Central Archaeological Library_asi_new Delhi

The Samkesepa Sariraka Of Sarvajnatma Muni Part Ii 1937

Surya Narayana Sukla

PDF Proofread

Front matter

संक्षेपशारीरकम् । - Panta
8030
श्रीमत्सर्वज्ञमुनिविरचितम् ।
श्रीमन्नृसिंहाश्रमधिरचितया तत्त्वबोधिन्याख्यया
टीकया सहितम्।
वाराणसेयराजकीयसंस्कृतमहाविद्यालय न्यायशास्त्राध्यापकेन
न्यायव्याकरणाचार्य मीमांसाशिरोमण्युपाधिकेन
श्रीसूर्यनारायणशर्मशुक्लेन संशोधितम् ।
(द्वितीयो भागः)
2030
THE
SAMKSEPA SARIRAKA
OF SARVAJÑĀTMA MUNI
WITH
TATTVABODHINI
1-
OF NRSIMHA ASRAMA
Part 2
2
SarvI
S.N/ Suk
SŪRYA NĀRĀYANA ŠUKLA,
EDITED BY
NYAYÁ VYAKARANACHARYA,
Professor, Govt. Sanskrit College, Benares.
100-1937
Dato LS-399
CEOfo....

OFNTRAL ARCIANO,
LIBRARY NEW DELIL
Am. Nu.....&0.3..
Dare. .../4.-12...52...
Call No..........
***
S.N/Suke
SVAR
act
S3
32

प्रथमोऽध्यायः।भाग 2 अस्यैव तत्त्वविनिवेदनशक्तिभाजः संसारमूलविनिवृत्तिफलप्रसूतौ। सामर्थ्यमस्ति पटुभिः परिबृंहितत्वा- वेदान्तभूमिगतपञ्चविधार्थवादैः ॥ २५ ॥ अस्यैवेति । तत्त्वविनिवेदनशक्तिभाजः ब्रह्मात्मैक्यलक्षणतत्त्वप्रति- पादनसामर्थ्ययुक्तस्य अस्यैव तत्त्वमादिवाक्यस्यैव संसारमूलवि- निवृत्तिफलप्रसूतौ शानद्वाराऽविद्यानिवृत्त्याख्यफलोत्पत्ती सामर्थ्य- मस्ति न निषेधवाक्यस्यात्र पूर्वोक्तहेतुमभिप्रेत्य वाक्यविशेषणमुक्तं तत्त्वेत्यादिना । अपूर्व हेतुमाह-पटुमिरित्यादिना । वेदान्तादवगंतवक्ष्य- माणसृष्ट्यादिपञ्चविधार्थवादैस्तत्वप्रतिपादनसमथैरूपवृहितत्त्वादुपो- द्वलितत्वादित्यर्थः ॥ २९ ॥ के तेऽर्थवादाः कथं वा ते तत्त्वमादिवाक्यस्यैव सहकारिणः इत्याकाङ्क्षायामाह सृष्टिस्थितिप्रलयसंयमनप्रवेश- व्यापारजातकथनच्छलतः प्रवृत्तः । सानुग्रहाद्वगतिः खलु तत्त्वमादे- वाक्यात्परस्थ घटते न ततोऽपरस्मात् ॥२६॥ HERE: सृष्टीति । सृष्टिश्च स्थितिश्च प्रलयश्च सयमनं च प्रवेशश्च ते तथा त एवं व्यापारास्तेषां जातं समूहः तस्य कथनमभिधानं तदैवैक्य- तत्त्वप्रतिपादनं छलं व्याजो द्वारं तस्मादित्यर्थः । प्रवृत्तेरिति हेतो पञ्चमी वेदान्तानामिति शेषः । उक्तरूपव्यापारजातकथनच्छलतो वेदान्तानां प्रवृत्तेः सानुग्रहात्तत्त्वमादेर्वाक्यात्खलु परस्य ब्रह्मणोऽव- गतिरिति सम्बन्धः । संयमनशब्देन नियमनं प्रशासनमभिधीयते २६६ सटीके संक्षेपशारीरके- अनुग्रह-उपकारः। खलु शब्दोऽवधारणे तव्यावर्त्यमाह-नतत इति । तत्त्व- मादेरपरस्माद्वाक्यान्न फलवद्ब्रह्मावतिर्भवतीत्यर्थः । अयम्भाव:- यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्य- भिसंविशन्ति तत्सृष्ट्वा तदेवानुप्रविशत् । एतस्य वाक्षरस्य प्रशासने गार्गीत्येवमादिवेदान्ता जीवपरैक्यबोधानुकूलत्वेनैव सृष्ट्याद्यान्व- दन्ति न तु स्वप्रधानतया तत्र प्रयोजनाभावादर्थवादश्च प्रधानवाक्य- शेष एवार्थावादयुक्तमेव च विधिवाक्यमिति मीमांसास्थितिः। तत्र सृष्ट्यादिवाक्यानि निषेधवाक्य नैकवाक्यत्वमापद्य स्वार्थ समर्पयन्ति किं वा तत्त्वमादिवाक्येनेति विषये । वयं तु पश्यामः । तत्त्वमादि- वाक्येन सहैवेति तस्यैव ब्रह्मात्मैक्यबोधकस्य एतत्प्रयुक्तोपकाराद्वैत- संभावनायुक्ततयैतदपेक्षत्वादपेक्षाप्रयुक्तत्वाचान्वयस्य निषेधवाक्यस्य च निषेधमात्रप्रतिपादकतया तदनुकूलसृष्ट्याद्याकाङ्क्षारहितत्त्वान्न हि सृष्ट्यादिवाक्यमद्वितीयत्वमात्रप्रतिपत्युपयुक्तार्थमिव निषेधापे- क्षितमेवार्थ बोधयति तथात्वे प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमिति न्यायापातात् । ननु प्रतियोगिप्रसक्ति विना निषेधायोगा- त्तदर्थमेव तद्बोधयतीति चेन्न अद्वितीयब्रह्मप्रतिपत्त्यर्थप्रपञ्चसम्बन्धमा- दायापि तनिषेधोपपत्तेः । मृदादिदृष्टान्तेनैकविज्ञानेन सर्वविज्ञान- प्रतिज्ञोपपादनवैयर्थ्यप्रसङ्गादनेन जीवेनेति परस्य जीवाभेदोपपादन वैयापातादूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणायेति श्रुत्या सृष्टरद्वितीयब्रह्मप्रतिपत्त्यर्थत्वेन विनियुक्तत्वाञ्च । सृष्ट्यर्थ- वादमात्रस्य निषेधशेषत्वेपि प्रलयाद्यर्थवादस्य तच्छेषत्वाभावा- चेति निषेधवाक्यस्य न कश्चिदपि तत्कृतोपकारः । अद्वितीयब्रह्मप्रति पादकवाक्ये तु स्वार्थोपपत्तिबुद्धिजनकतयाऽर्थवादवाक्यकृतोप- कारो महानित्यस्त्येव तदपेक्षया तदेकवाक्यत्वमित्यर्थवादयुक्तत्वादि- दमेव प्रधानवाक्यमिति ॥ २६० ॥ सूत्रकारस्याप्येतदेव सम्मतमित्याह- -- प्रथमोऽध्यायः। सूत्र तत्तु समन्वयादिति विधिव्यापारनिष्ठं वचो मोक्षायति निवेदनाय कृतवान्वेदान्तवेदी मुनिः। न्यायेनाssकलयनशेषवचनव्यापारमूरीकृत- स्वातन्यः सकलेऽपि वेदशिरसि स्वैरं चरन्नीश्वरः ॥२६॥ सूत्रामिति । वेदान्तवेदी वेदार्थविन्मुनिविधिरूपेण प्रवर्त्तमानं तत्त्व- मादिवचनमेव मोक्षसाधनज्ञानजननाय पर्याप्तमिति निवेदनायास्मान झापयितुं तत्तु समन्वयादिति सूत्रं कृतवानित्यर्थः। सूत्रकारस्य वेदार्थ- वित्त्वे हेतुः - मुनिरिति । मननसम्पन्न इत्यर्थः । न केवलं मननसम्पत्तिः किन्तु तद्धतुश्रवणसम्पत्तिरपीत्याह न्यायेनेति । न्यायस्तु वर्णितः । अविशेषवचनव्यापारं-विधिनिषेधात्मकवचनव्यापारम् । ननु सूत्र- प्रणयनात् प्राक्कथं तस्य श्रवणादिसम्पत्तिरिति चेन्न-प्रमाणप्रमेय- विषयन्यायानामनादिसिद्धत्वात्तस्य च परमेश्वरावतारात्मकस्य स्वतः सर्वशतया स्वत एव न्यायाकलनसम्भवादित्यभिप्रेत्याह--- ईश्वर इति । अत एवोरीकृतस्वातन्त्र्यः स्वतन्त्रस्तत एव वेदार्थनिर्णय- न्यायेऽप्यस्य स्वेच्छासंचार:-परिज्ञानमित्यर्थः । न च सूत्रकारस्य परमेश्वरावतारत्वे प्रमाणाभावः । द्वापरे द्वापरे विष्णुासरूपी महा- मुनिरितिस्मृतेः। सूत्रकारो हि तत्तु समन्वयादिति समन्वयप्रतिपाद्यत्वं ब्रह्मणो दर्शयति । समन्वयत्वं च तत्त्वमादिवाक्यस्यैव एकार्थवृत्ति- त्वान्निषेधवाक्यस्य तु न समन्वयत्त्वमस्ति । तत्स्थपदानां भिन्नार्थ- त्वात् । अत्र कश्चिजल्पति अबाधितान्वयः समन्वयः न तु समानाधि- करणान्वय इति तदसत्समिति विशेषणस्य चयापत्तेः। सर्वस्यापि वेदान्तान्वयस्थाबाधितत्वात्तस्मात्समानाधिकरणवाक्यप्रतिपाद्यत्वं ब्र- ह्मणो वदन सूत्रकारस्तत्वमादिनाक्यप्रतिपाद्यमेव ब्रह्मति मेन इति गम्यत इति भावः ॥ २६१ ॥ किं च सूत्रकारेण तत्त्वंपदार्थशोधन प्रस्तावे 'प्रकृतावस्वं हि । हुवक २६८ सटीके संक्षेपशारीरके- प्रतिषेधति ततो ब्रवीति च भूय' इत्यादिना मुखत एव नेति नेति वाक्यस्य तत्पदार्थशोधकत्वसूचनान्नात्र विवदितव्यमित्याह- वाक्यान्वियि तत्पदार्थकथने नेतीति वाक्यं पुनः साक्षात्सूचयति स्म सूत्रकृदतस्तत्तत्परं निश्चितम् । एवं हस्ततलाप्तिामलकवत्तात्पर्यसंवेदने सत्यन्यादृगुदीरयन्ति यदि तत्क्षन्तुं कथं शक्नुमः॥२६२॥ वाक्यार्थेति । वाक्यार्थान्वयितत्पदार्थकथने तत्त्वमादिवाक्यप्रति.. पाद्याखएडब्रह्मप्रतिपत्त्युपयुक्ततत्पदलक्ष्यार्थकथने साक्षादभिधावृत्त्या यत एवं सूचयति ततस्तनिषेधवाक्यं तत्परं शोधितत्पदार्थपरं न वाक्यार्थपरमिति निश्चितमिति सम्बन्धः । तस्य सूत्रस्य पदार्थशोधनप्रा- यपाठात्तद्वाक्यस्य च निषेधमात्रे व्यापारदर्शनात्सूत्रकारेण च 'श्रात्मेति तूपगच्छन्ति ग्राहयन्ति च' इति तत्त्वमादिवाक्यैरीश्वर श्रात्मेत्येव ज्ञात- व्यो वक्तव्यश्चेति स्ववचनेनात्मज्ञानसाधनत्वे तत्त्वमादिवाक्यस्य संसू- चनानिषेधवाक्यं पदार्थपरं तत्त्वमादिवाक्यमेव वाक्यार्थपरमिति सूत्रकारस्याप्यभिप्राय इति ततः कथं निषेधवाक्यमेव प्रधानमिति- वचनं प्रमाणं स्यादित्याह-एवमिति । तात्पर्यसंवेदने सति सूत्रका- रस्येति शेषः ॥ २६२ ॥ ननु निषेधवाक्यस्य तत्त्वमादिवाक्यशेषत्वे कस्तत्कृतोपकारः, ननूक्तपदार्थशोधनमिति चेन्न- तस्य सत्यज्ञानादिवाक्यैरेव तत्स्वरू- पसिद्ध्यर्थमवश्यापेक्षितैः सिद्धत्वादित्याशङ्कयाह- सत्यं ज्ञानमनन्तमित्यभिहिते सम्भावना नीयते नास्थूलादिवचः समुद्भवधिया दैतोपमर्द विना। तेनावान्तरवाक्यलक्ष्यविषयां बुद्धिं दृढीकुर्वता सर्वदैतनिषेधकेन वचसा वाक्यार्थधीर्जन्यते ॥२६॥ - प्रथमोऽध्यायः । २६९ सत्यं ज्ञानमिति । सत्यज्ञानादिवाक्यैः सत्यज्ञानानन्दानन्तात्मक ब्रह्मेति प्रतिपादिते तस्य त्रिविधपरिच्छेदाभावोपलक्षितस्वरूपवाक्या- र्थस्याभिधानमस्थूलादिवचसा स्पष्टं निखिलपरिच्छेदोपमर्द विना दृश्यत्वादिन्यायसहायेन तेन सर्वस्य प्रपञ्चस्य तात्त्विकत्वनिषेधं विना सम्भावना नानीयते-अयमवान्तरवाक्यार्थ इत्थमेवेति निश्चयो न जायत इत्यर्थः । असम्भावनेति वा छेदः। अत्रैतस्यभिधानस्या- सम्भावना न नीयते न दूरीक्रियत इत्यर्थः। ततः किमिति तत्राह तेनेति । येन स्थूलादिवाक्यं विनाऽवान्तरवाक्यार्थसम्भावना नास्ति तेनावान्तरवाक्यलक्ष्यविषयां सत्यज्ञानानन्दानन्तात्मकं ब्रह्मेति बुद्धि स्पष्टं प्रपञ्चनिषेधेन निश्चलां कुर्वता सर्वद्वैतनिषेधकेन वचसा सहितेन सत्यादिवचसा महावाक्यार्थस्वरूपभूतसत्यादिवाक्यार्थबुद्धिर्जायत इत्यर्थः । निषेधवचनार्थावगमात्पूर्व हि भेदप्रपञ्चदर्शनेनासम्भाव- नादिना कलुषी क्रियमाणैव सत्यादिवाक्याबुद्धिरुपजायते । तस्यां च कलुषीकृतायां तदुपजीविमहावाक्यमपि न स्वार्थ दृढमवबोध- यितुमर्हति । पदार्थनिश्चयं विना वाक्यार्थनिश्चयानुपपत्तेः यदा पुनर- स्थूलादिवाक्यसमुपजातधिषणया विस्पष्टं द्वैतनिषेधो भवति । तदा सत्यादिलक्ष्यार्थबुद्धिस्तदेकाकारा भवति । ततश्च महावाक्यबुद्धिरपि सुस्था भवति । तथा च सत्यादिवाक्यैस्तत्त्वंपदार्थशोधनेपि तदर्थ- दृढीकरणार्थत्वानिषेधवाक्यस्य न वैयर्थ्यमिति भावः ॥ २६३ ॥ तत्त्वमादिवाक्यस्यैव निःशेषानर्थविरोधिब्रह्मात्मैक्यबोधकत्वा- त्तत्त्वमादिवाक्येनैव शोधितपदार्थद्वयवादाय वाक्यार्थमवगच्छतिप्रकृ- तविचारफलमाह- अस्थूलादिवचोनिरस्तनिखिलद्वैतप्रपञ्चं परं जाग्रत्स्वप्नसुषुप्तिवर्जितमिदं प्रत्यक्स्वरूपं तथा।

२७०
सटीके संक्षेपशारीरके-
।
naya
एकीकृत्य परस्परेण पदयोरर्थद्वयं तत्त्वतः
प्रत्यक् चाहयमयं च तदिति प्रेक्षस्व निःसंशयम् ।२६४।
अस्थूलादीति । अस्थूलादीत्यनेन तत्पदलक्ष्यं दर्शयति- जाग्रदि-
त्यादिना । त्वं पदलक्ष्यं यथा तत्पदलक्ष्यं परं निष्प्रपञ्चं तथा त्वं-
पदलक्ष्यमपि जायदाद्यवस्थात्रयशून्यं तवदभासि साक्षिचैतन्यं प्रत्य-
स्वरूपमित्यर्थः । पदयोस्तत्त्वंपदयोरर्थद्वयं परस्परेणान्योन्य-
मेकीकृत्य निःसंशयं प्रेक्षस्वेति सम्बन्धः । एकीकरणप्रकारमेवाह-
प्रत्यगित्यादिना । प्रत्यगेवाद्वयमद्वयमेव प्रत्यगित्यर्थः ॥ २६४ ॥
ननु लोके लक्ष्यपदार्थों द्विविधो दृष्टः । परोक्षोऽपरोक्षश्च तद्व-
दत्र तस्वंपदाभ्यां कतरलक्ष्यमित्याकाङ्क्षायां यत्साक्षादपरोक्षाद् ब्रह्म-
य श्रात्माः सर्वान्तर इत्यादिश्रुतिप्रतिपक्षात्मनः परोक्षत्वानुपपत्तेः--
अपरोक्षद्वयानुभव पत्र लक्ष्य इत्याह
अद्वैतं परिशोधितं भगवतो विष्णोः परं यत्पदं
तच्छब्देन समर्पितं परिगृहीतादेयमात्मप्रभम् ।
यचोपाधिविवर्जितं तव निजं साक्षात्स्वरूपं तयो-
रेकत्वं परिवर्जितव्यवधिकं प्रत्यक्षमीक्षस्व भोः॥२६॥
अद्वैतमिति । अथवा - निःसंशयं प्रेक्षस्वेत्युक्तं तत्र पुनरपि शिष्यो
विरुद्धधर्ममादाय संशयाविष्टो माभूदिति कृपयोक्तमेवार्थ शब्दान्तरे.
णाह अद्वैतामिति । परिहतानादेयं परिहतः परिवर्जितः पारोक्ष्याद्यनादेयो
हेयांशो यस्मिन्पदे तदित्यर्थः । उपाधिविवर्जितमुपाधिनाऽवस्थाना-
दिना रहितमपरोक्षचैतन्यस्वरूपं पारोक्ष्यादिपरित्यागादेव परिवर्जि-
तव्यवधिकम् । अथवा व्यवधिर्मेदा-किञ्चद्भदेनापि शून्यमित्यर्थः। अनेन
चैतन्याकारेण सत्ताकारेण वा भिन्नयोरप्यभेद् इति पक्षो निरस्तः ।
प्रत्यक्षमपरोक्षं यथा भवति तथेत्यर्थः ॥ २६५ ॥

प्रथमोऽध्यायः । नन्वीक्षस्वेत्युक्त्या मम ब्रह्मात्मभावः प्रत्यक्षयोग्य इत्युक्तं तद- नुपपन्नं तद्विपरीतरूपस्यैव प्रत्यक्षतोऽनुभवाद्वादिभिस्तथैवाङ्गीकाराञ्च आत्मनो रूपादिहीनस्य चक्षुराद्ययोग्यत्वाञ्चेन्याशय सत्यं दुःखादि- कमपरोक्षमनुभूयते, तेन चेदं तव रूपं त्वत्स्वरूपत्वमनुभवमात्रं तत्साक्षीत्युक्तं वाद्यङ्गीकारस्तु निर्मूल एव । नचेक्षस्वेत्यनेन चक्षुषा- तदीक्षणं विवक्षितम् । किंन्त्वपरोक्षत्वमात्रम् । न चापरोक्षज्ञानं चक्षुषैवेति नियमः । शब्दादपि तदुत्पत्तेरुपपादितत्वादित्यभिप्रेत्याह- अनृतजडविभक्तदुःखतुच्छा सहनवपुः परमं पदं मुरारेः। परिहृतसकलप्रपञ्चमात्मा तव तदहि तमो निरस्य वाक्यात् ॥ २६६ ॥ अनृतजडात । अनृतसद्विलक्षणं जडं ज्ञानत्वानधिकरणं विभक्तं परस्परं भिन्नं कार्यमिति यावत् । दुःखं कर्तृत्वसुखित्वदुःखित्वादि- युक्तं तुच्छं शून्यमभावप्रतियोगि वा एतेषामसहनमेतद्विरुद्धं वपुः स्वस्वरूपं यस्य पदस्य तत्तथा तमोऽसम्भावनादिकं तवात्मानृत- जड़ादिविरुद्धं निरस्तनिखिलजगत्कारणत्वादिप्रपञ्चं मुरारेः परमं पदमिति तदात्मनोऽखण्डस्वरूपमुक्तार्थेऽसम्भावनादिकं निरस्य तत्त्व मादिवाक्यादवेहीत्यर्थः ॥ २६६ ॥ इदानीमुक्तार्थस्यातिसूक्ष्मतयाऽश्रद्धालुचेतःसमारोहानहत्वाछ- द्धाया विद्याङ्गत्वस्य श्रुतिसिद्धत्वाञ्च, त्वयाप्युक्तार्थे श्रद्धव कर्तव्या। तथा सति विद्यापरिपाकः स्वयमेव भविष्यतीत्यभिप्रेत्याह- श्रद्धत्स्व सौम्येति हि शास्ति शास्त्रं श्रद्धाधनत्वश्रुतिरस्ति चान्या ।

सटीके संक्षेपशारीरके- श्रद्धा तु यस्येत्यरं च वाक्य- मधीयते संशयकुत्सनाय ॥ २६७ ॥ श्रद्धत्स्वेति । हि यस्माच्छास्त्रं श्रुति श्रद्धत्स्व सौम्येति श्रद्धां विद्या- ङ्गत्वेन विधत्ते । तस्माच्छ्रद्धावित्तो भूत्वेति संशयकुत्सनाय निराकरण- यान्या काच्छिद्धाधनत्वश्रुतिरप्यस्ति । यस्माञ्च संशयनिवृत्तये 'श्रद्धा तु यस्येति' यस्य स्याच्छद्धा न विचिकित्सास्तीति किञ्चिद्वाक्यम- भिधीयते तस्माद्धाछ्या विद्याङ्गत्वात्सा त्वयावश्यमुपासनीया तथा सत्यश्रद्धा मूलसंशयः स्वयमेव गमिष्यतीति भावः ॥ २६७ ॥ - ननु कोऽयं प्रद्वेषो भगवत्याः श्रुतेः संशये यन्मूलनाय श्रद्धां विधत्त इत्याशङ्कय स्वप्रदेयसकलपुरुषार्थविघातकत्वात्तत्र प्रद्वेष इत्याह- अज्ञो विनश्यति पुमानतिमूढभावा- दश्रद्धयोपहतबुद्धिरतोऽपि कष्टः । कष्टाच कधृतर एव तु संशयात्मा दुःखी सदेति भगवानपि वासुदेवः ॥२६८॥ अश इति । स्वस्वरूपमविद्वानिह जगति अशः पुमान् विनश्यति- संसारात्संसारं प्राप्नोति । न तु कदाचिन्मोक्ष्यत इत्यर्थः । अज्ञोपि कथंचिद्धालुश्चेन्महत्सेवया तत्त्वं प्रतिपत्स्यते । अश्रद्धालुस्तु विवेक- योग्योप्यश्रद्धया विवेकाभावान तथेत्याह-मूढभावादिति । हेयोपादेयदृढ- तरविवेकहीनत्वात् । अथवा अज्ञस्यैव विनाशे हेतुः- मूढभावादिति । उक्त विवेकचतुरोपि कर्मश्रद्धयात्राश्रद्धालुरतोपि कष्टस्तदपेक्षया बहुलं संसारान्धकूपे पततीत्यर्थः । अज्ञाश्रद्दधानयोस्तत्त्वप्रतीत्यभावेन मोक्षाभावेपि कर्मानुष्ठानसंभवात्तरकृतस्वर्गादिः पुरुषार्थों भवति । संदिहानस्तु ब्रह्मविन्मानितया कर्मापि परित्यजति । ब्रह्म च न निर्वि- प्रथमोऽध्यायः। चिकित्सं वेत्ति अतोयमुभयविधपुरुषार्थाऋष्टः केवलमनर्थभागेव भव- तीत्याह-कष्टाचेति । कष्टादश्रद्धालोरपि कष्टतरः अतिशयन कष्टः अर्थ- सिद्धसस्थाक्षात्कटतमत्वं स क इत्यत्राह-संशयात्मेति । संशय आत्म- विषय प्रात्मन्यन्तःकरणे यस्य स तथा स्वस्वरूपं श्रुत्याचार्यप्रसाद- प्राप्तमपि संदिहानः संसारात्संसारान्तरमेव प्रामोतीत्यर्थः । अस्मिन्नर्थ भगवत्सम्मतिमाह-दुःखी सदेत्यादिना । वासुदेवः परमात्मा माहेति शेषः। 'अज्ञश्चाश्रद्धधावश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मन' इति भगवद्वचनमप्येतदेव दर्शयतीत्यर्थः । अतोऽश्रद्धानिराकरणपूर्वकं संशयं निरस्यास्मदुक्तार्थश्रद्धामेव कुपित्यर्थः ॥ २६ ॥ ननु कथमत्र श्रद्धा विधीयते सा घमिलाषाकालिकेच्छाविशेषों गु,दिवाक्यप्रामाण्यवुद्धिनिबन्धनः न तु प्रामाण्यवुद्धिरेवेच्छा च फले तत्साधने वा भवति, न च वाक्यार्थज्ञानं स्वतः फलं फल- साधतत्वेपि तस्यान्यस्य यागादेः सत्त्वात्कथमत्रैव सा भवेत्, न चं तस्य फलस्यांनित्यत्वेन तत्र सा न स्यादिति वाच्यम्-मुक्तरपि साध्यतयाऽनित्यत्वादिति चेन्न-प्रागभाववतो हि साध्यत्वम् न च 'मुक्तिप्रागभावोऽस्ति । तस्या जीवपराभेदरूपत्वात्तस्य च सदात- न त्वादित्याह- रूपं तावकमुज्झितद्वयमभूददैतमेवाञ्जसा तच्चाद्वैतमपास्य मोहजनितं पारोक्ष्यमात्मा भूत् । एवं वेदशिर पदान्वयवशादेकत्वमेकान्ततः सिद्ध प्रत्यगनन्तयोरिति तव श्रेया समावि गतम् ॥२६॥ रूपमिति । उमितद्वयं निरस्तमपञ्चं शोधितं त्वत्स्वरूपमद्वैतं ब्रह्म वाजसा सम्यगभूत् तमाद्वैतं परोक्षमिव प्रतीयमानमपि मोहजानित- - २७४ सटीके संक्षेपशारीरके- पारोक्ष्यं विहायात्मा ह्यभूदात्मैवाभूदित्यर्थः। अतो मुक्तेरेवानाद्यनन्ता- नन्दरूपायाः परमपुरुषार्थरूपत्वात्तत्रैव श्रद्धा युक्तत्याह-एवं वेदेति । उक्तप्रकारेण वेदान्तवाक्यात्प्रत्यगात्मपरमात्मनोरत्यन्तमेकत्वं सिद्ध- मवगतमितिकृत्वा तव श्रेयः समाप्तिं गतं परमपुरुषार्थस्त्वया प्राप्तो भवति । ब्रह्मविद्यैकलभ्यं ब्रह्मात्मैक्यं हि श्रेयसां परा काष्ठा 'पुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिः 'श्रात्मलाभान पर विद्यत इति श्रुतिस्मृतिभ्यां तथैवावगमात्ततोऽत्र श्रद्धोचिता नान्यत्रेति भावः॥२६॥ एवं तत्त्वमादिवाक्यमेव फलवदर्थप्रमितिजनकतया प्रधान पदद्ध- यलक्षणयाऽखण्डार्थप्रमितिजनकमित्युक्तं तत्र वाक्यस्याखएडार्थत्वे लौकिकान्युदाहरणानि बहून्युक्तानि । उपपत्तयश्च वर्णिताः । इदानीं पुनरप्यखण्डवाक्यार्थस्यातिसूक्ष्महग्वेद्यतया तत्र मन्दानों वैशेषिका- दिकुतर्कवासनावासितचित्तानां चाविश्वासो माभूदिति कृपया वाद्युपगमेनापि वाक्यस्याखण्डार्थत्वं दर्शयितुमादौ प्राभाकरमतेन वाक्यस्याखएडार्थत्वमाहु- शब्दो गकार इति लौकिकमस्ति वाक्यं विस्पष्टमस्ति च पदव्यमत्र वाक्ये । प्राभाकरे च समये न गकारमात्रा- दन्यत्पवयनिगद्यमभीष्टमस्मिन् ॥२७० ॥ शब्द इति । ततः किं तत्राह-प्रभाकरे इत्यादि निगद्यं वाच्यम् । अस्मिन् शब्दो गकार' इति वाक्ये ॥ २७० ॥ नन्वस्मिन् प्रयोगे शब्दपदाच्छन्दत्ववैशिष्ट्यस्य गकारपदाद्- गत्ववैशिष्ट्यस्य च प्रतिपाद्यमानत्वात्कथमखण्डार्थता तत्राह-

प्रथमोऽध्याय::।
२७५
शब्दत्वजातिवचनो न हि शब्दशब्दः
श्रोत्रोपलम्भनतया तु निवन्धनेन ।
वर्णान्ब्रवीति न हि जातिरिहाभ्युपेता
साक्षाङ्गकारमयमाह गकारशब्दः ॥ २७१॥
-
शब्दत्वेति । शब्द इति शब्दः शब्दशब्दः शब्दत्वजातिवचनो न
शब्दत्वजाति न वदति तर्हि पर्यायतापत्तिरित्याशङ्कय प्रवृत्तिनिमित्त-
भेदमाह-श्रोत्रेति । श्रोत्रमुपलम्भनमुपलब्धिसाधनं यस्य तस्य भावा-
स्तत्ता तया श्रोत्रग्राह्यत्वेनेत्यर्थः । शब्दशब्दः श्रोत्रग्राह्यत्वाख्य-
निबन्धनेन प्रवृत्तिनिमित्तेन वान्त्रवीति । अयं च धर्मस्तटस्थ एव
प्रवृत्ति निमित्तं गशब्दस्य च स्वरूपमा प्रवृत्तिनिमित्तमतो न पर्या-
यत्वं नाप्यखएडार्थत्वक्षतिरिति भावः। उपाधितो लाघवाजातिरेव
प्रवृत्तिनिमित्तं भवत्विति तत्राह-न हैाति । इह गकारादिशब्देषु प्राभा-
करैर्हि शब्दत्वजाति भ्युपेता। तत्र प्रमाणाभावादनुगतव्यवहारस्य
श्रोत्रग्राह्यत्वादितटस्थैकोपाधिक्रोडीकृतगकारादिशब्दमादायापिसम्म-
वादित्यर्थः । ननु माभूच्छब्दत्वजातिः गत्वादिजातिवैशिष्टवं तु
ततः प्रतीयादित्याशङ्कय गकारव्यक्तरेकत्वान्न तत्र जातिरुपाधिर्वास्ती-
त्याह-साक्षादिति । अव्यवधानेन न सामान्यव्यवधानेनेत्यर्थः ॥२७॥
अतःप्राभाकररीत्याऽखएडवाक्यार्थः सिद्ध इत्याह-
BEAFAS
तस्मादखण्डविषये वचने विवाद
प्राभाकराः परिहरन्तु न चेदशक्यम् ।
निर्वोढुमेतदिह वाक्यमितोऽन्यथा चेद-
स्थार्थकल्पनमभीप्सितमिष्टहानिः ॥ २७२॥

सटीक संक्षेपशारीरके- 1 dee तस्मादखण्डविषय इति । यतस्तम्मतेपि शब्दो गकार इत्येतदख- एडार्थनिष्ठं तस्मात्तेनाखण्डार्थतानङ्गीकारे बाधकमाह-न चेदिति । यद्यखएडार्थविषयं विवादं न प्राभाकरा: परित्यजेयुः । तींह तन्मते एतत् 'शब्दो गकार'इति वाक्यं निबोधुमुफ्पादयितुमशक्यम् । ननु किमित्यशक्षम्, जातिद्वयवैशिष्ट्यबोधमाश्रित्याखण्डार्थत्वं विनापि वाक्यार्थस्योपपादयितुं शक्यत्वात्तर्हि वृश्चिकभयात्पलाय- मानस्थापसिद्धान्ताख्याशीविषमुखनिपात इत्याह-इतोऽन्यथेति । अस्य प्रकृतवाक्यस्थ इतोऽस्मादुक्तगकारव्यक्तिमात्रादन्यथा प्रकारान्तरेण- जातिसंसर्गरूपेणार्थकल्पनमभीप्सितं चेद्भवतामिष्टहानिरभ्युपगतहा- निरित्यर्थः ॥ २७२॥ वैशेषिकरीत्यापि वाक्यस्याखण्डार्थत्वमाह- सम्बन्धः समवाय इत्यपि पदे वैशेषिकोचारिते नाखण्डव्यक्तिरिक्तवस्तु वदितुं शक्तेऽनवस्थाभयात् । पञ्चायं समवायितेति बचनव्याघात भीतेरपि सम्बन्धान्तरमस्थ माभिमनुते वैशेषिकः कातरः॥ २७३ ॥ सम्बन्ध इति। सम्बध्यत इति सम्बन्धः सम्बन्धविशिष्ट इति यावत्। 'सम्बन्धः समवाय' इत्येते पदेऽखएडव्यतिरिक्तं वस्तु वदितुं शक्ते न भवतः । कुन्तो न सके सह-अलवस्थामत्यादिति । समवाचस्यापि- सम्बन्धान्तरवैशिष्ट्याङ्गीकारेऽनवस्थाभयजातेन वैशेषिकेण सम्बन्ध इति पदस्य समवायस्वरूपमात्रपरत्वस्थाङ्गीकारादित्यर्थः । शक्तेऽन- वस्थाभयादित्यत्र सन्धिः संज्ञापूर्वकविधेः प्रकृतिभावस्थानित्यत्वाद् द्रष्टव्यः। न केवलं सम्बन्धान्तरस्वीकारे ऽवस्था किन्त्वपसिद्धान्तो- पीत्याह-पञ्चानामिति। अवयवावयविगुणगुणिक्रियाक्रियावजातिव्यक्ति- विशेषनिस्बद्रव्यागामेव समवायः सम्बन्धः न समवायाभावयोरिति प्रथमोऽध्यायः । खवचनमपि पराहतं स्यादिति कातरश्च यतो वैशिषिकोऽस्य समवा- यस्य समवायान्तरं न खीकरोति, नापि सम्बन्धान्तरं तदभावा- दित्यर्थः । अत्र यद्यपर्यायत्वनिर्वाहाय सम्बन्धपदेन प्रतीयमानविशिष्ट- प्रत्ययविषयत्वरूपोपाधिकः कश्चिद्धर्मः प्रवृत्तिनिमित्तमित्यङ्गीकुरुषे काममङ्गोकुरुष्व । न चैतावता वाक्यमखण्डाथै न भवति । तस्य शब्दार्थान्तर्भावाभायात् । न चैघमुपस्थितिवैलक्षण्याभावे शब्दान्वयो न स्यादिति वाच्यम् । विषयभेदभावेपि सम्बन्धत्वसमवण्यत्वाकारेण प्रतीतिपैलक्षण्यस्य सत्त्वादिति भावः ॥ २७३ ॥ सकलन्यायवित्पाणिनिनाप्यखएडार्थस्य स्वीकृतत्वादत्र सर्दै रपि विवादस्त्याज्य इति येनायं स्मरतीत्यत्रोक्तमेवार्थ स्मारयति- प्रातिपदिकान्यनतिरिक्तविषयाणि प्राह भगवान्प्रथमशब्दितविभक्त्या। पाणिनिरतः सकलतर्कसमयज्ञो वष्टि वचस्खोऽनतिरिक्तविषयत्वम् ॥ २७४ ॥ प्रातिपदिकानीति । यतोऽयं पाणिनिः प्रातिपदिकानि वृक्षादिशब्द- प्रकृतिभूतानि पदान्याव्यतिरिकान्यनतिरिक्तविषयाण्यभिन्नार्थान्याह ततः सकलतर्कसमयज्ञोऽयं वचसोऽनतिरिक्तविषयत्वमेकप्रातिपदि- कार्थत्वं वष्टि वाञ्छतीति सम्बन्धः। केन सह प्रातिपदिकानामनति- रिक्तविषयत्वं तत्राह-प्रथमशब्दितविभक्त्येति । प्रथमाविभक्तयेत्यर्थः ॥२७४ एवं तावद्वादिप्रसिद्धयाऽखण्डार्थत्वं वाक्यस्योपवयं पुनरपि सर्वसमयसाधारणलोकप्रयोगेऽपि तदर्शयति- इथं घटव्यक्तिरितीदृशेषु च प्रसिहमेबैकरसार्थगोचरम् । म २७ सटीके संक्षेपशारीरके- पवयं लोकवचासु तेन च प्रशस्यते नात्र विवादसंग्रहः ॥ २७५ ॥ इयमिति । यद्यपीयमिति पदमेतद्देशकालवैशिष्ट्यमाह घटपद- मपि घटघटत्वादिवैशिष्ट्य तथापि यत्र घटादिव्यक्तिमात्रविजिज्ञा- पयिषया स्वानुभसिद्धां घटव्यक्तिमङ्गुल्या निर्दिश्येयं घटव्यक्तिरिति प्रयोगः तत्रैव विवक्षानुरोधेन वाक्यमखण्डार्थमिति द्रष्टव्यमतस्त- त्वमादिवाक्यस्याखएडार्थत्वे न केनापि विवदितव्यमित्युपसंहरति- तेनेति । अखएडार्थत्वस्य लोकवादिप्रसिद्धत्वं तच्छब्दार्थः । चशब्दो- ऽवधारणे । तेनेदं प्रशस्यत इति । अत्र नैव वादिनां विवादो विप्रति- पत्तिरित्यर्थः ॥ २७५ ॥ यदुक्तं सिद्धे ब्रह्मणि प्रवर्त्तमानं वेदान्तप्रमाणं. मानान्तरसहकृत- मेव प्रवर्तेत सिद्धवस्तुबोधकरूपस्यैवंरूपत्वाद् ब्रह्मणि च न माना- न्तरमिति तत्र कथं वेदान्ताः प्रमाणं भवेत्तत्सत्त्वे च वेदान्तानां सापेक्ष- त्वापात इति तद्नुपपन्नं प्रमाणान्तरस्य स्वार्थप्रमित्तावनपेक्षत्वात्त- दङ्गीकारेपि प्रकृते न कश्चिद्दोषः मानान्तरगोचरतायोग्यसिद्धवस्तु- विषयकवचनस्यैव प्रमाणान्तरापेक्षत्वात् ब्रह्मणश्च मानान्तरायोग्य- त्वादतो न तद्बोधकवचनस्य प्रमाणान्तरसापेक्षत्वमिति स्थिते ननु सिद्धत्वेन ब्रह्मणोपि मानान्तरयोग्यत्वं किं न स्यादित्याशङ्कयाह- न च प्रमाणान्तरयोग्यतायां प्रयोजकं स्यात्परिनिष्ठितत्वम् । यतः प्रमाणान्तरयोग्यतायां प्रयोजकं रूपरसादिमत्त्वम्॥ २७६ ॥ नचेति । च शब्दः शङ्कानिवृत्त्यर्थः। परिनिष्ठितत्त्वं सिद्धत्वं कि

प्रथमोऽध्यायः।
तर्हि तत्र प्रयोजकं तबाह-यत इति । श्रात्मनः प्रमाणान्तरयोग्यत्वं
वदन्प्रष्टव्यः किमनुमादिप्रमाणयोग्यत्वमुत प्रत्यक्षयोग्यत्वम् । श्राद्यपि
सामान्यतोदृष्टानुमानयोग्यत्वभुत विशेषानुमानयोग्यत्वमपि । नाद्यः ।
तस्य ब्रह्मणि प्रवृत्तावपि तत्प्रमाणस्य सापेक्षतानापत्तेः। तावता तत्त्वे
वा सामान्यतोदृष्टानुमानस्य पराभिमतकार्येपि सुलभतया तद्बोधक-
विधिवाक्यस्यापि सापेक्षत्वप्रसङ्गात् । न द्वितीयः । तस्य प्रत्यक्षागो-
चरे वक्तुमशक्यत्वाद्विशेषेण श्रुतिसिद्धात्मना कस्यचिद्वयाप्त्यभावाच्च।
शब्दमुपजीव्य प्रवर्त्तमानस्य तस्य कार्येऽपि वक्तुं शक्यत्वाच्च । द्विती-
येपि कि मानसप्रत्यक्षगोचरतायोग्यत्वमुत चक्षुरादियोग्यत्वम् । नाद्यः।
मनसः स्वातन्त्र्येण प्रत्यक्षकरणत्वाभावात्तत आत्मनो बहिरिन्द्रिय-
प्रत्यक्षयोग्यत्वं वक्तव्यम् । तत्र च रूपादिमत्त्वमेव प्रयोजकमित्याह-
रूपरसादिमत्त्वमिति । श्रादिपदेन स्पर्शवत्वं गृह्यते । अनुष्णद्रव्यचाक्षुषत्वं
प्रति रसोषि व्यापक इति तदिहोपात्तमिति द्रष्टव्यम् । तथा च निर्गुण
श्रात्मा न प्रत्यक्षमानान्तरयोग्य इत्यर्थः ॥ २७६ ॥
तथा च मानान्तरयोग्यताप्रयोजकरूपादिरहिते श्रात्मनि वेदान्ता
न प्रमाणसाहित्यासाहित्याभ्यां प्रमारणं भवन्ति, किन्तु तशिरपेक्षाः
सन्तः प्रमाणं भवन्तीत्येतत्फलितमाह-
ततोऽस्तु रूपादिविहीनरूपे
प्रमान्तरागोचरचिल्वरूपे।
वचः पूमाणान्तरनिस्पृहं सत्
पूमाणमत्राऽऽत्मनि निर्विवादम् ॥ २७७ ॥
तत इति । यतः प्रमाणान्तरयोग्यतायां रूपादिमत्त्वं प्रयोजक ततो
रूपस्पर्शविहीनेऽत एव प्रमाणान्तरागोचरे चैतन्यात्मकेऽत्रात्मनि
तत्त्वमादिसमन्वयः प्रमाणान्तरानपेक्षं सन्निर्विवादं प्रमाणमस्त्वि-
त्यर्थः ॥ २७७॥

सटीके संक्षेपशारीरके- किं च प्रयोजनामावादपि न मानान्तरयोग्यत्वमननुभूयमानमपि कल्ल्यमित्याह- लोकप्रसिद्धपदगोचरतानिमित्त- मन्यप्रमाणविषयत्वमिह प्रसिद्धम् । लोकप्रसिद्धपदगोचरता न चास्मि- न्ब्रह्मात्मनीति च तदत्र निवारणीयम् ॥२७८॥ लोकेति । इह जगति शब्दव्यतिरिक्तमानान्तरगोचरत्वं लोक- प्रसिद्धपदगोचरतानिमित्तं लोके बृद्धव्यवहारे प्रसिद्ध व्युत्पन्नं यत्पदं तद्गोचरतायां निमित्तमिति प्रसिद्ध व्यवहाराधीनव्युत्पत्तये हि मानान्तरमपेक्ष्यते । अन्यथा व्यवहाराभावेन तदयोगान व्युत्पति मन्त्रे यूपादिशब्दार्थे मानान्तराभावादित्यर्थः। अस्तु तर्हि स्वतन्त्रसिद्धत्वा- प्रकृतेपि लोकप्रसिद्धपदगोचरता तत्राह-लोकेति । बशब्दोऽवधार णेऽस्मिन्नखएडे ब्रह्मात्मनि लोकप्रसिद्धपदगोचरता नैवास्ति व्यक हारागोचरत्वेन तस्मिन् वृद्धव्यवहारास्यदव्युत्पत्त्यनुपपत्तेरिति कृत्वा- त्रात्मनि तन्मानान्तरगोधरत्वं निवारणीयमित्यर्थः । अथवा द्रव्याद्रव्य- साधारणे सिद्ध मात्रस्य मानान्तरयोग्यताया लोकप्रसिद्धपदगोचरत्वं प्रयोजकमात्मनि च तदभावान तस्य तद्योग्यत्वमित्याह-लोकेति । लोके प्रसिद्धा पदगोचरता निमित्तं प्रयोजकं यस्य तत्तथा। ननु सत्यादिपदान्यपि लोके गगनादौ व्युत्पन्नानि तद्गोचरश्वात्मा ततस्तस्यापि तत्स्यादिति चेत्तत्राह-लोकेति । अयस्यात्मनः सत्या- दिपदलक्ष्यवान वाच्यत्वमित्यर्थः । सत्यादिषदानां व्युत्पत्तिश्च ब्रह्म स्वयंप्रममित्यन साक्षिमात्रसिद्ध गरानादाविति वक्ष्यति । साक्षि चन लौकिकप्रमाणमिति भावः ॥ २७ ॥ *२८ एवं सति कार्यवाक्यस्य मानान्तरसाप्रेक्षन्वं प्राथमिति तत्पक्षे. दूषणमाह- प्रथमोऽध्यायः । लोकप्रयुक्तपदगोचरताऽस्ति कार्ये तेनास्तु कार्यपरवाक्यमशेषतस्ते । मानान्तरेषु परतन्त्रतया प्रमाणं स्वार्थे न दूषणमिदं श्रुतिमस्तकेषु ॥ २७६ ॥ लोकप्रयुक्तेति । प्रयुक्त-व्युत्पन्नं, कार्ये-नियोगे, लिङ्पदं हि लोके धात्वर्थकार्य एवावापोद्वापाभ्यां व्युत्पन्नं सत् पश्चादलौकिककार्य एव पर्यवस्यतीति तेऽभिमतमिति येन कार्ये लोकप्रसिद्धपदगोचरत्वं तव प्राभाकरस्य मते विद्यते तेनाशेषतः सर्व कार्यपरं वाक्यं मानान्तरेषु परतन्त्रतया मानान्तरापेक्षतयैव स्वार्थे कार्ये प्रमाणमस्तु नेदं दूषणं वेदान्तेष्विति सम्बन्धः । अत्र यद्यपि मानान्तरयोग्यत्व इदं प्रयोजकं तेन न स्वीक्रियते, तथापि सिद्धत्वेन ब्रह्मणि तदापा- दनेऽनेन कार्येपि तदापाद्यत इति द्रष्टव्यम् ॥ २७६ ॥ यञ्चोक्तं क्रियापदाभावे पदानामन्वय एव न सम्भवति प्रचुर- प्रकाशः सवितेप्यादावप्यध्याहारसम्भवादिति तत्राह- न च क्रियाकारितसंहतीनि पदानि लोके नियमेन वक्तुम् । समीहते पक्कमतिः पदानां क्रियां विनाप्यन्वयदर्शनेन ॥ २८० ॥ न चेति । क्रियाकारकसंहतीनि क्रियाकारकवाचकभावेनान्वि- तानि पक्कमतिविवेकी लोके वेदे च पदानि नियमेन क्रियाकारक- संहतीनि वक्तुं न समीहते । कुतः। पदानां क्रियां विनापि प्रचुर- प्रकाशः सवितेत्यादावन्वयदर्शनादित्यर्थः।नच तत्राप्यध्याहारः क्रियत २८२ सटीके संक्षेपशारीरके- tamanna इति वाच्यम् । प्रयोजनाभावादनुपस्थितकल्पने कल्पनागौरवाञ्च । पूवमर्थप्रतीति विनाध्याहारस्यैवानुपपत्तेः । ननु जातापि प्रतीतिः क्रियां विना न पर्यवस्यतीति चेन्न-तत्तद्वस्तुस्वरूपजिज्ञासोः क्रियां विनापि प्रतीतिपर्यवसानादिति भावः ॥ २८० ॥ किञ्च सम्बन्धमात्रपर्यवसितानि भूयांसि वाक्यानि दृश्यन्त इत्याह- महीभुजोऽयं पुरुषो मनस्वी वनस्पतेस्तत्फलमित्यपीह । क्रियां विनाप्यन्वयवन्ति लोके पदानि दृष्टानि बहूनि वक्तुः ॥ २८१ ॥ महीभुज इति । राज्ञः पुरुषः तस्य फलं वषट्कर्तुः प्रथमभक्ष इत्यादिलौकिकवैदिकपदानि क्रियां विनाप्यन्वयवन्ति दृश्यन्ते । न चात्राप्यध्याहारः, वाक्यस्य सम्बन्धमात्रनिष्ठत्वादित्यर्थः ॥ २८१ ॥ अस्तु वान्वये क्रियापदापेक्षा तथापि काचिन्न क्षतिः वेदान्तेपि तत्सत्त्वादित्याह- क्रियापदं वेदशिरःस्वपीष्यते विवक्षितार्थानुगुणं तु तन्मतम् । विवक्षितार्थप्रतिपत्तिघाति तु क्रियापदं स्वीकृतमप्यनर्थकम् ॥ २८२ ॥ - क्रियापदमिति । तर्हि ब्रह्मणः स्वप्रधानत्वप्रच्युतिः क्रियाप्रधानत्वाद्वा- क्यस्य तत्राह-विवक्षितार्थेति । विवक्षितस्तात्पर्येण प्रतिपाद्यो यो वेदा- प्रथमोऽध्यायः। २८३ न्तानामखण्डैकरसरूपोऽर्थस्तदनुगुणं तद्वोधनानुकूलं तक्रियापदं मतमिष्टमित्यर्थः । तुशब्दो यागादिक्रियापदादस्याभिहितं विशेष दर्शयति । अतो वाक्यस्य क्रियापदयुक्तत्वेपि ब्रह्मस्वरूपमात्रबोध- कत्वान्न ब्रह्मणः प्राधान्यभङ्ग इति भावः । ननु द्रष्टव्यादिक्रिया वेदा- न्तेषु श्रूयते सा च नाखण्डार्थतानुगुणा ब्रह्म च तद्विषयतया तच्छेषमिति कथं वाक्यस्य ब्रह्मप्राधान्यं स्यात्तत्राह-विवक्षितार्थेति । अखण्डवाक्यार्थप्रतीतिविरोधि यद्रष्टव्यादिक्रियापदं तत्स्वीकृतं वेदान्तेषु पठितमपि निरर्थकं ज्ञानस्याविधेतया तस्य क्रियापरत्वा- नुपपत्तेरुक्तत्वादित्यर्थः ॥ २२ ॥ ननु किं तर्हि तक्रियापदं यत्स्वयं क्रियापरमपि ब्रह्मणः प्राधान्य परिपालयति तत्राह- अस्त्यस्म्यसीति च पदं प्रचुरं क्रियाया वेदान्तवाक्यगतमादरतः पठन्ति । तन्मात्रतः सकल वेदशिरःपदानां संघातसिडिरिति वेदशिरोनिषण्णाः ॥ २८३ ॥ अस्त्यस्मीति : क्रियायाःश्रात्मस्वरूपसत्तारूपधात्वर्थक्रियाया,श्रादर- तस्तात्पर्येण, पठन्ति अधीयते । ततः किमित्यत श्राह-तन्मावत इति । अस्त्यादिक्रियापदेनैवेत्यर्थः । वेदशिरोनिषण्णा इति । वेदान्तनिष्णाता श्राहुरिति शेषः । अस्ति ब्रह्मेति चेद्वेद अहं ब्रह्मास्मि तत्त्वमसीत्यादिषु क्रियापदं श्रूयते। न चात्रास्त्यर्थः स्वरूपातिरिक्तो भवति श्रात्म- स्वरूपसत्ताया एवास्त्यादिपदेनाभिधानादतः क्रियापदाङ्गीकारेपि स्वरूपमात्रसत्तानिष्टतया वेदान्तस्य नाखण्डार्थत्वक्षतिरिति भावः ॥२८३॥ ननु यदि सत्व वाक्यार्थ इत्युच्यते, प्राप्त तर्हि वेदान्तानां २८४ सटीके संक्षेपशारीरके- अत इति । मानान्तरयोग्यवस्तुबोधकतया सापेक्षत्वं प्रमाणविषयत्वयोग्यताया एव सत्तात्वादिति प्राभाकरशङ्कामनुवदति- यत्तु प्रमाणमनुभूतिरिति प्रमाण- सामान्यलक्षणमनूद्य पुनर्वदन्ति । सत्ताप्रमाणघटनां प्रति योग्यताऽतो नास्त्यर्थनिष्ठवचनेष्वनपेक्षतेति ॥ २८४ ॥ यत्त्विति । प्राभाकरा अनुभूतिः प्रमाणमिति प्रमाणसामान्यमनू- द्योक्त्वा पुनरपीतिवदन्तीति सम्बन्धः। इति पदपरासृष्टमाह-सत्ताप्रमाणेति। प्रमाणविषयत्वयोग्यता सत्तेति वदन्तीत्यर्थः । ततः किं तत्राह- अतः प्रमाणविषयत्वयोग्यतैव सत्ता ततोऽस्त्यर्थनिष्ठ ववनेषु ब्रह्मस्वरूपसत्तामात्रपरतत्वमादिवचनेष्वनपेक्षता नास्ती- त्यर्थः । नचात्र तदभिमतप्रमाणसामान्यलक्षणानुवादो निष्प्रयोजनः स्वप्रकाशतया प्रमाणाविषयसंविदेव प्रमाणमित्युक्त्वा प्रमाणविषयन्व- योग्यता सत्तेति वदन् किमयं महानुभावोऽनुभवसत्तां न पश्यतीति किं वा प्रमाणभ्यासत्त्वमेवाभिमनुत इति तदुपहासार्थत्वात् ॥ २८४ ॥ दूषयति- तद्दुर्घटं न खलु संविदियं स्वयोग्या न यात्मनि स्थितिमुपैष्यति योग्यताऽस्याः । *वस्त्वन्तरोपनिहितस्वपदत्वहेतो- नह्यात्मरूपदहने दहनस्य शक्तिः ॥ २८५॥ तदुर्घटमिति । तत्त्वदुक्तं सत्तालक्षणं दुर्घटं दुःसम्पादमव्याप्तेरि- त्यर्थः । ननु कुत्राव्याप्तिः, संविद्येव । तथा हि किं सवित्स्वविषयत्व- प्रथमोऽध्याय:। २८५ - - योग्या प्रमाणान्तरविषयत्वयोग्या वा। श्राद्यो न सम्भवतीत्याह- न खल्विति । इयं संवित्स्वयोग्या स्वविषयत्वयोग्या न खलु तत्र हेतुः- नह्यात्मनि स्थितिमुपैष्यतीति । अस्याः संविदः स्वविषयत्वयोग्यता स्वात्मनि- स्थिति वर्तन हि यतो नोपैष्यति न प्राप्स्यति तत इत्यर्थः। किं स्वविषयत्वं नाम स्वकर्मत्वं किं वा स्वनिरूपकत्वम् अथ वा स्वाकारत्वम् । नाद्यः । परसमवेतक्रियाफलशालित्वलक्षणकर्मत्वस्य स्वस्मिन्ननुपपत्तः। न द्वितीयतृतीयौ । स्वस्य स्वनिरूपकत्वाभावात् । स्वाकारत्वाभावाच्च । किं च यो यद्विषयः स ततो भिन्न एवेति व्याप्तेन स्वस्य स्वषियत्वमित्याह- वस्त्वन्तरोपनिहितीत । वस्त्वन्तरे संविदोन्यस्मिन् घटादावुपनिहितं निक्षिप्तं स्वपदत्वं स्वविषयत्वं यस्यास्तस्या भावस्तत्त्वं तस्माद्धेतोनियमादित्यर्थः । नेयं व्याप्तिर- प्रयोजिका स्वस्य स्वविषताया लोके अप्रसिद्धत्वादित्याह- नह्मात्मरूपेति । रूपं स्वरूपं दहनं दाहः।न द्वितीयः। स्वयंप्रकाशस्य माना- न्तरायोग्यत्वादित्यर्थः ॥ २८५ ॥ । ननु माभूत्सविदः स्वविषयत्वं प्रमाणान्तरविषयत्वं वा तावता प्रकृते किं दूषणं न त्वव्याप्तिः संविदतिरिक्तसत्ताया एव तल्लक्षण- वादित्याशङ्कय तर्हि भवन्मते तदतिरिक्तसत्ताभावात्संविदः शून्य- त्यापत्तिः, स्वयं प्रकाशसंवित्सत्ताया लक्षणान्तरसत्त्वे वा तदेव ब्रह्मसत्ताया लक्षणमिति न तन्मानस्य सापेक्षत्वमित्यभिप्रेत्याह- संवित्प्रमाणघटनां प्रति योग्यतांचे- नेयं बिभर्ति न सती भवितुं समर्था । तद्योग्यतैव यदि मातृघटादिसना तस्याप्यसत्त्वमिति शून्यमुपाजिहीथाः ॥ २८६॥ संविदिति । विषयत्वेन प्रमाणसम्बन्धः प्रमाणघटनापदेनोच्यते । - २८६ सटीके संक्षेपशारीरके- इयं संवत्प्रमाणघटनायोग्यतां चेत्स्वस्थ न बिभर्ति तर्हि सती भवितुं न समर्थेति सम्बन्धः । भवतु संविन्मात्रस्यासत्त्वं भवन्मतं तु न सिद्धयत्येवेत्याशय तर्हि तत्रैव सिद्धान्तमूलोच्छेदेन शून्यतापत्तिरि- स्याह-तद्योगतैवेति । मातृमानमेयात्मकप्रपञ्चस्य यदि संविदधीन. प्रकाशत्वयोग्यतैव सत्ता तदा संविदोऽसत्त्वेन तेषामपि तद्धटना सत्ता न स्यादिति घटादेरपि शून्यत्वमुपाजिहीथाः उपागच्छः अङ्गीकृतवानसोत्यर्थः । न ह्यसत्प्रयुक्त पदार्थानां सत्त्वं सम्भवतीति भावः ॥ २८६॥ किञ्च किं शब्दातिरिक्तप्रमाणविषयत्वयोग्यत्वं सत्त्वं किं वा प्रमाणमात्रविषयत्वयोग्यत्वम् । नाद्यः । त्वदभिमतकार्यस्यासत्त्व- प्रसङ्गात् । न द्वितीयः। कार्यविषयप्रमाणस्यापि मानान्तरसापेक्षत्वा- पातात्तस्यापि शब्दप्रमाणगम्यस्य सत्त्वाश्रयत्वात्तस्य सत्वेपि मानान्त- रायोग्यत्वेन तत्प्रमाणस्य सापेक्षत्वाभावे वा प्रकृतेपि समानमिति नैतत्सत्तालक्षणं किञ्चित्करोऽतो भावव्यावृत्तस्वरूपमेव सत्त्वमितिन तन्मात्रनिष्ठवेदान्तानामपि सापेक्षत्वापत्तिरित्यभिप्रेत्योपसंहरति- वस्तुस्वभाव इति सत्त्वमतो गृहाण तच विधेति वितथावितथवभेदात् । सत्त्वं द्विरूपमितरेतरसंकरेण सच्छब्दवाच्यमिति च व्यवहारकाले ॥ २८७ ॥ वस्तुस्वभावइति । यतो न मानान्तरयोग्यत्वं सत्त्वं ततः पदार्था- नामभावव्यावृत्तवस्तुखभाव एव सत्त्वमिति गृहाणेति सम्बन्धः । ननु स्वरूपस्यैव सत्त्वे वेदान्तेषु सत्पदेनापि तदेव बोध्येतेति सत्पदे भागलक्षणा वर्णितानुपपन्ना स्यात्तत्राह-तच्चेति । तद्वस्तुस्वभाव- लक्षणं सत्त्वं द्विधेति च गृहाणेति सम्बन्धः। द्वैविध्यमेवाह-वितथेति ।

प्रथमोऽध्यायः।
२८७
wesome
सत्यानृतविभागेनेत्यर्थः । तर्हि सत्पदस्यानेकार्थताप्राप्तिस्तत्राह-
सत्त्वं द्विरूपमिति । इतरेतरसंक्रमेणेतरेतराध्यासेनैकत्वमापनमेतत् द्विरूपं
द्विविधं सत्वव्यवहारकाले सच्छब्दवाच्यमिति च गृहाणेत्यर्थः।२८७।
।
तहि पदोपस्थापितस्यैव वाक्यर्थान्वयित्वाद्वाक्यार्थसत्त्वमपि
द्विरूपं स्यादित्याशङ्कय पूर्वोक्तं स्मारयति-
उत्सृज्य तत्र वितथांशमथेतरस्मि-
संवित्स्वरूपपरमार्थसति स्वरूपे
बुद्धिं कुरु प्रणिदधत्प्रणयेन भूनि
ब्रह्माहमस्मि परमार्थसदित्यजस्रम् ॥ २८८ ॥
उत्सृज्येति । तत्र सत्पदार्थे इतरपदार्थमेवाह-संवित्स्वरूपपरमार्थसतीति।
सत्त्वपदार्थेऽसत्यांशं परित्यज्य संवित्स्वरूपपरमार्थसति भूम्नि
स्वरूपे निरस्तनिखिलोपाधिस्वाभाविकसद्रूपे विषये प्रणिदधदवहि-
तमनाः सन् प्रणयेन भक्तिश्रद्धाभ्यां बुद्धिं कुर्वित्यर्थः । बुद्धराकार-
मभिनीय दर्शयति परमार्थसद्ब्रह्माहमस्मीति ॥ २८८ ॥
यञ्चोक्तं ब्रह्मणो मानान्तरगोचरत्वे तत्र प्रवृत्तवेदान्तानामनु-
वादकत्वं तदगोचरत्वे च तत्र न वेदान्तानां व्युत्पत्तिरिति तदसत्
ब्रह्मणो वाक्यार्थत्वात्-ननु पदवाच्यब्रह्मण्यपि न मानान्तरं दृश्यते
इति चेत्तत्राह-
ब्रह्मस्वयंप्रभमतः शबलेषु तस्य
मानान्तरानधिगतेष्वपि शब्दशक्तिः ।
रूपेषु वृद्धजनसंव्यवहारहेतोः
शक्या ग्रहीतुमुदितन पथाऽनभिज्ञैः ॥ २८६ ॥

सटीक संक्षेपशारीरके- ब्रह्मति । यतो ब्रह्म केवलं स्वयंप्रमं ततस्तस्य स्वप्रकाशसत्या- धात्मकस्य ब्रह्मणो मानान्तरानधिगतेष्वपि ब्रह्मस्वरूपसाक्षिणा प्रकाशमानेषु सत्यादिशबलेषुपुरुषेष्वर्थेष्वनभिज्ञैरविवेकिभिराकाशादौ सत्यतेत्यादिनोदितेन यथा शब्दशक्तिः गृहीतुं शक्येति सम्बन्धः तत्रैव व्युत्पत्तौ हेतुमाह-वृद्धजनेति । तदेकविषयवृद्धव्यवहारातो- रित्यर्थः। ननु प्रमाणं विना घटादयः केवलं साक्षिणा न ज्ञाततया प्रकाशन्ते, न चाज्ञाततयोपस्थितेव्युत्पत्तिः संभवति । तत्र व्यवहारा- योगात्, नापि घटादेः प्रमाणव्यापारकविषयन्वे तच्छबलं केवल- साक्षिवेद्यमिति संभवतीति चेत्सत्यम्-तथापि सर्वत्र ज्ञातस्यैव प्रमणविषयत्वादज्ञानस्य चात्ममात्रविषयत्वेन घटादावभावान्न तस्य प्रमाणव्यापारविषयत्वमत एव तच्छबलस्यापि न प्रमाणव्यापार- विषयत्वं किन्तु तत्तत्प्रमाणजन्यवृत्त्यभिव्यक्ततत्तदुपहितचैतन्यात्म- साक्षिणैव घटादिकं स्पष्टं प्रतीयते। ततश्च तत्र व्यवहारसंभवा- व्युत्पत्तिः संभवतीति अस्मद्दर्शनानुरोधेनैवेदमुक्तमिति द्रष्टव्यम्।२८६॥ नन्वस्तु सत्यादिपदानामेवं व्युत्पत्तिः आत्मादिपदस्य चाहं- कारादौ व्युत्पत्तिः, प्रमाणं विनैव तस्य साक्षिणा स्पष्टं प्रतीयमान- त्वाद्ब्रह्माद्वितीयादिपदानां त्वद्वितीये कथं व्युत्पत्तिः, न हि तद्वितीयं मानान्तरेण ज्ञातुं शक्यते, न वा साक्षिणाहमिव स्पष्टं तत्त्वेन प्रतोयत इत्याशङ्कय तव्युत्पत्तिप्रकारं दर्शयति- लोकप्रसिद्धार्थपदान्तराणां समीपसंकीर्तनतोऽपि शक्तिः। ब्रह्मादिशब्दस्य सुखावसेया यथा हि यूपादिगिरस्तथैव ॥ २० ॥ suman लोकपसिद्धेति । यतो वा इमानि भूतानि जायन्ते। येन जातानि प्रथमोऽध्यायः। २८६ जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तब्रह्म' इति श्रौत प्रयोगे प्रसिद्धपदसमभिव्याहाराद्ब्रह्मादिपदस्य शक्तिरवसेयेत्यर्थः । अपिः संभावनायाम् । अथवा व्युत्पत्तिर्युपस्थितिमात्रमपेक्षते । उपस्थि- तिश्च कार्यलिङ्गेनापि कारणस्याद्वितीयस्य संभवतीत्यपिशब्दःसूचयति। प्रसिद्धार्थपदसमभिव्याहारेण वेदे पदशक्ति ग्रह दृष्टान्तमाह-यथा हौति यथा यूपपदस्य यूपं तक्षति यूपमष्टाश्रीकरोतीत्यादिवाक्ये तक्षत्यादि- पदसमभिव्याहारेण तक्षणसंस्काराष्ट्राश्रादिविशेषे खदिरादिप्रकृतिके काष्ठविशेषे शक्तिर्गृह्यते' तथाहवनीयादिपदस्थाग्नीनादधीताहवनीये जुहोतीत्यादि जुहोत्यादिसमभिव्याहारेण होमाधारः कुण्डविशेष- विशिष्टः संस्कृतोऽग्निरर्थ इति तद्वदित्यर्थः ॥ २६० ॥ इदानीं ब्रह्मादिपदानां व्युत्पत्ति बिनाऽस्थूलादिवाक्यनिषेध- मुखेनैव ब्रह्मसिद्धिरिति परैः परिभव इति न्यायेन कार्यवेदार्थवादिनं प्रत्याह- विनाऽपि शक्तिग्रहणं पदानां परात्मनोर्वाचकभावभाजाम् । भवेत्परब्रह्मणि वेदवाक्यात- प्रतीतिरन्यप्रतिषेधनेन ॥ २६१ ॥ विनापीति । वाचकभावभाजां वाचकत्वशक्तियुजां वेदवाक्यानेति नेतीत्यादिवाक्यात् ॥ २१ ॥ ननु तत्रापि शक्तिग्रहणं विना कथं शाब्दप्रतीतिस्तत्राह-- नञः प्रपञ्चप्रतिपादकस्य च प्रतीत्य शक्ति व्यवहारतः खिता सटीके संक्षेपशारीरके- नज ते पदस्य शक्नोति परं समीक्षितुं श्रुतेः प्रपञ्चप्रतिषेधमार्गतः ॥५६२॥ । प्रपञ्चप्रतियादकस्य स्थौल्यादिप्रपञ्चविषयपदस्थति सम्बन्धः । व्यवहारतः स्थितः व्यवहारे स्थितः सन्नित्यर्थः। ततश्चा- द्वितीयादिपदस्यैव व्युत्पत्तिर्माभूदित्युच्यते न स्थूलादिपदस्यापि तस्य लोके स्थौल्यादिघाचकत्वेन नअपदस्य च स्वसंसृष्टाभाववाचकत्वेन सिद्धत्वादतो तन्निषेधमुखेन वेदान्ताद्ब्रह्मप्रतिपत्तिः संभवतीत्यर्थः॥२६२॥ यञ्चोक्तं ब्रह्मणः प्रवृत्तिनिवृत्तिविहीनतया तत्र वेदान्ताप्रमाण्य- मिति तत्र किं प्रवृत्तिनिवृत्त्योः साक्षात्प्रामाण्यप्रयोजकत्वं किं वा फलद्वारा? आये प्रवृत्तिनिवृत्तिविहीना वेदान्ताः स्वतन्त्रं प्रमाणमेव न भवन्तीत्युच्यते किंवा प्रमाणमप्यद्वितीये ब्रह्मणि न प्रमाणमित्युभय- थापि नेत्याह- ब्रह्मास्मीतिवचोनिविष्टपदयोर्मानं भवेदन्वयः साक्षादव्यवस्तु तस्य च भवेन्मेयं ततस्तद्गतेः। यद्यत्र प्रमितिं करोति भवति प्रामाण्यमत्रास्य च स्पष्टं दृष्टमिदं हि युक्तिघटितं रूपे यथा चाक्षुषः॥२६३॥ ब्रह्मास्मीति । अहं ब्रह्मेति बाक्यस्थाहब्रह्मेतिपदयोर्यः समन्वयः साक्षात्स्वातन्त्र्येण मानं भवेत्तच्च प्रमाणमद्वितीये ब्रह्मणीत्याह- अद्वयवस्तु तस्य च भवेन्मयमिति । तस्य समन्वयस्य वेदान्तानामज्ञातार्थ- प्रमितिहेतुत्वेऽद्वितीयब्रह्मणः तन्मेयत्वे च हेतुमाह-ततस्तद्गतेरिति । ततः पदद्वयसमन्वयात् तस्याद्वितीयब्राह्मणो गतेरवगतेरित्यर्थः । न ह्यप्रमाणात् प्रमेयविषयप्रमितिर्जायत इत्यर्थः। तथा च प्रवृत्तिनिवृत्ति- विहीना अपि वेदान्ताः प्रमितिजनकत्वात्प्रमाणं प्रमितेश्चाद्वितीयब्रह्म

प्रथमोऽध्यायः।
२६१
विषयत्वात्तत्रैव प्रमाणमित्यर्थः । ननूत्पद्यतां प्रमितिः तथापि न तन्मा
त्रेण तत्र वेदान्तप्रमाण्यं प्रवृत्तिनिवृत्तिजनकप्रमितिजनकस्यैव ज्यो-
तिष्टोमादिवाक्यस्थ प्रामाण्यदर्शनादिति चेन लाघवान्प्रमितिजनक-
त्वस्यैव प्रामाण्यप्रयोजकत्वादन्यथोपपत्तिवाक्यस्याप्रामाण्यप्रसङ्गा
दित्यभिप्रेत्याह-यदीति । यदि वेदान्तोऽत्र ब्रह्मात्मनि स्पष्टं निसंदिग्धं
प्रमिति करोति तमुस्य वेदान्तस्यात्रात्मनि स्पष्टं निसन्दिग्धं प्रामाण्यं
भवति न केवलं वेदान्तानामेव प्रमाजनकत्वेन प्रामाण्यं किन्त्वन्यत्रापि
दृष्टमित्याह-दृष्टमिति । कुत्र दृष्टमित्यत आह-रूपे यथा चक्षुष इति । न
केवलं दर्शनमात्रमुपपन्नं चेत्याह-युतिघटितमिति । अन्यथोपेक्षाज्ञान
जनकचक्षुरादेरप्रामाण्यप्रसङ्ग इत्यर्थः । अथवा यदीति । यद्यत्र विषये नि
श्चयात्मिकां प्रमितिमुत्पादयति तत्प्रमाकरणं तत्र प्रमाणं यथा रूपे
चक्षुरुपपन्नं चैतदिदं च प्रमाकरणत्वमस्य समन्वयस्यात्रात्मनि विद्यते
वेदान्तस्यात्मविषयप्रमितिकरणत्वं स्पष्टं दृष्टमतश्चक्षुरिव रूपे प्रवृत्त्या-
धननुकूलप्रमितिजनकोपि ब्रह्मणि प्रमाणमित्यर्थः। अनेन श्लोकेनापौ
रुषेयत्वेन स्वार्थ स्वतः प्राप्तप्रमाणभावानां वेदान्तानामनुवादकता-
लक्षणमप्रमाण्यमबोधकत्वलक्षणं संशयात्मकन्वलक्षणं च निरस्त
मितिद्रष्टव्यम् ॥ २६३॥
।
किञ्चानधिगताबाधितार्थगन्तृत्वं प्रमाणमात्रलक्षणं वेदस्य
च विशेषेण तद्वक्तव्यं तस्य तत्र तात्पर्यलिङ्गन्वान्न तत्प्रवृत्तिनिवृति
विना हीयते अतस्तादृशं प्रामाण्यमत्राप्यस्तीत्याह-
wammar
मानान्तरानधिगतं परिनिष्ठितं य-
वेदः समर्पयति चेतसि तत्परः सन् ।
तत्तथ्यमेव भवतीति समाश्रयस्व
श्रेयस्करो विधिगिरोऽवगतो यथैव ॥ २४ ॥

२१२ सटीके संक्षेपशारीरके- मानान्तरेति। मानान्तरायोग्यमित्यर्थः।परिनिष्ठितमपीत्यर्थः। चेतसि समर्पयति-बोधयतीत्यर्थः । तद्वेदसमर्पितं सिद्धमपि वस्तु तथ्यम बाधितमेव परिनिष्ठितमपि यदज्ञातं वस्तु वेदो बोधयति तत्तथ्यमेव । मानान्तरविरोधाभावादित्यर्थः । मानान्तरायोग्यस्य वेदतात्पर्यविषय- स्य यथार्थत्वे दृष्टान्तमाह-श्रेयस्कर इति । स्वर्गादिसाधननियोगः इत्यर्थः । अनेन च श्लोकेनानुवादकतालक्षणं बाधितार्थत्वलक्षणं च अप्रामाण्यं निरस्तमिति द्रष्टव्यम् ॥ २६४ ॥ । नन्वद्वयवस्तुनो मेयत्वं तत्र च समन्वयस्य प्रामाण्य मित्युक्तंतच अनुपपन्नम् 'अाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्य- मुच्यते' 'विधिना त्वेकवाक्यत्वात्' इत्यादिना सूत्रेण वेदप्रमेयस्य कार्य- त्वेन चोदनात्वेन च वेदप्रामाण्यस्य नियमितत्वादित्याशङ्कयाह- निष्पन्नमेव यदि वा पुरुषप्रयत्न- निष्पाद्यमस्तु तदनङ्गमिह प्रमेये । एवं विधिर्भवतु शब्दसमन्वयो वा प्रामाण्यकारणमिदं न वदन्ति मन्तः ॥ २५ ॥ निष्पन्नामिति । यदि वा यद्वा वेदप्रतिपाद्यं सिद्ध साध्यं वा भवतु तत् सिद्धत्वादिकमिह वेदप्रमेयत्वेऽनङ्गमप्रयोजकमित्यर्थः । वेदता- त्पर्यविषयो हि वेदार्थः। न च तात्पर्य सिद्धत्वमसिद्धत्वं वा प्रयोजक- मुपक्रमादिष्वन्यतमत्वाभावादेतस्यैवं प्रमाणस्यापि विधित्वं समन्वयत्वं वाऽकिञ्चित्करं किं त्वनधिगताबाधितासंदिग्धार्थावबोधकत्वमे- वेत्यर्थः। जैमिनिसूत्रं चान्यविषयं क्रियाप्रकरणेऽवगतानां सिद्धानां तथैवोपपन्नत्वादित्यर्थः ॥ २६५ ।

प्रथमोऽध्यायः। २६३ तद्भेदकल्पना न न्याय्या। तत्र यदि ब्रह्मैव सर्ववेदार्थ इति कल्प्येत । तदा यागादिसकलव्यवहारोच्छेदात्कर्मकाण्डानर्थक्यप्रसङ्गः । कार्य- परत्वे तु नैव वेदान्तभागस्य कात्मस्तावकतया कार्यशेषत्वेनार्थ- वत्त्वोपपत्तेः। ततः सर्वस्यापि वेदस्य कार्य तच्छेषो वार्थः न तु स्वप्रधानं ब्रह्मेत्याशङ्कय भवेदेवं यदि प्रमाणस्यैकार्थ्यमात्रविषयत्व- नियमोऽस्ति । स एव नास्ति । तथा सति कर्मभागानामपि परस्पर- मभिन्नार्थतयाऽप्रामाण्यप्रसङ्गादित्यभिप्रेत्य सदृष्टान्तमाह- ANP नीलैकगोचरतया नियतं न चतु- नाप्यस्य पीतविषये नियमोऽस्ति शक्तः । तद्वन्न वेदचसामपि शक्तियोगः कार्यादिवस्तुष्टु कथंचन पक्षपाती ॥ २६ ॥ नोलैकेति । अस्य चक्षुषः यथा चक्षुषो नीलपीतज्ञानयोरन्यतर- स्मिन्नेव न शक्तिर्नियता तत् कस्य हेतोरुभयज्ञानयोरपि तदन्वयव्यतिरे- कानुविधानादेवं वेदस्यापि कार्यतच्छेषावेवार्थ इति न नियन्तुं शक्यते। ब्रह्मणोपि ततोऽवगतेरित्यर्थः ॥ २६६ ॥ किञ्च जैमिन्याचार्योपि'अर्थे अनुपलब्धे तत्प्रमाणं बादण्यणस्या- नपेक्षत्वादि'त्यत्रार्थस्य मानान्तरानुपलब्धत्वं प्रमाणस्यानपेक्षत्वं च प्रमाणत्वप्रमेयत्वप्रयोजकतया सूचयन् सिद्धपि शब्दसमन्वयमामा- ण्यमङ्गीचकार । प्रामाण्यहेतोस्तदभिमतस्यात्रापि सत्त्वात्। परन्तु धर्म विचारानुपयुक्तत्वादन्यथासिद्धत्वाञ्च न विचारयामासेत्यभिप्रेत्याह- यहादरायणमतं परिगृह्य पूर्व २६४ सटीक संक्षेपशारीरके- यथा प्रामाण्यमुक्तमिदमस्य समन्वयस्य वस्तुस्वरूपकथनेऽन्यविशिष्टमस्ति ॥ २६७ ॥ यदादरायणांत । अनधिगतेऽर्थे वेदप्रामाण्येऽपौरुषेयत्वादिति वादरायणसंमतं हेतुं परिगृह्यानधिगते धर्मे चोदनायाः प्रवर्तक वाक्यस्य यत्प्रामाण्यं जैमिनिनोक्तमिदमनपेक्षत्वमस्य वेदान्तस्य वस्तु- स्वरूपकथनेप्यविशिष्टमित्यर्थः कार्यबोधकन्वे त्वदभि- मते वेदान्तानामनपेक्षत्वमेवमस्मदभिमतसिद्धवस्तुबोधनेपोत्यपिशब्देन धोत्यते ॥ २७॥ ननु शबरस्वामिना'दृष्टो हि तस्यार्थः कर्मावबोधनं नामे ति वदता कार्य एव वेदप्रामाण्यं जैमिनेरपि संमतमिति सूचितम् । तत्कथं जैमिनेरित्थमभिप्रायो पर्यत इत्याशङ्कय तद्वचनं चोदनात्मकवेद- भागमात्रविषयमेवास्मदुक्ताभिप्राय एव तव्याख्यातृहृदयंगमो भवति। तव्याख्यातारो हि 'अज्ञातवस्तु मेयं स्याद्धतुस्तत्प्रमितेः प्रमेति प्रमाणप्रमेयसामान्यलक्षणमाचक्षाणा अज्ञातस्य ब्रह्मणस्तद्बोधकवेदा- न्तानां च प्रमेयत्वप्रमाणत्वे अभिमन्यन्ते अन्यथा तदुक्तलक्षणस्थाति- व्याप्तिप्रसङ्गादतो नूनं तन्मूलभाष्यतन्मूलसूत्रकृतामप्ययमेवाभिप्राय इत्यभिप्रत्याहme - मानान्तरानधिगतं त्ववगम्यमानं मेयं भवेदिति हि मेयविदो वदन्ति । मानान्तरानधिगते विषयेऽवबोधं कुर्वत्प्रमाणमिति मानविदा प्रसिद्धिः ॥ २६८ ॥ मानान्तरेति । तिष्ठत नाम जैमिनिशबरभट्टानां संवादः नहि प्रथमोऽध्यायः । २६५ वेदान्तस्य प्रामाण्यं सर्वज्ञवादण्यणाभिमतमपह्नोतुं शक्यते । न च कार्यस्यापि कार्यत्वेन प्रमेयत्वं तथात्वेऽन्तरावाक्यममितोपांशुयाज- कार्यस्यैकस्य विष्णवादिवाक्यतात्पर्यप्रमेयत्वप्रसङ्गात् किन्त्वज्ञात- त्वेन एवं चोदनाया अपि न चोदनात्वेन कार्य प्रमाण्यं कित्वज्ञात- ज्ञापकत्वेन अन्यथा ऽन्तरावाक्यावगतेऽपि कार्थविष्णवादिवाक्यस्य तात्पर्यप्रसङ्गात्ततश्च सिद्धान्तविप्लवप्रसङ्गः । न चाशातकार्यस्य वेदप्रमेयत्वमज्ञातकार्यप्रमितिजनकचोदनात्वेन च प्रमाणस्य प्रामाण्य- मित्येवास्माकमप्यङ्गीकार इति वाच्यम् । कार्यपदवैयर्थ्यात् ॥ २६८ ॥ नन्वज्ञातब्रह्मणः प्रमेयत्वं तत्प्रमितिजनकवेदान्तानां च प्रामाण्यं तेन निवर्त्यत इति चेदहो कार्यनिपुणमतेः कार्याकार्यमूढता यत्स्वा- भिमतकार्यकप्रमेयत्वादिकं न जानाति । अज्ञातवस्तु ब्रह्म तद्विषय- प्रमिति वेदान्ता जनयन्ति । ब्रह्म च न प्रमेयं वेदान्तश्च न प्रमाणमिति खवचनव्याहत्ति च न पश्यति । अतः कार्यस्याप्यज्ञातत्वेन प्रमेयत्वं चोदनाया अप्यज्ञातविषयप्रमितिजनकत्वेन प्रामाण्यमिति वक्तव्यम् । तच्च ब्रह्मणि वेदान्तानां तुल्यमिति काण्डद्वयमपि तुल्ययोगक्षेममेवे त्यभिप्रेत्याह- एवं सतीह यदि वेदशिरो नमानं श्रेयस्करे विधिगिरोऽपि न मानता स्यात् । श्रेयस्करे विधिगिरो यदि मानता स्या- द्वस्तुस्वरूपकथनेऽपि समन्वयम्य ॥ २६६ ॥ एवं सतीति । अज्ञातवस्तुत्वतद्विषयप्रमितिजनकत्वयोरेव प्रमेयत्व- प्रमाणत्वप्रयोजकत्वे सतीत्यर्थः ॥ १६॥ का २६६ सटीके संक्षेपशारीरके- मित्युकम् । इदानीमाम्नायस्य क्रियार्थत्वादित्यादौ किमर्थशब्दः अभि- धेयपर उत प्रयोजनपरः । नाद्यः। यूपादिशब्दानामभिधेयाभाव- प्रसङ्गात् । न द्वितीयः । प्रकृतेपि प्रयोजनस्य सर्वोत्कृष्टस्य सत्त्वादिति वक्तुं प्रयोजनद्वारा प्रवृत्तिनिवृत्त्योः प्रामाण्यप्रयोजकत्वमिति द्वितीयं पक्षमाशङ्कते- -- वस्तुस्वरूपकथने ननु नास्ति पुंसः किञ्चित्फलं विधिवचःसु पुनःप्रवृनिः। संभाव्यते फलमतःकिल वस्तुनिष्ठं वाक्यं विधिस्तुतिपरं त्विति जैमिनीयाः ॥३०॥ वस्तुस्वरूपेति । नन्विति चोधे श्रादौ योजनीयं प्रवृत्तिनिवृत्त्यविषय- वस्तुस्वरूपकनेन पुंसोऽध्येतुः प्रयोजनं नास्तीत्यर्थः । विधिवचने तु नैबमित्याह-विधिवचःस्विति । विधिवचःसु पुनर्यतः प्रवृत्तिरस्ति । ततः फलं सभाव्यते । फलवदर्थपरत्वं हि वेदस्य वक्तव्यं फलञ्च प्रवृत्ति- निवृत्तिसाध्यं विध्यधीनं भवति न समन्वयमात्राधीनमिति यतो ऽतो वस्तुनिष्ठं वाक्यं विधिस्तुतिपरं विधिशेषकात्मस्तुतिपरं किलेति सम्बन्धः ॥ ३०० ॥ एतद् दूषयति- स्यादेतदेवमनवद्यपुमर्थसिद्धि- वेदान्तवेद्यविषयावगतौ न चेत्स्यात् । स्वाराज्यमन्त्र कवलीकृतभोगभूमि प्रथमोऽध्यायः। स्यादेतदिति । वेदान्तवेद्यब्रह्मावगतावनवद्यपुरुषार्थसिद्धिनित्य- निरतिशयपुरुषार्थप्राप्तिन स्याञ्चेदेवमुक्तप्रकारेणैतद्विधिशेषत्वं स्या- दपि । नचैवं कुतः यतो ब्रह्मसाक्षात्कारेण परमपुरुषार्थप्राप्तिः । 'ब्रह्मविदाप्नोति परम्"अानन्दो ब्रह्मेति व्यजानात्' 'अनन्दाद्धयेव खल्वि- मानि भूतानि जायन्ते' 'यो वै भूमा तत्सुखमिति प्राप्तव्यस्य ब्रह्मणः परमानन्दत्वावेदनपूर्वकं श्रूयते इत्याह-स्वाराज्यामिति । सुखमित्यर्थः। अत्र ब्रह्मसाक्षात्कारे वेदान्तेष्विति वा श्रूयते हीति शेषः । किञ्च वैपरी- त्यमेव शेषशेषिभावस्य न्याय्यं परिपूर्णप्रयोजनलाभस्यात्रैव सत्त्वान हि सर्वस्य वेदस्य परमपुरुषार्थपरत्वे संभवत्यतितुच्छस्वर्गादिमात्र- निष्ठत्वमुपपद्यते। न हि महाराज्ये प्राप्ते कश्चिद्विषयजमुखाभिलाषी भिक्षावृत्तिमनुसरतीत्यभिप्रेत्याह-कवलीकृतेति । कवलीकृता प्रस्तान्तर्ग- भिता भोगभूमिः स्वर्गादिर्येन स्वाराज्येन तत्तथा 'तस्येयं पृथ्वी सर्वा वित्तस्य पूर्णा स्यात्स एको मानुष आनन्द इत्यारभ्य स एको ब्रह्मण आनन्द' इत्यन्तेन सर्वस्यापि भोगभूमेरत्रैवान्तर्भावः श्रूयत इति- सर्वमत्रैवान्तर्भूतमित्यर्थः। तत एव सम्पूर्ण निरतिशयं न केवलमेतादृशं श्रूयते किन्त्वनुभूयते च तथा विद्वद्भिरित्याह-दृष्टमिति । अनेन दृष्टफलत्वादप्येतस्य न विधिशेषत्वं फलवत्संनिधावफलं तदङ्गमिति फलशून्यस्यैवान्यशेषत्वात् प्रत्युत तस्यैव तच्छेषत्वं दृष्टफले संभवति । सर्वथाप्यदृष्टफलपरत्वकल्पनानुपपत्तेरिति दर्शितम् ॥ ३०१ ॥ ननु बहुवित्तव्ययायाससाध्यैरश्वमेधपर्यन्तैर्यज्ञैरिन्द्रादिप्राप्तिरेव प्रार्थ्यते । श्रुतिरप्येतासां देवतानामेको भवतीति देवताप्राप्तिमेव फल- त्वेन दर्शयतीति तद्विलक्षणमोक्षः कथं पुरुषार्थ इतिचेत्किमेतावता मोक्षोपि पुरुषार्थतया देवताप्राप्तिरेवेत्युच्यते किं वा देवताप्राप्ति- विलक्षणतया अपुरुषार्थ इति । नाद्यः । सा हि कर्मणामपरविद्यायाश्च फलं न निर्गुणब्रह्मविद्यायाः ब्रह्म वेद ब्रह्मैव भवतीति परविद्याया:

२६८ सटीके संक्षेपशारीरके- यस्यापि विप्लुषि कृतार्थतया निषण्णाः शक्रादयो जलचरा इव सागरस्थ । प्रत्यक्स्वभावकमपास्तसमस्तदुःखं तद्वैष्णवं सुखमवाप्तवतः किमन्यत् ॥ ३०२॥ यस्यापीति । सागरस्य विप्लुषि लेशे मीना इव शक्रादयो देवता यस्य सुखस्य विप्लुषि कृतार्थतया निषएणा उपविष्टास्तवैष्णवं परमात्म- स्वरूपभूतं सुखं विद्ययाऽवाप्तवतः किमन्यत्प्रापणीयमित्यर्थः । सुखस्य वैष्णवमित्यनेन परमात्मस्वरूपतया प्राप्तव्यस्यापि क्रियापूर्विकैव प्राप्तिरुचिता न ज्ञानमात्रादितिशङ्कानिराकरोति-प्रत्यक्स्वभावकमिति । ततश्चाक्षानादेव व्यवधानप्रतीतिरिति, ज्ञानादेव तत्प्राप्यत इत्यर्थः । तथा च एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीतिदेवतानां स्वरूपानन्दलेशवत्तयैव कृतार्थत्वेऽशापेक्षयांशिन प्राधिक्यस्य लोकेप्य- धगतत्वात् किमु वक्तव्यं ब्रह्मानन्दमात्मतया प्राप्तवतः कार्तार्थ्यमित्यर्थः। न केवलं परविद्याया अनतिशयानन्दावाप्तिरेव भवति किन्तु निखि- लानर्थनिवृत्तिरपि । न चेयं कर्मणा भवति तस्य तद्धतुत्वादतो विद्याफलं मोक्ष उत्कृष्ट इत्याह- अपास्तसमस्तदुःखमिति ॥ ३०२॥ ननु प्रत्यक्स्वरूपस्य परमानन्दरूपत्वे किमिति तथा सर्वेर्ना- नुभूयते प्रतीयत एव किन्तु प्रतीयमानेप्यप्रतीतत्वारोपात्तथा न व्यवहियत इत्याह- अज्ञानमात्मविषयं भवहेतुभूतं प्रच्छादकं च परमात्मसुखस्य तूर्णम् । त्रय्यन्तवाक्यजनितात्ममतिविपाक- प्रथमोऽध्यायः। अज्ञानमिति । अत एव तस्य स्वरूपत्वेपि वाक्यजन्यज्ञानमर्थ- वदित्याह-तूर्णमित्यादिना । विपाक विषयप्रतिष्ठितत्वं यदि शब्दो निश्चयार्थे हन्त्येवेत्यर्थः। अतः उभयविधपुरुषार्थस्यापि विद्यया सिद्ध- स्वान्न विदुषः किञ्चिदर्थनीयमित्याह-तत्र किमर्थनीयमिति । श्रात्मसाक्षा- कारे सति न किञ्चिदप्यर्थनीयमित्यर्थ ।। २०३ ॥ नन्वेवमपि मोक्षसुखस्य पुरुषार्थत्वमनुपपन्नं प्रवृत्तिनिवृत्ति- साध्ययोरप्राप्तस्वर्गाद्यपरिहतनरकादिप्राप्तिपरिहारयोरेव पुरुषार्थ न्वाल्लोकेऽपि साध्ययोरिव तयोस्तत्त्वदर्शनादित्याशङ्कथ स्वतःप्राप्तपरि. हृतयोर्भ्रान्तिमात्रेणाप्राप्तापरिहृततया प्रतीयमानयोआनागान्तिनिवृ. त्तिमात्राधीनप्राप्तिपरिहारयोरपि तयोः पुरुषार्थत्वं लोके दृष्टं ततो मोक्षस्यापि पुरुषार्थत्वमुपपन्नमित्यभिप्रेत्य सदृष्टान्तं श्लोकद्वयेनाह- करमुषिनिविष्टिमुत्तमं कनकं प्रस्मरणादलब्धवत् प्रतिभाति तदाप्तवाक्यतःप्रतिपत्त्या लभते यथा जनः ३०४ परमात्मपदं पराकृतद्रितयं प्राप्तमपि स्वभावतः अनवाप्तवदेव लिप्सते लभते चैवमयं प्रमाणतः ॥ ३०॥ करमुष्टोत्यादि । करमुष्टिनिविष्टमाकुचिताङ्गलिकरतललग्नमनेन- स्वतः प्राप्तत्वं स्वर्णस्योक्तम् । एतञ्च परिहृतस्थाणुचोरस्याप्युपलक्षणम् प्रनष्टं स्मरणं प्रस्मरणं तस्मादलब्धवदनवाप्तवदपरिहतमिव चेत्यपि द्रष्टव्यम् । तत्कनकं चोरं च लभते श्राप्नोति परिहरति चेत्यर्थः । लित्सते प्राप्तुमभिवाञ्छतीत्यर्थः । प्रमाणतस्तत्त्वमादिवाक्यजन्यात्म- । साक्षात्कारादित्यर्थः । यथा हि कनकं मुष्टौ निधाय गच्छन्नन्धकार- श्यामलितदृष्टिः समीपवर्तिनं स्थाणु चोरं मन्यमान श्राह हा हतोऽस्मि २०० सटीके संक्षेपशारीरके- च नष्टमित्यनुशोचन केनचित् कृपालुना मा भैषोर्मा शोचः न चोरोऽयं स्थाणुरेव मुष्टिं च विमुच्य कनकं पश्येत्युक्तस्तद्वाक्यजन्यज्ञानेन प्राप्तमपि कनकं प्राप्नुवन्निव परिहतमेव चोरं परिहरन्निव कृतार्थोऽह- मिति मन्यते, एवमयमधिकारी गुरूपदिष्टतत्वमस्यादिवाक्यात्प्राप्त- मेव परमात्मानं प्राप्नुवन्निव परिहतमेव संसारं परिहरन्निव कृतार्थों- भवति। तथा च प्रवृत्तिनिवृत्त्यभावेपि मोक्षस्य पुरुषार्थत्वान्न दोष इत्यर्थः ॥ ३०४॥ ३०५॥ एवं वेदान्तानां प्रयोजनपर्यन्ततायै न प्रवृत्त्याधपेक्षेत्युक्तम् । इदानीं विधिफलनिरूपणेनापि वेदान्तेषु पुनः प्रवृत्त्याधपेक्षेन्याह- न स्वाध्यायवदाप्यता न च पुनस्त्रेताग्निवजन्यता न ब्रीह्यादिवदस्य संस्कृतियुजा नो सोमवद्विक्रिया। पाठाधानजलोक्षणाभिषवणैः कूटस्थरूपं हि त- ब्रह्मापास्तविकारजन्ममरणं निश्रेयसं साधनैः ॥ ३०६ ॥ न स्वाध्यायवदिति । विधेहि फलं चतुर्विधं भवति उत्पत्याप्ति- विकृतिसंस्कारभेदात् । तत्रोत्पाद्यत्वगग्नेः, अवाप्यत्वं स्वध्यायस्य, विकार्यत्वं सोमस्य, संस्कार्यत्वं ब्रीहः । स्वाध्यायाद्याप्त्यादौ क्रमेण- साधनमाह-पाठेल्यादिना । तत्रास्य ब्रह्मस्वरूपमोक्षस्याध्ययनेन स्वाध्या- यवद्वेदस्येव नाप्यता न प्राप्यता, आधानेन त्रेताग्निवदाहनीयाद्यग्नेरिव जन्यता चन, प्रोक्षणेन ब्रीहियवोलूखलादेरिवास्य संस्कृतियुजा संस्का यत्वमपि न, अभिषवणेन सोमवत्सोमलताद्विक्रियाविकार्यत्वमपि न । यथाहि स्वाध्यायोऽध्येतव्य इतिविधिः कर्मकारकप्रधानत्वात्तन्निष्ठं किञ्चिदतिशयं बोधयति । कर्मकारकंचस्वाध्याय इति तदवाप्तिस्तस्य- फलमवाप्तेः स्वाधीनोच्चार क्षमत्वेन पाठजन्यत्वाद्यथा वाग्नीनादधी-

प्रथमोऽध्यायः।
गतातिशयविशिष्टाग्न्युत्पत्तिरेव फलं यथा वा ब्रीहीन प्रोक्षतीतिकर्म-
कारकप्रधानप्रोक्षणविधेः प्रोक्षणक्रियायाः ब्रीहिगतसंस्कार एव फलं
यद्वच सोममभिषुणोतीत्यत्र सोमाभिषवणविधेरभिषवणेन सोमगत
रूपान्तरापत्तिः फलं भवति । एवमस्य ब्रह्मण श्राप्यत्वादिकं न
संभवतीत्यर्थः । चतुर्विधान्यतमक्रियाफलमात्मनि न संभवतीत्यत्र
हेतुमाह-कूटस्थरूपमित्यादिना कूटस्थरूपमित्यनाधेयातिशयस्थ-
भावमतो न ब्रह्मणः संस्काराख्यं क्रियाफलमित्यर्थः । यद्यप्यविधा-
निवृत्याख्यमलापकर्षलक्षणसंस्कारो ब्रह्मण्यपि सभवति । तथापि
सा ज्ञानैकसाध्येति न क्रियाफलमित्यर्थः । ब्रह्मेतिपदेनानवच्छिन्न-
महत्त्ववाचिना तस्यावाप्यत्वं निरस्तम् । अपास्तविकारजन्ममरण-
मित्यनेनोत्पाद्यत्वविकार्यत्वे निरस्ते । हि शब्दो हेतौ । यस्मात्कूटस्थ-
रूपं ब्रह्मापास्तविकारजन्ममरणं च तन्निश्रेयसं तस्मात्साधनैः पाठा
धानजलोक्षणाभिषवणैः स्वाध्यायवन्नाप्यते इत्यादिना सम्बन्धः ।
एतदुक्तं भवति क्रियासाध्यत्वे मोक्षस्य तस्योत्पाद्याधन्यतमत्वेन भवित-
व्यं कियाफलस्य तथात्वनियमात् न च मोक्षे कूटस्थाद्यात्मस्वरुपे
तदस्ति अतो न क्रिया साध्यो मोक्ष इति न कथमपि प्रवृत्य-
पेक्षेति ॥ ३०६॥
नन्वात्मस्वरूपतया मोक्षस्योत्पाद्यविकार्यसंस्कार्यत्वाभावेप्या-
प्यत्वं वक्तव्यं ब्रह्माप्येति श्रुतेरित्याशङ्कयाह-
ब्रह्मैव सन्नितिवचः प्रथमश्रुतत्वा-
दप्येतिशब्दमुपसहरणस्थमुवैः ।
प्रच्यावयत्स्वविषयादुचिताबलीयो
ब्रह्मात्मनोरनतिरेकमसाध्यमाह ॥ ३०७॥

३०२ सटीके संक्षेपशारीरके- प्रथममादौ श्रुतत्वादलीय उपसंहरणस्थमन्ते पठितमप्येतिशब्दमु. चितात्स्वविषयान्मुख्यार्थात् उच्चैः स्पष्टं प्रच्यावयदुत्सारयद्ब्रह्मा- स्मनोरसाध्यं स्वाभाविकमेवानतिरेकमभेदमाहेत्यर्थः । यद्यपि ब्रह्मा- प्येतीति तद्भावस्याप्यत्वं श्रूयते। तथापि तस्मिन्नेव वाक्ये प्रथम ब्रह्मैव सन्निति स्वाभाविकं ब्रह्मस्वरूप मिति श्रूयते प्रथमावगतानु- रोधेन चरमावगतं नेयमिति हि न्यायः ततः प्रथमं बुद्धिस्थेन बली- यसा ब्रह्मैव सन्नितिपदेन तद्विपरीतोऽप्येति शब्दः स्वार्थात्प्रच्याव्यौप चारिक्यामाप्तो व्यवस्थाप्यत इति भावः ॥ ३०७ ॥ नन्वाख्यातपदानां नामपदापेक्षया प्रधानत्वं वक्तव्यम् । तस्यैव भव्यार्थोपस्थापकत्वान्नामपदं च भूतार्थोपस्थापकत्वेनाप्रधानमेवा- ऽप्येति शब्दश्चाख्यातपदं ब्रह्मैव सन्निति च सुबन्तमतोऽनयोर्बला- बलभावो विपरीत एव। नच प्रथमाधीततयास्य प्राबल्यमिति वाच्यम् । तस्य मीमांसायां तत्र तत्र चरमश्रुतेनापि बलवता बाधस्य व्युत्पादि- तत्वात्तत्र च चरमश्रुतस्याख्यातत्वेन भव्यवाचकत्वात्प्राबल्यमित्या- शङ्कय किमेतस्य भव्यार्थवाचकत्वं तिङतत्वेन निश्चीयते उत प्रकारा- न्तरेणेति विकल्प्य यथा भव्यस्य तिङन्तवाच्यत्वं न नियतमेवं तिङन्तस्यापि न भव्यवाचकत्वनियम इति वक्तुमादौ भव्यस्य तिङ- न्तवाच्यत्वनियमं निराकरोति - आग्नेय इत्याद्यपि तडितान्त- मष्टाकपालादि समन्वितं सत् । आख्यातशब्दस्य धुरं बिभर्ति भव्यार्थसंवित्तिनिबन्धत्वात् ॥ ३०८॥ आग्नेय इति । प्राग्नेयाग्नीषोमीयेत्यादि तद्धितान्तं यत्पदं तदष्टा- New प्रथमोऽध्यायः। कार्य बित्ति धत्ते कुतः भव्याथसंवित्तिनिबन्धनत्वात्-कृतिसाध्यप्रतीति जनकत्वादित्यर्थः । एतदुक्तं भवति श्राग्नेयोऽष्टाकपालोग्नीषोमीयमेकादश- कपालमित्यादावग्निर्देवताऽस्याग्निषौमी देवताऽस्य अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यादिव्युत्पत्त्याग्नीषोमादिदेवतापुरोडाशादि द्रव्ययोः सम्बन्धस्य च तद्धितप्रत्ययेनावगमाद् द्रव्यदेवतयोर्यागस्व- रूपत्वात्तत्सम्बन्धस्य यागाविनाभूतत्वेन यागस्य तेनाक्षिप्तत्वात्स्व- रूपयागस्य भव्यस्यानेनैवावगतत्वादाग्नेयोऽष्टाकपाल इत्येतदेव याग- विधायकत्वादर्थत श्राख्यातपदं भव्यार्थप्रतीतिजनकत्वस्यैव तल्लक्षण- त्वादतो न भव्यमाख्यातैकवाच्यमित्यर्थः ॥ ३०८ । भवतु भव्यस्याख्यातैकवाच्यत्वानियमः श्राख्यातस्य तु भव्यै- कवाचकत्वे को दोषस्तत्राह- आख्यातमेव सदिदं भवतीतिनाम- भव्येतरार्थमतिजन्मनिबन्धत्वात् । अप्येतिशब्दमपि तद्वदिमं प्रतीमो भव्येतरार्थगतबुडिनिवन्धत्वात् ॥ ३०६ ॥ आख्यातमेवेति। अथवा नन्वेकस्मिन्वाक्ये एकमेवाख्यातपदं वक्तव्य- मन्यथाख्यातभेदेन वाक्यभेदापातात् अत्र च भवतीतिस्पष्टमेवाख्यात पदं श्रूयते। तत्कथमाग्नेयादिपदमप्याख्यातं स्यादित्याशङ्कय भवति पदस्योक्ताख्यातलक्षणविधुरत्वान्नाम लक्षणयुक्तत्वाचाख्याताभासत्व- मित्यर्थतो नामैव तत्पमित्याह-आख्यातमेवेति । इदं भवतीति पदं शब्दतः आख्यातं सदपि नामपदमेव तत्र हेतुः- भव्येतरार्थमितिजन्मनिबन्धत्वात् । असाध्यार्थबोधकत्वादित्यर्थः । यद्यपि भवतीतिपद शब्दतस्ति- ङन्तं तथापि भवनस्याभावार्थतया भव्यव्यापारतया वा पुरुष- ३०४ सटीक संक्षेपशारीरके- । त्वस्यैव नामत्वादित्यर्थः । अतोऽप्येतिशब्दस्य न तिङन्तत्वेन भव्यार्थ बोधकत्वं कल्पयितुं शक्यत इति न तत्प्रथमावगतं बाधत इति भावः । या या प्रप्तिः सा सर्वा क्रियापूविकेति नियमस्य ग्रामादिप्राप्तौ दर्शनाद्- ब्रह्मावाप्तेरपि क्रियापूर्वकत्वं वक्तव्यमित्यप्येतिपदस्य भव्यार्थत्वेन प्राधान्यमित्याशङ्कयाह-अध्येतिशब्दमपीति । तद्वद्भवतीतिपदवदर्थतोनामे- ति प्रतीम इत्यर्थः । ननु तत्र बाधकवशानामत्वं न चात्र बाधकं प्रत्युत साधकमस्तीत्युक्तं तत्राह - भव्येतरार्थगतेति । तद्विषयेत्यर्थः । अयम्भावः न चात्र बाधकाभावः । तथाहि न तावच्छाखामृगस्येव विदुषः प्राप्त- देशमपहाय देशान्तरप्रातिः सम्भवति । प्राप्यप्रापकयोरुभयोरपि सर्व- गतत्वात् । ननु जीवस्य विभुत्वेपि कर्मफलभोगार्थ देशान्तरप्राप्ति- वत्परमात्मप्राप्तिः किं न स्यात् । न च तत्र देशान्तरस्य परिच्छिन्नतया पूर्वमप्राप्तत्वेन भवति तत्र क्रियापूर्षिका प्राप्तिन तथात्र सम्भवति प्राप्यस्य परस्य सर्वगतत्वादिति वाच्यम्-परस्य विभुत्वेपि तस्य विकृ- ताविकृतोभयदेशतया विकृतदेशपरिहारेणाविकृतदेशप्राप्तेः क्रियापूर्व- त्वसम्भवादिति चेन्न । सम्भवति हि कर्मफलभोगार्थ देशान्तरगमनं तत्र गमनोपाधिभूतस्य मुख्यामुख्यप्राणस्य सत्वादत्र च न तथोपा- धिरस्ति। तस्य तप्तायः सिक्तजलवद्ब्रह्मज्ञानेन ब्रह्मणि निलीनत्वात्तथा च श्रुतिः “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त" इति नापि परस्य विकृताविकृतदेशद्वयं प्रामाणिक तस्य सर्वत्र सर्वदा अधिकृत- त्वात्। यस्तुप्राप्तेः क्रियापूर्वकत्वनियम उक्तः स तथैव । इयन्तु न प्राप्ति विभागसमानाश्रयत्वायोग्यत्वाच्चाप्तिशब्दाभिधेयत्वमात्रेण क्रियापूर्वकत्वं कण्ठगतचामीकारादिप्राप्तिशब्दाभिधेये व्यभिचा- रात् । ननु क्रियापूर्व प्राप्त्यभावेपि ज्ञानेन ज्ञाततया प्राप्यत्वं किं न स्यादिति चेन्न-स्वयंप्रकाशज्ञानात्मकतया तस्य तद्रूपेणापि नित्या- तत्वात्तस्मान्न कथमप्यप्येति शब्दस्य भव्यार्थतया प्राधान्यमिति प्रथमावगतं ब्रह्मति पदमेव प्रधानमिति भावः ॥ ३०६ ॥ । तस्याः प्रथमोऽध्यायः । ३०५ फलितमाह- ब्रह्मैव सन्नितिगिरं प्रति शेषिताये नाप्येतिगीरियमलं कथितोपपत्तेः । अाख्यातमेव खलु नाम पदस्यशेषि नाऽऽख्यातमेतद्वतत्वनिवेदकत्वात् ॥१०॥ ब्रह्मैव सन्निति । अथवा नन्वेतस्याख्यातत्वाभावेप्येकपदश्रुतित्वा. दितरस्य पदसमुदायात्मकवाक्यत्वात्तयोर्विरोधे श्रुतेर्बलीयस्त्याद- प्येतिपदं मुख्यार्थमित्याशङ्कयानर्थक्यप्रतिहतानां विपरीतं बलाबल- मितिन्यायेन एवं सति वाक्यस्य गत्यभावाच्छ्रुत्यर्थस्य च दुर्निरूपत्वाच तत्र वाक्यमेव प्रबलमित्याह--ब्रह्मैव सन्निात । एवं च सत्याख्यातप्राधा- न्यमपि न मया परित्यक्तम् । अत्रास्याख्यातत्त्वमेव न सम्भवतीत्याह- श्राख्यातमेवेति । तथा च ब्रह्मोतिपदस्य भव्यार्थशेषबोधकत्वं नास्तीति भावः ॥ १० ॥ ततोऽपि किमित्याकाझायामाह- ब्रह्मैव सन्निति ततः प्रथमश्रुतं स- दप्येति शब्दपसारयति स्ववाच्यात् । अस्याङ्गभावविरहादमुना सहातो ब्रह्मात्मनोरनतिरेकमुशन्ति धीराः ॥३११॥ ब्रह्मैव सन्निति । पदमितिशेषः । अप्येतिशब्दस्याख्यातत्वाभावस्ततः शब्दार्थः । ततोऽमुनाप्येतिशब्देन अस्य ब्रह्मैव सन्नितिपदस्या- भावविरहादप्येतिपदं प्रति शेषत्वाभावाद् ब्रह्मैव सशितिपद प्रथम श्रुतं सदप्येतिशब्दं स्ववाच्यादपसारयतीति सम्बन्धः। ततोपि ३०६ सटोके संक्षेपशारीरके- किमित्यत श्राह-श्रतो ब्रह्मात्मनोरिति । अप्येतिशब्दस्यामुख्यार्थत्वमतः शब्दार्थः, धीराः न्यायकुशलाः ब्रह्मवादिनो ब्रह्मात्मनोरनतिरेकम- भेदमुशन्ति वाञ्छन्तीत्यर्थः ॥ २११ ॥ एवमाख्यातप्राधान्येपि नाप्यतिपदस्य प्राधान्यं तस्याख्यातत्वा- भावादित्युक्तम्। इदानीं प्रतीत्यनुरोधेनास्त्विदमाख्यातपदं तथापिनात्र तद् ब्रह्मवद्यत्र हि भूतं भव्यार्थ स्यात्तत्रैव भव्यवाचकाख्यातस्य प्राधा. न्यमत्र तु न भूतं भव्या ब्रह्मणः स्वप्रधानस्यैव वाक्यप्रमेयत्वात् । किन्तु भव्यमेव वेदानुवचनादि भूतब्रह्माभिव्यक्तिशेषतया भूतशेषमतो विवक्षितब्रह्मात्मप्रतिपादकतया नामैवाख्यातपदा(लवदिति भूतभव्य न्यायोऽत्र विपरीत एवेति सप्रमारणमाह- भव्याय भूतमिति किं च विधिप्रधाने काण्डे नयोऽयमिह तद्विपरीतमाहुः । भूताय भव्यमिति भूतपरं हि सर्व वेदावसानमिति सूत्रकृदाचचचे ॥३१२॥ भव्याय भूतमिति । विधिप्रधाने काण्डे कर्मकाण्डे इह ब्रह्मकाण्डे. वैपरीत्यमेवाह-भूताय भव्यमिति । तत्र प्रमाणमाह-भूतपरं हीति । हि यस्मात्सूत्रकृत्सर्व वेदावसान-वेदान्तः भूतपरं स्वप्रधानब्रह्मपरमित्या- चचक्षे । तस्मादित्यर्थः । सूत्रकारो हि-तत्तुसमन्वयादित्यादि सूत्र- सन्दर्भेण सर्वेषां वेदान्तानां ब्रह्मण्येव समन्वय इति दर्शयति- सर्वापेक्षेत्यादिना च यज्ञादीनामात्मप्रतिपत्तिद्वारा नित्यसिद्धमोक्षो- पयोगं च । अतोऽत्र विपरीत एव न्यायो युक्त इत्यर्थः ॥ ३१२ ॥ विपरीतन्यायप्रदर्शनफलमाह- ब्रह्मैव सन्निति ततोऽपि वलिष्ठमेत- दप्येति शब्दमवसानगतं व्यपेक्ष्य ।

प्रथमोऽध्यायः । ३०७ तस्मादमुष्य परिपीडकमेतदेव ब्रह्मैव सन्नितिपदं गुणकल्पनायै ॥ ३१३ ॥ बहीव सन्निति । ततोऽपीति । ततो भूतस्य भव्यशेषत्वादपिशब्दा त्पूर्वोक्तन्यायादपीत्यर्थः । ब्रह्मैव सन्नितिपदस्य प्राबल्यनिरूपणफल- माह-तस्मादिति । प्रबलत्वादित्यर्थः । अमुष्येतिपदस्य परिपीडक खार्थात् प्रच्यावकं गुणकल्पनायै उपचारकल्पनायै तस्माद्ब्रह्मैव सन्नितितत्पदममुष्य गुणकल्पनायै परिपीडकमिति सम्बन्धः । तथा च मोक्षस्य नित्यसिद्धात्मखरूपतया न क्रियापूर्विका प्राप्तिरिति भावः॥ ३१३॥ कूटस्थात्मस्वरूपस्यो- ननु क्रियासाध्यत्वाभावेपि मोक्षस्य ज्ञानसाध्यत्वं वक्तव्यमन्यथा ज्ञानवैयर्थ्यप्रसङ्गादित्याशङ्कय यथा तस्य स्पत्यादीनामभावान क्रियासाध्यत्वमेवं ज्ञानसाध्यतापि नास्तीत्याह- निः श्रेयसं न खलु साध्यमतः क्रियाभि- ानेन वा यसमुच्चयवर्त्मना वा । उत्पत्तिराप्तिविकृती च न संस्कृतिश्च यस्मान्न संभवति वर्णितवर्मनेह ॥ ३१४ ॥ निःश्रेयसामेति । प्रत्येक क्रियाज्ञानसाध्यत्वाभाववत्समुचिताभ्या- मपि ताभ्यां न साध्यत इत्याह-द्वयसमुचितवर्मनेति । एतश्योपरिष्टा- प्रपञ्चयिष्यति । नच ज्ञानं व्यर्थमविद्यानिवृत्त्यार्थवत्त्वादित्यर्थः । इहात्मस्वरूपमीक्षे-इह वर्णितवर्मना यस्मादुत्पत्तिर्न संभवति । श्राप्ति- विकृती च न सम्भवतः। संस्कृतिश्च न सम्भवति । तस्माद्यथा- क्रियाभिनिश्रेयसं न साध्यते तथा ज्ञानेन वा समुच्चयवर्मना वा न साध्यते खल्वित्यर्थः ॥ ३१४ ॥ ।

सटीक संक्षेपशारीरके- मोक्षस्यासाध्यत्वसमर्थनफलमुपसंहरति- तस्मात् प्रवृत्तिविनिवृतिविवर्जितत्वं ब्रह्मात्मवस्तुविषयावगतेन दोषः । सर्वप्रवर्तकनिवर्तकमूलदाहा- स्वाराज्यहेतुरिति भूषणमेव तन्नः ॥३१५ ॥ तस्मादिति । यस्मान प्रवृत्तिसाध्यो मोक्षः । तस्माद्ब्रह्मात्मवस्तु विषयावगत्यनन्तरं प्रवृत्तिनिवृत्तिविधुरत्वमात्मनो न दोषायेत्यर्थक न केवलं प्रवृत्त्यादिराहित्ये ज्ञानस्य दोषाभावमात्रं किन्तु तद्गुण एव अन्यथावगत्यनन्तरमपि प्रवृत्त्याद्यपेक्षायां तद्धतुरागद्वेषयोस्तद्धत्व- विद्यायाश्चावश्यकत्वेन वैयर्थ्यप्रसङ्गादित्यभिप्रेत्याह-सर्वप्रवर्त्तकेति । सर्वेषां विवेकनामविवेकिनां च यो प्रवर्तकनिवर्त्तको रागद्वेषौ तयो- मूलमज्ञानं सर्वस्यालौकिकवैदिकप्रवृत्तिनिवृत्त्योर्यत्कारणं तन्मूलमिति वा । ननु माभूत् प्रामाण्यमूलप्रयोजनार्थ प्रवृत्तिः वेदान्तानां शास्त्रत्व- निर्वाहाय प्रवृत्त्यादिपरत्वं वक्तव्यम् तदुक्तं "प्रवृत्तिर्वा निवृत्तिर्वा निन्येन कृतकेन वा । पुसां येनोपदिश्येत तच्छास्त्रमभिधीयत" इति चेन्न हितशासित्वं शास्त्रत्वं न प्रवृत्तिपरत्वं निवृत्तिपरत्वं वा तयोः प्रत्येकमव्याप्तेः । उभयपरत्वं चासंभवीत्यर्थः ॥ ३१५ ॥ यदुक्तमज्ञातवस्त्ववगाहिनो मानस्यात्मनि प्रवृत्तिर्न संभवति तस्मिन्नज्ञानासंम्भवादिति तत्र कि मानाभावादात्मनि तन्न संभवती- त्युच्यते किं वा स्वयंप्रकाशे तस्मिन्विरुद्धत्वादित्याद्यपि किमज्ञान- स्यात्मविषयत्वे प्रमाणाभावः किं वा तदाश्रयत्व इति विकल्प्याद्य- पक्षद्वयं दूषयति- अज्ञातताऽपि घटतेऽत्र दृशोनुभूते- र्जानामि नाहमिति दृश्यपि दृश्यते हि ।

प्रथमोऽध्यायः। ३०६ - अज्ञाततानुभवनं न च वास्तवं त- दज्ञाततोद्वहति कल्पिततां हि तस्याः ॥ ३१६ ॥ अशाततापीति । अज्ञातता ज्ञानं दृश इति कर्मणि षष्ठी। अत्रात्मनि दृग्विषयमज्ञानं घटत इत्यर्थः । तत्रानुभवः प्रमाणमित्याह- अनुभूतेरिति । अनुभवमभिनीय दर्शयति दृशोनुभूतेजानामि नाहमित्यादिना मामहं न जानामीति प्रत्यगात्माश्रयतद्विषयाज्ञानं दृश्यत इत्यर्थः। तर्हि कि प्रमाणसिद्धत्वादज्ञानं वास्तवमेव नेत्याह-नचेति । तदज्ञानानुभवनं वास्तवं न विषययाथार्थ्यांपादकं प्रमाणमित्यर्थः । हि यस्मात्साक्षिणो भ्रान्त्यभ्रान्तिसाधारणतया ज्ञानानुभवनं न प्रमाणं तस्मादज्ञानं स्वस्य कल्पितत्वमेव वहतीत्याह-अज्ञाततेति । तस्या इति कर्मणि षष्ठी दृश इत्यर्थः ॥ ३१६॥ नन्वहं न जानामीति ज्ञानाभाव एवानुभूयते न तदतिरिक्त किञ्चिद्भावरूपं सर्वत्रापि नअर्थानुभवस्याभावविषयत्वात् न च झनाभावविशिष्टतयैवात्मनो ज्ञातत्वमिति वाच्यम्, तस्य नित्य- ज्ञानस्वरूपत्वेन तदभाववैशिष्टयानुपपत्तरिति चेत्तत्राह- अज्ञानमित्यजडबोधतिरस्क्रियात्मा जाड्यं च मौढ्यमिति च प्रकृतिः प्रसिद्धा । सा चातिदुःस्थितवपुर्दशमद्वितीया मालिङ्गति स्म घृतपिण्ड इवाग्निमिडम् ॥ ३१७ ॥ अज्ञानमिति । नच ज्ञानाभाव एवाज्ञानमभावम्य प्रत्यक्षत्वानुपपत्तः। श्राज्ञानं चापरोक्षमेव सुखादिवदनुभूयते । नन्वभावस्यापि प्रत्यक्षत्व- मस्तीति चेन्न-इन्द्रिगसम्बन्धं विना तस्य प्रत्यक्षत्वानुपपत्तेः । ननु संयुक्तात्मविशेषणविशेष्यभाव एव तस्येन्द्रियप्रत्यासत्तिरिति ३१० सटीके संक्षेपशारीरके- N चेन्न-संयुक्तात्मना तस्य मूलसम्बन्धं विना विशेषणविशेष्यभावस्यै- वानुपपत्तेः । नन्वभावात्मस्वरूपद्वयमेव तयोः सम्बन्ध इति चेन्न सम्बन्धस्थ सम्बन्धिभिन्नत्वनियमादन्यथाऽभावस्वरूपसम्बन्धस्येश्व- रात्मन्यपि सत्वेन तस्याप्यहं सर्वज्ञ इति वदहमज्ञ इत्यनुभवप्रसङ्गा- दज्ञानसम्बन्धे विद्यमानेपि तदपरिज्ञाने तस्यासर्वज्ञत्वप्रसङ्गात् । नन्वीश्वरोपि देवदत्ताज्ञानवानहमित्यनेन रूपेण सर्वाज्ञानतत्सम्बन्धान् जानातीति चेन्न-अभावरूपस्योभयसाधारणत्वेन तस्य देवदत्ती. यत्वेनैव विशेषणायोगात् । ननु देवदत्तसमवेतज्ञानप्रतियोगित्वात्स देवदत्तीय इति चेदहो अयमसिद्धनैवासिद्धं साधयितुं प्रगल्भते । न हि शानतदभावयोः कश्चित्सम्बन्धः सम्प्रतिपन्नोस्ति । येन देव- दत्तज्ञानमेव तत्प्रतियोगि नान्यदिति स्यात् । न च तयोनिरूप्य- निरूपकभाव एव सम्बन्धः । तत्रापि सम्बन्धस्य वक्तव्यत्वात् । किं च देवदत्तज्ञानप्रतियोगित्वमभावस्य तेन सम्बन्ध इत्युच्यते किं वाज्ञा- नाभावास्यैतद्देवदत्ताद्यज्ञानत्वे प्रयोजकमिति । नाद्यः। तदत्यन्ताभा- वस्यापि देवदत्तसंबन्धप्रसङ्गात् । द्वितीये देवदत्ताज्ञानत्वादिविशेषा- क्रान्ताभाववैशिष्ट्येनाहं देवदत्ताज्ञानवानिति विशेषाज्ञानानुभव- वदज्ञानत्वसामान्याक्रान्ताभाववैशिष्ट्येनाह देवदत्ताज्ञानवानिति विशेषाज्ञानानुभववदज्ञानन्वसामान्याक्रान्ताभावमज्ञ इत्यनुभवस्य दुर- पह्नवत्वात्। ननु तदीयाज्ञानवैशिष्ट्यमेवतदीयाहमज्ञ इत्यनुभवविषयः। नचाज्ञानस्येश्वरीयत्वमस्तीति चेन्न-अन्यदीयदण्डसम्बन्धिनि स्वस्मि- नहं दण्डीत्यनुभववदन्यदीयज्ञानसम्बन्धेप्यहमज्ञ इत्यनुभवस्यौचि- स्यात्। अस्त्विति चेन्न सर्वज्ञत्वाशत्वयोःसांकर्यानुपपत्तेरीश्वरस्येश्वर- स्वानुपपत्तेश्च वास्तवाशत्वज्ञानप्रयुक्तदोषस्य संसारस्यापि सिद्धत्वात्। ननु तत्वज्ञानस्य सत्त्वान संसार इति चेन्न-तस्य वास्तवाशत्वा- विरुद्धत्वेन तत्प्रयोज्यसंसारेणाप्यविरुद्धत्वात्तस्मादीश्वरस्याज्ञत्व- परिहारायाज्ञानसम्बन्धाभावो वक्तव्यः । स च तस्य स्वरूपत्वे न प्रथमोऽध्यायः। ३११ सम्भवति । ननु नास्त्येव तस्याज्ञानसम्बन्धः । सम्बन्धान्तरमन्तरा विशिष्टप्रत्ययविषयतायोग्यत्वस्याभावाधिकरणसम्बन्धस्य भगवत्य- भावादिति चेत्ताशयोग्यता किमभावाधिकरणस्वरूपमेव किं वा ततो- ऽतिरिक्ता । श्राद्ये नोक्तदोषनिस्तारः । द्वितीयेऽपसिद्धान्तः । अती- न्द्रियशक्त्यपरपर्याययोग्यतायास्त्वयानङ्गीकारात् । किं च विशिष्ट- प्रत्ययविषयत्वयोग्यताया अभावसम्बन्धत्वे घटवति भूतले तदभाव- भ्रमस्यापि पुरोदेशसम्बन्धविषयत्वेन प्रमात्वापातः। न च विशिष्ट- प्रत्ययजनकत्वं तथा च न भ्रमविषयाभावस्यास्ति भ्रमस्य विषया- जन्यत्वादिति वाच्यम् । अतीन्द्रियाभावस्याधिकरणसम्बन्धाभाव प्रसङ्गात् । तस्मादभावस्याधिकरणसम्बन्धाभावान्न प्रत्यक्षत्वं मा भूत्तर्हि शानाभावस्य प्रत्यक्षत्वं योग्यानुपलब्धिगम्यत्वमेवास्त्विति चेन्न-ज्ञानातीन्द्रियत्ववादिनो ज्ञानाभावस्य योग्यानुपलबिधग्राह्यत्वानु- पपत्तेः । प्रत्यक्षप्रतियोगिकाभावस्यैव योग्यानुपलब्धिगम्यत्वात्तर्हि ज्ञातताभावेनानुमीयत इति चेन्न-तस्या विषयेष्वनावश्यकत्वात् । अत एव व्यवहाराभावेनापि ज्ञानाभावानुमानं निरस्त किन्त्वज्ञान- संसर्गाभाव एवाज्ञानमिति वक्तव्यम् । अन्यथा ज्ञाने सत्यपि न जानामीत्यनुभवप्रसङ्गात्तत्रापि नात्यन्ताभावप्रध्वंसावज्ञानं तदनित्य- साविषयानुभवस्मृत्योर्विरोधादनुभवो घटज्ञानेन मेऽज्ञानं नष्टमिति "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन" इति च स्मृतिः । प्रागभावो- ऽज्ञानमित्यत्रापि कि यावज्ञानप्रागभावः । उत यकिञ्चिद् ज्ञान- प्रागभावः । नाद्यः । सर्वेषां ज्ञानानां प्रागभावस्य देवदत्ते युगपद- संभवात् । न द्वितीयः । घटज्ञाने सत्यपि घटमहं न जानामीत्यनुभव- प्रसङ्गात् । घटविषयज्ञानान्तरप्रागभावस्य सत्त्वात् । ननु तदापि घटज्ञानान्तरमपि नास्तीत्यनुभवोस्तीति चेत्सत्यमेव घटमहं न जानामीत्यप्यनुभवः किमिति न भवेद्विषषास्य सत्त्वात् । नन्वन्वय व्यतिरेकाभ्यां ज्ञानासमानकालीनज्ञानाभावस्यैवाज्ञानानुभवविषयत्वं सटीके संक्षेपशारीरके- । । । जाना- कल्प्यत इति चेत्तहि घटमहन्न जानामीति कदाप्यनुभवो न स्यात् । ज्ञानासमानकालीनत्वाभावादभावस्य । ननु विशेषविषयज्ञाना समानकालीनन्वमभावस्यात्राप्यस्तीति चेन्न घटत्वादिविशेषज्ञानस्या- त्रापि सत्त्वात् । ननु घटमहं जानामीत्यनुभवस्य घटत्वादिविशेषविष- यत्वेपि घटविशेषो न विषयः । श्रज्ञानं तु तद्विषयमतः खविषयविशेष- ज्ञानासमानकालीनज्ञानामावो ऽज्ञानमितिधियो बिषय इति चेत्कस्तहि घटविशेषविषयज्ञानाभावगोचराज्ञानानुभवः घटमहं मोत्यनुभव इति चेन्न-श्रस्य घटसामान्याज्ञानविषयत्वादन्यथा विशेष- विषयज्ञानस्य विशेषान्तराज्ञानाविरुद्धत्वेन यत्किञ्चिद्घटज्ञाने सत्यपि घटं न जानामीत्यनुभवप्रसङ्गादस्तु तर्हि घटविशेषं न जानामीति तदनुभव इति चेत्तयज्ञानविशेषणत्वेन विशेषस्यापि ज्ञायमानत्वेन खविषयविशेषज्ञानासमानकालीनत्वाभावेनाज्ञानाननुभवप्रसङ्गः। नन्व- झानाविषयकस्वविषयविशेषज्ञानासमानकालीनशानाभावो ऽज्ञानमि- स्यनुभूयते एकस्मिन्घटज्ञाने सति तु तस्यैव ज्ञानस्याज्ञानाविषय- स्याज्ञानविषयविशेर्षावषयस्य सत्त्वेन तत्कालीनज्ञानान्तराभाव- स्योक्तज्ञानासमानकालीनत्वाभावात् तथा नानुभूयत इति चेन्न- अज्ञानाविषयकेत्यत्र ज्ञानाभानस्यैवाज्ञानत्वे एतस्मिन्घटे मम पूर्व ज्ञानं नाभूविदानीमपि भविष्यज्ज्ञानं नास्तीत्यज्ञानविषयकशानदशायां घटमहं न जानामीति तदनुभवप्रसङ्गात् । किञ्च किमेतादृशयत्किञ्चि- जज्ञानासमानकालीनत्वमभावस्य विवक्षितमुत सकलतादृशज्ञाना- समानकालीनत्वम् । नाद्यः । एकस्मिन्घटज्ञाने सत्यपिज्ञानान्तराभाव- स्थ सत्त्वान्न जानामीत्यनुभवप्रसङ्गात्। द्वितीयस्त्वप्रसिद्धप्रतियोगिकः। किंच सत्तत्मागभावानुभवो ज्ञानत्वावच्छिन्नप्रतियोगिज्ञानाजायते । उत तत्तज्ज्ञानत्वावच्छिन्नप्रतियोगिज्ञानात् । नाद्यः । ज्ञानत्वस्य प्राग- भावप्रतियोगितानवच्छेदकत्वात्तद्धि सामान्याभावप्रतियोगितामा वच्छिनत्ति । न च प्रागभावः सामान्याभावोऽस्ति । तस्य यावद्वि- ।

प्रथमोऽध्यायः । शेषाभावव्याप्यत्वाद्विशेषप्रागभावानां चेकदैकत्रासत्त्वात् । न द्वितीयः । जनिष्यमाणज्ञानस्य तन्मात्रवृत्तिधर्मावच्छेदेनोत्पत्तेः पूर्वमनुभवि- तुमशक्यत्वात्तत्स्मरणस्याप्यनुपपत्तेः । तस्मादज्ञानस्याभावरूपत्वे न कथंचित्तदनुभव इति भावरूपमेवाज्ञानमिति । कथं तर्हि तस्य न जानामीति नअर्थत्वेनानुभव इति चेन्न-ज्ञानविरुद्धत्वेन तदुपपत्ते. रित्याह-अजडबोधतिरस्क्रियात्मेति । स्वयंप्रकाशचैतन्यविरुद्धस्वरूपेत्यर्थः । तथा च धर्मविरुद्धतया पापस्याधर्म इत्यनुभववजडत्वेन ज्ञाननिवर्त्य- त्वेन च स्वयंप्रकाशज्ञानविरुद्धत्वेन न जानामीत्यनुभवोपपत्तिरित्यर्थः । तस्याः जडबोधतिरस्क्रियात्मत्वमेवानुभवेन दर्शयति-जाड्यं चेति । अस्ति ह्यज्ञानस्य न जानामीत्यनुभववेद्यत्वेन जडत्वप्रसिद्धिः । अस्ति च मौढ्यप्रसिद्धिः-मूढोऽहमखाप्समित्यनुभवात् । नचाज्ञानं जडमेव न तु जाड्यमिति वाच्यम्-प्रमेयत्वस्य प्रमाविषयतया प्रमेयस्यापि प्रमेयघटादिस्थिततया प्रमेयत्ववद् दृश्यतया जडस्या- प्यज्ञानस्य खकार्यघटादिष्वनुस्यूततया जाड्यरूपतोपपत्तिरिति । तथा च जडत्वादजडविरुद्धत्वं मौढयाञ्च बोधविरुद्धत्वमित्यर्थः । इतो- ऽप्यज्ञानस्य भावरूपत्वं वक्तव्यमित्याह-प्रकृतिरिति । प्रकृतिरिति च प्रसिद्धत्यन्वयः। 'इन्द्रो मायाभिः पुरुरूप ईयत' इत्यादि श्रुत्या रजता- देरज्ञानान्वयव्यतिरेकाभ्यां रजतवियदाधुपादानत्वं सिद्धं ततश्चाज्ञानं भावरूपमुपादानकारणत्वान्मृत्पिण्डादिवदिति तस्य भावरूपत्वसिद्धिरित्यर्थः । नन्वज्ञानस्याजडबोधतिरस्क्रियात्मत्वमनु- पपन्न तथात्वे तस्याजडबोधस्वरूपात्माश्रयत्वानुपपत्तरित्याशङ्कय किं तस्य युक्तितोनुभवस्वरूपात्माश्रयत्वमनुपपत्रं किं वा प्रतीति- तोऽपि । नाद्यः । तस्य युक्त्यसहत्वस्य भूषणत्वादित्यभिप्रेत्याह- सा चातिदुःस्थितवपुरिति । सा प्रकृतिर्यतोऽद्वितीयां सजातीयादिभेदरहितां दृशमालिङ्गते आश्रयते प्रदीप्तमग्निं घृतपण्डि इव ततो दुनिरूपेत्यर्थः । चशब्दो द्वितीयपक्षनिराकरणार्थः । अनुभवस्य दर्शितत्वादित्यर्थः। चाझानस्य सटीके संक्षेपशारीरके- इदश्चाज्ञानस्य युक्तयसहत्वं भूषणायेतिज्ञापनार्थमुक्तम् । वस्तुतस्तु- स्वरूपज्ञानं नाज्ञानविरोधि किन्तु तत्साधकमेव कथं तर्हि तन्निवृत्तिरिति चेन्न अखण्डाकारवृत्यभिव्यक्तस्वरूपज्ञानेन तदुपपत्तेः । न च ज्ञानमात्रमविद्याविरोधीति शक्यं वक्तं तदाकारज्ञानस्यैवाज्ञान- विरुद्धत्वात् ब्रह्मज्ञानस्य नित्यनिर्विकल्पतया तदाकारत्वाभावा- दन्यथा परमतेपि प्रमेयमितिज्ञानेन घटाज्ञानसंशयादिनिवृत्तिप्रसङ्गा- दतो न युक्तिविरोधोपीति भावः। एतेन द्वितीयपक्षो निरस्त इति द्रष्टव्यम् ॥ ३१७॥ न च श्रुतौ मायैव जगत्कारणं श्रूयते न त्वज्ञानं न च मायै- वाज्ञानमिति वाच्यमैन्द्रजालिकनिर्मितगजादौ नियमेन मायाशब्दस्य प्रयोगादविद्याशब्दस्याप्रयोगाच ततः प्रकृतित्वेन भावत्वमित्याशङ्कयाह- कथमज्ञानस्य Mara चिवस्तुनश्चिति भवेत्तिमिरं तमिस्त्रं तामित्रमन्धतमसं जडिमा तमित्रा। माया जगत्प्रकृतिरच्युतशक्तिरान्ध्यं निद्रा सुषुप्तिरनृतं प्रलयो गुणक्यम् ॥ ३१८ ॥ चिद्वस्तुनश्चिति भवेदिति। कर्मणि षष्ठीयम्।सप्तमी चाधारे।चैतन्याश्रय- विषयमज्ञानं तिमिरादिशब्दवाच्यमिह भवेदित्यर्थः । मायाविद्ययो. श्वाभेदमुपरिष्टात्साधयिष्यति ततोऽज्ञानमेव प्रकृतित्वेन श्रूयत इत्यर्थः। स्वरूपचैतन्यावारकत्वेनाज्ञानस्य विक्षेपहेतुत्वमुपपादयति तिमिरमित्या- दिना। पर्यायानेकशब्दप्रयोगः तत्र तत्र श्रुतौ प्रयोगाभिप्रायेण । जडप्रपञ्चकार्यानुगुणत्वाञ्च तदेवोपादानं वक्तव्यमित्यभिप्रेत्याह- जडिमेति । न केवलमस्यावरणसामर्थ्य किन्तु साधारणविक्षेपसामर्थ्य- मप्यस्ति । तत एव मायेत्युच्यत इत्याह-मायति । आत्मैवोपदानं मायातु प्रथमोऽध्यायः। ३१५ निमित्तमात्रमित्याशङ्कयाह-जगत्प्रकृतिरिति । कूटस्थस्यात्मनस्तदनुपपत्ते. र्मायाद्वारेणैव कारणत्वान्मायापि जगत्प्रकृतिरित्यर्थः । तस्य स्वातन्त्र्येण कारणत्वं वारयति- अच्युतशक्तिरिति । परतन्त्रत्वाच्छक्ति- वच्छक्तिः । चेतनभेदविभ्रमहेतुत्वमाह निद्रेति । सुषुप्तिसम्बन्धिप्रा- ज्ञोपाधित्वात्सुषुप्तिरित्याह-सुषुप्तिरिति । तस्य ज्ञाननिवर्त्यत्वसिद्धये सद्विलक्षणत्वमाह-अनृतमिति । सकलकार्यलयाधारत्वमाह-प्रलय इति । प्रकर्षणास्मिन्कार्याणि लीयन्त इति प्रलयः एतस्यास्वातन्त्र्योक्त्या- पराभिमतप्रकृतिभेदभ्रान्ति निराकरोति-गुणैक्यमिति । सत्वरजसस्तम श्रात्मकमित्यर्थः । अथवा-नन्वज्ञानस्य चैतन्याश्रयविषयत्वमनुपपत्रं गमनादिक्रियावत्सविषयत्वेन तद्भदस्य न्यायसिद्धत्वादित्याशङ्कया- नुमानस्य पराभिमतात्मविषयज्ञाने व्यभिचारं सिद्धवत्कृत्य सत्प्रति- पक्षानुमानमभिप्रेत्याह- चिद्वस्तुन इति । अज्ञानस्य समानाश्रयविषयता- नियमं दर्शयितुं-तिमिरमित्यादि । विमतमशानं समानाश्रयविषयं तिमिरादिपदवाच्यत्वाल्लौकिकतमोवदित्यर्थः । अथवा-अज्ञानं समाना- श्रयविषयमावारकत्वात्तमोवत् । न च तत्र तमःपदाभिधेयत्वमुपाधिः त्तस्याज्ञानेपि सत्त्वादित्यर्थः । ननु तमसोपि तेजोऽभावस्य कथमावार- कत्वमिति चेत्र तमसो रूपवत्त्वेन क्रियावत्त्वेन च द्रव्यान्तरस्य तस्या- भावात्मकत्वानुपपत्तेः । ननु रूपवत्त्वप्रतीतिमा॑न्तिरिति चेन्न-तमाल- मालाश्यामलं तम इति प्रतीतेर्बाधकाभावात् । ननु रूपवत्वस्य स्पर्शवत्वं व्यापकं तदभावोऽत्र बाधक इति चेन्न-अनुभवानुरोधेन स्पर्शवत्त्वस्य रूपवत्वसहचारनैयत्यं यथा वायौ व्यभिचरति तथा- नुभवबलादेव रूपवत्त्वस्पर्शवत्वसहचारनैयत्यस्यापि तमसि व्यभिचारोपपत्तेः । ननु नीलरूपवतो गन्धवत्त्वं नियतमिति तदभावो. ऽत्र बाधक इति चेन्न । रूपवत्वमात्रे तनयत्याभाववत्पाकजन्यनील- रूपवत्त्वस्यैव तनियम इति नीलरूपवत्त्वमात्रेपि तव्यभिचारोपपत्तः। ननु नीलरूपं पाकजं तजन्यं वेत्यपि नियम इति चेत्र । शुक्लरूपं ३१६ सटीके संक्षेपशारीरके- । पाक जगुणवृत्तिगुणत्वव्याप्यजातिमदेवेति नियमस्य जलरूपे व्यभि- चारवदपार्थिवद्रव्ये तमसि पाकायोगात्तद्रूपेपि तद्व्याप्त्यभावात् । ननु रूपवतो द्रव्यस्यालोकसहकृतचक्षुर्ग्राह्यत्वनियमादालोकं विना तमः- प्रत्ययो न स्यादिति चेन्न-आलोकविरुद्धस्य तमसोन्वयव्यतिरेकाभ्या- मालोकं विनैव चक्षुर्लाह्यत्वानुभवादन्यथा रूपवदभावस्यालोकसह- कृतचक्षुर्ग्राह्यत्वनियम इत्यालोकाभावस्थापि तदनुपपत्तेः। ननु यत्र विषयज्ञाने विषयातिरिक्तालोकापेक्षा तदभावज्ञान एवालोकापेक्षा 'न त्वालोकशानं तथेति न तदभावशाने तदपेक्षेति चेन्न-लाघवाद् यज्- झानमालोकजन्यं तदभावज्ञानमपि तथेत्येव नियमादस्ति चालोक- शानेपि विषयीभूतालोकाजन्म । एतेनालोकत्वेनालोकजन्यं यज्ज्ञानं तदभावज्ञानेप्यालोकापेक्षेति-निरस्तम् । कथं चिदालोकजन्यज्ञान- विषयप्रतियोगिकाभावविषयज्ञानस्यैव लाघवात्तजन्यत्वनियमात् । ननु प्रतियोगितद्वयाप्येतरयावत्तदुपलभकसानिध्यस्याभावग्राहकत्वा- त्प्रतियोगिसत्त्वस्य तद्विरुद्धत्वादालोकाभावे नालोकापेक्षेति चेत्तर्हि श्र- त्रापि तमस आलोकविरुद्धत्वात्तमसि तमोऽभावेन तन्निवृत्तिप्रयोजका- लोकापेक्षाया अप्यभावास तत्र तदपेक्षेति गृह्यताम्। किं चालोकामावस्य तमस्त्वे मन्दालोके वेश्मनि न तमः स्यात्तत्रालोकाभावाभावात् । ननु प्रौढ़प्रकाशयावत्तेजः संसर्गाभावो यत्र तत्र सत्तमः । स च मन्दालोके वेश्मन्यपीति चेतिक प्रौढप्रकाशयावत्तेजः संसर्गसामान्याभावस्तमः उत विशेषाभावः। नाद्यः । सामान्यसंसर्गाभावस्यात्यन्ताभावत्वेन कदाचिदपि तस्यानिवृत्तिप्रसङ्गादुत्पादप्रत्ययानुपपत्तेश्च । न द्वितीयः। उत्पत्तिविनाशवतस्तमसस्तद्रहिताभावसमुदात्मकत्वानुपपत्तेः । ननु प्रध्वंसप्रागभावयोरुत्पत्तिविनाशदर्शनात्तत्समुदायस्यापि तत्संगच्छत इति चेन्न । तद्व्यतिरिक्तसमुदायाभावात् । नन्वन्धकारोत्यादविनाश- प्रत्ययौ प्रध्वंसप्रागभाचौ विषयीकुरुत इति चेन्न-तयोः प्रत्येक- मतमस्त्वाद्यदुत्पन्नं तद्विनष्टमिति तयोः समानाश्रयत्वानुभवाच्च । किञ्च प्रथमोऽध्यायः । यावद्विशेषाभावानां तावद्विशेषप्रतियोगिनिवर्त्यत्वनियमेनैकालोकव- त्यपि तम उपलम्भप्रसङ्गात् । ननु तत्र यावद्विशेषभावा न सन्तीति चेन्न- एवमपि प्रदेशभेदेन दीपद्वयवति देववदत्तगृहे तम इतिप्रत्ययापातादेव- दत्तगृहत्वाकारेण सकलतेजोभावाश्रयत्वात्तेजोऽवयविनि सकलतेजोऽ भावस्य सत्त्वेन तमोबुद्धिप्रसङ्गाच्च । ननु तेजस्त्वासमानाधिकरण- यावत्प्रचुरप्रकाशतेजः संसर्गभावस्तमःशब्दवाच्यः-न च तेजो- भावस्यैकत्वात् भूतले विद्यमानोपि स तेजस्त्वासमानाधिकरण एवेति वाच्यम्-यदवच्छेदेन तेजस्त्वासामानाधिकरण्यं तदवच्छेदेन तस्य तेजोऽभावस्य तमः शब्दवाच्यत्वादिति चेत्किमेकालोकवितते देशे यावत्तेजः संसर्गि उत तदभावसंसर्गि। नाद्यः । अनुपलम्भात् । न द्वितीयः । तत्र तमोबुद्धिप्रसङ्गात् । न चान्य. कश्चित्प्रकारोऽस्ति परस्प- रविरुद्धयोरन्यतरसद्भावस्य वक्तव्यत्वात् । ननु यावत्तेजः प्रत्येकप्रतियो- गिकाभावसमुदाय एव यावत्तेजः संसर्गाभाव इति चेत्तत्र यावत्त्वं साकल्यं प्रतियोगिनि विशेषणं चेद् द्वित्रितेजोवत्यधिकरणे तेजसो- यावत्त्वविशेषणस्य प्रत्येकमभावात्प्रत्येक तेजः प्रतियोगिविशिष्टाभाव- सत्त्वेनान्धकारोपलम्भप्रसङ्गः । न विशेषणं चेदेकतेजोवत्यपरतेजः प्रतियोगिकयावत्संसर्गाभावसत्त्वात् सुतरामन्धकारोपलब्धिप्रसङ्गः । अस्मिन्पक्षे महान्धकाराद् गाढान्धकारस्य वैषम्यानुपलम्भप्रसङ्गाच्च । प्रौढप्रकाशयावत्तेजः संसर्गाभावत्वस्योभयत्राविशेषान्न त्वेकत्राप्रोढा- लोकोपि विद्यते अपरत्र तु तन्नास्तीति विशेष इति चेत्किमेतावता न ह्येतावतान्धकारे कश्चिद्विशेषः । नन्वत एवान्धकारे कश्चिद्विशेषो नास्तीति चेकिमीषत्तमो गाढं तम इत्यनुभवमप्यपलपितुमुद्यतोसि । अन्धकारस्यालोकाभावत्वे जिज्ञासायामपि यावद्विशेषपरिज्ञानं विना तादृशाभावत्वेनानुभवितुमशक्यत्वाञ्च । तस्मान द्रव्यान्तरमेव तम इति न साधनविकलो दृष्टान्त इति ॥ ३१८॥ नन्वज्ञानस्य चैतन्यमात्राश्रयत्वं वक्तुमनुचितमहमज्ञ इत्यहंकारा- सटोके संक्षेपशारीरके- श्रयत्वेनैव तस्य प्रतीतेः। न चाहंकारस्य तदनाश्रयत्वेपि तत्सामाना- धिकरण्येनाप्येवंप्रतीतिरुपपद्यत इति वाच्यम् । असति बाधके प्राधयायिभावप्रतीतेरन्यथा वर्णनानुपपत्तः । मय्यज्ञानमिति च स्पष्टमेव तस्याहंकाराश्रयत्वं प्रतीयत इत्याशङ्कयाह- प्राश्रयत्वविषयत्वभागिनी निर्विभागाचितिरेव केवला। पूर्वसिहतमसो हि पश्चिमो नाऽऽश्रयो भवति नापि गोचरः॥ ३१६॥ श्राश्रयत्वेति । निर्विभागचितिरेव जीवब्रह्मविभागशून्यं चैतन्य- मेवाज्ञानस्याश्रयत्वविषयत्वभागिन्याश्रयत्वं विषयत्वं च भर्तुं शीलम- स्यास्तीति तथा। निर्विभागेत्यस्य विवरणं-केवलति । एवकारेणाहंकार- तदुपहितव्यावृत्तिः क्रियते । चैतन्यमात्रमेवाज्ञानस्याश्रयो विषयश्च न त्वहंकारस्तदुपहितं चैतन्यं वेत्यर्थः । तत्र हेतुमाह-पूर्वसिद्धेति । अहंकाराध्यासात्प्रागेव सिद्धस्याहंकाराध्यासकारणस्य तमस इत्यर्थः पश्चिमोऽ शानाध्यासपश्चाद्भाव्यज्ञानाध्यासकार्यमहंकारादिरित्यर्थः । गोचरग्रहणं तु दृष्टान्तार्थ यथाहंकारादिः नाज्ञानस्य गोचरः तथा तत्कार्यत्वानाश्रयोपीत्यर्थः । अयमर्थः-लोके ह्यज्ञानस्य द्विविधोs नुभवो दृश्यते मय्यज्ञानं मामहं न जानामीति च तत्र किंमयीत्य- नुभवबलेनाहंकारस्य ब्रह्मविषयाज्ञानाश्रयन्वं स्वीकर्त्तव्यमुत मामि त्यनुभवेन तद्गोचरचैतन्यस्यैव । यदि प्रथमं तदा मामिति प्रतीयमान- माश्रयस्य विषयत्वं बाध्येत। नन्वहम एव तदाश्रयस्य विषयत्वमपीति चेन्न-तस्य स्पष्टप्रतीतेर्भवद्भिरङ्गीकारादन्यथा तज्ज्ञानादेवाज्ञान- निवृत्तिरिति ब्रह्मज्ञानं व्यर्थमेव स्यात्।यदि पुनर्द्वितीयः पक्षः कक्षी क्रिये- त तदाहंकाराश्रयत्वप्रत्ययस्य देवदत्ते सुखमिति केवलात्मवृत्ति- प्रथमोऽध्यायः। ३१६ स्वकारणतया सुखस्य शरीराधारत्वप्रत्ययवत्केवलात्माश्रिताज्ञानस्य स्वाश्रयवृत्त्यह- काराश्रयत्वप्रतीतिः कथंचिदुपपद्यते । न केवलमनुभव एवात्र प्रमाणमु- पपत्तिश्चाहंकारादेरज्ञानजन्यतया तत्पश्चाद्भाविनः पूर्ववर्त्यज्ञाननियन्वायोगात्कारणस्थ कार्यवृत्तित्वायोगाश्च । चैतन्यस्य तु पुनः कालत्रयवर्तिनः तत्साधकतया तत्सम्बन्धित्वस्यावश्यं वक्तव्यात्सम्बन्धान्तराभावादाश्रयत्वमेच सम्बन्धो युज्यत इति ॥३१॥ इदानीमज्ञानस्य भावत्वे युक्त्यन्तरमप्याह- नाभावताऽस्य घटते वरणात्मकत्वा- नाभावमावरणमाहुरभावशौण्डाः । अज्ञानमावरणमाह च वासुदेव- स्तद्भावरूपमिति तेन वयं प्रतीमः ॥ ३२० ॥ नाभावतेति । अस्याज्ञानस्याभावत्वं न घटते। तत्र हेतुः-वरणात्मकत्वादा वारकत्वादित्यर्थः । इदमज्ञानं भावरूपमावारकत्वात् कुड्यादिवत्। न च बाधकतर्काभावादप्रयोजकः हेतूच्छित्तरेव बाधकत्वादित्याह- नाभाव मिति । न केवलमभावस्यावारकत्वानुपपत्तिस्त्वदङ्गीकारोपि तथैवेत्याह आहुरिति । अभावपदार्थनिरूपणकुशलाः । नचास्य हेतोरसिद्धिः । परमाप्तो भगवानज्ञानस्यावरकत्वमाहेत्यर्थः । किमाह-अज्ञानमिति । वासुदेवः श्रीकृष्णः- श्रीगीतायाम् --'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव' इति तस्यावारकत्वमाहेत्यर्थः । चकारात् “इमे सत्याः कामा अनृतापिधाना" इत्याद्या श्रुतिः समुञ्चीयते । निगमयति-तदिति । तत्-अज्ञानम् । तेन-आवारकत्वेन ॥ ३२० ॥ भगवद्वयासवचनवलादप्यज्ञानस्यावार करवमिति तदीयं श्लोक- माह- सटीके संक्षेपशारीरके- एकः शत्रुर्न द्वितीयोऽस्ति शत्रु- रज्ञानतुल्यः पुरुषस्य राजन् । येनाऽऽवृतः कुरुते संप्रमत्तो घोराणि कर्माणि सुदारुणानि ॥ ३२१ ॥ एकः शत्रुारेति । लौकिको हि शत्रुः कदाचिकिञ्चिदेव सुखं विरु- णद्धि । अज्ञानावृतस्वरूपानन्दस्तु देहाभिमानात्सुखार्थ परस्त्री- गमनादिकमनुतिष्ठन् सकलमेव पुरुषार्थजातं विहन्ति । अतोऽज्ञानमेव परमशत्रुरिति व्यासवचनार्थः ॥ ३२१ ॥ अनुमानान्तरेणाप्यज्ञानस्य भावत्वमाह- जाड्यं जगत्यनुगतं खलु भावरूपं मौढ्यं च पुंगतमिति प्रतिभाति तादृक् । जाड्यं च मौव्यमिति चानुभवप्रसिद्ध- मज्ञानमाहुरपवपिधानदतम् ॥ ३२२ ॥ जाड्यमिति । यत्पुनरज्ञानस्य प्रकृतित्वेन भावत्वमुक्तं तत्र प्रकृति- त्वहेतोः पक्षधर्मत्वमुपपत्ति चाह-जाड्यमिति । लोके हि कार्य कारण- स्वरूपभावानुरक्तमेव जायते । घटादिकायें च सर्वत्र सद्विलक्षणं जाड्यमनुगतं दृश्यते जगद्भावरूपं जडात्मकं दृश्यत इत्यर्थः । तादृग- भावरूपं पुरुषसमवेतमिदं मौढ्यं भ्रान्तिज्ञानं च दृश्यते पुरुषे भ्रान्ति- ज्ञानमपि भावरूपं दृश्यते । भावग्रहणं च तत्समानस्वभावकारणमव- श्यमिति दर्शयितुमज्ञानं च जाड्य जडात्मकं मौढ्य मोहात्मकं चेतिप्रसिद्धं मूढोऽहमस्वाप्सं न किञ्चिन्मया चेतितमित्यनुभवसिद्धं ततश्च तस्यैव जडप्रपञ्चोपादानत्वं भ्रान्त्युपादानत्वं च कल्प्यते ।

प्रथमोऽध्यायः । ३२१ , - ननु मूलकारणापेक्षायामपि परमाण्वादिकमस्तीति चेन्न-तत्र प्रमाणा- भावादज्ञानस्यावश्यकत्वाञ्चेत्यभिप्रेत्याह- अपवर्गपिधानदक्षमिति । परमा. नन्दावारकमित्यर्थः । सुषुप्तौ खलु जीवस्य ब्रह्मरूपं न प्रकाशते तत्किमिति वक्तव्यं प्रमाणाभावादिति चेन्न । तस्य स्वयंप्रकाशत्वात् । ननु ब्रह्मणः स्वयंप्रकाशत्वेपि तस्य जीवादन्यत्वात्तत्प्रमाणं विना न प्रकाशत इति चेन्न-“अनेन जीवेनात्मनानुप्रविश्य"त्तत्त्वमसी"त्याद्य- भेदश्रुतेः । ननु प्रतिबन्धकसत्त्वान्न प्रकाशत इति चेत्कस्तर्हि प्रतिबन्धकः, अग्रहणमिति चेन्न-स्वरूपग्रहणरयाभावानुपपत्तेः, कदाचित्क- ग्रहणाभाव इति चेन्न-तस्य स्वरूपग्रहणप्रतिबन्धकत्वानुपपत्तेः, नापि मिथ्याज्ञानं-तस्य सुषुप्तावभावात्, नापि तत्संस्कार:-संस्कार- मात्रस्य रजतादिविषयस्य तददर्शनात्, नापि कमॆब प्रतिबन्धकम्- अन्याश्रितस्य तदनुपपत्तेः, तस्य स्वाश्रयतत्सम्बन्धयोरेवातिशयजन- कत्वादात्मनश्चासंसर्गस्य स्वतः कर्मसम्बन्धाभावादुदाहृतश्रुति- स्मृतिविरोधाच्च । तस्मादज्ञानमेव सुषुप्तावप्यनुभवसिद्धमावार- कमिति । तदेव कारणमस्त्वित्यर्थः ॥ ३२२ ॥ नन्वज्ञानस्यैव जगत्कारणत्वेन ब्रह्मणः कारणत्ववादिन्यः श्रुतयो व्याकुप्येरन्नित्याशङ्कयाह- साभासमेतदुपजीव्य चिदद्वितीया संसारकारणमिति प्रवदन्ति धीराः। साभासमेतदिति संमृतिकारणत्वे द्वारं परं भवति कारणतां दृशस्तु ॥ ३२ ॥ साभासमेतदिति । धीराः वेदान्तनिष्णाताः साभासमेतदज्ञानमुप- जीव्याश्रित्याद्वितीया चित्संसारकारणमिति वदन्ति । अतो ब्रह्मणः कारणत्वान्न श्रुतिविरोध इत्यर्थः। नन्वेवमप्यज्ञानमाश्रित्य ब्रह्मणः ३२२ सटीके संक्षेपशारीरके- कारणत्वे तस्य स्वातन्त्र्यं भज्येतेत्याशङ्कयोपकरणस्य स्वातन्त्र्या- विहन्तृत्वान्मैवमित्याह-साभासमिति । साभासमेतदज्ञानमात्मनः परं केवलं द्वारं भवतीति कृत्वा दृशः परमात्मन एव कारणतेत्यर्थः । एतदुक्तं भवति । प्रात्मनो जगत्कारणत्ववादिन्य इन्द्रो मायाभिरित्याद्याः श्रुतयोऽज्ञानमपेक्ष्यैव तस्य तत्कारणत्वमाचक्षते । केवलस्य तस्या- विकारिणो जगत्कारणत्वानुपपत्तेः । न चैतावता ज्ञानस्य स्वतन्त्र- कारणत्वमात्मव्यतिरेकेणालब्धप्रतीतिसत्ताकस्य तस्य तव्यतिरेकेण कारणत्वानुपपत्तेः । तथा च यद्यप्यात्मा कूटस्थः अविद्यैव विवर्त्तते । तथापि तस्यास्तद्विवर्तस्य जगतश्चात्माधीनसत्तास्फुरणत्वात्तद्वि- वर्तोपि तदधिष्ठानात्मविवर्त्त एवेति ॥ ३२३ ॥ नन्त्रज्ञानस्यात्माधीनसत्ताकस्यात्मव्यतिरेकेण कारणत्वाभावेपि स्वतन्त्रं प्रधानमेव स्मृतिप्रसिद्ध जगत्कारणं किं न स्यात्तस्य सावयवतया जडतया च जडप्रपञ्चपरिमाणोपपत्तेः । श्रात्मकारणत्व- विषयश्रुतेश्च निमित्तकारणत्वविषयत्वेनाप्युपपत्तेः । ततः कथं दृश एव कारणत्वं तत्राहm यावद् दृशोऽन्यदिह संमृतिकारणं त- वेदान्तवादिसमये न मतं जडत्वात् । यद्यजडं भवति संमृतिकारणं त- नेति स्फुटं वदति सूत्रकृदन यस्मात् ॥ ३२४ ॥ यावदिति । इह जगति यद्यशः परमात्मनोऽन्यत्तत्सर्व जडत्वा- वेदान्तवादिसमये कारणमिति न मतमिति सम्बन्धः । ननु जडस्यापि मृत्पिण्डस्य कारणत्वं दृष्टमिति कथभियं नियतिरित्याशङ्कय सर्वत्रापि चैतन्यस्यैव बादरायणमते उपादानकारणत्वाद्दर्शनमसिद्ध- मित्याभिप्रेत्याह-यद्यज्जडमिति । सूत्रकृदन वेदान्ते "रचनानुपपत्तेश्च प्रथमोऽध्यायः। नानुमानमि"ति सर्व जडं न कारणमिति यस्मात्स्फुटं वदति तस्मा- दित्यर्थः ॥ ३२४॥ ननु सर्वत्रापि चैतन्यस्यैव कारणत्वे घटादिकं प्रति मृदा- दीनामन्वयव्यतिरेको न स्याता तद्वलाच मृदादेरुपादानत्वे किमपराद्धं प्रधानेन जडत्वस्योभयत्राविशेषात्तत्कथं सूत्रकारस्तस्य कारणत्वं न्यषेधदित्याशङ्कयाह- अजडकारणभावनियन्धनं सकलमेव जडं न तु कारणम् । इति हि वेदशिरःसु विचक्षणाः कपिलपक्षनिराकरणे जगुः ॥ ३२५ ॥ अजडेति । मृदादि सर्व जडमजस्य ब्रह्मणः कारणभावे कारणत्वे निबन्धनं द्वारमेव न तु कारणं तथा च मृदादीनामपि चैतन्यावच्छे- दकतया द्वारत्वेनैवान्वयव्यतिरेकाविति स्वातन्त्र्येण तदभावाश्चैत- न्यमेव सर्वत्र कारणमिति न तद्दृष्टान्तेन प्रधानस्य कारणत्वं कल्प्यम् । ततश्च प्रधानकारणातानिराकरणं रचनानुपपत्तेरित्यादि सूत्रमपि संगतमेवेत्याह-इति हीति। कपिलपक्षः कपिलसंमतं प्रधानकारणत्वं तस्य निराकरणे विषय इत्यर्थः ॥ ३२५ ॥ एवं चिदाभाससहिताज्ञानतद्विवर्त्तप्रपञ्चसत्तास्फूर्तिप्रदतया ब्रह्मैव जगत्कारणमित्युक्तं तत्र ये ऽज्ञानविशिष्टे ब्रह्मणि ब्रह्मादिपदव्यु- त्पत्तिः केवले तदनुपपत्तेस्तस्यैव जगत्कारणत्वं विशिष्टञ्च-विशेषण- विशेष्याभ्यामन्यदिति मन्यन्ते तन्मतं निराकर्तुमनुवदति । शबलमात्मपदन निगद्यते सकलमात्मजमित्यपि च श्रुतिः ।

सटीके संक्षेपशारीरके-
N
-
शबलमात्मपदं जगतस्ततः
प्रकृतिरित्यपरे च जना जगुः ॥ ३२६ ॥
शबलमिति । शबलमज्ञान विशिष्ट विशिष्टं च विशेषणविशेष्यामन्यदे-
वेति तन्मतमस्मन्मते तु शबलमज्ञानमात्मा चेति मदभेदः। यतः शबल-
मात्मपदेन परमात्मवाचकेन कथ्यते । यतश्चात्मनः आकाशः संभूत
इत्यात्मपदार्थाजगदुत्पत्तिः श्रूयते । ततोऽज्ञानविशिष्टमेवात्मपदमात्म-
स्वरूपजगत्प्रकृतिरित्युपादानं नाज्ञानद्वरा चेतनः केवल इत्यर्थः ।
अथवान शबलमित्यज्ञानमेव साभासमुच्यते । शबलमात्मपदमिति
चैतन्याभासविशिष्टमज्ञानमित्यर्थः । अज्ञानं च साभासमात्मादिपद-
वाच्यं कारणमित्यर्थः ॥ ३२६ ॥
ननु विशिष्टस्य केवलस्याज्ञानस्य वा कारणत्वे तस्य जडत-
येक्षणाद्यसंभवात्कथमीक्षणपूर्वकं जगत्कारणत्वं तदैक्षतेति श्रुतिसिद्ध-
मुपपद्यतेत्याशङ्कयाधिष्टातुर्हि ईक्षणं नोपादानस्य लोके तथैव दर्शना-
दधिष्ठातृत्वं चात्र न शबलस्य किन्त्वज्ञानप्रतिबिम्बितचैतन्यस्यैवेति
सदृष्टान्तमाह-
सुकृततुष्कृतकर्मणि कर्तृतां
मतिगतात्मचितिप्रतिबिम्बकम् ।
व्रजति तद्वददः परमात्मनो
जगति याति तमः प्रतिबिम्बकम् ॥ ३२७ ॥
।
सुकृतेति । मतिरन्तःकरणं तद्गतं तन्निविष्टमात्मचितिप्रतिबिम्बकं
प्रतिबिम्बं पुण्यापुण्यकर्मणोः कर्तृत्वं यथा ब्रजति-प्राप्नोति तद्वत्व-
रमात्मनोऽदः इदं तमः प्रतिबिम्बकमज्ञानगतं प्रतिबिम्ब जगति कर्तृतां
याति तस्येक्षणादिकं सम्भवतीत्यर्थः ॥ ३२७ ॥

प्रथमोऽध्यायः। www नन्वेवं सत्युपादानकारणत्वमपि तस्यैवास्तु किं विशिष्टकल्पनया केवलाज्ञाने तत्कल्पनया वा गौरवादित्याशङ्कय विशिष्टस्यैवोपादान- त्वमिति सदृष्टान्तमाह- सुकृतदुष्कृतयोः शबला यथा भवति कारणमात्मचितिस्तथा। गगनवायुपुरःसरकारणं परमचेतनता शबलाकृतिः ॥ ३२८ ॥ सुकृतदुःष्कृतयोरिति । यथा परिणाम्यन्तःकरणविशिष्टात्मचितिश्चै- तन्याभासविशिष्टमन्तःकरणं वा सुकृतदुष्कृतयोरुपादानकारणं न तु केवलं प्रतिबिम्बमात्रं तस्य स्वतोऽपरिणामित्वात्तथाऽज्ञानविशिष्टं परमात्मचैतन्यं केवलाशानं वा गगनवायुप्रभृतीनामुपादानकारणं न तु तत्प्रतिबिम्बमात्रमिति प्रमाणिकत्वाद् गौरवमप्यदोषाये- त्यर्थः॥ ३२८॥ एवं परमतं विविच्य दर्शयित्वा तत्रादौ तदभिमतशबलस्यात्म- पदवाच्यत्वं निराकरोति- शबलता कवलीकृततावशा- त्परमचेतनतैव निगद्यते । शबलमात्मपदेन न कथ्यते शबलमात्मनिवृत्तिनिबन्धनम् ॥ ३२६ ॥ शघलतात । अत्र शबलपदेन तदेकदेशोऽज्ञानं विवक्षितम् । यद्यपि केवलात्मा वाच्यो न भवति तथाप्यज्ञानोपहिततावलात्केवलचेतनः परमात्मैवात्मादिपदेन कथ्यत इत्यर्थः । एवकारज्यावय॑माह-

शङ्कयाज्ञानमात्रस्य विशिष्टस्य अन्यस्य वा तन्निराक्रियत इत्याह-
३२६
सटीक संक्षेपशारीरके-
शबलमिति । शबलमज्ञानविशिष्टमज्ञानं वात्मादिपदेन न कथ्यत इत्यर्थः ।
ननु शवल एवात्मादिपदानां व्युत्पत्तिरित्युक्तं शबलमज्ञानमात्मा चेत्य-
प्युक्तं तत्कथमज्ञानस्येदानीमात्मादिपदवाच्यत्वं निराक्रियत इत्या-
शधलमात्मनीति । शबलमज्ञानमात्मादिपदानां वाच्यतया प्रवृत्तिनिमित्त-
मित्यर्थः ॥ ३२६ ॥
अत एव परेषां विभ्रमः सनिमित्त इन्याह-
HODNDIma
शबलतापरिधानसमन्वया-
त्परमचेतनताऽऽत्मगिरः पदम् ।
भवति तेन जनस्य तु विभ्रमः
शबलमात्मगिरः पदमित्ययम् ॥ ३३०॥
शबलतेति । येन परमचेतनता परमात्माज्ञानोपाधिवशादात्मादि-
पदस्य वाच्यं तेनाविवेकिजनस्याज्ञानमात्रं तद्विशिष्टं वा केवलचैत-
न्यादन्यदात्मादिपदवाच्यमित्ययं विभ्रमो भवति
तु
भवत्येवेत्यर्थः
अविवेकिनां तादृशविभ्रमो योग्य एवेत्यर्थः ॥ ३३० ॥
ननु ब्रह्मणः सकलव्यवहारतीतत्वात्कथमज्ञानद्वारापि तत्र वाक्-
प्रवृत्तिः, न ह्यज्ञानेन ब्रह्माब्रह्म भवतीति चेदत्यल्पमिदमुच्यते
"यत्सकलव्यवहारातीते वाग्व्यवहार" इति "सर्वस्या अपि क्रिया-
कारकव्यवहतेरात्ममात्रविषयत्वादित्याह-
बहु निगद्य किमत्र वदाम्यहं
शृणुत संग्रहमदयशासने ।
सकलवाङ्मनसातिगता चितिः
सकलवाङ्मनसव्यवहारभाक् ॥ ३३१ ॥

प्रथमोऽध्याय। १२७ वहुनिगद्याते। किं बहूत्येत्यर्थः । अत्राद्वयशासने शास्त्रे संग्रह सिद्धान्तसंक्षेपकथनं शृणुत । संग्रहमेवाह-सकलवाङ्मनसातिगतेति । सकलवाङ्मनसातिक्रान्तसकलव्यापारविषयापि सकलवाङ्मन- सव्यवहारभाक् तत्तदवच्छिन्न चैतन्यस्यौव तत्तच्छब्दातत्तबुध्यादि- विषयत्वेनात्मैव सकलव्यवहारमागित्यर्थः । यद्यप्यनवच्छिन्नात्मा वस्तुतः सकलव्यवहाराविषय एव 'यतो वाचो निवर्तन्ते' इत्यादिश्रुते- स्तथाप्यविद्या तस्मिन् सर्वा व्यवहतारानयति ब्रह्मव्यतिरिक्तस्य स्वतो निस्तत्वस्य स्वातन्त्र्येण व्यवहारविषयत्वानुपपत्तेः । कल्पित- व्यवहारस्याधिष्ठान एव पर्यवसानान हि भ्रान्तेन सर्पबुद्ध्या रजौ ताड्यमानायामानीयमानायां वा रज्जु तटस्था भवति । न चैतावता श्रुतिविरोधः । न वा ब्रह्मणोऽब्रह्मत्वं केवलब्रह्मणः सर्वव्यवहाराती- तत्त्वादत एव न तत्र व्युत्पत्तिरित्युच्यते । तस्मादविद्यासचिवं ब्री- वात्मादिपदवाच्यं नाविद्यामान वा तद्विशिष्टमित्यर्थः ॥ ३३१ ॥ नन्वेवमपि ब्रह्मण एवाद्वितीयतापरिज्ञानाय जगत्सृष्टिस्थिति- लयहेतुत्वं बोधयन्ती श्रुतिः केवलस्यैव तस्य तद्बोधयति । तत्र किम- ज्ञानाद्वारकल्पनया प्रयोजनाभावादित्याशङ्कय प्रयोजनाभावोऽसिद्धः श्रुतजगत्कारणत्वोपपादनस्यैव प्रयोजनाबात् । न च श्रुत्यवगतेऽर्थे नोपपत्त्यपेक्षेति वाच्यम् । अन्यत्रापि तहर्शनादित्यभिप्रेत्याह- चित्रायागः पशुफल इति श्रूयमाणेऽपि चित्राऽ पूर्व द्रारं पशुफलतयाऽऽक्षिप्यतो तत्र तद्वत् । चैतन्यात्मा जगदुदयकृच्छ्रयतेऽत्रापि पश्चा न्मायादीनां भवति जगति डारभावः फलेऽस्मिन् ॥ ३३२॥ चित्रा याग इति । चित्रासंज्ञको यायः पशुफलं यस्य स पशुफलः इति शब्दः प्रकारपरामशी प्रकारश्च पशुफल इति दर्शितः। चित्रापूर्व - सटीके संक्षेपशारीरके- द्वारमितिक्रियाविशेषणं यथा चित्रया यजेत पशुकाम इति पशु- साधनत्वेन श्रूयमाणेपि चित्रायागे पशुसाधनत्वेन प्रमिते तेन चित्रा- यागजन्मापूर्वमवान्तरव्यापारत्वेनाक्षिप्यते । तद्वद्यद्यपि चैतन्यात्मैव जगत्कारणमिति श्रूयते तथाप्यस्मिन् जगद्रूपे फले कार्ये जनयितव्ये- श्रात्मनः केवलस्य कारणत्वानुपपत्त्या विद्यापूर्ववासनादीनां द्वारत्वं कल्प्यत इत्यर्थः । अथवा आत्मन एवाविद्याशबलस्यात्मादिपदवाच्यत्वं दर्शयित्वा कारणत्वमपि तस्यैवाविद्या तु द्वारमात्रमिति सदृष्टान्तमाह- चित्रायाग इति । न चाविद्याया अप्यात्मपदवाच्यत्वातत्कारणत्वमपि श्रौतमेव न तु कल्यमिति वाच्यं आत्मन एवेक्षणादियोगस्य योग्यता- दिबलाच्छ्रुत्या कारणत्वबोधनात् । न च पदोपस्थापितस्य सर्वस्यापि पदार्थान्तरेणान्वयनियमःघटोऽनित्य इत्यत्र घटत्वस्यानित्यपदेनान्वय- प्रसङ्गादिति भावः ॥ ३३२ ॥ इतोप्यविद्याद्वारैवात्मनः कारणत्वमिति वदन्न विशिष्टं न वा ऽज्ञानमात्रं कारणमित्यभिप्रेत्याह- कारणत्वमुपलक्षणं चिते- ब्रह्मणो न खलु तद्विशेषणम् । इत्यपीदमुपपद्यते तदा चेतना भवति कारणं यदा ॥ ३३३ ।। कारणत्वमिति । जगत्कारणत्वमित्यर्थः। जगत्कारणत्वं हि ब्रह्मण एव लक्षणमिति जन्मादिसूत्र स्थितं तञ्च तटस्थलक्षणं न विशेषण- मिति वक्ष्यते । जगत्कारणत्वं च जगजननाकूल- शक्तिमत्त्वं तद्यद्यज्ञानतद्विशिष्टयोरेव स्यात्तदाऽब्रह्मधर्मत्वान्नैतत्तल्लक्षणं स्या- त्तद्धर्मिण एव तल्लभ्यत्वात्तत्र यदि केवल एवात्मा तत्कारणं तदा कार्यानुकूलशक्तिमत्त्वलक्षणकारणत्वस्य यावद्र्व्यभावित्वेनोप- प्रथमोऽध्यायः । ३२६ लक्षणन्वानुपपत्तिस्तस्मादविद्याद्वारेणैव ब्रह्मणः कारणत्व- मिति ॥ ३३३॥ एतच्श्लोकार्थस्यैव विवरणम्- अन्यदेव यदि कारणं भवे- कारणत्वमुपलक्षणं कथम् । चेतनम्य घटतेऽन्यगामिना वस्तुनान्यदुपलक्ष्यते यतः ॥ ३३४ ॥ अन्यदेवेति । स्पष्टार्थः ॥ ३३४॥ तस्माद्ब्रह्मणो जगत्कारणतया तत्राज्ञानस्यावश्यकत्वादशातं ब्रह्म वेदान्तप्रतिपाद्यमिति न किञ्चिदनुपपन्नमित्याह- अनवयुद्धमतः श्रुतिमस्तकै- र्विषयतामुपपादयितुं क्षमम् । अनुभवात्मपदं तमसायतः पिहितमेतदिह प्रतिभासते ॥ ३३५ ।। अनवबुद्धमिति । आत्मन्यनुभवोप्यज्ञानं साधयतीत्याह-अनुभवात्म- । यतोऽनुभवरूपात्मस्वरूपं तमसापिहितमज्ञानविषयतया मामहं न जानामीत्यवभासते अतोऽनवबुद्धमात्मस्वरूपं श्रुतिमस्तकै- विषयतामुपपादयितुं क्षमं प्रतिपादयितुं शक्यत इत्यर्थः ॥ ३३५ ॥ यञ्चोक्तं प्रमाणप्रमेयादः कल्पितत्वे तद्वदेव ब्रह्मणोपि मेयत्वेन कल्पितत्वप्रसङ्गः।अमेयत्वे वा तत्र वेदान्ताः प्रमाणमिति व्याहतिरिति तदात्मनः प्रमेयत्वाभावेपि बेदान्तानां तत्र प्रामाश्योपपादनेन परिहतं पदमिति ३३० सटोके संक्षेपशारारके- - यञ्च पुनरुक्तं नाद्यापि वेगहमनिर्वचनीयभाषामित्यत्रानिर्वचनीयत्वं न प्रसिद्धमिति तदपि ज्ञाननियतया अज्ञानस्य तस्मिन्नेव प्रसिद्धमिति यद्यपि दर्शितं तथापि तदेव ज्ञाननिवर्त्यस्यानिर्वचनीयत्वं यावन्नोप- पाद्यते तावदप्रसिद्धमेव भवतीति मत्वा प्रसिद्धाध्यासे तदुपपादयति- अज्ञानकल्पितमनिर्वचनीयमस्मि- नाबालवृद्धमविवादपदं प्रसिद्धम् । स्वप्ने तथा च भगवानपि वक्ष्यतीदं सन्ध्येऽस्ति सृष्टिरिति पक्षनिराससिड्यै ।।३६। अचानकल्पितमिति । कि लौकिकानामप्रसिद्माऽ निर्वचनीयत्वमसिद्ध किं वा सूत्राप्रवृत्या प्रायोप किं जाग्रत्यप्रसिद्धिरुत स्वप्नपि नाद्य इत्याह- श्रशानकल्पितमिति । अस्मिञ्जाग्रत्यज्ञानारोपितं रजताद्यनि- चनीयमित्याबालवृद्धं बालप्रभृति वृद्धपर्यन्तं सर्वेषामविवादमवि- प्रतिपत्तिर्यथा भवति तथा प्रसिद्धं शुक्तौ प्रतीयमानरूप्यस्य प्रकारान्त- रेणानिरूपणादित्यर्थः । द्वितीय दूषयति-स्वप्ने तथा चेति । स्वप्ने दृष्ट- पदार्थेपि जाग्रति वाऽनिर्वचनीयत्वं सर्वप्रसिद्धमित्यर्थः। प्रथमद्वितीयं दूषयति-भगवानपि वक्ष्यतीति । सन्ध्ये सृष्टिराह हीतिपूर्वपक्षितस्वप्नसृष्टि- पारमार्थिकत्वस्य निराकरणाय भगवान्सूत्रकारोऽपि मायामात्रमिति सूत्रेणेदमनिर्वचनीयत्वं वक्ष्यतीत्यर्थः । भविष्यत्ताप्रयोगस्तु तार्तीय. विचारस्य समन्वयविचारात्पश्चाद्भावित्वादार्थिकक्रममभिप्रेत्येति द्रष्टव्यम् ॥ ३३६॥ ननु मात्रादिविभागस्यानिर्वचनीयत्वे कथं तस्य तत्त्वप्रमिति- हेतुत्वमित्याशङ्कय किमनिर्वचनीयस्य वस्तुनो बोधकत्वमात्रमनुपपन्नं किं वा अर्थक्रियाकारित्वमात्रमाद्यपि किमेतद्वाद्यन्तरस्य चोद्यमुतैक- देशिनः । नाद्यः कल्पितस्य सवितषिरस्य वास्तवमरणज्ञापकत्वव.

प्रथमोऽध्यायः। स्कल्पितप्रमात्रादेः सत्यब्रह्मावबोधकत्वोपपत्तरित्याह- MPARAN मिथ्यासुषिः सवितृमण्डलमध्यवर्ती प्रत्यक्षदृष्टिपथमापतितोऽचिरेण । द्रष्टुः शरीरकरणप्रविभागरूप मृत्यु निवेदयति सत्यमिदं प्रसिद्धम् ॥ ३३७ ॥ मिथ्यापिरिति । सुषिः छिद्रं प्रत्यक्षदृष्टिपथमापतितः प्रत्यक्षेण प्रकाशमानः सवितृमण्डलमध्यगतो मिथ्या सुषिरचिरेण शीघ्रं द्रष्टुः सत्यमृत्यु निवेदयतीति प्रसिद्धम् । अथापि यत्र छिद्र इवादित्यो दृश्यते तदाप्येवमेव विद्यादिति श्रुत्या सिद्धमित्यर्थः । मृत्यु स्वरूपमाह-शरीरकरणप्रविभागरूपमिति । शरीरात्स्थूलशरीराल्करणसमुदा- यात्मकस्य लिङ्गशरीरस्य प्रविभागरूपमित्यर्थः। ननु तत्र सुषिरज्ञानमेव मरणसूचकं न सुषिरमिति चेतिक सुषिरोपलक्षितं ज्ञानं तज्ज्ञापकं किं वा तद्विशिष्टं नाद्यः सर्वस्यापि ज्ञानस्य तथात्वप्रसङ्गात् । द्वितीये सुषिरस्यापि मरणकारणत्वमागतमेव । ननु सुषिरं ज्ञाने परिचायक- मात्रं न विशेषणं न वोपलक्षणमिति चेत्र-अस्योदासीनत्वे तत्परिचित- झानस्यापि निर्विशेषत्वप्रसङ्गादिति भावः ॥ ३३७ ॥ द्वितीयं सूत्रविरोधेन दूषयति- स्वप्नः शुभाशुभफलागमसूचकः स्या- न्मिथ्यापि सन्निति च सूत्रकृदाह यत्नात् । गुर्वादिसर्वमिद्मद्यबुद्धिहेतु- मायानिबन्धनमिति प्रतिपादनाय ॥ ३३८ ॥ स्वम इति । यस्मात्सूत्रकारो 'यदा कर्मसु कम्येषु स्त्रियं स्वप्रेषु ३३२ सटीक संक्षेपशारोरके- पश्यति । समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शन' इत्यादि श्रुति- प्रसिद्ध्या "आरोहणं गोवृषकुञ्जराणां प्रसादशैलाग्रवनस्पतीनाम्" इत्यादिस्मृतिप्रसिद्ध्या च मिथ्या सन्नपि स्वप्नः शुभाशुभफलागमसूचक इति कल्पितस्यापि गुर्वादेरवबोधकत्वप्रतिपादनाय 'सूचकश्च हि श्रुते- राचक्षते च तद्विद' इति सूत्रेणाह । तस्मात्कल्पितस्यार्थक्रियानङ्गीकारे सूत्रविरोधः स्यादित्यर्थः । नापि प्रथमद्वितीयः । कल्पितस्यार्थक्रिया तुत्वेहे बाधकाभावात्। नन्वेवं सति शुक्तिरजतादेरपि कङ्कणकटकहेतुत्वं स्यादिति चेन्न व्याप्त्यभावात् । ननु कल्पितत्वाविशेषात्कस्य चिदेवार्थक्रियाकरित्वमिति कुतो नियम इति चेद्यद्धि कर्मकाले वर्तितुं क्षमते तदेव कटकादिहेतुः न च शुक्तिकारजतं तथा ततोन तस्यार्थ- क्रियाकारित्वम् । तद्वा किमिति न स्यादिति चेन्न-विरोधिज्ञान- सम्बन्धात्तत्स्थित्यनुपपत्तेः अतो रजतादेर्यावच्छुक्तिज्ञानमेव सत्त्वान्न तदनन्तरमर्थक्रियाकारित्वं घटादेश्च ब्रह्मज्ञानपर्यन्तं सत्वात्तस्यार्थ- क्रियाहेतुत्वमिति संगच्छते । अत एव बाधात्पूर्व मिथ्या ऽहि- दंशनेन मरणं दृश्यते । अत एव ज्ञानमात्रं हेतुरिति निरस्तम् । अन्यत्र सर्पदंशस्यैव मरणहेतुत्वकल्पनादन्यथा सुप्ताप्रबुद्धयोस्तेन मरणा- नुपपत्तरित्यलम् ॥ ३३८ ॥ ननु भवतु मिथ्यावस्तुनोपि तत्त्वप्रमित्युत्पादकत्वं मिथ्यावस्तु- त्वमेवानुपपन्नं तस्याप्रसिद्धत्वात् । न च लौकिकभ्रान्तिविषये रजते स्वप्नादौ च तत्प्रसिद्धिरिति वाच्यम्-तत्रापि तदऽसंप्रति- पत्तेरित्याशङ्कय किं भ्रान्तिः सविषया उत निविषया। श्राद्यपि किं भ्रान्तिविषयः सदुतासत् किं वा सदसदात्मकमिति विकल्पत्रितयमपि दूषयति- भ्रान्तिप्रतीतिविषयो न च सन्नचास- माकाशतत्समयोन हि सास्ति नापि। - प्रथमोऽध्यायः। तस्या भवेत्सदसदात्मकगोचरत्वं न ह्यस्ति तत्किमपि यत्सदसत्स्वरूपम् ॥३३॥ भ्रान्तिप्रतीतीति । बाध्यमानत्वात्सन्न भवति। अपरोक्षत्वाञ्चासत्र भवतीत्यर्थः। उभयत्रापि वाधकमाह-आकाशति । भ्रान्तः सद्विषयत्वे गगने गगनप्रतीतेरिव भ्रान्तित्वप्रसिद्धिर्न स्यादसद्विषयत्वे च गगनकुसुमप्रतीतिवत्स्पष्टभ्रान्तित्वप्रसिद्धिर्न स्यादित्यर्थः । भ्रान्तिस्तस्या भ्रान्तेः हि यस्मात्सदसदात्मकं किञ्चिद्वस्तु नास्ति. तस्मात्तस्याः सदसदात्मकगोचरत्वमपि नास्तीत्यर्थः ॥ ३३ ॥ इदानीं भ्रान्तिर्निविषयेति द्वितीयपक्षं दूषयति- आलम्बनं च विरहय्य न विभ्रमस्य ज्ञानात्मनो भवति जन्म कदाचिदत्र । सिद्धं ततःसदसती व्यतिरिच्य किश्चि दालम्बनं भ्रमधियासकलप्रवादे ॥ ३४० ॥ भानम्वनं चेति । भ्रान्तेविषयं विनानुदये हेतुमाह-ज्ञानात्मनइति । घटादिशानादौ सविषयत्वनियमदर्शनाद्धान्तेरपि जन्यज्ञानत्वात्स- विषयत्वं वक्तव्यम् । विषयश्च सदादिरूपेण दुनिरूप इति परिशेषात्त- द्विषयोऽनिवचनीय पवेत्याह-सिदं तत इति । विषयस्य सदादिरूपेण दुनिरूपत्वं तच्छब्दार्थः । व्यतिरिच्य विहायात्र प्रत्येकसमुदायाभ्यां सदसत्त्वेन विचारासहत्वमनिर्वचनीयत्वमिति तल्लक्षणं दर्शितम् । प्रमाणं चात्रापरोक्षतया प्रतीयमानत्वे सति बाध्यमानत्वानुपपत्ति- यतिरेकलिङ्ग.वार्थाद्दर्शितम्। न च देशान्तरीयरजतस्येह बाध्यमान- त्वादन्यथोपपत्तिरप्रयोजकं वा लिङ्गमिति वाच्यम् । पुरोवर्तिनि तत्प्र- सत्यभावेन तनिषेधानुपपत्तेः । अत्र प्रतिपन्नस्य देशान्तरसत्वे सटीके संक्षेपशारीरके- प्रमाणाभावाच्च । न तावदिदं रजतमिति विधिप्रत्ययस्तत्र प्रमाणं तस्य पुरोदेशसंसृष्टरजतगोचरत्वात् । नापि नेदं रजतमिति निषेध- प्रत्ययः । तस्य प्रसक्तरजताभावमात्रगोचरत्वात्। नापीह बाधानुपपत्या तस्य देशान्तरस्थत्वसिद्धिरिति वाच्यम् । प्रतियोगिप्रसक्तिमात्रा- पक्षिणो बाधस्य तस्य देशान्तरस्थत्वं विनानुपपत्त्यभावात् । नन्वत्र वाध्यमानस्य देशान्तरस्थत्वं विना प्रसक्तिरेवानुपपन्नेति चेन- ध्वंसप्रतियोगिप्रसक्तिवदुपपत्तेः । अन्यथाख्यातिनये शुक्तिरजतादि- संसर्ग व्यभिचाराच्च । ननु पुरोदेशप्रतिपन्नस्य तत्रैव सत्त्वे कथं तस्य त्रैकालिकनिषेधः न हि यत्र प्रतियोगि तस्यैव तत्रात्यन्ताभावः संगच्छते। ननु यत्र यदा प्रतीयोगि प्रतीयते तत्र तदा तदत्यन्ता- भावप्रतोतिरानुपपन्ना । किं वा तत्र कालान्तरेपि । श्राद्यस्त्वङ्गीक्रियते न हि रजतप्रतीतिकाले तदत्यन्ताभावप्रतीतिमाचक्षमहे । न द्वितीयः । घटवत्यपि भूतले प्रतियोगिकालान्यकाले इह भूतले घटो नेति तदत्यन्ताभावप्रतीतिवत्कालभेदेन रजततदत्यन्ताभावप्रतीत्युपपत्ते- रिति चेत्तथापि नासीन्नास्तीति प्रत्ययोऽनुपपन्न एव । न हि घटवति भूतले कालभेदेन घटो नासीदिति प्रत्ययो दृश्यते उपपद्यते वा अत्र च पुरोदेशे रजतं तादात्म्यसम्बन्धेन नासीनास्ति न. भविष्यतीति प्रत्ययो दृश्यते । किं च यत्र प्रतियोगिनस्तादात्म्यं समवायो वा तत्र तनिषेधप्रत्ययः । तत्प्रागभावप्रध्वंसौ विषयींकुरुते नात्यन्ताभावम् । यत्र पुनः संयोगः संम्बन्धः तत्र तनिषेधप्रत्ययो ऽत्यन्ताभावमिति व्यवस्था स्थीयते। रजतं च तादात्म्यसम्बन्धेन शुक्तिकायां वर्तत इति भवदङ्गीकारे कथं तदत्यन्ताभावप्रतीतिरपीति चेदुच्यते- शुक्तिकायां रजतत्वावच्छिन्नप्रतियोगिकात्यन्ताभावोनुपपन्नः किं वा सत्त्वावच्छिन्नप्रतियोगिकतदभावोपि । तत्राद्योऽङ्गीकृतः । न द्वितीयः। सच्चावच्छिन्नस्य रजतस्य शुक्तिकायामभावेन तत्र तदत्य- न्ताभावोपपत्तेः। तद्रूपेण त्रैकालिकनिषेधप्रतीत्युपपत्तेश्च । ननु रजते प्रथमोऽध्यायः । ३३५ । सत्त्वं न प्रतियोगितावच्छेदकं तत्र तदभावादिति चेन्न-अवच्छे- दको हि न विशेषणं किन्तूपाधिः । स चाविद्यमानोपि ज्ञायमानतया प्रतियोगिव्यावर्त्तको भवति दण्डवत् । ननु प्रतियोगिनि प्रतियोगिता- वच्छेदकधर्मवैशिष्टयज्ञानमभावधीहेतुर्न च प्रकृते तत्संभवति तस्य रजते सत्त्वे शुक्तौ तदवच्छिन्नप्रतियोगिकाभावानुपपत्तेस्तनासत्त्वे वा तद्वैशिष्टयबोधस्यान्यथाख्यातित्वप्रसङ्गादिति चेद्-न प्रति- योगितावच्छेदकवैशिष्ट्यज्ञानमभावभीहेतुः । किन्तु प्रतियोगिता- च्छेदकज्ञानमेव लाघवात् । ननु एवं यत्र प्रतियोगितावच्छेदको धर्मो निषिध्यते । तस्यापि तद्रूपेणान्यत्र निषेधः स्यात्प्रतियोगितावच्छेदक- प्रतियोगिज्ञानयोर्जातत्वात् । नचाभावाप्रतियोगित्वेन प्रतियोगिता- वच्छेदकोपस्थितिरभावधीकारणमिति वाच्यम् । प्रतियोगितावच्छे- दकनिषेधानन्तरम् तत्स्मृतिमतस्तद्रूपेण तस्य निषेधप्रसङ्गादिति चेन्न-प्रतियोगितावच्छेदकप्रतियोगि विवेकाग्रहस्याप्यभावधीहेतुता- वच्छेदकत्वात् । नचैवं सति कुतो लाघवमिति वाच्यम् । विवेका- ग्रहस्याज्ञायमानस्यैव हेतुतावच्छेदकत्वाद्वैशिष्टयस्य तु ज्ञायमानत्वेन हेतुताचच्छेदकत्वे वैशिष्ट्य तस्य ज्ञानविषयत्वं चेत्युभयस्य कल्प्य त्वात् । किश्च समत्वेऽप्ययमेवा पक्ष उचितः । एवं हि सर्वजनान गवि शशविषाणं नेति प्रतीतिरुपपादिता भवति । अन्यथाऽनुभवोपि व्याख्येयः स्यात्तस्मात्पारमार्थिकत्वाकारेण शुक्तौ रजताऽत्यन्ताभाव- प्रतीतिः सङ्गच्छते । नन्वेवमपि रजतस्य सद्विलक्षणत्वे नरश्टङ्गवद- परोक्षप्रतीत्यनुपपत्तिरसद्वि लक्षणत्वे चात्मवद्वाधानुपपत्तिरित्य: परोक्षप्रतीतिबाधयोः सदसत्वे एव प्रयोजके इत्यन्यथोपपत्तिरिति चैदेकस्य तदुभयकारत्वानुपपत्तेः तयोः परस्परं विरोधात् । ननु तयो- वास्तवैक्यविरोधेऽपि कल्पितैक्यं न विरुध्यत इति चेकिमिदं कल्पितत्वं सदसदात्मकत्वमेवेति चेन्न तस्यैव विरोधात् । नन्वेकस्य सदासदात्मकत्ववत्तद्विलक्षणत्वमपि विरुद्धमिति चेन्न विरुद्धयोरपि सटीके संक्षेपशारीरके- मृषातादात्म्योपपत्तेः । ननु सदसतोरेव मृषातादात्म्यं किं न स्यादिति चेन्न । मृषाशब्दार्थस्यैवानिर्वचनीयत्वात् । किं च सद्विलक्षणत्वम- परोक्षप्रतीत्यभावे न प्रयोजकं गौरवात् किं त्वसत्त्वमेव । एवमसद्विल- क्षणत्वमप्यबाधान प्रयोजकं किन्तु सत्त्वमेव । ननु त्वत्पक्षेऽपि बाधापरोक्षप्रतीतिप्रयोजकगौरवमस्त्येवेति चेन्न । यत्र यद्धि प्रयोजक तदभावस्तदभावे प्रयोजक इति नियमेनरपरोक्षप्रतीतिप्रयोजकीभूत- सत्त्वाभावस्यत्सत्वस्य तदभावप्रयोजकत्वेन बाधप्रयोजकीभूतास- स्वाभावस्य सत्त्वस्याबाधप्रयोजकत्वेन रजतस्य सदसदात्मकस्य सत्यासत्त्वाभ्यामपरोक्षप्रती तितदभावयोर्बाधतदभाचयोश्चापातात् । नन्वसत्त्वासमानाधिकरणं सत्त्वं सत्त्वासमानाधिकरणमसत्वं चाप- रोक्षप्रतीतिबाधयोः प्रयोजकमिति चेन्न । उभयात्मके रजते तदस- म्भवेन तयोरनुपपत्तेः । किं च त्वभिमतासद्वैलक्षण्यसद्वैलक्षण्य- योरबाधापरोक्षप्रतीत्यभावप्रयोजकयोरपि सदसदात्मके रजते सुल- भत्वेनापरोक्षप्रतीतिबाधयोरभावप्रसङ्गः । ननु सबैलक्षण्यस्यास त्वसमनियतस्य कथमसद्वैलक्षण्येन स्थितिरेवमसद्वैलक्षण्यस्यापि सत्वसमनियतस्य कथं सद्वैलक्षण्येन स्थितिरिति चेत्किमेतावत्कालं निद्रितं भवता यत्सदसद्विलक्षणपदार्थं कसुहृदाऽपरोक्षबाधानुपप- त्यामन्त्रितं सदसद्विलक्षणं सकलजनसंमतमपि न जानीषे । ननु न मया निद्रित विरुद्धपदार्थयोर्मध्ये एकतरनिषेधेऽन्यतरपरिशेषनि- यमस्य का गतिरिति पृच्छ्यत इति चेन्न-सर्वप्रकारानिर्वचनीयत्व- वादिनामस्माकं वलवदनुपपत्तिप्रमाणसिद्धस्य प्रकारान्तरस्य सत्त्वे नान्यतरपरिशेषनियमाभावादि तेन सद्वैलक्षण्यस्य बाधप्रयोजक- स्यासत्वमात्रनियतस्यासद्वैलक्षण्यस्यापरोक्षताप्रयोजकस्य सन्मात्र- चर्तिनश्चोभयविलक्षणेऽभावान्मन्मत इव त्वन्मतेपि बाधादिकं न स्यादिति निरस्तम् । चतुर्थप्रकारस्यापि संभवेनासद्वैलक्षण्यसद्वैल- भण्योः सत्वासत्वमात्रनियतत्वाभावात् । ननु सबैलक्षण्यमपरोक्षप्र- प्रथमोऽध्यायः । तीत्यभावे न प्रयोजकं येन तदभावोऽपरोक्षप्रतीतौ प्रयोजकमित्युभया- त्मके रजते पारोक्ष्यापरोक्ष्यापातः किन्त्वपरोक्षप्रतीतिविषयत्वाभाव- व्याप्यं सत्तद्वयापकमात्रं त्वन्मते ऽप्यसत्त्वस्यैवंरूपत्वमेवेति चेन्न- एवमपि व्याप्यवति व्यापकसद्भावनियमेनोभयात्मके रजते सबै- लक्षण्यस्यापि सत्त्वेन रजतस्य प्रतीयमानापरोक्षत्वाभावसंभव- प्रसङ्गादस्मन्मते तु'चतुर्थप्रकारस्थापि संभवेन सद्विलक्षणेप्यसत्त्वाभा- वेनापरोक्षत्वाभावापादकाभावात्तस्मादपरोक्षप्रतीतिबाधानुपपत्त्यास- दसद्विलक्षणत्वमेव खीकर्त्तव्यमिति नार्थापत्त्यनुमानयोरन्यथोपयत्त्य- प्रयोजकते इति भावः ॥ ३४०॥ यञ्चोक्तं ब्रह्मणि वेदान्तानामपरोक्षप्रतीतिजनकता न संभवतीति तत्र किं विषयस्य धर्मादिवन्नित्यपरोक्षतया वेदान्तास्तद्विषयापरोक्ष- प्रतीति नोत्पादयन्तीत्युच्यते किं वाऽपरोक्षे ब्रह्मणि शब्दप्रमाणस्य परोक्षप्रमितिजननस्वभावतयाऽपरोक्षप्रतीति नोत्पादयन्तीति । नाद्यः । ब्रह्मणो यत्साक्षादित्यादिश्रुत्या नित्यापरोक्षतयैव सिद्धत्वात् । न द्वितीयः । अपरोक्षे ब्रह्मणि परोक्षज्ञानमुत्पादयतो वेदान्तस्याप्रामाण्य- प्रसङ्गस्य प्रागुक्तत्वात् । अस्त्वप्रामाण्यमिति चैन्नापौरुषेयस्य वेदस्य तदनुपपत्तेः । तस्माद्वेदान्ता ब्रह्मण्यपरोक्षज्ञानमेवोत्पादयन्तीत्याह- ब्रह्मात्मवस्तु निरवद्यचिदकरूपं बन्धुष्णातावदपरोक्षयपुःस्वभावात् । निर्दोषवेदशिरसो वचनादत्तोऽस्मिन् ब्रह्मात्मवस्तुनि भवेदपरोक्षबुद्धिः ॥३४१ ॥ ब्रह्मात्मवस्विति । प्रत्यचिदेकरसत्वात्परोक्षतादिदोषरहितं ब्रह्मा- मवस्त्वपरोक्षवपुरपरोक्षस्वरूपम् । घटाद्यापरोक्ष्यादनास्य विशेषमाह- स्वभावादिति । अनन्यप्रयुक्तमापरोक्ष्यं ब्रह्मण इत्यर्थः । अस्मिन्नर्थे।

३३८ सटीके संक्षेपशारीरके- । दृष्टान्त-:वन्धुष्णतावदिति । वढेरौष्एयवदित्यर्थः। फलितमाह-निर्दोषेति । यतः स्वभावादपरोक्षं ब्रह्मात इति सम्बन्धः । अतोऽस्मानिर्दोष- वेदशिरसो वचनादिति वाऽपौरुषेयतया स्वतः प्रमाणावेदान्ताद- परोक्षे ब्रह्मण्यपरोक्षबुद्धिर्भवेदित्यर्थः ॥ ३४१ ॥ यञ्चोकं ब्रह्मणि स्वयंप्रकाशेप्रमाणकृत्यं नास्तीति तद्यद्यपि "नैतद्व- स्तुनि कल्पितस्य"[२४५]इत्यनेन परिहृतंतथापितत्रब्रह्मणोऽविषयत्वेपि तत्र वेदान्तप्रामाण्यनिर्वाहायैव तदुक्तं, प्रयोजनाभावदोषस्य स्वोचित- स्थले परिहारो न कृत इति मन्दाशङ्कापनुत्त्यर्थमत्रापि तत्परिहरति- सा चोपनेयरहिते विषयिण्यनन्तेऽ- निर्वाच्यमग्रहणमात्रमपाकरोति । स्वोत्पत्तिलब्धनिजवस्तुबलेन तत्र तापत्रयं समुपशाम्यति निनिमित्तम् ॥ ३४२॥ सा चेति । अथवा-पूर्व जगन्मूलाविद्यानिवृत्तिः प्रयोजनमित्युक्तं तन्न संभवत्यविद्यायां सत्यामपि सुषुप्तावनादर्शनेन तनिवृत्तेरनाका- ह्नितत्त्वेनापुरुषार्थत्वादित्याशङ्कयाह-सा चेति। अपरोक्षबुद्धिरित्यर्थः । उपनेयरहिते-ज्ञानाधेयस्फुरणाख्यातिशयशून्ये । तत्र हेतुः-विषयिणीति । विषये घटादौ शानं स्फुरणाख्यमतिशयमाधत्ते श्रात्मनश्च ज्ञानस्व- रूपत्वेन विषयित्वान्न विषयत्वमतो न तत्रातिशयः सम्भवतीत्यर्थः । अनिर्वाच्यमिति च्छेदः। श्रग्रहणं ग्रहणविरोधि भावरूपाज्ञानम् । न चाविद्यासत्त्वस्यात्ममात्रत्वान्न तन्निवृत्तिः संभवतीति वाच्यम् । वस्तु तस्तथात्वेप्यारोपितरूपान्तरस्यापि सत्त्वादत एवोक्तमनिर्वाच्यमिति । उत्पन्नस्यापि ज्ञानस्य प्रसंख्यानापेक्षां व्यावर्त्तयति-स्वोत्पत्तीति । खस्योत्पत्तिमात्रेण लब्धं यनिजवस्तुबलमसाधारणाविचालि ब्रह्मा- कारत्वं तेनेत्यर्थः । अधिष्टानाकारज्ञानं ह्यविद्यानिवृत्तौ स्वस्यो- प्रथमोऽध्यायः। त्पत्तिमात्रमपेक्षते न त्वभ्यासमपि शुक्तिकाशानादौ तथैवदर्शनात् । ननु तत्र विषयस्यातिस्पष्टत्वाद्विनैवाभ्यासं ज्ञानमशानं निवर्तयत्यत्र ब्रह्मा- मनोस्तु नेति सूक्ष्मत्वादभ्यासोप्यपेक्षणीय इति चेत्-नहि सूक्ष्मत्वं झाने सति तस्य शीघ्रमज्ञानानिवर्तकत्वे प्रयोजकं किन्तु तद्विषयस्य ज्ञानस्याविचालिनःशीघ्रमनुत्पत्तावेव तथैवारुन्धत्यादिज्ञाने दर्शनात्तथा च ब्रह्मात्मविषयदृढतरज्ञानस्योत्पत्तावेवाभ्यासोपि कल्पयितुमुचितः । सामग्री बिलम्बेन ज्ञानाख्यकार्यविलम्बस्यौचित्याल्लोके दर्शनाच न तु दृष्टविरुद्धत्वेनाविद्यानिवृत्तौ स कल्पनीय इति भावः। तत्रा- विद्यानिवृतौ सत्यां तापत्रयाध्यात्मिकाधिभौतिकाधिदैविकभेदेन त्रिविधस्तापः संसारः समुपशाम्यति सम्यगत्यन्तदग्धेन्धनान- लवनश्यतीत्यर्थः। तत्र हेतुः-निनिमित्तमिति । निर्गतं निवृत्तं निमित्त- मुपादानकारणं यस्य तत्तथा । अविद्याख्योपादानस्य निवृत्तत्वा- संसारस्यात्यन्तिकनिवृत्तिरित्यर्थः । तथा चाविद्यानिवृत्तेः स्वतः पुरुषार्थत्वाभावेप्यनर्थसाधननिवृत्तित्वेन तत्त्वं संभवतीति भावः ॥ ३४२॥ एवमनाधेयातिशयेऽनतिशयानन्दे स्वप्रधानेऽखएडैकरसे ब्रह्मणि वेदान्तानामविद्यानिवृत्तिमात्रफलतया प्रामाण्यमुपपादितम् । इदानी कार्यान्विते व्युत्पत्ति निराकृत्य लोके सिद्ध व्युत्पत्तिप्रदर्शनेन तदेव प्रामाण्यं दृढीकर्तुपरपक्षमनुवदति- वाक्यात्प्रवर्तकनिवर्तकरूपभाजः पुंसः प्रवृत्तिमुपलभ्य धियोऽनुमानात् । कार्यान्विते शिशुरवैति पदस्य शक्ति- मित्युच्यते यदि तु तत्र वयं वदामः ॥३४३॥ वाक्यादिति । अयं व्युत्पित्सुः प्रवर्तकनिवर्तकरूपभाजः प्रवर्तक सटोके संक्षेपशारोरके- कार्यताज्ञाननिवर्त्तकाहननादिसंकल्पशानजननद्वारा प्रवर्तकनिवर्त- कत्वाकारवतो वाक्याच्छ्र यमाणगामानयेत्यादिवाक्यात्प्रवर्त्तमानस्य श्रोतुः प्रवर्तकधियं कार्यताज्ञानं प्रवृत्त्या लिङ्गन परिकल्प्यानुमाय गवादिशब्दस्य कार्यान्विते शक्तिमवैतीत्युच्यते यदीत्यर्थः । तत्र दूषणं प्रतिजानीते-तत्रेति । तस्मिन्नर्थे विषये दूषणं वदाम इति सम्बन्धः॥ ३४३॥ प्रतिज्ञातं दूषणमेवाह- योग्येतरान्वितपदार्थनिवेदने तु शब्दस्य शक्तिरिह वृद्धजनप्रयोगे। विज्ञायते न खलु कार्यसमन्वितेऽर्थे कार्याभिधायिषु पदेष्वपि तत्प्रसङ्गात् ॥ ३४४॥ योग्यतरेति । वृद्धजनप्रयोग इति निमित्तसप्तमी । इह जगति वृद्ध- प्रयोग निमित्तीकृत्यान्वययोग्यं यदितरत्तेनाधितो यः पदार्थस्तस्य निवेदने प्रकाशने । तुरवधारणे योग्येतरान्वितपदार्थनिवेदन एव शब्दस्य शक्तिर्विज्ञायते । एवकारव्यावर्त्यमाह-न खल्विति । कार्यान्विते शक्ति ज्ञायत इत्यर्थः । कुत इति चेत्तत्र वक्तव्यं किं सर्वाण्यपि पदानि कार्यान्वितस्वार्थमभिदधति उत कार्यपदव्यतिरिक्तानि । नाद्य इत्याह-कार्याभिधायिण्विति । सर्वपदानां कार्यान्वितस्वार्थपरत्वमनुषपन्न- मानयनादिक्रियावाचिष्वपि पदेषु तत्प्रसङ्गात्कार्यान्वितार्थाभिधा- यित्वप्रसङ्गात् कार्यस्य कार्यान्वितत्वाभावान्न हि स्वयं स्वेनान्वेतुं शक्यते इत्यर्थः ॥ ३४४॥ - मनु माभूत् स्वस्य स्वेनान्वयः कार्यान्तरेणान्वयः तस्य किं न स्यादिल्याशय - कार्यपदं पेन कार्येणान्वितं स्वार्थमभिधत्तेः प्रथमोऽध्यायः । तत्कार्यवाचकपदमपि कि कार्यान्तरेर्णान्वितं स्वार्थ ब्रूते किं वा यदन्वयप्रतियोगितया स्वार्थमुपस्थापयति तदन्वितस्वार्थ वा नाद्य इत्याह- कार्यान्वितार्थविषया यदि शब्दशक्तिः कार्यार्थवाचिषु लिङादिष्ठ कार्यमन्यत् । वक्तव्यमापतति तत्र च तत्र चान्य- द्वक्तव्यमेव भवतीत्यनवस्थितिः स्यात् ॥ ३४५ ॥ कार्यान्वितार्थेति । यदि कार्ये शब्दशक्तिः कार्यान्वितार्थविर्षायणी स्याद्यदि च तत्कार्यवाचिषु लिङादिषु कार्यान्वितस्वार्थशक्तिसिद्ध्यर्थ मन्यदानयनादिकार्यादन्वयानुयोगिभूतादन्यत्किञ्चित्कार्य वक्तव्यमा- पपति तदा तत्र तत्र तस्मिन् तस्मिन्कार्यपदे कार्यान्वितखार्थे शक्तिकल्पनायै कार्यान्तरं वक्तव्यं भवति अन्यथा तत्तत्कार्य पदस्य स्वार्थाभिधानानुपपत्तरित्यनवस्थापातान्न कस्यापि स्वार्था- भिधायकत्वमित्यर्थः । न द्वितीयोऽपि । कार्यभेदे वाक्यभेदप्रसङ्गाद् व्युत्पत्तिकाले कायद्वयोपस्थित्यभाबाच लोके धात्वातिरिक्तकार्या- भावाञ्चेत्यर्थः ॥ ३४५ ॥ । कार्यपदव्यतिरिक्तानि कार्यान्वितार्थमभिदधतीति द्वितीय- पक्षेपि कि कार्यपदमनन्वितस्वार्थमात्रं कथयति । उत योग्येतरा- न्वितम् । नाद्यः । प्रतीतिविरोधात् । अनन्वितार्थव्युत्पत्तनिराकरिष्य- माणत्वादित्यभिप्रेत्य न द्वितीयोपीत्याह- सिडान्वितं यदि लिङादिपदानि कार्य ब्रूयुर्विनश्यति तदा नियमस्त्वदीयः ।

३४२ सटीके संक्षेपशारीरक- यो वर्णितः सकलमेव पदं स्वमर्थ कार्यान्वितं वदति नान्यदिति स्वशास्त्रे ॥३४६ ॥ सिद्धान्वितमिति । योग्येतरो य. सिद्धार्थस्तदन्वितार्थमित्यर्थः । तदोयं नियममेवाह-यो वर्णित इति इति । स्वं स्वीयम् । ननु मयेदानी सिद्ध- पदानां कार्यान्वितस्वार्थे कार्यपदानां योग्येतरसिद्धान्वितस्वार्थ एव शक्तिरित्युक्तं तत्कुतो मम नियमभङ्ग इत्यत आह-स्वशास्त्र इति । स्वस्य प्राभाकरस्य मूलग्रन्थ इत्यर्थः। न केवलं नियमभङ्गः किन्त्वनुगतै. कप्रयोजके योग्येतरान्वितस्वार्थे संभवति प्रयोजकद्वैविध्यकल्पना न न्याय्येत्यपि द्रष्टव्यम् ॥ ३४६ ॥ यस्तु पुनः सिद्धान्तविरोधं नातीव बाधकं मन्यते न्याय- सिद्धस्यैव सिद्धान्तत्वादिति तं प्रति बाधकान्तरं वक्तव्यम् । न च प्रयोजकद्वैविध्यं बाधकं योग्येतरकार्यान्तरान्वितत्वस्यैकस्यैव प्रयो- जकत्वादित्याशङ्कयाह- योग्यतरान्वितनिमित्तकशब्दशक्ति- व्युत्पत्तिरेव यदि संभवभागिनी स्यात् । पाश्रीयते किमिति कार्यसमन्वितेऽर्थे शब्दस्य शक्तिरसदर्थविशेषणेन ॥ ३४७ ॥ योग्येतरेति । योग्यतरान्वितं योग्येतरान्वितत्वं निमित्तं प्रयोजक यस्याः शब्दशक्तः तस्या व्युत्पत्तिः परिज्ञानं यदि शब्दस्य योग्ये- तरान्वितवाचकत्वं क्वचित्संभवति तदा शब्दस्य कार्यसमन्वितेऽर्थे शक्तिः किमित्याश्रीयत इति सम्बन्धः । योग्येतरान्वितेऽपि शब्द- शक्तिराश्रीयत इति चेत्कार्ये व्युत्पत्तिः किमर्थमाश्रीयत किं वाक्यस्य प्रथमोऽध्यायः। ३४३ प्रवर्तकत्वनियमात्किवा कार्यान्वितत्वस्य ततो नियमेनोपस्थितेः । नोभयथापि तस्याग्रे निरसिष्यमाणत्वात्तथा च प्रमाणाभावान कार्यान्विते व्युत्पत्तिरित्यर्थः । न केवलं व्युत्पादकाभावात्तत्र न व्युत्पत्तिः । व्यावाभावेन न कार्यविशेषणस्यार्थवत्त्वमपीत्याह- असदविशेषणेनेति असनविद्यमानोऽर्थः प्रयोजनं यस्य तत्तथोक्तं व्यर्थ- विशेषणत्वादित्यर्थः । न चात्र कार्यविशेषणेन योग्येतरान्वयो व्याव- य॑ते-तस्य त्वयाप्यङ्गीकृतत्त्वात् । नापि केवलार्थव्युत्पत्तिः-तस्या श्रावश्यकयोग्येतरान्वितत्वविशेणेनैव व्यावृत्तत्वात्। अतः कार्यविशेषणं व्यर्थमेव । न केवलं व्यर्थविशेषणत्वमानमपि तद्यन्यतरत्वेन वाच्य- स्वाङ्गीकारे प्रयोजकगौरवं चेत्यपि द्रष्टव्यम् ॥ ३४७ ॥ ननु व्यावाभावेन प्रयोजकगौरवेण च कार्यान्वितत्वपरित्यागे योग्येतरत्वविशेषणमपि माभूत्तस्यापि व्यावाभावाद्गौरवाच । न ह्यन्वितत्वे सति योग्येतरत्वं विना शब्दवाच्यत्वयतिरेको दृष्टः । तस्यापि सर्वत्र दर्शनमात्रेण प्रयोजकत्वे दर्शनस्यैव नियामकतया यथादर्शनं कार्यपदव्यतिरिक्तपदप्रवृत्तौ कार्यान्वितत्वपि प्रयोजक कार्यपदे तु योग्येतरान्वितत्वमात्रं प्रयोजकमिति किं न स्यादिन्या- शङ्कयाह- यत्राविशेषितनिमित्तकताविरोधे किञ्चिन्निवारकमुदीक्षितमस्तु तत्र । किञ्चिद्विशेषणविशिष्टमभीष्टशक्ते- वस्तु प्रयोजकमिदं पुनरत्र नास्ति ॥ ३४८ ॥ योति । यत्र यस्मिन्नविशेषितनिमित्तकतावरोधेऽविशेषितस्य योग्येतरत्वादिविशेषणाविशिष्टस्यान्वितत्वमात्रस्य निमित्तकत्वावरोधे शब्दवाच्यत्वप्रयोजकत्वाङ्गीकारे निवारकं बाधकं किंचिदुदीक्षित सटीके संक्षेपशारोरके- दृष्टमस्ति । तत्राभीष्टशक्तः शब्दशक्तः किञ्चिद्योग्येतरत्वादिविशेषण- विशिष्टं वस्त्वन्वितत्वं प्रयोजकं पुनः शब्दो विशेषमाह अत्र कार्याख्य- विशेषणे त्विदं बाधकं नास्तीत्यर्थः । योग्यत्वमितरत्वं च विनार्था- नामन्वितत्वमेव न संभवति । अयोग्येनानितरेणान्वयाङ्गीकारात्ततो नानयोः साम्यमिति ॥ ३४८ ॥ । ननु योग्येतरकार्यान्यतरत्वाकारेण न शब्दवाच्यत्वं येन योग्ये. तरान्वितत्वमात्रेण शब्दवाच्यत्वे संभवति कार्यविशेषणं व्यर्थ भवेत् । किन्तु कार्यान्वयान्वितत्वमेव शब्दवाच्यतायां निमित्तम् । न चात्र योग्येतरविशेषप्रवेशोऽस्ति अतो नात्र व्यर्थविशेषणता न वा प्रयोजकद्वैविध्यमित्याशङ्कयाह- कार्यान्वयान्वयिनि वस्तुनि शब्दशक्ति रित्युच्यते यदि तदाऽपि समानमेतत् । अन्वीयमानवचनत्वमतोपपत्ती कार्यान्वयान्वयिविशेषणगीतथेति ॥ ३४६ ॥ कार्यान्वयान्वायनीति । एतद्-व्यर्थविशेषणत्वम् । कथमत्र व्यर्थविशे. षणत्वमिति चेत्तत्र वक्तव्यं किं कार्यस्य योग्येतरत्वेनान्वयप्रतियोगित्व किं वा कार्यन्वे सति योग्येतरत्वाकारेण । अथवा कार्यत्वेन । अन्त्ये कार्यस्य कार्यत्वावच्छिन्नप्रतियोगिकसम्बन्धाश्रयत्वेन स एवात्मा- श्रयः स्वविशेषणविशेष्यत्वापत्तिश्चेत्यभिप्रेत्य द्वितीयं व्यर्थविशेष- गत्वेनापि दूषयन् प्रथमं स्वीकरोति-अन्वीयमानेति । अन्वीयमान- वचनत्वमतेन योग्यतरान्वितवाचकत्वमतेनोपपत्तौ कार्यान्वयान्वय- विशेषणगी:-कार्यान्वयान्वयिनीत्यत्र कार्यमिति विशेषणगीतथेत्यर्थः । अथवा-अन्विते शक्तिरिति वक्ष्यमाणस्वसिद्धान्ताभिप्रायेण कार्यान्वयेत्य- प्रथमोऽध्यायः। न्वयि विशेषणं व्यर्थ स्यादित्याह-अन्वीयमानेति । कार्यान्वयेति या विशेषणगीः सा वृथेत्यर्थः ॥ ३४६ ॥ ननु नियमेन वाक्याद् गवादिव्यक्तः कार्यान्विताया एत्र प्रतीतेः शाब्दप्रतीतेश्च शब्दशक्ति विनानुत्पादात्कथं तस्य शब्दशक्त्यविषयत्व- मिति चेत्सत्यम्-तद्धि कार्यपदसमभिव्याहारादेव प्रतीयते न तु केवलाद् गवादिपदात् । न च नियमेन तस्य व्युत्पत्तिकालोपस्थिते- रुपस्थितविषयत्वाञ्च शक्तरुपस्थापकप्रमाणपराधीना शक्तिर्यथा प्रमाणोपस्थापितमेव विषयीकुर्यादिति वाच्यम् । यतः शक्तिः प्रमाणा- धीनाप्युपस्थिविषयापि गौरवादिभ्यो बिभ्यती नोपस्थितिमा विषयीकर्तुमीष्टे अन्यथातिप्रसङ्गादित्यभिप्रेत्याह- वक्तृज्ञानविवक्षयोरपि भवेच्छब्दार्थता तावके पक्षे शब्दमनुप्रतीतिरुभयोरस्त्येव यस्मात्तयोः । यद्यच्छन्दमनु प्रतीतिपदवीमारोहदुत्प्रेक्ष्यते तत्तद्वाच्यमिति स्थितौ न हि तयोः शब्दार्थतावर्जनम् ॥ ३५० ॥ वक्त ज्ञानेति । तावके प्राभाकरीये मते वक्तः प्रयोक्तुर्यज्ज्ञानं प्रयोग- कारणीभूतं वाक्यार्थविषयं या च वक्तमीक्षा विवक्षा तयोरपि शब्दार्थता भवेत्कुतस्तत्राह-शब्दमन्विति । यस्मात्कार्यवत्तयोरुभयोर्व- क्तज्ञानविवक्षयोः शब्दमनुशब्दं लक्ष्यीकृत्य शब्दलिङ्गात्प्रतीतिरस्त्येव तत इत्यर्थः । प्राभाकरमते हि लौकिकं वाक्यं वक्तज्ञानविवक्षे अनुः मापयति इत्थमयं वेदैवमयं विवक्षतीति। अनुमानं च इदं वाक्यं संसर्ग- ज्ञा ववक्षापूर्वं निर्दुष्टपुरुषवाक्यत्वादस्मद्वाक्यवदिति । अर्थश्च ज्ञान- विवक्षाविशेषणतया तस्मिन्ननुमाने भाति न तु स्वातन्त्र्येण शब्देन प्रतिपाद्यते अत एव पौरुषेयवाक्यमनुवादकमितिगुरुमतम् । तथा च सटीके संक्षेपशारीरके- व्युत्पत्तिकाले तयोरपि नियमेनोपस्थितत्वात्तत्रापि शब्दशक्तिग्रह- प्रसङ्ग इत्यर्थः। ननु नियमेन तयोरुपस्थितावपि गौरवादनुपयुक्त- न्वादन्यतो लब्धत्वाच्च न शब्दशक्तिविषयत्वं कल्प्यत इति चेन्न- गौरवेपि कार्यपदेनैवान्येन लाभेप्यनुपयोगेपि शब्दान्तरनियतोप- स्थितिमात्रेण त्बया कार्यस्य निखिलशब्दशक्तिविषयत्वस्वीकारादतो गुरोगौरवं न दोषायेत्यभिप्रेत्याह-यद्यदिति । प्रतीतिपद वीं प्रतीति- विषयतामारोहादाप्नुवत्तयोर्वक्तृशानविवक्षयोरित्यर्थः । न नियतोपस्थितिमात्रेण कार्यस्य निखिलशब्दशक्तिविषयत्वमिति भावः॥३५०॥ तथा अस्तु तर्हि तयोरपि शब्दवाच्यत्वमिति चेत्तत्राह- वेदे वक्तुरभावतस्तदुभयं नास्तीह यस्मादतः शब्दे वाचकशक्तिमुज्झति निजां तत्र स्ववाच्यं विना वाच्ये वाचकशक्तिमिच्छति भवान्नान्यत्र तत्र श्रुते- रप्रमाण्यमिति स्फुटं तव भवेझुडेरनुत्पत्तितः ॥ ३५१ ॥ । वेद इति । यस्मादिहापौरुषेये वेदे स्वतन्त्रवक्तुरभावात्तदुभयं वक्त- ज्ञानं विवक्षा च नास्ति । ततो वैदिकशब्दो निजां स्वीयां वाचक- शक्तिमुज्झति स्वार्थ न बोधयेदित्यर्थः । तत्र हेतुः-स्ववाच्यं विनेति । तस्य मुख्यार्थाभावादित्यर्थः । ननु वेदे मुख्यार्थाभावेपि लक्ष्यार्थः किं न स्यात्तत्राह-वाच्य इति । भवान्याच्ये पदान्तरवाच्य एव वाचक- शक्ति पदान्तरस्य लक्षणया बोधनसामर्थ्यमिच्छति न त्वन्यत्र पदान्तरावाच्येपीत्यर्थः । भवानित्यनेन नास्माकमेष नियम इति दर्शयति । अथवा वक्तज्ञानविवक्षयोर्वेदेऽ भावेपि तत्र तदतिरिक्त एव शब्दशक्तिः किं न स्यादित्याशङ्कय लोकवेदाधिकरणन्यायेन लौकिक- प्रथमोऽध्यायः। ३४७ स्यैवार्थस्य वेदार्थत्वेन त्वदभिमतत्वादित्यभिप्रेत्याह-वाच्य इति । लौकिकपदेन वाच्य इत्यर्थः । वाचकशक्तिमिति । वैदिकपदशक्ति- मित्यर्थः । ततश्च वक्तृशानादिविशेषितकार्ये वेदस्य शक्तिवर्णनीया अन्यत्र केवलकार्ये न वर्णनीयेत्यर्थः। फलितमाह-तनेति । इतिशब्दो हेतौ यस्माद्विशिष्ट एव कार्ये शब्दशक्तिः प्रसज्यते न केवले तस्मा- त्तत्र केवलकार्ये विषये वेदात्प्रतीत्यनुपपत्त्यापाताद्वक्तज्ञानादि- विशिष्ट कार्यस्य चाभावाद्वैदिकाभिमानिनस्तव श्रुतेरपि स्फुटमबोधक- तालक्षणमप्रामाण्यं स्यादित्यर्थः । तथा च यथावक्तृज्ञानविवक्षयोः प्रयोगद्वाराव्युत्पत्त्युपायत्वं तथा कार्यताज्ञानमपि भवन्मते प्रवृत्तिद्वारा प्रयोजनशानविवक्षादिद्वारा वा व्युत्पत्तिहेतुरिति भावः ॥ ३५१ ॥ किं च यदि कार्यान्वित एव सर्वेषां पदानां शक्तिर्न योग्येतरान्वि- तमात्रे तर्हि विशिष्टविधिमात्रोच्छेदप्रसङ्ग इत्याह- न च सोमयागपयोरुभयो- रपरस्परेण घटतेऽत्र युजा । पदजातमेतदखिलं हि निजं 'विषयं समर्पयति कार्ययुतम् ॥ ३५२ ।। नचेति । अपरस्परेणान्योन्यमत्र कार्यान्वितार्थशक्तिपक्षे युजा सम्बन्धः । तत्र सोमयजिपदयोरन्योन्यासम्बन्धे हेतुमाह-पदजातमिति । हि यतः सर्व पदं कार्ययुतं कार्यान्वितं निजं विषयं समर्पयति बोधयति । तत इति सम्बन्धः। सर्वस्यापि पदस्य कार्यान्वितस्वार्थ- बोधकत्वाङ्गीकारे सोमेन यजेतेत्यत्र प्रत्ययोपात्तनियोगेनैव सोम- यजिपदयोरन्वयः स्यान्न परस्परं तयोरन्यतरस्याकार्यत्वात् । न च सोमपदस्य धात्वर्थकार्येणान्वयो यागपदस्य नियोगेनेति सटीक संक्षेपशारीरके- वाच्यम् । वेदे धात्वर्थस्य कार्यत्वानङ्गीकारात्काम्यसाधनस्यैव नियोज्यकृतिसाध्यतया कार्यवादित्यर्थः ॥ ३५२ ॥ कार्यान्वयान्वितत्वपक्षेप्ययं दोषः सम इत्याह- कार्यान्वयान्वयिनि शक्तिरिति स्थितौ च कार्यान्वयान्वितमतिर्ने परम्परेण । सम्बन्धितामतिरतश्च न सिद्धमेति सर्वो विशिष्टविधिरित्यपि दूषणं वः ॥३५३॥ कार्यान्वयान्वयिनीति । कार्यान्वयान्वयिनि वस्तुनि शब्दशक्तिरिति- मतेपि सर्वैः पदैः कार्यान्वयान्वितमतिरेव स्यान सिद्धार्थानां सोम- यागादीनां परस्परं सम्बन्धमतिरित्यर्थः । ननु माभूत्पक्षद्वयपि सोमयागपदार्थयोः परस्परमन्वयः किं नश्छिन्नं प्रत्युत कार्यान्वितार्थे शब्दशक्तिवादिनामस्माकं तद्भषणमेव तत्राह--अतश्चेति । पक्षद्वयसमुच्चयार्थः । यतो न क्रियाकारकयोः परस्परमन्वयः श्रतो वो विशिष्टविधिः । सोमादिकारकविशिष्टयागविषयो नियोगः सर्वो नः सिद्धमेतीति सम्बन्धः । अपिशब्देन पूर्वोक्तदूषणानि समुच्चीयन्ते । सोमेन यजेतेत्यत्र हि सोमविशिष्टयागे नियोगोऽवगम्यते । सोम- यागसम्बन्धस्याप्यपूर्वत्वात्तत्र यदि सोमयागयोः परस्परवैशिष्टयं पदाभ्यां न बोध्येत कथंविशिष्टविषयव्यावृत्तनियोगाभिधानं घटते। ननु सोमयागयोः शब्दान्वयबोधाभावेपि नियोगाक्षेपादेव तदन्वयबोधः किं न स्यादिति चेन्नान्योन्याश्रयप्रसङ्गादवगतो नियोगः सोमयागयोः वैशिष्ट्यमाक्षिपेदाक्षिप्ते तु तद्वैशिष्ट्ये विशिष्ट विषयव्यावृत्तो नियोगो ऽवगम्यतेति भावः ॥ ३५३ ॥ ननु योग्येतरान्धितशयङ्गीकारेप्ययं दोषः समान एत्र तत्राषि - प्रथमोऽध्यायः। - प्रधानेन नियोगेनैवान्येषामन्वयस्य वक्तव्यत्वादित्याशङ्कयाह- योग्यतरान्वितपदार्थगतैव शब्द- शक्तिः स्थिता यदि पुनर्घटते तदाऽयम् । सर्वो विशिष्टविधिरस्तु तथैव तस्मा- शुक्तं तथेतरदितीदमपीह भाष्यम् ॥ ३५४॥ । - योग्यतरेति । पदार्थगता पदार्थविषयिणी स्थिता श्रास्थिता श्रितेत्यर्थः। योग्येतरान्वितशब्दशक्तिपक्षे हि तद्योग्येतरत्वेनैवान्वयो भवति न तु नियोगेनेति नियम इति सोमयागयोरप्यन्वयो भवत्येव । न चैवं नियोगस्य प्रधान्यप्रच्युतिः उद्देश्यत्वेन साध्यत्वेन च तस्य प्रधान्योपपत्तेः । नियोगापह्नवायैव योग्येतरस्मिच्छब्दशक्तिस्वीकारा- श्वेत्यर्थः । ततोऽयमेव पक्षस्त्वयापि स्वीकर्त्तव्य इत्याह-अस्विति । तस्मात्तथैव योग्येतरान्वितविषयशब्दशक्तिरस्त्वित्यर्थः । न केवल- मस्मिन्पक्षे विशिष्टविधिमात्रोपपत्तिः । अपि तु भवदीयभाष्यवचन- मप्युपपन्नतरमित्याह-युक्तमिति । इहास्मिन्पक्षे यदैकस्मादपूर्व तदेत- रत्तदर्थमिति भाष्यमपि युक्तमुपपन्नमित्यर्थः । तत्र हि भाष्ये एकस्यैव नियोगसमर्पकत्वं पदान्तरं तदर्थ नियोगविषयधात्वर्था- र्थमिति व्युत्पाद्यते । तच्च योग्येतरान्वितन्वपक्ष एव संगच्छते। अन्यथा सर्वस्यापि नियोगशेषत्वेन नियोगविषयशेषत्वाभावादित्यर्थः ॥३५४ ॥ । ननु व्युत्पत्तिकाले प्रवृत्त्या कार्यताज्ञानमेवानुमीयते । तस्यैव प्रवृत्तिकारणत्वात्ततः प्रवर्तकज्ञानं जनयतः कार्यमेवार्थो वक्तव्यः । तश्चेत्त्वया न स्वीक्रियते । तदा शब्दस्यैव साक्षात्प्रवर्तकत्वमुक्तं स्याच्छब्दश्रवणानन्तरं प्रवृत्तिदर्शनात्तथा च तस्य बोधकत्वं हीयेतेति शङ्कामनूद्यापवदति- - सटीक संक्षेपशारोरके- इटा- शब्दः प्रवृतिजनको न तु बोधकश्चे- नैतत्प्रवर्तकधियो जनकत्वहेतोः । इटाभ्युपायमतिजन्मनिमित्तभूतः शब्दः प्रवर्तयति नैष पुनः पुमांसम् ॥३५५॥ शब्द इति । लिङादियुक्तशब्दस्य कार्यताज्ञानजनकत्वानङ्गीकारे शब्दो न बोधकः स्यात् किन्तु साक्षात्प्रवर्तक एव स्यादिति चेत्तन्न कुतस्तत्राह-प्रवर्तकधियो जनकत्वहेतोरिति । प्रवर्तकज्ञानजनकत्वाद्धेतोरि- त्यर्थः । ननु शब्दस्य प्रवर्तकज्ञानजनकत्वाङ्गीकारे कार्यपरतैव स्यात्प्रवर्तकान्तरस्थाभावादित्याशङ्कय प्रवर्तकान्तराभावोऽसिद्ध इष्टसाधनत्वज्ञानस्य प्रवर्तकत्वादित्यभिप्रेत्याह-इष्टाभ्युपायेति । भ्युपाय इष्टसाधनत्वं तद्विषयणी या मतिस्तजन्महेतुः इष्टसाधनता- ज्ञानजननद्वारा पुरुषं प्रवर्त्तयति न तु साक्षादिति सम्बन्धः । अतो न बोधकत्वभङ्ग इति भावः । ३५५ ॥ तस्मान कार्यान्विते व्युत्पत्तिरञ्जसा किन्तु योग्येतरान्वित एवेन्युपसंहरति- तस्मादसंगतमिदं यदुशन्ति केचित् कार्यान्वितार्थविषयैव तु शब्दशक्तिः। तत्र प्रयोगमभिवीक्ष्य तथा प्रतीतिः कल्प्यति वर्णितनिजेष्टविघातहतोः ॥ ३५६ ॥ तस्मादिति । तत्पदार्थमेवाह- वर्णितनिजेष्टविघातहेतोरिति । विशिष्टविधे- विघातादित्यर्थः । एतच पूर्वोक्तव्यर्थविशेषणत्वादेरप्युपलक्षणम् । तत्र कार्यान्विते प्रयोगं वृद्धानां गामानयेत्यादिप्रयोगं तथा प्रतीति.

प्रथमोऽध्यायः । यथा शक्तिस्तथा प्रतीतिरीप लौकिका हि प्रवर्तकवस्तुन्येव लिडादिशब्दं प्रयुञ्जते । प्रवर्तकं च कार्यमिति प्रवर्तकविषयशब्दं दृष्ट्वा कार्यविषयैव शब्दशक्तिः प्रतीतिश्च कल्प्यत इत्येतदसंगतमित्यर्थः। तथा प्रतीतिमिति । पाठे तु कार्यान्विते प्रयोगवत्प्रवृत्तिलिङ्गेन प्रतीति चाभिवीक्ष्य कार्यान्वितविषयैव शब्दशक्तिः कल्प्येति सम्बन्धः ॥३५६॥ । एवं लौकिकपदानां कार्ये व्युत्पत्ति निराकृत्य वैदिकलिङादे- र्धात्वर्थातिरिक्त नियोगे व्युत्पत्तिनिराकरोति- वेदैकगम्यमिति कार्यमभीष्टमस्मिन्- शक्तिग्रहोऽपि न यदस्य समञ्जसोऽयम् । शक्तिग्रहं च परिहृत्य न बोधकत्वं शब्दस्य शक्यमिह वक्तुमशङ्कितेन ॥ ३५७॥ वेदैकगम्यमिति । कार्य धात्वर्थातिरिक्तं स्थायिनियोगाख्यं वेदैक- गम्यमभीष्टं लिङादिपदस्य शक्तिग्रहोप्यस्मिन्कार्य इत्ययं पक्षो न समञ्जस इति सम्बन्धः। मानान्तरेण नियोगोपस्थितौ तत्र लिङादि- व्युत्पत्तिः किं वा शब्देन तदुपस्थितौ। नाद्यः। नियोगस्य मानान्तरागो- चरत्वात्तदिदमभिप्रेत्योक्तं-वेदैकगम्यमिति । भवतामङ्गीकारोपि तथेत्यभि प्रेत्योक्तम्-अभीष्टमिति । न द्वितीयः । व्युत्पत्तेः प्राकशब्दात्तदुपस्थित्य- नुपपत्तेरित्याह-शक्तिग्रहं चेति । अङ्कितेन पृष्टेनेत्युपहासः । तथा च-वेदेन तदुपस्थितौ लिङादेस्तत्र शक्तिग्रहः शक्तिग्रहानन्तरमेव तत्सहायाल्लिङादेस्तदुपस्थितिरित्यन्योऽन्याश्रयदुष्टार्थाभिधातृत्वाद- स्य धृष्टत्वमित्यर्थः । अथवा--स्तुतियोग्यस्य वैदैकगम्यत्वं ततः किं तत्राह-इत्यस्मिव्च्छक्तिग्रह झात । अपिरवधारणे यस्माद्वेदैकगम्यं तस्मा- दस्मिन्कार्ये अयं शक्तिग्रह एव न समासः कुतः पुनस्ततस्तदधिगम ३५२ सटीके संक्षेपशारीरक- । इत्यर्थः। ननु माभूच्छक्तिग्रहः । शब्दस्तु स्वार्थमवबोधयतु न हि समर्थतयावगतशब्द एवार्थमवबोधयेदितिनियमः । समयस्य कार्य कगम्यस्य तत्पूर्वमधिगत्ययोगादित्याशङ्कय किं शब्दार्थप्रतीतेः पूर्व शत्यधिगतेरसम्भवादेव तस्य तद्धतुत्वं निहयते किंवा शक्तिग्रहं विनापि शब्दादर्थोपस्थितिदर्शनबलात् । नाधः । मध्य- मवृद्धव्यवहारादिना लिपदस्य लोके शक्तिमहोपपत्तेः हि खाभिमतेऽर्थे शक्तिग्रहो न सम्भवतीति सर्वसंप्रतिपन्न- शक्त्यवधारणकारणत्वस्यापलापो युज्यते । द्वितीयः । श्रव्युत्पन्नस्यान्यत्र शब्दावगमादर्थप्रतीत्यदर्शनात् । त्यशक्तिग्रहं विनार्थप्रतीत्यभावेपि . लिङादिपदात्केवलादेवार्थप्रती- तिर्जायतामिति चेदहोऽस्य धाष्ट्यं यदयं क्लप्तं कारणं परि- त्यज्यानुभवपराहतामपि केवलाल्लिङादिपदादर्थप्रतीति वर्णयतीत्य- भिप्रेत्याह--शक्तिग्रहं चति । ननु लोक इव वेदेपि शक्तिग्रहजन्योबुद्ध- संस्कारसध्रीचीन एव लिङादिनिर्योगबोधकः। न च नियोगोपस्थिति विना तत्र शक्तिग्रहोऽनुपपन्न इति वाच्यम् । नियोज्याभिधायिस्वर्ग- कामादिपदसमभिव्याहारानुपपत्त्युपस्थितनियोगे लिङादिशक्तिग्रहा- दिति चेन्न-अनुपपत्तिगम्यत्वे नियोगस्य मानान्तरगोचरतया- ऽपूर्वत्वक्षतेः । नन्धियमनुपपत्तिर्न मानं किन्तु तर्क एव । यद्ययं लिङादिर्धात्वातिरिक्तस्यापि कार्यपरो न भवेत्स्वर्गकामादिपद- समभिव्याहृतो न भवेदित्येवंरूपस्तर्कश्चाप्रमाणमिति न तस्यापूर्वत्व- हानिरिति चेन्न-एवमपि तर्कमूलभूतव्याप्तिग्रहगोचरत्वेन नियो- गस्यापूर्वस्वाभावात्तदगोवरत्वे व्याप्त्यभावेन प्रसङ्गात्तस्य च स्मृत्यनुभवद्वैराश्यवादिनः तवाप्रमाणत्वानुपपत्तेः। स्मृतेश्चाप्रमाणत्वेपि तन्मूलानुभवस्य प्रमाणतया तद्विषयनियोगस्या- पूर्वक्षतेः । किं च यदि तर्केणापि नियोगः स्वर्गसाधनत्वेनोपस्थितो भवेत्तदा तस्य स्वर्ग प्रति साधनतया प्राधान्यप्रच्युतिप्रसङ्गः । ननु तर्कस्याभासत्व- - प्रथमोऽध्यायः । ३५३ तस्य साधनत्वमुपस्थितावेवापेक्ष्यते न तु तस्य वाच्यत्वेपि, वाच्यत्वं तु तस्य कृतिसाध्यत्वाकारेणेति न प्राधान्यप्रच्युतिरितिचेत्तर्हि तस्य स्वर्गसाधनत्वेनोपस्थितौकारणाभावात्तस्यतत्साधनत्वमेवन सिद्धोत्। नच नियोज्यकृतिसाध्यत्वावगमानुपपत्तिः तत्र मानम्-अवगततत्सा- धनभावस्यैव तत्कृतिसाध्यतावगमादतो न तस्य कृतिसाध्यत्वमपि सिद्ध्येत् । ननु तस्य साधनत्वेपि प्रधानफलेन सहकलोलीभावान्न प्राधान्यप्रच्युतिरिति चेन्न-प्रत्यक्षाप्रत्यक्षयोस्तयोरेकत्वानुपपत्तेः । स्वर्गस्य सुखत्वेन प्रत्यक्षत्वादेकत्वे तयोः साध्यसाधनभावानु- पपत्तेश्च । न च तस्य फलसाधनत्वेपि गर्भदासन्यायेन न प्राधान्य. प्रच्युतिरिति वाच्यम् । स्वामिनोपि तस्यां दशायां कर्तुरिव यागस्य गर्भदासशेषत्वात् दृष्टान्तासम्पत्तिपत्तेः। न हि प्राधान्यम- प्राधान्यं वा जातिः किन्तु यो यदा यस्योपकरोति स उपकारनिर्व- तकः शेषः । उपकार्यः शेषी । न चात्र गर्भदासन्यायावकाशोपि स्वामी हि चेतनः कालान्तरे दासाधीनोपकारमात्मनो मन्यमानस्तै- लान्नदानादिना तं पोषयति । तदानीमपि स्वयं स्वामित्वेन तिष्ठति । नियोगः पुनरचेतनः स्वस्य कस्मै ज्ञातप्रयोजनाय स्वर्ग प्रसाधये- दिति न तस्य स्वर्गशेषत्वप्रतिपत्तिदशायां स्वामित्वानुभवः । ननु नियोगनिष्पत्त्या स्वर्गो भविष्यतीति बुद्ध्या नियोज्यो नियोगं निष्पा- दयतीत्येतावतैवात्र गर्भदासन्यायावतार इति चेत्तर्हि नियोगस्य स्वर्ग प्रति साधनत्वनोपस्थितस्य तं प्रति शेषत्वमेवेति न तस्य सर्व शेषित्वं प्राप्नोति । किं चैवमपि न नित्यनियोगस्य शब्दवाच्यत्व- सम्भवः । तत्र तदुपस्थापकतर्काभावेन व्युत्पत्त्यभावात् । ननु कामिनियोगे व्युत्पन्नस्य लिङोऽन्यत्राप्यविशिष्टत्वान्नियोग एचार्थ इति चेन्न-फलसाधनत्वाकारेणोपस्थितनियोगस्य तद्रूपेणैव शक्ति- विषयत्वाद्यद्रूपेण नियतोपस्थितिस्तद्रूपेण शक्तिविषयत्वादन्यथा लोकेपि कार्यान्वितत्त्वेनोपस्थितावपि केवले शक्तिग्रह इति साधु- ३५४ सटीके संक्षेपशारोरके- समर्थिता कार्यव्युत्पत्तिः लौकिकवैदिककार्यवैलक्षण्येपि नियोग- मात्र इव कार्यमाने लिङादिव्युत्पत्त्या कार्यमात्रशक्त पदेन वेदे सम- भिव्याहारादिविशेषसामग्रीसमवहितेन कार्यविशेषोपस्थितिसम्भवेन च प्राथमिकधात्वर्थकार्यव्युत्पत्तिविरुद्धा तत्र लक्षणा च स्वाभिमता निपुणमुपपादिता । किंच प्रधानापूर्वत्वेनैव शब्दवाच्यत्वे दुरिता- पूर्वस्यापि शब्दार्थत्वप्रसङ्गः तस्मात्समीहितसाधनापूर्वत्वाकारेणैव तस्य लिङाद्यर्थत्वमिति न नित्यनियोगस्य तदर्थता । यत्तु नित्या- पूर्वमेव पुरुषार्थ इति तदसत् । एवमपि तस्य समीहिसाधनत्वा- भावेनाशब्दार्थतापातात्सुखदुःखप्राप्तिपरिग्रहारान्यतरत्वाभावेन तद- वाप्तेरपुरुषार्थत्वाञ्च। अत एव यागस्य नियोगफलं प्रति करणत्व- मौपादानिकमित्यपि तेषां दुर्वहं नियोगो हि धात्वर्थविषयावच्छिन्न- तया शब्देनाभिभीमानस्तस्य कारणत्वमाक्षिपेद्विषयत्वं च धात्वर्थस्य फलकारणतयावगतस्यैव प्रतिसंहितफलकरणत्वस्यैव नियोगविष. यत्वात्तथा च कथं नान्योन्याश्रयः । न च नियोगान्विताभि- धानाभिधेयापर्यवसानादेव यागस्य करणत्वमिति करणत्वं विष- यत्वं च युगपत्सियतीति वाच्यं, तदुभयविषयस्य ज्ञानस्यैकत्वे करणत्वमौपादानिक विषयत्वं शाब्दमिति व्यवस्थानुपपत्तेः । न च ज्ञानद्वयस्यैकस्मिन्नात्मनि युगपदुत्पत्तिः सम्भवति । करण- त्वज्ञानस्य पूर्वभावित्वे च कथमुक्तदोषनिस्तारः । यागस्य विष- यताभिधायिशब्दाभावाश्च न विषयत्वेनान्वयः शब्दाद् बोध्यते । ननु प्रकृत्यान्वितप्रत्ययार्थस्य लिङाभिधानान्नियोगयागयोर- न्वयी वक्तव्यः सम्बन्धोवच्छेद्यावच्छेदकतालक्ष- णविषयविषयिभाव एवान्यस्याभावादिति यागस्य विषयत्वे- नान्वय इति चेन्न । यागकरणको नियोग इति करणकरणिभावे- नाप्यन्वयसंभवेन परिशेषासंभवात् । ननु नियोगविषयत्वनिर्वाहार्थ- मेव यागस्य तत्करणतापेक्ष्यते नान्यथेति चेन्न-नियोगविषयत्वमन्त- स प्रथमोऽध्यायः। साध्य- रेणापि तदुत्पत्त्यर्थं यागस्य तत्कारणत्वेनान्वयस्यापेक्षितत्वादन्यथा कामिनस्तत्साधनादन्यत्र प्रवृत्त्यनुपपत्तेः । किंच धात्वर्थस्यैव वर्ग- साधनत्वे संभवति तदतिरिक्तस्य शब्दार्थत्वकल्पनमनुचितम् । ननु धात्वर्थस्य क्षणिकस्य कथं कालान्तरभाविफलसाधनत्वेनान्वयः न ह्ययोग्ययोरपि शाब्दान्वयबोधो भवेदिति चेन्न । गृहीतवेद- प्रामाण्यस्य क्रियायां कालान्तरभाविफलसाधनताऽयोग्यता- ज्ञानानुदयादन्यथादावेवायोग्यताज्ञाने स्वर्गकामः सिकता भक्षयेदित्यादाविव वेदस्य निश्चताप्रमाणतया स्वर्गकामपद- समभिव्याहारादिलक्षणतर्कस्यैवानुदयप्रसङ्गात् । ननु विशेष प्रति साधनताऽयोग्यतानिश्चयेपि नाप्रामाण्यनिश्चयः पौरुषेयत्वादिप्रयुक्ताप्रामाण्यस्य निरस्तत्वादिति तर्कोदयः स्या. दिति चेत्तर्हि वेदप्रामाण्याभिनिवेशवतोऽसति विरोधिकोट्युपस्थाने योग्यतानिश्चय एव भवति । तथा ह्याबाधो योग्यता तद्वाधवा- योग्यता । न च यागस्य स्वर्गसाधनत्वं शब्दातिरिक्तेन केन- चन मानेन बाध्यते । तस्य मानान्तरागोचरत्वात् । ननु क्रियायाः स्वर्गसाधनत्वे क्रियानन्तरमेव स्वर्गः किं न स्यादतस्तददर्शनेन तद- योग्यता निश्चीयत इति चेन्न। साधनस्यापि चतुष्टयसन्निकर्षस्येवा- लोकापेक्षया रूपज्ञानजनकत्वं वर्तमानशरीरपातादिसहकार्यपेक्षया स्वर्गजनकत्वोपपत्तरित्यनुपलब्धेरन्यथापि सिद्धत्वादन्यथा नियोग- पक्षेप्येष दोषः समान एव नियोगस्य स्वर्ग प्रति साधनत्वात् । ननु विमता क्रिया कालान्तरभाविफलसाधनं न भवति क्रियात्वान्मर्दन- क्रियावदित्यनुमानादेव तन्निश्चीयत इति चेन्न । कालान्तरभाविपरमा- पूर्वसाधनयागक्रियायां व्यभिचारात् । ननु स्वर्गजनिका न भवतीति साध्यत इति चेन्न कालान्तरभाविपरमापूर्वसाधनत्ववत्स्वर्गसाधन- तया अप्युपपत्तरप्रयोजकत्वात् । ननु तत्र परमापूर्वत्वाकारेण दुरिता- पूर्वे क्रियानन्तरभावित्वदर्शनमस्तीति चेकिमेतावता प्रकृतयागनि- ३५६ सटीक संक्षेपशारीरके- योगयोर्न ह्येतावता योग्यतायां वैषम्यमुपपाद्यते । न च सजातीय- दर्शनमेव योग्यता तथा सत्यद्य जातः पयः पिबतीति वाक्यस्यायो- धकत्वप्रसङ्गाद्यजिपदोपस्थितयागत्वाकारेण परमापूर्वसाधनतायाः क्वचिदप्यदर्शनाच्च । किन्त्वाबाध इत्युक्तं स चोभयत्र यागस्य स्वर्ग- नियोगसाधनत्वयोः समान एव । एतेनानन्तरक्षयानुभवादेव यागस्य स्वर्गसाधनत्वाभावो निश्चीयत इति मत्युक्तम् अपूर्वसाधनस्वाभाव- स्यापि निश्चयप्रसङ्गादवान्तरापूर्वद्वारापूर्व साधनत्वसंभावनाया:स्वर्ग- साधनत्वपक्षेपि तुल्यत्वात्तस्मादयोग्यतोपस्थित्यभावाद्वेदप्रमाण्याभि निवेशवतो झटिति तदर्थाबाधलक्षणयोग्यतानिश्चयस्यैवोदयाद्यागस्य स्वर्गसाधनत्वे बोधिते प्रमितसाधनत्वनिर्वाहायापूर्व कल्प्यतेद्वारतयेति न तस्य शब्दवाच्यता। अनन्यलभ्यत्वाभावादित्यर्थः ॥ ३५७ ॥ नन्वेवं ब्रह्मणोपिमानान्तरागोचरतया तत्रापि कथं शब्दशक्ति- त्याङ्य समानेपि मानान्तरागोचरत्वे महद्वैषम्यमस्तीत्याह- शश्वत्स्वयंप्रभमलुप्तचिदात्मभूतं विष्णोः परं पदममुत्र तु शब्दशक्तिः । शक्या ग्रहीतुमतिबुद्धिमनस्यपीति शास्त्रप्रमाणकमदः प्रवदन्ति सन्तः ॥ ३५८ ॥ शश्वत्स्वयंप्रभमिति । सर्वदा व्यवहारदशायामपि स्वयंप्रकाशमि- त्यर्थः । स्वयंप्रकाशेपि ज्ञाने नाशादू तत्सिद्धये पुरुषान्तरज्ञाने वा पुरुषान्तरस्य मानापेक्षावदत्रापि तदपेक्षां निवारयति । अलुप्तचि. दात्मभूतम्-अविनाशिचैतन्यलक्षणात्मभावमापन्नम्। अमुत्र-ब्रह्मणि,तु- शब्देन कार्यादस्य विशेषो दर्शितः । तमेव विशेषं शश्वदित्यादिना दर्शयति अतिबुद्धिमनस्यतिक्रान्तं बुद्धिकारणं मनो येन तदतिबुद्धि- मनः तस्मिन्। अथवा बुध्यतेऽनेनेतिबुद्धिः शब्दः वाङ्मनसातीत इत्यर्थः ।

प्रथमोऽध्यायः। अतस्तद्ब्रह्मणः स्वयंप्रकाशत्वात्तच्छबलस्य प्रमाणान्तरागोचरस्यापि प्रमाणं विना साक्षिणा स्फुरणसंभवात् । न च तत्र व्युत्पत्यनुपपत्ति- रित्यसकृदावेदितमस्माभिः तन्न विस्मर्त्तव्यमितिभावः । यतो विष्णोः परं पदं शश्वत्स्वयंप्रभमलुप्तचिदात्मभूतं ततोऽतिबुद्धिमनस्यपि अमुत्र तु शब्दशक्तिर्ग्रहीतुं शक्येति सन्तो वदन्ति अतः शास्त्रप्रमाणमिति सम्बन्धः ॥ ३५८॥ एवं प्रवर्तकवाक्यादेव प्राथमिकव्युत्पत्तिमङ्गीकृत्य तत्र लाघ- वादावश्यकत्वाञ्च । योग्येतरान्वित एव व्युत्पत्तिर्न कार्यान्वित इत्युक्तं संप्रति केवलसिद्धबोधिवाक्यादपि तदर्शनान कार्यान्विते व्युत्पत्तिरिति वक्तुं व्युत्पत्तिहेतुभूतवाक्यार्थज्ञानं प्रवृत्त्यादिकं विनापि संभवतीत्याह- जातः सुतः सकलवंशविवर्धनस्ते विप्रेति वाक्यसमनन्तरमस्य बुद्धिः । श्रोतुर्मुखाकृतिवशेन तु पुत्रजन्म- वस्तुन्यवश्यमनुमीयत एव बालैः ॥ ३५६ ॥ : जातःसुत इति। हे विप्र ते सकलवंशविवर्द्धनः सुतो जात इति वार्ताहरोक्तवाक्यश्रवणसमनन्तरमस्य श्रोतुः मुखाकृतिवशेन प्रसन्न- वदनादिलिङ्गेन पुत्रजन्मनि विषयेऽवश्यं बुद्धिर्जातेति बालैः पुत्रादि- शब्दार्थानभिज्ञैरनुमीयत इति सम्बन्धः । पुत्ररते जात इति वाक्य- श्रवणसमनन्तरं श्रोतुर्मुखविकासादिकं सर्वैरनुभूयते । तच्च हर्षे विना नोत्पद्यत इति बालस्तमनुमिनोति। अयमिदानीं सुखी प्रसन्नवदन- त्वादहमिवेति हर्षश्च कादाचित्काकस्मिकोऽनुपद्यमानः किंचिन्निमि- त्तमपेक्षते। तनिमित्तानि च यद्यपि क्षेत्रारामप्राप्त्यादीनि बहूनि सन्ति ३५८ सटीके संक्षेपशारीरक- तथाप्ययं समवगततत्सुतजन्मा स्वात्मन्यवगतपुत्रजन्महर्षहेतुभावः उपस्थितमेव तत्सुतजन्म हर्षनिमित्ततया कल्पयन् पुत्रजन्मज्ञानादे- वायं सुखीति तद्विषयज्ञानमस्थानुमिनोति यद्यपि चानेन व्युत्पित्सुना हर्षहेतुस्तत्प्रियासुखप्रसवोपि ज्ञात एवेति हर्षहेतुत्वेन तदवगमोपि कल्पयितुमुचितस्तथापि पुत्रजन्ममात्रज्ञापकतत्पदाङ्कितवासःप्रदर्श. नेन पितरि पुत्रजन्मज्ञानस्यावश्यकल्प्यतया तस्यैव सुखहेतुत्वे संभवत्यन्यस्य कल्पनानुपपत्तरिति पुत्रजन्मविषयज्ञानमेव कल्प यति । अतः प्रवृत्तिनिवृत्ती विनापि श्रोतृसमवायिज्ञानस्यानुमान संभवतीत्यर्थः॥ ३५६ ॥ ततः किमिति तत्राह- भूतार्थनिष्ठवचनादपि शब्दशक्तिः शक्या ग्रहीतुमुदितेन पथानभिज्ञैः। तत्र प्रवर्तकनिवर्नकवाक्यमूल- शक्तिग्रहैकनियमस्य न हेतुरस्ति ॥ ३६० ॥ भूतार्थनिष्ठेति । यतोऽश्रुतार्थमात्रविषयज्ञानानुमानमुदितन्यायेन संभवति ततोनभिज्ञैः पुत्रार्थशब्दार्थानवगन्तृभिः भूतार्थमात्र- निष्ठादपि वचनानिमित्ताच्छब्दशक्तिः संमुग्धाकारेण पुत्रजन्मज्ञा- नस्य वाक्यान्वयव्यतिरेकाभ्यां वाक्यस्य तत्र सामर्थ्य ग्रहीतुं शक्येत्यर्थः । ननु प्रवर्तकवाक्यादपि व्युत्पत्तिर्दृश्यते । सत्यम् । न ह्यस्माभिः प्रवर्तकवाक्यमूला व्युत्पत्तिनिराक्रियते। किन्त्वन्यतोपि व्युत्पत्तिदर्शनात्तस्याः तदेकमूलत्वं नेत्याह-तत्रेति । एवं सतीत्यर्थः । प्रवर्तकनिबन्धनैव व्युत्पत्तिः । सा च कार्यकविषयेति नियमो नास्तीत्यर्थः। बालो हि प्रवृत्तिलिङ्गेन तद्धतुप्रवर्तकज्ञानमेव हर्षादि- लिङ्गन पुत्रजन्मज्ञानमनुमाय तस्य वाक्यान्वयव्यतिरेकाभ्यां वाक्य- ।

प्रथमोऽध्यायः। ३५४ मेव तद्धतुत्वेन कल्पयति । ननु तत्पदाङ्कितवासोलक्षणलिङ्गदर्शनेनापि पितुस्तत्संभवात्कथं प्रमाणन्तरादस्य परिशेष इति चेन्न-लिङ्गप्रदर्शना. प्रागेव पितुः श्रूयमाणवाक्यसमनन्तरभाविमुखधिकासादिलिङ्गानुमि- तहर्षहेतुनजन्मज्ञानान्वयव्यतिरेकयोर्वाक्यनिष्ठन्धात् लिङ्गदर्शनस्य पश्चात्तविधया वाक्यस्यार्थान्तरपरिशेषकत्वात्तथाच न प्रवर्त- कवाक्यनिबन्धना व्युत्पत्तिरिति भावः ॥ ३६० ॥ नन्वेवं सामान्यव्युत्पत्तावपि पदविशेषस्यार्थविशेषे व्युत्पत्ति विना वाक्यस्यार्थबोधकत्वाभावात्तत्र च प्रवृत्तिनिवृत्त्योरपेक्षित- स्वात्तयोश्च प्रवर्तकनिवर्त्तकवाक्यं विनाऽयोगात् । सामान्यव्युत्पत्ति- पर्यवसानाय प्रवर्तकवाक्यमपेक्षणीयमेव । अतः कथं सिद्धवाक्यादेव व्युत्पत्तिरित्याशङ्कय प्रवर्तकनिवर्तकवाक्यं विनाप्यवापोद्वापाभ्यां विशेषव्युत्पत्तिरपि तत्रैव संभवतीत्याह--- सामान्यतः प्रथममेष पदार्थपिण्डो वाच्योऽस्य वाचकमिदं पदपिण्डरूपम् । इत्याकलय्य पुनरेष विशेषतोऽपि शब्दार्थसंगतिमवैति जनस्तटस्थः ॥ ६१ ॥ सामान्यत इति । एष तटस्थो जनो व्युत्पित्सुः प्रथमं संमुग्धाकारेण एष पदार्थपिण्डः पदार्थसमूहो वाक्यार्थोऽस्य वाक्यस्य धाच्यः इदं पिण्डरूपं वाक्यमस्य वाक्यार्थस्य वाचकमित्याकलय्य [शक्तिं सामान्यतो गृहीत्वा पुनः विशेषतोऽपि शब्दार्थसंगति पुत्रादि. पदस्य तत्तदर्थविशेषे संगतिमवैति अवगच्छतीति संबन्धः ॥ ३६१ ॥] (१) एवं प्रसिद्धपदसमभिव्याहारादप्यप्रसिद्धपदस्य विनैव (१) प्रादर्शपुस्तके ३६२ श्लोकस्य तत्त्वबोधिनाटीका त्रुटितेति श्रीमधुसूदन- सरस्वतीप्रणीतसारसग्रहव्याख्या योज्यते इति शेयम् ।

सटीके संक्षेपशारीरके-
कार्यान्वयप्रतीति योग्यतरान्विते संगतिग्रहणादपि न शब्दार्थस्य
कार्यान्वयित्वनियमः । न च तत्रापि पदान्तरस्य कार्यान्विते प्रथमा.
वगतशक्त्यनुरोधेन कार्यपदाध्याहारोऽस्विति वाच्यम् योग्येतरान्वित
एव प्रथम संगतिग्रहोपपादनादित्याशयेनाह
काष्टैः स्थाल्यां पचति विविधैरोदनं पूर्णिकेति
श्रुत्वा बालः सपदि मनुते काष्ठशब्दस्य शक्तिम् ।
दृष्ट्वा तस्मिन्पचनकरणं प्रज्वलत्काष्ठजातं
न्यायोपायादितरवचसां शक्तिष्ठ प्राक्प्रवीणः ॥३६२॥
कष्ठैः स्थास्यामिति । पूर्णिका-दासी । इतरवचसां काष्टपदव्यतिरि-
क्तपदानां शक्तिषु अमत्रादिविषयास्विति शेषः। प्रागेतस्मात्प्रयोगा-
त्पूर्व प्रवीणो निपुणो विद्वान्वालः पूर्णिका विविधैः काष्टैः स्थाल्या.
मोदैनं पचतीति
श्रुत्वा पचनकरणं प्रज्वलत्काष्ठजातं च
दृष्ट्वा
तस्मि-
काष्ठे न्यायोपायान्यायवलेन तत्तदर्थविशेषे स्थाल्यादिपदानां शक्त-
निश्चयात्परिशेषन्यायेन काष्ठशब्दस्य शक्ति सपदि मनुते इति
सम्बन्धः ॥३६२ ।।
[ इदानीं प्रथमव्युत्पत्तेः प्रवर्तकवाक्याधीनत्वनियमेऽपि क्रिया-
तिरिक्तकार्यस्यैव लोकेऽप्रसिद्धत्वात् न कार्यान्विते शक्तिः ] संभवती-
में
ग्याह-
न च किमपि नः कार्य नाम प्रमाणपथानुगं
यदि तु पुनर्लिङ्लोडादेरुपैष्यति वाच्यताम् ।
न खलु तदितो धात्वर्थादेः पृथग्व्यवसीयते
बजतु तदिह श्रेयो हेतुर्लिङादिपदार्थताम् ॥ ३६३ ॥

AMAN प्रथमोऽध्यायः । अथवा- न च किमपोति । प्रमाणपथानुगं-प्रमाणविषयः विचारसह- मिति यावत् तथाहि किं कार्यत्वं नाम कृतिसाध्यत्वं किं वा कृत्युद्देश्यत्वम् । श्राद्येपि कि साक्षात्कृतिसाध्यत्वमुत परम्परया। नाद्यः। असंभवात् अभावार्थस्य तस्य साक्षात्कृतिसाध्यत्वानुपपत्तेः धात्वर्थेऽतिव्याप्तश्च । ननु न धात्वर्थेऽतिव्याप्तिः प्रथमं कृतिसा- ध्यतया प्रतीयमानस्यैव कार्यत्वात्कामिकृतेश्च काम्यसाधनविषय- त्वादव्यवहितकारणस्यैव साधनत्वाद्धात्वर्थस्यापूर्वव्यवहितत्वादपू. वस्य च तदभावादत एव नांसभवोऽपीति चेन्न-धात्वर्थस्यापि फलं प्रत्यव्यवहितकारणत्वात् । न च तस्यापूर्वेण व्यवधिः । तस्य व्यापार. तयाऽव्यवधायकत्वात् । अन्यथा ज्वालादेरपि संयोगेन व्यवहितस्या. साधनत्वप्रसङ्गात् । किञ्च किमिदमव्यवहितत्वं स्वोत्पत्त्यनन्तरक्षण एव कार्योन्यादकत्वं किं वा फलकाले विद्यमानत्वम् । कार्यान्तरमजनयित्वा फलोत्पादकत्वम् । अथवा यस्मिन्सति कार्य भवत्येव तत्त्वम् । नाद्यः । नियोगेऽसंभवात् न हि नियोगः स्वोत्य- त्यनन्तरक्षणमेव स्वर्गमुत्पादयति । न द्वितीयः । स्वस्य विनश्यद- वस्थायां ज्ञानादिजनकचतुष्टयसंनिकर्षादावव्याप्तेः। नापि तृतीयः। नियोगस्यापि स्वर्गादिसुखार्थ तत्पूर्वमेव देहाद्युत्पादकतया सद- संभवात् । ननु शरीरादिकमप्येतस्य फलमेवेति चेन्न । तस्यास्वर्ग- त्वात्सुखविशेषस्यैव स्वर्गत्वात्तत्साधनत्वेन तत्फलत्वे वाऽपूर्वस्यापि तत्साधनतया तजनकयागस्याप्यव्यवहितत्वात् । तस्माश्चतुर्थ एव परिशिष्यते। स च धात्वर्थेपि संभवत्येव । तस्मिन्सति स्वर्गस्या- वश्यकत्वात् । न द्वितीयः । स्वर्गेऽतिव्याप्तेः। तस्यापि धात्वर्थद्वारा कृतिसाध्यत्वात् । अत एव नाधद्वितीयोपि स्वर्गस्यैव पुरुषार्थतया कृत्युद्देश्यत्वात् नियोगे सुखविलक्षणे तदनुपपत्तेश्च । अत एवानन्यो- द्दिष्टकृतिव्याप्यत्वमित्यपि लक्षणमलक्षणं नियोगस्य स्वर्णोद्दिष्टकृति- व्याप्यत्वात् । न च स्वगोचरस्येप्सितकारणत्वज्ञापकत्वे सति ३६२ सटीके संक्षेपशारीरके- प्रवर्तकत्वं ज्ञानस्यैव प्रवर्तकत्वेनानिष्पन्नस्य तस्य प्रवृत्तिहेतुत्वानु- पपत्तेः । यागकारणताबोधस्य नियोगाधीनत्वेऽन्योन्याश्रयदोष- स्योक्तत्वाच्च । न च प्रमाणमपि नियोगविषयं पश्यामः । तस्य शब्दातिरिक्तप्रमाणागोचरत्वाच्छब्दस्य तत्र व्युत्पत्त्यसंभवेन प्रामाण्या- योगादतो धात्वर्थातिरिक्तं लक्षणप्रमाणाभ्यां दुनिरूपमिति । ननु यागः कर्त्तव्य इति कर्त्तव्यत्वानुभव एव तत्र प्रमाणमिति चेन्न धात्वर्थचिकीर्षाया एव तथात्वेनानुभवादन्यथा नियोगस्य मानान्तर- गोचरत्वेऽपूर्वत्वक्षतेरित्याह-यदिहेति । इह वेदे यद् धात्वर्थातिरिक्त कार्य लिङादेर्वाच्यतामुपैयति प्राप्स्यतीति मतं तत्कार्यमितो धात्वर्थतद्विषयचिकीर्षाभ्यां पृथङ् न व्यवसीयते खल्विति सम्बन्धः । अतः कार्य लिङाद्यर्थो न भवतीत्यर्थः । कस्तर्हि लिङाद्यर्थः श्रेयः साधनत्वमेवेत्याह-व्रजतीति । यस्मात्कार्य न प्रमाणपथानुगतं तस्माच्छयोहेतुत्वमेव लिङादिपदार्थतां गच्छतीत्यर्थः ॥ ३६३ ॥ ननु लिङादिश्रवणानन्तरं पुरुषस्य प्रवृत्तिदर्शनाल्लिङादेः प्रवर्तकपरत्वं वक्तव्यं प्रवर्तकं च कार्यमेव दृष्टं न त्वन्यत्प्रमाणाभावा- दित्याशङ्कय सर्वत्राप्यन्वयव्यतिरेकाभ्यां श्रेयःसाधनताज्ञानस्यैव राग- द्वाराप्रवर्तकत्वात्तत्रैव लिङादिपदव्युत्पत्तिरितीष्टसाधनताज्ञानस्य प्रवृत्ति प्रत्यन्वयव्यतिरेको तावदाह- । न खलु जगति योहेतुप्रमित्युदयाहते पुरुषवचनात्क्वापि प्राज्ञः प्रवर्तितुमर्हति। पुरुषवचनाच्छ्योहेतुपमित्युदयात्पुन- स्तदनुवशगो रागोत्पत्तौ ततः स हि चेष्टते ॥३६४॥ न खल्विति । खलु प्रसिद्धौ श्रेयोहेतुप्रमितिरिष्टसाधनत्वज्ञानं प्राज्ञः प्रेक्षापूर्वकारी प्रेक्षापूर्वकारिणां विषभक्षणादाविष्टसाधनत्वज्ञानाभावेन प्रथमोऽध्यायः। ३६३ प्रवृत्त्यदर्शनात्कदलीफलभक्षणादौ तत्सद्भावेन प्रवृत्तिदर्शनात्तस्यैव प्रवर्तकत्वं न कार्यताज्ञानस्येत्यर्थः । एतश्योपरिष्टात्प्रपञ्चयिष्यते । तस्यापि प्रवर्तकत्वं न साक्षात्किन्तु रागद्वेषद्वारेत्याह-रागेति । प्रवृ. तिविषये इच्छोत्पत्तौ सत्यां ततः पश्चात्तदनुवशगो रागवशीकृतः स चेष्टते हीत्यर्थः ॥ ३६४ ॥ इदानीमिष्टसाधनताज्ञानस्य रागद्वारैव प्रवर्तकत्वान्न प्रवृत्त्या साक्षात्करणतयेष्टसाधनज्ञानमनुमातुं शक्यमित्यभिप्रेत्यादौ रागानु- मानप्रकारमाह- नयनिपुणधीर्वालश्चेष्टां समीक्ष्य समीहितुः कृततदुचितव्याप्तिज्ञानः पुरा निज आत्मनि । परतनुगतं श्रेयोहेतुप्रतीत्युदयोत्थितं चरितविषये रागं तस्य प्रवनकमिङ्गति ॥३६॥ नयनिपुणधीरिति । अन्वयव्यतिरेकादिर्नयः समीहितुः प्रवर्त्तमानस्य कृततदुचितव्याप्तिज्ञानः कृतं निष्पन्नं तस्याः चेष्टायाः लिङ्गत्वे उचितं या या प्रवृत्तिः सा रागजन्या यथा मम भोजनपानादिप्रवृत्तिरित्येवंरूपं व्याप्तिज्ञानं यस्य स तथोक्तः । निजात्मनि स्वस्मिन् परतनुगतं प्रवर्त्तमानात्मसमवेतं चरितविषये उपभुक्तसजातीये इङ्गति विमता प्रवृत्तिः रागजन्या प्रेक्षावत्प्रवृत्तित्वान्मदीयप्रवृत्तिवदित्यनुमिनो- तीत्यर्थः॥ ३६५ ॥ इदानी रागेणेष्टसाधनत्वज्ञानानुमानं सूचयन् तत्र सामान्य व्यु- त्पत्तिप्रकारमाह- प्रवर्तकोत्थाननिबन्धने ततः समीहितोपायविशेषवस्तुनि ।

सटीके संक्षेपशारीरक-
-
P
गिरोऽनुमाय प्रतिपत्तिहेतुतां
विशेषसिडौ तु समीहते पुनः ॥ ३६६ ॥
प्रवर्तकेति । प्रवर्तको यो रागस्तस्योत्थानमुत्पत्तिस्तस्य निबन्धने
कारणे रागकारणीभूतज्ञानविषय इत्यर्थः । अनेन रागेणेष्टसाधन-
त्वज्ञानानुमानं सूचितं ततो रागानुमानानन्तरं समीहितोपायविशेष.
वस्तुनीष्टसाधनत्वे गिरो लिङादियुक्तवाक्यस्य गामानयेत्यादिप्रव-
तकवाक्यश्रवणेन श्रोतृप्रवृत्त्या तस्य रागानुमानानन्तरमिष्टसाधनत्व-
ज्ञानमनुमाय तस्य च कारणान्तराभावाद्वाक्यमेव तत्कारणं कल्पय-
तीत्यर्थः । एवं सामान्यव्युत्पतिं प्रदर्श्य विशेषव्युत्पत्तिमप्याह-
विशेषसिद्धा इति ।
कारकपदस्य योग्येतरान्वितगोपिण्डादिवाचकत्वं
लिङादिपदस्य धात्वान्वितश्रेयः साधनत्वबाचकत्वमिति विशेष.
परिज्ञानार्थ समीहते यतत इत्यर्थः ॥ ६३६ ॥
तत्रादौ कारकपदानां विशेषव्युत्पत्तिग्रहप्रकारमाह-
पदान्तरम्याऽऽगमनादिहान्यत-
स्तथा परस्थोडरणादितो गिरः।
विशेषसिद्धिं लभते प्रयत्नवान्
पदार्थसम्बन्धगतां विचक्षणः ॥ ३६७ ॥
-
पदान्तर स्येति । इह-गामानयेति वाक्ये ऽन्यस्माद्वाक्यान्तरात्पदा.
न्तरस्याश्वादिपदान्तरस्यागमनादावापाद्यथा पावापस्तथा
प्रकृतिवाक्यात्पदस्य गोपदस्योद्धारणात्प्रयत्नवान् व्युत्पत्यनुकूलव्या-
पारवान् तटस्थः पदार्थसम्बन्धगतां गवादिपदार्थगतशक्तिविषयिणी
सिद्धि लभत इत्यर्थः । सामान्यव्युत्पत्तिग्रहानन्तरङ्गवादिपदानामा-
वापोद्वापाभ्यां योग्येतरान्वितगवाद्यर्थे शक्तिं गृह्णातीत्यर्थः ॥ ३६७ ॥

प्रथमोऽध्यायः। इदानी लिङादिक्रियापदानां श्रेयःसाधनत्वे व्युत्पत्तिग्रह- AUR प्रकारमाह- लडादिशब्देऽपगते लिङादौ प्रत्यागतेऽभीप्सितसाधनत्वम् । प्रतीयते तेन लिङादिशब्द- स्तदर्थवाचीति स वेत्ति बालः ॥ ३६८ ॥ लडादीति । लडादीत्यादिपदेन लिङादिकं गृह्यते । गामानयती- न्युक्ते श्रेयः साधनताया अनवगमाद्गामानयेत्युक्ते तदवगमादन्वयव्य- तिरेकाभ्यां लिङादेः श्रेयः साधनत्वमर्थ इति गृह्णातीत्यर्थः ॥ ३६८ ॥ एवं योग्येतरान्विते व्युत्पत्तिरित्त्युक्तं सम्प्रति तदपि न व्युत्पत्ती प्रयोजकगौरवात् किन्त्वन्वितत्त्वमात्रेऽन्वयश्च कारकाणां क्रियया क्रियायाश्च कारकेणेति यदुक्तं तदपि न कारकाणामपि परस्परान्वय- योग्यत्वान-तेषां कार्यान्वय अावश्यक इत्यभिप्रेत्याहmotion योग्यतरान्विततया न च वाच्यताऽस्य कार्यान्वितत्त्ववपुषा न विशेषणस्य। किंत्वन्वितत्त्ववपुषो न विशेषणस्य किञ्चित्प्रयोजकमिहास्ति निरूपणायाम् ॥ ३६६ ॥ योग्येतरेति । ननु योग्येतरत्वमन्तरेणान्वितत्वमेव न संभवतीत्युक्तं सत्यमत एवान्वये नियमेन तदपेक्ष्यते। शब्दवाच्यत्वे त्वन्वितत्वमात्रं प्रयोजक तस्मिन्सति योग्येतरत्वयोर्व्यतिरेकाभावादित्यभिप्रेत्याह- ग विशेषणस्येति । योग्येतरस्येत्यर्थः । इह-अन्वितत्वे ॥ ३६६ ॥ ।

सटीके संक्षेपशारोरके- ननु लाघवादन्वितत्त्वमात्रे पदशक्ती ततोपि लाघवात्तदर्थमात्रे पदानां शक्तिरस्तु । युक्तं चैतदन्वयस्य वाक्यार्थत्वात्तस्य पदार्थत्वक- ल्पनायां चैकपदेनैव वाक्यार्थीभूतसंसर्गोपस्थितौ पदान्तरवैयर्थ्यप्रस- ङ्गात्पदात्केवलपदार्थानुभवदर्शनाञ्च अन्यथा पदसिद्धान्वयबोधकत्वेन वाक्यस्य प्राभाकरनय इवानुवादकत्वप्रसङ्गाञ्च । न च तत्तत्पदैः तत्त- पदार्थमात्रबोधेऽनेकपदात्मकस्य वाक्यस्य विरम्य व्यापराभावादन्व- यबोध एव न स्यात् कारणाभावादिति वाच्यम् । पदाभिहितपदा. थैरेव तदुपपत्तेरित्यभिहितान्वयवादिनां भट्टानां मतं दूषयितुमनु- वदति- यत्कचिदाहुरभिधाय निजान्पदार्था- नेतावतोपरतवन्ति पदानि तेभ्यः । पश्चाविशेषणविशेष्यतया तु तेषां संसर्गवुद्धिरपराऽवतरिष्यतीति ॥ ३७० ॥ परम्परया यत्केचिदिति । भट्टा इत्यर्थः । तेभ्यः पदाभिहितपदार्थेभ्यः पश्चा- स्वार्थमभिधाय पदोपरमानन्तरं तेषां पदार्थानामपरा केवलपदार्थ- बुद्धरन्या। नचैवं सति वाक्यार्थज्ञानस्याशाब्दत्वापत्तिः । शब्दाज- न्यत्वात्पदार्थानां मानान्तरत्वप्रसङ्गश्चेति वाच्यम् । शब्दमूलत्वेन तस्यापि शाब्दत्वात् शब्दबोधितपदार्थानामेव शब्दप्रमा- णत्वाच्च । चैवमनुमितेरपि प्रत्यक्षपरामर्शमूलतया प्रत्यक्षान्तर्भावा- पात इति वाच्यम्। नियमेन शब्दापेक्षावदनुमित्या नियमेन तस्यान- पेक्षितत्त्वात्प्रकारान्तरेणापि परामर्शसंभवादिति भावः ॥ ३७० ॥ दूषयति- तदुर्घटं न खलु किश्चिदपि प्रमाण- मस्याः प्रसाधकमुदीरितकल्पनायाः ।

प्रथमोऽध्यायः।
३६७
1
येनोपलब्धिविषयत्वमुपागतानि
संसृष्टमेव तु पदानि पदार्थमाहुः ॥ ३७१ ॥
तदुर्घटमिति । तत्परोक्तं दुर्घटमनुपपन्नं तत्र हेतुमाह-न खल्विति ।
खलु यस्मादस्योदीरितकल्पनाया भट्टमताभिहितान्वयकल्पनायाः
प्रसाधकं किमपि षण्णां मध्ये एकमपि प्रमाणं न तस्मात्तत् दुर्घट-
मिति सम्बन्धः। ननु किमिति प्रमाणाभावः अन्विताभिधानस्य दुष्टत्वेन
परिशेषस्यैव तत्र
प्रमाणत्वादित्याशङ्कयान्विताभिधानं नानु-
पपन्नम् अतो न परिशेषसिद्धिरित्याह-येनेति । येन प्रतीयमानानि
पदानि संसृष्टमेवार्थमभिदधति तेन परिशेषोऽसिद्ध इति सम्बन्धः ।
किं पदसमुदायस्य संसर्गबोधजनकत्वं निराक्रियते, किं वा
प्रत्येकं पदस्य । न तावदाद्यः । गामानयेत्यादिवाक्यादन्वितस्यैवा.
वगमात् । संसर्गविशेषजिज्ञासयैव वाक्यप्रयोगाच्च । नापि द्वितीयः ।
पदमात्रादपि यत्किञ्चिदन्वितार्थस्यैवानुभवादत एव गौरित्यभि-
धानान्तरं किं गच्छति तिष्ठति वेति संसर्गविशेषजिज्ञासा भवति ।
अन्यथासामान्यज्ञानाभावेन विशेषजिज्ञासानुपपत्तेः । न चमानान्तरेण
संसर्गसामान्यज्ञानमिति वाच्यम् । मानान्तरकल्पनायां बीजाभावात्प
दश्रवणानन्तरमव्यवधानेन तदुपस्थितेश्च। एवर्माप मानान्तरकल्पनायां
गामानय दण्डेनेति पदानि गोकर्मकदण्डकरणकानयनज्ञानपूर्वकाणि
गोतत्कर्मत्वादिवाचकपदत्वात्संम्प्रत्तिपन्नगामानयेत्यादिवाक्यवदित्य-
नुमानानन्तरं मनसा गामानयेति प्रत्ययोपपत्तेः । शब्दप्रामाण्य
विलोपप्रसङ्गात्तच्च न युज्यते लिङ्गप्रतिसन्धान विनापि शब्दादर्थ-
प्रतीतेः । अतएवान्यलभ्यत्वेनान्वयस्थाशक्यत्वमिति निरस्तम् । न चैवं
पदान्तरवैयर्थ्य विवक्षितान्वयविशेषस्यैकपदेनानुपस्थितत्त्वादत एव
न वाक्यस्यानुवादकत्वमपि । न च परम्परया शब्दमूलत्वेन शब्दत्व-
मपि जनकविशेषादेव कार्यविशेषाच्छब्दस्य चाजनकत्वेन ततः प्रमायां
विशेषानुपपत्तेरित्यन्विताभिधानमेव समीचीनमिति भावः ॥ ३७१ ॥

सटीके संक्षेपशारीरके- किं च केवलपदार्थे व्युत्पत्यसंभवादप्ययं पक्षोऽनुपपन्न इत्याह- नासंसृष्टपदार्थयुद्धिपदयोः पूर्वापरत्वप्रमा मुक्त्वा कारणकार्यतावगतये कश्चित्समर्थस्तयोः । पौर्वापर्यमुदीक्ष्य हेतुफलतां सर्वत्र संगृह्णते नो चेत्सर्वमसंगतं भवति वः सर्वव्यवस्थाहतेः॥३७२॥ नासंतृष्टेति । यदि प्रथमव्युत्तिकाले आवापोद्वापाभ्यां पदविशेष- व्युत्पत्तिकाले वा केवलपदार्थोपस्थितिः स्यात्तदायत्ततज्ज्ञानयोनियत- पूर्वापरीभावेन कार्यकारणभावः कल्प्येत । नचैतदस्ति । यत्किञ्चिद- न्वितस्यैवार्थस्य व्युत्पत्तिकालेऽवगमादतः केवलपदार्थज्ञानपदयोः पूर्वापरीभावाभावान्न तयोः कश्चित्कार्यकारणभावं ग्रहीष्यतीत्यर्थः । ननु पूर्वापरीभावज्ञानं विनापि कार्यकारणभावागमः किं न स्यान असम्भवादतिप्रसङ्गाञ्चत्याह-पौर्वापर्यमिति । हेतुफलतां कार्यकारण- भावं नियतपूर्ववर्तित्वस्य कारणत्वानियतपश्चाद्भावित्वस्य कार्यत्वा- त्पौर्वापर्यज्ञानाभावे कारणत्वग्रह एव न सम्भवति । यदि पुनः पौर्वापर्यज्ञानमन्तरेणापि कार्यकारणभावग्रहं वाञ्छसि तदा कारण- स्वादि तटितं न स्यादिति वक्तव्यम् । तदा सर्व सर्वस्य कारण- मिति न कार्यकारणनियमः स्यादित्यर्थः ॥ ३७२ ॥ ननु माभूत् कार्यकारणनियमः । कार्यकारणभावस्तु सिद्धाल्ये. वेत्याशङ्कय कार्यविशेषार्थिनः कारणविशेषोपादानानुपपत्तः। कार्य- कारणव न सिद्ध्यतीत्यभिप्रेत्याह- पूर्वापरान्वयबलेन हि कारणत्व कार्यत्वसंगतिमिह प्रतियन्ति लोके ।

प्रथमोऽध्यायः । नो चेद्भवेदनियमो न च तत्र कर्तु कार्याणि कारणविशेषमुपाददीरन् ॥ ३७३ ॥ पूर्वापरेति । तत्र लोकेऽनियमे सतीति शेषः । न चान्वयविशिष्टो- पस्थितावपि केवलार्थस्योपस्थितिरस्तीति कार्यकारणभावग्रहः स्यादिति वाच्यम् । भवन्मते विशिष्टस्य केवलादन्यत्वेपि विशेषणी. भूतसामान्यान्वयांशज्ञानस्यानन्यथासिद्धत्वेन व्यक्तयाकृतिज्ञानस्यैव तत्रापि पदकार्यत्वग्रहादन्यथा व्यत्यादीनां त्रयाणामुपस्थितायप्ये- कत्रैव शक्तिहः स्यादिति भावः ॥ ३७३ ॥ एवं पदैः पदार्था अभिधीयन्ते । पदाभिहितैः पदार्थैः पदार्थानां संसर्गबोधो भवतीत्यभिहितान्वयवादिनामेकः पक्ष उपन्यस्य दूषितः । इदानी संसर्गबोधस्य शाब्दत्वनिर्वाहाय पदार्थानामविद्यमानानां ज्ञानजनकत्वानुपपत्तेश्च पदान्येव पदार्थमवबोधयित्वा संसर्गमय- बोधयन्तीति तेषामेव पक्षान्तरमनूद्यात्रापि पूर्वोक्तदूषणे समानेऽपि दूषणान्तरमाह पदजातबुद्धिजनिता भवति व्यक्तिषक्तबुडिरिति तावदिह । न विगानमस्ति भवतामपि चेदु- व्यवधानकल्पनमकारणकम् ॥ ३७४ ॥ पदजातेति । व्यतिषक्तं व्यतिषङ्गः संसर्गः इह लोके घेदे च पदार्थ- संसर्गबुद्धिः पदजातवुद्धिनिता वाक्यधीजन्येत्यंत्र भवतापि विगानं विप्रतिपचिर्नास्तीति चेत्पदानां पदार्थान्वयबोधजनने केवल- पदार्थज्ञानेन व्यवधानकल्पनमकारण निनिमित्तं निष्प्रयोजन- मित्यर्थः ॥ ३७४ ॥ ।

३७०
सटीक संक्षेपशारोरके-
ननु पदजनितपदार्थबोधाभावे कथं पदैः संसर्गस्य वाक्यार्थस्य
बोधः स्यात्पदार्थशानस्यापि व्यापारतया तत्र कारणत्वादत एव न
तस्य पदव्यवधायकत्वमपीत्याशङ्कयाह-
व्यतिषक्तबुद्धिजनकं सकलं
पदजातमित्यनुमतं यदि वः।
व्यवधानकल्पनविडम्बनया
किमिहाञ्जसैव जनकं भवतु ॥ ३७५ ॥
व्यतिषत्तेति । विडम्बना निरर्थकव्यापारः पदज्ञानत्वेन तजन्यज्ञानं
हि तस्य
व्यापारः । न सम्बन्धिज्ञानत्वेन तस्यान्यत्रापि स्मृती
कारणत्वात्पदशानं च पदज्ञानत्वेन तदेव स्मारयति यत्पदशक्यं पद-
शक्तिश्च व्युत्पत्तिकालीनोपस्थित्यनुरोधेनान्वितविषयैवेत्युक्तं न
केवलार्थे अतः केवलार्थज्ञानस्य पदव्यापारत्वाभावान्मध्ये तदाश्रयणे
पदं व्यवधीयतेत्यर्थः । अअसा साक्षात्केवलपदार्थज्ञानं विने-
त्यर्थः॥ ३७५॥
ननु व्यवधानेनापि वाक्यं संसर्ग बोधयद् दृश्यते । यथा-अरु.
णादिवाक्ये तृतीयया श्रारुण्यादेः साक्षात्क्रयासम्बन्धप्रतीतावपि तं
विहायारुण्यादेः द्रव्यसम्बन्धबोधद्वारा क्रयणसंसर्ग बोधयतीत्या-
शङ्कयाह-
पारम्पर्य ह्यगतिकगति कारणादाश्रयन्ते
नोत्सर्गेण स्फुरति विदुषां यत्र तत्र प्रनाडी ।
श्रुत्या सोमक्रयमनुगतः साधनत्वेन हित्वा
साचाहावं ह्यरुणिमगुणः प्रापदेनामशक्तः ॥३७६॥

प्रथमोऽध्यायः। पारम्पर्यमिति । परम्परयान्वयबोधकरवमगतिकगति न विद्यते गति. रुपपत्तिः प्रकारान्तरेण यस्य सोऽगतिकस्तस्य गतिरगतिकगतिः ताम- नन्यगतिकामिति यावत्। कारणात्साक्षादन्वयासम्भवानिमित्ताद्विदुषा- मित्यनेन प्रणाडयाः प्रामाणिकत्वं दर्शयति । यत्रान्वयबोधस्य प्रणाडी- मध्ये व्यवधायकं किञ्चित्प्रमाणसिद्धं तत्रैव प्रकारान्तरेणान्वयबोधा- सम्भवादनन्यगतिकं पारम्पर्यमाश्रयन्ते न तूत्सर्गेण स्वभावेनेत्यर्थः । कुत्र तर्हि सा प्रमाणसिद्धा तत्राह - श्रुत्या सोमक्रयमित्यादिना। अरुणिमगुणः प्रारुण्यादिगुणः तृतीयाश्रुत्या सोमक्रयणं प्रति साक्षात्साधनत्वेना- नुगतः प्रापितः पश्चादशक्तरयोग्यतया साक्षाद्भाधं साक्षादन्धितत्त्वं विहायैनां प्रनाडी प्रापदित्यर्थः । श्रारुण्यादिगुणस्य साक्षादन्वय- बोधस्य प्रमाणसिद्धत्वात्तद्वयवधानेन द्रव्यादिद्वारान्वयबोधः । न चात्र केवलपदार्थज्ञाने प्रमाणमस्ति । अतो नात्र व्यवधानकल्प- । नेत्यर्थः ॥ ३७६ ॥ एवं दूषितेप्यभिहितान्वयवादे पुनरपि पदार्थानां संसर्गबोध- जनकत्ववादी दृष्टान्तबलेन तत्साधयितुं दृष्टान्तमाह- श्वेतिमानमभिपश्यतः पुरः शृण्वतस्तदनु हेषितध्वनिम् । तबदन खुरमुद्गरस्वनं श्वेत- रूपतुरगोऽटतीति धीः ॥ ३७७ ॥ श्वेतिमानमिति । श्वेतरूपमित्यर्थः । तदनुश्वेतरूपस्य दर्शनानन्तरं हेषितध्वनि हेषिताख्यध्वनि हेपेत्यश्वशब्दस्य संज्ञा खुरमुद्गरस्वनं खुरान्निष्पन्नशब्दविशेषमटति धावतीति धीर्भवतीति शेषः । श्वेतोऽ- श्वोऽटतीतिधीर्यद्भवति तद्वदित्युत्तरेण सम्बन्धः । कस्य भवतीत्या- काक्षायामुक्तं श्वेतिमानमित्यादि दूरस्थितो हि पुरुषश्चक्षुषा श्वेतं सटीक संक्षेपशारीरके- रूपमा किञ्चिद्व्यगतमवलोक्य तदाश्रयविशेषमभिकाङ्क्षन् तत्र श्रूयमाणखुरध्वनिनास्य चतुष्पात्त्वं निर्धारयति । पुनस्तत्रापि विशेषजिज्ञासुहषाध्वनिनाश्वत्वमपि तस्यानुमिनोति । तदनन्तरं तस्यश्वेतोऽश्वो धावतीति प्रतीतिरुपजायते । तत्र न प्रत्यक्ष प्रमाणं तस्य श्वेतरूपक्रियाविषयत्वेपि तदाश्रयद्रव्यविशेषविषयत्वाभावात् । नाप्यनुमानं तस्य चतुष्पात्त्वाश्वत्वविषयत्वेपि श्वेतोऽश्वो धावती. त्येवंरूपविशिष्टधीजनकत्वाभावान्नाप्यन्यत्किञ्चित्प्रमाणमस्त्यतः पदा- र्थानामेव परस्पराकाङ्क्षानुरोधेन तद्वोधजनकत्वमेषितव्यमिति भावः ॥ ३७७॥ दान्तिकमाह - तत्र पदजातबुद्धिभि बोंधिताखिलपदार्थहेतुकः । सर्वशब्दविषयार्थसंगतः प्रत्ययो भवति योग्यतादिभिः ॥ ३७८ ॥ तद्वदिति । पदजातबुद्धिभिर्बोधिताखिलपदार्थहेतुकः-तत्तत्पद- बोधितपदार्थहेतुक इत्यर्थः । सर्वशब्दविषयार्थसङ्गतेः-सर्वेषामेक- स्मिन्वाक्ये प्रयुक्तशब्दानां विषया वाच्या येऽर्थास्तेषां सङ्गतेरिति कर्मणि षष्ठी पदार्थानां परस्परसम्बन्धविषयः प्रत्ययो भवती- त्यर्थः ॥ ३७८॥ दृष्टान्तं दूषयति- नैतत्क्लुप्तनिमित्ततोऽपि घटते संसर्गधीरीदृशी श्वेतोऽश्वस्त्वरितोऽभिधावतितरामित्यादिकार्योत्थिता।

प्रथमोऽध्यायः । ३७३ कार्य क्लृप्तनिबन्धनं यदि भवेन्नास्यापरं कारणं कल्प्यं तेन पदार्थजातजनिता नैषा मतिर्लिङ्गजा॥३७॥ नैतदिति । क्लप्तनिमित्ततः क्लप्तप्रमाणादीकपदार्थमेवाह- श्वेतोऽश्व इत्यादिना । श्वेतोश्वो धावतीत्येवंरूपा या वुद्धिरुत्थिता ईदृशी संसर्गबुद्धिः क्लुप्तनिमित्ततोऽपि घटत इति सम्बन्धः । श्वेतोऽश्यो धावतीतिबुद्धिर्न पदार्थप्रमाणजन्या क्लुप्तप्रामाण्यस्य मनसोऽनुमा- नस्य वा तत्र संभवात् चक्षुरादिप्रमाणेन श्वेतिमरूपादिषूपनिहितेषु मनसा श्वेतोश्वो धावतीति धीर्जायते । अथवा विमतोश्वो भवितुमर्हति हेषाध्वनिमत्त्वात् सम्मतवदित्यनुमानानन्तरं श्वेतोश्वो धावतीत्य- विलम्बेन नानादेशसंयोगविभागवन्वात्तादृशपक्ष्यादिवदित्यनुमानेनैव तजन्यत इत्यर्थः । नन्वस्तु मानान्तरसत्त्वं न चैतावता पदार्था- नामपि संसर्गबोधजनकत्वं विरुद्ध्यते न हि प्रत्यक्षदृष्टं करिणं चीत्कारेण नानुमिमते इत्याशङ्कयाह - कार्यामते । क्लप्तमनुमानादि- निबन्धनं कारणं यस्य संसर्गबोधाख्यकार्यस्य तत्तथा । अस्य संसर्गबोधाख्यकार्यस्यापरं क्लुप्तप्रमाणव्यतिरिक्तं प्रमाणान्तरं तथा च प्रत्यक्षदृष्टस्यान्यत्रानुमानगम्यत्वं सम्भवति उभयोरपि तयोः क्लप्तप्रमाणत्वात् न वान्यत्पक्षे तदपि प्रमाणसम्प्लवानङ्गीकारात् । न चात्र पदार्थाख्यं प्रमाणान्तरं क्लतमस्ति । नन्वयमपि शाब्द एवेति चेन्न । शब्दाभिहितपदार्थातिरिक्तपदार्थसंसर्गबोधस्याशाब्द- त्वादतस्तदर्थं न प्रमाणान्तरं कल्पनीयमित्यर्थः । निगमयति-तेनेति । येन कार्य क्लुप्तप्रमाणादेव भवितुमर्हति । पदार्थप्रामाण्यं चाक्लप्तं तेनैषा श्वेतोश्वो धावतीतिबुद्धिर्न पदार्थजातजनिता किन्तु लिङ्ग- 1 जेत्यर्थः ॥ ३७६ ॥ ननु यथा श्वेतोऽश्वो धाचतीत्यत्र पदार्थोपस्थापकप्रत्यक्षादि- मानेनैव संसर्गबुद्धिर्जायते तद्व्यतिरिक्तमानान्तरस्याभावादेवं ३७४ सटीक संक्षेपशारीरके- पदार्थोपस्थापकपदैः पदार्थबुद्धिद्वारेणैव संसर्गबोधो भवितुं युक्त इन्यभिहितान्वयबादिमतान्तरमपि दृष्टान्तत्वेनोक्तं पक्षान्तरदूषणा- नुवादपूर्वकं दूषति- पादार्थ न पृथक्प्रमाणमपरं नानाप्रमाणोद्भवं नाप्येतत्फलमत्र पक्षयुगले कल्यं निमिनान्तरम् । क्लुप्तं लिङ्गमतोऽपि निर्वहति चेत्संसर्गधीरीदृशी पादार्थी न पृथक्प्रमान च फलं नानाप्रमाणोद्भवम् ॥३८०॥ - पादामिति । कि पदार्थोपस्थापकप्रत्यक्षानुमानयोः पृथगेव संस- गबुद्धिजनकन्वमुत मिलितयोः । नाधः । तयोः प्रत्येक संसर्गबुद्धौ सामर्थ्याभावात् । नन्वनुमानस्य मनसो वा संसर्गबुद्धिजनकत्व- मिदानीमेवोक्तमिति चेत्सत्यम् । तद्धि प्रत्यक्षान्तरमनुमानान्तरं च तथा सति नायं व्यवधानेन संसर्गबुद्धिजनने दृष्टान्तः । तयोः पदार्थ- गोचरत्वेन व्यवधानाभावादित्यभिप्रेत्य प्रमाणद्वयात्मकसमुदायस्य संसर्गबुद्धिजनकत्वमिति द्वितीयं पक्षं दूषयति-पादार्थमिति । पादार्थ पदार्थसम्बन्धिपदार्थजन्यमिति यावत् । प्रमाणं प्रमाणपदार्थजन्या प्रत्यक्षादिप्रमितिव्यतिरिक्ता काचित्प्रमाऽस्ति । पदार्थस्य प्रमाणत्वा- सिद्धरित्युक्तानुवादः । अपर प्रत्यक्षादिप्रमाणेभ्यः प्रत्येकमुत्पन्नशा- नादन्यत् नानाप्रमाणोद्भवं प्रत्यक्षादिसमुदायजनितमेतत्फलं श्वेतो. ऽश्वो धावतीति ज्ञानम् । अथवा पदार्थप्रमाणसमुदायात्संसर्गधीरिति पक्षे किं समुदायः समुदायिव्यतिरिक्तः उताव्यतिरिक्तः । श्राद्यपि किमयं समुदायः पदार्थोपस्थितिद्वारा संसर्ग बोधयति । उत न अन्ये न व्यवधानसिद्धिरित्यभिप्रेत्याचं दूषयति-पादामिति । पदार्थविषय- मित्यर्थः । न पृथक्प्रमाणं प्रत्येकं प्रमाणं प्रत्येकप्रमाणादन्यत्समुदा- यात्मकं न प्रमाणमित्यर्थः। अत एव चैतत्फलं नानाप्रमाणसमुदा- प्रथमोऽध्यायः । ३७५ योद्भवं नेत्याह-नानाप्रमाणेति । नापि द्वितीयः । नानाप्रमाणानामेक- ज्ञानजनकत्वासंभवात्प्रमाणातिरेकप्रसङ्गा चेत्यर्थः । ननु श्वेतोऽश्वो धावतीति ज्ञाने लिङ्गजन्यत्वस्याननुभूयमानस्यापि कल्पनावत्पदा- र्थप्रमाणत्वस्य संसर्गबोधस्य प्रत्यक्षादिप्रमाणजन्यत्वस्य वा कल्पना किं न स्यादिन्याशङ्कयोक्तं न प्रस्मर्त्तव्यमित्याह-अत्रेति । निमित्ता- न्तरं संसर्गबोधस्येति शेषः । धर्मधर्म्युभयकल्पनाद्वरं धर्ममात्रकल्पन- मित्यर्थः। ननु क्लप्तान निर्वाहश्चेदक्लप्तमपि कल्प्यं यथा अपूर्व- मित्याशङ्कय क्लप्तादनिर्वाहो नास्तीत्याह-श्रतोऽपीति । लिङ्गादपि चेत्यर्थः । चेच्छब्दोऽवधारणे निर्वहत्येवेत्यर्थः । अपिशब्दः प्रत्यक्षं सूचयति । नानाप्रमाणोद्भवमित्येतदनन्तरं कल्पनामिति पदमध्या- हर्त्तव्यम् ॥ ३८० ॥ नन्वन्विताभिधानपक्षे पदानां पदाभिहितपदार्थान्वितस्वार्था- भिधायकत्वं वक्तव्यम् । वाक्यप्रयोगकाले पदार्थोपस्थापकमाना- न्तरस्य नियमेनानुपस्थानादनुपस्थितस्य चान्वयानुपपत्तेः तथा चान्योऽन्याश्रयः । पदोपस्थाप्यत्वमनन्वितस्वमपेक्षते । अन्वितत्वं च पदोपस्थाप्यत्वमिति ततोऽभिहितान्वयपक्ष एव समीचीन इत्या- शङ्कामुपसंहारव्याजेन निराकरोति- नासंसृष्टमतो वदन्ति वचनान्याहुः क्रियासंगतं योग्येनान्वितमेव केवलममून्याहुः स्वमर्थ यतः । एवं सत्यपवर्जितक्रियमलं निष्पन्नरूपं सदा संसर्गादिविवर्जितं च वदितुं वस्तुस्वरूपं श्रुतिः॥३८१॥ नासंसृष्टमिति | कार्यान्वितत्वपक्षे प्रयोजकद्वैविध्यं कार्यान्वया- न्वितत्त्वपक्षे व्यर्थविशेषणता विशेषणविशेष्यतापत्तिश्च । योग्येतरा- न्वितत्वपक्षे च व्यर्थविशेषणत्वमभिहितान्वयवादिमते पदार्था- सटीके संक्षेपशारीरक- । नामक्लप्तप्रमाणत्वकल्पना अविद्यमानानां तेषां जनकत्वानुपपत्तिः वाक्यार्थबोधस्याशब्दत्वं तत्रैव पक्षान्तरे पदात्सामान्येनान्वितार्थ- प्रतीतेराकस्मिकत्वं नैयत्येन व्युत्पत्तिकालेऽन्वितार्थावगमानुपपत्तिः विनिगमनाभावश्चेत्येवमादयो दोषाः सन्तीति यतोऽतस्तानि पदान्यसंसृष्टमनन्वितं न वदन्ति । नापि क्रिया संगतं योग्येतरेण- वित वाहुः । ततोऽभूनि पदानि केवलं योग्येतरत्वकार्याभ्याम- विशेषितमनन्वितं स्वोयमर्थमाहुरिति योजना। लोके हि विशिष्टार्थ- प्रत्यायनायैव शब्दः प्रयुज्यते न तु पदार्थमात्रप्रत्यायनाय पदात्के- बलपदार्थाप्रतीतेः । अन्धितस्यैव प्रतिपत्तेश्च। अत एव द्वारमित्यादौ पदात्प्रतीतान्वयसामान्यबोधपर्यवसानाय पिधेहिपदाध्याहारः क्रियते। नचान्यान्योन्याश्रयः । यत्र हि संसर्गमर्यादयाऽन्वयबोध- स्तत्रैवान्वयप्रतियोगिन उपस्थितिरपेक्ष्यते यत्र तु शक्यान्वयोऽवबो- ध्यते न तत्र तस्य पूर्वोपस्थित्यपेक्षा। ननुक्तिग्रहणाथमन्वयज्ञानापेक्षा तदर्थ च प्रतियोग्यपेक्षेति पूर्वोपस्थितिरपेक्ष्यत इति चेन्न । प्रत्यक्षादि- प्रमाणान्तरेणोपस्थितपदार्थान्वय एव शक्तिग्रहादतो नान्योन्याश्रय इत्यन्वितव्युत्पत्तिरेव समीचीनेति भावः । अन्वितमात्रे व्युत्पत्ति- समर्थनफलमाह-एवंसतीति । अन्वितमात्रे सामर्थ्य सतीत्यर्थः । श्रुति- स्तत्वमादिवचनमपवर्जिता क्रियमपत्रजितक्रिया कार्य यस्मिन् तत्तथा कार्यान्वयरहितं स्वप्रधानं निष्पनरूपं सिद्धस्वभावं संसर्गादि- विवर्जितं भेदगर्भविशेषणविशेष्यभावादिरहितं वस्तुस्वरूपं ब्रह्मा- त्मैक्यं वदितुमलमिति सम्बन्धः ॥ ३८१ ॥ नन्वभिहितान्वयवादोपि तत्र तत्र मूल ग्रन्थेषु समर्थितः स कथमत्र निराक्रियत इत्याशङ्कय नास्माभिः स निराक्रियते किन्तु कार्यान्वितवादिनं प्रत्यन्वितमात्रमेवालम्, अभिहितान्वयापेक्षया चान्विताभिभाने न्यायानुगतिरप्यस्तोत्येतावन्मानं प्रदर्शितमिहेन्य- भिप्रेत्याह- प्रथमोऽध्यायः । ३७७ अभिहितघटनाऽथ वाऽन्विताना- मभिहितिरस्त्वथ वा न पक्षपातः । कचिदपि समयेऽस्ति नः कदाचि- बहुघटनात्मकवस्तुनिष्ठवाक्ये ॥ ३८२ ॥ श्राभाहतवटनेति । अभिहितानां संसर्ग इत्यर्थः । अथवेत्यनास्था- यामन्वितानामभिहितिरन्विताभिधानं वाशब्दसूचितामनास्थामेवाह न पक्षपातः । नैकतरस्मिन्नभिरुचिः क्वचिदपि समयेऽभिहितान्वयेऽ- न्विताभिधाने वा पक्षद्वयानास्थायां निमित्तमाह-बहुघटनात्मकवस्तुनिष्ठ- वाक्य शते । अभिहितघटनान्वितानामभिहितिरित्यनुषङ्गः । बहुघटना बहूनां पदार्थानां संसर्गस्तदात्मकं तत्स्वरूपं यद्वस्तु तनिष्ठं तद्बोधक यद्वाक्यं तस्मिानत्यर्थः । संसर्गपरे हि वाक्येऽन्विताभिधानमभिहि- तान्वयो वाऽपेक्ष्यते । न तत्वमादिवाक्ये तयोरसंभवादित्यर्थः ॥३८२॥ । ननु ब्रह्मवाक्ये कथं पक्षद्वयासंभवः अन्यतरपक्षस्यावश्य- कत्वात्तत्राह अभिहितघटना न चोपपन्ना परदृशि नाभिहितिस्तथान्वितानाम् । अनधिकविकलार्थगोचरत्वा- न्न तदुभयं श्रुतिमस्तके पदानाम् ॥ ३८३॥ अभिहितघटना न चेति । परदृशि परमात्मनि विषयेण विषयि तत्व- मादिवाक्यं लक्ष्यते । तत्त्वमादिवाक्येऽन्विताभिधानमभिहितान्वयो वा न संभवतीत्यर्थः । कुतस्तदसंभवस्तत्राह-अनाधकेति । अधिक- मतिरिक्त विकलं न्यूनं पदद्वयस्यैकपदार्थमात्रनिष्ठत्वात्तदुभयम- न्विताभिधानमभिहितान्वयो वा श्रुतिमस्तकस्थपदानां न संभवति । ।

३७८ सटीके संक्षेपशारीरक- तयोः पदवयार्थभेदापेक्षितत्त्वादित्यर्थः । एतच्च लक्षणादशायाम् । मुख्यार्थान्वयदशायां त्वन्वयप्रतियोगिनः पदार्थद्वयस्य सत्त्वादुक्ता. न्यतरपक्षाङ्गीकारे न कश्चिदपि दोष इति द्रष्टव्यम ॥ ३८३ ॥ ननु यदा तत्त्वमादिवाक्यैर्वाच्यार्थान्वयबोधो जायते तदैत- दन्यतरपक्षे कश्चित्प्रकारविशेषोऽस्ति किमित्याशङ्कय वस्तुनो न कश्चिद्विशेषस्तथापि पदार्थबोधस्य पदत्वेन पदजन्यत्वतदभावा घङ्गीकृत्य तत्कृतं विशेष वक्तुं पदार्थबोधे विशेषमाह- अभिहितघटना यदा तदानीं स्मृतिसमबुद्धियुगं पदे विधत्तः । परदृशि पुनरन्विताभिधाने पदयुगलात्स्मृतियुग्ममेव पूर्वम् ॥३८४॥ अभिहितघटना यदेति । स्मृतिसमबुद्धियुगं स्मृतितुल्यं पदार्थविषयं द्वयमभिहितान्वयवादिपक्षे पदार्थज्ञानस्य पदत्वेन पदजन्यत्वं वक्त- व्यमन्यथा वाक्यार्थज्ञानस्य परम्परयापि शब्दमूलत्वाभावेनाशाब्द. त्वप्रसङ्गादतो न स्मृतित्वं किन्त्वधिगतार्थविषयत्वात्स्मृतिसममेवे- त्यर्थः । पूर्व-वाक्यार्थज्ञानात्पूर्वम्। अन्विताभिधानपक्षे तु पदार्थज्ञानस्य सम्बन्धित्वेन पदजन्यतया स्मृतित्वमेव पदत्वेनैव पदस्य तजनकत्वे पदस्य विरम्य व्यापारप्रसङ्गाद्वाक्यार्थबोधेपि तस्य तेनैवा- कारेण जनकत्वात्समूहितपदानामेव वाक्यत्वादतो न स्मृतिसमत्व. मित्यर्थः ॥ ३८४॥ एवं पदार्थबोधे विशेषमुक्त्वा वाक्यार्थबोधोत्पत्तिप्रकारमाह- स्मृतिसमपदजन्यबुडियुग्मा- त्परदृशि मोहनिवर्त्तनं परेषाम् ।

प्रथमोऽध्यायः । ३७६ परदृशि पदजम्मृतिद्रये स्यात्पद- युगलात्प्रमितेः समुद्भवो नः ॥ ३८५॥ स्मृतिसमेति । ननु कथं पक्षद्वयेपि साम्यमभिहितान्वयवादे ऽविद्यमानानां पदार्थानां वाक्यार्थज्ञानजनकत्वायोगादित्याशङ्कय तज्ज्ञानस्यैव जनकत्वान्न दोष इति वाह-स्मृतिसमाते । पदाजन्म यस्या बुद्धः सा पदजन्मबुद्धिस्तस्या युग्मं स्मृतिसमं च तत्प- जन्मबुद्धियुग्मं तस्मादभिहितान्वयवादिपक्षे पदत्वेन पदजन्यपदार्थ- द्वयज्ञानात्परम्परयाऽविद्यानिवृत्तिक्षम वापयार्थज्ञानं भवति । न पदात्तस्य विरम्य व्यापारायोगात् । अन्विताभिधानपक्षे तु सम्बन्धि- त्वेन पदाभ्यां पदार्थद्वयस्मरणे जाते ताभ्यामेव पदाभ्यां परम्परया अविद्यानिवृत्तिक्षम वाक्यार्थज्ञानं भवतीत्यर्थः । परेषां न इति च विशेषणद्वयेन स्वस्याभिहितान्वयवादे न रुचिः किन्त्वन्विताभिधान- वाद' इति दर्शितम् । ३५॥ एवं कार्यान्विते व्युत्पत्ति निराकृत्यान्बितमात्रे व्युत्पत्तिसाधनेन प्रवृत्तिनिवृत्तिशून्येपि ब्रह्मणि वेदान्तानां प्रामाण्यमविचलमिति दर्शितमिदानीं भट्टाभिमतभावनावाक्यार्थनिराकरणेनापि तदेव- प्रामाण्यं दृढोक तन्मतमाह- औदासीन्यप्रच्युतिमापकेऽर्थे लिङ्लोडादेर्लोकतो ज्ञातशक्तेः । पुंसो वेदे प्रेरकत्वेन कल्प्या लिलोडादेर्भावनैवान्यतन्त्रे ॥ ३८६ ॥ औदासीन्यति । लोकतः लौकिकप्रत्यक्षादिप्रमाणात् लिङ्लोडादेः औदासीन्यप्रच्युतिप्रापके औदासीन्यप्रच्युतिः प्रवृत्तिस्तत्प्रामकस्ता-

३८०
सटीके संक्षेपशारीरके-
तुप्रवर्तक इति यावत् । तादृशेऽर्थे श्राशादिरूपे ज्ञातशक्त ज्ञाता शक्ति-
येन पुंसास तथोक्तः पुंस इति कर्मणि षष्ठी। एतादृशंपुमांसं प्रतीत्यर्थः।
अन्यतन्त्रेऽपौरुषेये वेदे प्रेरकत्वेन प्रवर्तकत्वेन लिङ्लोडादेर्भावना लि-
कादिशब्दव्यापारात्मकशाब्दभावनैव कल्प्येति सम्बन्धः । इत्थं किल
भाट्टानां प्रक्रिया लोंके हि लिङदिपदश्रवणानन्तरं मध्यमवृद्धस्य
प्रवृत्तिदर्शनात् सिद्धवाक्यश्रवणे च तददर्शनादन्वयव्यतिरेकाभ्यां
लिङगदिपदं प्रवर्तकपरमिति व्युत्पित्सुना निश्चीयते । प्रवर्तकपरत्वे
च सलिङादेर्वेदे भावनैव प्रवर्तकत्वेन कल्प्या। लौकिकप्रवर्तका-
सम्भवादिति भावः ॥ ३८६ ॥
ननु किं लौकिकप्रवर्तकं यदसम्भवेन वेदभावनैव प्रवर्तकत्वेन
कल्प्या स्यात्तदसम्भवात्कथं तत्राह--
प्राज्ञाद्यर्थः प्रेरकः पौरुषेये
लिङ्लोडादेर्भावना वेदवाक्ये ।
पुंसोऽभावात्तद्गताज्ञायभावा-
त्पुंसम्बन्धात्प्रेरकास्ते हि वाक्ये ॥ ३८७॥
श्राशाद्यर्थइति । पौरुषेये पुरुषतन्त्र लौकिकवाक्ये श्राज्ञाद्यर्थः श्राशा-
नुशादिरूपोऽर्थः प्रेरकः न भावना तत्र प्रमाणाभावात्प्रवृत्तेरन्यथा-
प्युपपत्तेर्वेदवाक्ये तु पुंसो वक्तुरभावेन तद्गताशाद्यभावालिङ्लोडा-
देर्भावनैव प्रेरिका कल्पनीयेत्यर्थः । ननु लोकानुसारेण वेदेऽप्याज्ञा-
दिरेव प्रवर्तको वक्तव्य इत्याशङ्कयाह- पुंसंबन्धादेति । ते आज्ञादयः । हि
यस्माद्वाक्ये पुंसंबन्धादेव प्रेरका अत इति सम्बन्धः । वक्तृपुरुष-
सम्बन्धो यस्मिन्वाक्ये विद्यते तत्रैवाज्ञादिः प्रवर्तको भवति तत्र
तत्सत्वान्न हि वेदे पुरुषसम्बन्धोऽस्ति अत अाज्ञादेरभावादेव न
लोकानुसारेण स प्रवर्तक इत्यर्थः ॥ ३८७ ॥

प्रथमोऽध्यायः।
a
--
-
ननु वेदे भावनायाः प्रवर्तकत्वे तस्या भावकभाव्यस्वरूपकर-
णेतिकर्तव्यसापेक्षत्वाच्छब्दभावनायाः को भावकः किं भाव्यं किंवा
तत्स्वरूपं के वा करणेतिकर्तव्ये इत्याकाङ्क्षायामादावाद्यत्रयमाह-
लिङ्लोडादिर्भावकस्तत्र भाव्या-
नुष्ठेयेऽर्थे पुंस्प्रवृत्तिः प्रसिद्धा।
लिङलोडादेः पुंस्प्रवृत्यशनिष्ठो
व्यापारो यस्तं विदुर्भावनेति ॥ ३८८ ॥
लिङ्लोडादिराित । श्रादिपदेन सव्यादेहः । तत्र भावकादिषु मध्ये
शब्दभावनाया लिङ्लोडादिर्भाधक उत्पादकः, भाव्या निष्पाद्या अनुष्ठेये
कत्तुं योग्येऽर्थे यागादौ विषये पुस्प्रवृत्तिः पुरुषप्रयत्नलक्षणः कर्तृ-
व्यापारः यागादिधात्वर्थनिष्पत्त्यनुकूलः कर्तृव्यापाराख्यातार्शभावना-
शब्दभावनाभाव्येत्यर्थः । पुस्प्रवृत्त्यंशनिष्ठः अर्थाभावनाख्यपुरुषप्रवृत्त्य-
नुकूलो यो लिङ्लोडादेापार: प्रेरणात्मकस्तं शब्दभावनेति विदु-
रित्यर्थः । लिङादिश्रवणानन्तरं नियमेन पुरुषस्य प्रवृत्तः पुरुष
प्रवृत्त्यनुकूलप्रेरणाख्यो लिङादिशब्दव्यापारः शब्दभावना तज्ज्ञाना
देव पुरुषप्रवृत्तस्तस्याश्वार्थभावना भाव्या भवति । तस्यास्ततो
निष्पत्तिदर्शनात्तद्भावकश्च लिङादिस्तस्या तद्व्यापारत्वाद्वयापारस्य
व्यापारिजन्यत्वादिति भावः ॥ ३८८ ॥
इदानीं शब्दभावनायाः करणेतिकर्तव्ये दर्शयति-
करणमिह लिङादेानमेवाङ्गभागः
पुनरभिमचिहेतुर्दश्यते च प्रशंसा।
विधिरयमिह तन्त्रे जैमिनीये न कार्य
न च भवति विधिनः श्रेयसो हेतुरर्थः ॥ ३८६॥

३८२ सटीके संक्षेपशारोरके- करणमिति । इह तेषु मध्ये लिङादेर्शानं लिङादिव्यापारात्मकशब्द- भाधनाशानं शब्दभाधनाकरणमभिरुचिहेतुः पुरुषेच्छोत्पादिका प्रशंसा- स्तुतिनिन्दार्थवादार्पितं प्रशस्तमिदं निकृष्टमिदं च ज्ञानं प्रेरणाद्यनुकूल- स्वादङ्गमित्यर्थः । खज्ञानकरणिका अर्थवादार्पितस्तुतिनिन्देतिकर्तव्य- ताका शब्दभावनेत्यर्थः । न च स्वज्ञानकरणकत्वमनुपपन्नं ततः पूर्वमेव स्वस्य सिद्धत्वादिति वाच्यम् । केवलस्य स्वस्य तदनुपपत्तावपि स्वभाव्यार्थभावनाशिरस्कस्य स्वज्ञानानन्तरभावितया तत्करणकत्वोपपत्तः। सर्वत्र भाव्यद्वारेण करणस्य भावनान्वयाद्भा- व्यनिष्पादकस्यैव भावनोकरणत्वादिति भावः । एवं भावनास्वरूपं सपरिकरं दर्शयित्वा सैव लिङाद्यर्थ इत्याह- विधिरिति । विधीयते बोध्यत इति लिङाद्यर्थों विधिः अयं शब्दभावनात्मा शब्दव्यापार- स्तन्त्रे शास्त्रे जैमिनीये जैमिनीयमतानुसार्याचार्यमते श्रेयोहेतुः श्रेयः साधनत्वम् ॥ ३८६ ॥ ननु शब्दभावनाया लिङाद्यर्थत्वे कथं तया यागादीनामन्वयः न हि यागादेः शब्दभावनां प्रति भाव्यत्वेन करणत्वेनेतिकर्तव्यत्वेन वान्वयः सम्भवति न वा प्रत्ययार्थ प्रधानं विनान्यत्र यागादेरन्वयो युक्त इत्याशङ्कयाह- - MONIC विधिरिह गुणभूतः प्रत्ययार्थोऽपि नित्यं भवति च पुरुषोत्था भावनाऽस्य प्रधानम् । भवति दशलकारप्रत्ययैः साभिधेया विधिविहितलकारैर्भावना शब्दहेतुः ॥३६० ॥ विधिरिति । इहास्मिन्दर्शने विधिः शब्दभावना लिङादिप्रत्यया- र्थोपि नित्यं गुणभूतः उपसर्जन एव प्रेरकत्वादित्यर्थः । किं तर्हि प्रधानमिति तदाह-भवति चेति । पुरुषोत्था पुरुषजन्या पुरुषार्थ प्रथमोऽध्यायः । इतिपाठे पुरुषार्थः स्वर्गादिभाव्यकत्वात्स पुरुषार्थः अस्य शब्दभावना- त्मकविधेरर्थभावनायाः साध्यतया पुरुषार्थसाधनतया पुरुषार्थत्वा- वार्थतः सैव प्रधानमतस्तयैव यागादेरन्वय इत्यर्थः । प्रत्ययार्थस्यैव प्रधान्यमिति निबन्धेपि तदप्यर्थभावनाया अस्तीत्याह-भवतीति । अथवा नन्वर्थभावनायाः प्रकृतिप्रत्ययाभ्यामनुपस्थिततया कथमन्येषा- मन्वयस्तत्रेत्यत आह-भवतीति लकारप्रत्ययो लिडादिप्रत्ययो लडादिभिर्दशभिः प्रत्ययैः सार्थभावनाऽभिधेयेत्यर्थः तदुक्तं "भावनैव हि यत्नात्मा सर्बाख्यातस्य गोचर" इति । तर्हि शब्दभावनाया लिङाद्य र्थत्वं गतमिति तत्राह-विधिविहितेति । विधिः प्रवर्तकस्तस्मिन्विहि- तलकारैलिडादिलकारैः शब्दजन्या भावना शब्दभावनाऽभिधेयेति सम्बन्धः । यद्यपि लिमदिराख्यातो भवति तथापि तस्याख्यातत्वा- कारो लिङत्त्वाकारश्चेत्याकारद्वयसत्वादाण्यातत्वाकारेणार्थभावना वाचकत्वेपि लिङ्त्वाद्याकारेण शब्दभावनावाचकत्वमपि न विरुद्ध्यत इति न शब्दभावनायाः लिङाद्यर्थत्वभङ्गः । अतोऽर्थभावनाया अपि प्रत्ययोपस्थापितत्वाद्यागादेस्तयैवान्वय इति भावः ॥ ३० ॥ इदानीमर्थभावनाया अपि भावनात्वेन भाव्यादिनिरूपकत्वा- तत्स्वरूपं दर्शयति- भवति च पुरुषार्थकर्मिकेयं पुरुषनिमिनकभावना न तहत् । भवति तु विधिशब्दकर्तृकान्या न हि निरवद्यपुमर्थता प्रवृत्तेः ॥ ३६१ ॥ भवति च पुरुषार्थकर्मिकोति । पुरुषार्थः स्वर्गः कर्म भाव्यं यस्याः सा चकारात्फलशिरस्कामर्थभावनां प्रति प्रकृत्युपातो यागः करणं प्रकरणपठितप्रयाजादिश्चेतिकर्त्तव्यमित्येतत्सर्वं दर्शयति । तथा

३८४
सटीके संक्षेपशारीरके-
पुरुषनिमित्तकभावना पुरुषप्रयत्नलक्षणार्थभावना धात्वर्थकरणिका
स्वर्गादिभाव्या प्रयाजादीतिकर्तव्या च भवतीत्यर्थः। नन्वथभावनेव
शब्दभावनापि स्वर्गादिभाव्या किं न स्याद् व्यापारत्वाविशेषादित्या-
शङ्कथ किं साक्षात्स्वर्गादिभाव्यनिष्ठा किं परम्परया नाद्य इत्याह-
न तददिति । विधिशब्दकर्तृकान्या भावना लिङादिशब्दव्यापारात्मिका
शब्दभावना तु तद्वन्न भवति । पुरुषप्रवृत्तिलक्षणार्थभावनेव स्वर्गा-
दिभाव्या न भवति । चेतनव्यापारवदचेनव्यापारस्यापि साक्षात्यु-
रुषार्थविषत्वनियमाभावादित्यर्थः । हेत्वन्तरमप्याह-न हि निरवद्येति ।
हि यस्माच्छब्दभावना भाव्यत्वेनान्वयव्यतिरेकावधृतप्रवृत्तेनिरवद्य-
पुमर्थता स्वर्गात्मा न तत इत्यर्थः । यद्यपि श्रेयःसाधनत्वेन सापि श्रेय
एव तथापिनसाऽनौपाधिकप्रीतिविषयः किन्तुस्वर्ग इत्यभिप्रेत्योक्तम्-
मिरवधेति । ततश्चान्वयव्यतिरेकाभ्यां प्रवृत्तरेव शब्दभावनाभाव्यत्वावधा-
रणात् स्वर्गस्य तद्भाव्यत्वं साक्षाच्छब्दभावनाभाव्यत्वे वा यागाधनु-
ष्ठानविलोपप्रसङ्गाञ्च । तन्न साक्षात्स्वर्गादिभाव्या सेति भावः ॥३१॥
नन्वर्थभावनाया अपि पुरुषार्थस्वर्गादिभाव्यकत्वमनुपपन्नं स्वर्ग
कामो यजेतेत्यत्र ह्याख्याताभिधेयार्थभावनया सह प्रकृत्यों यागः
समानपदोपात्तस्तत्र भावनायां भाव्याकाक्षिण्यां समानपदोपात्तो
याग एव भाव्यत्वेन सम्बध्यते न तु भिन्नपदोपात्तस्वर्गस्तस्य विल-
म्बितप्रतिपत्तित्वेन तत्पूर्वमेव भावनायाः भाव्यान्तरेणावरुद्धत्वात्
स्वर्गपदस्य श्रेयःसाधनवाच्यत्वेन सिद्धोपदेशस्य भाव्ययागोपदेश-
शेषत्वादित्याशङ्कयाह-
अभिमतपशुपुत्रवृष्टिनाक-
प्रभृतिकभाव्यगता हि भावनेयम् ।
अनभिमतसुदुष्करातिदुःखां
नयति तु भाव्यपदं प्रवृत्तिमन्या ॥ ३६२॥

प्रथमोऽध्यायः। ३८५ अभिमतति । नाकः स्वर्गः इयं भावना अर्थभावना । यद्यपि प्रकृति- प्रत्ययोरेकपदत्वेन प्रत्ययार्थभावनायाः प्रकृत्यर्थों यागः समानपदो- पात्तो भवति तथापि लिडादिप्रत्ययस्तित्वाकारणार्थभावना- भिधाय्यपि लिङ्त्वाकारेण शब्दभावनाभिधानद्वारा पुरुषं प्रवर्त्त- यति च व्यापारतद्वतोरभेदात् पुरुषप्रवर्त्तने च पुरुषेप्सितफलं विना च कुण्ठितशक्तिर्लिंङादिः पुमर्थमेवार्थभावनाभाव्यत्वेनोपादत्त इति प्रत्ययार्थाकाङ्क्षितत्त्वाद्भिनपदोपात्तोपि स्वर्ग एव भाव्यत्वेन सम्बध्यते न तु यागः क्लेशात्मकस्य तस्य भाव्याकाङ्क्षापरिपूरक- स्वादत एव न पूर्व भाव्यन्तरावरोधोपि । न च स्वर्गपदं श्रेयःसाधन नपर निरतिशयप्रीतेरेव स्वर्गवादतः स्वर्गकामयदवैयर्थ्यपरिहाराय च स्वर्ग एव भाव्यत्वेन सम्बध्यत इत्यर्थः । ननु शब्दभावनाया अपि परम्परया स्वर्गादिभाव्यनिष्ठत्वान्नार्थभावना तद्भाव्येति वित्तीय निराकर्तुमर्थभावनायास्तद्भाव्यत्वानङ्गीकारे परम्परयापि स्वर्गादि- भाव्यत्वं न स्यात् फलफलस्यैव परम्परया फलवादित्यभिप्रत्यार्थ- भावनैव तद्भाब्येत्याह-श्रनभिमतेति । अन्या शब्दभावना त्वनभिमत- सुदुष्करातिदुःखां प्रवृत्ति भाव्यपदं नयतीति सम्बन्धः । अनभिमता चासौ सुदुष्करा चातिदुःखा चेति । तथोक्ता स्वतो ऽपुरुषार्थवा- दनभिमता बहुवित्तव्ययायाससाध्यत्वात्सुदुष्करा बहुलदुःखतर- दुःखसाध्यत्वादतिदुःखेत्यर्थः । भाव्यपदं भाव्यत्वमिति ॥ ३६२ ॥ नन्वभिहितान्वयवादिमते भावनैव लिङाद्यों यदि भवेत्तदा प्रत्ययार्थो भावनापि स्वर्गादिवत्केवलपदात्प्रतीयेत न च सा तथा प्रतीयते तस्माद्धात्वर्थव्यतिरेकेण माक्नैव नास्तीत्यत आह- प्रत्ययप्रकृतिशब्दतो बहि- विद्यतेऽभिहितसंगतिश्च नः ।

३८६ सटीके संक्षेपशारीरके- प्रत्ययः प्रत्ययप्रकृतिशब्दयोः पुन- नित्यमन्वितधियो निमित्तता ॥ ३ ॥ प्रत्ययेति । न प्रकृतिशब्दतः प्रत्ययात्मकशब्दात् प्रकृत्यात्मकशब्दाच्च बहिरन्यत्राभिहितसंगतिरहितान्वयः प्रत्यय- प्रकृतिशब्दयोः पुनर्लिङादिप्रत्यययज्यादिप्रकृत्योस्तु नित्यमन्वितधियो निमित्तता परस्परार्थान्वित्तस्वार्थबोधकत्वमेव प्रकृतिप्रत्ययव्यतिरिक्त- शब्दयोरेवस्वातन्त्र्येण भिन्नत्वात्स्वस्वार्थाभिधानाञ्चाभिहितान्वयबोधी भवति । प्रकृतिप्रत्ययोस्त्वेकपदत्वात्प्रत्ययस्य प्रकृत्यान्वितस्वार्थ- बोधकतानियमस्य प्रकृतेश्च प्रत्ययार्थान्वितस्वार्थबोधकतानियमस्य व्युत्पत्तिसिद्धत्वाञ्च । प्रकृतिप्रत्ययोरन्विताभिधायित्वान्न भावनायाः केवलाया अप्रतीत्याभावो वर्णयितुं शक्यत इति भावः ॥ ३६३ ॥ New - नन्वर्थभावनायाः कथमाकारान्तरण लिङादिवाच्यत्वं कल्प्यते । क्रियारूपायास्तस्याः क्रियावाचिधातुवाच्यतैव किं न स्यादित्याशङ्कयाह- भावनादयमतोऽवबोध्यते धातुवाच्यघटितं लिङादिभिः । प्रत्ययार्थगुणवस्तुवाचिनो धातवः प्रकृतयो हि धातवः ॥ ३६४ ॥ भावनाद्वयामिति । यतः प्रकृतिप्रत्यययोरन्विताभिधायित्वनियमः ततो धात्वर्थघटितं भावनाद्वयं द्वितीयार्थभावना लित्वाकारेण लिकादिभिर्बोध्यते न तु धातुना । तत्र हेतुः प्रत्ययाथेति । धातवः प्रत्ययार्थगुणवस्तुवचिनः प्रत्ययस्य योऽर्थस्तं प्रति गुणभूतं यद्वस्तु तद्वाचिनः न तु प्रधानवाचिनः प्रत्ययार्थस्यैव प्रधानत्वादत्र हेतुमाह- प्रथमोऽध्यायः। Homen प्रकृतयो हि धातर इति । हि यतो धातवः प्रकृतयस्तत इत्यर्थः । प्रकृतेः प्रत्ययार्थगुणार्थकत्वं प्रसिद्धमित्यर्थः । अत्रेते संग्रहरलोका:- भावना प्रेरणात्मा च शाब्दी सा व्यापृतिलिङः। तस्याः फलशिरस्कायाः स्वज्ञानं करणं भवेत् ॥ तस्यास्तु भाब्यं यत्नात्मा भावनाभावकोपि लिङ् । इतिकर्तव्यमेतस्याः प्रशस्तमितिधीभवेत् ॥ तस्यास्तु वाचको लिङ्लोट्तव्यादिविधिरूपतः । अथार्थभावना कत्तु व्यापारो यत्न एव सः ॥ भावार्थः करणं तस्यां भाव्यं स्वर्गादिरिष्यते । प्रयाजादीतिकर्तव्यं कर्त्ता भावक उच्यते ॥ लिङादिस्तस्य लिङ्त्वेन वाचकः सापि नित्यवत् । धात्वर्थेनान्विता वाच्या सैव वाक्यार्थ इष्यत इति ॥ ३६५ ॥ ननु लिङादियुक्तवाक्यानां भावनापरत्वेपि न तद्विधुरवाक्यानां तत्परत्वमित्याशङ्कय भूतभव्यन्यायेन तान्यपि भावनापराएयेवेति घदत्पूर्वपक्षमुपसंहरति- भव्याय भूतमुपदिश्यत इत्यवोच- न्पूज्यास्ततः सकलमेव तु वेदशास्त्रम् । कार्यप्रधानमिति निश्चिनुमोऽस्मदीये तन्त्रे च कार्यमुदितः पुरुषप्रयनः॥ ३५॥ भव्यायेति । यतो भूतं भव्यार्थमुपदिश्यते । ततः सकलमेव तु वेदशास्त्रं भव्यप्रधानमिति निश्चिनुम इति सम्बन्धः। भव्यस्य परा- भिमतनियोगात्मत्वं निराकरोति-अस्मदीय इत्यादिना । पुरुषप्रयत्नोऽर्थ- भावनैव कार्य भव्यमिति वार्तिककारीयाणां मतेऽभिधीयत इत्यर्थः। ।

सटीके संक्षेपशारीरके- यद्यपि प्रागेवेयं शङ्का निराकृता तथापि मतभेदेन पुनरुत्थानमिति द्रष्टव्यम् ॥ ३६५॥ अत्रेदं वक्तव्यं कोऽयं शब्दभावनालक्षणः शब्दव्यापारः किं परिस्पदात्मा किं वा परिणामरूपः । नाद्यः। शब्दस्य गुणस्य तदनु- पपत्तेः । द्रव्यत्वेपि विभुतया तस्य तदनुपपत्तेः । न द्वितीयः । निरवयवस्य तस्य तदनुपपत्तेः। ननु निरवयस्य द्रव्यपरिणामानु. पपत्तावपि व्यापारपरिणामोऽनुपपन्न इति चेन्न । व्यापारस्य रूपादि- ध्वन्यतमत्वाभावेनागुणत्वात् । किं च न प्रेरणा शब्दभावना तथा हि- कस्येयं प्रेरणेति वक्तव्यम् । न तावद्वक्तुः प्ररणा वेदे तदभावात् । नापि श्रोतुस्तस्य प्रेर्यस्य प्रेरणाभावात् शब्दधर्मत्वानुपपत्तेश्च । ननु वेदे शब्दधर्म एव प्रेरणेति चेन्न । तस्याज्ञादिरूपस्य पुरुषधर्मत्वादा- शादिच्यतिरिक्तप्रेरणाऽभावाच्च । ननु लोके श्राशादय एव प्रेरणा न शब्दव्यापारः वेदे त्वपौरुषेये श्राक्षादीनामभावादन्यैव प्रेरणा वक्तव्या। अन्यथा वैदिकप्रवृत्त्यनुपपत्तेरतः शब्दव्यापार एव कश्चित्प्रवृत्त्यनु- कूलप्रेरणा वेद इति चेदेवमपि न लोकवेदयोः प्रमाणव्यापारचैरूप्य- प्रसङ्गादित्याह- । अभिधाति करोति च लिङ्पदं श्रुतिवचःसु निजामपि भावनाम् । न च करोति न वक्ति च तां पुन- नरवचाविति दुःशकमुच्यते ॥ ३६६ ॥ अभिदधातीति । तां शब्दभावनां नरवचस्सु पौरुषेयवाक्येषु लिङ्- पदमत्रानुकृष्य योजनीयं दुःशकं दुर्घटं लोकानुरोधेनैव हि वेदस्यापि सामर्थ्य कल्पनीयं लोके च न शब्दभावन न वा लिङादेस्तद्धोधकत्वं प्रथमोऽध्यायः। तत्कारकत्वं वा स्वीक्रियते । श्राज्ञादेरेव तत्र तदर्थत्वस्वीकारादतो बेदेपि सा न स्वीकर्तव्या । नचैवं प्रवृत्त्यनुपपसिस्तस्या अन्यथा- सिद्धत्वात्तस्वीकारे वा वेदस्य तद्वोधकत्वमेव न वक्तुमुचितं लोके लिडादेः स्वार्थबोधकत्वस्यैव कल्पनात् । नन्वस्तु लोकेपि लिडादेर्भा- वनवार्थः श्राज्ञादेरननुगतस्यानुगतप्रवृत्तिकारणत्वानुपपत्तेरिति चेन्न । धाक्यार्थानन्वयिनस्तस्य पदार्थत्वानुपपत्तेः। शब्दभावनायाः प्रवर्त- कत्वानुपपत्तेश्च । किं शब्दभावना हितसाधनत्वबोधमपेक्ष्य प्रवर्तयति किं वा तमनपेक्ष्य । श्राद्य स एव प्रवर्तकोऽस्तु किमनया। किं च हित- साधनत्वबोधोपि किं मानान्तरेण जायते । उत शब्देन । नाद्यः । तस्य लोके सम्भवेपि वेदेऽसम्भवात् । न द्वितीयः। स हि न तावत्पदा- न्तरेण जायते । स्वर्गकामादिपदस्य तद्बोधनसामाभावात्ततो लिङ्देनैव तद्वोधो वक्तव्य इति श्रेयः साधनत्वमेव तदर्थोस्तु । एकस्मिन्प्रयोगे एकस्य नियमेनार्थद्वयपरत्वानुपपत्तेः । ननु शब्दभावना स्वयमेव प्रवर्त्तयतीति चेन्न । राजादिवत्प्रसह्य प्रवर्त्तयतो वेदस्य पुरुषार्थपर्यवसानेनाप्रामाण्यप्रसङ्गात् । किं च स्वव्यापारस्य स्ववा- च्यत्वे स्वस्य स्वात्मनि वृत्तिप्रसङ्गः तदिदमुक्तं निजामपीति । प्रमाणानां चात्र कारकत्वमप्यन्यत्राप्यदृष्टचरं कल्पनीयमिति भावः ॥ ३१६ ॥ - मन्वस्तु लोके श्राज्ञादय एव प्रवर्तकास्तेषां प्रवृत्तौ सामर्थ्य स्यान्वयव्यतिरेकसिद्धत्वात्प्रवृत्तिवैलक्षएस्याप्यनुभवसिद्धत्वाल्लौकिक- वाक्यस्य पुरुषार्थपर्यवसाननियमाभावादाप्तस्याभाव्यत्वेन पुरुषार्थ- स्याप्यन्वयात् । नचैवं लोकवेदयोरैकार्थ्यासम्भवो दोषाय वैदिक- लिङामर्थान्तरासम्मवेन लोकविलक्षणार्थकल्पनस्थोचितत्वादित्या- शङ्कयार्थान्तरासम्भवः तावनास्ति श्रेयःसाधनत्वस्यैकस्यैव लोकसाधारणस्य सत्त्वादिति वक्तुमादौ समानकार्ये सम्भवति तरूप्यमयुक्तमित्याह- सटीके संक्षेपशारीरके- वक्तृत्वमेव घटते यदि लिङ्पदम्य सर्वत्र नार्धजरतीयमिदं प्रशस्तम् । सामर्थ्यमेकरसमेव यदोपपन्न नानारसं न खलु तत्परिकल्पनीयम् ॥३६७॥ वक्तृत्वमिति । स्वार्थबोधकत्वमित्यर्थः । एवकारेण कारकत्वं व्यावर्त्तयति । यदीति निश्चये । सर्वत्र लोकवेदयोः अर्द्धजरतीयमद्ध- कुमार्यै अर्द्धरत्य इति प्रार्थना । कारकत्वस्य क्वचिदङ्गीकारः क्वचि- दनङ्गीकार इत्येवंरूपमित्यर्थः । इदंशब्दार्थमेवाह-सामर्थ्यमिति । एक- रसमेकविषयं बोधकत्वमात्रविषयमित्यर्थः । नानारसं-नानाविषयम- त्पत्तिविषयमपीत्यर्थः । बोधकत्वमात्रसामर्थ्यन लौकिकवैदिकशब्दयोः प्रामाण्योपपत्तौ वेदे भावनां परिकल्प्य तत्र शब्दस्य कारकत्वं बोध- कत्वं चेति शक्तिद्वयं न कल्पनीयमित्यर्थः ॥ ३६७ ॥ किं तहि लोकवेदसाधारणं लिकादिवाच्यमित्याकाङ्क्षायामाह- श्रेयोहेतुत्ववाची यदि भवति तदा संभवत्येकरूपा शक्तिस्त्वस्याभिधाने न तु भवति तदा कारकोऽयं प्रवृत्तेः। श्रेयोहेतुश्च वाच्यः श्रुतिवचसि तदापौरुषेये चतुल्यः क्लप्तश्चासौन कल्प्यः श्रुतिवचसि यथा भावना लिनिवडा - ॥ ३८॥ श्रेयोहेतुत्ववाचीति । अयं लिङादिर्यदि श्रेयोहेतुत्ववाची भवति तदाऽस्य लिङादेः शक्तिरेकरूपा सम्भवतीति सम्बन्धः । शक्तविषय- माह-अभिधान इति । स्वार्थबोध इत्यर्थः । नन्वत्रैव शक्तिः किं न स्यादित्यत्राह न तु भवतीति । तदा श्रेयःसाधनत्वस्य लिङर्थत्वपक्षेऽयं प्रथमोऽध्यायः। - लिङादिः प्रवृत्तेः शब्दप्रवृत्तः शब्दभाधनायाः कारको न तु भवति नैव भवतीति: सम्बन्धः । लोकवेदयोर्धात्वर्थस्य श्रेयःसाधनतायाः लिङाद्यधीनत्वाभावान्न तस्य कारकत्वमित्यर्थः । एवं लोकवेदयोः लिडादेः शक्त्यैकरूप्यमुक्त्वा तद्विषयैकरूप्यमप्याह-श्रेयोहेतुरिति । श्रेयो हेतुत्वमित्यर्थः । इष्टसाधनत्वस्य लोकसिद्धत्वान्न शब्दभावनावदे कल्प्यत्वमपीत्याह-क्लूप्त इति । असौ श्रेयोहेतुलिनिबद्धा लिङादि- प्रतिपाद्या । श्रयं च व्यतिरेकदृष्टान्तः । तथा चेष्टसाधनत्वस्य निर्दुष्ट- त्वात्स एव पक्षोऽङ्गीकर्त्तव्यः न भावनार्थपक्ष इति भावः । यदुक्तं वाक्यार्थभूतार्थभावनायाः पुरुषार्थभाब्य स्वाद्वेदस्य प्रयोजनपर्यवसा- यित्वमिति तदनुपपन्नम् । किं भावनायाः साक्षात्स्वर्गो भाव्यः किं वा यागद्वारा। नाद्यः । अनुपपत्तेः । न हि प्रयत्नमात्रण स्वर्गो भवति । द्वितीये यागस्यैव सम्बन्धित्वमस्तु अवश्यमपेक्षितत्वान भावनाया- स्तस्य तत्सम्बन्धं विनानुपपत्यभावात् । नन्वर्थभावनात्मकस्य तस्य भाव्याकाङ्क्षस्य स्वर्ग एव भाव्यो चकन्यः अन्यस्याभावादिति चेन्न । स्वर्गकरणस्य धात्वर्थस्य समानपदोपात्तस्य कृतिसाध्यतया तद्विषयत्वोपपत्तेः । द्विविधो हि कृतिविषय एकः साक्षात्कृतिसाध्यः । यथोद्यमनादिव्यापारः । अपरः कृतिजन्यफलविशिष्टः यथा कुठारो- वृक्षादिर्वा । न च स्वर्ग उभयोरन्यतरो भवति । न च परम्परया कृतिविषयः गमिक्रियाजन्यग्रामप्राप्तिध्वंसस्य गमिक्रियाविषय- त्वानुभवाभावात्प्रकारान्तरेण यागस्य भावनान्वयानुपपत्तेश्च । न च करणत्वेनान्वयस्तजन्यस्य तत्कारणत्वानुपपत्तेः । नचौपचारिक करणत्वं करणविभक्तर्मुख्यार्थबाधायोगात्स्वर्गकरणस्यैव भावना- करणत्वाभिधाने स्वर्ग प्रत्येव यागः करणमिति न भावनां प्रति कर- णम् । किं च यजेतेत्यत्र यागस्य न भावनां प्रत्यपि करणत्वेनान्वयः सम्भवति । करणत्वोपस्थापकपदाभावात् । न च लिङादिपदेनैव तत्कारणत्वं बोध्यत इति वाच्यम् । भावनावाचकत्वानुपपत्तेः । तथा ।

सटीके संक्षेपशारीरके- चन परम्परयापि भावनायाः स्वर्गादिनिष्ठत्वम् । किं च यजेतेत्यत्र यागस्य करणवाभिधानाभावे ज्योतिष्टोमेनेति पदस्य समानार्थत्वा- भावानामत्वं न स्यात् । तस्मात् भावनावाक्यार्थपक्षे न कथमपि यागस्य पुरुषार्थसम्बन्धबोध इति तत्र प्रवृत्यभावान वेदस्य पुरुषार्थ- निष्ठतेति भावः ॥ ३६८॥ किं च सर्वत्र धात्वर्थव्यतिरिक्तार्थभावनैव नास्तीति न सा प्रत्ययार्थ इत्याह- धात्वर्थतोऽन्या न च भावनास्ति यां भावनां वक्तुमलं लकारः। धात्वर्थमुद्रिच्य न पुस्प्रयत्नो लोके यतो भाति निरूपणायाम् ॥ ३६६ ।। । धात्वर्थतोऽन्येति । न च भवनास्ति, सर्वत्रेति शेषः । कुतो नास्ती. त्याशङ्कय सर्वत्र तदनुभवाभावादित्याह~-धात्वर्थमिति । लोके सर्वत्रेत्यर्थः । यद्यपि पचति पचेदित्यादौ पाकं करोति पाक कुर्यादिति तदर्थविवरणाद्धात्वर्थादन्या भावना विद्यते । तथापि कुर्वीत यतेतेत्यादौ धात्वर्थव्यतिरिक्तार्थभावनाभावात् धात्वर्थस्यैव प्रयत्नरूपत्वादेकस्यावच्छेद्यावच्छेदकभावानुपपत्तेरर्थभावनायाः प्रकृ- त्यर्थावच्छिन्नाया न तत्र वाक्यार्थत्वमिति न सा सर्वत्र वाक्यार्थ- स्ततस्तद्वलाद् यागस्य न श्रेयः सम्बन्धसिद्धिरिति भावः ॥ ३६६ ॥ तस्मानियोगवद् भावनाया अप्यप्रमाणिकत्वान्न क्रियावाक्य- स्यापि कार्यपरत्वं कुतः सकल क्रियाशून्यवेदान्तवाक्यस्य तदर्थतेत्य- भिप्रेत्योपसंहरति- m

प्रथमोऽध्यायः ।
न कर्मकाण्डेऽपि ततो नियोगों
न भावनाऽप्युक्तनयेन तस्मिन् ।
न तव्यं वेदशिरःसु तस्मा-
त्ततो न कार्यार्थपराणि तानि ॥४००॥
।
woman
न कर्मकाण्डेपीति । नियोगस्य दुर्निरूपत्वं तच्छब्दार्थः । द्वयं भावना
नियोगश्च कर्मकाण्डे ततो नियोगो न उक्तनयेन न भावनापि
यस्मात्तस्मात्तद् द्वयं वेदशिरःसु न ततस्तानि वेदान्तवाक्यानि कार्या-
र्थपराणि नेति सम्बन्धः ॥ ४००॥
इदानीं विमतो वेदान्त; कार्यनिष्ठः वेदवाक्यत्वात् ज्योतिटो-
मादिवाक्यवदित्यनुमानस्य निषेधवाक्ये व्यभिचारात्तद्वदेव
वेदान्तानामपि सिद्ध परत्वमुपपन्नमिति वक्तुमादौ प्रतिषेधवाक्ये
तत्साधयति
अपि च प्रतिषेधचोदना-
विषयः स्यात्प्रतिषिद्धकर्मणः।
फलगधिनिवृत्तिरेव सा
न नियोगो न च तस्य गोचरः॥ ४०१॥
अपिचेति । प्रतिषेधचोदनाविषयः न हन्यात् न पिवेदि-
त्यादिनिषेधयुक्तवाक्यप्रतिपाद्यः प्रतिषिद्धकर्मणो ब्रह्महननादेः
फलगर्धिनिवृतिः फलगधिः इष्यमाणफलसाधनत्वं तस्य निवृत्ति
रभावः । हननादिगतश्रेयःसाधनत्वाभाव एव प्रतिषेधवाक्यार्थः
ननः स्वसंबध्यभावबोधकत्वात् न च सा श्रेयःसाधनवनिवृत्तिनियोगो
न वा तद्विषयः न वा भावना अतः साक्षाद्वा परम्परया वा नियोग-
विषया सेत्यर्थः ॥ ४०१ ॥

३६४
सटीक संक्षेपशारीरके-
ननु नञः स्वसम्बध्यभाव इव तदन्यतद्विरुद्धावप्यौँ प्रसिद्धौ
ततः कथमभाव एव तदर्थ इत्युच्यते तथा च भक्षणादिविरुद्ध-
संकल्पक्रियैवात्रापि नार्थ इति चेत्तत्राह-
नमः स्वसम्बन्धिपदार्थवस्तुनो
निवृत्तिरर्थः सहजः प्रसिद्धितः।
अनीक्षणादौ व्रतशब्दसंगतेः
परप्रयुक्ता खलु मानसी क्रिया ॥४०२॥
नज इति । नञः स्वसम्बन्धिवस्त्वभावः सहज औत्सर्गिको मुख्योर्थ
इत्यर्थः । तत्र हेतुः प्रसिद्धित इति । वृद्धानामभाव एव शक्त्या नशब्दप्रयो.
गादित्यर्थः। ननु नेक्षतेत्यादावीक्षणविरुद्ध 'नेक्षिष्ये' इति संकल्परूपक्रि-
यापरत्वस्यापि दर्शनाद्विपरीतापि प्रसिद्धिरस्तीत्याशङ्कयाह-अनीक्षणा-
दाविति । अनीक्षणादौ मानस क्रिया परप्रयुक्तेति सम्बन्धः । नेक्षतेत्यादी
नशब्दस्य संकल्पक्रियापरत्वमन्यप्रयुक्तमित्यर्थः । परशब्दार्थमाह-
व्रतशब्दसंगतेरिति । व्रतशब्दसमभिव्याहारादित्यर्थः । अथातः प्रजापति-
ब्रतमित्यनुष्ठेयवाचिना व्रतशब्देनोपक्रमादभावस्य चाननुष्ठेयत्वान्नक्षे.
तेत्यत्र वलवद्वाधादौत्सर्गिकमर्थं परित्यज्य लक्षणया मानसी क्रिया
बोध्यते न तु मुख्यवृत्त्या ततो नोऽभाव एव मुख्योऽथ इत्यर्थः ॥४०२॥
Mashan
-
किञ्च विधिनिषेधविभागप्रसिद्धिवलादपि निषेधवाक्यस्या-
भावमात्रनिष्ठत्वमभ्युपेय मित्याह-
अपि च प्रतिषेधचोदना
न तु भिदोत भवन्मते विधेः ।
विधिरेव तु चोदनाऽखिला
न हि वेदे वचनं निवर्त्तकम् ॥ ४०३ ॥

সুখমৗSeষায়। अपिचेति । भवन्मते निषेधवाक्यस्यापि प्रवृत्तिपरत्वमते भेदाभावे- हेतुमाह-विधिरेव त्विति हि यस्मद्वेदेऽखिलचोदनाविधिः प्रवर्तक एव न निवर्तकं निषेधनिष्ठं वचनमस्ति तत इत्यर्थः । न कलङ्गं भक्षयेदित्येवमादिवाक्यस्यापि नियोगनिष्ठत्वे निषेधनिष्ठवचना- भावाभिषेधचोदनाप्रसिद्धिः सर्वजनीना निर्विषया स्यात्ततो निषेध- वाक्यमभावमात्रनिष्ठं वक्तव्यमित्यर्थः॥४०३ । एवं निषेधवाक्यस्याभावमात्रपरत्वं वर्णयित्वा तद् दृष्टान्तेन वेदान्तवाक्यस्यापि सिद्धवस्तुमात्रनिष्ठत्वमेवेति दर्शयति- प्रतिषेधवाक्यवदतः मकलं विधिशून्यमेव फलवद्भवतु । वचनं त्रयीशिरसि तत्त्वमसि- प्रभृति प्रतीचि तमसोऽपहतेः ॥ ४०४ ॥ प्रतिषेधवाक्यवदत इति । यतो न वेदस्य कार्यपरत्वनियगोऽत इत्यर्थः । ननु निषेधवाक्यादभावमात्रबोधेपि निषिद्धप्रवृत्त्यभावा- त्तत्प्रयुक्तानर्थस्य परिहार: सम्भवति न चात्र ब्रह्मावगमने निषेध- प्रवृत्त्युपरमः संभवति तदवगमस्य प्रवर्तकेष्टसाधनत्वाभावविषय. त्वाभावानिषिद्धप्रवृत्त्युपरमे वा तस्यान्यतः सिद्धत्वेन तस्यैव तत्कल. वत्वादित्याशङ्कय सकलानर्थहेत्वविद्यानिवृत्तरत्रैव सत्त्वाद्भवतितरां तज्ज्ञानं प्रयोजनवदित्यभिप्रेत्याह प्रतीचि तमसोऽाहतेरिति । प्रत्यग्विषय तमोपहतेरित्यर्थः ॥ ४०४ ॥ एवं सर्वेषामेव नामभाव एव मुख्योर्थः तनिष्टमेव प्रतिषेध- वाक्यं न प्रवर्तकनिष्ठं तन्न्यायेन तत्त्वमादिवाक्यमपि .सिद्धमात्र- परमिन्युक्तं तत्र सर्वेषामपि नत्रामभाव एव मुख्यार्थ इत्युपश्रुत्य तदसहमानो भाट्टः प्रत्यवतिष्ठते- सटीके संक्षेपशारोरके - नामधातुसहितो नमिष्यते पर्युदासविषयो मनीषिभिः। न प्रसक्तविनिवृत्तिवाचकोs- ब्राह्मणादिषु तथोपलम्भनात् ॥ ४०५॥ नामधात्विति । मनीषिभिर्नान्ना सुबन्तेन धातुना ईक्षणादिवाचक- प्रकृत्या च सहितो नशब्दः पर्युदासविषयः स्वसंसृष्टान्यतद्विरुद्ध- विषयः न प्रसक्तविनिवृत्तिवाचकः स्वसंबध्यभाववाचको नेतीध्यत इति सम्बन्धः । तत्र हेतु:-अब्राह्मणादिष्विति । श्रादिपदेनाधर्मादिकं गृह्यते । तथोपलम्भानञः पर्युदासपरत्वोपलम्मानओ हि स्वसंसृष्टाभाव एवं मुख्योऽर्थ इति न किन्तु तदन्यद्विरोधिनावपि । नचैवं सर्वेषां सर्वत्र प्रसक्तिः नामधातुभ्यां सहितस्य नञः पर्युदासार्थ- त्वाद्विधिसंयुक्तस्य प्रसक्तनिवृत्तिमात्रवाचित्वादतो व्यवस्थासंभवा- नातिप्रसङ्गः । न च लक्षणया नञः पयुर्दासपरत्वमिति शङ्कनीयमुक्त- व्यवस्थया तस्यापि मुख्यार्थत्वादिति भावः ॥ ४०५ ॥ नो नामयोगेन पर्युदासपरत्वेऽब्राह्मणादिष्विति सूचितं दृष्टान्त प्रपञ्चयति- अब्राह्मणाधर्मगिरोनजेष नामान्वयादाश्रित पर्युदासः। अन्यं विरुद्धं च सदाऽभिधत्ते नोद्यन्तमित्यादिषु धातुयोगात् ॥ ४०६ ॥ अब्राह्मणेति । अब्राह्मणोऽधर्मइतिशब्दयोरित्यर्थः । नामान्वयाद् ब्राह्मणो धर्म इति च नामपदाभ्यामन्वयाद्वाश्रितपर्युदासः आश्रितः प्रथमोऽध्यायः। वाच्यत्वेनाङ्गीकृतः पर्युदासो येन स तथोक्तः । अब्राह्मणाधर्म- गिरोविद्यमान एष नत्र आश्रितः पर्युदासः सन्नन्यं ब्राह्मणादन्यं ब्राह्मगाभासं क्षत्रियं वा विरुद्धं धर्मविरुद्ध पापमदृष्टवाभिधत्त इति सम्बन्धः॥४०६॥ Music Pawade धातुयोगेन नत्रः पर्युदासत्व उदाहरणमाह- नोद्यन्तमित्यत्र नभेक्षणार्थ- समीपकार्यान्तरमुच्यते हि । ततश्च नेक्षिष्य इतीदृशी स्या- संकल्पना संनिहितत्त्वहेतोः ॥४०७॥ नोयन्तमिति । नेक्षतोद्यन्तमित्यादिषु नो धातुयोगादीक्षणविरुद्ध प्रतीयत इत्यर्थः । नेक्षतेत्यत्र कीदृशं बिरुद्धं नत्रा प्रतिपाद्यते तत्राह- गोद्यन्तमिति । ईक्षणार्थसमीपकार्यान्तरं ईक्षणरूपो योऽर्थः तस्य यत्स- मीपमेकाश्रयत्वेन वेक्षणाभावयरिपालनहेतुतया वा यत्सन्निहितं तादृशं यत्कार्यान्तरमीक्षणविरुद्धसंकल्पनमित्यर्थः फलितमाह-ततश्च नेतिष्य इति । यतः सन्निहितत्वतोरीक्षणविरुद्धसंकल्प क्रिया तत्र नार्थः । तत ईदृशी संकल्पना स्यादिति सम्बन्धः । ईदृक्पदार्थमेवाह नेक्षिष्य इति ॥ ४०७ ॥ इदानी नत्रो विधियोगेन निवृत्तिबोधकत्व उदाहरणमाह- द्रिजं न हन्यान्न कलञ्जमद्या- दित्यादिवाक्ये विधिनाऽस्य योगात् । प्रसज्यमानार्थनिवृत्तिमात्र नार्थ इत्याश्रितमादरेण ॥ ४०८ ॥ ।

सटीके संक्षेपशारोरके- द्विजं नेति । विषसंयुक्तवाणहतमृगमांसं कलज इत्याहुः । न सुरां पिवेदित्यादिरादिशब्दार्थः । अस्य ना इत्यर्थः । प्रसज्यमानार्थ- निवृत्तिमात्रं रागादिवशाद् प्रसज्यमानस्य प्रतीयमानस्येष्टसाधनत्वा- देरभावमात्रमित्यर्थः । तथा च नः क्वचित्क्रियापरत्वस्यापि विद्य- मानत्वान्न कृत्स्ननवाक्यदृष्टान्तेन तत्त्वमादिवाक्यस्य सिद्धपरत्व- मुचितमिति भावः ॥ ४०८ ॥ इदानीं वेदे सर्वेषामपि नां प्रकृत्यन्वयनियमात्पर्युदासः एत्रार्थ इति गुरुमतं दर्शयति- नाद्यां न हन्यां न पिबेयमित्यपि वाक्येषु नमवत्सु वदन्ति मानसीम् । संकल्परूपां विधिवन्धिनी क्रियां नोदान्तमित्यादिवचःस्विवापरे ॥४०॥ नाद्यामिति । अपरे गुरुमतानुवर्तिनः न कलझं भक्षयेत् न ब्राह्मणं हन्यात् न सुरां पिबेदित्येवमादिवाक्येषु विधिबन्धिनी विधिनियोग- स्तत्सम्बन्धिनी तद्विषयसंकल्परूपां क्रियां वदन्तीत्यर्थः । तत्र दृष्टान्तो नोद्यन्तमिति ॥ ४०६॥ ननु तत्रापि नञोऽभाव एवार्थः किं न स्यादित्याशङ्कयाह- वाक्येषु नत्रवत्सु निवृत्तिमात्रं प्रमेयमित्यभ्युपगम्यमाने । प्रत्यक्षमानेन विरुध्यते हि निवृत्तिशास्त्रं न च युज्यते तत् ॥४१०॥ वाक्येष्विति । निषेधवाक्येषु कलाभक्षणाधभाव एव यद्यर्थः प्रथमोऽध्यायः । स्यात्तदा तद्ग्राहि प्रत्यक्षमानेन निषेधशास्त्र विरुध्येत न च तद्युज्यते वेदस्याप्रामाण्यप्रसङ्गादित्यर्थः । न कलशं भक्षयेदिन्यत्र कस्य निवृ- तिना बोध्यते कि कलञ्जस्य किंवा तद्भक्षणस्य उत तत्फल रागस्य। न सर्वथापि घटते तेषां सद्भावस्य प्रत्यक्षासद्धत्वादतो निषेधवाक्यस्य प्रामाण्यसिद्धये भक्षणादिविरुद्धक्रियापरत्वमेवाङ्गो- कर्तव्यमिति भावः ॥ ४१० ॥ शबरस्वामिवचनबलादप्येवमेव वक्तव्यमित्याह- प्रवर्तकं वाक्यमुवाच चोदनां निवर्तकं नैवमुवाच भाष्यकृत् । ततश्च विद्मो न हि चोदनास्ति सा प्रवर्तिका या न भवेदिति स्थितिः॥ ४११॥ प्रवर्तकवाक्यामिति । निवर्तकं निवृत्तिजनकमेवं प्रवर्तकवाक्यवत् भा- ध्यकृच्छबरस्वामी यतो न भाष्यकार एवमाह-तत इति । फलितमाह- ततश्चेति । भाष्यकारो हि चोदनेति क्रियायाः प्रवर्तकं वचनमित्यवोचन्न तु निवर्त्तकमपीति । अतो नूनमेवं ज्ञायते या या चोदना सा सर्वापि प्रवत्तिकैव न तु निवतिकेति । तथा च निषेधचोदनाया अपि चोदना- त्मकत्वात्प्रवर्तकत्वमेवेति न तदृष्टान्तेन वेदान्तानां सिद्धपरत्वं वक्तुं युज्यत इति भावः ॥ ४११ ॥ तत्रादौ भट्टपक्षं दूषयति - न नामयोगो न च धातुयोगो लिङादियोगोऽपि न कारणं नः । नञः स्वसम्बन्धनिवृत्तिमात्रं स्वतोऽभिधेयं परतोऽन्यदस्य ॥४१२॥ ।

४०० सटीके संक्षेपशारीरक- न नामेति । कारणमर्थव्यवस्थायां प्रयोजकं स्वतः मुख्यतः परतः लक्षणयेत्यर्थः । अन्यद्भावादन्यद्विरुद्धत्वादिकमस्य नञः यदुक्तं नाम- धातुभ्यां योगे नत्रः पर्युदास एवार्थः विधियोगे तु स्वसंसृष्टाभाव इति नामादिनअर्थव्यवस्थाकारणमिति तदुक्तं व्यवस्थाकारणमेव व्यभिचारादतोऽभाव एव नो मुख्योऽर्थः । अन्यत्तु मुख्यार्थासम्भवे लाक्षणिकमिति भावः ॥ ४१२॥ व्यभिचारमेवादी लौकिकवाक्ये दर्शयति- तथा हि नाग्रे करणीतिनाना गजोऽत्र नास्तीति च धातुयोगे । लिङादियोगेऽपि निवृत्तिरों विषं न खादेदिति नम्पदस्य ॥ ४१३ ॥ तथा हीति । यथा नामादिकं न नअर्थव्यवस्थाकरणं तथेत्यर्थः । नजपदस्याग्रे पुरो देशे करिणी नेति प्रयोगे करिणीति नामपदस- म्बन्धे गजो नास्तीत्यत्रास्तिधातुयोगे विषं न भक्षयेदित्यत्र लिङा- दियोगेप्यविशेषेण निवृत्तिः करिण्याद्यभाव एवार्थो वक्तव्यः । तस्यैवानुभवादन्यस्यैवमननुभवादतो नामादिनअर्थव्यवस्थाहेतुरि- त्यर्थः॥ ४१३॥ वैदिकप्रयोगेपि तद्व्यभिचारमाह- तथा श्रुतौ नेति वचःसु नानि नानेह नास्तीति च धातुयोगे । तथाविधानेन कलञ्जमद्या नमोविशेषेण निवृनिरर्थः ।। ४१४ ॥

प्रथमोऽध्यायः। ४०१ तथेति । यथा लोके तथा श्रुतावपि नञो नामादियोगेऽप्यभाव एवार्थ इत्यर्थः। तदेव दर्शयति-नेति वचःस्विति। न कलञ्जमद्यादित्य- प्रेत्यर्थः। नेह नानास्ति किंचन स एष नेति नेत्यात्मा न कलाम- धादित्यादिवाक्येषु धातुनामलिङादिसंयुक्तस्य नोऽविशेषेण निवृ- त्तिरवार्थ इत्यर्थः ॥ ४१४ ॥ ननु सर्वत्राभाव एव नअर्थश्चेत्कुत्रापि पर्युदासस्तदर्थो न स्थानियामकाभावादतो नामादियोग एव नियामकः स्वीकर्तव्य इत्या- शङ्कय नियमकाभावोऽसिद्धः। यत्र भ्रान्तिप्राप्ते प्रतियोगिनि बुद्धि- पूर्वा बुद्धिपूर्व? भ्रान्तिपूर्व नञ्पदप्रयोगस्तत्र नमः स्वसम्बन्धिसंसर्गा- भाव एवार्थः। यत्र तु सति विषयेऽनारोपिते प्रतियोगिनि प्रतियो- गिनैक्यमनारोप्यैव भ्रान्ति विनैव तत्प्रयोगः तत्र स्वसंसृष्टान्यद्वि- रोधि वा तदर्थ इति प्रतियोगिभ्रान्त्यभ्रान्तिपूर्वकत्वयोरेव नियामकत्वा- दित्याह- औदासीन्यं पुरुषगतमेवाविशेषान्नमोऽर्थों भ्रान्तिप्राप्ते सति तु विषये यत्र यत्रैष दृष्टः । नौदासीन्यं पृथगिह भवेदात्मचिन्मात्ररूपात् सिडे वस्तुन्यवसितमतो वेदवाक्यं निषेधे॥४१५॥ श्रौदासीन्यमिति । प्रवृत्तिहेन्विष्टसाधनत्वाभाव इत्यर्थः । इदश्वाभा- घमात्रस्योपलक्षणं नार्थ इति शेषः । पुरुषगतं कथञ्चित्पुरुषसम्बन्धि । इदं चेष्टसाधनस्वाभावापेक्षया । तुशब्दः प्रसक्तप्रतिषेधापेक्षया । पर्युदासस्याभिहितं विशेषमाह-योति । यत्र सति विषये नत्र प्रयोगो दृष्टः तत्र एष पर्युदासो दृष्ट इत्यर्थः । नेक्षतेत्यादौ तथा दर्शनादिति भावः । इदं च परमतमाश्रित्योक्तम् । अस्मन्मते तु यत्र मुख्यार्थबाधकं बलवत्प्रकरणादिकं तत्रैव नत्रर्थः पर्युदासः । अन्यत्र तु मुख्य ।

सटीके संक्षेपशारीरके- meromer । ANNEONI एवेन्यर्थः। नन्वेवं सर्वेषामपि वेदान्तानां ब्रह्मपरत्वं न संभवति स्वयैव नेति नेति वाक्यस्य निषेधनिष्ठत्ववर्णनादित्याशङ्कय कल्पितप्रतियोगि- कामावस्याधिष्ठानमात्रत्यादधिष्ठानब्रह्मपरता न विरुद्ध्यत इत्याह- औदासीन्यमिति प्रपञ्चनिषेध इत्यर्थः। इह वेदान्तसमये फलितमाह- सिज इति । अवसितं पर्यवसितं यतः प्रपञ्चामाकोऽधिष्ठानात्ममात्रस्ततः सर्वमपि वेदान्तवाक्यं सिद्धे निषेधे प्रपञ्चान्ये वस्तुनि ब्रह्मण्यव सितमिन्यर्थः । नवाक्यं निषेध इव सिद्ध ब्रह्मण्यवसितमिति वा सम्बन्धः ॥ ४१५॥ यदुक्तं गुरुणा विधिसंसृष्टनामपि प्रकृत्यन्वयमङ्गीकृत्य- स्वसम्बन्धिविरुद्धक्रियापरवमिति तदप्यसत् नाने करणीत्यादावभा- ছাগলা দুমলাঘৰ নিৰীহ জনসাথী पपत्तेः । नचैवं सति तदीयभाष्यकारवजाविरोधोपि तवचनस्य निषेधचोदनान्तरोपलक्षणार्थत्वादित्याह- प्रवर्तकं वाक्यमुवाच चोदन निधाय बुद्धौ वचनं निवर्तकम् । द्वितीयसूत्रे भगवान्बहुश्रुतो न चोदनाद्वित्वनिवारणाय तत् ॥४१६॥ प्रवर्तकमिति । निषेधनिष्ठं वचनं निवर्तकचोदनेत्यभिप्रेत्यैव चोदनेति क्रियायाः प्रवर्तकं वचनमित्युपक्रमपराधीन एव न तु चोदनायाः प्रवृत्तितदभावनिष्ठत्वाकारेण द्वित्ववारणाय नमो निवृत्ति- मात्रपरत्वस्यापि लोके दृष्टत्वात्तेनापि तथैव वक्तुमुचितत्त्वादिति भावः ॥४१६॥ एवं निषेधवाक्यस्य नार्थीभूताभावमात्रनिष्ठत्वमुपश्रुत्य सदसह- मानः प्राभाकरः प्रहतोरगवत् स्वविषमाशयमाविष्कर्तुमुपक्रमते- प्रथमोऽध्यायः । ४०३ ननु निवृत्तिपरत्वमुदीरितं विघटयामि निषेधगिरामहम् । न हि कलामिति प्रतिपाद्यते यदि तदा नयनेन विरुध्यते ॥४१७॥ ननु निवृत्तीति । निवृत्तिपरत्वमभावमात्रनिष्ठत्वमित्यर्थः । ननु न कथनमात्रेण विघटनं भवतीन्याशय विघटनप्रकारमाह-न हीत्यादिना ! किं नत्रः कलापदेनान्वयः। किं वा धातुना। श्रथवा लिङादिप्रत्ययेन। अथान्येन केन चित् । तत्राद्यमनूद्य प्रत्यक्षविरोधेन दूषयति । न हीति । यदिदं भक्ष्यमाणं कलशं न भवतीति प्रतिपाद्यते । तदा तस्य कला- वावगाहिप्रत्यक्षेण तद्वचनं चिरुद्ध्येत हीति सम्बन्धः ॥ ४१७ ॥ द्वितीयपक्षमनूद्य तत्राप्येतदुषणमाह- अथ फलक्षपदार्थगभक्षणं न हि तदाप्यमुनैव विरुध्यते । अथ तदीयफलस्पृहयाऽन्वयो न हि तदप्यनुभूतिपराहतम् ॥ ४१८॥ अथेति । यदि कलापदार्थगभक्षणं-कलापदार्थगतभक्षणं नेतीति प्रतिपाद्यत तदपि नेति सम्बन्धः। तत्र हेतुमाह-नहि तदप्य- मुनैवेति । हि यतोऽमुनैव प्रत्यक्षेणैव विरुद्ध्यते तत इत्यर्थः। कलाभक्षण- स्यापि प्रत्यक्षतोनुभूयमानत्वादित्यर्थः ॥ ४१८ ॥ तृतीयेपि पक्षे प्रत्ययार्थः किमिच्छा किया नियोग उतेष्टला- অলংকালিৰি বিন্ধাকণ্ঠলায় পুখুরি सटीके संक्षेपशारीरके- अथ तदीयनियोगनिवर्तनं भवतु भक्षणमस्ति तदिच्छया। न हि नियोगनिवृत्तिनिवेदने सति कलामभक्ष्यामितीयते ॥४१॥ । - अथ तदीयेति । यदि नअर्थस्य कलाभक्षणसाध्यसुखेच्छयाऽन्वय इत्युच्येत तदपि न यतस्तदपि अनुभूतिपराहतं तजन्यसुखेच्छाऽभावे तत्र प्रवृत्त्यनुपपत्तेश्चेत्यर्थः । द्वितीयमनूद्यातिप्रसङ्गेन दूषयति- अथ तदीयेति । तदीयनियोगनिवर्त्तनं कलाभक्षणविषयनियोगस्य निवारणं मत्रा प्रतिपाद्यते । यदि कलञ्जभक्षणे विधिर्नास्तीति प्रतिपाद्यत इत्यर्थः । अस्मिन्पक्षे प्रत्यक्षविरोधाभावेपि भक्षणाभावो न सिद्ध्येदिति दूषयति-भवत्विति । कलञ्जभक्षणनियोगनिवर्तनं भव- वित्यर्थः । अस्ति स्यादित्यर्थः । तदिच्छया भक्षणेच्छया । ननु तद्विषयनियोगनिषेधे कथं तदिच्छ्या तत्र प्रवृत्तिर्भवेत्तस्यैव प्रवर्तक- त्वादिति चेत्तत्राह-न हि नियोगेति । इङ्गयते ज्ञायते न हि सर्वापि प्रवृत्तिनियोगजन्या तं विनापि भोजनादिप्रवृत्तेर्दर्शनात्तत्र फलेच्छया प्रवृत्तौ प्रकृतेऽपि तदुपपत्तः। दृष्टसुखस्यात्रापि सत्त्वादतः कलज- भक्षणस्य नायौगिकत्वनिषेधेऽपि न तद्भक्षणनिवृतिः सम्भवति म च तद्युज्यते तस्य विगीतत्वादित्यर्थः ॥ ४१६ ॥ इष्टसाधनत्वनिषेधपक्षमुपरिष्टात् दूषयिष्यनन्येन केनचिदिति पक्षमप्रसिद्धया दूषयति- इह कलापदेन नअन्वयो भवति वाऽस्य नमोऽदिसमागमः।

प्रथमोऽध्यायः। ४०५ अदिगतेन लिङदिपदेन वा सह समेति नभत्र गतिस्त्रयी ॥ ४२० ॥ रह-नकलज भक्षयेदितिवाक्ये कलापदेन नजन्ययो भवति अथवा-तस्य नमोऽदिसमागमः भक्षणवाची धातुनान्क्यः । यद्वा आदिगत्वेन लिङादिना धातुगतेन लिङादिपदेन वा स नशब्दः समेति अन्वेति। अत्र वाक्ये नअस्त्रयी त्रिप्रकारैव गतिः सम्बन्धः प्रकारान्तरेणान्यस्यान्वीयमानार्थस्यास्मिन्वाक्ये अप्रतीते- रित्यर्थः ॥ ४२०॥ तहि निषेधवाक्यस्य का गतिः गत्यन्तराभावानिवृत्तिनियोग- निष्ठतैवेत्याह- उदितपक्षपरिग्रहकारियां न च निषेधगिरामुपपादने । भवति शक्तिरतस्तु निषेधगी- रपि नियोगपराऽभ्युपगम्यताम् ॥४२१॥ सदितेति । पूर्वोक्तपक्षेष्वन्यतमपक्षस्वीकारिणामित्यर्थः । उपपाद- नेऽभाववाचकत्वोपपादने यतो न शक्तिस्तत इति सम्बन्धः । च शब्दोऽवधारणे निषेधगीरपि नियोगपरैव निवृत्तिनियोगपरैवाऽ- भ्युपगम्यतामित्यर्थः । निषेधवाक्यस्य नियोगपरत्वे चोदनात्वादिति हेतुर्षा चकारेण समुच्चीयते । अपिशब्देन प्रवत्तिचोदनावदिति दृष्टान्तः सूच्यते ॥ ४२१॥ नन्वयं नियोगः किंविषयः न तावखननादिमकन्यर्थविषयः सस्य रागादिप्रापितत्त्वानोऽनन्वयप्रसङ्गाव, नापि नअर्थविषयः तस्य ४०६ सटीक संक्षेपशारीरके- anistamine -- प्रकृतेऽऽरोपितप्रतियोगित्वेन मुख्यार्थबाधकाभावेन च पर्युदासानु. पपत्तेः। उक्तत्तयाऽभावत्वमेव वक्तव्यम् । एवं सति भक्षणपानादि निवृत्तेः सर्वस्याभावरूपतया स्वतःपरस्परवैलक्षण्याभावात् तदेकत्वे बानुबन्धभेदाभावात्तद्विषयशास्त्रभेदो नियोगभेदोऽपि न सिद्ध्येत् । तथा चाभक्षणनियोगसिद्ध्येव पाननियोगोऽपि सिद्ध्येदित्या- शङ्कयाह यथा च यागाद्यनुबन्धभेदा- द्भिन्नेषु शास्त्रेषु नियोगभेदः निवृत्तिभेदादपि तदस्य निवृत्तयोऽपि ह्यनुबन्धभूताः॥४२२॥ यथा चति । यथायागदानाद्यनुबन्धविषयस्य भेदाच्छास्त्रभेदो विधि- भेदो नियोगभेदश्च तद्वन्निवृत्तिभेदादस्य निवृत्तिनियोगस्य भेद इत्यर्थः तत्र हेतुः--निवृत्तयोऽपीति । अस्येत्यत्राप्यनुषञ्जनीयं हि यतोऽस्य निवृत्तयोऽनुबन्धभूतास्तत इत्यर्थः। साध्यानुबन्धाधिकारादिभेदैहिं शास्त्रं भिद्यते । नियोगश्च निवृत्तीनां प्रतियोगिभेदाद्भिन्नानां नियोगा- नुबन्धत्वादभक्षणादिनियोगोऽपि भिद्यत इत्यर्थः ॥ ४२२ ॥ ननु निषेधवाक्यस्य निवृत्तिनियोगमात्रनिष्ठत्वे कलञ्जभक्षणा- देस्नर्थहेतुत्वं न सिद्ध्यति। तत्र प्रमाणाभावात्तथाहि किं योनिहन सहस्त्रेण यातयादित्यादिसहस्रयातनावाक्यं ब्राह्मणहननादेरनर्थ-: हेतुत्वे प्रमाणं किंवा न हन्यादित्यादिनिषेधचोदनैव । नाद्यः । अर्थ- वादतया तस्थ स्वातन्त्र्येण प्रमितिजनकत्वायोगात् । न चायं सहस्र- यातनाविधिः । तस्याः फलतया स्वर्गादिवद्विधेयतानहत्वाद्वैवस्व. तस्य कर्मविद्धयनहत्वाच्च । ननु न हन्यादिति निषेधविधिशेषोऽयमर्थ- वादः । प्रतिष्ठावाक्यवदतो विधिशेषतयाऽनर्थहेतुत्वप्रतिपादक इति प्रथमोऽध्यायः । चेन्न-प्रतिष्ठात्रायवद्विधिसम्बन्धिफलाप्रतिपादकतया तस्य तच्छे- षत्वाभावात् । ननु तद्वाक्यार्थस्य विधिकलवाभावेपि रुद्ररोदनादि- वद्विध्यनुकूलत्वमस्त्येवेति तच्छेषतया तद्वाक्यस्यानर्थसाधनता- प्रतिपादकत्वं सम्भवतीति चेन्न-शब्दतात्पर्यागम्यम्य मानान्तर- सम्वादाभावेऽसत्त्वेन रुद्ररोदनादेरिव सहस्त्रयातनादेरप्यसत्वेन तत्प्र- तिपाद्यत्वानुपपत्तेः । श्रसता तेन निषेधनियोगस्तुत्युपपत्तश्च । वस्तुतस्तु तदाक्यं निषेधचोदना सामर्थ्य सिद्धयाननाद्यनुवादेन सहस्रादिसंख्याविधायकमेवोभयपरत्वे गौरवात् न च तत्त्वत्पक्षे सम्भवति अन्यतोऽप्राप्तेः । न द्वितीयः । निषेधचोदनायास्त्वया निवृत्तिनियोगनियोगमात्रतरत्वाङ्गीकारात्ततः प्रयोजनाभावान्नि- वृत्तिर्न स्यादित्याशङ्कय माभूत्तर्हि निषद्ध क्रियातोऽनर्थप्राप्तिः । नियोगसिद्धये नित्यप्रवृत्तिवनिवृत्त्या भवितव्यमिति निरुद्धगतिक श्राह- निवृत्तिसिड्याऽपि नियोगसिद्धिः प्रवर्त्तमानस्य न गर्तपातः। निषिद्धचेष्टा निरयस्य हेतु- नियोगतो नाध्यवसीयते हि ॥ ४२३ ॥ निवृत्तिसिद्याऽपीति । कलञ्जभक्षणनिवृत्त्यापि निवृत्तिनियोगः सिद्धय तीति तदर्थमेव निवृत्तिः साधनीया न त्वनर्थपरिहारायातो भक्षणादौ प्रवर्त्तमानस्य न गर्तयात्तः न निरयपातः । प्रमाणाभावादित्यर्थः । ननु किमिति तत्र प्रमाणाभावः । निवृत्तिनियोगादेव निषिद्धप्रवृते- रनर्थसाधनत्वसिद्धरिति चेन्नेत्याह-निषिद्धचेष्टेति । कलजमक्षणादि- प्रवृत्तिनिरयस्यानर्थस्य हेतुरिति नियोगतोऽध्यवसीयते-नहीति + सम्बन्धः । नियोगो हि स्वसिद्धयनुकूलमेव बोधयति । यथा स्ववि- सटीके संक्षेपशारीरके- षयस्य हितकरणत्वादिनिषिद्धचेष्टाया निरयसाधनत्वबोधस्य, स्वजन्यफलकरणत्वादन्यत्वेन निवृत्तिनियोगाननूकूलत्वान निवृत्ति- नियोगस्तत्साधयतीत्यर्थः ॥ ४२३ ॥ ननु निवृत्तिनियोगः स्वसिद्धये स्वविषयनिवृत्तेरनर्थपरिहार- हेतुत्वं बोधयतीति वक्तव्यं फलहेतोनियोगविषयत्वेन तस्य स्वसिद्ध्य- नुकूलत्वात्तथा च निषिद्धनिवृत्तेरनर्थपरिहारहेतुत्वान्यथानुपपत्या निषिद्धप्रवृत्तेरनर्थहेतुत्वं सिद्धयतीत्याशङ्कयाह- नियोग एवैष पुमानियुज्यते नियोगसियै तु पुनर्नियुज्यते। परत्र कर्मस्वथ वा निवृत्तिषु स्थितिः प्रसिद्धोति नियोगवादिनाम् ॥ ४२४ ॥ नियोगइति । नित्यवाक्ये हि एव नियोज्यो नियोग एव नियुज्यते । नियोगत्वाकारेण नियोगमेव कार्यतया जानाति ममेदं कार्यमिति । एवकारेण तस्य फलसाधनत्वाकारेण कार्यत्वं निराक्रियते । तदनन्तरं च स एव नियोज्यः । नियोगस्याभावार्थतया साक्षात्कृतिसाध्य. स्वाभावात्तेन तद्विषये परत्र नियोगादन्यत्र कर्मसु प्रवृत्तिषु निवृत्तिषु वा नियुज्यते। नियोगनिष्यत्यर्थ प्रवृत्ति निवृत्ति वा कार्यत्वेनावगच्छ- तीति प्राभाकराणां स्थितिः । अतो नित्यनियोगवन्निवृत्तिनियोगस्यापि नियोगत्वाकारेण कृतिसाध्यत्वसम्भवान्न निवृत्तः स्वविषयतायै अनर्थपरिहारहेतुत्वं नित्यनियोग इव स्वविषयस्य हितकारणत्वं ना वेदयति । अत एव फलाभावे कथमस्य निवृत्तिरित्यपि नाशङ्कनीयम्। निवृत्तिनियोगसिद्धेरेव नित्यनियोगवत्पुरुषार्थत्वादतो न कथमपि निषिद्धचेष्टाया अनर्थहेतुत्वं सिद्धयति तद्वोधकाभावादित्यर्थः । मचैवं लति प्रायश्चित्तादिशास्त्र व्यर्थ स्यादिति वाच्यम् । तस्य प्रथमोऽध्यायः। ४०६ लोकविगर्हापरिहारार्थ- कलञ्जभक्षणादिनैमित्तिकत्वेनाप्युपपत्तेः त्वाद्वा न तद्वैयर्थ्यमिति दृष्टव्यम् ॥ ४२४ ॥ । ननु निवृत्तेः प्रागभावरूपाया अनादिसिद्धाया नियोग विनापि सिद्धत्वात्किमर्थं तत्र पुरुषो नियुज्यते-ननु न निवृत्तिः प्रवृत्तिविरहः किंत्वन्यैव अन्यथा वैपरीत्यस्याप्यापत्तेरिति चेन्न-प्रवृत्तिविरह- व्यतिरिक्तनिवृत्तिकल्पने गौरवात् । न च वैपरीत्यं सुषुप्तौ तद्विरह. सत्त्वेन प्रवृत्तिकार्यापातात् । न च तत्र निवृत्तिविरहासिद्धिः । तत्कारणद्वेषाद्यभावेन तत्सत्त्वादित्याशङ्कयाह-- प्रवृद्धरागस्य निवृत्तयोऽस्थिरा- स्ततः स्थिरत्वाय नियुज्यते पुमान् । निवृत्तिदेशेषु नियोगबुद्धितो निवृत्तिमूर्ध्वं परिपालयिष्यति ॥ ४२५ ॥ प्रवृद्धरागस्येति । यतः प्रवृद्धः उत्कटरागो यस्य पुरुषस्य स प्रवृद्ध- रागस्तस्य अस्थिरा नश्वराः निवृत्तयो भवेयुरिति शेषः । ततः स्थिरत्वाय निवृत्तः स्थैर्याय निवृत्तिदेशेषु निवृत्तिरूपविषयेषु।निवृत्ति- भेदेष्विति पाठे तत्तन्निवृत्तिष्वयं पुमान्नियुज्यते । किमर्थमित्यत अाह-नियोगेति । अयं नियुक्तः पुमान् नियोगबुद्धितः निवृत्तिनियोग- बुद्धितः ऊर्ध्वमुत्कटरागानन्तरमपि निवृत्ति परिपालयिष्यति । कालान्तरावस्थानयोग्यां करिष्यतीति कृत्वेत्यर्थः । निवृत्तः स्वभाव- सिद्धत्वेपि भक्षणादिरागोल्वणे सति प्रवृत्त्या तद्ध्वंसप्रसक्तौ नियोग- बुद्धया तत्परिपालनार्थमेव तत्र नियुज्यत इति न नियोगवैयर्थ्य- मित्यर्थः ॥ ४२५ ॥ ननु भवत्पक्षे भावातिरिक्ताभावाभावानिवृत्तेरेवासत्त्वात्कथं सटीक संक्षेपशारोरके- निवृत्तिविषयो नियोगो निषेधवाक्येन प्रतिपाद्यते निवृत्तेरक्रिया. त्वेन कथं तद्विषयो नियोगः प्रतिपाद्यतामित्याशङ्कयाह-- अनायजग्घेश्च निवृत्तिरिया विशिष्टदन्तौष्ठनिविष्ठसंवित् । अनन्यसंसर्गिपदार्थसंवि- निवृत्तिरित्येष हि राजमार्गः ॥४२६ ॥ अनाथजग्धेश्चेति । अदनानहमनाचं कलाधभक्ष्यमिति यावत् । तस्य जग्धिर्भक्षणं तस्याः अविशिष्टदन्तोष्ठनिविष्टसंवित् अविशिष्टं परस्परासम्बद्धं निर्व्यापारं यद्दन्तोष्ठं तन्निविष्टा तद्विषयिणी या संविद्भक्षणाद्यनुकूलव्यापारशून्यदन्तोष्ठशानमेव भक्षणादिनिवृत्तिरिति द्रष्टव्यमित्यर्थः । तत्र हेतुमाह-अनन्यसंसगीति । अधिकरणव्यतिरिक्त प्रतियोग्यन्यदन्यसंसर्गी न भवतीत्यनन्यसंसर्गी स चासौ पदार्थ. स्तद्विषयसंवित्प्रतियोगिमदधिकरणातिरिक्ताधिकरणज्ञानमित्यर्थः । अतिरिक्तत्वं च भिन्नत्वं भावस्वरूपमेवेति नातिरिक्ताभाव- प्रसक्तिरित्यर्थः । प्राभाकरपक्षे प्रतियोगिमद्भिन्नाधिकरणज्ञानस्यैवा- भावत्वात्केवलदन्तोष्टज्ञानमेव भक्षणादिनिवृत्तिः तत्प्रवाहपरिपालनाय च तदनुकूलव्यापारे पुरुषो नियुज्यत इति निवृत्तिनियोगो निषेध- वाक्येन प्रतिपाद्यत इत्यर्थः ॥ ४२६ ॥ AN ननु लशुनभक्षणादिगतश्रेयःसाधनत्वमेव लिङ्वाच्यं भवतीति तदभावमेव नञ् बोधयतीत्याशङ्कय पूर्वोक्तदूषणपरौ श्लोको- ननु समीहितसाधनता लिङो लशुनगृञ्जनभक्षणसंश्रया।

प्रथमोऽध्यायः। । भवति वाच्यतयाऽभिमताऽस्य नो नञपि तदिनिवृत्तिनिवेदकः ॥४२७॥ तदसदिष्टफलोद्भवदर्शना- ल्लशुनगृञ्जनपर्युषिताशनात् । नहि निषिद्धपदार्थनिमित्तकः सुखलवः पुरुषस्य न विद्यते ॥४२८॥ नन्वित्यारभ्य न विद्यत इत्यन्तौ स्पष्टार्थो । गृञ्जनं रक्तमूलविशेषः सुखलवस्तादात्विकं सुखं तस्मात्सर्वमपि निषेधवाक्यं निवृत्तियोग- निष्ठमेवेति भावः ॥ ४२७ ॥ ४२८ ॥ एवं पूर्वपक्षिते यदुक्तं प्राभाकरेण नत्र इष्टसाधनत्वेनान्वयेपि प्रत्यक्षविरोध इति तद् दूषयति- अदृष्टदोषं परिहृत्य शंसतः कलञ्जमास्वाद्य सुखित्वमात्मनः । पुमानवोधोपहतः समीहते तदीहिताभावपरा निषेधगीः ॥४२६॥ श्रदृष्टदोषमिति । निषेधगीनशब्दः कलञ्जमाखाद्य भक्षयित्वा श्रात्मनः स्वस्यादृष्टदोषं परिहृत्य पारलौकिकं दुःखं परिहृत्य वर्ज यित्वा सुखित्वं शंसतः कथयतः कलअभक्षणादिना बलवदनिष्टा- ननुवन्धीष्टं मे भवत्विति कथयत इत्यर्थः । ईहिताभावपरा ईहित- मिच्छाविषयो बलदनिष्ठाननुबन्धीष्टसाधनत्वमिति यावत् तदभाव- परेत्यर्थः । न कलशं भक्षयेदिति नत्रा कलञ्जभक्षणादेः बलवदनिष्ठा. ननुबन्धीष्टसाधनत्वमेव निषिद्धयते नेष्टसाधनत्वमात्रम् । नचैवं ४१२ सटीके संक्षेपशारोरके- सति प्रत्यक्षविरोधः तादृशेष्टसाधनत्वस्य प्रत्यक्षविषयत्वात् । नचैवं तहि कथमप्रसक्तं निषिध्यत इति वाच्यम् । प्रसक्तिपूर्वमेव निषेधात् । न च तत्र मानाभावः । तद्वयवहारस्यैव मानत्वात्तदिदमुक्तमदृष्टदोषं परिहत्य सुखित्वमात्मनः शंसत इति । नन्वेवं तत्कथनं परस्यैव एतत्प्रसक्तो मानमस्य तु सा प्रसक्तिः केनेति वाच्यं-प्रत्यक्षाति- रिक्तमानान्तरेणेति चेन्न-प्रमाणतः प्रसक्तस्य प्रतिषेधानुपपत्ते- रित्याशङ्कयाह-पुमानिति । यत एवं पुमानबोधोपहतः कलञ्जभक्षण- गतेष्टसाधनत्वस्य ज्ञानेन बलवदनिष्टानुबन्धित्वापरिज्ञानेनोपहतः सन् समीहते । कलञ्जभक्षणादिना तादृशं सुखं वाञ्छति तत्तस्मादित्यर्थः । तथा च तत्प्रसक्तभ्रान्तित्वान्न तनिषेधानुपपत्तिरिति भावः ॥ ४२६ ॥ पूर्वश्लोकोक्तमदृष्टदोषमेव विशदयति- नरकपातविवजनर्वर्त्मना भवतु विप्रवधात्परमार्थतः । मम सुखित्वमितीच्छति यत्पुमा- न तदितीह निषेधगिरोच्यते ॥४३०॥ नरकपातेति । नरकपातं विनेत्यर्थः । परमार्थतो वस्तुत इह न हन्यादित्यादिवाक्ये ब्रह्महननादिना नरकपातं विनैव मम सुखित्वं भवन्विति यद्ब्रह्महननादेर्बलवदनिष्टाननुबन्धीष्टसाधनत्वमिच्छति त- द्धननादेस्तादृशेष्टसाधनत्वं परमार्थतः नसा निषिध्यत इत्यर्थः ॥४३०॥ परमार्थत इत्येतत् विवृण्वनिषेधप्रकारमेवाह प्रमाणत इत्या- दिना सार्द्धश्लोकेन- प्रमाणतो नास्ति निषिडकर्मणः फलस्पृहाऽदृष्टभयं विना तव ।

प्रथमोऽध्यायः । ४१३ भ्रमादबोधप्रभवात्प्रवर्त्तसे न तात मानेन फलस्पृहाऽत्र ते ॥४३१॥ इति श्रुतिः शास्ति निषिद्धकर्मणि प्रवृत्तिमन्तं पुरुषं नमन्विता । नचायमर्थोपहृतः प्रमान्तरैः न हि प्रमाणैरपरैर्विरुध्यते ॥ ४३२॥ प्रमाणात इति निषिद्धकर्मणि प्रवृत्तिमन्तं पुरुषं प्रति नत्र- न्विताश्रुतिनिषेधवाक्यं तब निषिद्धकर्मणः. कलअभक्षणादेः फल- स्पृहा फलसाधनत्वं प्रमाणतो न प्रमाणविषयो भवतीति शास्तीति सम्बन्धः । नन्विदं श्रेयःसाधनं कलअभक्षणादित्वात्पूर्वमनुभूततद्भ- क्षणादिवदित्यनुमानविषयत्वात्कथं तस्य प्रामाणिकत्वं निषिद्धयते तत्राह-अदृष्टभयं विनेति । नरकदुःखं विना यद्यपि कलञ्जभक्षणस्य फलसाधनत्वं प्रमाणतोऽनुभूयते । तथापि तस्य बलवदनिष्ठाननुब- न्धीष्टसाधनत्वं न प्रमाणतोऽनुभूयत इति तनिषेधुं शक्यत इत्यर्थः । ननु बलवदनिष्ठाननुबन्धीष्टसाधनत्वप्रमितेः प्रवर्तकत्वादत्रापि सास्तीति वक्तव्यमन्यथा प्रवृत्त्यनुपपत्तेरिति चेन-यथार्थप्रवृत्ती हि तादृशी कारणमयथार्थप्रवृत्तौ तद्भान्तिरेव हेतुः। सा चात्राप्य- स्तीत्याह-भ्रमादबोधप्रभवादिति । नन्वियमपि प्रवृत्तियथार्था किं न स्यात्त- पाह-न तात मानेनेति । अत्र कलञ्जभक्षणादौ फलस्पृहा विवक्षितफल- साधनत्वं न मानेन विषयीक्रियते न विद्यत इत्यर्थः । कलाभक्ष- णादेहि तत्र तत्र श्रुतौ स्मृतौ च नरकहेतुत्वमवगम्यते । अतोऽस्य बलवद् दुःखाननुबन्धीष्टसाधनत्वाभावान्न तत्साधनत्वमस्येति यतोऽतो ऽबोधप्रभवात्तस्य बलवदनिष्ठननुबन्धीष्टसाधनत्वभ्रमात्प्रवर्तसे ततो- -- ४१४ सटीके संक्षेपशारीरके- - ऽस्य प्रामाणिकत्वनिषेधो युज्यत इत्यर्थः । यद्यपि निषेधवाक्यं कलञ्जभक्षणादिबलवदनिष्टाननुबन्धीष्टसाधनं न भवतीत्येव निषेधति न तु तत्प्रामाणिकत्वमपि तस्य प्रत्ययेनानुपस्थितत्त्वात्तथापि श्रुति- निषेधार्थसिद्धानुवादोयमिति द्रष्टव्यम् । ननु बलवदनिष्टाननुबन्धी- टसाधनत्वाभावो नअर्थोन भवति लाघवात्तद्विशेषणीभूतेच्छाभावस्यैव नार्थत्वेन तत्सिद्धौ विशिष्टाभावस्थार्थसिद्धत्वादितिचेत्तत्राह-न चेति । अयं वर्णितेष्टसाधनत्वाभावोऽर्थोपहतः अर्थात् विशेषणीभूतेच्छाभावा नुपपत्योपहृतः श्रानीतः सिद्धः प्रमान्तरैरिच्छाभावविषयज्ञानान्तरैः । अथवा अर्थः अपहत इतिच्छेदः। अर्थो वर्णितेष्टसाधनत्वाभावरूपोऽर्थः अपहतो बाधितः नार्थत्वेनेति शेषः । प्रमान्तरैरर्थापत्त्यादिनमा- णान्तरः प्रमाणान्तरसिद्धत्वे हास्य नअर्थता न स्यात्तदेव नास्तीत्यर्थः । यदीच्छाभावो नजों भवेत्तदा तद्विशिष्टसाधनत्वाभावोऽर्थसिद्धो. भवेत् न त्वेदस्ति केवलायाः प्रार्थनायाः प्रत्ययार्थत्वाभावेनानुप- स्थिततया नञर्थस्य तयान्वयाभावात् । ननु प्रार्थनापि प्रत्ययार्थ- विशेषणतया प्रत्ययेनोपस्थितेति चेत्र-तथापि तस्या विशेषणत्वे- नोपसर्जनतया नअस्तदन्वयानुपपत्तेः । ननु निषेधवाक्ये इच्छैव लिङर्थ इति चेन्न -- अन्यत्रेष्टसाधनत्वस्यैव लिङर्थत्वात्तस्यैवात्राप्य. नुवादाहत्वात्प्रयोगभेदेन चार्थभेदकल्पनायां वाक्यार्थाव्यवस्थाप्रस- ङ्गात् । ननु पञ्चपादिकायां सनन्दनाचार्यैः प्रतिपाद्यधर्मः प्रतिषिध्य- मानक्रियाफलः प्रार्थनाप्रतिषेधवाक्ये लिङाद्यर्थस्तेन तदभावः प्रति- षेधार्थ इति प्रतिपाद्योऽधिकारी तद्धर्मः प्रार्थनेच्छानिषेधवाक्ये लिङर्थस्तदभावश्च नार्थ इत्युक्तमिति चेन्न । तत्रापि प्रतिपाद्य धर्मोनुष्ठेयधात्वर्थधर्मः प्रतिषिध्यमानक्रियाफलो निवर्त्यमानक्रिया- फलः प्रार्थ्यत इति प्रार्थना फल साधनत्वमित्यर्थ इति तद्व्याख्या- तृभिस्तद्ग्रन्थस्य व्याख्यातत्त्वात्तस्मादिष्टसाधनत्वैनैव प्रत्ययोपस्था- पितेन नोऽन्वयातदभाव एव नार्थ इत्यर्थः । अस्मिन्पक्षे न पूर्वोक्त-

प्रथमोऽध्यायः ।
प्रत्यक्षविरोधोप्यस्तीत्याह-न हि प्रमाणैरिति । बलवदनिष्ठाननुबन्धीष्ट-
साधनत्वांशस्य प्रत्यक्षाद्यगोचरत्वादतो नवाक्यमभावमात्रनिष्ठ-
मित्यर्थः॥ ४३१ ॥ ४३२॥
ननु विध्यन्वितनवाक्यस्य नियोगपरत्वे तूदाहरणमस्ति ।
न निषेधपरत्वे तूदाहरणमित्याशङ्कयोदाहरणमाह-
भुजङ्गभोगं सुकुमारशीतलं
निदाघसंतापनिवृत्तये शिशुम् ।
भ्रमादुपादित्सुमुदीक्ष्य कातरा
निवर्तयेत्तजननी यथा तथा ॥४३३॥
भ्रमादनर्थस्य निदानमादरा-
त्कृतार्थतायै लशुनादिभक्षणम् ।
नन्विता वैदिकचोदनाप्यसौ
विधिसुमालक्ष्य निवर्तयिष्यति ॥४॥४॥
mina
भुजंगभोगमिति । सुकुमारशब्दो मृदुपर्यायः । दान्तिकमाह-
तथेत्यादिना । कृतार्थतायै कृतः प्राप्तो बलवदनिष्टाननुबन्धी सुखलक्षणो
ऽर्थो येन तस्य
भावस्तत्ता तदर्थ तादृशसुखप्राप्तय इत्यर्थः ।
विधित्सुं चिकीर्षु यथा लोके मालादिबुद्धया सर्पमुपादित्सुं स्वशि-
शुनिरीक्ष्य जननी सर्पोपादानेन पुत्रस्य महाननर्थः स्यादिति बुद्धया
मैनं गृहाण वत्स सर्पोऽयमनर्थकारीति निवृत्तिमात्रमभिप्रेत्याह
यथा वा तं हस्तेन वारयति न किञ्चिन्कारयति तथा श्रुतिरपि केवलं
निषेधतीत्यर्थः ॥ ४३३ ॥ ४३४॥

सटीके संक्षेपशारीरक-
एवं स्वमतेन नओ विध्यन्वयेन प्रसक्तप्रतिषेधपरन्वमुपपाद्य
पराभितनियोगनिष्ठत्वमपि दूषयति-
क्रियानुप्रवेशं विना प्रागभावः
प्रसक्तक्रियाया न निर्वोदुमीशः ।
गुणद्रव्यवन्नित्यनिष्पन्नभावा-
त्पदत्वं नियोगस्य भावार्थबद्धः ॥४३॥
।
क्रियानुप्रवेशं विनेति । निवृत्तिप्रयोगविषयः प्रवृत्तिप्रागभाव एवं स
चाक्रियात्वान्न भावार्थवत् स्वतो नियोगविषय भावार्थविषयत्वा-
तस्य । नन्वक्रियात्वेपि दद्धयादिद्रव्यवदारुण्यादिगुणवञ्च नियोग-
विषयत्व किं न स्यादिति चेन्न । दद्यादेरक्रियात्वेपि क्रियोपरत-
न्वाकारण तद्विषयत्वं तस्य क्रियासाधनत्वात् । न च प्रागभावस्या-
क्रियासाधनस्य क्रियानुप्रवेशोऽस्ति । ततो निन्यनिष्पन्नभावान्नियोगं
विनापि सिद्धत्वाद्दध्यादिवत् क्रियानुप्रवेशाभावाञ्च प्रसक्तिक्रियायाः
प्रवृत्तेः प्रागभावो नियोगस्य पदत्वं विषयत्वं निर्वोढुं स्वस्मिन्स-
म्पादयितुं नेशो न समर्थः । नित्यनिष्पन्नत्यनेन भावार्थवैलक्षण्यमुक्तं
क्रियानुप्रवेशेत्यनेन दध्यादिवैषम्यमिति द्रष्टव्यम् ॥ ४३५ ॥
ननु नवाक्यस्य परिपाल्यमाननिवृत्तिनियोगनिष्ठतया तदनु.
कूलपरिपालनात्मकभावार्थोपि प्रतीयत एवेति तस्य नियोगविषयत्वं
दध्यादिवत्संभवतीत्याशङ्कयाह-
न पाल्यत्वयोगादलंभूष्णुभावो
यतः पालनं श्रूयते नात्र वाक्ये ।
न खल्वश्रुतं गृह्यते न्यायहाना-
द्यथा न श्रुतं त्यज्यते तद्भयेन ॥४३६ ॥

प्रथमोऽध्यायः न पाल्यत्वयोगादिति । परिपालनक्रियासम्बन्धादित्यर्थः । अलंभूष्णु भाव-श्रलंभूष्णुता नियोगविषयता समर्थत्वमिति यावत् । निवृत्तेरिति शेषः । ननु पालनक्रियासम्बन्धे कथं न नियोगविषयत्वसामर्थ्य मित्याशङ्कय तत्सम्बन्धाभावादेव तदसामर्थ्य मिति विवक्षन् तत्सम्ब- न्धाभावे हेतुमाह-यत इति । अत्र वाक्ये न कलशं भक्षयेदित्यादिवाक्ये पालनस्यापदार्थत्वादवाक्यार्थत्वाचेत्यर्थः । यतः पालनं न श्रूयते ततः प्रमाणाभावेन तदभावात्पाल्यत्वयोगादपि निवृत्तेरलंभूष्णुभावो नेति सम्बन्धः । नन्वश्रूयमाणत्वेपि लक्षणया तत्परत्वं नत्र उपवर्णयितुं शक्यत इत्याशङ्कयाह-खल्वश्रुतं गृह्यत इति । यथाश्रुतहानिप्रसङ्गादिति न्यायभयेन श्रुतं न त्यज्यते तथाऽश्रुतमपि न गृह्यते। श्रुतोपपत्ताव श्रुतकल्पना न न्याय्येति न्यायविरोधादित्यर्थः ॥ ४३६ ॥ निषेधवाक्यस्य निवृत्तिनियोगनिष्ठत्वेऽश्रुतकल्पनावच्छुतहा- निरपि स्थादित्याह- उदासीनता च श्रुता नपदार्थो नियोगे सति त्याज्यतां याति सदाः । अतद्योग्यभावादयोग्यः पदार्थो न वाक्यार्थभागिष्यते जैमिनीयैः ॥ ४३७ ।। उदासीनतेति । उदासीनता औदासीन्यं प्रवृत्त्यभावः । तत्प्रयोज- केटसाधनत्वाभाव इति यावत् । नाग्रे करिणीत्यादौ नमः स्वसंसृष्टा- भावबोधित्वादत्रापि प्रत्ययार्थीभूतेष्टसाधनत्वाभाव श्रूयते । स च नियोगे सति अनुष्ठेयार्थविषयनियोगे प्रतिपाद्ये सति त्याज्यतां याति परित्यक्तो भवति । कुतो ऽतद्योग्यभावात्तद्योग्यत्वस्य नियोगविषयतायोग्यत्वस्याभावादित्यर्थः । नन्वतद्योग्यत्वेपि तस्य नियोज्यवनियोगेनान्वयस्तत्राह-अयोग्यः पदार्थ इति । वाक्यार्थों नत्रा स्यवाभावात्तस्य साध्यतया नियोगविषयत्वयोग्यत्वान्न तत्याग इति ४१८ सटीके संक्षेपशारीरके- नियोगः तद्भाक् तदन्वयीत्यर्थः । नियोज्यातिरिक्तस्य विषयस्यैव तैनियोगान्वयाङ्गीकारादिति भावः । नचास्मत्पक्षे केवलाधिकरणज्ञान- वाच्यम् । केवलाधिकरणज्ञानस्य नियोगं विनापि सिद्धतया तद्विषय- स्वायोग्यत्वादधिकरणज्ञानस्याभावत्वाप्रसिद्धश्चेति भावः ॥ ४३७ ॥ किञ्च निषिद्धक्रियायाः प्रत्यवायहेतुत्वसिद्ध्यर्थमस्मदुक्तमेव नत्र- वाच्यम् । न च निषिद्धक्रियायाः प्रत्यवायहेतुत्वमेव नास्तीति शङ्कयम् । नास्तिकतापातात् । न च तत्र प्रमाणाभावो ऽविगीतवृद्ध- प्रसिद्धरेव तत्र प्रमाणत्वादिति तावदाह- - निषिडक्रिया प्रत्यवायाय नेति स्वकौँ जनः प्रोणुते पापभीरुः । समाकर्ण्य दुर्भाषितं पार्श्ववर्ती न पापाचरं किञ्चिदेतादृगन्यत्॥४३८॥ निषिद्धक्रियेति । पापभीरुर्जनो निषिद्धानुष्ठानात्प्रत्यवायो नास्तीति दुर्भाषितं दुर्भाषणमाकण्यतादृक्पापाक्षरं पापजनकमतोऽन्यत्किञ्चि- नास्तीति कराभ्यां स्वकी प्रोणुते पिधत्त इति सम्बन्धः । ननु वृद्ध प्रसिद्धः प्रत्यक्षाद्यन्यतमत्वाभावात्कथं तया वस्तुसिद्धिरिति चेन्न-- स्मृतिश्रुतिमूलवत्तया तस्याः प्रमाणत्वादिति भावः ॥ ४३८ ॥ सुखदुःखवैचित्र्यान्यथानुपपत्तिरपि निषिद्ध क्रियायाः पापहेतुन्वे प्रमाणमित्यभिप्रेत्याह- निषिद्धक्रिया प्रत्यवायाय नो चे- नदा दुःखमाकस्मिकं सर्वपुंसाम् ।

1 प्रथमोऽध्यायः । ४१६ सुखं पुण्यमूलं यथा सर्वपुंसां तथा दुःखमप्यस्तु वः पापमूलम् ॥ ४३६ ॥ निषिद्धक्रिया प्रत्यवायाय नो चेदिति । आकस्मिकमहेतुकं स्यादिति शेषः । लोके हि दृष्टहेतुसाम्येपि कस्य चित्सुखं कस्यचिद् दुःखमिति वैचित्र्यं दृश्यते । तच्चासाधारणकारणवैचित्र्यं विनानुपपन्नम् । अन्यथा निर्हेतु- कत्वापाताकारणं चासाधारणं सुखस्य पुण्यमिव दुःखस्य पापादृष्ट- मेव । पापे च यदि निषिद्धक्रिया न कारणं तदा पापाभावात् दुःखं न स्यात्तस्माद्दुःखान्यथानुपपत्तिरपि तत्र प्रमाणमित्यर्थः । ननु दुःखे पाप- व्यतिरेकेणान्यदेव किञ्चिद्व्याध्यादिकं कारणमस्तु तत्राह पाप- मूलमिति च बहुव्रीहिः । पापयतिरेकेण श्रुतौ स्मृतौ च दुःखहेत्व- प्रसिद्धाध्यादेरपि तन्मूलकत्वात्पापमेव तन्मूलमित्यर्थः ॥ ४३६ ॥ ननु दुःखं पापहेतुकं भवतु पापं तु निषिद्धक्रियाहेतुकं मा भूत् न चैवं पापस्याकस्मिकत्वं विहिताकरणादेव तदुपपत्तरित्याङ्कयाह- निषिडक्रियां चोदितस्याक्रियां वा विना नास्ति पापस्य निष्पत्तिहेतुः । ततस्तद्वयं पापनिष्पादकत्वा- द्भवेत्प्रत्यवायस्य नित्यं निदानम् ॥४४०॥ निषिद्धेति । चोदितस्य विहितस्याक्रियाऽकरणम्, एतच्च दृष्टान्ता- र्थम् विनिगमनाभावाद्विहिताकरणवन्निषिद्धकरणस्यापि पापहेतुत्व- मित्यर्थः । ननु विहिताकरणस्य पापहेतुतायाः सर्वसम्प्रतिपन्नत्वात् तत एव दुःखजन्मोपपत्तेः किं निषद्धकरणस्यापि तत्कल्पनयेत्या. शङ्कय न वयं कल्पयामः किन्तु कपूयचरणाः कपूयां योनिमापद्यन्त प्रतित्यतिन्या-तत ति निषिद्धक्रिया । VISOSAT ४२० सटीके संक्षेपशारीरके- कपूयः । तस्य दुःखहेतुत्वं श्रूयते । ततः पापनिष्पादकात्पापशब्देन दुःख- मुच्यते । दुःखोत्पादकत्वाद्विहिताकरणवत्प्रत्यवायस्य नित्यं निमित्त- मित्यर्थः ॥ ४४०॥ ननु कपूयचरणा इत्यादिश्रुतेः निषिद्धाचरणनिन्दाद्वारा रमणी- यचरणप्रशंसापरत्वादर्थवादव्यतिरिक्तप्रमाणान्तरस्याभावाद्विहिताक- रणमेव प्रत्यवायकारणमित्याशङ्कय भवन्मते विहिताकरणस्य पाप- हेतुत्वमेव नास्तीत्याह- निषिडक्रिया दुःखनिष्पत्तिहेतु- र्भवेल्लक्षणं चोदितस्याक्रियाऽस्य । अभावान्न भावस्य निष्पत्तिरिष्टा भवेल्लक्षणं ज्ञायमानस्त्वभावः॥४४१॥ वाऽकरण- निषिद्धक्रियेति । चोदितस्याक्रियाऽकरणमस्य प्रत्यवायस्य लक्षणं ज्ञापकं न तु निष्पादकमित्यर्थः । तत्र हेतुः-अभावादिति । यतोऽभावा. द्भावोत्पत्तिर्मीमांसकैर्नेष्यते । विशेषतश्च प्राभाकरण त्वया नित्या- करणस्य प्रत्यवायहेतुत्वमङ्गीकर्तुमशक्यं तथा सति नित्यानामपि प्रत्यवायनिवृतिफलत्वप्रसङ्गानिवृत्तेस्तुच्छत्वेनाफलत्वे स्थापि तत्त्वेनाहेतुत्वात्तथा च निषिद्ध क्रियैव पापहेतुर्वक्तव्या । नित्याकरणन्तु तत्कालानुष्टिताविहितक्रियान्तरेण तदङ्गीकारेण वि- विगीतेन प्रत्यवायो भविष्यतीति ज्ञापयतीति भावः। तदुक्तं "स्वकाले यदकुर्वन्नकरोत्यदन्यदचेतनः? । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यत" इति । ननु कथं तर्हि लक्षणमपि भवेत्तत्राह-ज्ञायमानस्त्वभाव इति । नित्याकरणस्याभावत्वेपि ज्ञायमानतया ज्ञापकत्वं न विरुद्ध्यते । कारणत्वे हि तस्य सत्वमपेशते । RITA रातोति मानि।

प्रथमोऽध्यायः। अविद्यमानस्यापि धूमस्य स्मर्यमाणस्य वह्रिज्ञापकत्वात्सर्वस्य वस्तुनो विनाशादूर्ध्वमसत्वाञ्चेत्यर्थः ॥ ४४१ ॥ ननु निषिद्धकरणस्य प्रत्यवायहेतुत्वे प्रमाणाभाव इति चेन्न । उक्तश्रुतेरेव मानत्वात् । नचार्थवादतया तस्या श्रमानत्वम् । अस्मन्मते प्रमाणान्तराविरुद्धेऽर्थवादस्य प्रामाण्याङ्गीकारात् । नचार्थवादस्य स्वातन्त्र्यानुपपत्तिः निषेधविध्यनुपपत्तिपरिगृहीतत्वाद्विध्यनुपपत्तेरपि विधित्वादित्यभिप्रेत्याह-- निवृत्तिनिष्ठे तु निषेधवाक्ये निषिद्धकर्माचरणादनर्थः। प्रतीयतेऽर्थादिति तत्र युक्तं दुःखं नृणां दुश्चरितैकमूलम् ॥४४२।। - निवृत्तिनिष्ठे स्विति । तु शब्दो नियोगपक्षादस्य वक्ष्यमाणं विशेषमाह- अनर्थः स्यादिति शेषः । अर्थादनुपपत्या तत्र निषेधवाक्यस्याभाव- परत्वपक्षे दुश्चरितैकमूलं निषिद्धकमैकजन्यं न तु नित्याकरणजन्य- मित्यर्थः । निषेधवाक्येन कलञ्जभक्षणादेः सुखसाधनस्य बलवद- निष्टाननुबन्धीष्टसाधनन्वे निषिद्ध विशिप्ये सति विशिष्टाभावस्य विशेषणाभावं विनानुपपत्तेः। विशेषणस्य बलवदनिष्टाननुबन्धित्व- स्याभावो बलवदनिष्टानुबन्धित्वं कलञ्जभक्षणादेः सिध्यति । तच्च प्रत्यवायहेतुत्वं विना तस्य न भवतीति भावः । प्रायश्चित्तविध्य- नुपपत्तिश्च निषिद्धक्रियायाः पापहेतुत्वे प्रमाणम् । न च नैमित्तिकं तत्प्रत्यवायनिवृत्तिफलश्रवणान्मरणान्तप्रयश्चितानुपपत्तेश्चेति द्रष्ट- व्यम् ॥ ४४२ ॥ ज् लिलाटनियोगपरत्ववादिमतेन निषेधवाक्यस्य निवृत्ति- ४२२ सटीके संक्षेपशारीरके- नियोगनिष्ठत्वं दूषितं संप्रतीष्टसाधनत्वं लिङर्थः नञः पयुर्दासा- श्रयणेनानिष्टसाधनत्वं निषेधवाक्यार्थ इति मतं प्रसङ्गाद् दूषयति- audities समीहितोपायतया लिङन्वया- प्रतीयमानस्य तु भक्षणादिनः । न पर्युदासाश्रयणेन नपदा- दनिष्टहेतुत्वमतिर्भविष्यति ॥४४३॥ समीहितोपायतयेति । लिङन्वयात्समीहितोपायतया प्रतीयमानस्य भक्षणादिन. कलञ्जभक्षणहननादेः तुशब्दोऽवधारणे हननादेस्तु पर्युदासवृत्त्या नञ्पदादनिष्टहेतुत्वमति व भविष्यतीति सम्बन्धः । अभावस्यैव नञो मुख्यार्थत्वादित्यर्थः ॥ ४४३॥ ननु कोऽयं निर्बन्धोऽभाव एव नअर्थ इत्यन्यत्रापि प्रयोगदर्शना- दित्याशङ्कय तदेवोपपादयति- तथा हि सम्बन्ध्युपमर्दबुद्धये समर्थमुत्सर्गमपेक्ष्य नञ्पदम् । न पर्युदासाय विनाऽपवादकं ततो निवृत्त्यर्थपरं तदिष्यते ॥ ४४४ ॥ तथा हीति । यथा नोऽभाव एवार्थः तथा नञ्पदमुत्सर्गमपेक्ष्यो. त्सर्गतः स्वसम्बन्ध्युपमर्दस्याभावस्य बुद्धये समर्थ तथैवावगीतप्रयो- गप्रत्यययोर्दर्शनादन्यथानेकार्थत्वप्रसङ्गाञ्चेत्यर्थः । नन्वस्त्वभाव एव नञो मुख्योऽर्थो लक्षणयानिष्टसाधनत्वपरः किं न स्यात् न हि लोके लाक्षणिकोऽर्थो नास्ति तत्राह-न पर्युदासायेति । अण्वादकं विना पर्य:

प्रथमोऽध्यायः । mania दासाय न समर्थमिति सम्बन्धः । तच्चात्र नास्ति । यतस्ततो नश्पदम- भावमात्रपर मेवेष्यतामित्यर्थः। तन्नपदम् ॥ ४४४ ॥ नन्वनिष्टसाधनताज्ञानस्य लोके निवर्तकत्वदर्शनादत्रापि तद् वक्तव्यम् । न च तल्लक्षणां विनापि सिध्यतीत्युत्सर्गस्यापवादसत्वा- त्पर्युदासनिष्ठत्वमेव नञ इत्याशङ्कयाह- अतः प्रसज्यप्रतिषेधसंभवा- न्न पर्युदासाश्रयणं प्रशस्यते । न पर्युदासाश्रयणं विना भवे- दनिष्टहेतुत्वनमर्थकल्पना ॥ ४४५ ।। अतः प्रसज्येति । अतः शब्दार्थमाह-प्रसज्यप्रतिषेधेति । प्रसक्तप्रतियो- गिकनिषेधस्याभावस्य संभवादित्यर्थः । यज्ज्ञानं प्रवर्तकं तदभाव- ज्ञानमेव निवर्तकं प्रवर्तकज्ञानं चेष्टसाधनत्वविषयमिति तदभावज्ञानमेव निवृत्तौ कारणं न त्वनिष्टसाधनताज्ञानं निवर्तकमिति न पयुदास. बीजमस्तीति भावः । ननु माभूत्पर्युदासाश्रयणं का क्षतिरित्या- शङ्कयानिष्टसाधनन्वम्य नञर्थत्वमेवाक्षतमित्याह-न पर्युदासाश्रयणमिति । अनिष्टहेतुत्वनमर्थकल्पनानिष्टहेतुत्वस्य नार्थत्वकल्पनेत्यर्थः ॥४४॥ ननु बलवदनिष्टाननुबन्धीष्टसाधनत्वमेव लिङर्थः नशब्दश्च तदभावं बोधयन् सति विशेष्ये सविशेषणे हीति न्यायेन विशेषणी- भूतबलवदनिष्टाननुबन्धित्वाभावं बलवदनिष्टानुबन्धित्वमेव विषयी- करोति । तथा च विनापि पर्युदासं नशब्दोऽनर्थसाधनत्वपर इति चेत्तत्राह- अभीष्टहेतुत्वलिथपृष्ठतो ह्यनर्थहेतुत्वनअर्थकल्पना।

सटीक संक्षेपशारीरक-
न पर्युदासं परिहृत्य कल्प्यते
न पयुदासः प्रतिषेधसंभवात् ॥ ४४६ ॥
अभीष्टेति । प्रतियोगिवाचिना तदभावो लक्ष्यते। यतो बलवद-
निष्टाननुवन्धीष्टसाधनत्वाख्यलिङर्थाभावबोधानन्तरमेवानर्थहेतुत्वना
र्थकल्पना-अनर्थहेतुत्वाख्यभवदभिमतनञर्थस्य कल्पना प्रतीति-
स्ततस्तस्य तत्त्वं पर्युदासं परिहत्य लक्षणां विना न कल्प्येत । स
च न सम्भवति । असति बाधके मुख्यार्थपरित्यागायोगादित्यर्थः ।
एतदुक्तं भवति नशब्दो हि स्वसम्बन्धिपदार्थाभाववाचको लिङा-
दिसंसृष्टः तदर्थभूतबलवदनिष्टाननुबन्धीष्टसाधनत्वस्याभावमेव
बोधयति न तु बलवदनिष्टानुबन्धित्वं तस्य प्रत्ययार्थतया नअस्त-
दन्वयाभावात् । न च सविशेषेण हीति न्यायेन तस्य तद्विषयत्वं
स हि न्यायो वाक्यार्थीभूतविशिष्टाभावं सति विशेष्ये विशेषणाभावे.
नोपपादयति न तु विशेषणाभावमेव वाक्यार्थतया कल्पयति ।
विशेषणाभावस्य विशिष्टाभावादन्यत्वादतो बलवदनिष्टाननुबन्धि-
त्वाभावो बलवदनिष्टानुबन्धित्वं स्वार्थीभूतविशिष्टाभावान्यथानुपप-
स्यैव सिद्ध्यति । न तु शब्दान्मुखतः सिद्ध्यति । अतस्तस्य शाब्दत्व-
कल्पनं लक्षणां विना न निर्वहतीति ॥ ४४६ ॥
तस्मानिषेधवाक्यस्याभावमात्रपरत्वात्तस्य च कार्यविलक्षण-
त्वान्न सर्वस्यापि वेदस्य कार्यपरत्वनियम इत्युपसंहरति-
In
प्रमाणमिच्छन्प्रतिषेधचोदनां
समस्तवेदस्य न कार्यगोचरम् ।
प्रमाणभावं प्रतिपत्तुमीश्वरो
निषेधवाक्ये तदसंभवाद्यतः ॥ ४४७ ॥

प्रथमोऽध्यायः । ४२५ प्रमाणमिति । प्रतिवक्तुं प्रतिज्ञातुं यतो नशब्दस्याभाव एव मुख्यो- ऽर्थ इति पर्युदासं विना न नियोगपरत्वमर्थान्तरपरत्वं वा । पर्युदासश्च मुख्यार्थबाधे स च न प्रकृते ततो निषेधवाक्ये तस्य कार्यपरत्वा- संभवात्प्रतिषेधचोदनां प्रमाणमित्यङ्गीकुर्वन् समस्तस्य वेदस्य कार्य- गोचरं प्रमाणभावं न प्रतिवक्तुमीश्वर इति सम्बन्धः ॥ ४४७ ।। परमप्रकृतं कैमुतिकन्यायेनोपसंहरति अतो न वेदान्तवासु विक्षते विधिनियोगो न च शब्दभावना । न कर्मकाण्डेऽपि नियोगतोऽस्त्यसौ यतो निषेधेषु न विद्यते विधिः ॥४४८॥ श्रतो नति । विधिरित्यस्यैव विवरणं नियोग इत्यादि । चशब्दादि- टसाधनत्वमपीत्यर्थः । यतो निषेधवाक्येषु विधिर्न विद्यते अतः कर्मकाराडेऽपि नियोगतो नियमतोऽसौ विधिर्नास्ति किं पुनर्विधि- विरोधिवेदान्तवचःसु विधिर्नास्तीत्यत्रेति सम्बन्धः ॥ ४४८ ॥ अस्तु वा निषेधवाक्यस्य कार्यपरत्वं तथापि न वेदान्तानां कार्यपरत्वं संभवतीत्यभिप्रेत्याह- उपेत्य वादं परिगृह्य चोच्यते नियोगनिष्ठाऽस्तु निषेधगीरपि । तथापि वेदान्तवचासु विद्यते विधेर्न गन्धोऽपि विरोधकारणात् ॥४४६॥ उपेत्य वादमिति । अभ्युपगम्य वादमित्यर्थः । परिगृह्याश्रित्येत्यर्थः ।

४२६ सटीके संक्षेपशारीरके- । अभ्युपगममेवाह --नियोगनिष्ठेति । गन्धोपि संभावनापीत्यर्थः । उक्तेऽर्थ हेतुः-विरोधकारणादिति । विरोधादसंभवादित्यर्थः ॥ ४४६ । । विरोधमेव वदन्विध्यभावमेवोपपादयति- NAHAN ज्ञानं विधातुं न हि शक्यमेत- न शक्यते कर्तुमक मेतत् । अतोऽन्यथा कर्तुमशक्यमेत- प्रमाणमेयैकनिबन्धनत्वात् ॥ ४५० ॥ ज्ञानमिति । वेदान्तानां क्रियानियोगपरत्वमुच्यते । किं वा ज्ञान- नियोगपरत्वम् । नाद्यः । तदप्रतीतेरित्यभिप्रेत्य द्वितीयं दूषयति- ज्ञानं विधातुमिति । कृतिसाध्येष्टसाधनत्वेन बोधयितुं तत्र हेतुमाह नहीत्यादिनां । हि यत एसज्ज्ञानं कर्तुमिच्छया निष्पादयितुं न शक्यं यतश्चैतदिच्छयाऽकर्तुमप्यशक्यम् यतश्चैतदन्यथा कर्तुं विपरीत- तया वा कर्तुमशक्यं तत इत्यर्थः । यद्धि विधिजन्यपुरुषेच्छया निय- मेन निष्पाद्यते तदभावे च न निष्पाद्यते स्वेच्छया अन्यथा वा निष्पाद्यते यथा षोडशिग्रहणमग्रहणं वा यथा वा स्वेच्छया अश्वे- न गमनमगमनमन्यथा वा पद्भ्यां गमनं तदेव विधेयं ज्ञानं तु न तथा । अर्थेन्द्रियसंप्रयोगादौ सति पुरुषेच्छाधीनत्वस्य ज्ञानेऽदर्शना. दतो विधेयत्वव्यापकपुरुषतन्त्रताभावे तद्व्याप्यं विधेयत्वं विरुद्ध- मित्याह-प्रमाणमयकनिबन्धनात्वात् । एकपदेन कर्तृतन्त्रत्वं वारयति ॥४५०॥ - किं च किं शाब्दज्ञानं विधेयमुतापरोक्षरूपम् । नाद्यः । तस्याध्य- यनकाल एव वृत्तत्वात् । द्वितीये विधेः पूर्व तद्विषयब्रह्मज्ञानं ज्ञायते । उत न । तत्र चरमं विध्यसंभवेन दूषयन् ज्ञातपक्षे दोषकथनाय तं पक्ष परिशेषयति- प्रथमोऽध्यायः । ४२७ ब्रह्मज्ञानं जानता ब्रह्मबुद्धेः कर्तव्यत्वं शक्यते ज्ञातुमेतत् । न ह्यज्ञात्वा ब्रह्मबुद्धिं तदीयं कर्तव्यत्वं कश्चिदीष्टे ग्रहीतुम् ॥ ४५१॥ ॥ ब्रह्मज्ञानमिति । हि यतस्तदीयं ज्ञानसम्बन्धीष्टे समर्थो भवति ब्रह्म- ज्ञानज्ञानाभावे ब्रह्मज्ञानं कर्त्तव्यमिति बुद्धिर्न संभवति विशेषणम- ज्ञात्वा विशिष्टबुद्ध्यनुपपत्तेरित्यर्थः ॥ ४५१ ॥ नन्वस्तु ज्ञानं ज्ञायमानमेव विधेयं ततः किमापनमित्याशङ्कय ब्रह्मज्ञानज्ञाने ज्ञानविशेषणीभूतब्रह्मणोप्यवश्यशेयत्वादन्यथा विशिष्ट- ज्ञानस्यैवाभावात्तज्ज्ञाने च सति सकलपुरुषार्थसिद्धय॑र्थ एव विधिः स्यादित्याह- ब्रह्मज्ञानं ब्रह्मणि ज्ञायमाने ज्ञातुं शक्यं नान्यथा तच तत् । विज्ञातं चेद्ब्रह्मणस्तत्वमस्य प्राप्ता मुक्तिर्नास्ति कृत्यं विधीनाम् ॥४५२॥ ब्रह्मज्ञानमिति । नान्यथाऽज्ञायमाने ब्रह्मणि तज्ज्ञानं ज्ञातुमशक्य- मित्यर्थः । तद्वत् ज्ञानवद्ब्रह्मणस्तत्त्वमपि विज्ञातं चेदस्य विदुषो मुक्ति- रनर्थनिवृत्तिरूपा मुक्तिः प्राप्तति विधीनां कृत्यं प्रयोजनं नास्ती- त्यर्थः ॥ ४५२॥ ननु कथं ज्ञानमात्रेणानर्थनिवृत्तिरूपा मुक्तिः सिद्ध्यति । धर्मज्ञानमात्रेण पुरुषार्थादर्शनादित्याशयानर्थस्याविद्यकत्वाद्विद्ययाऽ.

४२८
सटीक संक्षेपशारीरके-
विद्यानाशे तत्कार्यसमष्टिव्यष्टयात्मकानर्थस्य निवृत्तिः संभवतोत्य-
भिप्रेत्याह-
दृशो विराट्सूत्रशरीरगोचरं
परस्पराध्यासमबोधसम्भवम् ।
अनर्थमाहुः श्रुतिमस्तके स्थिता-
स्ततोऽस्य विद्यासमये विमुक्तता॥४५३ ॥
।
-
दृशइति । आत्मन इत्यर्थः । विराटसूत्रशरीरगोचरं विराट्सम-
ष्टिस्थूलप्रपञ्चाभिमानिचैतन्यं सूत्रं सूत्रमिव कुसुमेषु सकलसूक्ष्मप्रप
श्चेष्वनुस्यूतं समष्टिसूक्ष्मप्रपञ्चाभिमानि चैतन्यम् । एतञ्च व्यष्टि जीवा-
नामप्युपलक्षणम्। तयोः शरीरं स्थूलसूक्ष्मप्रपञ्चः तद्गोचरं तद्विषयम-
बोधसंभवमज्ञानसमुत्थं परस्पराध्यासं तादात्म्याभिमानं तद्विषयं च
शारीरादिकं श्रुतिमस्तके स्थिता वेदान्तिनोऽनर्थमाहुः । अनर्थहेतुत्वा.
दनर्थः ततः किं तत्राह-तत इति । यतः सकलोप्यनर्थोऽविद्याहेतुक-
स्ततोऽस्य विदुषो विद्यासमये विमुक्ततेति सम्बन्धः ॥ ४५३ ॥
नन्यस्त्वनर्थस्याविद्याकृतत्वात् ज्ञाननिवर्त्यन्वं तथापि न तस्य
ज्ञानमात्रेण निवर्त्यत्वमनाद्यज्ञानजन्यस्य चिरकालानुवर्तिनः सन्मात्रेण
निवृत्त्यनुपपत्तेस्ततो ज्ञानसहकारित्वेन तदभ्यासोप्यपेक्षणीयः तथा
च ज्ञातेघि ब्रह्मणि ज्ञानाभ्यासार्थ विधिरनर्थवानिति चेत्तत्राह-
अनादाविद्यापटनेत्रबन्धनं
प्रसह्य वेदान्तनिबन्धना मतिः ।
स्वजन्ममात्रेण दृढात्मगोचरा
समूलदाहं दहतीति हि श्रुतिः॥४५४॥

प्रथमोऽध्यायः । । अनाद्यविद्येति । अनाद्यविद्यैव पटवत्पटः श्राच्छादकत्वात्स एव नेत्र- वोत्रस्य प्रकाशस्यात्मनः बन्धनमाच्छादनमित्यर्थः वेदान्तनिबन्धना वेदान्तजन्या आत्मगोचरा प्रत्यक्ब्रह्मभावविषया मतिढा सती असंभावनादिरहिता सती स्वजन्ममात्रेणानाद्यविद्यापटनेत्रबन्धन प्रसह्य समूलदाहं यथा दहति तथा सवासनमज्ञानं निवर्तयति हीति श्रुतिः । ब्रह्मवेद ब्रह्मैव भवति, तरति शोकमात्मविदित्यादिश्रुति- दर्शयतीत्यर्थः। तथा चानर्थस्य चिरकालानुवृत्तत्वेपि ज्ञानस्वभावात् दृढ़ब्रह्मात्मैक्यसाक्षात्कारस्याभ्यासं विनैव प्रौढालोकस्येव चिर- कालानुवृत्ततमसो निवर्तकत्वोपपत्तेः । श्रुत्या च तथैव प्रतिपादनान ब्रह्मज्ञाने सति तदभ्यासविधिरर्थवानित्यर्थः । ननु माभूत्साक्षात्कारा- नन्तरं विधिस्तदर्थन्तु शब्दादवगते ब्रह्मणि किमिति न ज्ञानं विधीयत इति चेत्र-प्रमाणज्ञानस्याभ्यासाजन्यत्वादिति भावः ॥ ४५४ ॥ तस्माद् ब्रह्मणो ज्ञातत्वाज्ञातत्वाभ्यां ज्ञानतदभ्यासविध्यनुप- पत्तेः । अन्यस्य विधेर्वेदान्तेष्वप्रतीतेर्वेदान्तानां स्वप्रधानब्रह्मनिष्ठतैवे. त्युपसंहरति- विज्ञाते ब्रह्मणि स्थाद्विधिरयमफलः प्रत्यये तस्य तद्व- नाज्ञातब्रह्मकर्मा विधिविषय इति प्रत्ययो बुडियोग्यः। ब्रह्मात्मप्रत्ययेऽतो विधिरनवसरः सर्वधा चिन्त्यमान- स्तस्माद्ब्रह्मात्मवस्तुन्यवमितमखिलं विद्धि वेदान्तवाक्यम् ॥ ४५५ ॥ विज्ञाते ब्रह्मणाति । ब्रह्मणि विज्ञाते तस्य ब्रह्मणः प्रत्यये विषयेऽयं विधिरफलः निष्प्रयोजन इति कृत्वा न सम्भवति । यद्वत् ब्रह्मणि ज्ञाते निष्फलत्वाद्विधिर्न सम्भवति । तद्वदज्ञातब्रह्मकर्मा अज्ञातं ब्रह्म कर्म विषयो यस्य प्रत्ययस्य स प्रत्ययो विधिविषय इति बुद्धियोग्यो ज्ञातुं ४३० सटीके संक्षेपशारीरके- योग्यो न भवतीत्यर्थः । ब्रह्मण्यज्ञाते तद्विषयस्य ज्ञानस्य बोद्धमशक्य- स्वाद् ब्रह्मज्ञानं विधेयमिति ज्ञातुं न शक्यमित्यर्थः । अतो ब्रह्मणि शाते विधिवैफल्यादज्ञाते वा तदवगमासम्भवाद् ब्रह्मात्मज्ञाने विधिरन- वसरः सर्वथा प्रकारद्वयेन चिन्त्यमानो विचार्यमाणोऽसम्भवी यतः तस्मादखलं वेदान्तवाक्यं स्वप्रधानब्रह्मात्मवस्तुन्यवसितं तात्पर्येण पर्यवसन्नमिति विद्धि जानीहीत्यर्थः ॥ ४५५ ॥ इदानीं प्रकारान्तरेणापि ज्ञानविधिं निराकरोति- । विरुडत्रिकस्य व्यापनिदोषा- न शक्यं विधीनां धियः संग्रहीतुम् । यथा वाजपेये गुणस्यह तह- ततो नास्ति वेदान्तवाक्ये विधानम् ॥ ४५६ ॥ MADHUBANIAN विरुद्धत्रिकस्येति विरुद्धानां त्रयाणां सङ्को विरुद्धत्रिकं तस्य द्वया. पत्तिदोषेण विध्यनङ्गीकारे दृष्टान्तमाह -यथा वाजपेयइति । वाजपेय- संज्ञके यागे यथा विरुद्धत्रिकद्वयापत्तिदोषेण वाजपेयाख्यगुणस्यान्न मयसुराद्रव्यस्य गुणस्य विधिनिराकृतः गृह्यते तद्वद्वेवेह वेदान्ते धियो विधानं नेति सम्बन्धः । पूर्वतन्त्रे हि वाजपेयशब्दस्य नामत्वं वक्तुं विरुद्धत्रिकद्वयापत्या गुणविधनिराकृतः । निराकरणप्रकारश्चाने वश्यत इत्यर्थः । ततो विध्यङ्गीकारस्याशक्यत्वाद्वेदान्तवाक्ये विधान नास्तीति फलितमाह-तत इत्यादिना ॥ ४५६ ॥ किं तद्विरुद्धत्रिकमिति तदाह- उद्दिश्यमानत्वमनूद्यमान भावप्रधानत्वमितीदमेकम् ।

प्रथमोऽध्यायः । तथाप्युपादेयविधेयशेष- भावप्रभेदं त्रिकमन्यदन्न ।। ४५७॥ -- उहिश्यमानत्वमिति । अत्रात्मनीदमेक त्रिकमस्तीति सम्बन्धः । इदं शब्दार्थमाह-उद्दिश्यमानत्वमित्यादिना । उद्दिश्यमानत्वं सिद्धवनिर्दिश्यमान- त्वमनूद्यमानभावश्च प्रधानत्वं चेत्यनूद्यमानभाषप्रधानत्वमनूद्यमानभा- वोऽनूद्यमानत्वं तञ्च ज्ञातस्य पुनरभित्रीयमानत्वं, प्रधानत्वं शेषित्वम् । इतिशब्दः प्रकारपरामर्शी इतरत्रिकमाह-तथेति । यथा श्रात्मन्युद्दिश्यमा- नत्वादिकमस्ति । तथाऽन्यदपित्रिकमस्तीति सम्बन्धः। तदेवान्यपदार्थ- माह-उपादेयावधेयशेषभावप्रभेदमिति । द्वन्द्वान्ते श्रूयमाणभावशब्द उपादेयादिषु प्रत्येकं योजनीयः उपादेयत्वविधेयत्वशेषत्वरूपेण प्रभेदो यस्मिन् त्रिके तत्तथोक्तमुपादेयत्वमनुष्ठेयत्वं विधेयत्वमज्ञातस्य प्रमेयत्वमितरस्पष्ट- मन्यत्पूर्वोक्तादुद्देश्यादित्रिकादन्यत्तथायुपादेयेति पाठेऽस्तीतिपदम- ध्याहृन्य योजनीयम् अत्रोदश्यत्वोपादयत्वयोः परस्पर विरोधः सिद्धत्वसाध्यत्वयोरेकदैकत्रानुपपत्तेरनूद्यमानत्वबिधेयत्वयोरन्योन्य विरोधः ज्ञातज्ञाप्यत्वाज्ञातज्ञाप्यत्वयोरेकदैकत्रायोगाच्छेषवशेषित्वयोश्च स्पष्ट एव विरोधः । अत्र यद्यपि ब्रह्मणः स्वतोऽनुष्ठेयत्वं नास्ति तथा- प्यनुष्ठेयज्ञानविशेषणत्वेन ज्ञानजन्यातिशयविशिष्टत्वाकारेण वानु- ठेयत्वमिति द्रष्टव्यम् ॥ ४५७ ।। ननु वाजपेयादौ विरुद्धत्रिकद्वयापत्ती वाक्यभेदः स्यादिति स एव दोषाय भवति । स चात्र नास्ति । वाक्यान्तरसिद्धब्रह्मानुवादेन নাননিখানাদিয়া- एकेन वाक्येन धियो विधान प्रत्यक्प्रमित्सा च यदि प्रतीचिं ।

सटीके संक्षेपशारीरक त्रिकं वयं तत्र विरुद्धमेत- प्रसज्यते कष्टमतः किमन्यत् ॥ ४५८ ॥ । एकेनेति । प्रत्यक्प्रमित्सा प्रत्यञ्चं ज्ञातुमिच्छेष्यमाणप्रत्यगात्म- ज्ञानमिति यावत् भवतीति शेषः । यदीत्यावश्यके । वाक्यान्तरसम- न्वयस्य विधिसंसर्गादन्यत्र प्रामाण्यस्य तवाऽनभिमतत्वात्तदङ्गीकारे वा समन्वयादेव सिद्ध ब्रह्मेति कृतं तज्ज्ञानार्थ विधिना। ननु शब्दा- वान्तरतात्पर्यगोचरोमानान्तराविरुद्ध एव शब्दप्रमेयः यथा विग्रहवती देवता अद्वैतब्रह्म मानान्तरविरुद्ध नावान्तरतात्पर्यकशब्दादेव प्रमी- यते प्रतीतिस्तु भवत्येव तथा चावान्तरतात्पर्यकशब्दावगतब्रह्मा- नुवादेन ज्ञान विधाने विधिपरादेव शब्दाद् ब्रह्मापि प्रमीयत इति न विरुद्धत्रिकद्वयापत्तिन वा ज्ञानविधानं व्यर्थमिति चेन-विधिसंस- गविकलसत्यादिवाक्ये ब्रह्मनिश्चयानङ्गीकारे तत्संसर्गवाक्यैरेव तन्नि- श्चय इत्येकस्यैव वाक्यस्योभयपरत्वाङ्गीकार इति विरुद्धत्रिकद्वया. पत्तेर्वज्रलेपत्वादित्यर्थः । ननु शब्दस्तु विधिमात्रनिष्टः ब्रह्मसिद्धि- स्त्वद्वितीयब्रह्मज्ञानविधानान्यथानुपपत्त्या प्रमाणान्तरेण सिद्ध्यतीति चेन्न। ब्रह्मणः प्रमाणान्तरागोचरत्वात्प्रत्यग्ब्रह्मणोऽनिश्चितौ तज्ज्ञान- स्याप्यनिश्चितस्यानूद्य विधानान्यथानुपपत्तेश्चेति भावः । नन्वस्तु विरुद्धत्रिकद्वयापत्तिः ततः किं दूषणमित्याशङ्कयैकदैकत्र विरुद्धवि- शेषणद्वयावगाहिप्रत्ययानुदयादितः परं दूषणं नास्तीत्याह - कष्टमिति । श्रतो विरुद्धत्रिकद्वयापत्तेः । अन्यत् किं कष्टं दूषणं न किमपीत्यर्थः ॥४५८॥ ननु कस्य त्रिकस्य कुत्रापत्तिरित्याकाङ्क्षायामाह-- उद्दिश्यमानं तदनूद्यमान- भूतं प्रधानं च धियो विधाने ।

प्रथमोऽध्यायः।
४३३
प्रमीयमाणं पुनरात्मवस्तु
तदास्पदं स्यादितरत्रिकस्य ॥ ४५६ ॥
उहिश्यमानमिति। तद् ब्रह्म अनूद्यमानभूतमनूधमानमित्यर्थः। श्रास्पदं
विषयः इतरत्रिकस्य-उपादेयत्वादित्रिकस्य, परमपुरुषार्थरूपं प्रत्यगा-
त्मानमुद्दिश्यात्मानं जानीयादिति ज्ञानविधाने परमपुरुषार्थतया श्रात्मनः
उद्देश्यत्वं ब्रह्मज्ञानमनूद्य
तत्कर्तव्यताविधानेऽनूद्यज्ञानविशेषणत्वेन
ब्रह्मणोप्यनूद्यन्वं विधेयक्रियाजन्यफलवत्त्वेन प्रधान्यमित्यात्मन उद्देश्य-
त्वादिकं स्यात्तथानुष्ठेयज्ञानविशेषणत्वेन ज्ञानजन्यातिशयविशिष्टत्वेन
वाऽनुष्ठेयत्वमुद्देश्यन्वविरुद्धं तथा विषयज्ञानप्रमेयत्वे
प्यत्वमनूद्यत्वविरुद्धं तथा विधेयतयाऽप्रधानीभूतज्ञानविशेषणन्वेन
शेषित्वविरुद्धं शेषत्वलक्षणमप्राधान्यं चेति विरुद्धत्रिकद्धयापत्तिरि-
त्यर्थः ॥ ४५६ ॥
एवं दान्तिके विरुद्धत्रिकद्वयापत्तिमुपवयं दृष्टान्ते वाजपेये
कस्मिन्नशे कस्य त्रिकस्यापत्तिरित्याकाङ्क्षायामाह-
ज्ञातशा-
प्रथमत्रिकं यजिनिगद्यगतं
गुणसंगतेरवगमे भवति ।
चरमत्रिकं यजिनिगद्यगतं
फलसंगतेरवगमे तु पुनः ॥ ४६० ।।
प्रथमत्रिकमिति । गुणसंगतेरवगमे यागोद्देशेन बाजपेयाख्यगुण-
सम्बन्धविधाने यजिनिगद्यगतं यजिशब्दवाच्ययागनिनिष्ठं प्रथम-
त्रिकमुद्देश्यत्वादि त्रिकं भवति । फलसङ्गतेरवगते तु स्वाराज्यकामो
यजेतेति यागस्य फलसम्बन्धबोधने यजिनिगद्यगतं चरमत्रिकमु.
पादेयत्वादि त्रिकं भवतीत्यर्थः ॥ ४६० ॥

सटीके संक्षेपशारीरके- ननु स्वाराज्यकामो यजेत तच्च वाजपेयेनेति ज्ञानद्वयेन त्रिकद्व- यस्य प्रतीतौ न विरुद्धत्रिकतेत्याशङ्कयाह- सकृदुच्चरन्यजतिरेष गुणं न फलं च संगमयितुं क्षमते। कथितत्रिकद्वयविरोधवशाद् यजिवस्तुनीति ननुनीतिविदः ॥ ४६१ ॥ सकृदुच्चरन्निति । सकृदेव ज्ञापन्नित्यर्थः । यजतिर्यजिशब्दः गुणं वाजपेयाख्यं गुणं फलं स्वाराज्यफलं सङ्गमयितुं सम्बन्धयितुं विधा- तुमित्यर्थः । यजिवस्तुनि यागे। नन्विति निश्चये। नीतिविद आहुरिति शेषः । स्वाराज्यकामो वाजपेयेन यजेतेत्यत्र यदि स्वाराज्यकामो यजेत तच वाजपेयेनेत्यन्वयो भवेत्तदा वाक्यभेदापत्तिः। नन्वेतद्य- जिपदं तन्त्रेण गुणफलान्वये हि साध्यसाधनोभयावस्थं यागमुपस्था- पयति अतो न वाक्यभेदो न चा। विरुद्धत्रिकद्वयापत्तिः तदूषणता बीजस्य वाक्यभेदस्य तन्त्रेण परिभूतत्वादिति चेन्न-एवमपि साधन- त्वेनोपस्थितस्य तस्य फलेनान्वयानुपपत्तेरेकदैकत्र विरुद्ध विशेषणद्वय- प्रतीत्यनुपपत्तेरपरिहाराञ्च | नात्र तन्त्रावकाशोपि सारूप्याभावात्त- दुक्तं सारूप्ये हि तन्त्रतेति । तथा च सकृद्धोधकादेव यजिप- दाद् गुणफलविध्यङ्गीकारे ज्ञानद्वयाभावाद्विरुद्धत्रिकद्वयापत्तिरस्त्येवे. त्यर्थः ॥ ४६१ ॥ तदेवं ज्ञानविधेरसम्भवात्सर्वेषां वेदान्तानां निर्विशेषे ब्रह्मण्येव समन्वय उपपन्न इत्युपसंहरति- इति वाजपेयगतनीतिवशा- दपि नाऽऽत्मवस्तु विषयावगती। ।

प्रथमोऽध्यायः। ४३५ विधिरस्ति तेन विधिशून्यतया परमात्मवस्तुविषयोपनिषत्॥४६२॥ इतिवाजपेयेति । वाजपेयगतनीतिविरुद्धत्रिकद्वयापत्त्या विधिनिरा. करणम् । अपिना पूर्वोक्तविध्यसम्भवं समुञ्चीयते ॥ ४६२ ॥ नन्वेवमपि न सर्वेषां वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयो वर्ण- यितुं शक्यते उपासनानियोगपराणमपि हिरण्यश्मश्रुर्हिरण्यकेश इत्यादिवाक्यानां सत्वान्न हि तद्वक्यं निर्विशेषं ब्रह्म प्रमापयितुमलं गुणविशिष्टब्रह्मण एव तदर्थत्वात् । न च लक्षणया निर्विशेषं ब्रह्म तबोधयतीति वाच्यम् उपासनामात्रोच्छेदप्रसङ्गात् । न च तत्तन्महते फलाय विधीयमानान्युपासनान्यविवक्षितानीति वक्तुं शक्यम्-तत्प रत्वेपि वा लक्षणावैयर्थ्यात् तया विनापि प्रयोजनवदर्थसिद्धरित्या. शङ्कयाह सगुणवाक्यमपीह समन्वितं भवति निर्गुणवस्तुनि सर्वशः । न खलुनिर्गुणवस्तु समन्वयं न सहते सगुणस्य समन्वयः॥४६३ ।। MARA सगुणवाक्यमपीति । सर्वशः सर्वमपि सगुणवाक्यं सगुणब्रह्मप्रतिपा. दकं इह निर्गुण प्रस्तुनि समन्धितं भवतीति सम्बन्ध इत्यर्थः । ननु सगुणप्रतिपादकं कथं निर्गुणपरं स्थान हि कलशप्रतिपादकं शराब- परं स्यादित्याशंक्यान्यप्रतिपादकमप्यन्यपरमर्थवादादिकं दृष्टमित्य- भिप्रेत्याह-न खल्विति । सगुणस्येति कर्मणि षष्ठी । सगुणेऽस्य समन्वय इति पाठेऽस्य सगुणवाक्यस्य सगुणविषय इत्यर्थः । सगुणविषयः सटीक संक्षेपशारीरके- समन्वयो निर्गुणसमन्वयं न संहत इति न सहत एव खलु यस्मा- त्तस्मादिति सस्वन्धः । निष्प्रपञ्चब्रह्मप्रतिपत्त्यर्थ हि सगुणवाक्यैः प्रपञ्चोऽनूद्यते प्रशस्तनियोगप्रतिपत्त्यर्थ क्षेपिष्ठत्वादिकमिवार्थवादेन । न च पूर्वप्राप्त्यभावान्नानुवाद इति शङ्कयं सृष्टि श्रुतिसामर्थ्यसिद्धत्वाद् ब्रह्मसप्रपञ्चत्वस्य । न चानुवादः प्रतीति विरुणद्धि तदर्थत्वादनुवा- दस्य । न चैवमुपासनोच्छेदः आरोपिततद्भावेनापि तदुपसत्तः । अत एवोपासनानां च विधानमपि निष्प्रपञ्चशेषभूतसप्रपञ्चमाश्रित्य गोदो- हनविधानवदाश्रित्य विधानं भवतीति । न चैवं सति दर्शपूर्णमासा- धिकारिण एव गोदोहनानुष्ठानवन्मुमुक्षोरेवोपासनानुष्ठानं स्यात् न च तत्सम्भवति तस्य तत्फलत्वाद्विरक्तत्वादिति वाच्यम् । अपप्रण- तदाश्रयस्थ नियताधिकारसम्बन्धवदाश्रयस्य प्रपञ्चस्य शब्दात्प्रतीयमानस्य सर्वसाधारणतया मुमुक्ष्वेकसम्बन्धाभावादिति भावः॥ ४६३ ॥ यनस्य इदानी प्रकारान्तरेण विरोध दर्शयति सत्यासत्यवपुस्तथाहि सगुणं ब्रह्माऽस्य विद्या तथा तद्वत्तविषयस्य वेदवचस्तात्पर्यमेवंविधम् । तेनावान्तरमस्य वेदवचसस्तात्पर्यमन्यादृशं चान्यन्निर्गुणवस्तुतत्त्वविषयं संकीर्त्यते भागशः॥४६४॥ सत्यासत्येति । यथा सगुणविषयः समन्वयो निर्गुणसमन्वयविरो. धी न भवति तथा सगुणवाक्यविषयः सगुणं ब्रह्म सत्यासत्यवपुः सत्यानृतात्मकम् । ततः किं तत्राह-अस्य विद्या तथेति । सगुणब्रह्म विषयज्ञानमपि तथा सन्यासत्यात्मिका सत्यासत्यविषयिणीत्यर्थः । ततोपि किं तत्राह-तद्वदित्यादिना । सगुणब्रह्मविद्यावत्तद्विषयस्य सगुण- ब्रह्मविषयस्य वेदान्तवाक्यस्य तात्पर्यमप्येवंविधं सत्यासत्यविषयं न प्रथमोऽध्यायः । केवलसगुणविषयमित्यर्थः । वस्तुतोऽनवच्छिन्नमेव ब्रह्म स्वाविद्याक- तत्तदुपाधिभिस्तत्तद्गुणैश्वान्योन्याध्यासेनावच्छिद्यमानं न ब्रह्मणो बस्त्वन्तरम् । तथात्वे तदुपासनस्याब्रह्मोपसनत्वप्रसङ्गात्सगुणब्रह्मणः सत्यासत्यात्मकत्वे तद्विषयज्ञानमपि सत्यासत्योभयविषयं भवत्येव विशिष्टज्ञानस्य विशेषणविशेष्योभयविषयत्वनियमाज्ज्ञानस्य चोभयधि- पयत्वे तज्जनकशब्दतात्पर्यमपि तदुभयविषयमेव फलवच्छाब्दज्ञान- विषयस्य शब्दतात्पर्यविषयत्वात्तथा च सगुणवाक्यस्य वस्तुतो निर्गु. रणब्रह्मतदारोपितगुणविषयत्वान्न विरोध इत्यर्थः। नन्वेवं विषयभेदे तात्पर्यभेदावेदान्तवाक्यं भिद्यतेत्याशङ्कयाह-तेनेति । अथवा-नन्वेवमपि सगुणवाक्यस्य गुणविषयत्वमपि विद्यते तत्कथं तदभावविशिष्टनिर्गु- मात्रपरत्वमित्याशङ्कयाह-तेनेति । येन सत्यासत्यात्मकवस्तुविषयत्वं तेनास्थ सगुणवाक्यस्यान्यादृशं तात्पर्यमिति सम्बन्धः । अन्यादृश- शब्दार्थमेवाह-श्रवान्तरामेति । परम्परया पुरुषार्थसाधनप्रमितिजन- कत्वादवान्तरतात्पर्यमित्यर्थः । निर्गुणवस्तुविषयं त्वन्यत् परमन- तात्पर्यमिति भागशो विभज्य सङ्कीयंत इति सम्बन्धः । गणस्य गुणिब्रह्मणो वा परमपुरुषार्थत्वाभावाच्छुद्धिद्वारा तदनुगुणत्वाश्च सगुणवाक्यस्य गुणपदस्य तद्विषयं तात्पर्यमवान्तरमेव महातात्पर्य तु निर्गुणब्रह्मविषयमेवेत्यर्थः ॥ ४६४ ॥ ननु सत्यासत्यविषयं ज्ञानं किमुभयं उतैकम् । नाय' । ज्ञान- द्वयस्य युगपटुत्पत्त्यनुपपत्तेः । शब्दस्य क्रमकारित्वायोगाश्च । न द्वितीयः। सत्यासत्ययोः परस्परविरुद्धयोः अन्यतरस्यान्यतरज्ञानविष- यत्वानुपपत्तस्ततः कथं सगुणवाक्यस्योभयपरत्वं सम्भवतीत्याशङ्कय यथा शुक्तिरूप्यस्यासत्यस्य सत्यशुक्तितादात्म्यापन्नतया सत्यस्य चैकानुभवविषयत्वम् एवं गुणतदाश्रयब्रह्मणोरपि सत्यासत्ययोरेक- ज्ञानविषयत्वं सम्भवतीति सगुणवाक्यजन्यं ज्ञानमेकमेवोभयं विष- यीकरोतीति सदृष्टान्तमाह -

सटीके संक्षेपशारीरक-
रूपयज्ञानं रजतमिदमित्येवमुत्पद्यमान
सत्यासत्यं विषयमपृथग्दर्शयत्येकमेव ।
तबन्मानं सगुणविषयं सत्यमिथ्यावभासं
संसृष्टार्थद्वयमिति दृढं दर्शयत्येकमेतत् ॥४६॥
रूप्याशार्नमति । एवमुत्पद्यमानं रूप्यज्ञानमेकमेव सत्यासत्यविषयं
सत्याधिष्ठानासत्यारोप्यात्मकं विषयमपृथग् दर्शयति अविभिन्न
यथा भवति तथा दर्शयति । एवंपदार्थमाह- रजतमिति । इदंरजत-
मितिज्ञानं सत्यासत्यात्मकवस्त्ववभासयति यद्वत्तद्वत्सत्यमिथ्याव-
भासं सत्यं गुणाधिष्ठान ब्रह्म मिथ्या तदारोपिता गुणास्तद्वयमव-
भास्यते ऽनेनेति तत्तथा सगुणविषयं मानं सगुणब्रह्मविषयं वाक्य-
जन्यज्ञानमेकमेवार्थद्वयं गुणं तदवच्छिद्यमानं ब्रह्म च संसज्यैकीकृत्य
दृढं निसन्दिग्धं दर्शयतीत्यर्थः ॥ ४६५ ॥
ननु किमिदं तात्पर्य न तावद्वक्तरिच्छा, अपौरुषेये वेदे
तदभावात् नापि प्रतीतिजनकत्वं वपोत्खननादिवाक्यस्यापि स्वार्थ-
परत्वप्रसङ्गात्, नापि फलतत्साधनविषयज्ञानजनकत्वं समिदादि-
वाक्यस्य स्वार्थपरत्वाभावप्रसङ्गादतो विधिशेषत्वमेव तात्पर्यमिति
न तद्विधुरे ब्रह्मणि वेदान्तसमन्धय इति कुतः पुनः सगुणवाक्यस्य
तत्र तात्पर्यमित्याशङ्कयाह-
तबुद्धिमात्रफलतैव च तत्परत्वं
वेदान्तवादिसमये न तु शेषभावः ।
शेषत्वमच्चरकलापगताप्तिमात्र
प्रत्यव नाध्ययनमर्थधियो विशेषः॥४६६॥

प्रथमोऽध्यायः। ४३६ तबुद्धिमात्रेति । तत्तद्वस्तुविषयबुद्धिरेव फलं यस्य वाक्यस्य तस्य भावस्तत्ता फलवदर्थप्रतीतिजनकत्वमिति यावत् । शेषभावो विधि प्रतीतिशेषः । वेदान्तवादे हि यस्य वाक्यस्य यदर्थविषयफलवत्प्र. तीतिजनकत्वं तस्य तदेव तात्पर्य न तु विधिशेषत्वं तत्राप्यस्यैव प्रयोजकत्वात्ताशप्रतीतिफलकत्वं च निर्गुणवाक्यस्यावाधितं सगुण- वाक्यस्य च गुणोपहितब्रह्मणि सगुणवाक्यस्थगुणवादानां गुणांशे च परम्परया पुरुषार्थपर्यवसायिनि विद्यत इति वेदान्तगतसगुण- निर्गुणवाक्यं निगुणब्रह्मपरं भवतीत्यर्थः । न चैवं सति प्रयाजादि- वाक्यस्य तत्परत्वाभावप्रसङ्गः । स्वार्थज्ञानेन तेषां फलवन्वाभावादिति वाच्यम् । अङ्गानामाङ्गिफलेन फलवत्वात्तत्प्रतीतेरपि फलवत्वादत एव वपोत्खननवाक्यस्य न स्वार्थपरत्वं कथंचिदपि तत्प्रतीतेः प्रयो- जनवत्वाभावादित्यर्थः । ननु माभूद्विधिशेषत्वं तात्पर्य तथापि न फलवत्प्रमितिजनकत्वमात्र तत्किन्वर्थावबोधशेषत्वमेत्र अध्ययन स्यर्थववोधफलकतया तेन स्वाध्यायस्य तच्छेषत्वेन विनियुक्त- त्वादित्याशङ्कयार्थावबोधजनकत्वमात्रेण तस्य तच्छेषत्वेऽस्माकम- पीष्टमेव प्रकान्तरेणेति चेतन्नेष्यते। तत्र मानाभावाकिन्वध्ययनविधि: रपि नार्थावबोधफलः किन्त्वक्षरावाप्तिफल एवेत्यभिप्रेत्य प्रसङ्गादाह- शेषत्वमिति । शेषत्वं कारणत्वमित्यर्थः । अक्षरकलापगताप्तिमात्रमक्षर- गता या अवाप्तिः अक्षराणामध्येतृपुरुषाधीनोच्चारणक्षमत्वं तन्मात्रं प्र- त्येवाध्ययनस्येति शेषः। मात्रचो व्यावय॑माह-नाध्ययनमिति । नन्वक्ष- रावाप्तेरेव फलत्वे किं मानमिति चेदुच्यते स्वाध्यायोऽध्येतव्य इति विधिहि कर्मप्रधानः कर्मकारकसमवाय्यतिशयफल एव भवति । तञ्च फलं स्वाधीनोच्चारणक्षमतालक्षणोऽक्षरधर्माऽवाप्तिरेव सैव तत्कलम् । ननु साङ्गाध्ययनान्तरं नियमेनार्थबोधो दृश्यते । तत्कथं तस्य फलत्वं निराक्रियत इति चेन्न-तद्दर्शनस्य परम्परया फलत्वे.

४४० ध्ययनावृत्तिः कथं सिद्ध्यति विधित इति चेन्न-विधेयतदुपकारक. व्यतिरिक्तस्य तत्प्रयुक्तानुष्ठानाभावादिति चेन्न-अवाप्तिलक्षणफल- प्रयुक्ततण्डुलनिष्पत्तिप्रयुक्तावहननावृत्तिवत्तदुपपत्तेः । तस्मादक्षरा. वाप्तेरेवाध्ययनाव्यवहितफलत्वादर्थावबोधस्य तद्व्यवहितफलत्वा- वार्थावबोधशेषः किन्त्वक्षरावाप्तिशेष अर्थावबोधः फलं यस्य तदध्ययनमिति शेषः । तच्छेषत्वमन्तरेणापि धानमिह कर्मकाण्डे ऋतूनां दर्शपूर्णमासादिक्रतूनामाधानं न क्रत्वङ्गं सटीके संक्षेपशारीरके- ध्ययने दर्शनादिति चेन्न-श्रावृत्तिविशिष्टाध्ययनात्तत्सिद्धेः । नन्य. नार्थाध्ययनं स्वाध्यायो एवेत्यर्थः ॥ ४६६॥ ननु तच्छेषत्वाभावे परम्परयापि कथं तत्फलत्वं तत्राह- तच्छेषभावमनपेक्ष्य च तत्फलं स्या- दाधानवन्न हि तदङ्गमिह क्रतूनाम् । अग्न्यङ्गन्मेव हि तदिष्टमथापि तस्य सर्वक्रतुष्वधिकृतिः फलमभ्युपेतम् ॥ ४६७॥ सच्छेषभावमिति । तमर्थावबोधं प्रति शेषत्वमित्यर्थः । तत्फलं-स तत्फलकत्वे दृष्टान्तमाह-श्राधानवदिति । तदेवोपपादयति । न हीति । तदा । । श्रुतिलिङ्गाद्यन्यतमप्रमाणाभावादित्यर्थः। नन्वाधानस्य क्रत्वङ्गत्वाभाचे किमिति तत्क्रत्वारभभकाले नियमेनानुष्ठीयत इत्याशङ्कय क्रन्वङ्गाग्नि- शेषत्वादित्याह-अग्न्यङ्गमेवेति । तदाधानमाहवनीयाद्यग्न्यङ्गमिष्टमेव ही- तिसम्बन्धः । फलितमाह-अथापीति । क्रतुशेषत्वाभावेपि तस्याध्यानस्य सर्वोत्तरत्र क्रतुष्वधिकृतिरधिकारस्तत्तत्क्रत्वनुष्ठानं फलमभ्युपेतमित्य- र्थः । वसन्ते ब्राह्मणोनीनादधीतेत्यनारभ्याधीतमाधाानं चिदपि क्रतोरङ्गं भवति । तत्प्रकरणे पाठाद्यभावादग्नीनादधीते- त्याहवनीयादीन्प्रति शेषत्वागमाच्च । न च प्रकरणपाठाद्यभावेषि न कस्य- प्रथमोऽध्यायः । ऋत्वङ्गजूहद्वारापर्णताया: क्रतुशेषत्वं वाक्यप्रामाण्यात् तद्वदाधान- स्यापि क्रत्वङ्गाग्निद्वारा क्रतुशेषत्वं किं न स्यादिति वाच्यम् । दृष्टान्त- वैचित्र्याजुह्वा ह्याकारद्वयमस्ति । लौकिकाकारो ऽलौकिकाकारश्चेति । तत्र परिदृश्यमानाकारो लौकिकः अलौकिकस्त्वपूर्वीयाकारः । तत्र यदि पर्णता तस्या लौकिकाकारमाने पर्यवस्यद्वयर्थाभवेत्काष्टान्तरेणापि लौकिकाकारस्य सुसंपादत्वात्ततः पर्णताया वैयर्थ्यपरिहार्थमेवापूर्वी- याकारशेषत्वेन क्रत्वङ्गत्वमेव वक्तव्यमिति वाक्यप्रमाणेन क्रतुशेषत्वेन विनियुज्यते। अग्नेस्त्वपूर्वीयत्वाकारोपि क्रतुशेषत्वं विनाप्याधानेनैव भवतीति न कथमप्यस्य ऋतुशेषत्वम् । तथा च यथा क्रत्वनङ्गमेव सदा- धानं क्रत्वङ्गाग्निशेषतयाग्न्यधीनोत्तरकत्वनुष्ठानफलकमित्यभ्युपगतं तथार्थावबोधं प्रत्यशेषमण्यध्ययनं स्वफलावाप्तिविशिष्टस्वाध्याय- जन्यार्थावबोधकफलकं भवतीत्यर्थः ॥ ४६७ ॥ इदानीं तबुद्धिमात्रफलतैवेत्यत्र यथाश्रुतमर्थमादाय मन्त्रार्थ. वादानामपि स्वार्थबोधजनकत्वात्स्वार्थपरता स्थादित्याशङ्कय फल- वत्तबुद्धिमात्रफलकत्वमेव तात्पर्यमिति विवक्षितमित्यभिप्रेत्य परि. हरति- मन्त्रार्थवादगतमध्ययनं तदर्थ- मात्रप्रतीतिफलमित्यपि नाभ्युपेतम् । विध्यर्थबुद्धिमनुसृत्य फलाचसानां सा तद्वतीति तदतत्परतोपपत्तिः ॥ ४६८ ॥ मन्त्रार्थवादगतमिति । मन्त्रार्थवादविषयमित्यर्थः। तदर्थमात्रप्रतीतिफलं तेभ्यो मन्त्रार्थवादेभ्यः साक्षात्प्रतीयमानो योऽर्थस्तन्मात्रविषयणी या प्रतीतिः सैत्र फलं यस्य तत्तथा वायुक्षेपिष्ठत्वादिप्रतीतेः फलवत्त्वा- - ram फळचटनम्तशे वेटस्य फलवत्प्रतीति- ४४२ सटीके संक्षेपशारीरके- जनकन्वाभावान्न तात्पर्य मित्त्यर्थः । यद्वा अर्थावबोधशेषतायाः तात्पर्यः त्वे किमर्थावबोधशेषत्वमात्रमुत फलवदर्थावबोधशेषत्वम् । नाद्यः । अर्थवादादेमुख्यार्थपरत्वप्रसङ्गान्मुख्यार्थप्रतीतिं प्रत्यपि तस्य जनक- तया शेषत्वादित्यभिप्रेत्य द्वितीये तच्छेषस्यैव तत्फलकत्वमिति पक्षेऽर्थवादादेः स्वार्थप्रतीतिशेषत्वाभावात्ततो वायुक्षेपिष्टत्वाद्यर्थोनाव- गम्यतेत्यभिप्रेत्याह- मन्बोति । अध्यययनफलं प्रत्येव स्वाध्यायस्य शेषत्वादध्ययनाफलमर्थवादादिमुख्यार्थप्रतीति प्रति स्वाध्यायस्य शेष- त्वं निराकर्तुमध्ययनस्यातत्फलत्वमुक्तमिति द्रष्टव्यम् । किंतर्वार्थवादा- ध्यनफलमित्याकाङ्क्षायां विधिशेषतया फलवद्विध्यनुकूलप्रशंसादि- ज्ञानमेवेत्याह-विध्यर्थबुद्धिीमति । कर्तव्यार्थविषयां बुद्धि भूतिकामः श्वे- तमालभेतेत्यादिरूपां बुद्धिमनुसृत्य प्रशंसादिबोधनद्वारानुष्ठेयस्मृ- त्या वार्थवादादिविषयमध्ययनं फलावसानं फलपर्यवसायीत्यर्थः । तदुपपादयति - सेति । सा विध्यर्थबुद्धिः तद्वती फलवतीति कृत्वा तच्छेषतयाऽर्थवादाद्युत्थज्ञानं फलवदित्यर्थः । फलितमाह-तदतत्परतो पपत्तिरिति । इतिशब्दोऽत्राप्यनुषञ्जनीयः । यतोऽर्थवादादेमुख्यार्थविषये फलवगुद्धिजनकत्वन्न ततस्तस्य मन्त्रार्थवादादेरतत्परताया मुखतः प्रतीयमानार्थपरत्वाभावस्योपपत्तिरित्यर्थः ॥ ४६८॥ फलवद्बुद्धिजनकत्वमेव तात्पर्य न तु तदर्थबुद्धिशेषत्वमित्यत्र विद्वदङ्गीकारमपि दर्शयति-- सप्रयोजनकबुडिकारणं वाक्यमाहुरिह तत्परं बुधाः । सप्रयोजनकबुडिशेषधीहेतुमन्यपरमाश्रयन्ति च ॥४६॥ सप्रयोजनकेति । इह कर्मकाण्डे तत्परं फलवद्विज्ञानविषयपर मित्यर्थः । सप्रयोजनकबुद्धिशेषधीहेतुं फलवबुद्धिशेषधीहेतुं वाक्य- मन्यपरं येनान्विता सती स्वजन्यप्रतीतिः फलवती भवेत्तत्परमित्यर्थः।

प्रथमोऽध्यायः। विद्वांसो हि फलवद्विज्ञानजनकत्वेन विधिवाक्यं स्वार्थपरं तदभावे- नार्थवादादेः तदभावं बदन्तीति फलवबुद्धिजनकत्वमेव तात्पर्य न तु शेषत्वमतिप्रसङ्गाद् गौरवाञ्चेति भावः । फलवबुद्धिजनकत्वमेव तात्पर्य न तु बुद्धिजनकत्वमात्रमित्यत्रैव पूर्वश्लोकार्थे वा विद्वङ्गी- कारमाह-सप्रयोजनति ॥ ४६६ ॥ एवं सर्वेषामर्थवादादीनां स्वार्थे तात्पर्याभावमाश्रित्य तत्राप्य- स्मदुक्ततात्पर्य नास्तीत्युक्तं सम्प्रति भगवद्वादरायणमतानुसारेणार्थ- वादादेर्यत्र स्वार्थे मानान्तरविरोधस्तत्र तात्पर्याभावेपि यत्र न स्वार्थे प्रमाणान्तरविरोधः तत्र तस्य तात्पर्यमस्त्येव कर्माङ्गतयोपासनाशेष- तया वा तदंशेपि वाक्यस्य फलवबुद्धिजनकत्वस्य सत्त्वादित्यभि- प्रत्याह - मन्त्रार्थवादवचसामपि गोचरेषु सौवेष्ववान्तरमुशन्ति च तत्परत्वम् । केचित्त्रयीशिरसि खिन्नधियो मुनीन्द्रा- स्तद्वद्धियो विधिषु शेषतया निवेशात् ॥४७०॥ मन्त्रार्थवादवचसामपाति । सौवेषु स्वकीयेषु । ननु मन्त्रार्थवादादेरपि स्वार्थपरत्वे विधिशेषता न स्यात्तत्राह- अवान्तरमिति । तथा च विधौ महातात्पर्य युज्यते इत्यर्थः। त्रयीशिरसि खिन्नधियो वेदार्थविचार- दक्षा इत्यर्थः । अर्थवादादेः स्वार्थतात्पर्ये तस्यामुख्यत्वे च हेतुमाह-- तत्ताद्धय इति । तत्तद्वाक्यजन्यवज्रहस्तत्वादिज्ञानस्य विधिषु वषटकरि- ष्यन् ध्यायेदिति विधिषु शेषतया ध्यानादिविषयत्वेनानुप्रवेशा- दित्यर्थः । ध्येयरूपज्ञानाभावे ध्यानासम्भवात्तज्ज्ञानस्य तच्छेषतया प्रधानफलवत्त्वात्तद्वाक्यस्य तात्पर्यममुख्यत्वं च युज्यत इत्यर्थः । तस्मा- सटीके संक्षेपशारीरके- सर्वाण्यपि सगुणब्रह्मविषयाणि वाक्यानि गुणापवादद्वारा गुणोप- हितस्य वस्तुगत्या निर्गुणस्य प्रमितिजनकत्वाद्वाऽऽशयशुद्धिद्वारे- णापि निर्गुणब्रह्मप्रमितिजनकत्वाद्वा निर्गुणब्रह्मपराण्येव प्राणाद्युपास- नावाक्यान्यपि चित्तशुद्धिद्वारा तथेति न सर्ववेदान्तानां ब्रह्मपरता- बाध इति भावः ॥ ४७०॥ एवं तावत्सर्वेषां वेदान्तानामद्वितीयब्रह्मात्मन्येव समन्वयो न तु नियोगे न वा भावनायामित्युक्तं लिवाक्यस्य नियोगादिनिष्ठ- स्वेपि कर्मकाण्डस्यापि सर्वस्य न नियोगादिपरत्वनियमः निषेध. वाक्ये व्यभिचारादित्यप्युक्तमिदानीं श्रेयःसाधनताया लिङवाच्यत्वे पूर्वतन्त्राभियुक्तानां वचनविरोधमपरिहतं परिहत्तुं वृत्तमनुकीर्तयति- श्रेयासाधनता लिङर्थ इति च प्रागुक्तमत्यादरा- च्छेयः साधनयागदानहवनाद्यर्थैकनिष्ठं ततः । सर्व कर्मवची नियोगपरता तस्यापि नाऽलोचने वक्तव्यं किमुतास्य वेदशिरसःसानेतिभूयोऽपि नः॥४७१॥ श्रेयःसाधनतेति । प्रागुक्तमिति । ब्रजति तदिह श्रेयो हेतुर्लिङादिपदार्थ- तामित्यत्रेत्यर्थः । श्रेयःसाधनयागदानहवनाद्यर्थैकनिष्ठं हवनं होमः श्रेयः साधनीभूतयागादिनिष्ठं यागादिगतश्रेयःसाधनत्वनिष्ठमित्यर्थः । यतः श्रेयःसाधनत्वमेव लिङर्थ इति प्रागुक्तं ततः प्रत्ययार्थस्यैव प्रधानतया वाक्यार्थत्वात्सर्व कर्मवचः कर्मप्रतिपादकं वचनं श्रेयःसाधनयाग- दानहवनाद्यर्थै कनिष्ठं यतश्च कर्मवचः सर्व श्रेयःसाधननिष्ठमित्युक्तं ततस्तस्य कर्मवचसोऽप्यालोचने विचार क्रियमाणे न नियोगपरता किमुत्त वक्तव्यं वेदान्तवचस्सु सा नियोगपरता नेत्यप्युक्तमतो न वेदान्तवचःस्वित्यत्रेत्यर्थः ॥ ४७१ ॥ नन्वथातो धर्मजिज्ञासा चोदना लक्षणोऽर्थो धर्म इति धर्मस्य :

प्रथमोऽध्यायः। ४४५ AAHUNadana जिज्ञास्यत्वं चोदनाप्रमाणकत्वं च वदता जैमिनिना नियोगस्यैव श्रेयसाधनधात्वर्थव्यतिरिक्तस्य धर्मत्वं लिडर्थत्वं चोकमतः श्रेयः साधनत्वस्य लिङर्थत्वं तद्वचनविरुद्धमिन्याशङ्कयाह- श्रेयःसाधनयागदानहवनागर्थेषु कार्यात्मसु- सर्व कर्मवचः प्रमाणमिति तु ग्राह्यं वचो जैमिनेः । भाष्यं पश्यत शाबरं स्फुटतरं यो यागमित्यादिकं श्रेयसाधनयागमात्रवचनं धर्माभिधानं वदत् ॥४७२ ॥ अयःसाधनयागेति । जैमिनेर्वच उक्तं सूत्र कार्यात्मसु श्रेयःसाधन- यागदानहवनाद्यर्थेषु कृतिसाध्यश्रेयःसाधनत्वे सर्व कर्मवचः प्रमाणमित्यस्मिन्नर्थे ग्राह्यमिति सम्बन्धः। जैमिनीयवचोऽपि चोद- नालक्षणोऽर्थो धर्म इत्येवमादिकं न न श्रेयःसाधनव्यतिरिक्तस्य लिङर्थत्वं धर्मत्वं वा बोधयति किन्तु श्रेयःसाधनयागादेरेव श्रेयसाधनत्वाकारेण लिङाद्यर्थत्वं धर्मत्वं चेति बोधयतीत्यर्थः । तत्र प्रमाणमाह-भाष्यं पश्यतेति । स्फुटतरं स्पष्टार्थ भाष्यमेवाह- यो यागमित्यादिकमिति । धर्माभिधानं धर्म इतिपदं श्रेयःसाधनयागमात्र- वचनं वाचकमिति स्फुटतरं वदत् यो यागमिन्यादिशाबरभाष्यं पश्यतेति सम्बन्धः । भाष्यकारो हि धर्मजिज्ञासासूत्रे धर्मशब्द व्याचक्षणो यो यागमनुतिष्ठति तं धार्मिकमिति समाचक्षत इतिवदत् श्रेयःसाभनयाग एव धर्म इति धर्मशब्दार्थ व्याचकार । अतस्तस्यैव जिज्ञास्यत्वमिष्टसाधनत्वाकारण लिङादिचोदनाप्रमाणकत्वं चेति जैमिनेर्मतमिति भावः ॥ ४७२ ॥ । ननु सूत्रस्थधर्मशब्दस्य ऋतुवाचित्वे नपुंसकलिङ्गताप्रसङ्गः । अपूर्ववाचिन एव तस्य पुल लिङ्गत्वात् क्रतुधाचिनस्तस्य तन्नियमात्तनिा सटीक संक्षेपशारीरके- धर्माणि प्रथमान्यासन्निति क्रतुवाचिनो धर्मशब्दस्य नपुंसकलिङ्गत्व- दर्शनाञ्चेति चेत्तत्राह-- पुलॅलिगातापि घटते क्रतुगामिनोऽस्य सूक्ष्मात्मना भवति हि ऋतुरप्यपूर्वम् । तेन क्रतोरुपचरन्नभिदा पुमान्स्यात् क्लीवस्तु धर्ममिति हि क्रतुवाचकत्वे ॥४७३ ॥ पुललिङगतेति । क्रतुगामिनःक्रतुधिषस्यास्य धर्मशब्दस्य पुल लिङ्गतापि घटते कुत इति चेत्तत्राह-सूक्ष्मात्मनेति । यतः क्रतुरपि सूक्ष्मात्मनाऽ पूर्व भवति । तेनापूर्वेण सह क्रतोर्यागस्याभिदामुपचरनुपचारवृत्त्या बोधयन् धर्मशब्दः पुमान्स्यान्पुल लिङ्गः स्यादित्यर्थः । कदापि तर्हि नपुंसकलिङ्गो न भवेत्तत्राह क्लीब इति । अभेदमविवक्षित्वा यदा क्रतुमात्रवाची स्यात्तदा नपुंसकलिङ्गो भवेदित्यर्थः । यद्यपि धर्मशब्दस्य ऋतुवाचित्वे नपुंसकलिङ्गतैव युक्ता तथाप्यपूर्वस्य तोरेव सूक्ष्मरूपत्वात्क्रतोस्तद- भेदविवक्षया तस्य पुलालिङ्गत्वमपि घटते । अभेदविवक्षाच क्रतोः स्व- र्गादिकं प्रत्यव्यवधानत्वज्ञापनार्थमिति भावः ॥ ४७३ ॥ ननु श्रेयःसाधनस्य वाक्यार्थत्वे तस्य प्रधानतयाप्रधानाकाङ्क्षा- नुरोधेनैवाप्रधानानामन्वयात्प्रधानीभूतस्य श्रेयःसाधनयागादेः क्रिया- त्वेन प्रथमं कस्य क्रियेति कळकाशितत्वात्स्वर्गयागयोश्वसाध्यसाधन- त्वेनान्वयादन्यस्य चाभावात्स्वर्गकाम एवादौकर्तृत्वेनान्वयंप्रतिपद्य कर्तु रेव फलभोक्त तायामभेदं फलसाधनं कर्मेति स्वामित्व लक्षणाधिकारा- न्वयं स्वस्थावगच्छ्रतीति वक्तव्यम् । एतच्च स्वर्गकामधिकरणविरुद्ध तत्राधिकारिविशेषणस्यैव स्वर्गस्य कर्तृविशेषणतया स्थितत्वात्तच्च नियोगस्य वाक्यार्थत्वे संगच्छते । तत्र हि नियोगस्य प्रत्ययार्थतया प्रधानत्वेन तदाकाङ्क्षानुरोधेनैवान्येषामन्वयस्य वक्तव्यत्वात्तस्य च - प्रथमोऽध्यायः। । कस्य नियोग इतिनियोज्याकाङ्क्षात्वात्प्रथममेव स्वर्गकामो ममायं नियोग इति नियोज्यत्वेनान्वीयते ममायं नियोग इति स्वामितया- स्वयित्वमेव वाधिकारित्वमपि तदनन्तरं च सनियोगस्वर्गकामकृति- साध्यतयाऽवगतः स्वस्थाभावार्थतया साक्षात्कृतिसाध्यत्वानुपपत्तेः । नियोगनिवृत्तिक्षमे धात्वर्थे नियोज्यस्य कर्तृत्वेनान्वयमाक्षिपतीत्य- धिकारिविशेषणस्य सतः स्वर्गस्य कर्तृविशेषणत्वं सिद्ध्यति । तथा च तदधिकरणविरोधपरिहारार्थ नियोग एव वाक्यार्थः स्वीकर्तव्य इत्याशङ्कयाह- इष्टाभ्युपायवचनो लिङितिस्थितौ च स्याद्भावनावचनताऽस्य यदा तदा च । कत्तु वेदधिकृतिस्तु नियोगवादे स्वाम्ये स्थिते सति भवेदथ कर्तृभावः ॥४७४॥ इष्टाभ्युपायवचन शति । इष्टसाधनवाचक इत्यर्थः । अस्य लिङः, निदर्शनार्थमाह-स्याद्भावनावचनतेति । यदाऽस्य भावनावचनता तदा कर्तुरेवाधिकारस्तथेष्टाभ्युपायवचनो लिङितिस्थितावपि कर्तुरेवाधिकारो नियोगवादे तु स्वाम्यधिकारे स्थित एवार्था- नन्तरं कर्तृत्वमित्यर्थः । एतदुक्तं भवति । यद्यप्यधिकारान्वयपुरस्सर. कर्नान्वयो नियोगवादे भवति अस्मन्मते च न सम्भवति तथापि नैतावताऽस्मन्मते तदधिकरणविरोधो भवति । भावनावादस्योपपत्ते- रिति । एतच्च यागादेः क्रियारूपस्य लिङर्थस्य श्रेयःसाधनस्य श्रेयो- रूपार्थविशेष्यतया प्रधानस्याकाङ्क्षानुसारेणोक्तम् । वस्तुतस्त्वस्म- न्मते साधनस्वरूपप्रतिपत्यर्थ श्रयसोपेक्षितत्वादभिलषितत्वाञ्च श्रेयस एव प्राधान्यात्तदाकाङ्क्षानुरोधेन भोक्तृत्व एव प्रथमं भवतीति स एवान्वयः । पश्चाद्धात्वर्थविषयविधिसामर्थ्याद्धात्वर्थे अधिकारिणः सटीके संक्षेपशारीरक- कन्वय इत्याधिकारान्वयपुरम्सर एव कन्वय इति न तदधिक- रिणविरोधशङ्कापीति द्रष्टव्यमिति ॥ ४७४ ॥ नन्वन्वयव्यतिरेकाभ्यामिच्छैच प्रवर्तिका लोकेऽनुभूयते इष्टसाध- नत्वज्ञानस्यापि तद्वारेणैव प्रवत्तकत्वान्न हि ज्ञानं प्रसह्य प्रवर्तयति साक्षात्प्रवर्तक एव लिङाद्यर्थ इतीच्छैव लिङर्श: नत्विष्टसाधनत्व- मितीच्छाप्रत्ययार्थवादिमतमपाकरोति- इष्टाभ्युपायो विधिरात्मनीच्छा- मुत्पादयन्प्रेरकतामुपैति । इष्टाभ्युपायेऽवगते लिङादे- रिच्छाफलादेनमुपैति सद्यः ॥ ४७५ ॥ इष्टाभ्युपाय इति । इष्टसाधनत्वेन ज्ञायमानो यागादिरित्यर्थः। विधि- विधीयत इति विधिः । मानान्तरेणाज्ञातो लिङादिना श्रेयःसाधनत्वेन शायमानो यागादिरेवात्मनि स्वस्मिन्यागादौ लोके हि स्वेष्टसाधन- स्वप्रकारकशानमेव स्वविषयधात्वर्थविषयेच्छामुत्पादयत्तद्वारा प्रवृ- त्तिकारणं न विच्छामात्रं तस्या ज्ञानपरतन्त्रायाः स्वतन्त्रकारणत्वा- भावात् न हीच्छा स्वसमानविषयज्ञानं विना क्वचित्प्रवर्तिका दृष्टा । नन्विच्छाया उत्पत्तावेव ज्ञानमपेक्ष्यते न तु स्वकार्ये तद्वयतिरे- काभावादिति चेत्सत्यं तथापि ज्ञाते विषये इच्छा नत्वन्यथेति सिद्धं ज्ञानं स्वविषयेष्टसाधनत्वविषयमेव चिकीर्षायाः कारणमुदासीनज्ञाने सति चिकीर्षादर्शनात्ततश्च . यागचिकी- र्षार्थ यागेष्टसाधनत्वज्ञानं न प्रत्यक्षेणानुमानेन वा सम्भवति । तस्य तदगोचरत्वादन्यत्त्वागमेतरन्मानं नियतविषयत्वान्न तत्र प्रवर्तते । तथा च तस्य शाब्दत्वस्य वक्तव्यत्वात्तत्र च पदान्तरस्य तत्राशक्तर्लिङादिपदादेव तदुपस्थितिर्भवतीत्यावश्यकत्वात्तदेव - IMATA

प्रथमोऽध्यायः।
।
लिङर्थः। न च साक्षान्प्रवर्तक एव लिङर्थ इत्यभिलषितसाधन.
त्वज्ञानं विना सा भवति । नन्विच्छाविधानानुपपत्त्या श्रेयः साधनत्व-
ज्ञानात्तत्रेच्छा भवतीति चेत्तर्हि नियमेनापेक्षितत्वेन श्रेयः साधनत्वमेव
लिङादिवाच्यमस्तु। नन्विच्छा ज्ञानमप्यपेक्षत इति चेन्न-प्रवृत्ताविच्छा
मात्रस्यैवोपयोगात्तज्ज्ञानापेक्षायामपि तस्यान्यतः सिद्धत्वेन लिङादे-
स्तत्र कारणत्वानुपपत्तेः इच्छायाः विषयसौन्दर्यलभ्यत्वेन विधातु-
मशक्यत्वाञ्चेति भ वः । नन्विच्छायाः स्वर्गविषयिण्याः कथं क्लेशात्म-
कयागविषयत्वमित्याशङ्कय स्वर्गादौ फलत्वेन प्रथममिच्छायामपि
यागादावपि लिङादिनेष्टसाधनत्वेनावगते इच्छा भवत्येव । तस्याः
फलविषयत्ववत्कलसाधनविषयतौचित्यादित्यभिप्रेत्याह-इष्टाभ्युपाय इति ।
एनमिष्टाभ्युपायं साधनेच्छाया इष्यमाणफलप्रयुक्तत्वात्फलादित्युक्तम्।
मानन्तर्यपञ्चमी वा । फलेच्छानन्तरमित्यर्थः ॥ ४७५ ॥
ननु माभूदिच्छायाः लिङाद्यर्थत्वं तथापीष्टसाधनत्वं कुतस्त-
दर्थों भवेत्प्रवर्तकं हि विध्यर्थः, नत्विष्टसाधनत्वज्ञानं प्रवर्तक
तस्य चिकीर्षायामेव हेतुत्वात्प्रवृत्तिपर्यन्तेच्छाजनकत्वेन ज्ञानस्य
प्रवर्तकशब्दाभिधेयत्वोपपत्तेश्च, अतो नियोग एव प्रवर्तकस्त-
त्रेच्छाया अनपेक्षितत्वादतः स एव लिङाद्यों भवतीत्याशङ्कय
नियोगसहस्त्रेणापीच्छां विना दुःखहेतुयागे प्रक्षावत्प्रवृत्यनुपपत्तेः,
सत्यां त्विच्छायां तदुपपत्तेनियोगोपीच्छामुत्पाद्यैव प्रवर्तयेत्ततः
समानो दोषः, न वा नियोगादिच्छा भवति, तस्या इष्टसाधनत्व-
ज्ञानजन्यत्वादित्यभिप्रेत्याह--
नियोगकोट्याऽपि नरो न कश्चि-
दिच्छां विना दुःखनिदानभूतम् ।
करोति कर्मेह पुमर्थरागा-
प्रवृत्तिरेवेति हि राजमार्गः ॥ ४७६ ॥

सटीके संक्षेपशारीरक- नियोगकोट्येति । नियोगसहस्त्रेणापीत्यर्थः । इह जगति। हिः प्रसिद्धौ। अत एवेच्छया सामान्यतः फलसाधने प्रवृत्तत्वादिष्टसाधनत्वस्य लिडर्थत्वपक्षे विधेरप्रवृत्तप्रवर्तकत्वं न स्यादित्यपि नियोगपक्षे तुल्यम् । तत्रापीच्छा तदधीनसामान्यप्रवृत्तेस्तुल्यत्वात् । अत एव ज्ञानस्य प्रवर्तकत्वप्रसिद्धिरप्योपचारिकोति न कल्प्यमिच्छाया द्वारत्वादिति भावः ॥ ४७६ ॥ नन्विष्टसाधनत्वज्ञानस्य प्रवर्तकत्वमनुपपन्नं सुधामरीचि. मण्डलादाविष्टसाधनत्वज्ञाने सत्यपि प्रवृत्त्यदर्शनात्कर्त्तव्यताबुद्धिस्तु कार्यविषयिणी तत्र नेति तद्वयतिरेकादेव प्रवृत्तिव्यतिरेक इति कथं प्रसिद्ध्युपन्यासेन तस्य प्रवर्तकत्वं प्रमाणसिद्धमपनूयते ततो न श्रेयःसाधनत्वं लिङर्थ इति तत्राह- इष्टाभ्युपायस्य च कार्यभावः प्रयत्ननिष्पाद्यतयोपपन्नः । स चावसेयो वचनाल्लिङादेः प्रत्यक्षतो रागनिबन्धनस्तु ॥ ४७७ ॥ इष्टाभ्युपायस्येति । यदि धात्वर्थव्यतिरिक्तं किञ्चित्कार्य नाम कामि- कर्तव्यबुद्धिविषयः स्यात्तदा तद्वयतिरेकात्प्रवृत्तिव्यतिरेकः क्वचित्स्या- न्न त्वेदस्ति हि यतः इष्टाभ्युपायस्य श्रेयःसाधनधात्वर्थस्य कार्यभावः कामिकर्त्तव्यत्वमुपपन्नं तत्र हेतुः प्रयत्न पाद्यतयेति । कृतिसाध्यत्वा- दित्यर्थः । तथा च कृतिसाध्यतया श्रेयःसाधनयागस्यैव कर्त्तव्य- तोक्त्या कृतिसाध्येष्टसाधनताज्ञानं प्रवर्तकमित्युक्तम् । अतस्तद्वय- तिरेकादेव प्रवृत्तिव्यतिरेक इति कृतिसाध्यश्रेयःसाधनत्वमेव लिङर्थ इत्याह-सचेति । स कृतिसाध्येष्टाभ्युपायः, अवसेयो-निश्चेयः । चश- 1 प्रथमोऽध्यायः । ब्दोऽवधारणे । ननु कृतिसाधनत्वेन यागस्य कार्यत्वेपि कृत्युद्देश्यता- लक्षणं कार्यत्वं नियोगस्यैव स एव प्रवर्तको लिङर्थ इत्याशङ्कय तदपि यागस्यैव तच्च प्रत्यक्षेणावसीयत इति न लिङर्थ इत्याह- प्रत्यक्षतइति । रागनिबन्धनो-रागविषयत्वघटित इत्यर्थः ॥ ४७७ ॥ ननु क्लेशात्मकस्य थागस्य कथं कृत्युद्देश्यत्वमित्याशङ्कय श्रेयः- साधनत्वेन कृतिजनकचिकीर्षाविषयत्वाख्यं कृत्युइंश्यत्वं तस्य सम्भवतीत्याह- कार्यत्वमिच्छावशवर्ति किञ्चि- दिष्टाभ्युपाये निजमस्य किञ्चित् । निजं लिङादेरवसेयमस्य साक्षिप्रमादादितरप्रतीतिः॥४७८॥ कार्यत्वामति । इष्टाभ्युपाये इच्छावशवीच्छाधीनं किञ्चिच्चिकीर्षा- विषयत्वलक्षणं कृत्युद्देश्यत्वाख्यं कार्यत्वमस्ति । अस्येष्टाभ्युपायस्य निजं स्वाभाविक किञ्चित्कृतिसाध्यत्वलक्षणं कार्यत्वम् । तच्च लिङादेः सकाशादवसेयं न तु कृत्युद्देश्यत्वाख्यं कार्यत्वं तस्येच्छाविषयत्वस्य साक्षिणैव सिद्धत्वात् कृतिसाध्यश्रेयःसाधनत्वस्य शब्दै गम्यत्वा- त्तदेव लिङाद्यर्थ इत्यर्थः । ननु माभूत्कृत्युद्देश्यत्वाख्यं कार्यत्वं लिङर्थः कृतिसाध्येष्टसाधनत्वापेक्षया लाघवात्कृतिसाध्यत्वाख्यं कार्य लिङर्थः प्रवर्तकं च भवत्त्विति चेत्तहि स्वशिरश्छेदादौ किमिति न प्रवर्तेत । नन्विष्टसाधनताज्ञानजन्यं कार्यताज्ञानं प्रवर्तकमिति चेत्तर्हि तुल्यं गौरवम् ।तर्हि चिनिगमनाभावात्कस्य प्रवर्तकत्वं निर्धा- र्यत इति चेदुच्यते । यदवच्छेदेन यस्य प्रवृत्तित्वावच्छिन्नं प्रति नियतपूर्ववर्तित्वं तस्य तद्धतुत्वं युचितमनुगते कारणे संभवन्य- ननुगततत्कल्पनाऽयोगात्कृतिसाध्येष्टसाधनताज्ञानं च तथा न तु ४५२ सटीके संक्षेपशारीरके- श्रेयः साधनत्वज्ञानजन्यकार्यताज्ञानं वैदिक्यां प्रवृत्तौ तदभावात्तत्र कार्यताज्ञानस्य शब्देकजन्यस्येष्टसाधनताज्ञानजन्यत्वाभावात् । नन्विष्टसाधनविषयकार्यताज्ञानं प्रवर्तकं तञ्च तत्राप्यस्तीति चेद्यदीष्ट. साधनत्वमज्ञायमानमेव प्रवर्तकज्ञानावच्छेदकमित्युच्येत तदसद्वस्तु- गत्येष्टसाधनेपि कदल्यादौ तदज्ञानदशायां प्रवृत्त्यदर्शनादन्यथोपेक्षा- ज्ञानादपि प्रवृत्त्यापाताद्यदि चप्रवर्तकज्ञानविषयं सदेव तत्तदवच्छे- दकमिति षे तर्हि वैदिककार्यताज्ञानस्य तदविषयत्वात्तत्र प्रवृत्यनुप- पत्तिस्तदवस्थैव तस्मात्कृतिसाध्येष्टसाधनत्वज्ञानस्य प्रवृत्यव्यभिचा- रेण प्रवर्तकत्वात्कृतिसाध्येष्टसाधनत्वमेव लिङर्थ इति भावः ॥ ४७८ ॥ स्वोक्त लिङर्थ श्राचार्यबचनं प्रमाणयति- 40mAMAND जानात्यर्थे लिङ्पदं गौणमाहु- र्जानात्यर्थः कर्तृतन्त्रो न हीष्टः। यागाद्यर्थे कतृतन्त्रे हि मुख्यो लिङ्लोडादिः श्रेयसो हेतुभूते॥४७॥ जानात्यर्थ इति । प्रमाणज्ञान इत्यर्थः । लिङ्पदं पश्येदित्यादिकमाहु- राचार्या इति शेषः । तत्र हेतुः जानात्यर्थः कर्तृतन्त्रो नचेष्ट इति । चो- हेतौ यतः प्रमाणज्ञानं पुरुषेच्छाधीनकृतिनिष्पाद्यतया नेष्टं तत इत्यर्थः । प्राचार्याः लिङादयः श्रूयमाणा अप्यनियोज्यविषयत्वत्कुण्ठी- भवन्तीन्यादिभाष्ये इष्टसाधनेपि ज्ञाने श्रूयमाणं पश्यदित्यादिलिङ्- पदं गौणमेव न मुख्यमित्याहुः। तत्र वोज ज्ञानस्य पुरुषतन्त्रत्वाभावेन- विधिजन्यपुरुषेच्छाधीनप्रयत्नानिष्पाद्यतया तद्विषयलिङादेः स्ववाच्यै- कदेशेष्टसाधनत्वमात्रबोधकत्वमेव वक्तव्यम् । तथा च कृतिसाध्येष्ट- साधनत्वमेव लिङर्थ इति तेषां संमतमित्यर्थः। ननु ज्ञाने विधेगौण- त्वे कुत्र तर्हि विधेर्मुख्यत्वं कृतिसाध्यत्वश्रेयसाधनत्वोभयरूपवति प्रथमोऽध्यायः। यागादावित्याह-यागाधर्थ इति । हिः प्रसिद्धौ। यद्वा ज्ञानस्याकर्तृतन्त्रत्वे- लिपदं किमिति मुख्यं न भवेत्तत्राह-यागाद्यथ इति । हि यतः कर्तृतन्त्र विधिजन्यपुरुषेच्छानिष्पाद्य एव श्रेयः साधने यागादौ लिङादिU. ख्यस्तस्यैव विधेयतायोग्यत्वादतो न श्रेयः साधनमात्रे ज्ञाने लिङा- दिमुख्य इत्यर्थः ॥ ४७६ ॥ नन्वेवं ज्ञानस्येष्टसाधनत्वमपि न स्यात् कृ तिसाध्यस्यैव श्रेयःसाधनत्वदर्शनात्तत्राह- जानात्यर्थे श्रेयसो हेतुभाव- भागोऽबुद्धो बोध्यते लिङ्पदेन । यागाद्यर्थे श्रेयसो हेतुभावो मुख्यो बोध्यः कर्तृतन्त्रो न गौणः॥४८०॥ जानात्यर्थे श्रेयस इति । आत्मसाक्षात्कारे भागः कृतिसाध्यष्टसाध- नत्वलक्षणलिङथैकदेशः श्रेयसो हेतुभावो ह्यबुद्धो मानान्तरेणानधि- गतो लिङादिपदेन बोध्यते । अतो न तदभावो न हि साधनस्य साधनत्वे कृतिसाध्यत्वं प्रयोजकं न वा कृतिसाध्यत्वं तत्र प्रमाणम् । आसाध्यस्यात्मादेरपि श्रेयोहेतुत्वात् ज्ञानादिगतस्य तस्य लिङादिनैव बोध्यत्वाच्च । यद्यपि श्रेयःसाधनत्वमेव न लिङर्थस्तथापि लिङ्पदं तत्र प्रवर्तमानं स्ववाच्यैकदेशं श्रेयःसाधनत्वमादायैव प्रवर्तते निर्बीजपदप्रवृत्तरयोगात् । अन्यस्य च स्वार्थाविनाभावादेरभावादतो यस्तु मुमुक्षुर्मोक्षसाधनं न जानाति तच्च जिज्ञासते तं प्रत्यात्मन्ये- वात्मानं पश्येदित्यादिवाक्यं ज्ञानस्याधिकारिविशेषणमोक्षाख्येष्ट- साधनतां बोधयति ज्ञानं मोक्षसाधनमिति न चायमर्थः प्रमाणा- न्तरेणापोद्यत इति भावः । नन्वेवं यागादावपि लिङथों मुख्यो न भवेत्तस्य कृतिसाध्यत्वेऽपि मोक्षसाधनत्वाभावेन निरतिशयश्रेय:- सटीक संक्षेपशारीरके. साधनत्वाभावात्तत्राह-यागाद्यर्थ इति । अमुख्य इतिच्छेदः । व्युत्पत्ति- काले हि लिङ्गादिपदं कृतिसाध्यश्रेयःसाधनवमात्रे व्युत्पद्यते न मोक्षसाधनत्वे तस्य तदानुपस्थानात् । ततः स्वर्गादेः सुखाभास. स्थापि पुरुषविशेषं प्रतीष्टत्वाद्यागादेरमुख्यश्रेयःसाधनत्वस्य सत्त्वा. स्कृतिसाध्यत्वाच तत्र लिङादिमुख्य एव न गौणो न कृतिसाध्यत्व मात्रपर इत्यर्थः ॥४८०॥ तहि किं भाध्यकारस्य न वेदान्तेषु कुत्रापि संमतो विधिः? क्वचित्संमत एवेत्याह यागाद्यर्थे मुख्यता यदस्य ब्रह्मज्ञानस्यान्तरङ्गेषु तत्। तर्कादीनां कर्तृतन्त्रत्वहेतो- ज्ञानादर्वाग्गौणताहेत्वभावात् ॥४८॥ यागाद्यर्थ इति । अस्य विधेर्यद्वद्यागाद्यथै मुख्यता तद्वद् ब्रह्मज्ञानस्या- न्तरङ्गेषु विविदिषानन्तरमपि यावज शानमनुष्ठयेषु श्रवणादिसाध- नेष्वपीत्यर्थः । ननु श्रवणादेर्शानरूपतया पुरुषप्रयत्नानिष्पाद्यत्वात्कथं तत्र विधिमुख्यार्थ इति तत्राह-तादीनामिति । तर्कादिः प्रमाणप्रमेय. संभावनादिविषयश्रवणादिः । लोके हि वह्नयादिविषयतर्कस्य प्रमाणप्रमेयपारतन्त्र्यं विना पुरुषेच्छाधीनन्वं दृश्यते । अतः श्रवणा- देरपि तात्मकत्वात्तस्य च पुरुषतन्त्रत्वान्न तस्य विधेयत्वं विरुद्ध्यत इत्यर्थः। । ननु लोके तर्कस्य पुरुषप्रयत्न निष्पाद्यत्वेपि न श्रवणादेस्त- थात्वं युज्यते । अद्वैतिमते नियोगनियोज्यादेर्भेदाभावात्तं विना धात्वर्थस्य कृतिसाध्यत्वाभावादित्याशङ्कय नियोगादेर्वास्तवभेदा- भावेपि ज्ञानात्प्राक्कल्पितभेदस्य यागादाविव संभवाद्यागादिविधि- प्रथमोऽध्यायः । ४५५ । वत्तद्विधिरपि संभवतीत्याह-शानादीति श्रात्मसाक्षात्कारात्प्राक गौणताहेतोनियोगादिभेदाभावस्थाभावादित्यर्थः ॥ ४८१ ॥ ननु वेदान्तेषु विधिसंभवे तत्प्रतिपाद्यस्य भूतस्य ब्रह्मणो भव्य- शेषत्वेन स्वप्राधान्यं न स्यादित्याशङ्कयाह- भूतस्य भव्याय यथोपदेशः क्रियापरे वस्तुपरे तु काण्डे । न हीमेवं विपरीतमस्मि- भव्यस्य भूताय सदोपदेशः ॥ ४८२॥ भूतस्येति। यथा क्रियापरे कारडे कर्मकाण्डे भूतस्य यूपादेरुपदेशो भव्याय एवं वस्तुपरे काण्डे नहीष्टं नैवेष्टं किन्तु विपरीतमित्यर्थः । वैपरीत्यमेवाह-अस्मिन्भव्यस्येति । भव्यस्य श्रवणादेरुपदेशो भूताय भूत- ब्रह्माभिव्यक्तय इत्यर्थः। यद्यपि भव्याय भूतमित्यत्रायमर्थ उक्तस्तथापि विध्यङ्गीकारे ब्रह्मणोपि विधिशेषत्वं स्यादित्याक्षिप्य समर्थ्यते । प्रति- ज्ञामात्रं च तत्र कृतम् अत्र तु तदुपपादनमपीतिन पौनरुत्यम् ॥४८२॥ ननु वैपरीत्याङ्गीकारे कि बीजमित्याशङ्कयाह-- भव्यप्रतीतावुपयोगभाजो भवन्ति कात्स्न्येन च सिद्धवादाः। क्रियाप्रधाने न तथाऽत्र किन्तु भूतप्रतीतो खलु भन्यवादाः ॥ ४८३ ॥ - भव्यप्रतीताविति । क्रियाप्रधाने काण्ड इति शेषः । अत्र ब्रह्मकाण्डे भूतप्रतीतौ ब्रह्मप्रतीतौ भव्यवादाः श्रवणादिविधयः यद्धि यदपेक्षित- ४५६ सटीके संक्षेपशारीरके- BAHANI मर्थ तदर्थमेव बोधयति तत्तच्छेषमिति वक्तव्यम् । यथा यूपादि। नच तत्वमादिवाक्यानि श्रवणविधिसाध्यज्ञानविषयमात्मानं तदर्थमेव बोधयन्ति स्वार्थावगमादेव परमपुरुषार्थसिद्धस्तथा च श्रवणादि विधेरेव तत्त्वमादिवाक्यार्थब्रह्माविचाल्याभिव्यक्तिहेतुतया तच्छेषत्व- मित्यर्थः॥ ४८३॥ ननु वेदान्तानां श्रवणादि विधिपरत्वे ब्रह्मणोऽसिद्धिप्रसङ्गः । तत्र प्रमाणान्तराभावाद्वेदान्तानां ब्रह्मण्यपि तात्पर्ये वाक्यभेदप्रसङ्गात् । न चावान्तरतात्पर्याद्वेदान्तादद्वैतब्रह्मसिद्धिरिति वाच्यम् । प्रमाणा- न्तरविरोधे ततस्तदसिद्धः । न च ब्रह्मणि वेदान्तानां महातात्पर्य विधौ त्ववान्तरतात्पर्यमिति वाच्यम् । अन्यत्र विधावेव महातात्प- यस्य क्लप्तत्वादित्याशङ्कयाह- भव्यप्रतीतौ न हि कश्चिदर्थो भूतप्रतीतौ पुनरस्ति मुक्तिः । श्रोतव्य इत्यादि ततो विधानं भूतोपदेशानुगुणं समस्तम् ॥४८४॥ भव्यप्रतीताविति । हि यतो भव्यस्य श्रवणादेः कश्चिदर्थो न स्वा- तन्त्र्येण प्रयोजनं नास्ति भूतस्य ब्रह्मात्मनः प्रतीतो साक्षात्कारे तु मोक्षः प्रयोजनं विद्यते । ततः श्रोतव्य इत्यादि समस्तं विधानं भूतोपदेशानुगुणमेव न स्वप्रधानं तथा च स्वातन्त्र्येण परमपुरुषार्थ- साधने ब्रह्मण्येव महातात्पर्य विधेरपि महातात्पर्यविषयत्वे तस्यैव प्रयोजकत्वादतो वेदान्तैरवान्तरमुख्यतात्पर्यभेदेन विधिब्रह्मोभय- विषयैरुभयसिद्धर्नान्यतरस्याप्यसिद्धिरिति भावः ॥ ४८४ ॥ - ननु कर्मकाण्डे सिद्धबोधिवाक्यानि मुख्यगुणलक्षणान्यतमया প্রখমts:। वृत्त्या भव्यवाक्यशेषतां भजन्ते । अत्र भव्यवाक्यानि तु कया वृत्त्या भूतवाक्यशेषतां भजेरन् मुख्यार्थस्य सर्वत्रासंभवादित्याशङ्कय तदेवेत्याह--- श्रादाय मुख्यगुणलाक्षणिकप्रवृत्ती- भव्यप्रतीतिजनकैः सह भूतवादाः । सम्बन्धिनो विधिवचःसु तथाऽत्र सर्वे भव्यार्पणाः परिवृढप्रतिपादकेन ॥४८५॥ श्रादायेति । यथा विधिवचःसु विधिवाक्येषु विधिप्रकरणेषु भूतवादा: भूतं वदन्तीति यूपादिवाक्यानि मुख्यगुणलाक्षणिक प्रवृत्तीरादाय भव्यप्रतीतिजनकैः यूपे पशुं बनीयादित्यादिविधिपदैः सह सम्बन्धिनो भवन्ति । तथाऽत्र ब्रह्मकाण्डे सर्वे भव्यापणाः शब्दाः श्रवणादिविधयः परिवृढप्रतिपादकन स्वप्रधानब्रह्मप्रतिपादकेन तत्त्वमादिवाक्येन सम्बन्धिनो भवन्तीति सम्बन्धः । कर्मकाण्डे हि भूतवादा न नियतविध्यन्वयं प्रतिपद्यन्ते । किन्तु कश्चित्कयाचिद्वत्त्या यथा यूपं तक्षति यन्न दुःखेन संभिन्नमित्यादिवाक्यस्थयूपस्वर्गादि- पदानि मुख्यया वृत्त्यैव स्वार्थ बोधयन्ति विधिना संगच्छन्ते । यथादित्यो यूप इत्यादिवाक्यस्थादित्यादिपदानि तेजस्वित्वादि- गुणयोगेन गौण्या वृत्त्याऽर्थ बोधयन्ति विध्यन्वयं भजन्ते । यथा वा वायुर्वै क्षेपिष्ठा देवतेन्यादीनि प्राशस्त्यं लक्षणयावगमयन्ति विध्यन्वयिनो भवन्ति । एवं वेदान्तेपि श्रवणादिवाक्यं मुख्यया वृत्त्या स्वर्थ बोधयद्ब्रह्मप्रतिपत्तिप्रतिबन्धनिवृत्तिद्वारा तत्त्वमादि- वाक्येन संगच्छते । पश्येदित्यादि वाक्यं त्विष्टसाधनत्वगुणयोगेन ज्ञाने प्रवर्त्तमानं तत्साधनश्रवणादिप्रवृत्तिद्वारा ब्रह्मप्रतिपत्तिहेतुतया सटीके संक्षेपशारीरके- तत्त्वमादिवाक्येनान्वीयते तद्विजिज्ञासस्वेत्यादिक त्वंतर्नतिज्ञान- साधनश्रवणादिलक्षणया महावाक्येनान्वीयत इत्यर्थः ॥ ४८५ ॥ ननु युक्तं कर्मकाण्डे सिद्धवाचिपदेषु लक्षणागुणवृत्याश्रयणं तद्विज्ञास्वेत्यादिषु तु तन्न युक्तं विधित्वान्न विधौ पर शब्दार्थ इति न्यायादित्याशङ्कयाह- सिद्धार्थवादिवचनेषु न गौणतादि- दोषाय कर्मपरवाक्यगतेषु यद्वत् । कार्यावादिवचनेषु न गौणतादि- दोषस्तथोपनिषदीति समानमेतत् ॥ ४८६ ॥ सिद्धार्थेति । यद्वत्कर्मपरवाक्यगतेषु कर्मकाण्डगतेष्वादित्यादि- सिद्धार्थवदनशीलेषु गौणतादिन दोषाय तद्वदुपनिषदि कार्यार्थ- वाचिषु पश्यदित्यादिषु गौणतादिन दोषायेति । एतल्लक्षणादिक कर्मकाण्डे सिद्धवाक्यानामिव ब्रह्मकाण्डे कार्यवाक्यानामपि तुल्यं गुणप्रधानवैपरीत्येन गुणे त्वन्यायकल्पनेति न्यायस्य तुल्यत्वादर्धमन्त- बंदीत्यादौ विधावपि लक्षणादर्शनाञ्चेत्यर्थः ॥ ४८६॥ ननु काण्डद्वयस्यापि ब्रह्मवादिनैकवाक्यत्वाभ्युपगमात्कथं भूतभव्यन्यायवैषम्यम् अर्थभेदाभावादित्याशङ्कय विवक्षितार्थ- भेदाभावेप्यर्थभेदसत्त्वात्प्रमाणप्रमेययोरत्यन्तवैलक्षण्यवत्तद्विषयन्याय- वैलक्षण्यमपि न दोषाय भवतीत्यभिप्रेत्य प्रमाणप्रमेयवैलक्षण्यं दर्शयति- मानेन मेयावगतिश्च युक्ता धर्मस्य जाड्याद्विधिनिष्ठकाण्डे ।

प्रथमोऽध्यायः । मेयेन मानावगतिश्च युक्ता वेदान्तवाक्येष्वजडं हि मेयम् ॥ ४८७ ॥ मानेनेति । विधिवाक्येनेत्यर्थः । इदं च प्रमात्रादेरप्युपलक्षणम् । मेयं धर्मः प्रतिज्ञातार्थे हेतुमाह--धर्मस्थेति । मेयेन मेयत्वाभिमतेन ब्रह्मणा मानं तत्त्वमादिवाक्यमुक्तार्थे हेतुः-अजडमिति । हि यतो- वेदान्तवाक्येषु तु मेयमजई स्वप्रकाशं ततो मेयेन मानावगतिर्युक्तति सम्बन्धः। धर्मो हि जडत्वाञ्चोदनाप्रमाणगम्यः । न चोदनादिस्त- द्गम्यः । ब्रह्माकारसंपादकतया तस्य प्रमेयत्वेनाभिमतमपि स्वयं प्रकाशतया न वेदान्तप्रमाणगम्यं किन्तु वेदान्ता एव तेनावेद्यन्त इत्यर्थः ॥ ४८७॥ नन्वाख्यातप्रधानपदसमूहो वाक्यमिति वाक्यलक्षणं नैरुक्ता- दिभिरुच्यते आख्यातं च भवद्भिस्तत्त्वमादिषु न विवक्षित- मङ्गीक्रियते अतो वेदान्तानां वाक्यत्वमेव न कुतस्तस्य ब्रह्मप्रमाणता कुतस्तरां मानमेयादिवैलक्ष्यण्यमिति चेन्न तल्लक्षणस्य क्रियावाक्य- परत्वाद्ब्रह्मवाक्यं तु नामप्रधानमेव अतो न प्रमाणादिवैलक्षण्या- नुपपत्तिरित्यभिप्रेत्याह- कर्मप्रधानेऽतिगते च काण्डे वाक्यत्वमाख्यातपदप्रयुक्तम् । ब्रह्मप्रधाने श्रुतिमस्तकेऽस्मि- नामप्रधानं वचनं समस्तम् ॥ ४८८ ॥ कर्मप्रधान इति । अतिगतेऽतिक्रान्ते पूर्वस्मिन्नित्यर्थः । स्वस्वपदार्थानां परस्परान्वयप्रतिपादकपदसमूहो वाक्यमिति हि तल्लक्षणं तच्चान्वय- सटीक संक्षेपशारीरके- प्रतिपादनं क्रियावाक्ये क्रियाकाङ्क्षावलेनेति क्रियापदान्वयप्रयुक्तमि- त्याख्यातप्रयुक्तत्वं वाक्यत्वस्योच्यते । न तु तल्लक्षणया । अन्यथार्थ वादपदानां परस्परान्वयस्यावाक्यत्वप्रसङ्गात्तेषामपि वाक्यत्वस्य कैश्चिदङ्गीकृतत्वाद्ब्रह्मवाक्यस्थपदानि तु न स्वार्थान्वये क्रियामपेक्षन्ते तत्त्वंपदार्थावबोधस्यैव सकलपुरुषार्थसाधनतया नामपदार्थस्यैव प्रधानत्वान्नामपदप्राधान्यमेवात्र युज्यत इति भावः । यद्वा न केवलं काण्डद्वयस्य भूतभव्यन्यायवैपरीत्यमपि तु मुख्यलक्षणादिमानमेय- विभागादिवैलक्षण्यमपि संभवतीत्याह-श्रादाय मुख्यत्यारभ्य श्लोकचतुष्टयेन ॥४८॥ ननु यत्राख्यातपदमर्थवादादिषु न श्रूयते तत्र स्वखार्थान्वय- बोधजनकपदसमूहत्वेन वाक्यत्वमस्तु यत्र तु तच्छ्र यते । तत्र तद- न्वितत्वस्य वाक्यलक्षणत्वाभावेपि तदधीनमेव वाक्यस्य स्वार्थ. बोधकत्वं वक्तव्यमन्यथाख्यातपदस्यान्वयप्रसङ्गादस्ति च वेदान्ते- वस्त्यसम्यसीति क्रियापदमतस्तदनुरोधेनैव वाक्यस्य स्वार्थ- बोधकत्वं वक्तव्यमिति न क्रियावाक्यवैलक्ष्यण्यमित्याशङ्कय यत्रा- ख्यातपदं विवक्षितार्थं भवेत्तत्रैव तदनुरोधित्वं वाक्यस्यास्म्यादीनां तु शब्दतः आख्यातत्त्वेप्यर्थतो नामत्वमेव यथा शब्दतः सुबन्तस्यापि कर्मपदस्थार्थत आख्यातत्त्वमिति न तत्त्वमादिवाक्यस्य नामप्राधान्य- प्रच्युतिरिति वक्तुं पूर्वोक्तमर्थ स्मारयति- कार्यप्रधानमखिलं च पदं सुबन्त- माख्यातमेव फलतः खलु कर्मकाण्डे । तत्तिङन्तमपि वेदशिरःसु सर्व नामैव तद्धि परिनिष्ठितवस्तुनिष्ठम् ॥ ४८६ ॥ कार्यप्रधानमिति । कार्य कर्त्तव्यरूपोऽर्थः प्रधानं तात्पर्येण प्रमेयं

प्रथमोऽध्यायः।
यस्य पदस्य तत्तथा । इदं च तस्याख्यातत्त्वे हेतुः। सुबन्तं शब्दतः
सुबन्तम्; फलतोऽर्थतः कर्त्तव्यार्थप्रतीतिजनकस्यैवाख्यातत्त्वात् कर्त्त-
व्यार्थबोधकं नामपदमप्याख्यातमेवेत्यर्थः । तद्वन्नामपदवत् तिङन्तं
शब्दतस्तिङन्तमपि नामैवार्थतो नामैव तत्र हेतुस्तीति हि यत-
स्तिङन्तपदं परिनिष्टिनिष्ठं ततोऽभव्यार्थबोधित्वस्यैव नामत्वा-
दित्यर्थः ॥ ४ ॥
name
अत्रापि पूर्वोक्तमेवोहरणं स्मारयति-
आग्नेयमाश्विनमथैन्द्रमितीदृशं हि
सर्व सुबन्तमपि भव्यपरं प्रसिद्धम् ।
साऽभ्येति तद्धितसमन्वितसंनिधाने
नामैव तद्भवति यद्भवतीति तद्वत् ॥ ४६०॥
ननु कथं
सम्बन्धाय
आग्नेयमाश्विनमथैन्द्रामति । आग्नेयोऽष्टकपालः आश्विनं द्विकपाल.
ऐन्द्रमेककपालमित्यादौ विद्यमानाग्नेयादिपदानां ग्रहणं भव्यपरं
प्रसिद्ध कृतिसाध्ययागादिपरमिति प्रसिद्धमित्यर्थः
नाम्रो भव्यार्थोपस्थापकावं लिङादेव तद्वाचकत्वादित्याशङ्कय
तद्धितप्रत्ययबलादित्याह- साऽस्येति । सास्य देवतेति सूत्रेण देवता-
विहितो यस्तद्धितस्तत्समन्वितनामबलेन तत्समन्व-
यबलादित्यर्थः । नामैवार्थत इति शेषः । भवतीति पदमिति शेषः ।
तद्वद्यथाऽग्नेयादिपदमाख्यातं तथा यद्भवतीति पदं तदर्थतो नामै-
वेत्यर्थः । श्राग्नेयोऽष्टाकपाल इत्यादिपदं सुबन्तमपि तद्धितबलेन
द्रव्यदेवतासम्बन्धबोधनद्वारा भव्यार्थबोधकत्वादाख्यातमेव तस्य
तल्लक्षणत्वात्तथा शब्दत आख्यातमपि भवतीत्यादिपदं भव्यार्थबोधक-
त्वान्नामैव भवत्यर्थस्य पुरुषप्रयत्नासाध्यत्वादित्यर्थः ॥ ४६० ॥

लटाक सक्षपशारारक- ननु तत्रानुपपत्त्या भवत्यादेर्नामत्वेपि नास्त्यादेर्नामत्वं ने हनुमानेन नामत्वं साधनीयं गच्छतीत्यादौ व्यभिचारादित्याशङ्कया- त्राप्यस्त्याद्यर्थस्यात्मसत्तारूपत्वादभव्यार्थनिष्ठतया नामत्वमेव युज्यत इन्याह-- अस्त्यम्यसीति च तिङन्तपदानि सन्ति वेदान्तवाक्यनिलयानि तथाऽपि तानि । नाऽऽख्यातशब्दनिजशक्तिधुरं वहेयु- रस्तित्वमात्रविषया हि निषक्तिरेषाम् ॥ ४६१ अस्त्यस्यसीति आख्यातशब्दनिजशक्तिधुरमाख्यातशब्दस्य निजासाधारणी कार्यार्थविषया शक्तिस्तस्या धुरं भव्यार्थप्रतीति- लक्षणकार्यमाग्नेयादिपदस्थ द्रव्यदेवतासम्बन्धमात्रनिष्ठशक्तित्वा- दर्थलभ्यत्वाद्भव्यस्य कार्यविषयिण्याः शक्तराख्यातपदासाधारणत्वं न विरुद्ध्यत इत्यर्थः । न वहेयुरित्यत्र हेतुमाह-अस्तित्वेति । हि यत एषामस्त्यादिपदानां निषक्तिरन्वयात्मास्तित्वमात्रविषया इत्यर्थः ॥ ४६१॥ ननु सर्वेषामाख्यातानां यत्नरूपक्रियावाचित्वाद्यनस्य भव्यार्थविषयित्वात्तदगोचरस्यास्त्यादेः कथं शब्दतोप्याख्यातत्व- मर्थाभावादित्याशङ्कय यथा धात्वर्थव्यतिरिक्तकार्याभावेपि करोती- त्यादौ शब्दसाधुत्वार्थ तिङ्मयोगः । न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय इति प्रत्ययविशिष्टप्रकृतिप्रयोगस्य साधुत्वानु- शासनात्तथा प्रकृतेपीत्यस्त्यादेरर्थत आख्यातत्वाभावज्ञापनायाख्या. तार्थकथनपूर्वकमाह-

प्रथमोऽध्यायः।
४६३
पूर्वापरीभूतपदार्थनिष्ट-
माख्यातमाख्यातविदो वदन्ति ।
कूटस्थसत्तावगतिप्रधान-
माख्यातवत्साधु तिङन्तमाहुः ॥ ४६२ ॥
पूर्वापरीभतेति । पृर्वापरीभूतः पूर्वापरीभावमापन्नः क्रियासमूह-
रूपो यः पदार्थस्तनिष्ठं तद्विषयकृतिनिष्ठमित्यर्थः । पदमिति शेषः ।
श्राख्यातमिति वदन्तीति सम्बन्धः । कूटस्थसत्तावगतिप्रधानं कूटस्था-
त्मरूपा या सत्ता तद्विषणी या अवगतिः । सा प्रधानं यस्यास्त्यादि-
तिङन्तस्य तत्तथाख्यातवदाख्यातसदृशं न तु मुख्यमाख्यातमित्यर्थः ।
साधु साधुशब्दं कूटस्थसत्तावगतिप्रधानं तिङन्तमाख्यातवत्साध्वा-
हुरिति सम्बन्धः ॥ ४६२॥
इदानीं वेदान्तानामस्तित्वमात्रनिष्ठत्वमसहमानः प्राभाकरश्वो-
दयति ।
अस्तित्त्ववस्तुविषयोपनिषन्निषक्ति-
राश्रीयते यदि तदा प्रमितं प्रमेयम् ।
तस्यास्तवाऽऽपतति मानमितत्वमेव
ह्यस्तित्वमात्मगतमभ्युपयन्ति धीराः ॥ ४६३ ॥
अस्तित्वेति यदुपनिषदस्तिविषया सत्तामात्रविषयेत्युच्यते
तदा तस्याः प्रमितं मानान्तराधिगतं प्रमेयमित्यापतति । कुतः ।
हि यतो मानमितत्वं मानविषयत्वमेवात्मगतमस्तित्वं सत्त्वमित्यभ्युप-
यन्तीति सम्बन्धः । आत्मगतमिति । तत्प्रकरणत्वादुक्तं मानान्तर
विषयत्वस्यैव सत्त्वात्तद्गोचरत्वे वेदान्तानामनुवादप्रसङ्ग
इत्यर्थः ॥ ४६३ ॥

सटीके संक्षेपशारीरके- ननु मानमितत्वस्यास्तित्वेऽज्ञानदशायां वस्तुनोऽसत्त्वप्रसङ्गः । ततः स्थायिपदार्थापलाप इत्याशङ्कय मानयोग्यत्वस्यैव सत्त्वान्मै वमित्याह- अथवा मितियोग्यताऽस्तिता निरवद्याऽस्तु समस्तवस्तुषु परमात्मनि तत्प्रतीयते सकलं वेदशिरः प्रवर्नताम् ॥ ४६४ ॥ - अथवेति । मितियोग्यता मितिविषयत्वयोग्यता मानान्तरविषय- त्वात्यन्ताभावानधिकरणत्वमिति यावत् । सा च वस्तुनो यावत्स्व- रूपभाविनीति नोक्तदोष इत्याह-निरवद्येति । तत्प्रतीतये मानान्तर- योग्यत्वलक्षणसत्ताप्रतीतये तथा च सापेक्षतालक्षणमप्रामाण्यं स्यादित्यर्थः ॥ ४६४॥ परिहरति- तदसुन्दमात्मसंविदोरपि सत्ता भवताऽभ्युपेयते । नतयोर्विषयत्वहीनयोर्मितियोग्यत्वमितित्वसंभवः ४६५ तदसुन्दरमिति । तन्मानयोग्त्यवं सत्त्वमित्येतदसुन्दरमित्यर्थः । तत्र हेतुः-प्रात्मेति । यदि मानान्तरयोग्यत्वं सत्त्वं तात्मतत्समवेत- ज्ञानयोः सत्त्वं भवदभ्युपगतं न स्यादित्यर्थः । तत्रापि हेतुमाह- न तयोरिति । प्रभाकरनये ज्ञानस्य स्वयंप्रकाशत्वाभ्युपगमादात्मनश्च तदाश्रयतया भानेन तद्विषयत्वतद्योग्यत्वयोरभावात्तयोरसत्त्वे न्मूलजगन्मात्रमसत्स्यादित्यर्थः । तथा च स्वरूपमेव सत्त्वमिति न तद्विषयवेदान्तानामप्रमायमित्यर्थः । एतच्च यद्यपि यत्तु प्रमाण- प्रथमोऽध्यायः । मित्यत्राशय परिजहार तथापि गुरुणोक्तमिति श्रद्धाजडानां तत्रास्था माभूदिति पुनरुक्तिरर्थवतीति द्रष्टव्यम् ॥ ४६ ॥ एवं वेदान्तानां सिद्ध ब्रह्मण्येव तात्पर्य न कार्ये तच माना- न्तरमनपेक्ष्यैव, फलपर्यवसायित्वं च प्रवृत्तिनिवृत्ती विनैवेत्यादि वाक्यार्थविषयं समन्वयसूत्रसूचितन्यायकलापं दर्शयित्वा जन्मादि- सूत्रसूचितन्यायकलापं यतो वेत्यादिवाक्यापेक्षितं तत्पदार्थविषयं प्रदर्शयितुमुपक्रमते । तत्रेयमाशङ्का ! यत्तत्त्वमादिवाक्यप्रमेयमित्युक्तं तत् किंलक्षणकं तत्र किं ब्रह्मणः स्वरूपलक्षणं पृच्छसि किं वा तटस्थ- लक्षणं यदि स्वरूपलक्षणं तदा सत्यज्ञानानन्दात्मकमिति वक्ष्यति यदि तटस्थलक्षणं तदा जगत्कारणत्वमिति गृहाण । ननु किं जगत्का- रणत्वं वास्तवमुतावास्तवम् । नाद्यः । लक्ष्यलक्षणयोाहत्या ब्रह्म- लक्षणत्वानुपपत्तेः। न द्वितीयः । कल्पितस्य वाष्पधूमस्येव सत्यब्रह्म- ज्ञापकत्वानुपपत्तेः, किं च जगदेकदेशकारणत्वं लक्षणं किं वा सकल- जगत्कारणत्वम् । नाद्यः । परमाणवादौ कुलालादौ चातिव्याप्तः । तल्लक्ष्यस्य पूर्णब्रह्मस्वरूपत्वानुपपत्तेश्च । न द्वितीयः । निखिलजगत्कार- णत्वस्यात्यन्ताप्रसिद्धत्वेन लक्षणत्वानुपपत्तेः । प्रसिद्ध हि लक्षणे तद्वत्तया तदाश्रयानुवादेन तस्य जिज्ञास्यब्रह्मात्मत्वं बोध्येत । न च निखिलभूतभौतिककारणत्वं केनचिन्मानेन सिद्ध्यति । न च यतो वेत्यादिवाक्यमेव भूतशब्दसमभिव्याहारबलान्निखिलजगत्कारणत्वं लक्षणं तल्लक्ष्यं ब्रह्म च प्रमापयतीति वाच्यम् । अर्थभेदेन वाक्य- भेदप्रसङ्गात् । न च निखिलजगत्कारणत्वविशिष्टं ब्रह्मैव वाक्य- प्रमेयमिति न वाक्यभेद इति वाच्यम् । जगत्कारणत्वस्यापि वेदप्रमे- यत्वे ब्रह्मवद्वास्तवत्वापत्तेः । तत्र च ब्रह्मलक्षणत्वानुपपत्तिः । न च माभूत्तटस्थलक्षणं स्वरूपलक्षणादेव ब्रह्मसिद्धरिति वाच्यम् । ब्रह्मणो निखिलजगत्कारणत्वापरिज्ञाने तत्स्वरूपभूतानन्त्यस्यैव दुर्विशेय वाद्यतो वेत्यादि वाक्यस्य प्रमेयाभावेनानर्थक्यापाताच । तस्मा- ।

सटीक संक्षेपशारीरके- ब्रह्मण अानन्त्यसिद्धये जगत्कारणत्वप्रतिपादकवाक्यवैयर्थ्यपरिहाग्य च जगतकारणत्वविशिष्टं ब्रह्मैव यतो वेत्यादिवाक्यप्रमेयमिति वक्तव्यम् । तथा च तदुपस्थापितपदार्थमादाय स्वार्थ बोधयतस्त- त्वमादिवाक्यस्य नाखण्डार्थत्वं सिद्धयतीति । तत्र निखिलजगत्का. रणत्वस्य मानान्तरासिद्धिविषयतया तदनुवादेन यतोवेत्यादि- वाक्यस्याज्ञातब्रह्ममात्रपरत्वात् । न तत्वमादिवाक्यस्याखएडार्थ त्वक्षतिर्न वा ब्रह्मस्वरूपानन्त्यासिद्धिः न वा यतो वेत्यादिवाक्य- वैयर्थ्यमिति वक्तुमादौ निखिलस्यापि जगत: कार्यत्वं प्रसाधयन् तत्कारणमपि संभावयितुं शक्यत इत्याह- चितिजलदहनानिलाम्बराणां जनिमनुमाय विभक्तताबलेन । जगति हि जनिमद्रिभज्यमानं घटघटिकादि समीक्ष्यते समस्तम् ॥४६६॥ क्षितिजलेत्यादिना । तर्कयन्तीत्यन्तेन । विभक्तताबलेन विभक्तत्व- लिङ्गेन क्षितिजलदहनानिलाम्बराणां जनिमुत्पत्तिमनुमाय तर्कयन्ती- त्युत्तरेण सम्बन्धः । अत्रेदमनुमानं विवक्षितम् । उभयवादिसम्प्रति- पन्नं कार्यभावव्यतिरिक्तमज्ञातसत्ताकंजर्ड क्षित्यादि कायमज्ञातत्वे सति धर्मिसत्तासमानसत्ताकभेदवत्वाद्यदुक्तसाधनं तदुक्तसाध्यं यथा घटादि तथा चेदं तस्मात्तथेति। न च विपक्षे बाधकामावादप्रयोजकः । अनौपाधिकव्याप्तिभङ्गस्यैव वाधकत्वादित्याह - जगति हीति । हि शब्दः प्रसिद्धिद्योतकः । न चानौपाधिकमसिद्ध सावयवत्वस्यैवोपाधेरिति वाच्यम्, रूपादौ साध्याव्यापकत्वात् । न च गगनादेः कार्यत्वे सावयवत्वेन सर्वेषां गतिप्रतिहतिः स्यादिति तदेशे साध्यं बाधितं स्यादिति वाच्यम् । प्रभाद्रव्यस्यैव विरलावयवतयान्धकारस्येवान-

प्रथमोऽध्यायः।
द्भतस्पर्शतया वा गगनस्य सावयवत्वेपि तदभावोपपत्तेः । न च
गगनादेः सावयवत्वे तत्तदवयवानामपि सावयवत्वकल्पनाया-
मनवस्था स्यात् । नच वस्त्वनवस्था न दोषायेति वाच्यम् । अनन्ता-
वयवारब्धत्वेन मेरुसर्षपयोस्तुलपरिमाणत्वप्रसङ्गेन बाधितत्वात्क्वचिञ्च
निरवयवानभ्युपगमे वा तस्य कार्यत्वाभावात्तत्रैव विभक्तहेतुळभि-
चरतीति वाच्यम् तेषामनवयवात्मविवर्त्तत्वेनानवस्थाभावात् । तच
वक्ष्यते । न च गगनमकार्य विभुत्वादात्मवदिति वाच्यम् । हेत्वसिद्धेः ।
न च सकलमूर्त्तद्रव्यसंयोगित्वलक्षणं हि विभुत्वं गगने तदस्तीति
वाच्यम् । गगनस्य निरवयवत्वे संयोगित्वस्यैवानुपपत्तेः। सावयवत्वे
च तेनैव कार्यत्वानुमानात् । न चात्मा कार्य प्रतियोगिसमानसत्ता.
कभेदाश्रयत्वात् घटादिवदित्याभाससमानयोगक्षेमतेति वाच्यम् ।
अात्मनः कार्यत्वे कारणनिरूपणादेर्बाधकत्वादत्र बाधकाभावात्। तथा
हि किमात्मनः श्रात्मान्तरं कारणमुत अनात्मा । नाद्यः । कारणीभूत-
स्याप्यात्मनः कार्यत्वे तत्कारणानामपि तथात्वेनैकस्मिन् शरीरे
स्वस्वकार्यानुस्यूततयानन्तात्मकल्पना पत्त्यायमात्मेति निर्धारणा-
नुपपत्तेः शरीरविदारणप्रसङ्गाच्चैकोपि वा न चेतयेत कस्य चिच्चा-
नादित्वे तत्रैव भवत्प्रतिज्ञाया बाधा हेतोय॑भिचारो वा भवेत्तस्यैव
श्रुतिस्मृतिबृद्धसम्मतात्मत्वेन तदन्यस्य कार्यत्वसाधने सिद्धसाधनाञ्च ।
न द्वितीयः । तस्य तजन्यतया तद्धेतुत्वानुपपत्तेः । कृतहानाकृता-
भ्यागमप्रसङ्गाचेत्यर्थः ॥ ४६६ ॥
इदानी प्रत्येकपक्षकानुमानान्तरमाह-
चितिजलदहनषु तत्प्रदेशा-
जनिसहितानुपलभ्य तद्वलेन।
क्षितिजलदहनत्वलिङ्गमार्गा-
दपि जनिमेष्वनुमाय तर्कयन्ति ॥ ४६७ ॥

सटीके संक्षेपशारीरके- क्षितिजलदहनेष्विति । वाय्वादेरप्युपलक्षणम् क्षितिजलानिलाम्बरा- दिषु मध्य इत्यर्थः । अथ चैषु क्षितिजलदहनेविति सम्बन्धः । तत्प्र- देशान् क्षित्याद्येकदेशान्घटनिखातपूरितप्रदेशान् चन्द्रकान्तोदकार. एयुत्पन्नाग्निव्यजनपवनघटाकाशादिप्रदेशान् जनिसहितानुत्पत्तिमत उपलभ्य तत्र क्षितित्वादेः प्रत्येकहेतोरुत्पत्तिमत्वेन व्याप्तिं गृहीत्वा तद्वलेन व्याप्तिबलेन क्षितित्वादिप्रत्येकलिङ्गेनापि क्षित्यादिषु कार्यत्व- मनुमाय घटादितिरिक्ता क्षितिरुत्पत्तिमती क्षितित्वात् घटवत् । जलं कार्य जलत्वाञ्चन्द्रकान्तादुत्पन्नजलवत् । तेजः कार्य तेजस्त्वादरणि. निर्मथनजन्याग्निवत् । वायुरुत्पत्तिमान्वायुत्वाद्वयजनचलनजन्यपवन- वत् । आकाश उत्पत्तिमान् आकाशत्वाद्भतत्वाद्वा घटाकाशवत्पृथिव्या- दिवत् । काल उत्पत्तिमान् कालत्वान्निमेषादिकालवत् । दिगुत्पत्तिमती गुणाश्रयत्वात् घटादिवदित्यनुमाय तर्कयन्ति । क्षित्यादिकं सकर्तृकं कार्यत्वात् घटादिवदिति जगत्कर्तारमनुमिमत इत्यर्थः । अनुमानेपि तर्कशब्दप्रयोगोभिहितानुमानस्यागमप्रमाणनिरपेक्षतया न ब्रह्मसाध- कत्वं किन्तु तदुपदशितार्थसंभावनाबुद्धिहेतुतया तच्छेषत्वमेवेत्यभि- प्रत्येति द्रष्टव्यम् ॥ ४६७॥ तर्कयन्तीत्येतद्विवृणोति- जनिमदभवदेतचेतनादेव हेतो- घंटवदिति पुनस्तत्कारणे चेतनत्वम् । अनुमिमत उद: कार्यतालिङ्गन्तोऽमी जगति हि परिदृष्टं चेतनादेव कार्यम् ॥ ४६८ ।। जनिमदिति । चेतनादेव चेतनाधिष्ठितादेव चेतनाद्धेतोर्जनिम- दभवदेवेति वा सकर्तृकमित्यर्थः । उद: क्षित्यादेः कार्यत्वानुमानान- न्तरमित्यर्थः । ननु घटत्वादिकमेव कर्तृजन्यतावच्छेदकं न कार्यत्वमा प्रथमोऽध्यायः। - अतः क्षित्यादेः कार्यत्वेपि न कर्तृजन्यता तत्राह-जगति हाति । कार्यः कार्यमात्रमित्यर्थः । अनुगतेऽवच्छेदके संभवत्यननुगतस्य घटत्वादेः कर्तृजन्यतावच्छेदकत्त्वानुपपत्तेः । घटत्वादिविशेषस्य शरीरिकर्तृ जन्यतावच्छेदकत्वेन कार्यत्वमात्रस्य कर्तृजन्यत्वमात्रावच्छेदक- स्वस्योचितत्वाच्चेत्यर्थः । तथा च जगत्कारणत्वस्थ प्रसिद्धत्वात्तदनु- वादेन यतो वेत्यादिवाक्यस्य ब्रह्मव्युत्पादकत्वंसंभवतीति भावः॥४६८॥ नन्वनुमानाजगत्कारणसिद्धी कृतमागमेनेत्याशङ्कथानुमानेन कर्तृमात्रसिद्धावपि तस्याशरीरत्वैकत्वसर्वज्ञत्वसर्वशक्तित्वादिकमनु, मानेन सिद्ध्यति । व्याप्त्यादेस्तद्गोचरत्वाव्याप्तिपक्षधर्मताबललभ्य- स्यैवानुमानगोचरत्वात्प्रत्युदाहरणस्यापि संभवाच्च । तथा हि कार्य- मात्रे कर्तुरिव हस्तादिव्यापारातिरिक्तकार्यमात्रे शरीरस्यापि कारण- त्वं दृश्यते । न च क्षित्यादौ योग्यानुपलब्धिबाधः देवादिशरीर- वत्तत्कारणशरीरस्याप्यायोग्यत्वेनानुपलब्धेरन्यथोपपत्तेः ज्ञाने जन्यत्वानित्यत्वनियमाभाववच्छरीरेपि तदुपपत्तेः । शरीरकर्तृक- तायां घटत्वमिव ज्ञानेऽदृष्टेन्द्रियजन्यतायां संसारिज्ञानत्वं प्रयोजक मितीश्वरज्ञानस्यानित्यत्वेपि दोषाभावाच्च । मनः संयोगादिलक्षण- कारणान्तरसत्त्वात् । नचादृष्टानाकृष्टमनो न सहकारीति वाच्यम् । प्राणिकर्माकृष्टमनस एवं तदाकृष्टशरीरस्येश्वरप्रयत्नजन्यसंप्रदाय- प्रवर्तनादिक्रियायामिवेश्वरात्मनि ज्ञानजनकत्वोपपत्तेः । न चैवं कल्पने प्रमाणाभावः । ज्ञानमनित्यमेव जन्यमेवेत्यादिव्याप्तरेव तत्र प्रमाणत्वादत एव न सर्वज्ञत्वमपि सिद्धयति । ज्ञानं किञ्चिद्विषयमे- वेति व्याप्तः । नापि तदेकत्वमनुमानाज्ज्ञानोत्पत्तिविनाशकल्पने गौरव- मित्यजन्याय ज्ञानस्य किञ्चिद्विषयत्वे नियामकाभावात्वनेकत्वे च गौरवात् ज्ञाननित्यत्वसविषयत्वकत्रैकवादिकं सिद्धयतीति चेन्न । गौरवादितर्कस्य स्वातन्त्र्येणार्थनिर्णायकवाभावात्। ननु तर्कसहकृता- प्रकृतानुमानात्तत्सिद्धिरिति चेन्न । यतः प्रकृतानुमानेन क्षितिकर्तृ- - - सटीके संक्षेपशारीरके- मात्रं सिद्धयति ज्ञाननित्यत्वादिकं तु तर्कादिति तयोभिन्न विषयत्वा. द्विशेषतस्तद्वोधकप्रमाणं विनापि तर्कादेव तत्सिद्धौ कल्पान्तरीय घटपक्षकानुमानेन कुलालसिद्धौ तदेकत्वादेः सिद्धिः प्रसङ्गः । विचित्र- प्रासादादिकार्यविशेषेऽनेककर्तृकत्वनियमाच्च । तस्माद्विशेषावगाहि प्रमाणश्रुत्यवगमविरहदशायां व्याप्त्यादिना नित्यज्ञानत्वाद्युपस्थिती तद्विपरोतोपस्थितौ च किं तत्र तत्त्वमितिसंशय एव स्यात्तदेकत्वा- नेकत्वसन्देहेपि जगत्कर्तृत्वमात्रस्य व्याप्तिवलासिद्धत्वानुवादोपि संगच्छते । अतो न वेदान्तवैयर्थ्यमित्यभिप्रेत्याह जगदुदयनिमित्तं चेतनं किं तु नाना किमु भवतु तदेकं सर्ववित्सर्वशक्ति। इति भवति तु पश्चात्कारणे चेतनेऽस्मि- ननवगतिनिमिनः संशयो दुर्निवारः ॥ ४६६ ।। जगदुदयेति । जगदधिष्ठात्रीत्यर्थः। कस्मिन्सति किं स्यादित्याशं- क्यैकत्वकोटौ फलितमाह-सर्ववित्सर्वशक्तीति । सर्वविषया संविद्यस्य. सर्वविषया शक्तिर्यस्य तत्सर्ववित्सर्वशक्तीति चेति ब्रह्मैव भवती- त्यर्थः। इत्येकत्वानेकत्वादिप्रकारेण पश्चाजगत्कर्तृसिद्धयनन्तरमित्यर्थः। अस्मिन् जगत्कर्सयनवगमनिमित्तो विशेषानवगमनिमित्त इत्यर्थः ॥ ४६॥ नन्वनुमानात्क.कत्वादि न सिद्धयति चेछुतितोपि कथंसियेत् व्याप्त्यादिविरोधस्य तत्रापि सत्वादियाशंक्यानुमाने निरुपाधिव्या- प्तिपक्षधर्मतयोरिव श्रुतेरप्युपक्रामादितात्पर्यलिङ्गसाचिव्यस्य बलव- त्वात्तत्सहितश्रुतिवाक्येन साक्षादेकत्वादिबोधकेन व्याप्तिविरोधेप्या- गमादेव शंखशुद्धित्वमिव कर्बकत्वादिसिद्धिः किमु वक्तव्यं युत्तय संभावनादशायामागमात्तत्सिद्धोरित्यभिप्रेत्याह-- प्रथमोऽध्यायः। ४७१ श्रुतिवचनविशेषाचेतने कारणेऽस्मि- न्यत इति निरवदादेकताधीरथाssगात् । प्रकृतिरिति च तस्मिन्कारणे पञ्चमीयं जनयति दृढबुद्धिं तद्विधानादिहैव ॥ ५०० ॥ श्रतिवजनविशेषादिति । श्रुतिगतवचनविशेषादित्यर्थः । वचनविशेष मेवाह-यत इति । यतो व इमानि भूतानि जायन्त इत्यादिवाक्यस्य यत. इतिपञ्चम्येकवचनादस्मिन् चेतने कारणे जगत्कर्तर्येकताधीरथैकत्व- संभावनानन्तरमागादागच्छेदित्यर्थः । अत्र चानुमानवन्न दोषतुषा- वकाश इत्याह-निरवद्यादिति । यद्यपि यत इत्यनेन तदेकत्वं निश्चे- तुमशक्यम् तसिल्प्रत्ययस्यानेकार्थसाधारणत्वात्तथापि येन जाता. नीति वचनवाक्यशेषाद्यत इत्यस्याप्येकवचनत्वं निश्चीयत इत्यर्थः । ननु सिध्यतु नाम जगत्कर्तृत्वं नैतावता ब्रह्मलक्षणप्रसिद्धिः। उपादाने- ऽन्यम्मिन्व्यावृत्तधर्मस्य जगत्कर्तृत्वाश्रयस्य परिपूर्णवाचिब्रह्मशब्दार्थ. त्वानुपपत्तेः । नाप्युपादानत्वविशिष्टं जगत्कर्तृत्वं ब्रह्मलक्षणं ब्रह्मणो जगदुपादानत्वे प्रमाणाभावोदित्यशंक्यानुमानोपोद्वलिता श्रुतिरेव तत्र प्रमाणमित्याह-प्रकृतिरिति चेति । चशब्दः शंकानिवृत्यर्थः । यतो- वेत्यादिवाक्यस्थयत इत्यादिरूपेयं पञ्चमी तस्मिन्कारणे जगदधिष्ठा- तरि प्रकृतिरिति च दृढां युक्तसंभावितां बुद्धि जनयतीति सम्बन्धः । उक्तार्थे हेतुमाह-तद्विधानादिहैवेति । इह प्रकृत्यर्थे तस्याः पञ्चम्या जनि- कर्तुःप्रकृतिरितिसूत्रेण विधानादित्यर्थः। अनुमानमपि-इदं विवादास्पदं पृथिव्यादिकं सोपादानं भावकार्यत्वात् घटादिवत् । विमतं सदुपादानं स्वसत्तादशायां नियमेन सदनुविद्धत्वात् यन्नियमेन यदनु- विद्धं तत्तदुपादानं यथा मृदनुविद्धो घटो मृदुपादानः पृथिव्यादिश्च नियमेन सदनुविद्ध इति सदुपादानः। नन्वेवं द्रव्यत्वादेरपि घटाधु- पादानत्वप्रसङ्गः। घटादेनियमेन तदनुविद्धत्वादिति चेन्न । गुणाश्र- ।

४७३ सटोके संक्षेपशारीरक- याधिष्ठानव्यतिरेकेण द्रव्यत्वादेरनुस्यूतस्याभावादात्मैव हि सकल- कार्यानुस्यूतस्तत्तत्कार्यवृत्तिजातित्वेनोपाधित्वेन च व्यवह्रियते। तश्च कारणमेकमने वेति संदिह्यते। अधिष्ठातृभिन्नमन्योन्यभिन्न चेति व्याप्त्योपस्थाप्यते। लाघवतर्केण तदेकत्वं संभाव्यते । उभयथापि सदुपादानं सिद्धमेवेति सदुपादानमधिष्ठातारं चानूद्य वचनेन तदेक त्वं प्रतिपाद्यत इति भावः ॥ ५०० ॥ नन्वेतदनुपपन्नं यद्वचनेन प्रकृत्येकत्वं निश्चीयत इति वचनं हि प्रत्ययः प्रकृत्यान्वितस्वार्थमभिदध्यात्तथैव प्रत्ययानां व्युत्पत्तेः । एवं विभक्तिरप्येकपदोपस्थितयोः परस्परवैशिष्ट्यप्रतीत्यनुपपत्तश्च न वचनस्य विभक्तर्वा परस्परान्वितस्वार्थबोधकत्वं तथा च यतो जगत्तदुपादानं यतो जगत्तदेकमिति बुद्धिः स्यान्न तूपादानमेकमेकमु. पादानमिति वेति शङ्किते एकत्वमिति द्वाभ्यां तत्रादौ वचनार्थस्थ विभक्त्यर्थान्वयं निराकरोति- एकत्वमेकवचनावगम्यमानं यच्छन्दवाच्यनिलयं यत इत्यमुष्मिन् वाक्ये जगत्प्रकृतिगमितया निविधां संख्यांविभक्त्यभिहिते वचनं हि नाऽऽह॥५०१॥ एकत्वमिति । यतो वा इमानि भूतानि जायन्त इति वाक्ये यत इत्ये- कवचनादवगम्यमानं यच्छन्दवाच्यनिलयं यच्छब्दाथचेतनकारणा- न्वितमेकत्वं जगत्प्रकृतिगामितया न विद्मः । जगदुपादानत्वविशिष्टा- न्वयितया न विद्मः । कुतस्तत्राह-संख्यामिति । यतो वचनं स्वादिवचनं विभक्तन्वितां संख्यां नाह तत इत्यर्थः ॥ ५०१॥ इदानीमुक्तार्थं दृष्टान्तार्थमनूद्य विभक्तिरपि संख्याविशिष्टा- न्वितं स्वार्थ नाभिधत्त इत्याह- प्रथमोऽध्यायः । ४७३ न हि विभक्त्यभिधेयपदार्थगं वचनमाह निजं विषयं क्वचित् । वचनवाच्यगतं न वदन्ति च स्वमभिधेयमशेषविभक्तयः॥५०२॥ । न हीति । विषयं संख्यारूपमित्यर्थः । वचनवाच्यगतं वचनवाच्य- संख्याधिशिष्टकारणान्वितमित्यर्थः । अतो जगत्प्रकृतेरेकत्वं न श्रुति- बलादपि सिद्ध्यतीति भावः ॥ ५५२ ॥ ननु वचनविभक्त्योः साक्षादन्योन्यान्वितस्वार्थाभिधानाभा- वेपि प्रकृत्यर्थाभिधानानन्तरं तयोरन्वयः परस्परं सियतीत्याशङ्कयै- वमपि वचनात्तत्सिद्धिरित्येतद्गतमित्याह- प्रातिपदिकार्थगतमेव वचनानि स्वं स्वमभिधेयमभिधातुमलमर्थम् । प्रातिपदिकार्थगतमेव निजमर्थ वक्ति च विभक्तिरपि नेह वचनार्थे ॥५०३।। प्रातिपदिकार्थगतमिति । उभयान्वयबोधे विरम्य व्यापारो वाक्यभेद- श्चेति भावः ॥ ५०३॥ ननु यथा पशुना यजेतेत्यत्र वचनविभक्तिवाच्ययोरेकत्वकरण- त्वयोः परस्परवैशिष्टयबोधः एकः पशुः करणमिति एवमिहापि परस्पर- वैशिष्टयबोधः । किं न स्यादित्याशंक्य तत्रापि किमन्विताभिधायि- शब्दे नतयोः परस्परान्वयबोध इत्युच्यते किम्वार्थान्नाद्य इत्याह-- पशुनेति पदे तृतीयया करणत्वं हि पशोनिवेद्यते।

४७४ सटीक संक्षेपशारीरक- वचनेन पशोरिहैकता न पुनः सा करणस्य कथ्यते ॥ ५०४ ॥ पशुनेति । पशोरेकत्वानाक्रान्तस्य पशोर्न तु तद्विशिष्टस्य वचनेनैक- वचनेन पशोः करणत्वानाक्रान्तस्य इह पशुना यजेतेति वाक्ये सैकता- करणस्य तृतीयाविभत्यर्थकरणत्वविशिष्टस्येत्यर्थः ॥ ५०४ ॥ कथं तहिं तयोर्वैशिष्टयप्रतीतिः परेणाङ्गीक्रियते उपादानप्रमा गादिति द्वितीयपक्षमादायाह- अनुपपनिबलेन विधेस्तयोः करणतैकतयोरवगम्यते । करणकपशोरिति सङ्गति- न घटते हि विधिविरहय्य ताम् ॥ ५०५ ॥ अनुपपत्तिबलेनेति । अनुपपत्तिरेववलं तेन । कस्यानुपपत्तिरित्यत पाह-विधेरिति । नियोगस्येत्यर्थः । कारणतैकतयोः संगतिरवगम्यत इति सम्बन्धः । संगति मेवाभिनीयाह-करणातैकपशोरिति । एकपशोः करणता एकः पशुः करणमित्येवंरूपेणेत्यर्थ । का तर्हि विधेरनुपपत्ति- रित्याकाङ्क्षायामाह-न घटतइति । हि यतः तां करणत्वैकत्वयोः सङ्गति विरहय्य विना विधिन घरते तत इत्यर्थः । विधिर्हि स्वप्रकरणपठित स्वशेषतावगतसकलपदार्थनिवौं भवति । सकलपदार्थनिवर्त्यत्वं च तस्य ग्राहकगृहीतैकत्वसंख्यायाः करणत्वसम्बन्धं विना न संभव- तीति नियोगानुपपत्त्यैव तत्सिद्धिरिति भावः ॥ ५०५ ।। । ननु नियोगानुपपत्त्या तयोः सम्बन्धमात्रसिद्धावप्य भिमतस- म्बन्धसिद्धिस्तु केन भवतीत्याकाङ्क्षायां तत्सिद्धिरपि तयैवेत्याह- प्रथमोऽध्यायः । ६७. उपादानतः संख्यया संगतिः स्या- दवच्छेदकत्वेन संख्यानिवेशात् । पशोरेतयोस्तेन मार्गेण कार्य निवेशोपपत्तेरुपादानमानात् ॥५०६॥ । उपादानत इति । उक्तानुपपत्त्येत्यर्थः । संख्ययैकन्वेन संगतिः करण- स्वस्येति शेषः । संख्यथा करणत्वस्यान्वये बीजमाह-अवच्छेदकत्वे- नेति। व्यावर्तकत्वेन कस्य व्यावर्त्तकमित्याकाङ्क्षायामाह-पशोस्ति । कर- रणीभूतपशोः पशुकरणतावच्छेदकत्वेनैकत्वसंख्यानुप्रवेशादित्यर्थः । पशुर्हि करणविभक्तिमत्पदेनाभिहितः नियोगेन ग्राहकेण करणतया- गृहीतो नियोगप्रवेशाय कांचित्संख्यामपेक्षते। कया संख्यया सह नियोगमनुप्रविशामीति । एवं संख्यापि ग्राहकगृहीताऽमूर्ततया सा- क्षान्नियोगनिवर्तनासमर्था कंचिदाश्रयं किमाश्रित्य नियोगं प्रविशा- मीति ततश्च तयोरवच्छेद्यावच्छेदकभावसम्बन्धोपि नियोगानुपपत्त्यैवे. ति भावः । ननु पश्ववच्छेदकत्वेपि संख्यायाः किमिति करणतावच्छे- दकत्वं कल्प्यते पशुद्वारेण नियोगेनान्वयः किन्न स्यात्तत्राह-एतयोगित पश्वकत्वयोस्तेन मार्गेण करणत्वद्वारेण पशोरपि करणत्वाकारेणैव नियोगान्वयात्तदवच्छेदकसंख्याया अपि तद्द्वारेणैव नियोगप्रवेशो वक्तव्यः नप्रकारान्तरेणेति । संख्यायाः करणत्वात्वय इत्यर्थः । निगम- यत्युपादानादिति । संख्यायाः संगतिः स्यादित्यनुषञ्जजनीयम् ॥५०६॥ ननु प्रकृतेप्युपादानवलादेव प्रकृतित्वैकत्वयोः परस्परान्वयबोधः कि न स्यात्तत्राह- नचैवविधिः कश्चिदति न म्या- दुपादानतः संगतियपदार्थे ।

४७६ सटीक संक्षेपशारीरके- विभक्त्यर्थसंख्यार्थयोर्नेह कश्चि- द्यतो वा इमानीति वाक्ये विधिनः ॥५०॥ नचैवमिति । यथोपादानबलात्करणत्वविशिष्टपशुना संख्यान्वयः एवं यत्पदार्थे प्रकृतित्वविशिष्टे संख्याविशिष्टे वा तस्मिन्नुपादानतो विभक्त्यर्थसंख्यार्थयोर्न सङ्गतिः स्यादुपादानत्वस्य संख्याविशिष्टे संख्यया वोपादानत्वविशिष्टेऽन्वयो न स्यात्कुतः उपादानाभावादे- वेत्याह-अत्र कश्चिद्विधिनेंतीति । इतिशब्दो हेतौ । यस्मादत्र यतो वेत्यादिवाक्ये न विधिश्रवणमिति विध्यनुपपत्तिलक्षणोपादानप्रमाणं नास्ति तत इत्यर्थः । नन्वश्रूयमाणोपि विधिरन्वयसिद्धयर्थं कल्प्यतां प्रवृत्त्यर्थमिव पूषा प्रपिष्टभाग इत्यत्रेत्याशङ्कयापसिद्धान्तप्रसङ्गात् । मैवमित्याह--नेह कश्चिदिति । न इति शिष्यवचनमस्माकं वेदान्तिना- मित्यर्थः । अशक्यानुष्ठानत्वेन विधिकल्पनानुपपत्तेश्चेति भावः ॥५०७॥ विध्यभावेप्यनुपपत्यैव वचनविभक्त्यर्थयोरन्वयोपपत्तौ किंवि- ध्यनुपपत्या विना हीयते प्रन्युत विध्यभावश्चास्माकंभूषणमेवान्यथा विवक्षितार्थासिद्धिप्रसङ्गादित्यभिप्रेत्य विध्यभावमुक्तमङ्गीकरोति- अवितमिदमेवमेतदस्मि- न खलुविधेर्वचनं पठन्ति वाक्ये । यत इति घटते तथाऽपि योगी वचनविभक्तिनिगद्ययोरिहापि ॥५०८॥ अवितमिति । इदं नियोगानुपपत्त्यैव करणत्वैकत्वयोः सम्बन्ध- इतीदमवितथं सत्यमेतद्यतो वेत्यादिवाक्ये विधिर्नेत्येतच्च एवमवितथं अङ्गीकृतमेवांशमाह-न खल्विति तर्हि कथं प्रकृतित्वैकत्वयोः परस्परमन्वयस्तत्राह- घटते तथापीति । अपि शब्दोऽवधारणे। इह यत प्रथमोऽध्यायः । ४७७ इति वाक्ये विध्यभावेन नियोगानुपपत्यभावेपि बचन विभक्तिनिग- अयोर्योगः सम्बन्धो घटत एवेति सम्बन्धः ॥ ५० ॥ ननु विध्यभावे कस्यानुपपत्त्या तयोः परस्परान्वयो भवेदित्या- काङ्क्षायां ब्रह्मपदार्थानुपपत्त्येत्यभिप्रेत्याह- एकत्वमेकेवचनेन समर्पितं य- द्यच्छन्दवाच्यनिलय यत इत्यमुष्मिन् । पञ्चम्युपात्तमपि यत्प्रकृतित्वमस्मि- न्संगच्छते तदुभयं पशुवस्तुनीव ॥५०६।। एकत्वमिति । यत इत्यमुष्मिन्वाक्ये यत इत्येकवचनेन समर्पितं. बोधितं यच्छन्दवाच्यनिलयं यदेकत्वम् अस्मिन्यच्छब्दार्थ पञ्चम्युपात्तं- यत्प्रकृतित्वं तदुभयं पशुवस्तुनि करणैकत्ववत्संगच्छत इति सम्ब न्धः । यतो वेत्यादि ब्रह्मेत्यन्तं हि वाक्यं ज्ञानमात्रेण सकलपुरुषार्थका. टाभूतमुमुक्षुजिज्ञास्यं यद्ब्रह्म तल्लक्षणपरिज्ञानाय प्रवर्तते । लक्षणवा- क्यं च वस्तुतोऽलक्ष्यब्यावृत्तलक्ष्यप्रतिपादनाय भवति । अतो लक्ष्यब्रह्मपदार्थशेषभूतं लक्षणवाक्यं प्रधानलक्ष्यापकब्रह्मपदानुरोधेन नेतव्यम् । ब्रह्मपदं च लक्ष्यवाच्युत्सर्गसिद्धस्ववाच्यस्य ब्रह्मणोहनव. च्छित्रमहत्वमुपस्थापयति । तत्र यदि प्रकृतित्वविशिष्टस्यैकत्वं न सिद्धेयत्तदा यत इत्यादिवाक्यलक्ष्यस्य वह्मवासिद्धिरिति ब्रह्मपदा- र्थानुपपत्त्यैव वचनविभक्त्यर्थयोरेकत्वप्रकृतित्वयोः पश्वेकत्वकरणत्व- वत्परस्परान्वयः संभवतीति भावः ॥ ५०६ ॥ किं च यदि विभक्त्यर्थोपि विधेयः स्यात्तदा वचनविभत्यर्थयोः परस्परमन्वयानुपपत्तिर्न त्वेदस्ति तस्याप्यनुमानसिद्धत्वेनानूद्य- मानकोटावेव निवेशात्तथाच जगदुपादानाधिष्ठानानुवादेन तदेकत्वं वचनेन विधीयत इति नानुपपत्तिरित्याह- । PARAN शेषः । आयातं प्राप्तमवगतमिति यावत् । हिः प्रसिद्धौ । अध्ययनविधेः सटीक संक्षेपशारीरके- एका या प्रकृतिः समस्तजननी तद्ब्रह्मजिज्ञास्यता- मित्यत्रापि हि वस्तुनिष्ठवचने शक्यैव तत्संगतिः । विज्ञातुं विधिमन्तरेण च तथानर्थक्यभीत्या न हि स्वाध्यायाध्ययनैकगोचराविधेरायातमर्थ विना ॥५१०॥ एकेति । प्रकृतिरुपादानमत्रापि वस्तुनिष्ठवचने विधि विना. चेतना समस्तजननी प्रकृतिः सैका तद्ब्रह्मेति जिज्ञास्थतामिति तयोर्वचनविभत्त्यर्थयोः संगतिर्विज्ञातुं शक्यैवेति सम्वन्धः विध्यनु. पपत्यैव वचनविभक्त्योः परस्परान्वय इत्यभिनिवेशश्चेदध्ययनविध्य. नुपपत्यैव प्रकृतेपि तयोः परस्परान्वयबोधः संभवतीत्याह-तथेति । यथा ब्रह्मपदार्थान्वयानुपपत्योपादानानुवादेन तत्रैकत्वविधानेन तयोर- न्वयस्तथा स्वधाध्यायाध्ययनैकगोचरविधेः स्वाध्यायाध्ययनमेकमेव गोचरो विषयो यस्य विधेस्तस्यानर्थक्यभीत्यापि तयोः संगति आतुं शक्येति सम्बन्धः । ननु वचनविभत्त्यर्थयोरन्वयाभावेऽध्ययनवि- धेः-किमिति वैयर्थ्यमित्याशङ्कयाह-नहीति । प्रयोजनपर्यवसायित्वमिति फलवदर्थावबोधं विना प्रयोजनपर्यन्तत्वं न हीति सम्बन्धः। एतदुक्तं भवति । अध्ययनविधेहि परंपरया फलवदर्थावबोधः फलमिति प्रसिद्धम् । तथा च -प्रकृतित्वैकत्वयोः परस्परान्वयाभावे यतो वे- त्यादिवाक्यं फलवदर्थावबोधं न जनयेदुपादानैकत्वज्ञानस्यैव पुरुषा- र्थत्वाद्विधेश्चान्यस्याश्रवणान्नानुष्ठानाधीनमपि प्रयोजनमत्र सिद्ध्यति । प्रयोजनाभावे वाध्ययनविधेर्न प्रवर्तकत्वमिति विध्यनुपपत्त्या वचनविभक्त्यर्थयोरन्वयः सिद्धयतीति ॥ ५१० ॥ तस्मात्सर्वथापि वचनविभक्त्यर्थयोरन्वयः सिद्धयतीति प्रतिपा- दितं सदृष्टान्तमुपसंहरति- प्रथमोऽध्यायः। । बचनार्थविभक्तिवाच्ययोरुपपन्नाऽन्वयबुडिरर्थतः। पशुनति पदे यथा तथा यत इत्यादिपदेऽपिलक्षणे ॥५११॥ वचनाति । अर्थतीनुपपत्तितः । एतञ्च साक्षादन्वययोधस्याप्यु: पलक्षणम् । लक्षणे लक्षणविषये ॥ ५११ ॥ एवं च यद्युपादानैकत्वं न स्यादित्युच्येत तर्हि पशुनेत्यत्रापि करणस्य पशोरेकत्वं न स्यादिति ब्रूमः । यदि तत्रानुपपत्या तयोः रन्वयः कल्प्येत तर्हि प्रकृतेऽपि सा तुल्येति । तदज्ञानादेवास्योपादान- कत्वाक्षेप इति साक्षादन्वयबोधं करेण पिधायाह- विधिनिष्ठवाक्यमपिबोधयति- स्वमपेक्षितं विषयमर्थवशात् । परमात्मानिष्टमपि तुल्यमिदं वचसोईयोरपि तु रूपमतः ॥१२॥ विधिनिष्ठेति । स्वं स्वीयमर्थवशादनुपपत्त्या परमात्मनिष्ठं वाक्य. मिति शेषः । फलितमाह-इदं बोधकत्वं द्वयोविधिनिष्टवस्तुनिष्ठ- वाक्ययोर्यतो विधिनिष्ठं वस्तुनिष्ठमपि वाक्यमपेक्षितं स्वमर्थ- मर्थवशाबोधयति । अतो द्वयोरपि वचसोरिदं रूपं तुल्यमिति सम्बन्धः ॥ १२ ॥ तस्मादनुमानसिद्धाधिष्ठातृसदुपादानानुवादेन तदेकत्वानेकन्व- संदेहव्युदासार्थ करणैकत्वं बोधयन्महावाक्यावयवतत्पदार्थ- ब्रह्मस्वरूपं निर्धारयतीति प्रकृतविचारफलमाह- । एकं चेतनमस्य यत्प्रकृतितामापन्नमुत्प्रेक्षते तद्ब्रह्मेति निशामयेति निपुणं ब्रूते परब्रह्मणः ।

४८० सटीके संक्षेपशारीरके- सिद्धं लक्षणमादरेण महता व्यावयद् ब्रह्मण- स्तत्वं तत्त्वमसीतिवाक्यनिलयं तच्छब्दलक्ष्यं वचः॥५१३॥ एकमिति । यद्वा चेतने जगदुपादानत्वैकत्ववैशिष्टयस्यापि तात्पर्य- गोचरत्वे तयोः परमार्थिकत्वेन ब्रह्मपदार्थान्वयप्रसङ्ग इत्याशङ्कया- नुमानसिद्धसदुपादानानुवादेन तस्य ब्रह्मबोधनान्न तात्पर्यगोचरः । एकत्वसंसर्गश्च यद्यपि प्रतिपाद्यस्तथापि स निखिलभेदाभावोप. लक्षितस्वरूपमेवेति न दोष इत्यभिप्रेत्याह- एकमिति । वचो यतो वेत्यादिवाक्यमस्य जगतो यञ्चेतनं प्रकृतितामापनमुत्प्रेक्षते तय॑ते तदेकं ब्रह्मति निशामय विचारयेति परब्रह्मणो लक्षणं महता आदरेण प्रत इति सम्बन्धः । यद्यपि जगत्प्रकृतित्वावगाहनुमानस्य चेतनो न विषयस्तथापि सविषयत्वात्तस्य सतश्च चेतनत्वाञ्चेतनमुत्प्रेक्षत इत्युक्तम् । अथवा अस्य यत्सत्प्रकृतितामापनमुपादानं यच्च चेतनमधि- ष्ठातृ उत्प्रेक्षते तदेकं ब्रह्मेति निशामयेति सम्वन्धः । परमिति तुपाठे पर केवलं व्रते न तु तत्परमित्यर्थः । तत्र हेतुः । सिद्धामिति । अनुमानसिद्ध त्वान्न तत्र तात्पर्यमित्यर्थः । अत एव तस्यापि नाखण्डार्थत्वक्षतिः । तथा चाभिन्ननिमित्तोपादानत्वं ब्रह्मणो लक्षणमितीयं श्रुतिर्दर्शयती- त्यर्थः । लक्षणस्य प्रयोजनमाह-व्यावर्त्तयदिति । तत्त्वमसीतिवाक्यनि लयं प्रतिपाद्यं तच्छन्दलक्ष्यं यद्ब्रह्मणस्तत्त्वंतत्तटस्थेश्वरप्रधानपरमा- एवादेः व्यावतर्यदित्यर्थः ॥ ५१३ ।। ननु किमेतजगत्कारणत्वं मुक्तिदशायामस्ति उत नास्ति अस्ति चेन्मुक्तित्वक्षतिः केवलात्मनावस्थानस्यैव मुक्तित्वात् । न द्वितीयः । लक्ष्येऽविद्यमानत्वेनालक्षणत्वप्रसङ्गादित्यशङ्कय जगत्कारणत्वस्योप- लक्षणत्वात्तद्विरहस्तदा न दोषायेति वक्तुं जगत्कारणत्वस्य तटस्थ- लक्षणत्वसाधनाय लक्षणान्तरादस्य वैषम्यं वक्तुं लक्षणवैविध्य- मस्तीत्याह- - प्रथमोऽध्यायः। ४८१ लक्ष्यस्य लक्षणमिह त्रिविधं प्रसिद्ध लोके स्वलक्षणममुष्य विशेषणं वा। यद्धोपलक्षणमिमानि च लक्षणेन व्यावर्णयामि पृथगेव तु तत्प्रतीहि ॥ ५१४ ॥ लक्ष्यस्यति । तदेव त्रैविध्यमाह-स्वलक्षणमित्यादिना । अमुष्य- लक्ष्यस्य स्वलक्षणं खरूपमेकं लक्षणममुष्य विशेषणं वाशब्दश्चार्थे लक्ष्यस्य विशेषणं चापरं लक्षणम् । यद्वा वाशब्दस्तथार्थे तथाऽ- मुष्योपलक्षणं चान्यलक्षणमित्यर्थः । ननु व्यावर्तकत्वाविशेषात्कथं लक्षणविध्यमित्याशङ्कय व्यावर्तकत्वे समानेपि तदवान्तरलक्षण- भेदादित्याह-इमानीत्यादिना। लक्षणानीत्यर्थः। लक्षणेन-तत्तल्लक्षणेन॥५१४॥ । नन्वसाधारणो धर्मो लक्षणं तञ्च न स्वरूपस्य तस्य तद्धर्म- त्वाभावान्नोपलक्षणस्याप्येतदस्ति तस्य लक्ष्यसमकालावस्थाना- भावाकाकादेरन्यसाधारणत्वाञ्च तत एतेषु लक्षणसामान्यलक्षण- मेव न तत्कथं लक्षणविध्यमिति चेदुच्यते-असाधारणधर्मपदेन हि लक्ष्येतरावृत्तित्वे सति सकललक्ष्यसम्बन्धित्वं सम्बन्धश्चा. भेदेपि । सकललक्ष्यसम्बन्धित्वं च लक्ष्यपदार्थतावच्छेदकावच्छेदेन लक्ष्यसम्बन्धित्वं ततो नैकव्यक्तिगगनादिस्वरूपलक्षणे छिद्रादाव- व्याप्तिः । काकादिश्च न तटस्थलक्षणं किन्तूपलक्षणमेवाग्रे च तटस्थ- लक्षणस्य तदुदाहरणवप्रदर्शनं कादाचित्कतया व्यावृत्तिबोधकत्व- मात्रेण दण्डादिश्च न लक्षणं तत्रोक्तलक्षणाभावादिति पराभिमत- लक्षणे त्रितयानुगते सत्यपि स्वयमनुगतं साधारणलक्षणमाह - लक्ष्यार्थनिष्ठमुपलब्धमतोऽन्यतोऽर्था- निः शेषतो यदतिरिच्य तदर्थवस्तु । ।

४८२ सटीके संक्षेपशारीरके- लक्ष्यं निवेदयति लक्षणमेतदाहुः सामान्यलक्षणमिदं त्रिषु लक्षणेषु ॥ ५१५॥ लक्ष्यार्थनिष्ठमिति । एतल्लक्षणं त्रिषु लक्षणेषु सामान्यलक्षणमित्या. हुरिति सम्बन्धः । एतत्पदार्थमाह- लक्ष्याथेति । सकललक्ष्यसम्बन्ध्यतो लक्ष्यानिःशेषतः सर्वस्मादतिरिच्य व्यावर्त्य तदर्थं वस्तु लक्ष्यं स एवार्थः तदर्थः स एव वस्तुप्रामाणिकमित्यर्थः । सकललक्ष्यार्थसम्ब. न्धित्वे सति यदुपलब्धं सदलक्ष्यादन्यस्मात्सर्वस्माद्यावृत्य लक्ष्य बोधयति तल्लक्षणसामान्यलक्षणमिति सम्बन्धः । सकललक्ष्यार्थ- सम्बन्धित्वे सति व्यावतकज्ञानविषयो लक्षणमित्यर्थः । व्यावर्तक- ज्ञानविषयो लक्षणमित्युक्ते दण्डादावतिव्याप्तिः । तदर्थं सकललक्ष्यार्थ- सम्बन्धित्वे सतीतिदण्डस्य पुरुषन्वावच्छेदेन तत्स- म्बन्धाभावान्न तत्रातिव्याप्तिः। यदि तत्तत्पुरुषत्वमेव तत्तद्दण्डादिप्र- त्याग्यव्यावृत्याश्रयतावच्छेदकमिति तत्तद्दण्डो लक्ष्यतावच्छेदकाव- च्छिन्नसम्बन्धीति ब्रूयात्तदा तत्तद्दण्डादेरपि लक्षणत्वमिष्टमेवासाधा. रणधर्मस्वादत्र काकोपि तटस्थलक्षणमेव ततस्तत्र लक्षणगमनं न दोषायेत्यर्थः ॥ ५१५ ॥ पुरुषसम्बन्धेपि तत्र स्वरूपलक्षणलक्षणमाह- लक्ष्यस्वरूपमपि सद्यदमुष्य साक्षा- दर्थान्तराद्भवति भेदकमेतदाहुः । अस्य स्वलक्षणतयैव तु लक्षणं वं छिदं जलं द्रवमितीहशमत्र लोके ॥ ५१६ ॥ लक्ष्यस्वरूपमिति । यत्साक्षाल्लक्ष्यस्वरूपं सदमुष्य लक्ष्यस्यार्थान्तरा- द्भेदकं भवति तल्लक्षणं ब्यावर्त्तकमस्य लक्ष्यस्य स्वलक्षणतयैवा- प्रथमोऽध्यायः । । हुरिति सम्बन्धः । विशेषणलक्षणादावतिव्याप्तिपरिहारायाह-- स्वरूपमिति । तत्र लौकिकप्रसिद्धयनुरोधेनोदाहरणमाह-खंछिद्रमित्यादिना । न चात्र छिद्रत्वादिधर्म एव लक्षणं भर्म्यतिरिक्तच्छिद्रताया लौकिकै- रननुभवात् । नचैवं खं छिद्रमिति वाक्यस्यानवयापातः, ज्ञातघटस्या- ज्ञातकलशशब्दार्थस्य घट: कलश इति पदद्वयान्वयबोधवत्प्रकृतेप्यु- पपत्तेः । लक्षणत्वं च खं छिद्रमिति ज्ञानानन्तरमच्छिद्रव्यावृत्तिदर्शना द्वस्तुतस्तु सत्यादिकमेवात्रोदाहरणं सत्यादिरूपेण तज्ज्ञानेपि तस्या. न्यस्मात्प्रधानादेावृत्तिदर्शनेन तत्र सामान्यविशेषोपलक्षणसत्त्वा- दित्यर्थः ॥ ५१६ ॥ विशेषणलक्षणलक्षणमाह- RAM स्वानुरक्तमितिजन्मकारणं यत्पुनर्भजति लक्ष्यवस्तुनि । तद्विशेषणतयाऽस्य लक्षणं केसरादिकमिवाश्ववस्तुनः ॥५१७ ।। स्वानुरक्तेति । स्ववैशिष्टयविषयबुद्धिकारणं विषय इत्यर्थः । पुनः शब्दस्त्वर्थः यल्लक्षणवस्तुनि स्वानुरक्तमितिजन्मकारणं भवति । तल्ल- क्षणं पुनरस्य लक्ष्यस्य विशेषणतया विशेषणलक्षणतयाहुरिति सम्ब- न्धः । यत्सकललक्ष्यसम्बन्धित्वे सति स्वसम्बन्धकाल एव व्यावृत्त धीजनकविषयः तद्विशेषणलक्षणमित्यर्थः । अव्यावर्त्तकप्रमेयत्वादि- व्यावर्त्तनाय व्यावृत्तधीजनकेत्यादि यद्विषयत्वेन धियो व्यावतकत्वं तदेव तादृशवुद्धिविषयत्वेन विवक्षितं तेन शुक्लो घटः प्रमेयमित्यादि- ज्ञानविषयप्रमेयत्वे नातिव्याप्तिः । काकादावतिव्याप्तिवारणाय स्वसम्बन्धकाल एवेति । स्वरूपलक्षणेतिव्याप्तिपरिहारार्थ लक्ष्यसम्ब- ४८४ सटीके संक्षेपशारीरक- न्धीति सम्बन्धश्च भेदगर्भो विवक्षितः । दण्डादावतिव्याप्तिपरिहा. रार्थ-सकलेति । अस्योदाहरणमाह-केसरादिकमिति ॥ ५१७ ॥ वा- तटस्थलक्षणलक्षणमाह- स्वानुरक्तमितिजन्महेतुतां लक्ष्यवस्तुनि निरस्य लक्षणम् । अस्वरूपमपि तस्य यद्भवे. काकवत्तदुपलक्षणं विदुः ॥५१८॥ स्वानुरक्तमिति । जन्महेतुतामिति लक्षणं व्यावर्त्तकमस्वरूपं स्वरूपा. दन्यत्तस्य लक्ष्यस्य यत्तस्यास्वरूपमपि लक्ष्यवस्तुनि स्वानुरक्तमिति जन्महेतुतानिरस्य लक्षणं भवेत्तदुपलक्षणं तटस्थलक्षणं विदुरिति सम्बन्धः । यत्सकललक्ष्यसम्बन्धित्वे सति स्वसम्बन्धानाश्रयकालेपि व्यावर्त्तकधीजनकविशिष्टधीविषयस्तत्तटस्थलक्षणमित्यर्थः । विशेषणेऽ- तिव्याप्तिपरिहारार्थ स्वसम्बन्धानाश्रयेति इतरत्स्पष्टं तत्रोदाहरणं- काकवदिति। यद्यपि काकमात्रं न तटस्थलक्षणं तस्यालश्येपि सत्वात्त- थापि काकविशेषो लक्षणमित्यर्थः । वस्तुतस्तु काको न तटस्थलक्षणं किन्तूपलक्षणमेव तत्र चातिव्याप्तोपि दण्डादिवद्वयावर्तक एवाति- व्याप्तेर्लक्षणदूषणत्वादत एव वाचार्यैरप्युपलक्षणमित्युक्तं तथा च लक्ष्येतरावृतित्वे सति लक्ष्य नियतवृत्तिध्वंसप्रतियोगित्वं तल्लक्षणं द्रष्टव्यम् । केसरादेरश्ववृतिध्वंसप्रतियोगित्वेऽपि तद्ध्वंसस्याश्चनिय- तत्वाभावान्न तत्रातिव्याप्तिः । सामान्यलक्षणमप्यस्माभिरुक्तमेव द्रष्टव्यम् ॥ १८ ॥ अस्त्वेवं लक्षणवैविध्यं, प्रकृते किमायातमित्याकाङ्क्षायां जगत्कारणत्वस्य मुक्तिकालीनध्वंसप्रतियोगित्वेपि तस्य तटस्थ- लक्षणत्वं संभवतीत्यभिप्रेत्य तस्य तटस्थलक्षणत्वं साधयति प्रथमोऽध्यायः। विश्वोद्भवस्थितिलयप्रकृतित्वमस्य चिद्रस्तुनो यदसहायपरिग्रहस्य । तवर्णनीयमुपलचणमेव कस्मा- ब्रह्मेति लक्ष्यपदशक्तयविरोधहेतोः ॥५१॥ विश्वोद्भवस्थितिलयप्रकृतित्वमिति । असहायपरिग्रहस्य न विद्यते सहा- यस्य द्वितीयस्य सहकारिणः परिग्रहो यस्य तस्यास्य चिद्वस्तुनः यद्विश्वोद्भवस्थितिलयहेतुत्वं तदुपलक्षणमेव वर्णनीयमिति सम्बन्धः । ननु ब्रह्मणि सर्वदा जगत्कारणत्वसत्त्वात्कथमस्थोपलक्षणत्वं पर्यत इत्याक्षिपति-कस्मादिति । कारणत्वस्योपलक्षणत्वाभावे किमेतत्स्वरूप- लक्षणमेव किं वा विशेषणलक्षणम् । श्राद्यो भवद्भवेद्यदि सविशेषन- हलक्षणं न चैतदस्ति तस्य मुमुक्ष्वजिज्ञास्यत्वेनापुरुषार्थत्वादप्रसक्त- स्वाञ्च किन्तु ब्रह्मपदसमर्पितं यदनवच्छिन्नमहच्चैतन्यानन्दात्मकं वस्तु तदेव लक्ष्यं तस्यैव मुमुक्षुजिज्ञास्यत्वात्तस्य च निरस्तसमस्तप्रपञ्चस्य कथं प्रपञ्चघटितजगत्कारणत्वं स्वरूपं भवेत्तदिदमुक्तम्-सहायपरिग्रह- स्येति । अतो लक्ष्यब्रह्मपदविरोधपरिहाराय तदुपलक्षणत्वमेव वक्तव्य. मिति परिहरति-ब्रह्मेति । लक्ष्यपदशक्तिविरोधहेतोरिति-लक्ष्यवा. चिपदं लक्ष्यपदं तस्य शक्तिरनवच्छिन्नमहत्प्रतिपादकसामर्थ्य तद्विरो- धाद्धेतोरित्यर्थः ॥ ५१६ ॥ ननु माभूदेतत्वरूपलक्षणं विशेषणलक्षणं किं न स्यादित्याशङ्कय , तत्राप्युक्तदोषस्य सत्त्वान्मैवमित्याह- विश्वोद्भवस्थितिलयप्रकृतित्वरूप- मेकाकिनो यदिह लक्षणमुच्यमानम् ।

४५६ सटीके संक्षेपशारीरके- तहह्मणो यदि विशेषणरूपमिष्टं ब्रह्मेति लक्ष्यविषयस्य पदस्य भङ्गः ॥ ५२० ॥ विश्वोद्भवस्थितिलयप्रकृतित्वरूपमिति । इहऽ-यतो वेत्यादिवाक्ये एकाकिनोऽ- द्वितीयस्य ब्रह्मण उच्यमानं लक्षणं यद्विश्वोद्भवस्थितिलयप्रकृतित्वरूपं तद्यदि ब्रह्मणो विशेषणरूपमिष्टं विशेषणलक्षणं स्यात्तदा लक्ष्यविषयस्य ब्रह्मेतिपदस्य भङ्गो बाधः स्यादित्यर्थः । जगत्कारणत्वस्य विशेष- गलक्षणत्वे तस्य यावल्लक्ष्यकालीनत्वं वक्तव्यं तस्यैव विशेषणत्वा. तथा च तस्याविद्याकल्पितत्वे तन्न संभवति तस्य विद्यया निवर्त्यः स्वात्ततो वास्तवमेव तद्वक्तव्यम् । तथा चानवच्छिन्नार्थविषयब्रह्मप- दार्थस्य संकुचितमहत्त्व किं न स्यात्तत्राह-लक्ष्यार्थवाचीति । हि यतो लक्षणार्थे बाधापत्तिरतस्तत्परिहाराय जगन्कारणत्वमुपलक्षणमिति वक्तव्यमित्यर्थः ॥ ५२०॥ - लक्ष्यार्थवाचिपदमत्र हि लक्षणार्थे वाक्ये प्रधानमितरद्गुणभूतमाहुः। ब्रह्मेति लक्ष्यविषयं च पदं समर्थ भूमानमेव वदितुं न न तुम मर्त्यमल्पम् ॥५२१॥ ननु लक्षणानुरोधेन लक्ष्यस्य ब्रह्मपदालक्षणप्रमेयके वाक्ये लक्ष्यार्थवाचिपदं प्रधानमितरल्लक्षणविषयं पदं गुणभूतमित्याहुः । ब्रह्मेति पदं च लक्ष्यविषयं ततो ब्रह्मपदं भूमानमनवच्छिन्नं महद्वदितुं समर्थ न तु मर्त्यम्मरणशीलमत एवाल्पमित्यर्थः । लक्षणवाक्ये हि लक्ष्यवाचिपदं प्रतिपाद्यपरत्वाद्वलवल्लक्षणवाचिपदं तु लक्ष्यप्रतिपत्ति शेषलक्षणानुवादत्वाद्गुणभूतमेव । अतो लक्षणानुरोधेन प्रधानब्रह्म पदस्यान्यथानयनमनुचितमिति भावः ॥ ५२१ ।।

प्रथमोऽध्यायः ।
उक्तमर्थ हेतूपन्यासपूर्वकमुपसंहरति-
तस्मात्प्रधानपदभङ्ग भयाद् गुणानां
युक्तं ग्रहीतुमुपलक्षणगोचरत्वम् ।
ब्रह्मेति चैतदुपलक्ष्यसमर्पणार्थ-
मेवं समञ्जसमिदं पदजातमस्मिन् ॥५२२॥
--
तस्मादिति । यतो ब्रह्मेतिचैतल्लक्ष्यसमर्पणार्थ तस्मात् ब्रह्मपदानुरो-
धेन ज्ञाननिवर्त्यजगजन्मादिगुणविषययतीवेत्यादिवाक्यानामुपलक्ष
गर्थत्वमेव । एवं सति यतोवेत्यादिवाक्ये पदजातं समञ्जसं स्यान्मु.
ख्यार्थ स्याजन्मादिपदानामप्यर्थवाधाभावात्पारमार्थिकत्वस्यातदर्थ.
त्वापदार्थस्याप्यवाधितत्त्वादित्यर्थः । तस्मादभिन्ननिमित्तोपा-
दानत्वमुपलक्षणमात्मन इति सिद्धम् ॥ ५२२ ॥
एवं लक्षणवाक्यं जगत्कारणत्वोपलक्षिताद्वितीयं ब्रह्म प्रतिपा-
दयतीत्युक्तमत्र केचिल्लक्षणवाक्यं लक्ष्यनिष्टतया लक्षणं ज्ञापयत्का-
यत्वहेतोः पक्षधर्मत्वं ज्ञापयति सर्वज्ञत्वादिगुणकब्रह्मसिद्धिस्त्वनुमा-
नादेवेति वदन्ति। अन्ये तु लक्षणवाक्येन लक्ष्ये लक्षणे ज्ञापिते लक्षणे.
न ब्रह्मादिपदस्य ब्रह्मणा वाच्यवाचकभावः सम्बन्धः सिद्ध्यतीति ।
तदुभयं दूषयन् लक्षणस्य स्वाभिमतं प्रयोजनमाह-
।
लक्ष्यस्वरूपकथनाय न लक्षणानि
नाप्यस्य वाचकमिदं पदमित्यमुष्मै ।
व्यावृत्तमेतदखिलादितरार्थजाता-
दित्येतदेव वदितुंननुलक्षणानि॥ ५२३ ॥

सटीके संक्षेपशारीरके- लक्ष्यस्वरूपति । लक्ष्यब्रह्मानुमितय इत्यर्थः । अस्य ब्रह्मणः इदं पदं ब्रह्मेति पदममुष्मै ज्ञानायेति शेषः । किं तर्हि लक्षणप्रयोजन मित्यत्राह-व्यावृत्तमेतदिति । अखिलादितरार्थजातादलक्ष्यादेतद्ब्रह्मव्या- वृत्तमित्येतद्वितुं ज्ञापयितुमेव लक्षणानि नन्विति सम्बन्धः ॥ ५२३ ॥ ननु कुतो लक्ष्यानुमितये संज्ञासज्ञिसम्बन्धपरिच्छित्तये वा लक्षणं न भवतीति चेत्तत्राद्यपक्षनिराकरणे तावद्धतुं दर्शयन्स्वपक्ष स्य ननुशब्दसूचिता वगीतवृद्धप्रसिद्धयुपोद्वलितत्वमाह- लक्ष्यस्वरूपमुपलभ्य तदेकनिष्टं दृष्ट्वा च लक्षणमनेन तदेव लक्ष्यम् । व्यावर्त्य बोधयितुमुत्सहते जनोऽयं तत्त्वान्तरादिति यतः प्रतिपन्नमेतत् ॥ ५२४ ॥ लक्ष्यस्वरूपमुपलभ्येति । ब्रह्मस्वरूपं ब्रह्मादिपदादुपलभ्येत्यर्थः। लक्षणं जगत्कारणत्वादिलक्षणमनेन लक्षणेन तदेव लक्ष्यं पूर्वमवगतमेव लक्ष्यं तत्त्वान्तरात्प्रधानादेः अयं जनो लक्ष्यस्वरूपमुपलभ्य तदे- कनिष्ठतया च लक्षणं दृष्टानेन लक्षणेन पूर्व दृष्टमेव लक्ष्य तत्त्वान्तराद्वयावर्त्य बोधयितुं ज्ञापयितुमुत्सहते इत्येतत्प्रतिपनं यतस्तत इतरार्थजातादित्यादिना पूर्वेण सम्बन्धः । अतो लक्षणावगमात्प्रागेव लक्ष्यस्य सिद्धत्वान्न तेनैव तत्सिद्धिरित्यर्थः। शेषं चापेक्षितमत्रोपरिष्टात्प्रपञ्चयिष्यति ॥ ५२४ ॥ प्रगल्भत अप्रसिद्ध्य व द्वितीयमपि दूषयति-- संज्ञासंज्ञिसमन्वयावगतये नेष्टं कचिल्लक्षणं व्यावृत्तिप्रतिपत्तिमात्रजनक लक्ष्ये भवेदन्यतः ।

प्रथमोऽध्यायः। लक्ष्य लक्षणवर्त्मना हि जगतिव्यावर्तयन्तोऽन्यत- स्तत्तल्लक्षणमादरेण महता संगृह्णते वादिनः ॥५२॥ संज्ञासंज्ञीति । समन्वयः सम्बन्धः । क्वचित्वचिदपि लक्षणं संज्ञासं- शिसमन्वयावगतये नेष्टमिति लक्ष्ये ब्रह्मण्यन्यतो व्यावृत्तिप्रतिपत्ति- मात्रजननं भवेदिति सम्बन्धः । किं चेतरव्यावृत्ततया लक्ष्यप्रतिपत्ती- ह्यसाधारणशब्दवाच्यत्वं ज्ञातुं शक्यते ब्रह्मण इतराभेदनिश्चयतत्सं- शययोरितरावाचकब्रह्मपदवाच्यत्वज्ञानादितरभेदज्ञानं च ब्रह्मणो नानु- मानेतरप्रमाणात्प्रत्यक्षतो लक्षणवाक्याद्वा भवति। अनुमानमपि न लक्ष- व्यतिरिक्तं किञ्चिदस्तीति लक्षणमनुमानविधया प्रधानादिव्यावृत्ति- बोधयति । अवगते च व्यावृत्ते ब्रह्मणि समभिव्याहारादिना ब्रह्मश- ब्दस्तत्र व्युत्पाद्यत इति व्यावृत्तिसिद्धिरेव लक्षणप्रयोजनमित्यभिप्रेत्यन केवलं लक्षणस्य वाच्यवाचकसम्बन्धः प्रयोजनमित्यत्र प्रसिद्धय- भावः अपि तु व्यावृत्तसिद्धौ प्रसिद्धिरपीति पूर्वोक्तं प्रसिद्धमेवानु- वदति-लक्ष्यमिति ॥ ५२५ ।। पक्षद्वयनिराकरणमुपसंहरति- तस्माद् ब्रह्मणि वाच्यवाचकयुजासिद्धथै श्रुति भ्यधा- जन्माद्यस्य समीक्षितस्य जगतो यदुब्रह्मणो लक्षणम् । नापीदं स्वकरूपबोधनपरं संकीर्तिते ब्रह्मणः किंत्वब्रह्मपदार्थतोऽस्य सकलाइयावृत्तता सिद्धये ॥५२६॥ तस्मादिति । युजा सम्बन्धः संज्ञासंझिसम्बन्धावगतय इत्यर्थः । श्रुतिर्यतो वेत्याद्या समीक्षितस्य परिदृश्यमानस्य ब्रह्मण इति पञ्चमी ब्रह्मणः सकाशाद्यदस्य समीक्षितस्य जगती जन्मादि ब्रह्मणो जगत्कार- णत्वमिति यावत्तस्मायतो ब्रह्मणो जगत्कारणत्वलक्षणमिदं वाच्यवाच- सटीके संक्षेपशारीरके- ब्रह्मणः Nama कयुजा सिद्धयै श्रुतिर्नाभ्यधादिदं संकीर्तनम् ।कर्मणि ल्युट्।संकीर्तितं लक्षणं ब्रह्मणि स्वरूपबोधनपरं ब्रह्मस्वरूपप्रकाशनपरं न किन्त्वस्य सकलादब्रह्मपदार्थतो व्यावृत्ततासिद्धये भवतीति सम्बन्धः ॥ ५२६॥ ननु किं तव्यावर्त्यमिति तदाह- परिच्छिन्नवस्तुव्यवच्छेदसिद्ध्यै जगाद श्रुतिर्लक्षणं ब्रह्मणस्तत् । परिच्छिन्नता प्रापिता पूर्वपचे परब्रह्मणस्तनिषेधार्थमेतत् ॥ ५२७॥ परिच्छिन्नवस्त्विति । परमाएवादिकं व्यावयमित्यर्थः । तदभिन्ननि- मित्तोपादानत्वमित्यर्थः । नन्वद्वैतब्रह्मवादिमते व्यावर्त्यस्यान्यस्या- भावात्कथमभिन्ननिमितोपादानात्वाख्यलक्षणस्य व्यावृत्तिसिद्धिः प्रयोजनमित्युच्यत इत्याशङ्कय वास्तवव्यावाभावेपि परमतसिद्ध- व्यावर्त्यस्य सिद्धत्वान्न व्यावृत्तिसिद्धिप्रयोजनं विहन्यत इत्यभिप्रेत्या- ह-परिच्छिन्नतेति । पूर्वपक्षे नैयादिकादिपर्वपक्ष इत्यर्थः । तनिषेधार्थ तस्य परिच्छेदस्य निषेधार्थमेतदुक्तं लक्षणं निषेधो हि निषेध्यप्रती- तिमेवापेक्षते न तु तस्य क्वचित्सत्त्वमपि तस्य निषेधानुपयोगाच्छु- तिरजतसंसर्गादेः परेणास्मदभिमतानिर्वचनीयत्वादेश्च निषेधानु- पपत्तेश्चान्यतः प्रसिद्धपरिच्छिन्नवस्तुव्यवच्छेदेन लक्षणमर्थ- वदित्यर्थः ॥ ५२७॥ ननु के ते परिच्छिन्नाः पदार्था इत्याकाङ्क्षायामाह- ... कालखभावपरमाण्वसुभृत्प्रधान- स्कन्धप्रतीत्यखिलशून्यकथाप्रसङ्गे । - प्रथमोऽध्यायः। जन्मादिसूत्रमवतीर्णमियं श्रुतिब्ध तमादिदंपरमिदं द्वितयं प्रवृत्तम् ॥ ५२८॥ कालस्वभावेति । कालश्च स्वभावश्च परमाणुश्वासुमृञ्च प्रधानं च स्कन्धश्च प्रतीतिश्चाखिलशून्यं च तेषां कथाप्रसङ्गे कथाप्रवृत्तावित्यर्थः । तत्र कालविशेषे सत्येवाङ्कुरादेः फलदर्शनादागमाञ्च काल एव कारणमिति पौराणिकाः। स्वभावव्यतिरेकेण कार्यकारणभावनिरूपणा- योगात्स्वभावः कारणमितिचार्वाकाः।पृथिव्यादिचतुर्विधाः परमाणावो जगदुपादानमिति नैयायिकवैशेषिकाः। तथा हि-त्र्यणुकस्य साव- यवत्वबहिरिन्द्रियप्रत्यक्षद्रव्यत्वाभ्यां कार्यन्वे सिद्धे विमतं स्वन्यून- परिमाणारब्धं भवति कार्यद्रव्यत्वात् घटवदिति व्यणुके सिद्ध तस्यापि महद्दव्यारम्भकद्रव्यत्वेन कार्यत्वे सिद्धे स्वन्यूनपरिमाणार. ब्धत्वे च सिद्ध द्वयणुकमनित्यद्रव्यासमवेतं जन्यमहत्वानधिकरणद्र- व्यत्वादित्यनुमानानन्तरं द्वयणुकं नित्यद्रव्यसमवेतमनित्यासमवेतत्वे सति समवेतत्वाच्छन्दवदिति द्वयणुकसमवायिनो नित्यत्वं निरवयवत्वं च सिद्ध्यति निरवयवः परिच्छिन्नश्च परमाणुरिति परमाणुप्रकृति- कं जगदिति।असुमृत्सूत्रात्मा करणामिति हैरगयगर्भास्वागमात्कल्प यन्ति । त्रिगुणात्मकं जगदुपादानमिति सांख्या अनुमिमते । तथा हि सर्वे विकाराः सुखदुःखमोहात्मकप्रकृतिकाः नियमेन सुखदुखमोहान्वि तत्वाधनियमेन यदन्वितं तत्तत्प्रकृतिकं यथा मृदन्वितो घटादिः तादृशी च प्रकृतिः प्रधानमेक्तस्य सत्वरजस्तम श्रात्मत्वेन सुखदुःखमोहात्मक- त्वात् नचासिद्धो हेतुः कामिन्यादिनिरीक्षणे कस्यचित्सुखं कस्यचिद्दःखं कस्यचिन्मोह इत्येकस्यैव सुखदुःखमोहात्मकत्वानुभवात्तारूपविज्ञानवेद- नासंहासंस्कारात्मकाः पञ्च स्कधा एव कारणमिति सौत्रान्तिकवैभा- षिको तत्र रूप्यते इति रूप्यते ऽनेनेति च कर्मकरणव्युत्पत्तिद्वयेन सविषयाणीन्द्रियाणि रूपस्कन्धः, अहमित्यालयविज्ञानं चक्षुरादिज- ४६२ सटीके संक्षेपशारीरके- न्यरूपादिविषयं निर्विकल्पकज्ञानं वा विज्ञानस्कन्धः, प्रियादिविषयानु- भवजन्या या चित्तस्य सुखदुःखादिविशेषावस्था सा वेदमास्कन्धः, सविकल्पप्रत्ययः संज्ञास्कन्धः, रागादयः संस्कारस्कन्धः, एतैश्च पञ्चभिः स्कन्धेराध्यात्मिकदेहादिसंघातो भवति । खरस्नेहोष्णोणारम- कैश्चतुर्विधैः परमाणुभिः बाह्यघटादिसंघातोभवतीति तन्मतम् । प्रती- तिर्बुद्धिवृत्तिः क्षणिकविज्ञानं कारणमिति विज्ञानवादिनः यत्प्रतीयतेतद्वि- शानाभिन्नं यथाविज्ञानमिति प्रपञ्चस्य विज्ञानकार्यतया तदभेदं वर्ण- यन्ति । विमतं कार्य शून्यपुरस्सरमनुपलभ्यमानपूर्वावस्थात्वाजाग- राद्यकार्यवदिति शून्यकार्यत्वं शून्यवादिनो मन्यन्ते । ततस्तेषां पूर्व पक्षेणोपस्थितौ तव्यावृत्तये यतो वेत्यादिश्रुतिरिदं जन्मादिसूत्रं चा- वतीर्णामिति । इदंपरं प्रधानादिव्यावृत्तिपरमेवेदं द्वितयं श्रुतिः सूत्रं च तदुभयदर्शितं लक्षणां युक्तमिति भावः । ननु कथं तेषां व्यावृत्ति- रुच्यते तत्र न तावत्काल उपादानकारणां तत्र प्रमाणाभावादन्वयव्य- तिरेकयोनिमित्तताविषयत्वेनार्थान्तरत्वात् नाप्यागमः।तादृश्या:श्रुतेर- भावात्पुराणावाक्यानां च श्रुतिविरोधपरिहाराय निमित्तत्वविषयत्व- स्यैवोचितत्वात् । नापि स्वभावः कारणं किं स्वस्य भावः स्वभाव इति- पदार्थनिष्ठो धर्मः स्वभावशब्देनाभिधीयते । किं वा स्वश्चासौभाव श्चेतिपदार्थस्वरूपमेव । किं वा डित्थादिशब्दार्थवदवयववृत्तिमनपे. श्यरूपानपेक्षत्वमेव । नाधः । स्वधर्मणा स्वस्य जन्यत्वानुपपत्तेः । न द्वितीयः । स्वात्मानं प्रति स्वस्य नियतपूर्वोत्तरक्षाभावित्वानुपप- तेः । न तृतीयः । अन्वयव्यतिरेकाभ्यां कारणापेक्षाया अनुभवाद्वि- शिष्टदेशकालपदार्थमपेक्ष्य कार्य जायते । श्रथ च कारगोनपेक्षमिति व्याहतमपेक्ष्यस्यैव कारणात्वात्। नापि परमारराव उपादानं तत्र प्रमा- गाभावात् । नचोक्तानुमानं प्रमाणं क्षौमद्वयारब्धरजुद्रव्ये स्वन्यूनपरि माएराद्रव्यारब्धत्वनियमाभावेन कार्यत्वहेतोयभिचारात्ानच तत्कार्या- न्तरमेव न भवतीति वाच्यम्-तस्य घटादेरिक कार्यान्तरसत्ययान्तस्यो प्रथमोऽध्यायः। सत्वात्परमाएगोरारम्भकत्वानुपपत्तेश्च । ते हि परस्परं संयुज्यमानाः सन्तोदयणुकादिकमारभन्त इति वक्तव्यम्। न च जिरवयवानां तेषां परस्परं संयोगः संभवति । अव्याप्यवृतिसंयोगस्य निरवयचे तस्मि- न्समवायानुपपत्तेः । ननु निरवयवेपि तस्मिन्नवच्छेदभेदेन प्रदेशवृत्ति- संयोगः संभवतीति चेत्स किमच्छिन्नप्रदेशः पारमार्थिकः उत का- ल्पनिकः। नाद्यः। वस्तुतो निरवयवे परमाणाधवच्छेदभेदतोऽपि वास्त. वदेशद्वयानुपपत्तेः । न द्वितीयः । परमणुदेशव्यतिरेकेशानिर्वाच्य. देशान्तरस्य त्वयानङ्गीकारादङ्गीकारेपि कल्पितपरिच्छिन्नदेशसंयोग. स्यापि कल्पितत्त्वापत्या वास्तवद्वथणुकारम्भकत्वानुपपत्तः। अवच्छेद- संयोगस्यापि संयोगतया निरवयवे वृत्त्यनुपपत्तश्च । ननु स्वरूपसम्ब- न्धेन दिगेव तत्रावच्छेदिकेति चेन्न । स्वरूपसम्बन्धस्य सर्वत्र वृत्तित्वेनास्य भेदप्रयोजकत्वानुपपत्तः । तस्यापि प्रदेशवृत्तावन्य एव प्रदेशभेदप्रयोजकः कल्पनीयः । ननु परमाणुसंयोगस्य व्याप्यवृत्ति- त्वमेवास्तु । न च तस्याव्याप्यवृत्तित्वनियमभङ्गापत्तिः सावयव- संयोगस्यैव तथात्वादिति चेन । तथात्वे सर्वात्मना संयुक्त- परमाणुद्वयस्यैकपरमाणुमानत्वेन तदारब्धद्वयणुकस्य परमाणोरनति- शयापत्तेः । न चैतद्युज्यते । कार्यद्रव्यस्य स्वन्यूनपरिमाणवद्- द्रव्यारब्धत्वनियमभङ्गप्रसङ्गादपसिद्धान्तापातादेवं व्यणुकस्यापि परमाणुमात्रत्वेन सर्वस्यापि कार्यद्रव्यस्यातीन्द्रियत्वापत्तश्च । ननु माभूत्परमाणुसंयोगः असंयुक्ता एव परमाणवो द्वयणुकमारभन्त इति चेन्न । प्रारम्भकावयवसंयोगस्यासमवायिकारणस्याभावे तत्साध्य. द्वययुकानुत्पत्तेः । नापि सूत्रात्मा कारणं तस्य परिच्छन्नज्ञानशक्तः निखिलजगदुपादानत्वानुपपत्तेः । नापि प्रधानं जगत्कारण तत्र प्रमाणाभावात् । न चोक्तानुमानं प्रमाण सुखदुःखमोहानामान्तरत्वेन घंटादेव बाह्यत्वेनानुभवेन सुखदुःखमोहात्मकत्वस्य पदार्थेष्वसिद्धेः। में च योषितपिएडादौ तथात्वं इष्टमिति वाच्यम् । तत्रापि तज्ज्ञानस्य ४६४ सटीके संक्षेपशारीरके- - रागादिसहकार्यन्तरानुरोधेन पुरुषसमवेतसुखादिजनकत्वादन्यश प्रतिपुरुष सुखदुःखमोहानुभवप्रसङ्गाद्वस्तुस्वभावस्थ सर्वसाधारण- त्वात् । किंच प्रधानं हि सत्वरजस्तमसां साम्यावस्था न च तस्यां दशायां तस्य कारणत्वं सम्भवति । गुणवैषम्यं विना गुणानाम- न्वयानुपपत्तेः । परिणामायोगाद् गुणवैषम्यदशायां प्रधानत्वाभावा- स्कन्धनिराकरणं च द्वितीयाध्याय करिष्यति । नापि क्षणिकविज्ञानं कारणं क्षणिकस्य स्थायिकारणत्वानुपपत्तेः । पदार्थानां स्थायित्वमषि द्वितीये वक्ष्यति । नापि शून्यं कारणम् । तत्र प्रमाणाभावात् । नाप्यु: क्तानुमानमनुपलभ्यमानपूर्वावस्थात्वस्योपलभ्यमानमृत्पिण्डादिलक्ष- णपूर्वावस्थेषु घटादिष्वसिद्धः । निस्तत्वस्य तस्य पूर्वक्षणसत्व- लक्षणकारणत्वानुपपत्तेश्च । नम्वेवमपि श्रुतौ सूत्रे च तद्व्यवर्तकपदा. भावात्कथं तद्वयावृत्तिरिति चेन। अनुमानसिद्धचेतनानुवादकयच्छ- ब्दसमभिव्याहृततया यत इति पञ्चम्या अभिननिमित्तत्वस्यावगमा- त्तत्सूत्रेपि जन्मादीति जन्मस्थितिलयविषयपदमहिना यत इति पञ्चमी महिना चाधिष्ठानाभिन्नोपादानत्वावगमात्तद्वयावृत्युपपत्तेरि- त्यर्थः ॥ ५२८ ॥ यतो वेत्यादिवाक्ये ब्रह्मपदस्य जगदधिष्ठातुस्ताटस्थ्यनिरासेन प्रत्यगभेदसिद्धिः प्रयोजनमिति वक्तुं परमतमनुवदति- अधिष्ठात्रधिष्ठेयभावेन योनि- निमित्तं च यत्कारणं जन्मभाजाम् । परिच्छिन्नताऽस्यापि संभावितैव प्रतीचोऽस्य भेदे परैरुच्यमाने ॥ ५२६॥ अधिष्ठात्रधिष्ठेयभावेनेति । अधिष्ठाता कृतिमान् अधिष्ठेयः कृतिजन्य- व्यापारविषयः --कार्यानुकूले कृत्याश्रयत्वतजन्यव्यापारविषयत्वेक प्रथमोऽध्यायः। योनिरुपादानं निमित्तं कर्त्ताधिष्ठेयत्वेन मृदादिवद्योनिरधिष्ठातृत्वेन कुलालादिवत्कर्ता चेत्यर्थः । न च हेत्वसिद्धिः । तदात्मानं स्वयम- कुरुतेति श्रुतेरित्यर्थः । यत्कार्याणामभिन्ननिमित्तोपादानमित्युच्यते । अस्यापि पराभिमतेश्वरस्येव ताटस्थ्यमेव युज्यते । ब्रह्मणः सकाशात्प्र- तीचो ऽकार्यकारणखभावस्य भिन्नत्वात्परैस्तथाभ्युपगमाञ्चेति ॥५२६॥ । दूषयति- ततस्तनिषेधार्थमेतद्वभाषे श्रुतिब्रह्म तद्भिन्नता तस्य कस्मात् । प्रतीचोऽपि हि ब्रह्मता नित्यसिद्धा दृशो भेदसिडिनिरालम्बनैव ॥ ५३० ॥ ततइति । यत एवं भूतस्यापि परदृष्ट्या ताटस्थं प्रापत्ततस्तन्नि- राकरणार्थं श्रुतिर्जगत्कारणे ब्रह्मपदं वभाषे । तस्मादस्य जगत्कार- पस्य भिन्नता कस्मान कस्मादपीत्यर्थः जीवस्यापि प्रतिबिम्ब- भावेन ब्रह्माभिन्नत्वसंभवादिति भावः । ननु ब्रह्मपदानुगममात्रेण कथं जीवस्य ब्रह्माभिन्नत्वं तस्याप्रमाणत्वादिति चेन्न। तत्त्वमसीत्या- दिविशेषतो बोधकश्रुतेः सत्वादिन्यर्थः । न केवलं श्रुतितोऽभेदप्रतीतिः किं तर्हि युक्तितोपि भेदनिरासेनाभेदः सिद्ध्यतीत्याह-प्रतीचोऽपीति । दृशः स्वप्रकाशचैतन्यस्वरूपस्य हि यतो दृशः प्रतीचोपि ब्रह्मता नित्यसिद्धति भेदसिद्धिनिरालम्बना भ्रान्तिस्ततस्तन्निषेधार्थमिति सम्बन्धः । इदमत्र विवक्षितं प्रत्यगात्मा हि सर्वैरपि वादिभिः स्वप्रकाश इत्येवाभ्युपगन्तव्य: तद्विषयस्य प्रमाणस्यानिरूपणात्तथा हि कि प्रत्यक्षं प्रमाणमुतानुमानाद्येव । नान्त्यः । अहमित्यपरोक्षानु- भवात् । श्राद्यपि तत्र मन एव तत्र प्रमाणं वक्तव्यं नीरूपे निःस्पर्श च तस्मिन् चक्षुरादेरप्रवृतेः तदपि न तत्र प्रमाणम् । स्वसमवेतज्ञानस्य सटीक सक्षपशारारक- स्वप्रकाशः स्वस्याविषयत्वात्। तज्ज्ञानानाश्रयस्यैव तिद्विषत्वात्तदिन्द्रियग्राह्यत्वे तदिन्द्रियवृत्तिजातीयविशेषगुणवत्वस्य प्रयोजकत्वात् अन्यस्यानुग- तविषयत्वप्रयोजकस्याकर्तृकर्मत्वविरोधप्रसाच्च । न च विशेषगु- णोपहिताकारेण कर्मत्वं केवलाकारेण कर्तृत्वमिति वाच्यम् । उपा- धितोस्युपहितस्य त्वन्मते भेदाभावात् । ननु द्रव्यबोधस्वरूपात्मा द्रव्याकारण प्राहाः । बोधाकारेण ग्राहक इति चेत्स किं बोधाकारः नाद्यः जडाजडयोरभेदानुपपत्तेः । भेदाभेदस्य विरुद्ध- त्वाच । अन्त्ये कथं तस्य सिद्धिः । ग्राहकान्तराभावात् । ननु विषयसंविदाश्चयन्वेनान्मा प्रकाशत इति चेन विषयसंविदं विनापि केवलमहमिति प्रतीयमानत्वात् । किं च विषयसंवि- दाश्रयत्वमात्मनः केन सिद्धाति किं तेनैव विषयज्ञानेनोतान्येन । नाद्यः । स्वस्य स्वविषयत्वानुपपत्तेः । न हि स्वस्य स्वविषयत्वं विनापि स्वाश्रयत्वमात्मनो विषयीकर्तु स्वयमलं न द्वितीयः । स्वप्र- काशज्ञानस्य ज्ञानान्तराविषयत्वात्सविदतिरिक्तसंबिधीनप्रकाशस्य संबित्कर्मत्वनियमाञ्च। ततः परिशेषादात्मा स्वयं प्रकाश इत्येवाभ्यु- पगन्तव्यः ब्रह्मापि, स्वयंप्रकाशं प्रकाशत्वे जडत्वेन मिथ्यात्वापा- तात्तलः कथं स्वयंप्रकाशयोरनयोर्भेदः प्रमाणतो गृह्यत प्रमाणस्य धर्मिप्रतियोगिविषयत्वं विना भेदाविषयत्वाद्धर्मिप्रतियोगिनोश्च स्वयं- प्रकाशतया प्रमाणान्तरागोचरत्वात्तस्माजीवेश्वरयोर्भेदप्रतीतिर्धान्तिः रेवेति । एतच सर्व दश इत्यनेन सूचयति ॥ ५३० ॥ तस्माद्यावर्त्यप्रसिद्धिसम्भवाजगत्कारणुत्वं श्रुतिसिद्धस्य ब्रह्मणो व्यावृत्तिप्रयोजनमेव न ब्रह्मप्रमितिप्रयोजनमित्युपसंहरति- अपने जगत्कारणत्वं पुनर्यत्र दृष्टं न तल्लक्षणं तत्स्वरूपप्रसिद्ध्यै ।

प्रथमोऽध्यायः। स्वरूपे यतो लक्षणे दृश्यमाने प्रसिद्ध ततो लक्ष्यवस्तुस्वरूपम् ॥ ५३१ ॥ जगत्कारणत्वमिति । तजगत्कारणत्वाख्यं तत्स्वरूपप्रसिद्धये तस्य ब्रह्मणः स्वरूपप्रसिद्धथै ततः स्वरूपे ब्रह्मण्यधिकरणे लक्षणे दृश्यमाने सत्येव लक्ष्यं वस्तुस्वरूपं प्रसिद्धं प्रसिद्धयति । ततो यत्र जगत्का- रणवलक्षणं दृष्टं तत्तत्स्वरूपसिद्धयनेति सम्बन्धः । लक्षणाश्रयत्वेन लक्ष्यस्य प्रागेवावगतत्वान्न तदवगतिलक्षणप्रयोजनमिति भावः॥५३॥ ननु जगन्निमित्तोपादानत्वलक्षणां यतो वेत्यादिवाक्येनानूध ब्रह्म प्रतिपाद्यत इत्यनुपपन्नं तस्य लोके कुत्राप्यदर्शनादिति शङ्कते- निमित्तं च योनिश्च यत्कारणं त- त्परं ब्रह्म सर्वस्य जन्मादिभाजः । इति स्पष्टमाचष्ट एषा श्रुतिर्नः कथं सिडवल्लक्षणं सिद्धिबाह्यम् ॥ ५३२ ॥ निमित्तमिति । एषा यतो वेत्यादिश्रुतिः सर्वस्य कार्यस्य यनिमित्तं कारणं योनिश्च तद् ब्रह्मत्यनेन प्रकारेण सिद्धिबाह्यं लोकेऽसिद्धम- भिन्ननिमित्तोपादानत्वलक्षणां कथं सिद्धवत्स्पष्टमाचष्टे अनुवदतीति सम्बन्धः । अत्र यद्यपि सदुपादानत्वं प्रसिद्धमेव चेतनस्य सद्रूपस्य निमित्तत्वमपि लोकसिद्धमित्युक्तं तथाप्युभयोरेकप्रमाणविषयत्वा- भावात्तत्सिद्धयाक्षेप इति भावः ॥ ५३२ ॥ ननु माभूल्लोकेऽभिन्ननिमित्तोपादानत्वस्य सिद्धिः श्रुतित एव तत्सिद्धिः किं न स्यादित्याशय तस्य यत इति यच्छब्देनानूद्य- मानत्वादनुवादस्य च पूर्वसिद्धयपेक्षणादथवा वाक्यस्य लक्षण- सटीके संक्षेपशारीरके- प्रमेयत्वेऽखण्डार्थत्वक्षतेस्तदंशेऽनुवाद एव वक्तव्यः । स च पूर्व प्रसिद्धि विनानुपपन्न इत्याह- न खल्वीदृशं कारणं लोकसिद्ध । यतोऽनूद्य तल्लक्षणं तेन लक्ष्यम् । व्यवस्थापयन्ती प्रवृत्तवमेषा विधत्तेऽनुवक्तीति चैतद्विरुद्धम् ॥५३३॥ न खल्विति । खलु यतो ईदृशमभिन्ननिमित्तोपादानं लोकसिद्ध मानान्तरसिद्ध न यतश्चैषा श्रुतिस्तल्लक्षणमनूचैव लक्ष्यं ब्रह्मैवा- द्वितीयादिरूपेण व्यवस्थापयन्तो प्रवृत्ता तत एतादृशलक्षणास्या- नूद्यमानत्वमेतद्वाक्यप्रमेयत्वं चानुपपन्नमित्यर्थः । ननु श्रुतिरेव माना- न्तराधिगतमप्यर्थ स्वसामर्थ्यसिद्धमनुवदतीति तत्राह-एति । विधत्ते अज्ञातं ज्ञापयति । अनुवादविधित्वयोरेकत्र विरोधादिति भावः ॥ ५३३ ॥ अत्रोच्यते जगन्निमित्तोपादानत्वयोः प्रत्येक तावन्नाप्रसिद्धिः तस्यानुमानसिद्धत्वात् । नचैवमपि विशिष्टाप्रसिद्धया तदनुवादा- नुपपत्तिरिति वाच्यम् । मिलिताननुवादेपि प्रत्येकप्रसिद्धया यजग- दधिष्ठातृ यञ्च जगदुपादानं तदेकं ब्रह्मेति वाक्यप्रवृत्तावप्यद्वैत- ब्रह्मसिद्धः। अस्तु वा विशिष्टानुवादस्तथापि नानुपपत्तिः। विमतं जगदभिन्ननिमित्तोपादानं कार्यत्वात्पराभिमतेश्वरात्मसंयोगवदिति तत्सिद्धः,माभूद्वान्यतः सिद्धिः स्वत. प्रमाणभूतवेदानुवादसामर्थ्यादेव प्रसिद्धिसम्भवादित्यभिप्रेत्य परहरति- अनुवददिदमेव वाक्यमर्था- दुपनयतीदृशकारणं प्रसिद्धम् । - प्रथमोऽध्यायः। अनुवदनमशक्यमन्यथा स्या- दवगतगोचरमेव हीदमिषम् ॥ ५३४ ॥ अनुवददिति । इदं वाक्यं यतोवेत्यादिवाक्यमेव । प्रकृत्यर्थविहित- पञ्चमीविभक्तिविशिष्टयच्छब्देनेदृशं कारणमभिन्नानिमित्तोपादानं कार- णमनुवददनुवादान्यथानुपपत्त्येशं कारणं प्रसिद्धं यथा वदति तथोपनयति । अनुपपत्तिमेवाह- अनुवदनमिति । अन्यथा प्रसिद्धधभावे- ऽनुवदनमशक्यं स्याद्यत इदमनुवदनमवगतगोचरमेवेष्टं तत इत्यर्थः । अनुवादस्य ज्ञातैकगोचरत्वेन पूर्वप्रसिद्धि विना तदनुपपत्तेरनुवाद एवान्यथानुपपद्यमानोऽधिष्ठात्रुपादानैक्यमाक्षिपति । नचैवं लोकेऽ. सम्भावितार्थबोधकत्वेनाप्रामाण्यं किन्तु मानान्तरविरुद्धार्थकत्व एव तदन्यथाऽतिप्रसङ्गात् । न च ब्रह्मणो जगन्निमित्तोपादानत्वे मानान्तर- विरोधोस्ति । तस्माच्छौतानुवादसामर्थ्यादेवानुवाद्यार्थसिद्धिः । न चान्योऽन्याश्रयः वेदस्यानादित्वादित्यर्थः ॥ ५३४ ॥ उपजीवकप्रतीत्यनुपपत्त्योपजीव्यप्रसिद्धौ दृष्टान्तमाह- यथाविशिस्य विधानतोऽर्था- विशेषणानां घटते विधानम् । स्थितेऽनुवादेऽपि तथेह योज्य- मनूद्यमानेऽपि जगन्निदाने ॥ ५३५ ॥ यथेति । यथा सोमेन यजेनेत्यत्र सोमविशिष्टयागविधेरेवार्था- द्विशेषणीभूतसोमस्य विधानं ज्ञापनं घटते तथैवानुवादे स्थिते यत इत्यादेर्यच्छब्दसमभिव्याहारेणानुवादे स्थिते जगन्निदाने नूद्यमाने सत्य नूद्यमानार्थसिद्धिरित्यर्थः । अथवा-विशेषणानामिति । विशेषणसम्ब- न्धानामित्यर्थः । विशिष्टविधौ हि नियोगो विशिष्टविषयः न त्वविशि- ५०० सटीके संक्षेपशारीरके- टयागमात्रविषयः विशेषणविशेष्यवैशिष्ट्यं च न शाब्दं सर्वपदानां नियोगान्वितस्वार्थाभिधायित्वनियमात्ततो विशिष्टविषयनियोगेनैव तद्विषयत्वसिद्धिरित्यर्थः ॥ ५३५ ॥ विषयव्याप्त्यर्थमाह- अथ वाऽनुवादमुपलभ्य ततोs. नुपपदामानवपुषः प्रमितेः। अपरं निमित्तमिह कल्प्यमिति प्रवदन्ति केचिदभियुक्ततराः ॥५३६ ॥ अथवेति । अथवा केचिदनुवादमुपलभ्यानुपपद्यमानवपुषः पुरो- वादं विनानुपपद्यमानस्वरूपात्ततोनुवादात्प्रमितेः पूर्वप्रमितेरपरं निमित्तं कारणं कल्प्यमिति वदन्तीति सम्बन्धः । अभिन्ननिमित्तो- पादानानुवादान्यथानुपपत्या जगदभिन्ननिमित्तोपादानमिति किंचि- द्वाक्यं कल्पनीयमित्यर्थः ॥ ५३६ ॥ विशिष्टविधावप्येवमेव विशेषणतद्वैशिष्ट्यसिद्धिरित्याह- अपि विशिविधौ वचनान्तरा- दनुपपत्तिबलानुमितादिह। बिधिरशेषविशेषणगोचरो ननु पुनस्तत एव विधानतः ॥ ५३७॥ अपीति । इह विशिष्टविधावप्यनुपपत्तिबलाद्विशिष्टसिद्धयनुपत्ति तोऽनुमितात्कल्पिताद्वचनान्तरात्सोमः करणं सोमविशिष्टो याग इत्यादिवचनान्तरादशेषविशेषणगोचरो विधिः करणीभूतसोमादिवि प्रथमोऽध्यायः । शेषणतद्वैशिष्ट्यविषयविधिसिद्धिः । रित्यर्थः ॥ ५३७॥ न तु विशिष्टविध्यनुपपत्ते- एवं जन्मादिकारणत्वं तटस्थलक्षणं ब्रह्मण इतरव्यावृत्ति स- द्वयर्थमेव न तु तत्प्रमितये तत्प्रमितिस्तु जगत्कारणानुवादेनाद्वैतं ब्रह्म बोधयता यतो वेत्यादिलक्षणवाक्येन भवतीत्युक्तमेव लक्षण- प्रयोजनं लक्षणवाक्यावगतकार्यलिङ्गादद्वैतसिद्धिर्नेत्युक्तप्रपञ्चनायानु- वदति- जन्मादिलक्षणमिदं जगतो यदुक्तं सब्रह्मणस्तदिह चिह्नतयोपदिष्टम् । नास्मिन्प्रमाणमपरे पुनरेतदेव ब्रह्मप्रमाणमनुमानमुदीरयन्ति ॥५३८॥ जन्मादीति । चिह्नतया व्यावर्तकतया अनुवादस्य प्रयोजनमाह-- अपरे पुनरिति। नैयायिकादयः स्वस्यात्मनो वेदबाह्यतां प्रकटीकुर्वाणा हि यतः शास्त्रं वेदः कार्यलिङ्गोपस्थापनद्वारा ब्रह्म बोधयतीति कार्या नुमानपरतन्त्रं तदनुमानं तु शास्त्रस्य कथमपि नोपकरणमिति ईक्ष- माणा विचारयन्तः एतदनुमानमेव ब्रह्मणि प्रमाणं न श्रुतिरित्यादि वदन्तीति सम्बन्धः । न चानुमानात्प्रागेव लक्षणाश्रयलक्ष्यब्रह्म- सिद्धिरिति वाच्यम् । श्रुत्यवगतक्षित्यादिकार्यत्वलिङ्गादेव तत्सिद्धेः । सर्वज्ञत्वादिकं च पक्षधर्मताबलात् सिद्धयतीत्यभिमानः ॥ ५३८ ॥ अनुमानखण्डनेन दूषयति- कार्यानुमानपरतन्त्रमिदं हि शास्त्रं शास्त्रस्य नोपकरणं तदितीक्षमाणाः ।

५०२ सटीके संक्षेपशारीरके- तदुर्घटं न खलु कारणमद्वितीयं चैतन्ययुक्तमिति कार्यवशात्प्रतीमः॥५३६ ॥ तदुर्घटमिति । अनुमानादीश्वरसिद्धिरित्येतद् दुर्घटमनुपपन्नं तत्र हेतुः-न खल्विति । खलु यस्मादनुमानेन कारणमात्रसिद्भावपि तत्कारणमद्वितीयमेकं चैतन्ययुक्तं सर्वज्ञमिति च कार्यवशात्कार्य- लिङ्गान प्रतीमो न जानीमस्तत इत्यर्थः । तदज्ञाने च बीजं प्रागेव वर्णितं वर्णयिष्यति च॥ ५३६ ॥ यत अस्तु वानुमानाकर्बकत्वसर्वज्ञत्वादिसिद्धिः । न चैतावता ब्रह्म स्वरूपं निर्धारितं भवति । अभिन्ननिमित्तोपादानस्य सत्यज्ञाना- नन्दानन्तात्मकस्य यस्मादनन्तानन्दाजगजन्मादिमत्तद् ब्रह्म श्रात्मनः श्राकाशादिः समुद्भूतः तत्सत्यं ज्ञानानन्दं ब्रह्मेति प्रतिवाक्यं प्रतिपाद्यस्य ब्रह्मस्वरूपस्यानुमानादसिद्धः । न चैतादृशब्रह्मणो माना- न्तरायोग्यतया तत्र पदानां सम्बन्धग्रहाभावात्ताहगब्रह्मश्रुत्या प्रतिपाद्यमेव न भवतीति वाच्यम् । केषां चित्पदानां लोके केषां चिद एव समभिव्याहारबलाच्छबले व्युत्पत्तिग्रहस्य प्रदर्शितत्वाद्- ब्रह्मण औपनिषदत्वप्रतिज्ञानिर्वाहायैताग्रूपस्य मानान्तरायोग्यन्वस्य वक्तव्यत्वाश्च न कार्यलिङ्गानुमेयं ब्रह्मन्याह- वंदान्तवाक्यमिह येन पथा प्रवृनं लोकप्रसिद्धपदशक्तिमुपाददानम् विश्वोद्भवस्थितिलयप्रकृती निमित्ते सञ्चित्सुखात्मनि परात्मनि नैवमन्यत् ॥५४०॥ वेदान्तवाक्यमिति । इह लोके प्रसिद्धपदशक्तिमुपाददानं वेदान्तवाक्यं प्रथमोऽध्यायः। येन पथा प्रवृत्तं येन रूपेण ब्रह्म बोधयति । नैवमन्यदनुमानादिक बोधयतीति सम्बन्धः। येन पथेत्येतदेवविशदयनिह शब्दार्थमाह- विश्वोद्भवस्थितिलयप्रकृती निमित्त इत्यादिना ॥ ५४०॥ नन्वनन्यथासिद्धव्याप्तिपक्षधर्मताविशिष्टानुमानानुरोधेनान्यथासि- द्वश्रुत्यर्थनयनं किं न स्यादतोऽनुमानाप्रसिद्धरूपान्तराभावान श्रौतत्व- मात्मन इत्याशङ्कयाह- भका कथंचिदनुमानवशेन सिद्धे सर्वेश्वरे कणभुगदिभिरुच्यमाने । वेदान्तवाक्यमपि योज्यमतोऽनुमाने सापेक्षतोपनिषदां यदि साहसं तत् ॥५४१ ॥ । भक्त्वेति । अतोऽनुमानासिद्धेऽष्टगुणके कणभुगादिसंमते सर्वे श्वरत्वेनाभिमते नरविशेषे कस्मिश्चिद्भन्त्वोपचारेण दुःखाभावप्राधा- न्यादिविवक्षया वेदान्तगताद्वितीयानन्दादिवचनं योज्यमिति यतोऽत उपनिषदा यतो वेत्यादिवाक्यानां ब्रह्मप्रतिपादने ऽनुमाने विषये सापेक्षता उपनिषत्प्रतिपाद्यकार्यलिङ्गादेवेश्वरसिद्धिरिति यत्तद्वचन- मतिसाहसमित्यर्थः । अत्रेदमभिधीयते । कालिङ्गानुमानं हि जगत्कारणमात्रं साधयति । सर्वज्ञत्वैकत्वविशिष्टकारणसाधनेपि न श्रुतेग्नवच्छिन्नानन्त्यं प्रतिपादयन्त्यास्तेन विरोधोऽस्ति येनोप- चारवृत्तिः स्यात् । न चानुमानसिद्धे विषये तदविषयधर्मबोधक वाक्यं तेन विरुद्धयते । अनवगतविशेषव्याप्तिकेन धूममात्रेणानुमिते वह्निमात्रे खादिरत्वादिविशेषबोधकवाक्यस्यापि बाधप्रसङ्गात्तस्मा: दनुमानविरोधाभावान श्रुतेरुपचारो युक्तः। ननु माभूच्छ्रुतेरनुमान- विरोधेनोपचारः । श्रुतितो भवदभिमतप्रतीतिरेव नास्तीति चेतिक सटीक संक्षेपशारीरके- साङ्गाध्ययनविरहिणां तन्नास्तीत्युच्यते । उत सानाध्ययनवतामपि श्राद्ये का नः क्षतिः न हि प्रतीतिसामग्रोचिरहदशायां तदभावेन प्रमेयाभावो निश्चेतुं शक्यते अतिप्रसङ्गात् । न द्वितीयः। अक्षपादशिरः स्पृष्टा शपथेनापि दुष्करः वेदेनाद्वैतसद्ब्रह्मप्रत्ययापह्नवो यतः तस्मा- द्वेदस्य अनुमानसापेक्षतया ततोऽद्वितीयब्रह्मसिद्धिर्नास्तीत्येतदति- साहसमिति ॥ ५४१ ॥ ननु माभून्न्यायविरोधः अक्षपादादिवचनविरोधादेव श्रुतेरुप चारः कल्प्यतामित्याशङ्कय बलवद्वाधकं विनापि पौरुषेयवाक्येन स्वकपोलकल्पितेनापौरुषेयवेदस्योपक्रमादितात्पर्यग्राहकलिङ्गोपेतस्य मुख्यार्थ परित्यजतोऽस्याततायिनः किं दुष्करमित्याह- निष्कारणं श्रुतिशिरोवचनस्य भङ्ग ये वर्णयन्ति सहसा स्वमनोरथेन । दीप्तस्य दावदहनस्य न ते किमर्थ ज्वालां पिबन्ति कथनीयमिदं बहुजैः ॥ ५४२ ॥ निष्कारणमिति । तस्माद्यथावदनुमानेन गम्यमेव ब्रह्मेतिविद्वन्मा. निनामभिमानमात्रमिति सिद्धमिति ॥ ५४२॥ एवं ब्रह्मणः शास्त्रैकगम्यत्वप्रतिपादनेन यथाशास्त्रमभिन्ननिमि- त्तोपादानं सत्यज्ञानानन्दं ब्रह्मेति सिद्धं तत्र शङ्कते- ननु सच्चिदादिवपुषो जगतः प्रकृतित्वबोधनमकारणकम् । परमात्मनो न हि पदार्थयुजा रहितेह संभवति योग्यतया ॥ ५४३ ।।

प्रथमोऽध्यायः। ननु सच्चिदादीति । सच्चिदादिवपुषः सत्यज्ञानाद्यात्मकस्याकारण- कमप्रमाणकमुपादानस्य सत्यज्ञानाद्यात्मता न सिद्धयतीत्यर्थः । ननु नः सत्यज्ञानादिश्रुतिरेव प्रमाणं न हि वाक्यं योग्यता विना स्वार्थ. बोधयति न च सत्यज्ञानाद्यात्मकस्य जगत्प्रकृतित्वयोग्यता नास्ती- त्याह-परमात्मन इति । इह जगत्कारणवाक्ये योग्यतया रहिता योग्य. प्रतियोगिकापदार्थयुजा जगत्प्रकृतिपदस्य योऽर्थः तेन सम्बन्धः पर मात्मनो न भवतीति सम्बन्धः। तथा च परमात्मनोऽनुमानगोचर रूपान्तराभावात् न तस्य श्रुत्यैकगम्यत्वमिति जगत्कारणवाक्ये सूत्रे चानुमानमेव मानत्वेनोपन्यस्यत इति भावः ॥ ५४३ ॥ किमित्ययोग्यन्वं वाक्यार्थबाधो ह्ययोग्यता न चात्र बाधो- ऽस्ति तत्राह- उपादानता सच्चिदानन्दमूर्ते- विरुडा जडेष्वेव सा दृश्यते हि । विरुद्धैः पदार्थेन वाक्यार्थसिद्धि- न खल्वग्निनोवेदितीहान्वयोऽस्ति ।। ५४४ ॥ उपादानतेति । विमतं ब्रह्मोपादानं न भवत्यजडत्वात् व्यतिरेकेण घटवदित्यनुमानेन ब्रह्मण उपादानता विरुद्धा बाधिता। न चासिद्धो हेतुरित्याह-साच्चिदानन्दमूतेरिति । नचाप्रयोजक इत्याह-जडेष्वेवेति । सा उपादानता हि यतो जडेष्वेव दृश्यते तत इति सम्बन्धः। मृदादेर चेतनस्यैव तदर्शनादित्यर्थः । श्रात्मन्युपादानत्ववाधप्रतिपादनफल- माह-विरुद्धैरिति । उक्षेत्सिञ्चेदिह लोकेऽतो लोकानुरोधेन वेदेपि योग्यता स्वीकर्तव्येति भावः ॥ ५४४ ॥ तत्र कि द्रव्योपादानस्य चेतनत्वमनुपपन्नमिति फे। उतोपा. - ५०६ सटीके संक्षेपशारीरके- दानमात्रस्य । श्राद्यपि किमिति तदनुपपन्नमदर्शनादिति चेत्तकि त्वन्मतेऽपि परमाणव उपादानानि । ननु प्रत्यक्षतो दर्शनेप्यनुमानेन तद् दृश्यत इति चेकि श्रुतयो न प्रमाणं ततो नूनमनेन सुगतशिष्येण भाव्यं भवतु को दोष इति चेतिक शब्दमानं न प्रमाणम् । उत वेदा- त्मकः शब्दः । नाद्यः । शब्दमात्रस्याप्रमाणत्वे तव वादानारम्भप्रसङ्गा- 'त्परप्रयुक्तशब्दात्परस्यार्थप्रतीत्यनुपपत्तेः । न द्वितीयः । अविशेषात् । ननु नाहं सुगतः किन्त्वनुमानबाधितत्वेन प्रकृतश्रुतेरप्रामाण्यं वदा- मीति चेकि परमाणवो न द्रव्योपादानं निरवयत्वाद्गगनदित्य- नुमानं न पश्यसीति । ननु पश्याम्यहमनुमानं धर्मिग्राहकेणानुमानेन बाधितत्वादिति चेत्तर्हि श्रुतिविरोधेनात्मनोनुपादानत्वानुमानमपि न पश्यतु भवान् ब्रह्मणोपि श्रुतिग्राह्यतया तस्या धर्मिग्राहकमानत्वा- देतेन धर्मिग्राहकमानसिद्ध परमाणूनामुपादानत्वमिन्ययं विशेषोऽपि प्रत्युक्तः । निखिलश्रुतीनामुपादानब्रह्मप्रतिपादकत्वात् । न च स्वरूप मात्रप्रतिपादकवाक्यादपि ब्रह्मसिद्धर्न धार्मिकग्राहकमानसिद्धमुपा. दानत्वमिति वाच्यम् । परमाणुकारणताया अपि धर्मिग्राहकसिय- भावादणुत्वं निरवयवातीन्द्रियद्रव्याश्रितवृत्तिपरिमाणवृत्त्यतीन्द्रिय- जातित्वात्परममहत्ववदित्यतोपि तत्सिद्धः । न च कालवृत्तिवृत्तित्वे- नार्थान्तरता कालस्य परममहत्परिमाणाश्रयत्वज्ञानदशायामेवानुमा. नस्योदयेन बाधितत्त्वात्तस्माजडानामेवोपादानत्वदर्शनमकिञ्चित्कर- मित्यनुमानमबाधकमेव । ननु स्पर्शवत एव द्रब्यारम्भकत्वं नियत मिति चेन्न । शुक्तिरजताद्यनुभववदारम्भकत्वस्पर्शवत्त्वनियमग्राह. कानुभवेपि तत्सम्भवात् । नन्वत्र बाधकामावादनन्यथासिद्धत्वमिति चेन्न । अद्वैते उपक्रमाद्यनुगृहीतश्रुतेरेव बाधकत्वात् । किं स्पर्शविशिष्ट मारम्भकमुत तदुपलक्षितम् । नाद्यः । स्पर्शस्यापि द्रव्यारम्भकत्व- प्रसङ्गात् । नान्त्यः अतिप्रसङ्गात् । ननु स्पर्शो द्रव्यारम्भकवृत्तीति- चेत्किमेतावता द्रव्यारम्भकपृथिव्यादिवृत्तित्वेन सिद्धसाधनत्वात् ।

प्रथमोऽध्यायः । । ननु द्रव्यारम्भकत्वं स्पर्शवत्त्वव्याप्यमिति चेन्न । श्रुतिविरोधेन व्याप्ते- रभावात् । ननु चेतनात्मप्रकृतिकत्वे घटादेपि चेतनत्वप्रसङ्गः। कार्य- स्योपादानकारणसमानधर्मत्वनियमादिति चेन्न । तन्त्वादिजन्यपटा- दौ रूपादौ च तन्तुत्वादेरभावात् । किं च न केवलात्मन उपादानत्वं किन्त्वविद्याशबलितस्यैव तदुक्तं "तमःप्रधानक्षेत्राणां चित्प्राधा- नश्चिदात्मनाम् । परः कारणतामेति भावनाज्ञानकर्मभि"रिति घटादौ सन् जडो घटः स्फुरतीति चैतन्याविद्योभयात्मना प्रतीतेनं कारणस- जातीयत्वनियमभङ्गः । अस्तु वा अन्यत्र यथा तथा विवर्त्तवादे तु न कश्चिदप्युक्तो दोष इत्यभिप्रेत्य चैतन्योपादानत्वं सोदाहरणमाह- ब्रमः उपादानता चेतनस्यापि दृष्टा यथा स्वप्नसर्गे विचित्रे प्रतीचः । यथा चोर्णनाभस्य सूत्रेषु पुसां यथा केशलोमादिसृष्टौ च दृष्टा ॥५४५॥ । उपादानतेति । दर्शनमेवास्मद्रीत्याह-यथेति । स्वप्नसर्गस्य कारणा- न्तरानिरूपणादात्मैव तदाकारेण विवर्त्तत इत्यर्थः । लोकप्रसिद्ध्या श्रौत- मुदाहरणद्वयमाह-यथा चेति । उर्णनाभिलूताख्यजन्तुविशेषः केशः शिरोरुहं रोमहृदयदिदेशरुहम् । ननु उणुनाभिपुरुषशरीरजन्यत्वमेव तन्तुकेशयोन त्वात्मजन्यत्वमिति चेन्न । कुणपशरीरे तददर्शनाजीव- शरीरे तदर्शनाञ्च चेतनस्यापि कारणत्वात् । नन्वेवमपि निमित्तमेव चेतनो न तूपादानमिति चेन्न । छिन्नकेशादौ वृद्धयदर्शनेन स्थितिहे- तुतद्विशिष्टशरीरस्योपादानत्वेन तस्याप्युपादानत्वादिति भावः ॥५४५॥ sो कार्यमाने नात्मोपादानमिति द्वितीयपक्षं तदभ्युपगमेनैव दूषयति- ५०८ सटीके संक्षेपशारीरके- बुद्धयादिकार्येष्वपि चेतनोऽयं भवेदुपादानमितीष्यते च । प्रात्मा गुणीते च गुणाः प्रसिद्धा गुणी गुणानां प्रकृतिश्च सिद्धा॥५४६ ॥ बुद्धयादिकार्येष्वपीति । चेतनो बुद्धिसुखदुखेच्छाद्वेषादिकार्येषुपादानं भवेजन्यानां तेषामाश्रयत्वात्संमतवद्भवदभ्युपगमोपि तथैवेत्याह- इष्यत चेति । अनुमानेऽनुकूलं तर्कमाह-श्रात्मा गुणीति । चो हेतौ यतो बुद्धयादयः सामान्यवत्त्वे सति स्पन्दासमानाधिकरणकार्यजातीयत्वेन गुणाः श्रान्मा च गुणी तदाश्रयस्तदाश्रयस्यान्यस्याभावात्तत इत्यर्थः । ननु प्रकृतित्वाभावेप्याप्यपरमाणुतद्गतगुणवद्गुणिगुणभावः किं न स्यात्तत्राह-गुणी गुणानां प्रकृतिः प्रसिद्धांत । जन्यगुणानां यो गुणी समवायवान् स तेषां प्रकृतिरूपादिगुणिघटादौ प्रसिद्धति बुद्धयाद्या श्रयोप्यात्मा तथैव स्थादन्यथा निमित्तस्यापि तदाश्रयत्वापत्तेरि- -- - त्यर्थः ॥ ५४६ ॥ - तस्मादात्मनो गुणादाविवान्यत्राप्युपादानत्वसम्भवादाकाङ्क्षा- योग्यतादिसत्त्वाच्छुत्यैव ब्रह्मण उपादानत्वमभिन्ननिमित्तोपादानत्वं वा सिद्धयतीत्युपसंहरति- आकाक्षादिर्विाते योग्यतान्ता यस्मादस्मिन्नागमाज्जायमाने । सामग्री या वैदिकरस्य दृष्टा तस्माद्युक्ता योनिता चेतनस्य ॥५४७॥ आकाङ्घादिरिति । अस्थागमस्य स्वार्थबोधने या सामग्री वैदिकै- प्रथमोऽध्यायः। दृष्टा सा यस्मादस्मिन्नागमे सत्यं ज्ञानमनन्तं ब्रह्म यतो वेत्यादिवाक्ये विद्यते तस्मादस्य ब्रह्मणो योनिता युक्तति सम्बन्धः । सामग्रीमेवाह- आकाक्षादिरिति । आदिपदेनासत्तिर्गृह्यते । ननु तर्हि चेतनोपादानत्व- स्यापि बुद्धयादिदृष्टान्तेनानुमानेन साधयितुं शक्यत्वात्किमागमनेति चेत्सत्यम् । यद्यपि चेतनोपादानत्वमात्रमनुमानासिद्धयति । तथापि तस्यानवच्छिन्नानन्दब्रह्मताप्रमित्यर्थमागमस्यैवानुसतव्यत्वाद् द्रव्यादौ विपरीतव्याप्त्या वैपरीत्यानुमानस्थापि सम्भवाच नानुमानमात्रा. तसिद्धिरत एव यच्ब्देन चेतनमुपादानमनूद्याद्वितीयं ब्रह्म प्रतिपाद्यत इति तत्त्वविद पाहुः ॥ ५४७॥ तस्मान्नैतल्लक्षणमनुमानविधया ब्रह्मणि प्रमाणं किन्तु श्रुतिप्रमि- तस्य व्यावतकमात्रमित्युपसंहरति- तस्मादेतल्लक्षणं चिह्नमाहु- नैतत्तस्मिन् ब्रह्मणि स्यात्प्रमाणम् । प्रान्नायस्य स्वप्रधानत्वहेतो लिङ्गस्यास्मिञ्छेषभावाच नित्यम् ॥५४८॥ तस्मादेतदिति। ब्रह्मणोऽनुमानागम्यत्वं तच्छब्दार्थः। ननु ज्ञानानन्दा. द्यभेदबोधनमपि प्रत्यक्षविरुद्धं तद्भदस्यैवानुभवात् । न चानित्य- योस्तयोर्भेदानुभवेपि न नित्ययोस्तयोमैदोनुभूयते । नित्यता च तयो- रुपरिष्टात्सेत्स्यतीति वाच्यम् । तत्रापि भेदस्यानुमातुं शक्यत्वादिति तत्राह-आम्नायस्येति । अनुमानस्य स्वतःप्रमाणागमविरोधे दुर्बलत्वादा- नन्दस्य ज्ञानभेदे दृश्यतयानानन्दत्वप्रसङ्ग इत्यदियुत्योपोलित- विज्ञानमानन्दं ब्रह्मेत्यादि श्रुत्या तदभेदबोधने न कोपि विरोध इति भावः । अथवा-न यते वेत्यादिवाक्यं कार्यलिङ्गप्रतिपादनेनान्यथासिद्ध भवति । कार्यलिङ्गस्याभिहिते ब्रह्मण्यमानतया धार्मिमात्रोपदर्शक- ५१० सटीके संक्षेपशारीरके- तया च तर्कत्वाच्छुतेः स्वतःसिद्धसामर्थ्यायास्तदनुग्राह्यप्रमाणत्वात् प्रमाणस्य च स्वोपकरणप्रतिपादकेनान्यथासिद्धययोगाच्च । तेनैवा. द्वितीयब्रह्मसिद्धिरित्याह-प्राम्नायस्येति ॥ ५४८ ॥ तस्माद्विवर्तमानाविद्याधिष्ठानतया जगदीक्षितृतया च जगन्नि- मित्तोपादानं सत्यज्ञानानन्दात्मकं ब्रह्म जगत्कारणवाक्यप्रमेयमिति प्रकृतं जगत्कारणवाक्यस्य ब्रह्मणि समन्वयप्रतिपादनमुपसंहरति- इत्थं जगत्कारणवादिवाक्यं समन्वितं ब्रह्मणि तत्पदार्थे । तल्लक्षणं तस्य तटस्थभूत- मानन्त्यसिड्यै कथयद्यथोक्तम् ॥५४६॥ इत्थमिति । जगत्कारणवादि यतो वेत्यादिवाक्यं तस्य ब्रह्मण अानन्त्यसिद्धथै यथोक्तं तटस्थभूतं तल्लक्षणं कथयत्तत्पदार्थे ब्रह्म- णीत्थं समन्वितमिति सम्बन्धः । तटस्थलक्षणानुवादेन व्याख्यातरूपं ब्रह्म प्रतिपादयतीत्यर्थः ॥ ५४६ ॥ ननु ब्रह्मैवोपादानं निमित्तमिति चोक्तमनुपपन्नं तदतिरिक्त- निमित्ताभावे जगद्वैचित्र्यानुपपत्तेः । अन्यथा ब्रह्मणो वैषम्यनैघृण्या- पत्तरित्याशङ्कयाधिष्ठात्रुपादानयोरेवैक्यं तदैक्षत बहुस्यां प्रजायेय सञ्च त्यञ्चाभवत् तदात्मानं स्वयमकुरुतेत्यादिश्रुतिबलादङ्गीक्रि- यते न तु निमित्तान्तराभेदोपि कल्पितमेदवतोऽदृष्टादेनिमित्तस्य रमणीयचरगा रमणीयां योनिमापद्यन्ते कपूयचरणाः कपूयर्या योनि- मित्यादिश्रुतिसिद्धस्य सत्वादित्यभिप्रेत्याह- स्वात्मानमेव जगतः प्रकृतिं यदेकं सर्गे विवर्तयति तत्र निमित्तभूतम् ।

प्रथमोऽध्यायः। कर्माऽऽकालय्य रमणीयकपूयमिश्र पश्यन्नृणां परिवढं तदितीर्यमाणम् ॥५५०॥ स्वात्मानमेवेति । स्वात्मानं विवत्तयतीत्यनेनाधिष्ठातृत्वमपि दर्श- यति कर्माकलय्येत्यादिपदद्वयं रमणीयेत्यादिना पश्यदित्यन्तेन च विवृणोति । रमणीयमुत्कटपुण्यं कपूयमुत्कटपापं मिथ तुल्यं तदुभयं परिवृढमनवच्छिन्नं ब्रह्म तदितीर्यमाणं श्रुत्या तदित्युच्यमानं तत्पदे- नेयमाणमित्यर्थः। यत्तत्पदलक्ष्यं नित्यशुद्धबुद्धमुक्तस्वभावं तदेव प्राणिनां पुण्यापुण्यसचिवं स्वाध्यस्तानाद्यनिर्वचनीयाविद्यया स्वात्मानं विश्वा- कारण विवर्त्तयतीत्यर्थः ॥ ५५० ॥ ननु समन्वयविचारस्य समन्वयसूत्रमारभ्यैव प्रवृत्तत्वात् किं जन्मादिसूत्रेणापि तनिरूपेण शास्त्रयोनित्वप्रतिज्ञानन्तरमेव तद्विचा- रस्योचितत्वाञ्च अतोऽवश्यं जन्मादिसूत्रमनुमाननिरूपणायैवेत्या- शङ्कयाह - पदवृतिसमन्वयावुभौ प्रतिपाद्यौ प्रथम हि लक्षणे । तद्वान्तरवाक्यवर्मना पदवृत्तिः प्रथमं प्रकीर्तिता ॥५५१ ।। पदवृत्तीति । महावाक्यावयवतत्त्वंपदयोवृत्तिः अर्थविशेषाभि- धानसामर्थ्य समन्वय तत्त्वमादिवाक्यस्यार्थविशेषे तात्पर्य यतो लक्षणे अध्याये तत्तस्मात्समन्वयाध्याये हि वाक्यसमन्वयः पदवृत्ति- श्चेत्युभयमपि प्रतिपाद्यं पदार्थज्ञानस्यापि वाक्यार्थधीहेतुत्वात्स च समन्वयः समन्वयसूत्रमारभ्य प्रतिपाद्यते । पदवृत्तिश्चानेन सूत्रेणावान्तरवाक्यार्थपयालोचनया प्रतिपाद्यत इति न व्यर्थमतो सटीक संक्षेपशारीरके- नानुमानोपन्यासमानं क्रियत इति भावः । ननु पदवृत्तिनिरूपणं चतुर्थपाद एव कृतं किमत्र तन्निरूपणेनेति चेत्सत्यमवान्तरसङ्गत्या- त्रापि तन्निरूपणमुचितमेवात एव समन्वयादस्य पूर्वभावित्वमपि सूत्रे विवक्षिमिति भावः ॥ ५५१ ॥ ननु किमिति तर्हि न त्वंपदवृतिनिरूपिता निरूपितैव प्रथमसूत्र इत्याह- - श्राद्य सूत्रे त्वंपदस्योदितत्वा- दृत्रस्मिस्तत्पदम्योच्यमाना । वृत्ति या तत्पदार्थऽद्वितीये प्रत्यङ्मात्रे त्वंपदस्योदितैव ॥५५॥ । आये पत्र इति । अथातो ब्रह्मजिज्ञासेतिसूत्रे कस्य पदस्य कस्मिन्नर्थ वृत्तिनिरूपितेति तत्राह-अस्मिन्नित्यादिना । अस्मिन् जन्मादिसूत्रे तत्प- दस्योच्यमाना वृत्तिरद्वितीये तत्पदार्थे ब्रह्मणि ज्ञेयत्वंपदस्य प्रथम- सूत्रोदिता वृत्तिः प्रत्यङ्मात्रे देहेन्द्रियादिसाक्षिणि चैतन्यमाने ज्ञेयेत्यर्थः ॥ ५५२ ॥ ननु प्रथमसूत्रे ब्रह्मविचारकर्त्तव्यता तदपेक्षिताधिकारिनिरूपणं च क्रियते न तु प्रत्यङ्माने स्वंपदस्य वृत्तिनिरूप्यते। न चाधि. कारिनिरूपरणेनैव तन्निरूपणमपि कृतमिति वाच्यम् । प्रत्यङमात्रस्य साधनचतुष्टयसम्पत्तेरभावेनानधिकारित्वादित्याशङ्कयाह- अनधिकारिणि शुद्धचिदात्मके दृगशोरितरेतरविभ्रमात् ।

प्रथमोऽध्यायः।
शमदमादिसमन्विततेष्यते
भवति तेन चितोऽप्यधिकारिता ॥५५३ ॥
तत्र हेतुः
अनधिकारिणीति । वस्तुतोधिकारायोग्य इत्यर्थः ।
शुद्धचिदात्मक इति । कर्तृत्वभोक्तृत्वादिरहितचिन्मात्रस्वरूप इत्यर्थः ।
एवंभूतस्य कथमधिकारस्तत्राह-दृगदृशारिति । अहंकारात्मनोस्तादात्म्या
ध्यासादहंकारद्वारा चैतन्यस्याधिकारः । तदुक्तं भगवता 'प्राक् च
तथाभूतात्मज्ञानात्प्रवर्त्तमानं शास्त्रमविद्यावद्विषयं नातिकामति' इति ।
साधनचतुष्टयसम्पत्तरप्यहंकारोपहिते संभवात्तस्याधिकारः । शमा-
देश्चित्तधर्मत्वादित्यभिप्रेत्याह-शमदमादेसमन्विततेति । दृगदृशोरितरेत-
रविभ्रमाच्छुद्धचिदात्मकेऽनधिकारिण्यपि शमादिसमन्विततेष्यते तेन
चितोप्यधिकारितेति सम्बन्धः । शमादीत्यादिपदेन विवेकादयो
गृह्यन्ते । यद्यपि प्रत्यगात्मा स्वतोऽनधिकारी तद्धतुशमदमादेः
तत्राभावात्तथाप्यहंकाराद्यनात्मतादात्म्याध्यासान्नित्याद्यनुष्ठानद्वारा
शुद्धिविवेकवैराग्यशान्त्याद्युपपत्तेर्भवत्येवाधिकारी । तथा च प्रथम-
सूत्रेऽभिकारनिरूपणव्याजेन त्वंपदवृत्तिः प्रत्यङ्मात्रे निरूपितेति
भावः ॥ ५५३ ॥
ननु प्रत्यगात्मनः स्वत एव शान्त्यादिसम्पन्याऽधिकारितास्तु
तस्यैव मुक्तिभात्तवात्किमहंकारतादात्म्याध्यासेनेत्याशङ्कय स्वतो नित्य-
शुद्धब्रह्मात्मत्वात्तस्य नानात्माध्यासं विना तत्संभव इत्यभिप्रत्याह-
अनधिकारितया दृगवस्थिता
स्वरसतः परमेश्वरविग्रहा।
घनतमः पटलावरगान्वया-
दुपगता श्रवणाधिकारिताम्॥५५४॥

सटीके संक्षेपशारीरके-
अनधिकारितयेति । अनधिकारित्वे हेतुः-परमेश्वरविग्रहेति । परमेश्वरा-
भिन्नत्वादित्यर्थः ॥ ५५४॥
नन्वेवं सत्यज्ञानविशिष्टस्यैवाधिकार इत्यागतं तथा च कथ-
मधिकारनिरूपणेन प्रत्यङ्मात्रे त्वंपदवृत्तिनिरूपितेति तत्राह-
अज्ञानतजघटना चिदधिक्रियायां
द्वारं परं भवति नाधिकृतत्वमस्याः ।
नाचेतनस्य घटतेऽधिकृतिः कदाचि-
कर्तृत्वशक्तिविरहादिति वक्ष्यते हि ॥५५५॥
अज्ञानतज्जघटनेति । अज्ञानं तजन्योऽहंकारादिस्तदुभयघटना तादा-
म्याध्यासः चिदधिक्रियायां चितो ब्रह्मविद्याधिकारे परे केवलमस्या-
ऽज्ञानतज्जघटनायाः अज्ञानसम्बन्धो हि केवलं प्रत्यगात्मनोऽधिकारे
द्वारं भवति न तु तदधिकारितायां प्रविशतीत्यर्थः । तत्र हेतुमाह-
न चेतनस्येति । अधिकृतिब्रह्मविद्याधिकृतिर्मुक्तिभाज एव ब्रह्मविद्या-
धिकाराचेतनस्यैव मुक्तिभाक्न्वादित्यर्थः । कर्मण्यप्यन्तः करणं द्वार-
मात्र चेतन एव तत्रापि कर्तेत्यभिप्रेत्याह-कर्तृत्वशक्तिविरहादिति-स्वत-
न्त्रस्य हि कर्तृत्वं स्वतन्त्रः कर्तेति स्मरणात् । न चाज्ञानादेस्तद्विशिष्टस्य
वा स्वातन्त्र्यमस्ति । तस्याध्यस्तत्वात् । न च कर्तृत्वशत्यभावे
कर्तृत्वं नवाधिकारः । शक्तस्यैव कर्तृत्वात्कर्तुरेव फलस्वामित्वेनाधि-
कारित्वादधिकारिण एव नियोज्यत्वाच्च । तदुक्तं यः शक्तः स कर्ता
यः कर्त्ता स कर्मण्यधिकृतः स्वामी योधिकृतः स नियोगं स्वकीय.
तया बुध्यमानो नियोज्य इति सूत्रकारोपि तथैवाहस्मेत्याह-वक्ष्यतीति ।
अनेन प्रकारेण तृतीयाध्याय इत्यर्थः । ततश्च प्रथमसूत्रे त्वंपदवृत्ति-
निरूपणमुचितमिति भावः ॥ ५५५ ॥

प्रथमोऽध्यायः।
ननु प्रसिद्धानुवादेनाप्रसिद्ध बोधनीयमिति न्यायेन प्रसिद्ध.
जगत्कारणानुवादेनाप्रसिद्धब्रह्मजिज्ञासातदधिकारी निरूपणीयो
किमिदमुच्यते प्रथमसूत्रे ब्रह्मजिज्ञासाधिकार्युपन्यासमुखेन त्वंपदवृ.
त्तिनिरूपितेत्याशङ्कय सत्यमेवमस्ति नियमस्तथापि "भृगु वारुणिः
वरुणं पितरमुपससार अधीहि भगवो ब्रह्मे"त्युपसत्तिद्वारा अधि-
कारिनिरूपणानन्तरमेव यतो वेत्यादिवाक्यप्रवृत्तिरिति श्रौतक्रमम-
भिप्रेत्य ब्रह्मजिज्ञासाप्रतिज्ञानन्तरमेव जिज्ञास्यब्रह्मलक्षणाकाङ्क्षायां
जन्मादिसूत्रप्रणयनोपपत्तिश्चेत्यभिप्रेत्य भगवता सूत्रकारेण त्वंपदव-
त्तिरादौ निरूपितेत्यभिप्रेत्याह-
उपसत्तिवाक्यमधिकारिणि य.
कथितं समन्विततया प्रथमम् ।
इदमेव चेतसि निधाय तु त-
न्मुनिना प्रकीर्तितमुदारधिया ॥ ५५६ ॥
उपसत्तीति । प्रथममधिकारिणि समन्विततयाधिकारिविषयतय
यदुपसत्तिवाक्यं कथितमधीतमिदमेव प्राथम्यं मनसि कृत्वा तन्मूलं
ब्रह्मजिज्ञासासूत्रमुदाधिया मुनिना प्रकीर्तितमिति सम्बन्धः ॥ ५५६ ॥
नन्वेवमपि सूत्रकारस्य प्रत्यङ्मात्रे त्वंपदवृत्तिनिरूपणं किं मूलं
सूत्रस्य मूलप्रमाणसापेक्षत्वादित्याशङ्कय कथितोपत्तिवाक्यमेव
तन्मूलमित्याह-
शिष्योपसत्तिवचनानि समन्वितानि
शिष्ये चिदात्मनि परात्मनि नित्यमुक्त।
इत्येतदत्र कथितं मुनिना त्वमर्थे
त्वंशब्दवृत्तिकथनाय परे प्रतीचि ॥५५७॥

सटीके संक्षेपशारीरक- । शिष्योपसत्तिवचनानीति । शिष्ये शिष्यरूपेण वर्तमाने देहादिव्यावृत्यर्थ प्रपञ्चं विशिनष्टि-चिदात्मनीति । विज्ञानमयो विज्ञानाश्रिततया भवति चिदात्मा तत्राह- पति । अविद्यातत्कार्यादन्य इत्यर्थः । पराभिम तात्मतत्त्वव्यावर्त्तनार्थमाह-नित्यमुक्त इति । प्रथमसूत्रे त्वमर्थे त्वंपदः लक्ष्ये शिष्योपसत्तिवचनानि समन्वितानीत्येतत्वंशब्दवृत्तिकथनायात्र कथितमिति सम्बन्धः । त्वमर्थस्य विशेषणमन्यदुपसत्तिवचनानि हि ब्रह्मोपदेशायाधिकारिणं दर्शयन्ति प्रत्यङ्मात्रे त्वंपदवृत्तिरिति सूत्र- कृता निरूपितमितिभावः ॥ ५५७॥ एवमुपपादितं पदवृत्तिविभागमुपसंहरति- AIRS उपसदनवचोविचारमार्गा- स्वमितिपदस्य परात्मनीह वृनिम् । कथयति भगवान्वितीयसूत्रे तदितिपदस्य परात्मनीति भेदः ॥५५८॥ । उपसदनक्चौविचारमार्गादिति । उपसत्तिविषयवाक्यार्थविचारद्वारेणे- त्यर्थः । इह प्रथमसूत्रे द्वितीये जन्माद्यस्य यत इति सूत्रे प्रकृतविचा- रोपयुक्ततया सूत्रकारं पूजयति-भगवानति । 'उत्पत्ति च विनाशं च भूतानामागति गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" इतिस्मृतिप्रतिपन्नषङ्गणैश्वर्यसंपन्न इत्यर्थः। द्वितीयसूत्रे तत्पदस्य वृत्ति- यतोवेत्यादिवाक्यद्वारेण परमात्मन्यद्वितीयब्रह्मणि कथयतीति भेद इति सम्बन्धः ॥ ५५८ ॥ - एवं जन्मादिभूत्रस्य श्रुतिसूचकत्वेन ब्रह्मलक्षणपरत्वमुक्तं संप्रति वाक्यार्थनिर्णयोपयुक्ता युक्तिरप्यनेन सूच्यत इत्याहdomen प्रथमोऽध्यायः। - । श्रावृत्त्या वा तन्त्रवृत्त्याऽथवेदं सूत्रं युक्तिं वेदवाक्योपयुक्ताम् । अप्याचष्टे बृहणीमन्तरेण स्वार्थे युक्तिं वेदवाक्यं न पुष्टम् ॥ ५५६ ।। आवृत्या वेति । ननु सकृदुच्चारितवाक्यस्यैक एवार्थः तत्कथमेकदा प्रयुक्तमेकं सूत्रं श्रुति युक्तिं च सूचयेत्तत्राह-श्रावृत्त्या वेति । श्रावृत्तिः पुनः पुनरुच्चारणमेवं सति वाक्यभेदः स्यादित्यरुचेराह--तन्त्रबृत्येति । अथवा - तन्त्रवृत्येति सम्बन्धः। अनेकार्थविवक्षया सकृदुश्चारणं तन्त्र मिन्यर्थः। अनेकार्थवत्वे च हेतुः सूत्रमिति । सूत्रं हि बह्वर्थसूचक तस्य विश्वतोमुखत्वात्तदुक्तम् “अल्पाक्षरमसंदिग्धं सारवद्विश्वतो. मुखम् । प्रस्तोमनवा च सूत्र सूत्रविदो विदु"रिति । ननु सूत्रस्य युक्ति- सूचकत्वेऽनुमानसूचकत्वं कथं तस्य निराकारि तत्राह-वेदवाक्योपयुक्तमिति । या वेदार्थनिर्णयोपयुक्ता युक्तिस्तामेव सूचयति । ततः स्वतन्त्रयुक्ति- सूचनमेव पूर्व निराकृतमिति भावः । अपि शब्दादुदाहृता श्रुतिः समुच्चीयते । ननु धर्मजिज्ञासायामिव ब्रह्मविचाप शाब्दन्यायैः श्रुत्यादिभिरेवार्थनिर्णयोपपत्तेः किं युक्त्या तत्राह-बृंहणामित्यादिना । वेदवाक्यं स्वार्थे वृहणीमपोद्वलित युक्तिमन्तरेण न पुष्टं न फलाय पर्याप्तमित्यर्थः । तत्र हि न ज्ञानायत्तः पुरुषार्थः किं त्वनुष्ठानायत्तः । अनुष्ठानं च निर्णयज्ञानमात्रमपेक्षते नानुभवमिह तु न तथा । अपि त्वर्थानुभवायत्तः । अनुभवश्व भूतवस्तुविषयो यावद्वस्तुविषया संभवनादियुक्त्या न निराक्रियते तावन्न स्वयमपरोक्षो भवतीति युक्तिरप्यत्रापेक्षते । श्रुतिश्च स्वमेव तर्क स्वात्मसहायं दर्शयति श्रोतव्यो मन्तव्य इत्यायेत्यर्थः ॥ ५५६ ॥ ननु पदद्वयवृत्तेः सूत्रद्वयेन दर्शितत्त्वाद्वाक्यवृत्तेश्च समन्वयसूत्रेण

सटीके संक्षेपशारीरके-
दर्शितत्वारिक शास्त्रयोनित्वसूत्रेणेत्याशङ्कय वेदनित्यत्वेन ब्रह्मए
निखिलजगत्कारणत्वमाक्षिप्य शास्त्रयोनित्वसमर्थनेन जगत्कारणत्व
मेव समर्थ्यत इत्यनेनापि पदवृत्तिरेव प्रतिपाद्यत इत्यभिप्रेत्याह-
uminum
त्वंपदार्थविषयं समन्वयं
तत्पदार्थविषयं ततः क्रमात् ।
तस्य शेषमपरं च वर्णय-
न्नुक्तवानथ.महावचोगतम् ॥५६०॥
त्वंपदार्थविषयमिति । सूत्रकारः प्रथमसूत्रेण त्वंपदार्थविषयं समन्वयं
वर्णयन् तदनन्तरद्वितीयसूत्रे तत्पदार्थविषयं समन्वयं वर्णयन् तस्य
पदार्थसमन्वयस्यापरं शेषमनुकूलं च तृतीयसूत्रेण क्रमाद्वर्णयन्ननन्तरं
महाबचोगतं महावाक्यविषयं समन्वयमुक्तवानित्यर्थः ॥ ५६० ॥
ननु प्राधान्याद्वाक्यवृत्तिरेव प्रथम किमिति न निरूपिता तत्राह
त्वंपदस्य दृशि वृत्तिमदये
तत्पदम्य च निवेदयन्मुनिः।
प्रत्यगदयपरं समन्वयं
शेषिणं पुनरथाब्रवीत्तयोः ॥ ५६१ ॥
त्वंपदस्यति । दृशि चैतन्यमात्र प्रत्यगद्वयपरं प्रत्यगद्वयाभेदपरं
वाक्यार्थविषयमित्यर्थः । शेषिणं पदार्थप्रतोतिसाध्यवाक्यार्थ-
प्रतीतिविषयतया शेषिणं कयोः शेषीत्यत आह-तयोरिति । पदवृत्यो।
रित्यर्थः । वाक्यार्थप्रमितेः प्रधानत्वेपि पदार्थप्रतीतिसाध्यत्वात्तद.
नन्तरभावित्वं तद्विषयसमन्वयस्थोचितमित्यर्थः ॥ ५६१ ॥

प्रथमोऽध्यायः। तस्मात्सूत्रत्रयेण विगलितविश्वविशेषचैतन्यस्य त्वंपदार्थस्य - | परोक्षानुभवपरमानन्दपरब्रह्मणस्तत्पदार्थस्य च सिद्धत्वात्तदुभय- पदार्थमादाय जीवब्रह्मैक्यमखएडैकरसं तत्त्वमस्यादिवाक्यप्रमेय- मिति सिद्धमित्युपसंहारमभिप्रेत्य विस्तरेण प्रतिपादितं समन्वय- सूत्रार्थ संक्षिप्य दर्शयति- शक्नोति सिडमवबोधयितुं च वाक्य शक्नोति कार्यरहितं वदितुं च वाक्यम् । शकोत्यखण्डमवबोधयितुं च वाक्यं शक्नोति मुक्तिफलमर्षयितुं च वाक्यम् ॥५६२॥ शक्नोति सिद्धमिति । सिद्धबोधितया वेदान्तवाक्यस्थमानान्तरसा- पेक्षत्वेन यदप्रामाण्यमापादितं तस्य ब्रह्मणो मानान्तरायोग्यत्वप्रद- र्शनेन निराकृतत्वात्सिद्धमण्यवबोधयितुं समर्थमित्याह-शक्नोति कार्येति। वाक्यस्य संसृष्टार्थपरत्वान्नाखण्डैकरसे ब्रह्माण प्रामाण्यमिति यदा- पादितं तस्यापि सोऽयमित्यादावखण्डार्थत्वप्रदर्शनेन निराकृतत्त्वा- देकरसमपि ब्रह्मावबोधयितुं समर्थमित्याह-शक्नोत्यखण्डमिति । वाक्यस्य फलत्वसिद्धये प्रवृत्त्यनुकूलार्थपरतया तद्विरुद्धब्रह्मणि न प्रामाण्यमिति यदापादितं तस्यापि ज्ञानमात्रेणानर्थनिवृत्त्यानन्दावाप्तिलक्षणफलद्वय- सद्भावप्रदर्शनेन निराकृतत्वादत्युत्कृष्टं फलमपि समर्पयितुं समर्थ मित्याह- शक्नेति मुक्तीति । अर्पयितुं ज्ञानद्वारा संपादयितुमित्यर्थः । तथा च वेदान्तवाक्यं मानान्तनिरपेक्षमेच स्वप्रधाने ऽखण्डैकरसे पर- मानन्दस्वरूपे ब्रह्मणि प्रमाणमिति सिद्धम् ॥ ५६२ ॥ एवमथातो ब्रह्मजिज्ञासेत्यादिसूत्रचतुष्टयार्थ विस्तरेण प्रति- पापेक्षत्याद्युत्तराधिकरणसिद्ध समन्वयविषयन्यायं तद्भाष्येण सिद्ध- वत्कृत्येदानी समन्वयप्रतिपादनफलं दर्शयन्नध्यायार्थमुपसंहरति-- - ५२० सटीके संक्षेपशारीरके- एतत्समन्वयनिरूपणमेवमस्सि- न्बुद्धिस्थतामुपगते सति वाक्यजन्यम् । विज्ञानमयगतं न ततोऽदन्य- त्पुंसोऽपराधकृतमित्युादेयात्प्रतीचि ॥५६३॥ इति श्रीसुरेश्वराचार्यपूज्यपादशिष्यश्रीसर्वज्ञात्म- सुनेः कृतौ शारीरकमीमांसाभाष्यप्रकरण- वार्तिके संक्षेपशारीरके प्रथमोऽध्यायः । एतत्समन्वयेति । एतदित्थं समन्वयनिरूपणं कृतमिति शेषः । एव- मनेन प्रकारेणास्मिन् प्रतिपादिते समन्वये बुद्धिस्थे सति अद्वयगत- मद्वयविषयं यद्विज्ञानं तदेव वाक्यजन्यं तत एतस्मात् ज्ञानादन्यद्रे- दादिविषयं ज्ञानं पुंसोपराधकृतं पुरुषापराधप्रयुक्तं शक्तितात्पर्यज्ञाना- पुरुषोत्प्रेक्षाकल्पितमिति प्रतीतिर्भवेनित्यशुद्धबुद्धमुक्तसच्चिदानन्दपर- ब्रह्मैवाहमित्यविचालिबुद्धिर्भवतीत्यर्थः ॥ ५६३ ॥ इतिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीमजगन्नाथाश्रमश्रीचरण- चरणपरिचरणपरिप्राप्तविद्यनिखिलविद्वजनमनोहरश्री- मन्नृसिंहाश्रमश्रीचरणविरचितायां संक्षेपशारीरक- व्याख्यायां तत्त्वबोधनीसमाख्यायां सम- न्वयाख्यः प्रथमोऽध्यायः समाप्तः ॥ S S स

The Samkesepa Sariraka Of Sarvajnatma Muni Part Ii 1937

Author
Surya Narayana Sukla
Title
The Samkesepa Sariraka Of Sarvajnatma Muni Part Ii 1937
File name
The Samkesepa Sariraka Of Sarvajnatma Muni Part Ii 1937
Text
OCR done
Citation
1937
Publisher
Govt Sanskrit College Benares
Language
Sanskrit
Pages
258
Library
Central Archaeological Library_asi_new Delhi
Classification
Literature
DLI number
281099
Barcode
5990010902203.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
Rights
In public domain
VMLT id
7A1gHEfitLB
Download PDF

The Samkesepa Sariraka Of Sarvajnatma Muni Part Ii 1937