Canegie Mellon Univeristy
Krod'apatra Sn'graha 2 Fasicules 4
Front matter
No text on this page.
No text on this page.
No text on this page.
December. 1924. THK Love CHOWKHAMBA SANSKRIT SERIES: ACOLLEOTION OF RARE&EXTRAO RDINARY SANSKRIT WORKS NO. 324 क्रोडपत्रसङ्ग्रहः। Registered dccordiniy to Act XXV.-* 1867. (All Banhle Reserved.) 37 ET श्रीकालीशङ्करसिद्वान्तवागीशविरचितानि अनुमानजागहीश्या प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानुमानमाथुर्याः व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- कायाः कुसुमाञ्जलेश्च क्रोडपत्राणि । KRODAPATTRASANGRAHA or Critical Notes On Anumânajàgadisi, Pratyakshânumânagadadhari,Pratyakshánumánamáthuri, Vyutpattiváda, Ŝaktiváda, Muktivàda, Sabdasaktiprakásiká and Kusumánjalî By Kalisankara Siddhànta Vagisa. Edited by Maltamahopadhyaya Nyâyâchârya Vámácharana Bhattacharya, Professor, Govt. Sanskrit College, Benares, and P. Dhundiraj Shastri, N. U., K. T. vol. II FASCICULUS IV“Y. PUBLISII ED È SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES. AGENTS:-OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1925.
No text on this page.
सामान्यनिरुक्तिप्रकरणम् । २५७ बाधत्वादिना तत्सत्त्वात् । यत्किञ्चित्वनिवेशे चाश्रयासिद्धित्वमादा. यैव तत्र लक्षणसमन्वयः । अथ वह्नयभाववान् इदो वह्निमानि- त्यादौ बयभाववद्धदात्मकबाधेऽव्याप्तिस्तत्र निरुक्तविशिष्टान्तरव. इथभावघटितत्वादतस्तद्वारणाय यद्विषयनिश्चयोत्तरानुमितिसामान्ये विरोधिविषयताप्रयुक्तः पक्षे साध्यवैशिष्ट्यावगाहित्वाभावस्तत्व- मेव बाधत्वमित्यादिरीत्या हेत्वाभासविभाजको निर्वाच्यः, एवञ्च घटादिवारणाय विरोधिविषयताप्रयुक्तत्वदलवैयर्थ्यम् घटादेविरोधि- विषयताप्रयुक्तत्वीटतसाजात्यविरहेण स्वपदेनोपादातुमशक्यत्वा. दिति चेन्न तथासति विशेष्यदलसमुदायस्यैव वैयर्थ्यसम्भवे विरो- धिविषयताप्रयुक्तत्वदलमात्रस्यैव वैयर्थ्याभिधानानौचित्यात् । न च सिद्धिविषयवारणाय विशेष्यदललार्थक्यम् साजात्यघटकविरोध- विषयताप्रयुक्तेत्यत्र विषयतायां विरोधित्वस्यानुपादयत्वात् यथास- निवेशे वैयर्थ्याभावादिति वाच्यम् तथासति विशेष्यदले विरोधिवि- षयताप्रयुक्तत्वदलस्यापि सिद्धिविषयवारणायैव सार्थक्यसंभवेत. याभिधानसंगत्यापत्तेरिति। अत्र कोचित् उक्तरीत्या बाधत्वादिनिर्वचने तादृशबाधत्वादेः प्रतिदोषभिन्नत्वात् स्ववृत्तिहेत्वाभासविभाजकरूपस्वान्यत्रासत्त्वेन स्वसजातीयाप्रसिध्यासंभवापत्तिरतः स्वविषयताप्रयुक्तोभयाभावप्र. योजकयत्किञ्चिदभावाधिकरणतायां ज्ञानवैशिष्ट्याप्रयोज्यत्वे सति स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकयधर्मावच्छिन्नविषय. तात्वव्यापकरूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यत्वं तद्धर्माव- च्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्स्वं तद्वत्त्वमिति स्वसजा. तीयविशिष्टान्तराघटितत्वदलनिष्कर्षों वाच्यः । तथाच वन्यभावव- भ्रदत्वावच्छिन्नविषयताप्रयोज्यं यद्वन्ह्यभाववद्ध्दविषयकसमूहालं- बनात्मकसत्प्रतिपक्षहदवृत्तिवन्धभावादिनिश्चयोत्तरानुमितिसामान्य- निष्ठतादृशसाध्यवैशिष्ट्यावगाहित्वाभावाधिकरणत्वं तत्र इदवृत्ति वह्यभावसत्प्रतिपक्षविषयताप्रयोज्यत्वमप्यस्तीति सत्प्रतिपक्षा- दिकमेव ताशविशिष्टान्तरं तदघाटेतत्वं वन्ाभाववज्रदत्वाव. छिन्नेऽस्तीति तत्र लक्षणसमन्धयः । ज्ञानवैशिष्टयाप्रयोज्यत्वनिवे- शनं च अभाववान् बन्ह्यभाववानिति-निश्चयकालीननिश्चयीया. भाववज्रदत्वावच्छिन्नविषयताप्रयुक्तत्वमादाय दोषवारणाय । एक ३३ अनुमानगादाधर्याः क्रोडपत्रेषु । देशविषयतामादायासम्भववारणाय व्यापकत्वपर्यन्तनिवेशः । विशेषगुणवद्धटादिसङ्ग्रहाय यत्किञ्चित्त्वनिवेशः । तथाचैकदेश- वारणाय विशेष्यदलसार्थक्यम् । परन्तु घटादिविषयताप्रयोज्य- ताहशाधिकरणत्वाप्रसिध्या स्वपदेन घटादेर्धर्तुमशक्यत्वात् त. द्वारकविरोधिविषयताप्रयुक्तत्वदलवैयर्थ्यमिति प्रतियोगिनि स्वत्त्वा- न्तर्भावः । धूमव्यभिचारिवन्हिमान् धूमवान् वन्हरित्यादिस्थलो. यवाविषयताप्रयोज्यायां प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयावगाहि- वाभावाधिकरणतायां व्यभिचारविषयतात्वव्यापकरूपावच्छिन्ना- प्रयोज्यत्वान्न ताशविशिष्टान्तरं व्यभिचारत्वावच्छिन्नमिति तत्र नाव्याप्तिः । न चैवं व्यभिचारविशिष्टमेयत्वादावर्तिव्याप्तिरिति वाच्यम् स्वविषयतापदेन स्वविषयतान्तःपातिविषयताविव- क्षणात् तथाच व्यभिचारविशिष्टमयत्वविषयतायाः ताशाधिक. रणत्वाप्रयोजकत्वेऽपि तदन्तः पातिव्यभिचाराविषयतायास्तथा- त्वात् स्वपदेन व्याभिचारविशिष्टमेयत्वादेरपि धर्तुं शक्यत्वेऽपि न व्यभिचारविशिष्टमेयत्वादिकमपि तत्सजातीयविशिष्टान्तरघ. टितमेवेति नातिप्रसङ्गः । एवं चैतत्कल्पे व्यभिचारघटितबाधे. sव्याप्तिदानमप्यग्रे सङ्गच्छते बाधविषयान्तःपातिव्यभिचारविष. यताप्रयोज्यनिरुक्तोभयाभावप्रयोजकाभावाधिकरणतायां व्यभि- चारविषवताप्रयोज्यत्वसत्त्वात् स्वपदेन बाधादेरपि सङ्ग्रहः । स्व- वृत्तियावद्धत्वाभासविभाजक इत्यादेरपि स्वविषयान्तःपातिविष. यताप्रयोज्यं निरुक्तोभयाभावप्रयोजकीभूतं यद्यदभावाधिकरणत्वं तत्तदभावाधिकरणत्व विशिष्टान्तरयधर्मावच्छिन्नविषयताप्रयोज्यं तद्धर्मावच्छिन्नाघटितमित्यर्थों वाच्यः । न च व्यभिचारविशिष्ट मेयत्वादावतिव्याप्तिधारणायान्तःपातिविषयतीमनिवेश्य विशे- प्यदले विरोधिविषयताप्रयुक्तत्वमित्यत्र स्वीयविरोधिविषयताप्रयु- तत्वमित्यर्थो वाच्यः, तथाच न व्यभिचारघटितबाधादावव्या. तिरिति वाच्यम् धूमवान् अवृत्तिवन्हेरित्यादिस्थलीयसाधना. प्रसिद्धिघटितव्यभिचारात्मकधूमाभावववृत्तिवह्रौ तावताप्यन्या- प्तिरित्याहुः। तश्चिन्त्यम् । उक्तरीत्या घटादावतिव्याप्तिवारकतया विरोधिवि. षयताप्रयुक्तत्वदलसार्थक्यासम्भवेऽपि आहार्यस्थले एकदेशे.
सामान्यनिरुक्तिप्रकरणम् । २५९ ऽतिव्याप्तिवारकत्वेनैव सार्थक्यसम्भवेन तद्वैयर्थ्याभिधानासङ्गति- तादवस्थ्यादिति ॥ २३ ॥ यद्विषयकनिश्चयोत्तरानुमितौ प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयाव- गाहित्वस्य प्रकृतपक्षे प्रकृतसाध्यव्याप्यहेतुवैशिष्टयावगाहित्वस्य च द्वयोर्व्यतिरेकस्तत्त्वमित्युभयाभावघटितहत्वाभाससामान्यलक्षणं दीधितिकृता कृतम् । तत्र मेयत्वविशिष्टव्यभिचारवारणाय निवे. शितस्य विशिष्टान्तराघटितत्वविशेषणस्य विशिष्टान्तरविषयि. त्वाप्रयोज्यस्वविषयताप्रयोज्यतादृशामयाभावप्रयोजकाभावाधिकर- णताकत्वमित्यर्थो भट्टाचार्येण कृतः। अत्र धूमाभाववधूमव्यभिचारिवह्निमदात्मकबाधविषयताप्रयो. ज्यायां तादृशसाध्यवैशिष्टयावगाहित्वाभावाधिकरणतायां ताह. शबाधविषयान्तःपातिव्यभिचारविषयताप्रयोज्यत्वसत्वात्ताशबाधा दावव्याप्तिरतो विशिष्टान्तरविषयित्वाप्रयोज्यत्वपदेन यत्कि- चिद्विशिष्टान्तरविषयतात्वव्यापकरूपाचच्छिन्नाप्रयोजत्वं विवक्षित- म् । न च सर्वत्रैव एकदेशीयविषयतामादायासम्भवसम्भवे व्यभि- चारघटितबाधादावव्याप्तिदानं संदर्भविरुद्धमिति वाच्यम् प्रकृतल. क्षणाश्रयीभूतावशिष्टान्तरविषयित्वाप्रयोज्यत्वविवक्षयापि एकदेश- विषयतामादाय दोषवारणसम्भवेनाव्याप्तिदानस्यैवोचितत्वादिति । अथ व्यभिचारादिविषयतानिष्ठस्य प्रयोजकतावच्छेदकीभूतस्य निर. वच्छिन्नवह्नित्वादिनिष्ठावच्छेदकतानिरूपकतादृशविषयतात्वस्य जा. तिमान् धूमव्यभिचारीत्यादिज्ञानीयविषयितासाधारणव्याभिचारादि- रूपविशिष्टान्तविषयितात्वाव्यापकतया मेयत्वविशिष्टव्यभिचारा. दावति(१)व्याप्तिरतस्तद्वारणाय यत्किञ्चिद्विशिष्टान्तरविषयितात्वा- व्यापकीभूतविषयिताशून्यज्ञानायविशिष्टान्तरविषयितास्वव्यापकत्व. मेव वाच्यम् एवं च तादृशविशिष्टान्तरविषयित्वाव्यापकीभूतविष. यिताशुन्यज्ञानीयविषयित्वाप्रयोज्यत्वनिवेशेनैव बाधविषयतान्तःपा. तिव्याभिचारादिविषयतामादाय व्यभिचारादावव्याप्तिवारणसम्भवे [१] ननु तादृशावषयतात्वव्यापकरूपावच्छिन्नप्रयोजकत्वाप्रसि- ध्याऽसम्भवसम्भवेऽतिव्याप्तिदानमसंगतमिति चेन व्यापकरूपाव- च्छिन्नप्रयोजकतानिरूपितप्रयोज्यतासम्बन्धेन ताशरूपाभावस्य विवक्षितत्वादिति ।।
अनुमानगादाधर्याः क्रोडपञ्चेषु विशिष्टान्तरविषयितात्वव्यापकत्वनिवेशो व्यर्थ इति । न च जाति- मान् धूमव्यभिचारीत्यादिज्ञानवारणाय तादृशोभयाभावप्रयोजकय. त्किञ्चिद्विशिष्टान्तराविषयितात्वाव्यापकत्वमेव निवेशनीयमिति वाच्या म् तथासति जात्यवच्छेदेन धूमव्याप्त्यवगाहिधूमव्याप्यजातिमद्वान् धूमवान् वहरित्यत्र मेयत्वविशिष्टधूमाभाववढातवह्नयात्मकव्याभिचा- रेऽतिव्याप्तः-तत्र वह्नित्वनिष्ठनिरवच्छिन्नावच्छेदकताधाटततादृश. विषयितात्वस्य उभयाभावप्रयोजकजातिमान् धुमव्यभिचारीतक्षा- नीयविषयतासाधारणविशिष्टान्तरविषयितात्वाव्यापकत्वादिति चे. न अव्यापकीभूतविषयिताशून्यत्वनिवेशे व्यभिचारधाटतबाधादाव. व्याप्तिवारणसम्भवेऽपि मेयत्वविशिष्टव्याभिचारविषयकज्ञानस्य व्य. भिचारात्मकविशिष्टान्तरविषयत्वाव्यापकवियिताशून्यत्वविरहण केवलव्यभिचारविषयकज्ञानस्यैव तादृशतया तज्ज्ञानीयविषयत्वा- प्रयोज्यत्वस्य केवलव्यभिचारविषयकज्ञानाकालीनमेयत्वावशिष्टः व्यभिचारविषयकज्ञानोत्तरज्ञानवृत्तिव्याप्त्यवगाहित्वाभावाधिकरण. तायाः सत्वात् मेयत्वविशिष्टव्यभिचारवारणायैव विशिष्टान्तर- विषयताव्यापकरूपावच्छिन्नत्वपर्यन्तस्य सार्थकत्वात् । एतेन स्वावच्छिन्नाविषयकशानीयविषयत्वाप्रयोज्यत्वनिवेशेनैवोपपत्तौ वि- शिष्टान्तरविषयतात्वव्यापकरूपविच्छन्नाप्रयोज्यत्वनिवेशो व्यर्थ इत्यपि प्रत्युक्तम् । उक्तरीत्या मेयत्वविशिष्टव्यभिचारादावति- प्रसङ्गात् । वस्तुतः धूमव्यभिचारिवह्नित्वेन अभावाद्यवमाहिधूमव्यभिचा. रिवन्हिमान धूमाभाववानित्यादिबाधभ्रमस्यापि विशिष्टान्तरवि. षयित्वाव्यापकीभूतविषयताशून्यतया तद्विषयत्वाप्रयोज्यत्व साध्यावगाहित्वाभावाधिकरणतायामसत्त्वेनाव्याप्तिरतो व्यापकत्वनिवेशः । एतेन विशिष्टान्तराविषयित्वाव्यापकीभू- तविषयताशून्यज्ञानीयविषयतावृत्तिरूपावच्छिन्नाप्रयोज्यत्वनिवेशन- मपि हेयम् । न च स्वविषयताप्रयोज्यत्वनिवेशनं व्यर्थमिति वाच्यम् स्वपूर्ववर्तिज्ञानीयप्रतिबन्धकतावच्छेदकविषयताया एव स्वनिष्टप्रतिबध्यतावच्छेदकाभावाधिकरणताप्रयोजकत्वात ग्यभावमात्रप्रयुक्ततादृशोभयाधावप्रयोजकसाध्याचगाहित्वाभावाद्य- धिकरणतायां विशिष्टान्तरविषयत्वाप्रयोज्यत्वसत्त्वेन मेयत्व- साम- सामान्यनिक्तिप्रकरणम् । या विशिष्टव्यभिचारादावतिव्याप्तिवारकतयैव तत्सार्थक्यात् । न च तथापि विषयताप्रयोज्यत्वमेव निवेश्यतां किं विषयतायां स्वीय- त्वनिवेशनेनेति वाच्यम् तावतापि पर्वतो धूमाभाववानित्याकार- कभ्रमात्मकबाधज्ञानीयप्रतिबन्धकतावच्छेदकीभूतविषयताप्रयोज्या- यां निरुक्तोभयाभावप्रयोजकसाध्यावगाहित्वाभावाधिकरणतायां विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्नाप्रयोज्यत्वसत्त्वेन मेय. त्वविशिष्टव्यभिचारादावतिव्याप्त्यापत्तेः धूमाभाववत्पर्वताप्रसि- ध्या विशिष्टान्तरपदेन बाधस्य धर्तुमशक्यत्वात् । न च तथापि स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकावच्छिन्नयत्किञ्चिद्वि. शिष्ठनिरूपितविषयतात्वव्यापकरूपावच्छिन्नाप्रयोज्यत्वनिवेशापेक्ष- स्वावच्छिन्नविषयताशून्यप्रतीतिविषयतावृत्तिरूपावच्छिन्ना. प्रयोज्यत्वनिवेशेनैव व्यभिचारघटितबाधादिसङ्ग्रहसम्भवे व्याप. कत्वपर्यन्तनिवेशनप्रयोजनाभाव इति वाच्यम् तथासत्यसम्भवाप. तेः-व्यभिचारत्वाद्यवच्छिन्नविषयताशून्यभ्रमात्मकव्यभिचारादिप्र- तीतिविषयतावृत्तिरूपावच्छिन्नप्रयोज्यत्वस्य तादृशाधिकरणतायां सत्त्वात् । एतेन स्वावच्छिञ्चाविषयकप्रतीतिविषयिखावृत्तिरूपान- वच्छिन्नप्रयोजकताकत्वनिवैशेनेव सामञ्जस्ये व्यापकत्वनिवेशो व्यर्थ इति परास्तम् । न च तथापि यत्किञ्चिद्विशिष्टान्तरविषयतात्वव्या- पकरूपानवच्छिन्नाप्रयोज्यत्वमनिवेश्य यत्किञ्चिद्विशिष्टान्तरविषय. तावृत्तिरूपानवच्छिन्नप्रयोजकताकत्वमेव निवेश्यतां व्यापकत्वानि- वेशेन लाघवात् व्यभिचारादिघटितबाधादिविषयतानिष्ठप्रयोज. कतायाः शुद्धव्यभिचारादिवृत्तिरूपानवच्छिन्नतया तादृशबाधाद्य. व्याप्तिवारणसम्भवादिति वाच्यम् । धूमव्यभिचारी वन्हिधूमवान् वन्हेरित्यादिस्थलीयबाधाव्याप्तिप्रसङ्गात् तादृशबाधविषयतानिष्ठ- प्रयोजकतायाः व्यभिचारात्मकविशिष्टविषयतावृत्तितादृशबाधवि. षयतात्वेनावच्छिन्नत्वात् । किञ्च सर्वत्रैव बाधादिविषयतानिष्ठप्र. योजकतायाः शुद्धहदादिरूपविशिष्टान्तरविषयतावृत्तिरूपावच्छेद्य. तया असम्भवापत्तेश्च । इदं त्ववधेयम् । विशिष्टान्तरविषयतात्वव्यापकरूपानवच्छि- श्रस्वविषयतानिष्ठप्रयोजकताकत्वमेव निवेशयितुमुचितम् । विशि- टान्तरविषयतात्वव्यापकरूपानवच्छिन्नत्वस्य व्यभिचारघटितवा- अनुमानगादाधर्याः क्रोडपत्रषु धविषयतानिष्ठोभयाभावप्रयोजकतायामेव सत्त्वेन उभयाभावा- धिकरणतायां विशिष्टान्तरविषयतात्वव्यापकरूपानवच्छिन्नस्व- विषयतानिष्ठप्रयोजकताकत्वनिवेशेनैव सामञ्जस्यादुभयाभावप्रयो. जकाभावाधिकरणतापर्यन्तानिवेशकृतलाघवाञ्चति ध्येयम्(१) । न च विशेष्यदलप्रविष्टविरोधिविषयताप्रयुक्तोभयाभावाधिकरण- ताया विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्नाप्रयोज्यत्वनिवेशे- नैव सामञ्जस्य पृथविशिष्टान्तराघटितत्वानिवेशो व्यर्थ इति वा. च्यम् । तथासति सर्वत्रैवासंभवापत्तः हृदो वन्ह्यभाववान् वन्हमा वव्याप्यवांश्चत्यादि-समूहालंबनबाधादिविषयकनिश्चयोत्तरानुमितौ विशिष्टान्तरविषयत्वाप्रयोज्यविरोधिविषयताप्रयुक्तोभयाभाववस्वा. (१) अत्र केचित् । सर्व गगनद्वाच्यत्वादित्यादौ सर्वत्वावच्छि- नपगनवत्ताबुद्धिम्प्रति गगनाभावत्वावाच्छन्नप्रकारताककिश्चिदव. च्छिन्नविषयताशालिज्ञानत्वेन गगनाभाववत्सर्व गगनाभाववान् घट इति ज्ञानसाधारणैकरूपेण प्रतिबन्धकतायाः सव्यभिचारे शिरोमणि- नोक्तत्वात [अतो] गगनाभाववत्सर्वरूपबाधादावव्याप्तिः गगनाभाव- वत्सर्वत्वावच्छिन्नविषयतानिष्ठप्रयोजकतायां गगनाभाववद्धटरूपवि- शिष्टान्तरविषयतात्वव्यापकं यत् गगनाभावत्वावच्छिन्नप्रकारतानि. रूपितकिञ्चिदवच्छिन्नविषयतात्वं तदवच्छिन्नत्वात् । नच भवन्मते तादृशबाधादावव्याप्तिर्दुरैव विशिष्टान्तरविषयतात्वव्यापकरूपाव. च्छिन्नप्रयोजकत्वस्य सत्त्वादिति वाच्यम् मन्मते विशिष्टान्तरविष- यतात्वव्यापकरूपावच्छिन्नविशिष्टान्तरविषयतानिष्ठप्रयोजकतानिक- पितप्रयोज्यत्वाभावस्य वक्तव्यत्वात् । नच तथापि उक्तरूपावच्छिन्न- विशिष्टान्तरविषयतानिष्ठप्रयोजकताभिन्नत्वस्य स्वविषयतानिष्ठप्र. योजकतायां निवेशानोक्तदोष इति वाच्यम् प्रयोजकत्वस्यैक्यमते उ- तबाधेऽव्याप्तेर्वारयितुमशक्यत्वात् । स्वविषयतानिष्ठप्रयोजकता. यां विशिष्टान्तरविषयतावृत्तिप्रयोजकत्वाभिन्नत्वात् । स्वमंत तु स्वावच्छिन्नविषयताप्रयोज्यस्वावच्छिन्नाविषयकप्रतीतिविषयताव. च्छेदकधर्मविशिष्ठान्यउभयाभावप्रयोजकाभावाधिकरणताकत्वनिवे- शानोक्तदोषावकाशः। वौशष्ट्यं च स्वावाच्छन्नविषयतात्वव्यापक- रूपावच्छिन्नप्रयोजकतानिकापतप्रयोज्यत्वस्वावच्छिन्नविषयताशालि. निश्चयाव्यवाहितोत्तरशानवृत्तित्वोभयसम्बधेनेति प्राहुः ।
सामान्यनिरुक्तिप्रकरणम् । सत्त्वात् उक्तसमूहालम्बनविषयकनिश्चयोत्तरानुमितिनिष्ठतादृशोभ- थाभावाधिकरणतायां विनिगमकासद्भावात्सत्प्रतिपक्षविषयताया अपि प्रयोजकत्वात् । एतेन यद्विषयकनिश्चयोत्तरानुमितित्वव्या- पकविशिष्टान्तरविषयत्वाप्रयोज्यविरोधिविषयताप्रयोज्योभयाभावा- धिकरणताकत्वमित्यस्यैव सम्यक्त्वे स्वतन्त्रविशिष्टान्तराघटित. त्वप्रवेशो व्यर्थ.इत्यपि प्रत्युक्तम् । उक्तरीत्याऽसम्भवापत्तेः । अत्र य. त्किञ्चिदधिकरणतानिवेशे नासम्भव इति ध्योयम् । न च धूमव्यभि. चारिवह्निमान् धूमवान्यरित्यादौ बाधघटकीभूतधूमव्यभिचारिव. ह्निमत्यातव्याप्तिः बाधविषयतान्तःपातितदीयविषयताप्रयोज्यायां ता- शोभयाभावप्रयोजकसाध्यवैशिष्ट्यावगाहित्वाभायाधिकरणतायां विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्नाप्रवोज्यत्वादिति वाच्यम्। स्वविषयताप्रयोज्यपदेनापि स्वविषयतात्वव्यापकरूपावच्छिन्नप्रयोज्य. त्वस्य विवक्षणीयत्वात् । अथोक्तरत्यिा विशिष्टान्तराघटितत्वनिवे- शे तेनैवैकदेशवारणसम्भव विशेष्यदलमनर्थकम् । एकदेशीयविषय. तात्वव्यापकरूपावच्छिन्नप्रयोज्यत्वाप्रसिद्ध्यैव स्वपदेन एकदेशस्य धर्तुमशक्यत्वेन विशिष्टान्तराघटितत्वासत्वादेव एकदेशे तिव्याप्त्यसम्भधादिति । न चाननुगमसम्मवन विशिष्टान्त- रविषयताप्रयोज्यस्वविषयताप्रयोज्यताहशोभयाभावाधिकरणताकं यद्यत्तदन्यरूपविशिष्टान्तराघाटितत्वानवेशान्न विशेष्यदलवैयर्य: मिति तथासति बाधादेरसम्भवापत्तेः--बाधा- देरपि, स्वविषयताप्रयोज्यविशिष्टान्तरविषयताप्रयोज्यबाधसत्प्रति- पक्षोभयविषयकसमूहालम्बननिश्चयोत्तरज्ञाननिष्ठतादृशोभयाभावप्र- योजकलाध्यावगाहित्वाभावाधिकरणताकत्वादिति चेन्न विशिष्टा- न्तरविषयताप्रयोज्यस्वविषयताप्रयोज्यतादृशोभयाभावप्रयोजकाभा- वाधिकरणतासामान्यं यद्यत्तदन्यत्वस्य विशिष्टान्तराघटितत्वपदेन विवक्षयैवासम्भवासम्भवेन विशेष्यदलसार्थक्यात् । न चैवं व्यभि. चारविशिष्टमेयत्वादावतिव्याप्तिरिति वाच्यम् विरोधिविषयतायां स्वीयत्वनिवेशेनैव तत्रातिव्याप्तिवारणसम्भवादिति ध्ययम् । परे तु विशेष्यदलानुक्तौ पाषाणमयत्ववत्पर्वतेप्रतिव्याप्तिः पाषा- णमयो न वह्निमानिति-ज्ञानकालीनपर्वतः पाषाणमय इति ज्ञानस्या- प्यनुमितिप्रतिबन्धकतया पाषाणमयत्ववत्पर्वतविषयताया अपि पा. वाच्यम् २६४ अनुमानगादाधर्याः क्रोडपत्रेषु षाणमयत्वविशिष्टपर्वतविषयतात्वव्यापकरूपावच्छिन्नतादृशामावा. धिकरणताप्रयोजकत्वात् । न च पाषाणमयत्वविशिष्टपर्वतविषयता- प्रयोज्यताहशाधिकरणताया वह्नयभाववत्पाषाणमयत्वविशिष्टात्म- कविशिष्टान्तरप्रयोज्यत्वानोकातिव्याप्तिरिति वाच्यम् । पाषाणमय. त्वावच्छेदेन वह्नयभावघटितवह्नयभाववत्पाषाणमयत्वविशिष्टस्या- प्रसिद्धत्वात् । न च विशेष्यदलोक्तावपि निर्वह्निः पर्वतो वह्निमानि- त्यादौ पाषाणमयत्ववपर्वतेतिव्याप्तिः तत्र विशेष्यदलस्यापि सत्त्वा- त्, यदि च तत्र विरोधिविषयत्वाभावान्नातिव्याप्तिरित्युच्यते तदा- पि निर्वह्निः पर्वतो वह्निमान् नीलपर्वतादित्यत्र नीलत्वाभाववान् वाह्नमान् नीलत्वाभाववान् पर्वत इति ज्ञानीयाविषयतामादाय नील- त्वाभाववत्पर्वतेऽतिव्याप्तिः साध्यवत्पक्षविषयताबहिर्भूतविषयता. रूपद्वितीयकल्पोक्तेविरोधिविषयतायाः पाषाणमयत्ववत्पर्वतादावपि सत्वात् तत्रातिव्याप्तिश्चेति वाच्यम् । पाषाणमयो न वह्निमानिति शानाकालीनपाषाणमयत्ववत्पर्वतज्ञानोत्तरशानवृत्तिताहशाधिकरण- वायां विरोधिविषयताप्रयुक्तत्वानभ्युपगमेन पाषाणमयत्ववत्पर्वत. विषयकनिश्चयोत्तरानुमितिसामान्ये विरोधिविषयताप्रयुक्तोभयामा. वासत्त्वेन विशेष्यदलाभावादेवोक्तातिव्याप्त्यसम्भवादिति प्राहुः । वस्तुतस्तु स्वातन्त्र्येण तादृशविशिष्टान्तराघटितत्वनिवेशापेक्षा यालाघवेन दीधितिकारोक्तविशेष्यदलप्रविष्टउभयाभावाधिकरणता. यामेव विशिष्टान्तरविषयतात्वव्यापकरूपानवच्छिन्नविरोधिविषय- तानिष्ठप्रयोजकताकत्वनिवेशान्न विशेष्यदलव्यावृत्त्यसङ्गतिः। अत एव पूर्वमुक्तं भट्टाचार्येण स्वातन्त्र्येण ताहशविशेषणं यत्पदार्थे अनि वेश्य निश्चय एव तादृशविशिष्टान्तराविषयकत्वं निवेश्यमिति स्वर साक्त्र निष्कृष्टकल्पे उभयाभावाधिकरणताप्रयोजकतायां ताशवि- शेषणमिति ध्येयम् । यत्तु गगनमभावाप्रतियोगि गगनादित्यत्राभावाप्रतियोगित्व. व्यायकीभूताभावप्रतियोगिपगगनरूपासाधारणे बाधघटितेऽव्याप्ति- स्तज्ज्ञानोत्तरज्ञाननिष्ठतादृशसाध्यावगाहित्वाभावाधिकरणतायांबा. धरूपविशिष्टान्तरविषयित्वप्रयोज्यत्वात् । तत्तुच्छम् । साध्यवत्ताबुद्धौ अभावप्रतियोगिगननिश्चयत्वेन प्रतिबन्धकतयैवोपपत्तौ तत्र ज्ञानविशिष्टज्ञानत्वेन बाधवानस्य प्र.
सामान्यनिरुक्तिप्रकरणम् । २६४ तिबन्धकत्वान्तराभावेन तस्यालक्ष्यत्वात् स्वातन्त्र्येण प्रतिबन्धक त्वाभावेन दोषत्वायुक्तत्वात् व्यभिचारादिघटितबाधादेश्च स्वा. तन्त्र्येण दूषकत्वात् तत्सङ्ग्रहप्रकारस्यावश्यकत्वात् ॥ २५ ॥ व्यभिचारादिघटितबाधादिविषयताप्रयोज्याया दीधितिकारो. तोभयाभावाधिकरणताया व्याप्त्यादिविरहप्रयोज्यत्वेन यत्कि- श्चिद्विशिष्टान्तरविपयितात्वव्यापकरूपावच्छिन्नबाधादिविषयताप्रयो. ज्यत्वनियमात् तत्सङ्ग्रहाय तादृशोभयाभावप्रयोजकाभावपर्य- न्तनिवेश इति भट्टाचार्येणोक्तम् । न च विशिष्टान्तरविषयत्वा- प्रयोज्यस्वविषयताप्रयोज्यताहशोभयाभावप्रयोजकाधिकरणताकत्व. मित्युक्तावेर व्यभिचारघंटिनयाधे साध्यवैशिष्ट्यावगाहित्वाभावा. धिकरणताव्यक्तिमादाय लक्षणसमन्वयसंभवे उभयाभावप्रयोजका. भाषाधिकरणतायामभावीयत्वनिवशो व्यर्थ इति वाच्यम् । जन्यता. वच्छेदकविषयताया जनकतावच्छेदकाविषयताप्रयोज्यत्वेनमेयत्ववि- शिष्टव्याभिचारविषयकसंस्कारोत्तरवृत्तितजन्यस्मृतौ या मेयत्ववि. शिष्टव्यभिचारत्वावच्छिन्नावेषयता तदाधिकरणतामादाय मेयत्ववि. शिष्टव्याभिचारादातिव्याप्तिवारकतायां तत्सार्थक्यातू, स्मृतिनिष्ठ. तादृशाधिकरणतयां तादृशस्मृत्युत्तरानाहार्यज्ञाननिष्ठतादृशोभयामा- वप्रयोजकत्वस्य संस्कारीयमेयत्वावशिष्टव्यभिचारविषयत्वप्रयोज्य- त्वस्य च सत्त्वात् । न च स्मृतिनिष्ठतादृशाधिकरणतायां व्याभिचारा. त्मकविशिष्टान्तरविषयत्वप्रयोज्यत्वात् नोक्तातिव्याप्तिरित वाच्यम् । जनकतावच्छेदकतावच्छेदकरूपेण जन्यतावच्छेदकविषयताप्रयोज. कत्वेन शुद्धव्यभिचारविषयतात्वेन तत्राप्रयोजकत्वादिति ध्येयम् । यत्तु तादृशाधिकरणतायामभावीयत्वानिवेशे मेयत्वविशिष्टव्य- भिचारव्याप्यवत्यातव्याप्तिस्तादृशव्याप्यत्वावच्छिन्नविषयताप्रयोज्य. मेयत्वविशिष्टव्यभिचारविषयकानुमितिनिष्ठविषयताधिकरणतायामु- भयाभावप्रयोजकत्वस्य विशिष्टान्तरविषयत्वाप्रयोज्यत्वस्य च स- स्वादिति। तत्तुच्छम् । अभावीयत्वनिवेशेऽपि व्याप्तयवगाहित्वाभावाधिक रणतामादाय विशिष्टान्तराघटितत्वस्य तत्र सत्त्वेनोक्तातिव्याप्तेर्दुर्वा- रत्वादिति। अथ पर्वतो धूमवान्यहोरत्यत्र धूमाभाववधूमव्याभिचारिवह्निमदा.
अनुमानगादाधर्याः क्रोडपत्रेषु दावतिव्याप्तिः धूमव्यभिचारिवह्निमान् धूमाभाववान् धूमव्यभिचारि. वहिमांश्च पर्वत इत्यादिक्षानीयधूमाभाववधूमव्यभिचारिवह्निमत्त्वा- वच्छिन्नविषयतायाः साध्यासाहित्वाभावाधिकरणताप्रयोजकत्वन स्वविषयताप्रयोज्यताशसाध्यावगाहित्वाभावाधिकरणतायां वि. शिष्टान्तराविषयतात्वव्यापकरूपावच्छिन्नाप्रयोज्यत्वसत्त्वेन विशिष्टा- न्तराघटितत्वस्य स्वस्वव्याभिचारघाटततया विशेष्यदलस्य च स. स्वात् । न च स्वविषयताप्रयोज्यतादृशाधिकरणतायां धूमव्यभिचा. रिवह्निमत्पर्वत रूपविशिष्टान्तरविषयताप्रयोज्यत्वात्कथं तत्राव्याप्ति- रिति वाच्यम् धूमव्यभिचारिवाह्निमत्पर्वतरूपविशिष्टस्याप्रसिध्या वि- शिष्टान्तरपदेन तस्योपादातुमशक्यत्वात् । मैवम्, विशेष्यदलघटकविरोधिविषयतानिष्ठप्रयोजकत्वस्थ विशि. ष्टान्तराघटितत्वदलघटकस्वविषयतानिष्ठप्रयोजकत्वस्य च द्वयोरेक- रूपावच्छिन्नत्वविवक्षयायद्विषयकनिश्चयोत्तरानुमितिसामान्ये विरो- धिविषयतानिष्ठयद्रूपावच्छिन्नप्रयोजकतानिकापितप्रयोज्यतावदुभया- भाववत्वं स्वविषयतानिष्ठतयद्रूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्य- ताद्विशिष्टान्तरविषयित्वाप्रयोज्योभयाभावप्रयोजकाभावधिकरण. ताकत्वीमत्यर्थस्य पर्यवीसतत्वेन प्रागुक्तातिव्याप्तिवारणानवकाशा. दिति एवं च धूमव्यभिचारिचीह्नमान्धूमवान्वरित्यत्र धूमव्यभिचारि- वह्निमति प्रागुक्तातिव्याप्तिवारणाय विशिष्टान्तराघटितत्वशरीरे स्थ- विषयतात्वव्यापकरूपावच्छिन्नप्रयोज्यत्वमपिनिवेशनीयं प्रयोजकताव- योरैक्यविवक्षयैव तत्रातिव्यानिवारणसम्भवादिति ध्येयम्।प्रयोजक- तायां स्वविषयतानिष्ठत्वं प्रयोजकताया ऐक्यलाभायैवेति ध्ययम्। एवं प्रतिबन्धकताधारीतलक्षणेऽपि विषयतानिष्ठयद्रूपावच्छिन्ना- वच्छेदकताकप्रतिबन्धकताकत्वं विशेष्यदलघटकं स्वाविषयतानिष्ठ- तद्रूपावच्छिन्नप्रयोजकत्वमेव विशिष्टान्तराघटितत्वशरीरेऽपि निवे. शनीयम् नातस्तल्लक्षणे उक्तदोषसम्भवः ॥२६॥ विधिविषयतापदेन ताहशोमयाभावप्रतियोगितावच्छेदकको- टौ यद्रूपावच्छिन्नांशे यशवच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टं तद्रूपा- वच्छिन्नांशे तद्रूपावाच्छन्नाभावतद्याप्यान्यतराविषार्यत्वं सिद्धिवि- षयेऽतिव्याप्तिवारणाय विवक्षितं भट्टाचार्येण । न च उभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नवै- सामान्यनिरुक्तिप्रकरणम् । शिष्ट्यावगाहित्वं निविष्टं तद्रूपावच्छिन्नाभावतधान्यान्यतरविषयता. विवक्षणेनैव सामञ्जस्ये तद्रूपावाच्छन्नांश इत्यस्य वैयमिति वाच्यम् व यभाववज्रदकालीनपर्वतो वह्निमानित्यादौसिद्धिविषयेऽतिव्या- प्तिवारणाय तदुपादानादिति तु विभावनीयम् । अथ विरोधिविषयताशरीरे तद्रूपावच्छिन्नाभावत्वेन तद्रूपाव. च्छिन्नाभावविषयत्वं वस्तुगत्या तद्रूपावच्छिन्नाभावविषयत्वं वा निवेशनीयम् । आद्ये पर्वतो वह्नयभाववानित्यत्र वह्विमत्पर्वतरूपवा- धेऽव्याप्तिः। द्वितीये पर्वतो वह्निमान् द्रव्याभावादित्यादी वह्निमत्प. र्वतात्मकसिद्धिविषयेऽतिव्याप्तिः वस्तुगत्या वढेरपि द्रव्याभावाभाव- न्वादिति । न च यद्पावच्छिन्नांशे यदवगाहिता तत्स्वरूपाभावप्रति. योगितावच्छेदकरूपेण तदभावविषयत्वं विवक्षणीयम् तथा वह्नित्वस्य पर्वतो वल्यभाववानित्यत्र तत्स्वरूपाभावप्रतियोगिताव- च्छेदकत्वात्, पर्वतो वह्निमान् द्रव्याभावादित्यत्र च ताशप्रतियो- गितानवच्छेदकत्यान्न प्रागुक्ताव्याप्त्यतिव्याप्न्यवकाश इति वाच्यम्। एवमपि हृदो वह्नयभाववान् द्रव्यात् गुणो द्रव्याभाववान वहारत्या- दौ साध्यवत्पक्षेतिव्याप्तिद्रव्यस्वरूपाभावप्रतियोगितावच्छेदकत्व. स्य वह्नयभावत्वे वह्रिस्वरूपाभावप्रतियोगितावच्छेदकत्वस्य च द्रव्य- त्वाभावत्वे सत्वात् । न च यद्रूपावच्छिन्नांशे यद्पावच्छिन्नावगाहि. ता निविष्टा तद्रूपसमनियतानुयोगितानिरूपितप्रतियोगितावच्छेद. करूपेण तद्रूपावच्छिन्नाभावविषयतानिवेशान्न प्रागुक्तदोषः वह्नयभा- वत्वादी द्रव्यत्वादिसमनियतानुयोगितानिरूपितप्रतियोगितावच्छे. दकत्वाभावादिति वाच्यम् । एवमपि यत्र समवायावच्छिन्नप्रतियो- गिताकवह्नयभावस्य साध्यत्वं संयोगेन वर्हेतुत्वं तत्र ध्यवत्पक्षेऽतिव्याप्त्यापत्तेर्वह्नित्वसमनियतानुयोगितानिरूपितप्रति योगितावच्छेदकत्वस्य समवायसम्बन्धावच्छिन्नवह्नयभावत्वादेरपि सत्त्वात् च यदंशे यद्रूपघटितयद्रूपावच्छिन्नसंसर्ग: ताकयद्रूपावच्छिन्नावगाहित्वं निविष्टं तद्रूपावच्छिन्नसंसर्ग ताकयद्रूपावच्छिन्न प्रतियोगिताकाभाववृत्तितद्रूपसमनियतानुयोगि- तानिरूपित प्रतियोगितावच्छेदकधर्मेण तद्रूपावच्छिन्नाभावविष. यतानिवेशान कोऽपि दोषः समवायावच्छिन्नवह्वयभावत्वस्य सं. योगत्वावच्छिन्नसंसर्गताकप्रतियोगिताकाभावावृत्तित्वानोक्तातिव्या- .
अनुमानगादार्याः क्रोडपत्रेषु प्तिर्यदूपघटितरूपावच्छिन्नेत्युपादानात, पर्वतत्वावच्छेदेन हस्साध्यतास्थले विशिष्टसंसर्गतावच्छेदकाप्रसिद्धावपि न क्षतिः संसर्गतावच्छेदककोटिप्रविष्टसंयोगत्वमादायैव प्रसिद्धिसम्भवादि. ति वाच्यम् । तावतापि इदो धूमजनकतेजोभाववान् वढेरित्यादौ सा. ध्यवत्पक्षेऽतिव्याप्ते१रत्वात् वह्नित्वसनियतानुयोगितानिरूपित. प्रतियोगितावच्छेदकत्वस्य वान्हत्वावच्छिन्नाभावववृत्तित्वस्य च धूमजनकतेजोभावत्वे सत्त्वादिति । यदि च धूमजनकतेजोऽभावो न वन्यभावस्वरूपः सनियताभावानामैक्यानभ्युपगमादित्युच्यते तदा कथाश्चिदुक्तातिव्याप्तिवारणं सम्भवतीति सुधीभिर्विभावनीयम् (१) । न चोक्कररीत्याविरोधिविषयतानिर्वचने विरोधियद्विषयतासामा- न्यप्रयुक्तस्ताहशोभयाभावस्तत्वमित्यस्यैव सम्यक्त्वे शेषवैयमिति वाच्यम् । तथा सति पर्वतो वन्हिमान् नीलपर्वतादित्यत्र नीलत्वा. भाववत्पर्वतेऽतिव्याप्त्यापत्तेः नीलत्वाभावान् धन्यभाववान् नी. लत्वाभावांश्च पर्वत इत्याकारकज्ञानोत्तरानुमितिनिष्ठमाध्यावया. हित्वाभावाधिकरणतायां नीलत्वाभाववत्पर्वतनिरूपितविरोधि- विषयतासामान्यप्रयोज्यत्वादिति ध्येयम् ॥ २७॥ अथ पक्षवृत्तित्वाधाटेतलाध्यव्यापकोभूनाभावप्रतियोगिहेतुरू- पासाधारणेऽध्याप्ति पक्ष ऋत्तित्वाघधितासाधारण्य निरुक्तावेरोधिावे. षयित्वाभावात् । तादृशालाधारण्यविषयकनिश्चयोत्तरानुमितिसा- मान्ये निरुक्तोभयाभावासत्त्वेन विशेष्यदलानाक्रान्तत्वात् स्वविष यताप्रयोज्यताहशोभयाभावप्रयोजकसाध्यावगाहित्यासाचाधिकरण. तायां हेतुमत्पक्षरूपविशिष्टान्तरविषयताप्रयोज्यत्वेन विशिष्टान्त. राघटितत्वस्यासत्त्वाच । न च विशेष्यदलरक्षणाय यद्विषयकनिश्चये पक्षधर्मिकहेतुमत्ताज्ञानकालीनत्वं विशेषणं देयमिति वाच्यम् त. (१) परेतु तद्रूपावच्छिन्नाभावनिष्ठत्वमनिवेश्य तद्रूपावच्छि- भघटकतानवच्छेदकं तद्पावच्छिन्नाभावत्वावच्छिन्नविषयित्वाव्या- पकं यद्विषयत्वं तच्छून्यप्रतीतिविषयतावच्छेदकत्वस्य निरुक्तानु: योगितानिरूपितप्रतियोगितावच्छेदकतायां निवेशान्नोक्तदोषः। विष- यतायां घटकतानवच्छेदकत्वनिवेशात धूमजनकतेजोऽभावकाली. नवन्हिहेतुकधूमजनकतेजोऽभावसाध्यकस्थले त साध्यवत्पक्षेऽति. व्याप्तिरित्याहुः।
सामान्यनिरुक्तिप्रकरणम्। थासति यद्विषयकनिश्चये हेतुमत्तानिश्चये च अनाहार्यत्वनिवेशस्या- वश्यकत्वेन स्वरूपासिद्धावव्याप्त्यापत्तेः । यत्तु यद्विषयकनि- श्चयोत्तरोत्पन्न इति प्रकृतलक्षणे तृतीयक्षणव्यावृत्ताव्यवहि- तोत्तरत्वमेव निवेशनीयम् तथाचासाधारण्यनिश्चयोत्तरं पक्षे हेतुसाध्यावगाहनाहार्यशानानुत्पत्त्या तादृशनिश्चयोत्तरानुमिति- सामान्ये एव निरुक्तोभयाभावसत्त्वाद्विशेष्यदलमक्षतमेवेति । तत्तुच्छम् । द्वितीयक्षणमात्रपर्यवसायिअव्यवहितोत्तरत्वनिवेशे काञ्चनमयः पर्वतो वह्निमान्धूमादित्यत्र काञ्चनमयत्वव्यापीभूनाभा. वप्रतियोगिधूमत्वरूपस्यासाधारण्यानात्मकस्यालक्ष्यतया तत्रातिव्या त्यापत्तेः, इदो वन्हिमान जलादित्यत्र जलावच्छेदेन वन्ह्यभाव. घटितवन्धभावजलवदात्मक तिव्याप्तश्च-तनिश्चयद्वितीयक्षणे नि- रुक्तोभयाभावावगाहि-अनाहायज्ञानानुत्पादात् , एवमसाधारण्य. विषयकनिश्चयोत्तरानुमितिसामान्ये निरुतोभयाभावसत्वेऽपि उ. कविरोधिविषयताप्रयुक्तत्वविशिष्टतादृशोभयाभावासत्वात् असा- धारणेऽव्याप्तितादवस्थ्याच्च । न च विशेष्यदलरक्षणाय हेतुमत्पक्ष. शानाकालीनत्वासाधारण्यविषयकत्वैतदुभयाभाववैशिष्ट्यम् अला. धारण्याने विरोधिविषयतासम्पादनाय च मुख्यविशेष्यताह- यशुन्यत्वं यद्विषयकनिश्चये निवेशनीयम, तथाच साध्यव्यापकी. भूनाभावप्रतियोगिहेतुमान्पक्ष इत्याकारकविशिष्टविषयताशालि. ज्ञानमादायैवासाधारणे लक्षणसमन्वय इति वाच्यम् हेतुमत्पक्षावि- षयकहेतुमत्पक्षशानकालीनासाधारण्यज्ञानेऽपि निरुक्तोभयाभावव- स्वस्य मुख्यविशेष्यताद्वपशून्यत्वस्य च सत्त्वात्तत्र च निरुक्तविरो- धिविषयत्वाभावात्तदुत्तरानुमितौ विरोधिविषयताप्रयुक्तोभयाभावा- सत्तादसाधारण्येऽव्याप्तितादवस्थ्यात् जातिमान् धन्ह्यभाववानि- त्यादिक्षानमादायासम्भववारणायाध्यापकीभूतविषयताशून्यत्वनिवे. शस्यावश्यकतया विशिष्टविषयताशालिज्ञानमादाय लक्षणसम- न्वयासम्भवाच्च । एतेन हेतुमत्पक्षक्षानाकालीनत्वं परित्यज्य हे. तुमत्पक्षविषयताघटितोभयाभावनिवेशे विशिष्टविषयताशालिज्ञान- मादायैवासाधारण्यसङ्ग्रह इत्यपि परास्तम् । न च यदंशे यदवगा- हित्वं तदंशे तदवगाहिप्रहप्रतिबन्धकतावच्छेदकयद्पावच्छिन्न- विषयत्वं तद्रूपावच्छिन्नविषयतैव विरोधिविषयतापदेल वाच्या य.
२६९ अनुमानगादाधर्याः क्रोडपत्रेषु द्विषयकनिश्चये हेतुमत्पक्षशानाकालीनत्वघटितोभयाभाववत्त्वमेव निवेशनीयम् तथाच हेतुमत्पक्षशानाकालीनहेतुत्पक्षाविषयकासा- धारण्यज्ञानमादायैव लक्षणसमन्वय इति वाच्यम् विशोधिविषय- तापदस्य उक्तार्थकत्वे पर्वतो वह्निमान्धूमादित्यादौ साध्यव-पक्षे. ऽतिव्याप्त्यापत्तेः वन्हिमान धूमाभाववान वहिमांश्च पर्वत इत्या. दिशानायप्रतिबन्धकतावच्छेदकत्वस्य वन्हि मत्पर्वतविषयतायाम- पि सत्त्वात् इति चेत् । अत्र केचित्-विरोधिविषयतापदेन यद्रूपावच्छिन्नांशे यदूपावच्छि- नावगाहिता निविष्टा तद्रूपावच्छिन्नविशष्यताभिनविशेष्यत्वानिरू- पिनतद्रूपावच्छिन्नाभावतद्याप्यान्यतरविषयता(१) वाच्या यद्वि. कनिश्चये प्रागुक्तोभयाभाववत्त्वं निवेशनीयम् तथाच हेतुमत्प. क्षशानाकालीनताहशपक्षाविषयकासाधारण्यसह इत्याहुः । तदप्यसत् । उक्तक्रमेण विरोधिविषयतानिर्वचने पर्वतो वह्विमा. न वह्निमत्पर्वताभावादित्यत्र साध्यवत्पक्षेऽतिव्याप्त्यापत्तेः। नव्यास्तु साध्यव्यापकीभूताभावप्रतियोगिहेतुमत्तानिश्चया- न्यत्वासाधारण्यविषयकत्वोभयाभाववत्वं यद्विषयकनिश्चये निवेश- नीयम् तथाच साध्यव्यापकीभूताभावप्रतियोगिहेतुमान्पक्ष इत्या. कारकज्ञानमादायैवासाधारणे लक्षणसमन्वयः । न चोक्तज्ञानस्या. व्यापकीभूनामावप्रतियोगिविषयताशून्यत्वाभावात् कथं तदादाय लक्षणसमन्वय इति वाच्यम् अव्यापकीभूतविषयताशून्यत्वपदे. नापि साध्यव्यापकीभूताभावप्रतियोगिहेतुमत्पक्षविषयतानन्तःपाति- अव्यापकीभूतविषयताशून्यत्वस्य अव्यापकीभूतविषयतावत्वसा. ध्यव्यापकीभूताभावप्रतियोगिहेतुमत्पक्षविषयतानन्तःपातिविषयता- पत्त्वोभयाभावस्य विवक्षितत्वादिति प्राहुः । एतेन विशेष्यदलप्रविष्टविरोधिविषयतानिष्ठप्रयोजकतायां वि. शिष्टान्तरविषयतात्वव्यापकरूपानाच्छन्नत्वनिवेशनव सामञ्जस्ये पृथक् विशिष्टान्तराघटितत्वनिवेशो विफलः । न च विशिष्टान्तरा- घटितत्वानिवेशे इदत्वावच्छेदेन वन्हस्साध्यतास्थले तदवच्छेदेन चन्ह्यभाववज्रदादावतिव्याप्तिः इदत्वावच्छेदेन वन्ह्यभावविषयता. (१) विषयतांत्वेन निवेशाद्वन्हिव्यापकीभूताभावप्रतियोगि- जलत्वावच्छिन्नविशेष्यतामादाय लक्षणगमनादिति ध्येयम् ॥
सामान्यनिरुक्तिप्रकरणम् । स्वावच्छेदेन तादृशोभयाभावप्रयोजकतायाः विशिष्टान्तरविषयता- त्वव्यापकरूपानवच्छिन्नत्वात् । स्वमते तु तादृशोभयाभावप्रयोज. कीभूतायां हृदत्वावच्छेदेन साध्यवैशिष्ट्यावगाहित्वाभावाधिकर- णतायां सामानाधिकरण्येन वन्यभाववद्धदात्मकविशिष्टान्तरवि. षयताप्रयोज्यत्वान्नातिव्याप्तिरिति वाच्यम् तस्य लक्ष्यत्वात् । अन्य- था सामानाधिकरण्येन साध्वावगाहित्वाभावाधिकरणतामादाय तन्निवेशेऽप्यप्रतीकारादिति पूर्वपक्षो निरस्तः। साध्यव्यापकीभूना. भावप्रतियोगिहेतुमत्पक्षविषयत्वस्यैव निरुक्तविरोधिविषयतारूप. त्वात् तनिष्ठप्रयोजकतायां हेतुमत्पक्षरूपविशिष्टान्तरविषयता. त्वव्यापकरूपावच्छिन्नतयाऽसाधारणेऽव्याप्तिप्रसङ्गादिति ध्येयम् । अत्रोक्तरीत्याऽसाधारण्ये विशेष्यदलसत्त्वसंपादनेऽपि हेतुमत्य. क्षरूपविशिष्टान्तरघटितत्वात्कथं तत्संग्रहः । न च विशिष्टान्तरपदेन प्रकृतलक्षणाक्रान्तविशिष्टान्तरं वक्तव्यम् हेतुमत्पक्षादिकं च तथेति वाच्यम् तथापि जलाभाववज्रदकालीनवह्नस्साध्यतास्थले जलवद्धदात्मकहेतुमत्पक्षस्य तादृशतया तत्रालाधारणेऽव्याते. रपरिहारात् । न च विशिष्टान्तराघटितत्वशरीरे ज्ञानवैशिष्ट्या. प्रयोज्यत्वे साते यद्विशिष्टान्तरविषयताप्रयोज्यत्वं तदभावनिवेशा- नालाधारण्यासङ्ग्रह इति वाच्यम् तथा सति मेयत्वविशिष्टासा- धारण्येऽतिव्याप्त्यापत्तेः । अथासाधारण्यविषयतात्वावच्छिन्नप्रयो. जकत्वानिरूपितत्वज्ञानवैशिष्ट्यप्रयोज्याधिकरणतावृत्तित्वोभयाभा- वस्थ विशिष्टान्तरविषयताप्रयोज्यतायां निवशे हेतुमत्पक्षरूपवि- शिष्टान्तरमादाय नासाधारण्यासङ्ग्रह इति । न चैवं असाधार• ण्यज्ञानकालीनमेयत्वविशिष्टबाधज्ञानोत्तरानुमितिनिष्ठमेयत्वविशिष्ट- बाधविषयताप्रयोज्यसाध्यावगाहित्वाभावाधिकरणतायां बाधाद्या. त्मकविशिष्टान्तरविषयताप्रयोज्यत्वसत्त्वेऽपि तत्प्रयोज्यतायां निरु- तोभयाभावासत्त्वान्मयत्वविशिष्टबाधेऽतिव्याप्तिरिति वाच्यम् । स्व. विषयताप्रयोज्यतायामपि निरुक्तोभयाभावनिवेशात् । अथ तादृशाधिकरणतानिष्ठहेतुमत्पक्षविषयताप्रयोज्यत्वं प्रति. बन्धकतावच्छदेकतापर्याप्त्यधिकरणघटकैर्यावद्भिर्निरूपितमकमेव न तु नानेति कथं विशिष्टान्तरविषयताप्रयोज्यतायां ताहशोभयाभाव- निवेशेऽप्यसाधारण्यसंग्रह इति चेत्, तर्हि तादृशप्रयोज्यत्वस्यैक्येऽपि अनुमानगादाधर्याः क्रोडपनेषु तारशप्रयोज्यतानिरूपितहेतुमत्पक्षविषयतानिष्ठप्रयोजकता नानवाव- च्छेदकभेदात्तासां भिन्नानामपि तत्प्रयोज्यतानिरूपितप्रयोजकतात्वेन व्यासज्यवृत्तितया महानसीयवह्नयभावप्रतियोगितावच्छदकतापर्य- प्रैक्येन तद्भेदेन न प्रयोजकताभेदः । एवं च ज्ञानवैशिष्ट्यप्रयो. ज्यतानिरूपितत्वासाधारण्यविषयतात्वानवच्छिन्नत्वोभयाभाववती या विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्नप्रयोजकता तन्निरू- पितप्रयोज्यत्वाभावस्य विशिष्टान्तरविषयत्वाप्रयोज्य इत्यनेन विव. क्षितत्वात् हेतुमत्पक्षविषयतानिष्ठतादृशप्रयोजकतायां ताशोभय. वत्त्वेनासाधारण्यसङ्ग्रहादिति चेन्न । इदो वह्निमान् वह्निमदृत्तिजला- दित्यादौ साधनाप्रसिध्यात्मकवह्निमदवृत्तिजले मेयत्वविशिष्टेऽति- व्याप्तिः । वह्निमदवृत्तिजलं मेयं जलवांश्च हुद इति ज्ञानोत्तरघटाद्य- नुमितिनिष्टमेयत्वविशिष्टवह्निमदवृत्तिजलविषयताप्रयोज्यसाध्याव. माहित्वाभावाधिकरणतायां तद्धटकीभूतवाहमदवृत्तिजलविषयता: प्रयोज्यत्वेऽपि तत्प्रयोज्यतानिरूपिततादृशजलाविषयनानिष्ठप्रयोज- कतायां तादृशोभयाभावविरहेण तादृशोभयाभाववाद्वीशष्टान्तरवि. षयतानिष्ठप्रयोजकतानिरूपितप्रयोज्यत्वाभावस्य तादृशाधिकरण: तायामक्षतत्वेन तामादाय विशिष्टान्तरार्धाटतत्वस्य सत्वात्, एवं हृदो वह्निमान् धूमादित्यादौ वहयभाववज्जलवदृत्तिजलवज्रदे- तिव्याप्तथापत्तेश्व-तद्घटकीभूतवयभाववजलवदादिरूपविशिष्टा- न्तरविषयतानिष्ठतादृशाधिकरणताप्रयोजकतायां तादृशोभयवत्वा- त् । न चासाधारण्यावषयताप्रयोज्याधिकरणताप्रयोजकत्वासाधार. ण्यविषयत्वान्यत्व-एतदुभयाभावो विशिष्टान्तरविषयतायामेव निवे. तनिष्ठप्रयोजकतायामुक्तोभयाम पाभावः तथा च नोक्ताति. व्याप्तिद्वयावकाश इति वाच्यम् । तथा सति हदो वह्निमान्धूमादित्यादौ मेयत्वविशिष्टबाधेऽतिव्याप्तधापत्तेः वयभाववान् इदः प्रमेयः वह्नि- व्यापकीभूताभावप्रतियोगी धूमः धूमवान् इद इति ज्ञानोत्तरघटाद्य. नुमिति निष्ठपक्षधर्मिकसाध्यवैशिष्ट्यावगाहित्वाभावार्धकरणतायां विनिगमनाविरहेण बाधासाधारण्यविषयित्तयोयोरेवे प्रयोजकत- या बाधविषयतायां तादृशोभयाभावासत्त्वेन विशिष्टान्तरपदेन बा. धस्य धर्तुमशक्यत्वादिति चेत् । अत्र केचित्-असाधारण्यविषयताप्रयोज्यत्वनिरूपितत्वासाधा. शतीयः नतु सामान्यनिरुक्तिप्रकरणम् । २७३ रण्यविषयतात्वानवच्छिन्नत्वोभयाभाववती या विशिष्टान्तरविषय- तानिष्ठप्रयोजकता तनिरूपितप्रयोज्यत्वाभावस्य विशिष्टान्तरविषय. त्वाप्रयोज्यत्यनेन विवक्षणानोक्तदोष इन्याहुः । तन्न, धूमाभाववत्पर्वतकालीनपर्वतोवह्निमान धूमादित्यादौ आश्र. यासिध्यात्मकमेयत्वविशिष्टधूमवत्पर्वतेऽतिव्याप्तिः वहिव्यापकीभूना- भावप्रतियोगी धूमः धूमवान् पर्वतः प्रमेय इति झानोत्तरघटाधनु- मितिनिष्ठप्रमेयत्वविशिष्टधूमवत्पर्वतविषयताप्रयोज्यपक्षधर्मिकसाध्य. वैशिष्टयावगाहित्वाभावाधिकरणतामादाय विशिष्टान्तराघटितत्वस- स्वात् । धूमवत्पर्वतरूपविशिष्टान्तरविषयतानिष्ठताहशाधिकरणताप्र- योजकतायामसाधारण्यविषयतात्वानवच्छिन्नत्वासाधारण्यविषय. ताप्रयोज्यतानिरुपितत्वोभयसत्वात्, धूमवत्पर्वतरूपविशिष्टान्तर. विषयतानिष्ठप्रयोजकत्वे स्वविषयतानिष्ठप्रयोजकत्वे उभयत्रैव तादृशोभयाभावं निवेश्य विशिष्टान्तरविषयतानिष्ठताहशोभयाभाव प्रयोजकाधिकरणताकत्वामत्युच्यते तदा न कोऽपि दोषः। एवञ्च ज्ञानवैशिष्ट्यप्रयोज्यतानिरूपितत्वघटितप्रागुपदार्शतोभयाभावस्य उभयप्रयोजकतानिवेशोऽपि साधीयानिति । अथैवं प्रागुक्तदोषवारणाय स्वविषयतानिष्ठप्रयोजकतायां विशिष्टान्तरविषयतानिष्ठप्रयोजकतायां ज्ञानवैशिष्टयप्रयो. ज्यतानिरूपितत्वासाधारण्यविषयतानवच्छिन्नत्वोभयाभावनिवेशधौ- व्ये निरुक्तोभयाभाववाद्विशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्न- प्रयोजकतानिरूपितप्रयोज्यत्वाभाववनिरुक्तोभयाभावविशिष्टस्ववि., षयतात्वव्यापकरूपावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावदुभया- भावप्रयोजकाभावाधिकरणताकत्वमित्यस्यैव सम्यक्त्वे विशे. व्यदलनिवेशो विफल इति चेन्न कपिसंयोगाभावववृक्षः क- पिसंयोगीत्यत्र कपिसंयोगाभाववक्षेऽतिव्याप्त्यापत्तेः । न यद्विषयकनिश्चये अव्याप्यवृत्तित्वज्ञानानास्कन्दितत्वनिवे. शस्यावश्यकतया अव्याप्यवृत्तित्वज्ञानानास्कन्दितकपिसंयो. गाभाववद्वक्षविषयकनिश्चयोत्तरानुमितिसामान्ये तादृशांभयाभा. वसवात् तन्निवेशेऽपि तत्रातिव्याप्तिरिति वाच्यम् अव्याप्यवृत्तिव भ्रमानास्कन्दितत्वं यद्विषयकनिश्चये इत्येव विशेष्यदले निवेश्यतया तत्राव्याप्यवृत्तित्वभ्रमानास्कन्दिततनिश्चयोत्तरानुमितिसामान्ये ता. ३५ अनुमानगादार्याः क्रोडपनेषु इशोभयाभाववत्त्वविरहादिति ध्येयम् । वस्तुतो विशिष्टान्तरविषयंतात्वव्यापकरूपानवच्छिन्नस्वविषय- तानिष्ठप्रयोजकताकप्रयोज्यतावत्तादृशोभयाभावप्रयोजकाभावाधि. करणताकत्वमेव विशिष्टान्तराटितत्वं वाच्यमतो नोक्तदोषः असाधारण्यविषयतानिष्ठप्रयोजकतायां हेतुमत्पक्षरूपविशिष्टान्तर. विषयतात्वव्यापकरूपानवच्छिन्नत्वसत्वात्तत्राव्याप्तिविरहातधयभा. ववजलवद्वृत्तिजलवद्ध्दत्वावच्छिन्नविषयतानिष्ठप्रयोजकतायां च जलवद्धदात्मकविशिष्टान्तरविषयतात्वन्यापकरूपावच्छिन्नत्वेन त. त्रातिव्याप्तिविरहाच्चेति युक्तमुत्पश्यामः। परे तु स्वघटकत्वेन यत्किञ्चिद्विशिष्टान्तरस्य विशेषणीयत्वा- नासाधारण्यसङ्ग्रहः, हेतुमत्पक्षरूपविशिष्टान्तरस्य स्वघटकत्वाभा- वात् वह्नयभाववजलवद्वात्तजलवद्धदादौ च नातिव्याप्तिः जलवद्ध दात्मकविशिष्टान्तरस्य स्वघटकन्वात् । न चैवं वह्नयभाववद्धदादा. वव्याप्तिस्तत्र स्वघटकविशिष्टान्तरविषयतात्वव्यापकरूपावच्छिन्न- ताशप्रयोज्यत्वासिद्धरिते वाच्यम् स्वघटकविशिष्टान्तरविषय- ताप्रयोज्यस्वविषयताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकर. णतासामान्य यद्यत्तदन्यत्वस्य विवक्षितत्वात् । सामान्यप- दोपादानात् विशेषगुणवद्धटादौ गुणवद्धटादिरूपविशिष्ठान्तरविषय. ताप्रयोज्यस्वविषयताप्रयोज्यतादृशसाध्यावगाहित्वाभावाधिकरण- ताकत्वेऽपि नाव्याप्तिः । व्यभिचारविशिष्टमेयत्वादावतिव्याप्तिस्तु विरोधिविषयतायां स्वीयत्वनिवेशेन वारणाया। न च धूमव्यभिचा. रिवह्निधूमवान्वरित्यादौ धूमाभाववधूमव्यभिचारिवह्नयाद्यात्मक- बाधादावव्याप्तिः व्यभिचारात्मकविशिष्टान्तरविषयताप्रयोज्यस्व. विषयताप्रयोज्यतादृशाधिकरणतासामान्यकेनाभाववधूमव्यभि. चारिवह्नयादिना घटितत्वादिति वाच्यम् धूमव्यभिचारत्वावच्छिन्न- प्रकारतानिरूपितवह्नित्वावच्छिन्नविशेष्यताया एव तादृशाधिकर- णताप्रयोजकतया धूमव्यभिचारत्वावच्छिन्नप्रकारतानिरूपितवहि- त्वावच्छिन्नविशेष्यतात्वावच्छिन्नाभावत्वावच्छिन्नप्रकारतानिरूपित- धूमव्यभिचारिवह्नित्वावच्छिन्नविशेष्यतायाः तादृशाधिकरणताप्रयो. जकत्वेन स्वपदेसमाववधूमव्यभिचारिवह्नयादर्घर्तुमशक्यत्वात अव्याप्त्यनवकाशादित्याहुः।
सामान्यनिरुक्तिप्रकरणम् । २७५ - तञ्चिन्त्यम् ॥२८॥ साध्यवत्पक्षविषयताबहिर्भूतविषयत्वं विरोधिविषयतापदेन वि- पक्षितम् भट्टाचार्यण। अर्थतत्कल्पे पर्वतो वह्निमान् वह्नयभावादित्यादौ अव्याप्तिः स्वरूपासिद्धिविषयतायाः साध्यवत्पक्षविषयताबहिर्भूतत्वाभावेन तादृशस्वरूपासिद्धिविषय कनिश्चयोत्तरानुमिती विरोधिविषयताप्र- युक्तोभयाभावादिति। न च साध्यवत्पक्षविषयताबहिर्भूतविषयता. पदेन साध्यवत्पक्षविषयतात्वहेतुबैशिष्ट्यावगाहित्वाभावाधिकरण- त्वाप्रयोजकत्वोभयाभावद्विषयताविवक्षणान्नोक्तदोष इति वाच्यम् तथासति पर्वतो वह्विमान्धूमादित्यादौ साध्यवत्पक्षेऽतिव्याप्त्यापत्तेः वह्निमान् धूमाभाववानितिज्ञानकालीनवह्निमत्पर्वविषयकज्ञानस्यापि हेतुमत्ताज्ञानप्रतिवन्धकतया विवक्षितत्वात् तथाच साध्यवत्पक्ष विषयताया अपि निरुक्तोभयाभाववत्त्वादिति चेन्न विरोधिविषयतानिष्ठप्रयोजकतापदन साध्यवत्पक्षविषयतावृत्ति त्वहेतुवैशिष्टयावगाहित्वाभावाधिकरणतानिष्ठप्रयोज्यत्वानिरूपितत्वो- भयाभाववत्प्रयोजकताया विवक्षित्वात् तथाचोक्तस्थले हेतुवैशिष्ट्या- वगाहित्वाभावाधिकरणताप्रयोजकताया एव तादृशोभयाभाववत्वेन तामादायैव लक्षणसमन्वयः। न च पर्वतःप्रमेयवाह्नमान् वह्नयभावादि. त्यत्र साध्यवत्पक्षेऽतिव्याप्तिस्तत्र हेतुवैशिष्ट्यावगाहित्वाभावाधिकर. णताप्रयोजकतायां निरुक्तोभयाभाववत्त्वेन तामादाय विशेष्यदलस्य साध्यवैशिष्ट्यावगाहित्वाभावाधिकरणतामादाय विशिष्टान्तराघटित- त्वसत्त्वादिति वाच्यम् विशिष्टान्तराघटितत्वान्तर्गतस्वविषयतानिष्ठ- प्रयोजकतायां साध्यवत्पक्षविषयतावृत्तित्व-निरुक्ताभयाभावप्रतियो. गितावच्छेदककोटौ यदशे यदवगाहित्वं साध्यवत्पक्षविषयतातिरिक्त तदंशे तदवगाहित्वाभावनिष्ठप्रयोज्यतानिरूपितप्रयोजकताभिन्नत्व- एतदुभयाभाववत्वनिवेशेनैव उक्तातिव्याप्तिवारणसंभवात् । वस्तुतस्तु प्रागुक्तयुक्त्या विरोधिविषयतानिष्ठप्रयोजकतावच्छे. दकतावच्छेदकस्य स्वविषयतानिष्ठप्रयोजकतावच्छेदकस्य च द्वयो. रैक्यविवक्षणस्यावश्यकतया तत्र च उक्तातिव्याप्तिवारणं सम्भ- वतीति ध्येयम् ॥ २९॥ यत्तु पक्षतावच्छेदकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगाहि- २७६ अनुमानगादाधर्याः क्रोडपत्रेषु निश्चयावृत्तिविषयतैव विरोधिविषयतापदार्थः तथाच यनिरूपित- ताविषयताशालिनिश्चयोत्तरानुमितित्वव्यापक उभयाभावस्तत्त्व- मिति समुदायार्थः। निश्चयत्वं विशेषणविशेष्यतावच्छेदकभावाना- पञ्चविरोधकोटिद्वयप्रकारकैकर्मिविशेष्यकन्नानान्यज्ञानत्वमित्युक्तं भट्टाचार्येण । अथ कोटिद्वये विशेषणविशेष्यतावच्छेकभावानापन्नत्वविशेष. णानिर्वह्निः पर्वतो वह्निमानित्यादौ पक्षतावच्छेदकविशिष्टे साध्या. दिवैशिष्ट्यावगाहिज्ञानस्यैकत्र विरोधिकोटिद्वयप्रकारकत्वनियमे. पिन तादृशनिश्चयाप्रसिद्धिः । एकर्मिविशेष्यकेत्युपादानात इदो वह्निमान् धूमान्यधूमादित्यत्र वह्नयभाववद्घटादौ नाव्याप्तिः अन्यथा वह्नयभाववद्घटाद्यविषयकस्य पक्षे साध्यादिनिश्चयस्यैव विशेषण- विशेष्यतावच्छदकभावानापनविरोधिकोटिद्वयप्रकारकशानान्यज्ञान- त्वेन वह्नयभाववद्धटादिविषयतायास्तदवृत्तित्वेनातिव्याप्तिः स्यात् । न चैवं ह्रदो वह्निमान वह्नयभाववज्रदकालीनधूमादित्यत्र निरुक्तमा- नान्थस्य पक्षे साध्यादिवैशिष्ट्यावगाहिज्ञानस्याप्रसिध्या अव्याप्तिरिति वाच्यम् स्वनिरूपकत्व-स्वविशिष्टप्रकारतानिरूपकत्वोभयसम्बन्धेन प्रकारताविशिष्टज्ञानान्यत्वस्य निरुक्तज्ञानान्यपदेन विवक्षितत्वात् । प्रकारतायां स्ववैशिष्टयंच-स्वनिरूपकज्ञाननिरूपितत्व-स्वावच्छेद- कधर्मावच्छिन्नविरोधितावच्छेदकावच्छिन्नत्व-स्वनिरूपितविशेष्य. तानिरूपितत्वैतत्त्रितयसम्बन्धेनति । तथाचोक्तस्थले वहिन्याप्यव. हृयभाववद्ध्दकालीनधूसवान्दो वह्निमानित्याकारकस्यैवोक्तप्रका. रतासम्बन्धेन विशिष्टज्ञानान्यज्ञानस्य प्रसिद्धत्वान्नाव्याप्तिरिति ध्येयम। अथ धूमवान्धरित्यादौ वह्निना धूमसाधने वहिर्दुष्ट इत्यादि. व्यवहारादौ धूमत्वावच्छिन्नविधेयताकवह्नित्वावच्छिन्नलिङ्गकसमूहा- लम्बनानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतानतिरिक- वृत्तिविषयतानिरूपकतावच्छेदकधर्मावच्छिन्नत्वस्यैव प्रत्येतव्यतया पर्वते धूमेन वह्निसाधने धूमो न दुष्ट' इत्यादिनसमभिव्याहृतत्व. स्यानुपपत्तिः तत्र पर्वतत्वावच्छिन्नपक्षकवह्नित्वावच्छिन्नसाध्यकधू- मत्वावच्छिन्नलिङ्गताकसमूहालम्बनानुमितित्वव्यापकप्रतिबध्यतानि- रूपित प्रतिबन्धकतानतिरिक्तवृत्तिविषयतानिरूपकतावच्छेदकधर्मा- सव्यभिचारनिरुक्तिप्रकरणम् । वच्छिन्नवत्त्वरूपप्रतियोगिनोऽप्रसिधा योग्यताविरहात् नातदभा. घस्य बोधयितुमशक्त्वादिति चेन्न वह्निना धूमसाधने वह्निर्दुष्ट इत्यादौ स्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावृत्तिरूपावच्छि. प्रवत्त्वसम्बन्धेन धूमत्वावच्छिन्नविधेयताकवह्नित्वावच्छिन्नलिङ्गता. कसमूहालम्बनानुमितित्ववत्त्वं प्रतीयते । सम्बन्धघटकवृत्तित्वं च-स्वा. वच्छिन्नविषयित्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्ब- ग्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्वसम्बन्धेन । तथाच पर्वते धूमेन वह्निसाधने धूमो न दुष्ट इत्यादौ नसमभिव्याहृतस्य अन्यत्र प्रसिद्धन व्यधिकरणतादृशपरम्परासम्बन्धेन पर्वतत्वावच्छिन्न. पक्षकवह्नित्वावीच्छन्नविधेयताकधूमत्वावच्छिन्नीलगताकसमूहाल. म्बनानुमितित्वाभाववत्वावगाहितयैवोपपत्तेरिति दिक् । एतेन स्वावच्छिन्नविषयकत्वावच्छिन्नयत्किञ्चित्प्रतिबन्धकता. वच्छेदकविषयताकविशिष्टनिरूपितविषयितात्वव्यापकत्वमिति । अ. कल्पे यत्किञ्चित्वनिवेशेऽपि विशेषगुणवद्धटेऽव्याप्तितादवस्थ्यम् यत्किञ्चित्पदेन बाधज्ञानीयप्रतिबन्धकतायाः धतु शक्यत्वादिति । तत्रानुगमः क्रियते-तत्पक्षकतत्साध्यकतल्लिङ्गकसमूहालम्बनातुमि- तित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकताविशिष्टरूपवस्व दोष. त्वम्। प्रतिबन्धकतावैशिष्टयं च-स्ववृत्तित्व-स्ववृत्तित्वोपलक्षितरूपा- अच्छिन्नविषयतात्वव्यापकत्वोमयसम्बन्धेन । स्ववृत्तित्वं च-स्वाव. च्छिन्नविषयताव्यापकत्वसम्बन्धेन। विषयतात्वव्यापकत्वन्तु-स्वा- वच्छिन्ननिरूपितत्वसम्बन्धेनेति ध्ययम् ॥ ३० ॥ - इतिश्रीकालीशंकरसिद्धान्तवाशाविराचता सामान्यनिरुक्त्यर्थप्रका शिका कालीशङ्कर्याख्या पत्रिका समाप्ता॥ श्रीरमेशःप्रीयताम् ॥
अथ श्रीकालीशङ्करसिद्धान्तवागीशविरचितं सटिप्णणं सव्यभिचारप्रकरणम्। फलीभूतसंशयधर्मितावच्छेदकता यादृशधर्मे पर्याप्तात्तादृशधर्मा. वच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारताशालिज्ञानत्वं संश- यजनकतावच्छदकं तद्रूपवत्वमिति विवक्षणे कोटिद्वयापस्थापके त्यस्य वैयर्थ्यमुक्तं भट्टाचार्येण । अत्र फलीभूतसशयधर्मितावच्छेदकतापर्याप्त्यनिवेशे नित्यत्व- तदभावविषयकज्ञानवानयं नित्यो न वति संशय प्रति ताशसंश. यमितावच्छेदकताश्रय-इदन्त्वावच्छिन्नविशेष्यकनित्यत्वतदभाव. विषयकज्ञानत्वावच्छिन्नप्रकारताशालिबानत्वेन जनकतया तपपदेन नित्यत्वतदभावविषयकज्ञानत्वमादाय नित्यत्वसाध्यकज्ञानादिहेतो. सव्यभिचारत्वापत्तिरतस्तनिवेशः। अथात्र फलीभूतसंशयधर्मिताव- च्छेकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितयद्पावच्छि- अप्रकारताशालिज्ञानत्वं संशयजनकतावच्छेदकतावदित्यत्रावच्छे- दकत्वं स्वरूप सम्बन्धविशेषोऽनतिरिक्तवृत्तित्वं वा? आद्ये धूमवा पर्वतकालीनवह्निमान् धूमादित्यादौ धूमवत्पर्वतकालीनवह्निमान्न वेति संशयजनकतावच्छेदकीभूतायां धूमवत्पर्वतकालीनवह्नितदभा वसहचरितधूमवानयमित्यादिज्ञानविषयत्वान्तःपातिपर्वतत्वावच्छि. नविषयतानिरूपितधूमत्वावच्छिन्नविषयतायां फलीभूतसंशयधर्मि- तावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितत्वस. स्वात् उक्तसाध्यकधूमेऽतिव्याप्तिः । न च फलीभूतसंशयमिताव. च्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतानिरूपितयद्रूपाव- च्छिन्नप्रकारताशालिज्ञानत्वं संशयजनकतावच्छेदकतापर्याप्त्यधि- करणमिति विवक्षणे नोक्तातिव्याप्तिरिति वाच्यम् तथासत्यसंभवा. पत्तेः भ्रमप्रमासाधारणशानस्य जनकत्वानुरोधेन परस्परोपश्लेषा- वगाहिज्ञानत्वेनैव अनकता वाच्या अखण्डसाधारण्याचवच्छिन्न- प्रकारताशालिज्ञानत्वस्य संशयजनकतानवच्छेदकत्वादिति । नापि अनुमानगादाधर्याः क्रोडपत्रेषु द्वितीयः-नित्यत्वतदभावविषयेकज्ञानवानयं ज्ञानवानिति ज्ञानीया तादृशधर्मावच्छिन्नविशेष्यतानिरूपितशुद्धज्ञानत्वावच्छिन्नप्रकारता- या अपि नित्यत्वतदभावविषयकज्ञानवानयं नित्यो न वति संश. यजनकतानतिरिक्तवृत्तितयाऽयं नित्यो ज्ञानादित्यत्रातिव्याप्तः। अत्रोच्यते-स्वरूपसम्बन्धरूपं जनकतावच्छेदकत्वं निवेशनीयम् धूमवत्पर्वतकालीनवह्निमान्धूमादित्यत्र प्रागुक्तातिव्याप्तिस्तु फली- भूतसंशयमितावच्छेदकावच्छिन्नमुख्यविशेप्यतानिरूपितयपाव. च्छिन्नप्रकारत्वस्य तादृशधर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपि. तद्पावच्छिन्नप्रकारतासामान्यस्य वा निवेशेनैव वारणीयति ध्येयम् ॥ १॥ अथैवमपि नित्यत्वतदभावविषयकज्ञानवानयं नित्यत्वतदभा- वविषयकज्ञानवानिति-ज्ञानीयतादृशधर्मावच्छिन्नविशेष्यतानिरूपि. तनित्यत्वतदभावविषयकज्ञानत्वावच्छिन्नप्रकारताया अपि इदन्त्वा. वच्छिन्नविशेष्यताकनिरूपिततादृशज्ञानत्वावच्छिन्नप्रकारतात्वेन-नि- त्यत्वतदभावविषयकज्ञानवानयं नित्यो न वेति संशयजनकतावच्छे- दकतयाऽयं नित्यो ज्ञानादित्यत्रातिव्याप्तिर्दुवारैव। न च फलीभूतसं. शयधर्मितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नविशेष्यतात्वा- वच्छिन्ननिरूपकतानिरूप्यताविशिष्टयद्रूपावच्छिन्नप्रकारतात्वं संश- यजनकतावच्छेदकतावच्छेदकं तद्पावच्छिन्नमिति विवक्षणे नायं दोषः । इदन्त्यमात्रावच्छिन्नविशेपतात्वावच्छिन्ननिरूपकनाकनिरू- प्यताटितरूपस्यैव तादृशसंशयजनकतावच्छेदकतावच्छेदकतया नि. त्यत्वतदभावावेषयकज्ञानवदिदंत्वावच्छिन्नविशेष्यतात्वावाच्छन्ननि. रूपकताकनिरूप्यतावत्तादृशज्ञानत्वावच्छिन्नप्रकारतात्वस्थ ताश- जनकतावच्छेदकतानरच्छेदकत्वात् इते वाच्यम् । नित्य- स्वतदभावविषयकज्ञानवदिदन्त्वावच्छिन्नविशेष्यतात्वावच्छिन्ननिरू- पकताकनिरूप्यताया एकव्यक्तितया इदन्त्वावच्छिन्ननिरूपकता- कनिरूप्यताकत्वेन रूपेण तादृशजनकतावच्छेदकत्वात् ताह. शप्रकारतात्वस्य जनकतावच्छेदकत्वाच्च विशिष्टस्य सुतरां जनकावच्छेदकत्वेनातिव्याप्तितादवस्थ्यादिति । यदि तादृशवि. शिष्टप्रकारतात्वे जनकतावच्छेदकतायाः पर्याप्तिर्निवेश्यते, तदा ता.
२८० सामान्यनिरुक्तिप्रकरणम् । हशविशिष्टघटकसानत्वावच्छिन्नांशस्य तादृशजनकतावच्छेदकको टावनन्तीवेणोक्तातिव्याप्तिवारणेप्यसंभवः लाघवेन तद्धर्मावच्छिन्न- विशष्यतानिरूपितप्रकारतात्वन जनकतावच्छेदकत्वस्वीकारेणैवो. पपत्तावनवच्छेदकीभूतविशेष्यतात्वावच्छिन्नत्वांशान्तर्भावेण जनक- तावच्छेदकतावच्छेदकत्वस्य पर्याप्तरसंभवात्, एतच्चानुमितिग्रन्थे प्रकारान्तरानुसरणे गौरवमित्यादिना भट्टाचार्येणैव स्फुटीकृतमिति । किञ्च भ्रमसाधारण्यानुरोधेन निरूप्यनिरूपकभावापनप्रकारतात्वे. नैव जनकताच्छेदकताया वक्तव्यत्वेन साधारण्यावच्छिन्नप्रकारतात्व. स्यापि जनकताच्छेदकतात्वपर्यायधिकरणत्वाभावेनासम्भवापत्ते. श्चेति । एतेन फलीभूतसशयधर्मितावच्छेदकतापर्याप्त्यधिकरण- धर्मावच्छिन्नविशेष्यतानिरूपितयद्पावच्छिन्नप्रकारतात्वं सशयजन- कतावच्छेदकतावच्छेदकत्वपर्याप्त्यधिकरणं तद्रूपवत्त्वमित्युक्तावपि न निस्तार इति चेत्, 'अत्राहुः-तद्धर्मपर्याप्तावच्छेदकताकविशेष्यताकसाध्यसंशयत्वा- वच्छिन्नजन्यतानिरूपितजनकतायास्तद्धर्मपर्याप्तावच्छेदकताकमु.. ख्यविशेष्यतानिरूपितप्रकारतात्वेनावच्छेदिका या प्रकारता तद- वच्छेदकतापर्याप्त्यधिकरणरूपवत्त्वमिति विवक्षणान कोऽपि दोषः। अनुगमस्तु-प्रकृतसाध्यसंशयीयकोटितानिरूपितविशेष्यताविशि- शावच्छेदकतावत्प्रकारतावच्छेदकरूपवत्त्वम् । विशेष्यतावैशिष्टयं च-स्वघटितसंशयत्वावच्छिन्नजन्यतानिरूपितजनकतानिरूपितत्व- स्वावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नमुख्यविशेष्यनानिरूपि- तत्वावच्छिन्नत्व-उभयसम्बन्धेन । अतएव नित्यत्वतदभावविषयक- शानवनाय नित्यो न वा अयं च नित्यो न वेति समूहालम्बनसंशय- जनकतामादायं नित्यो ज्ञानादित्यत्र नातिव्याप्तिः नित्यत्वतदभाव. विषयकज्ञानवानयं नित्यत्वतदभावविषयकज्ञानवानिति--ज्ञानी. यविशिष्टज्ञानत्वावच्छिन्नप्रकारतायामेतत्संशयीयइदन्त्वावच्छिन्नवि. शेष्यत्वघटितधर्मावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वा. भावात्, विशिष्टज्ञानवदिदन्त्वावच्छिन्नविशष्यत्वघटितधर्मावच्छि- नजन्यतानिरूपितजनकतावच्छेदकत्वसत्वापि तादृशावच्छेदकता विशिष्टज्ञानदिदन्त्वपर्याप्तावच्छेदकताकविशेष्यतानिरूपितत्वावच्छि- नत्वाभावादिति ॥
लव्यभिचारप्रकरणम्। वस्तुतस्तु फलीभूतसंशयीयसाध्यतावच्छेदकावच्छिन्नकोद्धि- तानिरूपितविशेष्यताविशिष्टा या आधेयत्वसम्बन्धावच्छिन्नावच्छेद- कता तन्निरूपितधर्मितावच्छेदकतानिष्ठावच्छेदकतानिरूपितमुख्य. হিত্মিনিষ্টান্তনালিকানাইবানুমাৰবাভষ্ট तापर्याप्त्यधिकरणरूपवत्वमेव विवक्षणीयम् ॥ বান্ধাহনানি रूपितविशेष्यतावैशिष्ट्यं च स्वावच्छेदकतापर्याप्त्यनुयोगितावच्छे. दकीभूतधर्मावच्छिन्नानुयोगिताकपातिकत्व-स्वघटितसंशयत्वाव- च्छिन्नजन्यतानिरूपितजनकतानिरूपितत्वोभयसम्बन्धेन । समू- हालम्बनसंशयीयविशिष्टज्ञानवदिदत्वावच्छिन्नविशेष्यत्वघाटतष- विच्छिन्नजन्यतानिरूपितजनकतानिरूपितत्वस्येदन्त्ववृत्तिताहशा- वच्छेदकतायां सत्त्वेऽपि विशिष्टज्ञानवदिदन्त्वावच्छिन्नविशेष्य- तावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकीभूतधर्मावच्छिन्नानुयोगि. ताकपर्याप्तिकत्वाभावात् तादृशसंशयीयशुद्धेदन्त्वावच्छिन्नविशे- व्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नानुयोगिता. कपर्याप्तिकत्वसत्त्वेऽपि च तादृशविशेष्यताघटितधर्मावच्छिन्नज- न्यतानिरूपितजनकतानिरूपितत्वाभावात् नोक्तसमूहालम्बनसंश- यमादायातिव्याप्तिः। मुख्यविशेष्यतानिवेशाय धूमवत्पर्वतकाली. नवहिमान् धूमादित्यादौ न प्रागुक्तातिव्याप्तिः । केचित्तु-फलीभूतसंशयीयसाध्यतावच्छेदकावच्छिन्नकोटिता- निरूपितविशेष्यतावच्छेदकता याशधर्मे पर्याप्ता ताशधर्माव. च्छिन्नमुख्यविशेष्यताविशिष्टा या तविशेष्यताशालिसंशयत्वाव- च्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूतप्रकारता तदवच्छेदक- तापर्याप्त्यधिकरणरूपवत्वमिति । निरुक्तमुख्यविशेष्यतावैशिष्ट्यश स्वनिमपितत्व-स्ववृत्तिभेदप्रतियोगितावच्छेदकत्वोभयलम्बन्धेन । भेदप्रतियोगितावच्छेदकत्वं च स्वनिरूपितावच्छेकतापर्याप्त्यधिक रणधर्मावच्छिन्नावच्छेदकताकत्वसम्बन्धेन, नित्यत्वतदभावविष- यकशानवानयं नित्यत्वतदभावविषयकज्ञानवान-इति ज्ञानीयविशिष्ट शानत्वावच्छिन्नप्रकारता तु न निरुतमुख्यविशेष्यताविशिष्टेति नोक्ताऽतिध्याप्तिः । न च यत्वतत्वनिवेशादननुगमः, साध्यतावच्छे. স্বাভিম্বন্ধাঠিনালিথিনমিহামাৰিস্থিমজ্জামান पपरवे तात्पर्यात् । विशेष्यतावैशिष्टयं च स्वघटितसंशयावाव ૨૮૨ मनुमानमादायोः क्रोडपत्रेषु च्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्व स्वावच्छेदकतापर्याप्त्यधि. करणधर्मावच्छिन्नमुख्य विशेष्यतावत्त्वोमयसम्बन्धेन । उक्तसम्बन्ध घटकमुख्यविशेष्यतावस्वं च प्रागुक्तीमयसम्बन्धेन । मुख्यविशेष्य. साव्यावृत्तिस्तु पूर्ववदित्याहुः । यदि च वक्ष्यमाणयुक्त्या साधारणादिधर्मवत्ताशानजन्यता. पच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशध्रौव्ये प्रयोजनविरहेण सं. शयत्वस्य जन्यतानवच्छेदकनयाऽसंभव इत्युच्यते, तदा प्रा. गुक्तोभयसम्बन्धघटकीभूतस्वघटितसंशयत्वावच्छिन्नजन्यतानिरूपि. तत्वमपहाय स्वविशिष्टविशेष्यताशून्यसाध्यसंशयनिष्ठजन्यतानि. रूपितजनकतानिरूपितत्वघटितोभयसम्बन्धनैव विशेष्यतावैशिष्ट्यं विवक्षणीयम् ।। उक्तसम्बन्धघटकस्ववैशिष्ट्य च स्वभिन्नत्व-स्वानव- च्छिन्नत्व-स्वनिरूपकशानीयत्व-एतत्रितयसम्बन्धेन इति ध्येयम् ।। केचित्वित्यादिकल्पेऽपि स्वघटितसंशयत्वावच्छिन्नजन्यतानि. रूपितजनकतावच्छेदकत्वमपहाय उक्तत्रितयसम्बन्धेन स्वविशि. ष्टमुख्यविशेष्यताशून्यसाध्यसंशयनिष्ठजन्यतानिरूपितजनकतावच्छे- दकत्वं निवेशनीयमिति संक्षेपः ॥२॥ जनकता च साध्यसंशयत्वावच्छिन्नजन्यतानिरूपिता ग्राह्या, अतः सम्बन्धान्तरज्ञानजन्यकोट्युपस्थितर्विशेषणज्ञानमुद्रया सा- ध्यसंशयजनकत्वेऽपि न क्षतिः। यदि चासाधारणधर्मादिज्ञानज. न्यसंशये व्यभिचारवारणाय साधारणादिज्ञानजन्यापस्थितिजन्य. तावच्छेदककोटौ तादृशोपस्थित्यव्यवहितोत्तरत्वानेवंशस्यावश्यक तया साध्यसंशयत्वं तत्र प्रयोजनविरहेण न निवेश्यते, तदा साध्य- संशयत्वावच्छिन्नत्वं परित्यज्य साध्यसशयत्वन्यूनवृत्तित्वमेव निवे. शनीयम् । विशेषणशानादिजन्यता च न तन्न्यूनवृत्तिरिति नातिप्र. सङ्गः । न चैवमपि यत्र नित्यत्वतदभावविषयकवानवानयं नित्य- स्वतदभावसहचरितप्रमेयत्ववांश्चायमित्याकारकज्ञानाभ्यां नित्यत्व. तदभावविषयिणी एकैवोपस्थिति निता तत्र तादृशापस्थितिजन- कपक्षधर्मताशानविषयत्वमादाय ज्ञानेऽतिव्याप्तिर्वारैव तादृशोपस्थि. तिव्यक्तः साधारणादिधर्मवत्ताज्ञानजन्यतया साध्यसंशयत्वावच्छि. नं प्रति जनकत्वादिति वाच्यम् । साध्यसंशयत्वावच्छिन्नजन्यतानि- पित्तजनकतानियतजन्यतानिरूपकीभूतजनकताया एव पक्षधर्मता. .
सम्पमिवारप्रकरणम्। २८३ शामविशेषणत्वोपगमात् नित्यत्वतदभावविषयकवानवाशान- अन्यता च न ताशजनकतानियतेति भट्टाचार्येणोकम् । अथात्रोक्तयुक्त्या साधारणादिधर्मवचाशानजन्यतावच्छेदकको टायव्यवहितोत्तरत्वनिवेशस्यावश्यकतया तादृशक्षानजन्यत्वस्य सा. ध्यसंशयाजनकताशज्ञानाव्यवाहितोत्तरघटज्ञानादिसाधारणतया साध्यसंशयजनकताव्यभिचारित्वेनासंभवापत्तिरिति चेत् । अत्राहुः-साध्यसंशयजनकतानियतत्वं न तादृशजनकता. भ्यावृत्तित्वं येना संभवः स्यादिति, किन्तु तादृशजनकताशुन्य माध्यतदभावविषयकोपस्थित्यवृत्तित्वरूपमेव वाच्यम् । तथाच साधारणादिधर्मवत्ताज्ञानजन्योपस्थितिमात्रस्यैव साध्यसंशय- जनकतावेन ताशजनकताशून्यत्वमसाधारणादिधर्मवत्ताशानज. म्योपस्थितावेवेति तादृशोपस्थित्यवृत्तित्वस्य साधारणधर्मवत्ता. ज्ञानजन्यतायामक्षतत्वान्न दोषः ॥ अथवा तादृशजनकतानिय. तत्वं-स्वव्यापकताहशजनकताकत्वम् । स्वपदं ताशजनकतानिय. तत्वाभिमतजन्यतापरम् । स्वव्यापकत्वं च स्वाधिकरणीभूतसाध्य. तभावविषयकोपस्थिति निष्ठभेदप्रतियोगितानवच्छेदकत्वम् , तथाच नित्यत्वतदभावविषयकज्ञानजन्यतायाः साध्यसंशयाजनकसाध्य. सदभावविषयकोपस्थितावपि सत्त्वेन साध्यसंशयजनकतायां ताह- शज्ञानवत्ताज्ञानजन्यताशालितदभावविषयकोपस्थितिनिष्ठभेदप्रति- योगितानवच्छेदकत्वाभावान्नातिव्याप्तिः। साधारणादिधर्मवत्ताशा. नजन्यताशालिसाध्यतदभावविषयकोपस्थितिमात्र एव च साध्यसं. शयजनकतासत्त्वात् नोक्ताऽसंभवः । एतेन पूर्वकल्पे विशेषण- ज्ञानादिमुद्रया साध्यसंशयजनकताशून्यसाध्यतदभावविषयकोप- स्थित्यप्रसिद्धथैव विशेषणज्ञानादिमुद्रया जनकतामादायातिप्रसङ्गा- भावात् जन्यतायां(१) साध्यसंशयत्वावच्छिन्नत्वं-साध्यसंशयत्वन्यू: नवृत्तित्वं वा व्यर्थमिति परास्तम्। एतत्कल्पे विशेषणज्ञानादिमुद्रया जनकतायामपि निरुक्तस्य नित्यत्वतदभावविषयकज्ञानवत्तानाम: जन्यत्वव्यापकत्वस्य सत्वेनोक्तातिव्याप्तिवारणायैव तत्सार्थक्या. दिति ध्येयम्॥ (१)यत्किञ्चिजनकतानियतजन्यतानिवेशेनासंभववारणसंभवात् ।
अनुमानगादाधर्याः क्रोडपत्रेषु परेतु अवच्छेदकतासम्बन्धेन नियतत्वप्रवंशान कोपि दोष इत्याहुः ॥ तश्चिन्त्यम् । अथवत्यादिउक्तकल्पस्यापि फलतस्तदर्थ- कतया सन्दर्भविरोधादिति ॥ केचित् उक्ताऽसम्भवभिया साध्यसंशयजनकताव्यापकत्व. मेव निवेशनीयम् नित्यत्वतदभावविषयकज्ञानजन्यता च न ताह- शजनकतायास्तादृशज्ञानवत्ताज्ञानाजन्योपस्थितावपि सत्वात् । म व तादृशजनकताया: साधारणधमवत्ताशानाजन्यासाधारणधर्मव. चाबानादिजन्योपस्थितावपि सत्त्वात् साधारणधर्मवत्ताज्ञानजन्य. तायामपि तादृशजनकताव्यापकत्वं दुर्घटमिति वाव्यम् । व्या- पकतासम्बन्धेन ताशजनकताविशिष्टजन्यताया एवं निवेश- नीयत्वात् इत्याहुः ॥ (१)तश्चिन्त्यम् ॥ न च तथापि धूमवान् प. तो वह्निमान् न वेत्यादिसंशयत्वावच्छिन्नजन्यतानिरूपितं य. धूमवान्पर्वत इत्याकारकर्मितावच्छेदकप्रकारकशानीयजनकत्वं तत्रियता या धुमविशिष्टवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नजन्यता सनिरूपकजनकताशालि-पर्वतो धूमवानित्यादिपक्षधर्मताज्ञान- विषयत्वमादाय विशिष्टवैशिष्टयावगाहि-अनुभवत्वावच्छिन्नजन्यता- यां स्मृतिसाधारणधर्मितावच्छेदकप्रकारकज्ञानजनकताव्यापकत्वा- भावेन तादृशजनकताव्यापकतानिवेशपक्षे धूमादावतिप्रसङ्गाभावेऽ. पि तादृशजन्यताव्याप्यत्वनिवेशकल्पेऽतिप्रसङ्गो दुर्वार एवेति वा- ज्यम् । एतत्समाधानस्याग्रे वक्ष्यमाणत्वात् ॥३॥ अथवा उक्तातिप्रसवारणाय तादृशजनकतावच्छेदकावच्छि- नत्यमेव जनकतायां निवेशनीयम् , अव्यवहितोत्तरत्वसम्बन्धेन सा- धारण्यादिविशिष्टधर्मवत्ताशानविशिष्टतत्तत्कोट्युपस्थितित्वरूपता- इशक्षानजन्यतावच्छेदकधर्म एव संशयजनकतावच्छेदकः न तु ता. हशज्ञानजन्यतत्कोट्युपस्थितित्वं जन्यतापेक्षया तघटकस्याव्यक हितोत्तरत्वस्य लघुत्वादत आत्माश्रयेण साधारणादिधर्मवत्ताशा- लाशझानजन्यतानवच्छेदकत्वेऽपि न क्षतिरिति भट्टाचार्येणोक्तम् ॥ नजन्यत्वस्य (१)अत्रापि निरुक्तरीत्या संशयत्वावच्छिन्नप्रवेशो व्यर्थ इति चिन्ताबीजम् ।
सव्यभिचारप्रकरणम् । অথম হালনাক্ষীশ্রী লাখাৰাকৰখা ज्ञानजन्यत्वस्य प्रवेशेऽपि न क्षतिः प्रकृते संशयजनकतावच्छेदक- জামিনিষ্ঠা যা বাখাঙ্কিালৰা সৰুমহান वहितोत्तरत्वपर्याप्तावच्छेदकताकजन्यतानिरूपिता या साधारणा. दिधर्मवत्ताज्ञाननिष्ठजनकता तदाश्रयपक्षधर्मतामानविषयत्वमादायैध सर्वत्र लक्षणसमन्वयादिति । न च जनकतावच्छेदकताया यदि पर्याप्तिर्निविश्यते तदाऽसंभवः क्षतिरिति वाच्यम् । जनकताक्ष उछेदकतायाश्च पर्याप्तिर्न निवेश्यते इति स्वयमेवोकत्वात् इति चेत् । उच्यते-जन्यताया अव्यवहितोपरत्वधटितत्वमत एक तदपेक्षया लघुत्वेन तद्घटकाव्यवहितोत्तरत्वस्य संशयजनकतावच्छेदकत्वो. क्तिसंगतिः अन्यथा जन्यताया अतिरिक्तत्वे जन्यतापेक्षयाऽव्यवहि- तोत्तरत्वस्य लघुन्वाभावेन जन्यताया जनकतावच्छेदकत्वखण्ड. नस्याप्रसक्त्यापत्तेः । एवञ्च जन्यतापेक्षया सघटकाव्यवहितोत्तर- त्वस्य लघुत्वादिति अन्थेन अन्यत्वं नातिरिक्तपदार्थः किन्त्वव्यवहि- तोत्तरत्वघटितमेवेति शाफ्नात् । अत एव आत्माश्रयेत्यादिप्रन्थस्य অনী লাখ লানিকিন্তু অন্তঃ সামাখাইন না বা नवच्छेकत्वेऽपि न क्षति ऽसभवः, अन्यथा जन्यताया अतिरिक्तत्वे- संभवरूप एव क्षतिरित्यर्थ एव तात्पर्यम्, न तु अत एव जन्यत्वस्य स्वघटकाव्यैवहितोत्तरत्वाऽपेक्षया गुरुत्वेन संशयजनकतानवच्छे. दकत्वादेव न क्षतिर्नाऽसंभव इत्यर्थ इति न कुत्राप्यनुपपत्तिरिति ध्येयम्(१) ॥ ४॥ न चैवं साध्यसंशयत्वनिवेशनं व्यर्थ यत्किञ्चिज्जनकतावच्छे. दकावच्छिन्नजन्यतानिवेशेनैवोपपत्तेः, नित्यत्वतदभावविषयकशा- मवत्तावानजन्यतावच्छेदकत्वस्याव्यवहितोत्तरत्वसम्बन्धेन तादृशक्षा- (१) वस्तुतस्तु उपस्थितित्वस्य साधारणादिधर्मवत्ताज्ञानज. न्यतावच्छेदककोटौ प्रवेशपक्ष एवैतदुक्तत्वात् तत्पक्षे जनकतावच्छे- दककेवलस्मृतित्वमादायातिप्रसङ्गभिया उभयत्रैव पर्याप्तिनिवेशस्या- জলখাবলাছনামাজসলেবানুনাথি - तिसंभवादिति ध्येयम्।
अनुमानगादाधर्याः कोडपत्रेषु नविशिष्धनित्यत्वादिविषयकोपस्थितित्वस्य किञ्चित्कार्य प्रति जन- कतावच्छेदकत्वाभावेनाऽतिप्रसाभावादिति वाच्यम् । तथासति वह्नयादी साध्ये रासभसाहचर्यादिप्रकारताशानमादाय धूमादावति. प्रसंगापातात प्रकृतसाध्यसंशयजनकताया अवश्यं निवेशनीयत्वा. दिति भट्टाचार्येणोक्तम् ॥ अथात्र प्रागुकयुक्त्या प्रकृतसाध्यसन्देहजनकतापदेन प्रकृतसा. ध्यसंशयत्वन्यूनवृत्तिजन्यतानिरूपितजनकत्वमेष विवक्षणीयम्। तच न्यूनवृत्सित्वं यदि प्रकृतसाध्यसन्देहनिष्ठभेदप्रतियोगितावच्छेदकत्वे सति ताशसंशयनिष्ठत्वरूपं तदा साध्यसंशयत्वोपादानेऽपिरासभा तदभावसाहचर्यादिप्रकारकशानजन्यतामादायातिव्याप्तितादवस्थ्यमेव रासमतदभावसहचरितधर्मवत्ताज्ञानजन्यकोट्युपस्थितिजन्यतायामु- क्तसाध्यसंशयत्वन्यूनवृत्तित्वस्याक्षतत्वात् । नाऽपि साध्यसंशयत्व. व्याप्यत्वमेव तन्न्यूनवृत्तित्व-साध्यतदभावसहचरितधर्मवत्ताज्ञान- जन्यकोट्युपस्थित्यव्यवीहतोत्तरघटादिज्ञानसाधारणताहशोपस्थि- तिजन्यतायामपि साध्यसंशयत्वव्याप्यत्वाभावादिति चेत् । अत्रोच्यते-साध्यसंशयत्वन्यूनवृत्तित्वं सारसंशयनिष्ठभेदप्र- तियोगितावच्छेदकत्वे सति मुख्यविशेष्यताद्वयशून्यसाध्यसंशयनि- ष्ठत्वम, रासभादिसंशयत्वावच्छिन्नजन्यतायाञ्च मुख्यविशेष्यताद्वय- शुन्यसाध्यसंशयनिष्ठत्वाऽभावान्न निरुक्तन्यूनवृत्तित्वम्। यदि च संशये विशेष्यताद्वयमेव स्वीक्रियते, तदा स्वभिन्नत्व-स्वानवच्छिन्न. स्व-स्वनिरूपकज्ञानीयत्वैतत्रितयसम्बधेन मुख्यविशेष्यताविशिष्ट- मुख्यविशेष्यताशुन्यसाध्यसंशयनिष्ठत्वमेव न्यूनवृत्तित्वघटकं वा- व्यमिति । इदमपि संशयीयविशेष्यताद्वयस्यावच्छेद्यावच्छेदक. भावमभ्युपेत्य । वस्तुतस्तु किञ्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छे. दकावच्छिन्नप्रकारतानन्तः(१)पातित्वे सति किञ्चिद्धर्मावच्छिन्नविशे. प्यतानिरूपितसाध्याभावत्वावच्छिन्नविषयतानन्तःपातिनी या वि. षयता तच्छ्न्यसंशयनिष्ठत्वमेव न्यूनवृत्तित्वघटकं वक्तव्यमतो न काप्यनुपपत्तिरिति ध्येयम् ॥ ५॥ (१) अव्यापकत्थे सतीत्यर्थः ।
सभ्यभिचारप्रकरणम्। न च कोटिद्वयपदस्य प्रकृतसाध्यतावच्छेदकावच्छिन्नसदभाव- परतया प्रकृतसाध्यतावच्छेदकावच्छिन्नादिविषयकोपस्थितित्वटि. तधर्मावच्छिन्नजनकतावच्छेदकावच्छिन्नजन्यतानिवेशानायमतिप्रस. १ इति वाच्यम् । एवं सत्यतल्लाभायैव साध्यसंशयोपादानमिति भट्टाचार्येणोक्तम्। अत्रेदमवधेयम्-प्रकृतसाध्यतावच्छेदकावीच्छन्नादिविषयकोप- स्थितित्वघटितधर्मावच्छिन्नजनकतावच्छेदकावच्छिन्नजन्यतापदेन प्रकृतसाविषयकोपस्थितित्वघटितधर्मावच्छिन्नजनकतावच्छेद. कावच्छिन्नजन्यता प्रकृतसाध्याभावोपस्थितित्वघटितधर्मावच्छिन्न. जनकतावच्छेदकावच्छिन्नजन्यता च वक्तव्या तत्रोभयदिशि जन- कतायामेव प्रकृतसाध्यसंशयानिरूपितत्वमवश्यं निवेशनीयमिति, अन्यथा प्रथमजनकतायां तदनिवेशे गोत्यवानश्वत्वादित्यादिविरुद्ध कालिकेन गोत्वकोटिकसंशयस्य साध्यताघटकसमवायसंम्बन्धेन प्रकृतसाध्याभावकोटिकसंशयस्य च जनकीभूतकोट्युपस्थितिजन- ककालिकेन गोत्ववद्वृत्तिसमवायसम्बन्धावच्छिन्नप्रतियोगिताक. गोस्वाभाववत्ति-अश्वत्ववदिदमित्यादिशानमादायातिव्याप्तिः । एवं द्वितीयादिजनकतायां तदनिवेशेऽपि वह्निमान् धूमादित्यादौ व्याप्ये संयोगेन वह्निमदत्ति कालिकेन वह्नयभाववठ्ठत्तिधूमवानित्यादिज्ञान- मादायातिव्याप्तिरिति कथमुक्कमेतल्लाभायैव संशयपदोपादानादिति। न चोभयत्र जनकतायामेव साध्यतावच्छेदकसंसर्गावच्छिन्नकोटिता- कसंशयनिरूपितत्वमात्रनिवेशेनैव उक्तातिप्रसङ्गवारणसंभवे संशये प्रकृतसाध्यीयत्वखण्डन एवैतत्ग्रन्थस्य तात्पर्यमिति वाच्यम् । विशेषणतया घटत्वाभावलाध्यकघटत्वादिविरुद्धहतौ कालिकेन घटत्वाभावकोटिकस्य विशेषणतासम्बन्धावच्छिन्नप्रतियोगिताकघ. टत्वाभावाभावकोटिकसंशयस्य साध्यताघटकसम्बन्धेन प्रकृतसा. भ्याभावकोटिकसंशयस्य च जनकीभूतकोट्युपस्थितिजनकं कालि- केन घटत्वाभाववद्वृत्तिविशेषणतासम्बन्धावच्छिन्नप्रतियोगिताकघट- स्वाभावाभाववद्वृत्तिघटत्ववानित्यादिक्षानमादायातिव्याप्तिवारणाय प्र- थमजनकतायां विशेषणतया धूमाभावसाध्यकवह्नयभावादिरूपव्याप्य. हेतौ कालिकेन संयोगसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावाभाव. त्वाधच्छिभविशेषणतापच्छिन्नप्रतियोगिताकाभावकोटिसंशयस्य वि.
२८८ अनुमानगादााः क्रोडपत्रेषु शेषणतया प्रकृतसाध्यकोटिकसंशयस्य च जनकीभूतकोट्युपस्थिति- जनकं कालिकेन धूमाभावाभाववद्वृत्तिनिधूमवति वह्नयभाववानयमि- स्यादिशानमादायातिव्याप्तिवारणाय द्वितीयजनकनायां च प्रकृतसा- ध्यसंशयनिरूपितत्वनिवेशस्याप्यावश्यकत्वात् । अत एवैतदतिव्या. प्तिभियैव यदि चेत्यादिनाऽभिधास्यमाने पतत्कल्पसमशीलद्विती. यकल्पे संशयपदद्वयोपादानं स्वयमेव करिष्यतीति चेत् । अत्र केचित्-उभयकोटिसाहचर्यावच्छिन्नप्रकारताशालिज्ञान- जन्यकोट्युपस्थितेरेव संशयजनकत्वं न तु प्रत्येकसाहचर्या. वच्छिन्नप्रकारताशालेज्ञानजन्यकोट्युपस्थितरिति मते उक्ताति- प्रसङ्गाभावात तन्मतमालम्व्यैवैतल्लाभायेत्यादिग्रन्थाभिधानाना. सङ्गतिरित्याहुः॥ वस्तुतस्तु वक्ष्यमाणसहकारितावच्छेदकनिवेशे निकृष्टकल्पा- भिप्रायेणेवैतद्वन्थोऽभिहितः । तत्कल्प साध्यसंशयनिवेशस्याप्र. योजकत्वात् इति ध्येबम ॥६॥ अथ वह्निसाहचर्यमात्रेण वह्नयभावसाहचर्यमात्रेण वाऽवच्छिन्ना या व्याप्यस्य विरुद्धस्य वा प्रकारता तस्याश्चोद्बोधकान्तरवशात साध्यतदभावविषयकसमूहालंबनरूपसाध्यतदभावोपस्थितिजनकी- भूतज्ञानीयतया प्रत्येकं साध्योपस्थितिनिष्ठजन्यतानिरूपितजन. कतायां साध्याभावोपस्थितिनिष्ठजन्यतानिरूपितजनकतायां चाव. च्छेदकत्वेनातिप्रसङ्गः । यदि च साध्यविशेषणकोपस्थितिवृत्तिसा- ध्यसंशयजनकतानियतं यज्जन्यत्वं तनिरूपितायां तादृशोपस्थित्यः वृत्तिसाध्यसंदेहजनकतानियतं यज्जन्यत्वं तनिरूपितायां च जनक. तायामवच्छेदकीभूता या प्रकारता तस्या विवक्षितत्वानातिप्रसन इति भट्टाचार्यणोक्तम् ॥ अत्र कल्पे प्रथम साध्यसंशयपदं जनकतार्या साध्यसं. शयत्वावच्छिन्नजन्यतातिरूपितत्वलाभाय द्वितीयमपि तदर्थमे- धान्यथा गोत्ववान् अश्वत्वादित्यादिविरुद्ध वहिमान् धूमादि. त्यादिश्याप्ये च गोत्वाभाववद्वृत्ति-द्रवत्ववद्वृत्ति-अश्वत्ववानि- स्यादिज्ञानीयप्रकारतामादाय वह्निमत्तिवह्नयभावाभाववत्तिधूम- बानित्यादिनानायप्रकारतामादाय चातिव्याप्स्यापत्तेः । के. पलसाध्यसहचरितहेतुमत्ताधानजन्यतायां केवलसायाभावसहच- सव्यभिचारप्रकरणम् । रितहेतुमत्ताशानजन्यतायां समूहालम्बनसाध्यतदभावो. पस्थितौ साध्यविषयकोपस्थितित्वावच्छिन्नजनकतायाश्च सामा- नाधिकरण्यावयाप्यविरुद्धयोरतिव्याप्तिरतो नियतपदद्वयम् । नत्र विशिष्टजनकनासामानाधिकरण्यनिवेशेनैव पूर्वोक्तदोषवारणसंभवे- ऽलं नियतपदद्वयेनेति वाच्यम् । वह्विसहचरितमीनसहचरितजल. पत्ताशानजन्यसमूहालम्वनोपस्थितौ तादृशजनकतासमानाधिकरण- मीनसहचरितवत्ताज्ञानजन्यतामादाय वह्निमान् जलादित्यादिवि- रुद्ध समूहालम्बनोपस्थितौ तादृशजनकतालमानाधिकरणरासभस- हचरितधूमवत्ताशानजन्यतामादाय वह्निमान् धूमादित्यादिव्याप्ये चा- तिव्या प्तिरतो नियतपदद्वयम्(१)। अथ साध्याविशेषणकोपस्थितिपदेन साध्यतावच्छेदकावच्छि भविशेषणताशून्योपस्थितिरेव धाच्या अन्यथा साध्यनिष्ठविशे. षणताशून्योपस्थितेरप्रसिद्ध्या प्रमेय साध्यकव्याभिचारिण्यव्याप्त्या पत्तेः, एवं च स्वरूपतो द्रव्यत्वादिसाध्यकस्थले साध्यतावच्छे. दकाप्रसिद्धयाऽध्याप्तिः(२) । न च स्वरूपतो द्रव्यत्वसाध्यकस्थले साध्यनिष्ठविशेषणताशून्योपस्थितिरेव निवेशनीया तथाच द्रव्य- (१) अत्र ताशवृत्तित्वं जनकतायां न तु जन्यतायां तथासति वह्नयभावसहचरितजलवत्ताशानजन्यताया घटज्ञानादिसाधारणतया साध्याविशेषणकोपस्थितिवृत्तित्वेन साध्याभावोपस्थितित्वावञ्छि- नजनकतासमनियततया च तादृशजन्यतामादाय वह्निमान जलादि. तिविरुद्धऽतिव्याप्तिरतः साध्याविशेषणकोपस्थितिवृत्तित्वं जनक- तायां निवेश्यम्। एवं साध्याविशेषणकोपस्थित्यवृत्तित्वस्य जन्यतायां निवेशेऽसम्भवः सर्वस्या एव जन्यताया घटज्ञानादिसाधारणतया ताशावृत्तित्वाभावादिति ।। (२)नच साध्यतावच्छेदकसम्बन्धन वृत्तिलाध्यनिष्ठत्वनिवेशा. नाप्रसिद्धिरिति वाच्यम् तथासति घह्नित्येन घटावगाहियभावो- पस्थितित्वावच्छिन्नजनकतामादाय विरुद्धेऽतिव्याते?रित्वात् । न च तथापि साध्यनिष्ठमुख्यविशेष्यतामिव मुख्यविशेष्यताशुन्यत्व निवेशान्नातिव्याप्तिरिति वाच्यम् धयभावत्वेन वधवगाशुपस्थि- तिमादाय तत्रातिव्याः ।
अनुमानगादाधर्याः क्रोडपत्रेषु अथ त्वसहचरितधर्मवत्ताज्ञानजन्यद्रव्यत्वमित्याकारकोपस्थितेरेव तार- शत्वान्नानुपपत्तिरिति वाच्यम् । द्रव्यत्वमित्याकारकोपस्थितेरपि द्रव्यत्वत्वघटकतया स्वरूपतो द्रव्यत्वविशेषणकत्वादिति चेत्, उच्यते-स्वरूपतो द्रव्यत्वादिसाध्यकस्थले साध्यावच्छिन्नवि. शेषणताशून्योपस्थितिरेव निवेशनीया तत्तदभावसहचरितधर्मव- ताज्ञानजन्योपस्थितिवत् तत्तदन्योन्याभाववद्वृत्तिधर्मवत्ताशा- नजन्योपस्थितेरपि संशायकतया उक्तस्थले द्रव्यतदन्यवृत्तिधर्मवा- नित्याकारकशानजन्यद्रव्यमित्याकारकोपस्थितिमादायैव लक्षणस. मन्वयादिति ध्येयम् ॥ साध्यसंशयत्वावच्छिन्नजन्यतानिरूपितजनकताविशि- ष्टप्रकारताविवक्षणनैव सामञ्जस्ये प्रत्येकसाहचर्यमात्रावच्छिन्न रताकशानजन्याद्वोधकान्तराधीनसाध्यतदभावविषयकसमूहालम्ब होपस्थितिजनकतामादायातिव्याप्तिवारणसम्भवेन साध्याविशेषण- केत्यादिगुरुतरारम्भो निष्फलः ॥ जनकतावैशिष्ट्यं च स्वनि. यतजन्यतानिरूपितजनकतावच्छेदकत्व-स्वभिन्नसाध्यसंशयजनक- तानियतजन्यतानिरूपितजनकतावच्छेदकत्वोभयसम्बन्धेन इति चेन्न । स्वरूपसम्बन्धात्मकजनकताया उपस्थितिभेदेन भिन्नत्वे उक्तसमूहालम्बनोपस्थितिमादायोक्तातिव्याप्तितादवस्थ्यातू (१)उक्त- परम्परायाः संसर्गत्वे मानाभावाच्चेति ध्येयम् । अथात्राश्वत्ववान् गौर्न वेत्यादिसंशयत्वावच्छिन्नजन्यतानिरूपि- तसाध्याविशेषणकोपस्थितिवृत्तिधर्मिमतावच्छेदकप्रकारकज्ञानत्वाब- च्छिन्नजनकतानियतं यदश्वत्वविशिष्टवैशिष्ट्यावगाहिबुद्धित्वाव. च्छिन्नजन्यत्व तन्निरूपितजनकतायां साध्याविशषणकोपस्थित्यवृत्ति साध्यसंशयजनकतानियतजन्यतानिरूपितजनकतायां चावच्छेदकी- भूता या गोत्वाभावववृत्त्यश्वत्ववानित्यादिशानीयप्रकारता तामादाय गौरश्वत्वादित्यादिविरुद्ध वह्नयभावकालीनधूमवान् वह्निमान वेत्या. दिसंशयत्वावच्छिन्नजन्यतानिरूपितसाध्याविशेषणकोपस्थित्यवृत्ति- (१) स्वावच्छेदकावच्छिन्नभिन्नत्वनिवेशे न दोष इत्यत आह. उक्तति । मानाभावः विनिगमनाविरहेण जनकता नाना तथा चा- न्यजनकतामादायातिव्याप्तिरिति भावः ।
सव्यभिचारप्रकरणम्। २९१ धम्मितावच्छेदकप्रकारकज्ञानत्वावच्छिन्नजनकतानियतं यद्वयमा. वकालीनधूमविशिष्टवैशिष्ट्यावगाहिबुद्धित्वावच्छिन्नजन्यत्वं तन्नि पितजनकतायां साध्याविशेषणकोपस्थितिवृत्तिसाध्यसंशयजन- कतानियतजन्यतानिरूपितजनकतायां चावच्छेदकीभूता या वह्नि- मदत्तिवह्नयभावकालीनधूमवानित्यादिशानायप्रकारता तामादाय बाह्नमान्धूमादित्यादिव्याप्ये चातिव्याप्तिः। न च द्वितीयजन्यतायां मुख्यविशेष्यत्वावच्छिन्नत्वनिषेशानायमतिप्रसङ्गःविशिष्टवैशिष्ट्या- घगाहिबुद्धित्वावच्छिन्नजन्यतायां मुख्यविशेष्यत्वावच्छिन्नत्वाभावा- दिति वाच्यम् । तावतापि वह्नयभावकालीनधूमवान् पर्वतो वह्नि- मान वेत्यादिसंशयत्वावच्छिन्नजन्यतानिरूपितधर्मिताच्छेदकप्रकार. कर्मिज्ञानत्वावच्छिन्नजनकतानियतं यद्विशिष्टानुयोगिकवैशिष्ट्या. वगाहिबुद्धित्वावच्छिन्नजन्यत्वं तन्निरूपितजनकतावच्छेदकीभूतवहि मदृत्तिवह्नयभावकालीनधूमवान् पर्वत इत्यादिशानीयप्रकारतामादाय वह्निमान् धूमादित्यादिव्याप्ये एवंरीत्या विरुद्ध चातिव्याप्तेर्दुर्वार- त्वादिति चेन्न । द्वितीयजन्यतायामनुभवत्वानवच्छिन्नत्वस्य शाना- वच्छिन्नत्वस्य वा निवेशेनैवोक्तातिव्याप्त्यसम्भवादिति । न च तथापि वहयभावकालीनालोकवान् पर्वतो वह्निमान वेत्यादिसंश. यत्वावच्छिन्नजन्यतानिरूपितसाध्याविशेषणकोपस्थित्यवृत्तिधर्मिता. वच्छेदकप्रकारकशानत्वावच्छिन्नजनकताया नियतं यत्पर्वतो वह्नय. भावकालीनालोकवानित्याकारकानुमितित्वावच्छिन्नपरामर्शजन्य- त्वं तन्निरूपितजनकतायां साध्याविशेषणकोपस्थितिवृत्तिसाध्यसं. शयजनकतानियतजन्यतानिरूपितजनकतायां चावच्छेदकीभूता वह्निमत्तिवह्नयभावकालीनालोकव्याप्यधूमवानित्यादिक्षानी- यप्रकारता तामादाय व्याप्यादावतिव्याप्तितादवस्थ्यमेव परामर्शज- न्यतायां परामर्शात्मकचानावच्छिन्नत्वसत्वादिति वाच्यम् ।परामर्श जन्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशावश्यकतया प्रयोजना विरहेणानुमितित्वाद्यप्रवेशेन परामर्शजन्यत्वस्य परामर्शोत्तरवर्तिसं. शयाजनकज्ञानादावपि सत्त्वेन परामर्शजन्यतायां साध्यसंशयज. नकतानियतत्वाभावादेवोक्तातिव्याप्तेरनवकाशादिति ध्येयम् ॥ यत्तु द्वितीयजन्यतायां स्मृतित्वावच्छिन्नत्वनिवेशानोक्तातिप्रसङ्ग इति ॥ तनुच्छम्-साधारणादिधर्मवत्तावानजन्यतावच्छेदककोटा- २९२ अनुमानगादाधर्याः क्रोडपन्चेषु चव्यवहितोत्तरत्वस्य निवेशावश्यकतया स्मृतित्वस्य जन्यतानवच्छे. दकत्वादिति । स्मृतित्वस्य जन्यतानच्छेदकत्वे सशयाजनकज्ञानसा- धारण्यां साधारणादिधर्मवत्ताज्ञानजन्यतायां यथा संशयजनकता. नियतत्वं तथोपपादितं प्रागेध ॥७॥ एतदस्वरसेनैव वा-साध्याभावविषयक त्वटितधर्मावच्छिन्न संशयजनकतावच्छेदकावच्छिन्नजन्यतानिरूपितायां तादृशधर्मानव- च्छिन्नसाध्यविषयकत्वघटितधर्मावच्छिन्नसंशयजनकतावच्छेदकाव- च्छिन्नजन्यतानिरूपितायां च जनकतायामवच्छेदिका या प्रकारता तस्या का निवेशान्नोक्तदोष इति कल्पान्तरमुक्तं भट्टाचार्येण ॥ एतत्कल्पे संशयपदद्वयोपादानव्यावृत्तिः प्रागव विहिता ॥ अथात्र माध्याभावविषयकत्वघटितधर्मानवच्छिन्नजनकतानिवेशेनैव सामञ्जस्ये ताशजनकतायां साध्यविषयकत्वघटितधर्मावच्छिन्नत्व. निवेशो व्यर्थःनि चाश्वत्वव भूतलंगोत्ववन्न वेत्याकारकसंशय प्रति या साध्याभावविषयकत्वांटतधर्मावच्छिन्नधर्मितावच्छेदकप्रकारक- ज्ञानत्वावच्छिन्नजनकता तदवच्छेदकधर्मावच्छिन्नाश्वत्वविशिष्टवै- शिष्ट्यावगाहित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकीभूता या गोत्वाभाववकृत्यश्वत्ववानिति-ज्ञानीयप्रकारता तामादाय गोत्ववान् अश्वत्वादित्यादावतिव्याप्तिवारणाय तन्निवेशनमावश्यकमिति वाच्य. म्। विशिष्टवैशिष्ट्यावगाहित्वावच्छिन्नजन्यतायां साध्यसंशयजनक तावच्छेदकेतरधर्मानवच्छित्वरूपतादृशनकतावच्छेदकपर्याप्तावच्छे- दकताकत्वविरहादेवोक्तातिव्याप्त्यसम्भवादनुभववादरपि विशिष्टवै. शिष्ट्यावगाहित्वावच्छिन्नजन्यतावच्छेदकधटकत्वात,अन्यथोक्तविशे- षणदानेऽपि गोत्वकालीनाश्वत्ववद्भूतलं गोत्ववन्न वेत्याकारकसंशयस्य धर्मितावच्छेदकप्रकारकशानमुद्रया साध्यविषयकत्वघटितधर्मावच्छि- भजनकतावच्छदकाच्छिन्नगोत्वकालीनाश्वत्वविशिष्टवैशिष्ट्यावगा. हिबुद्धित्वावच्छिन्नजन्यतानिझपितजनकतावच्छेदकीभूनगोत्वाभाव- बत्तिगोत्वकालीनाश्वत्ववानित्यादिशानीयप्रकारतामादायातिव्या- सितादवस्थ्यापत्तेः॥ न चोक्तशानमादायातिव्याप्तिभियैव तद्विशे. षणं विहाय साध्यमुख्यविशेष्यकत्वावच्छिन्नत्वस्य निवेशान्नासङ्गति- रिति वाच्यम् साध्यमुख्यविशेष्यकत्वावच्छिन्नत्वनिवेशकल्पेऽपि अश्वववदगोत्वं गोत्ववन्न घेत्याकारकसंशयीयधर्मितावच्छेदक- सव्यभिचारप्रकरणम्। २९३ ज्ञानत्वावच्छिन्नजनकतायांसाध्यमुख्य विशेष्यकत्वावच्छिन्नत्वस्यापि सत्त्वात् ताशजनकतावच्छेदकावच्छिन्नविशिष्टवैशिष्ट्यावगाहित्वा' वच्छिन्नजन्यतामादायोक्तातिव्याप्तेर्दुरत्वादिति । एतेन स्मृति स्वादिसाधारणविशिष्टवैशिष्ट्यावगाहित्वावच्छिन्नजन्यतामादायो. कातिव्याप्तिवारणाय साध्यविषयकत्वघोटतधर्मावच्छिन्नत्वनिवेशन- मित्यपि परास्तम्। तन्मते तद्विशेषणदानेऽप्युक्तरीत्याऽतिव्याप्तेरश- क्यपरीहारतया जन्यतायां विशेषणान्तरं (१)प्रक्षिप्यैवोक्तातिव्याप्ते- र्धारणीत्वादिति । यत्तु महानसीयवह्निमान् वह्निसामान्याभाववान् वेत्याकारकसंश- यजनकीभूतकोट्युपास्थातजनकमहानसीयवाह्नमदवृत्तिवह्निसामान्या. भाववदवृत्तिपर्वतीयधूमवानितिज्ञानीयप्रकारतामादाय वह्निमान् पर्व- तीयधूमादित्यादावतिव्याप्तिवारणाय साध्यविषयकत्वघटितधर्माव- च्छिन्नेति साध्यतावच्छेदकपर्याप्तावच्छेदकताकविषयकत्वघटितध. विच्छिन्नार्थकमिति ॥ तश्चिन्त्यम् ॥ प्रकृतसाध्यसंशयत्वावच्छिन्न- जन्यतानिरूपितजनकतानिशावश्यकत्वस्य प्रागेवाभिहितत्वेन उक्त- संशयजनकताया लक्षणाघटकत्वादेवोक्तातिव्याप्त्यसम्भवादिति भावनीयम्। परे तु जनकतायां साध्यविषयकत्वघटितधर्मावच्छिन्नत्वानि- वेशे वह्नयभावाभाववद्वृत्तिवह्निमहृत्तिधूमवानितिज्ञानीयप्रकारतामादाय हृदो वह्नयभाववान् धूमादित्यादिविरुद्धेऽतिव्याप्तिरुक्तज्ञानीयप्रका. रतायां साध्याभावविषयकत्वघंटितधर्मावच्छिन्ना या वह्निविषयको. पस्थितित्वावच्छिन्नवह्निमान् वह्नयभाववानित्याकारकसाध्यसंशय- जनकता तदवच्छेकत्वस्य सत्त्वात् ॥ न चोक्तज्ञानीयप्रकारतायां साध्यतावच्छेदकावच्छिन्नकोटिताकसंशयत्वावच्छिन्नजन्यतानिरूपि- तजनकतावच्छेदकत्वाभावादेव नातिव्याप्तिः। वह्निकोटिकसंशयत्व. घधभावकोटिकसंशयत्वयोरेवोक्तज्ञानजन्योपस्थितिजन्यतावच्छे- दकत्वादिति वाच्यम् । साध्यसंशयत्वावच्छिन्नजन्यतापदेन साध्यसं- शयत्वन्यूनवृत्तिजन्यताया एव प्रागुक्तयुक्त्या विवक्षितत्वादित्याहुः ॥ १) अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नताशज्ञानावच्छिन्नत्वं जन्यतायां निवेशनीयमिति।
२९४ अनुमानगादाधर्याः क्रोडपत्रेषु अन्ये. तु यादृशविषयविशेषे साध्यसंशयसमनियत एव घटसंशयो जायते तत्र तत्साध्यकविरुद्ध तिव्याप्तिः । तथाच साध्या- भावसहचरितत्वावच्छिन्नां साध्याभावविषयकत्वघटितधर्मावच्छिन्न. जनकतानिरूपितजन्यतानिरूपितजनकतावच्छेदकीभूत (घट)सहच. रितत्वावच्छिन्न प्रकारतामादाय लक्षणगमनादिति साध्यविषयकत्व. घटितधर्माच्छिन्नत्वनिवेशः । तथाच घटसहचरितवत्ताशानजन्यो- पस्थितित्वावच्छिन्नजनकतायां तादृशविषयकत्वानवच्छिन्नत्वादिति वदन्ति ॥ ८॥ अथवा साध्यसन्देहप्रयोजिका या साध्यस्य तदभावस्य चोपस्थि. तिविषयता तदुभयप्रयोजकप्रकारतावत्त्वस्य विवक्षितत्वात् । उभय- साहचर्यावच्छिन्नप्रकारताया एव तथात्वान्नातिप्रसङ्गः। साध्यस्यो- पस्थितिविषयता च साध्याभावविषयतानन्तभूतां ग्राह्या तेन वह्नय- भावसाहचर्यावच्छिन्नप्रकारताया वह्निविषयताप्रयोजकत्वेऽपि वि- रुद्ध नातिव्याप्तिरिति भट्टाचार्येणोक्तम्-इतिपाठः काचित्कः । अथैतत्कल्पेऽपि यत्र नित्यत्वतदभावविषयकज्ञानवानयं नित्य- त्वतदभावसहचरितप्रमेयत्ववांश्चायमित्याकारकशानाभ्यां नित्य- स्वतदभावविषयिण्येकैवोपस्थिति निता तत्र तादृशोपस्थितिजनक- पक्षधर्मताज्ञानविषयत्वमादाय नित्यत्वसाध्यकशानहेतो प्रागु- कातिव्याप्तिर्दुर्वारैव ताशोपस्थितिव्यक्तः साधारणधर्मवत्ताज्ञान- जन्यत्वेन तदीयसाध्यतदभावविषयतायाः साध्यसंदेहप्रयोजकत्वस- वेन ताशोभयविषयताप्रयोजकत्वस्य नित्यत्वतदभावविषयकक्षा. नत्वावच्छिन्नप्रकारतायामपि सत्वात् इति चेन्ना साध्यस्योपस्थितिवि- षयतानिष्ठसाध्यसन्देहत्वावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकतानिय- तप्रयोज्यताकप्रयोजकतावत्त्वे सति साध्यामावस्योपस्थितिविनय. तानिष्ठसाध्यसन्देहत्वावच्छिन्नप्रयोज्यतानिरूपितप्रयोजकतानियतप्र. योज्यतानिरूपितप्रयोजकतावत्प्रकारताया विवक्षितत्वादेवोक्तातिव्या तिवारणसम्भवान्नित्यत्वतदभावविषयकज्ञानवत्ताज्ञानप्रयोज्यतायाः साध्यसन्देहाजनकोपस्थितिविषयतासाधारणत्वेन साध्यसंशय. प्रयोजकताव्याभिचारित्वादिति ध्येयम् ॥९॥ साध्यविषयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदको यो धर्म. स्तदवच्छिन्नजन्यतानिरूपितायां तवच्छिन्नसहकारितावच्छेदक- सव्यभिचारप्रकरणम् साध्याभावविषयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदकावाच्छन्न- जन्यतानिरूपिताया च जनकतायामवच्छेदकीभूतप्रकारताया निवेशेन नातिप्रसङ्ग इति भट्टाचार्यणोक्तम् ॥ अत्र महानसीयवह्निमव्यावृत्तवह्नयभाववव्यावृत्तपर्वतीयधूम- वानितिज्ञानीयप्रकारतामादाय वह्निमान् पर्वतीयधूमादित्यादाधतिव्या- प्तिः-उक्तज्ञानजन्यकोटयुपस्थितेरपि महानसीयवह्निमान वह्निसामा- न्याभाववान् वेत्याकारकसंशयजनकत्वादतः साध्यविषयकत्वेऽति साध्यतावच्छेदकपर्याप्तावच्छेदकताकनिरूपकताकत्वार्थकम् । तथा. च महानसीयवह्निमद्यावृधमवत्ताशानजन्यमहानसीयवह्नयुपस्थिति- स्वावच्छिन्नजनकतायां साध्यतावच्छेदकताकविषयताकत्वावच्छिन्न- स्वाभावानोक्तातिव्याप्तिः। एवं महानसीयवह्निमद्यावृत्तवहयभाववद्या. वृत्तपर्वतीयधूमवानिति ज्ञानीयप्रकारतामादाय महानसीयवह्निमान पर्वतीयधूमवानित्यादिविरुद्धेऽतिव्याप्तिवारणाय द्वितीयजनकतायां साध्याभावविषयकत्वावच्छिन्नति। अत्र साध्यविषयकत्वं साध्यमुख्य- विशेष्यकत्वरूपं ग्राह्यम् । तेन वह्निकालीनमहानसीयवह्निमान् वहिसा. मान्याभाववान् वेत्याकारकसंशयजनककोट्युपस्थितिजनकताव. च्छेदकीभूतवह्निकालीनमहानसीयवह्निमद्यावृत्तवह्नयभाववद्यावृत्त- पर्वतीयधूमवानितिक्षानीयप्रकारतामादाय वह्निमान् पर्वतीयधूमा. दित्यादौ नातिव्याप्तिः । केचित्तु कालिकसम्बन्धेन संयोगसम्बन्धावच्छिन्नवह्नयभावकोटि- कसंशयजनककोट्युपस्थितिजनककालिकेन वह्नयभावववृत्तिकालि. कसम्बन्धावच्छिन्नवह्नयभावाभाववद्वृत्तिधूमवानिति ज्ञानमादाय व- हिमान् धूमादित्यादावतिव्याप्तिवारणाय साध्यविषयकत्वेऽति साध्व- मुख्यविशेष्यकार्थकम् । एवं कालिकेन वह्निकोटिकसंशयजनकीभूत. कोट्युपस्थितिजनकं कालिकेन वह्निमदत्ति-विशेषणतया कालिकस- म्बन्धावच्छिन्नवहथभावववृत्ति धूमवानितिज्ञानमादाय तत्रैवातिव्याप्ति. धारणाय द्वितीयजनकतायां साध्याभावविषयकत्वावच्छिन्नेति । न च साध्यातावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावविषय. कत्वावच्छिन्नत्वमात्रनिवेशनाप्युक्तातिव्याप्तिवारणसम्भवात् प्रकृत- साध्याभावनिवेशो व्यर्थ इति वाच्यम् महानसीयवाहिताहशवह्नयभाव- सहचरितधूमवान् इत्यादिक्षानीयप्रकारतामादाय वहिमान् धूमादि- अनुमानगादाधर्याः क्रोडपत्रेषु त्यादापतिव्याप्तिवारकत्वात् । न च साध्यविषयकत्वे साध्यतावच्छे. दकातिरिक्तनिष्ठप्रकारत्वानिरूपितत्वं निवेश्यं तावतव नोक्तातिव्या. प्तिरिति वाच्यम् एवमपि समानाधिकरणत्वसम्बन्धेन महानसीयत्व. विशिष्टवह्नित्वावच्छिन्नकोटिकसशयजनककोट्युपस्थितिजनकज्ञान- मादायोक्तातिव्याप्तितादवस्थ्यात् । न चैवमपि साध्यविषयतायां साध्य. तावच्छेदकनिष्ठनिरवच्छिन्नप्रकारतानिरूपितत्वस्य निरवच्छिन्नसा. ध्यतावच्छेदकतास्थले सावच्छिन्नसाध्यतावच्छेदकतास्थले साध्य. तावच्छेदकतावच्छेदकपर्याप्तावच्छेदकप्रकारतानिरूपितत्वस्य निवे. शानातिव्याप्तिरिति वाच्यम् । तावताप्येकोक्त्यसम्भवात् साध्यामा. वाविषयकत्वेत्यत्र साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रतियोगिः ताकामावविषयकत्वनिवेशेनैवातिव्याप्तिविरहेण तदपेक्षयोक्तप्रयासे गौरवाश्चत्याहुः । तश्चिन्त्यम् । अत्र कल्पे सशयत्वं न निवेश्यते प्रयोजनाभावात् ॥ यश्च क्वचित् पुस्तके संशयजनकतेति पाठो दृश्यते स च मूले सा. ध्यसंशयेत्यनुरोध्येत्यवधेयम् । अत्र च साध्यविषयकत्वघटितधर्मा. वच्छिन्नजनकतावच्छेदकीभूतधर्मावच्छिन्नजन्यत्वमेवं साध्याभाव- विषयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदकीभूततद्धर्मावच्छिन्नस- हकारितावच्छेदकावच्छिन्नजन्यत्वमेव निवेश्यम्,अन्यथा सामान्यतः साध्यविषयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदकावच्छिन्नजन्य- तानिरूपितजनकतावच्छेदका सती साध्यविषयकत्वघटितधर्माव- च्छिन्नजनकतावच्छेदकावच्छिन्नसहकारितावच्छेदकसाध्याभाववि- षयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदकावच्छिन्नजन्यतानिरूपि- तजनकतावच्छेदकीभूता या प्रकारतेत्युक्तौ वह्निमवृत्तिवह्नयभाव- ववृत्तिधूमवानिति ज्ञानमादायातिप्रसङ्गो दुर्धार एव-वह्नयभाववद वृत्तिधर्मवत्ताज्ञानजन्योपस्थितित्वस्यापि साध्यविषयकत्वघटितध. विच्छिन्नजनकतावच्छेदकीभूनवह्निमदवृत्तिधर्मवत्ताज्ञानजन्योपस्थि. तित्वावच्छिन्नसहकारितावच्छेदकत्वात्,पतन्निवेशसूचनायैव साध्य. विषयकत्वघटितधर्मावच्छिन्नजनकतावच्छेदको यो धर्म इत्युक्तं तथा चोकज्ञानीयप्रकारतायां साध्यविषयकत्वघाटतधर्मावाच्छन्नजनकता. वच्छेदकीभूतवाहिमवृत्तिधर्मवत्ताज्ञानजम्योपस्थिलिवरूपयाशधर्मा- बच्छिन्ननिरूपितजनकतावच्छेदकत्वं वयभाववृत्तिधर्मवताज्ञान- सव्यभिचारप्रकरणम् । २९७ जन्योपस्थितित्वस्य तादृशधर्मावच्छिन्नसहकारितावच्छेदकत्वा- भावान्नातिव्याप्तिरिति भावः ॥ अनुगमस्तु-साध्यविषयकत्वघटित. धर्मावच्छिन्नजनकतावच्छेदकधर्मविशिष्टप्रकारत्वम् । वैशिष्ट्यं च स्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्व-स्वावच्छिन्न. सहकारितावच्छेदकीभूतसाध्याभावविषयकत्वघाटतधर्मावच्छिन्न- जन्यतानिरूपितजनकतावच्छेदकत्वोभयसम्बन्धेनेति ॥१०॥ तदवच्छिन्नसहकारितापच्छेदकत्वं च तदवच्छिन्नासमवधानप्र- युक्तफलोपधायकत्वाभाववत्स्वावच्छिन्नकत्वमित्युक्तं भट्टाचार्येण॥ अत्र तदवच्छिन्ने स्वावच्छिन्नजनकतानिरूपितजन्यताशालित्व- स्वाभावववृत्तिस्वाघटकधर्मावच्छिन्नजनकतानिरूपितजन्यताशाल्यु- पस्थितिमत्त्वांभयसम्बन्धेनधर्मविशिष्टान्यत्वं निवेशनायम् , नातो व. हिमवृत्तिधूमवत्ताज्ञानजन्योपस्थितित्वावच्छिन्नाया वह्निमद्वृत्तिधूम- वान् वह्निमवृत्तिजलवानेतिज्ञानद्वयजन्योपस्थितिष्यतरसमवधान- प्रयुक्तस्य फलोपधायकत्वाभावस्य केवलवन्ह्यभाववदवृत्तिधर्मादिम- त्ताज्ञानजन्योपस्थितावेव सत्त्वेऽप्यसाधारणधर्मवत्ताज्ञानजन्योपस्थि. तिसाधारणधर्मवत्ताज्ञानजन्योपस्थित्योः परस्परसहकारिभावः । स्वपदेन साधारणधर्मवद्धर्मिशानत्वमादाय तदघटकाभूतधर्मिविषय- तानरूपितसाधारण्याचवच्छिन्नप्रकारताकज्ञानत्वावच्छिन्नजन- कतानिरूपितजन्यताशालित्वस्य केवलसाधारणधर्मवत्ताज्ञानजन्यो- पस्थितावपि सत्त्वाद्धर्मविशिष्टान्योपस्थित्यप्रसिद्धिःस्थादतः स्वाभाव. वत्तित्वनिवेशः । एवं वह्निविषयकस्मृति प्रति वह्निविषयकज्ञान- त्वेनापि जनकत्वसत्त्वात् स्वाभाववद्वृत्तिवह्निविषयकज्ञानत्वमादाय तथैवाप्रसिद्धिः स्यादतः स्वाघटकत्वनिवेशः । वह्निविषयकज्ञानत्वं च न स्वाघटकम् । संसर्गघटकजन्यताच स्मृतित्वावच्छिन्ना ग्राह्या,तेन जन्यताद्यवच्छिन्नं प्रति कालत्वादिना जनकतामादाय नाप्रसिद्धिः । अथवा संसर्गघटकजन्यतायां ज्ञानावच्छिन्नत्वमेव निवेश्यम्,तेन प्रागुक्तयुक्त्या स्मृतित्वस्य साधारणादिधर्मवत्ताशानजन्यतान. वच्छेदकत्वेऽपि न क्षतिः, न वा स्मृति प्रति संस्कारत्वेन जनकता- मादायाप्रसिद्धिः। एवं च स्वाघटकत्वमप्यनुपादेयमेव । द्वितीयसंसर्ग- घटकोपस्थितिमत्त्वं च सामानाधिकरण्य-समानकालीनत्वामयसम्ब. न्धेन । अथवा तदवच्छिन्ने धर्मविशिष्टान्यत्वमनिवेश्य तद्वच्छिमा.
अनुमानगादाधर्याः क्रोडपत्रेषु समवधानप्रयुक्तत्वपदेन तदवच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्न- प्रयोजकतानिरूपितप्रयोज्यत्वमेव निवेशनीयं तावतैवोक्तदोषवारण- सम्भवातू । एवं स्वावच्छिन्नकत्वमित्यत्रापि स्वावच्छिन्ने निरुक्तोभय- सम्बन्धेन धर्मविशिष्टान्यत्वं निवेशनीयम,तेन केवलसाध्यवद्वृत्तिधर्म- वत्ताशानादिजन्योपस्थितित्वावच्छिन्नासमवधानप्रयुक्तस्य फलोप- धायकत्वाभावस्य साध्याभाववद्वत्तिधर्मवत्ताशानजन्योपस्थितिका- लीनसाध्याभावववृत्तिधर्मवत्ताशानजन्योपस्थितौ सत्त्वेऽपि नक्ति- दोषतादवस्थ्यम् ॥ यत्नु तत्समानाधिकरणाभावप्रतियोगिधर्मावच्छिन्नासमवधाना- प्रयुक्तत्वविशिष्टतदवच्छिन्नासमवधानप्रयुक्तत्वस्य विवक्षितत्वानो. क्तदोषावसरः । वन्यभावधद्वत्तिधर्मवत्ताशानजन्योपस्थितिकालनिव- न्ह्यभाववदवृत्तिधर्मवत्ताशानजन्योपस्थितिनिष्ठस्य फलोपधायकत्वा- भावस्य पहिमवृत्तिधर्मवत्ताज्ञानादिजन्योपस्थितित्वावच्छिन्नास- माधानप्रयुक्तत्वेऽपि वह्निमत्तिधर्मवत्ताज्ञानजन्योपस्थितित्वसमाना. धिकरणाभावप्रतियोगिधर्मावच्छिन्नासमवधानाप्रयुक्तत्वाभावात्ताह- शोपस्थितिनिष्ठफलोपधायकत्वाभावे निरुक्ताभावप्रतियोगि यद्वह्नि मदवृत्तिधर्मवत्ताज्ञानजन्योपस्थितित्वं तदवच्छिन्नासमवधानाप्रयुक्त- स्वादिति । तन्मन्दमू-केवलवन्यभावसहचरितधर्मवत्ताज्ञानजन्योपस्थितिनि. टफलोपधायकत्वाभावेऽपि निरुक्ताप्रयुक्तत्वविशिष्टवह्निसहचरितध. मवत्ताशानजन्योपस्थितित्वावच्छिन्नासमवधानप्रयुक्तत्वाभावात् व. न्ह्यभावसहचरितधर्मवत्ताशानजन्योपस्थितिनिष्ठफलोपधायकत्वा- भावेवन्ह्यभावाभावसहचरितधर्मवत्ताशानजन्योपस्थितित्वावच्छिन्ना समवधानस्यापि प्रयोजकत्वादिति ध्येयम् ॥ ११ ॥ इदंद्यणुकंनित्यमणुत्वादित्यादौसाधारणधर्मवद्धमिज्ञानस्य को- ट्युपस्थिति संशयं च प्रति हेतुतया तद्विषये धर्मिणि सद्धेतौ प्रसङ्गः स्यादतः पक्षधर्मतेति पक्षपदं धर्मिमात्रपरामिति शिरोमणिः॥ अत्र समूहालम्बनविषयतामादायातिप्रसङ्गवारणाय कोटिद्वयोपस्थितिजन- कतावच्छेदकीभूतविषयताश्रयत्वनिवेशनमावश्यकं सम्बन्धिविशेष्य- कशानादपि सम्बन्ध्यन्तरस्मरणोक्येन तत्कोटिसाहचर्यादिविशिष्टविष- यकत्वेनैव हेतुतया धर्मिविषयताया जनकतानवच्छेदकत्वादित्याश.
सव्यभिचारप्रकरणम्। झ्य, वस्तुतस्तु साध्यसन्देहजनककोटिद्वयोपस्थितिजनकज्ञानविष- यकत्वमित्यस्य कोटिद्वयोपस्थितिनिष्ठा या साध्यसन्देहजनकता जन्यतासम्बन्धेनाव्यवहितोत्तरत्वसम्बन्धेन वाऽवच्छिन्नायां तदव. च्छदकतायामवच्छेदिका या विषयता तदाश्रयत्वमर्थः। एवं च साधारणधर्मादिविशष्यकज्ञानस्य कोटिद्वयस्मारकत्वेऽपि संशये धर्मिज्ञाननियमाय तत्तद्धर्मिकसंशयप्रत्यक्ष प्रति स्वाव्यवाहितात्तरत्व- सम्बन्धेन साधारण्यादिविशिष्टधर्मवत्तत्तद्धर्मिज्ञानविशिष्टकोट्युप. स्थितित्वेनैव हेतुतेति धर्मिविषयताया अपि तादृशसन्देहजनकता. वच्छेदकतायामवच्छेदकत्वादतिव्याप्तिरतः पक्षधर्मतापदोपादानमि- ति भट्टाचार्येणोक्तम् ।। तत्रापि प्रकृतसाध्यसंशयत्वावच्छिन्नजन्यतानिरूपिताया जनक- तातनिरूपिताव्यवहितोत्तरत्वसम्बन्धावच्छिन्नावच्छेदकतायामवच्छे- दिका सती तदवच्छेदकधर्मावच्छिन्नसहकारितावच्छेदकावच्छिन्न- प्रकृतसाध्यसंशयत्वावच्छिन्नजन्यतानिरूपितजनकतानिरूपिताव्यव. हितोत्तरत्वसम्बन्धावच्छिन्नावच्छेदकतायामवच्छेदिका या विषयता तदाश्रयत्वमिति निष्कर्षों बोध्यः। तेन वन्हिमवृत्तिवन्ह्यभाववदवृत्ति- धूमवानित्यादिक्षानमादाय न प्रागुक्तदोषावकाशः । वन्ह्यभाववान् प. र्वतीयधूमादित्यादिविरुद्ध वन्यभाववदवृत्तिमहानसीयवन्हिमदव- त्तिपर्वतीयधूमवानित्यादिशानीयप्रकारतामादायातिव्याप्तिरुक्तवानीय- प्रकारतायां प्रकृतसाध्यसंशयत्वावच्छिन्नजन्यतानिरूपिता या व. न्ह्यभावववृत्तिधूमवत्ताशानजन्यकोट्युपस्थितित्वावच्छिन्नजनकता तन्निरूपिताव्यवहितोत्तरत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपिता. वच्छेदकत्वस्य सस्वादतःसंशयद्योपादानम्। यदि चात्रापि साध्यकि- षयकोपस्थितित्वावच्छिन्ना या जनकता तनिरूपिताव्यवहितोत्तरत्व- सम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकतावती या विषयता तदाश्रयत्वं विवश्यते तदा साध्यसन्देहपदमनुपादेयमिति ध्येयम् । अथात्र प्रागुक्तार्थमपहाय धर्मिण्यतिव्याप्तिदानार्थमेतादृशार्थकर- णमनुचितमिति चेन्न, प्रागुक्तकल्पापेक्षया लाघवानुसन्धानेनैवैतत्क- ल्पस्याक्तत्वात् । वस्तुतस्तु साधारणधर्मादिविशेष्यकानस्यापि कोट्युपस्थिति जनकत्वे पूर्वव्याख्यायामसंभव एव स्यात् संशये धर्मिमाननियमाय अनुमानगादाधर्याः क्रोडपत्रेषु संशयजनकतावच्छेदककोटौ साधारणादिधर्मवीमज्ञानवैशिष्टय- स्यैव निवेशनीयतया संशयजनकतावच्छेदकेतरानवच्छिन्नत्वरूप- साध्यसंशयजनकतावच्छेदकपातावच्छेदकताकत्वस्य साधारणध. भौदिशानजन्यतायामसत्त्वात् साधारणधर्मादिविशेष्यकज्ञानस्यापि तजन्यतावच्छेदकघटकत्वादतोव्याख्यान्तरानुसरणमिति ध्येयम्॥१२॥ वस्तुतस्तु यादृशविशिष्ठविषयकनिश्चयत्वम् अनुमितिप्रतिब- न्धकताशून्यपक्षामकहेतुमत्तानिश्चयकालीनज्ञानावृत्ति तादृशत्वमे- व विवक्षणीयम् ॥ अथवा स्वव्यापकतत्कत्वरूपानतिरिक्तवृत्ति- त्वनिवेशे यादृशविशिष्टविषयकनिश्चयत्वव्यापकः पक्षधर्मताज्ञान- कालीनत्वानुमित्यप्रतिबन्धकत्वोभयाभावः तादृशत्वमेव विवक्षणी. यम् , अन्यथा स्वरूपासिद्धिवारकस्य हेतुमत्तानहाविरोधित्वदलस्य वैयापत्तेः-पक्षधर्मिकहेतुमत्तानिश्चयकालीनतद्विषयकानाहार्यः निश्चयस्याप्रसिद्धया याहशविशिष्टविषयकपदेन तस्योपादानासम्भ- वात् । एवं सामान्यलक्षणस्याप्यव्याप्तेरिति भट्टाचार्येणोक्तम् । अथात्र प्रथमकल्पे यादृशविशिष्टविषयकनिश्चयत्वमनुमिति- प्रतिबन्धकताशून्यपक्षधामकहतुमत्ताज्ञानावृत्तत्युिक्तौ, द्वितीये च विशिष्टविषयकनिश्चयत्वव्यापकः पक्षीमकहेतुमत्ताविषयकत्वानुः मित्यप्रतिबन्धकत्वोभयाभाव इत्युक्तावेव सामञ्जस्ये हेतुमत्त्वज्ञानका. लीनत्वपर्यन्तनिवेशो व्यर्थ इति! मैवम् । यादृशस्थले याशस्य वस्तुनो हेतुमतपक्षविषयकक्षा- नं कदापि न जातं तत्रंतादृशवस्तुन्यतिव्याप्तिवारणायैव तन्निवेशात् । जातिमान् वधभाववानित्यादिशानवारणायाव्यापीभूतविषयता- शून्यत्वस्यावश्यं निवेश्यतयाउदासीनेतिऽव्याप्तिवारणाय तन्निवेशा- वश्यकत्वाच । अन्यथा हेतुमत्त्वाविषयकोदासीननिश्चयस्यैवाव्याप. कीभूतविषयताशुन्यत्वादुदासीनातिव्याप्त्यापत्तेःवस्तुतो हदो वह्नि- मान् जलाभावव्याप्यादित्यादौ जलवद्धदादावतिव्यासिवारणार्थमेव तनिवेशनम् । जलवद्मविषयकहतुमत्ताज्ञानस्याहार्यत्वेन धर्तुम- शक्यत्वादिति ध्येयम् । यद्यपि हेतुमताज्ञानावगमकालावच्छेदनोदा- सीननिश्चयसामान्य निरुक्तोभयाभावसत्त्वादतिव्याप्तितादवस्थ्यमे- व, तथापि हेतुमत्ताज्ञानक्षणावच्छेदेन निरुतोभयाभावविधक्षणान दोषः । हेतुमत्त्वज्ञानकालीनत्वस्य भावप्रतियोगिकोटावुपलक्षणतया सव्यभिचारप्रकरणम्। निवेशानोक्तदोषः । यदा कदाचित् तादृशज्ञानकालीनत्वसत्त्वे उपल. क्षिताभावासत्त्वात् इत्यपि वदन्ति । वस्तुतः प्रतियोगिवैयधिकरण्याघटितव्यापकतानिवेशे न दोष इति ध्येयम्। अथात्र कल्पद्वय एव ह्रदत्वादिसामानाधिकरण्येन वन्ह्यादिसाध्य कजलादिहेतुकस्थले वहिव्यापकीभूताभावप्रतियोगिजलात्मकासा- धारण्येऽव्याप्तिः-सामानाधिकरण्येन हेतुमत्ताज्ञानकालीनताहशा- साधारण्यनिश्चये तादृशानुमितिप्रतिवन्धकत्वस्यासत्त्वात्। न च सा- मानाधिकरण्येन साध्यहेतुस्थलेऽवच्छेदावच्छेदेन हेतुमत्ताज्ञानका- लीनत्वनिवेशान्नोक्ताव्याप्तिरिति वाच्यम् । तथासति सामानाधिकर- ण्येन हेत्वभाववतपक्षेऽतिव्याप्त्यापत्तेः अवच्छेदावच्छेदेन हेतुमत्तानि- श्वयकालीनताहशहेत्वभाववतपक्षविषयकनिश्चयस्याहार्यतया ता- शहेतुमत्ताशानाकालीनसामानाधिकरण्येन हेत्वभाववत्पक्षविषयक- निश्चयस्यैव यादृशविशिष्टविषयकनिश्चयपदेन धर्तव्यतया तत्राव. च्छेदावच्छेदेन हेतुमत्तानिश्चयकालीनत्वस्यासत्वादिति चेत्, अत्राच्यते--अवच्छेदावच्छेदेन हेतुमत्ताग्रहकालीनत्वघटितो. भयाभाव एवासाधारण्यसङ्ग्रहाय निवेशनीयः । सामानाधि- करण्येन साध्यहेतुतास्थले सामानाधिकरण्येन हेत्वभाववत्पक्षे चातिव्याप्तिशङ्कव नोपजायते। यत्रादौ भाविज्ञानमप्रमेत्यप्रामाण्य- ज्ञानं सामानाधिकरण्येन हेत्वभाववत्पक्षविषयकनि- श्चयस्ततोऽवच्छेदावच्छेदेन हेतुमचानिश्चयस्तत्राप्रामाण्यवाना- भावावच्छेदकक्षणावच्छेदेन तादृशहेत्वभाववत्पक्षविषयकनिरुक्तो. भयाभावासत्त्वात् । एवं चाप्रामाण्यज्ञानाभावावच्छेदकक्षणावच्छेदे- न तादृशोभयाभावो निवेशनीयः, तेनाप्रामाण्यज्ञानाभावविशिष्टयदू- पावाच्छन्नविषयकानश्चयत्वाकच्छदेकीभूतक्षणावच्छिन्नयद्रूपावच्छि- प्रविषयकनिश्चयवृत्तिकाभावाप्रतियोगी निरुक्तोभयाभावस्तद्रूपव- स्वमिति समुदितार्थः। नातो यत्रादावसाधारण्यनिश्चयस्ततस्तद्- धमिकाप्रामाण्यज्ञानात्मकहेतुमत्वानिश्चयस्तत्रासाधारण्यनिश्चयेऽपि ताहशोभयाभावासत्त्वेप्यसाधारण्याव्याप्तिः । न च तथापि यत्र ज्ञानस्य पक्षत्वं घटादेः साधारण्येन साध्यत्वं प्रकारकत्वाभावस्य हेतुत्वं तत्र तदभाववविशेष्यकतत्प्रकारकत्वरूपाप्रामाण्यग्रहे हेतु 1 ३०२ अनुमानगादाधर्याः क्रोडपत्रेषु मत्ताज्ञानस्याहार्यतया हेत्वभाववत्पक्षेतिव्याप्तिारैवेति वा- च्यम् । तत्रापि संशयात्मकाप्रामाण्यज्ञानस्य संभवात्, तद्वयक्तित्वा- दिधर्मितावच्छेदककाप्रामाण्यनिश्चयस्य तद्वति तत्प्रकारकत्वाभाव- रूपाप्रामाण्यनिश्चयस्य संभवाञ्च । न च तथाप्यप्रामाण्यकोटौ तद. भाववन्निष्ठविशेष्यत्वतद्वन्निष्ठविशेष्यत्वयोः प्रवेशाद् यत्र निष्ठत्वा- भावस्य सामानाधिकरण्येन हेतुत्वं विशेष्यतायाश्च पक्षत्वं विशेष. णांशे संशयानभ्युपगमेन तत्र संशयात्मकाप्रामाण्यस्यासंभवात् सा- मानाधिकरण्येन हेत्वभाववत्पक्षेऽतिव्याप्तिर्दुर्वारैवेति वाच्यम, तथा- पि भाविज्ञानं निर्विशेष्यकं निष्प्रकारकमित्याकारकाप्रामाण्यज्ञानस्य संभवात्। हदः काञ्चनमयहदवान् गगनादित्यादौ काञ्चनमयत्वव्या- पकीभूताभावप्रतियोगिगगनाद्यात्मकविशिष्टे हृदो वन्हिमद्ध्दवान जलादित्यादौ वन्यभाववजलवदात्मकविशिष्टे चातिव्याप्ति:-पक्ष. धर्मिकहेतुमत्तानिश्चयकालीनस्य तत्तद्विशिष्टविषयकनिश्चयस्य इद- धर्मिककाञ्चनमयत्ववन्हिमत्वादिज्ञानप्रतिबन्धकत्वेन हेतुमत्तानिश्च. याकालीनतत्तनिश्चयस्य च हेतुमत्ताशानकालीनत्वाभावेन तत्तद्धि- शिष्टविषयकनिश्चयसामान्य एव तादृशोमयाभावसत्त्वादिति। मैवम्-ज्ञानवैशिष्ट्यावच्छिन्नत्वालाधारण्यविषयकत्वावच्छि. नत्वोमयाभावस्य निरुतोभयाभावप्रतियोगकुक्षिनिक्षिप्तप्रतिबन्ध- कतायां निवेशेनैवोक्तदोषवारणसम्भवात् । न चैवं घटो गगनाभा- ववभाववत्कालीनगगनवान् घटादित्यादौ तादृशगगनाभावव- छटाद्यात्मकबाधेऽव्याप्ति:-ताशबाधनिश्चये सामान्यानरुक्तिपत्रिको. क्तयुक्त्या ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकताया एव कल्पनीयतया नि- रुक्तोभयाभाववत्प्रतिबन्धकताशून्यत्वघटिततादृशोभयाभावासत्त्वा- दिति वाच्यम्। उक्तस्थले शुद्धगगनत्वावच्छिन्नप्रतियोगिताकाभाववत. पक्षस्यैव बाधत्वोपगमेनोक्तविशिष्टस्यालक्ष्यत्वात्। लक्ष्यत्वे तु यादृश. विशिष्टविषयकनिश्चयत्वव्यापको निरुक्तोभयाभाव इत्यत्र व्यापकत्वं न यादृशविशिष्टविषयकनिश्चयत्ववन्निष्ठाभावप्रतियोगित्वाभावमात्र, किन्तु याहशविशिष्टे यादृशविशिष्टविषयकनिश्चयत्ववनिष्ठाभावप्रति- योगित्वविशिष्टयाहशविशिष्टे यादृशविशिष्टव्याप्यवत्तानिश्चयनिष्ठा- भावप्रतियोगित्वाभावरूपमेव विवक्षणीयम् । तथाच यद्पावच्छिन्ने यदूपावच्छिन्नप्रकारकनिश्चयानिष्ठाभावप्रतियोगित्वविशिष्टतद्रूपाव.
सव्यभिचारप्रकरणम् च्छिन्नविशेष्यकतद्रूपावच्छिन्नव्याप्यंत्वावच्छिन्नप्रकारकनिश्चयनि- ष्ठाभावप्रतियोगित्वाभाववान् तादृशोभयाभावस्तद्रूपावच्छिन्ने तद्रूपा- वच्छिन्नवत्वमिति लक्षणार्थःपर्यवसितः। एवञ्चोक्तबाधविषयकनिश्व- यत्वेन शानवैशिष्टयानवच्छिन्नप्रतिबन्धकत्वास्वीकारेऽपि तादृशबाध. व्याप्यवत्तानिश्चयत्वेन ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकत्वस्यावश्य- स्वीकार्यतयोक्तवाधाव्याप्तिः सुपरिहारैवेति । न चैवं पर्वतो वह्नि- व्याप्याभाववानित्यादौ वन्हिमपर्वतविषयकनिश्चये तादृशोभयाभा- वासत्त्वेऽपि वन्हिव्याप्यवत्पर्वतविषयकनिश्चये तादृशोभयाभावस्या. क्षतत्वादिति वाच्यम् । व्याप्यवत्तानिश्चये यत्प्रतिबन्धकताप्रयुक्तो. भयाभावस्तत्प्रतिबन्धकतामादायैव लक्षणं संगमनीयम् तत्प्रतिवन्ध. कतानिरूपितप्रतिबध्यतावच्छेदकतापर्याप्त्याधिकरणधर्मावच्छिन्नप्र- तिबन्धकतानिरूपितप्रतिबध्यताशून्यत्वस्य तद्रूपावच्छिन्नव्याप्य. वत्तानिश्चयविशेषणत्वेनैवोक्तातिव्याप्तिवारणसंभवात् । न च तथापि गगनाभाववत्घटवतकालीनभूतलं गगनवदित्यत्र घटवत्गग- नाभाववत्घटवत्कालीनभूतले अतिव्याप्तिलाघवात् गगनाभाववद्. घटवतकालीनभूतलविशेष्यकघटवत्त्वनिश्चयत्वेन प्रतिबन्धकतयैवो- पपत्त्या घटावच्छेदेन गगनाभावनिश्चयविशिष्टगगनामाववद्घटवत्- कालीनभूतलविशेष्यकघटवत्त्वनिश्चयत्वेन प्रतिबन्धकत्वाकल्पनादि- ति वाच्यम् , उभयाभावप्रतिकोटिनिविष्टप्रतिबन्धकतायामगत्या तत्त. प्रीतबन्धकताभददिकं निवेश्यैवोक्ताऽतिव्याप्तवारणीयत्वात् । वस्तुतस्तु घटवद्गगनाभाववत् घटवच्च तादृशभूतलं पटव. द्गगनाभाववत् पटवच्च तादृशभूतलमित्यादिनानाविधनिश्चयसा- धारणैकरूपेण पक्षतामाथुरीपत्रिकोक्तदिशा ज्ञानवैशिष्टयावच्छिन्नप्र. तिबन्धकताया एव सद्युक्तिकतया उक्तातिप्रसक्तिरेव नास्तीति। एते- न यत्र वन्हिव्यापकीभूताभावप्रतियोगिजलस्य पक्षत्वं वन्हेःसाध्यत्वं जलस्य हेतुत्वं तत्र पन्हिव्यापकीभूताभावप्रतियोगिजलात्मकासा. धारण्येऽव्याप्तिः-वन्हिव्यापकीभृताभावप्रतियोगिजलत्वावच्छिन्नध. मिकवन्हिमत्त्वबुद्धिं प्रति लाघवात् ताशजलत्वावच्छिन्नधर्मिकज- लप्रकारकनिश्चयत्वेन ज्ञानवैशिष्टयानवच्छिन्न प्रतिबन्धकताया एवं स्वीकार्यतया पक्षधर्मिकहतुमत्ताज्ञानकालनिकवलतादृशासाधारण्य- निश्चये प्रतिबन्धकत्वाभावेन निरुक्तोभयाभावस्यासत्त्वादित्यपि प्रत्यु.
३०४ अनुमानगादावर्याः क्रोडपत्रेषु तम् । दर्शितयुक्त्या नानाविधनिश्चयसाधारणीनश्चयस्यापि ज्ञान. वैशिष्टयावच्छिन्न प्रतिबन्धकताया एव कल्पनीयत्वादिति । न चैव- मपि हृदो वह्निमान् गगनवतहदकालीनगगनव्याप्यवजलवदृत्तिजला. दित्यादौ जलावच्छेदेन गगनाभावादेर्दोषत्वापत्तिः,तद्विषयनिश्चयस्य पक्षधर्मिकहेतुमत्त्वनिश्चयकालीनस्याहार्यतया पक्षधर्मिकहेतुमत्ता. निश्चयकालीनस्य तद्विषयनिश्चयस्यैव धर्तव्यतया तत्र तादृशोभया- भावस्याक्षतत्वादिति वाच्यम्।भाविज्ञानधर्मिकाप्रामाण्यज्ञानादुत्तरं कथंचिदनाहार्य्यस्यापि पक्षधर्मिकहेतुमत्ताज्ञानकालीनस्य तद्विषय- कनिश्चयस्य संभवादिति ध्येयम् ॥ अथवा सामानाधिकरण्येन साध्यहेतुतास्थले सामानाधिकर. ण्येन हेतुमचाज्ञानकालीनत्वमेव निवेशनीयमतो न तादृशहेतुकस्थले सामानाधिकरण्येन हेत्वभाववत्पक्षेऽतिव्याप्तिः । सामानाधिकरण्येन साध्यहेतुतास्थले असाधारण्यसंग्रहस्तु असाधारण्याविषयकज्ञान- निष्ठपक्षधर्मताज्ञानकालीनत्वानुमित्यप्रतिबन्धकत्वोभयाभावविधक्षयै- व करणीयः । न चैवमसाधारण्याविषयकत्वानमित्यप्रतिबन्धकायो- भयाभावमात्रस्यैव सम्यक्त्वे पक्षधर्मताशानकालीनत्वनिवेशो व्यर्थ इति वाच्यम् । धर्मिभेदेन वैयर्थ्याभावात् । न च तथापि वहिव्याप. कीभूताभावप्रतियोगि जलं वह्निमजलादित्यादौ सामानाधिकरण्येन साध्यहेतुनास्थले सामानाधिकरण्येन हेत्वभाववत्पक्षेऽतिव्याप्ति. दुर्वारैवोक्तस्थले तादृशहेत्वभाववत्पक्षविषयकज्ञानमात्रस्यैवासाधा- रण्यविषयकत्वेनासाधारण्याविषयकज्ञाननिष्ठपक्षधर्मिकहेतुमत्ताशा. नकालीनत्वघटितनिरुक्तोभयाभावस्य तत्राक्षतत्वादिति वाच्यम् । असाधारण्याविषयकपदेनासाधारण्यविषयतानन्तर्गतविषयताशालि- ज्ञानस्य विवक्षितत्वात् ।। यद्वा असाधारण्याविषयकपदेनासाधारण्यविषयत्वाव्यापकीभूत. विषयताशालिज्ञानमेव विवक्षणीयम्, तेन सामानाधिकरण्येन वन्ह्या- दिसाध्यकजलादिहेतुकस्थले असाधारण्यविषयतानन्तर्गतविषयता. शालिनि वहिव्यापकीभूताभावप्रतियोगि जलं वह्निमदित्याकारकजलांशे वर्धमात्मकासाधारण्यशाने तादृशोभयाभावासत्त्वेऽपि नासाधा- रण्याव्याप्तिः-उक्तभ्रमज्ञानस्थासाधारण्यविषयत्वाव्यापकीभूताविषय- ताशालिवाभावात् ॥
सव्यभिचारप्रकरणम् । ३०५ अथवा जातिमान् वन्ह्यभाववानित्यादिशानवारणायैवाव्यापकभूि. तविषयिताशून्यत्वमपहाय स्वावच्छिन्नविषयतानन्तर्गतविषयिताशू. न्यत्वमेव निवेशनीयम् । तावतैवोक्तभ्रममादायासाधारण्याव्याप्तिवार- पसम्भवात् । अत एवैतत्कल्पे वह्निव्यापकीभूताभावप्रतियोगिजलं वहिमजलादित्यत्र वह्निव्यापकीभूताभावप्रतियोगिजलत्वावच्छिन्न- धर्मिकजलप्रकारकनिश्चयत्वेनासाधारण्यज्ञानस्य ज्ञानवैशिष्ट्यानव- च्छिन्न प्रतिबन्धकत्वस्वीकारेऽपि न प्रागुक्तासाधारण्याऽव्याप्ति:- असाधारण्याविषयकज्ञाननिष्ठपक्षधर्मताज्ञानकालीनत्वघटितनिरु- तोभयाभावस्यासाधारण्यज्ञानेऽक्षतत्वात् । उक्तस्थले जलवद्वह्नि. व्यापकीभूताभावप्रतियोगिजलात्मकेऽतिव्याप्तिस्तु कथञ्चित् तत्प्र- तिवन्धकताभेदादिकं निवेश्यैव वारणीया ॥ वस्तुतो जलवत्तादृशजलेऽसाधारण्यरूपविशिष्टान्तरघटितत्वेन विशिष्टान्तराघटितत्वविरहादेव नातिव्याप्तिः । गगनाभाववदू घटकालीनभूतलं गगनवदित्यत्र गगनाभाववद्घटवत्कालीनघ. टवत्भूतले प्रागुक्तातिव्याप्तिस्त्वगत्या तत्तत्प्रतिबन्धकताभेदादिकं निवेश्यैष वारणीया । एतत्कल्पे पक्षधर्मिकहेतुमत्ताशानेऽनाहार्य- स्वादिकं प्रयोजनविरहण न निवेश्यते, तेन इदः काञ्चनमयहदवान् गगनाध्रदो वह्निमद्मवान् जलाध्रदो वह्निमान् गगनवद्धदका- लीनगगनव्याप्यवजलवद्वृत्तिजलादित्यादौ न प्रागुक्तातिव्याप्ती- नामवकाश:-आहार्यात्मकहेतुमत्ताज्ञानकालीनतत्तद्विशिष्टविषय- कनिश्चये निरुक्तोभयाभावासत्त्वादिति ध्येयम् ।। परे तु सर्वत्रैव पक्षतावच्छेदकावच्छेदन हेतुमत्तानिश्चयकाली. नत्वमेव निवेशनीयम् । सामानाधिकरण्येन साध्यहेतुतास्थले सा- मानाधिकरण्येन हेत्वभाववत्पक्षेऽतिव्याप्तिवारणाय पुनर्याशवि- शिष्टविषयित्वमेव ज्ञानवैशिष्टयावीच्छन्नत्वासाधारण्यविषयकत्वा. नच्छिन्नोभयाभाववत्प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छद- कतावत्वेन निवेशनीयम् । घटवद्धदो वह्निमान् धूमादित्यादिसामा. नाधिकरण्येन साध्यहेतुतास्थले सामानाधिकरण्येन धूमामाक्वध्र- देतिव्याप्तिः हृदत्वसामानाधिकरण्येन धूमाभावविषयताया अपि धूमाभावावच्छेदेन घटाभावनिश्चयविशिष्टधूमाभाववज्रदाविषयक निश्चयत्वावच्छिन्न प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदक- अनुमानगादाधर्याः कोडपनेषु स्वादतः प्रतिबन्धकतायामुभयाभावत्वनिवेशः । न चैवं यादृश. विशिष्टविषयित्वसामान्यं निरुक्तोभयाभाववत्प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपावच्छेदकत्ववत्तादृशन्वमेव सम्यक् अनुमित्यप्र- तिबन्धकत्वघटितोभयांभावदलवैयर्थ्यमिति वाच्यम् । वृक्षः संयो. गी तत्त्वादित्यत्र संयोगाभावववृक्षादावतिव्याप्तिवारणायैव तत्सा- र्थक्यात् । न च याहशविशिष्टविषयकनिश्चयेऽव्याप्यवृत्तित्वज्ञाना. स्कन्दितत्वनिवेशावश्यकतयोक्तविशेषणदानेऽप्युक्तातिव्याप्तितादव. स्थ्यमिति वाच्यम्, यादृशविशिष्टविषयकनिश्चयेऽव्याप्यवृत्तित्वभ्र- मानास्कान्दतत्वस्यैव निवेशनीयत्वात् । अतएव हृदः काञ्चनमयहद. वान् गगनादित्यादौ प्रागुक्तातिव्याप्तीनामप्यनवकाशः-तत्ताद्वाशेष्टवि. षयतायां निरूक्तोभयाभाववत्प्रतिबन्धकतायाः स्वरूपसम्बन्धरूपा. बच्छेदकत्वाभावादिति । न चैवं वहिव्यापकीभूनाभावप्रतियोगिज. लं वह्निमजलादित्यत्र सामानाधिकरण्येन हेत्वभाववत्पक्षे प्रागु. तातिव्याप्तिः ताशपक्षविषयताया अप्यसाधारण्यविषयत्वाव- च्छिन्न प्रतिबन्धकतावच्छेदकत्वादिति वाच्यम् , तदन्तर्गतवहिव्याप- कीभूताभावप्रतियोगत्वप्रकारतानिरूपितजलत्वावाच्छन्नविशेष्यता. या एव तादृशप्रतिबन्धकतावच्छेदकत्वेन जलाभावत्वावच्छिन्नप्रका- रतानिरूपितवहिव्यापकीभूताभावप्रतियोगित्वजलत्वोभयधर्मावच्छि- नावशेष्यतायास्ततो भिन्नत्वेन तादृशप्रतिबन्धकतानवच्छेदकतयै- वोक्तातिव्याप्तेरनक्काशादित्याहुः । तञ्चिन्त्यम् ।। यत्तु अवच्छेदावच्छेवेन हेतुमत्ताज्ञानकालीनत्वघटितोभयाभाव एव निवेशनीयः। सामानाधिकरण्येन हेत्वभाववत्पक्षेऽतिव्याप्तिवा- रणाय पुनः स्वावच्छिन्नविषयकत्वव्यापकप्रकृतानुमितिप्रतिबन्धक- ताधर्मावच्छिन्नविषयिताभिन्ना याऽवच्छेदावच्छेदेन हेतुमत्ताग्रहप्र- तिबन्धकतावच्छेदकवियिता तदन्ययद्रूपावच्छिन्नविषायत्व विशे. षणीयम्, अतो न कोपि दोष इति । तत्तुच्छम् । जलं वह्नि पज्जलादित्यादौ वहिव्यापकीभूताभावमा तियोगिजलात्मकासाधारण्यविषयितायाः स्वावच्छिन्नविषयकत्वव्या. पकप्रतिबन्धकताधर्मावच्छिन्नविषयिताभिन्नतया वहिव्यापकीभूता. भावप्रीतयोगत्ववज्जलाभाववीदत्याकारकज्ञानसाहतताशप्रातयो. गित्ववच जलमित्याकारकज्ञानयिावच्छेदावच्छेदेन हेतुमत्तानप्रति.
सव्यभिचारप्रकरणम्। ३०७ बन्धकतावच्छेदकतया च निरुतविषयिताभिन्नत्वाभावादसाधार- ण्याव्याप्त्यापत्तेः। यदि चानतिरिक्तवृत्तित्वरूपमवच्छेदावच्छेदेन हेतुमत्तान- हप्रतिबन्धकतावच्छदकत्वमेव निवेशनीयमतो नोक्तदोषः । न च इदत्वावच्छेदेन वह्निसाध्यकधूमहेतुकस्थले स्वावच्छिन्नविष- यकत्वव्यापकप्रतिबन्धकताकधर्मावच्छिन्नविषयिताभिन्ननिरुक्तहतुम- त्ताग्रहप्रतिबन्धकतानतिरिक्तवृत्तिविषयित्वाप्रसिद्धिरिति वाच्यम् । धूमत्वेनान्यावगाहि-अभावत्वेन घटावगाहि-धूमाभाववान् हद इत्या. कारकभ्रमविषयत्वस्यैव तादृशत्वेन प्रसिद्धत्वादित्युच्यते । तदापि यत्र इदस्य पक्षत्वं हृदत्वसामानाधिकरण्येन गगनाभाववध्रदका- लीनवह्नेः साध्यत्वं गगनस्य हेतुत्वं तत्र गगनाभाववद्धदका- लोनवह्निव्यापकीभूताभावप्रतियोगिगगनरूपासाधारण्य, एवं य. त्राभावस्य पक्षत्वं सामानाधिकरण्येन वह्नेः माध्यत्वं वह्निम- निष्टभेदप्रतियोगितानिरूपितस्वरूपसम्बन्धावच्छिन्नावच्छेदकत्वस्या. धेयत्वाभावस्य वा हेतुत्वं, एवं वह्निव्यापकीभूताभावप्रतियोगि. वह्निमन्निष्ठभेदप्रतियोगितावच्छेदकत्वरूपासाधारण्ये वहिव्यापकीभू- ताभावप्रतियोगिन्याधेयत्वाभावरूपासाधारण्ये चाव्याप्तिः-तत्तद- साधारण्यविषयितायामवच्छेदावच्छेदेन हेतुमत्ताग्रहप्रतिबन्धकता. नतिरिक्तवृत्तित्वेन निरुतविषयिताभिन्नत्वाभावादिति ॥ वस्तुतस्तु असाधारण्यविषयित्वाव्यापकीभूतविषयिताशून्यत्वा- नुमित्यप्रतिबन्धकत्वोभयाभावो यादृशविशिष्टविषयकनिश्चयत्वब्या- पकस्ताहशत्वमिति विवक्षणे न कश्चिदोष इति नवीनपदवी सु. धीभिर्यया ॥ १३॥ सधर्मितावच्छेदककहेतुमत्तानिश्चयकालीनयादृशविशिष्टविषय. कनिश्चयसामान्यं स्वसमानकालीनहेतुमत्तानिश्चयसमानधर्मिताव. च्छेदककानुमितिसामान्यप्रतिबन्धकं तादृशविशिष्टत्वमिति ट्टाचार्येणोक्तम् । अत्र सधर्मितावच्छेदककहेतुमत्तानिश्चयीयहेतुप्रकारकत्वं हे तुतावच्छेदकतापर्याप्त्यधिकरणपर्याप्तावच्छेदकताकत्वेन विशेष- णीयम् । अतो जातिमत्त्वान् हृद-इत्याकारकहेतुमत्तानिश्चयकाली- भ- अनुमानगादाधर्याः क्रोडपत्रषु नस्य वहिव्यापकीभूताभावप्रतियोगिजलमित्याकारकसाधारण्यनि- श्चयस्यानुमित्यप्रतिबन्धकत्वेऽपि न क्षतिः। धर्मितावच्छेदकत्वं चो. भयमेव निरवच्छिन्नं ग्राह्यम् । तेन जलवान् हद-इत्याकारकहेतु. मत्तानिश्चयसमानधर्मितावच्छेदककजातिमान् वन्हिमानित्याद्यनुमि. त्यन्तर्भावेन प्रतिबध्यताया व्यापकत्वभङ्गेऽपि न क्षतिः। न वा दोषविषयकनिश्चयकालीनजातिमत्वान् जलवानित्यादिहेतुमत्तानि- श्चयीयविशेष्यतावच्छेदकनिष्ठनिरवच्छिन्नावच्छेदकताकविशेष्यता. कानुमित्यप्रसिद्धावप्यसम्भवः । अथात्र शब्दत्ववान् घटः शब्दत्ववान् शब्दश्च इत्याकारकहेतु. मत्तानिश्चयकालीननित्यत्वव्यापकीभूताभावप्रतियोगिशब्दत्वमित्या. कारकासाधारण्यनिश्चयस्यापि तादृशनिश्चयसामान्यान्तर्गततया त. समानकालीनहेतुमत्तानिश्चयसमानधर्मितावच्छेदककानुमितिसा. मान्यान्तर्गत-घटो नित्यः शब्दो नित्य-इत्यादिनानानुमितिसा- धारणैकप्रतिबध्यत्वाभावात् तादृशानुमितित्वव्यापिका न कापि प्रतिबध्यतेत्यसाधारण्याव्याप्तिरिति । न च मुख्यविशेष्यताद्वया. निरूपकत्वेन हेतुमत्तानिश्चयविशेषणानोक्तदोष इति वाच्यम्, क्रमिः कविभिन्नधर्मिकहेतुमत्तानिश्चयद्वयसमानकालीनासाधारण्यनिश्चय. मादायोक्तदोषतादवस्थ्यात् । अत एव प्रथमकालीनान्तेन मुख्यवि. शेष्यताद्वयशून्यहेतुमत्तानिश्चयविशिष्टत्वं वक्तव्यम् । मुख्यविशेष्य. ता च धर्मितावच्छेदकत्वानवच्छिन्नप्रकारत्वानिरूपिता प्रकारत्वान. वच्छिन्नविशेष्यता। निश्चयवैशिष्ट्यं च सामानाधिकरण्य-स्वाधिकर. णमुख्यवृत्तित्व-स्वध्वंसवत्वतत्रितयसम्बन्धेन, तथाच दोषविषय- कनिश्चयाव्यवहितपूर्वोत्पन्नकधर्मावच्छिन्नविशेष्यताकहेतुमत्तानिश्चय. स्यैव लक्षणघटकत्वानोक्तदोष इति परास्तम् । यत्रादौ अपेक्षाबुध्या- स्मकैकामकहेतुमत्तानिश्चयस्ततोऽपरधर्मिकनिश्चयस्ततोऽसाधार. ण्यम्, तत्रोक्तदोषतादवस्थ्याच्च । एतेनोक्तत्रितयसम्बन्धमध्ये स्वाधिकरणमुख्यवृत्तित्वमपहाय कालिकेन स्वाधिकरणमात्रनिवेश. नमपि प्रत्युक्तम् । अत्रोच्यते-स्वसमानकालीननिश्चयीयहेतुप्रकारतानिरूपितवि. शेष्यतावच्छेदकीभूतयत्किश्चिद्धर्मावच्छिन्नविशेष्यताकानुमितित्व- सव्यभिचारप्रकरणम्। व्यापकत्वस्य निवेश्यत्वेन ताशयत्किञ्चिद्धर्मावच्छिन्नविशेष्य. कानुमितित्वव्यापकत्वस्य तद्धर्मावच्छिन्नविशेष्यकहेतुमत्तानिश्चय- विशिष्टासाधारण्यज्ञाननिष्ठप्रतिबन्धकताकप्रतिबध्यतायामेव सत्त्वा. नोक्ताव्याप्तिरिति ध्येयम् ॥ हेतुमत्तानिश्चयश्चात्रावच्छेदावच्छेदेन ग्राह्यः। अतः सामाना. धिकरण्येनानुमिति प्रति सामानाधिकरण्येन हेतुमत्ताज्ञानकाली. नासाधारण्यविषयकनिश्चयस्याप्रतिबन्धकत्वेऽपि न तत्स्थली. यासाधारण्याव्याप्तिः। अत एव संयोगसम्बन्धेन वह्निलाध्यकतत्- सम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन वह्निहेतुकस्थले व्यभि- चारनिश्चयस्याभावांशे नियतहेतुविषयकत्वेन वह्निमानाधेय. वादित्यादौ च वन्ह्यभावववृत्त्याधेयत्वरूपव्यभिचारनिश्चयम्या. धेयत्वांशे हेतुविषयकत्वनयत्येन लक्षणगमनात् प्रथमकालीनान्ता. सत्त्वप्रयुक्तस्य स्वसमानकालीनहेतुमत्तानिश्चयाप्रसिध्या भट्टाचा. ोक्तासम्भवस्थासङ्गतिरिति परास्तम्-अभावत्वाधवच्छेइन हेतुम- त्तानिश्चयस्य तत्रासत्त्वादिति ॥ अथैवमपि हृदत्वावच्छेदेन जलवद्ध्दकालीनवह्निसाध्यकज लहेतुकस्थले तादृशसाध्यव्यापकीभूताभावप्रतियोगिजलरूपासाधा. रण्ये लक्षणसमन्वयेऽसम्भवदानासङ्गतिरेवेति । न चाव्यावर्तकस्य जलवद्धदकालीनत्वस्य प्रमेयधूमत्वादेरिव प्रतियोगितानवच्छे दकतया तद्विशिष्टवहिव्यापकत्वमप्रसिद्धं शुद्धवह्निव्यापकत्वमे- व प्रसिद्धमिति वह्निब्यापकीभूताभावप्रतियोगिजलत्वावच्छिन्नमे वासाधारण्यामिति च न हेतुविषयतानयत्यमिति वाच्यम् , तथापि सामानाधिकरण्यसम्बन्धेन परिणामत्वावच्छे- देन जन्यगुणविशिष्टपरिमाणस्य समवायेन साध्यतायां सामाना- धिकरण्यसम्बन्धेन जन्यगुणस्य हेतुत्वे महाप्रलयावच्छेदन परमाणवादी जन्यगुणविशिष्टपरिमाणाभावस्य सत्त्वात् परिमाण. सामान्याभावस्य च तत्रासत्वात् तस्यातिरिक्तत्वसिद्धः तादृशाभाव. वद्वृत्तिजन्यगुणरूपव्यभिचारीनश्चयस्यावच्छेदकावच्छेदेन हेतुम. त्तावगाहित्यनियमेन तत्र लक्षणसमन्वयात्। यदि च लाघवेन ज. न्यगुणवैशिष्टयमात्रस्यैव तादृशाभावप्रतियोगितावच्छेदकत्वस्वीका. तज्ज्ञानस्य . ३१० अनुमानगादाधर्याः कोडपत्रेषु रेण ताशधर्मावच्छिन्नामावस्याप्यप्रसिद्धिरित्युच्यते,नदापि सामा. नाधिकरण्यसम्बन्धेन संयोगविशिष्टरूपस्य साध्यत्वे सामानाधि- करण्यसम्बन्धेन संयोगस्य हेतुत्वे, एवं प्रमयत्वविशिष्टवाहिनिरूपित- विषयत्वस्य साध्यत्वे प्रमेयत्वस्य च हेतुत्वे तत्तत्साध्याभावव. दृत्तिसंयोगादिरूपव्यभिचारेण लक्षणागमनादसम्भवदानासङ्गतिर्दु- रिव । वस्तुतस्तु हेतुमत्तानिश्चयेऽवच्छेदावच्छेद्यत्वावगाहित्व. निवेशनेनैव सामानाधिकरण्येन साध्यतास्थले साधारण्य सङ्ग्रहस- म्भवात् पूर्वोक्तस्थलेऽपि लक्षणसमन्वयसम्भव इति चेत् । अत्राहुः-वह्नित्वावच्छेदेन प्रमेयत्वविशिष्टवन्ह्यादरभावस्य साध्य- त्वे प्रमेयत्वस्य हेतुत्वे वह्नः पक्षत्वे प्रमेयत्वविशिष्टवह्निविशिष्टव- न्ह्याद्यात्मकबाधे, एवं संयोगविशिष्टरूपस्य साध्यत्वे रूपस्य प- क्षत्वे संयोगस्य हेतुत्वे संयोगविशिष्टरूपाभाववद्रूपात्मकबाधे चातिव्याप्तिः तत्रत्यज्ञानानां पक्षतावच्छेदकीभूनवह्नित्वाद्यवच्छेदे.' तत्तद्धेतुमत्तावगाहित्वनियमेन स्वसमानकालीनहेतुमत्ता- निश्चयीयधर्मितावच्छेदकीभूतपक्षतावच्छेदकरूपयत्किञ्चिद्धर्माव- च्छिन्नविशेष्यकानुमितिसामान्यविरोधित्वात् --अतः स्वसमानका लीनहेतुमत्तानिश्चये स्वभिन्नत्वं निवेशनीयम , तथा चोक्तबाधा ज्ञानानां स्वसमानकालीनस्वभिन्नघटः प्रमेय इत्यादिहेतुमत्तानि- श्चयीयसमानधर्मितावच्छेदककानुमितिसामान्याविरोधित्वानाति- व्याप्तिः। एवं च केवलदोषविषयकनिश्चयस्य ताडशनिश्चयसा. मान्यान्तर्गतस्य स्थभिनस्वसमानकालीननिश्चयापसिध्यैवासम्म वसङ्गतिः । एवं सति सधर्मितावच्छेदककहेतुमत्तानिश्चयेऽपि स्वभिन्नत्वं निवेश्यम् ,अन्यथा तादृशनिश्चयसामान्यान्तर्गतसमूहाल- म्बनहेतुप्रकारकदोषविषयकनिश्चयकालीनस्वभिन्नहेतुमत्तानिश्चयाप्र. सियाऽसम्भवापत्तिरिति ध्येयम् ।। यत्तूक्तवाधातिव्याप्तिवारणाय स्वसमानकालीनहेतुमत्तानिश्चयी- यमुख्यविशेष्यतावच्छेदकत्वं किञ्चिद्धर्मे निवेशनीयमुक्तबाधादि. घटकीभूतहेतुमत्तानिश्चयमितावच्छेदकधर्मस्य तादृशत्वाभावा- नातिव्याप्तिः। न च प्रमेयवन्ह्यभावादिसाध्यकवाढिपक्षकप्रमेयत्वहेतुक. स्थले वन्हिवृत्तिप्रमेयवन्ह्यात्मकबाधेऽतिव्याप्तिस्तादृशबाधनिश्चये वन्यात्मकमुख्यविशेष्यांश एव हेतुभानादिति वाच्यम् । अवच्छिन्न सव्यभिचारप्रकरणम् विशेष्यत्वानच्छिन्नत्वस्य मुख्यतायां निवेशनीयत्वात् । अथवा स्वसमानकालीनहंतुमत्तानिश्चयविशेष्यतायामेवावच्छिन्नविशेष्यत्वा- वच्छिन्नत्वं निवेशनयम,तथा चोक्तबाधघटकप्रमेयत्वरूपहेतुप्रकारता निरूपितमुख्यविशेष्यतायां वह्निवृत्तित्वप्रकारतानिरूपितधर्मिता. वच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नत्वात् प्रमेयवह्निविशिष्टवन्ह्या. त्मकबाधग्रहे च हेतुप्रकारतानिरूपितविशेष्यतायां प्रमेयवाहित्वाव- च्छिन्नप्रकारकत्वावच्छिन्नत्वादुक्तबाधघटकधर्मस्य तादृशत्वाभावा. नातिव्याप्तिः । एवं स्वधर्मितावच्छेदककहतुमत्तानिश्चयोऽपिमुख्य- विशेष्यताशालित्वेन विशेषणीयः । अन्यथा वह्निव्यापकीभू. ताभावप्रतियोगिजलमित्यादिनिश्चयकालीनजलवद्धदवान् देश इत्यादिनिश्चयीयहेतुप्रकारतानिरूपितमुख्यविशेष्यतावच्छन्दकाप्रसि. याऽसम्भवापत्तेः । एवं च प्रथमकालीनान्तानुक्ती-उक्तव्यभिचार- सामान्यान्तर्गतकेवलदोषविषयकनिश्चयसमानकालीनहेतुमत्तानिश्च. यीयताहशविशेष्यतावच्छेदकाप्रसिद्धयाऽसम्भवो निष्प्रत्यूह एवेति। तत्तुच्छम्-वह्निमान आधेयत्वादित्यादौ वन्ह्यभावववृत्याधे. यत्वरूपव्यभिचारनिश्चयस्याधेयत्वरूपमुख्याविशेष्यांशे हेतुप्रकारस्य समानकालीनहेतुमत्तानिश्चयीयमुख्यविशेष्यतावच्छेदकस्य सुप्रसि. द्धतया ताशव्यभिचार एव लक्षणगमनसम्भवेन प्रथमकालीनान्ता. निवेशप्रयुक्तासम्भवदानासङ्गतितादवस्थ्यात्,हदो वह्निमान् वन्ह्यभा. वादित्यादौ वन्यभाववद्धदात्मकबाधनिश्चयसमानकालीनहेतुमत्ता- निश्चयीयमुख्यविशेष्यतावच्छेदकीभूनकिञ्चिद्धर्मपदेन इत्वमादाय वन्यभाववद्धदात्मकवाधेऽतिव्याप्तितादवस्थ्याचेति ध्येयम् ॥ परे तु नानाधर्मावच्छिन्नविशेष्यकहेतुमत्ता निश्चयकालीनासा- धारण्यविषयकनिश्चयस्य तादृशनिश्चयसामान्यान्तर्गतस्य स्वसमान. कालीनहेतुमत्तानिश्चयसमानर्मितावच्छेदककानुमितित्वस्य वि. भिन्नर्मितावच्छेदककविभिन्नानुमितिसाधारणस्य व्यापकासाधा- रण्यज्ञानीयैकप्रतिबध्यत्वाप्रसिद्धयाऽसाधारण्याव्याप्तिवारणाय स्व. समानकालीनहेतुमत्तानिश्चयस्य व्यापिका यानुमितिस्तादृशानुमि. तित्वव्यापकत्वं प्रतिवध्यतायां निवेशनीयम्ाव्याप्यव्यापकभावश्च निर- वच्छिन्नधर्मितावच्छेदकतासम्बन्धेन तथाच स्वसमानकालीननाना. धर्मावच्छिन्नविशेष्यकनानाहेतुमत्तानिश्चयानां ताइशसम्बन्धेन व्या.
अनुमानगादाधर्याः क्रोडपत्रेषु पिका तत्तद्धर्मावच्छिन्नविशेष्यकसमूहालम्बनानुमितिरेवेति ताह- शानुमितित्वव्यापकत्वं प्रतिबध्यतायामक्षतमेव । अत्राप्युक्तबाधा. द्यतिव्याप्तिवारणदिशाऽसम्भवसङ्गतिरिति प्राहुः॥ केचित्तु उक्तरीत्या प्रतिबध्यतायामनुमितित्वव्यापकत्वरक्षणाय सधर्मितावच्छेदकहेतुमत्तानिश्चयकालीनयादृशविशिष्टविषयकनि- श्चयसामान्यं स्वसमानकालीनहेतुमत्तानिश्चयसमानर्धामतावच्छे. दककानुमितित्वव्यापकस्वनिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यताक तादृशविशिष्टत्वमिति लक्षणं व्याचक्षाणा उक्तबाधातिव्याप्तिं वारयन्तो हेतुमत्तानिश्चयसमानकालीनदोषविषयकनिश्चयस्य स्वसमानका लीनहेतुमत्तानिश्चयाप्रसिद्धयाऽसम्भवःयाशदोषविषयकनिश्चये न हेतुमत्ताज्ञानयत्यं तादृशदोषलक्षणसम्भवाभाव इत्येवासम्भवप. दार्थ इति प्रलन्ति ॥ अथोत्र वह्निमद्भदकालीनवह्निमान् जलवद्भदकालीनहदत्वा. दित्यादौ वन्हिव्यापकीभूताभावप्रतियोगिजलरूपासाधारण्या- धनात्मकेऽतिव्याप्तिः हेतुमत्तानिश्चयकालीनस्य तनिश्चयसामा- न्यस्यव वह्निमधंदावगाहिताहशानुमितिसामान्यविरोधित्वात् इति चेन्न । ज्ञानवैशिष्टयावच्छिन्नत्वासाधारण्यविषयकत्वानवाच्छिन्न- स्वोभयाभाववत्त्वस्थ प्रतिबन्धकतायां निवेशेनैवोक्तातिव्याप्तिवारण- सम्भवात् । न चैवमुक्तस्थले वन्ह्यभाववज्रदादिविषयताया हेतुमत्तानिश्चयसमानर्धीमतावच्छदककप्रकृतसाध्यानुमितित्वव्या. पकप्रतिबध्यतानिरूपिततादृशोभयाभाववत्प्रतिबन्धकतानतिरिक्त त्तितया वन्ह्यभाववद्धदादावतिव्याप्तिरिति वाच्यम् । प्रकृतसाध्य. साधनसामानाधिकरण्यग्रहाधिरेधित्वदलैनतद्वारणादिति ध्येयम् ॥ केचित्तु असाधारण्यविषयकत्वानवच्छिन्नं यत् प्रकृतानुमिति त्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तदन्यत्वस्य लक्षण- घटकप्रतिबन्धकतायामनुमितिसाधारण्यविरोधित्वमित्यनेन वि. वक्षणीयतयोक्तस्थले वहिव्यापकीभूताभावप्रतियोगिजलविषयक त्वावच्छिन्नप्रतिबन्धकताया असाधारण्यविषयकत्वानवच्छिन्नत्वात् तादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपितत्वाच नातिव्याप्तिरि- त्याहुः । तश्चिन्त्यम् ॥ . .
लव्यभिचारप्रकरणम् । ३१३ परेतु समूहालम्बनतादृशानुमितित्वव्यापकप्रतिबध्यतायां वि. शिष्टसाध्यग्रहत्वन्युनवृत्तित्वनिवेशान्नोक्तातिव्याप्तिः। न चैवमुक्तस्थ- ले वह्निव्यापकीभूनाभाव प्रतियोगिहदन्वरूपासाधारण्येऽव्याप्तिः के. वलहदत्वधर्मितावच्छेदककहनुमत्तानिश्च एकालीनतादृशासाधार- पयनिश्चयस्यापि ताशनिश्चयसामान्यान्तर्गतत्वेन तत्समानकालीन. हेतुमत्तानिश्चयसमानधर्मितावच्छेदककहदत्वावच्छिन्नविशेष्यकानु- मितित्वव्यापकप्रतिबध्यताया विशिष्टसाध्यग्रहत्वव्यापकत्वादिति वाच्यम् ,विशिष्टसाध्यघटकधर्मनिष्ठधर्मितावच्छेदकताशून्यत्वेन स. धर्मितावच्छेदककहेतुमत्तानिश्चयस्य विशेषणीयत्वेनोक्तस्थले हृद- स्वधर्मितावच्छेदककहेतुमत्तानिश्चयस्य लक्षणघटकत्वादुक्तासाधा- रण्ये च घटत्वादिधर्मितावच्छेदककहेतुमत्तानिश्चयमादायैव लक्षण- समन्वयादिति ॥ अथवा-हेतुमत्तानिश्चये उक्तावच्छेदकताशुन्यत्वनिवेशने उक्त- न्यूनवृत्तित्वमनिवेश्य प्रतिवध्यतायां विशिष्टसाध्यघटकधर्मावच्छि- नमुख्यविशेष्यत्वानवच्छिन्नत्वं निवेश्यापि उक्तातिव्याप्तिर्वारयितुं श- क्यते-इत्याहुः। अथ साध्याभावतद्यायधर्मितावच्छेदककहेतुमत्तानिश्चयका. लीनदोषविषयकनिश्चयस्यापि तादृशनिश्चयसामान्यान्तर्गततया त. समानकालीनहे नुमत्ताधर्मितावच्छेदकीभूतसाध्याभावादिधर्मिताव. च्छेदककलाध्या नुमितेरप्रसिध्या असंभवः । न च धर्मितावच्छेद. कतायां निरवच्छिन्नत्वस्य निवेशितत्वानासंभव इति वाच्यम् । त. थापि द्रव्यभेदसाध्यकगुणवत्त्वहेतुकस्थले द्रव्यभेदव्यापकीभूनाभा- वप्रतियोगिगुणरूपासाधारण्येऽव्याप्त्यापत्तेः । द्रव्यत्वनिष्ठनिरव. च्छिन्नधर्मितावच्छेदकताकगुणवत्त्वरूपहेतुमत्तानिश्चयकालीनदोष. विषयकनिश्चयलमानकालीनहतुमत्तानिश्चयधर्मितावच्छेदकीभूतद्र- व्यत्वधर्मितावच्छेदककद्रव्यभेदलाधारण्यानुमितेरप्रसिद्धरिति चेन्न। अनाहार्यज्ञानीयसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितविशेष्य- तावच्छेदकीभूतधर्मावच्छिन्नविशष्यताकहेतुमत्तानिश्चयकालीनत्व. स्य कालीनत्वान्तेन विवक्षितत्वादिति ध्ययम् । अथ सधर्मितावच्छेदककहेतुमत्तानिश्चयीययादृशविशिष्टविषय- कनिश्वयसामान्यमित्यत्र सामान्यपदस्थापकात्मकतयात,शनि अनुमानगादाधर्याः क्रोडपनेषु श्चयत्वव्यापकतालाभातथाच निश्चयस्याप्राक्रान्ततया स्वपदेन तस्य बोधयितुमशक्यत्वात् स्वपदेन तादृशनिश्चयत्वस्यैव धर्तव्यत्वेन तत्का- लीनत्वस्याव्यावर्तकतया स्वाश्रयकालीनत्वमेव निवेशनयिम् तथाच सति तादृशदोषनिषयकनिश्चयकालीनत्वस्य तादृशदोषविषयकनि. श्चयकालीनर्मिका यावन्तो हेतुमत्तानिश्चयाः सम्भवन्ति तावत्स्वेव सत्त्वादसाधारण्याव्याप्त्यापत्तेः पूर्वोक्तरीत्या वारणेऽपि बाधाद्य. तिव्याप्तिर्दुर्वारैव ताहशनिश्चयत्वाश्रयकालीनहेतुमत्तानिश्चयधर्मि: तावच्छेदकादिरूपयत्किश्चिद्धर्मस्य सर्वस्य सर्वत्र ग्रहीतु शक्य स्वादिति । न च तदर्थेन तादृशनिश्चयव्यापकत्वमेव निवेशनीयं, तथा च स्वपदेन तत्तन्निश्चयमादाय सर्वत्र लक्षणं संगमनीयमतो नाव्याप्तिरिति वाच्यम्, व्याप्यदिश्यनुगतरूपेण तादृशनिश्चयत्वेन निश्चयनिवेशे व्यापकदिशि सत्त्वघटितधर्मनिवेशे व्याप्यव्यापक भाषसम्भवात् स्वत्त्वस्याननुगततया तदघटितधर्मस्य व्यापकता वच्छेदकत्वाभावादिति चेत् । अत्र केचित्-प्रकृतसाध्यविषयकप्रकृतहेतुर्मिकप्रकृतसाध्यनि. रूपितव्याप्तिप्रकारनानुमितिविशिष्टान्यत्वानतिरिक्तवृत्तिविषायतानि. रूपकतावच्छेदकरूपवत्त्वघटितमेव लक्षणं वक्तव्यमतो नोक्तदोषः । तादृशानुमितिवैशिष्ट्यं च स्वनिष्ठभेदप्रतियोगितावच्छेदकत्व स्वी. यसाध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकाव. च्छिन्नविशेष्यतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारताशालिनिः श्चयकालीनत्वोभयसंबधेन । भेदप्रतियोगितावच्छेदकत्वं च स्वनिष्ठ- प्रतिबन्धकतानिरूपितप्रतिबध्यत्वसंबंधन । संबंधस्य व्यावृत्तिः स्व. यमूह्येत्याहुः । तच्चिन्त्यम् ॥ घस्तुतस्तु सधर्मितावच्छेदककहेतुमत्तानिश्चयकालीनयद्रूपा. वच्छिन्नविषयकनिश्चयत्वव्यापकतावच्छेदकं ज्ञानत्वं तद्रूपपरत्वं लक्षणम् । व्यापकता च स्वतादात्म्य-स्वसमानकालीनहेतुमत्तानि- श्चयीयधर्मितावच्छेदकावच्छिन्नविशेष्यकप्रकृतसाध्यावधेयकप्रकृनहे. तुर्मिकप्रकृतसाध्यव्याप्तिप्रकारकानुमितित्वव्यापकप्रतिबध्यतानिरू पितप्रतिबंधकतायत्त्वोभय संबंधेनेति ध्येयम् । कश्चि-समाधत्ते-सधर्मितावच्छेदककहेतुमत्तानिश्चयकालीनयद्रू पावच्छिन्नविषयकनिश्चयसामान्यं प्रकृतसाध्यप्रकारकप्रकृतहेतुधर्मि सव्यभिचारप्रकरणम् । ३१५ कप्रकृतसाध्यव्याप्तिप्रकारकानुमित्यवृत्ति तद्रूपत्वम् । तादशानुमिति. वृत्तित्वं च स्वसमानकालीननिश्चयीयहेतुतावच्छेदकावच्छिन्नप्रका. रतानिरूपितविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्य. तावच्छेदकावच्छिन्नप्रकारताकत्व-स्वनिष्ठप्रतिवन्धकतानिकापतप्र. तिबध्याभाववत्वत्स्वाभयसंबंधेन । एतत् पुनश्चिन्त्यम् ॥ ननु वह्निमान् अवृत्तिजलादित्यादौ अनाहार्यहेतुमत्तानिश्चयाप्र. सिद्धयाध्याप्तिः अवृत्तिजलवानित्यादिनिश्चयस्य नियताहार्यत्वात् । न च हेतुतावच्छेदकतापर्याप्त्यनिवेशा तुतावच्छेदकीभूतशुद्धज. लत्वावच्छिन्नवत्तानिश्चयस्यानार्यस्य प्रसिद्धघा तत्कालीनवह्निव्याप. कीभूनाभावप्रतियोगिजलादिनिश्चयमादायैव तादृशजलादौ लक्षण समन्वय इति वाच्यम् । तथासति वह्निमान् काञ्चनमयजलादजलशै. वालोमयस्मादित्यादौ काञ्चनमयवानित्यादिहेतुमत्तानिश्चयकालीन. वह्निव्यापकीभूताभावप्रतियोगिजलमिति निश्चयस्यापिताशनिश्चय- सामान्यान्तर्गततया तस्यानुमित्यप्रतिबन्धकत्वाद्वहिव्यापकीभूताभा- वप्रतियोगिजलात्मकासाधारण्येऽव्याप्तेरिति चेन्न । निश्चयविशिष्टान्यहेतुतावच्छेदकताश्रयधर्मावच्छिन्नप्रकारकसध. मितावच्छेदककनिश्चयनिवेशेनैवोक्तदोषवारणसम्भवात्। निश्चयवैशि- एथं च स्वनिष्ठासाधारण्यविषयित्वावच्छिन्नप्रतिबन्धकतानवच्छेद. ककिञ्चिद्धविच्छिन्नविषयितावत्व-स्वसमानकालीनत्व स्वसामाना- धिकरण्यैततत्रितयसम्बन्धेन । तथाचोक्तस्थले एवंभूतं हेतुम. ताज्ञानं वह्निव्यापकीभूताभावप्रतियोगिजलज्ञानकालीनजलवान् हद इति ज्ञानमेवेति तत्कालीनासाधारण्यविषयकनिश्चयमादा- यैव लक्षणसंगतिः ॥ प्रथमसम्बन्धानिवेशे निश्चयमात्रस्यैव वै. शिष्टयसत्त्वात् निश्चयविशिष्टान्यनिश्चयस्यैवाप्रसिद्धिरतस्तनिवे. शः । जलशैवालोभयहेतुकस्थले वह्विव्यापकीभूताभावप्रतियो- गिजलवहिव्यापकीभूनाभावप्रतियोगिशैवालोभयस्यैवासाधारण्यत. यैकघटितासाधारण्यविषयकनिश्चयकालीनहेतुमत्तानिश्चयस्यान्यघ. टितासाधारण्यविषयकनिश्चयविशिष्टत्वादव्याप्तिरतो द्वितीयस. म्बन्धनिवेशः । तन्निवेशे चैकघटितासाधारण्येयघटितासा- धारण्यविषयकनिश्चयासमानकालीनस्वघटकहेतुतावच्छेदकीभूतध- विच्छिन्नवत्तामादायैव लक्षणसमन्वयः। तृतीयस्य फलं पुरुषा- अनुमानगादाधर्याः क्रोडपत्रषु न्तरीयनिश्चयमादायाव्याप्तिवारणम् । यद्वा हेतुनावच्छेदकघटकयात्किञ्चिद्धर्मावच्छिन्नवत्तानिश्चयका- लीनयादृशविशिष्टविषयकनिश्चयसामान्यं स्वसमानकालीनहेतुमत्ता. निश्चयसमानधर्मितावच्छेदककानुमितिसामान्यविरोधि तादृशत्व. मेव लक्षणम् । उक्तस्थले च यत्किचिद्धर्मपदेन हेतुतावच्छेदकघटक- जलत्वमादायैव लक्षणं संगपनीयम् । अतएव वह्निमान् वह्निसमानाधि. करणाभावप्रतियोगितावच्छेदकीभूताभावत्वकालीनजलादित्यादाव. भावत्वावच्छेदन तादृशावच्छेदकत्वावगाहिप्रकृतहेतुमत्तानिश्चयः कालीनस्य वह्निव्यापकीभूताभावप्रतियोगिअभावत्वकालीनजलरू- पासाधारण्यविषयकनिश्चयस्य नियताहार्य्यतया तादृशासाधारण्या- व्याप्तिरित्यपिनिरस्तम् । यत्किञ्चितपदेनोक्तहेतुतावच्छेदकघटकाभा- ववत्वकालीनजलत्वमादायैव तत्र लक्षणसमन्वयादिति ध्ययम् ॥१४॥ सर्वमाकाशवत् प्रमेयत्वादित्यादिस्थलीयबाधप्रतिरोधयोरति- व्याप्तिः सर्वमाकाशाभाववदित्यादिनिश्चये सति क्वचिदप्याकाशाद्यनु- मितेरनुदयात् अनुभवानुरोधेनासमानधर्मितावच्छेदककशानेऽपित. प्रतिबन्धकत्वकल्पनात्तयोरनुमितिसामान्यविरोधित्वादतः सर्व सा. ध्याभाववत्तद्वयाप्यवद्वत्यादिकन्तु साध्यवत्त्वग्रहविरोधित्वेन सामा- नाधिकरण्यग्रहविरोधि, साध्यानुमितिसामान्याविरोधित्व वा विशे- षणमित्युक्त दीधितिकृता। निर्धर्मितावच्छेदककज्ञानस्य बाधाद्यप्रति- बध्यत्वे सामानाधिकरण्यग्रहस्य साध्यांशे निर्धर्मितावच्छेदकतया तदविरोधित्वमुक्तबाधादेरक्षतमेवेति, इत्याशयेनाहानुमितिसामा- न्याविरोधित्वं वेति भट्टाचार्येणोक्तम् । अथात्र विरोधवारकसाध्यसमानाधिकरण्यग्रहाविरोधित्वदले साध्यवत्वांशेऽधिकरणत्वस्य धर्मितावच्छेदकसामानाधिकरण्यग्र- हाविरोधित्वनिवेशेनैव उक्तवाधेऽतिव्याप्तिवारणसम्भवे कृतमनुमि- तिसामान्याविरोधित्वरूपातिरिक्तविशेषणेनेति । न च यत्र गगनं साध्यमधिकरणत्वं हेतुस्तत्र गगनाभाववदधिकरणात्मके व्यभिचा- रेऽव्याप्तिभियाऽधिकरणत्वस्य धर्मितावच्छेदकत्वनिवेशासंभव इति वाच्यम् । अधिकरणत्वसामानाधिकरण्येन गगनाभावस्यैव तत्र व्य. भिचारतयाऽधिकरणत्वसामानाधिकरण्येन साध्यसामानाधिकर. ण्यग्रहाविरोधित्वस्य तत्र सत्त्वेनाव्याप्त्यनवकाशात् । एवं यत्र ।
सव्यभिचारप्रकरणम्। ३१७ द्रव्यमभाववदवृत्ति सत्वादित्वादी द्रव्यत्वाभावववत्तिसत्तात्मकव्य- भिचाराव्याप्तिभिया साध्यसाधनसामानाधिकरण्यग्रहत्वाव्यापक त्वस्य प्रतिबध्यताया निवेश्यतया व्याप्तिज्ञानत्वावच्छिन्नप्रतिबध्य. तामादायैवोक्तव्यभिचारसंग्रहसंभवाञ्चेति चेन्न । यत्र गगनस्य सा- ध्यता गगनाभाववदधिकरणस्य हेतुता तत्र साध्यांशेऽधिकरणत्व- धर्मितावच्छेदककस्य प्रकृतहेतुधर्मिकसाध्यसामानाधिकरण्यज्ञान- स्यानाहार्यस्याऽसम्भवेनाधिकरणत्वस्य धर्मितावच्छेदकत्वनिवे- शायोगात् । एवं यत्राधिकरणत्वाभावस्य साध्यता तत्र साध्यांशेऽ. धिकरणत्वधर्मितावच्छेदककसाध्यसामानाधिकरण्यज्ञानस्य निय- ताहार्यतया तन्निवेशासम्भवाच्चेति ध्येयम् । न चैतावताधिकर- णत्वस्य धर्मितावच्छेदकत्वानिवेशासम्भवेऽपि साध्यांशे सधर्मिता- वच्छेदककसाध्यसामानाधिकरण्यग्रहाविरोधित्वनिवेशेनैव सामा- अस्यामिति वाच्यम्, तस्यापि प्रकारान्तरत्वादिति ध्येयम् ॥ १५ ॥ । इति श्रीकालीशङ्करसिद्धान्तवागीशविरचितं सव्य. भिचारकोडपत्रम् ॥
॥ श्रीगणेशायनमः॥ ॥श्री कालीशंकराभ्यां नमः॥ अथ श्रीकालीशङ्करसिद्धान्तवागीशविरचितं सटिप्पणं साधारणकोडपत्रम्। यादृशशानान्तरविशिष्टत्वेन यादृशविशिष्टविषयकज्ञानस्य प्रति. बन्धकत्वं तादशज्ञानान्तरसहिततादृशविशिष्टविषयकज्ञानानधि. करणक्षणवृत्तित्वविशिष्टतादृशविशिष्टपर्याप्तविषयताविरहवत्त्वे सति यादृशविशिष्टविषयतासामान्यमनुमितिप्रतिबन्धकताक्छेदकं तादृश. त्वमिति मिश्रमतं भट्टाचार्येणोक्तम् तादृशज्ञानान्तरसहिततादृशविशिष्टविषयकज्ञानानधि. करणक्षणवृतित्वविशिष्टेत्यत्र अनधिकरणत्वं किं याशयत्किञ्चिद- धिकरणत्वाभावः किम्वा तादृशाधिकरणत्वसामान्याभावः तादृशा. धिकरणत्वाभावकूटवत्त्वं वा ॥ नाद्यः तादृशज्ञानद्वयाधिकरणक्षण- स्थापि तादृशज्ञानसहितस्य ज्ञानव्यक्त्यन्तरस्यानधिकरणत्वेन ज्ञान- द्वयकालेप्ययोगोलकवृत्तिवन्हयाद्यात्मकव्यभिचारादेरसंग्रहापत्तेः । नापि द्वितीयः यत्त्वतत्त्वयोरननुगमेन धूमाभाववदयोगोलकं अयो- गोलकवृत्तिन्हिरिति ज्ञानद्वयास्यायोगोलकवृत्तिर्वन्हिरयोगोलक- वृत्तिधूमाभाव इति ज्ञानद्वयस्य धूमाभाववदयोगोलकं वन्हिम. दयोगोलकामितिज्ञानद्वयस्य अयोगोलकवृत्तिधूमाभावः वन्हिमदयो. गोलकर्मितिज्ञानद्वयस्य चाधिकरणसाधारणानुगतानतिप्रसक्तरूपा. भावादसम्भवापत्तेः । नापि तृतीयः जलवान् वन्ह्यभाववान जलवान् हद इति शानद्वयकालेऽपि अयोगोलकवृत्तिवन्ह्यादेर्व्यः भिचारितापत्तः ज्ञानवैशिष्टयावच्छिन्नप्रतिबन्धकतावच्छेदकीभूत. यावज्यानस्यैव यादृशज्ञानान्तरपदेन ज्ञानवैशिष्ट्यावच्छिन्नप्रति. बन्धकतावच्छेदकविषयिताकयावद्विशिष्टस्यैव च यादृशविशिष्ट. पदेन प्रतिपाद्यतया जलवान् वन्ह्यभाववानिति शानसहितजलव. दविषयकशानाधिकरणत्वाभावस्यापि तादृशाधिकरणत्वाभावकू. टान्तर्गततया जलवान् धन्वभाववान् जलवान हर इत्यादिज्ञानशून्य.
साधारणप्रकरणम् । ३१९ कालस्यैव तादृशाधिकरणत्वाभावकूटवत्क्षणत्वेन तादृशक्षणवृत्तित्व विशिष्टविषयिताविरहस्य तदानीमक्षतत्वादिति । अत्राहुः-एकैकविशिष्टमादाय याशयाशज्ञानविशिष्टत्वेन या. हशविशिष्टविषयकज्ञानस्य प्रतिबन्धकत्वं तादृशतादृशज्ञानसहितता. दृशविशिष्टविषयिताकज्ञानाधिकरणत्वाभावकूटवलक्षणवृत्तित्ववि- शिष्टतादृशविशिष्टपर्याप्तविषयताविरहकूटवत्वमेव विवक्षणीयम् । तथा चायोगोलकवृत्तिवन्हिरूपविशिष्टोपादाने तद्विषयकज्ञाननिष्ठः प्रतिबन्धकतायामवच्छेदकं धूमाभाववदयोगोलकं अयोगोलकवृ. त्तिमाभाव इत्यादिज्ञानस्य वैशिष्टयमेव, न तु जलवान् वय. भाववान् जलवान् हद इत्यादिशानस्य वैशिष्टयमिति-जलवा. वान् वह्नयभाववान् इति शानकालेऽयोगोलकवृत्तिवयात्मकन्यः भिचारे नातिव्याप्तिः । जलवान् वह्नयभाववान् जलवान्-हद इत्यादिज्ञानद्वयाधिकरणत्वाभावस्यायोगोलकवृत्तिवह्निरूपविशिष्टप. र्याप्तविषयताविरहप्रतियोगिकोट्यप्रविष्टत्वादिति ॥ वस्तुतस्तु धर्मविशिष्टविषयताविरहवत्त्वमेव सत्यन्तदलार्थः । वैशिष्टयञ्च स्वपर्याप्तत्व-स्वनिरूपितविषयताशालिनिश्चयत्वावच्छि. नप्रतिबन्धकतावच्छेदकीभूतज्ञानसहितस्वविषयताशालिज्ञानानधि. करणक्षणवृत्तित्वैतदुभयसम्बन्धेन, नातः पूर्वोक्तदोषाणामवकाशः ॥ न चायोगोलकवृत्तित्ववान व्याप्तयाभाववानितिज्ञानकालीनायो- गोलकवृत्तिहिरिति ज्ञानकालेऽयोगोलकवृत्तिवह्नौ व्याप्त्यभाववदयो- गोलकवृत्तित्ववति च तदानीं व्यभिचारानात्मकेतिव्याप्तिःएवं वह्नि. धूमवान्वरित्यादौ धूमाभाववदयोगोलकवृत्तित्ववदयोगोलकवृत्तिव- ह्निरिति ज्ञानकाले चायोगोलकवृत्तिवह्नयादावतिव्याप्तिः । अयोगोल- कवृत्तित्ववधूमाभाववदित्यादिज्ञानस्यापि अयोगोलकवृत्तिवयात्म. कविशिष्टविषयकज्ञाननिष्ठप्रतिबन्धकतावच्छेदकतयाऽयोगोलकवृत्ति. त्ववद्याप्त्यभाववदित्यादिज्ञानसहितायोगोलकवृत्तिवह्निविषयकज्ञाना- धिकरणत्वाभावस्यापि अयोगोलकवृत्तिवह्निपर्याप्तिविषयताविरहप्र. तियोगिकोटिप्रविष्टत्वादिति वाच्यम् । एतत्समाधानस्याने वक्ष्यमाण. स्वादिति ध्येयम् ॥ अत्र च तादृशज्ञानसहिततादृशविशिष्टविषयकज्ञानानाधिकरण- क्षणवृत्तिवत्यत्र यदवच्छेदेन तादृशज्ञानानधिकरणत्वं तदवच्छेदेन अनुमानगादाधर्याः क्रोडपत्रेषु तादृशानधिकरणक्षणवृत्तित्वं विवक्षणीयम्।तादृशज्ञानाधिकरणत्वाभा- ववत्त्वमेव वा निरवच्छिन्नत्वं ग्राह्यमेतल्लाभार्थमेव क्षणपदोपादानम्, अन्यथा स्थूलकालस्यैव क्षणपदार्थतया पूर्वदण्डाद्यवच्छेदेन च शानद्वयाधिकरणस्थूलकालस्य तादृशाज्ञानाधिकरणत्वेन ज्ञानद्वय. कालेऽपि सत्यन्तदलासत्त्वप्रसङ्गादिति ध्येयम् । अथात्र पर्वतो वह्निमान् धूमादित्यादौ पाषाणमयो न वह्निमान् पर्वतश्च पाषाणमय इति ज्ञानद्वयकाले पाषाणमयत्ववर्पवतादावति. व्याप्ति. तदानीं तत्र सत्यन्तदलस्य विशेष्यदलस्य च सत्त्वात्,एवं इदो वह्नमान् जलादित्यादौ वह्निव्यापकीभूताभावप्रतियोगि जलं जल- वांश्च ह्रद इत्यादिज्ञानकाले जलवज्रदादावतिव्याप्तश्चेति चेन्न । विशिष्टसाध्यसाधनसामानाधिकरण्यग्रहत्वाव्यापकप्रकृतहेतुधः र्मिकप्रकृतसाध्यनिरूपितान्वयव्याप्तिग्रहत्वव्यापकप्रतिबध्यत्वानिरू. पितत्व ज्ञानवशिष्टयावच्छिन्नत्व-असाधारण्यविषयित्वानवच्छिन्नत्वै. तत्रित्वावच्छिन्नाभाववत्वेन विशेष्यदलघटकप्रतिबन्धकताविशेष. णेनैवोक्तातिव्याप्तिवारणसंभवादिति । धूमवान् वोरित्यादौ अयोगो. लकं धूमाभाववदयोगोलकवृत्तिर्वह्निरिति ज्ञानद्वयकाले व्याप्तिज्ञान- प्रतिबंधकतामादायायोगोलकवृत्तिवन्याद्यात्मकव्यभिचारे लक्षणग- मनाय निरुक्तत्रितयाभावप्रतियोगिकोटौ अनिरूपितान्तनिवेशः। काञ्चनमयधूमवान् वह्नरित्यादौ नीलत्ववान् काञ्चनमयत्वाभाववान् नीलत्वांश्च धूम इत्यादिज्ञानीयप्रतिबन्धकतायां व्याप्तिग्रहत्त्व- व्यापकप्रतिबध्यत्वानिरूपितत्वासत्वेन निरुक्तात्रतयाभावसत्त्वात्तामा- दायोक्तज्ञानद्वयकाले नीलत्ववधूमादावतिव्याप्तिवारणाय प्रतिबध्य तायां हेतुलाध्यकसामानाधिकरण्यग्रहत्वाव्यापकत्वनिवेशः ॥ बाधादावसाधारण्ये चातिव्याप्तिवारणायान्तिमयोनिवेशः । न च तथापि वह्निघूमवान् वढेरित्यादावयोग लकवृत्तित्ववधूमा- भाववदयोगोलकवृत्तिर्व हरित्यादिज्ञानकालेऽयोगोलकवृत्तिवन्ह्यादा- वतिव्याप्तिः अयोगोलकवृत्तित्ववधूमाभाववदिति ज्ञानविशिष्टत्वेना. योगोलकवृत्तिर्वह्निरिति ज्ञानस्य साध्यवत्ताज्ञानप्रतिबन्धकत्वेन सत्य- निरुक्तात्रत्वावाच्छन्नाभावविशिष्टव्याप्तिज्ञानप्रतिवन्ध- कतामादाय विशेष्यदलस्य च तत्र सत्त्वादिति वाच्यम् । याह. शज्ञानान्तरविशिष्टत्वेन यादृशविशिष्टविषयकज्ञानस्य प्रतिबन्धकत्व. न्तस्य साधारणप्रकरणम् । मित्यत्रापि प्रतिबन्धकतायां विशिष्टसाध्यसाधनग्रहत्वाव्यापक- ध्यानिग्रहत्वव्यापकप्रतिवध्यत्वानिरूपितत्वासाधारण्यविषयित्वान- वच्छिन्नत्वोभयाभावस्य निवेशनीयत्वात्,तथा चायोगोलकवृत्तित्वव. धूमाभाववदितिज्ञानस्य यादृशज्ञानान्तरपदेन धर्तुमशक्यत्वेन धू- माभाववदयोगोलकमितिज्ञानस्य धर्तव्यतया धूमाभाववदयोगोलक- मित्यादिज्ञानशून्यकाले नोक्तातिव्याप्तिः । तादृशज्ञानकाले च तस्य लक्ष्यत्वमेव । काञ्चनमयवह्निमान वहरित्यादौ-अयोगोलक- वृत्तित्ववत्काञ्चनमयत्वाभाववत्अयोगोलकवृत्तिर्वह्निरिति ज्ञान- यकालेऽयोगोलकवृत्तिवह्नयादावतिव्याप्तिवारणाय विशिष्टसाध्य. साधनग्रहत्वाध्यापकति । न च वाच्यं गगनादित्यादी यादृशज्ञाना. न्तरविशिष्टत्वेन यादृशविशिष्टविषयकज्ञानस्य निरुक्तांसयाभाववत्प्र- तिबन्धकत्वं तादृशविशिष्टमेवाप्रसिद्धमिति वाच्यम् । वाच्यत्वव्याप- कीभूताभावप्रतियोगिगगनामकासाधारण्यस्यैव प्रसिद्धत्वादिति ध्येयम् ॥ न च तथाप्ययोगोलकवृत्तित्ववद्याप्त्यभाववत्अयोगोलक- वृत्तिर्वह्निरिति ज्ञानकालं वृत्तिमधूमव्याप्त्यभाववद्वृत्तिवहिरिति शा. नकाले चायोगोलकवृत्तिवह्नौ वृत्तिवह्नौ च व्याप्त्यभावावच्छेदकत्वेन गृहीतधर्मवत्ताज्ञानीयप्रतिबन्धकतायां निरुक्तत्रितयाभावसत्त्वाता- मादायातिव्याप्तिरिति वाच्यम् । किश्चिद्धर्मावच्छिन्नविशेष्यकला. मानाधिकरण्येन व्याप्तिनिश्चयत्वव्यापकप्रतिबन्धकतानिरूपितप्र. तिवध्यतावच्छेदकविषयताशालिज्ञानविशिष्टान्यज्ञानवृत्तित्वेनापि वि. शेष्यदलसत्यन्तदलघटकप्रतिवन्धकतयोर्विशेषणीयत्वात् । नि. रुक्तप्रतिवध्यतावच्छेदकविषयताशालिज्ञानवैशिष्ट्यञ्चैकक्षणाव. च्छिन्नैकात्मवृत्तित्वलम्बन्धेन । तथा च व्याप्त्यभावावच्छेदकत्वेन गृहीतधर्मवत्ताज्ञानीयप्रतिवन्धकतायां व्याप्त्यभावावच्छेदकत्वेन गृ- हीतो यो धर्मस्तद्धर्मावच्छिन्नविशेष्यकसामानाधिकरण्येन व्याप्ति- निश्चयप्रतिवध्यतावच्छेदकविषयताशालिज्ञानविशिष्टान्यज्ञानवृत्ति स्वाभावानोक्तातिव्याप्तिः । यदि च यत्र स्थले किञ्चिद्धर्मिकसामा. नाधिकरण्येन व्याप्तिनिश्चयप्रतिवध्यतावच्छेदकविषयिताकविशि- दृस्य धूमाभाववत्तिजलवद्धदो धूमवान् वढेरित्यादिस्थलीयपक्षादे- र्धटकतातत्रत्यबाधादावव्याप्तिरित्युच्यते । तदा ज्ञानवैशिष्टयावच्छि- স্ব- নিকমবিশ্বনবিবিরাত্তিানৰিয়াঙ্কা अनुमानगादाधर्याः क्रोडपत्रेषु नावृत्तित्वोभयाभाववत्वमेव प्रतिबन्धकतायां निवेश्यमिति ध्येयम् *। ननु तथापि धूमधान् धूमव्याप्त्यभाववद्घटकालीनवहेरित्यादी अयोगोलकवृत्तितादृशवह्निरूपव्यभिचारेऽव्याप्तिस्तत्र व्यभिचारज्ञान. प्रतिबन्धकताया घटर्मिकव्याप्तिधीप्रतिबध्यतावच्छेदकविषयता- शालिज्ञानविशिष्टान्यज्ञानावृत्तित्त्वज्ञानवैशिष्टयावच्छिन्नत्वोभयसत्त्वे. न धर्तुमशक्यत्वादिति चेत् , न-किञ्चिद्धर्मावच्छिन्नधर्मिकव्या. प्तिज्ञानप्रतिबध्यतायां स्वावच्छिन्नविषयत्वाव्यापकत्वनिवेशात् । इत्थश्चोभयाभावोपि न निवेश्यः-पूर्वोक्तनिवेशेनैव चरितार्थत्वा- दिति ध्येयम् ॥ अथात्र धूमवान् वढेरित्यादौ धूमाभाववद्मदाद्यात्मकबाधादौ हदविशेष्यकवह्निप्रकारकज्ञानशून्यकालेऽव्याप्तिः निरुक्तबाधविषयक ज्ञानस्यापि ह्रदो वह्निमानित्याकारकज्ञानान्तरविशिष्टत्वनानुमितौब्या. प्त्यशे प्रतिबन्धकतया इदो वह्निमानित्यादिज्ञानशुन्यकाले तत्र स. त्यन्तदलविरहादिति । न च दशाविशेष एव बाधादेलक्ष्यत्वमिति वा. च्यम् । बाधादेनित्यदोषतायाः सर्ववादिसिद्धत्वादिति चेत् । * परे तु पाषाणमयत्ववत्पर्वतादावतिव्याप्तिवारणाय लक्षण टकप्रतिबन्धकतायां प्रकारताविशिष्टान्यत्वे सति प्रकारताविशिष्टा. न्यत्वं निवेशनीयं । प्रथमवैशिष्टय च स्वनिरूपकज्ञानवैशिष्टयाव- च्छिन्नत्व स्वनिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतानिरूपित- विशेष्यत्वोभयसम्बन्धेन । प्रकारतायां विशेष्यतावच्छेदकतावैशि. टयञ्च स्वानवच्छेदकानवच्छिन्नत्वसंबन्धेन । स्वं ग्राह्याभावप्रका- रता । द्वितीयवैशिष्टयं च स्वनिरूपकज्ञानवैशिष्टयावच्छिन्नत्व-स्ववि. शिष्टावच्छेदकताकविशेष्यतानिरूपितप्रकारतावच्छिन्नत्वोभयसंब. न्धेन । अवच्छेदकतायां प्रकारतावैशिष्टयं च स्वानवच्छेदकानवच्छि. नत्वसम्बन्धेन । स्वं व्यावर्तकधर्मनिष्ठप्रकारता। न च वह्निमदवृत्ति- जलं जलवान् पर्वत इति ज्ञानस्य ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धक तया वह्निमदवृत्तिजले एवं वह्निव्यापको धूमः धूमाभाववानिति ज्ञान- काले धूमाभाववदयोगोलके चातिव्याप्तिः तत्प्रतिबन्धकतायां निरु- क्तप्रकारताविशिष्टान्यत्वादिति वाच्यम् । अगत्या तत्तत्प्रतिबन्धक. ताभेदस्थ निवेश्यत्वादित्याहुः ॥
साधारणप्रकरणम् ।
३२३
अत्रोच्यते याडशज्ञानान्तरविशिष्टत्वेन यादृशविशिष्टविषय.
कज्ञानस्य प्रतिबन्धकत्वमित्यत्र प्रकृतानुमितिप्रतिबन्धकतातिरिक्त
वृत्तिविषयिताकत्वेन यादृशविशिष्टं विशेषणीयम् , अतो यादृशवि-
शिष्टपदेन बाधादेधर्तुमशक्यत्वानोक्ताव्याप्तिः । न चैवं महानसनि-
रूपितत्वाभावववृत्तिकालीनपर्वतो वह्निमान् धूमादित्यादौ महान-
सं वह्नयभाववादित्यादिक्षानशून्यकाले महानसवृत्तिधूमे निर्जलहद.
कालीनपतो वह्निमान् सस्नेह जलादित्यादौ हृदो वह्नयभाववानि.
तिज्ञानशून्यकाले सस्नेहजलवद्धदे एवमभावत्वावच्छेदेन पहिम-
दन्यत्ववैशिष्ट्येन घटत्वावच्छदेनाभाववदन्यत्ववैशिष्ट्येन प्रति-
योगितासम्बन्धेन वह्नीयवदन्यत्ववैशिष्ट्येन च घटितपक्षतावच्छे-
दककवह्निमदन्याभावकालीनाभाववदन्यवह्नीयवदन्यघटकालीनपर्व.
तो वह्निमान् धूमादित्यादौ घटवृत्ति—म इत्यादिज्ञानशून्यकाले आ-
श्रयासिद्धित्रयघटितवह्नयभाववद्धटात्मके चातिव्याप्तिः । तत्तद्विशि.
प्रविषयकज्ञानस्य ज्ञानद्वयकाले व्याप्त्यंशेऽनुमितिप्रतिबन्धकत्वेन
विशेष्यदलस्य तत्तद्विशिष्टस्थानुमितिप्रतिबन्धकतातिरिक्तवृत्तिवि.
षयिताकत्वाभावेन यादृशविशिष्टपदेन धर्तुमशक्यत्वेन सत्यन्तदल.
स्य च तत्र सत्त्वादिति । अत एव वाधादावुक्ताव्याप्तिवारणाय शान-
वैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानवच्छेदकविषयिताकत्वेन यादृश-
विशिष्टं विशेषणीयमित्यपि प्रत्युकम् । तथासत्युक्ताश्रयासिद्धिघटि.
तविशिष्टानां ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानवच्छेदकविष.
यिताकत्वाभावेनोक्तातिव्याप्तेर्दुवारत्वादिति बाच्यम् । याहशविशि-
टविषयितासामान्यं यत्प्रतिबन्धकतावच्छेदकं तत्प्रतिबन्धकतातिरि-
क्तवृत्तिविषयिताकत्वन सत्यन्तदलघटकयादृशविशिष्टस्य विशेष-
णादव सर्वसामञ्जस्यात् । बाधादौ साध्यवत्ताज्ञानप्रतिबन्धकतामा.
दायैव लक्षणसमन्वयात् ज्ञानद्वयकालेऽनित्यदोषस्थले च व्याप्ति
ज्ञानप्रतिबन्धकतामादायैव लक्षणसमन्वयात् । न च ज्ञानद्वयशून्य-
कालेऽपि पक्षज्ञानप्रतिबन्धकतामादायासिद्धिघटितोक्तातिव्याप्तिता.
दवस्थ्यमिति वाच्यम् । यत्प्रतिबन्धकतामादाय लक्षणं सङ्गमनीयं
तत्प्रतिबन्धकत्वघटितस्यैव विशिष्टान्तराघटितस्य विवक्षणीयतया
पशज्ञानप्रतिबन्धकताघटितविशिष्टान्तराघटितत्वविरहादेवोक्काति-
व्याप्तिवारणसम्भवादिति ध्येयम् ॥०॥
अनुमानगादाधर्याः क्रोडपत्रषु परे तु याशज्ञानान्तरविशिष्टत्वेन यादृशविशिष्टविषयकज्ञान- वैशिष्ट्यानवच्छिन्नप्रतिबन्धकताविशिष्टान्यप्रतिबन्धकत्वं तादृशशा- नसाहिततादृशविशिष्टविषयकज्ञानाधिकरणत्वं विवक्षणीयम् । प्रनिब. न्धकतावैशिष्ट्य च व्यापकतासम्बन्धन । व्याप्यव्यापकभावश्च स्वावच्छेदकत्वसम्बन्धेन।तधाच बाधविषयकज्ञानी यज्ञानवैशिष्ट्या. वच्छिन्नव्याप्तिज्ञानप्रतिबन्धकताया ज्ञानवैशिष्ट्यानवच्छिन्नसाध्य- वत्ताज्ञानप्रतिबन्धकताविशिष्टत्वात् याहशविशिष्टपदेन बाधादेधर्तुम- शक्यत्वादेव नाव्याप्तिः । उक्ताश्रयासिद्धिघटितविशिष्ठविषयकज्ञा- नीयव्याप्तिज्ञानप्रतिबन्धकतायाश्च पक्षज्ञानप्रतिबन्धकताविशिष्टत्वा. भावादेवोक्तातिव्याप्तिः ॥ अथवा यादृशविशिष्टविषयित्वाव्यापकीभूतविषयिताशून्यया. शविशिष्टविषयकज्ञानसामान्य ज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धक- स्वाभावः तादृशत्वेन सत्यन्तदलघटकयादृशविशिष्टं विशेषणीयम् । प्रतिबन्धकत्वाभावश्च स्वानवच्छेदकविषयिताशुन्यत्वसम्बन्धाव- च्छिन्नप्रतियोगिताको ग्राह्यः । तथाच बाघादिविषयकज्ञानसामान्ये तादृशप्रतिबन्धकत्वाभावविरहादेव बाधादेर्याहशविशिष्टपदेन ध. तुमशक्यत्वान्नाव्याप्तिः । उक्ताश्रयासिद्धिघटितविशिष्टविषयकज्ञान- सामान्य एव च तादृशप्रतिबन्धकत्वाभावसत्त्वात् शानद्वयशून्य- काले नोक्तातिव्याप्तिः । अव्यापकीभूतविषयताशून्यत्वनिवेशात् हृदो वह्निमान् अभावादित्यादौ अभावधंदविषयकज्ञानसामान्यान्तर्ग: तवह्नयभाववान् हद इत्याकारकशाने तादृशप्रतिबन्धकत्वाभावा. सत्वेऽपि इदवृत्तिर्वयभाव इत्यादिज्ञानशून्यकालेऽभाववद्धदाद्या. स्मके तदानी व्यभिचारात्मके नातिव्याप्ति.। न च तथापि जलाभाव. वजलकालीनहदो वह्निमान् जलादित्यादौ जलवजलं वह्नयभाववत् जलवच्च जलवजलमिति ज्ञानद्वयशून्यकाले जलवजलेऽतिव्याप्तिः ताशजलविषकयज्ञानसामान्ये निरुक्तप्रतिबन्धकत्वाभावविरहात् यादृशविशिष्टपदेन धतुमशक्यत्वादिति वाच्यम् । जलत्वावच्छिन्न- प्रकारतानिरूपितजलवजलत्वावच्छिन्नविशेष्यतावच्छेदकतायाः प- वज्ञानप्रतिबन्धकतानवच्छेदकत्वेन तादृशजलविषयकज्ञानसामा. न्येपि तादृशप्रतिबन्धकत्वाभावसत्त्वादित्याहुः ॥ यादृशविशिष्टविषयितासामान्य ज्ञानवैशिष्टयानवच्छिन्नप्रति- साधारणप्रकरणम्। बन्धकताविशिष्टान्यत्वं ताहशत्वेन सत्यन्तदलघटकयाशविशि- टस्य विशेषणान्नोक्तदोषः । प्रतिबन्धकतावैशिष्टधं च स्वानवच्छे. दकविषयिताशून्यवृत्तित्वसम्बन्धेनेत्यपि वदन्ति । अथ यादृशज्ञा- नान्तरविशिष्टत्वेनेत्यत्रान्तरपदं व्यर्थम् यादृशज्ञानविशिष्टत्वेन या- दृशविशिष्टविषयकज्ञानस्य प्रतिबन्धकत्वमित्युक्तावेव सामञ्जस्या- दिति चेन्न । ज्ञानवैशिष्ट्यावच्छिन्नप्रतिबन्धकतालाभाय तदुपादा नादिति ॥ केचित्तु मिश्रमते प्रामाण्यनिश्चयविशिष्टग्राह्याभावनिश्चयत्वेनैव प्रतिबन्धकत्वम् न त्वप्रामाण्यज्ञानाभावविशिष्टग्राह्याभावनिश्चयत्वे. न, तथा चायोगोलकं धूमाभाषवदयोगोलकवृत्तिर्वह्निरिति ज्ञान- धर्मिकप्रामाण्यनिश्चयविरहकाले साधारण्यस्य मित्रैरप्यनङ्गीकारा. दयोगोलकं धूमाभाववदिति निश्चयवैशिष्टये सति स्वधर्मिकप्रा- माण्यनिश्चयविशिष्टो योऽयोगोलकवृत्तिहिरिति निश्चयस्तदनधि- करणत्वघटितमेव लक्षणं करणीयमित्येतादृशार्थमेव तदुपादाना. दित्याहुः* ॥ अथ नित्यदोषस्यापि एतल्लक्षणलक्ष्यत्वेन लक्षणघटकशाने त. तत्पुरुषीयत्वनिवेशस्यावश्यकतयाऽनन्तसंसारे कस्यापि पुरुष. स्य सर्वदैव तादृशज्ञानसहिततादृशविशिष्टविषयकज्ञानसत्त्वेन त. दनधिकरणमेवाप्रसिद्धमिति । न चैकक्षणावच्छिन्नकात्मवृत्तित्व. सम्बन्धेन तादृशज्ञानविशिष्टान्यतादृशविशिष्टविपयकज्ञाननिरूपित. विषयत्वाभावत्वमेव सत्यन्तार्थों वाच्यः , अतो न तादृशक्षणाप्र. सिद्धिनिवन्धनो दोष इति वाच्यम् । कस्यापि पुरुषस्य तादृशज्ञान. बिशिष्टान्यधूमाभाववदयोगालकमित्याकारकज्ञानसत्वेन तनिरूपित. विषयत्वाभावविरहाधूमाभाववदयोगोलकादौ सर्वदैव लक्षणा- सत्वप्रसङ्गादिति चेन्न । यादृशज्ञानान्तर विशिष्टत्वेन यादृशविशिष्ट- विषयकज्ञानस्य स्ववृत्तित्वोपलक्षितसमूहालम्बनानुमितित्वव्यापक- *अवच्छेदकतावच्छेदकसाधारणावच्छेदकत्वस्वीकारमते धूमा भाववदयोगोलकमितिज्ञानस्यापि ज्ञानान्तरनिष्ठप्रतिबन्धकताया अ- वच्छेदकत्वेनेव स्वनिष्ठनिश्चयत्वस्यापि तत्प्रतिवन्धकतावच्छेदक. त्वात् एकज्ञानकाले तिव्यापिरित्यन्तरपदापात्तामेति ध्ययम् ॥
३२६ अनुमानगादाधर्या कोडपत्रषु प्रतिबध्यतानिरूपितप्रतिबन्धकत्वं स्वसमानाधिकरणताशहान- हितताहशविशिष्टविषयकज्ञानानधिकरणक्षणवृत्तित्वविशिष्टताह- शविशिष्टपर्याप्तविषयताविरहवत्त्वे सति यादृशविषयितासामान्य स्ववृत्तितादृशानुमितित्वव्यापकप्रतिबध्यतानिरूपित प्रतिबन्धकताव- च्छेदकं ताहशत्वमित्यर्थकरणादेव सर्वसामञ्जस्यात् , सर्वत्र स्वप- देन ज्ञानद्वयसमानाधिकरणयत्किञ्चिदनुमितिमादाय लक्षणसम- न्वयः कर्तव्य इति ध्येयम् ॥१॥ यत्तु साध्याभावांशे निश्चयरूपं शेषांश संशयसाधारणं सा. ध्याभाववद्वत्तित्वज्ञानं प्रतिबन्धकमिति शिरोमणिः । अथ किमिदं साध्यामावांशे निश्चयत्वमित्याशंक्य वस्तुतस्तु शानभेदेन विषयताभेदाभ्युपगमे निश्चयीयविषयतायां संशयत्वनि- रूपकविषयताभेदोन दुर्घटःतन्मते आधेयत्वविषयतानिरूपकर्मि- विषयतायां ज्ञानविशिष्टान्यत्व निवेश्यम् । वैशिष्टयं च स्वनिरूपित. स्व-स्वीयसाध्यप्रकारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वोभ- यसम्बन्धेन । विषयताभदानभ्युपगमे च साध्याभावप्रकारतानिरू- पिता या हेतुविषयतानिरूपिताधेयताप्रकारतानिरूपिताधिकरणवि. षयता तद्विशिष्टत्वमेव निश्चयत्वम् । वैशिष्टयञ्च स्वनिरूपकत्व-स्व- निष्ठावच्छेदकताकभेदधत्वोभयसम्बन्धेन । भेदप्रतियोगितावच्छेद- कत्वं च स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यप्रकारता. कत्वसम्बन्धावच्छिन्नं, साध्यप्रकारताविशिष्टान्यताहशविशेष्यता. शालित्वं वा । वैशिष्टयञ्च स्वनिरूपकज्ञानानिरूपितत्व-स्वनिरूपित. विशेष्यतावच्छेदकावच्छिन्नत्वोभयसम्बन्धन । संशयनिश्चयविषय- तयोरभेदेऽपि सामानाधिकरण्यस्याव्याप्यवृत्तितया निश्चयवृत्तिता. वच्छेदेन भेदसत्त्वादिति भट्टाचार्येणोकम् । संशयेऽपि प्रत्येककोटिप्रकारतानिरूपितविशेष्यताद्वयस्यैव स्वी- कारात धूमतदभाववदयोगोलंकवृत्तिर्वह्निरित्याकारकसाध्यामा शे संशयत्वाभावात् संशयस्यापि संग्रहः स्यादतः प्रथमतृतीयकल्पे सम्बन्धघटकतया साध्यप्रकारतानिरूपितत्वमनिवेश्य साध्यप्रकार. तानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वपर्यन्तनिवेशः। एवमुक्त- दोषवारणायैव द्वितीयकल्पेऽपि भेदप्रतियोगितावच्छेदकतानियाम- कसम्बन्धे स्वनिरूपितसाध्यप्रकारताकत्वमनिवेश्य स्वावच्छेदका- साधारणप्रकरणम् । वच्छिन्नविशेष्यतानिरूपितसाध्यप्रकारताकत्वनिवेशः । अत्र प्रथमे प्रथमसम्बन्धमात्रनिवेशे स्वपदेन निश्चयमादाय द्वितीयसम्बन्धमा- प्रनिवेशे च स्वपदेन साध्यसंशयमादाय ज्ञानविशिष्टान्यताहशविषय. त्वाप्रसिद्धिः स्यादत उभयसम्बन्धनिवेशः। एवं द्वितीयेऽपि प्रथ. मसम्बन्धमात्रनिवेशे स्वपदेन संशयाकारज्ञानीयताहशविषयता- मादाय द्वितीयसम्बन्धमात्रनिवेशे च धूमाभावक्त्पर्वतवृत्तिर्वह्निरिति शानीयतादृशविषयतामादाय धूमतदभाववदयोगोलकवृत्तिर्वहिरि- त्याद्याकारकसंशयस्यापि निश्चयत्वापत्तिरत उभयसम्बन्धमात्र. निवेशः । एवं तृतीयेऽपि प्रथमसम्बन्धमात्रनिवेशे च स्वप. देन महानसं धूमवत् धूमाभाववदयोगोलकवृत्तिवाहिरितिज्ञा. नीयधूमप्रकारतामादाय तज्ज्ञानासंग्रहापत्तेः । द्वितीयसम्ब- न्धमात्रनिवेशे स्वमदेन संशयाकारज्ञानीयसाध्यप्रका. रतामादाय साध्याभावांशे सधर्मितावच्छेदककनिश्चयस्यासंग्रहाप- त्तिरत उभयसम्बन्धनिवेशः ॥ अत्र कल्पत्रय एव साध्यप्रकारतापदेन साध्याभावीयप्रतियोगितावच्छेदकावच्छिन्नप्रकारत्वं वाच्यम् , तेन साध्याभावसाध्याभावाभावकोटिकसंशयाकारकज्ञानस्य न संग्रहः । अत्र द्वितीयकल्प साध्याभाववद्वृत्तिहेतुरित्याकारकज्ञानासंग्रहः स्यात् तज्ज्ञाने तज्ज्ञानीयतादृशाधिकरणविषयतानिरूपकत्वसत्त्वेऽपि तादृशाधिकरणविषयतानिष्ठवच्छेदकताकभेदववाभावेन तादृशा- धिकरणविषयताया अवच्छेदकाभावेन स्वावच्छेदकावच्छिन्नविशे. ध्यतानिरूपित साध्यप्रकारताकत्वस्य नाशविषयताप्रतियोगिकलं. सर्गत्वाभावादतो द्वितीयकल्पानुसरणम् । यदि च निरुक्तप्रकारता. कत्वसम्बन्धावच्छिन्नस्वाभाववत्त्वघटितोभयसम्बन्धेन तादृशविष- यतावैशिष्टयं विवक्ष्यते, तदा तत्कल्पोऽपि साधीयानिति ध्येयम् ॥ अत्र कल्पत्रय एव अयोगोलकत्वसामानाधिकरण्येन साध्यकोटि- कसंशयात्मकस्यायोगोलकत्वसामानाधिकरण्येन साध्याभावावगा. ह्ययोगोलकं धूमधूमाभाववत् धूमाभाववदयोगोलकवृत्तिर्वह्रिरित्या- कारकनिश्चयस्यासंग्रहापत्तिः। प्रथमे तज्ज्ञानीयाधिकरणविषयतायां ज्ञानविशिष्टान्यत्वस्य, तृतीये साध्यप्रकारताविशिष्टान्यत्वस्य, द्विती- ये चोक्तनिश्चये ताशाधिकरणविषयतावत्वस्याभावादिति । यदि च प्रथमतृतीयकल्पे निरुक्तोभयसम्बन्ध एवं साध्यप्रकारत्वावच्छिन्नप्र.
अनुमानगादाधर्याः क्रोडपत्रेषु तिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्व एतत्रितयसम्बन्धेन वै. शिष्टयम् , द्वितीय च भेदप्रतियोगितावच्छेदकतानियामकस्वावच्छे- दकावच्छिन्नविशेष्यतानिरूपितसाध्यप्रकारताकत्वसंसर्गघटकीभूत. साध्यप्रकारतायां स्वावच्छिन्नप्रतिबध्यतानिरूपित प्रतिबन्धकतावच्छे- दकत्वं निवेश्य तत्संग्रहः क्रियते । तदा प्रथमतृतीयकल्पे साध्यप्र. कारतानिरूपितविशेष्यतावच्छेदकावच्छिन्नत्वस्य द्वितीये च साध्य. प्रकारतायां स्वावच्छेदकावच्छिन्नविशेष्यतानिरूपितत्वस्य वैयर्थ्याप- त्तिरिति ध्येयम् ॥ २॥ यद्वा साध्यतद्वतोरत्यन्तान्योन्याभावौ साध्याभावव्याप्यादिव्या- वृत्तेन साध्यवत्ताज्ञानविरोधित्वेनानुगमय्य तत्र हेतुसामानाधिकर. ण्याभावग्रहविरोधित्व साधारण्यमिति शिरोमणिः॥ साध्याभावव्याप्यादिव्यावृत्तसाध्यबत्ताज्ञानविरोधित्वं च तद्व. त्तानिश्चयप्रतिबध्यतावच्छेदिका सती तद्वत्ताज्ञानप्रतिबन्धकताव- च्छेदिका या प्रकारता तदाश्रयत्वम् । तदभावव्याष्यवत्ताज्ञानस्य तवत्तानिश्चयाप्रतिबध्यतया तद्विषयव्युदास इति भट्टाचार्येपोकम्॥ अथैवमपि धूमाभावब्याप्याभाववधूमवत्कालीनपर्वतो धूमवा. न्वरित्यादौ धूमाभावव्याप्यनिष्ठहेतुसामानाधिकरण्यवारणमश- क्यमेव धूमाभावव्याप्यवत्ताबुद्धिम्प्रति धूमवत्तानिश्चयस्याप्रतिब- न्धकत्वेऽपि धूमवत्तावच्छेदेन धूमाभावव्याप्याभाववत्तानिश्चयवि. शिष्टधूमवत्तानिश्चयत्वेन प्रतिबन्धकत्वस्यावश्यकतया उक्तस्थली- यसाध्यवत्तानिश्चये तत्प्रतिबन्धकतायामनपायादिति । विशिष्टसा- ध्यवत्तानिश्चयत्वावच्छिन्नप्रतिबन्धकतानिवेशे च उक्तस्थले धूमा- भावसामानाधिकरण्याद्यसङ्ग्रहः । धूमाभाववत्ताज्ञानप्रतिबन्धक तावच्छेदककोटौ विशिष्टधूमत्वविषयत्वानिवेशात । न च साध्य वत्तानिश्चयत्वव्यापकज्ञानवैशिष्टयानवच्छिन्नप्रतिबन्धकतानिरूपित. प्रतिवध्यतावच्छेदिका सती साध्यवत्ताज्ञानत्वव्यापकप्रतिबध्यता. निरूपितज्ञानवैशिष्टयानवच्छिन्नप्रतिबध्यतावच्छेदिका या प्रकारता तदाश्रयत्वं विवक्षणीयमतो नोक्तदोषः। द्वितीयप्रतिबन्धक्तायां ज्ञानविशिष्टत्वानवच्छिन्नत्वनिवेशात् धूमव्याप्यसाध्यकस्थले धूम- व्याप्याभाववधूमाभाववत्कालीनधूमाभावनिष्ठहेतुसामानाधिक- रण्ये नातिव्याप्तिरिति वाच्यम् । एवमपि धूमाभावव्याप्याभावव्या- साधारणप्रकरणम् । ३२९ प्यधूमवान् वढेरित्यादौ धूमाभावब्याप्यसामानाधिकरण्ये धूमव्याप्य- वान् वढेरित्यादौ धूमव्याप्याभावव्याप्यधूमाभावसामानाधिकर- प्ये चातिव्याप्ते१रत्वात् तद्याप्यवत्ताज्ञाने तद्याप्याभावव्या- प्यतदभाववत्ताज्ञाननिरूपितप्रतिबध्यत्वप्रतिबन्धकत्वयोरुभयोरेव स- स्वादिति चेत् । अनोच्यते-साध्यवत्ताज्ञाननिष्ठुकरूपावच्छिन्नप्रतिबन्धकत्वप्रति. बध्यत्वनिवेशादेव धूमाभावव्याप्याभावव्याप्यधूमसाध्यकस्थले सा. ध्यवत्ताज्ञाननिरूपितयोरेकरूपावच्छिन्नप्रतिवध्यत्वप्रतिबन्धकत्वयो- रवच्छेदकप्रकारताश्रयत्वनिवेशादेव च धूमव्याप्यसाध्यकस्थलेऽति- व्याप्तिवारणसम्भवात् तद्याप्यवत्ताज्ञाने तद्याप्याभावव्याप्यतद. भाववत्ताज्ञाननिरूपितप्रतिबध्यत्वप्रतिबन्धकत्वयोः सत्त्वेऽपि तयोरे- करूपावच्छिन्नत्वाभावात् तदभाववत्ताज्ञानत्वमात्रस्य प्रतिबध्यता. यां तब्याप्याभावव्याप्यवत्ताज्ञानत्वमात्रस्य च प्रतिबन्धकतायामव- च्छेदकत्वादिति ध्येयम् ॥ एकरूपावच्छिन्नतादृशप्रतिबध्यताप्रतिवन्धकतावच्छेदकस्वप्र. कारकत्वञ्च साध्यवत्ताज्ञानत्वव्यापकप्रतिबध्यताविशिष्टप्रकारकत्व. म् । वैशिष्ट्यश्च स्वनिरूपितप्रतिबन्धकतावच्छेदकत्व-स्वविशिष्ट- प्रतिबध्यतावच्छेदकत्वोभयसम्बन्धेन । स्ववैशिष्ट्यञ्च स्वावच्छेद- कधर्मावच्छिन्न प्रतिबन्धकतानिरूपितत्व-स्वनिरूपितप्रतिबन्धकता- वच्छेदकत्वोभयसम्बन्धेनेति नव्याः ॥ ३ ॥ अथ घटाभावादरपि वह्नयभावत्वादिना ज्ञानस्य वह्निमत्ताज्ञानवि- रोधित्वात घटाभावादिसामानाधिकरण्यमपि वयादिसाध्यकं व्य- भिचारः स्यात् । साध्यवत्ताज्ञानविरोधितावन्छेदकीभूतविषयता- निरूपितहेतुलामानाधिकरण्याभावविषयताशालिग्रहविरोधितानि- वेशे चासम्भवः । धर्मितावच्छेदकावच्छिन्नविषयतानिरूपितसाध्या- एव साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकतया साध्याभावो न हेतुसमानाधिकरण इति ज्ञानीयसाध्याभावविषय- ताया अतथात्वादिति भट्टाचार्येणोक्तम्। , अत्रेयमाशङ्का-अथ सर्वत्रैव साध्यवत्ताज्ञानप्रतिबन्धकतावच्छे. दकविषयतानिरूपितहेत्वसामानाधिकरण्यविषयताशालिहेत्वसमाना. धिकरणसाध्याभाववान्पक्ष इति स्वरूपग्रहविरोधितामादायैव व्य- કર भावप्रकारताया अनुमानगादाधर्याः क्रोडपत्रेषु भिचारे लक्षणसमन्वयात् कथमसम्भव इति चेत् । अत्राहुः-उक्तज्ञानीयपक्षविशेष्यतानिरूपितसाध्याभावप्रकारता. या एव साध्यवत्ताज्ञान प्रतिबन्धकतावच्छेदकतया तादृशप्रकारता- निरूपितत्वस्य उक्तज्ञानीयहेत्वसामानाधिकरण्यविषयतायामसत्वे. न उक्तज्ञानमादायापि लक्षणसमन्वयो दुरुपपाद इति । साध्याभा. विशेष्यताया एव उक्तज्ञानीयहेत्वसामानाधिकरण्यविषयतानिरूप. कत्वात्, स्वमते समानाधिकरणप्रकारताविशेष्यतयोर्भेदात् । वस्तुतस्तु समानाधिकरणप्रकारताविशेष्यतयोरैक्येऽपि साध्य वत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयतानिरूपितहेत्वसामानाधिकर- ण्यविषयताशाली यो वह्नयसमानाधिकरणघटाभावधूमाभाववानि. त्याकारकघटाभावधर्मिकहेत्वसामानाधिकरण्यावगाहिघटाभावत्वव. हृयसामानाधिकरण्यधूमाभावत्वैतत्रितयधर्मावच्छिन्नप्रकारताशालि- ग्रहस्तीद्वरोधिनि वह्निसमानाधिकरणघटाभावे, एवं वह्निमान्धूमादि. त्यादौ सद्धेतौ साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयतानिरू- पितहेत्वसामानाधिकरण्यविषयताशालिधूमासमानाधिकरणवह्नयभा. ववान् पर्वत इत्याकारकग्रहविरोधिधूमासमानाधिकरणवह्नयभावा. भाववत्पर्वतादौ चातिव्याप्तिरतस्तद्वारणाय साध्यवत्ताज्ञानप्रतिब- धकतावच्छेदकविषयतानिरूपितहेत्वसामानाधिकरण्यविषयताया. मवच्छेदकतानात्मकत्वमवश्यं निवेशनीयम् । एवञ्चोक्तज्ञानमादाय लक्षणसमन्वयां दुर्घट इति । एतेन-प्रकारताविशेष्यतयोर्भेदऽपि साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन्नविषयतानि. रूपितहत्वसामानाधिकरणविषयताशालिग्रहविरोधितानिवेशेनैवास. म्भववारणं संभवतीति-इत्यपि प्रत्युक्तम् । प्रकारताविशेष्यतयोर्भदे- ऽपि उकातिव्याप्तिबारकप्रकारस्यानुसरणीयतयाऽसंभववारणस्या- सम्भवादिति । च साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकमुख्यविशेष्यता. निरूपितहत्वसामानाधिकरण्यविषयताशालिग्रहावरोधितानिवेशे उ. क्तप्रकाराविवक्षणेऽयुक्तातिव्याप्तिवारणं सम्भवति सर्वत्र व्यभिः चारे च हेत्वसमानाधिकरण. साध्याभावः पक्षवृत्तिरित्याकारक- ज्ञानमादायैव लक्षणं सङ्गमनीयमिति वाच्यम् । तथासति हेत्वसमा. नाधिकरणघटाभावः साध्याभाववानित्याकारकमानविरोधितामा- माधारणप्रकरणम् । दायैव हेतुसमानाधिकरणघटाभावादावतिव्याप्तयापत्तेः। यद्यप्येवमपि एकत्र द्वयामिति रीत्या साध्याभावधर्मिकपक्षवृत्ति. त्वहेत्वसामानाधिकरण्योभयावगाहिज्ञानस्य साध्यवत्ताज्ञानविरोधि. तावच्छेदकीभूतसाध्याभावविषयितानिरूपितावच्छेदकतानात्मकहे. स्वसामानाधिकरण्यविषयतामादायैव सर्वत्र लक्षणसमन्वयसम्भवः, तथापि एकत्र द्वयमिति रीत्या घटाभावधर्मिकसाध्याभावहेत्व- सामानाधिकरण्योभयावगाहिज्ञानीयसाध्यवत्ताज्ञानप्रतिबन्धकता. वच्छेदकघटाभावविषयतानिरूपितहत्वसामानाधिकरण्यविषयता. मादाय घटाभावनिष्ठवह्निसामानाधिकरण्ये धूमधर्मिकधूमाभाववह्नय. सामानाधिकरण्योभयावगाहिज्ञानीयसाध्यवत्ताज्ञानप्रतिबन्धकताव. च्छेदकधूमविषयतानिरूपितहेत्वसामानाधिकरण्यविषयतामादाय व. ह्निसामानाधिकरण्यवधूमे चातिव्याप्तिवारणाय साध्यवत्ताज्ञानप्र- तिबन्धकतावच्छेदकविषयतापदेन प्रकारताया विवक्षितत्वादसम्भ- वसङ्गतिः। अथैवमपि गुणत्वसामानाधिकरण्यसाध्यकगुणत्वहेतुकस्थले गु. णत्वसामानाधिकरण्याभावो न गुणत्वसमानाधिकरण इति शानी- यसाध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकीभूतगुणत्वसामानाधिकर. ण्याभावप्रकारतानिरूपितगुणत्वसामानाधिकरण्याभावविषयत्वाव. च्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छदके गुणत्वसामाना- धिकरण्यवहुणस्वसामानाधिकरण्याभावे लक्षणगमंनादसम्भवदाना. सङ्गतिरिति चेन्न । धूमाभाववान् वढेरित्यादौ साध्यवत्ताज्ञानविरोधितावच्छेदकी. भूतधूमाभावाभावत्वावच्छिन्नप्रकारतानिरूपितवह्निसामानाधिकर- ण्याभावत्वावच्छिन्नविषयिताशालिवह्निसामानाधिकरण्याभावो धू. माभावाभाववान् इत्याकारकज्ञानविरोधिधूमाभाववद्वह्निसामानाधि करण्याभावेऽतिव्याप्तिवारणाय साध्यवत्ताज्ञानविरोधितावच्छेदकप्र. कारतानिरूपितहत्वसामानाधिकरण्यविषयतायां साध्यवत्ताज्ञानप्र. तिबन्धकतानवच्छेदकत्वस्यापि निवेशनीयतयोक्तस्थले लक्षणगम. नासम्भवादिति दिक् । यतु एकत्र द्वयमिति रीत्या ज्ञानमादाय प्रागुक्तातिव्याप्तिवार. णाय साध्यवत्ताज्ञानमतिबन्धकतावच्छेदकविषयतायां हत्वसामा.
अनुमानगादाधर्याः क्रोडपत्रषु नाधिकरण्यप्रकारत्वान्यप्रकारत्वानिरूपितत्वं निवेशनीयम, धूमामा ववान् वढेरित्यत्र प्रागुक्तातिव्याप्तिस्तु हेत्वसामानाधिकरण्यविषय- तापदेन प्रकारताविवक्षयैव वारणायेति । तनुच्छम्-तथासति तादृशगुणत्वसामानाधिकरण्यसाध्यकस्थ ले साध्यवत्ताज्ञानविरोधितावच्छेदकविषयतानिरूपितहत्वसामानाधि- करण्यप्रकारताशालिरूपत्व गुणत्वसामानाधिकरण्याभाववदित्याका- रकज्ञानविरोधिगुणत्वसामानाधिकरण्यवद्रूपत्वेऽतिव्याप्तितादव. स्थ्यादिति ध्येयम् केचित्तु प्रकारताविशेष्यतयो नम्त्वमत एवायं ग्रन्थः, तथाच प्रागुक्तातिव्याप्तीनां वारणाय साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदक- विषयतानिरूपितहेत्वसामानाधिकरण्यविषयतापदेन साध्यवत्ताशा- नप्रतिवन्धकतावच्छेदकप्रकारतानिरूपितहत्वसामानाधिकरण्यप्रका रताया विवक्षणीयतया प्रकारतानिरूपितप्रकारत्वाप्रसिधैवास. भवसङ्गतिरित्याहुः । तचिन्त्यम् ॥ ४॥ अथ घटाभावादेरित्यादिना फक्किकामवतार्य इति चेन्न फलीभूत. शानधर्मितावच्छेदकावच्छिन्नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रका. रताशालिनिश्चयत्वेन साध्यवत्ताज्ञानप्रतिबन्धकता तद्रूपावच्छिन्नांशे हे. तुसामानाधिकरण्याभावग्रहविरोधितानिवेशेनातिप्रसङ्गाभावात् सा. ध्याभावत्वादेरेव तादृशत्वादित्यनेन सिद्धान्तितं भट्टाचार्येण । अथात्र घटाभावत्वधूमाभावत्वोभयावच्छिन्नघटाभावात्मकधूमा- भाववानिति ज्ञानीयप्रकारतायास्तादृशत्वेन तदुभयावच्छिन्नविशे. ध्यकधूमासामानाधिकरण्यग्रहप्रतिबन्धकतावच्छेदकवियिताके धू. मसमानाधिकरणघटाभावेऽतिव्याप्तिर्दुर्वारैव । न च साध्यवत्ताशा. नप्रतिबन्धकतानवच्छेदकविषयिताशून्यज्ञानीयत्वस्य यद्रूपावच्छिन्न- प्रकारतायां विशेषणादेव नोक्तातिव्याप्तिः घटाभावत्वावच्छिन्नविष. यितायास्तादृशप्रतिबन्धकतानवच्छेदकतया तच्छ्न्यत्वाभावादिति वाच्यम् । तथासत्यसम्भवापत्तेः-सर्वत्रैव निरवच्छिन्नविशेष्यतायाः सामानाधिकरण्यसम्बन्धावच्छिन्नपारतन्त्रीयविषयतायाश्च तादृश. स्वात्तच्छ्रन्यत्वाभावादिति चेन्न । यत्किञ्चित्प्रतिबन्धकतावच्छेदकत्वस्य तादृशप्रतिबन्धकतान छेदकविषयतायां विवक्षणाचोक्तदोष इत्याहुः।।
साधारणप्रकरणम्। वस्तुतस्तु स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकं यत्सा. ध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयतावच्छेदकं यद्रूपावच्छि- नविशेष्यतानिरूपितयद्रूपावच्छिन्नप्रकारत्वं तद्रूपावच्छिन्नविषयक- प्रतीतिविषयतावच्छेदकत्वेन यद्गपं विशेषणीयम् , तथाच धूमाभा- वत्वादेर्निरुक्तविशेषणाक्रान्तत्वेन तदवाच्छन्नाविषयकप्रतीतिविष. यतावच्छेदकत्वस्य निरुक्तोभयधर्मेऽसत्त्वेन तमादायातिव्याप्त्यनव- काशातू इति ध्येयम् ॥ साध्यवत्ताशानधर्मितावच्छेदका ये ये धर्मा इत्यस्यानुगमः-सा. ध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकत्वव्याप- कं यत् प्रकारत्वं तदवच्छेदकावच्छिन्नविशेष्यतानिरूपितहत्वसा. मानाधिकरण्यप्रकारताशालिग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्र. तिबन्धकतानतिरिक्तवृत्तिविषयताकरूपवत्त्वं तत्वम् । प्रकारतायां तादृशावच्छेदकत्वव्यापकत्वं च स्वविशिष्टविशेष्यतावच्छेदकत्वस- म्बन्धेन । स्वं-प्रकारता । विशेष्यतायां स्ववैशिष्टयं च स्वावच्छेद- कावच्छिन्नप्रकारत्वावच्छिन्नलाध्यतावच्छेदकावच्छिन्नप्रकारतानि. रूपितविशेष्यताविशिष्टप्रतिबध्यतानिरूपित प्रतिबन्धकतावत्वसम्ब- न्धेन । खं-प्रकारता । विशेष्यतायां प्रतिबन्धकतावत्वं च स्वावच्छे. दकत्व-स्वविशिष्टप्रतिबध्यतावच्छेदकत्वोभयसम्बन्धेन । स्व-प्रति- बन्धकता । प्रतिबध्यतायां स्ववैशिष्टयं च स्वावच्छेदकतात्वाव. च्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्व-स्वनिरूपिततादृशप्रति- बध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिप्र. तिबन्धकतानिरूपितत्वोभयसम्बन्धेन । स्व-प्रतिबन्धकता । रूपव- त्वं च उभयत्रैव स्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छे. दकत्वसम्बन्धेन । प्रतिबध्यतायां विशेष्यतावैशिष्टयं च व्यापकत्व- सम्बन्धेन । स्वं-विशेष्यता। साध्यतावच्छेदकसमनियतानुयो. गितानिरूपितप्रतियोगितावच्छेदकावच्छिन्नविधेयतानिरूपितउद्देश्य- तावच्छेदकत्वेन साध्यवत्ताज्ञानधर्मितावच्छेदकं विशेषणीयम्, ना. तः साध्यादेरपि तवच्छेदकत्वाद्यापकत्वहानिरिति ध्येयम् । व्या- वृत्तिः स्वयमूह्या ॥५॥ साध्यवत्ताज्ञानविरोधितावच्छेदकत्वोपलक्षितधर्मावच्छिन्नविष- यतानिरूपितहेत्वसामानाधिकरण्यविषयतायां धर्मितावच्छेदकता- ।
अनुमानगादाधर्या क्रोडपत्रषु भिन्नत्वमुपलक्षणविधया निवेश्यम् , धूमासमानाधिकरणवह्नयमा- वो न घटसमानाधिकरण इति ज्ञानविरोधिनि धूमासमानाधिकरण- घयभावादी घटादिसामानाधिकरण्ये नातिप्रसङ्ग इति भट्टाचा- येणोक्तम् ॥ अथ धर्मितावच्छेदकभिन्नत्वेन हेत्वसामानाधिकरण्यविषयता. या विशेषणीयत्वेऽपि साध्यवत्ताज्ञानविरोधितावच्छेदकधर्मवच्छि नविषयतानिरूपिततादृशहत्वसामानाधिकरण्यविषयताशाली यो धूमासमानाधिकरणवह्नयभाववान् पर्वत इत्याकारकग्रहः,तथा एकत्र द्वयमिति रीत्या वह्नयभावर्मिकधूमासामानाधिकरण्यजलासामाना. धिकरण्य-उभयावगाहिग्रहश्च तद्विरोधिनि धूमासमानाधिकरण. वह्नयभावाभाववत्पर्वते धूमासामानाधिकरण्यजलासामानाधिकर. ण्योभयाभाववद्वयभावे चातिव्याप्तिरिति चन्न । हेत्वसामानाधिकरण्यप्रकारत्वान्यप्रकारत्वानिरूपितसाध्यवत्ता- ज्ञानविरोधितावच्छेदकत्वोपलक्षितधर्मावच्छिन्नमुख्यविशेष्यतानि रूपितहेत्वसामानाधिकरण्यविषयतानिवेशैनेवोक्तात्तिव्याप्तिवारण- सम्भवादिति ध्येयम् ॥ न चैवं हेत्वसामानाधिकरण्यविषयतायामुक्तविशेषणान्यनिवे. श्य साध्यवत्ताज्ञानविरोधितावच्छेदकीभूतयत्किञ्चिद्धर्मावच्छिन्न- विशेष्यकत्वसामानाधिकरण्यग्रहत्वव्यापकप्रतिबध्यतां निवेश्यो. कातिव्याप्तिवारणमेवोचितं लाघवादिति वाच्यम् । तथासति धूमवान् धूमाभावव्याप्यासमानाधिकरणबह्रोरत्यादौ धूमाभाव. व्याप्यसमानाधिकरणवह्नयात्मकसाधनाप्रसिद्धावतिव्याप्त्यापत्तेः । तद्वारणाय साधनग्रहाविरोधित्वनिवेशे लाघवानवकाशात् । पतञ्च-अत एव साधनाप्रसिद्धावपि नातिप्रसङ्ग इति-स्वयमेवोक्ता मिति ध्येयम् ॥ ६॥ साध्याभावव्याप्यलाध्याभावावच्छेदकादिसामानाधिकरण्यवा- रणाय दर्शितप्रकारापेक्षया लघुप्रकारान्तरमाह-साध्यवत्ताज्ञानवि रोधिनि हेत्वसामानाधिकरण्यग्रहविरोधिहेत्वाभासतावच्छेदकरूप. वत्त्वं वेति । अत्र हेत्वाभासत्व प्रकृतानुमितिजनकज्ञानविरोधित्वम् । अनुमितिजनकज्ञानस्यापि अनुमितिजनकतावच्छेदककोटिप्रविष्टवि- षयत्वावच्छिन्नत्वेन निवेशः, न तु विशिष्टपक्षे व्याप्तिविशिष्ट- साधारणप्रकरणम् । वैशिष्ट्यावगाहित्वेन, तथासति अन्योन्याभावघटितनानाविधव्या- तीनामननुगमेन ताशनानाविधव्यभिचारासंग्रहात् । तावद्यापत्य. वगाहिसमूहालंबनानुमितिीनवेशेन तत्सङ्ग्रहसम्भवेऽपि पक्षधर्म- त्वावगाहितायाः प्रयोजनविरहेणानिवेशप्रसङ्गन तादृशाभावग्रहवि. रोधिताविशेषणवैयच्चेिति भट्टाचार्येणोक्तम् ॥ अथ व्याप्तिग्रहविरोधित्वरूपहेत्वाभासत्वनिवेशेऽपि काञ्चनमय- धूमवान् काञ्चनमयवहरित्यादौ साध्यसाधनाप्रसिद्धिवारणायैव ता. दुशाभावग्रहविरोधितानिवेशसार्थक्यसम्भवेन कथं तद्वैयर्थमुक्त- मिति। न च साध्यसाधनग्रहाविरोधित्वनिवेशनापि तद्वारणसम्भव इति वाच्यम् । तथासति भवन्मतेऽपि हेतुमत्ताग्रहविरोधित्वनि- वेशेनैव पक्षधर्मताज्ञानविरोधिस्वरूपासिद्धिवारणसम्भवेन तद्वैः यीस्य दुर्वारत्वादिति । न चास्मन्मते हृदो धूमवान् वढेरित्यादौ धूमव्याप्याभाववद्धदादावतिव्याप्तिवारणायैव तत्सार्थक्यमिति वा- च्यम् । अनुमितिजनकतावच्छेदकीभूतमुख्यविशष्यत्वानवीच्छन्न- प्रतिबध्यतानिवेशेनापि तद्वारणसम्भवात् । न च विरोधिवारणायैव तदिति वाच्यम् । साध्यसामानाधिकरण्यग्रहाविरोधत्वनिवेशेनापि तद्वारणसम्भवात । न चाव्यभिचरितसाध्यसामानाधिकरण्याभाव. वद्धतावतिव्याप्तिवारणायैव तत्सार्थक्यमिति वाच्यम् । तस्याप्युक्त- निवेशेनैव वारणसंभवादिति चेत् । अत्राहुः-तादृशाभावग्रहविरोधित्वदलनिवेशेऽपि साध्य ग्रहावि. रोधित्वं निवेशनीयम्, अन्यथा वह्नयसमानाधिकरणधूमाभावव्या- प्यकालीनधूमवान् वढेरित्यादौ वह्निसमानाधिकरणधूमाभावव्याप्या. द्यात्मकसाध्याप्रसिद्धावतिव्याप्ते१र्वारत्वादिति । एवं च साध्याप्रसि- द्धिवारणाय न तत्सार्थक्यम् । साधनाप्रसिद्धिस्तु तादृशाभावग्रह विरोधितापेक्षया लघुरूपसाधनग्रहाविरोधित्वविशेषणेनैव वारणी. येत्यभिप्रायेण तद्वैयर्थ्याभिधानमिति ध्येयम् ॥ वस्तुतस्तु किञ्चिद्धर्मिकहेत्वसामानाधिकरण्यग्रहविरोधित्वनि. वेशेनैव साधनाप्रसिद्ध्यादेारणसम्भवात् साध्यवत्वज्ञानविरोधि. धर्मिकतादृशाभावग्रहविरोधित्वपर्यन्तनिवेशो व्यर्थ इत्यत्रैव ता. त्पर्यम् । अत एव वाच्यं ज्ञेयत्वादित्यादी वाच्यत्वाभाववदवृत्तित्व. रूपव्याप्तिज्ञानविरोधिनि अभावाप्रतियोगित्वरूपानुपसंहारिणि ग.
अनुमानगादाधर्याः क्रोडपत्रेषु गनसाध्यके तादात्म्येन हेतौ गगनाभाववत्तादात्म्यरूपव्याप्तिज्ञान- विरोधिनि अभावाप्रतियोगितादात्म्यरूपव्याप्यत्वासिद्धौ धूमवान्व. हेरित्यादौ धूमाभाववदवृत्तित्वव्यापकनद्वह्निभेदाभाववद्वह्नौ चाति- व्याप्तिवारणायैव तत्सार्थक्यसम्भवेन वैयर्थ्याभिधानमसङ्गतमित्य- पिपरास्तम् । न चैवंधूमाभाववदवृत्तित्वव्यापकवाहसमानाधिकरण तद्वह्निभेदाभाववद्वयादावतिव्याप्तिधारणायैव तत्सार्थक्यम् उक्त विशिष्टस्य किञ्चिद्धर्मिकहेत्वसामानाधिकरण्यग्रह प्रत्यपि विरोधि. स्वादिति वाच्यम् । किश्चिद्धर्मिकहेत्वसामानाधिकरण्यग्रहत्वाव च्छिन्ननिरूपितयद्पावच्छिन्नप्रतिबन्धकत्वं व्याप्तिग्रहत्वावच्छिन्ननि. रूपितं तद्रूपावच्छिन्नप्रतिबन्धकतानिवेशेनैवोक्तातिव्याप्तिवारणस. म्भवात् । वाच्यत्वत्ववान् वाच्यत्वादित्यादौ वाच्यत्वत्वाभाववद- वृत्तित्वव्यापकवाच्यत्वसमानाधिकरणवाच्यत्वाभावाभाववद्वाच्या स्वादावतिव्याप्तिवारणाय सत्यन्तदलनिवेशेऽपि सत्यन्तविशेष्यद- लघटकप्रतिबन्धकत्वयोरेकरूपावच्छिन्नत्वनिवेशस्य भवतोऽप्याव- श्यकत्वात् ॥ अथैवमप्यनुमितिजनकज्ञानविरोधित्वरूपहेत्वाभासत्वनिवेशे. ऽपि किञ्चिद्धर्मिकहत्वसामानाधिकरण्यग्रहविरोधित्वविवक्षणेनैव स्वरूपासिद्ध्यादेवारणसम्भवात्तवापि तद्वैयर्थं दुर्वारमेव, काञ्चनम- यहदो वह्निमान् हृदत्वादित्यादौ हदत्वसमानाधिकरणकाञ्चनमयत्वा- भावादेरपि प्रथकारोक्तपक्षमहाविरोधित्वदलेनैव वारणसम्भवा. दिति चेन्न। इदो वह्निमान् ह्रदत्वादित्यादौ वह्निव्याप्याभावधर्मिकहत्वसा. मानाधिकरण्यग्रहविरोधिनि हृदत्वसमानाधिकरणवह्निव्याप्याभा- वादावतिव्याप्तिवारणायैव स्वमते तत्सार्थक्यसम्भवादिति ध्येयम् ॥ अथ पूर्वकल्पापेक्षया लाघवानुसन्धानेनैवैतत्कल्पस्यानुसरणं भट्टाचार्येण कृतं, तन्न सङ्गच्छते-पूर्वकल्पे साध्याभावव्याप्यादिसामा- नाधिकरण्यवारकस्य साध्यवत्ताज्ञानप्रतिबध्यतावच्छेदकत्वदलस्य प्रकृतानुमितिजनकतावच्छेदकविषयित्वावच्छिन्नप्रतिबध्यतानिरूपि- तप्रतिबन्धकतावच्छेदकत्वरूपहेत्वाभासतावच्छेदकत्वविशेषणापे- क्षयैव लघुत्वादिति चेत् । अत्राहुः-पूर्वकल्प काञ्चनमयधूमवान्वरित्यादौ साध्यवत्ताशा.
साधारणप्रकरणम् । नविरोधिकाञ्चनमयत्वाभावादी हेतुसामानाधिकरण्यवारणाय सा. ध्यवत्ताज्ञानमितावच्छेदका ये ये धर्मास्तत्तद्धर्मावछिन्नविशेष्य- कसाध्यवत्ताविरोधित्वस्य निवेशिततया तदपेक्षया एतत्कल्पस्य लघुत्वमेव । एतत्कल्पे काञ्चनमयत्वाभावसामानाधिकरण्यादे. हेत्वाभासतावच्छेदकत्वदलेनैव वारणात् । न च ह्रदो वह्निमान् इदत्वादित्यत्र वह्निव्याप्याभावादेरपि समूहालम्बनसाध्यवत्ताज्ञान- विरोधित्वात्तनिष्ठहेत्वसामानाधिकरण्यग्रहवारणायाऽत्रापि पूर्वोक्त- विरोधित्वमेव विवक्षणीयामिति क लाघवमिति वाच्यम् । एतत्क. ल्पेऽपि किञ्चिद्धर्मावच्छिन्नविशेष्यकसाध्यवत्ताग्रहत्वव्यापकप्रक्तिय. न्धकतानिवेशेनैव वह्निव्याप्यादेर्वारणसम्भवादिति ।। अथैवं पूर्वकल्पेऽपि प्रकृतसाध्यतावच्छेदकपर्याप्तावच्छेदकता- कप्रकारत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिवन्धकत्वनिवेशेनैव का- चनमयधूमत्वावच्छिन्नप्रकारताया अपि धूमत्वावच्छिन्नप्रकारता. त्वेन धूमाभाववत्तानिश्चयप्रतिबध्यतावच्छेदकतया धूमाभावे हेतु- सामानाधिकरण्यसङ्ग्रहसम्भवेन साध्यवत्ताज्ञानधर्मितावच्छेदका ये येधर्मा इत्यादिगुरुतरनिवेशो विफल इति । न च काञ्चनमयधूमत्वा- वच्छिन्नप्रकारतायाः काञ्चनमयत्वप्रकारतानिरूपितधूमत्वावच्छिन्न. विशेष्यतात्वेन काञ्चनमयत्वाभाववत्ताज्ञानस्यापि प्रतिबध्यतावच्छे. दकतया काञ्चनमयत्वाभावादिवारणमशक्यमिति वाच्यम् । प्रका- रताविशेष्यतयोरभेदेऽपि प्रकारतात्वेन प्रकारत्वावच्छिन्नत्वस्य सा- ध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नत्वस्य वा प्रतिबध्यताविशेषणत्वेनैव तद्वारणात् । यद्यपि साध्यतावच्छेद- कावच्छिन्नप्रकारतानिरूपितविशेष्यताशालिनो वह्निमत्पर्वतवान् देशः वह्निमत्पर्वतो देशवृत्तिरित्याकारकस्य एकत्र द्वयमिति रीत्या वह्निघटवान् पर्वत इत्याकारकस्य च ज्ञानस्य विरोधिनि वह्निमत्प- र्वताभावादी वह्निघटोभयाभावादौ च हेतुसामानाधिकरण्येऽतिव्या- प्तिः। तथापि धर्मितावच्छेदकताभिन्नसाध्यतावच्छेदकावच्छिन्नप्र. कारत्वान्यप्रकारत्वानिरूपितमुख्यविशेप्यत्वावच्छिन्नत्वस्य प्रतिबध्य. ताविशेषणत्वेनैव तद्वारणसम्भवः ।। अथवा पूर्वकल्पेऽपि किञ्चिद्धर्मावच्छिन्नविशेष्यकसाध्यवत्त्व- महत्वव्यापकप्रतिबध्यत्वमेव निवेशनीयम् । काञ्चनमयत्वाभावा- अनुमानगादाधर्याः क्रोडपत्र देवारणाय पुनः प्रतिबध्यतायां साध्यग्रहत्वाव्यापकत्वं निवेशनीय. मिति पूर्वकल्पस्यैव लघुत्वम् । न च गगनवान् गगनत्वादित्यादौ कि. श्चिद्धर्मिकसाध्यवत्ताशानसामान्यविरोधि-अवृत्तित्वधर्मिकहेत्वसा. मानाधिकरण्यग्रहविरोधिनि अवृत्तित्वनिष्ठगगनत्वसामानाधिकर. ज्येऽतिव्याधिरिति वाच्यम् । द्वितीवकल्पे गगनत्वसमानाधिकरणा- वृत्तित्वे हेत्वाभासतावच्छेदकत्वसत्त्वेनातिव्याप्तिवारणाय सा. ध्यवत्ताग्रहविरोधित्वेनैव, प्रथमकल्पेऽपि किश्चिद्धर्मिकसाध्यवत्ता. ज्ञानत्वव्यापकप्रतिबध्यतायां साध्यवत्ताग्रहत्वाव्यापकत्वविशेषणे. नैव तद्वारणसम्भवादिति चेत् । अत्रोच्यते-गगनत्वहेतुकस्थले किञ्चिद्धर्मिकसाध्यवत्ताशानसा. मान्यविरोधिसाध्यवत्ताशानसामान्याविरोधि यत्पर्वतावृत्तित्वं त. द्धर्मिकहेत्वसामानाधिकरण्यग्रहविरोधिनि गगनत्वसमानाधिकर- जपर्वतावृत्तित्वेऽतिव्याप्तिरतस्तद्वारणाय साध्यवत्ताज्ञानधर्मिता. वच्छेदका ये ये धर्मास्तत्तद्धर्मावच्छिन्नविशेष्यकसाध्यवत्ताज्ञान- सामान्यविरोधित्वस्य पूर्वकल्पे निवेशावश्यकत्वेन पूर्वकल्पस्य गु- रुत्वमक्षतमेव । द्वितीयकल्पे च हेत्वाभासताबच्छेदकत्वदलेनैवोक्ता. तिव्याप्तिवारणसम्भवात् इति ध्येयम् ॥७॥ इति श्रीकालीशङ्करसिद्धान्तवागीशविरचितं साधारणक्रोडपत्रम् ॥
अथ श्रीकालीशङ्करसिद्धान्तवागीशविरचितं असाधारणक्रोडपत्रम् । श्रीगणेशायनमः॥ सर्वसपक्षव्यावृत्तत्वमसाधारणत्वमिति मूलम् ॥ सर्वपक्षेति । सपक्षः साध्यवान् , पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रति. योगित्वमिति शिरोमणिः। यद्यप्येवं सव्यभिचारसामान्यलक्षणस्य यद्यद्धर्मिवृत्तित्वमित्यादिना बाधादिसाधारण्यवारणप्रकारो न स. म्भवति पक्षवृत्तित्वघटितासाधारण्यस्यापि धर्मिविशेषनियन्त्रितत्वा- त् तादृशरीत्या आदरे निरुक्तासाधारण्यस्यैवासङ्ग्रहापत्तेः । तथापि प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयावगाहिप्रकृतहेतुतावच्छेदकविशिष्टवै. शिष्टयावगाहिज्ञाननिरूपिता या निरुक्तासाधारण्यविषयकत्वानव- च्छिन्न प्रतिबन्धकता तच्छून्यत्वे सत्ति समूहालम्बनानुमितिविरो- धित्वस्य बाधप्रतिरोधव्यावृत्तस्य निरुक्तासाधारण्यसाधारणस्य स. व्यभिचारसामान्वलक्षणत्वसम्भवादिति भट्टाचार्येणोक्तम् ॥ अत्रेदमवधेयम् । अथ पक्षवृत्तित्वघटितासाधारण्यस्य धर्मि- विशेषनियन्त्रितत्वेपि साध्यव्यापकीभूताभावप्रतियोगित्वांशमादायै व यद्यद्धर्मिवृत्तित्वं हेतोयते तत्र तत्रानुमितिविरोधित्वमक्षतमेवे. ति कथमुक्तं तादृशरीत्या आदरे निरुक्तासाधारण्यासङ्ग्रह इति चेत् । अत्राहुः-पक्षवृत्तित्वघटितासाधारण्यस्यापि धर्मिविशेषनिय- न्त्रितत्वेत्यनेन यद्यद्धर्मिवृत्तित्वं हेतोञ्जयते सत्रतत्रानुमितिविरोधि- त्वाभावेन निरुक्तासाधारण्यासङ्ग्रह इति नाभिहितम् , किन्तु मेय- त्वविशिष्टासाधारण्यवारकविशिष्टान्तराघटितत्वविरहादेव तदसं. ग्रह इत्यभिहितम् । यद्यद्धमिवृत्तित्वमिति लक्षणाक्रान्तं यत्साध्य- व्यापकीभूताभावप्रतियोगित्वरूपं विशिष्टान्तरं निरुक्तासाधार. ण्यस्य तदघटितत्वमक्षतमेवेति । न च विशिष्टान्तराघटितत्वशरी- रे एव यद्यद्धमिवृतित्वमित्याद्यनिवेश्य प्रकृतपक्षप्रकृतसाध्यावगा- हिज्ञाननिरूपितासाधारण्यविषयकत्वानवच्छिन्नप्रतिबन्धकताशुन्य- त्वे सति अनुमितिविरोधित्वमेव निवेशनीयमतः साध्यव्यापकीभू- अनुमानगादाधाः क्रोडपत्रेषु ताभावप्रतियोगित्वमात्रस्य तादृशविशिष्टान्तग्वाभावादेवोक्तासा. धारण्यासङ्ग्रह इति वाच्यम् । तथासति मेयत्वविशिष्टसाध्यव्याप. कीभूताभावप्रतियोगित्वादावतिप्रसङ्गापातात् यद्यमिवृत्तित्वमित्या- दिदलस्य निरुक्तविशिष्टान्तराघटितत्वदलस्य च तंत्र सत्त्वादिति सु- धीभिर्विभावनीयम् ॥ असाधारणस्य पत्रिकान्तरम् ॥ ॥ श्रीः॥ पक्षवृत्तित्वे सति साध्यव्यापकीभूताभावप्रतियोगित्वमिति शि- रोमणिः । यद्यपि सव्यभिचारसामान्यलक्षणस्य यद्यमिवृत्तित्व- मित्यादिना बाधादिसाधारण्यप्रकारो न सम्भवति पक्षवृत्तित्वघटि- तासाधारण्यस्यापि धर्मिविशेषनियन्त्रितत्वात् ताशरीत्या आदरे सङ्ग्रहापत्तः । तथापि प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहिहे. तुतावच्छेदकविशिष्टवैशिष्टयावगाहिज्ञाननिरूपिता याऽसाधारण्य. विषयकत्वानवच्छिन्नप्रतिबन्धकता तच्छ्न्यत्वे सति समूहालम्ब. नानुमितिविरोधित्वस्य बाधप्रतिरोधव्यावृत्तस्य निरुक्तासाधारण्य- साधारणस्य सव्यभिचारसामान्यलक्षणत्वसम्भवादिति भट्टी ॥ अत्रेयमनुपपत्ति:-नन्वत्र हेतुतावच्छेदकविशिष्टवैशिष्टयावगा. हित्वनिवेशनमफलं प्रकृतपक्षे प्रकृतसाध्यवैशिष्टयावगाहित्वनिवे. शेनैव सर्वसामअस्यात् । न च स्वरूपासिद्ध्वादावतिव्याप्तिः, प्रक- तसाध्यवैशिष्टयावगाहिशाननिरूपिता या बाधादिप्रतिबन्धकता त. च्छून्यत्वे सति समूहालम्बनानुमितिविरोधित्वस्य सत्त्वादिति वाच्यम् । समूहालम्बनानुमितिपदस्य पक्षे साध्यवैशिष्ट्यावगा. हितद्याप्यहेत्ववगाहनुमितिपरत्वात् । न च वह्निमान् काञ्चनमय- धूमादित्यादिस्थलीयहेत्वसिद्धधादावतिव्याप्तिरिति वाच्यम् । पक्षे साध्यवैशिष्टयावगाहिहेतुतावच्छेदकावगाहिज्ञाननिरूपितत्वस्य प्र. तिबन्धकतायां विशेषणत्वेनैवैतदोषस्यापि वारणात-हेवुतावच्छेद- कविशिष्टवैशिष्टचावगाहित्वानिवेशनमफलमिति चेन्न । आचार्यमते एतल्लक्षणकरणात् स्वरूपासिद्धिवारणाय तनिवे. शसार्थक्यमिति ध्येयम् ॥ नव्यास्तु हेतुतावच्छेदकविशिष्टवैशिष्टयाषगाहित्वानिवशे इद.
असाधारणप्रकरणम्। पक्षकवह्निसाध्यकगगनहे तुकस्थलेऽवृत्तिगगने तिव्याप्तिः। गगन- समानाधिकरणाभावप्रतियोगितानवच्छेदकत्वघोटतव्याप्तिग्रहविरो. धित्वात् गगनप्रकारकबुद्धौ तस्य विरोधित्वादिति । न च विरो धेऽतिव्याप्तिवारणाय साध्यसामानाधिकरण्यग्रहाविरोधित्वस्या- वश्यं निवेश्यतया तद्वारणाद्धेतुवैशिष्टयावमाहित्वनिवेशनं व्यर्थमि- ति वाच्यम् । व्याप्तौ साध्यसामानाधिकरण्यस्य प्रयोजनविरहेणानि- वेश्यतया विरोधातिव्याप्तिवारणाय साध्यसामानाधिकरण्यग्रहावि. रोधित्वविशेषणस्यानावश्यकतया तद्विशेषणसार्थक्यादिति ध्येयम्॥ इति श्रीकालीशङ्करसिद्धान्तवागीशविरचितं असाधारणक्रोडपत्रम् । *साधारणग्रन्थे साधननिष्ठावृत्तित्वस्य स्वरूपासिद्धिप्रभेदस्ये. ति भट्टाचार्यणोक्तम् ॥
अथ श्रीकालीशङ्करसिद्धान्तवागीशविरचितं सत्प्रतिपक्षकोडपत्रम् । श्री गणेशायनमः॥ साध्वविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्य- कलिङ्गकत्वमिति मुलम् ।। धन्हिव्याप्याभावादिसाध्यकस्थले वन्ह्यादिसाध्यकानुमिति. जननयोग्यया वन्ह्यादिव्याप्यवत्पक्षोपस्थित्या बाधनिश्चयरूपया कार्यप्रतिरोधदशायामतिव्याप्तिवारणाय साध्यवत्ताज्ञानविरोधित्वं प्रथमोपस्थितिविशेषणम् । वहिव्याप्यवत्पक्षोपस्थितेरपि साध्यव- ताज्ञानप्रतिबन्धिकांवहिव्याप्यवत्पक्षविषयकसमूहालम्बनरूपवह्निम- त्पक्षविषयानुमिति प्रति स्वरूपयोग्यतया ययाश्रुतउक्तातिप्रसङ्ग- दुर्वारतया साध्यवत्ताज्ञानप्रतिबन्धकतावच्छेदकविषयित्वावच्छि. नानुमितिनिष्ठकार्यतानिरूपितकारणताश्रयत्वपर्यन्तं समन्तिन विवक्षणीयमिति भट्टाचार्येणोक्तम् ।। अथात्र वह्निव्याप्याभावाभाववत्वह्निमत्कालीनपर्वतो वह्निव्या- प्याभाववानित्यादौ व्यावर्तकधर्मदर्शनाविधया साध्यवत्ताशानप्रति. बन्धकतावच्छेदिका या तादृशपर्वतत्वावच्छिन्नविषयतानिरूपित. वह्नित्वावच्छिन्नप्रकारता तदवच्छिन्नानुमितिनिष्ठकार्यतानिरूपित. कारणताश्रयीभूतं यत्ताशपर्वतो वह्निव्याप्यवानिति बाधज्ञानं तह- शायामतिव्याप्ति:-उक्तस्थले साध्यवत्ताज्ञानं प्रति ताशपर्वतधर्मि- कवह्निमत्ताज्ञानत्वेनैव प्रतिबन्धकतया प्रतिबन्धकतायां शानवैशि- ट्यानवच्छिन्नत्वनिवेशेऽप्यप्रतीकारात् । गगनाभाववदभाववत्का- लीनगगनसाध्यकस्थले तादृशगगनाभावव्याप्यवत्तापरामर्शदशा. यामव्याप्त्यापत्तेश्च ताशगगनाभावनिश्चयस्य ज्ञानवैशिष्ट्यानव. च्छिन्नसाध्यवत्ताज्ञानप्रतिबन्धकत्वाभावात् इति ।। मैवम् । साध्यवत्ताज्ञानस्य प्रतिबन्धकतावच्छेदिका सती प्र. तिबध्यतावच्छेदिका या विषयता तदवच्छिन्नानुमितिनिष्ठजन्य- तानिरूपितजनकताश्रयत्वविवक्षणेनैवोक्तातिव्याप्तिवारणसम्भवात् उक्तस्थले निरुक्तपर्वतधर्मिकवाहिमत्ताज्ञानस्य साध्यवचाक्षानप्रति- सत्प्रतिपक्षप्रकरणम् । बन्धकत्वेपि प्रतिबध्यत्वाभावात् । एतेन वह्निव्याप्याभावसाध्यकस्थ. ले वह्नित्वावच्छिन्नविषयताया अपि वह्निमान् वहिन्याप्याभावाभाववा. निति ज्ञानविशिष्टवह्निमत्ताज्ञानत्वावच्छिन्नसाध्यवत्ताज्ञान प्रतिबन्ध कतया तदवच्छिन्नकार्यतानिरूपितकारणताश्रयवहिव्याप्यवत्तानिश्च. यदशायामतिव्याप्तिः। एवं एयभावव्याप्यव्याप्याभावात्मकवहिसा. ध्यकस्थले साध्यवताज्ञानप्रतिबन्धक यद्वयभावन्याप्यवत्ताज्ञानं त. जनकवन्यभावव्याप्यवत्तानिश्चयकालेऽप्यतिव्याप्तिरित्यपि निरस्तम्। साध्यवताज्ञानप्रतिबन्धकतावच्छेदकविषयतायां प्रतिबध्यतावच्छेद- कत्वनिवेशेनोक्तातिव्याप्तिद्वयस्यापि वारणसम्भवात् । न चैवं सा- ध्यबत्ताशानप्रतिबध्यतावच्छेदकत्वमेव निवेश्यतां किं प्रतिबन्धक तावच्छेदकत्वनिवेशेनेति वाच्यम् । तथा सति वहिन्याप्याभावा- मकवह्नयभावव्याप्यसाध्यकस्थले साध्यवत्ताज्ञानप्रतिबन्धकीभूतं यद्वहिमताज्ञाने तजनकवह्निव्याप्यवत्तानिश्चयदशायां सत्प्रतिपक्षि- तत्वव्यवहारापत्तेः । वह्निव्याप्यवत्तानिश्चयेनाप्युक्तस्थले कार्यप्रति रोधादिति ध्येयम्। न च साध्यवत्ताज्ञानप्रतिबन्धकतानच्छेदकविषयिताशून्यत्वे सति साध्यवत्ताज्ञानप्रतिबंध्यतानवच्छेदकविषयिताशून्यानुमिति- निष्ठकार्यता एवंक्रमेण कथं न निवेश्यत इति वाच्यम् । तथासति महानसीयवहीतरवह्नयभाववान्पर्वतो वन्ह्यभाववानित्यादौ शुद्धव- ह्निव्याप्यवत्तापरामर्शादीतरबाधसहकारेण महानसीयवन्ह्यनुमि- तेरेवोत्पत्या तादृशानुमितेश्च साध्यवत्ताज्ञानप्रतिबन्धकतानवच्छे. दकविषयिताशून्यत्वाभावात् वहिव्याप्यवान् घन्ह्यभावव्याप्यवानि- त्याकारकउभयपरामर्शदशायां सत्प्रतिपक्षत्वानुपपत्तिरिति ध्येयम् ॥ न च साध्यवत्ताशानप्रतिबन्धकतावच्छेदकविषयित्वावच्छिन- कार्यतैव निवेश्यताम् किमनुमितिनिष्ठत्वनिवेशेनेति वाच्यम् । समानविषयकस्मृतौ समानविषयकानुभवस्य तर्मिकतत्प्रकार- कशाब्दं प्रति योग्यताज्ञानविधया तर्मिकतद्वत्ताशानस्य हेतुतया ताशकार्यतामादाय बाधनिश्चयकालेऽतिव्याप्तिवारणार्थमेवानु. मितिनिष्ठत्वं निवेशनीयम् ॥१॥ समानत्वं चागृहीताप्रामाण्यकप्रकृतसाध्यसिद्धयोपयिकपराम- शकालीनत्वमिति शिरोमणिः । अथागृहीताप्रामाण्यकत्वशरीरेऽव.
अनुमानगादाधर्याः क्रोडपत्रेषु यव्याप्त्यंशे व्यतिरेकव्याप्त्यंशे च यदप्रामाण्यं तदग्रहाभाचविशि- त्वं निवेश्यम् । तत्तव्याप्त्यंशेऽप्रामाण्यग्रहसत्त्वे तत्तव्याप्त्यव. गाहिपरामर्शस्य सत्प्रतिपक्षत्वाप्रयोजकत्वात् । तथा चान्वयव्यति. रेकव्याप्स्योरेकतरविषयकपरामर्शदशायामम्वयव्याप्स्यंशेऽप्रामाण्य. प्रहसत्त्वे सत्प्रतिपक्षता न स्यात् । न च स्वयोग्यकानुमितिविरोधि- प्रहत्त्वेनाप्रामाण्यग्रहद्वयमनुगमय्य तदभावविशिष्टत्वं निवेशनीयम्, विरोधित्वं च स्वसमानविशेष्यकत्वावच्छिन्नं ग्राह्यम् , तेन विरो- धिपरामर्शादिव्यावृत्तिरिति वाच्यम् । एवं सति ताहशव्याप्तिद्वय- विषयकसमूहालम्बनपरामर्श एकतरांशेऽप्रामाण्यग्रहसत्त्वे सत्प्रति. पक्षत्वानुपपत्तिरिति चेन्न । स्वीययत्किश्चित्विषयताप्रयोज्यानुमि- तिविरोधिज्ञानसामान्याभावस्य निवेशनीयत्वात् । विरोधित्वं च विरोधिपरामर्शब्यावृत्तत्वं ग्राह्यम् । समूहालम्बनपरामर्शस्थले या- शव्याप्त्यंशेऽप्रामाण्यज्ञानं नास्ति तादृशव्याप्तिविषयताप्रयोज्या. नुमितिविरोधिज्ञानसामान्याभावसत्त्वात् न तत्र सत्प्रतिपक्षत्वानु. पपत्तिरिति भट्टाचार्येणोक्तम् ॥ अत्रेदं बोध्यम् । अन्वयव्यतिरेकव्याप्त्युभयविषयताप्रयोज्यानुमिति. निष्ठप्रतिबन्धकत्वस्य समूहालम्बनस्थलीयउक्ताप्रामाण्यग्रहपि सवे. न न तदोषतावस्थ्यम् । न च याहशव्याप्त्यंशेऽप्रामाण्यवानं नास्ति ताशव्याप्तिविषयतामात्रप्रयोज्यत्वं वक्तव्यमिति न दोष इति वा- व्यम् । तदीयपक्षधर्मताविषयताया अपि प्रयोजकतया तदीययकि. श्चिद्विषयतामात्रप्रयोज्यानुमितेरप्रसिद्धः । यदि च स्वीययत्किञ्चि- द्विषयताप्रयोज्यानुमितित्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धक- ताशालिग्रहत्वनाप्रामाण्यशानं निवेश्यते तदा विरोधिपरामर्शव्या- त्तप्रतिबन्धकत्वनिवेशनं व्यर्थ विरोधिपरामर्शस्य ताहशधर्मप्रतिब- ध्यतावच्छदकत्वाभावादिति चेत् । अत्र केचित् स्वीययत्किञ्चिविषयताप्रयोज्यानुमितिसामा. न्यविरोधित्वनिवेशाभिप्रायेण विधिपरामर्शव्यावृत्तविरोधित्वं निवोशतं पूर्वोक्तरीत्या निवेशे विरोधिपरामर्शव्यावृत्तत्वं नोपादेय. मित्याहुः॥ अत्रेद चिन्त्यम् । स्वीययत्किञ्चिद्विषयताप्रयोज्यानुमितिसामा- न्यविरोधित्वनिवेशे पूर्वकल्पेऽपि स्वयोग्यकानुमितिसामान्यावरोधि.
सत्प्रतिपक्षप्रकरणम् ।
स्वनिवेशेनैव सामञ्जस्ये तत्कल्पपरित्यागस्यानौचित्यापत्तेरिति ध्ये.
यम् ॥२॥
यतु प्रामाण्यनिश्चयेनाधिकबलतया बाधकस्य विरोधिपराम-
शस्य वारणाय समानेतीति शिरोमणिः ।
समानेतीति । समानत्वं च विरोधिवोधानुपधायकत्वम् विरोधि-
बोधाव्यवहितप्राक्क्षणविशिष्टत्वाभाव इति यावत् । तत्प्रतिबध्यका-
र्यकत्वं च तदभावातिरिक्तसकलप्रकृतसाध्यानुमितिकारणसमवधा.
नकालावच्छिन्नत्वे सति तत्प्रयुक्तकार्यानुपधायकत्वम् । सकलकारण-
निवेशादुभयपरामर्शसत्त्वे बाधेन हानबलस्य हेतोन सत्प्रतिपक्षत्वम् ।
कार्यप्रतिरोधानिवेशश्च स्वपरामर्श प्रामाण्यनिश्चयेनाधिकबलहेतावति-
व्याप्तिवारणायेति भट्टाचार्येणोक्तम् ।
न च तन्मात्रप्रयुक्तकार्यानुपधायकत्वनिवेशेनैवोभयपरामर्शसत्वे
बाधेन हनिबलहेतोः सत्प्रतिपक्षत्ववारणसंभवे प्रतिरुद्धकार्यकत्वश-
रीरे सत्यन्तनिवेशो व्यर्थ इति वाच्यम् । प्रतिबन्धकज्ञानस्येव प्रतिब-
न्धकतावच्छेदकविषयताया अपि कार्यानुत्पादप्रयोजकतया तन्मात्र-
प्रयुक्तत्वनिवेशेऽसंभवापत्तिरिति ध्येयम् ॥
अथ तदभावातिरिक्तसकलप्रकृतसाध्यानुमितिकारणसमवधान-
कालावच्छिन्नत्वे सति ताशकार्यानुपधायकत्वरूपतत्प्रतिरुद्धकार्य
कत्वनिवेशेनैव सामञ्जस्ये तत्प्रयुक्तत्वनिवेशो व्यर्थ इति चेत् ।
अत्र केचित् । यत्रादावुभयपरामर्श एवाप्रामाण्यज्ञानं तत्राप्रामाण्य-
ज्ञानकाले सत्प्रतिपक्षत्वापत्तिरतस्तत्प्रयुक्तत्वनिवेशः । न चाप्रामाण्य-
ज्ञानकाले विरोधिपरामभावातिरिक्तसकलसाध्यानुमितिकारणमे.
वनास्ति तत्राप्रामाण्यज्ञानाभावविशिष्टपरामर्शात्मककारणविरहादिति
वाच्यम् । पूर्वक्षणावच्छेदेनोक्तपरामर्शस्यैवाप्रामाण्यज्ञानाभावविशि-
टतया साध्यानुमितिकारणतावच्छेदकाश्रयत्वात् सकलकारणसम-
वहितत्वस्वीकारे गौरवेण कारणतावच्छेदकविशिष्टाधिकरणत्वनिवे.
शादित्याहुः॥
वस्तुतोऽप्रामाण्यज्ञानाभावस्य पृथक् कारणतामताभिप्रायकोऽयं
ग्रंथः तथा च साध्यानुमितिसकलकारणमध्ये गौरवेण प्रामाण्यशाना-
भावव्यक्तीनां न निवेशः । अप्रामाण्यज्ञानकालेऽतिव्याप्तिस्तु तत्प्र.
युक्तत्वं निवेश्य वारणीयेति युक्तमुत्पश्यामः ॥ ३ ॥
२७६ अनुमानगादार्याः क्रोडपत्रेषु अगृहीताप्रामाण्यकत्वसंवलितयोग्यत्वोपादाने तु बाधोपस्थिति- समर्थपरामर्शकालीनसाध्यासिद्धिसमर्थपरामविषयत्वं तद्वाच्यमि- ति शिरोमणिः। बाधोपस्थितिसमर्थति । साध्यवत्ताज्ञानप्रतिबन्धिका सती त- प्रतिबध्या याऽनुमितिस्तद्योग्यतेत्यर्थः। साध्यवत्ताधीप्रतिबध्यत्व. निवेशात्साध्याभावव्याप्यानुमितिसमर्थपरामर्शकाले नातिप्रसङ्ग इति भट्टाचार्येणोक्तम् ॥ अथात्र प्रतिबध्यत्वनिवेशेऽपि वह्नयभावव्याप्यसाध्यकस्थले सा- ध्यवत्ताधीप्रतिबन्धिका सती तत्प्रतिबध्या या वह्नयभावव्याप्याभाव. व्याप्यवह्निमानित्याकारकानुमितिस्तत्समर्थवजयभावव्याप्याभावव्या प्यवह्निव्याप्यवत्तापरामर्शदशायामेवं वह्रिव्याप्याभावब्याप्यवह्नयभा- वसाध्यकस्थले साध्यवत्ताधीप्रतिबन्धिका सती तत्प्रतिबध्या या व. हिव्याप्यानुमितिस्तत्समर्थवहिव्याप्यवत्तापरामर्शदशायां चातिप्र- सङ्गो दुर्वार इति कार्यप्रतिरोधनिवेश आवश्यक इति चेत् । साधारणोक्तपत्रिकोक्तरूपावच्छिन्नप्रतिबध्यत्वप्रतिबन्धकत्वनिवे- शेनैवोक्तातिप्रसङ्गद्वयस्य वारणसंभवादिति ध्येयम् । इदमत्रावधेयम् । एकरूपावच्छिन्नप्रतिबध्यत्वप्रतिबन्धकत्वानिवेशे. ऽपि वह्निव्याप्याभाववद्वह्नयभाववत्कालीनहदो वह्निव्याप्यवानित्या. दौ तादृशदत्वावच्छेदेन साध्यवत्ताज्ञाननिरूपितैकरूपावच्छिन्नप्रति. बध्यत्वप्रतिबन्धकत्वोभयवती या तादृशहदधर्मिकवह्नयभावानुमिति- स्तत्समर्थवढ्यभावव्याप्यवत्तापरामर्शदशायां सत्प्रतिपक्षत्वापत्ति?- वीरैवेति ॥ न चोक्तस्थले तादृशहदधर्मिकवह्नयभाववत्ताज्ञानस्य सा- ध्यवत्ताशानं प्रति व्यावर्तकधर्मदर्शनयैव प्रतिबन्धकत्वं तच्च ज्ञानवै शिष्ट्यावच्छिन्नानुमितिप्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छिन्न- विनिवेशेनैवोक्तातिप्रसङ्गव्युदास इति वाच्यम् । उक्तस्थले तादृश- विशिष्टहदत्वावच्छेदेन साध्यवत्ताशानं प्रति विशिष्टहदधर्मिकसा. ध्याभाववत्तानिश्चयत्वेन प्रतिबन्धकतयवापपत्त्या ज्ञानविशिष्टज्ञान- त्वेन प्रतिबन्धकत्वाकल्पनात् प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानवच्छि. वत्वानवशे यत्र बाधप्रतिबन्धकतैव ज्ञानवैशिष्ट्यानवच्छिन्ना तत्र स. प्रतिपक्षत्वानुपपत्तिश्च ॥ न च कार्यप्रतिरोधनिवेशेपि उक्तपक्षस्थले एव वह्निव्याप्यवह्नयभावव्याप्याभावोभयस्य साध्यतायामुक्तातिप्रसङ्गो सत्प्रतिपक्षप्रकरणम् । र्वारः वह्नयभावव्याप्यवत्तापरामर्शण वह्नयभावव्याप्याभावघटितोम- यानुमितित्त्वरूपकार्यप्रतिरोधादिति वाच्यम् । विरोधिपरामर्शप्रयुक्त. यादृशधर्मानुत्पादस्तादृशधर्मावच्छिन्नकार्यकप्रकृतपरामर्शविषयत्व विवक्षाया कथंचिद्वारयितुं शक्यत्वात् । वह्नयमावन्याप्यवत्तापरामर्श- स्य वन्ह्यभावव्याप्याभावानुमितित्वावच्छिन्नस्यैवानुत्पादप्रयोजकत. या प्रकृतसाध्यीयपरामर्शकार्यतावच्छेदकावच्छिन्नानुत्पादाप्रयोजक- त्वादस्तु वा कार्यप्रतिरोधनिवेशेऽप्येतद्दोषो दुर्वार इति चिन्त्यम् ॥॥ प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यकप्रकृतसाध्यतावच्छेदका. वच्छिन्नप्रकारकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकता- वच्छेदिका सती विशिष्टपक्षसाध्यग्रहत्वव्यापकप्रतिवध्यतानिरूपित. प्रतिबन्धकतावच्छेदकनिरुक्तपक्षसाध्यवैशिष्ट्यग्रहप्रतिवन्धकताव. च्छेदकावपयित्वावच्छिन्नानुमितिीनष्टजन्यतानिरूपितजनकतावच्छे- दिका यादृशविशिष्टविषयिता तादृशानुमितिः समुदितार्थ इति भट्टाचार्येणोक्तम् ॥ अत्र सत्यन्तदले प्रकृतपक्षकत्वमनिवेश्य किञ्चिद्धर्मावच्छिन्नपक्ष- कत्वानिवशे यात्किञ्चिद्धर्मपदेन वन्ाभावव्याप्यव्याप्याभावव- द्भदत्वमादाय तदवच्छिन्नविशेष्यकप्रकृतसाध्यानुमितिमादाय सत्य. तिपक्षोभायके वन्यभावव्याप्यव्याप्यवत्हृदादावतिव्याप्तिरतस्त- निवेशः । एवमुन्नेयदले पक्षांशे तदप्रवेशे वहिन्याप्याभावसा- ध्यकस्थले किञ्चित्पक्षपदेन वन्यभाववत्पर्वतत्वादिकमादाय तदव- च्छिन्नविशेष्यकप्रकृतसाध्यानुमितिविरोध्युनायके केवलवहिव्याप्य. वत्पर्वतादिरूपबाधेऽतिव्याप्तिरतस्तहलेऽपि तन्निवेशः॥ अथ सत्यन्तदले प्रकृतानुमित्यवृत्तित्वमेव निवेश्यतां किं तादृशप्र. निबन्धकतावच्छेदकत्वर्पयन्तनिवशेनेतिचन्न वह्नयभाववत्वह्नयभाव- ब्याप्यव्याप्यवत्कालीनइदो वह्निमानित्यादौ पक्षतावच्छंदाकवधया वह्नयभावावच्छेदकग्रहविषयीभूतहदत्वावच्छेदन वह्नयभावव्याप्य. व्याप्यवत्त्वादौ प्रकृतानुमिन्यवृत्तिविषयिताके सत्प्रतिपक्षोन्नायके वह्नयभावव्याप्यव्याप्याभावव्याप्यवान् हृदो वह्निमानित्यादौ वह्नयभाव- व्याप्यव्याप्यवद्धदादिरूपसत्प्रतिपक्षोन्नायके चातिव्याप्तिवारणाय तन्निवेशस्यावश्यकत्वात् । तन्निवेशे च वह्नयभावावच्छेदकज्ञानसमा. नकालीनवह्नयभावव्याप्यव्याप्यवान् हृद् इत्यादिज्ञाने प्रकृतानुमिति- अनुमानगादाधर्याः क्रोडपत्रेषु प्रतिबन्धकताशून्यतादृशविशिष्टविषयितासत्त्वात् अनतिरिक्तवृत्तित्व- रूपतादृशप्रतिबन्धकतावच्छेदकत्वविरहात् नातिव्याप्तिरिति ध्येयम् ॥ केचित्तु सत्यन्तस्य उक्तार्थकत्वे वह्नयभावव्याप्यव्याप्याभाववान् हदो वह्निमानित्यादौ वह्नयभावव्याप्यव्याप्यवद्धदात्मकाश्रयासिद्ध्या- दावतिव्याप्तिः, स्वमते च उन्नये उन्नायके विरोध्यन्तविशेषण- तयैव उक्तातिव्याप्तिवारणसंभवात् । न चैतन्मतेऽपि तादृशानुमित्य- वृत्तिविषयितायां विशिष्टपक्षादिग्रहप्रातबन्धकतानवच्छेदकत्वनि- वेशनैव उक्तातिव्याप्तिवारणसभव इति वाच्यम् । तथासति वह्नयभा. वव्याप्याभाववान् हदो वह्निमानित्यादौ वह्नयभावव्याप्यवद्धदात्मक- सत्प्रतिपक्षेऽव्याप्तिः तादृशसत्प्रतिपक्षविषयितायां विशिष्टपक्षग्रह- प्रतिबन्धकतानवच्छेदकत्वाभावात् , स्वमते च विरोध्यन्तदलेन स- त्यन्तदलघटकप्रतिबध्यत्वोन्नयदलघटकप्रतिबध्यत्वयोविशिष्टपक्षण- हत्वाव्यापकत्वविवक्षयैव सामञ्जस्यात् । एवं हृदो वह्नयभावव्याप्य- व्याप्याभाववह्नयुभयवानित्यादौ वह्नयभावव्याप्यव्याप्यवद्धदात्मक बाधेऽतिव्याप्तिश्च तादृशवाधविषयितायां विशिष्टपक्षग्रहप्रतिबन्ध कतानवच्छेदकत्वस्यापि सत्त्वात् , स्वमत दलद्वये एकरूपावाच्छन्न- प्रतिबध्यतानिवेशनव तद्वारणसभवात् एतदस्वरसनैव अथवे. त्यादिना प्रतिबध्यतायामेकरूपावच्छिन्नत्वं निवेशितम् । एतेन वह्नयभावव्याप्यव्याप्यवद्धदविषयितायां प्रतिबध्यतावच्छे- दकत्वाभावात् साध्यवैशिष्टयाभावाधिकरणत्वाप्रयोजकत्वेन स्वविष. यताप्रयोज्यविशिष्टान्तरविषयत्वाप्रयोज्यतादृशसाध्यवैशिष्टयावगा- हित्वाभावाधिकरणतावत्त्वरूपविशिष्टान्तरघटितत्वविरहादेव सत्प्रति- पक्षोन्नायकेऽतिब्याप्तिविरहात् सत्यन्तदलं व्यर्थमिति पूर्वपक्षोपि निरस्तः। सत्यन्तदलानुक्तौ वयभावव्याप्यव्याप्याभाववान् इदो वह्नि मान् इत्यादौ वह्नयभावव्याप्यव्याप्याभाववढ्युभयवानित्यादौ वह्नय- भावव्याप्यव्याप्यवद्धदादावतिव्याप्तेर्दुरित्वात् तादृशहदादिविषयि- तायां साध्यवैशिष्ट्यावगाहित्वाभावाधिकरणताप्रयोजकत्वात् इदो वह्निमानित्यादौ वह्नयभाववान् वह्नयभावब्याप्यव्याप्यवान् वह्नयभाक- व्याप्यव्याप्यवांश्च हद इत्यादिज्ञानीयज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्ध कतावच्छेदकत्वस्य सत्प्रतिपक्षोन्नायकविषयतायां अपि सत्त्वेन सर्वत्र सत्प्रतिपक्षोन्नायकेऽतिव्याप्तितादवस्थ्याच्चेत्याहुः ।
सत्प्रतिपक्षप्रकरणम्। अत्रैवमपि सत्यन्तदलं व्यर्थ उन्नेयविषयितायां प्रकृतसाध्य- पक्षवैशिष्ट्यग्रहप्रतिबन्धकतावच्छेदकत्वमानवश्य तादृशग्रहप्रतिबध्य- तावच्छेदकत्वानिवेशेनैव सत्प्रतिपक्षोन्नायकेऽतिव्याप्तिवारणसंभवात सत्प्रतिपक्षविषयतायां तादृशग्रहप्रतिबध्यतावच्छेदकत्वाभावादिति। न च वह्नयभावव्याप्याभावव्याप्यवान्-हदो वह्निमानित्यादौ ३. यभावव्याप्यन्याप्यवद्धदादावतिव्याप्तिरिति वाच्यम् । विशिष्टपक्ष- साध्यग्रहप्रतिबन्धकतानवच्छदक इत्यत्रापि विशिष्टपक्षसाध्यग्रहमति- बध्यतावच्छदकत्वनिवेशनैव तद्वारणसंभवादिति । एवं इदो बह्नय- भावव्याप्याभावव्याप्यवान् वहिव्याप्यवान् वा इत्यादौ वह्नयमाव- व्याप्यव्याप्यवद्मद वह्नयभावव्याप्यवद्मदे वाऽतिव्यातिवारणाय सत्यन्तदलनिवेशस्यावश्यकत्वात् । यत्तुक्तोन्नविषयितायां विशिष्टपक्षसाध्यग्रहप्रतिबध्यतानवच्छे. दकत्वनिक्शे वह्निव्याप्यवद्धो वह्निमानित्यादौ वह्नयभावव्याप्य. वज्रदादिरूपसत्यतिपक्षेऽव्याप्तिस्तादृशसत्प्रतिपक्षोन्नेयविषयितायां विशिष्टपक्षग्रहप्रतिवध्यतानवच्छेदकत्वात् इति । तत्तुच्छम् प्रति बन्धकतायां विशिष्टपक्षसाध्यग्रहत्वाव्यापकत्वनिवेशेनैवोक्ताव्या. तिवारणसंभवात् । विशिष्टपक्षसाध्यग्रहाविरोधित्वनिवेशपक्षेपि प्रतिबध्यतायामेव विशिष्टपक्षसाध्यग्रहत्वाव्यापकत्वनिवेशस्यावश्य- कत्वात् । वह्निमध्रदो वयभावव्याप्याभाववानित्यादौ वह्नयभावव्या. प्यव्याप्यवद्धदात्मकसत्प्रतिपक्षाव्याप्तेढुंवारत्वादिति ध्येयम् । अथैवमुन्नेयविषयितायां प्रकृतपक्षसाध्यविशिष्टप्रहप्रतिबध्यताव. च्छेदकत्वमेव निवेश्यम् उक्तदोषवारणाय सत्यन्तदले वरमनुमि. त्यवृत्तित्वमेव निवेश्यतां तावताप्यनुमितिप्रतिबन्धकतावच्छेदक त्वनिवेशापेक्षया लाघवादिति चेन्न । एवमपि इदो वह्निन्यायव. हृयभावच्याप्याभावव्याप्योभयवानित्यादौ वह्नयभावव्याप्यवध्रदाः दावतिव्याप्तिः । न च तथापि उन्नेयविषयितायामेव प्रकृतपक्षसा. ध्यवैशिष्ट्यग्रहप्रतिबन्धकतावच्छेदकत्वमिव ताशग्रहप्रतिवध्यता- वच्छेदकत्वमपि निवश्यताम् तावतैवोक्तदोषवारणसम्भवादिति पृथक् सत्यन्तदलनिवेशो व्यर्थ इति वाच्यम् । एवमपि हुदो वह्नि व्याप्यवानित्यादौ वह्निव्याप्याभावव्याप्यवहृधभावव्याप्यवध्रदे इ. दो वयभावव्याप्यवह्निमानित्यादौ वन्ह्यभावव्याप्यव्याप्यवद्ध्वे अनुमानगादावर्या क्रोडपत्रेषु चातिव्याप्तेर्दुारत्वात् । एतेन प्रकृतपक्षसाध्यविशिष्टग्रहत्वव्यापकप्रतिबध्यत्वप्रतिबन्धक- त्वयोस्तादृशग्रहनिरूपितप्रतिबध्यत्वप्रतिबन्धकत्वयोश्चैकरूपावच्छिन्न- त्वनिवेशनैवोक्तातिव्याप्तिद्वयवारणसम्भवः तद्व्याप्यवत्ताशाने तद्व्या- प्याभावव्याप्यतदभाववत्ताज्ञाननिरूपितप्रतिबध्यत्वप्रतिबन्धकत्वयोः सत्त्वेपि तयोरेकरूपावच्छिन्न वाभावादिति पृथक् सत्यन्तदलमनुपा- देयमेवेति केषांचित् प्रलपितमप्यपास्तम् । वह्निव्याप्याभाववद्वन्ह्यभाववत्कालीनहदत्वावच्छेदेन वह्निव्या- प्यसाध्यकस्थले तादृशहदत्वावच्छेदेन वह्निव्याप्यवत्ताज्ञानं प्रति तादृशहदधर्मिकवन्धभाववत्ताज्ञानस्यैकरूपावच्छिन्नप्रतिबध्यत्वप्रति. बन्धकत्वोभयसाधनताशप्रतिबध्यत्वप्रतिबन्धकत्वोभयावच्छेदकाभू. तवन्ह्यभाववत्ताशहदत्वावच्छिन्नविषयित्वावच्छिन्नानुमितिनिष्ठजन्य- तानिरूपितजनकतावच्छेदकविषयिताके वह्नयभावव्याप्यवत्तादृशहदे एवंवन्ह्यभावव्याप्याभाववद्वह्निमत्कालीनहदत्वावच्छेदेन वाह्नसाध्यक- स्थले तादृशहदत्वावच्छेदेन वह्निमत्ताबुद्धिं प्रति तादृशइदधार्मिक वन्यभावव्याप्यवत्ताज्ञानस्यैकरूपावच्छिन्नप्रतिबध्यत्वप्रतिबन्धकत्वो- भयसरवात्तदुभयावच्छेदकाभूतवडयभावव्याप्यवत्ताशइदत्वावीच्छ. भविषयित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकवि. पविताके वन्यभावव्याप्यवत्ताशहदे चातिव्याप्तेर्दुारत्वादिति कृतं पल्लवित्तन। अथ तथापि आश्रयासिद्ध्युन्नायकेऽतिव्याप्तिवारणाय विशिष्टप- असाध्यग्रहत्वब्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्वमु. यविषयितायां निवेशितं तदपेक्षया लाघवाद्विशिष्टपक्षसाध्यानु- मितिवृत्तित्वमेव कुतो न निवेशितम् , तावतैव कांचनमयहदो वह्नि- मानित्यादौ कांचनमयत्वाभाववद्धदादिविषयितायां तादृशानुमिः त्यवृत्तित्वात् कांचनमयत्वाभावव्याप्यवद्धदादावतिव्याप्तिवारणस. म्भवात् । वन्ह्यभाववद्धदादिविषयिताया विशिष्टपक्षसाध्यविषयकहदो वहयभाववानित्याद्यनुमितिवृत्तित्वन सत्प्रतिपक्षसंग्रहाच्चेति चेन्न । वहिव्याप्यवद्धदो वह्निमानित्यादौ संयोगः संयोगव्याप्यवत्सं. योगवानित्यादौ च वन्हाभावव्याप्यवद्मदात्मके संयोगाभावव्या. प्यवत्संयोगात्मके च सत्प्रतिपक्षेऽव्याप्तिः वन्यभाववद्धदात्मकोने- .
सत्प्रतिपक्षप्रकरणम् । यविषयिताया विशिष्टपक्षविषयकानुमिती संयोगाभाववत्संयोगा- मकोयविषयितायाश्च विशिष्टसाध्यविषयकानुमितो प्रवृत्तरिति ध्येयम् ॥ अथ तथाप्युग्नेयविषयितायां प्रकृतानुमित्यवृत्तित्वमेव निवेश्यताम् किंतादृशानुमितिप्रतिवन्धकतावच्छेदकत्वनिवेशनेनेति चेन्न । वन्ह्यभा. वव्याप्यव्याप्यवद्वन्ह्यभावव्याप्यवत्कालीनहदो वन्ह्यभावव्याप्याभाव. वानित्यादौ प्रकृतानुमित्यवृत्तिविपयिताकस्य पक्षतावच्छेदकविधया वह्नयभावव्याप्यव्याप्यात्मकसाध्याभावावच्छेदकत्वग्रहविषयीभूतस्य वह्नयभावन्याप्यवद्रदत्वावच्छिन्नस्योनायके इदत्वावच्छेदेन वन्यभाव. व्याप्यव्याप्यवत्तात्मकबाधेऽतिव्याप्यापत्तेः। तन्निवेशेचताशपक्षक्षा- नासमानकालीनवन्ह्यभावव्याप्यवान् इद इति ज्ञानेऽनुमितिप्रतिबन्ध कताशून्ये तद्विषयितासत्त्वात् अनतिरिक्तवृत्तित्वरूपावच्छेदकत्ववि- रहान्नातिव्याप्तिः । एवं वन्ाभावाभाववद्वन्ह्यभावव्याप्याभाववत्का. लीनइदो वन्यभावव्याप्याभाववानित्यादौ प्रकृतानुमित्यवृत्तिविषयि. ताकस्य वन्ह्यभाववद्वन्ह्यभावाभाववद्वन्ह्यभावव्याप्याभाववत्कालीन हृदस्योनायके वन्ह्याभावव्याप्यवत्ताशहदात्मकबावे तथा वहिव्याप्य. वहदो वन्ह्यभावव्याप्याभाववानित्यादौ अनुमित्यवृत्तिविषयिताके वन्ह्यभावववद्धदस्योन्नायके वन्ह्यभावव्याप्यवद्धदात्मकबाधे चा- तिव्याप्यापत्तेश्च । स्वमते चोक्तस्थलद्वये वन्यभाववद्ध्दविषयि. ताया अनुमितिप्रतिबन्धकतावच्छेदकत्वाभावादेव नातिव्याप्तिरिति ध्येयम् ॥ ननु तथापि वहृयभाववद्वह्नयभावव्याप्यवत्कालीनहदो वह्निमा. नित्यादौ बह्नयभावव्याप्यव्याप्यवत्तादशहदे चातिव्यानिः वह्नयभाव. व्याप्यव्याप्यवत्तादृशहदानश्चयस्य वह्नयभावव्याप्यवत्तावच्छेदेन सा. ध्याभावावगाहितया तादृशहदे साध्याभावावच्छेदकत्वग्रहविषयी- भूतवह्नयभावव्याप्यव्याप्यावगाहितया च सत्यन्तदलाक्रान्तत्वात् सत्यन्तघटकप्रतिबन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशे च प्र. तिहेतुव्यापकताघटितसत्प्रतिक्षाव्याप्तिः । न च यत्किञ्चिद्धर्मावच्छि- नव्यापकत्वप्रकारतानिरूपितसाध्याभावविषयित्वानवच्छिन्नशाननि- ष्ठावच्छेदकताकान्यत्वस्य प्रतिबन्धकताविशेषणत्वे सामञ्जस्यमिति वाच्यम् । एवमपि प्रकृतहेतुभिन्ने पक्षवृत्तित्वविशेषितसाध्यब्यापकी.
अनुमानगादाधर्याः क्रोडपत्रेषु भूनाभावप्रतियोगित्वरूपसत्प्रतिपक्षेऽव्याप्त्यापत्तेः । किञ्च व धमा- ववद्वन्धभावव्याप्यव्याप्यवत्कालीनहदत्वावच्छिन्नधर्मिकवह्निमत्ताबु. द्धिं प्रति तादृशइदत्वावच्छेदेन वह्वयभावव्याप्यव्याप्यवत्तानिश्चय. त्वेन प्रतिबन्धकतयैवोपपत्तौ ज्ञानविशिष्टज्ञानत्वेन प्रतिबन्धकत्वे मानाभावादुक्ताव्याप्तितादवस्थ्यापत्तेः । वयभावव्याप्यव्याप्यवद्व- हृयभावव्याप्यवत्कालीनहुदो वयभावव्याप्यव्याप्याभाववानित्यादौ वादशहदे वह्नयभावव्याप्यवत्त्वनिश्चयस्य वढ्यभावव्याप्यावच्छेदेन साध्याभावावगाहितया प्रकृतपक्षे वयभावव्याप्यावगाहितया चानु- मितिप्रतिबन्धकत्वेन ताशप्रतिबन्धकतावच्छेदकविषयिताकवह्नध- भावव्याप्यवत्ताशहदत्वावच्छिन्नोन्नायकवह्नयभावव्याप्यव्याप्यवत्ता. दृशहदात्मकबाधे वह्नयभावव्याप्यववह्नयभाववत्कालीनह्नदो वह्नय- मावव्याप्याभाववानित्यादौ च प्रकृतपक्षे वयभाववत्तानिश्चयस्यो क्तरीत्याऽनुमितिप्रतिबन्धकत्वेन ताशप्रतिबन्धकतावच्छेदकविष. यिताकवह्नयभाववत्प्रकृतपक्षोन्नायके वह्नयभावव्याप्यवत्प्रकृतपक्षा- मकबाधे च बाधप्रतिबन्धकतामादायातिव्याप्ते१रतापत्तेश्च । एतेन प्रागुक्तस्थले जलवान् वह्नयभाववान् जलवांश्च ताशपक्षः शैवाल. वान् तादृशपक्ष इत्यादिनानाविधनिश्चयसाधारण्यानुरोधेन ज्ञानवै. शिष्टयावच्छिन्नप्रतिबन्धकतास्वीकारेऽपि न निस्तार' । अत एव नानानिश्चयसाधारणसाध्याभावत्वावच्छिन्नप्रकारताविशिष्टपक्षताव. च्छेदकावच्छिन्नविशेष्यताशालिनिश्चयत्वेन प्रागुक्तस्थले प्रतिबन्ध- कत्वं वाच्यम् । विशेष्यतायां प्रकारतावैशिष्टय च स्वनिरूपकज्ञान- समानाधिकरणज्ञानीयत्व-स्वनिरूपितविशेष्यतावच्छेदकधर्मनिष्ठप्र- कारतानिरूपितत्वोभयसम्बन्धेन । तथाच प्रागुक्तस्थले वह्नयभाववज- लादिमदत्तिजलवत्ताशपक्षरूपविशिष्टान्तरविषयतात्वव्यापकीभूत- साध्याभावप्रकारताविशिष्टतादृशपक्षविषयतात्वावच्छिन्नप्रयोज्यत्व. स्य स्वविषयताप्रयोज्यसाध्यावगाहित्वाभावाधिकरणतायामसत्त्वेन विशिष्टान्तरघटितत्वनिवेशादेव नातिव्याप्तिरिति कस्यचित्समाधा- नमपि हेयम् । उक्तरीत्या प्रथमोक्तातिव्याप्तिवारणेऽपि पश्चादुक्ताति- व्याप्तिद्वयस्य दुर्वारत्वात् । प्रतिहेतुव्यापकताघटितसत्प्रतिपक्षनि. श्चयस्यापि नानाविधानश्चयसाधारणेन स्वनिरूपितज्ञानसमानाधिकर- पक्षानीयत्व-स्वनिरूपितव्यापकत्वप्रकारतानिरूपितप्रकारतावच्छेद- सत्प्रतिपक्षप्रकरणम्। कावच्छिन्नप्रकारतानिरूपितत्वोभयसम्बन्धन साध्याभावत्वावच्छि- ऋविशेष्यताविशिष्टपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चय त्वेन प्रतिबन्धकत्वस्य वक्तुमशक्यतया उक्तरीत्या तादृशसत्प्रति- पक्षेऽपि विशिष्टान्तराघटितत्वस्यासत्वप्रसङ्गाश्च । नानाविधनिश्चय साधारण्यानुराधेन ज्ञानवैशिष्ट्यावच्छिन्नप्रतिवन्धकतास्वीकारे वह्वय- भावव्याप्यव्याप्यवद्वयभावव्याप्यवत्कालीनहदो वह्नयभावव्याप्य- व्याप्याभाववान् इत्यादिस्थलीयताशपक्षविशेष्यकवहयभावव्याप्य- निश्चयस्यापि ज्ञानविशिष्टज्ञानत्वेनैव प्रतिवन्धकत्वं वाच्यम् । तथा चोनेयदलप्रविष्टप्रतिवन्धकतायां ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशने- नैवोक्तातिव्याप्तिवारणसम्भव इति वाच्यम् । तथासति गगनाभाव. वदभाववकालीनगगनसाध्यकसत्प्रतिपक्षाव्यानिः-ताशगगनाभाव- व्याप्यात्मकसत्प्रतिपक्षोन्नयतादृशगगनाभावशानन ज्ञानविशिष्टवान त्वेनैव प्रतिबन्धकत्वादिति चेत् । अत्राहुः-उन्नेयविषयितायां प्रकृतानुमिनिप्रतिबन्धकतावच्छेद कत्वमिव प्रतिवध्यतावच्छेदकत्वमपि निवेश्यम् तावतैवोक्तातिव्या. प्तीनां निराससम्भव इति । उन्नयविषयितायां प्रतिबन्धकतावच्छे- वदकत्वानिवेशे वयभावाभाववद्वयभावव्याप्याभाववत्कानिइदो वहयभावव्याप्याभाववानित्यादौ वह्नयमावव्याप्यवद्धदात्मकबाधेऽति- व्याप्तिरतस्तनिवेशः । सत्यन्तदलप्रयोजनन्तु वहिन्याप्याभाववद्वय भाववत्कालीनहदो वहिव्याप्यवानित्यादौ वह्नयभावव्याप्यवत्तादृशहदा. दावतिव्याप्तिवारणरूपमिति प्रागेवोक्तम् । न च सत्यन्तनिवेशेऽपि तादृशपक्षकस्थल एव वह्निव्याप्यवह्नयभावव्याप्याभावोभयात्मकबा धे वह्नयभावव्याप्यवत्तादृशपक्षेऽतिव्याप्तिरिति वाच्यम् । वयभाव. ब्याप्याभावब्याप्यव्याप्याभावोभयवान् हृदो वह्निमान् इत्यत्र वह्वय- भावव्याप्यव्याप्यवद्धदादावतिव्याप्तिवारकेण प्रतिवध्यत्वयारेकरूपा- वच्छिन्नत्वनिवेशेनैव वारणसम्भवात् । एतेन-उन्नेयविषयितायां प्रति. बध्यत्वप्रतिबन्धकत्वयोरवच्छेदकत्वनिवेशे सत्यन्तदलेऽनुमित्यवृत्ति- त्व कुतो न निश्यिताम्-इत्याशंकापि निरस्तेति दिक् ॥ ५॥ अत्र सत्यन्तदले प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहिग्रहनिष्ठ- प्रतियध्यतानिरूपितप्रतिवन्धकतानिवेशे साध्याभावव्याप्यव्याप्यव. ताज्ञानमपि समूहालम्बनसाध्यवत्ताशानरूपसाध्याभावव्याप्याभाव- अनुमानगादाधर्याः क्रोडपत्रेषु धत्ताज्ञानप्रतिबन्धकताया सत्प्रतिपक्षोन्नायकेऽतिब्याप्तिरतस्ताश- वैशिष्टयावगाहिग्रहत्वघटकसमुदायवृत्त्यवच्छेदकताकप्रतिबध्यता नि. वेशनीया, तथाच काञ्चनवद्धदो वह्निमान् इदो काञ्चनमयवह्निमा. नित्यादौ वयभावव्याप्यवद्धदादिरूपसत्प्रातिपक्षाव्याप्तिस्ताश. प्रतिबध्यतावच्छेदकत्वस्य ताशवैशिष्ट्यावगाहिताघटककाञ्चनम. यत्वविषयितायामसत्त्वादतस्तारशानुमितित्वव्यापकप्रतिवध्यतानि- वेश इति भट्टाचार्येणोक्तम् ॥ अथ पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छे. दकावच्छिन्नप्रकारत्वावच्छिन्न प्रतिबध्यतानिवेशेनैव तादृशसत्प्रतिप- क्षसङ्ग्रहः सम्भवति काञ्चनमयहदत्वावच्छिन्नविशेष्यतानिरूपितवह्नि- त्वावच्छिन्नप्रकारताया ह्रदत्वावच्छिन्नविशेष्यतानिरूापेतकाञ्चनमय- वह्नित्वावच्छिन्नप्रकारतायाश्च इदत्वावच्छिन्नविशेष्यतानिरूपितव- ह्नित्वावच्छिन्नप्रकारतात्वेन तत्प्रतिबध्यतावच्छेदकत्वात् । न हि ता. इशप्रकारतात्वावच्छिन्नावच्छेदकताकत्वं प्रतिबध्यतायां निवेश्यते प्रयोजनाभावात् किं तादृशानुमितित्वव्यापकतानिवेशेनेति ॥ न च इदो वह्निमानित्यादौ वह्नयभावव्याप्याभावात्मकवह्निमानि- तिज्ञानीयवह्नित्वावच्छिन्नप्रकारताया अपि वह्नयभावव्याप्याभावत्वा- वच्छिन्नप्रकारतात्वेन वह्नयभावव्याप्यव्याप्यवत्तादृशनिश्चयप्रतिबध्य. तावच्छेदकता, अतः सत्प्रतिपक्षोन्नायकेऽतिब्याप्तिरतस्तादृशप्रकार. तात्वावच्छिन्नावच्छेदकताकत्वनिवेशस्यावश्यकतया व्यापकतानिवेश- व्यावृत्तिसङ्गतिरिति वाच्यम् । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्य- तानिरूपितसाध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रकारत्वावच्छिन्नत्व- स्य प्रतिबध्यताविशेषणतयैव सामञ्जस्यात् । न च तथापि हदो वह्नि- मानित्यादौ वह्नयभावव्याप्यव्याप्यवह्निघटोभयाभाववद्धदादावति. व्याप्तिः एकत्र द्वयमितिरीत्या जायमान-वह्निघटवान् हद इति-शा. नीयहदत्वावच्छिन्नविशेष्यतानिरूपितवहित्वावच्छिन्नप्रकारताया अ. पि घटत्वावच्छिन्नप्रकारतानिरूपितहदत्वावच्छिन्नविशेष्यतानिरूपि- तवह्नित्वावाच्छन्नप्रकारतात्वेन वह्निघटोभयाभावनिश्चयप्रतिब. ध्यतावच्छदकत्वन सत्यन्तदलस्य वन्ह्यभावव्याप्यघाटितत्वात विशे- प्यदलस्य च तत्र सत्त्वादित्यनुमितित्वव्यापकत्वनिवेशनमावश्यक. मिति वाच्यम् । साध्यतावच्छेदकपर्याप्तावच्छेदकताकप्रकारत्वान्य.
सत्प्रतिपक्षप्रकरणम् । । प्रकारत्वानिरूपितपक्षतावच्छेदकावच्छिन्नविशेष्यत्वावच्छिन्नप्रतिबध्य. तानिवेशेनैव तद्वारणसम्भवात् । किञ्च सत्यन्तदलघटकप्रतिवध्यत्वो- यदलप्रविष्टप्रतिबध्यत्वयोरेकरूपावच्छिन्नत्वनिवेशस्यावश्यकतया तेनैवोक्तातिव्याप्तिवारणसम्भवाच्च । एतेन-पक्षतावच्छेदका. वच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारत्वावच्छि- नप्रतिबध्यतानिवेशे हदो वह्नयभावव्याप्यव्याप्याभाववद्वह्निमानि. त्यादौ वयभावव्याप्यव्याप्यवद्धदादावतिव्याप्तिरतस्तद्वारणाय ता. दृशप्रकारतात्वावच्छिन्नावच्छेदकताकप्रतिवध्यतानिवेशध्रौव्ये इदः काञ्चनमयवह्निमान् इत्यादौ वह्नयभावव्याप्यवद्धदादरसङ्ग्रहम- येन तादृशानुमितित्वव्यापकत्वनिवेशः इति कैश्चिदुक्तमप्यपास्तम् । एकरूपावच्छिन्नप्रतिवध्यतानिवेशेनैव वह्नयभावव्याप्यव्याप्यवद्धदा. दावतिव्याप्तरसम्भवेन तादृशप्रकारतात्वावच्छिन्नावच्छेदकताकप्र- तिबध्यतानिवेशस्याप्रयोजनकत्वात् , अन्यथा व्यापकत्वनिवेशेऽप्य. निस्तारात् इति । प्रतिबध्यत्वद्वये एकरूपावच्छिन्नत्वनिवेशात् वह्नय भाववजलववृत्तिजलव्याप्याभाववद्धदकालीनहदो वह्निमानित्यादौ वह्नयभाववजलवद्वृत्तिजलव्याप्यवज्रदेशतिव्याप्तिस्तस्य व्यावर्त. कप्रतिवध्यत्वं आश्रयासिद्धिप्रतिबध्यत्वं चादाय दलद्वयसत्त्वादिति- पूर्वपक्षोऽपि निरस्त इति चेत् । अत्र केचित्-यत्र वह्निव्याप्यधूमवत्तापरामर्शाल्लाघवज्ञानवशेन काञ्चनमयवह्नतिरवह्नयभाववान् पर्वत इत्याकारकइतरबाधज्ञानवशेन वा काञ्चनमयवह्निमानित्यनुमितिर्जायते तत्र काञ्चनमयत्वाभावव्या- प्यवद्वह्निरूपसत्प्रतिपक्षे साध्याप्रसिध्याद्यनात्मकेऽव्याप्तिस्तज्ज्ञानप्र. तिबध्यतावच्छेदककोटी पक्षतावच्छेदकावच्छिन्नविशेभ्यतानिरूपित. साध्यतावच्छेदकावच्छिन्नप्रकारताया अनिवेशात् वह्नित्वावच्छिन्न- विशेष्यतानिरूपितकाञ्चनमयत्वप्रकारताया एव तज्ज्ञानप्रतिबध्यता- वच्छेदकत्वात् अतस्तादृशानुमितित्वव्यापकप्रतिबध्यतानिवेशनमा. वश्यकम् । न च व्यापकत्वनिवेशेऽपि काञ्चनमयत्वाभाववद्वह्निविष- यकज्ञानस्य विशिष्टसाध्यग्रहविरोधित्वात् तदसङ्ग्रह इति वाच्यम् । व्यापकतावच्छेदकत्वेन गृहीतस्यैव विधेयतावच्छेदकत्वनियमेन का- ञ्चनमयत्वादेविधेयतावच्छेदकत्वाभावात् शुद्धवह्नित्वस्यैव विधेयता- वच्छेदकत्वेन तद्विशिष्टाहाविरोधित्वेन तत्राक्षतत्वात् । सत्यन्तदले अनुमानगादाधर्याः क्राडपत्रषु तु विधेयतावच्छेदकधर्मो न निवेश्यते किन्तु प्रकारतावच्छेदकधर्म ए. वेति न सत्यन्तदलासत्त्वम् । काञ्चनमयत्वसहितवह्नित्वस्य विधेयः तावच्छेदकत्वेन प्रकृतानुमितिजनकतावच्छेदकव्यापकत्वप्रकारतानि. रूपितविशेष्यतावच्छेदकधर्मविशिष्टग्रहावियोधित्वमेव विरोध्यन्तेन विषक्षणीयमिति नानुपपत्तिः। एतेन पक्षतावच्छेदकत्वसाध्यतावच्छे. दकत्वयोन्यूँनवारकपर्याप्तिमनिवेश्य पक्षतावच्छेदकावच्छिन्नविशेष्य- तानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारताशालिग्रहत्वपर्याप्ताव. च्छेदकताकप्रतिबध्यता निवेशनीया । तथाच्च काञ्चनमयहदो वह्नि- मान् हदः काञ्चनमयवह्निमानित्यादौ हदत्वावच्छिन्नविशेष्यतानिरूपि- तवह्नित्वावच्छिन्नप्रकारताशालिग्रहत्वे वह्नधभावव्याप्यवद्धदविषः यकनिश्चयप्रतिबध्यतावच्छेदकतापर्याप्तिसत्वात्तत्स्थलीयसत्प्रतिपक्ष- सङ्ग्रहसम्भवे व्यापकतानिवेशो व्यर्थ इत्यपि परास्तम् । उक्तरीत्या काञ्चनमयत्वाभावव्याप्यवद्वयादेरसङ्ग्रहापत्तेरिति । अथैवं पर्वतोभावव्याप्यधूमाभाववानित्यादावभावव्याप्यधूमवत्पर्व- तात्मकबाधेऽतिव्याप्तिस्तादृशबाधविषयितायां प्रकृतसाध्यग्नहप्रतिः बन्धकतावच्छेदकाभावव्याप्यधूमाभावाभावेतराभाववानितीतरबाधा जन्य-पर्वतोऽभावव्याप्यधूमाभावाभाववान्-इत्याकारकानुमितिविष- यित्वावच्छिन्नानुमितिनिष्ठजन्यतानिरूपितजनकतावच्छेदकत्वसत्त्वे. नोकबाघस्य विशेष्यदलाक्रान्तत्वात् , एवं पर्वतो वह्निव्यायामा- अवानित्यादौ वहिव्याप्यवत्पर्वतरूपत्वाच्च वह्निव्याप्यवहीतरामा. ववानितिबाधसहकारेण प्रकृतसाध्यवैशिष्ट्यग्रहविरोधिवह्निव्याप्यव- इन्युचायकेऽतिव्याप्तिरिति । मैवम् । प्रकृतपक्षसाध्यवैशिष्ट्यग्रहप्र. तिबन्धकतावच्छेदकविषयितात्वव्याप्यविषयितानिष्ठावच्छेदकताक. जन्यतानिवेशेनैवोक्तातिव्याप्तिवारणसंभवात्-अभावव्याप्यधूमवान् पर्वतः वह्निव्याप्यवान्पर्वतः इत्यादिपरामर्शजनकतावच्छेदकतायाः शुद्धाभाववान् शुद्धवह्निमानित्याधनुमितिविषयतायामपि सत्त्वेन तत्र निरुक्तप्रतिबन्धकत्वाभावादित्याहुः ॥ अन्ये तु गुणीयसंयोगेन वह्नयादिसाध्यकस्थले गुणीयत्वाभा- ववत्संयोगस्य बाधतया गुणीयत्वाभावव्याप्यवत्संयोगस्यापि सत्पति. पक्षत्वम् । एतच्च सामान्यनिरुक्तिप्रन्थे जगदीशेनोक्तम् । एवं च ता. दशसत्प्रतिपक्षसंग्रहार्थमेवानुमितित्वव्यापकतानिवेश इति वदन्ति ।
सत्प्रतिपक्षप्रकरणम् । ३५७ परे तु पक्षतावच्छेदकत्वसाध्यतावच्छदकत्वयोन्यूनवारकपर्याप्ति मनिवेश्य प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यग्रहत्वपर्याप्तावच्छेदकताकप्र. तिबध्यतानिवेशे जातिमान्वह्निमानित्यत्र वह्नयभाववज्रदकालीनवह्नय- भावव्याप्यवजातिमत्यतिव्याप्तिः इदत्वस्य जातित्वरूपेण पक्षताव. च्छेदकत्वादिति तद्वारणाय पक्षतावच्छेदकतायाः पर्याप्तिनिवेशः। ह्रदो वह्निमानित्यादौ वन्यभाववजातिमत्कालीनवन्यभावव्याप्य- व्याप्यवद्धदादावतिव्याप्तिस्तज्ज्ञानप्रतिवध्यताकोटौ जातित्वरूपण हदत्वावच्छिन्नविशेष्यतायाः प्रवेशादिति विशेष्यतावच्छेदकतायाः प. याप्तिनिवेशः। एवं जातिर्जातिमतीत्यादौ वह्नयभाववजातिकालीनजाति- मदभावव्याप्यव्याप्यवजातिरूपविशिष्टेऽतिव्याप्तिः-जातित्वरूपेण व. ह्नित्वस्य साध्यतावच्छेदकत्वात् इति तद्वारणाय साध्यतावच्छेदक- तायाः पर्याप्तिनिवेशः। जातिर्वह्निमतीत्यत्र जातिमदभाववजातिका. लीनवन्यभावब्याप्यवजातिरूपविशिष्टेऽतिव्याप्तिः--जातिधर्मिक- जातिमदभाववत्तानिश्चयप्रतिवध्यतावच्छेदककोटावपि जातित्वरूपेण वह्नित्वावच्छिन्नप्रकारताया निवेशादिति तद्वारणाय प्रकारतावच्छे. दकतायाः पयाप्तिनिवेशः। तथाच पक्षतावच्छेदकतापर्याप्त्यधिकर. णधर्मपर्याप्तावच्छेदकताकप्रकारताशालिग्रहत्वपर्याप्तावच्छेदकताकप्र. तिबध्यतानिवेशे कांचनमयइदो वह्निमानित्यादी वह्नयभाकव्याप्यवद्ध- दादेरसङ्गह इति साहशानुमित्वव्यापकतानिवेशः इति। न च तादृश- विशिष्टेऽतिव्याप्तिवारणाय साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मा- वच्छिन्नविशेष्यतानिष्ठावच्छकताकप्रतिबध्यता निवेश्यतां न तु ताह. शानुमितित्वव्यापकत्वमिति वाच्यम् । हृदो वह्निमानित्यादौ वह्निघटो- भयवानिति प्रतिबन्धकशानविषयवह्नयभावव्याप्यव्याप्यघटविशि- ष्टवन्यभाववद्धदेऽतिव्याप्तिवारणाय सत्यन्तदलघटकप्रतिवध्यता- याम्प्रकृतानुमितित्वव्यापकतानिवेशस्यावश्यकत्वात् । ननु तथापि विशेष्यदलघटकप्रतिबध्यतायां पक्षविशेष्यतानिरूपितसाध्यप्रकारत्वा- वच्छिन्नत्वमेव निवेश्यतां लाघवादिति चेन्न । घटविशिष्टवन्यभावव्या. प्याभाववद्धदकालीनहदो वह्निमानित्यादौ घटविशिष्टवन्यभाववद्ध दकालीनहदो वन्हिमानित्यादौ घटविशिष्टवड्न्यभाववद्धदात्मका. श्रयासियादावतिव्याप्तिः सामानाधिकरण्यरण्यसम्बन्धन घटवि. शिष्टवाहिमानित्याकारकज्ञानत्वावच्छिन्न प्रतिबध्यतामादायाश्रयासि- .. अनुमानगादाधर्या क्रोडपत्रेषु द्धिप्रतिबध्यतामादाय च दलद्वयसत्वादिति प्राहुः॥ उन्नेये विरोध्यन्तविशेषण पर्वतो वह्निव्याप्याभाववानित्यादौ वहिव्याप्यवत्पर्वतादिरूपबाधस्य वारकमिति दीधितिकृतैव वक्ष्यते । तत्र तादृशग्रहनिष्ठप्रतिबध्यतानिवेशे पर्वतो वह्निव्याप्याभाव. वान् वह्नयभाववांश्चेत्याकारकसमूहालम्बनज्ञानविरोधिवह्निमत् पर्वताानायके उक्तबाध एवातिव्याप्तिस्ताहशग्रहत्वावच्छिन्नप्रतिबध्य. तानिवेशे च उक्तदिशैव दोषः स्यादिति तत्रापि तादृशग्रहत्वव्यापक- प्रतिबध्यता निवेशनीया इति। अत्रोनेयोनायकोभयत्राविरोध्यन्तकल्पे प्रतिवध्यतायामेकरूपावच्छिन्नत्वनिवेशकल्पे तु सत्यन्तदल एव तादृश. ग्रहत्वव्यापकप्रतिबध्यतानिवेशो बोध्यः न तून्नेयदलपि, एकरूपावच्छि- नप्रतिबध्यतानिवेशे सत्यन्तदले तादृशत्रहत्वव्यापकप्रतिबध्यतानि. वेशेनैवार्थादुन्नयदलेपि व्यापकतानिवेशकार्यनिर्वाहादित्यवधेयम् ॥६॥ विशिष्टसाध्यपक्षग्रहविरोधित्वशरीरे तादृशग्रहनिष्ठप्रतिबध्यता. निरूपित प्रतिबन्धकतानवच्छेदकत्वनिवेशे च काञ्चनमयह्रदो व- हिमानित्यादिस्थलीयबाधग्रहस्यानुमितिविशिष्टपक्षग्रहविरोधितया तत्स्थलीयसत्प्रतिपक्षाव्याप्तितादवस्थ्यमिति विशिष्टपक्षादिग्रहत्व. व्यापकतानिवेश इत्युक्तं भट्टाचार्येण | बाधलक्षणवदत्रापि उन्नेयदले पक्षसाध्यग्रहाविरोधित्वमित्यने. नैव उद्देश्यतावच्छेदकताविधेयतावच्छेदकतातिरिक्तप्रकृतपक्षे प्रकृत- साध्यवशिष्ट्यावगाहिविरोधीयविषयतान्तःपातिप्रकारत्वावच्छिन्नत्व- मेव प्रतिबध्यतायां निवेशनीयम्, तेन वह्निमान्हदो वह्निमानित्यादौ. प्रकृतपक्षग्रहविरोधिवइन्यभाववज्रदाधुन्नायके सत्प्रतिपक्षे नाव्याप्तिः। वस्तुतो वहन्यभावव्याप्याभाववन्यभाववद्धदो वह्निमानित्यादी वन्यभावव्याप्यवद्धदात्मकसत्प्रतिपक्षसङ्गहार्थमेवोक्तप्रकारश्चि- न्तनीयः । तत्र वयभावव्याप्यव्याप्यवद्धदात्मकाश्रयासिद्ध्युन्नाय. केतिव्याप्तिवारणाय पक्षग्रहाविरोधित्वनिवेशस्यावश्यकत्वात् । एतेन लक्ष्यभेदेन लक्षणस्य नानात्वाधत्र सत्प्रतिपक्ष एव विशिष्टपक्षग्रहवि. रोध्युन्नायकस्तत्रोन्नेयदले नादेयमेव पक्षमहाविरोधत्वविशेषणमित्यु. कावपि न निस्तार इति ध्येयम्। यत्नु महानसीयवहन्यभाववान् हृदो वह्नयभावव्याप्याभाववान् इत्यादौ वन्यभावव्याप्यव्याप्यवद्धदात्मकसत्प्रतिपक्षसंग्रहायोक्तप्र- सन्प्रतिपक्षप्रकरणम् । कारानुसरणम्। तत्र महानसयिवहन्यभावव्याप्यवद्धदात्मकाश्रयासि- ध्युन्नायकवारणाय पक्षमहाविरोधित्वानवेशस्यावश्यक वादिति । तत्तुच्छम् । प्रतिबध्यताया पक्षग्रहत्त्वव्यापकत्वनिवेशेनैवोक्ताति- व्याप्तिवारणसंम्भवे तत्रोक्तप्रकारानुसरणवैफल्यापत्तेः । अत्र एकत्र द्वय- मिति रीत्या वह्नयभाववह्नयभावव्याप्यव्याप्यवान् हद इति ज्ञानमादाय इदो वह्निमानित्यादौ वह्नभावव्याप्यव्याप्यवद्धदे चातिव्याप्तिवारणा- य प्रतिबन्धकताया जनकतायाश्चानतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं निवेशितं भट्टाचार्येण । तच्च यथाश्रुताभिप्रायेण । वस्तुतस्तु अव्यापाभूतविषयिताशून्यत्वनिवेशस्यावश्यकतया तादृशज्ञानमादाय दोषो न संभवत्येव, किन्तु वन्यभावव्याप्यव्याप्यव- कालीनइदो वह्निमानित्यादौ एकत्र द्वयमिति रीत्या वह्नयभाववह्नय. भावव्याप्यवान् तादृशहद इति ज्ञानमादाय वहन्यभाववत्ताशरूप- बाधेऽतिव्याप्तिवारणाय जनकतायामनतिरिक्तवृत्तित्वरूपमवच्छेदक- त्वं ग्राह्यम् तादृशज्ञाने हृहवृत्तिवह्नयभावव्याप्यव्याप्यवस्तुनो हदे भानादव्यापकीभूतवन्यभावव्याप्यव्याप्यवज्रदाादीवषयिताशून्य. त्वसत्त्वात् । एवं वह्नयभावव्याप्यकालीनहदो महानसीयवह्निमा- नित्यादौ वन्यभावव्याप्यमहानसीयवह्नयभाववान् तादृशहद इति ज्ञानविषये महानसीयवइन्यभाववत्तादृशहदेऽतिव्याप्तिवारणाया. प्यनतिरिक्तवृत्तित्वरूपं जनकतावच्छेदकत्वं वाच्यम् उक्तज्ञान- विषयीभूतवह्निसामान्याभावव्याप्यमहानसीयवह्नयभावरूपन्तु वि. शिष्टमप्रसिद्धम् । एवं यादृशयाशविशिष्टं प्रसिद्धं तद्विषयित्वं तु. दोषत्वेनाभिमतस्य विषयिताया व्यापकमेव इत्यव्यापकीभूतविषयिता- शून्यस्यापि तत्र सरवात्पर्वतो वह्नयभाववानित्यादी एकत्र द्वयमिति रीत्या वह्निव्याप्यव्याप्यवान्पर्वत इति शानमादाय वह्निव्याप्यव्याप्यवत्पर्वत- रूपसत्प्रतिपक्षोन्नायकेतिव्याप्तिवारणाय प्रतिबन्धकतावच्छेकत्वमनति रिक्तवृत्तित्वरूपं ग्राह्यम् । तादृशज्ञाने वह्नित्वेन पर्वतवृत्तिवहेभानात् अव्यापकीभूतविषयिताशून्यत्वात् इति । यद्यपि यद्रूपावच्छिन्नवि- षयितासामान्ये प्रतिबन्धकत्वजनकत्वयोः स्वरूपसम्बन्धरूपाव. च्छेदकत्वविवक्षयैवोक्तदोषवारणसंभवेऽनतिरिकवृत्तित्वनिवेशनमफ- लम् । तथापि हदो वह्निमानित्यादौ वन्यभावव्याप्यव्याप्यवान् वन्यभाववान् वन्यभावव्याप्यव्याप्यवांश्च हद इति ज्ञानीयज्ञान.
अनुमानगादाधर्याः क्रोडपत्रेषु वैशिष्ठ्यावच्छिन्नप्रतिबन्धकतावच्छेदकतया वहन्यभावव्याप्यव्याध्यव. वज्रदविषयितासामान्ये सत्प्रतिपक्षोन्नायकेऽतिव्याप्ति हेतुतावच्छेद- कघटितसत्प्रतिपक्षाव्याप्तिभिया प्रतिबन्धकतायां ज्ञानवैशिष्ट्यानव- च्छिन्नत्वनिवेशायोगात् । हेतुतावच्छेदकघटितसत्प्रतिपक्षश्च सङ्ग ह्यते चेत्यादिना दीधितिकारेण दर्शितः। एवं प्रतिबन्धकतायां ज्ञानवै. शिष्ट्यानवच्छिन्नत्वनिवेशेऽसाधारण्यवारकदीधितिकारोक्तसाध्य- व्यापकीभूताभावप्रतियोगित्वानवगाहित्वविशेषणश्च व्यमिति प्र. तिबन्धकतातवच्छेदकत्वमनतिरिक्तवृत्तित्वरूपमावश्यकम् । एवं ज- नकतावच्छेदकमपि तादृशमेव, अन्यथा स्वमते प्रतिबन्धकत्वजन- कत्वोभयस्मिन् याहशविशिष्टविषयिताव्यापकतायाः सकृन्निवेशापे- क्षया भवन्मते प्रतिबन्धकत्वे यादृशविशिष्टविषयिताव्यापकत्वस्य जनकतावच्छेदकत्वे यादृशविशिष्टविषयितात्वव्यापकत्वस्य निवेशे व्यापकताया द्विधा निवेशे महागौरवादिति । एतेन पक्षसाध्यवै- शिष्ट्यग्रहप्रतिबन्धकतावच्छेदकविषयिताकत्वरूपविरोधित्वान्तार्थस्यो- नायकविशेषणत्वे विषयिताभागस्य द्विधा निवेशेन गौरवादुन्नायक; ताघटकविषयितायामेव प्रतिबन्धकतावच्छेदकत्वं निवेशितम् भ. हाचार्येण । तन्न सङ्गच्छते । उक्तरीत्याऽनतिरिक्तवृत्तित्वरूपावच्छे- दकत्वनिवेशस्यावश्यकत्वे तदर्थश्च सामान्यलक्षणोक्तदोषात्प्रति- बन्धकत्वनिष्ठतादशविषयिताव्यापकत्वं जनकतानिष्ठतादृशरूपाव- च्छिन्नविषयित्वव्यापकत्वञ्च पर्यवस्यति, तथा चात्र विषयिताभा. गस्य द्विधा निवेशादिति ध्येयम् ॥ एवमुन्नेयदलप्रविष्टं प्रतिबन्धकतावच्छेदकत्वमपि अनतिरि- कवृत्तित्वरूपमेव न तु स्वरूपसम्बन्धविशेषः, तथासति पर्वत- विशेष्यकवाह्नव्याप्याभावप्रकारकज्ञानप्रतिबन्धकतावच्छेदकीभूतं य. द्वह्निमान् वहिव्याप्याभावाभाववान् वह्निमांश्च पर्वत इति ज्ञानीयवहिमपर्वतविषायित्वं तदवच्छिन्नानुमितिनिष्ठजन्यतानि- रूपितजनकतावच्छेदकविषयिताकवाहव्याप्यवत्पर्वतात्मके पर्व लो वह्विव्याप्याभाववन्ह्यभावव्याप्योभयवानित्यादिस्थलीयबाधेऽति- व्याप्तिः । ज्ञानवैशिट्यानवच्छिन्नत्वनिवेशे च गगनाभाववदभावध- त्कालीनगगनसाध्यकसत्प्रतिपक्षाव्याप्तिरिति ध्येयम् । असाधारणविरुद्धयोन्यतरस्य प्रतिपक्षविधया दोषत्वपक्षेप्रकृत- सत्प्रतिपक्षप्रकरणम् । साधने प्रकृतसाध्यध्यापकाभावप्रतियोगित्वाद्यनवगाहिपरामर्शो प्रा. ह्य इति शिरोमणिः । तथाच प्रकृतपक्षतावच्छेदकावच्छिन्न. पक्षे प्रकृतसाध्यतावच्छेदकावच्छिन्नाभावव्यापकाभावप्रतियोगित्व- विशिष्टप्रकृतसाध्यतावच्छेदकावच्छिन्नवैशिष्ट्यानवगाहिपरामर्शनि. प्टानुमितिजनकतावच्छेदकवियिताकत्वमुन्नायकत्वं विवक्षणीयमित्य- र्थः । रूपान्तरेण प्रकृतहेनोर्यत्र व्यतिरेकिहेतुता तत्स्थलीयप्रतिपक्ष- स्य सङ्ग्रहाय प्रकृतसाधनतावच्छेदकनिवेशः । रूपान्तरावच्छिन्न. साध्यव्यापकीभूताभावप्रतियोगित्वविशिष्टप्रकृतहेतुमत्पक्षकालीनत्व- स्य यत्र प्रकृतसाध्यतावच्छेदकघटकता तत्स्थलीयसाध्यतावच्छे. दकविशिष्टसाध्याभावव्याप्यवत्पक्षात्मकप्रतिपक्षसंग्रहाय प्रकृत- साध्यतावच्छेदकनिवेशः । प्रकृतसाध्यव्यापकाभावप्रतियोगित्ववि- शिष्टसाधनवत्त्वेन रूपान्तरावच्छिन्नपक्षस्य प्रकृतपक्षतावच्छेदके यत्र प्रवेशः तत्रत्यप्रतिपक्षस्य तादृशपक्षतावच्छेदकविशिष्टे सा. ध्याभावव्याप्यरूपस्य सङ्ग्रहाय प्रकृतपक्षतावच्छेदकनिवेश इति भट्टाचार्येणोक्तम्। अथात्र पक्षतावच्छेदकादौ प्रकृतत्वनिवेशे तद्भदपक्षकस्थले तद्वह्निसाध्यकस्थले तजलहेतुकस्थले च वह्विव्यापकीभूताभाव. प्रतियोगिजलवद्धदात्मकासाधारण्येऽव्याप्तिरिति चेन्न । प्रकृतप. क्षतावच्छेदकाद्यवगाहित्वपदेन प्रकृतपक्षतावच्छेदकातिरिक्तधर्मा- नवच्छिन्नविषयितानिवेशात् । न चैवं वह्निव्यापकीभूताभावप्रति- योगिजलवद्धदकालीनहदो वह्निमान् जलादित्यादौ वह्नयभावव्या. प्यवत्तादृशहदरूपसत्यतिपक्षऽव्याप्ति:- -हदत्वसामानाधिकरण्येन ता- दृशजलावगाहनेनाहार्यत्वाभावादिति वाच्यम् । सामानाधिकर- ण्येन साध्यकस्थले पक्षतावच्छेदकाद्यतिरिक्तधर्मानवच्छिन्नविशे. ध्यतानिरूपिततादृशविशेष्यतावच्छेदकव्यापकप्रतियोगिकहेतुताव- च्छेदकसंसर्गावच्छिन्नावगाहित्वाभावनिवेशेनाव्याप्त्यनवकाशात् । न चोक्तस्थले तादृशहदत्वावच्छेदेन साध्यतायां सत्प्रतिपक्षाव्याप्ति- तादवस्थ्यम् , अवच्छेदकावच्छेदेन साध्यतास्थलेऽप्युक्तरीत्या अ. वच्छेदकावच्छेदेनावगाहित्वाभावनिवेशे च सामानाधिकरण्येनासा. धारण्येऽतिव्याप्तिरिति वाच्यम् । अवच्छेदकावच्छेदेन साध्यकस्थले उक्तरीत्या अवगाहित्वाभावस्यैव सामानाधिकरण्येनातिव्याप्तिवार- ४६ अनुमानगादाधर्याः क्रोडपत्रेषु णार्थ पुनः पक्षतावच्छेदकावच्छिन्ने साध्यव्यापकाभावप्रतियोगि- हेतुमत्तागाहित्वाभावस्यापि स्वातंत्र्येण निवेशनीयत्वात् । तत्प्र- तियोगिकोटौ च पक्षविषयताया एव प्रकृतपक्षतावच्छेदकाव- च्छिन्नत्वेन निवेशः । साध्यादिावषयतायाश्च पूर्ववत् साध्यताव. च्छेदकाक्ततिरिक्तधर्मानवच्छिन्नत्वेनैव निवेशः। तेन ह्रदत्वावच्छेदेन महानसीयवहयादेः साध्यतायां ह्रदत्वसामानाधिकरण्येन वह्निः व्यापकीभूताभावप्रतियोगिजलवद्धदादौ नातिव्याप्तिरिति ध्येयम् । अथ तथापि पक्षतावच्छेदके प्रकृतत्वनिवेशे सर्व वह्निमज. लादित्यादौ वहिव्यापकीभूताभावप्रतियोगिजलवद्धदात्मकासाधा- रण्येऽतिब्याप्तिः सर्वत्वावच्छेदेन वाहमत्ताबुद्धिं प्रति किञ्चिद्धर्मा. वच्छिन्नविशेष्यकवह्नयभाववत्ताबुद्धेरिव वहिव्यापकीभृताभावप्रति. योगिजलवत्ताज्ञानस्यापि प्रतिबन्धकत्वादिति चेन्न । साध्यसाध. नादिभेदेन लक्षणस्य भेदात् । सर्वपक्षकस्थले पक्षतावच्छेदकम- निवेश्य किश्चिद्धर्मावच्छिन्नविशेष्यतानिरूपितताशप्रतियोगित्ववि. शिष्टविषयताशून्यत्वनिवेशेनैव दोषाभावादिति ध्येयम् ।। अथासाधारण्यस्यातिव्याप्तेरवश्यनिवेशनीयविशिष्टद्वयाघटित. त्वनिवेशेनैव तद्वारणसंभवात् प्रकृतसाधने प्रकृनसाध्यव्यापकाभा. वप्रतियोगित्वाद्यनवगाहित्वनिवेशनं व्यर्थम् इति । न च विशिष्ट- द्वयाघटितत्वनिवेशस्य कथमावश्यकतेति वाच्यम् । वह्नयभाववद्वय भावव्याप्यव्याप्यवत्कालीनवह्यभावव्याप्यव्याप्यवद्धदादौ अति. व्याप्तिवारणार्थमेव तस्यावश्यकत्वात् । नचैवं सत्प्रतिपक्षेऽव्या- प्तिः तस्य तादृशविशिष्टद्वयघटितत्वादिति वाच्यम् । विशिष्टद्वयाघ. टितत्वप्रविष्टविशिष्टद्वयविषयितायां सत्प्रतिपक्षघटकविशिष्टद्वय. विषयिताभेदस्थागत्या निवेशनीयत्वादिति चेत् । अत्राहुः-यादृशविशिष्टविषयकनिश्चयाविशिष्टयादृशविषयकनिश्च. यत्वं तादृशजनकतानतिरिक्तवृत्ति तादृशविशिष्टद्वयाघटितत्वमेव ताह- शविशिष्ठद्वयाघटितत्वपदेनात्र विवक्षणीयम्, अन्यथा जनकतानतिरि- तवृत्तित्वमनिवेश्य केवलप्रतिबन्धकतानतिरिक्तवृत्तित्वघटितविशिष्ट द्वयाघटितत्वनिवेशेजलवान् वह्नयभाववान् जलवांश्च इद इत्यादिज्ञानस्य नानाविधविषयतानां प्रतियोगिकोटौ निवेशनेन गौरवम् अन्वयव्यतिरे- कन्याप्तिघटितसत्प्रतिपक्षसाधारणासाधारणव्यावृत्तस्य सत्प्रतिपक्षत्व.
सत्प्रतिपक्षप्रकरणम् । स्य दुर्बचतया सत्प्रतिपक्षविषयिताबहिर्भूतत्वनिवेशायोगश्च, तस्य सु- वचत्वे तु तस्यैव लक्षणत्वसंभवे एतत्प्रयासवैफल्यात् । स्वमते तु सत्प्रतिपक्षात्मकविशिष्टमादाय दोषस्तु सामान्यनिरुक्तिपत्रिको तदिशा वारणीय इति ध्येयम् ॥ अथात्र लक्षणे हृदो वह्निमानित्यादौ वयभाववह्नयभावव्याप्य. व्याप्यउभयवद्धदेऽतिव्याप्तिः तद्विषयताया वह्निमध्रदविषयकग्रह- त्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिवन्धकतावच्छेदकत्वात् , तादृश- ग्रहत्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभृतवय- भावव्याप्यवद्ध्दत्वावाच्छन्नविषयित्वावीच्छन्नजन्यतानिरूपितज- नकतावच्छेदकत्वाञ्च । न च सत्यन्तघटकप्रतिबन्धकतायां ताह. शजनकतावच्छेदकविषयितात्वव्यापकावच्छेदकत्वनिवेशात्रोक्ताति- व्याप्तिः तादृशजनकतावच्छेदकीभूतवह्नयभावव्याप्यव्याप्यवद्ध्द- विषयितायास्तादृशप्रतिबन्धकतावच्छेदकत्वादिति वाच्यम् । प्रति- हेतुव्यापकत्वघटितसत्प्रतिपक्षेऽव्याप्तेर्जनकतावच्छेकीभूतसामाना. धिकरण्यविषयितायाः प्रतिवन्धकतानवच्छेदकत्वात् । सत्यन्तदलघ- टकप्रतिबन्धकतायां तादृशजनकतावच्छेदकविषयितावच्छेदकत्वनि- वेशे च यत्र सत्प्रतिपक्षघटको बाधस्तत्र साध्याभावव्याप्यसा- ध्याभावोभयवत्पक्षेऽतिव्याप्तिः। न च बाधघटितस्य सत्प्रतिपक्ष- त्वं न खीक्रियते तद्धटकबाधेनैव तत्कार्यनिर्वाहात् , हदः समा- नाधिकरणजलाभाववानित्यादौ जलव्यापकसमानाधिकरणजलसमा- नाधिकरणजलवद्धदात्मकबाधघटितसत्प्रतिपक्षसम्भवेऽपि तादृश- सत्प्रतिपक्षोन्नायकबाधोभयात्मके नातिव्याप्तिः ताशसत्प्रतिपक्ष- विषयिताया बाधविषयितानियतत्वेऽपि तादशसत्प्रतिपक्षोन्नाय- कविषयिताया वाधविषयिताशून्यवृत्तित्वेन बाधविषयितानियतत्वा- भावात् , सामान्याभावसाध्यकस्थले सामान्यघटितविशेषधर्मा- वच्छिन्नव्याप्यवत्पक्षस्यापि सत्प्रतिपक्षत्वेन लक्ष्यतया जलव्याप- कसमानाधिकरणजलव्याप्यवत्पक्षस्यापि सत्प्रतिपक्षतया विशि- शान्तराघटितत्वविरहाञ्चेति वाच्यम् । जलं अवृत्ति इत्यत्र जल. व्यापकवृत्तित्वसमानाधिकरणजलव्याप्यवृत्तित्वोभयवजले हदो वह्नि मानित्यादौ वह्नयभावव्यापकवह्नयभावसमानाधिकरणवह्नयभाववद्ध दादी चातिव्याप्तेस्तथापि दुर्वारत्वात् । एतेन सत्यन्तघटकप्रतिव- अनुमानगादाधर्याः क्रोडपत्रेषु न्धकतायां तादृशजनकतावच्छेदकीभूतमुख्यविशेष्यतात्वव्यापका वच्छेदकताकत्वनिवेशे सत्प्रतिपक्षोन्नायकबाधोभयात्मके नातिव्या- सिरित्यपि प्रत्युक्तम्-इदो वह्निमानित्यादावुक्तातिव्याप्तेरपरीहारात् । अत एव स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमि- तिप्रतिबन्धकतावच्छेदकविषयितावच्छेदकरूपावच्छिन्नजन्यतानिरू पितजनकतावच्छेदकीभूतविषयितानिरूपकतावच्छेदकधर्मावच्छिचा. घटितत्वनिवेशात् वह्नयभावव्याप्यव्याप्यवह्नयभावोभयवद्धदादौ ना: तिव्याप्तिःस्वावच्छिन्नाविषयकप्रतीतिविषयितावच्छेदकतादृशजनक' तावच्छेदकीभूतवह्नयभावव्याप्यव्याप्यवद्धदत्वावच्छिन्नघटितत्वादि- त्युक्तावपि न निस्तारः। दो वह्निमानित्यादौ वह्नयभावव्याप्यव्याप्यव. ध्रदादावुक्तातिव्याप्तेस्तावस्थ्यात् । हृदो वह्नयभावब्याप्यव्याप्यव- ध्रदकालीनवह्निमानित्यादौ तादृशवन्यभावव्याप्यवद्धदात्मकस- प्रतिपक्षे निरुक्तविशिष्टान्तराघटितत्वविशेषणेऽव्याप्त्यापत्तेश्च । न चोग्नेयविषयितायां प्रागुक्तयुक्त्या प्रकृतानुमितिप्रतिबन्धकतावच्छेदक त्वस्यापि निवेशितत्वेन उक्तातिव्याप्तीनां प्रसाक्तिरेव नेति वाच्यम् । तावतापि वहिव्याप्याभाववद्वन्यभाववत्कालीनवाहव्याप्यवान् इत्या- दिमागुक्तस्थल एव वन्यभावव्याप्याभावोमयवद्धदे वन्यभाव- ध्याप्यव्याप्याभाववज्रदे चातिव्याप्तर्दुवारत्वादिति चेत् । अत्र ब्रूमः-मेयत्वविशिष्टसत्प्रतिपक्षेऽतिव्याप्तिवारणाय सत्यन्त- दलघटकप्रतिबन्धकतायां विशिष्टान्तरविषयकत्वानवच्छिन्नत्वमवश्यं निवेशनीयम् । तदर्थश्च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदक- त्वे सति स्वघटकतावच्छेदकं यद्रूपं स्वावच्छिन्नविषयकत्वव्यापकत्व. सम्बधेन तद्रूपविशिष्टान्यत्वं, तथाच साध्याभावव्याप्यव्याप्यसाध्या. भावोभयवत्पक्षादौ साध्याभावव्याप्यव्याप्यसाध्याभाववत्पक्षादौ च नातिव्याप्तिसभवः तत्तद्विशिष्टविषयकज्ञाननिष्ठप्रतिबन्धकतायां स्वा. वच्छिन्नाविषयकज्ञाननिष्ठप्रतिबन्धकतायां स्वाच्छिन्नाविषयकप्रतीति- विषयताच्छेदकस्वघटकतावच्छेदकं यद्वाधत्वंतद्विशिष्टान्यत्वाभावात् । बाधघटितसत्प्रतिपक्षे च बाधप्रतिबन्धकताभिन्नव्याप्यवत्तानिश्चय त्वावच्छिन्नप्रतिबन्धकतान्तरमस्तीति तामादायैव च लक्षणसमन्वयः। स्वघटकतावच्छेदकत्वेन विशेषणात् प्रतिहेतुब्यापकताघटितसत्प्रति. पक्षबानीयप्रतिबन्धकतायाः प्रतिहेतुव्यापकसाध्याभावसमानकाली- सत्प्रतिपक्षप्रकरणम् । ३६५ नत्वादिघटितविशिष्टविषयकत्वव्यापकत्वेऽपि तत्र नाव्याप्तिरिति ध्येयम् ॥ केचित्तु विशिष्टान्तराघटितत्वविशेषणेनैव उक्तस्थले नातिव्या. तिः, तथाहि-विशिष्टान्तराघटितत्वं विशिष्टान्तरविषयितात्वव्यापकरू. पानवच्छिन्नस्वावच्छिन्नविषयितानिष्ठप्रयोजकताकप्रयोज्यतावत्प्रकृत- पक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्वाभावाधिकरणताकत्वम् । विशिः टान्तरं च स्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकप्रकृतानुमि. तिप्रतिबन्धकतानतिरिक्तवृत्तिविषयितानिरूपकतावच्छेदकधर्मवत्त्वम्। तथाच वन्यभावव्याप्यव्याप्यवन्यभावोभयवद्धदादौ वन्यभा. वव्याप्यव्याप्यवन्यभाववध्रदादौ च नातिव्याप्ति--तादृशइदत्वाव- च्छिन्नविषयितानिष्ठायाः साध्यवैशिष्ट्यावगाहित्वाभावाधिकरण- ताप्रयोजकतायास्तादृशविशिष्टान्तरवहन्यभाववद्धदत्वावच्छिन्नवि- षयितात्वरूपावच्छिन्नत्वात् । न च वृत्तित्वं निरूपितत्वाभाववदित्यादौ अभाववदवृत्तित्वघटितसत्प्रतिपक्षे जलमधिकरणत्वाभाववदित्यादी व्यापकसामानाधिकरण्यरूपव्याप्तिघटितसत्प्रतिपक्षे चाव्याप्तिस्तयो. धिघटितत्वेऽपि तद्विषयितानिष्ठप्रयोजकतायास्तादृशबाधविषयि. तात्वव्यापकरूपानवच्छिन्नत्वात् । न चैवं प्रतिहेतुव्यापकताघटितसत्प्र. तिपक्ष विषार्यतानिष्ठप्रयोजकतायास्तादृशविशिष्टान्तरप्रतिहेतुमत्प- क्षविषयितात्वव्यापकरूपावच्छिन्नत्वादतिव्याप्तिरिति वाच्यम् । तादृशविशिष्टान्तरविषयकप्रतिहेतुव्यापकसाध्याभावसमानाधिकरण- प्रतिहेतुविषयताविशिष्टान्यत्वसाध्याभावधर्मिकप्रतिहेतुव्यापकतानि- श्चयघटकधर्मावच्छिन्नप्रयोजकत्व उभयाभाववत्त्वविशषणेनैव तद्वार- णात् । विषयितावैशिष्ट्यं च स्वनिरूपितत्वस्वतादात्म्यान्यतरसम्ब- धेन। मेयत्वविशिष्टप्रतिहेतुव्यापकसाध्याभावसमानाधिकरणहेतुमत्प- क्षेऽतिव्याप्तिवारणाय वैशिष्ट्यघटकसम्बन्धे निरूपितत्वान्तर्भावः । मेयत्वपक्षवृत्तिप्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेताव- तिव्याप्तिवारणाय तादात्म्यनिवेश इत्याहुः । तन्मन्दम् । उक्तरीत्या विशिष्टान्तराघटितत्वनिवेशे हृदः समाना. धिकरणजलाभाववानित्यादौ जलव्यापकसमाधिकरणजलसमानाधि. करणजलवद्धदात्मकसत्प्रतिपक्षेऽव्याप्तेस्तादृशसत्प्रतिपक्षविषयिता- निष्ठप्रयोजकतायाः समानाधिकरणजलवद्धदात्मकतादृशविशिष्टा- अनुमानगादाधर्याः क्रोडपत्रेषु न्तरविषयितात्वव्यापकरूपावच्छिन्नत्वात्। न च यद्रूपेण प्रतिबन्धक- तावच्छेदकता तद्रूपेणैव प्रयोजकतयैव सत्प्रतिपक्षविषयितायाः प्रति बन्धकतावच्छेदकत्वं प्रतिहेतुव्यापकसाध्याभावनिश्चयकालीनज्ञानी. यप्रतिहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपितविशेष्यतात्वेनैव तस्य च निरुक्तबाधविषयतात्वव्यापकत्वविरहेणाव्याप्तिविरह इति वाच्यम् । समानाकारकज्ञानीयविषयताया ऐक्येन प्रतिहेतुव्यापकतानिश्चयका- लीननिश्चययिबाधविषयत्वयोरभेदात् प्रतिहेतुव्यापकतानिश्चयका- लीनप्रतिहेतुमत्पक्षविषयतात्वे निरुक्तबाधविषयतात्वव्यापकत्वस्या- क्षतत्वात् , अन्यथा सत्प्रतिपक्षघटकहेतुमत्पक्षविषयताप्रकारकरू- पावच्छिन्नप्रयोजकत्वाप्रसिद्धयेवाव्याप्तिवारणसम्भवे सत्प्रतिपक्षघट- कहेतुमत्पक्षस्य विशिष्टान्तरत्ववारकस्य विशिष्टान्तरत्वशरीरे अनु. मितिप्रतिबन्धकतावच्छेकत्वनिवेशस्य वैयर्थ्यापत्तेः। अत एव विशिष्टा. न्तरायटितत्वं स्वविषताप्रयोज्यविशिष्टान्तरविषयत्वाप्रयोज्यप्रकृत- पक्षसाध्यवैशिष्ट्यम् विशिष्टान्तर च पूर्वोक्तमेव । विशिष्टान्तरवि- षयतानिष्ठप्रयोजकत्वं प्रागुकान्यतरसम्बन्धेन प्रतिहेतुव्यापक- साध्याभावसमानाधिकरणहतुविषयताविशिष्टान्यविषयतावृत्तित्वप्र. तिहेतुव्यापकतानिश्चयघटितधर्मावच्छिन्नत्वोभयाभाववत्त्वेन विशेष- णीयम् । तेन प्रतिहेतुव्यापकसाध्याभावकालीनत्वादिघटितविशिष्टा- न्तरमादाय न पूर्वोक्ताव्याप्तिः । एवं चोक्तविशिष्टान्तराघटितत्वविर- हादेव बाधसत्प्रतिपक्षोन्नायकोभयात्मकादौ न प्रागुप्तातिव्यातिरिति प्रलपितमप्यपास्तम् । बाधघटितसत्प्रतिपक्षेऽव्याप्तेर्वज्रलेपत्वादि. त्यलं वाग्जालेनेति॥ इति श्रीकालीशङ्करसिद्धान्तवागीशविरचितं सत्प्रतिपक्षप्रकरणम् ॥ समाप्तोऽयं गादाधरीक्रोडपत्रसङ्ग्रहः ।।
हरिदाससंस्कृतग्रन्थमालासमाख्य- काशीसंस्कृतसीरीज़ पुस्तकमालाः । - इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राची- नाः नवीनाश्च दुर्लभाः मुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृ- तपाठशालीयः पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां ग्रन्थानां मूल्यं सूचीपत्रे प्रकाशिनं वर्तते। परं तु एतस्या नियमेना:- विच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः (कमिशन) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि । रु.आ.पा. १ नलपाकः नलविरचितः । संपूर्णः ( पाकशास्त्रम् १) २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृता- ऽन्वयार्थबोधिनीटीकासहितम् । ( वेदान्तं १) १०-०-० ३ वैशेषिकदर्शनम् । सटीक-प्रशस्तपादभा- व्योपस्काराभ्यां समन्वितम् । ( वैशेषिकं १) ३-८-० ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधराद्याचार्य- कृतभाष्यत्रयेण टिप्पण्या च समलङ्कतम् (वैदिकं १) ०-६-० ५ लघुशब्देन्दुशेखरः चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। (व्याकरणं १) १०-०- ६ कारिकावली मुक्ता दिनः राम शब्दखण्डसहिता तथा "गुणनिरूपण" दिनकरीय महामहोपाध्याय पं० श्रीलक्ष्मण- शास्त्रीव्याख्यासहिता। (न्यायं १) ६-०-० ७ पञ्चीकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटी. कया-तत्त्वचन्द्रिकासमवेतविवरणेन च समन्वितम् । (वेदान्तं २) ०-८-० ८ अलङ्कारप्रदीपः पण्डितवर विश्वेश्वर- पाण्डेयनिर्मितः। (काव्यं १) ०--८-4 ९ अनङ्गरङ्गः महाकविकल्याणमल्लविर- चितः। ( कामशास्त्रं १) ०-१२-० १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। [ज्यो०१]२-०-० कांशीसंस्कृतसीरीज़ । तत्र मुद्रितमन्थनामानि रु.आ.पा. ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध- शौच-सान-भोजन-कल्पसहितम्। [कर्म०१] ०-८-० १२ पुरुषसूक्तम्। सायणमाम्य-महीधर भाष्य-मंगलभाष्य-निम्बार्कमतभाग्यचतु- ष्टयसहितम् । (वैदिकं २) १--४-० १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविर- चितभाष्येण नीलकण्ठीव्याख्ययाच संवलितम्। [वे०३] १-४-- १४ कुमारसंभवं महाकाव्यम् । महाकवि श्रीकालिदास. वि० । सञ्जीवनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । ( काव्यं२) २-०- १५ श्रुतबोधश्छन्दोग्रन्थः । - आनन्दवर्द्धिनीतात्पर्यप्र. कामाख्यसंस्कृत-भाषाटीकासहितः [छंद. १] ०-६-० १६ कारिकावली मुक्तावली-न्यायचन्द्रिका- टीकाद्वयसहिता सटिप्पणा । (न्याय २) १-०- १७ पारस्करगृह्यसूत्रं हरिहरभाष्य-गदाधरभाष्यद्वय. सहितम् । (कर्मकाण्ड २) २-४-० १८ संक्षेपशारीरकम्-मधुसूदनीटीका भाग १ ( वेदान्तं ४) १९ लघुजटिका-अर्थात् आभिनवा परिभाषेन्दु शेखरपरिष्कृतिनिर्मितिः। २० कातीयष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् (स्तोत्रवि) १-०-० २२ बौद्धाऽऽचार्य श्रीधर्मकीर्तिघ्रणीतः सटीक- न्यायबिन्दुः भाषाटीकासहितः (बौद्धन्याय वि०१) १-८-० २३ सपरिष्कृत दर्पणसहित वैयाकरणभूषण- सारः (व्याकरणं वि०३) जयकृष्णदास-हरिदासगुप्तः पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज आफीस, विद्याविलास प्रेस, गोपालमंदिर लेन, १० नवम्बर १९२४. बनारस सिटी।
THK ICHOWKHAMBA SANSKRIT SERIES; A COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NO'S. 285, 293, 309 & 324. क्रोडपत्रसङ्ग्रहः। Registerea dccording to act XXV. of 1867. (All Rights Reserved.) श्रीकालीशङ्करसिद्धान्तवागीशविरचितानि HEPTANMAT: THITARATIETETTİ: HANISATAYTI: SYERIT NIFI IR TETIT कायाः कुसुमाखलेश्च क्रोडपत्राणि । KRODAPATTRASANGRAHA or Critical Notes On Anumånajàgadisi, Pratyakshânumânagâdâdhari, Pratyakshanumánamáthuri, Vyutpattiváda, Ŝaktiváda, Muktivâda, Sabdasaktiprakásiká and Kusumánjali By Kalisankara Siddhanta Vagisa. Edited by Mahamahopadhyaya Nyâyâchârya Vámácharana Bhattacharya, Professor, Govt. Sanskrit College, Benares, aud P. Dhundiraj Shastri, N. U., K. I. vol. II FASCICULUS IV-y. PUBLISHED & SOLD BY THE SECRETARY CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES. AGENTS:-OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, Benares. 1924
No text on this page.
No text on this page.
30000000000000000
विशेष-सूचना।
हमारे यहां हर तरह की संस्कृत पुस्तकें मै
भाषा टीका के हरवक्त तैय्यार रहती हैं इसके
अलावे हर तरह की छपाई तथा जिल्द के
बंधाई का कार्य भी होता है।
0000000000000000000000000000000000000000
90000000000000000000000000000000000000000000000000000000
नीचे लिखे पते पर पत्र व्यवहार करें।
जयकृष्णदास-हरिदासगुप्तः-
चौखम्बा संस्कृत सीरीज आफीस ।
विद्याविलास प्रेस, गोपालमंदिर लेन ।
बनारस सिटी।
1000000000000
No text on this page.
No text on this page.
No text on this page.