Bharti Bhawan Liabrary, Allahabad

Kramdeepika

Mahamahopadhyaya Kasmirika

PDF Proofread

Front matter

May 2109 1917. TES CHOWKHAMBA SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT No. 233. क्रमदीपिका । Registered According to श्रीमन्महामहोपाध्यायकाश्मीरिक केशवभट्टविरचिता। विद्याविनोदश्रीगोविन्दभट्टाचार्य कृतविवरणोपेता। श्रीयुतकान्यकुब्जकुलाङ्करेणसाहित्यसांख्ययोगमीमांसाधनेक शाखाध्यापकेन-विश्वविदित श्रीदुःखभजनशर्मकवीन्द्रात्मजेन श्रीदेवीप्रसादशर्मणा शुक्लेनकविना संशोधिता KRAMADIPIKA, By Mahamahopadhyaya Kasmirika Keshav Bhatta WITH A COMMENTARY BY Sri Govind Bhattacharya. Act. XXV of 1867 FASCICULUS 1 PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA-SANSKRIT SERIES OFFICE. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & Co; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. Price Rupee one.

॥ श्रीः ॥ DHYAHANJANA -:0- MINS 2/20 बनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतप्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवकः-२३३ १ अस्यां चौखम्बा- संस्कृनग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एक: स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिनु स्तवके एक एव ग्रन्थो मुद्यते । प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनब्याकरणधर्मशास्त्र साहित्यपुराणादिप्रन्या एवाऽत्र सुपरिष्कृत्य मुच्यन्ते । ६ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतीयैः,ब्रह्मदशायः,सिंहलद्वीपवासिभिश्चैतम्राहकैयं वार्षिकमग्रिमं मूल्यम्-मुद्राः ७ आनका:- ५ अन्यैर्देयं प्रतिस्तव १ प्रापणव्ययः पृथग् नास्ति । 020 BR0 ... Home ... साम्प्रतं मुद्रयमाणा ग्रन्था:- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतब्या- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । (वेदान्तः) खण्डे (९) स्याद्वादमञ्जरीमल्लिषणनिर्मिता सम्पूर्णा२ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १९ (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मानरूपणपरम् (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री श्रीयानु- पार्थसाराथमिश्रकृतन्यायरत्नाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण (वेदान्तः)१ व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दवोधभधार- (४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टाद्वैत काचार्यसंगृहीतः । प्राचार्यचित्सुखमुनि- दर्शनप्रकरणम् । श्रीमन्लोकाचार्यप्रणीतम्। विराचितव्याख्योपेतः ( वेदान्तः) श्रीनारायणतीर्थविरचितभाट्टभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- सहितं सम्पूर्णम् ( वेदान्तः) सप्तविभक्तिविस्तृतविचाररूप: म० म० (५) करणप्रकाशः । श्रीब्रह्मदेवाविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्णः (६) भादृचिन्तामाणिः । महामहोपाध्यायश्री (न्यायः) गागाभद्दविरचिता। तर्कपाद:(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर सम्पूर्णम् ( मीमांसा) चिता सम्पूर्ण: ( मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भनो- (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्त मेश्वरविरचिता । ( मीमांसा) ... .

M श्रीश्रीहरिः शरणम् । विद्याविनोदश्रीगोविन्दभट्टाचार्यकृतविवरणसहिता महामहोपाध्यायकाश्मीरिकश्रीकेशवभट्टविरचिता क्रमदीपिका श्रीमदभगवत्श्रीकृष्णाराधननिरूपण- प्रवण आगमनिबन्धः । CARRAND वेणुवादनविनोदलालसं दिव्यगन्धपरिलिप्तवक्षसम् । वल्लवीहृदयवित्तहारिणं भावये कमपि गोपनन्दनम् ॥ १॥ विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकप्रारिप्लितप्रति- बन्धकदुरितनिवृत्त्यसाधारणकारणमिष्टदेवताऽनुस्मरणपूर्वकं मङ्गल- माशीयाजेन कृतं शिष्यशिक्षार्थमादौ निबध्नाति- कलात्तमायेत्यादिना । कलात्तमायालवकात्तमूर्तिः कलकणदेणुनिनादरम्पः । नितो हृदि व्याकुलथंत्रिलोकी. श्रियेऽस्तु गोपीजनवल्लभो वः ॥ १ ॥ गोपीजनवल्लभो युष्माकं श्रिये सम्पदेऽस्तु भूयादिति योजना, गोपीजनस्य गोपाङ्गनाजनस्य वल्लभः स्वामी तथा च गोपीजनस्यै- वाविज्ञातविनयप्रकारस्यापि वल्लभः किं पुनः साधकस्याशेषपू. जाविधानकोविदस्येति भावः, यद्वा गोपी प्रकृतिर्जनो महदादिः अनयोवल्लभः प्रेरक इत्यर्थः । कीदृशः कलायां ज्ञानस्वरूपे स्व- स्मिन आत्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन वि. क्षेपात्मस्वभावेन आत्ता प्राप्ता मूर्तियेन स तथोक्तः, एतेन तस्य सटीकक्रमदीपिकायाः शरीरसम्बन्धेऽपि न स्वरूपानुसन्धानप्रच्युतिरावरणशक्तरमामा- ण्यादिति भावः। अथ वा कल बन्धने, तथा च बन्धनात्मकसंसार- वर्तनार्थ स्वीकृतमायालेशात्मकजलतत्त्वात्मनाऽङ्गीकृतमूर्तिरिति तो. येन जीवान् विससर्ज भूम्यामिति । अथ वा संमोहनमन्त्ररूपक- कामबीजं सकलगोपालमन्त्राणां बीजमुद्धरति कलेति, कश्च लश्च कलौ ताभ्यामात्तौ गृहीतौ सम्बद्धौ मायालवको चतुर्थस्वरान- स्वारौ ताभ्यामात्ता स्वीकृता बीजरूपा मूर्तियन सः तथोक्तः कल इत्यत्राकारउच्चारणार्थः । पुनः कीदृशः कलमव्यक्तं मधुरं यथा स्यात्तथा कणन् शब्दायमानः वेणुर्वशः कलकणंश्चासौ वेणुश्चेति कलक्कणद्वेणुः तस्य निनादेन रम्यः सर्वसुखप्रद इत्यर्थः । पुनः कीदृशः हृदि श्रितः हृत्पङ्कजे स्थितः हृदि ध्येय इत्यर्थः । यद्वा सर्वप्राणिनां हृदयेऽन्तयामिरूपेण स्थित इत्यर्थः । किं कुर्वन्, त्रयाणां लोकानां समाहारस्त्रिलोकी त्रैलोक्यं व्याकुलयन् कर्तव्येषु विचारशून्यं कुर्वन् मायया मोहयन्नित्यर्थः । तदुक्तं गीतायाम्- ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययति ॥ अत्र लघुदीपिकाकारः "कलात्तमायेत्यादिना गोपीजनवल्लभ इत्य- नेन च बीजसहितोऽत्र दशाक्षरः सूचितः, कलकणदित्यादिना ध्यानं. सूचितं, त्रिलोकी व्याकुलयन्नित्यनेन च वश्यादिप्रयोगाः सूचि ता"- इत्याह ॥ १॥ गुरुनमस्कारपूर्वकं कर्तव्यं प्रतिजानीते- गुरुचरणेति। गुरुचरणसरोरुहद्रयोत्थान माहितरजःकणकान्प्रणम्य मूना। गदितमिह विविच्य नारदाये- यंजनविधि कथयामि शाङ्गपाणेः ॥ २॥ इह ग्रन्थे शाङ्गपाणेः श्रीकृष्णस्य यजनविधि पूजाहोमा- दिकरणप्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमान- वर्तमानत्वात्, तथा च प्राचीन ग्रन्थेभ्यः स्वग्रन्थस्योपादेयता दार्श- NISHNA प्रथमपटलः । ३ ता कीदृशं नारदगौतमप्रभृतिभिर्गदितम् एतेन स्वोक्तेः स्वातन्त्र्यं- निराकृतमिति भावः । किं कृत्वा मूर्धा मस्तकेन महिताः पूजिता ये रजःकणका धूलिलेशास्तान् प्रणम्य कीदृशान् गुरुचरणद्वयमेव पद्मद्वयं तदुत्थान् तदुद्भवान्, एतेन गुरुभक्त्यतिशयः सूचितः तथा गुरुध्यानं शिरसि कर्तव्यामित्यपि सूचितम् ॥ २॥ मन्त्रान्तरेभ्यो गोपालमन्त्रस्यातिशयितं वक्तुंभूमिका रचयति- क्षितीति । चितिसुरनपचिट्तुरीयजानां. मुनिवनवासिगृहस्थवर्णिनां च । जपहुतयजनादिभिर्मनूनां. फलति हि कश्चन कस्य चित्कथं चित् ॥ ३ ॥ हि यतः मनूनां गोपालमन्त्रव्यतिरिक्तानां मध्ये कश्चन मन्त्रो- राश्यादिना शोधितः क्षितिसुरप्रभृतीनां वर्णानां मध्ये मुनिवनवा- सिप्रभृतीनामाश्रमाणां चकारात् स्त्रीणां मध्ये कस्य चित्कथं चिज- जनस्य भाग्यवशाजपहोमादिभिः आदिशब्देन तर्पणादेः परिग्रहः फलति फलं ददातीति योजना, हि शब्दोऽत्रावैधारण इति कश्चित् क्षितिसुरो ब्राह्मणः, नृपःक्षत्रियः, विट् वैश्यः, तुरीयः शूद्रः, मुनियंतिः वनवासी वानप्रस्थः, गृहस्थः कृतदारपरिग्रहः, वर्णी ब्रह्मचारी ॥३॥ अधुना गोपालमन्त्रस्य सर्वेषु सिद्धत्वमाह- सर्वविति । सर्वेषु वर्णेषु तथाऽऽश्रमेषु नारीषु नानाह्वयजन्मभेषु । दाता फलानामभिवाञ्छितानां- द्रागेव गोपालकमन्त्र एषः ॥ ४ ॥ सिद्धादिगणनानिरपेक्ष एवैष प्रथमोपस्थितो वक्ष्यमाणदशाक्ष- रगोपालमन्त्रो न तु गोपालविषयको मन्त्रगणोऽतिप्रसङ्गात् स्वाहाप्रणवसंयुक्तं मन्त्रं शूद्रे ददद् द्विजः । शूद्रो निरयगामी स्याद् द्विजश्शुद्रोऽभिजायते ॥ MONDNIONLINE सटीकक्रमदीपिकायाः इत्यागमविरोधात् , लक्षणापत्तेश्च, वाञ्छितानां स्वाभिमताना फलानां द्रागेव झटित्येव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वा- श्रमेषु ब्रह्मचारिप्रभृतिषु नारीषु नानाह्वयजन्मभेषु नानाप्रकारना. मसु तथा नानाप्रकारजन्मनक्षत्रेषु सत्स्वपीत्यर्थः ॥ ४॥ एवं सत्यपि गुरुचरणशूभूषापरोपस्थिताय मन्त्रो देय. इति व्यनक्ति- नूनमिति। नूनमच्युतकटाक्षपातने कारणं भवति भक्तिरञ्जसा । तच्चतुष्टयफलाप्तये ततो- भक्तिमानधिकृतो हरी गुरौ ॥ ५ ॥ यस्मान्नूनं निश्चितम् अच्युतकटाक्षपातने श्रीकृष्णकृपावलो- कने भक्तिरजसा तत्वतः कारणं ततस्तस्मात्कारणात् तच्चतु- यफलाप्तये प्रसिद्धधर्मादिपुरुषार्थचतुष्टयरूपफलप्राप्त्यर्थ हरौ वि. ष्णौ गुरौ मन्त्रदातरि च भक्तियुक्तपुरुषो दीक्षादावधिकृतोऽधि- कारी भवतीत्यर्थः । एतेन गुरुदेवतयोरभेदेन ध्यानं कर्तव्यमिति सुचितम् ॥ ५॥ अधुना पूजाक्रममाह- स्नात इत्यादिना। स्नातो निर्मल शुद्धसूक्ष्मवसनो धौताधिपाण्याननः स्वाचान्तस्सपवित्रमुद्रितकरः श्वेतो पुण्ड्रोज्ज्वलः । प्राचीदिग्वदनो निबद्ध्य सुदृढं पद्मासनं स्वस्तिक- वाऽऽसीनःस्वगुरून् गणाधिपमथो बन्देत बद्धाञ्जलिः॥६॥ स्नातः स्वगृह्योक्तविधिना आगमोक्तविधिनाऽपीति के चित् , निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स. तथोक्तः, धौतेति प्रक्षालितपाणिपादवदनः, स्वाचान्तः स्मृत्युक्तवि- धिना कृताचमनः, सपवित्रेति पवित्रसहितः मुद्रायुक्तहस्तः, सुप- वित्रेतिपाठे अतिशोभनपवित्रेण मुद्रितः मुद्रासम्बद्धो हस्तो यस्ये Yatsage प्रथमपटलः । ति, श्वेतेति श्वेतश्चासौ ऊर्ध्वश्चेति श्वेतोः एवम्भूतातलकेनो- ज्ज्वलः, प्राचीदिग्वदनः पूर्वाभिमुखः अत्र प्राग्वदनस्य कण्ठोक्तत्वात् प्राग्वदनं मुख्यं तदसम्भवे तूदङ्मुखत्वं रात्रौ तु सर्वपूजास्ववोदङ्- मुखत्वं पुराणे च तथाभिधानात्, अनन्तरं सुदृढं यथा स्यात्तथा पद्मासनं स्वस्तिकं वा कृत्वा, तत्र पशासनं प्रसिद्धं, स्वस्तिक लक्षणं तु- HWANI जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायसमासीनं स्वस्तिकं तत्प्रचक्षते ॥ आसीन उपविष्टः स्वगुरून गणेशं च वन्देत, अथोशब्दश्वार्थ:- नुक्तसमुच्चये तेनाग्ने दुर्गा पृष्ठे क्षेत्रपालं च वन्देत, तदुक्तं- गौतमीये- वामे गुरुं दक्षिणतो गणेशं दुर्गा पुरः क्षेत्रपति च पश्चात् । इति । प्रयोगश्च गुं गुरुभ्यो नमः, गं गणपतये नमः, दुं दुर्गायै न- मः, २ क्षेत्रपालाय नमः, बद्धाञ्जलिः कृताञ्जलिपुटः सन्नित्यर्थः अत्र शारदातिलकोतक्रमेणैतद् बोद्धव्यं दक्षिणे पूजाद्रव्यस्थापनं वामे जलकुम्भस्थापनं पृष्ठे करप्रक्षालनपात्रस्थापनं पुरतो दीपचामराधु- पकरणस्थापनामिति ॥६॥ भूतशुद्धः पूर्व कृत्यमाह- ततोऽस्त्रमन्त्रेणेति। ततोऽस्त्रमन्त्रेण विशोध्य पाणी त्रितालदिग्बन्धहुताशशालान् । विधाय भूतात्मकमेतदङ्ग- विशोधयेच्छुद्धमतिः क्रमेण ॥ ७ ॥ ततस्तदनन्तरं भूतात्मकं पृथिव्यादिपञ्चमहाभूतमयमेतदङ्गं. शरीरं शुद्धमतिः विशदमतिः विशोधयेद् देवताऽऽत्मकं कुर्यादित्यर्थः नादेवो देवमर्चयेदिति वचनात्, क्रमेण वक्ष्यमाणप्रकारेण, किं कृत्वा; अस्त्रमन्त्रेणैव अस्त्राय फडित्यनेन तन्मन्त्राङ्गास्त्रमन्त्रेणैव वा गन्धपुष्पाभ्यां हस्तौ संशोध्य करन्यासं कृत्वाऽस्त्रमन्त्रेणैवोवा- सटीकक्रमदीपिकायाः MANORAND व॑न्तालत्रयं कुर्यात्, तदुक्तं शारदायाम्- करन्यासं समासाद्य कुर्यात्तालत्रयं तत इति । अनन्तरमस्त्रमन्त्रेणैव छोटिकया दशदिग्बन्धनम् , अस्त्रमन्त्रेणैव वह्निप्राकारं जलेनात्मनः परिवेष्टनरूपं विधाय कृत्वा; अत्र सम्प्रदायः हृत्पद्मकर्णिकास्थं दीपशिखानिभं जीवात्मानं हंस इति मन्त्रेण सु. षुम्णावर्त्मना मस्तकोपरि सहस्त्रदलकमलावस्थितपरमात्मनि संयोज्य पृथिव्यादिपञ्चविंशतितत्वानि तत्र विलीनानि विभा. व्य भूतशुद्धिं कुर्यात् ॥ ७ ॥ भूतशुद्धिमाह- इडावक्र इति । इडाव धूम्र सततगतिबीजं सलवक- स्मरेत् पूर्व मन्त्री सकलभुवनोच्छोषणकरम् ॥ स्वकं देहं तेन प्रततवपुषाऽऽपूर्य सकलं- विशोष्य व्यामुञ्चत्पवनमथ मार्गेण खमणेः ॥ ८॥ इडावके वामनासापुटे सलवकं बिन्दुसहितं सततगतिबीज- वायुबीजं यमितिरूपं पूर्व प्रथमं मन्त्री साधकः स्मरेत् । किम्भूतं धूनं कृष्णवर्ण, पुनः किम्भूतं सकलेति पञ्चभूतमय- देहशोषकं तथा च वामनासापुटेन वायुमाकर्षन् षोडशवारं वा- युबीजं जपदिति भावः । अनन्तरं सकलं सर्व स्वकीयं शरीरं तेन बीजमयेन वायुना प्रततवपुषा विस्तीर्णशरीरेणापूर्य पूरयित्वा दे. हस्थवायोर्बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा चतुःषष्टिवारं वायु- बोज कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिणना- सापुटेन रेचनेनैव वायुवीजं द्वात्रिंशद्वारं जपन् वायुं व्यामुञ्चेत् त्यजेदित्यर्थः ॥ ८॥ तेनेति। तेनैव मार्गेण विलीनमारुतं- वीज विचिन्त्यारुणमाशुशुक्षणेः ।

प्रथमपटलः। आपूर्य देहं परिदह्य वामतो. मुश्चेत्समीरं सह भस्मना बहिः ॥ ९॥ तेनैव खमणेः सूर्यस्य मार्गेण दक्षिणनासापुटेन विलीनः सम्बद्धो मारुतो वायुर्यत्र तद् आशुशुक्षणेवन्हे/जं रमिति अरुण- मरुणवर्ण विचिन्त्य वायुनाऽऽपूर्य तद्वोजस्य षोडशवारजपेन पूरक- कृत्वाऽनन्तरं कुम्भकेन चतुर्गुणं रंबीजं जपन् देहं परिदह्य तदूर्व- रमिति द्वात्रिंशद्वार जपन् वामत इडामार्गेण वामनासापुटेन भस्मना सह बहिः समीरं वायुं मुञ्चदित्यर्थः ॥ ९ ॥ उत्पत्ति दर्शयति- टपरमिति। टपरमतीव शुद्धममृतांशुपथेन विधु- नयतु ललाटचन्द्रममुतस्सकलार्णमयीम् । लपरजपान्निपात्य रचयेच तया सकलं. वपुरमृतौघवृष्टिमथ बकराङ्गमिदम् ॥ १० ॥ ठकारस्तमतीच शुद्धं श्वेतं विधुं च- न्द्रबीजरूपम् अमृतांशुमथेन वामनासापुटेन षोडशवारजपेन ललाटचन्द्रं ब्रह्मरन्ध्रस्थचन्द्रं नयतु प्रापयतु, ननु सर्वशरी- रस्य दग्धत्वात् कथममृतांशुपथेन चन्द्रबीजनयनामिति चेन्न, पूर्वोक्तस्य भावनाऽऽत्मकत्वात्, अथानन्तरम् अमुतः अमृतांशोल- लाटचन्द्राब्रह्मरन्ध्रस्थशशाङ्कात् सकलार्णमयीं मातृकामयीम् अ- मृतसमूहवृष्टिं लपरो वकारः वरुणबीजमिति यावत् तजपेन कुम्भकेन चतुःषष्टिवारजपेन निपात्य उत्पाद्य तया मातृकामय्या वृष्टया इदं सकलं शरीरं रचयेदारचयेत्, कीदृशं वपुर्वकराङ्गं- वक्रं च करश्च अङ्गम् अवयवरूपं यत्र तत्तथा वकराव्यामति पाठे वाढ्यं कराढ्यं चेत्यर्थः, अनन्तरं दक्षिणनासापुटेन वायुं रेचये- त् लमिति पृथ्वीबीजं पीतवर्ण द्वात्रिंशद्वारं जपन् तत् शरीरं- सुदृष्टं चिन्तयेत् तदनु सोऽहमित्यात्ममन्त्रेण ब्रह्मरन्ध्राजीवं हृ- दयाम्भोजमानयेदिति सम्प्रदायः ॥ १० ॥ परष्टपरः ८ सटीकक्रमदीपिकायाः PART अधुना मातृकान्यासं दर्शयति- शिरोवदनेति । शिरोवदनवृत्तश्रवणघोणगण्डोष्ठद्- द्वये च सशिरोमुखेऽच इति च क्रमादिन्यसेत् । हलश्च करपादसन्धिषु तदग्रकेष्वादरात् सपार्श्वयुगपृष्ठनाभ्युदरकेषु याद्यानथ ॥ ११ ॥ अत्र शिरःशब्दो ललाटस्योपलक्षकः ललाटमुखमावृते. ति शारदादर्शनात्, एकाक्षरद्वयस्यापि न्यासापाताच, दनवृत्तं मुखमण्डलं दृक्श्रवणघोणगण्डौष्ठदन्तानां द्वयामिति स- मासः द्वयामति दृगादावपि सर्वत्र सम्बध्यते घोणा नासिका, दव- ये दन्तपङ्किद्वये, इत्युक्तेषु स्थानेषु अचः षोडश स्वरान् क्रमेणैका- क्षरक्रमेण विन्यसेत् तथा हलश्च कादीनि व्यञ्जनानि च तत्र कादी. नि विंशत्यक्षराणि आदरात् आदरपूर्वकं करपादसन्धिषु तदन- केषु च विन्यसेद् अनन्तरं यकारादीनि पञ्चाक्षराणि सपार्श्वयुग- पृष्ठनाभ्युदरकेषु पार्श्वयुगेन सह वर्तते यत् पृष्ठनाभ्युदरन्तत्र वि. न्यसेत् तथाऽनन्तरमनेन वक्ष्यमाणमार्गेण याद्यान् वर्णान् हृदया. दिस्थानगतान् अत्रापि करपद्युगयोरुदरवक्त्रयोश्च हृदयपूर्व य. था स्यात्तथा अन्वहं प्रतिदिनं न्यसतु करपागादीनां पूर्वैः पदैः स. मस्तानामपि हृदयपूर्वमिति क्रियाविशेषणेन सह सम्बन्धः सापे- क्षत्वादत्रासमास इति तु तुल्यप्रधानसापेक्षविषयं द्रष्टव्यं, किमर्थ. शुद्धकलेवरसिद्धये शुद्धशरीरसम्पादनार्थमित्यर्थः ॥ ११ ॥ इत्यारचय्योति। हृदयकक्षककुत्करमूलदोः- पदयुगोदरवक्रगतान् बुधः । हृदयपूर्वमनेन पथाऽन्वहं- न्यसतु शुद्धकलेवरसिद्धये ॥ १२ ॥ इत्युक्तप्रकारेण वपुः शरीरम् अर्णशतार्द्धकेन पञ्चाशद्ध- गैः आरचय्य रचयित्वा अनन्तरं तैरेव पञ्चाशद्वर्णैः सार्द्ध- प्रथमपटलः । .. इत्यारचय्य वपुरणशताईकेन सार्द्धक्षपेशसविसर्गकसोभपैस्तैः । विन्यस्य केशवपुरस्सरमूर्तियुक्तः कीयादिशक्तिसाहितैन्यसतु क्रमेण ॥ १३ ॥ अथ कथयाम्पर्णानां मूर्तीःशक्तीः समस्तभुवनमयी। केशवकीर्ती नारायणकान्ती माधवस्तथा तुष्टिः ॥१४॥ क्षपेशसविसर्गकसाभयैः अर्द्धक्षपेशेन सह वर्तन्त इति साद्धक्षपेशाः अर्द्धचन्द्रसहिताः तैः सानुस्वारैरित्यर्थः सविसर्गकैः विलर्गसहितैः सोभयैरनुस्वारविसर्गसहितैः विन्यस्य तथा आदौ शरीरसम्पा- दनार्थ शुद्धमातृकाऽक्षरैर्विन्यस्य तदनन्तरं तेष्वेव ललाटादिषु मातृकास्थानेषु अं नम इत्यादीन् क्षं नमइत्यन्तान् तथा अः नम इत्यादीन् क्षः नम इत्यन्तान् तथा अं नम इत्यादीन् क्षः नम इत्य- न्तान् वर्णान् विन्यस्यदित्यर्थः, एवं चतुर्विधो मातृकान्यालउक्तः । ननु कथमणशतार्द्धकेनेत्युक्तं वर्णानामेकपञ्चाशत्वादित्युच्यते क्षका- रेणाक्षरद्धयस्यैकीकरणात् लत्वेन लकारद्वयस्थकीकरणाद्वा लोक- प्रसिद्धर्वा प्रकरणेनैकपञ्चाशत्संख्यायास्तात्पर्येऽधिगते पञ्चाशद्वर्ण एवैकपञ्चाशत्संख्यापर इति प्रपञ्चसारविवरणे श्रीप्रेमानन्दभट्टा- चार्यशिरोमणयः। वस्तुतस्तु अर्णशताई च के चाणशसार्द्धकं. तेनाक्षराणामेकपञ्चाशत्त्वमायातम् । असमविभागे बा अर्द्धशब्दः । केशवन्यासमाह विन्यस्य केशवेति, केशवः पुरःसरः प्रथमो- यासां मूर्तीनां ताः तथा च केशवादिमूर्तिसहितैः कीर्त्यादि- शक्तियुक्तैश्च मातृकाक्षरैर्ललाटादिषूक्तस्थानेषु यथाक्रमं न्यासः कार्यः ॥ १३ ॥ १४॥ गोविन्दः पुष्टियुतो विष्णुधृती सूदनश्च मध्वाधः। शान्तिस्त्रिविक्रमश्व क्रियायुतो वामनो दधा- युक्तः ॥ १५ ॥ सूदनश्च मध्वाधः मधुसूदन इत्यर्थः ॥ १५ ॥ २ सटीकक्रमदीपिकाया: श्रीधरयुता च मेधा हृषीकनाथश्च हर्षया युक्तः। अम्बुजनाभश्रद्धे दामोदर संयुता तथा लज्जा ॥१६॥ हृषीकनाथो हृषीकेश इत्यर्थः, अम्बुजनाथः पदमनाथः ॥ १६ ॥ लक्ष्मीः सवासुदेवा संकर्षणकः सरस्वतीयुक्तः । प्राद्यो घुन्नः प्रीतिसमेतोड़- निरुद्धको तिरिमाः स्वरोपेताः ॥ १७॥ प्राद्यो द्युम्नः प्रधुम्नः ॥ १७ ॥ चक्रिजये गदिदुर्गे शानीं प्रभयाऽन्धितस्तथा खड्गी। सत्या शङ्कीचण्डा हलिवाण्यौ मुसलियुग्विलासिनिका ॥१८॥ शूली विजया पाशी विरजाविश्वान्वितोऽम्युशीभूयः। विमदा मुकुन्दयुक्ता नन्दजसुनन्दे स्मृतिश्च नन्दियुता१९ नरऋद्धी नरकजिता समृद्धिरथ शुद्धियुग्धरिः कृष्णः। धुद्धियुतः सत्ययुतभुक्ति- मंतियुक्तः स्यात्ततः शौरिः ॥ २० ॥ ॥१८॥ १९॥ २०॥ क्षमया शूरो रमया जनाईनो मेचधरः क्लेदी। विश्वायमूर्तियुक्ता क्लिन्ना वैकुण्ठयुक्तथा वसुदा॥२१॥ क्लेदी क्लोदिनीत्यर्थः छन्दोभङ्गभयात्तथोक्तः । विश्वादिमूर्तिरिति विश्वमूर्तिरित्यर्थः ॥ २१॥ पुरुषोत्तमश्च बसुधा बलिना च वरा बलानुजोपेता। भूयः परायणाख्या बाला सूक्ष्मा वृषन्नसंध्ये च ॥ २२ ॥ । | ૨ प्रथमपटलः। ONS सषाप्रज्ञा हंसः प्रभा वराहो निशाचविमलोऽमोघा। नरसिंहविद्युते च प्रणिगदिता मूर्तयो हलां शक्तियुताः२३ अमोघेतिच्छेदः ॥२३॥ पूर्वोक्तकेशवादिमूर्तिकीयादिशक्तिन्यासप्रकारं दर्शयति- वर्णानुक्त्वा सार्धचन्द्रान पुरस्तान्- मूर्तीः शक्तीऽवसाना नतिं च । उक्का न्यस्येत् यादिभिः सप्तधातून प्राणं जीवं क्रोधमध्यात्मनेऽन्तान् ॥ २४ ॥ पुरस्तात् प्रथमं वर्णान् अकारादिक्षकारान्तान् उक्त्वा कथं- भूतान् वर्णान् सार्धचन्द्रान् सबिन्दून् अनन्तरं मूर्तीः केशवाद्याः शक्तीः कीाद्याः डेऽवसानाः इत्युभयेन सम्बध्यते तन्न हृदय- प्राहि प्रत्यासत्तेः लाघवाच अंकेशवाय कीत्र्यै नम इति प्रयोगे केश- वायेत्यत्र नमःपदस्थ योगाभावाञ्चतुर्थ्यनुपपतिः न हि विष्ण- वे सूर्याय नम इति भवति, भवति च विष्णवे नम सूर्याय नमः इति तथा च केशवाय नमः कीत्यै नम इति प्रयोगापत्तिः उभयत्र वा चकारो देयः समुच्चयख्यापनार्थः, स श्रिये चामृताय चेति वत् तथा मातृकाक्षराणामपि उभयसम्बन्धार्थ द्विःप्रयोगापत्तिः, अं. केशवकीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तंत्र द्वन्द्वस- मासवशात् सहितावस्थितयोरेवोपस्थितौ चतुर्थ्यर्थान्वयसम्भवा. त् वर्णान्वयसम्भवाश्च अग्नीषोमयोरिव सहितावस्थितयोर्देवतात्वं, कथं तर्हि यादिषु त्वगादिप्रयोगः कार्य इत्युच्यते यं त्वगात्मने पुरुषोत्तमवसुधाभ्यां नमः रं असृगात्मने बलिपराभ्यां नम इत्येवं- रूप इति, मन्त्रमुक्तावलिकारेण तथैवाभिधानात् , आत्मने इत्यस्य सुबन्तप्रतिरूपकनिपातत्वेनादोषादिति तु प्रपञ्चसारविवरणे प- रमानन्दभट्टाचार्याः तथा च अंकेशवकीर्तिभ्यां नमः इति प्रयो- गः मन्त्रमुक्तावलीकारलघुदीपिकाकारत्रिपाठिरुद्रोपाध्यायविद्याध- राचार्य परमानन्दभट्टाचार्यसंमतः, अं केशवाय कीयै नम इति प्रयोग: पदूमपादाचार्यप्रभृतीनां संमत इति, शास्वा यथागुरुसम्प्रदायं- सटीकक्रमदीपिकायाः व्यवहर्तव्यमिति । अत्रैव न्यासविशेषमाह-यादिभिरिति यकाराद्यैर्द- शभिरक्षरैः सह सप्त धातून् त्वगसृङ्मांसमेदोऽस्थिमजशुक्राख्यान् आमनेऽन्तान् आत्मने इतिशब्दः अन्ते येषान्ते तथाप्राणं जीवं क्रोध- च आत्मनेऽन्तं हृदयादिषु यथास्थानेषु विन्यस्येदित्यर्थः, प्राण- शक्तिमित्यापिपाठान्तरम् ॥ २४ ॥ केशवादिन्यासे ध्यानमाह- उद्यदिति। उद्यत्प्रयोतनशतरुचिं तप्तहेमावदातं- पार्श्वद्धन्दे जलधिसुतया विश्वधाव्या च जुष्टम् । नानारनोल्लसितविविधाकल्पमापीतवस्त्रं. विष्णु बन्दे दरकमल कौमोदकीचक्रपाणिम् ॥२५॥ अहं विष्णु बन्दे कीदृशम् उद्यन्नुदयं गच्छन् प्रद्योतनः सूर्यः तस्य यच्छतं तस्येव रुचिदीप्तिर्यस्य तं. पुनः तप्तेति-वहिम- ध्यनिक्षितकाञ्चनवद्गौरं, पुनः कीदृशं पार्श्वद्वन्द्वे इति-दक्षिणवा. मपालद्वये जलधिसुतया लक्ष्म्या तथा विश्वधाच्या पृथिव्या जुष्टं- सेवितं, पुनः किम्भूतं नानाविधरत्नेन शोभितो नाना बहुप्रकार आकल्पो भूषणं यस्य, पुनः कीदृशम् आपतिति-आसम्यक् प्रका- रेण पीते वस्त्रे यस्य तं, पुनः कीदृशन्दरः शहः पनं कमलं कौमो. दकी गदा चकम् एतानि पाणौ यस्य तम् , अत्र ऊर्ध्वाधःक्रमण वाम- भागे शङ्खपो दक्षिणभागे गदाचक्रे इति बोध्यम् ॥ २५ ॥ ध्यानन्यासयोः फलमाह- ध्यात्वैवामिति । ध्यात्वैवं परमपुमांसमक्षरैर्यो- विन्यस्येहिनमनु केशवादियुक्तः । मेवाऽऽयुस्मृतिधृतिकीर्तिकान्तिलक्ष्मी- सौभाग्यैश्विरमुपबृंहितो भवेत्सः ॥ २६ ॥ एवमुक्ताकारं परमपुमांसं विष्णुं ध्यात्वा योऽनुदिनं प्रत्यहं- केशवादिसहितैर्मातृकाक्षर्विन्यस्येत् स पुरुषः मेधादिभिश्चिरं बहु- AMAMALINA मथमपटलः । Basanta AAMANADA कालम् उपबृंहितउपचितो भवति मेघा धारणावती बुद्धिः आ: युर्जीवनं स्मृतिः स्मरणं वृतिधैर्य कीर्तिरुत्कृष्टकर्मकथा कान्ति:- सौन्दर्य लक्ष्मीरैश्वर्य सौभाग्यं सर्वप्रियत्वम् ॥ २६ ॥ न्यासविशेषमाह- अमुमिति । अमुमेव रमापुरःसरं प्रभजेद्यो मनुजो विधि बुधः । समुपेत्य रमा प्रधीयसी पुनरन्ते हरितां बजत्यसौ॥२७॥ यः पण्डितो मनुष्यः अमुमेव विधि केशवादिन्यासप्रकार- रमापुरःसरं श्रीवीजमादौ दत्वा प्रभजेत् करोति असौ पुमान् इह लोके प्रथीयसी महती रमां लक्ष्मी समुपेत्य प्राप्य पुनरन्ते अवसाने हरितां विष्णुत्वं ब्रजति प्राप्नोतीत्यर्थः ॥ २७ ॥ तत्त्वन्यासं दर्शयति- इत्यच्युतीत्यादि। इत्यच्युतीकृततनुर्विधीत तत्त्व- न्यासं मपूर्वकपराक्षरनत्युपेतम् । भूयः पराय च तदायमात्मने च नत्यन्तमुडरतु तत्वमनून क्रमेण ॥ २८ ॥ इति पूर्वोक्तप्रकारेण अच्युतीकृततनुः सम्पादितविष्णुशरी- रः तत्त्वन्यासं वक्ष्यमाणप्रकारं विदधीत कुर्यात्, प्रकारं दर्शय- ति-मः पूर्वो यस्य स मपूर्वः कः परो यस्य सः कपरः नत्यु पेतं नम शब्दसहितं तथा च मकारादिव्युत्क्रमेण ककारपर्यन्तमे- कैकाक्षरं नमःपदसहितं कृत्वा भूयोऽनन्तरं परायेतिपदं दत्वा अ- नन्तरं तदाह्वयं तेषां तत्वानामाद्वयं वक्ष्यमाणं नाम दत्वा अनन्तरम् आत्मने इतिपदं दत्वा अनन्तरं नत्यन्तं नमःपदमन्ते दत्वा क्रमेण तत्त्वमनून तत्वमन्त्रानुद्धरतु ॥ २८॥ अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति- सकलवयुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री। Rao १४ सटीकक्रमदीपिकायाः कमुखहृदयगुह्याघ्रिष्वथोशब्दपूर्व- गुणगणमथ कर्णादिस्थितं श्रोत्रपूर्वम् ॥ २९ ॥ सकलवपुषि सर्वाङ्गव्यापके जीवं प्राणं च मन्त्रे आयोज्य तेन न्यस्यतु तथा च मं नमः पराय जीवात्मने नमःभ नमः पराय प्राणात्मने नमः इति द्वयं सर्वशरीरे विन्यस्योदित्यर्थः इति, तत्त्वपदं दत्वा मं- नमः पराय जीवतत्त्वात्मने नमः इति के चित्तत्प्रयोगान्कुर्वन्ति तन्न प्रमाणाभावात् मूर्तिपञ्जरन्यासेऽपि मूर्तिपदप्रयोगापत्तेः, अत्र मका- रादीनां बिन्दुसाहित्यं सम्प्रदायावगतं बोद्धव्यं, मध्ये हृदये भतिम् अहङ्कारं मनश्च मन्त्रे आयोज्य तेन मन्त्री न्यस्यतु त था बं नमः पराय मत्यात्मने नमः ६ नमः पराय अहंकारा- त्मने नमः पं नमः पराय मनआत्मने नमः इति त्रयं हृदि विन्य. स्येदित्यर्थः । अथोऽनन्तरं कमुखहृदयगुह्याधिषु पञ्चसु स्थानेषु शब्दपूर्व गुणसमुदायं शब्दस्पर्शरूपरसगन्धात्मकं मन्ने आयोज्य तेन न्यस्यतुं तथा च नं नमः पराय शब्दात्मने नमः इति शिरसि, धं नमः पराय स्पर्शात्मने नमः इति मुखे, दं नमः पराय रूपात्मने नम इति हृदये, थं नमः पराय रसात्मने नमः इति गुह्ये, तं नमः पराय ग- न्धात्मने नमः पादयोः विन्यस्येदित्यर्थः । अथानन्तरं श्रोत्रत्वग्दृक्- जिह्वाघ्राणात्मकं कर्णादिस्थितं कर्णत्वक्टजिह्वाघ्राणेषु स्थितं यथा स्यात्तथा न्यस्यतु तथा च णं नमः पराय श्रोत्रात्मने नमः इति श्रोत्रयोः, ढं नमः पराय त्वगात्मने नमः इति त्वचि, डं नमः पराय हगात्मने नमः इति नेत्रयोः, ठंनमः पराय जिह्वात्मने नमः इति जिह्वा- यां, टं नमः पराय प्राणात्मने नमः इतिघ्राणयोरिति विन्यस्येत् ॥२९॥ वागादीति । बागादीन्द्रियवर्गमात्मनिलयेष्वाकाशपूर्व गणं- मूर्यास्ये हृदये शिवे चरणयोहत्पुण्डरीके हृदि । बिम्बानि विषडष्टयुग्दशकलाव्यासानि सूर्योडुराड्- वन्हीनां च यतस्तु भूतवसुमुन्यक्ष्यक्षरैर्मन्त्रवित् ॥३०॥ वागादीन्द्रियवर्ग वाक्पाणिपादपायूपस्थात्मकं कर्मेन्द्रियपञ्चकं- मन्त्रे आयोज्य आत्मनिलयेषु मुखपाणिपादपायूपस्थेषु न्यस्यतु तथा -

प्रथमपटलः ।
१५
च अं नमः पराय वागात्मने नमः इति मुखे, झं नमः पराय पाण्यात्मने
नमः इति पाण्योः,जनमः पराय पादात्मने नमः पादयोः, छं नमः पराय
पायवात्मने नमः इति पायौ, चं नमः पराय उपस्थात्मने नमः इत्यु-
पस्थे विन्यस्येदित्यर्थः, आकाशपूर्व गणमाकाशवाय्वाग्नजलपृथि-
व्यात्मकं मन्त्रे आयोज्य मूर्धन्यास्ये हृदये शिवे लिने चरणयो-
न्य॑स्यतु तथा च ऊँ नमः पराय आकाशात्मने नम इति
शिरसि, धं नमः पराय वाय्वात्मने नमः इति मुखे, गं नमः
परायाग्न्यात्मने नम इति हृदये, खं नमः पराय जलात्मने नम हात
लिङ्गे, कं नमः पराय पृथिव्यात्मने नमः इति पादयोन्यस्येदित्यर्थः ।
हृत्युण्डरीकमित्यादेरवमर्थः हृत्पुण्डरीकं तथा सूर्योदुराद्वन्हीनां वि.
म्बानि सूर्यचन्द्राग्नीनां मण्डलानि त्रीणि द्विषडष्टयुग्दशकलाव्यातानि
द्वादशषोडशदशकलायुक्तानि यतस्तु भूतवसुमुन्यक्ष्यक्षरैः यतो य.
काराद् यो भूतवर्णः पञ्चमवर्णः शकारः वसुवर्णोऽष्टमार्णो हकारः मु-
निवर्ण सप्तमः सकारः अक्षिवर्णो द्वितीयवर्णो रेफः एतैश्च साहितानि
मन्त्रे आयोज्य हदि न्यस्यतु तथा च शं नमः पराय हृत्पुण्डरीकात्म-
ने नमः हं नमः पराय द्वादशकलाव्याप्तसूर्यमण्डनात्मने नमः सं नमः
पराय षोडशकलाव्यातचन्द्रमण्डलात्मने नमः नमः पराय दश-
कलाव्याप्तवन्हिमण्डलात्मने नमः इति चतुष्टयं हृदये न्यस्यतु ॥३०॥
अथ परमेष्टिपुमांसौविश्वानिवृत्ती च सर्वइत्युपनिषदः ।
न्यस्येदाकाशादिस्थाने षोपरवलाणः सलवकैः ॥ ३१ ॥
अथानन्तरं परमेष्टिपुमांसौ विश्वनिवृती सर्वइत्युपनिषदो रह-
स्यान् षोपरवलाणैरिति षकारः रेफस्य उप समीपं तेन रेफसमीप-
धर्तिनौ यकारलकारी लक्ष्येते वकारो लकारश्च एतैः सलवकै
बिन्दुसाहितैः सहितान् आकाशादिस्थाने न्यस्येद् आकाशादि
न्यासस्थानेषु मूास्ये हृदये लिङ्गे चरणयोय॑स्येत् ॥ ३१ ॥
अत्रैव विशेषमाह--
वासुदेवइति ।
वासुदेवः संकर्षणः प्रधुनश्चानिरुद्धकः ।
नारायणश्च क्रमशः परमेष्व्यादिभिर्युताः ॥ ३२ ॥

१६ सटीकक्रमदीपिकायाः क्रमशः क्रमेण परमेष्टयादिभिः सहिता वासुदेवायो न्य. सनीया तथा पं नमः पराय वासुदेवाय परमेष्ठयात्मने नमः इति शिरसि, यं नमः पराय संकर्षणाय पुरुषात्मने नमः इति मुखे, लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये, वं. नमः पराय अनिरुद्धाय निवृत्यात्मने नमः इति लिङ्गे, लं नमः पराय नारायणाय सर्वात्मने नमः इात हृदये, विन्यस्येदित्यर्थः, के चित्तु पर- भेष्ठयादेरनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥ ३२ ॥ ततः कोपतत्त्वं क्षरौबिन्दुयुक्तं- नृसिंहं न्यसेत्सर्वगात्रेषु तज्ज्ञः । क्रमेणेति तत्त्वात्मको न्यास उक्त: स्वसांनिध्यकृविश्वमूादिष्ठ द्राक् ॥ ३३ ॥ ततस्तदनन्तरं क्रमेण गुरूपदेशक्रमेण तज्ज्ञः नृसिंहबीजज्ञः क्षरी क्षकाररफऔकारइतिमिलितस्वरूपं बिन्दुयुतं तथा कोपतत्त्वं नृसिंह- च मन्त्रे आयोज्य सर्वगात्रेषु न्यस्येत् तथा च तो नमः पराय नृसि- हाय कोपात्मने नमः इति सर्वगात्रेषु न्यस्येदित्यर्थः तत्त्वन्यासमुपसंह- रति इत्युक्तप्रकारेण तत्वात्मको न्यासः कथितो भवति कीदृशःविश्व- मूर्त्यादिषु स्वसांनिध्यकृत्कृष्णसांनिध्यकृत् विम्वादिग्विति के चित् विम्बं प्रतिमा मूर्तिः शरीरम् आदिपदेन मणिमन्त्रादिसकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्यर्थः, क चिन्मयादिग्विति पाठः ॥३३॥ एतन्न्यासप्रयोजनमाह- इति कृत इति । इति कृतेऽधिकृतो भवति ध्रुवं. सकल वैष्णवमन्त्रजपादिष्ट । पवनसंयमनं त्वमुना चरे- द्यमिह जप्तुमसौ मनुमिच्छति ॥ ३४ ॥ तत्त्वन्यासे कृते ध्रुवं निश्चितमधिकृतो भवति न केवलं गोपा- लविषयमन्त्रकथनादत्रैव अपि तु सकलवैष्णवमन्त्रजपादिष्वपीत्यर्थः, JANA Shara प्रथमपटल:। १७ अधुना प्राणायामप्रकारमाह--पवनसंयमनमिति, असौ साधकः यं- मनुम् इह व्यवहारभूमौ जप्तुमिच्छति अमुना मन्त्रेण पवनसंयमन- प्राणायामं चरतु कुर्यादित्यर्थः ॥ ३४ ॥ अत्रैव प्रकारान्तरमाह- अथ घेति। अथ वाऽखिलेषु हरिमन्त्रः जपविधिषु मूलमन्त्रतः । संथमनममलधार्मरुतो- विधिनाऽभ्यसंश्वरतु तत्त्वसंख्यया ॥ ३५ ।। मूलमन्त्रतो मूलमन्त्रेण, वक्ष्यमाणदशाक्षरेणेति के चिद्, वस्तु तस्तु सप्ताक्षरगोपालवल्लभमन्त्रेण तस्यैव मूलमन्त्रत्वेनाभिधानात्त- दुचनस्य प्रयोजनान्तराभावात् तत्वसङ्ख्ययाऽष्टाविंशतिवारं चतु. विशतिवारमिति के चित् ॥ ३५ ॥ पुरतो जपत्य परतोऽपि विहितमथ तत्त्रयं बुधैः । षोडश य इह समाचरेद्दिनशः परिपूयते स खलु मासतोऽहसः ॥ ३६ ॥ पुरतो जपादौ पश्चाश्च तत्त्रयं बुधैर्विहितं प्राणायामत्रयं, रेचकादित्रयमिति के चिद्, एतेन जपाङ्गत्वाच तत्राद्यन्तेऽयं. दर्शितः ॥ ३६॥ अत्रैव प्रकारान्तरमाह- अथ वेति। अथ वाऽङ्गजन्ममनुना सुसंयम. सफलेषु कृष्णमनुजापकर्मसु । ३ २८ सटीकक्रमदीपिकाया: RAMBINDRA सहितैकसप्तकृतिवारमभ्यसं- स्तनुयात्समस्तदुरितापहारिणा ॥ ३७॥ कृतीति कृतिच्छन्दसो विंशत्यक्षरत्वात् सहितमेकं यत्र तादृश- सप्तकृतिवारं अथ वा सहितानि मिलितानि एक सप्तकृतयः उभय- प्राष्टाविंशतिवारमित्यर्थः सर्वेषु कृष्णमनुजापकर्मसु अङ्गजन्म- मनुना कामबीजेन प्राणायाममभ्यसंस्तनुयात् प्रथममेकं ततः सप्त ततो विंशति ततोऽभ्यासपाटवेऽष्टाविंशतिवारमित्यर्थः, कश्चित्तु प्रथमं सप्त ततो विंशतिस्ततएकं ततोऽष्टाविंशतिवारमभ्यासक्रमेणोति तात्पर्यमाह तत्र प्रमाणं स एव प्रष्टव्यः ॥ ३७॥ मन्त्रविशेषप्राणायामप्रकारमाह- अष्टाविंशतीति। अष्टाविंशतिसंख्यमिष्टफलदं मन्त्रं दशार्ण जप- नायच्छेत्पवनं सुसंशितमतिस्त्वष्टादशाणेन चेत् । अभ्यस्थन् रविवारमन्यमनुभिर्वर्णानुरूपं जपन् कुर्याद्रेचकपूर्वकर्मनिपुणः प्राणप्रयोगं नरः ॥ ३८ ॥ सुसंशितमतिः विमलवुद्धिः अष्टाविंशतिसंख्यं दशार्ण दशा- क्षरमन्त्र जपन् प्रायच्छेत्प्राणायाम कुर्यात्कीदृशं दशार्णम् इष्ट- फलदं स्वाभिमतफलदं तत्र दशाक्षरमन्त्रस्य वारचतुष्टयं जपेन रेच- कम् अष्टवारजपेन पूरकं षोडशवारजपेन कुम्भकं कुर्यादिति गुरुस- म्प्रदायः अष्टादशाणे चेत्प्राणायामः क्रियत इति शेषः तदा रवि- वारं द्वादशवारमभ्यस्यन् प्राणायामं कुर्यादिति गुरुसंप्रदायः, अन्य- मनुभिरन्यमन्त्रैश्चेत्प्राणायामः क्रियते तदा वर्णानुरूपं मन्त्रवर्णानां- तारतम्येन जपं कुर्वन् कुर्यात्, अत्र स्वल्पाक्षरैर्मन्त्रैर्बहुवारम् अनल्पा- क्षरैर्मन्त्रैः स्वल्पवारं जपेदित्यर्थः कीदृशः साधकः रेचकपूरककुम्भ- काख्यकर्मकुशलइत्यर्थः, रेचकस्य त्यागस्य पूर्वकर्मणी पूरककुम्भके तत्र निपुण इति रुद्रधरः, तञ्चिन्त्यम् एवमपि रेचके नैपुण्यालाभात् प्रपञ्चसारानुसारिणोऽस्य ग्रन्थस्य शारदानन्थानुयायित्वाञ्च ॥३८॥ अधुना प्राणायामप्रकार दर्शयति- प्रथमपटलः। • रेचयेन्मारुतमिति। रेचयेन्मारुतं दक्षया दक्षिणः पूरयेद्वामया मध्यनाड्या पुनः । धारयेदीरितं रेचकादित्रयं. स्यात्कलादन्तविद्याख्यमात्रात्मकम् ।। ३९ ॥ दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिणनाड्या मारुतं- वायु रेचयेत् त्यजेत् तथा वामया वामनाड्या त्यक्तवायुं पूर- येद् मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेद् इत्यु क्तप्रकारेण रेचकादित्रयं रेचकपूरककुम्भकाख्यत्रितयम् ईरितं. कथितं रेचकादिष्वत्राधिकालमाह-कलादन्तति, कला षो- डश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्टिरूपाः एतत्संख्याकमा- प्रात्मकमित्यर्थः, अत्र भैरवत्रिपाठिनः यत्र मन्त्रगणनया प्राणा- यामः तत्र कुम्भककाल एवोक्तः श्वासाभ्यासक्रमेण प्राणायाम- संख्यया मन्त्रजपः कार्यों निर्गमप्राणायामे तु रेचकादिगणना का. येत्याहुः, मात्रशब्देन च वामाङ्गुष्ठे कनिष्ठाद्यङ्गुलीनां प्रत्येकं पर्व- त्रयस्पर्शकालः कथ्यते वामहस्तेन वामजानुमण्डलस्य प्रादाक्षिण्ये. न स्पर्शकालश्च, यदत्र रुद्रोपाध्यायैरुक्तं यद्यप्यत्र रेचकंप्रथममुक्तं तद. नन्तरं पूरकं तथाऽपि प्रथमं पूरकमनन्तरं कुम्भकं ज्ञेयं यतो गृहीत- धृतस्य त्यागो भवति यत्पुनर्व्यत्यासेन कथनं तद्गोपनाय एवं कलाद- न्तेत्याद्यपि व्यत्यासेन बोद्धव्यम् , इडयोत्कर्षयेद्वायुमित्यादिशारदाद- शनाद् एवं च गृहीतचतुर्गुणेन धारणं तदद्धेन त्याग इत्यपि दर्शितं- भवतीति,तन,प्रपञ्चसारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात् प्रपञ्चसारे रेचकादित्वस्यैवोक्तत्वात् पूरकादित्वस्याष्टाङ्गयोगान्तर्भूत- प्राणायामविषयत्वाद् यदुक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वा- भाविकवायुधारणस्यात्रापि सत्त्वादन्यथा शरीरपातापत्तेः यदुक्तं- व्यत्यासेन गोपनार्थ कथनमिति तदयुक्तं मन्त्रभिन्नस्यानुष्ठानभागस्य ऋजुमार्गेणैव वक्तुं युक्तत्वाद् यदुक्तं गृहीतचतुर्गुणेनैव धारणं तद- धैन त्याग इति तदप्ययुक्तं प्रमाणाभावाद् दाक्षिणामूर्तिसंहितायाम् अङ्गुलीनियमोऽपि प्राणायामे कथितो यथा- सटीकक्रमदीपिकायाः कनिष्ठाऽनामिकाङ्गुष्ठैर्यश्नासापुटधारणम् । प्राणायामः स विज्ञयस्तर्जनीमध्यमे विनति ॥ ३९ ॥ प्रकृतमुपसंहरन्नात्मयागार्थ देहे पीठकल्पनां दर्शयति-- प्राणायामामित्यादिना। प्राणायाम विधायेत्यथ निजवपुषा कल्पयेद्यागपीठं- न्यस्येदाधारशक्तिप्रकृतिकमठशे- पक्षमाचीरसिन्धून् । श्वेतहीपं च रत्नोज्ज्वलमहितमहा- मण्डपं कल्पवृक्षं. हृदेशेशद्वयोरुवयवदनकटी- पार्श्वयुग्मेषु भूयः ॥ ४० ॥ धर्माधधर्मादि च पादगात्र- चतुष्टयं हृयथ शेषमब्जम् । सूर्येन्दुवन्हीन्प्रणवांशयुक्तान् खाद्यक्षः सत्त्वरजस्तमांसि ॥४१॥ इति पूर्वोक्तप्रकारेण प्राणायाम विधाय कृत्वा नन्तरं निजवपुषा निजशरीरेण यागपीठं पूजापीठङ्कल्पयेत् कल्पनाप्रकारमाह-न्यस्यदिति हृद्देशे हृदि आधारशक्त्यादि कल्पवृक्षान्तं न्यसेत् कमठः कूर्मः शेषोऽनन्तः क्षीरासि. न्धुः क्षीरसमुद्रः रत्नेन उज्ज्वलः महितो यः महामण्डपः रत्नमप- इति यावत् तथा चाधारशक्तये नमः प्रकृत्यै नम- इति नवकं न्यसेद् हृदीत्यर्थः, भूयोऽनन्तरम् अंसद्वयोरवयव- दनकटीपावयुग्मेषु धर्माद्यधर्मादिपादगात्रचतुष्टयं विन्यस्येत् पा- दगात्रयोश्चतुष्टयं पादगात्रचतुष्टयमित्युभयत्र सम्बध्यते पादचतु- टयं गात्रचतुष्टयं धर्मादि धर्मशानवैराग्यश्वर्यरूपपादचतुष्टयम् अंस- द्वयोरुद्धये च धर्माय नमः दक्षिणांसे, ज्ञानाय नमः घामांसे, वैराग्या- way A प्रथमपटलः। २१ य नमः वामोरौ, ऐश्वर्याय नमः दक्षिणोरी, इत्येवं प्रादक्षिण्यक्रमे ण विन्यसेत् शारदायां प्रादक्षिण्येनेत्यभिधानात् तत्रानुष्ठानक्रमक थनाच्च अन्यथा शारदायाम् अंसोरुयुग्मयोरित्यत्रांसोरुयुगेत्यने. नैव क्रमप्राप्तः प्रादक्षिण्येत्यस्य वैयर्थं स्यात्, तथाऽधर्मादि अध- माशानावैराग्यानैश्वर्यरूपं गात्रचतुष्टयं वदनकटीपार्श्वयुग्मेषु अ. धर्माय नमः मुखे, अज्ञानाय नमः वामपार्वे, अवैराग्यायनमः कट्या- स्वाधिष्ठानप्रदेशे, अनैश्वर्याय नमः दक्षिणपार्वे इत्येवं क्रमेण न्यसेत् शारदायां मुखपार्श्वनाभिपार्वेष्विति क्रमदर्शनात, एतच्च भैरव त्रिपाठिनोऽपि संमतम, एतेषु यथाश्रुतक्रमेणैवेति विद्याधराचार्याः, अथानन्तरं शेषमनन्तम् अब्जं पझं सूर्येन्दुवह्नीन् सूर्यसोमाग्निमण्ड- लानि कीदृशान् तान् प्रणवांशयुक्तान् प्रणवस्योङ्कारस्यांशाः अवय- वा अकारोकारमकारास्तैर्युक्तान्साहतान् तत्रादौ सबिन्दुप्रणवां- शादिसाहित्यं सम्प्रदायतो बोद्धव्यं, स्वाद्यक्षरैः सबिन्दुस्वीयस्वीय- प्रथमाक्षरैः सहितानि सत्त्वरजस्तमांसि तथा च हृत्पद्मे अनन्ता- य नमः पद्माय नमः अं द्वादशकलाव्याप्तसूर्यमण्डलात्मने नमः उं. षोडशकलाव्याप्तचन्द्रमण्डलात्मने नमःम दशकलाव्याप्तवह्निमण्ड- लात्मने नमः सं सत्त्वाय नमः रं रजसे नमः तं तमसे नमः॥४०॥४१॥ आत्मादित्रयमादिवीजसहितं व्योमाग्निमायालवै- र्ज्ञानात्मानमथाष्टदिक्षु परितो मध्ये च शक्तीनव । न्यस्येत् पीठमनुं च तत्र विधिवत्तकर्णिकामध्यगं. नित्यानन्दचितिप्रकाशममृतं संचिन्तयेद्धाम तत्॥४२॥ आत्मादित्रयम् आत्माऽन्तरात्मा परमात्मति लक्ष्यं कीदृशम् आ- दिबीजसहितं सबिन्दुं स्वीयस्वीयप्रथमाक्षर रूपबीजसहितमिति वि. द्याधराचार्याः,आदिः प्रणवस्तत्लहितमिति त्रिपाठिना,व्योम हकारः, अग्निरेफा,माया दीर्घई,लवो बिन्दुः एतैः सह ज्ञानात्मानं भुवनेश्वरी. बीजसहितं हृत्पझे न्यसेदिति पूर्वणान्वयः तथा च आं आत्मने नमः, अं अन्तरात्मने नमः, पं परमात्मने नमः, ह्रीं ज्ञानात्मने नमः, इति. हदि विन्यसेद्, अथानन्तरम् अष्टदिक्षु परितः प्रादाक्षिण्येन मध्ये च कर्णिकायां नवशक्तीविमलोत्कर्षिण्याद्या न्यस्येत्पद्मस्य पूर्वादिके.

सटीकक्रमदीपिकायाः सरेषु प्रादक्षिण्येन विमलायै नमः, उत्कर्षिण्यै नमः, ज्ञानायै नमः क्रियायै नमः, योगायै नमः, प्रह्वयै नमः, सत्यायै नमः, ईशानायै नमः, कर्णिकायां अनुग्रहायै नमः, इति न्यसेत् , पाठमन्त्रं च तत्र न्यस्य; एत- स्योपरि वक्ष्यमाणं पीठमन्त्रं ॐ नमो भगवते विष्णवे सर्वभूतात्मने घासुदेवाय सर्वात्मसंयोगयोगपद्मपीठात्मने नम इति मन्त्रं न्यसेत् तत उक्तरूपे पीठे विधिवद् गुरूपदिष्टमार्गेण तत् सर्वोपनिषत्प्रसिद्धम् धाम ब्रह्मचैतन्यं चिन्तयेत् कीदृशं तत्कर्णिकामध्यगं हृत्पद्मकर्णि- कामध्यस्थमित्यर्थः, एतद् ध्यानोपयोगि रूपमुक्तं स्वाभाविकरूपमा- ह कीदृशं नित्योति अविनाशिचैतन्यं स्वतःप्रकाशस्वरूपं पुनः कीदृशम् अमृतं शुद्धस्वरूपमित्यर्थः, तत्राधारशक्त्यादयः सर्वे मन्त्राः प्रणवादिचतुर्थीनमोऽन्ताः सम्प्रदायतो बोद्धव्याः॥ ४२ ॥ पाठशक्तीर्दर्शयति- विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः। प्रही सत्या तथेशानाऽनुग्रहा नवमी स्वृता ॥४३|| विमलेति ॥४३॥ पीठमन्त्रमुद्धरति- तारमित्यादिना। तारं हृदयं भगवान् विष्णुः सर्वान्वितश्च भूतात्मा। Dऽन्ताः सवासुदेवाः सर्वात्मयुतश्च संयोगः ॥४४॥ योगावधौ च पध्र पीठात्मा डेयुतो नतिश्चान्ते । पीठमहामनुरुक्तः पर्याप्तोऽयं सपर्यासु ॥ ४५ ॥ तारः प्रणवः, हृदयं नमः, भगवानिति च विष्णुारेति च सर्वा- न्वितः सर्वपदसहितः भूतात्मा सर्वभूतात्मेति, एते त्रयः सवासुदेवाः वासुदेवेन सह चत्वारः प्रत्येक अॅऽन्ताश्चतुर्थन्ताः कार्याः सर्वात्मयु. तश्च संयोगः सर्वात्मसंयोगइति स्वरूपं योगावधौ योगशब्दान्ते पन- पद्मति स्वरूपं डेयुतः पीठात्मा चतुर्थ्यन्तः पीठात्मा एतस्यान्ते नतिनमःशब्दः, उपसंहरति पीठेति अयं पीठमहामनुरुक्तः कथितः कीहशः सपर्यासु पूजासु पर्याप्तः समर्थः ॥ ४४ ॥ ४५ ॥ NOMI

प्रथमपटलः ।
wtation
करशोधनं दर्शयति-
करयोरित्यादिना।
करयोयुगलं विधाय मन्त्रा.
त्मकमाभ्यामभिधास्यमानमार्गात
सकलं विदधीत मन्त्रवणः
परमं ज्योतिरनुत्तमं हरेस्तत् ॥ ४६ ।।
इति श्रीकेशवाचार्यविरचितायां-
क्रमदीपिकायां प्रथमः पटलः ।।
Jalasaamar
करयोर्युगलम् अभिधास्यमानमार्गाद्, व्यापप्येत्यारभ्य:
विधिः समीरितः करे इत्यन्तं वक्ष्यमाणप्रकारेण मन्त्रवणमन्त्रात्मक-
मन्त्रस्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्य-
माणं च न्यासपूजादिकं विदधीत कुर्याद् मन्त्रवर्णकरणककरशो-
धने हेतुमाह परममित्यादिना यस्मात्तन्मन्त्रवर्ण हरे कृष्णस्य परमं-
तेजःस्वरूपमित्यर्थः, कीदृशं पुनः अनुत्तमं नास्त्युत्तमं यस्मात्तथे-
त्यर्थः, सकलं विदधीतेति परत्रापि काकाक्षिगोलकन्यायेन योजनीयं-
तथा च तद् हृदयपङ्कजस्थं हरेरनुत्तमं ज्योतिस्तेजः सकलं विदधीत
षडङ्गन्यासेन सावयवं कुर्यादिति लघुदीपिकाकारः ॥ ४६ ॥
इति श्रीविद्याविनोदगोविन्दभट्टाचार्यविरचिते क्रमदीपिका-
या विवरणे प्रथमः पटलः॥१॥

२४ सटीकक्रमदीपिकायाः पुनः कीदृशं- करयोर्युगलं विधायेत्यादिना सूचितं मन्त्रमुद्धर्तुमादौ गोपाल. मन्त्रेष्वपि मौलीभूतौ दशाक्षराष्टादशाक्षरी प्रथम संस्तौति-- वक्ष्ये मनुमिति । वक्ष्ये मनुं त्रिभुवनप्रथितानुभाव- मक्षीणपुण्यनिचर्यमुनिभिषिमृग्यम् । पक्षीन्द्रकेतुविषयं वसुधर्मकाम- मोक्षप्रद सकलकार्मणकर्मदक्षम् ।। १ ।। मन्त्रं वक्ष्ये उद्धारिष्यामि कीदृशं त्रिभुवनेति त्रिभुवने त्रैलो. क्ये प्रथितः ख्यातोऽनुभावः प्रभावो यस्य तथा तं पुनः कीदृशं मुनि- भिर्मुमुक्षुभिर्विमृग्यम् अन्वेषणीयं किंभूतैर्मुनिभिः अक्षीणेति अक्षी- णः संपूर्णः पुण्यनिचयः सुकृतसमूहो येषां तथा तैः पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिन्हं यस्य सः पक्षीद्रकेतुः श्रीकृष्णः तद्विषयं तत्प्रतिपादकं पुनः कीदृशं वस्विति वसु धनन्तथा च पुरुषार्थचतुष्टयप्रदमित्यर्थः पुनः कीदृशं सकलेति अशेषवश्य- कर्मकुशलम् ॥ १॥ अतिगुस्यमबोधतूलराशि- ज्वलनं वागधिपत्यदं नराणाम् । दुरितापहरं विषापमृत्युः अहरोगादिनिवारणैकहेतुम् ॥ २ ॥ पुनः कीदृशम् अतिगुह्यं पुनः कीदृशम् अबोधेति अबोधोमिथ्या. ज्ञानरूपः स एव तूलप्रचयः तत्र ज्वलनो वह्निरिव तं समस्ताज्ञानना- शकमित्यर्थः पुन कीदृशं नराणां साधकानां वागधिपत्यदं वागै- श्वर्यप्रदं पुनः कीदृशं दुरितापहरं दुःखप्रापकानिष्टनिवारकं पुनः कीदृशं विषं स्थावरं जङ्गमं च अपमृत्युरकालमरणं ग्रहो नवग्रहज- नितानिष्टं रोगो वातपित्तादिजनितशरीरदौस्थ्यम् एवमादीनामशु- भादीनां निवारणे एकोऽद्वितीयो हेतुः कारणम् ॥ २ ॥ PRANA मथमपटलः। पुनः कीदृशम्- जयदं प्रधनेऽभयदं विपिने सलिलप्लवने सुखतारणम् । नरसाप्तरथदिपवृद्धिकर- सुतगोधरणीधनधान्यकरम् ॥ ३ ॥ प्रधने संग्रामे जयदं, विपिनेऽभयदं भयहरं, सलिलप्लघने तोयसन्तरणे सुखसन्तरणदातारं, सप्तिहयः तथा च मनुष्याणां- हयरथद्विपादीनामुपचयकरं, तथा सुतादिप्रइम् ॥ ३ ॥ पुनः कीदृशम्- बलवीर्यशौर्यनिचघप्रतिभा- स्वरवर्णकान्तिसुभगत्वकरम् । क्षुभिताण्डकोटिमणिमादिगुणा. ष्टकदं किमत्र बहुनाऽखिल दम् ॥ ४ ॥ बलं शरीरसामर्थ्य, वीर्य शुक्र प्रभावो वा, शौर्य पाभिभावक- तेजः, एतेषां निचयः समूहः, प्रतिभा बुद्धिः स्फूर्तिरूपा स्वरो- ध्वनिः, वर्णो गौरत्वादिः, कान्तिर्दीप्तिः प्रतिभास्वरवर्णकान्तिरि- त्येकपदं तथा च प्रतिभास्वरवर्णकान्तिर्देदीप्यमानवर्णशोभेति क- श्चितू सुभगत्वं समस्तलोकादरकत्वम् एतेषां कर्तारन्दातारमित्यर्थः पुनः क्षुभिता संमोहिताऽण्डकोटिब्रह्माण्डकोटिर्येन तथा तं संसार- मोहकमित्यर्थः, पुनः अणिमादिगुणाष्टकदम् अणिमलधिमगरिम- महिमशित्ववशित्वप्राकाम्यप्राप्त्याख्यगुणाष्टकप्रदमित्यर्थः, पुनः किं- बहुना, अत्र जगति, अखिलदं समस्ताभीष्टप्रदमित्यर्थः ॥ ४॥ अथ दशाक्षरमन्त्रराजमुद्धरति- शाीत्यादिना। शाीं सोत्तरदन्तः शूरो वामाक्षियुग्वितीयोऽर्णः । MHANSINER सटीकक्रमदीपिकाया: शूली शौरिबोलो- बलातुजन्यमथाक्षरचतुष्कम् ॥ ५ ॥ शूरतूरीयः सानन- वृत्तः स्यात्सप्तमोऽष्टमोऽग्निसखः । तहपिताऽक्षरयुग्म- तदुपरिगं स्वेवमुद्धरेन्मन्त्रम् ॥ ६ ॥ शाही गकार कीडशोऽयं सोत्तरदन्त उत्तरदन्तपढी व्यस्थमा म. उत्तरदन्त आकारस्तेन सहित एतेन प्रथमाक्षरमुद्धृतं, शूरः पकारः कीडशोऽयं वामाक्षियुक् वामाक्षि चतुर्थस्वः तेन सहित. एतेन द्वितीयाक्षरमुद्धृतम अक्षरचतुष्कं क्रमेण पुनः कथ्यते शूली जकारः शौरिनंकारा पालो धकारः बलानुजद्वयं संयुक्तलकार- द्वयं लपतिस्वरूपमित्यक्षरचतुष्कमुद्धृतं शूरतुरीयः शूरस्य पका- रस्य चतुर्थः कीदृशोऽयं साननवृत्तः आननवृत्तेताकारेपा स- हषर्शत इति साननवृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो- भवतीत्यर्थः अष्टमोऽग्निसखो घायुः यकारहति यावत् तथा च म- नस्याम्रो वर्णो य इति बोद्धव्यः तदुपरिगं पूर्वोक्तवर्णानन्तर्यविशि- पन्तयिताऽक्षरयुगलं स्वाहेति स्वरूपमित्यक्षरद्वयमुघृतम् ॥५॥६॥ प्रकाशितइति- प्रकाशितो दशाक्षरो- मनुस्वयं मधुविषः। विशेषतः पदारवि- न्दयुग्मभक्तिवर्धनः ॥७॥ मधुद्विषः श्रीगोपालकृष्णस्यायं दशाक्षरो मन्त्र उधृतः कीडशो. विशेषतो विशेषेण पदारविन्दयुग्मभक्तिवर्धनः श्रीगोपालकृष्णचरणा- ब्जयुगले या भक्तिराराध्यत्वेन शानं तत्समृद्धिकारक इत्यर्थः॥७॥ मन्त्रस्य ऋाण्यादिकं दर्शयति- नारदहति । E IND प्रथमपटलः । - नारदो मुनिरमुष्य कीर्तितः छन्दउक्तमृषिभिर्विराडिति । देवता सकललोकमङ्गलो- नन्दगोपतनयासमीरितः॥८॥ अमुष्य पूर्वोक्तमन्त्रस्य मुनिः नापिनारदः कीर्तितः कविता - विभिौतमादिभिविराट्छन्द उक्तं देवता नन्दगोपतनयः श्रीगोपाल- कृष्ण उक्तः कीरशः सकललोकमङ्गला सर्वजनकल्याणहेतुः एतेन प्राध्यादीनां शिरसि रसनायां हदि क्रमेण न्यास कार्यइति सूचितं- प्रपञ्चसारे तथा विधानात्, प्रयोगश्च दशाक्षरगोपालमन्त्रस्य नारद- ऋषये नमः शिरसि, विराट्छन्दसे ममो मुखे श्रीगोपालकृष्णाय दे. तायै नमः हृदि इत्येवम्भूतः। अस्य मन्त्रस्य नारदऋषिः, एवं छन्दों देवतयोरपि योज्यमिति के चित् ॥ ८॥ अधुनाऽस्य मन्त्रस्य पञ्चामानि दर्शयति- अगाडीत्यादिना- अगानि पञ्च हुतभुग्दथितासमेत- श्वरमुष्य मुखवृत्तविसूपपः। त्रैलोक्यरक्षणयुजाऽप्यसुरान्तकाख्य- पूर्वेण चेह कथितानि विभक्तियुक्तैः ॥ ९ ॥ हृदये नतिः शिरसि पावकप्रिया सवषट् शिखा हुमपि वर्मणि स्थितम् । सफडनमित्युदितमतपश्चक- सचतुर्थि पौषडदितं दृशोर्यदिः ॥ १० ॥ अमुन्य इह शाखो अशानि पञ्च कथितानि कानि तानि तमाह इंदये नतिरिति हदये नतिर्नमापदं शिरसि पावकाप्रिया स्वा- हेति सवषट् वषट्पदसदिता शिखत्यर्थ: हुमपि वर्मणि स्थितं वन मणि कपचे हुमपि पदं स्थितमित्यर्थः सफडलं फट्पदसहित. मनमित्यर्थः, इत्यनेन प्रकारेण सचतुर्थि यथा स्यात्तथैवमपञ्चक-

सटीकक्रमदीपिकाया
मुदितं कथितं चतुर्थ्यां च हृदयादीनां योगः कार्यः कैः सह च-
क्रैश्चक्रशब्दैः कीदृशैः मुखवृत्तविसुपपन्नैर्मुखवृत्तमाकारः वि इति
सु इति स्वरूपमेतैः प्रत्येकमुपपन्नैः सम्बद्धैः त्रैलोक्यरक्षणयु-
जाऽपि त्रैलोक्यरक्षणं युनक्तीति तद्युम् एतादृशेन चक्रेण अपि-
शब्दाचऊरिति विभिद्यान्वयः कार्यः तथा च चक्रेणेति असुरान्त-
काख्यपूर्वेण चक्रेणेत्यर्थः चः समुच्चये पुनः कीदृशैः विभक्तियुक्तैः
चतुर्थीयुक्तः तस्या एव प्रकृतत्वात् एतस्यापि पदस्य विभिद्या-
न्वयः कार्यः इशोर्यदि इति यदि क चिम्मन्त्रे शोासोऽस्ति तदा
तत्र वौषडिति उदितं कथितम् अत्र ज्वालाचक्रायेत्यपि योज्यामिति
लघुदीपिकाकारः। प्रयोगश्च आचक्राय स्वाहा हृदयाय नमः विचक्राय
स्वाहा शिरसे स्वाहा सुचक्राय स्वाहा शिखायै वषट् त्रैलोक्यरक्षण-
चक्राय स्वाहा कवचाय हुं ज्वालाचक्राय स्वाहा नेत्रद्वयाय वौषट् अ
सुरान्तकचनाय स्वाहा अस्त्राय फडिति अङ्गुलीष्वङ्गमन्त्रन्यासे तु त-
त्तदङ्गमन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्यादि यो-
ज्यम् आगमान्तरे ही अङ्गुष्ठाभ्यानमः ही तर्जनीभ्यां स्वाहा तत-
इत्यादिदर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्यादिप्रयोगाश्चिन्त्याः
असमवेतार्थकत्वाद् मानाभावाश्चेति के चित् । अन्ये तु यथाश्रुताङ्ग-
मन्त्रस्यैव न्यासैरङ्गुलीष्वतिदेशानादुराचार्याः ॥ ९॥ १० ॥
दशाङ्गानि दर्शयति-
मन्त्राणैर्दशभिरुपेतमिन्द्रखण्डै-
रङ्गानान्दशकमुदीरितन्नमोऽन्तम् ।
हृत्शीर्ष तदनु शिखा तनुत्रमस्त्रं-
पार्श्ववन्दं सकटिपृष्ठमूईयुक्तम् ॥ ११ ॥
मन्त्राणमन्त्राक्षरैर्नमोऽन्तं यथा स्यादवम् अङ्गानां दशकमुदीरितं-
कथितं कीहशः उपेतचन्द्रखण्डैः सानुस्वारैः स्थानान्याहुः हृदयं-
शीर्ष मस्तकं तत्पश्चात् शिखा प्रसिद्धा तनुत्रं कवचम् अत्रं दश-
दिक्षु पावयुगलकटिपृष्ठमूर्द्धसहितं पूर्वोक्तमित्यर्थः कटि भेरध-
इति त्रिपाठिनः । प्रयोगस्तु गो हृदयाय नम इति पी शिरसे स्वा-
हा इत्यादि ॥११॥

प्रथमपटलः । २९ अधुनाऽस्य मन्त्रस्य बीजशक्त्यधिष्ठातृदेवताप्रकृतिविनियो- गान् दर्शयति- धक्ष्यइत्यादिना। वक्ष्ये मन्त्रस्यास्य बीजं सशक्ति चक्री शक्री वामनेत्रप्रदीप्तः । सप्रद्युम्नो बीजमेतत्प्रदिष्टं- मन्त्रप्रायुम्नो जगन्मोहनोऽयम् ॥ १२ ॥ अस्य मन्त्रस्य पूर्वोक्तस्य सशक्ति शक्त्यादिसाहितं बीजं घस्ये बीजमाह चक्रीति ककार कीदृशोऽयं शक्री शको लकारः तद्युक्तः पुनः कीदृशः वामनेत्रप्रदीप्तः वामनेत्रं चतुर्थस्वरस्तत्सहितः पुनः कीदृशः सप्रद्युम्नः प्रद्युम्नो बिन्दुः तत्सहितः तथा चक्रीमिति सिद्धम्भवति एतदस्य बीजं प्रदिष्टं कथितम् अयमेव प्राधुनो मन्त्र- इत्यर्थः किम्भूतः जगन्मोहनो विश्ववश्यकरः ॥ १२ ॥ शक्तिमाह- हंसइति। हंसो मेदोषवृत्ताभ्युपेतः पोत्री नेत्राद्यन्वितोऽसौ युगार्णा । प्रोक्ता शक्तिः सर्वगीर्वाणवृन्दै- चन्द्यस्याग्नेर्वल्लभा कामदेयम् ॥ १३ ॥ हंसः सकारः किम्भूतः मेदो धकारः वक्त्रवृत्तमाकारः आभ्या- मुपेतः सम्बद्धः तथाः पोत्री हकारः किम्भूतः नेत्रादिराकारस्तेना- न्वितः तथा च स्वाहेति सिद्धमसौ युगाों वर्णव्यात्मिका शक्तिः प्रोका तथेयं वल्लभा किम्भूता कामदा आकालितप्रदा कथं- भूतस्य वढेगीर्वाणवृन्दैर्वन्धस्य सर्वदेवसमूहैः पूज्यस्य ॥ १३ ॥ विनियोगमाह- सटीकक्रमदीपिकायाः चिनियोग इति। विनियोगोऽस्य मन्त्रस्य- पुरुषार्थचतुष्टये। कृष्णः प्रकृतिरित्युक्तो- दुर्गाऽधिष्ठातृदेवता ॥१४॥ अस्य मन्त्रस्य पुरुषार्थचतुष्टयसाधनाय विनियोग इत्यर्थः, प्रक- तिर्मूलकारणं मन्त्रोत्पादकः मन्त्रस्वरूपइत्यर्थः। अधिष्ठातृदेवतामाह दुर्गाऽधिष्ठातृदेवतेति ॥ १४ ॥ मन्त्रार्थमाह-- गोपायतीत्यादिना । गोपायति सकलमिदं गोपयति परं पुमांसमिति गोपी प्रकृतिः। तस्या जातं जन इति महदादिकं पृथिव्यन्तम् ॥ १५॥ इदं सकलं नामरूपाभ्यां व्याकृतं जगद् गोपायति रक्षति त- स्कारणत्वात् स्वार्थे आयः, तथा परं पुमासं नित्यशुद्धबुद्धमुक्ता. ऽनन्दाऽद्वयात्मकं ब्रह्मस्वरूपं गोपायति. गुप. गोपनकुत्सनयोः भशातत्वेन विषयीकरोतीतिव्युत्पस्या गोपी प्रकृतिरविद्येति याव- त् तस्याः प्रकृतेर्जातमिति व्युत्पत्त्या महदादि पृथिव्यन्तं महत्त. स्वादि पृथिवीपर्यन्तं सकलकार्यजातं जनउच्यते ॥ १५ ॥ भनयोर्गोपीजनयोः समीरणादाश्रयत्वतो व्याप्त्या । वल्लभ इत्युपदिष्टं सान्द्रानन्दे निरञ्जनं ज्योतिः॥१६॥ स्वाहति स्वात्मानं गमयामीति स्वतेजसे तस्मै । या कार्यकारणेशः परमात्मस्यच्युतकताऽस्य भवेत्॥१७॥ अनयोः गोपीजनयोरविद्यातत्कार्ययोः समीरणादातर्यामि- प्रथमपटला । स्वेन स्वस्य कार्ये प्रेरणाद् नियममादिति यावत् माश्रयत्वतो - धिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन बल्लभः स्वामीत्युपदिष्टं कथितं- परं ज्योतिब्रह्मचैतन्यकीशं ज्योतिः सान्द्रानन्दं निरतिशयान- दैकस्वरूपं पुनः कीदृशं निरञ्जनं मायाकालुण्यरहितं स्वाहेति तस्मै स्वतेजसे स्वप्रकाशचिद्रूपाय परमात्मने स्वात्मानं जीवै- कस्वरूपं गमयामि समर्पयामि तदात्मकता प्रापयामीति स्वा हाशब्दार्थः, प्रथम इतिशब्दः स्वाहाशब्दोपस्थापक: द्वितीयस्तु प्रकारप्रदर्शकः तस्मै कस्मै तबाह य इति या कार्यकारणयोजन- प्रकृत्योरीशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधिचैतन्य स्थाचेत्यनेन प्रकारेणास्योपासकस्याच्युतकताऽच्युतेन सहाभि. भता भवति ॥१७॥ प्रकारान्तरेणार्थमाह- अथ षेति। अथ पा गोपीजन इति समस्तजगदवनशक्तिसमुदायः। तस्य स्वानन्यस्य स्वामी बल्लभ इतिह निर्दिष्टः ॥ १०॥ भय था गोपीजन इतिशब्देत सकलविश्वरक्षणशक्तिसमुदायः कथ्यते तत्र गोपीपदेन शक्तिरुच्यते जनपदेन तस्याः समूहः तस्य शक्तिसमूहस्य स्वानन्यस्य स्वाभिन्नस्थ शक्तिशक्तिमतोरभेदवि- धक्षया स्वामी नियन्ता. आभयो बलभ इति हस्य स्फुटं निर्दिष्टउ- दितइत्यर्थः, स्वाहाशब्दार्थस्तु पूर्वोक्त एव बोद्धव्यः । लघुदीपिका- कारस्तु अवनशक्तिसमुदायः अवनं स्थितिः तत्र कारणभूतानां श. कीनां समूदायः समूहः जगत्पालिन्यादिगणः उक्तं च महद्भिः जग- त्पालिनीत्याधामोकास्ताः स्थितये कला इति तस्य स्वामी नायक- इत्यर्थः ॥१८॥ प्रकारान्तरेणार्थमाह- मथ बेति। अथ वा ब्रजयुवतीना- दयिताय जुहोमि मां मदीयमपि।

३२ सटीकक्रमदीपिकायाः इत्यर्पयेत्समस्त- ब्रह्मणि सगुणे समस्तसंपत्त्यै ॥ १९ ॥ गोपीजनो गोपाङ्गनाजनस्तस्य बल्लभो निरतिशयप्रेमविषयः तस्मै व्रजयुवतीनां गोपरमणीनां दयिताय हृदयानन्ददायिने स्वाहा जुहोमि किं मां स्वात्मानं मदीयमपि भात्मीयसुहृदादिकमपि इत्यनेन प्रकारेण सगुणे ब्रह्मणि संसारप्रवर्तके परमेश्वरेश्वरे सर्व समर्पयेत् किमर्थ समस्तसंपत्त्यै सर्वैश्वर्याय ॥ १९ ॥ अष्टादशाक्षरमन्त्रोद्धाराय तदन्तर्भूतौ कृष्णगोविन्दशब्दा प्रथ- मतो विविच्य दर्शयति- कृष्शब्दहति । कृष्शब्दः सत्ताऽर्थों णश्वानन्दात्मकस्ततः कृष्णः । भक्ताधकर्षणादपि तद्वर्णत्वाच मन्त्रमयवपुषः ॥२०॥ गोशब्दवाचकत्वा ज्ञानं तेनोपलभ्यते गोविन्दः । वेत्तीति शब्दराशि- गोविन्दो गोविचारणादपि च ॥ २१ ।। कृष्शब्दःसत्तार्थः तत्र शक्तः, कृष् सत्तायामित्यत्र किवन्तःसत्ता- बाचक इति कश्चित्, कृट् णश्च णकारश्च आनन्दात्मक आनन्दवाची, नन्द आनन्द इति धातोरेकदेशग्रहणादिति कश्चित्, ततो द्वन्द्वे कृते. त्रार्श आद्यचि कृते च कृष्णः सदानन्द इत्यर्थः। प्रकारान्तरेण कृष्ण- शब्दं व्युत्पादयति भक्तति भक्तानामघकर्षणात् पापपरिमार्जनात् क- ष्णइत्यर्थः, भक्तादिकर्षणादिति पाठे आदिशब्देनाभक्तग्रहणं भक्तस्य कर्षणं स्वस्थाननयनम् अभवस्य कर्षणं नरकनयनमित्यर्थः । प्रकारा. न्तरेण व्युत्पत्तिमाह तद्वर्णेति कृष्णवर्णशरीरत्वात् कृष्णः मन्त्रमयश- रीरस्य वाच्यवाचकयोरभेदेन विवक्षया। गोइत्यादि-गौशानं गोशब्द- स्य वाचकत्वात् ज्ञानवाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते शाय. ते इति गोविन्दः, विदूल लाभे इत्यस्य धातोः, प्रकारान्तरमाह द्विवीयपटलम् । वेत्तीति गोशब्दः शब्दवाची विद शाने धातुः, गांशब्दराशिं शब्दस- मुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरमाह-गोविचारणादपि चेति, गोशब्दो गोशब्दवाचक एव विद विचारणे धातुः गोविचा- रणाद् गोशब्दविचारणाद् गोविन्दः, अथ वा गाव इन्द्रियाणि तेषां- विचारणाद् विशेषेषु प्रतिनियतविषयेषु प्रवर्तनाद्गोविन्दः, अथ वा गावः पशुविशेषा इति तथा च श्रुतिः पशवो द्विपादश्चतुष्पादश्चे"ति तेषां विशेषेषु पुण्यपापेषु चारणात् प्रवर्तनाद् गोविन्दः अथ वा गाव: पशुविशेषाः तेषां रक्षणाद् गोविन्दः,अपि शब्दः चाथै॥२०॥२१॥ इदानी मन्त्रमुद्धराति- एते अभिख्ये अनुक्रमत- स्तुर्यविभक्त्या मन्त्रात् पूर्व मन्मथधीजादथ पश्चात् । स्यातां चेदष्टादशाों- मनुर्यो गुह्याद्गुह्यो वाञ्छितचिन्तामणिरेषः ॥२२॥ एते अभिख्ये नामनी कृष्णगोविन्दाख्ये अनुक्रमेण तु- यविभत्त्या प्रत्येक चतुर्थीविभक्त्या सह मन्त्रात् पूर्वो- क्तदशाक्षरगोपालमन्त्राद् आदौ मन्मथबीजात् पश्चात् कामबी- जानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषोऽष्टाद- शार्णो मन्त्रश्रेष्ठो भवति एतस्य बलादेव दशाक्षरेऽपि कामबीजसा. हित्यं के चिदिच्छन्ति, कीदृशः गुह्याद् गुह्यः गुह्यादपि गुह्यः पुनः कीदृशः वाञ्छितस्य चिन्तामात्रेणाभीष्टप्रदइत्यर्थः ॥ २२ ॥ ऋष्यादिकमप्याह- पूर्वेति। पूर्वप्रदिष्टे मुनिदेवतेऽस्य छन्दस्तु गायनमुशन्ति सन्तः । अङ्गानि मन्त्रार्णचतुश्चतुष्क- वर्मावसानानि युगार्णमस्त्रम् ॥ २३ ॥ अस्य मन्त्रस्य पूर्वप्रदिष्टे प्रथममन्त्रसंबन्धितया कथिते मुनिदेवते HeaguriSpan mments ३४ सटीकक्रमदीपिकायाः बोद्धव्ये पुनः सन्तो गायत्रं छन्द उशान्ति, वदन्ति अङ्गानीति मन्त्राण- चतुश्चतुष्कैः मन्त्रसंबन्धिवर्णानां चतुर्भिश्चतुर्भिरक्षरैः कृत्वा षोडशा- क्षरैर्वावसानानि कवचान्तानि चत्वार्यङ्गानि भवन्ति अवशिष्टं- युगाणे वर्णद्वयम् अस्त्राख्यमङ्गं भवति प्रयोगश्च क्लीं कृष्णाय हृदयाय नमः, गोविन्दाय शिरसे स्वाहा, गोपीजन शिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फट ।। २३ ॥ बीआदिकमाह- बीजमिति। बीजं शक्तिः प्रकृति- विनियोगश्चापि पूर्ववदमुष्य । पूर्वतरस्थ मनोरथ कथयामि न्यासमखिलसिडिकरम् ॥ २४ ॥ अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर्विनियोगः पूर्वमन्त्रे या. नि बीजादीनि कथितानि तान्यत्रापि झातव्यानीत्यर्थः, पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर्दशाक्षरगोपालमन्त्रस्याखिलसिद्धिकरं- समस्तसिद्धिदायकं न्यासं कथयामीति प्रतिज्ञा ॥ २४ ॥ अधुना न्यासक्रम दशार्णस्य कथयति व्यापय्येति । व्यापय्याथो हस्तयोर्मन्त्रमन्त- ोये पार्वे ताररुद्धं बुधेन । न्यासो वर्णैस्तारयुग्मान्तरस्थै- बिन्दुत्तंसाईहृधैर्विधेयः ॥ २५ ॥ अथोऽनन्तरं बुधेन पण्डितेन वर्णैर्मूलमन्त्राक्षरैासो विधेयः कार्यः किं कृत्वा मूलमन्त्रं हस्तयोरन्तर्मध्ये तथा हस्तयोरेव बाह्ये पृष्ठे तथा हस्तयोरेव पार्वे व्यापय्य व्यापकतया विन्यस्येत्यर्थः की- दृशं मन्त्रं ताररुद्धं प्रणवपुटितं कीदृशैर्वर्णैः तारयुग्मान्तरस्थैः प्रण- बद्यमध्यगतैः पुनः कीदृशैः बिन्दूत्तसैः बिन्दुः शिरोऽलंकारो येषां- mamine द्वितीयपटलम् । ते तथा सानुस्वारैरित्यर्थः पुनःकीदृशैर्हाईहृद्यैः हार्दैन नमः पदेन हृद्यै- मनोझैः सहितैरित्यर्थः प्रयोगश्च ॐगोंॐ नमः दक्षाङ्गुष्ठपर्वत्रये ॐपी ॐनमः तर्जन्याम् इत्यादि ॐ लं ॐ नमो वामकनिष्ठिकाया- मित्यादि ॥२५॥ उक्तवर्णन्यासस्थानमाह- शाखास्वित्यादिना । शाखासु त्रीणि पाण्यधि दशसु पृथग्दक्षिणाङ्गुष्ठपूर्व. वामाङ्गुष्ठावसानं न्यसतु विमलधीः सृष्टिरुक्ता करस्था। अङ्गुष्ठद्वन्द्वपूर्वा स्थितिरुभयकरे संहृति,मपूर्वा दचाङ्गुष्ठान्तिकैतत्त्रयमपिसृजतिस्थित्युपेतंचकार्यम् २६॥ दशसु शाखासु अङ्गुलीषु पृथक्कृत्वैकं त्रीणि पर्वाणि अधि पर्वत्रयं व्याप्य, त्रिपाठिनस्तु त्रीणि पर्वाणि इति पर्वत्रये अधीति उपरि अङ्गुल्यग्रे च पृथग् एकैकशः तथा च प्रथमपर्वणि ॐद्वितीये ॐतृतीये ॐअगुल्यग्रे नमः इति एवमन्यत्रापीत्याहुः। द. क्षिणाङ्गुष्ठपूर्व प्रथमन्यासादौ यथा स्यात्तथा वामाङ्गुष्ठावसानं वा- माङ्गुष्ठोऽवसाने न्यासान्ते यथा स्यादेवं विशदधीविमलबुद्धिर्य- सतु एवं च करस्था सृष्टिरुक्ता करे सृष्टिन्यासप्रकार उक्त इत्यर्थः, अङ्गुष्टद्वन्द्वपूर्वा स्थितिरुभयकरे हस्तद्वये, दक्षिणकरेऽङ्गुष्ठादि- कनिष्ठासु विन्यस्य वामकरेऽप्यङ्गुष्ठादिकनिष्ठास्वङ्गुलिषु न्यसेदयं- स्थितिन्यास उक्तः संहृतिर्वामपूर्वा दक्षेति संहतिः संहारः वामाङ्गुष्ठपूर्वा दाक्षणाङ्गुष्ठावसाना अयं च संहारन्यासउक्तः एत- नयमपि सृष्ठिस्थितिसंहारात्मकं त्रयमपि सृजतिस्थित्युपेतं कार्य- एतन्न्यासकरणानन्तरमपि पुनरपरं सृष्टिस्थितिन्यासद्वयं कार्य च सृष्टयादिन्यासपञ्चकं कार्यमित्यर्थः ॥ २६ ॥ ततः स्थितिक्रमादू बुधो दशाङ्गकानि विन्यसेत् । तदङ्गपञ्चकं तथा विधिः समीरितः करे ॥ २७ ॥ तत इति। ततस्तदनन्तरं स्थितिक्रमात् स्थितिम्यासक्रमेण दश- सटीकक्रमदीपिकायाः GES स्वङ्गुलीषुबुधः पण्डितः दशाङ्गकानि पूर्वोक्तमन्त्रदशाङ्गानि विन्यसेत् तदङ्गपञ्चकं तथेति तथा तेन प्रकारेण स्थितिक्रमेण तदङ्गपञ्चकं पू. वोक्तपञ्चकं पूर्वोक्ताङ्गपञ्चक दशसु अङ्गुलीषु विन्यसेत् करन्यासजा- तमुपसंहरति विधिरिति एवं चायं विधिः प्रकारः करे हस्तद्वये स- मीरितः कथित इत्यर्थः ॥ २७ ॥ भातृकान्यासविशेषं दर्शयन् तत्त्वन्यासं च क्रमेणाह-- पुटितैरिति । पुटितर्मनुनाश्च मातृकाण- रभिविन्यस्य सबिन्दुभिः पुरोवत् । अनुसंहृतिसृष्टिमार्गभेदा- दशतत्त्वानि च मन्त्रवर्णमामि ॥ २८ ॥ अथानन्तरमनुना दशार्णेन पुटितैर्मातृकाक्षरैः सबिन्दुभिः सा- नुस्वारैः पुरोवत् पूर्ववद्यथा पूर्व ललाटादिषु न्यास एवमभि- विन्यस्य अनु पश्चान्मातृकान्यासविशेषकरणानन्तरं वक्ष्यमाणानि दशतत्त्वानि विन्यसेत् कीदृशानि मन्त्रवर्णभाजि मन्त्राक्षरयुक्तानि कथं दशतत्वानि विन्यसेत्तत्राह संहृतिसृष्टिमार्गभेदात् प्रथम सं. हारक्रमेण तदनन्तरं सृष्टिक्रमेणेत्यर्थः ॥ २८ ॥ संहारसृष्टिप्रकारं दर्शयति-- संहृताविति। सहृतावनुगतो मनुवर्यः सृष्ठिवम॑नि भवेत्प्रतियातः । उधृतिः खलु पुरोक्तवदेषां- न्यासकर्म कथयाम्यधुनाऽहम् ॥ २९ ॥ असौ मनुवर्यः मनुश्रेष्ठः संहृतौ संहारन्यासे अनुगतो यथै- वास्ति तथैव सृष्टिमार्गे सृष्टिकरन्यासे प्रतियातो भवेत् तद्वि- परीतो भवेद्, उद्धारप्रकारमाह उधृतिरिति एषां तत्त्वानां खलु- measies द्वितीयपटलम् । निश्चयेन उद्धृतिरुद्धारः पूर्वोक्तवद् यथा पूर्वमुक्ततत्त्वन्यासे “नत्युपे- तं भूयः पराय च तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्त्वमनून् क्रमे- णे"त्येवंप्रकारेणेत्यर्थः, अधुना न्यासं कथयामीति सांप्रतं न्याससंब न्धितत्त्वनामकथनं तत्स्थानकथनं च करोमीत्यर्थः ॥ २९ ॥ तत्त्वनामान्याह- महीति। महीसलिलपावकानिलवियन्ति गौं महान पुनः प्रकृतिपूरुषौ पर इमानि तत्त्वान्यथ । पदान्धुहृदयास्यकान्याधि तु पञ्च मध्ये इयं- त्रयं सकलगं ततो न्यसतु तद्विपर्यासतः ॥ ३० ॥ मही पृथिवी, सलिलं जलं, पावकः तेजः, अनिलो वायु,र्वि- यदाकाशः, गर्वोऽहङ्कारः, महान् महत्तत्त्वं, प्रकृतिः, पुरुषः, परश्च इमा- नि पृथिव्यादीनि तत्त्वानि तत्त्वपदराच्यानि, न्यासस्थानमाह-अ- थेति, अथानन्तरं पञ्च तत्त्वानि पृथिव्यादीनि न्यसतु कुत्र पदान्धु. हृदयास्यकान्यधि, पादयोः, अन्धौलिङ्गे, हृदये, आस्ये मुखे, के शि- रास, अधि सप्तम्यर्थे मध्ये हृदये तत्त्वद्वयं, त्रयं सकलगं, सकलाङ्ग- व्यापकं ततस्तदनन्तरं तद्विपर्यासतः उक्तसंहारविपरीतरीत्या न्य. सतु प्रयोगश्च ओङ्गो नमः पराय पृथिव्यात्मने नमः इति पादद्वये इत्यारभ्य ओं हां नमः पराय परमात्मने नमः इत्यन्तः संहारः, ॐ हां नमः पराय परमात्मने नमः इत्यारभ्य ॐ गों नमः पराय पृथिव्यात्मने नमः पादद्वये इति सृष्टिन्यासः । सृष्टिन्यासे त्रयं सर्व- शरीरे, महदहङ्कारौ हृदि, आकाशः शिरसि, वाय्वग्निसलिलमह्यः मुखहृदयलिङ्गपादद्धयेषु, ज्ञेयाः। के चित्तु तत्त्वपदान्तर्भावेण न्यास- मिच्छन्ति तश्चिन्त्यम् ॥ ३० ॥ गुप्ततमोऽयं न्यासः संप्रोक्तस्तत्वदशकपरिक्लप्तः । कार्योऽन्येष्वपि सद्भि- गोपालमनुषु झटिति फलसिद्ध्यै ॥ ३१ ॥ गुप्ततमोऽयमिति । अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः ३८ सटीकक्रमदीपिकायाः अन्येष्वपि गोपालमन्त्रेषु उद्धृतदशाक्षरव्यतिरिक्तेष्वपि कार्य: कीदृशः गुह्यतमः अतिशयेन गुप्तः पुनः कीदृशः तत्त्वदशकपरि- क्लप्तः तत्त्वानां दशकं तत्वदशकं तेन परिक्लप्तः उद्घाटित इत्यर्थः किमर्थ झटिति फलसिञ्चै शीघ्रफलप्राप्त्यै ॥ ३१ ॥ न्यासान्तरमाह- आकेशादिति । आकेशादापादन्दोभ्यो- ध्रुवपुटितमथ मनुवरं न्यसेवपुषि। त्रिशो मूईन्यक्ष्णोः श्रुत्योर्माणे मुखहृदयजठरशिवजानुपत्सु तथाऽक्षराणि ॥३२॥ अथानन्तरं दोया हस्ताभ्यां ध्रुवपुटितं प्रणवपुटितं म- नुवरं मन्त्रश्रेष्ठं दशाक्षरं गोपालमन्त्रम् आकेशादापादं केशा. दिपादपर्यन्तं त्रिशः त्रिवारं वपुषि देहे न्यसेत्, पादादारभ्य केशपर्यन्तं त्रिशः स्वदेहे विन्यसेदिति विद्याधराचार्यत्रिपाठिप्र- भृतयः एतेषां मत आकेशादापादादिति पाठः । अधुना सृष्टिस्थि- तिसंहारक्रमेण मन्त्राक्षरन्यासमाह-मूर्द्धनीत्यादि-तथा दशाक्ष- राणि प्रणवपुटितानि मूर्द्धादिवक्ष्यमाणस्थानेषु विन्यसेत् न्यास- स्थानान्याह-मूर्द्धनीति मूनि चक्षुषोः उभयनेत्रे एकमेवाक्षरं श्रु- तयोः कर्णयोः अत्राप्येकमेव घ्राणे नासायुग्मे तत्राप्येकमेव मुखं, हृदयं, जठरं, शिवं लिङ्गं, जानुद्वये एकम्, पादद्धये एकम्, एतेषु दशसु स्थानेषु दशाक्षराणि विन्यसेदित्यर्थः ॥ ३२॥ उक्ता सृष्टिः शिष्टैरेषा स्थितिरपि मुनिभिरभिहिता हृदादिमुखान्तिका। संहारोऽन्यादिमृान्तत्रितयमिति- विरचयेच्च सृष्टिमनु स्थितिम् ॥ ३३ ॥ शिष्टैः आगमज्ञैः एषा सृष्टिरुक्तेत्यर्थः, स्थितिरपि स्थितिन्या- द्वितीयपटलम् । ३९ । सोऽपि मुनिभिर्नारदादिभिर्हृदयादिमुखाम्तिका अभिहिता हृदय- मारभ्य मुखपर्यन्तं कथिता, तत्र क्रमः हृदयजठरलिङ्गजानुपादमू- .क्षिश्रवणघ्राणमुखानीति संहारोऽध्यादिमूर्धान्तः कार्यः तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदन्त्रितयं विरचयतु अनु पश्चा- देतत्रितयकरणानन्तरं पुनः सृष्टिं स्थितिं च विरचयतु तथा च पञ्च न्यासा: काव् इत्यर्थः, प्रयोगस्तु गों नमः पी नमः इत्यादि ॥ ३३ ॥ येषामाश्रमिणां यदन्तो न्यासस्तदर्शयति- न्यास इति । न्यासः संहारान्तो मस्करिवैखानसेषु विहितोऽयम् । स्थित्यन्तो गृहमेधिष्ठ सृष्टयन्तो वर्णिनामिति प्राहुः॥३४॥ अयं न्यासः मस्करिवैखानसेषु संहारान्तो विहितः मस्क- री संन्यासी, वैखानसो वानप्रस्थः, तथा ताभ्यां न्यासत्रयं- कार्यमित्यर्थः । गृहमधिषु गृहस्थेषु असं न्यासः स्थित्यन्तो विहितः तथा गृहस्थैः पञ्च न्यासाः कार्या इत्यर्थः। वर्णिनां ब्रह्मचारिणामयं- न्यासः सृष्टयन्तो विहितः तथा च ब्रह्मचारिभिासचतुष्टयं- कार्यमित्यर्थः इति पूर्वोक्तमर्थजातं प्राहुः प्राचीना आगमज्ञा इति शेषः॥३४॥ वैराग्येति । चैराग्ययुजि गृहस्थे संहार के चिदाहुराचार्याः। सहजानौ वनवासिनि स्थितिं च विद्यार्थिनां सृष्टिम्॥३५॥ के चिदाचार्याः वैराग्ययुक्तगृहस्थे संहारान्तं न्यासमाहुः, किं- च सहजानौ वनवासिनि सपत्नीके वानप्रस्थे स्थिति स्थित्यन्तं. न्यासमाहुः, तथा ब्रह्मचारिभिन्नानां विद्यार्थिनामपि सृष्टिं सृष्टयन्तं- न्यासमाहुरित्यर्थः ॥ ३५ ॥ उक्ताक्षरन्यासाङ्गुलिनियमं दर्शयति- शिरसीत्यादिना। शिरसि विहितामध्या सैवाक्षिण तर्जनिकाऽन्विता अवसि रहिताङ्गुष्ठा ज्येष्ठाऽन्वितोपकनिष्ठिका। ।

सटीकक्रमदीपिकायाः नासि च वदने सर्वाः सज्यायसी हृदि तर्जनी प्रथमजयुता मध्या नाभौ श्रवोविहिता शिवे॥३६॥ ताएवाङ्गुलयो जान्वोः साङ्गुष्ठास्तु पदद्वये स्थानार्णयोर्विनिमयो भवेन्नास्त्यङ्गुलिस्थानयोः॥३०॥ मध्या मध्यमाङ्गुलिः शिरसि मूर्ति विहिता न्यासकरणत्वेन तथा च मध्यमाङ्गुल्या न्यासः शिरसि कार्य इत्यर्थः, सैव मध्या तर्जनिका- ऽन्विताऽणि नयनयुगले विहिता तथा च मध्यमातर्जनीभ्यामक्ष्णो- यासः कार्यः, श्रवलि श्रोत्रयुगले रहिताङ्गुष्ठा अङ्गुष्ठरहिता सर्वाङ्गु- लयो विहिताः, नसि नासायुगले ज्येष्ठाऽन्विता अङ्गुष्ठयुक्ता उपकनि- ष्ठिका अनामिका विहिता, वदने सर्वाङ्गुलयो विहिताः, हृदि सज्या- यसी ज्येष्ठासहिता साङ्गुष्ठतर्जनी विहिता, नाभौ जठरे नाभिपदेन जठरमुपलक्षितमिति विद्याधरः। नाभिपदस्य मुख्य एवार्थ इति ल- घुदीपिकाप्रभृतयः । प्रथमजयुता अङ्गुष्ठयुक्ता मध्यमा विहिता, शि- वे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्टा मध्या तथेत्यर्थ इति के चित् । श्रवोविहिता शिव इति पाठे श्रोत्रयुगले या अङ्गुष्ठरहि- तास्ताः शिवे विहिता इत्यर्थः, जान्वोस्ता एवाङ्गुलयःअङ्गुष्ठेन रहि- ताः सर्वाङ्गुलय इत्यर्थः, पदद्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोरित्यादिना स्थानाक्षरयोर्विनिमयो विपर्ययो भवति यथा गों सृष्टौ मूर्ति, स्थितौ हृदये, संहृतौ पादयोास इति एवमङ्गुलीस्था- नयोर्विपर्ययो नास्ति, किं तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याs- लिर्विहिता तयैवाङ्गुल्या तत्र स्थाने न्यासः कार्य इत्यर्थः॥३६॥३७॥ इदानी विभूतिपञ्जरन्यासमाह- वच्मीति। वच्म्यपरं न्यासवरं- भूत्यभिधं भूतिकरम् । मन्त्रदशावृत्तिमयं- गुप्ततमं मन्त्रिवरैः ॥ ३८ ॥ अपरं भूत्यभिधं भूतिरिति नाम यस्य तं भूतिनामकं वच्मि कथm द्वितीयपटलम् । यामि कीदृशं न्यासवरं न्यासश्रेष्ठमित्यर्थः पुनः भूतिकरम् ऐश्वर्य- करं पुनः मन्त्रदशावृत्तिमयं मन्त्रस्य दशावरणघटितं पुनः मन्त्रिवरैः साधकश्रेष्ठैर्गुप्ततममतिगुह्यम् ॥ ३८ ॥ न्यासस्थानमाह- आधारेत्यादिना। आधारध्वजनाभिहृद्गलमुखांसोरुद्धये कन्धरा. नाभ्योः कुक्षिहदोस्रोजयुगले पाइपिरोणिषु । कास्याक्षिश्रुतिनःकपोलकर पत्सन्ध्याशाखासु के तत्प्राच्यादिदिशासु मूर्ध्नि सकले दोष्णाश्च सक्यो. स्तथा ॥ ३९ ॥ शिरोऽक्ष्यास्थकण्ठाख्यहृतुन्दकन्दा- न्धुजानुप्रपत्स्वित्थमन्मनूत्थान् । न्यसेच्छ्रोत्रगण्डांसवक्षोजपाच- स्फिगूरुस्थलीजानुजङ्घाधियुक्षु ॥ ४० ॥ आधारो वृषणस्याधस्त्रिकोणं मूलाधारस्थान, ध्वजो लिङ्गं, नाभिः, हृदयं, गलः, मुखम् , अंसोरुद्वयम्, एतेष्वेकावृत्तिः कन्धरा घाटा, कं- धरा कण्ठ इति लघुदीपिकाकारः, नाभिकुक्षिहृदयम् उरोजयुगलं स्त- नद्वयं, पार्वेति पार्श्वयुगम्, अपरं पृष्ठदेशः, श्रोणिर्जधनदेशः, श्रोणिः कटिः, अपरं श्रोण्याः अपरभाग, इति त्रिपाठिनः, एतेषु द्वितीयावृत्तिः कं शिरः, आस्यं मुखम्, अक्षिणी नेत्रयुगलं, श्रुती श्रवणद्ववं, नाति नास्तिकाद्वयम्, कपोलद्वयमेतेषु तृतीयावृत्तिः, करपदेति करपदयोः प्रत्येकं सन्धिचतुष्टयं सन्धिष्वङ्गुल्यग्रेषु अङ्गुलीषु च, अत्र दक्षिणकरे चतुर्थावृत्तिः, एवं वामकरे पञ्चमावृत्तिः, इति पक्षद्वयं च, विद्याधरस्तु करयोरेकावृत्तिः पादयोरेकावृत्तिरित्याह,तञ्चिन्त्य,मूलग्रन्थात्तथाऽ. तीतेः, पादयोः सन्धिष्वङ्गुल्यग्रेष्वङ्गुलीषु च, अत्रापि दक्षिणपादे षष्ठा- वृत्तिः, वामपादे सप्तमावृत्तिः, अत एव हस्तपादयोन्सचतुष्टयमिति त्रिपाठिनः, के मस्तकमध्ये तत्प्राच्यादिदिशासु मस्तकपूर्वादिच- तुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णो- सटीकक्रमदीपिकाया: श्व बाहुयुगे तथा सक्छनोहरुमूलस्याधिष्ठानयोर्मध्यप्रदेशयोः एतेष्व- ष्टमावृत्तिः, मस्तकस्य पूर्वादिदिशास्वेकावृत्तिः,एकावृत्तिमूर्खादिग्वि- ति विद्याधराचार्य्याः, तच्चिन्त्यं, तथापदस्वरसात् शिरःप्रभृतिब्वे- कावृत्तिप्रतीतः। शिरोमस्तकम, अक्षीति नेत्रयुगलम, आस्यं मुखं, क- ण्ठं, हृदयं, तुन्दमुरं, कन्दो मूलाधारः, स्वाधिष्ठानमिति त्रिपाठिनः, अन्धु लिङ्गं, जानु, प्रपदिति पादयुगलं तेषु, एतेषु नवमावृत्तिः श्रोत्र- युगले गण्डयुगले, अंसयुगले, स्तनयुगले, पार्श्वयुगले, स्फिग्युगले नितम्बयुगले, एवमूरुजानुजङ्घाऽङ्घ्रियुगले, एतेषु दशमावृत्तिः इत्थ- मनेन प्रकारेण मनुत्थान् मन्त्रसम्बन्धिनो वर्णान् न्यसेतू, प्रयोगश्च गों नमःमूलाधारे, पी नमः लिङ्गे, जं नमः नाभौ, इत्यादि ॥३९॥४०॥ भ्यासफलमाह- इतीति । इति कथितं विभूतिपञ्जरं सकलसुखार्थधर्ममोचदम् । नरतरुणीमनोऽनुरञ्जनं हरिचरणाजभक्तिवर्धनम्॥४१॥ अनेन प्रकारेण विभूतिपञ्जरं कथितं कीदृशं सकलसुखार्थधर्म- मोक्षदं पुरुषार्थचतुष्टयप्रदं पुनः नरतरुणीमनोरञ्जन पुरुषनारीचित्ता- हादकं न केवलं सर्वानुरञ्जनम्, अपि तु हरिचरणाब्जे भक्तिवर्द्ध- नम्॥४१॥ मूर्तिपञ्जरन्यासमाह- स्फूर्तय इति । स्फूर्तयेऽथास्य मन्त्रस्य कीय॑ते मूर्तिपञ्जरम् । आतिग्रहविषारिघ्नं कीर्तिश्रीकान्तिपुष्टिदम् ॥ ४२ ॥ अथानन्तरम् अस्य दशाक्षरमन्त्रस्य स्फूर्तये उद्दीपनाय मूर्तिपक्ष- र कीय॑ते किम्भूतम् आर्तिः पीडा, ग्रहो ग्रहजनितमशुभं, विषं- स्थावरं जङ्गमं च, अरिः शत्रुः, तान् हन्तीत्यर्थः पुनः कीदृशङ्की.- दिदं कीर्तिः प्रख्यातिः, श्रीः सम्पत्तिः, सौन्दर्य, पुष्टि, बलं प्रददाती- ति तथा ॥४२॥ अधुना न्यासमुद्धरति- MARWADIOS द्वितीयपटलम् । कैः केशवादीति । केशवादियुगषदकमूर्तिभिः र्धातृपूर्वमिहिरान्नमोऽन्तकान् । द्वादशाक्षरभवानरैः स्वरैः क्लीववर्णरहितैः क्रमान्न्यसेत् ॥ ४३ ॥ केशवादिभिः पूर्वोक्तयुगषट्कमूर्तिभिः सह धातृपूर्वमिहिरान् धाता पूर्व आदौ येवु मिहिरेषु आदित्येषु वक्ष्यमाणेषु ते धातृपूर्वमिहिरा- स्तान क्रमेण न्यसतु कीदृशान् नमोऽन्तकान् नम:पदान्तान् पुनः सह द्वादशाक्षरभवाक्षरैर्वक्ष्यमाणद्वादशाक्षरमन्त्रसम्बन्धिभिर्वाद- शाक्षरैः सह, तथा क्लीबवर्णरहितैः ऋलएतत्रयरहितैः स्वरैरका- रादिभिः सह, एतदुक्तं भवति आदौ स्वराः ततो द्वादशाक्षरभवा- क्षराणि ततः केशवादिमूर्तयः ततः धातृप्रभृतयः ततो नमःपद- मिति, प्रयोगस्तु जो अंडो केशवधातृभ्यां नमः, तो अंडो केशवधा- त्रे नम इति त्रिपाठिनः॥४३॥ अथ मूर्तिपअरन्यासे न्यासस्थानमाह- भालोदरेति । भालोदरहृगलकूपतले वामेतरपार्थभुजान्तगले। वामनथपृष्ठककुत्सु तथा मूर्द्धन्यनु षड्युगवर्णमनुम्॥४४॥ भाले ललाटे, उदरे हृदये, गलकूपतले कण्ठे, वामेतरेति वामा- दितर दक्षिणं दक्षिणपाश्र्वे भुजान्ते गले चेति, वामत्रये वामपार्वे वामभुजान्ते गले च, पृष्ठे ककुदि, अथानन्तरम्, अन्वितिपाठे ऽप्य- यमेव बोद्धव्यः तथा तेन प्रकारेण मूर्ध्नि षड्युगवर्णमनुं द्वादशा- क्षरमन्त्रंन्यसेदित्यर्थः ॥ ४४ ॥ मस्तके सम्पूर्णमन्त्रन्यासस्य प्रयोजनमाह- चैतन्यति। चैतन्यामृतवपुरकोटितेजा- मूर्द्धस्थो वपुरखिलं सवासुदेवः । mune IND सटीकक्रयदीपिकाया wimarina औधस्य सुविमलपायसीव सिक्तं- व्यानोति प्रकटितमन्त्रवर्णकीर्णम् ॥ ४५ ॥ स प्रसिद्धो वासुदेवो मूर्द्धस्थो मस्तकस्थः सन् अखिलं- समस्तं वपुः शरीरं व्यानोति स्वतेजसेत्यर्थः, किम्भूतो वासु- देवः चैतन्यामृतं तदेव वपुर्यस्य स तथा, यद्वा चैतन्यं स्वप्रकाशम् अमृतं सुखं तथा च स्वप्रकाशानन्दरूपइत्यर्थः, अथ वा चैतन्यं ज्ञान- तेन वदयुतं मोक्षस्तदेव वपुर्यस्य स तथा, पुनः कीदृशः अर्कको- टिरिव तेजो यस्य सः तथा, वपुः किम्भूतं प्रकटितमन्त्रवर्णकीर्ण- प्रकटिता ये मन्त्रवर्णा द्वादशाक्षरोद्गताः तैराकीर्ण व्याप्तं, किमिव मुविमलपाथलि सुनिर्मले जले सिक्तं निक्षिप्तमौधस्यं दुग्धमिव ॥४५॥ शरीरन्यासजातमुपसंहरति- सृष्टिस्थिती इति। मृष्टिस्थिती दशपश्चाङ्गयुग्मं- मुन्यादिकत्रितयं कास्वहृत्सु। विन्धस्यतु ग्रथयित्वा च मुद्रा- भूयो दिशां दशकं बन्धनीयम् ॥ ४६ ॥ मूर्तिपारस्य पूर्वकृत्यन्दर्शयति सृष्टिस्थिती इत्यादि इति रुद्रधरः, तश्चिन्त्यं, तत्र प्रमाणाभावात् , मूर्धन्यक्ष्णोरित्यादिना पूर्वमुक्त सृष्टिस्थिती पुनः स्वदेहे विन्यस्य तथा श्वाङ्गयुग्मं दशाङ्गं पञ्चाङ्ग च विन्यस्य; ऋष्यादित्रितयं कास्यहृत्सु विन्यसेदित्यर्थः, वक्ष्यमाणमुद्रां प्रथयित्वा बद्ध्वा भूयः पुनरपि दिशां दशक बन्धनीयम् ॐ सुदर्शनायास्त्राय फट् इत्यनेन वक्ष्य- माणेन मन्त्रणेत्यर्थः ॥ ४६ ॥ জাহা মীম तारमित्यादिना। तारं हार्दै विश्वमूर्तिश्च शाीं मांसान्तस्ते वाघमध्ये सुदेवाः ।

४५ HRSS द्वितीयपटलम् । षड्वन्द्वाों मन्त्रवर्यः स उक्तः साक्षाद् द्वारं मोक्षपुर्याः सुगम्यम् ॥ ४७॥ तारं प्रणवं, हाई हृदयं नमः इति यावद्, विश्वमूर्तिकारः शाम गकारः, मांसान्ते मांसो लकारः तस्यान्तो वकार इति, ते इति स्वरूपं, वा इति स्वरूपं, य इति स्वरूपं, तयोर्वाययोर्मध्ये सुदेवाः सुदेवेत्यक्षरत्रयं, तथा च डों नमो भगवते वासुदेवायोत प्रसिद्धः षड्वन्द्वा! मन्त्रवर्यः द्वादशाक्षरो मन्त्रश्रेष्ठ उक्तः कथितः कीदृशः मोक्षपुर्याः साक्षादव्यवधानेन सुगम्यं द्वारं सुगम उपाय. इत्यर्थः ॥ ४७॥ द्वादशाक्षरादित्यान् दर्शयति- धात्रयमेत्यादिना। धात्रयममित्राख्या वरुणांशुभगा विवश्वदिन्द्रयुताः। पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः॥४८॥ धाता अर्यमा मित्रः वरुणः अंशुः भगः विवश्वान् इन्द्रः पूषा पर्जन्यः त्वष्टा विष्णुरेते द्वादश भानवः प्रोक्ताः कथिताः॥४८॥ अधुनाऽष्टादशाक्षरमन्त्रन्यासमाह-- अथ तु युगेत्यादि अथ तु युगरन्धार्णस्याहं मनोयंसनं ब्रुवे रचयतु करबन्दे पञ्चाङ्गमङ्गुलिपञ्चके । तनुमनुमनुं व्यापय्याथ त्रिशः प्रणवं सकृन्- मनुजलिपयोन्यास्या भूयः पदानि च सादरम्॥४९॥ अनन्तरं पुनर्युगरन्ध्रार्णस्य युगरन्ध्र राजदन्तत्वाद् रन्न- शब्दस्य परनिपातः, युगरन्ध्रम् अक्षराणां यत्र स युगरन्ध्राणः तस्य, रन्ध्र नव, तथा चाष्टादशाक्षरस्य मनोर्मन्त्रस्याहं न्य- सनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा, करद्वये अङ्गुलीपञ्चके पञ्चाङ्गं पूर्वोक्त मन्त्राक्षः परिक्लप्तं करन्यासं कुर्यात् कनिष्ठायाम् अस्त्रन्या- सो द्रष्टव्यः, अथानन्तरं तनुम् अनु अनुलक्षीकृत्य त्रिशः त्रिवारं- HANUMA ।

४६ सटीकक्रमदीपिकायाः मन्त्रं व्यापथ्य व्यापकतया विन्यस्य पुनः प्रणवं सकदेकवारं विन्यस्य अनन्तरं मनुजलिपयो न्यास्था मन्त्राक्षराणि न्यसतु भूयोऽनन्तरं. सादरं यथा स्यादेवं पदानि पञ्च पदानि न्यास्यानि ॥ ४९ ॥ मन्त्राक्षरन्यासस्थानमाह-- कचभुवीति । कचभुवि ललाटे भूयुग्मान्तरे श्रवणाक्षिणो. युगलबदनग्रीवाहृन्नाभिकटयुभयान्धुषु । न्यसतु शितधीर्जान्वछ्योरक्षरान् शिरसि ध्रुवं- नयनमुखहृद्गुह्यान्ध्रिवर्पयेत् पदपञ्चकम् ॥ ५० ॥ कचस्य केशस्य भूरुत्पत्तिस्थानं शिरः तत्र, ललाटे, भ्रूयुः मान्तरे भ्रूमध्ये, श्रवणाक्ष्णोर्युगले, नो नासिकायुगले च, वदने, ग्रीवायां, हृदि, नाभौ, कटयुभये, वामकटिदक्षिणकटिश्च, अ- न्धौ लिङ्गे, एतेषु तथा जान्वयोश्च शितधिर्निर्मलमतिः अक्षराणि मन्त्रसम्बन्धीनि न्यसतु अत्र जान्वोरेकमक्षरं न्यसेत् , अजयोरेक- मक्षरं न्यसेतू, तथा शिरसि मस्तके ध्रुवं न्यसेत्, पदपञ्चकन्यास- स्थानान्याह- नवनति, नयनयुगलं मुखं हृदयं गुह्यमनिश्च एतेषु मन्त्रसम्बन्धि पदपञ्चकं क्लीमित्येकम्, अन्यानि स्पष्टानि अर्पये न्यसेत् ॥ ५॥ पञ्चाङ्गानीति। पञ्चाङ्गानि न्यस्येद् भूयो- मुन्यादीनप्यन्यत्सर्वम् । तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर्याः स्युः ॥ ५१ ॥ पञ्चाङ्गानि भूयः पुनरपि शरीरे न्यसेत्, तथा मुन्यादीन् ऋष्यादीन् , अन्यत्सर्व केशवादिजातं पूर्वेण तुल्यं समानमेव, अत्र दशतत्त्वादिन्यासेषु मन्त्रस्थ द्विरावृत्तिविशेष इति लघुदीपिकाकारः, ameramand द्वितीयपटलम् । अथोऽनन्तरं मन्वोर्दशाक्षराष्टादशाक्षरयोर्या मुद्रा बन्ध्या बन्धमी- याः स्युभवेयुस्ता मुद्रा वक्ष्ये कथयामि ॥ ५१ ॥ हृदयाद्यङ्गन्यासमुद्राः प्रदर्शयति- अनङ्गुष्ठा इत्यादि। अनङ्गुष्ठा ऋजवो हस्तशाखा- भवेन्मुद्रा हृदये शीर्षके च । अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां- करबन्द्राङ्गुलयो वर्माण स्युः ॥ ५२ ॥ नाराचमुष्टयुद्गतबाहुयुग्म- काङ्गुष्ठतर्जन्युदितो ध्वनिस्तु । विष्वग्विषक्तः कथिताऽस्त्रमुद्रा यत्राक्षिणी तर्जनीमध्यमे तु ॥ ५३ ॥ अनङ्गुष्ठा अङ्गुष्ठरहिताऋजवोऽवक्रा हस्तशाखाः हस्ताङ्गुलयः हृदये मुद्रा भवेत् , शीर्षके च शिरसिता एव मुद्रा शेयाः, खलु निश्चये अधो. ऽङ्गुष्ठा मुष्टिः अधोऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिस्त्रायां मुद्र भवेद्,वर्मणि कवचे करद्वन्द्वाङ्गुलयः स्युः मुद्रापदवाच्या भवन्ति । ध्व- निः शब्दोऽस्त्रमुद्रा कथिता किंभूतो ध्वनिः नाराचवद्वाणवद् मुष्टयो- द्वतो यो बाहुस्तस्य युग्मकं वयं तस्याङ्गुष्ठतर्जनीभ्यां करणाभ्यामु- दितः पुनः कीदृशः विष्वग् दशदिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रेड- क्षिणी भवतः नेत्राङ्गमस्ति तत्र तर्जनीमध्यमे मिलिते मुद्रा ॥५२॥५३॥ घेणुमुद्रामाह- ओष्ठ इति। ओष्ठे वामकराङ्गुष्ठो लग्नस्तस्य कनिष्ठिका । दक्षिणाङ्गुष्ठसंयुक्ता तत्कनिष्ठा प्रसारिता ॥५४॥ तर्जनीमध्यमाऽनामाः किश्चित्संकुच्य चालिताः । वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥ १५ ॥ वामहस्ताङ्गुष्टोऽधरे लग्न इति संबन्धः कार्य,स्तस्य वामह सटीकक्रमदीपिकायाः अत स्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठसंयुक्ता द- क्षिणहस्ताङ्गुष्ठे संबद्धा कार्या, तत्कनिष्ठिका दक्षिणहस्तकनिष्ठिका प्रसारिता अकुटिला कार्या उभयहस्ततर्जनीमध्यमाऽनामिकाः किं. चित्संकुच्य चालिताश्वालनीया, इत्थमिह शास्त्रे वेणुमुद्रा कथिता सुगुप्ता ग्रन्थान्तरे ऽत्यन्तगुप्ता यतो हरेः परमेश्वरस्य श्रीकृष्णस्य प्रेयसी वल्लभा ॥५४॥ ५५ ॥ नोच्यन्त इति। नोच्यन्तेऽत्र प्रसिद्धत्वा- न्मालाश्रीवत्सकौस्तुभाः। उच्यतेऽच्युतमुद्राणा- मुद्रा बिल्वफलाकृतिः ॥ ५६ ॥ मालाश्रीवत्सकौस्तुभमुद्राः प्रसिद्धत्त्वानोच्यन्ते मया न्थक प्रसिद्धमिह प्रकाश्यत इति शेषः, गले वनमालाऽभिनयनं वनमालामुद्रा, उत्तानितवामतर्जनीकनि- ष्ठोपरि अधोमुखदक्षिणकरकनिष्ठिकातर्जनीके संयोज्य दक्षि- णकरानामिकामध्यमाङ्गुलीद्वयं वामकराङ्गुष्ठोपरि कृत्वा वामकरम- ध्यमोपकनिष्ठिके दक्षिणहस्ताङ्गुष्ठस्याधः कुर्यादेषा श्रीवत्समुद्रा, वा- मकनिष्ठिकया दक्षिणकनिष्ठिकां निष्पीड्य वामानामिकया दक्षि- णतर्जनीं निष्पीड्य शिष्टवामाङ्गुलीत्रयम् उपरि कृत्वा वामतर्जनीस- हितदाक्षिणहस्ताङ्गुलित्रयमुखमेकत्र योजयेदेषा कौस्तुभमुद्रा॥५६॥ बिल्वमुद्रामाह- अङ्गुष्ठमिति । अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकनाथ बध्वा तस्थाग्रं पीडयित्वाऽङ्गुलिभिरपि तथा वामहस्ताङ्गुलीभिः। बध्वा गाढं हृदि स्थापयतु विमलधीाहरन्मारबीजं. बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ ५७॥ वामाङ्गुष्ठम् उहण्डितं दण्डाकारम् ऊर्ध्वं कृत्वाऽधः कर्तव्यं तथाऽ ANNA द्वितीयपटलम् । ४९ नन्तरम् इतरकराङ्गुष्ठेन बवा तस्य च पीठे दक्षिणकराङ्गुष्ठस्तिर्य कार्य इत्यर्थः तस्या दक्षिणकराङ्गुष्ठानमङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिणकराङ्गुलयोऽपि वामहस्ताङ्गुलीभिर्गाढं यथा स्यादव वड्वा विमलधीः शुद्धबुद्धिः हृदि हृदये स्थापयेत् मारवीजं कामवीज व्याहरन् उच्चारयन् इत्थं विल्वाख्या एषा स्फुटं व्यक्तं यथास्यादेव मह शास्त्रे कथिता विधिज्ञैः प्रकारज्ञैर्गोपनीया ॥ ५७ ॥ एतस्याःफलमाह- मन इति। मनोवाणीदेहैर्यदिह च पुरा वाऽपि विहितं. स्वमत्या मत्या वा तदखिलमसौ दुष्कृतिचयम् । इमां मुद्रां जानन् क्षपयति नरस्तं सुरगणा- नमन्त्यस्याधीना भवति सततं सर्वजनता ॥ १८॥ अलौ नरः मनुष्यः इमां मुद्रां जानन् तदखिलं संपूर्ण दुष्कृति- चयं पापराशि क्षपयति दूरीकरोति यन्मनसा वाचा देहेनाऽमत्या. ऽज्ञानेन मत्या ज्ञानेन वा दिवारात्रिविहितं दिवसे रात्रौ वा कृतं "यदिह च पुरा वापि विहित"मिति पाठे इह जन्मनि जन्मान्तरे वा विहितमित्यर्थः न केवलं पापं दूरीकरोति अपि तु सुरगणा देवा- नमन्ति तथा अस्य मुद्राकर्तुः सततं सर्वदा सर्वजनसमूहो वश्यो भवतीत्यर्थः॥ ५८॥ अस्त्रमन्त्रमाह- प्रणवेति । प्रणवहृदोरवसाने सचतुर्थि सुदर्शनं तथाऽस्त्रपदं च । उक्त्या फडन्तममुना कलयेन्मनुनाऽस्त्रमुद्रया दशह- रितः ॥ ५९ ॥ प्रणव डोंकारः हृत् नमः एतयोरवसानेऽन्ते सचतुर्थिसुदर्शनं चतुर्थीविभक्तिसहितं सुदर्शन मिति पदम् एतस्यान्ते तथाऽस्त्रपदं चतुर्थ्यन्तमत्रपदं पुनः कीदृक् फडन्तम् फटशब्दान्तमुक्त्वाऽमुना wunalouama सटीकक्रमदीपिकायाः मनुना अनेन मन्त्रेण अनमुद्रया दश हरितः कल्पयेत् दशदिग्बन्धनं कुर्यादित्यर्थः ॥ ५९॥ प्राकृतं न्यासजातमुपसंहरन् अनिमपटले वक्ष्यमाणं ध्यानं सू- चयति इतीति। इति विधाथ समस्तविधि जग- जनिविनाशविधानविशारदम् । श्रुतिविमृग्यमज मनुविग्रह- स्मरतु गोपवधूजनवल्लभम् ॥ ६० ॥ इति श्रीकेशवाचार्यविरचितायां क्रमदीपिकायां द्वितीयः पटलः ॥२॥ इत्यनेन प्रकारेण समस्तविधि पूर्वोक्तमखिलन्यासादिकं वि- धाय निर्वयं गोपवधूजनवल्लभं कृष्णं स्मरतु चिन्तयतु कीदृशं कृष्णं जगदुत्पतिस्थितिविनाशकरणदक्षं पुनः कीदृशं श्रुतिविमृग्यमुपनि- षद्गम्यं पुनः कीदृशं अजम उत्पत्तिरहितम् पुनः कीदृशं मनुविग्रह मनुशरीरमित्यर्थः ॥ ६०॥ इति क्रमदीपिकायां द्वितीयः पटलः ॥ २॥ इदानी मन्त्रद्वयसाधारणं देवताध्यानमाह- अथेति । अथ प्रकटसौरभोगलितसन्मधूत्फुल्लस. त्प्रसूननवपल्लवप्रकरनम्रशाखैर्दुमैः । प्रफुल्लनवमञ्जरीललितवल्लरीचेष्टितैः स्मरेच्छिशिरितं शिवं शितमतिस्तु बृन्दावनम् ॥ १॥ अथानन्तरं शितमतिर्निर्मलमतिः वृन्दावनं स्मरेश्चिन्तयेत् कि- म्भूतं द्रुमैर्वृक्षः शिशिरितं शीतलीकृतं द्रुमैः कीदृशैः प्रकटेति उद्भटसौरभम् । अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् अथ HBOSANNIMAR द्वितीयपटलम् । च उत्फुलं प्रफुल्लं अथ च सद्देदीप्यमानमेतादृशं प्रसून पुष्पं तथा नवपल्लवः अनयोर्यः प्रकरः समूहस्तेन नम्राः शाखा येषां ते तथा तैः, प्रकटसौरभाकुलितमत्तभृङ्गोल्लसत्प्रसूनेति पाठे प्रकटसौरभेणाकु- लितं सर्वतो व्याप्तम् अथ च मत्तभृङ्गोलसन्मत्तभ्रमरेण शोभमानमें- तादृशं यत्प्रसूनमित्यर्थः पुनः कीदृशैः प्रफुल्ला विकसिता या नवम- अरी तया ललिता मनोहरा या वल्लरी लताप्रशाखातस्याश्चेष्टितं चलनं येषु तैः पुनः कीदृशं शिवं कल्याणप्रदम् ॥ १॥ विकाशीति- विकासिसुमनोरसास्वदनमञ्जुलैः सञ्चर- च्छिलीमुखमुखोदतैर्मुखरितान्तरं झङ्कृतैः । कपोतशुकसारिकापरभृतादिभिः पत्रिभि- विराणितमितस्ततो भुजगशत्रुत्याकुलम् ॥ २ ॥ पुनःकीदृशं वृन्दावनं झङ्कृतैः शब्दविशेषैर्मुखरितान्त- रं शब्दायमानाभ्यन्तरं कीदृशैः झङ्कतैः विकाशिन्याः प्रफुल्ला- याः सुमनसः पुष्पस्य यो रसः मधु तस्य यदास्वादनम् अवलेहनं तेन भजुलैर्मनोहरैः पुनः कीदृशैः सञ्चरोति सञ्चरन्तो भ्रमन्तो ये शिलीमुखा भ्रमरास्तेषां मुखेभ्य उद्गतैः समुत्थितैः पुनः कीरशं वृन्दावनं कपोतेति पारावतशुकशारिकाकोकिलप्रभृतिभिः पक्षि- भिरितस्ततो विराणितं शब्दायितं पुनःकीदृशं भुजगशत्रुमयूर स्तम्य नृत्येनाकुलं व्याप्तम् ॥ २ ॥ कलिन्देति- कलिन्ददुहितुश्चलल्लहरिविनुषर्षा वाहिभि. विनिद्रसरसीरुहोदररजश्चयोडूसरैः । प्रदीपितमनोभवनजविलासिनीवासस । विलोलनपरौनिषेवितमनारतं मारुतैः॥ ३ ॥ पुनः कीदृशं मारुतैर्वायुभिः अनारतं सर्वदा निषेवितं कीदृशैर्मा- रुतैः कलिन्दति कालन्ददुहितुर्यमुनायाः चलन्त्यो या लहर्यतासा ५२ सटीकक्रपदीपिकायाः Bhatar --- या विपरुषो जलविन्दवः तासां वाहिभिः एतेन वायोः शैत्यमुक्तं पुनः कीदृशैः विनिद्रेति विनिद्रं प्रफुल्लं यत्सरसीरुहं पझं तस्य यदुदरम् अभ्यन्तरं तत्र यो रजश्चयो धूलीसमूहः तेन उद्धृसरैः एतेन सौरभ्यमुक्तं पुनःकीदृशैः प्रदीपितेति प्रदीपितोऽतिशयितो मनोभवः कामो यासां व्रजविलासिनीनाङ्गोपसुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलनपरैः चालनाशक्तैः एतेन मान्ध- मुक्तम् ॥३॥ प्रवालेति-- प्रबालनवपल्लवं मरकतच्छदं वज्रमौ- क्तिकप्रकरकोरकं कमलरागनानाफलम् । स्थाविष्टमखिलतुभिः सततसेवितं कामदं- तदन्तरपि कल्पकाधिपमुदश्चितं चिन्तयेत् ॥४॥ तदन्तरपि वृन्दावनमध्ये कल्पकाधिपमपि चिन्तयत् कीदृशं उदश्चितम् उछितं पुनः कीदृशं स्थविष्ठं स्थूलतरं पुनाकीदृशं प्रवा- लोविद्रुमः स एव नवपल्लवः किसलयं यस्य तं पुनः कीदृशं मरक- तो यो मणिविशेषः स एव छदं पत्रं यस्य तं पुनः कीदृशं वज्रं हीरकं मौक्तिकं मुक्ता- अनयोर्यः प्रकरः समूहः स एव कोरकः पुष्पकलिका यत्र तं पुनः कीदृशं कमलरागः पनरागमणिः स एव नाना वहुविधं फलं यत्र तं पुनः कीदृशम् अखिलैब्रतुभिः षड्भिरपि ऋतुभिः सततं सेवितं सदापरि- गृहीतम् एतेन सर्वपुष्पान्वितत्वं दर्शितं पुनाकीदृशं कामदम् आका- लितप्रदम् ॥ ४ ॥ सुहेमेति । सुहेमशिखराचलेऽप्युदितानुवद्भास्वरा- मधोऽस्थ कनकस्थलीममृतशीकरांसारिणः । प्रदीप्तमणिकुट्टिमां कुसुमरेणुपुञ्जोज्ज्वला- स्मरेत्पुनरतन्द्रितो विगतषट्तरङ्गां बुधः ॥ ५॥ बुधः पण्डितः अतन्द्रितः निरालस्य: आलस्यरहितः सन् अ- द्वितीयपटलम् । स्थ कल्पवृक्षस्याधस्तात् कनकस्थली सुवर्णमयीं भूमि पुनः स्मरेत् चिन्तयेत् किम्भूतां सुहेमेति शोभमाना सुवर्णशृङ्गपंक्तिर्यस्य । तथा तस्मादुदयाचलादुदितभानुवत् प्रकटितसूर्यवत् भास्वरां दे दीप्यमानां सुहेमशिखराचलेप्युदितेति पाठे शोभनं हेमशृङ्गं यत्र अ- चले पर्वते तस्मिन् अपिशब्दो भिन्नक्रमः कनकस्थलीमित्यस्यानन्तरं द्रष्टव्यम् अस्य कीदृशस्य अमृतेति अमृतस्य यः शीकरः कणस्तस्या- सारो यः समूहःपतनं तच्छालि यथा स्यात्तथा तस्यामृतकणसमूह- संवर्षिणः कीदृशी प्रदीप्तः दीप्यमानमणिभिः पद्मरागादिभिः पद्ध- भूमिं पुनः कीदृशीं कुसुमेति कुसुमरेणुपुजैरुज्ज्वला पुनः कीदृशीं विगतेति विगता दूरीभूता षट्तरङ्गाः कामक्रोधादयः अशनायापि- पासाशोकमोहजरामृत्यवो वा यस्यास्तां ॥५॥ तद्रनेति । तद्रत्नकुहिमनिषिष्टमहिष्ठयोग- पीठेऽष्टपत्रमरुणं कमलं विचिन्त्य । उद्यद्विरोचनसरोचिरमुष्य मध्ये सञ्चिन्तयेत्सुखनिविष्टमयो मुकुन्दम् ॥ ६॥ तस्याः कनकस्थल्याः यद्रनकुहिम रनवद्धभूभागः तत्र निविष्टं- स्थितं महिष्ठं महद्योगपीठं तत्राष्टपत्रम् अष्टौ पत्राणि यत्र तत्तथाऽरुणं लोहितम् अत एवोधतादित्यसन्निभम् एवंभूतं पद्मं विचिन्त्य अथा- नन्तरम् अमुष्यारुणवर्णाष्टदलकमलस्य मध्ये मुकुन्दं कृष्णं चिन्तयेत् कीदृशं सुखनिविष्टं सुखासीनम् आदिकुलकमत आरभ्य ॥ ६ ॥ सूत्रामेति- सुत्रामरत्नदलिताञ्जनमेघपुञ्ज. प्रत्यग्रनीलजलजन्मसमानभासम् । सुस्निग्धनीलधनकुञ्चितकेशजालं- राजन्मनोज्ञशितिकण्ठशिखण्डचूडम् ॥ ७ ॥ पुनः कीदृशं सुत्रामरत्नम् इन्द्रनीलमाणः दलिताजनं भिन्नाञ्जन सटीकक्रमदीपिकायाः घृष्टकजलमिति मेघपुजो मेघसमूहः प्रत्यप्रनीलजलजन्म नवीननील- पनम् एषां समाना भा दीप्तिर्यस्य तं पुनः कीदृशं सुस्निग्धेति सु- स्निग्धाः सुचिक्कणाः नीलाः श्यामाधना निविडाः कुञ्चिताः कुटिलाः ये के शास्तेषां जालं समूहो यत्र तं पुनः कीदृशं राजनिति राजत् शोभमानं मनोझं मनोहरं यच्छितिकण्ठशिस्त्रण्डं मयूरपिच्छं तदेव चूडायां यस्यतम् ॥ ७॥ रोलम्बलालितसुरद्रुमसूनकल्पि- तोत्तंसमुत्कचनवोत्पलकर्णपूरम् । लोलालकस्फुरितभालतलप्रदीप्त- गोरोचनातिलकमुच्चलचिल्लिमालम् ॥ ८॥ पुनः कीदृशं रोलम्बेति रोलम्बो भ्रमरस्तेन लालितं प्रीत्या से- वितं यत् सुरदुमप्रसून पारिजातपुष्पं तेन कल्पितः रचित उत्तंसः शिरोभूषणं येन स तथा तं पुनःकीरशमुत्कचं विकसितं यन्न. वोत्पलं तदेव कर्णाभरणं यस्य स तथा तं पुनःकीदृशं लोलाश्चञ्च- लाः अलकाः केशविशेषास्तैः स्फुरितं शोभमानं यद्भालतलं ललाट- तलं तत्र प्रदीप्तं गोरोचनातिलकं यस्य स तथा तं पुनः कीदृशं उच्चलचिल्लिमालञ्चञ्चलभूलताकम् ॥ ८॥ आपूर्णेति- आपूर्णशारदगताकाशशाङ्कबिम्ब- कान्ताननं कमलपत्रविशालनेत्रम् । रत्नस्फुरन्मकरकुण्डलरश्मिदीप्त- गण्डस्थलीमुकुरमुन्नतचारुनासम् ॥ ९ ॥ पुनः कीदृशम् आपूर्णःसम्पूर्ण शारदः शरत्सम्बन्धी गताः कल- ङ्करहितः एवम्भूतो यः शशाङ्कविम्वश्चन्द्रमण्डलस्तत् कान्तं मनोहरम् आननं मुखं यस्य तथा तं पुनःकीशं कमलपत्रवाद्विशाले विस्तीर्णे नेत्रे यस्य स तथा तं पुनःकीदृशं रत्नेति रत्नैः स्फुरच्छो- भमानं यन्मकरकुण्डलं मकराकारकुण्डलं तस्य ये रश्मयः ते प्रदीप्ता शोभमाना गण्डस्थली स एव मुकुरो दर्पणो यस्य तथा तं RDINAR द्वितीयपटलम् । पुनः कीदृशं उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥९॥ सिन्दूरेति- सिन्दूरसुन्दरतराधरमिन्दुकुन्द- मन्दारमन्दहसितद्युतिदीपिताशम् । वन्यप्रबालकुसुमप्रचयावक्लप्त. ग्रैवेधकोज्ज्वलमनोहरकम्बुकण्ठम् ॥ १० ॥ पुनः कीदृशं सिन्दूरवन्मनोहरो अधरो यस्य स तथा तं पुनः की दृशम् इन्दुकुन्देति इन्दुश्च कुन्दकुन्दपुष्पं मन्दारःशुक्लमन्दारःअर्कपुष्पं वा तद्वन्मन्दहसितम् ईषद्धास्यं तस्य धुति र्दीप्तिः तया दीपिता शो भिता आशा दिशो येन स तथा तं पुनः कीदृशं वन्यति वन्यं वनो. द्भवं यत्प्रवालकुसुमं नवपल्लवपुष्पं तस्य यः समूहस्तेनावक्लप्त सम्पादितं यद् प्रैवेयकं कण्ठाभरणं तेन उज्ज्वलो देदीप्यमानो म. नोहरः कम्बुकण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥ १० ॥ मत्तेति- मत्तभ्रमभ्रमरजुष्टविलम्बमानं- सन्तानकप्रसवदामपरिष्कृतांसम् । हारावलीभगणराजितपीवरोरो- व्योमस्थलीलसितकौस्तुभभानुमन्तम् ॥ ११ ॥ पुनः कीदृशं मत्ताः कृतमधुपाना भ्रमन्तश्चरन्तोये भ्रमरास्तैः जुष्टं सेवितम् अथ च विलम्बमानम् एवभूतं यत्सन्तानकप्रसवदाम कल्पवृ. क्षपुष्पदाम तेन दाम्ना परिष्कृतःस्वलंकृतो अंसो यस्य स तथातम् पुनः कीदृशं हारावल्येव भगणो नक्षत्रसमूहः तेन राजितं शोभित पावरं मांसलं यदुरो हृदयं तदेव व्योमस्थल) आकाशभूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस्तेन युक्तम् अत्र रूपका- लङ्कार एव नोपमालङ्कारः नक्षत्रगणसूर्ययोरसम्बन्धत्वात् एवं च सत्येककाले द्वयोः शोभा लभ्यत इति भावः ॥ ११ ॥ BANIRMANMADAN

५६
सटीकक्रमदीपिकायाः
श्रीवत्सेति--
श्रीवत्सलक्षणसुलक्षितमुन्नतांस-
माजानुपीनपरिवृत्तसुजातयाहुम् ।
आबन्धुरोदरमुदारगभीरनाभिं.
भृङ्गाङ्गनानिकरमउजुलरोमराजिम् ॥ १२ ॥
पुनः कीदृशं श्रीवत्ससंशं यल्लक्षणं चिहं तेन सुलक्षितः प्रव्य.
तः तम् पुनः कीदृशम् उन्नती ऊौँ अंसौ स्कन्धौ यस्य स तथा तं
पुनः कीदृशम आजान्विति जानुव्यापिनी पीनौ मांसलौ परिवृत्तौक्रम-
वलितौ सुजातौ दोषरहितौ बाहू यस्य स तथा तम् पु० कीदृशम्
आबन्धुरोदरं निम्नोन्नतोदरम् आ इषन्मुष्टिग्राह्य बन्धुरं रम्यमुदरं
यस्य तमितिवा पुनःकीदृशं उदारा विख्याता गम्भीरा नाभिर्यस्य स
तथा तं पुनः कीदृशं भृङ्गाङ्गना भ्रमरस्त्री तस्याः यः समूहः तद्वन्म-
जुला मनोहरारोमराजी रोमपतिर्यस्य स तथा तं मङ्गलेतिक चित्
पाठः मङ्गला शुभदात्रीति तथा तम् ॥ १२ ॥
नानति-
नानामणिप्रघटिताङ्गदकङ्कणोर्मि-
ग्रैवेयसारसननूपुरतुन्दबन्धम् ।
दिव्याङ्गरागपरिपिञ्जरिताङ्गयाष्टि-
मापीतवस्त्रपरिवीतनितम्बविम्बम् ॥ १३ ॥
पुनःकीदशं नानामणिभिरिन्द्रनीलादिभिर्घटिता सम्बद्धाः अङ्ग
दाः बाहुवलयाः स्तथा कङ्कणाः उर्मिर्मुद्रिका अवेयं ग्रीवालङ्कारःरसनया
क्षुद्रघण्टिकयासह आसमन्तात्वर्त्तते यौ नूपुरौतुन्दबन्धःउदरबन्ध-
नार्थम् सुवर्णडोरकम् एते अलङ्कारा यस्य स तथातम् पुनः कीदृशं
दिव्यः परमोत्कृष्टो योऽङ्गरागः सुगन्धिचूर्ण तेन पिञ्जरिता नानावर्णा
अङ्गयाष्टिरङ्गलता यस्य स तथा तं पुनः कोडशम् आपीतम् अतिशयेन
पीतं यद्वस्त्र तेन परितो वीतो वेष्टितो नितम्बविम्वो येन स तथा
तम यद्यपि स्नीकट्यां नितम्वपदप्रयोगः कोशे दृश्यते तथापि
तद्वन्मनोहरतया पुस्कट्यामपि प्रयोगो न विरुद्धः ॥ १३ ॥

द्वितीयपटलम्। थारूरुजान्विति- चारूरुजानुमनुवृत्तमनोज्ञजङ्घ- कान्तोन्नतप्रपदनिन्दितकूर्मकान्तिम् । माणिक्यदर्पणलसन्नखराजिराज- द्रक्ताङ्गुलिच्छदनसुन्दरपादपद्मम् ॥ १४ ॥ पुनः कीदृशं कान्तौ कमनीयौ उन्नती उच्चौ यौ प्रपदी पादानो ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर्येन स तथा तं पुनः कीदृशं माणिक्यघटितो यो दर्पणस्तबल्लसन्ती शोभ माना नखपतिः तया राजन्त्यः शोभमाना या रक्ताङ्गुलयस्ता एव च्छ- दनानि पत्राणि तैः सुन्दरं पादपझं यस्य स तथा तम् ॥ १४ ॥ मत्स्येति- मत्स्याङ्कुशारिदरकेतुयवाजवज्र- संलक्षितारुणतराधितलाभिरामम् । लावण्यसारसमुदायविनिर्मिताङ्ग- सौन्दर्यनिर्जितमनोभवदेहकान्तिम् ॥ १५ ॥ पुनः कीदृशं मत्स्यो मीनः अङ्कुशो अनविशेषः परिश्चक्रं वरः शङ्खः केतुर्ध्वजः यवः प्रसिद्धः अब्ज पद्मं वज्रः कुलिशाकारत्रिकोणः एतैः सुलक्षितं सम्यक् विहितं यदरुणतराङ्घितलं लोहिततरचरण. तलं तेनाभिरामः सर्वजनप्रियस्तं पुनाकीदृशं लावण्यस्य सौन्दर्य- स्य यः सारसमुदायः उत्कृष्टभागसमुदायः तेन विनिर्मितं घटितं यवङ्गसौन्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्यका न्तिःशरीरशोभा येन स तथोक्तम् ॥ १५॥ आस्येति । आस्यारविन्दपरिपूरितवेणुरन्ध्र- लोलस्कराङ्गुलिसमीरितदिव्यरागैः।

सटीकमदीपिकायाः হাথ শ্রীশশিয়াল सन्तानसन्ततिमनन्तसुखाम्बुराशिम् ॥ १६ ॥ ভুলঃ হিঃ আইনুদ্দিন ১লাবালানি ছা- গুণী মাতাল হাল হল: কাল হরু হল । तथा तं कैः आस्थमेवारविन्दं पझं तेन परिपूरितं यहेणुरन्ध्र वंशी- रन्नम् अन्न लोलन्ती चञ्चला या कराङ्गुलिस्तया समीरिताः समु- स्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वास्तरित्यर्थः पुनः कीह- शम् । अनन्तेति अपरिमितानन्दसमुद्रम् ॥ १६ ॥ गोभिरिति। জঙ্গি কোলাঘালাফি- চিকন লিখলগালিঃ। তুলাঙ্গঅভিহিগুণ্ডয়াভুলি- रालम्बिधालधिलताभिरथाऽभिवीतम् ॥ १७ ॥ पुनः कीदृशम् । अथानन्तरं गोभिरभिवीतं सर्वतोवेष्टितं किम्भू- ताभिः सुखाम्बुजे परमेश्वरमुखपझे विलीने सम्बद्धे लोचने यासा- न्तास्तथाताभिः पुनः किम्भूताभिः ऊधोभरेति स्तनगौरवस्खलन सालसा ल्पगमनशीलाभिः पुनः किंभूताभिः दन्ताण दृष्टः परिशिष्ट- तृणाकुरो भक्षणावशिष्टतृणाङ्करोयाभिस्ताः तथा ताभिः पुनः किम्भू ताभिः आलम्बीति आलम्बिनी लम्बमाना वालधिलता पुच्छलता यासा तास्तथा ताभिः ॥१७॥ सप्रस्रवस्तनविचूषणपूर्णनिश्च- लास्थावटक्षरितफेनिलदुग्धमुग्धैः- वेणुप्रवर्तितमनोहरमन्दगीति- दत्तोच्चकर्णयुगलैरपि तर्णकैश्च ॥ १८ ॥ पुनः कीदृशम् । तर्णकैश्चैकवार्षिकैश्चाभिवीतमिति पूर्वेणान्वयः की दृशैः प्रस्रवेन क्षरदुग्धेन सहवर्तते यत् स्तनविचूषणं दन्तोष्टेन स्तना ५१ तरस्य युध्यतः तेन या दरमा ऋोधातिशयस्तेन यद्धमानाम- द्वितीयपटलम् । कर्षणं तेन परिपूर्णा निश्चलः स्थिरश्च य आस्याघटः मुखविवरं त- तः क्षरितङ्गलितं यत् फेनिलं सफेनं दुग्धं तेन मुग्धैर्मनोहरैः पु. नाकीदृशैः वेण्विति वेणुर्वशी तेन प्रवर्तिता चालिता मनोह- रा आह्लादकारिणी मन्द्राऽनल्पा या गीतिनं तत्र दत्तम् उच्छ कर्ण युगलं यैः तथा तैः ।। १८ ॥ प्रत्यति। प्रत्यग्रशृङ्गतुमस्तकलम्प्रहार- संरम्भवल्गनविलोलखुराप्रपातः । आमेदुरैर्वडुललास्मगलैरुदन- पुच्छैन्धवत्सतरवस्खलरीनिकायैः ॥ १९ ॥ पुनः कीदृशं वत्सतरः त्रैवार्षिको बलीवर्दः वत्सतरी त्रैवा- र्षिकी गौः एतयोः निकायैः ससूहः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्ने- वस्भूतं यत् मृदु मस्तकं तत्र यः संप्रहारः आभिघातः अन्यवत्ला- तस्ततोविचलनं तेन बिलोला अनवास्थितः खुराप्रपातो येषां ते तथा तैः पुनःकीशैः आमदुरैः सुस्निग्धैः पुष्टैरिति वा पुनः कीदृशैः बहुलातिशयिता सास्नायत्र ल एवम्भूतो गलो येषां ते तथा तैः सास्ना च गलकम्बलः पुनःकीडशैः उम्रपुच्छैः ॥ १९ ॥ हम्वारवेति। हम्यारवक्षुभितदिग्बलहद्भि- रप्युक्षभिःपृथुककुदरभाराखिनैः। उत्तम्भितश्रुतिपुटीपरिपालवंश- ध्वानामृतोत्कृतधिकाशिविशालयोणैः ॥ २० ॥ पुनः कीदृशं महाद्भिरक्षाभिर्वलीवरव्यभिवीतं कीदृशैः हम्बार- वेण स्वरविशेषेण क्षुभितः क्षोमं प्रापितोदिग्घलयो दिक्समूहो यैस्ते तथा तैः पुनः कीदृशः पृथुरतिशयितो यः ककुरः अपरग- लभरः स एव भारस्तेन खिन्नः अललैः पुनः कीदृशैः उत्तम्भितोत. ऊर्ध्व स्तम्भिता उत्थापिता या श्रुतियुटी तया परिपीतमतिशयेन श्रुतं यदंशस्य ध्वानामृतं शब्दरूपातं तेनोवृत्ता ऊर्ध्व प्रापिता.

६० सटीकक्रमदीपिकायाः विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः ॥ २०॥ गोपैरिति। गोपैः समानगुणशीलवयोविलास- वेशैश्च मूछितकलस्वरवेणुवीणैः ।। मन्द्रोच्चतानपटुगानपरैर्विलोल- दोवल्लरीललितलास्थविधानदः ॥२१॥ पुनः कीदृशं गोपैश्चाभिवीतं कीदृशैः समानेति गुणउदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थानविशे- षः समानाः तुल्या गुणशीलादयो येषां ते तथा तैः पुनः की- शैः मूी प्रापितः कलो ऽव्यक्तमधुरः स्वरोरागोयत्र वेणुश्च वेणा च वेणुवीणे मूर्छितकलस्वरे वेणुवीणे येषां तैः तथा, तदुक्तं- स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छनामितितां प्राहुः कवयो प्रामसम्भवाम् । सप्त स्वरानयो ग्रामा मूर्छनास्त्वकविंशतिः। पुनः कीदृशैः मन्द्रोश्चेति मन्द्र नाचैः उच्चमतिशयितं तारो- यतिविशेषस्तेन पटु स्पष्टं यद्गानं तत्परैस्तदासक्तैः पुनः कीदृशैः बिलोलेति विलोला या दोर्वल्लरी वाहुलता तया यल्ललितं म- नोहरं लास्यं नृत्यन्तस्य विधानं करणं तत्र दक्षैः कुशलैः ॥ २१ ॥ जङ्घान्तति । जङ्घान्तपीवरकटीरतटीनिवद्ध- व्यालोलकिङ्किणिघटारतिरटद्भिः। मुग्धस्तरक्षुनखकल्पितकण्ठभूषै. रव्यंक्तमञ्जुवचनैः पृथुकैः परीतम् ॥ २२ ॥ पुनःकीदृशं पृथुकैर्वालकैः परीतंवेष्टितं कीदृशैः जङ्घासमी- पे पावरा मांसला या कटीरतटी कटीस्थली तस्यां निवद्धा व्यालो- द्वितीयपटलम् । । ला चञ्चला या किङ्किणिघटा काञ्चीसमूहः तस्य रटितैः श- ब्दैरटद्भिः सञ्चराद्भिः पुनः कीदृशैः मुग्धैमनोहरैः पुनःकिम्भूतैः तरानखेन व्याघ्रनखेन कल्पिता सम्पादिता कण्ठभूषा कण्ठा- लंकारोयैः ते तथा तैलकानां रक्षार्थ कण्ठेव्याघ्रनखबन्धनं क्रि. यते यतः । पुनःकीदृशैः अव्यक्तमस्पष्टम् अथ च मजुलं मनोहरम् एवंभूतं वचनं येषान्ते तथा तैः ॥ २२ ॥ अथेति। अथ सुललितगोपसुन्दरीणां। पृथुनिविरीसनितम्बमन्थराणाम् ॥ गुरुकुचभरभरावलग्न- त्रिवलिविजृम्भितरोमराजिभाजाम् ॥ २३ ॥ पुनः कीदृशम् अथा ऽनन्तरं मनोहरगोपस्त्रीणामालिभिः पति- भिः समन्तात्सर्वतः सततं नित्यं सेवितमित्यष्टमश्लोकेनान्वयः । किम्भूतानाम् पृथुवहन्निविरीसोनिविडो यो नितम्वः कटिप- वाद्भागः तेन मन्थराणां गमनाशक्तानां पुनः किम्भूतानां गुरुरति. शायेतो यः कुचभरः स्तनगौरवं तेन भङ्गुरमषिन्नम्नं यत् अवलग्नं मध्यप्रदेशः तत्र यद्वलित्रयं तत्र विजृम्भिता वितता रोमपतिया- सान्तासामू॥२३॥ तदिति। तदतिमधुरचारवेणुवाया- मृतरसपल्लविताङ्गजाधिपाणाम् । मुकुलविसररम्परुवरोमो- गुमसमलंकृतगात्रवल्लरीणाम् ॥ २४ ॥ पुनाकीदृशीनां तस्य श्रीकृष्णस्यातिमधुरम् अतिप्रीतिदायक चारु मनोहरं यद्वेणुवाद्यं वंशीरवः स एवामृतरसः अमृतरूपजलं तेन पल्लवितो वृद्ध्युन्मुखः अङ्गजाधिपः कामवृक्षो यासां तास्तथा तासाम् अङ्गजानियस्येति पाठः पुनः किंभूतानां मुकुलविसरः क- सटीककमदीपिकायाः लिकासमूहः तछद्रस्यो मनोहरो यो रूढ उपचितो रोमोजमो रोमो- स्थानं तेन समलता गात्रवल्लरी देहलता याला तास्तथा तासाम् ॥ २४॥ तदिति। तदतिरुचिरमन्दहासचन्द्रा- तपपरिजृम्भितरागवारिराशेः। तरलतरतरङ्गवारिधिनुद प्रकरसमश्रमविन्दुसंततानाम् ॥ २५ ॥ पुनः किंभूतानां तस्य कृष्णस्यातिमनोहरो यः ईषद्धासः स एव चन्द्ररश्मिस्तेन परिजृम्भित उच्छलितो यो रागसमुद्रस्त- स्यातिचञ्चलो यस्तरङ्गः कल्लोलः तदीया ये जलकणाः तेषां यः लमूहस्तेन समस्तुल्यो यः श्रमविन्दुर्धर्मजलविन्दुः तेन सन्ततानां व्याप्तानाम् ॥ २५ ॥ तदतीति। तदतिलसितमन्दचिल्लिचाप- च्युतनिशितेक्षणमारवाणवृष्ट्या ॥ दलितसकलमर्मबिलाङ्ग- प्रविसृतदुःसहवेपथुव्यथानाम् ॥ २६ ॥ पुनः किंभूतानां तस्य कृष्णस्यातिमनोहरः मन्दः अनतिदीर्थों यश्चिल्लिचापो भ्रूलता सैव धनुस्तस्मादुगतन्तीक्ष्णं यदीक्षणं कटाक्षः सएव कामवाणस्तस्य वृष्ट्याऽत्यन्तपातेन दलितं चूर्णितं यत्लकलं मर्म तेनाऽनायत्तं यदङ्गं तत्र प्रस्ता व्याप्ता दुःसहा कम्पवेदना यासा तास्तथा तालाम् ॥ २६ ॥ तदतीति। तदतिरुचिरकर्मस्पशोभा- मृतरसपानविधानलालसाभ्याम् । ॥

द्वितीयपटलम् । प्रणयसलिलपूरवाहिनीना- मलसविलोलविलोचनाम्बुजाभ्याम् ॥ २७ ॥ पुनः किम्भूतानां प्रणयेनैव प्रेम्णैव यो जलप्रवाहस्तं वहन्ति या- स्तथा तासां काश्यां लज्जादिनाऽधनिमीलितपमालोचनाभ्यां सवि. लासचञ्चलितनेत्रपझाभ्या मित्यपिाठः किंभूताभ्यां तस्य परमेश्व- रस्यातिरुचिरं यत्कर्म शृङ्गारचेष्टाविशेषः रूपशोभा कामिनीमनो- नुरक्षिका कान्तिः ते एवामृतरसौ तयोर्यपानम् अत्यन्तचक्षुर्व्या- पारस्तत्करणे साकालाभ्यां सुभगकन्नेति पाठान्तरं सुभगः सुन्दरः कन्नः कमनीयः सुभगकमनीययोरेकपर्याययोहणम् अद्भुतत्वाद्रू- पस्यति त्रिपाठिनः॥२७॥ विभंसादिति। विश्रंसत्कवरीकलापविगलस्फुल्लप्रसूनश्रवत्- माध्वीलम्पटचञ्चरीकघटया संसचितानां मुहुः ।। मारोन्मादमदस्खलन्मृदुगिरामालोलकाञ्च्युच्छ्स नीवीविश्लथमानचीनसिचयान्ताविनितम्वत्विषाम् २८ पुनः किम्भूतानां विधेसन् स्खलन् यः केशपाशस्तस्मात्प्रनं. श्यद्यविकसितं पुष्पं तस्माद्वलन्ती या माध्वी पुष्परसः तत्रात्यन्तास तो यश्चञ्चरीको भ्रमरस्तस्य समूहेन मुहुर्वारं वारं संसवितानाम् । पुनः किम्भूतानां मारेति । कामकृतोन्मादेन या मत्तता तथा स्खलन्ती अस्पष्टा मृद्वी कोम. ला मनोहरा गीर्वाणी यास तास्तथा तासाम् उन्मादमदौ शङ्कार- विशेषौ, तदुक्तं शृङ्गारतिलके- श्वासप्ररोदनोत्कम्पैर्वहुधालोकनैरपि । व्यापारो जायते यत्र ल उन्मादः स्मृतो यथा। एवं मदस्यापिलक्षणं बोद्धव्यमिति के चित् पुनःकीहशीनाम् आलोला चञ्चला या काञ्चीरलना तया उच्छसन्ती दृढा भवन्ती या नीवी वस्त्रग्रन्थिः "नीवी स्त्रीवसनग्रन्था"विति कोषात् तया वि- श्लथमानं चीनसिचयं चीनदेशोत्पन्नं सूक्ष्मवस्त्रं तस्यान्ते मध्ये आवि:

सटीकक्रमदीपिकायाः प्रकटा नितम्वत्विट् नितम्वकान्तिर्यासां तास्तथा तासाम् ॥ २८ ॥ स्खलितेति। खलितललितपादाम्भोजमन्दाभिघात कणितमणितुलाकोट्याऽकुलाशामुखानाम् ।। चलद्धरसुधानां कुड्मलत्पश्मलाक्षि- द्वयसरसिरहाणामुल्लसत्कुण्डलानाम् ॥ २९ ॥ पुनःकिंभूतानां स्खलितमनायत्तं ललितं मनोहरं यत्पादपद्म त. स्य यो मन्द ईषदभिधातः पतनं तत्कृतशब्दयुक्तेन मणिमयनूपुरे- णाकुलं शब्दायमानं दिगन्तरं याभिस्तातथातासां पुनः किम्भूता. नां चलत् स्फुरत् अधरदलमोष्ठपत्रं यासां तास्तथा तासां पुनः किम्भूतानां कुड्मलत् मुकुलीभवत् पक्ष्मलम् उत्कृष्टपक्ष्मयुक्तं य- दक्षिद्वयं तदेव पनं यासां पुनः किम्भूतानाम् देदीप्यमाने कुण्डले यासा तास्तथा तासाम् ॥ २९ ॥ द्राधिष्ठेति- द्राधिष्ठश्वसनसमीरणाभिताप- प्रम्लानीभवदरुणोष्ठपल्लवानाम् ॥ नानोपायनबिलसत्कराम्वुजाना मालीभिः सततनिषेवितं समन्तात् ॥ ३० ॥ पुनः किम्भूतानां दी? यः श्वासवायुस्तेनयोऽभितापः तेन प्र- म्लानीभवन् रक्तौष्ठपल्लवो यासां तास्तथा तासां पुनः किंभूतानां विविधोपायनेन शोभमानानि हस्तकमलानि तासाम् ॥ ३०॥ तासामिति- तासामायतलोलनीलनयनव्याकोश नीलाभवुज- स्त्रग्भिः संपरिपूजिताखिलतनुं नानाविलासास्पदम्॥ तन्मुग्धाननपङ्कजप्रविगलन्माध्वीरसास्वादनीं। विभ्राणं प्रणयोन्मदाक्षिमधुकृन्मालां मनोहारिणीम् ३१ यासान्तास्तथा तृतीयपटलम् । अस्य पुनः कीदृशं मुकुन्दं तालां गोपसुन्दरीणाम् आयतं दीर्घ लोलञ्च श्वलं नीलं श्याम यन्नयनं तदेव ब्याकोशं नीलोत्पलं प्रफुलं नीला- म्वुजं तेषां सम्भिर्मालाभिः सम्परिपूजिता अधिकतरमर्चिता सक- ला तनुर्यस्य स तथा तं पुनः कीदृशं विविधविलासस्थानं पुनः कीदृशं तन्मुग्धाननेति तासां यन्मनोहरं मुखं तदेव पद्मसमूहस्त- स्मात् विगलन् स्त्रवन् यो माध्वीरसो मकरन्दः तमास्वादयितुं शीलं यस्याःतां प्रणयेन प्रीत्या उद्गतमदं यदक्षियुगलं सैव भ्रमर- माला पङ्किः तां मनोहारिणीं विनाणम् ॥ ३१ ॥ अधुना परमेश्वरध्यानानन्तरमुपासकामरप्रभृतीनां ध्यानमाह ॥ गोपीगोपेति- गोपीगोपपशूनां वहिः स्मरेदग्रतोऽस्य गीर्वाणघटाम्।। वित्तार्थिनी विराश्चित्रिनयनशतमन्युपूर्षिका स्तोत्रप- राम् ॥ ३२ ॥ परमेश्वरस्याऽग्रतो गोपीगोपशूनां बहिर्गीर्वाणघट- देवसमूहं स्मरेत् यद्यपि वहिः शब्दयोगे पञ्चमी ज्ञापिता तथा- पि शापकसिद्धं न सर्वत्रेति षष्ठीप्रयोगे ऽपि न दोषः किं भूतां वित्तार्थिनी ज्ञानार्थिनी वा धनार्थिनीं यद्वा परमेश्वरचित्तापहरणपरां यद्वा धर्मकाममोक्षार्थिनीम्-पुनःकिम्भूताम्-विरञ्चिब्रह्मा ईशः शक्रःतत्प्रमुखां पुनःकिम्भूतां स्तवनपराम् ॥ ३२ ॥ तहक्षिणत इति। तद्दक्षिणतो मुनिनिकरं दृढधर्मवाञ्छमान्नायपरम् । योगीन्द्रानथ पृष्ठे मुमुक्षमाणान्समाधिना सनकाद्यान३३ तस्य परमेश्वरस्य दक्षिणतो दक्षिणभागे. तद्वदि- ति पाठे तेनैव प्रकारेण मुनिनिकरं मुनिसमूहं स्मरेत । को इशमाम्नायपरं वेदाध्ययनपरं पुनः कीदृशं निश्चला धर्मवा- ऽछा यस्य तं यत्तु मननान् मुनिरित्यभिधानात् एषां धर्मवाञ्छा- न युक्ता तेन मुनिशब्दोऽत्रऋष्युपलक्षक इति तन्न धर्मशब्देना- त्राऽऽत्मज्ञानाभिधानात् ।

सटीकक्रमदीपिकायाः तदुक्तं याज्ञवल्क्येन । अयं तु परमो धर्मीयद्योगेनात्मदर्शनमिति । अथानन्तरं परमेश्वरस्य पश्चाद्भागेसनकाद्यान् योगेश्वरान् स्म- रेत् किम्भूतन् मोक्षकपरान् पुनः किंभूतान् समाधिनोपविष्टान् ॥३३॥ सव्यइति- सव्ये सकान्तानथ यक्षसिद्ध- गन्धर्वविद्याधरचारणांश्च । सकिन्नरानप्सरसश्च मुख्या: कामार्थिनो नर्तनगीतवाद्यैः ॥ ३४ ॥ अथानन्तरं देववामभागे सस्त्रीकान् यक्षादीन् स्मरेत् किंभू. तान् किंनरसहितान् पुनः किम्भूतान् सर्वनर्तनगीतवाद्यैः करण- भूतैर्वाञ्छितार्थिनः । तथा प्रधानभूता अप्सरसः उर्वशीमुख्याः स्मरेत् ॥ ३४ ॥ शङ्केन्द्विति- शङ्खन्दुकुन्दधवलं सकलागमज्ञं सौदामनीततिपिशङ्गजटाकलापम् । तत्पादपङ्कजगतामचलाश्च भक्ति- वाञ्छन्तमुज्झिततरान्यसमस्तसङ्गम् ॥ ३५ ॥ नभसि आकाशे धातृसुतं ब्रह्मपुत्रं स्मरेत् कथंभूतं शङ्खादिव- त् श्वेतं निर्मलं पुनः कीदृशं कीदृशं संपूर्णागमवेत्तारं गमवेत्तारं पुनः कीदृशं- सौदामनी विद्युत्तस्यास्ततिः दीप्तिस्तद्वत पिशङ्गा कपिला या. जटा तस्याः कलापः समुदायो यत्र तं पुनः कीदृशं भक्तिमिच्छ- न्तं किम्भूतां स्थिरां पुनः कीदृशम् अत्यन्तपरित्यक्तपरमेश्वरभिन्न. सकलसंवन्धम् ॥ ३५ ॥ नानेति । नानाविधश्रुतिगणान्वितसप्तराग ग्रामत्रयीगतमनोहरमूच्र्छनाभिः ।

PREHE तृतीयपटलम् । संप्रीणयन्तमुदिताभिरमुं महत्या सञ्चिन्तयेनभसि धातृसुतं मुनीन्द्रम् ॥ ३६ ॥ पुनः कीदृशम् अमुं नानाप्रकारः षट्त्रिंशभेदात्मको यः श्रुतिगणः नादसमूहस्तेनान्विता ये सप्त रागाः निषादर्षभगान्धा- रषड्जमध्यमधैवतपञ्चमाख्याः स्वराः तत्र त्रयाणां प्रामाणां समा- हारो ग्रामत्रयी तत्र ग्रामत्रय्यां गताः प्राप्ताः या मूर्छनाः मनोह- रा एकविंशतिप्रकाराः ताभिः सम्प्रीणयन्तम् । सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः। संमूर्छितः स्वरो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् । किंभूताभिः महत्या सप्ततन्त्रीयुक्तया नारदवीणया उदिताभि- रुद्गताभिः ॥ ३६॥ अधुना प्रकृतमुपसंहरन् आत्मपूजाक्रममाह- इतीत्यादिना। इति ध्यात्वाऽऽत्मानं पटुविशदधीनन्दतनयं- पुरो बुबैवाऽयप्रभृतिभिरनिन्द्योपहृतिभिः। यजेदूभूयो भत्त्या स्ववपुषि वहिष्टैश्चविभवे- विधानं तब्रूमो वयमतुलसांनिध्यकृदथ ॥ ३७॥ इति पूर्वोक्तध्यानप्रकारेण पटुविशदधीः समर्था विचार- क्षमा अथ च निर्मला एवंभूता बुद्धिर्यस्य स तथा आ- त्मानं नन्दतनयं गोपालकृष्णरूपं ध्यात्वा आत्मनन्दतनययोरभेदं चिन्तयित्वा पुरः प्रथमतो बुचैव सनसैवा ऽयंप्रभृतिभिः अर्घ्यपा. धादिभिरुपहृतिभिरानिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस्तु अभिनन्द्येतिपाठे धृत्वा पूजयेदित्यर्थमाहुः भूयः पुनरपि स्वशरीरे साक्षाद्वाह्योपचारैरादिभिः पूज- येत अथानन्तरं तद्विधानं वहिष्ष्ठविभवार्चनप्रकारं वयं ब्रूमः। कीदृशं परमेश्वरात्यन्तसान्निध्यदातारम् ॥ ३७॥ शङ्खपूरणविधिं दर्शयति- । Sirmance

६८
सटीकक्रमदीपिकायाः
आरचय्येति-
आरचय्य भुवि गोमयाम्भसा।
स्थण्डिलं निजममुत्र विष्टरम् ।
न्यस्य तत्र विहितास्पदोऽम्भसा-
शङ्खमस्त्रमनुना विशोधयेत् ॥ ३८ ॥
भुवि पृथिव्यां स्थाण्डलं पूजास्थलं गोमयसाहितेन जलेना-
ऽऽरचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरमासनं वस्त्र-
कम्वलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो
जलेन शङ्खमस्त्रमनुना मूलमन्त्रास्त्रमन्त्रेण अस्त्रायफडितिमन्त्रेण
वा प्रलेपयेत् ॥ ३८ ॥
तति-
तत्र गन्धसुमनोक्षतानथो।
निक्षिपेघृदयमन्त्रमुच्चरन् ।
पूरयेद्विमलपाथसा सुधी-
रक्षरैः प्रतिगतैः शिरोन्तकैः॥ ३९ ॥
वामभागकृतवह्निमण्डलाधारके शङ्ख सुधीः सुबुद्धिसाधक:
हृदयमन्त्रं मूलमन्त्रमेव हृदयमन्त्रं केवलं हृदयाय नमः इति वा
उच्चार्य गन्धपुष्पयवतण्डुलान्निक्षिपेत् तथा विमलपाथसा निर्म.
लजलेन पूरयेत् मन्त्रमाह प्रतिगतैरिति प्रतिलोमगतैः प्रतिलोम-
पठितैर्मातृकाक्षरैः क्षकाराद्यैरकारान्तैः शिरोन्तकैः सविन्दुकैः
विन्द्वन्तकैरिति लघुदीपिकाकारः स्वाहान्तैरिति विद्याधराचार्यः
विक्रायस्वाहेत्यन्तैरिति त्रिपाठिनः ॥ ३९ ॥
पोठेति ।
पीठशकसलिलेषु मन्त्रविद् ।
वहिवासरनिशाकृतां क्रमात् ।
मण्डलानि विषकवाक्षरै-
रर्चयेनपूर्वदीपितैः ॥ ४०॥

तृतीयपटलम् । पीठे शङ्ग्रे सलिले च यथाक्रमं वह्निसूर्यचन्द्राणां मण्डलानि विषं मकारः कशिरस्तत्र न्यस्थमानोऽकारःश्रवाश्रोत्रं तत्र न्यस्यमान- उकार एभिरक्षरैमन्त्रविदुपासकः क्रमेण पूजयेत् कीदृशैः बदनपू- दीपितैः वदनपूर्वे शिरास न्यस्यमानम् अंविन्दुरिति यावत् तेन दीपितैः सानुस्वारैरित्यर्थः । प्रयोगस्तु में वह्निमण्डलाय दशक लात्मने नमः अं अर्कमण्डलाय द्वादशकलात्मने नमः उं सोमम- ण्डलायषोडशकलात्मने नमः ॥ ४०॥ तत्र तीर्थति- तत्र तीर्थमनुना ऽभिवाहयेत् । तीर्थमुष्णरुचिमण्डलात्ततः। स्वीयहृत्कमलतो हरि तथा- गालिनी च शिखया प्रदर्शयेत् ॥ ४१ ॥ तत्र शङ्खजले वक्ष्यमाणतीर्थमन्त्रेण सूर्यमण्डलतीर्थमावाहयेत् तथा ततः स्वीयहत्पमात् कृष्णमावाहयेत् अनन्तरं शिखाम- न्त्रेण वक्ष्यमाणां गालिनी मुद्रा प्रदर्शयेत् चकारात् धेनुनुद्रांच (वामहस्ततले दक्षिणतर्जन्या ताडनं प्रबोधनम् ) ॥ ४१ ॥ तज्जलमिति- तज्जलं नयनमन्त्रवीक्षितं । वर्मणा समवगुण्ठ्य दोयुजा ॥ मूलमन्त्रसकलीकृतं न्यसे- दङ्गकैश्च कलयदिशोऽस्त्रतः ॥ ४२ ॥ तजलं शङ्खजलं वौषडिति नयनमन्त्रेण धीक्षितं यत्र नयनमन्त्र: सम्भवति तत्रैव नयनमन्त्रेण वीक्षणमिति त्रिपाठिनः वर्मणा हुमिति कवचमन्त्रणा ऽवगुण्व्य मूलमन्त्रलकलीकृतं मूलमन्त्राङ्गसम्बद्धम् । पतस्यैव विवरणं न्यसेदिति । देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिरिति रुद्रधरः। यद्वा मूलमन्त्रध्यानेन सदैवतमिति त्रिपाठिनः अङ्गकैश्चन्यसे.

७० सटीकत्रमदीपिकायाः READUNIA दिति मूलमन्त्रस्य षडङ्गन्यासकुर्यादित्यर्थः अनन्तरं शङ्खस्य दश दिशः अस्त्रमन्त्रेण छोटिकया वनीयात् ॥ ४२ ॥ अक्षइत्यादि । अक्षतादियुतमच्युतीकृतम् । संस्पृशन् जपतु मन्त्रमष्टशः । किं च न क्षिपतु चईनीजले- प्रोक्षयेन्निजतनुं ततोऽम्बुना ॥ ४३ ॥ तजलम् अभग्नतण्डुलचन्दनपुष्पसहितं विष्णुस्वरूपतां नीतं स्पृशन् मूलमन्त्रमष्टकृत्वो जपेत् अनन्तरम् अर्घजलस्य किश्चित् स्वदक्षिणभागस्थापितवर्द्धनीजले प्रोक्षणीयपात्रजले निक्षिपेत्, तदुक्तम्- दक्षिणे प्रोक्षणीपात्रमादायाऽद्भिः प्रपूजयेत् । किञ्चिदाम्वु संगृह्य प्रोक्षण्यम्भासि योजयेदिति ॥ ततस्तदनन्तरम् अर्धपात्रजलेन वारत्रयं निजशरीरं प्रोक्षयेत् । वर्द्धनीघटजलेनेति विद्याधराचार्याः ॥ ४३ ॥ त्रिरिति। त्रिः करेण मनुनाऽखिलं तथा- साधनं कुसुमचन्दनादिकम् । शङ्खपूरणविधिः समीरितो- गुप्त एष यजनाग्रणीरिह ॥ ४४ ॥ तथा मूलमन्त्रेण दक्षहस्तेन पुष्पचन्दनादिकं पूजोपकरणद्रव्यं वारत्रयं प्रोक्षयेत् । उपसंहरति शङ्खति। एष शङ्खपूरणप्रकारः समीरितः उक्तः । कीदृशः इह आगम- शास्त्रे यजनाग्रणीः प्रथमविधाने यः श्रेष्ठतरः ॥ ४४ ॥ अधुना तीर्थमन्त्रं दर्शयति ।

तृतीयपटलम् । ७१ mIDHANA गङ्गेचेति- गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥४५॥ एष तीर्थमनुप्रोको दुरितीघनिवारणः कनिष्ठागुष्ठको सक्ती करयोरितरेतरम् ॥ ४६॥ तर्जनीमध्यमानामाः संहता भुग्नसञ्जिताः। मुरैषां गालिनी प्रोक्ता शङ्खस्योपरि चालिता॥४७॥ एषतीर्थावाहनमन्त्रः कथितः दुरितेति पापसमूहविनाशकः ॥ अधुना गालिनी मुद्राया लक्षणमाह- कनिष्ठेत्यादिना। हस्तयोरन्योन्यकनिष्ठाङ्गुष्ठको सम्बन्धौ तथा तर्जनीमध्य- मानामिकाः संहताः कृत्वा भुग्नाः किञ्चिदाकुञ्चिताः परस्परसंस- क्ताः कार्या इत्यर्थः एवं च सति एषा गालिनी मुद्रा प्रोक्ताशङ्खयो परि चालिता सती देवताप्रीति सम्पादयतीत्यर्थः ॥४५॥ ४६ ॥४७॥ अधुना स्वदेहे पीठपूजाक्रममाह- अथेत्यादि- अथ मूर्द्धनि मूलचक्रमध्ये । निजनाथान् गणनायकं समर्थे । न्यसनक्रमतश्च पीठमन्त्रै- जलगन्धाक्षतपुष्पधूपदीपैः ॥ ४८ ॥ अथानन्तरं मूर्द्धनि स्वकीयशिरसि मूलेचक्रमध्ये मूलाधार- चक्रे यथाक्रमं स्वनाथान् स्वगुरून् गणपतिं च पूजयित्वा पूर्वो- कन्यासक्रमेण पीठमन्त्रैराधारशक्तिमारभ्य पीठमन्त्रान्तं तत्तन्मन्त्रै- जलगन्धाक्षतपुष्पधूपदीपैः स्वशरीरे पीठपूजनं कुर्यात् ॥ ४८ ॥ प्रयजेदथमूलमन्त्रतेजो निजमूले हृदये ध्रुवोश्च मध्धे । ।

७२ सटीकक्रमदीपिकायाः RAMMARATHI त्रितयं स्मरतः स्मरेत्तदेकी- कृतमानन्दघनं तडिल्लताभम् ॥ ४९ ॥ अथानन्तरं तन्मूलाधारहृदयभूमध्यगततेजस्त्रितयं मूलमन्त्रा- त्मकं परं ज्योतिः स्मरतः कामवीजेन क्लीमित्यनेनैकीभूतं चिन्त- येत् कीदृशम् आनन्दघनं चिदानन्दम् पुनः कीदृशम् विद्युत्प्रभम्॥४९॥ तत्तेजोङ्गैरिति- तत्तेजोडैः सावयवीकृत्यविमुत्या- घङ्गान्तं विन्यस्य यजेदासनपूर्वैः । भूषान्तैर्भूयो जलगन्धादिभिरी कुर्याद् भूत्याद्यङ्गविधानावधि मन्त्री ॥ ५० ॥ तदेकीकृतं तेजः पञ्चाङ्गैः सावयवीकृत्य . शरीरयुक्तं सम्पाद्य तत्र विभूत्याद्यङ्गान्तं विभूतिपक्षरमारभ्याङ्गन्यासपर्यन्तं स्वशरीरे विन्यस्य आलनादिभूषान्तरुपचारैर्देवपूजयेत् भूयः पुर नरपि जलगन्धादिभिर्विभूतिपञ्जरमूर्तिपञ्जरकरस्थसृष्टिस्थितिदश- पञ्चाङ्गन्यासस्थानेषु न्यासक्रमेणैव तन्मन्त्रैरेव पूजयेत् ॥ ५० ॥ भूयइति- भूयो वेणुं वदनस्थं वक्षोदेशे वनमालाम् । वक्षोजोर्ड प्रयजेच्च श्रीवत्सं कौस्तुभरत्नम्॥५१॥ भूयः पुनरपि मुखस्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठ- मारभ्य पादद्वयमवलम्विनी पत्रपुष्पमयीं मालाम् । तदुक्तं- कण्ठमारभ्य या तिष्ठेत् पावद्वयविलाम्वनी । पत्रपुष्पमयी माला वनमालाप्रकीर्तितेति । स्तनस्योपरि श्रीवत्सं कौस्तुभं च पूजयेत् ॥ ५१ ॥ श्रीखण्डनिःस्यन्दर्विचर्चिताङ्गो. मूलेन भालादिषु चित्रकानि ।

तृतीयपटलम् । लिख्यादयो पञ्जरमूर्तिमन्त्र- रनामया दीपशिखाकृतीनि ॥ ५२ ॥ अथानन्तरं मूलमन्त्रेण चन्दनपङ्कलिप्ताङ्गः पूजक एव लला. टादिषु मूर्तिपञ्जरन्यासस्थानेषु चित्रकाणितिलकानि दीपशिखा- काराणि अनामिकया मूर्तिपञ्जरमन्त्रैः . ॐ केशवधातृभ्यां नम इत्यादिना द्वादशमूर्तिभिर्लिख्यात्कुर्यादित्यर्थः ।। ५२ ॥ अधुना पुष्पाञ्जलिविधि दर्शयति- पुष्पाञ्जलिमिति । पुष्पाञ्जलिं वितनुयादथ पञ्चकृत्वो- मूलेन पादयुगले तुलसीडयेन । मध्ये हयारियुगलेन च मूर्ति पद्म इन्वेन षड्भिरपि सर्वतनौ च सः ॥ ५३ ॥ अथानन्तरं पञ्चकृत्वः पञ्चवारान् मूलमन्त्रेण पुष्पाञ्जलिं वि- तनुयात् तुलसीद्वयेन श्वेतकृष्णतुलसीद्वयन पादयुगले क्रमेण- दक्षिणवामपादयोरित्यञ्जलिद्वयं मध्ये हृदि हयारियुगलेन श्वेतरक्त- करवीराभ्यामित्येकोञ्जलिः मूर्भिपद्मद्वयेन श्वेत रक्तपद्माभ्याम् इत्य- परोऽअलिः सर्वतनौ सर्वेश्च षड्भिरपि तुलसीद्वयकरवीरद्वयपन्न द्वयैश्वाञ्जलिं तनुयादिति पञ्चमोऽञ्जलिः ॥ ५३ ॥ अधुना श्वेतकृष्णतुलस्यादीनां प्रदानविभागं दर्शयति श्वेतानीति। श्वेतानि दक्षमागे सितचन्दनपङ्किलानि कुसुमानि- रक्तानि वामभागे ऽरुणचन्दनपङ्कसिक्तानि ।। ५४ ।। श्वेतानि तुलस्यादीनि पुष्पाणि श्वेतचन्दनपङ्कयुक्तानि दक्षि- णविभागे देयानि रक्तानि तुलस्यादीनि रक्तचन्दनपङ्कयुक्तानि. वामविभागे देयानि ॥ ५४ ॥ उपचारं दर्शयति-- सटीकक्रमदीपिकायाः तद्वदिति। तद्वच्च धूपदीपौ समर्प्य धिनुयात्सुधारसैकृष्णम् मुखवासायं दत्वा समर्चयेत्साधुगन्धाधैः ॥ ५५ ॥ धूपदीपौ समर्प्य सुधारसैब्रह्मरन्ध्रस्थितशशाङ्कविम्वगलितामृ. तद्रवैधिनुयात् प्रीणयेत् सुधारसमन्त्रकृतजलैरिति रुद्रधरः । श्रीकृष्णं प्राणयेत् अनन्तरं मुखवासाद्यं गन्धवाटिकां दत्वा गन्धपु. पैः पूजयेत् ॥ ५५॥ ताम्बूलेति। ताम्बूलगीतनतनवाः सन्तोष्य चुलुकसलिलेन॥ ब्रह्मार्पणाख्यमनुना कुर्यात्स्वात्मार्पणं मन्त्री ॥५६॥ ततस्तदनन्तरं मन्त्री साधकः उपासकः ताम्बूलगीतादिभिः श्रीकृष्णं परितोय चुलुकोदकेन ब्रह्मापर्णमन्त्रेण वक्ष्यमाणस्वा- स्मसर्पणंकुर्यादित्यर्थः ॥ ५६॥ अथाशक्तं प्रत्याह- अथ वेति। अथ वा संकुचितधियामयं विधित्तिपञ्जरारब्धः ॥ यद्यष्टादशलिपिना सार्णपदाङ्गैश्च वेणुपूर्वैः प्रोक्तः॥५७॥ अथ वा मन्दमतीनां पूजकानां पूजाप्रकारो मूर्तिपञ्जरादिभि- रुक्त इयं दशाक्षरण पूजा, अष्टादशाक्षरपूजामाह यद्यष्टादशाक्षर- मन्त्रेण पूजा तदा कचभुविललाटादिस्थानेषु मन्त्राक्षरन्यासपद्- पञ्चाङ्गन्यासैवेण्वादिभिश्च प्रोक्तः ॥ ५७ ॥ जपविधि दर्शयति- सुप्रसन्नेति। सुप्रसन्नमथ नन्दतनूज भावयन् जपतु मन्त्रमनन्यः ॥

तृतीयपटलम् ।
सार्थसंस्मृतियथाविधिसंख्या-
पूरणेऽसुयमनं विदधीत ॥ ५८ ॥
अथानन्तरं मन्त्रार्थस्मरणपूर्वकं मूलमन्त्र जपतु किङ्कुर्वन् सु-
प्रसन्नं पूर्वोक्तरूपम् आत्मभिन्नं कृष्णं हृदि भावयन् पुनः किम्भू.
तः अनन्यस्तत्परः यथोक्तजपसंख्यापूरणे सति असुयमन प्राणाया-
में कुर्यात् जपारम्भे चात्रविद्याधराचार्यः वाह्यपूजाशक्तौ आत्म-
पूजानन्तरं जपं कुर्यात् शक्ती तु पूजानन्तरमित्याह ॥ ५८ ।।
प्रयोगपूर्वकृत्यमाह-
प्रणवोत।
प्रणवपुटितं वीजञ्जप्त्वाशतं सहिताष्टकं
निजगुरुमुखादात्तान् योगान्युनक्तु महामतिः ।।
सदमृतचिदानन्दात्माऽथोजपश्च समापये.
दितिजपविधिः सम्यक् प्रोक्तो मनुद्वितयाश्रितः ॥१९॥
कामवीजं प्रणवपुटितं सहिताष्टकं शतमष्टोत्तरशतं जप्त्वा नि-
जगुरुमुखात्प्राप्तान्योगान् आत्मपरदेवतासमावेशलक्षणान् अष्टम-
पटले वक्ष्यमाणान्महामतिर्युनक्तु करोतु
प्रकृतमुपसंहरति-
अनन्तरं सदमृतचिदानन्दात्मा ऽमुंजपं समापेयत् इत्यनेन प्रका-
रेण मनुद्वितयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजाप्रकार स.
सम्यक् प्रकारेणोक्तः ॥ ५९ ॥
य इति।
य इमं भजते विधि नरो
भविताऽसौ दायितःशरीरिणाम् ।।
अपिवाकमलैकमन्दिरं
परमं ते समुपैति तन्महः ॥ ६० ॥
इति श्रीकेशवभट्टाचार्यविरचितायां-
क्रमदीपिकायान्तृतीयः पटलः ॥ ३ ॥

सटीकक्रमदीपिकायाः
यो नरो मनुष्य इमं पूजाप्रकारं सेवतेऽसौ शरीरिणां व
ल्लभो भविष्यति तदा सरस्वतीलक्ष्भ्योरावासो भविता अन्ते दे.
हपातानन्तरं तेजः समुपैति तद्रूपो भवतीत्यर्थः ॥ ६० ॥
इति श्रीकेशवकाश्मीर्याचार्यप्रवरविरचितक्रमदीपिकाविवरण:
तृतीयः पटलः ॥ ३॥
अथ मन्त्रजपादौ दीक्षितस्यैवाधिकारः तदुक्तमागमान्तरे-
द्विजानामनुपेतानां स्वकर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याञ्चोपनयनादनु ।
तथात्रादीक्षितानां तु मन्त्रे देवार्चनादिषु ।
ना ऽधिकारोस्त्यतः कुर्यादात्मानं शिवसंस्कृतम् ॥
इत्यतो मन्त्रजपप्रधानाङ्गभूतां दीक्षांकथयामीत्याह ।
कथ्यत इति ।
कथ्यते सपदि मन्त्रवर्ययोः-
साधनं सकलसिद्धिसाधनम् ।
यद्विधाय मुनयो महीयसी
सिद्धिमीयुरिह नारदादयः ॥ १ ॥
सपदि सांप्रतं मनुवर्ययोः दशाक्षराष्टादशाक्षरयोः साध्यते
वाञ्छितमनेनेति साधनं दीक्षणकथ्यते कीदृशं सकलफलसाधनं
बत् कृत्वा नारदादयो मुनयः महती सिद्धिम् इह जगति
प्राप्तवन्तः॥१॥
दक्षिाया गुरुसाध्यत्वादादौ गुरुलक्षणमाह-
विप्रमिति ।
विषं प्रध्वस्तकामप्रभृतिरिपुघटानिर्मलाङ्गं गरिष्ठां
भक्ति कृष्णाधिपरूहयुगलरजोरागिणीमुबहन्तम् ।।
बेत्तारम्बेदशास्त्रागमाविमलपथां सम्मतं सत्सुदान्तं
विद्यां यः संविवित्सुः प्रणततनुमनादेशिक संश्रयेता॥२॥

चतुर्थपटलम् । ७७ Mousame योविद्यां संविवित्सुर्मन्त्रं सम्यक् ज्ञातुमिच्छति स एता. दृशं देशिकं गुरुं संश्रयेत् सेवेत कीदृशं विप्रं ब्राह्मणजातं उप- देशे क्षत्रियादेरनधिकारात् पुनः कीदृशं प्रकर्षेण दूरीभूता कामा- धरिषड्वर्गघटा तया पूतं शरीरं यस्य तथा तं कामक्रोधौ लोभ मोहौ मदमत्सरौ एते रिपवः कामादयः लोभायुपहतचित्तस्य निर न्तरं प्रत्यवायोत्पत्या सेव्यत्वाभावात् पुनः कीदृशं श्रीकृष्णचरण कमलयुगले य द्रजस्तत्ररागयुक्ताम् अतिशयितां भक्तिं धारयन्तम् अभक्तस्य पुरुषार्थानवाप्तेः पुनः कीदृशं वेदशास्त्रागमसम्बन्धिविम- लमार्गाणां शातारम् अन्यथा आगमशास्त्रविचारानुपपत्तेःपुनः कीदृशं सत्सुजनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलन्वात् शुश्रूषानहत्वात्सच्छब्दार्थ एवनस्यात् पुनः किम्भून्तं दान्तं वशी- कृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवतापराङ्मुखत्वात् कीदृशः प्रण- तानम्रा विनीतातनुः कायोमनो हृदयम् च यस्य स तथा अत्रा- ऽधिकं मतकृतशारदातिलकेश्वगन्तव्यम् ॥ २ ॥ गुरुसेवाप्रकारमाह- सन्तोषयदिति । सन्तोषयेदकाटिलातरान्तरात्मा- तं स्वैर्धनैश्च वपुषाप्यनुकूलवाण्या ॥ अब्दत्रयङ्कमलनाभधियाऽतिधीर स्तुष्टे विवक्षतु गुरावथमन्त्रदीक्षाम् ॥ ३ ॥ अथानन्तरम् उक्तलक्षणं गुरु वत्सरत्रयं पद्मनाभबुद्धा सन्तोषयेत् कैः स्वीयद्रव्यैः तथा शरीरेण तथा प्रियवचनेन कीदृशः सुधीरः पण्डितः पुनः कीदृशः अवक्रोऽतिस्निग्धो अन्त- रात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्रदीक्षां विवक्षतु वक्तुमिच्छतु शिष्यएव यत्त्वन्यत्रोक्तम् । एकाब्देन भवेद्विप्रोभवेदब्दद्वयान्नृपः । भवेदव्दत्रयैवैश्यः शूद्रो वर्षचतुष्टयैः ।। इति ।

७८ सटीकक्रमदीपिकायाः तदत्यन्तपरिशीलितविषयम् । अन्यथातु। त्रिषु वर्षेषु विप्रस्य षड्वर्षेषु नृपस्य च । विशोनवसुवर्षेषु परीक्षेतेतिशस्यते । समास्वपिद्वादशसुतेषां येवृषलादयः । इति बोद्धव्यं । विहितनक्षत्रादिकं मत्कृत्शारदातिलकोद्योते बोद्धव्यम् ॥३॥ कलावत्यादिभेदेन दीक्षाया बहुविधत्वात् मया पुनरत्रप्रपञ्च सारोक्ता क्रियावती दीव सोपेण प्रदर्श्यते इत्याह- प्रपञ्चसारोति। प्रपञ्चसारप्रथिता तु दीक्षा संस्मार्यते संप्रतिसर्वसिद्ध्यै ।। ऋते यया सन्ततजापिनोऽपि सिद्धिं न वै दास्यति मन्त्रपूगः ॥ ४ ॥ सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरणमात्रं क्रि- यते नतु सम्यगभिधीयते अत्र हेतुः यतः प्रपञ्चसारे विविच्यो- ता, किमर्थमभिधीयते सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदाजपकर्तुः पुरुषस्य मन्त्रसमूहः फलं यस्मानददाति । यदाहुः। मन्त्रवर्गानुसारेण साक्षात्कृत्येष्टदेवताम् गुरुश्चेद्बोधयच्छिध्यं मन्त्रदीक्षेति सोच्यत । इति ॥४॥ अथ शोधितशालादिस्थाने मण्डपपूर्वकृत्यं वास्तुबलिमाह- अथेति। अथ पुरोविदधीत भुवः स्थली मधि यथाविधि वास्तुवलिंबुधः ॥ main ७ ९ चतुर्थपटलम् । अचलदोर्मितमत्र तु मण्डपं ममृणवेदिकमारचयेत्ततः ॥५॥ अथानन्तरं प्रथमं भुवः स्थलीमाधि पृथिव्यामुपरि यथावि- घि यथोक्तप्रकारेण वास्तुवलि बुधो दद्यात् अत्र बलिदानादि विधिश्च मत्कृतशारदातिलकोद्योते बोद्धव्यः ततस्तदन्तरम् अत्र संस्कृतभूमौ मण्डपं कुर्यात् कीदृशम् अचलदोर्मितं सप्तहस्तपरिमितं तु शब्दो अनुक्तसमुश्चयार्थः । तेन पञ्चहस्तपरिमितं नवहस्त- मितं चेति बोद्धव्यं पुनः कीदृशं मसृणवेदिकं चिक्कणवेदिकम् उत्क- हवेदिकमित्यर्थः ॥ ५॥ त्रिगुणेति। त्रिगुणतन्तुयुजा कुशमालया परिवृतंप्रकृतिध्वजभूषितं ॥ मुखचतुष्कपयस्तरुतोरणं सितवितानविराजितमुज्ज्वलम् ॥ ६ ॥ पुनः कीदृशं कुशमालयावोष्टितं किम्भूतया श्वेतरकश्यामवर्णत. न्तुयुक्तया यद्वा त्रिगुणीकृतसूत्रयुक्तया पुनः कीदृशम् अष्टभिध्वजैः शोभितं प्रकृतिरष्टसंख्या पुनाकीदृशं मुखचतुष्के द्वारचतुष्टये पयस्तभिः क्षीरवृक्षैः तोरणं वहिरिं यत्र तादृशं क्षीरवृक्षास्तु अश्वत्थादुम्बरप्लान्यग्रोधाख्याः ( पुनः कीदृशं शुभचन्द्रातपेनशो- भितं) पुनः कीदृशंमुज्ज्वलंनिर्मलम् ॥६॥ कुण्डविधिमाह- वस्विति । वसुत्रिगुणिताङ्गुलप्रमितखाततारायतं वसोसुपतेरथो ककुभिधिष्ण्यमस्मिन् बुध: करोतुबसुमेखलंबसुगणाईकोणं प्रती च्यवस्थितगजाधरप्रतिमयोनिसंलक्षितम् ॥ ७ ॥ अथानन्तरम् अस्मिन् मण्डपेबुधः वसोवढेर्धिष्ण्यं कुण्ड Mandidwan ८० सटीकक्रमदीपिकायाः करोतु कीदृशं वसुरष्टसंख्या अष्टौवसवः इति प्रसिद्धः तेषां व. सूनां त्रिगुणानि चतुर्विशाङ्गुलानि तैः प्रमितं तत्प्रमाणं. खातस्यगर्तस्य उञ्चत्वंविस्तारश्च यत्र तादृशं कुत्र वसुपतेः कुवेरस्य ककुभिदिशि उत्तरस्यां पुनः कीदृशं वसुमेखलम् अत्र वसुशब्देन अग्निरुच्यते सचगार्हपत्याहवनीयेत्यादित्रिविधः पुनः कीदृशं वसुग- णार्द्धकोणं चतुष्कोणं पुनः कीदृशं पश्चिमदिश्यवस्थितं गजोऽष्ट- सदृशद्वादशाङ्गुलायामा या योनिस्तया भूषितं न्तदुक्तं- द्वादशाङ्गुलिरूपत्वाद्योनिः स्याद्वादशाङ्गुलिरिति । अपरोऽत्रविशेषः शारदातिलकतोऽवगन्तव्यः ॥ ७ ॥ अधुनाराशिमण्डलविधिदर्शयति । तत इति । ततोमण्डपेगव्यगन्धाम्बुसिक्के लिखेन्मण्डलं सम्यगष्टच्छदाब्जम् ॥ सवृत्तत्रयंराशिपीठाघ्रिङ्चीथि चतुर्दारशोभोपशोभायुक्तम् ॥ ८॥ ततोमण्डपानन्तरम् अस्मिन् मण्डपेसम्यक्यथोक्तप्रकारे णमण्डललिखेत् कीदृशे गव्यैः पञ्चगव्यैः शारदाति- लकोक्तवैष्णवगन्धाष्टकजलेनप्रोक्षिते कीदृशम् अष्टदलपनसहितं पुनः कीदृशं वृत्तत्रयसहितं पुनः राशयोमेषादयः पीठंक लसस्थापनस्थानंतस्याज्रिपाठपात्रचतुष्टयं चतस्रोवीथयः त्वारिद्वाराणिशोभाउपशाभा अत्रंकोणम् एतैर्युक्तम् अयमर्थः सा. ईहस्तद्वयप्रमाणेनसमंचतुरस्रम्भूभागंपरिष्कृत्यतत्र पूर्वापरायतानि- सप्तदशसूत्राणिपातयेत् एवंसतिषट्पञ्चाशदुत्तरं द्विशतंकोष्ठानां- भवति कोष्ठविभागोमध्येषोडशभिः कोष्ठेवृत्तत्रयान्वितं पझंलिखेत् ( तत्रचपझोपरिशिष्टेपीठंतदङ्गंचलिखेत् ) तद्वहि- रष्टाधिकचत्वारिंशताद्वादशराशीन् लिखेत् तद्वहिः षत्रिंशता. पीठं पीठाङ्गचलिखते ( तद्वहिरशीतिभिः पदैलिखेत् ) अत्रेदं बो- द्धव्यं पद्मस्यदलाप्रस्थंवृत्तंपीठशक्तिश्चएतयोर्मध्ये पूर्वदक्षिणपश्चि- मोत्तरंसूत्रचतुष्टयंदद्यात् अनन्तरंद्वादशाधिकैः शतपदैारशोभोप- चतुर्थपटलम् । ८१ शोभाकोणानिविलिखेत् तत्रसर्वस्यादिशिवारंषट्पदं । (तप्रका- रः वाह्य पङ्किगतमध्यकोष्ठयन्तदन्तर्गतपङ्किगतमध्यकोष्ठबयमिति- द्वारस्यकस्मिाभागेकोष्ठचतुष्टयेनैकाशोभाभवति तत्रबाह्यपाङग तमेकंकोष्ठंतदन्तर्गतपतिगतकोष्ठत्रयमितिएकोष्टचतुष्टयेनैकोपशो- भाभवति अत्रवाहपतिगतकोष्ठत्रयन्तदन्तर्गतपतिगतमेकंकोष्ठमि. तितथाकोष्टषट्कन कोणमिति एवमपरस्मिन्भागेऽपिशोभोपशो. भाकोणानिबोद्धव्यानि एवंदिक्चतुष्टयेऽपिमिलित्वा द्वादशा. धिकंशतंभवतीति अत्रानुक्तंशारदातिलकबोध्यम् ॥ ८॥ ततो देशिक: स्नानपूर्व विधानं । विधायाऽऽत्मपूजावसानं विधिज्ञः ॥ स्ववामाग्रतः शङ्खमप्यर्यपाद्या- चमाद्यानि पात्राणि सम्पूरितानि ॥ ९ ॥ विधायाऽन्यतः पुष्पगन्धाक्षताद्यं । करक्षालनं पृष्ठतश्चापि पात्रम् ।। प्रदीपावलीदीपिते सर्वमन्यत् । स्वदृग्गोचरे साधनं चाऽऽददीत ॥ १० ॥ तदनन्तरं विधिज्ञः आगमोक्तप्रकारक्षः देशिको गुरुः स्नानपूर्वक विधानं स्वगृह्योक्तादिनानविधिम् आत्मपूजापर्यन्तं समाप्य स्ववा- माने शङ्खायपाद्याचमनीयपात्राणि जलादिस्वच्छद्रव्यैः सम्पूरि- तानि कृत्वा यथोत्तरं स्थापयित्वा ऽन्यतो दक्षिणभागे पुष्पाणि पूजा द्रव्याणि निधाय करप्रक्षालनपात्रमेकं पृष्टदेशे निधाय सर्वमन्यत् साधनम् उपकरणं स्वदग्गोचरे चक्षुर्गोचरे प्रदीपश्रेणिविराजिते स्थापयेत् अत्राऽपरो विशेषः श्रीपरमानन्दभट्टाचार्यकृते प्रपञ्चसार. विवरणे द्रष्टव्यः ॥९॥१०॥ वायव्येति- वायव्याशादीशपर्यन्तमर्व्य- पीठस्योदग्गौरवी पतिरादौ । amavam १ ८२ सटीकक्रमदीपिकायाः पूज्योऽन्यत्राऽप्याम्विकेयः कराजैः । पाशं दन्तं शृण्यभीती दधानः ॥ ११ ॥ पीठस्य सशिपीठस्य उदक उत्तरभागे वायव्यकोणादीशानकोण पर्यन्तं गुरुसम्बन्धिनी पङ्किरादौ प्रथमतः पूज्या प्रयोगस्तु ॐगुरु- भ्योनमः इति अन्यत्र दक्षिणभागे आस्विकेयो गणपतिः पूज्यः की- इशः हस्तपझैः स्वदन्तं शूणिम् अङ्कुशम् अभयं दधानः ॥ ११ ॥ अधुनाकलशस्थापनप्रकारदर्शयति यतोदेशिक इत्यादिना आराध्यति । आराध्याऽऽधारशस्याद्यमरचरणपावध्यथो मध्यभागे। धर्मादीन् बाहिरक्ष पवनशिवगतान् दिक्ष्वधर्मादिकांचा मध्ये शेषाजविम्वत्रितयगुणगणात्मादिकं केशराणां। बहेमध्ये च शक्तीनव समभियजेत्पीठमन्त्रेण भूयः॥१२॥ अथानन्तरं मण्डलमध्यभागे आधारशक्तिमारभ्य कल्पवृक्ष- पर्यन्तमाराध्य पूजयित्वा पाठन्यासक्रमेण वन्हीति अग्न्यादि- कोणगतान् धर्मादीन् पूर्वादिचतुर्दिक्षु अधर्मादीन तथा मध्ये शेष पद्मं तथा सूर्यसोमवह्नीनां विम्बत्रयं द्वादशषोडशदशकला- व्यातं मण्डल त्रयं तथा सत्वादिगुणत्रयं तथा ऽऽत्मादिचतुष्टयं पूजयेत् अथ केशराणां मध्ये कर्णिकायां च विमलाद्या नव शक्ती पूर्वादिक्रमेण पूजयेत् भूयः पुनरपि पूर्वोक्तेन पीठमन्त्रेण पीठं पूजये- दित्यर्थः ॥ १२॥ तत इति । ततः शालीन मध्येकमलममलांस्तण्डुलवरा- नपि न्यस्येदर्भास्तदुपरि च कूर्चाक्षतयुतान् ।। न्यसेत्पादक्षिण्यात्तदुपरि कृशानोर्दश कला- यकारावर्णाद्या यजतु च सुगन्धादिभिरिमाः॥१३॥ तदनन्तरं मध्येकमलं कमलमध्ये शालीन् आढकपरिमि- चतुर्थपटलम् । ८३ तान् तथा शुत्रान् शाल्यष्टभागपरिमितान् तण्डुलान् श्रेष्ठान- न्यस्येत् स्थापयेत् । तदुक्तं। शालीनवैकर्णिकायांचनिक्षिप्याटकसंमितान् । तण्डलांश्चतदष्टांशानदर्भः कूर्चेः प्रविन्यसेदिति । तदुपरि तण्डलोपरि कूर्चाक्षतयुक्तान् दर्भान् विन्यसेत्, कुशत्रयघटितो ब्रह्मग्रन्थिः कूर्वशब्देलोच्यते, कूर्चः कुशनुष्टिरि- तित्रिपाठिनः, तदुपरि कूचोपरि कशानोर्वदश कला यकारादयो दशवर्णा यासान्ताः प्रादक्षिण्येन न्यलेतू तदनन्तरं इमा दश कला गन्धादिभिःपूजयेत् आधाः प्रथमा धूम्नाचिरूमावलिनीज्वालिनीविस्फुलिङ्गिनी ! सुश्री सुरूपा कपिलाहव्यवहाकव्यवहेति। प्रयोगस्तु धूनाचिषेनम इति ॥ १३ ॥ न्यलेदिति। न्यसेत्कुम्भं तत्र त्रिगुणितल सत्तन्तुकलित। जस्तारं धूपैः सुपरिमलित जोङ्कटमयैः । कभायैः कुम्भेऽस्मिन् उडवसितिभिर्वर्णयुगलैः। तथा न्यस्याऽभ्यास्तदनु खमणेादश कला॥१४॥ নম দুহাত্তাই জুই আলো কম নযুল জুক- स्तु सुवर्णादिनिर्मितः। तदुक्तं। सौवर्ण राजतं वापि मृन्मयं वा यथोदितम् । क्षाणयेदस्त्रमन्त्रेण कुम्भं सम्यक् सुरेश्वरीति कीदृशं ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्याकार्ततकालिसूत्राणि तैः कलितम् अस्त्रमन्त्रेणवेष्टितम् पुनः कीदृशं जोङ्कटमयैः कृष्णाागुरुप्रधानधूपैः सुधूपितं तदनन्तरं सटीकक्रमदीपिकायाः खमणेः सूर्यस्य द्वादशकला अस्मिन् कुम्भे न्यस्य अनन्तरं पू. ज्याः कैः वर्णयुगलैः कीदृशैः कभाद्यैः ककारभकाराद्यैः पुनः कीट- शैः उडवसितिभिः ठकारडकारावसानैः अयमर्थः अनुलोमपठि- तककाराचेकैकमक्षरं प्रतिलोमपठितभकाराद्यकैकमक्षरेणसहितं त- पिन्यादिषु द्वादशकलासु संयोज्य न्यासादिकं कार्य । ताश्च- तपिनातापिनीधूम्रामरीचि ालिनीरुचिः । सुषुम्णाभोगदाविश्वावेधिनीधारिणीक्षमेति । प्रयोगस्तु कंभंतपिन्यैनमः खं वं तापिन्यैनम इत्यादिकार्थम् ॥१४॥ एवमित्यादि- एवं संकल्प्याऽग्निमाधाररूपं । भानुं तबकुम्भरूपं विधिज्ञः ॥ न्यस्येत्तस्मिन्नक्षतायैः समेतं । कूर्च स्वर्णरत्नवर्यैः प्रदीप्तम् ॥ १५ ॥ एवमनेन प्रकारेणाऽधाररूपमग्निं संकल्प्य तद्वत्कुम्भरूपंभानु विचिन्त्य तस्मिनकुम्भे विधिज्ञ आगमोक्तप्रकाराभिज्ञः मूलमन्त्रे- णाऽक्षताद्यैः सहितं कुर्च पूर्वोक्तलक्षणैः सुवर्णरत्नवनवरत्नैः शारे- भितं न्यसेत् । तदुक्तभैरवेण। एतान् नबित्वा तन्मध्येशुक्लपुष्पंसिताक्षतम् । नवरत्नंचकूचंचमूलेनैवविनिक्षिपेदिति ॥ १५ ॥ अथेति- अथ काथतायैः चकारादिवणे- रकारावसानैः समापूरयेत्तम् ॥ সন্মানজামান বয়ালি- नवां पञ्चगव्यैर्जलैः केवला ॥ १६ ॥ allpeapality चतुर्थपटलम् । अथाऽनन्तरं पीठकुम्भयोरैक्यं विचिन्त्य पञ्चाशद्वर्णैरोष- धितोयैः पलाशत्वग्जलः क्षीरदुमत्वक्वाथजलैर्वा सर्वौषधिजलैा. गवां पयोभिर्वा पञ्चगव्या केवलजलैः कर्पूरादिजली तीर्थ জন্য স্বাক্ষাৎকাহৰিলাৰামমাঃ মঞ্জ जपावसानं मूलमन्त्रवारत्रयजपान्तं यथा स्यादेवं पूरयेत् ॥ १६ ॥ कलश जले इति- PIRINE कलशजलेस्मिन् वसुयुगसंख्याः । स्वरगणपूर्वा न्यसतु तथैव ॥ उडुपकलास्ताः सलिलसुगन्धा- क्षतसुमनोभिस्तदनु यजेत ॥ १७ ॥ तस्मिन् कलशजले उडुपकलाश्चन्द्रकलाः धसुयुगसंख्या: षोडशसंख्याः स्वरगणपूर्वा अकारादिवर्णपूर्वा न्यसतु तदनु तद. नन्तरं ताश्चन्द्रकलास्तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् । ताच- FRIDAON अमृतामानदापूषातुष्टिः पुष्टी रतिधृतिः । शशिनीचन्द्रिका कान्तिज्योत्स्नाश्रीः प्रीतिरङ्गदाः । पूर्णापूर्णामृतेति ॥ १७ ॥ अधुना वैष्णवगन्धाष्टकमाह- TIMES उदीच्यकुष्टकुङ्कुमाम्बुलोहसज्जटामुरैः ।। सशीतमित्युदीरितं हरेः प्रियाष्टगन्धकम् ॥ १८ ॥ उदीच्यम उशीरं कुष्टं कुङ्कुमं कम्वुवाला नेत्रवाला लोहः कृष्ण गुरुः जटया सह मुरा जटामांसो मुरा मांसी च एतैः सह शीतं चन्दनमिति हरेः प्रियकारिगन्धाटकमुक्तम् ॥ १८॥ शडारणपाह- सटीकमदीपिकायाः क्वाथेति। काथतोयपरिपूरितोदरे- सविलोड्य विधिनाऽष्टगन्धकम् ।। सोमसूर्यशिखिनां पृथक्कलाः । सेचकर्म विनियोजयेत्रमात् ॥ १९ ॥ दरे शङ्ख विधिनाऽऽगमोक्तप्रकारेण मूलमन्त्रेण पूर्वोक्तकाथ. जलेन परिपूरिते गन्धाष्टकं नमामन्त्रेण संविलोड्य दत्वा सोम- सूर्यवह्नीनां कलाः पृथक् समावाह्य लेचकर्म प्राणप्रतिष्ठाकर्म क्रमेण विनियोजयेत् कुर्यात् ॥ १९ ॥ तद्वदिति- तददाक्षरभवास्तु कादिभि- ष्टादिभिः पुनरुकारजाः कलाः ॥ पादिभिमलिपिजास्तु विन्दुजाः । षादिभिः स्वरगणेन नादजाः॥ २० ॥ पूर्वोक्तप्रकारेण आक्षरभवा अकाराक्षरभवा दश कलाः का- दिभिः ककारादिभिर्दशभिरक्षरैः सहिताः पुनरुकारजा उकाराक्षर भवा दश कला यादिभिर्दशभिरक्षरेः सहिताः तथा मालिपिजा मकाराक्षरभवा दश कलाः पादिभिर्दशभिरक्षरैः सहिताः तथा वि. न्दुजा विन्दुप्रभवाः चतस्रः कलाः षादिभिश्चतुरक्षरैः साहिताः तथा नादजा नादप्रभवाः षोडश कलाः स्वरसमूहेन षोडशभिः स्वरैः सहिताः शङ्खसलिले न्यस्याः। सृष्टिधृतिः स्मृतिर्मेधाकान्तिलक्ष्मीर्युतिः स्थिरा । स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः। यवा च पालिनी शान्तिरेश्वरी रतिकामिके। वरदा हादिनी प्रीतिर्दीर्घा उकारजाः कलाः ॥ खरदा हादिनी भीतिदर्शी ८७ चतुर्थपटलम् । तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत् हदिनी क्रिया। उत्कारी चैव मृत्युश्च मकाराक्षरजाः कलाः । विन्दोरपि चतस्रः स्युः पाता श्वेताऽरुणाऽसिता ।। निवृत्तिः सुप्रतिष्ठा च विद्या शान्तिस्तथैवच । ईरिका दीपिका चैव रोचिका मोचिका परा ॥ सूक्ष्मा सूक्ष्ममता ज्ञाना ऽमृता चाऽऽप्यायनी तथा। व्यापिनी व्योमरूपा च अनन्ता नादसम्भवा इति । प्रयोगश्च के सृष्टयैनम इत्यादि ॥ २० ॥ समावाहनान्ते इत्यादि। समावाहनान्तेऽसुसंस्थापनात्प्राक् । ऋचस्तत्र तत्राऽभिजप्या बुधेन । समभ्यर्च्य तास्ताः पृथक् तच्च पाथोऽ- पयेन्मूलमन्त्रेण कुम्भे यथावत् ॥ २१ ॥ समावाहनस्याऽन्ते ऽसुसंस्थापनात्प्राक् प्राणप्रतिष्ठायाः पूर्व तत्र तत्र स्थाने पण्डितेन धा-श्वाऽभिजप्याः पठनीयाः अयमर्थः शङ्खजले ऽकारप्रभवककारादिकलावाहनानन्तरं प्राणप्रतिष्ठायाः पूर्व "हंसः शुचिष"दिति ऋचं पठेत् उकारप्रभवटादिकलावाहनानन्तरं "प्रतद्विष्णु"रिति ऋचम्पठेत् मकारादिप्रभवपकारादिकलावाहना- नन्तरं “तत्सवितु"रित्यादि ऋचं पठेत् नादप्रभवतकारादिकला- वाहनानन्तरं "विष्णोर्योनि"रित्यादिऋचं पठेत् अनन्तरं मूलमन्त्रं शङ्कजले विलोमेन जपेत् तारकलाः पृथगेकैकशः यथावत् यथाविधि सम्पूज्य तश्च पाथः तच्छतोदकं मूलमन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥ २१॥ सहति- सहकारवोधिपनसस्तवकैः । शतमन्युवल्लिकलितः कलशम् ॥

८८ सटीकक्रमदीपिकायाः पिदधातु पुष्पफलतण्डुलकै- राभिपूर्णयाऽपि शुभचक्रिकया ॥ २२ ॥ सहकार आनः बोधिरश्वत्थः पनसः कण्टकिफलवृक्षः एतेषां स्तवकैः पल्लवैः शतमन्युवल्लिकलितैरिन्द्रवल्लीवद्धैः कलशं कलश- मुखं सुरद्रुमधिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभचक्रिकया शोभमानशरावेण तदुपरि पिदधातु ॥२२॥ अभीति । अभिवेष्टयेत्तदनु कुम्भमुखं । नवनिर्मलांशुकयुगेन बुधः ॥ समलंकृतेऽत्र कुसुमादिभिर- प्याभवाहयेत्परतरञ्च महः ॥ २३ ॥ तदनु तदनन्तरं नूतनमलरहितवस्त्रद्वयेन परितः कुम्भ- मुखमभिवेष्टयेत् अनन्तरं कुम्भे पुष्पादिभिरलंकृते परमोत्कृष्टं महस्तेजः पूज्यदेवतास्वरूपमावाहयेत् आवाहनादिकं कुर्यात् धथा श्रीकृष्णेहा ऽऽगच्छेह तिष्ठ इह संनिधेहि ॥ २३ ॥ सकलीति- सकलीविधाय कलशस्थममुं । हरिमर्णतत्त्वमनुविन्यसनैः ।। परिपूजयेद् गुरुरथाऽवहितः। परिवारयुक्तमुपचारगणैः ॥ २४ ॥ अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिरिति । उत्तमा विधाय वर्णतश्वमन्विति NRN অথবা Canaanaa चतुर्थपटलम् । ८९ मन्त्रन्यासैः सहेति रुद्रधरः अर्ण इति सृष्टिसंहारभेदेन अङ्गुल्या- रोपणभेदेन च मन्त्रवर्णविन्यासोऽर्णन्यासः तत्त्वेति सृष्टिसं- हारभेदेन मन्त्राक्षरान्वितदशतत्त्वन्यासः तथा मूलमन्त्रन्यासो मनुन्यालः मनुपुटितमातृकान्यास इत्यर्थः इत्यादिन्यासैस्तत्ते. जोरूपधरं सकलं सगुणं शरीरं कुर्यादिति भैरवत्रिपाठिनः वि. विद्याधरोऽप्येवमाह पीठन्यासकरन्यासौविनाऽपि प्रथमद्वितीयपटल प्रोक्तन्यासादिजातैरिति केचित् अष्टादशाक्षरे पक्षे तत्वन्यास- स्थाने मन्त्राक्षरन्यासो द्रष्टव्यः अथाऽनन्तरम् अवहितः सावधानो गुरुः सपरिवारम् आवरणसमेतम् उपचारगणैः षोडशदशपञ्च- पचारान्यतमोपचारेण पूजयेत् ॥ २४ ॥ पूजाक्रममाह- दत्वति । दत्वाऽऽसनं स्वागतमित्युदीर्य । লালাগান। देयानि पूर्व मधुपर्कयूञ्जि । नन्दात्मजायाssचमनान्तकानि ॥ २५ ॥ स्थानं च वासश्च विभूषणानि । साङ्गाय तस्मै विनियोज्य मन्त्री॥ गाने पवित्रैरथ गन्धपुष्पैः । पूर्व यजेन्न्यासविधानतोऽस्य ॥ २६ ॥ तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादिकुसुम- रूपं दत्वा स्वागतमित्युदीर्य स्वागतमिति शब्दमुश्चार्य अनन्तरं पूर्व प्रथमतः अयपाद्याचमनीयकानि मधुपर्कसहितानि देयानि आचमनान्तकानि मधुपर्क दत्वा पुनराचमनीयं देयं स्नानं गन्ध जलादिभिः कार्य वासो वस्त्रयुगलं शरीरे देयं विभूषणानि कु- ण्डलादीनि यथास्थानं विनियोज्यानि अथाऽनन्तरम् अस्य परमे- श्वरस्थ गाने शरीरे पूर्व प्रथमतः पवित्रैः शुद्धैः गन्धपुष्पासप्र- कारेण यजेत् पूजयेत् ॥ २५ ॥ २६ ॥ पूजाप्रकारमेवाह- सटीकक्रमदीपिकायाः सृष्टिस्थितीति। सृष्टिस्थिती स्वाङ्गयुगं च वेणुं । मालामभिज्ञानवराश्ममुख्यौ । मूलेन चाऽऽत्मार्चनवत्प्रपूज्य । समर्चयेदावरणानि भूयः ॥ २७ ॥ वर्णन्यासमन्त्रैर्यथाक्रमं पूजयेत् ॐ गों ॐ नमः इत्यादि सृष्टिस्थिती पूर्वोक्तं स्वाङ्गयुगं पञ्चाङ्गदशाङ्गन्यासौ वेणुं माला- वनमालाम् अभिज्ञानवरं श्रीवत्सलाञ्छनामिति अश्ममुख्यः को- स्तुभः एतानि सम्पूज्य मूलेन चाऽऽत्मार्चनवत् यथाऽऽत्मनि परमे- श्वरपूजा मूलमन्त्रेण पञ्चकृत्वः तुलस्यादिपुष्पाञ्जलिभिः पद- द्वयादिषु कृता तथा कुम्भस्थमपि सम्पूज्य भूयः पुनरपि आवर- णानि वक्ष्यमाणानि पूजयेत् अष्टादशार्णपक्षे सृष्टयादिस्थानेषु वर्णन्यासपदन्यासानां पूजा कार्येति वोद्धव्यम् ॥ २७ ॥ आवरणपूजाक्रममाह- दिश्विति। दिवथ दामसुदामौ वसुदामः किङ्किणी च संपूज्याः ॥ तेजोरूपास्तदाहरङ्गानि च केशरेषु समभियजेत्॥२८॥ अथाऽनन्तरं कर्णिकायां देवस्य पूर्वादिचतुर्दिक्षु दामादय. श्वत्वारः पूज्याः कीदृशाः तेजोरूपाः देदीप्यमानाः प्रयोगस्तु ॐदा- मायनम इत्यादि द्वितीयावरणमाह तद्वहिरिति कर्णिकाकोणेषु अङ्गानि समभियजेत् ॥ २८ ॥ पूजाविधानमाह- हुतवहनितिसमीरणशिवति । शतवहनितिसमारशिवदिक्षु हृदादिवर्मपर्यन्तम् ॥ पूर्वादिदिवथाऽस्त्रं क्रमेण गन्धादिभिः सुशुद्धमनाः॥२९॥ अग्न्यादिकोणचतुष्टयेषु हृदयादिकवचान्तानि चत्वार्यङ्गानि अ- Monds AMANAR- MADARA चतुर्थपटलम् । थाऽनन्तरं पूर्वादिचतुर्दिक्षु अस्त्रमङ्गं पूजयेत् ॥ २९ ॥ अङ्गदेवताध्यानमाह- मुक्तति। मुक्तेन्दुकान्तकुवलयहरिनीलहुताशसभाः प्रमदाः । अभयवरस्फुरितकराःप्रसन्नमुख्योऽङ्गदेवताःस्मर्याः॥३०॥ अङ्गदेवता ध्येयाः किम्भूताः प्रमदाः स्त्रीस्वभावाः पुनः किम्भूताः मुक्ताः इन्दुकान्तश्चन्द्रकान्तमाणिः कुवलयं नीलपमंह- रिनीलः इन्द्रनीलमणिः हुताशो वह्निश्च एतेषां समानाऽभा प्रभा वर्णो यासान्तास्तथा पुनः किम्भूता अभयेन वरेण च शोभिताः करा यासान्ताः पुनः किम्भूताः प्रसन्नवदनाः ॥ ३० ॥ तृतीयमावरणमाह- रुक्मिण्यति। रुक्मिण्याद्या महिषीरष्टौ. सम्पूजयेद्दलेछु ततः ॥ दक्षिणकरघृतकमला बसुभरि तसुपात्रमुद्रितान्यकराः ॥ ३१ ॥ ततस्तदनन्तरं दलेषु पूर्वादिपत्रेषु रुक्मिण्याद्याः अष्टौ महिषीर्मुख्या महादेवीः सम्पूजयेत् किम्भूताः दाक्षणकरैधृता- नि कमलानि याभिस्ताः तथा पुनः किम्भूताः वसुपूरितपात्रैर्मुद्रि- ताः पूरिता अन्ये वामकरा यासां तास्तथा ॥ ३१ ॥ अष्टौ वर्णयति- रुक्मिण्येति । रुक्मिण्याख्यासत्या सनाग्निजित्याहृया सुनन्दा च ॥ भूयश्च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीलाच॥३२॥ ऋक्षजा जाम्ववती ॥ ३२॥ तासांरूपाणि दर्शयति-

९२
सटीकक्रमदीपिकायाः
तपनीयेति।
तपनीयमरकतामाः सुसित-
विचित्राम्बरा द्विशस्त्वताः॥
पृथुकुचभरालसाड्यो विविध-
मणिप्रकरविलसिताभरणाः ॥ ३३ ॥
एता रुक्मिण्याद्या द्विशः युग्मशः क्रमेण काञ्चनमरकतयो-
रिवा ऽऽभा दीप्तिर्यासां तास्तथा पुनः किंभूताः शोभमानानि
शुक्लानि नानाप्रकाराणि वस्त्राणि यासान्तास्तथा पुनः किंभूता
अचला ये कुचास्तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि
यासान्तास्तथा पुनःकिंभूता नानाप्रकारो मणिप्रकर इन्द्रनीला-
दिसमूहस्तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥ ३३ ॥
चतुर्थावरणमाह-
तत इति ।
ततो यजेद्दलाग्रेषु वसुदेवं च देवकीम् ।।
नन्दगोपं यशोदां च वलभद्रं सुभद्रिकोम् ।।
गोपान् गोपीश्च गोविन्दविलीनमतिलोचनान्॥३४||
ततस्तदनन्तरं दलानेषु पूर्वादिक्रमेण वसुदेवादीन् संपूज-
येत् किदृशा गोविन्दे विलीना संवद्धा मतिर्लोचनं येषान्ते
तथा॥३४॥
एतेषामायुधानिदर्शयति-
ज्ञानेति।
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डरौ ।
दिव्यमाल्याम्बरालेपभूषणे मातरौ पुनः ॥ ३५ ॥
ज्ञानमुद्रा अभयं च करेषु ययोस्तौ पितरौ वसुदेवनन्दगोपौ
कीदृशौ हरिद्राभश्वेतौ मातरौ देवकीयशोदे कीदृश्यो दिव्या-
नि देवाहा॑णि माल्याम्बरभूषणानि ययोस्तादृश्यौ ॥ ३५ ॥

चतुर्थपटलम् । धारयन्त्यौ च वरदं पायसापूर्णपात्रकम् । अरुणाश्यामले हारमणिकुण्डलमण्डिते ॥ ३६ ॥ वरदं वरदानं मुद्राविशेषं पायसापूर्णपात्रं च धारयन्त्यो पुनः किम्भूते अरुणाश्यामले पुनः किदृश्यो हारकुण्डलाभ्यां शोभिते॥३६॥ घलः शङ्खन्दुधवलो मुसलं लागलन्दधत् ॥ हालालोलो नीलवासा हेलावानेककुण्डलः ॥३७॥ चलो वलभद्रः शङ्खन्दुधवलः श्वेतः लागलं मुसलं वि. भ्राणः पुनः कीदृशः हाला माध्वी तस्याः पाने चञ्चलः अमृष्यकारी पुनः कीदृशः नीलवासाः पुनः कीदृशः हेलावान् लीलावान् पुन: कीदृश एककुण्डलधारी ॥ ३७॥ তাহা সা মুলা সদুত্বা। वराभययुता पीतवसना रूढयौवना ॥ ३८ ॥ सुभद्रा कलायश्यामला भद्रा समीचीना भद्रभूषणा शोभमा. नाभरणा पुनः किम्भूता वराभययुता पुनः किम्भूता पीतवसना पुनः किम्भूता प्रौढयौवना ॥ ३८ ॥ विति- वेणुवीणाषेत्रयष्टिशङ्खादिपाणायः॥ गोपा गोप्यश्च विविधमभृतात्तकराम्बुजाः ॥ मन्दारादींश्च तद्वाह्ये पूजयेत्कल्पपादपान् ॥३९॥ वेणुवंशी वीणातन्त्री वेत्रं यष्टिः शङ्खः शृङ्गादि नानावस्तु पाणी करे येषां एवंविशिष्टा गोपाः गोप्यः पुनर्नानाप्रकारं यत्प्राभृतमुप- ढोकनं तेनात्तमायन्तं वशीकृतं कराब्जं यासान्ताः पञ्चमावरणमाह- मन्दारादीनिति । तद्वाह्ये तदनन्तरं मन्दारादीन् अग्रे वक्ष्य- माणान् कल्पवृक्षान् पूजयेत् ॥ ३९ ॥ मन्दारसन्तानकपारिजात । कल्पद्रुमाख्यान् हरिचन्दनं च ॥ eani सटीकक्रमदीपिकाया तत्राह ANIMBINE maraat मध्ये चतुर्दिश्वपिवाञ्छितार्थ- दानकदक्षान् फलननशाखान् ॥ ४० ॥ तानेवाह मन्दारेति कः पूजनीयः मध्ये इति मध्ये कर्णिकायां प्रथमपरित्यागे मानाभावात् प्रथमनि- दिष्टवत् पूजा चतुर्दिक्षु पूर्वादिचतुर्दिक्षु एतादृशान् वाञ्छिता आकासिता ये अर्थास्तेषां दाने एके अद्वितीया दक्षाः तान् तथा फलै नम्राशाखायेषु तान् यहा आकाशितदाने अद्वितीयसमर्थान् तथा फलै नम्रा शाखा येषु तान् ॥ ४०॥ মুন্তাহরণ- हरीति- हरिहन्धवाट्तरणिजक्षपाचरा- ऽप्पतिवायुसोमशिव शेषपद्मजान् ॥ प्रयजेत् स्वादिश्वमलधीः स्वजात्यधी- स्वरहेतिपत्रपरिवारसंयुतान् ॥ ४१ ॥ हरिरिन्द्रः हव्यवाडग्निः तरणिजो यमः क्षपाचरो निशा- चरो नितिः अप्पतिर्वरुणः वायुः सोमः ईशः शेषोऽनन्तः पद्मजो ब्रह्मा एतान्स्वादिक्षु पूर्वादिदिक्षु निर्मलमतिः पूजयेत् अत्र निक्र- तिवरुणयोर्मध्येऽनन्तं सोमेशानयोर्मध्ये ब्रह्माणं स्वदिक्ष्विति- कथनात् अन्यत्र कल्पितपूर्वादिदिक्षु पूजाऽवगम्यते । तदुक्तमागमान्तरे। देवानेस्वस्यवाप्यने प्राची प्रोक्ता च देशिकैः । प्राची प्राव्येव विज्ञेया मुक्तयेदेवतार्चनमिति ॥ कीदृशान् स्वजातिः इन्द्रत्वादिः अधीश्वरोऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च वीजानि उच्चारायतव्यानि प्रयोगस्तु लं इन्द्राय सर्वसुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवमन्यत्राप्यूहनीयः ॥४१॥ इदानींवर्णमाह- चतुर्थपटलम् । कृष्णः ANTARNIMA कपिशोति। कपिशकपिलनीलश्यामलश्वेतधूम्रा- मलसितशुचिरक्ता वर्णतो वासवाद्याः ॥ करकमलविराजत्स्वायुधा दिव्यवेशा- विविधमणिगणोस्रप्रस्फुरद्भूषणायाः ॥ ४२ ॥ कपिशः कनकवर्णः कपिलस्तानवर्णाभः श्यामलः श्वेतः शुक्ल: धूम्रोऽसितभेदः अमललितः श्वेतः शुचिरपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथाक्रम पूर्वोक्त क्रमतः पुनः कीदृशाः हस्तपझे शोभमानानि आयुधानि येषां ते पुनः उत्कृष्टवेशा नानाप्रकारमणिसमूहानां पद्मरागादीनाम् उत्रे. ण किरणेन प्रस्फुरदेदीप्यमानं यद्भूषणं तेनाव्या उपचिताः शो- भमाना इत्यर्थः ॥ ४२ ॥ सतमावरणमाह- दम्भोलीति। दम्भोलिशत्यभिधदण्डकृपाणपाश- चण्डाङ्कुशाहृयगदात्रिशिखारिपद्माः॥ अा वहिनिजसुलक्षितमौलियुक्ताः- स्वीयायुधामयसमुद्यतपाणिपनाः ॥ ४३ ॥ दम्भोलिर्वजं शक्त्यभिधं शक्तिनामकमस्त्रं दण्डः कृपाण: खड्गः चण्डाङ्कुशाह्वयः उप्राङ्कुशाख्यः गदा त्रिशिखं त्रिशू- लम् अरि चक्र पद्मं च एतानि वाह्नवासवादितो वहिः सम्पूज्या- नि दम्भोलिप्रभृतयः कीदृशाः निजसुलक्षितमौलियुक्ताः वज्रा- दिलाञ्छितमुकुटाः पुनः स्वस्वायुधैरौरभयेन च समुद्यतं सुलक्षितं हस्तपद्मं येषां ते तथा ॥ ४३ ॥ धनादीनांबर्णमाह- कनकेति। कनकरजततोयदाभ्रचम्पा- रुणहिमनीलजवाप्रवालभासः।

९६ सटीकक्रमदीपिकायाः क्रमत इति रुचा तु वनपूर्वा- रुचिरविलेपनवस्त्रमाल्यभूषाः ॥ ४४ ॥ वज्रपूर्वाः वनाधाः रुचा वर्णेन क्रमतोऽनुक्रमेणवंरूपा शेयाः पुनः कीदृशाः काञ्चनं रौप्यं तोयदो मेधः अभ्रं मेघः चम्पकपुष्पम अरु णो रक्तः हिमं श्वेतः नीलः श्यामलःजवा औण्ड्रपुष्पं प्रबालो नवपल्लवः एवंभूता दीप्तिर्येषान्ते तथा पुनः कीदृशाः रुचिरं मनो हरं विलेपनं चदनादि वस्त्रं माल्यं भूषणं च येषान्ते तथा ॥४४॥ पूर्वोक्तमुपसंहरति- कथितमिति। कथितमातिसप्तकमच्युता- चनाविधाविति सर्वसुखावहम् । प्रयजतादथवाऽङ्गपुरन्दरा शनिमुखस्त्रितयावरणं त्विदम् ॥ ४५ ॥ इति पूर्वोक्तप्रकारेण विष्णुपूजाविधौ आवरणसप्तकं कथितं कीदृशं सकलसुखार्थदायकम् अशक्तं प्रत्याह प्रयजतादिति पूर्वोक्ताशक्तः त्रितयावरणम् आवरणत्रयसहितं प्रयजेत्कैः अङ्गम् इन्द्रवजं एतन्मुखैरेतत्प्रधानैरित्यर्थः ॥ ४५ ॥ प्रकृतमुपसंहरन्पूजान्तरमाह । इत्यर्चयित्वति । इत्यर्चयित्वा जलगन्धपुष्पैः । कृष्णाष्टकेनाऽप्यथ कृष्णपूजाम् ॥ कुर्यादू बुधस्तानि समाहृयानि । वक्ष्यामि तारादिनमोन्तकानि ॥ ४६ ॥ इति पूर्वोक्तप्रकारेण जलगन्धपुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्णपूजां कुर्यात् तानि समाह्वयानि नामानि प्रणवादिनमोन्तकानि वक्ष्यमाणानि ॐ चतुर्थपटलम् । SHIRecip कृष्णायनम इत्यादीनि ॥ ४६॥ तान्येव दर्शयति- श्रीकृष्णइत्यादि। श्रीकृष्णो वासुदेवश्च नारायणसमायः । देवकीनन्दनो यदुश्रेष्ठो वार्ष्णेय इत्यपि ।। ४७ ॥ असुरान्तकशब्दान्ते भारहारीति सप्तमः। धर्मसंस्थापकश्चाऽष्टौ चतुर्थ्यन्ताः क्रमादिमे ॥४८॥ असुरान्तकशब्दान्ते भारहारीत्यर्थः इमे कृष्णादयः शब्दाः क्रमादकैकशः प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तकाश्च विज्ञेयाः ॥४७॥४८॥ अत्यन्ताशतं प्रत्याह- एभिरिति। एभिरेवाऽथवा पूजा कर्तव्या कंसवरिणः ।। संसारसागरोतीत्थै सर्वकामाप्तये बुधैः ॥ ४९ ॥ अथवा एभिरेव कृष्णादिभिः शब्दैः कंसवैरिणः श्रीकृष्णस्य पूजा बुधैः पण्डितैः कर्तव्या किमर्थ संसार एव सागरः तस्य उतीत्य उत्तरणाय पुनः किमर्थ सकलमनोरथप्राप्त्यर्थम् ॥ ४९ ॥ धूपदानविधि दर्शयति- साराङ्गारे इति । साराङ्गारे घृतविलुलितैर्जर्जरैः संविकीर्णं । गुग्गुल्वायै धनपरिमलै धूपमापाद्य मन्त्री ॥ दद्यान्नीचे दनुजमथनाया ऽपरेणा ऽथ दोषणा। घण्टां गन्धाक्षतकुसुमकैरर्चितां वादयानः ॥५०॥ साराङ्गारे दृढकाष्ठाङ्गारे खादिराङ्गारे इति त्रिपा- ठिनः संविकीर्णैः क्षिप्तैः गुग्गुल्वाद्यैः गुग्गुलुशर्करामधुचन्दनागु- रूशीरैः घृतविलुलितैघृतप्लुतैः जर्जरैः कुट्टनेन चूर्णितैर्धनपरिम- लैर्निविडसौरभशालिभिः धूपमापाद्य कृत्वा मन्त्री उपासकः नीचै- ARNER ९८ सटीकक्रमदीपिकायाः नाभिप्रदेशे दनुजमथनाय गोपालकृष्णाय दद्यात् किङ्कुर्वन् अथा ऽनन्तरम् अपरेण वामेन दोष्णा हस्तेन गजध्वनिमन्त्रमातः स्वाहेति घण्टाम्बादयन् किम्भूतां गन्धाक्षतपुष्पैः पूजिताम् ॥ ५० ॥ दीपदाने विधि दर्शयति- तद्वदिति । तदद्दीपं सुरभिघृतसंसिक्तपुरबा । दीप्तं दृष्टयातिविशद्धीः पद्मपर्यन्तमुच्चैः ।। दत्वा पुष्पाञ्जलिमपि विधायाऽपयित्वा च पायं- साचामं कल्पयतु विपुलस्वर्णपात्रे निवेद्य ॥ ५१ ॥ तद्वदापाद्य दीपं कुर्यात् कया सुराभि सुगन्धि यद्धृतं तेन सिक्ता उक्षिता कर्पूरसहिता वर्तिः तया कीदृशं दृष्टया दीप्तं दाष्टमनोहरमि- ति रुद्रधरः पद्मपर्यन्तं मस्तकपर्यन्तमुच्चैरुपरि दत्वा दृष्टयादीति दाक्षिणावर्तेन पदूमपर्यन्तं चरणकमलपर्यन्तमिति त्रिपाठिनः पाद- पर्यन्तमिति क्वचित्पाठः अनन्तरं पुष्पाञ्जलिमपि शिलि दत्वा- पाद्याचमनीये च दत्वा विपुलस्वर्णपात्रे बृहत्कनकभाजने नैवे. धङ्कल्पयतु सम्पादयतु साचामम् आचमनसहितं प्रथमं वदनत्यादि. भिराचमनन्दत्वा अनन्तरं नैवेद्यन्ददात्वित्यर्थः ॥ ५१ ॥ नैवेद्यस्वरूपं दर्शयति- सुरभीति। सुरभितरेण दुग्धहविषा सुशृतेन सिता. ससमुपदंशकैरुचिरहृद्यविचित्ररसैः ॥ दाधिनवनीतनूतनसितोपलपूपपुलि- घृतगुडनारिकेलकदलीफलपुष्परसैः ॥ ५२ ॥ अतिसुरभिणा दुग्धानेन सुसृतेन सुपक्केन सितासमुपदेशकैः शर्कराव्यञ्जनैः सह शर्करयासहउपदंशकैर्व्यञ्जनैरितित्रिपाठिनः अस्मिन्पक्षे शुचितेन सितासमुपदेशकैरितिपाठः रुचिर इच्छाकरः सुस्वादः विचित्रो मधुरादिरसो येषु तैः नूतनं श्रेष्ठं MAR

चतुर्थपटलम् ।
९९
याण
सितोपलं खण्डादिप्रसिद्धं पुष्परसो मधु एतैर्द्रव्यैनैवेद्यं कल्पयतु॥५२॥
किंविशिष्टं नैवेद्यं कल्पयतु तत्राह-
अस्त्रोक्षितामिति ।
अस्त्रोक्षितं तदरिमुद्रिकयाऽभिरक्ष्य ।
वायव्यतोयपरिशोषितमग्निदोष्णा ॥
संदस्य वामकरसौधरसामिपूर्ण ।
मन्त्रामृतीकृतमथाऽभिमृषन्प्रजयात् ॥ ५३ ॥
मनुमष्टशः सुरभिमुद्रिकया।
परिपूर्णमर्चयतुगन्धमुखैः ।।
हरिमर्चयेदथ कृतप्रसवा-
ञ्जलिरास्यतोऽस्य प्रसरेच्च महः ॥ ५४ ॥
मूलमन्त्रास्त्रमन्त्रेणाऽस्त्रायफडित्यनेन उक्षितं सितं
चक्रमुद्रयाऽभिरक्ष्य
वायव्योति স্বার্ণালমা মাহি-
शोषितदोषम् अग्निदोष्णा संदोति रामितिवाह्निबीजाभिज-
प्रदक्षिणकरेण स्पृष्ट्वा दोषान्
दग्ध्वा वामकरसौधरसाभि-
पूरणमिति वामहस्तेन पिघाय वीजजपेनाऽमृतरसामिपूर्ण
विचिन्त्य मूलमन्त्रेणाऽमृतरूपं विचिन्त्याऽथाऽनन्तरं तदेतादृशं नै.
वेद्यम् अभिमृशन् स्पृष्ट्वा मर्नु मन्त्रम् अष्टशः अष्टवारं प्रजपतु सुर-
भिमुद्रिकया धेनुमुद्रिकया परिपूर्ण नैवेद्यं विचिन्त्य गन्धमुखैः च-
न्दनाद्यैः पूजयतु दानप्रकारं दर्शयति हारमित्यादिना कृतप्रसवा
अलिहरि प्रत्यर्च येत् नैवेद्यग्रहणायाऽऽस्यतस्तो निःसरत्वितिप्रार्थ-
येत् अथानन्तरम् अस्य हरेरास्यतो मुखतस्तेजो निः सरेत् प्रस-
रत्विति चिन्तयेत् नैवेद्य संयोजयेदिति त्रिपाठिनः ॥ ५३ ॥ ५४ ॥
वीतिहोत्रदायितान्तमुच्चरन् ।
मूलमन्त्रमयनिक्षिपेजलम् ।।
अर्पयेत्तदमृतात्मकं हवि-
दोर्युजा सकुसुम समुडरन् ॥ ५५ ॥

सटीकक्रमदीपिकायाः HAMAthatan अथानन्तरं वीतिहोत्रदयितान्तं स्वाहाकारान्तं मूलमन्त्रमुञ्चरन् किञ्चिजलन्तदुपरि क्षिपेत् प्रोक्षयेत् अत्र स्वाहान्तेपि मन्त्रे पुनः स्वाहापदप्रयोगः कार्यः एतद्वलावे अनन्तरन्दोर्युजा हस्तद्वयन स. कुसुमं सपुष्पं समुद्धरन् उत्तोलयन् तदमृतात्मकं हविः समर्पयेत्॥५५॥ नैवेद्यार्पणमन्त्रमाह- निवेदयामीति। निवेदयामि भगवते जुषाणेदं हविहरे। निवेद्यार्पणमन्त्रोऽयं सर्वाचासु निजाख्यया॥५६॥ अयं मन्त्रः सासु देवानां पूजासु निजाख्ययेति हरे इत्यस्मिन् स्थाने यस्मै देवाय दीयते तन्नामग्रहणं कर्तव्यामिति- निजाख्याशब्दार्थः निवेद्याख्ययेति केचित् ॥ ५६ ॥ भोजनोपयोगिमुद्राविशेषं दर्शयति- प्रासेति। ग्रासमुद्रां वामदोषणा विकचोत्पलसन्निभाम् । प्रदर्शयेद्दक्षिणेन प्राणादीनां च दर्शयेत् ।। ५७ ।। वामदोष्णा ग्रासमुद्रां दर्शयेत् किम्भूतां प्रफुल्लोत्पलसदृशीम् । अनन्तरं दक्षिणहस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेदिति ॥१७॥ प्राणादीनां मुद्रां दर्शयति- स्पृशोदिति। स्पृशेत्कनिष्ठोपकनिष्ठिके हे। अङ्गुष्ठमूर्धा प्रथमेह मुद्रा ॥ तथा ऽपरा तर्जनिमध्यमे स्था। दनामिकामध्यामिके च मध्या ॥ ५८ ॥ अनामिकातर्जनिमध्यमाः स्या। त्तबचतुर्थी सकनिष्ठिकास्ताः ॥ auntion ..... 000 . (१५) शिवस्तोत्रावली । उत्पलदेव विरचिता । प्रमेयरस्नार्णवच श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (११) अनुमानचिन्तामणिब्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाश: जैमिनीयद्वादशा गिकृतदीधित्या जागदीशी टीका। १२ ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज (१०) वीरामित्रोदयः । महामहोपाध्यायश्रीमित्र- भदृशङ्करविरचितः। ( मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारका.. (१०) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्व मांसादर्शनम् । महामहोपाध्यायश्रीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायत्री- कनाथमिश्राविरचितम् श्रीशङ्करभट्टकृतो मित्रमिविरचितः आहिकप्रकाशः । मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपा- (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- ठिसंकलितः। श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरनमब्जूषा । श्रीभगवत्पुरुषो- मलकृतः। (वेदान्तः) समाचार्यकृता। २ (१९) कात्यायनश्रोतसूत्रम्। महामहोपाध्याय (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ जमजीमहाराजविरचितः... (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजातसौरभ नाम ब्रह्ममीमांसा- भाष्यं श्रीनिम्बार्कचार्यविरचितम् ।। चितं संपूर्णम् (वेदान्तः) ३ (२१) श्रीहर्षप्रणीत खण्डनखण्डखायम् । आ- (१६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खण्डनफक्तिकावि- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीति (३७) देदान्तदर्शनम् । परमहंसपरिव्राजकाचार्य- प्रसिद्धया समेतम्। (वेदान्तः) १४ श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (२२) आख्यातचन्द्रिका श्रीभट्टमविरचितार कर्षिणीसमाख्यव्याख्यासंवलितम् । (२३) श्रीलक्ष्मीसहस्रम् -बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोशः। विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः । २ (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथ- (१९) श्रीसुबोधिनी ! श्रीवल्लभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर- नाथदीक्षितविरचितटिप्पणीसहिता श्रीम- सिद्धान्तवागीशविरचितानि अनुमानजा- द्भागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- गदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्य- धिनीटिप्पण्योः--प्रकाशः गोस्वामि श्रीश्री क्षानुमानमाथुर्या व्युत्पत्तिवादस्य शक्ति- पुरुषोत्तमजीमहाराज विरचित ३ पादस्य मुक्तिवादस्य शब्दशक्तिप्रकाश- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कायाः कुसुमाञ्जलेश्च क्रोडपत्रागि २ प्रमिअविरचितः पूजाप्रकाशः। ... (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- राचितसिद्धान्तसे तुकाऽभिधटीकासहित तापरनामकः । श्रीब्रह्मचारिवनमालि- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ मिशविरचितः । वेदान्तकारिकावली (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका- श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । सुधातरङ्गिण्याख्य टीकया सहिता । ३ मणिभद्रकृतटीकया साहितः । हरिभद्र- (४२) स्वानुभवादर्शः । श्रीमत्परमहंसपरित्राज- मरिकृतः । १ काचार्यनारायणाश्रमाशेष्यमाधवाश्रमविर (१८) शुद्धावतमार्तण्डःप्रकाशव्याख्यासहितः चितः । स्वकृतटीकाविभूषितश्च । ८ ... 200

w
(४३) याज्ञवल्कस्मृतिः। बालम्भहीसमाख्यम्पा-1 (५८) बिरमित्रोदयः । लक्षणप्रकाशः। महा
ख्यासमलकृतमिताक्षरासहिता । व्य पाध्यायश्रीमित्रमित्रविरचितः।
वहाराध्यायः
११ । (४९) बृहदारण्यकथार्तिकसार श्रीमद्विधारण
(४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव मिविरचितः। महेश्वरतीर्थकृतयार
र्तिकृता । श्रीगङ्गेशोपाध्यायविरचित ग्रहाख्यया टीकयास मलेंकृतः ।
तत्त्वचिन्तामण्या श्रीरघुनाथ तार्किकशिरो-(५०) विरमित्रोदयः । राजनीतिप्रकाशः।
मणिविरचितदीधित्या च गर्भिता।
महोपाध्यायत्रीमित्रमित्रविरचितः ।
(४५) शामदीपिका । श्रीपार्थसारथिमिश्र प्राणि- (५१) पूर्वमीमांसा अधिकरणकौमुदी। श्री
ता। रामकृष्णविरचितयुक्तिनेहप्रपुरण्या हामहोपाध्याय पं० रामकृष्णभट्टा
ख्यव्याख्यया सहिता तर्कपादः ।
বিভিনা যামাঙাখিললি
(४६) वैयाकरणसिद्धान्तलघुमञ्जूषा महामहो-
के टिप्पण्या परिष्कृत
पाध्याय-श्रीनागेशभट्टविरचिता। (५२) प्रसस्तपादभाष्यटीकासंग्रहः । ता
श्रीमदुर्बलाचार्य-बालम्भट्टाभ्यां विर णादरहस्यम् । श्रीशंकरमिश्रविरचित
चितकुञ्जिकाकलाहटीकाद्वयसंवलिता । ८ (५३) क्रमदीपिका । श्रीमन्महामहोपा
(१७) व्याकरणसिद्धान्तसुधानिधीः ।
काश्मीरिककेशवभट्टविरचिता । ।
पर्वतीय विश्वेश्वरसरिविरचितः ।
विनोदश्रीगोविन्दभट्टाचार्यकृतविवणो
पत्रादिप्रेषणस्थानम्
--
हरिदासगुप्ता,
चौखम्बा बनारस सिटी

Kramdeepika

Author
Mahamahopadhyaya Kasmirika
Title
Kramdeepika
File name
Kramdeepika
Text
OCR done
Publisher
Vidya Vilas Press Benares
Language
Sanskrit
Pages
104
Library
Bharti Bhawan Liabrary, Allahabad
Classification
Sanskrit
DLI number
272877
Barcode
5990010894212.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
6uwlR2Ur4MA
Download PDF

Kramdeepika