Sanmati Library, Jaipur
Sanatanajaingranthamalaya (aaptamimansa)
Front matter
No text on this page.
श्रीपरमात्मने नमः।
सनातनजैनग्रंथमालायो
दशमांकः।
आचार्यवयं श्रीसमंतभद्रस्वामिविरचिता
७
आप्तमीमांसा
स्थाहादविद्यापतिश्रीविद्यानंदस्वामिविरचिता
८
प्रमाणपरीक्षा च।
न्यायशास्त्रिणा श्रीयुत-पंडितगजाधरलालजैनेन संपादिते ।
तेच
उस्मानाबादनिवासि-स्वर्गीय श्रेष्ठिवर्यगांधीकस्तूरचंद्रस्यात्मजवालचंद्रस्य सरणार्थ
काशीस्व-भारतीयजेनसिद्धांतप्रकाशिनीसंसाया व्यवस्थापन
श्रीपन्नालालजैनेन
माशीस्थ-कृष्णयंत्रालये चंद्रप्रभानामि यंत्रालये च प्रकाशिते ।
भीमरिनिर्वाणसंवत्सरः २४६७ मिटाग्दः १९१४
प्रथमसंरकरणं।
मस्याकस्य मूल्योको रुप्यकः।
PUBLISHED BY, PÂNDIT PANNALAL JAIN BAKALIWAL
SECRETARY BHARATIY-JÀIN SIDDHANT PRAKASHINI SANSTHA Benares City.
EKINDED BABABU GAURI SHANKER LAL MANAGER
CHANDRAPRABHA PRESS Benares City
39
प्रस्तावना आप्तमीमांसा .. .." AR- प्रत्यपत्सतः नामः वैफल्य पुरा : स्वपरहितांपादनाकुंचितशेभुषीनामाईतमतप्रवर्तकमानिनामाहतीने पुरस्तात् सविनयमपि. कृताभ्यर्थनाः श्रीमताममलतत्त्वस्वरूपावबुभुत्सूतामिवदांततया । परंतु नायवे ते जैनाः । प्रतियंति कतिपयास्तेष्वाहततत्त्वप्रवर्तनफलं समाविरंभावि तैस्तत्वरूपप्रकाशनाय सनातनजैन ग्रंथमालाभिधोऽनुपमनभाकरः । सयंतु-रसिकाः तत्स्वरूपसुधां नियूहतया सतिमिति समभ्यर्थनी । समुपानीयते अंथरत्नद्वयमिदमस्माभिरय श्रीमतां पुरस्तात् । आदिम समीमांसा वृत्वष्टशतीति विशदटीकाद्वितयविभूषिता । अपर-अमलप्रमाणस्वरूपावबोधिका प्रमाणपरीक्षा आदिमस्या प्रोता किल' ग्रंथरत्नस्य समजनि श्रीमत्वामिसमंतभद्रा समंतभद्रः । सर्वथा परहितप्राणहितारमाय महात्मा. कदा: भारतभूमिमम विभूषयामासात्मवैदुष्येणेति नास्ति किमपि निर्णायक गमकः। सांप्रतिकेतिवृत्तवेत्तृणां मतमिदमस्य पावनात्मानो विषये यदजनिष्टाय षष्ठीयों खीष्टशताब्दौ । संघपट्टावलीतश्च व्यज्ञायीदं समपद्यतायं सपादप्रथमायां शताब्दौ । कामयांचकार च. मसरप्रांतस्थकांची- पुरमवदातयात्मनीनवासेन । परं नोभयत्रापि समयनिर्णये प्रत्यायकं किमपि सुनिर्णेयं प्रमाण । किंतु नात्र संशीतिः प्रवादिमहीधराशनिनानेन मुनिना भवितव्यं नियतं प्रखरांवदुषा चिरंतनतमेन च . जतश्रुति- रप्येतद्विषयिणीयं- आसीस्किल विविधमतिमन्निकरपरिपालितनिदेशः शेमुषीमंथनमथितानक्तगमोदधिसमवाप्तानवद्यसुधी- परिपूरितस्वातः श्रीसमंतभद्रो भगवान् मुनिराद् । स चैकदा पुरा समुपातिनैकांशुभकर्मसंपातात् स पात्त- प्रखरभस्मन्याधिः कठिनतम मुनिवतं परिपालयितुमशक्नुवन् व्याधिपरिहरणाविया विमुच्य मुनिलिंग समियाय " वाराणस्यां । तदावे च वाराणस्यां कश्चित स्वप्रतापपराभूतविबुधपतिः शिवकोटिमहीपतिरासीत् सच परमशैवत्वात विनिर्माय कमपि शिवालयं समादिशत् बहुलसुरसमोदकादिसामग्या शिवमार्चयितुं । यदा . समंतभद्रः समश्रौषीत् बहुलया सामग्या शिवस्य पूजां तदाधिकं मनासि तुतोष । समेत्य च नरपतिशिवः कोटिपरिषदि, उपदर्य कमपि लोकेतरातिशयं, प्रपेदे शिवपूजकपद राजा-मेया। अक्षश्च सुरसपदार्थ : जातं शमयामास च स्वोदरव्याधि सानंद । कियता कालेन व्याधिस्तस्योपेशशाम । व्याध्युपशमे च कदाचि. पुनः शिवकोटिपरिषदि समागत्य, आविर्भाव्य च विचित्रातिशय स्वमंत्रवचनव्याहूतोष्टमंजिनचे प्रेम, चकार शिवकोटिमहीपतिं दिगंबरदीक्षादीक्षितं । भगवत्समंतभद्रः स्वध्याध्युपशमनकामनया वाराणसी- प्राप्तितः पूर्वमपि बहुत्र वभ्राम । अतो यदा शिवकोटिमहीपतिः खामिपरिचिकीषयां तदीयवृत्तमप्राक्षीतू तदा परिचायितः स पधेनामुना स्वामिना। कांच्या नग्नाटकोऽहं मलमलिनतनुर्लाबों पांडुपिंड पुंडेंड शक्यमिक्षुर्दशपुरनगरे मिष्टभोंजी परिवाटू वाराणस्यासंभूधै शम्बरधवला. पाण्डुरांगस्तपस्वी जिनं यस्यास्ति शक्तिः स वदतु पुरतो जननिर्मथवादी ।.।। नेमिनद्रवीणरावताराधनासारस्थ पयामिद मल्लिक्षणप्रशस्ती च समुल्लेखोऽयं स्वामिविषयक बंधो भस्मकभस्मसाकृतिपटु पद्मावतीदेवताः "दचोदात्तपदः स्वमत्रवचनव्याहूतप्रभ । " २ .. सनातनजैनग्रंथमालायां- आचार्यः स समंतभद्रगणभृद्येनेह काले कलौ जैनं वर्म समंतभद्रमभवद्भदं समंतान्मुहुः ॥ १॥ शिषकोटिनरपतिपुरस्तादात्मनीनपरिचयः---- पूर्व पाटलिपुत्रमध्यनगरे भेरी मया ताडिता पश्चीमालवसिंधुंढक्कविषये. कांचीपुरे वैदिशे। प्राप्तोऽहं करहाटकं बहुमटं विद्योत्कटं संकटं वादार्थी विचराम्यहं नरपते शार्दूलविक्रीडितं ॥ १ ॥. अवटुतटमटति झटिति स्फुटचटुवाचाटधूर्जटेर्जिह्वा वादिनि समंतभद्रे स्थितवति सति का कथान्येषां ॥२॥ यद्यपि परात्मनः किलैतस्य स्वामिनः न क्वापि दृष्टिपथमवतरति नियतसमयादिसमुल्लेखस्तथापि तस्कृतिव्यामुग्धप्रतिभैः प्रांशास्ययमनेकैगरीयोभिराचार्य:- नमः समंतभद्राय महते कविवेधसे यद्वचोबज्रपातेन निर्मिन्नाः कुमताद्रयः ॥ ४३ ।। कवीनां गमकानां च वादिनां वाग्मिनामपि यशःसामंतभद्रीयं मूर्ध्नि चूडामणीयते ॥ ४४ ॥ अमोघवर्षगुरुः, महापुराणकर्ता भगवविनसेनाचार्य: सरस्वतीस्वैरविहारभूमयः समंतभद्रप्रमुखा मुनीश्वराः । जयंति वाग्वजनिपातपाटितप्रतीपराद्धांतमहीध्रकोटयः ।। महाकविश्रीवादीभसिंह लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं ।। सज्ज्ञानैर्नययुक्तिमौक्तिकरसैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ।। श्रीवसुनंदिसैद्धांतिकचक्रवती समंतभद्रादिकवींद्रभावतां स्फुरति यत्रामलसूक्तिरश्मयः ब्रजति खद्योतवदेव हास्यतां न तत्र.किं ज्ञानलवोद्धता जनाः। श्रीज्ञानार्णवकर्ता श्रीशुभचंद्राचार्यः.. गुणान्विता निर्मलवृत्तिमौक्तिका नरोत्तमैः कंठविभूषणीकृता न हारयष्टिः परमेव दुर्लभाः समंतभद्रादिभवा च भारती । महाकविश्रीवारनंदी शिवकोटजैनत्वनिर्णायको वरीवर्ति सांप्रतमपि तन्निमितः प्राकृतभाषायां-भगवत्याराधनासारा: भिधः परमग्रंथः । विद्यते च तत्र मुनिधर्मसमुपवर्णना । शिवकोटिमहीपतिः कदा शशास भारतीवि- भूषितां वाराणसीमिति निश्चिती तु नियतं स्वामिसमंतभद्रसमयो निर्णीतःस्यात् । . समंतभद्राभिधयाऽपरोऽप्याचार्यः प्रतिश्नुतो वर्तते यस्य चिंतामणिव्याकरणस्य टिप्पणी, अष्टसहस्री विषमपदव्याख्येतिग्रंथद्वयमुपलभ्यते । यद्ययमपरः समंतभद्रः षष्ठतमायां शताब्दौ भवेद्विनिर्णीतस्तदा नं कापि क्षतिः । खामिसमंतभद्रनिर्मितग्रंथाः । गंधहरितमहाभाष्यं १ देवागमस्तोत्रं २ जिनसत्तालंकारः ३ .विजयधवलटीका ४ तत्त्वानुशासनं ६ युक्त्यनुशासनं ६ वृहत्स्वयंभूस्तोत्रं ७ जिनशतकामित्यादयः । .
३ ३ प्रस्तावना। देवागमस्तोत्रस्यैवापरामिधा-आप्तमीमांसा-नायं खायत्ततया विरचितो ग्रंथः किंतु गंधहस्तिमहा- भाष्यस्य मंगलाचरणं । भाष्यस्य चतुरशीतिसहस्रपरिमिता ८४००० श्लोकसंख्या । श्रीमदुमास्वामिशय- कुशेशयखचिततत्त्वार्थाधिगमसूत्रस्यो (मोक्षशास्त्रस्य) परिष्टात्तद्भाष्यं । दुर्भागधेयमेतदास्माकीनं यन्नो दृष्टिपथमायाति तत्सांप्रतं । एतस्याः किलाप्तमीमांसाया उपरि कृता सैद्धांतिकचक्रवर्तिना श्रीमद्वसुनंदिना पदवृत्तिः । विरचि- ता च श्रीमदकलंकदेवस्वामिना भाष्यभूताष्टशंती स्वातंत्र्येण कारिकाणामुपरि । विरचयामास चाष्टशत्युपरि- अष्टशतीनाम्नी विवृति श्रीमद्विद्यानंदिप्रभुः । भूमंमलं कदा मंडयायासात्मपाण्डित्येन श्रीमदकलंकदेवस्वामी ति तु समाविर्भावयामोवयं श्रीमत्तत्त्वार्थराजवार्तिकप्रस्तावनोल्लेखसमये । प्रभाविद्यानदिनस्तु व्यलेख्याप्तए- रीक्षाप्रस्तावनायामवदाततयास्माभिरितिवृत्त । प्रमाणपरीक्षा। अत्रांकेऽपरः प्रमाणपरीक्षाभिधोग्रंथः । रचयिता किलैतद्नंथरत्नस्य समजनि श्रीमद्विद्यानंदिप्रभुः मह-. चित्रमेतद्विरचयंतोऽप्यतलस्पर्शगभीरग्रंथमिमं श्रीमद्विद्यानंदाः न प्रकटयांचक्रिरे स्वनामविवृति कापि यशोलिप्सया तथापि- जयंति निर्जिताशेषसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः॥१॥ इत्यत्र जिनेश्वरविशेषणीभूतेन विद्यानंदपदेन- ७७ तमेपृष्ठे-तस्यानादेरेकस्येश्वरस्याप्सपरीक्षायामुपक्षिप्तवादिति वाक्ये आप्तपरीक्षापदो- ल्लेखेन-आप्तपरीक्षापत्रपरीक्षेतिग्रंथद्वयस्य समानकर्तृकत्वप्रतिभासकत्वात-अंत्यमंगले च विद्यापददानान्नि- यतं विज्ञायतेऽस्माभिरयमेव श्रीविद्यानंदप्रभुः प्रमाणपरीक्षायाः कर्ता । ग्रंथसंपादनसमये भष्टशत्याः पुस्तकद्वयं मया मोहमयीतः समुपलब्धं तत्र क. पुस्तकस्य शुद्धतरवेपि ख. पुस्तकमतीवाशुद्धमासीत् । ततोऽन्वभूवं वहलं कष्टं कठिनतमाप्तमीमांसाग्रंथसंपादनकाले । प्रमाणपरीक्षायाः क. पुस्तकं जैनहितैपिसंपादकश्रीमत्पंडितनाथूरामजीमहानुभावैः- ख. पुस्तकं च स्याद्वादमहाविद्यालयप्रधानाध्यापकैः श्रीमत्पंडित-उपरावसिंहजीमहोदयैः प्रहितमिति विहितानुग्रहोऽस्म्युक्तविदुषोः । यदपि पंडितंमन्याधुनिकलेखकतदनुयायिमहोदयानुकंपया प्रमाणपरीक्षायाः पुस्तकद्वयमप्यतीवाशुद्धं तदपि-एकतः संजातशंकाया अपरतः समाधानात् समपादि महता प्रयासेनेयं प्रमाणपरीक्षा । तथापि प्रमत्तयोगादजनिष्ट कापि स्खलनं मामकीनं क्षमयंतु तदशक्यपरिमार्जनस्खलन साक्षरवरा इति सनतिमभ्यर्थना । लेखकादिमहानुभावकरकमलखचितग्रंथमाहात्म्यात्-असामयिक वैकल्यतश्च विनिचाय्य कुतोऽपि मामकीनं स्खलनं कठिनतमसंपादनकृत्यानुभवबहिर्भूतत्वात् वेधयंति केचित्स्वरतरकुवचनसायकैः संपादकं । शिक्षयितृत्वे तेषामनुगृहीतोऽस्मि । मियमित्रवर देवराज ! पठिण्यामीति तावकाग्रहपशवदतया महतायासेन संपादितापीयं प्रमाण परीक्षा असामयिकभवन्निधनतो दुनोति मामकीनं मनो बहलतया । अवदातहृदय ! न तावकीनोपकारविनिमये किमपि मत्पार्चे समीचीनं वस्तु येन विगतोपकार- भारः स्या-ततस्त्वद्गुणस्मृतिसमीहया समर्पयामि तव करकमलयोः श्रीप्रमाणपरीक्षामिमां सविनयं- एहि परमनिश्रेयसं त्वमिति मे कामना । विद्वत्कृपाभिलाषी गजाधरलाल : * सनातनजैनग्रंथमालायां NATOON- . २ ३ .... ... पृ.सं. गा.सं. स्तुतिविषयसाध्यकदेवागमादिहेतोय॑भि- चारित्वोपाख्यान पूरणादिश्वसंभविबहिरंतरंगमहोदयहेतुरपि . व्यभिचारीति प्रतिपादनं २ तीर्थकरत्वहेतोरनैकांतिकत्वस्य सर्वासर्वज्ञत्व- स्य च समुल्लेखः ..२ स्तुतिविषयत्वसाध्यतायां सुपुष्कल हेतूपादानं ३ सर्वज्ञत्वसाधने प्रमाणोपन्यासः, ४ ५ जिनपतिरेव सर्वज्ञो नान्योयुक्तिशास्त्रा- विरोधिवाक्त्वादिति विवरणं खेष्टस्य प्रत्यक्षेण बाधितत्वान्न परे सर्वज्ञा इति विवृतिः खेष्टस्य खेष्टेन वाधा प्रदर्य परसर्वज्ञत्वाभावोपादानं ८ सर्वथा भावैकांताभ्युपगमे दूषणोप- न्यासः ८ ९ केऽभावाः! कियंतोवा ? कान्यनाद्यनं- तानि कस्मादभावास्कि स्यादिति प्रतिपादन- ८ १० अन्योन्यायंताभावस्वरूप- स्तस्वीकारफलं च अभावकातेऽपि कुशलाकुशलादि- कर्मानुपपत्तिरिति विवरणं १० १२ भावाभावोभयकांतवादिनामपि न कापि निष्पत्तिरिति विवेचनं- .... ११ १३ एकांतेन यदि सर्वथा सदसदुभयावक्तव्य- रूपं तत्त्वं नास्ति कुतस्तदिति सदा- दीनां वास्तविकखरूपाख्यानं . १२ १४ अनेकांतेनाभ्युपगततस्वरूपादीनां विशेष विवरण-अनवस्थादूषणपरिहरणं च-१३ १५ पृ.सं. गा.सं. स्यादस्ति चावक्तव्यत्वाद्युत्तरभंगस्वरूप- निरूपणं अस्तित्वादिधर्माणामेकस्मिन्नधिकरणेऽवि- रोधेनोल्लेखः १४-१५ १७-१८-१९ अंत्यत्रिधर्माणामविरोधेनकत्रावस्थान- प्रदर्शन एकांततत्त्वनिराकरणं १६ २१ स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वभंगाना- ग्रहणे किमर्थं शेषभंगोपादानमिति समाहितिः स्यादेकत्वानेकत्वसप्तभंगीद्योतनं । १७ २३ द्वितीयः परिच्छेदः अद्वैतैकांतनिराकरणं १८ . २४-२५.. प्रमाणादद्वैतनिराकरणं १८ २६ अद्वैतं द्वैताविनाभावीति विवरणं १८ - २७ सर्वथा द्वैतैकाताभ्युपगमे दोषोद्भावनं १९ २८ द्वैतैकांतविशेषमायासु क्षणिकैकांत- कदर्थन १९. २९ भंग्यंतरेण पुनतकांतखंडन २० ३० गौणतया सामान्यमभ्युपगच्छता पुरस्तात्सामान्यसंसिद्धिः २. ३१. द्वैताद्वैतोभयकांतनिराकरणं :२१ . ३२ सामान्यविशेषयोः सापेक्षत्वेऽर्थ- क्रियासमर्थन .... २१ ३३ भेदाभेदयोः संघटनव्यवस्था केषांचिद्विद्यमानस्याविवक्षाऽविद्यमानस्यैव विवक्षा, अन्येषां वैयाकरणानां विद्य- -मानस्यैव विवक्षा नाविद्यमानस्येति । अपरेषां विवक्षैव नास्तीति खंडनपुर- स्सरं तात्त्विकविवक्षाख्यापनं २२ ३६ संवृतिकल्पितभेदाभेदजनितदुर्वासनां निहत्य .
२ ... ... .... ... २५ ४३ विषयानुक्रमणिका । पृ.सं. गा.सं. पृ.सं. गा.सं. तात्त्विकभेदाभेदव्यवस्थोपादानं २२ ३६ प्रतिपादन ३२-६४६५-६६ तृतीयः परिच्छेदः परमाणूनामेकांतेनान्यत्वाभ्युपगमे- नित्यत्वकांतनिराकरणं २२ ३७ दोपोपन्यासः ३२-३३ ६७-६८-६९ नित्यत्वैकतिपक्षाभ्युपगमायाभिमत सर्वावयवावयविन्यतिरेकान्यतिरेकपक्षे व्यंग्यव्यंजकभावे दूषणं दूपणोद्भावनं २२ ३८ द्रव्यपर्याययोरभेदप्रकारः नित्यत्वैकांतपक्षे परिणामदौर्घ- द्रव्यपर्यायोमेंदप्रकारः ३४ ७२ व्योपदेशः २३ ३९ पंचमः परिच्छेदः सांख्यमते बंधमोक्षाभावप्रतिपादनपुरस्सर अपेक्षानपेक्षयोः पार्थक्यनैकांताभ्युप- माहतसिद्धांते तयोः सत्त्व- गमे दोषोल्लेखः प्रातिपादनं २३ ४० अपेक्षानपेक्षयोरुभयैकांतपक्षे दूषणं ३५ ७४ क्षणिकैकांतपक्षे दूपणोद्भावन.... २३ ४१ तयोरनेकांतवसमर्थन ३५ ७५ असत्कार्यवादप्रतिषेधः २४. ४२ पष्टः परिच्छेदा क्षणिकैकांतपक्षे हेतुफलादीनाम- सर्वथा सर्वेषां वस्तूनां हैतोरागमाञ्च सिद्धौ संभवप्रतिपादनं दोपोपन्यासः ३५ ७६ संतानकल्पनेन तस्य संवृतित्वे सर्वथोभरकांते दूषणं ३५ ७७ दोपोद्भावनं २५ ४४ उभयोरनेकांतनिरूपण .... ३६ ७८ संतानतद्वतोवाच्यत्वाभ्युपगमे सप्तमः परिच्छेद दोषोपन्यासः २६ ४५-४६ अंतस्तत्त्वस्यैव तत्त्वले दुषणप्रति- अवाच्यत्वाभ्युपगमे प्रतिपेध. पादनं ३६ ७९ स्यापि दौर्घव्यं २६ ४७-४८ ज्ञानाद्वैतवादिनं प्रति दोपाविर्भावः ३७ ८० सर्वथावक्तव्यवादिनं प्रत्युपालंभः२७ ४९-५० सर्वथा वहिरंगतत्त्वाभ्युपगमे दोषो- क्षणिकैकांते हिंसा बंधमोक्षादयश्च न पन्यासः संघटते इति विवरणं २७ ५१ बहिरंतोभयेकाते दूषणं ३८ ८२ क्षणिकैकांतयादिवचनविरोधोल्लेखः २८ ५२ भाव एव तत्त्वं नाभाव इति मतस्य विभागार्थ निमित्ताभ्युपगमेऽपि दूष- निराकरणं ३८ ८३ जालेखः ... २८ ५३ अनुमानप्रणाल्या बाह्यार्थसिद्धिः ३८ ८४ क्षणिकैकांतपक्षे-उत्पादादीनामसंभवो- सिद्धसाधनतापरिहारपुरस्सरं पदेशः २८ ५४ बाह्यार्थप्रकटीकणं ३९ ८५ नित्यत्वानित्यत्वोभर्यकांतपक्षे. दूषणं २९ ५५ पुनरपि बाह्यार्थप्रतिपादन ३९ ८६ अनेकांतसमर्थन २९-३० ५६-५७ वाह्यार्थे सत्येव प्रमाणाप्रमाणव्यवस्थेति एकत्रोत्पादव्यययोर्विरोधव्यवस्था ३० ५८ प्रतिपादनं लौकिकदृष्टांतेन, उत्पादन्ययध्रौव्य अष्टमः परिच्छेद परिणामविरोध प्रदर्शनं ३० ५९-६० दैवादेवार्थसिद्धिस्वीकारे दोषाख्यानं ४० ८९ चतुर्थः परिच्छेदः पौरुषादेवार्थसिद्ध्यभ्युपगमे दूषण- प्रतिपादनं. ४० ८९ गुणिगुणकार्यकारणादीनां भेदाभ्यु- पगमे दोषोपन्यासः ३१ ६१-६२-६३ सर्वथा दैवपौरुषोभयकांताभ्युपगमे ४१.९० दूषणं समवायादिसंबंधाभ्युपगमे दूषण .... , ३ पृ.सं. गा.सं. - ... दशम परिच्छेदः .... .... सनातनजैनग्रंथमालाया- पृ.सं. गा.सं. अर्थसिद्धास्तविककारणोपादनं ११ ९१ सम्यग्ज्ञानस्य निर्दोषतया प्रमा- नवमः परिच्छेदः णत्यनिर्वाचन परदुःखे कृते पापं तत्सुखे पुण्यं स्वदुः- सम्याज्ञानत्य स्वार्थव्यवसाया- खात्पुण्यं परदुःखाल्पापमिति मत- स्मकत्वसमर्थन निराकरणं ४१-४२ ९२-९३ स्वार्थव्यवसायात्मकत्वसाध्यसाधनसम्यग्ज्ञा- उभयकांताभ्युपगमे दूषणं नत्वहतोरप्रयोजकत्वनिराकृतिः ५६ ३५ सुखासुखसत्त्वप्रकारः ४२ ९५ बाह्यपदार्थसमर्थन- ५७ १५ सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यव- सर्वमज्ञानाइंधने स्तोकज्ञानान्मोक्षले सायात्मकमिति मतनिराकरणं ५८ ३२ दोषोपन्यासः ४२ ९६ अर्थज्ञानस्य ज्ञानांतरवेद्यत्वमभ्युपगम्य उभयेकांत दूषणं ४३ . ९७ स्वार्थव्यवसायात्मकलप्रतीतर्वाधो- वास्तविकी बंधमोक्षव्यवस्था ४३ ९८ पपत्तौ निराकरणं ईश्वरप्रेरणान्मोक्ष इति निराकरणं, परोक्षत्वहेतुना स्वार्थव्यवसायात्मकत्यप्रतीती कामादीनां कर्मणां च वैचित्र्यम- वाधोपन्यासे समाहितिः नादीति द्योतनं वा ४३ ९९ अचेतनस्वहेतुना ज्ञानस्य स्वव्यव- शुद्ध्यशुद्धिस्वरूपप्रतिपादन सायात्मकत्वबाधने दोषोपन्यासः ६१ ३१ प्रमाणतत्तनिरूपणं ४४ १०१ प्रमाणतत्त्वस्य सर्वथा निषेधकत्वे दो- प्रमाणफलोपदर्शन ४५ १०२ पोपन्यासायं स्याद्वादाख्यपदार्थसाधनसमर्थनं ४११०३-१०४ प्रमाणभेदप्रलपणं स्याद्वादकेवलज्ञानयोः कथंचित्सामा- एकांतेनाभ्युपगतैकद्वित्रिचतुःपंच- न्यनिदर्शनं षट्प्रमाणवादिनां प्रमाणसंख्या नयस्वरूपाख्यानं ४७ १०६ विघटन नयविषयद्रव्यस्वरूपाख्यानं ४७ १०७ तर्कास्यप्रमाणस्य सिद्धिः नयानां सापेक्षत्वनिरपेक्षते साफल्य- प्रत्यक्षस्य विशदज्ञानलसमर्थन १७ २८ वैफल्यप्रदर्शनं ४७-४८ १०८-१०९ इंद्रियानींद्रियातींद्रियभेदात्प्रत्यक्षस्य वाक् अस्तित्वनास्तित्वरूपद्विविषया त्रैविध्यं न भवतीति सिद्धांतनिराकरणं ४८ ११० स्वसंवेदनाख्यचतुर्थप्रत्यक्षस्य निषेधः ६८ १८ बचोलक्षणाख्यानं ४८ १११ इंद्रियप्रत्यक्षविवरणं सामान्यमेव वाचोऽर्थः इति मतस्य स्मृत्यादिपरोक्षप्रमाणनिरूपणं कदर्थनप्ररूपणं .... ४९ ११२ स्मृतिप्रमाणनिरूपणं स्थाद्वादस्वरूपाख्यानं ४९ ११३ प्रत्यभिज्ञानस्वरूपवर्णनं शस्त्रोपसंहारकारिका ४९ ११४ असमंगलं अनुमानस्वरूपाख्यानं २० ११५ श्रुतज्ञानस्वरूपाख्यानं इत्याप्तमीमांसा समाप्ता ७६ १० शब्दस्य पौरुषेयत्वापौरुषेयत्वविचारः ७६ ३७ विषयविप्रतिपत्तिनिराकरणं अथ प्रमाणपरीक्षा। ७९ १९ फलविप्रतिपत्तिनिराकरणं , .. ७९ २९ विषयानुक्रमणिका सनिकादिप्रमाणत्रनिवृत्तिपूर्वक .... .... ....
नमः सिद्धेभ्यः । ७ श्रीमद्भगवत्समंतभद्रस्वामिविरचिता आप्तमीमांसा। 3665A: देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यते नातस्त्वमसि नो महान् ॥ १॥ वृत्तिः सार्वश्रीकुलभूपणं क्षतरिपुं सर्वार्थसंसाधनं सन्नीतेरकलंकभावविधृतेः संस्कारकं सत्पथं । निष्णात नयसागरे यतिपतिं ज्ञानांशुसद्भास्करं भेत्तारं वसुपालभावतमसो बंदामहे बुद्धये ॥ १ ॥ लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं । सज्ज्ञानययुक्तिमौक्तिकफलैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ॥२॥ समीचीनासमीचीनोपदेशविशेषप्रतिपत्तये सकलदोपातीतानंतचतुष्टयसमेतप्रकटिताशेषद्रव्यपर्यायसा- मान्यविशेपपरमात्मपरीक्षाभिधायक, . असंख्यातगुणश्रेणिकर्मनिर्जरणोपायं निराकृतसामान्यापोहशब्दार्थ- गृहीतविद्वन्मनःसंतापकरं परमार्थभूतवाच्यवाचकसंबंधमनेकसूक्ष्मार्थप्रतिपादनचटुलं निःश्रेपसाभ्युद- यसुखफल स्वभक्तिसंभारप्रेक्षापूर्वकारित्वलक्षणप्रयोजनवद् गुणस्तवं कर्तुकामः श्रीमत्समंतभद्राचार्यः सर्वज्ञ प्रत्यक्षीकृत्यैवमाचष्टे-हे भट्टारक ! संस्तवो नाम माहात्म्यस्याधिक्यकथनं, त्वदीयं च माहात्म्यमतींद्रियं मम प्रत्यक्षांगोचरं-अतः कथं मया स्तूयसे । अत आह भगवान् 'ननु भो वत्स! यथाऽन्ये देवागमादिहेतोर्मम माहात्म्यमयबुध्य स्तवं कुर्वन्ति तथा त्वं किमिति न कुरुषे ।। अत आह,-अस्माद्धेतोर्न महान् भवान् मा प्रति ' व्यभिचारित्वादस्य हेतोः । इति व्यभिचारं दर्शयति- देवास्त्रिदशास्तेषां स्वर्गावतरण-जन्म-निष्क्रमण-केवलज्ञानोत्पत्ति-मुक्तिगमनस्थानेषु आगमनं-आगमः अवतार:-देवागमः । नभसि गगने हेममयाम्भोजीपरि-यानं नभोयानम् । चामराणि वातायनानि तानि आदिर्यासां विभूतीनां संपदा लाश्च ता विभूतयश्च चामरादिविभूतयः। आदिशब्देन अशोकवृक्षसुरदुंदुर्भि सिंहासनादीनि परिगृह्यते, एतेषां द्वंद्वः । विभूतयः । मायाविष्वपि इन्द्रजालेष्वपि दृश्यते । न अतः--न अस्मात् । त्वमसि-त्वं भवसि । न:-अस्माकं महान-गुरुः । किमुक्तं भवति । देवागमादिहेतो स्मार्क भवान्गुरुर्भवति। यतो देवागमादयः, पूरणादिष्वपि दृश्यते । अतोऽनैकांतिको हेतुः ।। १ ।। अथ मतम् । अयं तर्हि हेतुर्वहिरतरंगलक्षणो महोदयः पूरणादिष्वससंभवी इत्ययमपि व्यभिचारी, तथैव प्रतिपादयति- अष्टशती-उद्दीपीकृतधर्मतीर्थमचलज्योतिर्बलत्केवलालीकालेकतलोकलाकमीखलरिंद्रादिभिर्वदितं ॥ -- २ . आप्तमीमांसा वंदित्वा परमार्हता समुदये गां सप्तभंगीविधि स्याद्वादामृतगर्भिणी प्रतिहतकांतांधकारोदयां ॥१॥ तीर्थ सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधे व्यानामकलंकभावकृतये प्राभावि काले कली। येनाचार्यसमंतभद्रयतिवा तस्मै नमः सततं कृत्वा विनियते स्तवो भगवतां देवागमस्तकृतिः बास देवागमेत्यादिमंगलपुरस्सरस्तविषयपरमात्मगुणालिशयपरीक्षामुपक्षिपतैर स्वयं श्रद्धागुणज्ञताल- क्षणं प्रयोजनमांक्षिप्तं लक्ष्यते तदन्यतरापायेऽर्थस्यानुपपत्तेः शास्त्रन्यायानुसारितया तथैवोपन्यासात-! आज्ञाप्रधाना हि त्रिदशागमादिकं परमेष्ठिनः परमात्मचिहं प्रतिपद्येरन् नास्मदादयः तोडशो माया- विष्वपि भावात् , इत्यागमाश्रयः ॥ १ ॥ अध्यात्म वहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥२॥ वृत्तिः-आत्मनि अधि अध्यात्म ! सः अंतः । क्षुत्पिपासाजरारुजापमृत्य्वाद्यभाव इत्यर्थः । वहिरपि वाह्योऽपि । एषः प्रत्यक्षनिर्देशः । विग्रहो दिव्यशरीरमादिर्येषां. निस्वेदत्व-निर्मलव- अच्छायत्वादीनां तानि विग्रहादीनि तेषां तान्येत्र वा महोदयः, विभूतेः पूर्वावस्थाया अतिरेको- ऽतिशयो वा विग्रहादिमहोदयः, यमानुपातिशय इत्यर्थः । दिवि भवो दिन्यः । सत्यः अवितयः, मायावंसपो न भवति । दिवि द्यौ दिवि ओकः अवस्थानं येषां ते दिवौकसः नाकसदनाः, तेष्वपि दिवौ- कस्त्वपि । अथवा दिवाशब्दोयं तेनैष्टव्यः । रागो लोभमायेत्यादिर्येषां द्वषादीनां ते रागादयः ते संति येषां ते रागादिमंतः, तेषु रागादिमत्सु अक्षीणकषायेष्वित्यर्थः । स महोदय इति । अयं महोदयो यद्यपि समासेऽतर्भूतस्तथापि अध्यात्ममहोदय इति संबंधः कर्त्तव्यः अंत्यस्य श्रुतत्वात् । अथवा बहिर्विग्रहादि- महोदयः अध्यात्म च । किमुक्तं भवति । योऽपि विग्रहादिमहोदयो मायाविष्वसंभवी हेतुत्वेनोपन्यस्तः सोऽपि व्यभिचारी | स्वर्गिषु संभवात् ॥ २॥ योर्हेत्वारनैकांतिकत्वं प्रदर्श अन्यैर्यस्तीर्थकरत्वेनोपन्यस्तस्तस्य हेतोरसाधकत्वं सर्वासर्वज्ञत्वं प्रदर्शयन्नाह- अष्टशती-बहिरंतः शरीरादिमहोदयोऽपि पूरणादिष्वसंभवी व्यभिचारी, स्वगिषु भावादक्षीणकपायेषु । ततोऽपि न भवान् परमात्मेति स्तूयते ॥ २ ॥ तीर्थकृत्समयानां च परस्परविरोधतः । सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः ॥ ३ ॥ वृत्तिः-तीर्थ संसारनिस्तरणोपायं करोतीति तीर्थकृत् । यतस्तीर्थकृत् भवान् अतः सर्वज्ञः । इत्ययमपि हेतुरनैकांतिकः सुगतादिषु दर्शनात् इत्यनुक्तोऽपि द्रष्टव्यः । अस्मिन्नवसरे वैनयिकः प्राह- इष्टमस्माकं सर्वेषां सर्वज्ञत्वम् । अत आह-समयानां च परस्परविरोधत अन्योऽन्यविसंवादात् , सर्वेषामाप्तता नास्ति-विश्वेषां सर्वज्ञत्वं न भवति । अथवा तीर्थकरत्वात्सर्वज्ञो न भवति, सुगतादिषु दर्शनात् । अतः सर्वे सर्वज्ञाः संतु इत्येतत्तवमुक्त्वा पश्चादिदं वक्तव्यं सर्वेषामाप्तता नाति । कुतः । यतस्तीर्थकता तत्स- मयानां च परस्परविरोधात् स्वरूपपदार्थविवाददर्शनात् । अत्रावसरे सर्वज्ञाभाववादी प्राह-सत्यं युक्तमेव न कश्चित सर्वदर्शी इति । अत आह-कश्चिदेव कोऽप्येव तेषां मध्ये भवेत् , स्यात् गुरुः-महान् स्वामी । १ प्रतिज्ञातं स्वीकृतं २ देवागमस्तवस्य ३ अनुपपत्तिः कुत इत्यत आह ४ परीक्षाप्रधानाः ५ देवगमादिविहस । ६॥ इति हेतोः । देवागमादिविभूतिखेनः महान इत्यं । 1 .
३ सनातन जैनमंथमालायां- किमुक्तं स्यात् । न सर्वेषामाप्तता परस्परविरोधात्समयानामागमान । एकोऽपि न भवति प्रमाणाभावात् । अतः केन चिदेव भवितव्यं । एवमत्यन्ताभावाभावः कृतः । यदि परस्परविरोधात्सर्वज्ञत्वभावो न भवति तर्हि. येषां सर्वज्ञविच्छेदकः संप्रदायस्तेषामाप्तता स्यात् । अत आह-तीर्थकदित्यादि । तीर्थ सर्व कृतंति छिदंति इति तीर्थकृतः समया आम्नायाः सम्प्रदाया येषां ते. तीर्थकृत्समयास्तेषां अन्योऽन्यविरोधात् । सर्वेः निरवशेषं अवगतं अगम्यावगमनं वा इच्छंति अभ्युपगच्छंति इति. सर्वेनः तेषां सर्वेषां आप्तता परमार्थ- वादित्वं नास्ति न विद्यते । अतः कः आत्मजीवः चिच्चतनोऽचेतनों भवत्येव । एवकारः अवधारणार्थः ।। भवं संसारं यांति गच्छंति इति भवेतः तेषां भवेतां शक्रवक्रधरादीनामित्यर्थः । गुरुर्नाथः । भवेद्गुरुः भवेतां गुरुः । नै च. लब्धात्मस्वरूपाणां । किमुक्तः भवति-तीर्थकृच्छेदकाम्नायानामपि सर्वमेकेन.प्रमाणेनः षड्भिरभ्युपगच्छता आप्तता नास्ति परस्परविरोधात् । अतो गतिप्रतिरेव स्यान्नान्यः ॥३॥ पूर्वकारिकोपात्तमर्थ समर्थयन्सुपुष्कलहेतुमाह- अष्टशती-न.हि तीर्थकरत्वमाप्ततां साधयति शनादिष्वसभवि, सुगतादिषु दर्शनात्। न च सर्वेसर्वदर्शिनः: परस्परविरुद्धसमयाभिधायिनः । ततोऽनैकांतिको हेतुः । अत एव न कश्चित् सर्वज्ञः-इत्ययुक्त श्रुतेरविशेषा- दप्रमाणतोपत्तेः । तथेष्टत्वाददोष इत्येकेषामप्रामाणिकैवेष्टिः, न खलु प्रत्यक्ष सर्वज्ञप्रमाणांतराभावाविषय अति-- प्रसंगात् । नानुमानमसिद्धेः । प्रमाणतः सिद्ध नानात्मसिद्ध नाम-अन्यथा परस्यापि न सिद्धयेत् । तदिमे, स्वयमेकेन प्रमाणेन. सर्व सर्वज्ञरहितं पुरुषसमूह संविदतः एवात्मानं निरस्यंतीति व्याहतेमतत् । तीर्थच्छेद- संप्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां स्वप्रमान्यावृत्तेरन्यथानकांतिकत्वात् । सर्वप्रमाणविनिवृत्तरितरथासंप्रतिपत्तेः । वागक्षबुद्धीच्छापुरुषत्वादिकं. कचिदनाविलज्ञानं. निराकरोति न पुनस्तत्प्रतिषेधवादिपु तथेति परमगहनमेतत् । तदित्यं सिद्धं सुनिश्चितासं- भवद्वाधकप्रमाणत्वं । तेन कः परमात्मा. चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबंधनानामत्यय भवभृता प्रभुः, न हि सर्वज्ञस्य निराकृतेः प्रा सुनिश्चितासंभवसाधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि. बाधकासंभवात्, परं प्रत्यक्षादेरपि विश्वासनिबंधनमस्ति तत्प्रकृतेऽपि सिद्धं, यदि तत्सत्तां न साधयेत् सर्व प्राप्यविशेषात् । तदभावे दर्शनं नादर्शनमतिशेतेऽनाश्वासाद्विभ्रमवत् साधकबाधकप्रमाणयोनिर्णयाद्भावाभावयो- रविप्रतिपत्तिरनिर्णयादारेका स्यात् । न खलः ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न कमेत तत्स्वभावांतरप्रतिषे- घात् । चेतनस्य. सतः.संबंध्यतर माहोदयकारणकं मदिरादिवत्,तदभावे साकल्येन विरतमोहः सर्वं पश्यति प्रत्यासत्तिनिप्रकर्पयोरकिंचित्करत्वात् अत एवाक्षानपेक्षा । अजनादिसंस्कृतचक्षुषों यथालोकानपेक्षा ॥३॥ दोपावरणयोहानिर्निशेषाऽस्त्यतिशायनात् । कचिधया स्वहेतुभ्यो पहिरंतर्मलक्षयः ॥ ४ ॥ वृत्ति:--दोषः अज्ञानादि, कार्यरूपं । आवरणं कारणभूतं कर्म । अथवा मोहांतराया दोषाः । ज्ञानदर्शनावरणे आवरणं । तयोर्हानिर्विनाशो विश्लेषो दोषावरणयोर्हानिः। सिद्धसाधनसानिराकरणार्थः निशेषा समस्ता समूलतलप्रहाणिः इत्युक्तं । अस्ति. भवति । अतिशायनात् प्रकृष्यमाणाज्ञानहानेः पूर्वाव- स्वातिरेकात् । कचित् कस्मिंश्चित्पुरुपविशेषे । यथा शन्दो दृष्टान्तप्रदर्शनफलः । वस्य आत्मनो हेतवः कारणानि ते तथाभूतास्तेभ्यः स्वहेतुभ्यः । बहिः किटकादिकं, अभ्यतरं कालिमादि तच्च तन्मलं च तस्य १. भवितव्यमेवात्यंताभावाभावः कता. पागेऽयं लिखितपुस्तके । २ लिखित पुस्तके नचालब्धात्मस्वरूपाणामितिः ३.चावाकानो। पाठः। ४जनस्यापि । ५ वैनायकानां । ६.अर्थग्रहणशक्तिलब्धिः अर्थग्रहणण्यापार उपयोग। ७मीमांसक। सिद्धसाच्यतेति लिखितपुस्तके पाठ - अनमीमांसा 2 , , भयो विगमः विकतः बहिस्तलक्षयः । एतदुक्तं भवति । कस्मिंश्चितिशायनाोपावरमयोहानिरस्ति । चया बानुपाषाणस्य अंतमलमयः । न शान्चिङ्गवत्येव गुतरति संबंधः । एकत्र स्वहेतवः सम्यग्दर्शना- उयः । अन्यत्र पिण्डबिन्धनप्रयोगादयः । तथा एकत्र बहिर्मल शरीरन्द्रियादिकं । अन्तर्मलः कन अन्यत्र रहिमला शिकादिकं । अन्तर्नल कालिमादि ॥ ४ ॥ ननु विश्वस्तदायाऽग्यात्ना कथं विप्रैपिंगमय प्रत्यक्षीकुर्यात् ।। (इति शङ्कायां ) साधनान्तरस्य ऋत्रकामावस्य भावनिलपणमाह- अशती वचनसामाज्ञानादिर्दोषः स्वपरपरिणानहेतुः, अत एव लोष्टादौ निःशेषदोयावरणनिवृत्तेः सिद्धसा- यसमाज्ञितानिवान साध्यापरिज्ञानात् । दोषावरणयोहानिरतिशायनात् । निश्शेषतायां साध्यायां बुद्धरपि किंन परिक्षयः स्याशिवाभावात् । अतोनेऽक्रांतिको हेतुरित्याशिक्षितलक्षितं चेतनगुणन्यावृत्तेः सामना गृथिव्यादरभिनजत्वात् । अयानुपलभादभावासिद्धिरित्ययुक्तं परचैतन्यनिवृत्तावारकापत्तः संस्कर्टणां शतक्रिवप्रसंगात् । बहुलमप्रत्यक्षात्यापि रोगादेविनिवृत्ति निर्णयात् । व्यापारव्याहाराकारविशेषन्यावृत्तितमय- भात्ताशं लोको विवेचयति । व्यापारल्याहाराकारविशेषव्यावृत्तरिति सययवशात्तसिद्धांतविल्लोको विवेच- याते । यदि पुनरयं निबंधः सर्वत्र विप्रकर्षिणानभावासिद्धेः, तदा कृतकत्वमादेविनाशानलाम्यां च्यातेरसिद्ध न कश्चितुः । ततः शोद्धोदनिशिष्यकाणामनात्मानमेतत् , अनुमानोच्छेदप्रसंगात् तथाहि, यस्य हानिरतिश- यवती तस्य कुत्तचितर्वात्मना व्यावृत्तिर्यया बुद्ध्यादिगुणत्यात्मनः । तथा च दोपाहोनिरतिशयत्रता कृतश्चिन्नि- वर्तयितुमर्हति, सकलं कलंक्रमिति कथमकलंकालिद्धिर्न भवेत् । मणेर्मलादेवित्तिः क्षयः सतायतविनाशानु पयत्तेः, ताहगात्मनोऽपि कर्मणां निवृत्तौ परिशुद्धिः, । कर्मणोऽपि वैकल्यमात्मवस्यमत्येव ततो न.तिप्रसज्यते । प्रतिपक्ष एवात्मनामागुनुको मलः परिक्षयी स्वनिर्हासानिमित्तविबर्द्धनक्शात् ॥ ४ ॥ ननु निरस्तोपत्रः सन् आत्मा कथमकलंकतोऽपि विप्रकार्पणमय प्रत्यक्षीकुर्यात् ?- सूक्ष्मान्तरितदूरााः प्रत्यक्षाः कस्य चिद्यया । अनुमेयत्वतोजन्यादिरित सर्वज्ञसंस्थितिः ॥ ५ ॥ वृत्तिः-जूदनाः स्वभावविप्रकृष्टाः । अंतरिताः कालविप्रकष्टाः । दूराः देशविप्रकृष्टः । ते च ते अर्थाश्च सूक्ष्नान्तरितरााः । तथा च स्वभावाविप्रकृष्टा मन्त्रौषधिशक्तिचिचादयः । कालविप्रकृष्टा लामा- लाभसुखदुःखग्रहोपरोगादयः । देशविप्रकृष्ठा मुष्टिस्थादिद्रव्यम् । दूरा हिमवन्मंदरमकराकरादयः । प्रत्यक्षाः अध्यक्षाः प्रत्यक्षज्ञानगोचराः कस्यचित् । सामान्यकथनमेतत् । अनिर्दिष्टनामधेयस्य-यथा दृष्टांतप्रर्दशकः अनुमयाः अनुमानगम्याः । अथवा अनुगनं मेयं मानं येणां ते अनुमेयाः प्रनेया इत्यर्थः । तेषां भावस्तस्मा- दनुमेयन्वतः । अग्निः पावकः आदिर्यस्वासावग्नादिः । इत्यवमनेन प्रकारेण सर्वज्ञस्य विश्वदर्शिनः संस्थि- निर्व्यवस्था सर्वइ स्थितिः सर्वज्ञास्तित्वमित्यर्थः । मागासिद्धानकांतिकविरुद्धहेत्वाभासाभावात् । ये ये प्रमेयास्ते ते प्रत्यक्षाः । यथा अग्न्यादयः । प्रमेयाश्च स्वभावकालदेशविप्रकृष्टा अर्थाः कस्य चित्पुरुषविशे- त्य तस्मात्तेऽपि प्रत्यक्षाः । अथवा ये अनुमानगम्यास्ते प्रत्यक्षाः कस्य चित् । यथा उपपन्यादयः । अनुमानगम्याश्च सूक्ष्मान्तरितार्थास्तस्मात्तेऽपि प्रत्यक्षाः ।सुनिश्चितासमवदाधकप्रमाणस्य समर्थनमेतत् । विगतकर्मकलकोऽपि विप्रजष्टार्थदही सामान्येन या प्रलपितः स का? इति विशेष दर्शयन्नाह- अष्टशती-स्वभावकालदेशविप्रकर्षिणां अनुनयत्नमसिमिति-अनुमानमुत्तारयति । यावान् कश्चिद्भावः स नर्वः क्षणिकः-इत्यादिव्यातेरसिद्धौ प्रचत्तोपसंहाराऽयोगात् । अविप्रकर्षिणामनुमतेरानर्थयात् । सत्त्वादे- रनित्यन्वादिव्याप्तिमिच्छता सिद्धमनुमेयत्वमनवयवेनेति न किंचिद्व्याहतं पश्यामः । तेऽनुमेयाः न कस्य चि- १ विप्रथेग लि. पु. पारः। - २.आप्रहः ।
सनातनजैन ग्रंथमालायां- " अत्यक्षश्च स्युः किं व्याहन्यत इति समानमग्न्यादीनां तथा चानुमानोच्छेदः स्यात् । तदभ्युपगमे-अस्वसंवे- यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किंचिदेतत्तया नैतत्तया वा यमभ्यु. पगंतुमर्हति । तदेवं प्रमेयत्वसत्त्वादिहेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषेधुमर्हति, संशयितुं वा । धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानेकांतिकत्वात् कथं सकलविदि सत्त्वसिद्धिः ? इति ब्रुवन्नपि देवानांप्रियः-तद्धर्मिस्वभावे न लक्षयति । शब्दानित्यत्वसाधनेपि कृतकत्वादावयं विकल्पः किं न स्यात् ! । विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वादेरसंभवद्भाधकत्वादेरपि संदिग्धसद्भावधर्मि- धर्मत्वं सिद्धं बोद्धव्यं । यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्यत पक्षदोषः-अप्रसिद्धविशेषणत्वं तत एव व्याप्तिन सिद्धयेत् । अनर्हतश्चेत्-अनिष्टानुपंगोऽपि कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण, यस्य विव- क्षितार्थप्रत्यक्षत्वं !, इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीती वा, तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति । स्यादप्रसिद्धविशेषणः पक्षः । इतरथाऽनिष्टानुःपंगः । कीडक पुनः सामान्य नाम यदुभयदोपपरिहाराय प्रकल्प्येत, सर्वगतसाधनंऽपि समान अविवक्षितविशेपस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्ठितमि- ध्याविकल्पोपाधः ॥५॥ स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्ट ते प्रसिद्धेन न बाध्यते ॥ ६॥ वृत्तिः स (पूर्वप्रकान्तः तच्छन्दः) पूर्वप्रक्रान्तपरामर्शी त्वमेव-भवानेव नान्यः । अन्ययोगव्य- वच्छेदफल एवकारः । असि-भवसि । निर्दोः अविद्यारागादिविरहितः क्षुधादिविरहितो वा अनंतज्ञाना- दिसंबंधन इत्यर्थः ! कुत एतत् । युक्तिशास्त्राविरोधिवाक् यतः । युक्तिः-अनुमानं न्यायः तत्सहचरित मध्यक्षमपि । शास्त्रं आगमः स्याद्वादः ताभ्यां अविरोधिनी अविसंवादिनी वाक् वाणी वचनं यस्यासौ युक्ति- शास्त्राविरोधिवाक् । बहिर्व्याप्तिमंतरेणांताप्या सिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचन स्याऽविरोधः कुतः यावता यत्र वचनं तत्र विरोधो दृश्यते ! अत आह अविरोधः अविसंवादः । यत्-यस्मात् । इष्ट-मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारेण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वात् कुशलशब्दवत् । ते-तव । प्रसिद्धेन परमतापेक्षं विशेषणमेतत् (परमतेन) अनेकांतवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न बाध्यते अन्यथा न क्रियते, तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति-यो निर्दोषो विप्रकृष्टदर्शी सच त्वमेव भवसि । न्यायागमाविसंवादिवचनं । यतः अविरोधोऽपि, तव मतं न बाध्यते प्रसिद्धेन यस्मात् । ननु भो वत्स मदीयं मतं न बाध्यते अन्येपां किं बाध्यते ? अत आह- विप्रकर्यपि भिन्नलक्षणसंबंधित्वादिना कस्य चित्प्रसक्षं । सोऽत्र भवान्महन्नेव-अन्येषां न्यायागम विरुद्धभाषित्वात् । विचित्रामिसंयंधितया न्यापारव्याहारादिसांकर्येण क्वचिदतिशयानिर्णये कैमर्थक्याद्विशे- पेष्टिः ! ज्ञानवतोऽपि विसंवादात् क पुनराश्वासं लभेमहि ! । नचैव वादिनः किंचिदनुमानं नाम निरभि- संधीनामपि बहुलं कार्यस्वभावाऽनियमोपलंभात् । सति काष्ठादिसामिग्रीविशेषे कचिदुंपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तजातीयासागिति दुर्लभनियमितायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निणर्णीयेत?। वृक्षः शिंशपात्वात् इति २ विज्ञानं मस्वसंवेद्य भूतपरिणामत्या पित्तादिवत् । २ मुद्रितपुस्तकेऽयमधिकः पाठः। सहोच्चरितमित्यपि पाठः। ४ अभिप्रायतया । ५ वचनादि । ६ भग्नः । '७ अग्नेः । ८ सूर्यकांतमण्यादेः । । 44 आप्तमीमांसा। aur लताचूतादरपि कचिदेव दर्शनात् प्रेक्षावतां किमिव निश्शंकं चेतः स्यात् ! । तदेत्तदृष्टसंशयकांतयादिनां विदग्धमर्कटकानामिव स्वलांगूलभक्षणं । यत्नतः परीक्षितं कार्य कारणं नातिवर्तते । इति चेत् स्तुतं प्रेस्तुतं । ततोऽयं प्रतिपत्तेरपराधो नानुमानस्यति अनुकूलमाचरति । तदेवं तत्सुनिश्चितासंभवद्बाधकप्रमाणत्वमहत्येव सकलज्ञत्वं साधयति नान्यत्र, इत्यविरोध इत्यादिना स्पष्टयति । तत्रष्टं मतं शासनमित्युवचर्यते निराकृत- वाचोऽपि कचिदप्रतिषेधात् । नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । प्रतिसंविदिताका- रेच्छा तदा संभवती पुनः स्मर्येत वांछांतरवत् । ततश्चैतन्यकरणपाटवयोः साधकतमत्वं सहकारिकारणांतर न वै नियतमपेक्षणीयं नक्तंचरादेः सस्कृतचक्षुषो वा नापेक्षिताऽलोकसन्निधेरूपोपलभात् । नचैवं संवित्क- रणपाटवयोरप्यभावविवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते संवित्करणवैकल्ये यथाविवक्षं वागवृत्तेरभावात् । नच दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्तेत तत्प्रकर्षाप्रकर्षानुविधानाभावात् । बुद्धयादिवत्प्रमाणत: सिद्धं प्रसिद्धं तदेव कस्यचिद्वाधनं युक्तं विशेषणमेतत्परमतापेक्षं । प्रसिद्धेनाप्यनित्यत्वाद्यकांतधर्मेण बाधाकल्पनात् । नर्ते प्रमाणात्मेतिबंधसिद्धेरभ्युपगमात् । नच पैरेषां प्रत्यक्ष-अग्निधूमयोः क्षणभंगसद्भा- वयोर्वा साकल्येन व्याप्ति प्रति समर्थ-विचारकत्वात् सन्निहितिविषयत्वाच्च । नचानुमानं-- अनवस्थानु- पंगात् । परोक्षांत विना नस्तर्केण संबंधो व्यवतिष्ठेत । तदप्रमाणत्वे न लैंगिक समारोपव्यच्छेदाविशे- षात् । अधिगमोऽपि व्यवसायात्मैव तदनुपपत्तौ सतोऽपि दर्शनस्य साधनांतरापेक्षया संनिधानाभेदात्, सुषुप्तचैतन्यवत् ॥ ६॥ वन्मतामृतबाह्यानां सर्वथैकांतवादिनां आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन वाध्यते ॥७॥ वृत्तिः विद्-युष्मन्मतमेव आगम एव अमृतं सर्वात्मप्रदेशसुखकारणं दुःखनिवृत्तिलक्षणस्य परमानं- दमुक्तिसुखस्य निमित्तं वा मतं अमृतं तस्माद्वाह्या वहिर्भूता मिथ्यादृष्टयः त्वन्मतामृतवाह्याः तेषां त्वन्मता- मृतबाह्यानां-युष्मदागमद्विषतां । सर्वथा सर्वप्रकारः स्वरूपपररूपविधिप्रतिषेधात्मकः एकान्तं एकं धर्म नित्य- त्वादिकमेव वदितुं शीलं येषां ते सर्वथैकांतवादिनः तेषां सर्वथैकांतवादिनां एकस्वभावाभ्युपगच्छताम् । आप्ताः सर्वज्ञाः इति अभिमानः गर्वः अहंकारः तेन दग्धाः भस्मसात्कृताः प्रलयं नीताः, तेषां आप्ताभिमा- नदग्धानाम् । स्वस्य आत्मनः इष्टं मतं स्वेष्टं आत्माभ्युपगतप्रमाणप्रमाणफलं सर्ववस्तु । दृष्टेन प्रत्यक्षेण प्रत्य- क्षप्रमितेन अनेकान्तात्मवस्तुना बा, वाध्यते विरोधमुपनीयते अन्यथा क्रियत इत्यर्थः । किमुक्तं भवति । भवदागमबाह्या आप्ताभिमानदग्धाः सर्वथैकान्तवादिनः तेषां स्वेष्टं दृष्टेन बाध्यते । धर्मकीर्तिमतनिरासार्थ- मन्वयव्यतिरेकायुक्तवानाचार्यः। द्रव्यार्थिकपर्यायार्थिकानुग्रहार्थं वा ॥ ७ ॥ परवादिस्वेष्टस्य दृष्टेन बाधां प्रदय इदानीं स्वेष्टेन स्वेष्टस्य बाधां दर्शयितुमाह- अष्टशती-अनेकांतात्मकवस्तुसाक्षात्करणं बहिरंतश्व सकलजगत्साक्षीभूतं विपक्षे प्रत्यक्षविरोधलक्षण- अनेन दक्षयति- न हि किचिद्रूपांतरविकलं सदसन्नित्यानित्यायेकांतरूपं संवेदनमन्यद्वा पश्यामो यथा प्रतिज्ञायते चित्रज्ञानवत्कथंचिदसंकीर्णविशेषकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् । सामान्यविशेषकात्मनः संवित्तिरकांतस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनाहतकल्पनामस्तं गम- यति इति किं नः प्रमाणांतरेण । न हि दृष्टाज्येष्टं गरिष्ठमिष्टं तदभावे प्रमाणांतराप्रवृत्तेः समारोपविच्छे- दविशेषात् अन्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच । अनैकांतकांतयोरुपलंभानुपलभयोरेकत्वप्रदर्श- . . - १.प्रक्त । २ समर्पितं । ३ अविनाभावः। ४ सांगतानां । ५ निर्विकल्पकत्वात् । बौद्धाचार्यः ।
सनातननग्रंथमालायां- 'नार्थ मतोतरप्रतिशेषार्थं वा । यदाह-साधर्म्यवैधर्म्युयोरन्यतरेणार्थगतावुभयप्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति न तयुक्तं साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणन पदं प्रसाधयतः केवलं वचनाधिक्यो- पलंभछलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षण प्रतिपक्षिणा लक्षणीयेति प्रतिज्ञानुयोगि- शास्त्रादिष्वपि नाभिधीयेत विशेषाभावात् । यत्सत्तत्सर्व क्षणिकं यथा घटः संश्च शब्दः इति त्रिलक्षणं हे- तुमभिधाय यदि समर्थयते कथमिव संधामतिशेत तावतार्थप्रतिपत्ती समर्थनं वा निगमनादिकं यतः परा- जयो न भवेत् । सत्त्वमात्रेण नश्वरत्वसिद्धौ-उत्पत्तिमत्त्वकृतकत्वादिवचनं अतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानंतरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनांगवचनं पराजयाय प्रभवेत् । क्वचित्पक्षधर्म- प्रदर्शनं संश्चशब्दः इत्यविगानात् त्रिलक्षणवचनसमर्थनं च, असाधनांगवचनं अपजयप्राप्तिरिति व्या- हत । तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयतो विजयासंभवात् निग्रहस्थानमयुक्तं । साधनांगस्यावचनं, प्रतिवादिनाप्यदोषस्योदावनं दोषस्यानुद्भवनं वा-अनेन प्रत्युक्तं । विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणं । अतोऽन्यतरेणासिद्धानेकांतिकवचनेऽपि जल्पापरिसमाप्तिः ॥ ७ ॥ निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था नान्यथेति दर्शयन्नुभयमाह- कुशलाकुशलं कर्म परलोकश्च न कचित् । एकांतग्रहरक्तेषु नाथ स्वपरवैरिषु ॥८॥ वृत्ति:-कुशलं सुखनिमित्तं, अकुशलं दुःखहेतुकं, कर्म मिथ्यात्वासंयमकषाययोगकारणसंचितपुद्गल- प्रचयः । कुशलं चाकुशलं च कुशलाकुशलं कर्म शुभाशुभमित्यर्थः । परलोको भवांतरगतिरन्यजन्म | चशब्दोऽनुक्तसमुच्चयार्थः । तेन तत्फलंबंधमोक्षेहलोकादयो गृह्यन्ते । नशब्दः प्रतिषेधार्थः । कचित् केषु- चित् । एक एवांतो धर्मः एकातः तस्य ग्रहणमभ्युपगमो ग्रहः एकांतग्रहः तस्मिन् तेन वा रक्ता रंजिताः, प्रविष्टा भक्ता एकांतग्रहरक्ताः । अथवा ग्रह इव ग्रहः तेन व्याकुलिताः तेषु एकांतग्रहरक्तेषु । नाथ ! स्वामिन् ! श्रद्धावचनमेतत् । स्वश्वात्मा च परे चान्ये च स्वपरे तेषां वैरिणः शत्रवः तेषु स्वपरवैरिषु । किमुक्तं भवति:-हे नाथ! अर्हन् ! एकांतग्रहरक्तेषु स्वपरवरिषु केषु चिदपि शुभाशुभकर्म नास्ति । परलोकादयश्च न सन्ति । एकांततत्वग्रहणात् । यद्यपि पक्षान्तभूतो हेतुस्तथापि पृथग्द्रष्टव्यः । अंताप्तिसंग्रहात् । न केवलमेकान्तवादे कुशलाकुशलादिकं कर्म न घटते किं तु प्रमाणप्रमेयपक्षविपक्षहेतुहेत्वाभासदूषणा- भासादिकमपि सर्वथार्थक्रियायोगात् ॥८॥ सामान्येनैकांतवाद्यभ्युपगतस्य वाचं प्रदश्येदानी दूषयितुमनाः स्वल्पोऽपि शत्रुपक्षणीय इति न्यायमनुसरन्प्रथमतरं तावद्भावैकांतं भस्मसात्कर्तुमाह- अष्ठशती-कर्मफलसबंधपरलोकादिक-एकांतवादिनां प्रायेणेष्टं तदनेकांतप्रतिषेधेन बाध्यते'ततोऽनुष्ठानम- भिमतव्याघातकृत्, सदसन्नित्यानित्यायेकांतेपु कस्यचित् कुतश्चित् कदाचित् क्वचित्प्रादुर्भावासंभवात् । न हि सर्वात्मना सर्वस्य भूतावेव जन्मविरुद्धं-अपि तु सर्वथाऽभावेऽपि, व्यलीकप्रतिभासानामनुपरमप्रसंगात् । न केवलं स्वभावनैरात्म्य एवायं दोषः किं त्वंतरुभयत्र वा निरन्वयसत्त्वेऽपि न, कार्यकालमप्राप्नुवतः कारण- त्वानुपपत्तेश्विरतरातीतवत् । सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्ध कालांतरेऽपि किं न स्यात् तदभावाविशेषात् समनंतरवत् । समर्थे सत्यभवतः पुनः कालांतरभाविनस्तत्प्रभावाभ्युपगमे कथम- क्षणिकेऽर्थक्रियानुपपत्तिः ! तत्सत्वासत्त्वयोरविशेषात् । कारणसामर्थ्यापेक्षिणः कालनियमकल्पनायां-अंचल- पक्षेऽपि समानः परिहारः । क्षणवर्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्ती कूटस्थेपि कि न स्यात् कार्योत्पत्तिः । कथमत्रोत्पत्तिर्नाम तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेः,निष्पन्नखपुष्पवत् । सतः १.नित्यपक्षेऽपि॥
। - ८ आप्तमीमांसा । पुनर्गुणांतराधानमनेकं क्रमशोऽप्यनुभवतः किं विरुद्धयेत क्षणस्थायिनः कस्य चिदेव ग्राह्यग्राहकाकार- वैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यप्राहकाकारविवेकं परोक्षं विभ्राणस्य सामर्थ्यप्राप्ते:-अन्यथा शून्यसंविदोर्विप्रतिषेधात् । तदयं क्षणस्थायिकारणं स्वसत्तायां कार्य कुर्वदम्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि, सकलजगदेकक्षणवृत्तिप्रसंगात् । कारणस्य कार्यकालप्राप्तौ क्षणभंगभंगानुपंगात् । तदप्राप्नुवतस्तत्कृतौ व्यलोककल्पनाविशेषण कूटस्थानतिशायनात् । ततः सुभाषितं कुशलाद्यसंभूतिरेकातग्रहरक्तश्विति ॥ ८ ॥ भावकांते पदार्थानामभावानामपहवात । सर्वात्मकमनायतमस्वरूपमतावकम् ॥ ९ ॥ वृत्तिः -भाव एवति सन्नवेति एकांतः असहायधर्मग्रहो भावैकांतः । सर्वथा सत्याभ्युपगम इत्यर्थः । तस्मिन्भावकान्ते पदार्थानां | पंचविंशतितत्त्वानां चेतनाचेतनदेवमनुजपशुनारकस्तम्भकुम्भाम्भःप्रभृतीनां वा अभावानां वस्तुधर्माणां हेत्वङ्गानां विशेषणमित्यर्थः , बहुवचनाच्चत्वारोऽपि परिगृह्यन्ते अपह्रवान्निरा- करणादित्यर्थः । किं स्यात् ? सवै निरवशेपमात्मा स्वरूप यस्य तत्सर्वात्मकं विश्वमेकस्वरूपमित्यर्थः । आदि- रुत्पत्तिःपूर्वस्मिन्नसत्त्वं । अंतोऽवसानं विनाशो वा आदिश्चान्तश्चाद्यंतौ तौ न विद्यते यस्य तदनाद्यन्तम- नाद्यनन्तमित्ययः । स्वमात्मीयरूपमाकारः स्त्र आत्मैव वा रूपं स्वरूप न विद्यते तद्यस्य तदस्वरूपं । अ- भाव इत्यर्थः । तवेदं तावकं न तावकमतावकं । किमुक्तं भवति-पदार्थानां भावैकांताभ्युपगमे अतावकं सर्वाद्यात्मकमनाद्यनंतमस्वरूपं स्यात् कस्मात्सर्वाभावापहवात् ॥९॥ अथ मतं केऽभावाः; कियंतो वा, कान्यनाद्यनंतानि ? कस्मादभावात् किं स्यादत आहः- अष्टशती-निष्पर्यायव्यैकांतपक्षे सर्वात्मकत्वादिदोपानुषंगः कुतः पुनर्विशेषानपढुवीत तत्सा- धनव्यभिचारात् । संविनि सभेदाद्भावस्वभावभेदः प्रकल्प्यते, स पुनरभेदेऽप्यात्मनः खंडशः प्रतिभासमा- नात् , तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयं । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशाद् रूपादिव्यपदेशभाज ग्राह्यग्राहकसंवित्तिवत् । इतरेतराभावविकल्पोऽपि कथमयतार्थो न स्यात् वर्णादिविकल्पवत् । न हि वस्तुव्य- तिरिक्तमसन्नाम प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हि तदवसानकारणामावाद्भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणीनरुपाख्यस्य स्वभावकार्यादेरभावात् । कुतस्तत्प्रमिति: ? वस्तुनानात्वं बुद्धयादिकार्यना- नात्वात् प्रतीयते । स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् । शक्ति- नानात्वे प्रसवविशेषात् स चेन्यभिचारी ? उतस्तद्गतिः । केवलमविद्यास्वभावदेशकालावस्थाभेदेनात्मनि परत्र चासतः स्वयमसता मिथ्याव्यवहारपदवीमुपनयति-यतः क्षणभंगिनो भिन्नसंततयः स्कंधा विकल्प्येरन्। अन्यथा चेति प्रतिभासकार्याद्यभेदेऽपि कस्य चिदेकत्वं प्रसाधयतीति साध्यसाधनयोरभेदे कि केन कृतं स्यात् ? पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिरतिप्रसंगात् ॥ ९ ॥ कार्यद्रव्यमनादि स्यात्लागभावस्य निहवे । प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनंततां ब्रजेत् ॥ १० ॥ वृत्तिः कार्य च द्रव्यं च कार्यद्रव्यं वस्त्रन्यथामावा, घटादिकं । क्रियत इति कार्यम् । अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । अनाद्यनंतसर्वकालैकस्वरूपं नित्यमादिरहितं स्याद्भवेत् । प्राक पूर्वस्मिन्नभावः असत्त्वं प्रागभावः । मृत्पिण्डे घटस्यासत्त्वमित्यर्थः । तस्य प्रागभावस्य निहवे विलोपे निराकरणे! प्रच- सस्य च विनाशस्य च घटस्य कपालनाशादय इत्यर्थः। धर्मस्य-विशेषस्य गुणस्य प्रच्यवे अभावे निराकरण | अनंतस्य भावोऽनंतता तामनंततामपयर्वसानं सर्वकालकार्यमिति संबंधनीयम् । ब्रजेत् गच्छेत् । किमुक्तं भवति-प्रागभावस्य निहवो यदि स्यात्कार्यद्रव्यमनादि स्यात् । प्रध्वंसाभावास्याभावस्य चाभावे तदेव कार्यद्रव्यमनंततां ब्रजेत् ॥ १० ॥ तृतीयचतुर्थाभावस्वरूपं तदभावे च यद्भवति- - सनातन जैनगंथमालायां- अष्टशती-प्रागभावानभ्युपगमे घटादरमादिवप्रसंगात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदमिव्यक्तिं तस्याः प्रागभावोंsगीकर्तव्यः । तथाहि सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रं । सा यदि श्रवणज्ञानोत्पत्तिः सैव कथं प्राक सती यततः कर्तव्या। योग्यतायां समानश्चः। तदावरणविगमः प्राक् किमभूत् भूतौ वा किं यत्नेन ! विशे- पाधानमपि तादृगेव कर्तृकर्मकरणानां प्रागभावाभावात्, न कश्चिद्विशेषहेतुः, ताल्वादयो व्यंजका न पुन- श्चकादयोऽपि इति । न हि व्यंजफव्यापृतिनियमेन व्यंजकं संनिधापयति । नायं दोषः सर्वगतत्वाद्वर्णाना- मित्यपि वात ! अन्यत्रापि तथाभावानुषंगात् । इष्टत्वात् अदोषोऽयं न कारणव्यापारेष्वपि चाद्यानिवृत्तः । एतेनानवस्था प्रत्युक्ता तद्विशेषकांते तद्वतोऽनुयोगस्तावतेति कर्तव्यतास्थानात् । अभेदैकांत पूर्ववत्प्रसंगः । परिणामेऽप्येषः पर्यनुयोगस्तदभिन्नानां क्रमशोवृत्तिर्माभूत् । भिन्नानां व्यपदेशोऽपि माभूत् संबंधासिद्धरनुप- कारकत्वात् । उपकारेऽपि सर्व समानं अनवस्था च । विनाशानायुपगमे तस्य किंकृतमश्रावणं ? तदात्मा- नमखंडयतः कस्यचिदावरणवायोगात् । आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुति- रश्रुतिर्वा इत्येकांतः । तमसापि घटादरखंडने पूर्ववदुपलब्धिः किं न भवितुमर्हति ! स्वसवित्युत्पत्तौ कारणांत- रापेक्षा माभूत् तत्करणसमर्थस्य, अन्यथा तदसामर्थ्यमखंडयदकिंचित्करं किं सहकारिकारणं स्यात् । तरखंडने वा स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिरिति पूर्ववत्सर्वे । वर्णानां व्यापित्वान्नित्यत्वाच क्रमश्रुतिरनुपपन्नव, समानकरणानां तादृशामभिव्यक्तिनियमायोगात् । सर्वत्र . सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तृश्रोक्तृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तित्वमपेक्ष्य परिणा- मिनां क्रमोत्पत्तिप्रीतपत्त्योर्न किंचिद्विरुद्धं पश्यामः । सर्वगतानामेप क्रमो दुष्करः स्यात् क्षणिकेष्वेव करणांगहारादिपु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् । सर्ववर्णैकत्व- प्रसंगात् । शक्यं हि वक्तुं-अभिव्यंजकभेदाद्वैश्वरूप्यं जलचंद्रवत् । क्वचित्प्रत्यक्षविरोधे ? तदभ्यनाप्यविरोधः कुतः तदयं ताल्वदिव्यापारोप ननितश्रावणस्वभावं परित्यज्य विपरीतमासादयन्नपि नित्यश्चन्न किंचिदनित्यं । युगपत्प्रतिनियतकदेशमंद्रतारश्रुतेः कस्य चिदेकत्वेन क्वचिदनेकत्वसिद्धेः । न हि कथंचित् क्वचित्प्रत्यवमर्शो न स्यात्, तच्छत्रविशेषबुद्धरभिव्यंजकहेतुत्वप्रक्लप्तौ सर्व समंजसं प्रेक्षामहे | तदेतेपां पुद्गलानां करणसंनिपा- तोपनीतश्रावणस्वभावः शब्दः पूर्वापरकोव्योरसन प्रयत्नानंतरीयको घटादिवत् पुद्गलस्वभावत्वे दर्शनविस्ता रविक्षेपप्रताघातकर्णपूरणकश्रोत्रप्रदेशाद्युपलंभो गंधपरमाणुप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां फटकटायमानस्य प्रायशः प्रतिघातहेतर्भवनाद्यपघातिनः शब्दस्य प्रसिद्धिः-अस्पर्शत्वकल्पनामस्तं गमयति । श्छिद्रानरगमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवन्न विरुध्येरन् अतो यत्नजनितवर्णाद्यात्मा श्राव- णमध्यस्वभावः प्राक पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । ततः प्राकमध्वंसाभावप्रति- क्षेपे कोटस्थ्यं क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरूपाख्यत्वमित्यभिप्रायः । तदानु पूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ॥ १० ॥ सर्वात्मकं तदेकं स्यादन्योपाहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ ११ ॥ वृत्ति:-सर्वो विश्वो निरवशेषः आत्मा स्वरूपं यस्य तत् सर्वात्मकम् । तत् किचिद्वस्तु विवक्षितरूपं, एक-अभेदरूपं-स्यात् भवेत् । अन्यस्य अपरस्य अपोहो-निराकरणं तस्य स्पतिक्रमः-निहवः निराकृतिः स तथाभूतः तस्मिन्नन्यापोहव्यतिक्रमे इतरेतराभावाभावे इत्यर्थः । अन्यत्र अत्यन्ताभावाभावे । समवायेन मीलनेन समुदायन । व्यपदिश्येत कथ्येत अभ्युपगम्येत । सर्वथा सर्वप्रकारैः । खरीवषाणादि । अथानयो- रभावयोः को विशेषः । इति चत्-घटे पटाभाव इतरेतराभावः । कदाचित्कालांतरे तत्तेन स्वरूपेण भवति, शक्तिरूपेण विद्यमानत्वात् । अत्यंताभावः पुनर्जीवत्वेन पुद्गलस्याभावः कदाचिदपि तेन स्वरूपेण न भवति । ३ - १० आप्तमीमांसा. एतदुक्तं भवति-अन्यापोहव्यतिक्रमे सति,. किंचिद्विवक्षितं. सर्वात्मकमेकं · भवति । अत्यतामावाभावे पुनरैक्येन सर्वप्रकारैर्व्यपदिश्येत । ततो न किंचित्स्यात् ।। . भावैकांतपक्षे कुशलाकुशलकदिरघटना.प्रदय अभावकांतपक्षेऽपि भृशं न घटत इति प्रदर्शयन्नाह अष्टशती-स्वभावांतरात्स्वभावव्यावृत्तिरन्यापोहः । संविदो ग्राह्याकारात्कथं चिद्व्यावृत्तौ- अनकांत- सिद्धिः-अन्यथा संबंधासिद्धिः । अव्यावृत्तावन्यतरस्वभावहानेर्न किंचित्स्यात् विषयाकारविकलस्यानुपलब्धेः संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविकस्वभावांतरानुपलब्धेः स्वभावच्यावृत्तिः । शवलविषयनिर्भासे ऽपि लोहितादीनो परस्परव्यावृत्तिरन्यथा चित्रप्रतिभासासंभवात्,तदन्यतमवत्तदालंबनस्यापि नीलादेरभेदस्वभा- वापत्तः। तद्वतस्तेभ्योव्यावृत्तिरेकानेकस्वभावत्वात् रूपादिवत् अन्यथा द्रव्यमेव स्यान्न रूपादयः । स्वाभाविक त्वेऽपि नि सबैलक्षण्यं करणसामिग्रीभेदमनुविदध्यात् दूरासन्नकार्थोपनिबद्धनानादर्शननिर्भासवत् । प्रति पुरुष विषयस्वभावभेदो वा सामिग्रीसंवत्रभेदात् । अन्यथा न केवलं रूपादेरभेदः - । कस्य चित्क्रमशः संब ध्यंतरोपनिपातोऽपि स्वभावं न भेदयेत् । ततः क्रमवंत्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः। ततो यावंति संबंध्यंतराणि तावंतः प्रत्येक भावस्वभावभेदाः परस्परव्यावृत्ताः । न हि कस्यचित्केनचित् साक्षात्परंपरया चा संबंघो नास्ति निरुपाख्यत्वप्रसंगात् । तदेवं प्रतिक्षणमनंतपर्यायाः प्रत्येकमर्थसार्थाः । क्रमशोऽपि विच्छेदे, अर्थक्रियानुपपत्तेः स्वभावमसंतन्वतः कचिदुपकारितानुपपत्तेः । कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायो- गांत् । स्वभावांतरानपेक्षणात् । तस्मादयमुत्पिसुरेव नश्यति । नश्वर एव तिष्ठति । स्थास्नुरेवोत्पद्यते । ततः प्रतिक्षणं त्रिलक्षणं-स्थित्तिरेवोत्पद्यते। विनाश एव तिष्ठति । उत्पत्तिरेव नश्यति । स्थितिरेव स्थास्यत्युत्पस्यते विनश्यति । विनाश एव स्थास्यति उत्पस्यते विनश्यति । उत्पत्तिरेव उत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिदुपरम इति भावः । द्रवति द्रोष्यति अदुद्रवत् सत्तैव विशिष्यते द्रव्य-क्षेत्र-काल-भावात्मना । ततः परस्परच्यावृत्तस्वभावाननंतगुणपर्यायान् प्रतिक्षणमासादयंती सत्तव तिष्ठतीत्यादि. योज्यं । तथा भेदानव संद्रवंतीत्यादि प्रतिपत्तव्यं । अत्यंताभावापकृतौ न कचित्किचित कचित् वर्तते तथा सर्व सर्वत्र सर्वदोप- लभ्येत । कथं पुनरभावप्रतिपत्तिः ? कथंचन स्यात् । प्रत्यक्षस्य रूपादिस्वलक्षणविषयत्वात् प्रमाणांतरस्यापि स्वकारणविषयत्वादशोऽनुपलब्धेः पर्युदासवृत्त्या वस्तुनि नियमादेकस्य कैवल्य इतरस्य वैकल्यमिति ब्रुवन्नपि देवानांप्रियो नावधारयति भावाभावप्रतिपत्तरभावाभ्युपगमात् । स्वपररूपादिभावाभावलक्षणत्वात् सर्वस्य निःश्रेणीपदबंधाभ्यांमिव भावाभावस्वभावाभ्यां प्रतिबंधान किंचित्प्रमाण सर्वात्मना भावमभाव वा गृहीतु मर्हति अनियमप्रसंगात् । भावप्रमेयेकांतवादिनामभावभतिपत्तिरयुक्तिः अतो न भावप्रतिपत्तिः तत्प्रमेय- तोपसंख्यानं प्रमाणद्वयनियमं विघटयति ।भावनैरात्म्यस्य प्रमाणाकारणत्वात् प्रतिबंधनियमपि माभूत्॥१२॥ अभावैकांतपक्षेऽपि भावापहववादिनां। बोधवाक्यं प्रमाण न केन साधनदूषणम् ॥ १२ ॥ वृत्तिः-अभाव इति असन्निीत एकांतो. मिथ्याभिप्रायोऽभावकांतः । स एव पक्षोऽभ्युपगमस्त- स्मिन्नप्यभावक्रांतपक्षेऽपि । न केवलं भाकांते, किं त्वभावैकांतेऽपि भावस्य सत्त्वस्य अपहवः अभावो निराकरणं तं वदितुं शीलं येषां ते तथाभूतास्तेषां भावापहववादिनाम् । बोधो ज्ञानं स्वार्थानुमान, वाक्य आगमः परार्थानुमानम् | वोधश्च वाक्यं च बोधवाक्यम् । प्रमीयतेऽनेनेति प्रमाण स्वपरावभासकं ज्ञानं । न प्रतिषेधवचनम् । केन कतरेण । साधनं च दूषणं च साधनदूषणं द्वंदैकवद्भावः । स्वपक्षसिद्धि परपक्षनिराकरण । भावापहववादिनामभावकांते बोधवाक्ययोरप्यभावस्ततः प्रमाणाभावात् केन साधनं केन वा दूषणं क्रियत इति संबंधः ।। १२ ।। -- ६. कुतश्चिदुपरमते. पाठोऽयं लिखित, पुस्तके ...२ असादिति पाठो लिखितपुस्तके ।
सनातनजैनग्रंथमालायां- भावाभावकांते विरोधं निरूप्योभयकांतवादिनामपि न किंचित्संगच्छंत इत्याह- अष्टशती-बहिरंतश्च परमार्थसत् अन्यतरापायेऽपि साधनदूषणप्रयोगानुपपत्तेरिति प्रकृतार्थपरिसमाप्तौ कि त्रिलक्षणविकल्पनया । न हि संवृत्त्या साध्यसाधनव्यवस्था युक्तिमती । शून्यसिद्धेरपरमार्थत्वे पुनरनिराकृत- सद्भावस्य सर्वस्याशून्यतानुषंगात् । समारोपव्यवच्छेदेऽपि समान। हेयोपादेयोपायरहितमयमहीकः केवलं विक्रो- शति । संवृत्त्यास्तीति रारूपेणेत्ययमर्थः ? कृतमनुकूलं । केवलं वक्ता आत्मनो वैयासं सूचयति.।,अथ पर- रूपेण नास्ति नाम्नि विवादात् एतदपि तागेवः। तदेतेनोभयानुभयविकल्पः प्रत्युक्तः। तदस्ति मृषात्म नेति समानश्चर्चः । संवृत्तिविचारानुपपत्तिरित्ययुक्तं । तदभावात्तत्प्रतिपादनार्थ शास्त्रमुपदिशन्नुपदेष्टार चावर्ण- 'यन् सर्वं प्रतिक्षिपतीति कथमनुन्मत्तः ? सौद्धोदनेरेक तावत्प्रज्ञापराधोऽयं लोकातिक्रांतः कथं वभूवेत्यति- विस्मयमास्महे । तमन्ये पुनरद्यापि कीर्तयंतीति किं वतः परमन्यत्र मोहनीयप्रकृतेः ॥ १२ ॥ विरोधान्नोभयैकात्म्यं स्यादादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति. युज्यते ॥ १३ ॥ वृत्तिः-विरोधान्यभिचारात् पूर्वापरासंगतत्वात् । न प्रतिपधवचनम् । एक आत्मा स्वभावो ययोस्तों तथा तयोर्भावस्तदैकाम्यम् । उभयोः सत्त्वासत्वयोरैकाल्यमुभयकात्म्यं भावाभावैयमित्यर्थः । न्यायो युक्ति:- प्रमाणेन प्रमेयस्य घटना । स्याद्वाद एव न्यायः स्याद्वादन्यायस्तस्मै विद्विषस्तं वा विद्विषन्तीति स्याद्वादन्या- यविद्विषस्तेषां स्याद्वादन्यायविद्विषामनेकांतवैरिणाम् । अथ. भावाभावोभयकांतपक्षदोषदर्शनादवाच्यतैकांत आश्रीयते । तथापि दोष एव अत आह। उच्यत इति वाच्यं न वाच्यमवाच्यं तस्य.भावोऽवाच्यता सैव एकांतोऽ- विद्याध्यवसायोऽवाच्यतैकांतस्तरिमन्नवाच्यतैकांते. अपि । शब्दार्थयोरवाव्यवाचकत्वेऽपि। उक्तिर्वचनं अवाच्य- मित्यवक्तव्यमिति । न युज्यते न घटते । स्याद्वादन्यायविद्विषां वादिनामुभयैकात्म्यं न भवति । विरोधात् । विज्ञानशून्यवत् । तथावक्तव्यकांतपक्षेऽपि अवाच्यमित्येवं या उक्तिः साऽपि न युज्यते । सर्वथाऽवाच्यत्वात् । एकशब्देन घटपटादिवत् ॥ १३ ॥ . एकहेलया यदि सर्वथा सदसदुभयावक्तव्यरूप तत्त्वं नास्ति. कथं त_त्याह- अष्टशती-भावाभावयोरेकतरप्रतिक्षेपकांतपक्षापक्षिप्तदोषपरिजिहीर्षया सदसदात्मकं सर्वमभ्युगच्छ- तोऽपि वाणी विप्रतिषिध्यते । तस्याः परस्परपरिहारस्थितिलक्षणत्वात् । न हि सर्वात्मना कंचिदर्थ संतं तथै- वासंतमाचक्षाणः स्वस्थः स्वाभ्युपगमेतरनिरासविधानकरणात शून्यावबोधवत्। त्रैलोक्यं व्यक्तरपैति नित्यत्व- प्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधादिति वा तदन्यथापेतमन्यथास्तीति स्याद्वादावलंबनगंधसर्पवि- लंप्रवेशन्यायमनुसरति । योऽपि पक्षत्रयोपक्षिप्तदोषपरिजिहासया. सर्वथाऽवक्तव्यतत्त्वमवलंबते सोऽपि कथमवक्तव्यं ब्रूयात् ? नैष दोपः स्वलक्षणमनिर्देश्यं प्रत्येकं कल्पनापोदमित्यादिवत् । तदप्यसत् यदसता समुदाहृतं । यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षशाने विषयो नैवास्ति ततस्तत्र प्रतिभासमानेपि न प्रति-- भासते। न केवलं विषयंवलात् दृष्टेरुत्पत्तिः अपि तु चक्षुरादिशक्तेश्च । तदर्थवत् करणमनुकर्तुमर्हतित न वाथै विशेषाभावात् । दर्शनस्य कारणांतरसद्भावेऽपि विषयानुकारानुकारित्वमेव, सुतस्येव पित्राकारा- नुकरणमित्यपि वा स्वोपादानमात्रानुकरणत्वप्रसंगात् । उभयाकारानुकरणेऽपि रूपादिवदुपादानस्यामि विषयतापत्तेरतिशयाभावात् । वर्णादेर्वा तद्वदविषयत्वप्रसंगात् । तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमात बहिरर्थविषयत्वमित्यसारं । दर्शनस्यानध्यवसायात्मकत्वाददोषोऽयं प्रत्यक्षस्याध्यवसायहेतुत्वा'दित्यनिरूपिता- मिधानं तत्राभिलापाभावात् । तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किं नाध्यवस्येत् । यथैव हि प्रत्यक्षस्या- मिलापसंसर्गयोग्यता नास्ति तथा तत्समनंतरभाविनोऽपि विकल्पस्य । तथाहि किंचिकेन चिद्विशिष्टं गृह्य- माणं विशेषणविशेष्यतत्सबंधव्यवस्थाग्रहणमपेक्षते दंडिवत् । नचायमियतो व्यापारान् कर्तुं समर्थः । प्रत्यक्ष- वलोत्पत्तेरविचारकत्वात्-प्रत्यक्षवत् । नैतदेवं शब्दार्थविकल्पवासनाप्रभक्त्वान्मनोविकल्पस्य ततस्तहीं १२ आप्तमामांसा: कथमक्षबुद्धेरूपादिविषयत्वनियमः । तदभ्युगमे वा तदभिलापसंसर्गोऽपि तदनुमीयते । तस्मादयं किंचि- त्पश्यन् तत्सदृशं पूर्वदृष्टं न स्मर्तुमर्हति तन्नामविशेपास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तद- प्रतिपत्तौ तेन तन्न योजयति । तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्याभिधानं जगत स्यात् । तथाहि बहिरंतर्वा गृहीतमप्यगृहीतकला क्षणक्षयलक्षणसंवेदनादिवत तथाचायातमचेतनत्वं जगत । सहस्मृतिरयुक्तैव, तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात अन्यथा संकुला प्रतिपत्तिः स्यात् । नाम्नो नामांतरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् । तन्नामांतरपरिकल्पनायामनवस्था । तदयम- शब्द सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । भेदाभावात सामान्यवत् स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् ततो न किंचित्प्रमेयमनभिलाग्यं नाम । प्रत्यक्षस्यानभिलाप्यत्वे स्माते शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिद्रियज्ञानात्सामान्यव्यवसायो न स्यात् प्रागिवाजनकत्वात् तदंतरेणापि दर्शनमयं गारिति निर्णयः स्याताअनमिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिरत्यंतभेदात शब्दार्थयोः संबंधस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् । तदर्थं वा यतोऽयं व्यवसायः । चक्षुरादिज्ञानस्य कथंचिद् व्यवसायात्मकत्वाभाव दृष्टसजातीयस्मृतिर्न स्यात् । दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्य- संवेदनवत् । क्षणक्षयानुभववद्वा प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्पाभिलापसंयोजनं यतः सामान्य- मभिलाप्यं स्यात् । नच ग्राहकप्रत्यक्षस्मृतिप्रतिभासंभदाद्विषयस्वभावभेदः सकृदेकार्थोपनिबद्धदर्शनप्रत्यास- नेतरपुरुपज्ञानविषयवत् । तथा च मंदप्रतिभासिनि तत्संकेतव्यवहारनियमकल्पनायामपि कथंचिदभिधयत्वं वस्तुनः सिद्धमित्यलं प्रसंगेन । तस्मादवाच्यतकांते यदवाच्यमित्यभिधानं तदसमंजसं स्वलक्षणमनियमि- त्यादिवत् स्ववचनविरोधात् ॥ १३ ॥ कंथांचत्ते सदेवेप्टं कथाञ्चिदसदेव तत् तथोभयमत्रच्यं च नययोगान सर्वथा ॥ १४ ॥ वृतिः कथंचित्-केन चित्प्रकारेण । ते-तव सदेव-भाव एव । इष्ट-मतमभ्युपेतम्। कथंचित्-केन- चित्प्रकारेण | असदेव-अभाव एव । तत् यदेव सत् । तथा तेनैव केनचित्प्रकारेण । उभयं सदसदात्मकम् । अवाच्यमवक्तव्यम् । चकारात्कथंचिदित्यर्थः । नयस्य वक्तुरभिप्रायस्य योगो युक्तिर्नययोगस्तस्मान्न- ययोगादभिप्रायवशादित्यर्थः । न सर्वथा-सर्वकारेन । किमुक्तं भवति-सदसदुभयावक्तव्य वस्तु न भवति । किंतु केन चित्प्रकारेण । तदेव स्वष्टयति अनवस्थां च निराकरोति उत्तरकारिकया- ' अष्टशती-नावग्रहादेरन्योन्यं स्वलक्षणविवैकैकांतो जीवांतरवत् स्वात्मन्यपि संतानभेदप्रसंगात् । अह; महमिकयात्मा विव्रताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां कचिच्चित्रवित्तिक्षणे नीलादि, विशेषनिर्भासवत् आत्मभूतान् परस्परतो विविक्तान् सहक्रमभाविनो गुणपयार्यानात्मसात्कुर्वन् सन्नेव । तदे- कल्वाभावे नीलादिविशेषनियतदर्शननानासंतानसंवेदनक्षणवचित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखा; दीनां मतिभुतादीनां वा तादात्म्यविगमैकांते संततिरनेकपुरुषवत । नैरंतर्यादेरविशेषासंतानव्यतिकरोऽपि कि न स्यात् । न हि नियामकः काश्चद्विशेषोऽन्यत्र भेदाभेदपरिणामातू असंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् । धथैकत्र समनंतरावग्रहादिसदादिस्वभावसंकरपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तस्व- भावाविच्छित्तेः । अतः कथंचित्सदेवेष्टं। न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः किंतुः बुद्धिक्षणेपि क्वचिद्ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात अन्यथा स्थूलशवलालोकनाभावात्,तदेकांशवत् । तथाच सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविवि, तात्मनस्तदन्योन्याभावमात्रं जगत् अन्यथा सर्वथैकत्वप्रसंगात् । अन्वयस्य विशेषापेक्षणादभावो वा। तदिष्ट; : सदेव कधचित् । न हि भावाभावकांतयोनिःपर्यायमंगीकरणं युक्तं । यथैवास्ति तथैव : नास्तीति विप्रतिषे० ..
- सनातनजनग्रंथमालायां- धात् कथंचित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथैवासंभवात् । सर्वथा जात्यंतरकल्पनायां तदंश- निबंधनविशेषप्रतिपत्तरत्यंताभावप्रसंगात् । सर्वथोभयरूपत्वे वा जात्यंतरप्रतिपत्तरयोगात् । तथा चानवस्थादि- दोपानुषंगः । तदिष्टं स्यादुमयं, सद्भावेतराभ्यामनभिलापे वस्तुनः केवलं मूकत्वं जगतः स्यात् विधिप्रतिषेध- व्यवहारायोगात् । न हि सर्वात्मनामभिलाप्यखभावं बुद्धिरध्यवस्यति । न बानध्यवसायं प्रमितं नाम गृही- तस्यापि तादृशस्यागृहीतकल्पत्वात् मूर्छाचैतन्यवत् । सर्वात्मनाभिधयत्वेऽपि प्रत्यक्षतराविशेषप्रसंगात् । तथा- भिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षस्यासत्वात् तत्वप्रदर्शनाय यत्किंचित्प्रणयन् वस्तु सर्वथा- नभिधेयं प्रतिजानातीति किमप्येतन्महाद्भुतं, तत्कृतां वस्तुसिद्धिमुपजीवति न च तद्वाच्यतां चेति स्व- ष्टिरागमात्रमनवस्थानुषंगात् ॥ १४ ॥ सदेव सर्व को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान चेन्न व्यवतिष्ठते ॥ १५ ॥ वृत्तिः-सदेव-सत्त्वमेव सर्व-निरवशेष विश्वम् । को नेच्छेत्-को न मन्यते कस्य नेष्टं किंतु इष्टमेव सर्वस्य । स्वरूपमात्मरूपं स्वस्य वा रूपं तदादिर्यस्य तत्स्वरूपादि तच्चैतच्चतुष्टयं चतुर्विकल्प तत्त- थाभूत । तस्मात्स्वरूपादिचतुष्टयात् । किं तत् ? स्वद्रव्यस्वक्षेत्रस्वकालस्वभावः। तस्मात् । ससदेव नास्तित्व- मेव विपर्यासात्-अस्वरूपादिचतुष्टयात् । अस्वद्रव्यक्षेत्रकालभावात् । न चेत् यद्येवं न । न व्यवतिष्ठते-न घटते नात्मस्वरूपं लभत इत्यर्थः। किमुक्तं भवति-स्वरूपादिचतुष्टयात्सर्वे सदेव को नेच्छेत् ? 1. विपर्ययाद्विपर्ययं को नेच्छेत् । । यदि पुनर्येनैव सत्त्वं तेनैवासत्त्वमिति स्यान्न किंचिदपि स्यात् । शेषभंगप्ररूपणार्थमाह- अष्टशती-स्यात्सदसदात्मकाः पदार्थाः सर्वस्य सर्वाकरणात्। नहि पटादयो घटादिवत् क्षीराद्याहारणलक्ष. णाम क्रियां कुर्वति घटादिज्ञानं वा। तदुभयात्मनि दृष्टांतः सुलभः । शब्देतरप्रत्यययोः एकानेकवस्तुविषययोः, एकात्मसमवेतयोः कारणविंशषवशात् परिवृत्तात्मनोः स्वभावभेदेऽपि कथंचिदकत्वमस्त्येव विच्छेदानुपलब्धेः । उपादानस्य कार्यकालमात्मानं कथंचिदनयतश्चिरतरनिवृत्ताविशेषात् कार्योत्पत्तावपि न्यवेदशानुपपत्ते- स्तादर्श स्वरूपैकत्वमस्त्येव विशेषावेक्षया तु नास्त्येव । न हि पौरस्त्यः पाश्चात्यः स्वमावः, पाश्चात्यो वा पौरस्त्यः निरपेक्षः । तत्र क्रमोऽपि प्रतिभासातिशयवशात् प्रकल्प्येत तदेकत्वादक्रमः किं न स्यात् । तदे- फमनेकाकारं, अकमक्रमात्मकं, अन्वयव्यतिरेकरूपं सामान्य विशेषात्मकं सदसरिणामं स्थित्युत्पत्तिविना शात्मक स्वप्रदेशनियत स्वशरीरव्यापिनं त्रिकालगोचरमात्मानं परं वा कथंचित् साक्षात्करोति परोक्षयति वा.केशादिविवेकन्यामुग्धबुद्धिवत् । तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजांतीयाद्वि- विक्तलक्षणं विभर्ति-अन्यथा अनवस्थानात् क्वचित्कथंचिदनियमः स्यात् ॥ १५ ॥ क्रमाप्तिद्वयाद् द्वैतं सहावाच्यमशक्तितः। अवक्तव्योत्तराः शेषास्त्रयो भंगा स्वहेतुतः ॥ १६ ॥ वृत्ति-क्रमेण परिपाट्या अर्पितं विवक्षितं क्रमार्पितं तच्च तद्वयं द्वितयं क्रमार्पितद्वयं तस्मात्क- मार्पितद्वयात् । द्वाभ्यामितं द्वीतं-द्वीतमेव द्वैत-द्वयात्मकमस्तित्वनास्तित्वस्वरूपं-क्रमविवक्षितस्वपरचतुष्टयाद- स्तित्वनास्तित्वस्वरूपमित्यर्थः । सह-युगपत् एकहेलया विवक्षितस्वपरचतुष्टयादित्यर्थः । यद्यपि द्वयशब्दः समासांतर्भूतस्तथापि तेन संबंधोऽन्यस्याऽश्रुतत्वात् । अवाच्यं-अवक्तव्यमुच्चारयितुमशक्यमित्यर्थः । कुतः ? अशक्तितः असामर्थ्यात् । अवक्तव्यमवाच्यमुत्तरं परं येषां भङ्गानां तेऽवक्तव्योत्तराः शेषा अन्ये त्रयो भङ्गास्त्रयो विकल्पाः । स्वहेतुतः स्वकीयकारणात् । के ते स्वहेतवः 'स्वरूपादिचतुष्टयासहविवक्षितस्वरूपादिचतुष्टया- चास्ति चावक्तव्यं । तथा पररूपादिचतुष्टयात् , युगपदर्शितस्वपररूपादिचतुष्टयाच्च नास्ति चावाच्यम् । तथा क्रमाप्तिस्वरूपादिचतुष्टयायुगपद्विवक्षितस्वपररूपादिचतुष्टयाच्चास्ति 'नास्ति चावक्तव्यं च ।
१४ आप्तमीमांसा । किमुक्तं भवति !- स्वहेतोः स्यादस्ति १ । स्यान्नास्ति २ । स्यादस्ति नास्ति च ३ । स्या- दवक्तव्यम् ४ । स्यादस्ति चावक्तव्यम् ५ । स्यान्नास्ति चावक्तव्यम् ६ । स्यादस्ति नास्ति चाव- क्तव्यं च ७ वस्तुत इत्यर्थः ॥ अस्तित्वादीन् धर्मान् युक्तितः समर्थ्य, अधुना तेषामेकस्मिन्नधिकरणेऽवस्थानस्य विरोधमन्तरेण परस्परपरिहारेण रूपादीनामिव युक्तितः समर्थनार्थमाह- अष्टशती-स्वपररूपाद्यपेक्षं सदसदात्मकं वस्तु न विपर्यासेन तथा दर्शनात् ,कल्पयित्वापि तज्जन्मरूपाध्यव- सायान् स्वानुपलंभव्यावृत्तिलक्षणं दर्शनं प्रमाणायितव्यं | तथाहि-बुद्धिरियं यथा प्रत्यासत्या कस्य चिदे- वाकारमनुकरोति तया तमेव नियमेनोपलभेत नान्यथा पारंपर्यपरिश्रमं परिहरेत् । विलक्षणस्यापि विभ्रम- हेतुफलविज्ञानैर्व्यभिचारात् तदनभ्युपगमे स्वाभ्युपगमासिद्धेः किंसाधनः परमुपालभेत । तदेकोपलंभनियमः स्वपरलक्षणाभ्यां भावाभावात्मनं प्रसाधयति, तदभावे न प्रवर्तयति नापि निवर्तयति प्रमाणांतरवन्निष्पर्याय भावाभावाभिधानं नांजसैव विषयीकरोति · शब्दशक्तिस्त्राभाव्यात् । वचनसूचनसामर्थ्यविशेषानतिलघ- नात् । संकेतानुविधानेऽपि कर्तृकर्मणोः शक्तयशक्तयोरभ्यतरव्यपदेशार्हत्वात् । अयोदारुबभ्रलेखनवत् । अन्यथा चाक्षुषात्वादयः शब्दादिधर्मा न भवेयुः । अतो यावंति पररूपाणि तावत्येव प्रत्यात्म स्वभावांतराणि तथा परिणामात् । द्रव्यपर्यायौ व्यस्तसमस्ती समाश्रित्य चरमभंगत्रयव्यवस्थानं । न खलु सर्वात्मना सामान्य वाच्य ? तत्प्रतिपत्तरर्थक्रिया प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते । लक्षितलक्ष- णया वृत्तिः कथंचित्तादात्म्येन भवेत्, संबंधांतरासिद्धेः कार्मुकादिवत् । तादृशानुपलंभात्संकेतोऽपि न सिद्धयेत् । सतापि तादृशान्यव्यावृत्त्यात्मना भवितव्यं अन्यथा विशेषवत्स्वभावहानिप्रसंगात् विशेषाणां वा तद्वत्ततो व्यावृत्तेनचान्यापोहः सर्वथार्थः शब्दस्य विकल्पस्य वा। साधनवचनेन नित्यत्वसमारोप- व्यवच्छेदेऽपि स्वलक्षणस्यानित्यत्वासिद्धौ साधनवचनानर्थक्यात् । विकल्पाभिधानयोर्वस्तुसंस्पर्शाभावे स्वलक्षणर्दशनस्याकृतनिर्णयस्य वस्तुसन्निधैरविशेषात् किं केन प्रमित स्यात् । न हि मिथ्याध्यवसायन तत्त्वव्यवस्थानं वस्तुदर्शनसमारोपव्यवच्छेदयोः अन्यतरस्यापि स्वतस्तत्वापरिनिष्ठितौ इतरेतराश्रयदोषः । -समयादर्शिनोऽपि क्वचिदन्वयबुद्धयभिधानन्यवहारो तत्कार्यकारणव्यातिरेकव्यवस्थायां गुडुच्याद्युदाह- रणप्रक्लप्ति विपर्यासयति---॥ १६ ॥ . अस्तित्वं प्रतिषेध्येनाविनाभन्येकर्मिणि । विशेषणत्वात्साधर्म्य यथा भेदविवक्षया ॥ १७ ॥ वृत्तिः-आस्तित्वं सत्त्वं प्रतिषेध्येन-नास्तित्वेन अविनाभावि-नास्तित्वेन विना न भवति पृथग्भूतं नोपलभ्यत इत्यर्थः । धर्मा आस्य सन्ति धर्मी एकश्चासौ धर्मी च तस्मिन्नेकर्मिणि । विशेषणत्वात् । उपाधिवशात् । समानो धर्मः सधर्मस्तस्य भावः साधर्म्यमन्वयः । यथा-दृष्टांतप्रदर्शकः । भेदस्य विव- क्षाऽर्पणा तया इत्यर्थः । एकधर्मिणि शब्दादौ अस्तित्व नास्तित्वाविनाभावि कुतः ? विशेषणत्वात् | यथा 'कृतकत्वादी साधय वैधर्येण विना न भवति । यद्विशेषणं तत्प्रतिषेध्याविनाभावि यथा साधर्म्य व्यतिरेक- विवक्षया । द्रुमादौ विशेषणं चास्तित्वं । तस्मात्प्रतिषेध्यधर्माविनाभावि ॥ १७ ॥ तथा-- अष्टशती- समित्थमनित्यं चेति प्रतिज्ञाय-अभिप्रेत्य वा प्रमेयत्वादिहेतूपादनेऽपि व्यतिरेको ऽस्त्येव प्रमेयत्वस्य वस्तुधर्मत्वात् । खपुष्पादयोऽपि तत्र व्यवहारमिच्छता प्रमेयाः प्रतिपत्तव्या-इति न किंचि- प्रमाणं प्रमेयाभावस्यापि तथाभावानुषंगणाव्यवस्थाप्रसंगात् । नचैताद्विरुद्धं स्वलक्षणमनिर्देश्यमित्यादिवत् । १ लिखितपुस्तके उपाधिस्वादिति पाठः । .
सनातनजनग्रंथमालायां-
दर्शने स्वाकारमनपर्यतां स्वभावकार्यप्रतिबंधाभावे प्रमेयत्वं प्रमाणांतरमवश्यमाकर्षयति । ततोविप्रीतषिद्ध-
मैतत् । नच स्वलक्षणमेवान्यापोहः सर्वथाविधिनियमयोरेकतानत्वाऽसंभवात् । तत्स्वभावभेदाभावे च संके-
तविशेषानुपपत्तेः-अभिधानप्रत्ययविशेषोऽपि माभूत्तदन्यतरवत् । ततो यावंति पररूपाणि प्रत्येक तावंत,
स्ततततः परावृत्तिलक्षणाः स्वभावभेदाः प्रतिक्षणं प्रत्येतव्याः । यदि संबंध्यतराणि भावस्वभावभेदकानि
न स्युस्तदा नित्यत्वेऽपि कस्यचित्संबंध्यंतरेषु कदाचित्केषु क्रमशोऽर्थक्रिया न वै विप्रतिषिध्येत । शक्यं हि
वक्तुं क्रमवर्तीनि कारणानि तत्तनिर्वतनात्मकानि इति नित्यं स्वभावं न वै जहाति क्षणिकसामिग्रीसन्नि-
पातैकतमवत् । तदेतत्तदा तदा तत्तत्कर्तुं समर्थमेकं स्वभावं अविचलित विभ्राणं सहकारिकारणानि स्वभाव
स्याभेदकानि नानाकार्यनिबंधनानि कादाचित्कानि प्रतीक्ष्यंत इति । तदिमेऽर्था विधिप्रतिषेधाभ्यां संप्रतिवत
हानप्रतिबंधमतिवर्तते वस्तुत एव । ततो न संवृत्तिस्तद्व्यवहाराय भेदमावृत्त्य तिष्ठतीति युक्तं । तद-
नेकखभालाभावे विनिर्भासासंभवात आत्मनि परत्र चासभविनमाकारमादर्शयतीति मुग्धायते सत्रासहाय-
रूपानुपलब्धेः । तदियं संवृतिः सामान्यसामानाधिकरण्य-विशेषणविशष्यभावादिव्यवहारनिर्भासान् विभ्रती
स्वयमनेकरूपता प्रतिक्षिपंतं व्यवस्थापयति । तद्वद्भावांतराणामनेकात्मकत्वे वास्तवी साधादिस्थितिरवि-
शेषेण विकल्पबुद्धर्मिथ्यात्वं प्रतिजानंतं प्रतिक्षिपत्येव । यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति तन्न चक्षुरादि-
ज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात् । निर्णयस्य भावस्वभावाऽसंस्पर्शिनः सर्वथा वस्तुतत्त्वा-
परिच्छेदादच्छमेवेति स्वयमेकांतानुपपत्तेः । अतोऽयं स्वभावः स्वभावभेदान् विधिप्रतिपेधविषयान् विभ्राणः
प्रत्यक्षतरप्रमाणसमाधिगतलक्षणः प्रतीयेत । तस्माद्यद्विशेषणं तत्प्रतिषेच्याविनाभावि क्वचिद्धामणि यथा
साधर्म्य भेदविवक्षया, कृतकत्वादौ विशेषणं चास्तित्वं ततः प्रतिषेध्यधर्मप्रतिबंधी ॥ १७ ॥
नास्तित्वं प्रतिषेध्येनाविनाभाव्यकथामणि ।
विशेषणत्वाद्वधयं यथाऽभेदविवक्षया ॥ १८ ॥
वृत्तिः-नास्तित्वं प्रतिषध्येनास्तित्वेनाविनाभावि विशेषणत्वात् । यथा वैधर्म्यमभेदविवक्षया ॥
यत्किंचित् विशेषणं तत्सर्वमेव प्रतिपक्षधविनाभावि यथा वैधय साधर्म्यविवक्षयां । हेतोविशेषणं
च नास्तित्वं ॥ १८॥
पुनरप्यविरोध दर्शयन्नाह-
अष्टशती-भेदाभेदविवक्षयोरवस्तुनिबंधनत्वे विपर्यासोऽपि किं न स्यात् । तत: समंजसमेतत् ।
यत्किंचिद्विशेषणं तत् सर्वमेकत्र प्रतिपक्षधर्मविनाभावि यथा वैधर्म्यमभेदविवक्षया हेतौ। तथा च नास्ति
त्वं विशेषणं-अन्यथा व्यवहारसंकरप्रसंगात् । न हि स्वेच्छाप्रक्लप्तधर्मधामव्यवस्थायां परमार्थावतारः .
स्यात् । तदसमीक्षिततत्त्वाथैर्लोकप्रतीतिवशाद्भेदाभेदव्यवस्थितिस्तत्त्वप्रतिपत्तये समाश्रियत इति वालाभिला-
पकल्पं । भावस्वभावोपरोधात् ॥ १८ ॥
विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः।
साध्यधर्मो यथा. हेतुरहेतुश्चाप्यपेक्षया ॥ १९ ॥
वृत्ति-विधेयशब्दवाच्यः साध्य इत्यर्थः । प्रतिषेध्यो निराकरणीयः । द्वन्द्वः । तावात्मा स्वरूपं
यस्य स विधेयप्रतिपध्याध्यात्मा विशेष्यो धर्मी पक्ष इत्येकार्थः । शब्दगोचरः शब्दविषयः । साध्यस्य
धर्मः साध्यधर्मः । यथा दृष्टान्तप्रदर्शकः । हेतुः साधनमहेतुरसाधनम् । अपिः सम्भावनायाम् ।
अपेक्षया विवक्षया | विशेष्यो विधेयप्रतिषेध्यात्मा शब्दगोचरत्वात् यथा साध्यधर्मों हेतुश्वाहेतुश्च भवति
विवक्षया । अग्निमत्त्वे साध्ये धूमो हेतुर्भवति जलावे साध्येऽहेतुरेकस्मिन्धर्मिणि । एवमत्रापि-यो यः शब्द-
विषयः स सर्वोऽपि विधेयप्रतिषेध्यात्मा विशेष्यः । यथा साध्यधर्मों हेतुरहेतुश्चापेक्षया । शब्दविषयश्च
विशेष्यः तस्माद्विधेयप्रतिषेध्यात्मा ॥ १९ ॥
१६ आप्तमीमांसा। शेषभंगान् समर्थयन्ताह- अष्टशती-किंचित्केन चिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्संबंधलोकस्थितिसंकलनेन गृह्येत नान्यथेत्यभिनिवेशेऽपि वस्तुनो विधिप्रतिषेधस्वभावयोः प्रत्येक दर्शनमवश्यंभावि । ततो विधिप्रतिषेधावा- मानौ विशेषस्य सविकल्पकत्वं प्रसाधयतः । ततः सामान्यविशेषात्मकत्वं वस्तुत्वलक्षणं । अस्तित्वनास्तित्व- योधर्मी सामान्यं तत्र तादात्म्यलक्षणः संबंधः संबंधांतरकल्पनायामनवस्थाप्रसंगात् । तन्नैतत्सारं, जात्यादि- मतामतन्न संभवत्येवेति तदभाव एवासंभवात् तथा सति नैकांतेन दर्शनविकल्पाभिधानानां विषयभेदो- ऽस्ति कथंचित्प्रतिभासभेदेऽपि प्रत्यासन्नेतरपुरुषदर्शनवत् । तथाहि धूमादयः कृतकत्वादयो वा कचिदग्नि- सलिलयोर्विनाशेतरयोर्वा साधनेतरस्वभावाम्यां साक्षाक्रियेरन् । इतरथा हि विशेष्यप्रतिपत्तेरयोगात् । अना- पेक्षायां तु विरोधः । तस्मात् यदभिधेयं तद्विशेष्यं यद्वा विशेष्यं तदभिलाप्यं यद्वा वस्तु तत्सर्वं विधेयप्रतिषेध्या- मकं यथोत्पत्यादिः । अपेक्षया हेतुः-अहेतुश्च साध्येतरयो:-तथा च विमत्यधिकरणं सत्त्वाभिधेयत्वादि।।१९।। शेषभंगाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनींद्र तव शासने ॥ २० ॥ वृत्तिः-शेषभंगाश्च अवक्तव्यादयो नेतन्या ज्ञातव्या योजनीयाः । यथोक्तश्वासौ नयश्च यथो- तनयः तस्य योगस्तस्मात् विशेषणत्वादिति हेतोरित्यर्थः । विरोधोऽपि न कश्चित् । उपलक्षणमेतत् । विरोध इति संशयविरोधवैयधिकरण्योभयदोपप्रसंगसंकरानवस्थाऽभावानाक्षिपति एते दोषा न संति कस्मा- त्? अनेकांतत्वाद्वस्तुनः । जीवादिपदार्थयाथात्म्यमननान्मुनयस्तेषामिंद्रो भगवान् केवली तस्य संबोधनं हे मुनींद्र । तव शासने युष्मन्मते । अनभिलाप्यादयोऽपि धर्माः क्वचिदेकधर्मिणि प्रत्यनीकस्वाभावाविनाभाविनो विशेषणत्वात् पूर्वोक्तमुदाहरणम् ॥ अष्टशती-स्यादस्ति स्यान्नास्तीति भंगद्वयमुपयुक्तं तदपेक्षयाशेषत्वं । भंगप्रयापेक्षं वा । यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोऽपि कचिद्धर्मिणि प्रत्यनीकस्वभावाविनाभाविनः प्रतीयते विशेषणत्वादिभ्यः पूर्वोक्तमुदाहरणं । नचैवं सति किंचिद्विप्रतिषिद्धं-अन्यथैव विरोधात् ॥ २० ॥ अनेकांतात्मकं तत्त्वं व्यवस्थाप्यकांतं निराकर्तुमाह- एवं विधिनिषेधाभ्यामनपस्थितमर्थकृत् नेति चेन्न यथाकार्य बहिरंतरुपाधिभिः ॥ २१॥ वृत्तिः-एवमनेन प्रकारेण । विधिनिषेधाभ्यामस्तित्वनास्तित्वाभ्याम् । अनवस्थितमनवधारित यद्वस्तु तदर्थ कृत्-कार्यकारि भवति । नेति चेत् यद्येवं न भवति। न। यथाकार्य यथाभूत कार्यमुपल- भ्यत तस्य कारकं न स्यात् । बहिरंतरुपाधिभिः बाह्याभ्यतरहेतुभिः सहितैरपि । अथवा अनवस्थित शून्यं अयथाकार्यम् ॥ अथ मतं स्यादस्तीत्यनेनैव स्याच्छब्देन सर्वे भंगा गृहीताः । किमेतषां प्रपंचोऽत आह- अष्टशती-सप्तभंगीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि कथंचित्सत एव सामिग्रीसन्निपातिनः स्वभावातिशयोपपत्तेः सुवर्णस्य केयूरादिसंस्थान नेति चेदित्यादि- नैकांतेऽर्थक्रिया प्रतिक्षिपति । न तावत्सतः पुनरुत्पत्तिरस्ति । न चानुत्पन्नस्य स्थितिविपत्ती खपुष्पवत् । नाप्यसतः सर्वोत्पत्त्यादयस्तद्वत्। यदि पुनः सामिग्याः प्राग्विद्यमानस्य जन्म न स्यात् को दोषः स्पात् तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात् । न हि निराधारोत्पत्तिर्विपत्तिर्वा क्रियारूपत्वात् । स्थितिवन्नैतन्मतन्यं । नोत्पत्यादिः क्रिया क्षणिकस्य तदसंभवात् । ततोऽसिद्धोहेतुरिति प्रत्यक्षाविरोधात् । '. प्रादुर्भावादिमतः चक्षुरादिबुद्धौ प्रतिभासनात् । अन्यथा तद्विशिष्टविकल्पोऽपि माभूत् न हि दंडपुरुषसंबं- आप्तमीमांसा। १७ धादर्शने दंडीति विकल्पः स्यात् । तस्मात्सूक्तं यदेकांतेन सदसद्वा तन्नोत्पत्तुमहति व्योमबंध्यासुतवत् । इति । कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिः इति चेत् न-अनभ्युपगमात् । द्रव्यनयापेक्षया, परप्रसिद्धया वा उदाहरणं ।। २.१ ॥ धर्मं धर्मेऽन्य एवार्थो धर्मिणोऽनंतधर्मणः । अंगि वेन्यतमांतस्य शेषांतानां तदंगता ॥ २२॥ वृत्तिः-धर्मे धर्मे धर्मनिर्देशे । भने भङ्गे इति वा पाठांतरं । अन्य एवार्थोऽपूर्व एवार्थः । कुतः ! धर्मिणो वस्तुनः । अनंता धर्माः स्वभावा यस्य सोऽनंतधर्मा तस्यानंतधर्मणः । आगत्वे प्रधानत्वे । अन्यत- मांतस्यास्तित्वादीनां मध्ये एकतमस्य । शेषांतानां परिशेषधर्माणां नास्तित्वादीनां । ततस्मात् । अंगता 'अप्रधानता । अथवा तदांगता इति पाठांतरम् । तदा तस्मिन्काले । शेषाणामप्रधानता । अतः पुनरुक्तता नास्ति । अथवा सुनयसप्तभंगीनिरूपणामियं कारिका, संक्षेपार्था चेयं ।। २२ सप्तभंगी योजयान्नाह- अष्टशती-यदि पुनः प्रत्युपाधि परमार्थतः स्वभावभेदो न स्यात् तदा दृष्टेऽभिहिते वा प्रमाणांतर मुक्तयंतरं वा निरर्थकं स्यात् । गृहीतग्रहणात्पुनरुक्तेश्च स्वभावातिशयाभावात्, सदुत्पत्तिकृतकत्वादेः प्रत्य- नीकस्वभावविशेषाभावात् । यावंति पररूपाणि तावत्यस्ततस्ततो व्यावृत्तयः प्रत्येकमित्येषापि कल्पना माभूत । सतां हि स्वभावानां गुणप्रधानभावः स्यात् । ततः परिकल्पितव्यावृत्त्या धर्मातरव्यवस्थानं परिफ- ल्गुप्राय वस्तुस्वभावाभावप्रसंगात् । तथेंद्रियबुद्धयोऽपि स्वलक्षणविषया माभूवन्, केवलं व्यावृत्तिं पश्येयुः, अदृष्टे विकल्पायोगात् । अतिप्रसंगाच ॥ २२ ॥ एकानेकविकल्पादावुसरत्रापि योजयेत् । प्रक्रियां भंगिनीमनां नयनयविशारदः ॥ २३ ॥ वृत्तिः-नयविशारदो नयः प्रमाणपरिगृहीतार्थैकदेशे वस्त्वध्यवसायस्तस्मिन्कुशलः । नयैः स्वहे- तुभिर्विशेषणत्वादिभिः । एनां प्रक्रियाम् । भंगिनी भगवती भंगबहुला । उत्तरत्रापि इह ऊर्ध्वमपि.। योजयेदुद्धाटयेत् ॥ क! एकश्च अनेकश्च तावेव विकल्पी तावादिर्यस्य तस्मिन्नेकानेकविकल्पादौ । कथं ? स्यादेकः । स्सादनेकः । स्यादेकश्चानेकश्च । स्यादवक्तव्यः । स्यादेकश्चावक्तव्यः । स्यादनेकश्चावक्तव्यश्च । स्यादेकश्चानेकश्चावक्तव्यश्च । एवमनेन द्वैताद्वतादिषु योज्यं ॥ २३ ॥ सदायेकांतेषु दोषमुद्भाव्यैवमद्वैतकात दूषयितुमाह- अष्टशती-स्यादेकं सद्व्यनयापेक्षया । यद्यपि विशेषाः परस्परल्यावृत्तपरिणामाः कालादिभेदेऽपि सद्रूपाविशिष्टाचित्रज्ञाननीलादिनिर्भासवत् स्यादनेकत्वमास्कदंति । न हि संख्यासंख्यावतोभैदेनादृष्टौ विशे- घेणनिशेष्यविकल्पः कुंडलिवत् । क्षीरोदकवदतद्वेदिनि-नच भेदैकांते तद्वत्तास्ति व्यपदेशनिमित्ताभावात् । अन- वस्थाप्रसंगाच । तस्मादयं कथंचिंदव संख्यासंख्यावतोः स्वभावभेदं पश्यति तद्विशिष्टविकल्पनात् । क्वचि- निर्णयेऽप्यन्यत्र संशयाद्, वर्णरसादिवत् ॥ २३ ।। इत्यातमीमांसाभाष्ये प्रथमः परिच्छेदः । १। अष्टविकल्पायोगात् पाठीयं स. पुस्तके । २ पश्यन् पश्यतीति ख, पुस्तके पास। . ३ • . १८ सनातनजैनग्रंथमालायां- अद्वैतकांतपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां कियायाच नैक स्वस्मात्मजायते ॥ २४ ॥ वृतिः-अद्वैतमेवेत्येकांतोऽसद्ग्रहः स एव पक्षो जिज्ञासितविशेषो धर्मी तस्मिन्नपि दृष्टों भेदः प्रत्यक्षप्रमाणपरिच्छिन्नं नानावं लोकप्रसिद्ध वा । विरुष्यते मिथ्या भवेत् । कारकाणि कादीनि क्रिया आकुंचनादिका पाकादिका वा एतेषां परस्परेण "इयं किया इमानि कारकाणि इदं कर्तृकारक- मिदं कर्मेत्यादि । इयं दहन क्रिया इयं पचनक्रियेत्यादि । चशन्दादिदं प्रमाणमिदं परिच्छेचं वस्तु" इति भेदो न स्यात् । कुतः ! नेति एकांतप्रतिषेधवचनम् । एकमसहायम् स्वस्मादात्मनः । प्रजायत उत्पद्यते ॥२४॥ तथवमपि-- अष्टशती-सदाकांतेषु दोषोद्भावनमाभिहितं । अद्वैतैकांताभ्युपगमात् न तावतानेकांतसिद्धिरिति चेत् ! न प्रत्यक्षादिविरोधात्। न हि कस्यचिदम्युपगममात्रं प्रमाणसिद्ध क्रियाकारकभेदं प्रतिरुणद्धि क्षणिकाभ्युपगमवत् । न स्वतो जायते परतो वा अपि तु सुषुप्तायते प्रतिपत्त्युपायाभावात् । तस्मात् यदृष्टविरुद्ध तन समंजसं । यथा नराम्यं । विरुद्धयते च तथाऽद्वैतं क्रियाकारकमेदप्रत्यक्षादिभिः ॥ २४ ॥ कर्मद्वैत फलद्वैतं लोकदैत च नो भवेत् । विद्याविधाइयं न स्यात् पंधमोक्षद्वयं तया ॥ २५ ॥ वृत्तिः-शुभकर्माशुभकर्मेति द्वयं न स्यात् । पुण्यमिदं पापमिदं इहलोकः परलोको झानम- ज्ञान वंधो मोक्षश्च जीवप्रदेशकर्मप्रदेशान्योन्याश्लेषो बंधः । अष्टविधकर्ममोक्षों मोक्ष इत्येवमादि न स्यात् ॥ प्रमाणादद्वैतं निराकर्तुमाह- अष्टशती-प्रमाणप्रत्यनीकं स्वमनीषिकाभिरद्वैतमन्यदा किंचित्फलमुद्दिश्य औरचयत् । अन्यथा तत्प्रतिपत्तिप्रवर्तनायोगापेक्षावृत्तेः । तथाहि पुण्यपापसुखदुःखहपरलोकविद्यतरबंधमोक्षविशेषरहितं प्रेक्षा- पूर्वकारिमिः-अनादरणीयं यथा नैरात्म्यदर्शनं । तथा च प्रैस्तुतं ॥ २५ ॥ हेतोरद्वैतसिद्धिश्चेद्वैतं स्यादेतुसाध्ययोः । हेतुना चेद्विना-सिद्धिदैत वाङ्मावतो न किं ॥ २६ ॥ . वृत्तिः अद्वैतस्य सिद्धिः किं हेतोराहोस्विदचनमात्रात् ! यदि हेतोरिदै साधनमिदं साध्यमिति द्वैतं स्यात् । साधनमंतरेणाद्वैतस्य सिद्धिश्चेदेवं वचनमानाद्वैतं कस्मान्न स्यादिति समानं ॥ २६ ॥ .. पुनरप्यद्वैतं निराकर्तुमाह- अष्टशती-यदसिद्धं तन हितेप्सुभिः-अहितं जिहासुभिर्वा प्रतिपत्तव्यं । यथा शून्यकांतः । तथा- चासिद्धमद्वैतमित्यत्र नासिद्धो हेतुः । तात्सद्धिर्यदि साधनात् ! साध्यसाधनयोस्तर्हि द्वैतं स्यात् । अन्यथा अद्वैतसिद्धिवत् द्वैतसिद्धिः कथं न स्यात् । स्वामिलापमात्रादर्थसिद्धौ सर्वे सर्वस्य सिद्धयेत् ॥ २६ ॥ अद्वैतं न विना द्वैतादहेतुरिच हेतुना । संझिनः मतिषेधो न प्रतिषेध्यादृते कचित् ॥ २७ ॥ वृत्तिः-द्वताद्विना न भवत्यद्वैत । यथा अहेतुहेतुमंतरेण न भवति । संझिनो नामवतः प्रतिषेध्य- मंतरेण प्रतिषेधो यस्मात् । यो यः संज्ञी तस्य तस्य प्रतिषेध्यमंतरेण प्रतिषेधो न भवति । यथा कुसुममंत- रेण आकाशादौ कुसुमस्य । संझि चाद्वैतं तस्माद्वैतेन विना प्रतिषेधो न भवति ॥ २७ ॥ १ इत्यतोऽग्रे प्रमाणादि न त्यादिलपि पाठः । २१ आरभये पाठ-स. पुस्तके । ३ प्रतमित्यपः । - .
- आप्तमीमांसा। १९ अधुना सर्वथा सर्वपदार्थपृथक्त्वकांसवादिवैशेषिकादिमतकदर्थनार्थमाह- अष्टशती-अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षा नापूर्वीखंडपदत्वात् अहेत्वभिधानवत् । नात्र किंचिदतिमसम्यते तादृशो नत्रो वस्तुप्रतिषेधनिबंधनत्वात् । सर्वत्र प्रतिषेध्याहते संझिनः प्रतिषेधाभावः प्रत्येतव्यः ॥ २७ ॥ इटमद्वैतकांतापवारणं पृथक्त्वैकांतांगीकरणात् इति मावदीधरत् । पृथक्त्वैकांतपक्षेऽपि पृथक्त्वादपृथक्कृतौ । पृथक्त्वे न पृथक्त्वं स्यादनकस्थो बसौ गुणः ॥ २८ ॥ वृत्ति:-यद्यप्यद्वैतेकांतपंक्षे दोपभयात् पृथक्त्वमित्येकांतपक्षोऽभ्युपगभ्यते तथापि पृथग्गुणात्ता- वपृथाभूतावभ्युपगन्तव्यौ गुणगुण्यादी । अन्यथा तस्मादपि यदि तौ पृथक भिन्नौ स्यातां तदानी पृथक्त्वाख्योगुणो न स्यात् ! कुतः । यतोऽनेकस्थो ह्यसौ गुणो दृष्ट इत्यर्थः न च तयोः पृथक्त्वगुणः पृथ- ग्गतिः सर्वेषामभावः स्यात् । तस्मात् भेदपक्षोऽपि न श्रेयान् ।। इदानी पृथक्वैकांतवादिविशेषमायासु क्षणिकत्वकांतकदर्थनार्थमाह- अपशती-गृथगभूतपदार्थेभ्यः पृथक्त्वस्य पृथगभावे तेषामपृथक्त्वप्रसंगात् । तद्गुणगुणिनोरता-- दाम्ये घटपटवद् व्यपदेशोऽपि माभूत संबंधनिबंधांतराभावात् । पृथक्त्वमन्यद्वा पृथगभूतमनंश-अनेक:- स्थेषु निष्पर्यायं वर्तते-इति दुरवगाहं ॥ २८ ॥ संतानः समुदायश्च साधयै च निरंकुशः । मेत्यभावश्च तत्सर्व न स्यादेकत्वनिहवे ॥ २९ ॥ वृशि:-एकत्वस्य सादृश्यस्य कथंचित्तादाम्यस्य । निहवोऽपहनुतिनिराकरणम् । अथवा एकशन्दो व्यवचनोऽयं ततः स्वार्थिकस्त्वप्रत्ययः तस्मिन्नेकत्वनिहवे । क्रमभाविना कारणतद्वतामाली- नकमन्दकमधुरकादीनां गोरसजातिमजहतामुत्तरोत्तरपरिणामप्रवाहः संतानो न स्यान्न भवेत् । तथा रूप- रसादीनां धर्माणां सहभुवां नियमतो युगपदुत्पादव्ययभाजामकस्मिन्नवस्थानं समुदयो न स्यात् यद्यनेकांतात्मकं द्रव्यं न स्यात् । तथा शब्दघटादीनां साधयं च न स्यात् । मृत्वाऽमुत्र प्राणिनः प्रादुर्भावः प्रेत्यभावः सोऽपि न स्यात् । निरंकुशो निर्बाधोऽस्खलितरूपः सर्वत्र सबंधनीयः । चशब्दन. प्रत्यभिज्ञानादयोऽपि न स्युः । तदेतत्सर्वं न स्यादिति समुदायेन निर्देशात् यथायोग्यं सबंधो भवति । सामान्यनिर्देशानपुंसकलिंगता। पुनरपि भेदैकांते दूषणमाह- अहशती-कार्यकारणयोः पृथक्वैकांते कार्यकालमात्मानमनयतः कारणत्वाऽसंभवाचदनुत्पत्तेः कुतः संततिः! पूर्वापरकालभाविनोरपि हेतुफलव्यपदेशभाजोरतिशयात्मनोरन्वयः संतानः क्वचित्क्षणांतरे नीललो-- हितादिनिर्भासचित्रकसंवेदनयत् कथंचिदेकत्वमेव भवितुमर्हति । तदवयवपृथक्त्वकल्पनायां चिनानि सो माभात्।पृथगवर्णीतरत्रिपयानेकसंतानेकक्षणवत् तत्र प्रत्यासत्तिविशेषःकथंचिदैक्यात कोऽपर: स्यात् अन्यथा वेद्यवेदकाकारयोरपि पृथक्त्वैकांतप्रसंगात । स्वभावभेदेऽपि सहोपलंभनियमात्कथंचिदभेदाभ्युपगमे कथं- मेकसंतानसंविदा समनंतरोपलभनियमात्कधीचौक्यं न स्यात् । तत्र यथा प्रत्यासत्या संतानः समुदायश्च तथैव कथंचिदैक्यमस्तु । न हि तादृशां साधर्म्यमन्यदन्यत्रात्मसांकार्यात् । एकज्ञाननिर्भासविशेषाणां मिथः स्वभावभेदेऽपि यथैकत्वपरिणामः स्वभावतोऽनंकुशः-तथा प्रेत्यभावादिषु संतानान्वयः परमार्थैकत्वमात्मस:- वजीवादिव्यपदेशभाजनं स्वभावभेदानाक्रम्य स्वामिवदनन्यत्र वर्तयति ॥ २९ ॥ १ अभिमतमद्वैतकातप्रतिषेधः इत्यर्थः ।। २. सर्वमित्यत्रेत्यर्थः। ३.1 मा भूदिति ख. पुस्तके पाठः । . - । - .
२० सनातनजनप्रथमालायां- सदात्मना च भिन्नं चेव ज्ञानं ज्ञेयाद्विधाऽप्यसत् । झानाभावे कथं ज्ञेयं बहिरंतश्च ते द्विषां ॥ ३० ॥ वृत्तिः-तथा चैतन्यस्वरूपेण ज्ञेयात्प्रमेयात् ज्ञानमवबोधो “ भिन्नमन्यच्चगदि सदात्मना चास्तित्वरूपेणापि पृथक् स्यात् । द्वैधाऽपि ज्ञान ज्ञेयं चासत्स्यात् । अभावः स्यात् । कुतः? ज्ञानाभावे बोधशून्ये कथं ज्ञेयम् । बहिर्बाह्यं । अन्तः अतरङ्गं च । ते द्विषां तुभ्यं द्विषतां मिथ्यादृशाम् । यस्माज्ज्ञाने सति ज्ञेयं विषयत्वात्। ज्ञेये सति ज्ञानं च भवति तत्परिच्छेदकत्वात् । तस्मात् ज्ञानं कथंचिदभिन्नमेपितव्यं सदाद्यात्मनाऽन्यथाऽवस्तु स्यात् । सार्थविशेषस्य वाच्यवाचकतेभ्यते तस्य पूर्वमदृष्टवात्सामान्यं वपदिश्यते शब्दरित्यभिप्रायवतो मतमा- श्रिय तत्कदर्थयितुमाह- अष्टशती-विपयिणो विषयात्कथंचिस्वभावभेदेऽपि सदाद्यात्मना तादात्म्य बोधाकारस्पत्र विषया- "कारात्, विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरंतर्वा ज्ञेयमेव न स्यात् तदपेक्षत्वात् ॥ ३० ॥ सामान्यार्या गिरोऽन्येषां विशेषो नाभिलप्यते । -सामान्याभाव तस्तेषां मृषय सकला गिरः॥३१॥ वृशि:-अथ मतं सामान्यमस्माभिरिष्यते किंतु शब्दगोचरत्वादवस्तु, अत आह । सामान्य विक- ल्पनेष्टोऽयो वाच्यो यास ताः सामान्यार्थाः। गिरो चाचः। अन्येषां मिथ्यादृशां । यतस्ताभिर्विशेषो याया- म्यं स्वलक्षणं नाभिलप्यते । यद्येवं सामान्य तेषामवस्तु अतस्तस्याभावात्सकलाः समस्ता गिरो वचनानि मृषवासत्यरूपा एव अतो न वाच्यं नापि वाचकोऽनुमानाभावः ॥ ३१ ॥ उभयकांत निराकर्तुकामः प्राह- अष्टशती-विशेषाणामशक्यसमयत्वात्-असंकेतितानभिधानात् विशेषदर्शनवत्तबुद्धावप्रतिभासनात् अर्थसंनिवानानपेक्षगाच, स्वलक्षणमनभिधेयं सामान्यमस्तु उच्यत इति वस्तु नोच्यत इति स्यात्। ततः किं शब्दोच्चारणेन संकेतन वा गोशब्दोऽपि हि गां नाभिवत्त यथाश्वशब्दः । तथाच मौनं यत्किंचिद्वा वचन-. माचरत् विशेगाभावात् । अस्ति विशेषः कथं स्वार्थ नाभिदधीत न वै परमार्थकतानत्वात् अभिधान- नियमः किंतूपादानविशेषात ? इत्यपि वात अविकल्पेऽपि तथैव प्रसंगात् । तदेवमनबंधारितात्मकं वस्तुस्व- लक्षणमापनीपोत । नावश्यामंद्रियज्ञानं-अर्थसंनिधानमपेक्षते विप्लवाभावप्रसंगात् । नापि विशादात्मकमेव दूरेऽपि तथाप्रतिभासप्रसंगात् । यथारात् । क्षणभंगादिसाधनवचनमन्यद्वा न किंचित्सत्यं वक्तुरभिप्रेतमात्र सूचितत्वात् । प्रधानेश्वरादिसाधनवाक्यवत् । सदर्थाप्रतिपादनाद्वा प्रसिद्धाटीकवचनवत् । दृश्यविकल्पा- कारयोः कथंचिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचतोधर्मादिक्षणवत कथं संशीति मतिवर्तत । विकल्पानां चावस्तुविषयत्वादविकल्पतरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलंबिना विकल्पां- तरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानांप्रियः । स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि विकल्पः ' स्यात् । परतश्चेत् अनवस्थानादप्रति गत्तेः । अतोऽर्थविकल्पोऽपि माभूत इत्यंवकल्पं जगत्स्यात् । नचार्य परोक्षबुद्धिवादमतिशते स्वयमनिीतेन नामात्मना बुद्धिरर्थ व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । न वै स्वरूपं पररूपं वा बुद्धिरभ्यवस्यति निर्वित्रयत्वादिभ्रांतेः । इदमतो-भ्रांततरं बहिरंतश्च सद्भावासिद्धेः । स्वपर-' स्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्था प्रत्येतीति किमपि महाद्भुतं ॥ ३१ ॥ १ज्ञयं भवतीत्यर्थः। २ ताथागतमते स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयं चानुमान ततश्च सामान्याभावे ऽनुमानाभावः स्यादेत्येतदर्थः ।
आप्तमीमांसा। २१ विरोधानोभौकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतकोतेऽप्युक्ति वाच्य मति युज्यते ॥ ३२ ॥ वृत्तिः-अथ मतं यद्यकैके दोप उभयकात्म्यमेषितव्यमिति दूषणमाह । एकत्वपृथक्त्वपरप्रत्यनी- कस्वभावद्वयसम्भवोऽपि न संभवति अस्तित्वनास्तित्ववत् प्रतिषेधात् । एकैनैकस्य निराकृतत्वात् । अथा- वाच्यमिष्यते तदपि न । अवाच्यत्वे येयमुक्तिः साऽपि न संभयति मिथ्यादृशां । सामान्यविशेषौ परस्परानपेक्षावन्याभ्युपगतौ निरस्य तो सापेक्षा सतावनियां कुरुत इत्यस्यार्थस्य प्रतिपादनार्थमाह- अष्टशती अस्तित्वनास्तित्वैकत्वानेकत्ववत् पृथक्त्वेतरप्रत्यनीकस्वभावद्वयसंभवोऽपि माभूत विप्र- तिषेधात् । न खलु सर्वात्मना विरुद्वधर्माध्यासोस्ति तदन्योन्यविधिप्रतिषेधलक्षणत्वाद् बंध्यासुतक्त् । सर्वथा- नमिलाप्यतत्वाभ्युपगमेऽपि यदेतदनभिलाप्यं तत्त्वमिति तद्व्याहन्यते ॥ ३२ ॥ अनपेसे पृथक्त्वैक्य वस्तु यहेतुतः। तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा ॥ ३३ ॥ वृत्तिः-परस्परानपेक्षे पृथक्त्वैक्ये सामान्यविशेषाववस्तु अर्थक्रियाकारि न भवति द्वयहेतोभ्यां कथं ! यद्यविशेषशून्य तत्तनास्ति यथा खराविषाणं सामान्यं च तथा परपारिकल्पितं । तस्मान्नास्ति विशेषः सामान्यशून्यत्वात् । खरविषाणविशेषवत् । इत्यनेन हेतुद्वयेन सामान्यविशेषयोरवस्तुत्वं साधनीयं । तदेव वस्तु ऐक्यं सामान्य-विशेषश्च पृथक्त्वं च द्वयात्मकं । कुतः अविरोधात् । यथा साधनं हेतुबानं वाक्यं वा स्वभेदैः स्वधः पक्षधर्मान्वयव्यतिरेकादिभिभिन्नमेकं भवति । ननु तदेवैक्यं पृथक्त्वं च कथं ? यावता विरुद्धमेतत् ,- अष्टशती-एकत्वपृथक्वेऽनेकांततः स्तः प्रत्यक्षादिविरोधात् इति स्पष्टयति-पृथक्त्वैकत्वे तथाभूते. नस्ता-एकत्वपृथक्स्परहितत्वाद् व्योमकुसुमादिवत । सापेक्षत्वे हि तदेवैक्यं पृथक्वमित्यविरुद्ध सपक्ष- विपक्षयोर्भावाभावाभ्यां साधनवत् । स्वभेदैर्वा संवेदनवत् । सारंभकावयवैर्वा घटादिवत् । तादृशं हि साधनं स्वार्थक्रियायास्तदंतरेणापि पाठांतरमिदं बहुसंगृहीतं भवति ॥ ३३ ॥ सत्सामान्यात्तु सर्वैक्यं पृथक द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् ॥ ३४ ॥ वृत्तिः-सतोऽस्तित्वस्य सामान्यं यत्तत्तथा तस्माच्च सर्वस्यैक्यमेव । द्रव्यादिभेदै- ईन्यपर्यायगुणादिभेदैरथवा द्रव्यक्षेत्रकालभावभिन्नं पृथक्त्वादेव । भेदश्चाभेदश्च तयोर्विवक्षायां क्रिय- माणांयामसाधारणहेतुः श्रावणत्वप्राणादिमत्वादिस्तद्वत् । यद्यप्यत्रान्वयो नास्ति तथाप्यन्यथानुपपत्ति:: वलेन सिद्धमिति ॥ ३४ ॥ केचिद्वियमानस्याविवक्षाऽविद्यमानस्यव विवक्षा अन्येषां वैयाकरणानां विद्यमानस्यैव विवक्षा नाविधमानस्य, अन्येषां विवक्षा नास्तीत्येतन्मतनिराकरणायाह- अशती-सर्वार्थानां समानपरिणामेऽपि कथमैन्यं भेदानां स्वभावसांकर्यानुपपत्तेः । यथैकभेदस्य स्वभावविच्छेदाभावात् । अन्यथैकं सदन्यदसत्स्यात् । तत्समंजसं सर्वमेकं सदविशेषात् इति । तस्यैव सतो द्रव्यादिभेदात् पृथक्त्वं । उदाहरणं पूर्ववत् ॥ २४ ॥ १अभिन्नस्येत्यर्थः। 1. ।
२२ सनातनजनप्रथमालायां- विवक्षा चाविवंक्षा च विशेष्येऽनंतधार्मीणी : ‘सतो विशेषणस्यात्र नासतस्तैस्तदभिः ॥ ३५ ॥ दृत्तिः-सतो विद्यमानस्य विशेषणस्यास्तित्वादेविवक्षा चाविवक्षा च । नासतो नाविद्यमानस्य क्रियते । कैस्तदर्थिभिर्विवक्षाप्रयोजनवद्भिः । अत्रकस्मिन् । कुतः ! लोकप्रसिद्धमेतत् । कस्यचिद्भेदः संवृतिकल्पितोऽन्यस्याभेदः संतिकल्पित इत्येतां दुरागमवासनाजनितां विप्रतिपत्ति निराकर्तुमाह- अष्टशवी-विधिप्रतिषेधधर्माणां सतामेव विश्वक्षेतराभ्यां योगस्तदर्थिभिः क्रियेत अन्यथा अर्थनिष्प- तेरभावात् उपचारमात्रं तु स्यात् । नंचाऽग्निर्माणवक इत्युपचारात्पाकादावुपयुज्यते । तदेकैकशः परस्परल्या- वृत्तयोऽपि परिणामाविशेषाः ॥ ३५ ॥ प्रमाणगोचरौ संतो भेदाभेदी न संवृती। तावेकत्राविरुदी ते गुणमुपविक्षया ॥३६ ॥ ॥ वृत्तिः-भेदाभेदी प्रमाणगोचरौ-प्रमाणविषयौ संतो-भवंतौ संवृतिरूपावपरमार्थो न प्रमाणविष- यत्वात् । अतस्तबागेम तावेककस्मिन् धर्मिणि न विरुदौ । गुणविवक्षया अप्रधानविवल्या । मुख्यधि- क्षया प्रधानविवक्षया । दृश्यते च लोके प्रधानाप्रधानविवक्षा यथाऽनुदरा कन्येत्यादि ।। ३६ ॥ नित्यत्वेकांतं निराकर्तुकाम आह- अष्टशती-प्रमाणमविसंवादिज्ञानमनधिगतार्याधिगमलक्षणत्वात् । तदेवं सति भेदमभेदं वा नान्यो ऽन्यरहितं विषयीकरोति । न हि बहिरंतर्वा स्वलक्षणं सामान्यलक्षणं वा तथैवोपलभामहे ययकांतवादिभि- राम्नायते । सूक्ष्मस्थूलाकाराणां स्थूलसूक्ष्मस्वभावव्यतिरेकेण प्रत्यक्षादावप्रतिभासनात् तत्र स्वभावांतरस्य प्राधान्यविवक्षायां-आकारांतरस्य गुणभावः स्यात् । घटोऽयं परिमाणको रूपादयो वेति ॥ ३९ ॥ इति आप्तमीमांसाभाष्ये द्वितीयः परिच्छेदः । - 1. नित्यत्वकांतपक्षेऽपि विक्रिया नोपपद्यते । मागेव कारकाभावः व प्रमाणं व तत्फलम् ।। ३७ ॥ वृत्तिः-उक्तपक्षदोषभयान्नित्यत्वकांतपक्ष आश्रीयते तत्रापि सतो भावस्यांतरावाप्तिर्विक्रिया सा नोपपद्यते न घटत इत्पर्यः । अत एव कारणात् कारकाणि कर्नादीनि तेषामभावः शून्यता। प्रागेव पूर्व- मेव । तस्मिलमाव कारकविशेषप्रमाणवस्तुयाथात्म्यप्रतिपादकं क तस्मिन् किंतु न कचिदपि । तदभावे क प्रमाणफलमुपक्षाहानोपानादिकम् । ॥ ३७॥ माभूदिक्रिया व्यंम्धव्यंजकभावो भविष्यत्यत आह- अटशती-सदसदैकलपृथक्वैकांतप्रतिषेधानंतरं नित्यत्वैकांतप्रतिक्षेपः । पूर्वापरस्वभावपरिहारावाहिल- क्षणामक्रियां कौटस्थ्येऽपिशवाणः कथमनुन्मत्तः ! कारकज्ञापकहेतुव्यापारासंभवात । परिणामविवर्तध- विस्थाविकाराणां स्वभावपर्यायत्वात् । तदेतद्विनाशोत्पत्तिनिवारणमबुद्धिपूर्वकं प्रत्यक्षादिविरोधात् क्षणिकैकांतवत् ॥ ३७॥ प्रमाणकारकैव्यक्तं व्यक्तं चेदिद्रियार्थवत् । ते च नित्ये विकार्य किं साधास्ते शासनाइदिः ॥ ३८ ॥ : N शासने पुनः आप्तमीमांसा! वृत्तिः-प्रमाणानि प्रत्यक्षादीन । कर्तृकर्मकरणसंप्रदानापादानाधिकरणानि कारकाणि तैर्व्यक्त प्रकाशिनं व्यंजितं कृतं । व्यक्तं महदादि । यथेंद्रियैश्चक्षुरादिमिरर्थो विषयः । चेद्यद्येवं। ते च व्यंग्यव्यंजके नित्ये अविचलितकरूपे । किं विकार्य यावता हि न किंचिदपि । तव साधोर्मुनेः शासनात् प्रवचनात् । बहिरंतेष्वयमेव हि विकारो यो वस्तुन्यन्यथाभावो व्यक्तिरप्यन्यथाभावः अव्यक्तास तमन्यत् । तब सर्व सुघटम् । पुनरपि कदयितुमाह- अष्टमती-अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यं जयंति । चक्षुरादिवत्स्वार्ध ततो न किं. चिद्धिप्रतिषिद्ध । विषयविशेषविज्ञानादेः शाश्वतत्वान किंचिद् व्यक्ता पश्यामः । कथंचिदपूर्वोत्पत्तौ तदेकांत- विरोधात् तदभावविकार्यानुपपत्तेः । न वै किचिद्विरुद्ध कार्यकारणभावाभ्युपगमात् इत्यनालोचितसिद्धांतः॥ यदि सत्सर्वथा कार्य पुंवनोत्पत्तुमर्हति । परिणामप्रक्लुसिव निलत्वकांतवाधिनी ॥ ३९ ॥ वृचिः-असत्किंचिदपि नोपपद्यते सर्व सर्वत्र सर्वस्मादत आह । यदि सर्वथा विश्वप्रकारैर्यथा शक्त्यात्मना एवं व्यक्तात्मनापि कार्य घटादिकं सत् विद्यमाने पुमानिव पुंवत् सांख्यपरिकल्पितपुरुषवत् । नोत्पत्तु नो प्रादुर्भवितुमर्हति योग्यं भवति । यद्यत्सर्वथा सत् न तदुत्पद्यते यथा सांस्यपुरुषः सच्च सर्वथा कार्य तस्मान्नोत्पद्यते । अथ व्यवस्था तस्य द्रव्यस्य धर्मातरत्यागैर्धर्मातरोपजनितः परिणाम इष्यते ? अत आह परिणामस्य प्रक्लृप्तिः कल्पना समर्थन च सर्वस्य नित्यत्वमिति योऽयमेकांतस्तस्य बाधिनी निराकरण- शीला विरोधिनी इत्यर्थः। अतो बन्धमोक्षादिकमत्र न संभवति नित्यत्वात्प्रकृतिपुरुषयोस्तव मते. पुनः संभवतीत्याह- अष्टशवी-न तावत्सतः कार्यत्वं चैतन्यवत् । नाप्यसतः सिद्धांतविरोधात् गगनवकुसुमवत् । नापरमे- कांतप्रकारांतरमस्ति । विवर्तादेः पूर्वोत्तरस्वभावप्रचंसोत्पत्तिलक्षणत्वात् । तदेतत्रैलोक्य व्यक्तेरपति निस- त्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधात् इसनेकांतोक्तिरंधसर्पविलप्रवेशन्यायमनुसरति ॥ ३९ ॥ पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । पंधमोक्षी च तेषां न येषां वं नासि नायकः ॥ ४०॥ वृतिः-मैत्रीप्रमोदकरुणादिक्रियाऽभावे. कुतः. पुण्यहतुत्वात् पुण्यं । हिंसादिरशुभपरिणामः पापहेतुत्वात्पापं । तयोः क्रिया क्षयोपार्जनं न स्यान्न भवेत् अत एव क्रियाऽभावे कुतः प्रेत्यभावः ! जन्मांतर- फलं च सुखदुःखादिरूपं कुतः ! बंधः कर्मणाऽस्वतंत्रीकरणं मोक्षः स्वामोपलन्धिः एतौ च द्वौ तेषां न येषां त्वं नासिन भवसि नायकः प्रभुः ! किमुक्तं भवति एतत्सर्वं त्वच्छासन एव नान्येषां नित्यत्ववादिना कुतः । विक्रियाऽभावात् ॥ न केवलं नित्यैकांत एतेषामभावः किंतु- अष्टशती-नैतत्प्रेक्षापूर्वकारिभिराश्रयणीयं पुण्यपापप्रेत्यभावबंधमोक्षविकल्परहितत्वात् नैरात्म्यादिवत् । नचतत्क्वचिदेकांते संभवति ॥ ४०॥ क्षाणिकैकांतपक्षेपि प्रेत्यभावाघसंभवः । प्रत्यभिज्ञाघभावान कार्यारंभः कुतः फलं ॥ ४ ॥ वृत्ति:-क्षणिको निरन्वयविनाशः स एवैकांतपक्षस्तस्मिन्नपि प्रेत्यभावादीनां जन्मांतरादीनामसंभवा ऽभावः । प्रत्यभिज्ञा स एवायमिति ज्ञानं सा आदिर्येषां ते प्रत्यभिज्ञादयस्तेषामभावस्तस्मान कार्यारंभ ओ- ....
सनातननग्रंथमालायां- दनवटादेरारंभ आदिक्रिया । अतः कुतः फलं समर्पणादिकं परिहारोऽनिष्टस्य । अस्माइतकार्य भविष्यति नान्यस्मादेतदपि न संभवत्वेव | आदिशब्देन पर्यालोचनाभ्यवसायादीनां ग्रहणं । यदि कश्चित् स्थिरः कर्ता स्यादुपादानादीन्यपि यदि स्थिराणि सत्यस्य कार्यस्य, एतद्योग एव तन्निराकरणमपि । कथंचिद्यदि कार्य- रूपेण परिणमति तदा सर्व सुघटं नान्यथा ॥४१॥ तत्र कारणे कार्य मनागपि नास्तीति चेदत आह- अष्टशती क्षणक्षयकांतदर्शनं-अहितं, असंभवत्प्रत्यभावादित्वात् उच्छैदैकांतवत् । धौम्यकांताभ्युपगम- वदा । भिन्नकालक्षणानामसंभवदासनत्वात् अकार्यकारणवत् । न विनष्टं कारणमसत्त्वाचिरतरातीतवत् । समनंतरत्वेऽप्यमावाविशेषात् । न च पूर्वस्योत्तर कार्य तदसत्येव हि भावात् वत्वंतरवत् अतिक्रांततमवद्धा नहि समर्थेऽस्मिन् सति स्वयमनुपित्सोः पश्चाद्भवतस्तत्कावं ? समनंतरत्वे वा नित्यवत् । कारणाभावा- विशेषेऽपि कार्योपत्तिसमयनियमावक्लप्तौ कस्यचित् कौटस्थयेऽपि तत्कारणसामर्थ्यसद्भावाभेदेपि कार्यजन्मनः' कालनियमः किं न स्यात् । विशेषाभावात् । तथा चाकस्मिकत्वं स्यात् । उभयत्राविशेषण कचिदनुपयोगेऽपि क्वचिद् व्यपदेशकल्पनायामन्यत्रापि किं न भवेत्क्षणस्थितिः-1 एकोऽपि भावोऽनेकस्वभावः चित्रकार्यत्वात् नानार्थवत् । न हि कारणशक्तिभेदमंतरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत् । अन्यथा रूपादेर्नानात्वं न सि- येत् चक्षुरादिसामिग्रीभेदात् तज्ज्ञाननिर्भासभेदोऽवकल्पेत । युगपदेकार्थोपनिवदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन कारणसामिग्रीभेदात् । अन्यथा दर्शनभेदोऽपि माभूत् । प्रत्यासन्नेतरयोवेशयेतरनिर्भासो- पलब्धेः । सेयमुभयतः पाशारज्जुः । सकृत्कारणस्वभावभेदमंतरेण यदि कार्यनानावं क्रमशोऽपि कस्यचिद- पेक्षितसहकारिणः कार्यसंततिः किं न स्यात् । सहकारिणस्तद्धेतुस्त्रभावमभेदयंतोऽपि कार्यभेदहेतवः स्युः क्षणक्षयवत् । न हि कादाचित्कानि तत्कर्तुं समर्यानीति स्थिरोऽयस्तकरणस्वभावं जहाति सद्बुद्धिपूर्वक- वाभावात् । क्षणिकसामिग्रीसन्निपतितैककारणांतरवत् । कल्पयित्वापि स्वहेतुप्रकृति भावानां स्वप्रकृतिर- वश्य-अन्वेष्याः। तत्स्वभाववशाचत्कारणप्रकृतिव्यवस्थापनात् । तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात् । यद्यद्भाव प्रत्यनपेक्षतत्तद्भावनियतं तथा विनाशं प्रत्यनपेक्षं विनश्वरं तथैव स्थिति प्रत्यनपेक्ष स्थास्तु तद्धतोरकिंचित्करत्वात् तद् व्यतिरिक्ताव्यतिरिक्ताकारणात् इत्यादि सर्व समानं । आदौ स्थितिदर्शनात् विद्युत्प्रदीपादेरतेऽपि स्थितरनुमानं युक्तं । सन्यथांते क्षयदर्शनात् आदौ तत्प्रतिपत्तिरसमंजसैव तादृशः कारणादर्शनेऽपि कथंचिदुपादानानुमानवत् तत्कार्यसंतानस्थितिरदृष्टाप्यनुमीयेत । तस्मात्कथंचन स्थितिमतः प्रतिक्षणं विवर्तोऽपि नान्यथा प्रभावादेरयोगात् । कुतः प्रेत्यभावादिः ? सत्यपि हेतुकल्भावे कारणकार्यात- खत् संततिर्न स्यात् । अतादात्म्याविशेषात् तत्स्वभावविशेषावक्लप्तौ तादात्म्येऽपि कोऽपरितोषः विरोधस्य सर्वथाप्यपरिहार्यत्वात् । तत्संतानपेक्षया प्रेत्यभावादिः मामस्त ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात् । न वै. प्रत्यभिज्ञादिः पुरुषांतरवदातरबच । ततः कर्मफलसंबंधोऽपि नानासंतानवदनियमात् न युक्तिमवतरति । तत्सूक्तं क्षणिकपक्षो विद्वद्भिरनादरणीयः सर्वयार्थक्रियाविरोधात् नित्यत्वैकांतवत् । सत्येव कारणे यदि कार्य त्रैलोक्यमेकक्षणवर्ति स्यात् । ततः संतानाभावात् पक्षांतरासंभवाच्चेति स्थितमेतत् ॥४१॥ यद्यसत्सर्वथा कार्य तन्माजनि खपुष्पवत् । मोपादाननियामोभून्माऽऽवासः कार्यजन्मनि ॥ ४२ ॥ वृत्तिः सर्वथर शक्तिव्यक्तिस्वरूपेण यदसदविद्यमानं तत्कार्य माजनि माभूत् । खपुष्पं 'गगनकुसुम तदिव खपुष्पवत् । उपादानं मृत्पिडतत्त्वादिकं तस्य नियामोऽस्मादेतत्कार्य भवतीति निश्चयः सोऽपि माभूत्। आश्वासाऽस्मादेतद्भविष्यत्ययमपि माभूत् । कार्यजन्मनि कार्योपत्तौ ॥ ४२ ॥ पुनरपि दोषमुद्भावयितुमाह- १। एतद्योग्यमेव पाठोऽयं लिखितपुस्तके। २ परिणमनमपि पाठोयं मुद्रितपुस्तके । ..
'तिमीमांसा । अष्टशती-कथंचित् सतः कार्यत्वं-उपादानस्योत्तरीभवनात् सकदपि विरुद्धधर्माध्यासानिराकृतेः । तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबंधनायाः किं फलमपलापेन । तदन्यतरनिराकृतावुभयनिराकृति:- अभेदात् । तन्नासत्कार्य सर्वथानुत्पादप्रसंगात् खपुष्पवत् । न तादृशकारणवत् सर्वथाऽभूतत्वात् बंध्यासुतवत् । कथंचिदस्थितानुत्पन्नत्वादिति योज्यं । सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्पिडस्थासकोशकुशूला- दिषु सकललोकसाक्षिक, स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलंभानवधारणावक्लप्तिमारंचयतां मोपादान- नियामोऽभूत्कारणांतरवत् तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्यात् । निरन्वयस्यापि तादृशी प्रकृतिरात्मानं कारणांतरेभ्यो यया विशेषयतीति चेत् ! न अत्यंतविशेषानुपलब्धः। तदविशेषादर्शने सर्वथा साध्यं स्यात् । तस्मात् इयमस्य प्रकृतिर्यया पूर्वोत्तरस्वभावहानोपादानाधिकरणस्थिति प्रतिक्षणं विभर्ति यतोऽयमुपादान- नियमः सिद्धः । अथापि कथंचिदुपादानंनियमः कल्प्येत कार्यजन्मान कथमाश्वासः ? तदत्यंतासतः-कार्य- स्योत्पत्तेः तंतुभ्यः पटादिरेव न घटादिरिति निर्हेतुको नियमः स्यात् । पूर्वपूर्वविशेषादुत्तरोत्तरनियमकल्प- नायामनुपादानेऽपि स्यात् । तथादर्शनमहेतुरत्रैव - विचारात् कथंचिदाहितविशेषतंतूनां पटस्वभावप्रतिलं- भोपलंभात् । तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात् प्रतीतरलमपलापेन । तस्माद्भयलक्षणप्राप्तानुप- लब्धिरन्वयस्यैव न पुनरुभयरूपस्येत्यलं प्रसंगेन ॥ ४२.॥ 'न हेतुफलभावादिरन्यभावादनन्वयात् । संतानांतरवनैकः संतानस्तद्वतः पृथक् ।। ४३ ॥ वृत्ति:-क्षणिकैकातपक्षे हेतुः-कारणं । फलं-कार्ये तयोर्भावोऽस्तित्वं स आदिर्यस्य स हेतुफलभावादि- रुपादानोपादेयस्वरूपं कार्यकारणभावो वाच्यवाचकभावश्च न स्यात् । कुतः अन्यभावादत्यंतपृथक्त्वात् । तदपि कुतः अनन्वयादेकस्य पूर्वापरावस्थाऽभावात् । तथा संतानांतरे प्रस्तुतसतानादन्यः सतानः संतानांतरं तस्मिन्यथा न संभवति कार्यकारणभावः मृत्पिण्डात्पैटइव | अभ्युपगम्यैतदुक्तं परमार्थतस्तु संतानिभ्यो मिने- भ्यः पृथग्भूता, ततो न कश्चिदेकः संतानोऽनुगतैकाकारः । अन्यानन्यभावाभ्यां निराकृतत्वात् । तस्मान्न संतानो नापि संतानिन इति ॥ ४३ ॥ पुनरपि तस्य दूपणमाह- अधशती-विलक्षणानामत्यंतभेदेपि स्वभावतः किलासंकीर्णाः संततयः कर्मफलसबंधादिनिबंधनं शश- विषाणस्येव वर्तुळवमारचित कश्चेतनः श्रद्दधीत ॥ ४३ ॥ अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृपा कथं । मुख्यार्थः संवृतिनास्ति विना मुख्यान संवृतिः ॥ ४४ ॥ वृत्तिः-मत्य संतानिभ्यो व्यतिरिक्तः संतानो नास्ति किंतु अन्येषु पृथग्भूतेषु योऽयमनन्यशब्दो- ऽनन्यबुद्धिश्च संतानः सा सवृतिरुपचाः । यद्येवं कथं सौं न मृषा व्यलीका भवेत् । न च मुख्यार्थः संवृतिरस्ति तस्यास्तुच्छरूपत्वात् । संवृतिस्तूपचारः । न च मुख्यार्थमंतरेण संवृतिः, सति मुख्यार्थे तस्याः संभवो यथा सिंहोऽयं माणवका, सति मुख्यसिंहे माणवके सिंहकल्पना । न चैवं संवृते- रस्ति मुख्यार्थ इति ॥ ४ ॥ अथैवं परिकल्प्यते- अष्टशती-संतानिभ्योऽनन्यः संतानः अन्यथा आत्मनो नामांतरकरणात्-नित्यानित्यविकल्पानुपत्तः । १ पूर्वीपरभावात् पाठोऽयं लिखितपुस्तके । ३ तस्याः शब्द २ मृर्पिबाट इस पाठो शान्तिपुस्तके । स्थत पाठगेयं लिखित पुस्तके । . " - - २६ ननातन प्रथमालायां- अपि तु तेवनन्यन्यवहारादेवावमुपचरितनिति । व्यलोकन्यवहारेऽपि विशेषानुपपत्ते संवधनियमामावलद- वत्यः । उपचारस्तु नतें मुख्यात् यथाग्निर्माणकइति स्वमत हि तत्रानन्यप्रत्ययः परीक्षाऽननात् । मत एवामुख्यार्थः प्रस्तुतासाधनं ।। १४ ॥ चतुष्कोटविकल्पस्य सर्वातेक्तययोगतः । तत्त्वान्यत्वमवाच्यं च तयोः संतानतदतोः ॥ ४५ ॥ वृत्तिः यथा सर्वधर्नेषु चतन्नः कोटयो सत्वैकवादिषु विभागा यस्यातौ चतुष्कोटिविकल्पस्तस्य सदसदुझ्यादिभेदभिन्नस्य विकल्पस्य | रतिर्वचनं तस्या अयोगोऽसंभवः ततः । तयोर संतानतद्वत्तोश्चतुष्को- टेर्विकल्पस्य वचनत्यायोगात्तत्वान्यात्नमेजवानकालमवाच्यं ॥ ४५ ॥ चेदत आह- अष्टशती सत्वैकवादिषु सर्वधर्मेष सदसदुभयानुभश्चतुष्कोटेरभिधातुमझ्यक्यत्वात् संतानतद्वतोरपि भेदाभेदोभयानुभवचतुष्कोटेरनमिलाप्यत्वं । सत्ते तदुत्पत्तिविरोधात्-असत्ते पुनरुच्छेदपक्षोपक्षितदोषात् । उभयत्रोमयदोषप्रसंगात् । अनुभयपक्षेऽपि विकल्यानुपपत्तिरित्यादि योज्यं ॥ ४५ ॥ अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यतां । असर्वातमवस्तु स्यादविशेष्यविशेषणं ॥ ४६ ॥ वृत्तिः-तप्रवक्तव्यचतुष्कोटिविकल्पोऽपि यः सोऽपि न कथ्यतां नोच्यता माभाणोदित्यर्थः । अन्यथा भेदाभेदोभयानुभयस्वल्पणाभिलाप्यत्वे कयंत्रिदनभिलाप्यत्वं स्यात् । अन्य सति असर्वातं सर्वविकल्पाती- वमवस्तु स्यात् । अविशेष्यविशेषणं स्यात् । विशेष्यत इति विशेषः विशेष्यतेऽनेनेति विशेषेणं तयोरभावात् ॥ ४६॥ अन्यच प्रतिषेधोऽपि न घटते, तत्कथमत आह- अष्टशती-न हि सर्वथानमिलाप्यत्वेऽनमिलाप्यचतुष्कोडेराभिधेयत्वं युक्तं कर्यचिदभिलाप्यत्वप्रसंगात् । अपि चैव सति सरिकल्पातीतमवस्त्वेव त्यादन्यत्र वाचोयुक्तः ॥ ४६॥ द्रव्याधंतरभावेन निषेषः संझिनः सतः। असतेंदो न भावस्तु स्थानं विधिनिषेधयोः ॥ ४७॥. वृत्तिः-द्रव्यमादिर्येषां ते द्रव्यक्षेत्रकालभावास्तेभ्योऽन्यानि द्रव्यातराणि तेषामभावस्तैन परद्रव्य- परक्षेत्रपरकालपरभावस्वलरेण यः प्रतिषेधः सतो विश्मानस्व । संज्ञिनो नामवतो भवति । यः पुनरसद्भदो ऽभावविशेषः परपरिकत्यितो नासौ भावः स्वलक्षणं । विधिनिषेधयोरस्तित्वनास्तित्वयोः । स्थानमापदं । कुतः सर्वथा तस्य तुच्छत्वात् । तस्माद्भाव एव विधिनिषेधयोरवस्थानं तस्यैव स्वपररूपेणास्तिवनास्तित्वं ।। यतः- अष्टशती-व्यक्षेत्रकालभावांतरप्रतिषेधः संजिनः सतः क्रियते न पुनरसतत्तविधिप्रतिषेधाविषय- त्वात् । नचैतद्विरुद्धं ? स्वलक्षणमनिर्देश्यमित्यादिवत् ! अभावोऽनभिलाष्य इत्यपि भावाभिधानादेकांतवृत्तावेव दोषात् । भावाभिधानरपि कथंचिदभावाभिधानात् ।। ४७ ॥ अवस्त्वनभिलाप्यं स्यात् सातैः परिवर्जितं । वस्त्वेवावस्तुतां याति प्रक्रियाया विपर्ययात् ।। ४८ ॥ वृत्ति: सातैः सर्वधर्मः । . परिवर्जितं विरहितं । सर्वथा यत्तदनभिलाप्यमवाच्यमवस्तु स्यात् न किंचिदपि भवेत् परपरिकल्पितं । कथं तईवस्तुनमत आह-वस्त्रावस्तुतां याति-अर्थक्रियायाः सर्व एव ।
२७ । आप्तमीमांसा । पदार्थो भवति । कुतः ! प्रक्रियायाः स्वरूपादिचतुष्टयलक्षणायाः विपर्ययात्पररूपादिचतुष्टयात्। तस्माद्यवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्तु यथा खपुष्पं । तस्मादेतदेवैकस्यौपलब्धिर्यदन्य- स्यानुपलब्धिरिति ॥ पुनरप्यवक्तव्यवादिनमुपालभते- अष्टशी-भावव्यतिरेकवाचिभिरपि वाक्यतामापन वाभिधानात्, नात्र किंचिद्विरुद्धं । अत: सूक्तं यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पं । भन्यस्य कैवल्य- मितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितिर्भावस्य ॥ १८ ॥ सर्वाताश्चेदवक्तव्यास्तेषां किं वचनं पुनः । संवृत्तिवेन्मूपैवैषा परमार्थविपर्ययात् ॥ ४९.॥ वृत्तिः यदि सर्वोताः सर्वधर्मा अवक्तव्या अवाच्यास्तेषां मतानां यदेतद्वचनमुक्तिः "सर्वथा प्रतिक्षण निरन्वयविनाशिनो निरंशाः सजातीयविजातीयव्यावृत्ता इत्यादिकं" पुनः पुनरावर्तमानं किमर्थं स्यात् । अथ मतं परमार्थ न तद्भवेत्किं तु संवृतिः । यद्यैवं मुषेषा व्यलोकव सा । कुतः ? परमार्थस्य तत्त्वरूपस्य विपर्ययोऽभावः यतः । संवृतिर्नामोपचारः, न च सा परमार्थमंतरेण भवति ॥ ४९ ॥ अष्टशती-पुनरपि अवक्तव्यवादिनं पर्यनुयुज्महे सर्वधर्मा यदि वाग्गोचरतामतीता, कथमिमेऽभि-. लाप्यते इति । संवृत्त्या इति चेत् ? न विकल्पानुपपत्तेः । स्वरूपेण चेत् ? कथमनभिलाप्या.! पररूपेण . चेत्तेषां स्वरूपं स्यात् केवलं वाचः स्खलनं गम्यते । उभयपक्षेऽप्युभयदोषप्रसंगः । तत्त्वेन चेत् ! कथम- वाच्याः । मृषात्वेन चेत् ? कथमुक्ताः तदलमप्रतिष्ठितमिथ्याविकल्पोथैः ।। ४९... अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।। आयतोक्तिद्वयं न स्यात् किं व्याजेनोच्यता स्फुटं ॥ २०॥ वृत्ति-इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवाच्यं ? आहोस्विदभावात् । किम- ज्ञानात् ! विकल्पत्रयं । न तावदशक्यत्वादशनागसहस्रवलवत्त्वाद् बुद्धस्य. | नाप्यज्ञानात्सर्वज्ञत्वेन परिक- ल्पितं यतः । यस्मादायुक्तिरादिविकल्पोऽतोक्तिस्तृतीयविकल्प एतवयं न भवेत् । तस्मारिक व्याजेन छमना ! उच्यतां भण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभावमात्रं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ।। ५०॥ क्षणिकैकांतवादिकल्पिता हिंसा पंचभिः कारणैः प्राणप्राणिजनन्याघातचित्ततद्भतचेष्टाप्राणवियोगैर्न, बंधमक्षिादिश्च न घटत इत्याह- अष्टशती-अर्थस्यानभिलाप्यत्वं-अभावात्.,वक्तुरशक्तेः-अनवोधाता प्रकारांतराभावाद्वा बुद्धिकरण- पाटवांपेक्षत्वात् । न च सर्वत्र तदभावो युक्त ततो नैरात्म्यान्न विशिष्यते.मध्यमपक्षावलंबनात्। अशक्यसमय- लातू अनभिलाप्यमर्थरूपमिति चेन्न कथंचिच्छत्यसंकेतत्वात् , दृश्यविकल्पस्वभावत्वात् परमार्थस्य प्रतिभास- भैदेऽपि इत्युक्तं । विषयविषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समान.। अविपरीतविप्रतिपत्तिरन्यत्रापि। दर्शन विकल्पयोः परमार्थकतानत्वाभावे न किंचित्सिद्ध दृष्टस्यानिर्णयात् अदृष्टकल्पत्वात् । अदृष्टानिर्णयस्य.प्रधाना- दिविकल्पाविशेषात् ॥ ५॥ हिनस्त्यनभिसंधातृ न. हिनस्त्यभिसंधिमतः । बयते तद्यांपेतं चित्तं बद्धं न मुज्यते ॥ ५१ ॥ वृत्ति:-क्षणिकैकोतवादेऽभिसंधिमत्-मारणाभिप्रायवत् । चित्तं तत्परिकल्पितरूपज्ञानं जीवसदृशं तत्प्रा- णिनं न हिनस्ति न मारयति । यच हिनस्ति तदनभिसंधात अनभिप्रायवत् । बध्यतेचकर्मणा तयापेतं ॥५१॥.
८ - २८ सनातननग्रंथमालायां- तवचमविरोध दर्शयति-- अष्टशती-संतानादेरयोगात, इति कर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्षत्वात् सदुभयावनि- र्मुक्तस्य बंधात् तदविनिर्मुक्तेश्च, यमनियमादेरभिधेयत्वं कुर्वतो वा यत्किंचनकारित्वं ॥५१॥ अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः। चित्तसंततिनाशश्च मोक्षो नाष्टांगहेतुकः ॥ १२ ॥ पतिः--यो हिंसाया हेतुनिर्मितं नासौ हिंसकः प्राणवियोजकः कुतोऽहेतुकत्वान्नाशस्य यदेतत्प्राणिनो मरणनिमित्तं यच्च मोक्षस्तैरभ्युपगतः चित्तानां रूपविज्ञानक्षणानां संततिनैरतये तस्य नाशः क्षयः प्रदीप- निर्वाणरूपो वा । अष्ट अंगान्यवयवा यस्य स हेतुर्यस्यासौ अष्टांगहेतुकः । कानि तान्यष्टांगानि सम्यक्त्व- संज्ञा-संशि-वाकायकर्म-अंतर्व्यायाम-स्मृति-समाधिलक्षणानि । सोऽपि न स्यात् । कुतः स्वत एव-हेतुमंत. रेणाभ्युपगतत्वात् ॥५२॥ अथ मतं स्वभावविनाशार्थ न निमित्तमस्माभिरिष्यते, किं तु विभागार्थमित्यत आह- अष्टशती-अहेतुं विनाशमभ्युपगम्य कस्य चिद् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ! तथा निर्वाणं संतानसमूलपहरणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाकायकर्मीतायामजीवस्मृतिसमाधिलक्षणाष्टांगहेतुकं ! तदन्यो. ऽन्यं विप्रतिषेधात् ।। ५२॥ विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥ ५३ ॥ वृत्ति-विरूपकार्य विभागसन्तानः कपालादिस्तस्यारम्भस्तस्मै विरूपंकार्यारंभाय । यदि हेतोः समागमः कारणापेक्षणं । तईसौ विरूपकार्यारम्भ आश्रयिभ्यामुत्पादविनाशाभ्यामनन्योऽभिन्नः कुतः अविशे- पादभेदात् । अविशेषेणाभेदोनोपलब्धिराश्रयिम्पो यतः । अयुक्तवत् यथा ग्राह्यग्राहकाकारा सहायुतसिद्धिः ।। चित्तविशेषरूपरसादिबद्धान् प्रागुत्पादादीनभ्युपगम्य क्षणिकवादे दूषणमभाणि । साम्प्रतं तु तेषा- मुत्पादादीनामसभवमेव दर्शयन्नाह- अष्टसती-विसभागसंतानोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय पूर्वस्य स्वरसनिवृत्तेः इति चेत् । स पुनरु- त्तरोत्पादः स्वरसतः किं न स्यात् विनाशहेतुबत् । स्वरसोत्पन्नमपि तदनंतरभावित्वात् तेन व्यपदिश्यते ! इति चेत् इतरत्र समानं । परमार्थस्तदहेतुकत्वं, प्रतिपत्रभिप्रायाविशेषेऽपि स्वतः प्रहाणवादी न शक्नोत्या- स्मानं न्यायमार्गमनुकारयितुं सर्वदा विरूपकार्यत्वात् । सभागविसभागावक्लप्ति प्रतिपत्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् । नच समनंतरक्षणयोर्भाशोत्पादौ पृथग्भूतो मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरीस्ता प्रत्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत् स्वभावप्रतिबंधात् संज्ञाछंदमति- स्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा कार्यरूपादेखि कारणं। तस्मात्कायकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न तस्य किंचिद्भवति। न भवत्येवं केवलमिति चेत् भवत्येव केवलमिति समानं । तस्मादयं विनाशहेतुर्भावमभावीकरोति न पुनरकिंचित्करः, कार्योत्पत्तिहेतुर्वा, यद्यभावं न भावी कुर्यात भावं करोतीति कृतस्य करणायोगा-अकिंचित्करः । तदतत्क. रणादिविकल्पसंहतिरुभयत्र सदृशी ॥ ५३॥ स्कंधाः संततयश्चैव सवृतित्वादसंस्कृताः । स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ १४ ॥ रतस्य बदस्य मविनिर्मकरित्यर्थः । . .
- आप्तमीमांसा। २९ वृत्तिः स्कंधा रूपवेदनाविज्ञानसंज्ञासंस्कारास्तेषां संततयश्च कार्यकारणयोरविच्छेदाः । एवकारो- अवधारणार्थः । असंस्कृता एवापरमार्था एव । कुतः ? संवृतित्वान्मिथ्यारूपत्वात। अतस्तेषां स्थितिः । सदव- स्थानमुत्पत्तिर्घटावस्था, विनाशः कपालादिरूपस्ते न स्युन भवेयुः खरविषाणवत् । यथा खरविषाणस्य स्थि- त्युत्पत्तिव्यया न सन्त्येवमेतेषां, अभावं प्रत्यविशेषात । यत्पुनः संस्कृतं तत्परमार्थसत् यथा स्वलक्षणम् । न सथा स्कंधाः संततयश्च । ततः स्थित्युत्पत्तिविपत्तिविरहस्ततोऽपि विभागसंतानोत्पत्तये विनाशहेतुरिति पोप्ल्यते ॥ यस्य मिथ्याश उभयकांतपक्षस्तन्निरासार्थमाह-- अष्टशती-रूप-वेदना-विज्ञान-संज्ञा-संस्कारस्कंधसंततयोऽसंस्कृताः संवृत्तित्वात् । यत्पुनः संस्कृतं तत्परमार्थसत् । यथा स्वलक्षणं । न तथा स्कंधसंततयः । ततः स्थित्युत्पत्तिविपत्तिरहिताः । ततो विसभा- गसंतानोत्पत्तये विनाशहेतुरिति पोप्लूयते ॥ १४ ॥ विरोधानोभयेकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतऽप्युक्तिनांवाच्यमिति युज्यते ॥ ५५ ॥ वृत्तिः-उभयेकात्म्यं नित्यानित्यकांतद्वयमयुक्तमंगीकर्तु, कुतः मिथ्यादृशां तद्विरोधात ।. अनभिलाप्य- मपि न युक्तमनेकांतवैरिणां ॥१५॥ एकांतवादिपक्षं निरस्थानकांतं समर्थयन्नाह- अष्टशती-नित्यत्वतरकांतद्वयमप्ययुक्तमंगीकर्तुं विरोधात् युगपज्जीवितमरणवत् नित्यत्वानित्यत्वाभ्यां । अत एवानमिलाप्यमित्ययुक्तं ! तदेकांतेऽनभिलाप्योक्तेरनुपपत्तेः ॥ १५ ॥ नित्यं तत् प्रत्यभिज्ञानान्नाकस्मात्तदविच्छिदा। क्षाणिक कालभेदाते बुद्धयसंचरदोषतः ॥ ५६ ॥ वृत्तिः तच्छन्देन तत्त्वमुच्यते प्रस्तुतत्वात् तत्वं कथंचिनित्यं प्रत्यभिज्ञानात । वस्तुनः पूर्वापर कालव्याप्तिज्ञानं प्रत्यभिज्ञानं । यथा स एवायं देवदत्त इत्यादि । तस्मात्प्रत्यभिज्ञानात् । तस्य प्रत्यभिज्ञानस्य अविच्छिदा अविच्छेदोऽन्चयः । सोऽकस्मात् । अहेतोर्न भवति यस्माद । न च नित्यत्वमेव । कालभेदात्परिणाम- यशात् क्षणिकं नश्वरं । तवाहद्भट्टारकस्य नान्यस्य क्षणिकाणिकवादिनः । बुद्धरसंचारोऽसंचरणमन्यत्रागमनं स एव दोषस्तस्मात् । न हि एक पदार्थ विज्ञायान्यस्य पदार्थस्य परिच्छत्तिः संभवति । उभयकांत पुनः सुघटा॥५६॥ तदेव दर्शयति- अष्टशती-तदेकांतद्वयेऽपि परामर्शप्रत्ययानुपपत्तेरनेकांतः । थियभावे हि प्रमातुरन्येन दृष्टं नापरः प्रत्यभिज्ञातुमर्हति । संवधविशेषेऽपि पित्रेव पुत्रः सन्नप्यतिशयः पृथक्वं न निराकरोति । तदेवान्यत्रापि प्रत्यवमर्शामावनिबंधनमेकसंतल्या प्रत्यभिज्ञानं प्रत्यभिज्ञानवलाचकसंततिरिति व्यक्तमितरेतराश्रयणमेतत् । नच पक्षांतरे समानं स्थितेरनुभवात् | तद्विभ्रमकल्पनायामुत्वादविनाशयोरनाश्वासः । तथानुभवनिर्णयानुपलब्धे- यथा स्वलक्षणं परिगीयते तत्रैतत्स्यात् । स्वभावाविनिर्भागेऽपि न संकलन दर्शनक्षणांतरवत् । सत्यमेकांत एवायं दोषः । ततःक्षणिकंकालभेदात् दर्शनप्रत्यभिज्ञानसमयोरभेदे तदुभयाभावप्रसंगात । किंच पक्षद्वयेऽपि नानासंचारानुषंगात अनेकांतसिद्धिः । अपोद्धारकल्पनया कथंचिज्जात्यंतरेऽपि वस्तुनि प्रत्यभिज्ञानादि- निबंधुने स्थित्यादयो व्यवस्थाप्पेत् । न व स्वभावभेदोपलंभेऽपि नानात्वविरोधः संकरानवस्थानुषंगः, प्रेतसि ग्रामग्राहकाकारवत् ।। ५६॥
- सनातनजैनग्रंथमालायां- न सामान्यात्मनोदेति न व्यति व्यक्तमन्वयात् व्येत्युदति विशेषात्ते सहकत्रोदया.द सत् ॥ ५७ ॥ वृत्तिः-कथमनेकांते त्रयमेकस्मिन् संभवति इति चेदत आह । सामान्यात्मना द्रव्यरूपेण नोदति नोत्पद्यते न व्यति न विनश्यति कुतोऽन्वयातू सर्वपर्यायेष्वनुगतेकाकारेण वर्तनात | व्यक्तं स्फुटमेतत् । विशे षात्पर्यायरूपेणोत्पद्यते विनश्यति च । तवार्हतः । सह युगपदेकत्रैकस्मिन् वस्तुनि । उदयादि सत्-उत्पाद- विनाशस्थितयः सत्यो विरोधाभावात् ॥ ५७ ॥ कथं य एवोत्पादः स एव विनाशो यावेव विनाशोत्पादौ तावेव स्थितिः ? इत्यत आह- अष्टशती-चलाचलात्मकं वस्तु कृतकाकृतकात्मकत्वात् । न हि चेतनस्य अन्यस्य वा सर्वधोत्पत्तिः सदादिसामान्यस्वभावेन सत एवातिशयांतरोपलंभात घटवत् । कथंचिदुत्पादगिमात्मकत्वादिति योज्यं ॥१७॥ कार्योत्पादः क्षयो हेतोनियमाल्लक्षणात्पृथक् । न तो जात्यायवस्थानादनपेक्षाः खपुष्पवत् ॥ ५८ ॥ वृत्ति योऽयं कार्यस्योत्पादः स एव हेतोरुपादानकारणस्य क्षयो विनाशो नियमान्निश्चयात् । लक्षणात्पुनः पृषग-भिन्नौ स्वरूपभेदात । जात्यादेरवस्थानात् सत्त्वप्रमेयत्वादिना न तौ मिन्नौं । कुतः तेन रूपे गैकत्वात् । अनपेक्षाः परस्परापेक्षामंतरेण ते स्थित्युत्पत्तिविनाशाः खपुष्पसमांनाः । तस्मादेते कथंचित् । परस्परमभिन्नाः कथंचिद्भिन्नाश्च भवंति ॥ १८ ॥ लौकिकदृष्टांतन स्पष्टयन्नाह-- अष्टशती कार्यकारणयोरुत्पादंविनाशौं कथंचिदिन्नौ भिन्नलक्षणसंबंधित्वात् सुखदुःखवत् । स्याद- भिन्नौ तदभेदस्थितजातिसंख्याद्यात्मकत्वातः पुरुषवत् । उत्पादविगमनौव्यलक्षणं. स्याद्भिन्न-अस्खलन्नाना- प्रतीतिरूपादिवत् । उत्पादः केवलो नास्ति स्थितिविगमरहितत्वात् वियत्कुसुमवत् । तथा स्थिति- विनाशौ प्रतिपत्तव्यौ ।। ५८ ॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयं । शोकप्रमोहमाध्यस्थ्यं जनो याति सेहतुकम् ॥ ५९॥ वृत्तिः—अयं जनस्त्रिंतयार्थी यो घटार्थीस तस्मिन् भग्ने शोकं याति । यश्च मौल्यर्थी स तस्मिन्नुत्पन्नें" हर्षे याति । यश्च सुर्वणार्थी स माभ्यस्थ्यं याति सुवर्णसद्भावात् । नचैतदहेतुकं किंतु सहेतुकमेव । तदेव सुवर्णद्रव्य घटस्वरूपेण विनश्यति, तदेव मैलिस्वरूपेणोत्पद्यते, सुवर्णस्वरूपेणानुगतैकाकारस्वरूपेणं तिष्ठति। एवं सर्व वस्तु ॥ १९॥ अष्टशती-प्रतीतिभेदमित्थं समर्थयते-घटं भक्ता मौलिनिर्वतने घटमौलिंसुवार्थी तन्ना- शोत्पादस्थितिषु विषादहषौंदासीन्यस्थितिमयं जनः प्रतिपद्यत इति । निर्हेतुकत्वे तदनुपपत्तेः ।। ५९ ।। पुनरपि. लोकोत्तरदृष्टांतेन-पोषयति- पयोत्तों न दध्यत्ति न पयोति दधिवतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकं ॥ ३०॥ वृत्तिः यस्य पयो-दुग्धमेवाहं मुङ्ग इतिव्रतं नियमः, नासौ दध्यत्ति-दधिःमुंक्त । यस्य च दम्यह मुंड इति प्रतं नासौः पयोऽत्ति-दुग्ध मुक्ते। यस्यांचागोरसमहं भुज इति व्रतं नासावुभयमत्ति। कुतः 5 - गोरसलपेण तयोरेकत्वात् । दुग्धव्रतस्य दधिरूपेणाभावात् । दधिवतस्य पपीरूपेणाभावात् । अगारेसवतस्य - '-
आप्तमीमांसा।
३१
दधिदुग्धरूपेणाभावात् । तस्मात्तत्त्वं वस्तु त्रयात्मकं स्मित्युत्पत्तिव्ययात्मकं सुधटमेतदनेकांते जनमते इति
स्थितम् ॥६॥
अष्टसती-लोकोत्तरदृष्टांतेनापि तत्र प्रतीतिनानात्वं विनाशोत्पादस्थितिसाधनं प्रत्याययति ।
दधिपयोगोरसवतानां क्षीरदध्युभयवर्जनात् क्षीरात्मना नश्यध्यात्मनोत्पद्यमानं गोरसस्वभावेन तिष्ठतीति ।
तस्मात्तत्त्वं चयात्मकं ॥ ६॥
इति आप्तमीमांसाभाष्ये तृतीयःपरिच्छेदः ।
वृत्ति-द्रव्यपर्यायरूपं तत्त्वं व्यवस्थाप्य नैयायिकवैशेषिकमतमाशङ्कय दूषयितुक. म: प्राह-
कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च ।
सामान्यतद्वदन्यत्वं चैकांतेन यदीष्यते ॥ ६१ ॥
वृत्ति:-कार्य घटादिरूपं कारणं मृत्पिण्डादिकं तयोर्नानात्वं भेद इष्यते चेत् ? गुणो रूपादिगुणी
द्रव्य तयोरपि यद्यन्यतेष्यते सर्वथा भेद इष्यते ! सामान्यं बुद्धयभिधानप्रवृत्तिलक्षणं तद्वत्सामान्यवत्-व्यक्तयः,
तयोश्च यचन्यतेष्यते सर्वथैकांतेन ॥ ६१ ॥
तदानी किं स्यादत आह-
अष्टशती-अवयवगुणसामान्यतद्वतो व्यतिरेकैकांतमाशंक्य प्रतिविधत्ते ॥ ११ ॥
एकस्यानेकवृत्तिर्न भागागावाहूनि वा ।
भागित्वाद्वाऽस्य नैकत्वं दोषी वृत्तेरनाईते ॥ १२॥
वृति:--एकस्यावयळ्यादेः कार्यस्य घटादेरनेकेषु स्वारंभकावयवेषु वृत्तिर्वर्तनं सा न स्यात् । कुतः ?
भागाभावाद निरवयवत्वात् । अवयविनो अर्थे वर्तन्ते अवयववहुत्वं स्यादनिष्टं चैतत् । यथास्य भागाः परि
कल्प्यंते, एवं सति नैकत्वमस्य भागित्वात् । तस्मादनार्हते मते वृत्तिविकल्पस्य सर्वात्मनैकदेशन दोष एव ।
आर्हते पुनर्मते सर्व युक्तमनेकांतात् ॥ २ ॥
पुनरपि भेदपक्षे दूषणमाह-
अष्टशती-एकमनेकत्र वर्तमान प्रत्यधिकरणं । न तावदेकदेशेन निष्प्रदेशत्वात् । नापि,
सर्वात्मना अवयव्यादिवत्वप्रसंगात । अथापि कथंचित्प्रदेशतत्त्वं तत्रापि वृत्तिविकल्पोऽनवस्था च ।
तदेकत्वमेव न स्यात् । नायं प्रसंगो ऽनेकांते कथंचित्तादात्म्यात् वेद्यवेदकाकारज्ञानवत् ॥ १२ ॥
देशकालविशेषेऽपि स्यात्तिर्युतसिद्धवत् ।
समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३ ॥
वृत्तिः-देशः क्षेत्र कालः समयादिकः तयोविशेषो भेदस्तस्मिन्नपि तयोरवयवावयविनोर्या वृत्तिवर्तनं
स्यात् युतसिद्धानामिव पृथम्भिन्नानामिव युतसिद्धवत् घटपटादिवत् इत्यर्थः । अन्यच्च समानदेशता न स्यात्
तयोरवयवावयविनोरेकस्मिन्नवस्थानं न स्यातू मूर्तिमत्त्वात् यथा खरकरभयोः ॥ १३ ॥
पुनरपि भेदवादिनं प्रति दूषणमाह--.
अष्टशती-तस्मादंगाग्यादेरत्यंतभेदाद्देशकालविशेषणापि वृत्तिः प्रसज्येत् । घटवृक्षवर्णादिमि-
रनकांतिकत्वमित्ययुक्तं तद् व्यतिरेकैकांतानभ्युपगमात् । अवयवावयविनोः समानदेशवृत्तिन भवेत् मूर्ति
मस्वात् खरकरभवत् ॥ १३ ॥
३२ सनातनजैनग्रंथमालायां- ? - आश्रयायिभावान स्वातंत्र्यं समवायिनां । इत्ययुक्तः स संबंधो न युक्तः समवायिमिः ॥ ६४ ॥ वृत्तिः-स्वातंत्र्यं स्वप्रधानता तेषां नास्ति । कुतः ? आश्रयाः स्वारंभकावयवा आश्रयी अवयवी कार्या- दिस्तयोर्भावस्तस्मात् । यस्मात् आश्रयमंतरेण नाश्रयी वर्तते नायिणमंतरेणाश्रयः परस्परप्रतिबंधात् । तस्मान्न कालादिभेदेन वृत्तिस्तेषां समवायिनां कार्यकारणानामिति चेदत्रोत्तरमाह । सोऽयुक्तः संबंधः समवायिभिः सह न युक्तः, समवायसंबंधः परिष्टः कार्यकारणादिभिः सह स न घटते विचार्यमाणायोगात् । अनवस्था- दिदोषादिति ॥ ६४ ॥ तदेव विघटयन्नाह- अष्टशती-कार्यकारणादीनां परस्परं प्रतिबंधात् कुतः स्वातंत्र्यं यतो देशकालादिभेदेन वृत्तिः ? इति चेत् समवायस्य समवायांतरेणं वृत्तौ अनवस्थाप्रसंगात् । स्वत श्व वृत्ती द्रव्यादत्ताथापत्तरसंबद्धः समवायः कथं द्रव्यादिभिः सह वर्तेत यतः पृथक् सिद्धिर्न स्यात् ।। ६४ ॥ सामान्य समवायश्चाप्येककन समातितः । अंतरेणाश्रयं न स्यानाशोत्पादिषु को विधिः ॥ ६५ ॥ वृत्तिः-सामान्यं भिन्नेष्वभिन्न कारणं । समवाय इहेदं प्रत्ययलक्षणं । एकैकत्र एकस्मिन्नवयवे व्यक्ती वा । समातितः समाप्तेर्व्यवस्थितत्वादित्यर्थः । आश्रयमंतरेण यस्मात्तयोरवस्थानं नास्ति । एवं सति नाशो- त्पादा विद्यते येषां तेषु नाशोत्यादिषु खण्डमुण्डवटपटादिषु को विधिः कः क्रमः ? किं तु न कश्चिदीप स्यात् ।। पुनरपि संबंधस्य दूषणमाह- अष्टशती-प्रत्येकं परिसमाप्तेराश्रयाभावे सामान्यसमवाययोरसंभवादुत्पत्तिविपत्तिमत्सु कयं वृत्तिः-उत्पित्सुप्रदेशे प्राङ् नाति नान्यतो याति, स्वयमेव पश्चाद्भवति स्वाश्रयविनाशे च नश्यति प्रत्येक परिसमाप्तं चेति व्याहतमेतत् ॥ १५ ॥ सर्वथाऽनभिसंबंधः सामान्यसमवाययोः । ताभ्यामर्थो न संबद्धस्तानि त्रीणि खपुष्पपत् ॥ ६६ ॥ वृत्तिः-सामान्यसमवाययोः परस्परेण सर्वथा सर्वप्रकारेणानमिसंबंधोऽसंयोगोऽतस्ताभ्यां सामान्यसम- वायाभ्यां अर्थो गुणगुण्यादिर्न संबद्धो न लग्नोऽतस्तानि त्रीण्यपि सामान्यसमवायार्थरूपाणि खपुष्पसमानानि।। सत्यमेवैतत् समवायादीनां दोषः । अस्माकं पुनः परमाणूनामेकांतेनानन्यत्वमिच्छतां न दोष इत्यत्र दूषणमाह-- अष्टशती-सामान्यसमवाययोः परस्परतः स्वसंबंधासंभवात ताम्यामों न बद्धः, ततस्त्रीण्यपि नात्मानं विभूयुः कूर्मरोमादिवत् ।। ६६ ।। अनन्यतैकांतेऽणूनां संघातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रांतिरेव सा ॥ ६७ ॥ वृत्तिः-परमाणूनां द्वितीयविभागरहितानां संघातेऽपि प्रत्येऽपि असंहतत्वं पृथक्त्वं स्यात विभागवत्, यथा घटपटयोः। नान्यताऽनन्यता सैवैकांतस्तस्मिन् परमाणूनां अन्यथा स्वरूपेण परिणामायोगात् ,एकदेशेन सर्वात्मना वा तथा वृत्तिविरोधात् । सहस्राणुमात्रपिंडप्रसंगादणोः । तस्मात्प्रेविरलत्वं प्रविकललं, अणूनां ततो धारणाकर्षणादयो न स्युः । भूतानां पृथिव्यादीनां चतुर्णा भावश्चतुष्कं सा भ्रांतिः स्यात्-भूतचतुष्टयं भ्रांतं स्यादित्यर्थः ।। समानुलभ्यने पानेयं लिक्षितपुस्तके प्रेविलवसानोतरेवत्वनियोज्या प्रविलवावकलरवयोः समानार्थकत्वादिति ।
२ ३ . आप्तमीमांसा । सत्यमव नतत्प्रामणं भावात् [ ! ] पुनरपि दषणमाह- अष्टाती-कार्यकारणादेरभेदैकांते धारणाकर्षणादयः परमाणूनां संघातेऽपि माभूवन् विभागवत् । नाहितोऽपि विशेषः तेषां विभागैकांतं निराकरोति । तत एवान्यत्रापि नेष्यते पृथिव्यादि भूनचतुष्टयस्थितिरेवं विभ्रममात्र प्राप्नोति । इष्टत्वाददोष इति चेत् न प्रत्यक्षादिविरोधात् ॥ ६४ ॥ कार्यभ्रांतरणुभ्रांतिः कार्यलिंग हि कारणं । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ वृत्तिः-अणूना यदेतत्कार्य स्थूलधटपटादिकं तस्य यदि भ्रांतिविभ्रमस्तदानी कार्यवांतरणूनामपि भ्रांतिः । यतः कार्यलिंगं कारणं कार्यद्वारेण कारणस्यावगमो नान्यथा, अतोऽन्यतराभावे उभयोरप्यभावोऽवि नाभावनियमात् । उभयाभावाच्च तयोः स्थितं गुणो रूपादिः, जातिः सामान्यं इतरच क्रिया एतत्ससुदितं न स्यात् । न चैतदिष्टं सर्वप्रमाणप्रसिद्धत्वात् ॥ ६६ ।। अष्टशती-चक्षुरादिबुद्धौ स्थूलैकाकारः प्रतिभासमानः परमाणुभेदैकांतवाद प्रतिहति तद्विपरीतानुपलब्धिर्वा तत्रैतत्स्यात् । भ्रांतैकत्वादिप्रतिपत्तिरिति तन्न परमाणूनां चक्षुरादिबुद्धौ स्वरूपमन- र्पयतां कार्यलिंगाभावात् । तत्त्वभावाभ्युपगमानुपपत्तस्तद्वयाभावात् वृत्तयो जातिगुणक्रिया न स्युः, व्योम- कुसुमसौरभवत् ॥ ६८ ॥ एकत्वेऽन्यतराभावः शेषाभावोजविनाभुवः। द्वित्वसंख्याविरोधश्च संवृतिश्चेन्मृषैव सा ॥ ६९ ॥ वृत्ति:-कार्यकारणयोरेंकत्वे द्वयोर्मध्येऽन्यतराभावस्तस्य चाभावे द्वितीयस्य चाभावः कुतः १ अवि- नाभावानियमात् । न ह्येकमंतरेणापरं भवति । द्वित्वमिति च या संख्या तस्याश्च विरोधोऽघटना । अथ मतं संवृत्या सर्व युक्तं सा संवृतिर्मुषैव । व्यलीकैव ततो न किंचित् स्यात् बंध्यासुतपरिकल्पितरूप- व्यावर्णनवत् ॥ ६९॥ उभयैकांतवादिनं प्रत्याह- अष्टशती-आश्रयाश्रयिणोरेकत्वे तदन्यतराभावस्ततः शेषाभावस्तत्स्वभावाविनाभावित्वात् बध्यासुत रूपसंस्थानवत । तथा च सति द्वित्वसंख्यापि न स्यात् । तत्र संवृतिकल्पना शून्यतां नातिवर्तते पर- मार्थविपर्ययाद् व्यलीकवचनार्थवत् ॥ ६९ ॥ विरोधानोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्ति वाच्यनिति युज्यते ॥ ७० ॥ वृत्तिः अवयवावविव्यतिरेकाव्यतिरेकैकांतौ न यौगपद्येन संभविनौ विरोधात्-स्ववचनविरोधात् । अनभिलाप्यकांतोऽपि न संभवति । स्याद्वादाभ्युपगमे तु न दोषः कथंचित् तथाभावोपलब्धेः ॥ ७० ॥ तथैव स्पष्टयति-- अष्टसती-अवयेवतरादीनां व्यतिरेकाऽव्यतिरेकैकांतौ न वै योगपद्येन संभविनौ विरोधात् । तथानमिलाप्यतैकांते स्ववचनविरोधः तदभिलाप्यत्वात् । स्याद्वादाभ्युपगमे तु न दोषः कथंचित्तथा- भावोपलब्धेः ॥ ७॥ द्रन्यपर्याययोरक्यं तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥७१ ॥ -
२४
सनातननग्रंथमालायां-
..
वृत्तिः-कारणं गुणो सामान्य वस्तु द्रव्यमित्युच्यते. कार्य गुणो विशेषः पर्याय इत्युच्यते, तयोरै-
क्यमेवं कुतस्तयोरल्यतिरकतः द्रव्यपर्यापयोरन्यतिरेकोपलंभात् । एतेनात्य हेतोः प्रतिज्ञार्थंकदेशासि-
द्धन्वं प्रत्युक्तन् । परिणामः कारणत्वान्यथाभावः वाग्गोचराऽतीतस्तस्य विशेषश्च तस्मात्परिणामविशेषाच्च
तयोरेयं । शक्तयो विद्यन्ते यस्य तच्छक्तिनत्यं. परिणामि । प्रतिनियतकार्यसन्सदनसामर्थ्य
विशेषाः शक्तयो यथा घृतादेः लेहतर्पणबृहणादयः । तयोर्भावस्तस्मात् तयोरैल्यमिति वेदितव्यं ॥१॥
कंचिद्भेदनिरूपणार्यमाह-
संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषवः ।
अयोजनादिभेदाच्च तन्नानात्वं न सर्वथा ॥७२॥
वृत्तिः-संज्ञा नाम, संख्या एकादिका, तयोविशेषो भेदस्तस्मात्तवार्नानात्वं भेद। दृश्यते ।
संज्ञाभेदः जबाऽत्र वधूः प्रमदा कामिनी क्रोधवती भामा ! द्वित्वादेकवं संख्याभेदोऽपि प्रतीत! स्वमता-
धारण लक्षणं स्वरूप यस्य स चासौ विशेषस्तस्मात्तयोनानात्वं । त्या में द्रव्येणान्यत्प्रयोजनं पर्यायणान्यत्
वृक्षपत्रपुष्पवत् ॥
सरोक्षानपक्षकांतप्रतिक्षेपार्थमाह-
अष्टसती-यत्प्रतिभातभेदेऽपि अव्यतिरिक्तं तदेकं क्या वैद्यवेदकज्ञानं स्पादिद्रव्यं वा । तथा
च द्रव्यपर्यायौ न व्यतिरिच्यते तदन्यतापायेऽर्थस्यानुपपत्तेः। उपयोगविशेषाद्रूपादिज्ञाननिर्भातभेदः स्व
विषयकावं न वै निराकरोति सामिग्रीभेदेऽपि युगपदेकार्थोपनिवद्धविशदेतरज्ञानवत् । तदेवं सति विरो-
घायुपलंभश्चतुरनधियां मनो ननागपि न ग्राणवति । वर्णादेरप्यभावप्रसंगात् एकवानकवैकांती
सान्योऽन्यं विजयेते भावस्वभावप्रतिबंधनात् । यत्परस्परविविक्तस्वभाबपरिणामसंज्ञातल्याप्रयोजनादिकं
वाजलक्षणं, यथा भेदादि, तया च द्रव्यपर्यायौ । विरुद्धधर्माभ्यातास्खलढुद्धिप्रतिभातभेदाभ्यां
वस्तुस्वभावभेदसिद्धेः-अन्यथा नानक जगत्स्यात् तदभ्युपगमप्रकारांतरातभवात् ।। ७१ ॥ ७२ ॥
इत्याप्तनीमांसामाष्ये चतुर्थः परिच्छेदः
यद्यापेक्षिकासिद्धिः स्यान्न इयं व्यरतिष्ठते ।
अनापेक्षिकसिद्धौ च न सामान्यविशेषवा ॥ ७ ॥
वृत्तिः-अपेक्षव प्रयोजनमेषार्थानां सिद्धिनिष्पत्तिनिश्चिति । अथवाऽऽपेक्षिकी चातौ सिद्धिश्च
सा यदि स्यात् । कार्यकारणादि युगपवयं न व्यवतिष्ठते न घटते । एकेनैकस्य प्रतिहतत्वात् । यदि पुन-
रनापेक्षिकसिद्धिस्तस्यामभ्युपगम्यमानायों सामान्यं च विशेषश्च तयोर्भावः सामान्यविशेषता सा न स्याव-
न भवेत् । तस्मास्वरूपेण स्वत एव सिद्धन भवितव्यं धर्मिधर्मभावश्च परस्परापेक्षः ॥ ७३ ॥
उभयकांतं दर्शयन्नाह-
अष्टशती-कारिताइयेन सामान्यविशेषात्मानमर्थ संहृय तत्रापेक्षानपेक्षकांतप्रतिक्षेपायाह-
तयोरन्योन्योपकांत स्वभावतः प्रतिष्ठितस्यैकतरस्याप्यभावेनान्यतराभावात् उभयं न प्रकल्पेत ।
दूरासन्नभाइयोरपि स्वभावविर्वतविशेषाभावे समानदेशादेरप्यभावप्रसंगात् । तदिमौ स्वभावतः स्तो।
अन्यथेतरेतराश्रयदोषानुषंगादनपेक्षापक्षेपि नान्वयन्यतिरेको स्याता, भेदाभेदयोरन्योन्यापेक्षात्मकत्वात्
विशेषतरभावस्य ॥७३॥
आप्तमीमांसा - विरोधात्रोभयकात्म्यं स्याद्वादन्यायवि द्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ७४ ॥ वृत्तिः-अपेक्षानपेक्षकांतोभयं नास्ति विरोधात् । नाप्यवाच्यमवाच्यत्वेनापि वाच्यत्वात् ।। ७४ ॥ तयोरनेकांतं दर्शयन्चाह- अष्टशती-अनतरकांतयोयुगपाद्विवक्षा माभूत् विप्रतिषेधात, सदसदैकांतवत् । तथानभिधैयत्वैकांते- ऽपीति कृतं विस्तरेण ।। ७४ ॥ धर्मधार्यविनाभावः सिद्धयत्यन्योऽन्यवीक्षया । न स्वरूपं स्वतो ह्येतत् कारकज्ञापकांगवत् ।। ७५ ॥ बृत्ति:-क्रमभात्रि पिंडादिकार्य सहभावी रूपादिगुणो विसदृशपरिणामलक्षणश्च विशेषो धर्मोऽत्र कथ्यते । कारणादिव्यपदेशं द्रव्यं धर्मी । स्वधर्मापेक्षया द्रव्यस्य धर्मिव्यपदेशः । स्वधर्म्यपेक्षया च रूपादेश्च धर्मव्यपदेशस्तयोर्योऽविनाभावोऽन्यभिचारोऽवश्यं सोऽन्योऽन्यापेक्षया सिद्धयति भासते उत्पद्यते वा । स्वरू- पमसाधरणं रूपं तयोर्न परतः । कुतः । यस्मास्वत एव तसिध्यति । यथा कारकज्ञापकांरो कारकक्रियायाः अंग ज्ञापकक्रियाया अंगं निबंधनं तयोरिव लद्वतकर्तृकर्मकबोध्यबोधकवदित्यर्थः । अथवा अंगशब्दो.विशेषार्थो. द्रष्टव्यः, यथा कर्मकर्तव्यपदेशाविनाभावो बोध्यबोधकव्यपदेशाविनाभावश्च सिध्यत्यन्योन्यापेक्षयैवमत्रापीत्यर्थः । उपेतयत्वं व्यवस्थाप्योपायतत्त्वव्यवस्थापनार्थमाह- अष्टशती-न केवलं सामान्यविशेषयोः स्वलक्षणमपेक्षितपरस्पराविनाभावलक्षणं स्वतःसिद्धलक्षणं, अपि तु धर्मधर्मिणोरपि, कर्मकर्तृबोध्यबोधकवत् ।। ७५ ॥ इत्याप्तमीमांसाभाष्ये पंचमः परिच्छेदः । -- सिद्धं चेदतुतः सर्व न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वः विरुद्धार्थमतान्यपि ॥ ७६ ॥ वृत्तिः यदि सर्वे हेतुतो निमित्तासिद्धमवगतं तर्हि प्रत्यक्षादितः प्रत्यक्षागमादेर्गतिरवगमो न स्यात् । दृश्यते. चैंद्रियकस्याशनपानादेरर्थस्यातींद्रियस्य मलयकाश्मीरादेन क्रमेण प्रत्यक्षादाप्तोपदेशतश्च गतिरिति ।। अथागमादाप्तोपदेशात्सर्वं चेष्यत ततो विरुद्धार्थानि यानि.मतानि.तान्यपि सिद्धिमुपगच्छेयुरिति ॥.७६ ॥ उभयेकात्म्यैकांतं निराकर्तुमाह- अष्टशती-उपेयतत्त्वं व्यवस्थाप्य-उपायतत्त्वं व्यवस्थाप्यते:- युक्तया यन्न. घटामुपैति. तदहं दृष्टापि न श्रद्दधे. इत्यादेरेकाते. तस्याबहुलं दर्शनात् प्रत्यक्षतदामासयो- रपि व्यवस्थितिः-अनुमानात् अन्यथा संकरव्यतिकरोपपत्तेः । कथंचित्साक्षात्कारणमंतरेण न क्वचिदनुमानं किं पुनः शास्त्रोपदेशः। नचैते युक्तिनिरपेक्षाः, परस्परविरुद्धार्थतत्त्वसिद्धिप्रसंगात् । न हि प्रत्यक्षानुमानाभ्या- मंतरेणोपदेशे ज्योतिर्ज्ञानादिप्रतिपत्तिः ॥ ७६ ॥ विरोधान्नोभयकात्म्यं स्याद्वादन्यायविदिया। अवाच्यतैकांतेऽप्युक्ति वाच्यमिति युज्यते ॥ ७७. He वृत्ति: उभयकांतत्वं नास्ति विरोधात । अवाच्यमपि न ॥.७७.।।. पुनस्यनेकांतनिरूपणार्थमाह--- -- ३६ सनातनंजनग्रंथमालायां- अष्टशती-युक्तीतरकांतद्वयाभ्युपगमोऽपि मास्मभूत्-विरुद्धयोरेकत्र सर्वथाऽसंभवात् । तदवाच्यत्वे ऽपि पूर्ववत् ।। ७७ ॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितं । आप्ते वक्तरि तद्वाक्यात् साध्यमागमसाधितं ॥ ७८ ॥ वृत्तिः यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः अनाप्ते वक्तरि तत्त्वस्योपदेष्टरि हेतोरनु. मानाद्यत्साध्यं शक्याऽभिप्रेतं प्रसिद्धं तद्धेतुसाधितं-लिंगात्प्रतिपादितं । आप्त वक्तरि वाक्यावचनाद्यत्साध्यं तदागमसाधित-प्रवचनप्रतिपादितं प्रमाणभूतं प्रवचनं हि तत् । अनाते पुनर्विसंवादकं तस्मातुमंतरेण न तत्सेत्स्यति ॥ ७८॥ अंतस्तत्वमेव तत्त्वमिति येषा मतं तन्निराकरणायाह-- अष्टशती-यो यत्राविसंवादकः स तत्राप्तः । ततः परोऽनाप्तः । तत्त्वप्रतिपादनमसंवादः तदर्थज्ञानात्। तेनातींद्रिये जैमिनिः-अन्यो वा स्तुतिमात्रावलंबी नैवाप्तः तदर्थापरिज्ञानात्ताथागतवत् । न हि तादृशातींद्रि- यार्थज्ञानमस्ति दोषावरणक्षयातिशयाभावात् । श्रुतेः परमार्थविश्वं ततः श्रुतेरविसंवादनमित्यन्योऽन्यसंश्रितं स्वतः श्रुतेन वै प्रमाण्यमचेतनत्वात् घटवत् । सन्निकर्यादिभिरनैकांतिकत्वमयुक्तं तत्प्रामाण्यानभ्युपगमात् । अथापि कथंचित्प्रमाणत्वं स्यात् अविसंवादित्वात् श्रुतरयुक्तमेव तदभावात् तेनोपचारमात्रं च न स्यात् तदर्थ- बुद्धिप्रामाण्यासिद्धेः । आप्तवचनं तु प्रमाणन्यपदेशभाक तत्कारणकार्यत्वात् तदतीद्रियार्थदर्शनोपपत्तेस्तदर्थ- ज्ञानोत्पदनाच्च । नैतत् श्रुतेः संभवति सर्वथाप्तानुक्तेः पिटकत्रयवत् । वक्तृदोषातादृशाप्रामाण्यं तदभावा- च्छ्रुतेः प्रामाण्यमिति चेत् कुतोऽयं विभागः सिद्धयेत् अभ्युपगमानभ्युपगमाभ्यां क्वचित्पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः वेदेतरयोरविशेषात् । इतरत्र बौद्धो वक्तेति चेत् तत्र कमलोद्भवादिरिति कथं न समानं । सूदमपि गत्वा तदंगीकरणेतरमात्रे व्यवतिष्ठत् वेदाध्ययनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लक्तौ न वक्त्रं वक्रीभवति । तदतिशयांतराणां च शक्यक्रियत्वादितत्रापि मंत्रशक्तेर्दर्शनात् सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथमविसंवादकत्वं प्रत्येतव्य । म्लेच्छव्यवहारादेस्तादृशो बहुलमुपलभात् कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेय- स्यैव वचनस्य दोषनिवृत्तिः कर्तुर्वीतदोषस्यापि संभवात् तदध्येतृव्याख्यातृश्रोतॄणां रागादिमत्त्वान्नेतरस्येति निशांक नश्वेतः । वक्तृगुणापेक्षं वचनस्याविसंवादकत्वं चक्षुनिवत् । तदोषानुविधानाद ततोऽनाप्तवचना- नर्थज्ञानमंघरूपदर्शनात् । तत्र यदेव युक्तियुक्तं तदेव प्रतिपत्तुं प्रतिपादयितुं वा शक्यं, अग्निहिमस्य भेष- जमित्यादिवत नाग्निहोत्रादि वाक्यसाधनं । सिद्ध पुनराप्तवचनत्वे यथा हेतुवाबस्तथा आज्ञावादोऽपि प्रमाणं । ननु चापौरुषेयत्ववदाप्तशासनमप्यशक्यव्यवस्थं ? उक्तमत्र सर्वथैकांतवादानां स्याद्वादप्रतिहत- त्वात् इति । तत्राप्तिः साक्षात्करणादिगुणः संप्रदायाविच्छेदो वा अन्यथाऽधपरंपरयाऽप्रतिपत्तः ॥ ७८ ॥ इत्याप्तमीमांसाभाष्ये षष्ठः परिच्छेदः समाप्तः ॥ ----- -drum अंतरंगायतकात बुद्धिवाक्यं मृपाखिलं । प्रमाणाभासमेवातस्तत्प्रमाणाहते कथं ॥ ७९ ॥ वृत्तिः अंतरभ्यंतरमगं कारणं यस्य स चासावर्थश्च तस्य भावोंऽतरंगार्थता सवैकांतो मिथ्यात्वं तस्मिन् । बुद्धिश्च बहिरर्थपरिच्छेदिका । वाक्यं चानुमाननिमित्तं परायं । द्वंद्वकवद्भावः । तदखिलं निरवेशर्ष आप्तमीमांसा। मृषा मिथ्या । प्रमाणमिवावभासत इति प्रमाणाभासमेत्र । यद्येवं कथं मुख्यप्रमाणमंतरेण तत्प्रमाणाभास यस्मात्सति प्रमाणे प्रमाणाभासो. नान्यथा ॥ ७९ ॥ अथ मतं सर्व बाह्याभ्यन्तरं ज्ञानमेवैतस्य मतस्य निराकरणार्थमाह- आरशती-तजन्मकार्यप्रभवादिवेद्यवेदकलक्षणमनेकांतिकमादये संवित्तिरेव खंडशः प्रतिभासमा- ना व्यवहाराय कल्प्यत इत्यभिनिवेशेऽपि प्रमाणं मृग्यं । क्षणिकत्वमनन्यवेद्यत्वं नानासंतानत्वमिति स्वत- स्तावन्न सिद्धयति भ्रांतः। तथात्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणांतरापेक्षयानुपलंभकल्पत्वात् । न हि तथा बुद्धयः संविदंते यथा व्यावयेते । नापि परतः संबंधप्रतिपत्तेरयोगात् स्वांशमात्रावलंबिना मिथ्याविकल्पेन प्रकृतितत्त्वव्यवस्थापने बाहिरर्थेष्वप्यविरोधात् । कथंचिदत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात् ना- न्यथा। न चानुक्तदोषं लक्षणमस्ति तत्संभवे नान्यत्र तदभावोऽभिधेयः तत्स्वपक्षपरपक्षयोः सिद्धयसिद्धयर्थ किंचित्कथंचित्कुतश्चित् आवितथं ज्ञानमादरणीयं अन्यथा शेषविभ्रमासिद्धेः । एतेन यद्ग्राह्यग्राहकाकारं तत्सर्वे भ्रांतं यथा स्वप्नेंद्रजालादिज्ञान तथा प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यं ॥ ७९ ॥ साध्यसाधनविज्ञप्तर्यदिविज्ञप्तिमात्रता । न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८॥ वृत्तिः-साध्यत इति साध्यं शक्यमभिप्रेतमप्रसिद्ध पक्षधर्मः । साध्यतेऽनेनेति साधनं प्रकृते नाविनाभावि तयोराकारो विज्ञप्तिर्विज्ञानं तस्या यदि विज्ञाप्तिमात्रता ज्ञानमात्रत्वं । न साध्यं न च हेतुः चकरानापि दृष्टान्तः । कुतः? प्रतिज्ञादोषाद्धेतुदोषाच्च । निरंशत्वमभ्युपगम्य स भेदं साधयेत् ? अभ्युपगमहानिः प्रातज्ञाहेतुदोषः, अतः प्रतिज्ञादोषे हेतुदोषेऽकिंचित्कराख्यः । अथवा प्रतिव हेतुः स दोषस्तस्मात् । यस्मान्न तदेव साध्यं साधनं निरंशत्वात्तस्य ॥ ८॥ अथान्तरंगार्थतैकांते दोषदर्शनाद्वहिरंगार्थोऽभ्युपगम्यते तत्रापि दोषं दर्शयति- अष्टशती-सहोपलभनियमादभेदो नीलतद्धियोचिंद्रदर्शनवत् इत्यत्रार्थसंविदोः सहदर्शनमुपेत्यै- कत्वैकांत साधयन् कथं अवधेयाभिलापः । स्वामिलापाभावं वा स्ववाचा प्रदर्शयन् कथं स्वस्थः । पृथगनु- पलंभाद्भेदाभावमात्रं साधयेत् तचासिद्ध संबंधासिद्धरभावयोः ख़रशंगवत् । एतेन सहानुपलभादभेदसाधनं. प्रत्युक्तं भावाभावयोः सांधासिद्धेः । तादात्म्यतदुत्पत्त्योरर्थस्वभावनियमात् सिद्धेऽपि प्रतिषेधैकांते विज्ञप्ति- मात्रं न सिद्धयेत् तदसाधनात्तत्सिद्धौ तदाश्रयं दूषणमनुषज्येत । तदेकोपलंभनियनोप्यसिद्धः साध्यसाधन- योरविशेषात् । एकज्ञानग्राह्यत्वं द्रव्यपर्यायपरमाणुभिरनैकांतिकं, अनन्यवेद्यत्वं असिद्धं एकक्षणवर्तिसंवित्तीनां साकल्येन सहोपलंभनियमात्, व्यभिचारिहेतुः तथोत्पत्तरेव संवेदनत्वात्. दृष्टांतोऽपि साध्यसाधनविकल: तथोपलंभाभदयोरर्थप्रतिनियमात् भातौ तदसंभवात् । ननु चासहानुपलंभमात्रादभेदमात्रं कथंचिदर्थस्त्रभा- वानवबोधप्रसंगात् । सर्वविज्ञानस्वलक्षणक्षणक्षयविविक्तसंततिविभूमस्वभावानुमितेः । साकल्येनैकत्वप्रसंगात् एकार्थसंगतदृष्टयः परचित्तविदो वा नावश्यं तद्बुद्धिं तदर्थ वा संविदेतीति हेतोरसिद्धिः सहोपलभनियमश्च स्यात भेदश्च स्यात् किं प्रतिषिध्येत स्वहेतुप्रतिनियमसंभवात् । तस्मादयं मिथ्यादृष्टिः परप्रत्यायनाय शास्त्र विदधानः परमार्थतः संविदानी वा वचनं तत्त्वज्ञानं च प्रतिरुणद्धीति न किंचिदेतत् असाधनांगवचनात् अदोषोद्भावनाच निग्रहार्हत्व त् ।। ८० ॥ बहिरंगायतकांते प्रमाणाभासनिहवात् । सर्वेषां कार्यसिद्धिः स्याविरुद्धार्थाभिधायिनां ॥ ८१॥ वृत्ति बहिरंगार्थतेकांतो बाह्याथैकांतस्तस्मिन्नभ्युपगम्यमाने विरुद्धार्थाभिधायिना प्रमाणांतरवाधिता- -- सनातनजैनग्रंथमालायां- - -- थंप्रकाशकानां सर्वेषां निरवशेषाणां कार्यस्य सिद्धिनिष्पत्तिः व्यवहारसिद्धिर्भवदित्यर्थः । कस्मात्प्रमाणा- भासनिहवात् प्रमाणस्याभासो मिथ्यावं तस्य निहवो निराकरणं तस्मात् । एतदपि कुतः ? अंतस्तत्त्वे सति वहिरर्थस्य सिद्धिरसिद्धिश्च नान्यथा ।। ८१ ॥ उभयकांतप्रतिक्षेपायाह- अष्टशती-यत्किंचिञ्चतस्तत्सर्वं साक्षात्परंपरया वा बहिरर्थप्रतिबद्धं यथाग्निप्रत्यक्षतरसंवेदनं । तथा स्वप्नदर्शनमपि, चेतस्तथाविषयाकारनिर्भासात् । साध्यदृष्टांती पूर्ववदित्यत्रापि लोकसमयप्रतिवद्धानां परस्प- रविरुद्धशब्दबुद्धीनां स्वार्थसंबंधः परमार्थतः प्रसज्येत ॥ ८१ ।। विरोधात्रोभयकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतकांतेऽप्युक्तिनार्याच्यमिति युज्यते ॥ ८ ॥ वृत्तिः-पूर्ववत् ॥ माव एव तत्वं नाभाव इति यस्य मतं तन्निराकरणायाह-- अष्टशती-अंतर्वहियिकांतयोः सहाभ्युपगमो विरुद्धः तद्वाच्यतायां युक्तिविरोधः पूर्ववत् ।। ८२ ।। भावप्रमेयापेक्षायां प्रमाणाभासनिहवः । बहि प्रमेयापेक्षायां प्रमाणं तनिभं च ते ॥ ८३ ।। . वृत्तिः-भावो ज्ञानं तदेव प्रमेयं तस्य तस्मिन्वाऽपेक्षाऽभ्युपगमस्तस्यामभ्युपगम्यमानायां । प्रमाणा- भासस्य निहवो लोपः । कुतः ? ज्ञानस्य तदेतत्प्रामाण्यमप्रामाण्यं च बाह्यार्थापेक्षायां भवति नान्यथा इति । एतच्च मतं सर्व वचो विवक्षामात्रसूचकमित्यस्य निराकरणायाह- अष्टशती-सर्वसांवत्तेः स्वसंवेदनस्य कथंचित्प्रमाणत्वोपपत्तेः तदपेक्षायां सर्व प्रत्यक्षं न कश्चित्प्रमा- णाभासः । तथानभ्युपगमेऽन्यतम एव बुद्धेनुमानं स्यात् । तत्रार्थज्ञानमलिंगं तदविशेषणासिद्धेविशेषे वा तद- न्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन । यच्चैदमर्थज्ञानं तच्चेदर्थस्वलक्षणं स्याद् व्यभिचारात् अहेतुः, एतेनेंद्रि- यादि प्रत्युक्तं । प्रत्यक्षतरबुद्धयवभासस्य स्वसंवेदना प्रत्यक्षविरुद्धं । सुखदुःखादिबुद्धेरप्रत्यक्षवे हर्ष- विषादादयोऽपि न स्युरात्मांतरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तं यथाप्रतिज्ञमनुभवाभावात्। यथानुभवमनभ्युपगमात् सर्वत्र सर्वदा भतिरप्रत्यक्षत्वाविशेषात् कथंचिद्भातौ एकांतहानर्बिकल्पसंवेदनेऽपि विकल्पानतिवृत्तेः । तस्मात्स्वसंवेदनापेक्षया न किंचिद् ज्ञानं सर्वथा प्रमाणं । बहिरीपेक्षया तु प्रमाण तंदाभासव्यवस्था तत्संवादकविसंवादकत्वात् क्वचित्स्वरूपे केशमशकादिज्ञानवत् ॥ ८३ ॥ जीवशब्दः सवाह्यार्थः संज्ञात्वाद्धेतुशब्दवत्. । मायादिभ्रांतिसंज्ञाश्च मायायैः स्वैः प्रमेक्तिवत् ।। ८४ ॥ वृत्तिः-जीवस्य शब्दः संज्ञा देशामर्शकत्वाद्धटादिसंज्ञाः परिगृह्यते । सह बाहनार्थेन वर्तत इति सबाह्यार्थः । कुतः ? संज्ञात्वात्सनामत्वाद्धेतुशब्दवत् | शब्दस्यार्थ स्त्रधा बहिरर्थो घटाद्याकारः स्वार्थो वा । तथा चोक्तम्-स्वार्थमभिधाय काऽप्यन्यत्र वर्तत इति । यद्येवं भ्रांतिसंज्ञा यास्ताः कथं ! ता अपि स्वैरात्म- स्वरूपैरथैर्मायाद्यैर्माया स्वप्नेन्द्रजालादिः । भ्रांतिसंज्ञाः स्वार्थवत्यः प्रमाया उक्तियथा, प्रमाणशब्दः प्रमाणाभास शब्दश्च यथा स्वार्थप्रतिपादकः । अथवा सम्यक् ज्ञायतेऽनयेति संज्ञा तस्या भावः संज्ञात्वम् । तस्माद्दे शामर्शकत्वादन्येषामपि ग्रहणं प्रमाणतन्निबन्धनविचाराभ्यासदानफलादीनाम् । एतेषामन्यथाऽनुपपत्तेर्जीवादि शब्दः सबाह्यार्थः । अन्यया एतेषामभावः स्यात् ॥ ८४ ॥ - आप्तमीमांसा। ३९ सिद्धसाध्यतापारहारद्वारेणामुमेवार्थ प्रकटयन्नाह- अष्टशती-स्वरूपव्यतिरिक्तेन शरीरेंद्रियादिकलापेन जीवशब्दोऽर्थवान अतो न कृतः प्रत्यक्षतः स्यात् । इति विक्लवीलापमानं लोकरूढेः समाश्रयणात् । यत्राय व्यवहारः जीवो गतस्तिष्ठतीति वा नात्र संज्ञा, अभिप्रेतमात्रं सूचयति ततोऽर्थक्रियायां नियमायोगात्, तत्करणप्रतिपत्तीनां तदभावनादरणीयत्वात्, साधनतदाभासयोरन्याथा विशेषासंभवात्, परंपरयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यं । कचिद् व्यमि चारदर्शनादनावासे चक्षुरादिबुद्धेस्तदाभासोपलब्धेः कुतो धूमादरान्यादिप्रतिपत्तिः ? कार्यकारणभावस्य व्यभिचारदर्शनात् । काष्टादिजन्मनोऽग्नेरिव मणिप्रभृतेरपि भावात् । तद्विशेषपरीक्षायामितरत्रापि विशेषा- भावात् । अभिसंधिवैचित्र्यादभिधानव्यभिचारोपलभे तदितरकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमा- श्वासः | तस्मादयमक्षलिंगसंज्ञादोषाविशेषेऽपि कचित्परितुष्यन्नन्यतमप्रदेषेण ईश्वरायते परीक्षालेशलेशाऽस- 'हत्वात् । भावोपादानसंभवे हि समाख्यानामितरतरोपादानप्रक्लूप्तिः। भावश्चात्र हर्षविषादायनेकविकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मको प्रत्याख्यानाहः प्रतिक्षिपतमात्मानं प्रतिबोधयतीति कृतं प्रयासन । न हि मायादिसमाख्याः स्वार्थरहिताः विशेषार्थप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् ॥ ८४ ॥ बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्धयादिवाचिकाः। तुल्या बुद्धयादिबोधाश्च त्रयस्तत्मतिबिविकाः ॥८५ ।। बृत्ति:-बुद्धिश्च शब्दश्चार्थश्च बुद्धिशब्दार्थास्तेषां संज्ञा बुद्धिशब्दार्थसंज्ञास्तिस्रस्त्रिसंख्याः। बुद्धिरादि- येषां ते बुद्ध यादयस्तेषां वाचिकाः प्रतिपादिका तुल्याः समाः। केन ? बुद्धयाद्यर्थप्रतिपादकत्वेन । बुद्धयादीनां बोधाश्च ज्ञानानि च बुद्धय द्यर्थस्य प्रवितिबिका प्रतिनिधयस्त्रयस्तेऽपि तुल्या अर्थप्रतिपादकत्वेन ॥ किमुक्त भवति-गौरिति जानीत इतीयं बुद्धर्वाचिका संज्ञा । तस्याश्च श्रोतुः पुरुषस्य स्वार्थे बोधको बोधो भवति । गौरित्याहेतीयं शब्दस्य स्वस्यैव रूपस्य वाचिका संज्ञा। तस्याश्च श्रोतुः पुरुषस्य स्वार्थे शब्दस्य स्वस्मिन्नेव रूपे बोधको बोधो भवति । गामानय दोहार्थमितीयं संज्ञा बाह्यार्थस्य वाचिका भवति । तस्याश्च श्रोतुः स्वार्थे सानादिमति पिण्डे बोधका बोधो भवति । ततो बुद्धयाद्यर्थवाचकत्वेन संज्ञास्तिन्नः समा एव बुद्धयादीनां शब्दार्थानां त्रयोऽपि बोधका वेदका बोधा बुद्धयादिशब्दार्थप्रतिभासकाश्च समा एव तत्प्रतिभासकत्वेन।।८५॥ पुनरण्याशंक्य तमेव बाह्याथै प्रतिपादपनाह- अष्टशती-हेतुव्यभिचाराशंकां प्रत्यस्तमयति-तिसृणामपि स्वव्यतिरिक्तवस्तुसंबंधदर्शनात्तबुद्धीनां च तनि सनात्तद्विषयतोपपत्तेः ।। ८५ ॥ वक्तृश्रोतृमम तृणां वाक्यबोधप्रमाः पृथक । भ्रांतावेव प्रमानातौ बाह्याौँ तादृशेतेरौ ।। ८६ ॥ वृत्तिः-वक्ता च श्रोता च प्रमाता च वक्तृश्रोतृप्रमातारस्तेषां वक्तृश्रोतृप्रमातॄणां वाचकश्रावक- ज्ञापकानां । यथासंख्यं वाक्यं च बोधश्च प्रमा च वाक्यबोधप्रमाः शब्दशाब्दप्रत्यक्षानुमानानि । पृथक व्यवस्थितलक्षणानि । भ्रांतावव यदि प्रतिस्वरूपे व्यवतिष्ठेरन् न तु वर्तेरन्निति वाक्यशेषः । ततः को दोषः स्यादित्याह-प्रमाभ्रांती सर्वेषां प्रमाणानां बाह्यापेक्षायां वैविध्ये सति प्रमाणयोः प्रत्यक्षाप्रत्यक्षयोः प्रत्यक्षानुमा- नयोर्वा नातौ भ्रांतिस्वरूपतायां सत्यामपि । बाह्याौँ बाह्यविशेषौ दृश्यानुमेयाख्यौ । तादृशात्प्रस्तुताद्धांत- . स्वरूपादितरावन्यावभ्रांतस्वरूपौ क्रमाक्रमानेकांतात्मको संती विभावनीयौ स्यातां । अथ वा प्रमानांतो यौ प्रांताम्राती बाह्यार्थी प्रांतावेव तत इदं भ्रातमिदमनातमिति विचारोऽनर्थकः स्यात् ॥ ६ ॥ बाह्या सति प्रमाणमप्रमाणं च युज्यते नान्यथाऽत आह- .
४० सनातनजैनग्रंथमालायां- अष्टशती-बहिरर्थाभावाद् वक्त्रादित्रयं न बुद्धेः पृथक्कृतं ततोऽसिद्धतादिदोषः साधनस्येति तन्न रूपादेहिकस्य तद्व्यतिरिक्तविज्ञानसंतानकालस्य च स्त्रांशमात्रावलंबिनः प्रमाणस्य विभ्रमकल्पनायां साक- ल्येनासिद्धिः अंत याभ्युपगमविरोधात् । तौ हि ग्राहकापेक्षया बाह्यार्थी भ्रांताव कुतस्तत्र हेयोपादेयविवेकः ८६ बुद्धिशब्दप्रमाणत्वं वाह्यार्थे सति नासति । सत्यानृतव्यवस्थैवं युज्यतेऽर्थाप्त्यनाप्तिषु ॥ ८७ ।। वृत्ति बुद्धिश्च शब्दश्च तयोः प्रामाण्यमर्थप्रतिपादकत्वं बाझार्थे सति भवत्य सत्यविद्यमाने च न भवति । सत्यमवितथमन्तं वितथं तयोर्व्यवस्था अर्थस्याप्त्यनाप्तिषु ग्रहणाग्रहणेषु सत्सु युज्यते नान्यथा । वचनस्य तदा सत्यता भवति यदा वाह्यार्थं तादृग्भूतं प्रापयति । अन्यथाऽसलं ।। ८७ ॥ तस्य बाह्यार्थस्य कथं प्राप्तिर्भवतीति पृष्टे कश्चिदाह दैवादेव, कश्चित्पुनः पौषादेवैतत्पक्षद्वयं विघटयन्नाह- अष्टशती-स्वपरप्रतिपत्त्यर्थं साधनं बुद्धिशब्दात्मकं स्वसंवित्त्यैव परप्रतिपादनायोगात् । तस्य च सति बहिरर्थे प्रमाणत्वमर्थप्राप्तितः सिद्धयेत् । असति प्रमाणाभासत्वं-अर्थानाप्तित इति । तदेवं परमार्थसन् वहिरर्थः साधनदूषणप्रयोगात् । अन्यथा स्वप्नेतराविशेषात् किं किं न साधितं दूषितं चेति कुतः संता- नांतरमन्यद्वा । तैमिरिकद्धयाविचंद्रदर्शनवत् भांतः सर्वो व्यवहार इत्यत्रापि तत्त्वज्ञानं शरणं । अन्यथा बहिरर्थवदमिसंहितस्यापि निराकरणापत्तेस्तथा परमाण्वादिदूषणेऽपि प्रतिपत्तव्यं-अन्यथा तत्कृतमकृतं स्या- दिति सर्वत्र योज्यं । तदिमे विज्ञानसंतानाः संति न संतीति तत्त्वाप्रतिपत्तेः दृष्टापह्नुतिरनिबंधनैव अदृश्ये नात्मना कथंचिदृश्यानामपि परमाणूनां बहिरपि समवस्थानविप्रतिषेधाभावात् अंतज्ञेयवत् । तत्र पूर्वादिदि- ग्भागभेदेन षडंशादिकल्पनया वृत्तिविकल्पेन वा परपक्षोपालंभे स्वपक्षाक्षेपात्, कचिद्विरोधपरिहारस्य पुनरायाशयतामप्यशक्तेः तत्साक्षात्परंपरया वा विमत्यधिकरणभावापन्नं ज्ञानं स्वरूपव्यतिरिक्तार्थावलंबनं ग्राह्यग्राहकाकारत्वात संतानांतरसिद्धवत् । न हि व्यापारल्याहारनिर्भासोऽपि विप्लुतो नास्ति तदन्यत्रापि वासनाभेदो गम्यते न संतानांतरं ।। ८७ ॥ इत्याप्तमीमांसाभाष्ये सप्तमः परिच्छेदः । दैवादेवार्थसिद्धिश्चेद्दवं पौरुषतः कथं । दैवतश्चेदनिर्मोक्षः पौरुषं निष्फलं भवेत् ॥ ८८ ॥ वृत्तिः-अर्थस्य कार्यस्य प्रशस्ताप्रशस्तशरीरेंद्रियादेस्तथा ज्ञानसुखादेरज्ञानदुःखादेवी सिद्धिनिष्पत्ति. यदि दैवादेव सर्वथा स्यात् तदैवं कर्माख्यं पौरुषान्मनोवाकार्यव्यापारलक्षणाच्छुभाशुभरागादिप्रायात्पुरुषका- रात्तहि कथं स्यात् । अथ देवांतरादेव दैवं स्यादित्यत्रोच्यते । दैवतश्चेद्यदि दैवादेव दैवं स्यात्तदानीमनि- मोक्षोऽसिद्धिः स्यात् । दैवस्य कारणभूतस्य कार्यभूतस्य च सततं संततितो विच्छेदं प्रत्युपायासंभवात् । तदा दानशीलप्रव्रज्यार्थः कृष्याद्यर्थश्च पुरुषकारोऽप्यनर्थः स्यात् ॥ ८॥ अष्टशवी-योग्यतापूर्वकर्मता वा दैवमुभयमदृष्टं, पौरुषं पुनरिह चेष्टितं दृष्टं ताभ्यामर्थसिद्धिः तदन्य- तरापायेऽघटनात् । पौल्यमाने अर्यादर्शनात् दैवमाने वा समीहानर्थक्यप्रसंगात् ।। ८॥ पौरुषादेव सिद्धिश्चेत् पौरुषं दैवतः कथं । पौरुषाच्चेदमोघं स्यात् सर्वप्राणिषु पौरुषं ।। ८९ ॥ वृत्ति:-अयं पौरुषादेव सिद्धिश्चेत् सर्वया यदि पौरुषमात्रादेवार्थसिद्धिः स्यात् । तत्पौरुषं दैवादेव- आप्त मामांसा। ४१ प्रामाण्यात्कथमफलं स्यात् । तथाहि समाने हि समानानां केचिदर्थेषु युज्यंते कचिन्न प्रसिद्धमेतत् । अन्यथा दैवमंतरेण पौरुषादेव पौरुषस्य प्रवृत्तौ सत्यां सर्वप्राणिषु पौरुषममोघमेव सफलमेव स्यात् देवहीनानामपि तद्भवति ।। ८९ ॥ उभयकांतेऽपि न युक्तं- अष्टशती-तद्धि पौरुषं विना दैवसंपदा न स्यात् तदुक्तं- तादृशी जायते बुद्धिर्व्यवसायश्च तादृशः । सहायास्तादृशाः संति यादृशी भवितव्यता ॥१॥ इति तत्सर्वं पौरुषापादितमिति चेत् तद्व्यभिचारदर्शिनो न वै श्रद्दधीरन् ।। ८९ ॥ विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्ति वाच्यमिति युज्यते ॥ ९० ।। वृत्तिः-उभयदोषप्रसंगात् । अवाच्यत्वदोषाच ॥ ९० ॥ दैवात्केवलापौरुषाच केवलादर्थसिद्धिर्यदि न भवति कथं तर्हि स्यादत आह- भष्टशती-दैवेतरयोः सहकांताभ्युपगमे व्याघातात् , अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः॥९०॥ अवुद्धिपूर्वीपेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वन्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ वृत्ति:-बुद्धिर्विचारः पूर्व प्रथमं कारणं यस्याः सा तथा न बुद्धिपूर्वी अबुद्धिपूर्वा सा चासावपेक्षा च आलोचनं च सा तथा तस्यामतर्कितोपस्थितन्यायेनेत्यर्थः । इएमभिलषितं सुखादि अनिष्टमनभिलषितं दुःखादि । स्वदेवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः । यद्यपि पौरुषमात्रं विद्यते तथापि मुख्याभावी विवक्षितो नात्यंताभावः । तथा बुद्धिपूर्वव्यपेक्षायां विचारपूर्वकत्वेनानुष्ठानादिष्टमनिष्टं च स्वपौरुषात्स्वकी- यपुरुषकारात् । अत्रापि दैवमप्रधानत्वेन विवक्षितं नायंताभावत्वेन । परस्परापेक्षयैव कार्यसिद्धिर्यतो देव मात्मा तस्य कर्म देवमिति ।। ९१ ॥ ननु परदुःखे पापं तस्यैव सुखे पुण्यं स्वदुःखात्पुण्यं स्वसुखात्पापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह- अष्टशती-अतर्कितॊपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं तद्विपरीतं हि पौरुषापादितं । अपेक्षाकृत- त्वात्तव्यस्थायाः॥११॥ इत्याप्तमीमांसाभाष्ये अष्टमः परिच्छेदः । - पापं धवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च ध्येयातां निमित्ततः ॥ ९२॥ वृत्ति:-परेऽन्यस्मिन् प्राणिनि दुःखमात्राद्यदि पापं स्यात् । तस्मिन्नेव सुखमात्राच पुण्यं यदि स्यात् । तदानीमचेतनो विषशस्त्रादिरकषायो वीतरागः तावपि बध्येयातां कर्मबंधस्य कर्तारौ भवतः । निमित्तत्त्वात् । प्रत्ययमंतरेणापि भावप्रधानत्वानिर्देशस्य ॥ ९२ ॥ -तथा- - १। विवक्षायमित्यापि पाठः।
सनातनजननयमाला- अष्टशती-परत्र सुखदुःखोत्पादनात् पुण्यपापबंधै कांत कदमचेतना न बध्येरन् ? वीतरागो वा 'तनिमित्तत्वात् ॥ १२ ॥ पुण्यं ध्रुवं स्वतो दुःखात्पापं च सुखतो यदि । चीतरागो मुनिर्विवांस्ताभ्यां युंज्यानिमित्ततः ॥ ९३ ।। वृत्तिः स्वस्मिन् दुःखात् ध्रुवं निश्चितं पुण्यं यदि स्यात्तस्मिन्नेवात्मनि सुखा तोर्धवं पापं च यदि स्यात् । ततः किं स्यात् ? ताभ्यां वीतरागो मुनियुंज्याद्वद्धो भवेत् । कुतः ? निमित्तत्वात् ॥ १३ ॥ अथोभयकांतस्तद्भयादिष्यते तत्रापि दोष एव विरोधात् । नाप्यत्राच्यत्वं वचनविरोधात्- अष्टशती-आत्मसुखदुःखाभ्यां पापेतरकांतकृतांते पुनरकषायस्यापि ध्रवमेव बंधःस्यात् ततो न क्रश्चिन्मोक्तुमर्हति तदुभयाभावसंभावात् ॥ ९३ ॥ विरोधान्नोभयेकात्म्यं स्याद्वादन्यायविद्विषों । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९४ । वृत्तिः-सुगमं ॥ ९४ ॥ कथं तीत आह- अष्टशती-प्रस्तुतेकांतद्वयसिद्धांते व्याहतःअनभिधेयतायां-अनभिधेयाभिधानविरोधात् कथं चिदेवेति युक्तं । विशुद्धिसंक्लेशांग चेत् स्वपरस्थं सुखासुखं । पुण्यपापासयौ युक्तौ न चेयर्थस्तवाईतः ॥ ९५ ॥ वृत्ति व आत्मा परोऽन्यस्तयोस्तिष्ठतीति स्वपरस्थं सुखं चासुखं च सुखासुखं जीवप्रदेशाहादना- नाहादनं । विशुद्धिः प्रमोदादिशुभपरिणामः । यद्यपि निरक्शेषरागादिविरहलक्षणायां विशुद्धौ विशुद्धिशन्दो वर्तते तथापि कुशलशब्दवत् शुभपरिणामादौ वर्तमानो विशुद्धिशब्दो गृह्यते । संक्लेशः-आतरीध्याने तयोरंगं. कारणं विशुद्धिसंक्लेशांग-चेद्यदि स्वपरस्थं सुखासुखं विशुद्धिसंश्लेशालंबनं यदि भवति तदा पुण्यं च पापं च तयोरास्रवौ युक्तौ । न चेदेव यद्येवं न स्यात् । पुण्यात्रवः पापावश्च व्यर्थो निष्फलः । अर्हतो वीतरा- गस्य तवेव वा शुष्ककुड्यनिपतितचूर्णमुष्टिवत् बंधाभावात् । एतेन मस्करिपूरणमतं निराकृतं भवति । सिद्धेषु सक्लेशकारणाभावात् ॥ ९५ ॥ भय पुण्यपापानवकारणमज्ञानमिष्यते चेत्तन्मतनिराकरणायाह- अष्टशती-आत्मनः परस्य वा सुखदुःखयोर्विशुद्धिसंश्लेशांगयोरेपे पुण्यपापानवहेतुत्वं नचान्यथा भंतिप्रसंगीत् । आर्तरौद्रभ्यानपरिणामः संक्लेशः तदभावो विशुद्धिः-आत्मनः स्वात्मन्यवस्थानं ॥ ९५ ॥ इत्याप्तमीमांसाभाष्ये नवमः परिच्छेदः । - " अज्ञानाच्चेद्धवो वंधो झेयानत्यान्न केवली । मानस्तोकाद्विमोक्षवेदज्ञानाबहुतोऽन्यथा ॥ ९६ ॥ घृत्तिः यद्यज्ञानाज्जाड्यस्वरूपाद्वंधो ध्रुवो न केवली मुक्तः । कुतः ज्ञेयानंत्यात्प्रमेयस्यानंयं यतः । भय कदाचित् ज्ञानस्तोकादोधनि सान्मोक्षोऽभ्युपगम्यते चेद्वहुतो विपुलादज्ञानादन्यथाऽन्येन प्रकारेणा- . - आप्तमीमांसा। तिशयेन विमोक्षः स्यादिति संबंधः । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारेणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ॥ ९६ ॥ अष्टक्षती-यदि बंधोऽयमविज्ञानात् नेदानी कश्चिन्मुच्येत सर्वस्यैव कचिदज्ञानोपपत्ते यानंत्यात् ।। यदि पुनआननिर्हासाबमाप्राप्तिः-अज्ञानात्सुतरां प्रसज्येत । दुःखनिवृत्तरिव सुखप्राप्तिः ॥ ९६ ॥.. विरोधान्नोभौकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतकांतेऽप्युक्ति वाच्यमिति युज्यते ।। ९७ ॥ त्तिः-उभयेकांतावक्तव्यमपि दुष्टं विरोधात् ।। कथं तर्हि तो स्यातामत आह- अष्टशती नहि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो वहुतराज्ञानाद्वंध इत्येकांतयारविरोधः स्याद्य-- दन्यायविद्विषां सिद्धपति येन तदुभयैकात्म्यं स्यात् ॥ ९७ ॥ अज्ञानान्महितो बंधों नाज्ञानाद्वीतमोहतः । शानस्तोकाच मोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ ९८ ॥ वृत्तिः-ज्ञानात्पुनरपि किंविशिष्टात् मोहतो मिथ्यात्वरूपाद्वंधो भवति विनष्टमिथ्यात्वरूपादज्ञाना- पुनर्न बंधो भवति ज्ञानस्तोकादपि मोक्षः स्याद्यद्यमोहाद्भवेत् यदि पुनर्मोहितः स्यात्तस्य मोक्षाभाव एव ॥९८॥ अथ कदाचिन्मनुपे न दैवान्नापि पौरुषान्न ज्ञानान्नाप्यज्ञानात् किं तु ईश्वरप्रेरणादित्यस्य मतस्य निरा-- करणायाह-अथवा कामादीनां कमर्णश्च वैचित्र्यमनादित्वं च दर्शयितुमाह- अष्टशती-मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद् युक्तः कर्मबंधः ततोऽन्यतोऽपिबंधाभ्युपगमेऽतिप्रसंगात्।। तथैव बुद्धरपकर्यात् मोहनीयपरिक्षयलक्षणान्मोक्षमिति । विपर्ययेऽपि विपर्यासादित्यधिगंतव्यं ।। ९८ ।।. कामादिमभवश्चित्रः कर्मवंधानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धधशुद्धितः ।। ९९ ॥ वृत्तिः कामादीनां रागादीनां प्रभव उत्पादः कार्यरूपश्चित्रो नानाप्रकारः । कर्मबन्धानुरूपता: ज्ञानावरणदिकर्मणः कारणाद्भवति तच्च कर्म ज्ञानावरणादिकं स्वहेतुभ्यो भवति । कुत एतत् ? अनादिबंधबंधहेतु-- संतानो बीजांकुरवत् न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वेन । न तर्हि केपांचिन्मुक्तिरन्येषां संसारश्च- कर्मबंधनिमित्तविशेषादिति चेदाह- ते भगवतोऽहतो जीवा द्विप्रकाराः संसारिणः सति । कुतः शुद्धय- शुद्धितो भन्याभव्यशक्तेः । मत. एव. न. सर्वेषां मोक्षः । एतेनान्यदपि.मतांतरं निराकृतं वेदितव्यं ।।९९I. शुयशुद्धिस्वरूपप्रतिपादनायाह- अष्टशती-संसारोऽयं नैकस्वभावेश्वरकृतः तत्कार्यसुखदुखादिवैचिंच्यात् । न हि कारणस्यैकरूपत्वे - कार्यनानात्वं युक्तं शालिवीजवत् । अपरिणामिनः सर्वथार्थक्रियासंभवात् तल्लक्षणत्वाच वस्तुनः सद्भावमेव तावन संभावयामः । तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं. कर्तेति महाचित्रं एतेनेश्वरेच्छा प्रत्युक्ता । नचैतेनास्याः संबंधः तस्कृतोपकारानपेक्षणात, ततो व्यपदेशोऽपि. माभूत अभिसं- धेरनित्यत्वेऽपि समानः प्रसंगः । सकृदुत्पत्त्यादिप्रसंगाद्विचित्रत्वानुपपत्तेरिति । तयोरेकरूपत्वेऽपि कर्मवै- चित्र्यात्कामादिप्रभववैचित्र्यमिति चेत् ! युक्तमेतत् । किंतु नेश्वरेच्छाभ्यां किंचित्तावतार्थपरिसमाप्तेः । एतेन विरम्य प्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेर्बुद्धिमत्कारणपूर्वकत्वज्ञानेनेश्वरप्रमाणं प्रत्युक्तं । प्राकाय- - मोहिनः इत्यपि पाठ पत्रपि मोहिन इति पाठः।
सनातनजैनग्रंथमालायां- करणोत्पत्तरात्मनो धर्माधर्मयोश्च स्वयमचेतनत्वात् विचित्रोपभोगयोग्यतनुकरणादिसंपादनकाशलासंभवात तन्निमित्तमात्मांतरं मृत्पिडादिकुलालवदिति चेन्न तस्यापि वितनुकरणस्य तत्कृतेतरसंभवात तादृशोऽपि निमि- त्तभावे कर्मणामचेतनत्वेऽपि तनिमित्तत्वमविप्रतिपिद्धं सर्वथा दृष्टांतव्यतिक्रमात् । स्थित्वा प्रवर्तमानार्थक्रि- यादिचेतनाधिष्ठानादिति नियमे पुनरीश्वरादेरपि माभूत् । नायं प्रसंगी बुद्धिमत्त्वादितिचेत् .. तत एव तर्हि प्रहीणतनुकरणादयः प्राणिनो माभूवन् । कर्मणां वैचित्र्यादिति चेत् तेषामीश्वरज्ञाननिमित्तत्वे समानः प्रसंगः । तदनिमित्तत्वे तनुकरणादरपि तन्निमित्तत्वं माभूद्विशेषाभावाद । अर्थक्रियादेरपि ताभ्यामनैकांतिकत्वं । ततः कर्मबंधविशेषवशात् चित्राः कामादयः ततः कर्मवैचित्र्यं । नहि भावस्त्रभावोपलंभ: करणीयः अन्यत्रापि तत्प्रसंगनिवृत्तेः । न तर्हि केषांचिन्मुक्तिरितरेषां संसारश्च । कर्मबंधनिमित्तविशेषादिति चेन्न तेषां शुद्धयशुद्धितः प्रतिमुक्तीतरसंभवात्-आत्मनां ॥ ९९ ॥ शुद्धयशुद्दी पुनः शक्ती ते पाक्यापाक्यशक्तिवत् । साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥ १० ॥ वृत्तिः-शुद्धयशुद्धी ये शक्ती भव्याभव्यत्वरूपे ते अनादितत्त्वार्थश्रद्धानाश्रद्धानयोग्यके कटुकेतर- मुद्गपाक्यापाक्यशक्तिवत् तयोर्मव्यत्वाभव्यत्वशक्त्योर्व्यक्ती तत्त्वार्थश्रद्धानप्रियधर्मत्यादिपरिणत्यपरिणती साद्य- नादी / कुतोऽयं शक्तिभेदोऽतर्कगोचरः स्वभावो यतः ॥ १० ॥ एवं तावत्प्रमाणपरतन्त्रप्रमेयविचारः कृतः । अधुना प्रमाणत्वनिरूपणार्थमाह- अष्टशती-भव्येतरस्वभावो तेषां सामर्थ्यासामर्थ्य माषादिपाक्यापरशक्तिवत् । शक्तः प्रादुर्भावापे- क्षया सादित्वमेवमभिसंधिनानात्वं शुद्धयशुद्धिशक्तयोरिति भेदमाचार्यः प्राह । ततोऽन्यत्रापि साधनादी प्रकृतशक्तयोर्व्यक्ती । कुतः शक्तिप्रतिनियम इति चेत् ? न हि भावस्वभावाः पर्यनुयोक्तव्याः ॥ १० ॥ तत्त्वज्ञान प्रमाणं ते युगपत्सर्वभासनं क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतं ॥ १०१॥ वृत्तिः-तत्त्वज्ञानं परार्थबोधः पुनरपि कथंभूतं युगपत्सर्वार्थमवभासत इति युगपसर्वभासनं अक्रमेण परिच्छेदात्मकमित्यर्थः तत्प्रमाणमेव । क्रमभावि च तज्ज्ञानं छद्मस्थीयं चक्षुरादिकं चकारादक्रममावि च दीर्घशष्कुल्यादिभक्षणे संभवात् । सर्वथा सदसदेकानेकनित्यानित्यादिसकलैकांतप्रत्यनीकानेकांततत्त्वविषयः स्याद्वादो जातियुक्तिनिबंधनो वितर्को नयस्ताभ्यां संस्कृतं प्रमाणगोचरं नीतं तदपि प्रमाणं स्याद्वादनय- संस्कृतं यतस्ते तव ॥ १०१॥ प्रमाणफलं दर्शयन्नाह- अष्टशती-बुद्धरनेकांतात् येनाकारेण तत्त्रपरिच्छेदः तदपेक्षया प्रामाण्यं । ततः प्रत्यक्षतदाभासयो- रपि प्रायशः संकीर्णा प्रामाण्येतरस्थितिरुनेतव्या । प्रसिद्धानुपहतेंद्रियदृष्टेरपि चंद्रार्कादिषु देशप्रत्यासत्याध भूताकारावभासनात् । तथोपहताक्षादेरपि संख्यादिविसंवादेऽपि चंद्रादिष्वभावतत्त्वोपलंभात् । तत्प्र- कापेक्षया व्यवदेशव्यवस्था गंधद्रव्यादिवत् । तथानुमानादेरपि कथंचिन्मिध्याप्रतिभासेऽपि तत्त्वप्रतिप- त्यैव प्रामाण्यं । एकांतकल्पनायां तु नांतर्बहिस्तत्त्वसंवेदनं स्वयमद्वयाप्देयादिप्रतिभासमानात् रूपादि स्वलक्षणानां च तथैवादर्शनात् यथा व्यावय॑ते । तद्विशेषोपलंभाभ्युपगमेऽपि तद्व्यवसायवैकल्ये कचिद्धर्माधर्मसंवेदनवत् परीक्षत्वोपपत्तेः । विकल्यानामतत्वविषयत्वात् कुतस्तत्त्वप्रतिपत्तिः ? मणिप्रदीप- प्रभादृष्टांतोऽपि स्वपक्षघाती माणिप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणांतर्भावविघटनात् । न हि प्रत्यक्षं स्वविषये विसंवादनात् शक्तिकादर्शनवद्रजतभ्रांतौ । नापि लैंगिकं लिंगलिंगिसंबधाप्रति- पत्तेः अन्यथा दृष्टांतेतरयोरेकत्वात् कि केन कृतं स्यात् । कादाचित्कार्थप्राप्तगरेकादेरपि संभवात् ।
आप्तमीमोसा। न हि मिध्याज्ञानस्य संवादनकांतः । तथा न लैंगिकं सर्वथैवाविसंवादकत्वात् । तस्मात्सूक्तं तत्त्वज्ञानमेव प्रमाणं । कारणस्य सामिग्रीभेदाप्रतिभासभेदेऽपि इति । प्रमाणमेव वा तत्वज्ञानं । ततः स्वलक्षणदर्शना- नंतरभाविनस्तत्वव्यवसायस्य प्रमाणतोपत्तेः प्रत्यक्षमनुमानमिति प्रमाणे एवेसधारणं प्रत्याचष्टे अनधिग- तार्थधिगमाभावात, तदप्रमाणत्वे लैंगिकस्यापि माभूद्विशेषाभावात् । अनधिगतस्वलक्षणाव्यवसायात् अनु- मितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रामाण्यं प्रतिषेध्यं-अनिर्णीतनिर्णयात्मकत्वात् क्षणभंगानुमान- वत् | वनेरखंडशः श्रवणाधिगमोऽपि प्राथमकल्पिकस्तत्त्वनिर्णीतिरेव । तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेरदर्शनातिशायनात् । तदर्शनाभावेऽपि तत्त्वनिश्चये तदन्यसमारोपव्यच्छेदलक्षणप्रमा णलक्षणांगीकरणात् । कचित्कुतश्चिधूमकेतुलैंगिकवन्निणीतार्थमात्रस्मृतरधिगतार्थाधिगमात् प्रामाण्यं माभूत्। प्रमितिविशेषाभावात् , प्रकृतीनर्णयस्य प्रामाण्ये हि न किंचिदतिप्रसज्यते निर्णीतेऽपि कथंचिदतिशायनात् । प्रत्यभिज्ञानं प्रमाण व्यवसायातिशयोपपत्तेः तत्मामाधीनत्वात् प्रमाणत्वसिद्धेः, अन्यथा हि विसंवादः स्यात् लिंगलिंगिसबंधज्ञानं प्रमाणमानिश्चितनिश्चयादनुमानवत् । सत्त्वक्षणिकत्वयोधूमतत्कारणयोर्वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षत्वमुत्सहते सन्निहितार्थानुकारित्वात् अपरीक्षाक्षमत्वाच्च । नानुमानभनवस्थानुषं- गात् । सूदूरमपि गत्वा तदुभयन्यतिरिक्त व्यवस्थानिमित्तमभ्युपगंतव्यं । उपमानादिकं प्रमाणांतरभावमि- च्छतां तत्त्वनिर्णयप्रत्यवमर्शप्रतिबंधाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तुर्जडिमानमाविष्करोति इति प्रत्य- क्षं परोक्षमित्येद्वितयं प्रमाण अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षेऽतर्भावात् । तत्र सकलशानावरणपरि- क्षयविजृमितं केवलज्ञान युगपत्सर्वार्थविषयं । तथाचोक्तं 'सर्वद्रव्यपर्यायेषु केवलस्य' इति । तज्ज्ञानदर्श- नयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्यात् । कुतस्तत्सिद्धिरिति चेत् । सामान्यविशेषविषययोगिताव- रणयोरयुगपत्प्रतिभासायोगात् प्रतिबंधांतराभावात् । शेषं सर्वे क्रमवृत्ति प्रकारांतरासंभवात् । चक्षुरादिज्ञानपंचकस्यापि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणं क्षणक्षयवत् । योगपद्ये हि संतानभेदात्परस्परपरामर्शाभावः संतानांतरवत् । मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानंतरप्रत्ययोद्भवेन कश्चिदिशेपः क्रमवृत्ती व्यवधानप्रतिभासविकल्पप्रतिपत्तरसंभवात् । यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषांतरवद्विषयस्यानकांतात्मकत्वात् । मतिज्ञानादि स्याद्वादनयलक्षितं प्रतिपत्तन्यं ।। १०१॥ उपेक्षा फलमाघस्य शेषस्यादानहानधीः । पूर्व वाऽज्ञाननाशो वा सर्वस्यास्य स्खगोचरे ॥१०२॥ वृत्तिः-आद्यस्य प्रमाणस्य केवलज्ञानस्य फलमुपेक्षा रागमोहाभावः। शेषस्य प्रमाणस्य छमस्थायज्ञा- नस्य, आदानं ग्रहणं हानं त्यागस्तयोर्धार्बुद्धिः तत्फलं । पूर्व वा उपेक्षा वेत्यर्थः । सामान्यापेक्षायां नपुंसकलि- गता । पूर्वा वेति पाठांतरं । वा अज्ञाननाशः फलं ज्ञानतेत्यर्थः । सर्वस्यास्य मत्यादिभेदभिन्नस्य हिताहितमे- दभिन्ने खगोचरे स्वविपये वर्तमानस्यौत्सर्गिक फलमज्ञाननाश इत्युक्तं ॥ १०२॥ प्रस्तुतस्याद्वादाक्ष्यपरार्थसाधनसमर्थनार्थमाह- अष्टशती-सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रोपेक्षा । करुणावतः परदुःखजिहासोः कथमुपेक्षा तदभारे कथं वाप्तिः । इति चेत् स्वदुःखनिवर्तनवदकरुणयापि वृत्तरन्यदुःखनिराचिकर्षाियां । दयालोरे- वात्मदुःखनिवर्तनादसमाधिरिति चेत् ! न वै प्रदीपः कृपालतया आत्मानं परं वा तमसां निवर्तयति इति । कल्पयित्वापि कपालुतां तत्करणस्य स्वभावसामर्थ्य मृग्या एवं हि परंपरापरिश्रमं परिहरेत् । मत्यादेः साक्षात्कलं स्वार्थव्यामोहविच्छेदः तदभावे दर्शनस्यापि सन्निकर्षाविशेषात् । क्षणपरिणामोपलंभवदविसंवादक- स्वासंभवात् । परंपरया हानोपादानसंवित्तिः। तथाहि-करणस्य क्रियायाश्च कथांचेदकत्वं प्रदीपतमोविग- मवंत 1 मानात्वं च परश्वादिवत् । तस्माद्ग्राह्यसविदाकारयोः प्रमाणफलव्यवस्थायामपिं विसंवादनिराक ।
- ४६ सनातनजेनग्रंथमालायां- रणे तदज्ञस्येव विषष्टिः प्रमाणत्वं न प्रतिपचमहति । तावतैव प्रमाणत्वे क्षणिकवाघनुमान-अधिनतापी- धिगमलक्षणलान्न वै प्रमाण ॥ १०२ ॥ वाक्येष्वनेकांतद्योती गम्यं प्रति विशेषकः । स्यान्निपातोऽर्थयोगित्वाचव केवलिनामपि ॥ १०३ ॥ वृत्तिः-पदानां परस्परापेक्षाणां निरपेक्षाः समुदाया वाक्यानि तेषु वाक्येष्वनेकांतं द्योतयति प्रकटय- तीति अनेकांतद्योती । स्याच्छब्दो निरातोऽव्ययं । गम्यमभिधेयमस्ति घट इत्यादिवाक्येऽस्तित्वादि तत्पति विशेषतः समर्थकः । अथवा गम्यं हेयादेयभेदमिन्नं वस्तु यथा यदवस्थितं तथैव तस्य विशेषकः । अर्थस्य तत्तदात्मकस्य योगित्वं घटनं तस्मादन्येषां पुनर्धर्माणां गुणीभूतत्वात् । तव भवत एतदुक्तं केवलिनां श्रुतके: चलिनां च अपिशब्दात्तच्छिष्यप्रशिष्याणां च नान्येषां तथाभूतस्य वस्तुभावात् ।। १०३ ॥ पुनरपि तदेव समर्थयति- अष्टशती-पदानां परस्परापेक्षणां निरपेक्षः समुदायो न तर्हि तदानीमिदं भवति-यया यत्सत्तत्सर्वं परिणामि यथा घटः संश्च शब्दः, तस्मात्परिणामात्याकांक्षणात् । प्रतिपत्तुर्धर्मोऽयं वाक्येष्वभ्यारोप्यते सचे- अतिपत्ता तावतार्थ प्रत्येति किमिति शेषमाकांक्षति । प्रकरणादिना वाक्यकल्पनाप्यर्थप्रातपत्तौ न वा प्राथ- भकल्पिकवाक्यलक्षणपरिहारः सत्यभामादिपदवत् । सदसन्नित्यानित्यादिसर्वथैकांतप्रतिक्षेपलक्षणो नैकांतः । क्वचित्प्रयुज्यमानः स्याच्छब्दः तद्विशेषणतया प्रकृतार्थतत्त्रमनवयवेन सूचयति। प्रायशो निपातानां तत्स्व- भावत्वात् एवकारादिवत् । न हि केवलज्ञानवदखिलमक्रममवगाहते वाचः क्रमवृत्तित्वात् तद्बुद्धरपि तथाभावात् ॥ १०३॥ स्याद्वादः सर्वथैकातत्यागात्किवृत्तचिद्विधिः । सप्तभंगनयापेक्षो हेयादेयविशेषकः ॥ १०४ ॥ वृत्तिः स्याद्वादोऽर्थप्रकरणादीनां घटादिशब्दार्थविशेषस्थापनहेतूनामनुकूलः । कुतः सर्वथैकांत- त्यागात्तेषामर्थप्रकरणादीनां प्रतिकूलस्यैकांतस्य त्यागात् । अथ कथं प्रकारः स्याद्वादः किंवृत्तचिद्विधिः किमो वृत्तं किं निष्पनं वृत्तं किंवृत्तं च तच्चिच्च किंवृत्तचित् तदेव विधिः प्रकारो यस्य कथंचित् कुतश्चिदित्यादि । सप्तभंगाश्च ते नयाश्च तानपेक्षत इति स्यादस्ति स्यान्नात्यादि । हेयादेययोर्विशेषकः गुणमुस्यकल्पनया ॥१०४॥ स्याद्वादकेवलज्ञानयोः कथंचित्सामान्य दर्शयन्नाह- अष्टशती-कथंचिदित्यादि किं वृत्तचिदिधिः स्याद्वादपर्यायः सोऽयमनेकांतमभिप्रेत्य सप्तभंगनया- पेक्षः स्वभावपरभावाम्यां सदसदादिव्यवस्था प्रतिपादयति । सप्तभंगी प्रोक्ता द्रव्यार्थिकपर्यायार्थिकप्रवि: भागवशानेगमादयः शब्दार्थनया बहुविकल्पा मूलनयद्वयशुद्धयशुद्धिभ्यां ।। १०४ ॥ स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च गवस्त्वन्यतमं भवेत् ॥ १०५॥ वृत्ति:-सर्वाणि च तानि तत्त्वानि च जीवाजविादीनि तानि प्रकाशत इति सर्वतत्त्वप्रकाशने के ते द्वे स्याद्वादश्च केवलज्ञानं च ते द्वे प्रमाणे । तयोर्मध्येऽन्यतमं परैः परिकल्पितमवस्तु भवेद्यतः कथं तयो- भेंदः साक्षात्प्रत्यक्षादसाक्षादप्रत्यक्षात् ॥ १०५ ॥ प्रमाणं चर्चितमथ को नयो नामेत्साह- अष्टशती-स्थाद्वादकेवलज्ञाने इति निर्देशाद् तयोरम्यहितत्वानियमं दर्शयति परस्परहेतुकत्वादभ्य- हित वा पूर्वनिपातेऽव्यभिचारं सूचयति । कथं पुनः स्याद्वादः सर्वतत्त्वप्रकाशनो यावता "मतिश्रुतयोनिबंधो. , - माप्तमीमांसा द्रव्येष्वसर्वपर्यायेषु" । जीवादयः सप्तपदार्थास्तवं तत्प्रतिपादनाविशेषात् । तथा हि भेदः साभादसामा- च्चेति साक्षात्कृतेरेव सर्वद्रव्यपर्यायान् परिछिनत्ति नान्यत इति यावत् ॥ १०५ ॥ सधर्मणैव साध्यस्य साधादविरोधतः । स्थाद्वादपविभक्तार्थविशेषव्यंजको नयः ॥ १०६ ॥ वृत्ति: -समानो गुणो यस्य स सधर्मा तेन सधर्मणैव एवकाराद्विपक्षीनराकरणं साध्यस्यानित्यत्वा- दे शक्याभिप्रेताप्रसिद्धस्य | सधर्मणो भावः साधयं तस्मात्साधात् । स्याद्वादः श्रुतज्ञानं तेन प्रविभक्तो विषयीकृतोऽर्थस्तस्य विशेषो नित्यत्वादिस्तद्वयंजकः प्रकटको द्योतको नयो युक्तितोऽर्थपरिग्रहः । इत्यनेना- स्वंयव्यतिरेकपक्षधर्मा उक्ताः । अविरोधादित्यनेनान्यथानुपपत्येकलक्षणो हेतुः प्रदर्शितः । किमुक्तं भवति- अंताप्तिमंतरेण त्रिलक्षणो हेतुर्न गमक इति । अथ को नयप्रमाणयोर्विशेषः ? अनेकांतप्रतिपत्तिः प्रमाणं, एकधर्मप्रतिपतिर्नयः ॥ तद्विपयस्य द्रव्यस्य स्वरूपप्रतिपादनार्थमाह- अष्टशती-सपक्षणव साध्यस्य साधादित्यनेन हेतोस्टेलक्षण्यमविरोधात् इत्यन्यथानुपपत्तिं च दर्श- यता केवलस्य त्रिलक्षणस्यासाधनत्वमुक्तं तत्पुत्रत्वादिवत् । एकलक्षणस्य तु गमकत्वं "नित्यत्वैकांतपक्षऽपि विक्रिया नोपपद्यत इति" बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । यत्राक्रिया न संभवति तन्न वस्तु यथा वि- नाशै कांतः तथा च नित्यत्वेऽपि क्रमयौपद्याभ्यामक्रिया न संभवति नापरं प्रकारांतरं-इति त्रिलक्षणयोगेऽपि प्रधानमेकलणं तत्रैव साधनसामर्थ्यपरिनिष्ठितेः । तदेव प्रतिबंधः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकं । ततः स्याद्वादेत्यादिनानुमितमनेकांतात्मकमर्थतत्त्वमादशयति । तस्य विशेषो नित्यत्वादिः पृथक् पृथक्त्वस्य प्रतिपादको नयः । तथा चोक्त- अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधी: नयः धर्मातरापेक्षी दुर्णयस्तन्निराकृतिः ।। १ । तदनेकांतप्रतिपत्तिः प्रमाणं । एकधर्मप्रतिपत्तिर्नयः । तत्प्रत्यनीकप्रतिक्षेपो दुर्णयः केवलं विपक्षविरोध- दर्शनेन स्वपक्षाभिनिवेशनात् ॥ १०६॥ नयोपनयकांतानां त्रिकालानां समुच्चयः। अविभ्राट् भावसंबंधो द्रव्यमेकमनेकधा ॥ १०७ ॥ वृत्तिः-नया नेगमादयः सप्त उपनयास्तद्भेदोपभेदार्थपर्यायास्त एवैकांताः प्रधानधर्मास्तग्राह्यत्वात्त- सपदेशः । त्रयः काला विषयो येषां ते तथाभूतास्तेषां समुच्चय एकस्मिन्नवस्थानम् । अविभ्राट् अपृथक् भावसंबंधः सत्तासंबंधो यस्य स तथाभूतस्तद्रव्यमेकमभेदापेक्षया पुनरनेकप्रकारं ॥ १०७ ॥ तदर्थं चोद्य परिहारायाह- अष्टशती-उक्तलक्षणो द्रव्यपर्यायस्थानः संग्रहादिर्नयः । तच्छाखाप्रशाखात्मोपनयः । तदेकांता- तात्मनां विपक्षापेक्षालक्षणानां त्रिकाललक्षणानां त्रिकालविषयाणां समितिद्रव्यं । ततस्तेषामपोद्धारात् गुण- गुण्यादिवत् ॥ १.७॥ मिथ्यासमूहो मिथ्या चेन्न मिथ्यकांततास्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेर्यकृत् ॥ १०८ ॥ वृत्तिः-नित्यानित्यास्तित्वादीनां मिथ्याधर्माणां योऽयं समूहः समुदायः सं मिथ्याऽसत्यरूप इति चेदेवं भवतोऽभिप्रायः । मिथ्येत्येकातः संग्रहस्तस्य भावो मिध्यकांतता सा नोऽस्माकं नास्ति न विद्यते ।
सनातनजनग्रंथमालायां- - कुतः यतो निरपेक्षा नयाः मिथ्या परस्परमपेक्षा घटना तस्या निर्गताः पृथग्भूता धर्मा व्यलीकाः । सापेक्षाः परस्परसंबद्धास्ते नया वस्तु परमार्थतत्त्वं यतोऽर्थकृत् क्रमाक्रमाभ्यामर्थकारित्वादतो न चोचस्यावतारः । पुनरपि तमर्थ समर्थयन्नाह- अष्टशती-सुनयदुर्णययोर्ययात्माभिलक्षणं व्याख्यातं तथा न प्रबोध्यं न परिहारः । तथाहि-निरपेक्षत्र प्रत्यनीकधर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा अन्यथा प्रमाणनयाविशेषप्रसंगात् । धर्मातरादानोपेक्षाहानि- लक्षणत्वात् प्रमाणनयदुर्णयाणां प्रकारांतरासंभवाच्च । तदतत्स्वभावप्रतिपत्तेस्तत्प्रतिपत्तिरन्यनिराकृतिश्चेति विश्वोपसंहतिः ॥ १०८॥ नियम्यतेऽर्यो वाक्येन विधिना वारणेन वा । तथाऽन्यथा च सोऽवश्यमविशेष्यत्वमन्यथा ॥ १०९ ॥ वृत्तिः-वाक्येन, अस्ति घटो नास्ति वेति विविप्रतिषेधरूपेणार्थो नियम्यते नियंत्र्यते विशेषविषय नीयते तस्मात्सोऽर्थस्तथा च तदतदात्मक इत्यभ्युपगंतव्यः । यदि पुनरन्यथान्येन प्रकारेणैकांतरूपेणाभ्युप- गम्यते तदानीमविशेष्यत्वमवस्तुत्वं स्यादेकवर्माक्रांतत्वेन वस्त्वस्ति यतः । वाक् दिविषया न भवतीत्यस्य निराकरणायाह- अष्टशती-यत्सत् तत्सर्वमनेकांतात्मकं वस्तुतत्वं सर्वथा तदर्थक्रियाकरित्वात् । स्वविषयाकारसंवि- तिवत् । न किंचिदेकांतं वस्तुतत्त्वं सर्वथा तदर्थक्रियासमवात् गगनकुसुमादिवत् । नास्ति सदेकांतः सर्व- व्यापारविरोधप्रसंगात् असदेकांतवदिति विधिना प्रतिषेधेन वा वस्तुतसं निवम्यते । अन्यथा तद्दिशिष्टमर्य- तत्वं न स्यात् इत्यनेन विधिप्रतिषेधयोर्गुणप्रधानभावेन सदसदादिवाक्येषु वृत्तिरिति लक्षयति ॥ १०९ ।। तदतइस्तु वागेषा तदेवेत्यनुशासति । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्यदेशना ॥ ११० ॥ वृत्तिः एषा वागतद्वचनं सर्वाभ्युपगतं तच्चातच्च तदतत् अस्तित्वनास्तित्वात्मकं वस्तुतत्त्वं तदेव ताइग्भूतमेव नैकांतात्मकमेवेत्येवमनुशासति कथयति प्रतिपादयति यदि न सत्या सद्भता स्याद्भवेत् । एवं सति मृषा वाक्यानि असत्यरूपाणि वाक्यानि स्युः । तथा सति तत्त्वार्थस्य परमार्थस्य प्रमाणहेतुफलप्रतिपादकस्य येयं देशना कयनं परप्रतिपादनं कयं स्यात् ! किं तु न भवेदेव । तथा च विशीर्ण प्रमाणादिलक्षणं वर्म । तस्माद्यत्सत्तदनैकांतात्मकं हेतुबानं प्रमाणवदिति वचनस्य प्रमाण्यमेषितव्यं ।। ११० ॥ पुनरपि वचोलक्षणमाह- अष्टशती-प्रत्यक्षादिप्रमाणविषयभूतं विरुद्धधर्माभ्यासलक्षणं वाऽविरुद्धं वस्तु । तदेवेत्येकांतेन. प्रति- पादयंती मिध्यैव भारती कथमनयार्थदेशन ? इत्येकांतवाक्यार्थानुपपत्तिरालक्ष्यते ॥ ११० ॥ वाक्स्वभावोऽन्यवागर्थप्रतिषेधनिरंकुशः।- आह च स्वार्थसामान्य तादृग्वाच्यं खपुष्पवत् ।। १११ ॥ वृत्तिः-वाचः स्वभाव आत्मीय रूपमन्येषां वाच्यत्वेनाभिप्रेततराणां वाग्वचनं तस्या अर्थस्तस्य प्रति- पेधो निराकरणं तस्मिन् निरंकुशः समथों घटशब्दः पटादीनां निराकरणं करोति स्वार्थ च प्रतिपादयति अतो- ऽनेकांतः, यदि पुनः सर्वथा स्वस्य ज्ञानार्थस्य वाह्यार्थस्य सामान्यं परापररूपमपोहं चार्वाक आह आवष्ट इत्य- म्युपगमः स्यात् तादृग्वाच्यं विशेषरहितं सामान्यं खपुष्पवत् गगनकुसुमसमानमतो न किंचित्स्याच ॥१११।।
आप्तमीमांसा। - ननु सामान्यमेव वाचोऽर्थो यदुत विशेष वर्तते सामान्येऽर्थक्रियाभावादिति संसर्गबोधमतं तन्निरा- करणार्थमाह- अन्मशती-वाचा स्वभावोऽयं येन स्वार्थसामान्य प्रतिपादयंती तदपरं निराकरोति । अन्यतरापाये ऽनुक्तानतिशायनात् । इदं तदानेयं तद्यावान् प्रतीयेत तदर्थः । कूर्मरोमादिवत् नच सामान्य विशेषपरि- हारेण विदुरलमामहे । अनुपलभमानाश्च कर्थ स्वात्मानं परं वा तथाभिनिवेशेन विवलमामहे ! ।।१११॥ सामान्यवाग्विशेषे चेन्न शब्दार्या मृषा हि सा । अभिमेतविशेषाः स्यात्कारः सत्यलांछनः ।। ११२ ॥ वृत्तिः-सामान्यसंबंधिनी यार विशेष वर्तते-विशेषमाचष्टे तत्त्वार्थक्रियाभावात् चेदेवं भवतोऽभि- प्रायः साह शन्दस्यार्थीऽभिधेयः कुतः ? तादग्भूता वाक मृपा पलीका सा| यस्मान्न हन्यस्य वाचकोऽन्य- माह । घटशब्दः पार्थस्य न कदाचिदपि प्रतिपादकः। नाप्यपोहोऽस्यार्थः, अपोहो हि परव्यावृत्तिः सा चतुच्छा ततो भेदक्षाणिकांतपक्षे न वायं नापि वाचको नानुमानं नाप्यागमः सर्वाभावोऽतः स्यात्कारः स्याद्वादः सरालांउनः सत्यभूतोऽभिप्रेतविशेषस्याप्तेनिमित्तगिष्टार्थप्राप्तिहेतोराश्रयणीयः सर्वदोपकलंकातीतत्वात् । तस्यैव स्वरूपमाह- अटशनी-अस्तीनि केवलगभायव्यवच्छेदादपोहमाहेति चेत् ! कः पुनरपोहः? परतो व्यावृत्तिर- भावः । कथमे सत्यभावं प्रतिपादयति भावं न प्रतिपादयतीत्येवमनुक्तसमं न स्यात् । तद्विकल्पो मिथ्याभिनिवेशवशादिति चेन्न चात्तस्य प्रतिपादकं मिथ्याविकल्पहेतुत्वाद् व्यलीकवचनवत् । ततः स्या- बाद एक सत्सलांछनो न वादांतरमित्यनुशाययति ।। ११२ ॥ विधेयमीप्सितार्थागं प्रतिषेध्याविरोधि यत् । तर्थवादेयहेयत्वमिति स्याद्वादसंस्थितिः ॥ ११३ ॥ त्ति:-विधेयगस्तीत्यादि प्रतिषेध्यस्य नास्तित्वादेरविरोधेनाविरुद्धं यत्तदीप्सितार्थस्याभिप्रेतकार्यस्यांग फारणं । तथवादयं यस्तु हेयात्याज्यादविरुद्धं । इत्यनेन प्रकारेण स्याद्वादस्य संस्थितिः सर्वप्रमाणैरविरुद्धा सिद्धिरिति प्रमाणहेतुदृष्टांताभासाः परवादिपरिकल्पितप्रमाणहेतुदृष्टांता वेदितव्याः । कुतः तल्लक्षणाभावात् । यस्यपि तत्परिकल्पितं तदपि नास्ति लक्षणाभावात् । तस्माद्यदनेकांतात्मकं तत्सत्यं लक्षणयोगादिति । शास्त्रार्थोपसंहारकारिकामाद- अपशनी-अस्तीत्यादि विधेयगभिप्रेत्य विधानात् नास्तित्वादिभिरविरुद् विधिप्रतिषेधयोरन्योन्यावि- विनामावलक्षणत्वात् स्वार्थज्ञानवत् । तद्विधेयप्रतिषेध्यात्मविशेषात् स्माद्वादः प्रक्रियते सप्तभंगीसमा- श्रयात् ॥ ११३॥ इतीयमाप्तमीमांसा विहिता हितमिच्छता । सम्यमिथ्योपदेशार्थविशेषप्रतिपत्तये ॥ ११४ ॥ वृत्तिः-इत्यनेन प्रकारेणेयं प्रत्यक्षतश्च योऽयमुपदेशस्तस्याः स्वरूपं तस्य विशेषोय.थात्म्यं तस्य प्रतिपत्तिरवगमस्तस्यै सम्यगुपदेशोऽयं मिध्येति सर्वज्ञेन ज्ञायते यस्मात् । कृतकृत्यो नियूँढतत्वप्रतिज्ञ आचार्य श्रीमत्समंतभद्रकेसरी प्रमाणनयतीक्ष्णनखरदंदाविदारितप्रवादि- कुनपमदविलकुंभिकुंभस्थलपाटनपटुरिदमाह- 0.
सनातन जनप्रथमालायां- अष्टशती-इति स्वोक्तपरिच्छेदविहितेयमाप्तमीमांसा सर्वज्ञविशेषपरीक्षानिःश्रेयसकामिनां । अभव्यानां तदनुपयोगात् । तत्त्वेतरपरीक्षां प्रति भन्यानामेव हि नियताधिकृतिः ॥ ११४ ॥ श्रीबर्द्धमानमकलंकमानिंद्यवंद्य- पादारविंदयुगलं प्रणिपत्य मूर्धा अव्यकलोकनयनं परिपालयंतं- स्याद्वादवर्म परिणौमि समंतभद्रं ॥१॥ इत्यष्टशती समाप्ता। जयति जगति क्लेशावेशप्रपंचहिमांशुमान् विहतविषमैक्रांतध्वांतममाणनयांशुमान् । यतिपतिरजो यस्याधृष्टान्मतांबुनिधर्लवान् स्वमतमतयस्ता नाना परे समुपासते ॥ ११५ ॥ वृत्तिः--यस्य भट्टारकस्य मतांबुधेरागमोदधैर्लवान् कणान् अधृष्टानखरीकृतान् परे नाना तीर्थ्या: "प्रवादिनः सुगतादयः स्वमते मतिर्येषां ते स्वमतमतयः कृतात्मबुद्धयः समुपासते सेवंते सोऽजो जातिजरा- मरणरहितो यतिपतिः प्रधानस्वामी जयति त्रैलोक्यस्वामित्वं करोति बाह्याभ्यंतरशन् निहत्य जयति लोके । पुनरपि किंविशिष्टः ? क्लेशस्य दुःखस्य आवेशः कदर्थना तस्य प्रपंचो विस्तारः स एव हिमं प्रालयः तस्यांशुमा- नादित्यः । एकांत एव ध्वांतं तमः विषमं च तदेकांतध्वांतं च विषमैकांतवांतं प्रमाणं च नयाश्च प्रमाण- नया उक्तलक्षणा विहतं निराकृतं विषमैकांतध्वांतं यैस्ते तथाभूतास्ते च ते प्रमाणनयाश्च त एवांशवः किरणास्ते विद्यते यस्य स तथाभूत इति यतिपतविंशपर्ण ॥ ॥ ११५ ॥ श्रीमत्समंतभद्राचार्यस्य त्रिभुवनलब्धजयगताकस्य प्रमाणनयचक्षुपः स्याद्वादशरीरस्य देवागमाख्या- "कृतेः संक्षेपभूतं विवरणं कृतं श्रुतविस्मरणशीलेन वसुनंदिना जडमतिनाऽऽत्मोपकाराय । समंतभद्रदेवाय परमार्थविकल्पिने । समंतभद्रदेवाय नमोऽस्तु परमात्मने ॥ १॥ सुखाय जायते लोके वसुनंदिसमागमः । तस्मात् निषेव्यतां भव्यैर्वसुनंदिसमागमः ॥ २॥ इति श्रीवसुनंद्याचार्यकृता देवागमवृतिः समाप्ताः । SENSE समाप्तोऽयं ग्रंथः। Hamas Ste .- १ नैतत्पद्यस्थाष्टशत्युपलब्धा ।
ॐ सनातनजैनग्रंथमाला स्यावादपतिश्रीविद्यानंदस्वामिविरचिता- प्रमाणपरीक्षा। .. जयंति निर्जिताशेपसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वविद्यानंदा जिनेश्वराः ॥ १॥ अथ प्रमाण-परीक्षा-तत्र प्रमाणलक्षणं परीक्ष्यते। 'सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः। सनिकादिरज्ञानमपि प्रमाणं सार्थप्रमितौ साधकतम- त्वात् । इति नाशंकनीयं । तस्य स्वप्रमिती साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणं पटा- दिवत् । सोऽर्थप्रमिती करणमित्यप्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमिती. साधकतमत्वानुपपत्तेः । तथाहि-- न सनिकर्षादिरर्थप्रमितो साधकतमः स्वप्रमितावसाधकतमत्वात्पर धत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ! इति न मंतव्यं । तेषामर्थपरिच्छित्तावकरणत्वात् । तत्र नयनम- नसोरेख करणतया स्त्रयमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचारतः फरणव्यवहारानुसरणात् । नाचोपचारतोऽर्थप्रकाशन एव प्रदीपादिः फरणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः,, अनुमन्यते । नयानादेः अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात् । तेपामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिना-अनेकांत इत्यपि न मननीय तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्ती करणतोपचारात् । परमार्थतो भावेंद्रियस्यैव-अर्थग्रहणश: क्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया परिवर्त- मानत्वात् । तथाहि- यदसन्निधाने कारकांतरसन्निधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने काष्टछेदनमः नुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रि- यकरणकं । बहिःकरणसनिकाधीनतायां हि पदार्थसंवेदनस्य, नयनसनिकर्षात् कलश पूर्व नभसि नायन- संवेदनोदयः कुतो न भवेत् । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं सकलर्तिमद्दन्यसंयोगानभसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ! तस्य परैभौतिकतयो- पगतत्वात् । पौगलिकतयास्माभिरुपकरणस्याभिमतत्वात् । ननु नभसि नयनसनिकर्षस्य योग्यताविरहान, संवेदननिमित्तता ! इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्य- ता नाम ! विशिष्टय शक्तिरिति चेत् । सा तर्हि सहकारिसन्निधिलक्षणा अनुमंतन्या ।
५२ सनातनजैनग्रंथमालायां- "सहकारिसांनिध्य शक्तिः' इत्युद्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मा- दिवा स्यात् ! न तावदात्मद्रव्यं सहकारि तत्सन्निधानस्य नयननभःसन्निकर्षेऽपि समानत्वात् । एते- न कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतं तत्सान्निध्यस्यापि सर्वसाधरणत्वात् । मनोद्रव्यं सहकारि इत्यपि न संगतं तत्सन्निधरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् । एतेन आत्मा मनसा युज्यते, मन इंद्रियेण, इंद्रियमर्थेनेति चतुष्टयसन्निकर्षोऽर्थप्रमितौ साधकतम इति सामिग्रीप्रमाणवादो दूषितः-तत्सामिग्न्याश्च नभसि सद्भावात् । कालादिनिमित्तकारणसामिग्रीवत् । यदि पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात्- चाक्षुषादिज्ञानप्रभवादिति मतं तदापि न विशेषः घटादाविव गगनेऽपि लोचनसन्निकर्षस्यालोकसन्निधिप्रसिद्धेः संवेदनानुषंगस्य दुर्निवारत्वात् । अथादृष्टविशेषो गुणः सहकारी तत्सानिध्यं संयुक्तसमवायेन, चक्षुषा संयुक्त पुरुषे त्वदृष्टविशेषस्य समवायात् इति मन्यवं तर्हि कदाचिन्नभास नायनंसवेदनोदयः कुतो न भवेत् । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽस- निधानात् इति चेत् ? कथमेवमीश्वरस्य नभास चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटते ? समाधिविशेषोपजीन- तधर्मविशेषानुगृहीतेन मनसा गगनाद्यशेषपदार्थसंवेदनोदये तु महेश्वरस्य वहिःकरणमनर्थकतामियात् । फलासंभवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्यत परनिर्वृत्तात्मवत् । ततः कथमंतःकरणेन धर्मा- दिग्रहणं मनसोऽसभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामटाव्यते तस्यात्मांतःकरणसं- योगनिबंधनात् । स्यान्मत' शिशिररश्मिशेखरस्य · समाधिविशेषसंततिधर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरना- धपर्यवसाना, सततमेनोमलरस्पृष्टत्वात् । तस्य संसारिसादिमुक्तिविलक्षणत्वात् सर्वथा मुक्ततयैव प्रसिद्ध- त्वात् इति तदप्यसमीचीनं एवमीश्वरस्यापि एनोमलविलयादेरेवार्थसंवेदनोद्भवप्रसक्तः । सततमेनोमला- भावो हि यथा सततमर्थवानसंतानहेतुरुररीक्रियते तथा कादचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्त- युक्तमुत्पश्यामः तस्यैव सन्निकर्षसहकारितोपपत्तेः । तत्सान्निध्यस्यैव च सन्निकर्षशक्तिरूपत्वसिद्धेः । तद्भावादेव च. नयनसन्निकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते भावांतरस्वभावत्वादभावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्य- त्वात् इति पुरुषगुणविशेषसद्भाव.एव पापमलाभावो विभाव्यत। स चात्मविशुद्धिविशेषो ज्ञानावरणवायाँतराय- क्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्त- तापि नातोर्चातरभावमनुभवति पुंसः संवेदनावरणवीयांतरायलक्षणपापमलापगमविरहे कचिदुपलब्धिलक्षण- प्राप्ततानुपलब्धेः, नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन नयनोन्मीलनादिकर्मसन्निकर्षसहकारिविषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्य- पि क्वाचित्कस्यचित् प्रमिसनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसंभाव्यं योगिनो- ऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगीश्वरापेक्षादुपलभ्यतासामान्यादिति- चेत् ! तत्किमन्यत्? अन्यत्र योग्यताविशेषात् । प्रतिपुरुषं भेदमास्तिनुवानादिति() स एव प्रमातुः प्रमित्यु- फ्जनने साधकतमोऽनुमंतव्यः सन्निकर्षादौ सत्यपि कचित्संविदुपजननाभावविभावनात् । स च योग्य- ताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलरूपत्वात् स्वार्थज्ञानात्कथंचिदभिन्नत्वात् सर्वथापि ततो भेदे नात्मस्वभावत्वोपत्तेः। न चैवमुपगंतुं युक्तं ! आत्मन एवोभयनिमित्तवशात्तथापरिणा- मात् । आत्मनो हि जानात्यनेनेति करणसाधनात भेदोपवर्णनं कथं चिदभिन्नकर्तृकक्ष्य करणस्य प्रसिद्धेः अग्निरोष्ण्येन दहतींधनमिति यथा | स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कसाधनत्वात्तदात्मज्ञा- नयोरभेदप्राधान्यात् आत्मन - एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः औष्ण्यपरिणाममाए- नस्याग्नेरीष्ण्यन् यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च . प्रमाणपरीक्षा। ५३ ज्ञानात्मैव प्रमाता स्यात, अज्ञानात्मनः खादः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणं स्वार्थप्रमिती ज्ञान- क्रियात्मिकायां करणत्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनानाज्ञानं प्रमाणं, अन्यत्रोपचारतः। ततो- नाज्ञानेन इंद्रियसनिलिंगशब्दादिना साधनस्य व्यभिचारः । नापि व्यातिरकासिद्धिः सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्ती प्रमाणत्वस्य साधनस्य पटादौ विनिवृत्तिविनिश्चयात् । केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगामिथ्याज्ञानवदिति । किं पुनः सम्याग्ज्ञनं अभिधीयते-स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसाया- मकंतन सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः। सम्यग्ज्ञानंच विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधादीनां साध्यमिणि सद्भावात् । स्व- संवेदनेंद्रियमनोयोगिप्रत्यक्षैः सम्यग्ज्ञान:-अव्यवसायात्मकैर्व्यभिचारी हेतुः इति स्वमनोरथमात्रं सौगतस्य तेषां सम्यग्ज्ञानवविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्त तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विषयज्ञानवत् । तदपि प्रवर्त- कत्वेन व्याप्तं अप्रवर्तकस्यार्थाप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वविषयम- पदर्शयतः प्रवर्तकन्यवहारविषयत्वसिद्धः। न हि पुरुष हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाणं तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशय- वदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते तस्य स्वविषयोपदर्शकत्वाऽसिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यद- व्यवसायात्मकं ज्ञानं न तस्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमव्यवसायात्मक च सौगताभिमतदर्शनमिति ब्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकस्य व्यापकस्याभावे तव्याप्यत्वस्य स्वविषयोपदर्शकत्वस्याननुभवात् । स्यादाकूतं- तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसा- यजनकत्वेन ब्याप्तत्वात् । नीलधवलादौ व्यवसायजननादर्शनस्य तदुपदर्शकत्रव्यवस्थितेः। क्षणक्षयस्वर्ग- प्रापणशक्त्यादी व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ! तदेतदवि- चारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा ? इति विचार्यते- यद्यपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् । न तु तन्निमित्तं दर्शनं सन्निकर्षादिवत् । अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविषयोपदर्शकं ! आतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्वि- कल्पतजनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षण- स्थावस्तुल्वात् । तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायावस्तूप- दर्शक एव व्यवसाय इत्यपि मिथ्या तयारेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो- व्यवसायो वा ज्ञानांतरं वा ? न तावदर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः तस्य . दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकंवा ? न तावन्निर्विकल्पकं तस्य दृश्य विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तद्वयाविषयं संवेदनं तदुभयैकत्वमध्यव- सातुं समर्थे । तथाहि- यद्यन विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा रससंवेदनं स्पर्शरूपोभयं । न विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिदृश्यविकल्प्ययोरेकत्वाध्यवसायः सिद्धयेत् ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधू- तकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप- , ६४ सनातननग्रंथमालायां- दर्शकं तद्विकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठत ? । किं च दुर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनवलासिद्धौ तस्वसंवेदनं कुतः प्रमाणं स्यात् ।। तद्यदि स्वरूपोपदर्शनादेव प्रमाणमा- स्थीयते ! तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एव. प्रमाणं तद्व्यवसाय जननात्-न पुनरन्यत्रेति परिकल्पनायां तद्व्यवसायस्वसंवेदनस्यापि. व्यवसायांतरोपजननात् स्वरूपोपदर्श- नेन भवितव्यमित्यनवस्थानात्, नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसाय- सिद्धिः । तदसिद्धौ च न तज्जननादर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अप्रवर्त- कस्य नार्थप्रातिनिमित्तत्वं । तेदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनोंद्रियमनो योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति । स्यान्मतं-अर्थसामर्थ्यादुत्पत्तिः-अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेद- नानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीची- नै नैर्व्यभिचार एव हेतोरिति । तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकृत्वप्रसंगात् । तवाक्षणिक- त्वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादा- वपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमद्धतिकरं नीलादावप्ययागिनस्तविपरीतसमारोपप्रसक्तेः । कथमन्यथा विरुद्धधर्माध्यासात्तदर्शनभेदो न भवेत् ! न हि-अभिन्नमेकदर्शनं कचित्समारोपाक्रांत क्वचिन्नेति वक्तुं युक्तं । तता यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्चायात्मकं यथानुमेयेऽऽनुमानज्ञानं । विपरीतसमारो- पविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादी विपरीतसमा- रोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामस्थाः योगिप्रत्यक्षेऽस्य विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्ध प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इतिः धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोविरोधाभावासद्धेः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षवि- रोधः संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं- संहृत्य सर्वतश्चिंता स्तिमितेनांतरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १॥ इति । तथानुमानविरोधोऽपि व्युच्छित्तचिंतावस्थायां-इंद्रियादर्थगतौ कल्पनानुपलब्धः । तत्र कल्पनास- दावे पुनस्तस्मृतिप्रसंगः तदा विकल्पितकल्पनावत्-तदप्युक्तं- पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेशी। इति वेत्ति न पूर्वोक्तावस्थायामिद्रियाद्गतौ ॥ १ ॥ इति तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहृतंसकलविकल्पा- वस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् । तस्य संस्कारकारणत्वंविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य च संभवात् अन्यतस्तदनुपपत्तेः । ददुक्तं - व्यवसायाननो दृष्टेः संस्कान: स्मृतिरेव वा । दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ १ ॥ अथ मत-अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि दर्शनान्नीलादौ संस्कारः स्मरण चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः । पे निश्चितेऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो- , प्रमाणपरीक्षा। ऽभ्युपगमनीयत्वात् इति । तदपि फल्गुप्राय भूयोदर्शनलक्षणस्याभ्यासस्य क्षणभयादौ सुतरी सद्भावात् । पुनपुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् तत्रैव विवदात् । मणिकाक्षणिकविचारणायां क्षणि- कप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादौ क्षणक्षयादौ व समानं तद्दर्शनस्यानंशत्वात् । तत्र पाटव:- .पाटवयोभदे तदुद्धरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाबुद्धेः पटवापाटवे स्याता, इत्यप्यनेनापास्तं तत्कर्मसद्भावयोरपि विरुद्धधर्मयोरनंशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिज्ञासितत्वं तरक्षणिकवादिनः क्षणिकावेऽस्त्येव नीलादिवत् । यत्पुनरभिलषितृत्वमर्थित्वं तन्न व्यवसायजनननिबंधनं क्वचिदनभिलषितेऽपि वस्तुनि कस्य चिदुदासीनस्य स्मरणप्रतीतेः- इति नाभ्यासादिभ्यः क्वचिदेव संस्कार- जनन-अनंशज्ञानज्ञेयवादिनो घटते । परस्य तु बहिरंतरनेकात्मकतत्त्ववादिनो न किंचिदनुपपन्नं सर्वथै- कत्र व्यवसायाव्यवसाययोः, अवायानवायाख्ययोः, संस्कारासंस्कारयोः, धारणेतराभिधानयोः, स्मरणास्मरण- योश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययोर्भेदप्रसिद्धः । सौगतस्यापि व्यावृत्तिभेदाढ़ेदोपगमाददोषोयं तथाहि-नीलत्वमनीलत्वव्यावृत्तिः,क्षाणिकत्वमक्षणिकत्वव्या- वृत्तिरुच्यते तत्रानीलव्यावृत्तौ नीलव्यवसायस्तद्वासनाप्रबोधादुत्पन्नो न पुनरक्षणिकव्यांवृत्तौ क्षणिकव्यवसाय- स्तत्र तद्वासनाप्रबोधाभावात् । न चानयोावृत्योरभेदः संभवति व्यावर्त्यमानयोरभेदप्रसंगात् । न च तद्भेदाद- स्तुनो भेदः तस्य निरंशत्वात् अन्यथा अनवस्थाप्रसंगात् इति.परे मन्यते तैपि न सत्यवादिनः स्वभावभेदाभावे वस्तुनो व्यावृत्तिभेदासंभवात् । नीलस्वलक्षणं हि येन स्वभावेनानीलाद्व्यावृत्तं रैनैव यद्यक्षणिकाद्व्यावर्तेत तदा नीलाक्षणिकयोरेकत्वापत्तेस्तद्व्यावृत्त्योरेकत्वप्रसंगः । स्वभावांतरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः स्वलक्षस्य स्वभावभेदः कथं निराक्रियते ? । यदि पुनः स्वभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्त्या कल्पित एवेति मतं ? तदा परिकल्पितस्वभावांतरकल्पनायामनवस्थानुषज्यत । तथाहि-अनीलस्वभावा- न्यव्यावृत्तिरपि स्वभावांतरेण अन्यव्यावृत्तिरूपेण वक्तव्या। सापि तदन्यव्यावृत्तिस्वभावांतरेण तथाविधे. नेति न कचिद् व्यवतिष्ठते । कश्चिदाह-तत एव सकलविकल्पवागगोचरातीतं वस्तु विकल्पशब्दांनां विषयस्यान्यव्यावृत्ति- रूपस्य अनायविद्योपकल्पितस्य सर्वथा विचाराऽमहत्वात् । विचारसहत्वे वा तदवस्तुत्वविरोधात् इति सोपि न सम्यग्वादी दर्शनविषयस्याप्यवस्तुत्वप्रसंगात् तस्यापि शब्दविकल्पविषयवत् विचारासहत्वाविरो- धात् । तथाहि-नीलस्वलक्षणं सुगततरजनदर्शनविषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन वा दृश्यं स्यात् । तद्ययेकेन स्वभावेन तदा यदेव सुगतदृश्यत्वं तदेवेतरजनदृस्यत्वमिसायातं अशेषस्य जगतः सुगतत्वं । यच्चेतरजनदृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगत- रहितमखिलं स्यात् । अथैतस्मादोषाद्विभ्यता नानास्वभावेन सुगततरजनदृश्यत्वं प्रतिपाद्यते तदा नील- स्त्रलक्षणस्य दृश्यस्वभावभेदः कथमपहुयेत ? न च दृश्यं रूपमनेक कल्पितमिति शक्यं वक्तं दृश्यस्य कल्पितत्वविरोधात्। अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारार्पकत्वव्यावृत्तिरूपं नानादृष्ट्रव्यपेक्षयाऽनेक घटामटत्येत्र तदभाव नानादृष्टदर्शनविषयतां स्खलक्षणं नास्कदेत् । न च परमार्थतो दर्शनं झ्याविषय सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति तदप्यसत् वस्तुनः स्वा- कारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारम- र्पयति तेनैवतरजनदर्शनाय स्वभावांतरेण वा ! यदि तेनैव तदा तदेव सुगतेतरजनदर्शनेकत्वमापनीप- द्यते तथा च सर्वस्य सुगतत्वं इतरजनत्वं वा दुर्निवारतामाचनीस्कंद्यते । स्वभावांतरेण स्वाकारार्पकत्वे स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षुण्ण्तया कथं प्रतिक्षिप्यते ! । यत्पुनः स्वाकारार्पकत्वमपि न वस्तुनः परमार्थपथप्रस्थायि समवस्थाप्यते स्वरूपमात्रविषयत्वात् सकलसंवेदनानामिति मतं तदपि ५६ सनातनजनग्रंथमालायां- दुरुपपादमेव तेषां वैयर्थ्यप्रसगांत् । ज्ञानं हि बैयप्रसिद्धयर्थं प्रेक्षावतामन्विष्यते प्रकाश्यप्रसिद्धयर्थ प्रदीपा- दिवत् । न पुनः स्वरूपप्रसिद्धयर्थं प्रदीपवदेवेति । बहिराविषयत्वे सकलसंवेदनानां कथमिव वैयर्य न स्यात् ? निर्विषयवमादिसंवेदनानामपि सार्थकत्वप्रसंगात् स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र . भावात् । किं च सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमित्र सुगतः सर्वदर्शीष्यते पृथग्जनवत् । पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत ? स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् । यदि पुनर्वास्तवत्वं सकलवेदिलं ताथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः संन्यवहरणात् तदव्यहरणे तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलंज्ञानरहितपुरुषोपदेशाद्विप्रलंभनशंकनप्रसंगात् । तदुक्तं- ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशंकरणे विपलभनशांकमिः ॥ १॥ इति. प्रतिपद्येत तथापि सुगतेतरव्यवहारसिद्धिः- सुगतवदितरजनस्यापि संवृत्त्या सकलवेदित्वकल्प- नानुषंगात् । सकलपदार्थभ्यः सुगतस्य संवेदनोदयात् सकलार्थज्ञता युक्ता कल्पयितुं न पुनरितर- जनस्य प्रतिनियतपदार्थादेव तद्वेदनोत्पत्तेरिति चेत् ? न 'सुगतज्ञानस्यापि सकलपदार्थजन्यत्वासिद्धेः । समसमयवर्तिपदार्थजन्यत्वासंभवात् । यदि पुनरनायतीतपदार्थेभ्यो भविष्यदनंतार्थेभ्यः सांप्रतिकार्थ- भ्यश्च सकलेभ्यः सुगतसंवेदनस्योत्पत्तिः अखिलाविद्यातृष्णाविनाशादुपपद्यत एव अस्मदादिसंवेद- नाद्विशिष्टत्वात्तस्येति मत ? तदा किमेकेन स्वभावेन कालत्रयवर्तिपदाथैः सुगतविज्ञानमुत्पद्यते नानास्वभावैर्वा ? योकेन स्वभावेन, एकेनार्थेन सुगतज्ञानमुपजन्यते तेनैव सकलपदार्थैः तदा सकलपदार्थानामेकरूपतापत्तिः । सुगतविज्ञानस्य वा तदेकपदार्थजन्यत्वसिद्धिरिति नेतरजन- संवेदनात्तस्य विशेषः सिवेत् । अथान्येन स्वभावैनकार्थः सुगतज्ञानमुपजनयति पदार्थातराणि तु स्वभावा- तरैस्तदुपजनयंति इति मतिर्भवतां तर्हि सुगतज्ञानमनंतस्त्रभावमेकमायातं । तद्वत्सकलं वस्तु कथमनंतात्मः कतां न स्वीकुर्यादिति चिंतनीयं । एकस्यानेकस्वभावत्वविरोधान्नैकमनेकात्मकमिति चेत् ! कथमिदानी सुगतविज्ञानमेकपदार्थजन्यं नानारूपतां विभर्ति । यदि पुनरतजन्यरूपन्यावृत्त्या तज्जन्यरूपपरिकल्पनान्न तत्त्वतः सुगतसंवेदनमनेकरूपताक्रांतमित्याकूतं ? तदा न परमार्थतः सुद्धोदनितनयविज्ञानमखिलपदार्थ- जन्यं, इति कुतः पृथगजनसंवेदनादस्य विशेषः समवतिष्ठते । ततः सुगतविज्ञानदृश्यतामितरजनविज्ञानविष- यतां च एकस्य नीलादिस्खलक्षणस्यानेकाकारामपि स्वयमुररीकुर्वता नीलस्वलक्षणकादिरूपतापि दृश्यादृश्य- वलक्षणा स्वीकर्तव्या, तथा च नीलादौ दर्शनमन्यव्यवसायात्मकं संस्कारस्मरणकारणं तद्विपरीदर्शनादव- बोद्धव्यं, इति न प्रत्यक्षप्रसिद्ध निर्व्यवसायात्मकत्वमध्यक्षज्ञानस्य । नाप्यनुमानप्रसिद्धं गोदर्शनसमयेऽश्वक- ल्पनावत् गोदर्शनस्यापि व्यवसायात्मकत्रोपपत्तेः । पुनर्विकल्पयतः तदनुस्मरणस्यान्यथानुपपत्तेः । तथा हि यनिर्व्यवसायात्मकं ज्ञानं तन्नोत्तरकालमनुस्मरणजननसमर्थ यथा पराभिमतं स्वर्गप्रापणशक्त्यादि दर्शनं तथा चाश्वविकल्पकाले गोदर्शनमिति तदनुस्मरणजननसमर्थ न स्यात् भवति च पुनर्विकल्पयत- . स्तदनुस्मरणं तस्माच्यवसायात्मकमिति निश्चयः । तदेवं व्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानं साधनं न व्यभिचरति कस्य चिदपि सम्यग्ज्ञानस्याव्यवसायात्मकत्वप्रमाणबाधितत्वादिति स्थितं । ये त्वादुः-स्वार्थव्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानस्य हेतोर्न प्रयोजकत्वं सर्वस्य सम्यग्ज्ञानस्या- र्थव्यवसाययमंतरणैव सम्यग्ज्ञानस्वसिद्धः । तथा हि-विवादाच्याषितं सम्यग्ज्ञानं नार्थव्यवसायात्मकं ज्ञानत्वात्, स्वव्यसायात्मकत्वात् । यद्ज्ञान स्वव्यसायात्मकंवा तन्नार्थव्यवसायात्मकं यण स्वप्नादिज्ञान तथा च विपदावनं ज्ञानं जिनपतिमतानुसारिमः, अभ्यनुज्ञातं तस्मान्नार्धव्यवसायात्मकमिति सेपि न मातीति- प्रमाणपरीक्षा। कवादिनः जागृदशाभाविनः समीचीनविज्ञानस्यार्थव्यवसायात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्ये- सतोऽर्थे प्रवृत्यभावप्रसंगात् । प्रतीयते च सम्यग्ज्ञानादर्थे प्रवृत्तिरविसंवादिनी तस्मादर्थव्यवसायात्मकं तदर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिथ्याज्ञानादप्यर्थे प्रवृत्तिदर्शनादनेकांतः ? इति चेन तस्याः प्रवृत्त्याभास- स्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थ प्रापयितुं समर्था हि सम्यक् प्रवृत्तिः सा च मिथ्या- झानानोपपद्यत इति न व्यभिचारः । यच्चार्थव्यवसायात्मकत्वनिराकरणप्रवणमनुमान तास्वार्थ व्यवस्थति वा नवा ! प्रथमविकल्पे तेनैवानकांतिक साधनमापद्येत तस्य ज्ञानत्वे खव्यवसायात्मकत्वेऽपि स्वसाध्यार्थ- व्यवसायात्मकत्वसिद्धेः। द्वितीयविकल्पेऽपि नातोऽनुमानादिष्टसिद्धिः खसाध्यार्थव्यवसायात्मकत्वात् अनु- मानाभासवत् । ततः किं बहुना सर्वस्य किंचिदिष्टं साधयतः स्वयमानष्ट वा दूपयतः कुतश्चित्प्रमाणात तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यंभावि तस्यार्थान्यवसायात्मकत्वे वेष्टानिष्टसाधनदूषणानुपपत्तेः । पर- प्रसिद्ध्यार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत् ? तर्हि परं प्रतिपाद्यसे वा न वा ? यदि न प्रतिपायसे कथं परप्रासङ्ख्या कचिदभ्युनुज्ञानं तं न प्रतिपाद्यसे तत्प्रसिद्ध्या च किंचिदभ्यनुजानासीति कथमनुन्मत्तः । अथ परं प्रतिपाद्यसे तर्हि यतः प्रमाणात्तत्प्रतिपत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्ध तस्यान्यसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमांतरात्परप्रतिपत्तिरिति मतं तदाप्य- निवृत्तः पर्यनुयोगः तस्यापि पराभ्युपगमांतरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् । स्यान्मतं न बहिरर्थाः परमार्थतः संति तत्प्रत्ययानां निरालंबनत्वात खानप्रत्ययवत् सतानांतरवि- ज्ञानानामपि असत्त्वात् । तत्र स्वरूपमात्रव्यबसायात्मकमेव विज्ञानमिति तदप्यसारं तथाहि-सर्वप्रत्य- यानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्ध्यति तस्य ताद्वषयत्वात् । विवादापन्नाः प्रत्यया निरालंबना एव प्रत्ययत्वात् स्वप्मेंद्रजालादिवदिति अनुमानान्निरालंवनत्वसिद्धिरित्यपि मिथ्या स्वसंतानप्रत्ययेन व्यभिचारात् । तस्यापि संतानांतरप्रत्ययवरपक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा ! प्रथमपक्षे तेनैवा. नैकांतिकत्वं प्रत्ययत्वं । द्वितीयकल्पनायां नातो निरालंबनत्वसिद्धिः । परब्रह्मस्वरूपसिद्धिरेव सकलभेदप्रत्ययानां निरालंबनत्वसिद्धिः ! इसपि न व्यवतिष्ठते परब्रह्मण एवाप्रसिद्धः । तद्धि स्वतो वा सिद्धयेत् परतो का? न तावत्स्वत एव विप्रतिपत्त्यभावप्रसंगात् । परतश्चेदनुमानादागमादा ? यद्यनुमानात् किमत्रानुमानमित्यभि- धीयतां । विवादापन्नोऽर्थः प्रतिभासांतः प्रविष्ट एव प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रति- भासांतःप्रविष्ट एव दृष्टः यथा प्रतिभासस्यात्मा प्रतिभासमानश्च सकलोऽर्थश्चेतनाचेतनात्मको विवादापन: तस्मात्प्रतिभासांतःप्रविष्ठ एवेत्यनुमानं न सम्यक् धर्मि-हेतु-दृष्टांतानां प्रातभासांतःप्रविष्टत्वे साध्यांतःपाति- त्वेन अनुमानोत्थानायोगात् । प्रतिभासांतः प्रविष्टावाभावे तैरेवेति हेतोय॑भिचारात् । यदि पुनरनाद्यवि- धावासनावलाद्धर्मि-हेतु-दृष्टांताः प्रतिभासबहिर्भूता इव निश्चीयंते प्रतिपाद्यप्रातिपादकसभ्यसभापतिजनवत्। ततोऽनुमानमपि संभवत्येव सकलानाद्यविद्याविलासविलये तु प्रतिभासांतःप्रविष्टमाखलं प्रतिभासमेवेति विप्र- तिपत्त्यसंभवात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेने किंचिदनुमानोपन्यासफलं । स्व- यमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकारावीच्छन्नस्वरूपे नियभिचारे सकलकालांवस्थाव्यापि- नि-अनुमानाप्रयोगात् इति समभिधीयते तदा साप्यनायविद्या यदि प्रतिभासांतःप्रविष्टा तदाविद्यैव कथमसतं धर्मिदृष्टांतादिभेदमुपदर्शयेत् । अथ प्रतिभासबाहर्भूतास्तदा साऽप्रतिभासमाना प्रतिभासमाना वा ! न ताव- दप्रतिभासमाना भेदे प्रतिभासरूपत्वात् तस्याः । प्रतिभासमानां चेत् तयैव हेतोय॑भिचारः प्रतिमास- बहिर्भूतत्वेऽपि तस्याः प्रतिभासमानत्वात् । स्यादाक्तं -न प्रतिभासमाना नाप्रतिभासमाना न प्रतिभासबहिर्भूता नापि प्रतिभासांतःप्रविष्टा नैका नचानेका न नित्या नाप्यनित्या न व्यभिचारिणी नाप्यव्यभिचारिणी सर्वथा विचार्यमाणायोगात् । सकलविचारातिकांतस्वरूपैव रूपांतराभावात् अविद्याया नीरूपतालक्षणत्वात् इति । तदेतदप्यविद्यावि. श्रृंमितमेव तथाविधनीरूपतास्वभावायाः केन चिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तेः । प्रतिमासमानायास्तु तथावचने कथमसौ सर्वथा नीरूपा स्यात् ! येन स्मरूपेण यः प्रतिभासते तस्यैन - सनातनजैनग्रंथमालायां- तद्रूपत्वात् । तथा सकलविचारातिक्रांततया किमसौ विचारगोचरा अविचारगोचरा वा स्यात् ? प्रथमकल्प- नायां सकलविचारातिक्रांततया विचारानतिक्रांतत्वाभ्युपगमव्याघातः । द्वितीयकल्पनायां न सकलविचारा- तिक्रांतता व्यवतिष्ठते सकलविचारातिक्रांततायामपि तस्यास्तया व्यवस्थाने सर्वथैकानेकरूपताया अपि व्यवस्थानप्रसंगान् । तस्मात्सत्स्वभावैवाविद्याभ्युपगंतव्या विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धः कुतः परमब्रह्मणोऽनुमानासिद्धिः । एतेनोपनिषदाक्यात्परमपुरुपसिद्धिः प्रत्याख्याता । सर्व वै खल्विदं ब्रह्मेत्यादिवाक्यस्य परमात्मनोऽर्थांतरभावे द्वैतप्रसक्तरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूपण- प्रसंगात् ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा येन सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्य- वसायात्मक अर्थाभावादिति वदन् अवधेयवचनः स्यात् । यत्तु स्वप्मज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतं तस्य साक्षात्परंपरया वार्थव्यवसायात्म- कत्वाघटनात् । द्विविधो हि स्वप्नः सत्योऽसत्यश्च तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित्सा- क्षाव्यवसायात्मकः प्रसिद्धः स्वप्नदशायां यद्देशकालाकारतयार्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देश- कालाकारतयैव तस्य व्यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परंपरयार्थ-व्यवसायी स्वप्नाध्यायनिगदि- तार्थप्रापकत्वात् । तदुक्तं- यस्तु पश्यति रोत्र्यंते राजानं कुजरं हयं । सुवर्ण वृषभं गां च कुटंबं तस्य वर्धते ॥ १ ॥ इति कुटुंबवर्धनाविनाभाविनः स्वप्ने राजादिदर्शनस्य कथमर्थनिश्चायकता न स्यात ? पावकाविना- भाविधूमदर्शनवत । दृष्टार्थाव्यवसायात्मकत्यान्न स्वप्नबोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि बोधोऽर्थ- व्यवसायी माभूत । तत एव तद्वत् । अनुमानबाधोऽनुमितार्थव्यवसायी संभवतीति वचने खप्नागमगम्या- र्थव्यवसायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते ? । कदाचिद्व्यभिचारदर्शनान्नैवमभ्युपगमः कर्तुं सुशक्य इति चेन्न देशकालाकारविशेषं यथार्थागमोदितमपेक्ष्यमाणस्य कचित्कदाचित्कथंचिद्व्यभिचाराभावात् । तदपेक्षाविकलस्तु न समीचीनः स्वप्नः तस्य स्वप्नाभासत्वान् । प्रतिपत्तुरपराधाच व्यभिचारः संभाव्यते न पुनरनपराधात् यथा चाधूमः धूमबुद्ध्या प्रतिपद्यमानस्य ततः पावकानुमानं न्यभिचारीति प्रतिपत्तुरेवापराधो म धूमस्य धीमद्भिरभिधीयते । तथैवास्वप्नं खमबुद्ध्याध्यवस्य ततस्तद्विपयाध्यवसायो न व्यभिचरतीति ने स्वप्नागमस्यापराधः प्रतिपत्तरेवापराधात् । यः पुनरसत्यः स्वप्नः पित्ताशुदेकजनितः स किमर्थसामान्य व्यभिचरति अर्थविशेषं वा ? न तावदर्थसामान्य देशकालाकारविशेषाणामेव व्यभिचारात् सर्वत्र सर्वदा सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थविशेषेषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुत्पत्तेः न हि किंचिद् ज्ञानं सत्तामात्रं व्यभिचरति तस्यानुत्पत्तिप्रसक्तेः ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेः न किंचिद् ज्ञानमर्थाव्यवसायात्मकं । विशेषं तु यत एव व्यभिचरति तत एव असत्यः कथमन्यथा सत्येतरव्य- वस्थितिः स्यात् तस्याः खार्थविशेषप्राप्त्यप्रातिनिमित्तत्वादिस्यलं प्रसंगेन स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञान- स्यार्थव्यवसायात्मकत्वप्रसिद्धः । अत्रापरः प्राह-सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्त्रव्यवसायात्मक स्वात्मनि क्रियाविरोधात् एकस्य ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं व्यवस्यति कर्मात्मनाकारणेति वक्तुं यक्तं ताभ्यां कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदनसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम अतिप्रसंगात् । तयोकिारयो नादभेदे भेदप्रसंगात् नहयभिन्नादमिन्नयोर्भेदःसंभाव्यते अतिप्रसंगात् । एवं ताभ्यां विज्ञानस्य भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्पति परात्मना परात्मन एव व्यवसायात् तौ चाकारौ यदि ज्ञानस्या- त्मानौ तदा ज्ञान व्यवस्यति वा नवा ? प्रथमपक्षे किमेकेनाकारांतरेण द्वाभ्यां वाऽकारांतराभ्यां तत्तौ व्यवस्येत । न तावदेकनाकारांतरेण विरोधात्। द्वाम्यां व्यवस्यति इति चेत् तयोरप्याकारांतरयोर्ज्ञानादभेदो भेदो वा स्यात् 1 स्वप्नांते इति पाठातरं । १ अर्धव्यवसायः पागंतरं ।
प्रमाणपरीक्षा। ५९ इत्यनिवृत्तः पर्यनुयोग:-अनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेदः इयुभयपक्षालंबनमपि अने. नवापास्तं पक्षद्वयनिक्षिप्तदोपानुषंगात् पक्षांतराऽसंभवाचेति सोऽपि न न्यायकुशलः प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यवसायित्वेन प्रतीतिः सिद्धा । नचेयं मिथ्या बाधकाभावात् । स्वात्मनि क्रियाविरोधो बाधक इति चेत् का पुनःक्रिया ? किमुत्पत्तिप्तिर्वा ? यद्युत्पत्तिः सा स्वात्मनि विरु- ध्यतां । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयति इति । नैकं स्वस्मात्मजायते इति समंतभद्रस्वामिभिरभिधानात् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा तदात्मनैव ज्ञानस्य स्वका- रणकलापादुत्पादात् । प्रकाशात्मनैव प्रकाशस्य प्रदीपादेः । न हि स्वकारणसामिग्रीतः प्रदीपादिप्रकाशः समुप जायमानः स्वप्रकाशात्मना नोत्पद्यत इति प्राप्तीतिक तत्स्वरूपप्रकाशेन प्रकाशांतरापेक्षाप्रसंगात् । नचार्य प्रदीपाचालोकः कलशादिज्ञानं स्वरूपज्ञानं च चक्षुषोजनयतः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशत्वं तच्च कलशादाविव स्वात्मन्यपि दीपादेवियत एवेति सिद्धा स्वात्मनि प्रकाशनक्रिया । तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुध्यतां । एतेन 'ज्ञानं न स्वप्रकाशकं, अर्थप्रकाशकत्वादित्यनुमानमपास्तं प्रदीपादिना हेतोरनेकांसात् । प्रदीपादिः-उपचारात प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाऽप्रकाशकत्वात् साधनशून्यो दृष्टांतः ज्ञानस्यैव परमार्थतोऽर्थप्रकाशत्वोपपत्तेः । ततो 'ज्ञानं स्वप्रकाशकं, अर्थप्रकाशकत्वात् यत्तु न स्वप्रकाशकं तन्नार्थप्रकाशकं दृष्टं यथा फुड्यादिकं । अर्थप्रकाशकं च ज्ञानं तस्मात्स्वप्रकाशकमिति केवलव्यतिरेक्यनुमान मविनाभावनियमनिश्चयलक्षणाद्धेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादिभिः परमार्थतोऽर्थप्रकाश- कत्वासिद्धेस्तेन साधनस्यानेकांतिकतानुपपत्तेः । कुड्यादेरपि स्वाविनाभाविपदार्थीतरप्रकाशकत्वाद्भूमादिवत् साधनाव्यतिरेको दृष्टांत इत्यपि समुत्सारितमनेन तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः अन्यथा तज्जनितवि. मानवैयापत्तेः । यत्पुनिमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषा नुषंगो बाधक इति मतं तदपि न सुदरतरं तथाप्रतीतिसिद्धत्वात् । जात्यतरत्वादाकारवतोभदाभेदं प्रत्यने- कांतात् । कर्मकरणाकारयोर्ज्ञानात् कथंचिदभेदः कथंचिद्भेदः इति नैकांतेन भेदाभेदपक्षोपक्षिप्तदो- पोपनिपातः स्याहादिना सलक्ष्यते । नच कथंचिदित्यंधपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिदभेदशब्दे- नाभिधानात् । फर्मकरणात्मना च भेद इति कथंचिद्भदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तद- भेद इति ज्ञानभेदाभेदस्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः । कर्मकरणाकारतया च भेद इति कर्मकरणा- कारावेव भेदस्य द्रव्यव्यतिरिक्तस्याकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो येन च भेदस्ती ज्ञानाकिमभिन्ना भिन्नौ वा इति न पर्यनुयोगस्थावकाशोऽस्ति ययाऽनवस्था महीयसी सप्र- सज्यत । नच भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति करणस्य भिन्नकर्तृकस्यापि दर्शनात् भिन्नकर्तृकरणवत् । यथैव हि देवदत्तः परशुना छिनत्ति काष्टमित्यत्र देवदत्तात्कर्तुभिन्नं परशुलक्षणं करण- मुपलभ्यते । तथाग्निर्दहति दहनात्मनेत्यत्राग्नेः कर्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एवं दहनात्मा- प्युष्णलक्षणः स चाग्नेर्गुणिनो भिन्न एवेति न मंतव्यं सर्वथा तयोबिरोधे गुणगुणीभावविरोधात् सह्यवि- ध्यवत् । गुणिनि गुणस्य समवायात् तयोस्तद्भाव इत्यपि न सत्यं समवायस्य कथंचिदविश्वग्भावात् अन्यस्य विचारासहत्वात् । समित्येकीभावेनावायनमनगमनं हि समवायः तच्च समवायनं कर्मस्थं समवेयमानत्वं समवायितादात्म्यं प्रतीयते, कर्तृस्थं पुनः समवायनं समवायकत्वं प्रमातुस्तादात्म्येन समवायिनोहकत्वं न चान्या गतिरस्ति क्रियायाः कर्तृकर्मस्थतयैव प्रतिपादनात् तत्र- कर्मस्था क्रिया कर्मणोऽनन्या कटस्था कर्तुरनन्या इति वचनात् । ततो नाभिन्नकर्तृकं करणमप्रसिद्धं । नापि कर्म तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्त- कस्यापि प्रतीतेः । यथैव हि कटं करोतीत्यत्र कर्तर्भिन्न कर्मानुमन्यते । तथा प्रदीपः प्रकाशयत्यात्मानमि- ६० " सनातमनग्रंथमाला- सत्र कर्तभिन्न कर्म संप्रतीयत एव । न हि प्रदीपात्मा प्रदीपाद्भिन एव प्रदीपस्याप्रदीपत्वप्रसंगात् घटवन् । प्रदीप प्रदीपात्मनोमिनस्यापि समवायात् प्रदीपत्वसिद्धिरितिचत् न अप्रदीपेऽपि घटादौ तत्समवायप्रतं- गात् । प्रत्यासत्तिविशेषाप्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चत् ! स प्रत्यासत्तिविशेषोऽत्र कोs- न्यत्र कथंचित्तादात्म्यात् ! ततः प्रदीपादभिन्न एव प्रदीपात्मा कर्मेति सिद्धमभिन्नकर्तृकं कर्न । तथा च ज्ञानात्मात्मानमात्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसाया- त्मकं ज्ञानं न स्यात् । स्यान्मतं-अर्थज्ञानं ज्ञानांतरवेद्यं प्रमेयत्वात् घटादिवदित्यनुमानं स्वार्थव्यवसायात्मकत्यप्रतीते - धकमिति तदपि फल्गुमायं महेश्वरार्थज्ञानेन हेतोयभिचारात् । तस्य ज्ञानांतरावेदत्वेऽपि प्रमेयत्वात् । यदि पुनरीश्वरार्थज्ञानमपि ज्ञानांतरप्रत्यक्षं-असंवेद्यत्वात् इति मितिस्तदा तदप्यर्थज्ञानज्ञानमीश्वरस्य प्रत्य- क्षमप्रत्यक्षं वा ! यदि प्रत्यक्षं तदा स्वतो ज्ञानांतरादा १ । स्वतश्चेत् प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु किं विज्ञानांतरेण ? । यदि तु ज्ञानांतरात्प्रत्यक्षं तदपीध्यते तदा तदपि ज्ञानांतरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्ष घेति स एव पर्यनुयोगो ऽनवस्थानं च दुःशक्यं परिहर्तु । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे व प्रथमार्थज्ञानमपि न तेन प्रत्यक्ष स्वयमप्रत्यक्षेण ज्ञानांतरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मांतरज्ञानेनापि कस्यचित्साक्षात्करणं न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्क- रणं संगच्छेत ततः सर्वस्य सर्वार्थवेदित्वासिद्धः-ईश्वरानीश्वरनिभागाभावो भूयते । यदा चार्थज्ञानमपि प्रथम भीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सकलोऽर्थः प्रत्यक्षं कथं समयत तेन सकलपाणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिक्षा- वं सर्वस्य वा सर्वज्ञत्वमनुज्ञातव्यं न्यायवलायातत्वात् । तथाभ्यनुज्ञाने ना नैयायिकस्य नैयायिकत्व- विरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षात्कुरुते नित्यैकरूपत्वात् , क्रममाव्यनेकानित्यज्ञानोपगमे महेश्वरस्य सकृत्सर्नार्थसाक्षात्करणविधानात् सर्वज्ञत्वान्यवस्थितेरिति मतं तदा कथमनेनैवानेकांतिको हेतुर्न स्यात् । स्यान्मतिरेपा युष्माकमस्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानांतरवेद्यम प्रमेयत्वेन हेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः तस्यास्मदादिज्ञानादिशिष्टलात्। न हि विशिष्टे दृष्टं धर्म- भविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते इति सापि न परीक्षासहा ज्ञानांतरस्यापि प्रज्ञानेन वेद्यत्वेऽनवस्था- नुषंगात् । तस्य ज्ञानांतरेण वेद्यत्वे तेनैव हेतोय॑भिधारः । न च तदप्रमेयमेव सर्वस्वेति नक्तुं शक्यं प्रतिपत्तुः प्रमाणवलात्तद्व्यवस्थानविरोधात् । सर्यज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् । ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानांतरप्रत्यक्ष प्रमेयत्वाद्धतोः साधयितुं शक्यं, बानस्य स्वार्थव्यवसा- 'यात्मनः प्रत्यक्षसिद्धत्वाच्च । प्रत्यक्षवाचितपक्षतया हेतोः कालात्ययापदिष्टत्वप्रसंगाच्च । एतेनार्थज्ञानेन ज्ञानांतरवेद्ये साध्ये कालत्रयत्रिलोकवर्तिपुरुषपरिषत्संप्रयुक्तसकलहेतुनिकरस्य कालात्ययापदिष्टत्वं व्यख्यातं । तदनेन यदुक्तमेकात्मसमवेतानंतरविज्ञानग्रायमर्थज्ञानमिति तत्समुत्सारितं । योऽप्याह न स्वार्थव्यवसायात्मकं ज्ञानं परोक्षत्मात् अर्थस्यैव प्रत्यक्षत्वान् । अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः । स हि बहिर्देशसंवद्धः प्रत्यक्षमनुभूयते । ज्ञाते त्वर्थे अनुमानादवगच्छति बुद्धिरिति सावरभाष्ये श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्षत्वे कर्मत्वप्रसंगान ज्ञानांतरस्य करणस्यावश्यं परिकल्पनीयत्वात् । तस्य चाप्रत्यक्षत्वे प्रथमे कोऽपरितोपः । प्रत्यक्षत्वे तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्यविज्ञानस्य परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञानं प्रत्यक्षं परीक्षकैरनुमंतव्यमिति सोऽपि न यथार्थमीमांसकतामनुसर्तुमुत्सहते ज्ञानस्याप्रत्यक्षत्वे सर्वार्थस्य प्रत्यक्षत्वविरोधात् । संतानांतरज्ञानेनापि सर्वस्यार्थस्य प्रत्यक्षत्वप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थ- प्रत्यक्षः स्यात्। , - " प्रमाणपरीभा। ६१ स्यादाकूतं भवतां यस्यात्मनोऽर्थे परिच्छित्तिः प्रादुर्भवति तस्य ज्ञानेन सोऽर्थः प्रतीयते न सर्वस्य ज्ञानेन सर्वोऽर्थः प्रत्यक्षः सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तरसंभवात् इति तदपि स्वगृहमान्य मीमांस- कानां क्वचिदर्थपरिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा ज्ञानधर्मकत्वात् । कर्मत्वेनाप्रतीतिश्च करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः । प्रत्यक्षवे करण ज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् । प्रत्यक्षत्वमस्तु करणत्वेन प्रतीयमानं करण- ज्ञानं करणमेव स्यात् । न प्रत्यक्षं कर्मलक्षणमिति चेत् तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियेव स्यात् न प्रत्यक्षा कर्मत्वाभावादिति प्रतिपत्तव्यं । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते तदा सार्थप्राकव्यमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकव्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे ऽर्थज्ञाने संतानांतरवर्तिनिकरस्य चिदर्थस्य प्राकट्यं घटते प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थ परिच्छेदकस्य प्राकाव्यादर्थे प्राकव्यं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छत्तेः परिच्छेदकस्वरूपायाः कर्तृस्थ- याः क्रियाया कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धेः । करणज्ञानधर्मतानुच्छित्तेर्नेष्यते एव चक्षुषा रूपं पश्यति देवदत्त इत्यत्र चक्षुषः प्राकव्याभावेऽपि अर्थप्राकव्यं सुघटमेव लोकेऽतींद्रियस्यापि करणत्वसिद्धेः इति केचित् समभ्यमंसत मीमांसकाः, तेऽप्यंधसर्पविलप्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशति, स्याद्वादिभिरपि स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव खतंत्रस्य ज्ञानत्वोपपत्तेः, स हि जानातीति ज्ञानमिति व्यपदिश्यते । तदर्मस्तु परिच्छित्तिः फलज्ञानं कथंचि- प्रमाणाद्भिन्नमभिधीयते । यत्तु परोक्षमतींद्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेंद्रियतया करणमुपपयोगलक्षणं प्रोच्यते 'लन्ध्युपयोगी भावेंद्रियं । इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः । मर्थग्रहणन्यापार उपयोगः इति व्याख्यानात् केवलं तस्य कथंचिदात्मनोंऽनांतरभावादात्मतया प्रत्यक्ष- त्योपपत्तेः अप्रत्यक्षतकांतो निरस्यते इति प्रातीतिकं परीक्षकैरनुमंतव्यं । ये तु मन्यते नात्मा प्रत्यक्षः कर्म- वेनांप्रतीयमानत्वात् करणज्ञानवदिति तेषां फलज्ञानहेतोर्व्यभिचारः कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासमानात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रति भासमानत्वात् प्रत्यक्षत्वमस्तु । तच्च फलज्ञान-आत्मनोऽर्थातरभूतमनांतरभूतमुभयं वा ! न तावत्स वर्थातरभूतमनर्थातरभूतं वा मतांतरप्रवेशानुपंगात् । नाप्युभयं पक्षद्वयनिगदितदूषणानुषक्तेः । कथं- चिदनीतरत्वे तु फलज्ञानादात्मनः कथंचिप्रत्यक्षत्वमनिवार्य प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकांतविरो- भात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तं । यस्य तु करणज्ञानमत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतं तस्यापि पुरुषात्प्रत्यक्षात् कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्क- थमपाक्रियते ! ततो न भट्टमतमपि विचारणा प्रांचति इति स्वव्यवसायात्मकं सम्यग्ज्ञानं, मर्यपरिच्छित्तिनि- मित्तत्वात् आत्मवदिति व्यवतिष्ठते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मंतव्यं तेषामुपचारतोऽर्थ परिच्छितिनिमित्तत्त्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् । - - अत्रापरः कपिलमतानुसारी प्राह-न सम्यग्ज्ञानं स्वव्यवसायात्मकं, अचेतनत्वात् घटादिवत् न तचेत नमनित्यत्वात् । तद्वदनित्यं चोत्पत्तिनिमित्तत्वात् विद्युदादिवत् । यत्तु स्वसंवेयं तवेतनं नित्यमनुत्पत्तिधर्मक च सिद्धं यथा पुरुषतत्त्वमिति सोऽपि न न्यायवेदी न्यभिचारिसाधनाभिधानान् । उत्पत्तिमत्त्वं हि तावद- नित्यतां व्यभिचरति निर्वाणस्यानंतस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनत्वं व्यभिचरति पुरुषभोगस्य कादाचित्कत्वस्य बुद्ध्यध्यवासितार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्वं तु सम्यग्ज्ञानस्याशुद्धमेव तस्मादचेतनादिवेकल्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वात शरीरादेरपि चेतनत्वसंगात । ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत् स कोऽन्यः कथंचित्तादात्म्यात्। ततश्चेतनात्मकमेष ज्ञानमनुमंतन्य- मिलचेतनमसिद्ध ।
- . । सनातनजनग्रंथमालायां- यदप्यभ्यधायि सांख्यैः-ज्ञानमचेतनं प्रधानपरिणामत्वान् महाभूतवदिति तदपि न श्रेयः पक्षस्य स्वसं- वेदनप्रत्यक्षवाधितत्वात् । प्रतिवादिनः · कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितः पक्षः परं प्रति चेतनं ज्ञानं स्वसंवेद्यत्वात् पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यं यथा कलशादीति व्यति- रेकनिश्चयात् नेदमनुमानमगमकं । ज्ञानस्य स्वसंवेद्यत्वमासिद्धं ? इति चेन्न तस्यास्वसंवेद्यत्वे अर्थसंवेदनवि- रोधादित्युक्तप्रायं । एतेन न स्वसंवेद्यं विज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पित्तादिवदिति वदंश्चा- किः प्रतिक्षिप्तः । न चेदं साधनं सिद्धं भूतविशेषपरिणामत्वासिद्धेः संवेदनस्य वाहोंद्रियप्रत्यक्षत्प्रसंगात् गंधादिवत् । सूक्ष्मभूतविशेपपरिणामत्वात् न बायेंद्रियप्रत्यक्षं ज्ञानमिति चेत् स तर्हि सूक्ष्मविशेषः स्पर्शादिभिः परिवर्जितः स्वयमस्पर्शादिमान संवेदनोपादानहेतुः सर्वदा वाडेंद्रियाविषयः कथमात्मैव नामां- तरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भूतचतुष्टयावलक्षणत्वात् तत्त्वांतरापत्तिरदृष्टपरिकल्पना च प्रसज्येत तथात्मनः प्रमाणसिद्धत्वात तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्ठते स्वव्यवसा- यात्मकं सम्यग्ज्ञानं चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात् यत्तु न स्वव्यवसायात्मकं न तत्तथा यथा घटः तथा च सम्यग्ज्ञानं तस्मात्स्वव्यवसायात्मकं इति सम्यग्ज्ञानलक्षणं प्रमाणसिद्ध । ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वात न तत्त्वतः किंचित्प्रमाणं संभवति इति कस्य लक्षणमभि- धीयते लक्ष्यानुवादपूर्वकत्वाल्लक्षणाभिधानस्य । प्रसिद्ध लक्ष्यमनूय लक्षणं विधीयत इति लक्ष्यलक्षणभाववादि- भिरभ्युपगमात् इति केचिदमंसत तेषां तत्त्वोपप्लनमात्रमिष्टं साधयितुं तदा साधनमभ्युपगंतव्यं । तच्च प्रमा- णमेव भवति तथा चेदमभिधीयते-तत्त्वोपंप्लववादिनोऽप्यस्ति प्रमाणं, इष्टसाधनान्यथानुपपत्तेः । प्रमाणा- भावेऽपीष्टसिद्धौ सर्वं सर्वस्य यथेष्टं सिद्ध्येत् इत्यनुपप्लुततत्त्वसिद्धिरपि किं न स्यात् सर्वथा विशेषाभावात् । स्यादाकूतं न स्वेष्टं विधिप्राधान्येन साध्यते येन तत्त्वोपप्लवं साधयतः प्रमाणसिद्धिः प्रसज्येत । कि तहि ! पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात् परीक्षकजनयतस्तत्त्वोपप्लवमनुसरति गत्यंतराभावात । तथाहि-प्रमाणवं कस्य चिकिमदुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामर्थेन वा अर्थक्रिया- प्राप्तिनिमित्तत्वेन वा व्यवतिष्टते ? न तावददुष्टजन्यत्वेन तस्य प्रत्यक्षतो गृहीतुमशक्तेः करणकुशलादेरपि प्रमाणकारणत्वात् । तस्य चातींद्रियत्वोपगमात् । न चानुमानमदुष्टं कारणमुन्नेतुं समर्थं तदविनाभाविलिं- गाभावात् । सत्यज्ञानं लिंगमिति चेन् न परस्पराश्नयणात् । सति ज्ञानस्य सत्यत्वे तत्कारणस्यादुष्टत्त्र- निश्चयात् । तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः । यदि पुनर्वाधारहितत्वेन संवेदनस्य प्रामाण्यं साध्यते तंदा किं कदाचित्कचिद्वाधकानुत्पत्या तसिद्धिराहोस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुर्याधकानुत्प- रिति पक्षद्वयमवतरति । प्रथमपक्षे मरीचिकाचक्रे सलिलसंबेदनमपि प्रमाणमासज्यते दूरस्थितस्य त- संवेदनकाले कस्य चित्प्रतिपत्तुर्बाधकानुत्पत्तेः । द्वितीयपक्षे तु सकलदेशकालपुरुषाणां बोधकानुत्पत्ति:- कथमसर्वविदोऽवबोढुं शक्येत तत्तत्प्रतिपत्तुः सर्ववेदित्वप्रसंगात् । यदि पुन: प्रवृत्तिसामर्थेन ज्ञानस्य प्रामाण्यमुन्नीयते तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थे प्रवृत्तिर्यदीष्यते तद्देशोपसर्पणलक्षणा तस्याः सामर्थ्य च फलेनाभिसंबंधः सजातीयज्ञानोत्पत्तिर्वा तदेतराश्रयदोषो दुरुत्तरः स्यात् । सति संवेदनप्रमा- णत्वनिश्चये तेनार्थप्रतिपत्ती प्रवृत्तेः । तत्सामर्थ्यस्य च घटनात् प्रवृत्तिसामर्थ्यस्य निश्चयै च तेनार्थसंवे- दनस्य प्रमाणत्वनिर्णीतेः प्रकारांतरासंभवात् । अथार्थक्रियानिमित्तत्वेन संवेदनं प्रमाणतामास्कंदति तदा कुतस्तस्य तन्निश्चयः स्यात् ! ! प्रतिपत्तुरर्थक्रियाज्ञानादिति चेत् कुतस्तस्य प्रमाणत्वासद्धिः ? । परमार्थ- क्रियाज्ञानांतराच्चेत् कथमनवस्था न भवेत् ! । अथाद्यसंवेदनादेवार्थक्रियाज्ञानस्य - माण्यं मन्यते तदा परस्पराश्रयदोषः । सत्यर्थक्रियाज्ञानस्य प्रमाणत्लनिश्चये तबलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तत्वेन प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्चयाच्च अर्थक्रियासंवेदनस्य प्रमाणतासिद्धिः कारणांतराभावात् । ततो न प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते तदवस्थानाभावे च न प्रमेयत्वसिद्धिः इति तदेतत्सकलं प्रलापमानं पराभिमतप्रमाणतत्त्वनिराकरणस्य स्वयमिष्टस्य प्रमाणमंतरेण सिद्ध्ययोगात तस्य स्वयामिष्टत्वे साधनानुपपत्ते' परपर्यनुयोगमात्रस्य करणाददोषोऽयं ।
प्रमाणपरीक्षा। परपर्यनुयोगपराणि हि वृहस्पतेः सूत्राणि इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भापणमेव । किमदुष्टकारणजन्यत्वेन प्रा- माण्यं साध्यते वाधारहितत्वेनेवेत्यादि पक्षाणां काचिनिर्णयाभावे संदेहाभावात् परपर्यनुयोगायोगात् । स्यादाकूतं पराभ्युपगमात् तन्निश्चयासिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः, तथाहि-मीमांसकाभ्युपगमात् तावददुष्टकारणजन्यत्वं बाधावर्जितत्वं च निर्णीतं निश्चितत्वापूर्वार्थत्वलोकसम्मतत्ववन् । तदुक्तं- तत्रापूर्वार्थविज्ञानं निश्चितं बाधववर्जितं । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १॥ इति तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमानिर्णीत- प्रमाणतोऽर्थप्रतिपत्तो प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं इति वचनान् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमानिर्णीतमेव प्रमाण- मविसंवादिजानं अर्थक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनात्। तदिदानी चार्वाक- मतानुसारेण संदिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्था प्रतिपद्यते पराभ्यु- पगमस्य प्रमाणापमाणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेपामभ्युपगमः प्रमाणपूर्वकः तदा कथं संदेहः? प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रर्वतते तस्य कचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभाचे प्रमाण्यनिश्चयात् तन्निश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्यैष्टस्य संसिद्धेः प्रमाणप्रसिद्धरवाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतेन सर्वथा शून्यं संविदद्वैतं पुरुपाद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमेयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा कथंचिदिए प्रमाणसंसिद्धर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वयादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेः परीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिीतौ प्रमेयतत्त्वसिद्धिनिर्बाधा व्यवतिष्ठत एव । ननु चैव प्रमाणसिद्धमपि किं स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा ! न तावरस्वतः सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः-अनवस्थानुपंगान् परापरप्रमाणान्वेपणात् कचिदवस्थितेरयो- गान्। प्रथमपूमाणाद्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति केचित्तेऽप्यसभीक्षितवचसः संलक्ष्यते स्वयमभ्यस्तविषये पूमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्ती- नामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशय प्रवृत्ययोगात् । तथानभ्यस्तविषये परतः प्रमाणस्य प्रामाण्यनिश्चयात् तन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धेः अनवस्थाप- रस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविषयत्वे परतः प्रमाणादभ्यस्तविपयात् स्वतःसिद्धप्रामाण्यातू प्रमाणत्रनिश्चयात् सूदरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्थावश्यंभावित्वात् अन्यथा प्रमाणतदा- भासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तुः कचिद्विपयेऽभ्यासः क्वचिदन- भ्यासः स्यात् ? इति चेत् तत्प्रतिबंधकदशाविशेपविगमाभ्यां कचिदम्यासानभ्यासौ स्याता इति भूमहे परिदृष्टकारणव्याभिचाराददृष्टस्य कारणस्य सिद्धः तनः कर्म ज्ञानावरणवीर्यातरायाख्यं सिद्धं तस्य क्षयोपशमा- कस्य चित् कचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थित प्रमाणस्य प्रमाण्यं सुनिश्चितासंभवद्वाधकप्रमाणत्वात् स्त्रयमिष्टवस्तुवत् सर्वत्रेप्टसिद्धेस्तन्मात्रनिबंधनस्वादन्यथा सर्वस्य तत्त्व- परीक्षायामनधिकारादिति स्थितमेतत्-- प्रामाणादिएससिद्धिरन्यथातिप्रसंगतः । प्रामाण्य तु स्वतःसिद्धमभ्यासात्परतोऽन्यथा ॥ १ ॥ इति एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञान परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपाद् द्वितयमेव व्यवतिष्ठते -- सनातनजैनग्रंथमालाया- सकलप्रमाणानामांतर्भावादिति विभावनात् । परपरिकल्पितैकद्वित्र्यादिप्रमाणसंख्यानियमे तदघटनात् । तथाहि-येपां प्रत्यक्षमेकमेव प्रमाणं न तेपामनुमानादिप्रमाणांतरस्यांतर्भावः संभवति तद्विलक्षणत्वात् । प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षभावः इत्ययुक्तं प्रत्यक्षस्थापि कचिदनुमानपूर्वकत्वादनुमानादिश्वंतर्भावप्रसं- गात्। यथैव हि धर्मिहेतुदृष्टांतप्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्ययपूर्वकं च शाब्द। सादृश्यानन्यथाभावनिषेध्याधार- वस्तुमाहि प्रत्यक्षपूर्वकाणि चोपमानाथापत्त्यभावप्रमाणानि तथा अनुमानेन कृशानुं निश्चित्य तन्न प्रर्वत- मानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं संप्रतिपद्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्तौ प्रत्यक्ष शाब्दपूर्वकं । क्षीरस्य संतर्पणशक्तिमर्थापत्त्याधिगम्य क्षीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमापत्तिपूर्वकं । गोसादृश्याद्वयमवसाय तं व्यवहरतः प्रत्यक्षनुमानपूर्वकं । गृहे सर्पाभावमभावप्रमाणाद्विभाज्य प्रविशतः प्रत्यक्षमभावपूर्वकं प्रतीयते एव ततः प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकं तस्यागौणत्वादिति शुष्के पतिष्यामि इति जातः पातः कर्दमे । स्यादाकूतं न प्रत्यक्ष-अनुमानागमार्थापत्युपमानामावसामग्रीपूर्वकं तदभावऽपि चक्षुरादिसामग्रीमात्रा- त्तस्य प्रसूतेः प्रसिद्धत्वात् । तदभाव एव अभावनियमादिति तदप्यसत् लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वामा- वात् । लिंगशब्दानन्यथाभावसादृश्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामि- प्रय भावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमाने प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमंतव्यं प्रतिनियतस्वविपयव्यवस्थायां परापेक्षाविरहात् । यथैव हि प्रत्यक्षं साक्षात्स्वार्थ परिच्छित्तौ नानुमानाद्यपेक्षं तथानुमानमनुमेयनिणीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते प्रत्यक्षस्य धर्मिहेतुदृष्टांतग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थे प्रत्यक्षमनुमानं चापेक्षते तयोः शब्द- श्रवणमात्रे शब्दार्थसंबंधानुमात्रे व्यापारात् । नत्वापत्तिः प्रत्यक्षमनुमानमागमं चापेक्षते अभावोपमानवत् । तस्याश्च प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबंधनत्वात् । प्रत्यक्षादीनामर्थापत्युत्थापक पदार्थनिश्चयमात्रे व्यावृत्तत्वात् । नचापमान प्रत्यक्षादीन्यपेक्षते तस्योपमेयेऽर्थे निश्चयकारणे प्रत्यक्षादि निरपेक्षत्वात् । प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रेऽनधिकारात् । नचाभावप्रमाणं प्रत्यक्षादिसापेक्षं निषेभ्या- धारवस्तुग्रहणे तस्य सामर्थ्यात् । परंपरयानुमानादीनां प्रत्यक्षपूर्वकत्वं प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहंतु । कथं चायं प्रत्यक्ष प्रमाणं व्यवस्थापयेत् स्वत एवेति चेत् किमात्मसबंधि सर्वसंबंधि वा ! प्रथमकल्पनायां न सकलदेशकालपुरुषपरिपत्प्रत्यक्षं प्रमाण सिद्ध्येत् । द्वितीयकल्पनायामपि न स्त्रप्रत्यक्षा- त्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः तेपामनींद्रियत्वात् वादिप्रत्यक्षागोचरत्वात् । यदि पुनः सक- लपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवंति इति मतं तदा कुतस्तत्सिद्धिः । विवादाध्यासितानि सकलदेशकालवर्तिपुरुषप्रत्यक्षाणि स्वतः प्रामाण्यमापद्यते प्रत्यक्षत्वात् यद्यप्रत्यक्ष तत्तत्स्वतः प्रामाण्यमापद्यमानं सिद्धं यथा मत्प्रत्यक्षं प्रत्यक्षाणि च विवादाध्यासितानि तस्मात्स्वतः प्रामा- ण्यमापाते सकलप्रत्यक्षाणां स्वतःप्रामण्यसाधने सिद्धमनुमानं प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः प्रामाण्यसाधनात् । शिशुपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपाद्यबुद्ध्या तथानुमानवचनाददोष इति चेत् ? प्रतिपाद्यबुद्धि प्रतिपद्य अप्रतिपद्य वा तयानुमानप्रयोगः स्यात् । न तावदप्रतिपद्य अतिप्रसंगात् । प्रतिपद्य तवुद्धितयानुमानप्रयोगे कुतस्तत्प्रतिपत्तिः ? व्यवहारादिकार्यविशेषादिति चेत् सिद्धं कार्यात्का- रणानुमानं धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारात् प्रतिपद्यत एवानुमानं लोकायतिकैः परलोका- देवानुमानस्य निराकरणात् तस्याभावादिति मतं तदापि कुत: परलोकाद्यभावप्रतिपत्तिः न तावत्प्रत्यक्षात् तस्य तदगोचरत्वात् नास्ति परलोकादिः अनुपलब्धेः खपुष्पवदिति तदभावंसाधनेऽनुपलब्धिलक्षणमनु- मानमायातं । तदुक्तं धर्मकीर्तिना- प्रमाणेतरसामान्यस्थितरन्यधियोगतेः। प्रमाणांतरसद्भावः प्रतिषेधाच कस्यचित् ॥ १ ॥ इत्ति 4 - प्रमाणपरीक्षा। ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे प्रमेयद्वविध्यात् । न ह्याभ्यामर्थे परिछिंद्य प्रवर्तमानोऽर्थ क्रियायां विसवाचत इति प्रमाणसंख्यानियम सौगताः प्रतिपद्यते तेषामागमोपमानादीनां प्रमाणभेदानाम- संग्रह एव तपा प्रत्यक्षानुमानयोरतर्भावायतुमशक्तः । स्यान्गतिरेषा भवतां तदर्थस्य दैविध्यात् द्वयोरंतर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र प्रत्यक्षविषयः साक्षारिक्रयमाणः प्रत्यक्षः । परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः स हि पदाधीतगत्सामाक्रियमाणात प्रतिपद्यते तच पदार्थातरं तेन परोक्षणार्थेन सबद्धं प्रत्याययितुं समर्थ नासं- यद्धं गवादेरप्यश्चादेः प्रतीतिप्रसंगात् । संवद्धं चाांतरं लिंगमेव शब्दादि तज्जनितं च ज्ञानमनुमानमेव ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति शब्दोपमानादीनामपि तथानुमानत्वसिद्धेः । अन्यथा ततो. ऽर्थप्रतिपत्ती अतिप्रसंगात् इति तदेतदपि न परीक्षाक्षम प्रत्यक्षस्यापि तथानुमानत्वप्रसंगात् । प्रत्यक्षमपि हि स्वविषये संबद्ध तत्प्रत्यायनसमर्थ । तनासंवद्धस्यापि तत्प्रत्यायनसामर्थ्य सर्वप्रत्यक्षं सर्वस्य नुः सर्वार्थ- प्रत्यायनसमर्थ रयादिति कथमतिप्रसंगो न स्यात् ! | यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थ प्रतिपत्तः साक्षादसाक्षाप्रतिभासभेदान मेदोऽभ्युपगम्यत प्रमाणातरत्वेन तदेंद्रियस्वसंवेदनमानसयोगि- प्रत्यक्षाणामपि प्रमाणांतरत्वानुपंग: प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य विशदतमस्तादृशोऽज्ञानस्यास्ति स्वसंवेदनस्य मनोविज्ञानस्य वा ! यथाभूतश्च स्वसंवेदगप्रत्यक्षांतर्मुखो वि. शदतरः न तथाभूतोऽअज्ञानस्य । यादशश्चाक्षज्ञानस्य बहिर्मुखः स्फुटः प्रतिभासो न तादृशो मनोवि- ज्ञानस्पति कथं प्रमाणांतरता न भवेत् ? अब प्रतिभासविशेपेऽपि तञ्चतुर्विधमपि प्रत्यक्षमेव न प्रमाणांतरं तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेपि सावषयसबंधविशपात्व प्रमाणांतरत्वं माभूत् । यदि पुनः स्वविषयसंवद्धत्वाविशेषऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात् प्रमाणांतरत्वमुररीक्रियते तदा शाब्दो- पमानादीनामपि तत एव प्रमाणांतरत्यमुररीक्रियतां । यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं, लिंग- सामप्रीतोऽनुमान प्रभवतीति तयोः सामिग्रीभेदः । तथागमः शब्दसामिप्रीतः प्रभवति । उपमानं सा- दृश्यसामग्रीतः । अर्धापत्तिश्च परीक्षार्थाविनाभूतार्थमात्रसामप्रयाः । प्रतियेध्याधारवस्तुग्रहणप्रतिषेध्यस्मर- णसामप्रयाधाभाव इति प्रसिद्धः शायदादीनामपि सामग्राभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य प्रभेदप्रमिदः नहि तस्यार्थभेदोऽस्ति साक्षात्क्रयमाणस्यार्थस्याविशेपात् तद्वलिंगशब्दादिसामग्रीभेदा- 'परीक्षार्थविषयत्वानिशेषप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेंऽतर्भावः संभवति । तथा साध्य- साधनसंबंधन्याप्तिप्रतिपत्ती न प्रत्यक्ष सगर्थे । यावान् कश्चिद्धूमः स सर्वः कालांतरे देशांतरे च पावक- जन्मा, अन्यजन्मा यान भवति इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात् । सनिहितार्थमात्रादुत्पत्वेरविचारकत्वात् योगिप्रत्यक्षं रान समर्थगिति चन् न देशकालयोगिप्रत्यक्षद्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्ति- प्रतिपत्ती समर्थ मन्ययुक्तं तत्रानुमानयर्थ्यान् । न हि योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेपेषु अशेपेषु फलबदनुमान । अथ सकलयोनिप्रत्यक्षेण व्यामिप्रतिपत्तावदोप इति चेन्न उक्तदोपस्यात्रापि तद- पस्थत्वात् । परार्थफलवदनुमानमिति चेत् ? न तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं नाम । यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात् परानुग्रहस्य च शब्दात्मक- परार्थानुमानमंतरेण कर्तुमशक्तः परार्थानुमानासद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुत्पद्यमानत्वात् स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतं तदा स योगी स्वार्थानुमाने चतुरार्य- सत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् ग्रहीतव्याप्तिकमगृहातव्याप्तिकं वा प्रतिपादयेत् ! यदि गृहीतव्यातिकं तदा कुतस्तेन' गृहीता व्याप्तिः ? न तावदिद्रियस्वसंवेदनमनोविज्ञानस्तेषां तदविषय- त्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण तस्यापि देशयोगित्वात् इति चेत् तर्हि यावत्सु साध्यसाधन- भेदेषु योगिप्रत्यक्षं देशयोगिनस्तावत्सु व्यर्थमनुमानं स्पष्टं प्रतिभातेश्वपि अनुमाने सकलयोगिनः सर्वत्रा- नुमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमानं योगिप्रत्यक्षविषये समारोपानवकाशान् सुगत- प्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकं सनातननग्रंथमाला- अतिप्रसंगात् इति परप्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमान संभवति तदसंभवे च न स्वार्था- नुमानमवतिष्ठते सालयोगिनत्तव्यवस्थाने च न सकलयोगिप्रत्यक्षेण व्याप्तिग्रहणं युक्तिमधिवसति । प्रत्यक्षानुपलंभाभ्यां साध्यसाधनयोातिप्रतिपत्तिरित्यप्यनेनापास्तं प्रत्यक्षेण न्याप्तिप्रतिपत्तिनिराकृती प्रत्यक्षातरलक्षणनानुपलभेन तत्प्रतिपत्तिनिराकृतिसिद्धेः । योग्याह कारणानुपलमान कार्यकारणभावन्याप्तिः । व्यापकानुपलभाद् व्याप्यव्यापकभावः साक- स्येन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः । तथाहि यावान् काश्चिमः स सर्वोप्यग्निजन्मा महा- हृदादिष्वग्नेरनुपलंभामाभावसिद्धेरिति कारणानुपलंभानुमानं । यावंती शिंशपा सा सर्वा वृक्षस्वभावा । वृक्षानुपलब्धौ शिंशमावाभावसिद्ध इति व्यापकानुपलंभो लिंगं. एतावता साफल्येन साध्यतावनव्याप्ति- सिद्धिः इति सोऽपि न युक्तवादी तयानवस्थानुपंगात् । कारणानुपलभन्यापकानुपलंभयोरपि हि स्वसा- ध्येन व्याप्तिन प्रत्यक्षतः सिद्ध्येत् पूर्वोदितदोषासक्तः परस्मादनुमानात्तत्सिद्धा कथमनवस्था न स्वात् ? प्रत्य- क्षानुपलंभपृष्टभाविनो विकल्पान् स्वयमप्रमाणकात् साध्यसाधनव्यातिसिद्धौ किमकारणं प्रत्यक्षानुनानप्रमा- णपोषणं क्रियते ? मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेाप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्षं प्रमाणमिच्छता सामस्त्येन तत्प्रामाण्यसाधनमनुमानमंतरेण नोपपद्यते इत्यनुमानमिष्टं । तथा लाध्यसाधनव्याप्तिज्ञातप्रमा- णमंतरण नानुमानोत्थाननन्ति इति तदभ्यनुज्ञातव्यं तचोहाख्यमविसंवादकं प्रमाणांतरं सिद्धमिति, न प्रत्य- क्षानुमाने एव प्रमाणे इति प्रमाणसंख्यानियनो व्यवतिष्ठते । एतेन वैशेषिकप्रमाणसंख्यानियमो प्रत्याख्यातः। स्यान्मतं साध्यसाधनसामान्ययोः कवियक्तिविशेषे प्रत्यक्षत एव संबंधसिद्धर्न प्रमाणांतरमन्वे- पणीयं यात्रान् कश्चिद्भूमः स सर्वोऽपि अग्निजन्मानग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य प्रमाणां तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । कचिदनुमितानुमाने साध्यसाधने आदित्यगमनशक्तिरस्ति गतिमत्त्वात् । आदित्या गतिमान् देशाद्देशांतरप्राप्तः देवदत्तवत् संबंधवोधनिबंधनानुमान फलवत् ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति तदप्यसारं सवि- कल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधगृहीतुमशक्तेः । सायं हि किमग्निसामान्यं, अग्निवि- शेषोग्निसामान्यविशेषो वा ? न तावदाग्नसामान्य सिद्धसाध्यतापत्तेः । नाप्यग्निविशेपत्तस्यानन्वयात् । वन्हिसामान्यविशेषस्य हि साध्यने तेन धूमस्य संबंधः सकलदेशकालव्याप्यध्यक्षतः कथं तियेत् ? तथा तत्संबंधासिद्धौ च यत्र यत्र यदा यदा घूमोपलंमः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनु- मानं नोदयमासादयेत् । न सन्यथा संबंधग्रहणमन्यथानुमानोत्यानं नानातिप्रसंगात् ततः संबंधज्ञानं प्रमा- णांतरमेव प्रत्यक्षानुमानयोस्तदविषयत्वात् । यत्रोक्तं प्रत्यक्षफलवादहापोहविज्ञानस्याप्रमाणत्वमिति तदप्य- सम्यक् विशेषणज्ञानफल्बाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् हानोपादानोपेक्षावुद्धिफलकारणत्वाद्विशेष्य- ज्ञानस्य प्रमाणवे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । प्रमाणविषयत्वपरिशोधकला- नोहः प्रमाणमित्यपि वात प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात् । तथा तर्कः प्रमाण प्रमाणविषयप- रिशोषकत्वात् यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधको दृष्टो यथा प्रमेयोऽर्थः प्रमाणविषयपरिशोधकच तर्कस्तस्मात्प्रमाणमिति केवलव्यतिरोकिणानुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धः, न वैशेषिकाणां प्रमाणद्वयसंख्यानियमः सिद्धयेत् । एतेन द्वित्रिचतुःपंचषदप्रमाणवादिनां प्रमाणसंख्या- नियमः प्रतिध्वस्तः संख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्तिद्धिनि- बंधनस्य प्रमाणांतरलोपपत्तेः । नैयायिकानां च प्रत्यक्षानुमानागमरिखोपमानेनापि लिंगलिीगग्रहणासंभ- वात् । प्रभाकराणां चं प्रत्यक्षानुमानोपमानागमरिख अर्थापत्त्यापि हेतुहेतुमरसंबंधसिद्धरसंभवात् । भट्टमता- नुत्तारिणामपि प्रत्यक्षानुनानोपमानागमार्थापत्तिभिरिव अभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तनिश्चयनि- बंधनस्योहज्ञानस्य प्रमाणांतरस्य सिद्धिरवश्यंभाविनी दुःशक्या निराक्तु । ननूहः स्त्रविषये संबद्धोऽसंबद्धो वा न तावदसंबद्धत्तं प्रत्याययितुमाशोऽतिप्रसंगात् । संवद्धश्चेत् कुत- स्तप्रतिपत्तिः ? न तावत्प्रत्यक्षात तस्य तदविषयत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनल्हांतरात्त- 1104 प्रमाणपरीक्षा। ६७ संबंधसिद्धिः तदोहांतरस्यापि स्खविपयसबंधसिद्धिपूर्वकत्वात् तस्याश्चापरोहनिबंधनत्वात् सैवानवस्था । प्रमा- णांतरात्तत्सिद्धा च स एव पर्यनुयोगः परापरप्रमाणांतरपरिकल्पनानुपंगात केयं प्रमाणसंख्या व्यवतिष्ठतेति केचित् तेपामपि प्रत्यक्ष खविपयं प्रतिबोधयत् तत्संबंधश्च नानुमानादेः सिद्ध्यति तस्य तदविषयत्वात् । प्रत्यक्षांतरात्तसिद्धौ तत्रापि प्रकृतपर्यनुयोगानिवृत्तेः कथमनवस्था न स्यात् यतः प्रत्यक्षं प्रमाणमभ्युपगम- नीयमिति प्रतिपद्यामहे । स्यान्मतिरेपा प्रत्यक्ष स्वविषयसंबंधाववोधनिबंधनं प्रामाण्यमात्मसारकुरुते तस्य स्खविषये स्वयोग्यता- चलादेव प्रमाणत्वव्यवस्थितेः अन्यथा फचिदपूर्वार्थग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुपंगात् इति सापि न साधीयसी तथोहस्यापि स्वयोग्यताविशेपसामदेिव स्त्रविषयप्रत्यायनसिद्धर्भवदुद्भावितदूषणवैयर्थ्यव्यव- स्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविपयज्ञानावरणवीर्यातरायक्षयोपशमविशेप एवोहस्यापि प्रति- पद्यते सकलबाधकबैधुर्यात । यथा च प्रत्यक्षरयोत्पत्तौ मनोऽक्षादिसामिग्री योग्यतायाः सहकारिणी बहि- रंगनिमित्तवान् तथोहस्यापि समुद्भुतौ भूयः प्रत्यक्षानुपर्लभसामिग्रीबहिरंगनिमितभूतानुमन्यते तदन्त्रय- व्यतिरेकानुविधायित्वादूहस्येति सर्वनिरवद्यसिद्ध चानुमानप्रमाणान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे-प्रत्याभ- ज्ञानं प्रमाणं तर्कप्रमाणत्वान्यथानुपपत्तेः न ह्यप्रत्यभिज्ञाने विपये तर्कः प्रवर्तते अतिप्रसंगात् । नच गृहीत- प्रहणात्मत्यभिज्ञानस्याप्रमाणत्वं शंकनीयं तद्विपयस्यास्मर्यमाणदृश्यमानपर्यायव्याप्येकद्रव्यस्य स्मरणप्रत्य- क्षागोचरत्वात् अपूर्थिग्राहित्यासिद्धेः । नचेदं प्रत्यक्षतर्भवति प्रत्यक्षस्य वर्तमानपर्यायविषयत्वात् । नाप्यनुमाने लिंगानपेक्षत्वात् । न शाब्दे शब्दनिरपेक्षत्वात् । नोपमाने सादृश्यमंतरेणापि भावात् । नार्था- पत्तो प्रत्यक्षादिप्रमाणपदकविज्ञातार्थप्रतिपत्तिमंतरेणापि प्रादुर्भावात् । नाभावे निषेध्याधारवस्तुग्रहणेन नियध्यस्मरणेन च विनवोत्पादादिति सर्वेपामेकद्वित्रिचतुःपंचपदप्रमाणसंख्यानियमं विघटयति । एतेन स्मृतिः प्रमाणांतरमुक्तं तस्याश्च प्रत्यक्षादिष्वंतर्भावयितुमशक्तेः । न चासावप्रमाणमेव संवादकत्वात् कथं- चिदपूर्वार्थसाहित्वात् बाधावर्जितत्वाच्चानुमानवदिति । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य सा- ध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्याव्यवस्थितेः कुतोऽनुमान शाब्दं या प्रमागं सिद्धयत् । तदप्रसिद्धी च न संवादकत्वासंबादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति सकलप्रमाण- विलोपापत्तिः ततः प्रमाणव्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्या- नियमः सिद्धयेत् । स्याद्वादिना तु संक्षेपात्प्रत्यक्षपरीक्षविकल्पात् प्रमाणद्वयं सिद्धत्येव तत्र सकलप्रमाण- भेदानां संग्रहादिति सूक्तं । किं पुनः प्रत्यक्षमित्युच्यते विशदज्ञानात्मकं प्रत्यक्ष प्रत्यक्षत्वात् यत्तु न विशदज्ञानात्मकं तन प्रत्यक्षं यथानुमानादिज्ञानं प्रत्यक्षं च विवादाध्यासितं तस्माद्विशदज्ञानात्मकं । न तावदत्राप्रसिद्धो धर्मी प्रत्यक्षर्मिणि केवलप्रत्यक्षवादिनामविप्रतिपत्तेः । शून्यसंवेदनाद्वैतवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टेः । प्रत्यक्षत्वस्य हतोरसिद्धतापि अनेन समुत्सारिता प्रत्यक्षामिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य खयमिष्टत्वात् । प्रतिज्ञार्थंकदेशासिद्धलं साधनस्य स्यादिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा यस्या- सिद्धत्वं शंक्येत ? धर्मधर्मिससुदायः प्रतिज्ञा तदेकदेशो धर्मी हेतुर्यथा नश्वरः शब्दो शब्दत्वादिति तथा साध्यधर्मः प्रतिज्ञकदेशी यथा नश्वरः शब्दो नश्वरत्वात् सोयं द्विविधो प्रतिज्ञापैकदेशासिद्धौ हेतुः स्यादिति चेत् । न धर्मिणो हेतुत्वे कस्य चिदसिद्धतानुपपत्तेः । यथैव हि प्रत्यक्षप्रयोगकाले वादिप्रतिवादि प्रसिद्धो धर्मी तथा तस्य हेतुत्रबचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनौपादीयमानो न प्रतिज्ञातार्थंक- देशत्वेनासिद्धो धर्मिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि ? स्वरूपेण वासिद्ध इति न प्रतिज्ञार्थंकदेशासिद्धो नाम हेत्वाभासः संभवतीति कथं प्रकृतहेती प्रतिज्ञार्थंकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः ।। धर्मिणो हेतुत्वेऽनन्वयमसंग इति चेत् न विशेपं धर्मिणं कृत्वा सामान्यं हेतुं अवतां दोषासंभवात् । प्रत्यक्ष- हि विशेषरूपं धर्मी प्रत्यक्षसामान्यं हेतुः स कथमनन्वयः स्यात् सकलप्रत्यक्षावेशपस्य व्यापित्वात् । दृष्टांते कचिदभावात् अनन्वय इति चत् न सर्वे भावाः क्षणिकाः सत्त्वात् इत्यादेरपि हेतोरनन्वयत्वप्रंसक्तेः । .
६८ सनातनजैनग्रंथमाला- अथास्य दृष्टांतेन अन्वयस्यापि साध्यधर्मिणि सर्वत्रान्वयसिद्धर्विपक्षे वाधकप्रमाणसद्भावाच निदोषतानु- मन्यते तत एव प्रत्यक्षत्वस्य हेतोर्निदोषतास्तु सर्वथा विशेषाभावात् केवलव्यतिरेकिणोऽपि हेतोरविना- भावनिर्णयात् साध्यसाधनसामर्थ्यान्न कश्चिदुपालंभस्ततो निरवंद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं साधयत्येव । नचैतदसंमवि साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य कार्येन एकदेशेन वा वैशद्यसिद्धेधिकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि-आत्मानमेव क्षीणावरणं क्षीणोपशांतावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथंचिदपि वैशयं संभा-.. व्यमिति सूक्तं विशदज्ञानात्मकं प्रत्यक्षं। तत्रिविधं-इंद्रियानिद्रियातींद्रियप्रत्यक्षविकल्पनात् । तत्रंद्रियप्रत्यक्षं सांव्यवहारिक देशतोविशद- वात् । तद्वदनिद्रियप्रत्यक्षं तस्यांतर्मुखाकारस्य कथं चिद्वैशद्यासिद्धेः । अतींद्रियप्रत्यक्षं तु द्विविधं विकल- प्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविध-अवधिज्ञानं मनःपर्ययज्ञानं चेति सकलप्रत्यक्ष तु केवलज्ञानं तदेतत्त्रितयमपि मुख्यं प्रत्यक्षं मनोऽक्षानपेक्षत्वात् अतीतव्यवभिचारित्वात् साकारचस्तु- प्राहित्वात् सर्वथा स्वविषयषु वैशचाच । तथा चोक्तं तत्त्वार्धवार्तिककारैः । इंद्रियानिद्रियानपेक्षमतीतव्यभिचार साकारग्रहणं प्रत्यक्षमिति तत्रौद्रयानिद्रियानपेक्षमिति वचनात् सान्यवहारिकस्यद्रियप्रत्यक्षस्यानिंद्रियस्य च देशतो विश- दस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तः । साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वच्यावर्तनात् । सूक्तं मुख्यं प्रत्यक्षत्रयं ननु स्वसंदेनप्रत्यक्षं चतुर्थे स्यादिति न मंतव्यं तस्य सकलज्ञानसाधर- णस्वरूपत्वात् । यथैव हीद्रियप्रत्यक्षस्य स्वरूपसंवेदनमिंद्रियप्रत्यक्षमेव अन्यथा तस्य स्वपरस्वरूपसंवेदकत्व- विरोधात् संवेदनद्वयप्रसंगाच्च । तथानींद्रियप्रत्यक्षस्य, मानसस्य स्वरूपसंवेदनमनिंद्रियप्रत्यक्षमेव तत एव तद्वदतींद्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थातरं स्वसंवेदनप्रत्यक्षं । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनि- द्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यं तस्यानिंद्रियनिमित्तत्वात् विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकल ज्ञानं स्वरूपसंवेदनापक्षया प्रमाणं सिद्ध भावप्रमेयापेक्षायां प्रमाणाभासनिन्हवः । किं पुनारेद्रियप्रत्यक्षं ? इंद्रियप्रधान्यादिंद्रियवलाधानादुपजायमानं मतिज्ञान- तदिद्रियानिद्रियानिमित्तं । इति वचनात् । तच्चतुर्विध-अवग्रहेहावायधारणाविकल्पात् । तत्र विषयविषयिसन्निपातानं- तरमाधग्रहणमवग्रहः । तद्गृहीतवस्तुविशेषाकांक्षणमीहा। भवितव्यताप्रत्ययरूपातदीहितविः शेषनिश्चयोऽवायः । सावधारणं ज्ञ नं कालांतराविस्मरणकारणं धारणाज्ञानं । तदेतचतुष्टयमपि अक्षव्यापारापेक्षं अक्षव्यापाराभावे तदनुद्भवनात् । मनोऽपेक्षं च प्रतिहतमनसस्तदनुत्पत्तेः । तत एवेंद्रिय- प्रत्यक्षं देशतो विशदमविसंवादकं प्रतिपत्तव्यं स्पर्शनादीन्द्रियनिमित्तस्य- बहुबहुविधक्षिप्रानिसृतानुक्तध्रुवेषु तदितरेष्वर्थेषु वर्तमानस्य प्रतींद्रियमष्टचत्वारिंशदस्य व्यंजनावग्रहभेदैरष्टचत्वारिंशता सहितस्य संख्याष्टा- शीत्युत्तरद्विशती प्रतिपत्तन्या । तथा अनिद्रियप्रत्यक्षं वहादिद्वादशप्रकारार्थविषयमवग्रहादिविकल्पमष्टच- स्वारिंशसंख्यं प्रतिपत्तव्यं । यत्पुनरतींद्रियप्रत्यक्षविकल्पमवाविज्ञानं तन् पड्डिधं अनुगामि-अननुगामि- वर्धमान-हीयमान-अवस्थित-अनवस्थितविकल्पात् । सप्रतिपाताप्रतिपातयोरत्रैवांतर्भावात्. । संक्षेपतस्तु त्रिविधं देशावधि-परमावधि-सर्वावधिभेदात् । तत्र देशावधिज्ञानं षड्विकल्पमपि संभवति परमावधिज्ञानं तु संयमविशेषैकार्थसमवायिभवांतरापेक्षयाननुगामि प्रतिपातं च प्रत्येयं । तद्भवापेक्षया च तदनुगाम्येव ना- ननुगामि । वर्धमानमेव न हीयमानं । अवस्थितमेव नानवस्थितं । अप्रतिपातमेव नप्रतिपातं तथाविध- विशुद्धिनिबंधनत्वात् । एतेन सर्वावधिञ्चानं व्याख्यातं । केवलं तर्धमानमपि न भवति परमप्रकर्षप्राप्तत्वात् सकलावविज्ञानावरणवीर्योतरायअयोपशमशात्प्रसूतत्वात् । अतिसंक्षेपतस्तु द्विविधमवधिज्ञानं भवप्रत्यय ...
प्रमाणपरीक्षा। गुणप्रत्ययं चेति । तत्र भवप्रत्ययं बहिरंगदेवभवनारकभवप्रत्ययनिमित्तत्वात् । तद्भावे भावात् तदभावेऽ- भावात् तत्तु देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतसम्यग्दृष्टेः । संयमासंयमगुण- हेतुकं संयतासंयतस्य । संयमगुणनिबंधनं संयतस्य । सत्यंतरंगहेतौ बहिरंगस्य गुणप्रत्ययस्य भावे भावात् । तदभावे चाभावात् । तथा मनःपर्ययज्ञानं विकलमतींद्रियप्रत्यक्षं द्वधा ऋजुमतिविकल्पात् । तत्रर्जुमति- मनापर्ययज्ञानं निर्वतितमगुणवाकायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्रिविधं । विपुलमतिमनः पर्ययज्ञानं तु निर्वर्तितानिवर्तितप्रगुणाप्रगुणवाक्कायमनस्कतार्थस्य परमनसि स्थितस्य स्फुटतरमवयोधकत्वात् पप्रकार, तथाविधमनःपर्ययज्ञानावरणवीर्यांतरायक्षयोपशमविशेषवलात् प्रादुर्भूतत्वात् । सकलमतींद्रिय- प्रत्यक्षं केवलज्ञानं सकलमोहक्षयात् सकलज्ञानदर्शनावरणवीयौतरायक्षयाच समुद्भूतत्वात् सकलवैशय सद्भावात् सकलाविषयत्वाच । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासंभद्बाधकप्रमाणत्वात् । तथा शास्त्रज्ञानेन तद्वानुभयवादिप्रसिद्धः । नचानासिद्धं साधनं सर्वातींद्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमा- गैरवाध्यमानस्य सकलदेशकालपुरुषपरिपदपेक्षयापि सिद्धत्वात् सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः। अन्यथा कस्यचिदिष्टसिद्धरसंभवात् । इति संक्षेपता विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितं विस्त- रतस्तु तत्त्वार्थालंकारे परीक्षितमिह दृष्टव्यं । संप्रति परोक्षमुच्यते--परोक्षमविशदमानात्मकं परोक्षत्वात् यन्नाविशदज्ञानात्मकं तन्न परोक्षं यथा- तींद्रियप्रत्यक्ष परोक्षं च विवादाभ्यासितं ज्ञानं तस्मादविशदज्ञानात्मकं । नचास्य परोक्षत्वमासिद्ध-अक्षेभ्यः परावृत्तत्वात् । तथोपाचानुपात्तपरमत्ययापेक्ष परोक्षमिति तत्त्वार्थवार्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः । ततोऽन्यः पुनर्बहिरंगः सहकारी प्रत्ययोऽनु- पात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते । तदपि संक्षेपतो द्वेधा मतिज्ञानं श्रुतवानं चेति आधे परोक्षं इति वचनात् । मतिश्रुतावधिमनःपर्ययकेवलानि हि ज्ञानं । तत्राये मतिश्रुते सूत्रपाठापे- क्षया लक्ष्येते तं च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपयर्यकेवलानि यथा प्रत्यक्षा- णीति । तत्रावग्रहादिधारणापर्यंत मतिज्ञानमपि देशतोवैशद्यसद्भावात्सांव्यवहारिक, इंद्रियप्रत्यक्षमतींद्रियप्र- त्यक्षं चाभिधीयमानं न विरुध्यते ततः शेपस्य मतिज्ञानस्य स्मृतिसंज्ञाचिंताभिनिवोधलक्षणस्य श्रुतस्य च परोक्षत्वन्यवस्थितेः । तदुक्तमकलंकदेवैः- प्रत्यक्ष विशदं ज्ञानं मुख्यसंव्यवहारतः । परोक्ष शेषविज्ञानं प्रमाणमिति संग्रहः ॥१॥ तत्र तदित्याकारानुभूतार्थविषया स्मृतिः आनिंद्रियप्रत्यक्षं विशदत्वात् सुखादिसंवेदनवदित्येके तद- सत् । तस्मात्तत्र वैशद्यासिद्धः पुनर्भावयतो वैशद्यप्रतीते वनाज्ञानत्वात् तस्य च भ्रांतत्वात स्वप्नज्ञा- 'नवत । पूर्वानुभूतेऽतीतऽर्थे वैशद्यासंभवान् स्मृतिः परोक्षमेव श्रुतानुमितस्मृतिवत् इत्यपरे तदित्युल्लेखस्य सर्वस्यां स्मृती सद्भायात् । सा च प्रमाणमाविसंवादकत्वात् प्रत्यक्षवत् यत्र तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाभासवत् । तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा तादृशमेवेदमित्याकार वा विज्ञानं संज्ञोच्यते । तस्या एकत्वसादृश्यविषयस्त्राविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानं तदेवेदमित्येकत्वनि- बंधनं । तादृशमेवेदति सादृश्यनिबंधनं च । ननु च तदेवेत्यतीतप्रतिमासस्य स्मरणरूपत्वात् इद- मिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत् तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् ततो नैकं ज्ञान प्रत्यभिज्ञाख्यां प्रतिपद्यमानं संभवतीति कश्चिन् सोऽपि न संवेदनविशेषविपश्चित् स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवयकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरण तथाविधद्रव्यव्यवसायात्मकं तस्यातीतविवर्तमानगोचरत्वात् । नापीदमिति संवेदनं तस्य व- समानयिवर्तमानविषयत्वात् । ताभ्यामुपजन्यं तु सकलज्ञानं तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततो- - मीमांसकाः। २ स्याद्वादिनः।
4 सनातननग्रंथमालाया- ऽन्यदेव प्रत्यभिज्ञानमेकत्वावषयं तदपत्रे ऋचिदेकान्वयाव्यवस्थानात् संतानैकत्वसिद्धिरपि न स्यात् । नत्र- तदगृहीतप्रनाणादप्रमाणमिति शंकनीयं तस्य कथंत्रिपूर्वार्थत्वात् । न हि तद्विषयभूतनेकं द्रव्यं स्मृति- प्रत्यक्षप्रा येन तन्त्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्येत तद्गृहीतातिवर्तमानविवर्ततादात्म्यात् । द्रव्यत्य कथंचिदर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विरयस्व नाप्रमाणवं लैंगिकादरम्यप्रमाणवप्रसंगात् तस्यापि सर्वथैवापूर्वार्थत्वासिद्धेः । तंबंधग्राहिविज्ञानविषयान् साध्यादितामान्यात् कथंचिदभिन्नस्यानुमेयस्य देश- कालविशिष्टस्य तद्विषयत्वात् कथंचिदपूर्वार्थत्वसिद्धेः बाधकप्रमाणान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तं तद्वा- धकत्यासंभवात् । नहि प्रत्यक्षं तबाधकं तस्य तद्विपये प्रवृत्त्यसंभवात् । साधकालबदायकवविरोधात् । यथा हि यद्यत्र विषये न प्रवर्तत न तत्तत्य साधकं वाधकं वा यथा रूपज्ञानस्य रतज्ञानं न प्रवर्तते च प्रत्यभिज्ञा- नस्य विषये प्रत्यक्षं तस्मान्न तद्बाधकी प्रत्यक्षं हि न प्रत्यभिज्ञानविषये पूर्वदृष्टश्यमानपर्यायच्यापिनि द्रव्ये प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्ध साधनं । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यात तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात् , कचिदनुमेयमाने प्रवृत्तिसिद्धेः । तस्य तहियये प्रवृत्ती वा सर्वथा वायकत्वविरोधात् । ततः प्रत्यभिज्ञानं खविषये द्रव्ये प्रमाण सकल्बाधारहितत्वान् प्रत्यक्षवन् स्मृतिबद्वा एतेन साश्यनित्रवनं प्रत्यभिज्ञान प्रमाणमावेदितं वांद्धन्यं तस्यापि स्वत्रिपये बोधाकाररहितत्वसिद्धः । यथैव हि प्रत्यक्षं स्वविषये साक्षाक्रियमाणे स्मरणं च मर्यमाणेऽर्थे बाधाविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये सादृश्ये च स्वविषये न संभवद्वाधकमिति कयमप्रमाणमनुमन्येमहि । यत्पुनः स्वविषये वाध्यमानं तत्प्रत्यभि- ज्ञानाभासं यथा प्रत्यक्षाभासं स्मरणाभास वा न च तस्याप्रमाणने सर्वया प्रमाणलं युक्तं प्रत्यक्षत्वाप्यप्रमा- णवप्रसंगात् । तस्माद्यया शुल्ले शंखे पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासेन प्रत्यक्षांतरेण वाध्यमानत्वात् अप्रमाणं न पुनः पीते कनकादौ पाताभासं प्रत्यक्षं । तथा तस्मिन्नेव स्वपुत्रादौ तासायमिति प्रत्यभिज्ञानं सादृश्यनिवंवः स एवायमित्येकवनिवंधनेन प्रत्यभिज्ञानेन वाध्यमानमप्रमाणं सिद्धं न पुनः सादृश्य एवं प्रत्र- र्तमानं स्वपुत्रादिना तादृश्येऽन्यपुत्रादौ तादृशोऽयमिति प्रत्यभिज्ञानं तस्याबाध्यत्वेन प्रमाणत्वात् । एवं लूनपु नर्जातनजनेशादिरिति सायप्रत्यवमर्शिप्रत्यभिज्ञानं तत्र तत्वावाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वा- नुभूते हि हिरण्यादौ प्रदेशविशेषविशिष्टे स्मरणं विपरीतदेशतया तत्स्मरणय वाधकामिति न तत्तत्र प्रमाणं । यथानुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यं । तत इदमभिधीयते यतो यतार्थ परिच्छिद्य प्रवर्त- मानोऽयक्रियायां न विसंवाद्यते तत्तत्प्रमाणं यया प्रत्यक्षमनुमानं वा । स्मरणात् प्रत्यभिज्ञानाच अर्थ परि- च्छिच्च प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्रमाणं स्मरणं प्रत्याभिज्ञानं चेति । तथा परोक्षमेतदवि- संवादित्वात् । अनुमानवत् । साध्यसाधनसंबंधप्राहितर्कत्रद्वा विशदस्य भावनाज्ञानत्वान् । यावान् काश्चिमः स सर्वः पावकजन्मैव अपावकजन्मा वा न भवतीति सकलदेशकालव्याप्तसाध्यसाधनसंबद्धोहापोहलक्षणो हि तर्कः प्रमाणयितव्यः तस्य कथंचिदम्पूर्वार्थत्वात् । प्रत्यक्षानुपर्लभगृहीतप्रतिनियतदेशकालसाध्यसा- धनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणसंभवत् बाधकवर्जितत्वाच । नहि तर्कस्य प्रत्यक्षं बाधकं तद्वि- पये तस्याप्रवृत्तरनुमानवत् प्रवृत्ती वा सर्वथा तद्वादकत्वविरोधात कत्रिदेव तद्बाधकोपपत्तेः । यस्य तु तद्वाधकं स तर्काभासो न प्रमाणमितीष्टं शिष्टेः स्मरणप्रत्यभिज्ञानाभासवत् । प्रत्यक्षानुमानाभासवद्वा तथा प्रमाणं तर्कत्ततोऽय परिच्छिय प्रवर्तमानस्वार्थक्रियायां विसंवादाभावात् प्रत्यक्षानुमानवदिति प्रतिपत्तव्यं । परोक्षं चेदं तर्कशानं अविसंवादकत्वात् अनुमानवत् । किं पुनरनुमानं नाम ? साधनात्साध्यविज्ञानमनुमान । तत्र साधनं साध्याविनाभाविनियमनिश्चयैकलक्षणं लक्षणांतरस्य साधनाभासेऽपि भावात् । स्वलक्ष णस्य साधनस्य साधनानुपपत्तेः पंचादिलक्षणवत् । नच सपक्ष सत्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधन- लक्षणं पश्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः। सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्वं प्रसिद्धं । विवादाध्यात्तिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्म- । विपक्षे त्रा श्यामे कचिदन्यपुत्रे तत्सुनत्तस्याभावात् विपक्षेऽसलमानं च । नत्र तावता साध्यसाधे- 4 १ प्रमाणपरीक्षा। नत्वं साधनस्य । ननु साकल्येन साध्यनिवृत्तौ साधननिवृत्तेरसंभवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावात न सम्यक् साधनमेतत् इति चत तर्हि कार्येन साध्यनिवृत्तौ साधननिवृत्तेनिश्चयएवैकं साधनलक्षणं सएवा न्यथानुपपत्तिनियमनिश्चयः स्याद्वादिभिः साधनलक्षणमभिधीयते तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधन- स्य सम्यक्त्वप्रतीतेः उदेष्यति शकट कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः । न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्ष धर्मत्वं । यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति मतं तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महा- नसधूमो महोदधावग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । अथेत्थमेतस्य साधनस्य पक्षधर्मस्व- सिद्धावपि न साध्यसाधनसामर्थ्यमविनाभाविनियमनिश्चयस्याभावादित्यभिधीयते तर्हि स एव साधनलक्ष- णमक्षणं परीक्षादक्षरुपलक्ष्यते । योप्याह शकटोदयो भाविकारणं कृत्तिकोदयस्य तदन्वयव्यतिरेकानुविधानात् सति हि स्वकाले भविष्यति शकटोदये कृत्तिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकात्ति- कोदययोः कार्यकारणभावं साधयति विनष्टवर्तमानवदेव । यथैवोदगाद्भरणिः कृत्तिकोदयादित्यत्रातीतो भर- ग्युदयः कारणं, कृत्तिकोदयस्तत्कार्य खकालेऽतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच तद- न्वयव्यतिरकानुविधानात कार्यकारणभावः । तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोयिस्य समानत्वात् । नचैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितयं विरुध्यते भिन्नदेशयोरिव भिन्नकालयो- रपि सहकारित्वविरोधात् । संहकस्य कार्यस्य कारणं हि सहकारित्वनिबंधनं नाभिन्नकालत्वमभिन्नदेशवत् । नचातीतानागती भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणं पूर्वकृत्तिकालक्षणस्यानुदयमापन्नस्य तदुपादानकारणत्वसंप्रतिपत्तेः ? इति सोऽपि न प्रातीतिकवचनः तथा प्रतीत्यभावात् । कार्यकालमप्राप्नु चतोविनष्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्य ! प्रत्यात्तिविशेषा- भावादिति चेत् तर्हि स एव प्रत्यासत्तिविशेपः कारणत्वाभिमतयोरतीतानागतयोः कारणत्वे हेतुर्वक्तव्यः । स चातीतस्य कार्य व्यापारस्तावन्न भवति सर्वथापि कार्यकाले तदसत्त्वादनागतवत् । तद्भाचे भावप्रत्यास- त्तिविशेष इत्यप्यसारं अतीतस्यानागतस्य चाभाव एव कार्यस्य भावात् भावे चाभावात् अन्यथा कार्यकार- णयारककालतापत्तेः सकलसंतानानामेकक्षणवर्तित्वप्रसंगः । नैकक्षणसंतानो नाम तस्यापरामृष्टभेद- नानाकार्यकारणलक्षणत्वात् । यदप्यभ्यधायि कारणस्यातीतस्यानागतस्य च खकाले भावे कार्यस्य भावात् अभावे चाभावात् तद भावाभावोऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेपोऽस्त्येव इति तदप्यसंगतं कारणत्वानभिमता- तीतानागततमोरपि तथा तद्भावप्रसंगात् । कार्यस्य भिन्नदेशस्य तु कारणत्वे युक्तस्तद्भावभावः कलशकुं- भकारादिवत् । कुंभकारादिपु हि भिन्नस्वदेशेषु सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् । कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्ये तद्भावभावो तत्र तस्याव्यापारात् अतीतानागतवत् । सतो हि करय चित्कचिव्यापारः श्रेयान् न पुनरसतः खरविपाणादेरिवेति युक्तं ततो भिन्नदेशस्यापि कस्यचिदेकस्य कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुनर्भिन्नकालस्य प्रतीत्यतिलंघनात् ततो न कृत्तिकोदयशकटोदययाः कार्यकारणभावः समवतिष्टते व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्ममंतरेणापि हेतोर्गमकत्वसिद्धेर्न तल्लक्षणमुत्प्रेक्ष्यते । तथा न सपक्ष एव सत्त्वं निश्चितं तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनान् । विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाविनियमनिश्चयरूपमेवेति तदेव हेतोः प्रधानलक्षणमस्तु किमत्र लक्षणांतरेण? अथ मतमेतत्पक्षधर्मत्वमसिद्धत्वमसिद्धत्वव्यवच्छेदाथै साधनस्य लक्षणं निश्चीयते । सपक्ष एव सत्त्वं विरुद्धत्वव्यवच्छेदाय। विपक्षे चासत्त्व-अनेकांतित्वव्यवच्छित्तये। तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारा- ७२ सनातनजैनग्रंथमालायां- संभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं-- हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ॥१॥ तदप्यपरीक्षिताभिधानं सौगतस्य हेतौरन्यथानुपपत्तिनियमनिश्चयादेव दोपत्रयपरिहारसिद्धः स्वयम- सिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनेकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चय- रूपत्वात् । तस्य चासिद्धव्यभिचारिण विरुद्धे च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनाभाव- नियमप्रपंचत्वात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्वान्वयव्य- तिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनामावनियमप्रपंच एव बाधितविषयस्य सत्प्र- तिपक्षितस्य चाविनाभावनियमानिश्चयात् पक्षाव्यापकानन्वयाव्यतिरेकवत । न पक्षधर्मत्वे सत्येव सा- धनस्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभा- वात् परस्य सर्वानियबसाधनवत् । नच व्यतिरेकमाने सत्यपि व्यभिचारिविवेके श्यामत्वे साध्ये- तत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचत्वे कालाकाशादीनामपि तत्प्र- पंचत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु समान तेषामपि साधारणत्राद्धेत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं- अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यबाधितविपयत्वे सत्प्रतिपक्ष चाविनाभावनियमानवलोकात् । पक्षव्यापकत्वान्ययव्यतिरेकवत् । स श्यामस्तत्पुनस्वादितरतत्पुत्रवत् इत्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावात् अबाधितविषयत्वसिद्धावपि अविना- भावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यास- त्वात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं- अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानं तस्मिन्सति त्रिलक्षणस्य पंचल- क्षणस्य प्रयोगो निवार्यते एवेति प्रयोगपारपाव्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चा- भ्यधायि कुमारनंदिभट्टारकैः- अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ १॥ इति तञ्च साधनं एकलक्षणं सामन्यादेकविधमपि विशेपतोऽतिसंक्षेपाविविधं विधिसाधनं संक्षेपाश्रिविध- मभिधीयते कार्य कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति प्रकारांतरस्यात्रैवांतर्भावात् । तत्र कार्य हेतुः, अग्निस्त्र धूमात् इति कार्यकार्यादेत्रैवांतर्गतत्वात् । कारणं हेतु:-अस्यन्त्र छाया छनात् इति कारणकारणादेरत्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन प्रतिबंधवैकल्यसंभवाव्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकत्वं वा कार्याविना- भाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विधं- व्याप्यं सहचर पूर्वचरं, उत्तरचरं चेति । तत्र व्याप्यलिंगं व्यापकस्य यथा सर्वमनेकांतात्मकं सत्त्वादिति सत्त्वं हि वस्तुलं-- - प्रमाणपरीक्षा। उत्पादव्ययधौव्ययुक्तं सत् इति वचनात् । नच तदेकांतेन सुनयविषयेण व्यभिचारि तस्य वस्त्वंशत्वात् । सहचरं लिंगं यथा- अस्ति तेजसि स्पर्शसामान्यं (1) नरूपसामान्यस्य कार्य कारणं वा नापि रूपसामान्य स्पर्शसामान्यस्य तयोः सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धः । एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य सहचरत्वं निवेदितमेकसामप्रयधीनस्यैव प्रतिपत्तव्यं समायिनः कारणत्ववत् । पूर्वचरं लिंग यथोदेष्यति शकटं कृत्तिकोदयात् इति पूर्वपूर्वचराधनेनैव संगृहीतं । उत्तरचरलिंगं यथा-उदगाद्भरणिः कृतिकोदयात् इंति, उत्तरोत्तरचरमेतेनैव संगृह्यते तदेतत्साध्यस्य विधौ साधनं षड्विधमुक्तं । प्रतिषेधे तुप्रतिषेध्यस्य विरुद्ध कार्य विरुद्ध कारणं विरुद्धाकार्यकारणं चेति । तत्र विरुद्धकालिंग-नास्त्यत्र शीतस्पर्टी धूमात् इति शीत स्पर्शेन हि विरुद्धोवन्हिः तस्य कार्य धूम इति विरुद्धकारणं । नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति विरुद्धं यसत्येन सत्यं तस्य कारणं सम्यग्ज्ञान यथार्थज्ञानं रागद्वेषरहितं तस्कृतश्वित्सुक्ताभिधानादेः प्रसिद्धयत् सत्यं साधयति । तच सिद्धयदसत्यं प्रतिषेधयति इति । विरुद्धाकार्यकारणं चतुर्विध-विरुद्धच्याप्यं विरुद्धसह. चरं विरुद्धपूर्वचरं विरुद्धोत्तरचरं चेति तत्र विरुद्धव्याप्यं नास्त्यत्र शीतस्पर्शः, औष्ण्यात् । औष्ण्यं हि व्याप्यमग्नेः स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येनेति । विरुद्धसहचरं नास्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धं तत्सहचरं सम्यग्दर्शनमिति । विरुद्धपूर्वचरं नोदेष्यति मुहूर्तीते शंकटं रेवत्युदयात्। शकटोदयविरुद्धो ह्यश्वन्युदयः तत्पूर्वचरो रेवत्युदयः। विरुद्धोत्तरचरं-मुहूर्तात् प्राङ्गोदगाद्भरागः पुष्पोदयादिति । भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्पोदय इति । तान्येतानि साक्षात्प्रतिषेध्य- विरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनानि षडभिहितानि। परंपरया तु कारणविरुद्धकार्य व्याप- फविरुद्धकार्य कारणव्यापकविरुद्धकार्य व्यापककारणविरुद्धकार्य कारणविरुद्धकारणं व्यापकविरुद्धकारणं कार- गन्यापकविरुद्धकारणं व्यापककारणविरुद्धकारणं चेति तथा कारणविरुद्धच्याप्यादीनि कारणविरुद्धचहचरा- दीनि च यथाप्रतीति वक्तव्यानि । तत्र कारणविरुद्धकार्य-नास्त्यस्य हिमजनितरोमहर्षादिविशेपो धूमात् इति प्रतिपेध्यस्य हि रोमहर्षादिविशेपस्य कारणं हिमं तद्विरुद्धोऽग्निः तत्कायै धूम इति । व्यापकविरुद्धकार्य नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पर्शविशेषो धूमात् इति शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापकं शी- तसामान्यं तद्विरुद्धोऽग्निः तस्य कार्य धूम इति । कारणव्यापकविरुद्धकार्य नास्यत्र हिमत्वव्याप्तहिमविशे- बजनितरोमहर्षादिविशेषो धूमात् इति रोमहर्षादिविशेषस्य हि कारण हिमविशेषस्तस्य व्यापक हिमत्वं तद्विरुद्धोग्निः तत्कायें धूम इति । व्यापककारणविरुद्धकार्य-नास्त्यत्र शीतस्पर्शविशेषस्तव्यापकशीतस्प- र्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति शीतस्पर्शविशेषस्य हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिम तद्विरुद्धोग्निस्तत्कार्य धूम इति । कारणाविरुद्धकारणं नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणात् मि- ध्याचरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्वार्थोपदेशमहणं । तत्त्वार्थों- पदेशश्रवणे सत्यपि कस्य चित्तत्त्वज्ञानासंभवाद् प्रहणयचनं । तत्त्वार्थानां श्रद्धानपूर्वकं-अवधारणं हि प्रहणमिष्टं, अन्यथास्य प्रहणाभासत्वात् । मिथ्याचरणस्य पात्र नास्तिता साध्यते न पुनरनाचरणस्य तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टश्चारित्रासंभवात्-~अनाचारस्य प्रसिद्धेः । न तु मि- ध्याचरणमप्यस्य संभवति तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति । तथा व्यापकविरुद्धकारणं लिंग-नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणात् इति आत्मनि मिथ्याज्ञानविशेषस्य व्यापकं मिध्या- ज्ञानमात्रं तद्विवद्धं सत्यज्ञानं तस्य कारण तत्त्वार्थोपदेशग्रहणं यथार्थोपवर्णितमिति । कारणव्यापकविरुद्ध- कारणं-नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणादिति अत्र मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः तस्प व्यापकं मिथ्याज्ञानमात्रं तद्विरद्धं तत्त्वज्ञान, तस्य कारणं तत्वार्थोपदेशग्रहणमिति प्रत्येयं । व्यापककारणविरुद्धकारणं लिगं नास्त्यस्य मिथ्याचरणविशेपस्तत्त्वार्थोपदेशग्रहणादिति मिथ्याचरण विशे- पस्य हि व्यापक मिथ्याचरणसामान्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं तत्वज्ञानं तस्य कारणं तत्त्वार्थोपदे- (?) रूपसामान्यात् । स्पर्शसामान्य हि-इति शोधितं । 4 । सनातनजैनग्रंथमालायां- शग्रहणमिति तथा कारणविरुद्धव्याप्पं लिंगं न संति सर्वथैकांतवादिनः प्रशमसंवेगानुकंपास्तिक्यानि वैपर्यासिकमिध्यादर्शनविशेषात् । प्रशमादीनां हि कारणे सम्यग्दर्शनं तद्विरुद्धं मिध्यादर्शनसामान्य तेन व्याप्यं मिध्यादर्शनं वैपर्यासिकविशिष्टमिति । व्यापकविरुद्धच्याप्यं-न संति स्याद्वादिनो वैपर्यासिकादिमि- ध्यादर्शनविशेषाः सत्यज्ञानविशेषात् इति वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिध्यादर्शनसा- मान्यं तद्विद्ध तत्त्वज्ञानसामान्यं तस्य व्याप्यतत्त्वज्ञानविशेष इति । कारणच्यापकविरुद्धन्याप्यन संत्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति, प्रशनादीनां हि कारण सन्यग्दर्शनविशेषः तस्य व्यापकं सम्य- ग्दर्शनसामान्यं तद्विरुद्धं मिध्याज्ञानसामान्यं तेन व्याप्तो मिथ्याज्ञानविशेष इति । व्यापककारणविरुद्ध व्याप्य लिंगं न संत्यस्य तत्त्वज्ञानविशेपाः मिथ्यार्थोपदेशग्रहणविशेषात् । तत्त्वज्ञानविशेषाणां व्यापक तत्वज्ञानसामान्यं तस्य कारणं तत्त्वार्थोपदेशमहणं तद्विरुद्धं मिध्यार्थोपदेशग्रहणसामान्यं तेन ज्याप्तो मिथ्यार्थोपदेशग्रहणविशेष इति । एवं कारणविरुद्धसहचरं लिंग-न संत्यस्य प्रशमादीनि सिध्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिध्याज्ञानमिति । व्यापकविरुद्ध- सहचरं-न सत्यस्य मिथ्यादर्शनविशेपाः सम्यग्ज्ञानादिति मिध्यादर्शनविशेषाणां हि व्यापकं मिध्यादर्श- नसामान्यं तद्विरुद्ध तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरं- न संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्य- ग्दर्शनसामान्यं तद्विरुद्ध मिथ्यादर्शनं तत्सहबरं मिव्याज्ञानमिति । व्यापककारणविरुद्धसहचरं न सत्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति मिध्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारण दर्शनमोहोदयस्तद्विरद्धं सम्यग्दर्शनं तत्तहचरं सम्यग्ज्ञानमिति । तदेत्तामान्यतो विरोधिलिंग, प्रपंचतो द्वाविंशतिप्रकारमपि भूतमभूतस्य गमक्रमन्यथानुपपन्नावनियमनिश्चयलक्षणत्वात् प्रतिपत्तव्यं । भूतं भूतस्य प्रयोजकं कार्यादि षट्प्रकार पूर्वमुक्तं । तदित्यं विधिमुखेन विधायक-प्रतिषेधमुखेन प्रतिषेधकं च लिंगम- भिधाय सांप्रतं प्रतिषेधसुखेन विधायक प्रतिषेधकं च साधनमभिधीयते तत्राभूतं भूतस्य विधायकं यथा- अस्त्यस्य प्राणिनो व्याधिविशेषो निरामयचेष्टानुपलब्धैरिति । तथा--अस्ति सर्वथैकांतवादिनामज्ञानादि- Aषः युक्तिशास्त्राविरुद्धवचनाभावात् इति अस्त्यस्य मुनेरातत्वं विसंवादकत्वाभावात् । अभूदेतस्य ताल- फलस्य पतनकर्म तसंयोगाभावात् इति वहुधा दृष्टव्यं । तथैवाभूतमभूतस्यं प्रतिषेधस्य प्रतिषेधकं यथा- नास्यत्र शवशरीरे धुद्धिापारल्याहाराकारविशेषानुपलब्धेरित कार्यानुपलब्धिः। न संत्यस्य प्रशमादीनि तत्त्वार्थश्रद्धानानुपलब्धेरिति कारणानुपलब्धिः । नास्यत्र शिंशपा वृक्षानुपलब्धेरिति व्यापकानुपलब्धिः । नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनाभावात् इति सहचरानुपलब्धिः । न भविष्यति मुहूताते शकटोदयः कत्ति- कोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्तानास्कृत्तिकोदयानुपलब्धेरिति उत्तरचरानुप- लब्धिः । एवं परंपरया कारणाचनुपलब्धिः व्यापकन्यापकानुपलन्ध्यादिकमपि बहुधा प्रतिषेधद्वारेण प्रतिषेधसाधनमवधारणीय। अन्न संग्रहश्लोकाः- स्यात्कार्य कारणव्याप्यं प्राक् सहोत्तरचारि च लिंग तलक्षणव्याप्तभूतं भूतस्य साधकं ॥ १ ॥ घोब विरुद्धकार्यादि साक्षादेवोपर्णितं लिंग भूतमभूतस्य लिंगलक्षणयोगतः ॥२॥ पारंपर्याच कार्य स्यात् कारणं व्याप्यमेव च सहचारि च निर्दिष्टं प्रत्येकं तचतुर्विधं ॥३॥ कारणाविष्टकार्यादिभेदेनोदाहृतं पुरा. यथा षोडशभेदं स्यात् द्वाविंशतिविधं ततः ॥ लिग समुदितं ज्ञेयमन्यथानुपपत्तिमत्. :
प्रमाणपरीक्षा। ७५ तथा भूतमभूतस्याप्यूह्यमन्यदपीदृशं ॥ ५॥ अभूतं भूतमुनीतं भूतस्यानेकधा बुधैः तथा ऽभूतमभूतस्य यथायोग्यमुदाहरेत् ॥६॥ बहुधाप्येवमाख्यातं संक्षेपण चतुर्विधं अतिसंक्षेपतो द्वेधोपलंभानुपलभभृत् ॥ ७॥ एतेन कार्यस्वभावानुपलभविकल्पात् त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः सहचरादेलिंगांतरत्वात् प्रत्यक्षपूर्वक त्रिविधमनुमान-पूर्ववच्छषवरसामान्यतोदृष्टमित्यपि। यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववरसामान्य- तोदृष्ट केवलव्यतिरोकि पूर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेकि व्याख्यायते त्रिसूत्रीकरणादस्य सूत्रस्य तदान किंचिद्विरुद्धं निगदितालिंगप्रकारेषु त्रिविधस्यापि संभवात् । यथोपपत्तिनियमात्केवलान्वयिनो गमकत्वाविरोधात्। तत्र वैधर्म्यदृष्टांताभावेऽपि साध्याविनाभावनियमनिश्चयात् । अथ पूर्ववत्कारणात्कार्यानुमानं शेपवत् कार्या- त्कारणानुमान सामान्यतो दृष्ट । अकार्यकारणादकार्यकारणानुमानं सामान्यतोऽविनाभावमात्रादिति व्याख्यायते तदापि स्याद्वादिनामभिमतमेव तथा सर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात् । यदापि पूर्ववत्पूर्वलिंग- लिंगिसंबंधस्य कचिनिश्चयादन्यत्र पूर्ववद्वर्तमानं शेषवत्परिशेषानुमान प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तेः । सामान्यतो दृष्टं विशिष्टव्यक्तौ संबंधाग्रहणात्सामान्येन दृष्टं यथा-गतिमानादित्यः देशादेशांतरप्राप्तः देवद. तवदिति व्याख्या विधीयते तदापि स्याद्वादिनां नानवधेयं प्रतिपादितहेतुप्रपंचस्यैव विशेषप्रकाशनात् । सर्वं हि लिंगं पूर्ववदेव परिशेषानुमानस्यापि पूर्ववत्त्वासिद्धेः, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य पूर्व कचिनिश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ साधनस्य प्रयोगात् । सामान्यतोदृष्टस्य च पूर्ववत्व- प्रतीतेः कचिद्देशांतरप्राप्तः । गतिमत्यविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेरन्यथा तदनुमानाप्रवृत्तेः । परिशेषानुमानमेव वा सर्व संप्रतीयते पूर्ववतोऽपि धूमात्पावकानुमानस्य प्रसक्तौ पावकप्रतिषेधात् प्रवृत्तिघटनात् । तदप्रतिपत्तौ विवादानुपपत्तेरनुमानवैयर्थ्यात तथा सामान्यतोदृष्टस्यापि देशांतरप्राप्तरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तरिति । सकलं सामान्यतोदृष्टमेव वा सर्वत्र सामान्यनैव लिंगलिंगि संबंधप्रतिपत्तेर्विशेषतस्तत्संबंधस्य प्रतिपत्तुमशक्तः । केन चिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव प्रकारांतरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिश्चय एव हेतोः प्रयोजकत्वनिमित्तं तस्मिन् सति हेतुप्रकारभेदपरिकल्पनायाः प्रतिपत्तुरभिप्रायवैचित्र्यात् । वैचित्र्यं नान्यथेति सुनिश्चितं नश्चेतसि तथा प्रतीतरबाध्यमानत्वात् । यदापि-अवीतंवीतं वीतावीतमिति लिंग त्रिविधमनुमन्यते तदापि नान्यथानुपपन्नत्वं नियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुप्रपंचबीहभूतं समयांतरभाषया केवलान्वय्यादि त्रयस्यैव तथाविधानात् । कचित्साध्यसाधनधर्मयोः साहचर्यमविनाभावनियमलक्षणमुपलभ्यान्यत्र साधनधर्म- दर्शनात् । साध्यधर्मप्रतिपत्तिरावीतमुच्यते यथा गुणागुणिनौ परस्परं भिन्नौ भिन्न प्रत्ययविषयत्वात् घटपटव- दीति तच्च केवलान्वयीप्यते कथचिद्भदएव साध्ये ऽन्यथानुपपन्नत्वीसद्धेः सर्वथा भेदे गुणगुणिभावविरोधात गमकत्वासिद्धेः। तथा कचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्ति नियमवतीमुपलभ्यान्यत्र तद्धर्मस्य निश्चयात् साध्यसिद्धितिं कथ्यते यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इति तदिदं केवल व्यतिरेकीष्टं परिणामिनात्मना सात्मकत्वव्यावृत्तौ भस्मनि प्राणादिमत्त्वव्यावृत्तिनियमानश्चयात् निरन्वय क्षणिकचित्तवत् कूटस्थेनात्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् । वीतावीतं तु तदुभयलक्षणयोगादन्व- यव्यतिकि धूमादेः पावकाधनुमान प्रसिद्धमेवेति न हेत्वंतरमस्ति ततः सूक्तं- अन्यथानुपपत्तिनियमनिश्चय- लक्षणं साधनं अतिसंक्षेपविस्तरतोऽभिहितस्य सकलसाधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्सा- धनात् साध्ये साधयितुं शक्ये, अभिप्रेते वचिदप्रसिद्ध च विज्ञानमनुमानमिति । साधयितुमशक्ये सर्वथैकांते साधनस्याप्रवृत्तेः तत्र तस्य विरुद्धत्वात् स्वयमनभिप्रेते चातिप्रसंगात् प्रसिद्ध च वैयर्थ्यात् तस्य साध्याभासत्त्व प्रसिद्धेः प्रत्यक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयांत् । लिंगमिति पाठांतरं।
७१ सनातनजैनग्रंथमाला- तदुक्तं-अकलंकदेवैः साध्यं शक्यमभिप्रेतमप्रसिद्ध ततोऽपरं साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥१॥ तदेत्साधनात् साध्यविज्ञानमनुमानं स्वार्थमभिनिबोधलक्षणं विशिष्टमतिज्ञानं साध्ये प्रत्यभिमुखानित्थमि- तात्साधनादुपजातबोधस्य तर्कफलस्याभिनिवोध इति संज्ञाप्रतिपादनात् । परार्थमनुमानमनक्षरश्रुतज्ञान- अक्षरभुतज्ञानं च तस्य श्रोत्रमतिपूर्वकस्य च तथात्वोपपत्तेः । शब्दात्मकं तु परार्थानुमानमयुक्तं शब्दस्य प्रत्यवमर्शिनोऽपि सर्वस्य द्रव्यागमरूपत्वप्रतीतेः कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थ न भवेत् सर्वथा विशेषाभावात् प्रतिपादकप्रतिपाद्यजनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धरुपचारादनुमानपरामर्शिनो वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथातिप्रसंगादिति बोद्धव्यं । तदेत्परोक्षं प्रमाणमविशदत्वात् श्रुतज्ञानवत् । किं पुनः श्रुतज्ञानमित्येतदमिधीयते-श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमविशेषांतरंगे कारणे सति बहिरंगे मतिज्ञाने च, अनिंद्रियविषयालंवन, अविशदं ज्ञानं श्रुतज्ञान । केवलज्ञानं तीर्थकरत्वनामपुण्याति- शयोदयनिमित्तकभगवतीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंगृहीतं स्यादिति न.शंकनीयं तस्यापि श्रोत्रमतिपूर्वकत्वात् । प्रसिद्धमतिश्रुतावधिमनःपर्ययज्ञानानि वचनजनितप्रतिपाद्यजनवचनश्रुतज्ञा- नवत् । समुद्रघोषजलधरस्वनश्रुतिजनिततदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा ततो निरवयं श्रुतज्ञानलक्षणं- अव्याप्यतिव्याप्त्यसंभवदोषरहितत्वात् । अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणमविसंवादकत्वात् प्रत्यक्षानुमानवत् । नचासिद्धमविसंवादकत्वमस्यति शंकितव्यं ततोऽर्थे परिच्छिद्य प्रवर्तमानस्य विसंवादा- भावात् सर्वदाऽयक्रियायां संवादप्रसिद्धेः प्रत्यक्षादिवत् । ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादथै प्रतिपय वर्तमानस्यार्थक्रियायामविसंवादकस्य कचिदभावात् न प्रामाण्यं सर्वत्रानाशासादिति चेत् ? न प्रत्यक्षादेरपि शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रर्वत मानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात् । सर्वत्र प्रत्यक्षेऽनाश्वासादप्रामाण्यप्रसंगात् । प्रत्यक्षाभासे विसंवाददर्शनान प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत् तर्हि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धः सत्यश्रुतज्ञाने कथम- नाश्वासः? नचसत्यं श्रुतज्ञानमसिद्धं तस्य लोके प्रसिद्धत्वात् सुयुक्तिकसद्भावाञ्च तथाहि श्रोत्रमतिपूर्वकं श्रुतज्ञानं प्रकृतं सत्यमेव अदुष्टकारणजन्यत्वात् प्रत्यक्षादिवत । तद्विविधं सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चोभ- यमदुष्टकारणजन्यं गुणवद्वक्तृकशब्दजनितत्वात् । ननु च नद्यास्तीरे मोदकरीशयः संतीति प्रहसनेन गुणवद्वत्तकशब्दादुपजनितस्यापि श्रुतज्ञानस्यास- सत्वसिद्धर्व्यभिचारिगुणवद्वक्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये ततो न तत्तद्गमकमिति न मंतव्यं प्रहसनपरस्य वक्तुणवत्त्वासिद्धेः प्रहसनस्यैव दोषत्वादज्ञानादिवत् । कथं पुनर्विवादापन्नस्य श्रोत्रमतिपूर्वक श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्वं सिद्धं ? इति चेत् सुनिश्चितासंभवद्वाधकत्वादिति भाषामहे । प्रत्यक्षे छथें प्रत्यक्षस्यानुमेयेऽनुमानस्यात्यंतपरोक्षे चागमस्य वाधकस्यासंभवात् असंभवद्वाधकत्वं तस्य सिद्ध । देशकालपुरुषांतरापेक्षयापि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमीप साधनस्येति नासिद्धताशंकावतरति । नाप्येनैकांतिकता विपक्षे कचिदसंभवात् । न विरुद्धता सुनिश्चितासंभदाधकस्य श्रुतज्ञानस्य अगुणवद्वक्तृक शब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासंभाव्यमानत्वात् । तथा व्याइतत्वाञ्च । कथंचिदपौरुषेयशब्दजनित श्रुतज्ञानस्य तु गुणवद्वक्तृकशब्दजनितत्वेनादुष्टकारणजन्यत्वं सिद्धयेत् । ततश्च सत्यत्वमिति स्याद्वादिनां सर्वमनवयं पर्यायार्थिकनयप्राधान्यात् द्रव्यार्थिकनयगुणभावाच्च श्रुतज्ञानस्य गुणवद्वत्तृकशब्दजनितत्व- सिद्धः द्रव्यार्थंकप्राधान्यात्पर्यायार्थिकगुणभावाच गुणवव्याख्यातृकशब्दजनितत्वोपपत्तश्च । नच सर्वथा पौरुषेयःशब्दोऽपौरुषेयो वा प्रमाणतः सिद्धयते । ननु च विवादापन्नः शब्दः पौरुषेय एव प्रयत्नानंतरीयकत्वात् पटादिवदित्यनुमानात् आगमस्य द्वाद- शांगस्यांगबाह्यस्य चानकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवदिति कश्चित सोऽप्येवं पृष्टः सन्नाचष्टां-कि ७७ - प्रमाणपरीक्षा। सर्वथा प्रयत्नांनतरीयत्वहेतुः कथंचिद्वासर्वथा चेत् ? अप्रसिद्धः स्याद्वादिनो द्रव्यार्थादिप्रयत्नानंतरीयकत्वादा- गमस्य । कचिच्चेविरुद्धः कथंचिदपौरुषयत्वसाधनात् । प्रयत्नानंतरीयकत्वं हि प्रवचनस्याचारकपुरुष- प्रयत्नानंतरोपलंभात् स्यात् उत्पादकपुरुषप्रयत्नांनतरोपलंभाद्वा ! प्रथमकल्पनायामुच्चारकपुरुषापेक्षया पौरु- षेयत्वमेव तस्य संप्रति पुराणपुरुषोत्पादितकाव्यप्रबंधस्येव प्रसक्त। न पुनरुत्पादकपुरुषापेक्षया प्रवचनस्याना- दिनिधनस्योत्पादकपुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत् ! वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्यो- त्पादकः स स्यात् ? न तावद्वात्मनस्तद्वर्णानां प्रागपि भावात् तत्सदृशानां पूर्व भावो न पुनस्तेषां घटादी- नामिवेति चेत् कथमिदानीमनुवादकस्तेषामुत्पादको न स्यात् ! तदनुवादात् प्रागपि तत्सदृशानामेव सद्भावात् तेषामनूद्यमानानां तदैव सद्भावात् । तथाच न कश्चिदुत्पादको वर्णानां सर्वस्योत्पादकत्वसिद्धेः । यथैव हि कुभादीनां कुंभकारादिरुत्पादक एव न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः पूर्वोपलब्धवर्णानां सांप्रतिकवर्णानां च सादृश्यादेकत्वोपचारात्पश्चाद्वादकोऽनुवादक एव । असावाह वर्णाना- हमिति स्वातंत्र्यपरिहरणात्पारतंत्र्यानुसरणादिति चेत् तर्हि यथा वर्णानां पठितानुवादकः तथा पाठयितापि तस्यापि स्वातंत्र्याभावात् सर्वस्य स्खोपाध्यायपरतंत्रत्वात् तत एवं वक्तव्यं- नेह वर्णानरः कश्चित् स्वातंत्र्येण प्रपद्यते यथैवास्मै परैरुक्तास्तथैवैतान्विवक्ष्यते ॥१॥ परेप्येवं विवक्ष्यति तस्मादेषामनादिता प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ॥२॥ तथा च सर्वज्ञोप्यनुवादक एवं पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्ठिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् । तस्य पूर्वसर्वज्ञोदितवर्णानुपलंभे पुनरसर्वज्ञत्वप्रसाक्तिः । तदेवमनादिसर्वज्ञसंततिमिच्छतां न कश्चित्सर्वज्ञो वर्णानामुत्पादकस्तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तं प्रव- चनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामवोत्तरोत्तरसर्वज्ञेनानुवादात् सर्वदांगप्रविष्टांगबाह्यश्रुतस्य शन्दा- स्मनो द्वादशविकल्पानेकविकल्पस्यान्याशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादकायोगात् । स्यान्मतं--महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादकः प्रथमं सृष्टिकाले जगतामिवोपपन्नस्तस्य सर्वदा स्वतंत्रत्वात् सर्वज्ञांतरपरतंत्रतापायात् तदनुवादकत्वायोगादिति तदप्यसत्यं तस्यानादेरेकस्येश्वरस्या तपरीक्षायां प्रतिक्षितत्वात, परीक्षाक्षमत्वाभावात् कपिलादिवत् । संभवे वा सदैवैश्वरः सर्वज्ञो ब्राह्मण मानेन वर्षाशतांते वर्षशतांत जगतां सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तर- स्मिन्नुत्तरस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न भवेत् । न ह्येकः कविः खकृतकाव्यस्य पुनः पुनर्वक्तानुवादको न स्यात् इति वक्तुं युक्तं , शब्दार्थयो। पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासंभवे पुनरुक्तस्यैव सिद्धः ततः कस्य- चिस्वयं कृतं काव्यं पुनः पुनर्वदतोऽनुवादकत्वे महेश्वरः सर्वदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरो- स्तरस्यानुवादरूपत्वात् । नच पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्वरः करोति इति घटते तेषां कुतश्चित्प्रमाणादप्रसिद्धः प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात् । अथाशक्तरुतप्रयो- जनाभावादिति ? न तावदज्ञानात् सर्वज्ञत्वविरोधात् तस्य सर्वप्रकारवर्णपदवाक्यवेदित्यसिद्धेः भन्यथानी- श्वरत्वप्रसंगात् । नाप्यशक्तेः-ईश्वरस्यानंतशक्तित्ववचनात् । यदि ह्येकदा कानि चिदेव वर्णादीनि प्रणेतुमीश्व- रस्य शक्तिर्नान्यानि तदा कथमनंतशक्तिः स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतीति चेत् न सक- लवाचकप्रकाशनस्यैव प्रयोजनत्वात् सकळवाच्यार्थप्रकाशनवत् । सकलजगत्कारणवता प्रतिपाद्यजनांनु- रोधात् केषां चिदेव वर्णादीनां प्रणयने जगदुपभोक्तूप्राण्यनुरोधात् केषांचिदेव जगत्कार्याणां करणं स्या- गौतमीयं संत्रं । ।" .
सनातनजैनग्रंथमाला- न सर्वेषां । तथा चेश्वरकृतैः कार्यैः कार्यत्वादिति हेतुर्व्यभिचारित्रान्न सर्वकार्याणामीश्वरनिमित्तत्रं साधयेत् । नच सकलप्रकारवर्णादिवाचकप्रपंचं जिज्ञासमानः कश्चित्प्रतिपाद्य एव न संभवतीति वक्तुं युक्तं सर्वज्ञवचन स्याप्रतिग्राहकत्वप्रसंगात् । तत्संभवे च सर्गे सगै सकलवर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यात् न पुन- रुत्पादकः सर्वदैवेति सिद्धं ततोऽनेक एव सर्वज्ञोऽस्तु किमेकेश्वरस्य कल्पनया यथा चैको नवमिति वदति तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात् वस्तुव्यवस्थानासंभवस्तथैकस्यापीश्वरस्यानेकसर्ग कालप्रवृत्तावनेकोपदेशाभ्यनुज्ञानात् । तत्र पूर्वस्मिन् सर्गे नवामित्युपदेशीश्वरेण तदेवोत्तरस्मिन् सर्गे पुराण- मित्युपदिश्यते न पुनरेकदैव नवं पुराणं चैकमिति व्याघातासंभवे कथमनेकस्यापि सर्वज्ञस्य कालभेदेन नव- मिति पुराणमित्युपदेशतस्तत्त्ववचनव्याघातः ? इत्यलमनायेकेश्वरकल्पनया तत्साधनोपायासंभवात् । सोपायसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्धः निरतकालोच्छन्नस्य परमागमस्य प्रबंधेनाभिव्यंजकोऽनु- वादक इति प्रयत्नानंतरममिव्यक्तेः कथं चित्प्रयत्नानंतरीयकत्वं कथंचित्पौरुषेयत्वं साधयेत्-तथाहि- परमागमसंतानमनादिनिधनक्रमं नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥ यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् तथान्योऽपि तमेवं चानादिः सर्वज्ञसंततिः ॥२॥ सिद्धा तत्प्रोक्तशब्दोत्थं श्रुतज्ञानमशेषतः प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ।। ३ ॥ ततो बाह्यं पुनर्बेधा पौरुषेयपदक्रमात् जातमा दनापीच्च समासव्यासतोन्वितात् ॥ ४ ॥ तत्रार्षमृषिभिः प्रोक्ताददुष्टैर्वचनक्रमात् समुद्भूतं श्रुतज्ञानं प्रमाणं वाधकात्ययात् ॥ ५॥ अनापं तु द्विधोद्दिष्टं समयांतरसंगतं लौकिकं चेति तन्मिध्या प्रवादिवचनोद्भवं ॥ ६ ॥ दुष्टकारणजन्यत्वादप्रमाणं कथं च न सम्यग्दृष्टेस्तदेतत्स्यात् प्रमाण सुनयार्पणात् ॥ ७ ॥ नन्वदुष्टकारणजन्यत्वेन श्रूतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानस्य प्रामाण्यं स्यात् पुरुषदोपरहिता- याचोदनायाः सर्वथाप्यपौरुषेयजनितत्वात् । तदुक्तं- चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिंगाप्तोक्त्यक्षबुद्धिवन् ॥ १॥ तदेतदुक्तं- गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनाभिप्रेतत्वात् लिंगाप्तोक्त्यक्षबुद्धिषु तथैव तस्य प्रति- पत्तेः । न हि लिंगस्यापौरुषेयत्वमदुष्टं साध्याविनाभावनियमनिश्चयाख्येन गुणेन गुणवत्त्वस्यादुष्टत्वस्य प्रती- तेः । तथाप्रोक्तरविसंवादकत्वगुणेन गुणवत्त्वस्य तथाक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति । ननु चादुष्टत्वं दोषरहितत्वं कारणस्य तञ्च कचिदोषविरुद्धस्य गुणस्य सद्भावात् । तथा मन्वादिस्म- तिवचने क्वचिदोषकारणभावात् । यथा चोदनायां तदुक्तं- शब्ढ़े दोषोद्भवस्तावद्वक्त्रधीनमिति स्थितं तदभावः क्वचित्तावद्गुणवद्वक्तृकत्वतः ।। १ ।। तद्गुणैरपकृष्टानां शब्दे संक्रांत्यसंभवात् यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ।। २ ।। तदप्यसारं सर्वत्र गुणाभावस्यैव दोषवत्त्वात् , गुणसद्धावस्यैव चादोषप्रतीतेरभावस्य भावांतरस्वभाव- खासेद्धेः, अन्यथाप्रमाणविषयत्वविरोधात्। गुणवद्वक्तृकत्वस्य हि दोषरहितस्य वक्तृकत्वस्य संप्रत्ययः कथम- न्यथा गुणदोषयोः सहानवस्थानं युज्येत ? रागद्वेषमोहादिवतुर्दोषावितथाभिधानहेतवः । तद्विरुद्धाश्च वैरा- ज्यक्षमातत्त्वावबोधास्तदभावात्मकाः सत्याभिधानहेतवो गुणा इति परीक्षकजनमनसि वर्तते नच मन्वादयः स्मृतिशास्त्राणां प्रणेतारो गुणवंतस्तेषां तादृशगुणाभावात् । निर्दोषवेदपराधीनवचनत्वात्तेषां गुणवत्त्वमित्य- प्यसंभावनीयं वेदस्य गुणवत्वासिद्धेः पुरुषस्य गुणाश्रयस्याभावात् । यथैव हि दोषवान् वेदान्निवर्तमानो - प्रमाणपरीक्षा। ७९ निर्दोषतामस्य साधयेत् तथासौ गुणवानपि-अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव गुणस्तदानादिम्लेच्छन्यवहारस्यापि गुणवत्वं-अपौरुषेयत्वाविशेषात् । तदेवं- नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा तद्व्याख्यातुः प्रवक्तर्वा म्लेक्षादिव्यवहारवत् ॥ १ ॥ तया यजनितं ज्ञानं तन्नादुष्टनिमित्त सिद्धं येन प्रमाणं स्यात् परमागमबोधवत् ॥ २ ॥ चेदस्य पोरुपेयस्योच्छिन्नस्य चिरकालतः सर्वज्ञेन विना कश्चिन्नोद्धतीतींद्रियार्थदृक् ॥ ३ ॥ स्थाद्वादिना तु सर्वज्ञसंतानः स्यात्प्रकाशकः परमागमसतानस्योच्छिन्नस्य कथंचन ॥४॥ सर्वभाषाकुभापाश्च तद्वत्सर्थिवेदिभिः प्रकाश्यते ध्वनिस्तेषां सर्वभाषास्वभावकः ॥५॥ तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा अदुष्टकारणोद्भुतेः प्रत्यक्षवदिति स्थितं ततः सूक्तं प्रत्यक्षं परोक्षं चति द्वे एव प्रमाणे प्रमाणांतराणां सकलानामप्यत्र संग्रहात् इति संख्या- विप्रतिपत्तिनिराकरणमनवा स्वरूपविप्रतिपत्तिनिराकरणवत् । विषयविप्रतिपत्तिनिराकरणार्थं पुनारदमभिधीयते-द्रव्यपर्यायात्मकः प्रमाणविषयः प्रमाणविषयत्वान्य- थानुपपत्तेः प्रत्यक्षविषयेण स्वलक्षणेन, अनुमानादिविपयेण च सामान्येन हेतोर्व्यभिचार इति न मंतव्यं तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः स्वलक्षणं पर्यायमानं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामा- न्यद्रव्यमानं विशेषमात्रमिव प्रतिपद्यमहि सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यंतरस्योपलब्धेः प्रवर्तमानस्य च तत्प्राप्तः अन्यथार्थक्रियानुपपत्तेः । न हि स्वलक्षणमक्रियासमर्थ क्रमयोगपद्यविरोधात् सामान्यवत् । नच तत्र क्रमयोगपद्ये संभवतः परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्त्रात् सर्व- थाप्यपरिणामिनः क्षणिकस्य नित्यस्य च तद्विरोधसिद्धेः प्रसिद्धे च सामान्यविशपात्मनि वस्तुनि तदंशमात्रे विशेपे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम प्रमाणस्य यथावस्थितवस्तुग्रहणलक्षणत्वात् तदेकदेशमा- हिणः सापेक्षस्य सुनयत्वान्निरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकांतः साधनस्य स्यात् । तत्र प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतःसिद्धो द्रव्यपर्यायात्मार्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः । फलविप्रतिपत्तिनिवृत्यर्थं प्रतिपाद्यते-प्रमाणात्फलं कथंचिद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । हानापादोनोपेक्षाबुद्धिरूपेण प्रमाणफलेनानेकांत इति न शंकनीयं तस्याप्येकप्रमात्रात्मना प्रमाणादभेद- सिद्धेः प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा संतानांतरवत्प्रमाणफलभावविरोधात् । साक्षा- दज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानं तस्यापि कथंचित्प्र- माणाद्भेदप्रसिद्धः प्रमाणफलयोनिरुक्तिसाधनविरोधात् । करणसाधनं हि प्रमाणं स्वार्थनिर्णीतौ साधकतम- त्वात् । स्वार्थनिर्णीतिरज्ञाननिवृत्तिः फलं भावसाधनं तत्साध्यत्वात् । एतेन कर्तृसाधनात् प्रमाणात्कथंचि- द्भदः प्रतिपादितः तस्य स्वार्थनिर्णीतौ स्वतंत्रत्वात् । स्वतंत्रस्य च कर्तृत्वात् स्वार्थनिर्णीतस्तु अज्ञाननिवृत्ति- स्वभावायाः क्रियात्वात् । नच क्रियाक्रियावतोऽर्थातरमेवानीतरमेव वा क्रियाक्रियावद्भावविरोधात् । भाव- साधनात्प्रमाणादज्ञाननिवृत्तिरभिमैवेति,अयुक्तं प्रमातुरुदासीनावस्थायामव्याप्रियमाणस्य प्रमाणशक्तीवसाधन प्रमाणस्य व्यवस्थापितत्वात् तस्याज्ञाननिवृत्तिफलत्वासंभवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणम- ज्ञाननितिं साधयेत् नान्यथा मतिप्रसंगात् । ततः सूक्तं- .
सनातनजैनग्रंथमालायर्या- प्रमाणात्कयचिद्भिन्नाभिन्नं फलमिति ततस्तस्य सर्वथा भेदे वाधकवचनात् । अभेदवत्संवृत्या प्रमाणफलन्यवहार इसपातीतिकवचनं परमार्थतः त्वष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चेष्टसिद्धिल्णमभ्यनुज्ञातव्यं । ततःसर्वपुरुषार्थ- सिद्धिविधानादिति संक्षेपः। इति प्रमाणस्य परीक्ष्य लक्षणं विशपसंख्याविषयं फलं ततः प्रबुध्य तत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्याफलमिष्टमुच्चकैः॥ १ ॥ इति श्नोस्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता ।
No text on this page.
इस अंथमालामें क्रमश: नीचे लिखें अंथ छपेंगे जैनदर्शनग्रंथ 'प्रथनामंत टीकाकार व थकलोयाक नाम, तत्त्वाधिगममोक्षशानपर गंधहस्तमहाभाष्य प्रामास्वामी समंतभद्राचार ओकार्तिकाकार स्याहादविद्यापति श्रीमद्विव जनसिद्धांत ग्रंथ । गोमवार दीका श्रीमदभयचंद्रसिद्धांतचक्रवती गौमसार टीका परमात्मप्रकाश सटीका नाटकंत्रय सटीक जनन्यायाध. त्यानविनिचार्यकार रदेशीय श्रीमत् शकिटायनाचार्य शब्दानुशासन टात व्याकरण शब्दानुशासन अमाघदृतिसहित दानुशानन चिंतामणि ठीका जहितः शब्दार्णवद्रिका (जैनेंद्रघुत्ति) शब्दार्णव (जैन्द्रमहावृतिसहित) प्राकृतलक्षण शब्दचितामगि स्वापटीकातह वर्भयमहत्वाचे सोमंडेवसूरि "श्रीमन्यूज्यपादस्वामी देवनंद्या शुभनंद्राचार्य अलंकारचिंतामणि सटीक श्रीमदजितनाचाय बीदीमसिंहसी विश्नतिकोरीय नाटक अंजनापंचतंजय नादक मैथिली परिणयनाटक सुभद्रानाटिका संधान, चतुविशतिसंधान श्रीमत्पडितरत्न जगन्नाथ पौराणिक काय त्रिपष्ठिशलाका महापुराण दतीचाये हरिवंशपुराण और पद्मपुराष्ट्र अपक्षण (जनरामायण १८००६) संस्कृत श्रीमदूरविणाचार्य: पांडवपुराण (जैनमहाभारत पाचपुराण श्रीमद्वादिराजिसूस गणितज्योतिष मया पणितत्तारनंग्रह हाचानिरामया श्रीवा त्रिलोकसार सटीक (प्राकृतः) भद्रबाहुसंहिता साईद्वयद्वीपप्रज्ञप्ति गोतिषाचार्य जबहायज्ञाल श्रीपत चंद्रप्रक्षति और सूर्यनज्ञप्ति श्रीमदमितगत्याचार्य ML
No text on this page.