Bharti Bhawan Library Allahabad

Shri Jainagarpanchrangam

PDF Proofread

Front matter

॥ श्रीः॥
श्रीकविमल्लभट्टहरिवल्लभकतिषु
श्रीजयनगरपञ्चरङ्गम्
काव्यम्।
तथा
(गौर्यलंकाराः, कान्तावक्षोजशतोक्तयः, शृङ्गारलहर्यः,
दशकुमारदशा, मुक्तकसूक्तानि, देवीस्तोत्रं च)
जयपुरमहाराजाश्रितेन गुर्जरभूदेवेन
तेन स्वेनैव संशोध्य
मुम्बय्याम्
जावजी दादाजी इत्येतेषां निर्णयसागरयन्त्रालये मुद्रापितम् ।
सन् १८९४ इसवी।

भा वि श्रीः शैलैर्बन्धयतिस्स वानरहृतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वागर्थौ च तुलाधृताविव तथाप्यस्मत्प्रबन्धानयं लोको दूषयितुं प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥ १ ॥ St ॥ श्रीः ॥ हरिवल्लभकाव्यभूमिका। सतोऽपि यस्य नामार्थो नाध्यक्षौ क्वापि भेदतः । तद्रमीति सर्वत्र किमप्येकं महन्महः ॥ १॥ अयि सर्वत्र निरुपध्यसाधारणपरमवात्सल्यैकप्रसिद्धा विद्धांसः । इदं श्रीमन्यो विदितं क्रियते । योयमहं संस्कृतजयनगरपञ्चरङ्गाधनेकनवनव- सरसकाव्यकर्ता भट्टहरिवल्लभशर्मा कविमल्लः प्रक्रान्तः । जयनगरवास्तव्यः स खलु गुर्जरब्रह्मकुलोत्पन्नः प्रथमं शास्त्रमधीयानः सद्गुरुकृपोपलब्धवागुपा- सनः प्रायः कवितायामेव प्रबन्धशक्तिसंपन्नः समजनिषि । तेन मया पण्डि- तदुर्गाप्रसादप्रकाशितकाव्यमालाप्रशस्तिद्वयनिर्माणसमनन्तरं जयनगरपञ्च- रङ्गं काव्यं व्यधायि । अत्र देवतानमस्कारा जयनगरस्य सामान्यविशे- षाभ्यां वर्णनं पूर्वपूर्वेतरराजवर्णनं चित्रविशेषोद्धारोऽपि । किञ्च गौर्यलङ्का- रादयः षडन्येपि मम सन्ति संदर्भाः । तेषु गौर्यलङ्कारे साहित्यविश्रुतास्ते शतमालङ्काराः श्रीगौर्यां स्तुतिरूपेण यथाक्रमं निदर्शिताः । कान्तावक्षो- जशतोक्तिस्तु स्फुटाभिधेयैव । इयं खलु श्रीनारायणभट्टैर्निर्मातुमादिष्टा । शृङ्गारलहाँ संपूर्णविभावानुभावादिवर्णनपुरस्सरं प्रायिकः शृङ्गारः सकलः। दशकुमारदशायां पुनः सामान्येनैव एकसर्गे कथा दशानां दण्डिवर्णितानां कुमाराणाम् । मुक्तकसूक्तेषु च नानाविधा अनन्विता बहुधा मम प्रथम- प्रथमकृतिसूचकाः श्लोकाः । देवीस्तोत्रे षष्ठे भगवत्याः श्रीमदेकलिङ्गरा- जमहिष्याकुलदेव्या धनुर्धर्याः स्तुतिः । संप्रति तदेवेदं सर्वमुम्बापुर्य्या १ जयपुरराजगुरुभिरेतैरेव द्वित्रवर्षपूर्व स्वीकृतमासीन्मत्काव्यप्रकटीकरणं परन्तु हेतुविशेषेण तत्तथा नाभूदिति खयमेवाहं मुद्रणीकरणरीतिविशेषानभिज्ञोपि कौतुकी तत्र प्रावर्तिषि। २ यामन्तर्निवसन्नपि प्रसकलप्रत्येयपूर्वे यथा जानात्येव न कश्चनापि पुरुषः प्रज्ञावतामग्रणीः । मुम्बापुर्यपि सा तथेयमधिकाभोगा कियन्तो जनाः सन्त्यत्रेत्यवधारणं न सहसा कर्तुं प्रगल्भायते ॥१॥ अत्र पर्यायोक्तमालङ्कारो व्यङ्ग्यस्यैव प्रकारान्तरेण वाच्यरूपत्वात् । ।

(२) प्राप्तेन मया निर्णयसागराधीश्वरतः श्रीश्रेष्ठतुकारामजावजीत्यभिधान्मुद्रि- तमकार्य्यत । तस्मात्प्रथममिदं स्वजनेभ्य इव निखिलकथनयोग्येभ्यो विद्व- यः सकराञ्जलिकं प्राभृतीक्रियते । अपरेऽपि मम वैद्यकविषयाः प्रबन्धाः सन्ति ते तु न लोकोत्तरा इति न प्रकटीकृता एवं नाना मुक्तका अपि । यौष्माकः कृपापात्रविशेष इति नितरां निवृतोऽयं जनः । तस्य खल्वेषा प्रायोभणितिः । व मिष्टमपि गोक्षीरं प्रातः सायं हि यन्नवम् । क पुनर्मम सूक्तं तत्प्रतिवारं नवं नवम् ॥ २ ॥ १ लोके हि तदुत्तर एव चमत्कारावहः ।

अथ श्रीकविमल्लभट्टहरिवल्लभकल्पितम् श्रीजयनगरपञ्चरङ्गम् (काव्यम्) प्रथमो रङ्गः १ श्रीहरिविजयतेतमाम् । 'विनायकं तं शिवपार्षदानां विनायकं देवमहं प्रणौमि । निनाय कं नाम विधिः प्रकर्ष विना यकं पूजितमात्मकार्ये ॥ १ ॥ हंसः स्वचञ्चू पुरतः स्फुरत्सु यद्दन्तलेखांशुषु गानकाले । मुक्तास्रजां धूनयते धियोच्चैः सा मेऽनुकूलास्तु वचोऽधिदेवी ॥ २ ॥ संचारिते यत्पुरतः सिताभ्रनीराजने भक्तजनैः समन्तात् । शुभ्रातपो हासतया विभाति सा श्रीर्ममोपर्य्यनुकम्पितास्तु ॥ ३ ॥ मनुप्रिया दिव्यतनूविधात्री दनूद्भवघ्नी हनुहारिगात्री। अनुग्रहार्थं ननु काचिदीशा जनु तामस्तु धनुर्धरी सा ॥ ४ ॥ नाभ्यम्बुधौ वीक्ष्य |वे सपत्न्याः श्लेषान्मुहुर्हारलताधुनद्याः ।। या भाति रुष्टा यमुनेव यान्ती रोमावली साऽस्तु सुखाय गौर्याः ॥ ५ ॥ १ विधिरात्मकायें पूजितं यकं य एव तं विना के नाम प्रकर्ष निनाय प्रापेति काका। कार्यारम्भे यत्पूजनेनैव विधेः प्रकर्षलाभ इति प्रतीयते यमकमत्र शब्दचित्रम् । देवतावा- चकत्वान गणदोषश्च वकारस्य अमृत बीजत्वात्प्रचयलाभोपि.२ कपूरनीराजने. ३ अनुपूर्वः कम्पिः कृपार्थकः, ४ निजाराधननवार्णादिमन्त्रप्रिया. ५ हन्वा कपोलप्रान्तेन हारि गात्रं यस्याः. ६ एतत्खनामविदिता गुर्जरदेशान्तर्गतामदावादनामकनगरगोपुरबहिर्विराजमा- ना देवीयमस्स दिष्टभूता.७ पत्यौ.

२ प्र त 3 श्रीजयनगरपञ्चरङ्गे कुर्यान्मदीयं कुशलं नितान्तं सा रोमराजिगिरिराजपुत्र्याः । निरीक्ष्य गङ्गां हरमस्तकस्थां जातेव या भाति मनागसूया ॥ ६ ॥ या भाति संलक्ष्य कुचाब्जकोशौ प्रोड्डीयमाना मधुपावलीव । देव्या भवान्या धनसंभृता सा रोमावली मत्कुशलं करोतु ॥ ७ ॥ देवीमिलाभृत्तनयामजस्रं शिलामैयीं तां शरणं प्रपद्ये । महेश्वरस्याऽपि महेश्वरीत्वं यद्वाहनं सूचयते मृगेन्द्रः ॥ ८ ॥ यस्याः शरीरे हतदैत्यरक्तसंप्रोक्षणस्योपधिना चकास्ति । गच्छन्बहिर्विष्वगिव खरोषः सा सुप्रसन्नाऽवतु कालिका नः ॥९॥ नग्नाऽपि या भूरिनिकृत्तदैत्यरक्तोक्षणेन स्वसितेतराङ्गे । कौसुम्भचित्रामिव नीलशाटी वस्ते स्म सा वोऽवतु भद्रकाली ॥ १० ॥ दृष्ट्वेव हस्तस्थविकोशखगोद्दचोतेऽखिलं तत्स्ववपुः करालम् । या विस्मिता लम्बयते स्म जिह्वां सतां महाकाल्युदयाय सास्ताम् ॥११॥ ये नन्ति दैत्यान्परितोऽखिलान्मृधे संदृश्य संदृश्य नखैरिवाक्षिभिः । चाचल्य॑मानास्तरसा धृतायुधाः कालीकरा नः कुशलं दिशन्तु ते॥१२॥ यस्याः पुरा पिञ्जितरक्तबीजरक्तप्रपानादिव सान्द्रभूता । न शोणताऽद्याप्यधरादपैति कात्यायनी कृन्ततु सा रिपून्नः ॥ १३ ॥ तत्कालराव्यात्मकगात्रकाले ये दीपवत्प्रोल्लसतः सुरक्ते । काल्या दृशौ ते परिपीतसीधुमदोद्भुरायास्तनुतां शुभं नः ॥ १४ ॥ ज्वालामुखी पञ्चमुखादबिभ्यती भक्तैर्निशार्धे बलिभिः प्रसादिताम् । कृतस्मशानाकुलकाननस्थितिं शिवाय कामप्यहमाश्रये शिवाम् ॥१५॥ १ अविरलताभृतेति यावत्. २ इला भूस्तद्धृत्पर्वतस्तत्तनयाम्. ३ यथाश्रुतनाम- वित्ता काचिदस्तीह अम्बावतीराजप्रासादप्रतिष्ठिता सा भगवती. ४ तत्तादृशमहाहिंत्र- सिंहाधिरोहेण स्पष्टमेवास्ति तस्या महेश्वरस्यापि महेश्वरीत्वं स्वामिनीत्वम्. ५ रोष- स्यारुण्यवर्णनं कविसंप्रदायः. ६ श्यामले शरीरे. ७ कौसुम्भो रङ्गः स च शोणो भवति तेन चित्रा मध्ये मध्ये बिन्दुभिर्विच्छुरिता ताम्. ८ पातु. ९ परिणामानुप्राणितेयमुत्प्रे. क्षा. १० अतिशयेन चलन्तः. ११ प्रसिद्धास्तवापीति च, १२ हत. १३ तस्या देव्या यत्कालरात्रिरूपं गात्रं तत्कृतिसमये. १४ शिवात्सिंहाच्च. १५ पार्वती फेरुपत्नी च.

प्रथमो रङ्गः १ ३ सदा ज्वलन्ती जठरान्तराले जीवान्समुज्जीवयतेऽखिलान्या । देवी जपापुष्पदलोज्ज्वला सा ज्वालाऽभिधा मद्विजयं तनोतु ॥ १६ ॥ सा संनिधानं भगवत्यजत्रं जयप्रदा श्रीविजया क्रियान्नः । ज्ञानं द्रवीभूतमिवाऽखिलं सत्प्रपीयते यत्सलिलं सुधीभिः ॥ १७ ॥ सा भूतनाथस्य समस्तगात्रव्याप्ताऽस्तु भूतिः कविमल्लभूत्यै । या भालसंलग्नतुषारभानोः परिच्युता चञ्चति चन्द्रिकेव ॥ १८ ॥ ताः शोभमाना विरलं करेषु त्वां शूलिनः पान्तु विभूतिरेखाः। ते ते प्रगाढाः सितसर्पबंन्धा याभिश्चलत्कान्तिभिरात्रियन्ते ॥ १९ ॥ समाकिरन्तं करतोऽमृतौधैं विभूतिपिण्डाधिकपाण्डुकान्तिम् । गौरीमनोरागविधानदक्षं तमीश्वरं नौमि तमीश्वरं वा ॥ २० ॥ यस्य प्रसूकाचविशेषकार्धबुद्ध्या शिरश्चन्द्रकलां स्थितोऽङ्के । आदर्शलग्नां मुखवीक्षणस्य काले [हो लाति शिवः सवोऽव्यात् ॥ २१ ॥ भूतापकृतौ विमुखं भूतापकृतौ पुनर्विमुखम् । अपि नरकपालमीशं भूयोऽहं नरकपालमस्मि नतः ॥ २२ ॥ देवस्त्रिपुरारिर्वः समस्तकार्यश्रिये भवतु । नुवतां बहु पुनरपि वः समस्तकार्यश्रिये भवतु ॥ २३ ॥ अपि बद्धाहितनयं बद्धाहितनयं पुनः । सकलत्रमहं वन्दे सकलत्रं त्रिलोचनम् ॥ २४ ॥ अस्माकं गिरिजामाता शङ्करश्च शिवा तथा । दुष्कृतीनां समस्तानां करोतु विनिवारणम् ॥ २५ ॥ १ इयं सर्वेषां सर्वशोकशातनैकमाहात्म्या सूचालितप्रतिभातरङ्गा श्रीमती भने- त्युच्यते. २ तदुपपदः कविर्हरिवल्लभशर्माऽहम्. ३ बद्धाः शुक्लसर्पा इत्यर्थः. ४ पीयूषं भक्तेभ्यो मोक्षदानं च. ५ पार्वती स्त्रियश्च. ६ तं ईश्वरं तम्या रात्र्या ईश्वरं पतिं चन्द्र च. ७ प्रखा मातुर्यत्काचस्य काचमणेविशेषकार्धस्तिलकार्धभागस्तद्धिया, ८ खामिका- त्तिकः.९ भुवस्तापकृतौ. १० भूतानामपकृतौ. ११ नरकात्पालयतीति तम्. १२ नराणां कपालानि मालात्वेन यस्य. १३ मस्तकेन सहिता अरयस्तेषामश्रीः शिरोविनाभा- वस्तस्यै, १४ बद्धा अहीनां तनया येन. १५ बद्धः अहितानां वैरिणां नयो येन. १६ सकलं त्रायत इति तम्. १७ कलत्रेण दारैः सहितम्. १८ गिरेर्जामाता छदा गिरिजा पर्वतपुत्री माता जगन्माता.

श्रीजयनगरपञ्चरङ्गे सा वोऽस्तु गर्भीकृतनाभिदेशा शुभाय लक्ष्म्या लघुलोमलेखा । अन्तर्वसत्कृष्णकलेवरस्य च्छायेव या भाति बहिः स्फुरन्ती ॥ २६ ॥ दूरादवेक्ष्य गोपीः संहृष्यन्तं हसन्तमभियान्तम् । नृत्यन्तं क्रीडन्तं श्रये यशोदाकिशोरं तम् ॥ २७ ॥ उद्दिश्य विविधभावान्समभिमिलन्नातिदूरतो जयति । राधायाः कृष्णस्य च चुम्बदिवान्योन्यमीक्षणद्वन्द्वम् ॥ २८ ॥ कक्षाश्रितामपि हरी राधां पश्यन्मुहुर्मुहुर्जयति । अन्तर्मान्त्यवशिष्टा कियतीयं बहिरितीव जिज्ञासुः ॥ २९ ॥ निःशङ्कसकलगुरुभिः स्वस्वगृहे व्रजवधूभिरनवरतम् । संभुक्तश्चञ्चलदृग्बालविलासी प्रशस्यते कश्चित् ॥ ३० ॥ निखिलैः सुगाढमङ्गैरुपगृहन्राधिका चिरात्कृष्णः । संचिक्रामयिषन्निव किञ्चिन्निजवपुषि गौरतां जयति ॥ ३१ ॥ कुब्जाया अपि यस्मात्कुब्जात्वेनोपलम्भनं नासीत् । गोसेवाफलभूतं तारुण्यं नमत कृष्णस्य ॥ ३२ ॥ वजयोषितां परासां परिहरणादिव पतिव्रतात्वस्य । फलितं पातकपटलं कृष्णत्वं नमत कृष्णस्य ॥ ३३ ॥ अनिमेषमभिमिषन्त्यौ श्रियं दृशौ केशवस्य चिरकालात् । जयत इव वाचयन्त्यौ भावविशेषाँस्तदीयहल्लिखितान् ॥ ३४ ॥ यः शोभते भ्रमर इव तुलसीस्फुटमञ्जरीषु कीर्णासु । शालिग्रामाँय घनश्यामाय नमाम्यहं तस्मै ॥ ३५ ॥ जयत्युपायैरपि या न लब्धास्तैस्तैरहो ता इह सन्ति सर्वाः । गोप्यस्तवैषेति कृपा नमन्तं शक्रं हसन्नद्रिधृतौ मुकुन्दः ॥ ३६ ॥ पराङ्मुखं भोगविधौ वधूनां बुद्धावतारं प्रणतोस्मि विष्णुम् । तं वैपरीत्यादिव सूचयन्तं प्राग्भूरिभुक्ताङ्गनमात्मरूपम् ॥ ३७ ॥ १ मिथोमिलितत्वेन चुम्बनसंभावना. २ प्रेम्णा वपुरन्तर्निविशमानेव. ३ कृष्णः. ४ गावः पशुसजातीया एव तासां संगतिरूपा सेवा तत्फलभूतं विवेकविशेषमन्तरा कुब्जासंप्रयोगरूपं तारुण्यम्. ५ संमुखं पश्यन्यौ. ६ चित्तवृत्तिविशेषान्. ७ विष्णवे यो नीलोपलपिण्डमूर्तिर्भवति. ८ गोवर्धनधारणकाले. ९ स्त्रीभोगविमुखरूपातू.

प्रथमो रङ्गः १ आत्मोदये दर्शयतेऽन्यहेमशैलं सदा व्योमनि संध्यया यः । ज्योतिःस्वरूपः स भवत्वजस्रं पापच्छिदे वः परमार्थदेवः ॥ ३८ ॥ शिष्यस्य यैः संविहिता प्रशंसा गर्दायते तद्यति सा तथा च । इत्यद्भुतालौकिकगौरवेभ्यः श्रीमद्गुरुभ्यः सततं नमोऽस्तु ॥ ३९ ॥ भूमिहंतेः संशयचिन्तयैव शून्या भवेन्मन्दधियाममीषाम् । इतीव धात्रा निजसंनिभेभ्यो विनिर्मितेभ्योऽस्तु नमो गुरुभ्यः ॥ ४० ॥ यत्नैर्बहुभिरपोह्यं दुष्टानां सकलमेव दुष्टत्वम् । अल्पीयानपि चरणं कण्टकखण्डो हि पाचयति ॥ ४१ ॥ अत्यल्पेप्यनुबन्धे करोत्यनर्थ महान्तमाश्वेव । अशुचिजलबिन्दुरेकस्तथाऽपरः खलु जनः पिशुनः ॥ ४२ ॥ नासाकफो नृशंसश्च दूरीकर्तुं हि युज्यते । संश्लिष्टः सोऽन्यथा स्निग्धः सहसा न निवर्तते ॥ ४३ ॥ अप्रतिभानां वाणी प्रोत्पादितमर्थमन्यपुरुषेण । आदत्ते सानन्दं दत्तकमिव पुत्रमङ्गना वन्ध्या ॥ ४४ ॥ निर्मूलघातात्प्रतिघानलस्यं विवेकपाथो हृदलञ्जरस्थम् । उपैति शोषं न कदाऽपि येषां जयन्ति ते केऽपि महानुभावाः ॥ ४५ ॥ गुणा विधानात्परिशीलनस्य न सन्ति केषामपि भूरिदूरे। प्रकुट्यमानाः किल शालयो हि क्रमाद्भवन्ति स्वयमेव शुभ्राः ॥ ४६ ॥ कुरुतेऽनृतमपि सत्यं कथनात् प्रथमः परोऽपि लेखनतः । भेदोस्त्ययमेव कवेश्चित्रकरस्य च समं शिष्टम् ॥ ४७ ॥ १ सूर्यः. २ सा स्तुतिरिवाचरति. ३ तत्तदुरूहार्थाज्ञानजन्यचिन्तया. ४ दूरीकर- णीयम्. ५ संबन्धे व्यवहारे च. ६ पुनर्यथास्नानादिकरणं तत्तदर्था निष्पत्तिरूपं च. ७ क्रूरः. चिक्कणतायुक्तः कृत्रिमप्रेमयुक्तश्च. ९ यथा खल्वशिश्वी स्त्री परकीयं पुत्रं दत्तकत्वेन गृहीत्वा तदुपनयनपाणिपीडनादिकरणेन तस्मिन्खकीयबुद्धिं सानन्दं सप्रकाशं च प्रख्यापयति तथैव अचमत्कृतबुद्धिमतां केषांचिद्वाणी परोद्भावितमर्थ खकीयत्वेन आदत्त इति तदनौचित्यं वर्णितम्. १० रोषाग्नेः. ११ हृद्रूपकुम्भविशेषस्थम्. १२ मुसला- भिघातैर्निस्तुषीक्रियमाणाः. १३ सदृशम्.

श्रीजयनगरपञ्चरङ्गे पाहि जनार्दन रक्षितभक्तजन संहतदुर्जन गोपपते हे पाहि व्रजवनिताजननवयौवनघनलुण्ठनलुब्धमते हे। अर्जुनवदननिषिक्तसनातनतत्वकथानघतोयतते हे कुरु कुशलं हरिवल्लभविदुषो देव पुराणयेते हे ॥ ४८ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्येऽगात्प्रथमरङ्गोऽयम् ॥ ४९ ॥ द्वितीयो रङ्गः २ कच्छान्वयिच्छत्रधरानुशिष्टा चञ्चच्छतक्रौशिकसीमचक्रा । वर्षेस्ति काचिज्जयपुर्यमुष्मिन् ढुण्डारदेशाग्रिमराजधानी ॥ १ ॥ आम्नायमुच्चारयतां नितान्तं प्रतिश्रुतिर्यत्र महीसुराणाम् । ऋचाधिदेव्याः स्तवनप्रियाया वरप्रदानोक्तिरिवावभाति ॥ २ ॥ स्फारोरुदुर्गस्थितिशालिघण्टाँयन्त्रं चलद्यत्र समस्तपौरान् । संबन्धिवत्स्वस्वकृतेरभीक्ष्णं टणत्कृतैः सूचयतेऽवकाशम् ॥ ३ ॥ प्रत्यालयं रुच्यतराण्यमूनि यस्यामितीवालिखितप्रशस्त्याः । पाश्चात्यभागारुणकाचभाञ्जि पेत्रश्रियं बिभ्रति जालकानि॥ ४ ॥ प्रलोभयन्ती ललनेव भावैर्नानाविधैर्ग्राहकपौरवर्गान् । चकास्ति तत्तद्वरवस्तुपूर्णा हट्टावली राजपथेषु यस्याः ॥ ५ ॥ प्रायेण रिक्तीक्रियते प्रभूतैर्यस्यां सुराणां बहुमन्दिरैौः । प्रपूजिता मर्त्यगणैः सदा यत्ते तत्र गच्छन्ति न भोगलुब्धाः ॥ ६ ॥ वप्रोत्तमाङ्स्थजनैरजस्रं वीथ्या तरूणां पथि पथ्युपेता। क्रीडागृहाकीर्णसमग्रदेशा प्रसूनवाटीव निरीक्ष्यते या ॥ ७ ॥ १ जगत्तत्वकथा. २ पुराणमुने.३ कृतप्रकाश इति भावः. ४ जयनगरस्य राजमार्ग- स्थितराजकेतनतुल्यतयोत्प्रेक्षिते काव्ये. ५ कछावा इति प्रसिद्धाः.६ भूखण्डे. ७ वेदम्. ८ कालप्रमाणसूचका दुर्गोपरिस्थिता घडी इति प्रसिद्धा. ९ तादृशप्रशस्त्याः पत्रश्रियम्. १० विभ्रमैः क्रयादिस्थितिभिश्च. ११ वर्गलोक:. १२ असकृन्नानाविधसुखादुभोजनादि- लुब्धाः. १३ प्राकारोपरिस्थितजनैः.

द्वितीयो रङ्गः २ अव्याहतं मासिकलाभतुष्टाः स्फूर्जत्कला हारिमुखाः सुमध्याः । पान्थान्प्रपापाल्य इवाम्बुनाल्यो यस्यां तृषार्तान्बत तर्पयन्ति ॥ ८ ॥ विशंकटस्वच्छतराशयासु द्वारोपरिष्टाल्लिखिताभिधासु । प्रकुर्वते चंक्रमणं यथेच्छं दिवानिशं यत्पदवीषु लोकाः ॥ ९ ॥ यदीयदूरोन्नतपीनवप्रच्छायातले धीरचलत्समीरे । जना वसन्तो विधया कयापि संविद्रते नो खलु मित्रतापम् ॥ १० ॥ दूर्वादलानां यदुपात्तधान्यक्षेत्रेषु वातोद्भवकम्पदम्भात् । मुहुर्मुहुः शंसति शालिगोपीशृङ्गारगीतैः पुलकोद्गमं भूः ॥ ११ ॥ नितम्बवत्यो मणिबन्धमध्यभ्राजिष्णुचूडावलयावलीनाम् । झलत्कृतैर्यत्र शिरोगृहस्था भास्वन्मयूखान् सततं हसन्ति ॥ १२ ॥ ज्योत्स्नोज्ज्वलायां निशि यत्र कूपप्रान्तेषु जम्बालवती धरित्री। करोति दूरादुपकण्ठशाखिच्छायाभ्रमं पान्थजनस्य चित्ते ॥ १३ ॥ उद्यद्विवस्वत्किरणैः प्रभाते संरज्यमानाऽखिलवप्रचक्रा । आपाटलां या परिधातुमन्यां नवां समुत्कीलयतीव शाटीम् ॥ १४ ॥ यत्रान्तरिक्ष निशि भासमानसमस्तनक्षत्रचितं तनोति । उत्तानिताशुक्लमहावितानव्यालम्बिदीपावलिसाम्यलीलाम् ॥ १५ ॥ भृताम्बुसंक्षालिततीरदेशे सदा तडागे प्रतिबिम्बिता या । संभाव्यते दर्पणमण्डलान्तर्मुहुर्मुहुः स्खं मुखमीक्षमाणा ॥ १६ ॥ यत्रोच्चकैर्भाग्यवतां गृहेषु चित्रोच्चयाः केऽपि विशिष्य दृश्याः । नाकेऽभितो यत्प्रतिबिम्बितानि धत्यकालेऽप्यूजुरोहितत्वम् ॥ १७ ॥ हरिद्रसालच्छदगुम्फिताभिर्यस्यां गृहा वन्दनमालिकाभिः । बहिः प्रतीहारसुसंदिताभिर्दूराद्दधन्ते मुखकेशंशोभाम् ॥ १८ ॥ चित्राः पटैः पैत्यजुषोऽङ्गरागैः श्यामा अहो लोचनकज्जलैश्च । दन्तप्रकाशैविशदास्तथापि कुर्वन्ति नृन्यत्सुदृशोऽनुरक्तान् ॥ १९ ॥ १ स्फूर्जन्त्यः कलाः कल इति प्रसिद्धा यासां ललनापक्षे ताः केलिकलाः. २ जलकी एंटी इति प्रसिद्धाः. ३ भट्टोंकारास्ता गणगौरी बाजार इत्यादिनानाविधा अभिधाः. ४ सुहृदां सूर्यस्य च तापम्. ५ इन्द्रधनुर्भावम्. ६ हरिद्वर्णाः.७ डाढी इति प्र. ८ रक्तवर्णान् प्रणयिनश्च.

श्रीजयनगरपञ्चरङ्गे सुयोषितां भूरि गतागतानि तत्तत्पथेभ्यः प्रतिकुर्वतीनाम् । आलोककाले हि सहस्रनेत्रं यद्वासिनः संस्तुवते पुमांसः ॥ २० ॥ नानादेशाशालिजनाचितानामन्तर्निषण्णत्रिदशप्रणुन्नाः । यत्सत्पथे संचरतां रथानां पुरो विमानौ अपि नो समानाः ॥ २१ ॥ अत्युच्चवंशाग्रविलम्बमाना गृहे गृहे यत्र समीरणेन । उद्वेल्लिताः क्षौमगताः पताका विलज्जयन्ति युनदीतरङ्गान् ॥ २२ ॥ करेणुकामन्थरगत्वरीणामितस्ततो यत्र सुलोचनानाम् । मुखेन्दुपीयूषनिचूषणार्थं दिवाऽपि चञ्चन्ति चिरं चकोराः ॥ २३ ॥ यत्रोषसि प्रांशुतरं पुरस्थैरुड्डायिताः स्वस्वगृहात्क्रमेण । क्रीडाकपोता गगने सदैव कुर्वन्ति विस्फूर्जदुडुप्रतीतिम् ॥ २४ ॥ यत्सीम्नि सीकृत्युपधेः सहेलं फिरङ्गिवाह्या रयलोः शकट्यः । वास्यं न युष्माभिरिहाल्पभाग्यरित्याह्वयन्तीव विदेशिलोकान् ॥ २५ ॥ क्वचित्क्वचिद्यत्र विलोच्य दूराद्रत्नानि रत्नापणिकोपकण्ठे । ज्वलन्ति दीपाः कथमयपीति ग्रामीणलोकाः पुरु विस्मयन्ते ॥ २६ ॥ स्त्रीणां जलोदञ्चनकर्मकाले यत्राधिकूपं प्रतिमा विभान्ति । अभ्युद्गतारूपनिरूपणार्थं रसातलान्नागसुता इवोर्ध्वम् ॥ २७ ॥ पौरप्रणुन्नाः पदवीषु यस्याः समुत्प्लवन्ते तरलं तुरङ्गाः । वेश्मावलीद्वारविशालभित्योराचित्रितानां करिणां भियेव ॥ २८ ॥ यस्यां कपोतीरनुकूजतां च हर्म्यच्छदिस्थायिकपोतयूनाम् । संडीनमुद्वीक्ष्य पथि व्रजद्भिर्न सर्यते कैः स्वकलत्रमानः ॥ २९॥ गायन्ति यद्वमसु हिण्डमांना गीतानि शृङ्गारमयानि नार्यः । नूनं तदा वाद्यगतां स्वसत्तां धत्ते ध्वनिस्तत्तदलङ्कृतीनाम् ॥ ३० ॥ १ खस्य तादृशसहस्रनेत्रासत्त्वातू. २ अवस्था. ३ विशेषण मानो येषां तथाविधा अपि एतेन रथेषु महान् व्यतिरेकः सूचितः. ४ कश्चिच्चिरवेगः पृथुः शब्दविशेषः, ५ रेलगाडी इति प्र. ६ संगतं गमनम्. ७ गच्छन्त्यः.८ तासां भूषणध्वनिः स्वस्थिति वाद्यगतां धत्ते गायनवादनयोः साहचर्यमेव योग्यम्.

द्वितीयो रङ्गः २ o यत्र प्रगे वेश्मपरम्पराणामभ्रंलिहानां प्रसृता पुरस्तात् । छाया भियेवोष्णगभस्तिभर्तुः संतिष्ठते गूढतरं निलीय ॥ ३१ ॥ सायं गवाक्षप्रतिरन्ध्रसर्पज्जात्यादिसंसाधिततैलगन्धाः । यस्यां युवभ्यो ध्वनयन्ति केशप्रसाधनं श्रेष्ठिसुतप्रियाणाम् ॥ ३२ ॥ प्रादोषिकी यत्र ललामभूता पितृप्रसूः फुल्लति नाकगर्भे । नानाविधारञ्जितनूतनोपसंव्यानसंक्रान्तिरिवाङ्गनानाम् ॥ ३३ ॥ स्त्रीणां नवानां पुरतोञ्चलेऽपि विधूनिते गन्धवहेन यस्याम् । कैश्चित्स्फुटच्चम्पकपत्रचारु वासोन्तराश्लिष्टमिवेक्ष्यतेऽङ्गम् ॥ ३४ ॥ तारुण्यभाजां वरवर्णिनीनां संचारसाम्याधिगमाय मन्ये । मतंगजान् हस्तिपको यदीयमार्गेषु नित्यं परिवर्तयन्ति ॥ ३५ ॥ यस्यां चलत्तोपमहानिनादाश्रुत्वा मयूरा अधिचन्द्रशालम् । भ्रान्त्याम्बुदानां शिरसि प्रकीर्णशिखण्डदण्डाः सुचिरं नटन्ति ॥ ३६ ॥ प्रान्तप्रदीपावलिदीपितेषु यद्राजमार्गेषु निबद्धभूमिः । गच्छत्प्रजासंक्रमणैर्निशायामसंकुलापीन्दति संकुलेव ॥ ३७ ॥ सीमन्तिनीनां समुपागतानां यस्यां च पाथोभरणाय वाप्यः । विष्वग्भवत्तुङ्गतरङ्गभङ्गया विडम्बयन्ति भृकुटीविलासान् ॥ ३८ ॥ यथायथं सुष्ठुतरं लपन्तः क्वचित्क्वचिद्यद्बलभीषु कीराः । आकाशवाणीभ्रममादिशन्ति प्राघूर्णिकानां प्रथमप्रवेशे ॥ ३९ ॥ दाम्नां प्रसूनच्छदनेषु सायं यत्पण्यवीथ्यां स्वदृगन्तबिम्बान् । चलाचलान्वीक्ष्य धुनन्ति पाणीनलिभ्रमान्मालिकमुग्धवध्वः ॥ ४० ॥ यस्यां भृशं भर्तृषु केलिसद्मस्तम्भाद्भुतोल्लेखितशालभञ्जीः । निर्वर्णयत्सु प्रणयेन काश्चिस्त्रियो भवन्त्याश्रितमानलीलाः ॥ ४१ ॥ वेशान्तिकं रात्रिमुखे चलद्भिर्यत्रोच्चरन्ती प्रतिगेहमध्यात् । निशम्यते वारकलत्रगीतिर्वसन्तबन्धोविरुदावलीव ॥ ४२ ॥ १ संध्या. २ उपसंव्यानं वस्त्रम्. ३ आधोरणाः. ४ शोभते. ५ अगृहेषु. ६ पूतली इति प्र. ७ सामान्यानामाश्रयः. ८ स्तुतिविशेष एव विरुदभिधेयम्.

१० श्रीजयनगरपञ्चरङ्गे क्षौमेषु नक्तं निजकान्तिजैत्रैः संधित्सुरास्यैः सह सुन्दरीणाम् । प्रग्राहवत्प्राप्तुमधोगभस्तीन्यस्यां समुल्लम्बयते हिमांशुः ॥ ४३ ॥ यत्राऽधिसायं धनवद्गृहान्तर्ददह्यमानागुरुवर्तिकोत्थः । आकाशनीलिम्नि सदेक्ष्यमाणे निमित्ततां गच्छति धूम एव ॥ ४४ ॥ यद्गर्भगेहेषु नवाः सुधानां प्रलिप्तयो भान्ति सदा नितान्तम् । पौनिशेशस्य विधृत्य रात्रौ सर्वत्र कौमुद्य इवाह्नि कीर्णाः ॥ ४५ ॥ परःसहस्राः किल यत्र पद्याः पद्योपपद्याश्च चतुष्पथानाम् । शोभा समाविभ्रति भूरिशाखाः शाखोपशाखा इव पादपानाम् ॥ ४६ ॥ यच्छ्रेष्ठिनां दारुचतुष्कराजिः सदा विपण्यग्रवितिष्ठमाना । श्रीणां श्रयत्यन्तरुपागतानां विश्रान्तभूयिष्ठविमानशोभाम् ॥ ४७ ॥ एतादृशाः के निवसन्ति यस्यां शृङ्गारसंसिक्तहृदो युवानः । कुर्वन्ति गच्छद्वनितावपुष्षु नीराजनं ये न विलोचनानाम् ॥ ४८ ॥ विच्छन्दका यत्र बहूच्छ्रिताग्रा दुर्गोपरिष्टाद्विलसन्ति ते ते । कदा कदा वीक्ष्य वृर्षों विमानाद्यान्वष्टि निर्मापयितुं पुनः स्वः ॥ ४९ ॥ पुष्णन्ति विष्वक्पतयालवोभ्रे यद्ब्रह्मपुर्यां वसतां द्विजानाम् । यज्ञानलप्रोत्थितधूमवीथ्यो मन्दाकिनीशैवलखण्डशङ्काम् ॥ ५० ॥ सुसंभृते सर्वतरङ्गिणीभिः श्रीजहुकन्येव समुद्रमध्ये । नानापुरीपुञ्जसमन्वितेऽपि या भाति भिन्नैव जगत्यमुष्मिन् ॥ ११ ॥ प्रयान्ति यत्संसरणेषु सायं स्वैरं विहर्तुं कतिचिधुवानः । स्त्रियोऽपि कूपेष्वथ तत्र तत्र सखीभिरम्भोभरणच्छलेन ॥ १२ ॥ यद्वासिपुंसां त्रिदिवौकसां च लक्ष्मीर्मयाऽलक्षि विभिन्नरूपा । प्राप्त्यालयौ खल्वमुयोः समुद्राँमुद्रत्वविख्यातिमुपागतौ यत् ॥ १३ ॥ यस्यां च वंशीगतिगायिनां चेत्कृष्णः पुरोऽद्यावधि सोऽभविष्यत् । असूयया किं न मुधेतरीर्थ समाश्रयिष्यन्निजनामयोग्यम् ॥ १४ ॥ १ अट्टेषु. २ चतुस्तम्भमण्डपावली. ३ सौधविशेषाः. ४ इन्द्रः. ५ इच्छति. ६ तोप- खानाहजारीबुरजब्रह्मकूपइत्यादिषु. ७ देवलक्ष्म्याः समुद्रः प्राप्तिस्थानं यद्वासिनां लक्ष्म्याश्च अमुद्रा गृहाः प्राप्तिस्थानम्. ८ सत्यः कृष्णनामानुकूलश्चासावर्थश्च तम्. DATE INFERE द्वितीयो रङ्गः २ १.१ यच्छ्रेष्ठिकान्ताकबरीसुदृब्धमुक्ताफलश्रेणिसमत्वलब्ध्यै । कल्पदभैरुडुसंनिवेशमभ्यस्यतीव प्रतियामिनि द्यौः ॥ ५५ ॥ यूनां शिरोवेष्टनकानि यस्यां कूसकान्यजदृशां च नित्यम् । संदानकाले करकृष्टिरंहःसुदुस्सहत्वेन नवीभवन्ति ॥ १६ ॥ शृङ्गाटकस्थाः किल यत्र दीपा गृहावलीप्राङ्गणगाश्च पार्श्वे । सुदूरगामिस्वपुरुप्रकाशा व्यर्थत्वदोषं मिथआश्रयन्ते ॥ १७ ॥ आलोकनादेव कृतप्रहर्षान्सिद्धीभवत्सर्वविधित्सितार्थान् । स्त्रीयान् वयस्यानिव वीक्ष्य गेहाँस्तुष्यन्ति यत्रत्यजना अभीक्ष्णम् ॥१८॥ यस्यामरित्रं तरिपृष्ठकाष्ठं ग्रामस्य धान्यं हि तथा विनीतम् । ग्रीवान्त्यभागो हि तथाऽवटुंस्तु निःश्रेणिकैवास्त्यवरोहयुक्ता ॥ ५९॥ वाद्यं हि वादितया प्रसिद्धं यस्यां पुनर्नो विदुषां तु वृन्दम् । तथा प्रदोषस्तु निशास्यमेव न विद्यते कश्चन मानुषस्तु ॥ ६० ॥ असुन्दरं त्वायुधमेव यस्यामरातियुक्तश्च शताङ्ग एव । अनूरुरर्कस्य च सूत एव तथाग्निरेवास्ति किलाश्रयाशः ॥ ६१ ॥ असमाश्च यद्यपि मिथः पुरुषा विलसन्त्यहो किल तथापि समाः । दिवसानि यत्र च शुभानि तथा तिथिमन्ति सन्त्यतिथिमन्त्यपि हो ॥६२॥ यस्यां राजस्थाने विलोकितं किल मयैकमाश्चर्यम् । अधिकारिणामपि नृणां यन्नास्त्येवाधिकारित्वम् ॥ ६३ ॥ अहह कुलीनानामपि पुरुषाणां यत्र नो कुलीनत्वम् । अनुकारिणामपि मिथो नचानुकारित्वमस्ति तथा ॥ ६४ ॥ १ प्रकारैः. २ अरिरक्षकं. ३ अविभिर्मेषैर्नीतम्. ४ न वटुर्यत्र. ५ अवरः अश्रेष्ठ ऊहस्तकः. ६ वादिरक्षकतया. ७ प्रकुष्टा दोषा यस्मिन्, ८ असुंदणातीत्यसुंदरम्, ९ अरातिभिर्युक्तः. १० उरुरहितः. ११ आश्रयं स्वाधारमश्नाति सः. १२ भिन्नाः. १३ मा लक्ष्मीस्तयासहिताः. १४ प्रतिपत्प्रभृतयस्तिथयः. १५ अतिथयोऽभ्यागताः. १६ अधिकशत्रुमत्त्वम्. १७ कौ भुवि लीनत्वमपि. १८ अनुकानां कामिनां शत्रुत्वम्, श्रीजयनगरपञ्चरङ्गे अजिनप्रीतीनामपि नास्त्यजिनप्रीतिता यत्र । भूपतिबन्धुजनस्य च न महाकुलता महाकुलस्यापि ॥ ६५ ॥ यस्यां निवसन्तीनां वैचित्र्यं समवलोचितं स्त्रीणाम् । परमरुचिरता यासां यन्नास्त्यपि परमरुचिराणाम् ॥ ६६ ॥ यस्यां तापसँहत्वं हेम्न्येव पुनर्न राजपुरुषेषु । अनवरतोपार्जनमतिरस्ति वणिक्ष्वेव न तु युवसु ॥६७ ॥ ऋष्यप्रोक्ता तु यत्राऽस्ति शतावर्येव केवलम् । न पुनर्भूमिदेवानां कर्मकाण्डस्य पद्धतिः ॥ ६८ ॥ आराम एव विश्लेषो न पुनर्यत्र योषिताम् । विशाखश्च सुतः शम्भोर्न पुनः कश्चन द्रुमः ॥ ६९ ॥ यत्र दुग्धतडागस्य शङ्कया प्रांशुवेश्मसु । सुधालिप्तेषु वियतः प्रपतन्ति पतत्रिणः ॥ ७० ॥ कुण्डोपरितनचत्वरविहितस्थितिभिस्तु कैश्चिदपि । स्वास्खेव वृक्षु सकला सदा समावेश्यते सायम् ॥ ७१ ॥ मालाधराणामपंवृत्तिमप्यहो प्रकुर्वतां यत्र महीसुपर्वणाम् । मया तु कुत्राप्यपवृत्तिकर्तृता नाऽकर्णिता नत्ववलोकिता तथा ॥ ७२ ।। या शृङ्गाटकपर्यटत्पृथुरंथप्रध्यन्तरोच्चावच- व्याधूनोन्नतकिङ्किणीगणमहाप्रवाणगर्भा सदा । निःशेषाम्बरचक्रवालविपुलव्याघूर्णनप्रोद्यत- प्रावृण्मेघघटाभवत्सुमधुरध्वानानिवाभ्यस्यति ॥ ७३ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्ये रङ्गो द्वितीयोऽगात् ॥ ७४ ॥ १ जिनभिन्नप्रीतिता न. २ महाव्याकुलता. ३ परं अरुचिरता. ४ तापसान् हन्ति तद्भावम्. ५ अनवरतं नित्यं उपार्जनमतिः. ६ ऋषिभिरप्रोक्ता. ७ वीनां पक्षिणां श्लेषः. ८ विगताः शाखा यस्य. ९ परिवर्तनम्. १० कुत्सितवृत्तिकर्तृता. ११ द्वयोः प्रध्यो रथचक्रधारयोरन्तरे मध्ये. १२ किङ्कणयः क्षुद्घण्टिकाः.

तृतीयो रङ्गः ३ १३ ३ तृतीयो रङ्गः पूर्वैः श्रीजयपत्तनस्य पतिभिर्नाकौकसः प्रोत्सुकान् सर्वान्दयितुं स्वकीयनगरस्याभोगशोभा नवाम् । आकाशाभिमुखं महोन्नतमिदं मन्ये विनिर्मापितं वःशूलीत्यभिधानतः पृथुतरं निःश्रेणिकामण्डलम् ॥ १ ॥ वृद्धि प्राप्य पतन्नधः किमु वियद्गङ्गाप्रवाहो महा- किवा स्यन्दनविश्रमाय सवितुः स्तम्भः समुत्तम्भितः । मूर्धा वा नगरस्य किं त्रिजगतीं संद्रष्टुमुत्कन्धरः स्वःशूली समवेक्ष्य चेतसि चलत्येषा विकल्पावली ॥ २ ॥ जायेतागमनं विहायसि कथं नः क्ष्मातले तिष्ठतां विज्ञप्तिं रसिकैरुदञ्जलि कृतां श्रुत्वा विमानेष्विमाम् । स्वःशूल्याकृतिना निपातितमिदं शक्राप्सरोभिर्बुवं रश्मीनां निकुरम्बकं वसुमतीपर्यन्तमालम्बते ॥ ३ ॥ एकस्थानत एव लोकविदितास्ताँस्तान्दविष्ठानहो द्रष्टुं मधु पृथक्पृथक्किमु भुवः खण्डान्नवाऽपि त्रैमात् । स्वःशूल्यामिह चेक्रचारुरुचयः खण्डा नवैवात्मनो दाक्ष्यं व्यञ्जयितुं प्रजां जयपुरक्षोणीभुजा कारिताः ॥ ४ ॥ एषा विष्किरशब्दपूरितशिरःकुम्भोपरिप्रोच्चल- द्वाताभ्याहतकेतनस्य कपटात्स्वःशूलिकासद्मनः । उद्यम्याग्रकरं भृशं जयपुरी संतिष्ठमानां दिवि स्वामालीममरावती प्रणयतः क्षेमाणि किं पृच्छति ॥ ५ ॥ वाहानां निजवैरिणः सुरपतेः पाथोमुचामुच्चकै- रागत्योपरि गर्जतां चिरतरं दृष्ट्वावली प्रावृषि । १ ईश्वरीसिंहवर्मभिः. २ अस्तीह सुप्रसिद्धमेतन्नामकमष्टास्त्रं प्रांशुसौधं तत्. ३ अदि- व्यानां तहुर्लभत्वमिति भावः. ४ तेन प्रत्येकं खण्डानां महौनत्यं व्यज्यते.५ तस्य वर्तुल- त्वात्. ६ कपोतादयः पक्षिणः. ७ इन्द्रपुरीम्. ८ इन्द्रपुरीम्. ८ तुराषाण्मेघवाहनः. PHATTENT श्रीजयनगरपञ्चरङ्गे संक्रुद्धेन रसातलाधिपतिना मुक्तोऽस्त्यसौ कि शरः स्वःशूलीयमिति भ्रमं वितनुते चेतस्सु संपश्यताम् ॥ ६ ॥ प्राचीनं श्रितगिरिवृन्दशीर्षमम्बा- वत्याख्याप्रथिततरं वैनाभिरामम् । खावासं जयनगराधिदेवतेदं स्वःशूलीगृहमधिरुह्य पश्यतीव ॥ ७ ॥ नेदं नमः किंतु महाविशालं नीलं वितानं जयपत्तनीयम् । खःशूलिकेयं नहि किन्तु तस्य समाश्रितो मध्यमदण्ड एषः ॥ ८ ॥ उड्डीयमानान्प्रचुरान्कपोतान्संस्थापयन्ती शिखरे स्वकीये । स्वःशूल्यसौ राजमहाविटङ्कभ्रान्ति चिराच्चेतसि संचिनोति ॥ ९॥ यप्रियैः श्रीजयपत्तनेन्द्रेश्छत्रं महोच्छ्रायमिदं हयार्थम् । उत्तानितं किं निजमन्दुरान्तः स्वःशूलिकामित्यवलोक्य भाषे ॥ १० ॥ स्वःशूलिकाट्टालकतोरणानां स्तम्भेषु बद्धा वितताः पताकाः । वर्षाम्बुभृन्मण्डलजातझम्पाः शम्पा इवोच्चैः सततं स्फुरन्ति ॥ ११ ॥ किं विष्णुना वामनरूपभाजा मातुं पुनर्गा स्ववितस्तिरेषा । दीर्वीकृतेति भ्रममादधाति स्वःशूलिकेयं जयपत्तनस्था ॥ १२ ॥ स्वःशूलिकायाः समतीतदृग्गतेः कियत्यशेषोन्नततेति निश्चयम् । शृङ्गाटकान्तःप्रसृता दिवाऽधिकं छायाऽदसीयैव करोत्यधःस्थिता ॥१३॥ लिखितुं जयनगरनुतिं कारुभिरभ्युन्नतीकृता गगने । किमु लेखिनीव काचित्वःशूली परिलसत्येषा ॥ १४ ॥ अग्रावरोधयोगा श्रितनानाधातुरङ्गसांनिध्या । उपलसितसर्वभागा स्वःशूली शिखरसंनिभा भाति ॥ १५ ॥ १. एतेन सौधस्य दीर्घाकृतिरुच्यते. २ जलाभिराममपि तत्र सन्त्येव मावठो- रत्नाकरसागरकुण्डप्रभृतयो महाजलाशयाः. ३ तद्वासिपूर्वराजसन्ततिविशेषैरेव नगरस्य वासितत्वाद्युक्तएव तद्देवतायाः स आवासः. ४ चोभ इति प्र. ५ क्रीडाकपोताश्रयः, ६ एतेन सौधस्य राजनिशान्ताग्रस्थमन्दुरासीन्नि स्थितिरिति सूचितम्. ७ विद्युतः, ८ अमुच्या इयम्. ९ नास्ति ग्रावरोधयोगो यत्र तच्छिखरं अग्रे अवरोधयोगो यस्याः तृतीयो रङ्गः ३ नीचैः शिखरच्छदिषः सरघाछत्राणि सन्त्यमुष्या यत् । तस्मात्परिघाकारा सरघाशूलीयमन्वर्था ॥ १६ ॥ स्वःशूल्याः शिखरोपरि सकलकलो विलसितः कलानाथः । कलधौतस्य कलश इव कोऽपि समारोपितो भाति ॥ १७ ॥ दिवाधःप्रसृता बाढं छाया स्वःशूलिसद्मनः । विभाति राजसरणेरर्गलेवे क्षितिच्युता ॥ १८ ॥ इदं स्वःशूलिकादम्भाज्जयपत्तनभूभुजा । आकाशहर्म्य प्रोत्तुङ्गं कारितं सुविलक्षणम् ॥ १९ ॥ अस्मात्स्वःशूलिकाक्षौमादृश्यते जयपत्तनम् । चारु चित्रमिवाल्पिष्टं पत्रे संचित्रितं क्वचित् ॥ २० ॥ नानाविधोच्चावचशृङ्गवृन्दां दृष्ट्वाकृति मारुतमन्दिरस्य । उत्खातशृङ्गाः किमु सर्वशैलाः संजायते धीः क्षणमात्रमेषा ॥ २१ ॥ परःशता यज्जयपत्तनीयसमीरसौधे बहुकाचजाले । स्फूर्जन्ति सूर्या इदमेव चित्रं ते सन्ति खे द्वादश नेति किञ्चित् ॥२२॥ एतत्समीरसौधं छदि तिष्ठच्चटुलबहलकापोतम् । सततमिव चुम्ब्यमानं लसति सकलशिल्पिचेतोभिः ॥ २३ ॥ गन्धवहहर्म्यमेतत्सुवर्तुलं तुलितगोपुराकारम् । जयनगरशिल्पदेव्या भाति समुपवेशनोपधानमिव ॥ २४ ॥ सा स्वःशूली तथा श्रितं नाना गैरिकादिधातुरङ्गसांनिध्यं येन तथैव श्रितं नानाधा- स्थिततुरङ्गसांनिध्यं यया उपलैः सितो बद्धः सर्वभागो यस्य उपलसितः शोभितः सर्वभागो यस्या इति विभक्तिविपरिणामेन श्लेषगर्भितं स्वःशूलीगिरिशिखरयोः सादृश्यं सिद्धम्. १ मधुमक्षिकागृहास्ते च च्छत्राकृतयो भवन्ति. २ भाषायां लौकिक्या नामेदम्. ३ यद्यपि मार्गी अर्गला न संभवति तथापि संभावनायां चमत्काराय सास्ति, ४ सन्तीह हवामहल जलमहल बादलमहल इति सौधास्तस्मादाकाशमहल इत्यप्येतत्. ५ अत्यु- परिष्टादधो वस्तु सुसूक्ष्ममेव दृश्यते. ६ हवामहल इति प्रसिद्धस्य. ७ सूर्याः. ८ शिल्पि- चेतांसि यदर्थ वासनावशेन कपोतरूपं धृत्वा अतिसर्वसुन्दरे तत्र रमन्त इत्यर्थः, ९ यस्य गद्दीका तकिया इति प्रसिद्धिः.

६ श्रीजयनगरपञ्चरङ्गे विविधनतोन्नतशिखरोपरिस्थजाम्बूनदध्वजः स्फुरति । जालकगवाक्षपक्षकनिचितानः क्षितिपतेरनिलनिलयः ॥ २५ ॥ यस्यां त्रिपोलाह्वयगोपुरस्य कैरप्यवैषम्यमिदं न बुद्धम् । सिंहस्थितिर्यस्य यदेकतोऽस्ति तथैव सिंहस्थैितिरन्यतोऽपि ॥ २६ ॥ त्रैपोलपार्श्वयुग्मे नक्तं जयपुरि समुज्ज्वलद्दीपौ । राज्याधिदेवताया जाग्रत्या लोचने इवोल्लसतः ॥ २७ ॥ जयनगरे दुर्गोपरि विराजते कूर्मराजसौधोऽयम् । सकलप्रजागृहाणां राजेव गजेन्द्रमधिरूढः ॥ २८ ॥ पार्श्वद्वये ज्वलन्ती जयपुरि शृङ्गाटकेऽखिले रात्रौ । राजप्रदीपपतिवन्दनमालेव काचिदुल्लसति ॥ २९ ॥ वासुकिभवनभ्रमकृत्तालकटोराख्यसरसि यच्छाया । लसति नृपस्योपवने सौधं मेघप्रतिच्छन्दम् ॥ ३० ॥ सुदृढसुदर्शनंदुर्गे भान्ति नवीनानि राजसदनानि । इन्द्रविमानान्यभितस्तत्र स्थितभटविलुण्ठितानीव ॥ ३१ ॥ अम्बावत्यां पुर्यां महामहालम्बभित्तयो नृपतेः । विलसन्ति दुर्गसौधाः शिखरिण इव शिखरिणामुपरि ॥ ३२ ॥ अथो बहिर्गोपुरमस्ति तस्या मुख्यं परिच्छेदिषु कौतुकानाम् । दृङ्गिनिमेषीकरणस्य हेतुरुद्यानमेकं भवदम्बुसेकम् ॥ ३३ ॥ यत्र प्रभात स्थलपद्मकोशभवच्चटत्काररवैः प्रबुद्धाः । केदारिकोणां वलयेषु मालाकाराः प्रणालीः परिवर्तयन्ति ॥ ३४ ॥ मालाकृतः प्राकृतगानगाथाप्रोद्गायिनो यत्र चिरं प्रभाते । कर्षन्ति कुम्भानजिनस्य शब्दमय्येव रज्ज्वा प्रहिवृन्दमध्यात् ॥ ३५ ॥ १ खिडकी इति. प्र० २ अत्रतनमहाराजमाधवसिंहानां प्रासादेषु स्थितिविशिष्टं शुद्धान्नातिरिच्यते. ३ कच्छसंज्ञकक्षत्रियराजा तस्य प्रकृतस्य राज्ञ एवेत्यर्थः. ४ अस्त्ये- तदिह ग्राहगणसंकुलमेकं तत्सरः. ५ संज्ञाविशेष एषः. ६ यस्य नाहरगढ इ. प्र. ७ न- गरमध्यवर्णनान्ते. ८ प्रथमनिर्देश्यम्. ९ इयत्ताज्ञापकेषु. १० क्यारी इ. प्र. ११ धोरा इ. प्र. १२ गीतेश्चिरवेगत्वाच्छब्दमयी.

तृतीयो रङ्गः ३ १७ विकासवन्ति प्रतिभान्ति यस्य वापीषु सायाहनि कैरवाणि । अन्तर्भूतादभ्रकुचत्सुगन्धात्प्रसह्य मन्ये दरितोदराणि ॥ ३६ ॥ पदे पदे बम्भ्रमणस्य दम्भाद्रथाङ्गवद्यत्र निकुञ्जवाताः । च्युतानधस्तादिव पुष्पगन्धान्वोढुह्यमानानुपसंहरन्ति ॥ ३७ ॥ एकस्य कस्याप्यहहादिमस्य परस्परं संभवदीर्ण्ययेव । प्रायेण यन्मण्डपवल्लरीणां सुमानि सर्वाणि समं स्फुटन्ति ॥ ३८ ॥ एकत्र वासादिव यत्र बाढं नानाविधायाः स्वसमानजातेः । विभाति वीथिहरिता नितान्तं पृथ्वीरुहाणां च तथा लतानाम् ॥ ३९ ॥ कुण्डान्तराले किल यत्र संततं वार्यन्त्रधारापतनोद्भविष्णवः । विष्वक्प्रकीर्णा इव पुष्पकुड्ला लसन्ति सायाहनि नीरबुबुदाः ॥ ४० ॥ ईदृग्रूपस्तु मया नारामः क्वाऽपि वीक्षितो दृष्ट्या । यस्मिन्द्रुमकुसुमानां कुसुमत्वं त्वहह नास्त्येव ॥ ४ १ ॥ दर्पणो वनदेव्येवें स्थापितो मुखमीक्षितुम् । उद्यानमध्ये तदिदं भाति स्थिरजलं सरः ॥ ४२ ॥ धारायन्त्रोद्गतजलकणाट्टनस्रस्तचञ्च- न्नानाचित्रस्फुटितकुसुमाकीर्णपक्षप्रतीकाः । कुञ्ज पश्य क्षणमित इतश्चाटुचुङ्कारयन्तो न ज्ञायन्ते क्षणमिह हहा केचिदेते शकुन्ताः ॥ ४३ ॥ धारायन्त्रसमुत्पतिष्णुसलिलैराप्लावितं सर्वतः स्तम्भं पश्य वयस्य शिल्पबहले कुण्डेऽत्र गौराश्मनः । उच्चैर्बद्धकपर्दमध्यनिपतद्भागीरथीनापितः शम्भोर्देह इवाऽभिलग्नभसितः संभाव्यते यः सदा ॥ ४४ ॥ तत्राऽस्ति हर्म्य क्षितिपस्य सुन्दरं नवं च लोकोत्तरकारुनिर्मिति । सत्यं समस्ता अपि चित्रिताः सुरा बभूवुरासेचनकं निरीक्ष्य यत् ॥ ४५ ॥ १ दरणं दरः स संजातो यस्य तदुदरम्. २ उन्नीयमानान्, ३ हरितत्वमानन्दा- दप्युपचर्यते. ४ कुत्सितसुमत्वम्. ५ उत्प्रेक्षाव्यञ्जकोऽयमिवशब्दः. ६ अस्य स्तम्भे- न्वयः. ७ इदमप्युत्प्रेक्षासूचकम्. Hamaram श्रीजयनगरपञ्चरङ्गे यस्यैकमालोक्य नवीनमन्दिरं विश्वेषु कर्मस्वपि विश्वकर्मणः । विशिष्य विश्वासमहं तु जातुचिद्रजामि नो विस्मयकारिधर्मणा ॥ ४६ ॥ यदुपयुड्डयमानाः परितश्चिल्लाः क्वचित्क्वचित्समये । दिवि भान्तीव विमाना द्रष्टुमुपागच्छदमराणाम् ॥ ४७ ॥ आस्तां पार्श्वयुगोन्नतक्षितिधरव्यूहान्तरप्रोल्लस- त्पाथःसंभृतकुण्डकूपललितोद्यानावलीसंवृते । अस्माकं तु भवत्पुरस्थरसिकप्रत्यग्रगोष्ठयुत्सव- प्रोद्गायद्वरवर्णिनीमुखरिते घाटे विहारः सदा ॥ ४८ ॥ पीनाम्भोलीनमीनग्रहणरणरणन्मग्नकारण्डवाली- प्रोल्लुण्ठत्कण्ठनालीक्षणसमयमिलन्नीलराजीललीलः । आलिङ्गत्तुङ्गभङ्गस्थितिभवदमितस्फीतसोपानभान- भ्राम्यत्तीरस्थलोकः स्फुरति जयपुरे मानसाख्यस्तडागः ॥ ४९ ॥ आकाशप्रतिमामृषाध्यवसितस्फेयस्तलप्रोच्चल- स्कूर्मादिभ्रमवारणार्थविदितप्रोड्डीयमानप्लवः । वातान्दोलिततीरजाम्बवपृथुभ्रश्यत्फलोक्ताब्जिनी- वारंवारगतागतालिकुतुकधीरेष पद्माकरः ॥ ५० ॥ लोके दैण्ड्यः स भवति मुहुर्योऽपराधं विधत्ते चित्रं चित्रं बत जयपुरे नीतिरेषा न दृष्टा । १ यस्य राज्ञ उद्यानगतं नवीनमन्दिरमालोक्य विश्वकर्मणो विश्वेषु सर्वेषु कर्मसु अहं विस्मयकारिधर्मणा वैचित्र्यातिशयेन विस्मयकारित्वेन विश्वासं जातुचिद्विशिष्य न ब्रजामीति सौधसौन्दर्यवर्णनप्रकार:. २ पीनाम्भोलीनमीनानां ग्रहणार्थ रणरणन्ती सती जातिवाशितं कुर्वती सती मन्ना या जलकाकपतिस्तस्या जलान्तरेव प्रोल्लुण्ठन्ती कण्ठनाली तया क्षणसमयं यथा तथा मिलन्ती नीलजलसर्पलीला यत्र तथा आलिङ्गन्त आयान्तो ये तुङ्गा भङ्गास्तेषां स्थित्या भवत् अनन्तस्फीतसोपानभानं तेन भ्राम्यन् भ्रमं कुर्वन् तीरस्थलोको यत्र इति दीर्घः समासः. ३ आकाशप्रतिमया मृषा अध्यवसितं यत्स्फेयः तलं तत्र प्रोच्चलन्तो ये कूर्मादयस्तड्रमवारणार्थ विदिताः प्रोड्डीयमानाः प्लवाः यत्र तथा चातेन आन्दोलितानि यानि तीरस्थजम्बूभवानि पृथूनि भ्रश्यन्ति फलानि तदुक्ता- ब्जिनीषु वारंवारगतागतालीनां कुतुकश्रीयंत्र इति. ४ अर्थान्तरन्यासोपवलितेयं व्याज- निन्दा.

तृतीयो रङ्गः ३ १ ९ नित्यं गत्या नृपपथगतान्कुट्टिमान्खण्डयन्तो दण्ड्यन्ते नो यदिह गणशः संप्रयान्तस्तुरङ्गाः ॥५१॥ पर्याप्तं प्रतिपद्धति प्रतिगृहं दूरेऽन्तिकेऽपि क्वचि- दीव्य॑द्भिनिशि दीपकैः शबलितं सर्वत्र यस्यां तमः । उद्यत्तारकसंहतिद्युतिमिलन्नीलोदेरोल्लासितं नीचैः प्रस्खलितं समस्तमिव खं साश्चर्यमालोच्यते ॥ ५२ ॥ सामीप्यं परिपोषयन्निव मिथो दूरस्थितोऽपि भ्रमा- दाधारं व्यपलापयन्निव दृढस्तम्भाश्रितोऽपि स्फुटम् । द्रष्टुभ्यश्च निबोधयन्निव परिच्छिन्नोऽपि मानच्युति घण्टामार्गनिबद्धभूमिघटितो दीपव्रजः शोभते ॥ ५३ ॥ एतद्धन्यमितीव नाकपतिना रत्नानि वृष्टानि किं सर्वत्राऽथ नृपप्रतापशिखिनः स्फूर्जन्ति वार्चीषि किम् । राज्यश्रीतटिनीप्रवाहसलिले किं बुद्बुदा इत्यमी कुर्वन्ति भ्रमकल्पनां जयपुरे दीपावलीदीपकाः ॥ १४ ॥ वर्णं रजतं न चित्रमवटुीवान्त्यभागः पुन- नों कश्चिन्निलयस्तथा च पेंटहो भेरिन यस्यां बुधः । गुल्मिन्यश्च लताः स्त्रियो न समितिः संयन्न संपत्तथा सर्पा एव च पन्नगा न भृतका द्रुः पादपो नो जनः ॥ ५५ ॥ आस्ते हिङ्गुल एव यत्र दरंदः पुंसां न वेषः पुन- निर्णीतः किल सप्ततन्त्वभिधया यज्ञः पुन! पटः । दृष्टो वेश्मनि मूषकः पुनरधोगन्ता न कश्चिन्नरः सिद्धान्तः खलु शास्त्र एव न पुनः क्वाप्याश्रमे संश्रुतः ॥ ५६ ॥ १ पूर्णम्. २ ज्वलद्भिः. ३ उदरशब्देन मध्यं लक्ष्यम्. ४ कुत्सितवर्णम्. ५ पटं हन्तीति. ६ उदररोगयुताः. ७ मितिः प्रमाणं तत्सहिता. ८ पन्नं गलितं गच्छन्ति ते. ९ पादकरणकपानकर्ता. १० दरं भयं ददाति सः. ११ सिद्धानां साधुविशेषाणां अन्तः.

२० श्रीजयनगरपञ्चरङ्गे अत्यन्तोन्नतभूधरस्थितबृहदुर्गस्थकूर्मान्वय- क्षोणीनायकचक्रमस्तकमणेरग्रप्रदेशे स्थिता । वापीकूपतडागनिष्कुटवती या प्रांशुवप्रा पुरी पूर्णा सर्वजनैर्विराजति निजा पुत्री यथाग्रे पितुः ॥ ५७ ॥ अस्य श्रीजयपत्तनस्य सकलक्ष्मालोकचूडामणेः श्लाघेका महतीयमेव नितरामुत्कर्षसंदर्शिनी । आकाशोऽपि दिवा रवेनिशि विधोर्बिम्बस्य विभ्राम्यतः प्रच्छन्नेन मिषेण यस्य कुरुते नीराजनं नित्यशः ॥ ५८ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते। जयनगरपञ्चरङ्गे काव्ये रङ्गस्तृतीयोऽगात् ॥ ५९॥ चतुर्थो रङ्गः ४ हे शाङ्गिन्नरिपौरुषं कृतवता सत्कीर्तिराप्ता त्वया सख्यौ तन्वि वितन्वता ननु रुषं कीर्तिः कुतः प्राप्यते । प्राप्तो भूरि न यज्ञतां त्वमधुना मैवं मया यज्ञता प्राप्तैवेति रमां गिरा कुटिलया विष्णुर्जयन्नोऽवतु ॥ १ ॥ शैलाली तव गोपुराग्रधरणौ नृत्यं विधत्ते सदा श्रेणी सुभ्र धराभृतां विदधती नृत्यं त्वयोक्ता कथम् । हास्यं नेति कुरु प्रभो ननु कथं वक्त्रं कृतं हा मया पद्मां वक्रमिति ब्रुवन्दिशतु वः शक्रानुजः सत्क्रमम् ॥ २ ॥ अत्यागः क्रियते सदा बहुविधं विष्णो मदीयं त्वया सत्यं भीरु विधीयते हि भवदत्यागो मया नित्यदा । आश्चर्यान्वितमाददासि वचनं का तत्र चर्येक्षिता संपृच्छन्कमलां त्रिविक्रम इति त्राणं विदध्यात्तव ॥ ३ ॥ १ एतेन पुर्या राज्ञः प्रचुरं वात्सल्यमायातं भवति. २ आकाशं जयनगरस्य सूर्य- चन्द्रबिम्बाभ्यां नीराजनं करोतीत्युक्तेर्वैचित्र्य एव पर्यवसायः. ३ अरिषु पौरुषं. ४ शैलाली नटः. ५ अति आगोऽपराधः. ६ अत्र अक्षे अन्त्याच्चतुष्पटीगृहादग्रिमे गृहे धृते सति ज्ञता पाण्डित्यं ते मया ज्ञाता.

ट चतुर्थो रङ्गः ४ २१ धृतेऽग्रिमगृहेऽक्षे त्र ज्ञता ते मया मिथ्यैतद्वदसि प्रिये ननु मम क्षेत्रज्ञतैवाऽस्ति यत् । श्लेषान्द्वेश्यहमीदृशान्न च तदा त्वं वेत्सि तान्कीदृशां- लक्ष्मी मङ्गु विलक्षयन्निति मम स्तात्क्षान्तयेऽधोक्षजः ॥ ४ ॥ बद्धोऽस्त्येष मयाञ्जलिश्चिरतरं पद्मेऽनसूया भव स्त्री जायेय कदाचनाऽपि न मुनेरत्रेरहं तु प्रिय । दृष्टा त्वं भव भामिनी त्रिनयनस्त्री नाऽस्मि किं भाषसे वाग्बन्धादिति हेपितः कमलया शौरिर्मया मर्यते ॥ ५ ॥ शौरे के शपथास्त्वया प्रविहितास्तथ्याः प्रचक्ष्वाऽभव- न्केशानां सृतयो मयाऽद्य विहिताः सन्त्येव सत्या इमाः । वाक्चेष्टा तव वर्तते बहुविधा सत्यं ममेष्टा च वाक् पद्मामित्यनुमोदयन्विदलताद्वश्छद्म पद्मापतिः ॥ ६ ॥ प्रणम्य वाणी जयपत्तनीयनृपान्वयप्राक्तनपार्थिवानाम् । सिंहासनारोहणराज्यकृत्योविलिख्यते सामयिकं प्रमाणम् ॥ ७ ॥ बभूव राजा नृवराख्ययादौ यो वासयामास पुरीं स्वनाम्ना । तस्येश्वरीसिंह इति प्रसिद्धो वार्धक्यकालेऽजनि सूनुरेकः ॥ ८॥ श्रीसोढदेवमहाराजानाम् (४०) श्रीसोढदेवोऽस्य सुतो मनखी गुणाग्निनन्दोन्मितविक्रमाब्दे । घोसापुरे निर्जितचाहमानो व्योमाब्धिवर्षाणि चकार राज्यम् ॥ ९ ॥ ( ९७३) श्रीदुर्लभरायमहाराजानाम् श्रीमॉस्ततो दुर्लभरायनामा भूपस्त्रिसप्तग्रहहायनेऽभूत् । यो रोमदुर्गाह्वपुरे स्वराज्यमब्दस्त्रियस्त्रिंशतमाबभार ॥ १० ॥ १ वाच्यभेदेन भिन्ना यद्युगपद्भाषणस्पृशः श्लिष्यन्ति शब्दाः श्लेषोसाविति लक्षणल- क्षितशब्दानां भिन्नखरूपापहवान्. २ नरवर इ. प्र. ३ एतत्पूर्वकालनिर्णयो मया न लब्धः. ४ चोहबाणक्षत्रिय. ५ यस्य रामगढ इति प्रसिद्धिस्तत्रापि राजप्रासादाः सन्ति संप्रति वर्तमानमहाराजाः प्रायो मृगयार्थ तत्रैव सराज्ञीका विहरन्ते.

श्रीजयनगरपञ्चरङ्गे (१००६) श्रीकाकिलदेवमहाराजानाम् (१४॥) शास्त्राभ्रशून्येन्दुमितेऽथ वर्षे तदात्मजः काकिलदेवभूपः । सामन्तमेकं विनिहत्य दम्भादम्बावती तन्नगरी जहार ॥ ११ ॥ वरप्रदानाजमवायदेव्या जित्वा सपत्नान्निकटे तटिन्याः । बाणोद्भवाया अथ तत्र पुर्यां राज्यं व्यधात्सार्धचतुर्दशाब्दान् ॥ १२ ॥ (१०२१) श्रीहनूदेवमहाराजानाम् (३१) एकद्विखेन्दून्मितहायनेऽभूद्भपो हनूदेव इति प्रतापी । पृथ्वीगुणाब्दान्हतसर्वशत्रुः पितुः पदं यो बिभरांचकार ॥ १३ ॥ (१०५२) श्रीजाह्नवदेवमहाराजानाम् (२७) श्रीजाह्नवोऽजायत भूमिजानिः संवत्सरे नेत्रशराम्बरेन्दौ । निरर्गलं राज्यधुरां दधार वर्षाणि सप्ताधिकविंशति यः ॥ १४ ॥ (१०७९) श्रीयजनदेवमहाराजानाम् नन्दर्षिखेन्दुप्रमिते नृपोऽभूत्तदात्मजोऽब्दे यजनाभिधानः । यः पालयामास विनिर्जितारिः प्रजा निजा वेदगुणाब्दमानम् ॥ १५ ॥ (१११३) श्रीमलयसिंहमहाराजानाम् (५२) रामेन्दुभूचन्द्रमितेऽथ वर्षे राजाऽभवच्छ्रीमलयादिसिंहः । यो भैरैवोन्मोचितदारदोषश्चकार राज्यं नयनाशुगाब्दम् ॥ १६ ॥ (११६५) श्रीमदुज्ज्वलदेवमहाराजानाम् संजातवानुज्ज्वलदेवदेवः संवत्सरे बाणरसेन्दुचन्द्रे । निराकुलं पैतृकविष्टरं यस्तो समा रामगुणप्रमाणाः ॥ १७ ॥ (११९८) श्रीराजदेवमहाराजानाम् (३७) श्रीराजदेवोऽथ तदीयसूनुर्मातङ्गनन्देन्दुसुधांशुवर्षे । राज्येऽभिषिक्तः प्रकृतीः पुपोष त्रिंशत्समाः सप्त च नीतिवेत्ता ॥ १८ ॥ १ संज्ञानामेदम्. २ अम्बावत्यां पूर्व कश्चिद्भरवस्तत्रत्यराजवधूर्विवाहानन्तरं प्राक्त- यमुपभुते स्म तमेष राजा निजग्राहेति कथा वर्तते.

St चतुर्थो रङ्गः ४ (१२३५) श्रीकीलनसिंहमहाराजानाम् (५९) वाणाग्निनेत्रेन्दुमिते ततश्च वर्षेऽभवत्कीलनसिंहभूपः । राज्यश्रियं प्राज्यकृताज्यहोमो निधीषुवर्षाणि स संदधार ॥ १९ ॥ (१२९४) श्रीकुन्तलदेवमहाराजानाम् (४१) जज्ञे पुनः कुन्तलसिंहनामा वर्षे पयोराशिनवाक्षिचन्द्रे । वसुन्धरेशो विधुवेदसंवत्सरान्तमानन्दितवाँश्च पौरान् ॥ २० ॥ (१३३५) श्रीजवनसिंहमहाराजानाम् (४९) उत्पन्नवाञ्छ्रीजवनादिसिंहः शराग्निरामेन्दुमितेऽथ वर्षे । महीपतिर्लोकमपालयच्च यो मध्यमं नन्दयुगाब्दमानम् ॥ २१ ॥ (१३८४) श्रीमदुदयकर्णमहाराजानाम् (२२) तत्सूनुरासीदुदयादिकर्णः समुद्रवस्वग्निनिशाधिपाब्दे । उत्पाद्य पुत्रान्स गुणप्रमाणान्द्वाविंशतिं राज्यसमाः समाप ॥ २२ ॥ (१४०६) श्रीनरसिंहदेवमहाराजानाम् (४४) रसाभ्रवेदेन्दुशरद्यधत्त पट्टाभिषेकं नरसिंहदेवः । सरस्वदाम्नायमिते च वर्षे प्रशासितुं देवपुरीं प्रतस्थे ॥ २३ ॥ (१४५०) श्रीवनवीरसिंहमहाराजानाम् (२२) भूयो नृपः श्रीवनवीरसिंहः खबाणसिन्धुक्षितिवत्सरेऽभूत् । दृग्रोदसीसंमितहायनानि राज्यं विधायापरलोकमभ्येत् ॥ २४ ॥ ( १४७२) श्रीमदुद्धरणमहाराजानाम् (२३) अथो द्विशैलाम्बुधिभूसमायां राजा बभूवोद्धरणाभिधानः । आरामदृग्वत्सरमाधिपत्यं द्विजातिभाजा समधारि येन ॥ २५ ॥ (१४९५) श्रीचन्द्रसेनमहाराजानाम् (३८) पृषत्कनन्दाब्धिधराख्यवर्षे श्रीचन्द्रसेनोऽथ बभूव भूपः । प्रतापशाली द्विरदानलाब्दमर्यादमाशिश्रियदात्मसत्ताम् ॥ २६ ॥ १ मृत्युलोकम् श्रीजयनगरपञ्चरङ्गे (१००६) श्रीकाकिलदेवमहाराजानाम् (१४॥) शास्त्राभ्रशून्येन्दुमितेऽथ वर्षे तदात्मजः काकिलदेवभूपः । सामन्तमेकं विनिहत्य दम्भादम्बावती तन्नगरी जहार ॥ ११ ॥ वरप्रदानाजमवायदेव्या जित्वा सपत्नान्निकटे तटिन्याः । बाणोद्भवाया अथ तत्र पुर्यां राज्यं व्यधात्सार्धचतुर्दशाब्दान् ॥ १२ ॥ (१०२१) श्रीहनूदेवमहाराजानाम् (३१) एकद्विखेन्दून्मितहायनेऽभूद्भपो हनूदेव इति प्रतापी । पृथ्वीगुणाब्दान्हतसर्वशत्रुः पितुः पदं यो बिभरांचकार ॥ १३ ॥ (१०५२) श्रीजाह्नवदेवमहाराजानाम् (२७) श्रीजाह्नवोऽजायत भूमिजानिः संवत्सरे नेत्रशराम्बरेन्दौ । निरर्गलं राज्यधुरां दधार वर्षाणि सप्ताधिकविंशतिं यः ॥ १४ ॥ (१०७९) श्रीयजनदेवमहाराजानाम् नन्दर्षिखेन्दुप्रमिते नृपोऽभूत्तदात्मजोऽब्दे यजनाभिधानः । यः पालयामास विनिर्जितारिः प्रजा निजा वेदगुणाब्दमानम् ॥ १५ ॥ (१११३) श्रीमलयसिंहमहाराजानाम् (५२) रामेन्दुभूचन्द्रमितेऽथ वर्षे राजाऽभवच्छ्रीमलयादिसिंहः । यो भैरवोन्मोचितदारदोषश्चकार राज्यं नयनाशुगाब्दम् ॥ १६ ॥ (११६५) श्रीमदुज्ज्वलदेवमहाराजानाम् संजातवानुज्ज्वलदेवदेवः संवत्सरे बाणरसेन्दुचन्द्रे । निराकुलं पैतृकविष्टरं यस्तो समा रामगुणप्रमाणाः ॥ १७ ॥ (११९८) श्रीराजदेवमहाराजानाम् (३७) श्रीराजदेवोऽथ तदीयसूनुर्मातङ्गनन्देन्दुसुधांशुवर्षे । राज्येऽभिषिक्तः प्रकृतीः पुपोष त्रिंशत्समाः सप्त च नीतिवेत्ता ॥ १८ ॥ १ संज्ञानामेदम्. २ अम्बावत्यां पूर्व कश्चिद्भरवस्तत्रत्यराजवधूर्विवाहानन्तरं प्राक्स्व- यमुपभुते स्म तमेष राजा निजग्राहेति कथा वर्तते.

(४९) चतुर्थो रङ्गः ४ (१२३५) श्रीकीलनसिंहमहाराजानाम् (६९) वाणाग्निनेत्रेन्दुमिते ततश्च वर्षेऽभवत्कीलनसिंहभूपः । राज्यश्रियं प्राज्यकृताज्यहोमो निधीषुवर्षाणि स संदधार ॥ १९ ॥ (१२९४) श्रीकुन्तलदेवमहाराजानाम् जज्ञे पुनः कुन्तलसिंहनामा वर्षे पयोराशिनवाक्षिचन्द्रे । वसुन्धरेशो विधुवेदसंवत्सरान्तमानन्दितवाँश्च पौरान् ॥ २० ॥ ( १३३५) श्रीजवनसिंहमहाराजानाम् उत्पन्नवाञ्छ्रीजवनादिसिंहः शराग्निरामेन्दुमितेऽथ वर्षे । महीपतिर्लोकमपालयच्च यो मध्यमं नन्दयुगाब्दमानम् ॥ २१ ॥ (१३८४) श्रीमदुदयकर्णमहाराजानाम् (२२) तत्सूनुरासीदुदयादिकर्णः समुद्रवस्वग्निनिशाधिपाव्दे । उत्पाद्य पुत्रान्स गुणप्रमाणान्द्वाविंशतिं राज्यसमाः समाप ॥ २२ ॥ (१४०६) श्रीनरसिंहदेवमहाराजानाम् (४४) रसाभ्रवेदेन्दुशरद्यधत्त पट्टाभिषेकं नरसिंहदेवः । सरस्वदाम्नायमिते च वर्षे प्रशासितुं देवपुरीं प्रतस्थे ॥ २३ ॥ (१४५०) श्रीवनवीरसिंहमहाराजानाम् (२२) भूयो नृपः श्रीवनवीरसिंहः खबाणसिन्धुक्षितिवत्सरेऽभूत् । दृग्रोदसीसंमितहायनानि राज्यं विधायापरलोकमभ्येत् ॥ २४ ॥ ( १४७२) श्रीमदुद्धरणमहाराजानाम् अथो द्विशैलाम्बुधिभूसमायां राजा बभूवोद्धरणाभिधानः । आरामदृग्वत्सरमाधिपत्यं द्विजातिभाजा समधारि येन ॥ ९१ ।। (१४९५) श्रीचन्द्रसेनमहाराजानाम् पृषत्कनन्दाब्धिधराख्यवर्षे श्रीचन्द्रसेनोऽथ बभूव भूपः । प्रतापशाली द्विरदानलाब्दमर्यादमाशिश्रियदात्मसत्ताम् ॥ २६ ॥ १ मृत्युलोकम् २२ श्रीजयनगरपञ्चरङ्गे (१००६) श्रीपृथ्वीराजमहाराजानाम् (२५) शास्त्राभ्रशून्येन्दुमितेऽ पृथ्वीराजाख्यराजोऽजनि वत्सरेऽथ । सामन्तमेकं विनिहत्यपूजः स बाणनेत्राब्दमधिष्ठितोऽभूत् ॥ २७ ॥ वरप्रदानाजमवायदे श्रीपूर्णमल्लमहाराजानाम् (१६) बाणोद्भवाय नृपतिर्बभूव वस्वाशुगेषुक्षितिहायनेऽथ । वोडशाब्दं स विधाय राज्यं यथा तथा प्राप कथावशेषम् ॥ २८ ॥ (१५७४) श्रीभीमसिंहमहाराजानाम् (८) वेदर्षिबाणेन्दुमिते ततोब्दे भीमाभिधोऽजायत भूमिभर्ता । वोढाष्टवर्षावधिराज्यभारश्चकार यश्चक्रमणं द्युलोके ॥ २९ ॥ (१५८२) श्रीरत्नसिंहमहाराजानाम् (२२) नृपोऽभवत्तत्तनयोऽथ रत्नसिंहो दृगष्टाशुगभूमिवर्षे । आनेत्रहस्ताब्दमवाप्य राज्यमायुःप्रमाणं बत निर्णिनाय ॥ ३० ॥ (१६०४) श्रीमदाशाकर्णमहाराजानाम् (०) पुनश्च जातो धरणीभृदाशाकर्णोऽर्णवव्योमरसेन्दुवर्षे । रोगेण केनाऽपि स मासमात्रे संत्यक्तवान्संहननं स्वकीयम् ॥ ३१ ॥ (१६०४) श्रीभारमल्लमहाराजानाम् (२६) श्रीभारमल्लोनुदधे नृपत्वं श्रुत्यभ्रशास्त्रक्षितिसंमितेऽब्दे । षड्राविंशति राज्यमसौ विधाय वर्षाणि नाकाभिमुखो बभूव ॥ ३२ ॥ (१६३०) श्रीभगवद्दासमहाराजानाम् (१६) भूपो बभूवान्भगवत्पदादिदासो वियद्वन्हिरसक्षमाब्दे । आषोडशादं यवनेशशिष्या काश्मीरगन्ता स चकार राज्यम् ॥ ३३ ॥ (१६४६) श्रीमन्मानसिंहमहाराजानाम् (२४) रसाब्धिशास्त्रामृतरश्मिवर्षे वित्तोऽथ राजाऽजनि मानसिंहः । स म्लेच्छभूपध्वजिनीप्रशास्ता वेदाक्षिवर्ष जयति स्म वीरः ॥ ३४ ॥ १बादशाह इ. प्र.

चतुर्थो रङ्गः ४ २३ (१६७०) श्रीभावसिंहमहाराजानाम् (५९) व्योमर्षिशास्त्रेन्दुशरद्यभूद्राट् तज्ज्येष्ठपुत्रोऽथ च भाव। चम्वां स मिर्जोपपदं शकेन्द्रादवाप्य चक्रे च षडब्दरागर ॥ १९ ॥ (१६७६) श्रीमिर्जाजयसिंहमहाराजाना (४१) रसर्षिशास्त्रद्विजराजवर्षे मिर्जानृपोऽभूजयसिंहनामा । श्रीसेवकाख्यप्रतिभूपजेता जिजीव योऽभ्रश्रुतिसंवदन्तम् ॥ ३६ ॥ (१७१६) श्रीविष्णुसिंहमहाराजानाम् (१८) पट्टाभिषिक्तोऽजनि विष्णुसिंहस्ततो साभ्रर्षिरसाख्यवर्षे । अष्टादशाब्दावधि शान्तकष्टं यो म्लेच्छराजं पुरु संबभाज ॥ ३७ ।। (१७५४) श्रीसवाईजयसिंहमहाराजानाम् (४७) जज्ञे पुनः श्रीजयसिंहराजः समुद्रनाराचमुनिक्षमाब्दे । प्रागल्भ्यतुष्टाद्यवनेश्वराद्यो लेभे सवायीति पदं प्रशस्तम् ॥ ३८ ॥ अवासयद्यो जयपत्तनं च प्रागश्वमेधं सवनं विधाय । देशान्तरेभ्योऽहत लब्धवर्णान्विप्रान्सिषेवेऽधिकजीविकाभिः ॥ ३९ ॥ तत्तत्सदाचारकृतीः प्रचख्यौ नानानिबन्धान्निरमीमपञ्च । सर्वेष्ववतिष्ट यथावदित्थं चक्रे स राज्यं मुनिवर्णवर्षम् ॥ ४० ॥ (१८०१) श्रीमदीश्वरीसिंहमहाराजानाम् (७) अथेश्वरीसिंह इति स जातः पृथ्वीपतिः क्ष्माखवसुक्षमाब्दे । आसप्तवर्ष नृपतां वलम्ब्य भ्रातुर्भयाद्योऽभ्यगमत्कुमृत्युम् ॥ ४१ ।। (१८०८) श्रीमाधवसिंहमहाराजानाम् (१७) तदन्वभून्मांधवसिंहभूपो वर्षे वसुव्योमकरिक्षमाख्ये । राज्यश्रियं संश्रितवान् प्रगल्भः स्वैरं स शैलेन्दुसमं बलिष्ठः ॥ ४२ ॥ १ अत्र विशतिवर्षाणि यद्वर्धन्ते तनिर्णय नोविद्मः लोकास्तु कृष्णसिंहाख्यो राजा मध्ये- ऽजनीतिवदन्ति एवमग्रेपि रामसिंह निश्चये वर्षत्रयं वर्धते तस्यापि.२जयसिंहकल्पद्रुमप्रभृ- तीन्. ३ आत्मात्मघातम्. ४ एतैः सवाई माधोपुर इति खकीर्तये पुरमप्येकमिह वासितं त- जयपुराचत्वारिंशत्कोशमितं दूरमस्ति तत्र रणतभंवर इति प्रसिद्धोगणेशस्य दुर्गश्रेष्ठोऽस्ति. ३ २६ श्रीजयनगरपञ्चरङ्गे (१८२५) श्रीपृथ्वीसिंहमहाराजानाम् कुन्त्यात्मजद्विद्विपभूमितेऽन्दे पृथ्व्यादिसिंहो नृपतिर्बभूव । नवाब्दपर्यन्तमनात्मजो यश्चकार राज्यं मृगयानुरागी ॥ ४३ ॥ ( १८३४) श्रीप्रतापसिंहमहाराजानाम् (२४) चतुस्त्रिहस्तिक्षितिहायनेऽनु प्रतापसिंहः कविमौलिरत्नम् । श्रीताम्रवक्त्राधिपमानकारी चतुर्द्विवर्षाणि बुभोज राज्यम् ॥ ४४ ॥ (१८५८) श्रीजगत्सिहमहाराजानाम् (१५) नागाशुगाष्टक्षितिवत्सरेऽभूद्राजा जगत्सिंह इति व्यवायी। राज्यं स भूतावनिवर्षमानं प्रमत्तचित्तः सततं बभार ॥ ४५ ॥ (१८७३) श्रीजयसिंहमहाराजानाम् (१४) लोकर्षिनागावनिसंमितेऽब्दे जज्ञे नृपोऽन्वग्जयसिंहनामा । चतुर्दशाब्दावधि बालपुत्रः कार्य प्रजानामुररीचकार ॥ ४६ ॥ (१८९०) श्रीरामसिंहमहाराजानाम् अभ्रग्रहाष्टेन्दुशरद्यवाप श्रीरामसिंहः शिशुरेव राज्यम् । आशास्त्रवेदाब्दमनौरसो यश्चकार राज्यं मतिमत्तमायः ॥ ४७ ॥ ( १९३७) श्रीमन्माधवसिंहमहाराजाः सप्तत्रिनन्दक्षितिनाम्नि वर्षे राज्यं भजन्माधवसिंहसिंहः । सौभाग्यशाली महिषीप्रियोऽयं वर्वर्तु नित्यं मधुभित्प्रसादात् ॥ ४८ ॥ ज्ञेया तस्कररौहिषाश्चपलता संप्रत्यसौ मृत्यवे प्रत्यर्थिद्विरदाः पुनर्न भवतां क्षेमाय वृंहारवाः । १ अस्य राज्ञो व्रजभाषायां परःशताः कृतयोऽत्र समुपलभ्यन्ते. २ अंग्रेज सरकार इ. प्र. ३ दीर्घसूत्रोयमभूत्स्त्रीतन्त्रे. ४ अत्यन्तबुद्धिमानित्यर्थः. तत्तासूचकविशेष एव जी. सी. एस. आई. इत्युपाधिरप्यस्य फिरङ्गैरार्पितः. ५ द्वितीयसिंहशब्दः श्रेष्ठार्थकः, ६ राजीनां प्रियः. ७ कैश्चिदेकैः श्रीब्रह्मचारिभिर्गुरुभूतैरनुग्रहेण विश्राणितोयं श्रीगो- पालाख्यया मधुमिद्भगवान् मूर्तिधारी राधाराधितः श्रीकृष्णः स एतै राजभिर्निजसोधो- पान्त एव विराजितः पोपूज्यते. 8 पञ्चमो रङ्गः ५ रे कर्णेजपभल्लुकाः समुचितं नेदं वृथावल्गनम् यस्मान्माधवसिंह एष भजते स्वाभाविकोज्जृम्भणम् ॥ ४९ ॥ इलाश्रितोप्यस्त्यनिलाश्रितो यस्तथा बलाढ्योप्यबलाढ्य एषः । अनङ्गरागोऽपि नवाङ्गरागः श्रीमान्नृपो माधवसिंहवर्मा ॥ ५० ॥ श्रीगोपालपदाम्भोजभ्रमरीभूतमानसः । आशीभिः कविमल्लस्य क्रियाद्राज्यमसौ चिरम् ॥ ११ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्ये रङ्गश्चतुर्थोऽगात् ॥ ५२ द्विषां गणो रणे येन वीराग्र्येण समुद्धतः । खड्गाग्रेण गलाने द्राकरग्राहं समुद्धतः ॥ १ ॥ पञ्चमो रङ्गः ५ श्रीमाधवो नरपतिर्भगवत्कृपादृ- क्संप्राप्तसर्वविभवो जयपत्तनस्य । ध्यात्वा गुरुं सपदि गुर्जरनिर्जरेण प्रस्तूयते सुकविना हरिवल्लभेन ॥ १ ॥ श्रीराधिकारमणपूर्णकृपैकपात्रं पादोत्तरखपर्दैवीधरणप्रसिद्धः । राजावताभिधनरेन्द्रगणाग्रगण्यः श्रीमानयं जयति माधवसिंहदेवः ॥ २ ॥ वंश्यान्करोति विर्शदान्महिषीश्च चित्राँ रक्तान्मनीषिनिचयान्हरितः प्रजाश्च । नीलीकरोति च रिपून्सुहृदोऽथ पीता- न्यः सर्वरञ्जनंकृताविति कोप्यपूर्वः ॥ ३ ॥ १ इलायां भुवि लोकैराश्रितः. २ समुत्-हत-इति छेदोऽत्र. ३ द्रविडपञ्चकान्तर्ग- तगुर्जरजातीयविप्रेण. ४ सवायीतिप्र. ५ कश्चिच्छ्रेष्ठः क्षत्रियप्रभेदः. ६ स्वच्छान् श्वे- तांश्च. ७ गुणविस्मिताः कर्बुरिताश्च. ८ अनुरक्तान् शोणांश्च. ९ उपचारेण मुदिता हरिद्वर्णाश्च. १० उदस्तान् करोति कृष्णवर्णाश्च. ११ सादरमवलोकितान्पीतवर्णाश्च.

२८ श्रीजयनगरपञ्चरङ्गे दृष्ट्वैव यं निजजनोऽध्यवसायपूर्ण- स्तूर्णं तथा परजनः परिभूतभूतिः । सार्थोऽर्थिनां विगलिताखिलचित्तचिन्तः किं चाधिकं गुणिजनो भवति प्रसन्नः ॥ ४ ॥ ऊर्ध्वं विहायसि हिमद्युतितारकात्वं नीचैस्तथा भुजगभर्तरि कञ्चुकत्वम् । पार्श्वद्वये सलिलराशिषु मौक्तिकत्वं विष्वग्यता बत दधे यशसैवे यस्य ॥ ५ ॥ यस्य प्रतापदहनाऽसहनो देवीया- क्षिप्रं लभेत तपैनोपि स मुर्मुरत्वम् । अश्रान्तशीतलसमुच्छलदूमिवृन्दा मन्दाकिनी यदि भवेन्नहि संनिकृष्टा ॥ ६ ॥ यज्जैत्रयानपृथुतोपरवश्रवेण संत्रस्य तल्पतलतः स्खलितोम्बुराशौ । मत्स्यावतारसमये परिशीलितं स कृष्णः स्वकीयतरणं पुरु संस्तवीति ॥ ७ ॥ अचिविलोलरसनः परिमुक्तकोश- निर्मोककः कृतनितान्तभयः परेषाम् । स्पष्टं व्यनक्ति धृतपानविषो यदीयं दोर्वतिखड्गभुजगश्च नरेन्द्रभावम् ॥ ८ ॥ खात्यन्तदूरसमुपागतिजश्रमस्य प्रोत्तारणाय विजयश्रिय आश्रयन्ति । E १ उत्साहः. २ यद्यशोरूपाण्येव चन्द्रादीनि सर्वाणीति भावः. ३ अतएव अतिदूरः. ४ खयंतपतीत्येवम्भूतोऽपि. ५ ज्वालाखिन्नत्वम्. ६ अन्यथाऽद्य मयि मज्जिते महा- ननर्थोऽजनिष्यत इति. ७ अत्र यत्करगतः खड्गरूपो भुजगो राज्ञो नरेन्द्रत्वं जाङ्गुलि- कत्वं च व्यनक्ति तदर्थमचिरादीनां रसनादिभिः समं बोद्धव्योऽभेदः. ८ निरसनाय.

पञ्चमो रङ्गः ५ २९ संलग्नचन्दननवास्तरणातिरम्यं यस्योल्लसद्धृहदुरःस्थलतुङ्गतल्पम् ॥ ९ ॥ नीचैर्दिवः पुनरुपर्यवनेर्वसन्तः के सन्ति मर्त्यपतयोऽत्र विचेतसस्ते । पातालनाकविषयेप्यनिवर्तमानां यच्छासनां परिहरन्ति हि ये कुभाग्याः ॥ १० ॥ तान्खर्वशङ्गमकरायुतकच्छपादि- विख्यातिमन्नवनिधीस्तु कुबेरकोशान् । यस्याशु संत्रपयते सर एव ताह- ग्वृत्तं तदा किमिव कोशकदम्बकानाम् ।। ११ ॥ स्याद्यस्य कस्यचन शास्त्रसमाप्तिसंवि- कि चेश्वराभिलषितस्थितिनिश्चयोऽपि । सिद्धान्तधीरथ कविप्रतिभावधीनां शक्तः स एव भुवि यद्विभवं प्रवक्तुम् ॥ १२ ॥ हा नोऽन्तिकेऽद्य निवसन्ति पुरात्र के के साक्रन्दमित्यभिहिता गृहदेवताभिः । त्रासेन यस्य रिपवो वनयानकाले पश्यन्ति केवलमुदश्रु मुहूर्तमात्रम् ॥ १३ ॥ अत्यर्थमात्महृदयेऽनुभवन्यदीयं संग्रामशौर्यचरितं स यदाहिराजः । रोमाञ्चमेति सकलॉपघनेष्वकस्मा- ज्जाने तदा प्रभवति क्षितिकम्प एषः ॥ १४ ॥ १ ह्रखा ये शम्बूकास्तथा मकरा उपचारेणानन्ता ये कच्छपादयः कमठादय इति तद्विशिष्टं तु सर एव तथा तान्येतानि निधि विशेषनामान्यपि. २ शास्त्रसमाप्त्या- दीनामनिश्चये यद्विभवस्याप्यपरिच्छेद इति भावः. ३ पुरायोगे निवत्स्यन्तीतिकृत्वा व्याख्येयम्. ४ वैरिविध्वस्यमाना असमर्थाः पलायनमन्तरा वयं किं नाम कुर्याम इत्यर्थः. ५ सर्वेष्वङ्गेषु.

० श्रीजयनगरपञ्चरङ्गे तप्तान्स्वकास्तु परिशीतलयन्नितान्तं शीतान्पराँश्च किल तापयदञ्जसैव । एवं विचित्रनिजवृत्तिविचेष्टमानं तेजः सदा किमपि वर्षति यस्य वक्ते ॥ १५ ॥ यः स्वप्रजां शुभमतिः किल जीविकानां दानस्तथाऽभ्युपगमैर्विविधैः कराणाम् । प्रावृनिदाघसमये पयसां प्रवृष्ट्या कृष्टया रैविर्भुवमिव प्रबिभर्ति नित्यम् ॥ १६ ॥ निर्विघ्नमेष खलु पालयितुं समस्ताँ- ल्लोकान्क्षमोऽस्ति नृपतिः प्रसरत्प्रतापः । स्मृत्वेति किं मनसि माधवसिंहदेवं विश्वम्भरेण सुचिरं परिसुप्यतेऽब्धौ ॥ १७ ॥ आलम्ब्य यः सचिवपाणितलं स्वपीठा- दुच्चैर्भवन्प्रचुरशक्तियुतोऽपि नूनम् । विश्रान्तदेह इव कामपि सर्वलोक- धूर्धारणेन सुचिरं समुपैति शोभाम् ॥ १८ ॥ मुण्डानि वैरिनिकरस्य निजीय- खड्गधाराम्भसा बहलगौरवभाजि पूरे । पाण्यजसंदितरणद्रणकङ्कणेन संतारितानि सुचिरं कुतुकेन येन ॥ १९ ॥ अत्युच्चगोपुरशिरस्यगृहत्रिसंध्य- संताज्यमात्रविपुलोदरशालिभेर्यः । १ विवक्षया प्रकटतीत्यर्थकोयमकर्मकः. २ मासूल इ० प्र०. ३ रविहि प्रावृषि पयांसि वर्षति निदाघे च शोषयतीति पौराणिकाः. ४ विष्णुना शरदि समुद्रे मासचतु- ष्टयावधि योगनिद्रया सुप्यते प्रसिद्ध मिदं पुराणेषु. ५ राजरीतिरेषा तत्रेयमुत्प्रेक्षा. ६ शिरोभव उच्च इति यावत्. ७ तिसृणां संध्यानां समाहारस्त्रिसंध्यम्.

Hoina पञ्चमो रङ्गः ५ ३१ यद्धर्मकर्मकृतितुष्टसुपर्वनर्दि- भेरीभ्रमं प्रतिदिशं परिबिभ्रतेऽभ्रे ॥ २० ॥ पक्षे निजे प्रचलतामपि योऽन्तरङ्गः शोभां दधाति खलु चित्रमनन्तरङ्गः । कृत्यज्ञ इत्यपि च योऽखिलपौरवगैः संकीर्त्यतेऽहह तथापि परं कृतिज्ञः ॥ २१ ॥ यः प्रस्फुटं दधदपि द्वितयं पदस्य पौरेष्वनेकपदः इत्यभितः प्रसिद्धः । दोषावुभौ किल समाकलयन्महान्तौ निर्दोष इत्यहह नित्यमुदीक्ष्यते यः ॥ २२ ॥ आलक्षितोऽपि नितरामवरोधनैर्य- श्चित्रं चकास्ति कर एक धनैस्तथापि । आभाति यस्य च यथा किल सिन्धुरोध- स्स्थेष्टस्तथैव हह कीर्तिकदम्बकोऽपि ॥ २३ ॥ या बोभवत्प्रतिगृहोत्सववादिनाना- वादित्रघोषमुखरायितरोदसीका । तां मेखलायितबृहद्वृहदद्रिचक्रां खां भूरि निर्विशति यो नगरी समृद्धाम् ॥ २४ ॥ पर्याप्य भूमिवलयं सकलं क्रमेण इवाम्बरमाश्रयन्त्यः । यत्स्वच्छकीर्तय १ अन्तरङ्ग आत्मीयः । अनन्ता रङ्गा यस्य । कृत्यं जानातीति कृतेरज्ञश्चेतिविरोधः. २ अनेके पदो यस्येति विरोधः अनेकपान्हस्तिनो दत्त इति तत्परिहरणम् तथा दोषो उपगुणौ पाणी च. ३ अतिशयेन भवन. ४ रोदसी द्यावाभूमी. ५ एकपार्श्व विहाय सर्वतोऽस्याः पुर्याः सन्ति महान्तः पर्वता एतेन दुर्धर्षा सेति सूचितम्. ६ अवरोधनै- निशान्तैरालक्षितस्तथा धनैरवरइत्यालक्षितोपि धनैर्वरएवेति निशान्तार्थेनैव विरोधप- रिहारस्तथा यस्य सिन्धुरो हस्ती यथाऽधःस्थेष्टस्तथा यशोविशेषोपि सिन्धुरोधसि समुद्र- अतीरे स्थेष्ट: सन्नाभाति ।

३२ श्रीजयनगरपञ्चरङ्गे कासारवृन्दतटतो बिसकण्ठिकानां प्रोड्डीय यान्त्य उपरि प्रतिभान्ति वीथ्यः ॥ २५ ॥ उद्यन्नयं सुचिरमस्तु सुधागभस्ति- रास्तां च केसरियुवैष सदा प्रगर्जन् । दृष्टिप्रसादकृदसौ सवपुः स्मरोऽस्तु यं मागधा मुहुरिति ब्रुवते निरीक्ष्य ॥ २६ ॥ सामान्यमेव यदि भो वसुमत्यधीशं संमन्यसे कवनकारिषु यं वदान्यम् । तन्मे त्वमेकमपि चारु विचार्य तेन सब्रह्मचारिणमिहाधिधरं वदाऽन्यम् ॥ २७ ॥ येनाध्वना चलति यत्पृतना नगर्या नासीरतारतरसान्द्रनदन्मृदङ्गाः । नादानुसारधरणिप्रपतिष्णुपादाः प्रायो भटा इव भवन्ति नरास्तदीयाः ॥ २८ ॥ पर्याविलीकृतनभस्तटिनीपयाँसि यत्सैन्यसैन्धर्वखुरप्रसरद्रजांसि । शीघ्रं जवाद्विघटयन्ति समित्यमर्षा- क्रान्तारिबालविधवानयनाम्बुवर्षाः ॥ २९ ॥ स्निग्धच्छटापटलविच्छुरितः सुवृत्तः प्रोदामसंमदवशंवदसर्वनेत्रः । ढुण्डारभूनववधूपृथुभालबिम्ब- सिन्दूरसान्द्रतिलकश्रियमश्नुते यः ॥ ३० ॥ क्रुध्यद्विरोधिनृशिरोधिविकृत्तिकाल- संलग्नबन्धनसमुज्झितवक्त्रकैश्यम् । १ त्वं चारु विचार्य इह अधिधरं तेन राज्ञा सदृशमेकमपि मह्यमन्यं वदेति यो- जना. २ सैन्धवा अश्वाः. ३ क्रुध्यतां विरोधिनृणां शिरोधीनां कर्तनकाले संलग्नं ब- पञ्चमो रङ्गः ५ ३ विष्वक्तरङ्गततिदन्तुरयत्कृपाण- पानीयकप्रचलशैवलतामुपैति ॥ ३१ ॥ क्षिप्रं क्षणक्षपितपक्षविपक्षलक्ष- वक्षस्स्थलक्षयपतत्क्षतजैररूक्षान् । मध्येमृधं चकितगन्धगजेन्द्रशुण्डा- वार्भिनिनेजति यदीयभटाः खकुन्तान् ॥ ३२ ॥ यद्वीरपानविलसद्बलतूर्यशब्दा नो केवलं प्रियतमैः परिपन्थिभीरूः । किन्त्वादितेयपतिनाप्सरसः समस्ता- स्तं नारदं मुरजिता च वियोजयन्ति ॥ ३३ ॥ क्ष्वेडारवैः क्षितिपतिर्य उग्रवेगैः कर्णान् करोति बधिरान्युधि शात्रवाणाम् । वस्यापि किंच बधिरौ विदधाति कर्णा- वभ्यर्णवत्ति कविपुङ्गवसूक्तघोषैः ॥ ३४ ॥ स्तोकानुयायिपलधैमरसारमेया वल्गाविनिघ्नमुखयन्मृगयातुरङ्गाः । प्राप्तान्पथि प्रविकटानटानटव्या नेत्रैः समं विमिषतां द्रुतमुत्प्लवन्ते ॥ ३५ ॥ एकाकिनं प्रखरदंष्ट्रमुखातिघोरं सिंहं समीक्ष्य विपिने मृगमागतो यः । शस्त्रान्वितो विदितधर्मसमीकरीतिः खोपि प्रहर्तुमभियात्यसहाय एव ॥ ३६ ॥ न्धन ढाठा इ. प्र. तत्समुज्झितं मुखकेश डाढी इ. प्र, तद्वृन्दं यत्कृपाणपानीयके प्रच- लशैवलतामेतीत्यर्थः. १ प्रक्षालयन्ति. २ रणारम्भे भटैः संभूय यन्मियो मद्यं पीयते तद्वीरपानवाच्यम् । ३ मांसादनाः शिकारी कुत्ता इ. प्र. ४ गतॊन्. ५ समीकं युद्धं.

३४ श्रीजयनगरपञ्चरङ्गे दंष्ट्राभिघातिकरचालितवह्नियन्त्र- निगुटीवलयसंज्वलिताग्नितापैः । संमूर्छितान्किटिगणान्द्रवतः पुरस्ता- त्कृत्वा हिनस्ति बहुचित्रवधं वने यः ॥ ३७ ॥ बृंहारवान्विशिखपतिनिखन्यमान- गण्डस्थलीव्यथितकाननकुञ्जराणाम् । श्रुत्वा समुज्जितगुहा धुरि यस्य सिंहाः क्षिप्रं विनैव यतनं प्रकटीभवन्ति ॥ ३८ ॥ प्रासा यदेणकिरिकेसरिशृङ्गदंष्ट्रा- शश्वत्प्रपातवशतोऽतिशिता बभूवुः बाढं विधाय मृगयामिदमेकमेव लब्धं फलं वसुमतीदयितेन येन ॥ ३९ ॥ यः कोपि भूमिपतिरस्ति न किन्तु सिंहो दुर्गाणि हन्त नच तस्य हि गह्वराणि । तत्रारिकोशनिचिता नतु पद्मरागाः किन्त्वाहतद्विरदलोहितलिप्तमुक्ताः ॥ ४० ॥ द्वाहहदुपस्थितवहियन्ता नानास्त्रशस्त्रपरिशीलनदृप्तसैन्याः । दुर्गावलीः शिखरिमूर्द्धसु यस्य वीक्ष्य केषां द्विषां न हि रुंजन्ति चिरं शिरांसि ॥ ४१ ॥ शश्वच्चलाचलबलाश्वखुरस्थलोहै- खण्डोपलाभिहननोत्थशुचिस्फुलिङ्गाः । कुर्वन्ति यच्छिखरिदुर्गपथेषु पार्श्व- प्रांशुद्रुपतिपिहितेषु परं प्रकाशान् ॥ ४२ ॥ दुर्धर्षतानिबिडितानि यदीयदुर्गा- ण्युच्चोच्चसौधशिखरोच्चलकेतुकूटात् । १ गुटी गोली इ. प्र. २ वराहगणान्, ३ यस्य नाळ इ. प्र. ४ शुचिरनल:.

पञ्चमो रङ्गः ५ दूरान्निजाभिमुखसर्वविरोधिलोका- नङ्गुष्ठचेष्टितततीरिव दर्शयन्ति ॥ ४३ ॥ उष्णीषलग्नशुचिरत्नवतंसरत्नं पर्युल्लसत्तरुणिमारुणिमाङ्गरङ्गम् । सर्वातिशाय्यभिनवप्रणयप्रवीणा यं सर्वदा समुपगृहति राज्यलक्ष्मीः ॥ ४४ ॥ यस्य प्रकृष्टरुचिना वपुषा तदैव धिक्कृत्य मामिह जना बहु लजयेयुः । दृश्यं भवेद्यदि वपुर्ननु मामकीनं प्रागेव तन्निजवपुर्मदनेन मुक्तम् ॥ ४५ ॥ दृग्भ्यां निपीय यमुदञ्चितविभ्रमाभ्यां सोत्कण्ठमात्मफलके रजसा विहीने । नव्यानुरागभृतशोभनचित्ततूल्या काश्चिल्लिखन्ति ललनाः परिहृष्टगण्डाः ॥ ४६ ॥ नानाविधोन्नमदमन्दतरङ्गसंघे यद्भावरानघमुखच्छविनीरपूरे । कासांचन प्रपतदक्षिगणा वधूनां संबिभ्रते शफरशीफॅरयानलीलाम् ॥ ४७ ॥ सर्वा निशान्तवनिता नवयौवनोष्म- प्रस्वेदसंकुलनिराकुलकम्रकायाः । रागाम्बुपूर्णयदुरस्स्थलकुण्डमध्ये प्रोत्प्लुत्य मीलितदृशो विविधं तरन्ति ॥ ४८ ॥ कन्दर्पकोटिकमनीयकलेवरो यः पर्युन्मिषन्नववयः सुषमाविशेषात् । १ अधिकतरप्रथमप्रेमातुरेत्यर्थः. २ आत्मरूपं यत्फलकं तत्र. ३ तूली चित्रले- खिनी. ४ शीफरशब्द: सुन्दरार्थक इत्यत्र दशकुमारचरितं तयोः प्रावर्तत शीफरो रतिप्रवन्ध इति तदिह प्रमाणमूह्यम्. ५ बन्धविशेषैः.

श्रीजयनगरपञ्चरङ्गे IMPOE चथूषि मधु महिलानिवहस्य दूरा- त्सान्निध्यतश्च हृदयानि जरीहरीति ॥ ४९ ॥ तूर्ण विकस्वरमदा इव कर्णकंसै- रापीय यल्लपनसंलपनामृतौघम् । बाला मुहुः प्रपंतितोत्पतितस्तनास्य- वस्त्राञ्चलं विदधते विविधान्विलासान् ॥ ५० ॥ दोर्द्वन्द्वगूहितकपोलगलं च तत्त- त्संबुद्धिपूर्वककलोक्ति च लालयन्ति । प्रौढाः स्त्रियो रहसि काश्चन कामकेलि- कल्पक्रमातिकुशलं यमजस्रमारात् ॥ ११ ॥ आक्रीडमण्डपपथेषु चिरं यदीय- माजानुदीर्घबलवदृढबाहुदण्डम् । आलम्ब्य चारु विहरन्ति समिद्धरूप- ज्योत्स्नाकिरः प्रबलकाममन्दाधयोषाः ॥ १२ ॥ वैदग्ध्यसंवलिततत्तदशेषलीला- श्वाञ्चल्य संकुलदृशोभिनवा महिष्यः । सौधेषु यं सरसनर्मविशेषविज्ञ संस्नापयन्ति सततं स्मितसीकरौधैः ।। ५३ ॥ कासां न यद्वदनचन्द्रमुदीक्ष्य पूरा- नेत्रेषु रागपयसां निधयो लभन्ते । किं च त्रपाप्लवगणा अपि भूरिदीर्घाः कासां न तत्र सहसा परिबभ्रमन्ति ॥ १४ ॥ यं सर्वतः प्रमदकाननकेलिकुञ्ज- गर्भेषु दीर्घकदलीछदनान्धितेषु । १ कंसोऽस्त्री पानभाजनम्. २ प्रपतितं स्तनवस्त्रमुत्पतितं मुखवस्त्रमिति क्रमः. ३ दक्षिणहस्तेन गृहित आलिङ्गितः कण्ठस्तथा वामेन तेन कपोलौ तथेति लालनविशेषणे ऋमस्तास्ताः संबुद्धयश्च विद्वद्युवभिः खयमेव स्मर्तव्याः, ४ ह्रीरूपा नाव इति.

पञ्चमो रङ्गः ५ भ्राजिष्णुभूषणगणैर्मणिदीपिकाव- भोगिन्य आसवमदोत्तरला ललन्ति ॥ १५ ॥ नेत्राञ्चलैः पुरु निपीय पुरोत्सवेषु श्लिष्यन्ति यं हृदयनीतमिव स्थिराक्ष्यः । दोःस्वस्तिकीकरणगाढनिपीडितांसाः सीत्कारचारुमणिताः कतिचित्तरुण्यः ॥ ५६ ॥ अयि जयनगरीयक्षोणिपाल त्वदीया- द्रणविहरणकालात्प्राक्क्षणेऽन्तक्षणेऽपि । अहह सकलशत्रुव्रातसीमन्तिनीनां प्रभवति बत वक्षस्तारहारावलीढम् ॥ ५७ ॥ खड्गबन्धप्रार्थना संश्रितश्रीधवः श्रीमान्माधवः काव्यरंहसम् । संस्तुवानं स मां दद्यात्स्वाश्रयं प्रोत्कमानसम् ॥ १८ ॥ संशृणोत्वथ नानाधा मम काव्यं स्फुरद्रसम् । संघ शुचां संततं च धर्तुं हिंसितसंहसम् ॥ १९ ॥ श्रीकुन्दननन्दनहरिवल्लभकविमल्लपल्लविते । जयनगरपञ्चरङ्गे काव्येऽगात्पञ्चमो रङ्गः ॥ ६ ॥ आसीन्मे स पितामहस्तु नृपतेः श्रीविष्णुरामो भिष- क्तातः कुन्दनलाल इत्यतुलधीवॆद्यागमाध्यापकः । श्रीयुक्तो हरिवल्लभाख्यतनयस्तस्य द्वितीयस्त्वहं वाग्देवीवरिवस्ययास्मि कविताकर्मैकसर्वकषः ॥ १ ॥ शब्दानामनुशासनं पठितवान् पूर्वं पितुर्यः परं भ्रातुश्छान्दसकाव्यकोशसहितं स्वीयं च तद्वैद्यकम् । १.सीत्कारगर्भितं रतकूजनं यासां तथा सत्यः. २ रणप्राकाले पतिसत्वाद्वक्षस्तारा- बृहन्तो ये हारास्तैरवलीढं रणान्ते च पतीनामसत्वाद्धतेरिति यावत् तारा ये हा इति खेदसूचकाः रवाः शब्दास्तैरिति सभङ्गश्लेषः. ३ काव्ये वेगो यस्य. ४ खण्डयतु. ५ वैमात्रे- न्यस्य तस्यज्येष्टस्य कृष्णरामेति संहूतिः. EADMAALASS MATIN ३८ श्रीजयनगरपञ्चरङ्गे श्रीमन्मैथिलजीवनाथगुरुतः साहित्यशास्त्रं तथा भाईनाथगुरोश्च गौतममतं सोऽहं हरेवल्लभः ॥ २ ॥ चेयूयं हि बुधाः शृणुध्वमखिलाः श्रुत्वाऽन्यकाव्यान्यहो वक्त्रं शोथयुतं विधत्त सुतरां वाचंयमा नीचकैः । सत्यं ब्रूत तदाऽत्र के ननु मुदा युक्ता भविष्यन्त्यहो केवा दोषगुणान्वितं नु वचनं संव्याहरिष्यन्ति च ॥ ३ ॥ हरिवल्लभ इह सरलः सत्यं हरिवल्लभोऽस्ति सरलकृते । असरलकृते तु सत्यं तथैव खलु भल्लवरिहोऽस्ति ॥ ४ ॥ पुरुपाटवसंघट्टः सेवितसाहित्यसिन्धुचरमतटः । इह हरिवल्लभभट्टः सुन्दरसंस्कृतकवित्ववीरभटः ॥ ५ ॥ स्तुतजयपुरराजगुरुः संधूपितशम्भुसविधसाध्वगुरुः । एकोऽस्ति संश्रितगुरुर्द्विजहरिवल्लभकवित्वकारुगुरुः ॥ ६ ॥ गुरुभक्तिस्वबुद्धिभ्यां सिध्यत्सर्वमनोरथः । क्षणे क्षणे नवनवो वर्तते हरिवल्लभः ॥ ७ ॥ नास्तीदृक्पद्यमप्येकं कविमल्लप्रकल्पितम् । अल्पाऽनल्पाऽथ वा यत्र नैव काचिच्चमत्कृतिः ॥ ८ ॥ १ भल्वराः सन्ति येषां भल्लवरिणस्तान्हन्तीति.२ पर्वणीकरोपनामकमहारापनायणाः । श्रीमन्तो नारायणभट्टास्ते चास्माकं कुलगुरवः सन्ति. ३ अत्रैव तावत्सा दयते यथा यत्र का नाम चितां चमत्कृतिरल्पाऽनल्पा न अपित्वस्त्येव सातथा.

No text on this page.

Shri Jainagarpanchrangam

Title
Shri Jainagarpanchrangam
File name
Shri Jainagarpanchrangam
Text
OCR done
Publisher
Null
Language
Sanskrit
Pages
45
Library
Bharti Bhawan Library Allahabad
DLI number
274031
Barcode
5990010894373.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
72kqTac38sS
Download PDF

Shri Jainagarpanchrangam