्यम् । “एकमेवाद्वितीयम्" "ब्रह्मवेद सर्वम्" " आत्मैवदर सर्वम् " इत्यादिश्रुतिभ्यः । न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते । अन्यत्वदर्शनापवादश्च विद्याविषये सहस्रशः श्रूयते । अतो विरोधो विद्याक मणोः । अतश्च समुच्चयानुपपत्तिः । " उदरमन्तरं कुरुते " १ ग. 'वन्धे हे । २ ज. कार्यापे । ३ क. तिरपूर्वस्य । ४ अ, गया । ५ च. मोक्षोऽस्ति तदा ।
४० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- गत्यादिश्रुतेस्तात्पर्य शङ्कापूर्वकं दर्शयति-गत्यैश्वर्येत्यादिना । समुच्चयमभ्युप- गम्य कर्मकार्य किंचिन्मोक्षे न संभवतीत्युक्तम् । सोऽपि न संभवतीत्याह-विरोधा- वेत्यादिना। तत्र यदुक्तं संहताभ्यां विद्याकर्मभ्यां मोक्ष इति । अनुपपन्नं तत् । विहित- त्वात्कर्मणां श्रुतिविरोध इति चेत् । यापमृद्य कर्नादिकारकविशेषमात्मैकत्व- विज्ञान विधीयते । सर्पादिभ्रान्तिविज्ञानोपमर्दकरज्ज्वादिविषयविज्ञानवत्माप्तः कर्मविधिश्रुतीनां निर्विषयत्वाद्विरोधः । विहितानि च कर्माणि । स च विरोधी न युक्तः । प्रमाणत्वाच्छ्रुतीनामिति चेन्न । पुरुषार्थोपदेशपरत्वाच्छ्रुतीनाम् । यदि कादिकारकभेदस्य सत्यत्वांशमपबाध्य ब्रह्मज्ञानमुपदिश्यते तदा मिथ्यार्थत्वा- कर्मविधीनामप्रामाण्यं स्यादित्याह-विहितत्वादिति । शङ्कां विवृणोति -यदीत्या- दिना । अध्ययनविधिगृहीतानां श्रुतीनां पुरूषार्थोपदर्शकत्वेन प्रामाण्यं वक्तव्यम् । न तु भेदस्य सत्यत्वेन । ततः प्रसिद्धिसिद्धं कारकादिभेदमक्रियासमर्थमादाय प्रवृत्तानां प्रामाण्यं न विरुध्यत इत्याह---न पुरुषार्थेति । विद्योपदेशपरा तावच्छुतिः संसारात्पुरुषो मोक्षयितव्य इति संसारहेतोर- विद्याया विद्यया निवृत्तिः कर्तव्येति विद्याप्रकाशकत्वेन प्रवृत्तेति न विरोधः। एवमपि कादिकारकसद्भावप्रतिपादनपरं शास्त्र विरुध्यत एवेति चेन्न । यथा. माप्तमेव कारकास्तित्वमुपादायोपात्तदुरितक्षया कर्माणि विधच्छास्त्रं मुमुक्षूणां फलार्थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिब- न्धस्य हि विद्योत्पत्ति वकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात्ततश्चाविद्यानि वृत्तिस्तत आत्यन्तिकः संसारोपरमः । संग्रहवाक्यं विवृणोति-विद्योपदेशपरा तावदित्यादिना । अपि चानात्मदर्शिनो ह्यनात्मविषयः कामः । कामयमानश्च करोति कर्माणि । ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्व्यतिरेकेणाऽऽत्मैक- त्वदार्शनो विषयाभावात्कामानुत्पत्तिरात्मनि चानन्यत्वात्कामानुत्पत्ती स्वात्म. न्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोविरोधः । १ ख. ग. घ. ङ, च. छ. ज. स. सुपपात । २ घ. ऊ. छ. अ. 'अपत्तौ ।
umraan IP"ot. V. VENTACHEL १२ द्वादशोऽनुवाकः ] तैत्तिरीयोपनिषद । PUNAI पूर्व सत्यमिथ्याविषयत्वेन विद्याकर्मणोविरोधमादाय समुच्चयो निरस्तः । इदानीं काम्यकामिविषयत्वेन विरोधमाह-अपि चेत्यादिना । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोप- चितप्रतिबन्धापनयद्वारेण विद्या हेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवास्मिन्प्रकरण उपन्यस्तानि कर्माणीत्यवोचाम । एवं चाविरोधः कर्मविधि- श्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् । समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुच्चयं निरस्यति--विरोधादेव चेति । विद्या चेत्कर्माणि स्वफले नापेक्षते विरुद्धत्वात्रिदण्डिधर्मवतुगमनं कथं तर्हि विद्यासंनि- धाने कर्मणां पाठ इत्यत आह--स्वात्मलामे विति । कर्मणां विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्ठन्ते कर्मनडाः । एवं ताश्रमान्तरानुपपत्तिः। कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गार्हस्थ्ये च विहि- तानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयोऽनुकूलतराः । न । कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि । ब्रह्मचर्यं तपः सत्यवदनं शमो दमोऽहिंसेत्येवमादीन्यपि कर्माणीतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमा. न्यसंकीर्णत्वाद्विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च--" तपसा ब्रह्म विजिज्ञासस्व " इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्प- त्तिसंभवात्कर्मार्थत्वाच गार्हस्थ्यप्रतिपत्तेः । कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्चायं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य नित्यसिद्धान्मलोकद- र्शिनः कगि प्रयोजनमपश्यतः कथं प्रवृत्ति रुपपद्यते प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो नि. त्तिरेव स्यात् । “ प्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि" इत्येवमादिश्रुति- लिङ्गदर्शनात् । कर्म प्रति श्रुतेयत्नाषिक्यदर्शनादयुक्तमिति चेदग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नो महांश्च कर्मण्यायासोऽनेकसाधनसाध्यत्वादग्निहोत्रादी- नाम् । तपोब्रह्मचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाध- नापेक्षत्वाचेतरेषां न युक्तस्तुल यवद्विकल्प आश्रमिमिस्तस्येति चेन्न । जन्मान्त. रकृतानुग्रहात् । १ ख. ग. च. काभ्याकाम्यवि।
४२ आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता- [शीक्षाध्याये- एवं तहाँति । श्रुतिस्मृतिष्वानमान्तराणामपि विहितत्वाविशेषात्तदीयकर्मसु कर्म- त्वाविशेषाच्च ग्राम्यधर्मरागिणामेवैतच्चोद्यमित्याह-न कर्मानेकत्वादिति । असंकीर्ण- स्वादिति । हिंसाद्यमिश्रितत्वादित्यर्थः । इतश्च कर्मणो विद्यासाधनत्वेऽपि न गार्हस्थ्य- मावश्यकमित्याह--जन्मान्तरोति । कामिनां गार्हस्थ्यस्यानुष्ठेयत्वेऽपि न सर्वैरनुष्ठेयत्व- मित्यत्र हेत्वन्तरमाह--लोकार्थत्वाच्चेत्यादिना । गार्हस्थ्यस्यानावश्यकत्वेन वैक- ल्पिकमनुष्ठानमुक्तं तत्रातुल्यक्लत्वेन विकल्पमाक्षिपति--कर्म प्रति श्रुतेरिति । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि । नासो दोषः । यतो जन्मान्तर- कृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्ति प्रति । येन जन्मनैव विरक्ता दृश्यन्ते केचित् । केचित्तु कर्मसु प्रवृत्ता अपि. रक्ता विद्याद्वेषिणः । तस्माजन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरम- तिपत्तिरेवेष्यते । कर्मफलवाहुल्याच पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्पा- संख्येयत्वात् । तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते । आशिपां बाहुल्यदर्शनादिदं मे स्यादिदं मे स्यादित्युपायत्वाच्च । उपायभूतानि हि कर्माणि विद्या प्रतीत्यवोचाम । उपायेऽधिको यत्नः कर्तव्यो नोपेये । जन्मान्तरकृतानुग्रहादिति परिहारमाप्यं विवृणोति--यदुक्तमित्यादिना । कर्मणि यत्नाधिक्यस्यान्यथासिद्धत्वाद्विकल्पविघातकत्वं न संभवतीत्यर्थः । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत्कर्मभ्य एव पूर्वोपचित- दुरितपतिवन्धक्षयादेव विद्योत्पद्यते चेत्कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽन. थक इति चेत् । न । नियमाभावात् । न हि प्रतिबन्धक्षयादेव विद्योत्पद्यते न स्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानादिति नियमोऽस्ति । अहिंसाब्रह्मचर्यादीनां च विद्या प्रत्युपकारकत्वात्साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासना- नाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारी विद्यायां परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये द्वादशोऽनुवाकः ॥ १२ ॥ क. ख. म. मिश्रस्वादि।
१२ द्वादशोऽनुवाकः ] तैत्तिरीयोपनिषत् । इदानी गृहस्थाश्रमकर्मणां बहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गाविद्यासाधनत्वमिति विशेष दर्शयितुं चोद्यमुद्भावयति-कर्मनिमित्तत्वादित्यादिना !! इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां शीक्षाध्याये द्वादशोऽनुवाकः ।। १२ ॥ शं नः शीक्षा सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्युतं चाहं वेदम. नूच्य शं नो द्वादश ॥ शं नो मह इत्यादित्यो नो इतराणि त्रयोविशतिः ॥ शं नौ मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्दो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्ष ब्रह्म वदिष्यामि । ऋतं वदि- प्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्यायः समाप्तः * ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये प्रथमः शीक्षाध्यायः ॥ १॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्भ गवदानन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छांकरभाष्यटीकायां प्रथमः शीक्षाध्यायः ॥ १ ॥ * तैत्तिरीयारण्यकक्रमेण सप्तमप्रपाठकस्य समाप्तिरत्र । १ क. °थिव्यमोमि। MHD
अथ तैत्तिरीयोपनिषदि
द्वितीयो ब्रह्मवल्ल्यध्यायः।
तत्र प्रथमोऽनुवाकः ।
-
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं
न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः । नमो
ब्रह्मणे । नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि-
ध्यामि । सत्यं वदिष्यामि । तन्मामवतु ।
तद्वक्तारमवतु। अवतु माम् । अवतु वक्तारम् ॥
सह नाववतु । सह नौ भुनक्तु । सह वीर्य
करवावहै । तेजस्वि नावधीतमस्तु मा विद्वि-
षावहै । ॐ शान्तिः शान्तिः शान्तिः ॥
शं नो मित्र इत्याद्यतीतविद्याप्राप्त्युपसर्गप्रशमनार्थी शान्तिः पठिता । इदानीं
तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसर्गोपशमनार्थी शान्तिः पठ्यते-शं नो मित्र इति।
सह नाववत्विति च । शं नो मित्र इत्यादि पूर्ववत्स्पष्टम् । सह नाववतु नौ
शिष्याचार्यों सहैवावतु रक्षतु । सह नौ भुनक्तु भोजयतु । सह वीर्य विद्यादि
निमित्तं सामर्थ्य करवावहै निर्वतयावहै । तेजस्वि नावावयोस्तेजस्विनोरधीतं
स्वधीतमस्तु । अर्थज्ञानयोग्यमस्त्वित्यर्थः । मा विद्विषावहै विद्याग्रहणनिमित्तं
शिष्यस्याऽऽचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तस्तच्छमनायेयमाशीर्मा
विद्विषावहा इति । मैवेतरेतरं विद्वेषमापद्यावहै । शान्तिः शान्तिः शान्तिरिति
१ क. ग. घ. छ, म. द. 'नसयोग्यस्त्वि।
१ प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । निर्वचनमुक्तार्थम् । वक्ष्यमाणविद्याविघ्नप्रशमनार्थ चेयं शान्तिः । अविघ्ने. नाऽऽत्मविद्याप्राप्तिराशास्यते तन्मूलं हि परं श्रेय इति । शान्तिद्वयस्यापोनरुक्त्यमाह- शं नो मित्र इति । इदानी परविद्यार्थिनमप्यवतु । साधारण्येन मया पूर्व प्रार्थितत्वादित्यर्थः । असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह-- सह नाववत्विति । नावावयोस्तेनस्विनोरधीत तेजस्व्यस्त्विति योजना । ॐ ब्रह्मविदामोति परम् । D संहितादिविषयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं चान्तःसो- पाधिकात्मदर्शनमुक्त व्याहृतिद्वारेण स्वाराज्यफलम् । नचैतावताऽशेषतः सं- सारवीजस्योपमर्दनमस्तीत्यतोऽशेपोपद्रवबीजस्याज्ञानस्य निवृत्त्यर्थं विधूत- सर्वोपाधिविशेषात्मदर्शनार्थमिदपारभ्यते-ब्रह्मविदामोति परमित्यादि । प्रयो- जनं चास्या ब्रह्मविद्याया अविद्यानिवृत्तिरतत आत्यन्तिकः संसाराभावः । वक्ष्यति च-" विद्वान्न विभेति कुतश्चन " इति । संसारनिमित्ते च सत्यभयं प्रतिष्ठां च विन्दत इत्यनुपपन्नम् । " कृताकृते पुण्यपापे न तपतः" इति च । अतोऽवगम्यतेऽस्माद्विज्ञानात्सर्वात्मब्रह्मविषयादात्यन्तिकः संसाराभाव इति । स्वयमेव च प्रयोजनमाह-ब्रह्मविदामोति परमित्यादावेव संबन्धप्रयोजनज्ञाप- नार्थम् । निर्मातयोहि संवन्धप्रयोजनयोर्विद्याश्रवणग्रहणधारणाभ्यासार्थ प्रव- तते । श्रवणादिपूर्वकं हि विद्याफलम् " श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिश्रुत्यन्तरेभ्यः । ब्रह्मविद्रह्मेति वक्ष्यमाणलक्षणं बृहत्तमत्वाद्ब्रह्म तवत्ति विजानातीति ब्रह्मविदामोति परं निरतिशयं तदेव ब्रह्म परम् । न ह्यन्यस्य विज्ञानादन्यस्य प्राप्तिः । स्पष्टं च श्रुत्यन्तरं ब्रह्मप्राप्तिमेव ब्रह्मविदो दर्शयति. स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इत्यादि । वृत्तानुवादपूर्वकमानन्दवल्लयास्तात्पर्यमाह-संहितादीत्यादिना। ननु यथा पूर्व माप्नोति स्वाराज्यमित्यपरविद्याफलमुक्तं संसारगोचरमेव तथा परविद्याफलमपि “ सोs- भुते सर्वान्कामान्" इति सर्वविषयसाध्यानन्दान्संसारगोचरानेव दर्शयिष्यति। कथमात्य- न्तिकः संसाराभाव इत्यत आह -प्रयोजनं चास्या इति । सर्वकामशब्देन निरति- शयानन्दाभिव्यक्तिर्विवक्षिता। सा च स्वभावानन्दानभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न संसारगोचरं फलमित्यर्थः । आद्यवाक्यस्यावान्तरतात्पर्यमाह-स्वयमेव चेति । १ ख. ज.न्दाभिव्यक्तिरूपावि' ४६ आनन्दगिरिकृतटीकासंचालित शांकरभाष्यसमेता-[ ब्रह्मवल्ल्यध्याये विधयैव केवलया मोक्षः साधयितुं शक्यते । ब्रह्मविदितिविशेषणात्संबन्धज्ञापनस्य पुरु. षाकाङ्क्षाविषयतया परप्राप्तिः प्रयोजनं विद्याया इति ज्ञापनस्य वा कुत्रोपयोग इत्या. शङ्कय यज्ञादिपरित्यागेन वेदान्तश्रवणादावेव मुमुक्षुणा प्रवर्तितव्यमित्यत्रेत्याह. निर्मातयोहोति । परशब्देनोत्कृष्टमुच्यते । कथं ब्रह्मेति व्याख्यायते तत्राऽऽह- न हीति । ननु सर्वगतं सर्वस्याऽऽत्मभूतं ब्रह्म वक्ष्यति । अतो नाऽऽप्यं प्राप्तिश्चा-य. स्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मेत्यतः परिच्छिन्नवदनात्मवच्च तस्याऽऽप्तिरनुपपन्ना । नायं दोषः । कथम् । दर्शनादर्शनापेक्षत्वाद्ब्रह्मण आप्त्यनाप्त्योः । परमार्थतो ब्रह्मरूपस्यापि सतोऽस्य जीवस्य भूतमात्राकृतबाह्यपरिच्छिन्नान्नमयाद्यात्मदर्शिनस्तदासक्तचे तसः प्रकृतसंख्यापूरणस्याऽऽमनोऽव्यवहितस्यापि बाह्यसंख्येयविषयासक्त चित्ततया स्वरूपाभावदर्श नवत्परमार्थब्रह्म स्वरूपाभावदर्शनलक्षणयाऽविद्ययाऽ- नमयादीन्बाह्याननात्मन आत्मत्वेन प्रतिपन्नत्वादन्नमयाधनात्मभ्यो नान्योऽ. हमस्मीत्यभिमन्यते । एवमविद्ययाऽऽत्मभूतमपि ब्रह्मानाप्तं स्यात् । तस्यैवम- विद्ययाऽनाप्तब्रह्मस्वरूपस्य प्रकृतसंख्यापूरणस्याऽऽत्मनोऽविद्ययाऽनाप्तस्य सतः केनचित्स्मारितस्य पुनस्तस्यैव विद्ययाऽऽप्तिर्यथा तथा श्रुत्युपदिष्टस्य सर्वा. स्मब्रह्मण आत्मत्वदर्शनेन विद्यया तदाप्तिरुपपद्यत एव । आप्नोतिशब्दस्यौपचारिकमर्थं दर्शयितुं शङ्कामुतेन मुख्यार्थे बाधकमाह--ननु सर्वगतमित्यादिना । परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानाप्तं स्यादिति संबन्धः । भूतमात्राभिर्भूतांशैः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयस्तदात्म- त्वदर्शिन इत्यविद्याया विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थं ब्रह्मस्वरूपं नास्तीत्यभावदर्शन मावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता । स्वरूपेऽप्यग्रहणविपर्ययो भवत इत्यत्र दृष्टान्तमाह-प्रकृतति । प्रकृतसंख्यापूरणस्य दशमस्य नवैव वयं वर्तामह इति विप- र्ययः स्वरूपादर्शनं च यथेत्यर्थः । अदर्शननिमित्तामनाप्ति विविच्य दर्शननिमित्तामाप्ति विवृणोति--तस्यैवमिति । ब्रह्मविदामोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्लयर्थस्य ब्रह्मविदा- मोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूप- विशेषस्य सर्वतो व्यावृत्तस्वरूपविशेषसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायाविशेषेण चोक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य १ ख. ग. ज्ञानस्य । २ ज.'झ. ज्ञानस्य । ३ ठ. 'मित्याह ।
१ प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । विशेषेण प्रत्यगात्मतयाऽनन्यरूपेण विज्ञेयत्वाय ब्रह्मविद्याफलं च ब्रह्मविदो यत्परब्रह्मप्राप्तिलक्षणमुक्तं स सर्वात्मभावः सर्वसंसारधर्मातीतब्रह्मस्वरूपत्वमेव नान्यदित्येतत्प्रदर्शनायैषमुदाहियते- तदेषाऽयुक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । तदेषाऽभ्युक्तेति । तत्तस्मिन्नेव ब्राह्मणवाक्योक्तेऽर्थ एपर्गभ्युक्ताऽऽन्नाता। सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मणो लक्षणार्थ वाक्यम् । सत्यादीनि हि त्रीणि विशेषणार्थानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म विवक्षितत्वावध- तया । विशेषणविशेष्यत्वादेव सत्यादीन्येकविभक्त्यन्तानि पदानि समाना- धिकरणानि । सत्यादिभिस्त्रिभिर्विशेषणैर्विशेष्यमाणं ब्रह्म विशेष्यान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञानं भवति यदन्येभ्यो निर्धारितम् । यथा लोके नीलं महत्सुगन्ध्युत्पल मिति । आद्यं ब्राह्मणवाक्यं व्याख्यायोत्तरं मन्त्रं संक्षेपतोऽर्थकथनेनावतारयति--ब्रह्मवि- दामोतीत्यादिना । सर्वतो व्यावृत्तो यः स्वरूपविशेषस्तत्समर्पणे समर्थस्य लक्षणस्या- मिधानेन स्वरूपनिर्धारणाय दाहियत इति संबन्धः । वृहत्त्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वित्यविशेषेण प्रतीयते । ततो लक्ष्योद्देशेन लक्षणविधानमिति प्रसिद्धि- रुपपद्यते । अव्याकृतादि ब्रह्मशब्दवाच्यतया सजातीथं घटादि विजातीयम् । तस्मात्सजा- तीयविजातीयव्यावकितवा सत्यादिलक्षणस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधान- द्वारेण स्वरूपविशेष प्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोषः पारीहृतः । पूर्वत्र ब्रह्म- विदित्यनेनाविशेषणोक्तं वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्य- गात्मतया वेदनं वक्तव्यमित्येवमर्था चर्गहावित इत्याह-अविशेषेण चेति । आपात- प्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभनते--सत्यादीनि हि त्रीणीति । विशेषणार्थानीति । व्यावृत्त्यांनि । कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह-- विशेषणविशेष्यत्वादेवति । नीलं महत्सुगन्ध्युत्पलमित्यादी सत्येव विशेषणविशेष्य- भावे समानाधिकरणतयकविभक्त्यन्तानि प्रसिद्धान्येतान्यपि च तथाभूतानि नानार्थगत. विशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः । विशेषणविशेष्यमावस्य फलमाह-- एवं हीति। ननु विशेष्यं विशेषणान्तरं व्यभिचरविशेष्यते । यथा नीलं रक्तं चोत्पल. मिति । यदा ह्यनेकानि द्रव्याण्येकजातीयान्यनेकविशेषणयोगीनि तदा विशे. १ झ. त्तरमत्र सं°।
-- आनन्दगिरिकृतटीकासंचलित शांकरभाष्यसमेता- [ब्रह्मवल्यध्याये- षणस्यार्थवत्त्वम् । न ह्येकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्यथाऽसावेक आदित्य इति तथैकमेव च ब्रह्म न ब्रह्मान्तराणि येभ्यो विशेष्येत नीलोत्प. लवत् । न । लक्षणार्थत्वाद्विशेषणानाम् । नायं दोषः । कस्मात् । यस्मालक्ष- णार्थप्रधानानि विशेषणानि न विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययो. विशेषणविशेष्ययोर्वा विशेष इति । उच्यते । समानजातीयेभ्य एव निवर्व- कानि विशेषणानि विशेष्यस्य लक्षणं तु सर्वत एव यथावकाशदात्राकाश- मिति । लक्षणार्थ च वाक्यमित्यवोचाम । विशेषणविशेष्यभावमाक्षिपति--नन्विति । नीलत्वं व्यभिचरदुत्पलं रक्तमपि संभ- वाति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरब्रह्मान्तरं लोके प्रसिद्धम् । ततः सजातीव्यवच्छेद्यस्याभावाद्विशेषणविशेष्यमावो न घटत इत्यर्थः। विशेषणविशेष्य. मावस्य तात्पर्येणाप्रतिपाद्यत्वादव्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेनानिर्वाच्याविशेषण- विशेष्यभावसंभवात्तद्वारेण ब्रह्मलक्षणं विवक्षितमित्याह-नेति । संग्रहवाक्यं विवृणोति- नायं दोष इत्यादिना । सर्वत एवेति । सजातीयाद्विजानीयाच्च यथा महाभूतत्वेन सदृशभावात्पृषिन्यादेविसदृशाश्चाऽऽत्मादेराकाशस्य ब्यावर्तकमवकाशदातृत्वमित्यर्थः।एत- दुक्तं भवति-अतिव्याप्त्यादिरहितो व्यावर्तको धर्मो लक्षणं न्यायविशेष इति मीमांसकाः। ब्रह्मपदव्युत्पत्तिबलेन यदविशेषतः प्रतिपन्नं किंचिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमनृतजड. परिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभूतं लक्षणं प्रमि- तिस्तु प्रमाणादेवेति तार्किकाः । पुनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणा- देव स्वभावविशेषप्रमितिः । यथा गुणवद्व्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशे. पस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाधेियस्य भवति । यद्वा व्यवहारसिद्धिः फलं गुणवद्र्व्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेवं न तदेवं यथा रूपं तथा सत्यत्वादिमद- मेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं न तदेवं यथा घट इति । एतच्च खण्डनयु- क्त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीव सूक्ष्मेक्षिका कार्या । सत्यादिशब्दा न परस्परं संबध्यन्ते परार्थत्वाद्विशेष्यार्थी हि ते । अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन संबध्यते । सत्यं ब्रह्म ज्ञानं ब्रह्मानन्तं ब्रह्मति । सत्यमिति यद्रूपेण यनिश्चितं तद्रूपं न व्यभिचरति तत्सत्यं यद्रूपेण निश्चितं यत्तद्रूपं व्यभिचरदनृतमित्युच्यते । अतो विकारोऽ. नृतं वाचाऽऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ एवं सदेव १ अ. 3. सूक्ष्मशङ्का का।
स्यात् । १प्रथमोऽनुवाकः ] वैत्तिरीयोपनिषत् । सत्यमित्यवधारणादतः सत्यं ब्रह्मेति ब्रह्म विकारान्निवर्तयति । अतः कार. णत्वं प्राप्तं ब्रह्मणः । कारणस्य च कारकत्वं वस्तुत्वान्मृद्वदचिद्रूपता च प्राप्ताऽत इदमुच्यते ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिरववोधो भावसाधनो ज्ञानशब्दो ब्रह्मविशे- षणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यताऽनन्तता च ज्ञानकर्तृत्वे सत्युपप- यते। ज्ञानकर्तृत्वेन हि विक्रियमाणं कथं सत्यं भवेदनन्तं च । यद्धि न कुतश्चित्त- विभज्यते तदनन्तम् । ज्ञानकर्तृत्वे च ज्ञेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न यत्र नान्यद्विजानाति स भूमा अथ यत्रान्यद्विजानाति तद- ल्पम् " इति श्रुत्यन्तरात् । पुनर्विशेषणविशेष्यभावपक्षमवलम्ब्याऽऽह--सत्यादिशब्दा इति । सत्यं ब्रह्मेत्युक्ते जाज्यव्यावृत्तिः परिच्छेदव्यावृत्तिश्च यद्यपि लभ्यते जडस्य परिच्छिन्नस्य सर्वस्यानृतत्वा- ज्ञानं ब्रह्मेत्युक्ते चानृतपरिच्छेदव्यावृत्तिर्लभ्यते स्वप्रकाशस्य वाधाविषयत्वात्परिच्छेदग्राह. कप्रमाणाविषयत्वाच लक्षणमपि चैकैकं वैकल्पिकमदुष्टं तथाऽपि मन्दमतिव्युत्पादनाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येकं व्यावय॑माह-सत्यमिति यदूपेणेत्या- दिना। भावसाधन इति । भावव्युत्पत्तिकः । क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते तथाऽप्यत्र निर्विशेषं चिन्मानं भावव्युत्पत्त्या लक्ष्यते सत्यादिशब्दसंनिधाना- दिति द्रष्टव्यम् । नान्यद्विजानातीति विशेषप्रतिषेधादात्मानं विजानातीति चेन्न । भूमलक्षण- विधिपरत्वाद्वाक्यस्य । यत्र नान्यत्पश्यतीत्यादि भूम्नो लक्षणविधिपरं वाक्यम् । यथा प्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तन्नास्ति स भूमेति भूमस्व- रूपं तत्र ज्ञाप्यतेऽन्यग्रहणस्य प्राप्तप्रतिषेधार्थत्वान्न स्वात्मनि क्रियास्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः। आत्मनश्च विज्ञेयत्वे ज्ञात्रभावप्रसङ्गः । ज्ञेयत्वेनैव विनियुक्तत्वात् । एक एवाऽऽत्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेन्न । युगपदनंशत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थक्यम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशोऽर्थवान् । तस्माज्ज्ञातृत्वे सत्यानन्त्यानु- पपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेषवत्त्वे सति । सन्मात्रत्वं च सत्यत्वम् । तत्सत्यमिति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः। ज्ञानं ब्रह्मति १ ज. अ... 'क्षद्वयम । १ ग. श. "पि वैक वै । ३ ख. ग. 'दनीयं स्या ५० आनन्दगिरिकृतटीकासंवलितांकरभाष्यसमेता- [२ ब्रह्मवल्ल्यध्याये- ॥ कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ज्ञान ब्रह्मेतिवचनात्प्राप्तमन्तवत्त्वम् । लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात् । अतस्त- निवृत्त्यर्थमाह-अनन्तमिति । विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्यमाशङ्कय निषेधति-नान्यद्विजानातीत्यादिना । कर्तृत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं मिन्नाधिकरणं प्रसिद्धम् । स्वात्मनि च मेदामावान्निरुपपत्तिके स्वज्ञातृत्वे तात्पर्य कल्प- यितुं न शक्यत इत्याह-स्वात्मनि चेति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसि- द्धत्वात् । बणा मृगतृणाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः " इतिवच्छ्न्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेन्न । लक्षणार्थत्वात् । विशे- पणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्येऽनर्थक लक्षणवचनं लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । सत्यादीनि व्यावृत्त्यर्थानीत्युक्तं तत्र शङ्कते-सत्यादीनामिति । प्रमाणान्तरसि- द्धमुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीनां च व्यावृत्त्यर्थत्वादसदर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे संभवति प्रमा- गान्तरविशेषणमनर्थकं केवलव्यतिरेकामावान्मिथ्यार्थस्य रज्जुसादेः सदधिष्ठानत्वदर्श- नात्प्रपञ्चस्यापि दृश्यत्वादिहेतुभिमिथ्यात्वेनावगतस्य सदधिष्ठानत्वं संभाव्यते । तस्य प्रप- ञ्चाधिष्ठानतया संभावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याह- न लक्षणार्थत्वादिति । विशेषणार्थत्वमभ्युपगम्याऽऽह-विशेषणार्थत्वेऽपि चेति । नीलं महदित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुद्धव्यावर्तकानि प्रसिद्धानि, तथा सत्यशब्दोऽप्यबाधितसत्त्वे व्युत्पन्नो ज्ञानशब्दः स्वप्रकाशे विषयसंवेदनेऽनन्तोऽयमा. काश इत्यादावनन्तशब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्वान्न व्यावृ. त्तिमात्रपर्यवसानमित्यर्थः। शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यय- रर्थवत्त्वे तु तद्विपरीतधर्मवद्भयो विशेषेभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुप पद्यते । ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेव । तत्रानन्तशब्दोऽन्तवत्त्वप्रतिषेधद्वारेण १ ख. °णसमर्थ के ।ग, ज, झ. णमसमर्थे के । १ क.सायीत्य ।
प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ५१ विशेषणम् । सत्यज्ञानशब्दौ तु स्वार्थसमर्पणेनैव विशेषणे भवतः । किंच विशेषणस्य व्यावर्तकत्वं सति व्यावत्ये घटतेऽतो विशेषणत्वानुपपत्त्यैव सद- यत्वं वाच्यमित्याह-शून्यार्थत्वे हीति । यच्चोक्तं ब्रह्मशब्दोऽप्रसिद्धार्थ इति तत्राऽऽह- ब्रह्मशब्दोऽपीति । " बृह बृहि वृद्धौ” इति धातोर्ब्रह्मेतिशब्दो निष्पन्नो वृद्धौ महत्त्वे वर्तते । तच्च महत्त्वं देशतः कालतो वस्तुतश्चानवच्छिन्नत्वं संकोचकमानान्त- रामावान्निरतिशयमहत्त्वसंपन्ने धर्मिणि पर्यवस्यति । ततो वध्यासुतादिशब्दविलक्षणो ब्रह्मशब्द इत्यर्थः । सत्यादिषु त्रिषु विशेषणेष्ववान्तरभेदमाह--तत्रानन्तति । तस्माद्वा एतस्मादात्मन इति ब्रह्मण्येवाऽऽत्मशब्दप्रयोगाद्वेदितुरात्मा ब्रह्म । एतमानन्दमयमात्मानमुपसंक्रामतीति च तत्प्रवेशाच्च । तत्सृष्ट्वा तदेवानुपाविश- दिति च तस्यैव जीवरूपेण शरीरप्रवेशं दर्शयति । अतो वेदितुः स्वरूपं ब्रह्म । एवं तात्मत्वाज्ञानकर्तृत्वमात्मा ज्ञातेति हि प्रसिद्धम् । सोऽकामयतेति च कामिनो ज्ञानकर्तृत्वप्रसिन्दिः । अतो ज्ञानकर्तृत्वाज्ज्ञप्तिब्रह्मेत्ययुक्तमनित्यत्वप्रस- गाच । याद नाम ज्ञप्तिर्ज्ञानमिति भावरूपता ब्रह्मणस्तथाऽप्यनित्यत्वं प्रस- ज्येत पारतन्त्र्यं च । धात्वर्थानां कारकापेक्षत्वात् । ज्ञानं च धात्वर्थोऽतोऽस्या- नित्यत्वं परतन्त्रता च । न । स्वरूपाव्यतिरेकेण कार्यत्वोपचारात् । आत्मनः स्वरूपं ज्ञप्तिन ततो व्यतिरिच्यतेऽतो नित्यैव तथाऽपि बुद्धरुपाधिलक्षणाया- चक्षुरादिद्वारैर्विषयाकारेण परिणामिन्या ये शब्दाद्याकारावभासास्त आत्म- विज्ञानस्य विषयभूता उत्पद्यमाना एवाऽऽत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मा- दात्मविज्ञानावभासाश्च ते विज्ञानशब्दवाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विक्रियारूपा इत्यविवेकिभिः परिकल्प्यन्ते । अनन्तमित्यनेन चाऽऽत्मैक्यं ब्रह्मण उक्तमित्यभिप्रेत्यैक्ये शास्त्रतात्पर्य दर्शयति- तस्माद्वा इत्यादिना । ब्रह्मण आत्मैक्यं चेद्विवक्षितं तर्हि ज्ञानशब्दस्य भावसाधनत्व- व्याख्यानं हीयेतेत्याह-एवं तीति । इतश्च भावव्युत्पत्तिरसंगतेत्याह-अनित्यत्व- प्रसङ्गाच्चेति । वृत्तिमदन्तःकरणोपहितत्वेनाऽऽत्मनो ज्ञातृत्वं न स्वतः कार्यत्वं च । ज्ञानस्यान्तःकरणवृत्त्युपहितत्वेन तत आत्माभिन्नत्वेऽपि ब्रह्मणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह-न स्वरूपति । यत्तु त( य )ब्रह्मणो विज्ञानं तत्सवितृप्रकाशवदग्न्युष्णवच्च ब्रह्मस्वरूपा. १ ख. ति चात्मतां दर्शयति । त १२ ख. उत्पाद्य १३८. उपपद्य । ।
५२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ ब्रह्मवल्ल्यध्याये- - व्यतिरिक्तं स्वरूपमेव तन्न तत्कारणान्तरसव्यपेक्षम् । नित्यस्वरूपत्वात् । सर्व भावानां च तेनाविभक्तदेशकालत्वात्कालाकाशादिकारणत्वाच्च निरतिशय- सूक्ष्मत्वाच्च न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वाऽ. स्ति तस्मात्सर्वज्ञं तब्रह्म । मन्त्रवर्णाच- "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुपं महान्तम्" इति । "न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्वितीयमस्ति' इत्यादिश्रुतेश्च । नित्यं चेज्ज्ञानं तर्हि तत्र ब्रह्मणः कर्तृत्वाभावे कथं सर्वज्ञत्वमित्यत आह–सर्व- भावानां चेति । संविदव्यवधानमेव हि विषयस्य सिद्धिः। सर्वं च संवित्स्वभावेन ब्रह्म- णाऽव्यवहितमिति सर्वज्ञं ब्रह्मोपचर्यत इत्यर्थः। नित्यं ज्ञानं ब्रह्मणि विद्यत इत्यत्र मन्त्रसंमतिमाह--मन्त्रवर्णाच्चति । विज्ञातृस्वरूपाख्यव्यतिरेकात्करणादिनिमित्तानपेक्षत्वाच्च ब्रह्मणो ज्ञान. स्वरूपत्वेऽपि नित्यत्वप्रसिद्धिरतो नैव धात्वर्थस्तदक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ। तस्मादेव च न ज्ञानशब्दवाच्यमपि तद्ब्रह्म । तथापि तदाभा- सवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तूच्यते । शब्दप्रवृत्तिहेतु- जात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि सर्वविशेषप्रत्यस्तमितस्वरू- पत्वाब्रह्मणो बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते सत्यं ब्रह्मेति न तु सत्यशब्दवाच्यमेव ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनिधावन्योन्यनियम्य. नियामकाः सन्तः सत्यादिशब्दावांच्यातनिवर्तका ब्रह्मणो लक्षणार्थाश्च भवन्ती. त्यतः सिद्धं “यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह" " अनिरुक्तनि- लयने " इति चावाच्यत्वं नीलोत्पलवदवाक्यार्थत्वं च ब्रह्मणः । ब्रह्मानित्यं ज्ञानत्वाल्लौकिकज्ञानवदित्यादि चोद्यमप्युक्तन्यायेन निरस्तमित्याह-- विज्ञातृत्वस्वरूपति । लौकिकज्ञानस्य करणादिसापेक्षत्वादनित्यत्वम् । आत्मस्वरूपं तु ज्ञानं न करणादिसापेक्षं सकलकरणव्यापारोपरमेऽपि सुषुप्ते भावादन्यथा सुषुप्तिसिद्धय- नुपपत्तेः परामर्शासंभवप्रसङ्गादतः श्रुतितात्पर्यगम्येऽर्थे न सामान्यतो दृष्टस्य प्रवेश इति भावः । आत्मनः स्वरूपभूतं ज्ञानं कारकसाध्यं धात्वर्थत्वादिति चासिद्धमि- १ ख. 'वात्सत्यानन्तसामानाधिकरण्यात्तथा। ङ. ट. वात्सत्यानन्तशब्दाभ्यां सामानाधि- करण्यात्तथा। २ ख.-ट..वाच्यानि । ग. घ, ङ, ठ. वाच्यत्वानि । ३ ख. करणसाध्य ।
१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । त्याह-अत इति । नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते । लौकिकानित्यज्ञानविलक्षणत्वादेव च ज्ञानशब्दवाच्यमपि ब्रह्म न भवतीत्याह-तस्मादेव चेति । कथं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह-तथाऽपीति । शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा गौः शुक्ल इत्यादौ तदभावाच्छब्दान्तरेणापि वाच्यं न भवतीत्याह-तथेति । तथा सत्यशब्दे. नापि न वाच्यं ब्रह्मेति शेषः। एतत्स्फुटयति-सर्वविशेषेति । सत्ता यस्यास्ति तत्सत्य- मिति लोकरूढिः । सत्ता चानुगतरूपं सामान्य व्यावृत्ताः सत्ताविशेषाः। स चायमनु- वृत्तव्यावृत्तभावो न वस्तु परस्परापेक्षसिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तमावः कल्पित- स्तदव्यावृत्ताननुगतं ब्रह्म लक्ष्यत इत्यर्थः । एवमेकैकस्य शब्दस्यार्थमुक्त्वा वाक्यार्थमाह- एवं सत्यादीति । यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तथाऽप्यरुणयैकहाय- न्येत्यादिवत्पीणिकान्वयेनेतरेतरसंनिधावन्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विशेषणात्सत्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्षे ज्ञाने वर्तते । ज्ञानेन विशेषणान्नानन्तशब्दो ज्ञातृव्यतिरिक्ते वर्तते । ततश्च सत्यादि- शब्देन यल्लौकिकं वाच्यं तद्विलक्षणेन भवितव्यमिति संभावयन्तः लौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्षयन्तीत्यर्थः । ततः किं फलतीत्यत आह-अत: सिद्धमिति । वाचकशक्त्या बोधकत्वानङ्गीकारादवाच्यत्वं सकलानिष्टव्यवच्छेदेनैकस्यैव लक्ष्यत्वाभ्युपगमाच्च गुणगुण्यादिसंभेदरूपवाक्यार्थवैलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । यो वेद निहितं गुहायां परमे व्योमन् । तद्यथाव्याख्यातं ब्रह्म यो वेद विजानाति निहितं स्थितं गुहायाम् । गृहते. संवरणार्थस्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः । गूदावस्या भोगापवर्गों पुरुषर्थाविति वा तस्यां परमे प्रकृष्टे व्योमन्व्योम्न्याकाशेऽव्याकू- ताख्ये । तद्धि परमं व्योम " एतस्मिन्खल्वक्षरे गार्याकाशः" इत्यक्षरसं- निकर्षात् । गुहायां व्योन्नीति वा सामानाधिकरण्यादव्याकृताकाशमेव गुहा । तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच्च । तरिम- अन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्यं विज्ञानाङ्गत्वेनोपासना- ङ्गत्वेन व्योम्नो विवक्षितत्वात् । बुद्धौ कार्ये यदनुगतं परमं व्योमाव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधि- सकल- १ ख. उ. पार्टिका । २ झ. ट. न्यन्या । ३ ख. ग. कशब्दान।
५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्यध्याये- करण्येन व्याख्यातम् । व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यव्याकृतविषयत्वं व्याख्यातं तत्राऽऽह-तद्धीति । भूताकाशस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारणत्वेन परमत्वविशेषणसंभवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमा- दव्याकृतं व्योमशब्देन लक्ष्यत इत्यर्थः । एवं परामिप्रायेण व्याख्याय स्वाभिप्राय व्याचष्टे-हार्दमेव त्विति । हृदयावच्छिन्ने भूताकाशे या गुहा तस्यां बुद्धौ साक्षि- तया निहितमभिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टुमेदेन ब्रह्मण आपरोक्ष्यलाभात् । अन्यथा समष्टिरूपेऽव्याकृते मायातत्त्वेऽवस्थितं ब्रह्मेत्युक्ते ब्रह्मणः पारोक्ष्यं प्रसज्येत । पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराध्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टुचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेषभूतं विवक्षितमित्यर्थः । यो वै स बहिर्घा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽ- यमन्तहृदय आकाशः" इति श्रुत्यन्तरात्प्रसिद्धं हादस्य व्योम्नः परमत्वम् । तस्मिन्हार्दै व्योम्नि या बुद्धिगुहा तस्यां निहितं ब्रह्म तवृत्त्या विविक्ततयो. पलभ्यत इति । न बन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्रह्मणः सर्वगतत्वा- निर्विशेषत्वाच । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह--यो वा इति । ननु निहित- शब्दः स्थितिं ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह- न हीति । अन्यथोति । उपलम्भव्यतिरेकेणाविद्यावस्थायाम् । सोऽनुते सर्वान्कान्त्सिह । ब्रह्मणा विपश्चितेति । स एवं ब्रह्म विजानन्किमित्याह-अश्नुते भुङ्के सर्वानिरवशिष्टान्कामा- भोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीपर्यायेण नेत्याह । सह युगपदेक- क्षणोपारूढानेवैकयोपलब्ध्या सवितृपकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया यामवोचाम सत्यं ज्ञानमनन्तमिति । एतत्तदुच्यते-ब्रह्मणा सहति । ब्रह्मभूतो विद्वान्ब्रह्मस्वरूपेणैव सर्वान्कामान्सहाश्नुते, न यथोपाधिकृतेन स्वरूपेणाऽऽत्मना जलसूर्यकादिवत्प्रतिबिम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकर- णापेक्षांश्च कामान्पर्यायेणाश्नुते लोकः । कथं तर्हि यथोक्तेन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादि- करणनिरपेक्षांश्च सर्वान्कामान्सहैवाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन १ ख. ग. कृतयेत्यवो।
१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ५५ तद्धि वैपश्चित्यं यत्सर्वज्ञत्वं तेन सर्वज्ञस्वरूपेण ब्रह्मणाऽश्नुत इति । इतिशब्दो मन्त्रपरिसमाप्त्यर्थः। ये सुखविशेषा हिरण्यगर्भाधुपाधिषु भोग्यत्वेनाभिमतास्तेषां सर्वेषां ब्रह्मानन्दाव्यति. रेकाह्मीभूतो विद्वान्सर्वानेवाऽऽनन्दानश्नुत इत्युपचारेण बहुवचनमित्यर्थः । सर्व एव वल्लयों ब्रह्मविदाप्नोति परमिति ब्राह्मणवाक्येन सूत्रितः । स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः । पुनस्तस्यैव विस्तरेणार्थनिर्णयः कर्तव्य इत्युत्तरस्तद्वृत्तिस्थानीयो ग्रन्थ आरभ्यते-तस्माद्वा एतस्मादित्यादिः । तत्र च सत्यं ज्ञानमनन्तं ब्रह्मेत्युक्तं मन्त्रादौ तत्कथं सत्यं ज्ञानमनन्तं चेत्यत आह-तत्र त्रिविधं ह्यानन्त्यं देशतः कालतो वस्तुतश्चेति । तद्यथा-देशतोऽनन्त आकाशो न हि देशतस्तस्य परिच्छेदोऽस्ति । न तु कालतश्चाऽऽनन्त्यं वस्तुत- श्वाऽऽकाशस्य । कस्मात्कार्यत्वात् । नैवं ब्रह्मण आकाशवकालतोऽप्यन्तवत्त्वम. कार्यत्वात् । कार्य हि वस्तु कालेन परिच्छिद्यते। अकार्य च ब्रह्म । तस्मात्का- लतोऽप्यनन्तम् । तथा वस्तुतः । कथं पुनर्वस्तुत आनन्त्यं सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवति । वस्त्वन्तरबुद्धिार्ह प्रसक्ता वस्त्व- न्तरानिवर्तते । यतो यस्य बुद्धेविनिवृत्तिः स तस्यान्तः। तद्यथा-गोत्वबुद्धिर- श्वत्वाद्विनिवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टो नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वा- नन्यत्वं ब्रह्मण इत्युच्यते । सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां काला- काशादीनां कारणं ब्रह्म । कार्यापेक्ष्या वस्तुतोऽन्तवत्त्वमिति चेन्न । अनृतत्वा- कार्यवस्तुनः । न हि कारणव्यतिरेकेण कार्य नाम वस्तुतोऽस्ति । यतः कार- णबुद्धिर्विनिवर्तेत । वाचाऽऽरम्भणं विकारो नामयेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुत्यन्तराद् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो ह्यनन्त इति प्रसिद्धम् । देशतस्तस्य चायं कारणं तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिदृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतस्तथाऽकार्यत्वात्कालतस्ताद्भिन्नवस्त्व- न्तराभावाच्च वस्तुतोऽत एव निरतिशयसत्यत्वम् । वृत्तमनुवदत्युत्तरग्रन्थावतारणाय-सर्व एवेत्यादिना । आकाशादिकारणत्वामिधाने- ५६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-- रब्रह्मवल्लयध्याये- नाऽऽनन्त्यप्रपञ्चः क्रियत इति संभनन्तरग्रन्थतात्पर्य दर्शयितुं पूर्वोक्तेष्वविशेषमनुव- दति -तत्र चेति । वस्तुत आनन्त्यं व्याख्यातुं वस्तुनोऽन्तवत्त्वं तावदाह-भिन्न हीत्यादिना । विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह-तस्मात्सिद्धमिति । देशतोऽनव- च्छिन्नस्याऽऽकाशस्य कारणत्वाद्व्यापकत्वान्निरतिशयमात्मनो देशत आनन्त्यमकार्य- त्वाच्च कालत आनन्त्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वा- योगाद्वस्तुतोऽप्यानन्त्यं सिद्धमित्यर्थः । अत इति । निरतिशयानन्त्यादेव सत्य- त्वमपि सिद्धमन्तवत एव रज्जुसादिवदसत्यत्वादित्यर्थः । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरमिः । अमेरापः । अद्यः पृथिवी । पृथिव्या ओषधयः । ओषधीयोऽनम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्मादिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते । एतस्मादिति मन्त्रवाक्येणा- नन्तरं यथालक्षितम् । यद्ब्रह्माऽऽदौ ब्राह्मणवाक्येन सूत्रितं यच्च सत्यं ज्ञान- मनन्त ब्रह्मेत्यनन्तरमेव लक्षितं तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्द- वांच्यात् । आत्मा हि तत्सर्वस्य तत्सत्यं स आत्मेति श्रुत्यन्तरादतो ब्रह्माऽऽ. स्मा । तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः संभूतः समुत्पन्नः । आकाशो नाम शब्दगुणोऽवकाशकरो मूर्तद्रव्याणाम् । तस्मादाकाशात्स्वेन स्पर्शगुणेन पूर्वेण च कारणगुणेन शब्देन द्विगुणो वायुः । संभूत इत्यनुवर्तते । वायोश्च स्वेन रूपगुणेन पूर्वाभ्यां च त्रिगुणोऽग्निः संभूतः । अग्नेः स्वेन रसगुणेन पूर्धेश्व त्रिभिश्चतुर्गुणा आपः संभूताः । अद्भयः स्वेन गन्धगुणेन पूर्वश्चतुर्भिः पञ्च- गुणा पृथिवी संभूता । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नाद्रेतोरू- पेण परिणतात्पुरुषः शिरःपाण्याद्याकृतिमान्। स वा एष पुरुषोऽन्नरसमयोऽ- भरसविकारः । पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गभ्यस्तेजः संभूतं रेतो बीजं तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात् । सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । .. १ख. ग. "मग्रन्थस्य ता । १ . ठ. वाच्यत्वात् ।
१प्रथमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ५७ एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विमजते--तस्मादित्यादिना । अन्त्यकार्य- पर्यन्तं परमात्मनः सर्वत्रोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः संभूतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया तत्तन्त्रत्वाभिप्रायेण न वैशेषिकपक्षवत्तत्त्वमेदाभिप्रायेण । तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् । सर्वेषामप्यनरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे कस्मात्पुरुष एव गृह्यते। प्राधान्यात् । किं पुनः प्राधान्यम् । कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वा- दर्थित्वादपर्युदस्तत्वाचार्थी विद्वान्समर्थः कर्मज्ञानयोरधिक्रियते- " पुरुषे त्वे- वाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोको म]नामृतमीप्सति" इत्येवं संपन्नः। अथेतरेषां पशूनामशनापिपासे एवाभिविज्ञानमित्यादिश्रुत्यन्तरदर्शनात् । पुरुषग्रहणस्य तात्पर्यमाह--सर्वेषामपीति । शक्तत्वादिति विधिनिषेधविवेकसा- मर्योपेतत्वादित्युक्तं तत्रैतरेयकश्रुतिसमतिमाह-पुरुषे त्वेवेति । ब्राह्मण्यादिजाति- मति मनुप्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा। ज्ञानातिशयदर्शनादित्यर्थः । मयैन ज्ञानकर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः । येन विवेकज्ञानेन पुरुषस्य प्राधान्य विवक्षितं तत्पश्चादीनां नास्तीत्याह--अथेतरेषामिति । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा। इदं पुच्छे प्रतिष्ठा । तदप्येष श्लोको भवति ॥ PH इति कृष्णयजुर्वेदीयनैतिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ स हि पुरुष इह विद्ययाऽन्तरतमं ब्रह्म संक्रामयितुमिष्टस्तस्य च बाह्याकार- विशेषेष्वनात्मस्वात्मभाविता बुद्धिरनालम्ब्य विशेष कंचित्सहसाऽन्तरतमप्रत्य. गात्मविषया निरालम्बना च कर्तुमशक्यति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्ती प्रवेशयन्नाह-तस्येदमेव शिरः । तस्यास्य पुरुषस्या- बरसमयस्येदमेव शिरः प्रसिद्धम्। प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि १ ख. ना. ब्रह्मांशत्वे । १ घ. ट. रुषत्वे वा । .
५८ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- २ब्रह्मवल्लयध्याये- तत्प्रसङ्गो मा भूदितीदमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुरुत्तरः पक्षः । अयं मध्यमो देहभाग आत्माऽङ्गानाम् । “ मध्यं ह्येषामङ्गानामात्मा " इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गं तत्पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयेति प्रतिष्ठा । पुच्छमिव पुच्छमधोलम्बनसामान्यायथा गोः पुच्छम् । एतत्मकृत्यो- त्तरेषां प्राणमयादीनां रूपकत्वसिद्धिः । मूषानिषिक्तद्रुतताम्रपतिमावत् । तदप्येष श्लोको भवति । तत्तस्मिन्नेवार्थे ब्राह्मणोक्तेऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति । * इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्ल्यध्यायभाष्ये प्रथमोऽनुवाकः ॥ १॥ कोशपञ्चकोपन्यासस्य तात्पर्यमाह--स हीत्यादिना । पक्षपुच्छशब्दप्रयोगात्सुपर्णा- कारक्लप्ति दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरी- करणार्थ नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादने- नैवोपक्षयान्मध्ये ग्रन्थस्योपासनविधी तात्पर्ये च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वादितिन्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवणमर्थवाद एव । तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽत्मनः प्रतिप. त्तिशेषत्वादिति द्रष्टव्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति. रीयोपनिषच्छांकरभाष्यटीकायां द्वितीयब्रह्मवल्ल्यध्याये प्रथमोऽनुवाकः ॥१॥ अथ ब्रह्मवल्ल्यध्याय द्वितीयोऽनुवाकः । अन्नादै प्रजाः प्रजायन्ते । याः काश्च पृथिवी श्रिताः। अथो अनैव जीवन्ति अर्थनदीप यन्त्यन्ततः । अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुंब्यते । * “भत्र भाष्ये दीकायां च वैदिकपाटानुसासिअनुरोधेनैवानुवाकसमाप्तिर्षथिता । एषमेव पुरतोअप प्रापलीसमातिपर्थन् शेयम् ।
५९ - २ द्वितीयोऽनुवाकः] तैत्तिरीयोपनिषत् । अन्नादसादिभावपरिणतात् । वा इति स्मरणार्थः । प्रजाः स्थावरजङ्गमाः प्रजायन्ते । याः काश्चाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रितास्नाः सर्वा अन्नादेव प्रजायन्ते । अथो अपि जाता अन्नेनैव जीवन्ति प्राणान्धारयन्ति । वर्धन्त इत्यर्थः । अथाप्येनदन्नमपि यन्त्यपि गच्छन्ति । अपिशब्दः प्रतिश- ब्दार्थे । अन्न प्रति प्रलीयन्त इत्यर्थः । अन्ततोऽन्ते जीवनलक्षणाया वृद्धः परिसमाप्तौ । कस्मात् । अन्नं हि यस्माद्भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अनमयादीनां हीतरेषां भूतानां कारणमन्नमतोऽनप्रभवा अनजीवना अन्नम- लयाश्च सर्वाः प्रजाः । यस्माच्चैवं तस्मात्सर्वोषधं सर्वप्राणिनां देहदाहमशमन- मन्त्रमुच्यते । सर्व वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्न हि भूतानां ज्येष्ठम्। तस्मात्सर्वोषधर्मुच्यते। अन्नाद्भूतानि जायन्ते । जातान्यनेन वर्धन्ते । अद्यतेऽत्ति च भूतानि। तस्मादन्नं तदुच्यत इति । अन्नब्रह्मविदः फलमुच्यते । सर्व वै ते समस्तमन्नजातमाप्नुवन्ति । के । येऽनं ब्रह्म यथोक्तमुपासते । कथमनजोऽनात्माऽन्त्रालयोऽहं तस्मादन्नं ब्रह्मति । कुतः पुनः सर्वान्नप्राप्तिफलमन्नात्मोपासनमित्युच्यते । अन्नं हि भूतानां ज्येष्ठम् । भूतेभ्यः पूर्व निष्पन्नत्वाज्ज्येष्ठं हि यस्मात्तस्मात्सर्वोषधमुच्यते । तस्मादुपपन्ना सर्वानात्मोपासकस्य सर्वानप्राप्तिः । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्त इत्युपसंहारार्थ पुनर्वचनम् । इदानीमन्ननिर्वचनमुच्यते । अद्यते भुज्यते चैव पद्धृतैरनमत्ति च भूतानि स्वयं तस्माद्भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाच्चानं तदुच्यते । इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्रह्म विद्यया प्रत्य- गात्मत्वेन दिदर्शयिषु शास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकतुषकोद्रववितुषी- १. च । भूतानि स्वयं यस्मात्तस्मादन्नं तदुच्यते ।। ."
६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्यध्याये- करणेनेव तदन्तर्गततण्डुलान्प्रस्तौति तस्माद्वा एतस्माद रसमयादित्यादि । तस्मादेतस्माद्यथोक्तादन्नरसमयात्पिण्डादन्यो व्यतिरिक्तोऽन्तरोऽभ्यन्तर आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयःप्राणो वायुस्तन्मयस्तत्मायः। तेन प्राणमयेनान्नरसमय आत्मैष पूर्णो वायुनेव दृतिः । स वा एष पुरुषविध एव । तस्य पुरुषविध ताम् । अन्वयं पुरुषविधः। तस्य प्राणं एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छ प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये द्वितीयोऽनुवाकः ॥ २ ॥ स वा एष प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव । शिरःपक्षा- दिभिः किं स्वत एव, नेत्याह । प्रसिद्धं तावदन्नरसमयस्याऽऽत्मनः पुरुषवि- धत्वम् । तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारताम् । अन्वयं प्राणमयः पुरुषविधो मूषानिषिक्तप्रतिमावन्न स्वत एव। एवं पूर्वस्य पूर्वस्य पुरुषविध. तामनूत्तरोत्तरः पुरुषविधो भवति पूर्वः पूर्वश्वोत्तरोत्तरेण पूर्णः । कथं पुनः पुरु- पविधताऽस्येत्युच्यते । तस्य प्राणमयस्य प्राण एव शिरः । प्राणमयस्य वायु- विकारस्य प्राणो मुखनासिकानिःसरणो वृत्तिविशेषः शिर एव परिकल्प्यते । वचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानो व्यानवृत्तिर्दक्षिणः पक्षः । अपान उत्तरः पक्षः। आकाश आत्मा । य आकाशस्थो वृत्तिविशेषः समा- नाख्यः स आत्मेवाऽऽत्मा । प्राणवृत्त्यधिकारान्मध्यस्थत्वादितराः पर्यन्ता वृत्ती- रपेक्ष्याऽऽत्मा । “ मध्यं ह्येषामङ्गानामात्मा" इति श्रुतिप्रसिद्धं मध्यमस्थ- स्याऽऽत्मत्वम् । पृथिवी पुच्छं प्रतिष्ठा । पृथिवीति पृथिवी देवताऽऽध्या- त्मिकस्य प्राणस्य धारयित्री । स्थितिहेतुत्वात् । सैषा पुरुषस्यापानमव- टभ्य" इति श्रुत्यन्तरम् । अन्यथोदानवृत्त्योर्ध्वगमनं गुरुत्वाच्च पतनं १च. प्रसौति ।
इतृतीयोऽनुवाकः] तैत्तिरीयोपनिषत् । वा स्याच्छरीरस्य । तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्याऽऽत्मनः। तत्तस्मिन्नेवार्थे प्राणमयात्मविषय एष श्लोको भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर. भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्यध्यायमाष्ये द्वितीयोऽनुवाकः ॥ २॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां ब्रह्मवल्यध्याये द्वितीयोऽनुवाकः ॥२॥ अथ ब्रह्मवल्यध्याये तृतीयोऽनुवाकः । - प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । प्राणं देवा अनु प्राणन्ति । देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनश. क्तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकारादेवा इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनु चेष्टन्त इवि वा । तथा मनुष्याः पशवश्च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नेनाऽऽत्मनाऽऽत्मवन्तः प्राणिनः कि तर्हि तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिनाऽऽत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमया- न्तैराकाशादिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः । तथा स्वाभाविके- नाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मनाऽऽत्मवन्तः । स हि परमार्थत आत्मा सर्वेषामित्येतद- प्यर्थादुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्युक्तं तत्कस्मादित्याह । प्राणो हि १ ख. ग. ङ. °णिनो यथाऽनेकास्तुषकोद्रवास्तथा ।
६२ भानन्दगिरिकृतीकासंघलितशांकरभाष्यसमेता-२ ब्रह्मवल्यध्याये- यस्माद्भूतानां प्राणिनामायुर्जीवनम् । “ याबद्ध यस्मिशरीरे प्राणी वसति तावदायुः" इति श्रुत्यन्नरात् । तस्मात्सर्वायुषम् । सर्वेषामायुः सर्वायुः । सर्वायुरेव सर्वायुषमित्युच्यते । प्राणापगमे मरणप्रसिद्धः । प्रसिद्धं हि लोके सर्वायुष्वं प्राणस्य । अतोऽस्माद्धाह्यादसाधारणादनमयादात्मनोऽपक्रम्यान्तः साधारणं प्राणमयमात्मानं ब्रह्मोपासते येऽहमस्मि प्राणः सर्वभूतानामात्माऽऽ. युर्जीवनहेतुत्वादिति ते सर्वमेवाऽऽयुरस्मिल्लोके यन्ति नापमृत्युना म्रियन्ते । श्रावमाप्तादायुष इत्यर्थः। शतं वर्षाणीति तु युक्तम् । सर्वमायुरिति श्रुतिप्रसिद्धः। किं कारणम्। प्राणो हि भूतानामायुस्तस्मात्सर्वायुषमुच्यत इति । यो यद्गुणक ब्रह्मोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेहेत्वर्थं पुनर्वचनं प्राणो हीत्यादि । तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आत्मा । कः। य एष प्राणमयः । पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽत्मेति व्याख्यातमापातदर्शनेन । तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकेतच्छब्दकोपाच्च । अतः सर्वकोशाध्या- साधिष्ठानभूतश्चिदात्मैवात्राऽऽत्मशब्देन विवक्षित इति तात्पर्यमाह-तथा स्वाभावि. केनेति । अर्थादिति । आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानत्वानुपपत्तेश्चेत्यर्थः । असाधारणादिति। व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थः । साधा- रणमिति । सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेषां पुष्टयादिदर्शनादित्यर्थः। सर्वभूतानामात्मेति । सूत्रात्मना पूर्वस्य य आत्मा चिद्धे तुरेष एव तस्य प्राणमयस्याऽऽ. त्मेति योजना । तस्माद्वा एतस्मात्याणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एप पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यर्जुरेव शिरः। ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । * प्राप्तादायुषः प्रागपमृत्युना न म्रियन्त इति योजना। म. प्राक्शतादा।
तैत्तिरीयोपनिषत् । ३ तृतीयोऽनुवाकः] तस्माद्वा एतस्मादित्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति संकल्पाद्यात्मकमन्तःकरणं तन्मयो मनोमयो यथाऽन्नमयः । सोऽयं प्राणमयस्याऽऽभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरित्यनियताक्षरपा. दावसानो मन्त्रविशेषस्तज्जातीयवचनो यजुःशब्दस्तस्य शिरस्त्वं प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारात् । यजुषा हि हविर्दीयते स्वाहाकारा. दिना । वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्न- नादस्वरवर्णपदवाक्यविषया तत्संकल्पात्मिका तद्भाविता वृत्तिः श्रोत्रादिकरण- द्वारा यजुःसंकेतविशिष्टा यजुरित्युच्यते । एवमृगेवं साम च। एवं च मनोवृत्तित्वे मन्त्राणां वृत्तिरवाऽऽवयंत इति मानसो जप उपपद्यते । अन्यथाऽविषयत्वा- मन्त्री नाऽऽवर्तयितुं शक्यो घटादिवदिति मानसो जपो नोपपद्यते । मन्त्रा. त्तिश्च चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यादिति चेन्न । मुख्यार्थासंभवात् । “ त्रिः प्रथमामन्वाह त्रिरुत्तमाम् " इति ऋगात्तिः श्रूयते । तत्र!ऽविषयत्वे तद्विषयस्मृत्यावृत्तौ च क्रियमाणायां त्रिः प्रथमा- मन्वाहेति ऋगावृत्तिर्मुख्योऽर्थश्चोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपा- धिपरिच्छिन्न मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यमात्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम् । अन्यथा विषयत्वे रूपादिवद- नित्यत्वं च स्यान्नैतद्युक्तम् । “सर्षे वेदा यत्रकं भवन्ति स मानसीन आत्मा" इति च श्रुतिर्नित्यात्मनैकत्वं ब्रुवत्युगादीनां नित्यत्वे समञ्जसा स्यात् । “ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः" इति च मन्त्रवर्णः । यजुःशब्देन बाह्यो यजुर्वेद उच्यते । तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमि. त्याशङ्कयाऽऽह-मनसो हीति । यद्यपि यजुःशब्दो बाह्ये शब्दराशी रूढस्तथाऽपि श्रुतेरनतिशङ्कनीयत्वात्तत्प्रामाण्याद्विशिष्टमनोवृत्तिजःसंकेतविषयभूता यजुर्वेदमधीमह एतत्क्रमका वर्णा. यजुर्वेदतयाऽध्येतव्या इत्येवं संकल्परूपा ग्राह्येत्यर्थः । श्रुत्यनुग्राहिकां युक्तिमायाह-~एवं चेति । अन्यथेति। शब्दाना घटादिवबाह्यद्रव्यत्वे मनोविषयत्वा. संभवान्मनसो बाह्येऽर्थेऽस्वातन्ध्यान्मानसो जपो न स्यादित्यर्थः । इतश्च मनो- वृत्तित्वं मन्त्राणां वाच्यमित्याह-मन्त्रावृत्तियति । शब्दानां घटादिवद्वाह्यद्रव्यत्वे मन्त्राणां घटादिवदावृत्तिोंपपद्यते क्रियेव ह्यावयते । आवृत्तिसिद्धयनुपपत्त्या क्रियात्वं बाच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते-अक्षरविषयति । मन्त्रेभ्यः स्मृते- १ १. ग. "त्तिविष्य ।
६४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्ल्यध्याये- रन्यत्वादन्याऽऽवृत्तिर्गौणी प्रसज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतत्स्फुटयति-त्रिः प्रथमामित्यादिना । सामिधेन्यः समिधो यदाऽध्वर्युणा हूयन्ते तदा "प्र वो वाजा अभि- द्यवः" इत्यष्टादशचे सूक्तं होता शंसति तासां चर्चा मध्ये प्रथमामृचं सूक्तस्यान्त्यां चर्च होता त्रिरनुयादित्यावृत्तिः श्रूयत इत्यर्थः । मन्त्राणां मनोवृत्तित्वमुक्त्वा मनोवृत्तीनां सदा चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह-तस्मादिति । मन्त्राणां मनोवृत्तित्वेनाऽऽवृत्तिर्घटत इत्युक्तम् । परम्परया त्रिदात्मत्वेन नित्यत्वमपि घटत इत्याह-एवं चेति । चैतन्यरू. पत्वे सति । अन्यथेति । स्वप्रकाशचिदात्मत्वानङ्गीकारे रूपादिवद्विषयत्वादनित्यत्वमपि प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापातायुक्त्यामासमेतत् । अस्त्व- नित्यत्वमिति न वाच्यमित्याह-नैतद्युक्तमिति। वाचा विरूप नित्ययेति श्रुत्या नित्यत्व- स्याऽऽवेदितत्वाद्वेदानित्यत्वं युक्तं न भवतीत्यर्थः । वेदानां जडत्वे स्वप्रकाशेनाऽऽत्मनैकत्व न संभवति । जडानडयोविरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षि- तया मनसि भवो मानसीनोऽक्षरे परमे व्योमकल्पे ब्रह्मणि ऋचो विधिनिषेधरूपा निषेदु- स्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः । आदेश आत्मा ! अथर्वाङ्गिरसः पुच्छ प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्य- ध्याये तृतीयोऽनुवाकः ॥ ३ ॥ आदेशोऽत्र ब्राह्मणमतिदेष्टव्यविशेषानातदिशतीति । अथर्वाङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात्पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्ल्यध्यायभाष्ये तृतीयोऽनुवाकः ॥ ३ ॥ अतिदेष्टव्यविशेषान्कर्तव्यविशेषानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानाविरचितायां तैत्तिरी- योपनिषच्छांकरभाण्यटीकायां ब्रह्मवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ -- चितुर्थोऽनुवाकः] तैत्तिरीयोपनिषत् । ६५ अथ ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः । - - यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदा- चनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्मादा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध तस्य पुरुषविधताम् । अन्वय पुरुषविधः । यतो वायो निवर्तन्ते । अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य प्राणम- यस्यैष एबाऽऽत्मा शारीरः । शरीरे प्राणमये भवः शारीरः। कः। य एष मनोमयः । तस्माद्वा एतस्मादित्यादि पूर्ववत् । अन्योऽन्तर आत्मा विज्ञान- मयो मनोमयस्याऽऽभ्यन्तरो विज्ञानमयो मनोमयो वेदात्मोक्तः । वेदार्थवि- षया बुद्धिर्निश्चयात्मिका विज्ञानं तच्चाध्यवसायलक्षणमन्तःकरणस्य धर्मः । तन्मयो निश्चयविज्ञानः प्रमाणस्वरूपैनिव(व)र्तित आत्मा विज्ञानमयः । प्रमा- गविज्ञानपूर्वको हि यज्ञादिस्तायते । यज्ञादिहे त्वं च वक्ष्यति श्लोकेन । वाङ्मनसयोर्वाङ्मनसगोचरत्वं मोपपद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशि- टान्मनोमयाद्वाचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उपाप्तन- फलभूतमाधिदैविकमानन्दं विद्वान्न बिभेति । गर्भवासादिदुःखादित्यर्थः । ताऽध्यवसाय- लक्षण लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः । तस्य श्रद्धव शिरः । ऋतं दक्षिणः पक्षः। सत्यमुत्तरः पक्षः । योग आत्मा । महः - .. ख. र. चं. 'त्यादिः ।। २ क. ख. ग. छ. 'ज्ञादिः स्तूय' । अ. टे. 'दिर्जायते । ङ. "दिखायसे । ३ ८, "त्यर्थः । वेदाति । त। ४ न. अ. 'था न्यव ।
६६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्ल्यध्याये- पुच्छ प्रतिष्ठा । तदप्येष श्लेको भवति । इति कृष्णयजुर्वेदीयतैनिगोपनिषदि द्वितीये ब्रह्म- ल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्व श्रद्धोत्पद्यते । सा सर्वकर्तव्यानां प्राथम्याच्छिर इध शिरः । ऋतसत्ये यथाव्याख्याते एव । योगो युक्तिः समाधानम् । आत्मेवाऽऽत्मा । आत्मवतो हि युक्तस्य समाधानतोऽशानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति, तस्मात्समाधान योग आत्मा विज्ञानमयस्य । महः पुच्छ प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमजम् । घक्ष प्रथमनम् " इति श्रुत्यन्तरात् । पुच्छं प्रतिष्ठाकारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा । यथा वृक्षवीरुधां पृथिवी । सर्वबुद्धिविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्याऽऽत्मनः प्रतिष्ठा । तदप्येष श्लोको भवति पूर्व- वत् । यथाऽन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोका एवं विज्ञानमय- मह- स्यापि ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्थगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृता तैत्तिरीयोपनिषदि द्वितीय ब्रह्मवल्ल्यध्यायभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिप्यानन्दज्ञानविरचितायां तैत्तिरीयो. पनिषच्छांकरभाष्यटकायां द्वितीये ब्रह्मवल्ल्यध्याय चतुर्थोऽनुवाकः ॥ ४ ॥ - अथ ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः । विज्ञान यज्ञं तनुते । कर्माणि तनुतेजप च । विज्ञानं देवाः स । ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्देदै । तस्माचेन्न प्रमायति । * शरीरे पाप्मनो हित्वा । सर्वान्कामान्समश्नुत इति । विज्ञानं यज्ञं. तनुते । विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम् । अतो विज्ञानस्य कर्तृत्वं तनुत इति कर्माणि च तनुते । यस्माद्वि- * अन शकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेष प्रसितः।
पञ्चमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ६७ जानकर्तृकं सर्वं तस्माद्युक्तं विज्ञानमय आत्मा ब्रह्मति । किंच विज्ञानं ब्रह्म सर्वे देवा इन्द्रादयो ज्येष्ठं प्रथम जत्वात्सर्वप्रवृत्तीनां वा तत्पूर्वकत्वात्प्रथम विज्ञानं ब्रह्मोपासते ध्यायन्ति । तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वोपासत इत्यर्थः । तस्माचे महतो ब्रह्मण उपासनाज्ञानेश्वर्यवन्तो भवन्ति । तच्च विज्ञानं ब्रह्म चेयदि वेद विजानाति न केवलं वेदैव तस्माद्ब्रह्मणश्चेन्न प्रमाद्यति । बाह्ये. म्वेवानात्मस्वात्मभावितत्वात्प्राप्तं विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनं, तनिवृत्यर्थमुच्यते तस्माचेन्न प्रमाद्यतीति । अन्नमयादिष्वात्मभावं हित्वा केवले विज्ञानमये ब्रह्मण्यात्मत्वं भावयन्नास्ते चेदित्यर्थः । ततः किं स्यादित्युच्यते- शरीरे पाप्मनो हित्वा । शरीराभिमाननिमित्ता हि सर्वे पाप्मानस्तेषां च विज्ञा- नमये ब्रह्मण्यात्माभिमानानिमित्तापाये हानमुपपद्यते । छत्रापाय इव च्छाया- पायः। तस्माच्छरीराभिमाननिमित्तान्सर्वान्पाप्मनः शरीप्रभवा शरीर एव हित्वा विज्ञानमयब्रह्मस्वरूपापन्नस्तत्स्थान्सर्वान्कामान्विज्ञानमयेनैवाऽऽत्मना समश्नुते । सम्यग्भुङ्क्त इत्यर्थः । प्रथमजत्वादिति । हिरण्यगर्भाभेदेनेत्यर्थः । तस्यैष एव शारीर आत्मा । यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानम- यात् । अन्योऽन्तर आत्माऽऽनन्द- मयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुष- विधताम् । अन्वय पुरुषविधः । तम्य पूर्वस्य मनोम यस्याऽऽत्मैष एव शरीरे मनोमये भवः शारीरः । कः। य एष विज्ञानमयः । तस्माद्वा एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिरधिकारान्मयटशब्दाच । अन्नादिमया हि कार्यान्भनो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट्वात्र विकारार्थे दृष्टो यथाऽन्नमय इत्यत्र । तस्मात्कार्यात्माऽऽनन्दमयः प्रत्याव्यः । संक्रमणाच्च, आनन्दमयमात्मानमुपसंक्रामतीति वक्ष्यति । कार्यात्मनां च संक्रमणमनात्मनां दृष्टम् । संक्रमणकर्मत्वेन चाऽऽनन्दमय आत्मा श्रूयते । यथाऽन्नमयमात्मानमुपसंक्रामतीति ।नचाऽऽत्मन एवोपसंक्रमणम् । अधिकार- : PAD ६८ मानन्दागरिकृतटीकासंघलितशांकरभाष्यसमेता-२ ब्रह्मवल्यध्याये- विरोधादसंभवाच्च । न ह्यात्मनेवाऽऽन्मन उपसंक्रमणं संभवति । स्वात्मनि भेदाभावात् । आत्मभूनं च ब्रह्म ! संक्रमितुः शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षण आकाशादिकारणऽकार्यपतित शिराघवयवरूपकल्पनोपप. यते । अदृश्येऽनात्म्येऽनिलयनेऽनिरुक्तंऽम्थूलमनणु नात नेत्यात्मत्यादिविशे- षापाहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तश्च न हि प्रियशिरआधवयवांवशिष्टे प्रत्यक्षतोऽनुभूयमान आनन्दमय आन्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्कगभा. वात् " असनेव स भवति । असद्ब्रह्मात वेद चत्" इति मन्त्रोदाहरणमुपप- यते । ब्रह्म पुच्छं प्रतिष्ठत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रनिष्ठात्वेन ग्रहणम् । तस्मात्कार्यपतित एवाऽऽनन्दमयो न पर एवाऽऽत्माऽऽनन्द इति विद्याकर्मणोः फलम् । तद्विकार आनन्दमयः । स च विज्ञानमयादन्तरः । यज्ञादिहेतोर्वि. ज्ञानमयस्यान्तर त्व ? ]श्रुतेः । ज्ञानकर्मणाहिं फलं भोक्त्रयत्वादन्तरतमं स्यात् । अन्तरतमश्चाऽऽनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थः त्वाच्च । प्रियादिप्रयक्त हि विद्याकमणी । तस्मात्प्रयादीनां फलरूपाणामा त्ममंनिकर्षाद्विज्ञानमम्याऽऽभ्यन्तरत्वमुपपद्यते। प्रियादिवासनानिर्वृत्तो ह्यानन्द- मया विज्ञानमयाश्रितः स्वप्न उपलभ्यते । आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तन्निषेधेन व्याचष्टे--कार्यात्मप्रतीतिरि. त्यादिना । संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् । प्राप्त्यभिप्राय कस्मान्न व्याख्यायत इत्यत आह-नं चाऽऽत्मन एवेति । अन्नमयादीनामतिक्रमणीयतया प्रकृतत्वादकस्य कर्तृत्वकर्मन्वास मवाच्च प्राप्ति संक्रमणं न भवतीत्यर्थः । आनन्दमयस्य परमात्मत्वासंभवे हेत्वन्तराण्याह-शिरआदीत्यादिना । आनन्दमयस्य परमात्मत्व. विवक्षायां मन्त्रे तस्यैवा सत्त्वाशङ्का वक्तव्या । तदभवाच्च नाऽऽनन्दमयः परमात्म- तया प्रतिपाद्यन इन्याह-मन्त्रोदाहरणानुपपत्तश्चेति । न हि मन्त्रोदारहणमुपपद्यत इति संवन्धः । विशिष्टम्य विशेषणकार्यत्वात्सुरूयहमित्युपलम्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् । कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह--स चेति । कत्र पेक्षयों भोक्तृत्वस्योत्तरभावित्वं प्रसिद्धमेव । श्रुत्योक्तमित्यर्थः। एतत्स्फुटयति-ज्ञानकर्मणो- होति । शरीरादिभ्य आनन्दसाधनेभ्यः सकाशात्साध्येनाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किंच प्रियं च तत्साधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति । तत उद्देश्यत्वादैस्याऽऽन्तर्य सिद्धमित्याह --विद्याकर्मणोरिति । प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच्च न मुख्यात्मत्वमित्याह--प्रियादिवासनेति । १ क. न ह्यात्मनैवे । २ ख. ग. "या फलस्यो । ३ ख. ग. "दप्यानन्त'।
५ पञ्चमोऽनुवाकः] तैत्तिरीयोपनिषत् । तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छे प्रतिष्ठा । तदप्येष श्लोको अवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ तस्याऽऽनन्दमयस्याऽऽत्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः। प्राधा. न्यात् । मोद इति प्रिय लाभनिमित्तो हर्षः । स एव च प्रकृष्टो इर्षः प्रमोदः । आनन्द इति सुखसामान्यमात्मा। प्रियादीनां सुखावयवानां तेष्वनुस्यूतत्वादा. नन्द इति परं ब्रह्म । तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्रादिविषय. विशेषोपाधावन्तःकरणवृत्तिविशेषे तमसाऽच्छाधमाने प्रसन्नेऽभिव्यज्यते तद्विषयसुखमिति प्रसिद्धं लोके । तवृत्तिविशेषप्रत्युपस्थापकस्य कर्मणोऽनव. स्थितत्वात्सुखस्य क्षणिकत्वम् । संघदाऽन्तःकरणं तपसा तमोनेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते थावद्यावत्तावत्तावद्विविक्ते प्रसन्नेऽन्तःक- रण आनन्दविशेष उत्कृष्यते विपुली भवति । वक्ष्यति च-"रसो वै सः। रस शेवायं लब्ध्वाऽऽनन्दी भवति । एष ह्येवाऽऽनन्दयाति । एतस्यैवाऽऽनन्दस्या. न्यानि भूतानि मात्रामुपजीवन्ति " इति च श्रुत्यन्तरात् । एवं च कामोपशमो. स्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आमन्दम्य वक्ष्यते । एवं चोत्कृष्यमाणस्याऽऽ. नन्दमयस्याऽऽत्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्पकृतं सत्यज्ञा- नानन्तलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः । यच्च तेभ्योऽभ्यन्तरं येन च ते सर्व आत्मवन्तस्तद्ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा । आनन्दमय- स्यैकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य द्वैतस्यावसानभूतमद्वैत ब्रह्म प्रतिष्ठा पुच्छम् । तदेतस्मिन्नप्यर्थ एष श्लोको भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ १. तपथाऽन्तः । ख. च. तद्यदन्तः ।
आनन्दगिरिकृतटीकासंचालितशांकरभाष्यसमेता-२ ब्रह्मवयध्याये- यदुक्तं ज्ञानकर्मणोः फलमृत आनन्दमय इति तस्य साध्यत्वमौपाधिकं स्वमतानुसा- रेणाऽऽह-आनन्द इति । परमिति । कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिश- यत्वं च व्यञ्जकवृत्तिनिबन्धनमित्याह-तत्तिविशेषेति । ब्रह्मण आनन्दस्वभावत्व एव किं प्रमाणमित्यत आह-वक्ष्यति चेति । अन्तःकरण शुद्धयुत्कर्षादेवाऽऽनन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह- एवं चेति । यदि विषयविशेषजन्यत्वेनाऽऽनन्दोत्कर्ष- स्तदा निष्कामस्य विषयविशेषोपभोगासंभवादानन्दोत्कर्षो न श्राव्येत । आत्मस्वभाव- स्यैवाऽऽनन्दस्य व्यञ्जकान्तःकरणशुद्धयुत्कर्षादेवोत्कर्ष इत्येवं तु सत्यकामहतत्वोत्कर्षा- दुत्कर्षः संमान्यत इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्ट- स्याऽऽनन्दमयस्याब्रह्मत्वं सिद्धम् । सातिशयत्वेन प्रतिशरीरं भिन्नत्वात् । ब्रह्म तु तद. ध्यासाधिष्ठानमद्वितीयमित्याह-एवं चेति । एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूतब्रह्मप्रकाशनपर इत्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिध्यानन्दज्ञानविरचितायां तौत्त. रीयोपनिषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवालयध्याये पञ्चमोऽनुवाकः ॥५॥ अथ ब्रह्मवल्ल्यध्याये षष्टोऽनुवाकः । असैन्नेव से भवति । असद्ब्रह्मति वेद चेत् । अस्ति ब्रह्मेति चेदि । सन्तमेनं ततो विदुरिति असन्नेवासत्सम एव यथाऽसन्न पुरुषार्थसंवन्ध्येवं स भवति पुरुषार्थ. संबन्धी । कोऽसौ । योऽसदविद्यमानं ब्रह्मेति वेद विजानाति चेद्यदि । तद्रि- पर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिबीजं सर्वविशेषप्रत्यस्तमितमप्यस्ति तह- होति वेद चेत् । कुतः पुनराशङ्का तन्नास्तित्वे, व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः । उदहारविषये हि वाचाऽऽरभ्मणमात्रेऽम्तित्वभाबिता बुद्धि स्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा घटादिर्व्यवहारविषयतयोपपन्नः संस्तद्विपरीतोऽसनिति प्रसिद्धम् । एवं तत्सामान्यादिहापि ल्याब्रह्मणो नास्ति- त्वप्रत्याशङ्का। तस्मादुच्यते-अस्ति ब्रह्मोति चेद्वेदेति । किं पुनः स्यात्तदम्तीति विजानतस्तदाह-सन्तं विद्यमानब्रह्मस्वरूपेण परमार्थसदात्मापन नमेवंविदं . १ क. ज. झ.न.ट. °णवृत्त्युत्क।
६ षष्ठोऽनुवाकः ] तैत्तिरीयोपनिषत् । ७१ विदुब्रह्मविदस्ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्रह्मवद्विज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्था- लक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यतेऽब्रह्मपतिपत्त्यर्थत्वाचस्य । अतो नास्तिकः सोऽसमसाधुरुच्यते लोके । तद्विपरीतः सन्योऽस्ति ब्रह्मति चेद्वेद स तद्ब्रह्मप्रतिपत्तिहेतुं सन्मार्ग वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथा- वत्मतिपद्यते यस्मात्ततस्तस्मात्सन्तं साधुमार्गस्थमेनं विदुः साधवः । तस्मा- दस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्यैष एवं शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः। तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा । कोऽसौ । य एष आनन्दमयः। तं प्रति नास्त्याशङ्का नास्तित्वे, अपोढसर्व विशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता। सर्वसामान्याच ब्रह्मणो यस्मादेवमतस्तस्मात् । अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्तिमन्वेते प्रश्ना अनुप्रश्नाः। आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह-तं प्रतीति । सविशेष, तथा प्रत्यक्षत्वादित्यर्थः । सर्वेषां साधारणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवन च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वान, लोकं प्रत्य । कश्चित्समश्नुता३ उ । सामान्यं हि ब्रह्माऽऽकाशादिकारणत्वाद्विदुषोऽविदुषश्च । तस्मादविदुषोऽपि ब्रह्ममाप्तिराशङ्कयते । उतापि । अविद्वान, लोकं परमात्मानामतः प्रेत्य कश्चन । चनशब्दोऽप्यर्थ । अविद्वानपि गच्छति पामोति किंवा न गच्छतीति द्वितीयोऽपि प्रश्नो द्रव्योऽनुप्रश्ना इति बहुवचनाद्विद्वांसं प्रत्यन्यो प्रश्नौ । यद्यविद्वान्सामान्य कारणमपि ब्रह्म न गच्छति ततो विदुषोऽपि ब्रह्मागमनमा- ३. कन्यो । अतः कति प्रश्न आहो विद्वानिति । विद्वान्ब्रह्मविदपि कश्चिदितः मेत्या लोकं समश्नु उ इत्येवं स्थितेऽयादेशे यलोपे च कृतेऽकारस्य प्लुतिः " ७२ आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता- ब्रह्मवल्ल्यध्याये- समश्नुता उ इत्युकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतश- ब्दाव्यासज्याऽऽहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छयत उताऽऽहो विद्वा. निति । विद्वान्समश्नुतेऽमुं लोकम् । आकाशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः । किंवा यथाऽविद्वानेवं विद्वानपि न समश्नुत इत्यपरः प्रश्नः । द्वावेव वा प्रश्नौ विद्वदविद्वद्विषयौ । बहुवचनं तु सामर्थ्यप्राप्तप्रश्नान्तरापेक्षया घटते । असब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद " इति श्रवणादस्ति नास्तीति संशयस्ततोऽर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणोऽपक्षपाति- स्वादविद्वान्गच्छति न गच्छत्तीति द्वितीयः । ब्रह्मणः समत्वेऽप्यविदुष इव विदुषोऽप्यगमनमाशङ्कयते । किं विद्वान्समश्नुते न समश्नुत इति तृतीयोऽनु- प्रश्नः। एतेषां प्रतिवचनार्थमुत्तर ग्रन्थ । आरभ्यते तत्रास्तित्वमेव तावदुच्यते । यच्चोक्तं " सत्यं ज्ञानमनन्तं ब्रह्म" इति। तच्च कथं सत्यत्वमित्येतद्वक्तव्यमि. तीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्त हि " सदेव सत्यम् " इति । तस्मात्सत्त्वोक्त्यैव सत्यत्वमुच्यते । कथमेवमर्थताऽवगम्यतेऽस्य ग्रन्थस्य शब्दानुगमादनेनैव ह्यर्थेनान्वितान्युत्तराणि वाक्यानि । तत्सत्यमित्याचक्ष- से" " यदेष आकाश आनन्दो न स्यात् " इत्यादीनि । कस्य सामर्थन प्राप्त प्रश्नान्तरमित्यत आह-असब्रह्मेति । चेच्छब्दात्पाक्षिक- सत्त्वावगमसामर्थ्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति । सतो बाधासंभवादित्यर्थः । एवमर्थतति । सत्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः । तत्रासदेव ब्रह्मेत्याशङ्कयते । कस्मात् । यदस्ति तद्विशेषतो गृह्यते यथा घटादि । यनास्ति तन्नोपलभ्यते यथा शशविषाणादि । तथा नोपल- भ्यते ब्रह्म । तस्माद्विशेषतोऽग्रहणान्नास्तीति । तत्र । आकाशादिकार- णत्वाब्रह्मणः । न नास्ति ब्रह्म कस्मादाकाशादि हि सर्व कार्य ब्रह्मणो जातं गृह्यते । यस्माञ्च जायते किंचित्तदस्तीति दृष्टं लोके यथा घटा- डरादिकारणं मृद्रीजादि । तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । न चासतो जातं किंचिद्गृह्यते लोके कार्यम् । असतनामरूपादिकार्य नि- रात्मकत्वानोपलभ्येत । उपलभ्यते तु, तस्मादस्ति ब्रह्म । असतश्चे. स्कार्य गृह्यमाणमप्यसदन्वितमेव तत्स्यात् । न चैवं तस्मादस्ति ब्रह्म । १ ख, ग. स्तिता क।
पष्ठोऽनुवाक तैत्तिरीयोपनिषत् । ब्रह्मणः सत्त्व साधनं नामासत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्वशङ्कामुद्भावयति-तत्रासदे- वेति । विप्रतिपन्नमाकाशादि सत्पूर्वक कार्यत्वाद्घटवदिति लौकिकव्याप्त्यवष्टम्भेन सत्कारणं तावत्सिद्धम् । तस्य च देशादिकारणत्वेन देशाद्यनवच्छिन्नत्वाब्रह्मपदकाच्या सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते सा कारणत्वेन व्यावर्त्यतेऽनेन तु कारणत्वात्सत्त्वं साध्यते। आश्रयासिद्धिप्रसङ्गादिति भावः । इतोऽपि जगदुपादाने नास- स्वाशङ्का कार्येत्याह-न चासत इति । तंत्र कथमसतः सज्जायतेति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्वाचष्टे त्या- यतः । तस्मात्सदेव ब्रह्मेति युक्तम् । तद्यदि मृद्वीजादिवत्कारणं स्यादचेतनं तर्हि । न। कामयितृत्वात् । न हि कामयित्रचेतनमस्ति लोके । सर्वज्ञ हि ब्रह्मेत्यवोचाम । अतः कामयितृत्वोपपत्तिः । कामायितृत्वादस्मदादिवदनाप्त- कामं चेत् । न । स्वातन्त्र्यात् । यथाऽन्यान्परवशीकृत्य कामादिदोषाः प्रवर्त- यन्ति न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि, सत्यज्ञानलक्षणाः स्वा- त्मभूतत्वाद्विशुद्धा न तैर्ब्रह्म प्रवतते । तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापे- क्षया। तस्मात्स्वातन्त्र्य कामेषु ब्रह्मणः। अतो नानाप्तकामं ब्रह्म साधनान्त- सनपेक्षत्वाच ।। न्यायत इति । असदन्वयादर्शनादिति युक्तित इत्यर्थः । एवमसत्त्वाशङ्का -निरक स्थाचेतनत्वाशङ्का - प्रधानवादिनः :प्रसङ्गान्निराचष्टे-तघदीति । यद्यपि सांख्यमते चेतनस्य निर्विकारत्वात्कामायतृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामयितृत्वाद- चेतनत्वशङ्का निवर्त्यत इत्याह-न हीति । तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्व- मपि प्राप्तमित्याशङ्कयाऽऽह-कामयितृत्वांदित्यादिना । जीवानामनातानन्दत्वं पर. क्शत्वान्नः तदस्ति ब्रह्मण इत्यर्थः । कथंभूतास्तहि ब्रह्मणः कामा इत्याशङ्कायामाह- सत्यज्ञानलक्षणा इति । सत्यज्ञान( नं ) लक्षणं स्वरूपं येषां ते तथोक्ताः । एत. दुक्तं भवति । मायाप्रतिबिम्बितं हि ब्रह्म जगतः कारणं मायापरिणामैरेव कामैः काम- यित । तेषां च परिणामानामविद्याधनभिभूतचिद्वयाप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्मतादा- स्थाचाधर्माद्यननुस्पृष्टत्वेन शुद्धत्वम् । ततो जीवकामवलक्षण्यं सिद्धमिति । तहि ब्रह्मणः कामाः पुण्यकारिणामप्यनिष्टफलप्राप्त्यनुकलाः स्युः स्वातन्त्र्यादित्याशङ्कयाऽऽ- -तेषां विति। कमस्य शरीरादिसंबन्धजन्यत्वप्रसिद्धर्ब्रमणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह-साधनान्तरानपेक्षत्वाचेति । कामसंस्का रवत्या मायाया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः । १६. उ. तत्कय ।
७४ - आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- २ ब्रह्मवल्लयध्याये- किंच यथाऽन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिर क्तकार्यकरणसाधनान्तरापेक्षाश्च न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वं किं तर्हि स्वात्मनोऽनन्यास्तदेतदाह- सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोs- तप्यत । स तपस्तप्त्वा । इदर सर्वमसृजत । सोऽकामयत स आत्मा यस्मादाकाशः संभूतोऽकामयत कामितवान् । कयं, बहु स्यां बहु प्रभूतं स्यां भवेयम् । कथमेकस्यान्तराननुप्रवेशे बहुत्वं स्या. दित्युच्यते । प्रजायेयोत्पद्येय । न हि पुत्रोत्पत्त्येवार्थान्तरविषयं बहुभवनं कथं तत्मिस्थानभिव्यक्तनामरूपाभिव्यक्त्या । यदाऽऽत्मस्थे अनभिव्यक्ते नाम- रूपे व्याक्रियेते तदा नामरूपे आत्मस्वरूपापरित्यागेनैव ब्रह्मणाऽप्रविभक्तदे- शकाले सर्वावस्थासु व्याक्रियेते तदा तन्नामरूपव्याकरणं ब्रह्मणो बहुभवनम्। नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यतेऽल्पत्वं वा । यथाऽऽकाश- स्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतस्तद्वारेणैवाऽऽत्मा बहु भवति। न यात्मनोऽन्यदनात्मभूतं तत्प्रविभक्तदेशकालं सूक्ष्म व्यवहितं विप्रकृष्टं भूतं भव. भविष्यद्वा वस्तु विद्यते । अतो नामरूपे सर्वावस्थे ब्रह्मणवाऽऽत्मवती, न ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्यते । ताभ्यां चोपा- घिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभाग्ब्रह्म । स आत्मैवंकामः संस्त. पोऽतप्यत । तप इति ज्ञानमुच्यते । “ यस्य ज्ञानमयं तपः" इति श्रुत्यन्तरा- दाप्तकामत्वाच्चतरस्यासंभव एव तपसः । तत्तपोऽतप्यत तप्तवान् । सृज्यमान- जगदचनादिविषयामालोचनामकरोदात्मेत्यर्थः । स एवमालोच्य सपस्तप्त्वा माणिकर्मादिनिमित्तानुरूपमिदं सर्व जगद्देशतः कालतो नान्ना रूपेण च यथा- नुभवं सः पाणिभिः सर्वावस्थरनुभूयमानमसृजत सृष्टवान् । तवारेणैवति । नामरूपशक्त्यात्मकमायापरिणामद्वारेणैव । नामरूपशक्त्यात्मिका अडरूपा मायाऽङ्गीकृता चेत्तहि सा प्रधानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्कयाऽऽह- न हीति । आत्मातिरिक्तं किं स्वतः सिध्यति परतो वा । नाऽऽद्यः । जाड्यहानेर. तिरेकहानेश्च । न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयो. 1. ग. घ. रिक्ताः कार्यकार' । २ ख. ग. घ. . 3. °सः । स तपोइ !
पठोऽनुवाकः] तैत्तिरीयोपनिषत् । ७५ गादि समवति विषयविषयिभावो वा। नियामकगवेषणात् । न च स्वभाव एव संपन्धः । द्वयोः स्वभावयोः संबन्धत्वेनवोपक्षये संबन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव संवन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यवस्यतीति भावः । यस्मादात्मातिरिक्तं वस्तु न संभाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह- अत इति । तर्हि ब्रह्मणः सप्रपश्चताप्रसङ्ग इति न वाच्यमित्याह-न ब्रह्मेति । न ब्रह्म तदात्मकमज- उत्वात्तत्परिहारेणापि सिद्धिसंभवादित्यर्थः । कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह-ते तदिति । स्वप्नावबुद्धनमोभक्षणवदापितस्यानुभवप्रत्याख्यानेन सिद्धयसंभवादनुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्यते न त्वैक्याभिप्रायेणेत्यर्थः । न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह-ताभ्यामिति । यदिदं किं । तत्सृष्ट्वा । तदेवानुपाविशत् । यदिदं किंच यत्किंचेदमविशिष्टम् । तदिदं जगत्सृष्ट्वा किमकरोदित्युच्यते- तदेव सृष्टं जगदनुपाविशदिति । तत्रैतच्चिन्त्यं कथमनुप्राविशदिति । किं यः स्रष्टा स तेनैवाऽऽत्मनाऽनुप्राविशदुतान्येनेति । किं तावद्युक्तम् । क्त्वाप्रत्ययश्र. बणाद्यः स्रष्टा स एवानुपाविशदिति । प्रवेशस्यानिर्वाच्यताद्योतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्य दर्शयितुं विचारमारमते-तत्रैतञ्चिन्त्यमित्यादिना । विमरों सति क्त्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना । ननु न युक्तं मृदचेत्कारणं ब्रह्म तदात्मकत्वात्कार्यस्य । कारणमेव हि कार्यात्मना परिणतमित्यतोऽप्रविष्ट इव कार्योत्पत्ते पृथकारणस्य पुनः प्रवे. शोऽनुपपन्नः । न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेश एवमन्येनाऽऽत्मना नामरूपकार्येऽनुभवेश आत्मन इति चेच्छ्रुत्यन्तराच्च "अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य " इति । नैवं युक्तमेकत्वा- ब्रह्मणः । मृदात्मनस्त्वनेकत्वात्सावयवत्वाच्च युक्तो घटे मृदचूर्णात्मनाऽनुप्र- बेशः। मृदचूर्णस्याप्रविष्टदेशवत्त्वाच्च । न त्वात्मन एकत्वे सति निरवयवत्वाद- भविष्टदेशाभावाच्च प्रवेश उपपद्यते । कथं तर्हि प्रवेशः स्यात् । युक्तश्च प्रवेशः श्रुतत्वात्तदेवानुपाविशदिति । सावयवमेवास्तु तर्हि सावयवत्वान्मुखे हस्तप्रवेश- पनामरूपकार्ये जीवात्मनाऽनुपवेशो युक्त एवेति चेन्नाशून्यत्वात् । न हि १ झ.. त्मतया प्र ।
७६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- ब्रह्मवल्ल्यध्याये-- कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणाऽऽत्मशून्यः प्रदेशोऽस्ति य प्रविशंज्जीवात्मना । कारणमेव चेत्प्रविशेज्जीवात्मत्वं जह्याद्यथा घटों मृत्प्रवेश घटत्वं जहाति । तदेवानुपाविशदिति च श्रुतेन कारणानुप्रवेशों युक्तः । पूर्ववाद्याह-ननु न युक्तमिति । सृष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसंमवे सति क.क्यं क्त्वाश्रुत्या बोध्येत न तु प्रवेशस्योत्तरकालता संभवति । सृष्टिसमय एवोपा. दानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः । एतदेव विवृणोति - कारणमेव हीति । अप्रविष्टे यथा मठादी देवदत्तस्य प्रवेशो दृष्टस्तथा कार्योत्पत्तेरूवं पृथक्प्रवेशो संभवतीत्यर्थः । सिद्धान्त्येकदेशिनां मतमुद्भाव्य पूर्ववादी दूषयति---यथा घंट इत्या दिना । स्रष्टुरन्यस्य वा प्रवेशो न संभवर्तीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धा- न्त्येकदेश्याह--कथमिति । नास्त्येवेति न वक्तव्यमित्याह-युक्तश्चेति । स एवाऽऽह गतिं-सावयवमेवेति । पूर्ववादी दूषयति-नाशून्यत्वादिति । कार्या- स्मना परिणतस्य ब्रह्मणो नामरूपात्मकं कार्यमेव देशस्तद्वयतिरेकेण न ह्यन्यः प्रदे. शोऽस्ति । यत्कारणमेव कार्याकारेण परिणतं तत्प्रति कार्यविशेषो 'जीवात्मा प्रवेक्ष्य. तीति न शङ्कनीयमित्याह-कारणमेव चदिति । कार्यविशेषस्य प्रवेशमङ्गीकृत्यं णमुक्तं स न संभवति श्रुतिविरोधादित्याह-तदेवेति । कार्यान्तरमेव स्यादिति चेत् । तदेवानुप्राविशदिति जीवात्मरूपं कार्य नाम. रूपपरिणतं कार्यान्तरमेवाऽऽपद्यत इति चेन्न । विरोधात् । न हि घटो घटान्त- रमापद्यते । व्यतिकश्रुतिविरोधाच । जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् । तदापत्तौ मोक्षासंभवाच्च । न हि यतो मुच्यमानस्तदेवां- ऽऽपद्यते । न हि शृङ्खलापत्तिर्वद्धस्य तस्करादेः । कारणपरामर्शकेन तच्छब्देन कार्यमुपलक्ष्य कार्यान्तरस्य तत्र प्रवेशो विधीयतेऽप्रा- संदेशसंभवात् । अतो न श्रुतिविधि इति सिद्धान्तैकदोशमतमुद्भाव्य' दूषयति । कार्यान्तरमेवेत्यादिना । बाह्यान्तभेदेन परिणतमिति चेत्तदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तीवात्मनाऽऽधेयत्वेन च परिणतमिति चेन्न । बहिष्ठस्य प्रवेशोपपते । न. हि यो यस्यान्तःस्थः स एव तत्प्रविष्ट उच्यते । बहिष्ठस्यानु- प्रवेशः स्यात्प्रवेशशब्दार्थस्यैवं दृष्टत्वः । यथा गृहं कृत्वा प्राविशदिति । जलसूर्यकादिप्रतिविन्ववत्प्रवेशः स्यादिति चेन्न । अपरिच्छिन्नत्वादमूर्तत्वाच्च .. १ झ.... वात्मना.प्र.।
. षष्टोऽनुवाक] तैत्तिरीयोपनिषत् । परिच्छिन्नस्य मूर्तस्यान्यस्यान्यत्र प्रसादस्वभावके जलादौ सूर्यकादिप्रतिचि- म्बोदयः स्यात् । न त्वात्मनः, अमूर्तत्वादाकाशादिकारणस्याऽऽत्मनः, अव्यापकत्वात् । तद्विप्रकृष्टदेशप्रतिबिम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बच- प्रवेशो न युक्तः। कारणवाचकेन तच्छब्देन कार्यलक्षणायामविवक्षितलक्षणा चेत्प्रसज्येत तर्हि कारणपर एव तच्छब्दोऽस्त्वित्याहान्यः सिद्धान्तैकदेशी-बाह्येति । अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थी न लम्येतेत्याह-न बहिष्ठति । अन्यस्य वेदान्तिनो मतमुद्भाव्य दूषयति--जल इत्या- दिना। एवं तर्हि नैवास्ति प्रवेशो न च गत्यन्तरमुपलभामहे । तदेवानुपाविशत्" इति च श्रुतेः। श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्ती निमित्तम् । न चास्मा- द्वाक्याद्यत्नवतामाप विज्ञानमुत्पद्यते । हन्त त नर्थकत्वादपोह्यमेतद्वाक्यं “तत्सृष्ट्वा तदेवानुमाविशत्" इति । न । अन्यार्थत्वात् । किमर्थमस्थाने चर्चा | प्रकृतो हान्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति स स्मर्तव्यः । ब्रह्मविदाप्नोति परम्" " सत्यं ज्ञानमनन्तं ब्रह्म " " यो वेद निहितं गुहायाम् !' इति । तद्विज्ञानं च विवक्षितं प्रकृतं च तत् । ब्रह्मस्वरूपानुगमाय चाऽऽकाशाद्यन्नमयान्तं कार्य प्रदर्शितं ब्रह्मानुगमश्चाऽऽरब्धः । तत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणम- यस्तदन्तर्मनोमयो विज्ञानमय इति। विज्ञानगुहायां प्रवेशितस्तत्र चाऽऽनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेणाऽऽनन्दविट- दयवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इति तत्प्रवेशः प्रकल्प्यते एवं सिद्धान्तैकदेशीय निरस्य पूर्ववाद्युपसंहरति-एवं तहीति । नैवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न संभवतीत्युक्तमित्याह-न चेति । इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह- तदेवानुपाविशदिति । सा च श्रुतिः स्रष्टुः प्रवेशमाह । सा चास्माकं मीमांसकानां प्रमाणं ततस्तद्विरोधेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः । तर्हि श्रुतिशरणतयैव ब्रह्मण एवं प्रवेश उच्यतामित्याशङ्कयाऽऽहन चेति । तस्मा. दन्धो मणिमविन्ददितिवदर्थशून्यभेवेदं वाक्यमिति निगमयति-हन्तेति । शक्तिगोचर- स्यार्थस्यासमवादर्थशून्यत्वं तात्पर्यगोचरस्य वा । नाऽऽद्यः । आकाशादेरविप्रकृष्टदेशेऽपि - १.क...ट.उ. तोऽप्यन्यो....
-- . .. आनन्दगिरिकृतटीकासंघलितशांकरभाष्य समेता-२ ब्रह्मवल्यध्याथे- जलेऽमूर्तस्य प्रतिबिम्बाभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाच्याविद्यासु प्रतिबिम्बितस्य सृष्टशु- सरकालमन्तःकरणादिषु प्रतिबिम्बमावसंभवादित्याह-नेति । न द्वितीय इत्याह- अन्यार्थत्वादिति । एतत्स्फुटयति-किमर्थमित्यादिना । अतः परमिति । बुद्धि गुहाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोलिङ्गं विशिष्टस्य विशे. प्यान्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्धयवसान:आत्मा ब्रह्मरूपोऽस्यामेव गुहा- यामधिगन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिधीयत इत्यर्थः न ह्यन्यत्रोपलभ्यते ब्रह्म निर्विशेषत्वाद्विशेषसंबन्धो ह्युपलब्धिहेतुर्दृष्टः । यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः। एवमन्तःकरणगुहात्मसंबन्धो ब्रह्मण उपलब्धिहेतुः। संनिकर्षादवभासात्मकत्वाच्चान्तःकरणस्य । यथा चाऽऽलोकविशिष्टा घटाग्रुप लब्धिरेवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्तस्मादुपलब्धिहेतौ गुहाया निहितामति प्रकृतमेव । तत्तिस्थानीये त्विह पुनस्तत्सृष्ट्वा तदेवानुपाविश- दित्युच्यते । बुद्धिगुहायामेव ब्रह्मण उपलब्धिसंभवात्तत्रैव प्रवशोऽभिधित्मित इत्याह-न हीति। नन्वन्यत्रोपलब्ध्यनर्ह ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्कयोपाधेर्योग्यताविशेषासंभवा. दित्याह-विशेषेति । संनिकर्षादिति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभि. व्यक्तिर्न स्वतः। अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्जकमन्वयव्यतिरेकाम्यामित्यर्थः। यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छम्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याघटते तत्र ब्रह्मोपलब्धिरित्याह-अव. भासात्मकत्वाचेति । किंच यथा जाड्यसाम्येऽपि तमोलक्षणावरणाभिमवसमर्थ आलोकोऽङ्गी क्रियते तथा जाड्यसाम्येऽप्यन्तःकरणस्यैव प्रत्ययाकारपरिणतस्याज्ञान- लक्षणावरणाभिभवसामर्थ्यमङ्गीकर्तव्यमित्याह- तदनु प्रविश्य । सच त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच । तदेवेदमाकाशादिकारणं काय सृष्टा तदनुपविष्टमिवान्तर्गुहायां बुद्धौ द्रष्टु श्रोतृ मन्तु विज्ञात्रित्येवं विशेषवदुपलभ्यते । स एच प्रवेशस्तस्मा. १ ज. स. स. 'लिगवि । १ ख, ग, शेष्यस्यान्य' । - है षष्ठोऽनुवाकः] वैचिरीयोपनिषत् । दस्ति तत्कारणं ब्रह्म । अतोऽस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत्कार्यमनु प्रविश्य, किं, सच्च मूर्त त्यच्चामूर्तमभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेनाऽऽत्मना व्याक्रियेते व्याकृते च मूर्तामूर्तशब्दवाच्ये ते आत्मना त्वप्रविभक्तदेशकाले इति कृत्वाऽऽत्मा ते अभवदित्युच्यते । किंच निरुक्तं चानिरुक्तं च निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो देशकाल- विशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीत निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयन चानिलयनं च । निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः। अनिलयन तद्विपरीतममूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनान्यमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव । सर्गोत्तरकालभाव. श्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणान्यमू- तस्य व्याकृतविषयाण्येतानि । विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पाषा- णादि । सत्यं च व्यवहारविषयमाधिकारान्न परमार्थसत्यमेकमेव हि परमार्थसत्यं ब्रह्म । इह पुनव हारविषयमापेक्षिकं सत्यं मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनरेतत्सर्वमभवत्परमार्थसत्यं कि पुनस्तद्ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतत्वात् । निलयनं गृहप्रासादादिभूतसनिवेशविशेषोऽवयवसंस्थानविशेषराहित्यमनिलयम् । अनिरुक्तत्वाद्यमूर्तधमश्चेद्ब्रह्मण एव किं न स्यादित्यत आह-त्यदनिरुक्तानिलय. नानीति। तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीय ब्रह्मवल्ल्पध्याय षष्ठोऽनुवाकः ॥ ६ ॥ यस्मात्सत्यदादिकं मूर्तामूर्तधर्मजातं यत्किंचेदं सर्वमविशिष्टं विकारजातमे- कमेव सच्छब्दवाच्यं ब्रह्माभवत्तद्वयतिरेकेणाभावानामरूपविकारस्य, तस्मात्त- ब्रह्म सत्यमित्याचक्षते । ब्रह्मविदोऽस्ति नास्तीत्यनुप्रश्नः प्रकृतस्तस्य प्रतिव- चनविषय एतदुक्त मात्माऽकामयत बहु स्यामिति । स यथाकामं चाऽऽकाशा- दिकार्य सत्त्यदादिलक्षणं सृष्ट्वा तदनु प्रविश्य पश्यन्शृण्वन्मन्धानो विनानन्व- हमवत्तस्मात्तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन्हृदयगुहायां निहित ५ क. घ, छ, में, ट. 3. "ते मू । २ ख. ग. श. म. मूर्त सं।
८४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्यध्याय त्मित्ययावभासविशेषेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति । सेदेतस्मिन्नर्थे ब्राह्मणोक्त एष श्लोको मन्त्रो भवति । यथा पूर्वेष्वन्नमयाद्यात्म प्रकाशकाः पञ्चस्वप्येवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारेण भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्थगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये षष्ठोऽनुवाकः ।।.६ ॥ तत्सत्यमित्याचक्षत इत्यस्योपपत्तिमाह--यस्मादिति । पदानि व्याख्याय प्रकृता" नुप्रश्ननिराकरणे प्रकरणस्य तात्पर्य सोऽकामयतेत्यादेर्दर्शयति--अस्ति नास्तीत्या. दिना । तस्या बुद्धिगुहायाः प्रत्यया अहं कर्ता भोक्तेत्यादयस्त एवावभासविशेषास्तै- व्यज्यमानं विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रायोपनिषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्लयध्याये षष्ठोऽनुवाकः॥६॥ Poo- अथ ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाका । असदा इदम आसीत् । ततो वै सदजायत । तदा- त्मानः स्वयमकुरुत । तस्मात्तत्सुकतमुच्यत इति । असता इदमग्र आसीत्। अदिति व्याकृतनामरूपविशेषविपरीतरूपमविकृतं ब्रह्मोच्यते । न पुनरत्यन्तमेवासत् । न ह्यसतः सज्जन्मास्ति । इदमिति नामरू पविशेषवव्याकृतं जगदने पूर्व प्रागुत्पत्तेब्रह्मैवासच्छब्दवाच्यमासीत् । ततोऽ. सतो वै सत्पविभक्तनामरूपविशेषमजायतोत्पन्नम् । किं ततः प्रविभक्तं कार्य मिति पितुरिव पुत्रो नेत्याह । तदसच्छब्दवाच्यं स्वयमेवाऽऽत्मानमेवाकुरुत कृतवत् । यस्मादेवं तस्मात्तब्रह्मैव सकृतं स्वयं कर्तुच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्ध लोके । सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्स सर्वात्मना तस्मा. पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतमुच्यते । सर्वथाऽपि तु फलसंबन्धादि कारणं सुकृत शब्दवाच्यं प्रसिद्ध लोके । यदि वाऽन्यत्सा प्रसिद्धिनित्ये चेत नंवत्कारणे सत्युपपद्यते । तस्मादस्ति तद्ब्रह्म सुकृतप्रसिद्धः । १ ज. झ. 8. धर्मस्य ।
- ७ सप्तमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ८१ सुकृतमिति । क्तप्रत्ययः सुष्ठ क्रियत इति कर्मामिधायकोऽपि च्छान्दस्या प्रक्रियया सुष्ठु करोतीति कर्तरि व्याख्यातः । इतश्चास्ति । कुतः । रसत्वात् । कुतो रसत्वप्रसिद्धिर्ब्रह्मण इत्यत आह- यदै तत्सुकृतम् । सो वै सः। रस५ ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्योत्क: पाण्यात् । यदेष आकाश आनन्दो न स्यात् एष ह्येवाऽऽनन्दयाति यदै तत्सुकृतम् । रसो वै सः । रसो नाम तृप्तिहेतुरानन्द करो मधुराम्ला- दिः प्रसिद्धो लोके । रसमेवायं लब्ध्वा प्राप्याऽऽनन्दी सुखी भवति । मासत आनन्दहेतुत्वं दृष्टं लोके । बाह्यानन्दसाधनरहिता अप्यनीहा निरेषणा ब्रा. मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसो नूनं ब्रह्मैव रसस्तेषाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवब्रह्म । इतश्चास्ति । कुतः । प्राणनादि. क्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापानिति । एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणैनियमाना दृश्यन्ते । तश्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति । अन्यत्रादर्शनात् । तदाह-यद्यदि । एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान भवेत्को ह्येव लोकेऽन्यादपानचेष्टा कुर्यादित्यर्थः । कः प्राण्यात्माणनं वा कुर्यात्तस्मादस्ति तद्ब्रह्म । यदर्थाः कार्यकरणप्राणनादिचेष्टास्तत्कृत एव चाऽऽनन्दो लोकस्य । कुतः । एष ह्येव पर आत्माऽऽनन्दयात्यानन्द यति सुखयति लोकं धर्मानुरूपम् । स एवाऽऽत्माऽऽनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभय हेतुत्वाद्विट्वदविदुषोरस्ति तद्ब्रह्म । सह- स्त्वाश्रयणेन भयं भवति । नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । एकार्थवृत्तित्वेनेति । एकप्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः । अन्यत्रेति । गृहप्रासादादिषु स्वतन्त्रं गृहाधनारम्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसंघा- १ प.प. द... कार । १ ख. ग....र्यकार । ईख. ग. घ. छ. उ. कार्यकार। ११ ८२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता–२ ब्रह्मवल्ल्यध्याये-- तेऽपि विलक्षणः स्वामी शरीरोपचयादिमिरुपचयादिरहितोऽवगम्यते । स च चेत- नत्वेन भेदाभावाद्ब्रह्मवेति तदस्तित्वसिद्धिरित्यर्थः । कथमभयहेतुत्वमित्युच्यते- यदा विष एतस्मिन्न दृश्येऽनात्म्येऽनि- रुक्तेऽनिलयनेऽअयं प्रतिष्ठां विन्दते । अथ सोऽअयं गतो भवति । यदा वैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदु- षोऽभन्वानस्य । तदप्येष श्लोको भवति ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यदा होव यस्मादेष साधक एतस्मिन्ब्रह्मणि किंविशिष्टेऽदृश्ये: दृश्यं नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद्विकारस्य । न दृश्यमदृश्यमविकार इत्यर्थः । एतस्मि- बदृश्येऽविकारेऽविषयभूतेऽनात्म्येऽशरीरे यस्माददृश्यं तस्मादनात्म्यं यस्माद- नात्म्यं तस्मादनिरुक्तम् । विशेषो हि निरुच्यते । विशेषश्च विकारः । अवि. कारं च ब्रह्म । सर्वविकारहेतुत्वात्तस्मादनिरुक्तम् । यत एवं तस्मादनिलयनं निलयनं नीड आश्रयो न निलयनमनिलयनमनाधारं तस्मिन्नेतस्मिन्नदृश्येऽना- म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ब्रह्मणीति वाक्यार्थः । अभय- मिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमात्मभावं विन्दते लभते । अथ तदा स तस्मिन्नानात्वस्य भयहेतोरवि. धाकृतस्यादर्शनादमयं गतो भवति। स्वरूपप्रतिष्ठो ह्यसौ यदा भवति तदा नान्य. त्पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति नाऽऽत्मन एवाऽऽत्मनो भयं युक्तम् । तस्मादात्मैवाऽऽत्मनोऽभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ते सत्सु भयहेतुषु तच्चायुक्तमसति भयत्राणे ब्रह्मणि ।
सक्षमोऽनुवाकः ]. . तैत्तिरीयोपनिषत् । ८३ तस्मात्तेषामभयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदाऽसावभयं गतो भवति साधको यदा नान्यत्पश्यत्यात्मनि चान्तरं भेदं न कुरुते तदाऽभयं गतो भव- तीत्यभिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मादेषोऽविद्यावानविद्यया प्रत्युपस्थापितं वस्तु तैमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि चैतस्मिन्ब्रह्मणि उद. पि, अरमल्पमप्यन्तरं छिद्रं भेददर्शनं कुरुते । भेददर्शनमेव ह्यन्तरकरणमल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोरस्य भेददर्शिन आत्मनो भयं भवति । तस्मादात्मैवाऽऽत्मनो भयकारणमविदुषस्तदेतदाह । तद्ब्रह्म त्वेव भयं भेददर्शिनो विदुष ईश्वरोऽन्यो मत्तोऽहमन्यः संसारीत्येवं विदुषो भेददृष्टमी. श्वराख्यं तदेव ब्रह्माल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेनामन्वानस्य । तस्मा- द्विद्वानप्यविद्वानेवासौ योऽयमेकमभिन्नमात्मतत्त्वं न पश्यत्युच्छेदहेतुदर्शनाद्धयु- च्छेद्याभिमतस्य भयं भवति । अनुच्छेद्यो ह्युच्छेदहेतुस्तत्रासत्युच्छेदहेतांबुच्छेद्ये न तदर्शनकार्य भयं युक्तम् । सर्व च जगद्भयव दृश्यते । तस्माज्जगतो भयद- र्शनाद्गम्यते नूनं तदस्ति भय कारणमुच्छेदहेतुरनुच्छेयात्मकं यतो जगद्विभे- तीति । तदेतस्मिन्नप्यर्थ एष श्लोको भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ दासोऽहं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेद विद्वान्कथमज्ञ इत्युच्यते तत्राऽऽह – असौ योऽयमिति । यथा चन्द्रभेदं पश्यन्नप्यविद्वानुच्यतेऽतत्त्वदर्शित्वा- तथेत्यर्थः । कथं तर्हि: तस्य मयसंभावनेत्यत आह-उच्छेदेति । संहर्ता हि परमे. धरो मां संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः । ब्रह्मैवोच्छे- दहेतुः कुत इत्यत आह-अनुच्छेद्यो होति । उच्छेदहेतोरप्युच्छेद्यत्वेऽनवस्थाप्र- सङ्गान्नित्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य संभाव्यत इत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां सैत्ति- . रीयोपनिषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्लयध्याये सप्तमोऽनुवाकः ॥ ७ ॥ TE! १ क. ख. ग. स्तन्नास । २ क. ख. ग. घ. इ. छ. ८. ८. 'तावनुच्छे। त' । ३ ज. झ. म. ट. 'न्यत्संभा। " आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- २ ब्रह्मवल्लयध्याये- अथ ब्रह्मवल्ल्यध्यायेऽष्टमोऽनुवाकः । भीषाऽस्माद्वातः पवते । भीषो- दैति सूर्यः । भीषाऽस्मादग्निश्चे- न्द्रश्च । मृत्युर्धावति पञ्चम इति । भीषा भयेनास्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । वातादयो हि महार्हाः स्वयमीश्वराः सन्तः पचना- दिकार्येष्वायासबहुलेषु नियताः प्रवर्तन्ते । तद्युक्तं प्रशास्तरि सत्यन्यस्मिन्निय. मेन तेषां प्रवर्तनम्। तस्मादस्ति भयकारणं तेषां प्रशास्वृ ब्रह्म । यतस्ते भृत्या इव राज्ञोऽस्माद्ब्रह्मणो भयेन प्रवर्तन्ते । तच्च भयकारणमानन्दं ब्रह्म । सैषाऽऽनन्दस्य मीमांसा भवति । तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा भवति । किमानन्दस्य मीमांस्यमित्युच्यते । किमानन्दो विषयविषयिसंबन्धजनितो लौकिकानन्दव- दाहोस्वित्स्वाभाविक इत्येवमेषाऽऽनन्दस्य मीमांसा । तञ्च भयकारणं ब्रह्माऽऽनन्दरूपमुक्तं यदेष आकाश आनन्दो न स्यादिति । तत्राऽऽ- नन्दश्च लोके जन्यः प्रसिद्धस्ततो विचारमारमते-तस्यास्येत्यादिना । तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः । स य एप निर्दिश्यते ब्रह्मानन्दानुगमार्थम् । अनेन हि प्रसिद्धेनाऽऽनन्देन व्याव- त्तविषयवुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दो ब्रह्मानन्द- स्यैव मात्राऽविद्यया तिरस्क्रियमाणे विज्ञान उत्कृष्यमाणायां चाविद्यायां ब्रह्मादिभिः कर्मवशाद्यथाविज्ञानं विषयादिसाधनसंबन्धवशाच विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः संपद्यते । स एवाविद्याकामकर्मापकर्षेण मनुष्यगन्ध- र्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणोत्तरोत्क: पेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति । ब्रह्मानन्दस्य चेन्मीमांसा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्दाद्युपन्यासस्तत्राऽऽह- तत्र लौकिक इत्यादिना । लौकिक आनन्दः क्वचित्काष्ठा प्राप्तः सातिशयत्वात्परि- माणवदिति ब्रह्मानन्दानुमानार्थो लौकिकोपन्यास इत्यर्थः । विषयेभ्यो व्यावृत्ता- व्यावृr - -- ४ अष्टमोऽनुषाकः ] तैत्तिरीयोपनिषत् । ८५ तविषया अविषयब्रह्मात्मैकस्वदर्शिनस्तबुद्धिगोचर इत्यर्थः । प्रकारान्तरेण ब्रह्मानन्दा- नुगममाह-लौकिकोऽपीत्यादिना । निरस्ते त्वविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्ण एक आनन्दोऽद्वैतो भवतीत्येतमर्थ विभावयिष्यन्नाह- युवा स्यात्साधुयुवाऽध्यायकः । आशिष्ठो दृढिष्ठ बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः (१)। स एको मनुष्यगन्धर्वाामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देव- गन्धर्वाणामानन्दः । श्रोत्रियस्य चाकाम- हतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः। स एकः पितृणां चिरलोकलोकानामा- नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितृणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः (२)। श्रोत्रियस्य चाकामहतस्य । युवा प्रथमवयाः । साधुयुवेति साधुश्चासौ युवा चेति यूनो विशेषणम् । युवाऽप्यसाधुर्भवति साधुरप्ययुवाऽतो विशेषणं युवा स्यात्साधुयुवेति । अध्या- यकोऽधीतवेदः। आशिष्ठ शास्तृतमः। दृढिष्ठो दृढतमः । बलिष्ठो बलवत्तमः । एवमाध्यात्मिकसाधनसंपन्नः । तस्येयं पृथिव्युर्वी सर्वा वित्तस्य वित्तेनोपभोग- : १०. छ. आशुतमः । २ ख. 'तमः। क्षिप्रकारिषु मध्ये स्वयमतिशयत्वादित्यर्थः।द।
.- ८६ आनन्दगिरिकृतटीकासंघलितशांकरभाष्यसमेता-[२ नमवल्यध्याये- साधनेन दृष्टार्थेनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरि. त्यर्थः । तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः। ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः। मानुषानन्दा. च्छतगुणेमोत्कृष्टो मनुष्यगन्धर्षाणामानन्दो भवति मनुष्याः सन्तः कर्मविद्या. विशेषाद्गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्य. करणाः । तस्मात्प्रतिघाताल्पत्वं तेषां द्वंद्वप्रतिघातशक्तिसाधनसंपत्तिश्च । ततोऽ. प्रतिहन्यमानस्य प्रतीकारवतो मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः । तत्प्रसादवि. शेषात्सुखविशेषाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्या भूमौ प्रसादविशेषतः शतगुणेनाऽऽनन्दोत्कर्ष उपपद्यते । प्रथमं त्वकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनाऽऽनन्दो. त्कर्षों मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवाऽध्यायक इति श्रोत्रियत्वाजिनत्वे गृह्यते । ते ह्यविशिष्टे सर्वत्र । अकामहतत्वं तु विषयोत्क- र्षापकर्षतः सुखोत्कर्षापकर्षाय विशेष्यते । अतोऽकामहतग्रहणम् । तद्विशेषतः शतगुणसुखोत्कर्षांपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानामिति पितॄणां विशेषणम् । चिरकालस्थायी लोको येषां पितृणां ते चिरलोकलोका इति । आजान इति देवलोकस्तस्मिन्नाजाने जाता आजानजा देवाः स्मातकर्मविशे. षतो देवस्थानेषु जाताः। मनुष्यगन्धर्वानन्दम्योत्कृष्टत्वे निमित्तमाह-ते ह्यन्तर्धानादीति । प्रथममकामहता- ग्रहणस्य तात्पर्यमाह-प्रथममिति । यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुषानन्दे नि:स्पृहो मानुषानन्दभोगभोगी चेति। ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथम- पर्याये तदग्रहणमित्यर्थः। अवृजिनत्वमपापत्वं यथोक्तकारित्वं तत्साधुपदालभ्यत इत्यर्थः । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स १ म. 'न्दविरोधाद्भोग । ..
८७ 1 अष्टमोऽनुवाक:] तैचिरीयोपनिषत् । एको देवानामानन्दः। श्रोत्रियस्य चाकाम- हतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः (३)।श्रोत्रियस्य चाकामह- तस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतैरानन्दः । श्रोत्रियस्य चाकामह- तस्य । ते ये शतं बृहस्पतैरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतरानन्दाः। स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४)। - . कर्मदेवा ये वैदिकन कर्मणाऽग्निहोत्रादिना केवलेन देवानपियन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः । इन्द्रस्तेषां स्वामी । तस्याऽऽचार्यो बृहस्पतिः। प्रजा. पतिविरात्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । यत्रैत आनन्दभेदा एकतां गच्छन्ति । धर्मश्च तन्निमित्तो ज्ञानं च तद्विषयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा। तस्यैष आनन्दः श्रोत्रियेणाजि नेनाकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते । तस्मादेतानि त्रीणि साधनानी- त्यवगम्यते । तत्र श्रोत्रियत्वाजिनत्वे नियते अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनताऽवगम्यते । तस्याकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः । “एतस्यैवाऽऽनन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात् । स एष आनन्दो यस्य मात्रा समद्राम्भस इव विभूषः प्रविभक्ता यकतां गता स एष परमानन्दः स्वाभाविकोऽद्वैतत्वादानन्दानन्दिनाश्चाविभागोऽत्र । त्रयस्त्रिंशत्- अष्टौ सष एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रः प्रजापतिश्चेति । १ म. टिरू' । २. रूपसं ।
८८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-२ ब्राह्मवस्यध्याये- यदर्थं मीमांसाऽऽरब्धा तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्य दर्शयितुमाह- तस्याकामहतत्वेति । तस्य ब्रह्मणो हिरण्यगर्भस्याऽऽनन्दस्तदुपासकप्रत्यक्षो यस्य मात्रा स एष परमानन्दः स्वाभाविक इति संबन्धः । हिरण्यगर्मानन्दस्य मात्रात्वे श्रुत्यन्तरं प्रमा- णयति-एतस्यैवेति । न केवलं हिरण्यगर्मानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्व भौमाद्यानन्दः स एष यस्य मात्रा प्रविमक्ता नानात्वमापन्ना सती यत्र निरतिशयानन्देऽ. कामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकतां गतेति योजना । अकामहतप्रत्यक्षत्वाभिधानाद्भेद. प्राप्तिं निरस्यति-आनन्दानन्दिनोश्चेति । प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधाना- भावाभिप्रायं न तु विषयविषयिभावाभिप्रायम् । अदृश्येऽनात्म्य उदरमन्तरं कुरुत इत्यादिना निषेधादित्यर्थः । -- तदेतन्मीमांसाफलमुपसंह्रियते- स यश्चायं पुरुषे । यश्चा- सावादित्ये । स एकः । स यश्चायं पुरुष इति । यो गुहायां निहितः परमे व्योम्न्याकाशादिकार्य सृष्ट्वाऽन्नमयान्तं तदेवानुप्रविष्टः स य इति निर्दिश्यते । कोऽसावयं पुरुषे । यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टो यस्यैकदेशं ब्रह्मादीनि भूतानि मुखार्हाण्युपजीवन्ति स यश्वासावादित्य इति निर्दिश्यते । स एको भिन्न- प्रदेशस्थघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्यविशेषतोऽ. ध्यात्म न युक्तो निर्देशो यश्चायं दक्षिणेऽक्षन्निति तु युक्तः प्रसिद्धत्वात् । न पराधिकारात् । परो ह्यात्माऽत्राधिकृतोऽदृश्येऽनात्म्ये भीषास्माद्वातः पवते सैषाऽऽनन्दस्य मीमासेति । न ह्यकस्मादप्रकृतो युक्तो निर्देष्टुं परमात्माविज्ञानं च विवक्षितम् । तस्मात्पर एव निर्दिश्यते स एक इति । नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम्। अभिन्नः स्वाभाविक आनन्दः पर- मात्मैव न विषयविषायसंबन्धजनित इति । ननु तदनुरूप एवायं निर्देशः स यश्चायं पुरुष यश्वासावादित्ये स एक इति भिन्नाधिकरणस्थाविशेषोपमर्दैन । नन्वेवमप्यादित्याविशेषग्रहणमनर्थकम् । उत्कर्षापकर्षापोहार्थत्वात् । द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्षः सवित्रभ्यन्तर्गतः स चेत्पुरुषगतविशेषोपम- देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षों वा तां गतिं गत- स्येत्यभयं प्रतिष्ठां विदन्त इत्युपपत्रम् ।
अष्टमोऽनुवाकः M क:] तैत्तिरीयोपनिषत् । ८९ मीमांप्तया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधा- नादभेदसिद्धिः । न हि परानन्दः परस्य प्रत्यक्षो भवति । तस्मानिरतिशयानन्दब्रह्म कत्वं जीवस्य ब्रह्मविदाप्नोति परमित्युपक्रान्तं मीमांसया च सिद्धमुपसहियत इत्यर्थः । आदित्यग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितत्वं दर्शयितुं चोद्यमुद्भावयति- नन्विति । " य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः " इत्यादी श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्थेनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः । अध्यात्ममधिदैवतं च लिङ्गात्मोपासनविवक्षायां तथा स्यान्नेह तद्विवक्षितमित्याह-न परेति । य एंव चिद्धातुर्निरतिशयानन्द उत्कृष्टो. पाधौ प्रतिविम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिबिम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः । अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभयप्रतिष्ठाभय. दर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्य पाकृतोऽनुप्रश्न एकः, द्वाव- न्यावनुप्रश्नौ विद्वदविदुषोर्ब्रह्मप्राप्त्यमाप्तिविषयो तत्र विद्वान्समश्नुते न सम- झुत इत्यनुप्रश्नोऽन्त्यस्तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नोऽन्त्यापाकरणादे- वापाकृत इति तदपाकरणाय न यत्यते । वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति-अस्ति नास्तीति । संदिग्धं सप्रयोजनं च विचारमर्हति । स य एवं वित् । अस्माल्लोकात्मेत्य । एतम- नमयमात्मानमुपसंकामति । एतं प्राणमय- मात्मानमुपसंकामति । एतं मनोमयमात्मानमु- पसंकामति । एतं विज्ञानमयमात्मानमुपसंक्रा- मति । एतमानन्दमयमात्मानमुपसंकामति । स यः कश्चिदेवं यथोक्तं ब्रह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तम- स्मीत्येवं वेत्तीत्येवंवित् । एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम् , अस्माल्लोकात्मेत्य दृष्टादृष्टेष्टविषयसमुदायो ह्ययं लोकस्तस्मादस्माल्लोकात्मेत्य प्रत्यावृत्य निरपेक्षो भूत्वैतं यथाव्याख्यातमन्नमयमात्मानमुपसंक्रामति विषय- जातमन्नमयापिण्डात्मनो व्यतिरिक्तं न पश्यति सर्व स्थूलभूतमन्नमयमात्मानं १ ख. म. ठ, मास्मीति । २ म. 3. एवं विद्वान्निर । ३ ख, छ, अ, यहेतुद । १९ ९० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ब्रह्मवल्यध्याये- पश्यतीत्यर्थः । ततोऽभ्यन्तरमेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति । अथादृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठा विन्दते। तत्रैतञ्चिन्त्यम् । कोऽयमेवंवित्कथं वा संक्रामतीति । किं परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रविभक्त उत स एवेति । किं ततः, यद्यन्यः स्याच्मृतिविरोधः । “ तत्सृष्ट्या तदेवानुपाविशव "" अन्योऽसावन्योऽहमस्मीति । न स वेद " "एकमेवाद्वि. तीयम् " " तत्त्वमसि " इति । अथ स एवाऽऽनन्दमयमात्मानमुपसंक्राम- तीति, कर्मकर्तृत्वानुपपत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभ- यथा प्राप्तो दोषो न परिहर्तुं शक्यत इति व्यर्था चिन्ता । अथान्यतरस्मिन्पक्षे दोषाप्राप्तिस्तृतीये वा पक्षेऽदुष्टे स एव शास्त्रार्थ इति व्यथैव चिन्ता न तनि. र्धारणार्थत्वात्सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिंस्तृतीये वा पक्षेऽ- दुष्टेऽवधृते व्यर्था चिन्ता स्यान्न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्ये. वैषा चिन्ता । सत्यमर्थवती चिन्ता । शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि च त्वं न तु निर्गेष्यासि, किं न निर्णेतव्यमिति वेदवचनं, न, कथं तर्हि बहु- प्रतिपक्षत्वादेकत्ववादी त्वं, वेदार्थपरत्वाद्बहवो हि नानात्वबादिनो वेदवा- ह्यास्त्वत्प्रतिपक्षा अतो ममाऽऽशङ्कां न निर्णेयसीत्येतदेव मे स्वस्त्ययनं यन्मामेकयोगिनमनेकयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वानारभे च चिन्ताम् । अत्र च कस्मिन्पक्षे को दोषः को वा लाम इत्याह-किं तत इति । उमय- त्रानुपपत्ति संशयकारणमाह- यद्यन्यः स्यादिति । चोद्यमुखेन संशयव्यावृत्तिं प्रयो- जनमाह-यधुभययेत्यादिना । एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मामेकत्ववादिनं त्वमात्थ ब्रूषेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः संमतत्वादनेकवस्तुवादिनश्च बहवः प्रतिपक्षाः सन्ति ममेत्यर्थतोऽपि कल्याणमनेकत्वस्या- न्योन्याश्रयादिदोषदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्चेत्यर्थः । स एव तु स्यात्तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो छत्र विवक्षितो ब्रह्मविदामोति परमिति । न ह्यन्यस्यान्यभावापत्तिरुपपद्यते । ननु तस्यापि तद्भावापत्तिरनुपपन्नैव । न । अविद्याकृततादात्म्यापोहार्थत्वात् । याहि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते साऽविद्याकृतस्यानादिविशेषात्मन आत्म- त्वेनाध्यारोपितम्यानात्मनोऽपोहार्था । कथमेवमर्थताऽवगम्यते। विद्यामात्रोपदे- शाव । विद्यायाश्च दृष्टं कार्यमविद्यानिवृत्तिस्तच्चेह विद्यामात्रमात्ममानौ साधन- ८ अष्टमोऽनुवाकः ] तैत्तिरीयोपनिषत् । मुपदिश्यते । मार्गविज्ञानोपदेशवदिति चेत्तदात्मत्वे विद्यामात्रसाधनोपदेशोऽ- हेतुः । कस्मात् । देशान्तरमाप्ती मार्गविज्ञानोपदेशदर्शनात् । न हि ग्राम एव गन्तेति चेत् । न । वैधात् । तत्र हि ग्रामविषयं विज्ञानं नोपदिश्यते तत्मा- प्तिमार्गविषयमेवोपदिश्यते विज्ञानं न तथेह ब्रह्मविज्ञानव्यातिरेकेण साधना- न्तरविषयं विज्ञानमुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साध. नमुपदिश्यत इति चेत् । न । नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् । श्रुतिश्च तत्सृष्ट्वा तदेवानुप्राविशदिति कार्यस्थस्य तदात्मत्वं दर्शयति । अभयप्रतिष्ठोप- पत्तेश्च । यदि हि विद्यावान्स्वात्मनोऽन्यन पश्यति ततोऽभयं प्रतिष्ठां विन्दत इति स्याद्भयहेतोः परस्यान्यस्याभावात् । विचारारम्ममुपपाद्य सिद्धान्तमुपक्रमते-स एव तु स्यादिति । औपाधिकमेदभि- नोऽप्येवंवित्स्वतः पर एव स्यादित्यर्थः । अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्म' प्राप्तिर्विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह-कथ. मिति । परिहरति-विद्यामात्रेति । अन्यथाऽप्युपपत्ति शङ्कते-माति । गन्तुः स्वतो ग्रामत्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्थकस्तथा जीवस्य स्वतो ब्रह्मत्वामा- वेऽपि विद्योपदेशोऽभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं ग्रामोऽसीति न तत्रो- पदेशः । अत्राभेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान दृष्टान्तो युक्त इत्याह-न वैधादिति । अन्यस्य चाविद्याकृतत्वे विद्ययाऽवस्तुत्वदर्शनोपपत्तिस्तद्धि द्वितीयस्य चन्द्रस्य सत्त्वं यदतैमिरिकेण चक्षुष्मता न गृह्यते नैवं न गृह्यत इति चेन्न । सुप्तसमाहितयोरग्रहणात् । सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत् । न । सर्वाग्रह णात् । जाग्रत्स्वप्नयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत् । न । अविद्याकृतत्वा' ज्जाग्रत्स्वप्नयोर्यदन्यग्रहणं जाग्रत्स्वमयोस्तदविद्याकृतमविद्याभावेऽभावात् । यदि विदुषः सकाशादन्य ईश्वरो भयहेतुर्नास्ति का तर्हि गतिर्व्यतिरिक्तेश्वरदर्शनस्ये- त्याशङ्कयाऽऽह-अन्यस्य चेति । कल्पितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरो मम प्रशास्तेति मिथ्यैतद्यतस्तस्य मम चैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्यासत्त्वमित्यर्थः । दृष्टान्तेन वैषम्यं शङ्कते-नैवमिति । यथा चन्द्रकत्वदर्शनाद्वितीयश्चन्द्रो न गृह्यते नैवं ब्रह्म- विदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्य भोजनादिप्रवृत्त्यनुप- । १ क. अ. न्द्रस्यास । २ क. यदा त्वमिति तै । म. यदाऽतै । ३ ख. ग. इ. स. सुषुप्त । ४ स. . श. 'दर्शिना द्विती।
९.२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्लयध्याये- पत्त्या जीवन्मुक्तस्याप्यम्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराधीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरेकामासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हि मायावी स्ववि- रचितव्याघ्रामासाद्विभेति । अविदुषोऽपि व्यतिरेकदर्शनं न सदातनमित्याह-न सुप्तेति । सुषुप्से व्यतिरेकाग्रहणमसत्त्वसाधकं न भवतीत्याह- सुषुप्त इति । यथेषुकार इष्वा- सक्तमनम्तया तद्व्यतिरिक्त विद्यमानमपि न पश्यति तथा सुषुप्तेऽपि निरायाससुखास. ततया सदपि द्वितीयं न पश्यति न त्वभावादित्यर्थः । अन्यासक्तस्य तद्व्यतिरिक्ता- दर्शनेऽपि तदर्शनमेवास्ति सुषुप्ते तु न किंचिदज्ञासिषमिति प्रत्ययात्सुखस्याप्यात्मता. दात्म्यादज्ञानस्य च व्यतिरिक्तत्वानिर्वचनादतस्तात्त्विकद्वितीयाभावादेवाग्रहणमित्याह-न सर्वाग्रहणादिति । सुषुप्ठे चेदनुपलम्भादसत्त्वं तर्हि जाग्रत्स्वप्नयोरुपलम्माद्वैतस्य सत्त्वं -किं न स्यादित्याह-जाग्रादिति । अनात्मादावात्मत्वादिबुद्धिरविद्या तद्भाव एव द्वैतोपलम्भा. नोपलम्भमात्रं सत्त्वसाधकमन्यथा शुक्तिरूप्यादेरपि सत्त्वप्रसङ्गादित्याह-नाविद्यति । सुषुप्ते ग्रहणमप्यविद्याकृतमिति चेत् । न । स्वाभाविकत्वात् । द्रव्यस्य हि तत्त्वमविक्रिया परानपेक्षत्वात् । विक्रिया न तत्त्वम् । परापेक्षत्वात् । न हि कार- कापेक्षं वस्तुनस्तत्त्वं सतो विशेषः कारकापेक्षो विशेषश्च विक्रिया। जाग्रत्स्वाम- योश्च ग्रहणं विशेषः । यदि यस्य नान्यापेक्षं स्वरूपं तत्तस्य तत्त्वं यदन्यापेक्ष न तत्तत्त्वम् ।. अन्याभावेऽभावात् । तस्मात्स्वाभाविकत्वाज्जाग्रत्स्वमवन्न सुषुप्ते विशेषः । पूर्ववाद्याह-सुषुप्त इति । सुपुप्ते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु मदाभावनिवन्धनमतो दुक्तं सुषुप्ते सर्वात्मकब्रह्मभूतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदमदित्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । कि ग्रहणप्रागभावो जायत उताप्रकाशारोपः किंवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् । नाऽऽद्यः । प्रागभावम्यानादित्वाभ्युपगमात् । न द्वितीयः । परैर्द्वितीयस्यास्वप्रकाशता- स्वाभाव्याभ्युपगमेनाप्रकाशारोपानभ्युपगमादप्रकाशारोपे च सर्वस्य स्वप्रकाशब्रह्मात्म- ताया अभ्यपगन्तव्यत्वेनास्मन्समीहितसिद्धिप्रसङ्गात् । न तृतीय इत्याह-न स्वाभा- विकत्वादिति । अविकृतस्वरूपावस्थानं नाविद्याकार्यमनागन्तुकत्वादित्यर्थः । एतत्स्फुट- यति-द्रव्यस्य हीत्यादिना । सन्मात्रं द्रव्यमुच्यते स्वातन्त्र्यसिद्धयभिप्रायेण नवैशे- विकाभिप्रायेण क्रियावद्गुणवत्समवायिकारणं द्रव्यं मानाभावादिति द्रष्टव्यम् । अविक्रि- येति । विक्रियाभावोपलक्ष्य स्वरूपमनपेक्ष्य सिद्धत्वादित्यर्थः । ग्रहणादिविक्रिया न १ क. घ. छ, न. ट. रणापे। .
र अष्टमोऽनुवाकः] तैत्तिरीयोपानषत् । ९३ स्वाभाविकी परापेक्षत्वात्स्फटिकलौहित्यवदित्यर्थः । यदुक्तमनपेक्ष्य सिद्धत्वादविक्रिय- त्वमिति तत्स्फुटयति- यद्धीति । येषां पुनरीश्वरोऽन्य आत्मनः कार्य चान्यसेषां भयानिवृत्तिर्भयस्यान्यनि- मित्तत्वात्सतश्चान्यस्याऽऽत्महानानुपपत्तिः । न चासत आत्मलाभः । सापेक्ष- स्यान्यस्य भयहेतुत्वमिति चेन्न । तस्यापि तुल्यत्वात् । यदधर्माद्यनुसहायीभूत नित्यमनित्यं वा निमित्तमपेक्ष्यान्यद्भयकारणं स्यात्त( त् , न, त )स्यापि तथाभूतस्याऽऽत्महानाभावाद्भयानिवृत्तिरीत्महाने वा सदसतोरितरेतरापचौ सर्वत्रानाश्वास एव । एवं स्वमते चित्सत्ताव्यतिरिक्तेश्वरस्य भयहेतोरभावादमयं विदुषः संभवंतीत्युपपाद्य द्वैतीयकपक्षे तदसंमवमाह-येषामिति । सतोऽन्यस्य स्वरूपे स्थिते नष्टे वा मा भूद्- ध्वंसी व्याघातादनवस्थानाच्च । तसित एव (१) मयस्योत्पादेऽभयप्राप्तिर्मविष्यतीत्याश. याऽऽह-न चासत इति । व्यतिरिक्तेश्वरस्य सत्तामात्रेण न भयहेतुत्वं किंतु प्राणिकृत- धर्माधर्माद्यपेक्षस्य मुक्तस्य तु तदमावादमयं भविष्यतीत्याशङ्कय नैतत्सांख्येन वाच्यम् । अधर्मादेरपि सतस्तेनात्यन्तासत्त्वानङ्गीकारान्नैयायिकादिमतेऽपि सति हेतौ कार्यात्यन्तामा- वस्यदुरवधारणत्वात्तेनापि न वाच्यमित्याह-न तस्यापीति । किंच सच्चेदसत्त्वमापद्यतेऽ. धर्मादिकं तात्मन्यपि कः प्रश्वासस्तस्मात्स्वभाववैपरीत्यं सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह-सदसतोरिति । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्याविद्याकल्पितत्वाददोषः । तैमिरि- कदृष्टस्य हि द्वितीय चन्द्रस्य नाऽऽत्मलाभो माशो वाऽस्ति । विद्याविद्ययोस्तद्धर्म- त्वमिति चेन्न । प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत्प्रत्यक्षावुपलभ्येते अन्त:- करणस्थौ । न हि रूपस्य प्रत्यक्षस्य सतो द्रष्टधर्मत्वम् । अविद्या च स्वानुभ- बेन रूप्यते मूढोऽहमविविक्तं मम विज्ञानमिति । तथा विद्याविवेकोऽनुभूयते । उपदिशन्ति चान्येभ्य आत्मनो विद्या बुंधाः । तथा चान्येऽवधारयन्ति । तस्मान्नामरूपपक्षस्यैव विद्याविद्ये नामरूपे च नाऽऽत्मधमौं । "नामरूपयोनिर्व- हिता ते यदन्तरा तद्ब्रह्म" इति श्रुत्यन्तरात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते न परमार्थतो विद्यमाने । अभेदे "एतमानन्दमयमात्मानमुप- संक्रामति" इति कर्मकर्तृत्वानुपपत्तिरिति चेन्न । विज्ञानमात्रत्वात्संक्रमणस्यः । न जलूकादिवत्संक्रमणमिहोपदिश्यते किं तर्हि विज्ञानमात्रं संक्रमणश्रुतेरर्थः । १ ख. ग. 'रात्मानात्मनोः स । २ क. ख. एवाम । ३ क. अ. अ. 'न निरू । ४ घ. क. छ. बुद्धाः। ५ घ. 'मौं । आकाशो ह वै नाम ना।
९४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्यध्याये, स्वमतं निगमयति- एकत्वपक्ष इति । अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्वमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमनित्यत्वं च प्रस. ज्यतेति शङ्कते-विद्याविद्ययोरिति । कल्पितयोविद्याविद्ययोरात्मनि भयाभयहेतुत्व- संभवान्नाऽऽत्मधर्मत्वे प्रमाणमस्ति प्रत्युत वेदत्वाद्रूपादिवदात्मधर्मत्वं नास्तत्यिनुमातुं श- क्यत इत्याह-न प्रत्यक्षत्वादिति । चिन्मात्रतन्त्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरण- रूपेण परिणमते तच्चान्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परि- णमते तस्मिन्प्रतिबिम्बितश्चिद्धातुः स्वोपाधिधर्मेणैव भ्रान्तः सम्यग्दर्शीति च व्यवहियते न तत्त्वतो विद्याविद्यावत्त्वमित्याह-ते च पुनरिति । उक्तन्यायेन ब्रह्मवित्तत्त्वतो ब्रह्ममिन्न इत्युक्तम् । तत्र परोक्तमुद्भाव्य निरस्यति- अभेदे, एतमित्यादिना । नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेशः संक्रमणं किंत्वविषयब्रह्मात्मताज्ञाने. नाऽऽनन्दमयस्याऽऽत्मतया भ्रान्तिगृहीतस्यातिक्रमणं बाधोऽत्र विवक्षित इत्यर्थः । ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामती[ ती]ति चेत् । न । अन्नम- येऽदर्शनात् । न ह्यन्नमयमुपसंक्रामतो बाह्यादस्माल्लोकाजलूकावत्संक्रमणं दृश्य- तेऽन्यथा वा । मनोमयस्य बहिनिर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्याऽऽ- स्मसंक्रमणमिति चेत् । न । स्वात्मनि क्रियाविरोधादन्योऽन्नमयमन्यमुपसंक्रा- मतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसंक्रामतीति विरोधः स्यात् । तथा नाऽऽनन्दमयस्याऽऽत्मसंक्रमणमुपपद्यते । तस्मान प्राप्तिः संक्र- मणं नाप्यन्नमयादीनामन्यतमकर्तृकं पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्य- तिरिक्तकर्तृकं ज्ञानमात्रं च संक्रमणमुपपद्यते। ज्ञानमात्रत्वे चाऽऽनन्दमयान्तः- स्थस्यैव सर्वान्तरस्याऽऽकाशाद्यन्नमयान्तं कार्य सृष्ट्वाऽनुप्रविष्टस्य हृदयगुहाभि- संबन्धादन्नमयादिष्वनात्मस्वात्मविभ्रमः संक्रमणेनाऽऽत्मविवेकविज्ञानोत्पत्त्या विनश्यति । तदेतस्मिन्न विद्याविभ्रमनाशे संक्रमणशब्द उपचर्यते न ह्यन्यथा सर्वगतस्याऽऽत्मनः संक्रमणमुपपद्यते । वस्त्वन्तराभावाच्च । न च स्वात्मन एव संक्रमणम् । न हि जलूकाऽऽत्मानमेव संक्रामति । तस्मात्सत्यं ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरैसलाभाभयसंक्रम- णादि परिकल्प्यते ब्रह्मणि सर्वव्यवहारविषये न तु परमार्थतो निर्विकल्पे ब्रह्मणि कश्चिदपि विकल्प उपपद्यते । १ क. रसाम । ट. "रसभयाभ।
तैत्तिरीयोपनिषत् । - ९ नवमोऽनुवाकः] ९५ अन्यथा वेति । नीडे पक्षिप्रवेशवद्वेत्यर्थः । यद्यप्यन्नमये मुख्यं संक्रमणं न संभ- वति तथाऽपि मनोबुद्धयोर्बहिर्विषये प्रवृत्तयोस्ततो व्यावृत्य स्वरूपेऽवस्थानं संक्रमणं दृष्टं तथा दुःखित आनन्दमयस्य स्वरूपेऽवस्थानं संक्रमणं भविष्यतीत्याह-मनोमय- स्थति । स्वरूपावस्थानस्यानागन्तुकत्वात्प्रक्रमविरोधाच न तन्मुख्यं संक्रमणमित्याह- नेति। ज्ञानमात्रत्वे वा संक्रमणस्य किं फलतीत्यत आह-ज्ञानमात्रत्वे चेति । मुख्यासं- भवे गौणार्थग्रहणं न्याय्यमेवातोऽधिष्ठानयाथात्म्यप्रतिपत्त्या विशिष्टस्वाध्यस्तस्य बाधनमेव संक्रमणं फलतीति भावः । इतश्च न मुख्यं संक्रमणमन्वेषणीयमित्याह-वस्त्वन्त. राभावाच्चेति । संक्रमणस्यौपचारिकत्वं व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसंहारच्छ- लेनाऽऽह-तस्मादिति । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्यायेऽ- टमोऽनुवाकः ॥ ८॥ तमेतं निर्विकल्पमात्मानमेवं क्रमेणोपसंक्रम्य विदित्वा न बिभेति कुतश्च- नाभयं प्रतिष्ठां विदन्त इत्येतस्मिन्नर्थेऽप्येष श्लोको भवति। सर्वस्यैवास्य प्रकरणस्याऽऽनन्दवल्ल्यर्थस्य संक्षेपतः प्रकाशनायैष मन्त्रो भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं. करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्यायेs- ष्टमोऽनुवाकः ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्लयध्यायेऽष्टमोऽनुवाकः ॥८॥ अथ ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः। यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुर्तश्चनेति । - १ ज. वृत्तस्व । २ क. झ. 'यस्व ।
९६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्यध्याये- यतो यस्मानिर्विकल्पाद्यथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यानिर्विकल्पेऽद्वयेऽपि ब्रह्मणि प्रयो. क्तृभिः प्रकाशनाय प्रयुज्यमानान्यप्राप्यापकाश्चैव निवर्तन्ते स्वसामर्थ्याद्धी- यन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः । तस्मात्स. हैव वाङ्मनसयोरभिधानप्रत्यययोः प्रवृत्तिः सर्वत्र । तस्माद्ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मादप्रत्ययावषयादनभिधे. याददृश्यादिविशेषणात्सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते तं ब्रह्मण आनन्दं श्रोत्रियस्याजिनस्याकामहतस्य सर्वेषणाविनिर्मुक्तस्याऽऽत्मभूतं विषयविषयिसंबन्धविनिर्मुक्तं स्वाभाविकं नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वान्यथोक्तेन विधिना न बिभेति कुतश्चन । निमित्ताभावात् । न हि तस्मा- द्विदुषोऽन्यद्वस्त्वन्तरमस्ति भिन्नं यतो बिभेति । अविद्यया यदोदरमन्तरं कुरुते। अथ तस्य भयं भवतीति युक्तम् । विदुषश्चाविद्याकार्यस्य तैमिरिकह द्वितीयचन्द्रवन्नाशाद्भयनिमित्तस्य न बिभेति कुतश्चनेति युज्यते । मनोमये चोदाहतो मन्त्री मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तु- त्यर्थं न बिभेति कदाचनेति भयमात्र प्रतिषिद्धमिहाद्वैतविषये न बिभेति कुतश्चन नति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमित्युच्यते- एत५ ह वा न तपति । किमह साधु नाकरवम् । किमहं पापमकरवमिति । . एतं यथोक्तमेवंविदम् । ह बाधेत्यवधारणायौँ । न तपति । नोवेजयति न संतापयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीत्युच्यते । किं कस्मा- साधु शोभनं कर्म नाकरवं न कृतवानस्मीति पश्चात्संतापो भवत्यासन्ने मरण- काले । तथा कि कस्मात्पापं प्रतिषिद्धं कर्माकरवं कृतवानस्मीति च नरकपतना- १क.ब. द. ति यस्सारत तैत्तिरीयोपनिषत् । " ९ नवमोऽनुवाकः] ९७ तापो भवति । ते एते साध्वकरणपापक्रिये एवमेनं न तपतो यथाऽवि. द्वांसं तपतः। कस्मात्पुनर्विद्वांसं न तपत इत्युच्यते- स य एवं विद्वानेते आत्मानः स्पृणुते । उझे वैष एते आत्मान५ स्पृणुते । य एवं वेद । इत्युपनिषत् ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः ॥ ९॥ स य एवं विद्वानेते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुते भीणयति बलयति वा । परमात्मभावेनोभे पश्यतीत्यर्थः । उभे पुण्यपापे हि यस्मादेवमेष विद्वानेते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वाऽs- त्मानं स्पृणुत एव । को य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद तस्याऽऽ. त्मभावेन दृष्टे पुण्यपापे निवार्थ अतापके जन्मान्तरारम्भके न भवत इतीयमेवं यथोक्ताऽस्यां वल्ल्यां ब्रह्मविद्योपनिषत्सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शि- तमित्पर्थः। परं श्रेयोऽत्यां निषण्णमिति ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छं- करभगवतः कृतो तत्तिरीयोपनिषद्भाव्ये द्वितीये ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ -- साध्वसाधुनी स्तः प्रकाशेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोऽ. तिरिक्तं यदानहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्वादप्रकाशमा- नत्वाचेत्यभिप्रेत्याऽऽह-स्वेन विशेषरूपेणेति । आत्मैवाविद्यया साध्वसाधुरूपेण प्रतिपन्न आसीत् । इदानीं ये साध्वसाधुनी ममार्थानर्थहेतू बभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्टया निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यते (ति) च विद्वान्न विभेतीत्याह-स्पृणुत एवेति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां द्वितीये ब्रह्मवल्यध्याये नवमोऽनुवाकः ॥ ९॥ १ ज. झ. अ. ठ. दृश्यते।
९८ आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता- [ २ ब्रह्म०९ अनुः]
ब्रह्मविदिदमेक विशतिरन्नादन्नरसमयात्प्राणो व्यानोऽपान आकांश:
पृथिवी पुच्छर षड्विशतिः पाणं यजुर्ऋक्सामादेशोऽथर्षाङ्गिरसः
पुच्छं दाविशतिर्यतः श्रद्धर्त५ सत्यं योगो महोऽष्टादश विज्ञानं मियं
मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वाविंशतिरसन्नेवाष्टाविर शतिरस.
स्पोरश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश ।।
सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवा-
वहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ।
-
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीयो ब्रह्मव.
ल्ल्यध्यायः समाप्तः ॥ २ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य
शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये द्वितीयो
ब्रह्मवल्ल्यध्यायः समाप्तः ॥ २ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्भगवदा-
नन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छांकरभाष्यटीकायां द्वितीयो
ब्रह्मवल्ल्यध्यायः समाप्तः ॥ २ ॥
अथ तैत्तिरीयोपनिषदि तृतीयो अगुवल्ल्यध्यायः । तत्र प्रथमोऽनुवाकः। हरिः ॐ। .. सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावैह । ॐ शान्तिः शान्तिः शान्तिः । इति शान्तिः । - सत्यं ज्ञानमनन्तं ब्रह्माऽऽकाशादिकार्यमन्नमयान्तं सृष्ट्वा तदेवानुपविष्टं विशे- पवदिवोपलभ्यमानं यस्मात्तरमात्सर्वकार्यविलक्षणमदृश्यादिधर्मकमेवाऽऽनन्दं तदेवाहमिति विजानीयादनुप्रवेशस्य तदर्थत्वात्तस्यैवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवत इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः । परिस. माता च ब्रह्मविद्या । अतः परं ब्रह्मविद्यासाधनं तपो वक्तव्यममादिविष. याणि चोपासनान्यनुक्तानीत्यत इदमारभ्यते- गुई वारुणिः । वरुणं पितरमुप॑ससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्पो- वाच। अन्नं पाणं चक्षुः श्रोत्रं मनो वाच- मिति । त होवाच। यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्तिा यत्प्रयन्त्य- भिसंविशन्ति। तद्विजिज्ञासस्व । तद्ब्रह्मेति । - १म, 'मन्नमयान्ना।
१०० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३ भृगुवल्ल्यध्याये- आख्यायिका विद्यास्तुतये, मियाय पुत्राय पित्रोक्तेति-भृगुईं वारुणिः । वैशब्दः प्रसिद्धानुस्मारको भृगुरित्येवंनामा प्रसिद्धोऽनुस्मयते । वारुणिवरुण- स्यापत्यं वारुणिवरुणं पितरं ब्रह्म विजिज्ञासुरुपससारोपगतवान् । अधीहि भगवो ब्रह्मेत्यनेन मन्त्रेणं । स च पिता विधिवदुपसन्नाय तस्मै पुत्रायैतद्वचनं प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । अन्नं शरीरं तदभ्यन्तरं च प्राणमत्तारमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचमित्येतानि ब्रह्मोपलब्धौ द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्यन्नादीनि तं भृगु होवाच ब्रह्मणो लक्षणम् । किं तत् । यतो यस्माद्वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते । येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते । विनाशकाले च यत्प्रयन्ति यद्ब्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते । उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूतानि तदेतद्ब्रह्मणो लक्षणम् । १ तद्ब्रह्म विजिज्ञासस्व विशेषेण ज्ञातुमिच्छस्व । यदेवलक्षणं ब्रह्म तदन्नादिद्वा- रेण प्रतिपद्यस्वेत्यर्थः । श्रुत्यन्तरं च-" प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमव्ययम्"। इति ब्रह्मोपलब्धौ द्वाराण्येतानीति दर्शयति । .. वृत्तानुवादपूर्वकमुत्तरवल्लीसंबन्धमाह--सत्यं ज्ञानमित्यादिना । तप इति । पदार्थविवरणं वाक्यार्थज्ञानसाधनमित्यर्थः । अधीहीति । अध्यापय स्मारय । ' इक् स्म- रणे.' इति धातुपाठादित्यर्थः । ब्रह्मोपलब्धाविति । लक्ष्यत्वमर्थविवेकाय द्वाराणि शरीरादिचेष्टान्यथानुपपत्त्या हि. साक्षिभूतश्चिद्धातुर्विविच्यत इति भावः । स तपोऽतप्यत । स तपस्तप्त्वा ॥ . इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ स भृगुब्रह्मोपलब्धिद्वाराणि ब्रह्मलक्षणं च श्रुत्वा पितुस्तपो ब्रह्मोपलब्धि साधनत्वेनातप्यत तप्तवान् । कुतः पुनरनुपदिष्टस्यैव तपसः साधनत्वप्रतिपत्ति- भृगोः । सावशेषोक्तेरन्नादिब्रह्मणः प्रतिपत्तौ द्वारं लक्षणं च यतो वा इमानी- त्यायुक्तवान् । सावशेष हि तत्साक्षाह्मणोऽनिर्देशात् । अन्यथा हि स्वरूप- णव ब्रह्म निर्देष्टव्यं जिज्ञासवे पुत्रायेदमित्यरूपं ब्रह्मति । न चैवं निरदिशकि १ क. ख. ठ. नुस्मार्य । २ क. ख. 'ण | अधीह्यध्यापय कथयेत्यर्थः । स । 3. 'ण। अधीझध्यापय कथय । स ।
-- --- द्वितीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । तहि सावशेषमेवोक्तवान् । अतोऽवगम्यते नूनं साधनान्तरमम्यपेक्षते पिता ब्रह्मविज्ञानं प्रतीति । तपोविशेषप्रतिपत्तिस्तु सर्वसाधकतमत्वात्। सर्वेषां हि नियतसाध्यविषयाणां साधनानां तप एव साधकतम साधनमिति हि प्रसिदं लोके । तस्मात्पित्राऽनुपदिष्टमापि ब्रह्मविज्ञानसाधनत्वेन तपः प्रतिपेदे भृगुः । तच्च तपो बाह्यान्तःकरणसमाधानम् । तद्द्वारकत्वाद्ब्रह्मपतिपत्तेः । मनसश्चेन्द्रियाणां च बकायं परमं तपः । तज्ज्यायः सर्वधर्भेभ्यः स धर्मः पर उच्यते' ॥ इति स्मृते । सच तपस्तप्त्वा । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः: कृतौ तैत्तिरीयोपनिषदि तृतीयभृगुवल्ल्यध्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ न केवलं त्वमर्थज्ञानं वाक्यार्थज्ञानसाधनं किंतु तत्पदार्थज्ञानमपीत्यभिप्रेत्यः तदर्थस्थ ब्रह्मणो लक्षणमुक्तवानित्यर्थः । सावशेषोक्तेरिति । पदार्थोपलक्षणस्यैवाभिधानादख- ण्डवाक्यार्थस्याप्रतिपादनात्पदार्थभेदज्ञानाच पुरुषार्थासंभवादुदरमन्तरं कुरुत इति निन्दि. तत्वादतो वाक्यार्थावगतिपर्यन्तं तात्पर्येण लक्ष्यपदार्थविचारणमावृत्त्याऽनुष्ठितवानित्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छांकरभाष्यटीकायां भृगुवल्ल्यध्याये प्रथमोऽनुवाकः ॥१॥ अथ भृगुवल्ल्यण्याये द्वितीयोऽनुवाकः । अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्वि- मानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्वि- ज्ञाय । पुनरेव वरुणं पितरमुप॑ससारः । अधीहि भगवो ब्रह्मेति । त५ होवाचः । १ क.ग. घ. च. ल लक्ष्यत्व ।
: - १०२ आनन्दगिरिकृतटीकासंघलि तशांकरभाष्यसमेता-[५ भृगुगल्यध्याये- तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । तपोऽतप्पत । स तपस्तप्त्वा ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये अगुवल्ल्यध्याये द्वितीयोऽनुवाकः ॥ २॥ अ ब्रह्मेति व्यजानाद्विज्ञातवान । तद्धि यथोक्तलक्षणोपेतम् । कथम् । अन्नादयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तस्माद्युक्तमन्नस्य ब्रह्मत्वमित्यभिप्रायः। स एवं तपस्तप्त्वाऽन्न ब्रह्मेति विज्ञाय लक्षणनोपपत्त्या च पुनरेव संशयमापन्नो वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । कः पुनः संशयहेतुरस्येत्युच्यते । अन्नस्योत्पत्तिदर्शनात् । तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः । यावहह्मणो लक्षणं निगतिशयं न भवति यावच्च जिज्ञासा न निवर्तते तावत्तप एव ते साधनम् । तपसैव ब्रह्म दिजिज्ञासस्वेत्यः । ऋज्वन्यत् । इति श्रीमत्परमहंसपरिव्राजकाचा वाजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतो तीियोपनिषदि तृतीयभृगुवल्लपध्यायभाष्ये द्वितीयोऽनुवाकः ।। २ ॥ स च तपस्तप्त्येति । कुत्रेदं पित्रोक्तं लक्षणं के लक्षणं वर्तते परिपूर्ण भवतीत्ये. काग्रेण चेतसा पर्मालोच्यान्नं ब्रह्मति व्यजनात् । अद्यते भुज्यत उपलभ्यते सर्वैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेह कारणं भूतपञ्चकं विराटद्मज्ञकमन्नशब्देनोच्यते । तस्य स्थूलभौतिककारणत्वात् । यतो वा इमानि भूतानीति लक्षणस्य तत्र योजयितुं शक्यत्वात्त- ब्रह्मेति प्रतिपन्नवानित्यर्थः । इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्ति- रायोपनिषच्छांकरभाष्यटीकायां तृतीये भृगुवल्ल्यध्याये द्वितीयोऽनुवाकः ॥ २ ॥ । अथ भृगुवल्ल्यध्याये तृतीयोऽनुवाकः । प्राणो ब्रह्मेति धजानात् । प्राणायव खल्वि- मानि भूतानि जायन्ते । प्राणेन जातानि १ घ. उ. च. वत्विले चतुर्थोऽनुवाकः ] तैचिरीयोपनिषत् । जीवन्ति । प्राणं प्रयन्त्यभिसंबिशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अघीहि भगवो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तस्तप्त्वा ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिप्यश्रीमच्छ. करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये तृतीयभृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३॥ विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिषु लक्षणं तत्र संपूर्ण न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणशेव्दलक्ष्यं हिरण्यगर्भ संकल्पाध्ववसाय- शक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्यं ब्रह्मेति व्यजानात् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्ति- रायोपनिपच्छांकरभाष्यटीकायां द्वितीये भृगुवल्यध्याये तृतीयोऽनुवाकः ॥३॥ अथ भृगुवल्ल्यध्याये चतुर्थोऽनुवाकः । मनो ब्रह्मेति जानात् । मनसो ह्येव खल्वि- मानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपंससार । अधीहि भगवो ब्रह्मति । त५ होवाच । १ झ... विषयत १, २ ख. ग. ब. फिल ।'
* मानन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३ भृगुवल्यध्याये- - तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपाऽतप्यत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगु- वल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसं- विशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपंससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपाऽतप्ययत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दमगवत्पूज्यपादशिष्यश्रीमच्छंकर. भगवतः कृतौ तैत्तिरीयोपनिषद्भाप्येतृतीये मृगुवल्ल्यध्याये चतुर्थपञ्चमावनुवाको समाप्तौ ॥ ४ ॥ ५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयो. पनिषशांकरभाष्यटीकायां तृतीये भृगुवल्ल्यध्याये चतुर्थपञ्चमावनुवाको ॥ ४ ॥ ५ ॥ आनन्दो ब्रह्मेति व्यजानात् । आन- न्दाद्ध्यैव खल्विमानि भूतानि जाय- -६ षष्ठोऽनुवाकः ] तैत्तिरीयोपनिषत् । १०५ म न्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । एवं तपसा विशुद्धात्मा प्राणादिषु साकल्येन ब्रह्मलक्षणमपश्यञ्शनैः नशै- रन्तरनुपविश्यान्तरतममानन्दं ब्रह्म विज्ञातवांस्तपसैव साधनेन भृगुस्तस्माद्ब्रह्म विजिज्ञासुना बाह्यान्तःकरणसमाधानलक्षणं परमं तपःसाधनमनुष्ठेयमिति प्रक- रणार्थः । तस्यापि कार्यत्वाल्लक्षणं परिपूर्ण न भवतीति विचार्य तत्कारणं स्वातन्त्र्येण निश्चि- त्य सर्वैः प्रार्थ्यमानतयाऽऽनन्दशब्दवाच्यं मायाविशिष्टं ब्रह्मेति विज्ञाय विशिष्टस्य विशिष्टान्तरात्मत्वानुपपत्तेः कारणत्वोपलक्षितं विशुद्धानन्दं ब्रह्मेति विज्ञातवानित्यर्थः । अधुनाऽऽख्यायिकातोऽपसृत्य श्रुतिः स्वेन वचनेनाऽऽख्यायिकानिवृत्तम थैमाचष्टे- सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । सैषा भार्गवी भृगुणा विदिता वरुणेन प्रोक्ता वारुणी विद्या परमे व्योम- न्हृदयाकाशगुहायां परम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्ताऽनमयादात्मनोऽ- धिप्रवृत्ता । य एवमन्योऽपि तपसैव साधनेनानेनैव क्रमणानुप्रविश्याऽऽनन्दं ब्रह्म वेद स एवं विद्याप्रतिष्ठानात्मतितिष्ठत्यानन्दे परमे ब्रह्मणि। ब्रह्मैव भव- तीत्यर्थः। दृष्टं च फलं तस्योच्यते-- अन्नवानन्नादो भवति । महान्भवति प्रज- यो पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगु- वल्ल्यध्याये षष्ठोऽनुवाकः ॥ ६ ॥ - --- १ख. ग. च. 'तन्त्र्ये सति स । २ ख. ग. च. झ. ट. 'ष्टस्यावि । ३ ख. ग. च. 'यिका चोपसंहृत्य । १४ १०६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३भृगुवल्ल्यध्याये- अन्नवान्प्रभूतमन्नमस्य विद्यत इत्यन्नवान् । सत्तामात्रेण तु सर्वो ह्यन्नवा- निति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यन्नादो दीप्ताग्निर्भवतीत्यर्थः महान्भवति । केन महत्त्वमित्यत आह-प्रजया पुत्रादिना पशुभिर्गवाश्चादि- भिब्रह्मवर्चसेन शमदमज्ञानादिनिमित्तेन तेजसा । महान्भवति कीा ख्यात्या शुभप्रचारनिमित्तया ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायमाष्ये षष्ठोऽनुवाकः ॥ ६ ॥ प्रभूतत्वविशेषणमश्रुतं कथं निक्षिप्यत इत्या शङ्कयाऽऽह–सत्तामात्रेणेति । अत्र सप्तामात्रे विवक्षिते श्वसूकरादिरपि शरीरस्थित्याक्षिप्तान्नेनान्नवानिति विद्यायाः फलवि. शेषो नोक्तः स्यादतस्तबलात्प्रभूतत्वविशेषणं निक्षिप्तमित्यर्थः । एतच्च दृष्टफलं ब्रह्म विदो जीवन्मुक्तस्याप्यविद्यालेशवशाद्वैतामासं पश्यतो नानुपपन्नम् । यस्येश्वरस्यानुग्रहाद- विदुषामप्यन्नादिसमृद्धिदृश्यते किमुत तदात्मतत्त्वं साक्षादनुभवतामिति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिध्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां तृतीये भृगुवल्लयध्याये षष्ठोऽनुवाकः ॥६॥ अथ भृगुवल्ल्यध्याये सप्तमोऽनुवाकः । अन्नं न निन्द्यात् । तद्वतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः पति- ष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । किंचानेन द्वारभूतेन ब्रह्म विज्ञातं यस्मात्तस्माद्गुरुमिवान्नं न निन्धा- सदस्यैवं ब्रह्मविदो व्रतमुपदिश्यते । व्रतोपदेशोऽन्नस्तुतये, स्तुतिभाक्त्वं चानस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम् । शरीरान्तर्भावा- माणस्य । यद्यस्यान्तः प्रतिष्ठितं भवति तत्तस्यान्नं भवतीति । शरीरे च प्राणः प्रतिष्ठितस्तस्मात्प्राणोऽन्नं: शरीरमन्नादम् । तथा शरीरमप्यन्नं प्राणोऽन्नादः । कस्मात्माणे शरीरं प्रतिष्ठितम् । तन्निमित्तत्वाच्छरीरस्थितेः । - १ख. ग, च, अन्नस । .
८ अष्टमोऽनुवाकः] तैत्तिरीयोपनिषत् । १०७ तस्मात्तदेतदुभयं शरीरं प्राणश्वानमन्नादश्च। येनान्योन्यस्मिन्प्रतिष्ठितं तेनानम् । येनान्योन्यस्य प्रतिष्ठा तेनान्नादः । तस्मात्प्राणः शरीरं चोभयमन्त्रमन्नादं च । अन्नमपकृष्ट प्राप्तं न निन्द्यात् । “यदृच्छया चोपपन्नमद्याच्छेष्ठमुतावरम् " इत्युक्त- त्वात् । ब्रह्मविदो नियमाभिधानं साधकस्यानुष्ठानार्थम् । एवं वाक्यार्थज्ञाने लक्ष्यपदा. नुसंधानं मुख्य साधनं तत्फलं चोपसंहृत्याधुना विचारासमर्थस्य मन्दाधिकारिणोऽन्ना- दरूपेण प्राणाद्युपासनं गौणं साधनं विधत्ते-प्राणो वा अनमित्यादिना । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतिति- ष्ठति । अन्नवानन्नादो भवति। महान्भवति प्रजयां पशुभिब्रह्मवर्च सेन । महान्कीर्त्या॥ इति कृष्णयज॑र्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये सप्तमोऽनुवाक कः ॥ ७ ॥ स य एवमेतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठत्यन्नान्नादात्मनैव । किंचान- वाननादो भवतीत्यादि पूर्ववत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायमाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयो- पनिषच्छांकरभाष्यटीकायां तृतीये भृगुवल्स्यध्याये सप्तमोऽनुवाकः॥७॥ अथ भृगुवल्ल्यध्यायेऽष्टमोऽनुवाकः। अन्नं न परिचक्षीत । तद्व्तम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्न- १०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [भृगुवल्यध्याये- मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्न- वानन्नादो भवति । महान्भवति प्रजयां पशुभिर्बह्मवर्चसेनं । महान्कीर्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्य- ध्यायेऽष्टमोऽनुवाकः ॥८॥ अन्नं न परिचक्षीत न च परिहरेत् । तद्वतं पूर्ववत्स्तुत्यर्थम् । तदेवं शुभा- शुभकल्पनयाऽपरिगृह्यमाणं स्तुतं महीकृतमन्नं स्यादेवं यथोक्तमुत्तरेष्वप्यापो वा अन्नमित्यादिपु योजयेत् । अप्सु ज्योरिरित्यज्योतिषोरन्नान्नादगुणत्वेनो- पासकस्यान्नस्य बहुकरणं व्रतम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दमग हमगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये तृतीये भृगुवल्ल्यध्याय- माप्येऽष्टमोऽनुवाकः ॥ ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छांकरभाष्यटीकायां तृतीये भृनुवल्यध्यायेऽष्टमोऽनुवाकः ॥ ८॥ - अथ भृगुवल्ल्यध्याये नवमोऽनुवाकः । अन्नै बहु कुर्वीत । तद्वतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः। पृथि. व्यामांकाशः प्रतिष्ठितः : । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रति- ष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजयां पशु- - १० दशमोऽनुवाकः ] वैत्तिरीयोपनिषत् । १०९ भिब्रह्मवर्चसेन । महान्का ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायभाष्ये नवमोऽनुवाकः ॥९॥ . : इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- यिोपनिषच्छांकरभाष्यटीकायां तृतीये मृगुवल्लयभ्याये नवमोऽनुवाकः ॥ ९॥ अथ भृगुवल्ल्यध्याये दशमोऽनुवाकः । न कंचन वसतो प्रत्याचक्षीत । तव- तम् । तस्माद्यया कया च विधया बहन्नं प्रामुयात् । अराध्यस्मा अन्नमित्याचक्षते । तथा पृथिव्याकाशोपासकस्य वसतौ वसतिनिमित्तं कंचन कंचिदपि न, प्रत्याचक्षीत वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्तेऽवश्यं यशनं दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बहनं प्राप्नुया. द्वनसंग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसोऽभ्यागतायानार्थिनेऽराधि संसिद्धमस्मा अन्नमित्याचक्षते न नास्तीति प्रत्याख्यानं कुर्वन्ति तस्माच्च हेतोर्बह्वनं प्राप्नुयादिति पूर्वेण संबन्धः । अपि चान्नदानस्य माहात्म्यमुच्यते। यथा यत्कालं प्रयच्छत्यन्नं तथा तत्कालमेव प्रत्युपनमते । कथामिति तदेतदाह- एतद्वै मुखतोऽन्न राद्धम् । मुखतोऽस्मा अन्न राध्यते। एतद्वै मध्यतोऽन्नश्राद्धम् । मध्यतोऽस्मा अन्न राध्यते । एतद्दा अन्ततोऽन्न राद्धम् । अन्ततोऽस्मा अन्न ....... - - ११० भानन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [३भृगुवल्लयध्याये- राध्यते ( १ )। य एवं वेद । एतद्वा अनं मुखतो मुख्ये प्रथमे वयसि मुख्यया या वृत्त्या पूजापुर:स. रमभ्यागतायानार्थिने राद्धं संसिद्धं प्रयच्छतीति वाक्यशेषः । तस्य किं फलं स्यादित्युच्यते-मुखतः पूर्व वयसि मुख्यया वा वृत्त्याऽस्मा अन्नदायानं राध्यते यथादत्तमुपतिष्ठत इत्यर्थः । एवं मध्यतो मध्यमे वयसि मध्यमेन चोप. चारेण । तथाऽन्ततोऽन्ते वयसि जघन्येन चोपचारेण परिभवेन तथैवास्मै राध्यते संसिध्यत्यनम् । य एवं वेद य एवमन्नस्य यथोक्तं माहात्म्यं वेद तानस्य यथोक्तं फलमुपनमेत् । इदानी ब्रह्मण उपासनप्रकार उच्यते- क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः। कर्मति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । क्षेम इति वाचि । क्षेमो नामोपात्तपरिरक्षणम् । ब्रह्म वाचि क्षेमरूपेण प्रतिष्ठित मित्युपास्यम् । योगक्षेम इति । योगोऽनुपात्तस्योपादानम् । तौ हि योगक्षेमौ प्राणानयोः सतोर्भवतो यद्यपि तथाऽपि न प्राणापाननिमित्तावेव किं तर्हि ब्रह्मनिमित्तौ । तस्माद्ब्रह्म योगक्षेमात्मना प्राणापानयोः प्रतिष्ठितमित्युपास्यम् । एवमुत्तरेष्वन्येषु तेन तेनाऽऽत्मना ब्रह्मैवोपास्यम् । कर्मणो ब्रह्मनिर्वय॑त्वाद्धस्त- योः कर्मात्मना ब्रह्म प्रतिष्ठितमित्युपास्यम् । गतिरिति पादयोः । विमुक्तिरिति पायौ । इत्येता मानुषीर्मनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मिक्यः समाजा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ दैवीः । तृप्तिरिति वृष्टो । बलमिति विद्युति (२) । यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमा- नन्द इत्युपस्थे । सर्वमित्याकाशे ।
१० दशमोऽनुवाकः ] तैत्तिरीयोपनिषत् । १११ तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान्भवति । अथानन्तरं दैवीर्दैव्यो देवेषु भवाः समाज्ञा उच्यन्ते । तृप्तिरिति दृष्टौ । वृष्टेरन्नादिद्वारेण तृप्तिहेतुत्वाद्ब्रह्मैव तृप्त्यात्मना वृष्टौ व्यवस्थितमित्युपास्यम् । तथाऽन्येषु तेन तेनाऽऽत्मना ब्रह्मैवोपास्यम् । तथा बलरूपेण विद्युति । यशो- रूपेण पशुषु । ज्योतीरूपेण नक्षत्रेषु । प्रजातिरमृतममृतत्वप्राप्तिः पुत्रेण ऋण- विमोक्षद्वारेणाऽऽनन्दः सुखमित्येतत्सर्वमुपस्थनिमित्तं ब्रह्मैवानेनाऽऽत्मनोपस्थे प्रतिष्ठितमित्युपास्यम् । सर्वं ह्याकाशे प्रतिष्ठितमतो यत्सर्वमाकाशे तद्ब्रह्मवेत्यु- पास्यम् । तच्चाऽऽकाशं ब्रह्मैव । तस्मात्तत्सर्वस्य प्रतिष्ठेत्युपासीत । प्रतिष्ठागुणो- पासनात्प्रतिष्ठावान्भवति । एवं पूर्वेष्वपि यद्यत्तदधीनं फलं तद्ब्रह्मैव तदुपासना- चद्वान्भवतीति द्रष्टव्यम् । श्रुत्यन्तराच्च-"तं यथा यथोपासते तदेव भवति" इति । उपासनमपि फलानभिसंधिनाऽनुष्ठितं बुद्धिशुद्धिद्वारेण ब्रह्मज्ञानायोपकरोतीत्युक्तम् । मुख्याधिकारिणस्त्वपवादायोपकरिष्यति । यत्र वागादौ यत्फलं कार्य क्षेमादीत्यर्थः । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति (३)। तन्नम इत्युपासीत । नम्यन्तऽस्मै कामाः। तद्ब्रह्मे- त्युपासीत । ब्रह्मवान्भवति । तद्ब्रह्मणः परि- मर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । तन्मह इत्युपासीत । महो महत्त्वगुणवत्तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थो भवति । तन्नम इत्यु- पासीत । नमनं नमो नमनगुणवत्तदुपासीत । नभ्यन्ते प्रह्वी भवन्त्यस्मा उपा- सित्रे कामाः । काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मेत्युपासीत । ब्रह्म परिवृढतममित्युपासीत । ब्रह्मवांस्तद्गुणो भवति । तद्ब्रह्मणः परिमर इत्युपा- सीत । ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन्पञ्च देवता विद्युदृष्टिश्चन्द्रमा आदि. .--.-.-.-..--. १ क.क, छ. भोग्यवि।
- ११२ आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता- [३ भृगुवलयध्याय- त्योऽनिरित्येताः । अतो वायुः परिमरः । श्रुत्यन्तरप्रसिद्धः । स एष एवायं वायुराकाशेनानन्य इत्याकाशोब्रह्मणः परिमरस्तमाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीत । पर्येनमेवंविदं प्रतिस्पर्धिनो द्विषन्तोऽद्विषन्तोऽपि सपत्ना यतो भवन्त्यतो विशेष्यन्ते द्विषन्तः सपत्ना इति । य एनं द्विषन्तः सपत्नास्ते परिम्रियन्ते प्राणाञ्जहति । चि ये चाप्रिया अस्य भ्रातृव्या अद्विषन्तोऽपि ते च परिम्रियन्ते । महानिति । प्रजादिभिः । ब्रह्मवानिति । स्थूलभोगसाधनवान्विराडिवेत्यर्थः । श्रुत्वन्तरप्रसिद्धेरिति । य एवमेताः पञ्च देवता वायुवि संवर्ग इत्यादिश्रुत्यन्तराद- .ह्मणः संहर्तृत्वं वायुद्वारकमिति वायुर्ब्रह्मणः परिमरः । संहारसाधनमित्यर्थः । तत्कथं परिमरगुणतयाऽऽकाशोपासनं सिध्यतीत्यत आह–स एष इति । प्राणो वा अन्नं शरीरमन्नादमित्यारभ्याऽऽकाशान्तस्य कार्यस्यैवान्नान्नाद- स्वमुक्तम् । उक्तं नाम किं तेन, तेनैतत्सिद्धं भवति-कार्यविषय एवं भोज्यभो. कृत्वकृतः संसारो न त्वात्मनीति । आत्मनि तु भ्रान्त्योपचर्यते । एवं मन्दाधिकारिगोचरमुपासनजातमध्यारोपावस्थायामुपदिश्यापवाददृष्टिमभिप्रे. त्याऽऽह-प्राणो वा अन्नमित्यादिना । नन्वात्माऽपि परमात्मनः कार्य ततो युक्तस्तस्य संसार इति । न। असं- सारिण एव प्रवेशश्रुतेः । "तत्सृष्ट्वा तदेवानुपाविशत्" इत्याकाशादिकारणस्य ह्यसंसारिण एव परमात्मनः कार्येऽनुप्रवेशः श्रूयते । तस्मात्कार्यानुभविष्टो जीव आत्मा पर एवासंसारी । सृष्ट्वाऽनुप्राविशादिति मानकर्तृ[ क ]त्वोपपत्तेश्च । सर्गप्रवेशक्रिययोश्चैकश्चत्कर्ता ततः क्त्वाप्रत्ययो युक्तः । प्रविष्टस्य तु भावान्त- रापत्तिरिति चेत् । न । प्रवेशस्यान्यार्थत्वेन प्रत्याख्यातत्वात् । अनेन जीवेनेति विशेषश्रुतेधर्मान्तरेणानुप्रवेश इति चेत् । न । तत्त्वमसीति पुनस्तद्भावोक्तेः । भावान्तरापन्नस्यैव तदपोहा संपदिति चेत् । न । तत्सत्यं स आत्मा तत्त्व- मसीति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारित्वमिति चेत् । न । उपल- धुरनुपलभ्यत्वात् । संसारधर्मविशिष्ट आत्मोपलभ्यत इति चेत् । न । धर्माणां धर्मिणोऽव्यतिरेकात्कर्मत्वानुपपत्तेः। उष्णप्रकाशयोर्दाह्यप्रकाश्यत्वानुपपत्तिवत्रा. सादिदर्शनाद्दुःखित्वाद्यनुमीयत इति चेत् । न । त्रासादेर्दुःखस्य चोपलभ्यमान- १ क. "काद्धर्म।
तैत्तिरीयोपनिषत् । १० दशमोऽनुवाकः] त्वानोपलब्धृधर्मत्वम् । कापिलकाणादादितर्कशास्त्रविरोध इति चेत् । न । तेषां मूलाभावे वेदविरोधे च भ्रान्तत्वोपपत्तेः । श्रुत्युपपत्तिभ्यां च सिद्धमा- मनोऽसंसारित्वमेकत्वाच्च । भोक्तृत्वादिलक्षणः संसारः कार्यगोचर इति वदतव जीवस्यानोपाधिकं संसारित्व- मिष्टं तस्यापि कार्यत्वादिति मागवतानां मतमुद्भाव्य दूषयति-नन्वात्माऽपीत्यादि- ना । छान्दोग्यश्रुत्यनुसारेण विकारात्मना प्रवेशमाशङ्कय वाक्यशेषविरोधमाह-अनेन जीवनेत्यादिना । भ्रान्त्या देहादिभावमापन्नस्य जीवस्य ब्रह्मव्यतिरिक्तस्यैव ब्रह्मदृष्टि. रुपदिश्यते संसारित्वापोहार्था । मातृबुद्धिरिव परयोषिति रागापोहार्था । अतस्तत्त्वमसी- त्युपदेशस्यान्यार्थत्वान्न जीवस्य पारमार्थिकम संसारिब्रह्मात्मत्वमित्याशङ्कय तढ्षयति- भावान्तरापन्नस्येत्यादिना । अबाधिततत्पदमुख्यप्तामानाधिकरण्यविरोधादब्रह्मणि जीवे ब्रह्मत्वसंपादनार्थत्वं कल्पयितुं न शक्यत इत्यर्थः । संसारित्वग्राहकप्रत्यक्षविरो. धादवाधितत्वमसिद्धमित्याह-दृष्टमिति । सर्वप्रमाणानामनुग्राहकमतर्क इप्यते । आत्म- नश्च संसारधर्मवत्त्वस्य तर्कापरिशुद्धत्वात्तत्प्रत्यक्षम्य भ्रान्तत्वान्न शास्त्रज्ञानबाधकत्वं संभवतीत्याह-नेति । सुखादेपलम्यस्वानोपलब्धृधर्मत्वं संभवति रूपादिवदित्यर्थः । संसारित्वग्राहक यद्यपि प्रत्यक्षप्रमाणं न भवति तथाऽपि संसारधर्मविशिष्ट आत्मा स्वचैतन्येनोपलभ्यत इति स्वानुभवविरोधान्न शाब्दमसंसारित्वज्ञानं प्रमाणमिति चेन्नैत- दपि युक्तम् । कर्मत्वकर्तृत्वविरोधादित्यर्थः। प्रत्यक्षविरोधाभावेऽप्यनुमानविरोधो भविष्य. तीत्याह-त्रासादीति । त्रासादि साश्रयं कार्यत्वाद्धटवदन्यस्याऽऽश्रयस्यासंभवा- दात्मैव तदाश्रयोऽनुमीयत इति न वाच्यमुपलभ्यो नोपलब्धुर्धर्मों रूपादिवदिति व्याप्त्यन्तरविरोधादध्यासादपि कार्यदर्शनसंभवादित्यर्थः । जीवस्य ब्रह्मात्मत्व. प्रतिपादयतः शास्त्रस्य तर्कशास्त्रविरोधादप्रामाण्यमाशङ्कय दूषयति-कपिलेत्या- दिना । तर्कशास्त्रस्य श्रुतेश्च विरुद्धाव्यभिचारित्वेन प्रामाण्यसंशयोऽपि नाऽऽशङ्क- नीय इत्याह-श्रुत्युपपत्तिभ्यां चेति । किंच तार्किकेणापीश्वराधीनं जीवस्य सुखित्वं दुःखित्वं च निरूपणीयं न तन्निरूपयितुं शक्यते । स्वात्मनीश्वरस्य सुखदुःखहेतुत्वासंम- धादित्यभिप्रेत्याऽऽह-एकत्वाचेति । । ---------------- १ क.अ. 'दतस्तव । ३ ख. ग.... "लभ्य नो ।
११४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--- [३भृगुवल्यध्याये- कथमेकत्वमित्युच्यते- स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः (४) । स य एवंवित् । अस्माल्लोकात्ये- त्य । एतमन्नमयमात्मानमुपसंक्रम्य । एतं प्राणमयमात्मानमुपसंक्रम्य । एतं मनोमयमा. त्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मान- मुपसंक्रम्य । एतमानन्दमयमात्मानमुपसं- क्रम्य । इमाल्लोकान्कामानी कामरुप्यनु- संचरन् । एतत्साम गायनास्ते । स यश्चायं पुरुषे । यश्वासावादित्ये । म एक इत्येवमादि पूर्ववत्सर्वम् । अन्न- मयादिक्रमेणाऽऽनन्दमयमात्मानमुपसंक्रम्यैतत्साम गायनास्ते । सत्यं ज्ञानमि- त्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण तद्विवरणभूतयाऽऽनन्दवल्ल्या सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिति । तस्य फलवचनस्यार्थविस्तारो नोक्तः। के ते किंविषया वा सर्व कामाः कथं वा ब्रह्मणा सह समनत इत्येतद्वक्तव्यमिती. दमिदानीमारभ्यते । तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपो ब्रह्म- विद्यासाधन मुक्तम् । प्राणादेगकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोग- श्वोक्तः । ब्रह्मविषयोपासनानि च । ये च सर्व कामाः प्रतिनियतानेकसाधना साध्या आकाशादिकार्यभेदविषया एते दर्शिताः । एकत्वे पुनः कामकामि- स्वानुपपत्तिः। भेदजातस्य सर्वस्याऽऽत्मभूतत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामानेववित्समश्नुत इत्युच्यते । सर्वात्मत्वापत्तेः । कथं सर्वात्मत्वापत्तिरि- -पुरुषादित्यस्थात्मकत्वविज्ञानेनापोह्योत्कर्षापकर्षावन्नमयाद्यात्मनोऽवि. द्याकल्पितान्क्रमेण संक्रम्याऽऽनन्दमयान्तान्सत्यं ज्ञानमनन्तं ब्रह्मादृश्यादिधर्मक स्वाभाविकमानन्दमजममृतमभयमद्वैत फलभूतमापन्न इमाल्लोकान्भूरादीननुसंच- रनिति व्यवहितेन संबन्धः । कथमनुसंचरन् । कामानी कामतोऽन्नमस्योति कामानी । तथा कामतो रूपाण्यस्यति कामरूपी । अनुसंचरन्सर्वात्मनेमाल्लो. कानात्मत्वेनानुभवन् । किम् , एतत्साम गायन्नास्ते । समत्वाव साम सर्वा नन्यरूपं गायशब्दयन्नात्मैकत्वं प्रख्यापयल्लोकानुग्रहार्थ तद्विज्ञानफलं चातीव कृतार्थत्वं गायन्नास्ते तिष्ठति । ख. ८. "त्मत्वोपप । २ ख. ठ. मावोपप । -rerma -- पूर्व १०. दशमोऽनुवाकः] तैत्तिरीयोपनिषत् । ११५ स य. इत्यादिपव्याख्यानमुपेक्ष्योपसंक्रमणसामगानयोरेककर्तृ क ]त्वमन्वयप्र- दर्शनेन दर्शितमिदानी वल्लीसमाप्तिपर्यन्तस्य ग्रन्थस्य तात्पर्य वृत्तकीतनेनाऽऽह-सत्यं ज्ञानमित्यादिना । अविद्यालेशवशेन द्वैतावभासमनु भवन्विद्वान्सर्वस्याऽऽत्माऽहमिति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नत्वं कामरूपत्वं च ममैवेति पश्यन्युग- पत्सर्वान्विषयानन्दानश्नुत इत्युपर्यत इत्याह–सर्वात्मत्वापत्तेरिति । कथम्- हाश्वु हा ३० हार्बु (५) । अहमन्नमह मन्नमहमन्नम् अहमन्नादोऽ३हमन्नादोऽ३ह- मन्नादः । अह५ श्लोकदह श्लोककदह श्लोककृत् । अहमस्मि प्रथमजा ऋता३ स्य । देवेश्यो अमृतस्य नाभावि । हा३७ हा३७ हा ३७ । अहो इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापना- र्थम् । कः पुनरसौ विस्मय इत्युच्यते- अद्वैत आत्मा निरञ्जनोऽपि सन्नह- मेवानमन्नादश्च । किंचाहमेव श्लोककृत् । श्लोको नामानान्नादयोः संघात- स्तस्य कर्ता चेतनावान् । अन्नस्यैव वा परार्थस्यान्नादार्थस्य सतोऽनेकात्म- कस्य पारायंन हेतुना संघातकृत् । त्रिरुक्तिविस्मयत्वख्यापनार्था । अह- मस्मि भवामि । प्रथमजाः प्रथमजः प्रथमोत्पन्नः । ऋतस्य सत्यस्य मूर्तामूर्त- स्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिरमृतत्वस्य नाभिर्मध्यं मत्संस्थ. ममृतत्वं प्राणिनामित्यर्थः । प्रथमजो हिरण्यगर्भोऽप्यहम् ! प्लुतिस्तावेगानार्थी । देवेभ्यः म्वव्यष्टिरूपेभ्यः पूर्व विराड्पमेवेत्यर्थः। यो मा ददाति स इदेवमा३ वाः । अहमन्नमन्नमदन्तमा ३ नि । अहं विश्वं भुवनमायभवा३म् । यः कश्चिन्मा मामन्त्रमन्नार्थिभ्यो ददाति प्रयच्छत्यन्नात्मना ब्रवीति स इदि. १ ज. इ. वदादरार्था । न. वदनादरार्था ।
११६ आनन्दगिरिकृतटीकासंवलि तशांकरभाष्यसमेता- [३भृगुवल्यध्याये- त्यमेवमविनष्टं यथाभूतमावा अवतीत्यर्थः । यः पुनरन्यो मामदत्त्वाऽर्थिभ्यः काले प्राप्तेऽन्नमत्ति तमन्नमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रत्यानि भक्षयामि। अत्राऽऽहैवं तर्हि विभेमि सर्वात्मत्वप्राप्तेर्मोक्षादस्तु संसार एव यतो मुक्तोऽप्यह- मन्नभूत आद्यः स्यामन्नस्यैवं मा भैषीः संव्यवहारविषयत्वात्सर्वकामाशनस्याती. त्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्यया ब्रह्मत्वमापन्नो विद्वांस्तस्य नैव द्वितीयं वस्त्वन्तरमस्ति यतो विभेत्यतो न भेतव्यं मोक्षात् । एवं तर्हि किमिदमाह-अहमन्नमहमन्नाद इत्युच्यते । योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्यभूतः स संव्यवहारमात्रमेव न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरेकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थमुच्यते । अहमन्नमहयन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नाद इत्यादि। अतो भयादिदोषगन्धोऽप्यविद्यानिमित्तोऽविद्योच्छेदाब्रह्मभूतस्य नास्तीत्यह विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिर्भवन्तीति वाऽस्मिन्भूतानीति भुवनमभ्यभवामभिभवामि परणेश्वरेण स्वरूपेण । आवा इति । लोण्मध्यमपुरुषैकवचनम् । पौनःपुन्येनेत्येवं मत्वाऽऽख्यातेषु निपा- त्यत इत्यवतीति व्याख्यातम् । अभिमवामि, उपसंहारमीत्यर्थः । ईश्वरात्मताज्ञानेना. हंबाधेऽद्वैतं ततो नास्ति भयकारणमित्यर्थः । सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् (६) ॥ - इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये अगुवल्ल्यध्याये दशमोऽनुवाकः ॥ १० ॥ सुवन ज्योतीः सुवरादित्यो नकार उपमार्थे । आदित्य इव सकृद्वि- भातमस्मदीयं ज्योतिर्योतिः प्रकाश इत्यर्थः । इति वल्लीद्वयविहितोप- निषत्परमात्मज्ञानं तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरतस्तितिक्षु, १ क. ख. ग. च. 'वं सर्वाख्या । ज. बं सत्त्वाख्या।
१० दशमोऽनुवाकः ] तैत्तिरीयोपनिषत् । समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोक्तमोमिति॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- कर मगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायमाध्ये दशमोऽनुवाकः ॥ १०॥ नकार इवार्थे ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तत्ति- रायोपनिषच्छांकरभाष्यटीकायां तृतीये भृगुवल्ल्यध्याये दशमोऽनुवाकः ॥ १० ॥ [* भृगुस्तस्मै यतो विशन्ति तद्विजिज्ञासस्व त्रयो- दशान्ने प्राणो मनो विज्ञानं द्वादश द्वादशाऽs. नन्दो दशानं न निन्द्यादन्नं न परिचक्षीता बहु कुर्वीतैकादशैकादश ] न कंचनैकषष्टिदर्श ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवा- वहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः । - हरिः ॐ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीयो भृगुवल्ल्यध्यायः समाप्तः ॥३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दमगवत्पूज्यपादशिष्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाप्ये तृतीयो भृगुवल्ल्यध्यायः ॥ ३ ॥ * एतच्चिनान्तर्गतग्रन्थस्थाने क्वचित्पुस्तकेऽन्यथा पाठः। स यथा-"भृगुस्तस्मै यतों वै विशन्ति तद्विजिज्ञासस्व तत्त्रयोदशान्न प्राणो मने विज्ञानं तद्विज्ञाय तं तपसा द्वादेश द्वादशाऽऽनन्द इति सैषा दशान्नं न निन्द्यात्प्राणः शरीरमन्नै न परिचक्षीताऽऽपो ज्योतिरन बहु कुर्वीत पृथिव्यामाकाश एकादशैकादश" इति।
'. तैत्तिरीयोपनिषत् ।। तैत्तिरीयकमाध्यस्य शांकरस्य द्रढीयसः ।। स्फुटार्थबोधकामेभ्यो निरमायि सुटिप्पणम् ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्भगवदा. नन्दज्ञानविरचितायां तैत्तिरीयोपनिषच्छांकरमाण्यटीकायां तृतीयो मृगुवल्ल्यध्यायः समाप्तः ॥ ३ ॥ . समाप्तेयं कृष्णयजर्वेदीया तैत्तिरीयोपनिषत् । .. " ॐ तत्सद्ब्रह्मणे नमः। अथ शंकरानन्दकता तैत्तिरीयोपनिषद्दीपिका । वक्ष्येऽधुना शंकरविश्वरूपवाचा विनिर्णीतसमस्तवाक्यम् । कृष्णं यजुस्तित्तिरिनामचिह्न पदार्थशुद्धयर्थमतीव सार्थम् ॥१॥ कर्माणि विचित्राणि नित्यादिलक्षणानि पूर्वमुक्कानि । तैनिःश्रेयसमपश्यन्ब्रह्मज्ञानायो- पनिषदमारममाणो वेदो ब्रह्मज्ञाने च महतामपि देवैः क्रियमाणान्विघ्नानवलोक्य तत्म* शान्तये ब्रह्मविद्यार्थिनेई पठनीयमित्यभिप्रायेण प्रथमं पठति-शं सुखं नोऽस्मभ्यं मित्रः प्राणवृत्तेरनश्वामिमानिनी देवता । शं सुखं वरुणोऽपानवृत्ते रात्रेश्वाभिमानिनी देवता । न इत्यनुषणः । शं नो व्याख्यातम् । भवतु भूयात्। इदं पदं शंपदेन सर्वत्र संबध्यते । अर्यमा चक्षुष आदित्यमण्डलस्य चाभिमानि। देवता । शं नो व्याख्यातम् । इन्द्रों बाह्वोर्बलस्य चाभिमानिनी देवता । बृहस्पतिर्वाचि बुद्धी चाभिमानिनी देवता । शं न इत्यनुषङ्गः । शं नो व्याख्यातम् । विष्णुः पादाभिमानिनी देवता । तद्विशेषणमुरुक्रमः। उरु प्रचुरं क्रमणं यस्य स उरुक्रमः । सर्वव्यापीत्यर्थः । अथवा स्वतन्त्रमिदं पदमुरुक्रमो विराटसर्वान्नाभिमानिनी देवता । शं न इत्यनुषङ्गः । एवं स्थूलसूक्ष्माभिमानिनीदेवताः प्रादानीमव्याकृतज्ञानक्रियाशक्त्यभिमानिनी देवतां नमस्करोति-नमो नमस्कारः । ब्रह्मणेऽव्याकृताभिमानिने । तस्यानुत्पादित- कार्यस्याकिंचित्करत्वात्कार्यामिमानिनं तदभिन्नं पुनमस्करीति नमो नमस्कारः । ते तुभ्यं वायो हे क्रियाशक्तिप्रधानज्ञानक्रियाशक्ते । ननु प्रतिपाद्यस्यैव नमस्कारः करणीयो न चाहं प्रतिपाय इत्यत आह-त्वमेव ज्ञानक्रियाशक्त्यभिमान्येव न त्वन्यत् । प्रत्यक्ष शास्त्रम्य प्रत्यक्ष स्वयंप्रकाशमानत्वेन बुद्ध्यादेः साक्षित्वेन वा । ब्रह्माव्याकृताभिमान देशकालवस्तुपरिच्छेदशून्यस्वरूपम् । असि भवति । ननु यद्यहं ब्रह्म किं तवत्यत आह -स्वामेव प्रत्यक्षं ब्रह्म कार्यामिमानिनमव भवन्तं स्वयंप्रकाशं कारणाभिमानित्वरूपं वदिष्यामि त्वं ब्रह्मासीति गुरुणोक्त कार्य- करणामिमानितम्ययोरैक्यमवगत्याहं ब्रह्मास्मीति वदिष्यामि कथयिष्यामि । नन्विदमुपचरितं मां प्रति भवतोच्यत इत्यत आह-ऋतमनुपचरितं वदिष्यामि कथयिष्यामि। १ ख. ग, कृत्स्नं। २ ख. "णोतं का।
- १२२ शंकरानन्दकृता- [ शीक्षाध्याये, भ० १] ननु भवताऽनुमचारतेऽप्युच्यमाने नैतादृशं वस्तु वृत्तमित्यत आह-सत्यम् । "इदं सर्व यदयदात्मा " "एकमेवाद्वितीयम्" " नेह नानाऽस्ति किंचन " "तत्त्वमसि" "अहं ब्रह्मास्मि " इत्यादिशास्त्रेभ्य ऐक्यम(क्येना)वगम्यमानमबाधितं वस्तुस्वरूपमुलूकनि- शावन्न ममैवेदमृतं किंतु सर्वप्रमाणसिद्धमबाधितस्वरूपमित्यर्थः । वदिष्यामि कथयिष्या- मि यस्मात्तत्तस्मान्मां मवन्तं ब्रह्मरूपेण प्रतिपादयन्तमवतु कार्यकारणोपाधिर्मवान्पालयतु । ननु भवतः शिष्यस्य वाक्कायमनसां प्रसन्नानामध्यात्मादिदुःखैरनुपघातोऽस्तु गुरोश्च विपर्ययो मङ्गलाचरणे तात्पर्यहीनत्वादित्याशङ्कय गुरुविषयेऽपि स्वयं प्रार्थयते । यस्मा. द्गुरुमन्तरेण न विद्या लम्या शिष्येण तत्तस्माद्वक्तारं वा विद्यायाः कथयितारं गुरुमि. त्यर्थः । अवतु पालयतु । यस्मादनन्तरं तस्मादिति पठित्वा श्रोतं तच्छब्दद्वयमपि ब्रह्मपरं वा व्याख्येयम् । तच्छब्दरहितं वाक्यद्वयं गुर्वात्मनो रक्षायामादरार्थमुपक्रमविपः येणाध्येति--अवतु मामवतु वक्तारं व्याख्यातम् । यद्यपि गुरुर्ब्रह्मावबोधेन ब्रह्मैव शिष् श्च साधनचतुष्टयसंपन्नः स्वयमप्रमतस्तथाऽपि देवकृतानामतिसूक्ष्माणामपराधानां भूयसां सत्त्वेनाऽऽध्यात्मिकाधिमोतिकाधिदैविकदु.खागमनाद्ब्रह्मविद्योत्पादस्य विघातः स्याच्छिप्यस्य ! ततो दुःस्त्रयविघातार्थ त्रिः शान्तिपदं पठति-ॐ शान्तिः शान्तिः शान्तिः । वाका यमनसामन्येन्द्रियाणां [1] त्रिविधमपि दुःखमुपरतिं गच्छतु ब्रह्मविद्या- धिकारिणो भमेत्यर्थः । यद्यगीतः परम् “ ब्रह्मविदाप्नोति परम् " इत्येवोपक्रमणीयं तथाऽप्यत्यन्तबहिर्मु- खस्य नाऽऽत्मावतिरित्यन्तर्मुखत्वं संपादयितुं फलेन प्रलोभ्य कानिचिदुपासनानि प्रथमत उच्यन्ते ! लन्देवं चेदशातः संहिताया इत्याद्यारम्भणीयं न पुनः शीक्षामित्यादि. कम् । सत्यम् । तथाऽप्युपनिषदामर्थज्ञानप्राधान्याद्यथाकथंचित्पाठेनार्थज्ञानं करणीयमिति- शङ्कानिवारणार्थ शीक्षामित्यादिकं प्रथमं पठ्यते । न पुनरन्यः कश्चनोपयोगः । शीला यथाऽस्मिन्नेव पदे शिक्षामित्येवं शिकार एकमात्रमु(त्र उ)च्चार्यमाणेऽर्थाधिगतिर्न पुनदिकी पाठशुद्धिः । न च वेदे तत्तद्वर्णस्वरादिहीनस्य पदस्य वाक्यस्य वोपादेयार्थों भवति । प्रत्युत धार्थविनाशस्तत्तदुपनिषदामपि वेदत्वात्तत्तच्छाखापाठकप्रसिद्धवर्णस्वरा- दियुक्तपदाधुच्चारणेनार्थज्ञानं करणीयमित्येतदर्थ छान्दस्या प्रक्रियया शीक्षामिति पाठः । शिक्ष्यन्तेऽनया वर्णादयः शिक्ष्यन्त इति वर्णादय एव वा शिक्षा तां शिक्षा व्याख्या. स्थामो विविधमा समन्ताद्वयक्तं कथयिष्यामः । वर्णोऽकारादिः । स्वर उदात्तादिः। मात्रा हस्वादिः । वलं प्राणस्थानप्रयत्नैः । साम समता द्रुतविलम्बितात्यधिकातिन्यू- । ख. 'दनस्य । २ ग. "यादिवि ।
- [शीक्षाध्याये, अ० २] तैत्तिरीयोपनिषदीपिका । नादिवर्जनेनैकरूपतयोच्चारणं *व्याघ्रीपुत्रहरणवदपीडनमित्यर्थः । संतानः संततः संहि. ताया नियतक्रमं पदं वाक्यं वेत्यर्थः । इतिः समाप्तौ शिक्षायाः । उक्तः कथितः शीक्षाध्यायः। शीक्षाऽधीयतेऽवगम्यतेऽनेनेति शीक्षाध्यायः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याये प्रथमोऽनुवाक. ॥ १ ॥ अथ शीक्षाध्याये द्वितीयोऽनुवाकः । इदानी x देहलीप्रदीपन्यायेनोक्तवक्ष्यमाणयोः साधारण मङ्गलाचरणं करोति शिष्य. रूपो वेदः शिष्यशिक्षार्थम् । सह समं नावावयोर्गुरुशिष्ययोः । यशः, अस्यायं शि. ध्योऽस्यायं गुरुरित्यध्यापनाध्ययनजन्या कीर्तिरस्त्विति शेषो वक्ष्यमाणे च । सह व्याख्यातम् । ब्रह्मवर्चसं ब्रह्म ब्राह्मणत्वजातिः। तदीयं तेजो ब्रह्मवर्चसम् . स्वाश्रमानुष्ठा- नपरौ दीर्घायुष्मन्तावावां भूयास्वेत्यर्थः । अथ शीक्षाध्यायकथनानन्तरम् । अतः कृत- मङ्गलानामपि नान्तर्मुखत्वमन्तरेण ब्रह्मज्ञानोत्पत्तिररमात्कारणात् । संहिताया नियत क्रमपदवाक्यरूपायाः । उपनिषदं सामीप्येन नितरामिष्टार्थगमकत्वादनिष्टम्य शिथि. लीकृत्य विनाशकारित्वाच्च तद्विषया बुद्धिरुपनिषत्ताम् । व्याख्यास्यामो व्या- ख्यातम् । पञ्चसु पञ्चसंख्याक्रान्तेषु ! अधिकरणेष्वाधारेषु । अधिकरणान्याह-अधि. लोकं लोकमधिकृत्य । अधिज्यौतिष ज्योतिरधिकृत्याधिज्योतिरविज्योतिरेवाधिज्योति- पम् । अधिविधं विद्यामधिकृत्य । अधिप्रजं प्रजा पुत्रादिसंततिमधिकृत्य ! अध्यात्ममा स्मानं शरीरमधिकृत्य । ता अघिलोकाद्याः । महासंहिताः पदवाक्यसहितासु चिन्त्य. माना महत्यः संहिता महासंहिताः । इति, अनेन प्रकारेण आचक्षत आ समताद्वयक्तं कथयन्ति संहिताविदः। अथ तासां महासंहितात्वकथनानन्तरम् । अघिलोकं व्याख्यातम् । संहिताया उप. निषदं व्याख्यास्याम इतीदमत्र वक्ष्यमाणेष्वपि चतुषु पर्यायेष्वनुवर्तते । पृथिवी प्रसिद्धा भूः। पूर्वरूपं पूर्वस्य पूर्ववर्णस्य रूपं स्वरूपम् । पूर्ववर्णे पृथिवीदृष्टिः करणीयेत्यर्थः । द्यौः स्वर्गलोक उत्तररूपमुत्तरवर्णस्य स्वरूपमुत्तरवणे स्वर्गलोकदृष्टिः करणीयेत्यर्थः । आका- शोऽन्तरिक्षलोकः संधिर्भूस्वर्गलोको संघीयेते अस्मिन्निति संधिर्मध्यम् । पूर्वोत्तरवर्णयोरन्त. * वर्णानामिति शेषः । यथा व्याघ्री स्वापत्यानि मुखे धृत्वा दशनाभिघातव्रणायकृत्वैव स्थला- स्थलान्तरं नयति तथा स्थानादिषु पीडनमकृत्वैव वर्णोच्चारणं सामशब्देन गृह्यत इति भावः । x देहली गृहद्वारासनप्रदेशः। तत्र निहितो दीपो द्वारान्तः प्रदेशं तदहिभूतं चत्वरं च प्रका- शयति तथदें मगलमुक्तपक्ष्यमाणयोः साधारण शेयमिति तात्पर्यम् ।
१२४ शंकरानन्दकृता- 1. शीक्षाध्याये, अ०३] .. रालेऽन्तरिक्षदृष्टिः करणीयेत्यर्थः । वायुर्जगत्प्राणत्रिलोक्युदरवर्ती संधान संधीयते पूर्वोत्तरे रूपे अनेनेति संधान संबन्ध इत्यर्थः । पूर्वोत्तरवर्णयोः संबन्धे वायुदृष्टिः करणीयेत्यर्थः। यथा- इषे त्वेत्यत्र पकारस्योपरि योऽयमेका : सोऽयं पृथिवीरूपो यश्चोपरितनस्त. कारोऽसौ धुलोकात्मकस्तयोर्वर्णयोर्मध्यदेश आकाशात्मकस्तस्मिन्देशे संहितानिमित्तो द्वि देनाऽऽपादितो योऽन्यस्तकारः स वाय्वात्मक इति ध्यायेत् । एवमुत्तरेष्वप्युपास्या- षयवेषु चतुर्पु योज्यम् । इतिः समाप्त्यर्थः प्रकृतोपनिषदः । प्रकृतामुपनिषदमाह- अघिलोकं व्याख्यातम् । अथ चतुष्टयमपि स्वापेक्षया पूर्वोपासनानन्तर्यमाह । अनि मः । आदित्यश्चन्द्र- ( त्यः सूर्य? )मण्डलम् । आपो नीराणि । विद्युत एव वैद्युतोऽचिरप्रमवः( मः) । आचार्यों गुरुः । अन्तेवासी शिष्यः । विद्याऽऽचार्येणोच्यमाना । प्रवचनं गुरुः शिष्ययोः प्रकणोच्चारणं विद्यायाः । माता जननी । पिता जनकः । प्रजा पुत्रादिः । प्रजननमुत्पत्तिः प्रजायाः । अधरा हनुरघरोष्ठमारम्य चिबुकफैलकाक्रान्ता । उत्तरा हनुरुत्तरोष्ठमारम्याऽऽनासामूलम् । वाग्वोच्चारणशक्तं तात्वादिस्थमिन्द्रियम् । जिह्वा प्रसिद्धा । अन्यत्पर्यायचतुष्टरोऽप्यन्त्यं पदं मुक्त्वा समानपाठं पूर्ववद्व्याख्येयम् । इति. महासंहितापरिसमाप्त्यर्थः । इमा अधिलोकाद्या महासंहिता व्याख्याताः । इदानीं पञ्चानामपि फलमाह-योऽधिकारी। एवं पूर्वोत्तररूपणेना अधिलोकाया महासंहिता व्याख्याता विविधमा समन्तादृव्यक्तं कथिता वेद जानात्युपासीतेत्यर्थः । संघीयते संबध्यते । प्रनया पुत्रादिलक्षणया । पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्म- णजात्युचितेन तेजसा । अनायेन, अन्नं च तदाचं चान्नाद्यं तेन ब्रीहियवादिनेत्यर्थः । सुवर्येण स्वर्गेण लोकेन कर्मफलेन । प्रजादिभिः संपन्नो भवतीत्यर्थः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषदीपिकायां शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ शीक्षाध्याये तृतीयोऽनुवाकः । अथ यः कश्चन दुर्मेधा नासौ मेधोत्पादनमन्तरेण ब्रह्म बोद्धं शक्त इति मेधाकामस्य मेधाकरराञ्जपमन्त्रानाह~यः प्रसिद्ध ओंकारश्छन्दसां गायव्यादिच्छन्दस्विनामृगादि. भेदानामृषभः श्रेष्ठः । विश्वरूपः सर्वरूपः पर्णेष्विव शङ्कुः सर्वस्मिञ्जगति व्यवस्थित इत्यर्थः । छन्दोभ्य उत्तेभ्य ऋगादिम्यः । अघि, अधिकः । सर्वव्यापकत्वात् । अमृतात्स्वयं प्रकाशमानादात्मनः । संबभूवोत्पत्तिमकरोत् । छन्दोम्योऽमृता. क. ग. 'फलाका .. [ शीक्षाध्याये, अ० ३ ] तैत्तिरीयोपनिषदीपिका । १२५ दिमिः सामानाधिकरण्याङ्गीकारेणाधिकः सम्यवर्तत इति व्याख्येयम् । सोऽमृतज- श्छन्दःसारभूतः । मा माम् । इन्द्र इन्द्रस्य परमात्मनो वाचकत्वादिन्द्रः । मेधया श्रुतधारणशक्त्या । पृणोतु पीणयतु । मेधासंपन्नं करोत्वित्यर्थः । मेधासंपत्तेः फलभूतामाशिषमाह-अमृतस्य तज्जनकस्य ब्रह्मणोऽहं तदस्मीति तादात्म्येन । देव हे देव । स्वयंप्रकाशस्याऽऽत्मनः प्रकाशकत्वेन धारणो धारयिता भूयासं भवानि । मेधामाशेरपि शरीरारोग्यादिकमन्तरेणाभावादत( वोऽत )स्तदपि प्रार्थयते---शरीरं स्थूलो विनाशी देहः । ये ममाधिकारिणः । विचर्षणं विचक्षणं नीरोगमित्यर्थः । भूयादिति पुरुष वि]परिणामेनात्र वक्ष्यमाणे चानुषङ्गः । जिला वागिन्द्रियाधारभूता मे ममाधिकारिणः । मधुमत्तमा जिह्वाया मधुत्वं प्रियहितसत्यभाषित्वं वेदायतनं तद्यस्या अस्ति सा मधुमती । अतिशयेन मधुमती मधुमत्तमा । कर्णाभ्यां श्रोत्रा- भ्याम् । भूरि बहु । विश्रुवं व्यशृणवमात्मसाक्षात्कारार्थ न श्रवणमस्तीत्यर्थः । इदानीमोंकारस्यात्यन्तं ब्रह्मसामीप्यमाह-ब्रह्मणः सत्यज्ञानादिलक्षणस्य कोशः खड्गस्रोव व्याप्य व्यवस्थित आवरणविशेषः । यथा कोशः खड्गेन संभृत एवं ब्रह्मणा संमृतः प्रणवः । असिं भवसि । एवंमूतोऽप्यविद्यादृष्टिमिर्नावगन्तुं शक्यत इत्याह- मेधया लौकिकश्रुतधारणया वुद्धया । पिहित आवृतः । यस्मादेवंगुणकम्ततस्त्वं श्रुतम् " इदं सर्वं यदयमात्मा " " अहं ब्रह्मास्मि " इत्यादिश्रवणपथमागतम् । मे ममाधि- कारिणः । गोपाय रक्षां कुरु ! आत्मसाक्षात्कारफलावसानं कुर्वित्यर्थः । मेधाविषयेऽर्थानुसंधानपुरःसरं मन्त्रजपमुक्त्वा मेधावतोऽपि बहिर्मुखस्य निःश्रीकस्य न प्रत्यक्प्रवणता । ततः श्रीकामस्य श्रीकरान्मन्त्रान्प्रणवप्रतिपादकान्सहोमलिङ्गानाह- आवहन्ती । समन्तात्प्रापयन्ती । वित्तन्वाना विविधं विस्तारयन्ती। कुर्वाणा कुर्वती । चीरमनेककालम् । अचीरमिति पदच्छेदे क्षिप्रमिति व्याख्येयम् । आत्मनः स्वस्याः श्रियोऽवस्थानमिति शेषः । वासासि वस्त्राणि । ममास्यार्थिनः । गावश्व प्रसिद्धाः। धकारोऽश्वादीनामनुक्तानां समुच्चयार्थः । अन्नपाने च, अद्यत इत्यन्नं पीयत इति पानमन्नं च पानं चानपाने । चकार उक्त वासोगवानपानसमुच्चयार्थः । सर्वदाऽधार. म्याऽऽत्मसाक्षात्कारम् । आत्मनश्चिरं कुर्वाणा वासआदिकं सर्वदा वहन्ती वितन्वाना च मम गृहेऽवस्थानं करोत्विति शेषं पूरयित्वा व्याख्येयम् । नन्वहं मेधाया दाता कथं श्रियो दातेत्यत आह-तत इति । यतो मेघाया दाता तस्मात् । अयं भावः-श्रीः प्राकृतैरपि राजादिमिर्दातुं शक्या। मेधा तु भगवन्तमन्तरेण ब्रह्मणः कोश[विना] न केनचिदातुं शक्या। ततोऽतिदुर्लभस्य मेधादेर्दातुर्ब्रह्मणः कोशस्यों- कारस्य किया-श्रीदानार्थमुद्यमः । मे मम श्रीकामस्य । श्रियं मद्गृहे यामात्मनश्चिरमवस्थान कुर्वाणामनपानवस्त्रादीन्प्रापयन्ती तामेव विस्तारयन्तीमावह प्रापय । लोमशामजादिलोम- १२६ शंकरानन्दकृता- [शीक्षाध्याये, अ० ३] मिर्लोमवती चेतनमण्डलबहुलामित्यर्थः । पशुभिर्गवावादिभिः सह समम् । स्वाहा मदीया वाक्स्वशब्दवाच्यां श्रियमावहे ते यामाह तां स्वाहैव स्वाहा । स्वाहेति दर्श- नादोमार्थताऽम्य मन्त्रम्य वक्ष्यमाणानां चावगम्यते । होमद्रव्याणि च स्वस्वगृह्येष्ववगन्त- व्यानि । मन्त्रेण स्वस्थानि (?) क्षीर.ज्यबिरुवादीनि वा । प्रणवात्मा च देवताऽ. न्यादिकं तु यथायोगमवगन्तव्यम् । आ मा मां श्रीकामं यन्त्वायन्त्वनाऽऽगच्छन्तु । ब्रह्मचारिणोऽध्ययनार्थिनो माण- वकाः सर्वासु दिक्ष्ववस्थिताः । स्वाहा व्याख्यातम् । ब्रह्मचारिणामागमने प्रयोजनमाह- यशः। अत्र धर्मशब्देन धर्मी लक्षितो मवति । यशस्वी । जने लोके । असानि मवानि । स्वाहा व्याख्यातम् । अत्रापि प्रयोजनमाह-श्रेयानतिशयेन प्रशस्यः । वस्यसो वस्युमन्त(सुमत्त)रात्सकाशात् । वसु चात्र देवं मानुषं [वा] वित्तम् । असानि भवानि । स्वाहा व्याख्यातम् । तत्रापि प्रयोजनमाह-तं ब्रह्मणः कोशभूतम् । वा स्वामोंकारम् । भग समग्रधर्मज्ञानवैराग्यैश्वर्ययशःश्रीणां निवासभूत ओंकारो ब्रह्मकोशो मगर संबोधनं हे भग प्रविशानि प्रवेश करवाणि । स्वाहा व्याख्यातम् । ननु यदि मत्मविष्टस्त्वं तर्हि मत्ती मिन्नः समुद्रं प्रविष्टः समुद्रादिव मिन्नो मत्स्यस्तथा च तद्वदेव मवतो न कोऽपि पुरुषार्थ इत्यत आह-स मया प्रवेष्टव्यो ब्रह्मणः कोशभूतो मवानीकारः । मा मां तादात्म्येन त्वदुपासकम् । भग प्रविश स्वाहा प्रवेशं कुरु । आवयोरनुपचरितं तादात्म्यमस्त्वित्यर्थः । व्याख्यातमा पत् । ननु-त्वं कर्ता भोक्तेत्यादिसंसारधर्मवान्मयेश्वरेण कथमभिन्नः स्या इत्यत आह- तस्मिन्मदमिन्न ओंकार ईश्वरे । सहस्रशाखे सहस्रमनन्ताः शब्दार्थात्मनो वृतस्य भवतः शब्दार्थविवर्तरूपाः शाखा यस्य स सहस्रशाखस्तस्मिन् । नि भग हे मग । नेजिना संवन्धः । अहं वस्तुतस्त्वदभिन्न इदानीमविद्यापटलपिनद्धाक्ष उपासकः । त्वयि शब्दार्थरहित ओंकारे ब्रह्मणि " अहं ब्रह्मास्मि " इति बोधेन मृजे निमामि कर्तृत्वादिकमविद्याकृतं न वस्तुत इति ज्ञानेनाऽऽत्मानं परिशोधयामीत्यर्थः । स्वाहा व्याख्यातम्। तथा च ब्रह्मचारिणामागमनं परम्परया मोक्षहेतुरित्युक्त्वेदानीं तदेव दृष्टान्ताभ्यां मन्त्रान्तरेण विशिनष्टि-यथा येन प्रकारेण । आपो नीरधाराः । प्रवता उच्चा- देशात्पतन्त्यो निम्नदेशगामिन इत्यर्थः । प्रवतेति तृतीयापसे प्रवणवता मार्गे: ति व्याख्येयम् । यन्ति निम्नदेशं गच्छन्ति । अपां सेत्वादिना प्रतिबन्धों 'ग, 'योग्यम।
[ शीक्षाध्याये, अ०.१] तैत्तिरीयोपनिषदीपिका । १२७ दृष्टस्ततो दृष्टान्तान्तरमाह-यथा दृष्टान्ते । मासाः पक्षद्वयात्मकाश्चैत्रादयः । अह. जरमहानि जरयति स्वकुक्षिनिक्षेपेण यः संवत्सरस्तम् । यन्तीत्यनुवर्तते । एवं दा . न्तिके मां श्रीकामम् । ब्रह्मचारिणश्छात्राः । धातः, हे धातः सर्वस्रष्तृत्वात्प्रणवस्य धातृत्वम् । आयन्त्वागच्छन्तु । सर्वतः सर्वाभ्यो दिग्म्यः । स्वाहा व्याख्यातम् । नन्विदं सर्व मत्तादात्म्याथ मम तव कः संबन्ध इत्यत आह-प्रतिवेशः स्वगृह, समीपस्थं गृहं प्रतिवेशः । तद्वच्चैतन्यरूपेण जीवोपाधेरतिसंनिहितत्वात्प्रणवश्चैतन्यात्मा प्रतिवेशः। असि भवसि । यतस्ततः प्र मा मां त्वदुपासकम् । भाहि प्रमाहि प्रकाशयाऽऽत्मानम् । प्रमा पयस्व प्रपद्यस्व । अहं ब्रह्मास्मीति साक्षात्कारबोधेन मद्रूपमागच्छेत्यर्थः । अत्र स्वाहान्ता अष्टौ मन्त्राः । एतैः सन्नरेकादशसंख्याकैरष्टभिः पाठ एव । स्वाहान्तस्त्रिामिश्च होमार्थ स्वाहान्तत्वेन पठित्वा होमः करणीयः । जपस्तु यथापाठपठितैरित्यवगन्तव्यम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थवेधिन्यां तैत्तिरीयोपनिष- द्दीपिकायां शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ शीक्षाध्याये चतुर्थोऽनुवाकः । पूर्वोकारस्य सहस्त्रशाखत्वमुक्तं तदेतत्प्रधान शाखासु सिद्धासु प्राधान्यं च भूरादिव्या. हृतीनामस्मिन्प्रपञ्चे। ततो व्याहृत यो हृदिस्थाः । तासूपासनं स्वाराज्यफलमाह-भूर्भूलोकः, तत्स्थः प्रपञ्चो भूरितिशब्दाभिधेयः । भुवोऽन्तरिक्षलोकः । तत्स्थः प्रपञ्चो भुव इत्यु- च्यते । सुवः स्वर्गः, तत्स्थः प्रपञ्चः सुवरित्युच्यते । इत्यनेन प्रकारेण । वै मर्य- माणाः । एता इदानीमुक्ताः । तिस्रस्त्रिसंख्या का वेदत्रयात्मिकाः । व्याहृतयः, अधि- कारीष्टं विविधमा समन्ताद्धरन्ति प्रयच्छन्त्यधिकार्यनिष्टं वा विविधमा समन्ताद्धरन्ति विनाशयन्तीति व्याहृतयः । तासां भूर्भुवः सुवरिति तिसृणाम् । उ अपि ह किल स्म प्रवेदयत इत्यनेन संबध्यते । एतां वक्ष्यमार्णा चतुर्थी चतु:संख्यापूरणीम् । माहा- चमस्यो महांश्चासौं चमसोपलक्षितानेकयागसंपन्नश्च महाचमसस्तस्यापत्यं माहाचमस्यः प्रवेदयते प्रकर्षेण निवेदितवान्जात्वोक्तवानित्यर्थः । ऋषेरनुम्मरणमुपासनामिति संम दायविदः । तामाह-महस्तेजः स्वयंप्रकाशम् । इत्यनेन प्रकारेण । आवेदने का प्रकर्ष इत्यत आह-तन्महः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यम् । तस्मिन्नियं दृष्टिः कर- णीयेत्यर्थः । यद्ब्रह्मेत्युक्तं स प्रसिद्धो वक्ष्यमाण आत्माऽस्मत्प्रत्ययालम्बनः । प्रधानमूत १ ग. सर्वमेतत्ता' । २ ग. ऋषेः स्म ।
१२८ शंकरानन्दकृता- [शीक्षाध्याये, अ० ४] इत्यर्थः । अङ्गान्युपसर्जनभूतानि । अन्या भूराद्या देवता व्याहत्यधिष्ठाव्यः । अहं महो ब्रह्मरूपमस्मि । मम भूराद्या व्याहृतिदेवता अङ्गानीत्युपासनं करणीयमित्यर्थः । ननु भूरादिषु शब्देषु का देवता इत्याशङ्कय व्याहृतीनामर्थमाह-भूः प्रथमा व्याहृतिः । इतिरनुकरणार्थः । वै स्मरणार्थम् । अयं प्रत्यक्षो लोको भूर्लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः । अन्तरिक्षं द्यावाभूम्योरन्तरालस्थो लोकः । असौ परोक्षो लोकः स्वर्गलोकः । भुवः स्व(सुवरिति व्याहृतिपर्यायद्वयेऽपीतिशब्दा- वनुकरणार्थों । महश्चतुर्थी व्याहृतिः । इतिरनुकरणार्थः । आदित्यश्चन्द्र (त्यः सूर्य?) मण्डलाभिमानी जगत्प्राणः । आदित्यस्य महान्याहृत्यात्मनोपास्यमा स्य महत्त्वमुपपाद- यति । आदित्येन बावाऽऽदित्यनैव सर्वे निखिला लोका भूरादयोः महीयन्ते पूज्यन्ते। सर्वव्यवहारतमा भवन्तीत्यर्थः । इदानी व्याहृतीनां ज्योतिर्वायुरूपतामाह -भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योती. पि महीयन्ते । अग्निवावादित्यचन्द्रमसः प्रसिद्धाः । एतेभ्यो व्यतिरिक्तानि सर्वाणि ज्योतीषि नक्षत्रादीनि । भान्यादीनां सर्वब्दान्तः पातित्वेनेषां देवरूपत्वेन चन्द्रमस उप- मोगेन तेन महीयमानत्वमविरुद्धम् । वायोश्च तेजः साक्षात्कारणत्वाज्ज्योतिस्त्रयसाहि- त्येन पाठो न विरुद्धः । अन्यत्पर्याय वतुष्टयेऽपि पूर्ववद्व्याख्येयम् । इदानी व्याहृतीनां शब्दप्रपञ्चात्मकत्वमाह--भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजपि । मह इति ब्रह्म । ब्रह्मणा वाव स वेदा महीयन्ते । अर्थानुसारेण पादबद्धाक्षर। ऋचः । सामानि च एव गीतिमत्यः । यजं. प्यविवक्षितच्छन्दोरूपाणि गद्यानि । अत्र सानो द्वितीयत्वे यजुषस्तृतीयत्वे च वाच. निकं कारणमास्थेयम् । अथवाऽन्तरिक्षे गन्धर्वाणां निवासत्वेन गीतिप्राधान्यात्तत्साम्येन सानो द्वितीयत्वम् । यजुःस्थितकर्मसाध्यत्वात्स्वर्गस्य तत्कर्मसंबन्धाद्यनुषस्तृतीयत्वं चेति ब्रह्मीकारो ब्रह्मकोशत्वात्तेनैव सर्व ऋगादयः पूज्यमाना दृष्टाः । शेषं पर्यायचतुष्ट- येऽपि पूर्ववद्वयाख्येयम् । इदानी व्याहृतीनां क्रियात्मकत्वमाह भूरिति वै प्राणः । भुव इत्यपानः । सुवाति व्यानः । मह इत्यनम् । अनेन वाव सर्व प्राणा महीयन्ते । प्राण उच्छ्रासकर्मा । अपानो निःश्वासकर्मा । व्यानः प्राणापानसंधिस्थो वीर्यवत्कर्महेतुः। अन्नमदनीयम् । अनेन प्राणा उक्ताश्चक्षुरादयश्च । शेषं पर्यायचतुष्टयेऽपि पूर्ववद्व्याख्ये- यम् । अयं लोक इत्यादिकमुक्तं व्याहृतिचतुष्टयपर्यायचतुष्टेयऽपि । पाठस्य वैषम्यामा- वात् । तत्राऽऽधेन पर्यायेण रूपनामकर्मात्मकं जगत्रेधा विभज्य रूपनामकर्मणाम- १ ख. शब्दात्म । २ ग. 'तेन च स'।
. [शीक्षाध्याये, अ...] तैत्तिरीयोपनिपरीपिका १२९ विमक्तानामादित्यः कारणमित्युक्तम् । नामक्रियारहितस्य रूपस्य त्रेधा विभक्तस्य चन्द्रः कारणमिति द्वितीयेनोक्तम् । रूपक्रियारहितस्य नाम्नस्त्रेधा विमक्तस्य प्रणवः कारण- मिति तृतीयेनोक्तम् । रूपनामरहितस्य कर्मणस्त्रेधा विभक्तस्यान्नं कारणमिति चतुर्थे। नोकम् । तेन व्याहृतीनां सर्वात्मकत्वं सिद्धम् । तदिदानी संक्षेपेणाऽऽह-ताः प्रसिद्धाः। वै स्मर्यमाणाः । एताः पूर्वोक्ता व्याहृ- तयः । चतस्रो भूर्भुवः सुवर्मह इति चतुःसंख्याकाः । चतुर्धाऽयं लोकोऽग्निर्ऋचः प्राण इति चतुष्प्रकारा भूव्याहृतिः । अन्तरिक्षं वायुः सामान्यपान इति चतुष्प्रकारा भुवो- व्याहृतिः । असौ लोक आदित्यो यषि व्यान इति चतुष्प्रकारा सुवाहृतिः । आदि. त्यश्चन्द्रमा ब्रह्मानमिति चतुष्प्रकारा महोव्याहृतिरिति चतस्रश्चतुष्पकाराः। तदेतदाह- चतस्रश्चतस्रो भूराद्याश्चतस्रश्चतुःसंख्याकाः । पुनरप्ययं लोक इत्यादिनककाऽप्यवान्त- रमेदाचतुःसंख्याकाः। व्याहृतयो व्याख्याताः । ता एकैकाश्चतुष्प्रकारा इत्युक्ता भूराद्या नियतप्रकारा य उपासको वेद जानात्युपासीतेत्यर्थः । स प्रत्येकं नियमेन चतुर्विध्येन चतसृणामात्माङ्गमावेनोपासको वेद जानात्युपास्त इत्यर्थः । ब्रह्म देशका लवस्तुपरिच्छेदशून्यं महाव्याहृत्यात्मत्वेनोक्तम् । ब्रह्मणि ज्ञाते को लाभ इत्यत आह- सर्वे निखिला अस्मै महो ब्रह्मामादित्यश्चन्द्रमा ब्रह्मान्नमङ्गीभूतो महीयान्यङ्गानि भूराद्यास्तिस्रो व्याहृतय इत्युपासकाय देवास्तदङ्गभूता अग्न्यादयो वागादयश्च विश इव राज्ञे प्रधानाय बलिं तदीष्टरूपरसादिकम् । आवहन्त्यानीय प्रापयन्ति । [इति श्रीमत्परमहंस तैत्तिरीयोपनिषद्दीपिकायां चतुर्थोऽनुवाकः ॥ ४ ॥ अथ शीक्षाध्याये पञ्चमोऽनुवाकः ।] ननु महो ब्रह्मात्मा कुत्र कथमुपास्यंत उपासनातः केन द्वारेण निर्गच्छति निर्गतो वा केन रूपेण कुत्र स्थित्वा देवदत्तं बलिं गृह्णातीत्याशङ्कय तदेतत्सर्वं दर्शयति-स परोक्षः । यः प्रसिद्धः । एष प्रत्यक्षः । अन्तर्हृदये हृदयस्य पद्माकारस्य मांसखण्डस्याघोमुख. स्यो नाइस्य पञ्चच्छिद्रस्य कदम्बकुसुमकेसरीरिव सर्वतो नाडीभिः परिवृतस्य मध्य आकाशोऽवकाशः । तस्मिन्नाकाशेऽयं प्रत्यक्षः स्वयंप्रकाशमानो महाव्याहृत्यात्मकः पुरुषः पुरिशयोऽपि परिपूर्णब्रह्मरूपो मनोमयो मनःप्रधानः । अमृतो मरणशून्यः । हिरण्मयो मास्करः सर्वज्ञ इत्यर्थः । कुत्र कथमुपास्य इत्यनयोरुत्तरं जातम् । अथ केन द्वारेण निर्गच्छतीत्यस्योत्तर. माह अन्तरेण तालुके तालुकयोर्मध्ये । मुखबिलस्यान्तजिह्वामूलस्योपरि स्थितौ वामदक्षि. मागौ तालुके इत्युच्यते । यः प्रसिद्धोयोगशास्त्रे। एष प्रलम्बिकाकरणप्रवीणजिह्वाग्रस्प र्शनप्रत्यक्षः परमुखे चक्षुष्प्रत्यक्षो वा । स्तन इव वत्सतरीपयोधरो यथा । अवलम्बतेs १ ग. 'स्यमानः के। .
। शंकरानन्दकृता [शीक्षाध्याये अ०५] वलम्बनं कुरुते लम्बमानस्तिष्टतीत्यर्थः । सा तालुक्यारन्तस्थरतनमध्यवर्तिनी । इन्द्रयो. निरिन्द्रम्याऽऽनन्दात्मनो योनिरुपलब्धिस्थानम् । कार्यब्रह्मपाधी निर्गमनकारणं चेन्द्र योनिः । यत्र यस्मिन्प्रदेशे : असौ प्रसिद्धः । केशान्तो मूर्धानमारभ्योपरिष्टादशाङ्गुल. परिमितो देशः ; केशान्तः, कश्चाश्चेशश्च केशा ब्रह्मविष्णुमहेश्वरास्तेषामन्तो विनाश- कारणमित्यर्थः । केशान्तः पौरुषो बोध इत्यर्थः । विवर्तते बोधरूपापरित्यागेनासत्यस्य नानाकारस्य शरीरत्रयस्य साधिदेवादेस्तदभिमानादेचाऽऽकारेण परिणमते । अथवा केशानां प्रसिद्धानामन्तो न भावो(१) मूलमित्यर्थः । यस्मिन्देशे विशेषणं वर्तते व्यपोहा भित्त्वा । शीर्षकपाले शीष्णो मनः कपाले शकले । विनिर्गता या नाडीति शेषः । य एष स्तन इवावलम्बते तन्मध्यवर्तिनी सत्रासो केशान्तो विवर्तते तत्र प्रतिष्ठिताग्रति शेषः । तत्रोपपत्तिव्यपाह्य शीर्षकपाले विनिर्गता या सेन्द्रयोनिरित्यन्वयः । अनया कार्य ब्रह्म गच्छः गच्छतीत्यर्थः । अनेन गमने मार्ग उक्तः । इदानी तत्तद्वयाहृत्यात्मकरतेषु तेषु व्यायतिप्रकारेषु स्थित्वा देवदत्तं गृह्णन्नध्यात्मप. रिच्छेदशून्यः स्वाराज्यं करोतीत्याह-भूरिति, उक्तोऽर्थो व्याहृनेः । इतिशब्दश्च व्याय. त्यनुकरणार्थः । अग्नी प्रथम या पत्त्यात्मके । प्रतितिष्ठति प्रतिष्ठां प्राप्नोति । इदं पर्द वक्ष्यमाणेष्वपि त्रिषु पयेषु योजनीयम् । भुव इति व्याख्यातम् । वायो द्वितीय, चायतिरूपे । सुवरिति । व्याख्यातम् । आदित्ये तृतीयव्यायतिरूपे । मह इति व्या. ख्यातम् । ब्रमणि कार्य ब्रह्मान्तःकरणशुद्धौ ब्रह्मज्ञानोत्पादात्परे ब्रह्माणि वा । अत्र यद्यपि मह इति चन्द्रमशीति वत्त व्यं प्रायःपाठात्तथाऽप्युपास्याङ्गाङ्गिजातं सर्व व्याप्नो- तीत्येतदर्शयितुमनास्था दिन चन्द्रम परित्यज्य मह इति ब्रह्म ती वोररीकृत्य मह इति ब्राह्मणीत्याह । व्याहृत्युपासनामात्रान्निर्गुणब्रह्मपातिरितिशङ्कानिवारणार्थमाह--अ.मोति प्राप्नोति । स्वाराज्यं स्वयमेव रजते दीप्यत इति स्वराट् तस्य भावः स्वागज्यम् । ननु केवलब. प्राप्तिरप्येतावपेत्यत आह-आप्नोति प्राप्नोति । मनसस्पति मनःशब्दोपलक्षि- तस्य ज्ञानक्रियाशक्तेरन्तःकरणय पति पालयितारम् । स्वोपाधिकत्वाभिमानेन हिरण्य. गर्ममित्यर्थः । तं प्राप्य क्रियाज्ञानकरणानां तद्वत्प्रभु वितीत्याह-वाक्पतिर्वागिति कोन्द्रियमात्रस्योपलक्षणम् । वाचः पतिर्वाक्पतिः । चक्षुष्पतिः श्रोत्रपतिः स्पष्टम् । व:श्रीत्रयोहगं त्वग्वाणरतनानामुपलक्षणार्थम् । विज्ञानपतिर्विज्ञानं बुद्धिस्तस्य पतिर्विज्ञानपतिः । विज्ञानशब्दोऽव्याकृतव्यतिरिक्तस्य सर्वस्योपलक्षणार्थः । १स र्थः । केशान्तं वि" । २ ग. °ण प्रव' । ३ ग, 'षः । यः स्त' । ४ ख. "त्पाद. नात्प १५ग. 'तिचार ।
[शीक्षाध्याये, अ० १] तैत्तिरीयोपनिषदीपिका। अपेक्षितं सर्वमप्युक्त्वेदानीं 'महो ब्रह्म तस्मिन्नयं पुरुषः' इत्यादिनोपास्यत्वेनोक्तं यदुत्पन्नब्रह्मज्ञानेः प्राप्यमङ्गीभूतं वक्तुमारभने संक्षेपेण प्राचीनयोग्यम्य पितृरूपा श्रुतिः स्वपुत्रस्योपासनार्थम् । एतदेतस्मिन्याहृत्युपासने प्रधानभूतम् । ततो भवति तस्मात्का. रणाद्भवति । उक्तमिति शेषः । आकाशशरीरमाकाशोऽकृतं शरीरमिव म्वं यस्य तदाकाशशरीरम् । ब्रह्म तद्ब्रह्मेति, महान्याहृत्यमिन्नं यदुक्तं देशकालवस्तुपरिच्छेदशू- न्यम् । सत्यात्म सत्यो बधिरहित आत्मा चिदानन्दम्वभावो यस्य तत्सत्यात्म । प्राणारामं प्राणेष्वारमत इति प्राणारामं सर्वप्राणिस्थितमित्यर्थः । तटस्थत्वाकां वारयति- मनआनन्द्रं मनस आनन्दो यस्य तन्मनआनन्दम् । तर्हि दुःखीत्याशङ्कयाऽऽह- शान्तिसमृद्धं शान्तिर्दु.खोपरतिस्तया समृद्धं संपन्नं सर्वदुःखशून्यमित्यर्थः । नन्वस्तु सर्वतोत्कृष्टं तथाऽपि सर्वभेदान्मरणमप्यस्यैवेत्यत आह-अमृतं मरणशू- न्यम् । यदभेदादन्यस्यापि मरणमपगच्छति कुतोऽस्य कालकालम्य मरणमित्यर्थः । इत्य. नेन प्रकारेण तदहमस्मीत्यवगन्तुमशक्तश्चेत्याचीनयोग्य प्राचीनेषु पुरातनेषु काश्यपा. दिषु योग्योऽधिक: प्राचीनयोग्यः सर्वेभ्य उत्कृष्ट इत्यर्थः । तस्य संबोधनं प्राचीनयोग्य उपास्स्व " महोव्याहृतिरूपमिदमहमस्मि ममाङ्गामीतरा यथोक्ता व्याहृतयः " इति शाखान्तरमासेद्धं वा " मनोमयः प्राणशरीरः " इत्यादिरूपं व्याहृत्युपासनाव्यतिरि. क्तमुपास्स्व विजातीयप्रत्ययशून्येन सजातीयप्रत्ययप्रवाहेण यथोक्तधर्म साक्षात्कुर्वित्यर्थः। अथवा को हिरण्यगर्भप्राप्तौ पुरुषार्थ इत्याशङ्कय व्याख्येयम् । नतो हिरण्यगर्भपानेर- नन्तरमुत्पन्नब्रह्मज्ञान एतद्वक्ष्यमाणं ब्रह्म भवति । अस्मिन्पक्ष इत्यारम्य प्राचीनयोग्यपि- तुक्यिं द्रष्टव्यम् ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकगनन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याये पश्चमोऽनुवाकः ॥ ६ ॥ अथ शीक्षाध्याये षष्टोऽनुवाकः । चतसृणां व्याहृतीनामुपासन उक्ते तदनन्तरभाविनी पञ्चसंख्यामुररीकृत्य पञ्चभूतात्म- कविराट्माठिफलं पाङ्क्तमुपासनमाह- पृथिव्यन्तरिक्षं चौर्दिशोऽधान्तरदिशः, स्पष्टाः पृथिव्यादयः पञ्च पदार्थाः । त्रिलोकी प्राच्यादयश्चतस्त्र आग्नेय्यादयश्चेति पञ्चकं लोक- पात्तम् । अनिर्वायुरादित्यचन्द्रमा नक्षत्राणि, स्पष्टा अग्न्यादयः पञ्च पदार्थाः । इदं देवतापातम् । आपो नौराणि । ओषधयो बीयाद्याः । वनम्पतयोऽपुष्पाः १ ग. व य ! २ ख. 'वाधार । ३ क. कालस्य । ४ ग. "तिपदामि।
१३२ शंकरानन्दकवा [शीक्षाध्याये, म..] फलवन्तोऽश्चत्यादयः । आकाशो भूताकाशः । आत्मा भौतिको देहोऽधिदेवादिः । इतिः समाप्तौ । अधिभूतं भूतानि पृथिव्यादीन्यधिकृत्योच्रमानमधिभूतम् । लोके देवानामपि भूतविकारत्वेन भूततत्त्वमङ्गीकृत्याधिभूतमित्युपसंहारः । अयाधिभूतपाङ्क्तकथनानन्तरम् । अध्यात्ममात्मानमिमं स्थूलदेहमधिकृत्य पाइ तमुच्यत इति शेषः । माण उच्छासकर्मा क्षुत्तृडधिकारी । व्यानः प्राणापानयोः संधिस्थों वीर्यवत्कर्महेतुः । अपानो निःश्वासकर्मा मलमूत्रादिविसर्गहेतुः । उदानः सर्वसंधिषु कीलवदयस्थितः । यच्चलने हिक्कादिः प्राणापानादीनामप्यनवस्थितिः सर्वपाणबन्धनमूर्ध्व. गामी मरणहेतुः । समानोऽशितस्य पीतस्य चाऽऽपादमस्तकं समं यथायोगं नयन करोतीति समानः । इदं प्राणादिपञ्चकं वायुपाङ्क्तम् । चल रूपग्राहकमिन्द्रियम् । श्रोत्रं शब्दग्राहकमिन्द्रियम् । मनः साधारणज्ञानकारणम् । वाग्वागिन्द्रियमामवदनका. रणम् । स्वस्पर्शोपलब्धिकारणमिन्द्रियम् । इदं चक्षुरादिपञ्चकमिन्द्रियपाङ्क्तम् । चर्म स्वगिन्द्रियाधिष्ठानमापादमस्तकं व्याप्य व्यवस्थितम् । मांसमन्नस्य मध्यमः परिणामो मृदुलो घनीभूतः । स्लावा धमनिः, नातावेकवचनत्वान्नाड्य इत्यर्थः । अस्थि प्रसिद्ध धेतं शरीरशालावंशस्तम्मादिरूपम् । मज्जा रुधिरमांसयोरन्तरावस्थोष्णकालनिशीतल- प्रदेशस्थघृताकाराऽस्थ्नोऽन्तर्गता । इदं चर्मादिपञ्चकं धातुपाङ्क्तम् । एतदुक्तं पृथिव्या दिकं मज्जान्तम् । अधिविधायाधिकृत्य पञ्चकमुपलभ्येत्यर्थः । ऋषिदो वेदार्थद्रष्टा वा । अवोचदुक्तवान् । पाङ्क्तं पञ्चाक्षरं(र)पङ्क्तिच्छन्दोरूपम् । वै प्रसिद्धं पञ्च- संख्यात्वेन । इदं पृथिव्यादिकम् । सर्व निखिलम् । पाङ्क्तेनैव पञ्चसंख्याक्रान्तेनैव पातं पञ्चसंख्याक्रान्तम् । स्पृणोति प्रीणयति । पोष्यपोषणादिकं सर्व पातमित्यर्थः । पाङ्क्तं वा इदं सर्वं यतस्ततः पातेनैव पाङ्क्तं स्पृणोतीति योजनीयम् । इत्यनेन प्रकारेण । स्वयं पञ्चात्मको विश्वं चेदं पश्चात्मकं सर्वेणाभिन्नं पश्चात्मकं स्वात्मानं जान- तस्ताग्विराप्राप्तिफलमर्थसिद्धमिति श्रुति!क्तवती ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति- रीयोपनिषद्दीपिकायां शीक्षाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ शीलाध्याये सप्तमोऽनुवाकः । पञ्चसंख्यासामान्यात्पाङ्क्तमिदं सर्वमित्युक्तं तेन सर्वात्मकं ब्रह्म हृदिस्यं ब्रह्मणश्च कोशभूत ओंकारः पूर्वमुक्तः । इदानी तत्कोशत्वोपपादनार्थ पुनरोंकारस्योपासन- १क. ग. "रणं का। २. ग. न्यायाव । ३ ग. 'लोपासना।
[शीक्षाध्याये, १०.] तैत्तिरीयोपनिषदीपिका। १३३ माह-ॐ ब्रह्मवाचकः । इतिरोंकारानुकरणार्थः । ब्रह्म वाच्यम् । अमिधानामिधे. ययोस्तादात्म्यावाचके वाच्यस्य दृष्टिः करणीया । शालग्राम इव विष्णोरित्यर्थः । ननु सति साम्य ओंकारब्रह्मणोरोंकारे तवृष्टिः क्रियमाणोचिता स्यादन्यथाऽन्धगोला झूलन्याय- मात्रमित्यत आह-ओमिति व्याख्यातम् । इद५ सर्व विविधप्रत्ययगम्य कार्यकारणादि निखिलम् | अयमर्थः-शब्दप्रपञ्चः सर्वोऽप्योंकारेण व्याप्त इति नात्रोपपादनीयं किंचि. दस्ति । सब्दार्थयोस्तादात्म्ये विप्रतिपत्तावपि वाचकत्वलक्षणेऽविनामावे न विवादः । यद्येनाविनामूतं तत्तस्य कार्यम् । यथा धूमाग्न्योः। कार्यकारणयोः साम्यं यथा मृद्धटयोः। तत ओंकारस्याऽऽत्मनश्च सर्वामिन्नत्वादस्ति साम्यमित्याकारोपासनार्थमोकारो लौकिक वैदिकव्यवहारकारणत्वेन स्तूयते । ओमिति व्याख्यातम् । एतदोंकारामिधानम् । अनुकृति गच्छ पिच पठेत्यादिवचन- मनु भृत्यादेरङ्गीकारवचनमोमिति करणमनुकृतिराह । ह किल । स्म प्रसिद्धम् । वै स्मर्यमाणम्। अपिरभ्युच्चये। न केवलं लौकिकव्यवहारकारणमोंकारः, किंतु वैदिकस्यापि । 'ओ' ओमित्यर्थः । श्रावय हविषः परित्यागार्थ मन्त्रं देवा श्रावय। इति, अनेन प्रकारेण । उक्ते वैदिके कर्मण्यत्विज आश्रावयन्ति समन्ताद्देवान्मन्त्रश्रवणं कारयन्ति । ओमिति व्याख्यातम् । सामानि गीतिसहिता ऋचः । गायन्ति यज्ञकर्मण्यन्यत्र चे पठन्ति । ओं व्याख्यातम् । शो शं सुखं तदेवोर शोमित्यनुकरणार्थः । शस्त्राणि शस्त्रशब्दाभिधेयानृग्विशेषान् । शसन्ति पठन्ति यज्ञकर्मण्यन्यत्र , । ओमिति व्याख्यातम् । अध्वर्युर्याजुष ऋत्विक् । प्रतिगरं गरणम् । वाङ्मनःकायानां विहित व्यापारमात्रं गरः, तेन संबद्धं प्रतिगरः कर्म, तं प्रति कर्मणि कर्मणीत्यर्थः । गृणाति शब्दं करोति । प्रतिगरं यजुर्विशेष वा प्रतिशृणाति पठति । मास्मिन्पक्ष ओमित्यु- चार्येति शेषः । ओमिति व्याल्याम्त । ब्रह्मा, ऋत्विग्विशेषः । मसौत्यनुजानाति । ओमिति व्याख्यातम् । अग्निहोत्रं जुहोतीत्युक्ते होमादिना समीपस्थोऽग्निहोत्रं नित्यं काम्यं वा कर्मानुजानाति जुहुधीत्यनुज्ञा पयच्छति । ओमिति व्याख्यात । ब्राह्म- णोऽध्येष्यमाणः । प्रवक्ष्य पाठार्थ प्रकर्षेण वचनं करिष्यन् । आह ब्रूते । ओंकारवदने कारणमाह-ब्रह्म वेदम् । उपामवानि । स्वाधीनत्वलक्षणेन सामी- * यथा कस्यचिदन्धस्य स्वैप्सितस्थलं गन्तुमशक्नुवानस्य हस्ते केनचिदुष्टेन बलीवर्दस्य लाङ्ग्लं दत्त्वैष त्वामीप्तितस्थलं प्रापयिष्यतीत्युक्त्वा प्रस्थापितोऽन्धो मोक्षभयादोपुच्छं दृढं गृह्णन् लाङ्लग्रहणमसहमानेन शर्कराकण्टकोपलादिषु जवात्प्रधावमानेन गवा व्यापाद्यते स एष गोला. गलन्यायः। क. ग. 'स्याप्योमोमि।२ ग. वा।३ ग. वा । ४ ख. 'मू । ब्रह्मणः । । ५ म. 'णे सामान्येन वा।
- - शंकरानन्दकृता-- [शीक्षाध्याये, अ०८] प्येन प्रामवानि । इति, अनेनाभिप्रायेण । ननु किममिप्रायमात्रमित्याशङ्कय नेत्याह- ब्रह्म वेदमेव । उपामोति । स्वाधीनत्वसामीप्येन प्राप्नोत्येव न त्वभिप्रायमात्रम् । अत्र फलं च ब्रह्मज्ञानोत्पादद्वारेण सर्वात्मत्वप्राप्तिरनुक्ताऽपि द्रष्टव्या । अथवा : ओमिति ब्राह्मणः' इत्यादिकं फलवचनम् । अस्मिन्पक्षे ब्राह्मणः साधनचतुष्टयसंपन्नः संन्यासी प्रवक्ष्यन्प्रकर्षेण ' तत्त्वमसि' । अहं ब्रह्मास्मि ' इत्यादिवचनजातं वक्ष्यन्ब्रह्म सत्यज्ञा. नादिलक्षणम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ शीक्षाध्यायेऽष्टमोऽनुवाकः । ननु-एवमप्युपासनैर्यस्यान्तर्मुखता न स्यादस्ति च मुमुक्षा किं तेन करणी- यमित्याशङ्कय कर्मैव तेन ६रणीयमित्याह-ऋतं च यथाशास्त्रकर्मविषयं ज्ञानम् । पकारः स्वाध्यायप्रवचनाम्यां समुच्चयार्थः । स्वाध्यायप्रवचने च स्वाध्यायोऽध्ययन प्रवचनं ब्रह्मयज्ञोऽध्यापनं वा । नकागेऽनयोरुतेन ममुच्चयार्थः । सत्यं मनःकायाभ्या- मनुष्ठीयमानं कर्म सत्यवचनं वा । नपा कृच्छ्चान्द्रायणादिरूपं स्वधर्मवृत्तित्वं वा । दमो बाह्येन्द्रियनिग्रहः । शमोऽन्तःकरणोपशमः । अग्नयस्त्रयः पञ्च वा । अग्निहोत्रं नित्यं श्रौतं कर्म मायंत्रातहोंमोपलक्षितम् । अनिथयोऽज्ञातकुलगोत्रा ब्राह्मणादयोऽश. नायर्थ दर्शादितिथिमन्तरेणापि गृहान्समागताः । अतिथिशब्दितसोमोपलक्षितयागा वा । मानुषं पुत्रादिविवाहादी बन्धवादी यथोचितं पूजनम् । प्रजा पुत्रादिका । प्रजनः प्रजननमृतौ मार्यागमनमित्यर्थः । प्रजातिः पौत्राद्युत्पत्तिः पुत्रायानुरूपा प्रिया घ मार्या तादृशश्च वरः कन्याये । एवं पौत्रपौध्यादेरपि संपादनीयमित्यर्थः । अत्रोमि. त्यादी संपादनीयमिति द्वादशम्वपि पर्यायव्येकवचन द्विवचनबहुवचनानुसारेणाध्याह. रायम् । सर्वत्र च स्वाध्यायप्रवचनयोः पाठस्तत्रात्यन्तमादरदर्शनार्थः । शेषमेकाद. शस्वपि पर्यायेषु समानपाठमृतमिति पर्यायवद्वयाख्येयम् । इदानीमृषीणां मतान्यत्रोपन्यस्यति--- सत्यमुक्तम् । इति, एव । सत्यवचाः सत्य. वादी, नामधेयं वा । राधीतरो रथीतरगोत्रः । अनुष्ठेयं मनुत इति । अत्र वक्ष्यमाणेऽपि यथायोगमध्याहरणीयम् । तप इति । तप एवं । तपोनित्यस्तपसि नित्यं वर्तत इति तपोनित्यो नामधेयं वा। पौरुशिष्टिः पुरु बहुवेलं मातृपित्राचार्यैः शिष्टः पुरुशिष्टस्तस्या. पत्यं पौरुशिष्टिः । १ग.च।१ ग. च । ३ ग. "तयोगो वा । ४ ग. 'योग्यम् ।
[शीक्षाध्याय, अ० ९] तैत्तिरीयोपनिषदीपिका • १३२ पूर्वपक्षमुक्त्वा सिद्धान्तमाह-स्वाध्यायप्रवचने व्याख्यातम् । एव न त्वन्य. सत्यं तपो वा । इतीत्थम् । नाको नामतः । मौद्गल्यो मुदं शास्त्रार्थनिर्णयरूपां गलति स्त्रवतीति मुद्गलः, तस्यापत्यं मौद्गल्यः । अस्य पक्षस्य सिद्धान्तत्वमुपपादयति- तत्स्वाध्यायप्रवचनानुष्ठानम् । हि यस्मात् । तप उक्तमुपलक्षणमिदं सत्यस्यापि । तस्मादिदमेवाधिकामिति शेषः । अस्य पक्षस्याऽऽदरार्थ द्विवचनम् । तद्धि सपो व्याख्यातम् ॥ इति श्रीमत्परमहंसपरिव्राजकार्यश्रीमच्छकरानन्दविरचितायां ददार्यबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याये:ष्टमोऽनुवाकः ॥ ८ ॥ अथ शक्षाध्याये नवमोऽनुवाकः । ननु-अध्ययनस्य ब्राह्मण्यनातिप्रयुक्तत्वेन कर्तव्यतया सिद्धत्वाद्वतस्य करणीय, ताऽध्यापनस्य वा (१) । नित्यत्वान्न तस्यापि निन्यः स्वाध्याय: स्वाध्यायप्रवचनश. ब्दाभ्यां प्रतिपाद्योऽतः शिष्यते । न चासावपि कुतः शक्योऽनेककार्यव्यग्रत्वात् । न चाशक्यं विदधाति विधिः । ततः स्वाध्यायप्रवचने एवेति यत्किंचिदेतदित्याशङ्कयैत- तन्मन्त्रमानं नित्यं जपनीयम् । अन्यत्तु यथाशत्तिः । तावताऽशक्यत्वाभावादित्यभिप्रा- थवालाह-अहं नित्यस्वाध्यायस्य कतो । वृक्षस्योर्ध्वमूलस्यावाक्शाखस्य वनस्पतेरधि- देवादिभिन्नस्य स्थूलसूक्ष्मशरीरस्येत्यर्थः । रेरिवा प्रेरयिता । कीर्तिः स्ववर्णाश्रमोचि. तानुष्ठानकारित्वेन विद्यया चेहामुत्र पुण्यं यशः । पृष्ठमत्युच्छ्रितं शृङ्गं लोकद्वयदर्शनस्य विषयः। गिरेरिख पर्वतस्य मेरोयथा तथा । मम स्यादिति शेषः । ऊर्ध्वपवित्र ऊर्ध्व कारणं पवित्रं ब्रह्म यस्य मम देहादिसंघातस्य सोऽहमूवपवित्रो वृक्षोऽप्यहमेवेत्यर्थः । वाजिनीव वाजोऽन्नं देवानां रोहितादिरूपं प्रसिद्ध,मस्मदादीनां चास्यास्तीति वाजी सविता तस्मिन्यथा स्वमृतं सुष्ठवमृतं रोहितादिरूपमानन्दात्मस्वरूपं वाऽस्मि । द्रविणं धन हिरण्यादिरि (क) वाऽऽनन्दात्मस्वरूपम् । सवर्चसं वर्चस्तेजो ब्रह्मसाक्षात्कार- स्तेन सह वर्तत इति सवर्चः, सवर्च एव सवर्चसम् । सुमेधाः सुष्ठ मेधा ' तत्त्वमसि । ' अहं ब्रह्मास्मि' इत्यादिश्रुतधारणरूपा यस्य स सुमेधाः । अमृतोक्षितः, अमृतेन गुरुकटाक्षेणोक्षितः सेचितः, अमृतो मरणशून्योऽक्षितो विकारान्तरहीनो वा । तथा मम स्यादिति । अध्याहारामा साम्यज्ञानं कीर्तिरप्यहमस्र्माति व्याख्येयम् । श्रुतिराह-इति अनेन प्रकारेण । स्वधर्मनिष्ठस्याऽऽदर्शनसंपन्नस्य त्रिशङ्कोराध्यात्मिकाधिभौतिकाधि- देविका दुःखस्वरूपाः शङ्कयो यस्य स त्रिशङ्कुः । तस्य भृशं संसारतापैः संतप्तस्य wand १ ग. "वे सर्वामहा।
. शंकरानन्दकृता [शीक्षाध्याये, अ०१० परमवैराग्यं प्राप्तस्येत्यर्थः । त्रिशकुनाम्नो वा । वेदानुवचनमहं संसारस्य प्रेरयिता [प्रायशः संसारोऽविद्यया, वस्तुतस्त्वानन्दात्मस्वरूपो ब्रह्मासाक्षात्कारवान्गुरुकटाक्ष पातेनेति वेदनं वेदः । तमनु पश्चाद्वचनम् ' अहं वृक्षस्य ' इत्यारम्य ' अपृतीक्षितः। इत्यन्तं वेदानुवचनम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराजन्दावराचेतायां पदार्थबोधिन्या तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याय नवमोऽनुवाकः ॥९॥ अथ शीक्षाध्याये दशमोऽजुवाकः । सल्यादीन्यनुष्ठेयान्यन्तमुखेन(ग) मुमुक्षुणा । तानि किं सात मुमुक्षुत्व एवानुष्ठेयानि नेतरथेत्याशय मुमुक्षुत्वेऽमुमुक्षुत्वे वोपनयनमारम्याऽऽब्रह्मसाक्षात्कारमाश्मशानं वा स्ववर्णाश्रमोचितानि कर्माणि करणीयानीत्येतदर्थं गुरुकुलात्प्रवसतो ब्रह्मचारिण इदमु. पदेश्यमाषायेंगेत्यभिप्रायेगाऽऽह-वेदमुगाबन्यतमं स्वशाखामात्रं वा । आदरो नैकवचने द्वौ त्रीश्चतुरो वा साङ्गविद्योपविद्या( वेदोपवेदा )न् । अनूच्य तदुपनय- नमन्क्त्वा । आचार्यः शिष्यमुपनीय कल्परहस्यादिसहितस्य वेदस्य वक्ता । अन्ते. वासिनं छायावदपरित्यागिनमाहानेनाध्ययनस्य कर्तारमित्यादिशिष्यलक्षणसंपन्नं शिष्य. मनुशास्ति वेदवचनमनुशासनं करोति । अनुशासनं कुर्यादित्यर्थः । सत्यं यथाप्रमाण- दृष्टं हितं प्रियं च वचनम् , वदोच्चारय । धर्म स्ववर्णाश्रमविहितं कर्म चर, आचर । स्वाध्यायोन्नित्यस्वाध्यायात् , मा प्रमदः प्रमादं मा कार्षीः । आचार्याय मह्यं, पियमिष्टं धनं गोधनादि, आहृत्य समस्तविद्यानिष्क्रयार्थ, सदृशान्दारान्स्वीकृत्य प्रजातन्तुं पुत्रपौत्रादिसंतति, मा व्यवच्छेत्सीयवच्छेदं मा कार्षीः । पुत्रपौत्राद्यर्थ दृष्टार्थोऽदृष्टार्थश्चौद्यमः करणीय इत्यर्थः । सत्यादीनां कर्तव्यतोता, तेषामन्येषां च करणीयता, तेषामेव कदाचिद्वारणीयतेति बुद्धिं वारयितुमाह-सत्यादुक्तान प्रमदितव्यं प्रमादो न करणीयः । निरन्तरं तदेवानुष्ठेयमित्यर्थः । धर्मादुक्तान प्रमदितव्यं व्याख्यातम् । कुशलात्क्षेमकरात्कर्म- मोऽसार्यान्न प्रमदितव्यं ब्याख्यातम् । भूत्यै भूतेरैश्वर्यात् । न प्रमदितव्यं याख्यातम् । स्वाध्यायप्रवचनाभ्यां नित्यखाध्यायाधीताविस्मृती दृष्टार्थाध्यापना- र्याभ्याम् । न प्रमदितव्यं व्याख्यातम् । यद्यपि ' स्वाध्यायान्मा प्रमदः इत्य नेनैव स्वाध्याये प्रमादराहित्यं प्राप्तं तथाऽपि सर्वेभ्यः कर्तव्येभ्यः स्वाध्याये महा- न्यत्नः करणीय इत्येतदर्थं पुनः स्वाध्यायेत्याह । देवपितृकार्याभ्यां देवकार्य दर्शन पौर्णमासादि पितृकार्य पिण्डपितृयज्ञादि, अथवा देवकार्य वृद्धिश्राद्धादि पितृकार्य १ग, नमुक्त्वा । २ ख. ग. 'यात् । मा। ३ ग. णो दर्शायाम : ४ ख. 'स्मृतिह।
[शीक्षाध्याये, अ० १०] तैत्तिरीयोपनिषद्दीपिका। १३७ मृतश्राद्धादि ताभ्याम् । न प्रमदितव्यं व्याख्यातम् । मातृदेवो माता देवो यस्य स मातृदेवो भव भूयाः । पितृदेवः पिता देवो यस्य स पितृदेवो भव भूयाः । आचा- यदेव आचार्यों देवो यस्य स आचार्यदेवो भव भूयाः । अतिथिदेवोऽतिथिदेवो यस्य सोऽतिथिदेवो भव भूयाः । जननीजनकाचार्यातिथीनामभीष्टदेवतावत्परिचर्या कुवैस्तदुक्तकारी कर्मणा मनसा वाचा तदिष्टामेव चेष्टां कुरु, मा प्रमादेनापि तदनिष्ट- चेष्टामित्यर्थः। ननु यद्यत्पूवैः कृतं तत्करणीयम् । तथा च जामदग्न्यः स्वजननी जघान, शुन: शेपः स्त्रजनकं तत्यान, याज्ञवल्क्यस्त्वाचार्य, गौतम इन्द्रमतिथिं, ब्रह्मा स्वसुतां जगाम, इन्द्रस्त्रिशीर्ष ब्राह्मणं जघान, क्षत्रियो बलदेवः सुरां पपो, सोमो गुरोर्मायाँ जहार, इत्यादिमहतामाचारानुसारादहमप्यनुष्ठास्यामीत्यत आह-यानि प्रसिद्धानि अनवद्यानि, अदुष्टानि महतामप्याचरितानि शास्त्रे लोके वा निन्दारहितानीत्यर्थः । कर्माणि लौकिकानि वैदिकानि वा कर्तव्यानि । तान्युक्तान्यनिन्दितानि महतामपि । यथा जामदग्न्यः पितृवचनं चकार, शुनःशेपो विश्वामित्रस्योपकारं न विसस्मार, याज्ञ. वल्क्यस्तपसाऽऽदित्यमवाप्य शुक्लानि यषि प्रतिपदे, गौतमः स्वमार्यानारायापीन्द्रीय प्राणपर्यन्तं कोपं न चकार, ब्रह्मा पुत्रोत्पत्त्यर्थं महान्तमुद्यमं चकार, इन्द्रश्च त्रिलोकी- स्वास्थ्याय निन्दितां हत्यामपि स्वीचकार, बलदेवश्च शेषोऽपि देवब्राह्मणकार्यार्थ शुक्र- शोणितशरीरमपि स्वी चकार, सोमो गुरोगरीयसी कीर्ति चकार, इत्यादीनि त्वया सेवितव्यानि, अनुष्ठेयानि । ननु-पितुर्व(तृव)चनकरणादीन्यनुष्ठास्यामि महद्भिः कृतत्वान्मातुर्व(तृव)धादीनि चेत्यत आह-नो निषेधार्थः । इतराणि मातुर्व(तृव)धादीनि [न] सेवितव्यानीत्यनुषङ्गः । : ननु तयन्यैः कृतान्यवद्यानि कर्माणि नानुष्ठास्यामि किंतु भद्गुरुभिर्भवद्भिः सेवितानि सर्वा ण्यपि वेदैर्वोक्तानि “अग्निहोत्रं जुहोति" "न कांचन परिहरेत्" इत्यादीन्यनुष्ठास्या- मीत्यत आह-यानि प्रसिद्धानि, अस्माकमाचार्याणां वेदानां वा सुचरितानि विहि. तानि कर्माण्यस्माभिरनुष्ठीयमानानि “ अग्निहोत्रं जुहुयात् " इत्यादीनि वेदैरुक्तानि वा शोभनानि लोकद्वयश्रेयस्करत्वेन । तानि, उक्तानि सुचरितानि । त्वया शिष्येणोपा- स्यानि निरन्तरमनुष्ठेयानि । निन्दितानामाचार्यैः कृतानां वेदैरुक्तानां वाऽननुष्ठेयत्वमाह-नो इतराणि । न परदारगमनादीन्युपास्यानीत्यनुषङ्गः। ये के च संबन्धिनोऽसंबन्धिनो वा तव । ये चास्मदस्मत्तस्त्वदाचार्येभ्यः । श्रेया सोऽतिशयेन प्रशस्याः केचन । तर्हि किं क्षत्रियादय इत्यत्र आह-ब्राह्मणा ब्राह्मणत्वजात्याऽऽक्रान्ताः । तेषामुक्तानां ब्राह्म- १ ग. महतु । २ क. ख. न च ।
१३८ शंकरानन्दकृता- [शीक्षाध्याये, अ०१०] णानाम् । त्ययाऽस्मच्छिष्येण । आसनेनाऽऽसनोपलक्षितसत्कारकरणेन । प्रश्व- सितव्यमासनदानादिना स्वगृहमागतानां प्रश्वासः श्रमापनयः करणीयः । अथवा तेषामासन उपवेशने सभायामित्यर्थः । न प्रश्वसितव्यं प्रश्वासोऽपि न करणीयः किमुत वार्तादिकम् । केवलं तदुक्त माहितया स्थेयमित्यर्थः । श्रद्धयाऽऽस्तिक्यबुद्ध्या । देशका- लपात्रसंपत्ती सत्यां विभवानुसारेण गोभूहिरण्याशनपानादिकं यथोचितं देयं दात- व्यम् । न विपर्यय इत्याह-अश्रद्धया नास्तिक्यबुद्धया । अदेयं न देयम् । श्रिया विमूत्या । देयं दातव्यम् । हिया लज्जया । देयं दातव्यम् । भिया भीत्या । देयं दातव्यम् । संविदा मैत्र्यादिकरणेन । देयं दातव्यम् । श्रियादिनिमित्तेषु दानेष्वास्ति- क्यबुद्धिपुरःसरमेव देयं न तु नास्तिक्यबुद्धयेति तात्पर्यार्थः । अथ महदुपदेशानन्तरम् । यदि पक्षान्तरे । कथंचित्ते तव शिष्यस्य मदुक्तं कर्म जातमनुतिष्ठतः । कर्मविचिकित्सा वा कर्मस्वग्निहोत्रादिषु संध्यावन्दनादिषु वा श्रौतेषु स्मार्तेषु "उदिते जुहोति" "अनुदिते जुहोति" "सावित्री स्त्रीदेवतां पुरुषदेवतां वा" इत्यादिवाक्येभ्यो विचिकित्सा संशयः । वाशब्दो विपर्ययार्थी विपर्ययो वा । वृत्तविचिकित्सा वा वृत्तमाचारः कुलपरम्परागतस्तस्मिन्विचिकित्सा संशयः। यथा केषांचिन्मातुलसुताविवाहमांसभक्षणादिकं किंचिदपरेषां नेत्यादिदर्शनेन । वाशब्दो विपर्थयार्थः । वैदिके लौकिके च कर्मणि संशयोत्पादे विपरीतप्रवृत्तिा पण्डितंमन्य. त्वेनेत्यर्थः । स्याद्भवेत् । तदा ये प्रसिद्धा नीरागद्वेषा यथाशास्त्रानुयायिनः । तत्र तस्मिन्देशे, यत्र भवतो निवासः । ब्राह्मणा ब्राह्मणत्वनात्याऽऽक्रान्ताः । संमर्शिनः समर्शो रागद्वेषोत्सुक्यराहित्येन शास्त्रार्थनिर्णयः। स येषां नित्यमस्ति ते संमर्शिनः । युक्ताः कर्मानुष्ठानयोगरता नित्यनैमित्तिकानुष्ठानशीला इत्यर्थः । आयुक्ता अपरत्र- युक्ताः ।शास्त्रार्थस्य वचनेऽनुष्ठाने चान्यभीतिरहिता इत्यर्थः । अलूक्षा आरूक्षाः कर्ण- कठोरवचनपरानिष्टकारिबुद्धिरहि ।। इत्यर्थः । धर्मकामा धर्म एव कामोऽभिलाषो येषां ते धर्मकामाः । स्युभवेयुः । यथा येन प्रकारेण । ते यथोक्तविशेषणविशिष्टा ब्राह्मणाः । तत्र तस्मिन्कर्मणि वृत्ते वा । वरन्वृत्ति कुरिन्यथाऽनुतिष्ठन्तीत्यर्थः । तथा तेन प्रका. रेण । त्वमपि तत्र कर्मणि वृत्ते वा । वर्तथा वृत्तिं कुरु तद्वत्तदनुतिष्ठेत्यर्थः । अथ, अथवा तेप्वभ्याख्यातेष्वम्युक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्तेषु । व्याख्यातमन्यत्। एष 'सत्यं वद इत्यारभ्य तथा तेषु वर्तेथाः' इत्यन्त आदेशः कर्त. व्यार्थः सत्यादिलक्षणः । तत्कथनेनैष उक्ताओं वाक्यसंदर्भ उपदेशः पित्रादिवचनरूपः। वद' १ग. "सा क । २ ग. पादवि । ३ ग. 'पजा।
[ब्रह्मवल्ल्यध्याये, अ० १] तैत्तिरीयोपनिषदीपिका । १३९ एषोक्ता वाक्यसंततिर्वेदोपनिषद्वेदरहस्यबुद्धिः । एतदुक्तं वाक्यजातम् । अनुशासनं राज्ञामिवाऽऽज्ञाभूतम् । एतदर्थाननुष्ठाने महतो दुःखस्य प्राप्तर्विधीयमानत्वात्सस्नेहमुच्यमा- नत्वाद्वेदसारत्वादकरणे दुःखप्राप्तश्चेत्यर्थः । यत एवं तत एवमुक्तप्रकारं सत्यादिकम् । उपासितव्यं नित्यं निरन्तरमा ब्रह्मज्ञानादा श्मशानाद्वाऽनुष्ठातव्यम् । एतदेव.न त्वन्य- दनुष्ठेयमेव चैतदर्थं पुनराह-एवमु च, एवमेव । चकारोऽवगतिसमुच्चयार्थः । अवगत्य चैतत्सत्यवदनाद्यभ्याख्यातेषु वर्तनान्तम् । उपास्यमुपासनीयं नित्यमनुष्ठेयमित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याये दशमोऽनुवाकः ॥ १० ॥ अथ शीक्षाध्याय एकादशोऽनुवाकः। अध्ययनव्याख्यानोपक्रमोपसंहारयोः शान्तिः पठनीयेति शिष्याशिक्षायितुं प्रपाठकान्ते वक्ष्यमाणविद्योपसर्गशान्त्यर्थमपि कृतायाः शान्तेः फलं दर्शयन्नुक्कामेव शान्तिमनुवाकेन पुनः पठति कानिचित्पदान्यन्यथयित्वा--शं नो मित्रः शं वरुणः । शं नो भवत्व- र्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवा- दिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद- तारम् । ॐ शान्तिः शान्तिः शान्तिः । वदिष्यामीतिपदस्थलेऽवादिषमवत्वितिपद- स्थल आवीदिति विशेषः । शेषं शमित्यारम्य शान्तिरित्यन्तं समानपाठं समानार्थम् । अवादिषमुक्तवानस्मि । आवीत्पालनमकरोत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां शीक्षाध्याय एकादशोऽनुवाकः॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतो तैत्तिरीयोपनिषदीपिकायां पदार्थबोधिन्यां प्रथमः शीक्षाध्यायः समाप्तः ॥ १॥ अथ द्वितीयो ब्रह्मवल्ल्यध्यायः । तत्र प्रथमोऽनुवाकः। यर्थ पूर्वः प्रपाठकः प्रवृत्तस्तां ब्रह्मविद्यां विवक्षुस्तस्यामत्यन्तमादरार्थ प्रकारान्तरेण १ ग. षोकवा । २ क. ग. 'ज्ञामाज्ञा । ३ ग, एवमु ।
- . १४० शंकरानन्दकृता- [ब्रह्मवख्यध्याये, अ० १] पुनः शान्ति पठति-सह समम् । नावावाम् । अवतु साधनज्ञानेन ब्रह्म रक्षतु । सह नौ व्याख्यातम् । भुनक्तु फलज्ञानेन पालयतु । सह समं वीर्य विद्यातेजोतिशयो जीवन्मु- क्तिलक्षणस्तं करवावहै करवाव । तेजस्वि वीर्यवत्तमं नावावयोः । अधीतं गुरुमुखाद- वगतम् । अस्तु भवतु । अथवा तेजस्विनावावां भवावेति शेषः । तेजस्विनोरिति वा व्याख्येयम् । अधीतमस्तु तेजस्वीति शेषः । किं बहुना मा विद्विषावहै प्राणिभिः पर- स्परं वा विद्वेषं मा करवावहै । ॐ शान्तिः शान्तिः शान्तिः, व्याख्यातम् । पूर्वपाठकारम्मे सूचितब्रह्मविद्याया इदानी सूत्रेण फलमाहाधिकारिप्रवृत्तिसिद्धये- ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । आप्नोति । मोक्ष प्राप्तकण्ठस्थामरणवत्प्राप्नोति । परं ब्रह्मदमस्मीत्यविद्यातत्संस्कारशून्यत्वेनाखण्डैकरसमात्मानमवगत्य स एव भवतीत्यर्थः । तत्तत्र ब्रह्मणि ब्रह्मविदः परप्राप्तौ च । एषा वक्ष्यमाणमन्त्रभूता । अभ्युक्ता सर्वतः सर्वार्थप्रकाशकत्वेन कथिता । वेदपुरुषेणेति शेषः । सत्यमनृतनकारार्थविलक्षणम् । तर्हि भावरूपं जडमित्यत आह-ज्ञानं जडविलक्षणम् । यद्यमावमावविलक्षणो भावविशेष स्तर्हि घटादिकमपि तथेत्यत आह-अनन्तं देशकालवस्तुपरिच्छेदशून्यम् । एतावत्ये. वोच्यमाऽभावः स्यात्ततोऽस्य व्यवच्छेदार्थमाह-सत्यमिति । सत्यमनन्तमित्युच्य- माने जडमपि स्यात्तद्व्यावृत्त्यर्थे ज्ञानमित्याह । यद्यपि ज्ञानमनन्तमित्युच्यमाने न सत्यपदस्य कृत्यं ज्ञानस्यासद्विलक्षणत्वात् । तथाऽपि ज्ञानमप्यसदिति सर्वासद्वादिनः सगिरन्ते । तत्पक्षाधिक्षेपार्थ सत्यमित्याह । अयं भावः-येनापि सर्वासत्त्वमङ्गी क्रियते तेनाप्यङ्गी क्रियत एव सत्त्वम् । अन्य- थाऽसत्त्वस्याप्यनुपपत्तेः । तयोनिरपेक्षत्वादिभ्यो हेतुभ्यः सत्त्वस्यैवाङ्गीकारः करणीयो नासत्त्वस्येति । जडवैलक्षण्यं च स्वयंप्रकाशमानानन्दात्मन एवाविद्यायाः सकार्याया जाइये सति दुःखानात्मत्वदर्शनात् । एवं चेज्ज्ञानमित्येवास्तु, कृतमनन्तपदेनापीति न मन्त- व्यम् । अन्तःकरणाविद्यावृत्त्योरपि ज्ञानशब्दाभिधेयत्वात्तदेव ज्ञानमिदमपीति बुद्धिनिवा. रणार्थमनन्तपदस्योपयोगात्पदत्रयमिदं स्वरूपलक्षणमखण्डैकरसार्थ प्रकृष्टप्रकाशश्चन्द्र इत्यादिवत् । इदानी लक्ष्यपदमाह लक्षणार्थसमर्थ(प)कम् । ब्रह्म बृहतेर्धातोरर्थभूतमभ्याधिकम् । आधिक्यं चासज्जडान्तवद्वलक्षण्यमन्तरेण नोपपद्यते । तत इदं सत्यं ज्ञानमनन्तं योऽधि- कारी । वेद जानाति । निहितं निक्षिप्तं गुहायां बुद्धावधिदैवाविभूताध्यात्मभेदेन व्यवस्थितायाम् । सा च कुत्रेत्यत आह-परम उत्कृष्ट भूताकाशात् , व्योमन्न्यो- म्न्यव्या ते बुद्धिकारणेऽविद्याकार्यान्तःकरणवृत्तावभिव्यक्तमेवोक्तलक्षणं ब्रह्म । सर्वोs. प्यधिकार्यहमस्मीत्यवगच्छतीत्यर्थः । स ब्रह्मज्ञानी । अश्नुते तादात्म्येन प्राप्नोति । सर्वान्कामानिखिलान्कामनाविषयान् । सह. युगपत्क्रममन्तरेणेत्यर्थः । केन रूपेण १ क. पाठकाधिकारभेदानां सूत्रे । २ ख०. महमस्मी।
.. [ब्रह्मवलंयध्याये, भ० २] तैत्तिरीयोपनिषदीपिका । युगपत्सर्वान्कामान्प्राप्नोतीत्यत आह- ब्रह्मणा ब्रह्मतादात्म्यरूपेण । ब्रह्मणोऽपि किं रूपमित्यत आह-विपश्चिता स्वयंप्रकाशमानज्ञानकरूपेण । इतिर्मन्त्रपरिसमाप्तौ । ब्रह्मणः स्वरूपलक्षणमुक्त्वेदानी जगज्जन्मादितटस्थलक्षणं हृदि कृत्वा मन्त्रेण संक्षे. पेण व्याख्यातं सूत्रं विस्तरेण ब्याकरिष्यंस्तत्त्वंपदार्थयोरैक्येनाऽऽत्मनो जगत्कारणत्व. माह--तस्मात्सत्यज्ञानानन्तलक्षणाद्ब्रह्मणः । वा आत्मत्वेन स्मर्यमाणात्मसिद्धात् । एतस्माद्बुद्धेर्द्रष्टुः स्वयंप्रकाशमानात् । आत्मनोऽस्मच्छब्दप्रत्ययव्यवहारालम्बनात् । आकाशः शब्दगुणत्वेन प्रसिद्धोऽवकाशः संभूत उत्पन्नः । इदं पदं यथालिङ्गं यथा- वचनं पुरुषान्तेष्वनुवर्तते । आकाशादुक्तात् । वायुः शब्दस्पर्शगुणो नभस्वान् । वायोरुक्तादग्निः शब्दस्पर्शरूपगुणस्तेजोधातुः । अग्नरुक्तादापः शब्दस्पर्शरूपरस- गुणा द्रवात्मिकाः । अद्भ्य उक्ताभ्यः पृथिवी शब्दस्पर्शरूपरसगन्धगुणा कठिना भूमिः । पृथिव्या उक्ताया ओषधयः फलपाकान्ताः । ओषधीभ्य उक्ताभ्योऽन्नम- दनीयं प्रसिद्धम् । अन्नादुक्तात्पुरुषः स्थूलदेहः पुरुषशब्दाभिधेयः । इदानीमेवं पुरुषमुररीकृत्याऽऽत्मनः कोशपञ्चकातीतं रूप विवक्षन्प्रथमं कोशानाह- स उक्तः पुरुषः । वै प्रसिद्धो हस्तपादादिमानेष प्रत्यक्षः । पुरुषो व्याख्यातम् । अन्नरसमयः, अन्नस्याद्यमानस्य यो रसः सारभूतः शुक्रशोणितरूपस्तस्य विकारोऽ- नरसमयः । तस्य पुरुषस्य पक्षिणः । इदमेव प्रसिद्धं मस्तकमेव । शिरो मस्तकम् । अयं दक्षिणो भुजः । दक्षिणो दक्षिण भागस्थः । पक्षः पत्रम् । अयं वामो मुजः । उत्तरो वामभागस्थः । पक्षः पत्रम् । अयं गलमारम्याऽऽकटिस्थलं देशः । आत्माऽऽ. न्तराधीः । इदं कटिस्थलादधःस्थितं पादद्वयम् । पुच्छ लाङ्गूलम् । लाङ्गूलस्य पुच्छत्व उपपत्तिः प्रतिष्ठा प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठाऽऽधार इत्यर्थः । पक्षिणोऽपि पुच्छाधार- त्वमस्माभिरदृष्टमपि प्रतिष्ठेति वचनसामर्थ्यात्कल्पनीयम् । तदपि तस्मिन्नुक्तेऽप्यर्थे पक्षिण्येष वक्ष्यमाणः। श्लोको मन्त्रः । भवति स्पष्टम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थको घिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ ब्रह्मवल्ल्याध्याये द्वितीयोऽनुवाकः । अन्नाददनीयात् । वै प्रसिद्धात् । प्रजा जन्तवः । प्रजायन्ते स्पष्टम् । याः काश्च याः काश्चन निखिलाः । स्वेदजाण्डजजरायुजोद्भिज्जा इत्यर्थः । पृथिवीं ब्रह्माण्डान्त- बहिर्वर्तिनी भूमि श्रिताः । अथो अपि । अन्ननाः सत्योऽन्नेनैवादनीयेनैव । अद्यमानेन जीवन्ति प्राणान्धारयन्ति । अथ जीवैकर्मक्षयानन्तरम् । एनदन्नमग्निभूमिश्वकोटादि- १ क. मात्पु । २ ख. वनक' । ३ ख. श्वविट्की ।
. व्याख्यातश्च पदार्थ: १४२ शंकरानन्दकृता- [ब्रह्मपल्ल्यध्याये, [ब्रह्मवल्ल्यध्याये, अ० २] रूपम् । अपियन्त्यपिगच्छन्त्यन्ने विलीयन्त इत्यर्थः । अन्ततोऽन्ते । तथा च न प्रत्यक्षविरोधोऽपि । सति शरीरेऽन्नेऽप्ययस्यानभिधानात् । अन्नं चतुर्विधप्राणिजातश. रीरस्योत्पत्तिस्थितिलयकारणमदनीयम् । हि यस्मात् । भूतानां चतुर्विधानां प्राणिनाम् । ज्येष्ठमतिशयेन वृद्धं कारणमित्यर्थः । तस्मात्ततः । सर्वोषधं सर्वस्य प्राणिजातस्यौषधं क्षुत्तृड्रोगस्य वारणम् । उच्यते कथ्यते । इदानीमन्नमयस्य पक्षिवत्कालव्याधकद कृतस्य कारणान्नप्रशंसाप्रसङ्गेनाऽऽत्मज्ञाना. भिमुखत्वार्थ फलेन प्रलोभ्यान्नोपासनमाह-सर्वं निखिलं वै प्रसिद्धं ते वक्ष्यमाणाः। अन्न मदनीयम् । आप्नुवन्ति प्राप्नुवन्ति । य उपासकाः । अन्नमदनीयं ब्रह्म सर्वस्मादधिक ब्रह्मज्ञानेनेत्यर्थः । उपासत एकरूपेण प्रत्ययप्रवाहेण साक्षात्कुर्वते । पूर्वमन्नस्य सर्वभूत- कारणत्वार्थमुक्तमिदानीं तदेव ब्रह्मतादात्म्योपासनोपपत्तये ब्रह्मसमानधर्मत्वं दर्शयितुं पुनः पठति-अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुच्यते । यथा ब्रह्म भूतानां ज्येष्ठमवगतं सद्भवरोगौषधमुच्यते तथा यस्मादन्नं भूतानां ज्येष्ठं तस्मात्सर्वोषधमुच्यते । अपि च यथा ब्रह्मणो भूतानि जायन्ते ब्रह्मणि तिष्ठन्ति च तथाऽन्नाददनीयात्। भूतानि चतुर्विधान्यण्डजादीनि । जायन्त उत्पद्यन्ते । जातान्यु. त्पन्नानि । अन्नेनादनीयेन । वर्धन्ते वृद्धिं गच्छन्ति । ततो ब्रह्मणा समत्वाद्युक्तमन्नस्य ब्रह्मणा तादात्म्येनोपासनमिति भावः । इदानीमन्नशब्दार्थमाह-अद्यते मक्ष्यते । भूतैरिति शेषः । अत्ति च भक्षयत्यपि । चकारः कर्मकर्तृव्युत्पत्त्योरन्नशब्दे समुच्चयार्थः। भूतान्यण्डजादीनि। तस्माद्यतोऽद्यतेऽत्ति च भूतानि ततः। अन्नमन्नशब्दं तदन्नमुच्यते कथ्यते । इतिः प्रथमकोशपारसमाप्त्यर्थः । तस्मादुक्तात् । वै प्रसिद्धात् । एतस्मात्प्रत्यक्षात् । अन्नरसमयादन्नरसविकारा- स्थूलदेहात् । अन्यः पृथग्भूतः । अन्तरोऽभ्यन्तरः। आत्माऽऽत्मशब्दाभिधेयः प्राणमयः प्राणविकारः । तेन प्राणमयेन । एष प्रत्यक्षः स्थूलो देहः । पूर्णः पार- पूर्णः । स प्रसिद्धः । वै स्मर्यमाणः । एष साक्षिप्रत्यक्षः प्राणमयः । पुरुषविध एव पुरुषाकार एव । मूषानिषित्त द्रुतताम्ररसो यथा ताहगेव न त्वन्यादृशः । तर्हि किं पुरुषः पुरुषान्तरसदृश इति चोभयमपि स्वतन्त्रमित्याशङ्कय नेत्याह- तस्य पूर्वस्य पुरुषविधता पुरुषसदृशताम् । अनु पश्चात् । अयं तस्मादुत्तरः । पुरुषविधः पुरुषसदृशो न तु स्वतन्त्र इत्यर्थः । ततः पूर्ववदस्मिन्नपि कल्पना कर्तुं सुक- रोति मावः । तस्य प्राणमयस्य । प्राण एवोच्छ्वासकारिणी प्राणवृत्तिरेव न त्वन्यत् । शिरो मूर्धा । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । । ख. 'र्णः।प्र।
[ब्रह्मवल्ल्यध्याये, अ० ३] तैत्तिरीयोपनिषदीपिका । १४३ पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । व्यानापानौ पूर्वप्रपाठके व्याख्यातौ । आकाश आकाशस्थः समानः । पृथिवी पृथिवीस्थः सर्वप्राणकीलभूत ऊर्ध्वगाम्युदानः । अनेन हि सर्वे प्राणा ध्रियन्ते स्ववृत्तिसंकोचेन । वाय्वधिकारादाकाशपृथिवीशब्दो यथाक- चित्समानोदा विषयौ नीतौ । अथवा मुख्यार्थतैवानयोः शब्दयोरस्तु । तथा च श्रुतेः कोशेष्वनास्थेति व्याख्येयम् । व्याख्यातमन्यत् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्ल्यध्याये द्वितीयोऽनुवाकः ॥२॥ .. -- अथ ब्रह्मवल्ल्यध्याये तृतीयोऽनुवाकः । प्राणं मुख्यप्राणं देवाश्चक्षुरादयोऽग्न्यादयः । अनु प्राणमनु । प्राणन्ति चेष्टन्ते । मनुष्या मनुजाः । पशवश्व गवाद्याः । चकारः सर्वशरीरसंग्रहार्थः । ये प्रसिद्धार्थाः । प्राणो मुख्यप्राणः : हि यस्मात् । भूतानामण्डजादीनाम् । आयुर्जीवन कारणम् । अनेने देहेन्द्रियात्मवादो निराकृतः । तस्माद्यस्मादायुस्ततः सर्वायुषं सर्वायुरेव सर्वा. युषम् । उच्यते कथ्यते । इदानी मन्त्रोपासनवत्प्राणोपासनाफलं प्राणोपासनं चाऽऽह-- सर्वमेव निखिलमेव । ते वक्ष्यमाणाः । आयुर्जीवनकारणं शतसंवत्सररूपम् । यन्ति गच्छन्ति । ये प्राणं ब्रह्मोपासते । प्राणं मुख्यप्राणम् । व्याख्यातमन्यत् । अन्नवत्या. णस्यापि ब्रह्मसमानतां वक्तुं पुनरुक्तस्याभिधानम्-प्राणो हि भूतानामायुः। तस्मा- सर्वायुषमुच्यते । व्याख्यातम् । ब्रह्मणो यथा सर्वायुष्टं तद्वत्प्राणस्यापीत्यर्थः । इति: प्राणकोशपरिसमाप्त्यर्थः । “ तस्यैप एव शारीर आत्मा । यः पूर्वस्य " एतदनन्तरं यद्यपीति शब्दः पठनीयः प्राणकोशस्यात्र परिसमाप्तेस्तथाऽप्यस्य वाक्यस्यान्नमयादधि- कत्वाच्छङ्कोत्तरत्वाच्चैतस्मात्पूर्वपाठ इतिशब्दस्य । अथवा पाठक्रमादर्थक्रमस्य बलीय- स्त्वादत्र पठितस्यापि तदनन्तरं संगतिरवगन्तव्या । ननु-पूर्वस्मात्पुरुषादनन्यः प्राणमय तस्य तदन्तःपातित्वाद्धस्तपादादिवदित्यत आह- तस्यान्नमयस्य । एष एव समनन्तरोक्तः प्राणमय एव । शारीरः शरीरे भवः । आत्मा सर्वव्यवहारकारणत्वेनाऽऽत्मा । यः प्राणमयः । पूर्वस्य प्राणमयात्पूर्वस्य । तस्य पूर्वस्य यः प्राणमय एष एव शारीर आत्मेत्यन्वयः । अयं भावः-प्राणो न च स्थूलशरीरान्तःपाती । तथा च सति नासापुटनिर्गतस्तद्वदेव चाक्षुषः स्यादिति । तस्माद्वा एतस्मात्माणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः। १ ख. 'स्य पठितत्वात् ।।
१४४ शंकरानन्दकृता- ब्रह्मवल्यध्याये, अ० ४] ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः। आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । प्राणमयादुक्तात् । मनोमयो मनोविकारः । तस्य यजुर्यजुर्विषया वृत्तिः । ऋगृग्विषया वृत्तिः। साम सामविषया वृत्तिः । आदेशो यजुर्ऋ- क्सामसु ब्राह्मणमादेशरतद्विषया वृत्तिः । अथर्वाङ्गिरसोऽथर्वणाऽङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणानि च तद्विषया वृत्तिः । अन्यत्पूर्वेण समानपाठम् । अन्नमयार्थस्थले प्राणमयं प्राणमयार्थस्थले मनोमयं चोक्त्वा पूर्ववव्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ - अथ ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः । अत्र हि मनोमयस्य चतुर्वेदवृत्तिप्राधान्यमुक्तम् । वेदाश्च ब्रह्मपकाशकत्वान्न ब्रह्मणो मिन्नाः । ततो वेभ्योऽभिन्नं सर्वस्य जगतः कारणं विशेषतश्च मनसः "तन्मनोऽकुरुत" इति वचनान्मनसाऽप्यगम्यरूपं ब्रह्म वदन्मनोमयं स्तौति-यतः सर्वस्य जगतः कारणा. द्विशेषतश्च मनसः सत्यज्ञानानन्दरूपाद्ब्रह्मणः । वाचो यजुर्ब्रक्सामादेशादथर्वाङ्गिरसरूपा अन्याश्च । निवर्तन्ते ब्रह्म वक्ष्याम इति संकल्प्य प्रवृत्तास्तस्मिन्ब्रह्मणि प्रवेशमलम- माना नेति वदन्त्यो वाराङ्गना इव राजगृहाभ्याशाद्यथागत निवृत्त्य भ्रष्टसंकल्पा भवन्ति । निवृत्तिस्तु प्राप्तावप्राप्तौ च संकल्पितस्य दृष्टा । तथा च किं प्राप्य निवर्तन्त इत्याशङ्क्य नेत्याह-~-अप्राप्यालवाऽऽनन्दमित्यन्वयः। ननु वागगम्यानामपि जातीचम्पकके- तकीकुसुमादिगन्धमेदानां मनसाऽवगतिर्यथा तथाऽस्त्वित्यत आह-मनसा यजुरादिपञ्चव- त्तिमता । सह समम्। आनन्दं हिरण्यगर्भस्याऽऽनन्दादप्यतिशयमनन्तमानन्दम् । ब्रह्मणः सत्यज्ञानादिलक्षणस्य । षष्ठीयं शिलापुत्रकस्य शरीरम् ' इतिवव्याख्येया। विद्वान्सा- क्षात्कारवान् । साक्षात्कारेणापगताविद्यो द्वितीयामावान्न बिभेति भयं न गच्छति । कदाचन कदाऽपि । यस्मादेतादृशं ब्रह्मास्य कारणं तस्मादतिश्रेष्ठो मनोमय इति भावः। इतिर्मन्त्रप्समाप्तौ । अथवा मनोमयकोशपरिसमाप्तौ पूर्ववदवगन्तव्यम् । प्राणस्यैवैकदेशो मन इति शङ्कां वारयति-तस्यैष एव शारीर आत्मा । यः पूर्वस्य । पूर्वस्य प्राणमयस्य । यः प्रसिद्धो मनोमय एष एव शारीर आत्मेत्यन्वयः । व्याख्यातः पदार्थः । अनेन प्राणस्याऽऽत्मत्वं निवारितम् । तस्माद्वा एतस्मान्मनो- मयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनेष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धव शिरः । ऋतं दाक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा। महः पुच्छं प्रतिष्ठा । तद्- [ब्रह्मवल्ल्यध्याये,अ० ५] तैत्तिरीयोपनिषद्दीपिका । १४५ प्येष श्लोको भवति । मनोमयादुक्तात् । विज्ञानमयो बुद्धिविकारः । श्रद्धाऽऽ- स्तिक्यसंपन्नबुद्धिवृत्तिः । ऋतं शास्त्रार्थविषये मानसव्यापारविषया वृत्तिः । सत्यं तस्मिन्नेव वाक्कायाभ्यामनुष्ठीयमाने तद्विषया वृत्तिः । योगः शास्त्रार्थविषये संदेह- विपर्यरहिता वृत्तिः । महः, अनया हि यागाद्यनुष्ठाने मनोभा वरवुद्धितत्त्वं प्रथम महत्तत्त्वाख्यम् । प्राणमयार्थस्थले मनोमयार्थस्थले विज्ञानमयं पठित्वा शेष समानपाठं पूर्ववव्याख्ययेम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः । विज्ञानं बुद्धिः । यज्ञं दर्शादिकं तनुते विस्तारयति । कर्माणि वैदिकानि स्मार्ता न्यग्निहोत्रसंध्यावन्दनादीनि लौकिकानि च कृषिवाणिज्यादीनि । तनुते बिस्तार पति अपि च यज्ञविस्तारेणाभ्युच्चयार्थावपिचौ । विज्ञाने कर्मविस्तारादर्विज्ञान बुद्धिं देवा वागादयोऽग्न्यादयश्च । सर्वे निखिलाः । ब्रह्म सत्यज्ञानादिलक्षणं ज्येष्ठमतिशयेन वृद्धं कारणमित्यर्थः । ज्येष्ठत्वं विज्ञानस्य ब्रह्मणश्च साम्यं तयोस्तादात्म्योपासनार्थमुक्तमित्य- वमन्तव्यम् । उपासते ब्रह्मतादात्म्येनोपासनं कुर्वते । विज्ञानं ब्रह्म व्याख्यातम् । चेद्यदि । वेद वेदव्यतिरिक्तोऽपि जानात्युपासीतेत्यर्थः । तस्माद्विज्ञानब्रह्मोपासनात् । चेद्यदि । न प्रमाद्यति प्रमादं न गच्छति बहिर्मुखो न मवतीत्यर्थः । शरीरे स्थूलश- रीरे । पाप्मनो हिरण्यगर्भप्राप्तिप्रतिबन्धकारणानि । हित्वा परित्यज्य । सर्वानिखि- लान् । कामान्कामनाविषयान् । हिरण्यगर्भतादात्म्येन समश्नुते । सम्यक्प्राप्नोति । इतिर्मन्त्रसमाप्तौ विज्ञानमयकोशसमाप्तौ वा पूर्ववत् । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्य पूर्वस्य मनोमयस्य यो विज्ञा- नमय एष एव शारीर आत्मेत्यन्वयः। व्याख्यातः पदार्थः । अनेन मनस आत्मत्व निवारितम् । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः । तेनेष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम्। अन्वयं पुरुष- विधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः । [प्रमोद उत्तरः पक्षः ] । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । विज्ञानम- यादुक्तात् । आनन्दमय आनन्दविकारः । सोपाधिकानन्द इत्यर्थः । प्रियं पुत्रादिदर्शनजन्यं सुखम् । मोदः पुत्रादिसंमाषणसहासनादिजन्यं सुखम् । प्रमोदः सहाऽऽसनादौ स्थितानामपि पुत्रादीनामन्यानुविधेयत्वजन्यं सुखम् । अभीष्टविषयस्य दर्शनं लामो भोगश्च प्रियमोदप्रमोदा इत्यर्थः । आनन्दः सुखसामान्यं प्रियमोदप्रमोदेष्वनुगतं सुखम् । ब्रह्म निरतिशय आनन्दो यस्य .१ ख. "तो जा।
१४६ । शंकरानन्दकृता- [ब्रह्मवल्ल्यध्याये, अ०१) मात्रामुपजीवन्ति ब्रह्मादयः । यथा देहावयवाः पादयोः प्राणभेदाः पृथिव्यामुदाने वा वेदाश्च त्रयोऽपि मन्त्रब्राह्मणरूपा अथर्वाङ्गिरःसु दृष्टकर्मसाधनत्वेन यथा बुद्धिभेदाः प्रथमनायां हिरण्यगर्भबुद्धौ च प्रतिष्ठितास्तद्वत्सुखसमान्यविशेषा निरतिशयसुखैकस्व. भावे सत्यज्ञानादिरूपे ब्रह्मणि सर्वाधारे प्रतिष्ठिताः । स्थूलस्य देहस्याध्यात्माधिभूताधिदेव, भेदाभिन्नस्य ब्रह्मणः प्रथमकोशत्वम् । सूक्ष्मस्य स्थूलात्मभूतस्याज्ञानकास्य क्रियाज्ञान- शक्तेश्चतुर्धा मिन्नस्य सकारणस्य कोशचतुष्टयत्वं च । सूक्ष्मोऽपि विभागः स्वयं प्राण- निमित्तं हि स्थूलशरीरस्य सर्वव्यवहारं मत्वा स्थलशरीरात्मभूतः प्राणः क्रियाशक्ति- द्वितीयः कोशः । प्राणस्यापि मनसेतस्ततो नीयमानत्वाहालेनेव मृत्सेमबलीवर्दस्य । ततोऽनिश्चयात्मिका ज्ञानशक्तिः प्राणात्मभूता मनआख्या तृतीयः कोशः । मनसोऽप्य- निश्चयात्मनो निश्चयपरतन्त्रत्वान्निश्चयात्मिका बुद्धिमनआत्मभूता चतुर्थः कोशः । बुद्धेरपि सुलपरतन्त्रत्वावस्थात्रये कार्यकारणोपाध्यवच्छिन्नसुखं पञ्चमः कोशः । तत्रापि प्रियमोदप्रमोदा जागरणस्वप्न आनन्दः सौषुप्ते व्याकृतोपाधिः । इतः परं भूतभौतिक- कार्यस्य कारणस्य चाभावादकार्यकारणं ब्रह्म सर्वस्थाऽऽधारभुतं कोशपञ्चकवाक्प्रवृत्ति- कारणनिमित्तं प्रामसूत्रेण सूचितम् । मन्त्रेण च व्याख्यातमुक्तवती श्रुतिरित्यर्थः । मनोमयार्थस्थले विज्ञानमयं विज्ञानमयार्थस्थल आनन्दमयं च पठित्वा शेष समानपाठे पूर्ववयाख्येयम् ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्या तैतिरीयोपनिषद्दीपिकायां द्वितीय ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ ब्रह्मवल्ल्यध्याये षष्ठोऽनुवाकः । आनन्दब्रमणोरभेदाब्रह्माभिधानमेवाऽऽनन्दाभिधानमिति मन्वानः पठति-अनन्नेवा. विद्यमान एव । जनैरज्ञातोऽभिभूतश्चेत्यर्थः । स वक्ष्यमाणः । भवति स्पष्टम् । असद. विद्यमानं खरविषाणसममित्यर्थः । ब्रह्माऽऽनन्दमयस्य पुच्छे कारणं चेत्युक्तेनास- त्वप्रकारेण । वेद नानाति । चेयदि। असत्त्वज्ञानादनमुक्त्वा सत्त्वज्ञानाद- र्थमाह-अस्ति विद्यते सर्वस्य कारणत्वेन सर्वात्मत्वेन च । ब्रह्मोक्तम् । इत्युक्तेन सत्वप्रकारण । चेद्यदि । वेद जानाति । सन्तं विद्यमानं वाचा मनसा कायेन च पूज्यमित्यर्थः । एनं ब्रह्मास्तित्वज्ञानिनम् । ततो ब्रह्मास्तित्वज्ञानात्कारणात् । विदुर्जा- मन्ति। सर्वे जना इति शेषः। इतिर्मन्त्रप्समाप्त्यर्थमानन्दमय कोश] परिसमाप्त्यर्थं वा पूर्व- १ क. ग. प्रजा आ । ३ क. ग. थम सू!
[ब्रह्मवरल ध्याये,अ० १ ] तैत्तिरीयोपनिषदीपिका । १४७ वत् । तस्यैष एव शारीर आत्मा । यः पूर्वस्य। तस्य पूर्वस्य विज्ञानमयस्य य आन- न्दमय एष एव शारीर आत्मेत्यनयोाख्यातः पदार्थः । अथ कोशपञ्चकाधारब्रह्मास्तित्वनास्तित्वविज्ञानफलकथनानन्तरम् । अतो ब्रह्मणः सर्वात्मत्वं यतोऽस्तिनास्तिप्रत्ययौ च कर्तुं सुशवावस्मात्कारणात् । अनुप्रश्ना ब्रह्म णोऽस्तित्वे नास्तित्वे च तज्ज्ञानिनो ब्रह्मप्राप्तावप्राप्तौ च संदेहमनु प्रश्नाः प्रष्टव्या ईप्सितथिविषयाः शब्दसंदर्माः । पठ्यन्त इति शेषः । उतापि अविद्वान्ब्रह्माणि संदे- हविपर्ययज्ञानवान् । अमुमानन्दमयकारणभूतं पुच्छरूपं चास्तिनास्तित्वाम्यामनिश्चित वस्तुवृत्तेन । लोकं लोक्यमानं स्वयंप्रकाशत्वेन तज्ज्ञानिभिः । प्रेत्य परलोकमागत्य शरीरं परित्यज्येत्यर्थः । कश्चन कोऽपि । गच्छति प्राप्नोति । प्लुतिर्विचारार्था । आहो पक्षान्तरे । विद्वान्ब्रह्मणि संदेहविपर्ययरहितज्ञानवान् । अमुं लोकं प्रेत्य व्याख्यातम् । कश्चित्कोऽपि । समश्नुता ३ । समश्नुते घ्याप्नोति । प्लुतिर्विचारार्था । उ अपि । अयं माव:-यद्यस्ति सत्यज्ञानादिलक्षणं ब्रह्म तर्हि प्राप्तव्यमविदुषाऽपि । न ह्यज्ञानसंशयविपर्ययैर्वस्तुनोऽन्यथात्वम् । सर्वात्मकं चेदविद्वान्न प्राप्नोति विद्वानपि न प्राप्नुयान्नियामकामावात् । अथ नास्ति बत्तर्हि विदुषाऽपि न प्राप्तव्यम् । न हि नरविषाणादिकं तस्मिन्संदेहविपर्ययरहितज्ञानिनाऽपि प्राप्तुं शक्यम् । अथाशेषविशे- षशून्यमध्यनेन प्राप्यते तयविदुषा न प्राप्यत इति न नियामकं पश्याम इति । अने. नोक्तश्लोकार्थस्याऽऽक्षेपः कृतः । आस्तां विद्वदविदुषोः प्राप्त्यप्राप्ती । ब्रह्मणोऽविद्वदप्राप्त्या यत्तस्य नास्तित्वमापादयि- तुमिष्टं तज्जगत्कारणत्वकथनेन पूर्वोक्तेन पुनः केनचिद्विशेषणाभिधीयमानेन निराकुर्व- सत्त्वपक्षमादादत्ते-स सूत्रमन्त्राभ्यां ब्रह्मत्वेनोक्त आत्माऽऽनन्दमयस्य कारणभूतः पुच्छभूतश्च प्रसिद्धः । कथमसौ नास्तीत्यर्थः । ननु सतां चेतनानां किंचित्कारित्वं दृष्टमस्य तस्मिन्सत्यस्तित्वं श्रद्दधामीत्यत आह-अकामयत कामनामकुरुत । काम- नाविषयमाह-बहु स्यां नाना भवेयम् । नानाभवनेऽप्युपायमाह-प्रजायेयोत्प. येय । इत्यनेन प्रकारेणेमा कामनां कृत्वा । स कामी तपः पर्यालोचनमिदमनेनेत्थत्या. दिरूपम् । अतप्यत सृज्यविषयमकरोत् । स कामुकस्तापसः । तप उक्तम् । तप्त्वोक्तविषयं कृत्वा । कार्यकारणादिकं प्रथमं विचार्य निश्चित्य चेत्यर्थः । अनन्त- रमिदं विविधप्रत्ययगम्यं कार्यजातं भूतभौतिक चेतनाचेतनात्मकम् । सर्व निखिलम् । असृजतोत्पादितवान् । सर्वशब्दार्थमाह-यदिदं किंच । यत्किचेदं प्रसिद्धमस्तिना- स्तीत्यादिप्रत्ययगम्यं यत्किमपि । तत्कार्यजातम् । सृष्ट्वोत्पाहा। तदेव स्वसृष्टमेव । अयमेवकारो देहलीप्रदीपन्यायेन तदमुना प्राविशदित्यनेन च संबध्यते । अनु कार्य सृष्टिमन्वेवाप्रविष्टोऽपि तु सर्वत्रावस्थानादाकाशवत्माविशत्प्रवेशमकरोदेव । प्रविष्टशब्द- प्रत्ययविषयोऽभूदित्यर्थः । १ ख, 'त्य वेत्य । २ ख. "पि स ।
शंकरानन्दकृता- (ब्रह्मवल्ल्यध्याये, अ०६] तदनु कार्य सृष्टमनु प्रविश्य प्रवेशं कृत्वा । किं तटस्थ एवायं सूत्रधारि. वद्गृहं निर्माय तत्र भविश्य स्थितः । तथा चाऽऽत्मनो बहुभवनोपायः प्रजायेयेति दृष्टो विपरीत इत्याशङ्कय नेत्याह-सच तेजोबन्नरूपमपि । त्यच्च वाय्वाकाशरूप- मपि । चकारौ तबुद्धिं समुच्चिनुतः । अभवत्स्पष्टम् । इदं क्रियापदं वक्ष्यमाणेष्वपि चतुर्यु पर्यायेषु संबध्यते। निरुक्तं चानिरुक्तं च । निःशेषमुक्तं, निरूक्तं, घटः पृथुवुध्नो- दराकार इत्यादि तद्विपरीतमनिरुक्तं, जातीचम्पककेतकीकुसुमगन्धभेदादि । चकारी पूर्ववत् । निलयनं चानिलयनं च, आश्रयोऽनाश्रयश्च । चकारौ पूर्ववत् । विज्ञान चाविज्ञानं च । स्मृतिसंशयविपर्ययनिश्चयादि विज्ञानं तत्कारणं वा चिन्मात्रं वा । तद्विपरीतमविज्ञानम् । चकारौ पूर्ववत् । सत्यं चानृतं च, भावात्मकत्वे सति कश्चि- स्कुत्रचित्कथंचित्केनचिदपि बाधरहितं सत्यं व्यवहारतो वा बाधरहितम् । तद्विपरीत- मनृतम् । चकारौ पूर्ववत् । अस्तिनास्तीतिप्रत्ययविषयः सर्वः कार्यकारणवर्गो ब्रह्म च ब्रह्मैवाभूदित्यर्थः । ननु–स सर्वकारणं सर्वमभूदित्येतावत्प्रतीयते न तु तदसत्यं नेति वचनादित्यत आह-सत्यं सर्वनाधशून्यं भावरूपं ब्रह्म । अमवदुक्तं मूर्तादिकमभवत् । असतः सर्वात्मत्वे सर्वमिदं सर्वैः प्रत्ययैर सदिति प्रतीयेत नरविषाणवन्ध्यापुत्रादिवत् । ततो नासत्सर्वात्मकं किंतु सदेव । प्रतीतेरविश्वासे जीवनादिव्यवहारस्यापि दुर्लमत्व। मित्यर्थः । किं सदादिकं दशविधं तबुद्धयश्चेत्येतावदेव सत्यमभवदित्याशङ्कय नेत्याह- यदिदं किंच । उक्तमनुक्तं चोत्प्रेक्ष्यमागं यत्किचेदं निखिलमपत्यिर्थः । तन्निखिलमपि सत्याद्ब्रह्मणोऽभिन्न तस्मिन्नध्यस्तत्वेन प्रतीयमानं प्रसिद्धम् । सत्यं सत्यशब्दार्ह व्यवहा- रक्षमत्वेन मूर्तामूर्तत्वेन च । मूर्तामूर्तविभागो भूतपञ्चक एंव । तेजोवन्नानि मूर्तानि । वाग्वाकाशावमूर्ती । कार्यकारणयोरपि मूर्तामूर्तत्वे एवमवगन्तव्ये । कार्य सर्वः प्रपञ्चो भूतभौतिकरूपो मूर्त स्थूलत्वात्कारणतः । विद्या त्वमूर्त तद्विपर्ययादप्रतीयमानत्वेन वा । इति, अनेन प्रकारेण । आचक्षते कथयन्ति ब्रह्मविदः । तत्र सर्वकार्यशून्ये ब्रह्मण्यपि युक्त्यम्युच्चयार्थस्तच्छब्दः । ब्रह्मणः सत्यत्वेऽन्यस्य चासत्यत्वे युक्तिश्चेयम् । ब्रह्मव्यतिरिक्तं यत्सत्यं तन्नित्यमनित्यं वा । नित्यत्वे कार्यता कार्यत्वे चासत्यत्वमनि- च्छतोऽपि प्रामादिकस्वजिह्वाचर्वणवदागतम् । नित्यत्वेऽप्यसर्वगतत्वे सर्वगतत्वेऽपि जाड्यत्वेऽपि भेदे स एव दोषः । तस्माद्ब्रह्मैव सत्यं न त्वन्यत् । ब्रह्मण्यध्यासांत्तत्सत्य- --- १ स. बाधार । २ ख. "तामूर्तादि । ३ क. ग. एवं ते । ४ ख. 'च्छतः प्रा । ५ ख. "सातु सत्य।
[ ब्रह्मवल्ल्यध्याये, अ० ७ ] तैत्तिरीयोपनिषदीपिका । शब्दाहम् । यथेदंतायामध्यस्त रजतमिदंशब्दाहम् । एष श्लोको भवति व्याख्यातम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवरल्यध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ ब्रह्मवल्ल्यध्याय सप्तमोऽनुवाकः। असदै, सत्येऽध्यस्तं सत्यशब्दाह सन्नामरूपकर्मात्मकत्वेन स्थवीयो बुद्धिविषय. त्वात् । तद्रहितमसत्सत्यज्ञानादिलक्षणं ब्रह्म शास्त्रप्रसिद्धं विद्वत्प्रसिद्धं वा नामरूप- क्रियाहीनं जगत्कारणं सद्वा इति वक्तव्ये सत्त्वभ्रमस्य नामरूपक्रियाहीनत्वेनोत्पादादिति कथनार्थ मसद्वा इत्याह । इदं विविधप्रत्ययगभ्यं विश्वम् । अग्रे विश्वोत्पत्तेः प्राक् । आसीद्वभूव । अविद्याशबलं ब्रह्म जगत्कारणमेवाऽऽसन्नि तु कार्यजातमित्यर्थः । ततोऽ. सच्छब्दाभिधेयात्कारणात् । वै, एव प्रसिद्धं वा । सत्सच्छब्दाभिधेयं स्पष्टनामरूप. कर्म । अजायतोदपद्यत । तदविद्याशबलं जगत्कारणम् । अविद्यात्मानमेकं चिदान- न्दस्वभावम् । स्वयमात्माऽविद्याया आश्रयो विषयश्च । अकुरुत बहुधा कृतवान् । तस्मादात्मानमा(त्मन आ)त्मनैव बहुधा करणात्ततोऽविद्याश्रयविषयभूतमानन्दात्मस्व. रूपं सुकृतम् । स्वार्थेऽयं सोः प्रयोगः । स्वेन. स्वकृतवत्स्व(कृतं स्व)कृतं स्वकृतमेव परोक्षेण सुकृतं पुण्यमुच्यते कथ्यते देवैः । इतिर्मन्त्रसमाप्तौ । ननु-" ब्रह्मविदाप्नोति परम्" इत्युपक्रान्तं तत्र किं ब्रह्मेत्याशङ्कायां सत्यादि. लक्षणं तत्स्वरूपमभिधाय तत्पतिपत्त्यर्थं च तस्याऽऽकाशादिकारणत्वाभिधानप्रसङ्गेन कोशपञ्चकमवतार्य पञ्चमकोशाधारब्रह्मास्तित्वनास्तित्वज्ञानाम्यामर्थानर्थयोरभिधानेन प्र- भेषु समागतेषु सन्निर्णयार्थमिदं ' सोऽकामयत' इत्यारम्य 'सुकृतम् । इत्यन्तमुक्त-मस्तु तत्तथाऽपि सर्वकारणब्रह्मावाप्तौ न पुरुषार्थ आनन्दावाप्तेरेव । तथात्वादित्यत आह- यत्प्रसिद्धं जगत्कारणम् । वै स्मर्यमाणं तद्ब्रह्म । सुकृतमविद्यायाः स्वात्मरूपमेव कर्म- कर्तृभावेन कृतवत् । रस आनन्दद्रवः । स्वयंप्रकाशमानानन्द इत्यर्थः । वै प्रसिद्धो वैषः यिकसुखरूपण सर्वप्रियतमत्वेन वा स्ममाणो वा । स मोक्षे भावीदानी परोक्ष एवं प्राणिनां रसः । रसं सुकृताभिन्न मानन्दात्मस्वरूपम् । हि यस्मादेव । रसं लब्ध्वेति द्वाभ्यां शृङ्खलान्यायेन संबध्यते । रसमेव न त्वन्यत् । अयमधिकारी लब्ध्चा प्राप्यैव नत्वन्यथा । आनन्दी प्रत्यक्प्रकाशमानानन्दात्मस्वरूपः । भवति स्पष्टम् । तस्मात्पुरुषार्थों ब्रह्मप्राप्तिरित्यर्थः । ननु-सुकृतस्य ब्रह्मण आत्मामिन्नस्याऽऽनन्दत्वं भवतोच्यते । प्रतीतिश्च विपरीते- १ ब. तू । तत्सहि । ३ ख. 'स्तु तथाऽपि - १५० शंकरानन्दकृता- [ब्रह्मवल्ल्यध्याये, अ०७] त्या शक्य तदुत्तरत्वेनान्यथानुपपत्तिमाह-क आत्मनोऽनानन्दत्व आनन्दात्मव्यति. रिक्तः । हिहेत्वर्थः । एव नाम । कस्तु नामान्यादपानचेष्टां कुर्यात् । को व्याख्यातम् । प्राण्यात्प्राणचेष्टां कुर्यात् । यद्ययेष स्वयंप्रकाशमानः । आकाशः आकाशवत्सर्वगत आकाशशब्दाभिधेयो वा । देशकालवस्तुपरिच्छेदशून्य इत्यर्थः । आकाश इति सप्तम्यन्तत्वपक्षे हार्दाकाशेऽविद्याशबलित इति. व्याख्येयम् । आनन्दः परप्रेमालम्बनत्वेनोपलक्षित आनन्दात्मा । न स्यान्न भवेत् । अयमर्थः- आत्मकामाय सर्वा लौकिवयो वैदिवयश्चेष्टाः । प्राणधारणमपि । आत्मा चे. दुःख दुःखसाधनं वा स्यात्तदानी वृश्चिकतज्जन्यदुःखबद्धेयः स्यात् । दुःख. साधनावे वाऽsiमार्थ भार्यादिकं प्रियं न स्यात् । ततः सुखत्वं परिशिष्यते । अमा. वस्यासत्त्वे नामाऽऽत्मनो दुःखामावत्वं प्रतीतिविरुद्धम् । सुखस्यापि जायमानस्य देव- स्याऽऽत्मार्थत्वेन प्रियता दृष्टा । न तु स्वरूपेण । अन्यथा वैर्यादिगतस्यापि तस्य प्रियता स्यात् । तेन नित्यरवयंप्रकाशमानानन्दात्मा परप्रेमालम्बनत्वेनाङ्गीकरणीयः । परप्रेमालम्बनत्वं च तदर्थलौकिकवैदिकजीवनचेष्टान्यथानुपपत्त्या कल्प्यते । आत्मनोऽना. नन्दत्वे न काऽपि चेष्टा स्यादिति । ननु- यद्ययमानन्दरूपस्तर्हि किमर्थमयमा. नन्दार्थ लोकः साधनमादत्त इत्यत आह-एष आकाश आनन्दात्मा स्वयंप्रकाश- मानोऽप्यनाद्यविद्यावृतः । साधनसाध्यादिभावेन व्यवस्थितो हि यस्मात्तस्माीदीत शेषः। एवेषशब्देन संबध्यते । एष एव साधनं साध्यं च वस्तुतोऽज्ञातात्मयाथात्म्यसाधनतारतम्ये- नापसारिताविद्यातारतम्यादाविर्भूतात्मसुखतारतम्यरूपः । अविद्यादशायामानन्दयति- आकीटपतङ्गमाब्रह्म च निखिलं जगदा योनिप्रादुर्भावादा मोक्षसाक्षात्काराचाऽऽनन्दयति। आनन्दात्मनि साक्षात्कृते । न साध्यसाधनादि(दी)ति भावः। तत्साक्षात्करणात्माक्साध्य. साधनादेरपि वस्तुतस्तदात्मकत्वात्तस्यैव सुखदातृत्वमविरुद्धमित्यर्थः । मनु- आत्मनोऽस्तित्वे स्थिते विद्वानेव कदा कथं प्राप्नोतीत्यत आह-यदा यस्मि- काले । हि यस्माद्विदुषो ब्रह्मप्राप्तौ नियामको हेतुहिनोच्यते । ब्रह्मसाक्षात्कारवत्त्वेना. पगताविद्यत्वादित्यर्थः । एव, अयं पार्थसारथिवत्कालवाचिना विद्वद्वाचिना लाभवाचिना च संबध्यते । यदेव न त्वन्यदा । एष विद्वानेव न त्वन्यः । एतस्मिन्नात्मनो भेदर- हिते सत्ये रसे । अदृश्ये बाह्यान्तरेन्द्रियज्ञानाविषये । अनात्म्य आत्मन इदमात्म्य त्रिविधं शरीरं न यस्यासावनात्म्यस्तस्मिन् । ननु-सर्वज्ञानाविषयोऽशरीरोऽपि वाग्गोचरः पदार्थो नरविषाणादिदृश्यत इत्यत आह-अनिरुक्ते निरुक्तिशून्ये वाचामगोचर इत्यर्थः । ननु-वाचामगोचरोऽपि साश्रयः पदार्थो दृष्टो यथाऽविद्या सदसधुक्त्यविषयेत्यत आह-अनिल यने निल. १ घ. "मान्यां चेष्टां । २ घ. विविध । ।
[ब्रह्मवरल्यध्याये, अ०८] तैत्तिरीयोपनिषदीपिका । १५१ यनमाश्रयस्तद्धीने । ननु-प्राकृते प्रलये तत्रैव प्रतिष्ठां सर्वोऽपि विन्दत इत्यत आह- अभयं मयं प्रकृतिस्थाः संस्काराः प्रकृतिश्च भयानकसंसारहेतुत्वात्तच्छ्न्यममयमित्यर्थः । अभयं यथा तथेति व्याख्येयम् । प्रतिष्ठामिदमहमस्मीति तादात्म्येन प्रतिकूलसंस्कार- राहित्यलक्षणेन प्रकर्षण स्थितिम् । विन्दते लमत एव । अथ तदा सोऽस्मिन्प्रतिष्ठा प्राधो विद्वान् । अभयं भयमविद्यातत्संस्कारा द्वैतरूपास्तच्छ्न्यम मयं स्वयंप्रका- शमानानन्दात्मस्वरूपाविर्मावं गतः प्राप्तः । भवति स्पष्टम् । जीवन्मुक्तः सर्वदा भवतीत्यर्थः। ननु - विद्वानविद्वानपि ब्रह्मणि प्रतिष्ठित एव तस्य सर्वाधारत्वात्ततोऽविदुषोऽपि प्रेतस्य ब्रह्मप्राप्तिः स्यादित्यत आह-यदा यस्मिन्काले । हितो । यस्माद्ब्रह्मणि प्रति- ष्ठितोऽप्यविद्वान्ब्रह्माहमस्मीति ब्रह्म न प्रतिपद्यते निधिस्थ इव जात्यन्धो निधिम् । एव पूर्ववत् । एष प्रसिद्धः संदिहानो विपर्यस्तोऽज्ञानी च । एतस्मिन्स्वात्मामिन्ने ब्रह्मणि, उदपि । अरमल्पम् । अन्तरं भेदम् । कुरुते स्पष्टम् । अथ तदा तस्य संदिग्धस्य विपर्ययस्थस्याज्ञानिनश्च । भयमविद्यातत्कार्थतत्संस्कारजन्यमध्यात्माधिभूताधिदेवभेदभिन्न वाचि मनसि कायेऽसह्यदुःखकारणं जन्मादि । भवति ब्रह्मैव संदेहविपर्ययाज्ञानरुक्त- मयरूपं भवति । त्रगिव सांद्याकारैः । ननु-अविदुषस्तथाऽन्तु यस्तु शास्त्रीये कर्म- ण्यधिकृतो विद्वांस्तस्य ब्रह्मविद इव ब्रह्मप्राप्तिरित्यत आह-तत्तूक्तं ब्रह्म भवरूपम् तुशब्दः शङ्कानिवारणार्थः । शास्त्रीय कर्मण्यधिकृतस्य विदुषो ब्रह्मविदश्च न साम्य मिन्नाभिन्नबुद्धित्वेन विरुद्धत्वात् । एव तदेव न त्वम्पत् । भयं व्याख्यातम् । विदुषः कर्मविद्याविदः । अमन्वानस्याहं ब्रह्मास्मीत्यभेदेन मननरहितस्य । इदमेव वैषम्यं कर्मब्रह्मविदोः । तत्राऽऽत्मत्वेनाज्ञाते ब्रह्मणि भयंकरेऽपि । एष श्लोको भवति व्याख्यातम् । अपिशब्दसूचिता युक्तिः संक्षेपेणेयम् । अमृतं माता पिता बन्ध्वादि वाऽविपरीतरूपमपि स्वस्येष्टकारित्वेन स्वयं विपरीतगृहीतं तदनिष्ठमकुर्वदपि स्वस्यानिष्टः कारि दृष्टं यथा तद्ब्रह्मापि ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्या तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ ब्रह्मवल्ल पाध्यायेऽष्टमोऽनुवाकः । भीषा भत्यिा । अस्माद्ब्रह्मण आत्मत्वेनाज्ञानात् । वातो वायुः । पवते वाति । भीषा भीत्या । उदेत्युदयं गच्छति । सूर्य आदित्यः । अस्मादित्यनुवर्तते । भीषाऽ. स्माद्वयाख्यातम् । अग्निश्च वहनिरपि दहनादिकं करोतीति शेषः । इन्द्रश्च त्रिलोकीना- १ ख. यस्तस्था । - . शंकरानन्दकृता- [ब्रह्मवल्यध्याये, अ० ८1 योऽपि त्रिलोकीमवतीति शेषः । आद्यश्चकारोऽनुक्तानां सर्वेषां महतां व्यापारसमुच्च- यार्थः । द्वितीयो भीषाऽस्मादिति संबन्धार्थः । मृत्युः स्थावरजङ्गमविनाशकारी । धावति सर्वेषामभावाय सर्वान्प्रति गच्छति । पञ्चमः पञ्चसंख्यापूरणो भीषाऽस्मादि. त्यनुपङ्गः । इतिः श्लोकसमाया। ननु प्रकृता ब्रह्माना व्याख्यातास्तत्रैव ब्रह्मप्राप्तेर पुरुषार्थत्वे शङ्कित प्रसङ्गाह्मण आनन्दरूपत्वमुक्तम् । सोऽयमानन्दो दुःखामावो भावो वा सातिशयस्ततोऽपुरुषार्थ इत्या. शङ्कयाह- सा प्रसिद्धा । एषा वक्ष्यमाणा । आनन्दस्य भावरूपस्य सुखस्य । मीमासा ब्रह्मविदां सुखकारित्वेन पूजितो विचार आनन्दस्योत्कर्षवत्त्वेनाभावत्वव्या. वृत्तिफलो ब्रह्मानन्दस्य सर्वस्मादधिक वेनापुरुषार्थत्वव्यावृत्तिफलः । भवति स्पष्टम् । युवा षोडशवर्षमारभ्याऽऽपलित दर्शनमुपघातमन्तरेण मध्यमं वयो यौवनं तद्वान- क्षीणेन्द्रियशक्तिरित्यर्थः । स्याद्भवेत् । यौवनेऽपि स्वमावतः शरीरस्येद्रियाणां वा वरूप्यं संभावितं रोगादिनिमित्तं वा तन्निवारणार्थमाह-साधुयुवा कन्दर्पसमान. रूपः सन्यौवनसंपन्नः । तादृशोऽपि मूल् मा भूदित्याह--अध्यायकोऽधीतसा- ङ्गोपाङ्गवेदः । सर्वज्ञ इत्यर्थः । तादृशोऽपि केवलं स्वोदरंभारिरतिमन्दो वा तवयं तन्त्रेण वारयति--आशिष्ठोऽतिशयेनाऽशास्ताऽतिशयेनाऽऽशकारी च । अथाप्यतिमन्दत्वा- यजीवित एवेत्यत आह-दृढिष्ठोऽतिशयेन दृढोऽविकृतवा कायमना इत्यर्थः । तादृशोऽपि बलहीनः स्यादित्यत आह-~-बलिष्ठोऽतिशयेन बलसंपन्नः । एवंभूतोऽपि वित्तहीनः स्यादित्यत आह-तस्योक्तविशेषणविशिष्ठस्य । इयं सप्तद्वीपाब्धिवलय- लोकमेखला । पृथिवी भूमिः । सर्वा निखिला । वित्तस्य वित्तेन दृष्टादृष्टसुखकरेण गोहिरण्यादिना । पूर्णा परिपूर्णा । स्याद्भवेत्सर्वलक्षणसंपन्नस्य चक्रवर्तिन इत्यर्थः । स सर्वलक्षणसंपन्नस्य चक्रवर्तिनो जायमान आनन्दः । एकः एकत्वसंख्याक्रान्तः । मानुषो मनुष्येषु भवः । आनन्दो मावरूपः सुखात्मा । नातः परं मनुष्याणां सुख- मित्यर्थः । ते परोक्षाः । ये प्रसिद्धाः । शतं शतसंख्याका मानुषा आनन्दाः। व्याख्यातम् । वचनं तु विशेषः । स परोक्षः प्रसिद्धः । एक एकत्वसंख्याकान्तः । मनुष्यगन्धर्वाणां मनुष्याः सन्तो जन्मान्तरे गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वा अन्तरिक्षलोकनिवासिनोऽन्तर्धानादिशक्ति मन्तस्तेषाम् । आनन्दः सुखात्मा । अस्माकं चक्रवर्तिनां यथोक्तगुणविशिष्टानां शता गुणसुखं मनुष्यगन्धर्वाणां परमं सुखमित्यर्थः । श्रोत्रियस्य चाधीतवेदस्याप्यवृजिनत्वं चात्रार्थसिद्धमिति न पठितम् । श्रोत्रियत्वं च चक्रवर्तिनोऽस्य च समानम् । चकारो मनुष्यगन्धर्वानन्दसमुच्चयार्थः । मनुष्यगन्धर्वानन्दप्राप्तौ कारणमाह-अका, महतस्य तथोक्तगुणविशिष्टचक्रवर्तिसुखकामेनानिपातिस्य । तदमिलापरहितस्येत्यर्थः ब्रह्मवल्ल्यध्याये, अ०८] तैत्तिरीयोपनिषद्दीपिका । १५३ यो हि यत्राभिलाषरहितस्तस्य तद्विषयप्राप्ते शतगुणं सुखं भवतीत्यत एव प्रथमे पर्याय श्रोत्रियस्य चाकामहतस्येति न पठितम् । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलोकलोकानापानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितृणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एक: कर्मदेवानां देवानामानन्दः । ये कर्मणा देयानपियन्ति । श्रोत्रियस्य चाका- महतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतेरा. नन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रज'. पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य। देवगन्धर्वाणां देवाश्च ते गन्धर्वाश्च देव- गन्धर्वास्तेषां चाऽऽकल्पगन्धर्षशरीरप्राप्तिहेतुमूतकर्मणामित्यर्थः । पितृणां, पितृविशेषणं चिरलोकलोकानां चिरादीपस्थायिनो लोकाः कर्मफलविशेषास्ते येषां लोकास्तत्स्था. नानि च चिरलोकलोकास्तेषामनेककालस्थायिनामित्यर्थः । आजानजानी कल्पादावुत्प- नानामानाने देवलोके जाता आजानजास्तेषाम् । विशेषणमिदम् । विशेष्यमाह-देवानां द्योतनात्मकानाम् । कर्मदेवानाम् । इदं श्रुतिरेव व्याकरिष्यति । पूर्ववद्विशेषणमुक्त्वा विशेष्यमाह-देवानामाजानेभ्य उत्कृष्टानां द्योतनात्मकानाम् । कर्मदेवानामित्येतद्वन्या. करोति । ये प्रसिद्धा याज्ञिकाः। कर्मणाऽग्निहोत्राद्यश्वमेधान्तेन । देवान्द्योतनात्मका. नपियन्ति प्राप्नुवन्ति । देवत्वमुपगता इत्यर्थः । देवानां त्रयस्त्रिंशत्संख्याकाना हविर्भु. जामग्न्यादीनाम् । इन्द्रस्य त्रिलोकीपत्यु:(तेः) शक्रस्य । बृहस्पतेदेवगुरोः । प्रजापते. पिराजः । ब्रह्मणो हिरण्यगर्भस्य । नवसु पर्यायेषु प्रायः समानपाठम् । शेषं पूर्व पूर्व तदाद्यर्थत्वेन व्याकृत्य यथोचितं गन्धर्वादिपदेयोजनीयम् । अकामहतत्वं च पूर्वपूर्वविष. यत्वेन हिरण्यगर्भस्य यावानानन्दस्तावानानन्दो निरातिशयवैराग्य इ (ग्यमि)ति तात्प- यर्थिः । हिरण्यगर्भादुत्कृष्टस्य ब्रह्मानन्दस्य वाङ्मनसयोरगोचरत्वाद्धिरण्यगर्मानन्दमेव । १ क. "विशिष्ठास्ते । २ ख. लोकाः स्मातकर्मानुष्ठानपरा देवलोकं प्राप्तास्त । ३ ख. 'नां श्रौत- कर्मानुष्ठातारोऽविद्वांसो देवत्वं प्राप्ताः क । ४ ख. उत्कटानां । ५ ख. 'र्थः । देवाः समुच्चयकारिणो देवयानमार्गगामिनी देवाः । दे ३० ९] १५४ शंकरानन्दकृता [ब्रह्मवल्यध्याये, अ०९ ब्रह्मानन्दस्य समुद्रस्योदबिन्दुसमं दिङ्मात्रमुक्त्वोपरराम श्रुतिः । अतः परं स्वयंप्रका, शानन्दात्मैव प्रमाणं नाहमिति श्रुतेरभिप्रायः । अनेन भावरूपो निरतिशयश्च ब्रह्मानन्द उक्तः । तथाऽपि स तु हिरण्यगर्मादपि परतो देहायुपाधिस्थो वा नास्मदादिरूप इत्यत आह-स परोक्षो हिरण्यगर्मादुत्कृष्ट आनन्दः । यश्च प्रसिद्धोऽपि, अयं स्वयंप्रकाशमानः। पुरुषे पञ्चकोशात्मके पुरुष- शब्दाभिधेये ब्रह्मपुच्छत्वेनोक्तः । यश्च प्रसिद्धोऽपि । असौ परोक्षोऽस्मदादीनां प्रत्य- क्षश्च विदुषः । आदित्य आदित्यमण्डले । चकारौ पुरुषादित्ययोर्वाचारम्भणमाहतुर्वा. क्यद्वयगतौ । स आदित्ये पुरुषे च वर्तमानः । एको भेदरहितः । यदेत्यादिना यद्यपि विदुषो ब्रह्मप्राप्तिक्ता तथाऽपि त्वमसीति नोक्तं तदर्थं प्रासङ्गिकमैक्यमभिधाय पुनस्तत्प्रातिमाह-सोऽधिकारी । यो यः कश्चन । एवंविदादित्ये पुरुषे च ब्रह्मान. न्दमभेदेन विद्वान् । अस्मात्प्रत्यक्षात् । लोकादृष्टादृष्टसाधनफलात्मकात्। प्रेत्य प्रक- घेणाऽऽगत्य । मृतवदत्राभिलाषशन्य इत्यर्थः । एतदु(मु)क्तमन्नमयमन्नविकारम् । आत्मा. नमिन्द्रियद्वारा विषयप्रापकम् । उपसंक्रामाति, अन्नमयमध्यात्माधिभूताधिदैवभेदाभ नमप्यध्यस्तं वस्तुतस्त्वहमे वेदमिति सामीप्येन सम्यगवगच्छति । एतं प्राणमय. मात्मानमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं विज्ञानमयमात्मा. नमुपसंक्रामति । एतमानन्दमयमात्मानमुपसंक्रामति । स्पष्टम् । पर्यायचतुष्टयमन्न मयवद्वयाख्येयम् । सर्वात्मत्वज्ञानेनाऽऽनन्दं ब्रह्म प्राप्नोतीत्यर्थः । तदपि तस्मिन्पञ्च- कोशाधिष्ठाने पुच्छरूपे ब्रह्मणि रसे । सर्वानन्दातिशायिन्यधिदेवादिभेदशून्येऽहमस्मी- त्यवगतेऽपिशब्दाद्यो हि यदात्मा भवति सोऽसो तस्मान्न बिभेति । न च ब्रह्मणोऽन्य- दत्रास्ति किंचिद्ब्रह्माऽऽत्मा चायं ततो नास्य भीतिः कुतश्चिदिति युक्तिरुक्ता । एष श्लोको भवाति व्याख्यातम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवरल्यध्याये ष्टमोऽनुवाकः ॥ ८॥ अथ ब्रह्मवरर मध्याय नमोऽनुवाकः । यतो वाची निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान बिभेति कुतश्चनेति । कुतश्चन कस्मादपि । शेषं समानपाठं मनोमयपर्यायवद्ध्याख्ये- यम् । पूर्व यतो मनसः कारणादिति व्याख्यातं मनोमयपर्यायप्रसङ्गात् । इदानीं संकोचे कारणाभावात्सर्वकारणादानन्दात्मन इति व्याख्येयम् । ननु-भीतिरहिताः सन्ति सहस्रशः पुण्यात्मानः संसारिण इत्यत आहएतं ब्रह्मविदं ह प्रसिद्धं वावैव न तपति संताप न कुरुते । न संतापयतीत्यर्थः । मानसप्रत्यय इति शेषः । कुत्रेत्यय- १ ख. °पि तत्त्वम ।
[भृगुवल्ल्ययाये, अ० १] तैत्तिरीयोपनिषद्दीपिका । १५५ मभिनयेनाऽऽह-वृद्धादेः शोकजे विचार किमहं क्षीणशक्तिः । साधु शोभन पुण्यात्मकं कर्म । नाकरवं न कृतवान् । आः कष्टमिति शेषः । किमहं व्याख्यातम् । पापं श्रुत्यादिनिन्दितं कर्म । अकरवं कृतवान् । आः कष्टमिति शेषः । इत्यभिन- यार्थः । अनेन प्रकारेण भयरहितानामपि संसारिणां पुण्यपापाभ्यां भीति स्य स्पृष्टे- त्यभिप्रायः । ननु-तर्हि किं लोकायतिक इत्याशङ्कय नेत्याह-सोऽधिकारी। यः प्रसिद्धः । एवं विद्वानहमेव निरतिशयज्ञानानन्दो न मचोऽकिंचिद्वस्तुभूतमस्तीति ज्ञानवान् । एते पुण्यपापे । आत्मानमानन्दात्मरूपं नैनं स्पृणुते प्रीणयति । मुकृतदुष्कृते अहमेवास्मत्यिवगच्छतीत्यर्थः । ततो न लोकायतिकसम इत्याह-उभे पुण्यपापे । हि यस्मादेवैष विद्वानेवैते आत्मानं स्पृणुते व्याख्यातम् । सर्वात्मत्वात्पुण्यपापानु- ष्ठानाननुष्ठानजन्यः संतापो न तु लोकायतिकवन्नास्तिक्येनेत्यर्थः । तदेतदाह-य एवं वेद प्रसिद्धोऽधिकार्युक्तमानन्दरूपं निर्भेदमात्मत्वेन जानाति । य एवं वेदेष एवैते उभे आत्मानं स्पृणुते हीत्यन्वयः । ततो लोकायतिकाद्विलक्षण इति शेषः । इतिरानन्द. वल्लीसमाप्तावुक्तात्मज्ञानानुकरणार्थो वा । उपनिषत्सर्वकारणं सर्वाधारभूतं निरतिशया- नन्दैकस्वभावं निर्भेदमपगतसमस्तप्रपञ्चं ब्रह्माहमस्मीति सामीप्येन नितरां गमयित्वाऽहं- ममादिबन्धमानि शिथिलीकृत्याविद्यां सकार्यां ससंस्कारां सादयति विनाशयतीत्युपनि- षद्ब्रह्मविद्याप्रतिपादको ग्रन्थो वोपनिषत् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां द्वितीये ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतौ तैत्तिरीयोपनिषदीपिकायां द्वितीयो ब्रह्मवल्लयध्यायः समाप्तः ॥ २ ॥ अथ तृतीयो भृगुवल्ल्पध्यायः । तत्र प्रथमोऽनुवाकः। उक्ता ब्रह्मविद्या । ब्रह्मावगतौ चोपाया अन्नमयादयः पञ्च कोशाः। तश्चित्तथाऽवग- न्तुमशक्तः कुतश्चित्प्रतिबन्धात् , तस्य तत्प्रतिबन्धकारणापाकरणभूतानि तपआदीनि । तपसि कारणे च ब्रह्मदृष्टिं विधातुं प्रसङ्गादुपासनान्तरार्थमपीयं वल्ल्यारभ्यते । तत्राऽऽ. ख्यायिका गुरूपदेशादेब्रह्मविद्याङ्गत्वं दर्शयितुं विद्यां स्तोतुं च । भृगुर्नामतः । वै १ ख. नैनं स्मृ ।
शंकरानन्दकृता [भृगुवल्ल्यध्याय, अ० २] प्रसिद्धः । वारुणिर्वरुणस्यापत्यं वारुणिः । वरुणं वरुणनामानं पितरं भृगोर्जनकमुप- ससार शास्त्रदृष्टेन मार्गेण विद्यार्थं समीपमागतवान् । आगत्य चेदमूचे-अधीह्यध्य- यनं कुरु । अयमर्थः-स्मरसि त्वं ब्रह्म, ततो मह्यं वद । भगवो भगवन्हे पूजावन् । ब्रह्मातिशयेन वृद्धं जराजन्मादिकारणमित्यनेन मन्त्रेणोपपसार । अनन्तरं पिता तस्मै भृगव एतद्वक्ष्यमाणं प्रोवाच प्रकर्षणोक्तवान् । अन्नमद्यतेऽत्ति च शरीरमध्यात्मादि- भेदभिन्नम् | प्राणं शरीरान्तर्वर्तित्वेन वायुमत्तारमेव क्रियाशक्तिम् । इदानीं ज्ञानक्रिया- शक्तीनि भोगसाधनान्याह-चक्षू रूपग्रहणकारणम् । श्रोत्रं शब्दोपलब्धिकारणम् । उपलक्षणमिदं त्वग्रसनघ्राणानाम् । मनः सर्वकरणसाधारणमन्तःकरणं ज्ञानशक्तिः क्तिम् ) । वाचं वक्तव्यकारणभूताम् । उपलक्षणमिदं पाणिपादपायूपस्थानाम् । इत्यनेन प्रकारेण । अयमर्थः- भोग्यं भोक्ता भोगसाधनं चेति समग्रोऽपि प्रपञ्चस्तं ब्रह्मलक्षणं च कथयिष्यामि । यावच्चास्याऽऽत्मज्ञानं न भविष्यति तावत्पण्डितंमन्यः क्वचित्क्वचिद्र- झोपासनं करोतु । तेनोपासनेन क्षीणपापो ब्रह्मावगन्तुं शक्यते न त्वन्यथेति । तद- भिप्रायेण श्रुतिराह-तमुपदिष्टप्रपञ्चम् । ह किल । उवाचोक्तवान्वरणः । यतोऽभिन्न- निमित्तोपादानात् । वै प्रसिद्धानि । इमानि विविधप्रत्ययगम्यानि । भूतान्याकाशा- दीनि स्वेदजादीनि च । जायन्त उत्पद्यन्ते । येन जीवनकारणेन जातान्युत्प- नानि सन्ति । जीवन्ति प्राणधारणोपलक्षितां स्थितिं कुर्वन्ति । यल्लयस्थानं घटस्येव मृत् । प्रयंन्ति गच्छन्ति स्वस्वकार्यस्वभावं परित्यजन्ति सन्तीत्यर्थः । अभिसंविशन्ति सर्वतः सम्यक्प्रवेशं कुर्वन्ति । तदुक्तलक्षणं जगज्जन्मस्थितिध्वंसकारणम् । विजिज्ञा- सम्ब विशषेण 'अहं तदस्मि' इति ज्ञातुमिच्छां कुरु जानीहीत्यर्थः । ननु मया ब्रह्म पृष्टं, भवताःन्यदुच्यत इत्यत आह—तदुक्तलक्षणं ब्रह्म ब्रह्मशब्दाभिधेयं नान्यदित्यर्थः । इतिः पितुर्वचनसमाप्तौ । म श्रुतपितृवाक्यो भृगुः । तपः पर्यालोचनमन्नादिषूक्तेषु लक्षणाक्रान्तं कतमदि- त्येवंरूपम् । अतप्यत कृतवान् । अथवा स्वधर्मवृत्तित्वं तपः कृच्छ्चान्द्रायणादि वा । अस्मिन्पक्षे नपसा शुद्धान्तःकरणस्य मनस इद्रियाणां चैकाग्र्यं जायत इति व्याख्येयम् । स तापसो भृगुः । तप उक्तरूपन् । तप्त्वा संपाद्य ॥ इति श्रीगत्परमहं सपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायांप दार्थबो- धियां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्यध्याये प्रथमोऽनुवाकः ॥ १॥ अथ भगुल ध्याये द्वितीयोऽनुवाकः । अतिस्थवीय यो) बुद्धित्वेनानं ब्रह्मान्नमेव ब्रह्मलक्षणाक्रान्तं ब्रह्मशब्दाभिधेयम् । इत्यनेन प्रकारेण व्यजानाद्विशेषेणावगतवान् ।
[भृगुवल्यध्याये, अ०२-४ तेत्तिरीयोपनिषदीपिका । १५७ तद्विज्ञानप्रकारं श्रुतिराह-अन्नादुक्तात् । हि यस्मात् । एवान्नादेव न त्वन्य- स्मात् । खलु निश्चितम् । इमानि भूतानि जायन्ते । अन्नेम जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्ति, व्याख्यातम् । यत्पदस्थलेऽन्नपदमिति विशेषः । इत्य- नेन प्रकारेण । तदन्नं ब्रह्मरूपं विज्ञायावगत्य प्रत्यक्षेणोपपत्त्या चान्नस्य नाशमवलोक्या- नताब्रह्मलक्षणभ्यां संशयाविष्टहृदयः । पुनर्मूय एवं वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । व्याख्यातम् । वरुणं पितरमुपससावत्यन्वयः । तपसा व्याख्यातेन त्वया स्वयं ज्ञानेनोपायेनेत्यर्थः । ब्रह्म विजिज्ञासस्व पर्यालोचनेन ब्रह्मणोऽ. वगति कुरु। इदानीमुपेयदृष्ट्या स्तौति- तपो ब्रह्म ब्रह्मप्रतिपत्त्युपायभूतं तपो ब्रह्मोपेयमित्य- नेनार्थादिदमुक्तं ब्रह्मज्ञानार्थिना नित्यानित्यवस्तुविवेकादिकं साधनं संपादनीयम् । तत्सं. पादयितुमशक्तश्चेत्तस्मिन्ब्रह्मदृष्टिं कुर्यादिति । अन्यथाऽत्र वक्ष्यमाणपर्यायत्रये च तपो ब्रह्मेत्यभिधानं व्यर्थं स्यात् । स तपोऽतप्यत । स तपस्तप्त्वा । [व्याख्यातम् ] ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्यध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ भृगुवल्ल्या पाये तृतीयोऽनुवाकः । प्राणो ब्रह्मति व्याजानात् । प्राणाद्धयेव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुन- रेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त* होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ भुगृवल्यध्याये चतुर्थोऽनुवाकः । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबो- धिन्यां तैचिरीयोपनिषद्दीपिकायां भृगुवल्लयध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ १ ख. दिनाऽनुसंधान ।
शंकरानन्दकृना- [भृगुवल्यध्याये, अ० १] अथ मृगुवलाध्याये पञ्चमोऽनुवाकः । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां भृगुवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ भृगुवल्ल्यध्याये षष्ठोऽनुवाकः । आनन्दो ब्रह्मति व्यजानात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । यथाऽन्नस्य विनाशित्वं दोषो ब्रह्मत्वे तथाऽचेतनत्वं प्राणस्य, अनिश्चया:मकत्वं मनसः, सुखदुःखभोक्तृत्वं विज्ञानस्य च दोषः । यद्यपि चक्षुः श्रोत्रं मनों वाचमित्युप. दिष्टं न विज्ञानमिति तथाऽपि क्रियाशक्तीनां वागादीनां ज्ञानशक्तीनां च चक्षुरादीनां प्रा- णमनःसमानयोगक्षेमत्वात्पृथक्तद्विज्ञानं च नोक्तम् । मनसोऽपि विज्ञानतन्त्रत्वान्मनसाऽ- भिधीयमानत्वेन विज्ञानमप्यर्थादुक्तमेव । ततस्तदर्शनं दोषदृष्टया पितरं प्रत्यागमनं चैत्य- विरुद्धम् । प्राणमनोविज्ञानानि प्राणमयमनोमयविज्ञानमयकारणान्यानन्दश्वाऽऽनन्दमय- कारणम् । पुच्छं च तस्य ब्रह्मशब्दाभिधेयो मुख्यः । ततोऽस्य दर्शनानन्तरं पितरं प्रत्या- गमनाभावः । स तप इत्यारभ्येतीत्यन्ताः प्राणमनोविज्ञानानन्दपर्यायाश्चत्वारोऽपि समा- नपाठा अन्नपर्यायवद्व्याख्येयाः । इदानीमाख्यायिकासिद्धमर्थं श्रुतिराह विद्यास्तुतये~-सा प्रसिद्धा । एपेदानीमुक्ता । भार्गवी भगुणाऽवगता भार्गवी । वारुणी वरुणेन प्रोक्ता वारुणी । विद्या ब्रह्मविद्या । परम उत्कृष्टे । व्योमन्व्योम्न्यानन्दात्मनि । प्रतिष्ठिताऽवस्थानं प्राप्ताऽनन्दात्मन्येव पर्यवसितेत्यर्थः । इदानीमानन्दात्मविज्ञानोक्तं फलमाह-[ स प्रसिद्धः ] । योऽधिकारी । एवमन्न- प्राणमनोविज्ञानेभ्योऽन्तरतम आनन्दोऽहमस्मीति । वेद जानाति । साक्षात्करोतीत्यर्थः । प्रतितिष्ठति, एवं ज्ञानवान्सोऽयमविद्यासंस्कारशून्यो ब्रह्मण्येवावतिष्ठते। अत्रैवं प्रतिपत्तु. मशक्तोऽन्नादिकोशपञ्चककारणे ब्रह्मदृष्टिं कुर्यात् । सोऽप्यन्तःकरणशुद्धिद्वाराऽस्मिश- रौरे शरीरान्तरे वा प्रतितिष्ठति । १ ख, अथ चैवं । प. अथवैवं ।
भृगुवल्यध्याये, ०] तैत्तिरीयोपनिषद्दीपिका । य एवं वेदेत्यनेनान्नादिषु ब्रह्मदृष्टेरप्यभिधातुं शक्यत्वा तादृशस्य प्रलोमनार्थ दृष्ट फलान्तरमप्याह- अन्नवान्नित्यमन्नसंपन्नः । अन्नादोऽन्नभक्षको नीरोग इत्यर्थः । भवति स्पष्टम् । महानधिकः । भवति स्पष्टम् । कथं-प्रजया पुत्रादिसंतत्या । पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्मणजात्युचिततेजसा । न केवलमेवं किंतु महा. नधिकः । कथं-कीर्त्या यशसा । प्रथमो महच्छन्दस्तम्मिन्विद्याधिक्यमाह | द्विती. यस्तु प्रजादीनां कीय॑न्तानाम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपनिषदीपिकायां तृतीये भृगुःल्लयध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ भृगुवल्ल्यध्याये सप्तमोऽनुवाकः । इदानीमस्यान्नब्रह्मोपासकस्य व्रतमाह--अन्नमदनीयं न निन्यान्निन्दा न कुर्यात् । तदन्नानिन्दनं व्रतं व्रतधारणम् । पूर्वमन्नमन्नादश्च यथास्थितमुपासनीयमिति सिद्धवत्कृत्ये. दानी वैपरीत्यमाह-प्राणो पञ्चवृत्तिरेव । अन्नमदनीयम् । शरीरं स्थूलो देहः । अन्नादमन्नभक्षकम् । अन्नाश्रयत्वात् । प्राणे पञ्चवृत्तौ शरीरमुक्तं तदधीनस्थितित्वेन प्रतिष्ठितं प्रतिष्ठा प्राप्तम् । इदानीं वैपरीत्यमाह--शरीरे प्राणः प्रतिष्ठितः। स्पष्टम् । तदुक्तम् । एतच्छरौर प्राणरूपं प्रत्यक्षम् । अन्नमदनीयम् । शरीरं प्राणश्च | अन्ने शरीरे प्राणे च प्रतिष्ठित. मवस्थितं वंशतृणादिष्विव गृह, गृहे च वंशतृणादि । स प्रसिद्धः । यो यः कश्चनो- पासकः । एतदनमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महा. न्भवति । प्रजया पशुभिब्रह्मवर्चसेन । महान्कीा । एतदन्न मन्ने प्रतिष्ठित वेद जानाति । जानीयादित्यर्थः । व्याख्यातमेतत् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ भृगुवल्ल्यध्यायेऽष्टमोऽनुवाकः । अन्नमुक्तं न परिचक्षीत दीयमानमन्नं न निराकुर्यात्पात्रस्थं वा न परित्यजेत् । सदनापरित्यागक्षणं व्रतं बनधारणम् । इतः परं मनो विज्ञानं चेति वक्तव्यं यद्यपि तथाऽपि तयोरपि भूतकार्यत्वात्प्राणशब्देन वायुभूतमङ्गकृत्यान्नशब्देन भौतिक भूतप्र- सङ्गं प्रस्तावयति-आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रति- १ ख. रं प्रत्यक्ष प्रा। .
१६० करानन्देकृता- ब्रह्मवल्ल्यध्याय, अ०१०] ष्ठितम् । ज्योतिष्याप प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नपन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिब्रह्मवर्चसेन । महान्कीर्त्या । आपो द्रवात्मिकाश्चतुर्गुणाः । ज्योतिः प्रकाशा- त्मकं त्रिगुणम् । शेष प्राणशरीरपर्यायवत्समानपाठं व्याख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचितायां पदार्थबो. धिन्यां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्यध्या- येऽष्टमोऽनुवाकः ॥ ८ ॥ अथ भृगुवल्ल्यध्याये नवमोऽनुवाकः । अन्नमुक्तं बह्वधिक शास्त्रोक्तरुपायर्याजनादिभिः कुर्वीत स्पष्टम् । तदन्नबहुकरण व्रतं व्रतधारणम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रति- ष्ठितः। आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्न' मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या । पृथिवी कठिना पञ्चगुणा । आकाशश्छिद्रात्मा शब्दगुणः । शेषं समानपाठमज्योतिःपर्यायवद्वयाख्येयम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थ- बोधिन्यां तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्य याये नवमोऽनुवाकः ॥ ९ ॥ । imans-- अथ भृगुवल्ल्यध्याये दशमोऽनुवाकः । न कंचन कमपि चण्डालान्तं ब्राह्मणादिकं वसतावद्य रात्रौ त्वद्गृहे वासं करि- प्यामीति वसतिनिमित्तं समागतम् । प्रत्याचक्षीत न निराकुति । तद्वसतिनिमित्तं समागतानिवारणं व्रतं ब्रतधारणम् । एवमेतान्युपासनानि सत्रतानि समानफलत्वादिच्छावित कल्पार्थानि । उक्तफलकाम उक्तेष्वन्यतममुपासनं कुर्यादित्यगवम्यते । अत्र च भूतपञ्च- कस्य भौतिकस्य च परस्परमुपकायोंकारकभावकथनेन सर्वाद्वैते पर्यवसानं तदर्शितमिति तात्पर्यार्थः । इदानी ब्रह्मज्ञानोत्पादे सश्रद्धमन्नदानं कारणं तथाऽ(द)न्नमन्तरेण कर्तुमशक्यं वसता. पप्यप्रत्याख्यानं मान्नमन्तरेण स्यात् । न हि पूर्णोदरा अप्रार्थितान्ना वसत्यर्थं गृहस्थस्य गृहेष्वागच्छन्तो दृश्यन्ते किंतु क्षुधार्ता एव । ततोऽनसंपादनार्य गृहस्थाश्रमवा. सिना मुमुक्षुणाऽपि महान्यत्नः करणीय इत्याह-तस्माद्यस्मादन्नमन्तरेग न पुरुषा. र्थसिद्धिगृहस्थस्य ततो यया कया च येन केनापि विधया; उपायप्रकारेण याज- १ ख. रिं प!
- [भृगुवल्ल्यध्याये,अ०१ १०] तैत्तिरीयोपनिषद्दीपिका । १६१ नाद्यन्यतमेनेत्यर्थः । बह्वधिकमन्नं ब्रीह्यादिकं प्राप्नुयाद्भवेत् । यद्यप्यन्नं बहु] कुर्वीतत्यनेनैव तदुक्तं तथाऽपि तद्वतमित्यभिधानादुपासनाङ्गोऽयं नियमाविधिरितिबुद्धिनिवारणार्य स्वातन्त्र्येण पुरुषार्थत्वं दर्शयितुं पुनराह । ननु-अन्नं स्वोपभोगायैव संपाद्यं न त्वन्यस्मै दानाय, प्रमाणामावादित्यत आह- अराधि । संसिद्धम् । अस्मै गृहे समागतायातिथये । अन्नमदनीयम् । इत्यनेन प्रकारेण स्वभार्यादीन्प्रति । आचक्षते कथयन्ति | विद्वांसो गृहस्थाः । अनेन गृहस्थप्रसिद्धिः प्रमाणमन्नदाने कथिता । इदानीं दीयमानेऽन्ने देशकालपात्रश्रद्धासत्कारादिसंपत्तिरङ्गमित्येतदर्थे यथा दत्तं तथैव फलं भवतीत्याह-एतद्वै प्रसिद्धम् । मुखतो मुखे मुख्ये देशे काले पात्रे च मुख्यया श्रद्धाप्रणिपातसत्कारादिरूपया वृत्त्या मुख्यमन्नमदनीयम् । राद्धं संसिद्धम् । दत्त. मित्यर्थः । यदि तदा मुखतो मुख्ये देशे काले मुख्यया वृत्या मुख्य मुख्याय । अस्मा अन्नस्य दात्रे । अन्नमदनीयम् । राध्यते संसिद्धं भवति । एतद्वै मध्यतोऽन्नर राद्धम् । मध्यतोऽस्मा अन्न राध्यते । एतद्वा अन्ततोऽनराद्धम् । अन्ततोऽ- स्मा अन्न राध्यते । मध्यतो मध्यमदेशे काले पात्रे च मध्यमया वृत्त्या मध्यमम् । अन्ततोऽन्ते जघन्यदेशे काले पात्रे च जघन्यया वृत्त्या तिरस्कारादिरूपया जघन्यम् । व्याख्यातमन्यत्पर्यायद्वयेऽपि यत्र देशे यस्मिन्काले यद्वर्णाश्रामिणे यादृशाचाराय यस्मि- त्वयसि यदत्तमन्नमन्यद्वा दातुरपि तस्मिन्देशे तस्मिन्काले तद्वर्णाश्रमिणस्तादृशाचारस्य तस्मिन्वयास तादृशं तदन्नमन्यद्वा संपद्यत इत्यर्थः । इदानी यथोक्तविशेषणविशिष्टस्य दाने यत्फलमुत्कृष्टं तदेव तदानज्ञानेऽपीत्याह- योऽन्नदानस्थ फलाभिज्ञः । एवमुक्तेन प्रकारेण । वेदान्नदानफ मुत्तममुपास्ते । सोऽपि मुख्य(ख)तोऽन्नं लभत इति शेषः। तस्मान्मुखतोऽन्नं देयमिति संदर्भार्थः । एवमन्नमाण- मनोविज्ञानानां कार्यरूपेण केनचित्कारणरूपेण चोपासनान्युक्त्वेदानीमानन्दस्य ब्रह्मण उपासनान्याह-क्षेम प्राप्तस्य रक्षणम् । इत्यनेन प्रकारेण । वाचि वागिन्द्रिये मदीया पारब्रह्मरूपेत्युपासीत । तदुपासनाच्च क्षेमरूपं फलमिति तात्पर्यार्थः । अत्र क्रियापदाद शन उपासीतेत्यध्याहारः । फलादर्शने च गुणानुरूपं फलमिति सर्वत्रावगन्तव्यम् । योगक्षेमः, अप्राप्तस्य प्राप्तिहिं योगः । प्राप्तस्य परिरक्षणं क्षेमः । तदुभयरूप NOTES १ ख. गृहस । २ ख. ब्राह्मणाः । ३ ख. हस्थाप्रति प्रमा। ४ ख. कथितम् । ५ ख. मुख्यायास्मा अन्नदात्रेऽन। ६ ख. वाक्क्षेमब्रह्म ।
- शंकरानन्दकृता भृगुवल्ल्यध्याये, अ० १०] आनन्दो योगक्षेमः । इत्यनेन प्रकारेण । प्राणापानयोः स्पष्टम् । कर्म व्यापाररूप ब्रह्म । इत्यनेन प्रकारेण । हस्तयोः स्पष्टम् । गतिर्गमनव्यापाररूपं ब्रह्म । इत्यनेनं प्रकारेण । पादयोः स्पष्टम् । विमुक्तिर्मलविमोचनव्यापाररूपं ब्रह्म । इत्यनेन प्रका- रेण । पायो गुदेन्द्रिये । इत्यध्यात्मोपासनासमाप्त्यर्थः । मानुषीमनुष्यसंबन्धिनीः । समाज्ञाः सम्यगाज्ञा उपासनाः । जानीयादिति शेषः । अथ मानुप्युपासनाकथनसमनन्तरम् । देवीदेवसंबन्धिनीः । समाज्ञा इत्यनुषङ्गः। कथयामीति शेषः । तृप्तिब्रह्माशनपानना तुष्टिः । इत्यनेन प्रकारेण । वृष्टौ वर्षकरकासु मेघोदरान्निगतासु नारधारासु । बलं ब्रह्मभूयसामप्यमिभवकारणं सत्त्वम् । इत्यनेन प्रकारेण । विद्युत्यचिरप्रभायाम् । यशः कीर्तिरूपं ब्रह्म । इत्यनेन प्रकारेण । पशुष गवादिषु । ज्योतिः प्रकाशरूपं ब्रह्म । इत्यनेन प्रकारेण । नक्षत्रेषडषु । प्रजातिब्रह्म प्रजननरूपम् । अमृतं ब्रह्म प्रियालिङ्गनदर्शनादिरूपं मैथुनं क्षुद्रसुखरूपम् । आनन्दो ब्रह्म मैथुनक्रियानिवृ(व)त्तिनं सुखं पुत्रफलम् । इत्यनेन प्रकारेण । उपत्य उपस्थेन्द्रिये। सर्व निखिलमाकाशादिवाकायजातं ब्रह्म । इत्यनेन प्रकारेण । आकाशे भूताकाशेऽव्या- कृते वा । तद्ब्रह्म । प्रतिष्ठा प्रतितिष्ठत्यस्मिन्कार्यकारणजातमिति प्रतिष्ठा । सर्वाधार इत्यर्थः । इत्यनेन प्रकारेण । उपासीतोगासनं कुर्यात् । तत्र फलमाह-प्रतिष्ठावानाधारवान्भवति स्पष्टम् । तामह इत्युपासीत महान्भवति । महो व्याहृतिरूपं तेनो वा । महान्सर्वस्मादम्यधिकः । व्याख्यातमन्यत् । तन्मन इत्युपासीत । मानवान्भवति । मनः संकर विकल्पात्मकम् । मानोऽमिमानो मननं वा तद्वान् । अभिमानपक्षेऽखण्डतानिमान इत्यर्थः । व्याख्यातमन्यत् । तनम इत्युपासीत । नमो नमनगुणवत् । व्यारूपातमन्यम् । तत्र फलमाह-गम्यन्ते नता भवन्ति । प्राप्नुवन्तीत्यर्थः । अस्म ब्रह्म नम इत्युपास. फाय । कामाः कामनाविषयाः पुत्रादयः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ब्रह्म परिवृढं वेदरूपं वा । तद्वान्ब्रह्मवान् । परिवृढपक्षे स्वयं परिवृढो भवतीत्यर्थः । व्याख्यातमन्यत् । तद्ब्रह्म ब्रह्मणोऽसङ्गोदासीनस्य । परिमरः । परिनियन्ते विद्युद्. वृष्टिश्चन्द्रमा आदित्योऽग्नी रश्मिरिति वायुः परिमरस्तज्जनक आकाशोऽपि परिमरः । अथवा सर्वविनाशकः कालः परिमरः । ब्रह्मणा संबद्धश्च स इत्याकाशः । परिम- रगुणविशिष्टः काल एव वा । सर्वोपसंहारकार्ये । इत्यनेन प्रकारेण । उपासी- तोपासनं कुर्यात् । पर्येणं सर्वत उपासकं म्रियन्ते विनश्यन्ति । द्विषन्तो-द्वेषं १ स.' त्योमिरस्मिमितिः।
। [भूगवल्स्पध्याये,अ०१०] तैत्तिरीयोपनिषदीपिका । १६३ कुर्वन्तः । सपत्नाः कामादयो ब्राह्या वा वैरिणः । सपत्नीमातृजा वा । स्वस्य प्रिया अप्यसाधुत्वादज्ञानाद्वा । परि सर्वतः । ये प्रसिद्धाः । अप्रियाः कर्णनेत्रमनोदाहका । स्वस्य भ्रातृव्या वैरिणो द्विषन्तोऽपि, अयमस्माकं वैरी, अस्यानिष्टमस्माभिः कर. णीयमित्युपासके संकल्पयन्त उपासको वैते मयि वैरिण इति संकल्पं करोति येषु वैरमकुर्वाणेष्वपि ते सर्वे विनश्यन्तीत्यर्थः । एवमानन्दे ब्रह्मण्युपासनान्युक्त्वेदानी स्थिरचेतसमधिकारिणमुपलभ्य पूर्ववल्लयुक्त- मेवाधिदेवादिमेदरहितमानन्दात्मानमाह-स यश्चायं पुरुषे । यशासावादित्ये । स एकः । स य एवं वित् । अस्माल्लोकात्मेत्य । एतमन्नमयमात्मानमुपसं- क्रम्य । एतं प्राममयमात्मानमुपसंक्रम्य । एतं मनोमयमात्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मानमुपसंक्रम्य । एतमानन्दमयमात्मानमुपसक्रम्य । व्याख्यातं पूर्ववल्लयाम् । इयांस्तु विशेषः- पूर्व विदेहकैवल्यस्याभिधानात्पञ्चकोशेषु लटः प्रयोगः । इदानीं तु जीवन्मुक्केरमिधानात्तेष्वेव ल्यपः प्रयोगः । इमान्भूरादील्लोकान्कर्मफलभूतान् । कामानी कामं यथामिलाषमन्नमदनीयम- स्यास्तीति कामाची । कामरूपी कामं यथामिलापं रूपमस्यास्तीति कामरूपी । अनु संवरनात्मसाक्षात्कारमनु , इमाल्लोकान्सम्यक्चरन्पर्यटन्मानुषेण शरीरेणाऽऽधिकारिकेण वा । एतद्वक्ष्यमाणं लोकानुग्रहार्थम् । साम समत्वप्रतिपादकं वचनं संसारशूलार्पि- तान्प्राणिनो निरीक्ष्य भृशं करुणाक्रान्तमना गायन्नत्युन्नताशब्दान्कुर्वन् । दग्धपटन्या. येन *शरीरं गृहीत्वाऽऽस्ते तिष्ठति । अतः संगच्छत हे जना मा संसारशूले पततेति श्रुतेः करुणावत्या मातरिवाभिप्रायः । हा३७ । हा३७ । हा३७ । लोकत्रयीस्था- संबोधयति वचनत्रयेण । अहो अहो अहो इति प्लुतिः पदत्रयेऽप्याश्चर्यार्था । अहम् , आनन्दात्माऽसङ्गोदासीनोऽनाद्यनिर्वाच्याविद्यया । अन्नमदनीयमुपमोग्यामित्यर्थः । इदं भूलॊकस्थान्प्रति । अहमन्नमहमन्नं व्याख्यातम् । अन्तरिक्षस्वलॊकस्थान्प्रति वचनद्व- यम् । अहं व्याख्यातम् । अन्नादोऽन्नमत्तीत्यन्नादो मोक्का । इदं भूलॊकस्थान्पति । अहमन्नादोऽ३हमन्नादः, व्याख्यातम् । इदमन्तरिक्षस्वर्लोकद्वयस्थान्प्रति । इदानीं कीर्तिकारित्वमपि स्वस्यैवेति लोकत्रयीस्थान्प्रति पूर्ववत्कथयति-अह' * यथा दग्धोऽपि पटः किंचित्कालपर्यन्तं स्वाकारं न जहाति तथा ज्ञानाग्निदग्धकर्मा वास- नाक्षयेण नष्टमपि शरीरं धृत्वा करुणाकान्तो गायनास्त इति भावः। १ क.घ. अपि सा।२ क. ग. 'नप्रवणः । अ।
-OP १६४ शंकरानन्दकृता [भृगुवल्य याये, अ० १०] श्लोककृदह श्लोककृदह५ श्लोककृत् । श्लोकः कीर्तिस्तां करोतीति -लोककृत् । व्याख्यातमन्यत् । पूर्व वाक्यत्रयेण संवोधनेनान्नान्नाद-श्लोककृत्त्वमात्मन उक्त्वा लोक- त्रयीं प्रति विभागेन कार्यकारणरूपत्वमात्मन आह-अहमानन्दात्मा । अस्मि भवामि । प्रथमजाः प्रथमजो हिरण्यगर्म इत्यर्थः । ऋता३स्य, ऋतस्य मूर्तामूर्तात्मकस्य सत्यस्य प्रपञ्चस्य कर्ता इ.थर्मत इत्यर्थः । ऋता इति प्लुतिराश्चर्यार्थी । ननु-संसारात्पूर्व देवाः प्रसिद्धा इत्यत आह--पूर्व प्रथमः । देवेभ्यो विराड. वयवभूतेभ्योऽग्न्यादिभ्यः । अमृतस्यामरणधर्मिणो वेदस्य । ना३भायि नामिर्मध्यम् । वेदरहस्यमित्यर्थः । अत्रापि नकारे प्लुतिराश्चर्यार्था । कार्यकारणहीनोऽसङ्गोदासीनोऽहं वेदगर्भ इत्येवंरूप इति योऽन्नस्य दाताऽऽत्मनो वा सर्वाभिन्नस्य तत्त्वमसीत्यादिवाक्येभ्यो दाता क्षुधार्तेभ्यः संसारतापतप्तेभ्यो वा । मा माम् । अन्नमानन्दात्मरूपं वा ददाति प्रयच्छति । स उक्तो दाता । इदित्थं दानं कुर्वन् । एवमनेन दानेन । आ३वाः, अवोऽवतीत्यर्थः । अकारप्लुतिराश्चर्यार्था । मां सर्वामिन्नमपि रक्षयतीति । ननु-अन्ने दीयमाने कथं भवान्दत्त इत्यत आह-अहमन्नं व्याख्यातम् । ननु- अन्नस्य दानेनाऽऽत्मनो वा त्वद्रक्षणनं सुकृतं भवतु दातर्यस्य तु तस्मिन्नाभिलाषः स तु स्वामन्नमात्मानं वा परस्मै मा प्रयच्छतु । भक्षयतु स्वयं काममन्नं कोऽस्यानर्थ इत्यत आह-अन्नमदनीयं मां तद्रूपमात्मानं वाऽदत्त्वा । अदन्तं मक्षयन्तम् । आभि, अनि भक्षयाम्यनमक्षकम् । अकारे प्लुतिराश्चर्यार्था । सर्वामिन्नोऽप्येवं मक्षयामीति । ननु-यथा त्वमेनं मक्षयसि तथा त्वामप्यन्यः । यथा मण्डूकः क्षुद्रं जीवं तं सर्पः सर्प मकरो विश्वस्य विचित्रशक्तिभूताक्रान्तत्वात्ततो न मवतः प्राप्तिः पुरुषार्थ इत्यत आह--अहमानन्दात्मा विश्वं निखिलं भुवनं भवन्त्यस्मिन्भूतानीति भवनं भवनमेव भुवनम् । अविद्या तत्कार्यतत्संस्कारजातं कार्यकारणरूपमित्यर्थः । अभ्यभवामिभ्य- भवं स्वकीयेऽऽनन्दात्मरूपेण देशकालवस्तुपरिच्छेदशून्येन चरमवृत्तिसाक्षात्कारविष. येण निखिलमिदमात्मरूपकारणेन परिभवामि । अतो न मम कश्चन भक्षकः किंत्वहमेव सर्वस्य । ततो न मत्प्राप्तिरपुरुषार्थ इत्यर्थः । ननु--सर्वा मेदेऽन्येभ्यः कस्त्वैय्यतिशय इत्यत आहे-सुवर्न सुवर्णस्तत्समानवर्ण आदित्य इव सुवर्णः । ज्योतीयोतिः प्रकाशः स्वयंप्रकाशानन्दरूपोऽऽहं ततो मय्य. तिशय इत्यर्थः । इदानीं श्रुतिराह--योऽधिकारी । एवमुक्तप्रकारमानन्दात्मानम्। १ क. 'मन ई । २ ख. "त्मस्वरू' । ३ क. ग. "स्त्वति । ४ ख. "ह-सुवर्णस्त' ५ ख. °ग्यस्त्यति ।
[भृगुवल्यध्याये, अ० १० तैत्तिरीयोपनिषदीपिका । वेद जानाति साक्षात्करोतीत्यर्थः । सोऽपीमालोकानित्यादिनोकं फलं प्राप्नोतात्यमि. प्रायः । इत्युपनिषत् । व्याख्यातं पूर्ववल्ल्याम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचितायां पदार्थबोधिन्या तैत्तिरीयोपनिषद्दीपिकायां तृतीये भृगुवल्ल्यध्याये दशमोऽनुवाकः ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दभगवतः कृतौ तैत्तिरीयोपनिषदीपिकायां तृतीयो भृगुवल्ल्यध्यायः समाप्तः ॥३॥ समाप्तेयं शंकरानन्दी तैत्तिरीयोपनिषद्दीपिका ॥