Svclrc

Sapindya Kalpalatika

Gopinatha Kaviraja · 25/08/2003

PDF Proofread

Front matter

Kendriya Sanskrit Vidyapeetha
LIBRARY
TIRUPATI
Author
Cl. No.
Title
Acc. No.
If the book is not returned on or before the date last
mentioned an over - due charge of 5 Paise per book
per day will be collected,
Due date of
return
Due date of
return
Due date of
return
Due date of
return

Yen 10

No text on this page.

THE
PRINCESS OF WALES
SARA STATI BHAVANA TEXTS
Vu 25
EDITED BY
GOPI NĀTHA KAVIRĀJA
THE
SĀPINDYA KALPALATIKĀ
with a Commentary.
Printed by Jui Krishna Das Gupta
At the Vidya Vilas Press, Gopal MandirLane,
Benares City
1927
Saleable at half of the printed price.

12: 426 N27

SCIEN
श्रीसदाशिवदेवरचिता
SHOdookGORG
सापिण्ड्यकल्पलतिका
श्रीनारायणदेवकृतवृत्तिसहिता
THE
SĀPINDYA KALPALATIKA
SADASIVA DEVA.
With the Commentary
OH
NARAYANA DEVA.
Edited with lutroduction etc.
BY
Jagannātha Sastri Hośinga, Sahityopadhyâya,
Sadlolal Research Scholar,
Govt. SANSKRIT COLLEGE LIBRARY,
Sarasvati Bhavana, Benares.
1927

A 22 PA *
SALA !! TAP
EET HA,
9584
TIRUPATI.
ov

|| श्रीः ॥ उपोद्धातः। अथैष प्रकाश्यते साबिका कल्ललतिकानाम धर्मशास्त्रीयो निबन्ध आपदेवापरपर्यायसदाशिवदेवकृतिस्तत्पौत्रनारायण- देवकृतवृत्तिसहितो मुद्रापयित्वा । अद्यत्वे खलु प्रवर्तमाने ग्रन्थ- संमुद्रणप्रचारे सर्वत एवैतन्नयनपथगोचरतामुपैति यद्विरल एव तादृशो ग्रन्थः संमुद्रितो, यः किल स्वल्पयाऽपि भूमिकयाऽनल- कृतः स्यादिति । वस्तुतो विचार्यमाणेऽपि समन्ततः प्रबन्धेन निरूप्यमाणा एतावन्तो विपया अत्र विद्यन्त इति समासेन सम्पूर्णग्रन्थप्रतिपाद्यमानविषयावगमात् समुचितैवेयमुपोद्धाता- दिलेखनशैली । न केवलमेतावतैव भूमिकाया आवश्यकत्व- मपितु ग्रन्थकर्तृसमयादिनिरूपणेन मलिकरवमपि । पूर्वे किल सूरयः प्रायः स्वीयग्रन्थेषु स्वकीयनामग्रामसमयादिसम्बन्धमनि- दिशन्त आत्मानं गोपायित्वा परेषामुपकारं कर्तुं प्रायतन्त । अस्तु नामैतत् , साम्प्रतं ग्रन्धादिकमालोचयामः-सापि- ण्ड्यकल्पलतिकेति ग्रन्थनाम्ना सापिण्ड्यविषयकयावत्पदार्थ- मीमांसनमत्र निर्दिष्टम् । तत्र च-एकशरीरावयवान्वयित्वरूपसापि- ण्ड्यपदार्थविवेचनपुरस्कारेण तद्गतसकल सपिण्डसम्बन्धं तद्वत्स्व. नेकेषामविवाह्य त्वं प्रसङ्गतो नैकपण्डितजनग्रन्थपर्यालोचनं त. युक्तायुक्तविचारणं च प्रादर्शयत् सोऽयं वृत्तिकारः सदाशिव- देवपौत्रो नारायणदेवः स्वपितामहकुनप्रबन्धव्याख्यानेन । . .

उपोद्धातः। २ .. ग्रन्थकारस्तु पञ्चविंशत्या पद्यानां समपूपुरद्विषयममुम्। प्रथमं ताव शिष्टाचारपरम्पराप्राप्तं देवतागुरुनमस्कारात्मकं मङ्गलं विधाय स्व नाम ग्रन्थनाम च निरूप्य प्रयोजनं प्रतिपाद्य मुख्यविषयं सापिण्ड्यं प्रदिदर्शयिषुस्तद्वर्ता भेदादिज्ञानाय प्रसङ्गतश्छन्दःशास्त्रीयप्रस्ता रादिषट्प्रत्ययान् नवभिः पद्यैः सविस्तरं न्यरूपयत् । ततश्च कूटस्थपुरुषेण सह चतुःषष्टिमिताऽष्टाष्टकभेदेषु कि यदवधि सापिण्ड्यं विवाहादिप्रयोजनं भवति तदन्वयिभिः,कस्कश्च केनकेन सह कथंकथं सापिण्ड्यवान् कुत्रकुत्र च तन्नित्तिस्ततश्च कासां कासामविवाह्यत्वम् , अन्यगोत्रीयसापिण्ड्यसम्बन्धश्च कैः सहेति सर्व सङ्क्षपेण स्पष्टमभिहितवान् । तच्च वृत्तिकारः स्वपितामहाश पितृपरम्परया गुरुपरम्परया वा सम्यग्विज्ञाय व्याकृतवान् किञ्च पितृकुले साप्तपौरुषी सपिण्डता सप्रमाणाऽप्रमाणा वेति, मातृ वंशे च कियत्पर्यन्तं साऽनुस्यूतेति च प्रतिपादयन् वधूवरयो मातापितरावारभ्य क्रमेण पञ्चत्वे सप्तत्वे च सापिण्ड्यनिवृत्ति मुक्तवान् । तत्रैव पक्षे गौतमशङ्खयाज्ञवल्क्यचतुर्विशतिमतादीना. मानुकूल्यं शूलपाणिदेवलमाधवमदनरत्नविज्ञानेश्वरवसिष्ठादिवच नैगौतमस्मृति वृत्तिकृतो हरदत्तस्योत्या च समर्थितवान् । तत्र च विप्रतिपद्यमानेषु महाभाष्यादिविरोधं च सम्यगुदभावयत् । तेनैव च क्रमेणाऽसगोत्रत्वादिकपपि प्रासङ्गिकमुल्लिख्य सापिण्ड्यस्यै कतो निवृत्तावन्यतोऽपि निवृत्तिरियादिकं च वर्णयामास । द्वैत. निर्णयादिग्रन्थविरोधात् दाक्षिणात्यानामविप्रतिपन्न व्यवहार च पाकाशयत् । यत्तु विष्णुपुराणीयवचनं 'पञ्चमी मातृपक्षात्तु' ।

उपोद्धातः। तथाच नाम समु. अथ चाऽयं सापिण्डयकल्पलताकारः सदाशिवदेवः कुत्रत्यः किंसमयकश्चेति तावद्विचार्यते-अस्य पूर्वजास्तु पूर्व 'देउळगांव' इति प्रसिद्ध देवालयपुरे न्यवसन्निति तदीयग्रन्थान्ते वर्तमानात्- 'देवालयपुरावासिदेवश्रीपतिजन्मनः । आपदेवस्य ग्रन्थोऽयं जगजानातु तत्वतः ॥' इति पधादवसीयते । ग्रन्थान्ते नीलकण्ठ इत्यमुष्य पितामहस्य पलभ्यते अस्य पुत्रो रामकृष्णदेवः स्वनिर्मिताया रत्नप्रकाशिकाख्यायां वृत्तरत्नाकरव्याख्यायां स्ववंशपरम्परा. प्रकाशनसमये देवोपाव्हमत्रिगोत्रसमुत्पन्नं नीलकण्ठदेवमूरिप्रपौत्रं श्रीपतिदेवपौत्रं सदाशिवदेवपुत्रं स्वात्मानं निरदिक्षत् । प्रायः श्रीपतिदेवो ग्रन्थकर्तृसदाशिवदेवपिता ग्रन्थका वा वाराणसी- माजगामेत्यनुमीयते । वृत्तिकर्ता च नारायणदेवो रामकृष्णस्य सनुरिति वृत्तिसमाप्तितः स्पष्टं प्रतीयते । इत्थं चाऽनयोः प्रवन्धवृत्तिकूतोवंशवृक्षः समुन्नेतुं शक्यते-- L- नीलकण्ठः श्रीपतिः सदाशिषः (आपदेव:) श्रीविठ्ठलशिष्य: रामकृष्णः नारायणः-श्रीनागेश भट्टशिष्यः एतावता स्पष्टमिदं यत्-पूर्वस्मिन् समये कुलमिदं देवा- उणेद्धातः। लयपुरावासि, परं नागेशभस्य समये वाराणसीमध्यक्सत् । अन्यथा वृत्तिकृत् पित्रा नागेशभट्टस्याऽन्तिकेऽध्ययनार्थ कथ- ङ्कारं नियोजितः स्यात् । सर्वदैव प्रायः प्रसिद्धस्य विदुषः समीपे स्वीयान् पुत्रानध्ययनार्थ प्रेषयन्ति बुद्धिमन्तः। अथ. चैतद्वंशीया अत्रिगोत्रोत्पन्ना देवोपनामानो दाक्षिणात्या इत्यपि नाऽविदितं मीमांसकानां पुरस्तात् । उभयोरनयोवृत्तिप्रबन्ध. रचयित्रोरेकवंशीयत्वेन सहैव समयनिर्णयः प्रस्तूयते । अस्माक- मादर्शपुस्तकान्तर्गतमेकं पुस्तकं १७४०शाकीयं दुर्गोपनापक- वासुदेवात्मजबालकृष्णशमलिखितं वर्तते । यच्च पायगुण्डोपाव्ह- वैद्यनाथतनूजनिबालकृष्णेन गुरोर्देवोपाख्यस्याऽऽज्ञया विलिख्य गुरुचरणसमर्पितात् पुस्तकात् प्रतिलिपीकृतम् । प्रतिलिपिकालश्च १७४०शकाब्दः, सच १३५संख्यया सङ्कलितः १८७५मितो वैक्रमान्दो भवति । ततश्च तस्मात्माचीनावेव प्रकृतेऽभिमतौ प्रणेताराविति तु निर्विवादम् । किश्च १७१४ वैक्रमवत्सरीये धर्मशास्त्रीयव्यवस्थापत्रे काशीस्थानां गागाभट्टप्रभृतिसर्वजातीय- प्रधानपण्डितानां सम्मतिमूचकानि हस्ताक्षराणि सन्ति; यत्र तदानीं प्रसिद्धिमप्राप्तस्य प्रसिद्धविदुषः श्रीनागेशभट्टस्य हस्ता- क्षराणि न सन्ति, अपितु तद्गुरोः श्रीरामरामभट्टाचार्यस्य वर्तन्ते । रामसिंहवर्मणश्च राजकीया राजती मुद्रा १७४० विक्र- मवत्सरीया वरकलवैद्यनाथशास्विणः समीपस्थाऽस्माभिदृष्ट- पूर्वेति ततो लब्धजीविकस्य श्रीनागेश भट्टस्य समयोऽष्टादश- शताब्द्या मध्यो निर्णेतुं पार्यते । ततस्तदधिगतविद्यस्य प्रकृत- ६ उपोद्धातः। प्रबन्धवृत्तिप्रणेतुनारायणदेवस्य कालस्तु ततः किञ्चिदर्वाचीन इति सोऽपि वैक्रमीयाष्टादशशताब्दीक एवेति न विरुद्धम् । एष एव नागेशभट्टस्य समयोऽस्मन्मित्रश्रीबटुकनाथशर्मभिः त्रिवेणि. काया आङ्ग्लभूमिकायां निरूपितः । वृत्तिकृता च व्याख्यायो प्रसङ्गतो नरहरिसप्तर्षिसंज्ञस्य कस्यचिद्विदुषो नामोदळेखि, यश्च तदंशीयेन सह विचारावसरे सप्तदशशताब्दीक एवानुमितोऽभूत । अतश्च सप्तदशशताब्धुत्तरमष्टादशशताब्धामयं वृत्तिकृत् नारायण- देव आसीदिति स्पष्टमेव । ततश्च तत्पितुः श्रीरामकृष्णदेवस्य पिता सदाशिवदेवः प्रकृतप्रबन्धनिर्माता सप्तदशशताब्द्या अन्तिमभाग. स्थ इति मुगममेव । अस्य सदाशिवदेवस्य 'आपदेव' इति द्वितीय नाम 'मीमांसान्यायप्रकाश'कर्तुरनम्तदेवपुत्रस्थाऽऽपदेवस्य भ्रान्ति कदाचिजनयेदिति ततोऽयमन्य इति निर्देशकरणं युक्तमेवेत्युत्प. श्यामः । आफ्रेख्टमहाशयनिर्मिते सूचीपत्राणां सूचीपत्रे द्वितीयभागे (Aufrecht's Catalogus catalogurum Part II) सदाशिव- देवनाम्ना 'मनोरञ्जनलीलावतीटीका'ख्योऽप्येको प्रन्यः समु. पलभ्यते । तदेतच्चेति पुस्तकद्वयं विहाय नाऽन्यदद्यावधि पुस्तक मेतस्य, वृत्तिं विहाय वृत्तिकृतश्च समुपलब्धमिति न तद्विषये किमप्यधिकं वक्तुं शक्यमिति विरम्यते । एतत्पुस्तकमुद्रणाय काशिकराजकीयसंस्कृतविद्यालयप्रधा- नाध्यक्षः श्रीगोपीनाथकविराजमहोदयः समादिष्टोऽनुमोदित- श्च सरस्वतीभवन पुस्तकालयाध्यक्षमित्रवरश्रीनारायणशास्त्रिभिः, तत्रत्येन प्रायोऽशुद्धेन पुस्तकत्रयेण मुद्रणकार्यपात्मना ॥ श्रीः॥ कतिपयेषां पारिभाषिकशब्दानां समूच्यर्थनिरूपणम् । ३ अर्थाः पृष्ठम् पतिः शब्दाः २ सापिण्ड्यस्य साक्षात् परम्परया वा समानारम्भक- त्वेन एकशरीरावयवान्वायत्वस्य । ४ ४ कपूनाम्= ग्रन्थकृत्सङ्केतानुसारेण क्रमशः कन्या पुत्राणां लघुगुरूणां च । १४ १२ तोकान्= तोकानि, अपत्यानि कन्याः पुत्राश्चेति २३ १२ कूटस्थपुंसा= मूलपुरुषेण । २३ १४ अष्टकानि= अष्टसंख्यापरिच्छेदसमूहरूपाणि ।

॥श्रीः ॥ विपयसूची. विषयाः पृष्ठाङ्काः .... .... १ मङ्गलाचरणम् .... २ ग्रन्थारम्भः ३ .... ... अनुबन्धचतुष्टयनिरूपणम् सापिण्ड्यवतां भेदादिज्ञानोपायकथनम् ४-५ ५ प्रस्तारस्वरूपनिरूपणम् ६ नम्बर पनि म ११-१४ ७ उद्दिष्टम्वरूपनिरूपणम् १४ -१६ ८ एकट्यादिकपु(लग)क्रियावर्णनम् १६-१९ ९ मायनोः स्वरूपकथनम् १२-२३ १० मूलपुरुषादपावकागि, तेषु चत्वारि समानि तदि- तराण्यसमानीति भेदानां चतुःषष्टित्वम् २३..२४ १. समानां शुद्धत्वं, असमानां विषमसमत्व, तदितरेषां विषमत्वमेव २४-२५ १२ तृतीयसप्तमयोर्विषमसमत्वं, प्रथमपञ्चमयोर्विषमत्वं, द्वितीयचतुर्थषष्ठाष्टमाणां समत्वम् १३ सापिण्ड्यसम्बन्धप्रदर्शनं, मात्स्योक्तस्यैकपिण्डक्रियान्वयि- स्वरूपस्य सापिण्ड्यस्याऽव्याप्त्यादिदोषवत्त्वेन खण्डनं च २६-२८ १४ साप्तपौरुषसापिण्ड्ये प्रमाणं,मातृवंशे च तस्य व्याप्तिप्रामाण्यम् २८-४० ....

३
सूचीपत्रम् ।
पृष्टान
....
-
४४
विषयाः
१५ प्रस्तारान्तर्गतेषु विषमसमसंज्ञकेषु अष्टाष्टकेषु पञ्चमोत्तरं
षष्ठादारभ्य पाणिग्रहः सर्वसंमतः
१६ अष्टकेषु द्वितीयभेदादौ वापि कन्योत्पत्तौ सापिण्ड्यनिवृत्तिः
१७ द्वितीयादिषु क्वापि कन्यानुत्पत्तौ सप्तमान्तं सापिण्ड्यस्थितिः४५.
१८ षष्ठे निवृत्तस्यापि सापिण्ड्यस्य सप्तमे प्रवृत्तिरेकदेशीमतेन ४१-!
१९ पित्रादिबन्धुत्रये सप्तमात् मात्रादिबन्धुत्रये पञ्चमात् सा-
पिण्ड्यनिवृत्तिरिति सिद्धान्तोक्तिः
२० अन्यगोत्रसापिण्ड्यविचारे सापत्नमातामहवंशे कृत्रिमदत्त.
कादिपुत्रवंशे च पुरुषत्रयोत्तरं सापिण्ड्यनिवृत्तिः, प्रसङ्गा-
दत्तकदानविचारश्च
४५-१
२१ असापिण्ड्येऽपि पितृव्यभार्याभगिनीतदुहित्रोर्मातुलीभगि-
नीतदुहितोज्येष्ठभ्रातृभाभिगिन्या मातृष्वसृसपत्नीकन्या-
याः श्यालिकातदुहितोश्च पाणिग्रहो न संमतः, क्वचि.
देशभेदात् कुलाचाराद्वा तृतीये चतुर्थे वा विवाहस्येष्टता ६०-६
२२ ग्रन्थप्रमाणपरिसंख्यानं, तस्य च लोकोपकारित्वं प्रदर्य
तत्समाप्तिसूचनम्
२३ ग्रन्थकर्तुः सामान्यपरिचयः
६
६

॥ श्रीः ।।
आपदेवापरपर्यायसदाशिवदेवविरचिता
सापिण्ड्यकल्पलतिका
नारायणदेवकृतया वृत्त्या सहिता
नागेश्वरं गुरुं नत्वा देवनारायणः सुधीः ।
सापिण्ड्यकल्पलतिकांव्याचष्टे प्राक्तनोदिताम् ॥१॥
प्रारीप्सितग्रन्थसमाप्तिप्रतिबन्धकदुरितशमनाय किय.
माणस्वेष्टदेवतानत्यात्मकं मङ्गलं शिष्यशिक्षायै व्या-
ख्यातृश्रोतणामनुषङ्गतो मङ्गलाय च निबध्नचिकी-
र्षितं प्रतिजानीते-
श्रीमद्गजाननषडाननयुक्शिवौ च
श्रीविठ्ठलं निजगुरुं गुरुमेव नत्वा ।।
सापिण्ड्यकल्पलतिकां तनुते विचित्रां
देवः सदाशिव इमां शिशुबोधनाय॥१॥

२
सापिण्ड्यकल्पलतिका।
..
श्रीमदिति । श्रीः सरस्वती बुद्ध्यादिर्वा, गजानन
स्यैव श्रीमत्त्वं विशेषणम् । यहा श्री: शोभाविशे
षड्गुणैश्वर्य वा। विशिष्टविशेषणं श्रीमत्त्वम्, श्रीमन
च तौ गणेशस्कन्दाभ्यां युक् सम्पदादित्वाद्भावे कि
योगः सम्बन्धो ययौस्तौ च तो शिवी च पार्वतीपर
श्वरौ-इति । श्रीमान् विष्णुः स च गजाननश्च षडान
नश्च तैयुगित्यादि पूर्ववदिति कश्चितं । चः श्रीविट्ठ
पदोत्तरं योज्यः । गुरुमेव बृहस्पतिमेव । एवोऽभेदरूपद्यो
कः। निजगुरुं स्वीयगुरुम् । निजपदं स्पष्टार्थ, सम्बन्धित
ब्दत्वादेव तल्लाभत्वात् । यद्दा ममैव स गुरुर्नान्यस्य।
सूचनाय तत् । यहा स्वाभाविकगुरुं सर्वोपदेष्टारमि
यावत् । यहा तात्विकगुरुं परमार्थगुरुरामति यावत् । श्र
विट्ठलं चश्रिया युक्तं विट्ठलं च नत्वा । देवः देवोपाखर
सदाशिवस्तदाख्यः । भाविन्या अपि बुद्ध्या विषयीकर
णात् इमामिति निर्देशः, तेन ग्रन्थकरणे क्लेशाभावः सू
चितः । अथचेमां बुद्धिस्थां विचित्रां विलक्षणां छन्दः
शास्त्रप्रतिपाद्यदुरूहप्रस्तारादिज्ञानस्याऽपि इतोऽनाय
(१) कैश्चिदिति सर्वत्र पाठः।

वृत्तिसहिता। ३ सेन प्रसङ्गेन जायमानत्वात् । एतेन प्राचीन ग्रन्थैरगता- थता सूचिता । सापिण्ड्यकल्पलतिका सापिण्ड्यस्य स- मानः एकः मुख्यः पिण्डः देह आरम्भको यस्या यस्य वा सा सपिण्डा स सपिण्डस्तद्भावस्तस्य साक्षात्परम्प- रया वा एकशरीरावयवान्वयित्वस्येति यावत् । रूट्या च नातिप्रसङ्ग इति विज्ञानेश्वरः। कल्पलतिकेव कल्पलतिका ताम्।वाञ्छितार्थदातृत्वेन तंत्सादृश्यबोधना- दुपमालङ्कारो व्यङ्ग्यः। कल्पलतिकात्वोलेखेन यस्यैत- सम्बन्धि यद्यदिष्टं तत्सर्वमितः सुलभमिति सूचितम् । तनुते विस्तारयति नतु करोति, उक्तयुक्तेः । नन्वस्या वैलक्षण्येऽपि एतत्प्रतिपाद्यस्य द्वयस्य ग्रन्थान्तरतोऽपि ज्ञानसम्भवात् किमर्थमियमत आह शिश्विति । तथाच तेषां भिन्नत्वात दुरूहत्वाच्च न तेषां ततस्तज्ज्ञानसम्भव इति न वैयर्थ्यमस्याः । अत्र सापिण्ड्यकल्पलतिकेत्य- नेन सापिण्ड्यं विषयः, तज्ज्ञानं प्रयोजनं, तजिज्ञासु- रधिकारीत्यादि सूचितम् ॥ १ ॥ (१) प्राचीनग्रन्थे सत्त्वात-इति घ. पुस्तके टिप्पणी।

तत्र तावत् सापिण्डयवतां भेदादीन् वक्तु तज्ज्ञा- नोपायानाह- प्रस्तारोऽग्रे नष्टमुद्दिष्टसंज्ञ- मेकद्वित्र्यादिक्रिया स्यात् कपूनाम् ।। संख्याध्वानौ प्रत्ययाः स्युः षडेते सूत्राण्येषां सिद्धयेऽथो ब्रवीमि ॥२॥ प्रस्तारोऽग्रे इति। अत्र कपुशब्दो लघुगुर्वोः क- न्यापुत्रयोश्च ग्रन्थकृदभिमतसङ्केतकावित्यर्थवत्त्वेन प्रा- तिपदिकत्वात् सुबुत्पत्ती बहुवचनान्तानां इन्द्वः । एव- मग्रे सर्वत्र बोध्यम् । प्रकारान्तरं तु क्लिष्टमित्युपेक्षितम् । अग्रे आदौ कपूनां कन्यानां पुरुषाणां च प्रस्तारः, नष्टम्, उद्दिष्टसंज्ञम् , एकद्विव्यादिक्रिया स्यादित्यस्य प्रत्येक सम्बन्धः । संख्याऽध्वानौ संख्या च अध्वा च तौ स्यातामिति वचनविपरिणामः । अत्रोत्तरस्य पूर्वपूर्व- सापेक्षत्वात् क्रमेण निर्देशः, तत्रापि नष्टादीनां प्रस्तार- :। अत एव अग्रे इत्युक्तिः सफला । विभागादेव षट्वे लब्धे षडित्युक्तिद्रूनाधि- ज्ञानमूलकत्वादादौ तन्निर्देशः हात्तसाहता। - कसंख्याव्यवच्छेदाय । तथाचैते षडेव प्रत्ययाः स्युः । प्रतीयते ज्ञायते संख्यादिकमेभिस्ते प्रत्ययाः । यहा प्र- त्ययो विश्वासोऽस्ति येषां ते प्रत्ययाः। अर्शआद्यच् । प्रस्तारादिना हि सर्वभेदादिज्ञाने सति वक्ष्यमाणं सम्य- गिति विश्वासो भवति । अथो अथ । एषां प्रस्तारादीनां सिद्धये ज्ञानाय सूत्राणि सूचकानि तत्स्वरूपबोधकानि पद्यानि ब्रवीमि ॥ २ ॥ तत्रोद्देशक्रमानुरोधेनाऽऽदौ प्रस्तारमाह- षट्दावाद्यात्कं लिखेत्पोरधस्ता- च्छेषं यदच्चोपरिष्टात्तथैव ॥ ऊने दद्यादत्र पूनेव भूयः प्रस्तारः स्यात्सर्वकस्तावदेवम् ॥ ३ ॥ . षट्पावाद्यादिति । षट् पत्रो गुरवः पुत्राश्च प्रमाण यस्येति तद्धितार्थे द्विगुः । मात्रचो हिगोनित्य मिति लुक् । बहुव्रीहिर्वा । सर्वथा समूहो वाच्यः। षट्वं च मूलपुरुषं विहाय बोध्यम् । सापिण्डयस्य साप्तपौरुषत्वात्। अत एव षडक्षरप्रस्तारस्यैवोपयोग इति षट्पावित्येवो-

सापिण्ड्यकल्पलतिका ।
रगणस्तृतीयः ३
सगणश्चतुर्थः ४
मू.पु.पु.पु.पु.पु.क.
मू.पु.पु.पु.क.पु.क.
मू.क.पु.पु.पु.पु.क.
मू.क.पु.पु.क.पु.क.
मू.पु.क.पु.पु.पु.क.
मू.पु.क.पु.क.पु.क.
मू.क.क.पु.पु.पु.क.
मू.क.क.पु.क.पु.क.
मू.पु.पु.क.पु.पु.क.
मू.पु.पु.क.क.पु.क.
मू.क.पु.क.पु.पु.क.
मू-क.पु.क.क.पु.क.
मू.पु.क.क.पु.पु.क.
मू.पु.क.क.क.पु.क.
मू.क.क.क.पु.पु.क.
मू.क.क.क.क.पु.क.

क्तम् । षट् पुस्तस्मिन् उपरितनपंक्ती लिखिते सति आद्या- प्रथमात् पोर्गुरोः पुत्राच्चाऽधस्तादधोभागेऽधस्तनपंक्ती कं लघु कन्यां च लिखेत् । यद्वत् यथा उपरिष्टादुपरित- नपंक्तौ तथैव । एवो बैलक्षण्यव्यवच्छेदाय । अधस्ता- दित्यस्य मध्यमणिन्यायेनाऽत्रापि सम्बन्धः । अधस्तन- पंक्तौ च व्युत्क्रमे शेषं वाऽवशिष्ट प्वादिकम् । लिखेदित्य- स्यानुषङ्गः । यत्रोपरि पुस्तत्राधोऽपि पुः, यत्रोपरि कस्त- त्राऽधोपि कः कार्य इत्यर्थः । नन्वेवमपि तृतीयभेदादौ क्वचिदाद्यादिस्थानस्य शून्यत्वात्तत्र किं लेख्यमत आह- ऊने इति । अत्र प्रस्तारे ऊने न्यूने शून्ये स्थाने पूनेव पुंश्च पू च पवश्वेत्येकशेषेण बहुवचनं सर्वलक्ष्यव्यक्त्य- भिप्रायेण । एवमग्रेऽपि दद्यात् । नैतावदेवेत्याह भूय इति । अमुं प्रकारं भूयो वारंवारं कुर्यात् । अवधि सूचयन्नुपसंहरति प्रस्तार इति । यावत् सर्वकः सर्वलघुः सर्वकन्यस्तावदेवमुक्तप्रकारेण प्रस्तारः स्यात् । प्रस्ता- र्यन्ते विस्तार्यन्ते पुत्रकन्यारूपतया सपिण्डा अनेनेति "प्रस्तारः। अस्योदाहरणं यथा । अत्र कोष्ठन्यासो बोध्यः। (१) पश्च.पूश्च प्वश्व-इति सर्वत्र पाठः।

उपोद्धातः। मत्वा सम. दुष्करमिव तदन्वेषणाय प्रयतमानेन मया लम्भि पुस्तकमेकं भट्टवंशीयाऽस्मन्मातुलश्रीवीरेश्वरभट्ट. भट्टानां सङ्ग्रहस्थं बहुशः शुद्धम् , तदनु तत्र प्रवर्तमाने मयि न चिराय विक्रयार्थ समागतादुक्त पुस्तकालयेन क्रीतात् पु. स्तकसङ्ग्रहादप्येकं शुद्धपायं सुपरिष्कृतं पठितं कचिच्च टिप्पण्या समलङ्कनमादर्शपुस्तकमवापि । एवं च पुस्तकपञ्चकं देवना- गराक्षरलिखितमादाय मुखेन प्रवृत्तो मतिमान्यात्कथमप्यपारयमे- तन्मुद्रणं कर्तुम् । तत्र कसंज्ञकं (पत्राणि १-३१, प्रतिपृष्ठं पतयः ९, प्रतिपक्ति अक्षराणि ३४, परिमाणः १०.६"४४.५"), खसंज्ञकं (१० १-२७, पं. ९, अ.४०, पं. पं. ११."४५.१"), गसंज्ञकं (१०१-२२, पं. १३, अ. ३३, प. ९.३"४५.७"), घसंज्ञकं (प.१-३६, पं. ११, व. २३, प.८.८"+४.५."), ङसंज्ञकं तु श्रीवीरेश्वरभट्टभट्टानामिति तद्विवरणं न प्रदर्श्यते । अन्ते च श्रीमन्मदाराध्यगुरुवरचरणान् सश्रद्धमभिवन्ध, सरस्वतीभवनग्रन्थमालाप्रधानसंशोधकान् मय्यतुलं वात्सल्य विभ्रतः पूज्यवरश्रीगोपीनाथकविराज एम०ए० महोदयान् सादर- मभिनन्ध, साहाय्यमत्र विदधयः सुहृद्वर-एम० ए०श्रीबटुक- नाथशर्म, खिस्तेश्रीनारायणशास्त्रि, वेतालश्रीअनन्तरामशास्त्रिभ्यो वरकलश्रीवैद्यनाथशास्त्रिणे च धन्यवादान वितीर्य विरम्यते वृथा पल्लविताद स्माल्लेखादिति शिवम् । सरस्वतीभवनम् , जगन्नाथशास्त्री होशिङ्गः। काशी.

उपोद्धातः । इति, तत् 'अतीत्ये'त्यध्याहारेण सङ्गपट्य प्रमाय च चतुर्विंशति- मतव्याख्यायाज्ञवल्क्यादिभिः स्पष्टीचकार सर्व, विस्तारप्रेक्षास्पृ. हयालूनां कृते 'अधिकं सापिण्ड्यप्रदीपतोऽवसेयमिती'ति नि- दिदेश च स्वगुरुश्रीनागेशभट्टकृतिम् । अमीनविनाबिक, 'पितृपरन्यः सर्वा मातरः' इत्यादि सुमन्तुवाक्यं प्रमाणत्वेनोपन्यस्य तव्याख्याविषयं सम्यगालोच्य हरदत्तोबीतापस्तम्बधर्ममूत्रव्याख्योज्ज्वलाधृतव्या- ख्यानमपि पूर्वापरसङ्गत्या विशदीकृत्य एकशरीरावयवान्वयित्व- रूपे सापिण्ड्ये दोषशङ्कामुद्भाव्य स्वारम्भकेण सहैकशरीरारम्भक- तया तत्संसाध्य रामभरतदशरथकेकयराजादिषूदाहरणद्वारा योज- यित्वा सापत्रमातामहादिसम्बन्धे सुमन्तुवचनारम्भान्यथानुपपत्या सापनमातुलादिष्वप्यवयवान्वयरूपसापिण्ड्याभावाभावं तदितरत्र प्राप्तामतिप्रसक्तिं च साधु निर्णिनाय । वसिष्ठवाक्यव्याख्या- नावसरे यद्विरुद्धमेतस्मादुक्तं वचो भन्न विभाग तच्च गगनकु. मुमायमानमित्युपेक्ष्यकोटी प्रवेष वीरमित्रोदयोक्ति निरस्तवान् । स्वकीयपक्षसमर्थने च हेमाद्रिमाधवहरदत्तमनुनागेशभट्टप्रभृतीन पोषकान् बुद्धा विषये चैतस्मिन् दैननिर्णयकृन्मत भ्रान्तमिति निःसंशयमुक्तवान् । तथाच सापत्नमातामहवंशे पौरुषं सा- पिण्ड्यं भवतीति निर्णीतवान् । दत्तादिषु देशभेदेन साप्तपौरुष. त्रैपौरुषसापिण्ड्यसद्भावमुल्लिख्य तद्भेदादिकं क्रमशः सङ्गमित. वान् । इत्थं चाऽमुख्मिन् स्वल्पेऽपि विषयमहत्त्वेन गुरुणि ग्रन्थ- रत्ने सपिण्डतादिविचारः सम्पगुपपादितोऽस्तीति सर्वमनवयम् ।

४ सापिण्ड्यकल्पलतिका । तत्र तावत् सापिण्डयवतां भेदादीन् वक्तुं तज्ज्ञा- नोपायानाह- प्रस्तारोऽग्रे नष्टमुद्दिष्टसंज्ञ- मेकदित्र्यादिक्रिया स्यात् कपूनाम् ॥ संख्याध्वानौ प्रत्ययाः स्युः षडेते सूत्राण्येषां सिद्धयेऽथो ब्रवीमि ॥२॥ प्रस्तारोऽग्रे इति। अत्र कपुशब्दो लघुगुर्वोः क- न्यापुत्रयोश्च ग्रन्थकृदभिमतसङ्केतकावित्यर्थवत्वेन प्रा. तिपदिकत्वात् सुबुत्पत्ती बहुवचनान्तानां इन्द्वः । एव- मग्रे सर्वत्र बोध्यम् । प्रकारान्तरं तु क्लिष्टमित्युपेक्षितम् अग्रे आदौ कपूनां कन्यानां पुरुषाणां नष्टम्, उद्दिष्टसंज्ञम् , एकद्विव्यादिक्रिया स्यादित्यस प्रत्येक सम्बन्धः । संख्याऽध्वानौ संख्या च अध्वा तौ स्यातामिति वचनविपरिणामः । अत्रोत्तरस्य पूर्वपूर्व सापेक्षत्वात् क्रमेण निर्देशः, तत्रापि नष्टादीनां प्रस्तार ज्ञानमूलकत्वादादौ तन्निर्देशः। अत एव अग्रे इत्युक्ति सफला । विभागादेव षट्वे लब्धे षडित्युक्तिद्रूनाधि च प्रस्तारः वृत्तिसहिता ५ कसंख्याव्यवच्छेदाय । तथाचैते षडेव प्रत्ययाः स्युः । प्रतीयते ज्ञायते संख्यादिकमेभिस्ते प्रत्ययाः । यहा प्र- त्ययो विश्वासोऽस्ति येषां ते प्रत्ययाः। अर्शआद्यच् । प्रस्तारादिना हि सर्वभदादिज्ञाने सति वक्ष्यमाणं सम्य- गिति विश्वासो भवति । अथो अथ । एषां प्रस्तारादीनां सिद्धये ज्ञानाय सूत्राणि सूचकानि तत्स्वरूपबोधकानि पद्यानि ब्रवीमि ॥ २ ॥ तत्रोद्देशक्रमानुरोधेनाऽऽदौ प्रस्तारमाह- षदावाद्यात्कं लिखेत्पोरधस्ता- च्छेषं यच्चोपरिष्टात्तथैव ।। ऊने दद्यादत्र पूनेव भूयः प्रस्तारः स्यात्सर्वकस्तावदेवम् ॥३॥ गुरवः पुत्राश्च प्रमाणं षट्पावाद्यादिति । षट् पत्रो यस्येति तद्धितार्थे द्विगुः । मात्रचो हिगोर्नित्य'मिति लुक् । बहुव्रीहिर्वा । सर्वथा समूहो वाच्यः। षट्त्वं च मूलपुरुषं विहाय बोध्यम् । सापिण्डयस्य साप्तपौरुषत्वात्। अत एव षडक्षरप्रस्तारस्यैवोपयोग इति षट्पावित्येवो- w सापिण्ड्यकल्पलतिका । क्तम् । षट्पुस्तस्मिन् उपरितनपंक्ती लिखिते सति आद्या- प्रथमात् पोर्गुरोः पुत्राच्चाऽधस्तादधोभागेऽधस्तनपंक्तौ के लघु कन्यां च लिखेत् । यद्वत् यथा उपरिष्टादुपरित- नपंक्तौ तथैव । एवो वैलक्षण्यव्यवच्छेदाय । अधस्ता- दित्यस्य मध्यमणिन्यायेनाऽत्रापि सम्बन्धः। अधस्तन- पंक्तौ च व्युत्क्रमे शेषं वाऽवशिष्ट प्वादिकम् । लिखेदित्य- स्यानुषङ्गः । यत्रोपरि पुस्तत्राधोऽपि पुः, यत्रोपरि कस्त- त्राऽधोपि कः कार्य इत्यर्थः । नन्वेवमपि तृतीयभेदादी कचिदाद्यादिस्थानस्य शून्यत्वात्तत्र किं लेख्यमत आह- ऊने इति । अत्र प्रस्तारे ऊने न्यूने शून्ये स्थाने पूनेव पुश्च पू च पवश्चेत्येकशेषेण बहुवचनं सर्वलक्ष्यव्यक्त्य- भिप्रायेण । एवमग्रेऽपि दद्यात् । नैतावदेवेत्याह भूय इति । अमुं प्रकारं भूयो वारंवारं कुर्यात् । अवधि सूचयन्नुपसंहरति प्रस्तार इति । यावत् सर्वकः सर्वलघुः सर्वकन्यस्तावदेवमुक्तप्रकारेण प्रस्तारः स्यात् । प्रस्ता- र्यन्ते विस्तार्यन्ते पुत्रकन्यारूपतया सपिण्डा अनेनेति "प्रस्तारः। अस्योदाहरणं यथा। अत्र कोष्ठन्यासो बोध्यः । - (१) पूश्च. पूश्च प्वश्च-इति सर्वत्र पाठः।

वृत्तिसहिता।
मगणः प्रथमः १
यगणो द्वितीयः २
मू.पु. पु.पु.पु.पु. पु.
मू.पु.पु.पु.क.पु.पु.
मू.क.पु.पु.पु.पु.पु.
मू.क. पु.पु.क.पु.पु.
मू.पु. क. पु.पु.पु. पु.
मू.पु.क.पु.क.पु.पु.
मू.क.क.पु.पु.पु. पु.
मू.क.क.पु.क.पु.पु.
मू.पु.पु.क.पु.पु.पु.
मू.पु.पु.क.क.पु.पु.
मू. क. पु.क.पु.पु.पु.
मू.क.पु.क.क.पु.पु.
मू.पु. क.क.पु.पु.पु.
मू.पु.क.क.क.पु.पु.
मू.क.क.क.पु.पु.पु.
मू.क.क.क.क.पु.पु.

८
सापिण्ड्य कल्पलतिका।
रगणस्तृतीयः ३
सगणश्चतुर्थः ४
मू.पु.पु.पु.पु. पु. क.
मू.पु.पु.पु.क.पु.क.
मू.क.पु.पु.पु.पु.क.
मू.क.पु.पु.क.पु.क.
मू.पु.क.पु.पु.पु.क.
मू.पु.क.पु.क.पु.क.
मू.क.क.पु.पु.पु.क.
मू.क.क.पु.क.पु.क.
मू.पु.पु.क.पु.पु.क.
मू.पु.पु.क.क.पु.क.
मू.क.पु.क.पु.पु.क.
मू-क.पु.क.क.पु.क.
मू.पु.क.क.पु.पु.क.
मू.पु.क.क.क.पु.क.
मू.क.क.क.पु.पु.क.
मू.क.क.क.क.पु.क.

सिमाहिता।
तगणः पञ्चमः ५
जगणः षष्ठः ६
मू.पु.पु.पु पु.क.पु.
मू.पु.पु.पु.क.क. पु.
मू.क.पु.पु.पु.क.पु.
मू. क. पु.पु.क.क.पु.
मू.पु.क.पु.पु.क.पु.
मू.पु.क.पु.क.क.पु.
मू.क.क.पु.पु.क.पु.
मू.क.क.पु.क.क.पु.
मू पु-पु.क.पु.क.पु.
मू.पु.पु.क.क.क. पु.
मू.क. पु.क.पु.क. पु
मू.क.पु.क.क.क.पु.
मू.पु.क.क.पु.क. पु.
मू.पु.क.क.क.क.पु.
मू.क.क.क.पु.क.पु.
मू.क.क.क.क.क.
पु.
ર
82:428
N27

सापिण्ड्यकल्पलसिका।
भगणः सप्तमः ७
नगणोऽष्टमः ८
मू.पु.पु.पु.पु.क.क.
मू. पुपु.पु.क.क.क.
मू.क.पु.पु.पु.क.क.
मू.क.पु.पु.क.क.क.
मू.पु.क. पु.पु.क.क.
मू. पु. क. पु. क.क.क.
मू.क.क.पु.पु.क.क.
मू.क.क.पु.क.क.क.
मू.पु.पु क.पु.क.क.
मू.पु.पु.क.क.क.क.
मू.क.पु.क.पु.क. क.
मू.क.पु.क.क.क.क.
मू.पु.क.क.पु.क. क.
मू.पु.क. क.क.क. क.
मू.क.क.क.पु क.क.
मू.क.क.क.क.क.क.

वृत्तिसहिता। ११ तथाचैतत्प्रस्तारस्य चतुःषष्टिभेदा भवन्ति । तेषु च क्रमेण मादिगणानामष्टकं प्रत्येकं मगणाद्यष्टकयुक्तं भवति । तदुक्तं सप्तर्युपाख्येन नरहरिणा- आदिमध्याऽवसानेषु यरता यान्ति लाघवम् । भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ।। मगणाद्यष्टकयुक्तं मादीनामष्टकं यदेकैकम् । विस्तृतमत्र ज्ञेयं श्रुतिरसमानं हि सापिण्डयम् ॥ त्रिके क्वापि स्यपत्यं चेत्सापिण्ड्यं पाञ्चपौरुषम् । त्रिके क्वापि स्यनुत्पत्ती सापिण्ड्यं साप्तपौरुषम् ॥ एवं षडक्षरप्रस्तारे गुरुलघूनामपि विन्यासो बोध्यः।।३।। अथ क्रमप्राप्त प्रस्तारशोधनोपयोगि नष्टमाह- नष्टाङ्कस्य दले दले तु समके कं विन्यसेच्चाऽसमे सैके तस्य दले दलेऽथ विलिखेत्पूनेवमेवं पुनः ।। षटसंख्यावधि नष्टमिष्टमुदितं संख्यावतां प्रीतये स्थानज्ञाननिवेदनाय कथयाम्युद्दिष्टमेवं पुनः॥४॥ नष्टाङ्कस्यति । इयत्संख्यो भेदः किरूप इति प्र- श्ने ईदृश इत्युत्तरं यत्र विषये. तादृशप्रश्नोत्तरविषयम- १२ सापिण्ड्यकलालतिका । : . तमिति यावत्, तन्नष्टम् । तदुक्तं सङ्गीतरत्नाकरे- अत्रैतावतिथो भेदः किंरूप इति पृच्छति । यत्र तन्नष्टमाख्यातं तस्योत्तरमिहोच्यत ।। इति । तत् द्विविधं समं विषमं च । तत्राद्यमाद्यपा- देन, द्वितीयं द्वितीयपादेनोच्यते । नष्टस्य तदाख्यभेद. स्य योऽङ्कस्तस्य समके समे, स्वार्थे कः । समते तत्र कं विन्यसेत् । तस्य समे दले दले. च अर्दै अर्डे के कन्यां विन्यसेत् । असम इत्यादेमध्यमणिन्यायेन पूर्व- त्राऽप्यन्वया । तोरत्राऽन्वयः । तथाच तस्य असमे तु दले दले अर्डे अड़े स्वतःसम्भविनि सैके खण्डिते च पून् पुत्रान् विन्यसेत् । अथशब्दः समुच्चये। अस- मेऽर्थान्नष्टाङ्के पुं लिखेत् । असमे तस्मिन् सैके एके. नाऽधिके खण्डिते सति तस्याऽसमे दुले दले च पून लिंखेदित्यर्थः । उभयत्राऽपि नैतावन्मात्रेणष्टसिद्धिरत उ- भयशेषमाह-एवमेवं पुनरिति । 'उभयत्रापि पुनःपुनः पुनरेवमेवं यथासम्भवं कुर्यादित्यर्थः । अनतिप्रसङ्गाया- ऽवधिं कथयति षडिति, पूर्वत्राऽन्वयः । तदवधौ हेतुं सूचयन हेतुगर्भविशेषणघटितमुपसंहरति नष्टमिति । सं- वृत्तिमाहिता। ख्यावतां ज्ञातसंख्यानां सूक्ष्मज्ञानिनां वा प्रीतये स- न्तोषाय इष्ट इष्टस्वरूपप्रत्ययजनकं नष्टमुक्तिं कथित- मित्यर्थः । अनयोरुदाहरणम् । क. क. क. पु. पु. पु. पु. पु. पु. पु. अस्याऽष्टमो भेदः कीदृश इति प्रश्ने-अष्टमा. कस्य समत्वात् कः। तदर्धस्य चतुर्थाङ्कस्य सम- त्वात् कः । तदर्धस्य द्वितीयाङ्कस्य समत्वात् कः । तदर्धस्यैकस्य विषमत्वात् पुः। तस्मिन् सैकेऽः कृते पूर्ववत् पुः । पुनस्तथैव पुर्लेख्यः । नवमो भेदः कीदृश इति प्रश्ने-नवमाङ्कस्य विषमत्वात् पुर्लेख्यः । त- स्मिन् सैकेऽर्धिते पञ्चमाङ्कस्य विषमत्वात् पुरेव । त- स्मिन् सैकेऽर्धिते तृतीयाङ्कास्य विषमत्वात् स एव । तस्मिन् सैके द्वितीयाङ्कस्य समत्वात् कः । तस्मिन्नर्धि- ते एकस्य विषमत्वात् पुः । तस्मिन् सैके पुनरर्धिते विषमत्वात् पुरेव । एवं सर्वत्र बोध्यम् । अथ क्रमप्राप्त प्रस्तारशोधनोपयोग्युद्दिष्टं कथायतुं प्रतिज्ञामाद स्थाने- १४ सापिण्ड्यकल्पलतिका । ति । पुनरत एवं नष्टवत् स्थानानां चतुर्थपञ्चमादीनां यत् ज्ञानं तन्निवेदनाय तत्कथनायोद्दिष्टं कथयामी- त्यर्थः । शिष्यावधानाय पुनः प्रतिज्ञेयम् । एवमग्रेऽपि । लिखितोऽयं भेदः कियत्संख्य इति प्रश्ने-अयमियत्संख्य इति यत्रोत्तरमुच्यते तादृशप्रश्नोत्तरविषयभूतसंख्येति यावत, तदुद्दिष्टम् । यद्यपि प्रस्तारशोधनोपयोगित्वं नष्टो- द्दिष्टयोस्तुल्यमित्युक्तक्रमो न नियतस्तथाऽप्युद्दिष्टस्य सं- ख्याप्रश्नोत्तररूपत्वात नष्टस्य च स्वरूपप्रश्नोत्तररूप- त्वात् स्वरूपज्ञानोत्तरमेव संख्याजिज्ञासोदयादनयोरुक्त एव क्रमो बोध्यः ॥ ४ ॥ प्रतिज्ञातमाह- एकाङ्कान द्विगुणानुपर्युपरितोकान् विन्यसेत्कस्थित रकैरेकयुतैर्भवेदभिमतं तूद्दिष्टमिष्टं पुनः॥ याद्यङ्कान द्विगुणनुपर्युपरि तोकान् विन्यसेत्कस्थित रवैस्तन्मिलितैर्भवेदभिमतं तूद्दिष्टमिष्ट स्फुटम् ।।५ (१) तोकान्-इति पुंलिङ्गनिर्देशोऽयुक्तः, 'अपत्यं तोकं तयो समें' इति कोशाधनुसन्धानेन तस्य सर्वथा नपुंसकत्वात् । व्या ख्यानानुरोधेन प्रन्यकृतस्तादृश एव प्रयोग इति प्रतिभाति । 'तो कानि न्यसेत् इति पाठपरिवर्तनेन सौशबछ छन्दःपूर्तिश्च स्यात् ।

वृत्तिसहिता। १५ एकाङ्कानिति । तोकान् अपत्यानां कन्यानां पुत्रा- णां चेति यावत् । 'उभसर्वतसोः कार्ये'ति सम्बन्धे द्वितीया, उपपदविभक्तित्वात् । उपर्युपरि ऊर्ध्वमूर्ध्वम् । आदित इति शेषः। एकाङ्कानेकप्रभृतीनङ्कान् द्विगुणान् विन्यसेत् । अग्रे तत्रति शेषः। तथाच तेषां मध्ये कस्थितैः कन्योपरिस्थितैरेकयुतैकेनाऽधिकेन तत्संख्य- या मिश्रितैरबैरभिमतं पिङ्गलादिसंमतमिष्टं इष्टसंख्या- प्रत्ययजनकमुद्दिष्टं भवेदित्यर्थः। तुरुक्तवलक्षण्ये । पुनरि- ति पक्षान्तरे । तथाच-यहा तोकानामपत्यानामुपर्युपरि द्विगुणान् द्विप्रभृतीनङ्कान् विन्यसेदित्यर्थः । अग्रे तत्रे- ति शेषः। तथाच तत्र तेषां मध्ये कस्थैः कन्योपरिस्थि- तैस्तन्मिलितैस्तया द्वित्वसंख्यया मिलितद्वाभ्यां दलितः खण्डितैरङ्करिष्टमुद्दिष्टं स्फुटमित्यर्थः । अत्रोपरीत्युपल- क्षणम्, उभयत्रापि अधोलेखनेऽप्यक्षतेः । अस्योदाहरणं यथा।

सापिण्ड्यकल्पलतिका । १६ क. क पु. पु. पु. २ १ ३२ अयं भेदः कियत्संख्य इति प्रश्ने-प्रथमपक्षे द्विगुणा- नेकादिकान् संलिख्य तेषां मध्ये कोपरिस्थितैर्मिलितैः सप्त- भिरेकमिश्रितरष्टभिरष्टसंख्यो भेदो भवेत-इति कथयेत् । द्वितीयपक्षे द्विगुणान् दुव्यादिकान् सलिख्य तेषां मध्ये कोपरिस्थितैर्मिलितैश्चतुर्दशभिभ्यिां मिलितैः षोडशभिर- (कृतैरष्टसंख्यो भेदो भवेत्-इति कथयेत् । एवं सर्वत्र बोध्यम् ॥ ५ ॥ अथ सर्वपुएककहिकत्रिकादिकभेदकथनद्वारा प्रस्तार- शोधनोपयौगिकैकदव्यादिकपुक्रियामाह- वर्णान् प्रस्तृतिजानुपर्युपरितःसैकानन्यसैकादिकान पौर्वापर्यविभेदतः स्थितिमतश्चैकैकमूर्ध्वं क्षिप। भूयश्चैवमुपान्त्यतो विनिवृतश्चैकैकमुर्ध्व क्षिप- नेकद्यादिकपुक्रिया निगदिता प्रस्तारसख्यां ब्रुवे (१) वि, नि-इत्युपसर्गद्वयपूर्वकात् वृञ्धातोः क्तप्रत्ययेरूपम् ।

वृत्तिसहिता। वर्णानिति । स्वार्थे तसिः । उपर्युपरितः प्रस्तृति- जान् वर्णान उपर्युपरि विद्यमानप्रस्तारगतवर्णसमसं- ख्याकान् सैकानेकेनाधिकेन सहितान् अर्थादेकाङ्कान् । पौर्वापर्यविभेदतः स्थितिमतः ब्राह्मणादित्वाहावे व्यञ्, सावविभक्तिकस्तृतीयान्तात्तमिः, पूर्वापरभावरूपलक्षण्ये- न स्थितियुतान, एकादिकांश्चैकद्वयादींश्च न्यस स्थापय । तत्प्रकारमाहैकमिति । तेषां मध्ये एकैकमूर्ध्वमुपयुपरि एकादिक्रमेण क्षिप। मेलनं चात्र मेल्यमानाङ्कसमसंख्याया उपरि क्षेपो नतु स्वस्यैव स्वरूपेण । तथासति तत्स्थानस्य शून्यतापत्या द्वितीयादिमेलनावृत्त्यभावापत्तेः । ताव- न्मात्रेणापीष्टासिद्धेराह भूयश्चैवमिति। वारंवारमुक्तप्रकार कुरु चेत्यर्थः । अधस्तनं तदुपरि संमेल्य इयङ्कः कार्यः, तं तदुपरि संमेल्य व्यङ्क इत्यादिक्रमेण कार्यमिति या- वत् । मेलनेऽवधिमाह उपान्त्येति । एकैकमित्यनुवादः । एकैकमूर्ध्वमुपर्युपरि तथा संमेलयन् त्वं उपान्त्यतः अन्त्या- धोवर्तिनः विनिवृतो विशेषेण निवृत्तो भव चेत्यर्थः। उपा- न्त्यपर्यन्तं संमेल्य उपान्त्येन मेलयेति यावत् । अन्त्यश्चा- द्यमेलने सर्वोपरितनः, द्वितीयमेलने तदधोवी, तृतीयमे- .. - , ३ सापिण्डयकल्पलतिका। लने तदधोवर्तीत्यादिक्रमेण बोध्यम्। उपान्त्यश्च तत्तदन्त्या- धोवर्ती । प्रतिलोमेनाऽऽवृत्या एकमेकमकं त्यक्त्वाऽध- स्तनान्मलयेदिति फलितोऽर्थः । उपसंहरति-उपरितना- दाद्यन्तयोः क्रमेणेत्यादिः । तथाच उपरितनः सर्वपुरे- कस्तत एककाः षट् ततो .हिकाः पञ्चदश इत्यादि । सर्वाध एका सर्वक इत्यादि बोध्यम् । अस्योदाह- .. रणं यथा। १ १ १ ६ १ १५ १ २० or १५ १ १ १ अत्र सर्वाधःस्थमेकाङ्कमपरि प्रक्षिप्य द्यकं कु. यात् । ततः व्यङ्कादिक्रमेणोपान्त्यमकं षडकं कुर्या- त । उपान्त्यतो निवृत्तेरुक्तत्वात्तस्योपर्यप्रक्षेपः । पुन- वृसिसहिता। रुक्तक्रमेण षडङ्काधोवर्तिनं पचाकं दशाङ्क कु- यात् । अग्रे प्राग्वत् । पुनरपि तदधोवर्तिनं दशाङ्क विशाङ्कं कुर्यात् । पुनरपि तदधःस्थं दशाङ्क पञ्चदशाङ्क कुर्यात । पुनरपि तदधःस्थं पश्चात षडकं कुर्यात । अग्रे प्राग्वत् । तथाच षडक्षरप्रस्तारे उपरितनः सर्व- पुरेकः । तदधस्तनसंख्याका एककन्याः । तदधस्तनसं- ख्याका द्विकन्याः । तदधस्तनसंख्याकाः त्रिकन्याः । तदधस्तनसंख्याकाश्चतुष्काः । तद्धस्तनसंख्याकाः पञ्च- का । तदधः सर्वकन्य एक इति चतुःषष्टिभेदानां स्वरू- पज्ञानं भवतीति भावः । अथ क्रमप्राप्तां संख्यामाह- प्रस्तारेति । प्रस्तारस्य संख्यामित्यर्थः॥ ६ ॥ प्रतिज्ञातमाह-- उद्दिष्टाङ्कसमाहृतिस्तु कथिता सैका क्रमाद्यास्थिता सङ्ख्यासा द्विगुणासुधांशुरहिताऽध्वा स्पष्टमुक्तोबुधैः। अन्यच्च- भूनेत्राब्धिगजान्नृपानथ रदान संलिख्य चोध्वं त्वध- स्तत्तत्सङ्ख्यपुकान विलिख्य मतिमानित्थं स्वसंख्यावधि सापिण्ड्यकल्लतिका । प्रस्ताराः प्रभवन्ति सर्वमिलन संख्या भवेद् भूयुतं यदाऽन्त्यो जनयेदिमां दिगुणतः संख्यांचतुःषष्टिकामा उद्दिष्टाति । पादेन क्रमात स्थिता एकेनाऽधिका या पूर्वोक्ताद्योद्दिष्टाङ्कानां समाहृतिः समूहः । सा तु संख्या कथितेत्यर्थः । यथा षडक्षरप्रस्तारे । : १२ .. अथोद्दिष्टाङ्का एकहिचतुरष्टषोडशद्वात्रिंदङ्काः तेषां समूहस्त्रिषष्टिसंख्यारूपः स एकेनाऽधिकः सन् प्रस्तारसं- ख्वाबोधक इति बोध्यम् । अथाऽध्वानमाह-द्विगु- प्रेति । : सेत्यस्य मध्यमणिन्यायेनाऽत्राप्यन्वयः । द्वाभ्यां गुणो गुणनं यस्याः सा । सुधांशुरेकस्तेन रहितोना सा संख्या बुधैरध्वेति स्पष्टं यथातथोक्त इत्यर्थः । प्रस्तारलेखनपर्याप्तः प्रदेशोऽध्वा । डक्षरे संख्या चतुःषष्टिरूपा सा द्वाभ्यां गुणिता अष्टावि- शत्यधिकशतरूपा एकोना सप्तविंशत्यधिकशतरूपा सा तस्याऽध्वा । सप्तविंशत्यधिकशताङ्गुलायां भुवि प्र. (१) मिलितं- इत्ति सर्चपुस्तकेषु पाठः। यथा ष- वृत्तिसहिता । २१ . तु तत्त- स्तारपर्याप्तिरिति यावत् संख्याबोधकम् । यहति प्रकारा- न्तरं वक्तुमाह-अन्यच्चेति । तत्राऽऽदौ प्रागुक्तमनुवदति विति । भूरेका १, नेत्रे द्वे २, अब्धयश्चत्वारः ४, गजा अष्टौ ८, नृपाः षोडश १६, रदाः द्वात्रिंशत् ३२ ऊर्ध्वमुपरि एकद्विचतुरष्टाङ्कान् षोडशाऽङ्कान् द्वात्रिं- शदङ्कांश्च क्रमेण संलिख्य, अधस्तु तदधोभागे संख्यपुकान्, यस्मिन् यस्मिन् प्रस्तारे भेदस्य घटकस्य या या संख्या तत्तत्संख्याकानि पुमपत्यानि कन्याप- त्यानि च । यहा उपरितनाङ्कानां या या संख्या त- त्तत्संख्याकपुकान् विलिख्य च मतिमान् इत्थं अमुना प्रकारेण । पुनःपुनः कुर्यादिति शेषः । अवधिभाह-स्वति । यदीयप्रस्तारभेदानां या सङ्ख्या तदधि तावत्पर्यन्तमि- त्यर्थः । फलितमाह-प्रस्तारा इति । तथासति प्रस्तारा भवन्ति प्रकाशिता भवन्तीत्यर्थः । ननु का संख्याऽत आह-सर्वेति । सर्वाङ्कानां मिलनं समूहरूपं भयुत- मेकाधिकं प्रस्तारसंख्या भवदित्यर्थः । गाङ्कुटेत्यत्र कुटस्याऽऽदिरित्यर्थवादिनां मतेन डिस्वान्मिलनमिति प्र- योगः । तदेव प्रकारान्तरमाइ यति । अन्त्यो 'रदा'- २२ सापिण्ड्यकल्पलतिका । नित्युक्तो द्वात्रिंशदको द्विगुणितः सन्निमां चतुःषष्टिकां तद्रूणं स्वार्थे कन् , संख्यां जनयदित्यर्थः ॥७॥ हितीयेत्यादिना तृतीयार्धचरमपादेन तृतीयं सं- ख्याबोधकं प्रकारं वक्तुमाह- प्रकारान्तरमपि- एकादिकाकान् द्विगुणान् रदान्ता- नूवं त्वधोऽधोऽङ्कमितान् पुकांश्च ॥ प्रस्तारसङ्घः श्रुतिषण्मितः स्या- सैकोऽयोगस्तु समस्तसंख्या ॥ अन्त्यो दिनिनो जनयेदिमां वा दितीयपक्षे तु स एव संख्या ॥ ६ ॥ प्रेति । तत्रादौ प्रागुक्तं प्रकारद्वयमनुवदति-ए- केति । एकप्रभृतीनङ्कान् हिगुणान् । अवधिमाह- रदेति । हात्रिंशदङ्कपर्यन्तानूवं, अधोऽधस्तु अङ्कमिता- नुपरितनाङ्कसमसंख्याकान् पुकांश्च संलिखेदिति शेषे- णाऽर्थः । तथासति प्रस्ताररूपसमूहः, श्रुतयश्चतस्रः षट् च ताभ्यां परिच्छिन्नः स्यात् । 'अड्डानां वामतो गति'- वृत्तिसहिता। २३ रिति चतुःषष्टिसंख्यापरिच्छिन्नः स्यादिति यावत् । ननु कथं श्रुतिषण्मितत्वमेकेन न्यूनत्वादत आह सैक इति । एकेनाऽधिक उक्ताङ्कसमूहस्तु सर्वसंख्या स्यादित्यनुषङ्गे- णाऽर्थः । वा यद्वा । अन्त्यो द्वात्रिंशदङ्कः द्विनिनः द्वाभ्यां गुणितः सन्निमा जनयेदित्यर्थः । तदेवाह द्वितीयेति । उद्दिष्टबोधकद्वितीयपक्षे इत्यर्थः । वैलक्षण्य- सूचकस्तु स एव अन्त्याङ्क एव चतुःषष्ट्यङ्क एष प्रस्तारसंख्या भवेदित्यर्थः ॥ ९ ॥ एवमुपयोगिप्रस्तारादीनुक्त्वा प्रतिज्ञातं वक्तुमाव- श्यककिञ्चिहिशेषकथनसहितोक्तभेदानुवादपूर्वकमुपयो- ग्यवान्तरसंज्ञास्तेषामाह कूटस्थेति त्रिभिः- कूटस्थपुंसाऽऽदिमभागयुक्ता भेदाश्चतुःषष्टिमिता भवन्ति ॥ अष्टाऽष्टकानि प्रभवन्ति तेषु समानि चाऽन्यान्यसमानि तेषु ॥१०॥ कूटस्थेति । कूटस्थपुंसा कूटस्थपुरुषेण, आद्यप्रदेशो युक्तो येषां ते चतुःषष्टिपरिमिता भेदा भवन्ति । तेषु २४ सापिण्ड्य कल्पलतिका । सम्बन्धिनोऽधिकरणत्वविवक्षया सप्तमी, तेषां भेदानाम् । तथा तेषामिति पाठस्तूचितः । अष्टसंख्याकानि अष्ट- कानि अष्टा परिमाणं येषां तानि तत्संख्यापरिच्छेदस- मूहरूपाणि प्रभवन्ति । तेषु निर्धारणे सप्तमी, तेषाम- टाऽष्टकानांमध्ये चत्वारि समानि,अन्यानि चत्वार्यसमानि च भवन्तीत्यर्थः ॥ १० ॥ समानि शुद्धान्यसमानि तत्र . द्विधा द्वयं स्याद्विषमं समं च ॥ अन्यद् द्वयं केवलमेव विद्धि तानि क्रमेणाऽहमुदाहरिष्ये ॥ ११ ॥ समेति । तत्र तयोर्मध्ये समानि शुद्धान्येव । नतु विषममिश्राणि । असमानि तु द्विधा द्विप्रकाराणि । तत्रे- त्यनुषज्यते । तयोर्मध्ये द्वयं विषमं समं च स्यात, नतु शुद्ध विषमम् । पूर्वोक्तादन्यद् द्वयं केवलमेव विषम- मेव विद्धि जानीहि । नन्वेवं सामान्येनोक्तावपि विशि- प्यानुकत्या भेदानां द्राक् बुद्ध्यारूढत्वमत आह-तानीति।

अतिसहिता।
पूर्वोक्तानि सर्वभेदरूपाणीत्यर्थः । अत एव क्रमेणेत्युक्त-
सङ्गतिः ॥ ११ ॥
तदेवाह--
तृतीयमथ सप्तमं विषमपूर्वकं स्यात्सम
तथाऽदिमकपञ्चमे विषमसंज्ञके केवले ॥
द्वितीयकतुरीयके तदनु षष्ठकं त्वष्टमं
भवेद्धि समसंज्ञकंत्वथ विनिर्णयः कथ्यतो॥१२॥
अथ
तृतीयमिति । अष्टकं सर्वत्र विशेष्यम् ।
चार्थे । तृतीयं सप्तमं चाष्टकं विषमसमसंज्ञकमित्यर्थः ।
नतु विपरीतादिति भावः। तथा तद्वत् । प्राथमिकप-
चमे अष्टके विषमसंज्ञके इत्यर्थः । केवले समामिश्रिते।
अत्र सर्वत्र कन् स्वार्थे । द्वितीयं चतुर्थ तदनु समेषु
तत्पश्चात्तनं षष्ठकमष्टमं च समसंज्ञकमेव । निश्चयेन
भवेदित्यर्थः । तथा तद्वत् । परमाभिमतं प्रतिज्ञातमाह-
अथेति । उपोडातकथनानन्तरमित्यर्थः ॥१२॥

सापिण्डयकल्पळतिका। तत्र तावत् केषां केषां सापिण्ड्यमत आह- जाताश्च षट् पितृपितामहाद्या जनिष्यमाणाश्च सुतादयः षट् ।। ते दादशाध्मी पुरुषाः सपिण्डाः स्वस्य स्वयं तेषु सपिण्डसंज्ञः ।। १३ ।। जाताधेति । तातपितामहाचा इति पाठः। मि- लिताः, एतदर्थमेव चोऽन्त्य उक्तः । अमी पूर्वोक्ता: द्वादश पुरुषाः स्वस्य जातापत्यस्य जनिष्यमाणपितुश्च सपिण्डाः । अर्थसिद्धमेव स्पष्टार्थमाह तेष्विति । तेषु तेषां, पूर्ववत् । स्वयं पूर्वोक्तः। स्वयं सपिण्डसंज्ञः सपि. ण्डत्वप्रकारकज्ञानविषयश्चेत्यर्थः । संज्ञेत्यत्र कर्मण्यङ् । अयं भावः-समान एको मुख्यः पिण्डो देह आरम्भको यस्या यस्य वा सा सपिण्डा स सपिण्डस्तावः सापिण्ड्यम् । एवञ्चैकशरीरावयवान्धयेन सर्वत्र सापिण्ड्यम् । तच्च क्वचित्साक्षातू क्वचित्परम्परया। तथाहि पुत्रस्य पितृश- (१) पद्यगतः पठोऽशुखः, छन्दोभनात् । टीकाकर्ता तत्स्थाने कल्पितः पाठः सङ्गच्छते।

तिसहिता । यन्त्र रीरावयवान्वयन पित्रा सह, मातृशरीरावधवान्वयेन मात्रा। पितामहदिभिः पितृहारेण । मातामहाभिदिरपि मातृद्वारेण । एवं मातुलमातृवसृपितृष्वस्त्रादिभिरपि एकशरीरावयवा- न्वयात् । पतिपत्न्योस्त्वेकशरीरे उभयारब्धे स्वावयवा- न्वयात् । भ्रातृभार्याणामपि परस्परं स्वारब्धसन्तानान्व- व्यवयवान्वितसन्तानारम्भकत्वेन । एवञ्च यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरा- वयवान्वयो द्रष्टव्यः । युक्तीतत्-'आत्मा हि जज्ञ आत्मन इति प्रजायसे' इति श्रुतेः। स एवायं विरूढः प्रत्यक्षेण पृथगुपलभ्यते' इत्यापस्तम्बोक्तेश्च । 'एतत् षा- ट्कौशिकं शरीरम् । त्रीणि पितृतस्त्रीणि मातृतः, अस्थि- स्नायुमजाः पितृतः त्वङ्मांसरुधिराणि मातृतः' इति गर्मोपनिषद्यप्यवयवान्वयप्रतिपादनाच्च । निरुक्ते तु 'मांसशोणितानीति पाठः । नन्वेवं मातामहादीनामपि दशाहाशौचम् । दशाहं शावमाशौचं सपिण्डेषु विधीयते । इत्युक्तेरिति वाच्यम्, 'प्रत्तीनामितरे कुर्युः' इत्या- (१) प्रतानां विवाहितानाम् ।

सापिण्डयकल्पलतिका । दिविशेषवचनजातबलेन सगोत्रस्वसमानाधिकरणसापि- ण्ड्यस्यैव : दशाहाशौचप्रयोजकत्वाङ्गीकारेणाऽदोषात् । नचैवमपि दत्तकरूपपुत्रे प्रतिगृहीतृसापिण्ड्यं न स्यात् सर्वथा तदवयवानन्वयादिति वाच्यम् , पुत्रत्वबुद्ध्याऽऽलि- ङ्गनचुम्बनादिभिस्तत्रापि तदन्वयसत्त्वानुमानातः । अतिप्रसङ्गस्तु रूढयैव परिहार्यः । तत्रोत्पादकसापिण्ड्य- मप्यस्त्येव । 'गोत्ररिक्थे' इत्यादिमनुवचनात्तु केषाञ्चि- निवृत्तिरिति विज्ञानेश्वरादयः । मात्स्यादिप्रतिपादितं यथाकथञ्चिदेकपिण्डक्रियान्वयिस्वरूपं सापिण्ड्यं तु मान तृसन्ताने भ्रातृपितृव्यादिषु चाऽव्याप्त्यापत्त्या समुदायशः क्त्यङ्गीकारेण रूढिपरिग्रहे तत्रः तत्राऽवगम्य माताव- यवशक्तिपरित्यागापत्त्या चाऽयुक्तमिति स्पष्टमन्यत्रः । तथाचाऽऽद्यान्वयेन तेषामपिः सङ्ग्रहः इति : बो, ध्यम्॥ १३ ॥ नन्वेवं पितृकुले साप्तपौरुषं सापिण्ड्यमुक्त, तत्र च (१) आदिना मार्कण्डेयपरिग्रहः । (२) तेषां मात्रादीनाम् ।

वृत्तिसहिता। किं गमकं, किञ्च मातृकुले कियत्पर्यन्तं तदत आह- कूटस्थतः पञ्चमसप्तमौ चे- द्वरस्य वध्वाः पितरौ क्रमेण ॥ तयोः सपिण्डत्वनिवृत्तिरुक्ता पूर्वैस्तु मन्वादिमुनिप्रवीरैः ॥ १४ ॥ कूटस्थत इति । ल्यब्लोपे पञ्चमीयम् । 'पिण्डदः सप्तमः' इति मात्स्यात् । तथाच चेत् यदि कूटस्थमा- श्रित्य वधूवरान्यतरस्य साक्षात्परम्परया वा यौ माता- पितरौ तौ पञ्चत्वसप्तत्वसंख्यापूरको क्रमेण स्तः । वधू- वरयोस्तमारभ्य क्रमेण षष्ठत्वेऽष्टमस्त्रे च सतीति यावत्। अत एव गौतमस्मृतौ–'पञ्चमादूर्ध्वम्' इत्येवोक्तम् । तु तदा। तयोर्वधूवरयोमिथः सापिण्ड्यनिवृत्तिः प्राचीन- मुनिश्रेष्ठैर्मन्वादिभिरुक्तेत्यर्थः । वधूवरान्यतरस्य: कूट- स्थमारभ्य सप्तमादूर्ध्वत्वे पितृद्वारकं सापिण्डयं निवर्तते। मातृद्वारकं च तदन्यतरस्य तत. आरभ्य पञ्चमादूर्ध्वत्वे निवर्तत इति यावत् । अत्राऽतद्गुणसंविज्ञानबहुवी- .. (१) प्रवीणैः-इति कखग पुस्तकेषु पाठः।

मापिण्डयकल्पलातका । तु हिणा मनुभिनास्ते ग्राह्याः । तथाच मात्स्ये 'सापिण्ड्य साप्तपौरुषम्' इति । सपिण्डता सर्वेषां गौत्रता साप्तपौरुषी। इति शङ्खश्च । 'मातृबन्धुभ्यः पञ्चमादूर्ध्वम्' इति गौतमश्चा पञ्चमात्सप्तमादुर्च मातृतः पितृतस्तथा । इति याज्ञवल्क्यश्च । नच लोकप्रसिद्ध्योपस्थित- वधूवरान्यतरस्य साक्षाजननीजनकवाचकावेव तौ । एवं पश्चमीसन्ताने षष्ठे निवृत्तस्यापि तन्मातृकुलसापि. एव्यस्य सप्तमे पुनर्मण्डूकप्लुत्या प्रवृत्तिः स्यात् पितुः सप्तमत्वे एव तन्निवृत्तेरुक्तत्वादिति वाच्यम्, तथासति याज्ञवल्क्यवाक्ये 'असन्देहाय पञ्चमात्' इत्यस्यैवौचित्येन पञ्चमादित्यस्याऽसङ्गत्यापत्तेः । तिस्रः पूज्या पितुः पक्षे तिस्रो मातामहे तथा । इत्येता मातरः प्रोक्ताः पितुर्मातुः स्वसाऽष्टमी। 'पितरो यत्र पूज्यन्ते' इति चतुर्विंशतिमते धौम्याधुक्तः । पितामह्यादिषु पितामहादिषु च मातृ- पितृशब्दप्रयोगाच्च । स्मृतौ लोकप्रसिद्यपेक्षया स्मार्त- प्रसिडेबलवस्वाचस्मात् कूटस्थतदपत्यचतुष्टयरूपपञ्च- कृत्तिसहिता। समुदायघटिकाया द्वितीयादिकादेरपि मात्रादिशब्दी वा- धक इति तस्वम् । नचैवं 'पञ्चमी चेत्तयोर्माता' इति सङ्ग्रहोक्त्या पञ्चमीत्वसमानाधिकरणमातृत्वस्यैव सा- पिण्ड्यसङ्कोचकत्वप्रतीतेहितीयात्वादिसमानाधिकरणमा- तृत्वस्य कथं तत्सङ्कोचकत्वमिति वाच्यम् । सपिण्डानां तु सर्वेषां गोत्रतः साप्तपौरुषी । इति शङ्खन गोत्रैक्यस्यैव सप्तमपर्यन्तं सापिण्ड्य- प्रयोजकत्वस्य प्रतिपादनेन गोत्रभेदस्यैव तत्सङ्कोचक- खेन द्वितीयादिमातर्यपि तस्य सत्त्वेन पञ्चमीत्वस्या- ऽकिञ्चित्करत्वात् । सन्निकर्षेऽपि कर्तव्या त्रिगोत्रात्परतो. यदि । इति शूलपाण्युदाहृतदेवलेन तथैव प्रतीतेश्च । तथाच मातृघटितचतुःपिण्डात्मकसन्ताने सन्तानभेदावधि- भूतकूटस्थादारभ्य गणनायां सन्तानघटकान्त्यो यः पञ्चमस्तत ऊर्ध्वं सापिण्ड्यं निवर्तत इति याज्ञवल्क्य- वचनांशार्थः । अत एव 'मातृतः मातृपक्षे पञ्चमात्' इति माधवो, 'मातुः सन्ताने पक्षमादूर्ध्वम्' इति मदनरत्नो विज्ञानेश्वरश्च सङ्गच्छते । एवच पितृसन्तानमर्थात् पु- , i सापिण्ड्यकल्पलतिका । तथाच मात्मकमेव गृह्यते. शबैकवाक्यत्वात् । तथाचोक्त. रीत्या सर्वपितृकषपिण्डात्मकसन्ताने सन्तानभेदावधि- कूटस्थमारभ्य गणनायां सन्तानघटकान्त्यो यः षष्ठस्तत आरभ्य सप्तमस्तत ऊर्ध्व सापिण्ड्यं निवर्तत इति तस्या- ऽपरांशार्थः । पितृतः सापिण्ड्योक्तिश्वाऽऽशौचोपयोगिनी । पुरुषरूपषपिण्डात्मकसन्तानघटकान्त्यजन्यः सन्तानभेदावधिभूतकूटस्थादष्टमः कूटस्थभिन्नगोत्रापत्य- घटितचतुःपिण्डात्मकसन्तानघटकान्यतमजामप्युहहेदि- ति पर्यवसितोऽर्थः । एवंसति यथा वसिष्ठादिस्मृति- विरोधो न, तथाऽन्यत्र स्पष्टम । पितृशब्देनैवाऽत्रै मातु- बर्बोधनेन पञ्चमसप्तमावित्यत्र न पञ्चमेत्यंशेऽनुपपत्तिः । एवंच सगोत्राष्टमस्याऽष्टमेन कूटस्थेन भिन्नगोत्रषष्ठस्य कूटस्थेन षष्ठेन च सह सापिण्ड्यनिवृत्तौ तत्कूटस्थ- सन्तानान्तरेषु सापिण्ड्यसम्भावनैव न । अत एव वरस्थ योऽष्टमः कूटस्थस्तस्य दौहित्री दौहित्री तेन विवाह्येति (१) पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण पूज्यन्ते विशेषानरकं ध्रुवम् ॥ इति घ०पुस्तके टिप्पणी । (२) अनवरस्य वध्वाः पितरा'वित्यत्र।

वृत्तिसहिता। गौतमीयस्मृतिवृत्तौ हरदत्तोक्तिः सङ्गच्छते । अत एव च सर्वस्मृतिषु 'असपिण्डा'मिति परिणेयकन्याविशेषणमेव श्रूयते । नच 'एतैरेव गुणैर्युक्त' इति वरेऽपि तदति- देशात्तन्निरूपितं तस्यां, तन्निरूपितं वरे च पृथगेव सापिण्ड्यं, नतुभयनिरूपितमेकं व्यासज्यवृत्ति । एते- नाऽन्यतरतो निवृत्तौ निवृत्तिः स्यात् । अन्यथा वरे तदतिदेशवैयपित्तिरिति वाच्य, सपिण्डशब्दस्य सम्बन्धिकत्वादेवाऽसपिण्डत्वस्याऽन्यत्र लाभे एतैरेवे- येतच्छब्देन तत्परामर्शे प्रयोजनाभावेन तदनतिदेशात । नचैकतो निवृत्तावप्यन्यत्र केधाञ्चिदभिमततनिवृत्य- भावस्य सिद्ध्यर्थं न तत्परामर्श इति वाच्यम्, केषा- ञ्चिदभिमतस्यातिदेशिकाऽसमानगोत्रजत्वस्य सियर्थ- मसमानगोत्रजत्वस्यापि परामर्शापत्तेः । नच तत्रेवाऽत्र वचनविरुद्धस्यापि फलस्थाऽभावादिदं नातिदिश्यत इति वाच्यम्, एकतो निवृत्तेऽपि समानगोत्रजत्वमन्यत्र तदा निवृत्तिरूपप्रयोजनस्य स्पष्टत्वात् । नचाऽत्रापीष्टा- पत्तिरिति वाच्यं, शब्दप्रयोजनमात्रेण वचनविरु- द्धार्थस्वीकारे नहि शब्दकृतेन नामार्थेन भवितव्यम्, -- सापिण्ड्यकल्पलतिका। अर्थकृतेन नामशब्देन भवितव्यमिति महाभाष्यविरो- धापत्तेः । किच्च वधूवरयोः साक्षात् सापिण्ड्यासम्भवेन स्वसापिण्ड्यकूटस्थसपिण्डत्वमेव तद्वाच्यम् । नोकत्र निवृत्तौ सत्यामपरत्रैतत्सम्भवति । नत्वस्वसपिण्ड- कूटस्थसन्ततित्वरूपं तदिति अष्टमं वरं प्रति कन्याया असापिण्ड्येऽपि कन्यायाः कूटस्थेन सापि- ण्ड्यात्तत्सन्ततित्वाद् वरस्तां प्रति सपिण्ड एवेति वा- च्यं, तत्त्वेन तत्त्वे सोदकादावपि तदापत्तेः । किञ्च समानगोत्रजत्वस्यापि तादृशकूटस्थसन्ततित्वात्त- समानगोत्रजत्वेनैवाङ्गीकारापत्तौ भवदुक्तरीत्या षष्ठी कन्यां प्रति वरस्याऽसमानगोत्रजत्वेऽपि तस्या वरसमानगो- त्रजकूटस्थसन्ततित्वात् कन्या वरं प्रति समानगोत्रज- वेत्यस्याप्यापत्त्या अष्टमेन मातृसन्तानजा षष्ठ्यप्यविवा- ह्येत्यस्याप्यापत्तेः। नच 'स्वगात्राद्धश्यते नारी'ति वचनात्तत्सन्तति- त्वेऽपि समानगोत्रत्वाभावान्न तदापत्तिरिति वाच्यम् तर्हि 'पञ्चमात्सप्तमा दिति वचनेनाऽष्टमे तत्सन्ततित्वे- ( १ ) निर्णयसिन्धुमतम् इति घ. पु. टिप्पणी । . , वृत्तिसहिता । ऽपि सापिण्ड्याभावप्रतिपादनादविवाह्यत्वोक्तेः प्रकृतेऽपि असाङ्गत्यस्य तुल्यत्वात् । किंच-अयमस्या असपिण्ड इयं स्वस्य सपिण्डेति व्यवहारस्य वाक्यविदामनुचित- स्वात् । तस्मादेकनिवृत्तौ निवृत्तिरेव सर्वथा युक्ता । एवं चोभयत्र पुंसन्ताने एकसन्तानस्थाऽष्टमपरसन्तान- स्थसप्तमयोः परस्परं त्रिरात्रमेवाऽऽशौचमुचितम् । एतेनै- कतः सप्तमपर्यन्तानामन्यतोऽष्टमादिजननादौ दशरात्र- मष्टमादीनां च सप्तमपर्यन्तजननादौ त्रिरात्रमाशौचमि- त्यपास्तमिति दिक्॥ अयमत्राभिसन्धिः- अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुहहेत् । अनन्यपूर्णिकां कान्तामसपिण्डां यवीयसीम् ॥ अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । इति याज्ञवल्क्योक्तेरसपिण्डामित्यत्र सापिण्ड्यं निरवधिकं स्मृतम् । ततश्चाऽसपिण्डामिति विशेषणं व्यर्थ स्यादतो याज्ञवल्क्य एवेयता विशेषमुक्तवान् । पञ्चमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा । इति मातृतो मातुः सन्ताने पितृतः पञ्चमात्, ३३ सापिण्ड्यकलालतिका । पितुः सन्ताने सप्तमादूर्व सापिण्ड्यं निवर्तत इति वि. ज्ञानेश्वरो व्याख्यत् । अत्र पञ्चमत्वसप्तमत्वे कूटस्थ- मादायैव बोध्ये । तदुक्तम्- सन्तानं भिद्यते यस्मात्पूर्वजादुभयत्र तु । तमादाय गणेहीमान् वरं यावच्च कन्यकाम् ॥ इति । एतेनात्र याज्ञवल्क्यवाक्ये मातृत इति श्रूयते । तत्र मातृशब्दः किं वधूवरयोः साक्षाजनन्या एव वाचक उत साक्षात्परम्परासाधारणः, साक्षात्परम्परासाधारणः, अन्त्येऽपि किमन्यतरस्य साक्षात्परम्परासाधारणजननीसत्त्वे सा- पिण्ड्यं निवर्तते उतोभयोः । तत्र न तावदाद्यः-पञ्च - मत्वस्य सामानाधिकरण्येन मातृविशेषणत्वे पञ्चमादिति निर्देशस्याऽमङ्गत्यापत्तेः । नच- वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्ड्यं निवर्तते ॥ इत्यभियुक्तोक्तपद्ये सामानाधिकरण्यस्यैव प्रतीत्या- (१) अपास्तमित्यत्राऽन्वयः- इति घ. पु. टिप्पणी ! (२) द्वितीयपक्षेऽपि ।

वृत्तिसहिता। ऽमङ्गतत्वमित्युक्तिरेवाऽसङ्गता तस्यैवाऽन्यथानयनादिति वाच्यम् , बाधेऽहढेऽन्यसाम्यात किं दृढेऽन्यदपि बाध्यताम् । इति न्यायेन तस्यैवाऽनार्षत्वेनाऽसङ्गतत्वात् । त- स्थापि सकलऋषिवचनाविरोधेन व्याख्यातुं शक्यत्वात् । न द्वितीयः, कूटस्थतदपत्ये चतुष्टयात्मकपञ्चसमुदाय- घटकहिनीयादिमातरमादाय षष्ठयोः सापिण्ड्यनिवृत्या- पत्तौ भवदनभिमतविवाहापत्तेः। न तृतीयः, असपिण्डा- मिति परिणेयकन्याविशेषणं श्रूयते । तथाच ‘एतैरेव गुणैर्युक्त' इति वचनेन वरेऽपि तदतिदिश्यते । अत एव च वरनिरूपितं कन्यायां कन्यानिरूपितं च वरे पृथगेत्र सापिण्ड्यं नतु संयोगवव्यासज्यवृत्ति; उभयनिरू- पितमेकमेव, यतोऽन्यतरतो निवृत्तरन्यतरस्मिन्निवर्तेत । तथा सति कन्यावरयोरसापिण्ड्यविशेषणवैयर्थ्यांपत्तेः । अन्यतरत्रैव तदुक्तयोभयत्रोक्तः फललाभात् । तथाच शिष्टवरदाक्षिण्यात्यानां सर्वेषामविप्रतिपन्नो व्यवहारः, 'एकतो निवृत्तं सापिण्ड्यं नान्यत' इति दैतनिर्णयादि- ग्रन्थविरोधात् ।

सापिण्ड्यकल्पलतिका । ननु ‘पञ्चमान्मातृत' इत्यत्र 'शक्यं चक्षुरुप- हन्तु'मित्यत्रेव सामान्ये नपुंसकं स्वीकृत्य सामाना- धिकरण्यमुपपन्नमिति चेन्न, मातृतो मातुः सन्ताने पञ्च- मादूर्ध्व पितृतः पितुः सन्ताने सप्तमादू सापिण्डय निवर्तत इति विज्ञानेश्वरव्याख्यानेन भवदभिमतसा- मानाधिकरण्यस्यैव निरस्तत्वात, अनन्यगतिकगतिसा- मान्यनपुंसकत्वकल्पनस्याऽनुचितत्वाच्च । यत्तु विष्णुपुराणवचनम्- पञ्चमी मातृपक्षात्तु पितृपक्षात्तु सप्तमीम् । गृहस्थ उहहेकन्यां न्यायेन विधिना नृप ॥ इति । तत्राऽतीत्येत्यध्याहार्यम् , अन्यथा 'पञ्चमात्स- समादूर्वमिति याज्ञवल्क्य विरोधात् । चतुर्विंशतिमत- व्याख्याग्रन्थविरोधाच । तत्र व्याख्यात्रा याज्ञवल्या- नुरोधेन विष्णुपुराणेऽतीत्येत्यध्याहारेणाऽविरोधसम्पादन- वद्भवदभिमतसामानाधिकरण्यस्य शङ्कासमाधानयोर- कृतत्वात् । अतः परिशेषाद वधूवरयोरुभयोः साक्षान्मा. तृनिरूपितसापिण्डये पञ्चमादृर्ध्व तयोः साक्षात्पितृनिरू- पितसापिण्ड्ये सप्तमादूर्ध्व तन्निवर्तत इत्यर्थः । तुरीयः वृत्तिसहिता। पर्यवसितः । वधूवरयोः कूटस्थेन सह सापिण्डये निरू- पितं माता चेत्स तयोर्मातृपक्षः । वधूवरयोः कूटस्थेन सह सापिण्डये निरूपितं पिता चेत्स तयोः पितृपक्षः । तदुक्तम्- अस्या मातुस्तु यत्तिव्यं मातृकं वा यदा भवेत् । उभयं तद्वरस्यापि पितृतः परिकीर्तितम् ।। इति । अस्या वध्वा मातुर्यत्पित्र्यं पितृसम्बन्धि कुलं मातृकं वा मातृसम्बन्धि कुलं वा यत्र भवेत्तदु- भयं कन्याया मातृतः मातृसम्बन्धि मातृत इति यावत् । तुरप्यर्थे, तेन वरस्थापि बोध्यमिति प्रथमः श्लोकार्थः । वरस्यापि पितुर्जनकस्य, अपिशब्दाद्वध्वा अपि इत्यादि पितृतः पितृसम्बन्धि पितृपक्ष इति यावदिति द्विती- यः श्लोकार्थः । इममेवाथ मनसि निधाय 'मातृतो मातुः सन्ताने' इत्यादि विज्ञानेश्वरो व्याख्यत् । सर्वथा 'पञ्चमा'दित्यादे'रू'मित्यत्रैवाऽन्वयः । मातृ- तः पितृत इत्यनयोः सपिण्ड्य एवाऽन्वयो न्याय्य इति । सोऽपि न शब्दमर्यादया लभ्यः, तथाऽऽर्षवाक्य- तोऽप्रतीतेः । तस्मात्कथं तदर्थवर्णनमित्यपास्तम् । अर्थ- ..

सापिण्ड्यालालतिका । स्य प्रागुक्तेन दोषलेशाभावात् । अधिकं सौपिण्डयम- दीपतोऽवसेयमिति ॥ १४ ॥ उक्तमेव विशदयति आद्य इत्यादिपद्यत्रयेण- - श्राद्येऽष्टके पञ्चमके च सप्तमा- तृतीयके सप्तमके तु षष्ठतः ॥ चतुर्षु शेषेषु समेषु पञ्चमा- त्करग्रहः स्यादिति सर्वसंमतम् ॥ १५ ॥ आद्य इति । तुश्वार्थे । कूटस्थत इत्यस्याऽनुवृ. त्तिः । तथाच कूटस्थादारभ्य यः सप्तमस्तमभिव्याप्य सम्पादितप्रस्तारभेदानां यान्यष्टान्यष्टकानि तेषु आये पञ्चमके तृतीयके सप्तमके च अष्टके, समसंज्ञकेषु च. तुर्पु द्वितीयचतुर्थषष्ठाष्टमेषु अष्टकेषु पञ्चमादूर्ध्व षष्ठतः षष्ठादारभ्य पाणिग्रहः स्यादिति सर्वमुनिसंमतमित्यर्थः । यथाश्रुते तु पञ्चमात्सप्तमादित्यनयोः कथञ्चिदुपपत्ता- वपि षष्ठत इत्यस्योपपत्तिश्चिन्त्या ॥ १५ ॥ (१) व्याख्यातृगुरुनागेशभट्टकतात्।

सिमाहिता।
४२
चतुष्के पुमांसोऽप्यविच्छिन्नरूपा
यदि स्युस्त्रिके कापि कन्याजनिः स्यात्
निवृत्तं सपिण्डत्वमत्राऽवसेयं
प्रमाणं तु मन्वादितोऽन्वेषणीयम् ॥१६॥
चतुष्के इति । अपिश्चार्थे । अत्र एषु पूर्वोक्तेषु
भेदेषु आद्यभेदचतुष्के त्रिके च सप्तसु पुरुषा अवि-
च्छिन्नरूपा अव्यवहितरूपाः स्युः । कापि द्वितीयभेदादौ
कुत्रचिदपि कन्योत्पत्तिः स्याद्यदि तदा वधूवरयोः पञ्च-
मादूर्ध्व सपिण्डत्वं निवृत्तं निश्चयम् । तत्र प्रमाणं तु
मन्वादितः, अतद्गुणसंविज्ञानबहुव्रीहिणा याज्ञव-
ल्क्यादिस्मृर्बोध्यम् । अत्र व्याख्याने पद्याधिकपदानि
पूर्वतोऽनुवृत्तिलब्धान्युक्तानि । याज्ञवल्क्यादिकं तु
प्रागुक्तमेव ॥ १६ ॥
चतुष्के त्वविच्छिन्नविच्छिन्नरूपा
पुमुत्पत्तिरन्यत्र कन्याजनिन ।
त्रिके क्वापि मन्वादिभिस्तत्र चोक्तं
सपिण्डत्वमासप्तमं नान्यथैतत् ॥१७॥

सापिण्ड्यकल्पलतिका। चतुष्के विति । तुरुक्तवैलक्षण्ये । यत्र आद्यभेदे चतुष्के त्रिकेच सप्तसु अविच्छिन्नविच्छिन्नरूपा सर्वथा अविच्छिन्नरूपा पुरुषोत्पत्तिः । अन्यत्र कापि द्वितीयभे- दादौ कचिदपि कन्योत्पत्तिनैव, तत्र मन्वादिभिरासप्तमं सप्तममभिव्याप्य सपिण्डत्वमुक्तम् । पूर्वपद्योक्तं दाढ्याय पुनराह नान्यथेति । अन्यथा एतत्पद्योक्तविषयाभावे पूर्व- पद्योक्तविषये इति यावत् । न तत्सप्तममभिव्याप्योक्तं सापिण्ड्यं, न किन्तु पूर्वोक्तमेवेत्यर्थः । सप्तममभिव्या- प्य सापिण्ड्योक्तिश्चाऽऽशौचोपयोगिनीति प्रागुक्तमेवे- ति बोध्यम् ॥ १७॥ एकदेशीमतमाह-- पञ्चम्योः कन्ययोः पुत्रौ यदि स्यातां तयोः पुनः॥ सापिण्ड्यमनुवृत्तं स्यान्मण्डूकप्लुतितस्तयोः ॥१८॥ पञ्चम्योरिति । यदि पञ्चम्योः कन्ययोः पुत्रौ पुत्र- (१) विच्छिन्नं च विच्छिन्नं च विच्छिन्नविच्छिन्नं, विच्छिन्न- विच्छिन्नं रूपं यस्याः सा ताशी न भयतीत्यविच्छिन्न- विच्छिन्नरूपा ।

वृत्तिसहिता । श्व पुत्री च 'पुमान् स्त्रिये'त्येकशेषः; पुत्रकन्ये स्यातां, तयोः पुत्रकन्ययोः पुनर्यदि पुत्रौ पुत्रकन्ये स्यातां तदा तयोस्तत्पुत्रकन्यापुत्रकन्ययोः सप्तमयोर्मण्डूकप्लुत्या ष- ष्ठयोनिवृत्तमपि तन्मातृकुलसापिण्ड्यमनुवृत्तं स्यादित्यर्थः । यथाचाऽस्यैकदेश्युक्तित्वं तथा प्रतिपादितमधस्तात् ॥१८॥ एकदेशीमतमेव विशदयति- पञ्चम्योश्चेत्कन्ययोः पुत्रकन्ये स्यातां सापिण्ड्यं निवृत्तं तयोस्तत् ॥ तत्पुत्रौ चेत्पुत्रयोः पुत्रकन्ये तत्सापिण्ड्यं वर्तते सप्तमान्तम् ॥ १६ ॥ पञ्चम्योश्चेदिति । यदि पञ्चम्योः कन्ययोः पुत्रक- न्ये स्यातां तदा तयोः पुत्रकन्ययोः षष्ठयोस्तन्मातृकुल. सम्बन्धि सापिण्ड्यं निवृत्तम् । यदि तत्पुत्रौ तयोः प- चमकन्ययोः पुत्रौ पुमपत्ये तयोः पुत्रयोः पुमपत्ययोः पुत्रकन्ये तदा तत्सापिण्ड्यम् । उक्तोऽर्थः । सप्तमान्तं सप्तममभिव्याप्य वर्तते । यद्यपि षष्ठे निवृत्तं तथापि पुमपत्यत्वात् द्वयोर्विवाहाप्रसङ्गात, अप्सगोत्रत्वेन द- ..

४४ सापिण्ड्यकल्पलतिका । शाहाऽऽशौचाप्रसक्तेश्च तन्निवृत्तेर्न फलमित्याशयेन सप्त- मान्तमि युक्तम् । यहा सिद्धान्ताभिप्रायेणवेदम् । तच पूर्वार्धे व्याख्यातमेव । तत्पुत्रौ पञ्चमौ पुरुषतनयौ तयो? पुरुषतनयौ तयोः पुत्रकन्ये यदि स्तः तदा तत्सापिण्ड्यं सप्तमान्तं वर्तते। पितुः सप्तमत्वेऽष्टमादौ सापिण्डयनिवृ. त्तिरुक्तत्वादित्यर्थः ॥ १९ ॥ सिद्धान्तोक्तिमुपसंहरति-- पित्रादिवन्धुत्रितये तु सप्तमा- न्मात्रादिबन्धुत्रितये तु पञ्चमात् ॥ सपिण्डताया विनिवृत्तिरुक्ता- ऽथोऽन्येषु गोत्रेषु सपिण्डतां ब्रुवे ॥२०॥ पित्रादीति । तदेवमित्यादिः । एकस्तुरेवार्थे, व्यु. कमे च । अपरश्चार्थे । सप्तमात्तु सप्तममेवाऽभिव्याप्य विद्यमानपित्रादीनां बन्धुत्रितयं तत्पितृष्वसृसुततन्मातु- लसुततन्मातृष्वसृसुतरूपं तत्र च पञ्चमादूर्ध्वं षष्ठादारभ्य सपिण्डतया विशेषेण सर्वथा निवृत्तिरुक्तेत्यर्थः । अथ विषयान्तरं प्रतिजानीते-अथोऽन्येष्विति । अथो अथ, - वृत्तिमाहिता। ४५ -- अन्येषु गोत्रेषु अन्यवंशेषु च कूटस्थापन्नतिविति यावत् , तां कथयामीत्यर्थः ॥ २० ॥ प्रतिज्ञातमेव क्रमेणेत्याह- सापत्नमातुर्जनकस्य वंशे सापिण्ड्यमुक्तं पुरुषत्रयान्तम् ॥ क्रीतेषु दत्तेष्वथ देशभेदे- ध्वयं विधिः स्यादिति चाऽऽहुरार्याः ॥२१॥ सापनेत्यादि । सापत्न नमातुर्जनकस्य तत्पितुः वंशे कुले पुरुषत्रयान्तं जनकं विहाय पुरुषत्रयपर्यन्तं, तं गृहीत्वा तु पुरुषचतुष्टयपर्यन्तं तदपि वचनेनोक्तेष्वव । नतु सर्वचतुष्टयपर्यन्तम् । तदाहोक्तमिति । सुमन्तुनेति शेषः। इत्थं च सुमन्तुवाक्यम्-'पितृपत्न्यः सर्वा मातरस्त- भ्रातरो मातुलास्तद्भगिन्यो । मातृष्वसारस्तददुहितरश्च भगिन्यस्तदपत्यानि भागिनेयान्यथासङ्करकारिणःस्युरिति । माधवीये 'तद्भगिन्यो मातृष्वसार' इति न पठितम् । हरदत्तोन्नीताऽऽपस्तम्बधर्मसूत्रोज्ज्वलायां तु 'पितृपल्यः सर्वा मातरस्तभ्रातरो मातुलास्तत्सुता मातुलसुतास्त- सापिण्ड्यकल्पलातका । स्मात्ता नोपयन्तव्या' इति सुमन्तुवचनं पठितम् । अत्र पितृपत्नीत्वावच्छेदेन मातृत्वातिदेश एवं विधेयः, अग्रे तु तल्लुब्धार्थानुवादोऽतिप्रसङ्गनिरासाय । तद्भातॄणां मातु- लत्वे तत्कन्याया भनिनीत्वात्तेन तदविवाहः । अत एव तद्भगिन्यो मातृष्वसार' इति न पठितम् । तेन त- भ्रातॄणां मातुलत्वे तद्भगिनीनां तत्त्वस्याऽर्थसिद्धत्वात् । अत एव न पाठभेदेऽपि फलभेदः । अत्र चेन 'तत्सु- ता भ्रातर' इत्यस्य समुच्चयः । अत एव तदपत्यानि इति सामान्योक्तिः । अन्यथा भागिनेय्या तस्याऽविवा- हो भगिन्या च विवाह इत्यसङ्गतिः स्पष्टैव. । इदं च मातृगमनप्रायश्चित्तस्य तत्परिणयनतदुपगमतद्वधादि- प्रायश्चित्तस्य तदाशौचादेरविवाहप्रयोजकतत्सापिण्डयस्य चाऽतिदेशं करोति । अत्र प्रथमवाक्ये यन्निरूपितं स- पत्नमातृत्वं तं प्रत्येवाऽऽशौचसापिण्ड्याद्यतिदेशो तत्पुत्रादिकं प्रत्यपि । एवं तत्कन्यानां भागिनेयीत्वा- तिदेशेऽपि न तत्कन्यायां भागिनेयिकन्यात्वातिदेशः, 'यावद्वचनं वाचनिक'मिति सिद्धान्तात सिद्धान्तात् उक्तरप्र- योजकत्वात् । एवं च परिगणितेष्वेव सापिण्डयं नतु न वृत्तिसहिता। .. सप्तमपञ्चमपर्यन्तमन्यथा लक्षणापत्तरिति बोध्यम् । एतेनाप्यसपत्नमात्रा सह कथं सापिण्डयं तच्छरीराव- यवान्वयाभावात् । नतु पितृशरीरावयवानां स्वस्मिन्नारम्भ- कत्वेन सपत्नमातरि बोधयत्वेनाऽन्वयादेकशरीरावयवा- न्वयेनैव सापिण्डयसिन्हिरिति वाच्यम् , पित्रवरुद्धदासी- भुजिष्यादिभिरपि सापिण्डयापत्तेः । नच स्वसपिण्डपि- तृसपिण्डत्वेन सपत्नमात्रा सह सापिण्ड्यमिति वाच्यम, सापत्नमातामहादिभिरप्येतत्सापिण्ड्यातिप्रसङ्गापत्तेः । तथाहि-स्वसपिण्डः पिता तत्सपिण्डा सपत्नमातेति तया सह सापिण्डयं यथा, तथा तत्सपिण्डेन तत्पि- त्रा सपत्नमातामहेनापि समं सापिण्डयं केन वार्यते । नच तत्र पितृशररािश्यवान्वयिनि सपत्नभ्रातरि सपत्न- मातुरप्यवयवान्वयात स्वारम्भकेन सहैकशरीरारम्भकतया तया सह सापिण्डयमिति वाच्यम् , तत्रापि प्रागुक्ताति- प्रसङ्गात्तस्यापि स्वकन्याहारा दौहित्रशरीरावयवान्वयात। अत्रोदाहरणं यथा-श्रीरामस्य पिता दशरथस्तद्- वयवान्वयिनि भरतशरीरे केकयराजस्थाप्यवयवान्वयात् (१) अपास्तमित्यनेनाऽन्वयः ।

सापिण्ड्यकल्पलतिका । - रामकेयराजयोः सापिण्ड्यमिति । एवं सपत्नमातुलादि- भिरप्येकशरीरारम्भकारभ्यत्वेन सापिण्डयापत्तिः। यथा साक्षात्पराम्पराभ्यामेकस्य भरतशरीरस्यारम्भको दशरथ- केकयराजौ तदाह्यत्वेन रामयुधाजितोरपि सापिण्डयम् । एवमेव सापत्नमातुलकन्यापुत्रादिभिरपि सापिण्डयमुन्ने- यं, साक्षात्परम्पराविवक्षायाः सर्वशेषत्वात् ॥ ननु यत्र यत्र सपिण्डशब्दप्रयोगस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्य इति मिताक्षराग्रन्थस्था- रस्यात् सापिण्डयावयवान्वययोाप्यव्यापकभावावगमातू सपत्नमातुलादावेकशरीरावयवान्वयसत्त्वस्य व्यापकव्य- भिचारित्वेनाऽदोषत्वं सपिण्डशब्दप्रयोगाभावादिति चेन्मै- वम् , 'पितृपत्न्यः सर्वा मातरस्तद्भातरो मातृष्वसारस्तदुहितरी भगिन्यो भगिनीसपत्न्यश्च भ- गिन्यस्तदपत्यानि भागिनेयान्यथासङ्ककारिणीति याप्या- पतिता भवन्तीति सुमन्तुना सापिण्ड्यव्याप्यमातुलत्वा- दिव्यपदेशात् । यद्येवं तर्हि न कोपि दोषो लक्ष्यलक्ष- णोभयसत्त्वादिति चेन्न, तथाहि सति सहजसिहावय- वान्वयरूपसापिण्डयसद्भावेन सापत्नमातुलादिषु सापि- मातुलास्तद्भगिन्यो वृत्तिसहिता। - ण्ड्यानिदेशाय वचनारम्भोऽनर्थकः स्यात् । तथाच सु- मन्तुवचनारम्भान्यथानुपपत्त्यैव व सापत्नमातुलादिष्ववयवा- न्वयरूपसापिण्ड्याभावोऽवगम्यत इत्यतिप्रसङ्गः सुस्था, तस्मान्न सापत्नमात्रा सह सापिण्डयमवयवान्त्रयाभावा- दिति प्राप्त उच्यते-'यत्र यत्रे'त्यादिग्रन्थस्वरसात् सपत्नमातरि सर्वजनीनसपिण्डशब्दप्रयोगान्यथानुपपत्त्याऽवयवान्वयो- ऽवश्यं वाच्यः । स च यथा सपत्न्योरेकेन भ; सहैक- शरीरारम्भकतया तथा स्वारम्भकेन सहैकशरीरारम्भ- कतया सपत्नमात्रा सहापि सिध्यत्येव । एवमेकतः सिद्धा- बन्यतोऽप्येकशरीरारम्भणसहकार्यारब्धत्वेन तत्सिद्धिः । यथा पुत्रस्य पितृशरीरावयवान्वयेन पित्रा सहेत्युक्ते पुत्रेऽपि स्वशरीरावयवान्वयेन पुत्रेण सहेत्यपि सिद्धम् । तस्मादस्ति सपत्नमात्रा सहाऽप्यवयवान्त्रय इति न दोषः । नच सपत्नमातामहादिष्वतिप्रसङ्गः, इष्टापत्तेः । न- चैवं सपत्नमातुलादिष्वप्येकशरीरारम्भकारब्धत्वादिना सहजसिद्धे सापिण्ड्ये 'तद्भातरो मातुला' इत्यादिवचनार- म्भवैयर्यमिति वाच्यं, पञ्चमसप्तमादिसंख्यान्तरपरिसंख्या- र्थक्योपपत्तेः। तथाहि मातृपितृसापिण्ड्येनाऽविवाह्य- ..

५० सापिण्ड्यकल्पलतिका। स्वेऽवधिद्वयं स्वपरमतेनोपन्यस्य मातृमपत्न्या मातृपि. तृत्वाभावेन सापिण्ड्यद्वारताऽसम्भवात्तत्सम्बन्धिनां सा- पिण्ड्याभावादविवाद्यत्वाप्रसक्ती 'पितृपत्न्यः सर्वा मातर' इत्यारभ्यते । तत्र मातृसपत्नी सपत्नमातेत्या. दिशब्दरभिधानसम्भवेऽपि यत् पितृपत्नीशब्देनोपादानंत- त्तस्याः पितृद्वारकसम्बन्धद्योतनाय । यच्च पत्नीश- ब्दोपादानं तपित्रवरुद्धदासीभुजिष्यादिभिः सापि- ण्ड्यावारणाय यच्च सर्वशब्दोपादानं तद्विजाती- यादिभिरपि सापिण्ड्यद्योतनाय । तेन च तत्सम्बन्धा- नामप्यासप्तमादापञ्चमाहाऽविवाह्यत्वप्रसक्तौ 'तभ्रातरी मातुला' इत्यादिपरिसंख्यायते । तथा-एते एवाऽविवाह्या नान्ये-इति । ‘पञ्च पश्चनखा भक्ष्या' इतिवत् । नचाऽयं नियमः सम्भवति, यथोक्तरीत्या सापिण्ड्यसद्भावेनाऽवि- वाह्यत्वस्य नित्यवत्प्राप्ततया पाक्षिकत्वाभावात् । नचाऽयमपूर्वोऽविवाह्यत्वप्रतिषेध एवं कुतो नेष्यते सर्वजनितसापिण्ड्याभावेन प्रसक्तिसम्भवादिति चेन्न, साक्षात्परम्परया वा स्वारम्भकेण सहैकशरीरारम्भक- त्वादिति सिद्धस्य सापिण्ड्यस्याऽपलपितुमक्यत्वात् ।

वृत्तिसहिता । तत्सिद्धौ चाऽतिप्रसङ्गभङ्गायाऽवश्यापेक्षितव्यवस्थाऽभि. धानमस्मत्पक्षे । अपूर्वनिषेधपक्षे त्वनपेक्षितार्थवचनमपूर्वा- न्तरकल्पनाक्लेशश्चेति दोषद्वयम्। तथाहि व्यवस्थातिक्रमे हि सपिण्डोद्वाहनिषेधाश्रितत्वेन व्यवस्थायाः सपिण्डो- द्वाहनिषेधातिक्रमजन्यमेव दुरितं कल्प्यते न पृथक् । अपूर्वनिषेधपक्षे तु सापिण्ड्याभावात् सपिण्डोद्वाहनिषेधाति- क्रमजन्यदुरिताद् दुरितान्तरकल्पनाक्लेशः प्रकृतनिषेधाति- क्रमे इति। तस्मात् स्वभावसिद्धसापिण्ड्यस्याऽपलपितुमश- क्यत्वात्तदतिप्रसङ्गभङ्गायाऽवश्यापेक्षितव्यवस्थाभिधाना- र्थमिदमुदतीति सर्व सुस्थम । अथ वाक्यार्थः-तद्धातर इत्यत्र तच्छब्देन पितृपत्नी परामृश्यते प्रधानत्वात तहगिन्य इत्यत्रापि सैव, पूर्वपरामर्शेन सन्निहितत्वात्प्र- धानत्वाच्च । तददुहितर इत्यत्र तु न तत्परामर्शस्तद्दु- हितॄणां साक्षात्पित्रारब्धत्वेन सापिण्डयेनाऽसपिण्डामिति सामान्यवचनेनैव विषयीकरणादेतहिशेषवचनविषयान्त- भीवानर्थक्यात् । किन्तु सपत्नमातुलमातृष्वस्रोरेव प- रामर्शः । ततश्च तत्कन्यानामेवाऽविवाह्यत्वमत्रोच्यत : इति सम्यक् ।

सापिण्ड्यकलालतिका । .. पुत्रस्त्र सापत्नमातृकुले सापिण्डयं, न साप- नमातृकुलस्य पुत्रंकुले इति शङ्कापनोदायाह भ- गिनीसपत्न्यश्व भगिन्य इति। भगिनीसपत्नीत्वव्यपदे- शेनोभयतोऽपि सापिण्डयप्रदर्शनात्परस्परसन्ततेरविवा- ह्यत्वं दर्शयति। तदेवाह तदपत्यानीनि। तासामपत्यानी- त्यत्रापि तच्छब्देन सापत्नमातुलमातृष्वमृतदुभयदुहि- तृणां भगिनीमपत्नीनां च परामर्शः । पितॄपत्नीपराम- शें तु तदपत्यानां भगिनीत्वेन भागिनेयत्वव्यपदेशानुप- पत्तेः । ततश्च सापत्नमातलमातृष्वमृतदुभयदुहितृत- दपत्यानि भगिनीसपत्न्यपत्यानि चाऽविवाह्यानीति वाक्यार्थ इति । नन्वतोभयतः सापिण्ड्यं न सिध्यति प्रमाणा- भावात् । तथाहि पितृपत्नीशब्दो हि सपत्नमा- तुः पितृद्वारकमेव सापिण्ड्यं वदतीत्युक्तमेव प्राक् । तच्च सापिण्ड्यं यस्य पितुः सा पत्नी तस्यैवेति सा- पिण्ड्यावधिपरिच्छेदाकाङ्क्षाऽपि तस्यैव, न तत्पितृप- नापक्षस्थानां पितृपत्नीरूपसापिण्ड्यप्रयोगिताभावात् । नहि सा तेषां पितृपत्नी भवति, येनेदं वाक्यं तत्सा- वृत्तिसहिता। पिण्डयं परिच्छिन्द्यात् । अस्ति तु भगिनीत्वादिना तेषां तत्सापिड्यं, तत्र चाऽस्त्येव परिच्छेदकं 'पञ्च- मात्सप्तमादूर्ध्वमित्यादि । अत एव यद्धर्मपुरस्कारेण येन सह सापिण्ड्यं तद्धर्म पुरस्कारेणैव तदुपादानम् । यथा 'तद्भातरो मातुला' इत्यादिषु । तद्भातृत्वादिना यदीद- मेव वाक्यमुभयतोऽपि सापिण्ड्यपरिच्छेदकं स्यात्तर्हि पुरुषसंख्याविशेषपुरस्कारेणैव प्रवर्तते । यथा 'पश्च- मात्सप्तमादूर्ध्व'मित्यादि न तभ्रातृत्वादिपुरस्कारेण प्रवर्तते । तस्मान्नोभयतः सापिण्डयपरिच्छेदकमिदमि. त्यवसीयते । किन्तु यद्धर्म पुरस्कारेण यदुपादानं त- स्यैवाऽविवाह्यत्वं प्रतिपादयति नान्येषाम् । अन्यथा तभ्रातृपदादीनां तत्पित्राद्युपलक्षकतापत्तेः । तथाच पुनरतिप्रसङ्गस्तहारणाय 'पञ्चमादित्यादि वाक्यमेव स्वी- कार्यमिति चेत् , एतद्वाक्यारम्भाय यथोपपत्त्यैव ब्रूमः । ततश्च परिगणितातिरिक्तेषु येषु सापत्नमातामहसापत्न- मातुल पुत्रसापत्नमातृष्वसृसुतेष्वेतद्वाक्यं न प्रवृत्तं, 'पञ्च- मादित्यादिवाक्येन तत्र विवाह्यतापत्तिरवशिष्यते । नचे- टापत्तिः, उक्तरीत्याऽवयवसम्बन्धसत्त्वेन सापिण्ड्यसद्भा- ६४ मापिण्ड्यकल्पलतिका । वात् सपिण्डानिषेधस्याऽत्राप्यक्षतत्वात् । तर्हि सपिण्डा- निषेधादेवोक्तविषयेषु विवाह्यताप्रसङ्ग इति चेन्न, सापिण्ड्यस्याऽऽसहस्रपुरुषमप्यविच्छेदेन परिच्छेदकाभावे निषेधस्यातिप्रसङ्गात । तस्मादनन्यगत्या तद्भात्रादिपदं तत्पित्रादीनामप्युपलक्षणं वाच्यम् । ततश्च शब्दोपत्तानां प्रचयेन यावतां कथाञ्चिदुपस्थितिस्तावद् दूरं सापिण्ड्य- मनेन परिच्छिद्यत इति पर्यवसन्नम् । तद्यथा-सपत्न. मातामहो मूलपुरुषः प्रथमः, तत्पुत्रः सापत्नमातुलो द्वितीयः, तत्पुत्रः सापत्नमातुलपुत्रस्तृतीयः । किमस्या- ऽश्रुतस्य ग्रहणे प्रमाणमिति चेत्-'तदुहितरश्च भगिन्य' इति मातुलमातृष्वसृदुहितृ-उपादानमेवेति. ब्रूमः । दुहितृणामिव पुत्राणामपि सम्बन्धविशेषात् तत्पुत्रः साप- नमातुलपुत्रश्चतुर्थः । अत्रापि तदपत्यानि भागिनेया- नीति मातुलमातृष्व सूदुहित्रपत्यानां मातुलमातृष्वसृ- पुत्रापत्यानामप्युपलक्षणं तुल्यसम्बन्धतया बाधकामा- वात् । एवं सापत्नमातृकुले चतुःपुरुषं सापिण्ड्यं सियति । एवं सापत्नमातृष्वसृसन्तानेऽपि ज्ञेयम , मातुलमातृष्वस्रोर्मूलपुरुषस्यैकत्वात् । ततश्च सापत्न- वृत्तिसहिता । Rom मातामहादेव मूलपुरुषाद दुहित्तपत्नीसन्तानं तत्सन्ताने च यावच्चतुर्थ परस्परमविवाह्यताप्रदर्शनेन चतुःपुरुषं सापिण्ड्यमनेनोक्तमिति सिद्धम् । 'तदभ्रातरो मातुला भगिनीसपल्यश्च भागन्य' इत्यन्योन्यं तुल्यसम्बन्ध- प्रतिपादनलिङ्गादुभयतः सापिड्यसिद्धेः । यत्तु मदनपारिजातन- पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा । इति वसिष्टवाक्यं सापत्नमातामहकुलविषयमव- यवानुवृत्तेरभावादिति व्याख्यानं, तदाकाशलतेव मूला- नपेक्षमेवोज्जृम्भते उक्तरीत्याऽवयवानुवृत्तिसहा- वात सापत्नादिपदाश्रवणात सापत्नवाक्यैकवाक्यत्वाभा- वात् सौमन्तविशेषवाक्यविरोधाच्चेति । नच वसिष्ठवाक्या- न्यथानुपपत्तिरेव मूलमिति वाच्यम् , अन्यथोपपत्तेर्वक्ष्य. माणत्वात् । तस्मादुक्तमेव साधीय इत्यलमतिविस्तरेणेति वीरमित्रोदयोक्तमपास्तम् । प्रागुक्तवक्ष्यमाणसकलदो- षापत्तेः। सुमन्तुवाक्यस्योक्तरीत्योपपत्तेः । भगिनीसपत्न्य- श्व भगिन्य' इति पाठस्य हेमाद्रिमाधवहरदत्ताद्यसंमतत्वा- चेति । सापिण्ड्यप्रदीपे तु विस्तरः । इदं च माधव- - सापिण्ड्य कलालतिका । मते गान्धर्वादिविवाहविषयमेव, तेन तथा पाठाङ्गीकारात्। हेमाद्रेस्तु हरदत्तोक्त एव पाठः सम्मतः । एवञ्चाऽऽद्य. पाठमुररीकृत्य यत्प्रजल्पितं दैतनिर्णयकृता तत्सर्व भ्रान्तिमूलकमिति स्पष्टं गुरुचरणोनीते सापिण्ड्यप्रदीपे। नचैवमपि 'अमपिण्डा चेति मनूक्तेश्चकारेण पितुरसपिण्डाया अपि ग्रहणात् यस्य सपत्नमाता तदप- त्यस्य सापिण्डयाभावेऽपि निषेधः स्यादिति वाच्यम् , तस्याः ‘पञ्चमात्सप्तमादिति याज्ञवल्क्यैकवाक्यत्वात् पितुरित्यादेः पितृत इत्यतोऽवशिष्टार्थत्वेन लक्षणाया अ- प्रसक्तेरेकमूलकल्पनालाघवानुरोधन लक्षणाया. प्युचितत्वात् । वस्तुतस्तु दत्तकादिविषयमिति तत्रैव स्पष्टं, शिष्टाचाराविरुद्ध याज्ञवल्क्येन तस्य तद्विषय. त्वकल्पनात् । किश्चैवं सपत्नमातरि मातृत्वातिदेशात्त- स्या मनुवचने ग्रहणापत्तौ तत्पितुः पञ्चम्यादेरपि मातृ- सपिण्डात्वेन तत्सापत्नपुत्रस्य निषेधापत्तौ 'पितृपत्न्यः सर्वा मातर' इत्येव सिद्धौ सुमन्तुवचनस्य वैयपित्ते- रिति दिक् । एवं च हरदत्तरीत्या पुरुषत्रयान्तमिति भूलं यथाश्रुतमेव साधु । अ- वृत्तिमाहिता। प्रकारः अथ साप्तपौरुषं त्रिपुरुषं च सापिण्ड्यं विषयभे- देनाह क्रीतेष्विति । अथ क्रीतेषु देशभेदेषु देशनं देशः, दिश अतिसर्जने, अतिसर्जनं दानं तद्भेदभिन्नेषु दत्तेषु दत्तकेषु च। अयं चाऽव्यवहितोक्तः पुरुष- त्रयपर्यन्तसापिण्ड्यसत्तारूपः, चायवहितः .साप्तपी- रुषसापिण्डयसत्तारूपो विधिः स्यादित्या- र्या मन्वादय आहुरित्यर्थः । क्रीतेष्वित्यस्य कृत्रिमेष्वि- त्यर्थः, तेषां कलिवर्यत्वात् । नच दत्तौरसेतरेषां तु पुत्र- खेन परिग्रह इति शौनकेन तेषामपि कलौ निषेधात, कथमेतेऽपीति वाच्यं, दत्तकपदेन तस्याप्युपलक्षकत्वात् । औरसः क्षेत्रजश्चैव दत्तकः कृत्रिमः सुतः । इति कलिधर्मप्रस्ताव पराशरस्मरणात्। अत एव- श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति । बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः॥ इति मनूक्तिः सङ्गच्छते । औरसादीनां सर्वेषां पुत्राणां प्रद्युतत्वादौरसादीनुपक्रम्य 'तेषां पूर्वः पूर्वः श्रेयान् : स एव दायहरः स चाऽन्यान् विभृया'- सापिण्ड्यकल्पलतिका। दिति विष्णुपुराणवचनात् । औरसादीना पुत्राणा पूर्वपूर्वाभावे परः परो रिक्थमर्हति । पूर्वसद्भावे पर- संवर्धनं स एव कुर्यात्तदप्यपवादेतरविषयम् । यदि तु समानरूपा बहवः पुत्रास्तदा सर्वे एव विभज्य धनं गृह्णीयुरिति तदव्याख्यातारः । इदं चौरसपरम्- एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । शेषाणामानृशंस्यार्थ प्रदद्यात्तु प्रजावतम् ? ॥ 'ऊर्च पितुश्च मातुश्चे' त्यादिनैव तद्विभागोक्तेः । किन्तु गौणानेकपरम् । एवञ्चात्राद्यार्धन कृत्रिमसिद्धिरन्त्यार्धेन दत्तकसिद्धिरिति बोध्यम्। नचैवं क्षेत्रजस्थापि स्वीकारा- पत्तिः, नियोगनिषेधेनैव तन्निषेधात् । तत्र क्षेत्रज इति वारसविशेषणम् । कृत्रिमस्वरूपं तु भातापितृविहीनः प्रौढो विप्रत्वादिना परीक्षितः सवर्णो धनादिलोभेन स्वयं पुत्रार्थना पुत्रीकृत इति । सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ।।

त्तिसहिता। इति मनूक्तेः । विधिस्तु दत्तकोक्तवत् सर्वोऽत्र बोध्य इत्याहुः। स्वगोत्रेण कृता ये स्युर्दत्तकीतादयः सुताः। विधिना गोत्रमायान्ति न सापिण्ड्यं विधीयते ॥ इति वृद्धगौतमात् । दत्तक्रीतादिपुत्राणां बीजवस्तुः सपिण्डता । सप्तमी पञ्चमी चैव गोत्रं तत्पालकस्य च ।। ! इति बृहन्मनोश्च क्रीतस्यापि कलौ स्वीकारस्तह- युगान्तरविषयप्रतिपादनं वेति । क्रीतेष्विति यथाश्रुत- मेव साध्विति केचित् । माता पिता वा दद्यातां यमद्भिः पुत्रमापदि । सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ।। इति मनूक्तेः । मातापितृभ्यां प्रत्येकमन्यतराभावे- ऽन्यतरेणोभाभ्यां वा भरणासामर्थेन विधिपूर्व दत्तः प्रतिगृहीतृसवर्णों दत्तकः । अनापदि तु पुत्रदानं नि- .. (१) बोध्यम्-इति सर्वपुस्तकेषु पाठः ।

६० सापिण्ड्यकल्पलतिका । mes षितम् । अत्र पत्युः पत्न्यनुमत्यैव दातृत्वम् । अ. त्यन्तापदि तदनुमत्यलाभे स्वातन्त्र्यमपि । पत्न्यास्तु पत्य- नुमत्यैव । मृते तु तस्मिन् स्वातन्त्र्यम् । ज्येष्ठस्तु सर्व- था न देय इति दिक् ॥ २१ ॥ अथ सापिण्ड्याभावेऽपि वाचनिकनिषेधमाह पि. तृव्यति सार्धन- पितृव्यभार्याभगिनी च तत्सुता- ऽथो मातुलानीभगिनी च तत्सुता ॥ ज्येष्ठस्य भार्याभगिनी जनन्याः स्वसुः सपत्नात्मजजाऽविवाह्या ॥ २२ ॥ पितृव्येति । अथो अनन्तरं, पितृव्यपत्न्या भ. गिनी तत्कन्या चाऽविवाह्या । तथा मातुलपल्या भ- गिनी तत्सुता चाऽविवाह्या । तथा ज्येष्ठस्य नातुः पत्न्या भगिनी अविवाह्या । तथा स्वमातुर्भगिन्या या सपत्नी तत्सन्ततिकन्या अविवाह्येत्यर्थः ॥ २२ ॥ अथ स्वभार्याभगिनी च तत्सुता करग्रहे नैव भवेत्प्रशस्ता ॥

वृत्तिसहिता। ... .. क्वचित्तृतीयेऽथ चतुर्थके वा विवाह इष्टः कुलदेशभेदात् ॥ २३ ॥ अथेति । अथ अनन्तरं, स्वपत्न्या भगिनी त- कन्या च करग्रहे पाणिग्रहणे प्रशस्ता नैव भवेदि- दित्यर्थः । अत्र- मातुः सपत्न्या भगिनी तत्सुतां चापि वर्जयेत् । पितृव्यपत्न्या भगिनी तत्सुतां चापि वर्जयेत् ॥ इति बौधायनोक्तेः । 'भार्यास्वसृदुहिता पितृ- व्यपत्नीस्वसा चेति बचगृह्यपरिशिष्टाच्च। किंचि- दंशस्य समूलत्वेऽप्यन्यांशे मूलं चिन्त्यम् । अथ मातुलकन्यादिपरिणयनमाह-क्वचिदिति । अथाऽनन्तरं तृतीये चतुर्थे वा, कः स्वार्थे, विवाह इष्टः । तृतीया वा चतुर्थी वा पक्षयोरुभयोरपि । विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः ॥ इति चतुर्विशतिमतोक्तेः । चतुर्थीमुद्हेत्कन्यां चतुर्थः पञ्चमोऽपि वा। पराशरमते षष्ठी पञ्चमो न तु पञ्चमीम् ॥

६२ सापिण्ड्यकल्पलातका। इति पराशरोक्तेश्च । 'तस्मात् सप्तमाना दत्ताश्चा- द्यस्य जायतेऽत उत तृतीये सङ्गच्छावहे चतुर्थे सङ्ग- च्छावहे' इति शतपथश्रुतेश्च । 'तृप्तां जहुर्मातुलस्येव योति बचश्रुतेश्च । अयमपि न सार्वत्रिक इत्याह क्वचिदिति । मुख्यासम्भवे इत्यर्थः । चतुर्विंशतिमते त- हावेत्युक्त्या शाकटायन इत्याद्युक्त्या चाऽस्याऽनुक- ल्पत्वस्य स्पष्टं प्रतिपादनात् । तथाचाऽनुकल्पत्वे नायं भवतीति सिद्धम् । सोऽपि न सर्वत्रेत्याह कुलदेशभे- दादिति । तथाच येषां कुले देशे वा तदाचारो नास्ति तद्विषयाः सर्वे निषेधाः । येषां तु देशादौ तथाऽऽचा- रोऽस्ति तेषां न दोषः, 'येनास्य पितरो याता' इति मनूक्तेश्चेति केचित् । अन्ये तु ब्राह्मादिविवाहे पितृगोत्रनिवृत्तेर्गान्धर्वादिविवाहे तदनिवृत्तेब्राह्मादिवि- वाहोढापुत्रादेरनुकल्पत्वेन तृतीयादिविवाहे न बाधकम् । एवं मातृष्वसृकन्याया अपि निषेधास्तु गान्धर्वादिविवा- होढासन्तानविषयाः । एवं कलिवय॑त्वपि । यहा आसुरादिष्वपि देशविशेषेण मातुलसुतादिविवाहो धर्थः : । तथाच बौधायनः-'पञ्चधा विप्रतिपत्तिदक्षि-

वृत्तिसहिता।
णतः अनुपनीतेन भार्यया च भोजनं पर्युषितभोजन
मातुलपितृष्वमृदुहितपरिणयनमित्यादि' इति दिक् ॥२३॥
न्यूनत्वादिव्यवच्छेदायाऽध्येतृणां प्ररोचनाय चाह-
पद्यप्रसूनैः शरनेत्रसंख्य-
रलता कल्पलता मदीया ॥
अध्यापकाऽध्येतृजनाय नित्यं
दद्यादभीष्टानि पर शतानि ॥ २४ ॥
पद्यति । शरनेत्रसंख्यैः पञ्चविंशतिसंख्याकैः । इदं
चोद्दिष्टाङ्केत्यर्धस्य, अन्त्यो हिनिधन इत्यर्धस्य च श्लो.
कत्वमभिप्रेत्य । अन्यथा तु युगनेत्रसंख्यरित्यायुह्यम् ।
पद्यान्येव प्रसूनानि पुष्पाणि तैर्भूषिता मदीया कल्पल-
ता अध्यापकश्चाऽध्येता च जनश्चोदासीनः प्रेक्षकस्त-
समाहारस्तस्मै, अध्यापकाऽध्येत्रोर्जनः समूहस्तस्मै वा,
अध्यापकश्चाऽध्पेतृजनश्च तयोः समाहारस्तस्मै वा
परःशतानि शतात्पराणि सहस्रादीनि अनन्तानीति या-
वत् , पारस्करादित्वात्सुडागमः, वाञ्छिनानि नित्यं
सर्वदा दद्यात् प्रार्थनायां लोट् । इति शिवम् ॥२४॥

सापिण्ड्यकल्पलतिका । देवालयपुरावासिदेवश्रीपतिजन्मनः ।। श्रापदेवस्य ग्रन्थोऽयंजगजानातु तत्त्वतः ॥ २५ ॥ इति श्रीदेवालयपुरावासिश्रीनीलकण्ठसूनुश्रीपति- सूनुना आपदेवाऽपरनामधेयेन श्रीसदाशिव- देवेन विरचिता सापिण्ड्यकल्पलतिका समाप्तिमगमत् । इति श्रीमद्रामकृष्णदेवसूरिसूनुश्रीमन्नारायणदेवविर- चिता सापिण्ड्यकल्पलतावृत्तिः समाप्त।। (१) स्पधार्थमिदं पद्यं बहुषु पुस्तकेषु नास्ति, मैव चैकस्मिन्नपि टीकापुस्तके।

॥ श्रीः॥ सापिण्ड्यकल्पलतिकायाः पद्यानामकाराद्यनुक्रमणिका । नष्टाङ्कस्य दले ...... ..... पद्यानि पृष्ठम् पद्यानि पृष्ठम् अथ स्वभार्याभगिनी"६०-६१ ११ अन्त्यो द्विनिनो २२ पञ्चम्योः कन्ययोः ४२ आयेऽष्टके ४० पञ्चम्योश्चेत्कन्ययोः ४३ उद्दिष्टाकसमा० १९ प्रद्यप्रसूनैः ६३ एकाङ्कान् द्विगुणान् १४ पितृव्यभार्याभगिनी ६० एकादिकाङ्कान २२ पित्रादिबन्धुत्रितये ४४ कूटस्थतः पञ्चम० २९ । प्रस्तारोऽग्रे कूटस्थपुंसा २३ । भूनेत्राब्धिग्रजान् .."१९-२० चतुष्क त्ववि० ४१ वर्णान् प्रस्तुति १६ चतुष्के पुमांसो ४१ श्रीमद्गजानन० जाताश्च षट् २६ षट्पावाद्यात् तृतीयमथ २५ । समानि शुद्धा० देवालयपुरावासि सापत्नमातु: ४५ ..... .......

॥ श्रीः ।। टीकायां स्थितानां पद्यानां पद्यांशानां च अकाराद्यनुक्रमणिका। श्लोकाः पृष्ठम् .... पृष्ठम् १२ ३५ .... ३८ .... श्लोकाः पञ्चमी सप्तमी चैव पञ्चमी मातृपक्षात्तु पितरो यत्र पूज्यन्ते बाधेऽदृढेऽन्यसाम्यात् मगणाद्यष्टकयुक्तं माता पिता वा दद्याता .... ३५ ३० ३९ ७ ... ११ ११ ५८ ३७ .... मातुः सपत्न्या भगिनी अत्रैतावतिथो भेदः अरोगिणीं भ्रातृमती अविप्लुतब्रह्मचर्यो अस्या मातुस्तु य० आदिमध्यावसानेषु एक एवौरसः पुत्रः एतैरेव गुणयुक्तः औरसः क्षेत्रजश्चैव चतुर्थीमुद्वहेत्कन्या तिस्रः पूज्याः पितुः तृतीया वा चतुर्थी त्रिके वापि स्व्यपत्यं दत्तक्रीतादिपुत्राणां दशाहं शावमाशौचं नागेश्वरं गुरुं नत्वा पञ्चमात्सप्तमादूर्ध्व ३० ५८ वध्वा वरस्य वा तात: श्रेयसः श्रेयसोऽलाभे सदृशं तु प्रकुर्याद्य सन्निकर्षेऽपि कर्तव्या सपिण्डता तु सर्वेषां सपिण्डानां तु सर्वेषां स्वगोत्राद् भ्रश्यते नारी स्वगोत्रेण कृता ये स्युः ११ .... ३१ ३० ३१ . .... ५९ .... २७ १ ३०,३५ ॥ श्रीः॥ ग्रन्थान्तर्गतानां ग्रन्थानां ग्रन्थकर्तृणां च वर्णानुक्रम- सूचीपत्रम् । .... .... नामानि पृष्ठाकाः नामानि पृष्ठाङ्काः अभियुक्तः पराशरः ५७,६२ आपस्तम्बः २७ । पिङ्गलः १५ उज्ज्वला ( आपस्तम्बधर्म बढचगृह्यपरिशिष्टम्". सूत्रवृत्तिः ) ४५ | बचश्रुतिः ६२ गर्भोपनिषत् २७ बृहन्मनु: ५९ गौतमः ३० बौधायनः ६१,६२ गौतमस्मृतिः २९ मदनपारिजातः ५५ गौतमस्मृतिवृत्तिः ३३ मदनरत्नम् चतुर्विशतिमतम् ३०,६१,६२ मनुः २८, ३०,४१, ४२, चतुर्विंशतिमतव्याख्या ३८ ५६,५७, ५९, ६२ देवलः ३१ महाभाष्यम् द्वैतनिर्णयः ३७ मात्स्यम् "२८, २९, ३० द्वैतनिर्णयकृत् ५६ माधवः ""३१,४५, ५५ धौम्यः ३० मिताक्षरा ४८ नरहरिसप्तर्षी ११ याज्ञवल्क्यः ""३०,३१,३५, निरुक्तम् २७ ३६,४१, ५६ ....

२ विषयसूची। नामानि पृष्ठाकाः नामानि पृष्ठाङ्काः वसिष्ठः ५५ शूलपाणिः ३१ वसिष्ठस्मृतिः ३२ शौनकः ५७ विज्ञानेश्वरः ३,२८,३६,३८,३९ श्रुतिः २७ विष्णुपुराणम् ""३८, ५८ सङ्गीतरनाकरः विष्णुपुराणव्याख्यातारः १२ ५८ सङ्ग्रहः वीरमित्रोदयः ५५ ३१ सापिण्डयप्रदीपः ४०,५५,५६ ५९ शङ्खः ३०, ३१, ३२ सुमन्तुः ४५,४६,४८,५५,५६ शतपथश्रुतिः ६२ | हरदत्तः ३३, ४५, ५५, ५६ शाकटायनः ६२ हेमादिः ५५,५६ बृद्धगौतमः ॥ श्रीः॥ शुद्धिपत्रम् । पृष्ठम् पतिः ९ अशुद्धम् श्रोतॄणामनुषङ्गतो ययौस्तो षडित्युक्तिन्यूनाधि- द्विगुणनुपर्युपरि विशाकं - ४ १७ शुद्धम् श्रोतृणामानुषङ्गतो ययोस्तो षडित्युक्तियूनाधि- द्विगुणानुपर्युपरि विशाकं समूहः सा तु द्वात्रिंशदकाः सन्निमां १६ १४ १९ २० ३ समूहः । सा तु द्वात्रिंदङ्काः सन्निमा २० ७ २३ एष २३ ७ २ पितामहदिभिः मातामहाभिदिरपि पितामहादिभिः मातामहादिभिरपि २७. २ ३३ ५ p नतूभय० तन्निवृत्त्य- दाक्षिणात्यानां १० नतुभय० तन्निवृत्य- दाक्षिण्यात्यानां पञ्चमी मातृपक्षा० पञ्चमादृध्व प्रागुक्तेन उक्तोऽर्थः । सप्तमान्तं पञ्चमी मातृपक्षा० ९ ३८ ३८ पश्चमादूर्व १७ प्रागुक्तत्वेन १ उक्तोऽर्थः सप्तमान्तं १५ शुद्धिपत्रम् । पृष्ठम् पतिः ६ ४४ १६ १४ १३ ४८ on ४८ १४ ४८ १४ ४९ ४९ १७-१८ अशुद्धम् शुद्धम् तिरूक्तत्वादित्यर्थः ॥ तेसूक्तत्वादित्यर्थः ।। सपिण्डतया सपिण्डताया भागिनेयान्यथास० भागिनेयान्यन्यथा स० स्वारम्भकेन स्वारम्भकेण रामकेयराजयोः रामकेकयराजयोः भागिनेयान्यथास० भागिनेयान्यन्यथा स० सङ्करकारिणीति सङ्करकारीणीति स्वारम्भकेन स्वारम्भकेण परिसंख्यार्थक्यो० परिसंख्यानर्थक्यो० पितृपत्नी० पितृपत्नी० नापक्ष० स्लीपक्ष० इत्यादिषु । तद्भातृत्वा. इत्यादिषु तद्भातृत्वा- दिना यदीद- दिना । यदीद- प्रद्युतत्वादौरसा० प्रस्तुतत्वादौरसा० ०वचनात् । औरसादीना ०वचनादौरसादीनां पुत्राणा पुत्राणां प्रजावतम् ॥ प्रजीवनम् ॥ स्वसुः सपलात्मजजा स्वसुः सपल्यात्मजजा तृप्तां जहु० तृप्ता जहु० ऽध्येतृणां ऽध्यतृणां ५२ ७ ५२ १७ ५३ ५७ १६ १ ५८ ६० १० ६२ THE PRINCESS OF WALES SARASVATI BHAVANA TEXTS. Edited by GOPINATH KAVIRAJ, M. A, No. 1-The Kiraṇāvāli Bhāskara, a Commentary on Udayana's Kiraņā valī, Dravya section, by Padmanābha Miśra. Ed.with Introduction and Index by Gopinath Kaviraj,M.A. Rs. 1-12 No.2--The Advaita Chintāmaņi, by Rangoji Bhatta, Ed. with Introduction etc. by Närâyaņa S'āstri Khiste Sāhityāchārya. Rs. 1-12 No. 3-The Vedānta Kalpalatikā, by Madhusūdana Sarasvati. Edited with Introduction etc. by Rāmājñā Pāņdeya Vyăkaraṇācharya. Rs. 1-12 No. 4-The Kusumānjali Bodhani, a Commentary on Udayana's Theistic Tract, Nyāya Kusumāñjali, by Varadarāja. Ed. with Introduction etc. by Gopinath Kaviraj, M.A, Rs. 2-0 No.5—The Rasasāra, a Commentary on Udayana's Kiraņāvali, Guņa Section, by Bhatta Vādindra, Ed, with Introduction etc.by Gopinath Kaviraj, M.A. Rs. 1-4 No. 6—(Pārt I)-The Bhāvanā Viveka by Mandana Miśra, with a Commentary by Bhatta Umbeka. Ed, with Introduction etc. by M. M. Gangānātha Jhā, M. A., D. Litt. Rs. 0-12 No. 6-(Part II)--Ditto Ditto Rs. 0-12 No. 7-(Part 1)-Yoginihỉdaya dipikā, by Amộtādanda Nātha, being a Commentary on Yoginīhỉdaya, a part of Vāmakesvara Tantra. Ed.with Introduction etc. by Gopinath Kaviraj, M.A. Rs. 1-4 No 7--( Part II ) Ditto Rs. 1-8 No. 8-The Kavyaļākini, by Gangananda Kavindra. Ed, with Introduction etc. by Jagannātha S'āstri Hoshing Sāhityopādhyāyar Rs. 0-10-6 ( 2 ) No. 9-(Part 1)-The Bhakti Chandrikā, a Commentary on S'aņdilya's Bhaktisūtras, by Nārāyaṇa Tīrtha. Ed.with a Prefatory Note by Gopinath Kaviraj, M.A. Rs. 0-15 No. 10-(Part I)-The Siddhāntaratna, by Baladeva Vidyābhūşaņa. Ed. with a Prefatory Note by Gopinath Kaviraj, M.A.Rs.1-2 No. 10-(Part-II)-The Siddhāntaratna by Baladeva Vidyābhūşaņa, Ed, with Intreduction by Gopinath Kaviraj, M. A. No. 11-The S'ri Vidyā Ratna Sūtras, by Gaudapāda, with a Commentary by Sankarāranya. Ed. with Introdaction etc. by Nārāyana S'astri Khisle Sahityachārya. Rs. 0-9 No. 12-The Rasapradipa, by Prabhākara Bhatta. Ed. with Introduction etc. by Nārāyaṇa S'āstri Khiste Sāhityāchārya. Rs. 1-2 No. 13-The Siddhasiddhānta Sangraha, by Balabhadra. Ed, with lntroduction by Gopinath Kaviraj, M. A. Rs. 0-14 No. 14-The Triveşikā, by Āzsādhara Bhatta. Ed. with Introduction by Batukanātha S'armā Sāhityopādhyāya, M. A. and Jagannātha S'āstri Hoshing Sāhityopādhyāya. Rs. 0-14 No. 15-(Part 1)-The Tripurārahasya, (Jřāna Khanda) Ed.with a Prefatory Note by Gopinath Kaviraj, M.A, Rs.0-14 No. 15-( Part-II )-The Tripurārahasya (Jhānakhanda ) Ed. by Gopinath Kaviraj, M. A, No. 16-The Kāvya Vilāsa, by Chiranjiva Bhattachārya. Ed with Introduction etc. by Batukanātha S'arma Sahityopādhyāya, M. A, and Jagannātha S'āstri Hoshing Sāhityopadhyāya, Rs. 1-2 No. 17-The Nyāya Kalikā, by Bhatta Jayanta. Ed. with Introduction by M, M. Gangänātha Jhā, M. A., D, Litt, Rs. 0-14 Viris Part 1)-The Gor:kşa Siddhuntil Sangraha. Ed. with a Prefiery Noteboy (jospinath Kaviraj, VI. 1 R 0-1 No. 19-( Part. I )-The Prākṣita Prakića by Vararuchi with the Prakrita Sirrijímani by Vasantarījit illnad thie Sulzodhini luy Sadiwandil. with Profatory moto etc. by Batuk Satlı Sarin, M. A. and Baladori Upūdlıyaya, J., No. 19- Pitrl. II) Ditta, Ditto) Nu 19---1 part. III ) Introduction ote. ( In Propartion. Otc. No, 20-The Mansatattraviveka by Visvanatha Nyavaparichanana Bhattāchārya. Edited with Introduction by P. Jagannatha S'āstri Hoshing Sālityopadhyayit, Sädholal Reseurch Scholar, Sanskrit College Benaros, with a Foreword by Pandit Gopi- Nath Kavirāja, M. A., Principal, Government Sanskrit College, Benares. No. 21-( Part I) The Nyāya Siddhanta Máls by Jayarania Nyaya Panchanana Bhattacharya, Edited with Introduction ote. by Mangal Deva S'āstrī M. A. D., Phil. ( Oxon ), Librariali, Gurt. Sanskrit Library, Sarasvati Bhavana, Benares. No. 22-The Dharmānubandhi Slokachaturdaśī by Sri Sreşa Krsna with a Commentary by Ränia Pandit. Edited with Introduction etc. by Nārāyaṇa Shastri Khiste Sahityāchārya Assistant Librarian Government Sanskrit Library Saraswati Bhavilli Benares. No. 23-Navarātrapradipa by Vanda Pandit Dharmādhikāri. Ed, with Introduction ete. by Vaijanātha S'āstri Varakale, Dharmasastra-S'astri, Sädholal Research Scholar, Sanskrit College, Benares.

(+) No. 21-Sri Prāmatāpiniyopanişad with the Commentary called Rāma- Kāśikā in Pūrvatāpini and Anandanidhi in Uttaratāpini by Anandavana. Ed. with Introduction etc. by Anantarāma S'āstri Vetāla Sāhityopādhyāya, Post-Achārya Scholar, Govt. Sanskrit College, Benares, with a Foreword by Pandit Gopi Natha Kavirāja, M. A. Principal, Government Sanskrit College, Benares. No. 25-Sāpiņdyakalpalatikă by Sadāśiva Deva alias Apadeva with i commentary by Nārāyaṇa Deva. Edited with Introduction etc. by Jagannātha s'āstrī Hośinga, Sāhityopādhyāya, Sãdholāl Research Scholar, Govt. Sanskrit Colleye, Benares.

THE PRINCESS OF WALES SIRASTITI BHAVA.XI STIDIES. Flitsins GiuPINATH KAVIRAJ, ... VUI. I. (ily Studies ! Hindu Lawili: its involution in Giurgthuthu (b) The l'iew point Nyilvie Vitiseșikit Philosophy, loy Gespri nath Kaviraj. (c) Virmāņa Káva, hoy Gospinu Kiviraj. Rs. Vol. II (a) Parasurăini Misrit ALIAS Vini Hilsula Rari loy Cuspinath Kaviraj. ) Tudex i Sabara: Bliski, by the litto Col. (s. 1. Jacob. (c) Studies in Hindu Law (2):--its sources, by Garganath June di Sow Bhakti Sūtra, by Gopinath Kaviraj. (0) The System of Chakras Lecording to Gorzkşi muthit, isy Gopinath Kaviraj. (f) Theism in Ancient India, by Gopinath Kaviraj. 19) Hindu Poetics, by Batukit laiha Sarmā. (h) A Seventeenth Century Astrolabo, by Padmükara Uvivedi. (1) Some aspects of Vira Saiva Philosophy, by Gopinath Kaviraj j) Nyāya Kusumāñjali ( English Translation, by Gopinath Kiviraj. (k) The Definition of Poetry, by Nārāyana S'ästri Kliste. (1) Sondala Upādhyāyil, by Gopinath Kaviraj. Vol. III (a) Index to Sirbara's Blaşyi, by the late Cul. (..Jacob. Il Studios in Hindu Li 3; Judicial Procedura: in Gariva Látha Jha. 10) Theisio in Anvient India, by Gopinatlı Kavuaj. J) History and Bibliography of Svava Vaišeşiki Liverrature. by Gopinath Kaviraj. (0) Naişadha and Sri Harşa by Silakamali (f) Indian Drumsiuryy, by P. S. Patankitr. Rs Vol. IV. (a) Studies in Hindu Law (4): Judicial Procedure: b: nătha Jhã. (b) History and Bibliography of Nyāya Vaišeșika Li by Gopinath Kaviraj. (c) Analysis of the Contents of the Rgveda Prātiśāk) Mangala Deva S'āstri, (d) Nārāyaṇa's Gaạita kaumudi, by Padınākara Dvived (c) Food and Drink in the Rāmāyanic Age, by M: nätha Roy (f) Satkāryavāda: Causality in Sãňkhya, by Gopinath ] (g) Discipline by Consequences, by G. L. Sinha. (b) History of the origin and expansion of the by A. C. Ganguly. (i) Punishmerits in Ancient Indian Schools, by G L Sinh Vol. V (a) Ancient Home of the Aryans and their migration to hy A. C. Ganguly. - (b) A Satrap Coin, by Shyamalal Mohr. (c) An Estimate of the Civilisation of the Vānaras as de in the Rāmāyaṇa, by Manmatha nātha Roy. (d) A Comparison of the Contents of Puyveda, Vājasaneya tiriya & Atharvaveda Prātiśākhyas, by Mangala Deva S () Formal Training and the Ancient Indian Thought, b: Sinhala VERIFIED store Bibliography of Nyāya Vais'oșika Liter: by Gopinath Kavirāj. (9) A Descriptive Index to the names in the Rámāyan Manmatha nāth Roy. (i) Notes and Quories (1) Virgin Worship, by Gopi Kaviraj. Vol. VI-( In progress) (a) Index to S'abara's Bhāşya, by the late Col. G. A. Jaco 22:428 (b) Some Aspects of the History and Doctrines of the Na N27 by Gopinath Kaviraj. ( Studies in Hindu Law (5): Evidence, by Ganganatha J To be had of The Superintendent, Government Pi ALLAHABAD, U. P. (INDIA). 25.8.4.

No text on this page.

VERMED 1989

Sapindya Kalpalatika

Author
Gopinatha Kaviraja
Title
Sapindya Kalpalatika
File name
Sapindya Kalpalatika
Text
OCR done
Citation
1927
Published
25/08/2003
Publisher
Vidya Vilas Preaa ,benares
Language
Sanskrit
Pages
99
Library
Svclrc
DLI number
368442
Barcode
5010010002121.00
Scanning centre
RMSC, IIIT-H
Digital publisher
UDL TTD TIRUPATI
VMLT id
7AKfihtsDUz
Download PDF

Sapindya Kalpalatika