Bharti Bhawan Library Allahabad

Sahiyatya Sudha Sangrah Part I

Shribhawani Prasaden

PDF Proofread

Front matter

** ओ३म् *
श्रीकांगड़ीगुरुकुल विश्वविद्यालयगीर्वाणयाशीघ्रंथावल्याम्-
साहित्य सुधासंग्रहः
प्रथम बिन्दुः
गुरुकुलाऽऽचार्यमहोदयस्याऽऽदेशात्
बिजनौरमंडलान्तर्गत हल्दौरग्रामवास्तव्येन
श्रीभवानीप्रसादेन
गुरुकुलसाहित्याध्यापकेन
श्रीवागीश्वर विद्यालङ्कारेण च
संगृहीतः
१६८३ श्रीवैकमादे

श्री लाला नन्दलालस्य प्रबन्धेन
कांगड़ीगुरुकुलमुद्रणालथे मुद्रितः प्रकाशितश्च
Mod
Ram

संस्कृतसाहित्यस्य सर्वश्रेष्ठविशिष्टशोभाधायकत्वे वैदिकार्याणां परिस्थितिविशेषः आर्यभूमौ भारतवर्षे च तेषामादिमो निचालोऽपर कारणम् । भारतीयाणामाबपूर्वपुरुषाणामेव विमलमानसमुकुरेषु पुराणपुरुषस्यानादिकवेस्तकाव्यस्य ज्योतिरुदियाय यस्य विषये "पश्य देवस्य काव्यं न ममार न जीर्यतीति” श्रुतिर्जागर्तितराम् । अना- दिकवयितुस्तत् पुराणं काव्यमेव सततमधीयाना आर्यपुरुषोत्तमा निसर्गत एव कविताप्रणयिनः काव्यरसिकाश्वसंबभूवुः । तेषां नित्यं व्यवहार्याणि वाश्यान्यपि कवितामयान्येव जातानि । तेनैव हेतुना संस्कृतस्यापदंशभूताया हिन्दीभाषाया वृजभाषाया वापि माधुर्या कापि भाषा जगतीतले तुलां नाधिरोहति । एनमेव विषयमधिकृत्य दन्तकथा प्रचलिता-यदेकः पारसीकः कवि जभाषाकविता संग्रहीतुं अजमण्डलमाययौ । मध्येमार्ग कस्याश्चिद्मामटिकाया रथ्यामटन कस्याश्चिजलघदवाहिकायाः कुर्मायाः "सांकरी गली मैं माय कांकरी गड़तु है।" (मातः संकीर्णपद्धत्यां शर्कराः पादौ पीडयन्ति ) इति मधुरालापमश्रौषीत् । स “साँकरी काँकरी-2 इत्यनुनासपुष्टया भणित्या विस्मितोऽवोचत्-अहो ! यस्य देशस्य जलवाहिका ग्रामीणाः कुमार्योऽपि साधारणालापेऽनुप्रासं प्रयुञ्जते तस्य कवीनां वाचः कैरपूर्वैर्मनोहरैरलङ्कारभूषिताः स्युः । कस्यचिद्देशस्य प्राकृतिकशोभापि कवीनां प्रतिभावा विकासने प्रबला प्रेरिका भवति, पुण्यभारतभूमेमनोहरविशालगिरिकाननानि, निर्मलसलिलप्रवाहाः सरितः, प्रशस्यशस्यक्षेत्राणि, शाश्वतहरिच्छाद. लान्यपि भारतकवीनां वाचः प्रसभं सततं मुखरयन्ति स्म । संसारसा- रभूतस्य भूमण्डलललामस्य प्रकृतिदेव्याः लीलानिकेतस्य भारतवर्षस्य वसन्तवर्षाशरद्धेमन्तादयः षड़तवोऽपि भारतीयकवीनां प्रतिभामनि- शमुद्वोधयामासुः । बनवासविलाससुभगस्य प्रकृतिशोभा हिन्दी संसार में एक आश्न अब तक का रेकर्ड सम्पूर्ण प्रकाशित संख्य भारतवर्ष का इ (प्रथम खण्ड लेखक-श्री आचार्य रामदेव [ बड़े आकार के ३८० पृष्ठ; छपाई, सफाई सुन्दर; मूल हिन्दी पुस्तक प्रकाशको की यह एक जबरदस्त शिकायत है कि का यथोचित आदर नहीं करता। इतिहास की अच्छी अच्छी पुस्तकें आदि भी प्रथम श्रेणी की है-सैंकड़ों विज्ञापन देने पर भी प्रसिद्ध २ हिन्दी रही हैं। यह शिकायत बिल्कुल सही होते हुए भी हमें इस बात का हर्ष है इतनी बड़ी मात्रा में बिक गई कि हिन्दी संसार उस पर गर्व कर सक का निकाला गया था जो देखते ही देखते, कुछ महीनों में ही, हाथों हाथ दूसरा संस्करण ३००० का निकाला गया; यह भी शीघ्र ही बिक गया। स्वरूप शीघ्र ही तीसरा संस्करण भी परिवर्धित रूप में ३००० का ही निव कापियाँ शेष बची हैं। शीघ्रता कीजिये; अन्यथा काफी समय तक प्रर हिन्दी संसार में एक आश्चर्य जनक घटना अब तक का रेकर्ड भात सम्पूर्ण प्रकाशित संख्या ७००० !! भारतवर्ष का इतिहास (प्रथम खण्ड) लेखक-श्री आचार्य रामदेव जी. [ बड़े आकार के ३८० पृष्ठ; छपाई , सफाई सुन्दर; मूल्य १ रुपया ८ आना; सचित्र ] हिन्दी पुस्तक प्रकाशकों की यह एक जबरदस्त शिकायत है कि हिन्दी जगत् अभी तक इतिहास की पुस्तकों का यथोचित आदर नहीं करता । इतिहास की अच्छी अच्छी पुस्तकें-जिन की छपाई, सफाई, कागज़, जिल्दबन्दी आदि भी प्रथम श्रेणी की है-सैंकड़ों विज्ञापन देने पर भी प्रसिद्ध २ हिन्दी पुस्तक प्रकाशकों के स्टाक की शोभा ही बढ़ा रही हैं। यह शिकायत बिल्कुल सही होते हुए भी हमें इस बात का हर्ष है कि हमारी उपर्युक्त पुस्तक थोड़े की समय में इतनी बड़ी मात्रा में बिक गई कि हिन्दी संसार उस पर गर्व कर सकता है । इस पुस्तक का प्रथम संस्करण १००० का निकाला गया था जो देखते ही देखते, कुछ महीनों में ही, हाथों हाथ बिक गया। माँग बहुत अधिक होने के कारण दूसरा संस्करण ३००० का निकाला गया, यह भी शीघ्र ही बिक गया। हिन्दी पाठकों के प्रशंसनीय उत्साह के फल स्वरूप शीघ्र ही तीसरा संस्करण भी परिवर्धित रूप में ३००० का ही निकला गया। इस संस्करण की भी कुछ ही कापियाँ शेष बची हैं। शीघ्रता कीजिये; अन्यथा काफी समय तक प्रतीक्षा करनी पड़ेगी। [ इस खण्ड में वैदिक काल से लेकर महाभारत के अन्त तक का क्रमबद्ध इतिहास है । प्राचीन भारत के धार्मिक, सामाजिक और नैतिक जीवन का इतिहास विस्तार के साथ लिखा गया है। केवल ऐतिहासिक दृष्टि से ही नहीं, अपितु भारत के प्राचीन साहित्य, धर्म, विज्ञान, सभ्यता प्रादि के जिज्ञासुनों की दृष्टि से भी यह ग्रन्थ अनुपम और अपूर्व है। गुरुकुल से प्रकाशित होने वाले भारतवर्ष के इतिहास सम्धी बृहद् ग्रन्थ का यह प्रथम खण्ड है।] पुराण मत पर्यालोचन लेखक-श्री आचार्थ रामदेव जी. [ बड़े आकार के ५४० पृष्ठ; छपाई सुन्दर; मूल्य ३ रुपया ] (श पुराणों की पूर्णतया मीमांसा करने वाला तथा पुराण रूपी महासागर में भरे हुए विविध विषयों का गुलियुग शालोचन ग्रन्थ है। शैव, वैष्णव, शाक्त प्रादि सम्प्रदायों के मन्तव्य और उन की समालोचना; पूर्तिपूजा, श्राद्ध, अवतारवाद और गदि विवादास्पद धार्मिक विषयों की प्रालोचना तथा देवतानों की उत्पति का प्रकार अादि महत्वपूर्ण विषयों पर इस ग्रन्थ में किया गया है। इयों का विचार है कि पुराण केवल मात्र गप्पों के भण्डार हैं। उन्हें भी पुराणों का वास्तविक रहस्य तथा महत्व जानने से अवश्य पढ़ना चाहिये । इस ग्रन्थ में पुराण तथा पौराणिक मतों की निष्पक और यथायोग्य समालोचना की गई है। पता प्रवन्धकर्ता गुरुकुल पुस्तक भण्डार गुरुकुल कांगडी जिला बिजनौर

प्रकाशित
हो जायगा।
मांग होने के कारण
1
३०००
छपाई गई हैं!
का इतिहास
तीय खण्ड)
। आचार्य रामदेव जी.
सफाई सुन्दर; कागज़ बढ़िया; मूल्य १ रु० १५ पाना ]
र महात्मा बुद्ध के जन्म से पूर्व तक का राजनीतिक व सभ्यता
लम्बन्ध रखने वाली पचासों प्रामाणिक पुस्तकों का सरस निचोड़
सी मौलिक खोज भी की गई है। इस विषय का हिन्दी साहित्य में
लय की ओर से भारतवर्ष के इतिहास का एक बृहद् ग्रन्थ
का विचार है। उसी का यह द्वितीय खण्ड है। यह कार्य लगभग
में क्या है?

निरतस्यैव पुण्यसलिलां वितमसां तमसामवगाहमानस्याऽऽदि. कवेर्महर्षेाल्मीकेाधवाणविद्धक्रौञ्चदर्शनेनोत्थितः शोकः श्लोकत्व- मापद्यत । तमेव श्लोकमादाय स मुनिसत्तमः सूर्यवंशावतंसस्य मर्यादापुरुषोत्तमस्य श्रीरामस्य सच्चरितवर्णनपर रामायणरूपं तद. मरममूल्यग्रन्थरत्नमग्रथनाद्यदपरेषां कविकुलगुरुश्रीकालिदासादीनां सकलरामयशोविस्तारककवीनामुपजीव्यम्, निबिडान्धकाराच्छन्नेति- वृत्ते ऽज्ञानमये चास्मिन्समये परपददलितेभ्यो भारतीयेभ्यः कञ्चिदि- तिहासप्रकाशमर्पयति, यस्मादेव विरलश्रुतिप्रचारेऽपि कलिकाले. ऽधुना धर्मभीरवो भारताभिजनाः सदाचारसरणि शिक्षन्ते, येनैवै- तद्देशीया दास्यदीना अपि जनाः समुन्नतानामपरेषां राष्ट्राणामने स्व- सस्तकानि समुन्नमयन्ति । ततो द्वापरे कालिन्दीकूलकमनीयकाननेऽतिवाहितकालः कृष्ण- द्वैपायनर्षिप्रवरः पाण्डवानां जयज्ञापक जयाभिधानं महाकाव्य प्रणिनाय, यत्परस्ताजैमिनिसौतिप्रभृतिमुनिसत्तमः प्रवर्धितो भार- ताख्यां लेभे, आर्याणाञ्च धर्मस्य, दर्शनस्य च समासेन सर्वविज्ञानानां विश्वकोशस्य पदवी प्रापत् , यदधिकृत्य "न तदस्ति हि लोकेऽस्मि- भारते यन्न दृश्यते” इति लोकोक्तिश्च भारतीयेषु प्रचरति, प्रशंसा वादेन च यत्पञ्चमो वेदो जनरुच्यते, महत्वाञ्च महाभारतमभिधीयते । कालक्रमेण कथ्याभाषारूपेण विरतदेववाणीप्रचारे विवृद्धविषयाभि- लाषे कलियुगेऽपि शरीरसुखमेव संसारसारं मन्यमानानां मानवेन्द्राणां परिषदामलङ्कारभूता भासकालिदासभारविभवभूतिभट्टबाणमाघश्री. हर्षादयः सिद्धसारखताः समये समये सुरवाणीकवितामातुः सेवापरा आसन् । तेषां मनोरमाणि काव्यानि संप्रत्यपि भारतगौर- ववर्धनानि । परमाश्रयदातूणां विषयैषिणां विलासासक्तचेतसा ।

कवितामपिसंक्रान्तवती, येनास्यान रसान् विहाय गार एवं प्रायशरते. षां काव्यानां वर्णनीयविषयो बभूव। “व्यवहारविंदे शिवेतर क्षतये सदुप- देशयुजे चोद्दिष्टा कविता "ध्यायतो विषयान् पुंसः संगस्तेषून जायते संगात्संजायते काम: इति भगवद्भणितिनिविष्टानिवार्यनियमा. द्विषयमावण्याय कामोद्दीपनाय च प्रबभूव । उक्तञ्च प्रबोधचन्द्रोदये । "सन्तु-बिलोकन-भाषण विलास-परिहास-केलिपरिरम्भाः स्मरणमपि-कामिनीनामलमिह-मनसो-विकाराय ।। प्रणेतृभिराद्याश्रमसेविभ्यः स्वप्रेऽपि नोपकल्पितानि काव्यान्ये- तानि सुशब्दप्रयोगपाटवोपदेशाय मनोहरवाक्याविन्यासशिक्षणाय च परमोपयोगितया वर्णिनां पाठ्यपुस्तकरूपेण पाठशालास्वपि प्रसर प्रापुः, येनापरिपक्वम तयोऽपि बालाः स्वामूल्यं समयं सर्वङ्कषकाम- कथास्वतिवाहयामासुः। बाल्य एव शृङ्गारस्य शृंगेण मर्माहतानि मन्मथेनोन्मथ्यमानानि तेषां कोमलमनांसि विधाविनयवर्धक ब्रह्मचर्य- ब्रतपालन पराङ्मुखाण्यभूवन् । संलग्नसंस्काराणि नवभाजनानीब तेषां बालबुद्धयो बाल्यादेव कामकुसंस्कारोपहता विषयसेवां स्वीकृत त्येन्द्रियग्राममुच्छृङ्खलयामासुः, यौवनोन्मेषकमनीयान्यपि तेषां शरी- राणीन्द्रियाणामनिग्रहादसंयमनाद्वा निस्तेजस्कानि हतश्रीकानि च समपद्यन्त। परिणामतः पाठप्रणाल्याऽनयाऽद्यापि काव्यपरिशील- नपरा नाना जघन्यरोगाक्रान्ता, विहतबुद्धयो, मंदमत्थो, यौवने एव जसजीर्णा, अपरजीवनं दुःखेन यापयन्तः, किमपि पराक्रमसाध्य कार्य नाचरन्तः, स्वल्पायुष्येव संसारादस्मात् प्रतिष्ठन्ते । किन्तु कष्टमतःपरं यद्भारतीयासभ्यताशिखरारूढेभ्यः सर्वापरदेशीयेभ्यः सवल्पिप्रमायर्मातं दधते । मनिTE: Here Plusa Fort पतितावस्थयानया विदीर्णहृदयो दयानित्ती. विषयवासनाशवणेऽप्यस्मिन् कलिकाले विलुप्तप्रायब्रह्मचर्यप्रथापुनरु- द्धारक आर्यसमाजसंस्थापक ऋषिप्रवरः श्रीदयानन्दोऽपि गुरुकुलानां पुनःस्थापनमुपदिशंस्तेषां पाठ्यक्रमञ्च निर्दिशन् शृंगाररसप्रधानानि काव्यानि वर्जयामास, श्रीवाल्मीकिरामायणमहाभारतयोश्चोपादे- यांशान् काव्यत्वेन पाठ्यपुस्तकेषु निर्धारयामास । तत्स्वर्गारोहणानन्तरमायर्समाजेन स्थापितेषु गुरुकुलेषु तेषामन्तेवासिनः सुकविप्रयुक्तपदालित्येन वरेण्यवचोविन्यालेन च वञ्चिता मा भवेयुरिति मनसि निधाय गुरुकुलपाठ्यप्रणाली प्रणेतारः केषां काव्यानां के केशाः पाठ्यन्तामस्माभिरिति वितर्कयामासुः। यतःसुललितभाषाप्रयोगः सुकविप्रयुक्त शब्दैरेव शिक्ष्यते, सुकविप्रयु. क्तशब्दानां पठनमनिवार्यमेवेति कृत्वा मुख्य हरिद्वारसमीपस्थ कांगड़ी- गुरुकुलविश्वविद्यालये समये समये भिन्नाः भिन्नाः काव्यांशा अन्व- शीत्यन्त । प्रायः प्रतिवर्ष पाठ्यपुस्तकपरिवर्तनेन समुद्रेजितास्तस्या धिकारिणः पुरुषाः सर्वेषां मुख्य काव्यानां वर्णिनामुपयोगिनोऽशांने- कत्र संग्राहयितुं संकल्पयामासुः। कटिनकार्यमेतत्सकल संस्कृतसा. हित्यपारावारीणेन केनापि परमविदुषैव सुसाध्यमासीत्, परं कांगड़ीगुरुकुलविश्वविद्यालयस्य कृतविद्यानां महोपाध्यायानामध्या पनकार्यानवकाशवशादन्यस्माद्वा कारणान्तरात्संग्रहकार्यमिदं संपाद- यितुमयोग्योऽप्यहं मत्परमानुग्राहकेणोपाचार्येण श्रीरामदेव महोदये. नाज्ञप्तः । संग्रहसाधने सर्वथात्मन्यविश्वस्तोऽप्ययं जन “आज्ञा प्रभूणां शविलंघनीयेत्यनुसृत्य विद्वद्वर्या विद्यावाचस्पतिवेदान्तसांख्यतीर्थो- पाधिकव्याकरणमहोपाध्याय श्री पंडितकन्हैयालालशास्त्रिभिदत्ता- वलंबो, मित्रवर्यैः साहित्यमहोपाध्याय श्री पंडित वागीश्वर विद्या. - प्रशंसितानां महानुभावनां लाहाय्येनानुसत्या च स्वस्वल्पलामा- नुसारेणैवैतत्साहित्य संग्रहं कृतवानस्मि । तदिदं सम्प्रति प्रथमम् पाण्डु- लिपिरूपेण विदुषामने समुपाहियते, द्वितीयमुद्रणावसरे च तेषां परा मर्शा नादाय समुचितं संस्करणमेष्यति । विषयविषमपवाद्य वर्णिभ्यः संजीवनप्रापणप्रेप्सया संग्रहेऽस्मिन् सुधात्वारोपादस्य नाम साहित्य सुधासंग्रहः कृतः। स च कॉगड़ीगुरुकुलविश्वविद्यालये महाविद्या. लयविभागस्य चतुर्वर्षव्यापिश्रेणिचतुष्टयात्मकत्वात् प्रत्येकं श्रेणि- निमित्तं चतुर्यु बिन्दुषु विभज्यते। मंगलाचरणार्थं प्रत्येक विन्दुरा. ऽऽदिकाव्येन वेदेन प्रारभ्यते । प्रथमो बिन्दुः प्रथमश्रेण्यै उद्दिष्टः सुग- मतरैरथर्वसूक्तरुद्धाट्यते, ततस्तस्मिन् कालानुक्रमेण धरामिमामलं. कृतवताम् प्रातः स्मरणीयानां कविकुलगौरवाणां बाल्मीकिव्यासपत- अलिप्रभृतीनां वाग्विलासा: संगृहीताः । प्रत्येकंविन्दोन्तिमे भागे सभाचातुर्योपयोगीनि मनोरंजकानि कतिचित् पद्यानि प्रदत्तानि । अवसाने चेदं पुनरुक्तवदेवयत्स्मक्षुद्रमत्यनुरूपं कृतोऽप्ययं संग्रहः परमकृपालूनां प्राक् प्रशंसितानां महाशयानामेव साहाय्येन प्रस्तुतं रूपं प्राप । माननीयमित्रमुपाचार्यो विद्वद्वरेण्यः श्रीरामदेवमहो. दयोऽप्यस्य क्रमविधौ प्रचुरं साहाय्यं दत्तवानिति तस्यापि बहु कृतज्ञो- ऽस्मि । अस्य संग्रहस्य मुद्रणे ये दृष्टयादिदोषा दृश्यरंस्ते दयादाक्षि- एयाधुदारगुणैः सुधीभिः समाधेयाः । सं०१८ बैक्रमाब्दै काँगड़ी गुरुगुल विश्वविद्यालय पञ्चकुटीरे विदुषां वशंवदो भवानीप्रसाद अनुक्रमणिका. पृष्ठतः पृष्ठपर्यन्तम् . or || amorweg १ || २ Ramparweat विषयः भूमिका १. मंगलाचरणम् अथर्ववेदतः २. सौमनस्य सूक्तम् ३. ब्रह्मचर्य सूक्तम् ४. पृथिवी सूक्तम् খান মাখন: ५. दकार त्रयोपदेशः ऐतरेय ब्राह्मणतः ६. सत्य-महिमा गोपथब्राह्मणतः सप्तविकार-विजय विधानम् बृहदारण्यकोपनिषदः ८. आत्मज्ञानमहिमा कठोपनिषदः ... ROSTITY: AADHAAR ६ - mami PHER पृष्ठपर्यन्तम् . १६ २० २४ ।। ३० (2) विषयः पृष्ठतः श्रीवाल्मीकिरामायणतः १०. वर्षावर्णनम ११. शरवर्णनम् १२. हेमन्त वर्णनम् १६ १३. चन्द्रवर्णनम् সমীনাথ १४. प्रथमोध्यायः १५. द्वितीयोध्यायः २४ श्री पातञ्जलमहाभाष्यतः १६. सुशब्दप्रयोगमहिमा १७. कालविभागः चरकसंहिताया १८. एषणात्रयव्याख्या रघुवंशमहाकाव्यम् १६. प्रथमः सर्गः २०. द्वितीयः सर्गः २१. तृतीयः सर्गः २२. चतुर्थः सर्गः ५३ २३. पञ्चमः सर्गः ६१ अष्टमः सर्गः ६५ २५. नवमः सर्गः ६८ २६. दशमः सर्गः || ३२ Delusioes ३५ ५० ५० ६० । । । । । । । । ६५ ७३ पृष्ठवर्षन्तम्. ८६ | | | १०२ ( 3 ) विषयः पृष्ठता २८. द्वादशः सर्गः २६. त्रयोदशः सर्गः ३०. चतुर्दशः सर्गः ३१. अभिज्ञानशाकुन्तलचम्पूः १०३ कुमारसंभवतः ३२. हिमाचलवर्णनम् ३३. पार्वतीतपस्या १३५. ३४. पार्वतीपरिणयः बद्धरितात् ३५. बुद्धवैराग्यम् १४६ ३६. श्रमणत्वनिश्चयः १४३ ३७. सुभाषितानि १५२ १३४ Husena PAIN Co- १५१ TE ॐ साहित्य-सुधा-संग्रहः प्रथमो बिन्दुः प्रा ब्रह्मन् ! ब्राह्मणो ब्रह्मवर्चसी जायताम् । श्राराष्ट्र राजन्यः शूर इष- व्योऽतिव्याधी महारयो जायताम्। द्रोपदी धेनु र्वोढानहानाशुः सप्तिः पुरन्धिर्योषा जिष्ण रथेष्ठाः सभेयो युवास्य यजमानस्य वीरो जायताम् । निकामे निकामे न: प- जन्यो वर्षतु । फलवत्यो न ओषधयः पच्यन्ताम् । योगक्षेमो न: कल्पताम् ॥ ( यजुर्वेदात् २२-२२) (२) साहित्य-सुधा-संग्रहः * सौमनस्यसूक्तम् * सहदयं सामनस्य मविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत वत्सं जातमिवान्या ॥१॥ अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । जाया पत्ये मधुमती वाचं वदतु शान्तिवाम् ॥२॥ मा भ्राता भ्रातरं द्विक्षन्मा खसारमुत स्वसा। सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥ ३ ॥ थेन देवा न वियन्ति लोचविद्विषत मिथः । तरमो ब्रा वो गृहे संज्ञानं पुरुषेभ्यः ॥ ४ ॥ ज्वायखन्तश्चित्तिनो मा वि योष्ट संराधयन्तः सधुराश्चरन्तः । अन्योऽन्यस्मै यल्गु वदन्त एत, सध्रीचीनान् वः संमनसस्कृणोमि ॥ ५ ॥ समानि प्रपा सह वोऽन्नभागः, समाने योक्त सह वो युनज्मि । सस्यञ्चोऽति सपर्यता- ऽऽरा नामि मिवाऽभितः ॥ ६ ॥ सध्रीचीनान् वः संमनसस्कृणो- म्येकक्षुष्टीन्त्संवननेन सर्वान् । देवा इवाऽस्कृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥ ७॥ ( अथर्ववेदात् ३-३०) * ब्रह्मचर्य सूक्तम् * ब्रह्मचारीष्णंश्चरति रोदसी उभे, MARAanews ONE प्रथमो बिन्दु आचार्य उपनयमानो ब्रह्मचारिणं कृणुले गर्भमन्तः । तं रात्रीस्तिस्त्र उदरे बिमति तं.जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥ इयं समित् पृथिवी द्यौद्धितीयो: বাঞ্ছি মিম্বা ভূয়ানি। ब्रह्मचारी समिधा मेखलया श्रमेण लोकॉस्तपसा पिपर्ति ॥४॥ पूर्वो जातो बह्मणो बह्मचारी धर्म वसान स्तपलोदतिष्ठत् । तस्माजातं बाह्मणं बह्म ज्येष्ठ देवाश्च सर्वे अमृतेन साकम् ॥ ५ ॥ इमां भूमि पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च । ते कृत्वा समिधाबुपास्ते तयोरार्पिता भुवनानि विश्वा ॥ ६ ॥ ब्रह्मचर्येण तपसा राजा राष्ट्रविरक्षति । आचार्यों ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥ ७ ॥ बह्मचर्येण कन्या युवानं विन्दते पतिम् । अनवान ब्रह्मचर्येणाऽश्वो घासं जिगीर्षती॥८॥ बह्मचर्येण तपसा देवा मृत्युमुपानत । इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत् ॥ ६ ॥ ओषधयो भूतभव्यमहोराने वनस्पतिः ।

साहित्य-सुधा-संग्रहः यह्मचारी ब्रह्म भ्राजद् विभर्ति तस्मिन् देवा अधि विश्वे समोता। प्राणापानौ जनयन्नाद् व्यानं घाचं मनो हृदयं ब्रह्म मेधाम् ॥ ११ ॥ (अथर्ववेदात् ११-५) * पृथिवीसूक्तम् * सत्यं वृहद्वतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्ल्युरुं लोर्क पृथिवी नः कृणोतु ॥१॥ असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथा राध्यतां नः ॥२॥ यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । यस्यामिदं जिन्वति प्राणदेजत् सा नो भूमिः पूर्वपेये दधातु ॥ ३ ॥ यस्याश्चतस्त्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः। या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥ यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् । गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो धातु ॥ ५ ॥ विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥ याऽर्णवेऽधि सलिलमग्र आसीद् यां मायाभिरज्वचरन् मनीषिणः । यस्या हृदयं परमे व्योमन्

प्रथमो बिन्दुः
गिरय स्ते पर्वता हिमवन्तो-
ऽरण्यं ते पृथिवि ! स्योनमस्तु ।
बधं कृष्णां रोहिणी विश्वरूपां
ध्रुवां भूमि पृथिवीमिन्द्रगुप्ताम् ।
अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥ ८॥
यो नो द्वषत् पृथिवि ! यापृतन्याद्
योऽभिदासान्मनसा यो वधेन ।
तं नो भूमे ! रन्धय पूर्वकृत्वरि ! ॥8॥
त्वजातास्त्वयि चरन्ति मा.
स्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
तवेमे पृथिवि ! पञ्च मानवा.
येभ्यो ज्योतिरमृतं मत्येभ्य-
उद्यन्त्सूर्यो रश्मिभिरातनोति ॥ १० ॥
विश्वस्वं, मातरमोषधीनां,
ध्रुवां, भूमि पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥ ११ ॥
महत् सधस्थं महती बभूविथ
महान् वेग एजथु वेपथुष्टे ।
महांस्त्वेन्द्रो रक्षत्यप्रमादम्
सा नो भूमे प्ररोचय, हिरण्यस्येव
संदृशि, मा नो द्विक्षत कश्चन ॥ १२ ॥
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं विश्वधायसं धृतामच्छावदामसि ॥ १३ ॥
यावत् तेऽभि विपश्यामि भूमे सूर्येण मेदिना।
तावन्मे चतुर्मा मेष्टोत्तरामुत्तरां समाम् ॥१४॥

साहित्य-सुभा-संग्रहः यस्यामन' ब्रीहियवौ यस्या इमाः पञ्च कष्टमः। भूम्यै पर्जन्यपल्यै नमोऽस्तु वर्षमेदसे ॥ १६ ॥ निधि बिभ्रती बहुधा गुहा वसु मणि हिरण्यं पृथिवी ददातु मे। वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥ १७॥ ये ग्रामा यदरण्यं याः सभा अधि भूभ्याम् । ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥ १८ ॥ त्वमस्याऽsवपनी जनाना- मदितिः कामदुधा पप्रथानाः । यत् त ऊनं तत् त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥१६॥ उपस्था स्ते अनमोवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवी! प्रसूताः। दीर्घ न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहतः स्याम ॥ २० ॥ भूमे ! मातर्निधेहि मा भद्रया सुप्रतिष्ठितम् । संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥ २१ ॥ ( अथर्थ वेदात १२-१), * दकार-त्रयोपदेशः * त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्य मूषुर्देवा मनुष्या । प्रथमो बिन्दुः (७) सिष्मेति ह ऊचुः, “दाम्यतेति-न आत्थ इति" । "ओमिति ह उवाच, "व्यज्ञासिष्टेति" ॥१॥ अथ ह एनं मनुष्या ऊचुः "ब्रवीतु नो भवानिति । तेभ्यो ह एतदेवाक्षरमुवाच "द, इति । "व्यज्ञासिष्टा ३५ इति । "व्यज्ञा- सिष्मेति ह ऊचुः । “दत्त" इति न आत्थ इति" | “ओ मिति"ह उवाच, "व्यज्ञासिष्टेति ॥२॥ एनमसुरा ऊचुः "ब्रवीतु नो भवानिति” । तेभ्योह एतदेवाक्षर मुवाच "द" इति । व्यज्ञासिष्टा ३इति" | "व्यज्ञासिष्म इति" ह ऊचुः । “दयध्व मिति न आत्थ | "ओम् इति" ह उवाच, "व्यज्ञालिष्टोति। तदेतदेवैषा दैवीवागनु बदति स्तनयित्नु "ईद इति ।" दाम्यत दत्त दयध्वमिति । तदेतत्त्रय, शिक्षेद्दमन्दानं दयामिति । ३॥ { মানবদ্য প্লাল্লা) * सत्यमहिमा * अथ ह । 'नाभानेदिष्ठं वै मानचं ब्रह्मचर्य वसन्तं भ्रातरो निरभजन् । सोऽब्रवीदेत्य किं मामभाक्तति । एतमेव निष्ठावमववदितारमित्य- ब्रुवन् । तस्माद्धाप्येतर्हि पितरं पुत्रा निष्ठावोऽववदितेत्येवाचक्षते । स पितरमेत्याबुबीत् त्वां ह वाव मह्यं ततामाक्षुरिति । तं पिताऽ. ववीत् । मा पुत्रक तदादथाः । अङ्गिरसो वा इमे स्वर्गाय लोकाय सत्रमालते। ते षष्ठं षष्ठमेवाहरागत्य मुह्यन्ति । तानेते सूक्ते षष्टेड हनि शंसय तेषां यत्लहन लत्रपरिवेषणं तत्ते स्पर्यन्तो दास्यन्तीति । तथेति तानुपैतातिगृभ्णीत मानवं सुमेधस इति । तमनुवन् किंकामो वदसीति । इदमेव वः षष्ठमह प्रशापयानीत्यबवीदथ यद्ध एतत्सहस्रं सत्रपरिवेषणं तन्मे स्वर्यन्तोऽदति । तथेति । तानेते सूक्ते षष्ठेऽहन्य- ।

। (८) साहित्य-सुधा-संग्रहः ऽब्रुवन् । एतत्ते ब्राह्मण सहस्रमिति । तदेनं समाकुर्वाणं पुरुषः कृष्णशवास्युत्तरत उपोत्थायाबवीन्मम वा इदं मम वै वास्तु हमिति । सोऽबवीन्मह्यं वा इदमदुरिति । तमबवीत्तदै नौ तवैव पितरि प्रश्न इति । स पितरमैत् । तं पिताब्रवीत् । ननु ते पुत्रकादुरिति अदुरेव म इत्यबवीत्तत्तु मे पुरुषः कृष्णशवास्युत्तरत उपोदतिष्ठन्मम वा इदं मम वै वास्तुहमित्यादितेति । तं पिताबवीत् । तस्यैव पुत्रक तत्ततुभ्यं दास्यतोति । स पुनरेत्याबवोत्तव ह वाव किल भगव इमिति मे पिताहेति । सो ऽब्रवीत् । तदहं तुभ्यमेव ददामि य एव सत्यमवादीरिति । तस्मादेवं विदुषा सत्यमेव वदितव्यम् ॥ (ऐतरेय ब्राह्मणात् ५-२-१४) * सप्तविकार-विजय-विधानं * जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायन्ते, ब्रह्मवर्चसञ्च यशश्च स्वप्नश्च क्रोधञ्च श्लाघाञ्च रूपञ्च पुण्यमेव गन्धं सप्तमम् । तानि ह वा अस्यैतानि ब्रह्मचर्यमुपेतोपनामन्ति, मृगानस्य ब्रह्मवर्चसं गच्छत्याचार्य यशोऽजगरं स्वप्नो, वराह क्रोधोऽपश्लाघं कुमारी रूप, मोषधिववस्पतीन् पुण्यो गन्धः। स यन्मृगाजिनानि वस्ते, तेन तद् ब्रह्मवर्चसमवरुन्धे, यदस्य मृगेषु भवति स ह स्नातो ब्रह्मवर्चसी भवति, स यदहरहराचार्य्याय कर्मकरोति तेन तधशोऽवरुन्धे यदस्या- चायें भवति, स ह स्नातो यशस्वी भवति, स यत्सुषुप्सुर्निद्रान्निनयति तेन तं स्वप्नमवरुन्धे, योऽस्थाजगरे भवति । तं ह स्नातं स्वपन्तमाहुः स्वपितु मैनं वोबुधथेति, स क्रुद्धो वाचा न कञ्चन हिनस्ति । पुरुषात् पुरुषात् पापीयानिव मन्यमानस्तेन तं क्रोधमवरुन्धे, योऽस्य वराहे 200 N

प्रथमो बिन्दुः
(६)
श्लाघीयोऽन्नेभ्यः श्लाघ्यतेऽथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्तानग्ना-
नोदीक्षेदेतिवेति मुखं विपरिधापयेत्तेन तद्रूपमवरुन्धे, यदस्य कुमार्य
भवति तं ह स्नातं कुमारीमिव निरीक्षन्तेऽथैतद्ब्रह्मचारिणः पुण्यो
गन्धो य औषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रसेन
तं पुण्यं गन्धमवरुन्धे, योऽस्योषधिवनस्पतीषु भवति स ह स्मातः
पुण्यगन्धिर्भवति ॥ १ ॥
( गोपथब्राह्मणात् २-२)
* आत्मज्ञान-महिमा *
स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु । य एषोऽन्त-
हृदय आंकाशस्तस्मिन्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः
स न साधुना कर्मणा भूयानो एव असाधुना कनीयान् एष सर्वेश्वर
एष भूताधिपतिरेप भूतपाल एष सेतुर्विधरण एषां लोकानामसम्मे-
दाय तमेतं वेदानुवचलेन बाह्मणा विविदिषन्ति यज्ञेन दानेन तपसा-
ऽनाशकेनैतमेव विदित्वा मुनिर्भवति एतमेव प्रवाजिनो लोकमिच्छन्तः
प्रव्रजन्ति एतद्ध स्म वै तत्पूर्वे विद्वासः प्रजां न कामयन्ते कि प्रजया
करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह म पुत्रैषणायाश्च
वित्तषणायाश्च लोकैयणायाश्च व्युत्थायाऽथ भिक्षाचर्य चरन्ति या
ह्येव पुत्रैषणा सा वित्तषणा या वित्तषणा सा लोकैषणोभे होते एषणे
एव भवतः। स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीर्यो न हि
शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न
तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष
एते तरति नैनं कृताकृते तपतः ॥ २२ ॥

(१०)
साहित्य-सुधा-संग्रहः
* प्रात्मज्ञानेन मोक्षाधिगमः *
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिन्तु सारथिं विद्धि मगः प्रग्रहमेव च ॥ १ ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः ॥२॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्या इव सारथेः ॥ ३ ॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथः ॥ ४ ॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारञ्चाधिगच्छति ॥ ५ ॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥६॥
विज्ञानलारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्यनः पारमाप्नोति तद्विष्णोः परमम्पदम् ॥ ७ ॥
इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च पर मनः ।
मनसस्तु परा बुद्धिबुद्धेरात्मा महान् परः ॥ ८॥
महतः परमव्यतमव्यत्कात् पुरुषः परः।
पुरुषान पर फिश्चित्सा काष्ठा सा परा गतिः॥६॥
एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वप्रथया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥१०॥
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गम्पथस्तत्कवयो वदन्ति ॥ ११ ॥
अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसन्नित्यमगन्धवच यत् ।
अनाद्यनन्तम्महतः परन्ध्र वं
निचाय्य तन्मृत्युमुखात्प्रमुच्यते ॥ १२ ॥

प्रथमो बिन्दुः (११) * वर्षावर्णनम् * अयं स कालः संप्राप्तः समयोऽध जलागमः। संपश्य त्वं नभी मेधैः संवृतं गिरिलनिभैः ॥ १॥ नवमासधृतं गर्भ भास्करस्य गमस्तिभिः । पीत्वा रसं समुद्राणां यौः प्रसूते रसायनम् ॥ २॥ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः । कुटजाऽर्जुनमालाभिरलंकर्तु दिवाकरः ॥ ३ ॥ संध्यारागोत्थितैस्तानरन्तेष्वपि च पाण्डुभिः । स्निग्धैरभ्रपटच्छेदैर्बद्धवणमिवाम्बरः ॥ ४॥ मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः । शक्यमनलिभिः पातुं वाताः केतकगन्धिनः ॥५॥ मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः । मारुतापूरितगुहाः प्राधीता इव पर्वताः ॥ ६॥ कशाभिरिव हैमीभिर्विद्युद्भिरभिताडितम् । अन्तस्तनितनिर्घोषं सवेदनमिवाऽम्बरम् ॥ ७ ॥ रजःप्रशान्तं साहिमोऽद्य वायु. निदाघदोषप्रसराः प्रशान्ताः । स्थिता हि यात्रा वसुधाधिपानां प्रवासिनो यान्ति नराः स्वदेशान् ॥ ८ ॥ क्वचित्प्रकाशं क्वचिदप्रकाश नभः प्रकीर्णाम्बुधरं विभाति । क्वचित्कचित्पर्वतसंनिरुद्ध रूपं यथा शान्तमहार्णवस्य ॥ ६ ॥ च्यामिश्रितं सर्जकदम्बपुष्पैनवं जलं पर्वतधातुताम्रम् ।

TRARAMJFACE (१२) साहित्य-सुधा-संग्रहः रसाकुलं षट्पदसंनिकाशं प्रभुज्यते जम्बुफल प्रकासम् । अनेकवर्ण पवनावधूतं भूमौ पतत्यानफलं विपक्वम् ॥ ११ ॥ विद्युत्पताकाः सबलाकमालाः शैलेन्द्रकूटाकृतिसंनिकाशाः । गर्जन्ति मेघाः समुदीर्णनादा मत्ता गजेन्द्रा इव संयुगस्थाः॥१२॥ वर्षोदकाऽऽप्यायितशाद्वलानि प्रवृत्तनृत्तोत्सवबहिणानि । वनानि निवृष्टबलाहकानि पश्याऽपराहेष्वधिक विभान्ति ॥ १३॥ समुद्रहन्तः सलिलातिभार बलाकिनी वारिधरा नदः । महत्सु शृङ्गेषु महीधराणां विश्रम्य विश्रभ्य पुनः प्रयान्ति ॥ १४ ॥ मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाकपंक्तिः । वातावधूता वरपौण्डरोको लम्बेव माला रुचिरा ऽम्बरस्य ॥१५॥ बालेन्द्रगोपरन्तरचित्रितेन विभाति भूमिर्नवशाद्वलेन । गात्रानुपृक्तेन शुकप्रभेण नारीव लाक्षाक्षितकम्बलेन ॥ १६ ॥ जाता वनान्ताः शिखिसुप्रनृत्ता जाताः कदम्बाः सकदम्बशाखाः । जाता वृषा गोषु समानकामा जाता मही सस्यवनाभिरामा ॥ १७ ॥ वहन्ति वर्षन्ति नदन्ति भान्ति ध्यार्यान्त नृत्यन्ति समाश्वसन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥१८॥ प्रहर्षिताः केतकिपुष्पगन्ध मानाय मत्ता वननिझरेषु । प्रपातशब्दाकुलिता गजेन्द्राः सार्धं मयूरैः समदा नदन्ति ॥ १६ ॥ धारानिपातैरभिहन्यमानाः कदम्बशाखासु विलम्बमानाः | क्षणार्जितं पुष्परसावगाढं शनैर्मदं षट्चरणास्त्यजन्ति ॥ २० ॥ अङ्गारचूर्णोत्करसंनिकाशैः फलैः सुपर्याप्तरसैः समृधैः । जम्बूद्रुमाणां प्रविभान्ति शाखा निपीयमाना इव षट्पदीधैः ॥ २१ ।। तडि पताकाभिरलंकृताना मुदीर्णगम्भीरमहारवाणाम् । विभान्ति रूपाणि बलाहकानां रणोल्सकानामिव वानTIL 20॥ .

प्रथमो बिन्दुः (१३) मार्गानुगः शैलधनानुसारी संप्रस्थितो मेधरवं निशम्य । युद्धाभिकामः प्रतिनादशङ्की मत्तो गजेन्द्रः प्रतिसंनिवृत्तः ॥ २३ ॥ क्वचित्प्रगीता इव षट्पदौधैः क्वचित्पनृत्ता इव नीलकण्ठैः। क्वचित्प्रमत्ता इव वारणेन्द्र विभान्त्यनेकाश्रथिणो वनान्ताः ॥ २४॥ मुक्तासमाभं सलिलं पतद्वै सुनिर्मलं पत्रपुटेषु लग्नम् । हृष्टा विवर्णच्छदना विहंगाः सुरेन्द्रदत्तं तृषिताः पिवन्ति ॥ २५ ॥ षट्पादतन्त्रीमधुराभिधारं प्लवंगमोदीरितकराठतालम् । आविष्कृतं मेघमृदङ्गनादै.वनेषु संगीतमिव प्रवृत्तम् ॥ २६॥ क्वचित्प्रनृत्तः क्वचिदुन्नदद्भिः क्वचिञ्च वृक्षाग्रनिषएणकायैः । व्यालम्बबर्हाभरणैर्मयूरै र्वनेषु संगीतमिव प्रवृत्तम् ॥ २७ ॥ खनैर्धनानां प्लवगाः प्रबुद्धा विहाय निद्रां चिरसंनिरुद्धाम् । अनेकरूपाकृतिवर्णनादा नवाम्बुधाराभिहता नदन्ति ॥ २८ ॥ नीलेषु नीला नववारिपूर्णा मेघेषु मेघाः प्रतिभान्ति सक्ताः । वाग्निदग्धेषु दवाग्निद्धाः शैलेषु शैला इव बद्धमूलाः ॥ २६ ॥ प्रमत्तसनादितबहिणानि सशक्रगोपाकुलशाद्वलानि । चरन्ति नीपार्जुनवासितानि गजाः सुरम्याणि वनान्तराणि ॥ ३० ॥ नवाम्बुधाराहतकेसराणि ध्रुवं परित्यज्य सरोरुहाणि । कदम्बपुष्पाणि सकेसराणि नवानि हृष्टा भ्रमराः पिवन्ति ॥ ३१ ॥ मत्ता गजेन्द्रा मुदिता गवेन्द्रा वनेषु विक्रान्ततरा मृगेन्द्राः रम्या नगेन्द्रा निभृता नरेन्द्राः प्रक्रीडितो वारिधरैः सुरेन्द्रः ॥ ३२ ॥ मेधाः समुद्धृतसमुद्रनादा महाजलौघैर्गगनावलम्बाः । नदीस्तटाकानि सरांसि वापीमही च कृत्स्नामपवाहयन्ति ॥ ३३ ॥ वर्षप्रवेगा विपुलाः पतन्ति प्रवान्ति वाताः समुदीर्णवेगाः । प्रनकलाः प्रवहन्ति शीघयों जलं विप्रतिमा ।

(१४) साहित्य-सुधा-संग्रहः नरैर्नरेन्द्रा इव पर्वतेन्द्राः सुरेन्द्रनीतैः पवनोपनीतैः । घनाम्बुकुम्भैरभिषिच्यमाना रूपं श्रियं स्वामिव दर्शयन्ति ॥ ३५ ॥ धनोपाई गगनं न तारा न भास्करो दर्शनमभ्युपैति । नवैर्जलौधैर्धरणी वितृप्ता तमोविलिप्ता न दिशः प्रकाशाः ॥ ३६॥ महान्ति कूटानि महीधराणां धोराविधौतान्यधिकं विभान्तिः । महाप्रमाणैर्विपुलैः प्रपातैर्मुक्ताकलापैरिव लम्बमानैः ॥ ३७ ॥ शैलोपलप्रस्खलमानवेगाः शैलोत्तमानां विपुलाः प्रपाताः । गुहा संनादितबहिणासु हारा विकीर्यन्त इवावभान्ति ॥ ३८ ॥ शीघ्र प्रवेगा विपुलाः प्रपाताः निधौसङ्गोपतला गिरीणाम् । मुक्ताकलापप्रतिमाः पतन्तो महागुहोत्संगतलधि यन्ते ॥ ३६॥ ( श्री वाल्मीकि रामायणस्य किष्किन्धाकाण्ड-२८ सर्गात ) * शरदर्णनम् * शाखांसु सप्तच्छदपादपानां प्रभासु ताराक्रनिशाकराणाम् । लीलासु चैवोत्तमवारणानां श्रियं विभज्याऽद्य शरत्प्रवृत्ता ॥ १ ॥ संप्रत्यनेकाश्रयचित्रशोभा लक्ष्मीः शरत्कालगुणोपपन्ना। सूर्याऽग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ २॥ सप्तच्छदानां कुसुमोपगन्धी षट्पादवृन्दैरनुगीयमानः । मत्तद्विपानां पवनानुसारी दयं विनेष्यन्नधिकं विभाति ॥३॥ अभ्यागतैश्वारुविशालपक्षः स्मरप्रियः पद्मरजीवकीर्णैः । महानदीनां पुलिनोपयातैः क्रीडन्ति हंसाः सह चक्रचाकैः ॥ ४॥ मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु । प्रसन्नतोयान च निन्नगाल विमान

।
'प्रथमो बिन्दुः
नभः समीक्ष्याम्बुधरैर्विमुक्त विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वरक्ता चिनिवृत्तशामा गतोत्सवा ध्यानपरा मथूराः॥६॥
मनोज्ञगन्धैः प्रियकैरनल्पैः पुष्पानभाराऽवनताऽग्नशालैः ।
सुवर्णगौरैर्नयनाभिरामैरुद्योतितालीव वनान्तराणि ॥ ७ ॥
प्रियान्वितानां नलिनीप्रियाणां वनप्रियाणां कुसुमागतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य भन्दाः ॥ ८ ॥
व्यक्त नभः शस्त्रविधीतवर्ण कृशप्रवाहानि नदीजलानि ।
कहारशीताः पचनाः प्रवान्ति तमोधिमुक्ताश्व दिशः प्रकाशाः ||
सूर्याऽऽत्तपनामणनष्टपङ्का भूमिश्विरोद्धारितलान्द्रः ।
अन्योन्यवैरेण समायुतानासुद्योगकालोऽद्य नराधिपानाम् ॥ १० ॥
शरद्गुणाप्याथितरूपशोभाः प्रहर्षिताः पांसुसमुत्थिताङ्गाः ।
मदोत्कटाः संप्रति युद्धलुब्धा वृषा गवां मध्यपता नदन्ति ॥ ११ ॥
त्यक्त्वा बराण्यात्मविभूषितानि बर्हाणि सोरोपगता नदीनाम् ।
निर्भय॑माना इच सारसौधैः प्रयान्ति दीना विमना मयूराः ॥ १२ ॥
विज्ञास्य कारण्डवचक्रवाकान्महारवैभिन्नकटा गजेन्द्राः ।
सरःसु बद्धाम्बुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिवन्ति ॥ १३ ॥
व्यपेतपंको सबालुकासु प्रसन्नतोयासु सगोकुलासु ।
ससारसाऽऽरावविनादितासु नदीषु हंसा निपतन्ति हृष्टाः ॥ १४ ॥
नदीधनप्रस्रवणोदकाना मतिप्रवृद्धानिलहिणानाम् ।
प्लवंगमानां च गतोल्लवानां ध्रुवं रवाः संप्रति संप्रनष्टाः ॥ १५ ॥
अनेकवर्णाः सुविनष्टकाया नवोदितेच्वम्वुधरेपु नष्टाः ।
क्षधार्दिता घोरविषा विलेभ्यश्चिरोपिता विप्रसरन्ति सः ॥१६॥
विपक्कशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारूपंक्तिः ।
नभः समानामति शीघ्रवेगा वातावधूता अथितेच माला ॥ १७ ॥
सुप्तकहंसं कुमुदैरुपेतं महादस्य सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचन्द्रं तारागणाकीर्णमिवाऽन्तरिक्षम ॥ १८ ॥

(१६)
साहित्य-सुधा-संग्रहः
प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाऽद्य लक्ष्मी वरांगनानामिव भूषितानाम् ॥ १६ ॥
वेणुस्वरव्यञ्जिततूर्यमिश्रः प्रत्यूषकालेऽनिलसंप्रवृत्तः ।
संमूर्च्छितो गह्वरगोवृषाणामन्योन्यमापूरयतीव शब्दः ॥२०॥
नवैर्नदीनां कुसुमप्रहालै ाधूयमानैर्मृदुमारुतेन ।
धौताऽमलक्षोमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥ २१ ॥
वनप्रचण्डा मधुपानशौण्डाः प्रियान्विताः पट चरणाः प्रहष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वन्ति पद्मासनरेणुगौराः॥२२॥
जलं प्रसन्नं कुसुमप्रहासं क्रौञ्चस्वनं शालिवनं विपक्कम् ।
मृदुश्च वायुर्विमलश्च चन्द्रः शंसन्ति वर्षव्यपनीतकालम् ॥ २३ ॥
लोकं सुवृष्टया परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पन्नलस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रनष्टाः ॥२४॥
प्रसन्नसलिलाः सौम्य कुरराऽभिविनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाऽऽशयाः॥२५॥
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज |
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ २६ ॥
(श्री वाल्मिीकि रामायणस्य
किष्किन्धाकाण्ड ३० सर्गात् )
*
हेमन्तवर्णनम *
वसतस्तस्य तु सुखं राघवस्य महात्मनः ।
शरद्व्यपाये हेमन्त ऋतुरिष्ठः प्रवर्तत ॥ १ ॥
स कदाचित्प्रभातायां शवयीं रघुनन्दनः ।
प्रययाऽवभिषेकार्थ रम्यां गोदावरी नदीम ॥ २ ॥

.
।
प्रथमो बिन्दुः
(१७)
प्रहः कलशहस्तस्तु सोतया सह वीर्यवान् ।
पृष्ठतोऽनुव्रजन्माता सौमित्रिरिदमब्रवीत् ॥ ३॥
अयं स काल; संप्राप्तः प्रियो यस्ते प्रियंवद !।
अलंकृत इवाऽऽभाति येन संवत्सरः शुभः ॥४॥
नीहारपरुषो लोकः पृथिवी सस्यमालिनी।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५ ॥
नवाऽऽग्रयणपूजाभिरभ्यर्च्य पितृदेवताः ।
कृताऽऽग्रयणकाः काले सन्तो विगतकल्मषाः ॥ ६ ॥
प्राज्यकामा जनपदाः संपन्न तरगोरसाः
विचरन्ति महीपाला यात्रार्थ विजिगीषवः ॥ ७॥
सेवमाने दृढ़ सूर्ये दिशमन्तकसेविताम् ।
विहीनतिलकेव स्त्री नोत्तरा दिवप्रकाशते ॥ ८॥
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम् ।
यथार्थनामा सुव्यक्त हिमवान्हिमवागिरिः ।।६।।
अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।
दिवसाः सुभगादित्या श्छायासलिलदुर्भगाः ॥ १० ॥
मृदुसूर्याः सुनीहाराः पटुशीताः समाहिताः ।
शून्यारण्या हिमध्वस्ता दिवसा भान्ति सांप्रतम् ।। ११ ।।
निवृत्ताऽऽकाशशयनाः पुष्यनीता हिमारुणाः।
शीतवृद्धतराऽऽयामा स्त्रियामा यान्ति सांप्रतम् ॥ १२ ॥
रविसंक्रान्त सौभाग्य स्तुषाराऽरुणमण्डलः।
निःश्वासाऽन्ध इवाऽऽदर्शश्चन्द्रमा न प्रकाशते ॥ १३
ज्योत्स्नातुषारमलिना पौर्णमास्यां न राजते ।
सीतव चातऽऽपश्यामा लक्ष्यते न च शोभते ॥ १४ ॥

. (१८) साहित्य-सुधा-संग्रहः प्रकृत्या शीतलस्पर्शी हिमविद्धश्च सांप्रतम् । प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५ ॥ वाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ॥ १६ ॥ खजूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः। शोभन्ते किंचिदालम्बाः शालयः कनकप्रभाः ॥ १७ ॥ मयूखैरुपसपनि हिमनीहारसंवृतैः । दूरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते ।। १८ ॥ आग्राह्यवीर्यः पूर्वाह्न मध्याह्ने स्पर्शतः सुखः । संसक्तः किंचिदापाण्डु रातपः शोभते क्षितौ ॥ १६ ॥ अवश्यायनिपातेन किंचित्प्रक्लिन्नशाला। बनानां शोभते भूमि निविष्टतरुणातपा॥ २० ॥ स्पृशन्सुविपुलं शीत मुदकं द्विरदः सुखम् । अत्यन्ततुषितो वन्यः प्रतिसंहरते करम् ॥२१॥ एते हि समुपासीना विहगा जलचारिणः । नाऽवगाहन्ति सलिल मप्रगल्भा इवाऽऽहवम् ।। २२ ॥ अवश्यायतमोगद्धा नीहारतमसाऽऽवृताः । प्रसुप्ता इच लक्ष्यन्ते विपुष्पा वनराजयः ॥ २३ ।। चापलंछन्नस लिला रुतविशेयसारसाः । हिमावालुकास्तारैः सरितो भान्ति सांप्रतम् ॥ २४ ॥ (श्री वाल्मीकि रामायणस्य) ( अरण्यकाण्ड १६ सात् ) प्रथमो बिन्दुः (१६) * चन्द्रवर्णनम् * ततः स मध्यंगतमंशुमन्तं ज्योत्स्ना वितानं मुहुरुद्वमन्तम् । ददर्श धीमान्भुवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ १॥ लोकस्य पापानि विनाशयन्तं महोदधि चाऽपि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशु मथाऽभियान्तम् ॥ २॥ या भांति लक्ष्मी वि मन्दरस्था यथा प्रदोषेषु च सागरस्था। तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥३॥ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकंदरस्थः। वीरो यथा गर्वितकुञ्जरस्थ श्चन्द्रोऽपि बभ्राज तथाऽम्बरस्थः ॥ ४ ॥ स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाऽचलः श्वेत इवॉलङ्गः । हस्तीव जाम्बूनदबद्धटङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः ॥ ५ ॥ विनष्टशीताऽम्बुतुषारपङ्को महाग्रहलाहविनष्ट पङ्क: प्रकाशलक्ष्म्याश्रयनिर्मलांको रराज चन्द्रो भगवाञ्छशाङ्कः ॥ ६ ॥ शिलातलं प्राप्य यथा मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः। राज्यं समासाद्य यथा नरेन्द्र स्तथा प्रकाशो विरराज चन्द्रः ॥ ७॥ (श्री वाल्मीकि रामायणस्य) सुन्दरकाण्ड ५म सर्गात श्रीकृष्णार्जुन संवादः प्रथमोऽध्यायः धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पांडवाश्चैव किमकुर्वत संजयः॥ १॥ संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥ पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्चद्रुपदश्च महारथः॥४॥ धृष्टकेतुश्चेकितानः कशिराजश्च वीर्यवान् । पुरुजित्कुंतिभोजश्च शैव्यश्चनर पुंगवः ॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्चवीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम !। नायका मम सैन्यस्य संज्ञार्थं तान्बवीमि ते ॥ ७ ॥ भवान् भीष्मश्च कर्णश्च कृपश्च समितिजयः। अश्वत्थामा कि प्रथमो बिन्दुः •(२१) अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ६ ॥ अपर्याप्तं तदस्माकं बलं भीमाऽभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाऽभिरक्षितम् ॥ १० ॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षतु भवंतः सर्व एव हि ॥ ११ ॥ तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शंख दध्मौ प्रतापवान् ॥ १२ ॥ ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यंत स शब्द स्तुमुलोऽभवत् ॥ १३ ॥ ततः श्वेतै हयै र्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥ १४ ॥ पाँचजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौंड दध्मौ महाशंखं भीमकर्मा वृकोदरः॥ १५ ॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१६॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकि श्चापराजितः ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते !। सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक्पृथक् ॥ १८ ॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवों चैव तुमुलो व्यनुनादयन् ॥ १६ ॥ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।

(२२)
साहित्य-सुधा-संग्रहः
अर्जुन न उवाच
हृषीकेशं तदा वाक्यमिदमाह महीपते।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ! ॥ २१ ॥
याचदेतानिरीक्षेऽहं योद्ध कामानवस्थितान् ।
कैमया सह योद्धव्यमस्मिन्त्रणसमुद्यमे ॥ २२॥
योत्स्यमानानवेक्षेऽहं य एते ऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धे युद्ध प्रियचिकीर्षवः ॥ २३ ॥
।
संजय उवाच
एवमुक्तो हृपीकेशो गुडाकेशेन भारत !।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उचाच पार्थ ! पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
तत्राऽपश्यस्थितान्पार्थः पितृनथ पितामहान् ।
आचार्यान् मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
भ्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान् ॥ २७ ॥
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण ! युयुत्सुं समुपस्थितम् ॥ २८ ॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २६ ॥
गाँडोवं स्त्रंसते हस्तारवक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥

प्रथमो बिन्दु
(२३)
निमित्तानि च पश्यामि विपरीतानि केशव!।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
न कांक्षे विजयं कृष्ण! न च राज्यं सुखानि च ।
कि नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ॥ ३२ ॥
येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्ध प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥३४॥
एतान्न हंतुमिच्छामि नतोऽपि मधुसूदन ! ।
अपि त्रैलोयराज्यस्य हेतोः किनु महीकृते ॥ ३५ ॥
निहत्य धार्तराष्ट्रातः का प्रीतिः स्याजनार्दन !।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ।।
तस्मानार्हा वयं हेतुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ! ॥३७ ।।
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ! ॥ ३९ ॥
कुलक्षये प्रणश्यति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्न मधर्मोऽभिभवत्युत॥ ४० ॥
अधर्माऽभिभवात्कृष्ण ! प्रदुष्यति कुलस्त्रियः।
स्त्रीषु दुष्टासु वाष्र्णेय ! जायते वर्णसंकरः ।। ४१ ॥
दोषैरेतैः कुलमानां वर्णसंकरकारकैः ।
उत्साद्यंते जातिधर्माः कुलधर्माश्च शाश्वताः ।। ४२ ।।
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन !।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४३ ॥

(२६)
साहित्य-सुधा-संग्रहः
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राजासुखलोभेन हंतुं स्वजन मुद्यताः ॥ ४४ ॥
यदि मामप्रतीकारमशस्त्र शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेपतरं भवेत् ॥ ४५ ॥
संजय उवाच
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकलंविनमानसः ॥ ४६॥
॥ इति प्रथमोऽध्यायः॥
द्वितीयोऽध्यायः
संजय उवाच
।
तं तथा कृपयाचिष्टमश्रुपूर्णाकुलेऽऽक्षणम् ।
विषीदंतमिदं वाश्च मुवाच मधुसूदनः ॥ १ ॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वये मकीर्तिकरमर्जुन ! ।। २ ।।
क्तव्य मा स्म गमः पार्थ ! नैतत्त्वय्युपपद्यते ।
तुझं हृदयदौर्बल्य त्यक्त्वोत्तिष्ठ परंतप.॥३ ॥
अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन!।
इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन ! ॥ ४ ॥

प्रथमो विन्दुः (२५) गुरूनहत्वा हि महानुभावाञ्छेयो भोक्तुं भैश्यमपीह लोके । हत्वाऽर्थकामांस्तु गुरूनिहैव भुंजीय भोगाधिरप्रदिग्धान् ॥ ५ ॥ न चैतद्विनः कतरनो गरीयो गद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्ते ऽवस्थिताः संमुखे धार्तराष्ट्राः ॥६॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥ न हि प्रपश्यामि ममाऽपनुद्याद्यच्छोकमुच्छोषणमिद्रियाणाम् । अवाप्य भूमावसपत्नमृद्ध राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥ संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || ६ || तमुवाच हृषीकेशः प्रहसन्निव भारत ! सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ श्री भगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासुंश्च नानुशोचंति पंडिताः ॥ ११ ॥ न त्वेवाऽहं जातु नाऽऽसं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा। तथा देहांतरप्राप्ति/रस्तत्र न मुह्यति ।। १३ ॥ मात्रास्पर्शास्तु कौंतेय ! शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यास्तास्तितिक्षस्व भारत ! ॥ १४ ॥ यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ !।

(२६) साहित्य-सुधा-संग्रहः माऽसतो विद्यते भाचो नाऽ भावो विद्यते सतः। उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥ अविनाशि तु तद्विद्धि येन सर्व मिदं ततम् । विनाशमव्ययस्याऽस्य न कश्चित्कर्तुमर्हति ॥ १७ ॥ अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युद्धयस्व भारत ॥ १८ ॥ य एनं वेत्ति हतारं यश्चैनं मन्यते हतम् । उभौ तौ न बिजानीतो नायं हन्ति न हन्यते ।। १६ ।। न जायते म्रियते वा कदाचि- नायं भूत्वा भक्त्तिा वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे ॥ २० ॥ चेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ के घातयति हंति कम् ॥ २१ ॥ वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संथाति नवानि देही ।। २२ ॥ नैनं छिदंति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयंत्यापो न शोषयति मारुतः ॥ २३ ॥ अच्छेद्योऽयमदाद्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ अव्यक्तोऽयमचित्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥ अथ चैनं नित्यजातं नित्यं वा मन्यले मृतम् । तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि ।। २६ ।।

MARANA प्रथमो बिन्दु (२७) जातस्य हि ध्रुवो मृत्यु ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥ आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवञ्चैनमन्यः शृणोति श्रुत्वाप्येनं वैद नाचैव कश्चित् ॥ २६ ॥ देही नित्यमबध्योऽयं देहे सर्वस्य भारत ! तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥ खधर्ममपि चावेक्ष्य न विकषितुमर्हसि । धाद्धि युद्धाच्छेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥ यदृच्छया. चोपपन्नं स्वर्गद्वारमपावृतम् ।। सुखिनः क्षत्रियाः पार्थ ! लभन्ते युद्धमीदृशम् ॥ ३२ ॥ अथचेस्वमिमं धयं संग्राम न करिष्यसि । ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ॥३३॥ अकीर्ति चापि भूतानि कथयिष्यति तेऽव्ययाम् । संभावितस्य चाकीर्ति मरणादतिरिच्यते ॥ ३४.।। भयाद्रणादुपरतं मंस्यते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाथवम् ।। ३५ ॥ अवाच्यवादांश्च बहू न्वदिष्यति तवाऽहिताः । निदंतस्तव सामर्थ्य ततो दुःखतरनु किम् ।। ३६ ॥ हतो वा प्राप्स्यसि वर्ग जित्वा वा मोक्ष्यसे महीम् । तस्मादुत्तिष्ट कौंतेय ! युद्धाय कृतनिश्चयः ॥ ३७ ॥ सुखदुःखे समे कृत्वा लामालाभी जयाजयौ। ।

(२८) साहित्य-सुधा-संग्रहः एषा ते ऽभिहिता सांख्ये बुद्धिोगे विमां शृणु। बुद्धया युक्तो यया पार्थ! कर्मबन्ध प्रहास्यसि ॥ ३६ ।। नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४०॥ व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन! बहुशाखा हनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥ यामिमां पुष्पितां वाचं प्रवदंत्यविपश्चितः । वेदवादरताः पार्थ! नान्यदस्तीतिवादिनः ।। ४२ ॥ कोमात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुला भोगैश्वर्यगति प्रति ॥ ४३ ॥ भोगैश्चर्यप्रलतानां तयाऽपहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥ त्रैगुण्यविषया वेदा निस्वैगुण्यो भवाऽर्जुन ! निद्वो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥ यावानर्थ उद्पाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥४७॥ योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय । सिद्धयोसिद्धयोः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥ दूरेण ह्यवरं कर्म बुद्धियोगोद्धनंजय ! बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४६ ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद्योगाय युज्यख योगः कर्मसु कौशलम् ॥ ५० ।। कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबंधविनिमुक्ताः पदं गच्छंत्यनामयम 47 प्रथमो बिन्दुः (२६) यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गंतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।। ५२ ।। श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५३ ॥ अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ! स्थितधीः किं प्रभाषेत किमासीत ब्रजेत किम् ॥ ५४॥ श्री भगवानुवाच प्रजहाति यदा कामा न्सर्वान्पार्थ! मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रशस्तदोच्यते ॥ ५५ ॥ दुःखेष्वनुविनमनाः सुखेषु विगतस्पृहः । वीतरागभयत्रोधः स्थितधी मुंनिरुच्यते ॥५६॥ यः सर्वत्रानभिस्नेह स्तत्तत्प्राप्य शुभाशुभम् । नाभिनंदति न द्वष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७ ॥ यदा संहरते चायं कूर्मोंऽगानीच सर्वशः । इन्द्रियांणींद्रियार्थभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८ ॥ विषया विनिवर्तते निराहारस्य देहिनः । रसव रसोप्यस्य परंदृष्ट्वा निवर्त्तते ॥ ५६ ॥ यततो ह्यपि कोंतेय ! पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरंति प्रसभं मनः ॥ ५० ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः। चशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ ६१ ।। ध्यायतो विषयान्पुंसःसंगस्तेषूपजायते । संगात्संजायते कामः कामाक्रोधोऽभिजायते ॥ ६२॥ क्रोधाद्भवतिसंमोहः संमोहात्स्मृतिविभ्रमः।

साहित्य-सुधा-संग्रहः रागद्वेषवियुक्तस्तु विषयानिन्द्रियश्चरन् । आत्मवश्यर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। ६५ ।। नास्ति बुद्धिरयुक्तस्य न चाऽयुक्तस्य भावना । न चाऽभावयतः शांति रशांतस्य कुतः सुखम् ।। ६६ ।। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवांऽमसि ॥ ६७ ॥ तस्माद्यस्य महाबाहो ! निगृहीतानि सर्वशः । इन्द्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। ६६ ।। आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशंति यद्वत् । तद्वत्कामा यं प्रविशंति सर्वे स शांतिमाप्नोति न कामकामी॥७०॥ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शांतिमधिगच्छति ॥ ७१ ।। एषा ब्राह्मी स्थितिः पार्थ! नैनां प्राप्य विमुह्यति स्थित्वाऽस्यामंतकालेऽपि ब्रह्म निर्वाणमृच्छति ।। ७२ ।। ( इति भगवद्गीतायाः द्वितीयोऽध्यायः श्री व्यासकृतमहाभारतात् ) * सुशब्द-प्रयोग-महिमा * यस्तु प्रयुङ्क्ते कुशलो विशेषे, शब्दान् यथावद् व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र, पवमप- प्रथमो बिन्दुः कः ? वाग्योगविदेव । कुत एतत्। यो हि शब्दान् जानाति अप- शब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्मः । शब्दज्ञानेऽप्यधर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसोऽपशब्दाः । अल्पीयांसः शब्दाः । एकैकस्यशब्दस्य बहवोऽपभ्रंशाः। तद्यथा । गौरित्यस्य गावी गोणी गोता गोपोतलिकेत्येवमादयो ऽपभ्रशाः । अथ योऽत्राग्योगचित् । अज्ञानं तस्य शरणम् । विषम उपन्यासः । नाऽत्यन्तायाऽशानं शरणं भवितुमर्हति । यो ह्यजानन् वै ब्राह्मणं हन्यात् सुरां वा पिवेत् लोऽपि मन्ये पतितः स्यात् । एवं तर्हि सो. नन्तमाप्नोति जयं परत्र वाग्योगविद् । दुष्यति चाऽपशब्दैः । कः । अवाग्योगविदेव । अथ यो वाग्योगविद् । विज्ञानं तस्य शरणम् । क पुनरिद पठितम् । भ्राजा गाम श्लोकाः । किं च भोः श्लोका अपि प्रमाणम् । किं नाऽतः ? । यदि श्लोका अपि प्रमाणम् । अयमपि प्रमाणं भवितुमर्हति। यदुदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत् स्वर्ग किं तत् क्रंतुगतं नयेत् । इति । प्रमत्तगीत एपः तत्र भवतः । यस्त्वप्रमत्तगीतस्तत् प्रमाणम् । (श्री पातञ्जल महाभाष्यात् १-१-१) । * काल विभागः * । सन्ति च खल्वनि कालविभागाः । तिष्ठन्ति पर्वताः स्थास्यन्ति पर्वतास्तस्थुः पर्वता इति । किं शक्यन्त एते शब्दाः प्रयोक्तुमित्यतः सन्ति कालविभागाः। नाऽवश्यं प्रयोगादेव । हर दिक्षिण.

( ३२ ) साहित्य-सुधा-संग्रहः मानानां राज्ञां याः क्रियास्ता स्तिष्ठतेरधिकरणम् । इह तावत्तिष्ठन्ति पर्वता इति संप्रति ये राजानस्तेषां याः "क्रियास्तासु वर्तमानासु । स्थास्यन्ति पर्वता इति इत उत्तरं ये राजानो भविष्यन्ति तेषां याः क्रियास्तासु भविष्यतीषु । तस्थुः पर्वता इति इह हि ये राजानो बभूवुस्तेषां याः क्रियास्तास्वतिक्रांतासु । अपर आहुः । नास्ति वर्तमानः काल इति । अपि चात्र श्लोकानुदाहरन्ति । न वर्तते चक्रमिषुर्न पात्यते, नस्यन्दते सरितः सागराय । कूटस्थोयं लोको न विचेष्टिताऽस्ति, यो ह्येवं पश्यति सोऽप्यनन्छः ॥ मीमांसको मन्यमानो युवा . मेधाविसंमतः काकं स्मेहानु- पृच्छति किं ते पतितलक्षणम् । अनागतेन पतसि, अतिक्रान्ते च काक न । यदि संप्रति पतसि सर्वो लोकः पतत्ययम् । हिमवानपि गच्छति। अनागतमतिक्रांतं वर्तमानमिति त्रयम् । सर्वत्र च गतिर्नास्ति गच्छत्तीति किमुच्यते ॥ क्रियाप्रवृत्तौ यो हेतुस्तदर्थ यद्विचेष्टितम् । तत्समीक्ष्य प्रयुञ्जीत गच्छतीत्यविचारयन् ॥ अपर आह । अस्ति वर्तमानः काल इति । आदित्यगतिवन्नोप- लभ्यत इति । अपि चाऽत्रश्लोकमुदाहरन्ति । विसस्य बाला इव दह्यमाना न लक्ष्यते विकृतिः सनिपाते । अस्तीति तां वेदयन्ते त्रिभाषा: सूक्ष्मो हि भावोऽनुमितेन गम्यः ।। (श्री पातञ्जल महाभाष्यस्य - अ०२-पा० प्रथमो बिन्दुः (३३) *एषणाचय-व्याख्या * "इह खलु पुरुषेणाऽनुपहतसत्वबुद्धिपौरुषपराक्रमेण हितमिह चाऽमुष्मिश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति॥१॥ तद्यथा । प्राणैषणा धनैषणा परलोकैषणेति । आसां तु खल्वेषणानां प्राणैषणां तावत्पूर्वतरमापद्येत । कस्मात्प्राणपरित्यागे हि सर्वत्यागः । तस्यानुपालनं स्वस्थस्य स्वस्य स्वस्थवृत्तिरातुरस्य विकारप्रशमनेऽप्रमादस्तदुभयमेतदुक्तं वक्ष्यते च । तद्यथोक्तमनु- वर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैपणा व्याख्याता भवति ॥२॥ । अथ द्वितीयां धनैषणामापद्यत । प्राणेभ्यो हनन्तरं धनमेव पर्येष्टव्यं भवति । न ह्यतः पापात्यापीयोऽस्ति यदनुपकरणख्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टु यतेत । तत्रोपकरणोपायाननु- व्याख्यास्यामः॥ ३ ॥ तद्यथा । कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि । यानि चाऽन्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्ता- न्यारभेत कर्तुम् । तथा कुर्वन्दीर्घजीवितमनुभवन्पुरुषो भवतीति द्वितीया धनैषणा व्याख्याता भवति ॥४॥ अथ तृतीयां परलोकैषणामापद्यत । संशयश्चात्र, कथं ? भवि- याम इतश्च्युता नवेति । कुतः पुनः संशय इति । उच्यते । सन्ति के प्रत्यक्षपराः । परोक्षत्वात् पुनर्भवस्य नास्तिश्चमाश्रिताः। सन्ति चापरे ये त्वाऽऽगमप्रत्ययादेव पुनर्भवमिच्छन्तिश्रुतिभेदाच्च । "मातरं पितरं चैके मन्यन्ते जन्मकारणम् । ।

साहित्य-सुधा-संग्रहः
इत्यतः संशयः। किं नु खल्बस्ति पुनर्भवो न वेति ॥ ५ ॥
तत्र बुद्धिमान्नास्तिक्यबुद्धि जह्याद्विचिकित्सां च । कस्मात् ? प्रत्यक्ष
ह्यल्प मनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते । यैरेव
तावदिन्द्रियः प्रत्यक्षमुपलभ्यते तान्येव सन्ति चाऽप्रत्यक्षाणि ॥६॥
सतां च रूपाणामतिसंनिकर्षादतिविप्रकर्षादावरणात्करणा-
दौर्बल्यान्मनोऽनवस्थानात्समानाभिहारादभिभवादतिसौक्ष्म्याच प्र.
त्यक्षानुपलब्धिः । तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति नान्यद-
स्तीति ॥ ७॥
x
x
x
तत्राप्तागमस्ताबद्धेदो यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः
परीक्षकः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः स
चाऽऽप्तागमः । आप्ताऽऽगमादुपलभ्यते दानं तपो यज्ञः सत्यमहिंसा
ब्रह्मचर्यमित्यभ्युदयनिःश्रेषसकराणि । न चानतिवृत्तसत्त्वदोषाणाम-
दोषैरपुनर्भवो धर्मद्वारेषूपदिष्यते, धर्मद्वारावहितैश्च व्यपगतभयराग-
द्वेपलोभमोहमानैर्ब्रह्मपरैराप्तः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः
पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिष्वोपदिष्टः पुनर्भव इति व्यवस्येदेवं
पुनर्भवः प्रत्यक्षमपि चोपलभ्यते ॥ २८ ॥
मातापित्रोर्विसदृशान्यपत्यानि तुल्यसंभवानां वर्णस्वराकृति-
सत्त्वबुद्धिभाग्यविशेषाः । प्रवरावरकुलजन्म, दास्यैश्वर्य, सुखासुख-
मायुः, आयुषो वैषम्यम् , इहाकृतस्यावाप्तिः, अशिक्षितानां च रुदितस्त-
नपानहासत्रासादीनां च प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसामान्ये फल-
विशेषो, मेधा क्वचित् , कचित्कर्मण्यमेधा, जातिस्मरणम्, इहागमन-
मितश्च्युतानां च भूतानां, समदर्शने पियापियत्वम् ॥२६॥
अत एवानुमीयते यत्स्वकृतमपरिहार्यमविनाशि पौर्वदेहिक
दैवसंज्ञकमानुबन्धिकं कर्म, तस्यैतत्फलम् इतश्चान्यद्भविष्यतीति,
फलाद्वीजममुमीयते, फलं च बीजात ॥ ३० ॥

। प्रथमो बिन्दुः युक्तिश्चैषा पधातुसमुदयादर्भजन्म आत्मा ब परलोक सम्बन्ध एवेति कर्तृकरणसंयोगाक्रिया । कृतस्य कर्मणः फलं ना- कृतस्य । माङ्कुरोत्पत्तिरबीजात । कर्मसदृशं फलम् । नान्यस्माद्वीजाद- न्यस्योत्पत्तिरिति युक्तिः॥ ३१ ॥ एवं प्रमाणैश्चतुर्भिरुपदिष्टः पुनर्भवो धर्मद्वारेष्वनुविधीयते॥३२॥ तद्यथा गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्यो. त्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मनसे कर्मण्यक्लिष्ट देहेन्द्रियमनोऽर्थबुद्धयात्मपरीक्षायां मनः समाधाविति । यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगहि- तानि स्वग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुम् । तथा कुर्वनिह चैव यशो लभते प्रेत्य च स्वर्गमिति तृतीया. परलोकैषणा व्याख्याता भवति॥३३॥ (श्रीचरकसूत्रस्थानस्य एकादशाध्यायात्), ta

कवि-कुल-गुरु श्री कालिदास कृति
रघुवंश महाकाव्यम् ।
प्रथमः सर्गः
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥
क्क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।
तितीर्घ र्दुस्तरं मोहादुडुपेनामि सागरम् ॥ २॥
मंदः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः॥ ३ ॥
अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥४॥
सोऽहमाजन्मशुद्धाना माफलोदयकर्मणाम् ।
आसमुद्रक्षितीशाना मानाकरथवर्त्मनाम् ॥५॥
यथाविधिहुताऽग्नीनां यथाकामाऽचिंतार्थिनाम् ।
यथाऽपराधदण्डानां यथाकालप्रबोधिनाम् ॥ ६ ॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ ७॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वाद्ध के मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ ८ ॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥ ६ ॥ कुलकम् ॥
तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा ॥ १० ॥

प्रथमा बिन्दुः
( ३७)
वैवस्वती मनु म माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ ११ ॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति राजेन्दु रिन्दुः क्षीरनिधाविव ॥ १२॥
व्यूढोरस्को वृषस्कन्धः शालप्रांशु महाभुजः।
आत्मकर्मक्षम देहं क्षात्रो धर्म इवाऽऽश्रितः ॥ १३ ॥
सर्वाऽतिरिक्तसारेण सर्वतेजोभिभाविना ।
स्थितः सर्वोन्नतेनो क्रान्त्वा मेरुरिवाऽऽत्मना ॥१४॥
आकारसदृशप्रज्ञा प्रज्ञया सदृशाऽऽगमः।
आगमैः सदशाऽऽरम्भ आरम्भ सदृशोदयः॥१५॥
भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाऽभिगम्यश्च यादोरत्नैरिवाऽर्णवः ॥ १६ ॥
रेखामात्रमपि क्षुण्णा दामनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुमिवृत्तयः ॥ १७ ॥
प्रजानामेव भूत्यर्थ स ताभ्यो बलिमग्रहीत् ।
सहस्त्रगुणमुत्रष्टु मादत्ते हि रसं रविः ॥१८॥
सेनापरिच्छदस्तस्य द्वयमेवाऽर्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धि मौर्वी धनुषि चाऽऽतता ॥ १६ ॥
तस्य संवृतमन्त्रस्य गूढाऽऽकारेजितस्य च ।
फलाऽनुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥२०॥
जुगोपाऽऽत्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुरादे सोऽर्थ मसक्तः सुखमन्वभूत् ॥ २१ ॥
ज्ञाने मौनं क्षमा शक्ती त्यागेश्लाघाविपर्षयः।
गुणा गुणाऽनुबन्धित्वात्तस्य सप्रसवा डच ॥ २२॥

(३८) साहित्य-सुधा-संग्रहः अनाकृष्टस्य विषयै विद्यानां पारद्वश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ २३ ॥ प्रजानां विनयाधाना द्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ २४ ॥ स्थित्यै दण्डयतो दण्डया न्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः ॥ २५ ॥ दुदोह गां स यशाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ २६ ॥ न किलाऽनुययुस्तस्य राजानो रक्षितुर्यशः। व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ २७ ॥ द्वेष्योऽपि संमतः शिष्ट स्तस्याऽऽर्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोप्यासी दंगुलीवोरगक्षता ॥ २८ ॥ तं वेधा विधे नूनं महाभूतसमाधिना । तथाहि सर्वे तस्याऽऽसन्परार्थैकफला गुणाः ॥ २६॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वी शशासैकपुरीमिव ॥ ३० ॥ तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा। पत्नी सुदक्षिणेत्यासी दध्वरस्येव दक्षिणा ॥ ३१ ॥ कलत्रवन्तमात्मान मवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ ३२॥ तस्यामात्मानुरूपाया मात्मजन्मसमुत्सुकः । विलम्बिसफलैः कालं स निनाय मनोरथैः ॥ ३३ ॥ संतानाऽर्थाय विधये स्वभुजादवतारिता । तेन धूर्जगतो गुरु सचिवेषु निचिक्षिपे ॥ ३४ ॥ अथाऽभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया। तौ दंपती वसिष्ठस्य गोर्जग्मत । प्रथमो बिन्दुः (३६) स्निग्धगम्भीरनिर्घोष मेकं स्यन्दनमास्थितौ। प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ ३६॥ मा भूदाऽऽश्रमपीडेति परिमेयपुरः सरौ। अनुभावविशेषात्तु सेनापरिवृताविव ॥३७॥ सेव्यमानी सुखस्पर्शः शालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातै राधूतवनराजिभिः ॥ ३८ ॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ ३६ ॥ परस्पराऽक्षिसादृश्य मदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाऽऽबद्धद्दष्टिषु ॥ ४० ॥ श्रेणीबन्धाद्वितन्वद्भि रस्तम्मा तोरणरजम् । सारसैः कलनि दैः क्वचिदुन्नमिताऽऽननौ ॥ ४१ ॥ पवनस्याऽनुकूलत्वा प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णे रस्पृष्टाऽलकवेष्टनौ ॥ ४२ ॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्नन्तौ स्वनिःश्वासानुकारिणम् ॥ ४३ ॥ ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोधाः प्रतिगृह्णन्ता वाऽनुपदमाशिषः॥ ४४ ॥ हैयंगवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥कुलकम्।। काऽप्यभिख्या तयोरासीद् ब्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ४६ ॥ तत्तद्भूमिपतिः पत्ल्यै दर्शयन्प्रियदर्शनः । अपि लडितमध्वानं बुबुधे न बुधोपमः ॥ ४७ ॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।

(४०) साहित्य-सुधा-संग्रहः बनान्तरादुपावृत्तः समित्कुशफलाऽऽहरैः । पूर्यमाणमदृश्याग्नि-प्रत्युद्यातैस्तपखिभिः ॥ ४६ ॥ आकीर्णमृषिपत्नोना मुटजद्वाररोधिभिः। अपत्यौरिव नीवार-भागधेयोचितै मुंगैः॥५०॥ सेकान्ते मुनिकन्याभि स्तत्क्षणोज्झितवृक्षकम् । विश्वासाय विहंगाना मालवालाम्बुपायिनाम् ॥ ५१ ॥ आतपाऽत्ययसंक्षिप्त-नीवारासु निषादिभिः। मृगैवर्तितरोमन्थ मुटजाऽङ्गनभूमिषु ॥५२॥ अभ्युत्थिताऽग्निपिशुनै रतिथीनाश्रमोन्मुखान् । पुनानं पवनो तै धूमैराहुतिगन्धिभिः ॥ ५३॥ कुलकम् ॥ अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः। तामवाऽऽरोहयत्पत्ती रथादधततार च ॥ ५४ ॥ तस्मै सभ्याः सभार्याय गोत्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रु र्मुनयो नयचक्षषे ॥ ५५ ॥ विधेः सायंतनस्याऽन्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। ५६ ॥ तयोर्जगृहतुः पादा राजा राज्ञी च मागधी । तौ गुरुगुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ ५७ ॥ तमातिथ्यक्रियाशान्त-रथक्षोभपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याऽऽश्रममुनि मुनिः ॥ ५८॥ अथाऽथनिधेस्तस्य विजिताऽरिपुरः पुरः । अामर्थपतिर्याच माददे वदतां वरः ॥ ५६ ॥ उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे। दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥ ६० ॥ तव मंत्रकृतो मन्त्रै रात्प्रशमिताऽरिभिः। प्रत्यापित प्रथमो बिन्दुः (४१) हविरार्जितं होत स्त्वया विधिवदनिषु । वृष्टिर्भवति सस्याना मवग्रहविशोषिणाम् ॥ ६२ ॥ पुरुषाऽऽयुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्यब्रह्मवर्चसम् ॥ ६३ ॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिमा । साऽनुबन्धाः कथं न स्युः संपदो मे निरापदः ॥ ६४ ॥ किंतु वध्वां तचैतस्या मदृष्टसदृशप्रजम् । न मामवति सद्वीपा रक्षसूरपि मेदिनी ॥ ६५ ॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्ध स्वधासंग्रहतत्पराः ॥ ६६ ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया। पयः पूर्वैः खनिःश्वासैः कवोष्णमुपभुज्यते ॥६७ ॥ सोऽहमिज्याविशुद्धाऽऽत्मा प्रजालोपनिमीलितः। प्रकाशश्वाऽप्रकाशश्च लोकाऽऽलोक इवाऽचलः ॥ ६८॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । संततिः शुद्धवंश्या हि परत्रेह च शर्मणे ॥ ६६ ॥ तया हीनं विधाता कथं पश्यन्न दूयसे । सिक्तं स्वयमिव स्नेहां इन्ध्यमाश्रमवृक्षकम् ॥ ७० ॥ असद्यपीई भगवन् ! ऋणमन्त्यमवेहि मे। अरुंतुदमिवालान मनिर्वाणस्य दन्तिनः ॥ ७१ ।। तस्मान्मुच्ये यथा तात ! संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः ॥ ७२ ॥ इतिविज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृदः ॥ ७३ ।। सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् । Tarra rreER KAN Munaadamita ॥ ४२) साहित्य-सुधा-संग्रहा पुरा शकमुपस्थाय तवोर्वी प्रति यास्यतः । आसीत्कल्पतरुच्छाया माश्रिता सुरभिः पथि ।। ७५ 11 धर्मलोपभयाद्राज्ञी मृतुस्नातामिमां स्मरन् । प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाऽऽचरः ।। ७६ ॥ अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ।। ७७ ।। स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ।। ७८ ॥ ईप्सितं तवज्ञाना द्विद्धि साऽर्गलमात्मनः । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ ७ ॥ हविषे दीर्घसत्रस्य सा चेदानी अचेतसः । भुजंगपिहितद्वारं पातालमधितिष्ठति ॥ ८० ॥ सुतां तदीयां सुरभेः कृत्वा प्रतिनिधि शुचिः । आराधय सपत्नीकः प्रीता कामदुधा हि सा ।। ८१ ॥ इति वादिन एवाऽस्य होतुराहुतिसाधनम् ।। अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ २ ॥ ललाटोदयमाभुग्न पल्लवस्निग्धपाटला। बिभ्रती श्वेतरोमाऽङ्घ संध्येव शशिनं नवम् ॥ ८३!! भुवं कोष्णेन कुण्डोनी मेध्येनाऽवभृथादपि । प्रत्रवेणाभिवर्षन्ती वत्साऽऽलोकप्रवर्तिना ॥ ८४ ॥ रजःकणैः खुरोद्भूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिधेकजां शुद्धिमादधाना महीक्षितः ॥ ५ ॥ तां पुण्यदर्शनां दृष्ट्वा निमित्तशस्तपोनिधिः। याज्यमाशंसितावनध्य-प्रार्थनं पुनरनवीत ॥ ८६ ॥ BAT प्रथमो बिन्दुः अदूरवर्तिनी सिद्धि राजन्विगणयात्मनः। उपस्थितेयं कल्याणी नानि कीर्तित एव यत् ॥ ८७ ॥. यन्यवृत्तिरिमां शश्वदात्मानुगमनेन माम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ ८ ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरः। निषण्णायां निषीदाऽस्यां पीताम्भसि पिवेरपः॥e Re! वधूभक्तिमती चैनामर्चितामातपोवनात् । प्रयता प्रातरन्तु सायं प्रत्युद्वजेदपि ॥ ६॥ इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ ११ ॥ तथेति प्रतिजग्राह प्रोतिमान्सपरिग्रहः । आदेश देशकालः शिष्यः शासितुरानतः ॥ १२॥ अथ प्रदोषे. दोषज्ञः संवेशाय विशां पतिम् । सूनुः सूनृतवाक्स्त्रष्टुर्विससोदित श्रियम् ॥ १३ ॥ सत्यामपि तपसिद्धौ. नियमापेक्षया मुनिः । कल्पवित्कल्पयामासः वन्यामेवाऽस्य संविधाम् ।। ६४॥ निर्दिष्टां कुलपतिना स पर्णशाला- मध्यास्यप्रयतपरिग्रहद्वितीयः। सच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशमायने निशा निनाय ॥६५॥ इति प्रथमः सर्गः

(४४)
साहित्य-सुधा-संग्रहः
अथ द्वितीयः सर्गः
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ १ ॥
तस्याः खुरन्यासपवित्रपांसु मपांसुलानां धुरि कीर्तनीया।
मार्ग मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ २ ॥
निवर्त्य राजा दयितां दयालुस्तां सोरमेयों सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ ३ ॥
बताय तेनानुचरेण धेनोय॑षेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥४॥
आखादवद्भिः कवलैस्तुणानां कण्डूयनैदँशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥
स्थितः स्थितामुञ्चलितःप्रयातां निषेदुषोमासनबन्धधीरः ।
जलाभिलाषी जलमाददानां छायेव तां भपतिरन्वगच्छत् ॥ ६॥
स न्यस्तचिह्नामपि राजलक्ष्मी तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥७॥
लताप्रतानोग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् ।
रक्षाऽपदेशान्मुनिहोमधेनो र्वन्यान्विनेष्यन्निव दुष्टसत्वान् ॥ ८ ॥
विसृष्टपार्थाऽनुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समम्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ ६ ॥
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमय॑मारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनै राचारलाजैरिव पौरकन्याः॥ १० ॥
धनुर्भृतोऽप्यस्य दयाभाव माख्यातमन्तःकरणैर्विशङ्खः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥

ARTHI ShasRANA प्रथमो बिन्दु (४५) स कीचकारुतपूर्णरन्ध्रः कूजद्भिरापादितबंशकृत्यम् । शुश्राव कुञ्जषु यशः स्वमुञ्चै रुद्गीयमानं वनदेवताभिः ॥ १२ ॥ पृक्तस्तुषारैगिरिनिर्भराणा मनोकहाऽऽकम्पितपुष्पगन्धी। तमातपक्लान्तमनातपत्र माचारपूतं पवनाः सिषेवे ॥ १३ ॥ शशाम वृष्टयाऽपि विना दवाग्नि रासीद्विशेषा फलपुष्पवृद्धिः । ऊनं न सत्वेष्वधिको बबाधे तस्सिन्चनं गोतरि गाहमाने ॥१४॥ संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ १५ ॥ तां देवतापिनतिथिक्रियार्था मन्वन्ययौ मध्यमलोकपालः। बभौ च सा तेन सतां मतेन श्रद्धव साक्षाद्विधिनोपपन्ना ॥१६॥ स पल्वलोत्तीर्णवराहयूथा न्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशादलानि श्यामायमानानि वनानि पश्यन् ॥ १७ ॥ आपीनभारोद्वहनप्रयताद् गृष्टिगुरुत्वाद्वपुषी नरेन्द्रः। उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ १८ ॥ वसिष्ठधेनोरनुयायिनं त मावर्तमान वनिता वनान्तात् । पपौ निमेषाऽलसपक्षमपङ्क्ति रुपोषिताभ्यामिव लोचनाभ्याम् ॥ १६ ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिव धर्मपत्न्या । तदन्तरे सा विरराज धेनु दिनक्षपामध्यगतेव संध्या ॥२०॥ प्रदक्षिणीकृत्य पयस्विनी तां सुदक्षिणा साऽक्षतपात्रहस्ता। प्रणम्य चाऽऽनर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धः ॥२१॥ वत्सोत्सुकाऽपि स्तिमिता सपर्या प्रत्यग्रहीत्सेति ननन्दतुस्तौ। भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥ २२ ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधि दिलीपः। दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥ २३ ॥ तामन्तिकन्यस्तबलिप्रदीपा मन्वास्य गोता गृहणीसहायः । কম নমােন মিন শত reapingpageanimigpune

(४६) साहित्य-सुधा-संग्रहः
इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीतः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥२५॥
अन्येधुरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरुदशष्पं गौरीगुरोर्गहरमाविवेशः ॥ २६ ॥
सा दुष्प्रधर्षा मनसापि हिले रित्यदिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ २७ ॥
तदीयमाक्रन्दितमार्तसाधो गुहानिबद्धप्रतिशब्ददीर्धम् ।
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्या दृष्टिम् ॥ २८ ॥
स पाटलायां गवि तस्थिवांसं. धनुर्धरः केसरिणं ददर्श ।
अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥ २६ ॥
ततो मृगेन्द्रस्य मृगेन्द्र गामो वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषंगा दुद्धर्तुमैच्छत्प्रसभोद्ध तारिः॥३०॥
वामेतर स्तस्य करः प्रहर्तुर्नवप्रभाभूषितकंकपत्रे ।
सक्तांऽगुलिः सायकपुर एव चित्रार्पिताऽऽरम्भ इवावतस्थे ॥ ३१ ॥
बाहुप्रतिष्टम्भविवृद्धमन्यु रभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभि रदह्यतान्त भोंगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥
तमार्यगृह्यं निगृहीतधेनु मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिहोरुसत्त्वं निजगाद सिंहः ॥ ३३ ॥
अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
न पादपोन्मूलनशक्ति रहः शिलोचये मूर्च्छति मारुतस्य ॥ ३४ ॥
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किंकरमष्टमूर्तेः कुम्भोदर नाम निकुम्भमित्रम् ॥ ३५ ॥
अमुं पुरः पश्यसि देवदारुं पुतीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसः ॥३६॥

प्रेथमो बिन्दुः
(४७)
कर डूयमानेन कट कदाचि द्वन्य द्विपेनोन्मथिता त्वगस्य ।
अथैनमद्रेस्तनया शुशोच सेनान्यमालीढ मिवासुरास्त्रैः ॥ ३७ ॥
तदाप्रभृत्येव वनद्विपानां त्रासार्थमसिनहमद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥ ३८ ॥
तस्याऽलमेपा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमली सुधेव ॥ ३६ ॥
स त्वं निवर्तख विहाय लजां गुरोर्भवान्दर्शितशिष्यभक्तिः।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥४०॥
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्री गिरिशप्रभावादात्मन्यवां शिथिलीचकार ॥४१॥
प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षनिव वज्रपाणिः ॥४२॥
संरुद्धचेष्टस्य मृगेन्द्र ! कामं हास्यं वचस्तधदहं विवक्षुः।
अन्तर्गतं प्राणभृतां हि वेद सर्व भवान्भावम्तोऽभिधास्॥४३॥
मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः।
गुरोरपीदं धनमाहिताग्ने नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥
स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः॥४५॥
अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपत्तिं बभाषे॥४६॥
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छ विचारमूढः प्रतिभासि मे त्वम् ॥ ४७ ॥
भूतानुकम्पा तव चेदियं गौ रेका भवेत्स्वस्तिमती त्वदन्ते ।
जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पालि ॥४८॥

(४८) साहित्य-सुधा-संग्रहः अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद्विमेधि । शक्योऽस्य मन्युभवताविनेतुंगाः कोटिशः स्पर्शयता घटोनीः॥ ४६॥ तद्क्ष कल्याणपरम्पराणां भोक्तारमूर्जखलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्न मृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ ५० ॥ एतावदुक्त्वा विरते मृगेन्द्र प्रतिस्वनेनास्य गुहागतेन । शिलांच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥ ५१ ॥ निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तद्ध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ ५२॥ क्षतालिकल नायत इत्युग्रः क्षत्रस्य शब्दो भुगनेषु रूढः। राज्येन किं तद्विपरीतवृत्तः प्राणैरुपक्रोशमलीमसैर्वा ॥ ५३॥ कथं नु शश्योऽनुनयो महर्षे विश्राणनाच्चान्यपयखिनीनाम् । इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ १४ ॥ सेयं वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः । च पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ ५५ ॥ भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारी। स्थातुं नियोक्तुर्न हि शक्यमने बिनाश्य रक्ष्यं स्वयमक्षतेन ॥ ५६ ॥ क्रिमप्यहिस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ ५७॥ सम्बन्धमाभाषणपूर्वमाहु वृत्तः स नौ संगतयोर्वनान्ते । तद्भूतनाथानुग ! नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥ तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्तशस्त्रो हरये खदेह मुपानयत्पिण्डमिवामिषस्य ॥ ५६ ॥ तस्मिन्क्षणे पालयितुः प्रजाना मुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६०॥ !

प्रथमो बिन्दुः
(४१)
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योस्थितमुत्थितः सन् ।
ददर्श राजा जननीमिव खां गामन्मतः प्रविणों न सिंहम् ॥ ११ ॥
तं विसितं धेनुरुवाच साधो !मायां मयोहाध्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंसाः ॥ २ ॥
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र ! बरं वृणीष्व ।
न केवलानां पयसां प्रसूति मवेहि मां कामदुधा प्रसमाम् ॥ ६३ ॥
বল লমী ও শালিখা মুল লাক্ষী।
वंशस्य करिमनन्तकोति सुदक्षिणायां तनयं ययाचे ॥ ६४ ॥
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा।
दुग्ध्या पयः पत्रपुटे मदीयं पुत्रोपभुवति तमादिदेश ॥ ६५ ॥
অন্য স্থান নির্মম হীৰ জালশিয় লোন !
ऊधल्यमिच्छामि सवोपभोक्तुं षष्ठांश मुळ इथ रक्षितायाः ॥ ६६ ॥
इत्थं क्षितीशेन वशिष्ठधेनु विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच कुक्षेः प्रत्याययावाश्रममश्रमेषा ॥ १७॥
तस्याः प्रसन्नेन्दमुखः प्रसादं गुरुन पाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियाय शशंत बाचा पुनरुक्त येव ॥ ६८ ॥
स नन्दिनीस्तन्यामनिन्दितात्मा सहसलो वत्लहुताधशेपम् ।
पपौ वसिष्टेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्स मिवातितृष्णः ॥ ६६ ॥
प्रात यथोक्तवतपारणान्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य ।
ती दंपती स्वां प्रति राजधानी प्रस्थापयामाल वशी वसिष्ठः ॥ ७० ॥
प्रदक्षिणीकृत्य हुतं हुताश मनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोद्नतरप्रभावः ॥ ७१ ॥
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।
ययावनुद्धातसुखेन मार्ग स्वेनैव पूर्णेन मनोरथेन ॥ ७२ ॥

(५०)
साहित्य-सुधा-संग्रहः
तमाहितीत्सुक्समदर्शनेन प्रजाः प्रजाऽर्थव्रतकर्शिताङ्गम् ।
नेले पपुस्तृप्तिमनाप्नवद्भि नवोदयं नाथमिवौषधीनाम् ॥७३॥:
पुरदरश्रीः पुरमुत्यताकं प्रविश्य पोरैरभिनन्द्यमानः ।
सुजे भुजंगेन्द्रसमागसारे भूयः स भूमेधुरमाससञ्ज ॥ ७४ ॥
अथ नयनसमुत्थं ज्योतिरोरिच द्यौः
सुरसरिदिव तेजो वह्निनिष्ठय तमैशम् ।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ ७ ॥
इति द्वितीयः सर्गः
तृतीयः सर्गः
अथेप्सितं भर्तुरुषस्थितोदयं सखोजनोद्वीक्षणकौमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौह दलक्षणं धौ ॥१॥
शरीरसादादसमप्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयताएका प्रभातकल्या शशिनेव शर्वरी ॥२॥
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविनान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घय सा॥३॥
न मे हिया शंसति किचिदीप्सितं स्पृहावतो वस्तुषु केषु मागधी।
इति स पृच्छत्यनुवेलमाद्वतः प्रियालखीरुत्तरकोसलेश्वरः ॥४॥
उपेत्य सा दोहददुःखशीलतां यदेव च तदपश्यदाहृतम् ।
न हीष्टमस्य त्रिदिवेऽपि भूपते रभूदनासाद्यमधिज्यधन्वनः ॥ ५ ॥
क्रमेण निस्तीर्य च दोहव्यथां प्रचीयमानाऽवयवा रराज सा।
पुराणपत्राऽपगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥ ६॥

प्रथमो बिन्दु
(५१)
निधानगीमिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वती नृपः ससत्वां महिणीममन्यत ॥ ७ ॥
प्रियानुरागस्य मनःसमुन्नते (जाऽर्जितानां च दिगन्तसम्पदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीय॑धत्त सः ॥८॥
सुरेन्द्रमानाश्रितगर्भगौरवात् प्रयत्तमुक्तासनया गृहाऽऽगतः।
तयोपचाराअलिखिन्नहस्तया ननन्द पारिप्लव नेत्रया नृपः ॥ ६ ॥
कुमारभृत्याकुशलै रनुष्ठिते भिषम्भिराप्रथ गभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमम्रितामिव ॥१॥
प्रहस्ततः पञ्चभिरुष्धसंश्रयै रसूर्यगैः सूचितभाग्यसंपदम् ।
असूत पुलं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ ११ ॥
दिशः प्रसेदुर्मरुतो चवुः सुखाः प्रदक्षिणार्चि हवि रनिरादते ।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥१२॥
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवु रालेख्यसमर्पिता इव ॥ १३ ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्माऽमृतसंमिताक्षरम् ।
अदेयमासीत्रयमेव भूपतेः शशिप्रभ छनमुभे च चामरे ॥ १४ ॥
निवातपस्तिमितेन चक्षुषा नृपस्य कान्तं पिवतः सुताननम् ।
महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ १५ ॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इषाधिकं वभौ ॥ १६ ॥
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनूत्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजम्भन्त दिवौकसामपि ॥ १७ ॥
न संयतस्तस्य बभूव रक्षितु विसर्जयेद्यं सुतजन्महर्षितः।
ऋणाभिधानात्खयमेव केवलं तदा पितृणां मुमुचेस बन्धनात् ॥ १८ ॥

(५२)
साहित्य-सुधा-संग्रहः
श्रुतस्य यायादयमन्तमकस्तथा परेषां युधि चेति पार्थिवः।
अवेक्ष्य धातोर्गमनार्थमर्थविचकार नाज्ञा रघुमात्मसंभवम् ॥ १६ ॥
पितुः प्रयत्नात्त समप्रसंपदः शुभैः शरीराऽवयवैर्दिने दिने ।
पुपोष वृद्धि हरिदश्वदीधिते रनुप्रवेशादिव बालचन्द्रमाः ॥ २० ॥
उमावृषाङ्को शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सद्दशेन तत्समौ ॥ २१ ॥
रथाङ्गनामोरिव भावपन्धनं बभूत्र यत्प्रेम परस्पराश्रयम् ।
विभक्तमध्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ २२ ॥
उवाच धाच्या प्रथमोदितं बचो ययौ तदीयामवलम्व्यचाङ्गुलिम् ।
अभून मनः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ २३ ॥
तमसमारोप्य शरीरयोगः सुखै निषिवन्तमिवामृतं त्वचि ।
उपान्तसंमीलितलोचनो नृप चिरात्सुतस्पर्शरसतां ययौ ॥ २४ ॥
समस्त जानेन परायजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणायवर्तिना पतिः प्रजानामिव समात्मनः ॥ २५ ॥
स वृत्तचूल श्चलकाकपक्षकै रमात्यपुत्रैः सवयोभिरन्वितः ।
लिपेर्यथावद् ग्रहणेन वाङ्मय नदीमुखेनैव समुद्रमाविशत् ॥ २६ ॥
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
अधन्ध्ययलाश्च बभूवुरत्र ते किया हि वस्तूपहिता प्रसीदति ॥ २७ ॥
धियः समः ल गुणैरुदारधीः क्रमाञ्चताश्चतुरर्णवोपमाः |
बार विद्याः पवनातिपातिभि दिशो हरिद्भिहरितामिवेश्वरः ॥ २८ ॥
स्वचं स मेध्यां परिधाय रौरवी मशिक्षताऽस्त्रं पितुरेव मन्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूकधनुर्धरोऽपि सः ॥ २६ ॥
महोक्षतां वत्सतरः स्पृशनिय द्विपेन्द्रभाचं कलभः अयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ ३० ॥

प्रथमो बिन्दुः
(५
अथास्य गोदानविधेरनन्तर विवाहदीक्षा निरवर्तयद् गुरुः ।
करेन्द्र कन्यास्तमवाप्य सत्पति तमीनुदं दक्षसुता इनाऽऽबभुः॥ ३१
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः।
वपुःप्रकर्षादजयद्गुरु रघु स्तथापि नीचैर्विन्याददृश्यत ॥ ३२ ॥
ततः प्रजानां चिरमात्मना धृतां नितान्त गुर्वी लपयिष्यता धुरम
निसर्गसंस्कारधिनीत इत्यसो नृपेण चक्रे युवराजशब्दभाक् ॥ ३
नरेन्द्र मूलायतनादनन्तरं तदास्पदं श्री युवराजसंशितम् ।
अगच्छदशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३६
विभावसुः सारथिमेव वायुना धनव्यपायेन गभस्तिमानिय ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीब पार्थिवः ॥ ३५ ॥
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दया यूने सितातपवारणम् ।
मुनिवनतरच्छायां देच्या तया सह शिश्रिये
गलितवयसामिक्ष्याणामिदं हि कुलवतम् ॥ ३६॥
इति तृतीयः सर्गः
चतुर्थः सर्गः।
स राज्यं गुरुणा दत्तं प्रतिपद्याधिक बभी।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥१॥
दिलीपानन्तरं राज्ये तं निशस्य प्रतिष्ठितम् ।
पूर्व प्रधूमितो राशा हृदयेऽझिरिवोस्थितः ॥२॥
पुरुहूतध्वजस्येच तस्योन्नयनपतयः ।
'नधाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥३॥

(५४)
साहित्य-सुधा-संग्रहः
सममेव समाक्रांत द्वयं द्विरदगामिना ।
तेन सिंहासनं पिन्य मखिलं चाऽरिमण्डलम् ॥ ४ ॥
छायामण्डललक्ष्येण तमद्दश्या किल खयम्।
पा KAISsतपनेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥
परिकल्पितलांनिध्या काले काले च बन्दिछु ।
स्तुत्यं स्तुतिभिराभि रुपतस्थे सरस्वती ॥ ६ ॥
स हि सर्वस्य लोकस्य युक्त दण्डतया मनः।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥७॥
मंदोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोन्नम इव प्रजाः ॥ ८॥
नय विद्भिर्नवे राशि सदसञ्चोपदर्शितम् ।
पूर्व एवाऽभवत्पक्ष स्तस्मिन्नाऽभवदुत्तरः॥६॥
पञ्चानामपि भूताना मुत्कर्ष पुपुषुर्गुणाः ।
नवे तस्मिन्महीपाले सर्व नवमिवाऽभवत् ॥ १० ॥
यथा प्रलादनाञ्चन्द्रः प्रतापात्तपनो यथा।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ ११ ॥
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ १२ ॥
लब्धप्रशमनस्वस्थ मथैनं समुपस्थिता ।
पार्थिवश्री द्वितोयेव शरत्पङ्कजलक्षणा ॥ १३ ॥
निवृष्टलघुभि मेधै मुक्तवा सुदुःसहः ।
प्रताप स्तस्य भानोश्च युगपदयानशे दिशः ॥ १४॥
धार्षिकं संजहारेन्द्रो धनुजैत्रं रघुर्दधौ।
प्रजार्थसाधने तौ हि पर्यायोधतकार्मुकौ ॥ १५ ॥

प्रथमो बिन्दुः (। पुण्डरीकाऽऽतपत्रस्तं विकसत्काशचामरः। तुर्बिडम्बयामासन पुनः प्राप तच्छ्रयम् ॥ १६ ॥ प्रसादसुमुखे तस्मि श्चन्द्र च विशदप्रभे। तदा चक्षुष्मतां प्रीति रासीत्लमरसादयोः॥ १७ ॥ हंसश्रेणीषु तारासु कुमुदत्तु च वारिषु । विभूतय स्तदीयानां पर्यस्ता यशसामिव ॥ १८॥ इक्षुच्छायानिषादिन्य स्तस्य गोप्तुगुणोदयम् । आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः ॥ १६ ॥ प्रससादोदयादम्भः कुम्भयो महौजसः । रघो रभिभवाऽऽशाङ्क चुक्षुभे द्विषतां मनः ॥ २० ॥ मदोग्राः ककुमन्तः सरितां कूलमुगुजाः । लोलाखेल मनुप्रापु महोक्षा स्तस्य विक्रमम् ॥ २१ ॥ प्रसवैः सप्तपर्णानां भदगान्धमि राहताः । असूययेव तन्नागाः सप्तधैव प्रसुनुवुः ॥ २२ ॥ सरितः कुर्वती गाधाः पथश्वाऽऽश्यानकर्दमान । यात्रायै चोदयामास तं शक्तः प्रथमं शरत् ॥ २३ ॥ तस्मै सम्यग्घुतो वह्नि र्वाजिनीराजनाविधौ । प्रदक्षिणाऽर्चिाजेन हस्तेनेव जयं ददौ ॥ २४ ॥ स गुप्तमूलप्रत्यन्तः शुद्धपाणि रयान्वितः । पविध बलमादाय प्रतस्थे दिग्जिगीपया ॥ २५ ॥ अवाकिरन्ययोवृद्धा स्तं लाजेः पौरयोषितः । पृपतैमन्दरोद्ध तैः क्षीरोमय इवाऽच्युतम् ॥ २६ स ययौ प्रथम प्राची तुल्यः प्राचीनबहिषा। अहिताननिलोद्ध तै रतजयन्निव केतुभिः ॥२७॥ रजोभिः स्पन्दनोद्ध तै गंजैश्च धनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ २८ ॥ युग्म

साहित्य-सुधा-संग्रहः
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतु:स्कन्धेव सा चमूः ॥ २६ ॥
मरूपृष्ठान्युम्मासि नाव्याः सुप्रतरा नदीः ।
विपिनानि.प्रकाशानि शक्तिमत्माच कार सः॥३०॥
स सेना महती कर्षन् पूर्वसागरणामिनीम् ।
बभौ हरजटाम्रष्टां गंगाभिव भगीरथः ॥ ३१ ॥
त्याजितैः फल लुत्सातै भग्नैश्च बहुधा नृपः।
तस्याऽऽसीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ ३२ ॥
पौरस्त्यानेवमाकामंतीस्ताअनपदाञ्जयो ।
प्राप तालीवनश्याम मुपकार महोदधेः ॥ ३३ ॥
अनवाणां समुद्धतुं स्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्म वृन्तिमाश्रित्यवेतसीम् ॥ ३४॥
बङ्गानुत्साय तरसा नेता नौसाधनोधतान् ।
निचलान जयस्तम्भान् गङ्गास्तोतोऽन्तरेषु सः॥ ३५ ॥
आपादपा प्रणता कलमा इत्र ते रघुम् ।
फलैः संवर्धयामासु रुवातप्रतिरोपिताः॥ ३६॥
स तो कपिशा सेन्यै बद्धद्विरदसतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ ३७॥
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुरा छिरदस्येच यन्ता गम्भीरवेदिनः ॥ ३८ ॥
प्रतिजग्राह कालिङ्ग स्तमस्त्रर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्र शिलावर्षीव पर्वतः ॥ ३६ ॥
द्विषां बिया काकुत्स्थ स्तत्र नाराचदुर्दिनम् ।
सन्मङ्गलस्नात इव प्रांतपेदे जयश्रियम् ॥ ४० ॥
ताम्बूलीनां दलैस्तत्र रचिताऽऽपानभूमयः ।
नालिकेराऽऽसवं योधाः शात्रवं च पपुर्यशः॥४१॥

(५७, प्रथमो बिन्दु गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः। श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ ४२ ॥ ततो चेलातटेनैव फलवत्पूगमालिना। अगस्त्याचरितामाशा मनाशास्यजयो ययो॥४३॥ बलै रध्युषिता स्तस्य विजिगीषोताध्वनः। मारीचोद्धान्तहारीता मलयाऽद्ररुपत्यकाः ॥४४॥ ससञ्जरश्वक्षुण्णाना मेलाना मुत्पतिष्यवः। तुल्यगन्धिषु मसेभ-कटेषु फलरणवः ॥ ४५ ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नाऽस्रसत्करिणां वं त्रिपदीछेदिनामपि ॥४६॥ दिशि मन्दायते तेजो दक्षिणस्यां रवे रपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४७ ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः। ते निपत्य ददु स्तस्मै यशः स्वमित्र सश्चितम् ॥४८॥ तस्थानीकै विसर्पद्भिरपरान्तजयोद्यतैः । रामाऽस्त्रोत्सारितोऽप्यासीत् सह्यलग्न इवार्णवः ॥ ४६॥ भयोत्सृष्टविभूपाणां तेन केरलयोषिताम् । अलकेषु चमूरेणु श्चूर्णप्रतिनिधीकृतः ॥ ५० ॥ मुरलामारुतोधूत मगमत्कैतकं रजः। तद्योधवारबाणाना मयतपटवासताम् ॥ ११ ॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितः। धर्मभिः पवनोद्धृत-राजतालीवनध्वनिः ॥ ५२॥ खर्जरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुनागेम्मः शिलीमुखाः ॥५३ ॥ -

।
(e) साहित्य-सुधा-संग्रहः
अवकाशं किलोदवान् रामायाऽभ्यर्थितो ददौ ।
अपरान्तनहीपाल-व्याजन रखवे करम् ॥ ५४॥
मशेमरदनोत्कीर्ण-व्यक्तविक्रमलक्षणम् ।
विकटमेवतत्रोचे र्जयस्तम्भ चकार सः॥ ५५ ॥
पारसोझास्ततो जेतुं प्रतस्थे खलबर्मना ।
इन्द्रियाख्यानिव रिपू स्तत्त्वज्ञानेन संयमी ॥ ५६ ॥
यवनीमुखपमानां सहे मधुनदं न सः ।
बालाऽतपमिवाऽब्जामा मकालजलदोदयः ॥ १७ ॥
संग्राम स्तुमुल स्तस्य पाश्चात्यै रश्वसाधनैः।
शाजपूजितायशेय-प्रतियोधे रजस्यभूत् ॥ ५८ ॥
भल्लाऽपर्जतै स्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
तस्तार सरघाव्याप्तः लक्षौहपटले रिव ॥ ५६ ॥
अपनीतशिरस्त्राणाः शेजास्तं शरणं ययुः।
प्रक्षिपातप्रतीकारः संरस्मो हि महात्मनाम् ॥ ६॥
विनयन्ते स्म तद्योबा मधुभिर्विजयश्रमम् ।
आस्तीर्णाऽजिनरत्नासु द्राक्षावलयभूमिषु ॥ ६१ ॥
ततः प्रतस्थ कौवेरी भावानिव रघु दिशम् ।
शरै हस्र रिवोदाच्या उद्धरियरसानिव ।। ६२ ।।
विनीताऽध्वश्रमा स्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्ध न लग्नकुंकुमकेसरान् ॥ ६३ ॥
तत्र हूणावरोधानां भर्तृषु व्यक्तचिक्रमम् ।
कपोलपाटलाऽऽदेशि बभूव रघुचेष्टितम् ॥ ६४ ॥
काम्बोजाः समरे सोढुं तस्य बीर्यमनीश्वराः ।
गजाऽऽलांनपरिक्ति रोटः सार्धमानताः ॥६५॥

प्रशमी बिन्दु না লখিনুজা দুম্বয়া। বানিলিয়ঃ মা মাৰোঃ জামু ?? ৫৫ ৫৫ নী মাহী হীন মান্থাৎলানঃ । অক্ষি বানু শুনুন অন্ততঃ ॥ ৫৩ ৷ সাদা বালা ঐশ্বাস। गुहाशयानां सिंहानां परिवृश्यावलोकितम् ॥ ८ ॥ সূরন্তু মীম ফজিম্ভব। ন্যায় ক্ষতি গ্লান হুর নিবিই । । মিলু ললিক ভাষায় লিনি। द्वपदो वासितोत्सा लिएर समृगनाभिभिः ॥ ७० ॥ सरलासक्तमातङ्ग-व्यस्फुरितत्वियः । আশীষী ন লকনাবিঙ্গা। ৩২ । সংগ্ৰীনিৱা ৰজন্মঃ। # নিমঃ হা হাঃ . ও। বস জন্য অগ্রগাহ মাগী মসুল। লাঘীখান-লিস্তীনবিল। এর । মা হলেন বালু ও ফুলো বোলালু। অস্বাস্থ্য জান্ত্রী শাবান্না নিলু। ৩৪. বই বিঙ্গান দুবালাগি । মিল দহী স্থা: ৰাহী ছিল। ৩। বস্থায় অাছি নিয়োগ নং। ঘীতিলাই খাল ছয় দ্ভূিযমু। ওই । অন্ধব নীষ্টি নদভীলিমঃ। বাসন্তানের মান ও জান্তানুলঃ ॥ ৩৩t साहिल था-संग्रहः न प्रसेहे स रुद्धार्क मधारावर्षदुर्दिनम् । रथवमरजोऽप्यस्य कुत एव पताकिनीम् ॥ ७८ ॥ तमोशः कामरूपाणा मत्याखण्डलविक्रमम् । भेजे भिसकटनांगै रन्यानुपरुरोध यः ॥ ७६ ॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण छायामानर्च पादयोः ॥ ८॥ इति जित्वा दिशो जिष्णु न्यवर्तत रथोद्धतम् । रजो विश्रामयन्राज्ञां छत्रशून्येषु मौलिषु ॥ ८१ ॥ स विश्वजितमाजले यज्ञं सर्वखदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ८२ ॥ सत्रान्ते सचिवसखः पुरस्क्रियाभि- गुर्वाभिः शामतपराजयव्यलीकान् । काकुत्स्थ श्विरविरहोत्सुकायरोधान् राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८३ ॥ ते रेखावजकुलिशाऽऽतपत्रचिह्न सम्राजश्चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभि रंगुलोषु चक्रुः मौलित्रक्च्युतमकरन्दरेणुगौरम् ॥ ८४ ॥ इति चतुर्थः सर्गः

प्रथमो विन्दुः
।
पञ्चम
सर्गः
तमध्वरे विश्वजिति क्षितीशं निःशेषविनाणितकोशजातम् ।
उपासविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तु शिष्यः ॥ १ ॥
समृण्मये वीतहिरएमयत्वात् पात्रे निधायाऽयमनर्धशोलः।
श्रुतप्रकाशं यशसा प्रकाशः प्रत्युजगामातिथिमातिथेयः ॥२॥
तमर्चयित्वा विधिवद्विधिज्ञ स्तपोधनं मानधनाऽप्रयाथी।
विशापति विष्टरमाजमारात् कृताञ्जलिः कृत्यचिदित्युवाच ॥३॥
अप्पग्रणी मन्त्रकृता मृषीणां कुशाभवुद्ध ! कुशली गुरुस्ते ।
यतस्त्वया झानमशेषमाप्तं लोकेन चैतन्यमिवोएरश्मेः ॥ ४॥
कायेन वाचा मनसाऽपि शश्वद् यत्संभृतं वासवधैर्यलोपि ।
आपाद्यते न व्ययमंतरायैः कञ्चिन्महर्षेत्रिविध तपस्तत् ॥ ५॥
आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् ।
कचिन वाय्वादिरूपप्लवो वः श्रमाच्छदामाश्रमपादपानाम् ॥६॥
क्रियानिमित्तेष्वपि वत्सलत्वाद् अभन्नकामा मुनिभिः कुशेषु ।
तदङ्कशय्याच्युतनाभिनाला कञ्चिन्मृगीणामनघा प्रसूतिः॥ ७ ॥
निवर्त्यते ये नियमाभिषेको येभ्यो निघापाजलयः पितृणाम् ।
तान्युञ्छपष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि काञ्चत् ॥ ८॥
नीवारपाकादि कडंगरीय रानृश्यते जानपदैन कञ्चित् ।
कालोपपन्नाऽतिथिकल्प्यभागं वन्यं शरीरस्थितिसाधनं वः ॥६॥
अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयाऽनुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ १० ॥
तवाऽहंतो नाऽभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे।
अप्याशयाशासितु रात्मना वा प्राप्तोऽसि संभावयितुं वनान्माम् ॥१२
इत्ययपात्राऽनुमितव्ययस्य रघोरुदारामपि गां निशम्य ।
स्वार्थीपपत्ति प्रति दुर्बलांश स्तमित्यवोचद् वरतन्तुशिष्यः ॥ १२ ॥

(६२)
साहित्य-सुधा-संग्रहः
सर्वत्र नो वारीमधेहि राजन् ! नाथे कुतस्त्वय्यशुभ प्रजानाम् ।
सूर्ये तपत्यावरणाय' इष्टः काल्पेत लोकस्य कथं तमिला॥ १३ ॥
भक्तिः प्रतीक्ष्थेषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेफे !
व्यतीतकाल स्त्वहमभ्युप्रेत स्वामर्थिभावादिति से विषादः ॥ १४ ॥
शरीरमाण नरेन्द्र ! तिष्ठन् आभासि तीर्थप्रतिपादितभिः
भारण्यकोपात्तफलप्रसूतिः स्तम्बेन नोवार इवावशिष्टः ॥ १५ ॥
स्थाने भवानेकनराधिपः सन्नचिनत्वं मखजं व्यक्ति।
पर्यायपीतस्य हिमांशाः कलाक्षयः माध्यतरो हि वृद्धः ॥ १६ ॥
तदन्यतस्तावदनन्य कार्यों गुर्वर्थमाहर्तुमहं यतिध्ये ।
खस्त्यस्तु ते, निर्गलिताम्बुगड़ी शरद्धनं नाईति चातकोऽपि ॥ १७ ॥
एतावदुक्त्वा प्रतियातुकामं शिष्यं महनृपतिनिषिध्य ।
कि वस्तु विद्वन्गुरवे प्रदेयं त्वया कियति तमन्प्रयुक्त ॥ १८ ॥
ततो यथावद्विहिताध्वराय तस्मै समावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमावक्षे ॥ १६ ॥
समातविद्येन मया महर्षि विज्ञापितोऽभूद् गुरुदक्षिणायै ।
ल मे चिरायास्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ २०॥
निबन्धसंजातरुषाऽर्थकार्य मचिन्तयित्वा गुरुणाहमुक्तः।
वित्तस्य विद्यापरिसंख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ २१ ॥
सोऽहं सपर्याविधिमाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् ।
अभ्युत्सहे संप्रति नोपरोधु मल्पेतरत्वाच्छुतनिष्क्रयस्य ॥ २२ ॥
इत्थं विजेन द्विजराजकान्ति रावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिल जगाद भूयो जगदेकनाथः ॥ २३ ॥
गुर्वर्थमर्थी श्रुतपारदश्वा रधोः सकाशादनधाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परोवादनवावतारः ॥ २४ ॥

प्रथमो बिन्दुः
(६३
स त्वं प्रशते महिते मदीये बसंश्चतुर्थोऽग्निरिवारन्यगारे ।
द्वित्राण्यहान्यहसि सोदुमहरु ! यावद्यते साधयितुत्वदर्थम् ॥२
ললি বাঙ্গি হেলীয় সংগীমল্লা।
गामात्तसारा रघुरप्यवेक्ष्य निष्क्रष्टुमर्थ चको कुबेरात् ॥ २६ ॥
वसिष्ठमन्त्रोक्षणजात्प्रभावाद् उदन्यदाकाशमहीधरेषु ।
मरुत्लखस्येव बलाहकस्य गतिविज ने न हि तद्रास्य ॥ २७ ॥
अथाधिशिश्थे प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
सामन्त संभावनयव धीरः कैलाशनाथं तरसा जिगोपुः ॥ २८ ॥
प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः ।
हिरए प्रयी कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नमस्तः ॥ २६
तं भूपति औरहेमराशि लन् कुबेरा दभियास्यमानात् ।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिब चञभिन्नम् ॥ ३०॥
जनस्य साकेतनिवासिनस्तौ धावप्यभूतामभिनन्धसत्यौ।
गुरुप्रदेयांधिकनिःस्पृहोऽर्थी नृयोऽर्थिकामादधिकप्रदश्च ॥ ३१ ॥
अथोष्ट्रवामी शतवाहितार्थ प्रजेश्वरं प्रीतमना महर्षिः।
स्पृशन्करेणानतपूर्वकायं संप्रस्थितो चाचमुवात कौत्सः ॥ ३२॥
किमत्र चित्रं यदि कामसू में वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
आँचन्तनीयस्तु तव प्रभावो मनीषितं चौरपि येन दुग्धा ॥ ३३
आशास्थमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्नुषस्ते ।
पुत्र लभस्मात्मगुणानुरूपं भवन्तमीज्य' भवतः पितेव ॥ ३४ ॥
इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजाऽपि लेभे सुतमाशु तसा आलोकमोदिव जीवलोकः॥३५॥
ब्राह्म मुहूर्त किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाना तमात्मजन्मानमजं चकार ॥३६॥

(६४) साहित्य-सुधा-संग्रहः रूपं तदोजस्ति तदेव वीर्य तदेव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्विमिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ ३७॥ उपात्तविद्य विधिषद्गुरुभ्य स्तं यौवनोद्भविशेषकान्तम् । श्रीः साभिलावापि गुरोरनुज्ञां धीरेध कन्या पितुराचकांक्ष ॥ ३८॥ अथेश्वरेण ऋथकैशिकानां स्वयंवरार्थ स्वसुरिन्दुमत्याः। आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ ३६ ॥ तं श्लाध्यसंबन्धमसी विचित्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेन मुद्धां विदर्भाऽधिपराजधानीम् ॥ ४०॥ अतः परं संग्रहे गृहीतयोः षष्ठसप्तमसर्गयो बिषयः कथाप्रसंग- भंगभयाधस्तासमासेनैवविन्यस्पते- ततः स राजसूनुरजः कतिपयसुहृत्सैनिकाद्यनुगतः सरणौ श्वापद- कुलशरण्यान्यरण्यानि, विकचराजीवराजिविराजितपयस्विनी: स्रोत- स्विनीः, सरससारसरसितरमणीयपरिसरान् सरोवरान्, तटिनीतटत्रोटन- परिणतकरिणःशिखरिणश्च पश्यन् , पटमण्डपोपचारचारषु जानपदोपदा- सम्पादितप्रमोदेषु प्रमोदकाननानूनविनोदेषु निवसँश्च निवासेषु परम्परया सुरभिसमीर समीरिततरुततिनितान्तकान्तं सोमसुतासरिदुपान्तप्रान्तं प्रतिपेदे । । तत्र च मतंगमुनिवचनप्रतिपन्नमतंगजभावेन, तच्छापप्राकार- कारणीभूतस्वशरप्रहारप्रत्यर्पितपूर्वप्रकृतिना, भूयोपि गन्धर्वभूयमनुभूयभूयः प्रसेदुषा, प्रियदर्शनतनुजनुषा, प्रियंवदाख्यगन्धर्वेण सह साप्तपदीन- महीनं विधाय तेन च प्रत्युपचिकीर्षया निवेद्यमानमनवा संमोहनास्त्रं तदीयमुरोचकार ।

प्रथमो बिन्दु
(६५)
।
क्रमेण च नानाननदीनगनगरनिगमग्रामगहननिवेशान् देशान्
चिलंघयन् भोजभूमिभुजा भुजाऽभिरक्षितं, विपक्षिातक्षितां तीक्ष्णकटाक्ष-
रस्यलक्षितं, सुरस्पृहणीयसम्पत्तिगर्भ विदर्भ समाससाद ।
ततोऽनेकनृपतिकुला ऽलंकारैः कुमौरः परिवारितायामपि, परिभूत-
पुरुहूतपरिषत्प्रभायां, स्वयंवरसभायां, प्रचुरनक्षत्रमण्डलीमण्डितायां
दिवि चद्रिकयेव चन्द्रो नृचन्द्रः पर्तिवरयेन्दुमत्या गुणानुरागवत्या स
एव वरो वने ।
अथ स्वकीयस्वसु विवाहमहामहं तेन सह निवर्त्य भोज स्तं
विससर्ज । पथिप्रयान्तंच तं महनीयमहसमहमहमिकया किलाऽऽचक्राम
पराजितराजचक्रं कतिपयप्रयाण काऽनन्तरमीjया राजकुमारीजिहीर्षया
च । रघुनन्दनोपि प्रियंवदप्रदत्तदिव्याऽत्रसाचिव्येन द्रागव निद्राधीनं
विधायं तं विरोधिवर्गमनर्गलभिन्दुमत्या सह सहर्ष निजनगरीमत्राजीत् ।
(श्री बागीश्वर विद्यालंकार--
विरचिता चूर्णिकेयम् )
प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न हि सति कुलधुर्य सूर्यवंश्या गृहाय ॥४१॥
।
इति सप्तमः सर्गः
अष्टमः सर्गः
अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीम् अकरोदिन्दुमतीमिवाऽपराम् ॥ १ ॥

साहित्य-सुधा-संग्रहः
दुरितैरपि कर्तुमात्मसात् प्रयतन्ते नृपसूनघो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराशेति न भोगतृष्णया ॥२॥
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाऽभिषेचनम् ।
विशदोच्छ्वसितेन मेदिनी कथयामास कृतार्थतामिव ॥ ३ ॥
स बभूव दुरासदः परै गुरुणाऽथर्वविदा कृतक्रियः।
पवनाऽग्निसमागमो ह्ययं सहितं ब्रह्म रादत्रतेजसा ॥४॥
रघुमेव निवृत्तयौवनं तममन्यन्त नवेश्वर प्रजाः।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं विनयेनाऽस्य नवं च यौवनम् ॥ ६ ॥
सदयं बुभुजे महाभुजः सहसोद्वेगमियं बजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ७॥
अहमेव मतो महीपते रिति सर्वः प्रकृतिष्वचिन्तयत् ।
उधेरिव निम्नगाशते वभवन्नाऽस्य विमानना क्वचित् ॥ ८॥
न खरो न च भूयसा मृदुः पवमानः पृथिवीरहानिय ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन ॥ ६ ॥
अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया। ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १० ॥
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवी तरुवल्कवास सांप्रयताः संयमिनां प्रपेदिरे ॥११॥
प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
मभसा निभृतेन्दुना तुलाम् उदिताऽर्केण समारुरोह तत् ॥ १२ ॥
यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः।
अपवर्गमहोदयाऽर्थयो र्भुवमंशाविव धर्मयोर्गतौ ॥ १३॥

प्रथमो विन्दुः अजिताऽधिगमाय मन्त्रिभि युयुजे नीतिविशारदै रजः। अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः॥ १४ ॥ नृपतिः प्रकृतीरचेक्षितुं व्यवहाराऽऽसनमाददे युवा। परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ।। १५ ।। अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् । अपरः प्राणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥१६॥ अकरोदचिरेश्वरः क्षितो द्विषदारम्भफलानि भस्मसात् । इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ १७ ॥ पणबन्धमुखान्गुणानजः षडुपायुक्त समीक्ष्य तत्फलम् । रघुरप्यजगुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ १८ ॥ न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मणः । न च योगविधेनवेतरः स्थिरधी रापरमात्मदर्शनात् ॥ १६ ॥ इति शत्रुषु चेन्द्रिथेषु च प्रतिषिद्धप्रलरेषु जाग्रतौ। प्रसितावुदयाऽपवर्गयो रुभयों सिद्धिमुभावबापतुः ॥ २० ॥ अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः। तमसः परमापव्ययं पुरुषं योगसमाधिना रघुः ॥ २३ ॥ श्रुतदेहविसर्जनः पितु श्विरमणि विमुच्य राघवः । विदधे विधिमस्य नैष्टिकं यतिभिः सार्धमननिमग्निचित् ॥ २२ ॥ स परायंगतेरशोच्यतां पितुरुद्दिश्य सादर्थवेदिभिः । शमिताऽधि रधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २३ ॥ क्षितिरिन्दुमती च भामिनी पतिमासोन्य तमत्र्यपौरुषम् । प्रथमा बहुरत्नसूरभूद् अपरा वीरमजीजनत्सुतम् ॥ २४ ॥ दशरश्मिशतोपमद्युति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकंठारिगुरुं विदुर्बुधाः ॥ २५ ॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः । अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इचोष्ण दीधितिः ॥ २६ ॥ ।

साहित्य-सुधा-संग्रहः
बलमार्तभयोपशान्तये विदुयां सत्कृतये बहुश्रुतम् ।
वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥२७॥
ततः कदाचिदसौ चिदसौख्यनिवृत्तय शरदिन्दुकान्तिकान्तया
कान्तयेन्दुमत्या समं परमाभिरामं नगराऽऽराम कमपि जगाम । तत्र
च वियति यतो यतिपते रदस्य वीणाग्राज्जक्नपवनवशनिपतितपारि-
जात प्रसूनस्रजोरसि तरसा ताडिता तडितेव मालतीलता, मरुतेव दीप-
दशा, पयोभृतेव कौमुदी निमिमील किल राजमहिषी ।
अथ तथाविधप्रियजनविप्रयोगजन्येनाऽन्यूनमन्युनाऽनभ्रवज्रपातेनेक
शतधाविदीर्णहृदयो गुरुणा संसारसारा ऽसारताप्रदर्शनपर रुपदेशवचनैः
सिद्धाजेनरिव पुनः पुनरुन्मील्यमानलोचनोऽपि दूयमानमानसः कथंकथ-
मपि प्रकृष्ट कष्टादतिवाहितहायनाष्टकोऽवतीर्णतारुण्यं तनयं नयविनय-
विशेषशोमिन मप्रतिहतरथं दशरथं नियुज्य राज्यचिन्तायां प्रायोपवेशन-
कृतमतिर्गतधृति नूपतिः सुरसरित्सरबोर्हृदयङ्गमे संगमे नश्वरशरीरव्ययेना-
व्यय मियाय पदामित्यत्रत्यावशिष्ट कथांश संक्षपः ।
( "श्री वागीश्वर विद्यालंकार
विरचिता चूर्णिकेयम् )
इत्यष्टमः सर्गः
नवमः सर्गः
पितुरनन्तरमुत्तरकोसलान् समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥ १ ॥
अधिगतं विधिवद्यद्पालयत् प्रकृतिमण्डलमात्मकुलोचितम्।
अभवदस्य ततो गुणवत्तरं सनगर नग-रन्ध्रकरौजसः ॥२॥

प्रथमी बिन्दुः
(६६
उभयमेव वदन्ति मनीषिणः समयवर्वितया कृतकर्मणाम् ।
चलनिष्दनमर्थपति च तं श्रम-नुदं मनु-दण्ड-धराऽन्वयम् ॥३॥
जनपदे न गदः पदमाद्धा वभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शम-रतेऽमर-तेजसि पार्थिवे ॥४॥
दशदिगन्तजिता रघुणा यथा नियमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीन-पराक्रमम् ॥ ५॥
समतया चसुवृष्टिविसर्जनै नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा॥६॥
न मृगयाऽभिरतिर्न दुरोरं न च शशिप्रतिमाऽभरणं मधु ।
तमुदयाय न चा नवयौवना प्रियतमा यतमानमपाहरत् ॥ ७ ॥
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वाग् अपरुषा परुषाऽक्षरमीरिता ॥ ८ ॥
उदयमस्तमयं च रघूद्रहाद् उभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलंघयतामभूत् सुहृदयो-हृदयः प्रतिगर्जताम् ॥ ६ ॥
अजयदेकरथेन स मेदिनी मुदधिनेमि मधिज्यशरासनः ।
जयमघोषयदस्य तु केवलं गजवती जव-तीव-हया चमूः ॥ १० ॥
अवनि मेकरथेन वरूथिना जितवतः किल तस्य धनुभृतः ।
विजयदुन्दुभितां ययुरर्णवा घन-रवा नरवाहनसंपदः ॥ ११ ॥
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नव-तामरसाऽऽननः॥१२॥
चरणयो नखरागसमृद्धिभि मुकुटरत्नमरीचिभि रस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥ १३ ॥
निववृते स महार्णवरोधसः सचिवकारितवालसुताऽअलीन् ।
समनुकम्प्य सपत्नपरिग्रहान अनलकानलकाऽनवमांपुरीम् ॥ १४ ॥

(७०)
साहित्य-सुधा-संग्रहः
उपगतोऽपि च मण्डलनाभिताम् अनुदिताऽन्य सिताऽऽतपवारणः ।
थियमवेक्ष्य स रन्ध्रचलामभूद् अनलसोऽनल-सोम-समद्युतिः॥१५॥
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता।
नृपतिमन्यमसेवत देवता स-कमला कमलाघचमर्थिषु ॥ १६ ॥
तमलभन्त पति पतिदेवताः शिखरिणामिव सागरमापनाः।
मगधकोसलकेकयशासिनां दुहितरोऽहित-रोपित-मार्गणम् ॥ १७ ।।
प्रियतमाभिरसौ तिसमि र्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरि-हयोऽरिह-योग-विचक्षणः ॥ १८ ॥
स किल संयुगसूनि सहायतां मघवतः प्रतिपद्य महारथः ।
खभुजवीर्यमगापयच्छितं सुर-वधूरवधूत-भयाः शरैः ॥ १६ ॥
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकायूपसमुच्छयशोभिनो वितमसा तमला-सरयूतटाः ॥२०॥
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगङ्गपरिग्रहाम् ।
अधिवसंस्तनुमवरदीक्षिताम् असमभासमक्षासयदीश्वरः ॥ २१ ॥
अवभृथप्रयतो नियतेन्द्रियः सुर-समाज-लमाक्रमणोचितः।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२ ॥
असकृदेकरथेन तरबिना हरियाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ २३ ॥
इति नमः सर्गः
दशमः सर्गः ।
पृथिवी शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनः शरदामयुतं ययौ ॥ १ ॥
न चोपलेभे पूर्वपाम् ऋणनिर्मोक्षसाधनम् ।
सुताऽभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥ २ ॥

प्रथमो बिन्दुः
(७१)
अतिष्ठत्प्रत्ययापेक्ष-संततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्त-रत्नोत्पत्तिरिवार्णवः ॥३॥
ऋष्यश्टङ्गादयस्तस्य सन्तः संतानकांक्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः॥४॥
अथ तस्य विशांपत्यु रन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूवाऽग्ने चिस्मयेन सहविजाम् ॥ ५॥
हेमपानगतं दोाम् आदधानः पयश्चरम् ।
अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥ ६ ॥
प्राजापत्योपनीतं तद् अन्न प्रत्यग्रहीन्नृपः।
वृषेव पयसां सारम् आविष्कृतसुदन्वता ॥ ७॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः।
प्रसूतिं चकमे तस्मिन् त्रैलोक्यप्रभवोऽपि यत् ॥ ८ ॥
सतेजो वेष्णवं पत्न्यो विभेजे बरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रम् अहर्पतिरिवाऽऽतपम् ॥ ६ ॥
अर्चिता तस्य कौसल्या, प्रिया केकयवंशजा।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ १० ॥
ते
बहुज्ञस्य चित्त पन्यो पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ११ ॥
सा हि प्रणयवत्यासीत् सपत्न्योरुभयोरपि ।
भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः ॥ १२ ॥
ताभिर्गर्भः प्रजाभूत्यै दध्र देवांशसंभवः।
सौरीभिरिव नाडीभि रमृताख्याभिरम्मयः ॥ १३ ॥
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सत्यानामिव संपदः ॥ १४ ॥

(७२)
साहित्य-सुधा-संग्रहः
अथाय्यमहिपी राज्ञः प्रसूतिसमये सति ।
पुत्र तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः ॥ १५॥
राम इत्यभिरामेण वपुषा तस्य चोदितः।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ १६॥
रघुवंशप्रदीपेन तेनाऽप्रतिमतेजसा।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाऽभवन् ॥१७॥
शय्यामतेन रामेण माता शातोदरी बभौ
सैकताम्भोजबलिना जाह्नवीव शरत्कशा ॥ १८ ॥
कैकेय्या स्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ १६ ॥
सुतो लक्ष्मणशत्रुनो सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ २० ॥
निर्दोषमभवत्सर्व माविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ २१ ॥
तस्योदये चतुर्मतः पोलस्त्यचकितेश्वराः ।
विरजस्कैनभवद्भिर्दिश उच्छ्वसिता इव ॥ २२ ॥
कृशानुरपघूमत्वात् प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृताचास्ताम् अपविद्धशुचाविव ॥ २३ ॥
दशाननकिरीटेभ्य स्तत्क्षणं राक्षसश्रियः।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ २४ ॥
पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रु दैवदुन्दुभयो दिवि ॥ २५ ॥
संतानकमयी वृष्टि भवने चाऽस्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवाऽऽदिरचनाऽभवत् ॥ २६ ॥

प्रथमो बिन्दुः (७३) कुमाराः कृतसंस्कारा स्ते धात्रीस्तन्यपायिनः। आनन्देनाऽग्रजेनेव समं ववृधिरे पितुः ॥ २७ ॥ स्वाभाविक विनीतत्वं तेषां विनयकर्मणा। मुमूर्छ सहजं तेजो हविषेय हविर्भुजाम् ॥ २८ ॥ परस्पराऽविरुद्धास्ते तद्रधोरनघं कुलम् । अलमुद्योतयामासु देवाऽरण्यमिवर्तवः ॥ २६ ॥ समानेऽपि हि सौभ्रात्रे यथीभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या इन्द्र बभूवतुः॥ ३०॥ तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन । यथा वायुविभावस्वो र्यथा चन्द्रसमुद्रयोः ॥ ३१ ॥ ते प्रजानां प्रजानाथा स्तेजसा प्रश्रयेण च । मनो जहर्निदाघाऽन्ते श्यामाऽभ्रा दिवसा इव ॥ ३२ ॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणाम् अवतार इवाऽङ्गवान् ॥ ३३ ॥ गुणैराराधयामासु स्ते गुरुं गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥३४॥ सुरगज इव दन्तैर्भनदैत्याऽसिधारै नयइव पणबन्धव्यक्तयोगै रुपायैः । हरिरिव युगदीधैं दीर्भिरशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥ ३५ ॥ इति दशमः सर्गः

(७४)
साहित्य-सुधा-संग्रहः
एकादशः सर्गः।
कौशिकन सकिल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचित स्तेजसा हि न वयः समीक्ष्यते ॥१॥
कृच्छलब्धमपि लब्धवर्णभाक्तं विदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रथिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥२॥
यावदादिशति पार्थिवस्तयो निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशुविदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्धनैः ॥ ३ ॥
तौ निदेशकरणोद्यतौ पितु र्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतो नम्रयोरुपरि वाष्यबिन्दवः ॥ ४॥
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५॥
लक्ष्मणाऽनुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः ।
आशिषं प्रयुयुजे न वाहिनी सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥
मातृवर्गचरणस्पृशौ मुने स्तौ प्रपंद्य पदवीं महौजसः ।
रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्पशोभत ।
तोयदाऽऽगम इवोद्धयभिधयो र्नामधेयसदृशं विचेष्टितम् ॥ ८॥
तौ बलाऽतिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुटिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ६॥
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राधवः ।
उह्यमान व वाहनोचितः पादचारमपि न व्यभाधयत् ॥ १० ॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभि श्छायया च जलदाः सिषेचिरे ॥ ११ ॥
नाऽम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम्।
दर्शनेन लधुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२॥

प्रथमी बिन्दुः
।
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथि रातकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताऽटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥
ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥१५॥
तीबवेगधुतमार्गवृक्षया प्रेतचीवरवसा खनोग्रया।
अभ्यभावि भरताऽग्रजस्तया वात्ययेक पितृकाननोत्थया ॥ १६ ॥
उद्यतैकभुजयष्टिमायती श्रोणिलम्बिपुरुषाऽन्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥
यञ्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसा द्वारतामगमदन्तकस्य तत् ॥ १८ ॥
बाणभिन्नहृदया निपेतुषी सा वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १६ ॥
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवटुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ॥ २० ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पिताऽहणम् ।
बद्धपल्लवपुटाऽञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ २१ ॥
तत्र दीक्षितमृषि ररक्षतु विघ्नतो दशरथात्माजी शरैः।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २२ ॥
वीक्ष्य वेदिमथ रक्तबिन्दुभि बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणाम् ऋत्विजां च्युतविकङ्कतसुचाम् ॥ २३ ॥
उन्मुखः सपदि लक्ष्मणाऽग्रजो बाणमाश्रयमुखात्समुद्धरन्।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २४ ॥

(७६)
साहित्य-मुधा-संग्रहः
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नैतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २५ ॥
सोऽस्त्रमुग्रजवमनकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत् पाण्डुपत्रमिच ताडकासुतम् ॥२६॥
यः सुबाहुरिति राक्षसोऽपर स्तत्र तत्र विससर्प मायया।
त चुरप्रशकलीकृतं कृतो पत्रिणां व्यभजदाश्रमाद्वहिः॥ २७ ॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपते यथाक्रम वाग्यतस्य निरवर्तयन्क्रियाः ॥ २८ ॥
तौ प्रणामचलकाकपक्षको भ्रातराववभृथाऽऽप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद् दर्भपाटिततलेन पाणिना ॥ २६ ॥
तं न्यमन्त्रयत संभृतक्रतु मैथिलः; स मिथिला वजन्वशी।
राघवावपि निनाय बिभ्रतौ तद्धनु:- श्रवण कुतूहलम् ॥ ३० ॥
राघवाऽन्वितमुपस्थितं मुनिं तं निशम्य जनको जनेश्वरः ।
अर्थकामसहितं सपर्यया देहबद्धमिव धर्ममभ्यगात् ॥ ३१ ॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिवतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः ॥ ३२॥
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथंयांबभूव सः॥ ३३ ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया ॥ ३४ ॥
अब्रवीच भगवन् ! मतंगजै र्यबृहद्भिरपि कर्म दुष्करम् ।
तत्र नाऽहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥ ३५ ॥
ह्रपिता हि वहवो नरेश्वरा स्तेन तात ! धनुषा धनुर्भृतः ।
ज्यानिघातकठिनत्वचो भुजान् स्वान्विधूय धिगिति प्रतस्थिर ॥ ३६॥

प्रथमो बिन्दुः
(७७)
प्रत्युवाच तमृपिनिशम्यतां सारतोऽयम्-अथवा, गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरनिर्गिराविव ॥ ३७॥
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे।
श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥ ३ ॥
व्यादिदेश गणशोऽथ पार्श्वगान कार्मुकाऽभिहरणाय मैथिलः ।
तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥ ३६॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगाऽनुसारिणं येन बाणमसृजदृषध्वजः ॥ ४० ॥
आततज्यमकरोत्स संसदा विस्मयस्तिमितनेत्रमीक्षितः।
शैलसारमपि नाऽतियत्नतः पुष्पचापमिव पेशलं स्मरः ॥ ४१ ॥
भज्यमानमतिमात्रकर्षणात् तेन वज्रपरुषस्वनं धनुः ।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४२ ॥
दृष्टसारमथ रुद्रकार्मुके वीर्यशुल्कमभिनन्ध मैथिलः ।
राघवाय तनयामयोनिजां रूपिणों श्रियमिव न्यवेदयत् ।। ४३ ॥
मैथिलः सपदि सत्य संगरो राघघाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधे रग्निसाक्षिक इवाऽतिसृष्टवान् ॥ ४४ ॥
प्राहिणोच्च महितं महाद्युतिः कोसलाऽधिपतये पुरोधसम् ।
भृत्यभावि दुहितुः परिग्रहाद् दिश्यतां कुलमिदं निमेरिति ॥ ४५ ॥
अन्वियेष सदशी स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः ।
सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मि कांक्षितम् ॥ ४६ ॥
तस्य कल्पितपुरस्कियाविधेः सुश्रुवान्वचनमग्रजन्मनः ।
उञ्चचाल बलभित्सखो वशी सैन्यरेणुमुषिताऽर्कदीधितिः ॥ ४७ ॥
तौ समेत्य समये स्थिता वुभौ भूपती वरुणवासवोपमौ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥ ४८॥

-
(७८)
साहित्य-सुधा-संग्रहः
पार्थिवीमुवहद्धूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ बरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥ ४६ ।
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥ ५० ॥
ता नराधिपसुता नृपात्मजै स्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः ॥ ५१ ॥
एवमात्तरतिरात्मसंभवांन तान्निवेश्य चतुरोऽपि तत्र सः।
अध्वसु त्रिषु विसृष्टमैथिलः खां पुरी दशरथो न्यवर्तत ॥ ५२ ॥
तस्य जातु मरुतः प्रतीपगा वर्त्मसु ध्वजतरुप्रमाथिन:
चिक्लिशुभ्रंशतया वरूथिनीम् उत्तटा इव नदीरयाः स्थलीम् ॥ ५३ ॥
लक्ष्यते स्म तदनन्तरं रवि बद्धभीमपरिवेशमण्डलः ।
वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः ॥ ५४ ॥
श्येनपक्षपरिधूसराऽलकाः सांध्यमेघरुधिराऽऽर्द्रवाससः।
अङ्गना इच रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ॥ ५५ ॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं क्वाशिरे ।
क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः ॥५६॥
तत्प्रतीपपवनाऽऽदि वैकृतं प्रेक्ष्य शान्तिमधिकृत्या कृत्यवित् ।
अन्वयुङ्क्तगुरुमीश्वरः क्षितेः स्वन्त मित्यलघयत्स तव्यथाम् ॥ ५७ ॥
तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकै लक्षणीयपुरुषाऽऽकृतिश्चिरात् ॥ ५८ ॥
पित्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव धर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः॥ ५६ ॥
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
चेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही ॥ ६० ॥
अक्षबीजबलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः ।
क्षत्रियाऽन्तकरणैकविंशते व्याजपूर्वगणनामिवोद्वहन ॥ ६१ ॥

प्रथमो बिन्दुः
(७६)
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसूनुरवलोक्य भार्गवं स्वां दशां च चिपसाद पार्थिवः ॥ १२ ॥
नाम राम इति तुल्यमात्मजे वर्तमानमाहिते च दारुणे ।
हृद्यमस्य भयदायि चाऽभवद् रत्नजातमिव हारसर्पयोः ॥ ६३ ॥
अयमयमिति वादिनं नृपं सोऽनवेक्ष्य भरताऽग्रजो यतः।
क्षत्रकोपदहनाऽर्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६४ ॥
तेन कार्मुकनिएक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अङ्गुली विवरचारिणं शरं कुर्वता निजगदे युयुत्सुना ।। ६५ ॥
क्षत्रजातमपकारवैरि मे तचिहत्य बहुशः शमं गतः।
सुप्तसर्प इव दण्डधनाद् रोषितोऽस्मि तव विक्रमश्रवात् ॥६६॥
मैथिलस्य धनुरन्यपार्थिवै स्त्वं किलाऽनमितपूर्वमक्षणोः ।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥ ६७ ॥
अन्यदा जगति राम इत्यय शब्द उच्चरित एव मामगात् ।
बीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥ ६८ ॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ।
धेनुवत्सहरणाञ्च हैहय स्त्वं च कोर्तिमपहर्तुमुद्यतः ॥ ६६ ॥
क्षत्रियाऽन्तकरणोऽपि विक्रम स्तेन मामवति नाऽजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥ १०॥
विद्धि चाऽऽत्तबलमोजसा हरेः ऐश्वर धनुरभाजि यच्चया।
खातमूलमनिलो नदीरयः पातयत्यपि मृदुस्तद्रुमम् ॥ ७१ ॥
तन्मदीय मिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥ ७२ ॥
कातरोऽसि यदि वोद्गताऽर्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनांगुलि वृथा बध्यतामभययाचनाऽञ्जलिः ॥ ७३ ॥
एवमुक्त वति भीमदर्शने भार्गचे स्मितचिकम्पिताऽधरः ।
तद्धनुग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ७४ ॥

(८०)
साहित्य-सुधा-संग्रहः
पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् ।
केवलोऽपि सुभगो नवाऽम्बुदः किं पुनस्त्रिदशचापलाञ्छितः ॥ ७५
तेन भूमिनिहितैककोटि तत् कार्मुकं च बलिनाधिरोपितम् ।
निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ७६ ॥
तावुभावपि परस्परस्थिती वर्धमान-परिहीनतेजसौ।
पश्यति स्म जनता दिनाऽत्यये पार्वणौ शशिदिवाकराविव ॥ ७ ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितममोधमाशुगं, व्याजहार हरसूनुसंनिभः ॥ ७८ ॥
न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
शंस कि गतिमनेन पत्रिणा हन्मि लोकमुत ते मखाऽर्जितम् ॥ ७ ॥
प्रत्युवाच तमृपिन तत्त्वत स्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिद्वक्षुणा ॥ ८० ॥
भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥ ८१ ॥
तद्गति मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपम् ॥ ८२ ॥
प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत् स्वर्गमार्गपरिघो दुरत्ययः ॥ ८३ ॥
राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८४ ॥
राजसत्वमवधूय मातृकं पित्र्यमस्मि गमितः शमं यदा।।
नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययमनुग्रहीकृतः ॥ ८५ ॥
साधयाम्यह मविघ्नमस्तुते देवकार्य मुपपादयिष्यतः।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाऽग्रजमृषिस्तिरोदधे ॥ ८६ ॥

प्रथमो बिन्दु
(८१)
॥
तस्मिन्यते विजयिनं परिरभ्य राम,
स्नेहादभन्यत पिता पुनरेव जातम् ।
तस्याऽभवत्क्षणशुचः परितोषलाभः,
कक्षाऽनिलंधिततरोरिच वृष्टिपातः ॥७॥
अथ पथि गमयित्वा क्लप्तरम्योपकार्ये,
कतिचिवनिपालः शर्वरीः शर्वकल्पः।
पुरमविशदयोध्यां मैथिलीदर्शनीनां,
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ८८ ॥
इत्येकादशः सर्गः
GORNO
द्वादशः सर्गः।
निर्विष्टविषयस्नेहः स दशान्त मुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपाऽर्चिरिवोषसि ॥१॥
तं कर्णमूलमागत्य राम श्रीय॑स्यतामिति ।
कैकेयीशङ्कयेवाऽऽह पलितच्छद्मना जरा ॥२॥
सा पौरान्पौर-कान्तस्य रामस्याऽभ्युदयश्रुतिः ।
प्रत्येक हादयांचके कुल्य घोद्यानपादपान् ॥३॥
तस्याऽभिषेकसभारं कल्पितं क्रूरनिश्चया।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः ॥ ४॥
सा किलाऽऽश्वासिता चण्डी भर्ना तत्संश्रुतौ वरौ ।
उद्वयामेन्द्र सिक्ताभू बिलमग्नाविवोरगौ ।। ५ ॥
तयोश्चतुर्दशैकेन रामं प्राऽवाजयत्समाः ।
द्वितीयेन सुतस्यैच्छद् वैधव्यैकफलां श्रियम् ॥ ६ ॥

(८२) साहित्य-सुधा-संग्रहः पित्रा दत्तां रुदनरामः प्राङ्महीं प्रत्यपद्यत । पश्चाद्वनाय गच्छेति तदाऽऽशां मुदितोऽग्रहीत् ॥ ७॥ दधतो मङ्गलक्षौमे वसानस्य च वल्कले । ददृशु विस्मितास्तस्य मुखरागं समं जनाः ॥ ८॥ स सीतालक्ष्मणसखः सत्याद्गुरुमलोपयन् । विवेश दण्डकाऽरण्यं प्रत्येकं च सतां मनः ।।६।। राजाऽपि तद्वियोगाऽऽर्तः स्मृत्वा शापं स्वकर्मजम् । शरीरत्यागमात्रेण शुद्धिलाभममन्यत ॥ १० ॥ विप्रोषितकुमारं तद् राज्यमस्तमितेश्वरम् । रन्ध्राऽन्वेषणदक्षाणां द्विषामामिषतां ययौ ॥ ११ ॥ अथाऽनाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासु भरतं स्तम्भित्ताऽश्रुभिः॥ १२ ॥ श्रुत्वा तथाविधं मृत्यु कैकेयीतनयः पितुः । मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः ॥ १३ ॥ ससैन्यश्चाऽन्वगादामं दर्शितानाश्रमाऽऽलयैः । तस्य पश्यन्ससौमित्रे रुदनु वसतिद्रुमान् ॥ १४ ॥ चित्रकूटवनस्थं च कथितवर्गति गुरोः । लक्ष्म्या निमन्त्रयांचक्रे तमनुच्छिष्टसंपदा ॥ १५ ॥ स हि प्रथमजे तस्मिन् अकृतश्रीपरिग्रहे । परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः ॥ १६ ॥ तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः । ययाचे पादुके पश्चात् कर्तु राज्याऽधिदेवते ॥ १७ ॥ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाऽविशत्पुरीम् । नन्दिग्रामगत स्तस्य राज्यं न्यासमिवाभुनक् ॥ १८ ॥ ।

प्रथमो बिन्दुः
(३)
दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः ।
मातुः पापस्थ भरतः प्रायश्चित्तमिवाऽकरोत् ॥ १६ ॥
रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् ।
चचार साऽनुजः शान्तो वृद्ध्क्ष्वाकुव्रतं युवा ॥ २० ॥
रामस्त्वाऽऽसन्नदेशत्वाद् भरताऽऽगमनं पुनः ।
आशङ्कयोत्सुकसारङ्गां चित्रकूटस्थली जहौ ॥ २१ ॥
प्रययावातिथेयेषु वसन्नृषिकुलेषु सः।
दक्षिणां दिशमृक्षेषु वार्षिकोष्विव भास्करः ॥ २२ ॥
बभौ तमनुगच्छन्ती विदेहाऽधिपतेः सुता।
प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २३ ॥
अनसूयाऽतिसृष्टेन पुण्यगन्धेन काननम् ।
सा चकाराऽङ्गरागेण पुष्पोचलितषट्पदम् ॥ २४ ॥
संध्याऽभ्रकपिशस्तस्य विराधो नाम राक्षसः।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः ॥ २५ ॥
स जहार तयोर्मध्ये मैथिली लोकशोषणः ।
नभोनभस्ययोवृष्टिम् अवग्रह इवाऽन्तरे ॥ २६ ॥
तं विनिष्पिष्यकाकुत्स्थौ पुरा दूषयति स्थलीम् ।
गन्धेनाऽशुचिना चेति वसुधायां निचख्नतुः ॥२७॥
पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः ।
अनपीढस्थितिस्तस्थौ विन्ध्याऽद्रिः प्रकृताधिव ॥२८॥
रावणाऽवरजा तत्र राघवं मदनाऽऽतुरा।
अभिपेदे निदाघाऽऽर्ता व्यालीव मलयद्रुमम् ॥ २६ ॥
सा सीतांसंनिधावेच तं वत्रे कथिताऽन्वया।
अत्याऽऽरूढो हि नारीणाम् अकालज्ञो मनोभवः ॥ ३० ॥

(८४)
साहित्य-सुधा-संग्रहः
कलत्रवानहं बाले ! कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्ती वृषस्कन्धः शशास ताम् ॥ ३१॥
ज्येष्ठाऽभिगमनात्पूर्वं तेनाऽप्यनभिनन्दिता।
साऽभूद्रामाऽऽश्रया भूयो नदीवोभयकूलभाक् ॥ ३२ ॥
संरम्भ मैथिलीहासः क्षणसौम्यां निनाय ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोधेः॥ ३३ ॥
फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् ।
मृग्याः परिभवो व्याघ्याम् इत्यवेहि त्वया कृतम् ॥ ३४ ॥
इत्युक्त्वा मैथिली भर्तु र) निविशती भयात् ।
रूपं शूर्पणखा नाम्नः सदृशं प्रत्यपद्यत ॥ ३५ ॥
लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।
शिवाघोरस्वना पश्चाद् बुबुधे विकृतेति ताम् ।। ३६ ॥
पर्णशालामथ क्षिप्रं विकृष्टाऽसिः प्रविश्य सः।
वैरूप्यपौनरुक्त्त्येन भीषणां तामयोजयत् ॥ ३७॥
सा वक्रनखधारिण्या वेणुकर्कशपर्वया।
अङ्कुशाऽऽकारयाऽङ्गुल्या तावतर्जयदम्बरे ॥ ३८॥
प्राप्य चाऽऽशु जनस्थानं खराऽऽदिभ्यस्तथाविधम् ।
रामोपक्रममाचख्यौ रक्षापरिभवं नवम् ॥ ३४ ॥
मुखाऽवयवलूनां तां नैर्ऋता यत्युरो दधुः।
रामाऽभियायिनां तेषां तदेवाऽभूदमङ्गलम् ॥ ४० ॥
उदाऽऽयुधानाऽऽपतत स्तान्तृप्तान्प्रेक्ष्य राधवः ।
निदधे विजयाऽऽशंसां चापे सीतां च लक्ष्मणे ॥ ४१ ॥
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाऽऽजौ तावांश्च ददृशे स तैः ॥ ४२ ॥

प्रथमो बिन्दुः
असजनेन काकुत्स्थः प्रयुक्तमथ दूषणम् ।
न चक्षमे शुभाऽऽचारः स दूषणमिवाऽऽत्मनः ॥ ४३ ॥
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥४४॥
ते स्त्रयाणां शितैर्बाणै यथापूर्वविशुद्धिभिः ।
आयु देहाऽतिगैः पीतं रुधिरं तु पतत्रिभिः ॥ ४५ ॥
तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् ।
उत्थितं दहशेऽन्यच्च कबन्धेभ्यो न किंचन ॥ ४६॥
सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् ।
अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी ॥ ४७ ॥
राघवाऽस्त्रविदीर्णानां रावणं प्रति रक्षसाम् ।
तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत् ॥ ४८ ॥
निग्रहात्स्वसु राप्तानां बधाञ्च धनदाऽनुजः।
रामेण निहितं मेने पदं दशसु भूर्धसु ॥४६॥
रक्षसा मृगरूपेण वञ्चयित्वा स राधधौ।
जहार सीतां पक्षीन्द्र-प्रयासक्षणविनितः ॥५०॥
तौ सीताऽन्वेषिणौ गृध्र लूनपक्षमपश्यताम् ।
प्राणै दशरथप्रीते रनृणं कराठवर्तिभिः ॥ ५१ ॥
स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैराऽऽवेद्य संस्थितः ॥ १२ ॥
तयोस्तस्मिन्नवीभूत-पितृव्यापत्तिशोकयोः ।
पितरीवाग्निसंस्कारात् परा ववृतिरे क्रियाः॥॥५३॥
वधनि—तशापस्य कबन्धस्योपदेशतः।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ॥ ५४॥

(८६)
साहित्य-सुधा-संग्रहः
।
स हत्वा बालिनं वीर स्तत्पदे चिरकांक्षिते।
धातोः स्थान इवाऽऽदेशं सुग्रीवं संन्यवेशयत् ॥ ५५ ॥
इतस्ततश्च वैदेही मन्वेष्टुं भर्तृचोदिताः ।
कपयश्चेरुरातस्य रामस्येव मनोरथाः॥५६॥
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् ।
मारुतिः सागर तीर्णः संसारमिव निर्ममः॥१७॥
दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।
जानकी विषवल्लीभिः परीतेव महौषधिः ॥ ५८ ॥
तस्यै भर्तुरभिज्ञानम् अङ्गुलीयं ददौ कपिः।
प्रत्युद्गतमिवाऽनुष्णैस्तदाऽऽनन्दाऽश्रुबिन्दुभिः ॥ ५६ ॥
निर्वाप्य प्रियसंदेशैः सीतामक्षवधोद्धतः ।
स ददाह पुरी लङ्कां क्षणसोढाऽरिनिग्रहः ॥६० ।।
प्रत्यभिज्ञानरत्नं च रामायाऽदर्शयत्कृती।
हृदयं स्वयमायातं चैदेह्या इव मूर्तिमत् ॥ ६१ ॥
श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः।
महाऽर्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६२ ॥
स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६३ ॥
निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६४ ॥
तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राधवः।
काले खल समारब्धाः फलं बध्नन्ति नीतयः ॥६५॥
स सेतुं बन्धयामास प्लवगैर्लवणाऽम्मसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शाणिः ॥६६॥

प्रथमो बिन्दु
(८७)
तेनोत्तीर्य पथा लङ्का रोधयामास पिङ्गलैः ।
द्वितीयं हैमप्राकारं कुर्वद्भिरिव वानरैः ॥ ६७ ॥
रण प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विजम्भितकाकुत्स्थ-पौलस्त्यजयघोषणः ॥ ६८ ॥
पादपाऽऽविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः ॥ ६६ ॥
अथ रामशिरश्छेद-दर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीचयत् ॥ ७० ॥
काम, जीवति मे नाथ इति सा विजही शुचम् ।
प्राङ्मत्वा सत्यमस्याऽन्तं जीविताऽस्मीति लजिता ॥ ७ ॥
गरुडाऽऽपातविश्लिष्ट-मेघनादाऽस्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः खप्नवृत्त इवाऽभवत् ॥ ७२ ॥
ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद् विदीर्णहृदयः शुचा ॥ ७३ ॥
स मारुतिसमानीत-महौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाऽऽचार्यकं शरैः ॥ ७४ ।।
स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किंचित्पर्थशेषयत् ॥ ७५ ॥
कुम्भकर्णः कपीन्द्रेण तुल्याऽवस्थः स्वसुः कृतः।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ७६॥
अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवाऽसौ दीर्धनिद्रां प्रवेशितः ॥ ७७ ॥
इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ७७ ॥

(८८)
साहित्य-सुधा-संग्रहः
निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावण मराम वा जगदद्योति निश्चितः ॥ ७॥
रामं पदातिमालोक्य लशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः ॥ ८ ॥
तमाऽऽधूतध्वजपटं व्योमगङ्गोर्मि वायुभिः ।
देवसूतभुजाऽऽलंबी जैत्रमध्याऽऽस्त राघवः ।। ८१ ॥
मातलिस्तस्य माहेन्द्रम् आमुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैव्यम् अस्त्राण्यापुः सुरद्विषाम् ॥ ८२ ॥
अन्योन्यदर्शनप्राप्त-विक्रमावसर चिरात् ।
रामरावणयोयुद्धं चरिताऽर्थमिवाऽभवत् ॥ ८३ ॥
भुजमूोरुबाहुल्याद् एकोऽपि धनदाऽनुजः।
दशे ह्ययथापूर्वी मातृवंश इव स्थितः ॥ ८४॥
जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम् ।
राम स्तुलितकैलासम् अराति बह्वमन्यत ।। ८५ ॥
रावणस्यापि रामाऽस्तो भित्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुम् उरगेभ्य इच प्रियम् ॥६॥
वचसैष तयोर्वाश्यम् , अनमस्त्रेण निघ्नतोः।
अन्योन्यजयसंरम्भो ववृधे वाइिनोरिव ॥ ८७ ॥
विक्रमव्यतिहारेण सामान्याऽभूद् द्वयोरपि ।
जयश्रीरन्तरा वेदि भत्तवारणयोरिव ॥ ८ ॥
कृतप्रतिकृतप्रीतै स्तयोर्मुक्तां सुराऽसुरैः ।
परस्परशरवाताः पुष्पवृष्टिं न सेहिरे ॥ १ ॥
अय शंकुचितां रक्षः शतघ्नीमथ शत्रवे ।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ १० ॥

प्रथमो बिन्दुः (६) राघचो रथमप्राप्तां तामाशां च सुरद्विषाम् । अर्धचन्द्रमुखैोणे श्चिच्छेद कदलीसुखम् ॥६१ ॥ अमोघं संदधे चाऽस्मै धनुष्येकधनुर्धरः। ब्राह्ममस्त्रं प्रियाशोक-शल्य निष्कर्षणौषधम् ॥ १२ ॥ तद्वयोम्नि शतधा भिन्नं दहशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥ १३ ॥ तेन मन्त्रप्रयुक्तेन निमेषाऽर्धादपातयत् । स रावणशिरापंक्तिम् अज्ञातव्रणवेदनाम् ॥ १४ ॥ बालाऽर्कप्रतिमेचाऽप्सु वीचिभिन्ना पतिष्यतः। रराज रक्षाकायस्य कएठच्छेदपरम्परा ॥५॥ मरुतां पश्यतां तस्य शिरांसि पतितान्यपि । मनो नाऽतिविशश्वास पुनः संधानशं किनाम् ॥ १६ ॥ अथ मदगुरुप:ोकपालद्विपाना- मनुगत मलिवृन्दैर्गण्डभित्तीविहाय । उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्ष पपात ॥ ७ ॥ यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छय राघवमनुष्ठितदेवकार्यम् । नामाऽङ्करावणशराऽङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्त्रयुजं निनाय ॥ १८ ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां, प्रियनुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनाऽनुयातः ससौमित्रिणा भुजविजितविमानरत्नाऽधिरूढः प्रतस्थे पुरीम् ॥ ६६ || इति द्वादशः सर्गः १०) साहित्य-सुधा-संग्रहः जयोदशः सर्गः। अथाऽऽत्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाऽभिधानो हरिरित्युवाच ॥२॥ वैदेहि ! पश्याऽऽमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नम् आकाशमाविष्कृतचारुतारम् ॥ २४ गुरोठियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे । तदर्थमुवामवदारयद्भिः पूर्वैः किलाऽयं परिवर्धितो नः ॥३॥ गर्भ दधत्यर्कमरीचयोऽस्माद् विवृद्धिमत्राश्नुवते वसूनि । अबिन्धनें वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ ४॥ तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना । विष्णोरिवाऽस्यानवधारणीयम् ईदृक्तया रूपमियत्तया वा ॥ ५॥ नाभिप्ररूढाऽम्बुरुहाऽऽसनेन संस्तूयमानः प्रथमेन धात्रा। अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६॥ पक्षच्छिदा गोत्रभिदाऽऽत्तगन्धाः शरण्यमेनं शतशो महीध्राः । नृपा इवोपप्लचिनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७ ॥ रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः । अस्याऽच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राऽऽभरणं बभूव ॥ ८ ॥ स-सत्त्वमादाय नदीमुखाऽम्भः संमीलयन्तो विवृताऽऽननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रः ऊर्ध्वं वितन्वन्ति जलप्रवाहान् ॥६॥ मातङ्गनः सहसोत्पतद्भिः भिन्नान्द्विधा पश्य समुद्रफेनान् । कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ १० ॥ वेलाऽनिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः । सूर्याऽशुसंपर्क समृद्धरागैः व्यज्यन्त एते मणिभिः फणस्थैः॥ ११ ॥ -

प्रथमो बिन्दु
प्रवृत्तमात्रेण पयांसि पातुम् आवर्तवेगाद् भ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥१२॥
दूरादयश्चक्र निभस्य तन्वी तमालतालीवनराजिनीला।
आभाति वेला लवणाम्बुराशेः धारानिबद्धेव कलङ्करेखा ॥.१३ ॥
एते वयं सैकतभिन्नशुक्ति-पर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता. मुहर्तेन विमानवेगात् कूलं फलाऽऽवर्जितपूगमालम् ॥ १४ ॥
कुरुष्व तावत्करभोरु ! पश्चान् मार्गे मृगश्चिणि.! दृष्टिपातम.
एषा विदूरीभवतः समुद्रात् सकानना निष्पततीव भूमिः॥ १५॥
कचित्पथा सांचरते सुराणां क्वचिद्धनानां पततां क्वचिच्च।
यथाविधी मे मनसोऽभिलापः प्रवर्तते पश्य तथा विमानम् ॥ १६ ॥
असो. महेन्द्र द्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः।
आकाशवायुर्दिनयौवनोत्थान आचामति स्वेदलवान्मुखे ते ॥ १७॥
अमी जनस्थानमपोढचिन मत्वा समारब्धनोटजानि।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ १८ ॥
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् ।
अदृश्यत त्वच्चरणारविंद-विश्लेषदुःखादिव बद्धमौनम् ॥ १६ ॥
त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता में।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिराऽऽवर्जितपल्लवाभिः ॥२०॥
मृग्यश्चदर्भाङ्करनिर्व्यपेक्षाः तवाऽगतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्मराजीनि विलोचनानि॥२१॥॥
एतद्रेिर्माल्यवतः पुरस्ताद् आविर्भवत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र धनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ २२ ॥
गन्धश्च धाराऽऽहतपल्वलानां कादम्बमोद्तकेसरं च ।
स्निग्धाश्च केका शिखिनां बभूवुः यस्मित्रसह्यानि विना त्वया में ॥२३॥

(१२)
साहित्य-सुधा-संग्रहः
उपान्तवानोरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिवतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ २४ ॥
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिंकिणीनाम् ।
प्रत्युद्वजन्तीव खमुत्पतन्त्यो गोदावरीसारसपंक्तयस्त्वाम् ॥ २५ ॥
एषा त्वया पेशलमध्ययाऽपि घटाऽम्बुसंवर्धितबालचूता।
आनन्दयत्त्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥२६॥
भ्रूभेदमात्रण पदान्मघोनः प्रभ्र शयां यो नहुषं चकार ।
तस्याऽविलाम्भः परिशुद्धिहेतोः भौमो मुनेः स्थानपरिग्रहोऽयम् ॥२७॥
त्रेताऽग्निधूमाग्रमनिन्द्यकीर्तेः तस्येदमाऽऽक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोचिमुक्तः समश्नुते मे लघिमानमात्मा ॥२॥
हविर्भुजामेधवतां चतुर्णा मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाना सुतीक्ष्णश्चरितेन दान्तः ॥ २६ ॥
धारास्वनोदारिदरीमुखोऽसौ शृंगाऽग्रलनाऽम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि! चक्षुः दृप्तः ककुमानिव चित्रकूटः ॥ ३० ॥
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदृरान्तरभावतन्वी।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ ३१ ॥
अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाऽङ्कुराऽऽपाण्डुकपोलशोभी मयाऽवतंसः परिकल्पितस्ते ॥३२॥
अनिग्रहत्रासविनीतसवम् अपुष्पलिंगात्फलबन्धिवृक्षम् ।
वनं तपःसाधनमेतदत्र: आविष्कृतोदनतरप्रभावम् ॥ ३३ ॥
अत्राऽभिषेकाय तपोधनानी सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
प्रवर्तयामास किलाऽनसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ ३४ ॥
वीरासनानजुषामृषीणाम् अमी समध्यासितवेदिमध्याः।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ ३५ ॥

प्रथमो बिन्दुः
(६३)
-
क्वचित्प्रभालेपिभिरिन्द्रनीलैः मुक्तामयी यष्टिरिचाऽनुविद्धा।
अन्यत्र माला सितपङ्कजानाम् इन्दीवरैरुत्खचित्तान्तरेव ॥ ३६॥
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतोव पंक्तिः ।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ३७॥
क्वचित्प्रभा चान्द्रमसी तमोभिः छायाविलीनैः शबलीकृतेव।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रष्विवाऽऽलक्ष्यनभः प्रदेशा ॥ ३८ ॥
क्वचिच्च कृष्णोरगभूषणेव भस्माऽऽङ्गरागा तनुरीश्वरस्य ।
पश्याऽनवद्याङि ! विभाति गङ्गा भिन्नप्रवाहा यमुनातरः ॥ ३ ॥
जलानि या तीरनिखातयूपा चहत्ययोध्यामनु राजधानीम् ।
तुरंगमेधाऽवभृथाऽवतोर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि ॥ ४० ॥
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम् ॥ ११ ॥
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयू वियुक्ता।
दूरे वसन्तं शिशिराऽनिलैर्मा तरङ्गहस्तैरुपमूहतीच ॥ ४२ ॥
विरक्तसंध्याकपिशं पुरस्ताद् यतो रजः पार्थिवमुज्जिहीते।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्तो मां भरतः ससैन्यः ॥ ४३॥
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे ॥४४॥
असौ पुरस्कृत्य गुरु पदातिः पश्चादवस्थापितवाहिनीकः ।
वृधैरमात्यैः सह चीरवासा मामय॑पाणि भरतोऽभ्युपैति ॥ ४५ ॥
एतावदुक्तवति दाशरथौ तदीया-
मिच्छां विमानमधिदेवतया विदित्वा ।
ज्योतिष्पथावततार सविस्मयाभि-
रुद्धीक्षितं प्रकृतिभिर्भरताऽनुगाभिः ॥ ४६॥

साहित्य-सुधा-संग्रहः तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः। यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ४७ ।। इक्ष्वाकुवंशगुरवे प्रयत:प्रणम्या- स भ्रातरं भरतमयपरिग्रहाऽन्ते । पर्यश्रुरस्वजत मूर्धनि चोपजघ्रो तद्भक्त्यपोढपितृराज्यमहाऽभिषेके ॥४८॥ श्मश्रुप्रवृद्धिजनिताऽऽननविक्रियाँश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् । अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै- वार्ताऽनुयोगमधुराऽक्षरयाः च वाचा ॥ १६ ॥ दुर्जातबन्धुरयमृक्षहरीश्वरो मे, पौलस्त्य एष समरेषु पुरः प्रहर्ताः। इत्याऽऽहतेन कथितौ रघुनन्दनेन, व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥ ५० ॥ सौमित्रिणा तदनु संससृजे स चैन- मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग । কলিমহল क्लिश्य निवाऽस्य भुजमध्य मुरःस्थलेनः ॥ ५१ ।।. भूयस्ततो रघुपतिर्विलसत्पताक- मध्यास्त कामगति साऽवरजो विमानम् । दोषातनं बुधवृहस्पतियोगदृश्य- स्तारापति स्तरलविद्युदिवाऽभ्रवृन्दम् ॥ ५२ ।।

प्रथमो बिन्दु
तत्रेश्वरेण जगतां प्रलयादिवोर्वी-
वर्षात्ययेन रुचमभ्रधनादिवेन्दोः।
रामेण मैथिलसुतां दशकण्ठकृच्छा:
त्प्रत्युद्धतां धृतिमती भरतो ववन्दे ॥ ५३ ॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्
वन्धं युगं चरणयोर्जनकाऽऽत्मजायाः।
ज्येष्ठाऽनुवृत्तिजटिलं च शिरोऽस्य साधो.
रन्योन्यपावनमभूदुभयं समेत्य ॥ ५४॥
क्रोशाऽधं प्रकृतिपुरःसरेण गत्वा
काकुत्स्थः स्तिमित-जवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यमार्यः
साकेतोपवनमुदारमध्युवास ॥ ५५ ॥
इति त्रयोदशः सर्गः
चतुदर्शः सर्गः।
भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपनतरो व्रतत्यौ ॥१॥
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ।
विस्पष्टमस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥२॥
ओनन्दजः शोकजमश्रु बाष्प स्तयोरशीतं शिशिरो बिभेद ।
गङ्गासरय्वोर्जलमुष्णतप्तं हिमाऽद्विनिस्यन्द इवाऽवतीर्णः ॥३॥

(६६)
साहित्य-सुधा-संग्रहः
ते पुत्रयो तशस्त्रमार्गान आनिवाऽङ्गे सदयं स्पृशन्त्यौ।
अपीप्सितं क्षत्रकुलाऽङ्गनानां में वीरसूशब्दमकामयेताम् ॥ ४॥
क्लेशाऽऽवहा भर्तुरलक्षणाऽहं सोतेति नाम स्वमुदीरयन्ती ।
स्वर्गप्रतिष्ठस्य गुरोर्महिष्यो अभक्तिभेदेन वधू वन्दे ॥ ५ ॥
उत्तिष्ट वत्से ! ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव ।
कृच्छ्र महत्तीर्ण इति प्रियाऽहीं तामूचतु स्ते प्रियमप्यमिथ्या ॥ ६ ॥
अथाऽभिषेक रघुवंशकेतोः प्रारब्धमानन्दजलै जनन्योः ।
निर्वतयामासुरमात्यवृद्धाः तीर्थाऽऽहतैः काञ्चनकुम्भतोयैः ॥ ७ ॥
सरित्समुद्रान्सरसीश्च गत्वा रक्षाकपीन्द्ररुपपादितानि ।
तस्याऽऽपतन्मूर्ध्नि जलानि जिष्णोः विन्ध्यस्य मेघप्रभवा इवाऽऽपः॥८॥
तपखिशक्रिययाऽपि तावद् यः प्रेक्षणीयः सुतरां बभूव ।
राजेन्द्रनेपथ्य विधानशोभा तस्योदिताऽसीत्पुनरुक्तदोषा ॥ ६ ॥
स मौलरक्षोहरिभिः ससैन्यः तूर्यस्वनाऽऽनन्दितपौरवर्गः ।
विवेश सौधोद्गतलाजवर्षाम् उत्तोरणामन्वयराजधानीम् ॥१०॥
सौमित्रिणा साऽवरजेन मन्दम् आधूतबालव्यजनो रथस्थः ।
धृताऽऽतपत्री भरतेन साक्षाद् उपायसंघात इव प्रवृद्धः ॥ ११ ॥
प्रासादकालागुरुधूमराजिः तस्याः पुरोवायुवशेन भिन्ना ।
वनानिवृत्तेन रघूत्तमेन मुक्ता खयं वेणिरिवाऽऽबभासे ।। १२ ।।
श्वश्रूजनाऽनुष्ठितचारवेषां कर्णीरथस्था रघुवीरपत्नीम् ।
प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः ॥ १३ ॥
स्फुरत्प्रभामण्डलमानसूयं सा बिभ्रती शाश्वतमङ्गरागम् ।
रराज शुद्धोति पुनः स्वपुर्य संदर्शिता वह्निगतेच भर्ना ॥ १४ ॥
वेश्मानि रामः परिबहवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भयः ।
चापायमाणो बलिमनिकेतम् आलेख्यशेषस्य पितु विवेश ॥ १५ ॥

प्रेथमो बिन्दुः
(१७)
कृताञ्जलिस्तत्र-यदम्ब ! सत्यानाभ्रश्यत स्वर्गफलाद्गुरुनः ।
तञ्चिन्त्यमानं सुकृतं तवेति जहारलजा भरतस्य मातुः ॥ १६ ॥
तथैव सुग्रीवविभोषणादीन् उपाचरत्कृत्रिमसंविधाभिः ।
संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन ॥१७॥
सभाजनायोगतान्स दिव्यान मुनीन्पुरस्कृत्य हतस्य शत्रोः ।
शुश्राव तेभ्यः प्रभवादि वृत्तं स्वधिको गौरवमाधानम् ॥ १८ ॥
प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान् ।
सीतास्वहत्तोपहृतात्र्यपूजान्रक्षाकपीन्द्राविससर्ज रामः ॥ १६ ॥
तञ्चात्मचिंतासुलभं विमानं हृतं सुरारः सह जीवितेन ।
कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकमन्वमस्त ॥ २० ॥
पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपनराज्यः ।
धर्माऽर्थकामेषु समाप्रपेडे यथा तथैवाऽवरजेनु वृत्तिम् ॥२॥
सर्वासु मातृष्यपि वत्सलत्वात् स निर्विशेषातिपत्तिरासीत् ।
षडाननाऽऽपीतपयोधरा नेता चमूनामिव कृत्तिकासु ॥ २२ ॥
तेनार्थवाँल्लोभपराङ्मुखेन तेन ता विघ्नभयं क्रियावान् ।
तेनाऽऽस लोकः पितृमान्विनेत्रा तेनैव शोकाऽपनुदेन पुत्री ॥ २३ ॥
अथाऽधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण ।
आनन्दयित्री परिणेतुरासीद् अनक्षरव्यजितदोहदेन ॥ २४ ॥
सा दष्टनीवारबलीनि हिंसः संबद्धचैखानसकन्यकानि ।
इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि ॥ २५ ॥
तस्यै प्रतिश्रुत्य रघुप्रवीरः तदीप्सितं पार्श्वचराऽनुयातः।
आलोकयिष्यन्मुदितामयोध्यां प्रासादमध्रोलहमारुरोह ॥ २६॥
ऋद्धाऽऽपणं राजपथं स पश्यन् विगाह्यमानां सरयू च नौभिः।
विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे ॥ २७ ॥

f)
साहित्य-सुधा-संग्रह
म किंवदन्ती वदतां पुरोगः खवृत्तमुद्दिश्य विशुद्धवृत्तः ।
सोऽधिराजोरुभुजोऽपसर्प पप्रच्छ भद्रे विजिताऽरिभद्रः ॥ २८ ॥
निर्बन्धपृष्टः स जगाद सर्व स्तुवन्ति पौराश्चरितं त्वदीयम् ।
अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव ! देव्याः ॥ २६ ॥
कलत्रनिन्दागुरुणा किलैवम् अभ्याहतं कीर्तिविपर्ययेण ।
अंयो-घनेनाऽय इवाऽभितप्तं पैदेहिबन्धोहदयं विदद्रे ॥३०॥
किमात्म निर्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि ।
इत्येकपक्षाऽऽश्रयविक्लवत्वाद् आसात्स दोलाचलचित्तवृत्तिः ॥३१॥
निश्चित्य चाऽनन्य निवृत्तिवाच्यं त्यागेन पत्न्याः परिमाटुंमैच्छत् ।
अपि स्वदेहाकिमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥ ३२ ॥
स संनिपात्याऽचरजान्हतौजा स्तद्रिक्रियादर्शनलुप्तहर्षान् ।
कौलीनमात्माधयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाग्यम् ॥ १३ ॥
राजर्षिवंशस्य रविप्रसूतेः उपस्थितः पश्यत कीदृशोऽयम् ।
मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ ३४ ॥
पौरेषु सोऽहं बहुलीभवन्तम् अपां तरङ्गेष्विव तैलबिन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ ३५ ॥
तस्याऽपनोदाय फलप्रवृत्तौ उपस्थितायामपि नियंपेक्षः।
त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्नेमि पितुराशयेव ॥ ३६ ॥
अवैमि चैनामनघेति किंतु लोकापवादो बलवान् मतो मे।
छाया हि भूमेः शशिनो मलत्वेनाss रोषिता शुद्धिमतः प्रजाभिः॥३७॥
रक्षोवधाऽन्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय ।
अमर्षणः शोणितकांक्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥३८॥
तदेष सर्गः करुणाचित्तै न मे भवद्भिः प्रतिषेधनीयः।
यद्यर्थिता निहतवाच्यशल्यान् प्राणान् मया धारयितुं चिरं वः ॥३६॥

। प्रथमो बिन्दु (६) इत्युक्तवन्तं जनकात्मजायां नितान्तरुक्षाऽभिनिवेशमीशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेधुमालीदनुमोदितुं वा ।। ४० ॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोभ्यः लोकत्रयगीतकीर्तिः सौम्येति चाभाष्य यथार्थभापी स्थितं निदेशे पृथगादिदेश ॥ ४ ॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव । स त्वं रथी तव्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥ ४२ ॥ स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विपद्वत् । प्रत्यग्रहीदग्रजशासनं तद् आज्ञा गुरूणां ह्यविचारणीया ॥४३॥ अथाऽनुकूलश्रवणप्रतीताम् अत्रस्नुभिर्युक्तधुरं तुरङ्गैः । रवं सुमन्त्रप्रतिपन्न रश्मिम् आरोग्य वैदेहसुतां प्रतस्थे ॥४४॥ सा नीयमाना रुचिरान्प्रदेशान् प्रियंकरो मे प्रिय इत्यनन्दत् । नाऽबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्य सिपत्रवृक्षम् ॥ ४५ ॥ जुगूह तस्याः पथि लक्ष्मणो यत् सव्येतरेण स्फुरता तगा। आख्यातमस्य गुरु भावि दुःखम् अत्यन्तलुमप्रियदर्शनेन ॥ ४६॥ सा दुर्निमित्तोपगताद्विषादात् सद्यः परिम्लानमुखारविन्दा । राज्ञः शिवं साऽवरजस्य भूयाद् इत्याशशंसे करणैरवायः॥४७॥ गुरोर्नियोगाद्वनितां वनान्ते साध्वी सुमित्रातनयो विहास्यन् । अवार्यतेवोत्थितवोचिहस्तै र्जह्रोदुहित्रा स्थितया पुरस्तात् ॥ ४d it रथात्स यन्त्रा निगृहीतवाहात् तां भ्रातृजायां पुलिनेऽवतार्य। गङ्गां निषादाहृतनौविशेषः ततार संधामिव सत्यसंधः ।। ४६ ॥ अथ व्यवस्थापितवाकथंचित् सौमित्रि रन्तर्गतवाष्पकण्ठः । औल्पातिक मेघ इवाऽश्मवर्ष महीपतेः शासनमुजगार ॥ ५० ॥ ततोऽभिषङ्गाऽनिलचिप्रविद्धा प्रभ्रश्यमानाऽऽभरणप्रसूना । खमूर्तिलाभप्रकृति धरित्री लतेव सीता सहसा जमाम ॥.५१ .

(१००)
साहित्य-सुधा--संग्रहः
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पत्तिरार्यवृत्तः।
इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥ ५२ ॥
सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्पताऽन्तः ।
तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥ ५३॥
न चाऽवदद्भर्तुरवर्णमार्या निराकरिष्णोजिनादृतेऽपि ।
आत्मानमेव स्थिरदुःखभाजं पुनः पुनटुकृतिनं निनिन्द ॥ ५४॥.
आश्वास्य रामावरजः सती ताम् आख्यातवाल्मीकिनिकेतमार्गः।
निनस्य मे भर्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव ननः ॥ ५५ ॥
सीता तमुत्थाप्य जगाद वाक्यं प्रीताऽसि ते सौम्य ! चिराय जीव।
बिडौजसा विष्णुरिवारजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥ ५६ ॥
श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः ।
प्रजानिषेकं मयि धर्तमानं सूनोरनुध्यायत चेतसेति ॥ ५७ ।।
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सद्दश कुलस्य ॥ ५८ ॥
कल्याणवुधेरथवा तवाऽयं न कामचारो मयि शङ्कनीयः ।
ममैव जन्मान्तरपातकानां विषाकविस्फूर्जथुरप्रसह्यः ॥ ५६ ॥
उपस्थितां पूर्वमपास्य लक्ष्मों वनं मया सार्धमसि प्रपन्नः ।
तदास्पदं प्राप्य तयाऽतिरोषात् सोढाऽसि न त्वद्भवने वसन्ती॥६०॥
निराबरोपप्लुतभर्तृकाणां तपखिनीनां भवतः प्रसादात् ।
भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥६१ ॥
किं वा तवाऽत्यन्तवियोगमोघे कुर्यामुपेक्षा हतजीवितेऽस्मिन् ।
स्याद्रक्षणीयं यदि मे न तेजः त्वदीयमन्तर्गतमन्तरायः ॥ १२ ॥
साऽहं तपः सूर्यनिविष्टदृष्टिः ऊवं प्रसूतेश्चरितुं यतिष्ये ।
भूयो यथा मे जननाऽऽन्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥ ६३ ॥

प्रथमो बिन्दुः
(20)
नृपस्य वर्णाऽऽश्रमपालनं यत् स एव धर्मो मनुना प्रणीतः।
निर्वासिताऽप्येवमतस्त्वयाऽहं तपस्विसामान्यवेक्षणीया || ६४॥
तथेति तस्याः प्रतिगृह्य वाचं रामाऽतुजे दृष्टिपथं व्यतीते ।
सा मुक्तकण्ठं व्यसनाऽतिभारात् चक्रन्द विना कुररीव भूयः ॥ ६५ ।।
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजह हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावम् अत्यन्तमासीद्रुदितं बनेऽपि ॥ ६६ ॥
तामभ्यगच्छद्रुदिताऽनुसारी कविः कुशेधमाऽऽहरणाय यातः ।
निषादविद्धाऽण्डजदर्शनीस्थः श्लोकत्वमापद्यत यस्य शोकः ।। ६७ ॥
तमश्रु नेत्राऽऽवरणं प्रमृज्य सीता विलापाद्विरता वचन्दे ।
तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुत्राऽऽशिपमित्युवाच ॥१८॥
जाने विसृष्टां प्रणिधानतस्त्वां मिथ्याऽपवादक्षुभितेन भर्ना ।
तन्मा व्यथिष्टी विषयाऽन्तरस्थं प्राप्ताऽसि वैदेहि ! पितुनकेतम् ॥६६॥
उत्खातलोकत्रयकराटकेऽपि सत्यप्रतिशेऽप्यविकत्यनाऽपि।
त्वां प्रत्यकस्मात्कलुपप्रवृत्ती अस्त्येव मन्युभरतामजे मे ॥ १० ॥
तवोरुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते।
धुरि स्थिता त्वं पतिदेवतानां किं तन येनाऽसि ममाऽनुकम्प्या ॥७॥
तपस्विसंसर्गविनोतसत्वे तपोवने वीतभया वसाऽस्मिन ।
इतो भविष्यत्यनघप्रसूतेः अपत्यसंस्कारमयो विधिस्ते ॥ ७२ ।।
अशून्यतीरां मुनिसंनिवेशैः तमोपहन्त्री तमसा बगाहा ।
तत्सैकतोत्सङ्गबलि क्रियाभिः संपत्स्यते ते मनसः प्रसादः ॥ ७३ ॥
पुष्पं फलं चाऽऽर्तवमाहरन्त्यो बीजं च बालेयमकृष्टरोहि ।
विनोदयिष्यन्ति नवाऽभिषंगाम् उदारवाचो मुनिकन्यकास्त्वाम् ॥७॥
पयोघटैराश्रमबालवृक्षान् संवर्धयन्ती स्वचलानुरूपैः ।
असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिमवाप्स्यसि त्वम् ॥ ७५ ॥

(१०२) साहित्य-सुधा-संग्रहः अनुग्रहप्रत्यभिनन्दिनीं तां बाल्मीकिरादाय याऽऽद्रचेताः । सायं मृगाऽध्यासितवेदिपाश्चं स्वमाश्रम शान्तमृगं निनाय ॥ ७६ ॥ तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु । निर्विष्टसारां पितृभिहिमांशोः अन्त्यां कलां दर्श इवौषधीषु ॥ ७७ ।। ता इगुदीनेहकृतप्रदीपम् आस्तीर्णमेध्याऽजिनतल्पमन्तः । तस्यै सपर्याऽनुपदं दिनान्ते निवासहेतोरुटजं वितेरुः ॥ ७८ ॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनाऽतिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ।। ७६ ।। अपि प्रभुः सानुशयोऽधुना स्यात् किमुत्सुकः शक्रजितोऽपि हन्ता । सशंस सीतापरिदेवनान्तम् अनुष्ठितं शासनमग्रजाय ॥ ८० ॥ बभूव रामः सहसा सवाष्पः, तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहानिरस्ता न तेन वैदेहसुता. मनस्तः ॥ ८१ ॥ निगृह्य शोक स्वयमेव धीमान् वर्णाश्रमाऽवेक्षणजागरूकः । सभ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥ ८२ ।। सीतां हित्वा दशमुखरिपुर्नोपयेमे यद्न्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥ ८३ ।। ( रघुवंश महाकाव्यात् इति चतुर्दशसर्गः

अभिज्ञान शाकुन्तलचस्पू:
या सृष्टिःस्रष्टुराया, वहति विधिहुतं या हवि, र्याच होत्री,
ये द्वे कालं विधत्तः, श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वभूतप कृतिरिति, यया पाणिनः पाणवन्तः
प्रत्यक्षाभिः पूपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १ ॥
एकदा दुष्यन्तो नाम राजा मृगयां कतुं वनं जगाम । एके-
नातिरंहसा मृगेण सुदूरमाकृष्टः सारथिमुवाच-"सूत ! कथमनुपतत
एव मे मृगोऽयं प्रयत्नप्रेक्षणीयः संवृत्तः । अयमिदानीमपि-
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः,
पश्चार्धेन पूविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दभैरोऽवलीः श्रमविवृतमुखभ्र शिभिः कीर्णवां,
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमयां पूयाति ॥ २॥
सूतोऽब्रवीत्-"आयुष्मन् ! उद्घातिनी भूमिरिति मया रश्मि-
संयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः
संवृत्तः । संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यतीति" |
ततो दुष्यन्ताऽऽज्ञया मुक्तेष्वभीषुषु धावतोऽश्वान्वीक्ष्य राजोवाच-
"मुक्तेषु रश्मिषु निरायतपूर्वकाया,
निष्कम्पचामरशिखा निभृतोलकर्णाः ।
आत्मोद्धतैरपि रजोभिरलङ्घनीया,
धावन्त्यमी मृगजवाऽक्षमयेव रथ्याः ॥ ३ ॥

(१०४) साहित्य-सुधा-संग्रहः सत्यमतीत्य हरितो हरीन वतन्ते वाजिनः । तथाहि- यदालोके मूक्ष्मं व्रजति सहसा तद्विपुलताम् , यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो- न मे दूरे किंचित्क्षणमपि न पार्वे रथजवात्" ॥ ४ ॥ एवमुक्त्वा मृगं व्यापादयितुं यावच्छरसंधानमकरोत्तावद्- "भो राजन् ! आश्रममृगो ऽयं न हन्तव्यः न हन्तव्य इत्युच्चै ाहरन् वैखानसःसह द्वाभ्यामन्याभ्यां तपखिभ्यां बाणपातवर्तिनः कृष्णसार स्यान्तर उपस्थितोऽवोचच्च-“तूलराशौ वहिरिवास्सिन्मृदुनि मृगशरीरे बाणो नैव सन्निपात्यः । व वत हरिणकानामति लोल जीवितं क्व च तब निशितनिपाता वजसाराः शराः। तत्साधुकृतसंघानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि” इति ॥ ५ ॥ ततोष्यदुन्तेन प्रतिसंहृते शरे वैखानसः पुनरुवाच-"पुरुवंश- प्रदीपस्य भवतः सदशमेवैतत्- जन्म यस्य पुरोर्वशे युक्तरूपमिदं तव । पुत्रमेवं गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ ६ ॥ "वयं समिदाहरणाय प्रस्थिताः, एष खलु कण्वस्य कुलपतेरनु. मालिनीतीरमाश्रमो दृश्यते । नचेदन्यकार्यातिपात्तः, प्रविश्य प्रतिगृह्य- तामातिथेयः सत्कारः। कुलपतिः कण्वो दुहितर शकुन्तलामतिथि- सत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थ मिदा- नीमेवगतः। तत्र गत्वा- LADKI प्रथमो बिन्दुः (११०५) रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिरणाऽङ्कः इति ।। ७ ।। वयमपि साधयामोऽधुना इति । राजा बभाषे-"सूत!चोदयाश्वान् । पुण्याऽऽश्रम दर्शनेन तावदात्मानं पुनीमहे । शकुन्तलांद्रक्ष्यामि। सा खलु विदितभक्ति माँ महर्षेः कथयिष्यति। ततः कतिचित्पदानि गत्वा समन्तादवलोक्य च राजा सूतमुवाच- "सूत ! अकथितोपि ज्ञायत- एव यथायमाश्रमाभोगस्तपोवनस्य । किन्न पश्यति भवान् । इह हि- नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, प्रस्निग्धाः कचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्द सहन्ते मृगा. स्तोयाऽऽधारपथाश्च वल्कलशिखानिष्यन्दरेखाऽडिताः" ॥८॥ तपोवननिवासिनामुपरोधो मा भूदिति दूर एवाऽऽश्रमस्य रथं स्थापयित्वा राजाऽवातरत् । “विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम” इत्युक्त्वा दुष्यन्तः सूतायाभरणानि धनुश्चोपनीयार्पयत्, आज्ञापयामास च- "सूत! यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदाद्रपृष्ठाः क्रियन्तां वाजिनः" इति । यदा दुष्यन्त आश्रमं प्रविवेश तदाऽस्य शुभाऽऽशंसी दक्षिणो बाहुः पस्पन्दे । सुशकुनस्यास्य सूचनया चकित स आत्मगतं चिंतयामास- ! "शान्तमिदमाश्रमपदं स्फुरति च वाहुः कुतः फलमिहाऽत्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र" ॥३॥ तस्मिन्नेवक्षणे दक्षिणेन वृक्षवाटिकाम् "इत इतः संखयो इत्या- लापमशृणोत् । तदा शकुन्तला सह प्रियंवदाऽनसूयाभिधानाभ्यां साहित्य-सुधा-संग्रहः सखीभ्यां स्वप्रमाणानुरूपैः सेचनघटेर्वालपादपेभ्यः पयो दातु तत्रैवागता। ता निपुणं निरूप्य तासां मधुरयाऽऽकृत्या विस्मितो दुश्यन्त. श्छाया माश्रित्य प्रतिपालयस्थितः । अनसूयोवाच- “शकुन्तले ! स्वत्तोपि तातकाश्यपस्याऽऽश्रमवृक्षकाः प्रियतरा इति तर्कयामि, येन नवमालिकाकुसुमपेलवा स्वमप्येतेषामालवालपूरणे नियुक्ता" इति । शकुन्तला प्रत्यवदत- "न केवलं तातनियोग एव, अस्ति मे सोदरस्नेह एतेषु इति । अनेन संवादेन शकुन्तलां करवदुहितरं राजाऽजानात् । तदा सलिलसेकसंभ्रमोदतो मधुकरो नवमालिकामुज्झित्वा शाकुन्तलाया बदनमभ्यवर्तत। भीता शकुन्तला- "परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेणाऽभिभूयमानाम्" इति व्याजहार । सख्यौ सस्मितं मोचतुः “के आवां परित्रातुम् ? राजरक्षितव्यानि तपोवनानि नाम । तस्माद्दुष्यन्तमाक्रन्द” इति । “अवसरोऽयमा- त्मानंदर्शयितुम" इति मत्वा दुष्यन्तः सत्वरमुपसृत्य ध्याजहार- "नभेतव्यं न भेतव्यम्- कः पौरवे वसुमती शासति शासितरि दुविनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥ १० ॥ सर्वां राजानं दृष्ट्वा किंचिदिव संभ्रांताः। ततोऽनसूयोवाच- "आर्य! न किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता" इति । अनसूया पुनरपि दुष्यन्तं बभाषे-"आर्यस्य मधुरा- लापजनितो विशम्भो मां मन्त्रयते । कतम आर्येण राजर्षिवंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किनिमित्तं वा सुकुमार. तरोऽपि तपोवनागमनपरिश्रमस्याऽऽत्मा पदमुपनीतः इति । आत्मापहार मिलन राजा प्रत्यवदत-"यः पौरवेण राज्ञाधर्माधिकारे नियुक्तः प्रथमो बिन्दुः (१०७) सोऽहमविप्रक्रियोपलम्भाय धर्मारण्यमिदमायातः । अपि तपो वर्धते ? शकुन्तला साध्वसादवचनाऽतिष्ठत् । अनसूया तं प्रत्युवाच-"इदानीमतिथिविशेषलाभेन धन्या वयम्। हला शकुन्तले ! गच्छोटजम् । फलमिश्रमय॑मुपहर । इदं पादोदकं भविष्यति । राजोवाच-"भवतीनां सूनृतयैव गिरा कृतमातिथ्यम्। प्रियंवदाऽवदत्"तेनह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुप- विश्य परिश्रमविनोदं करोत्वार्यः। हलाशकुन्तले ! उचितं नः पर्युपास- नमतिथीनाम् । अत्रोपधिशामः" । ततः सर्वे वृक्षच्छायायामुपविष्टाः । अत्रान्तरे, “भोस्तपखिनः ! सन्निहितास्तपोवनरक्षाय भवत, प्रत्यासः किल मृगयाविहारी पार्थिवो दुष्यन्तः । तुरगखुरहतस्तथाहि रेणु- विटपविषक्तजलावल्कलेषु । पतति परिणताऽरुणप्रकाशः, शलभसमूह इवाऽऽश्रमद्रुमेषु ॥ ११ ॥ अपिच- तीवाऽऽघातप्रतिहततः स्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयाऽऽसंगसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो. धारण्यं प्रविशति गजः स्यन्दनाऽऽलोकभीतः। ॥ १२ ॥ इत्युच्चैराश्रमवासिनां वैखानसानामुक्तिः कर्णपथाऽतिथीकृता। तच्छुत्वा राजात्मगतमूचे। “अहो धिक्, पौरा अस्मदन्वेषिणस्तपोवन- मुपरुन्धन्ति। भवतु प्रतिगमिष्यामस्तावत्" इति । आरण्यकवृत्तान्तेन पर्याकुला अनसूया यदोटजगमनायानुशा मयाचत तदा राजा- - १ (१०) साहित्य-सुधा-संग्रहः । • "वयमपि, यथाऽऽश्रमपीड़ा न भविष्यति तथा प्रयतिष्यामहे" इत्युक्त्वा प्रतिनिवृत्तः । शकुन्तलाव्यापारादात्मानं निवर्तयितुम- क्षमश्च मंदौत्सुक्यो नगरगमनं प्रति- “समेत्यानुयात्रिकान्नाति- दूरे तपोवनस्य निवेशयेयम्” इति विचार्य च तत्रैवाव स्थितः। ततो मृगयाशीलस्यराज्ञः प्रियवयस्यो विदुषको ग्रीष्मविरलपादपच्छा- यासु वनराजिष्वाहिण्ड्य, निर्वेदमापन्नो राजानमुवाच- "प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां गात्राणामनीशोऽस्मि संवृत्तः। तत्प्रसीद, मामेकाहमपि विश्रमितुं विसृजेति"। राजापि शकुन्तलामनुस्मृत्य मृगयायां मन्दाऽऽदरः सेनापतिमाहूय निजगाद- "सेनापते ! मन्दोत्साहः कृतोऽस्मि मृगयापवादिना प्रियवयस्येन" इति । सेनापतिरब्रवोत्- “कोऽपरी मृगयासदृशो विनोदः । ननु प्रभुरेव निदर्शनम् । मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः, सत्वानामपि लक्ष्यते विकृतिमच्चिसंभयक्रोधयोः। उत्कर्षः स च धन्विना यदिषवः सिध्यन्ति लक्ष्ये चले, मिथ्यैव व्यसनं वदन्ति मृगयामीडग्विनोदः कुतः ॥१३॥ आश्रमस्यात्यन्तसन्निकृष्टतया, राजा सेनापतेर्वचो नाभ्यनन्दत् उवाचच- "शममधानेषु तपोधनेषु- गूढ हि दाहात्मकमस्ति तेजः। स्पर्शानुकूला इव सूर्यकान्ता- स्तदन्यतेजो ऽभिभवाद्वमन्ति ॥ १४॥ तेन हि निवर्तय पूर्वगतान्वनग्राहिणः। यथा न मे सैनिका- Invitasardasunita प्रथमो विन्दुः (१०६) गाहन्ता महिषा निपानसलिलं श्रृर्मुहुस्ताडितं छायावद्धकदम्बकं मृगकुलं गेमन्थमभ्यस्यतु । विश्रब्धं क्रियतां वराहपतिभि र्मुस्ताक्षतिः पल्वले विश्रामं लभता मिदश्च शिथिलज्याबन्धमस्मद्धनुः” ॥१५॥ तस्मिन्नेव क्षणे दर्शनार्थ मागतौ द्वावृषिकुमारौ राज्ञो दीप्ति- मतोऽपि वपुषो विश्वसनीयतां प्रेक्ष्य विस्मितौ परस्परमूचतुः- "अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति । अस्याऽपि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीत: पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १६ ॥ नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीम् एकः कृत्स्ना नगरपरिधांशुवाहुर्भुनक्ति । आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्यै- रस्याऽधिज्ये धनुषि विजयं पौरुहूते च वज्र" ॥ १७ ॥ ततो राज्ञे फलान्युपहारीकृत्य तं विज्ञापयामासतुः- "विदितो भवानाश्रमवासिनामिहस्थः । तेच-तत्र भवतः कण्वस्य महर्षे रसान्निध्यागक्षांसि न इष्टिविघ्नमुत्यादयन्ति, तत्कतिपयरात्रं सारथि द्वितीयेन भवता सनाथीक्रियतामाश्रम इति भवन्तं प्रार्थयन्ते" इति। राजा ऋषीणामभ्यर्थना मानयित्वा सबाणकार्मुकं रथमारुह्य तपोवन मुपेयिवान् । प्रविष्टमात्र एव दुष्यन्ते निरुपप्लवानि तापसानां कर्माणि संवत्तानि । तपोवनवासावसर एवं शकुन्तला. 1 (११०) साहित्य-सुधा-संग्रहः दुष्यन्तयोरनुरागः परस्परं पर्यचीयत । राजा च तस्याः पाणि गान्धर्व विधिना जग्राह । कदाचिदनसूया प्रियंवदामवादीत्-"इज्यारक्षा परिसमाप्य ऋषिभि- विसर्जितो दुष्यन्त आत्मनोनगरं प्रविश्यान्तःपुरसमागतः शकुन्तलागतं वृत्तान्त स्मरति वा न वेति सा तां प्रत्यवदत्- "सखि ! विश्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तातकाश्यपः पुनरिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति मे चिन्ता । अनसूयया ऽभ्यधायि–“गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्र- थमः तस्य संकल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थों- गुरुजनः । तस्मात्तातस्याऽनुमतंभवेदेतदित्यहं पश्यामीति । तस्मि- न्नेव क्षणे दुर्वासा ऋषिरात्मानमतिथित्वेन न्यवेदयत् । यद्यपि एकाकि- न्येव शकुन्तलोटजसंनिहितासीत्तथाऽपिदुष्यन्त मेवध्यायन्ती अभ्या. गतमृषि प्रमादादतिथिसपर्यया न पर्यचरत् । सुलभकोपोऽसौ महर्षि- । स्तामशपत्- "विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति खां न स बोधितोऽपि सन् कथांप्रमत्तः पृथमं कृतामिव ॥१८ रोषाऽतिशयवशादुच्चरुञ्चरत्प्रलयघनघनगर्जितमिव तर्जितोत्तर तत् शापवचनं दूरादेवाऽऽकर्य महर्षीशकुन्तला मपराद्धां विज्ञाय. विज्ञापितोऽनसूयया दुर्वासा:- यद्, “भगवन् ! प्रथम इति प्रेक्ष्याऽवि. ज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैको ऽपराधो मर्षितव्य इति । ततो "न मे वचनमन्यथा भवितुमर्हति कित्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत" इति मन्त्रयित्वा दुर्वासा अन्तर्हितः । यदा दुष्यन्तो राजधानी प्रस्थितस्तदा तेन स्वनामधेयाऽङ्कित- गाळजीग गयमिति शकन्तलाया हस्ते स्वयमेवापिनद्धमासीत् प्रथमो बिन्दुः (१११ ) तत्संस्मृत्य संजातकिञ्चिदाश्वासाभ्यां तत्सखीभ्यांनिश्चयः कृतो. यद्-"द्वयोरेवाऽवयोर्मुखे शापवृत्तान्त एष तिष्ठतु यतो रक्षि- तव्या प्रकृतिपेलवा प्रियसखीतिः । अथ गते बहुतिथे कालेऽपि यदा दुष्यन्तो लेखमात्रमपि न व्यसृजत् तदोद्विग्ना ऽनसूया प्रियंवदया सहा ऽचिन्तयत्-"अभिज्ञानमङ्गुलीयकं राज्ञे प्रेषयामः । दुःखशीले- तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिताऽपिन पारयामि प्रवासप्रतिनिवृत्तस्य तालकाश्यपस्य दुष्यन्तपरिणीतामा- पन्नलत्वां शकुन्तला निवेदयितुमिति । इत्थंगतेऽस्माभिः किं नु खलु करणीयमिति । यदा कराव: प्रवासा निवृत्याग्निशरणं प्रविष्टस्तदाऽशरीरिण्या वाण्या शकुन्तलागतो वृत्तान्तस्तस्मै कथितः । ततो लजावनतमुखी शकुन्तला परिष्वज्य करावेनैवमभिनन्दितं-"वत्से ! सुशिष्यपरिदत्तेव विद्याऽशोचनीयाऽसि मे संवृत्ता । अद्यैव ऋषिपरिरक्षितांत्वां भर्तुः- सकाशं विसर्जयामीति” । यावच्छकुन्तलाया अङ्गेष्वाभरणविनियोगं सख्यावकुरुतां तावत्तानो त्थितः करावोऽचिन्तयत्- "यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितवाष्पवृतिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीशमहो स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुखैर्नवैः ॥१२॥ ततोऽनीन् प्रदक्षिणीकृत्य प्रस्थितां शकुन्तलामवलोक्य तात- कए वः स्नेहगद्गदकराठेन समीपवर्तिनस्तरून प्रोवाच-"भोः भोः संनिहितास्तपोवनतरवः ! पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नाऽऽदत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।

(११२) साहित्य-सुधा-संग्रहः आये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम्" ॥२०॥ ततो लताभगिनीं वनज्योत्स्नां समामन्त्र्य द्वित्राणि पदानि प्रचलिता शकुन्तला केनचित् स्पर्शन गतिभंगमनुभूय परावृत्याऽवलो. क्याऽकथयत्-“को नु खल्वेष निवसने मे सजति” | तातः पत्यूचे- "वत्से! यस्य खया व्रणविरोपणमिगुदीनां तैलं न्यषिच्यतमुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवद्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्त" ॥ २१ ॥ शकुन्तलाऽवोचत्-"वत्स! किं सहवासपरित्यागिनों मामनु- सरसि । अचिरप्रसूतया जनन्या विना विवर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । तन्निवर्तव" इति रुदती प्रस्थिता । ततः करवोऽवादीत्-"वत्से ! अलं रुदितेन, स्थिरा भव, इतः पन्थानमवलोकय- उत्पक्षमणोनयनयोरुपद्धति वाष्पं कुरु स्थिरतया विरतानुबन्धम् । अस्मिनलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ २२ ॥ ततः सा सह पित्रा, शाईरवादिभिः शिष्यैश्च, अग्निमं पन्था- नमगच्छत् । यदा कण्वः शकुन्तलां दूरमनुससार तदा शारैरव उवाच-"भगवन् ! ओदकान्तास्निग्धो जनोऽनुगन्तव्य इति श्रूयते, प्रथमो बिन्दुः तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसीति । यावत्कएवो. दुष्यन्तस्याऽनुरूपं सन्देशभचिन्तयत्तावन्नलिनीपान्तरितविग्नहमपि सहचरमदृष्ट्वा रटन्तों चक्रवाकी प्रेक्ष्य शकुन्तला दुनिमित्तमिति मत्वा दुःखिता बभूव । कण्व उवाच-“शारिव ! त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः- अस्मान् साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनः त्वय्यस्याः कथमप्यवान्धवकृत स्नेहात्तिं च ताम् । सामान्यपूतिपत्तिपूर्वकभियं दारेषु दृश्या खया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूवन्धुभिः ॥२३॥ ततः करवः शकुन्तलामनुशशाल-“सा त्वमितः पतिकुल प्राप्य- शुश्रूषस्व गुरून् , कुरु प्रियसखीत्तिं सपत्नीजने, भतु विप्रकृतापि रोषणतया मास्म मतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सकिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याऽऽषयः इति ॥२४॥ ततः प्रस्थिता शकुन्तला "यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्यैदमात्म नामधेयांकितमंगुलीयकं दर्शय" इति राखीभ्या मुक्ता साऽऽशङ्कमुवाच- "अनेन वां सन्देहेनाकम्पितास्मीति । सख्या वूचतुः-"मा बिभेहिए। स्नेहापापशंकीति। शकुन्तला सगद्गदमुवाच- "कथमिदानी तातस्याऽङ्कात् परिभ्रष्टा मलयतरून्मूलिता चन्दनलता इच देशान्तरे जीवितं धारयिष्यामि । करवो जगाद "वत्से ! किमेवं कातरासि- ।

। साहित्य-सुधा-संग्रहः अभिजनवतो भतु:श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात् प्राचीवार्क प्रस्य च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥२५॥ शकुन्तला पितुः पादयोः पतित्वा तं धबन्दे । करावो-"वत्से ! यदहमिच्छामि ते तदस्तु" इति तमाशिषाऽयुक्त । शकुन्तलाऽऽश्रमा- भिमुखी भूत्वा पप्रच्छ-"तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये" इति । कण्व उवाच-“श्रूयताम- भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य भ; तदर्पितकुटुम्बभरेण साई शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ २६ ॥ शकुन्तला भूयः पितरमाश्लिष्य प्रार्थयामास- “तपश्चरण- पीडितं तातशरीरम् तदलं मम कृतेऽतिमात्रमुत्कण्ठितुम् । काश्यपः सनिःश्वासमुवाच- "शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् । उटजद्वारि विरूढं नीवारबलिं विलोकयतः ॥२७॥ गच्छ शिवास्तेपन्थानः सन्तु”। ततः शकुन्तला शारिवादिभिः सह प्रस्थिता । कण्वश्च सह प्रियंवदाऽनसूयाभ्यामाश्रमं प्रतिनिववृते, प्रतिनिवर्तमानश्च मेने- "स्नेहप्रवृत्तिरेवंदर्शिनी । हन्त भोः शकुन्तलां पतिगृहं विसृज्य लब्धमिदानी स्वास्थ्यम् । कुतः- WISHRA प्रथमो बिन्दुः (११५ अर्थो हि कन्या परकीय एव तामद्य संमेष्य परिग्रहीतुः। जातो ममाऽयं विशदः प्रकामं पूत्यर्पितन्यास इवाऽन्तरात्मा ॥२८॥ अथैकदा राजाऽधिकारखेदं निरूप्य विचारयामास-"सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते जन्तुः, राक्षान्तु चरितार्थता. दुःखोत्तरैव । कुतः- औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नाऽतिश्रमाऽपनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवाऽऽतपत्रम्" ॥२६ ।। तदैव वैतालिकौ-"जयति जयति देवः- स्वसुखनिरभिलाषः खिघसें लोकतो: प्रतिदिनमथवा ते वृत्तिरेवंविधैव । अनुभवति हि मूर्धा पादपस्तीबमुष्णं शमयति परितापं छायया संश्रितानाम् ॥ ३० ॥ नियमयसि कुमार्गप्रस्थितानाचदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।। अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ३१ ।। इति तुष्टुवतुः । राजा तदाऽऽकराऽवोचत्-“एतेन कार्य - ऽनुशासनपरिश्रान्ताः पुनर्नवीकृताः स्मः" । तत्क्षणमेव शकुन्तलया (११६) साहित्य-सुधा-संग्रहः सह शाङ्गरवादयो राजकुलमागच्छन् । अथकञ्चुकी-भोः कामं धर्मकार्यमनतिपात्यं देवस्य, तथापीदानीमेध धर्माऽऽसनादुत्थि- ताय पुनरुपरोधकारि करवशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथवाऽविश्रमो लोकतन्त्राधिकारः । कुतः- भानुः सकृद युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाऽाहित भूमिभारः षष्ठांशवृशेरपि धर्म एषः ॥ ३२ ॥ इति चिन्तयित्वा राजनं विज्ञापयामास-"एते खलु हिमवतो गिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्री- कास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणमिति” । अथ दुष्यन्तः- "अमूनाश्रमवासिनः श्रोतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसि इति सोमरातमुपाध्यायं सन्दिश्य तपस्विदर्शनोचितं संनिहितहोम- धेनुमग्निशरणाऽलिन्दमारुह्य प्रतिपालयस्थितः । प्रतिहारीचो- वाच-"वेत्रवति ! किमुद्दिश्य तत्रभवता करवेन मत्सकाषमृषयः प्रेषिताः? " कितावद् व्रतिनामुपोढ़तपसां विघ्नस्तपो दूषितम् धारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् । आहोखित् पूसवो ममाऽपचरितैर्विष्टम्भितो वीरुधा- मित्यारूढ़बहुपतर्कमपरिच्छेदाकुलं मे मनः ॥ ३३ ॥ वेत्रवती प्रतिबभाषे-"देवस्य भुजदण्डनिवृते आश्रमपदे कुत एवम्, किन्तु सुचरिताभिनन्दिन ऋषयः देवं सभाजयितु. मागता इति तर्कयामि । ततः शकुन्तलां पुरस्कृत्य गौतमीसहिताः प्रथमो बिन्दुः (११७) शाङ्गरवादयो मुनयस्तत्र प्राप्ताः । जनसंबाधं राजकुलं दृष्ट्वा शाहरवः सखायं शारद्वतमुवाच- "महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथाऽऽपीदं शश्वत् परिचितविविक्तेन मनसा जनाकीर्ण मन्ये हुतवहपरीतं गृहमिव ॥ ३४ ॥ शारद्वतः प्रत्यूचे- “शाङ्गरव! स्थाने खलु पुरप्रवेशात्तवे- द्वशः संवेगः । अहंतु- अभ्यक्तमिव स्नातः, शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनममि॥ ॥ ३५ ॥ राजा मुनीन् पप्रच्छ- "अपि निर्विघ्नतपसो मुनय इति" ते ऊचुः- "कुतोधर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । तमस्तपति घमा शौ कथमाविर्भविष्यति ॥ ३६ ॥ शाङ्गरवः करवसन्देशं राशे कथयामास- "मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम्- त्वमहतामग्रसरः स्मृतोऽसि नः शकुन्तला मूर्त्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापति ॥ ३७॥ तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणायेति"। दुर्वासःशापदोषाद्विस्मृतसर्ववृत्तान्तो राजा- "किमिदमुपन्यस्तम्" -wiGAL mubema । (११८) साहित्य-सुधा-संग्रहः। इत्युवाच । इमं वचनोपन्यासं पावकममस्त शकुन्तला । शारिक- उवाच- "कथमिदं नाम । भवन्त एवः सुतरां लोकवृत्तान्त- निष्णाता:- सतीमपिज्ञातिकुलैक संश्रयां जनोऽन्यथा भरीमती विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः ॥ ३८॥ राजाऽब्रवीत्- "किंवाऽत्रभवती मया परिणीतपूर्वा इति । शारिवोऽपृच्छत्-"किं कृतकार्यद्वेषाद्धर्म प्रति विमुखतोचिता राज्ञः इति । राजेमाम् अभिजानीयादिति गौतमी ततः शकुन्तलाया अव- गुण्ठनमपाऽऽनयत् । शकुन्तला निर्वर्ण्य राजा तथोपनतमक्लिष्टकान्ति- रूपं प्रथमपरिगृहीतं स्यान्नवेति व्यवस्यन् जोषमास्त । शारिवेण पृष्टः प्रत्युवाच- "भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्या स्मरामि । तत्कथमिमामभिव्यक्तसत्वलक्षणां प्रतिपत्स्ये” इति । शार- द्वतो नामाऽपरः करवशिष्यः प्रोवाच-"शकुन्तले ! वक्तव्यमुक्तमस्माभिः सोऽयमत्रभवान्दुष्यन्त एव माह । दीयतामस्मै प्रत्ययप्रतिवचनम्न इति । “इदमवस्थान्तरंगते तादृशेऽनुरागे किं वा स्मारितेन, आत्मेदानी मे शोचनीय इति. व्यवसितमेतत्" इत्यात्मगतमभिधाय शकुन्तला प्रकाशमुवाच-"पौरव! न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तान- हृदयमिमं जनं समयपूर्व प्रतार्ये दशैरक्षरैः प्रत्याख्यातुम् । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तद्भिज्ञानेनाऽनेन तवा- ऽऽशङ्कामपनेष्यामीति । एवमुक्त्वा मुद्रास्थानं परामृश्य यदा ऽङ्गुली- यकशून्यामङ्गुलि मुपलेभे तदा सविषादं गौतमीमुखे दृष्टिं चिक्षेप । गौतम्युवाच-"नूनं ते शक्राऽवताराभ्यन्तरे शचीतीर्थशलिलं वन्दमा- नायाः प्रभ्रष्टमङ्गुलीयकम्” इति । राजोवाच- "इदं तत्प्रत्युत्पन्नमति ! ।

प्रथमो बिन्दुः (११६) स्त्रैणमिति यदुच्यते इति । शकुन्तलोवाच-“अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि। नन्वेकस्मिन्दिवसे नवमालिका- मण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहित मासीत् । तत्क्षणं स से पुत्रकृतको दीर्धापाङ्गो नाम मृगपोतक उपस्थितः। त्वया, अयं तावत्प्रथमं पिवत्वित्यनुकम्पिनोपच्छन्दित उदकेन । सन पुनस्ते ऽ परिचयाद्धस्ताभ्याशमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिले, तेन कृत प्रणयः। तदा त्वमित्थ प्रहसितोऽसि- सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति"। राजोवाच- “एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतवाङ्मधुभिराकृष्यन्ते विष- यिण" | गोतमी जगाद- "महाभाग ! नाहस्येवं मन्त्रयितुम् । तपोवनसंवद्धि तोऽनभिज्ञोऽ यं जनः कैतवस्य । राजा प्राह- “तापसवृद्ध ! स्त्रीणामशिक्षितपटुखममानुषीषु, संदृश्यते किमुत थाः प्रतिबोधवत्यः । पागन्तरिक्षगमनात् स्वमपत्य जातम् , अन्यैद्विजैः परभृताः खलु पोषयन्ति। ॥ ३९ ॥ इति राज्ञोक्त शकुन्तला सरोषमभिदधे- "अनार्य! आत्म- नो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकञ्चुक प्रवेशिनः तृणच्छन्नकूपोपमस्य तवानुकृति प्रतिपत्स्यते इति । ततःशारद्वतः- "तदेषा भवतः कान्ता त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी" ॥ ४० ॥ इति राजनमुक्त्वा प्रस्थितः । शकुन्तलापि, तमन्वगच्छत् । तदा शारिवः सरोष निवृत्य तां जगाद- "शकुन्तले !

(१२०) साहित्य-सुधा-संग्रहः यदि यथा बदति क्षितिपस्तथा खमसि, किं पितुरुत्कुलया वया । अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ ४१ ॥ तत् तिष्ठ, साधयामो वयम्” इति । राजा पुरोहितमन्वयुङ्क्त- "भवन्तमेवाऽत्रगुरुलाघवं पृच्छामि- मूढः स्यामहमेषा वा वदन्मिथ्येतिसंशये । दारत्यागी भवान्याहो परस्त्रीस्पर्शपांसुलः ॥ ४२ ॥ पुरोहितः प्रत्यूचे- "अनभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु। कुत इदमुच्यते इति चेत् , त्वं साधुभिरादिष्टपूर्वः-प्रथममेव चक्र. वर्त्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो- भविष्यत्यभिनन्ध शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितु- रस्याः समीपगमनमुपस्थितमेव इति । “यथा गुरुभ्यो रोचते. इत्युक्त्वा राजा पुरोहितस्य वचोऽनुमेने” । “भगवति वसुधे! देहि मे विवरम्” इति रुदती शकुन्तला सह पुरोधसा तपखिभिश्च निष्क्रान्ता। यावदाजा पर्याकुलः शकुन्तलागतमेवाचिन्तयत्तावत् पुरोहितः प्रतिनिवृत्योवाच- "देव ! परावृत्तेषु करवशिष्येषु-- सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च मवृत्ता। स्त्रीसंस्थानं चाऽप्सरस्तीर्थमारा- दुत्तिप्यैनां ज्योतिरेकं जगाम॥ ॥ ४३ ।। राजोवाच- "भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एच ।

प्रथमो बिन्दुः (१२१) किं वृथा तणान्विष्यते । विश्राम्यतु भवानिति । ततः पुरोहितो. निष्कान्तः । राजा पर्याकुलमानसः-- "कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम्" ॥ ४४ ॥ इति वदन् शयनभूमि जगाम । शक्राऽवताराभ्यन्तरवासी कश्चिद्धीवरो जालोद्गालादिभि- मत्स्यबंधनोपायः कुटुम्बभरणमकरोत् । एकस्मिन्दिवसे तेन रोहित- मत्स्यः खण्डशः कल्पितः । तदा तस्योदराभ्यन्तरे रत्नभासुर- मङ्गुलीयकं तेन दृष्टम् । पश्चाद्विक्रयाय तद् दर्शयन् नागरिकेण राज- श्यालेन चौर्याऽपराधे निगृहीतः स यथायथ मङ्गुलीयकाऽऽगमं तस्मै न्यवेदयत् । श्यालोऽपि तस्याङ्गुलीयकस्य विनगन्धमाघ्राय मत्स्योदरसंस्थितमेव तदिति निश्चित्य धीवर निरोधुरक्षिणावादिश्य राजकुलं जगाम । तत्र राशे यथागमनमङ्गुलीयकं निवेद्य राजशासन- मादायप्रतिनिवृत्तः- "मुच्यतामेष जालोपजीवी, उपपन्नः किला - गुलीयकस्याऽऽगमः, एष भर्नाङ्गुलीयकमूल्यसंमितो दापितः प्रसादः” इत्युक्त्वा पुरुष बन्धनादुन्मुच्यार्थं तस्मै प्रायच्छत् । ततः "सत्यमूढ- पूर्वा मया तत्रभवती रहसि शकुन्तला मोहाच्च प्रत्यादिष्टा" इति खाङ्गुलीयकदर्शनादनुस्मृत्य पश्चात्तापमुपगतो दुष्यन्तः कुत्रापि निर्वृतिमलभमानः शिशिरातपच्छेदरमणीये प्रमदवनोद्देशे आत्मानं विनोदयितुं सह विदूषकेणगतः । तदैव प्रतीहारी पत्रहस्ता प्रविवेश विज्ञापयामास च- "देव! अमात्यो विज्ञापयति- अर्थजातस्य गणनाबहुलतया एकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षी- करोतु” इति। ततो राजा पत्रिकां गृहीत्वावाचयत्- "समुद्रव्यव- हारी सार्थवाहो धनमित्रो नाम नौव्यवसने विपन्नः। अनपत्यश्च किल तपखी | राजगामी तस्यार्थसञ्चयः" इति। अनन्तरमुवाच ।

साहित्य-सुधा-संग्रहः
राजा- "एतदमात्येन लिखितम् । कष्टं खल्चनपत्यता। वेत्रवति!
महाधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि
काचिदापनसत्वा तस्य भार्याषुस्यादिति । प्रतीहारी प्रत्युवाच-
"इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निवृत्तपुंसवना जायाऽस्य
श्रूयते” इति । दुष्यन्तः प्रतीहारीमुवाच- "ननु गर्भः पित्र्य रिक्थ-
महति । गच्छ । एवममात्यं ब्रूहि । अन्यश्च-
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापाहते तासों दुष्यन्त इति घुष्यताम्" ॥ ४५ ॥
राजा दीर्घमुष्णं च निश्वस्याऽऽत्मगतं प्राह स्म- "एवं भोः
सन्ततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः पर-
मुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । धिङ्-
मामुपस्थितश्रेवोऽधमानिनम्-
संरोपितेऽप्यत्मनि धर्मपत्नी
त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय
वसुंधरा काल इवोप्तबीना ॥ ४६ ॥
सार्थवाहवृत्तान्तेन विमनायमानं राजानं दृष्ट्वा चतुरिका प्रतीहारीम्
उवाच- “देवमाश्वासयितुं मेघप्रतिच्छन्दादाऽऽर्यमाढव्यं गृहीत्वा
ऽऽगच्छ” इति। राजोवाच- "अहो दुष्यन्तस्य संशयमारूढाः
पिण्डभाजः कुतः-
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छत्तीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताऽश्रुशेषमुदकं पितरः पिबन्ति” ॥ १७ ॥

प्रथमो बिन्दु (१२३) एवमुक्त्वा मोहमुपगतः। तस्मिन्न व क्षणे- "अब्रह्मण्यम् अन-- ह्मण्यम्” इति माढव्यस्यार्तस्वरेण दुष्यन्तः पुनश्चेतनां लेभे । प्रतीहारी ससंभ्रमं प्रविश्योवाच- "परित्राया देवः संशयगतं वयस्यं, योऽदृष्टरूपेण केनापि सत्त्वेनाक्रम्यः मेघप्रतिच्छन्दस्य प्रासादस्या- ऽग्रभूमिमारोपितः” इति । ततो राजा सशरं धनुरादाय सोपान:- मार्गमागल्या सर्व शून्यं दृष्ट्वोवाच- "भोस्तिरस्करिणीगर्वित ! मदीय- मलं त्वां द्रक्ष्यति । एष तमिषू संधे- यो हनिष्यति वध्यं त्वां. रक्ष्यं रतिष्यति द्विजम् । हंसो हि तीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥४८॥ एवमुक्त्वाऽस्त्रं समधत्त । तदा विदूषकमुत्सृज्य मातलि रिन्द्रसारथिः प्रादुर्भूयोवाच- "कृताः शरव्यं हरिणा तवासुराः शरासनं. तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सहजने पतन्ति चतूंषि न दारुणाः शराः ॥ ४६॥ राजा मातलि दृष्ट्वाऽस्त्रमुपसंहृत्य खागतं व्याजहार विदूषकः सविस्मयं उवाच- "अहं येनेष्टिपशुमार मारितः सोऽनेन खाग- तेनाऽभिनन्द्यते” इति। मातलिनोक्तम्- "अस्ति:कालनेमिप्रसूति- दुर्जयो नाम दानवगण:- सख्युस्ते स किल शतक्रतोरजय्यः स्तस्य त्वं रणशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन्न सप्तसप्ति- स्तनशं तिमिरमपाकरोति चन्द्रः ॥ ५.०

-
(१२४)
साहित्य-सुधा-संग्रहः
तस्मादात्तशस्त्रो भवानिदानीमैन्द्रं रथमारुह्य विजयाय प्रति.
छतामिति"। राजोवाच- "अनुगृहीतोऽहमनया मघवतः संभाव-
नया। अथ वयस्यं प्रति भवता किमेवं प्रयुक्तमिति। मातलि:
प्रत्यवदत्- "कुतश्चिदपि मनःसन्तापादायुष्मान्मया विक्लवो इष्टः ।
पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः-
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
श्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥५१॥
राजा विदूषकमुवाच- "वयस्य ! अनतिक्रमणीया दिवस्पते-
राज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनामात्यपिशुनं ब्रूहि-
खन्मतिः केवला तावत् परिपालयतु पूजाः ।
अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥ ५२ ।।
तथेत्युक्त्वा विदुषको निष्क्रान्तः । राजाऽपि रथमारुह्य मात-
लिना सह जगाम । मघोनो नियोगमनुष्ठाय तेन सविशेष सत्कृतो.
दुष्यन्तो मातलिना सहाऽऽकाशयानेन स्वर्गान्महीमभिप्रतस्थे । मार्ग
दुष्यन्तो मातलिमुवाच- "स खलु मम मनोरथानामप्यभूमि विस-
जनाऽवसरसत्कारः। मम हि दिवौकसां समक्ष मर्धाऽऽसनोपवे.
शितस्य-
अन्तर्गतपार्थनमन्तिकस्थं
जयन्तमुवीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाऽङ्का
मन्दारमाला हरिणा पिनद्धा॥५३॥

प्रथमो बिन्दुः (१२५) मातलिरुवाच "किमिव नामाऽऽयुष्मान् अमरेश्वरान्नार्हति । सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेशरिणश्च पुरा नखैः। ॥ ५४ ॥ राजा सविनयमभिदधे-"अत्र खलु शतकोरेव महिमा स्तुत्य:- सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः संभावनागुणमवेहि तमीश्वराणाम् । किं वा भविष्यदरुणस्तमसां विभेत्ता तंचेत् सहस्रकिरणो धुरि नाऽकरिष्यत्। ॥ ५५ ॥ राजा मातलि पप्रच्छ -“मातले ! असुरसंप्रहारोत्सुकेन मया पूर्वेधुर्दिवमधिरोहता न लक्षितः खर्गमार्गः । तत् कतरस्मिन्मरुतां पथि वामहे । मातलिना प्रत्युक्तम्- "लिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्त्तयति च पूविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम्।" ॥५६॥ राजा रथाऽङ्गमवलोम्योवाच- "मेघपदवीमवतीर्णौ स्वः। awupay अयमरविवरेभ्यश्चातकनिष्पतद्भि- हरिभिरचिरभासां तेजसा चाऽनुलिप्तैः।

THIS
(१२६)
साहित्य-सुधा-संग्रहः
गतमुपरि घनानां वारिगर्मोदराणां
पिशुनयति रथस्ते शीकरक्लिननेमिः ।। ५.७ ।।
मातलिरुवाच- "क्षणादायुष्मान्खाधिकारभूमौ वर्तिध्यते ।
राजाऽधोऽवलोक्योवाच- "वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः, तथाहि-
शैलानामवरोहतीव शिखरादुन्मज्जा मेदिनी
पर्णाऽभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः ।
सन्तानैस्तनुभावनष्टलिला व्यक्ति भजन्त्यापगाः
केनाप्युत्तिपतेव पश्यः भुवनं. मत्पार्श्वमानीयते ॥ ५८ ॥
ततो हेमकूटं नाम पर्वतं दृष्ट्वा तस्मिंश्च तपस्यन्तं वायंभुवा-
न्मरीचेर्जातं प्रजापतिं मातलेरुपश्रुत्यः- “प्रदक्षिणीकृत्य भगवन्तं
यन्तुमिच्छामि” इति दुष्यन्त उवाच। ततो मातलिमारीचाऽऽश्रमस्य
समीपे रथमस्थापयत् । राजा रथाद्वतीर्याऽत्रभवतामृषीणां तपोवन:-
भूमि सविस्मयमवलोक्योवाच-
"प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्ष कने
तोये काञ्चनपद्मरेणुकपिशे धर्माऽभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो-
यत् काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ॥ ५९॥
ततो राजा भगवते मारीचायाऽऽत्मानं निवेदयितुं मातलि.
प्रेषयामास । दक्षिणं बाहुं स्पन्दमानमुपलभ्य यावद्राजाऽब्रवीत्-
"मनोरथाय नाऽशंसे किं बाहो ! स्पन्दसे वृथा ।
पूर्वाऽवधीरितं श्रेयो दुःखं हि परिवर्तते” । इति ॥ ६ ॥

प्रथमो बिन्दुः (१२७) तावत्सोऽ र्धपीतस्तनं सिंहशिशुं प्रक्रीडितुं बलात्कारेण कर्षन्त मबालसन्वं कञ्चिद्वालं तपस्विनीभ्यामनुबध्यमानं ददर्श । तस्य बलाधिक्यं दृष्ट्वा राजोवाच- "महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गाऽवस्थया चह्नि रेधाऽपेक्ष इव स्थितः । इति ॥६॥ ततस्तपस्विनी बालमुवाच- "वत्स! एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामीति” । बाले क्रीडनकमादातुं हस्तं प्रसार- यति सति-तद्धस्तमवलोक्य राजोवाच- "कथं चक्रवर्तिलक्षणम- प्यनेन धार्यते। तथा ह्यस्य- प्रलोभ्यवस्तुपूणयपूसारितो- विभाति जालग्रथितांगुलिः करः । अलक्ष्यपत्रान्तरमिद्धरागया नवोपसा भिन्नमिवैकपंकजम्" ॥ ६ ॥ बालकाय वर्णचित्रितं मृत्तिकामयूर आनेतुमेका तापसी गता | बाल उवाच- "अनेनैव तावत्क्रोडिष्यामि। राजोवाच- "स्पृहयामि खलु दुर्ललितायास्मै- आलक्ष्यदन्तमुकुलाननिमित्तहासै- रव्यक्तवर्णरमणीयवचःपूवृत्तीन् । अङ्काऽऽश्रयपूणयिन स्तनयान् वहन्तो- धन्यास्तदङ्गरजसा मलिनीभवन्ति" ॥ ६३ ॥ यदा स दुर्ललितो बालोऽ परी तापसी नाऽगणयत्तदा सा राजानं दृष्ट्वोवाच- "भद्रमुख ! एहि तावत् । मोचयानेन दुर्मोक- हस्तग्रहण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् | राजा बालं निवारयन्नुवाच- "अयि भो महर्षिपुत्र ! । पन BRIDAANE (१२८) लाहित्य-सुधा-संग्रहः एवमाऽऽश्रमविरुद्धत्तिना संयमः किमिति जन्मतस्त्वया। सत्त्वसंश्रयमुखोऽपि दृष्यते कृष्णसर्पशिशुनेव चन्दनम् ॥ ६४ ॥ बालस्पर्शमुपलभ्य चाऽऽत्मगतं विचारयामास- अनेन कस्याऽपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निति चेतसि तस्य कुर्याद यस्याऽयमङ्कात् कृतिनः पूरूढः ॥ ६५ ॥ तापसी बालं दुष्यन्तं च निर्वण्याऽऽश्चर्यमाश्चर्यमिति व्याहृत्य राजानमुवाच:-- "अस्य बालस्य रूपसंवादिनी त आकृतिरिति विस्मापितास्मि । अपरिचितस्यापि च ते ऽ प्रतिलोमः संवृत्तः" इति । “को ऽस्य व्यपदेशः" इति राज्ञा पृष्टे तापसी जगाद- "पुरुवंशः” | एतच्छ्रुत्वा राजात्मगतमुवाच- "कथमेकान्वयो- नाम | अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौ- रवाणामन्त्यं कुलव्रतम्- भवनेषु रसाऽधिकेषु पूर्व क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकपतिव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम्" ॥ ६६ ॥ तापसीञ्चाऽवदत्-"न पुनरात्मगत्या मानुषाणामेष विषयः । सा प्रत्यूचे- "अप्सरः संबन्धेनाऽस्य जनन्यत्र देवगुरोस्तपोवने ।

।
।
प्रथमो बिन्दु
(१२६)
प्रसूता" । इति । ततो राजा- "बालस्याऽस्य माता किमाख्यस्य राजः
पत्नी इति पप्रच्छ । तापसी प्रत्युवाच- "कस्तस्य धर्मदारपरि-
त्यागिनो नाम सङ्कोर्तयितुं चिन्तयिष्यति” इति । दुष्यन्तोऽ चिन्त.
यत्- “इयं कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशो-
तिरं नामतः पृच्छेयम् ? अथवाऽन्याय्यः परदारव्यवहारः” इति ।
तस्मिन्नेव क्षणे मृए प्रयूरहस्ता तापसी तत्राऽऽगत्य- "सर्व-
दमन ! शकुन्तलावण्यं पश्य" इति बालमुवाच । नामसादृश्येन
वञ्चितः स बालः प्रोवाच- "कुत्र मे माता" इति । ततो दुष्यन्तो-
ऽचिन्तयत्-- "किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति
पुनर्नामधेयसादृश्यानि । अपि नाम भृगतृष्णिकेव नाममात्रप्रस्तावो.
मे विषादाय कल्पते” इति । सिंहशावविमर्दन बालस्य मणि-
बन्धात्परिभ्रष्ट रक्षाकरण्डकं तापसीभ्यां प्रतिषिध्यमानोऽपि राजाss
ददौ । प्रतिषेधकारणं पृष्टा तापसी जगाद- "एषाऽ पराजिता
नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल
मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति,
अथ गृह्णाति ? ततस्तं सर्पो भूत्वा दशति" इति। तापस्यौ तं
वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयितुनिष्क्रान्ते। 'पुत्रक!,
इत्युक्त्वा बालं यदा राजा परिषस्वजे तदा तेनोक्तं- "मम खल
तातो दुष्यन्तो न त्वम्” इति । तापसीमुखाच्छुतवृत्तान्ताशकुन्तला
राजानमुपाजगाम | तां दृष्ट्वा राजा ऽवदत्- "अये सेयमत्रभवती
शकुन्तला । यैषा-
वसने परिधूसरे वसाना
नियमनाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला
मम दीर्घं विरहव्रतं बिभर्ति ॥ ६७ ॥

(१३०) साहित्य-सुधा-संग्रहः शकुन्तलायां राज्ञे जयशब्दमुच्चारयंत्यांसवाष्पकण्ठत्वाद/के विरमन्त्यां राजा जगाद- वाष्पेण प्रतिषिद्धोऽपि जयशब्दे जितं मया । यत्तं दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥६८ ॥ दुष्यन्तः शकुन्तलायाः पादयोः प्रणिपत्याऽऽह स्म- "सुतनु ! हृदयात्पत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवप्रायाः शुभेषु प्रवृत्तयः स्रजमपि शिरस्यन्धः नितां धुनोत्यहिशङ्कया" ॥६॥ शकुन्तलोवाच-"उत्तिष्ठत्वाऽऽर्यपुत्रः; नूनं मे सुचरितप्रतिबन्धक पुराकृतं तेषु दिवसेषु परिणाममुखमासीयेन सानुक्रोशोऽध्याऽऽर्य- पुत्रो मयि विरसः संवृत्तः” इति । तदा निवृत्य मातलिदुष्यन्त. मुवाच- "दिष्टया धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते | भगवान् मारीचस्ते दर्शनं वितरति । तदेह्यायुष्मन् !” इति । राजा सह शकुन्तलया पुत्रेण च, अदित्या सार्धमासनस्थं मारीचमुपगम्य प्रणनाम | राजानं दृष्ट्वा मारीचः स्वधर्मपत्नीमुवाच- "दाक्षायणि ! पुत्रस्य ने रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन थस्य विनिवर्तितकर्म 'जातं तत्कोटिमत्कुलिशमाभरणं मघोनः" ॥ ७० ॥ राजा च मातलि प्रत्युवाच- "प्राहुादशधास्थितस्य मुनयो यत्तेजसः कारणं भार भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।

प्रथमो बिन्दु (१३) यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायाऽऽस्पदं द्वन्द्व दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ ७१ ।। सर्वमारीचमभित उपाऽविशन् । मारीच एकैकं निर्दिश्योवाच- "दिष्टया शकुन्तला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्वं विधिश्चेति त्रितयं तत्समागतम्॥ ॥ ७२ ।। राजोवाच-भगवन् ! प्रागभिप्रेतसिद्धिः। पश्चाद् वो दर्शनम् ।। अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः- उदेति पूर्व कुसुमः ततः फल धनोदयः प्राक् तदनन्तरं पयः। निमित्तनैमित्तिकयोरयं क्रम- स्तव प्रसादस्य पुरस्तु संपदः॥७३॥ शकुन्तलामिमामाज्ञाकरौं वो गान्धर्चेण विवाहेनोपयस्य स्मृतिशैथिल्यात्प्रत्यादिशनपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनात्. तद्दुहितरमवगतोऽहम् । तदेत- चित्रमिव मे प्रतिभाति- यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।' पदानि दृष्ट्वा तु भवेत्यतीति- स्तथाविधो मे मनसो विकारः ॥ ७४ ॥ "वत्स ! अलमात्माऽपराधशंकया, संमोहस्त्वय्यनुपपन्नः इत्युक्त्वा मारीचस्तस्मै दुर्वासःशापादिकं सर्वं कथयाञ्चकार ।

। साहित्य-सुधा-संग्रहः। तच्छ्रुत्वा- “एष वचनीयान्मुक्तोऽस्मि इति राजाब्रवीत् । मारीच: शकुन्तलामुवाच- “वरले ! चरितार्थाऽसि। सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः। पश्य- शापादसि पूतिहता स्मृतिरोधरूक्षे भर्तर्यपेततससि प्रभुता तवैव । छाया न मूर्छति मलोपहतपूसादे शुद्धे तु दर्पणतले सुलभाऽवकाशा ।। ७५ ॥ मारीचस्ततो दुष्यन्तमन्त्रवीत्- “अस्माभिरनुष्ठितजात- कर्माणमेनं पुत्रं भाविनं चक्रवर्तिनमवगच्छतु भवान् । रथेनानुद्वातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः । इहाऽयं सत्त्यानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां 'भरत' इति लोकस्य भरणात्" ॥७६।। भगवते कण्वाय प्रियमिदमावेदयितुं मारीचे शिष्यः प्रहितः। ततोमारीचोदुष्यन्तमुवाच- "वत्स ! त्वमपि स्वाऽपत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य राजधानी प्रतिष्ठस्व । अपि च- तव भवतु बिडौनाः प्राज्यदृष्टिः पूजासु स्वमपि विततयज्ञः स्वर्गिणः पीणयाऽ लम् । युगशतपरिवर्तानेवमन्योन्यकृत्यै- नयतमुभयलोकानुग्रहश्लाघनीयैः ।। ७७ ॥

प्रथमो बिन्दुः (१३३) अथ किन्त भूयःप्रियमुपहरामिण इति । राजा प्रत्यब्रवीत्- "अतः परमपि प्रियमस्ति । यदि भगवान् प्रसन्नःप्रियं कर्तु- मिच्छति; तीदमस्तु- पूवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् । ममाऽपि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ ७८ ॥ ततो दुष्यन्तः सपुत्रकलत्रो राजधानी जगाम । इति अभिज्ञानशाकुन्तलम् ।

Meriesresistani (१३४) साहित्य-सुधा-संग्रहः हिमालय वर्णनम् अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराज, पूर्वापरौ तोयनिधो वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥१॥ यं सर्वशैलाः परिकल्प्य वत्सं मेरी स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ २ ॥ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषोगुणसंनिपाते निमजतीन्दोः किरणेष्विवाऽङ्कः ॥३॥ आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य। उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्याऽऽतपवन्ति सिद्धाः॥४॥ पदं तुषारस्युतिधौतरक्तं यस्मिन्नदृष्ट्वाऽपिहतद्विपानाम् | विदन्ति मार्ग नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः॥५॥ यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किनराणां तानप्रदायित्वमिवोपगन्तुम् ॥६॥ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र चुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ।। ७॥ दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवाऽन्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥ ८ ॥ लाङ्ग लविक्षेपविसपिंशोभैरितस्ततश्चन्द्रमरीचिगौरैः। यस्थार्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्चमर्यः ॥ ६ ॥ भागीरथीनिर्भरसीकराणां वोढा मुहुः कम्पितदेवदारुः । युरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥१०॥ सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ ११ ॥ यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १२ ॥ ( कुमार संभव प्रथम सर्गात् ) प्रथमो बिन्दुः (१३५) "पार्वती तपस्या" तथा समक्ष दहता मनोभवं पिनाकिना भग्नमनोरथा सती। निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः॥ निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥ इति ध्रु वेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ कदाचिदासन्नसखीमुखेन सा मनोरथज्ञ पितरं मनस्विनी । अयाचताऽरण्यनिवासमात्मनः फलोदयान्ताय तपासमाधये ॥ अथाऽनुरूपाऽभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं सदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ॥ विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ यथा प्रसिद्धर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् । न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते । प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मोचौं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ विसृष्टरागाद्धरानिवर्तितः तदङ्गरागारुणिताञ्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ महाहंशथ्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥

(१३६) साहित्य-सुधा-संग्रहः पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्ट हरिणाङ्गनासु च ॥ अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ अरण्यबोजाञ्जलिदानलालिताः तथा च तस्यां हरिणा विशश्वसुः। यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमोत लोचने ॥ कृताभिषेका हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धषु वयः समीक्ष्यते ॥ विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैरभोष्टप्रसवार्चितातिथि। नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥ यदा फलं पूर्वतपासमाधिना न तावता लभ्यममस्त कांक्षितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनेर्मितं मृदु प्रकृत्या च ससारमेय च ॥ शुचौ चतुर्गा ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनी प्रभामनन्य दृष्टिः सवितारमैक्षत ॥ तथातितप्तं सवितुर्गभस्तिभिमुखं तदीयं कमलश्रियं दधौ। अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः। बभूव तस्याः किल पारणा विधिन वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन सा । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपात चूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः॥

प्रथमो बिन्दुः । । (१३७) शिलाशयों तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इच स्थिताः क्षपाः॥ निनाय सात्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीरुदरासतत्परा। परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्त मिथुने कृपावती ॥ मुखेन सा पासुगन्धिना निशि प्रवेपमानाऽधरपत्रशोभिना। तुषारवृष्टिक्षतपद्मसंपदा सरोजसंधानमिवाऽकरोदपाम् ॥ स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्टा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः । मृणालिकापेलवमेवमादिभिर्वतैः स्थमङ्ग ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैपार्जितं तपस्विनां दूरमधश्चकार सा॥ अथाऽजिनाऽऽषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिजटिलस्तपोवनं शरीरबद्धःप्रथमाऽश्रमो यथा॥ तमातिथेयी बहुमानपूर्वया सपर्थया प्रत्युदियाय पार्वती। भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ विधिप्रयुक्तां परिगृह्य सक्रियां परिश्रमं नाम विनीय च क्षणम् । उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे यक्तुमनुझितक्रमः ॥ अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते। अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ अपि त्वदावर्जितवारिसंभृतं प्रवालमासामनुबन्धि वीरुधाम् । चिरोमितालतकपाटलेन ते तुलां यदारोहति दन्तघालसा ॥ अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु । य उत्पलाक्षि ! प्रचलैर्विलोचनैस्तवाऽक्षिसादृश्यमिव प्रयुञ्जते॥ यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः । तथाहि ते शीलमुदारदर्शने ! तपस्विनामप्युपदेशतां गतम् ॥ विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गा सलिलैर्दिवश्च्युतैः । यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥

Rani (१३८) साहित्य-सुधा-संग्रहः अनेन धर्मः सविशेषमध मे त्रिवर्गलारः प्रतिभाति भाविनि!। स्वया मनोनिर्विषयार्थकामया यदेक एच प्रतिगृह्य सेव्यते ।। प्रयुक्तसत्कार विशेषमात्मना न मां परं संप्रतिपत्तुमर्हसि । यतः सतां संनतगात्रि! संगतं मनीषिभिः साप्तपदीनमुच्यते ॥ अतोऽत्र किंचिद्भवती बहुक्षमा द्विजातिभावादुपपन्नचापलः । अयं जनः प्रष्टु मनास्तपोधने ! न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ कुले प्रसूतिः प्रथमस्य वेधसः, त्रिलोकसौन्दर्यमिवोदितं वपुः। अमृग्यमैश्वर्यसुखं, नवं वयः, तपःफलं स्यात्किमतः परं वद ॥ भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी। चिचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि! त्वयि ॥ अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुत्रु ! कुतः पितुहै। पराभिमझे न तवाऽस्ति, कः कर प्रसारयेत्पन्नगरत्नसूचये ॥ किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ दिवं यदि प्रार्थयसे वृथा श्रमः पितुःप्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ निवेदितं निश्वसितेन सोमणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराऽऽप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ कियच्चिरं श्राम्यसि गौरि ! विद्यते ममाऽपि पूर्वाऽऽश्रमसंचितं तपः । तदर्धभागेन लभस्व कांक्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनी विवर्तिताऽनञ्जननेत्रमैक्षत ॥ सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् । यदर्थमम्भोजमिचोष्णवारणं कूतं तपःसाधनमेतया वपुः॥

प्रथमो बिन्दुः (१३) इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनीं। अरूपहार्य मदनस्य निग्रहात्पिनाकपाणि पतिमाप्तुमिच्छति ॥ यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधि विचिन्वती । तदा सहाऽस्माभिरनुज्ञया गुरोरियं प्रपन्ना तपस तपोवनम् ॥ द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः॥ अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्याञ्जितहर्षलक्षणः॥ अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथंचिदगुस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत । यथा श्रुतं वेदविदांवर ! त्वया जनोयमुश्चैम्पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ अथाह वर्णी-विदितो महेश्वरः, तदर्थिनी त्वं पुनरेव वर्तसे। अमङ्गलाभ्यासरति विचिन्त्य तं तवानुवृत्ति न च कर्तुमुत्सहे ।। अवस्तुनिबन्धपरे ! कथं नु ते करोऽयमामुक्तविकाहकौतुकः । करण शंभोवलयीकृताऽहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ त्वमेव तावत्परिचिन्तय स्वयं कदाचिंदेते यदि योगमर्हतः। वधूदुकूलं कलहंसलक्षणं गजाऽजिनं शोणितबिन्दुवर्षि च ॥ चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाऽङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया। विलोक्यवृद्धोक्षमधिष्ठितं त्वया महाजनःस्मेरमुखो भविष्यति । द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि ! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।

॥ (१४०) साहित्य-सुधा-संग्रहः निवर्तयाऽस्मादसदीप्सितान्मनः क तद्विधस्त्वं क्व च पुण्यलक्षणा। अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसक्रिया ॥ इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितभूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः॥ अकिञ्चनः सन्प्रभवः स संपदा त्रिलोकनाथः पितृसमगोचरः। स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ विभूषणोद्भासि पिनद्धभोगि वा गजाऽजिनाऽऽलम्बि दुकूलधारि वा। कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजोऽपि शुद्धये । तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ असंपदस्तस्य वृषेण गच्छतः प्रभिन्न दिग्वारणवाहनो वृषा। करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली। विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः। ममाऽत्र भावैकरसं ममः स्थितं न कामवृत्तिर्वचनीयमीक्षते॥ निवार्यतामालि ! किमप्ययं बटुः पुनर्विचक्षुः स्फुरितोत्तराऽधरः। न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ इतो गमिष्याम्यथवेति वादिनी चचाल बाला रयभिन्नवल्कला। स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ।। तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- निक्षेपणाय पदमुद्धृतमुदहन्ती । मार्गाऽचलव्यतिकराऽऽकुलितेव सिन्धुः शैलाऽधिराजतनया न ययौ न तस्थौ ।

प्रथमो बिन्दु
( १.४१
अद्य प्रभृत्यवनताङ्गि! तवास्मि दासः
कोतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लममुत्ससर्ज
क्लेशः फलेन हि पुनर्नवतां विधत्ते॥
( कुमारसंभवस्य पञ्चम सर्गात )
पार्वती परिणयः
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम्।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ १॥
वैवाहिकैः कौतुकसंविधानैहे गृहे व्यग्रपुरंभ्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥२॥
संतानकाऽऽकीर्णमहापथं तच्चीनांशुकैः कल्पितके तुमालम् ।
भासोज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाऽऽबभासे ॥३॥
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥४॥
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ ५॥
मैत्रेमुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुः बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ६॥
सा गौरसिद्धार्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभम् ।
निर्नाभि कौशेयमुपात्तबाणम् अभ्यङ्गनेपथ्यमलंचकार ॥ ७ ॥
बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
करेण भानोर्बहुलावसाने संधुभ्यमाणेव शशाङ्करेखा ॥ ८ ॥
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृतांगरागाम् ।
वासो वसानामभिषेकयोम्यं नार्यश्चतुष्काभिमुखं व्यनैः॥ ॥

(१४२)
साहित्य-सुधा-संग्रहः
विन्यात्तवैदूर्यशिलातलेऽस्मिन्नाबद्धमुक्ताफलभक्तिचित्रे।
आवर्जिताऽष्टापदकुम्भतोयैः सतूर्यमेनां स्वपयांबभूवुः ॥ १० ॥
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा।
निवृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ११ ॥
तस्मात्प्रदेशाञ्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये क्लप्ताऽऽसनं कौतुकवेदिमध्यम् ॥ १२ ॥
तावद्भवस्यापि कुवेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
प्रसाधनं मातृभिरागृताभिय॑स्तं पुरस्तात्पुरशासनस्य ॥ १३ ॥
तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेणः ।
स एव वेषः परिणेतुरिष्ट भावान्तरं तस्य विभोः प्रपेदे ॥ १४ ॥
बभूव भस्मैव सिताङ्गरागः कपालमेवाऽमलशेखरश्रीः ।
उपान्तभागेषु च रोचनांको गजाजिनस्यैव दुकूलभावः ॥ १५ ॥
शङ्खान्तरद्योति विलोचनं यद् अन्तर्निविष्टामलपिङ्गतारम् ।
सानिध्यपक्षे हरितालमय्याः तदेव जातं तिलकक्रियायाः॥१६॥
यथाप्रदेशं भुजगेश्वराणां करिष्यतामामरणान्तरत्वम् ।
शरीरमात विकृति प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥१७॥
दिवापि निष्ठ्यूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ १८॥
इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनैपथ्यविधेर्विधाता।
आत्मानमासन्नगणोपनीते खड्डे निषक्तप्रतिमं ददर्श ॥ १६ ॥
स गोपति नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥ २० ॥
तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥ २१ ॥
तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे
बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतहदेव ॥ २२ ॥

प्रथमो बिन्दुः
(१४३)
ततो गणैः शूलभृतः पुरोगैरुदीरितो मंगलतूर्यघोषः।
विमानङ्गाण्यवगाहमानः शशंस सेवाऽवसरं सुरेभ्यः ॥ २३ ॥
उपाददे तस्य सहस्त्ररश्मिस्त्वष्टा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिबभौ पतद्गङ्ग इवोत्तमाङ्ग ॥ २४ ॥
मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविपाताम् ।
समुद्रगारूपविपर्ययेऽपि सहसपाते इव लक्ष्यमाणे ॥ २५ ॥
तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलमा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्ती विषेव वह्निम् ॥२६॥
एकव मूर्तिबिभिदे त्रिधा सा सामान्यमेषां प्रथमाऽवरत्वम् ।
विष्णोहरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥२७॥
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गचिनीतवेषाः।
दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ २८ ॥
कम्पेन मूनः शतपत्रयोनि वाचा हरि वृत्रहणं स्मितेन ।
आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥ २६ ॥
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ ३० ॥
विश्वावसुप्राग्रहः प्रवीणैः संगीयमानत्रिपुरावदानः ।
अध्वानमध्यान्तविकारलंध्यस्ततारताराऽधिपखण्डधारी॥३१॥
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिंकिणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतधने विषाणे ॥ ३२ ॥
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
पुरोविलग्नैहर दृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः॥ ३३ ॥
तस्योपकण्ठे घननीलकण्ठः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिह्नावतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ ३४ ॥

(१४४)
साहित्य-सुधा-संग्रहः
तमृद्धिमद्वन्धुजनाधिरूढैवृन्दैर्गजानां गिरिचक्रवर्ती ।
प्रत्युजगामाऽऽगमनप्रतीतः प्रफुल्लवृक्षः कटकैरिव स्वैः ॥ ३५ ॥
वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्धटितापिधाने ।
समीयतु रविसर्पिघोषौ भिन्नैकसेतू पयसामिवौधौ ॥ ३६ ॥
हीमानभूभूमिधरो हरेण त्रैलोक्यवन्येन कृतप्रणामः ।
पूर्व महिम्ना स हि तस्य दूरम् आवर्जितं नात्मशिरो विवेद ॥ ३७ ॥
स प्रोतियोगाद्विकसन्मुखश्रीः जामातुरग्रसरतामुपेत्य ।
प्रावेशयन्मन्दिरमृद्धमेनम् आगुल्फकीर्णापणमार्गपुष्पम् ॥ ३८ ॥
तत्राऽवतीर्याऽच्युतदत्तहस्तः शरद्धनादीधितिमानिवोक्ष्णः ।
क्रान्तानि पूर्व कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ ३६॥
तमन्वगिन्द्रप्रमुखाश्च देवा: सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः॥४०॥
तन्त्रेश्वरी विष्टरभाग्यथावत्सरत्नमध्य मधुमञ्च गव्यम् ।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥ ४१ ॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधदक्षैः ।
वेलासमोपं स्फुटफेनराजिनवैरुदन्वानिव चन्द्रपादैः ॥ ४२ ॥
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या ।
प्रसन्नचेतःप्तलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ।। ४३ ॥
प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमयाम् ।
सांनिध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥४४॥
प्रदक्षिणप्रक्रमणात्कशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ४५ ॥
तौ दंपती त्रिः परिणीय वह्निमन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ ४६॥
सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकोत्पलतां प्रपेदे ॥४७॥

प्रथमो बिन्दुः (१४५.) तदीपदारुणगण्डलेखमुच्छ्वासि कालाजनरागमक्ष्णोः । वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्वभूव ॥ ४८ ॥ वधूं द्विजः प्राह तवैष वत्से ! वह्निर्विवाहं प्रति कर्मसाक्षी। शिवेन भी सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥४६॥ आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या। निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ५० ॥ ध्र वेण भत्री ध्र वदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य होसन्नकराठी कथमप्युवाच ॥ ५१ ॥ इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ। प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय॥ ५२ ॥ वधूर्विधात्रा प्रतिनन्धते स्म कल्याणि ! वीरप्रसवा भवेति । धाचस्पतिः सन्नपि सोऽष्टमूर्ती त्वाशास्य चिन्तास्तिमितो बभूव ॥५३॥ क्लप्तोपचारां चतुरस्रवेदी तावत्य पश्चात्कनकासनस्थौ । जायापती लौकिकमेषणीयमानॊऽक्षतारोपणमन्वभूताम् ॥ ५४॥ पत्रान्तलग्नर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् । तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ ५५ ॥ द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव । संस्कारपूतेन वरं वरेण्यं वधू सुखग्राह्यनिबन्धनेन ॥ ५६ ॥ तौ संधिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसा मुहूर्त प्रयोगमाद्यं ललिताङ्गहारम् ॥ ५७ ॥ एवं पार्वती परिणीय, समस्तसुरसमाज विसृज्य, सगणोगणेशगुरुःस्वावास कैलासमयासीत् । (कुमारसंभवस्य सप्तमसर्गात् )

॥
(१४६)
साहित्य-सुधा-संग्रहा
बुद्धवैराग्यम्
ततः कदाचिन्मृदुशालानि मुस्कोकिलोन्नादितपादपानि ।
शुभाव पद्माकरमण्डितानि शीते निबद्धानि स काननानि ॥१॥
श्रुत्वा ततः स्त्रीजनबल्लभाना मनोभावं पुरकाननानाम् ।
बहिः प्रयापाय चकार बुद्धिम् अन्तर्गृहे नाग इवावरुद्धः ॥ २॥
ततो नृपस्तस्य निशम्य भावं पुत्राऽभिधानस्य मनोरथस्य ।
स्नेहस्य लक्ष्म्या वयसश्च योग्याम् आज्ञापयामास विहारयात्राम् ॥३॥
निवर्तयामास च राजमार्ग संपातमार्तस्य पृथग्जनस्य ।
प्रत्यंगहीना विकलेन्द्रियाँश्च जीर्णाऽतुरादीन कृपणांश्च भिक्षून् ।
ततः समुत्सार्य परेण साना शोभा परां राजपथस्य चक्रुः॥५॥
ततः कृते श्रीमति राजमार्ग श्रीमान् विनीताऽनुचरः कुमारः।
प्रासादपृष्टादवतीर्य काले कृताऽभ्यनुज्ञो नृपमभ्यगच्छत् ॥ ६॥
अथो नरेन्द्रः सुतमागताचः शिरस्युपात्राय चिर निरीक्ष्य ।
गच्छेति चाज्ञापयत्ति स्म बाचा स्नेहान्न चैनं मनसा मुमोच ॥७॥
ततः स जाम्बूनदभाण्डभृद्भिः युक्तं चतुर्भिनिभृतैस्तुरङ्गैः।
अक्लीवविद्युच्छुचिरश्मिधारं हिरण्मयं स्यन्दनमारुरोह ॥ ८ ॥
तत्तः प्रकीर्णोज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् ।
मार्ग प्रपेदे सदृशाऽनुयात्रः चन्द्रः सनक्षत्र इवान्तरिक्षम् ॥ ६ ॥
कौतूहलात्स्फीनतरैश्च नेत्रैः नीलोत्पलामैरिव कीर्यमाणः ।
शनैः शनैः राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः॥ १० ॥
पुरंतु तत्स्वर्गमिव प्रदृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः ।
जीर्ण नरं निर्ममिरे प्रयातुं संचोदनार्थ चितिपाऽऽन्मजस्य ॥ ११ ॥
ततः कुमारो जरयाऽभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृति तम् ।
उवाच संग्राहकमागतास्थः तत्रैव निष्कम्प निविष्टष्टिः ॥ १२ ॥

प्रथमो बिन्दुः ? (१४७) क एष भोः सून ! नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहस्तः। भूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा ? ॥ १३ ॥ इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय । संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ १४ ॥ रूपस्य हों, व्यसनं बलस्य, शोकस्य योनि, निधनं रतीनाम् । नाशः स्मृतीनां, रिपुरिन्द्रियाणाम् , एषा जरा नाम ययैष भग्नः ॥१५॥ पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुाम् । क्रमेण भूत्वा च युवा घपुष्मान् क्रमेण तेनैव जरामुपेतः ॥१६॥ इत्येवमुक्त चलितः स किंचित् राजाऽऽत्मजः सूतमिदं बभाषे। किमेष दोषो भविता ममापीत्यस्मै ततःसारथिरभ्युवाच ॥ १७ ॥ आयुष्मतोऽप्येष वयः प्रकर्षात् निःसंशयं कालवशेन भावी । एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैपलोकः ॥ १८ ॥ ततः स पूर्वाऽऽशयशुद्धबुद्धिः विस्तीर्णकल्पाऽर्जितपुण्यकर्मा । श्रुत्वा जरां संविविजे. महात्मा महाश?षमिवान्तिके गौः ॥ १६ ॥ निःश्वस्य दीर्घ स शिरः प्रकम्घ्य तस्मिंश्च जीणे विनिवेश्य चक्षुः । तां चैव दृष्ट्वा जनतां सहर्षा वाक्यं स संविग्नमिदं जगाद ॥ २० ॥ एवं जरा हन्ति च निर्विशेष स्मृति च रूपं च पराक्रमं च । न. चैव संवेगमुपैतेि लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ २१ ॥ एवं गते सूत ! निवर्तयाऽश्वान् शीनं गृहाण येव भवान् प्रयातु । उद्यानभूमौ हि कुतो रतिमें जराभये चेतसि वर्तमाने ॥ २२ ॥ अथाऽज्ञया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता । ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ २३ ॥ यदा तु तत्रैव न शर्म लेभे. जरा जरेति प्रपरीक्षमाणः। ततो मरेन्द्राऽनुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥ २४ ॥ अथाऽपरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् । दृष्ट्वा च तं सारथिमाबभाषे. शौद्धोदनिस्तद्गतदृष्टिरेव ॥ २५॥.

(१४८)
साहित्य-सुधा-संग्रहः
स्थूलोदरः श्वासचलच्छरीरः स्वस्तांऽसबाहुः कृशपाण्डुगात्रः।
अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः? ॥ २६ ॥
ततोऽब्रवीत्सारथिरस्य सौम्य ! धातुप्रकोपप्रभवः प्रवृद्धः ।
रोगाभिधानः सुमहाननर्थः शनोऽपि येनैप कृतोऽस्वतन्त्रः ॥ २७ ॥
इत्यूचिवान राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः ।
अस्यैव जातः पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम् १॥ २८ ॥
ततो बभाषे स रथप्रणेता कुमार! साधारण एष दोषः ।
एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ २६ ॥
इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूमिगतः शशीव ।
इदं च वाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना स्वरेण ॥३०॥
इदं च रोगव्यसनं प्रजानां पश्यश्च विश्रम्भमुपैति लोकः ।
विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ ३१ ॥
निवर्त्यतां सूत ! वहिःप्रयाणानरेन्द्रस झैव रथः प्रयातु ।
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः ॥ ३२ ॥
ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सम।
तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं पुर्यागमं भूमिपतिश्चकार ॥ ३३ ॥
श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तमात्मानमनेन मेने ।
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ ३४ ॥
भूयश्च तस्मै विदधे सुताय विशेषयुक्त विषयप्रकारम् ।
चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजह्यादिति नाथमानः ॥ ३५ ॥
यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे ।
ततो बहिर्यादिशतिस्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ ३६ ॥
ततो विशेषेण नरेन्द्रमार्गे खलङ्कृते चैव परीक्षिते च ।
व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ ३७॥
ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः ।
तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः ॥ २४ ॥

प्रथमो बिन्दुः
अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्हियते क एषः ।
दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वास्यवरुद्यते च ॥ ३६ ॥
ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः ।
अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय ॥ ४० ॥
बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंशस्तृणकाष्ठभूतः ।
संबध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियस्त्यज्यत एष कोऽपि ॥४१॥
इति प्रणेतुः स निशम्य वाक्यं संचुर्भे किञ्चिदुवाच चैनम् ।
कि केवलस्यैव जनस्य धर्मः ? सर्वप्रजानामयमीदशोऽन्तः ? ॥ ४२ ॥
ततः प्रणेता गदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा ।
हीनस्य मध्यस्य महात्मनो वा, सर्वस्य लोके नियतो विनाशः॥ ४३ ॥
ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्यु विषसाद सद्यः ।
अंसेन संश्लिष्य च कूवरानं प्रोवाच निहादवता स्वरेण ।। ४४ ॥
इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः।
मनांसि शङ्क कठिनानि नृणां खस्थास्तथा ह्यध्वनि वर्तमानाः ॥ ४५ ॥
तस्माद्रथं सूत ! निवर्त्यतां नो बिहारभूमौ न हि देशकालः ।
जानन् विनाशं कथमालिकाले सचेतनः स्यादिह हि प्रमत्तः ॥ ४६॥
इति वैराग्योदयः
बुद्धचरितस्थ तृतीय सर्गात
.
अथ श्रमणखनिश्चयः
अथ मन्त्रिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः।
वनभूमिदिद्वक्षया शमेप्सुर्नरदेवानुमतो बहिः प्रतस्थे ॥१॥
नवरुक्मखलीनकिंकिणीकं प्रचलच्चामरचारहेमभाण्डम् ।
अभिरुह्य सकण्ठकं सदश्वं प्रययौ केतुमिव दुमान्जकेतुः ॥ २॥
स निकृष्टतरां वनान्तभूमि वनलोभाच्च ययौ महीगुणेच्छुः ।
Rani व दर्शकष्यमाणाम ॥३॥

(१५०)
साहित्य-सुधा-संग्रहः
हलभिन्नविकीर्णशष्पदी हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम् ।
समवेक्ष्य रसां तथाविधां तां स्वजनस्येव वधे भृशं शुशोच ॥ ४ ॥
कृषतः पुरुषांश्च वीक्षमाणः पवनार्काऽशुरजोविभिन्नवर्णान् ।
वहनकमविक्लवांश्चधुर्यान् परमार्यः परमां कृपां चकार ॥ ५ ॥
अवतीर्य ततस्तुरङ्गपृष्ठाच्छनकैर्गा व्यचरच्छुचा परोतः ।
जगतो जननव्ययं विचिन्वन कृपणं खल्विदमित्युवाच चातः ॥ ६ ॥
मनसा च विविक्ततामधीप्सुः सुहृदस्ताननुयायिनो निवार्य ।
अभितश्चलचारुपर्णवत्या विजने मूलमुपेयिवान् सजम्ब्वाः ॥ ७ ॥
निषसाद च तत्र शौचवत्यां भुवि वैदूर्यनिकाशशालायाम् ।
जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे ॥८॥
समवाप्तमनःस्थितिश्च सद्यो विषयेच्छादिभिराधिश्च मुक्तः।
सवितर्कविचरमाप शान्तं प्रथमं ध्यानमनाश्रवप्रकारम् ॥ ६॥
अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं समाधिगम्यम् ।
इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक् ॥ १०॥
कृपणं बत यजनः स्वयं सन्नरसो व्याधिजराविनाशधा।
जरयादितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः ॥११॥
इह चेदहमीदृशः स्वयं सन् विजुगुप्लेय परं तथास्वभावम् ।
न भवेत्सदृशं हि तत्क्षम वा परमं धर्ममिम विजानतो मे ॥ १२ ॥
इति तस्य विपश्यतो यथावजगतो व्याधिजराविपत्तिदोषान् ।
बलयौवनजीवितप्रवृत्तौ विजगामाऽऽत्मगतो मदः क्षणेन ॥ १३ ॥
न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे ।
न च कामगुणेषु संरर) न च दिद्वेष परं न च वने ॥ १४॥
इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा ।
पुरुषैरपरैरदृश्यमानः पुरुषोश्वोपससर्प भिक्षुवेशः ॥ १५ ॥

प्रथमी बिन्दुः (१५१) नरदेवसुतस्तमभ्यपृच्छवद कोऽसीति शशंस सोऽथ तस्मै । नरपुङ्गव ! जन्ममृत्युभीतः श्रमणः प्रवजितोऽस्मि मोक्षहेतोः ॥१६॥ जगति क्षयधर्मके मुमुक्षुर्मूगयेऽहं शिवमक्षयं पदं तत् । अजनोऽन्यजनैरतुल्यबुद्धि विषयेभ्यो विनिवृत्तरागदोषः ॥ १७ ॥ निवसन क्वचिदेव वृक्षमूले विजने वाऽऽयतने गिरौ वने वा। विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्न भिक्षुः॥ १८ ॥ इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात । स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥१६॥ गगनं खगवद्गते च तस्मिन् नृवरः संजहषे विसिस्मिये च। उपलभ्य ततश्च धर्मसंज्ञामभिनिर्याणविधौ मति चकार ॥२०॥ तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारोह । परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ २१ ॥ स जरामरणक्षयं चिकीर्षुर्वनवासाय मति स्मृतौ निधाय । प्रविवेश पुनःपुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥ २२ ॥ ( इति प्रमणत्वनिश्चयः) श्री अश्वघोष विरचितस्य बुद्ध चरितस्य पञ्चम सर्गात् (१५२) साहित्य-सुधा-संग्रह *सुभाषितानि अथ सुभाषितप्रशंसा संसदि तदेव भूषण मुपकारक मवसरे धनं मुख्यम् । सूक्तं दधति सुवर्ण कल्याणमनमिह धन्याः॥१॥ ( कस्यापि) याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥२॥ (श्री अनन्तदेवानाम्) अविदितगुणापि सुकवेणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दुशं मालतीमाला ॥३॥ (सुबन्धोः) ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्ववरा ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रियाः। ये वा द्वेषमषीमलोमसघियस्तान् प्राज्ञगोष्ठीरल- प्रौढप्रावृडवग्रहान् परिहरन् वाचां प्रसारं कुरु ॥४॥ (कस्यापि) अथ सहृदयकविप्रशंसा अपि मुदमुपयान्तोवाग्विलासैः स्वकीयः परभणितिषु तोषं यान्ति सान्त कियन्तः । निजधनमकरन्दस्यन्दपूर्णाऽऽलवालः कलशसलिलसेकं नहते कि रसालः ॥ ५ ॥ (जयदेवस्य)

प्रथमो बिन्दुः
(१५३)
सुजन प्रशंसा
वदनं प्रसादसदनं
सदयं हृदयं सुधामुचो वायः।
करणं परोपकरण
येषां, केषां न ते वन्द्याः॥६॥
महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः।
संवृणुतेऽद्रीनुदधिर्निदाधनद्यो न भेकमपि ॥ ७ ॥
( गोवर्धनाचार्यस्य )
न भवति भवति च न चिरं
भवति चिरं चेत् फले विसंवादी।
कोपः सत्पुरुषाणां
तुल्यःस्नेहन नीचानाम् ।। ८ ।।
आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने ।
छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनम् ॥ ६ ॥
सन्तोऽपि सन्तः क किरन्तु तेजः
कनु ज्वलन्तु क ननु प्रथन्ताम् ।
विधाय रुद्धा ननु वेधसैव
ब्रह्माण्डकोषे घटदीपकल्पाः ॥१०॥
क्षारो वारिनिधिः कलङ्ककलुषश्चन्द्रो रविस्तापत्
पर्जन्यश्चपलाश्रयोऽभ्रपटलादृश्यःसुवर्णाचलः।
शून्य व्योम रसा द्विजह्वविधृता खर्धामधेनुः पशुः
काष्ठं कल्पतरुर्द्वषत् सुरमणिस्तत्केन साम्यं सताम्॥११॥
कस्मादिन्दुरसौ धिनोति जगतों पीयूषगर्भः करैः
कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति ।
भ्रामं भ्राममयं च नन्दयति वा कस्मात् त्रिलोकी रविः
साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ १२ ॥

। (१५४) साहित्य-सुधा-संग्रहः ये जाते व्यसने निराकुलधियः, संपत्सु नाऽभ्युनताः प्राप्ते नैव पराङ्मुखाः, प्रायनि प्राणोपयोगैरपि । होमन्तः स्वगुणप्रकाशन विधावन्यस्तुतौ पण्डिता- स्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥१३॥ अथ महतां प्रशंसा गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि । क्षीरोद्धेस्तु नाद्यापि महतां विकृतिः कुतः ॥ १४ ॥ ( कस्यापि) ये दीनेषु दयालवः स्पृशति यानल्योऽपि न श्रीमदो-- व्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः। वस्थाः सन्ति च यौवनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरकान्ता धरा धार्यते ॥ १५ ॥ (कस्यापि) अङ्गनवेदी वसुधा, कुल्या जलधिः, स्थली च पातालम् । वल्मीकश्च सुमेरुः, कृतप्रतिज्ञस्य चीरस्य ॥ १६ ॥ (बाणभट्टस्य) पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वर रजः ॥ १७ ॥ समूलघातमनन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसिताऽन्धतमसस्तत्रोदाहरणं रविः ॥१८॥ (माघस्य) अथ मनस्विमशंसा ब्रह्माण्ड कियदस्ति तत्र वसुधापिण्ड किमाचक्ष्महे तत्राप्येकतरं तु खण्डममितास्तस्मिन्नृपाः केचन । तेभ्यो दैन्यशमोपनीतविभवा दृष्टानुकम्पास्तु ते घिन्मूढाः स्पृहयन्ति हन्त किमपि खार्थन तेभ्योऽपि ये ॥ १६ ॥ (श्री देवगणदेवानाम् ) प्रथमो बिन्दुः ( १५५) अथोदारप्रशंसा कर्णस्त्वचं शिविर्मा सं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ २० ॥ द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान् । द्विर्ददाति न चार्थियो रामोद्वि भिमापते ॥ २१ ॥ .. अथ गुणप्रशंसा गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न द? रस्त्येकवासोऽपि ॥ २२ ॥ कौशेयं कृमिज सुवर्णमुपलाइ र्वापि गोरोमतः पङ्कात्तामरसं शशाङ्क उद्धेरिन्दीवरं गोमयात् । काष्टादशिरहः फणादपि मणिगोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ २३ ॥ अथ सन्तोष प्रशंसा वयमिह परितुष्टा वल्कलैस्त्वंदुकूलैः सम इह परितोषो निर्विशेषो विशेषः। स हि भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥ २४ ॥ (भर्तृहरेः) अथ संसर्ग प्रशंसा अश्व शस्त्र शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्य भवन्ति योग्या अधोग्याश्च ॥ २५ ॥ (विष्णुशर्मणः) (१५६) साहित्य-सुधा-संग्रहः दुर्जन निन्दा यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन । काकानामिव शौक्ल्यं तदपि हि नचिरादनाय ॥ २६ ॥ (गोवर्धनाचार्य्यस्य) रविरपि न दहति तादक यादृक् संदहति बालुकानिकरः। अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति ॥ २७ ॥ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वान्सः । यदक्ष नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ २८ ॥ (सुबन्धोः) अति मलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ २६ ॥ (सुबन्धोः) विषमा मलिनात्मनो द्विजिह्वा जिह्मगा इव । जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥३०॥ (हरिगणस्य) श्रथ कृपणनिन्दा यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजागरम् । न तद्धनं कर्याणां हृदयव्याधिरेव सः॥ ३१ ॥ (क्षेमेन्द्रस्य) मृत्युः शरीरगोप्तारं वसुरक्षं वसुंधरा। दुश्चारिणी च हसति स्वपति पुत्रवत्सलम् ॥ ३२॥ (बाणभट्टस्य) प्रथमो विन्दुः (१५७) स्थागभोगविहीनेन धनेन धनिनो यदि । भवामः कि न तेनैव धनेन धनिनो वयम् ॥ ३३ ॥ ( कस्यापि ) कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ ३४॥ (व्यासस्य ) दृढतरनिबद्धमुष्टः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः॥३५ ।। विद्यावतः कुलीनस्य धनं याचितुमिच्छतः। कण्ठे पारावतस्येव वाकरोति गतागतम् ॥ ३६॥ दक्षिणाऽऽशाप्रवृत्तस्य प्रसारितकरस्य च । तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥३७॥ अथ याचकनिन्दा उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः पर्यस्ताः परितो यशास्तबकिताः संपल्लतापल्लवाः । प्रागेवापवृतःप्रमोदहरिण श्छायाकथाऽन्तं गता दैन्यारण्यमतंगजेन महता भग्नेऽभिमानद्रुमे ॥ ३८ ॥ अथ दरिद्रनिन्दा अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे । याचाच लाघवकरी स्ववधे च पापं प्राणा: स्वयं बजत किं प्रविलम्बितेन ॥ ३६॥ (माघकवेः) भुक्तं मानविवजितं परगृह चाशङ्कया काकवता (१५८) साहित्य-सुधा-संग्रहः वासःखण्डमिदं प्रयच्छ यदि वा स्वाऽके गृहाणार्भक रिक्तं भूतलमत्र नाथ ! भवतः पृष्ट पलालोच्चयः । दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्ध कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥४०॥ अथ मूर्खनिन्दा वितरति प्राज्ञ विद्यां यथैव तथा जडे न तु खलु तयोर्शाने शक्ति करोलपहन्ति वा। भवति च पुनर्भूयान् भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः॥४१॥ ( भवभूतेः) लभेत सिकतासु तेलमपि यत्नतः पीडय- पिवेच्च मृगतृष्णिकासु सलिलं पिपासादितः । कदाचिदपि पर्यटञ्छशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४२ ॥ ( भर्तृहरेः) अथ तृष्णानिन्दा भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्ट खलानां मुख तृष्णे देवि! यदन्यदिच्छसि पुनस्तत्रापि सजा वयम्॥ ४३ ॥ (कस्यापि) अन्योक्तिः (चन्द्रः) प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः मच सकलकलाभिः पूर्णचन्द्रोन वन्धः। .

reerememes muavamratyayAI प्रथमो बिन्दुः (१५६) अतिपरिचयदोपात् कस्य नो मानहानिः नव नव गुणरागी प्रायशः सर्वलोकः ॥४४॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपति- द्युतिस्तादृग्नूना जनिरपि च रत्नाकरकुले । बहु ब्रूमः किं वा पुरहरशिरोमण्डनमसि त्वदीयं तत्सर्वं शशधर ! कलङ्काद्विलितम् ॥ ४५ ॥ उच्चैः स्थानकृतोदयैर्बहुविधैज्योतिर्भिद्यत्प्रभैः शुक्राद्यैः किममोभिरत्र वितथा प्रौढिं दधानैरपि । यावल्लोकतमोपहेन भवता लक्ष्मीन विस्तार्यते तावञ्चन्द्र ! कथं प्रयाति परमा वृद्धि स रत्नाकरः ॥ ४६॥ ! (त्रिलोचनस्य) अन्योक्तिः ( बालाः) ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः। चिकुरा इव ते बाला एव, जडाः पाण्डुभावेऽपि ॥ ४७ ॥ ( गोवर्धनाचार्य) अन्योक्तिः ( कूपजलम् ) कूपप्रभवाणां परमुचितमपी पट्टबन्धनं मन्ये । याः शश्यन्ते लब्धंन पार्थिवेनापि विगुणेन ॥४८॥ ( गोवर्धनाचार्य) (१६०) साहित्य-सुधा-संग्रहः । अन्योक्तिः (चन्दनम् ) यदि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना। निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ ४६॥ अन्योक्तिः ( गजा) यूथपते ! तव कश्चिन्न हि मानस्यानुरूप इह विटपी । प्रेरय दिनं निदाघद्राधीयः क्व खलु ते छाया ॥ ५० ॥ अन्योक्तिः (मेघः) शालेयेषु शिलातलेषु च गिरेः ऋङ्गेषु गर्तेषु च श्रीखण्डेषु विभोतकेषु च तथा पूर्णेषु रिक्तषु च । स्निग्धेन ध्वनिनाऽखिलेऽपि जगतीचक्रे समं वर्षतो. वन्दे वारिदसार्वभौम ! भवतो विश्वोपकारि व्रतम् ॥ ५१ ॥ ( कस्यापि) अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं वद जलद ! मोघं वितरसि । समन्तादुत्तालज्वलद्नलकीलाकवलन- क्लमोपेतानेतानुपचरपयोभिर्विटपिनः ॥५२॥ (विल्हणस्य) अन्योक्तिः (क्षमाः) आजन्मसिद्ध कौटिल्यं खलस्य च हलस्य च सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ ५३ ॥ ( कस्यापि) अन्योक्तिः ( गुरुपदम् ) यन्नोपकारकं यन्न भूषणं यत्पुकोपमातनुते । गुरुणाऽपि तेन कार्य पदेन किं श्लोपदेनेव ॥ ५४॥ ( गोवर्धनाचार्य्यस्य) । प्रथमो बिन्तुः (१६) अथ दैवाख्यानम् खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन्दशमनासपं विधिवशाद्विल्वस्य मूलं गतः। तत्राऽप्यस्य महाफलेन पंतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ५५ ॥ (भर्तृहरे)। प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता। अवलम्बनाय दिनभर्तुरभूत् न पतिष्यतः करसहस्रमपि ॥ ५६ ॥ (माधकवेः) अथ प्रकीर्णाख्यानम् निष्कलङ्ककलयैकयाऽपि यः संयुतः स खलु पूज्यते जनैः । भद्र! पश्य जलजोपि धार्यते शंकरण शिरसा निशाकरः॥१७॥ ( शार्ङ्गधरस्य) एके सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन थे। तेऽमी मानुषराक्षसाः परहित स्वार्थाय निघ्नन्ति ये ये तु नन्ति निरर्थक परहितं ते के न जानीमहे ॥ ५८ ।। (भत हरेः) भक्ते द्वेषो जडे प्रीतिररुचिर्गुरुलङ्घनम् । मुखे च कटुता नित्यं धनिनां ज्वरिणामिव ॥ ५६ ॥ (कस्यापि) जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदहातां वह्निना । शौर्य वैरिणि वज्रमाशु निपतत्वर्थोस्तु नः केवलं येनैकेन धिना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ६ ॥ ( भत हरे) (१६२) साहित्य-सुधा-संग्रह गेहं दुर्गतबन्धुभि गुरुगृहं छात्रैरहङ्कारिभिः हट्ट पन्तनवञ्चकैमुनिजनैः शापोन्मुखैराश्चमान् । सिंहाद्यैश्च वनं, खलैर्नृपसमां, चौरैर्दिगन्तानपि संकीर्णानवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥ ६१ ॥ अथ समस्या विजेतव्या लङ्का चरणतरणीयो जलनिधि- विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमबंधीद्राक्षसकुलं क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ॥ २ ॥ (कस्यापि) समस्या । भवति हृदयहारी कोऽपि कस्यापिहेतुः न खलु गुणविशेषः प्रेमबन्धप्रयोंगे। किललयितवनान्ते कोकिलारावरम्ये विकसति न वसन्त मालति कोऽत्र हेतुः॥ ६३॥ अथ जातिः ( महोतः) गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं शृङ्गाभ्यां भीषयन्तावभिमुखमवनिं दारयन्तौ खुराः। मन्दं मन्दं समेत्य स्थिरनिहतपदं दत्तघातौ सरोष युध्येते चालयन्तौ कुटिलितमसत्पुच्छमेतौ महोक्षौ ॥६४॥ ( कस्यापि) प्रथमो बिन्दु (१६३) धेनुः आहत्याऽऽहत्य मूर्धा द्रुतमनुपिवतः प्रस्तुतं मातुरुधः किञ्चित्कुब्जैकजानोरनवरतवलञ्चारुपुच्छस्या धेनुः । उत्तीर्णा तर्णकस्य प्रियतनयतया दत्तहुँकारमुद्रा विस्रसिक्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेडि ॥६५॥ (मयूरस्य) नैयायिक कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदा घोष कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः। प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्याप्सिर्नावति नैव पात्यनुमिति! पक्षता रक्षति ॥ १६ ॥ अथ नीति लक्ष्म्या परिपूर्णाहं न भयं मोहनिद्रषा। परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः ॥ ६७ ॥ (कस्याऽपि) स्त्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते । छन्दः शास्त्र इवास्मिल्लोके सरलः सखे! किमसि ॥ ६८ ।। ( गोवर्धनाचार्य्यस्य) विदपि धैर्यमथाऽभ्युदयेक्षमा सदसि वाक्पटुता युधि विक्रमः। यशसि चाऽभिरुचि र्व्यसनं श्रुतौ प्रकृति सिद्धमिदं हि महात्मनाम् ॥ ६६ ।। यावत् स्वस्थमिदं शरीरमरुजं यावजरा दूरतो- यावान्टियशक्तिरप्रतिहता यावत क्षयो नायुषः ।

कि
साहित्य-सुधा-संग्रहः
आत्मश्रेयसि तावदेध विदुषा कार्यः प्रयत्नो महान
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः॥ ७० ॥
(भत हः)
वाङ्माधुर्यान्नान्यदस्ति प्रियत्वं वाक्पारुष्याञ्चोपकारोपि नेष्टः ।
तद्रव्यं कोकिलेनोपनीतं को वा लोके गर्दभस्यापराधः ॥७॥
(कस्यापि)
यात्यैकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां
लोको नियम्यत इवाऽऽत्मदशान्तरेषु ॥ ७२ ॥
रम्याणि वीक्ष्य मधुराँश्च निशम्यशब्दा-
न्पयुत्सुकीभवति यत्सुखितोऽपि जन्तुः ।
तञ्चेतसा स्मरति नूनमबोधपूर्व
भावस्थिराणि जननान्तरसौहृदानि ॥ ७३ ॥
औत्सुक्यमानमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नाइतिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ७४ ॥
ज्वलति चलितेन्धनो ऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥ ७५ ॥
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वा भविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७६ ॥

प्रथमो बिन्दुः (१६५) आलक्ष्यदन्तमुकुलाननिमित्तहासा- नव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान्वहन्तो- धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ ७७॥ ...... सर्वः कल्ये वयसि यतते भोक्तुमर्थान् कुटुम्बी। पश्चात् पुत्रैरपहृतभरः कल्पते विश्रमाय ॥ ७८ ॥ यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ ७ ॥ पुराणमित्येव न साधु सर्वम् न चापि सर्व नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढःपरप्रत्ययनेय बुद्धिः ॥ ८० ॥ पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः। जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ८१ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् । नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८२ ॥ अर्थ सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ८३ ॥ अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः । अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः॥ ८४ ॥ श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता। यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ ८५ ॥ मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषेणाऽऽविलं पयः॥ ८६ ॥ उपदेशं विदुः शुद्ध सन्तस्तमुपदेशिनः । श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ८७ ।।

साहित्य-सुधा-संग्रहः
छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम् ।
एतानि दष्टमात्राणामायुष्या प्रतिपत्तयः ।। ८८॥
न हि बुद्धिगुणेनैव सुदामर्थदर्शनम् ।
कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलक्ष्यते ॥ ८६ ॥
प्रतिपक्षेणापि पति सेवन्ते भर्तृवत्सलाः साध्व्यः ।
अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम् ॥ ३०॥
(एते कालिदासस्य)
सर्वथा व्यवहर्त्तव्य कुतो ह्यवचनीयता।
यथा स्त्रीणां तथा वाचां लाधुत्वे दुर्जनो जनः ॥ ११ ॥
लौकिकानां हि साधूनामर्थं वागनुवर्तते ।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥ १२ ॥
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
मूर्जिस्थितिर्न चरणै रचताडनानि ॥ १३ ॥
प्रियप्राया वृत्तिविनयमसृणो बाचि नियमः
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्ध विजयते ॥१४॥
वज्रादपि कठोराणि मृदुनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ १५ ॥
न किञ्चिदपि कुर्वाणः सौख्यदुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥१६॥
अन्तःकरणतत्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरेकोऽयमपत्यमितिकथ्यते ॥ १७ ॥
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥ १८ ॥

प्रथमो बिन्दुः (१६७) संन्तानवाहीन्यपिमानुपाणां दुःखानि सद्वन्धुचियोगजानि ।। दृष्ट जने प्रेयसि दुःसहानि स्त्रोतालहरिव संप्लवन्ते ॥ ६ ॥ सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् । पुनरकाण्डविवर्तनदारुणो विधिरहोविशिनष्टि मनोरुजम् ॥१०॥ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयोऽभूत् भद्रा ह्येषां वाचि लक्ष्मीनिषिक्ता नैते वाचं विप्लुतां व्याहरन्ति ॥ १०१॥ अहेतुः पक्षपातो यस्तस्यनास्ति प्रतिक्रिया । स हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति ॥ १०२ ॥ ऋषयो राक्षसीमाहुर्वाचमुन्मन्तदृप्तयोः । सा योनिः सर्ववैराणां साहि लोकस्य निष्कृतिः ॥ १०३॥ कामं दुग्धे विप्रकर्षत्यलक्ष्मी कीर्तिसूते दुह दो निहन्ति । शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥१०४॥ व्यतिषजति पदार्थानान्तरः कोऽपिहेतु- न खलुबहिरुपाधीन् प्रीतयः संश्रयन्ते । विकसति हि पतंगस्योदये पुण्डरीकं द्रवति च हिमरश्माबुद्गते चन्द्रकान्तः ॥ १०५ ॥ न तेजस्तेजखी प्रसृतमपरेषां विषहते स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः । मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो मावा निकृत इव तेजांसि वमति ॥ १०६॥ ते श्रोत्रियास्तत्वविनिश्चयाय भूरि श्रुतं शाश्वतमाद्रियन्ते । इष्टाय पूर्ताय च कर्मणेऽर्थान्दारानपत्याय तपोऽर्थमायुः ॥ १०७ ॥ ये नाम केचिदिह नः प्रथयन्त्यवां जानन्तु ते किमपि तीन प्रतिनैष यतः ।

।
(१६८)
साहित्य-सुधा-संग्रहः
उत्पत्स्यतेऽस्ति मम कोपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ १०८ ॥
यद्वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च
ज्ञानं तत्कथनेन कि नहि ततः कश्चिद्गुणो नाटके
यत्प्रौढत्वमुदारता च वचसां यच्चार्थतो गौरव
तञ्चेदस्ति ततस्तदेव गमकं पाण्डित्यवैदग्ध्ययोः॥ १०६ ।।
बहिः सर्वाकारप्रगुणरमणीयं व्यवहर-
पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति ।
जनं विद्वानकः सकलमतिसंधाय कपटै-
स्तटस्थः स्वानान्घटयति च मौनं च भजते ॥११॥
शास्त्रे प्रतिष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्वमेते गुणाः कामदुधाः क्रियासु ॥१११॥
शान्तिः कुतस्तस्य भुजङ्गशत्रो यस्मिन्निबद्धानुशया सदैव ।
जागर्ति दंशाय निशातदंष्ट्राकोटिर्विषोद्गारगुरुर्भुजङ्गी ॥ ११२ ॥
हरेरतुलविक्रमप्रणयलालसः साहसे
स एव भवति कणत्कररुहप्रचण्डः सखा।
स्फुरत्करटकोटरस्खलितदानसिक्तानन-
द्विपेश्वरशिरःस्थिरास्थिदलनैकवीरः करः॥ ११३॥
कुमुदाकरेण शरदिन्दुचन्द्रिका यदि रामणीयकगुणाय संगता।
सुकृतं तदस्तु कतमस्त्वयं विधिर्यदकालमेघविततिय॑यूयुजत् ॥११॥
तमांसि ध्वंसन्ते परिणमति भूयानुपशमः
सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम् ।
अथ प्रत्यासङ्गः कमपि महिमानं वितरति
प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते ॥ ११५ ॥
अमोघशस्त्र क्षत्रस्य ब्राह्मणानामनुग्रहः ।
दुरासदं च तत्तेजः क्षत्रं यद्ब्रह्मसंयुतम् ॥ ११६ ॥

प्रथमो बिन्दुः (१६६) ... निस्सन्देहविपर्यये सति पुनर्ज्ञान विरुद्धक्रियं । राजा चेत्पुरुषं न शास्ति तयं प्राप्तः प्रजाविप्लवः ॥ ११७ ॥ असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणः । यथा वैद्यस्तथा राजा शस्त्रपाणिर्भविष्यति ॥ ११८ ॥ अन्योन्यमाहात्म्य विदोरन्यैरविदितात्मनोः । विभ्राजते विरोधोऽपि नाम लेहे तु का कथा ॥११६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहावृतम् ॥ १२० ॥ न कम्पन्ते झंझामरुति किल वाति प्रतिदिशं समुन्मूर्च्छत्साराःकुलशिखरिणः किञ्चिदपि ते । न मर्यादां तेऽपि प्रतिजहति गाम्भीर्यगरिम- स्फुरद्वागब्रह्माणोऽकलितमहिमानोऽम्बुनिधयः ॥ १२१ ॥ (भवभूतेः) अन्योन्यप्रीतिकृतां समानरूपानुरागकुलपयसाम् । केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम् ॥ १२२ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ १२३ ॥ कोडीकरोति प्रथमं यदा जातमनित्यता । धात्रीव जननी पश्चात्तदा शोकस्यकः क्रमः ॥ १२४॥ यैरत्यन्तद्यापरैर्न विहिता वन्ध्याऽर्थिनां प्रार्थना यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति। ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता मातः संहर वाष्पवेगमधुना कस्याप्रतो रुद्यते ॥ १५ ॥ मेदोस्थिमजासृङ्मात्रसंघातेऽमिस्त्वचावृते।

(१७०) साहित्य-सुधा-संग्रहः हीपाइन्यस्मादपि मध्यादपिजलनिधेर्दिशोऽप्यन्तात् । आनीयझटिति घटयति विधिरभिमतमभिमुखीभूतः ॥१२७॥ ( हर्षवर्धनस्य) तत्क्षणमपि निष्क्रान्ताः कृतदोषा इव विनापिदोषेण । प्रविशन्ति शङ्कमाना राजकुलं प्रायशोभृत्याः ॥ १२८ ॥ प्रायो यत्किञ्चिदपि प्राप्नोत्युत्कर्षमाश्रयान्महतः। मन्तेभकुम्भतटगतमेति हि शृंगारतां भस्म ॥ १२६ ॥ (प्रियदर्शनिकातः) शून्यमपुत्रस्य गृहं चिरशून्यं यस्यनास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वशून्य दरिद्रस्य ॥ १३०॥ सुखं हि दुःखान्यनुभूयशोभते धनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो यातिनरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥१३॥ दारिद्रयान्मरणाद्वा मरणं मम रोचते न दारिद्रयम् । अल्पक्लेशं मरणं दारिद्रयमनन्तकं दुःखम् ॥ १३२ ॥ सत्यं न मे विभवनाशकृताऽस्ति चिन्ता भाग्यक्रमेण हि धनानि भवन्ति यान्ति । एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवन्ति ॥ १३३ ॥ दारिद्रयाद्धि यमेति ही परिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते । निर्विरणः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १३४ ॥ तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः । तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ १३५ ॥ दारिद्रयात्पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते सुस्निग्धा विमखीभवन्ति मन EETrar- प्रथमो बिन्दु (१७१) सत्वं हासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ १३६ ।। सङ्ग नैव हि कश्चिदस्य कुरुते संभाषते नादरा- त्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेवमहाजनस्य विहरत्यल्पच्छदो लजया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ १३७ ॥ सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनद्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ १३८ ।। (शूद्रकस्य) इति प्रथमो-बिन्दु समाप्तः

Sahiyatya Sudha Sangrah Part I

Author
Shribhawani Prasaden
Title
Sahiyatya Sudha Sangrah Part I
File name
Sahiyatya Sudha Sangrah Part I
Text
OCR done
Citation
1983
Publisher
Shri Wagishwar Vidhalaye
Language
Sanskrit
Pages
185
Library
Bharti Bhawan Library Allahabad
DLI number
273853
Barcode
5990010894300.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
7Adn0WPTouQ
Download PDF

Sahiyatya Sudha Sangrah Part I