Scl

Sanskrit Gadhy Padhy Sangraha Vol I

Sri Brahaspati Shastry

PDF Proofread

Front matter

No text on this page.

॥श्रीः॥
* हरिदास-संस्कृत-ग्रन्थमाला
२४३
संस्कृत-गद्य-पद्य-संग्रहः
प्रथमो भाग:
(विहार-संस्कृत-समितेः नवीनपाठ्यक्रमानुसार
प्रथमपरीक्षापाठ्यग्रन्थः)
सम्पादकः
श्रीबृहस्पतिशास्त्री
V
चौखम्बा-संस्कृत-पुस्तकालय, बनारस-१
M
--
वि.सं.२.१.]
मूल्यम् १)
[.१९५३

प्रकाशक जयकृष्णदास हरिदास गुप्ता, चौखम्बा-संस्कृत-सीरिज आफिस, पो० बाक्स नं०८,बनारस The Chowkhamba Sanskrit Series Office. P. 0, Box 8, Banaras. 1953 (प्रथमसंस्करणम् ) विद्याबिलासप्रेस, बनारस- सम्पादकीयम् साम्प्रतं संस्कृत-भाषायां मूल-संग्रहग्रन्थानां प्रायोऽभावमेवानुभवामि । नहि सर्वः मूलसंस्कृतसाहित्यस्यागावस्याऽध्ययनं साकल्येन कतुं पार्यते । न च तदध्ययन- मन्तरा कालिदास-माध-वाणादिकवीनां कलाभिः परिचयो भवितुमर्हति । संस्कृता- ध्ययनपराः अपि बहवरछात्राः बृहदाकाराः कालिदास-माघ-वाणादि कविकृती: सम्यक् परिशीलयितुं नैव शक्नुवन्ति । अतो येन स्वल्पायासेन स्वल्पेन च कालेन सर्वेषामेव प्रसिद्धकवीनां तवचनानाञ्च बालः परिचयम्प्राप्नुयादिति बुध्या सम्पादितोऽयं संग्रहः छात्राणां संस्कृताध्येतृणाञ्चोपकाराय कल्पिम्यते इति श्राशासे । अत्र हि संग्रहे प्रायशः सर्वेषामेव प्रसिद्धकवीनां प्रधानमन्वानां सुन्दराणि, मनोहराणि, सदुपदेशपराणि च स्थलानि संगृहीतानि । एतादृशं क्रमवद्धं सर्वेषा. मेव गद्यपद्ययोः ग्रन्थानां प्रतिनिधिस्वरूपं संस्कृत-संग्रह-पुस्तकं नैव प्रकाशितपूर्व मिति मन्ये । अन्यासु भाषासु एतादृशानां संग्रहप्रन्यानां नास्त्यभावः । किन्तु संस्कृते तु नैताशमेकमपि पुस्तकं दृष्टम् । अत्र वेदेभ्य आरभ्य सर्वेषामेव प्रधानकवीनां प्रायः उदाहरणभूताः अंशाः समुद्धृताः सन्ति । तत्रापि च कालक्रमेण कवीनां तदचनानाञ्च सङ्कलन प्रधान वैशिष्टयमेतस्य संग्रहस्य । अत्र तुस्तके भागद्वयं वर्तते-गयभागः पद्यभागन्धेति । उभयत्रापि कालानुसारं कवीनां क्रमो निर्धारितः येन सुगमतया छात्राः कवीनां पूर्वापरत्वं जानीयुः, संस्कृत-गद्य-पद्ययोः क्रमिकविकाशस्य च ज्ञानं लमेरन् । अस्य संग्रहस्यावलोकनेन स्पष्टमेव शैली-वैलक्षण्यं विलोक्यते । अत्रोद्धृतेषु सन्दर्भेषु प्रायः सन्धि-विच्छेदं विधायापि पदानि लिखितानि येन छात्राणां सौकयं भवेत् । बहुषु स्थलेषु मूलप्रन्थस्य वाक्यानां सरलेन वाक्येन विपरिणामोऽपि कृतः । यथावसरं यथास्थानं च परिवर्तनं परिवर्धनश्च कृतं मूल- अन्येषु, सौविध्यदृष्टया । प्रायः सरला एव सन्दर्भाः अत्रोद्धृताः कठिनांशा अपि परिवर्तनेन सारस्यमापादिताः । आशासे यदयं संग्रहः संस्कृताध्येतॄणां छात्राणां सम्यगवबोधाय संस्कृत-साहित्य- परिचयाय च पर्याप्तो भविष्यति । प्रकाशने त्वराकारणात् काचित्काः मुद्रण-भ्रमाः स्खलन-समाधान-शीलैः सद्धिविद्वद्भिः क्षन्तव्याः । विदुषां विधेयः- सम्पादक:

विषयसूची पृ० " विषयाः ईशस्तुतिः हरिश्चन्द्रोपाख्यानम् अश्वमेधशब्दार्थः अमृतस्वप्राप्तिः नाम्नामाख्यातजत्वम् गुरुभक्तिः गावतरणम् वासुदेवस्य दौत्यम् दारिद्रयदुःखम् शब्दानुशासनप्रयोजनानि अहुलीयकप्राप्तिः पञ्चतन्त्रम् शिवेः उपाख्यानम् वर्षासमयवर्णनम् गद्यभागः विषयाः शुकजन्मकथा २ अपुत्रस्य विषादः ५ मातमचरितम् परोपकारः वीरविग्रहः पुत्रस्नेहः ब्रह्म एव जगतः कारणम् १३ कृतककलह १५ लुब्धपान्यकथा बुद्धिबलम् १९ संसर्गजा दोषगुणा भवन्ति २२ २४ कर्तव्यपरायणःदौवारिकः २५ | भूषणकवेः शिवराजेन परिचयः ४७ ६१ पद्यभागः ६५ । शरवर्णनम् ६७ । कपिलानमवर्णनम् ६७ | सेवाधर्मः स्थाने नियोगः उद्बोधनम् त्रिविक्रमः दशावतारवर्णनम् वैदिकस्तुतयः प्रगति-प्रशंसा उपनिषद्वचनामृतम् मूलरामायणम् रामहनूमत्संवादः सीतापरित्यागः सीतायाःपातालप्रवेश पण्डितमूढलक्षणानि सदागर: शिवपार्वतीसंवादः सिंहदिलीपसंवादः ૭૨ ७४ १० / सूक्तिसंग्रहः ८२ | सुभाषितानि ८४ । कूटानि

॥ श्रीः॥
संस्कृत-
गद्यपद्य-सङ्ग्रहः
गद्यभाग:
ईश-स्तुतिः
विश्वानि देव सवितर् दुरितानि परासुव। यद्भद्रं तन्न श्रासुव ॥१॥ (वेदः)
भद्रं कर्णेभिः शृणुयाम देवाः, भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेमहि देवहितं यदायुः ॥२॥ (वेदः)
संगच्छध्वं संवध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्व संजानाना उपासते ॥३॥ ( वेदः)
समानी व श्राकृतिः समाना हृदयानि वः।
समानमस्तु वो मनो यथा वः सुसहासति ॥४॥(वेदः)
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥५॥ (वेदः)
कल्याणानां निधानं कलिमलमथनं, पावनं पावनानाम् ।
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।
विश्रामस्थानमेकं कविवरवचसा जीवनं सजनानाम् ।
बीजं धर्मद्रुमस्य प्रभवतु, भवतां भूतये रामनाम ॥६॥

संस्कृत-गद्यपद्य-सङ्ग्रहः त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम, त्वया ततं विश्वमनन्तरूप ॥७॥ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुगरीयान् । न त्वत्समोऽस्त्यभ्यधिक कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावाचा त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देव-देव ॥६॥ प हरिश्चन्द्रोपाख्यानम् (ऐतरेयब्राह्मणतः) [संस्कृतसाहित्ये वेदेभ्यः पश्चात् ब्राह्मणानि जातानि । अत एव प्राचीनतम गयस्वरूपं ब्राह्मणेष्वेवोपलभ्यते । तत्रापि ऐतरेयब्राह्मणस्य प्राथम्यात् तत एवेयं कण्डिका समुद्धृता] हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा अपुत्र आस | तस्य ह शतं जाया बभूवुः । तासु पुत्रं न लेभे । तस्य ह पर्वतनारदौ गृहे ऊपतुः । स ह नारदं पप्रच्छ। 'यं विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न । किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारद इति ।। एकया पृष्टः दशभिः प्रत्युवाच:- 'ऋणमस्मिन् संनयत्यमृतत्वं च गच्छति । पिता पुत्रस्य जातस्य पश्येञ्चेजीवतो मुखम् ॥ १॥ यावन्तः पृथिव्यां भोगाः यावन्तो जातवेदसि । प्राणिनां भूयान् पुत्रे पितुस्ततः॥२॥ शश्वत् पुत्रेण पितरोऽत्यायन् बहुलं तमः। आत्मा हि जज्ञे आत्मनः स इरावत्यतितारिणी ॥३॥ यावन्तो अप्सु गद्यभागः ३ किन्नु मलं किमजिनं किमु श्मश्रूणि किं तपः । पुत्रं ब्रह्माण इच्छध्वं स वै लोको वदावदः ॥४॥ अन्नं हा प्राणः शरणं ह वासो रूपं हिरण्यं पशवो विवाहाः। सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन् ॥ ५॥ नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः । एष पन्थाः उरुगायः सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः ॥६॥ तं पश्यन्ति पशवो वयांसि च ॥ अथैनमुवाच:-'वरुणं राजानमुपधाव, पुत्रो मे जायताम् , तेन त्वा यजा इति । तथेति । स वरुणं राजानमुपससार, पुत्रो मे जायताम् । तेन त्वा यजा इति । तथेति । तस्य पुत्रो जज्ञे, रोहितो नाम | तं होवाचाजनिर्वै ते पुत्रो यजस्त्र मामनेनेति । स होवाच :--'यदा वै पशुः निर्दशो भवति अथ स मेथ्यो भवति । निर्दशो नु अस्तु | अथ त्वा यजा इति । तथेति । स ह निर्दश आस । तं होवाच:-'निर्दशोऽन्वभूत्। यजस्व मा अने- नेति । स होवाच :-'यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति । दन्ता न्वस्य जायन्तामथ त्वा यजा इति ।' तथेति । तस्य ह दन्ता जज्ञिरे । तं होवाच:-'अज्ञत वाऽस्य दन्ताः । यजस्व मा अनेनेति । स होवाच :-'यदा वै पशोदन्ताः पद्यन्ते अथ स मेध्यो भवति । दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति ।' तथेति । तस्य ह दन्ताःपेदिरे। तं होवाच:-'अपत्स्यन्त वा अस्य दन्ताः । यजस्व मा अनेनेति ।' स होवाच :-'यदा वै पशोर्दन्ताः पुनर्जायन्ते, अथ स मेथ्यो भवति । दन्ताः न्वस्य पुनर्जायन्तामथ त्वा यजा इति ।' तथेति । तस्य ह दन्ताः पुनर्जज्ञिरे । तं होवाच:-'अज्ञत वाऽस्य पुनर्दन्ताः । यजस्व मा अनेनेति । स होवाच:-'यदा वै क्षत्रियः सान्नाहुको भवति, अथ स मेध्यो भवति । सन्नाहं तु प्राप्नोतु अथ त्वा यजा इति । तथेति । सह सन्नाहं प्रापत्तं होवाच:-सन्नाहं तु प्राप्नोत् , यजस्व मा अने- - संस्कृत-गद्यपद्य-सङ्ग्रहः नेति ।' स तथेत्युक्त्वा पुत्रमामन्त्रयामास | ततायं वै मह्यं त्वामदात् । हन्त त्वया ह मित्रं यजा इति। स हि नेत्युक्त्वा धनुरादायारण्यमुपतस्थौ । स संवत्सरमरण्ये चचार । अथ हैवाकं वरुणो जग्राह । तस्य होदरं जज्ञे। तदु हि रोहितः शुश्राव । सोऽरण्याद् प्राममेयाय | तमिन्द्रः पुरुषरूपेण पर्येत्योवाचः- 'नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम , पापो नृपवर जन इन्द्र इञ्चरतः सखा चरैवेति । द्वितीयं संवत्सरमरण्ये चचार सः। तृतीयं संव- सरमरण्ये चचार | चतुर्थं संवत्सरमरण्ये चचार | पञ्चमं संवत्सरम- रण्ये चचार | षष्ठं संवत्सरमरण्ये चचार | सोऽजीगत सौयवसिमृषि- मशनया परीतमरण्य उपेयाय । तस्य ह त्रयः पुत्राः आसुः। शुनः पुच्छः, शुनः शेपः, शुनो लाल इति । तं होवाच:--'ऋषेऽहं ते शतं ददामि । अहमेषामेकेनात्मानं निष्क्रीणा इति ।' स ज्येष्ठं पुत्रं निगृहान उवाच, नत्विममिति, नो एव इममिति, कनिष्ठं माता तौ ह मध्यमे सम्पा- दयाश्चक्रतुः, शुनः शेपे । तस्य ह शतं दत्त्वा तमादाय सः अरण्यात् ग्राम- मेयाय । स पितरमेत्योवाच, तात, हन्त, अहमनेन आत्मानं निष्क्रीणा इति । स वरुणं राजानमुपससार, अनेन त्वा यजा इति । तथेति । भूयान् वै ब्राह्मणः क्षत्रियात् इति वरुण उवाच । तस्मै एतं राजसूयं यज्ञ-क्रतुं प्रोवाच तमेतम् अभिषेचनीये पुरुषं पशुमालेभे । तस्य विश्वामित्रो होता आसीत् । जमदग्निः अध्वर्युः । वशिष्ठो ब्रह्मा । अयास्यः उद्गाता | तस्मै उपाकृताय नियोक्तारं न विविदुः । स ह उवाच अजीगतः सौयवसिः-'मह्यमपरं शतं दत्त, अहमनेन नियो- क्ष्यामीति' तस्मै अपरं शतं ददुः । सः असि निःशान एयाय | अथ ह शुनः शेपः ईक्षाञ्चक्रे । अमानुषमिव वैमा विशसिष्यन्ति । हन्त, अहं देवता उपधावामीति । तस्य ह ऋचि ऋचि उक्तायां विपाशोमुमुचे । कनीय ऐक्ष्वाकस्य उदरं भवति। उत्तमस्यामेव ऋचि उक्तायां विपाशो मुमुचे, अमर ऐक्ष्वाक आस ।

गद्यभागः ५ अश्वमेधशब्दार्थः [इयं कण्डिका शतपथब्राह्मणात् गृहीता । ऐतरेयब्राह्मणादर्वाचीनत्वमस्य ब्राह्मणस्य प्रतीयते । अश्वमेधशब्दस्य को हि वास्तविकोऽर्थः किञ्च तात्पर्यमिति स्पष्टी- कृतमत्र]। अपि ह वा एतहि देवेभ्योऽश्वमेधमालभन्ते, तदाहुः प्राकृतः अश्वमेध इति । इतरमित नूनं सा तद्धा एष एव अश्वमेधः यच्चन्द्रमाः। तदाहुः पदे पदे अश्वस्य मेध्यस्य आहुति जुह्वतीति । स यत् सायं प्रातः अग्निहोत्रे जुहोति, वे सायमाहुती जुहोति, द्वे प्रातः, ताः चतस्रः आहुतयः, चतु- पाद् वा अश्वः, तस्य पदे पदे एव आहुतिः हुता भवति । तद् आहुः विवृत्ते अश्वस्य इष्टिं निर्वपति इति, एष वै सोमो राजा देवानामन्नं यश्चन्द्रमाः स यत्र एष एताः रात्रिं न पुरस्तान्न पश्चात् ददृशे तद् इमं लोकम् आगच्छति, स अस्मिन् लोके विवर्तते । स यदमावास्येन यजते, विवृत्त एव अस्य एतदिष्टिं निर्वपति, अथ यत् पौर्णमासेन यजते अश्वमे- धमेवैतत् आलभते, तमालभ्य देवेभ्यः प्रयच्छति । संवत्सरे वा इतरम- श्वमेधमालभन्ते, एष वै मासः परिप्लवमानः संवत्सरं करोति । तद् अस्य संवत्सरे संवत्सरः एव अश्वमेधः आलब्धो भवति । तं वा एतं मासि मासि एव अश्वमेधमालभन्ते । स यो ह एवं विद्वान् अग्निहोत्रं जुहोति, दर्शपूर्णमासाभ्यां च यजते मासि मासि ह एव अस्य अश्वमेधेन इष्टं भवति । एतद् ह अस्य अग्निहोत्रं च दर्शपूर्णमासौ च अश्वमेधमभि- सम्पद्यते । अमृतत्वप्राप्तिः [अयं गद्यभागः मैत्रेयी-याज्ञवल्क्य-संचादरूपः बृहदारण्यकोपनिषदः उद्धृतः। अस्याः उपनिषदः प्राधान्यं प्रख्यातम् । याज्ञवल्क्यस्य पत्नी मैत्रेयी याज्ञवल्क्यं पृच्छति यत् , किं धनेन अमृतत्वप्राप्तिः संभवति न वा । याज्ञवल्क्यः तां सम्यक् उपदिशति ।] अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः । मैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव, स्त्रीप्रज्ञैव तर्हि कात्यायनी । अथ ह ६ संस्कृत-गद्यपद्य-समहः याज्ञवल्क्यः अन्यत् वृत्तमुपाकरिष्यन्-'मैत्रेयीति' ह उवाच याज्ञवल्क्यः- 'प्रव्रजिष्यन् वा अरे अहमस्मात् स्थानादस्मि । हन्त ते अनया कात्यायन्या अन्तं करवाणि इति ।' सा ह उवाच मैत्रेयी:-'यन्नु मे इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् , स्यां नु अहं तेन अमृता आहो नेति ? 'नेति' ह उवाच याज्ञवल्क्यः-'यथैव उपकरणवतां जीवितं तथैव ते जीवितं स्यात् , अमृतत्वस्य तु न आशा अस्ति वित्तेनेति ।' सा ह उवाच मैत्रेयी:-'येन अहं न मृता स्यां किमहं तेन कुर्याम् ? यदेव भगवान वेद, तदेव मे ब्रूहि इति ।' स ह उवाच याज्ञवल्क्यः 'प्रिया वै खलु नो भवती सती प्रियमपृच्छत् । हन्त तर्हि भवति एतद् व्याख्यास्यामि, व्याचक्षाणस्य तु मे निदिध्यासस्व इति । स ह उवाच:-'न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्म- नस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रियाः भवन्ति, आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति, आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रियाः भवन्ति, आत्मतस्तु कामाय पशवः प्रियाः भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति, आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति, आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रियाः भवन्ति, आत्मनस्तु कामाय लोकाः प्रियाः भवन्ति । न वा अरे देवानां कामाय देवाः प्रियाः भवन्ति, आत्मनस्तु कामाय देवाः प्रियाः भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रियाः भवन्ति, आत्मनस्तु कामाय वेदाः प्रियाः भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति, आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व प्रियं भवति, आत्मनस्तु कामाय सर्व प्रियं भवति । आत्मा वा अरे द्रष्टव्यः, श्रोतव्यो, मन्तव्यो, निदिध्यासितव्यः, मैत्रेयि, आत्मनि खलु अरे दृष्टे, श्रुते, मते, विज्ञाते इदं सर्व विदितम् ।

गद्यभाग: ७ , नाम्नामाख्यातजत्वम् यास्कः [ई० पू०-७००] [ यास्कस्य निरुक्तं गयेनैव निमितमस्ति । इदमपि प्राचीनतमस्य गद्यस्योदाह- रणरूपम् । अतः ततोऽपि कियानंशः उध्रियते । अत्र सर्वाणि नामानि आख्यात- जानि, यौगिकानि, घातुप्रत्ययसंयोगेन निष्पन्नानीति निश्चीयते । ] सर्वाणि नामानि आख्यातजानि इति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्यो वैयाकरणानां चैके। तत् यत्र स्वर-संस्कारौ समर्थों प्रादेशिकेन गुणेन अन्वितौ स्यातां संविज्ञातानि तानि । यथा-गौः, अश्वः, पुरुषः, हस्तीति । अथ चेत् सर्वाणि आख्यातजानि नामानि स्युः यः कश्च तत्कर्म कुर्यात् सर्व तत् सत्त्वं तथा आचक्षीरन् । यः कश्च अध्वानम- नुवीत, अश्वः स वचनीयः स्यात् । यत् किंचित् तृन्द्यात् , तृणं तत् । अथापि चेत् सर्वाणि आल्यातजानि नामानि स्युः यावद्भिः भावैः सम्प्र- युज्यते तावद्भ्यः नामधेयप्रतिलम्भः स्यात् । तत्रैवं स्थूणा, दरशया, वा सखनी च स्यात् । अथापि य एषां न्यायवान् कार्मनामिकः संस्कारः यथा चापि प्रतीतार्थानि स्युः तथैतानि आचक्षीरन् पुरुषं पुरिशय इत्या- क्षीरन् , अष्टा इति अश्वं, तदनमिति तृणम् । अथापि निष्पन्ने अभिव्या- हारे अभिविचारयन्ति प्रथनात् पृथिवी इत्याहुः। कः एनाम् अप्रथयि- ष्यत् , किम् आधारश्चेति । अथ अनन्विते अर्थे अप्रादेशिके विकारे पदेभ्यः पदेतरार्धान् सञ्चस्कार शाकटायनः, एतेः कारितश्च यकारादिश्च, अन्तकरणमस्तेः शुद्धश्च सकारादिश्च । अथापि सत्वपूर्वो भाव इत्याहुः, अपरस्माद् भावात् पूर्वस्य प्रदेशो नोपपद्यते इति तदेतन्नोपपद्यते । , संस्कृत-गधपद्य-सङ्ग्रहः गुरुभक्तिः महाभारतात [ई० पू०-५००] [अयं गद्यांशः महाभारतस्य आदिपर्वतः उद्धृतः। अत्र आरुणः गुरुभक्तः प्रसिद्धा कथा वर्णिता अस्ति। गुरुः शिष्यस्य भक्ति-परीक्षां करोति स्म । तत्र त्रयाणां शिष्याणां भक्तोः परीक्षायाः कथा अघस्तात् विलिख्यते ।] आरुणिः एतस्मिन्नन्तरे कश्चिद् ऋषिः धौम्यो नाम आयोदः। तस्य शिष्याः त्रयः बभूवुः, उपमन्युः, आरुणिः, वेदश्चेति । स एकं शिष्यमारुणि पाञ्चाल्यं प्रेषयामास । गच्छ, केदार-खण्डं बधान इति । उपाध्यायेन संदिष्टः आरुणिः पाञ्चाल्यः तत्र गत्वा तत् केदार-खण्डं बदु नाशक्नोत् । स क्लिश्यमानः अपश्यद् उपायम् | भवतु एवं करिष्यामीति । स तत्र संवि- वेश केदारखण्डे । शयाने तस्मिन् तदुदकं तस्थौ। ततः कदाचिद् उपाध्यायः आयोदो धौम्यः शिष्यान् अपृच्छत् । क आरुणिः .पाञ्चाल्यो गत इति । ते प्रत्यूचुः भगवतैव प्रेषितः, गच्छ, केदार-खण्डं .बधान इति । स एवमुक्तः तान् शिष्यान् प्रत्युवाच | तस्मात् सर्वे तत्र .गच्छामो यत्र स गत इति । स तत्र गत्वा तस्य आह्वानाय शब्दं चकार । भो आरुणे, पाञ्चाल्य, कासि वत्स, एहीति । स तद् श्रुत्वा आरुणिः उपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसा उत्थाय तमुपाध्यायमुपत- स्थे । प्रोवाच चैनम् :-'अयमस्मि अत्र केदार-खण्डे निस्सरमाणमुदक- मवारणीय संरोर्बु संदिष्टः भगवद्शब्दं श्रुत्वैव सहसा विदार्य केदार- खण्डम् भवन्तमुपस्थितः। तदभिवादये भगवन्तम् । आज्ञापयतु भवान् किं करवाणीति ।' तमुपाध्यायोऽब्रवीत् :-'यस्माद् भवान् केदार-खण्ड- मवदार्य उत्थितः तस्मात् भवान् उद्दालक एव नाम्ना भविष्यतीति ।' स उपाध्यायेन अनुगृहीतः-'यस्मात् त्वया मद्वचोऽनुष्टितं तस्मात् श्रेयोऽवा- स्यसीति | सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि च धर्मशास्त्राणीति ।' स एवमुक्तः उपाध्यायेन इष्टं देशं जगाम | - गद्यभागः ६ उपमन्युः अथ अपरः शिष्यः तस्यैव आयोदस्य धौम्यस्य उपमन्युः नाम । तमुपाध्यायः प्रेषयामास । 'वत्स, उपमन्यो, गाः रक्षस्वेति । स उपाध्याय- वचनादरतद् गाः। स च अहनि गाः रक्षित्वा दिवसक्षये अभ्यागम्य उपाध्यायस्य अग्रतः स्थित्वा नमश्चक्रे । तमुपाध्यायः पीवानमपश्यत् । उवाच चैनम्-'वत्स, उपमन्यो ! केन वृत्तिं कल्पयसि ? पीवानसि दृढमिति ।' स उपाध्यायं प्रत्युवाच :-'भैक्ष्येण वृत्तिं कल्पयामीति ।' तमुपाध्यायः प्रत्युवाच-'मामनिवेद्य भैक्ष्यं नोपभोक्तव्यमिति ।' स तथेत्युक्त्वा पुनः अरक्षद् गाः । रक्षित्वा चागम्य तथैव उपाध्या- यस्य अग्रतः स्थित्वा नमश्चके । तमुपाध्यायः तथापि पीवानमेव उवाच:-'वत्स, उपमन्यो ! सर्वं ते अशेषतः भैत्यं गृह्णामि | केन इदानी वृत्तिं कल्पयसीति ?' स एवमुक्तः उपाध्यायेन प्रत्युवाच :- 'भगवते निवेद्य पूर्वम् , अपरं चरामि । तेन वृत्तिं कल्पयामीति ।' तमु- पाध्यायः प्रत्युवाचः-'नैषा न्याय्या गुरुवृत्तिः। अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः, लुब्धोऽसीति ।' स तथेत्युक्त्वा गाः अरक्षत् । रक्षित्वा च पुनः उपाध्यायगृहमागम्य उपाध्यायस्य अग्रतः स्थित्वा नमश्चक्रे । तमुपाध्यायः तथापि पीवानमेव दृष्ट्वा पुनरुवाचः-'अहं ते सर्व भैक्ष्यं गृह्णामि, न च अन्यत् चरसि, पीवानसि । केन वृत्तिं कल्पयसीति ?' स उपाध्यायं प्रत्युवाचः-'भोः एतासां गवां पयसा वृत्तिं कल्पयामीति ।' तमुपाध्यायः प्रत्युवाच:- 'नैतन्न्याय्यं पय उपभोक्तुं भवतो मयाऽननुज्ञातमिति ।' स तथेति प्रतिज्ञाय गाः रक्षित्वा पुनरुपाध्यायगृहान् उपेत्य गुरोरप्रतः स्थित्वा नमश्चके । तमुपाध्यायः पीवानमेव अपश्यत् । उवाच चैनम् :- 'भैक्ष्यं नाश्नासि, न चान्यत् चरसि | पयो न पिबसि । पीवानसि । केन वृत्ति कल्पयसीति ' स एवमुक्तः उपाध्यायं प्रत्युवाच:-'भोः फेनं पिबामि । यमिमे वत्साः मातृणां स्तनं पिबन्तः उद्गिरन्तीति ।' तमुपाध्यायः प्रत्युवाचः-'एते त्वद्नुकम्पया गुणवन्तो वत्साः प्रभूत- १० संस्कृत-गद्यपद्य-सङ्ग्रहः तरं फेनमुद्रिन्ति । तदेवमपि वत्सानां वृत्त्युपरोधं करोषि एवं वर्तमानः । फेनमपि भवान्न पातुमहतीति ।' स तथेति प्रतिज्ञाय निराहारः ताः गाः अरतत् । तथा प्रतिषिद्धो भैल्यं नाश्नाति । न चान्यच्चरति । पयो न पिबति । फेनं नोपयुते । स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राणि अभक्षयत् । स तैः अर्कपत्रैः क्षारकटूष्ण- विपाकिभिः चक्षुषि उपहतः अन्धः अभवत् । स अन्धोऽपि चक्रम्य- माणः कूपे अपतत् । अथ तस्मिन् अनागच्छति उपाध्यायः शिष्यानवोचत्:-'मया उप- मन्युः सर्वतः प्रतिषिद्धः । स नियतं कुपितः । ततो नागच्छति । चिरग- तश्चेति ।' स एवमुक्त्वा गत्वा अरण्यम् उपमन्योराह्वानं चक्रे । 'भो उपमन्यो ! क्वासि वत्स! एहीति' । स तदाह्वानम् उपाध्यायात् श्रुत्वा प्रत्युवाच उच्चैः-'अयमस्मि भो उपाध्याय, कूपे पतित इति' ? स तं प्रत्युवाच :-'अर्कपत्राणि भक्षयित्वा अन्धीभूतोऽस्मि । अतः कूपे पतित इति' तमुपाध्यायः प्रत्युवाच:-'अश्विनौ स्तुहि । तौ त्वां चक्षुष्मन्तं करिष्यतः देवभिषजौ इति । स एवमुक्तः उपाध्यायेन स्तोतुं प्रचक्रमे देवी अश्विनौ वाग्भिः ऋग्भिः। एवं तेन अभिष्टुतौ अश्विनौ आजग्मतुः। आहतुश्च एनम्-'प्रीती स्वः । एष ते अपूपः। अशान एनमिति ।' स एवमुक्तः प्रत्युवाच: 'नानृतमूचतुः भवन्तौ । नत्वहमेतमपूपमुपयोक्तुमुत्सहे, अनिवेद्य गुरवे इति ।' ततः तमश्विनौ ऊचतुः- 'आवाभ्यां पुरस्ताद् भवतः उपाध्यायेनैव अभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः । उपमुक्तश्च तेन, अनिवेद्य गुरवे । त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ।' स एवमुक्तः पुनरेव प्रत्युवाच एतौः-'प्रत्यनुनये भवन्तावश्विनौ । नोत्सहे अहमनिवेद्योपाध्यायायोपयोक्तुमिति' । तमश्विनावाहतुः-'प्रीती स्वः तव अनया गुरुवृत्त्या | उपाध्यायस्य ते कार्णायसाः दन्ताः। भवतः हिरण्मयाः भविष्यन्ति । चक्षुष्मान् च भविष्यसि । श्रेयश्वावाप्यसीति ।' स एवमुक्तः अश्विभ्यां लब्धचक्षुः उपाध्यायसकाशमागम्य उपाध्यायम- भिवाद्याचचक्षे । स चास्य प्रीतिमानअभूत् । आह चैनम्:-'यथा अश्विनौ ।

गद्यभागः आहतुः तथा त्वं श्रेयोऽवाप्स्यसीति । सर्वे च ते वेदाः प्रतिभास्यन्ति ।' एषा तस्यापि परीक्षा उपमन्योः । वेदः अथापरः शिष्यस्तस्यैव आयोदस्य धौम्यस्य वेदो नाम | तमुपाध्यायः संदिदेशः–'वत्स वेद ! इहास्यताम् | भवता मद्गृहे कश्चित् काल शुश्रू- षमाणेन भवितव्यम् । श्रेयस्ते भविष्यतीति । स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् । गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्-तृष्णा-दुःखसहः सर्वत्राऽप्रतिकूलः । तस्य महता कालेन गुरुः परितोषं जगाम | तत्परितोषाच श्रेयः सर्वज्ञतां च अवाप। एषा तस्यापि परीक्षा वेदस्य। स उपाध्यायेनानुज्ञातः समावृत्तः तस्मात् गुरुकुलवासात् गृहाश्रम प्रत्यपद्यत । तस्यापि स्वगृहे वसतः त्रयः शिष्याः बभूवुः । स शिष्यान् न किंचिदुवाच । कर्म वा क्रियतां गुरुशुश्रूषा वेति । दुःखाभिज्ञो हि गुरुकुल- वासस्य | शिष्यान् क्लेशेन योजयितुं न ईयेष | - गङ्गावतरणम् विष्णुपुराणात् (चतुर्थेऽशे चतुर्थोऽध्यायः) [ई० पू० ४५०] पराशर उवाच-कश्यप-दुहिता सुमतिः, विदर्भराजतनया च केशिनी, द्वे भार्ये सगरस्य आस्ताम् । ताभ्यां च अपत्यार्थमाराधितः और्वः परमेण समाधिना वरमदात् । एका वंशधरम् एकं पुत्रम् , अपरा षष्टिं पुत्र-सहस्राणि जनयिष्यतीति । यस्याः यदभिमतं तदिच्छया गृह्यताम् इत्युक्ते केशिनी पुत्रमेकं सुमतिः षष्टिं पुत्रसहस्राणि बने । तथेति च ऋषिणाभिहिते अल्पैरेव अहोभिः एका एकम् असमञ्जसं नाम वंशधरं पुत्रमसूत केशिनी, विनता-तनयायाः तु सुमत्याः षष्टिः पुत्रसहस्राण्य- भवन् । तस्मादसमञ्जसः अंशुमान् नाम कुमारो जज्ञे । स तु असमञ्जः १२ संस्कृत-गद्यपद्य-सङ्ग्रहः बाल्यादेव अपवृत्तः पिता चास्य अचिन्तयत् यद् अयमतीतबाल्यः बुद्धि- मान् भविष्यतीति । अथ तत्रापि वयसि अतीते तच्चरितमेव एनं पिता तत्याज | तान्यपि षष्टिः कुमारसहस्राणि असमञ्जसमनुचक्रः । ततश्च अस- मञ्जसः चरितानुकारिभिः सागरैः अपध्वस्तयज्ञादिसन्मार्गे जगति, देवाः सकलविद्यामयमसंस्पृष्टम् अशेषदोषैः भगवतः पुरुषोत्तमस्य अंशभूतं कपि- लम् ऋषि प्रणम्य तदर्थमूचुः-भगवन् एभिः सगरतनयैः असमञ्जसः चरि- तम् अनुगम्यते । कथमेवम् एभिः अनुसरद्भिःजगभविष्यतीत्यातं जगत्- परित्राणाय च भगवतः अत्र शरीरकरणमिति आकर्य भगवान् अल्पैरेव दिनैः एते विनंत्यन्तीति उक्तवान् | तत्रान्तरे च सगरो हयमेधमारेभे। तत्र पुत्रैः अधिष्ठितमस्य अश्वं कोऽपि अपहृत्य भुवो विवरं प्रविवेश । ततश्च अश्वान्वेषणाय तनयान् युयोज | ततः तनयाश्च अतिनिर्बन्धेन वसुधातलम् एकैकः योजनं योजनमवनेः चखान | . पाताले च अश्वं परिभ्रमन्तमवनिपतिनन्दनाः ते ददृशुः । नातिदूरस्थितं च भगवन्तम् अपघने शरत्काले अर्कमिव तेजोभिः अनवरतम् ऊर्ध्वमधश्च अशेष- दिशः उद्भासयमानं कपिलम् ऋषिमपश्यन् । ततश्च उद्यतायुधाः दुरात्मा अयमस्मदपकारी यज्ञविधातकर्ता, हयहर्ता, हन्यतां हन्यतामित्यधावन् । ततश्च तेनापि भगवता किंचित् ईषत्परिवर्तितलोचनेन अवलोकिताः स्वशरीरसमुत्थेन अग्निना दह्यमानाः विनेशुः । सगरोऽपि अनुगम्य अश्वानुसारि तत्पुत्रबलमशेष परमर्षिकपिल-तेजसा दग्धमंशुमन्तम् असमञ्जसः पुत्रमश्वानयनाय चोदयामास । स तु सगरतनय-खात- मार्गेण कपिलमुपगम्य भक्तिनम्रः तथा तथा तुष्टाव यथा एवं भगवान् आह:-'गच्छ, एवं पितामहाय अश्वं प्रापय, वरं वृणीष्व च । पुत्रपौत्रश्च ते स्वर्गाद् गङ्गामानयिष्यतीति । अथ अंशुमानपि, ब्रह्मदण्डहतानाम् अस्मत् पितॄणां स्वर्गाय अस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं भग- वान् प्रयच्छतु इत्याह । तं च आह भगवान्-'उक्तमेव एतन्मया पुत्रस्ते त्रिदिवाद् गङ्गां भुवमानयिष्यतीति । तदंभसा संस्पृष्टेषु अस्थिभस्मसु एते स्वर्गमारोक्ष्यन्तीति ।' भगवद्विष्णुपादांगुष्ठविनिर्गतजलस्य हि तत् यत् न केवलमभिसंधि- पूर्वकं स्नानाधुपभोगेषूपकारकम् अनभिसंहितमपि अपेतप्राणस्य अस्थिचर्म- गद्यभागः १३ स्नायुकेशादि उत्सृष्टं शरीरज यद् भूपतितं सद्यः शरीरिणं स्वर्ग नयती- त्युक्तः, प्रणम्य च भगवते अश्वमादाय पितामहयज्ञमाजगाम | सगरोऽपि अश्वमादाय तं यज्ञं समापयामास | सागरं च आत्मज- प्रीत्या पुत्रत्वे कल्पयामास | तस्यापि अंशुमतः दिलीपः पुत्रोऽभवत् । दिलीपस्यापि भगीरथो योऽसौ गङ्गां स्वर्गादिहानीय भागीरथीसंज्ञा चकार। श्रीवासुदेवस्य दौत्यम् दूतवाक्यात महाकविः भासः (ई० पू०-४००) [ सर्वेषु नाटककारेषु प्राचीनतमोऽयं भासः । अयमंशः भासरचितात् दूतवाक्य- मिति नामधेयात् व्यायोगात् उद्धृतः । अत्र महाभारतीया कया वणिता। श्रीकृष्णः- वासुदेवः पाण्डवानां दूतो भूत्वा दुर्योधनस्य सभायामागच्छति । राज्याधं च दायाचं दुर्योधनं याचते, किन्तु दुर्योधनः दातुं नेच्छति ।] कञ्चुकी :- जयतु जयतु महाराजः । एष खलु पाण्डवशिविराद् दौत्येन आगतः पुरुषोत्तमो नारायणः । दुर्योधनः-मा तावत् भो वादरायण ! किं किं स कंसभृत्यः दुर्योधनः तव परुषोत्तमः ? स गोपालकः तव पुरुषोत्तमः ? आः सत्वरं निगच्छ, ममपुरतः। कञ्चुकीः-प्रसीदतु प्रसीदतु महाराजः । दूतः प्राप्तः केशवः । दुर्योधनः-भोः, सम्यक् कथयसि साम्प्रतम् । भो भो राजानः ! योऽस्य केशवस्य कृते प्रत्युत्थास्यति, तमहं दण्डयिष्यामि | वादरायण ! प्रवेशय अधुना तं दूतम् । कञ्चुकी:-यद् आज्ञापयति महाराजयः । ( इति निर्गच्छति) दुर्योधनः-वयस्य कर्ण, अद्य कृष्णमतिः स कृष्णः पाण्डवानां दौत्येन १४ संस्कृत-द्यपद्य-सङ्ग्रहः अत्रागच्छति | युधिष्ठिरस्य नारो मृदूनि वचनानि श्रोतुं, त्वमपि कर्णी सज्जय। (ततः प्रविशति वासुदेवः कञ्चुकी च) वासुदेवः-( स्वगतम् ) कथं कथं मां विलोक्य संभ्रान्ताः सर्वे राजानः ? (प्रकाशम् ) अलमलं संभ्रमेण | ननु स्वैरमासतां भवन्तः । दुर्योधनः-(स्वगतम् ) कथं कथं केशवं दृष्ट्वा संभ्राताः सर्वे नृपाः? (वासुदेवं ) प्रति भो दूत ! एतदासनम् आस्यताम् । वासुदेवः-आचार्य ! आस्यताम् । श्रीभीष्मप्रमुखा राजानः! स्वैर- मासतां श्रीमन्तः । वयमप्युपविशामः । दुर्योधनः-भो दूत ! धर्मात्मजः, वायुसुतो भीमः, इन्दुपुत्रो मे भ्राता अर्जुनः, विनीतौ च तौ नकुलसहदेवौकञ्चित् सन्ति सर्वे कुशलिनः ? वासुदेवः-सदृशमेतत् गान्धारीपुत्रस्य | कुशलिनः सर्वे । भवतो राज्ये शरीरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः- - अनुभूतं महद्दुःखं, सम्पूर्णः समयश्च सः। अस्माकमपि धम्यं यद् दायाधं तत् विभज्यताम् । दुर्योधनः-कथं कथं दायद्यमिति ? देवात्मजास्ते नैवार्हन्ति दायाद्यम्। चासुदेवः-भो राजन् ! मा मैवम् । एवं परस्परविरोधस्य विवर्धनेन कुरुकुलं शीघ्रमेव नामशेषं भविष्यति । अत एव क्रोधं वैरश्च अपहाय तदेव भवान् कर्तुमर्हति यत् त्वां युधिष्ठिरमुखाः प्रणयात् कथयन्ति । दुर्योधनः-मनुष्याणां देवात्मजैः सह कथं बन्धुता भवेत् ? भवन्तस्तु पिष्टपेषणमेव कुर्वन्ति ! अस्य विषयस्य तु कथाऽपि न कर्तव्या । वासुदेवः–भो दुर्योधन ! न जानीषे तावदर्जुनस्य पराक्रमम् । पशु- पतिमपि स युद्धेनाप्रीणयत् । इन्द्रादयोऽपि यस्य विक्रमं नितरां प्रशंसन्ति । स महावीरो देवेन्द्रार्तिकरान् निवात-कवचान् नाम दैत्यान लीलयैव व्यनाशयत् । एक एव च विराड-नगरे भीष्मादीन् महारथिनोऽ- बहुना:- जयत् । किं -

गद्यभागः
१५
दातुमर्हसि मद्वाक्यात् राज्या, धृतराष्ट्रज
अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ।।
दुर्योधनः-कथं कथं हरिष्यन्ति हि पाण्डवाः ? भो परुष-वचन-दक्ष !
शृणु तावत्-यदि युद्धे भीमरूपो मारुतोऽपि मां प्रहरति, साक्षात्
अर्जुनरूपेण च इन्द्रश्च प्रहरति, तथापि त्वद्वचोभिः तृणमपि न दास्ये किं
पुनः राज्यार्धम् ।
वासुदेवः-एवमेवास्तु नि वयमनुक्तसंदेशाः गन्तुमिच्छामः। तदा-
कयंतां युधिष्ठिरस्य सन्देशः--
शठ, बान्धव-निःस्नेह, काम, पामर, पिङ्गल !
त्वदर्थात् कुरुवंशोऽयम् अचिरानाशमेष्यति ॥
भो भो राजानः ! गच्छामो वयं तावत् ( इति निर्गच्छति )
दारिद्रय-दुःखम् ।
मृच्छकटिका ।
शूद्रकः ।
(ई० पू०-२००)
[अयमधस्तनः सन्दर्भः महाकवेः शूद्रकस्य मृच्छकटिकनामधेयात् नाटकात्
उद्धृतः । अयं हि कविः भास-कालिदास-परवर्ती । इदं नाटकं भासस्य चारुदत्तेति-
नामधेयस्य अपूर्णस्य चतुरङ्कात्मकस्यैव कथामादाय रचितम् । अतः अत्र साम्य
दृश्यते स्पष्टमेवोभयोः । पूर्व धनिकः पश्चाद् दरिद्रः चारुदत्तः ऊर्ध्वमालोक्य सनिर्वेद
यावद् निश्वसीति तावत् विदूषकः प्रविश्य]-
विदूषकः-एष आर्यचारुदत्तः । तद् यावत् साम्प्रतमुपसामि ।
(उपसृत्य ) स्वस्ति भवते । वर्धतां भवान् ।
चारुदत्तः-अये सर्वकालमित्रं मैत्रेयः प्राप्तः ? सखे, स्वागतम् ।
आस्यताम् ।
विदूषकः-भो इदं किं चिन्त्यते ?

संस्कृत-गद्यपद्य-सङ्ग्रहः चारुदत्त:-वयस्य! सुखं हि दुःखान्यनुभूय शोभते, धनान्धकारेष्विव दीप-दर्शनम् । सुखात्तु यो याति नरो दरिद्रताम् , धृतः शरीरेण मृतः स जीवति ॥ विदूषकः-भो वयस्य ! मरणाद् दारिद्रथाद् वा कतरत्ते रोचते ? चारुदत्तः-वयस्य! दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् । अल्पलशं मरणं दारिद्रथमनन्तकं दुःखम् ।। विदूषकः--भो वयस्य ! अलं सन्तापितेन । प्रणयिजनेषु सक्रामित- विभवस्य सुर-जन-पीत-शेषस्य प्रतिपञ्चन्द्रस्येव परिक्षयोऽपि ते रमणीयः। चारुदत्तः-न मम अर्थान् प्रति दैन्यम् । पश्य:- एतत्तु मां दहति यद् गृहमस्मदीयं, क्षीणार्थमित्यतिथयः परिवर्जयन्ति | संशुष्कसान्द्रमदलेखमिव भ्रमन्तः, कालात्यये मधुकराः करिणः कपोलम् ॥ विदूषकः-भो वयस्य ! एते खलु दास्याः पुत्राः अर्थ-कल्य-वर्ताः, वरटा-भीताः इव गोपालदारकाः अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति । चारुदत्तः-वयस्य! सत्यं न मे विभवनाशकृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।। एतत्तु मां दहति नष्टधनाश्रयस्य, यत् सौहृदादपि जनाः शिथिली भवन्ति । अपि च:- दारिद्रयाद् ह्रियमेति ह्रीपरिगतःप्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवानिर्वेदमापद्यते ॥

गद्यभागः निर्विएणः शुचमेति शोकपिहितो बुद्धथा परित्यज्यते, निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ विदूषकः-भो वयस्य ! तमेव अर्थ-कल्यवत्त स्मृत्वा अलं सन्तापितेन। चारुदत्तः--वयस्य, दारिद्रयं हि पुरुषस्य- निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजन-जन-विद्वेष-करणम् । वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवो हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ तद् वयस्य, कृतो मम देवताभ्यो वलिः, गच्छ त्वमपि चतुष्पथे मातृभ्यो वलिमुपाहर। २ संस्कृत-गद्यपद्य सङ्ग्रहः शब्दानुशासन-प्रयोजनानि पतञ्जलिः (ई०पू०-१५०) [श्रयं हि स्वल्पः अंशः पतन्जलिकृतात् महाभाष्यादुद्धृतः । अत्र शब्दानु- शासनस्य-व्याकरणशास्त्रस्य-किं प्रयोजनमिति संक्षेपेण प्रतिपादयति भगवान् भाष्यकारः पतजलिः।] कानि पुनः शब्दानुशासनस्य प्रयोजनानि ? रक्षोहागमलध्वसन्देहाः प्रयोजनम् । रक्षार्थ वेदानाम् अध्येयं व्याकरणम् , लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यति । अहः खल्वपि, न सर्वैः लिङ्गैः न सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः ते च अवश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः । तान् न अवैयाकरणः शक्नोति यथायथं विपरिणमयितुं, तस्माद् अध्येयं व्याकरणम् । आगमः खलु अपि भवति-ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति । प्रधा- नश्च षडङ्गेषु व्याकरणं, प्रधाने च कृतो यत्नः फलवान् भवति । लध्वर्थं च अध्येयं व्याकरणम् । ब्राह्मणेन अवश्यं शब्दाः ज्ञेयाः इति । न चान्तरेण व्याकरणं लघुना उपायेन शब्दाः शक्याः विज्ञातुम् । असन्देहार्थं चापि अध्येयं व्याकरणम् । याज्ञिकाः पठन्ति स्थूलपृषतीम् आमिवारुणीम् अनड्वाहीमालभेत इति । तस्यां सन्देहः-स्थूला चासो पृषती च स्थूलपृषती, स्थूलानि वा पृषन्ति यस्याः सा इयं स्थूलपृषती इति, तां न अवैयाकरणः स्वरतः अध्यवस्यति । यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिः । अथ समासान्तोदात्तत्वं ततः तत्पुरुषः इति ।

गद्यभागः
१४
अङ्गुलीयकमाप्तिः
( अभिज्ञानशाकुन्तला )
कालिदासः
(ई०पू० प्रथमशताब्दी)
[ राजा दुष्यन्तेन शकुन्तलाय दत्तं निजस्मारक स्वरूपम् अङ्गुलीयकं तस्याः
हस्तात् नद्यां पतितम् । तच्च केनचित् मत्स्येन खादितम् । स च मस्यः केनचित्
निषादेन धृतः खण्डशः कृतश्च । तस्मिन् खण्डशः क्रियमाणे तस्य उदरात् तद्
अङ्गुलीयकं निःसृतम् । तदादाय गच्छन् धीवरः राजपुरुषैः चौर इति कृत्वा धृतः
राज्ञे निवेदितश्च ।
(ततः प्रविशति नागरिकः श्यालः, पश्चाद् बद्धं पुरुषम् श्रादाय रक्षिणौ च)
रक्षिणौ-(पुरुषं ताडयित्वा) कुम्भीरक! कथय कुत्र त्वया एतद्
मणिबन्धनोत्कीर्णनामधेयं राजकीयम् अङ्गुलीयकं समासादितम् ?
पुरुषः-(भीति नाटयित्वा ) प्रसीदन्तु भावमिश्राः! अहं नेशकर्मकारी।
प्रथमः-तत् किं त्वं शोभनः ब्राह्मणः इति कृत्वा राज्ञा प्रतिग्रहः दत्तः?
पुरुषः-शृणुत इदानीम् । अहं शक्रावतारग्रामवासी धीवरः ।
द्वितीयः-पाटचर (चौर !) किमस्माभिः जातिः पृष्टा ?
श्यालः-कथयतु सर्वमनुक्रमेण | मा एनमन्तरा प्रतिबधान ।
उभौ-यद् आवुत्तः आज्ञापयति । 'कथय ।
पुरुषः-अहं जालोद्गालादिभिःमत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि।
श्यालः-( विहास्य ) विशुद्धः इदानीसस्याजीवः।
पुरुषः-
सहज किला व विनिन्दितम्
नहि तत्कर्म विवर्जनीयकम् ।

संस्कृत-गद्यपद्य-सङ्ग्रहः पशुमारणकर्मदारुणः अनुकम्पामृदुरेव श्रोत्रियः ॥ श्यालः-ततः ततः? पुरुषः-अथ एकस्मिन् दिवसे रोहितमत्स्यः मया खण्डशः कल्पितः । तस्य उदराभ्यन्तरे इदं रत्नभासुरम् अङ्गुलीयं दृष्टवान् | ततोऽहं तस्य विक्रयाय दर्शयन् भावमित्रैः गृहीतः। अधुना मारयत वा कुट्टयत वा । अयमेव अस्य श्रागम-वृत्तान्तः। श्यालः-जानुक ! विस्रग्रन्धी, गोधादी, मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शनीयम् । राजकुलमेव गच्छामः । रक्षिणौ तथा गच्छ अरे ग्रन्थिभेदक! (सर्वे परिक्रामन्ति) श्यालः-सूचक ! इह पुरद्वारे अप्रमत्तौ प्रतिपालयतं माम् । यावदिदम् अगुलीयकं यथागमनं भत्रे निवेद्य ततः शासनं प्रतिगृह्य निर्गच्छामि । उभौ-प्रविशतु आर्यः, स्वामिप्रसादाय । (निष्क्रान्तः श्यालः) सूचकः-जानुक ! चिरायते खलु आवुत्तः । जानुकः-ननु अवसरोपसर्पणीयाः राजानः । सूचकः-जानुक ! कुरतःमे हस्तौ अस्य वधार्थम्। सुमनसः पिनद्धम् । पुरुषः-नाहति भावः अकारणमारणः भवितुम् । जानुका-(विलोक्य ) एषोऽस्माकं स्वामी पत्रहस्तः गृहीत्वा राज- शासनमागच्छति । शुनः मुखं वा द्रक्ष्यसि ? गृध्रवलिा भविष्यसि ? श्यालः-(प्रविश्य ) सूचक ! मुच्यतामेष जालोपजीवी। उपपन्नः किल अस्य अगुलीयस्य आगमः । आजीवश्चास्मै दत्तः भर्ना |

गद्यभागः
२१
सूचकः-यथा भणति भवान् |
जानुकः-एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।
(पुरुषं मुक्तबन्धनं करोति)
प्पुरुषः (श्यालं प्रणम्य ) भर्तः ! की शो मे आजीवः ?
श्यालः-एष भर्ना अङ्गुलीयकमूल्यतुल्यः पारितोषिको दत्तः। (इति
पुरुषाय धनं प्रयच्छति)
मुरुषः-( सप्रणाम प्रतिगृह्य ) अनुगृहीतोऽस्मि ।
सूचकः-एष नाम अनुग्रहः यत् शूलात् अवतार्य हस्तिस्कन्धे
स्थापितः।
जानुकः--आवुत्त ! परितोपं कथयति भवान् । तत् तेनाल्गुलीयकेन
भर्तुः सम्मतेन भवितव्यम् ।
श्यालः-न तस्मिन् महार्ह रत्नं भर्तुः बहुमतमिति तयामि । तस्य
दर्शनेन भर्तुः अभिमतः जनः कश्चित् स्मारितः । मुहूर्त प्रकृतिगम्भीरोऽपि
पर्युत्सुकनयन आसीत् ।
सूचकः-सेवितं नाम आवुत्तेन ।
श्यालः-ननु भण अस्य मत्स्यशत्रोः कृते। ( इति पुरुष सतिरस्कार
पश्यति)
पुरुषः-भट्टारक ! इतोऽधं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः-एतद् युज्यते ।
श्यालः-धीवर ! महत्तरस्त्वं प्रियवयस्पः इदानीं संवृत्तः।
(इति निष्क्रान्ताः सर्वे )

२२ संस्कृत-पाद्यपद्य-सङ्ग्रहः पञ्चतन्त्रम् श्रीविष्णुशर्मा [ई. द्वितीयशतकम् ]] अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र सकलाथि- कल्पद्रुमः, प्रवर-नृप-मुकुट-मणि-मरीचि-चर्चित-चरणयुगलः, सकल- कला-पारङ्गतः अमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्भ- धसः, वसुशक्तिः, उग्रशक्तिः, अनेकशक्तिश्चेति नामानो बभूवुः । अथ राजा तान् शास्त्र-विमुखानालोक्य सचिवानाहूय प्रोवाच :- भोः, शातमेतद् भवद्भिः यत् ममैते पुत्राः शास्त्रविमुखाः विवेकरंहिताश्च, तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विद- मुच्यते:- अंजात-मृत-मूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्प-दुःखाय यावज्जीवं जडो दहेत् ॥ कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् । किं तया क्रियते धेन्वा या न सूते न दुग्धदा॥ तदेतेषां मम पुत्राणां यथा बुद्धि-प्रकाशो भवति तथा कोऽप्युपायोऽ- नुष्ठीयताम् । अत्र च महत्तां वृत्ति भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति, ततो यथा मनोरथाः सिद्धिं यान्ति तथाऽनुष्ठीयताम् । तत्रैकः प्रोवाच :-देव ! द्वादशभिः वर्षेः व्याकरणं श्रूयते, ततो धर्मशास्त्राणि मन्वादीनि, अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि, एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रति- बोधनं भवति ।

गद्यभागः २३ तन्मध्यतोऽपरः सुमतिनामा प्राह:-अशाश्वतोऽयं जीवितव्यविषयः प्रभूत-कालज्ञेयानि शब्दशास्त्राणि, तत् संक्षेपमात्रं शास्त्रं किञ्चिदेषां प्रबोधनार्थ चिन्त्यताम् इति । उक्तंच- अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विनाः ! सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गतः, छात्रसं- सदि लब्धकीर्तिः तस्मै समर्पयत्वेतान् , स नूनं द्राक् प्रबुद्धान् करिष्यतीति । स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-भो भगवन् ! मद्- नुग्रहार्थमेतान् अर्थशास्त्रं प्रति द्राग् यथानन्यसदृशान् विदधासि तथा कुरु । तदहं त्वां शासन-शतेन योजयिष्यामि । अथ विष्णुशर्मा तं राजानमूचे-देव! श्रूयतां मे तथ्यवचनम् ; नाहं विद्या-विक्रय-शासन-शतेनापि करोमि, पुनरेतांस्तव पुत्राम् मासंषटकेन यदि नीतिशास्त्रज्ञान न करोमि ततः स्वनामत्या करोमि । नाहम् अर्थ- लिप्सुरेवं ब्रवीमि यतः मम अशीतिवर्षस्य, व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चिदर्थेन प्रयोजनम् ; किन्तु त्वत्प्रार्थना-सिद्धयर्थं सरस्वती-विनोद करिष्यामि। अथासौ राजा तां ब्राह्मणस्व असम्भाव्या प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितः तस्मै सादरं तान् कुमारान् समय परां निर्वृत्तिमाज- गाम | विष्णुशर्मणापि तानादाय तदर्थ मित्रभेद-मित्रप्राप्ति-काकोलूकीय- लब्धप्रणाशापरीक्षितकारकाणीति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः, तेऽपि तान्यधीत्य मासषटकेन यथोक्ताः संवृत्ताः। ततः प्रभृति एतत् 'पञ्चतन्त्रम्' नाम नीतिशास्त्र बालावबोधनार्थ भूतले संप्रवृत्तम् ।

२४ संस्कृत-गद्यपद्य-सङ्ग्रहः शिव उपाख्यानम् (पञ्चतन्त्रात ) अस्ति राजा शिविर्नाम सकल-भूपाल-मौलि-माला-चर्चित-चरणः परमकारुणिकः सकलार्थि-जन-सम्पादित-मनोरथः । तस्य अनन्य- सदृश्या दानशीलतया यशः त्रिदिवमारुरोह । अथ कदाचिदाखण्डलश्चिन्तयामास-नास्ति दानशीलः शिविना तुल्यः । तत् कोऽस्याभिप्रायः, कियद्वा सत्त्वमस्य इति जिज्ञासया धर्म- माहूय स्वयं कपोतोऽभवत् । धर्मश्च श्येनः कपोतस्य पृष्ठतः त्वरिततिः अभिभवितुं प्रवृत्तः। अथ तस्य राज्ञः सुखासनस्थस्य प्रभातसमये एव आस्थानगतस्य असौ कपोतः कम्पमानो भय-तरल-नेत्र-तारकः करुण-रसितमाविष्कु- वैन चरणसमीपे सहसैव सन्निपतितः, प्रोवाच च, भयगद्गदया गिरा- 'राजन् ! शरणागतोऽस्मि ते, परित्रायस्व मां श्येनात् ।' अथ श्येनोऽपि राज्ञः पुरतः पपात । सोऽपि-राजन् ! मुश्च-मुञ्च, क्षुधातुरस्य मे भक्ष्यं समर्पयस्वेति प्रोच्चैरुवाच । कपोत आह–'देव! शरणागतस्य मे परित्राण- मर्हसि कर्तुम् । स्वशरीराण्यपि साधवो नित्यं शरणागतार्थं त्यजन्ति, न शरणागतम् ।' श्येनोऽब्रवीत–'राजन् ! सकलमनोरथ-दाता किल भूयसे । अतो मे भक्ष्यमेनं दातुमर्हसि । प्राणसंशयमापन्नोऽस्मीति ।' असावपि राजा जातकरुणः कथमेतदिति संभ्रान्तो दोलारूढ इव सान्त्वयन् श्येनमाह-'नैष सतां पन्थाः शरणागतत्यागः, तदहं मांस- मन्यदेव ते दापयामि, यावत् तृप्तिमवाप्नोषीति' । श्येन आह-'न वयं परहतपिशितभुजः, स्वयं जीवतः मांसानि उष्णरुधिर-कललानि आस्वादयामहे, किन्तु याबन्मात्रमिदं कपोतमांसं तुलित भवांत तावन्मे स्वमांसं प्रयच्छति । ।

गद्यभागः बाढम् , दातास्मीति राज्ञि प्रतिपन्ने हाहाकारः समभूद् भूभुजाम्- 'देव मा साहसं कार्षीः, एष श्येनरूपी राक्षसः त्वद्विनाशहेतुः आगतः इति । एवमार्त्तनादे वर्तमाने तुला कपोतः समारोपितः । कक्षा तत्समां कृत्वा स्त्रमांसम् अङ्गावयवात् उत्कृत्य आरोपितं न च कपोतसमं भव- त्येव । अशेषावयव-विलुप्त-पिशितः शिविर्यदा कपोतस्य न तुल्यता संजगाम तदा 'नमः सर्वविदे धर्माय' इति कृत्वा स्वयमेव तुलामधिरूढः । अथ दिवि देवदुन्दुभयः प्रणेदुः । अविरल-कुसुम-वृष्टि-सारः समीरणः प्रववौ । साधु साध्विति दशस्वपि दिक्षु वाचो विचेरुः। अत्रान्तरे धर्मपाकशासनौ प्रकटितरूपौ तं राजानमाहतु:-'साधु महीनाथ ! शोभनस्ते अतिनिपुणः प्राणिधर्मः विज्ञातः परमार्थतः त्वमेव जिज्ञा- सितः । तदिदं शरीरं ते पुरातनमिवास्तु, कोशमक्षयम् , धर्मे च ते सदा मतिः भूतभूतये भवतु' इत्युक्त्वा अन्तर्धानमागतौ । वर्षा-समय य-वर्णनम् (वासवदत्तातः) सुबन्धुः (ई०-६००) [ अयं हि गद्यभागः सुबन्धुकविकृतात् वासवदत्तानामकात् गद्यमहाकाव्याद् उद्धृतः । अत्र श्लेषमयैः वाक्यैः कविः वर्षासमयस्य वर्णनं करोति । ] एकदा तु कतिपयमासापगमे काकली-गायन इव समृद्धि-निम्नगा- नदः, सायन्तन-समय इव नर्तित-नील-कण्ठः, कुमार-मयूर-इव समा- रूढ-शरजन्मा, महातपस्वी इव प्रशमित-रजाप्रसरः, तापस इव धृत- २ संस्कृत-गद्यपद्य-सङ्ग्रहः जलद-करकः, प्रलय-काल इव दर्शितानेक-तरणि-विभ्रमः, निरुपद्रव- कानन-प्रदेश-इव घनोत्सुकितसारङ्गः, रेवती-कर-पल्लव इव हलि-धृत- करः, लङ्केश्वर इव समेघनादः, विन्ध्य इव घनश्यामः, समाजगाम वर्षा-समयः । विभिन्न-मेघ-नीलोत्पल-कानने क्रीडासरसीव नभसि, स्मरस्य रत्न-नौकेच, जलदकाल-लक्ष्मी-मातङ्ग-कन्या-नर्तन-रज्जुरिव, नम:- सौध-तोरण-रत्न-मालिकेव, गगन-लक्ष्मी-बन्धुर-रशना-मालेव, नभो- मन्दार-तरु-सुन्दर-कलिकेव, रतिनखमार्जन-रन-शलाकेव, रत्नमयी विलास-यष्टिरिव कुसुमकेतोः इन्द्रधनुर्लता रराज | अतितृष्णावेगपीत-जलनिधि-जलशंखमालां, बलाकाच्छलाद् उद्ध- मन्निव अदृश्यत-जलधरनिकरः । पीतहरितैः कृष्ण-केदारिका- कोष्ठिकासु समुत्पतद्भिर्जतुशबलैरिव, दर्दुरैर्नयातैरिव चिक्रीड वर्षाकालः । रवि-दीप-कज्जल-निचयनिभे निकषोपले इव मेघ-समय सुवर्णकार-निक- षित-सुवर्ण-लेखेव तडिदशोभत । शुक-जन्म-कथा बाणभट्टः (ई०-६४०) [अधस्तनं गयं महाकवि-बाण-भट्ट कृतात् 'कादम्बरी'-प्रन्थात् उद्धृतम् । शुकरूपधारी वैशम्पायनः राज्ञः शूद्रकस्य राजसभायां समुपस्थाय आत्मजन्म- वृत्तान्तं कथयति ।] अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीत-पञ्जरः कनकवेत्र-लता- वलम्बिना किंचिद्-अवनतपूर्वकायेन सित-कचुकावच्छन्नवपुषा जरा- गद्यभागः २७ - धवलित-मौलिना गद्गदस्वरेण मन्द-मन्द सञ्चारिणा विहङ्ग-जाति-प्रीत्या जरत्कलहंसेनेव कञ्चुकिना अनुगम्यमानः राजान्तिकमाजगाम । क्षिति- तल-निहित-करतलस्तु कञ्चुकी राजानं व्यज्ञापयत:--'देव! देव्यो विज्ञा- पयन्ति-देवादेशादेव वैशम्पायनः स्नातः कृताहारश्च देवपाद-मूलं प्रतीहार्या आनीतः' इत्यभिधाय गते च तस्मिन् राजा वैशम्पायनमपृच्छत्:- 'कञ्चिद् अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिद् अशनजातम् ?' इति । स प्रत्युवाच:-'देव! किंवा नास्वादितम् ? आमत्तकोकिल-लोचन- च्छविः नील-पाटलः, कषाय-मधुरः प्रकाममापीतो जम्बूफल-रसा, खण्डि- तानि दाडिम-बीजानि, नलिनी-दल-हरिन्ति द्राक्षाफल स्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानम् अमृतायते' इति । एवं वादिनो वचनमाक्षिप्य नरपतिरब्रवीत्-'आस्तां तावत् सर्वम् । अपनयतु नः कुतूहलम् । आवेदयतु भवान् आदितः प्रभृति कान्येन आत्मनः जन्म, कस्मिन् देशे भवान् कथं जातः, केन वा नाम कृतं, का ते माता, कस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परिचयः, कुतः कलाः आसा- दिताः, किं हेतुकं जन्मान्तरानुस्मरणम् , उत वरप्रदानम् , अथवा विहङ्ग- वेषधारी कश्चिच्छन्नः निवससि, क वा पूर्वमुषितम्, कियद्वा वयः, कथं पञ्जर-बन्धनम् , कथं चाण्डाल-हस्त-गमनम् , इह वा कथमागमनमिति।' वैशम्पायनस्तु स्वयम् उपजातकुतूहलेन सबहुमानम् अवनिपतिना पृष्टः मुहूर्तमिव ध्यात्वा सादरमब्रवीत् :-'देव ! महती इयं कथा । यदि कौतुकम्, आकर्ण्यताम् । अस्ति पूर्वापर-जलनिधि-वेलावलग्ना, मध्यदेशालङ्कारभूता, भुवः मेखला इव, अतिविकच-धवल कुसुम-निकरम्, अत्युचतया तारागणकमिव शिखरप्रदेश-संलग्नम् , उद्वहद्भिः पादपैः उपशोभिता, लतामण्डपैः विरा- , २८ , संस्कृत-गद्यपद्य-सङ्ग्रहः जिता, सदा-सन्निहित-मृत्यु-भीषणा, शशोपगता, प्रनृत्तनील-कण्ठा, पल्लवारुणा, हरिणाध्यासिता, समद-गजघटा-परिपालिता, मृगपति- सेविता, निगाचर-परिगृहीता, प्रकटित-मधु-कोष-शता, प्रकीर्ण-विविध- कुसुमा, कण्टकिता, कोकिल-कुल-प्रालापिनी, तमाल-नीला, कप्याब्रान्ता, वेत्रलताशत-दुःसह-प्रदेशा, कीचक्र-शताकुला, मुनिजन-सेविता, पवित्रा विन्ध्याटवी नाम | तस्यां च सकल-भुवन-विख्यातं भगवतः महामुनेः अगस्त्यस्य भार्यया लोपामुद्रया स्वयमुपरचितालबालकः, करपुट-सलिल- संवर्द्धितैः, सुत-निर्विशेषैः, पादपैः उपशोभितम् , वद्धबेणिकया गोदावर्या परिगतम् आश्रमपदमासीत् । तस्य च अगस्त्याश्रमस्य नातिदूरे अगाधम्, अनन्तम् , अप्रतिमम्, अपां निधानं पम्पाभिधानं पद्मसरः । तस्य सरसः पश्चिमे तीरे दण्डकारण्यस्य अधिपतिः इव, सर्ववनस्पतीनां नायकः इव, विन्ध्यस्य सखा इव, महान् जीर्णःशाल्मलीतरुः। तस्यैव शाल्मलीतरोः एक- स्मिन् जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुः अहं विधि-वशात् सूनुः अभवम् । ममैव जायमानस्य प्रसववेद. नया जननी परलोकमगमत् । अतिपरिणतवयाश्च स्फुटानकोटिना चञ्चु- पुटेन नीडपतिताभ्यः शालिवटीभ्यः तण्डुलकणान् आदाय वृक्ष-मूल-पति- तानि च शुक-कुलावदलितानि फल-शकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात्। प्रतिदिवसमात्मना च परिभुक्तम् अशेषम् अकरोद् अशनम् । D गद्यभागः २६ ! अपुत्रस्य विषादः (कादम्बरीतः) विरत-वचनायां तस्यां भूपालः तूष्णीं मुहूर्तमिव स्थित्वा दीर्घम् उष्णश्च निःश्वस्य निजगाद:-'देवि ! किमत्र क्रियतां देवायत्ते वस्तुनि ? अति- मात्रम् अलं रुदितेन । न वयम् अनुग्राह्याः प्रायः देवतानाम् । आत्मज- परिष्वङ्ग-सुखस्य नूनम् अभाजनम् अस्माकं हृदयम् । अन्यस्मिन् जन्मनि न कृतम् अवदातम् कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्य, इह जन्मनि । न हि शक्यं दैवम् अन्यथा कर्तुम् अभियुक्तेनापि । यावत्तु मानुष्यके शक्यम् उपपादयितुं तावत् सर्वम् उपपाद्यताम् । अधिकां कुरु देवि ! गुरुषु भक्तिम् । द्विगुणम् उपपादय देवतासु पूजाम् । ऋषि-जन-परिचर्यासु दशितादरा भव । परं हि दैवतं ऋषयः यत्नेन आराधिताः अतिदुर्लभानामपि वराणां दातारो भवन्ति । श्रूयते हि पुरा चण्डकौशिक-प्रभावाद् बृहद्रथो नाम राजा जरासन्धं नाम तनयं लेभे । दशरथश्च राजा ऋष्यशृङ्गस्य प्रसादाद् अवाप चतुरः पुत्रान् । अमोघ. फला हि महामुनि-सेवा भवति । 'मां दहति अहर्निशम् अनपत्यता-समुद्भवः शोकः । शून्यमिव मे प्रतिभाति जगत् । अफलमिव पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि ? तन्मुच्यतां देवि ! शोकानुबन्धः। आधीयतां धैर्य धर्म च धीः।' इति अभिधाय, सलिलमादाय, स्वयं करतलेन साश्रुलेखम् आनन- मस्याः ममार्ज । पुनः पुनश्च प्रियशत-मधुराभिः वाग्भिः आश्वास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम । निर्गते च तस्मिन् विलासवती दिवस- व्यापारमन्वतिष्ठत् । ततः प्रभृति सुतरां देवताराधनेषु, ब्राह्मणपूजासु, संस्कृत-गद्यपद्य-सङ्ग्रहः गुरुजनपरिचर्यासु च आदरवती बभूव । सिद्धायतनानि सिषेवे । अश्वत्थ- प्रभृतीन वनस्पतीन् ववन्दे । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव । गच्छति च काले कदाचित् राजा स्वप्ने विशालवत्याः आनने प्रवि- शन्तं शशिनमद्राक्षीत् । प्रबुद्धश्च शुकनासाय तं स्वप्नमकथयत् । स तं प्रत्युवाच:-'अद्य खलु मया निशि स्वप्ने धौत-धवलवाससा शान्त- मूर्तिना दिव्याकृतिना द्विजेन विकचं चन्द्रकलावदानदलशतं पुण्डरीकम- त्सङ्गे देव्याः मनोरमायाः निहितं दृष्टम्। आवेदयन्ति हि प्रत्यासन्नम् आन- न्दम् अप्रजातानि शुभानि निमित्तानि । किञ्च अन्यद् प्रानन्दकारणमतो भविष्यति ? अवितथ-फला हि प्रायः निशावसान-समय-दृष्टाः भवन्ति स्वप्नाः । सर्वथा न चिरेणैव मान्धातारमिव धौरेयं राजर्षीणां भुवनानन्द- हेतुमात्मजं जनयिष्यति देवी ।' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्य अन्तःपुरम् उभाभ्यां ताभ्यां स्वप्नाभ्यां विलासवती मानन्दयाञ्चकार। D मातङ्ग-चरितम् महाकविः दण्डी (ई०-६००) [अयं गद्यांशः दण्डिनः दशकुमारचरितात् समुद्धृतः । अत्र राजवाहनेन पृष्टः मातङ्गः आत्मनः चरित परिचयं च कथयति।] राजवाहनः मङ्गल-सूचकं शुभ-शकुनं विलोकयन् देशं काञ्चन अतिक्रम्य विन्ध्याटवी-मध्यम् अविशत् । तत्र हेति-हति-किणाङ्क, काला- यस-कर्कश-काय, यज्ञोपवीतेन अनुमेय-विप्रभाव, व्यक्त-किरात-नभावं, लोचन-पक कमपि पुरुषं ददर्श ।

गद्यभागः ३१ १ - तेन विहित-पूजनः राजवाहनः अभाषत:-'ननु मानव! जन-सङ्ग- रहिते, मृग-हिते, घोर-प्रचारे, कान्तारे विन्ध्याटवी-मध्ये भवानेकाकी किमिति निवसति ? भवद्-अंसोपनीतं यज्ञोपवीतं भूसुर-भावं द्योतयति । हेति-हतिभिः किरात-रीतिः अनुमीयते, कथय किमेतत् ?' इति । 'तेजोमयः अयं मानुष-मात्र-पौरुषः नूनं न भवति' इति मत्वा स पुरुषः तद्वयस्य-मुखात् नाम-जनने विज्ञाय तस्मै निज-वृत्तान्तमकथ- यत्-'राजनन्दन, केचिदस्याम् अटव्याम् वेदादि-विद्याभ्यासमपहाय, निज-कुलाचारं दूरीकृत्य, सत्य-शौचादि-धर्म-वातं परिहृत्य किल्बिषम- विष्यन्तः पुलिन्द-पुरोगमाः तदन्नमुपभुञ्जानाः बहवः ब्राह्मणत्रुवाः निव- सन्ति । तेषु कस्यचित् पुत्रः, निन्दा-पात्र-चरित्रः, मातङ्गो नामाहम् सह किरात-बलेन जनपदं प्रविश्य प्रामेषु धनिनः स्त्री-बाल-सहितान् आनीय अदव्यां बन्धने निधाय तेषां सकल-धनम् अपहरन् उद्धृत्य वीतदयः व्यचरम् | कदाचिदेकस्मिन् कान्तारे मदीय-सहचर-गणेन जिघांस्यमानं भूसुरमेकम् अवलोक्य दयायत्त-चित्तः अब्रवम् :-'ननु पापाः ! न हन्तव्यो ब्राह्मणः' इति । ते कोपारुण-नयनाः मां बहुधा निरभलैयन् । तेषां भाषणपारुष्यम् असहिष्णुः अहम् अवनिसुर-रक्षणाय चिरं प्रयुध्य तैः अभिहतः गत- जीवितः अभवम् । ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषैः परिवेष्टितं सभा-मध्ये रत्न-खचित-सिंहासनासीनं शमनं विलोक्य तस्मैदण्ड-प्रणामम् अकरवम्। सोऽपि मामवेक्ष्य चित्रगुप्त नाम निजामात्यमाहूय तम् अवोचत्:-'सचिव, नैषः अमुष्य मृत्युसमयः । निन्दित-चरितोऽपि अयं महीसुर-निमित्तं गत-जीवितः अभूत् । इतः प्रभृति विगलित-कल्मषस्य अस्य पुण्य-कर्म- ३२ संस्कृत-गद्यपद्य-सङ्ग्रहः करणे रुचिः उद्देष्यति । पापिष्ठैः अनुभूयमानम् अत्र यातना-विशेष विलोक्य पुनरपि पूर्वशरीरम् अनेन गम्यताम्' इति । चित्रगुप्तोऽपि तत्र तत्र सन्तप्तेषु आयस-रतम्भेषु बध्यमानान् , अत्युष्णीकृते वितत-शराये तैले निक्षिप्यमाणान् लगुडैः जर्जरीकृतावय- वान् , निशित-टकैः परितक्ष्यमाणान् अपि दर्शयित्वा पुण्यद्धिमुपदिश्य माममुश्चत् । तदेव पूर्वशरीरमहं प्राप्तः महाटवीमध्ये शीतलोपचारं रच- यता महीसुरेण परीक्ष्यमाणः शिलायां शायितः क्षणतिष्ठन् । तदनु विदितोदन्तो मदीय वंश-बन्धु-गणः सहसा श्रागत्य मन्दिर- मानीय मामपक्रान्तब्रणमकरोत् । द्विजन्मा कृतज्ञः मह्यम् अक्षर-शिक्षा विधाय विविधागम-तन्त्रमाख्याय कल्मषक्षय-कारणं सदाचारमुपदिश्य ज्ञानेक्षणगम्यमानस्य शशिखण्ड-शेखरस्य पूजाविधानमभिधाय पूजां मत्कृतामङ्गीकृत्य निरगात् । तदारभ्य अहं किरात-कृत-संसर्ग बन्धुवर्गम् उत्सृज्य सकल-लोकैक- गुरुम् , इन्दु-कलावतंसं चेतसि स्मरन् अस्मिन् कानने दूरीकृत- कलङ्कः वसामिा गद्यभागः २२ परोपकारः ( नागानन्दनाटकात ) हर्षवर्धनः (ई०६०६-६४८) [अयं नाटकांशः श्रीहर्षवर्धनकृतात् नागानन्द नाटकात् समुद्धृतः । गरुः एकैकं नागं प्रतिदिनं भक्षयति स्म । एकस्मिन् दिने शङ्खचूडस्य वारः आसीत् । गरुडस्य नृशंसं व्यवहारं दृष्ट्वा खिन्नः जीमूतवाहनः गरुडाय प्रात्मानमेव समर्पितवान् । (ततः प्रविशति आसनस्थः पुरम्पतितनायको गरुडः) (नायकः = जीमूतवाहनः) गरुड:-जन्मनः प्रभृति भुजङ्गपतीन् अश्नता नेदमाश्चर्य मया दृष्ट- पूर्वम् , यदयं महासत्त्वो न केवलं न व्यथते प्रत्युत प्रहृष्ट इव किमपि दृश्यते । तथाहिः- ग्लानिर्नाधिक-पीयमान-रुधिरस्याप्यस्ति धैर्योदधे- मांसोत्कर्तनजा रुजोऽपि वहतः प्रीत्या प्रसन्नं मुखम् । गानं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते, दृष्टिर्मय्युपकारिणीव निपतत्यस्यापकारिण्यपि ।। अतः कौतूहलमेव जनितमस्य अनया धैर्य-वृत्त्या । भवतु, न भक्षया- म्येव एनम् । पृच्छामि तावत् कोऽयमिति । (अपसर्पति ) नायकः-(मांसोत्कर्तनविमुखमुपलक्ष्य ) शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात् त्वं विरतो गरुत्मन् ! ॥ गरुड:-(आत्मगतम् ) आश्चर्यम् ! आश्चर्यम् !! कथमस्यामप्यवस्थायाम् एवमूर्जितमभिधत्ते ? (प्रकाशम् ) अहो महासत्त्व ! ३

संस्कृत-गद्यपद्य-सङ्ग्रहः
आवर्जितं मया चम्च्या हृदयात् तव शोणितम् ।
अनेन धैर्येण पुनस्त्वया हृदयमेव नः ।।
तत् कस्त्वमिति श्रोतुमिच्छामि ।
नायकः-एवं क्षुदुपतप्तो न श्रवणयोग्यस्त्वम् । कुरुष्व तावत् मम
मांस-शोणितेन तृप्तिम् ।
शङ्खचूड:-(सहसोपसृत्य ) ताथै ! न खलु न खलु साहसमनुष्ठेयम् ।
नायं नागः । परित्यज एनम् । मां भक्षय | अहं तव आहारार्थं प्रेषि-
तोऽस्मि वासुकिना । (उरो ददाति )
नायकः-(शङ्खचूडं दृष्ट्वा सविषादमात्मगतम् ) कष्टम् ! विफली कृतो मे
मनोरथः शङ्खचूडेन आगच्छता ।
गरुड:-(उभौ निरूप्य ) द्वयोरेव भवतोर्वध्यचिह्नम् । कः खलु नाग
इति नावगच्छामि ।
शङ्ख:-अस्थाने एवं भ्रान्तिः।
आस्तां स्वस्तिक-लक्ष्म वक्षसि तनौ नालक्ष्यते कञ्चकः,
जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि ।
तिनस्तीव्र-विषाग्नि-धूम-पटल-व्याजिह्म-रत्नत्विषो
नैता दुःसह-शोक-शूत्कृतमरुत्स्फीताः फणाः पश्यसि ॥
गरुड:-(उभौ निरूप्य, शङ्खचूडस्य फणां दृष्ट्वा च ) तत् कः खलु
मया व्यापादितः?
शङ्खचूड:-विद्याधर-वंश-तिलकः जीमूतवाहनः। कथमकारुणिकेन
त्वया इदमनुष्ठितम् ?
गरुड:-अये, अयमसौ विद्याधर-कुमारः जीमूतवाहनः ?
मेरौ मन्दर-कन्दरासु हिमवत्सानौ महेन्द्राचले,
कैलाशस्य शिलातलेषु मलय-प्राग्भार-देशेष्वपि ।

गद्यभागः ३५ उद्देशेष्वपि तेषु तेषु बहुशो यस्य श्रुतं तन्मया, लोकालोक-विचारि-चारण-गणैरुद्दीयमानं यशः॥ सर्वथा महत्वहःपके निमग्नोऽस्मि । नायकः-भोः फणिपते ! किमेवमुद्विग्नोऽसि ? शङ्खचूड:-किम् , अस्थानमिदमावेगस्य ? स्वशरीरेण शरीरं तादात् परिरक्षता मदीयम् । युक्तं नेतुं भवता पातालतलादपि तलं माम् ।। गरुडः-अये, करुणार्द्रचेतसा अनेन महात्मना अस्मद्मास-गोचर- पतितस्य फणिनः प्राणान् रक्षितुं स्वदेहमाहारार्थमुपनीतम् | तन्मया इदं अकृत्यं कृतम् । किं बहुना बोधिसत्त्व एत्रायम् मया व्यापादितः । अस्य महतः पापस्य अग्निप्रवेशाहते नान्यत् प्रायश्चित्तं पश्यामि । तत् क नु खलु वह्नि समासादयामि ? (दिशः पश्यन् ) अये, अमी केऽपि गृहीतामय इत एव आगच्छन्ति । तत् तावदेतान् प्रतिपालयामि । नायकः-भोः पक्षिराज, अलमनेन अध्यवसायेन, नायं प्रतीका- रोऽस्य पापस्य । गड:-(जानुभ्यामवनिं गत्वा कृताञ्जलिः ) कस्तर्हि ? कथ्यताम् । नायक:-प्रतिपालय क्षगमेकम् । पितरौ मे प्राप्तौ। यावदेतौ प्रणमामि। गरुड :--एवं क्रियताम् । (ततः प्रविशति पत्नीवधूसमेतो जीमूतकेतुः) जीमूतकेतुः- ( दृष्ट्वा सहर्षम् ) देवि, दिष्टया वर्धसे । अयमसौ वत्सो जीमूतवाहनो न केवल ध्रियते, प्रत्युत पुरः कृताञ्जलिना गरुडेन शिष्येणेव पर्युपास्थमानस्तिष्ठति । वृद्धा-महाराज! कृतार्थाऽस्मि अक्षतशरीरस्यैव पुत्रकस्य मुखं दृष्टम्। मलयवती-अहमार्यपुत्रं प्रेक्षमाणापि असंभावनीयमिति न प्रत्येमि।

संस्कृत-गद्यपद्य-सङ्ग्रहः जीमूतकेतु:-( सात्रमात्मगतम् ) विलुप्त-शेषाङ्गतया प्रयातान् निराश्रयत्वादिव कण्ठदेशम् । प्राणांस्त्यजन्तं तनयं निरीक्ष्य कथं न पापः शतधा ब्रजामि ।। मलयवती हा आर्यपुत्र ! अतिदुष्कर-कारिणी खल्वहम् , या ईश- मार्यपुत्रं प्रेक्षमाणा अद्यापि जीवितं न परित्यजामि । वृद्धा-(नायकस्य अङ्गानि स्पृशन्ती गरुडमुद्दिश्य ) नृशंस ! कथमिदानी त्वया एतदापूर्यमाणं नवयौवनशोभं तदेवैतदवस्थं पुत्रकस्य मे शरीरं कृतम् ! नायकः-अम्ब, मा मैवम् । किमनेन कृतम् ? पूर्वमप्येतदीडशमेव परमार्थतः । पश्य- मेदोऽस्थि-मांस-मज्जासृक्संघातेऽस्मिस्त्वचावृते । शरीर-नाम्नि का शोभा सदा बीभत्सदर्शने ॥ गरुडः-भो महात्मन् ! नरकानल-ज्वालावलीढमिव आत्मानं मन्य- मानो दुःखं तिष्ठामि । तदुपदिश्यताम् येन मुच्येऽहमस्मादेनसः । नायक:-अनुजानातु मां तातः। यावदस्य पापस्य प्रतिपक्षमुपदिशामि। जीमूतकेतुः-एवं क्रियताम् । नायकः-वैनतेय, श्रूयताम् । गरड:-(जानुभ्यामवनीं गत्वा, कृताञ्जलिः) आज्ञापय । नायक: नित्य प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृते चानुतापम् , यत्नात् पुण्य-प्रवाहं समुपचिनु दिशन् सर्वसत्त्वेष्वभीतिम् । मग्नं येनात्र नैनः फलति परिमित-प्राणिहिंसान्तमेतत् , दुर्गाधापारवारे लवणपलमिव क्षिप्तमन्तहदस्य ॥ गरुडः यदाज्ञापयति।

गद्यभागः
अज्ञान-निद्रा-शयितो भवता प्रतिबोधितः ।
सर्व-प्राणि-बधादेष विरतोऽद्यप्रभृत्यहम् ।।
नायकः-साधु, महासत्त्व, साधु, अनुमोदामहे । सर्वथा दृढ-समा-
वानो भव। (शङ्खचूडं निर्दिश्य) शङ्खचूड, त्वयाऽपि स्वगृहमिदानी गम्यताम् ।
शङ्खचूड:-( निश्श्वस्य अधोमुखस्तिष्ठति ।)
वृद्धा-( सास्रम् ) धन्या खलु सा जननी या गरुडमुखपतितस्य
अक्षतशरीरस्यैव पुत्रकस्य मुखं प्रेक्षिष्यते ।
शङ्खचूड:-अम्ब, सत्यमेवैतत् , यदि कुमारः स्वस्थो भविष्यति ।
:-(वेदनां नाटयन्) हहह,परार्थसम्पादनामृतरसस्वादाक्षिप्तत्वात्
एतावती वेलां मया न लक्षिताः । सम्प्रति तु मां बाधितुमारब्धा मर्म-च्छे-
दिन्यो वेदनाः । ( मरणावस्था नाटयति)
जीमूतकेतु:-( ससम्भ्रमम् ) हा वत्स, किमेवं करोषि ?
वृद्धा-हा, किन्नु खल्वेवं वर्तते । (सोरस्ताडम् ) परित्रायध्वम् , परि-
त्रायध्वम् । एष खलु मे पुत्रको विपद्यते ।
मलयवती-हा, आर्यपुत्र! परित्यक्तुकाम इव लक्ष्यसे ।
नायकः-(अञ्जलिं कर्तुमिच्छन् ) शङ्खचूड ! समानय मे हस्तौ ।
शङ्खचूड:-(तथा कुर्वन् ) कष्टम् ! अनाथीकृतं जगत् ।
नायकः-(अर्धोन्मीलितचक्षुःपितरौ पश्यन्) तात, अम्ब, अयं मे पश्चिमः
प्रणामाञ्जलिः । अथवा किमनेन प्रलपितेनं ? ( इति पतति)
वृद्धा हा पुत्र ! हा वत्स ! हा गुरु-जन-वत्सल ! कासि ? देहि मे
प्रतिवचनम् ।
जीमूतकेतु :-हा वत्स जीमूतवाहन ! हा
प्रणयिजन-वल्लभ
हा
सर्वगुणनिधे! कासि ? देहि मे प्रतिवचनम् ।

संस्कृत-गद्यपद्य-सङ्ग्रहः
मलयवती-हा आर्यपुत्र ! कथं परित्यज्य गतोऽसि ? अतिनिधुणे,
मलयवति ! किं त्वया प्रेक्षितव्यम् या एतावद् वेलां जीवितासि ?
शङ्खचूड:-हा कुमार, क इमं प्राणेभ्योऽपि वल्लभं जनं परित्यज्य
गम्यते ? तदवश्यमन्वेति त्वां शङ्खचूडः
गरुडः-(सोद्वेगम् ) कष्टम् । उपरतोऽयं महात्मा। तत् किमिदानी
करोमि ?
वृद्धा-पुत्र शङ्खचूड ! लघु सजय चिताम् | दुःखमस्माभिर्विना
भ्राता ते तिष्ठति ।
शङ्खचूड:-( सास्रम् ) यदाज्ञापयन्ति गुरवः । नन्वग्रत एवाहं युष्मा-
कम् । ( उत्थाय चिता-रचनां कृत्वा ) तात, अम्ब सज्जीकृतेयं चिता ।
जीमूतकेतु:-कष्टं भोः
कष्टम् । देवि, किमपरं रुद्यते, तदुत्तिष्ठ, चिता-
मारोहामः । (सर्वे उत्तिष्ठन्ति)
मलयवती-(बद्धाञ्जलिः ऊर्ध्व पश्यन्ती ) भगवति ! गौरि ! त्वया
आज्ञप्तं यथा “विद्याधर चक्रवर्ती भर्त्ता ते भविष्यतीति । तत्कथं मम
मन्दभाग्यायाः कृते त्वमपि अलीकवादिनी संवृत्ता ?
(ततः प्रविशति ससम्भ्रमा गौरी)
गौरी-महाराज जीमूतकेतो! न खलु न खलु साहसमनुष्ठातव्यम् ।
जीमूतकेतुः-श्रये, कथममोघदर्शना गौरी ?
गौरी-(मलयवतीमुद्दिश्य ) वत्से, कथमहमलीक-वादिनी भवेयम् ।
(नायकमुपसृत्य कमण्डलु-जलेन अभ्युक्षन्ती)
निजेन जीवितेनापि जगतामुपकारिणः ।
परितुष्टास्मि ते वत्स, जीव जीमूतवाहन ! ।।
(नायकः उत्तिष्ठति)
जीमूतकेतु :-देवि ! दिष्टया वर्धसे । प्रत्युज्जीवितो वत्सः ।

गद्यभागः
३६.
वृद्धा-भगवत्याः प्रसादेन ।
(उभौ गौर्याः पादयोः पतित्वा नायकमालिङ्गतः)
मलयवती-(सहर्षम् ) दिष्टया प्रत्युजोवितः आर्यपुत्रः ।
( इति गौर्याः पादयोः पतति)
नायकः-(गौरीं दृष्ट्वा बद्धाञ्जलिः) भगवति ?
अभिलषिताधिकारदे ! प्रणयितजनातिहारिणि !।
चरणौ नमाम्यहं ते विद्याधर-देवते गौरि, शरण्ये !॥
(इति गौर्याः पादयोः पतति)
गौरी-तदुच्यतां कि ते भूयः प्रियमुपकरोमि ?
नायकः (जानुभ्यामवनीं गत्वा) अतः परमपि प्रियमस्ति ?
तथापीदमस्तु-
शिवमस्तु सर्वजगतां परहित-निरता भवन्तु भूतगणाः
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥
(इति सर्वे निष्क्रान्ताः)
वीर-विग्रहः
(बेणीसंहारात् )
भट्टनारायणः ( ई० ६७५)
[अघस्तनः संवादः श्रीभनारायणकृतात् वेणीसंहारनाटकात् उद्धृतः । अयं हि
वेणीसंहारस्य तृतीयाङ्कात् गृहीतः। द्रोणाचार्य हते, तात्रः अश्वत्थामा परितप्यमानः
प्रतिशोधार्थमुगुक्ते । वार्ताप्रसंगेनैव कर्णेन सह तस्य विवादः समुत्थितः । अनयो.
योः वीरयोः वीरोचितः सम्वादः नीचैः दीयते । ]

08 संस्कृत-गद्यपद्य-सङ्ग्रहः अश्वत्थामा-राजन्, एवं पक्षपातिनि त्वयि युक्तमेव शोकभार लघूकर्तुम् । किन्तुः- मयि जीवति यत्तातः केशग्रहमवाप्तवान् । कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ।। कर्णः-द्रौणायने, किमत्र क्रियते, यदा तेनैव सर्व-परिभवपरित्राण- हेतुना शस्त्रमुत्सृजता ताशीमवस्थामात्मा नीतः। अश्वत्थामा-अङ्गराज ! किमाह भवान् , किमत्र क्रियते इति ? श्रूयतां यत् क्रियते तत्:- यो यः शस्त्रं विभर्ति स्वभुज-गुरुमदः पाण्डवीनां चमूनां, यो यः पाञ्चाल-गोत्रे शिशुरधिकवयाः गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः, क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तकोऽहम् ।। अपि च । भो जामदग्न्यशिष्य, कर्ण! देशः सोऽयमरातिशोणितजलैयस्मिन् हृदाः पूरिताः, तत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशत्रघस्मरगुरूण्यत्राणि भास्वन्ति मे, यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः॥ दुर्योधनः-आचार्यपुत्र ! तस्य तथाविधस्य अनन्यसाधारणस्य च ते वीरभावस्य किमन्यत् सदृशम् ? कृपः-राजन् ! सुमहान् खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभरः। तदहमेवं..मन्ये, भवता कृतपरिकरोऽयमुच्छेतुं लोकत्रयमपिं समर्थः, किं पुनः यौधिष्ठिरबलम् । अतः अभिषिच्यता सैनापत्ये । दुर्योधनः-सुष्ठ, युज्यमानमभिहितं युष्माभिः। किन्तु प्राक्प्रतिपमः अयमर्थः अङ्गराजस्य । !

गद्यभागः कृपः-राजन् ! असदृश-परिभव-शोकसागरे निमजन्तमेनम् अङ्ग- राजस्य अर्थे नैव उपेक्षितुं युक्तम् । अस्यापि तदेव अरिकुलमनुशासनी- यम् । श्रतः किमस्य पीडा न भविष्यति ? अश्वत्थामा-राजन् ! किमद्यापि युक्तायुक्त-विचारणया ? प्रयत्न-परिबोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दोःशालिना- मपैतु नृपकाननातिगुरुरद्य भारो भुवः ।। कर्णः-(विहस्य ) वक्तुं सुकरमिदं दुष्करमध्यवसितुम् । बहवः कौरवबले अस्य कर्मणः शक्ताः । अश्वत्थामा-अङ्गराज ! एवमिदम् , बहवः कौरवबलेऽत्र शक्ताः । किन्तु दुःखोपहतःशोकावेगवशाद् ब्रवीमि, न पुनः वीरजनाधिक्षेपेण । कर्णः-मूढ ! दुःखितस्याश्रुपातः, कुपितस्य च आयुधद्वितीयस्य समामावतरणमुचितम् , नैवंविधाः प्रलापाः । अश्वत्थामा-(सक्रोधम् ) अरे रे राधागर्भभारभूत ! सूतापसद ! ममापि नाम अश्वत्थाम्नः दुःखितस्य अश्रुभिः प्रतिक्रियामुपदिशसि, न शस्त्रेण ? पश्य:- निर्वीर्य गुरुशापभाषित-वशात् किं मे तवेवायुधम् , संप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा ? जातोऽहं स्तुतिवंश-कीर्तनविदां किं सारथीनां कुले, क्षुद्रारातिकृताप्रिय प्रतिकरोम्यस्त्रेण नास्त्रेण किम् ? कर्ण:--अरे रे वाचाट ! वृथाशस्त्रग्रहणदुर्विदग्ध ! बटो! निर्वीर्य वा सवीर्य वा मया नोत्सृष्टमायुधम् । यथा पाश्चालभीतेन पित्रा ते बाहुशालिना ॥

संस्कृत-गद्यपद्य-सङ्ग्रहः अपि च:- सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् । देवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ।। अश्वत्थामा-(सकोधम् ) अरे रे रथकारकुलकलङ्क ! अरे राधागर्भ- भारभूत ! आयुधानभिज्ञ ! तातमप्यधिक्षिपसि ? अथवा: - स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने, कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा । परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः, पृथासूनुः साक्षी त्वमसि रणभीरो क नु तदा । कर्ण:-(विहस्य ) एवं भीरुरहम् । त्वं पुनः विक्रमैकरसं स्वपितरमनु- स्मृत्य न जाने किं करिष्यसीति ? महान्मे संशयो जातः। अपि च रे मूढ यदि शस्त्रमुज्झितमशस्त्रपाणयो न निवारयन्ति किमरीनुदायुधान् । यदनेन मौलिदलनेऽप्युदासितं, सुचिरं स्त्रियेव नृपचक्र-सन्निधौ॥ अश्वत्थामा-(सक्रोधं सकम्पं च ) दुरात्मन् ! राजवल्लभ ! प्रगल्भ ! सूतापसद ! असम्बद्धप्रलापिन् । कथमपि न निषिद्धो दुःखिना भीरुणा वा, द्रुपद-तनय-पाणिस्तेन पित्रा ममाघ । तव भुजबलदध्मायमानस्यावामः, शिरसि चरण एष न्यस्यते वारयैनम् ।। (इति तथा कर्तुमुत्तिष्ठति) कृप-दुर्योधनौ-वत्स ! मर्षय, मर्षय ।

गद्यभागः (अश्वत्थामा चरणप्रहारं नाटयति ) कर्ण:-(सक्रोधमुत्थाय, खड्गमाकृष्य ) अरे दुरात्मन् ! ब्रह्मबन्धो ! आत्मश्लाघिन् जात्या काममवध्योऽसि चरणं त्विदमुद्धृतम् । अनेन लूनं खड्गन पतितं द्रक्ष्यसि क्षितौ ।। अश्वत्थामा-अरे मूढ ! जात्या काममवध्योऽहम् । इयं सा जातिः परित्यक्ता । ( इति यज्ञोपवीतं छिनत्ति । पुनः सक्रोधम् ) अद्य मिथ्या-प्रतिज्ञोऽसौ किरीटी क्रियते मया । शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ।। (उभावपि खड्गमाकृष्य अन्योन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ निवारयतः) पुत्र-लेहः ( उत्तररामचरिता) भवभूतिः ( ई० ७४०) [अयमंशः भवभूति-कवि-बिरचितात् उत्तररामचरितात् उद्धृतः । अत्र लवकुशौ वीक्ष्य जातः रामस्य स्वाभाविकः स्नेहः वर्णितः। ] (ततः प्रविशति रामः, लवः प्रणतश्चन्द्रकेतुश्च) रामः-(पुष्पकादवतरन्)- दिनकर-कुल-चन्द्र ! चन्द्रकेतो! सरभसमेहि दृढं परिष्वजस्व । तुहिन-शकल-शीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ।। चन्द्रकेतुः-अभिवादये। रामः-(उत्थाप्य सस्नेहासं परिष्वज्य)अपि नाम कुशलं तव दिव्यात्र- घर-देहस्य ?

४४ संस्कृत-गद्यपद्य-सङ्ग्रहः चन्द्रकेतुः-कुशलमत्यद्भुतं-किलास्य प्रियदर्शनस्य लवस्य लाभाभ्यु- दयेन। तद्धि ज्ञापयामि-मामिव अविशेषेण, मत्तः शिवतरेण चक्षुषा पश्यतु अमुम् महावीरप्रकाण्डं तातः । राम:-(लवं निरूप्य ) दिष्टया अतिकल्याणाकृतिरयं वयस्यो वत्सस्य। त्रातुं लोकानिव परिणतः कायवानखवेदः, क्षानो धर्मः श्रित इव तनुं ब्रह्मकोषस्य गुप्तथै। सामर्थ्यानामिव समुदयः संचयो वा गुणानाम्। आविर्भूय स्थित इव जगत्-पुण्य-निर्माण-राशिः। लवः-अहो ! पुण्यानुभावदर्शनोऽयं महापुरुषः । आश्वासस्नेहभक्तीनामेकमालम्बनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसंचरः ॥ आश्चर्यम्- विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं क्वापि ब्रजति, विनयः प्रह्वयति माम् | झटित्यस्मिन् दृष्टे किमपि परवानस्मि, यदि वा, महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ।। रामः-तत् किमेकपदे एव दुःखविश्रामं ददाति उपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् । अथवा स्नेहश्च निमित्तसव्यपेक्षः इति विप्रतिषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- ने खलु बहिरुपाधीन प्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्माबुद्गते चन्द्रकान्तः॥ लवः-चन्द्रकेतो! के एते ?

गद्यभागः चन्द्रकेतुः-प्रियवयस्य ! ननु तातपादा एते । लवः-ममापि तर्हि धर्मतस्तथैव, यतः प्रियवयस्य इत्यात्थ । किन्तु चत्वारः खलु भवतामेवं व्यपदेश-भागिनः तत्र भवन्तो रामायण-कथा- पुरुषाः, तद्विशेषं ब्रूहि । चन्द्रकेतुः-ननु ज्येष्ठ-तातपादा इति अवेहि । लवः-(सोल्लासम् ) कथं रघुनाथ एषः ? दिष्टथा सुप्रभातमद्य, यदर्य देवो दृष्टः, ( सविनयकौतुक निर्वर्ण्य ) तात ! प्राचेतसामन्तेवासी लवोs- भिवादयते। रामः-(सस्नेहम् ) आयुष्मन् ! एहि एहि ( सस्नेहं परिष्वज्य ) अयि वत्स ! कृतं कृतमतिविनयेन, अनेकवारमपरिश्लथं परिष्वजस्व । परिणतकठोरपुष्करगर्भच्छदपीनममृणमुकुमारः। नन्दयति चन्द्रचन्दन-निष्यन्दजडस्तव स्पर्शः ।। लवः-(स्वगतम्) ईदृशोऽस्मादृशान् प्रति अमीषामकारणस्नेहः, मया पुनरेभ्य एव अभिद्रुग्धमज्ञेन; यदायुधपरिग्रहं यावत् अत्यारूढो दुर्योगः । (प्रकाशम् ) मृष्यन्तु इदानी लवस्य बालिशतां तातपादाः। रामः-किमपराद्धं वत्सेन ? चन्द्रकेतुः-अश्वानुयात्रिकेभ्यः तातप्रतापाविष्करणमुपश्रत्य वीरा- यितमनेन। रामः-ननु अयमलङ्कारःक्षत्रस्य। न तेजः तेजस्वी प्रसृतमपरेषां प्रसहते, स तस्य स्वो भावःप्रकृति-नियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः, किमाग्नेयमावा निकृत इव तेजांसि वमति ।।

संस्कृत-गद्यपद्य-सङ्ग्रहः चन्द्रकेतुः-तात ! अमर्षोऽप्यस्य शोभते वीरस्य । पश्यतु हि तातः प्रियवयस्यविनियुक्तज़म्भकाख-निष्कम्पैः स्तम्भितानि सर्वतः सैन्यानि । रामः-(विलोक्य )वरल लव ! संह्रियन्तामस्त्राणि । त्वमपि चन्द्रकेतो, नियापार-विलक्षितानि सान्त्वय बलानि । लवः-यथा आज्ञापयति तातः । ( इति प्रणिधानं नाटयति) चन्द्रकेतुः-यथादिष्टम् ( इति निष्क्रान्तः) लव:--प्रशान्तमनम्। रामः-वत्स ! सरहस्य-प्रयोग-संहरणानि अस्राणि आम्नायवन्ति । ब्रह्मादयो ब्रह्महिताय तप्त्वा परः सहस्रं शरदस्तपांसि | एतान्यपश्यन् गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥ अथ एतद् मन्त्रपारायणोपनिषदं भगवान् कृशाश्वः परःसहस्राधिक- वत्सरान्तेवासिने कौशिकाय विश्वामित्राय प्रोवाच । स तु भगवान् मह्य- मित्येष तु पूर्वानुक्रमः । कुमारस्य पुनः कुतः सम्प्रदाय इति पृच्छामि ? लवः-स्वतः प्रकाशानि श्रावयोरखाणि । रामः-(विचिन्त्य) प्रकृष्ट-पुण्य-परिपाकोपादानः कोऽपि महिमा स्यात् द्विवचनन्तु कथम् ? लवः-भ्रातरौ आवां यमजौ। रामः-स तहिं द्वितीयः कः? लवः-अयमसौ मम ज्यायान् आर्यः कुशो नाम भरताश्रमात् प्रतिनिवृत्तः। रामः-(सकौतुकम् ) वत्स ! इत एवाह्वय एनमपि आयुष्मन्तम् । (ततः प्रविशति कुशः) MOOGoo- गद्यभागः ब्रह्म एव जगतः कारणम् शङ्कराचार्यः [ई० ७८८-८२०] [अयमंशः शङ्कराचार्य-विरचितात् ब्रह्मसूत्रशाङ्करभाष्यस्य द्वितीयाध्यायल्य प्रथमपादस्य अष्टमाधिकरणात् उद्धृतः । अत्र वेदान्तानां मत 'ब्रह्म एव जगतः कार- णम्' इति पूर्वोत्तरपक्षाभ्यां स्थाप्यते । 'उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि'-इति सूत्रस्थमिदं भाष्यम् ।] चेतनं ब्रह्म एकम् अद्वितीयं जगतः कारणमिति यद् उक्तं तन्न उप- पद्यते । कस्मात् ? उपसंहार-दर्शनात् । इह हि लोके कुलालादयः घट- पटादीनां कर्तारः मृद्-दण्ड-चक्र-सूत्रादि-अनेक-कारक-साधनोपसंहा- रेण संगृहीत-साधनाः सन्तः तत् तत् कार्यं कुर्वाणाः दृश्यन्ते । ब्रह्म च असहायं तव अभिप्रेतम् । तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टत्वम् उपपद्येत ? तस्मात् न ब्रह्म जगतः कारणमिति चेत्, नैष दोषः। यतः क्षीरवद् द्रव्य-स्वभाव-विशेषात् उपपद्यते । यथा हि लोके क्षीरं जलं वा स्वयमेव दधि-हिम-भावेन परिणमते अनपेक्ष्य बाह्यं साधनं तथा इहापि भविष्यति । ननु क्षीरादि अपि दध्यादिभावेन परिणममानम् अपेक्षते एव वाह्यं साधनम् औष्ण्यादिकं, कथमुच्यते क्षीरवत् हीति ? नैष दोषः। स्वयमपि हि तीरं यां च यावती च परिणाममात्रामनुभवति तावति एव त्वर्यते तु औष्ण्यादिना दधिभावाय | यदि च स्वयं दधिभावशीलता न स्यात् नैव औष्ण्यादिनापि बलाधिभावम्आपद्येता नहि वायुःआकाशो वा औष्ण्यादिना बलाद् दधिभावमापद्यते । साधन-सामग्रथा च तस्य पूर्णता सम्पाद्यते परिपूर्णशक्तिकं तु ब्रह्म । न तस्य अन्येन केनचित् पूर्णता सम्पादयितव्या । श्रुतिश्च भवतिः- , ४८ संस्कृत-गद्यपद्य-सङ्ग्रहः 'न तस्य कार्य करणं च विद्यते, न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिः विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च॥' इति । तस्मादेकस्यापि ब्रह्मणः विचित्र-शक्ति-योगात् क्षीरादिवत् विचित्र परिणामः उपपद्यते। स्यादेतत्-उपपद्यते क्षीरादीनामचेतनानाम् अनपेक्ष्यापि वाचं साधनं दध्यादिभावः। दृष्टत्वात् । चेतनाः पुनः कुलालादयः साधन-साम- ग्रीम् अपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमानाः दृश्यन्ते। कथं ब्रह्म चेतनं सद् असहाय प्रवर्तेत इति ? देवादिवद् इति ब्रूमः । यथा लोके देवाः, ऋषयः, इत्येवमादयो महाप्रभावाः चेतनाः अपि सन्तःअनपेक्ष्यैव किञ्चिद् वाह्य साधनम् ऐश्वर्य-विशेष-योगाद् अभिभ्यानमात्रेण स्वत एव बहूनि नानासंख्यानानि शरीराणि, प्रासादादीनि रथादीनि च निर्मिमाणाः उपलभ्यन्ते, मन्त्रार्थवादेतिहास-पुराण-प्रामाण्यात् । तन्तुनाभश्च स्वत एव तन्तून् सृजति, बलाका च अन्तरेणैव शुक्रं गर्भ धत्ते, पद्मिनी च अनपेक्ष्य किञ्चित् प्रस्थान-साधनं सरोन्तरात् सरोन्तरं प्रतिष्ठते; एवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत् स्त्रक्ष्यति । यदि ब्रूयात् य एते देवादयो ब्रह्मणः दृष्टान्ता उपात्ताः ते दार्शन्तिकेन ब्रह्मणा न समानाः भवन्ति; शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्यु- त्पादने उपादानं न तु चेतनः आत्मा, तन्तुनाभस्य च क्षुद्रतर-जन्तु-भक्ष- णात् लाला कठिनताम् आपद्यमाना तन्तुः भवतिः बलाका च स्तनयिनु- रव-श्रवणात् गर्भ धत्ते, पद्मिनी च चेतन-प्रयुक्ता सति अचेतनेनैव शरी- रेण सरोन्तरात् सरोन्तरम् उपसर्पति, वल्लीव वृक्ष, न तु स्वयमेव अचेतना सरोन्तरोपसर्पणे व्याप्रियते । तस्मान्नैते ब्रह्मणो दृष्टान्ताः इति तं प्रति

गद्यभागः
ब्रूयात् , नायं दोषः । कुलालादि-दृष्टान्त-वैलक्षण्य-मात्रस्य विवक्षितत्वात्
इति । यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः
कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं
साधनमपेक्षिष्यते इत्येतावद् वयं देवाधदाहरणेन विवक्ष्यामः । तस्मात्
यथा एकस्य सामर्थ्य दृष्टं तथा सर्वेषामेव भवितुमर्हति ।
कृतक-कलहा
(मुद्राराक्षसाव)
विशाखदत्तः
(ई० ८५०)
[अत्र उद्धृते संवादे चाणक्य-चन्द्रगुप्तयोः कृतकः कलहः राजनौतिपूर्णः
वर्णितोऽस्ति ।]
राजा-आर्य ! कस्माद्विक्रम्य न गृहीतः ?
चाणक्यः-वृषल ! राक्षसः खलु असौ विक्रम्य निगृह्यमाणः स्वयं वा
विनश्येत् , युष्मद्बलानि वा विनाशयेत् । एवं सति उभयथाऽपि दोषः।
राजा-न शक्नुमो वयमार्यस्य वाचा वाचमतिशयितुं, सर्वथा अमा-
त्यराक्षस एव प्रशस्यतरः।
चाणक्यः-(सक्रोधम् ) न भवानिति वाक्यशेषः । मा तावत् एवम् ।
भो वृषल ! तेन किं कृतम् ?
राजा-यदि न ज्ञायते, तदा श्रूयताम् । तेन खलु महात्मना-
लब्धायां पुरि यावदिच्छमुषितं, कृत्वा पदं नो गले,
व्याघातो जयघोषणादिषु बलादस्मद्वलानां कृतः ।
-
40

संस्कृत-गद्यपद्य-सङ्ग्रहः
अत्यर्थं विपुलैः सुनीतिविभवैः सम्मोहमापादिता,
विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः ।।
चाणक्यः-(विहस्य ) वृषल ! एतत् कृतम् राक्षसेन ?
राजा-अथ किम् ? एतत् कृतम् अमात्यराक्षसेन ।
चाणक्यः-वृषल ! मया पुनः ज्ञातं नन्दमिव भवन्तमुद्धृत्य भवानिव
भूतले मलयकेतुः अधिराज्यम् आरोपितः ।
राजा-अलमुपालभ्य ! आर्य ! दैवेन इदम् अनुष्ठितम् । किम्
अत्र आर्यस्य ?
चाणक्यः आः केन ?
राजा-नन्दकुलविद्वेषिणा देवेन ।
चाणक्यः-देवम् अविद्वांसः प्रमाणयन्ति ।
राजा-विद्वांसः अविकत्थना भवन्ति ।
चाणक्यः-(क्रोधं नाटयन् ) वृषल ! वृषल !! भृत्यमिव मां आरोढु-
मिच्छसि ?
राजा-(सावेगं स्वगतम् ) अये ! तत् कथं सत्यमेव कुपितः आर्यः ?
चाणक्यः-(कृतकं कोपं संहृत्य ) वृषल ! वृषल !! अलम् उत्तरोत्तरेण |
यदि अस्मत्तो वरीयान राक्षसोऽवगम्यते, तस्माद् इदं शस्त्रं तस्मै दीयताम् ।
(शस्त्रमुत्सृज्य, उत्थाय च प्रत्यक्षवत् श्राकाशे लक्ष्यं बध्वा स्वगतम्) राक्षस!
राक्षस !! एष एव भवतः कौटिल्य-बुद्धि-विजगीषोः बुद्धेः प्रकर्षः ।
राजा-आर्य ! वैहीनरे ! अद्यप्रभृति अनाहत्य चाणक्यं चन्द्रगुप्तः
स्वयमेव राज्यकार्याणि करिष्यति इति गृहीतार्थाः प्रकृतयः क्रियन्ताम् ।
कञ्चुकी-(स्वगतम् ) कथं निरुपपद् एव चाणक्यो न आर्यचाणक्य
इति ? हन्त, सत्यमेव हतोऽधिकारः।
राजा-आर्य, किं विचारयसि ?

गद्यभागः कञ्चुकी-देव ! न किञ्चिद् विचारयामि, किन्तु एतद् विज्ञापयामि, दिष्टया देवः इदानी देवः संवृत्तः इति । राजा-(आत्मगतम् ) एवं अस्मासु गृह्यमाणेषु स्वकार्यसिद्धिकामः, सकामा भवतु आर्यः । ( प्रकाशम् ) शोणोत्तरे ! अनेन शुष्ककलहेन शिरो- वेदना मां बाधते, तत् शयनगृहमादेशय । प्रतीहारी-एतु एतु महाराजा। राजा-(श्रासनात् उत्थाय आत्मगतम् ) आर्याज्ञयैव मम लचितगौरवस्य, बुद्धिः प्रवेष्टुमवनेविवरं प्रवृत्ता। ये सत्यमेव न गुरून् प्रतिमानयन्ति, तेषां कथं नु हृदयं न भिनत्ति लज्जा ? DIGIRoo- लब्ध-पान्थ-कथा (हितोपदेशात ) श्रीनारायणः (ई०१०म शताब्दी) दक्षिणारण्ये एको वृद्धः व्याघ्रः स्नातः कुशहस्तः कदाचित् सरस्तीरे ब्रूते-भो भोः पन्थाः, इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्-भाग्येन एतत् सम्भवति। किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्ति विधेया । यतः- अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्रास्ते विष-संसर्गोऽमृतं तदपि मृत्यवे ॥

संस्कृत-गद्यपद्य-सङ्ग्रहः
किन्तु सर्वत्रार्थार्जने प्रवृत्तिः सन्देहे एव । तथा चोक्तम्-
'न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥
तन्निरूपयामि तावत् । प्रकाशं ब्रूते-कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं
प्रसार्य दर्शयति ।
पान्थोऽवदत्-कथं मारात्मके त्वयि विश्वासः ?
व्याघ्र उवाच-शृणु रे पान्थ ! प्रागेव यौवनदशायामतिदुर्वृत्त
आसम् । अनेक-गो-मानुषाणां वधान्मे पुत्राः मृताः दाराश्च, वंशहीनश्चा-
हम् । ततः केनचित् धार्मिकेणाऽहमुपदिष्टः दान-धर्मादिकं चरतु
भवान् ।
तदुपदेशादिदानीमहं स्नानशीलः, दाता, वृद्धः, गलितनखदन्तः कथं
न विश्वासभूमिः ? यतः-
इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥
तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥
मम च एतावान लोभ-विरहः येन स्वहस्तस्थमपि सुवर्ण-कङ्कणं यस्मै
कस्मैचिद् दातुमिच्छामि, तथापि व्याघ्रो मानुषं खादतीति लोकापवादो
दुर्निवारः । मया च धर्मशालाण्यधीतानि | शृणु-
मरुस्थल्यां यथा वृष्टिः क्षुधार्थे भोजनं तथा ।
दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन !।
प्राणाः यथात्मनोऽभीष्टाः भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥
-

गद्यभागः त्वं च अतीव दुर्गतः तेन तुभ्यं तदातुं सयनोऽहम् । तथा चोक्तम्- दरिद्रान् भर कौन्तेय ! मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ।। तदन्न सरसि स्नात्वा सुवर्ण-कङ्कणं गृहाण । ततो यावदसौ तद्वचःप्रतीतो लोभात् सरः स्नातुं प्रविशति तावन्महा- पङ्के निममः, पलायितुमक्षमः । पङ्के तं पतितं दृष्ट्वा व्याघोऽवदत्-अहह ! महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि । इत्युक्त्वा शनैः शनैः उपगम्य तेन व्याघ्रण धृतः पान्थोऽचिन्तयत् । न धर्मशास्त्रं पठतीति कारण, न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते, यथा प्रकृत्या मधुरं गवां पयः ।। तन्मया भद्रं न कृतं यदत्र मारात्मके विश्वासः कृतः । तथा युक्तम्- नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ।। अन्यच्च- स हि गगन-विहारी कल्मषध्वंसकारी, दशशतकरधारी ज्योतिषां मध्यचारी। विधुरपि विधियोगात् अस्यते राहुणाऽसौ, लिखितमपि ललाटे प्रोमितुं का समर्थः।। इति चिन्तयन्नेवाऽसौ व्याघ्रण व्यापादितः खादितश्च ।

संस्कृतपाद्यपद्य-सङ्ग्रहः बुद्धि-बलम् (हितोपदेशात् ) उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काक्या कनकसूत्रेण कृष्ण-सर्पो निपातितः॥ कस्मिंश्चित्तरौ वायसदम्पती निवसतः, तयोश्चापत्यानि तरकोटरा. वस्थितेन कृष्णसर्पण खादितानि । ततः एकदा वायसी वायसमाह- स्वामिन् ! त्यज्यतामयं तरुः । अत्र यावत् कृष्णसर्पः तावदावयोः सन्ततिः कदाचिदपि न जीविष्यति । यतः- दुष्टा भार्या, शठं मित्रं, भृत्यश्चोत्तरदायकः । ससपे च गृहे वासो मृत्युरेव न संशयः ।। वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मया एतस्य महापराधः सोढः, इदानी पुनर्न तन्तव्यः। वायस्याह-कथमनेन बलवता कृष्णसर्पण साधं भवान् विग्रहीतुं समर्थः स्यात् ? वायसो ब्रूते-अलमनया चिन्तया । यतः- बुद्धिर्यस्य बलं तस्य, निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ।। वायस्याह-कथमेतत् ? वायसः कथयति :- अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः, स च सर्वदा पशूनां वधं विधानः एवास्ते । ततः सर्वैः पशुभिः मिलित्वा स सिंहो विज्ञप्तः- देव ! किमर्थं सर्वपशुवधः क्रियते ? यदि प्रसादो भवति, ततो वयमेव भवदाहारार्थ प्रत्यहमेकैकं पशुमुपढौकयामः । सिंहेनोक्तम् :-यद्येतद् अभिमतं भवतां, तर्हि भवतु तत् । ततः प्रभृति प्रत्यहमेकैकं पशुम् उप- कल्पितं भक्षयन् आस्ते।

गद्यभागः समायातः। ततः - अथ कदाचित् कस्यापि वृद्धशशकस्य वारः सोऽचिन्तयत्- त्रासहेतोविनीतिस्तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे १ ॥ तन्मन्दं मन्दमुपगच्छामि । ततः सिंहोऽपि क्षुधापीडितः कोपात् तमुवाच-'कुतस्त्वं विलम्बादागतोऽसि' ? शशकोऽब्रवीत्-देव ! नाहम- पराद्धः । आगच्छन् पथि सिंहान्तरेण बलाद्धृतः । तस्याने पुनरागमनाय शपथ कृत्वा स्वामिनं निवेदयितुमत्रागतोऽस्मि । सिंहः सकोपमाह-'सत्वरं गत्वा दर्शय मे, कासौ दुरात्मा तिष्ठति ।' ततःशशकः तं गृहीत्वा गभीर-कूप-समीपं गतः-'अनागत्य स्वयमेव पश्यतु स्वामी' इत्युक्त्वा, तस्मिन् कूपजले तस्यैव सिंहस्य प्रतिविम्ब दर्शितवान् । ततोऽसौ क्रोधामातः दात्तस्योपरि आत्मानं निक्षिप्य पञ्चत्वं गतः । अतोऽहं ब्रवीमि-'बुद्धिर्यस्य बलं तस्य ।' इति । वायसी आह—'श्रुतं मया, सम्प्रति यथा कर्त्तव्यं तथा ब्रूहि वायसोs- वदत्-'प्रिये !अनासन्ने सरसि राजपुत्रः प्रत्यहमागत्य स्नाति । स्नानसमये तदङ्गावतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा धृत्वा आनीय अस्मिन् कोटरे धारयिष्यसि अथ कदाचित् कनकसूत्रं हदि संस्थाप्य स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरण-प्रवृत्तैः राजपुरुषैः तत्र तरु- कोटरे निरूप्यमाणः कृष्ण-सर्यो व्यापादितः । . - संस्कृत-गद्यपद्य-सङ्ग्रहः संसर्गजा दोषगुणा भवन्ति (द्वात्रिंशत् पुत्तलिका) [ई०-१६००] एकदा भोजराजो विहारं कत्तु सकलराजकुमारैः समवेतः तत् क्षेत्र- समीपं यावत् गच्छति तावद् मञ्चोपरि स्थितेन केनचित् ब्राह्मणेन उक्तम्-'भो राजन् ! एतत् क्षेत्रं सम्यक् फलितमस्ति । ससैन्यः समागत्य यथेच्छं भुज्यताम् । अश्वेभ्यश्चनकाः दीयन्ताम् । अद्य मम जन्म सफलम- भूत् यतो भवान् ममातिथिर्जातः। यतः ईदृशः प्रस्तावः सम्पद्यते ।' तच्छुत्वा स राजा ससैन्यः क्षेत्रमध्ये प्रविष्टः । अथ ब्राह्मणोऽपि मञ्चकावरुद्ध राजानं क्षेत्रमध्ये स्थितं भणति-'भो राजन् ! किमयमधर्मः क्रियते ? इदं ब्राह्मणक्षेत्रं विनाश्यते त्वया ? यद्य- न्यायः केनचित् क्रियते, तदा तुभ्यं निवेद्यते त्वमेवान्यायं कर्तुं प्रवृतः, इदानी को वा निवारयिष्यति ?' ततो राजा यावत् क्षेत्राद् वहिः सपरिवारो निर्गच्छति तावत् पक्षिणः समुत्थाप्य पुनः मञ्चमारुह्य वदति-'भो राजन् ! किमिति गम्यते ? क्षेत्र साधुफलितमस्ति । यावनालकदण्डान् अश्वादयः भक्षयन्तु । उरिक- फलानि सन्ति, उपभुज्यन्ताम् ।' पुनर्ब्राह्मणवचनमाकर्ण्य सपरिवारो राजा यावत् क्षेत्रमध्ये प्रविशति तावत् प्रत्युत्थापनार्थं, मश्चाद् अवरुह्य पुनस्तथैवाभवत् । ततो राजा स्वम- नसि विचारयति-'अहो ! आश्चर्यम् । यदा अयं ब्राह्मणः मञ्चमारोहति तदा अस्य चेतसि दातव्यं, भोक्तव्यमिति बुद्धिः उत्पद्यते । यदा अवतरति तादा दीन-बुद्धिःभवति । तदहं मञ्चमारुह्य पश्यामि।' इति मञ्चमारुरोह । भोजराजस्य चेतसि तदा वासना एवमभूत्-विश्वस्यातिः परिहर- णीया, सर्वस्य लोकस्यापि दारिद्रथं सम्यग निवारणीयम् , दुष्टाः दण्डनीयाः, गद्यभाग: सज्जनाः पालनीयाः, प्रजाः धर्मेण रक्षणीयाः । किंबहुना अस्मिन् समये यदि कश्चित् शरीरमपि प्रार्थयिष्यति तदपि देयमिति आनन्दपरिपूर्णः पुनः विचारयति-अहो एतत् क्षेत्रमस्य एवंविधां बुद्धिमुत्पादयति । उक्तञ्च- जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः।। कथमेतत् क्षेत्रस्य माहात्म्यं ज्ञायते इति विचार्य ब्राह्मणमाहूयावादीत् 'भो ब्राह्मण ! तवैतस्मात् क्षेत्रात् कियाँल्लाभो भवति ?' ब्राह्मणेनोक्तम्-'भो राजन् ! सकलकुशलेन त्वया अविदितं किमपि नास्ति । यदहति तत् करोतु । राजा नाम साक्षात् कल्पवृक्षः। स त्वं मम दृष्टेः गोचरोऽभूः, अद्य मम दैन्यदरिद्रतादीनामवसानं जातम् , क्षेत्र कियत् । ततो राजा तं ब्राह्मणं धनधान्यादिना परितोष्य तत् क्षेत्रं गृहीत्वा मञ्चकाधः खानितुं प्रारम्भमकार्षीत् । पुरुषप्रमाणे गर्ने जाते शिला एका सुमनोहरा अवलोकिता । तद्धः चन्द्रकान्तशिला विनिर्मितं नानारत्न- खचितं द्वात्रिंशत्पुत्तलिकाभिः युक्तम् अतिरमणीयम् दिव्यमेकं सिंहा- सनमपश्यत् । तत सिंहासनं दृष्ट्वा भोजराजः परमानन्द-लहरी-परिपूर्ण- हृदयः भूत्वा सिंहासनं ग्राम प्रति नेतुं यावदुचालयति तावदधिकं गुरुर्भ- यति, नोच्चलति च। ततोमन्त्रिणमवदत्-'भोमन्त्रिन् ! किमर्थमेतत्सिंहासनं नोचलति ?' मन्त्रिणोक्तम्-'राजन् ! एतत् सिंहासनं दिव्यमपूर्वं च वलिहोमपूजा- दिकं विना नोचलिष्यति तव साध्यं च न भविष्यति ।' तस्य वचनं श्रुत्वा राजा ब्राह्मणान् आहूय तैः सर्वमपि विधानं कारित- वान् । ततस्तत् सिंहासनं लघु भूत्वा स्वयमेवोच्चलतिस्म । तदृष्ट्वा राजा मन्त्रिणमुवाच 'भो मन्त्रिन्! एतत् सिहासनं प्रथमं मम असाध्यमभवत्, परन्तु इदानीं तव बुद्धिप्रभावेण मम हस्तगतमासीत् । अतो बुद्धिमतां संसर्गः लाभाय सुखाय च भवति ।'

संस्कृत-गद्यपद्य-सङ्ग्रहः कर्तव्यपरायणः दौवारिका (शिवराजविजयात् ) स्व० पं० अम्बिकादत्तव्यासः (ई०-१६००) ततः संवृत्ते किञ्चिदन्धकारे धूप-धूमेनेव व्याप्तासु हरित्सु, भुशुण्डी स्कन्धे निधाय निपुणं निरीक्षमाणः, आगत-प्रत्यागतञ्च विधानः, प्रताप- दुर्ग-दौवारिका, कस्यापि पादक्षेप-ध्वनिमिव अौषीत् । ततः स्थिरीभूय पुरतः पश्यन् सत्यपि दीप-प्रकाशे अवतमसवशाद् भागन्तारं कमपि अनवलोकयन् , गम्भीरस्वरेण एवमवादीत-- 'कः कोऽत्र भोः ? कः कोऽत्र भोः ?' इति । अथ क्षणानन्तरं पुनः स एव पावनिः अश्रावि, इति भूयः साक्षेप- मवोचत्—'क एष भामनुत्तरयन् मुमूर्षुः समायाति बधिरः' ? ततः- 'दौवारिकः ! शान्तो भव, किमिति व्यर्थ मुमूर्षुः इति, बधिर इति च वदसि ?' इति वक्तारमपश्यता एव आकर्णि मन्दस्वरमेदुरा वाणी | अथ 'तत् कि नाज्ञायि अद्यापि भवता प्रभुवर्याणामादेशो यत् दौवारिकेण प्रहरिणा वा त्रिः पृष्टोऽपि प्रत्युत्तरम् अदद् हन्तव्य इति ?' इत्येवं भाष- माणेन द्वाःस्थेन, 'क्षम्यतामेष आगच्छामि आगत्य च निखिलं निवेदन यामि' इति कथयन् द्वादशवर्षेण केनापि भिक्षुवटुना अनुगम्यमानः, कोऽपि काषायवासाः, धृत-तुम्बी-पात्रः, भस्म-च्छुरित-ललाटा, रुद्राक्ष-मालिका- सनाथित-कण्ठः, भव्यमूर्तिः सन्न्यासी दृष्टः । ततस्तयोरेवमभूदालापः- सन्यासी-कथमस्मान् सन्न्यासिनोऽपि कठोरभाषणैः तिरस्करोषि ? दौवारिकः-भगवन् ! भवान् सन्न्यासी, तुरीयाश्रमसेवीति प्रणम्यते, परन्तु प्रभूणामाज्ञामुलंध्य निजपरिचयमददद् एव आयातीत्याक्रुश्यते ।

गद्यभाग: सन्न्यासी-सत्यं क्षान्तोऽयमपराधः, परमद्यावधि सन्न्यासिनः, ब्रह्म- चारिणः, पण्डिताः, स्त्रियः, बालाश्च न किमपि प्रष्टव्याः, आत्मनमपरि- चाययन्तोऽपि च प्रवेष्टव्याः। दौवारिकः-सन्न्यासिन् , सन्न्यासिन् !! बहूक्तम्, विरम, न वयं दौवारिकाः ब्रह्मणोऽप्याज्ञां प्रतीक्षामहे । किन्तु यो वैदिक-धर्मरक्षा-व्रती, यश्च सन्न्यासिनां, ब्रह्मचारिणां, तपस्विनाञ्च सन्न्यासस्य, ब्रह्मचर्यस्य, तपसश्च अन्तरायाणां हन्ता, येन च वीरप्रसविनी इयमुच्यते कोकणदेश- भूमिः तस्यैव महाराजशिववीरस्य आज्ञा वयं शिरसा वहामः । सन्न्यासी-अथ किमप्यस्तु, पन्थानं निर्दिश | आवां शिववीरनिकटे जिगमिषावः। दौवारिकः-अलमालप्यापि तत्।प्राहे महाराजस्य सन्ध्योपासनसमये भवाहशानां प्रवेशसमयो भवति, न तु रात्रौ । सन्न्यासी-तत् किं कोऽपि न प्रविशति रात्रौ ? दौवारिकः-(साक्षेपं) कोऽपि कथं न प्रविशति ? परिचिता वा प्राप्त-परिचय-पत्रा वा आहूता वा प्रविशन्ति, न तु भवादृशाः, ये तुम्बी गृहीत्वा द्वाराद् द्वारम्-इति कथयन्नेव तत्तेजसेव धर्षितः मध्ये एव विरराम। सन्न्यासी-(स्वगतम् ) राजनीतिनिष्णातः शिववीरः । सर्वथा दौवा- रिकतायोग्य एवायं द्वारपालः स्थापितोऽस्ति । परीक्षितमपि एनमनेक- स्मिन् विषये पुनः परीक्षिष्ये तावत् । (प्रकटम् ) दौवारिक ! इत आयाहि, किमपि कर्णे कथयिष्यामि । दौवारिकः-( तथा कृत्वा) कथ्यताम् । सन्न्यासी-निरीक्षस्व, त्वमधुना दौवारिकोऽसि, प्राणान् अगणयन् जीविका निर्वहसि । त्वं सहस्रं वा अयुतं वा मुद्राः राशीकृताः कदापि प्राप्स्यसीति न कथमपि सम्भाव्यते ।

६० संस्कृत-गद्यपद्य-सङ्ग्रहः दौवारिका-आम्, अग्रे कथ्यताम् । सन्न्यासी–वयश्च सन्न्यासिनः वनेषु गिरिकन्दरेषु च विचरामः, सर्व रसायन-तत्त्वं विद्मः। दौवारिकः-स्यादेवम् , अग्रे, अग्रे? सन्न्यासी-तद् यदि त्वं मां प्रविशन्तं न प्रतिरुन्धेः तद् अधुनैव परिष्कृतं पारद-भस्म तुभ्यं दद्याम् , यथा त्वं गुञ्जामात्रेणापि द्वापञ्चाशत् संख्यापक-तुलापरिमितं तानं जाम्बूनदं विधातुं शक्नुयाः । दौवारिकः-हहो! कपट-सन्न्यासिन् । कथं विश्वासघात स्वामि- वञ्चनञ्च शिक्षयसि ? ते केचन अन्ये भवन्ति जार-जाताः ये उत्कोच- लोभेन स्वामिनं वञ्चयित्वा आत्मानमन्धतमसे पातयन्ति । न वयं शिव- गणाः तादृशाः। (सन्न्यासिनः हस्तं धृत्वा) इतस्तु सत्यं कथय, कस्त्वम् ? कुत आयातः ? केन वा प्रेषितः ? सन्न्यासी-(स्मित्वेव ) अथ त्वं मां कं मन्यसे ? दौवारिकः-अहन्तु त्वामस्यैव ससेनस्यायातस्य अपजलखानस्य सन्न्यासी-(निवार्य मध्य एव ) धिक् ! धिक् !! दौवारिकः-कस्यापि अन्यस्य वा गूढचरं मन्ये । तदादेशं पालयिष्यामि प्रभुवर्यस्य । ( हस्तमाकृष्य ) आगच्छ दुर्गाध्यक्ष-समीपे, स एवाभिज्ञाय त्वया यथोचितं व्यवहरिष्यति । ततः सन्न्यासी तु-'त्यज, नाहं पुनरायास्यामि, नाहं पुनरेवं कथ- यिष्यामि, महाशयोऽसि, दयस्व, दयस्व'-इति सहस्रधा समचकथत् । तथापि दौवारिकस्तु तमाकृष्य नयन्नेव प्रचलितः। अथ यावद् द्वारस्थस्तम्भोपरि संस्थापितायां काच-मञ्जूषायां जाज्वल्य. मानस्य प्रबलप्रकाशस्य दीपस्य समीपे समायातः तावत् सन्न्यासिना उक्तम्-'दौवारिक ! अपि मां पूर्वमपि कदाप्यद्राक्षीः ?' ततो दौवारिक गद्यभागः पुनस्तं निपुणं निरीक्षमाणः मन्द्रेण स्वरेण, अरुणापाङ्गाभ्यां लोचनाभ्यां, गौरतरेण वर्णेन, चुम्बितयौवनेन वयसा, निर्भीकेण हारिणा च मुखमण्ड- लेन पर्यचिनोत् । भुशुण्डी-समुत्तोलन-किण-कर्कश-करग्रहमपहाय, सलज इव च नम्रीभूय प्रणमन् उवाच-'श्राः ! कथं श्रीमान् गौरसिंहः आर्यः ? क्षम्यतामनुचितः व्यवहारः एतस्य प्राभ्यवराकस्य ।' तदवधार्य तस्य पृष्ठे हस्तं विन्यसन् सन्न्यासिरूपो गौरसिंहः समवोचत्-'दौवा- रिक ! मया बहुशः परीक्षितोऽसि । ज्ञातोऽसि, यथायोग्य एव पदे नियुक्तोऽसि चेति । त्वाहक्षा एव प्रभुवर्याणां पुरस्कारभाजनानि भवन्ति, लोकद्वयञ्च विजयन्ते । तव प्रामाणिकतां जानीत एव अत्र भवान् प्रभुवर्यः, परमहमपि विशिष्य कीर्तयिष्यामि। - भूषणकवेः शिवराजेन परिचय: (शिवराजविजयात् ) अथैकदा रजन्यां सिंह-दुर्गाविदूरे एव सुकोमल-शादायां कलित- प्रसादायां केकि-केका-विहत-प्रहरि-प्रातिनिध्यायां निष्कृप-कृपाण-पाणिः, कञ्चुकाच्छादित-कठिन-कवचः, कलित-सैनिक-भट-वेषः, श्रीशिववीरो गुप्तवेषेण परितः पर्यटन् , दुग्ध-धारया इव क्षालितैः, ज्योत्स्नया प्रकाशितैः पथिभिः आसन्नात् शिवमन्दिराद् आराआजगामातत्र चद्वारिरेणु-रूषि- त-रोम-कुहरम् , शफोत्फालित-मृत्स्ना-स्नातं, त्वरित-गति-श्वास-प्रश्वास- सहचरित-हिणत्कारसूचित-क्लमम् , उत्थाय उत्थाय, पृष्ठमुत्कम्प्य, ग्रीवाम् उधूय, पौनःपुन्येन पतित्वा, भुवि विलुण्ठन्तं, कञ्चन अश्वमद्रासीत् । 'कस्यायम् ? कुतोऽयम् ?' इति मनसि विचिन्वश्व समीपमागत्य, चुचु- स्कारैः अश्वं सान्त्वयन्वं हरित-तृण-भारं च पुरतः प्रक्षिपन्तं कमपि शूद्र- ६२ संस्कृत-गद्यपद्य-सङ्ग्रहः युवकमपि अवालोकयत् । तं च विवर्ण-वदनम् , आजानु-धूलि-धूसरित- चरण-युगलम्-मन्थरितशरीरम् स्वेद-क्लिन्नं च अवलोक्य, 'दूरतः कश्चन समायातोऽस्ति, तभृत्य एवायम्' इति निश्चित्य शनैः अप्रासीत्'कस्या- यमश्वः ?' इति । स तु स्वकार्यसंलग्नः अन्यमनस्कः एव, 'समायातः कोऽपि' इत्युदतरत् । पुनरपि कुतः आगताः यूयम् ? इति पृच्छति शिववीरे च, 'किमिव निरर्थं प्रश्नानुङ्कयसि ? आलपितुमिच्छसि चेत् घटिका- युगलमतिवाह्य समायास्यसि, यथा पूरित-जठर-पिटकः ताम्रक-धूमपानैः गलनलं कवोष्णयन् , त्वया सह वार्ताभिः अध्धपरिश्रमम् अल्पयिष्यामि ।' तदाकर्ण्य अन्तः विहसन्निव शिववीरः 'तथा करिष्यावः किन्तु कथय तावत् कुत आगताः यूयम् ? इति पुनरपृच्छत् । स तु घोटके दत्तदृष्टि- रेव सकोपमवादीत्-'कुतः आगताः यूयम् , कुतः आगताः यूयम् इति कुतःकारैः स्फोटितौ मे कौँ । वयं दिल्लीतः आगताः । दिल्लीतः, दिल्लीतः, दिल्लीतः । कथय किं गजं ददासि घोटकं वा ?' तदाकय शिववीरः तत्प्र- कृति परिज्ञाय, शनैः परिवृत्य, मन्दिरस्य पश्चिमदेशे पर्यटितुमारेभे । 'कोऽयं, कुतोऽयं, चरो वा, सन्देशहरो वा, कपटपथिको वा अस्मत पक्षपाती वा, शत्रुपदातिर्वा, कोऽपि उभयपक्षोदासीनो वेति सद्य एव विज्ञेयम् , इति विचारयन् , मन्दिर-पाश्चात्य-प्राचीर-गवाक्षाद् आयान्तं कश्चिद् अस्पष्टालाप-ध्वनिमश्रौषीत्। क्षणं विरम्य च गवाक्ष-समीपमागत्य, ध्वनिप्रतिध्वनिभिः अव्यक्तांशबहुलामपि एवमुक्तिं निश्चिच्ये यत्- चिराय दिल्ली-वल्लभ-पाणि-पल्लव-तल्लज-च्छायामध्युषितोऽस्मि। परं वयं कवयः कस्यापि राजत्वं वा प्रतापित्वं वा आन्यत्वं वा नापेक्षामहे । न वा कस्यापि साभिमान-भ्रूमङ्गम्, उत्तुङ्ग-कोपाञ्चिताखव-गर्व-वर्वरतां वा सहामहे । न तस्य तादृशं भू-वलये राज्यं यादृशमस्माकं सारस्वत- सृष्टौ, तस्य क्रीतदासा अपिन तदीहा-समकालमेव बद्ध-कर-सम्पुटायथो- , - गद्यभागः ६३ चितावस्थानाः पुरोऽवतिष्ठन्ते, यथाऽस्माकं पदानि, वाक्यानि, छन्दांसि, अलङ्काराः, रीतयः, गुणाः, रसाश्च । स दीनार-सम्भारैरपि न तथा परान् तोषयितुमलम् ; यथा वयं केवलं वचनभङ्गीभिरेव पारयामः | अस्मत् शृङ्गार-रस-रसायनकम् आस्वाद्य जित-राग-द्वेषो मुनिरपि प्रतीपदर्शि- नीम् अनुकूलयितुम् आकुलः कल्पेत । अस्मद्-वैराग्य-कवितामाकये रागोऽपि विरज्येत् अस्मद्-वीर-रस-कवितां च आकलय्य म्रिय- माणोऽपि युद्धे उत्तिष्ठेत् | यस्य भाग्ये चिरावस्थायिनी कीर्तिः, समुद्र- कल्लोलाघात-सहं च यशः स एव अस्मान् आद्रियते । न वयं मीनानिव पीनान , इभान इव तुन्दिभान् , भेकानिव निर्विवेकान्, वृषदंशकानिव कपट-हिंसकान्, काकानिव आस्वादित-दुर्विपाकान , वलीमुखान् इव चञ्चल-मुखान् शृगालानिव कलित-धूर्तता-मालान् , द्विजिह्वानिव च द्विजिह्वान् , सजीवानिव उपबर्हान , आत्मस्तुतिमात्र-रुचीन , मूर्तिमत इवाभिमानान् , विद्या-शून्यान् , गुणि-गण-गुण-ग्रहणासमर्थान् , मिथ्या- मोद-रतान् , वराङ्गना-जात-चरणपाताघात-सहान् , मद्य-कीटान्, धूतानन्यभक्तान , नृपम्मन्यान् , स्वप्नेऽपि समुपास्महे | दिल्लीश्वर-पद- विडम्बनपि चाहं तादृशेष्वेव अन्यतममवगत्य क्षणेनैव तत्सम्बन्ध-सूत्रं बोटयित्वा रसिकान्तरं कमपि वीरमन्विष्यन् दक्षिणां दिशं प्रस्थितोऽस्मि । पथि च आमेर-देशाधीशेन बहुशः प्रार्थ्यमानोऽपि स तस्यैव दिल्ली- वलय-कलङ्कस्य लालाटिक इत्यवगत्य शिववीर-कीर्तीश्च श्रावं श्रावं कर्णयोराकृष्ट इव इतः समायातोऽस्मि, द्रक्ष्यामि किं भावि-' इति वक्तारं कमपि कविं त्यक्त-दिल्लीश-द्वारं निजं दिक्षुमत्र आग- तम् ऊरीकृत्य पुनः परिक्रम्य, द्वारमार्गेण मन्दिरं प्रविश्य, शिवं प्रणम्य, घण्टामाहत्य, बिल्व-दलमुत्थाप्य, नेत्रयोः संस्पर्श्य, शिखायां संस्थाप्य, मृत्तिकाशरावस्थं भस्म अलिके विलिप्य, प्रदक्षिण-च्छलेन पान्थाध्युषित- , ६४ संस्कृत-गद्यपद्य-सङ्ग्रहः प्रदेशमागत्य तेनालपन्तं शिवमन्दिराध्यक्ष प्रणम्य बद्धाञ्जलिः आगन्तुक- मपि-'कुतः श्रीमान् ? कः श्रीमान् ?' इति सादरं समपृच्छत् । मन्दिराव्यक्षस्तु स्वरेण आकृत्या च तं परिचिन्वन्नपि तनियमं संस्मृत्य न तथा अचेष्टत, यथा स विज्ञातः स्यादपरैः । शिववीरस्तु तेन सह चिरमालप्य, तस्य वृत्तान्तम् , अवस्थां प्रकृति च अवगत्य, चिराय श्रुतचरं 'भूषण' कविरित्यभिधानं च उररीकृत्य 'श्वो द्रष्टा भवान् शिवराजम्' इत्यभिधाय न्यवतिष्ट । निवर्तमानश्च तेनापि-'को भवानिति पृष्टः' 'एतद्देशीयः कोऽपि वीरोऽस्मि' इत्युदतीतरत् । प्रातरेव च नित्य-नियमात् निर्वयं स्वेष्ट-जन-सहितः सभा-संस्थ एव, स्वभृत्येन भूषण-कविमाकारयत् । स तु बद्ध-महोष्णीषः, पादाप्रपर्यन्त-विलम्बमान-कक्षुकः' नारिकेल- फल-सार-सहितं यज्ञोपवीत-युगलं हस्ते आदधानः द्वारपाल-दर्शितेन पथा सभां प्रविश्य 'विजयतां महाराजः' इति सिंह-गर्जनमवधीरयता स्वरेण उच्चैः उच्चार्य, स्वोपहारं महाराजहस्ते अर्पयत् । निर्दिष्ट-स्थाने उपविश्य च स एवायं पूर्वदृष्टो वीर इति निरीक्ष्य, 'अहो वीरो वीरो वीरः । वीरमेवान्विष्यन् दिल्लीतः इतो यावत् समाया- तोऽस्मि, वीरमेव च प्राप्तवानस्मि | विजयतां धर्मोद्धारण-धीरः, सपत्नो- त्सारण-समीरः, वीरो महाराज' इत्युदीर्य किश्चित् स्मयमानस्य महाराजस्य मुखम् अवलोकयन् तत्-प्रशंसायां वीर-रसमयीं कवितामेकामपठत् । महाराजस्तु-'साधु साधु' इति व्याहृत्य पुनः पठितुम् आज्ञप्तवान् । पठितवति च तस्मिन् सर्वेषु प्रसन्नेषु पुनरप्यादिशत् । एवं विशतिवारं तेन सा ब्रज-भाषामयी 'कवित्वकाम'नामिका वृत्तिः अपाठि । महाराजेन च तस्मैगजानां विंशतिःवितीर्णा, इत्यद्यापि प्रसिद्ध कविता-रसिकानांमण्डले । इति गद्यभागः समाप्तः।

पद्यभागः वैदिकस्तुतयः (ऋग्वेदः) अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ अग्निः पूर्वेभिः ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२॥ अग्निना रयिमश्नवत् पोषमेव दिवे दिवे। यशसं वीरवत्तमम् ॥३॥ स नः पितेव सूनवे अग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥४॥ अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मद्जुहराणमेनो भूयिष्ठां ते नम उक्ति विधेम ॥१॥ (शुक्लयजुर्वेदः) ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यचित् धनम् ॥ ६॥ कुर्वमेवेह कर्माणि जिजीविषेत् शतं समाः एवं त्वयि नाऽन्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ ७ ॥ असूर्या नाम ते लोकाः अन्धेन तमसावृताः तांस्ते प्रेत्याभिगच्छन्ति यें के चात्महनो जनाः ॥८॥ यस्तु सर्वाणि भूतानि अत्मन्येवाभूद् विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥९॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् तत्त्वं पूषन् अपावृणु सत्यधर्माय दृष्टये ॥१०॥ ५ ६६ संस्कृत-गद्यपद्य-सङ्ग्रहः (सामवेदः) अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सिवर्हिषि ॥११॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥१२॥ शं नो देवीरभिष्टये शं नो भवन्तु पीतये | शं योरभिस्रवन्तु नः ॥१३॥ पाहि नो अग्न एकया पायुत द्वितीयया । पाहि गीर्भिस्तिमृभिरूजापते पाहि चतसृभिर्वसो ॥१४॥ प्रातरग्निः पुरुप्रियो विशः स्रवेतातिथिः । विश्वे यस्मिन्नमत्यै हव्यं मर्तास इन्धते ॥ १५ ॥ (अथर्ववेदः) ये त्रिसप्ताः परियन्ति विश्वा रूपाणि विभ्रतः। वाचस्पतिर्वला तेषां तन्वो अद्य दधातु मे ॥ १६ ॥ पुनरेहि वाचस्पते देवेन मनसा सह बसोष्पते निरमय मय्येवास्तु मयि श्रुतम् ॥ १७ ॥ इहैवाभि वितनूभे आनी इव ज्यया वाचस्पतिनियच्छतु मण्येवास्तु मयि श्रुतम् ॥ १८॥ उपहूतो बाचस्पतिरुपास्मान् वाचस्पतिहू यताम् । सं श्रुतेन गमेमहि मा श्रुतेन विराधिषि ॥ १९ ।। अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् । पृश्चतीमधुना पयः ॥२०॥ -

प्रगति-प्रशंसा
(ऐतरेयब्राह्मणस्य त्रयस्त्रिंशाध्यायात् )
नानानान्ताय श्रीरस्तीति रोहित शुश्रुम
पापो नृषद्वरो जन इन्द्र इच्चरतः सखा ॥१॥
पुष्पिण्यौ चरतो जो भूष्णुरात्मा फलमहिः ।
शेरेऽस्य सर्वे पाप्मानः अमेण प्रपथे हताः ॥२॥
आस्ते भग आसीनस्योर्ध्वस्तिष्ठति तिष्ठतः ।
शेते निषद्यमानस्य चराति चरतो भगः ॥३॥
कलिः शयानो भवति संजिहानस्तु द्वापरः ।
उत्तिष्ठनेता भवति कृतं सम्पद्यते चरन् ॥ ४॥
चरन् वै मधु विन्दति चरन् स्वादुमुदुम्बरम् ।
सूर्यस्य पश्य माणं यो न तन्द्रयते चरन् ॥५॥
उपनिषद्वचनामृतम्
नचिकेत-उपाख्यानम्
( यजुर्वेदोयकठोपनिषदः प्रथमाध्यायस्य प्रथमा वल्ली)
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम
पुत्र आस । तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश ।
सोऽमन्यतः-
पीतोदका जग्ध-तृणा दुग्ध-दोहा निरिन्द्रियाः।
अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्॥१॥

६८
संस्कृत-गद्यपद्य-सङ्ग्रहः
स होवाच पितरं तत कस्मै मां दास्यसीति ।
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥२॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
किं विद्यमस्य कर्त्तव्यं यन्मयाद्य करिष्यति ॥३॥
अनुपश्य यथा पूर्वे प्रतिपश्य यथा परे ।
सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥४॥
वैश्वानरः प्रविशत्यतिथिाह्मणो गृहान् ।
तस्यैतां शान्ति कुर्वन्ति हर वैवस्वतोदकम् ॥५॥
आशाप्रतीक्षे सङ्गतं सूनृतां चेष्टापूर्ते पुत्रपर्धेश्च सर्वान् ।
एतद्वंक्त पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥६॥
तिस्रो रात्रीयदवात्सीगृहे मेऽनश्नन् ब्रह्मन्नतिथि मस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥७॥
शान्तसङ्कल्पः सुमना यथा स्यात् वीतमन्युगौतमो माभिमृत्यो ।
त्वत्प्रसृष्टं माभिवदेत् प्रतीतः एतत् त्रयाणां प्रथमं वरं वृणे ॥८॥
यथा पुरस्ताद्भविता प्रतीतः औदालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम् ॥६॥
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीवोऽशनाया पिपासे शोकातिगो मोदते स्वर्गलोके ॥ १०॥
स त्वमग्निं स्वर्गमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्ते एतद् द्वितीयेन वृणे वरेण ॥११॥
प्रते ब्रवीमि तदुमे निबोध स्वयमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतन्निहितं गुहायाम् ॥ १२ ॥
लोकादिमग्नि तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १३॥

पद्यभागः
६९
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाय ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः सतां चेमामनेकरूपां गृहाण ॥ १४ ॥
त्रिणाचिकेत्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्म यज्ञं देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्तमेति ॥१५॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वान् चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१६॥
एष तेऽग्निर्नचिकेतः स्वग्र्यो यमवृणीथा द्वितीयेन वरेण |
एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ।। १७ ॥
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तुतीयः ॥१८॥
देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमुणुरेष धर्मः ।
अन्यं वरं नचिकेतो वृणीष्व मामोपरोस्सीरतिमा सृजैनम् ॥ १६ ॥
देवैरत्रापि विचिकित्सितं किल त्वं स मृत्यो यन्न सुविज्ञेयमात्थ ।
वक्ता चास्य त्वाहगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥२०॥
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून हस्ति-हिरण्यमश्वान |
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥२१॥
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकाश्च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २२ ॥
ये ये कामा दुर्लभामर्त्यलोके सर्वान् कामान् छन्दतःप्रार्थयस्व ।
इमा रामाः सरथाः सतूर्याः नहीशा लम्भनीया मनुष्यैः ।। २३ ।।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं मानुप्राक्षीः।
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ॥२४ ।।
अपि सर्व जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ।
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ॥२५॥

संस्कृत-गद्यपद्य-सङ्ग्रहः जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव । अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः कधः स्थः प्रजानन् ॥ २६ ॥ अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घ जीविते को रमेत | यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् ॥२७॥ योऽयं घरो गूढममुप्रविष्टो नान्यं तस्मात् नचिकेता वृणीते । वाल्मीकिः [ई० पू०-६००] सदूषणापि निर्दोषा सखरापि सुकोमला | नमस्तस्मै कृता येन रम्या रामायणी कथा || (त्रिविक्रमः) अयं महाकविः 'श्रादिकविरिति गीयते । वाल्मीकीय-रामायणञ्च लौकिक- साहित्यस्य आदिकाव्यम् । दृश्यते तत्र सर्गान्ते भी आदिकाव्ये' इति प्रयोगः। कथ्यते नु निषाद-विद्ध-क्रौञ्च-द्वन्द्ववियोगेन जनितं क्रौञ्चीकारुण्यमवलोक्य समुत्पनः शोक एव रामायण-रचनाधारभूत इति- तामभ्यगच्छद्रुदितानुसारी मुनिः कुशेष्माहरणाय जातः । निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥ (कालिदासः) रामचरितप्रतिपादकं सर्गबद्ध महाकाव्यमेतत् । इदश्च सप्तकाण्डात्मकम् । चतु: विंशतिसाहस्र पञ्चशतसर्गयुतम् । एतस्य वर्णनशैली कमनीयकाव्यकलाया आदर्शभूता। अनुप्रासोपमादीनां शब्दार्थालङ्काराणां तु निधिरेव । करुणरसप्रधानम् । नास्ति संस्कृतसाहित्यस्य सुप्रसिद्धः कोऽपि महाकविः येन नानुकृतमेतद् प्रन्थरत्नमिति।

मूलरामायणम्
तपास्वाध्याय-निरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिमुनिपुङ्गवम् ॥१॥
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च
सत्यवाक्यो दृढव्रतः ॥२॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः समर्थश्च कश्चैकः प्रियदर्शनः ॥३॥
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥४॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे, त्वं समर्थोऽसि ज्ञातुमेवं विधं नरम् ॥५॥
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीके रदो वचः ।
श्रूयतामिति चामन्य प्रहृष्टो वाक्यमब्रवीत् ॥६॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥७॥
इक्ष्वाकुवंश-प्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान वशी ॥८॥
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिवर्हणः ।
विपुलांसो महामाहुः कम्बुप्रीवो महाहनुः ॥ ६॥
महोरस्को महेष्वासो गूढजत्रुररिन्दमः
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१०॥
समः सम-विभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभ-लक्षणः ॥११॥

७२
संस्कृत-गद्यपद्य-सङ्ग्रहः
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः।
यशस्वी ज्ञान-सम्पन्नःशुचिर्वश्यः समाधिमान् ॥ १२॥
प्रजापतिसमः श्रीमान् धाता रिपु-निषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥१३॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेद-वेदाङ्ग-तत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१४॥
सर्व-शास्त्रार्थ-तत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्व-लोक-प्रियः साधुरदीनात्मा विचक्षणः ॥१५॥
सर्वदाऽभिगतः सद्भिः समुद्र. इव सिन्धुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१६॥
स च सर्वगुणोपेतः कौशल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१७ ।।
राम-हनूमत्संवादः
(वाल्मीकिरामायणात)
(ई०पू०-६००)
[इमे श्लोकाः आदिकेवः वाल्मीकेः रामायणस्य उत्तर-काण्डात् संगृहीताः ।
अयोध्यां प्राप्य रामः सुप्रीवादीन् वानरान् विभीषणादीन् राक्षसान् च अयोध्यातः
परावर्तयति। तस्मिन्नेवाऽवसरे हनूमान् राम प्रति ब्रूते ]
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।
हनूमान् प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥१॥
स्नेहो मे परमो राजन्! त्वयि तिष्ठतु नित्यदा।।
भक्तिश्च नियता वीर!भावो नान्यत्र गच्छतु॥२॥

पद्यभागः
७३
यावद्रामकथा वीर! चरिष्यति महीतले ।
तावत् शरीरे वत्स्यन्तु प्राणाः मम न संशयः ॥३॥
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन!।
तन्मयाप्सरसो राम! श्रावयेयुनरर्षस ! ॥४॥
तच्छुत्वाऽहं ततो वीर ! तव चर्यामृतं प्रभो!।
उत्कएठां तां हरिष्यामि मेघलेखामिवानिलः ॥५॥
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥६॥
एवमेतत्कपिश्रेष्ठ ! भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ॥७॥
तावत्ते भविता कीर्तिः शरीरेप्यसवस्तथा ।
लोकाः हि यावत् स्थास्यन्ति तावत् स्थास्यन्ति मे कथाः॥८
एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे!
शेषस्येहोपकाराणां भवाम ऋणिनो वयम् ।। ६॥
मदङ्गे जीर्णतां यातु यत्त्वयोपकृतं कपे ।
नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम् ॥१०॥
ततोऽस्य हारं चन्द्राभं मुच्य कएठात्सराघवः।
वैदूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ ११॥
तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ १२ ॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ १३ ॥
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते वाष्प-विक्कवाः॥१४॥

संस्कृत-गद्यपद्य-सङ्ग्रहः
सर्वे च ते वाष्पकलाः साननेत्राः विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥१५॥
कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ १६ ॥
ततस्तुत राक्षस-ऋक्ष-वानराः,
प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रु-प्रतिपूर्ण-लोचनाः,
प्रतिप्रयातास्तु यथा निवासिनः॥ १७ ॥
सीता-परित्यागः
(पाल्मीकिरामायणस्योत्तरकाण्डात् )
[अत्र अधस्तनेषु श्लोकेषु रामः सीताविषयकं लोकापवादमाकर्ण्य वने सीतां
परित्युक्तुं लक्ष्मणमादिशति ।
जानासि त्वं यथा सौम्य ! दण्डके विजने वने।
रावणेन हृता सीता स च विध्वंसितो मया ॥१॥
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥२॥
प्रत्ययार्थ ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे! देवानां हव्यवाहनः ॥३॥
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥४॥
ऋषीणाञ्चैव सर्वेषामपापां जनकात्मजाम् ।
एवं शुद्ध-समाचारा देवगन्धर्व-सन्निधौ ॥५॥

पद्यभागः
लवाद्वीपे महेन्द्रेण मम हस्ते निवेदिता ।
अन्तरात्मा च मे वेत्ति सीतां शुद्धां तपस्विनीम् ॥६॥
ततो गृहीत्वा
वैदेहीमयोध्यामहमागतः ।
अयं तु मे महान् वादः शोकश्च हृदि वर्तते ॥ ७ ॥
पौरापवादः सुमहान् तथा जनपदस्य च ।
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ॥८॥
पतत्येवाधमाँल्लोकान् यावत् शब्दः प्रकीयते ।
अकीर्तिनिन्द्यते देवैः कीर्तिलॊकेषु पूज्यते ॥३॥
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।
अप्यहं जीवितं जह्यां युष्मान् वा भरतर्षभाः ॥१०॥
अपवाद-भयादीतः किं पुनर्जनकात्मजाम् ।
तस्माद् भवन्तः पश्यन्तु पतितं शोकसागरे ॥११॥
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतोऽधिकम् ।
श्वस्त्वं प्रभाते सौमित्रे ! सुमन्त्राधिष्ठितं रथम् ।। १२ ।।
आरुह्य सीतामारोप्य विषयान्ते परित्यज ।
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥१३॥
आश्रमो दिव्यसंकाशस्तमसा तीरमाश्रितः ।
तत्रैतां विजने देशे विसृज्य रघुनन्दन ! ॥१४॥
शीघ्रमागच्छ सौमित्रे ! कुरुष्व वचनं मम ।
न चास्मि प्रतिवक्तव्यः सीतां प्रतिकथञ्चन ॥१५॥
तस्मात्त्वं गच्छ सौमित्रे ! नात्र कार्या विचारणा ।
अप्रीतिहि परा मह्यं त्वयैतत् प्रतिवारिते ॥ १६ ॥
शापिता हि मया यूयं पादाभ्यां जीवितेन च ।
ये मां वाक्यान्तरे युरनुनेतुं कथञ्चन ॥ १७ ॥

सीतायाः पातालप्रवेशः ( वा० रामायणात् ) [अयमंशः वाल्मीकिरामायणस्योत्तरकाण्डात् गृहीतः । वाल्मीकिना सीतायाः शुद्धत्वस्य लवकुशयोश्च परिचये दत्ते सति रामः वाल्मीकिं ब्रूते।] वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ।। १॥ एवमेतन्माहाभाग ! यथा वदसि धर्मवित् ! । प्रत्ययस्तु मम ब्राँस्तव वाक्यैरकल्मषैः ॥२॥ प्रत्ययश्च पुरा वृत्तो वैदेह्याः सुरसन्निधौ । शपथश्च कृतस्तत्र तेन वेश्म-प्रवेशिता ॥३॥ लोकापवादो बलवान् येन त्यक्ता हि मैथिली । सेऽयं लोकभयाद् ब्रह्मन्नपापेत्यभिजानता ।। परित्यक्ता मया सीता तद्भवान्दन्तुमर्हति ॥४॥ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ । शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥ ५॥ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः। सीतायाः शपथे तस्मिन् सर्व एव समागताः ॥६॥ पितामहं पुरस्कृत्य सर्व एव समागताः । आदित्या वसवो रुद्राः विश्वेदेवा मरुद्गणाः ॥७॥ साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः । नागा सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ॥८॥ दृष्ट्वा देवान् ऋषींश्चैव राघवः पुनरब्रवीत् । प्रत्ययो मे नरश्रेष्ठ ! ऋषिवाक्यैरकल्मषैः ॥॥

पद्यभागः
शुद्धायां जगतो मध्ये वैदेयां प्रीतिरस्तु मे ।
सीताशयत-सम्भ्रान्ताः सर्व एव समागताः ॥ १० ॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः।
तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥११॥
तदभुतमिवाचिन्त्यं निरक्षन्त समाहिताः।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥ १२ ॥
सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत् प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ १३ ॥
यथाहं राघवादन्यं मनसापि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ १४॥
मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥ १५ ॥
यथैतत् सत्यमुक्तं मे वेझि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति ।। १६ ।।
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ।। १७ ।।
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ।। १८ ।।
तस्मिँस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥ १६॥
तामासनगतां दृष्टा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ।। २० ॥
साधुकारश्च सुमहान् देवानां सहसोत्थितः ।
साधु साध्वति वै सीते ! यस्यास्ते शीलमीदृशम् ॥ २१ ॥

महाकविः व्यास:
( ई० पू०-५००)
व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।
भूषणतयैव संज्ञां यदङ्किता भारती वहति || (गोवर्धनः
महाभारतं नाम प्रन्थरत्नम् भारतं भा-रतं चकार । एतस्य रचयिता भगवान
वेदव्यासाख्यः कृष्णद्वैपायनः। एतेन यज्ञीयोपयोगथ वेदस्य संहितारूपेण चतुर्धा
विभागः कृतः। व्यस्यति वेदान् इतिवेदव्यासः । अयं च पराशरपुत्रः सत्यवतीगर्भजः।
एतस्यैव महाकवेः पुत्रः शुकदेवः । अनेन पुराणमहाभारत-वेदान्तसूत्रादीनि निर्मि-
तानि । तत्र महाभारताख्यो प्रन्यः लक्षश्लोकात्मकः । अत्र भारतोत्पन्नानां राज्ञां
वंशादिकं वर्णितमस्ति । प्रस्थानत्रय्यां सनिविष्टा 'श्रीमद्भगवद्गीता' एतस्यैवांश-
भूता । अत्रोकानि चरित्राण्यवलम्ब्यैव प्रायः ततः परं काम्य विरचितम् । किमधिकं,
कथयन्त्येव लोका:-महाभारतं नाम पञ्चमो वेदः' । 'इतिहास-पुराणाभ्यां वेद
समुपद्व्हयेत् । सरला प्रसन्ना च वर्णनशैली सर्वत्रैवाभाति ।
किमन्यत्-
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।।
पण्डित-मूढ-लक्षणानि
( महाभारतात् )
आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता।
यमर्था नापकर्षन्ति स वै पण्डित उच्यते ॥१॥
निषेवते प्रशस्तानि निन्दितानि न सेवते ।
अनास्तिकः श्रद्दधानः एतत् पण्डित-लक्षणम् ॥२॥

पद्यभागः
क्रोधो हर्षश्च दर्पश्च हीःस्तम्भो मान्यमानिता।
यमर्थानापकर्षन्ति स वै पण्डित उच्यते ॥३॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥४॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥५॥
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।
न किंचिदवमन्यन्ते नराः पण्डित-बुद्धयः॥६॥
क्षिप्रं विजानाति चिरं शृणोति,
विज्ञाय चार्थ भजते न कामात् ।
नासंपृष्टो झुपयुक्त परार्थे,
तत् प्रज्ञानं प्रथमं पण्डितस्य ॥७॥
नाप्राप्तमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः॥८॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।
अवध्यकालो वश्यात्मा स वै पण्डित उच्यते ।।९।।
न हृष्यत्यात्मसम्माने नावमाने च तप्यते ।
गाङ्गो हृद् इवाक्षोभ्यो यः स पण्डित उच्यते ॥१०॥
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ ११ ॥
स्वमर्थ यः परित्यज्य परार्थमनुतिष्ठति ।
मिथ्याचरति मित्रार्थे यश्च मूढः स उच्यते ॥ १२ ॥

संस्कृत-गद्यपद्य-सङ्ग्रहः
अमित्रं कुरुते मित्र, मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ १३॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ! ॥ १४ ॥
सदाचार:
( महाभारतात् )
आचाराल्लमते ह्यायुराचारालभते श्रियम् ।
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ १ ॥
आचारलक्षणो धर्मः सन्तश्चारित्र-लक्षणाः
साधूनाञ्च यथावृत्तमेतदाचार-लक्षणम् ॥ २॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
यस्मात् त्रसन्ति भूतानि तथा परिभवन्ति च ॥३॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलचिनः।
अधर्मज्ञाः दुराचारास्ते भवन्ति गतायुषः ॥ ४॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥५॥
ब्राह्म मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् ।
उत्थायाचम्य तिष्ठेत पूर्वा सन्ध्यां कृताञ्जलिः॥६॥

पद्यभागः
८१
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः ।
ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥७॥
येन पूर्वामुपासन्ते द्विजाःसन्ध्यां न पश्चिमाम्।
सर्वांस्तान् धार्मिको राजा शूद्रकर्माणि कारयेत् ।।८।।
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन
पाद-प्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा ॥ ५ ॥
नित्यमग्निं परिचरेद्भिक्षां दद्याच नित्यदा।
वाग्यतो दन्तकाष्ठञ्च नित्यमेव समाचरेत् ॥ १०॥
मातापितरमुत्थाय नित्यमेवाभिवादयेत् ।
आचार्यमथवाप्यन्यं तथायुर्विन्दते महत् ।। ११ ॥
गुरुणा चैव निर्बन्धः न कर्तव्यः कदाचन ।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ! ।।१२।।
महात्मनाश्च चरितं श्रोतव्यं नित्यमेव ते।
ज्ञाति-सम्बन्धि-मित्राणि पूजनीयानि सर्वशः॥१३॥

महाकविः कालिदासः
(ई०पू०-२००)
निर्गतासुन वा कस्य कालिदासस्य सूक्तिषु ।
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥
कविकुलहंसं महाकाव्ये नाटके च अनिर्वचीयां कामपि प्रतिभा प्रदयं जगति
सर्वजनवन्दनीयतामधिगतवन्तं महाकविकालिदास को न जानाति ? एतेन रघुवंश-
कुमारसम्भवाख्यं महाकाव्यद्वयम् , मेघदूताभिधं खण्डकाव्यम्, ऋतुसंहाराख्य काव्यम्,
मालविकामिमित्र-विक्रमोर्वशीय-शाकुन्तलाभिधानि दृश्यकाव्यानि च प्रणीतानि ।
कालिदासश्च कतममन्वयं कतमश्च जनपदमलञ्चकार तनिश्चितन्नाकलयामः, परं
मेघदूतादिसमालोचनया एवं वक्तुं शक्यते यदसौ श्रीविशालां विशालामुज्जयिनीमेव
जन्मनालञ्चकार । काव्यात्मभूतस्य रसस्य परिपोषणमेतत्-काव्ये इश्यते ।
मन्ये शाररसस्य कमनीयः शृङ्गारः, माधुर्यस्य मधुरसभिवेशः, प्रसादस्य
मञ्जुल-प्रसादः, उपमाचलङ्कारवर्गाणामनुपमेयसंश्लेषः एतद्विरचितरमणीयार्थप्रति-
पादक-काव्यलक्षणलक्ष्ये दृश्यते । एतद्रचनया सर्वत्र प्रथितसुकवितया प्रख्यातिमुप.
लभ्य क्रमेण विक्रमादित्यस्य सदस्यतामाससाद ।
शिव-पार्वती-संवादः
(कुमारसम्भवात्)
[इमे श्लोकाः कालिदास-कृतस्य कुमार-संभव-काव्यस्य पञ्चमसर्गात् समु-
द्धृताः । पार्वती शिवं प्राप्तुं तपः करोति । ब्रह्मचारिवेषधारी शिवः पार्वती परीक्षितुं
तत्समीपमागच्छति । अनेकधा शिवस्य निन्दां च करोति। पार्वती ब्रह्मचारिणः
प्रत्युत्तरं दत्वा शिव-निन्दा श्रोतुं नेच्छति ।।
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्गलाभ्यास-रतिं विचिन्त्यतं तवानुवृत्ति न च कर्तुमुत्सहे ॥१॥

पद्यभाग: अवस्तुनिबन्धपरे ! कथं नु ते करोऽयमामुक्त-विवाह-कौतुकः । करेण शम्भोर्वलयीकृताऽहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ २॥ त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगमहतः । वधूदुकूल कल-हंस-लक्षणं गजाऽजिनं शोणित-बिन्दु-वर्षि च ॥ ३ ॥ चतुष्क-पुष्प-प्रकारावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाऽङ्कानि पदानि पादयोर्विकीर्णकेशासु परेत-भूमिषु ॥४॥ अयुक्तरूपं किमतः परं वद त्रिनेत्र-वक्षः-सुलभं तवापि यत् । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥५॥ द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥६॥ वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि ! मृग्यते तदरित कि व्यस्तमपि त्रिलोचने ॥७॥ निवर्तयास्मादसदीप्सितात्मनः क तद्विधस्त्वं क च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशान-शूलस्य न यूपसक्रिया ।।८।। इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाऽधरलक्ष्यकोपया । विकुश्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ।। ६ ।। उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ।। १०॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ ११ ॥ अकिञ्चनः सन् प्रभवःस सम्पदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीयतेन सन्ति याथार्थ्यविदः पिनाकिनः ॥ १२ ॥ विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथवेन्दुशेखरो न विश्वमूर्तेरवधार्यते वपुः ।। १३ ।।

संस्कृत-गद्यपद्य-सङ्ग्रहः
तदङ्ग संसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ १४ ॥
असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोऽरुणाङ्गुली ॥ १५ ॥
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ १६ ॥
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावकरसं मनः स्थितं न कामवृतिर्वचनीयमीक्षते ॥ १७ ॥
निवार्यतामालि किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ १८ ॥
सिंह-दिलीप-संवादः
(कालिदास-रघुवंशात्)
[अयमंशः रघुवंशस्य द्वितीयसर्गादुद्धृतः । राजा दिलीपः वशिष्ठस्य धेनुं चार-
यितुं वनं नीतवान् । तत्र दिलीपं परीक्षितुं एकः सिंहः गामाक्रम्य स्थितः। दिलीपः
तदुपरि वाणं प्रक्षेप्तुमैच्छत् , किन्तु तस्य दक्षिणः हस्तः शरीरे एव लग्नः स्थितः।
अथ दिलीपं व्यर्थपरिश्रमं वीक्ष्य सिंहः वदति।]
अलं महीपाल ! तव श्रमेण प्रयुक्तमप्यखमितो वृथा स्यात् ।
न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥ १ ॥
कैलासगौरं वृषमारुरुक्षोः पदार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ २ ॥
अमुं पुरः पश्यसि देव दारं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसूतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥३॥

पद्यभागः
८५.
कण्डूयमानेन कट कदाचिद्वन्यद्विपेनोन्मथिया त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरानैः ।। ४ ।।
तदा प्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुतौ ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्तिः ।।५।।
तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारण मे सुरद्विषश्चान्द्रमसी सुधेव ॥६॥
सत्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।। ७॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य |
प्रत्याहतास्त्रो गिरिशप्रभावदात्मन्यवज्ञां शिथिलीचकार ॥८॥
प्रत्यब्रवीचैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः
जडीकृतस्त्र्यम्बकवीक्षणेन वनं मुमुक्षन्निव वज्रपाणिः ॥ ६ ॥
संरुद्ध-चेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तद्यदहं विवक्षुः ।
अन्तर्गतंप्राणभृतां हि वेद,सर्व भवान् भावमतोऽभिधास्ये ॥१०॥
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।
गुरोरपीदं वनमाहिताग्ने श्यत्पुरस्तादनुपेक्षणीयम् ॥११॥
स त्वं मदीयेन शरीरवृत्तिं देहेन निवर्तयितुं प्रसीद ।
दिनावसानोत्सुकवालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥ १२ ।।
अथान्धकार गिरिगह्वराणं दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपति बभाषे ॥ १३ ॥
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोबहु हातुमिच्छन् विचारमूढ प्रतिभासि मे त्वम् ॥१४॥
भूतानुकम्पा तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥ १५॥

८६ संस्कृत-गद्यपद्य-सङ्ग्रहः अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद्विभेषि । शक्योऽस्य मन्युभवता विनेतुं गाः कोटिशःस्पर्शयता घटोनीः॥१६॥ तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ १७ ॥ एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयोऽपि क्षितिपालमुच्चैःप्रीत्या तमेवार्थमभाषतेव ॥१८ ।। निशम्य देवानुचरस्य बाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराच्या निरीक्ष्यमाणःसुतरां दयालुः ॥ १६ ।। क्षतात् किल त्रायत इत्युदप्रः क्षत्रस्य शब्दो भुवनेषु रूढः। राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ २० ॥ कथं नु शक्योऽनुनयो महर्षेविश्राणनाच्चान्यपयस्विनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥ २१ ।। सेयं स्वदेहार्पण-निष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियाऽर्थः ।। २२ ॥ भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ । स्थातुं नियोक्तुनहि शक्यमने विनाश्य रक्ष्यं स्वयमक्षतेन ॥ २३ ॥ किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। २४ ।। सम्बन्धमाभाषणपूर्वमाहुः वृत्तः स नौ सङ्गतयोर्वनान्ते । तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणय विहन्तुम् ॥२५॥ तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः। स न्यस्तशस्त्रो हरये स्वदेहमुपानयत् पिण्डमिवामिषस्य ।। २६ ।। तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवामुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥२७ ।।

वियोग-दुःखानुभवानभिज्ञैः काले नृपाशं विहितं दभिः ।
शरद्वर्णनम्
वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशाश्च ।
निर्याय तस्याः स पुरः समन्तात् श्रियं दधानां शरदं ददर्श ॥१॥
तरङ्गसङ्गाञ्चपलैः पलाशैः ज्वालाश्रियं सातिशयां दधन्ति ।
सधूमदीप्ताग्निरुचीनि रेजुस्ताम्रोत्पलान्याकुल-षट्पदानि ॥ २॥
विम्बागतैस्तीरवनैः समृद्धि निजां विलोक्यापहृतां पयोभिः ।
कूलानि सामर्षतयेव तेनुः सरोजलक्ष्मी स्थलपमहासैः ।। ३ ।।
निशातुषारैर्नयनाम्बुकल्पैः पत्रान्तपर्यागलदच्छबिन्दुः !
उपासरोदेव नदत्पतङ्ग-कुमुदतीं तीरतरुर्दिनादौ ।। ४ ॥
वनानि तोयानि च नेत्रकल्पैः पुष्पैः सरोजैश्च निलीनभृङ्गः ।
परस्परां विस्मयवन्ति लक्ष्मीमालोकयाञ्चक्रुरिवादरेण ॥५॥
दत्तावधानं मधुलेहिगीतौ प्रशान्तचेष्टं हरिणं जिघांसुः ।
आकर्णयनुत्सुक-हंस-नादान्,
लक्ष्ये समाधिं न दधे मृगावित् ॥६॥
गर्जन हरिः साम्भसि शैलकुले प्रतिध्वनीनात्मकृतानिशम्य । .
क्रमं बबन्ध क्रमितुंसकोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान् ॥७॥
दिग्व्यापिनीलॊचन-लोभनीया मृजान्ययाः स्नेहमिव स्रवन्ती ।
ऋज्वायताः शस्य-विशेष-पङ्गीस्तुतोष पश्यन् वितृणान्तरालाः ॥८॥
आहार्य-शोभा-रहितैरमायैरैक्षिष्ट पुंभिः प्रचितान् स गोपान् ॥९॥
सितारबिन्दु-प्रचयेषु लीनाः संसक्त-फेनेषु च सैकतेषु ।
कुन्दावदाताः कलहंस-मालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः ॥१०॥
न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तत् यदलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः॥११॥

अश्वघोषः
(ई०-१००)
साकेतवासी अयमवघोषः सुवर्णाक्ष्याः पुत्र आसीत् । ब्राह्मणोऽयं वैदिक
साहित्यनिष्णात वाल्मीकीय-रामायणमर्मज्ञः महाभारतविशेषज्ञवासीत् ।
अयं बौद्धमतावलम्बी । एतस्य प्रसिद्धाः साहित्यिकरबनाः बुद्धचरितम् महा-
काव्यम् , सौन्दरनन्दमहाकाव्यम् , शारिपुत्रप्रकरणञ्चेति । बुद्धचरिते तथागतस्य
सात्विकजीवनवर्णनमस्ति । साम्प्रतं त्रयोदशसर्गपरिमितं पुस्तकमुपलभ्यते ।
सौन्दरनन्दमहाकाव्ये बुद्धानुजसुन्दरनन्दस्य प्रवज्याग्रहणवर्णनमस्ति । अत्र
अष्टादशसर्गाः सन्ति । शारित्रप्रकरणे बुद्धशिष्यस्य शारिपुत्रस्य दीक्षाग्रहणमुप-
वर्णितमस्ति।
मन्ये धर्मप्रचाराय कमनीयकाव्यकलामाश्रित्य एते प्रन्थाः विरचिताः। प्रयोगेऽर्थ
व्याकरणविशेषज्ञानं प्रदर्शितवान् स्वाभाविकता सर्वतत्काध्ये विराजते। कचिजनानु-
करणीया शैली।
कपिलाश्रमवर्णनम्
( सौन्दरनन्दात् )
गौतमः कपिलो नाम मुनिधर्मभृतांवरः ।
बभूव तपसि श्रान्तः कदीवानिव गौतमः ।।१।।
अशिश्रियद् यः सततं दीप्तं काश्यपवत्तपः।
अशिश्राय च तद् वृद्धौ सिद्धि काश्यपवत्पराम् ॥ २ ॥
तस्य विस्तीर्णयशसः पार्श्व हिमवतः शुभे ।
क्षेत्रं चायतनं चैव तपसामाश्रमोऽभवत् ॥३॥
अथ तेजस्वि-सदनं तपः-क्षेत्र तमाश्रमम् ।
केचिदिक्ष्वाकवो जग्मू राजपुत्राः विवत्सवः॥ ४ ॥

पद्यभागः सुवर्णस्तंभवाणः सिंहोरस्का महाभुजाः। पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ ॥ अहरूपा ह्यनहस्य महात्मानश्चलात्मनः । प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृत्वस्य यवीयसः ॥६॥ मातृ-शुल्कादुपगतां ते श्रियं न विषेहिरे। ररक्षुश्च पितुः सत्यं यस्माच्छिश्रियिरे वनम् ।। ७ ॥ तेषां मुनिरुपाध्यायो गौतमः कपिलोऽभवत् । गुरुगोत्रादतः कौत्सस्ते भवन्तिम गौतमाः ।।८।। एक-पित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् । राम एवाभवद्गार्यो वासुभद्रोऽपि गौतमः ॥ ९ ॥ शाक-वृक्ष-प्रतिच्छन्नं वासं यस्माञ्च चक्रिरे। तस्मादिक्ष्वाकुवंश्यास्ते भुविशाक्या इति स्मृताः ॥ १० ॥ स तेषां गौतमश्चके स्ववंश-सहशीः क्रियाः। मुनिलकुमारस्य सगरस्येव भार्गवः ॥११॥ श्रीविष्णुशर्मा श्रासीदेको विविधविद्याविचक्षणः सकललोकशास्त्रज्ञो नीतिप्रवीणोऽध्यापनकला- कुशलो विष्णुशर्मा नाम दाक्षिणात्यो ब्राह्मणः । तद्रचितमेतत्पञ्चतन्त्रम् । अत्र मित्रमेदः, मित्रलाभः, सन्धिविग्रहः, लब्ध- प्रणाशः, अपरीक्षितकारकच्चेति पञ्चतन्त्राणि सन्ति । सर्वेषु तन्त्रेषु काचिन्मुख्या कथा वर्तते यस्याः परिपोषणार्थमनभूतानि इतराणि सदुपाख्यानानि सन्ति । एतस्य नीतिशास्त्रप्रवीणता सर्वत्र दृश्यते । नात्राल्पत्वं विनोदप्रियतायाः, न वा काठिन्य वाक्यविन्यासस्य, नापि दुरवगाहता भावस्य । कथानिर्देशस्तु सर्वत्रैव गयेन कृतः। बालानां नीतिशास्त्रोपदेशाय सर्वथा मनोहारि नुस्तकमतः परं नावलोकितं न चा श्रुतम् । पञ्चतन्त्रस्य विश्वव्यापिप्रभावस्वीकारे नास्ति कस्यापि विमतिः।

सेवाधर्मः
(पञ्चतन्त्रात् )
सुवर्ण-पुष्पितां पृथ्वी विचिन्वन्ति नरास्त्रयः ।
शुरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ १ ॥
सा सेवा या प्रभु-हिता पाह्या वाक्य-विशेषतः ।
आश्रयेत्पार्थिवं विद्वाँस्तद्वारेणैव नान्यथा ॥२॥
यो न वेत्ति गुणान् यस्य न त सेवेत पण्डितः ।
नहि तस्मात् फलं किञ्चित्सुकृष्टादूषरादिव ॥ ३॥
द्रव्य-प्रकृति-हीनोऽपि सेव्यः सेव्य-गुणान्वितः।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥४॥
अपि स्थाणुवदासीनः शुष्यन् परिणतः क्षुधा।
न त्वेवानात्मसम्पन्नाद् वृत्तिमीहेत पण्डितः ॥५॥
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः॥६॥
यमाश्रित्य न विनामं क्षुधार्ता यान्ति सेवकाः ।
सोऽतवन्नपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ।। ७ ॥
राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि ।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ।।८।।
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्य-विचक्षणः ।
करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥ ९॥
अन्तःपुर-चरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैनरेन्द्रस्य स भवेद्राज-वल्लभः ॥ १०॥
द्यूतं यो यमदूतामं हालां हालाहलोपमाम् ।
पश्येदारान् वृथाकारान् स भवेद्राजवल्लभः ॥११॥

पद्यभागः
युद्धकालेऽप्रगो यः स्यात् सदा पृष्टानुगः पुरे ।
प्रभो राश्रितो हर्म्य स भवेद्राजवल्लभः ॥ १२ ।।
द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् ।
यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥ १३ ॥
प्रोक्तं प्रत्युत्तरं नाह विरुद्धं प्रभुणा च यः ।
न समीपे हसत्युच्चैः स भवेद्राजवल्लभः ।। १४ ।।
स्थाने नियोगः
स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च ।
नहि चूडामणिः पादे प्रभवामीति बध्यते ॥ १॥
अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ।। २॥
असमैः समीयमानः समैश्च परिहीयमाणसत्कारः ।
धुरि यो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥३॥
कनक-भूषण-संग्रहणोचितो यदि मणिपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥४॥
सव्य-दक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमप्यार्यो विद्यमान-गतिर्वसेत् ।।५।।
काचे मणिमणौ काचो येषां बुद्धिर्विकल्पते ।
न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥६॥
परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैविपणन्ति गोपाः ॥७॥

३२
संस्कृत-गद्यपद्य-सङ्ग्रहः
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ॥८॥
निर्विशेषं यदा स्वामी सम भृत्येषु वर्तते ।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥६॥
न विना पार्थिवो भृत्यैः न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारोऽयं परस्पर-निबन्धनः ॥१०॥
भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः ।
मयूखैरिव दीप्तांशुस्तेजव्यपि न शोभते ॥ ११॥
अरैः संधार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
स्वामि-सेवकयोरेवं वृत्ति-चक्र प्रवर्त्तते ॥ १२ ॥
शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ।। १३ ।।
राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति ।
ते तु सम्मानमात्रेण प्राणैरप्युपकुर्वते ॥ १४ ।।
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्यसंयुक्ताःशक्ताः भक्ताः क्रमागताः ।। १५॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् ।
लज्जया वक्ति नो किंचित्तेन राजा सहायवान् ।। १६ ।।
यस्मिन् कृत्यं समावेश्य निविशंकेन चेतसा।
आस्यते सेवकः स स्यात् कलत्रमिव चापरम् ।। १७ ।।
योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्टः सत्यं प्रियं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥ १८ ॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्योऽहों महीभुजाम् ॥ १६॥

महाकविभारविः (ई०-५७०) प्रकाशं सर्वतो दिव्यं विदधाना सताम्मुदे । प्रबोधनपरा हृद्या भारवेरिव भा रवेः ॥ किरातार्जुनीयं नाम कायं तत्र भवतः कविकुलतिलकस्य दाक्षिणात्यस्य श्रीमतो भारविनाम्नो महाकवेः सुधावर्षिलेखनीप्रसूतमतिप्राचीनं महाकाव्यम् । काव्यमेतन्म- हाभारतस्य कुरुराजदुर्योधननिर्जितानां द्वैतवनमधिवसतां युधिष्टिरप्रमुख-पाण्डवानां तात्कालिकवृत्तान्तविशेषमवलम्ज्य विरचितम् । अत्र च तेषामन्यतमस्यामोधवीर्यशा- लिनोऽर्जुनस्य परिगृहीतकिरातवेशात् पशुपतेरस्त्रलाभो विशेष इति किरातार्जुनीय- मिति नान्ना प्रन्योऽयं प्रसिद्धः । वीररसप्रधानमिदं कान्यम् । विप्नुलार्थानामरूप- शब्देषु सनिवेश एतस्य सुप्रसिद्धकाव्यकलाचातुरी । किरातार्जुनीयं नाम महाकाव्य कालिदासकृतकतिपयसाहित्यमन्तरेणाधुनातनास्महेशप्रचलितानां काव्यानां मूनि वर्तते । राजनीतेरत्यधिकमुत्कर्ष दर्शितवान् स खलु भारविः । एतस्य पञ्चमदशम- सर्गस्थं सकलमपि पचं चित्रकाव्यम् । उत्तश्चात्र टीकाकृता मल्लिनाथेन- नारिकेलफलसम्मितं वचो भारवेः सपदि यद्विभज्यते । स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम् ॥ इति । उद्बोधनम् (किरातार्जुनीया ) [इमे श्लोकाः महाकविभारवि-प्रणीत-किरातार्जुनीयमहाकाव्यस्य प्रथमसर्गा- दुद्धृताः । द्यूते पराजिताः पाण्डवाः द्वैतवने वसन्तिस्म । युधिष्ठिरः ब्रह्मचारिवेष- धारिणमेकं वनेचरं दुर्योधस्नय राज्य-समाचारं ज्ञातुं प्रेषितवान् । स वनेचरः -

संस्कृत-गद्यपद्य-सङ्ग्रहः
युधिष्ठिरस्य राज्यं विलोक्य तस्य प्रशंसां युधिष्ठिरस्य समीपे अकरोत् । तत् श्रुत्वा
दुःखिता द्रौपदी युधिष्ठिरस्य क्रोधमुद्योगं च उद्बोधयति । ]
निशम्य सिद्धि द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्यु-व्यवसाय-दीपिनीरुदाजहार द्रुपदात्मजा गिरः॥१॥
भवादृशेषु प्रमदा-जनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्त-नारी-समया दुराधयः॥२॥
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वयात्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥३॥
ब्रजन्ति ते मूढ-धियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि नन्ति शठास्तथाविधानसंवृताङ्गानिशिता इवेषवः ॥ ४॥
गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥ ५॥
भवन्तमेतर्हि मनस्वि-गर्हिते विवर्त्तमानं नरदेव ! वमनि ।
कथं न मन्युज्वलयत्युदीरितः शमीतरं शुष्कमिवाग्निरुच्छिखः ॥६॥
अबन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्दैन न विद्विषादरः॥७॥
परिभ्रमल्लाहितचन्दनोचितः पदातिरन्तर्गिरिरेणुरूषितः
महारथः सत्यधनस्य मानसं दुनोति नो कच्चियं वृकोदरः॥८॥
विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः।
स वल्क-वासांसि तवाधुनाऽऽहरन् करोति मन्युं न कथं धनञ्जयः॥६॥
वनान्त-शय्या-कठिनी-कृताकृती कचाचितौ विष्वगिवागजौ गजौ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ॥ १०॥
इमामहं वेद न तावकी धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ ११ ॥

पद्यभागः
६५
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अभ्रदर्भामधिशय्य स स्थली जहासि निद्रामशिवैः शिवारुतैः ॥ १२॥
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्य यशसा समं वपुः ॥१३॥
अनारतं यौ मणिपीठशायिनावरजयद्राजशिरः स्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते मृगद्विजालनशिखेषु वहिषाम् ॥ १४ ॥
द्विषनिमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदा पराभवोऽप्युत्सव एव मानिनाम् ॥१५॥
विहाय शान्ति नृप ! धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् ।
ब्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥१६॥
पुरःप्तरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् ।
भवाशाश्चेदधिकुर्वते रतिं निराश्रया हन्त ! हता मनस्विता ॥ १७ ॥
अथ तमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सन् जुहुधीह पावकम् ॥ १८ ॥
न समय-परिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधानः ।
अरिषु हि विजयार्थिनः क्षितीशाः विदधति सोपधिसन्धिदूषणानि ॥१॥
!
त्रिविक्रमभट्टः
(ई०-१६१५)
( मदालसाचम्पूतः
[ कुवलयाश्वेन गालवाश्रमे राक्षसवधः।]
गालवादिमुनिभिः स सत्कृतो, राजसूनुरथ तापसाश्रमे ।
दुष्टसत्त्वदमनाय वाजिना बाणकार्मुककरश्वचार ॥१॥

१६ संस्कृत-गद्यपद्य-सङ्ग्रह: कृत्वा गतासून् करिणस्तरक्षुन् हत्वा मृगेन्द्रान् विनिपात्य भीमान् ।। अपास्तवाचं विदधे स वीर- स्तपोवनं तापसपुङ्गवस्य ॥२॥ तदीयास्त्रनिभिन्नकुंभीन्दुकुंभ- स्खलद्रक्तमुक्तापरीता धरित्री । मिलत्सांध्यरागोडुजालस्य शङ्कां विधत्ते नितान्तं नमओमण्डलस्य ।।३।। मुनिकुमारनिरूपितविस्मयः स्थलविलोकनजातकुतूहलः । कतिपयान् दिवसान् समनीनयत् मुनिगृहे नरदेवतनूभवः ॥४॥ अथ कदाचित्- वीरोत्तंसं क्षितिपतिसुतं नाश्रमस्थं विजानन् सन्ध्योपास्तिप्रवणहृदयं गालवं तं महषिम् । मत्तः कोऽपि प्रचलमनसं घर्षणाद्यैश्चिकीर्षुः, धर्मारण्यं दनुजहतकः प्राविशद् घोणिरूपः॥५॥ ततः Ro- छिन्न-छाया-तरु-कलुषित-स्वच्छ-कासार-नीरं, दंष्ट्रा-कृत्तोत्रुटित-लतिकं व्यस्त-मुक्ता-कदम्बम् । त्रासोद्रेकश्वलितविहगं भीतधावत्कुरङ्ग, चक्रेऽरण्यं स दनुजकिटिस्तापसानां निवासम् ॥६॥ ताशे तपोपने- प्रारोहन्ति तरून विमुक्त समिधवासोत्कटा वणिनः, पद्यभागः ६७ - त्यक्त्वा सेकविधि मुनीन्द्र-तनया धावन्ति पृथ्वीरहाम् । तिष्ठन्तो मुनयोऽपि मुक्तनियमा हन्तुं यतन्ते कुशै- [पायन्ति कुलस्त्रियोऽपि यमिनां नीवारमूलादिकम् ॥ ७॥ इदं सर्वं ज्ञात्वा राजपुत्रः- रोषातिरेक-परिपाटल-नेत्र-पद्मः, सन विधाय धनुरश्वमथाधिरुह्य । बाणेन तं समधिगम्य जघान दुष्टं घृष्टिं महाशनि-निपात-निभेन तूर्णम् ॥८॥ तद्वाणाभिहतः स दानवकिटिः स्वप्राणरक्षातुर- स्ती, पर्वत-गुल्म-पादप-लता-सम्बाध-दुर्गाटवीम् । धावं धावमतीत-योजन-शतो विस्तारयन् घुधुरं, कस्मिंश्चिन्निपपात भूमि-फुहरे घोरान्धकारावृते ॥९॥ ITED - - श्रीजयदेवः (ई० ११००) श्रासीत् केन्दुविल्वग्रामवासिमहाकविः जयदेवः। अयं भोजदेवप्रभवः राधा देवीगर्भजः, गीतगोविन्दात्यं काव्यञ्चकार । इदच मृदुलपदसरणिललितं, रुचिरार्थः संहतिबहुलं सरसरागनिबद्धसुप्रबन्धप्रधानम् , शृङ्गाररसभाण्डागारसदृशं द्वादशवर्गा त्मकमस्ति । कथितश्च कविना- यदि हरिस्मरणे सरसं मनो- यदि विलासकलासु कुतूहलम् । मृदुलकोमल-कान्तपदावलीम् शृणु तदा जयदेवसरस्वतीम् । यद् गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छङ्गारविवेकतत्त्वरचना काव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दा: परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ।। दशावतार-वर्णनम् (गीतगोविन्दात् ) प्रलय-पयोधि-जले धृतवानसि वेदं, विहित-वहित्र-चरित्रमखेदम् । केशव, धृतम.न-शरीर, जय जगदीश ! हरे !॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे, धरणि-धरण-किण-चक्र-गरिष्ठे। केशव, धृत-कच्छप-रूप, जय जगदीश हरे ! ॥२॥ वसति दशन-शिखरे धरणी तव लग्ना, शशिनि कल-कलेव निमन्ना । केशव, धृत-शूकर-रूप-जय जगदीश ! हरे ! ॥३॥ ,

पद्यभागः
तव करकमलवरे नखमद्भुतशृङ्गम्
दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव ! धृतनरहरिरूप, जय जगदीश ! हरे!॥४॥
छलयसि विक्रमणे बलिमद्भुतवामन !
पदनखनीरजनितजनपावन !
केशव ! धृतवामनरूप, जय जगदीशं ! हरे !॥५॥
क्षत्रियरुधिरमये जगदपगतपापं
स्नपयसि पयसि शमितभवतापम् ।
केशव ! धृतभृगुपतिरूप, जय जगदीश! हरे!॥६॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम्
दशमुखमौलिबलिं रमणीयम् ।
केशव ! धृतरामशरीर, जय जगदीश ! हरे !॥७॥
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सदय-हृदय-दर्शितपशुघातम् ।
केशव ! धृतबुद्धशरीर, जय जगदीश ! हरे!॥८॥
वहसि वपुषि विशदे वसनं जलदाभम्
हलहतिभीतिमिलितयमुनाभम् ।
केशव ! धृतहलधररूप, जय जगदीश ! हरे ! ॥६॥
म्लेच्छनिवहनिधने कलयसि करवालम्
धूमकेतुमिव किमपि करालम् ।
केशव ! धृतकल्किशरीर, जय जगदीश ! हरे ! ॥१०॥
श्रीजयदेवकवेरिदमुदितमुदारम्
शृणु सुखदं शुभदं भवसारम |
केशव ! धृतदविधरूप, जय जगचीश ! हरे !॥११॥

सूक्ति-संग्रहः
(१) शिवलीला
स्वयं सुरेशः श्वशुरो नगेशः, सखा धनेशस्तनयो गणेशः।
तथापि भिक्षाटनमेव शम्भोः, बलीयसी केवलमीश्वरेच्छा ॥१॥
एका भार्या समररसिका निम्नगा च द्वितीया,
पुत्रोऽप्येको द्विरद-वदनः षण्मुखश्च द्वितीयः ।
नन्दी भृङ्गी च कपिवदनो वाहनं पुङ्गवेशः,
स्मारं स्मारं स्वगृहचरितं भस्मदेहो महेशः॥२॥
दोषाकरः शिरसि भाति गले द्विजिह्वः,
पाषाणजा सहचरी
पशुरन्तरङ्गः ।
दुःखं निवेदयति का भवदन्तिके मे,
त्वञ्च त्रिलोचन-निमीलित-लोचनोऽसि ॥३॥
भूषा भस्म-भुजङ्गमास्थिनिचयः स्थानं श्मशानं प्रियम्,
त्रैलोक्यापचयोद्यतं विषमपि त्यक्त्वाऽमृतं स्वीकृतम् ।
यत्त्यक्तं सकलैः सुरासुरनरैस्तत्ते प्रियं प्रायश-
स्त्यक्तुं नाहसि देव मामपि यतस्त्यक्तोऽस्मि सर्वैः प्रभो ॥४॥
काली कान्ता विषमनयना सर्वदा युद्धशीला |
पुत्रोऽप्येकः करिवरमुखो षण्मुखश्च द्वितीयः ।।
भृत्यश्रेष्ठः कपिवरमुखो वाहनं वृद्ध उक्षाः,
स्मारं स्मारं स्वगृहचरितं मृन्मयो विश्वनाथः ॥५॥

पद्यभागः
वृद्धोक्षः प्रपलायते प्रतिदिनं सिंहावलोकाद् मिया,
पश्यन् मत्तमयूरमन्तिकचरं भूषाभुजङ्गबजः ।
कृत्ति कृन्तति मूषिकोऽपि रजनौ भिक्षानमाभक्षयन् ,
दुःखेनेति दिगम्बरः स्मरहरो हालाहलं पीतवान् ॥६॥
उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं,
हित्वा वासरसं पुनः पितृवने कैलासहाश्रमः।
त्यक्त्वा भस्मकृताङ्गरागनिचयः श्रीखण्डसारद्रवै-
देवेशोऽपि हिमाद्रिजा-परिणयं कृत्वा गृहस्थः शिवः ॥७॥
सीमन्तिनी यस्य गृहेऽन्नपूर्णा,
त्रिलोकरक्षां कुरुतेऽन्नदानैः।
भिक्षाचरः सोऽपि कपालपाणि-
ललाट-लेखो न पुनः
प्रयाति ॥८॥
अत्तुं वाञ्छति वाहनं गणपतेराखु क्षुधातः फणी,
तं च क्रौञ्चपतेः शिस्त्री, गिरिसुतासिंहोऽपि नागाशनम् ।
गौरी जहुसुतां हिनस्ति च, कलानाथं कपालानलो,
निर्विएणः स शिवः कुटुम्बकलहाद् मूर्ति दधौ मृन्मयीम् ।। ६ ॥
सहस्रास्यो नागः स्वयमपि च भगवान् पश्चवदनः,
षडास्यो हन्तकस्तनय इतरो वारणमुखः ।
चिरं भिक्षावृत्तिर्भवति च कथं वर्तनमिति,
ब्रुवत्यां पार्वत्यां समभवदुमेशो विवसनः ॥ १० ॥
किं गोत्रं किमु जीवनं किमु धनं का जन्मभूः किं वयः,
का विद्या किमु सम के सहचरा: के वंशजाः प्राक्तनाः।
का माता च पिता तवेति गुरुणा पृष्टो विवाहे शिवो
मालिन्येन हृदः स्वकीय-भवनं त्यक्त्वा श्मशाने स्थितः ॥ ११॥

(२) लक्ष्मीः लक्ष्मि ! क्षमस्व वचनीयमिदं मयोक्त- मन्धी भवन्ति पुरुषास्त्वदुपासनेन । नोचेत् कथं कमलपत्रविशालनेत्रो, नारायणः स्वपिति पन्नगभोगतल्पे ॥१२॥ मन्ये लक्ष्मि ! त्वया साई समुद्राद् धूलितत्थिता । पश्यन्तोऽपि न पश्यन्ति श्रीमन्तो धूलिलोचनाः ॥ १३ ॥ हे लक्ष्मि ! क्षणिके स्वभावचपले मूढे च पापेऽधमे, न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी। ये देवार्चन-सत्य-शौच-निरता ये चापि धर्मे रताः, तेभ्यः कुप्यसि निर्दये गतमतिर्नीचोऽपि ते वल्लभः ॥१४॥ नाहं दुश्चरिता न चापि चपला क्षुद्रो न मे रोचते, नो शूरो न च पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वस्मिन् कृतपुण्ययोगविभवः प्राप्नोति मे सत्फलम् , लोकानामसहिष्णुता सखि कथं दृष्ट्वा तदीयं सुखम् ॥ १५॥ पीतोऽगस्त्येन तातश्चरणतलहतो वल्लभोऽन्येन रोषाद्, आबाल्याद् विप्रवगैः स्त्रवदनविवरे धारिता मे सपत्नी । गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं, तस्मात् खिन्ना सहाऽहं द्विजगण-सदनं नाथ!नित्यं त्यजामि॥१६॥ नाथे कृतपदाघातश्चलुकिततातः सपत्निका सेवी । इति दोषादिव रोषाद् माधवयोषा द्विजं त्यजति ।। १७ ।। श्राघातो भृगुणा कृतो निजपतेः पादेन विष्णोहर- स्यम्भोधिं किल कुम्भ-सम्भव-मुनिस्तातं निजं पीतवान् ।

पद्यभागः १ उच्छिन्दन्ति निजं प्रियं शतदलं वासस्थलं ब्राह्मणाः, इत्थं दुर्नयतो भवत्यकरुणा पद्मालया तान्प्रति ॥ १८॥ मूर्खाय द्रविणं ददासि कमले विद्वत्सु किं मत्सरो नाहं मत्सरिणी बुधेषु न च मे मूर्खे रतिर्विद्यते । मूर्खेभ्यो द्रविणं ददामि यदहो तत्कारणं श्रूयतां, विद्वान् सर्वगुणैविभूषिततनुर्मूर्खस्य नान्या गतिः ॥ १६ ॥ (३) कुभृत्यः आहारे वडवानलश्च शयने यः कुम्भकर्णायते, सन्देशे वधिरः पालायनविधौ सिंहः शृगालो रणे। अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने, भाग्येनैव हि लभ्यते प्रभुजनैरेवं विधः सेवकः ॥ २० ॥ आह्वानेषु गृहीतमौन-नियमः स्तेयव्रते दीक्षितः, पङ्गुः पर्यटने निरन्तरमृषाजल्पेषु पञ्चाननः । निद्रायां खलु कुम्भकर्णविजयी हस्ती तथा भोजने, कौलः शौचविधावयं, मुकृतिनां भाग्येन भृत्यो भवेत् ।। २१ ।। (४) हास्यम् साधु साधु रघुनाथ ! यत्त्वया, पर्यणाथि जनकस्य कन्यका। कार्यमेतदपरेण दुष्कर, युक्तमेतदजवंशजन्मनः ॥२२॥ कमले कमला शेते हरः शेते हिमालये। क्षीराब्धौ च हरिः शेते मन्ये मत्कुण-शङ्कया ।। २३ ।।

संस्कृत-गद्यपद्य-सङ्ग्रहः
असारे खलु संसारे सारं श्वशुर-मन्दिरम् ।
हरो हिमालये शेते हरिःशेते महोदधौ ।। २४ ॥
सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते ।
कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ।। २२ ॥
वाचयति नान्य-लिखितं, लिखितमनेनापि वाचयति नान्यः ।
अयमपरोऽस्य विशेषः स्वयमपि लिखितं स्वयं न वाचयति ॥ २६ ॥
शिक्षिताऽपि सखिभिन्नु सीता रामचन्द्रचरणौ न ननाम ।
किं भविष्यति मुनीशवधूचद् भालरत्नमिह तद्रजसेति ॥ २७ ॥
उत्फुल्लेन्दीवराक्षी शशधरवदना बिभ्रती शुभ्रकान्ति,
गत्वाऽसौ राजधानी दशरथमवदत् कैकयी कोपयुक्ता।
राजा रामाभिषेकाद्विरमतु सहसा निष्कलके कुलेऽस्मिन,
भूपुत्री यस्य पत्नी स च भवति कथं भूपती रामचन्द्रः ॥ २८ ॥
चतुरः सखि मे भर्ता, यल्लिखसि तत्परो न वाचति ।
तस्मादप्यधिको मे स्वयमपि लिखितं स्वयं न वाचयति ॥ २६ ॥

सुभाषितानि भाषासु दिव्या मधुरा मुख्या गीर्वाण-भारती । तस्यां हि काव्यं मधुरं तत्र चापि सुभाषितम् ।। १ ।। पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूरैः पाषाण-खण्डेषु रत्न-संज्ञा विधीयते ॥ २॥ द्राक्षा म्लान-मुखी जाता शर्करा चाश्मतां गता। सुभाषितरसस्याग्रे सुधा भीता दिवङ्गता ॥३॥ अपूर्वः कोऽपि कोषोऽयं विद्यते तब भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ।। ४ ।। सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । अहार्यत्वादनयत्वादक्षयत्वाञ्च सर्वदा कान् पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किंवा काव्यरसः स्त्रादु, किंवा स्वादीयसी सुधा ।।६।। जयन्ति ते सुकृतिनो रस-सिद्धाः कवीश्वराः। नास्ति येषां यशःकाये जरामरणजं भयम् ॥७॥ साहित्य-संगीत-कला-विहीनः, साक्षात्पशुः पुच्छ-विषाण-हीनः । तृणं न खादन्नपि जीवमान- स्तद्भागधेयं परमं पशूनाम् ॥८॥ सचिन्त्य सश्चिन्त्य जगत् समग्रं त्रयः पदार्था हृदयं प्रविष्टाः । ईक्षोविकारः कृतयः कवीनां सद्वालकानां चरितानि नूनम् ।। ९॥

संस्कृत-गद्यपद्य-सङ्ग्रहः
अपूर्व तव भाण्डारं मातर्भारति दृश्यते ।
अव्यये व्ययमाप्नोति व्यये चाव्ययतामियात् ॥ १०॥
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी ।
साहित्य-रस-माधुर्य शङ्करो वेत्ति वा न वा ॥ ११ ॥
यस्य वक्त्र-कुहरे सुभाषितं नास्ति नाप्यवसरे प्रजल्पति ।
आगतः सदसि धीमतामसौ लेप्यनिर्मित इवावभासते ॥ १२ ॥
याता यान्ति च यातारो लोकाः शोकाधिका भुवि ।
काव्यसम्बन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥ १३ ॥
धर्मार्थकाममोक्षेणु वैलक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधु काव्यनिषेवणम् ॥ १४ ॥

कूटानि
केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।
रुदन्ति कौरवाः सर्वे हा केशव, कथं गतः ।। १ ।।
पानीयं पातुमिच्छामि त्वत्तः कमल-लोचने !
यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् ॥ २॥
विराजराजपुत्रारेर्यन्नाम चतुरक्षरम् ।
पूर्वार्धं तव शत्रूणां परार्ध तन सङ्गरे ॥३॥ (मृत्युञ्जयः)
एकोनाविंशतिः स्त्रीणां स्नानार्थं सरयूं गता।
विंशतिः पुनरायाता एको व्याघ्रण भक्षितः॥४॥ (एकः ना)
अहं च त्वं च राजेन्द्र ! लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् ! षष्ठीतत्पुरुषो भवान् ॥५॥
कान्ते ! धावय मे पादाविति भी निवेदिता ।
नतया धावितौ पादौ भर्तुराज्ञा न लजिता ॥६॥ ( नतया)
तातेन कथितं पुत्र ! लिख लेखं ममाज्ञया ।
नतेन लिखितो लेखः पितुराज्ञा न लोपिता ।।७।।
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः ।
तत्पुरुष-कर्मधारय येनाहं स्यां बहुव्रीहिः ।।८।।
लम्बोदर ! तव चरणावादरतो यो न पूजयति ।
स भवति विश्वामित्रो दुर्वासा गौतमश्चेति ॥६॥
क्रियागुप्तम्
प्रातः प्रातः समुत्थाय द्वौ मुनी स्वकमण्डलू ।
अत्र क्रियापदं वक्तुमवधिब्रह्मणो वयः ॥ १०॥
पम्पासरसि रामेग सस्नेहंसविलासया ।
सीतया किं कृतं सार्धमत्रैवोत्तरमीक्ष्यताम् ॥ ११ ॥

संस्कृत-गद्यपद्य-सङ्ग्रहः अम्मान-पङ्कजा माला कण्ठे रामस्य सीतया । मुधा बुधा भ्रमन्त्यत्र सोऽपि क्रिया॥१२॥ सन्ध्यावन्दनवेलायां नडानान्ते द्विजो मैः । अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ।। १३ ।। अन्तरालापा कस्तूरी जायते कस्माकी हान्त करिणां कुलम् । किं कुर्यात् कातरो युद्धे मृगात सिंहः पलायनम् ॥ १४ ॥ कः खे चरति, का रम्या, का जप्या किं विभूपणम् । को वन्द्यः कीदृशी लका वीरमर्कट-कम्पिता ॥ १५॥ सीमन्तीनीषु का शान्ता, राजा कोऽभूद्गुणोत्तमः । विद्वद्भिः का सदा यन्या अत्रैवोक्तं न बुध्यते ॥ १६ ॥ युधिष्ठिरः कस्य पुत्रो गङ्गा वहति कीहशी। हंसस्य शोभा का वास्ति, धर्मस्य त्वरिता गतिः ॥ १७ ॥ कं-संवधान कृष्णः का-शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ १८॥ बहिरालापाः किमिच्छति नरः काश्यां भूपानां को रणे हितः । को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम् ॥ १६ !! ( मृत्युञ्जयः) को नयति जगदशेषं क्षयमथ विभरांबभूव कं विष्णुः । नीचः कुत्र सगर्वः पाणिनि-सूत्रं च कीहक्षम् ॥ २०१६ (यमोऽगन्धने) प्राप्त वसन्त-समये वद कि तरूणां, किंक्षीयते विरहिणामुरगः किमेति । किं कुर्वते मधुकरामधुपानमत्ताः, कोहग्वन मृगगणास्त्वरितंत्यजन्ति ॥२१॥ (दविकलम् ) समाप्तवायं ग्रन्थः

No text on this page.

१-७ सर्ग ७ मध्यमपरीक्षापाठ्यग्रन्थ :- १ कुमारसंभव-'पुंसवनी संस्कृत-हिन्दी टीका, नोट्स सहित प्रथम तथा पञ्चम सर्ग १॥) ५) २ दूताङ्गद-दूताङ्गदचन्द्रिका' संस्कृत-हिन्दी टीका १) ३ अनुवादचन्द्रिका-० लोकमणि जोशी १) ४ मध्यसिद्धान्तकौमुदी-'सुधा' इन्दुमती' संस्कृत-हिन्दी टीका सहित ५) ५ व्युत्पत्तिप्रदर्शन-गृढाशुद्धिप्रदर्शन- ६ संस्कृतव्याकरणप्रयोध-द्वितीय भाग ३॥) विद्वद्विभूति-भारतके उच्चकोटिके संस्कृत विद्वानों की जीवनियाँ ११). ८ सिद्धान्तकौमुदो-बालमनोरमा टीका तथा रूपलेखन-पंकिलेखन प्रकार परिशिष्ट सहित । पूर्वार्द्ध ६) उत्तरार्द्ध ६) संपूर्ण १२) ९ सिद्धान्तकौमुदी-(जेबीगुटका ) ३) १० सिद्धान्तचन्द्रिका-मुबोधिनी-तत्त्वदीपिका टीका पूर्वार्द्ध ६) उत्तरार्द्ध ६) ११ दशकुमारचरित-बालबोधिनी' संस्कृत-हिन्दी टीका अपहारवर्मचरितान्त ३) पूर्वपीठिका तथा प्रथम-अष्टम उच्छास २) मंपूर्ण ५॥) १२ प्रतिमानाटक--सरल सुबोध 'प्रकाश' संस्कृत-हिन्दी टीका २) १३ छन्दोमक्षरी-'प्रभा' 'रुचिरा' संस्कृत-हिन्दी टीका १४ रघुवंश-सविमर्श-संजीविनी' 'मणिप्रभा' संस्कृत-हिन्दी टीका १-५ मर्ग १) ६-१४ सर्ग २१) १५ किरात-'मल्लिनाथीं 'सुधा' संस्कृत-हिन्दी टीका १-२ सर्ग ११) मल्लिनाथी और 'प्रकाश' संस्कृत-हिन्दी टीका संपूर्ण सुलभ संस्करण ३) उत्तम सं० ४) १६ मनुस्मृति-मणिप्रभा हिन्दी टीका विमर्श महित । सुलभ संस्करण ४) उत्तम संस्करण ५) १७ चन्द्रालोक-'पौर्णमासी', 'कथाभट्टी' संस्कृत-हिन्दी टीका २) गणितकौमुदी-द्वितीय भाग १९ वर्षकृत्य-रुद्रधरकृतः । 'इन्दुमती टिप्पणी सहित १-२ भाग २० पितृकर्मनिर्णय-लेखक-पं० श्री त्रिलोकनाथ मिश्र २१ मन्त्रार्थदीपिका-सटीक । शत्रुघ्नकृत प्राप्तिस्थानम्-चौखम्बा-संस्कृत-सीरिज, पो० बा० ८, बनारस-१ २) संपूर्ण ५) ७ ) ५)

No text on this page.

Sanskrit Gadhy Padhy Sangraha Vol I

Author
Sri Brahaspati Shastry
Other authors
Ccl
Title
Sanskrit Gadhy Padhy Sangraha Vol I
File name
Sanskrit Gadhy Padhy Sangraha Vol I
Text
OCR done
Citation
1953
Publisher
Chowkhamba Sanskrit Series Office
Language
Sanskrit
Pages
116
Library
Scl
DLI number
326409
Barcode
2020010007437.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
70LSJOHZqVC
Download PDF

Sanskrit Gadhy Padhy Sangraha Vol I