Others
Laukikanyaashaastrathakala
Front matter
No text on this page.
THE
HARIDAS SANSKRIT SERIES
100
THE
LAUKIKA NYAYA S'ĀSTRĀRTHA KALA
&
KŪTASĀSTRĀRTHA KALĀ
By
Panditraj Sri Venimadhaya S'astri
EDITED WITH PRADIPA NOTES
by
Tärkika S'ri Rajnarayana S'asri
तथा
* श्रीः *
लौकिकन्यायशास्त्रार्थकला
कूटशास्त्रार्थकला
भारतप्रसिद्धशास्त्रार्थि-घटिकाशतकशतावधानसँस्कृताशुकविचक्रवर्ति-
पण्डितराज-शुक्ल श्रीवेणीमाधवशास्त्रिणा रचिता
तदात्मजेन
श्रीराजनारायणशास्त्रिणा तार्किकेण
उपयुक्तप्रदीपसम्पादिता।
PUBLISHED BY
JIYA KRISHNA DAS HARIDAS GUPTA
The Chorokhamba Sanskrit Sørles Office.
Benares City.
1939.
All Rights Reserved by the Publishers.
PRINTED BY
JAYA KRISHNA DAS GUPTA,
VIDYA VILAS PRESS, BENARES CITY.
1939
विनिवेदनम् । अयि भोस्संस्कृतसाहित्योद्धारसँल्लनमानसा विश्वविदितवैदुष्यसम्पिपाद. विषया विगतालसा अध्यापकजना अजनमध्ययनान्तरायागच्छदापत्तिततीशिरसा माल्यमिवोद्वहन्तो बान्धवा अध्ययनरताच ? नेदन्ताव दृष्टिपथात्तिरोहितन्तन. भवताम्भवतां यत् संस्कृतसाहित्ये लौकिकन्यायानां कीदशल्समुपयोगः । व्याकरणे दर्शने धर्मशास्त्रादिव्यवस्थापने च प्रायशोऽजानन्तोऽपि तत्तदर्थान्प्रशुञ्जत एव लौकिकाः। जिज्ञासवोऽपि कष्टात् कष्टमनुभवन्तोऽपि पठनपाठनप्रणाल्यमा- वात् ज्ञातुन्न प्रभवन्ति । अन्यूना एव च ग्रन्था य एतान्त्रुटिन्दूरीकृत्योफ्कुर्वताम् । इत्येवम् बहुधा जनानामनुरोधेन ग्रन्थलेखनादिबहुकार्यासक्तचेतसोऽपि मदीयास्तातच. रणाः (जौनपुर-बदलापुर-उदयपुरगेल्हवाभिजन-पण्डितराजशुक्लश्रीवेणीमाधव शास्त्रिणः) व्यवहारौपयिकीम्प्रायो द्विशता लौकिकन्यायानां संगृह्य व्याख्यातवन्तः। तेषामाज्ञानुरोधेन मयाऽपि तत्तद्ग्रन्थद्वारा तेषां प्रदीपटिप्पणीषु समर्थनम्प्रामाणिकत्वञ्च व्यस्पष्टि । आशासे भवतामेवमुपल्लौकिकन्यायशासार्थकला प्रभवेदिति । अप- रमपीदं श्रीमताम्प्रमोदातिप्रमोदावह यत् सहैवानया कूटसाहित्यतत्त्वभूता संस्कृतकूटकूटात्मिका बोद्धवक्तृश्रोत्रादिसकलजनानन्ददायिनी विलसति कूट- शास्त्रार्थकला नाम । यन्त्र च विशेषतो रहस्यानाम् विस्फोटाः, बहिरालापप्रकारा, अन्तरालापप्रभृतयो गूढविशायकविषया, केशववासुदेवदशरथादिशब्दानाम् विवि- त्रास्सार्थदृष्टान्तसमन्वया व्युत्पत्त्यः, इत्येवम्विधा अनेके संस्कृतस्नेहिसहजा. नन्दकारका विषया विनिवेशिताः । आशसेऽल्पज्ञेन मया सम्भाविताः पदार्थाशुद्धीः संशोधनाशुद्धीर्मुद्रगादि- दोषजन्याशुद्धिततीश्च क्षामं क्षाममनुग्रहीष्यन्ति भवन्त इति । श्रीकृष्णजन्माष्टमी १९९६ वै० - प्रभुदत्त विद्यालयः भवदीयस्य- श्रीराजनारायणशुक्लस्य [नन्यन्वायाचार्यस्य ] रानी भवानी गली काशी समर्पणम् श्रीमतास्तत्रभवताम्भवताम्परमाहणीयचरणानाम् कर्मकाण्डज्ञा. नकाण्डोपासनाकाण्डनयीजगच्चक्रचूडामणीनाम् पण्डितमण्डलीमा. न्यानां वेदाचार्यवेदमार्तण्डाद्यनेकोपाविजुषां याज्ञिकमूर्धन्यानाम् काशिकहिन्दूविश्वविद्यालये धर्मविज्ञानविभागे, काशीस्थगोयनका. संस्कृतमहाविद्यालयेऽखिलवेदकर्मकाण्डधर्मशास्त्रविभागे चाध्यक्षपदम- लकुर्वताम् परमगुरूणाम् पण्डितप्रवरश्रीविद्याधरशास्त्रिणाम् परमसे वासु सादरं समर्पणम् । श्रौतः स्मात्तैर्बहुविधमखैः प्रीणिता येन देवाः, शास्त्रस्सवरुपचिततनुवैदवाचां गृह यः । कीर्तिर्यस्योल्लसति भुवने वादिवृन्दैः सुगीता, सोऽयं शश्वज्जयतु सुगुरःश्रीलविद्याधरोऽर्थः ॥ १॥ मान्याः! स्वीयतातचरणैविनिर्मितामेनां शास्त्रार्थकलाभिधानां स्वरचित प्रदीपविभूषितां यथामति सम्पाद्य तुच्छामप्यतुच्छामभिमन्यमानः श्रीमत्सेवासु समुपहरन् परन्तोषमाप्नोमि प्रसादपुरस्सराम्भवच्छुभा. शिषञ्च कामये। श्रीमचरणसरोजचश्चच्चञ्चरीक:- श्रीराजनारायणशुक्ला [न्यायाचा] श्रीहनुमते नमः। लौकिकन्यायशास्त्रार्थकला ध्यात्वामरवचो दिव्यं सर्वसर्वार्थसाधनम् । लौकिकन्यायशास्त्रार्थकलान्तन्वे सताम्मुदे ॥ १ ॥ यद्यप्यनेकशो ग्रन्था लौकिकन्यायदर्शकाः । संक्षेपतोऽर्थगतये तथापीयं विरच्यते ॥२॥ काशीप्रयागायोध्यारव्यत्रिकोणपरिमध्यगे । जमदग्निपुरा (जौनपुर ) ख्याते मण्डलेऽभिजनो मतः ॥ ३ ॥ बदलापुरोदयपुरगेल्हवाग्रामसंज्ञकः । सरयूपारीणशुक्लो गर्गवंशसमुद्भवः ॥ ४ ॥ शब्दतकांद्यलङ्कारः श्रीवेणीमाधवामिधः । काश्यां वसंश्च शास्त्रेषु नाना टीकां करोम्यहम् ॥ ५ ॥ व्युत्पत्तिवादशास्त्रार्थकलादीनां समादरः । यथा कृतस्तथैवयं सर्वथाऽऽद्रियतां बुधैः ॥ ६ ॥ यद्यप्यपूर्व नो सर्वमीक्षितव्यमिहेरितम् । तथापि दर्शन्दर्श सन्तोषमेष्यन्ति सज्जनाः ॥ ७ ॥ १ अर्कमधुन्यायः। अर्कदुग्धेन रोगशान्तौ किम्मध्वन्वेषणेन । निष्कर्षः, अल्पीयसा प्रयत्नेन का- यंसिद्धावलम्बह्वायासेन । " प्रदीपः प्रणम्य परमात्मानम्पितरौ च पुनः पुनः । श्रीगुरुं शिवदत्ताख्यं तवागीशमद्वयम् ॥१॥ लौकिकन्यायशास्त्रार्थकलायाष्टिप्पणायितम् । प्रदीपमारमे श्रीमद्राजनारायणोऽमतिः ॥ २॥ (१) अत एव वेदान्तसूत्रभाष्ये केवलाच्चे ज्ञानात् पुरुषार्थसिद्धिःस्यात् किम- [ २ ] २ उदकनिमज्जनन्यायः। अयम्मनुष्यो दोषी न वेति विचारे जले निमग्नो भव यावत प्रक्षितो वाण न प्रत्यागतो भवेत् । यदि मध्ये किमप्यङ्गं जलनिमज्जनाद्वहिष्टं न स्यात्तदायन्न दोषीति निष्कर्षः । सत्त्यासत्यनिर्णयेऽयन्न्यायः । ३ अशोकवनिकान्यायः। रावणस्सीता हृत्त्वा राक्षसीभ्य आज्ञप्तवान् अशोकवनिकायामियं स्थाया। अशोकवनिकाश्च अनेकाः । यन्त्र कुनाप्यशोकवनिकायां स्थापने रावणाज्ञा पालितेति फलितार्थः । ४मात्स्यन्यायः । प्रबलमत्स्यास्तुच्छमत्स्यान् खादन्ति । विरोधे हि बलीयसा दुर्वलो वाध्यत इति न्यायाऽपरपायः । । . र्थमनेकायोससमन्वितानि कर्माणि ते कुर्युः । “अ चेन्मधु बिन्देत किमर्थम्पर्वतं ब्रजे. दितिन्यायात्।। तद् यथा पथि जातेऽके मधुत्सृज्य तेनैव यथा मध्वर्थिनः पर्वतं न गच्छेयुस्तादृशं हि तत्। अपि चाहः-अ चेन्मधु विन्देत किमर्थम्पर्वतं व्रजेत् । इष्टस्यास्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ अथ च-यद्यल्पान्महतश्च कर्मणः समं फलं जायेत ततोऽक्के चेन्मधु विन्देतेत्यः नेनैव न्यायेनाल्पेन सिद्ध महति न कश्चित् प्रवर्तेत । अक्के "गृहकोणे इत्यपि क्वाचित्कः पाठः । (४) प्रबलनिर्वलविरोधे सबलेन निर्वलवाधविवक्षायाम् मात्स्यन्यायावतारः । अयम् प्राय इतिहासपुराणादिषु दृश्यते। तथा हि-दसिष्टे प्रह्लादास्याने तत्समाधि प्रस्तुत्योक्तम्- एतावताथ कालेन तदसातलमण्डलम् । बभूवाराजकन्तीक्ष्णं मात्स्यन्यायकर्थितम् ॥ यथा प्रबला मत्स्या निर्बलास्तानाशयन्ति तथाजाजकेऽमुकदेशे प्रनला जनाः निर्बलानरान्नाशयन्तीति न्यायफलितोऽर्थः । अतएव कामन्दकीये नीतिसारे-परस्परामिषतया जगतो मित्रवर्मनः । दण्डाभावे परिध्वंसी मात्स्यो न्यायः प्रवर्तते ॥इति। अथ च कथासरित्सागरे-नास्त्येवारानक किञ्चिद् वत कोऽपि प्रजास्वहो। राजशब्दः सुरैः सृष्टो मात्स्यन्यायमयादयम् ॥ इति ५ अस्मलोष्ठन्यायः। पदार्थयोविषमतासिद्धयेऽयं न्यायः। पाषाणेष्टिकन्यायाऽपरपायोऽयन्ल्यायः । ६अस्नेहदीपन्यायः। तैलेन विना न यथा दीपस्थितिरेवम्विधे व्यवहारेऽस्य न्यायस्य प्रयोगः । ७विषकीटन्यायः। विषाज्जातकीटो विषं भक्षन् सन् विषस्थ एवं जीवति । अत एव "विक- कृमिन्यायेन जीवाम्यहम्" इति ग्रन्थः । अहिनकुलन्यायः। स्वाभाविकविरोधस्थलेऽस्य प्रयोगः। यथा अहिनकुलयोस्स्वाभाविकविरोधः । काकतालीयन्यायः। तालवृक्षच्छाये पथिको विश्रान्तः तालवृक्षशिरसि काकस्तिष्ठति उड्डीयमाने (५) अत एव बृहदारण्यकोपनिषदि "यथाऽश्मानमृत्वा लोटो विध्वंसेव इति । अथ च ब्रह्मसूत्रशाङ्करभाष्ये यथा लोकेऽश्मानम्पाषाणमृत्वा गत्वा प्राप्य लोष्टः पांसु. पिण्डः पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विसंसेत विचूर्णीभवेत् । अथ च "अश्मलोष्टनिदर्शन” इति शाङ्करभाष्ये। (६ ) अत एव रघुनाथेन। "अस्मिश्चाध्यासेऽज्ञानं कारणम् । तत्त्वज्ञानेन वातदीपन्यायेन तन्निवृत्तावस्नेह- दीपन्यायेन तदध्यासोऽपि निवर्तते । न च ज्ञानेनैवोभयनिवृत्तिः कुतो न स्यात् । ज्ञानमज्ञानस्यैव निवकिमितिन्यायविरोधात। द्विविधा हि निवृत्तिविरोधिना साम- ग्रीनिवृत्त्या च। यथा वातादिना दीपनाशो यथा च तैलवादिनिवृत्त्या दीपनिवृत्तिः तत्राद्या निवृत्तिरज्ञानस्य, द्वितीया कार्यवर्गस्येति बोध्यम्" इति। अत एव च योगवासिष्टे-तत्र वर्षसहस्त्राणि निविकल्पसमाधिना। दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ इति । (७) पूर्णश्लोकस्त्वयम्-चाणक्योक्तः । विप्रास्मिनगरे महान स्थय कस्तालद्वमाणां गणः, को दाता रजको ददाति वसन प्रातहीत्वा निशि। को दक्षः परदारवित्तहरणे सर्वोऽपि दक्षो जना, कस्माजीवसि हे रुखे विषकमिन्यायेन जीवाम्यहम् ॥१॥ (९) परेतु काशिकावृत्तौ- काकतालीयम् अजाकृपाणीयम् अन्धकवर्तकीयम्, अतकितोएन चित्रीकरण .
काके परन्तालफलम्पपात तदा पथिकः कथयति काकोड्डयनेनैव फलपातः, सा. हित्यात् । फलपातस्तु स्वभावतः । तथापि ताशपथिकानुमानमेवविधस्थलेऽ. स्य प्रयोगः। १० अर्द्धजरतीयन्यायः। एक पण्डितो दरिद्रः स्वकीयां वृद्धां गाम्विक्रेतुमापणमुपजगाम । मदीया 'च्यते । तत्कथम् ? काकस्यागमनं यादृच्छिक तालस्य पतनं च। तेन तालेन पतता काकस्य वधः कृतः । एवमेव देवदत्तस्य तत्रागमनं दस्यूनाञ्चोपनिपातः । तैश्च तस्य वधः कृतः । तत्र यो देवदत्तस्य दस्यूनां च समागमः स काकतालसमागम सदृक्षः । अथ च पञ्चदश्याम्-अयथावस्तुविज्ञानात् फलं लभ्यत ईदृशम् । काकतालोयतः सोऽयं संवादिभ्रम उच्यते ॥ अथ च न्यायमचर्याम्- अपि चानागतं ज्ञानमस्मदादेरपि क्वचित् । प्रमाण प्रातिमंचो मे भ्रातागन्तेति दृश्यते ॥ नानर्थजं न सन्दिग्धं न वाधविधुरीकृतम् । न दुष्टकारणञ्चेति प्रमाणमिदमिष्यताम् ॥ कचिद्वाधकयोगश्चेदस्तु तस्याप्रमाणता । यत्रापरेधुरभ्येति भ्राता तत्र किमुच्यताम् ॥ काकतालीयमिति चेन्न प्रमाणम्प्रदर्शितम् । वस्तु तत्काकतालोयमेतदू भवितुमर्हति" इति । नीलकण्ठेन-ताल करतलयोः शब्दजनकासंयोगस्तस्मिन् क्रियमाणे उत्पतन् काको दैवात्तत्र तालाभ्यामाक्रान्तोऽभूत्तदेतत् काकतालीयमित्युच्यते । काकस्पर्शस. मकालं तालफलस्य तालवृक्षस्य वा पतनं तदित्यन्ये । (१०) अत एव बर्द्धमानेन-यथा स्त्रो न तरुणी श्लथस्तनत्वात् , कृष्णकेशत्वान्न जरतीति वक्तुं शक्यते तद्वत् सिद्धासिद्धम्प्रयोजनम् । अत एव तैत्तिरीयोपनिषदि अन्नरसमय प्राणमय इति विकाराय मयप्रवाहे सत्या. नन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं वाधीयत इति । अथ च शाकुरभाष्ये यथाशास्त्रं तर्हि शास्त्रीयाऽर्थः प्रतिपत्तव्यो न तबाजर- तीयं लभ्यम् । अत एव च ब्रह्मसूत्रविवरणे ब्रह्मविद्या स्वफले कर्माणि नापेक्षते तथा स्वोत्पत्तावपि नापेक्षते । अन्यथा क्वचिदपेक्षा कचिन्नत्यर्धजातीयत्वापत्तिरिति प्रासे आह सर्वाप। क्षेति । नार्धजरतीयन्यायो योग्यतावशादेवैकस्यैव कार्यविशेषेष्वपेक्षानपेक्षयोरुपपत्तेः । यथा लालबहनेऽनपेक्षितोऽयो रथवहनेऽपेक्ष्यते तद्वत्स्योत्पत्ती तु विद्या कर्मापे- क्षते इति ।
[ ५ ] गौद्धति कथितवान् ग्राहकान् , एवन्निशम्य वृद्धाया न कोऽपि ग्राहको भवति, तदात्यन्तदु:खिनं कश्चिदुवाच । युवति!रित्युच्यतान्तदा गोविक्रयो नान्यथा । पण्डितश्चोत्तरन्ददौ, आत्मा वृद्धो न भवति मिथ्याभाषणे धर्मनाशः । अतो विभः ज्य बृद्धापि युवतिरपीति भाषणं योग्यमेवंस्थलेऽस्य प्रयोगः । ११ अरुन्धतीदर्शनन्यायः । अरुन्धतीसूक्ष्मतारा वसिष्ठपत्नी तद्दर्शनार्थे स्थूलताराप्रदर्शनम् । स्थूलताई दर्शयन् द्रष्टुईष्टिम्बन्धयित्वा सूक्ष्मताराप्रदर्शनमेवम्व्यवहारेऽस्य प्रयोगः । १२ आम्रवणन्यायः। वने आम्रवृक्षाणामधिकत्त्वादानवणमितिसंज्ञा । अनेकेष्वन्येषु वृक्षेषु सत्स्व. पि प्राधान्यमानागा संख्याधिक्यात् । शुण्ठीपकभृङ्गीपाकघृतमरीच्यादितैलवत् । १३ अहिकुण्डलन्यायः। स्वाभाविकव्यवहारेऽस्य न्यायस्य प्रयोगः । १४ आभागकन्यायः। लोकप्रवादवत् यदा केनचित् कस्मैचिदुपमा देया भवति तदायन्न्यायः । (११) अत एव ब्रह्मसूत्र शाल भा०-"यथारुन्धती दिदर्शयिषुस्तत्समीपस्था स्थूलान्ताराममुख्या प्रथममरुन्धतीति ग्राहयित्वा ताम्प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहात तनायमात्मेति ब्रूयात्" इति प्रोक्तं सङ्गच्छते । अथ च ब्रह्मसूत्र शा० भा-यथारुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यासु अरुन्धतीषु दशितासु यान्त्या।प्रदश्यते सा मुख्यैवारुन्धती भवत्येवमिहाप्यानन्दम- यस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्" इति च सन्च्छते । अयमेव च स्थूलारुन्धतीन्याय इति व्यपदिश्यते नसिंहसरस्वत्या वेदान्तसार. टीकायाम् । (१२) वने इतरवृक्षसत्त्वेऽपि आम्राणां बाहुल्ये यथाब्रवणव्यपदेश एवमेकस्याः प्राधान्ये 'भूयस्त्वात्तद्वाद' इति न्यायेन तव्यपदेशो यत्र तत्रास्य न्यायस्य प्रवृत्तिः इति केचित् । (१३) एवञ्च ब्रह्मसूत्रभाष्ये-"उभयव्यपदेशात्त्वहिकुण्डलवत् । अत उभय- व्यपदेशदर्शनादहिकुण्डलबदन तत्त्वं भवितुर्महति । यथाहिरित्यभेदः कुण्डलाभोगप्रां. शुत्वादीनि इति च भेद एवमिहापोति" समुपपद्यते । वाचस्पतिना अहेस्सस्य यथा कुण्डलाकृतिवेष्टनं स्वाभाविकं तथा यस्य स्वाभा- विकधर्मों व्यपदिश्यते तन्नास्य प्रवृत्तिरिति निष्कर्षः।
[ ६ ] १५ अरण्यरोदनन्यायः। अरण्यरोदनन्न कश्चित् गोति न समवेदनयति । यत्र कथने ते न कश्चित ध्यायति तत्रास्य प्रयोगः । १६ काकदध्युपधातकन्यायः । काकेभ्यो दधि रक्ष्यतामित्त्युक्तेऽपि काकविडालादिसर्वेभ्योऽपि रक्ष्यतामिति गम्यते । अभिप्रायानुसारेण वाक्यप्रयोगः । १७ लोहचुम्वन्यायः। गतिहीनलौहः क्रियाहीनश्च । परन्तु चुम्बकाऽकर्षणेन तत्पाङ्गच्छति । तद्वत् निष्क्रियोऽपि पुरुषः प्रकृतिसाहात् सक्रियो भवति । १६ अन्धपङ्गन्यायः। प्रकृतिरन्धतमा पुरुष पङ्गुः, पुरुष प्रतिस्कन्धमारुह्य मार्गम्प्रदर्शयन्नुपक- रोति । परोपकारविषयकोऽयन्न्यायः । ( १९ ) एवमेव काव्यालारे शवोवर्तनन्याय, वपुच्छोन्नामनन्याय, वधिरक. गंजपन्याय, अन्धदर्पणन्याय, कृतान्धमुखमण्डनादिन्यायास्तुल्या एव । अत एव-किरणावल्या कुसुमाञ्जलौ च- अरण्यरुदितं कृतं शवशरीरमुर्तितम् , स्थले कमलरोपणं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं वधिरकणजापः कृतः, कृतान्धमुखमण्डना यसुधो जनः सेवितः ॥ इति पठन्ति । (१६) अत एव वाक्यप्रदीपानुसारी भतृहरिः- काकेन्यो रक्ष्यतां सपिरिति बालोऽपि चोदितः । उपघातपरे वाक्ये नचादिभ्यो न रक्षति ॥ इति । एवमेव-ईवरगोतायाम्-तन्त्रवात्तिके ये विमं विष्णुमव्यक्तं मां च देवम्महेश्वरम्। एकीभावेन पश्यन्ति न तेषाम्पुनरुडूभवः॥इति अत्र हरिहरयोहणं काकदधिधातकन्यायेन विधेरप्युपक्षलगमिति विवेकःसङ्गच्छते। (१८) अत एव साङ्ख्याचार्याः-पुरुषस्य दर्शनार्थ कैवज्यार्थ तथा प्रधानस्य । पड्नबन्धवदुभयोरपि संयोगस्तत्कृतस्पर्गः॥ इति अत्रपङ्गान्धवदिति दृष्टान्तार्थम् । यया गतिशक्तिविकलस्य पनोर्गतिसाधनाय गतिमतोऽन्धल्यापेक्षा, दृष्टिशक्तिरहितस्य चान्धल्य गतिशक्तिसत्त्वेऽपि स्वाभीष्ट . देशगमनं दर्शकमन्तरेण न सम्भवति तथा च यथा स्वकार्याप तयोः परस्परापेक्षा तथा - [ ७ ] १६ निन्नगाप्रवाइन्यायः । नदीप्रवाहस्वभावः । प्रवाहो रुद्धो न भवति यथा तथा सुकृतिनाम्भाषणम. न्यथा न भवति । २० फलवत्सहकार न्याय:। पथिक आम्रच्छायमधिगच्छति श्रान्तो भवति आम्र कलमपि भवति । एक. स्मिन् कार्य क्रियमाणे फालद्वयं यत्र तत्रास्य न्यायस्य प्रयोगः । २१ वरगोष्ठीन्यायः। वररक्षकन्यापक्षस्था जना एकोभूगानन्दमनुभवन्ति । विवाहरूपमेकमेव कार्य साधयन्ति । पक्षद्वयाभीष्टं सिद्धयति । सम्मेलनेन यत्र कार्यकरणेच्छा तत्रास्य न्यायस्य प्रयोगः २२ सर्वापक्षान्यायः। यत्र बहयो मनुष्या निमन्त्रितास्तत्र यद्येक कश्चन पूर्वमेव निमन्त्रणस्थान- प्राप्तोऽन्यानपेक्षते तद्वत् एककार्यसिद्धयेऽनेकापेक्षा यत्र तत्रालय न्यायल्य प्रयोगः । २३ सुचोकटाहन्यायः। कश्चिल्लौहकारगृहं गत्वा कटाहो निमेय इत्युवाच । पश्चादन्यो गत्वा सूची निमयेत्त्युवाच । कार्यद्वयोपस्थितौ लौहकारो विचास्यति पूर्व लाववात्सूच्येव निर्मा- क्रियारहितस्य पुरुषस्य सक्रियप्रधानल्यापेक्षा दृष्टिशक्तिरहितस्य च प्रधानस्य दृष्टि- शक्तियुक्तपुरुषल्यापेक्षेत्यत उभाभ्यामन्योन्यमपेक्ष्य स्वस्वकार्य निष्पाद्यते इत्यर्थः । (२०) अत एव रघुनाथः-एकफलाकाहाक्षायां तदाराधनमन्यदपि फलं प्रयच्छ- तीति विवक्षायान्तु फलवत्सहकारन्यायः । यथा सहकार "आम्रचूतो रसालोऽसौ सहकारोऽतिसौरमः" इत्यभिधानादतिसारम आम्रवृक्षोऽतिमधुरपक्कफलनमितशाखः स्वमुपसन्नाय छायाथिने जनाय फलं परिमलं चाप्रार्थितमपि ददाति तथा प्रकृतेऽपी- त्यर्थः इति व्याख्यानं कुरुते । अथ च योगवासिष्ठे-"नित्याभ्यासविवेकाम्यां चित्तमाशु प्रसीदति । आन एवं दशामेति साहकारी शनैः शनैः" भाशुग्रहणम्प्रसादावश्यम्भावद्योतनार्थम् । सहकारः पुष्पफलायतिसौरभस्तदावलक्षणां दशाम्" इति । ( २३ ) अत एव सतपदााम् अनुभवविभागे-अनुभवो द्विविधः प्रनाऽत्रमा च । अप्रमापि संशयो विपर्ययश्च । प्रमा प्रत्यक्षमनुमितिश्च । टीकाकारास्तु-अत्र प्रमानिरूप्यत्वात् परस्ताद विभकामध्यप्रमा सूचीकटाह. ज्यायेन प्राविभजते ऽप्रमापीति" व्याचक्षते । -- [८] . तव्या तत कटाह इति । यन्त्र लघुबृहत्कार्यद्वयोपस्थितिस्तत्र पूर्व लघुकार्यकरणं ज्याय इति निश्चयार्थमस्य न्यायल्य प्रयोगः । २४ सुन्दोपसुन्दन्यायः। सुन्दोपसुन्दनामको दैत्यौ तपश्चर्यो कृतवन्तौ, लब्धवरावजेयौ सरप्यमार. णीयौ । एका मोहिनीन्दृष्ट्वा मोहितौ मोहिन्युवाच युवयोर्युद्धे यस्य विजयस्तेन साकं मम भार्यात्वन्नान्यथा । तौ युद्धयेतेस्म परस्परं । द्वौ स्वयम्मृतौ नेश्वरकको वधः । तथाच यत्रैवं प्रकारस्तत्रास्य प्रयोगः । २५ सोपानारोहणन्यायः। प्रासादारोहणं सोपानारोहणक्रमेण भवति तथा बृहत्कार्यसिद्धये क्रमेण व्यापार २६ सोपानावरोहणन्यायः। यथा क्रमेण सोपानारोहणन्तथा विपरीतक्रमेण अवरोहण प्रत्यावर्त्तनमित्यर्थः २७ स्थविरलगुडन्यायः। वृद्धहस्तक्षिप्तोलगुडोऽभीष्टस्थानं न गच्छति। एवमादिस्थलेऽस्य न्यायस्य प्रयोगः २८ स्वामिभृत्त्यन्यायः। अन्यकार्यसिद्धयनन्तरं स्वकार्यसिद्धिर्यत्र तत्रास्य न्यायस्य प्रयोगः । फलिता- र्धश्च स्वामिकार्य कृत्वा भृत्य प्रसन्नतया कृतकृत्यो भवति इति । ( २४ ) अत एव लाकिकन्यायसंग्रहे-भारते सुन्दोपसुन्दसंज्ञौ सहोदरौ द्वावसुरी तिलोत्तमा वध्यघातकभावेनोभावपि परस्पर युध्यमानौ नष्टाविति श्रूयते । एवञ्च यत्र अन्योन्यनाश्यनाशकभावविवक्षा तत्रैवास्य प्रवृत्तिरिति फलति । तथाच वीचीत. रङ्गन्यायेनोत्पन्नानां कार्यशब्दनाश्यानामन्त्योपान्त्यशब्दौ परस्परेण नाश्यावन्त्य उपान्त्येनोपान्त्यश्चान्त्येनेति केचित्तकविदः । अत एव साङ्ख्यतत्वकोमुद्याम्-"ननु परस्पर विरोधशीला गुणाः सुन्दोपसु. न्दवत् परस्परं ध्वसन्ते इत्येव युक्त प्राक् एव तेषामेकक्रियाकर्तृताया" इतिग्रन्थोऽपि प्रमाणयति। (२६) एवज्ञानात्मविदः आत्मानं विविदिषोनारदस्य प्रश्ने परमात्मानमेवारमै व्याख्यास्यामीत्यभिसन्धिमान सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तभूमव्युत्पादनक्रमेण भूमानमतिदुनितया परमसूक्ष्म व्युत्पादयामासेति भाम- (२८) अत एवं ब्रह्मसूत्रशाङ्करमाध्ये "महि साम्ये सत्युपकार्योपकारकभावो भवति । नहि प्रतीपौ परस्परस्योपकुरुतः । ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्या. त्याम् पाठो दृश्यते।
[ ९ ] २६ स्थूलाऽरुन्धतीन्यायः। अरुन्धती तारा सूक्ष्मा पृथिवीतो दूरस्थावेन सूक्ष्मतरा च। तद्दर्शनार्थ स्थूल. सप्तर्षितारावलोकनेन दृष्टिम्बन्धयित्वा सूक्ष्मारुन्धतीदर्शनम् । यत्र सूक्ष्मातिसूक्ष्म. तत्त्वदर्शनार्थ स्थूलपदार्थदर्शनन्तश्रास्य प्रयोगः । ३० वृक्षप्रकम्पनन्यायः। कञ्चन वृक्षारूढमनुष्यं प्रति अधस्स्थो जनः उवाच-सा शाखा कम्पनीया । अन्य वाच सा शाखा कम्पनीया । एवं प्रेरणायाम्बुद्धिमान् कश्चन वृक्षमूलं कम्प. यामास । तदा सर्वाश्शाखा कम्पिता आसन् । ३१ समुद्रवृष्टिन्यायः। ३२ भुक्तभोजनन्यायः। समुद्रे वृष्टिर्यथा निरर्थिका । भुक्त भोजनं यथा निरर्थकम् । एवम्बिधे व्यव- हारेऽस्य न्यायस्य द्वितीयस्य च प्रयोगः । ३३श्यालकसुनकन्यायः। कल्य चित शुनो नाम तच्छ्यालकस्य शुनोऽवाच्यभाषणे तत्पत्नी रुष्टा भव. ति। भ्रातृनामोच्चारणेनावाच्यभाषणात् । सन्यार्थतात्पर्यणान्यार्थलाभेऽस्य न्या. यस्य प्रयोगः। १४ सन्देशपतितन्यायः। सन्देशः लोके सड़सी इति नाम प्रसिद्धम् । मध्यस्थितपदार्थधारणम् यथा तथा पूर्वोत्तरपदार्थयोर्मध्यवर्तिपदार्थग्रहणं यत्र तत्रास्य न्यायस्य प्रयोगः । येन भोक्तुरुपकरिष्यति इति चेन्न ? स्वामिमृत्ययोरप्यचेतनांशस्यैव चेतनम्प्रत्युपका- स्कत्वात्" इति सङ्गच्छते। अन्यत्र च-"ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिः भृत्यवत् सम्बन्ध आहोस्विदग्निविस्फुल्लिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति" इति कथनमपि चरितार्थम् । ( ३० ) अत एव रघुनाथेन भाष्ये च यत्रैकस्य वस्तुनो मतभेदेन बहूनि रूपाणि तत्तच्छास्त्रेषु प्रतिपाधमानान्युपलभ्य क्रिग हि विकल्प्यते नतु वस्तु इति न्यायाद् वस्तुनि विकल्पासम्भवम्मत्वा विरुद्धानां समुच्चयस्याप्यसम्भवेन तेष्वेकमतप्रतिपा- दितं सर्वाविरुद्धं वस्तु स्वीक्रियते तत्र वृक्षप्रकम्पनन्यायः प्रवर्तते इति फलति ।
[१०] ३५ सिंहावलोकनन्यायः। सिंहो बध्य हत्त्वा मगमनं कुर्वन् पृष्ठमधं पश्यनू धावति । चत्र यन्त्र पूर्वपदा विलोकन तत्र तत्रास्य न्यायस्य प्रयोगः । ३६ विषवृक्षन्यायः। विषवृक्ष सम्पाल्य तस्य स्वयं छेदनमयोग्यम् । यत्रैवं व्यवहारस्तबास्य न्यायस्य प्रयोगः। ३७ रात्रिदिवसन्यायः। रात्रिदिनयोरन्तरम् पणरूपिकयोरन्तरम् । पृथिब्याकाशयोरन्तरम् । एवभव्य- वहारेऽस्य न्यायस्य प्रयोगः। ३८ विल्वखल्वाटन्यायः। सूर्यवर्मणाततश्श्रान्त्यर्थं विल्ववृक्षच्छायमधिरूढवान् । तस्मिन्समये विल्व. फलपतनम् । यत्रेष्टेऽनिष्टलाभस्तनास्य न्यायस्य प्रयोगः । (३६) अत एव नीलकान्तेन वनपवटीकायाम् -गुरुमिनियमैजाँतो भरतो नाम रावकः, इति पाशव्याख्याने सिंहावलोकन्यायेन शंयोःपौत्रमूर्जपुत्रं भरतं स्तौति सार्द्धन गुरुभिरिति । अत एव च हेमचन्द्रेण परिशिष्टपर्वणि- सिंहावलोकनन्यायेनालीताक्षत्रतेजसा । प्रत्यक्षानिव सोद्धाक्षीत्तानमात्यान सुतद्विषः ॥ इति सङ्गच्छते । (३६) अतएव सिद्धान्तकौमुद्यात् 'विषवृक्षोऽपि सम्बर्ध्य स्वयंच्छेत्तुमसाम्प्रतम् इति । अथच खण्डनखण्डखाये- एते सर्वेर्तकाः अस्माभिरेव तर्कपदव्यामभिषिक्ता- स्ततो न प्रबन्धेन निरस्यन्ते 'विषवृक्षोऽपि सम्पध्य स्वयं छेत्तुमसाम्प्रतम् । इति । अत एव-उपमितिग्रन्थे- हाहा मयेदं नो 'चारु कृतं यत्सुतभर्सनम् । विषवृक्षोऽपि सम्बय स्वयं छेत्तुमसाम्प्रतम् ॥ इति च ग्रन्थस्सङ्गच्छेते । (३८) अत एव वर्द्धमानेन-"यथा खल्वाटः पर्यटन्नतर्कितं श्रोफलतरोधस्तादा. गतो दैववशाच बिल्वमुपरिपतितं तद्वदन्योऽप्युभयवस्तुसंयोग एवमुच्यते इतिसङ्गच्छते। अत एव च भर्तहरिणा-वल्वाटो दिवसेवरस्य किरणैस्सन्तापितो मस्तके, वाञ्च्छन्देशमनात विधिवशात्तालस्य मूलंगतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्द शिरः, प्रायो गच्छति यन्त्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ इति । अयञ्च न्यायः काकतालीयाजाकृपाणीयाभ्यान्तुल्य एवेति ध्येयम् ।
[ ११ ] ३४ देहलोदीपकन्यायः। देहल्या मन्दिरादौ स्थापितो दीपो बहिरन्तश्च प्रकाशयति । ४० करिबृहितन्यायः। विशिष्टवाचकपदानां सति पृथग्विशेषणवाचकपदसमवधाने विशेष्यमात्रपर. त्वम् । बृंहितं करिगर्जितमिति कोशः। विशिष्टवाचकस्य बृंहितपदस्य "तत्र सद्विर- इबंहितशडी इत्यादौ विशेषणवाचिद्विरदपदसमवधानाद गर्जितमात्रविशेष्यपरत्वम्। किञ्च "सकीचकैारुतपूर्णरन्धे कूजदिरापादितवंशकृत्यम् इत्यत्र "कीचका वणवस्ते स्युये स्वनन्त्यनिलोद्धताः" इति कोशेन कीचकपदस्य वेणुमानपरत्वम् । किञ्च "उद्दामदावद्विपहितैश्शतैनितान्तमुत्तुङ्गतुरङ्गहेषितैः। चलध्वजस्यन्दन- नेमिनिस्वनैरभुन्निरुच्छवासमथाकुलनमः" सूर्यसिद्धान्ते स्पष्टाधिकारे "दक्षिणोत्तर- तोऽप्येवं यातो राहुस्स्वरहला । विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात्" विक्षेपं विक्षेपणम् , स्वरहसा आत्मबेगेन विक्षिपति। विशिष्टवाचकत्वेऽपि विशेष्यपरत्वम् । वैयाकरणसिद्धान्तकौमुदीयम्बिरच्यत इत्यत्रोपसर्गाणां वाचकत्त्वपक्षे विशेष्यमा. नपरत्वम् । (३९) अत एव जैमिनिना शावरे भाष्ये यथा प्रासादे कृतः प्रदीपः सन्निधानादा. जमार्गेऽप्युपकरोतीतिव्याख्यान संगच्छते। अथ च सप्तपदार्थ्याम् द्रव्यानारम्भकं कार्यद्रव्यमन्त्याववि । प्रागभाववत्कार्यम् भोगायतनमन्त्यावयवि शरीरम् इत्यत्र "यद्यप्युद्देशानन्तरं लक्षणस्य वक्तव्यत्वा. च्छरीरलक्षणानन्तरं भोगादिवदन्त्यावयवी लक्षयितुमुचितस्तथाप्यन्त्र द्रव्यपदव्यवच्छे. द्यत्वेन प्राप्तत्वाद् देहलोदीपन्यायेनोभयत्रोपकार्यतयाऽनव लक्षित इत्यदोषः इति पन्थश्च संगच्छते। आनन्दगिरौ शङ्करविजये च एवमेव काकाक्षिगोलकन्यायोऽप्यनुसन्धेयः जामात्र अपितस्य सूपस्यातिथ्युपकारकत्ववत्' इति । { ४० )अत एव काव्यप्रकाशे-"सौन्दर्यसम्पत्तारुण्यं यस्यास्ते ते च विभ्रमाः । षट्पदान् पुष्पमालेव कानाकर्षति सा सखे॥ काव्यप्रदोषे च मालाशब्दो यद्यपि पुष्पस्यैव स्त्रजि शक्तस्तथापि पुष्पपदन्नापुष्टा. थम् लक्षणयोत्कृष्टत्वप्रविपादकत्वात् । अयमेव करिबृहितन्यायः। एवमेवापरन उदाहरणचन्द्रिकायाम् अत्र निरुपपदान मालाशब्दादेव पुष्पत्रक- प्रतीतेः पुष्पपदमुत्कृष्टपुष्पत्ये संक्रमित वाच्यम् । तथव करिबंहितादिष्वपि बोव्य- मिति भणितम् ।
। १२ । ४१ करकङ्करन्यायः। कङ्कणं करभूषणमिति कोशः । कङ्कणशब्दकरभूषणवाचकोऽपि करशब्दप्रयो- ग करसम्बन्धिद्योतनार्थः । ४२ ब्राह्मणवसिष्ठन्यायः। ब्राह्मणमानय वसिष्ठमण्यानयेत्त्युक्ते वसिष्ठोऽपि ब्राह्मण एव । ४३ गोबलीबईन्यायः। गामानय बलीवदानयेच्युक्ते बलीवोपि गोपदवाच्यः । ४४ तक्रकौण्डिन्यन्यायः। सर्वेभ्यो ब्राह्मणेभ्योदधिदीयतान्त कौण्डिन्यायेति व्याप्यव्यापकभावो बोध्यः। ( ४२ ) अत एव पदमार्याम् "वैदिकानां लौकिकत्वेऽपि प्राधान्यख्यापनार्थम् पृथग ग्रहणं यथा ब्राह्मणा आगता वसिष्ठोऽप्यागत इति" व्याख्यानमपि महता सङ्गच्छतेतराम् । अत एव "हलन्त्य" सूत्रभाष्ये ब्राह्मणपरिव्राजकन्यायोऽप्येतेन तुल्यः। (४३) वाचस्पतिना वलीवर्दस्य गोविशेषत्वेऽपि बलीवर्दस्य झटिति गोत्वेन बोधना यथा प्रयोगस्तथाऽन्ययोः सामान्यविशेषरूपयोरिति बोधनार्थ यन्त्र प्रयो- गस्तत्रास्य प्रवृत्तिः । अन्येन च-यन्त्र गाः कालय बलीबर्दचेत्युच्यते तत्र गोपदेव बलीबदबोधसिद्धौ बलीवदपदं दुर्दम्यज्ञापनपरत्वेन सफलमिति कल्प्यते इति केचित् । अत एव च कुल्लूकमयाम् "अन्न चानेकशब्दोपादाने गोबलीबदन्यायेन पौनरु- क्त्यपरिहार" इति ग्रन्थोऽपि संगच्छते न्यायवात्तिकतात्पर्यटीकायाम्-ब्राह्मणवशिष्टन्यायब्राह्मणपरिवाजकन्यायावप्ये. तद्धस्तिपदे निमग्नौ (४४) अत एव बृहदारण्यवात्तिके-तक्रकौण्डिन्यवन्न्यायो नचेहाप्यवसीयते । उत्सर्गानवकाशत्वाच्छृन्यतैवात आपतेत् ॥इति। अथच आनन्दगिर्याम् "अमिन्नशब्दस्य भेदनिषेधत्वेऽपि न भेदस्य शुन्यता सर्वत्र प्राप्तस्य कारणे निषेधादायभ्यो दधि दीयतामित्यार्योपाधौ प्रातस्य दधनस्तनं का- ण्डिन्यायेति कौण्डिन्ये निषेधेऽप्यशून्यतावदिल्याशक्याह तक्रेति" साधु सङ्गच्छते। अत एव च महाभाष्ये "लौकिकोऽयं दृष्टान्तः । लोके हि सत्यपि सम्भवे वाध- नम्भवति । तद्यथा-दधि ब्राह्मणेभ्यो दीयतान्तकं कौण्डिन्यायेति सत्यपि सम्भये दधिदानस्य तदानं निवर्तक भवति" इति ।
[ १३ ] ४५ माठरपरिवेषणन्यायः। सवें ब्राह्मणा भोज्यन्ताम्माठरकौण्डिन्यौ परिवेविषाताम, निमित्तकायिणोधिः। ४६ तुप्यतुदुर्जनन्यायः। एवं स्वीकारेणैव यदि दुर्जनस्तुष्येत् तर्हि तुष्यतु का नो हानि प्रकारान्तरेण किञ्चिदुच्यते । ४७-सम्भवव्यभिचाराभ्यांस्याद्विशेषणमर्थवदितिन्यायः । नीलो घट इत्यत्र नीले घटे घटस्य नीलता सम्भवति । पीतादिघटे सा व्यभि. चरति । अतो घटल्य नील इति विशेषणमर्थवादति तात्पर्यम् । ४८-नागृहीतविशेषणा बुद्धिर्विशेष्यमुपसंक्रामतीतिन्यायः । नहि दण्डज्ञानम्बिना दण्डीति ज्ञानम्भवति । ४ खले कपातन्यायः । वृद्धा युवानशिशव कपोताखले यथाऽमी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्था-परस्परेणान्वयिनो भवन्ति ॥ एतेन घटमानयेच्युक्ते प्रथमक्षणे घटपदस्मरणम् , द्वितीयक्षणे आनयनादिस्म- ( ४६ ) यत्र प्रतिवाद्युक्तं पक्षन्दुष्टमपि वादिना प्रौढिवादेनाङ्गीकृत्यापि दूषणान्त- रस्य दानं तत्रास्य प्रवृत्तिः । अत एव अद्वैतसिद्धौ-"यथास्वरूपं किमधिकरणमुताधेयम् । यद् वा प्रतीति- कालः किं वा प्रतीतिरेव । उतावच्छेदकदेशो वेत्यत्र विनिगमनाविरहात्तुष्यतु दुर्जन- न्यायेन स्वीकारेऽपि न निर्वाह:" इति सङ्गच्छते । अत एव च भामतीकारा:-"योष परस्याग्रहो धर्मिण्यगृह्यमाणे तर्द्धमा न शक्या ग्रहीतुमिति । एवं नामास्तु तथा तुष्यतु परस्तथाप्यदोष इत्यर्थः" इति सङ्गच्छते। (४८) अत एव "नागृहोतविशेषणेतिन्यायेन" इति कुमारिलमाः। "अगृहीतविशेषणा विशिष्टबुद्धिनदृष्टा" इति न्यायमालाविस्तरे। "नागृहीतविशेषणा विशिष्टबुद्धिः" इति सक्षपदार्थ्याम् । "नागृहीतविशेषणा विशिष्टबुद्धिः" इति तार्किकरक्षायाम् । "नाज्ञातविशेषणा विशिष्टबुद्धिविशेष्य संक्रामति" इति रघुनाया। "नह्यप्रतीते विशेषणे विशिष्टकेचन प्रत्येतुमर्हन्ति" इति शावर भाष्ये । (४९ ) अत एव साहित्यदर्पणे-समुच्चयोऽयमेकस्मिन् सति कार्यस्य साधके । खुलेकपोतिकान्यायात्तत्कर: स्यात् परोऽपिचेत् ॥ इत्युक्तं साधुसङ्गच्छतेतराम् ।
[ १४ ] रणम्, तृतीयक्षणे प्रथमस्मरणस्य नाशाच्छाब्दबोधो न स्यादित्यपास्तम् । अनेन न्यायेन युगपत्तेषां स्मरणस्य निर्विवादत्त्वात् । ५० प्रदीपन्यायः। विरुद्धपदार्थसम्बन्धेन यत्रैककार्यसिद्धिस्तन्त्रायन्न्याय प्रवर्तते । वतितैला. नयः परस्परविरोधिनोऽपि एकीभूय प्रकाशरूपमेक कार्य साधयन्ति । सत्वरजस्त- मांसि विरुद्धान्यपि देहं प्रवृत्त्यादिकञ्च कार्यञ्जनयन्ति । ५१ दराडापूपन्यायः। एकत्र दण्डाऽपूपौ स्थापितौ दण्डो मूषकैक्षितः, दुष्करदण्डमक्षणेनापूपोऽपि भक्षित इति गम्यते । श्लोकः-मणिमुक्ताप्रबालानां सर्वस्यैव पिता प्रभुः । स्थाव. रस्य तु सर्वस्य न पिता न पितामहः ॥ इति वाक्ये स्थावरग्रहणेन निबन्धद्विपद. योर्दण्डापूपन्यायादानादिनिषेधसिद्धिरिति फलति । कठिनभक्षणेन सरलभक्षणं ध्व- न्यते इति निष्कर्षः। ५२ कूर्माङ्गन्यायः। यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । कूर्मदेहे तदिच्छया तदङ्गानि निरमा रन्ति तत्रैव लीयन्ते च। (११) अस्यैव अर्थापत्तिनाम्नाऽपि व्यवहारो लौकिकः । अत एव साहित्यकौम- द्याम् "दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यतेगमू पकेण दण्डो भक्षितश्चेदिहस्थः पूपो. ऽपि तेन भक्षित इति न्यायो दण्डापूपिका । तथान्यार्थागमोऽर्थान्तरप्रत्ययोऽर्थापत्ति. रित्यर्थ इति व्याख्यानेन विरोधः । परे तु कुवलयानन्दे "कैमुत्येनार्थससिद्धिः काव्यार्थापत्तिरिष्यते । स जितस्त्वन्मु. खेनेन्दुः का वात्ती सरसीरुहाम् ॥” अत्र स इत्यनेन पद्मानि येन जितानीति विवक्षित तथा च सोऽपि येन जितस्तेन पद्मानि जितानीति किमु वक्तव्यमिति दण्डापिका- न्यायेन पद्मजयरूपार्थस्य संसिद्धिः काव्यार्थापत्तिः । तान्त्रिकाभिमतार्थापत्तिव्यावृत्तये काव्येति विशेषणमित्यभिदधति । (५२) अत एव साङ्ख्याचार्याः सर्वदर्शनसंग्रहे च "यथा हि कूर्मस्याङ्गानि कूर्म- शरीरे निविशमानानि तिरोभवन्ति धाविर्भवन्त्येवं कारणस्य तन्त्वादेः पटादयो विशेषा निस्सरन्त आविर्भवन्त उत्पद्यन्ते इत्युच्यन्ते निविशमानास्तिरोभवन्तो वि. नश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पत्तिः सतां का विनाशः इति प्रवदन्ति ।
[ १५ ] ५३ भामतोन्यायः। भामती स्त्री रूपयौवनादिसम्पन्ना यथा एकेनैव नाम्ना पतिं सुखाकरोति दुः- खाकरोति च सपत्नीः नरान्तरम् मोहयति चेति भावः । ५४ सुत्रशाटकन्यायः। यन्त्र भाविसंज्ञया निर्देशस्तत्रायन्न्यायः । तन्तुवायम्प्रति कश्चिदाह अस्य सूत्रस्य शाटकम्वयेति । सिद्धिमन्तरा न शाटकत्त्वम् , अस्ौतादृशम्बस्तु वय यस्य शाटकमिति संज्ञा भाविनी। ५५ कुलालदोहिनीन्यायः। यथा कुलालस्य गृहे हि दोहिनी सा वै कथं दोहिनिकेति संज्ञा । एवमिहापि भाविनी संज्ञा । ५६ जलानयनन्यायः। जलमानयेत्त्युक्ते पानानयनं सुतरां सिद्धयति अनीप्सितमपि। एवम्व्यवहारे- ऽस्य प्रयोगः। ५७-नहि करकडूणदर्शनाय आदर्शापेक्षा भवतीति न्यायः । प्रत्यक्षसामग्रीसत्त्वे तणैव पदार्थप्रतीतिः नानुमित्यादिसामग्रयपेक्षेतिव्यवहारेऽ. स्य प्रवृत्तिः, नहि करिणि दृष्टे चीत्कारेणानुमातारस्तमनुमिमते । पूर-भक्षितेऽपि लशुने न शान्ता व्याधिरितिल्यायः । अनिष्टे कर्मणि कृतेऽपि यत्र नाभीष्टसिद्धिरेवम्बिधे व्यवहारेऽस्य प्रयोगः । (५४ ) अत एव रघुनाथ:-"यत्तु भाविसंज्ञया निर्देशो यथा नारुद्रोवसेतू काश्या. मित्यत्र तत्र सूत्रशाटिकान्यायावतारः। सूत्रस्य शाटिकां वापयतीत्यत्र यथा सूत्राय स्थायां भाविन्या शाटिकेति संज्ञया निर्देशस्तथा दार्शन्तिकेऽपीति बोद्धयम्” इति : अत एव च महाभाष्ये "आत्मनेपदेषु चापि नेतरेतराश्रयं भवति, कथम् , विज्ञा. स्यते भाविनी संज्ञा सूत्रशाटकवत्। तद् यथा कश्चित कश्चित्तन्तुवायमाह अस्य सूत्रस्थ शाटक वयेति । स पश्यति यदि शाटको न वातव्योऽथ वातब्यो न शाटक शाटको वातव्यश्चेति विप्रतिषिद्धम् । भाविनी खल्वस्य संज्ञाऽभिप्रेता स मन्ये वातव्यों यस्मिन्नुते शाटक इत्येतद् भवतीति अत एव च तन्त्रवात्तिके "यौवास्य सूत्रस्य शाटकं वयेत्युक्ते चानेन शाटकः क्रियते इति हिमाविसंज्ञा विज्ञानादविरोधो विज्ञायते तथैवात्र प्रत्येतव्यमिति"। (५८) अतएव वेदान्तकल्पतरुपरिमलव्याख्याने- मनु मक्षितेऽपि लशुने न शान्तो व्याधिरिति न्यायेन प्रपञ्चस्थाधिष्ठानव्य- . - [ १६ ] वानिति । ५६ श्रामणकन्यायः। आभणक लोकप्रसिद्धकथनम् । यथा वराटकान्वेषणे प्रवृत्तश्चिन्तामणि लब्ध. ६० रज्जुसपन्यायः। यथा रज्जोरज्ञानेन सर्पात्मना भानम् । ज्ञातायास्तु रज्जुवेन । ज्ञातस्ये नरस्य निष्प्रपञ्चत्वेन भानम् । अज्ञातस्य सप्रपञ्चत्त्वेनेति दृष्टान्तः । ६१ गुडजिहिकान्यायः। जिह्वायां गुडलेपनं कृत्वा निम्बादि कटुव्यं पापयन्ति पित्रादयः । ६२ उष्ट्रकण्टकभक्षणन्यायः । उष्ट्रस्य शमीकण्टकवेधजातदुःखकालेऽपि शमीपत्रभक्षणजसुखलेशो भवति व्यापारसमये यद्यपि दुखन्तथापि फलसमये सुखम् एवं व्यवहारेऽस्य प्रयोगः ६३ रासभरुतन्यायः। गर्दभशब्दआदौ उच्चस्वरेण लभ्यः पश्चान मन्दो भवति क्रमेण परिक्षी- जः । तथा नीचप्रीति पूर्वमधिका पश्चान्मन्दा मन्दतरा च । तिरिक्ततया प्रतीयमानत्वात् कथम(तसिद्धिरित्याशङ्का तृणीकुर्वन्नाह अखण्डमिति" अन्थस्सुसंगच्छते। (६१ ) अतएव वाचस्पतिमिश्रा:-"यथा तिकतामिया निम्बपानमकुर्वाणस्य वालल्प जिह्वायां गुडालेपकृत्वा पित्रादिस्तं पाययति निम्बन्तथा अर्थवादवाक्यानि बहायाससाध्ये कर्मण्यप्रवर्तमानं पुरुष स्वर्गाक्षय्यादिक श्रावयित्वा प्रवर्तयन्ति । फलश्रुतिरपि रोचनार्था" इति । (६२) अत एव शारे भाष्ये "शब्दाविशेषेऽपि च भावनाविशेषात सुखादि. विशेषोपलब्धेः" इत्येतद्रव्याख्याने भावना तत्तज्जातियोग्या वासना तद्विशेषादु. ष्ट्रादीनां कण्टकादौ सुखादिदर्शनात् इत्युक्तम् । तथैव हि वाचस्पविना भामत्याम् "यदि पुनरेत एव सुखदुःखस्वभावा भवेयुस्ततः स्वरूपत्वाद् धेमन्तेऽपि चन्दनः सुखम्स्यात् , नहि चन्दनः कदाचिदचन्द नः । तथा निदाघेपि कुंकुमपंकस्सुखो भवेत् । नहि असौ कदाचिकुङ्कमपङ्कः । एवं कण्टकः क्रमे लकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखस्स्यात् ' नासौ कौश्चित्प्रत्येवाक. पटक इति । तस्मादसुखादिस्वभावा अपि चन्दनकुंकुमादयो जातिकालावस्थाद्य- पंक्षया सुखदुःखादिहेतवो नतु स्वयं सुरवादिस्वभावा इति रमणीयम्" इत्यपि ग्रन्थः सङ्गच्छते।
६४ कुक्कुटध्वानन्यायः। कुक्कुटध्वनिहस्वदीर्घप्लुतक्रमेण भवति तथा साधुमैत्री उत्तरोत्तरम्बर्द्धते । ६५ इक्षुदण्डन्यायः। यथेक्षोःपर्वणि पर्वणि रसोत्कर्षस्तथा सज्जनमैत्र्यपि क्रमे ग उदर्कतां प्राप्नोति। ६६ चालनोन्यायः। चालनी सारंपरित्यज्यासारमानंगृह्णाति । चाल्यते धान्याद्यनया चालनो, चालयतेणिजन्तात् ल्युट की। ६७ मक्षिकान्यायः । मक्षिका हि सर्व देहम्परित्यज्य व्रणस्थानमेवालम्बते तथा दुष्टोऽपि । ६८ जलौकान्यायः। जलौका हि स्त्रीस्तनाग्रे लग्ना दुग्धं त्यक्त्वा रुधिरं पिबति तथा दुष्टोऽपि । ६६ भ्रमरन्याया। भ्रमरो निर्गन्धं पुष्पं त्यक्त्वा सगन्धमाधत्ते, एवंव्यवहारेऽस्य प्रवृत्तिः । ७० शुर्पन्यायः। शूर्पो वुसादि हेयन्त्यक्त्वा शुद्धमन्नमवशेषयति, तथा शिष्यो गुरूणां गुणान् आधत्ते न तु दोषान् । ७१ व्याघ्रीक्षारन्यायः। सिंहीक्षीरं सुवर्णपात्र एव तिष्ठति फलाय च भवति तथा गुरूपदेशो हि शमा- दिसाधनयुक्ते शिष्ये एव प्रतिष्ठां लभते नान्यत्र । ७२ चित्राङ्गनान्यायः यथा चित्ररूपाङ्गना स्त्री दृश्यमानापि चुम्बनाऽलिङ्गानादिफलं जनयितुन्न शक्नोति । (६७) प्रश्नोपनिषदि तु-"तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवो. त्झामन्ते तस्मिश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रोता प्राणं स्तुवन्ति” इत्युक्तम् । अपरे तु सर्वदर्शनसंग्रहकाराः-"यदा चित्तं निरुध्यते तदा चक्षुरादीनां निरोधेः प्रयत्नान्तरं नापेक्षणीयम् । यथा मधुकरराज। मधुमक्षिका अनुवर्तन्ते तथेन्द्रियाणि चित्तमिति। २ [ १८ ] सुमुझे कि ७३ ऊपरवृष्टिन्यायः। यथोषरे वृष्टिनिर्थिका तथा मूर्खेभ्यः शिक्षाप्रदानन्निष्फलमिति भावः । ७४ समुद्रवृष्टिन्यायः। जलवृष्टया ? तथा विद्वदूभ्यः कथमुपदेशः । ७५ समुद्रजलशोषणन्यायः। यथा असम्भवात् समुन्द्रशोषणे कस्यापि न प्रवृत्तिस्तथा कृत्यसाध्ये न प्रबति- तव्यमिति भावः। ७६ सुमेरुशिखरानयनन्यायः । अयमपि स्मुद्रजलशोषणन्यायतुल्य एव । यत्रासम्भवे कायें कश्चित् प्रवर्तते तत्रास्य प्रवृत्तिः । ७७ काकदन्तगवेषणन्यायः । काकस्य दन्तास्सन्ति न वेति तेषां शौक्ल्यन्नवेति ! ७८ हस्तामलकन्यायः। हस्ते स्थितमामलकफलमसन्दिग्धं दृश्यते । (७३) अत एव परिशिष्टपर्वणि-कषायपक्षिवृक्षेषु कृतघ्नेषु दुरात्मसु । पतेषु निष्फलं दानमूषरेष्वम्बुवृष्टिवत् ॥ इति । अथ च अनुशासनपर्वणि-यथोषरे वीजमुतन्नरोहेन्नवा वसा प्राप्नुयाद् वीजमा- गम् । एवं श्राद्धं भुक्तमनर्हमाणैर्नचेहनामुत्र फलं ददाति इति निगयते । (७७) अत एव कातीयोपनिषदि शहरः "नचिकेतो मरणं मानुप्राक्षी न चिकेतो मरणम्मरणसम्बद्धम्प्रश्नं प्रत्यास्ति नास्तीति काकदन्तपरीक्षारूपं मानुप्रा- क्षीमॆवम्प्रष्टुमर्हसि" इत्युक्तवान् । अत एवं ध्वन्यालोके "व्यङ्गयोऽर्थो भवतु मा वाभूत् कस्तत्राभिनिवेशः । काक- दन्तपरीक्षाप्रायमेव तत्स्यादिति भावः” इत्युक्तम् । न्यायमञ्जरीकारा अमुमेव न्यायं वायसदशनविमर्शन्यायनाम्ना अभिदधति । (७७) अत एव न्यायमालाविस्तरे "ऋत्वर्थोऽयम्पुरुषार्थाऽयमिति विवेकस्य प्रयोजनं किमपि न पश्यामः। तस्मात् काकदन्तविचारवदयं विचार उपेक्षणीय इति चेन्मैवम्" इत्याधुक्तम् । खण्डनखण्डखाये च "नच वाच्यं सामान्यतोऽवैतप्रमाणसिद्धौ भूतायामपि विशेषतः प्रमाणप्रश्नो, यतः सामान्यासद्धाओवादूवैतसिद्धौ विशेषविचारः काकदन्त- विचारवत्स्यात्" इतिप्रोत्तम् ।
[१९] ७४ चित्रपटन्यायः। यथा धौतो घट्टितो हि लाञ्छितो रञ्जित पटः चिदन्तयामिसूत्रात्मा विरा- डात्मा तथेयते । स्वतः शुभ्रोऽत्र धौतस्स्याद घट्टितोऽन्यविलेपनात् । मध्याकारैलान्छितस्यादञ्जितो वर्णपूरणात् ॥ ८०-चम्पा पुटकवासनान्यायः पुटकचम्पावासनान्यायो वा ! प्रथमे चम्पया सहितःपुटक इति समासः। चम्पा पुष्पविशेषः तद्वासना पुटके। यत्र वा वासनासंक्रमस्तत्रायन्न्यायः । ८२-रूढ़ियोगमपहरतीतिन्यायः । स्थन्तरशब्दःसामवेदे रूढः रथेन तरतीति विग्रहमात्रम् । २-जलकतकरेणुन्यायः। कतको जलशोधनद्रव्यविशेषः । अत् एवायं हेमचन्द्रेण- परिशिष्टपर्वणि-गुरुवाक्कतकक्षोदसंसक्तमभवत्सदा । प्रशान्तदुतिमलं तन्मनोवारिनिर्मलम् । इत्युक्तम् । (८१) अत एव विवरणप्रमेयसंग्रहे "ननु जिज्ञासाशब्दो विचारे रूढः। भाष्य- कारादिभिस्तत्र विचारविवक्षया प्रयुक्तत्वात् । अतो रूढियोगमपहरतीति न्यायेना- वयवार्थस्वीकारो न युक्तस्ततोऽर्थशब्दोऽप्यधिकारार्थो भविष्यति । इति विचारस्य प्रारब्धुं शक्यत्वादिति चेन्मौवम् ? रूढियोगमपहस्तीति न्यायस्यात्राप्रसरात् । तत्र यः शब्द एकत्राथें रूढोऽपरन यौगिको यथाच्छागे रूटोजशब्द आत्मनि यौगिकस्त. त्राजं पश्येत्युक्ते ढियोगमपहरतीतिन्यायः प्रसरति । इह तु जिज्ञासाशब्दो न विचारे रूढः इति सङ्काउछते । अथ च तर्कभाषान्यायप्रदीपटीकायाम्- लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी। कल्पनीया तु लभते नात्मानं योगबाधत इति सङ्गच्छतेतराम् । (८२ ) अत एव मनोः-फलं कतरवृक्षस्य यद्यप्यम्बुप्रसादकम् । ननामग्रहणादेव तस्य वारि प्रसीदति ॥ इति श्रूयते । अथ च लौकिकन्यायसंग्रहे "यथा हि सपाजले निक्षिप्ताः कतकस्यौषधिविशेषल्य रेणवो रजांसि तस्मान्जलात् पर विलाप्य स्वयमेव विलीयन्ते तथा तत्त्वज्ञानं सवि- लासाज्ञानं निवर्त्य स्वयमेव निवर्तन्ते" इति ।
[ सर्ववाक्यं सावधारणमिति न्यायः । अवधारणार्थक एवकारस्त्रिविधः क्रियान्वित विशेषगान्वितः विशेष्यान्वित. श्व । नीलमुत्पलम्भवत्येव, शङ्खः श्वेतः, पार्थएव धनुर्द्धर इत्युदाहरणानि । ४ सर्वविशेषणं सावधारणमिति न्यायः । शङ्खः श्वेतइत्यत्र श्वेत एवेत्यर्थः । ५-मण्डूकतालनन्यायः। मण्डूकतोलने तुलानिष्ठमण्डूकास्तुलात उत्प्लुत्योत्प्लुत्य पतन्तीतिभावः । ८६-घुणाक्षरन्यायः॥ घुणः कीटविशेषः तभक्षितकाष्टादावकस्मात् ककाराधक्षराकारस्सिद्धयति । - उक्तञ्च भगवत्पादैः--अज्ञानकलुषं जीवं ज्ञानाभ्यासाद विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ इति । अपस्त्रच सुरेश्वरेण वार्तिके-अपां कतकसम्पर्कादू यथात्यन्तप्रसन्नता । अपास्ताशेषसंसारभावनस्वमात्मनः ॥ (८२) स्वास्थ्यप्रसन्नत्तस्मिन् सुषुप्ते भवतीत्यतः । सम्प्रसादमिम्प्राहुः सुषुप्तं तद्विरोजनाः ॥ अथ च हेमचन्द्रेण परिशिष्ट पर्वणि--गुरुवाक्कतकक्षोदसंसक्तमभवत् सदा । प्रशान्तदुर्ध्यातमलं तन्मनोवारि निर्मलम्॥ इति अत एव च तत्त्वमुक्ताल्पे- "नतु क्वचिदपि द्रव्यनाशः । अवस्थान्तरापत्त्या चादर्शनम् । कतकरजोनिदर्शनं च वालप्रलोभनम् । न हि पयसि पङ्कः कतकरजसा शाम्यते विश्लेषमात्रदृष्टः। न च स्वयन्तन नश्यत्यसंश्लेषमात्रसिद्धः” इति । ( ८६ ) अत एव वर्द्धमानेन--घुणोत्किरणात् कथञ्चिन्निष्पन्नलमक्षरं घुगाक्षरम् । तदिवयदकुशलेन दैवान्निष्पाद्यते तधुणाक्षरीयम् ॥ इति व्याख्यानं सफलीभवति । अथ च प्रश्नराधवे--"अहो धुणाक्षरन्यायो यदिदं भ्रमरद्वयम् प्रतिमयोक्तं बन्दि- द्वयम् प्रति फलितं वचः" इति च सङ्गच्छते। अत एव च राजतरङ्गिण्याम्- नीन् वारान् समरे जित्वा जितम्मेने स मुम्मुनिम् । सकृज्जयमरेवीरा मन्यन्ते हि घुणाक्षरम् ॥ इत्युक्तिरपि सङ्गच्छतेतराम् ।
[ २१ ] ७-विनायकं प्रकुर्वाणो रचयामास वानरम् इति न्यायः। अन्यत् कर्तुं सङ्कल्पे प्रमादादिना यनान्यत् क्रियते फलेऽनिष्टमवलोक्यते तत्रास्य प्रवृत्तिः। उन्मत्तलपितमिव च तन्न श्रद्धीयते लौकिकैः म:-कूपमण्डूकन्यायः। लोककथा, समुद्रनिस्सृतो मेघो विवेश कूपम् , कूपस्था मण्डूकाः पृच्छन्ति कुतः आगतो भवानिति स उवाच समुद्रात् कियान्समुद्र इति पृच्छन्ति स उवाच महानि. कूपस्थ कश्चनोवाच स्वजचा प्रसार्या किमेतावानिति स उवाच नह्येवं महान्समुद्रः ततो द्वितीयजवां प्रसार्योवाच किमेतावान्समुद्र इति पुनवंसइत्युवाच समुद्रीयो. मण्डूक: कूपमण्डूक उवाच एतस्कूपसदृशो वितस्तिपरिमितो वा मच्छरीरपरिमितो वा सउवाचन ह्येवम् महत्तमस्स इति कूपमण्डूक उवाच मिथ्या त्वं प्रलपसीति तदा समुद्रमण्डकउपजहासेति । ९ कान्तारोत्तरगन्यायः। कान्तारं काननं प्रोक्तमिति कोशः । कश्चन घोरकान्तारपारं गन्तुमसमर्थोऽन्य ययाचे स तं वहिनिस्सार्य पुनरागतस्वस्थानम् । 80 अन्धगोलाङ्गलन्यायः । कश्चनधृतः वने विस्मृतमाग द्रव्यभूषणयुतं पुरुष मोहयित्वा मार्गदर्शयामीति आश्वास्य घोरबने छलेनान्धीकृत्य तभूषणादिकमपहृत्य स्वस्थानङ्गतः अन्धश्च त- द्वचनश्रद्धया कण्टकाबिद्धपादो महद्दुख प्राप । तथा च धूर्तपापण्डिवञ्चितमूर्खाः दुलभन्ते । अयन्न्यायः तन्निष्टस्य मोक्षोपदेशादिति शारीरकसुत्रभाष्ये । (८०) अत एव प्रश्नराघवनाटके- "कथम्मामपि दशदिग्विलासिनी कर्णपूरीकृतकीपिल्लवं त्रिभुवनवीरनामधेयं कूपमण्डूक इव सागरमविख्यातमपदिशसि" इति समुपपद्यते । अत एव च उपमितिभावप्रपञ्चे- यो न निर्गत्य निश्शेषां विलोकयति मेदिनीम् । अनेकादभुतवृत्तान्तां स नः कृपरः ॥ इति समुपपद्यते । ( ९० ) अत एव वेदान्तसूत्रशाङ्करभाष्ये- यदि चाज्ञस्य सतो मुमुक्षोरचेतनमात्मानमात्मेत्युपदिशेत प्रमाणभूतं शास्त्र स श्रद्धानतयान्धगोलाङ्गुलन्यायेन तदात्मदृष्टि न परित्यजेत्तद्व्यतिरिक्त चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद् विहन्येतानर्थ च अच्छेत् इति ग्रन्थः सङ्गच्छते।
[ २२ ] १ अन्धगजन्यायः। अन्धैनिर्धारितो गजः अन्धगज हति मध्यम पदलोपिलमासः बहवो जन्मान्धाः अनन्धमूचुः अस्मानूगजं दर्शयेति, स गजशालायां तान्नीत्वा तं तं गजावयवं तेन तेन ग्राहयित्त्वा उवाच अयाज इति । मन्धाश्च तं तं गजावयवं गजत्वेन निश्चित्त्य स्वस्थानमागताः परस्परं कलहं चक्रुः । कर्णावयवस्पीशुर्पसदृशी गजइत्त्युवाच, शुण्डग्रहीता स्तम्भतुल्य इति, पुच्छग्राहकातु स्थूलरज्जुसमो गज इति जगाद । एवं तत्त्वमजानन्तो विवदन्ते । १२ नहिभिक्षुको भिक्षुकं याचितुमहति सत्त्यन्यस्मिन्नभिक्षुक इति ल्यायः। स्पष्टार्थकोऽयन्न्यायः । ६३ रेखागवयन्यायः। ग्रामीणेन पृष्टः कीदृशो गवय इति कश्चिद्गताकाररेखां लिखित्वा दर्शयामा- सेदृशोगवय इति पृच्छकस्साधारणबुद्धिमानिति रेखागवयमेव साक्षाद् गवयम्मेने । पश्वा वनङ्गन्त्वालाक्षाद्गवयं दृष्ट्वारेखाया स्तबुद्धित्तयाजेतिलोकिको निबन्धः । (९१) अत एव च वात्तिकग्रन्थे-एवमेवैकरूपं सहस्त्वज्ञातं निरञ्जनम् । जात्यन्धगजदृष्टयेव कोटिशः कल्प्यते मृषा ॥ इति नैष्कम्यसिद्धौ तु--तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्टयेव कोटिशः कल्प्यते मृषा ॥ इति सङ्गच्छते। (९२) अत एव शास्त्रदीपिकायाम्-"नच भिक्षुका भिक्षुकादाकाक्षन्ति सत्य. न्यस्मिन् प्रसवसमर्थकेऽभिक्षुके” इति सङ्गच्छते । (९३) अत एव रघुनाथेन तथैष पुरुष इत्यादिश्रुतेः पूर्वोत्ततात्पर्यानभिज्ञोऽना. त्मानमेवात्मतया जानीते । गुरुशास्त्रोपदेशेनात्मनिज्ञाने तदात्मबुद्धिमपवदति इति । अपरञ्च वेदान्तकल्पतरूपरिमलयोः “यथा तात्त्विकारुन्धतीप्रतिपत्त्युपायतया नानापुरुषैः कल्प्यमानायां तत्प्राच्योदीच्यादिनक्षत्ररूपायां स्थूलारुन्धत्यां यथा वा रेखागवयन्यायेन नित्यशब्दप्रतिपत्त्युपायतया नानाव्याकरणः परस्परभिन्नप्रकृतिप्रत्य- यविभागेन कृत्रिमशब्द इति भावः" इति च । कैयटेन भाष्ये-असत्यप्रकृतिप्रत्ययोपदेशेन सत्यस्य पदस्य व्युत्पादनं क्रियते रेखागवयन्यायेनेव सत्यगवस्येति ।
[ २३ ] - ६४ शाखाचन्द्रन्यायः। शुक्लद्वितीयाचन्द्रदर्शनार्थम्बुद्धिमान् पुरुष आदौ दिगन्तर्गतनक्षत्रादिभ्योहाष्ट म्वारयितुं शाखायां चन्द्रइत्यधिकरणत्वेनोपदेशं कृत्वा चन्द्रसमीपवत्तितारकादिषु चन्द्रनमो माभूदिति प्रकृष्टप्रकाशात्मकश्चन्द्र इति शिक्षितवान , असत्ये वर्त्मनि. स्थित्वा ततस्सत्यं समीहत इति पद्यवदुदाहरणम् । २५भ्रष्टावसरन्यायः। यल्यावसरो भ्रष्टोनिययितस्तस्य कार्यसिद्धिर्नभवति । १६ सर्व कार्य सकारणमिति न्यायः । जगतां यदि नोकर्ता कुलालेन विना घटः । चित्रकारम्विना चित्रं स्वत एवम- वेदिति सर्व कार्यजातं धादिज्ञान सकारणं मृदादिज्ञानपूर्वकम्भवति । तदुक्तम्- कारणज्ञानत कार्यविज्ञानञ्चापि सोऽवददिति । ६७ कार्येण कारणसम्प्रत्यय इति न्यायः । घटादिरूपकार्येण कुलालादिरूपकारणस्य सम्प्रत्ययोभवतीति फलितार्थः । 8८ देवदत्ताहन्तृहतन्यायः। देवदत्तस्य हन्तरि हते देवदत्तस्य नोज्जीवनम् । (९४ ) अत एव तैत्तिरीयभाष्यवात्तिके-तुरुशाखाग्रदृष्टयैव सोमं यत्प्रदर्शयेत् । निष्कोशकोशदृष्टयैव प्रतीचि ब्रह्म दयते ॥ इति केषाञ्चिद् वचः श्रद्धीयते । अत एव च विवरणप्रमेयसंग्रहे-- "नन्वत्र सूने ब्रह्मस्वरूपलक्षणं नोक्तं न च तदन्तरेण स्वरूपमवगम्यते प्रकृष्टप्रका- शात्मत्वमनुक्त्वा शाखा चन्द्र इत्येवोस्ते चन्द्रस्वरूपानवगमात् । इत्यपि ग्रन्थः । (९९) एवञ्च परिभाषेन्दुशेखरे नागेश:-- "अत एव निर्देशाद् भ्रष्टावसरन्यायस्यान शास्त्रे नाश्रयणम् । ध्वनितं चेदमिकोगुण इति शास्त्र भाष्यप्रदीपोद्योते निरूपितम् ॥ इति ग्रन्थः सङ्गच्छते। तन्त्रवार्तिककारैरपि "यदपि यजमानस्य भ्रष्टावसरं क्रियमाणं विगुणं भवतीति तदपि गुणलोपे मुख्यस्येत्यनेन विरुद्धम्" इति प्रोक्तम् । (९८) अत एव रघुनाथ:--"नन्वज्ञानबाधके ज्ञाने विनष्टे पुनरज्ञानोदयेन बन्ध. प्रसङ्ग इति शङ्कायां देवदत्तहन्नहतन्यायावतारः । यथा देवदत्तहन्तरि हतेऽपि न देव- दत्तस्य जीवनं तथा प्रकृतेऽपि" इति ।
। २४ ] देवदत्त हननोद्यतहतन्यायः । देवदत्तहननोद्यतस्य हनने तु देवदत्तस्योज्जीवनम्भवत्त्येव । १०० नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभत इति न्यायः । यद्यपि द्वित्वव्यापकता नित्त्वे तथापि वाक्यस्य सावधारणत्वात् पुत्रत्रयवतः पुत्रद्वयवत्त्वेऽपि न तस्य द्विपुत्रशब्दवाच्यत्वम् । १०१ गडुलिकाप्रवाहन्यायः। गडलिका लोके गडेरिया इति प्रसिद्धिः, अवीनाम भेड़िया इति लोकप्रसिद्धिः समुदायादेका चेत्कूपे पतिता सर्वा अपि कूपे तस्मिन् पतन्ति । भेडियाधसान इति , प्रसिद्धिः। १०२ अन्धपरम्परान्यायः । अन्धेन नीयमाना अन्धा एवापतन्ति । अन्यन्न च परिभाषेन्दुशेखरकारा:--"अत्र देवदत्तस्य हन्तरिहते देवदत्तस्योन्मजनं नेतिन्यायस्य विषय एव नास्ति । हते देवदत्त उन्मजन न। देवदत्तहननोद्यतस्य हनने तु भवत्येवोन्मज्जनम्” इति। अथ च महाभाष्ये--"नहि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावो भवति" इति विराजते। (१०० ) अत एव व्याकरणमहाभाष्यकृता "अद्विप्रभृत्युपसर्गस्येति वक्तव्यम् । इहापि यथा स्यात् । समुपाभिच्छाद इति तहि न वक्तव्यम् । यन्त्र त्रिभृतयः सन्ति द्वापि तत्र स्तस्तत्राव्युपसर्गस्येत्येव सिद्धम् । नवा एष लोके सम्प्रत्ययः । न हि द्विपुत्र आनीयतामित्युक्ते त्रिपुत्र आनीयते । तस्माद् द्विप्रभृत्युपसर्गस्येति वक्तव्य- मिति कथितं सङ्गच्छते। (१०१) एवञ्च वाचस्पतिना यत्र वार्यमाणानामपि अनिष्टकायें प्रवृत्तिस्तत्रास्य न्यायस्य विषयता। अन ध्वन्यालोके काव्यप्रदीप च गरिका, गड्डारिका, गड्डालिका इति वा नामावीनां कैश्चिदनुसन्धीयते । (१०२) अत एव ब्रह्मसूत्रभाष्ये शाडुरे "अनादित्वेऽपि अन्धपरम्परान्यायेना- प्रति वानवस्था व्यवहारलोपिनी स्यान्नाभिप्रायसिद्धिः वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषान्धपरम्परान्यायापत्तेः” इत्युक्तम् । एवमेव साख्यसूत्रे--"इतरथान्धपरम्परा" पदमार्याम्-अन्धपरम्पराप्रसङ्ग" इत्यादि च श्रयते।
[ २५ ] १०३ वटे यक्षन्यायः । इह वटे यक्षस्तिष्ठति ऐतियप्रमाणमूलकोऽयन्न्यायः । १०४ पटदग्धन्यायः। परैकदेशे दग्धे पटोदग्ध इति ग्रामैकदेशे दग्धे ग्रामो दग्ध इति व्यवहारः ।। १०५ मल्लनामन्यायः। अन्यजनेषु सत्स्वपि मल्लाना बहुवात् मल्लमाम इति व्यपदेशः । पण्डितानां बाहुल्यात पण्डितमाम इति, चौराणां बहुत्वात् चौरग्राम इति व्यपदेशः । , अत एव पदमजादौ-तत्र ये साधवस्ते शास्त्रेणानुशिष्यन्तेऽसाधुभ्यो विविक्ताः प्रकृतिप्रत्ययविभागेन ज्ञाप्यन्त इमे साधव इति । कथम् पुनरिदमाचार्येण पाणिनिना. वगतमेते साधव इति । आपिशलेन एन्याकरणेन । यद्येवमन्धपरम्पराप्रसङ्गः। तद्य- था शुक्लं क्षीरमित्यन्धेनो के केनेदमवगतमिति पृष्टो यदाऽन्धान्तरं मूलं निदिशति सोऽप्यन्धान्तरं नैतद्वचः शौक्ल्ये प्रमाणं भवति ताहगेतत्" इति प्रोतमुपपद्यत इति । (१०) अत एव न्यायसूत्रविवरणे-"ऐतिह्यमिह वृक्षे यक्षः प्रतिवसतीति लोकप्रसिद्धिः । तत्र मूलवक्त्रनिदेशेन आटोक्तत्वानिश्चयेन तादृशनिश्चयस्य शाब्दबोध हेतुतया नास्य शब्दप्रमाणेऽन्तावः" इति। अथ च न्यायमञ्जरीकारा:-नच प्रसिद्धिमात्रेण युक्तमेतस्य कल्पनम् । निर्मूलत्वात्तथा चोक्तं प्रसिद्धिवंटयक्षवत् ॥ इति । ऐतिहन्तु न सत्यमन्त्र दिवटे यक्षोऽस्ति वा नेति को जानाति कदाच केन कलितं यक्षस्य कीदृग् वपुः ॥ इति श्लोकवार्तिके-जगति बहु न तथ्यं नित्यमैतिद्यमुक्त, भवति तु यदि सत्यं नाग माद भिद्यते तत् । इति सर्वत्र तत्र तथोक्तं सनाच्छते । अस्य दग्धेपटन्याय इति स्वरूपमपि । (१०४) अत एव वेदान्तसारटोकायाम् "यद्वा सर्व खल्विदं ब्रौतदात्यमिदं सवमित्यादिश्रुतिबलात् सर्वमहमिति गिरिनदीसमुद्रात्मकं सर्व जगत्स्वाभिन्नसच्चि- दानन्दब्रह्मत्वे नानुभूय तस्य दग्धपटन्यायेन प्रपञ्चमानेऽप्यद्वैत सच्चिदानन्दलक्षणं वस्तु भासत एवेत्यर्थः । अथच "तौव नन्वेतादृशस्य जीवन्मुक्तस्य देहेन्द्रियादिभानमस्ति न घेत्याशंक्य दग्धपटन्यायेनेन्द्रजालमुद्रितसौधमुद्रादिवञ्च बाधितानुवृत्त्या मिथ्या- त्वेन भानेऽपि परमार्थतया भानं नेत्याह अयमित्यादिना न पश्यन्तीत्यन्तेन इति ग्रन्थः सङ्गच्छतेतराम् ।
[ २६ ] १०६ पारिषदन्यायः। समन्यापरिषदगोष्टी सभा-पारिषदः सम्यः तेषामे कस्मिन् कृतेपि अवशिष्टे स्तत्कार्य निर्वाहो यथा भवति तथान्यत्रापि । १०७ नान्यदृष्टं स्मरत्यन्य इति न्यायः । शरीरस्य नचैतव्यं मृतेषु व्यभिचारत इति तथात्वं चेदिन्द्रियाणामुपधाते कथं स्मृतिः। १०. वृद्धब्राह्मणवरन्यायः । तन्त्र कार्येऽक्षमव्यक्तौ तदभारविसर्ग एवं फलति । यथायोग्य कार्यनियुक्त- श्शोभते इति तत्वम् । १०६ द्विर्बद्धसुबद्धंभवतीति न्यायः । एकैनैव कारणेन कार्यसिद्धौ कारणान्तरस्यापि सन्निधापनेऽयन्न्यायः प्रवर्त्तते । एवन्त्रैव प्रश्न्वादिना क्रियमाणे प्रतिवादिना यन्त्र सदुत्तरद्वयं ततोऽप्यधिकं वा क्रियते तादृशेषु न्यायस्यास्य विषयता । ११० अजागलस्तनन्यायः । अजागलस्तनौ स्तनाकारौ मांस विकृतौ यथा निरर्थको तथा प्रकृतेऽपि । १११ धान्यपलालन्यायः । धान्यानयने पलालानयनं सुतराम्भवतीति । ११२ मत्स्यकरटकन्यायः । मत्स्यमांसाशी तत्सम्बद्धकणकानपि गृह्णाति पश्चात्त्यजति तथेवरविय- यको विचारः। ११३ अब्भनन्यायः। अब्भक्षोऽयं ब्राह्मग इत्युक्तौ तदितरान्नादिमक्षणनिषेधोऽवगम्यते । १२४ वायुभक्षन्यायः। पूर्ववत्स्पष्टार्थकोऽयन्न्यायः । (१०७) अत्र च कुसुमाञ्जलीकाराः- नान्यदृष्टस्मरत्यन्यो नैकम्भूतमपक्रमात् । वासनासंक्रमो नास्ति नच गत्यन्तरं स्थिरे ॥ इति पूरयन्ति ।
[ २७ ] " १२५ स्थालीपुलाकन्यायः । पुलाकस्सिद्धभक्तके इति कोशः, स्थाल्यामेकमोदनं सिद्धं दृष्ट्वा सर्वम्पक्ष जातमिति अनुमीयते। ११६ रथकाराधिकरणन्यायः । वर्षास रथकारोऽग्नीनादधीतेतिश्रुतिः । स्थकारशब्दः संज्ञावाचकः यौगिको वा श्रुतिसामर्थ्यात संज्ञा वाचकत्वेन रथकारपदेन ( वढई) इति लोकप्रसिद्धस्य शूद्रस्यापिन हणम् । क ११७ राहोशिशरोन्यायः। राहुविशरः कबन्ध केतुरिति निश्चयः, कबन्धोराहुः शिर केतुरित्यपिमतम् । ११८ कनककुण्डलन्यायः। सुवर्णजकुण्डलस्य सुवर्णाऽभिन्नत्वम्, जगदू ब्रह्मणारभिन्नत्वम् । ११६ शीलं हि विदुषांधनमिति न्यायः । स्पष्टार्थकोऽयन्त्यायः। १२० क्षीरदग्धजिह्वान्यायः। तपक्षीरेण दग्धजिह्व कश्चित्तकं फूल्कृत्य पिवति । एवंवाक्याथेऽस्य न्यायल्य प्रयोगः। १२१ फलमुखगौरवन्नदोषावहमितिन्यायः । यत्र गौरखे फलसम्पत्तिर्भवेत्तत्रायन्न्याय प्रवर्तते । १२२ आगन्तुकानामन्तेनिवेश इति आगन्तुकानामनिवेश इति वा न्यायौ। आगन्तुकोऽनित्यस्थायी इति इकोगुणवृद्धी" इति सूत्रभाष्ये । ( ११६) अत एव पातञ्जले महाभाष्ये "पर्याप्तो ोकः पुलाकः स्थाल्य निदर्शनाया इति। एवमेव जैमिनीयशावरे भाष्ये लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेके- नापि निरूप्येत यथा स्थालीपुलाकन्यायेन । एतन्न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमाने तुल्यन्यायानां सर्वषा धर्मवत्ता ज्ञापयति । यथा स्थाल्यां तुल्यपाकानां पुलोकाना- मेकमुपपद्यान्येषामपि सिद्धर्ता जनाति" इति स्पष्टं सङ्गतम् । अथ च हेमचन्द्रेण परिशिष्टपर्वणि "सिक्थेनापि द्रोणपाक जानन्ति हि मनीषिणः इति कथनमप्युपपद्यते।
१२३ मत्तकाशिम्यादृष्टातिर्यक्षुकमितीति न्यायः। मत्तकाशिनी स्त्रीविशेषः । अन्नकोश:-वरारोहा मत्तकाशिन्युत्तमा वरवणिनी हति। १२४ शते पञ्चाशदितिन्यायः । व्यापकशतसंख्यायां व्याप्यपञ्चाशत्संख्या निविष्टा । यत्र व्यापके व्याप्यस्य निवेशस्तत्रायन्न्याय प्रवर्तते । १२५ शतपत्रपत्रभेदन्यायः। सूच्या शतपत्रभेदने बहुकालापेक्षणम् । प्रथमक्षणे सूचीक्रियया तस्याः पत्रेण संयोगः, द्वितीयक्षणे पन्नावयवयोः, तृतीयक्षणे तयोविभागः, तुरीय आरम्भसंयोग- नाशः, पञ्चमे पननाश इति प्रतिपत्रभेदनेऽनेककालापेक्षा । एवं दीर्घशष्कुलीमक्षणे- ऽनेककालापेक्षणम् । १२६ बिलत्तिगोधान्याया। विले गते स्थिता गोधा न विभजनीया भवति अकृष्टवात् । गोधापदं विल. सादीनामुपलक्षणम् । १२७ मणिमन्त्रन्यायः मणिमन्त्रौषधादिसम्बन्धेन वहिदाहप्रतिवध्यः स्वातन्त्र्येणेति लोकप्रसिद्धिः। , ल (१२५) अत एव कुवलयानन्दे- विभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं, शल्यं यद् विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति तायात प्रलपति प्रम्लायति प्रेखति' भ्राम्यत्युल्लुठति प्रणश्यति गलत्युन्मूर्च्छति त्रुध्यति ॥ अनकासाञ्चित् क्रियाणां किञ्चित्कालभेदसम्भवेऽपि शतपनपत्रशतभेदन्यायेन योगपद्यं विरहातिशयद्योतनाय विवक्षिमिति लक्षणानुगति" इति ग्रन्थोऽपि सम्मनुते । (१२५) अत एव च न्यायकन्दलीकाराः- "यद् गच्छति तत्सन्निहितव्यवहिताथी क्रमेण प्राप्नोति तत्कथं शाखाचन्द्रम- सोस्तुल्यकालोपलब्धिरिति चेदिन्द्रियवृत्तेराशुसञ्चारित्वात् पलाशशतव्यतिभेदवत् क्रमाग्रहणनिमित्तोऽयम्नमो नतु वास्तवं योगपद्यम्" इति ग्रन्थः । अन्यत्र च श्लोकवातिके- यत्प्रदीपप्रभायुक्त सुक्ष्मकालोऽस्ति तन्त्र नः। दुर्लक्षस्तु तथा वेधः पद्मपन्नशते तथा ॥ इति श्रूयते ॥ (१२७) वाचस्पत्याम्-मणिमन्त्रादीनां वो हम्प्रति यथा स्वातन्त्र्येण प्रतिब. -- [ २९ ] १२- यद्विशेषयो कार्यकारणभावोऽसति वाधके तत्सामान्ययो. रपीति न्यायः। घटत्वकुलालकृतित्वादिना कार्यकारणभावे सिद्ध कार्यत्वेन कृतित्वेन व कार्यका- रगभावः। घटादिकं प्रति नैव द्रव्यत्त्वेन कारणता कुलालकृतेनैव जातित्वेन कारणतेति । १२६ शङ्खवेलान्यायः। यथा बेलाविशेषे शङ्खध्वनिविशेषः नियमितः तत्र शङ्खध्वनिना बेलाविशेषज्ञानं जायते । चैत्रोत्तरम्वैशाख: वैशाखोत्तर ज्येष्ठइति क्रमविशेषज्ञानम् । १३० समुद्रमाप प्रविशन्ति यद्वत् इति न्यायः । सर्वे नदा नद्यश्चानेकगुणविशिष्टास्वनिष्ठगुणविशेष परित्यज्य समुद्रत्त्वसंज्ञा- भिलाषया समुद्र प्रविशन्तीति । १३१ सर्वे वेदा यत्पदनामनन्तीतिन्यायः । सर्वस्यापि शास्त्रम्य तात्पर्यनिर्विशेष एव ब्रह्मणीति तत्वम् । १३२ कपिजलाधिकरणन्यायः । कपिञ्जलानालभेतेति मीमांसकवाक्यम् , कपिञ्जलानिति बहुवचनम् , सर्वेषा मानयनाऽसम्भवः, सर्वाऽनयनाऽसम्भवे श्रुत्यर्थाऽसङ्गतिः। पूतक्रत्वादीनां पुंयोगप्रक- रणे बचनमिति ब्याकरणवार्तिकवत् नित्त्वस्य पुरस्स्फूर्तिकतया तत्रैवसिद्धान्तसङ्गतिः। , न्धकत्वं लोकसिद्धं नच तत्र युक्त्यपेक्षो, एवं कामिनीजिज्ञासाया अपि ज्ञानमात्रम्प्रति प्रतिबन्धकत्वमित्येवं यन्त्र पृथक् प्रतिबन्धकत्वं तत्रास्म प्रवृत्तिरिति फलितार्थः । (१३२) एवञ्च न्यायमालाविस्तरे- "कपिञ्जलेषु त्रित्वाद्या ऐच्छिकास्त्रित्वमेव वा। आयो बहुत्वसाम्यान त्रित्वेनैव कृतत्वतः ॥ अश्वमेधे 'वसन्ताय कपिजलानालभते" इति त्रित्वचतुष्टष्ट्वादिसंख्याना बहुत्व- साम्यादिच्छया या काचिद बहुत्वसंख्यास्वीकार्येति चेत् ? नर्शत्रित्वेनैव शास्त्रस्य कृ- तत्वात् । यो हि चतुष्ट्वादिसंख्यामुपादत्ते तेन न तदन्तर्भूतं नित्वं वजेंयितुं शक्यं त्रि. त्वमुपाददानेन त्वनन्तभृतं चतुष्वादिक वर्जयितुं शक्यते । अतोऽवश्यम्भावित्वेन ला. घवेन च त्रित्वउपात्ते शास्त्रार्थसिद्धौ ततोऽधिकपाक्षिहिसायां प्रत्यवायात् । तस्मास्त्रि- त्वमेवोपादेयम्" इति ग्रथोऽपि संलमः ।
[२०] १३३ नटाङ्गनान्यायः। रङ्गभूमावागतां नटभार्या योयो नट-पृच्छति कस्य भार्याऽसीति सातन्तं प्रति तवैधेति लोकप्रसिद्धिः। १३४ बहूनामनुग्रहो न्याय्य इति न्यायः । बहूनामप्यसाराणां मेलनं कार्यसाधकम् । तृणैस्सम्पाद्यते रज्जुस्तथा नागोऽपि वध्यते ॥ १३५ आम्रान पृष्ट-कोविदारानाचष्टे इति न्यायः । अन्यदूभवान् पृष्टः कोविदारानाचष्टे अन्य भवान् पृष्टोऽन्यदाचष्टे इतिफलति । १३६ पारमुक्तपक्षिचालनन्यायः। यथा पञ्जरमुक्ताः पक्षिणस्सदोदूर्ध्वमेव चलन्ति तथा जीवोदेहान्मुक्तस्सदोई. मेव गच्छति । (१३४) क्वविच्च पञ्चतन्त्रकाराणामपि- बहूनामप्यसाराणां समवायो हि दुर्जयः । तृणैरावेष्टयते रज्जुयन नागोऽपि वध्यते ॥ इति पाठः (१३६ ) अतएव लौकिकन्यायरत्ने "तथाहि लोके प्रकृष्टप्रकाशचन्द्र इत्यत्र प्रकृ- पदेनाप्रकृष्टखद्योतादेः प्रकाशपदेनाप्रकाशात्मकान्धकारादेश्च व्यवच्छेदेन जिज्ञासित- श्चन्द्रः प्रातिपदिकमानार्थः प्रतिपाद्यते । इतरथा आम्रान पृष्टः कोविदारांनाचष्टे इति न्यायेन वक्तुरजिज्ञासितमर्थम्प्रतिपादयतोऽश्रद्धेयवचनत्वप्रसङ्गात्" इति वादः । अत एव भामत्यां यद्यप्याकाशपदम्प्रधानार्थ तथापि यत् पृष्टं तदेव प्रतिवक्तव्यम् । नखल्वनुन्मत्त आम्रात पृष्टः कोविदारानाचष्टे इत्युक्तं सङ्गच्छते वेदान्तकल्पतरौ च "जीवे. पृष्टेत दुशमिति तयतिरिक्तपरमात्मप्रतिवचनमानप्रश्ने कोविदारप्रतिवचन- वदसङ्गतम्" इति । । (१३६) अत एव वेदान्तकल्पतरूपरिमलोकं "जीवस्योर्ध्वगमनं स्वभावः । देहे स्थितिस्तत्प्रतिबन्धककर्माधीने तिमतमाश्रित्योक्तम् । केचित्त चिरकालशरीरावस्थित- प्रयुक्तबन्धमुक्ताबुर्ध्वगमनं मन्यन्ते । ते खल्वेवमाहुः-बन्धमुक्तस्योर्ध्वगमनं दृष्ट यथा पञ्जरमुक्तशुकस्य यथा वा वारािनभिन्नपरिणतैरन्डवीजस्य यथा वा दृढपालि. जलनिमज्जनप्रक्षीणपङ्कलेपशुष्कालाबूफलस्य' इति सङ्गच्छते ।
[ ३१ ] १३७ एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारक भवतीति न्यायः। हस्तिपकदर्शनमङ्कुशदर्शनम्बा हस्तिस्मारकम्भवति । १३- जलतुम्बिकान्यायः। जलेऽधिकेऽपि तुम्बिकोर्ध्वमेव तिष्ठति तुम्बिका तृगकाष्टं च तैलंजलसमागमे। ऊर्ध्वमेव प्रयान्त्येव रेकस्य वाशी गतिः । इतिकारिका । अनेन न्यायेन रेफ्स्योर्ध्वगमनमिति शाब्दिकः । १३४ जल तैलन्यायः। जले तैलमुपयेव तिष्ठति इति । अतएव "पुष्करपलाशनिलेपः किन्तुचेतना, इति सिद्धान्तमुक्तावलीग्रन्थः । १४० तृणजलौकान्यायः। जलौका पूर्व तृणं परित्यज्यापरमनुसन्धते तथा जीवोऽपि देहान्तर लभते १४१ वृद्धब्राह्मणवरन्यायः । जन्मान्धो दरिद्रोऽजातविवाहः तपश्चर्याञ्चकार । प्रसन्नोभगवान वरं वृणीष्वे. त्युवाच । जन्मान्धो विचारयति यदि नेत्रयाचना तदा दरिद्रता तिष्ठेदेव यदि वि. वाहोयाच्यस्तदा जन्मान्धदरिद्रते तिष्टेतामेव, धने याचिते जन्मान्धत्वदुःखं चिर- न्तिष्ठेत् । एवं मनोनिष्ठे विचारे स्वपौत्रराजसिंहासनस्थितमीक्षितुमिच्छामीतिवरं ययाचे तदामा सन्ततिः धनञ्चेश्वास्तदिच्छया सर्वन्ददौ-अनेकलामः । १४२ भक्केचे मधु विन्देत किमर्थ पर्वतं ब्रजेत् इति न्यायः। अक्के गृहकोणे यदि मधुलाभस्तहि पर्वतगमनं मध्वर्थं व्यर्थमेव । तथा स्वात्मनि ब्रह्म विज्ञाय ब्रह्मवेत्ता न तीर्थादौ भ्रमति, अल्पीयसा प्रयत्नेन कार्य. सिद्धौ नाधिकः श्रम इति । १ अतएव न्यायप्रदीपतर्कभाषासिद्धान्त:-- ( १३७ ) यथा हस्तिपकदर्शनं हस्तिस्मारकं तथा नचादिज्ञानस्य कुशकाशजलतु- म्बिकाजलूकानां तत्सम्बन्धिनां स्मरणहेतुत्वम् । एकसम्बन्धिदर्शनमन्यसम्बन्धिस्मारकमिति केचित् पठन्ति । तत्र ज्ञानसामान्य दृशेरर्थः । अतएव विश्वनाथभट्टाचार्येण न्यायसिद्धान्तमुक्तावल्यां घटपदादाकाशामरणे जाते तस्यापि घटविषयकशाब्दबोधे प्रवेशापत्तिवारणाय वृत्या पदजन्यपदार्थोप- स्थितिः कारणमिति प्रादर्शि ।
[ ३२ ]
१४३ काक कृष्ण पिक कृष्ण इति न्यायः।
काक कृष्ण पिक कृष्ण को भेद पिककाकयोः ।
प्राप्त वसन्तसमये काक काक पिक पिकः इति भावः ।
.....
१४४ सुप्तप्रवृद्धन्यायः।
क्षीराब्धौ सो विष्णु गरिससूक्षया प्रवुद्धो जजागारेश्यर्थः ।
१४५ य कल्पस्सकल्पपूर्व इतिन्यायः ।
य कल्प इति न्याये प्रमाणन्तु "यथा पूर्वम कल्पयदिति बेदमन्त्रः। ईश्वरो
गत कल्पीयं वेद॑स्मृत्योपदिशति वेदोऽनादिरिति कृतान्तः ।
१४६ गुणानाञ्चपरार्थत्वादसम्बन्धस्लमत्वात्स्यादिति न्यायः।
गुणे शुक्लादयसि गुणिलिङ्गास्तुतद्वति ।
अथव्याश्रिताज्ञेया निर्गुणा निष्क्रियामताः
उपैत्त्यन्यजहात्यन्यदृष्टो द्रव्यान्तरेष्वपि ।
वाचकसर्वलिङ्गानां द्रव्यादन्यो गुणस्मृत इति महाभाष्यम् ।
१४७ अनुवृत्तिन्यायः।
अनुवृत्तिस्सेवा अभ्यास इति यावत् । अभ्यासपावल्यविवक्षायामयन्न्यायः ।
सिंहोवली द्विरदशूकरमांसभोक्ता सम्बत्सरेण कुरुते रतिमेकवारम् ।
पारावत खरशिलाकगभोजमोऽपि कामीति नित्यमनुवृत्तिरिहापिहितः ।
१४८ दुःखमेव सर्वविवेकिन इति न्यायः ।
स्पष्टार्थकोऽयन्न्यायः ।
१४९ चतुव्यूहन्यायः।
चत्वारोव्यूहा विभागा इति यावत हेयम् १ हानम् २ हेयहेतुः ३ हानोपायश्व
१ चिकित्साशास्त्रे रोग: आरोग्यम् निदानम् भैषज्यमिति चत्वारो व्यूहाः ।
१५० अर्द्धवैशसन्यायः।
वैशसं हिंसा, अर्द्धशरीरादिहिंसा न युक्तैति ।
१५१ वधिरान्मन्दकर्णश्चैयानितिन्यायः ।
स्पष्टार्थकः ।
[ ३३ ] १५२ सक्न्यायः। अनेन न्यायेन कर्मकारकप्राधान्ये परित्यक्ते स्वतन्त्रादृष्टमेवानापि स्यादित्यत आह यथाश्रुतोपपत्तेर्न सक्तुन्याय इति । सक्तुषु गत्यभावात श्रुतं परित्यज्य अश्रुतं कल्प्यतानाम नेह तयुक्तम् प्रदर्शित- स्वादित्यर्थ इति मीमांसाशास्त्रम् । १५३ अङ्गुल्यने करिणां शतमितिन्यायः । स्पष्टार्थकः । १५४ प्रकरणाद्वाक्यं बलीय इति न्यायः। प्रकरणत्त्वञ्च शास्त्रैकदेशसम्बर्द्ध शास्त्रकार्यान्तरे स्थितम् । आहुप्रकरणनामग्रन्थभेदं विपश्चितः ॥ १५५ विश्वजिन्न्यायः। विश्वजिता यजेत । यत्रार्थवादवाक्ये फलन श्रूयते तत्र स्वर्ग फलं कल्प्यते इति न्यायविषयः । एवमन्यत्रापि । (१९३) अत एव विवरणप्रमेयसंग्रहे "अत्रकेविच्चादयन्ति, व्यर्थाऽयं व्युत्पत्ति - निरूपणप्रयासः । शब्दस्यार्थासंस्पर्शित्वात् । नह्याल्यो हस्तियूथशतमास्ते इत्यादिशब्दैः कश्चिदर्थः प्रमीयते। यत्राप्तवाक्ये प्रमीयते तत्रापि मानान्तरनिब. न्धना सा प्रमितिनं शब्दनिबन्धनेति" इति । अत एव च चित्सुख्याम् "आसोदीारतवाक्येषु मालतीमाधवादिषु । व्यभिवारा- न्न तद्युक्तमाप्तत्वस्यानिरुक्तितः॥ स्वकपोलकल्पितमालतीमाधवादिवास्येषु प्रामा- ण्याभावादतिव्याप्तिः । न हि पुराप्त एव सन्नाटकनाटिकादिप्रबन्धविरचनमात्रेणानासो भवति भवभूतिः। उक्तं चैतदुम्बकेन “यदाप्तोऽपि कस्मैचिदुपदिशति नत्वयाननुभूता- र्थविषयं वाक्यं प्रयोक्तव्यं यथाङ्गुल्यने हस्तियूधशतमास्त इति' तबाथैव्यभिचारः स्फुट" इति ग्रन्थोऽपि। (१५५) अत एव शवरस्वामी-"अनादिष्टफले कर्मणि स्वर्गः फलम्' इति प्रत्ययो लोके । एवमुच्यते, आरामकृदेवदत्तो नियतोऽस्य स्वर्गः । तड़ागदेवदत्तो नियतोऽ- स्यस्वर्ग इति । इत्थमनेन न्यायेन स्वासम्प्रत्ययो भवति यस्मात् स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति गम्यत एवेति । तस्मादप्यवगच्छाम एवं जातीयकेषु स्वर्गः फलमिति" प्राह। अत एव च भामतीकाराः-"नच ब्रह्मभूयादन्यदमृतत्वार्थवादिकं किञ्चिदस्ति येन तत्काम उपासनायामधिक्रियेत, विश्वजिन्न्यायेन तु स्वर्गकल्पनायां तस्य सातिश- यत्वं क्षयित्वं चेति न नित्यफलत्वमुपासनायाः" इति [ ३६ ] १६६ क्रियाभेदात्फलभेद इति न्यायः । स्पष्टार्थकोऽयन्न्यायः । १७० कूपखानकन्यायः। अर्थः-यथा कृपखानके पतितं पलादि कृपानिस्सृतेनाम्भसा प्रशाल्यते तथा सत्तद्विग्रहावच्छिन्नेन भेदबुद्धिजो दोषस्तदुपासनाजन्यसकृतमहिम्नोत्पन्नेनाद्वैतवोधेन समूल निवत्यंत इति ज्ञेयम् । १७१ गौणमुख्ययोर्मुख्य कार्य सम्प्रत्ययन्यायः । अप्रधाने प्रधाने च कार्ये समुपस्थिते प्रधानमेव कर्तव्यमिति भावः । अत एव ब्रह्मसूत्रशाङ्करभाष्ये "परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनं गौ- जमपरम् । मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति" इत्युक्तम् । वेदान्तकल्पपरिमले च "ननु सन्दिग्धं वस्तु प्रायदर्शनास्निीयते । गौण. मुख्यग्रहणविशये च मुख्ये सम्प्रत्ययः" इति । १७२ वृद्धकुमारीवाक्यन्यायः। एकदा बृद्धकुमारी इन्द्रेणोक्ता वरं वृणीष्वेति सा बरमबृगौत । पुत्रा मे बहुक्षी- रघृतमोदनं कांस्यपान्यां भुञ्जीरनिति । नच तावदस्याः पतिर्भवति, कुतः पुत्राः कुतो गावः कुतो धान्यम् । तत्रामय केन वाक्येन पतिः पुत्रा गावो धान्यमिति सर्व संगृहीतम्भवति इति विशेषचातुर्यम् प्रसिद्धकायस्थादिवत् । अयमेव वृद्धकुमारीप्रार्थनन्यायः, वृद्धब्राह्मणवरन्यायः इत्यादिरूपैर्व्यवहियते । इत्यलमतिगाथागानेन। इति जौनपुरमण्डलान्तर्गत-बदलापुरोदयपुरगेल्हवाभिजन-गर्गकुलप्रसृत- परिभाषेन्दुशेखरशास्त्रार्थकलाप्रमृतिविंशत्यधिकप्रन्थप्रणेतृ-संस्कृत- कविचक्रवर्तिसुप्रसिद्धशास्त्रार्थिसरयूपारीणशुक्ल पण्डितराज- श्रीवेणीमाधवशास्त्रिणा सङ्कलिता लौकिक. न्यायशास्त्रार्थकला समाता । - (१७० ) अत एव महाभाष्ये "अथवा कूपखानकवदेतदू भविष्यति । तद्यथा कूपखानका कूप खनन् यद्यपि मृदा पांसुभिश्चावकीणौ भवति सोऽप्सु जातासु तत एवं ले गुणमासादयति येन सव दोषो निहण्यते भूयसा चाभ्युदयेन योगो भवत्येवमिहापि” इति ध्वनितम् । -un- श्रीमते रामानुजाय नमः कूटशास्त्रार्थकला प्रारभ्यते। ध्यात्वाऽमरवचो दिव्यं सर्वसर्वार्थसाधनम् । तनोमि कूटशास्त्रार्थ-कलां सुविदुषाम्मुदे ॥१॥ यद्यप्यनेकशो ग्रन्थाः कूटशास्त्रार्थकारकाः । संक्षेपतोऽर्थगतये तथापीयं विरच्यते ॥ २ ॥ काशीप्रयागायोध्याख्यत्रिकोणपरिमध्यगे। जमदग्निपुरा (जौनपुर ) ख्याते मण्डलेऽभिजनो मतः ॥३॥ बदलापुरोदयपुरगेल्हवाग्रामसंज्ञकः । सरयूपारीणशुक्लो गर्गवंशसमुद्भवः ॥४॥ शब्दतकांद्यलङ्कारः श्रीवेणोमाधवाभिधः । काश्यां वसँश्च शास्त्रेषु नाना टोका करोम्यहम् ॥५॥ व्युत्पत्तिवादशास्त्रार्थ-कलादीनां समादरः । यथा कृतस्तथैवेयं सर्वथाऽऽद्रियतां बुधैः ।। ६॥ यद्यप्यपूर्व नो सर्वमीक्षितव्यमिहेरितम् । तथापि दर्शन्दर्श सन्तोषमेष्यन्ति सज्जनाः ॥७॥ श्लोक अर्द्धरात्रे दिनस्याङ्के अर्द्धचन्द्रेऽभास्करे । रावणेन हृता सीता कृष्णपक्षे सिताष्टमी ॥१॥ अर्थ:-कृष्णपक्षे याऽटमी तस्य दिनस्याः शवणेन सीता हृता किंभूता- टमी अर्द्धरात्रे सिता, पुनः कीदृशी अर्द्धचन्द्रे किम्भूते अर्द्धचन्द्रे, अर्द्धम्भा करोति अर्द्धभास्करः तस्मिन् इति ।
[ ३८ ।
"
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ।
रिपुगर्भस्य यो भर्ता स मे विष्णुः प्रसीदतु ॥ २॥
अर्थः-शम्या कोऽर्थश्शमीक्षस्य गर्भो ऽन्तासारः तस्य गर्भो ऽग्निः
तन्मन्थनेन तज्जननात् , तस्य अग्नेः रिपुर्जलम् तद्गर्भो लक्ष्मीः सागरमथनेन
लक्ष्मीजन्मश्रुतेः, तस्या भत्ता विष्णुरिति यावत् । अत्र शमीगर्भपदेन अश्वत्थ.
वृक्षोऽपि गृह्यते तस्मादप्यग्निजन्म प्रसिद्धमेव ।
विनायकपतेश्शत्रुस्तस्य नाम षडक्षरम् ।
पूर्वार्द्धन्तव राजेन्द्र उत्तरार्द्धन्तु वैरिणाम ॥३॥
अर्थ:-वीनाम्पक्षिणां नायकरस्वामी गरुडः । तस्य पतिर्विष्णुः तस्ये.
त्याशयः ॥ शत्रुः हिरण्यकशिपु:--पूर्वार्द्धम् हिरण्यम्, उत्तरार्द्धम् कशिपुस्तल्पम् तव
शत्रवो हि शय्यामाश्रित्य निद्रिता भवन्त्विति फलितार्थः ।
अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुब्रोहिरहं राजन् षष्ठीतत्पुरुषा भवान् ॥ ४ ॥
अर्थः--बहुव्रीहिपक्षे "लोकस्तु भुवने जने" इत्युक्त्या लोका जना नाथा.
रूस्वामिनो यस्य एवम्विधस्त्वहम् । सबै जना किञ्चित् किञ्चित् मां सदैव
ददति । अहं हि सर्वपूज्यः पष्ठीतत्पुरुषपक्षे लोकानां समेषां जनानां त्वन्नाथ-
सहवामी पालक इत्याशयः ।
अदृशूला जनपदाश्शिवशूलाश्चतुष्पथाः ।
प्रमदा केशशूलिन्यो भविष्यन्ति कलौ युगे ।। ५ ।।
अर्थ:-अट्टमन्नं शिवो वेदो ब्राह्मगश्च चतुष्पयः। केशो भग इति प्रोक्तः
शूलो विक्रय उच्यते ।
कुन्दकुखममुं पश्य सरसोरुहलोचने ।
अमुना कुन्दकुखेन सखि मे किं प्रयोजनम् ॥६॥
अर्थ:-अमुना इत्यस्य मुकाररहितेन मुकुन्दकुजेनेति यावत् ।
स्तनमण्डलमाश्रित्य नखस्य वरयोषिताम् ।
कदा कर्णयते गीतं रमया सह रङ्गराट् ॥ ७ ॥
मर्थः-स्वस्य आकाशस्य मण्डलमाश्रित्य हेकर हे मेघ मा स्तन गर्जितं मा कुरु यतो रङ्गाराट् रङ्गनाथो रमया सह वरयोषितां गीतमाकर्णयत इत्यभिप्रायः । यस्य षष्ठी चतुर्थी च विहस्य च विहाय च । अहङ्कथं द्वितीया स्याद् द्वितीया स्यामहं कथम् ॥ ८॥ विषं मुव महाराज स्वजनैः परिवारितः । विना केन विना नाभ्यां कृष्णाजिनमकण्टकम् ॥९॥ अर्थः-विगतः षकारो यस्मात सविषः । केन विना ककारेण विनेत्यर्थः । विना नाभ्याम् , नाच नाच ना तान्यान् भाभ्याम् , द्वाभ्यान्नकाराभ्याम्बिनेति, नकारद्वयरहितमित्यर्थः । कृष्णाजिनम् अस्मिन् शब्दे ककारषकारनकाराणां निष्का- सने सति ऋ आजि अम् इत्येवं स्थितिस्तत्र सन्धौ सति राज्यमिति सिद्धयति । सुवर्णस्य सुवर्णस्य सुवर्णस्य च जानकि । प्रेषिता तव रामेण सुवर्णस्य च मुद्रिका ॥ १० ॥ अर्थः-सुवर्णस्य उज्ज्वलवर्णस्य । सुवर्णस्य शोभना वर्णा नामाक्षराणि यत्र तस्य सुवर्णय अशीतिरक्तिकापरिमितस्य सुवर्णस्य काञ्चनस्येति फलति । शङ्करं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा। रुरुदुः- पन्नगास्सर्वे हा हा शंकर शंकर ॥ ११॥ मर्थः-शं कल्याणं करोतीति शंकर श्रेष्ठचन्दनम् । पार्वतो पर्वते भवाः पार्वत्यः खियः भिल्ल्यः । हनुमति हताराले वानरा हर्षनिर्भराः। रुदन्ति राक्षसास्सर्वे हा हा रामहता हताः ॥१२॥ अर्थः-रावणस्य आरामे उद्याने हनुमता आहते सति दाहिते सतीत्यर्थः । विराजराजपुत्रारेर्यन्नाम चतुरक्षरम् । पूर्वार्द्धन्तव शत्रूणां परार्द्धन्तव संगरे ॥१३॥ अर्थ:-वीनां पक्षिणां राजा विराजो गरुहस्तद्राजा विष्णुः तत्पुत्रो मदनः तदरिश्शिवः तस्य चतुरक्षरनाम मृत्युञ्जय इति । तव शत्रूणां मृत्युः, तव संगरे जयः उत्तरार्द्धम् ।
[ ४० ] राजन् कमलपत्राक्ष तत्ते भवतु चाक्षयम् । आसादयति यद्रूपं करेणुः करणैर्विना ।। १४ ॥ अर्थ:-अन्न करेणुः करणैविना ककाररेफणकारै विना यद्रूपमासादयति प्राप्नोति तत्तेऽक्षयं भवतु ककाररेफणकारव्यञ्जनरहिते सति करेणुशब्दावयव "अअ ए उ” इति वर्णा अवशिष्टाः । अ, ए वर्णयोवृद्धौ ऐ इति अग्रे उ ऐकारस्य आयादेशे आयुरिति सिद्धम् । विजितात्मभवद्वेषि गुरुपादहतो जनः । हिमापहामित्रधरै व्याप्तं व्योमाभिनन्दति ॥ १५ ॥ अर्थः- अमृताहरणसमये विना गरडेन जितः इन्द्रः तदात्मभवः अर्जुनः तद्वेषी कर्णः तद्गुरुः पिता सूर्यः तत्पादहतः तत्किरणसन्ततः हिमापहोऽग्निः तदमिन्नं पानीयम् तद्धरो मेघः सूर्यकिरणसन्तप्तो जनः मेघाच्छन्नमाकाशमभिनन्द- तीति भावः। पानीयं पातुमिच्छामि त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि ना दास्यसि पिबाम्यहम् ॥ १६ ॥ अर्थ-यदि दासी असि नेच्छामि । नो दासी असि तदा पिबाम्यह. मिति भावः। शिलार्पितपदद्वन्द्वा नासापितकरद्वया । अभूद्व्यक्तस्तनी नारी कथमेतद्भविष्यति ॥ १७ ॥ अर्थ:-अधस्तादारुणि शिला, नासा दारुपरिस्थितम् । कान्ते धावय मे पादाविति भी निवेदिता । न तया धावितौ पादौ भर्तुराज्ञा न लविता ॥ १८॥ अर्थ:-मतया नम्रीभूतया तया स्त्रिया पादौ भर्तु विसौ इति भावः । पर्वताने रथो याति भूमौ तिष्ठति सारथिः । चलते वायुवेगेन पदमेकन्न गच्छति ॥ १९ ॥ अर्थ:-कुम्भकारचक्रलक्षणम् ।
[ ४१ ] केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः। रुदन्ति कौरवास्सर्वे हा केशव कथं गतः ॥ २० ॥ अर्थ:-के जले पतितं शवम् मृतम् , द्रोणः कृष्णकाकः "द्रोणः काक इती- रित" इति कोशः । कौरवाः शृगाला इत्यर्थः । एको ना विंशतिस्त्रीणां स्नानार्थ सरयूं गता। विंशतिःपुनरायाता एको व्याघ्रण भक्षितः ॥ २१॥ अर्थः-एको ना इति विशतेविशेषणेन विरोध पतति, परन्तु तन एक ना नरः पुरुषः इति तात्पर्य सति न विरोधः । तातेन कथितं पुत्र लेख लिख ममाज्ञया । नतेन लिखितो लेख पितुराशा न लोपिता ॥ २२ ॥ अर्थ:-नतेन नम्रीभूतेनेत्याशयः । रामरामेति रामेति रमे रामे मनोरमे । सहस्त्रनाम वत तुल्यं रामनामवरानने ॥२३॥ अर्थ:-हे वरानने अहम् रामे अतिरमे । कथम्भूते रामे अतिरामे अति- क्रान्ता रामा येनासौ तस्मिन् , शुद्धे ब्रह्मणि, पुनः कशम्भूते मनोरमे, मनोरमय- तीति तस्मिन् । अहं कथम्भूतः रामराः राम एव रा द्रव्यं यस्य सः। यतः कारणान्मे मम सहस्त्रनामभिस्तुल्यम् रामनाम अत इति । किञ्च-अहं रामे अतिरमे, रमु क्रीडायामिति धातुः कथम्भूते रामे वरानने वरमाननं यस्यासौ तस्मिन् । अथवा पार्वत्यास्सम्बोधनं तत् कथम्भूतं रामनाम सहस्त्रनामतत् सहस्रनाम तनोतीति तनु विस्तारे क्विप्नुकौ । रमन्ते योगिनो यत्र परानन्दे चिदात्मनि । अतो रामपदेनासौ परब्रह्माभिधीयते ॥ वासना वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासीनां वासुदेव नमोऽस्तु ते ॥ २४ ॥ अर्थ:--वासयतीति वासनस्तत्सम्बुद्धौ हेवासन त्वम् भुवनत्रयम् अव रक्षेति कथम्भूतम्भुवनत्रयम् सर्वभूतनिवासि, सर्वाणि भूतानि निवसन्त्यस्मि- [ ४२ ] निति, हे असुदेव प्राणेश्वर ईनां कामादीनां वासितं स्य अन्तं कुरु, हे वासुदेव ते तुभ्यं नमः अस्तु । यथा नयति कैलासं नगं गानसरस्वती। तथा नयति कैलासं न गङ्गा न सरस्वती ॥ २५ ॥ अर्थः--गानसरस्वती यथा कैलासं नगन्नयति तथा न गङ्गा न सरस्वती प्रापयतीति फलति । शस्खन्नखलु कर्त्तव्यमिति पित्रानुयोजितः । तदेव शस्त्रं कृतवान् पितुराज्ञा न लविता ॥ २६ ॥ अर्थ:-नखान् लुनातीति नखलु नखच्छेदकं शस्त्रम् । कुमारसम्भवं दृष्ट्वा रघुवंशे मनोऽधत् । राक्षसानां कुलश्रेष्ठा रामो राजीवलोचनः ।। २७ ।। अर्थ:-रघुवंशे कुलश्रेष्ठो रामो राजीवलोचनः राक्षसानां कु पृथिवीं मारयति पीडयति इति कुमारः पृथ्वीपोडक इति यावत् । तादृशं सम्भवमुद्भवं दृष्ट्वा तत्र तेषान्नाशे मनोऽदधत् निश्चिकायेत्त्याशयः । कहमस्मि गुहा वक्ति प्रश्ने ऽमुष्मिन् किमुत्तरम् । कथमुक्तन जानासि कदर्थयसि यत्सखि ॥२८॥ अर्थ:-कहमित्यन्न कथम् "खधयधभामितिकात्यायनसूत्रेण प्राकृते थकार. स्थाने हकारः । विहगावाहनं येषां त्रिकच धरपाणयः । पासालसहिता देवास्सदा तिष्ठन्तु ते गृहे ॥ २९ ॥ अर्थ:-विः गरुडः हंसः, गौः वृषभः त्रिशूल: कम्बुः चक्रम् पार्वती सा. वित्री लक्ष्मीः। कोलातिरपारेवो मोरोहंसो जलोदरी । कंसारिरात्तलीलो वो नापलोभूकलोऽवतु ।। ३० ।। अर्थ:-सासि= श्रीकृष्णः, व=युष्मान् , अवतु रक्षतु, कथम्भूतः .
[ ४३ ] . अंसारिः कोलाकृतिः कोलस्य सूकरस्य रूपं यस्य स पुनः कथम्भूतः अपारेवः अपारे संसारे अवति रक्षति तथा। यद्वा अपारे समुद्रे वसतीति सः, क्षीरसमुद्रशायोत्त्यर्थः । पुनः कथम्भूतः मोरोहंसः मायाः लक्ष्म्याः उरो वक्षः तन्त्र हंस इव हंसः, पुनः कथम्भूतः जलोदरी जले उदके उदरं गृहं यस्यास्तीति सः, पुनः कथम्भूतः आत्तलीलः आत्ता अङ्गी- कृता लीला विलासो येन सः, पुनः कथम्भूतः वाघलः वा निश्चयेन अघ लुनातीति सः, पुनः कथम्भूतः भूकळः भुवं कलयति उलरतीति सः इति दिक् । अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन । सारमतेरभ्युदयति रतिरिति नैवाद्भुतं किञ्चित् ।। ३१ ।। अर्थः-इह नाम अस्मिन्संसारे अच्युतभक्तिवशात्समभावस्साम्यमि- त्यर्थः । अर्थात् शत्रुमित्रोदालीनेषु तत्प्रटेन भक्तिप्रसङ्गनेन सारमतेः श्रेष्टबुद्धेः पुरु. षस्व रतिः प्रतीतिरभ्युदयति इति न किञ्चिदत्राद्भुतम् । व्याकरणपक्षे तु भो अच्युतम अच्युता अहोना भा प्रतिमा यस्य, क्तिवशात् क्तिप्रत्ययवशात् स प्रसिद्धो मभावः मकारस्याभावो लोपो भवतोति योजना । सत्प्रसङ्गेन क्तिप्रत्ययप्रसङ्गेन स्मतेर्धातोस्सारतिः अभ्युदयतीत्त्यपि नाभुतम् । रम धातोः तिप्रत्यये अनुदात्तोपदेशेति मलोपे रतिरिति रूपं सिद्धयति । मन्जुलधौ सम्भावितगुणे कचिन्नापदाधारे । अयि सखि तत्रोपपतो मम चेतो नत्वनीदृशे पत्त्यौ ॥३२॥ अर्था:-काचित् विदुषी नायिका सखीम्प्रति वदति, अयि सखि तत्र तस्मि- न्नुपपतौ मम चेतः अस्तीति शेषः । कोदृशे मञ्जलधौ मञ्जः सुन्दरः सचासौ ल. धुरिष्टश्च, पुनः कीदृशे सम्भावितगुणे सम्भाविता गुणास्सौन्दर्यादयो यत्र, पुनः कीडशे क्वचित कदाचिदपि न आपदाधारे आपद्रहित इति भावः । अनीदृशे उक्त- गुणरहिते पत्त्यौ मम चेतो नास्तीति । व्याकरणपक्षे-उपपतौ उपपतिशब्दे मम मनोऽस्ति । कीदृशे मन्जुला घि संज्ञा यस्मिन, सम्भावितः "घेङितीति गुणो यस्मिन् , ना इति पदस्य "आडोनाss. बियामिति विहितस्य आधारे आश्रये अनीशधिसंज्ञागुणनादेशरहिते केवले [ ४४ M- पतिशब्दे । अयि सखि पतिः सखिवत् शस्तः मित्रवदू विश्वसनीय इति यावत् । इति त्वं किन्न जानासि ? सखी प्रत्याह- अयि सखि शस्तः सखिवत्पतिरिति किं त्वन्न जानासि । शस्तोऽतिसखिवदुपपतिरित्त्यात्नि कथं त्वया नाबोधि ।। ३२ ॥ भर्थ:-हे आलि उपपतिर्जारः अतिसखिवत् अतिशयितमित्रवत् शस्त इति त्वयापि कथन्नावोधि। व्याकरणपक्षे तु-पतिशब्दः शस्तः शस इति पञ्चम्यन्तात्तसिः, द्वितीया बहुवच- नात्परम् सखिवत्सखितुल्यरूपो ज्ञेयः । नादेशाभावेन काय्यॆक्यात् । उपपतिशब्दः शस्तः द्वितीया बहुवचनात्परम् अतिसखिशब्दवत् नादेशमाक् । द्वन्द्वो द्विगुरपि चाहं मद्रोहे नित्यमब्ययीभावः । तत्पुरुष कर्मधारय येनाहं स्याम्बहुव्रीहिः ॥ ३३॥ अर्थ:-द्वन्दुः यतः स्त्रीपुरुषरूपव्यक्तिद्वयात्मकः, द्विगुः द्वौ गावौ यस्या. सौ द्विगुः, अव्ययीभावः, भाव पदार्थमात्रम् न व्ययम् अव्ययम् तदस्त्यस्येति अव्ययी व्ययाभाववानिति यावत् । मद्गेहे कस्थापि वस्तुनो व्ययो नास्तीत्यर्थः । किश्व-अव्ययीभवनम् अव्ययीभावः । तस्माद्धे पुरुष येनाहं बहुव्रीहि. बहुधान्यविशिष्टल्स्यान्तत्कर्म धारय । समासषट्कप्रतिपादनमन्त्र वैचित्र्यम् । त्वद्विरहमसहमाना निन्दति वाला दिवानिशं शम्भुम् । राहुमपि रामचन्द्रं रामानुजमपि पन्नगारातिम् ॥ ३४ ॥ अर्थ:-मन्मथावशेषणाच्छम्भुम् , चन्द्रावशेषणाबाहुम् , मलयाद्रयवशे. षणादामचन्द्रम् , मन्मथजनकरवादूबलरामम् , वायुमक्षिसर्पहननात्पन्नगारातिम् गरुडं निन्दितवतीति भावः । राम सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिक् धिक् । अस्मिन् पद्य याऽपशब्दान्न वेत्ति व्यर्थप्रज्ञ पण्डितं तश्च धिक् धिक् ॥३५॥ अर्थ:-जीविकार्थे चापण्ये इत्यत्र अपण्ये इत्युक्तत्त्वास्तिकान्विक्रीणीते इतिवत् रामकं सीतका लक्षमणकम् इत्येवं प्रयोगास्साधवः ।
[ ४५ ] गोगजवाहनभोजनभक्ष्योद्भूतपमित्रसपत्नज शत्रोः। वाहनवैरिकृतासन तुष्टा मामिह पातु जगत्त्रयजुष्टा ॥ ३६॥ अर्थ:-गवा वृषभेण गच्छतीति गोगः शिवस्तज्जः कार्तिकेयः तस्य बाहनं मयूरस्तस्य भक्ष्यं सर्पस्तस्य भक्ष्यम्वायुस्तज्जः तद्भुतो वा हनुमान् तं पातीति सः तत्पः सुग्रीवः तस्य मित्रं रामः तस्य सपत्नो रावणः तज्ज इन्द्रजित् तस्य शत्रु- रिन्द्रः तस्य वाहनमैरावतस्तस्य वैरी सिंहस्तत्रोपविष्टा अत एव सर्वोपरि तुष्टा अम्बिका माम्पातु रक्षतु । नदीजलंकेशवनारिकेतु नंगाह्वयो नाम नगारिसूनुः । एषोऽङ्गना वेषधर प्रमाथो जित्त्वा वयं नेष्यति चाद्य गावः ॥३०॥ अर्थ:-भो नदीज गङ्गातनय भीष्म एष दृश्यमानः अङ्गनावेपधरः स्त्रीरूप धारी लकेशबनारिकेतुः राबणवनभञ्जकहनूमद्ध्यजः नगाह्वयो ऽर्जुननामा जगारिसूनुरिन्द्रपुत्रः भो भो कौरवाः अयं प्रमाथी हुन्ता अद्य वो युष्माञ्जित्त्वा गाश्च नेष्यतीत्यर्थः । सर्वज्ञस्सन् वदसि बहुधा दीयते दीयते वै, दाधातूनां भवति सहशं रूपमेषाञ्चतुर्णाम् । द्वौ दानाौँ भवति च तथा पालने खण्डनेऽपि, नो जानीम कथयति भवान्कस्य धातो प्रयोगम् ॥ ३९ ॥ अर्थ:-दाण दाने डुदान दाने द्वौ दानार्थी, एकः पालने दे रक्षणे, एकः खण्डने, दो अवखण्डने । एतन्मध्ये कस्य धातो प्रयोगम्भवान्वदति कथयति तन्न जानीमः । काचिद् वाला रमणवसति प्रेषयन्ती करण्ड, सा तन्मूले सभयमलिरवद् व्यालमस्योपरिष्टात् । गौरीनाथं पवनतनयं चम्पकं चास्य भावम् , पृच्छत्त्यार्यान्प्रति कथमिदं मल्लिनाथ कवीन्द्रः ॥ ४० ॥ भ:-रमणवसतिम् प्रियनिवासम् करण्डस्थितपुष्पसौरमं गन्धवाही हरेदिति । तबक्षक सर्पम् पुष्पवाणो वाणार्थ हरेदिति । तदुवैरिणं शिवम् सूर्यः [ ४६ ] .. पुष्पं स्वकरैः शोषयेदिति । जन्मकाल एव भक्ष्यबुद्धया हा प्रवृत्तम् भयजननाय हनूमन्तम् सन्मकरन्द भृङ्गो हरेदिति चम्पकमलिखदिति भावः । चम्पके भृङ्गा न गच्छन्तीति प्रसिद्धिः। नृसिहदेवे चलिते भरेण प्रत्यर्थिभूत क्रियते भरेण । कण्ठे कुठार: कमठे ठकार: शेष ढकारस्तपने चकारः ॥ ४१ ।। नृसिंहदेवे सेनाभरेण सह यानार्थ चलति प्रत्यर्थिभूतैः शत्रुभूपतिभिः सेनाभिस्सह पलायमानैः भरेण साध्वसाधिक्येन कण्ठे कुटार क्रियते । कुठारधात. तुल्या पीडानुभूयते । तथाच भरेण सेनासमूहगुरुत्वेन कमठे ठकार क्रियते भूधरधरः कूर्मावतारोऽङ्गासम्मर्दभीत्या पाणिपादमुखमन्तस्संकोच्य ठकारतुल्योs. भूत् । तथा केवल मण्डलाकृतिस्तस्थौ। तथा शेषोऽपि एकस्मिन्नेव भुव प्रदे. शेऽधिकभरेण ढकारतुल्यो वक्रीकृतश्रीवकुण्डलिकोऽभूत् तपने सूरों च चकारस्समु- चय क्रियते । अतिभीत्या तेषां शत्रूणां शतसूर्यनमस्तलं पश्यत इत्यर्थः । कान्ता रुचिम्मुनिजनस्तरुणो वियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन । धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च ।। ४२ ।। अर्थः-कान्ता हारे रुचिन्धत्ते। मुनिजनो हरे रुचिन्धत्ते। अवियोगी तरुणो हिमकरे रुचिन्धत्ते । कामो मकरे निजचिह्नभुते रुधिन्धत्ते । रत्नमणिः उज्ज्वलकङ्कणेन सह करे कुचभूषणेन सह पयोधरयुगे च रुचिन्धत्ते इति । कृष्णवासुदेवादिशब्दव्याख्या वितायते । केशवः कश्च ईशश्च केशौ तौ वर्तयतीति केशवः। औणादिको डप्रत्ययः टिलोपश्च । किञ्च को ब्रह्मा ईशो महारुतस्तो प्रेरयतीति केशवः । औणादिकाचप्रत्ययनिपातनेन वर्ण व्यत्ययेन रूपसिद्धिः । अतएव हरिवंशे को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहि नाम् । आवां तवाङ्गसम्भूतावत केशवनामवानि "त्युक्तिस्सङ्गच्छते । किञ्च प्रशस्ता उत्तमा केशास्सन्त्यस्येति वा विग्रहः "केशाहोऽन्यतरस्यामिति प्रत्ययः । किञ्च केशाभ्यां शुक्लकृष्णकेशाभ्यामवताररूपेण वर्तत इति विग्रहे वृतधातोर्डप्रत्यये टिलोपे केशव इति । . .
[ ४७ ] नारायणः अरा दोषास्तद्विरुद्धा गुणा नारास्तेषामयनमितिदोषविरुद्धगुणाश्रयत्वान्ना- रायण इति । किञ्च गरे जले अयनं स्थानं यस्येति वा विग्रहः । "आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य तापूर्व तेन नारायणस्मृत इति शिष्टोक्तिः । किञ्च नरागामिदनारम् नारमयतेऽनेनेति नराणां जन्मादीनि येनेति वा विभागः । किञ्च नारा मुक्तास्तदाश्रयत्वाद्वा नारायण इति । माधवः मा लक्ष्मीस्तस्या धव-पतिर्माधवः। किञ्च मधुरापत्तनेऽवतीर्णत्वात् माधवः । किञ्च मधुविद्याविषयत्त्वात् माधवः । किञ्च मधौ मधुकूले जातो माधवः । किञ्च मा रू.क्ष्मीस्ता धुनोति कम्पयतीति माधवः । गोविन्दः गाम् पृथ्वीमविन्दत्समुद्रमग्नां पृथ्वीम् प्राप्तत्त्वाद्वा गोविन्दः । किञ्च गा. म्वाणीम्विन्दत इति गोविन्दः । किञ्च गोभिवेदवाणीभिरिन्द्रादिभिविन्दते स्तोत्रितो भवतीति गोविन्दः । किञ्च गोभिदैवेद्य इति गोविन्दः । वेदेन प्रति- पाद्यत्त्वाद गोविन्दः । तदुक्तम्- नष्टाम्वै धरणी पूर्वमविन्दद्विग्रहागताम् । गोविन्द इति तेनाह देवैवाग्भिरभिष्टुतः ॥ गौरेषा तु यथा वाणी तो तु विन्दयते भवान् । गोविन्दस्तु ततो देवो मुनिभिः कथ्यते भवान् ॥ अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥ गोभिरेव यतो घेद्यो गोविन्दस्स उदाहृतः । विष्णुः विष्ल व्याप्ती वेवेष्टीति सर्वजगद्व्याप्तत्वाद् विष्णुः । विशिष्टबलचेष्टस्वभाव- त्वाद्वा विष्णुः। विश प्रवेशने विशन्ति जना अस्मिन्निति विष्णुः प्रलयादौ स एदा- धार इत्यपि--अन्न तापनीयक्षुतिः “यस्मात्स्वमहिम्नः सर्वान् लोकान् सर्वान् [ ४८] देवान् सर्वानात्मनः सर्वाणिभूतानि व्याप्नोति व्यापयतीति । णकारो बलं पकार प्राण आत्मा। मधुसूदनः मधु सूदयति "दैत्यो मधुः" इति मधुसूदनः । त्रिविक्रमः त्रिविध 1-क्रमः पादविक्षेपो यस्येति । "इदम् विष्णुर्विचक्रमे" इति श्रुतिः। त्रिषु लोकेषु विक्रमो यस्येति वा । बीन्वेदानतिकामति तद्गोचरो भवतीति । त्रिषु लोकेषु विना. पक्षिणा गरुडेन क्रामतीति त्रिविक्रमः । वामनः वाम सौन्दा नयतीति वामनः । किञ्च वामैमङ्गलरूपै वेदादिमियते गीयत इति वामनः । लक्ष्मी वामेन वामभागेन नयति धरतीति वामनः । हृषीकेशः हृषीकाणामिन्द्रियाणामीशः हृषीकेशः । पद्मनाभः पद्मनाभौ यस्यासौ पद्मनाभः । श्रीधरः श्रियं धरतीति श्रीधरः लक्ष्मीधर इत्याशयः । दामोदरः दाम उदरे यस्यासौ दामोदर मात्रा दाम्ना उदरे वद्धत्वादित्यर्थः । सङ्कर्षणः सम्यक् पापानि दुःखानि कर्षतीति सङ्कर्षणः । सम्यक् पापनिर्मूलनकर्त- त्वादित्यर्थः । वासुदेवः वसन्ति भूतानि यस्मिन्निति वासुः, दीव्यतीति देवः, वासुश्वासौ देव इति वासुदेवः, सकलाधारकः । किञ्च वश्चासौ असुश्च वासुस्सखाऽसौ देवश्च वासुदेवः । वः बलरूपः असुः प्रागरूपः, सर्वचेष्टत्वाद्देवः क्रीडादिगुणयुक्ता, सकलबलचेष्टकत्वात् क्रीडादिगुणविशि- टत्वादू वासुदेवः । पुलि भुम्न्यसव प्राणा" इति कोशात् असुशब्दो यद्यपि बहुवचनान्तस्तथापि संज्ञावाचकत्वात् परमेश्वररूपकत्वादेकवचनम् ।
४९ । प्रद्युम्नः प्रकृष्टं धुम्न प्रकाशो यस्येति, प्रकर्षेण द्योतयतीति वा, प्रकृष्टं धुम्न द्रव्य यस्येति वा प्रद्युम्नः प्रकृष्टद्रव्यप्रद इत्यर्थः । अनिरुद्धः न निरुध्यतेऽसावनिरुद्धः, परनिर्बन्धशून्य इत्यर्थः । अनो मुख्यप्राणः सेव्य- तया रुध्यते ऽसावनिरुद्धः । अनिनो मुख्यप्राणदासाः तैल्सेव्यतया स्वहृदि रुध्यत इति वा । अनिभिर्भक्तै रुध्यत इति अनिरुद्धः । पुरुषोत्तमः पुरुषाभ्यां क्षराक्षराभ्यामुत्तमः पुरुषोत्तमः । ब्रह्मा शिवस्सुरेन्द्रायाः शरी- रक्षरणाक्षराः । लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरि। किञ्च ऐश्वर्यस्य समप्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैब इत्येते षड्गुणास्स्मृता" इति प्रमाणेन पूर्णा गुणाः षड् यस्येति पुरुषः । सचासा. वुत्तमश्चेति पुरुषोत्तमः । किञ्च पुरुषु जीयेषु शेते व्यापकत्वात् पुरुषः । सचासावुत्तमश्चेति । किन्च पुरि लिङ्गे शेते इति पुरुषः। अधोक्षजः अधाकृतानि अक्षजानि येनेत्यधोक्षजः । अतीन्द्रिय इति निष्कर्षः । नरसिंहः भरश्वासौ सिंहश्चेति विग्रहः । किञ्च अन्येन न रीयते न क्षीयते इति नरो हिर- ण्यकशिपुः तं हिनस्तीति नरसिंहः । पृषोदरादित्वात् । अच्युतः च्युङ च्यवने, न च्यवते इत्त्यच्युतः, कर्तरि क्तः, स्वपदच्यवनाभाव इत्यर्थः । जनार्दनः जनान् बल्यादीनदयतीति जनार्दनः, याचते इति फलितार्थः । अर्दगतो याचने चेतिधातुः, सुजनैः पुरुषार्थ याच्यत इति वा । दुष्टजनानर्दयति पेषयतीति वा । ३ [ ५० ] नानूसर्वजनानर्दशति प्रलये नाशयतीति वा । अत्र सरयूपारीणशुक्लाः, जना. नां जन्ममरणादीन्यर्दयति नाशयतीति जनार्दन इति सिद्धान्तः । हरित, भक्तपापं हरतीति हरिः, दैत्यशिरांसि हरतीति वा, भक्तचित्तं हरतीति वा । कृष्णः, आनन्दपूर्णत्वात्कृष्णः । "कृषि वाचकश्शब्दो णश्च निवृत्तिवाचकः । तयोरक्यं पर ब्रह्म कृष्णा त्यभिधीयते" सादीकरतीति कृष्ण: "यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः" इति कूर्मपुराणम् । . दशरथः वेदानामप्यर्थान्तरे तात्पर्य्यम्बहुशश्शोभते । किम्बहुना पौरुषेयवाक्ये । तथा दशरथो नाम वेदः दश पुराणन्यायमीमांसाधर्मशास्त्राङ्गालक्षणा रथाः प्रचारोपाया यस्ये. ति व्युत्पत्तिः । कर्मकाण्डोपासनाकाण्डब्रह्मकाण्डात्मकस्य तस्य वर्णाश्रमनियन्तृ- येऽपि न राजपदवाच्यत्वमितिनिष्कपः । तस्य दशरथोख्यवेदस्य तिस्त्रश्शक्तयः । कौशल्यापदवाच्यैका शक्तिः, केकयीपदवाच्या द्वितीया शक्तिः, सुमित्रापदवाच्या तृतीया शक्तिः। कोशलाख्यदेशे प्रायशो ब्रह्मनिष्ठा लोकाः । एवञ्च तस्मिन्देशे ब्रह्मप्रतिपादन शक्तेरभिव्यक्तत्वात्कौशल्येति व्यपदिश्यते। केकयेषु प्रायशः कर्मठा एव लोकाः कर्मप्रतिपादनशक्तेस्तनाविर्भूतत्त्वात्केकयीति व्यपदेशः । मगधेषु उपासनाशक्तर- भिव्यक्तेमागधीति व्यपदेशः । सा च कर्मब्रह्मानुकूलार्थप्रतिपादकत्वात्सुमित्रेत्यपि व्यपदिश्यते । ततश्च शक्तयस्तदेकाधीनत्वात्तत्पत्नीत्वेन कल्पिताः । एवञ्च तात्पर्यालोचनात्मकपुत्रेष्टिनिरूपिताभिव्यक्त्युपायेनतेन मायाशक्त्या श्रीरामादयश्चत्वारोऽपि इह प्रथमतः प्रतीतिविषयत्त्वसाम्येनोत्पन्ना इति कल्पि: ताः । तत्र ब्रह्मकाण्डात्मकेन कौशल्याशब्दवाच्यया शक्त्याऽखण्डदंडायमानस्वा. काशनिरक्षनचैतन्यनिष्ठया मायया तत्स्वप्रकाशतामावृत्त्य तदाकारेण परिणमा त्या कृतावच्छेदजगन्नियन्तृसर्वशक्तिमदू जगदीश्वरशब्दव्यपदेश्यं श्रीरामाख्यं ब्रह्म प्रकाशितम् । तदेव महर्षेमतमित्यालोच्य भगवता सूत्रकृतोक्तम् शास्त्रयो. नित्त्वादिति । शास्त्रं योनिः कारण यस्येति । तेन युज्यत एव ब्रह्मणि तत्त्वोप- चारः । ततः कर्मकाण्डात्मकेन वेदेन कैकेयीशब्दवाच्यया शक्त्या तैजसात्मक भर. तशब्दवाच्यं रैतन्यरूपं प्रकाशितम् । स्त उपासनाकांडात्मकेन वेदेन सुमित्राशब्द.
[ ५१ ]
.
व्यपदेश्यया स्वर्गापवर्गोपायभूतोपासनाप्रकटनेन चैतन्यावस्थाद्वयं प्रकटितम् ।
विश्वभवनात्मा वस्तुमान्नं ब्रह्मरूपं संसारदशायामेव पश्यति तल्लक्ष्मणशब्दवाच्यम् ।
चैतन्यं ब्रह्मशब्दप्रकाश्यश्रीरामावगत्यनुकूलमिति तत्सहचरितमिति गीयते ।
यस्तु प्राचीनकर्मसंस्कारवशात्कामानेव चिन्तयति तच्चतन्यं शत्रुघ्नपदाभिधे-
यम् । तैजसात्मकभरतानुकूलमिति प्राज्ञात्मकं तत्सहचरितं गीयते । तथाच सुमि.
बाया-पुत्रद्वयम् एकः श्रीरामानुयायी, एकश्व भरतानुकूल इति प्रसिद्धिः ।
सीता तु मायैव अनादिसिद्धैव । अत एवाल्यामयोनिजस्वप्रसिद्धिः ।
जनकपालिता च भवत्येव नह्यजनकल्तादृशं पालन करिष्यति । सा विशुद्धेन चैत.
न्येन जीवब्रह्मभावानापन्नेन पालितैव, तहाधारत्वात् । भवति च चैतन्य जनक
सर्वजनकमायासंग्रहकर्तत्वात् । घटजनकमृत्पिण्डसंग्रहवान् कुलालोऽपि जनकत्वव्यः
पदेशं लभते तद्वदिति।
अकाराक्षरसम्भूतो रामो विग्रहवान्सुधीः ।
इकाराक्षरसम्भूतस्सौमित्रिविश्वभावन इत्यादि । इत्यादीश्वरनामार्थनिरूपर्ण
प्रचारायेत्यलम् ।
क्रियागुप्तम् ।
ललाट तिक्षकोपेतः कृष्णः कमललोचनः ।
गोकुलेऽत्र क्रियान्वक्तुम्मर्यादा दशवाषिको ।। १ ।।
उत्तरम्-लट् वाल्ये इति धातुः परोक्षे लिट् ललाटेति प्रियापदम् ।
चम्पा सरसि रामेण सस्नेहं सविलासया।
सीतया किंकृतं सार्द्धमत्रैवोत्तरमोक्ष्यताम् ॥२॥
उत्तरम्-णा शौचे इति धातुः सस्ने इति कर्मणि लिट् ।
कान्तया कान्तसंयोगे किमकारि नवोदया।
अत्रापि चोत्तरवक्तुमवधिर्ब्रह्मणो वयः ॥ ३ ॥
उत्तरम-अनापि इति बप्पू लज्जायान् कर्मणि लुङ् ।
दामोदराय पुण्यात्मन् पुष्पमूलफलान्यपि ।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥४॥
[ ५२ ]
उत्तरम्-हे दामोदर पुष्पमूलफलानि आय आनय, इटकिट कटी परित-
एल्य ई धातोरापूर्वस्य लोटो रूपम् । उपसर्गविशिष्टत्वादानयनार्थकत्वम् ।
कान्तम्विना नदीतोरं मदमालोक्य केकिनो ।
अत्र क्रियापदं गुप्त यो जानाति स पण्डितः ॥५॥
उत्तरम्-केकिनी मयूरी हरम्मद मेघज्योतिः विद्युतमिति यावत् । आलो.
क्य विना नदीति विशेषेण पुनः पुनर्वाशब्दं करोतीत्यर्थः ।
अम्लानपङ्कजा माला कण्ठे रामस्य सीतया ।
मुधा वुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रिया पदे ॥६॥
उत्तरम्-प्रत्यक्षेऽपि क्षिप्ता।
नरसिंहाकतिम्वोच्य वने मत्तमतङ्गजः ।
अन्न क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ ७॥
उत्तरम्-गजः सिंहस्याकृतिम्वोक्ष्य न आर न जगाम ऋगतौ कर्तरिलिट् ।
सन्ध्यावन्दनवेलायां तडागान्ते द्विजोत्तमैः ।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ ८॥
उत्तरम्-हे द्विजोत्तम ऐः आगच्छ, इणूगतौ ।
कर्तृगुप्तम् ।
श्यामौतवस्तनावेतौ पिबन्ति सततं मुदा ।
अत्र कर्तृपदं गुप्तं मयादा दशवार्षिकी ॥९॥
उत्तरम्-श्यामौतवः कृष्णमार्जाराः कारः ।
गौरीनखरसादृश्यश्रद्धया शशिनन्दधौ ।
इहैव गोप्यते कर्ता वर्षेणापि न लभ्यते॥१०॥
उत्तर:-इकामस्तं हन्तीति इहा ईश्वर इत्यर्थः ।
व्यामोहं तव भिन्दन्तु छिन्दन्तु दुरितानि च ।
कर्तुगुप्तमिमं श्लोकं ये जानन्ति विचक्षणाः ॥ ११ ॥
[ ५३ ]
उत्तरम्-: महादेवः, इ: ब्रह्मा, अः विष्णुः निभिरक्षरै य इति जातम् ।
तस्य बहुवचने सम्बुद्धौ व्या इति हरविधिहरय इति यावत् ।
कर्मगुप्तम् ।
एहि हेरमणि पश्य कौतुकं धूलिधूसर तनुंदिगम्बरम् ।
सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किन्न बुभ्यसे ।। १२ ।।
उत्तरम-हेरमणि एहि कौ पृथिव्याम् तुकै बालक धूलिधूसरतनुम् दिगम्ब-
रम्पत्य इति ।
भवानिशं करोमेशं प्रति पूजापरायणः।
कृर्तृकर्मक्रियागुप्तं यो जानाति स पण्डितः॥ १३ ॥
उत्तरम्-हे कर उमेशम्प्रति अनिशं पूजापरायणो भव इति ।
करणगुप्तम्।
अहम्महानसायातः कल्पितो नरकस्तव ।
मया मांसादिकं मुक्तं भीमं जानीहि मां बक ॥ १४ ॥
उत्तरम्-महच्च तत् अनः शकटञ्च महानः तेन महानसा महता शकटेन
आयातः आगतः नरको मृत्युः ।
सम्प्रदानगुप्तम् ।
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी ।
ददाति भक्तिसम्पन्ना पुत्रसौभाग्यकाम्यया ।। १५ ॥
प्रशस्त्यायुक्तमार्गस्य तव सम्मानितां श्रिताः ।
स्पृहयन्ति न के नाम गुणरत्नालय प्रभो ॥१६॥
उत्तरम्-अम्भोरुहमये इत्यत्र, अये इति च्छेदः हः कामस्तस्मौ प्रशस्त्या-
युक्तमार्गस्येत्यन्त्र प्रशस्त्यै कल्याणाय उक्तमार्गस्य ।
सरसी तोयमुद्धृत्य जनाकन्दर्पकारकम् ।
पिबत्यम्भोजसुरभि स्वच्छमेकान्तशीतलम् ॥ १७ ॥
[ ५४ ]
उत्तरम्-सरसीतः सरोवरात् कालम् ।
भानु जायते लक्ष्या सरस्वत्याथवा मता ।
अत्र षष्ठीपदं गुप्तं मर्यादा दशवार्षिकी ॥१८॥
प्राप्तमदो मधुमासः प्रबला रुक्प्रियतमोऽपि दूरस्थः ।
असतीसन्निहितेयं संहृतशीला सखीनियतम् ।। १९॥
उत्तरम्-भानुवै इत्यत्र भाः कान्तिः, नुकोऽर्थो नरस्य नृशब्दातुडसिप्र.
त्यये । मधुमास इत्यत्र मासः चन्द्रस्य, अदो मधु मद्यं प्राप्तम् । मासूशब्दो
हलन्त इति ।
अधिकरण गुप्तम् ।
या कटाक्षच्छदापातैः पवित्रयति मानवम् ।
एकान्ते रोपितप्रीतिरस्त सा कमलालया ॥२०॥
विपद्यमानता सिद्धा सर्वस्यैव निरुध्मणः ।
यथात्र भस्मपद्भचाच निर्वाणं हन्त्ययञ्जनः ।। २१ ।।
उत्तरम्-ए= कृष्णे, कान्ते = भर्तरि, अशब्दस्थ सप्तम्येकवचने "ए" इति
रूपम् । विपद्यमानता इत्यत्र विपदि कष्टेनिर्गत ऊष्मा द्रव्यरूपो यस्मात् तस्य
निरूष्मणः अमानता आदराभावः शान्तममरहितमित्यर्थः ।
सन्धिगुप्तम् ।
नमयागोरसाभिज्ञं चेतःकस्मात् प्रकुप्यसि ।
अस्थानरुदितरेतैरलमालोहितेक्षणे ॥२२॥
उत्तरम् --न निषेधः, मे-मम, आगोरसाभिज्ञमिति च्छेदः । मे चेत:
आगोरसाभिज्ञम् अपराधरसाभिज्ञम् नेत्यर्थः ।
समासगुप्तम् ।
विषादी भेक्ष्यमश्नाति सदारोगन्न मुञ्चति ।
रुष्टेनापि त्वया वीर शम्सुनारिस्समःऽकृतः ।। २३ ।।
नित्यमाराधिता देवैः कंसस्य द्विषतस्तनुः ।
मण्डलानेगदाशङ्खं चक्र जयति बिभ्रती ॥ ३४ ॥
[ ५५ ] " . " उत्तरम्-विषादी अत्र खिनः, अथवा विषम् = कालकूटमतीति सः विषा. दी तत्पुरुषसमासः । सदा सर्वदा, रोगन्न मुञ्चति । किञ्च दारैल्सह वर्तमान- स्सद्वारसस्त्रीका, अगम् = शैलन्न मुञ्चति तत्पुरुषसमासः । नित्यदेवैः आराधिता अधधा नित्यं मा लक्ष्मीर्यस्यां सा नित्यमा देव राधिता बहुव्रीहिसमासः । अन्तरालापः। को केक को कान हसति च हसतो हसन्ति हरिणाक्ष्याः । अधरःपल्लवमला हंसो कुन्दस्य कारकान्दन्ताः ।। २५ ।। मर्थ:-हरिणाक्ष्याः कः के हसति, अधर.पल्लवम् , को को हस्तः, अङ्घीहं. सौ, के कान्हसन्ति दन्ताःकुन्दस्य कोरकान् । केभूषयन्ति स्तनमण्डकानि कीदृश्यमा चन्द्रमसःकुतः श्रीः। किमाह सीता दशकण्ठनोता हारामहादेवरतात मातः ॥ २६ ।। अर्थः- हाराः =महादेवरता, तमातः = रात्रितः, हाराम हादेवर हा . तात हा मातः । बहिरालापः। किमिच्छति नरःकाश्यां भूपानां को रणे हितः । को वन्यस्सर्वदेवानां दोयतामेकमुत्तरम् ॥ २७॥ उत्तरम्-मृत्युञ्जयः। धीरः कीदृग्वचो व्रते को रोगी कश्च नास्तिकः । कीहक चन्द्रन्न पश्यन्ति तत्सूत्रम्पाणिनेर्वद् ॥२८॥ उत्तरम्-अर्थवदधातुरप्रत्ययःप्रातिपदिकम् । राजसम्बोधनं किंस्यारसुग्रीवस्य तु का प्रिया । अधनास्तुकिमिच्छन्तिआत्त - किं क्रियते वह ॥ २९ ।। अर्थ-देवताराधनम् । देव-तारा-धनम् , राधनन् । प्रश्नोत्तराणि । इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः ।
[ ५६ ] इदमपि न कृतन्नितम्बिनीनां स्तनपतनावधि जीवितं रतंवा ॥३०॥ उत्तरम्-पूर्वाद्धनाक्षेपः । उत्तराद्धैनोत्तरम् । भूरिभारभराक्रान्तो वाधति स्कन्ध एष ते । न तथा बाधते स्कन्धो यथा बाधति बाधते ॥३१॥ उत्तरम्-पूर्वार्धन प्रश्नः । धातोरात्मनेपदित्वेनोत्तरादूनोत्तरम् । क्रियन्मानं जलं विप्र जानुनि नराधिप तथापीयमवस्थाते नहि सर्वे भवादृशाः ॥ ३३ ॥ चित्रम् नमामि मामनोनुन्नमानं मुनिममानिनम् । नानानमनमानाम मोन्नामानमुमेन मुम् ।। ३३ ॥ तारतारतरेतैरुत्तरोत्तरतोस्तैः। रताचा तित्तिरी रोति तीरे तीरे तरौ तरौ॥३४॥ अर्थ:-यक्षरं पद्यन्नमामि नमस्करोमि । कम् = उम् , विष्णुम् । न केवलं तमेव अपि तु उमेनं पार्वतीपतिमपि हरिहरमित्यर्थः । किम्भूतम् मामनोनुन. मानम् =मा लक्ष्मीस्तल्या मनसः नुन्ना अपहृतो भानो येन स तथा तं, लक्ष्मी- चावल्यगर्वापहारिणम् । पुनः कीदृशम् मुनिम् = योगीश्वरम् , अमानिनम् । मानरहितम् । पुनः कीदृशम् नानाननम् नानाविधानिआननानिमुखानि यस्यासो दशावतारवादनेकमुखम् । पुनःकीदृशम् अमानामम् = अमानम् आकाशम् अमति अतिक्रामतीत्यमानामस्तम् । पुनकोशम् ओन्नामानम् = ब्रह्मस्वरूपम् । एव. म्विधमुमेनम् हरम् उम्विष्णुच नमामि । उइति सम्बोधनम् । रसासाररसासार सायताचक्षतायसा। सातावाततवातासा रक्षतस्त्वस्वतक्षर ।। ३५॥ अर्थ:-सर्वतोभद्र हे सार उत्कृष्ट तव रक्षतः पालयतः सतः सारसा पृथ्वी सारसा उत्कृष्टरसास्तु भवतु । हे आयताक्ष-दीर्घलोचन तथा सा क्षतायसा चास्तु क्षतः नाशितः आयः अर्थागमो यैस्ते क्षतायाश्चौरादयः तान्स्यति अन्तन.
[ ५७ ]] यति इति कृत्वा तथा सातं सुखमवतीति सातावा श्रेयस्करीत्यर्थः । मस्त्विति सर्वत्र योज्यम् । हे अत ! अतति नित्यमेवोधम भजत इत्यर्थः । तथा अतासा अक्षया रसाः भवत्वित्यत्रापि योगः। तुनियमे रक्षत एव नत्ववलिप्तस्य, तथा हे अतक्षर तत्क्षणम् तक्षस्तनूकरणम् । राति ददातीति तक्षसन तक्षरः अतक्षरः पुष्टिद इति यावत् । सार मान वरारोहा नगेभा गमना हिया । या हिं नामग भागेन हारो रावण मा रसा ॥ ३६॥ इत्यादि । आशीर्वादात्मकश्लोकाः। चरीकर्तुं भव्यं सदा ते रमेशो गणेशो जरीहर्तुं विघ्नन्त्वदीयम् । नरीनत्तु वाणी सदा ते मुखाब्जे दरीदत्तु ते शत्रुवर्गान्महेशः ॥१॥ सुरासुरासेवितपादपङ्कजा करे विराजकमनीयपुस्तका। विधेश्च पत्नी कमलासनप्रिया सरस्वती नृत्यतु वाचि ते सदा ।। गिरीशपत्रो नगजातिहारी कुमार तातश्शशिखण्डमौलिः। लकेशसम्पूाजतपादपद्मः पायावनादिः परमेश्वरोवः ।।२।। इति । अथ बुद्धिविवर्द्धनाय प्रहेलिका प्रारभ्यते । वृक्षस्या फलं दृष्ट फलामे वृक्षएव च । अकारादि सकारान्त यो जानाति स पण्डितः ॥१॥ उत्तरम्-अननस इति लोकप्रसिद्धिः । चतुर्मुखो नच ब्रह्मा वृषारूढो न शङ्करः । निर्जीवी च निराहारी अजस्रं धान्यभक्षणम् ॥२॥ उत्तरम्-वृषभस्थो गोण इति प्रसिद्धिः । श्यामानना न मार्जारी द्विजिह्वा नच सर्पिणी। पञ्चभत्री न पाञ्चाली यो जानाति स पण्डितः ॥ ३॥ उत्तरम्-लेखनी, यत्र सर्वम्विशेषणं सङ्घटते पञ्चमनी कुचुटुतुपु हत्या- धनुस्ता।
[ ५८ ] अपूर्वोऽयम्मया दृष्ट कान्त कमललोचने । शोऽन्तरं यो विजानाति स विद्वान्नात्र संशयः ॥४॥ उत्तरम्-अशोकवृक्षो लोकानुगतः । पर्वताने रथो याति भूमौ तिष्ठति सारथिः । चलते वायुवेगेन पदमेकन्न गच्छति ॥५॥ उत्तरम्-घटादिनिर्माणार्थ कुम्भकारचक्रम् । अर्द्धचन्द्रसमायुक्तं पुन्नाम चतुरक्षरम् । ककारादिलकारान्तमिह जानाति पण्डितः॥६॥ उत्तरम्-करतालो वाद्यविशेषः । अथवा कावालश्शस्त्रविशेषः । अमुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः । यावत्पतितस्स तया तत्क्षणमवधोरित कस्मात् ।। ७ ॥ उत्तरम्-रजस्वलासमयात् । गीत्वा किमपि व्याधः शृङ्ग जग्राह तरुणहरिणस्य । तमथ समीक्ष्योद्यतकरमेणीमपि लज्जिता व्यानी ॥ ८॥ उत्तरम्-इति चिन्तितं तया यतो येन कर्णेन गीतं श्रुतं तस्य दातुः कर्णस्य पुरो याञ्चायै करो न प्रसारितो व्याधेन नीरसकठिनकुटिलस्य शृङ्गस्य तु पुरा प्रसारित इत्यनुचितं कृतं मूढेन । कृतेऽप्यनौचित्ये स्वयं मृगयूथपतिः गीतरसनोऽकृतपानविचारः स्वभावकृपणं याचकं जानन्निजशिरोदानाय उद्यतकरो जातः । अतो व्याघ्री त हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्ख ज्ञात्वा एणीञ्च एतादृशचतुरपतिपत्नीत्वेन सुभगां सम्भाव्य लज्जितेति भावः । अन्येऽपि भावात्सम्भवन्ति काचिन्मृगाक्षी प्रियविप्रयोगेनिशीथिनी पारमपारयन्ती । आगातुमादाय करेण वीणामुग्रीवमालोक्य शनैरहासीत् ।। ९॥ .' अर्थ-यतोऽयं गीतप्रियो मृगाझे मृगो महत् प्रयुक्त गीतमाकर्णयितुं चन्द्रा- च्चेदवतरेत्तदा चन्द्रो निष्कलङ्करस्यात् तेन मन्मुखसाम्यं च लभेत प्रियविप्रयोगे च [ ५९ ] सन्तापकरो मे हिमांशुः, अतोऽस्य शत्रोश्चन्द्रमसो मन्मुखसाम्यंमाभूत् इत्याशयेन वीणामहासीदिति । सदारिमध्यापि न वैरियुक्ता नितान्तरक्तापि सितैव नित्यम् । यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयाशु ॥ १० ॥ उत्तरम्-सारिका। वृक्षाप्रवासी न च पक्षिराजस्त्रिनेत्रधारी नच शूलपाणिः । त्वग्वस्त्रधारी नव सिद्धयोगी जलब्ध विभ्रन्न घटो न मेघः ॥ ११ ॥ उत्तरम्-नारिकेलफलम् । वृक्षाप्रवासी नच पक्षिजातिस्तृणंच शय्या नच राजयोगी । सुवर्णकायो नच हेमधातुः पुंसश्च नाम्ना न च राजपुत्रः ॥ १२ ॥ उत्तरम्-आनः। चक्री त्रिशूली न हरिन शम्भुमहान्बलिष्ठो नव भीससेनः स्वच्छन्दचारी नृपतिर्न योगी सीतावियोगी नच रामचन्द्रः ॥१३॥ उत्तरम्-वृषभः लोके सांड़ इति ख्यातः । आयेन हीनं जलधावश्यं मध्येन होनं भुवि वर्णनीयम् । अन्तेन हीनं ध्वनते शरीरं हेमाभिधस्स श्रियमातनोतु ॥ १४ ॥ उत्तरम्-करजः। सर्वस्वापहरो न दस्युकुलजः खट्वाङ्गभृन्नेश्वरो, दोषानिष्टकोन धर्मनिरतः कालालपो नासुरः। नृणां पृष्ठपलाशना न पिशुनः शीघ्रंगमो नो हयः, शश्वद्रात्रिचरो न राक्षसगणः कोऽयं सखि ब्रूहि मे ॥ १५ ॥ उत्तरम्-मत्कुणः । सर्वस्वापहरो न तस्करगणो रक्षो न रक्ताशनः, सपों नैव विलेशयोऽखिलनिशाचारी न भूतोऽपि च ।
अन्तर्धानपटुर्नसिद्धपुरुषो नाप्याशुगो मारुत, स्तीक्ष्णास्यो नतु सायकस्तमिह ये जानन्ति ते पण्डिताः ।। उत्तरम्-करज एवं जाता शुद्धकुले जघान पितरं हत्त्वापि शुद्धा पुनः, श्री चैषा वनिता पितैव सततं विश्वस्तया जीवनम् । सङ्ग प्राप्य पितामहेन जनक प्रासूत या कन्यका, सा सर्वैरपि वन्दिता क्षितितले सा नाम का नायिका ॥ १७ ॥ उत्तरम्-जलवृष्टिः । सा च शुद्धजलसमुदायभूतमेधादुर्भूय स्वजन्मना स्वोत्पादकं मेघन्नाशयति । तथापि स्वयं शुद्धा स्वच्छजलास्ति, पितुरिव समस्त- स्य जगतः जीवनं च भवति । सूर्यकिरणैस्समुद्रोदके शोषिते सति तस्मान्मेघो. त्पत्तिर्भवति । समुद्रो मेघपिता सा पूर्वोक्ता जलवृष्टिमेघस्य पित्रा स्वपितामहीभू. तेन सागरेण सह नयादिद्वारा संगर्म प्राप्य तेन तज्जलं वर्द्धयित्वा पुनमेंघोत्पत्तये एव हेतुर्भवतीति जनकं प्रासूतेति पदार्थः । अपदो दूरगामी च साक्षरोनच पण्डितः । प्रमुखस्स्फुटवक्ता च यो जानाति स पण्डितः ॥ १८॥ उत्तरम्-लेखपत्र पत्रिका वा । बने जाता वने त्यक्ता वने तिष्ठति नित्यशः । पण्यत्रो न तु सा वेश्या यो जानाति स पण्डितः ॥ १९ ॥ उत्तरम्-नौका एकान्तवासिनी । ताम्बूलं वा, वन जलमित्यर्थः । गोपालो नैव गोपालस्त्रिशूली नैव शङ्करः । चक्रपाणिस्स नो विष्णुयों जानाति स पण्डितः ॥ २०॥ उचरम्-महोक्षः। उच्छिष्टं शिवनिर्माल्य वमनं शवकर्पटम् । काकविष्ठासमुत्पन्नः पन्चैतेऽतिः पवित्रकाः ॥२१॥ उत्तरम्-दुग्धम् , गङ्गा, मधु, पदाम्बरम् , पिप्पलश्च ।
[६१ ] अनेकसुषिरं वाद्यं कान्तञ्च ऋषिसंज्ञितम् । चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ।। २२।। उत्तरम्-विलम् वल्मीकम् वाद्यम् वकार आयो यस्य, कान्तम् ककारोऽन्ते यस्य, चक्रिणा सणेति । सस्सिदैव विलमाराध्यन्ति । बल्मीकम् । पने वसति को वीरो योऽस्थिमांसविवर्जितः। असिवत्कुरुते कार्य कार्य कृत्वा वनं गतः ।। २३ ॥ उत्तरम्-कुलालदोरकः । रविजाशशिकुन्दामा तापहारी जगत्प्रिया। पद्धते वनसङ्गन न तापी यमुनापि न ॥ २४ ॥ उत्तर-तक्रम् , छाछ, मण्ठा । रविरिति महाराष्ट्रभाषायां मन्थनद. . ण्डस्य नाम। दन्तैहनिश्शिलाभक्षी निर्जीवा बहुभाषकः । गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ।। २५ ॥ उत्तरम्-उपानव । न तस्यादिन तस्यान्तो मध्ये यस्तस्य तिष्ठति । तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥२६॥ उत्तरम्-नयने बोध्ये। यएवादिस्स एवान्तो मध्ये भवति मध्यमः । य एतन्नाभिजानीयात् तृणमात्रन्न वेत्ति सः ।। २७ ।। उत्तरम्-यवसम् । श्यामश्च वर्तुलाकार पुन्नाम चतुरक्षरम् । शकारादि मकारान्तं यो जानाति स पण्डितः ॥२८॥ उत्तरम्-शालग्रामः गण्डकीनदीस्थः । अर्द्धचन्द्रवदाकारं स्त्रीनामाथच त्र्यक्षरम् । नकारादि रिकारान्तं योजानाति स पण्डितः ।। २९ ।।
[६]
उत्तरम्-नेवरी।
अष्टपादश्चतुष्को द्विमुखी द्विमुखस्तथा ।
राजद्वारे पठेद्धोरो नच देवो न राक्षसः ॥ ३० ॥
उत्तरम-बायचतुर्घटः, चौघड़ा इति लोकप्रसिद्धिः ।
तरुण्यालिङ्गित कण्ठे नितम्बस्थलमाश्रितः ।
गुरूणां सन्निधानेऽपि का कूजतिमुहुर्मुहुः ।। ३१ ॥
अर्थः--कुम्भः । कूपसरोवरादौ जलेन भृत्वा शिरस्यारोपणसमये तरुण्या है-
स्ताभ्यामालिङ्गयते भापि तरुण्या लोत्कण्ठमालिङ्गयते, कुम्भो नितम्बस्थाने गृह्य.
ते भत्तापि नितम्बस्थाने गुह्यप्रदेशे तिष्ठेत् । कुम्भो गुरूणां वृद्धघटानामुपर्युपरि
उपविश्य कूजति बड़बड़ायते। भत्तापि गुरुणा मातृपितृश्वश्रश्वशुरजमानामग्रे
स्वियं कामयते ।
अवलोक्य स्तनौ बद्ध्वा गुजाफलविभूषितौ ।
निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बनी ।। ३२ ॥
अर्थः-शवरस्त्री पुनजायायाः स्तनौ गुञ्जाफलालकृतौ दृष्ट्वा कुतो निःश्वस्य
रुरोद ? यतो मत्पुत्र एतामनुरक्तस्तथा क्षीणतां गतो यथा गजान्विनिहस्य तदूगण्ड-
स्थलमुक्ताहारैः स्तनौ विभूषयितुन्नालम् । अतो निष्प्रयासलभ्यैः गुञ्जाफलै विभू-
पयति । क्षीणे च सति पुत्रे तदर्जितधननिर्वावृत्तिकल्य सर्वस्यापि कुटुम्बल्य
जीवितसन्देहः । अतो व्याधकुटुम्बिनी दुःलन्निाश्वस्य रोदितुं लग्ना।
आपाण्डुपीनकठिनं वर्तुलं सुमनोहरम् ।
करैरावष्यतेऽत्यर्थ किं बृद्धैरपि सस्पृहम् ॥ ३३ ॥
उत्तरम् --पक्वविल्वफलम् , कुचयुगलच !
एकचक्षुर्न काकोयं विलमिच्छन्न पन्नगः ।
क्षीयते वर्द्धते चैव न समुद्रो न चन्द्रमाः ॥ ३४ ॥
उत्तरम्-सूचिका । सूई इति लोकप्रसिद्धिः ।
छत्रधारी न राजासौ जटाधारी नचेश्वरः।
सृष्टिकर्ता न स ब्रह्मा छिद्रको न तस्करः ॥ ३५ ॥
उत्तरम्-पुन्ध्वजः। अस्थि नास्ति शिरोनास्ति बाहुरस्ति निरङ्गुलिः । नास्ति पादद्वयं गाढमङ्गमालिङ्गति स्वयम् ॥ ३६॥ उत्तरम्-विषयदण्डः। अस्ति प्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ । सीताहरणसामध्यों न रामोनच रावणः ॥ ३७ ।। उत्तरम्-कञ्चुकः कञ्चुकी वा । सीताहरणेत्यत्र शाताहरणेति शैत्यहार. कत्त्व प्रसिद्धम् । नरनारीसमुत्पन्ना सा स्त्रीदेहविवर्जिता । अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥ ३८ ॥ उत्तरम्-छोटिका लोकप्रसिद्धा। भपहनुत्युदाहरणानि । काले पयोधराणामपतितया नैव शक्यते स्थातुम् । उत्कण्ठितासि वाले नहि नहि सखि पिच्छिल पन्थाः ॥ १॥ अर्थ:-अपतितया पतिम्विनेत्यर्थः । पक्षे पतनाभावेन पिच्छिलः पङ्किलः । प्रहरति न पञ्चवाणः केवलमवले निमेषोऽपि । वर्षति परं न देवः क्षणदायी विप्रयोगन्ते ॥ २॥ तन्वी चारुपयोधरा सुवदना श्यामा मनोहारिणी, नीता निष्करुणेन केन चिदहो देशान्तरादागता। उत्सङ्गोचितयातया रहितया किसीवनं प्रेक्षसे, भिक्षा ते दयितास्ति किन्नहि नहि प्राणप्रिया तुम्बिका ॥३॥ अर्थ:-समीपे स्थातुं योग्यया, पक्षे अङ्कमारोईं योग्यया । या पाणिग्रहलालिता सुसरला तन्वी सुवंशोद्भवा, गौरीस्पर्शसुखावहा गुणवत्ती नित्यं मनोहारिणो । ,
[६४ ]
सा केनापि हृता तया विरहितो गन्तुम्नशक्योऽस्म्यहं,
रेभिक्षा तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ४ ॥
अर्थः-पाणिग्रहलालिताविवाहः । पक्षे पाणौ धारणम् । सुवंशोद्भवा कुलम्।
पक्षे वेणुः ।
-
नाथ विलोकय मेघ नहि नहि पापं तवातिपुण्यायाः ।
नहि कथयामि पयोधरमपसारय कन्चुकीमुरसः ॥५॥
अर्थः- मेघम् , अम्बुदम् , पक्षे मे कोऽर्थो मम अघम् पापम् । पक्षे स्तनम्
मे उर इति च्छेदः ।
वैयाकरणानाम् प्रशंसा
वैयाकरणकिरातादपशब्दमृगा क यान्ति सन्त्रास्ताः ।
ज्योतिनेटविटगायकभिषगाननगहराणि यदि न स्युः ॥१॥
सूत्रं पाणिनिवद्धं कलयन्पुरुषः समुदहति सुदृशम् ।
वर्णादीनां धर्मान् बुद्ध्वा विधिवत्प्रयुङ्क्तेऽसौ ॥२॥
अर्थः-व्याकरण सूत्रम् । पक्षे कङ्कणम् । पाणिनिना बद्धम् रचितम् ।
पक्षे पाणौ हस्ते निबद्धं विवाहकाले सूत्रनिर्मितकङ्कणेवधुवरयोह स्तयोर्वधनन्ती.
तिलोकः । सूत्रपक्षे अर्थज्ञानपूर्वक विचारयन् कलगपक्षे धारयन् सम्यग्धारयति ।
पक्षे सम्यगुवहति शोभनां दृष्टिम् शुद्धाशुद्धविवेकशक्तिम् , पक्षे शोभना हग यस्या
एतादृशी श्रियम् । अकारप्रभृतिवर्णादीनाम् पक्षे ब्राह्मणादिवर्णादीनाम् बुझ्या
ज्ञात्वेत्यर्थः । यथाशास्त्र प्रयोग करोति, पक्षे योजयति ।
नैयायिकानाम्प्रशंसा।
मोहं रुणद्धि विमलीकुरुते च बुद्धिं,
सूते च संस्कृतपदव्यवहारशक्तिम् ।
शास्त्रान्तराभ्यसनयोग्यतया युनक्ति,
तर्कश्रमो न तनुते किंमिहोपकारम् ।। १ ।।
नैयायिकानां निन्दा।
परामृशन्तो लिङ्गानि व्यभिचारविचारकाः।
तार्किका यदि विद्वांसो विटकिमपराध्यते ॥१॥
अन्तरालापोदाहरणानि ।
कस्तूरी जायते कस्मात्को हन्ति करिणां कुछम् ।
किंकुर्यात्कातरो बुद्धे मृगात्सिंह पलायनम् ॥ १।।
उत्तरम् कस्तूरी मृगाज्जायते । करिणों कुलं सिंहो हन्ति । कातरो युद्ध
पलायनं कुर्यान्नान्यत् ।
युधिष्ठिर कस्य पुत्रो गङ्गा वहति कीदृशी ।
हंसस्य शोभा का वास्ति धर्मस्य त्वरितो गतिः ॥ २॥
उत्तरम्-धर्मस्य पुत्रो युधिष्ठिरः । गङ्गा त्वरिता वहति । हंसल्य शोभा.
मैतिरेव ।
भोजनान्ते च किम्पेयं जयन्त कस्य वा सुतः।
कथंविष्णुपदं प्रोक्तं तैनं क्रिस्य दुर्लभम् ।। ३ ।।
उत्तरम्-भोजनान्ते तक्रम्पेयम् , जयन्ताशकास्यब्देस्य सुत, विष्णुपदं
दुलभम् ।
कं संजघान कृष्णः का शीतलवाहिनी गङ्गा।
केदारपोषणरताः कं बलवन्तन्न बाधते शीतम् ।। ४ ।।
उत्तरम्-कृष्णः के संजघानेति प्रश्ने कंसमित्युत्तरम् । शीतलवाहिनी
गङ्गा केति प्रश्ने काशीतलवाहिनी। गुणे शुक्लादयपुंसीति कोशात् शीत-
शब्दो नित्यपुंलिङ्ग इति कथं क्लीवत्वमितिविचार्य्यम् । दारषोषणरता के इति
प्रश्मे केदारपोषणरताहत्त्युत्तरम् । श्रीतम्बपन्त कन्न बाधते इति प्रश्ने कम्बल.
वन्तमित्स्युचरम् ।
कः को के कं को कान हसत्तिच हसतो इसन्ति हरिणाच्याः ।
अधरः पल्लवममीहंसौ कुन्दस्य कोर कान्हष्टवा ।। ५ ।।
उत्तरम-हरिणक्ष्याः कः के हसति अधर, पल्लवम् को को
अधीहंसौ, के कान हसन्ति दन्ताः कुन्दस्य कोरकान् ।
का शम्भुकान्ता किमु चन्द्रकांत कांतामुखं किं कुरुते भुजङ्गः।
कः श्रीपतिः का विषमा समस्या गौरीमुखन्चुम्ब ति वासुदेवः ॥ ६ ॥
.. उत्तरम्-गौरी मुखम् चुम्बति वासुदेवः । गौरी-मुखम् चुम्बति वासुदेव (भुजङ्गो जारः) के भूषयंति स्तनमण्डलानि कीटश्युमा चंद्रमसः कुतः श्रीः । किमाह सीवादशकण्ठनीता हा राम हा देवर तातमातः ॥ ७॥ अर्थ:-हाराः महादेव रता तमातः रात्रितः, हा राम, हा देवर, हा तात, हा मातः इति । बहिरालापोदाहरणानि । पूजायां किं पदं प्रोक्तमरतनं को विभत्र्युरः। क आयुधतयाख्यातः प्रलम्बासुरबिद्विषः ॥ १ ॥ समुत्तरम्-सुनो सीरी से पूजायाम् (सूत्रम्), नौ पुरुषः, सीरो हलम् । कोदुराव्यस्य मोहाय का प्रिया मुरविद्विषः । पदं प्रश्नबित किं कोदन्तच्छदभूषणम् ।। २ ।। समुत्तरम्-रामानुरागः धनम् , मा सेक्ष्मीः, - इति वितकें, राग आरक्तत्वम् । पक्षिश्रेष्ठ सखीवभ्रू सुरा वाच्याः कथम्बद । ज्येष्ठे मासि गताश्शोषं कीदृश्योऽल्पजलाभुवः ।। ३॥ समुत्तरम्-वि वराली कुलीरा:वि: पक्षी, वरं श्रेष्ठम् , आली सखी नकुली नकुलस्यत्री, इरी मदिरा, विवरेषु = छिद्रेषु आलीना अविषाः कुलीराः = जलचरजीवविशेषायास्सुताः। आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले । प्रबोधयति पद्मानि तमांसि च निहन्ति कः॥ ४॥ समुत्तरम्--मित्रोदयः । मित्राणां सखीनामुदयो वृद्धिः । मित्रस्य सूर्यस्य उदयः उद्गमनम्। को नयति जगदशेष क्षयमथ विभराम्बभूव कं विष्णुः । नीच कुत्र संगवः पाणिनिसूत्रन्च कीदृक्षम् ॥५॥ ३ .0
[ ६७
समुत्तरम्--"यमो गन्धने" इति पाणिनिसूत्रम् । कृतान्तः "कृतान्तो यम-
सिद्धान्ताविति” कोश। अगम् ,गोवर्द्धनम् नगच्छतोत्यगम्, धने सति नीचस्सगर्वः।
किं स्याद्विशेष्यनिष्ठं का संख्या वदत पूरणीभवति ।
नीच केन सगर्वः सूत्रं चन्द्रस्य कीदृक्षम् ॥ ६ ॥
उत्तरम्-विशेषणमेकार्थेन । एका शून्यानां संख्यापूरकमेकमेव भवति, एकादी
अङ्कोलिख्यते तदा विन्दूमा साफल्यम् स्यादन्यथा शून्यमेव । अर्थन द्रव्येण विशे-
षणमेकार्थेन इदश्चान्द्रव्याकरणसूत्रम् ।
सुकपरिविन्दः शब्दः सुब्रह्मण्यस्य वाचक केन ।
स्तनभरनमिता नारी केनोपायेन रजयेत् कान्तम् ॥ ७॥
उत्तरम्-उपरि विहरणेन । आये सुकपरिविन्दशब्दे उ. प. रि. वि. हत्ये-
तेषाम्वर्णानां हरणेन निष्कासनेन स्कन्द इति शब्दः सुब्रह्मण्यस्य षडाननस्य
वाचका भवात । द्वितीये उपरि विहरणेनेत्यस्य विपरीतरतेनेत्यर्थः
उरस्थलं कोऽत्र विनापयोधरं विभर्ति सम्बोधय मारुताशनम् ।
वदन्ति कं पत्तनसम्भवं जनाः फलञ्च किं गोपवधूकुचोपमम् ॥ ८ ॥
उत्तरम्-नागरं गम्-ना पुमान् , हे नाग हे सर्प, नागरः नगरेभव-
स्तम् नागरङ्गम् = नारङ्गीफलम् ।
कः पूज्यस्सुजनत्वमेति कतमः क्व स्थीयते पण्डितैः,
श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् ।
किं वान्छन्ति सदा जना युवजना ध्यायन्ति क्रिम्मानसे,
मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तवाशीर्वचः ॥९॥
उत्तरम-भूदेवः स्ववश: संसदि दुर्गंग ( दैत्यः ) वैभवं युवतिम् मध्य.
माक्षरोद्धरेण देव सगेंभव इति । कोटिस्थस्स्याः इति तात्पर्यम् ।
वसन्तमासाद्य वनेषु राजते विकाशि किंवल्लभ पुष्पमुच्यताम् ।
विहङ्गमं कं च परिस्फुटाचरं वदन्ति किं पङ्कजसम्भवं विदुः ॥ १० ॥
[६८ ] उत्तरम्-किंशुकम् पलाशम् , शुक कीरम् , कम्ब्रह्माणम् । कामरिरहितामिच्छति भूप कामुद्धरयति शूकररूपः । केनाऽकारि हि मन्मथजननं केन विभाति च तरुणीवदनम् ॥ ११ ॥ उत्तरम्-कुंकुमेन । कुम्पृथ्वीम् , कुन्धराम् ( ऐन ) कृष्णेन "अारो वासुदेवस्स्यादिति कोशः तृतीयान्तम् । इति जौनपुरमण्डलान्तर्गत बदलापुर-उदयपुर गेल्हवाभिजन सरयूपारीण- गर्गकुलोत्पन्न-प्रायवशातग्रन्थकार, संस्कृताशुकविचक्रवर्ति- विश्वविख्यात-शाम्बार्थि-पण्डितराज शुक्ल. श्रीवेणीमाधवशास्त्रिणा सङ्कलिता कूटशास्त्रार्थकला समाप्ता। * शिवम् * प्राप्तिस्थानम् चौखम्बा-संस्कृत-पुस्तकालय विद्याविलास प्रेस, बनारस सिटी।
No text on this page.