Central Library, University Of Rajasthan
Mallinatha Charitra Of Shree Vinaya Chandra Suri Vol.i
Front matter
No text on this page.
YASHOVIJAYA JAINA GRANTHAMALA, 29.
THE
MALLINATHA CHARITRA
1
OF
SHREE VINAYA CHANDRA SURI.
EDITED BY
SHRAVAK PANDIT HARGOVINDDAS
AND
SHRAVAK PANDIT BECHARDAS,
MOST DEVOTED SERVANTS OF
HIS HOLINESS SRASTRA VISHARAD JAINACHARYA
SHREE VIJAYA DHARMA SURI
WITE
TAK PECUNIARY HELP OF
JETHALAL DIPCHAND PARI.
OF
VISNAGAR.
PRINTED AND PUBLISHED
BY
HARSHCHAND BHURABHAI
Proprietor of Dharmabhyudaya Press.
BENARES.
Veer-Era, 2438.
-000:-
Price,
by. OR
1 Snpplical. I Roshah 28-2:6
2 Prias.
IRs 5-00
3 Grant. |RU|OS|6
Cla.
This
6 Alun,
6.
!!
TRIDE
7 11h
8 Ch......
--226 15
प्रस्तावना। अस्य श्रीमल्लिखामिचरितनानो महाकाव्यस्य प्रणेतारः कविचक्र- शकाः कुन्देन्दुकीर्तय आगमगगनगगनध्वजाः श्रीविनयचन्द्रसूरयः के !, कीदृशाः ?, कं च लोकं कदा खचरित्रपावित्र्येण - पावयांच- क्रिवांसः ?, इति जिज्ञासमानस्य जिज्ञासाऽस्यैव काव्यस्य प्रशस्ति- प्रतिष्ठितश्लोकान् दृष्टैवोपशाम्यति; तथाहि- तमोपहारी सवृत्तो गच्छश्चन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चके कदाचन ॥१॥ तसिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभन्यवान्छः। यत्पञ्चशाखः किल कल्पवृक्ष- श्छायां नवीनां तनुते जनानाम् ॥ २॥ यत्पाच किल देवता त्रिभुवनस्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गिन्तव वचसा पद्धैव कृटेव च । सौभाग्याभूतवैभवो भवमहाम्भोराशिकुम्भोद्भवः श्रीमानन स मानतुङ्गगणभृशन्धादविद्यापहः ॥ ३ ॥ यस्योः परिपाकपेशलतरां तृति प्रदत्तेऽङ्गिना व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमप्यविकलं यस्याः सुखं निस्तुपं श्रीमानेप रविप्रमः स विजयी स्वासूपकारः परः ॥ ४ ॥ विविधप्रन्थनिर्माणविरचिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् कंचित् ॥ ५ ॥ श्रीमदैवततुङ्गशैलशिखरे सुध्यानीनायुपा स्वायुःकर्मतरुपपातवशतो लेभे गतिस्ताविषी ! १ देवी।
( २ )
भव्यत्रातमनःकुराशमकृत् तत्पभूपाकरो
रामः श्रीनरसिंहसूरिरभवत् विद्यानयीपावनः ॥ ६ ॥
नित्यं यः समितौ रतः कलयते सद्गुसिशक्तित्रय-
सातत्यं बतपश्चवल्लभलसद्गन्धर्वगर्वाधुरः ।
'श्रीमत्पूज्यरविप्रमाविकसत्पक्षमालंकृतिः
साक्षादेप नरेन्द्र एव जयति श्रीमनरेन्द्रप्रभः ॥७॥
दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रेकुले विश्रुतो
देवानन्द इति प्रसिद्धमहिमोहामा मुनिप्रामणीः ।
'अष्टव्याकरणाम्बुधीन निरवधीन शब्दोमिमालाऽऽकुलान्
यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोचकैः ॥ ८॥
'तच्छिप्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः
पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिर्मूर्तिमान् ।
तत्पादाम्बुजचञ्चरीकचरितः प्रधुम्नसूरिनंव-
प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥ ९ ॥
'पूज्यश्रीरव (1) सिंहसूरिसुगुरोः श्रीमनरेन्द्रप्रमो-
रादेशाद् विनयापार्थचरितस्रष्टाशया (१)।
गच्छोसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि
सूरिः श्रीविनयेन्दुरेप विदधे मल्लेश्चरित्रं नवम् ॥ १०॥
क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासन
(1) शस्यीमंद पनजपरीपोपक्षमं वर्धते ।
एतद् नीरवृन्दसुन्दरतनोः श्रीमल्लितीयेंशितुः
प्रोद्दाम रसपूरचारुचरितं तावचिरं नन्दतात् ॥११॥
आपादयति चात्रायें तैरेव निर्मितस्य कल्पनिरुक्तनानो प्रन्थस्स
पाश्चात्यः कियानंशो विशेषतो दार्थम् । स चायम्-
"सैदान्तिकनीमुनिचन्द्रशिष्याः
प्राज्ञा अनूचानवरा जयन्ति ।
श्रीरयसिंहालयसरिमुगया
परिछन्यलेसो विनयेन्दुसूरिः ॥ १ ॥
श्रीविक्रमात् तत्त्व-गुणे-न्दुवर्षे ( १३२५:) चूण्यादि. वीक्ष्य स्वगुरोर्मुखाच.। ज्ञाव्याऽनघं पर्युपणाभिधाने कल्पस्य किंचिद् विदधे निरुक्तम् ॥ २॥ किञ्च,, श्रीधर्मविधिग्रन्थवृत्तिविधायकाः श्रीउदयसिंहसूरयोऽप्ये- तानेवाचार्यवर्यान् महाकवित्वेन ग्रन्थशोधकशिरोमणित्वेन च प्रख्या- पयन्ति, तथाच. धर्मविधिप्रशस्ति:- "स श्रीमाणिक्यप्रभगुरुसेवी स्वगुरुबन्धुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११.॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमण्डनमरालः । वृश्चिमशोधयदेनां महाकविविजयचन्द्राख्यः ॥ १२ ॥ या. शासनपुष्पिरा जननीवद् भव्यसंतति पाति । सा श्रीशासनदेवी शिवतातिर्मवतु संघस्य ॥ १६ ॥ रस-माल-सूर्य(१२८६)-मिते वर्षे श्रीविक्रमादतिक्रान्त.। चक्रे चन्द्रावत्यां वृत्तिरिय संघसानिध्यात् ॥ १७॥". एभिः सकलैः प्रमाणैरेषां सूरिवराणां समयो द्वादशशताव्या- दिभूतस्त्रयोदशशताब्द्यन्तमूतश्चेति नितरां निश्चीयते ।। सरसं. समुपवर्णितं चात्र गगनकुसुमायमानमनोमनोस्थलक्षजल- संकुलं दम्भस्तम्भानेकनकचक्रचक्रवालबलप्रबलं दुःखात्मनैकदुष्करमकर- प्रकरप्रपूरितं मिथ्याहंकाराकारभूरिभूधराधृप्यकूटविकटं सर्वत्र. दुर्योध- क्रोधप्रसर्पसरीसृपसर्पणभीषणमनादिगभीरापारसंसारपारावारं संशोप्य, संभूण्य च ख. निखिलनिर्मललोकाऽलोकलोकिन्या. विज्ञान श्रिया, प्रति- छाप्य. चः सकललोकाऽमितहितावह संसारोचारक. तीर्थम्, प्रतिबोध्य च. माढमिथ्यात्वनिशानिद्रावशीभूतप्रभूतभूतगणान् , इत्तार्य च.कांश्चन संसारसागरात् , प्रापय्य च प्रवरशिवनगरनिकटम् ,. परमामनश्वरी- मितरदेवदवीयसीं गरीयसी पदवी प्राप्तानां. श्रीमल्लिस्वामिजिनेश्वराणा- मामूलचूलमदम्रपापानधवित्रं. पुष्करारिष्टमललवित्रं. निसर्गगुणगणप- ( ४ ) वित्रं चरित्रम् | अन्तर्भावितानि चात्र श्रीमल्लिमित्रषटककथानकानि । अन्या अपि लोकप्रबोधविधायिन्यो बयः कथाश्व व्यावर्णिताः । तत्र तत्र चानुरूपं सुन्दरं सकलरसावर्षि संवर्णनमपि पाठकहृदयकोशप्रवेशं प्रापितम् । समावेशितानि चात्र महाकाव्यनिखिललक्षणानि । इति सर्वैरेव प्रकारैरथं चरितग्रन्थः चरितग्रन्थेषत्तमं स्थानं लम्भितः । इमे चाचार्यपूज्या अन्यानपि. कल्पनिरुक्त-श्रीपार्श्वचरितप्रभृतीन् अन्थान् जग्रन्थुः, व्यशूशुधश्च धर्मविधिवृत्तिप्रमुखानल्पग्रन्थान् । एतेषां च सूरिवराणां ग्रन्थग्रन्थितृत्वं ग्रन्थशोधकत्वं चेदमुमयं वदपूर्वादूप्य- वैदुप्य-लोकोपकारकत्वाऽन्यथानुपपद्यमानं तेषां परमकारुणिकत्वं सक- लशास्त्रनिष्णातत्वं च स्पष्टं निष्टकयति । संशोधकाश्चास्य शोधकप्रकाण्डतां गताः श्रीप्रद्युम्नसूरयः, येषां शोधननैपुण्यं वहवः कविकुञ्जरा व्यावर्णयांबभूवांसः। अतोऽपि चरित- १ यदाह धर्मकुमारपण्डितः स्वीये शालिभद्रचरित्रे प्रतिप्रक्रमम्- "श्रीशालिचरिते धर्मकुमारसुधिया कृते । श्रीप्रद्युम्नधिया शुद्ध" अन्त्यप्रक्रमेच- "इयं कथा वृद्धकुमारिकेव सदूपणा भूपणवर्जिताऽऽसीत् । प्रान्नदेवस्य परं प्रसादाद बभूव प्राणिग्रहणस्य योग्या" ॥ १५३ ।। तेषां च श्रीविनयचन्द्रसरिकृन श्रीमल्लिनाथमहाकाव्यम् , श्रीप्रभाचन्द्राचार्यवि.. रचितं श्रीप्रभावकचरित्रम् , श्रीदेवेन्द्रमूरिप्रणीतः श्रीउपमितिभवप्रपञ्चकथासारोद्धारः, श्रीरत्नप्रभत्रिविहिता श्रीकुवलयमालाकथा, श्रीवालचन्द्रमूरिनिर्मिता श्रीउपदेशक न्द टीका श्रीविवेकमजर्राटीका, श्रीउदयप्रभसूरिरचिता उपदेशमालाकर्णिका- टीका चेत्यादितात्कालिकबहुप्रन्यानां संशोधकत्वेन अन्यसंशोधननैपुण्यम् , श्रीसम- रादित्यसंक्षेपादेः खतन्त्रं संविधानेन च शास्त्रवशारद्यं च सुतरां प्रतीतम् । ये पुनस्तदानान्तनाचार्यबाढं संमानिता बभूवुरित्यपि श्रीमानतुझाचार्यविरचितधीरे- यांगनायचरित्रान्तर्गतन- "शिष्यः श्रीकनकप्रभस्य मुकविः श्रीबालचन्दानुजो ज्यायान् श्रीजयसिंहतः प्रतिमया श्रीवस्तुपालस्तुतः । अम्महोत्रमहत्तरः कविगुरुः प्रद्युम्नमूरिप्रभु विद्वत्वृन्दविन्त्रशोधनधनो प्रन्यं मुदाऽशोधयत्" ॥१॥ दति पचन व्यकमात्रिभवति । .
4 ४ ( ५ ) मिदं विशेषेण महत्त्वमचकलत् । एतस्य श्रीमल्लिचरितस्य पुस्तकचतुष्टयमावां प्राप्तवन्तौ, तदर्थ च तदर्पयितॄन् नामग्राहमभिवन्दावहे- १ श्रीमल्लिचरितमसद्गुरूणां श्रीशास्त्रविशारदजैनाचार्यश्रीविज- यधर्मसूरीणां शुद्धदेश्यम् । २ "" पुण्यपत्तनस्थडक्कनकॉलेजाख्यपुस्तकालयस्य, नात्यशुद्धम् । ३ ॥ " मुनिमोहनलालजिपुस्तकालयस्य, अशुद्धम् । स्तम्भनपुरस्थधर्मशालाभिधभाण्डागारस्य, अपूर्णम् , शुद्धप्रायं च । तदेवं पुस्तकचतुष्टयमाश्रित्य संशोधितम् , तत्र तत्र पाठान्तरित च चित्ताहादकमिदं चरितं सकर्णा निजविमलनेत्रसन्निकर्पाद् नाय- यन्तु स्त्रीयनेत्रे पावित्र्यम् । पठित्वा चैतत् त्यजन्तु कपटनाटकपाट- वपटं पटवः, मुनयश्च लोकयन्तु कर्मनरपतिवैचित्र्यम् , मुच्यतां च सकलो लोकः, उत्साहयन्तु चासत्परिश्रान्तिम् , संशोधयन्तु सूचयन्तु च मतिमान्यसहभूनि दृग्दोपहेतूनि सीसकाक्षरयोजकजातानि च दूष- णानि हंसन्तः समन्ततः सन्तः । अस्य च मुद्रणादिव्ययदातुः परमोदारश्रीश्रेष्ठिप्रवरगोकुलभाइतनु- जनुपो वदान्यवरेण्यस्य श्रीश्रेष्ठिवरमणिलालस्य परमं धन्यवाद समर्पयावः । इति निवेदयतो- हरगोविन्द-वेचरदासौ।
No text on this page.
अनुक्रमणिका। सर्गः। विषयः। पृष्ठम्। १ मङ्गलाचरणम्। ग्रन्थोपक्रमः। प्रत्येकवुद्धश्रीरनचन्द्र-सत्यहरिश्चन्द्रनिदर्शनयुक्तः श्रीबल- नृपतिबोधः । ४६ २ दान-शील-तपो-भावनासु जिनदत्त-वनमाला-श्रीविद्याविला- सक्षितिपति-श्रीदृढप्रतिहारिमहर्षिकथासहितः श्रीमहाबलराजर्षि- अचल-धरण-पूरण-वसु-वैश्रमणा-अभिचन्द्रदीक्षामहोत्सवः । ९७ ३ अन्तरङ्गदेशनासनाथं प्रथम-द्वितीयजन्मवर्णनम् । ११७ ४ च्यवन-जन्मकल्याणिकद्वितयवर्णनम् । १३४ ५ दीक्षाकेवलज्ञानोत्पत्तिकीर्तनम् । १६० ६ सम्यक्त्वफले महासत्या दवदन्त्या वर्णनम् । २०२ सम्यक्त्वपुरःसरप्राणातिपातादिवतेषु सुदत्त-सुबन्धु-सङ्गमक- सुदर्शन-भोगदत्त-मित्रानन्द-भीम-भीमसेन-लाभनन्दि-तारा- चन्द्र-चन्द्रावतंसक-धनसेन-शिखरसेन-चन्दनबाला-फलनि- दर्शनम् । २९१ ८ आस्तिकनृप-चित्रकुम्भ-नरदेवपाल-गोपाल-यज्ञदत्त-चिलाती- पुत्रचण्डरुद्राचार्यशिष्य-कुलध्वजमहर्षिकथानकसमन्वितमो- क्षाभिधानम् । ३३६
No text on this page.
ilianimirmirritaमः । मल्लिनाथमहाकाव्यम्। प्रथमः सर्गः । पराजयमः गर्गमगंधागकारणम् । भान गंणा प्राणन जमनाद मनमः ॥ १ ॥ सम्मानन गिनगानालिपीनभवादभिः । श्रीमन्मालिनिनो भूमान पापरानापिनापनः ।।२।। जमहीनी दिनदपि समाभारक्षमाउजनि । प्राश्रयायम्य म न्यानः धियं पायजिनभरः ॥ ३॥ चन्दारकारनकार्गनानुम्बिनाः । जोगामुनग्नावस्य कमद्वन्दनम्वन्दवः ॥ ४ ॥ अन्यानपि गनवामान मन्लायानं विमलानलम् । नापि मुक्तावलीमध्यनायकान जिननायकान ॥ ५॥ विपद्यपि निनानां गांजगहोचरचारिणी । सानागहिनी में स्यानचपीयूपवपिणी ॥ ६ ॥ रजासांदपयांई श्रीविद्यायावनंसकम् । प्रणाम्यई भत्रांद्यानभगनागं गुरुं स्वकम् * ॥७॥ जगन्त्रस्य यस्यने किनराम्त सुरंधराः । तं जिगाय जिनी पार कामारपि जवनं यः ॥८॥ तस्य श्रीमल्लिनाथस्य जगन्नाथस्य पावनम् । श्रोतांप्रमुधासत्रं सच्चरित्रमुदीर्य्यते ॥९॥ (गर्णाश्रयमित्यपि (२)-नमलान-इत्यपि (३) जितेन्द्रिय इत्यपि । * आद्यान्त्याक्षरगुंगनीम कः शोधयितुश्च विप्रभ, श्रीकनकम् । -- AASHN--- M- मल्लिनाथमहाकाव्य- श्रीषष्ठाङ्गादिदं चित्रमहं ग्रगामि माल्यवत् । आरामिक इवारामादुचित्य सुमनोभरम् ॥ १० ॥ जम्बूद्वीप इति द्वीपः. कनकाचलकर्णिकः । स्पष्टाष्टदिग्दलाकीर्णः प्रोभिद्रशतपत्रति ।। ११ ।। तत्रापरविदेहेषु विजयः सलिलावती । वीतशोका पुरी तत्र वीतशोकजनाकुला ।। १२ ॥ प्रवन्धाः पुष्करिण्यश्च गम्भीरपदसंक्रमाः । राजन्ते यत्र सरसाः कविमूत्रभृता कृताः ॥ १३ ॥ परोपकारमगुणा उत्तमः प्रियम्बदा । धैर्यवन्तो जना यत्र सुषमाकालजातवत् ।।..१४ ।। अंवृद्धिवारिधेरेव निष्कोशत्वमसेरपि । दानच्छेदो गजस्यापि न यस्यां पौरुषेष्वभूदः ।। १५ ॥ वलो नाम नृपस्तत्र वलेन वलसूदनः । वैरिवारवलोन्माथी ऋद्धया वलिनिषूदनः॥१६॥ अम्भोधिना गभीरत्वे पारीन्द्रश्च पराक्रमे । कल्पक्षितिरुहेर्दाने जाने यस्याघमर्ण्यते ॥ १७॥ आकार एव यस्यांच्चैः शशंस प्रभुसम्पदम् । छत्रचामरकोटीरहारमभृति तु स्थितिः ॥ १८॥ विल्यसराजहंसानां विकस्वरसरोजिनी वशीकरणविद्येव शृङ्गाररसयोगिनः ॥ १९ ॥ देव्यस्य धारिणी नाम शीलालङ्कारधारिणी। सारिणी गुणवल्लीनां चातुर्यरसहारिणी ॥२०॥ (युग्मम् पुर्यामन्यगुरुद्याने वने नान्नेन्द्रकुजके । रत्रचन्द्राभिधोऽभ्यागात् मुनिर्दोपान्धकारभित् ॥२१॥ यस्यासन्नसरस्तीरपादपाः प्रतिविम्विताः । (१) योगिनीत्यपि। ।
मयमः सर्गः भान्ति वारिणि सर्वाङ्ग नीरं पातुमिवातुराः ॥२२॥ पुप्पाक्षतविहस्तैर्द्धहस्तद्विजलीलया। मन्त्रोच्चारमालिवानस्तनुतेऽभ्यागतं प्रति ॥ २३ ॥ नक्षत्ररिव सन्मित्रैस्तदुद्याननभोगणम् । राजा समागमन्नेत्रकैरवस्मरतागुरुः ॥ २४ ॥ (विभिर्विशेषकम् ) तस्मिन् वीक्ष्य मुनेरूपं स्वरूप दिवसेशितुः । उत्फुल्लवदनो नत्वा राजा पमच्छ सादरम् ॥२५॥ रूपेऽप्यपतिरूपेऽस्मिन् लावण्ये च समुज्ज्वले । कथं त्यका गृहस्थत्वं भवद्भिर्जगृहे व्रतम् ।। २६ ॥ योतयन्निव दन्तांशुडम्वरैरम्बरान्तरम् । रजेन्दुभंगवानेवं व्याजहार मनोहरम् ।। २७॥ असारेऽमुत्र संसारें सर्वमेव विरागकृत् । विशेषतोऽपि चास्माकमिदं वैराग्यकारणम् ।। २४ तथाछत्र विदेहाख्ये क्षेत्रे कुरुविभूषणम् । पुरं चन्द्रपुर नाम वासोका सर्वसंपदाम् ।।२९ ।। वसुभूतिर्नुपस्तत्र महातेजाः परन्तपः । तस्य रत्नावली देवी रनचन्द्रस्तयोः सुतः ॥३०॥ अन्येचुरश्ववाहिन्यां गतो नृपतिनन्दनः । उच्चैरुच्चैःश्रवस्तुल्य निर्मासमुखमण्डलम् ।। ३१ ।। लघुस्तब्धश्रवोयुग्म पीनं पश्चिमपार्चयो। दशावर्तमनोज्ञाझं मनोवेगातिवेगिनम् ॥ ३२ ॥ दक्षश्चतुष्पकारासु धारासु क्रमयन् क्रमान् । अवास्यद्धयं चार लातपातादि कारयन् ॥ ३३॥ (पिभिर्विशेषकम् ) ४ मल्लिनाथमहाकाव्ये- आरूढः पञ्चमी धारांमुढः प्रौढविक्रमः | जवं चकार चतुरं वाजी वाजर्जितानिलः ॥ ३४ ॥ स्फुरत्खुरपुटोड्डीनरजःसङ्गमपि त्यजन् | अङ्गमालिन्यभीत्येव रभसा नभसि ब्रजन् ॥ ३५॥ सरित्पुरगिरिग्रामसमुल्लइनजाडिका । जगाम काननं क्रीडत्पश्चाननभयानकम् ॥ ३६ ।। रत्रचन्द्रं समुत्तीर्णे तत्पृष्ठायसनादिव । चित्रमेकोऽपि स पाप पश्चत्वं दूरलनात् ॥ ३७॥ क सा राज्यस्थितिः कैषा महावनविभीषिका । क च वन्दिजनोल्लापः क चेदं व्याघ्रबूत्कृतम् ॥३८॥ अथवा क्षीणपुण्यत्वादित्यं सम्पद्यतां मम । नहि त्यक्ष्यामि धीरत्वकङ्कट सङ्कटे स्फुटम् ॥३९॥ इत्यं विचार्य सद्धैर्यपरिच्छदपरावृतः । चचाल पादचारेण महारण्ये नृपाङ्गजः ॥४०॥ हा तात ! तात हा! भ्रातही भ्रातर्भुवनोत्तम!" खण्डशः खड्गयष्टयाऽहं क्रिये सूरणकन्दवत् ॥४१॥ नेयं वीरप्रसूः क्षोणी नापि संक्रन्दनादयः । लोकपाला यथार्थाख्या हन्ये यदबला बलात् ॥४२॥ रवचन्द्र गतः कापि ममाभाग्यैर्भवानपि । यन्मां व्यसनमापन्नां न रक्षसि मृगीमिव ॥ ४३ ॥ सर्वानेव दैवज्ञ ! यत्त्वयाऽऽख्यायि मे पितुः । सुप्तपलपितं तत्कि किंवा ते मतिविभ्रमः ॥४४॥ सुदती रुदतीमेकामित्थं स करुणस्वरैः। रोदयन्तीमरण्यानी प्रतिशब्दैः सखीमिव ॥४५॥ श्रुत्वा भूमीपतेः मूनुर्निदध्याविति मानसे । (१) इय इत्यपि।
प्रथमः सर्गः।
.
केयं रोदिति सत्रासं निर्वीरेव वराकिका ॥४६॥
उच्चचार कथकारं मन्नाम प्रकटाक्षरम् ।
सहक्षाण्याभिधानानि श्रूयन्ते वाऽवनीतले ॥४७॥
पर देहव्ययेनापि सवलैरबलाजनः ।
त्रातव्योतिप्रयत्नेन क्षत्रियार्थ वितन्वता ॥४८॥
विमृश्यति करे कृत्वा पाणं सकृपाशयः ।
स्वरानुसारतस्तस्या दधावे क्रोधदुर्धरः ॥ ४९ ॥
प्रज्वलत्खदिरागारपूर्णकुण्डतटस्थिताम् ।
कण्ठपीठधृतारक्तकरवीरस्रजं पुरः॥५०॥.
बद्धपाणिपदद्वन्द्वां सूनानीतामजामिव ।
भयलोलदृशं चिल्ली श्येनचञ्चुगतामिव ॥५१॥
अद्राक्षीदवलां बालामालानितवशामिव ।
कपालिनं च धारालकर्तिकानर्तनोद्यतम् ।। ५२ ।।
(त्रिभिर्विशेषकम्)
तमूचे च विमर्याद ! रे रे कापालिकाधम !!
अशरण्यामरण्ये किमेनां हन्तुं समुद्यतः १ ॥५३ ।।.
रे पहर्तुमिमां पाप ! कथमुत्सहते मनः ।
अथवा पापकुम्भस्ते तूर्ण पूर्णोऽद्य विद्यते ॥५४॥
तन्मन्ये तव निर्लज्ज ! भुजौजा शिष्टगर्हितम् ।
यदीशे जने दीने प्रजिहीर्षुः प्रवर्तसे ॥५५॥
इत्युक्तिव्यक्तिमाकर्ण्य कर्णायःसूचिसूचिकाम् ।
उधावेतरां योगी भीमः कल्पान्तभीमवत् ।। ५६ ॥
कटुवाक्यगिरां कल्पः शिक्षितोऽध कुतस्त्वया।
आविरासी ध्रुर्वधात्र्यां यदि वा त्वत्त एव सः॥५७॥
रे वीरखेटवाचाट! याहि दृष्टेन वर्त्मना।
यदि वैष खभावेन परताप्तिपरो जनः ॥ ५८॥
मल्लिनाथमहाकाव्ये- विक्रमककथाव्यासश्चन्द्रहासो ममोज्ज्वलः । सकल्मषाणां तद्वाचामाचारं शोधयिष्यति ।। ५९ ।। इत्युक्तवति सत्यस्मिन् रत्नचन्द्रोऽवदचथा । मुश्च घातं तथा चक्रे योगिनाऽन्योऽप्यवश्चयत्।। ६० ।। कापालिकाहारेऽथ वितथे रत्नचन्द्रमा । तदायुःकमलं खड़गधारांशुभिरमीलयत् ॥६१॥ विच्छिद्य बन्धसम्बन्ध प्रेमवन्धं प्रपश्चयन् । उवाच कन्यकामेनां कुतस्त्वं कास्ययं च कः ? ॥६२॥ तद्वीक्ष्य जातमन्दाक्षा पद्माक्षी साऽब्रवीदिति । समस्ति नगरी चम्पा गतकम्पा रिपुव्रजात् ॥ ६३ ॥ तस्या भूमिपतिः शङ्गः शशशुभ्रगुणोज्ज्वला। पोव पद्मलेखेति तस्य देवी पतिव्रता ॥ ६४ ॥ तयोरभूवं तनया नानाऽहं पद्मलोचना । उन्मथ्य वाल्यपायोधि प्रपन्ना यौवनश्रियम् ॥६५॥ मौहूर्तिकं शुभं नाम शुभाशुभविशारदम् । अन्येषुः शङ्खभूपाला पर्यपृच्छत् कलानिधिम् ॥६६॥ को नामास्याः पतिर्भावी रूपेण वयसा समः । खेचरः क्षितिचारी वा विचिन्त्य मम कथ्यताम् ॥६७॥ अभ्यधादथ दैवज्ञः सम्यग्ज्ञानवलेन सः। कुरुदेशे पुरे चन्द्राभिधाने सनिकेतने ॥६८॥ वसुभूतेः सुतो रनचन्द्रस्तन्द्राविवर्जितः । परिणेप्यति ते पुत्री रोहिणीमिव चन्द्रमाः ॥६९॥ एवं शुभगिरः श्रुत्वा मित्रभूतिं पुरोधसम् । वरीतुं रत्रचन्द्रं स्म पहिणोति महीपतिः ॥७॥ इति कापालिकोऽप्येप जालकान्तरवर्जिनीम् । दृष्ट्वा मां कृत्रिमः पुत्रैः क्रीडन्ती ससखीजनाम् ।।७१।।
प्रथमः सर्गः। ७ पमिनीमिच मातङ्गः करेणाभ्यासवर्तिनीम् । अपाहापीदयं पापः पूर्ववरस्मृतेरिव ॥७२॥ (युग्मम्) अभ्यर्धिता ततोऽत्यन्तं न मन्ये तद्वचो यदा। तदाऽनेनातिपापेन प्रापितास्मीहशी दशाम् ॥७३॥ ततो रोदितुमारब्धा विरसः करुणस्वरैः। विधुरे रोदनादन्यन्न भीरुणां वलं किल ॥७४॥ स्वयमव विजानासि परन्तप! ततः परम् । निजेन तु चरित्रण पवित्रय गम श्रुती ।।७५।। अभ्यधादय रत्नेन्दुः स्मितशुभ्ररदद्युतिः । अहं चन्द्रपुरे रनचन्द्रस्यास्मि परिग्रहे ॥७६ ।। कल्याणि! त्वां तदादेशादायातस्त्रातुमातुराम् । एतस्य शासने शक्तिस्तस्यवेयं प्रगल्भते ॥७७॥ तया विशिष्टचेष्टाभिलक्षणरपि लक्षितः । रत्नचन्द्रः स एवायमिति स्वं गांपयन्नपि ॥७८॥ भवेदन्यस्य कस्येदं वीरव्रतमनुद्धतम् । यतो मां त्रातवानस्माद्योगिनो भोगिनो यथा ॥७९॥ ध्यात्वत्युवाच सा रत्नचन्द्रसुद्वीक्ष्य विस्मिता। गतोऽस्त्यानेतुमेधांसि वीरशिष्योऽस्य योगिनः ॥८॥ अत्यर्थमसमर्थः संश्छलेन च वलेन.सः । किश्चिदत्याहितं कुर्यात्तदपक्रमणं कुरु ॥८१ ॥ युक्तियुक्तमिति प्रोक्तस्तयाऽऽतङ्कद्धचित्तया। प्रेम स्थैमानमानेतुं मेने तस्या वचस्ततः ॥८२॥ शक्त्येवासक्तया साकं तया क्षितिपतेः सुतः । प्रचचालाचलं प्रीत इतश्चास्तमगादविः ॥८॥ अञ्जनादेरिवोद्भुतः पातालविवरादिव । सूचीभेधस्तमस्तोमः प्रससार रसां प्रतिः ॥८४
८
?
मल्लिनाथमहाकाव्ये-
अमूकघूकधूत्कारैरटन्ति मलिनाननाः ।
अस्तं गते रवौ नाथे दिशः शोकाकुला इव ॥८५।।
विश्वमित्रे जगन्नेत्र परलोकमुपेयुषि ।
तमोमिः पर्यपूर्य्यन्त लोचनानि तदागिनाम् ।।८६॥
कासारेभ्यः शशाङ्केन मुष्यन्तें कमलाकराः ।
जडात्मकानां गेंहेषु न हि श्रीः स्यायिनी चिरम् ।।८७॥
ततः कुमारो रत्नेन्दुर्दुस्तरे वंशगहरे ।
शाययित्वा विशालाक्षीं तस्य द्वारिस्थितः स्वयम् ।।८।।
विभातायां विभावर्या यावदाह्वयति प्रियाम् ।
ददौ मत्युत्तरं शैलः प्रतिशब्दैन सा पुनः ।।८।।
मदीया दयिता हन्त ! न वेनि च्छद्मसमना ।
हहा केनापि पापेनापहताऽपहृताऽथवा ? ॥९॥
कुतोऽश्वेनापहारो मे कुतश्चास्याः समागमः ।
अपहारः कथं चैष अर्द्धस्थादपि जाग्रतः १ ॥९१ ।
अथवा पुण्यनिर्णाशे जायते सर्वमीदृशम् ।
विधिरेव प्रगल्भोऽत्र कृते योगवियोगयोः ॥९२।।
एवं विमृश्य रत्नेन्दुश्चलितः काननोदरे ।
आराममिव धर्मद्रोनिधानमिव सम्पदाम् ॥९३ ।।
पिधानमिव दुष्कर्मविरोचननिकेतने ।
ददर्श देवधामैकं विस्मयोत्फुल्ललोचनः ॥ ९४ ॥
मध्येचैत्यं प्रविष्टोऽसौ प्रमोदमिव देहिनाम् ।
निदध्यौ तीर्थकृद्विम् इंग्मृगीपाशवन्धनम् ।।९५॥
प्रणय परया भक्त्या वीतरागं जगद्गुरुम् ।
अभ्यगान्मण्डपे चारुदन्तपश्चालिकाटते ।।९६।।
इतश्चागानरः कोपि जराजर्जरविग्रहः ।
कॉपीनवसनः क्षामः क्लिन्नतिन्नो मलेन च ॥९७ ॥
raneमराषितः । mt: ific tristian पER!..॥ ग:। Mirrfar ॥ wity: समान १॥ r::RATमानः । मन:॥२॥ मनमामि मलका लगानि ॥३॥ मन माननामाः । माँगनमानापान ५॥ निमामि नमः। मा मार्ग नाय ने ॥ ५ ॥ गापि मागं माग निधिपरक । सनमारमा मानियागनम् ॥ ६ ॥ गनः में माना गपि मागन्निये न यान्नि परं पदम् । मपि नमकार म्मा म्यारं मनम्मगाः ॥७॥ नमस्कारः पिता पाना नमस्कारः परी गुरुः । नमस्कारः प्रिय मित्र नपस्कार: गुलं बलम् ॥८॥ आयान्नि गम्य माहात्म्यादाकटाइन सम्पदः। विषय विनश्यन्ति ध्रुनग्यि वामनाः ॥ ९ ॥ नमान्दादिभ्य नि पहामन्त्रं पवित्रधीः ।
मल्लिनाथमहाकाव्ये- अपठच्छावकाभ्यणे शुद्धवर्ण यथाविधि ॥ १० ॥ अथ भोवाच. गन्धारः; समयेऽस्मिन् सखे ! मम । कर्णयोनिकटस्थेन प्रदेयः प्रकटाक्षरम् ।। ११ ।। आमेति भाषिते. तेन गन्धारः श्रावकोत्तमः । अकरोत् त्रिविधाहारपरीहारं यथाविधि ॥ १२ ॥ कर्णाभ्यासनिषण्णेन सुस्वरं नृपसूनुना । दीयमानेषु शुद्धेषु नमस्कारेषु भावतः ।। १३ ॥ समाधिध्यानमाधाय श्रद्धासंशुद्धमानसः। देवभूयमगादेष गन्धारः पञ्चमेऽहानि ॥१४।। (युग्मम्) रत्नेन्दुः प्रेतकार्याणि कृत्वाऽस्य निजबन्धुवत् । तस्माच्चचाल पूर्वाशामुद्यमी देवतासखः ॥ १५ ॥ सिच्यमानतळं मुग्धतापसैः कुटवाहिभिः । क्रीडन्मृगागनाग्राम नीवारै राजिताजिरम् ॥ १६ ॥ इङ्गुदीतैलनिर्माणव्यग्रतापसकन्यकम् । तिम्यत्तारवतन्तूनां मालया राजितोटजम् ॥ १७ ॥ चेदिकामार्जनानिष्ठऋपिपत्नीमनोहरम् । अपश्यदाश्रममसौ दृक्चकोरीहिमद्युतिम् ॥ १८ ॥ (त्रिभिर्विशेपकम् ) तत्र प्रविश्य भूपालतनयो विनयोज्ज्वलः । भक्त्या कुलपति नत्वा निपसाद विनेयवत् ॥१९॥ इतश्च तापसद्वन्दे प्रणन्तरि कृताञ्जली । पप्रच्छ तापसस्वामी स्वागतं प्रीतिकार्मणम् ॥ २० ॥ अथ तावृचतुः पूज्य ! स्वागतं त्वत्प्रसादतः । अस्मन्मुखेन वः पादान् शङ्खराजो नमस्यति ॥२१॥ मुखेन तत्र संमाता पित्रोर्नेत्रसुधा प्रभो! । नमत्यम्मदिरा युप्मचरणी पद्मलोचना ।। २२ ।।
प्रथमः सर्गः निशम्य शहनामादि वभापे रनचन्द्रमाः.। कोऽयं शङ्कमहीपाल का वयं पदमलोचना ॥२३॥ प्रत्यवादीन्तुलपनिश्चम्पायां पुरि शहराद । तन्याभूनन्दिनी नेत्रानन्दिनी पद्मलोचना ।। २४ ।। इतश्च नचिद्रालापहता जालकान्तरात् । न भरदन्यथाभावः पूर्वोपार्जितकर्मणाम् ।। २५ ॥ एतस्यां न्यमानायां रत्नचन्द्रः कुतश्चन । समागात्तत्र युद्धन योगिनं तं जघान च ॥ २६ ॥ नृपपुत्र्या तया सार्द्ध चलितो वमुभूतिजः । निशि वंशदरीकोणे तां कृत्वा द्वारि सोऽस्वपत् ॥ २७॥ इतश्च योगिशिप्येण पदिकनेव गरे । समागत्यापजड़े सा द्वारं निर्माय पश्चिमम् ॥ २८ ॥ कण्ठपीठे स्वसिचयाञ्चलेन सुरभीमिवः। गहराचालयामास विनिद्रां पद्मलोचनाम् ॥ २९ ॥ कियन्मार्गमतिकान्ते घमापे योगिसेवकः । अरे रे । तव किं कुर्वे मद्गुरोः प्राणघातिके ॥३०॥ अथोचे भूपतिसुता दधती हदि धीरताम् । तनिर्मिमीय वेगेन यत्ते सङ्गतिमङ्गति ॥ ३१ ।। प्रत्यवादीदसौं वाले 1 जीवित न हरामि ते । सिद्धमन्त्रौपधीविधं यदि मां परिणेष्यसि ।। ३२ ।। इदं निशम्य सा दध्यौ मानसे पद्मलोचना । भवितव्यं कथङ्कारं प्राप्यो राजसुतो मया ॥ ३३ ॥ धीमानशुभकालस्य हरणं विदधीत यत् । न विधेयाकचिच्चिन्ताकाला कालो भाविष्यति ॥३४॥ विमृश्यैवं सुता राशस्तं प्रत्याह स्मितोत्तरम् । युक्तमुक्तं त्वया सर्व परं मम वचः श्रृणु.॥३५॥ :
१२
मल्लिनाथमहाकाव्ये-
अस्मद्वयस्या देवश्रीविद्यते तापसाश्रमे ।
प्रपन्नमेतया सार्द्धमेवं शपथपूर्वकम् ।। ३६ ॥
आवाभ्यां रूपलावण्यपुण्यश्रीभ्यां ससौहृदम् ।
एकः कार्यः पतिः प्रीतिरतिभ्यामिव मन्मथः ॥३७ ।।
तदाश्रममनुपीतस्त्वरख गुणवारिधे ।।
एकदम्मेण ते भाषि पाणितद्वयमुत्तमम् ।। ३८ ॥
योगिशिष्यस्तयेत्युत्का समानात्तापसाश्रमम्
सामनेत्रपयं प्राप्ता सिंहाकष्टा मृगी यथा ॥ ३९ ॥
भद्रास्य ! सा मे जामेयी जीवन्ती कुलभाग्यतः ।
मुदेऽजनिष्ट वल्लीव घना घनघनोदयात् ॥ ४०॥
योगिशिष्यस्ततोऽस्माभिः प्रहतो मुष्टियष्टिभिः ।
प्रणनाश महारण्ये घूकवद्भानुधामभिः ॥ ४१ ॥
इयं कथा मयाज्ञायि कथिता पद्मनेत्रया।
इष्टसङ्गे भवेत्माय उदन्तः मुखदुःखयोः ।। ४२ ।।
अयानयोरर्पयित्वा भागिनेयीं तपस्विनोः ।
सा शङ्खभूपतेः पार्थे प्रेषिता प्रीतिनिर्भरम् ॥४३ ॥
ताबिमा तापसी शान्ततामसी कोपनिग्रहात् ।
इहायातौ गुणाम्भो ! मष्टव्यस्त्वं कुतः पुनः ॥४४॥
अई वैदेशिका स्वामिन् । प्रदेशामिममागमम् ।
गन्ता चम्पापुरी पृथ्वीसमालोकनकौतुकी ॥ ४५ ॥
स्वामिन् ! प्रसादमाधाय दर्शयादर्शशुद्धधीः ।
चम्पायाः पदवीं साधुः प्रार्थनाविपुखो नहि ॥ ४६॥
अथपिर्दर्शयामास चम्पामार्ग तपावनात् ।
तस्यां पुरि समायातो वसुभूतिनृपात्मजः ।। १७ ॥
विलोक्य नगरी सर्वां कन्यान्तःपुरसन्निधौ ।
निविष्टः कामदेवस्य मासाद तुङ्गजालके ॥ १८ ॥
भयमः सर्गः।
१३
सन्ध्यायां वलभौ पद्मलोचना निहितासना।
विलोकते स्म रत्नेन्दु द्वितीयेन्दुमिवोदितम् ।। ४९ ॥
चन्द्राममतिमवास्य सुधांशोरिव दर्शनात् ।
सिस्विदे सर्वतः पया निश्छयप्रेममन्दिरम् ॥ ५॥
आलस्यचञ्चलले जानिर्जितनयनोत्पलः ।
पपी पदमा मुहुः प्रेमरसं नालरिवोच्चकैः ॥ ५१ ॥
कोऽयं किं नाम कांतस्त्य इति पृष्टे सखीजनैः ।
साऽष्ठन विनम्रास्या विलिलंख महीतलम् ॥ ५२ ॥
इनिताकारतत्त्वज्ञो ज्ञातवांस्तत्सरवीजनः।
नूनं रनकुमारोऽसौ स्वामिनीजीवितमदः ।। ५३ ।।
ततः सखीजनाद् ज्ञातत्तान्तः क्षितिनायकः।
रत्नं महोत्सवः सौधमानिन्ये काममूर्तिवत् ।। ५४ ।।
शुभे मुहर्ते दैवज्ञजनेन विनिवेदिते।
सार्फ रत्नेन्दुना राजा पर्यणाययदङ्गजाम् ।। ५५ ।।
भविष्ठद्रत्नचन्द्रोऽथ मासमेकं तदालये।
अपि विज्ञपयामास श्वशुरं शिष्यवद् गुरुम् ।। ५६॥
कलावानपि संपूर्णतेजा अपि पिता मम ।
लभते मद्वियोगेऽपि कृष्णपक्षादिव क्षयम् ।। ५७ ॥
अतस्तत्राशु गन्तासि परं तव निदेशतः।
संभावयामि पितरौ चिरं विरहदुःखितौ ॥ ५८॥
महत्याऽय विभूत्याऽसौ साकं राजीवनेत्रया।
रत्नेन्दुं प्रेषयामास शङ्खचन्द्रपुरं प्रति ।। ५९॥
समायान्तं सुतं श्रुत्वा वसुभूतिः क्षितीश्वरः।
प्रसादधवलर्नेत्रकमलेरर्षमादधौ ॥६॥
देवताभिर्दचमिव पुनर्जातमिवात्मजम् ।
आलिलिङ्ग महीपालचिरान्मिालतमित्रवत् ॥ ६ ॥
मल्लिनाथमहाकाव्ये- आवानिहरणाच्छ्रुत्वा वृत्तान्तं तनयोद्भवम् । युगपच्छोकहाभ्यामभ्यपूर्यंत भूपतिः ।। ६२ ।। कियत्यथ गते काले परलोक प्रपित्सुना। राज्ये भूपतिना न्यस्तो रत्नचन्द्रः शुभे दिने॥६३।। असौ ररक्ष भूपीठमखिलं ग्रामलीलया। अरिषट्कं निजग्राह दुर्ग्रहं शास्त्रसम्पदा ॥ ६४ ॥ अन्येद्यवि निशाशेषे मुखसुप्तं क्षितीश्वरम् । सर्पः सदो निद्राणं वामपाणौ ददश तम् ।। ६५ ।। आहूता मान्त्रिकास्तेपामुपचारपरम्परा । अजायत वृथा सर्वां दुर्जनोपकृतियथा ।। ६६ ॥ अथ विज्ञाय पञ्चत्वं प्रस्थितं पद्मलोचना। विललापति विरसर्विपदिग्धैरिवाक्षरैः ॥६७॥ एतत्तदेव हृदयं विशालं व्योमपीठवत् । यत्र ज्योत्स्नेव रेमेऽहं शारदीनहिमश्रुतेः ॥ ६८ ॥ हे नाथनाथ ! विस्मेरप्रसूनस्त्वां विनाऽपरः। कः करिष्यति मे कौँ कोसविभूषणौ ॥६९ अनङ्गलीलालुलितानलकानतिचश्चलान् । का कर्त्ता स्थानविन्यस्तसुभगानिधने तव ॥७०॥ विपमायुधसन्तापतसे मम शरीरके । कः कर्ता चन्दनरसैः शीतशीतैर्विलेपनम् १ ॥ ७१ ॥ को विधास्यति मे नाथ ! पत्रवल्लीं कपोलयो । सिक्तां प्रेमरस: कामं कामारामिकलालिताम् ॥७२॥ विलप्यवं प्रिया रामः प्रकृतीः प्रत्यकृत्रिमम् । योजयित्वा करद्वन्दं वभापे सात्विकं वचः ।।७३।। प्राणनाथपयं भद्राः! याताऽहं विरहासहा । यानपात्रमिवाटाय सजीकुरुत पावक्रम् ॥ ७४ ।।
प्रथमः सर्गः। १५ अथ प्रकृनयः प्रानुमा वादीः स्वामिनोदृशम् । अनाथाः प्रकृतीः कन्या गन्तासि स्वामिवत कथम्? ।।७।। प्रन्युयार यी धीर साचिकं पद्मनांचना । अम्भाधरं बरं मुम्बा किं खलन्नि नडिल्लनाः? ॥७६|| अथ काञ्चाधिकं दानं ददाना पगलांचना । समीकीग्दांकन यायमाणा पदे पद ॥ ७७ ।। कारागारग़न् वैरिवागन धृनशुकानिव । मांचयन्नी सनाभ्यः न्यं कथयन्ती विशेषतः ॥ ७८ ॥ श्रमाचाम्यामयमिय कुर्वाणा निखिन पुग्म् । पित्वेग्मन्यगाईबी पियरमेय संमृद्रा ।। ७९ ।। चिनायां नल्पकल्पायां दक्षिणाशापतरथ । चन्दनघांसि भूयांसि तत्र युक्तानि चिक्षिपुः ॥८॥ पयःपूणाञ्जलिं बद्ध्वा प्रज्वलन्तं हविभुजम् । त्रिच प्रदक्षिणीच तन् क्षणं दाक्षिणार्चिपम् ।।.८१ ।। इतव-- दिव्यरूपधरः कोऽपि दीप्यमानस्तनुश्रुता। अवाततार नभसा रभसा विजितानिलः ।। ८२॥ मा पद्मलोचन ! देवि ! कुरु साहसमद्भुतम् । जीवयिष्यामि ते नाथ केयं विपविभीपिका? |८३॥ श्रुत्वेति देवी दया का पूरयत्यमृतः श्रुती ।। यद्वा सत्त्वपरीक्षाय प्रतारयति कोऽपि माम् ।।८४ ॥ इत्यस्यां ध्यातवत्यां द्रागपि नेत्रनिरीक्षणात् । स भूपं निर्विपीचके तोत्तलेच महेश्वरम् ॥ ८५ ॥ ध्वस्तापविपी राजा विकसल्लोचनद्वयः । मृत्यवं कृतनेपथ्यामपश्यत् पद्मलोचनाम् ।। ८६॥ पुरस्तादुर्द्धमं दिव्यं दिव्यरूपधरं नरम् ।
१६ मल्लिनाथमहाकाव्ये- दृष्ट्वा जजल्प भूपालः के यूयं कुत्र वासिनः ॥ ८७॥ अथ व्याहृतवानेष रबेन्दो ! वेत्सि किंन माम् ।। सोऽहं गन्धारनामास्मि मिलितस्तव यो वने ॥८८॥ त्वत्तः प्राप्तनमस्कारादभूवं लान्तके सुरः। इदानीमवधिज्ञानादागतस्ते विषोद्धृतौ ।। ८९ ॥ नेदं तवोपकारस्य प्रत्युपकारकारणम् । किन्त्वेतल्लवणोदन्वल्लवणप्राभृतोपमम् ।। ९० ॥ अन्यस्मिन्नपि विधुरे स्मर्तव्योऽहं पदातिवत् । इत्युदित्वा सुधाभोजी पुनत्रिदिवमासदत् ।। ९१ वन्दियन्देषु सानन्दं पठत्सु विरुदावली। आजगाम नृपः सौधं विमानमिव नाकसत् ।। ९२ ॥ ततः प्रभृति पद्मायाः प्रेमभिर्भूपतर्मनः । अरजि कम्वल इव लाक्षारङ्गविकस्वरैः ।। ९३ ।। एवंरूपकथोपेतः सोऽहमस्मि सुधीर्वलः । यन्मे संसारवैराग्यं तत् सर्व कथयिष्यते ॥ ९४ ।। तथाऽन्येदृर्युसनाथ य इव दन्तीन्द्रपृष्ठगः। चतुरङ्गचमयुक्तः क्रीडार्यमचलं पथि ॥ ९५ ॥ विस्मेरमञ्जरीपुञ्जमजुगुञ्जन्मधुव्रतैः । पथिकान् परिपृच्छन्तमिव खागतमागतान् ।। ९६ ॥ चतुर्दिगन्तशाखोपशाखाशतसमाकुलम् । सेवितं पक्षिसहावैः सहकारमयलिपि ।।९७ (युग्मम) वीक्षमाणस्य तलक्ष्मी नेत्रव्यापार एव मे । वृत्तिः शेषन्द्रियाणां तु सकलापि तिरस्कृता ।। ९८॥ अयागमं महोद्यानं मधुना कृतसन्निधि । यस्मिन् पिकीरवर्मन्द्राध्यते मकरध्वजः ॥ ९९ ॥ लालपवालकलिता यस्मिन् किकिल्लिवल्लयः ।
प्रथमः सर्गः।. १७ इभ्याङ्गना इवाभान्ति पिकीरवविभूषणाः ।। २०० ॥ श्रूयते चर्चरी यत्र पञ्चमोद्गारहारिणी । शृङ्गारनीरः प्रेसद्वेलेव तटगामिनी ॥१॥ मेखलाकलिता काचित्कटकावलिमालिनी।। ललना खेलति प्रेतासुभगा गिरिभूरिव ॥२॥ तमिन्नुपदने क्रीडामकार्ष प्रेयसीहतः। रागसागरमध्यस्थः पुष्पकेतुवशंवदः॥३॥ तस्मात्मतिनिवृत्तोऽहमथ तेनैव वर्त्मना। तमेव चूतमद्राक्षमन्यादृक्षमिव व्रजन् ॥ ४ ॥ कोऽयं वृक्ष इति भ्रान्तं तस्मिन्मम मनश्चिरम् । क्षणाद्विमुक्तनेपथ्यनटरूप इवाधिकम् ।। ५॥ ममाभिमायविज्ञानादभ्यधात् सचिवोत्तमः । राजन् ! स एष चूतोऽयं यः पुरा ददृशे त्वया ॥६॥ परंदवाग्मिचारेण नरः कुष्ठरुजा यया । .अस्तोककालतः स्वामिनन्यादृक्ष इवाजनि ॥७॥ श्रुत्वेद मन्त्रिणो वाक्यं सद्गुरोरिव भावतः। अचिन्तयमहं तत्त्वं वैराग्यङमदोहदम् ॥८॥ मन्ये यथाऽसौ माकन्दोज्यादृक्षोऽजायत क्षणात् । विनश्वरी तथान्यापि दृष्टनष्टा भवस्थितिः ॥९॥ पुत्रमित्रकलत्रेषु याऽऽत्मीयमिति वासना । पित्तोद्रेकवतः सेयं शङ्खादिषु सुवर्णधीः ॥१०॥ न दुःखैः खिद्यते पाणी न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किं न भूयते इन्द्रहारिभिः ॥११॥ य एवरूपानारीणां कन्दर्प तनुतेतराम् । स एव वार्द्धके प्राप्ते कंदर्प संविधास्यति । १२ ॥ य एव मन्द्रनादेन भारतीवल्लकीयते । स एव श्लेष्मणा हन्त ! भाषमाणोरषद्दति ॥ १३॥ ..
१८ मरिकनाथमहाकाव्ये- यैरेव श्यामलैः स्निग्धैः केशपाशैः प्रशस्यते । तैरेव तूलपूलपस्पर्दिभिः परिभूयते ॥ १४ ॥ य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूतव्रणगन्धैः शवायते ॥ १५ ॥ इत्यं विमृशतो मेऽभूद्वैराग्यं तत्तथा तदा । येन प्रत्येकबुद्धोहमभवं कर्मलाघवात् ।। १६ ।। विहरन् वसुधापीठं प्रतिबोधविधित्सया । अत्रागां तव वोधार्थमथोचे वलभूपतिः ॥१७॥ स्वामिन् ! वश्चरितं श्रुत्वा व्यावत्तो भववांसतः। परं क्रमागतां क्षोणी न क्षमस्त्यक्तुमञ्जसा ॥ १८॥ तथापि येन धर्मेण सुकरेण मुनीश्वर ! पवित्रः स्यां नृपत्वेऽपि तं धर्म मामादिश ॥ १९ ॥ अंथाचार्योक्तसुश्राव्रतानि क्षितिनायकः । प्रपद्य मेने स्वं जन्म कृतकृत्यं निधीनिव ॥२०॥ इतश्चैत्य नभोमार्गात् कश्चिद्विद्याधरो नरः। त्रिश्च प्रदक्षिणीकृत्य मुनीन्द्रं स्म नमस्यति ॥२१॥ तीर्थयात्रिक ! विद्याभूत ! प्रष्टन्योऽसि, कुतोऽधुना । इत्युक्ते सरिणावादीदसौ विनयमेदुरः ॥ २२ ॥ नगर्यो पुण्डरीकिण्यां नत्वा पूज्यपदद्वयीम् । व्रत मपित्सुवैताब्यमेरुनन्दीश्वरादिषु ॥ २३ ॥ तीर्थानि वन्दमानोऽहं कृत्रिमाकत्रिमाण्यपि । दक्षिणे भारतस्याःऽयोध्यायां पुर्यगांप्रभो॥२४॥(युग्म तत्र शावताराख्यं तीर्थ दृष्टं मनोहरम् । हरिश्चन्द्रनरेन्द्रेण सम्मत्येव समुद्धृतम् ॥ २५ ॥ एक तादृग्महातीर्य हरिश्चन्द्रोद्वृत्तं परम् । एक सुवर्णमपरं परं परिमलाकुलम् ॥ २६ ॥ .
प्रथमः सर्गः।
१९
तत्रास्थां तीर्थसेवायै कुर्वाणोष्टाहिकोत्सवम् ।,
इदानी प्रभुपादान्ते प्रविव्रजिषुरागतः ।। २७ ॥....
अयोवाच बलो.राजा किमिदं तीर्थमुत्तमम् ।
कोऽयं राजा हरिश्चन्द्रः स्वामिनिति निगद्यताम्॥२८॥
महीश जम्बूद्वीपेऽस्मिन् क्षेत्रे दक्षिणभारते ।
अभूत्कुलकरो नाभिराभिमुख्यमिव श्रियाम् ॥२९॥
मरुदेवा पिया तस्य स्वच्छा शान्ता पतिव्रता....
तयोरात्मभवः श्रीमान् भगवानृषभध्वजः ॥३०॥
तदर्थ पुरुहूतेन कृताऽयोध्या महापुरी।
द्वादशयोजनायामा नवयोजनविस्तृता ॥ ३१॥
तत्र शक्रावताराख्यं यथार्थ तीर्यमुत्तमम् ।
युगादिदेवप्रतिमाभासुरं सम्पदा पदम् ॥ ३१ ।।.
हरिश्चन्द्रो वृपस्तत्र नामेयान्वयभूषणम् ।
नलिन नीतिभृङ्गीणां कामकुम्भासदार्थिनाम् ॥३२॥
सुवारा प्रेयसी तस्य च्छायेव तुहिनश्रुतेः ।
बसुभूतिरमात्योऽस्य नयवल्लीपनापनः ॥ ३३ ॥
अन्यधुर्यामिनीशेषे सुखसुप्तः क्षितीश्वरः ।
इमं सुश्राव सत्त्वाम्बुजलाध श्लोकमीदृशम् ॥३४॥
धीरवीरः समर्यादैः सत्त्वं रक्ष्यं विवेकिभिः ।
समापने निजमाणसंशये मुमइत्यपि ॥ ३५॥
इतिश्रुत्वा पठन्नेव निद्रां तत्याज भूपतिः।
अस्मरद्विस्मयोल्लासात्पौनःपुन्येन मन्ववत् ॥ ३६॥
इतश्च तापसः कोऽपि सभीकोऽरिगृहीतवत् ।
समागादित्युवाचौथैर्वाचा सग्रहकण्ठया ॥ ३७॥
त्वयि शासति भूनाथ ! मेदिनीमन्यदहिनाम् ।
न भयं वास्तवं किश्चिदू दृश्यते शशशृङ्गवत् ॥ ३८॥
२०
मल्लिनाथमहाकाव्ये-
अकस्मात्परमस्माकं ज्ञानध्यांनवर्ता भयम् ।
संवृत्तं येन निर्माथा इव स्मः शितिनायक ! ॥३९॥
कुतोऽप्यभ्येत्य भीमास्यः कोलः काल इवापरः ।
वभञ्जास्मद्द्वमान्पुत्रानिव संवर्दितान् स्वयम् ।। ४० ।।
चकत च लताः क्रोधात् मूर्ती अस्मत्क्रिया इव ।
यज्ञानिव कुशावांसानालवालान्ममर्द च ॥४१॥
थाश्रमाणां पुराणां च त्राता येन त्वमेव भोः।।
इति तस्मिन्वदत्येव राजोचे धीरया गिरा ॥ ४२ ॥
एष हन्मि दुरात्मानं कोडं कुल्यं विरोधिवत् ।
एवं प्रत्यशृणोद्धीरो मुनिश्चाय तिरोदधे ॥ ४३ ॥
अथ प्रातः स कृत्यानि कृत्वा सेनापरीतः।
मनोजवामिवारुह्य वाजिनं निर्ययौ ततः ॥४४॥
कचित्पान्थैः कृतस्नानां कचित् यूपैश्च दन्तुराम् ।
कचित्सन्ध्याविधिव्यग्रद्विजलोकसमाकुलाम् ॥ ४५ ॥
कल्लोलक्रीडगान् इंसान् क्रीडयन्ती सुतानिव ।
बीमांचके समाधीशः सरयू सरिदुत्तमाम् ॥४६॥ (युग्मम्)
राजा पप्रच्छ पार्थस्थौ कपिञ्जलकपिङ्गलौ ।
कक्रोडा पोचतुस्तौ तु स्वामिन्नेष पुरस्थितः ॥४७॥
स क्रोडस्तद्वचः श्रुत्वा शौर्यचर्यातरङ्गितः।
संमुखीनोऽभवत्तस्य वादीव प्रतिवादिनः ॥ १८ ॥
अथ राजा धनुः सज्जं कृत्वा शौर्यमिवात्मनः।
रङ्कारः पूरयन् व्योम पातयामास तं भुवि ।। ४९ ।।
यावदेति नृपस्तत्र तस्वयं हतमीक्षितुम् ।
तावदक्षत भूमिष्ठां लुठद्गी हतां मृगीम् ॥ ५० ॥
विपण्णमानसः स्माह हरिश्चन्द्रः कृपापरः।
चिम पिग्मां हरिणीम्रणघातपातकललिता ॥१॥
मरामः सर्गः २१ दर्भगोपि दन्ट्रिोऽपि सदाधिव्याधिमानपि । पगाभिनाजपि पाणी प्राणिमिलनि ।। ५२ ॥ इयतः कन्यपादिः कर्ष मम भविष्यनि । गिना मुनीन मध्याननन्परान भवनारकान, ।। ५३ ।। विभागनि दयानिनो विगतः पापवमनः । भविष्दाश्रमं पढ़यां मग्विभ्यांमट भूपनिः ॥ ५४॥ ननः मुन्टानि ना ननाम जगनीपनिः। न्यधाराष्ट्र फारमोदमुनग्नानिएं म न । ५५ ॥ मालवालकालनः फलिनः सुकुनमः । याप्पा दानं यन्मे जानमिन्यूनिवान्नृपः ।। ५६ । मुनिः प्रा. महीपाल ! वयमय जगत्यपि । धन्या येन भवान दृष्टः पञ्चमी लोकपालकः॥ ५७ ॥ अम्मिन्नवसरे तत्र बहुलस्तुमुलांऽभवत् । अब्रामण्यमत्रामण्यामिनि वानभयरः ॥ ५८॥ उत्कणी मुनिभूमीन्द्र सिंहवस्तद्विपाविव । नानावगण्यकारण्यरससंसिक्तमानसी ।। ५९ ।। तनम्तारतरं साम्नं कदती मुदती भृशम् । मुबन्सां वश्चनां महादनुयान्ती शनैः शनैः ॥ ६ ॥ रस रक्षाश्रमगुरो ! नि थामिव मामिति । जल्पती निकृति भार्यामपश्यत्स्वां तपोधनः॥६१॥ (युग्मम्) ऋपिः पुत्री निरीक्ष्यांचं कथं रोदिपि वालिके।। सानाचत्तात ! केनापि सखी मम मृगी हता।। ६२ ।। सासं कुलपतिः प्राह या किलासीत् प्रजावती । एक मृगीवोऽन्यच्च भ्रूणहत्या वचोतिगा ॥ १३ ॥ कोपाक्रान्तः पुनः प्राह हृदयस्फोटकृवचः । अरे रे ! तेन दुष्टेन कृतोऽस्माकं कुलक्षयः ॥ ६४ ॥ .
२२ मल्लिनाथमहाकाव्य- यतः-बिनेमा हरिणी बालवयस्यामित्र मत्सुता। विमनस्यति पश्चान्मे नूनं पत्नी विपत्स्यते ।।.६५ ।। विना प्राणपियामेनां कुतों मे स्यात्तपोविधिः । विना तपोविधि व स्याद् ब्राह्मण्यमनयं मम ॥६६॥ अहो! अन्याय ईदृक्षः क्षमिणामपि दुःसहः। यन्मृगी मृगयाऽन्येन हता केनापि पापिना ? ॥६॥ एवं विषादमापन्नोऽवादीव कुलपतिस्ततः ज्ञात्वा कृतोऽपि भूपाल ! ससाध्यः पितृवैरिवत् ॥६८॥ इतोऽभ्यधान् मुनेः पुली सावं जनक ! सत्वरम् । प्रगुणीकुरु मद्योग्यां चितां वह्निसमाचिताम् ॥ ६९ ।। किं न वेत्सि मृगीमनां बिना में जीवितं कुतः ?! पश्चादपि हि यत् कृत्वं तत् पूर्व किं न तन्यते ॥४०॥ अय सास्रं नृपः प्रोचे दुष्कृत्यन्यञ्चदाननः । शिक्षा कास्मि सर्वेषां नात्मनो निन्यकर्मणः ॥७॥ तच्छ्रुत्वा स मुनिः स्माह ययार्थः क्षत्रियो भवान् । सत्यार्येयं त्वया चक्रे नितरां प्राकृतश्रुतिः ॥ ७२ ॥ निर्मिता शस्यरक्षार्ये वृत्तिः क्षेत्रे कृषीवले । सा चेदचितरां शस्यं कस्य पूर्वकुर्महे पुरः ।। ७३ ।। प्रणिपत्यमुनेः पादौ राजावादीन्नयान्वितम् । क्षमस्खेदं ममागस्त्वं समाधरनिरोमणे! ॥ ७४ ॥ श्रुत्वत्याख्यत् कुलपतिर्ममापसर दृपयात् । आः पाप : कोलटेरोसिरे रेक्षत्रियपांशन ! ७५|| अयाङ्गारमुखांचादीन्मा रुपी वदतांवर!! नापमानमुर्तीशः सोई परिवहस्तव ।। ७६ ॥ (१) सहस्त्र मन्तुमेकं में सन्तो यन्नतवत्सलाः इत्यपि । (२) मुनिः पराङ्मुखीभूय चुक्रोश क्षितिनायकम् इत्यपि।
. प्रथमः सर्गः। २३ धैर्य भन महाराज ! प्रतीकारोऽस्ति पाप्मनः । मलिनस्यापि वस्त्रस्य शोधकं वारि कि नहि ।। ७७॥ शुद्धिर्जायत एवास्य पापस्यापि प्रथीयसः। ददासि राज्यं यद्यस्मै दानं हन्ति हि दुर्नयम् ॥७८॥ सोल्लासमिव राज्ञोचे प्रसन्नोऽस्म्युपदेशतः । भवानङ्गारवक्त्रोऽपि सुधावकत्रो ममाभवत् ।। ७९ ।। सकोशग्रामनगरा भूरियं वार्धिमेखला। तुभ्यं दत्ता तत्मसीदेत्युक्त्वा भूपोऽनमन्मुनिम् ।। ८० ।। मणत्याहारवत्रोऽपि तमवादीत् कृताञ्जलिः । अयं यदभिधत्ते राद् प्रतिपद्यख तत्तथा ।। ८१ ॥ एवमस्त्विति भापित्वा स साक्षेपमदोऽवदत् । अद्यप्रभृति धात्रीयं धात्रीव ध्यायतां त्वया ।। ८२॥ अयाभ्यधाद् धराधीशो धरा दत्तव तेऽधुना । प्रतिभूरत्र कौटिल्यो भूमिदाने विचिन्तयं ॥ ८३ ॥ अथ विज्ञपयामास कोऽपि शिष्यो महामुनिम् । न तपो न जपस्तावद्यावदस्ति मृता मृगी ॥ ८४ ॥ सखेदं सोऽप्यभाषिष्ट कारयानलसंस्कृतिम् । वञ्चनोचे मया साकमेतस्याः सा भविष्यति ।। ८५॥ उवाच विनयाद्राजा वचने ! दुर्नयं मम । सहखैकं महाभागे ! सार्दाऽसि नतदेहिषु ॥ ८६ ॥ अहं तुभ्यं प्रदास्यामि वर्णलक्ष सुलक्षणे!। आमेत्युवाच सा यद्वा किं न स्यादानकर्मणा ॥८॥ महर्षिः माह मे याहि पुरी लक्ष्मीविकस्वराम् ।। सन्ध्याकत्यं विधायाशु पश्यते वयंमागताः।। ८८ ॥ एवमाकर्ण्य निर्वर्ण्य तं मुनि.क्षितिनायकः । . . . सवोराजन्यमूर्द्धन्योऽयोध्यां माप निजां पुरीम् ॥८॥ . ॥ .
: २४
मल्लिनाथमहाकाव्ये-
आत्मानं निर्वसुं ज्ञात्वा यात्यस्तं तेजसा पतिः ।
तपस्विपाण्डुरच्छायाः प्रससुस्तारका अमी ।। ९० ॥
इति वतालिकीमुक्ति भावयन भवितव्यताम् ।
जगाम धाम भूमीशोधान्नां निधिरिवाम्बुधिम् ॥११॥
राजामित्रयात् सातवृत्तान्तः सचिवाग्रणीः ।
इतसर्वस्ववच्छ्न्यो वसुभूतिरचिन्तयत् ।। ९२ ।।
अनेन इम्भिना भूपो दम्भितो गर्मरूपवत् ।
अविचारित रो विमुह्यन्ति पदे पदे ॥ ९३ ।।
विघर्विलसितं हन्त ! विचाराणामगोचरे ।
मुघट यो विषयघट घटयदीप ॥ ९४ ॥
विमृश्यैवं महामात्यः सशल्य इव दुःखितः।
विलासमण्डपासानं राजानं प्राणमचदा ॥ ९५ ।।
नत्वोपविष्टः सचिवस्तद् वृत्तं वक्तुमुद्यतम् ।
देव ! सर्व मयाज्ञायिमा वादीरित्यवारयत् ।। ९६ ॥
हरिश्चन्द्रस्ततः प्राह सधीरं नीरदव्यानिः ।
माविपीद विदग्योऽसि सचं यन्मानिनां धनम् ॥१७॥
सचमेकमिद मा गान् सर्वमन्यन्नविष्यति ।
सति कन्द न सन्देहो बल्याः पलवसम्पदाम् ॥९८॥
कण्ठपीठी जुटारण वाध्यतामस्तु बन्धनम् ।
नतु जातुपतिमातपर्यमुझन्ति साचिकाः ॥ ९९ ॥
इति रानवचः श्रुत्वा वमुभूतिर्षियां निविः ।
हृदयं चिन्तयां सत्त्वमत्र विजृम्भते ॥ ३०० ॥
सविनयो मुनिः सोऽय समागाकृतशब्दवत् ।
अयाचन महीपालं स्वर्णलक्षमलल्ययीः ॥ १॥
माण्डागारिकमादिम्य कांग्रनः क्रोगतां मुनेः।
भानाययत् क्षणासः स्वर्णल नितीधरः ॥ २॥
प्रथमः सर्गः। २५ . मानेरूचे ततः कोपभृकुटीमङ्गभीपणः । चिकीर्षुरनृण खं मद्विनेनापि विवेक्यास ॥३॥ व्रजामो वयमन्यत्र दृष्टं सत्वं तवाधुना । वावकाश्च वीक्ष्यन्ते निःशूकाश्च गृहे गृहे ॥ ४ ॥ अयोवाच महीभर्चा विलम्बध्वं गुणानघाः। यावदप्यन्यतः स्वर्णमानयामि कलान्तरैः ॥५॥ वणिजो भूभुजामीशः समाकार्य समादिशत् । ददत स्वर्णलक्ष मे दास्येऽई वृद्धिसंयुतम् ॥ ६॥ मुनिना दिव्यशक्त्या ते हरिश्चन्द्रे खिलीकृताः। तत्यजुस्ते तदादेश नतमस्तककैतवात् ॥ ७ ॥ विलोक्य मापतिर्दध्यौ किं करोमि प्रयामि कम्।। आनयेऽहं कथं स्वर्ण मरुदेशे यथा जलम् ।।८।। ततः कुलपतिः कोपकम्पमानाघरोऽवदत् । पाप्मन् ! कियन्तमद्यापि विलम्ब मे विधास्यसि ।।९।। वसुभूतिस्ततः माह महर्षे! हर्षवर्षक!। हरिश्चन्द्रसमः कापि दृष्टः किं सात्त्विकाग्रणी:? |१० अथाङ्गारमुखोऽवादीत्सोपहासममुं प्रति । दृष्टस्त्वत्तो न वाचालो हरिश्चन्द्राच वञ्चकः ॥ ११ ॥ अरेरे! कर्मचाण्डाल! किममिर्भाषितैस्तव। रुष्टो हि रूपकात् पादवन्दनः किमु तुष्यति ॥१२॥ अदत्तेऽस्मिन् दुराचार ! किमु वाञ्छसि जीवितम् । तव श्लोकस्य लोकस्य क्षय एष उपागतः ॥ १३ ॥ अथावादीन्नृपः साधो ! कुतस्त्वत्तः कुलक्षयः । नाह पीयूषपानेन मृत्युः कस्यापि जायते ॥ १४ ॥ जघान पाणिना भूपं मुनी राजा ननाम तम् । कोपिनां क्षमिणामाचं संजातौ तौ निदर्शनम् ।। १५॥ ? ४
:..
२६.
मल्लिनाथमहाकाव्ये-
ऊचेङ्गारमुखः कोपाद्विष्ठावयसि किं मुनिम्। .
नाय हास्यपदे मूढ ! पनीभ्रातेव ते गुरुः ॥ १६ ॥
इत्याकर्ण्य वचः कर्णद्वयतप्तत्रपुप्रभम् ।
वसुभूतिरुवाचेदं मा वादोरिति राजनि॥ १७ ॥
राजस्त्वमेकमेवैनं वाचालं वारयाऽन्यथा ।
एतस्य प्रकटं शिक्षा कास्मीत्यवदन्मुनिः ॥ १८ ॥
कुन्तलो वसुभूतिश्च मोचतुर्दावपि स्फुटम् ।
यावद्ददाति ते स्वर्ण तावदावां गृहाण भोः ॥१९ ।।
अरे जीर्णविरालाभ्यां भवद्भया कि प्रयोजनम् ।
इत्युक्तवति सत्यस्मिन् राजा कुन्तलमादिशत् ॥ २० ॥
सहितां रोहिताश्वेन देवीमाकारय द्रुतम् ।
विक्रयाय सवत्सां गामिवावक्रयवमनि ॥ २१ ।।
प्रतिपद्येशं दुःखी कुन्तलः श्लयकुन्तलः ।
तामादाय समायातः सपुत्रां नृपपर्षदि ।। २२ ।।
मुनिमानम्य रानाऽऽह गृहाणाभरणादिकम् ।
तपस्व्युवाच वे केयं दक्षता दानकर्मणि ॥ २३ ॥
नेपथ्यं मामकीनं यन्ममैव तद्वितीर्यते ।
स्वसुः पुष्पाणि वध्यन्ते स्वसुरेव हि सत्यगीः ॥२४॥
अथागारमुखोऽवादीत् स्वामिनिमां न वेत्सि किम् ।।
कपटाम्भोधिचन्द्रस्य हरिश्चन्द्रस्य वल्लभाम् ॥ २५ ॥
अयोचे कुन्तलः कोपादाबद्धभृकुटीत्रयः।
अरे! पतिव्रतां कान्तां वेत्सिं नो सत्वशालिनः ॥२६॥
मुनिवेपथरा यूयं प्रत्यक्षा राक्षसा. इव ।
मधमत्ता इवोन्मत्ता वाचाला वासका इव ॥ २७॥
ततः कुलपतिः कोपाकमण्डलुजलन तम् ।
आच्छाव्य कुन्तलं चक्र जम्बकं पासाततः ॥ २४॥
प्रथमः सर्गः। २७ 1 कुन्तलो जम्नुको भूत्वा शब्द कुर्वन् वहिर्यया। को महर्षे मा कार्यानत्वेदमवदन्नृपः ।। २९ ।। मुनिना विहितं रे पादेनाहत्यं भूपतिम् । विलोक्य रोहिताश्वोऽथ रुरोद करुणस्वरैः ॥ ३० ॥ मां गृहाण मुने तात मा मा ताडय निर्दयम् झते श्रुत्वा शिशोर्वाक्यमृपिस्तुष्टो मनस्यभूत् ॥ ३१ ॥ क्रोधोत्तालं मुनिः माह सुतारां प्रति निघृणः । त्वया शिक्षितो वालो जानाति कथमीदृशम् ॥३२॥ हरिश्चन्द्रोऽभ्यधादित्यं महर्षेः ब्रह्मसेव।। मासमेकं प्रतीक्षस्व तुभ्यं दास्यामि काञ्चनम् ॥३३॥ स मुनिः माह किं मिक्षा याचित्वाऽथ नृपोऽवदत् । ऐक्ष्वाकवोऽपि किं मिायाचन्ते मानिनो ननु ॥३४॥ कुतस्तहाँति तेनोक्ते भूपः माह कृतस्मितः । कृत्वा स्वं परदास्येऽपि तुभ्यं दास्ये यथोचितम् ॥३५॥ भवत्वेवं महीपाल मम मुश्च वसुन्धराम् । नत्वावस्त्यजन्त्येव सन्धा माणक्षयादपि ॥ ३६ ॥ विमृश्योचे नृपा सुन्नु.। गच्छान्तःपुरमञ्जसा । नायं सोढा शिशुआंगखेदं मृदुशरीरकः ।। ३७ ।। सावष्टम्भं सुतारोचे यद्भाव्यं वद्भविष्यति ।। ... आयास्यामि त्वया साकं छायेवातुहिनाशुना। ३८ ॥ क यातासि सुतारे। त्वं मुनिना समुदीरितम् ।। सांभ्यधादार्यपुत्रेण गन्ता, पत्यनुगा स्त्रिय॥३९।। मसाधीनां हरिश्चन्द्रधेचेष्यति तदंडतम् : पारीन्द्रवक्त्रगामेणी किं गृहन्ति मददिपीgon: वसुभूतिरुवाचेदं ज्वलन् क्रोधहिना : अरे। तापसानो चेसि लोकमार्ग:पुलिन्दवत् ।। ४१।।
मल्लिनाथमहाकाव्य- परायचाः कचिन्न स्युललनाः पतिदेवताः! इतिस्मृतिस्मृतौ मूर्ख! कथं तापसपांशनः १ ॥ ४२ ॥ वसुभूतिस्ततस्तेन शपित्वा कीरकीकृतः । वची हि बन्धनायव निष्पस्तावमुदीरितम् । ४३ ।। रण्डे ! संत्यज नेपथ्यं याहीति मुनिनोदिते । सुतारा मुमुचे सधः किरीयदि शरीरतः ॥४४॥ मुनीन्द्राविधवामात्रचिह्न में मुश्च किञ्चन । श्रुत्वेदं सपरीहासमवदनिष्ठुरोमुनिः॥ ४५ ॥ चण्डि ! वैशिक एवास्ति दुर्भगाया विभूषणम् । सवाष्पं साततः सर्वे नेपथ्यं तत्पुरोऽमुचत् ।। ४६ ॥ ततः पुत्रकलत्राभ्यां धरित्रीधवपुङ्गवः । अरण्यान्या इव स्वस्या नगर्या निर्ययौ तदा ॥४७॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । अभाषिष्टेति भूपाला प्रीतिपेशलया गिरा ॥ ४८ ॥ चिरं परिचयात् कोषादज्ञानाहा प्रलोभतः । राज्यश्रीप्रणयोन्मादादपराद्धा यतस्ततः ॥४९॥ तत्तत् साम्यन्तु मे सर्वं यद्यदागो मया कृतम् । श्रुत्वेदमरुदन् पौरा मृतप्रियजना इव ॥ ५० ॥ स्मरन्तः स्वामिनः कामं गुणानेणाङ्कनिर्मलान् । नगरी नागरा जग्मुर्देहेन मनसा नहि ।। ५१ ॥ किञ्चिन्मार्गमतिक्रान्ता परिश्रान्ता सुलोचना । कियदद्यापि गन्तव्यमित्यपृच्छद् महीपतिम् ।। ५२ ॥ उवाच मापतिर्देवि ! किं ताम्यसि न पश्यसि । इमां वाराणसी श्रान्तनेत्रपान्यापामभाम् ।। ५३ ।। वहन्ती नन्दनं देवि ! यदि खिन्नासि दूरतः । अनुगामिमं चार चम्पकं दुममाश्रय ।। ५४ ॥
मयमः मर्गः। २९ दगा नशाकनं राजा सकरण निजामान् । दर्भागन्समारुपंदयकालकसनिभान ॥ ५५ ॥ कुर्वनी पादधिगरिन्द्रगोपाङ्गिनां धगम् । मन्दमन्दरला देवी न्यग्मुरादितिम सा ॥५६॥ गहिनाच उवानंदं यदा पदयां महीमहम् । अननं नात में पादा विद्धा दारुणकण्टकः ॥ ५७ ।। रामा सफरुणं मार कनरस्ने सुत क्रमः । विद्धा यस्मादयःशल्यान्य कण्टकमाहरे।।५८ ।। फाटक कटकन तत्क्रमाभ्यां हरत्यसी। अमिरवामिदग्धस्य भैपनं हि निशम्यते ।। ५९ ॥ रोहिताचस्ततः माह तात ! नात ! क्षुधादितः । अवांचे पूर्वबद्रामा देहि पुत्राय मोदकम् ।। ६० ॥ देवी मुतारा श्रुत्वेदमन्ताहकर वचः। किमिदं भापसे स्वामिन् ! स्त्रमदृष्टसमं हहा ॥१॥ रोहिताश्वः पुनः प्रोचे मातरस्मि क्षुधार्दितः। तारस्वरं रोदासी वलं नान्यद् मृगीदृशाम् ।। ६२ ।। सर्वलक्षणपूर्णस्य भरतान्वयजन्मिनः। अवस्था यमायाता डन्त ! रोरशिशोरिव ॥ ६३ ॥ निदथ्यो भूपतिः सास्र केयं कालस्थितिर्मम । यदस्य गर्भरूपस्य कल्यवर्तेऽप्यशक्तिता ॥ ६४ ॥ आस्तां विनोदयाम्येनं विनोदः कौतुकमियम् । पश्यतां स्वर्धनी पुत्र ! कलहंससमाकुलाम् ॥ १५ ॥ इति विप्ठावयत्यस्मिन् रोहिताश्च कुतूहलैः । अकस्मादाययौ कापि सपाथेया. कुटुम्बिनी ।। ६६ ।। पृच्छन्ती नगरीमार्ग भूपमेपा व्यचारयत् । नृपलक्षणमाजोस्याऽवस्थेयं कथमीहशी ॥६७।।
३० मल्लिनाथमहाकाव्ये- १ कुतस्त्योऽसि कुतश्चागास्तयेति व्याहते सति । अनाकर्येव तद्वाक्यं मौन्यभूमिनायकः ॥ ६८ ।। अयाचितं स्वपाथेयं वृद्धादात् नृपसूनवे । अयाचितं दीयते यत्चदानं श्रेयसे खलु ।। ६९ ॥ गतवेदाऽसि चेदेवि ! तदोत्तिष्ठ पुरी प्रति । अयाग्रे गौरिव पथा प्रवृत्ता साऽवदद् नृपम् ।। ७० ॥ राज्यलक्ष्मीपरिभ्रंशालज्जते न किमु मियः । बैरिपुर्या कयमस्यामार्यपुत्रः-प्रवेक्ष्यति ॥ ७ ॥ सावष्टम्भं बभाषेज्य का लज्जा सत्त्वशालिनाम् ।। भापदः सम्पदायन्ते प्रतिज्ञातार्यकारिणामः॥७२ ।। प्रभवद् वार्यते केन कृतं कर्म शुभाशुभम् ।। तन्माहात्म्याशाज्माकं यथेषा किं परे द्विषः ॥७॥ प्रचचाल ततः मापः पुरीं वाराणसी प्रति । इतो देव्यवदद्देव ! समासन्नोऽवधिर्मुनेः ।।७४ ॥ मां विक्रीय गृहाणाशु काञ्चनं किञ्चनाधुना । अय पुत्रोऽब्रवीचात! विक्रेयोऽहं नहि त्वया ।।७५॥ मातरिय तातं मे विक्रीणन्तं चतुष्पये । रुदत्याह सुताराऽमुं वत्स! भूपो भविष्यसि ॥७॥ मा रोदर्भिद्र!मारोदीस्त्वां विक्रेता न कश्चन । मत्समापे निषीदाशुतुभ्यं दास्याम मोदकम् ॥७७॥ सा निदध्या हहा ! देवं भवे भवशतानि मे । शैलूप इस रूपाणि प्रपञ्चयति नाटके ।। ७८ ।। विक्रेतुमय रथ्यायां गतोऽसौ सपरिच्छदः । व्यसनं सत्वहन्नो हि कपपट्टो निगद्यते ॥ ७९ ॥ चित्तेऽवधार्य भूमीशस्तृणान्याधाय मस्तके । पुत्रस्य स्वकलत्रस्य तस्यौ साचविलोचनः ॥ २०॥ .
मथमः सर्गः। कसा शिरसि कोटीरकोटी रविशतायिता। कार्य पूलकविन्यासो निर्णाशः सर्वसम्पदाम् ॥८॥ ध्यात्वति व्युत्सृजाम्येनां साङ्गजां शिविवेश्मान । यद्भाव्यं भवतातन्मे ध्यात्वेदमवदन्नृपः।। ८२ ।। याहि देवि ! पितुर्धाम समादाय स्तनन्धयम् । यथातथाऽप्यहं हेम दास्येऽवश्यं तपस्विने ।। ८३ ॥ साक्षेपमाचचक्षे सान युक्तं भवतोदितम् । पतिकार्यविधायिन्यो निशम्यन्ते पतिव्रताः।। ८४ ॥ इतश्च ब्राह्मणः कोपि भृतकक्रयकाम्यया । समया पृथवीनाथमागात् प्रतिजनं भ्रमन् ।। ८५ ॥ विलोक्य भूपमादाय मस्तकं शस्तलक्षणम् । , ऊचे कस्त्वं कथं देई भृतकीयसि.रकचत्.१ ॥ ८६ ॥ कृतमानं शुचा भूपं विलोक्य ब्राह्मणः स च । सुतारा ता लुलत्तारा स निनिन्द विधेविधिम् ॥८७॥ सलक्षणं सुतं दृष्ट्वा तदाचिन्तयद् द्विजः । त्रीण्यमूनि न सामान्यान्यत्र विश्वत्रयेऽपि हि ॥ ८८ ।। किमस्या मूल्यामित्युक्तं ब्राह्मणेन मुहुर्मुहुः ।। मन्दगीरवदद् भूमानुचितं यदस्व तत् ॥ ८९ ।। अस्या मूल्ये सहस्राणि तुभ्यं पञ्च ददामि भोः। गदतीति द्विजे मौनी समजायत भूपतिः ॥ ९० ॥ अनिषिद्ध मत कार्यमिति ध्यात्वा नृपाञ्चले तावद्धवन्ध.गाङ्गेयमहो । विधिविडम्बना ।। ९१.॥ तां गामिवाग्रतः कृत्वा ब्राह्मणश्चलितः पथि : लमः सुतोऽश्चलेमुष्यास्तारतारस्वरं रुदन ।। ९२ ॥ रुदन्तं तं सुतारोचे तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकान् हट्टे गच्छन्त्यस्मि गुणानय ॥.९३ ।। :
३२ मल्लिनाथमहाकाव्ये- . .. अत्यजत्यश्चले तस्मिन् वोधितेऽपि सुतारया. किं किङ्कार ! विलम्बोऽयमित्यध्यत्तरां द्विजः ॥१४॥ यान्ती मुतारांनेहेन यात्रन्मुञ्चति नामकः। . तावत्तेन पदाग्राभ्यां निहत्य भुवि पातितः ॥ ९५ ॥ सालं विलोक्य भूपालो लुठन्तं भुवि नन्दनम् । मुमूर्छ लब्धसंज्ञोऽसौ चिन्तयामास चेतसि ॥ ९६॥ इन्द्रस्याप्यंङ्कलाल्योऽयं रक्षितोऽप्यारक्षक। उपयाचितसमासः कृतोतारणमङ्गलः ॥९७॥ अनेकदेवताशेषाशेखरोत्तममस्तकः । अयं विप्रेण. पादेन पात्यते रङ्कपद्धवि.।।९८॥ (युग्मम्) अयोवाच द्विजं राजा नायं तिष्ठेदिमां विना ।. एषोऽपि हि भवदेहे कर्म किश्चित्करिष्यति ।। ९९ ॥ रोषाद्वभाषे विमोऽस्याः कर्मविघ्नकर शिशुम् । न गृह्णामि सुधाऽप्येनं किं पुनःस्वर्णदानतः॥४००il सवाष्पं पट्टदेव्यूचे तात! पुत्रं विना मम । भारता हृदयं देषा पक्कारुफलं यथा ॥ १ ॥ मम प्रसादमाधाय गृहाणेमं महाग्रहात् । आर्थनां प्रार्थना सन्तो नान्यथा कुर्वते यतः ॥ २ ॥ श्रुत्वदं ब्राह्मणो दत्वा सहस्रं काञ्चनस्य च । ताभ्यां सार्द्धमगादाम ब्राह्मणो हर्षपूरितः ॥ ३ । दुःखधार्यमिदं वित्तं यद्यागच्छत्यसौ मुनिः । समीचीनं, तदाऽऽयासीचिन्तितोपनतोऽथ सः ॥ ४ ॥ सशिष्यमागत वाध्य तमूपि स्माह भूपतिः । ऋप! गृहाण हेमेदं खदं मनसि मा कृथाः ॥५॥ धान्यः स मुनिः प्राह ग्रहीष्यल्पं न काश्चनम् । अयोभारतक्त्रोऽभु चन्द्रशेखरमर्थय ॥ ६ ॥ . .
मगमः मगः। जानजाग्यफ ! किं मृऽनुचितं वचः ।। इलाकचोऽपि कि. भिक्षामर्थयन्नि कदाचन ॥७॥ प्राषिरुने पुरोऽम्माकं पहचं स्वस्य जल्पसि । पतिनाभ्रष्ट ! वानाट फिमात्मानं विकत्यसे ॥ ८॥ मनीग! मा कुपस्तुभ्यं लभ्यं दास्यामि काननम् । निपादम्यापि कमांणि विधाम्यामि गनत्रपः ॥ ९ ॥ नतः कापीनयमनः कालः काल इवापरः। मनिषादयनरम्य निपादः पुरतोऽभवत् ॥ १० ॥ भृपालं वीक्ष्य म नाच ! त्वं कर्म करिष्यसि । ननन्युक्तं महीनाया निदध्यापिनि चेतसि ॥ ११ ॥ मनीटां कृत्वा नभाक्रांड ययारस्तं गभस्तिमान । न काश्रित क्रायकोऽस्माकं, मुनिः स्वर्णसमुत्सुकः ॥१२॥ करिष्य कर्म नेऽवश्यं राजेन्युक्तेऽथ सोऽवदत् । कासि किमु में कम ?, स ऊचं यनिदेक्ष्यति ।।१३।। कालदण्डाभिधानोऽहं निपादः कोपकाननम् । गङ्गासपश्मशानेशो द्वितीय इत्र दण्डभृत् ।। १४ ।। रक्षितव्यं श्मशान में ग्रहीतव्यं मृताम्बरम् । किश्चिदग्धानि काष्ठानि ग्राहाणिचितितस्त्वया ॥१५॥ यत्तत्रात्पद्यते तस्य गृहात्यर्दै महीश्वरः । अन्यस्याईस्य भागों द्वा मामकस्तावकोऽपरः ।। १६॥ इत्युक्तं तेन भूपाल आमेति न्यगदद्वचः । परं महर्पये देहि निःशेपं मम काश्चनम् ॥ १७ ॥ अथ दध्या मुनिः स्वान्ते नमस्ते सत्त्वशालिने । नमस्ते धैर्यपात्राय नमस्ते करुणात्मने ॥ १८ ॥ कालदण्डोऽपि तावत्तद् दत्त्वा स्वर्ण महर्षये। उमशानमात्मनः माप हरिश्चन्द्रसमन्वितः ।।१९।।
३४ मल्लिनाथमहाकाव्ये- इतो वाराणसीपुर्यामाशिवं समभूद् महद् । निलीयास्थादिव कापि येनोचैर्मङ्गलध्वनिः॥२०॥ अथाहास्त महीचन्द्रोऽतन्द्रधीश्चन्द्रशेखरः । मन्त्रिण सत्यवस्वाख्यं प्रतिरूपमिवात्मनः ॥ २१॥ राजादेशात् समायातुर्मन्त्रिणः कोऽपि पूरुषः । अन्तरा मिलितः पाणी विभ्राणः कीरपञ्जरम् ।।२२।। कलहंस !क कीरोज्यं सम्माप्तो मन्त्रिणोदिते. सोऽप्यूचे चम्पोपवनस्थितमेनमवाप्नुवम् ।। २३ ।।. इति तद्वचनं श्रुत्वा सार्दै तेनैव मन्त्रिराद् । आगादुपमहीपालं यथास्थानमुपाविशत् ॥ २४ ॥ मन्त्रिन् ! पश्य पुरीलोको विना व्याधिविडम्बनाम् । अकालेऽस्तं प्रयायेव स्वस्वधर्मरतोऽन्वहम् ॥ २५ ॥ इतश्च कुट्टिनी काचिद् रुदती करुणस्वरैः । हा! दैव! दैव! मुष्टाहं भाषमाणा सदस्यगात् ।।२६॥ मत्पुत्री नामतोऽनङ्गमञ्जरी मजुलस्वरा । रोगयोग विना सुप्ता मृताऽस्तीति विचिन्त्यताम् ।।२७॥ नगर्या जगतीनाथ! विद्यते मारिरुत्थितः । तच्छोषय तदुत्पत्ति सत्यार्थो नान्यथा नृपः ॥ २८ ॥ मन्यूचे देव ! मार्यर्थे प्रष्टव्यो मान्त्रिकोत्तमः । आयातः स स्वयं पुर्या उज्जयिन्या निशम्यते॥ २९ ॥ अतीतानागतज्ञानाकालपुप्पोपदर्शनैः । बखाकृष्टिकुटभ्रान्तिमुद्गलादिनियन्त्रणैः॥ ३० ॥ दृष्टिमुटिशराकाशवन्धदृश्यादिशक्तिभिः । स्त्रमोपदेशशकुनप्रतिपात्रावतारणैः ।। ३१ ।। मन्त्रादाकष्टदेवेशो मन्त्राद् यन्त्रिनभास्करः । मन्त्राननितशेषाहिमन्त्रात् स्तम्भितपावकः ।। ३२ ।।
प्रथमः सर्गः। ३५ चतुर्भिः कलापकम् ॥ नृपादेशादसा प्राप्ती सातत्तों महीपतेः । दधानाध्यानमाचल्या राक्षसीललितं विदम् ॥ ३३ ॥ इनो वेश्या सोल्लासं पुत्रिका मम मान्त्रिक!। मृता मारिमयोगेण विनाऽऽधिव्याधिगौरवम् ॥ ३४ ॥ अवादीद् मन्ववादी च मन्वात् प्राणिति ते सुता । इताअभ्यत्यागदाटी स्वामिनी मम जीवति ।। ३५ ।। सत्यमत्यापितमापसमादेशन मान्त्रिकः । लिखित्वा मण्डलं हांहीमन्त्रविन्यासमुन्दरम् ॥३६॥ सामकृभिललनेवां चण्डी मृतिमतीमित्र । आनयद्राक्षसी भीमां स्फारस्फन्कारकारिणीम् ॥३७(युग्मम्) सविस्मयं नृपो दध्या महामन्त्रविजृम्भितम् । य एनां राक्षसी मन्विनानपीत् पश्यतां हि नः ॥३८॥ मान्त्रिकः प्राह यत् कार्य तत् कृतं तव सन्निधौ । आकार्यनां ततो बेगान्निपादोऽस्य वधाय सः॥३९॥ अथास्माभ्येति चाण्डालो हरिश्चन्द्रसमन्वितः। अयोध्यशं ततो दृष्ट्वा शुकोऽवादीद् द्विजादिवत् ॥४०॥ म्वस्ति तुभ्यं हरिश्रन्द्र ! भरतान्वयभूपण!। मचमानवता धुर्य ! शौर्यचर्यातरङ्गित ! ॥ ४१ ॥ साक्षेपमय राजोचे मापसे किं प्रमत्तवत् ।। नात्र कोपि हरिश्चन्द्रो मुधा भ्रान्तोऽसिरे शुक॥४२ (युग्मम्) सुतारां राक्षसीं वीक्ष्य हरिश्चन्द्रो व्यचिन्तयत् । कस्यचिम्भिनो वृत्तं नेदं देवीविजृम्भितम् ।। ४३ ।। किंतु मत्कर्मघोरत्वं प्रसरत्यनिवारितम् । यत्करिष्यति दैवं तन्मया सर्व सहिष्यते ॥४४॥ उशीनरमहीपालपुत्रि ! पावित्र्यदर्शने । सुतारे ! ते नमः कीरः सपणाममदोऽवदत् ।। १५ ।।
मल्लिनाथमहाकाव्ये- अरे निषादभृतक ! हरिश्चन्द्रोऽसि सत्यतः। इयं ते गृहिणी सम्यगित्यपृच्छद् महीपतिः॥४६॥. नाहं राजन् ! हरिश्चन्द्रो नेयं प्राणप्रिया मम । तिर्यग्योनित्वतः किश्चिच्छुको वक्ति यथा तथा ॥४७॥ शुकं प्रत्याह राजाऽथ किमस्मान् वञ्चयस्यरे ! । तस्मादियमिव त्वरे ! वध्यो वन्ध्यागरो गिरन् ॥४८॥ शुकोऽप्यूचे च्युता राज्यारिवंश्मविहारिणः । नात्मानं हि प्रकाशन्ते सहन्ते विपदां पदम् ।। ४९ ।। तस्यादेशाद् हरिश्चन्द्रः खरे तामध्यरोपयत् । अभीष्टार्थेऽपि किं कुर्यात् परायत्तो विचक्षणः ॥५॥ सुतारैषा हरिश्चन्द्रो यदुभी स्तो न भूपते । दह्यादेहं ममार्चिष्मान् सत्यं चेदस्तु वारिवत् ।। ५१ ।। प्रविज्ञामिति कृत्वाऽय मन्त्रिणा रचितां चिताम् । शम्पादत्त्वा शुकोऽविक्षदक्षताडो विनिर्ययौ ॥५२॥ मन्म्यूचे देव ! मन्येऽहं किञ्चिन्मान्त्रिकवैशसम् । आकृत्या सुन्दराकारा सम्भाव्या राक्षसी कथम् ॥५३॥ इत्युक्ते तेन भूमीशो रासभादुदतारयत् । किं कुर्मः, कर्म केनापि निर्मित मर्मवेधकम् ? ॥ ५४॥ इति कोपानुतापाभ्यां संपृक्तः काश्यपीपतिः। मान्त्रिकं व्यसृजत् कीरं पञ्चरेऽपि व्यधापयत् ॥५५॥ हरिश्चन्द्रोऽपि चण्डालनिदेशादिवसात्यये। श्मशानं रक्षितुपसावाययों साचिकाग्रणीः ॥५६॥ कचिद्रलोगणाकीर्ण कचिद्योगीन्द्रसेवितम् । कचित्फेरण्डफेत्कारं कचिद्भुतविभीपणम् ॥ ५७॥ फचिदिभीपिकाभीष्मं श्मशानं स परिभ्रमन् । रुदती मुदती काश्निद् हरिश्चन्द्रो व्यलोकयत् ।। ५८ ॥
प्रथमः सर्गः। ३७ जनं च मुतनी : किं ने पग्देिवनकारणम ? | मानं गत्वा पुरः पश्य न्यग्रोध, म नथाऽकगंत ॥५॥ संपादमधांन] वटशाग्वावलम्बनम् । नग्मेकं निरक्षिा मवलक्षणलक्षितम् ।। ६० ।। ननिरीक्ष्य नृपा दथ्यौ प्रादायि मुनये मही। मनिकन्याधनोपाये विक्रीने सुनवल्लभे ।। ६१ ॥ जीवितम्यापि निविण्णो नियेऽहं यदि साम्मतम् । परमाणपरित्राणकारणादावि में शुभम् ।। ६२ ।। विचिन्त्यनि नृपः माह करवं कस्यासि नन्दनः । अवस्या कथमीक्षा, बद्धः किं वटपादपे ॥ ६३ ।। सावीच ! काशीशचन्द्रशेखरनन्दनः । विद्याप्रयांसि पल्ल्यात् समानीतोच समियः ॥६४॥ मांसन में महाहोम सा करिष्यति निश्चितम् । इनस्तगङ्गिणीतीरं गताऽस्ति स्नानहेतवे ॥६५॥ नमुवाच हरिशन्द्री गच्छ वंशाधि मेदिनीम । यत्कार्य तत् करिष्येऽहं विद्याधर्याः स्वमांसतः ॥६६॥ मत्याइ चन्द्रमर्नेदं समीचीनत्वमञ्चति । खरस्यायुःक्षये कापि नियंत रजकः कथम् ॥६७।। पुनः प्रोवाच भूपी में प्रार्थनां मा कृथा स्था । इत्युका स्थान एतस्य स्वं ववन्ध तरारधः ॥ ६८॥ सकलत्रः स बंगन प्रययौ चन्द्रनन्दनः । अयागाललना व्योनि दधाना साचीवरम् ॥६९॥ उत्क्षिप्योरिक्षप्य भूमीशो निजमांस समार्पयत् । विद्यासिद्धिनिमित्तं सा चिक्षेपानौ यथाविधि ॥७॥ इतो गोमायुफेत्कार: कुण्डकं परितोऽभवत् । भादिशत्, खेचरं साऽथ विखिन्ना तस्य रक्षणे ॥७१।।
३८
मल्लिनाथमहाकाव्ये-
तेनासौ वार्यमाणोऽपि समीपे प्रत्युताभवत् ।
जजागाराश्रममुनिस्तत्रागाद्वायुवद् द्रुतम् ।। ७२ ।।
अरे 1 किमेतदारब्धं गदतीति महामुनौ ।।
भीता विद्याधरी कापि ननाश सपरिच्छदा।। ७३ ॥
शाखाबद्धं नृपं दृष्ट्वा श्वसन्तं रुधिराविलम् ।
उपलक्ष्याय कौटिल्यस्तमौषध्याकरोचवम् ।। ७४ ।।
इतश्च-अरे! क त्वं गतोसीति शब्दितः श्वपचेन सः ।
उपसृत्य श्मशानान्तं शुश्राव करुणध्वनिम् ॥ ७५ ॥
हा पुत्र ! क गतोऽसीति मूर्च्छन्ती हरिणीदृशम् ।
विलोक्य भूपतिः माह कस्मात्ते नन्दनो मृतः ॥७६।।
साऽब्रवीदेव! पत्न्यसि हरिश्चन्द्रमहीभुजः।
रोहिताश्वाभिधानोऽयं नन्दनो नेत्रनन्दनः ।।७७॥
मम निक्षीणभाग्याया दष्टः फणभृता सुतः ।
अकृतोपतिर्देवात् मम्माप्त ईदृशी दशाम् ।। ७८ ॥
हरिश्चन्द्रो रुरोदाशु धैर्य कस्य सुतव्यये ।
आश्लिमद् नितरां पुत्रं चुम्वति स्म च मूर्द्धनि ॥७९॥
रुष्टोऽसि वारितो वाऽसि किं नु यच्छसि नोत्तरम् ।
न मां प्रत्यभिजानासि चिरकालसमागमात् ।। ८० ।।
इतश्च श्वपचः माह किमारेभेऽनया समम् ।
आनयाकवासांसि स्वाचारे को विलम्बते १ ॥८॥
इति चण्डालवाक्यानि दुःश्रवाणि निशम्य सः ।
भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा।।८२॥
आदित्सयाऽऽच्छादनस्य विच्छायवदनद्युतिः ।
करं प्रसारयामास हरिश्चन्द्रो, हहा! विधिः ॥ ८३ ।।
इतश्च विदधुः पुष्पवृष्टिं पीयूपभोजिनः ।
अहो! सचमहो! सत्त्वमिति व्याहारचारकः ॥ ८४॥
प्रथमः सर्गः। ३९ ततोऽयोध्यापुरीसंस्थमात्मानं दृष्ट्वान् नृपः । सेवितं गुरुवच्छिष्यैर्वमभूत्यादिसेवकः ॥ ८५ ॥ यावच विस्मयस्मेरः किश्चिद् ध्यायति भूपतिः । तावत्र क्षणात् प्राप्तस्त्रिदशस्तमवोचत ।। ८६ ।। न वयं तापसा राजन् ! नैते निकृतिवचने । किं त्वस्माभिः कृतं सर्वं तव सत्वपरीक्षणे ॥ ८७॥ शक्रः स्वयं महीशकी चक्रे सत्त्वस्तुर्ति तव । सभामण्डपमासीनो वाचा धीरमशान्तया ॥ ८८ ॥ हरिश्चन्द्रो नृपः सत्वाद् न देवैरपि चाल्यते । आपनेऽपि निजमाणसंशयेऽपि कदाचन ।। ८९ ।। अश्रद्धेयं वचः श्रुत्वाऽस्माभिरीदृग् विचेष्टितम् । तत्क्षन्तव्यं, महात्मानो विनने हि कृपालवः ॥ ९ ॥ सत्त्वेन भवतस्तुल्यो नास्त्यन्यस्त्रिजगत्यपि । तमास्तोमापहः कोऽपि कि सूर्यादतिरिच्यते । ॥११॥ स्तुत्वेति जगतीनाथं नत्वा योजितपाणयः। दिवौकसो दिवं जग्मुस्तत्प्रशंसापरायणाः ॥ ९२ ॥ अन्येधुर्वहिरुद्याने गतः क्षोणीपतिः स्वयम् । तीर्थ शक्रावताराख्यं जीर्ण शीर्ण व्यलोकयत् ।।९३॥ वमुभूतिरुवाचाथ ज्ञात्वा चेतो महीभुजः। इङ्गिताकारतत्त्वज्ञा मन्त्रिणः सर्ववेदिनः ॥ ९४ ॥ वृषभस्वामिनो बिम्बं भासुरं शक्रनिर्मितम् । इदं शक्रावताराख्यं महातीर्थ महीतले ॥ ९५॥ कालक्रमादिदं जीर्ण बभूव क्षितिनायक!। उद्धारकारिणो यस्मात् प्रभवन्ति भवाशाः ॥९६ ॥ भवानप्यादिमजिनसन्ताने समजायत । कुरुष्वेदं नवं तीर्थ देहिनं रसवेदिवत् ।। ९७ ॥
मल्लिनाथमहाकाव्ये- भरतशादित्ययशामभृतीनां महीभुजाम् । . म्बपूर्वजानामाख्याभिः ख्याताःसमतिमा व्यधात् ९८ अमारिपूर्वकं भूरिदानसम्मीणितार्थि च । प्रतिष्ठा कारयामास चैत्योद्धारमकारयत् ।। ९९ ॥ सम्यहं निर्मलं विभ्रद् विदधानः प्रभावनाम् । कालक्रमेण शुद्धात्मा देवभूयमगादयम् ॥ ५०० ॥ अयोवाच बला स्वामिन् ! तदृष्टान्तश्रुतेर्मम । अमन्दानन्दकन्दल्याः प्रमोदः समपद्यत ॥ १.॥. एकं सर्वरसस्यन्दि हरिश्चन्द्रनिदर्शनम् । परं यौष्माकनिःसीमवचोडम्बरगौरवम् ॥ २॥ . केचिद् मृता अपि जनाश्चरित्रश्चित्रकारिभिः । जीवन्त इन जायन्ते कीचिरेवाविनश्वरी ॥ ३ ततोऽयोध्यासमायातविद्याभृनियमोत्सवम् । विदधुर्जुम्भका देवाः प्राक्तनभववान्धवाः ॥ ४ ॥ अब राजापि सूरीणां प्रणिपत्य पदद्वयीम् । धर्मकर्मप्रवीणात्मा जगाम सदनं निजम् ॥ ५ ॥ अन्येार्धारिणी देवी मुखसुप्ता महासती। शान्तं कान्तं मृगाधीशं प्रविशन्तं मुखाम्बुजम् ॥६॥ विलोक्य निद्वाविच्छेदे स्मृत्वाऽभीष्टं जिनेश्वरम् । स्थित्वा वेत्रासने चित्र निशाशेषमबाहयत् ॥ ७ ॥ (युग्मम्, प्रभात धारिणी देवी महास्वमं महीभुजः । अचीकयद् महोत्साहसीरवार्डीन्दुमण्डलम् ॥ ८ ॥ विचार्यासो महास्वममेतस्या न्यगद पुरः। प्रवीरो जगदुत्कटो भविता ननयस्तव ॥ ९ ॥ अयावर्द्धत धारिण्या गर्भो वाञ्छाहमाम्बुदः । दानपूजादिकृत्येषु भावश्चास्य प्रभावतः ॥ १० ॥ .
प्रथमः सर्गः। ४१ पाणिना विनं मग्या अपास्य मणिदर्पणम् । कांगसंषु धौना धारिणी मुबमक्षन ।।११।। पणनाभिमपाम्यप्रिमिलासमारीने । दन्नास्लम देवी मग्रहीतुं प्रक्रमे ।। १२ ।। नन्यां गर्भमभावन दोहदा इन्धमाददाः । पपूगन्न भूपेन बनायां मधुना यथा ॥ १३ ॥ नियमाणे सर्वत्र मानिकपु महर्षिभिः । रक्षाभूनिगु धारिण्या यध्यमानामु दोयुगे ॥ १४ ॥ घटीनापर्ययुक्तंप निविष्ट विजेप्यपि । नतिकमप्रवीणामु नल्लीनामु पुगन्धिषु ॥१५॥ परिपूर्णा मासा साधाष्टमदिनप्वपि । अन्न धारिणी पुत्रं राजनीतियथा धनम् ॥ १६ ॥ (त्रिभिर्विशेपकम्) सर्वानिशायिशाभा नदानन्दकनं शुभम् । मगल्यदपिरखिलः मूनिम नदा बी ।। १७ ॥ यथाविधि व्यनिक्रान्त पष्ठीजागरणोत्सवे । मानयित्वा निज शानिमित्रवर्गमनुद्धनः ॥ १८ ॥ गुगलोक समभ्यय मांचयित्वारिबन्दिनः । दशमवि बलोस्याख्यां महावल इति व्यधात् ॥१९॥ स्वागरिव तदाकारस्तदा जातः स्तनन्धयः । अन्वीयमानः सततं बलमृनुर्व्यवर्धत ॥ २० ॥ पञ्चस्त्रितपु वर्षषु क्षीरकण्ठो महाबलः । पपाठ सकला विद्याः पूर्वाधीता इवाऽञ्जसा ॥२१॥ कृतज्ञा विनयी धीरः परनारीसहोदरः। भविष्यतीर्थकृन्नामजीवानां. लक्षणं विदम् ।। २२।। सम्यग्दर्शनलाभस्य विरहेऽप्येप शुद्धधीः । अयनमपि कि जात्यरत्नं. रत्नैः समं. परैः १ ॥ २३ ॥ ६
રે
मल्लिनाथमहाकाव्य-
सारस्वंतमिवादामकामविभ्रमवाङ्मये ।
कापिर्नामदनीवातुयौवनं समुपागतः ॥ २४ ॥
कमलीमभृतिकाः कन्यकाः काश्यपीभुजा ।
सतानि पञ्चकदिने कुमार पर्यणाय्यत ॥ २५ ॥
(युग्मम् )
तस्यांसन् बालमित्राण्यचलो घरणपूरणा ।
वनुश्रवणश्वाभिश्चन्द्र इत्यभियानतः ॥ २६ ॥
पदिमित्ररमीभिः स वर्षक्षाणांवरिख ।
अधिकाधिकलमीकैम्बृद्धीप इवायुतत् ॥ २७ ॥
कदाचित् खेलयामास गजानरावतायितान् ।
शुक्रवद् वियः साकं तचित्रं यद् बलानः ॥२८॥
कदाचिदुद्यानगतो वृतो मित्रगुणैरिव ।
चिनाड विविवः क्रीडाचक्रनराशयः ॥ २९ ॥
कदाचिदुवैःश्रवसः मोदरान भूगतानि ।
लापातस्फुरदीयंत्रयांन सोज्वानवाड्यन् ॥ ३० ॥
कदाविचित्रकाव्यानां रहस्यानि व्यवारयन् ।
एकत्यानपियासीनरसः सरित्र स्थितैः ॥३॥
न सादात यया धर्मो नार्यों यानि क्षयं यया ।
यया न उरलायन्न वादाभ्यन्तरवैरिणः॥३२॥
यया न स्यानविन्यस्तः प्रत्यायो विरज्यते ।
संसारापमवस्वमन्वभू भूपभूस्तया ॥३३॥ युग्मम्)
एवं संसारकत्यहाभुजे विषयावलीम् ।
भाषिनीयंकाश भावना वाचना ॥३४॥
अन्यगुबलवाचाय पुनारवन्दुसंयमी ।
इन्द्रकुम्ने महायान स्थितवान् समतानिधिः॥ ३५॥
प्रत्येकबुद्ध नियन्यं श्रुत्वीयानसमागतम् ।
भई मंजानगन्य इति दया वही नृपः ॥३६॥
प्रथमः सर्गः।
४३
अलं में पुत्रमित्रादिसुखैः क्षणविनश्वरैः।
अलं मे संपदा कुम्भिकर्णवालविलोलया ॥ ३७॥
अलं मे भववासेन पाशेनेवाऽन्तरात्मनः ।
ध्यात्वेति सुतमाहूय मन्त्रिणश्चाभ्यधादिदम् ॥ ३८ ॥
वयमत्रैव राजानो यूयमन्वयमान्त्रिणः
अतो राज्यधुराभारो मयि युष्मास्ववस्थितः ॥ ३९ ॥
भयेयं साधिता पृथ्वी भवद्भिः कृतसविधैः ।
सुव्रता सौरभेयी यत् तद् गोपालविशेषणम् ॥४०॥
यद् भवन्तो मयैश्वर्यात् खेदिताः शुभकर्मणि ।
यत्तु न्यायेतरं चक्रे भूमिपीठे मदान्ध्यतः॥४१॥
चालिता जययात्रायै चलता ये निरागसः ।
उन्मूलिता महीपाला वात्ययेव महाद्रुमाः॥४२॥
विधाय भस्मसाद् ग्रामान् यल्लोका निर्धनीकृताः ।
नश्यद्भीरुकरकोडाद् यच्च वाला वियोजिताः ॥१३॥
तदर्घ क्षालयिष्यामि मलक्लिनमिवाऽम्वरम् ।
गृहीत्वा प्रभुपादान्ते संयम यमिनां मतम् ॥४४॥
सुते न्यस्यामि राज्यस्य जरसा जर्जरो भरम् ।
'प्रदोषकाले पूपेव निजं तेजो हविर्भुजि ॥ ४५ ॥
अमुष्मिन् कवचहरे मयीव नृपसंसदि।
वर्तितव्यं महाभागाः! युष्माभिर्मम शिक्षया॥४६॥
अथेत्थं मन्त्रिणोऽप्यूचुः स्वामिन् ! जातो विरागवान् ।
अन्यथा कथमासनमोक्षस्येव वचस्तव ॥४७॥
यः श्रेयसि प्रवृत्तानां निषेधो मोहतो भवेत् ।
स शालीनूषरक्षेत्रेष्कारोपयति वप्रतः ॥८॥
तवापि पूर्वजा राजन् ! वार्धके मुनिवृत्तयः ।
साम्पतं साम्पतं तत् ते कृतज्ञत्वं प्रसर्पति॥४९॥
. ४४ मल्लिनाथमहाकाव्ये- इदं राज्यं कुंमारेजस्मिन् यत् त्वया विनिवेश्यते । विचार्य तत्र किञ्चिद् नाऽस्माकमेष भवानिवः॥५०॥ पितुश्च सचिवानां च गिरं श्रुत्वा महाबलः । प्रोवाच तातचरणा अप्रसादाः कथं मम ॥ ५१ ॥ अथोंचे जगतीपालो मत्पुत्रोसि विवेक्यसि। गिरो निराक्रियन्ते मे किमज्ञेनेवः तत् त्वया ॥५२॥ ततः पितगिरः श्रुत्वा महावलकुमारराट् । देवादेशः प्रमाणं में रात्रिखामोपदेशवत् ।। ५३ ॥ असौ निवेशयामास कुमारं संमदोद्धरः। अभिषेकासने शक्रपर्यङ्क इस तीर्थपम् ।। ५४ ।। मङ्गल्याऽऽतोद्यमालासु वाद्यमानासु सर्वतः। कुमारः सिपिचे मूर्ध्नि भूभुजा तीर्थवारिभिः ॥५५॥ अथ भूमी जोऽन्येऽपि सौवर्णकलशैर्नुपम् । तमभ्यषिश्चन् तीर्धेशविम्वमिव प्रतिष्ठितम् ॥ ५६ ॥ अथोदितं द्वितीयेन्दुमिव नम्रशिरोधराः। प्राणमन् नवमुर्वीशमखिला अपि नागराः ॥ ५७ ॥ सदशानि मनोज्ञानि वासांसि श्रीवलाऽऽज्ञया । च्युतानीवेन्दुकिरणः पर्यघाद् नूतनो नृपः ॥ १८ ॥ चन्दनैश्चन्द्रकान्ताश्मस्त्यानविन्दकैरिव । तस्याऽङ्गराग सर्वाङ्ग विदधुर्वारयोपितः ॥ ५९॥ भूपणभूषितस्तैस्तैर्मुक्तामाणिक्यसंभवः । नवो राजा रराजाऽसौ कल्पद्रुः पल्लवैरिव ॥ ६०॥ माणिक्यभासुरं रेने मुकुट तस्य मूर्धनि । उदयाद्रितटे टीकमानं विम्बं रवेरिव ॥ ६१॥ श्रीवलो धारयामास च्छत्रं मूर्ति निवशितम् । क्षीरसागरडिण्डीरपिण्डैरिव विनिर्मितम् ॥ ६२॥ . १ एमिलपि ।
मथमः सर्गः ४५ चामराररामाणामत्रीज्यत कृतादरः। नवसङ्गकृतोल्लास राज्यलक्ष्मीसरिव ।। ६३ ।। विशाले बलभूपालस्तद्भाले लटभभुवि । तिलकं रचयामास राज्यश्रीन्यासमण्डलम् ॥ ६४॥ तनः श्रीवनभूपालः पालिताऽखिलभूतलः । एवं शिक्षा दी तस्य नीतिशास्त्रविशारदः ॥६५॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । . नैकत्रस्थायिनी वला संक्रान्तव्यसनादिव ॥६६॥ उद्दाममददात्रीयं सहोत्पन्नद्विपादिव । लक्ष्मीदेवी दुराराध्या वत्स ! राधापतेरपि ॥ ६७ ॥ एतस्या रक्षणे वत्स! यामिक इव विक्रमः। जागरूकस्त्वया कार्यः प्रदत्तन्यायवृत्तिमान् ।। ६८ ॥ नरो विक्रमवान् वत्स ! सत्त्वेन परिभूप्यते । तदेव यनतो रक्ष्यं खामिदत्तप्रसादवत् ॥ ६९ ॥ ससत्त्वेनाऽपि नाऽऽधेयं प्रचण्डकरताण्डवम् । पश्यं चण्डकरं लोको न दृशाऽपि विलोकते ॥७॥ प्रचण्डकरचातुर्य जायते व्यसनोदयः। तस्माद् भ्रश्यति संसारेरघट्टीयो पो यथा ॥७१॥ सप्तभिर्व्यसनः सप्सनरकाहायकैरिव । अन्तरङ्गारिपड़र्ग उज्जागति नवेश्वरः ॥ ७२ ॥ तदाधीनः पुमान् वत्स ! रज्यते मदनार्थयोः। तावपि स्त्रीमृषामूलौ तयोरेपास्त्यवस्थितिः ॥ ७३ ।। दोपोदयकरी मूरकराणामप्यगोचरी। क्षणं रक्ता विरक्ता च नारी सन्ध्येव राजते ॥७४॥ मृपावादात् क्षयं यान्ति प्रतिष्ठाः प्रत्ययाः किल । 'नदीपूरादिव ग्रामा: कोपादिव सुवासनाः॥ ७५ ॥ ..... इति विनयविननं शिक्षयित्वा नरेन्द्र ४६ मल्लिनाथमहाकाव्ये- नवमभिनवभङ्गया ताचिकमहत्या। चलनृपविरुदार मोहतां मोक्तुकाम: सुगुरुचरणसेवालालसोगाद्चनान्तः॥५७६॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमदाचार्यप्रद्युम्नशोधिते श्री- मल्लित्वामिचरिते विनयाके महाकाव्ये प्रत्येकबुद्धश्रीरल- ... चन्द्रसत्यहरिश्चन्द्रनिदर्शनगर्भितः श्रीवलनृपतिबोध- कधुरः श्रीमहावलराज्याभिषेकोत्सव्यावर्णनो. नाम प्रथमः सर्गः॥ . अहम् अथ द्वितीयः सर्गः। . अथ प्रहासर्वाङ्गः कृतस्नानादिमङ्गलः । सहस्रवाहां शिविकामारुरोह वलो नृपः ॥ १॥ ददानो विधिवद् दानं भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या उत्ततार भवादिव ॥२॥ उज्झाश्चकार निःशेष नेपथ्यादि स्वमोहवत् । श्रीरत्नचन्द्रपादाज ववन्दे मोदमेदुरः ॥ ३ ॥ सामायिकमहामन्त्रं सत्रं निर्वाणसंपदाम् । राजर्गुिरुवक्त्रेणोच्चचार प्रकटाक्षरम् ॥ ४ ॥ विविधाभिग्रहमाही निगृहीतकुवासनः । अनगारः शमागारो निर्निदानतपःपरः ॥ ५॥ विधिवत् पालयित्वाऽय सुचिरं संयम यमी । जित्वा कर्माणि राजर्पिलेंभे निर्वाणसंपदम् ॥ ६ ॥ (यग्मम . . द्वितीयः सर्गः।- ४७ महावलनरेन्द्रेण सिंहस्खमेन सूचितः । कमलश्रीमहादेव्यामुदपादि शरीरजः ॥७॥ भविष्यद्बलभद्रत्वादिति ध्यात्वेव भूभुजा.। बलभद्राभिधानेनाहूतः प्रेमकिरा गिरा ॥ ८॥ अन्यदा वहिरुधाने चश्चचम्पकचारुणि । वरधर्माभिधः सूरिभगवान् समवासरत् ॥९॥.. तदाऽऽगमनमङ्गल्यमाकर्पोरामपालकात् । यथेच्छं पीतपीयूषगण्डूषं इव सोऽहृषत् ॥ १० ॥ तं नमस्कर्तुमुशिश्वचालाञ्चलमानसः । पिदधानो वरच्छत्रैर्दिवं हंसगणैरिव ॥ ११ ॥ दन्तावलैर्वलोहामैरभ्रमूवल्लभायितैः। तुरश्चापि मार्तण्डरथादपहृतैरिव ।। १२ ।। रथैः श्रोत्रपथाध्वन्पचारुचीत्कारवन्धुरैः। अनन्तैर्भक्तसामन्तैः समन्तात् परिवारितः ॥ १३ ॥ भूचरखर्वधूभ्रान्तिमदवारपुरन्ध्रिभिः । चांमरै रत्नखचितैर्वीज्यमानः पदे पदे ॥ १४ ॥ : वन्दिभोगावलीपाठस्पर्धामस्मरैरिव । . नादैर्मङ्गलतूर्याणां पिदधन् रोदसीतलम् ॥ १५ ॥ धर्मातन्त्रैढतो मित्रैः षभिर्लक्ष्मीविकखरैः । पदातिभिश्च पारीन्द्रप्रौढविक्रमविश्रुतैः ॥ १६॥ गजेन्द्रस्कन्धमारूढः प्रौढप्रसृतभावनः । तदुद्यानमथ प्राप नन्दनं वासवो यथा ॥ १७ ॥ (सप्तभिः कुलकम् ) दरादेवाऽवनीनाथः करिस्कन्धाद् मदादिव । उत्तीर्य राजचिह्नानि पश्चाऽमुश्चत् समाहितः ॥ १८॥ १ नवच्छत्रैरिति पाठान्तरम् ।
४८ मल्लिनाथमहाकाव्ये- क्रोधाऽन्धकारमार्तण्डं मानाऽचलपविप्रभम् ।. . . मायावल्लीतुषाराम लोभाऽम्भोधिघटोद्भवम् ॥१९॥. आरामं साम्यवल्लीनामभिराम महाव्रतैः। आत्माराम. महासत्वं मुक्तरामं विरागतः ॥ २० ॥ लब्धिरनाकर,श्रीमजिनधर्ममिवाङ्गिनम् । वरधर्माख्यमाचार्यमद्राक्षीत् क्षितिनायकः ॥ २१॥ (त्रिभिर्विशेषकम्.) अथ प्रदक्षिणीकृत्य मुनिनाय जिनेन्द्रवत् । पुलकच्छमना विभ्रद् भक्तिं भूतो ननाम तम् ॥२२॥ कांश्चितपद्मासनाऽऽसीनान् कांश्चिद् वज्रासनस्थितान् । कांश्चिद् वीरासनस्थांश्च कांचन बर्हणाश्रितान् ॥२३॥ कांश्चिद् भद्रासनासीनान् कांश्चिद् दण्डासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चिद् कांश्चिद् हसासनश्रितान् ।। कांचन शीलाङ्गरथपरावर्तनतत्परान् । कांश्चिदक्षैर्विनिक्षितर्भङ्गान् गणयतो भृशम् ॥२५॥ कालानुष्ठाननिष्ठांस्तांस्तन्वानान् बहुशोऽपि कान् । सिद्धान्तवाचिकाः कश्चित् कुर्वाणान् परया मुदा ॥२६॥ पात्रलेपपरान् कांश्चित् कांश्चिद् मौनमुपागतान् । शैक्षान् शिक्षयतः कश्चित् कांश्चन पठतः पदः ॥२७॥ कांश्चित् कर्ममकृत्यादिविचारग्रन्थनिर्णयम् । कुर्वाणांश्चूर्णिभाष्यादेः पदव्याख्यामकाशनैः ॥२८॥ कांश्चित् प्रकरणान्युच्चैनूतनानि प्रकुर्वतः । वन्द्यान् ववन्दे निग्रंन्धांत्रिविधं काश्यपीपतिः ॥२९॥ (अष्टभिः कुलकम्) अथोपेत्य वनं मूरि प्रणम्य प्रमदान्वितः । मित्रः साकमुपाविक्षत् चक्रे च विनयाञ्जलिम् ॥३०॥ १ मलपि। . . .
. . -द्वितीयः सर्ग: ४९ अंथो दन्तांशुभिः शुभैयोत्स्नाव्यतिकरिव । सोधवच्छुभ्रयन् भव्यानुवाचेदं महामुनिः॥३१॥ चतुर्गतिकसंसारक्षारवारांनिधाविव । पोवोपमानाचत्वारो-धर्मादानादिका अमी॥३२॥ तेषां मध्याद्दानधर्मः पृथक्कृत्य वितन्यते । यः सिषेवे जिनाधीशेराव हर्षवर्षिभिः॥३३॥ सर्वेषामपि जीवानां देहः सुकृतसाधनः । पुद्गलैः स तु निष्पन्न आहाररससंभवैः ॥ ३४ ॥ आहारैः प्राशुकैर्ये तु दानं ददति साघवे । ते सौख्यभाजिनो राजन्! भवन्ति जिनदचवत् ॥३५॥ तथाहि पुष्करद्वीपे पुरी चन्द्रकलाहया । अभिधानविधानाभ्यां तत्र राजा परन्तपः ॥ ३६ ।। तस्य सोमायशोवत्यौ हरस्येवाद्विजद्दनुजे । अमेयरूपलावण्ये पट्टदेव्यौ बभूवतुः ॥ ३७॥ पनशेखर आद्यायाः सोमाया: सूर इत्यपि । विमातृजावपि प्रीत्या वौ पुत्रौ युग्मजाववत् ॥३८॥ युगपज्जानवोस्तुल्यहर्षयोस्तुल्यशोकयोः । आजन्माऽजायत प्रीतिरेतयोनॆत्रयोरिव ॥ ३९॥ अन्येयुः सोमयाऽध्यायि सपनीजेच जीवति । कथं मामकपुत्रस्य राज्यं सूरस्य संभावि ॥४०॥ सापत्नेयश्च रोगच नोपेक्ष्यौ हितमिच्छता । मूलादेव समुच्छेधौ विषक्षाषिवोद्गतौ ॥.४१॥ विचिन्त्येवि महादेवी सोमालीकमकोपना। चासागारेनिलीयास्थाद् मेयच्छन्नेन्दुकान्तिवत्॥४२॥ प्रमादवशतो भ्रष्टविद्या विद्याधरीमिव । सोमां वीक्ष्य नृपोऽप्यूचे प्रेममन्थरया गिरा। ४३ ॥ उत्तरायणतिग्मांशुविम्ववद् वदनं तव ! ..
११ मलिनाथमहाकाव्ये- गततेजः कथं जातं सोमे ! सोमवरानने ! १.॥४४॥ तवाज्ञाखण्डनं मोहाद् मादृशेन विनिर्मितम् ।। यदेव कोपसंस्त्याये मोहभितिघने स्थिता ॥ ४५ ॥ अथाऽभ्युवाच भूपालं सोमा श्यामास्यमण्डला । .. चिन धर्तुं नो वक्तुं शक्यते यत् तदाऽभवत् ॥४६॥ अथो निर्वन्धतः पृष्टा दत्चाच्चैः शपथावलीम् । हृतनिशेषसारेव साऽप्यूचे गद्दाक्षरम् ।।:४७ ॥ तव वल्लभपुत्रेण पाख्येन संरान्ध्यतः । अभ्यार्थता कृतस्नेहं प्रदोषे कुलरेणुना ॥.४८:॥. निशम्येदं महीपालः कोपाटोपं विनिर्ममौ । युक्तियुक्तं वचो नैतदविचार्येति चेतसा ॥.४९॥ : आहूय चण्डनामानमगरक्षं निशागमे । मारणीयो नवैर्मारैर्भवता पद्मशेखरः ॥५०॥ इत्यादेशं नृपो दत्त्वा त्यक्तोद्गारमिव क्रुधम् । सौख्यभागी वभूवाशु कोपान्धानां कुतो मतिः ॥५१॥ चण्डागरक्षकः सोऽथ लब्ध्वाऽऽदेशं सुदुःश्रवम् । विजने कथयामास पद्मस्य पुरतोऽखिलम् ॥ ५२ ॥ अश्रद्धेयमिदं श्रुत्वा कुमारो हृद्यचिन्तयत् । अप्रसादः कुतस्तातपादैर्मम विनिर्ममे ? ॥ ५३॥ पप्रच्छ. चण्डमुर्वीशनन्दनः किमु कारणम् भवानाकारभावज्ञो दैवज्ञ इव वर्तते ॥ ५४ ॥ चण्डोऽवदद् विमातुस्ते मन्ये कपटनाटकम् । नृपेङ्गितांद, क्रियातत्त्वं प्रत्ययादिव पण्डितः ॥ ५५॥ ततोऽनया स्फुटं कृत्वा कूटं किञ्चित् कठोरया । व्यामोहितो महीपालश्छाया लेखनया यथा॥५६॥ : जगन्मोहनिदानाय दुर्लक्षाय चुधैरपि । विवकिजनमुक्ताय स्त्रीरत्ताय नमोनमः ।। ५७ ॥ १॥
द्वितीयः सर्गः।
१६
सुस्नेहपात्रसंस्थायिदीपा दीपशिखा यथा ।
मॉलनी तनुते लोललोचना निजमाश्रयम् ॥ ५८ ।।
एवं विभाव्य शुद्धात्मा विमुच्य नगरं निजम् ।
उत्तराशामुत्तराशः प्रतस्थे पद्मशेखरः ।। ५९ ।।
व्याघव्याहतसारङ्गशुन्यभ्राम्यन्मृगीकुलाम् ।
विलोक्यमानपारीन्द्रपादां पांशुलभूमिपु ।। ६०॥
नाहलैर्बद्धगोष्ठीकैर्धज्ज्यमानपशुव्रजाम् ।
वंभ्रम्यमाणनिस्वासयोगिनीशतसङ्खलाम् ॥ ६१ ।।
कापालिकजनारब्धघोरपन्त्रमसादनाम् ।
निशम्यमानशार्दूलरफुत्कारदारुणाम् ॥ ६२ ॥
भववद् विपुलाकारां प्रेतभर्तुः पियामिव ।
दिनैः कतिपयैः पद्म आपपात महाटवीम् ॥ ६३ ॥
(चतुर्भिः कलापकम्)
इतश्च पन्नगः कोऽपि नीच कृतमहाफणः ।
देवदग्ध इव श्यामो ददृशे तेन मार्गगः ॥ ६४ ॥
मन्द मन्द जगादाऽसाविति मानुष्यभापया।
कुमारवर मां पाथस्तुपात पाययाऽधुना ।। ६५॥
अन्यथा मम जीवद्रुः शोपं यास्यति सत्वरम् ।
खिन्नेषु दुःखितेधूचैर्महात्मानः कृपापराः ॥ ६६ ॥
पश्चात् तव करिष्यामि परामुपकृति सखे ।
विस्मरिष्यसि न त्वं मां मनस्याऽऽहितया यया ॥६७॥
ततः कुमारः समाप्य नीरं तीरवतीभवम् ।
पन्नगं पाययामास नलिनीनालचर्यया ।। ६८ ॥
अथामवदसौ वेगाद् दिव्यरूपधरो नरः।
दधानः करराजीवे चारु काश्चनपङ्कजम् ॥ ६९ ।
आहत्य करपादेन पयोऽसौ चामनीकृतः ।
अहो ! तस्योपकारस्योपकृतं तेन पापिना ॥७॥
५२ मल्लिनाथमहाकाव्ये- .. . अहो! अस्य कठोरत्वं कुलिशेनेव निर्मितम् । अहो ! अस्य द्विजिहत्वं यथार्थमिव लक्ष्यते ॥७॥ विमृश्येत्यचलत् पन उत्तरी प्रति सत्वरम् ।. इतश्चैक्षिष्ट निश्छिद्रां रजोराजी प्रसर्पिणीम्॥७२॥ भृणोति स तुरगाणां स्फुरत्खुरपुटारवम् । जयश्रीकरकेयूरतारठात्कारसुन्दरम् ॥ ७३ ॥... अस्त्राणि दीप्यमानानि दिवाकरकरोत्करैः। दृष्टवानवनीनाथमनुः सौर्यगृहां इव ॥.७४.॥ उपलक्ष्य खकीय. तद् वलं वलवदाकुलम् । अपृच्छत् सादिन कश्चिद् नामतः प्रकटाक्षरम् ॥७॥ अथाऽसौ न्यगदचन्द्रकलायां पुरि.भूपतिः । परन्तपः सुतस्तस्य पद्मशेखरनामकः ॥.७६ ॥ : मर्यादास्तम्भमुन्मूल्य. महान् मत्त इव द्विपः। देवीं यशोमती कामात् प्रार्थयामास पाकः ॥७७॥ . अग्राह्यनामा नष्टः स.चण्डकादङ्गरक्षकात् । तस्मादिदं वलं. भद्र ! प्रेषित-दिक्षु सर्वतः ॥ ७८ ॥.. अन्यच्च माम.नाम.कथं विज्ञातवानसि ।। पद्मोऽप्युवाच त्वद्वस्वाञ्चलाऽक्षरविलोकनात् ।।७९|| ततः पद्मो महाटव्या निःससार भवादिव । भुजङ्गकृतखर्वत्वं चिन्तयन् जीवनौषधम् ॥ ८०.17 तस्या विनिर्गतः पद्मः प्राप शोभापुरं पुरम् । इतश्च चण्डो मार्तण्डो नभोमध्यं व्यगाहत ।। ८१॥ नखम्पचासु धूलीपु दुःसञ्चारेषु वर्त्मसु । विभ्राणेष्विव निक्षिप्तकारीपानलविभ्रमम् ॥.८२ ।। होदध्ययनस्थानाद् गृहीत्वा पुस्तिकावलीम् । .. वठरच्छात्रवर्गेपत्तिष्ठत्सु निजकासनात् ।। ८३॥ मार्गभ्रमपरिश्रान्तः क्षुधाक्षामकडेवरः। :
द्वितीयः सर्गः। ५३ गुप्ताप सहकारस्य छायायां पद्मशेखरः।। ८४॥. इतभागत्य तत्पादाकुई नचनखप्रभम् ।. अनालयन कराग्रेण नरः कश्चिद् महामनाः ।। ८५:।। अथ निद्रां परित्यज्योपाविक्षत् पद्मशेखरः। कस्त्र भवान् कथं निद्राविद्रावणपरोऽसि मे ||८|| सोऽप्युवान महाभाग ! पुरं शोभापुराभिधम् । अत्रास्ति भूपनिः सोमः सामान्वयविभूषणम् ।।८७॥ तस्याहं सचिवाधीशः सुबुद्धिर्नाम सन्मते ।। . मम राज्यभरं ग़जा न्यस्तवान् धुर्यबधिरम् ।।८८|| भद्र! सामनृपो देवादाक्रान्तोऽस्ति रुजा भृशम् । यत्र मन्त्र इवाऽकर्णे निष्फला औपधक्रियाः ॥८९॥ दुचिकित्स्यनृपच्याधिवीक्षणाचिन्तयाऽऽकुलः । अहं निर्गमयामास दिन संवत्सरोपमम् ।। ९० ।। निशायामय निद्राणे मयि काचन देवता । एत्रमादेशयामास मा मा चिन्तातुरो भव ॥ ९१॥ यः प्रातः सहकारस्य च्छायायां मार्गखदतः। शयितं वीक्षसे राज्ये तं भद्र ! विनिवेशयः ॥ ९२ ।। पद्मशेखर इत्यस्य नाम स्थाममनोहरम् । यस्माद राज्यश्रियो वृद्धिः संभविष्यति निश्चितम्।।९।। सत्याकर्तुम मन्ये भवदागमनोत्सवः । समायातोऽसि नो भाग्यैः पाहि राज्यमखण्डितम्।।९४या ततः पद्मो निजं दृष्ट्वा वपुर्नैसर्गिकाकृति । अचिन्तयदहो! की पुण्योदयविजृम्भितम् ।।९५५. अथ राज्येऽसको न्यस्तो भूपोऽभूत् पद्मशेखरः। . पुण्यानि सहचारीणि विदेशेऽपि महात्मनाम् ॥१६॥ इतश्च तत्रैव पुरे परकर्मोपजीवकः । महोदराख्यया यातः समभूत् कुलपुत्रका ||A9AT, मंल्लिनाथमहाकाव्ये- विज्ञावनिष्फलोपायोसुकृताद्वैतमावहन् । उपवासान् वितन्वानः पद्रदेव्याः पुरोऽपतत् ॥९८ महाशक्त्योपवासेषु कृतेषु निशि देवता । मारासीत् पुरस्तस्य दीप्यमाना तनुश्रुता ॥ ९९।। वरं वृणु महाभाग ! तुष्टाऽहं तव साइंसात् । सुस्वमेक्षणवद् मोघं नाऽस्माकं दर्शनं यतः ॥१०॥ यदि तुष्टासि परेशे ! स्वर्णलक्ष प्रयच्छ मे। अन्यथा मम वाच्छादुर्गतमूलः पविष्यति ॥१०॥ स्मित्वा पद्रेश्वरी प्रोचे स्वर्णलक्ष न संनिधौं। ममास्ति भद्र ! किन्तूच्चैरुपायं दर्शयामि ते ॥१०२।। अथांभ्यधादसौ देवीमुपायं प्रकटीकुरु । न किं कलान्तराकष्टाद् वित्ताद् वित्तमुपायंत॥१०३॥ गृहाण पुरुषाकारं नरं मृत्स्नामयं तनु । दारिश्यमस्य नामेति दुःस्थितादयितान्वितम् ॥१०४॥ स्मित्वा स्मित्वाऽवददसौ देवि! प्रणतवत्सले!। दारिद्यस्य प्रसादेन प्राप्त एतादृशीं दशाम् ॥१०५॥ अनेन निधननेव न मे कार्य कदाचन । यास्यामि निजसंस्त्यायं लाभो मम तपस्यभूत् ॥१०६॥ पुनरप्यवदद् देवी कश्चिदेनं विनिश्चितम् । ग्रहीता स्वर्णलक्षण दधानः सत्त्वमद्भुतम् ॥ १०७ ॥ 'नो चेत् तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् । पुत्रस्येव तवानेन न कुर्वे विप्रतारणम् ॥ १०८ ॥ आदेशपमितिर्मेऽस्तु निगद्येति स पूरुपः । दारियपुरुपं मूर्ध्नि न्यस्याऽस्माद् निरगाद् नरः॥१०॥ किमिदं लभ्यते भद्र ! पृष्टे सति पुरीजने। दारियं स्वर्णलक्षण प्राप्यते दयितान्वितम् ॥११०॥ हा! पाप! पाप! हा! तापकारणं सुखवारणम् ।
दिनीयः सर्गः।
५५
?
गृहीतं किमिदं गाढकोशायैतत् ऋयाणकम् ॥११॥
इत्थं परिजनोद्दी] शृण्वानो वाक्यताण्डवम् ।
पर्यभ्राम्बदसी पुर्या भूतात इव सर्वतः ॥ ११२ ।।
परिभ्राम्यन् परिभ्राम्यन् राजसौधमसौ गतः।
इतश्च तं गवाक्षस्थो वीक्षाञ्चक्रे क्षितीश्वरः ॥११॥
नमान्धाकारयामास मृर्तव्यसनचक्रवत् ।
सोऽप्यागत्य प्रणयनं वभापे योजिताञ्जलिः ॥११॥
देवतद् देवतादत्तं दारियं पुरुपाकृति ।
न केनापि गृहीतं तद् दधता सच्चमद्भुतम् ॥ ११५ ॥
अस्मिन् सत्चविनिर्मुक्ता वसन्ति पुरवासिनः ।
असाचिकं पुरं सर्वमिदं स्वामिन् ! त्वया विना ।११६॥
इत्यं नस्य वचः श्रुत्वा मापे नरपुङ्गवः ।
अर्पयाऽमुं गृहाण त्वं स्वर्णलक्ष निजं यथा ॥११७॥
गृहीते सति दारिद्यपुरुपे धरणीभुजा ।
तद्भयादिव मार्तण्डो ययौं पश्चिमभूधरम् ।। ११८ ॥
दार्भाग्यमिव दारिद्य प्रससार तमस्ततिः ।
दूराद् ध्वस्तो हगालोकः साधुवाद इव द्रुतम् ॥११९॥
इतश्च स्मेरराजीवं दधाना करपद्मयोः।
लक्ष्मीः प्रादुरभूदग्रे पुण्यक्षीराम्बुधेः सुता ॥१२०॥
देव! यस्मिन्नयं भद्रः सुखं खेलति कौतुकी।
अहं तत्र न तिष्ठामि सतीव गणिकॉकसि ॥१२१ ॥
अहो ! विदधताङ्गेऽहं सत्य आमानकः कृतः ।
ऊर्णायुः प्रज्वलंस्तार्णपाणोकसि निविक्षिपन्॥१२२॥
कार्य किमपि नो कार्यमविचार्य विचक्षणैः।
प्रत्यक्षेणाऽनुमानेन परीक्षा च विधीयते ।। १२३ ॥
अविचार्य कृते कार्ये पश्चाद् बुद्धिविचारणम् ।
सेतुबन्धनवद् घिन घिग गतपाथसि भूयसि ॥१२॥
.
मल्लिनाथमहाकाव्य-
इत्थमुक्त्वार्थ देवी श्रीनिर्ययौ राजवेश्मन:।
इतथागाद्नर कोऽपि पुरस्तात् पृथिवीपतेः ॥१२५।।
अथाभ्युवाच भूपालः कस्त्वं कस्मात् समागतः।
सोऽप्यूचे देव दानाख्यं पुरुष मां विचिन्तये ॥१२६॥
यत्र लक्ष्मीरवस्थानं तनुते सुकृतोदयात् ।
मायशस्तत्र.तिष्ठामि मराल इव मानसे ॥ १२७ ।।
'चिरं स्थितस्तवाऽऽवासे प्राप्तं लक्ष्मीफलं मया ।
यास्यामो वयमेतर्हि स्वास्ति तुभ्यं महात्मने ॥१२८॥
इत्थं दाननरो भूपं प्रत्युक्त्वाऽथ श्रियं प्रति ।
चलितो दत्तसंकेत इव राजनिकेतनात् ॥ १२९ ॥
इतश्चागाद् नरस्तद्वत् पुरतः पृथिवीभुजः।
देव! त्वं विद्धि मां श्लोकनामानं वेगवत्तरम् ॥१३०॥
लक्ष्मीलताफलं यत्र देव! दानं विजृम्भते ।
तत्राहं सततं कुर्वेऽवस्थानं गुणबद्धवत् ॥ १३१॥
तूष्णींमाजि महीनाथे श्लोकनामा नरः क्षणात् ।
तत्पादाभ्यामचलत् तदाहूत इवोचकैः ॥१३२.।।
इतश्च चण्डकोदण्डं दोर्दण्डे कलयन् कलम् ।
प्रादुर्वभूव मनुजः कोऽपि कार्तस्वराकृतिः ॥ १३३ ॥
कस्त्वं भवसि भूपेन पृष्टे सति महात्मना ।
सोऽभापिष्ट वचश्चारु रूप्यघर्षरनिस्वनः॥१३४ ॥
भूपते! सत्त्वनामानं मां विद्धि नररूपिणम् ।
श्रियं प्रति प्रयातासिन स्थास्यामि तवान्तिके ॥१३५।।
विहस्येत्यगदद् राजा त्वां समुद्दिश्य चित्तगम् ।
गृहीतमिदमुद्दामं दारियं दयितान्वितम् ॥ १३६ ॥
श्रीर्यातु यातु दानं च यातु श्लोकोऽपि लोकतः।
न ते गमनमाजीवमनुमन्यामहे वयम् ॥१३७ ॥
. -द्वितीयः सर्गः। सर्वेऽप्यास्त्वयि सति प्राप्यन्ते पाणिपङ्कजे । न नरस्त्वां विना भाति वक्ता निर्लक्षणो यथा ॥१३८॥ अर्धास्तावद् गुणास्तावत् तावत् कीर्तिः समुज्ज्वला । यावत् खेलसि सत्त्व! त्वं चित्तपत्तनमध्यगः ॥१३९।। निशम्येदमुवाचाथ सत्त्वनामा महामतिः। देव! स्थास्यामि यौष्माकगुणसंवन्धवद्धधीः ॥१४॥ इतोऽभाणि श्रिया देव्या हहो! दान! नरोत्तम!!: नैवाद्यापि समायाति सवनामा महावलः ॥१४१॥, वयमेकाकिनः सर्वे तमेकं पुरुपं विना । लोचनं. हि विना सर्वमङ्गोपाङ्गं हि पङ्गुवत् ।।१४२।। ततो दाननरोऽचालीदाहातुं सत्त्वपूरुषम् । नृपपाच समागत्य दृष्टाऽमुं तत्र संस्थितः ॥१४३॥ ::अनायाते नरे दाने दध्यौ लक्ष्मी स्वचेतसि । .. बन्दिग्राहेण- मां कश्चिद् ग्रहीता गतयामिकाम् ॥१४४॥ अथ श्लोकेन सा साकं समागत्य नृपाग्रतः। उवाच देवी भूपालं दीप्यमांना रदयुताः ।। १४५ ॥ देवाऽहं पद्रदेव्यस्मि त्वत्पुरद्वारवासिनी। मत्सखी चन्द्रभागाऽसि चन्द्रज्योत्स्नेव निर्मला॥१४६॥ तयाजभाणि विहस्येदं तव नव्यस्य भूपतेः। किं यदस्तितरां सत्वं राज्यश्रीमतिमूनिभम् ॥१४७॥ तती दारिद्यनामाऽयं मया चक्रेतरां नरः। तव सत्त्वपरीक्षायै महासत्त्वशिरोमणेः ॥ १४८॥ वरं वृणु महाभाग ! तुष्टाहं तव साहसात् । अथोवाच नृपो देवि! हषिताऽसि यदि स्फुटम्।।१४९॥ मंत्रीरमारकं राज्यलक्ष्मीवृद्धिनिवन्धनम् । वरं प्रयच्छ. मे देवि! यदि तुष्टासि सत्यतः ॥१५०॥ अथ तस्मै ददौ देवी दिव्यरत्नं स्फुरत्मभम् ।।.
६८
मल्लिनाथमहाकाव्ये-
अस्मिन् वढे. धनुर्दण्डे निदात्यरिवलं रणे ॥१५१॥
अयो तिरोदधे देवी तत्सत्त्वालोकविस्मिता ।
राजापि नितरां-दः परमामोदसंपदम् ।। १५२ ।।
अथान्येधुर्यशो नाम दूत एत्य व्यजिज्ञपत् ।
देव ! चन्द्रकलापुर्या भूमीनाथः परन्तपः ॥ १५३ ॥
तस्य सोमाभूः सूरः पो.यशोमतीभवः ।
भुजाविव सममाणावभूतां तनुसंभवौः ।। १५४ ॥
कैतवेन विनिक्षितः सोमया.पद्मशेखरः।..
तद्वियोगेन भूपाला परलोकमुपेयिवान् ॥ १५५ ॥ .
बभूव तत्पदस्वामी सूरः सोमासमुद्भवः ।
सोऽपि त्वंदेशभागेषु समागाच युयुत्सया ॥ १५६ ॥
सहज कृत्रिम वापि यत्तु वैरं समं मया ।
तदहं वेमिना स्वामिन् ! गूढमन्त्रः स भूपति॥१५७॥
सोऽयं भवानिवाऽऽकृत्या लक्ष्यतेऽलक्ष्यतेजसा ।
युवयोर्न तिलेनापि भेदः क्षीराम्बुनोरिव ॥ १५८ ॥
तत्क्षणं कणिकागुप्यद्गुर्वादिभिरनेकशः।
व्यानशे नगरीवाह्यपदेशोऽङ्गीव कर्मभिः ॥१५९ ॥ .
बभूवुर्मण्डलाधीशाः सर्वसनहनोद्यताः।
जहपुर्वीरभोंगीणवाहवो वाहुसंभवाः ॥ १६० ॥
विन्ध्याद्रिभूरिवाऽऽभाति निर्यद्भिर्भूर्मतङ्गजैः ।
इयैश्च सिन्धुवाहीकाऽऽकरनिर्मितवद् भृशम् ॥१६॥
सुषमाकालजातैर्वा पत्तिभिश्व पदे पदे ।
रयैरनेकनिष्पन्नप्रद्योतनरथैरिव ॥ १६२ ।।
प्रयाणैरुत्मयाणैश्च बहुभिः पद्मशेखरः।
खकीयदेशसीमस्थः समभूद भूरिसैन्यवान् ॥ १६३ ॥
सूरोऽपि निकटीभूय तस्थिवान् वलमेदुरः ।
आवाससंस्थया विभ्रत् सार्वभौमवलश्रियम् ॥१६॥
द्वितीयः सर्गः। ५९. संजग्माते क्रमेणाज्य सेनाम्भोधी महारयौ।. खनत्समरतूर्यालीगम्भीररवभीपणौ ॥ १६५ ॥ गजा गरयुध्यन्त योधा योधै रथा रथैः । दन्तादन्ति खड्गाखड्गि तुण्डातुण्डि यथाक्रमम्।।१६६॥ रजोराज्याऽम्बरे छन्ने घण्टानादैर्महागज़ा। सुभटैरन्वमीयन्त प्रोद्गारैरिव भोजनम् ।। १६७ ॥. मुद्गरैः केपि पात्यन्ते पवनैरिव पादपाः । अधावन् केचनोदना उद्दन्ता इव दन्तिनः ॥ १६८॥ पद्मशेखरभूपालवलं निर्वलंतां गतम् । सूरभूमीपतेः सैन्यसन्निपातेन सर्पता ॥ १६९ ॥ दत्तं देवतया रत्नं कोदण्डे पद्मशेखरः। ध्वान्ताधायि परवले वंशे. ध्वजमिवादधे ॥ १७० ॥ अथाऽवष्टभ्य कोदण्डे खदोर्दण्ड इवार्पिते । निद्रान्ति स भदाः सौमाश्चिरंभ्रान्ताऽध्वगाइव॥१७॥ केचिद् रथेषु रथिनस्तल्पेषु रचितेष्विव । प्रसार्य चरणद्वन्द्वं शेरते स्म रणाङ्गणे ॥ १७२ ॥ केषां पाणितलादत्रं हियेव गलितं ततः। पूर्वाधीतं यया शास्त्रमिव स्मरणवर्जनात् ॥ १७३ ॥ तुरगा अपि निद्रान्ति किश्चिन्मीलितलोचनाः। जलस्था नवमुद्रानां खेच्छया खादनादिव॥१७॥ अयो पनमहीपालो नियम्य निज़बान्धवम् । सूरं निजे रये न्यस्यत् गुम्फेर्थमिव सत्कविः॥१७५।। कोदण्डाद् देवतारनमुद्दधे पबशेखरः। सुप्तोत्थिता इव भटा बभूवुः सूरसेविनः ॥१६॥ जितकाशी नृपः पब आसाद्य विषयं निजम् । पुरी.चन्द्रकला प्राप प्रतापजिवभाम्पतिः ॥१.७७।। परन्तप इव माज्यं राज्यं भवलविक्रमः ।
. . : मल्लिनाथमहाकाव्ये- आससाद पुरं चापि सं त्वरितवलान्वितः ॥१७॥ अन्येयुः कोऽपि निम्रन्थो ग्रन्थवद्वर्णभांखरः। सतत्त्वः सज्जनानन्दी पूर्वं हि समवासरत् ॥१७९॥ ते वन्दितुं महीनाथ सनाथ परया मुदा । अगादुपवने तस्मिन् महामुनिपवित्रिते ॥ १८ ॥ प्रणम्य परया भक्त्या सुखासीने क्षितीश्वरे । महामुनिरुवाचेदं मोहध्वान्तदिवामुखम् ॥ १८१ ॥ अमुष्यों संमृतौ सर्वमस्थैर्यस्य मुखं सुखम् । दाराः कारागृहाणीव जीवितं फेनंवच्चलम् ॥ १८२ ॥ श्रुत्वेदं पद्मभूपालो भववैराग्यभावतः । अंबोचत प्रभो ! कर्मविपाकेभ्यो विभेम्यहम् ॥१८३॥ कर्मवन्धच्छिदं कश्चिद् मार्ग सन्मार्गदेशक ।। निवेदय परं पूर्वभवं श्रोतुं समुत्सुकः ॥ १८४ ॥ अथाभ्युवाच निर्ग्रन्थः पुरातनभवेऽभवः । भाल्लूकनामनि ग्रामे जिनदत्तः कृषीवलः ॥ १८५॥ भीष्मे ग्रीष्मे त्वमन्येाहीत्वा शकटावलीम् । अनेकैः किंकरैः पूर्णामायासी मकाननम् ॥ १८६ । लङ्कोद्देशमिवोचालपलाशशतसंकुलम् । गेयवद् विलसत्तालं सशालं नगरं यथा ॥ १८७ ॥ पाण्डुपुत्रमिव प्रेडदर्जुनेन प्रसाधितम् । हरिवक्ष इव क्रीडद्वनमालाविभूषितम् ॥ १८८ ॥ (त्रिमिर्विशेपकम्) कांश्चिदुच्छेदयामास मूलादपि विरोधिवत् । शाखोपशाखाविकलांश्चक्रे कांचन भूपवत् ॥१८९॥ गगनाङ्गणमाध्यस्थ्यं गते गगनदीपके । अगाः समं कर्मकरैः सरो मानसविभ्रमम् ॥ १९ ॥ इस्तपादादिकं शौचं विदधुः किंकरास्तवः । • - .
द्वितीयः सर्गः इत्तश्चागांद मुनिः कश्चिद् मार्गभ्रष्टस्तदन्तिके ॥१९॥ दिष्ट्या दृष्टा मुनि दध्यौ धन्योऽहं यदसौ मुनिः । मया दृष्टो महारण्ये कल्पद्रुम इवाऽगवान् ॥ १९२ ॥ तदेव भोजन शस्यं यद् द गुरवे भवेत् । सैव प्रज्ञा यया पापं न कुर्याद् विधुरेष्वपि ॥ १९३॥ विमृश्येदं विशुद्धात्मा भूरिभावविशेषतः। द्विः करम्बेण पीयूपशीतेन प्रत्यलाभयत् ॥ १९४ ।। तवाभ्यर्णचरश्चण्डो भवन्तं दानतत्परम् । विलोक्य धन्योऽयमिति मुहुस्त्वामन्वमोदत ॥१९५।। वसन्ती जगती प्राप त्वत्सार्थेन महामुनिः। क्रमेण च भवांभे सौधर्मे त्रिदशश्रियम् ।। १९६ ॥ अथ घ्युत्वा भवाञ्जज्ञे नरेन्द्रः पद्मशेखरः। करम्बदानाद् द्विाभोऽभवद् राज्यद्वयस्य ते ॥१९७॥ चण्डोपि क्रमशो जज्ञे तस्मिन् यक्षो महावने । भवान् यत्र समायावो देवीकूटप्रयोगतः ॥ १९८ । यक्षेण फणिनो रूपं विधाय त्वं चं रक्षितः सहवं तव खर्वत्वं राज्यलक्ष्मीसमागमे । १९९।। अहो ! सुपात्रदानस्य यत् फलं जायतेऽङ्गिनाम् । वागीशोऽपि गिर गुम्फैस्तद् वर्णयितुमक्षमा२००n यत्वयाअच्छि भूनाथ ! समुपार्जितकर्मणाम् । विपाको बन्धसतात्मा चतुर्गतिनिवन्धनम् ॥२०॥ स विपाक क्षितेनाथ ! सर्वकर्मलतापनः । जिनभर्तुर्विना दीक्षां वध्यमानो न रक्ष्यते ॥ २०२।। यत:- प्रव्रज्या भवपाथोधिनिस्तारणतरी निभा । प्रव्रज्या साम्यमाकन्दवसन्तसमयोपमाः ॥२३ श्रुत्वेद पद्मभूपालो राज्यसौस्थ्यं विधाय च ....
६२ मल्लिनाथमहाकाव्ये- .. प्रव्रज्यामाददे राजपुत्रैः साकं तदन्तिके ॥ २० ॥ परिपाल्य चिरं चारु चारित्रं राजसंयमी ।. एकावतारः समभूद् वैजयन्ते स नाकसत् ।। २०५॥ तस्माच्च्युत्वा विदेहेऽसौ प्राप्य तीर्थङ्करव्रतम् । अक्षयं नीरज कान्तं निर्वाणपदमष्यति ॥ २०६॥ श्रुत्वेदं हन्त ! सत्पात्रं फलं न विकलं श्रिया। उवाच विस्मितो राजा राज़मानो महाबलः ॥२०७॥ साम्पतं श्रोतुमिच्छामि गुरोः शीलनिदर्शनम् । उत्सुकोऽस्मीति गदिते वभाषे संयमीश्वरः ॥२८॥ सर्वेषामपि धर्माणां दुष्करं शीलपालनम् । इदं वशंवदं सर्व भुवनं पुष्पधन्विनः ॥ २०९ ॥ शीलं भावलतामूलं शीलं कीर्तिनदीगिरिः। शीलं धर्माब्दपायोधिः शीलं पापगिरेः पविः॥२१॥ यथा महीपतिर्नीत्या यथा रात्रिः शशिधुता । यथा च दयया धर्मों यथा पूर्वमसंपदा ।। २११ ॥ यया क्षान्या च निर्ग्रन्थो यथा ग्रन्थः सदाख्यया । यथा ज्ञान क्रिययाङ्गी तथा शीलेन भूज्यते ॥२१२॥ (युग्मम् ) इलयसद्भावनाधर्मः स्त्रीविलासशिलीमुखैः। सुनयोद्वाहतोऽधस्ताद् निपवेच्छीलकुञ्जरात् ॥२१॥ अकीर्तेः कारणं योषिद् योषिद् वैरस्य कारणम् ।. संसारकारणं योषिद् योषितं परिवर्जयेत् ॥२१४॥ सुशीलापावना काचित् .स्तूयते.विबुधैरपि । यया पौतिकवृत्तान्ते श्रूयते वनमालिका ।। २१५ ॥ तयाहि पुष्करद्वीपे कालम्भोधिमनोहरे । पुरं विभूषणं नाम भूतधात्रीविभूपणम् ॥ २१६ ॥ निरालम्बपरिम्रान्तो. यत्र श्रान्तो दिवाकरः। .
. द्वितीयः सर्गः। ६३ अभ्रलिहगृहेवस्थात् प्रदत्तप्वासनोविद ॥ २१७ ॥ सौधनालकनिर्गच्छद्धृपधूमं धनोपमम् । विलोक्य केकिनः केका कुर्वते यत्र वेश्मगाः॥२१८॥ तस्मिन् बभूव भूपालो विमली विमलाशयः । मृा सोमोऽपि यः मूरः प्रतापेन प्रकाशते॥२१९॥ नाना चम्पकमालेति पुष्पमालेच सद्गुणा। तस्यासीद प्रेयसी प्रेमरवरोहणचूलिका ॥ २२०॥ अन्येशुमंगयाऽऽसक्तो महावनमगाद् नृपः । पीतवसपरीधानः साकं व्याधणोज्झितः ॥२२१॥ ततो हेरम्बवत् केपि समुद्यतपरश्वधाः । केचित् प्राकारवद् भूरिन्यस्तयन्त्राः पदे पदे॥२२॥ जधान निशितैः कुन्तैः कश्चिदाहूय शूकरम् । फश्चिच्छशग्रहव्यग्रो निलीनोऽस्थालतान्तरे ।। २२३ ।। उद्दीनपक्षिपक्षोत्थविरावैः करुणाकरः। अहो! अन्यायवाक्यं तु व्याजहारेव काननम् ।।२२४॥ एतन्मरन्ददम्भेन रुदस्त्रिव वनेष्वित्र । भयेन कम्पमानासु वल्लरीपु भुनास्तिव ॥ २२५ ॥. केचित् पादहीनेपु धार्यमाणेषु केपुचित् । केचित् प्रोथहीनेषु पुच्छहीनेषु केपुचित् ॥ २२६ ॥ केपुचिद् वध्यमानेषु मार्यमाणेपु केपुचित् । केचिद् नश्यमानेषु श्वापदौघेषु सर्वतः ॥ २२७ ।। इतश्च कश्चिदागत्य प्रणम्य परया मुदा। व्यजिज्ञपद् महीपालं कालं काननचारिणाम् ।।२२८॥ (चतुर्भिः कलापकम्) देव! ऋक्षाध्वचारेण गच्छता दूरतो मया। एका निरीक्षिता वाला कामसंजीवनौषधम् ॥२२९॥ तस्या रूपमतिच्छन्दो दर्पणे यदि वीक्ष्यते । ..
६४
मल्लिनाथमहाकाव्ये-
सुधारसस्य कि तुल्यं त्रिजगत्यपि वर्तते ॥ २३०॥
तद्रूपं वीक्षमाणोऽहं निर्निमेषविलोचनः ।
कोऽहं कुतश्च किं नाम न जानामीति मत्तवत् ? ॥२३१॥
सर्वाश्चर्यनिधानाया यदि तस्या भवान् पतिः। .
पुरुषार्थस्तृतीयोऽपि ततः प्रथमतां गतः ।। २३२॥
निशम्येदं महीपालो विमलश्चित्रिताशयः ।
तन्मार्ग दर्शयाऽस्माकमकारणसुहृत्तमः ।। २३३ ॥
तस्याध्वदर्शनेनाध्य ध्रुवस्य गुरुपोतवत् ।
संचेरे धरिणीनाथस्तत्काननमहोदधौ.।। २३४ ॥
दूरादेव समायान्तमवलोक्य तपोधनाः।
उत्तस्थुरुदयाहार्योंदिततिग्मांशुविम्बवत् ॥ २३५॥ :
षडशभागिने तस्मै पाद्यमयं यथाविधि ।
दत्त्वा कुशाऽऽसने राजा महर्षिभिनिवेशितः ॥२३६॥
तेषां मुख्यो जगादैवं चन्द्रः कुलपतिस्ततः ।
धन्या वयं यतो दिष्ट्या दृष्टस्त्वमसि तत्ववित् ॥२३७॥
भवते तत्रभवते सपयों काञ्चनाऽधुना ।
करिष्यामोतिथिभ्यो हि प्रदत्तं श्रेयसे किल।।२३८॥
अथाह धरिणीनाथः पाथोनाथपृथुध्वनिः ।
युष्माकमिदमातिथ्यं यदाशीर्वादमङ्गलम् ।। २३९ ॥
अथ प्रोवाच स ऋषिर्विहस्य जगतीपते ।
यदाशीर्वाददुष्पापं तद् मया दास्यतेऽधुना ॥२४०॥
ततः पुरस्थितां कन्यां धृतवल्कलवाससम् ।
साक्षात्सिद्धिमिवात्मीयामदीदृशदसौ ऋषिः॥२४१॥
उक्तिमत्युक्तिकालोऽयं नैवाऽस्माकं गुणानघ।
परमेकां वरां कन्यां कृतार्थय करग्रहात् ।। २४२ ॥
अथो वभापे भूपालः केयं किं नाम कन्यका ।
कमलङ्कुरुते वंशं किमर्थमिह संस्थिता ॥ २४३ ॥
द्वितीयः सर्गः। ६५ : इत्युक्ते धरिणीभा जगादर्पिर्महातपाः । शुभाख्ये पत्तने भूमान् समभूदु मेघवाहनः ॥२४॥ निजनाथमनःपान्थविश्राममान्तरप्रपा । तस्य लक्ष्मीवती देवी लक्ष्मीर्लक्ष्मीपतेरिव ॥२४५।। वार्धकोत्पन्नवैराग्यो लक्ष्मीवत्या समन्वितः । गिरिगर्भाश्रमे रम्ये तापसव्रतवानभूत् ॥ २४६॥' देव्या पूर्वभवो गर्भः पूर्व राज्ञोप्रकाशितः । अवर्धिष्टाऽऽश्रमस्थाया वल्ल्याः फलमिवोच्चकैमा२४७॥ सुंपुवे सा सुवां कान्तां गङ्गेच स्वर्णपमिनीम् । वनमालेति नामाऽभूदस्या दत्तं महर्षिभिः ॥२४॥ वाल्यावस्थां व्यतीत्याऽसौ वल्कलाम्बरधारिणी। रूपसौन्दर्यराजिष्णुयौवनं समुपाययौ ॥ २४९ ।। अस्याः मियो भवानेव ज्ञानाज्ज्ञातो महीपते।। दिनाधिपं विना नान्यः कमलिन्या यतो वरः॥२५०॥ अर्थिनां कामधुकल्पः कल्पद्रुरिव जङ्गमः। लावण्यजलपाथोधिदृशां विश्रामपल्लवः ॥२५१॥ : कलानामेक आधारः क्षत्रवंशसमुद्भवः । एवं विमृशतामत्रभवानत्र समाययौ ॥२५२॥ (युग्मम्) वल्लीनिभालिता यैव सैव लमा पदाम्बुजे । एक हरिः परं गेहमायात इति सत्यगी ॥२५३॥ इत्युक्त्वा कुलपो भूपं सुमुहूर्वे शुभे दिने । लक्ष्मीमिवाऽम्बुधिः कृष्णं पर्यणाययदङ्गजाम् ॥२५॥ प्रणय मुनिमुर्वीशो निवृत्तः स्वपुरं प्रति । कचे परिजनं सर्व गिरा मेघगभीरया ॥२५५॥ यः कश्चिद् मोहतो लोभाद् यद्वा कलहकौतुकांत् । इमां चम्पकमालायाः पुरतः कथयिष्यति ॥२५६|| खयं गतदयं हन्त ! हनिष्याम्यहितं हि तम् । ., .. .. .
. मल्लिनाथमहाकाव्ये- इत्युक्ते तन्जनोऽवादीद् नाथ! शोश्रूयतां वचना२५७॥ युष्मत्मसादपात्रं स नर्मकलिविंदपकः । रक्षणीयः प्रयत्नेन शपथैरपि सर्वथा ॥ २५८.।। नर्मकेलिरथाऽवादीद् मुक्त्वा व्यतिकरं त्वमुम् । नान्यद् भोः कथयिष्यामि यतःसत्ययुधिष्ठिरः।२५९॥ हहो! ग्रहिल ! मा.ग्राम ज्वालयेति निवारिते। मारितोऽहं शुभमिति लोकोक्तिः सत्यवाक् कृता॥२६०॥ इत्यं निर्भय भूपालो नर्मकेलिं विदूषकम् । न्यक्षेपयत् क्षणात् कारागारे नरकसन्निभे ॥२६॥ योगीन्द्रो भैरवानन्दी खट्वाङ्गीह समागमत् । तमुपासितुमेतर्हि गच्छामि मृगलोचने ! ॥२६२॥ व्यपदिश्यति भूपालो देवी चम्पकमालिकाम् । वनमालां नवावासवासिनीमभ्यपद्यत ॥ २६३ ॥ कियत्यपि गते काले देवी चम्पकमालिका । ब्राह्म मुहूर्चे विदुषी चिन्तयामास चेतसि ॥२६॥ योगीन्द्रव्यपदेशेन निषिध्य खपरिच्छदम् । नवोढां योपितं काञ्चिद् यात्यसौ कपटे पटुः ॥२६५॥ विमृश्येति सहाऽस्तोकलोका चम्पकमालिका। यावत् कारागृहाभ्यणे संभापत् कोपनाऽऽशया॥२६६॥ तावदेक्ष्यत सा देवी तत्क्षणं नर्मकलिना। मेघदृष्टिरिव शुष्यच्छस्यौधेन कुटुम्बिना ॥२६७॥ करमूर्ध्व वितन्वानः शाखोद्धारमिवाऽऽयतम् । उवाच देवि! त्वत्कार्ये मम जातं निवन्धनम् ॥२६८॥ श्रुत्वेदं विस्मिता देवी तत्रागत्येत्युवाच सा । किमर्थ तव संजाता मम कार्ये हि दुःखता ॥२६९॥ देवि ! श्रीविमलो राजा मृगयायामुपागतः। वनमालां परिणिन्ये प्रदत्तां तापसर्जनः ।। २७० ।।
द्वितीयः सर्गः। ६७ भयपूर्व निपिद्धेऽध समस्ते स्वपरिच्छदे । मया संलपितं देव्याः कथयिप्यामि निश्चितम्।।२७१॥ तां चित्तं बिभ्रता भस्माकुरां राज्ञा ममोपरि । मीति विमुच्य मयुचैरीहशी विदधे दशा ॥२७२॥ प्रदीप्यमाना कोपेन कारागारादमुं ततः । आकृप्य नर्मकेलिं च मापे बान्धवोऽसि नः ॥२७३।। जगाम वनमालायाः सौधं चम्पकमालिका। विदूपकमणीतेन सा मार्गेण निरर्गला ॥ २७४ ॥ अवस्कन्दमित्रायान्ती तां दृष्ट्वा सौधरक्षकाः। पलायाश्चक्रिरे भीतिश्लयमूर्धनवन्धनाः ॥२७॥ 'अमृनय समादाय वनमाला भयद्रुता । सायोत्सनाद् ददा झम्पांभयार्ताः किं न कुर्वते ।।२७६।। निपतन्ती द्विजः कश्चित् स्वामिदत्तप्रसत्तिवत् । चनमालां गृहीत्वाऽऽशु न्यक्षिपद् गर्भवेश्मनि।२७७|| विभ्राणाः सुंभटाः केचिद् रोमाश्चान् कवचानिव । कोक्षयकान् समाकर्पन यमजिहाभयङ्करान्।।२७८॥ केचिद् दृढतरं दवा भीत्या द्वारं स्तनन्धयान् । रुदतोऽपि निपेधन्ति दत्वा पाणिं मुखाग्रतः ॥२७९॥ अक्रियन्त प्रतोल्योऽपि दत्तद्वारा महाभटैः। निपिद्धलोकसंचारा महतीपु निशाखिव ॥२८॥ नृपः कृत्वा समागच्छन् बाहाल्यां वाहवाहनम् । श्रुत्वा तुमुलममाक्षीत् किमेतदिति रक्षकान् ? ॥२८१॥ ततः कलकलं राजा निशम्योचे स्वरक्षकान् । किमागात् परचक्र भोः किंवाऽकाण्डयुगक्षयः॥२८२॥ उवाच रक्षको ज्ञात्वा समुद्भूतं तदद्भुतम् । । तच्छ्रुत्वा शून्यचेतस्कः सोऽभवद् गतवित्तवत्।।२८।। १ निपिद्धे तु इत्यपि पाठः । २. साक्षेपमिति च। - मल्लिनाथमहाकाव्ये- - . अथ चम्पकमालापि भूपतेः पार्श्वमेत्य च । 'अभाषिष्ट मृषावादी त्वचो. नान्यो जगत्यपि।।२८४॥ योगिनं भैरवं नन्तुं प्रयामीत्युपदिश्य माम् । भैरवी. तां मुहुर्यासि सेवितुं निजवल्लभाम् ।।२८५।। : इत्युक्त्वा कोपना देवी कोपागारमुपेत्य च.. उद्धन्धनं व्यधादाऽऽशु नास्ति कोपवतां मतिः॥२८॥ अन्वेपिताऽपि शतशो महीशेन जनैरपि । न दृष्टा वनमाला सा हस्तभ्रष्टाणुरत्नवत् ॥२८७ ।। यः कश्चिद् वनमालाया उदन्तं कथयिष्यति । तस्मै लक्ष-प्रदास्यामि. दीनाराणां विनिश्चितम् ॥२८८ इति घोषणया. राजा ताडयामास डिण्डिमम् । शुद्धिस्तथापि न कापि लेभे दुःखी ततो नृपः।।२८९॥ निवृत्ते सर्वथामुष्या उदन्ते दिक्षु विस्तृते । समातृको द्विजस्तस्मात् तया साकं विनिर्ययो॥२९॥ किश्चिागमतिकान्तो द्विजः प्रोवाच तां निशि । दुःखाद् रक्षितपञ्चत्वे! साम्पतं वल्लभा भव ॥२९॥ आकर्येत्यवदद् देवी विनोसि मतिमानसि । क्षत्रियाण्या समं कामं संगमं किं विधित्ससि ॥२९२॥ प्रतापाक्रान्तलोकोऽपि परासक्तो दिवाकरः। अपराधीव देवेन पात्यते वार्षिपाथसि ॥ २९३ ।। पुराणवेदिनो यूयं यद्यन्यायं करिष्यथ ।। तदा सत्येति गीरासीत् समुद्राद् धूलिरुत्थिता।।२९४॥ आपातरम्यैर्विपयैः किम्पाकद्रुफलैरिव । कथं स्वकुलमर्यादां त्यजसि क्षयवाधिवत् ? ॥२९५॥ दिवा न वीक्षते घूकः काको नक्तं न वीक्षते । कामातः कोऽपि पापीयान् दिवा नक्तंन वीक्षते ॥२९६॥ १ अभापतेति पाठान्तरम् ।. . ..
दिनीयः मर्गः। ६ . जीषिनं नीलगवर कुलीनस्य भमानले । भागुमनादयधिको यनः शीलमृतोशुभः ॥२९७।। गुरुम्वं पाणदानुवाद महीयस्तव नन्दनः। अहं पुत्री स्नुपयाऽय कथमन्यद् विभाष ? ॥२९८॥ पर मोचान कोपन विदयाग दुरात्मिक!। अनस्त्वां मारयिष्यामि मारनवनवरहम् ।। २९९ ।। लदर्थे विषयस्यक्तः सविनाऽपि हि पूर्वनः । पर नवमी वटा निष्ट ! दुष्टष्टिन ! ॥ ३०० ॥ न्य राज्यं न्यदर्थन दंगो बन्धः कुलं गृहम् । वित्तं मित्रं निना भूमिः परं ते चष्टिनं बदः ॥३०१।। वनमालाग्यधावाच रक्षनाद मां महापदः । जनकाजसि सदाचारपरांपकृतिमुन्दरः ॥ ३०२ ।। अथाकपद हिनश्रमकांशादस्त्री भृशं सिताम् । कामान्या इत्र कांपाधा कृत्याकृत्यपराङ्मुखाः३०३॥ बामणस्य ननां माना वमापे प्रेमवन्धुरम् । जीवन प्राणी मुने ! भद्रशनं पश्यति निश्चितम् ३०४॥ बनमालागदद् मातः ! पनत्वं मम जायताम् । नथापि शीलविध्वंसो मा में भवतु जातुचित् ।।३०५।। ज्ञात्वनि निधनत्वपि सस्पृहां शीलपालनात् । सहस्रण मुवर्णस्य विक्रीणीते स्म स द्विजः ॥३०६॥ कायकेणापि तेनाशु प्रार्थिता द्विजवद् भृशम् । तद्वत् मोवाच सा साध्वी होकरूपा सती यत॥३०७॥ : ततो बर्बरदेशे सा विक्रीता तेन विप्रवत् । एकत्रापि हि दुर्दैवाद् भवे भत्रशतं भवेत् ॥ ३०८ ॥ :कदन्नभोजिनी कामं मलाविलकलेवरा । बनमालाऽभजद् नूनं शुष्कमालेब हेयताम् ॥ ३०९॥ अन्येास्तुणकाष्ठौघमानेतु काननं.गता । ..........
मल्लिनाथमहाकाव्ये- ततः सा मूर्छयाऽभ्रश्यत् पृथिव्यां छिन्नक्षवत् ३१०॥ मृतेव गतनिःश्वासा मौनिनी योगिनीव सा। अलब्धसंज्ञा सुचिरं स्थिता ही विधिजृम्भितम्।।३११॥ 'मृतकल्पामिमां चञ्च्चा ततो भारण्डपक्षिराद् । जगृहे नीरघेरन्तीपे चन्द्रकलाहये ॥ ३१२ ।। अम्भोधिवीचिभिलब्धसंज्ञाऽभूद् वनमालिका । संशुष्यदल्लरीबोच्चैः प्रथमाम्भोददृष्टिभिः ॥ ३१३ ॥ किश्चिञ्चलत्तनूं दृष्ट्वा तां मुक्त्वा च नभस्तले । दयाधर्मपरायत्तश्चलति स्म स पक्षिरात् ।। ३१४ ॥ 'खंस्था सा हृदये दध्यौ तद् वृत्तं खप्नदृष्टिवत् । क चाश्रमो महर्षीणां क च राज्यपरिक्रिया ॥३१५॥ क चाज्यमन्तरद्वीपे निवासो जनवर्जिते । क्वच मूर्छागमोऽरण्ये क्वचाऽयं वीचिसङ्गमः१३१६॥ अथवा दुःखसंदोहो ममाऽन्योऽपि प्रसर्पताम् । पश्चादपि हि यद् देयं तत्पूर्व किं न दीयते ॥३१७॥ इति मीमांसमानायां तस्यां कश्चन पूरुषः । समभ्येत्याऽभ्यधादेवं प्रेममन्थरया गिरा ॥ ३१८ ॥ कासि विसेरपदाक्षि ! करमादिह समागता । इत्युक्त तेन सा कामं मौनमुद्रामशिश्रियत् ॥ ३१९ ।। सोऽथाभाषिष्ट वृत्तं मे शृणु शोभनदर्शने । कासारनगरावासी भन्नपोतो महोदधौ ॥ ३२० ॥ दैवात् फलकमासाद्याऽन्तरीपं प्राप्य सुन्दरि।। एकाकिनोद्वितीया मे द्वितीया त्वं भविष्यसि ॥३२१॥ श्रुत्वाथ दध्यावित्येपा हा ! दूरक्षामिदं व्रतम् । यत्र वा तत्र वा यातु कर्पासो लोठ्यते जनैः ॥३२२॥ उवाच वनमालेदं मा वान्धव ! वदेशम् । १ तस्युपः इत्सपि पाठः।
द्वितीयः सर्गः... ७१ . लोकयविरुद्धं हि किं कुर्वन्ति विवेकिनः १ ॥३२३॥ अथ बौहित्थिकस्तस्याः कण्ठपाशं ददौ दृढम् । एवं सौधर्मकल्पस्य पश्यन्ति स्म सुंधाभुजः ॥३२४॥ तां पश्चत्वदां प्राप्तामपि पालितसव्रताम् । वनमालां विलोक्यैते प्रादुरासन् सुधाशनाः ॥३२५।। रे पौतिक ! परस्त्रैणसङ्गलालसमानस । कथमेतां सती हंसि शौनिको वर्करीमिव १.॥३२६॥ शीलवतप्रभावेण वयमस्याः पदातयः। तवैतत्माणघातेन कृतान्ताऽनुचरा इव ॥ ३२७ ॥. ततः पोतवणिग् भुञ्जभिवाऽऽस्येऽक्षिपदङ्गुलीः सर्वासामपि भीतीनां मरणं हि महद् भयम् ।।३२८॥ अमृतैः करुणासान्द्रैस्तं विमुच्य नृपप्रिया । विज्ञायाऽवधिना नीता विभूषणपुरे पुरे ॥ ३२९ ।। आवासमध्यमासीनां तां निरीक्ष्य क्षितीश्वरः। विस्मयस्मेरहदयो यावद् ध्यायति किञ्चन ॥३३०॥ अथोचुस्ते सुपर्वाणो देव ! धन्या वयं ननु । सतीचूडामणेरस्याः प्रणतं यत् पदद्वयम् ॥ ३३१ ।। अमुष्याः शीलमाहात्म्यं वागीशो वक्तुमक्षमः । मन्ये शून्यपदभ्रान्ति नित्यं नित्यं दधात्यलम् ॥३३२॥ ततः पौतिकवृत्तान्तमनल्पं कल्पवासिनः। प्रजल्पन्ति स्म विस्मेरवदनाम्भोजराजिताः ॥३३३॥ अस्याः शीलमनश्लील हरेर्वर्णयितुं पुरः। गच्छामो वयमित्युक्त्वा प्रचेलुः कल्पवासिनः॥३३४॥ सस्नेहमगदद् देवी देव ! कस्मात् कृशाङ्गकाः। भवन्तः श्वेतवसनाः समाप्तदर्शना इव ॥ ३३५ ।। देवि! त्वद्विरहे मासे क्षमिणः साम्यभाजिनः । जैनाचार्याः समाजग्मुहिरन्तः कृपालवः ।। ३३६॥
୨? मल्लिनाथमहाकाव्ये- तेषामन्तेऽर्हतो. धर्म श्रुत्वा न्यगदमञ्जसां.। . . दीक्षा:दत्त भवाम्भोधौ मङ्गिनीमङ्गिनीमिव ॥३३७॥ राजन् ! भोगफलं कर्म तवाद्यापि हि वर्तते ।। ततोऽहं न्यगर्द तूर्णमपूर्णखमनोरथः ॥:३३८॥.. बनमालां विना खामिन् ! सर्वस्त्रीनियमो मम-1.. तस्याः शुद्धिर्मया लब्धा न चरैरपि भूरिभिः॥३३९॥ अखण्डशीलालङ्कारा रुन्धतीव:महासती । . राजन् ! द्वादशवर्षान्ते मिलिष्यति तव प्रिया।।३४०|| स्वामिन् ! मम कथं दुःखं जातं.द्वादशवार्षिकम् ? अथोचे भगवानेवं ज्ञानज्ञातजगत्त्रयः ॥.३४१. ॥ अनेकगोधनखामी भद्रसंज्ञः कृषीवलः। . शालिग्रामे पुराऽऽसीस्त्वं दीनदानपरायणः॥३४२॥ शरत्काले समायाते केदारे शालिशालिनि। गतस्त्वं हंसमिथुनमपश्यः काममोहितम् ॥ ३४३ ॥ गृहीत्वा वारलां पाशेपस्यन्तीमर्थकदा। आलिम्पस्त्वं कुङ्कुमेनात्मानं चाशुभकर्मणा ॥३४४ा तद्वियोगातुरो हंसः परिभ्रमनितस्ततः । . नैवाऽद विशखण्डानि नैवाऽऽप सलिले तिम्॥३४५॥ : अथ तं तादृशं वीक्ष्य वारलां जलधारया । अन्ते द्वादश नाडीनां प्रक्षाल्य दययाऽमुचः ॥३४६॥ दीनदानप्रभावेण त्वमभूद् धरणीश्वरः । दानेन परमा भोगा भवन्ति भववर्तिनाम् ॥३४७॥ : त्वया द्वादशनाडीभिर्यत् कर्म समुपार्जितम् । वदिशभिर्वाद तदशेपं सहिप्यते ॥ ३४८॥ .. यतः- अदीर्घदर्शिभिः रैरिन्द्रियवाजिभिः । .इसद्धिः क्रियते कर्म रुद्भिरनुभूयते ॥ ३४९ ।।...
दितीयः सर्गः। नव प्राग्भवपन्नीयं त्वत्कृतमन्वमोदत । ततोऽस्या अपहारोऽभूत् कृतं कर्मच नाऽन्यथा।।३५०॥ श्रुत्वेद सुगुरुन् नत्वा प्राप्य श्राद्भवतावलीम् । अतिष्ठं पापधग्राही चतुप्पा निजीकसि ॥ ३५॥ देवरसि त्वमानीता मम भाग्यरिव द्रुतम् । न पामोति किमु पाणी धर्मकर्मणि कर्मठः ॥३५२।। अथ भूमिपतिः साकं तया वैपयिकं सुखम् । मुखानो न्यगमन् कालं मुघाभुगिव भूचरः ॥३५॥ पर्यन्तऽनशनं कृत्वा द्रव्यभावविभेदतः। जगाम लान्तकं कल्प क्रमाद् निर्वाणमेष्यति ॥३५४॥ वनमालापि संप्राप्तद्वादशश्रावकवती। इतवत्यच्युतं कल्पं तस्माद् मोक्षमवाप्स्यति ॥३५५॥ यथाऽनया निष्कलङ्घ सुशीलं परिपालितम् । तथान्यैरपि भूपाल! पालनीयं महावल! ॥३५६॥ स्वामिन् ! शीलवतीमध्ये धन्यैका वनमालिका । त्वरते ब्रह्मचर्याय यच्चरित्रेण मन्मनः ॥ ३५७ ॥ मूढो विषयसेवाभिर्विधत्ते जन्म निष्फलम् । विक्रीणी न किं वालो रत्नं स्वल्पैः कपर्दकैः ॥३५८॥ नरकाय प्रजायन्ते विपया हन्त ! सेविताः । तेषां त्यागस्तु भावेनापवर्गपथदर्शकः ॥ ३५९ ।। यथोद्देशं हि निर्देश इति ध्यायन् महामुनिः। उपाक्रमत माहात्म्यं तपसो वक्तुमप्यथ ॥३६०॥ तपो.विजयतामेकं कार्मणं भुवनश्रियः। धर्मरोहणमाणिक्यं कर्मकक्षाऽऽशुशुक्षणिः ॥३६१॥.. : विधिनद्विहितादस्मात् कर्ममर्मविभेदकात् । सुगतिं लभते विद्याविलासो नृपतिर्यथा ॥३६२॥ (युग्मम्) १'वर्यते' इत्यपि । २ 'महामतिः । इति पाठान्तरम् ।.." ... - १० मल्लिनाथमहाकाव्य- . तथाहि- आस्ति स्वीस्पर्शवत् सर्वविषयेष्वादिमं पुरम् । काञ्चनाख्यं लसद्भद्शालं काञ्चनशैलवत् ॥३६॥ तत्रासीत् पृथिवीपालः सूरसेनो महारथः । धरणीधारिणीनाम्नी तस्य देव्यौ वभूवतुः॥३६४॥ विज्ञातजीवाजीवादिनवतत्वः सदाऽऽस्तिकः । तस्मिन्नेव पुरे श्रेष्ठी श्रीपालः परमाईतः ॥३६५॥. सुशीललालसा धर्मे दानशौण्डा दयावती । श्रीमती तस्य जायाऽभूद् धीमती परमाईती ॥३६६॥ चत्वारो नन्दनास्तस्य लक्ष्मीमतुर्भुजा इव । , श्रीधरः श्रीपतिश्च श्रीदत्तः श्रीवत्स इत्यपि ॥३६७॥ अन्येयुः कौतुकाच्छ्रेष्ठी तल्पस्थः सर्वनन्दनान् । पप्रच्छ केन केन स्वमुपायेनार्जयिष्यथ ? ॥ ३६८॥ तन्मध्यात् प्रथमोऽवादी तात! चिन्तातुराः कथम् । वित्तार्जन करिष्यामि नानारत्नपरीक्षया ॥३६९॥ सुवर्णस्य तथा वस्त्रसमूहानां च विक्रयैः । वित्तोत्पत्ति विधास्याव इत्यन्यौ मोचतुः सुतौ॥३७०॥ श्रीवत्सोऽथ जजल्पोचैर्गेयदत्तमना मनाक् । लक्षपाकादितैलेन कृताभ्यङ्गाङ्गमर्दकैः ॥ ३७१॥ विहितस्नानमङ्गल्यः पञ्चतूर्यलयान्वितम् । सौवर्णरत्नपतिमाः पूजयन् लास्यवन्धुरम् ॥ ३७२ ॥ नानाप्रसादपात्रौघेः पत्तिभिः परिवारितः । कुर्वाणो भोजनं भोज्यलेह्यपेयसुपेशलम् ॥ ३७३ ॥ मुश्लिष्टशाटकमान्तनिधरितकरद्वयः । शलाकाऽवसरस्फूर्जद्गेयदत्तश्रवोयुगः ॥ ३७४ ॥ शय्यायां पुलिनाभायां निविष्टत्रिदशेशवत् । 'सूरसेनोऽभिधानतः' इति च ।
दिनीयः सर्गः। ७५ पकाम्यां मधिं बनत्यां धम्मिलं नवभनिभिः||३७५॥ निक्षिपन्यां दिनीयस्यां नालन्तानिलं मृदु । ननीयस्यां ददत्यां तु नाम्बूलं प्रेमगर्भिनम् ॥३७६॥ ननुभ्या दागिनायां तु मयन्त्यां क्रमाम्बुज । गवंभूनः करिष्यामि राज्यं श्रीमरसनवन् ।। ३७७ ।। (सप्तभिः कुलकम् ) अरेरे! बक्षि वाचाटासंबद्धं किमिदं वचः । मामकं त्यज धामदम, श्रेष्ठीत्यतर्जयन् ।। ३७८ ।। नंजः संगृा चण्डांशु रिरिव रहसा। क्षारयण्टोपि तद्गहान निर्ययो श्रेष्ठिनन्दनः ॥३७९॥ अपमानन तातस्य प्ररितः पाप सुन्दरम् । पुरं रत्नपुर नाम सश्री स्मेरपावत् ।। ३८० ॥ तत्र श्रीरत्नकत्वाख्यो हरिवंशान्वयी नृपः। मुदक्षिणा प्रिया तस्य ऋतारिब मुदक्षिणा ॥ ३८१॥ चारुसामाग्यसीधाग्रपनाकाकाश्चनच्छविः। सामाग्यमञ्जरी तस्य नन्दनी नेत्रनन्दनी ।। ३८२ ।। नयसारो यथार्थारख्यो मन्त्रिपुत्रः पवित्रधीः । अपाठीद् विमलाख्यस्योपाध्यायस्यान्तिके तथा।३८३॥ अधीयानग्छात्रवर्गः सेवितक्रमपङ्कजम् । श्रीवत्सो नगरस्यान्नस्तमुपाध्यायमैक्षत ।। ३८४ ।। तं प्रणम्याऽवदत् पूज्य ! मां विद्यामंदो भव । इत्युक्ते पाठयदसा सुतवच्छेष्ठिनः सुतम् ।। ३८५ ॥ पुरातनभवोपाचज्ञानावरणकर्मणा । पठन्नपि न जानीते किञ्चनाऽसंज्ञिजीववत् ।।३८६॥ : मूर्खच इति स्फीतं गुणनिप्पन्नमीदृशम् । तस्य नाम ददुरछात्रा यतस्ते केलिवृत्तयः ॥३८॥ अनेनाहूयमानोऽसौ द्यते स्म क्षणे क्षणे । A .
३ मल्लिनाथमहाकाव्ये- प्रननेव शल्येन घनाघनघनोदये ॥ ३८८ ।।" निहोतव्यमिदं केनाप्युपायेन मया कथम् । 'त्रिमृश्येति मुहुश्चक्रे छात्राणां भक्तिमद्भुताम् ॥३८९॥ उत्तितेज कपर्दैन पट्टिकाः प्रतिवासरम् । पर्यपूर्यन्त पात्राणि विधान खटिनीद्रवम् ॥ ३९० ।। छात्राणामासनान्येष विन्यस्यति दिवानिशम् । पदसंवाहनादीनि कर्माणि विदधेतराम् ॥३९सा नाम च्छात्रैर्ददेज्यास्य विनयचट्ट इत्यपि । दुर्भिक्षं नाम तेषां हि किमाख्यासु विजृम्भते १ ॥३९२।। : अमुष्य भक्तिचट्टस्य पाठकुण्ठस्य सर्वथा । एवं द्वादश वर्षाणि हर्षोत्कर्षजुषोऽवजन् ।।३९३॥ तस्यां तु लेखशालायां पठन्ती राजकन्यका । सौभाग्यमञ्जरी नाम्ना जज्ञे यौवनपावना ॥३९४॥ कंचिद् गतविद्यायाऽवयवाक्यवराय माम् । दास्यते जगतीनाथः कन्याओं मत्सगोचरः ॥३९५॥ नयसारः पुनरसौ मन्त्रिपुत्रो निधिर्षियाम्। वीरःशूरो नयी शान्तः सुदाक्षिण्यः प्रियंवदः॥३९६।। यद्यप मम जीवेशो जायते पुण्ययोगतः । तुष्टा मे देवताः कुल्याः सत्याचाशी परम्पराम॥३९॥ इत्यं विचिन्त्य सप्रेमप्रपञ्चवचनं च सा । नयसारं प्रति प्रीत्या वभाषे रहसि स्थिता ॥३९८॥ नयसारोऽप्युवाचेदं कैतवेन कृतस्मयः । युक्तमुक्तं त्वया भद्रे! शृङ्गारदुधनावलि! ॥३९९।।: देवानामर्थनीया त्वं यदि प्रार्थयसे च माम् । त सभाग्यं सौभाग्यं किन्तु किञ्चन वच्म्यहम्।४००॥ त्वं कन्यकासि भूमीन्दोस्तत्पत्तेरस्मि नन्दनः। १ 'खटिकादवम्' इलपि । : .. . .. . -- दिनीयः सर्गः। मगहिपन संबन्धः किं भद्रायाः प्रशस्यते ॥४०१ ॥ अथांचे भूपनः पुत्री सत्यमेव त्वयादिनम् । परं विद्यागुणः कोन्यस्तव तुल्यो जगत्यपि ॥४०२॥ फस्याऽपि गुणहीनस्य किं करिष्यामि पाणिगा। ककुमतो गन्न बद्धानहाहीव बराकिका ॥४०३।। नयसारादधामिज्नुरक्तं मयि मानसम् । रक्षितुं शक्यन नव निपिद्धमपि युक्तिभिः ।।४०४।। अपि चण्डानिलोदतनरङ्गस्य महोदधेः । शक्यत प्रसरी राद्धं नानुरक्तस्य नसः ॥ १०५ ॥ उवाच राजपुत्री च यदि त्वं सदयों मयि । नहा सत्यं कुरु वचाऽपरया मित्ररो मम ॥ ४०६ ॥ ओमित्युक्तं नयेनाध्य दाक्षिण्येन क्षणादपि । अन्यत्रुः पयामास तदन्ते चेटिकां च सा ॥४०७॥ अस्मिन्नव दिन लग्नं परमोचग्रहान्वितम् । आकृष्टमावयोः पाण्यरशरिव पुरःसरम् ॥ ४०८ ॥ करभ्यो वायुवेगिन्यो गोणी पूर्णा मणीगणः । प्रगुणीकारिताः सन्ति प्रच्छन्न मन्त्रिनन्दनः।।४०९।। आमत्युक्तंति कापत्र्यादसौ विनयचट्टकम् । रहस्युवाच भोः! राजकन्यकां दापयामि ते ॥४१॥ अश्रद्धेयमिदं श्रुत्वा व्योमपुप्पमित्राऽवदत् । नयसार! कथं देवहतं हससि केलिना ॥४१॥: अयुक्तं वक्तुमन्याय्यं हन्त! युष्मादृशां विशाम् । न भाति चरणे बद्धं करभस्य हि नूपुरम् ॥४१२॥ हो। विनय ! जल्पामि वचनं सत्यमीदृशम् । नात्र हास्याऽऽस्पदं किञ्चिद्भवता सह तन्यते ॥४१३॥ कन्ना सौभाग्यकन्दल्या पाणिग्रहमहोत्सवम् । • .
७८ मल्लिनाथमहाकाव्ये- - उष्ट्रीमारुय गन्तव्यमुज्जयिन्यां त्वया द्रुतम् ॥४१४॥ अथ प्रमाणमेवास्तु जजल्प श्रेष्ठिनन्दनः । सक्तुमध्ये घृतक्षेपो हर्षोत्कर्षाय कस्य न? ॥४१५॥ प्रदोषेऽध्यापकं नत्वाऽवादीद् विनयचट्टका । तात! प्रातर्गमिप्यामि पितृपादनमस्यया ॥४१६॥ हंहो ! वत्स! ममाभ्य% स्थितो विनयभृच्चिरम् । परं विद्यालयो ज्ञातो न त्वया पूर्वकर्मतः ॥४१७॥ गुरूणां क्रमसेवा हि निष्फला न प्रजायते। एप प्रवादो मा भूयादसत्य इति चिन्तयन् ॥४१८॥ अभिमन्व्य पवित्रात्मा श्रीसारखवविद्यया । अपाययद् घर्पयित्वा चन्दन श्रेष्ठिनन्दनम् ॥४१९॥ प्रणिपत्य गुरोः पादौ नयसारनिवेदिते । तस्मिन् स्थाने गतो रात्रौ हृष्टो विनयचट्टकः ॥४२०॥ तस्य साहायकं कर्तुमिव ध्वान्तं जगत्यपि । प्रसृतं पुण्यपात्राणां सहायः को न संभवेत् ॥४२१॥ नयसाराम्बरं प्रीत्या परिधाय वणिसुतः । तामायातां परिणीयाऽभ्यासामास ऋमेलकीम् ॥४२२॥ गतवत्यय भूयस्यां काश्यप्यां राजकन्यका । अद्राक्षीद् विनयं सर्वपाठकानां विदूषकम् ॥ ४२३ ॥ तप्तग्रावतलक्षिप्तविमुग्धशफरीयिता। सर्वाङ्गतप्ता समभूद् नितरां राजकन्यका ॥ ४२४ ॥ अविचार्य कृतं कार्य यत्तत् स्फुट निरीक्षितम् । गुरुद्रोहपराया मे सर्वमल्पमिदं पुनः ॥ ४२५ ।। अन्यासामपि स्वच्छन्दचारिणीनां जगत्यपि । भनो मार्गो मयाऽवश्यं नयसारप्रयोगतः॥४२६॥ आत्मकुलक्षयत्रासाद् नयसारेण बुद्धितः । उदाहिनो धिया न्यूनो नूनं विनयचट्टकः ॥ ४२७ ।।
द्वितीयः सर्गः। ७९ . इत्थं चिन्तातुरा दूरं तरुणं तरणिं यथा । दृशा संभावयामास तं न श्रीष्ठितनूद्भवम् ॥४२८॥. . अथोज्जयिन्यां संप्राप्तो गृहीतोत्तुङ्गमन्दिरः। जनगोष्ठीषु विचरन् रञ्जयन् जनमानसम् ॥ ४२९ ।। नव्यैः काव्यैः शुभैः श्राव्यैः सरसाथैः स्वयंकृतैः । विद्याविलास इत्याख्यां लेभे पुर्या मनोहराम् ॥४३०॥ (युग्मम् ) गृहापवरकासीना रुदती करुणखरैः। वासरान् गमयामास कृच्छ्रात् सौभाग्यकन्दली॥४३१॥ अन्येदुरवदद् धात्री देव्यसौ श्रेष्ठिनन्दनः। शाखाम्भोनिधिपारीणोधुरीणः सकियावताम्॥४३२॥ यौवनोद्यानदहनं मान मुक्त्वा मनस्विनि। प्रेमामृतरसापूर्ण तूर्णं ब्रूहि स्ववल्लभम् ।। ४३३ ।। प्रत्युवाच सुता राज्ञो यादृशोऽस्त्येष धात्रिके। जानामि तादृशं दृष्टो मया द्वादशवत्सरीम् ॥४३४॥ कलानां कौशलाद् देवि ! रञ्जितो नागरो जनः। विद्याविलास इत्याख्यां ततो नामास्य निर्ममे ॥४३५॥ कथश्चित्वेन खङ्गित्वाद् रञ्जितो धात्रिके ! जनः। जानाति कनकमध्यं स्वर्णकारः, परो नहि ॥ ४३६॥ इतश्च- काश्मीरमण्डलाधीशभीमनाना महीभुजा। लेखः श्रीरत्नकेतोश्च प्रेषितः सन्धिविग्रहे ॥ ४३७॥. सलिप्यन्तरसंपूर्णो लेखः केनापि नैव सः। वाचितो गुरुणा नूनं दत्तमुद्र इवोचकैः ॥ ४३८॥ : जगाद सचिवः खामिन् ! वाच्यते केवलं धिया। यदि विद्याविलासेन शास्त्राम्भोधिहिमाता ॥४३९|| मजरी इति च.}. २. 'भाषख निजवल्लभम्' इत्यपि ।
१० मल्लिनाथमहाकाव्ये- . . नृपादेशात् समाहूतः पूर्व पठितवत्सुखम् । तं. खं. वाचयामास निःशेषलिपिकोविदः ॥४४॥ तत्क्षणं परितुष्टेन महीनाथेन.सन्मतिः ।.. स्थापितः सचिवत्वेऽसौ न श्रद्धालुर्गुणेषु का? ॥४४१॥ तृपंप्रदत्तसाम्राज्यभारः सुमतिहेतिभिः । दुःसाध्यान साधयामास सचिवः शुचिभूषणः।।४४२॥ कदाचित् कथयामास कोऽपि लोणीपते. पुर जगत्मियोऽपि देवायं न प्रियो निजयोषितः ॥४४३॥ कथं वेत्सि नॅपोक्तोऽसौ वभाषे हन्त ! होरया । देव! जानामि कामिन्या निजाया वल्लभो न या४४४॥ श्रुत्वेदं कौतुकादेष सेवावसरमागतम् । उवाच सचिवं चारु समक्ष निजपर्षदः॥ ४४५ ॥ मन्त्रिन्नभिनवी मन्त्री राज्ञो भोजनदायकः । इत्यस्माकं सदाचारः कर्तव्यः सत्वरं त्वया ॥४४६॥ आमत्युक्त्वा गतो गेहं विमनस्को गतखवत् । उवाच धात्रिका मन्त्रि श्रेष्ठं श्रेष्ठगिरा तया ॥४४७॥ अपमानं महीभो किं ते वत्स! प्रकाशितम् । किंवा धीविषयेऽप्युच्चैः कश्चिदर्थस्त्वगोचरः ॥४४८|| न मे मातर्महीमा मानम्लानिः प्रकाशिता । कश्चिदर्थो न मे धात्रि! मत्यगोचरतां गतः ॥४४९॥ . परं क्रूरनिदेशोऽयं दत्तः क्षोणीभुजा स्वयम् । यत्तचौकसि भोक्तव्यं कल्पोऽस्माकं कुले ह्ययम् ॥४५०॥ गृहाऽऽगते महीनाथे मन्त्रिण्याः किल चेष्टितम् । प्रकट भविता सर्व तदर्थं खेद एप मे ॥४५१ ।। मंन्त्रीश! चिन्तया चित्तं खेदकान्तं करोपि किम् ।। भोजने सजयिष्यामि राज्ञः सौभाग्यकन्दलीम्।।४५२।। . .
द्वितीयः सर्गः। ८१ चद्वचःश्रवणादेव सुधासिक्त इवाभवत् । ईस्तावलम्बनं पुंसां पततां किं मुदे नहि ॥४५३।। उवाच धात्रिका मन्त्रिगेहिनी धीरया गिरा। एकाग्रहासि हे वत्से कृत्याकृत्यवहिर्मुखि! ॥४५४॥ माम बचन वेगादेकं कुर्वभिमानिनि!। जनन्या इव नाज्ञा मे लैङ्गितुं युज्यते कचित् ।।४५५।। सचिवो जगतीपालं त्वद्गृहे भोजयिष्यते । अभ्यधादिति ते भर्ता मन्मुखेन ववाग्रतः॥४५६ ।। मातः! केनापि भूपालो ज्ञापितश्चरिवं मम । बुभुक्षुर्मा दिक्षुश्च तद् मन्ये वेन हेतुना ॥ ४५७ ॥ मातस्तर्हि मदाकारा मद्यामय इवाऽपराः । समानवस्खालङ्कारास्तिस्रस्तूर्ण समानय ।। ४५८ ।। भोजयन्ती महीपालं ताभिः साकमलक्षिता । यथा भवाम्यहं मातस्तथा कुरु गुणाकरे! ॥४५९॥ तस्या वचसि सत्यार्थे प्रगुणे विहिते चिरात् । भूपमामन्त्रयामास सचिवो भक्तिमेदुरम् ॥ ४६० ॥ आवासे मन्त्रिणोऽयास्य विमानसदृशे श्रिया । राजाऽगात् कृतशृङ्गारः परीवारपरीतः ॥४६॥ भोजनायाऽऽसनासीने मूपाले सपरिच्छदे। एका मुमोच सौवर्ण विशालं स्थालमुत्तमम् ॥ ४६२ ।। पीयूपरसनिष्यन्दिसंपूर्णानीव तत्क्षणम् । एका चिक्षेप पक्कानि फलान्यविकलान्यपि ॥४६३॥ अपरा कापि हृद्यानि पकानानि समन्ततः । द्राक् परिवेषयामास कणकङ्कणपाणिना ॥ ४६४ ॥ एका परिमलोद्गारहृयमोदनमद्भुता । अक्षिपद् भूपतेः स्थाले विशाले साधुचित्तवत्।।४६५॥ १ हस्ताग्लम्बद इत्यपि। २ ललिताऽहनिदेशवत् ।
.. ८२ मल्लिनाथमहाकाव्ये- इयं त्वियमियं मन्त्रिगेहिनीति विचिन्वता । न सम्यग् चिविदें राज्ञा सादृश्यं भ्रमकारिहि ॥४६६॥ कृतभुक्तिर्महीपालोऽशक्नुवन् प्रष्टुमञ्जसा.! "समीपे मन्त्रिणो मौनमाधत्ते स्म सविस्मयः॥३६७॥ सपी मन्त्रिणा प्राप्य गतवान् मन्दिरं नृपः। खानुवाच नरानेवं न ज्ञाता संचिंवाङ्गना ॥४६८॥ तस्या निरीक्षणे कार्यः कोऽप्युपायो विशारदा ते प्रोचुर्देव! नगरवाह्येशस्ति पुरदेवता ॥ ४६९ ॥ कार्य नृत्यं मन्त्रिपन्या मन्त्रिण्याऽऽतोद्यवादके । पुरो देव्याः पुरः पौरैर्देवेन ज्ञायते यथा.॥.४७०॥ . भवत्वेवं नृपः मोच्य द्वितीयेऽह्नि महीपतिः । पुरतः कथयामास तमादेशं. मनोगतम् ॥-४७१ ॥ क्षुद्राऽऽदेशमिम श्रुत्वा गत्वौकसि सविस्मयः। 'अशेत मन्दिरस्यान्तश्चिन्तासन्तानतापितः॥ ४७२ ।। मन्त्री खेदपरो धाच्या पृष्टः प्रोचे महत्तमः । क्षुद्राऽऽदेशस्य पृथ्वीशोधात्रि! पात्रीचकारमाम् ४७३॥ जगाद भूपतेः पुत्रीं धात्री पावनया गिरा। समादेशं महीमतुर्दुःश्रवं धीमतामपि ॥ ४७४.॥ पटहे पटुपाटं च वाद्यमानेऽमुना मुदा ।. ।' 'अहं नृत्यं विधास्यामि हसन्तीति जगाद सा-॥४७५॥ वादयितुममुं पुत्रि! चेदसौ ज्ञास्यते नहि । लप्स्यते हास्यतां मन्त्री समक्ष नृपपर्षदः ॥ ४७६ ॥ तदाभापिष्ट हृष्टा सा पुरतः सचिवेशितुः । दुष्पापार्थस्य लाभे हि हर्षो याति प्रकर्षताम् ॥४७७॥ अथ देवीगृहस्यान्तर्मश्चविन्याससुन्दरम् । . साकं पौरजनैः सर्वैरुपविष्टे महीभुजि ।। ४७८ ॥ मन्द्रमध्यादिभेदेन तत्तेतिध्वनिनादतः। ..
द्वितीयः सर्गः। मन्त्रिणा वाद्यमानेऽपि पटहे पटुनिःस्वने ॥ ४७९॥ विहितोदामभृशारा रम्भेव क्षितिगोचरी | हरन्ती पौरचेतांसि समागाद्.मन्त्रिगेहिनी ॥ ४८०॥ (त्रिभिर्विशेपकम्) ध्वनिमाकर्णयत्येपा पटहस्य यथा यथा । तथा तथाङ्गे रोमाञ्चोऽङ्करपूरमपूरयत् ॥ ४८१ ॥ 'अहो। ईदृक् कुतोऽनेन ज्ञातं पटहवादनम् । चित्रीयमाणा हृदये ननर्ति स्म लयोत्तरम् ।। ४८२ ॥ नृणां निरीक्षमाणानां दम्पत्योस्तं कलाक्रमम् । शेपेन्द्रियभवावृत्तिलॊचने' लयं ययौ ।। ४८३ ।। मूर्धानं भूपतिर्धन्वन् विस्मयस्मरतां गतो. सर्वतत्त्वमेवीणोऽसि व्याजहारेति मन्त्रिणम् ॥४८४॥ तामंपूर्वी कलां दृष्ट्वा पद्मिनीमाणवल्लभः । भाप द्वीपं परं द्रष्टुमिवान्यत्रापि तादृशीम् ॥ ४८५ ॥ परिस्पन्दैः समं राजा प्रतस्थे नगरी प्रति । ऊचेऽथ मन्त्रिणी नाथ ! करमुद्रा ममापतत् ।।४८६॥ सान्त्रया सुभगाऽऽनेया सस्नेहमिति वादिनी। प्राविक्षद् नगरस्यान्तहृष्टा सौभाग्यकन्दली ॥ ४८७॥ तदाऽऽदेशवशांदेप प्रमोदोन्मादमांसदत् । धन्योऽहंमद्य सद्गाच्या भापितो गौरवोंत्तरम् ॥४८८॥ विजन तत्र ता वीक्ष्य लब्ध्वा च करमुद्रिकाम् । अचालीदुज्जयिन्यां हि बहिःस्थानां भवेद् मूक्ति४ि८९॥ शीघ्रमायन् पुरी दत्तकपाटं गोपुरं, पुर। निरीक्ष्य प्रविस्तीर्णपयोमार्गमुपाययौ ॥ ४९०.॥ विश्रान्तोऽन्तर्भुजङ्गेन दष्टः स्पष्टमयो करे। हाहेति न्यगंद मन्त्री मृत्यो पटहविभ्रमम् ।।४९१॥ इतश्च सौधमासीना वारवेश्यावनीशितः -- मलिनाथमहाकाव्ये- तं शुश्राव महानादं कर्णयोर्विषसेचनम् ।। ४९२ ।। अद्राक्षीत् पतितं क्षोण्यां सचिवं प्रसरगरम् । . अक्षालयच पाणिस्थं मणिं नीरेण भूरिणा ॥४९॥ अपाययदमु तच्च. परोपकृतितत्परा । सोऽभूदपविषो यस्मादचिन्त्यं मणिवैभवम् ।।४९४।। पुनर्जातमिवात्मानं मन्यमानः कृतज्ञराट् । सचिवस्तामुवाचेदं. किं कुर्वे तव वाञ्छितम् ॥ ४९५ ॥ चेद् नाथ! वरदोऽसि त्वं मत्तोऽन्यत्र त्वया ततः।। भवेनैव भवानीतो न गन्तव्यं कदाचन ॥ ४९६॥ तया साकं चतुर्यामीमतिवाह्य घटीमिव । प्रातःकृत्यानि कृत्वाऽसौ निषसाद महासने ॥४९७॥ केनचिद् योगिना दत्तं प्रभावौषधिकण्डकम् । अबध्नात् पणपद्माक्षी चरणे सचिवेशितुः ॥४९८॥ तत्मभावादसौ जज्ञे चन्द्रकी वरचन्द्रकः। एकस्मिन् जन्मनि प्राप्तजन्मान्तर इव क्षणात्॥४९९|| उड्डीय वर्हिणो भ्राम्यन् गतत्रासं पुरेऽखिले । सन्ध्यायां तत्र पण्यस्त्रीगेहं याति म सर्वदा ॥५००॥. कण्डकव्यत्ययादेप यवनिकान्तरादिव । प्राप्तपुंस्त्वो नट इव वाहयामास शर्वरीम् ॥५०१॥ रमयित्वा निशा सर्वां पणस्त्रीणां करण्डकात् । प्रत्यहं विदधे मन्त्रिपुङ्गवं वर्हिणाकृतिम् ॥ ५०२ ॥ इतस्ततोऽपि गेहेषु भ्राम्यन्नेष दिने दिने । रात्रौ पणाङ्गनागहमागच्छति वशीकृतः ।।५०३॥ इतो मन्त्रिण्यनायाते मन्त्रिण्यधृतिकारिणी। रतिं न क्वापि सा पाप ग्रीष्मे हंसी मराविव ॥५०४॥ सोऽन्येयुर्वहिरूपेण भ्राम्यन् स्वगृहतोरणम् । १ मुहूर्त यदिनि च पाठः। .
द्वितीयः सर्गः। ८५ आच्छाद्य पिच्छसंभारे वितेने तोरणश्रियम् ॥५०५।। पत्युविरहतप्ताया मातरेप कलापवान् । प्रियागमनवत्मीति प्रदत्ते मम नेत्रयोः ।। ५०६ ॥ अज्ञानतो मया पूर्व दृष्टः प्राणप्रियोऽपियः । इदानी पूर्वदुष्कर्मविपाकाद् दूरतो गतः॥ ५०७ ।। छद्मश्रीसमनस्तस्य प्रियस्याहमजानती। पुरापि रोदनं चक्रधुनापि चिरशिक्षितम् ।।५०८॥ भोगिभोगविपज्वालालीढं दहतु चन्दनम् । कयं दहतु मे देहं निःसन्देह हिमद्युतिः ॥ ५०९ ॥ इत्थं विलापं कुर्वाणा मुहुः सौभाग्यकन्दली। निपपात महीपीठे हृतजीवेव केनचित् ।। ५१० ।। धाच्या परिजनेनापि प्रतीकारे कृते सति । अतुच्छमूर्छाऽपगमात् खस्था तस्थौ कथश्चन ॥५१॥ एवं च भाषमाणायां तस्या गेहादथोशिखी। अन्येचुरगमद्भूपपुत्र्याः सौधे मनोहरे ॥ ५१२ ।। तत्सख्या कौतुकादेष विधृतो गृहिजातवत् । अर्पितो मदनावल्या विश्राम इव चेतसः ।। ५१३ ॥ कण्डकं त्रोटयामास वीक्षमाणा शिखण्डिनम् । नररूपिणमद्राक्षीदमु सा सचिवोत्तमम् ।। ५१४ ॥ किमेतदिति विस्मेरनयना मदनावली | रोमाञ्चकण्टकभयादिवासनमथामुचत् ॥ ५१५ ।। सत्यस्मिन्नासनासीने किमेतदिति साऽवदत् ।। अथोचे सचिवः सर्वमेतस्याः पुरतो मुदा ।। ५१६ ॥... मन्त्रिन ! त्वद्विरहे राजा निखिला नागरा अपि । विमूढमनसोऽभूवन् दिग्मूढाः पथिका इव ॥५१७॥ : मन्त्रिन्। निष्ठुरचित्तोऽसि रूपं संगोपयनिजम् । कुरुते लेख्यमेकोऽन्यो लेखामपि ददाति नः||५.१८॥ .
८६ मल्लिनाथमहाकाव्ये- यत्लजल्पसिं तत्सत्यं वाचा बद्धोऽस्मि निश्चितम् । मुश्च मां वहिणं कृत्वा बद्धा चक्रमकण्डकम् ॥५१९॥ इत्युक्त केकिरूपेऽस्मिन्ननया विहिते गतें। इतश्चाभाणिं तद्धाच्या नरशब्दो मया श्रुतः-५२०॥ उपमातः ! कथं पुंसः संचार संभवेदिह। यदीहग्भाषसे नूनमसंवद्धमिवाधुना ॥ ५२१ ॥ पौनःपुन्येन धात्री सा तामूचे शपथान्वितम् । अथ सा कथयामास तत्सर्वं सचिवोदितम् ॥५२२॥ द्वितीयेऽहयेष स भ्राम्यन् कृतसङ्केतशब्दवत् । समागात् तत्र धात्री साऽवर्द्धयज्जगतीपतिम् ।।५२३।। ज्ञातवृत्तः समेत्यासौ कर्णित्वा करकण्डकम् । मुख्यरूपधरं चक्रे धरणीशोऽथ मन्त्रिणम् ॥ ५२४॥ सानन्देनाथ राज्ञोचे मम पुत्री समुह । वेश्यावृत्तं च तेनास्य समस्तं विनिवेदितम् ॥५२५।। साकूतमथ साऽऽहूता क्षोणीशेन पणाङ्गना। स्वामिन् ! प्रसादमाघेहि ममाऽऽदेशनिदेशतः ॥५२६॥ वाचा बंद्धममुं मुश्च सचिव दत्तजीवितम् । यथाङ्गजाया मे पाणिं गृह्णाति शुभवास ॥५२७॥ आमत्युक्ते नृपस्तस्याः प्रसाद वहकारंयत् । । उचितानुचितज्ञानं वारवेश्याखवस्थितम् ।। ५२८॥ सुन्दर श्रेष्ठिनः पुत्र्या सहिता मदनावलीम् । पर्यणाययदुर्वीशो मन्त्रीश शुभवासरे ॥ ५२९ ॥ .. स्थापितो युवराजत्वे दत्वा देशान् महत्तमः । न पुण्यं देहिनां मातुं शक्यतेऽम्भोऽम्बुरिव ॥५३०॥ तिमृभिः परिणीताभिर्वेश्यया सह मन्त्रिरा।" बुभुजे विपयान् मर्त्यजन्मचूतफलोपमान् ॥ ५३.१ ॥ कालेन कियता रनकेतुः क्षितिपति शम् ।
द्वितीयः सर्गः। भवोदिनोऽग्रहीद् दीक्षां तापसानां यथाविधि ॥५३२॥ विद्याविलासः समभूद् भूपाला पालयन् प्रजाम् । प्रचण्डशासनः पाकशासनः खरिवाऽऽगतः ॥५३३।। अन्येयुः श्रेष्ठिमू राजा चतुरङ्गचमूतः । रुरोध काश्चनपुरं जम्बूद्वीपमिवाऽम्बुधिः ॥ ५३४ ।। : तेजोऽधिगम्य दुःसह्यं तस्य व्योममणेरिव । उलूक इव वाग्मूकः सूरसेनो ननाश च ॥५३५॥ नीलपत्रावलीकीर्णे बद्धकाश्चनतोरणे। . तत्राविक्षत पुरे राजा सविादारिदोपमे ।। ५३६ ॥ वर्णपात्राणि संभृत्य रत्नैः पौरा डुढौकिरे । प्रसाद तेषु चक्रेऽसौ वान्छितार्थसमर्थकम् ॥५३७॥ श्रेष्ठ्यागाद् नगरीमुख्यः श्रीपालः सूनुभिः सह । श्रेष्ठिन् ! मामभिजानासि भापते स्मेति भूपतिना५३८॥ सोऽप्यूचे सूर्यवत् ख्यातं राजानं त्वां न वेत्ति का। वस्तुतस्तु यथावस्थं नो वेनि त्वां महीपते ॥५३९॥ समक्ष सर्वलोकानां ततः श्रीवत्सभूपतिः । चरित्रं मूलतः सम्यग् संक्षेपेणेत्यवोचत ॥ ५४०॥ तव सूनुरहं श्रेष्ठिन् ! श्रीवत्स इति विश्रुतः। रामाचतुष्टयीयोगप्रभृतेर्वचनात्- पुरा ॥ ५४१ ॥ कोपाटोपोत्कटं स्पष्टं विज्ञाय त्वां विनिर्गतः। इमाश्चतस्रः संप्राप्तास्तव पादप्रसादतः।।५४२॥(युग्मम्) सच्चक्रे पृथिवीपाला श्रीपालश्रेष्ठिनं ततः । वध्वः सर्वाश्च हष्टाङ्गयो ह्याचारःकुलयोषिताम्।।५४३।। यौवराज्ये पदे न्यस्य श्रीधरं प्रथमाजम् । राज्ययुग्ममय प्राज्यं नयवृत्त्या शशास सः॥ ५४४ ॥ अन्यदोपवनस्यान्तः,सरिः श्रीमतिसागर। सवितेव तपोदीप्त्या पूर्वहिः समवासरत् ॥५४५।। .
८८ मल्लिनाथमहाकाव्ये-- तं वन्दितुं महीपालः पालयन पावनी क्रियाम् । जगाम भक्तितस्तत्र पौरवृन्दपरीवृतः ।। ५४६॥ देंशनाऽन्ते महिपालः पृष्टवानिति तान् गुरुन् । पुरा कथं ममाज्ञानं सर्वत्रोल्लसित प्रभो ॥५४७॥ कथं पश्चाद् मुने ! ज्ञानं प्रसृतं मम कोविदात् । इत्युक्ते न्यगदच्छ्रीमान् सरिभूरिगुणोत्तरः ॥ ५४८॥ पुराजन्मनि पठतां महाविघ्नस्त्वया कृतः । अतस्तत्कर्मवन्धेन ज्ञानोल्लासोऽभवद् न ते ॥५४९॥ गुरुणा. केनचित् पश्चात् सदाक्यैः प्रतिवोधितः । भक्तिं चक्रे पिया तेषु प्रत्यहं पुस्तकादिभिः ॥५५०॥ सत्कर्मवन्धतोऽभूस्त्वमुपाध्यायविशारदः । ज्ञानविघ्नाच्च मूर्खत्वं पूर्व संप्राप्तवानसि ॥ ५५१ ॥ श्रुत्वेदमवदद् राजा कर्मबन्धो महान् कृतः। कथं श्लथी भवेद् नाथ ! ततः प्रोवाच संयमी॥५५२॥ बद्धस्पृष्टनिधत्ताख्यास्त्रयो भेदा महीपते । मिथ्यादुष्कृतभणनादिमिर्जेयाः सुहृतिभिः ॥५५३॥ तदन्यः कर्मवन्धो यो निकाचित इति स्मृतः । भूयसा तपसा सोऽपि विजेतव्यो मुमुक्षुभिः॥५५४॥ यश तुषारपातेन दह्यतेऽनोकहवनः । यथाऽऽम्लरसविष्टब्धं लडनेनापदिश्यते ॥ ५५५ ॥ यथा दवाग्निनारण्यं दह्यतेऽसह्यतेजसा । तथा सर्वाणि कर्माणि जीयन्ते तपसा चिरात् ॥५५६॥ (युग्मम्) कीर्तेर्गाद् भयाद् वाऽपि सुदेयं दानमङ्गिनाम् । कुललज्जाभराभ्यां च सुकरं शीलपालनम् ॥५५७॥ मृपान्यरञ्जनाद् वाऽपि सुकरा हन्त! भावना। दुष्करं तु तपस्तप्तुं देहधातुक्षयावहम् ।। ५५८ ।।
९ द्वितीयः सर्गः। श्रुत्वेति नन्दनं राज्ये मदनावलिसंभवम् । संस्थाप्य मूरिपादान्ते श्रीवत्सो जगृहे व्रतम् ॥५५९॥ सोऽभ्यस्य द्विविधां शिक्षा दक्षः कसीकृतक्रियः। विशेषतस्तपस्तप्तुं विध्यन मचक्रमे ।। ५६० ॥ यथा यथा तपो देहतनुतां तनुते तनी । सथा तथाऽस्य सद्भावमहिमा नहि हीयते ॥५६॥ परितक्ष्य तपशिलामिव निजां वनम् । उच्चकार तथा सोऽभूद् यथा जङ्गमदैवतम् ॥५६२॥ आयुःक्षये स राजर्गृिहीत्वाऽनशनं चिरात् । एकावतारखिदो जज्ञे तस्साच सेत्स्यति ॥५६॥ विद्याविलासराजपिर्यथा तेपेतरां तपः। तथाऽन्यैरपि भावेन पालनीयं महावल 1 ॥५६४॥ ततो महावलो राजा जगादेति कृतस्मितम् । करिष्यामि तपः शुद्धं स्वामिन् ! विद्यानरेन्द्रवत्।।५६५।। दानशीलतपोधर्मा अमी भावं विना त्रयः । न फलन्ति महीपाल!शाला इव ऋतुं विना ॥५६६॥ यद्वद् रूपं दशा यदलङ्कृत्या कवेर्वचः । यद्वचन्द्रो द्युता तद् धर्मो भावेन भूज्यते ॥ ५६७ ॥ भविनो भावनवैका मुक्तिसङ्गमतिका । भवे भवेदिईवाऽऽशु दृढमहारिसाधुवत् ॥५६॥ तथाह्यासीत् पुरे कश्चिद् महाकोपी द्विजात्मजः। अन्यायकारिणामाद्यो यौवनं चाप्युपाययौ ॥५६९॥ ग्रन्धिभेदं व्यधचोच्चैः स कदाचन भव्यवत् । कचिच्च खानखात्राणि लोलः कोल इवानिशम् ।।५७०।। अवध्यत्वादसौ राजनृभिनिर्वासितः पुरात् । अर्थाऽगाचौरभूपल्ली चौरीहल्लीसकाकुलाम् ॥५७ir चौरसेनापतिं शश्वत् सेवते अद्विजात्मजः । १२ . मल्लिनाथमहाकाव्ये- स्थानलाभातु कृतार्थ खंमन्यमानो मनोऽन्तरे ।।५७२।। तैस्तैरुदनचरितैरात्मतुल्यं विलोक्य तम् ।... , अमन्यत सुतत्वेन चौरसेनापतिः खयम् ॥५७३॥ .. दस्युस्खामिनि पञ्चत्वमुपेयुषि स दस्युभिः । तत्पदे स्थापितश्चण्डकर्माऽज़नि विशेषतः ॥५७४॥ सुदृढं प्रहरत्येष प्राणिनो निष्कर्ष यतः । ततो दृढपहारीति सान्वयं नाम. "निर्ममे ।। ५७५ः।। पभञ्ज नगराण्येष जग्राह पथिकवजान् । ग्रामान् प्रज्वालयामास.पञ्जिकार्य कृताग्रहः ।।५७६|| अन्येचुस्तस्करैः साक खांशैरिव प्रयागतैः । भक्तुं. कुशस्थलं प्राममगादेष महाभुजः ॥५७७॥ . तत्रास्ति देवशर्मेति.ब्राह्मणः शर्मवर्जितः । खाङ्गवत् सहजं यस्य दौर्गत्यं प्रमृतं चिरम् ॥५७८॥ तदैव बालकैरेष क्षीरानं याचितो.द्विजः । वालका.न.हि जानन्ति सदसत्त्वं निजौकसि ॥५७९॥ . यतः- दस्यवो डिम्मरूपाणि राजानश्च द्विजा अपि । परपीडां न जानन्ति गृह्णतेच यथा तथा.॥५८०॥ परिभ्रम्याऽखिलं ग्राम याचित्वा च कचित् पयः । कचिच्च तन्दुलान् स्त्यानीभूतेन्दुकिरणानिव ॥५८१॥ कापि कापि गुडं हृद्यमभ्यर्थ्य खस्तिभाषणात् । रेयी पाचयामास स्नातुं चागाद् नदीरये ॥५८२॥ इतथोग्रदृशो गेहमागच्छंस्तस्य तस्कराः । तेपामेकतमोऽनश्यत् क्षैरेयी प्राप्य रकचत् ।।५८३॥ अथोच्चैम्भिरूपाणि चक्रन्दुविरसखरम् । उदितं रुदितं हास्त्रं वालानां योपितामिव ॥५८४॥: १ निर्मितमित्यपि पाठः । २ पृथूनतैरिति च।
. द्वितीयः सर्गः। रुदन्तस्ते नदीं गत्वा तूर्ण जनकमूचिरे । फेनचिन् पश्यतां तात ! जहे नः पायसंगृहात् ॥५८५।। तदाकदिधाचित्ते देवं दुर्वलयातकम् । अन्येषु वेश्मसु ग्रामे दुर्भिक्ष किं विजृम्भते ॥५८६॥ अध्यन्नय द्विजस्ताम्रवर्दनो ग्राममीयिवान् । भुजाभ्यां परियं मतभर्तुर्दण्डमिवायतम् ।।५८७|| आदाय गेहमागत्य स भूत इव नूतनः । समुल्लासितदोर्दण्डोजघान स्तेनमण्डलम् ।।५८८।। (युग्मम्) दृष्टा वित्रस्यतचौरांस्तेन वातेन तूलवत् । दया। तस्कराधीशो यमदूत इव खयम् ॥ ५८९ ॥ सत्वरं धावमानस्य प्रवाहस्य शिला यथा। अन्तराले बभूवाऽस्य सारमेयी गतिच्छिदे ।।५९०॥ मेरित इव दुर्गत्याधिष्ठित इव रक्षसा । निष्कृपस्तां कृपाणेन निजधान:निपादवत् ।।५९१॥ तस्कराणामधीशस्य संमुखीनोऽभवद् द्विजः। मृगो मृगाधिपस्येव शिशुपालनतत्परः ॥५९:२॥ रे रे । तस्कर! मद्देश्म विशन् मूर्ख ! मुमूर्पसि। शापेनापि ममाऽनन्ताः क्षयं नीता वधं विना ॥५९३॥ तदाकाऽथ चौरेशो मण्डलाग्रेण चोअधीन फलवत् पातयामास शिरो-रोरद्विजन्मनः ॥५९४॥ आः पाप! पापिनामाघ । ब्रह्महत्याविधायक!। एवमुक्त्वाऽभ्यगादस्य वेलामासवती वधूः ॥५९५।। दुर्गतेः सङ्गतेन धौतेन तरवारिणा । विददारोदरं तस्याश्चण्डः कूष्माण्डखण्डवत् ।।५९६।। गर्भ जरायुमध्यस्थं कम्पमानं भयादिव । निरीक्ष्य पुरतस्तस्य करुणा तरुणायते ॥५९७॥ -नखानपात्रषदित्यपि पाठः । २ नमुष्मातूलपलवदिति च .
१९ मल्लिनाथमहाकाव्य- - हा मातस्तातहा! मातविलपन्त.इति स्फुटम् । एते स्तनन्धया मोहाद् मयैव निहताः खलु ।।५९८॥ पितमापरित्यक्ताः किमु जीवन्ति वालकाः । कठोरेण कुमरेण विलूना: पल्लवा इच ॥ ५९९ ॥ गोब्रह्मवनिताभ्रूणहत्यामित्यादधद्-भृशम् । पातकं पातकं जन्तोर्षिगार्जयमनार्यवत् ॥६००। स्वयं खं हन्मि किं शस्थ्याकूपे झम्पां ददामि किम् । ...विशामिज्वलने किंवा विषादाद् विषमनि किम् ।।६०१॥ एवं विचिन्तयन्नेष जातवैराग्यभावनः । व्यावर्तमान-उद्याने स्थितान् साधनवैक्षत ॥६०।। प्रणिपत्येति तानूचे पापात्माऽहं दुराशयः। शाऽप्यदृश्यो वचनैरभाष्योऽहं-भवादृशैः ॥६०३॥ नास्ति मत्तः कचित् पापी नास्ति.मत्तोऽपि निघृणः । नास्ति मत्तोऽपि निर्मानास्ति मत्तोऽधमाधमः॥६०४ा ईदृक्षमपि मां बातुं यूयमहत सांप्रतम् । प्रायश्चित्तरहस्यज्ञाः सर्वसाधारणा यतः ॥६०५।। ततस्ते साधवः साधुधर्मतत्वमुपादिशन् । श्रामण्यमेष जग्राह पापपङ्कनदीरयम् ।।६०६॥. यस्मिन्नति स्वतोऽन्यस्मादपि स्मास्मि पातकम् तत्र तत्रैव नो भोक्ष्ये कृतपर्वतपा इव ॥६०७॥ कर्तास्मि शान्तिमक्षूणामित्यभिग्रहयोर्युगम् । अग्रहीदेष शुद्धात्मा भववैराग्यरङ्गितः ॥६०८॥ अथावस्कन्दिते ग्रामे तस्मिन्नेव कुशस्थले । विनहार महासत्वः कर्मक्षयकृताग्रहः ॥६०९॥ विधायैप महापापी नटवद् वेषमोचनम् । पुनर्खण्टयितुं ग्राममाययो हेरिकोपमः ॥१०॥ 1-मनावः इति च।
१३ द्वितीयः सर्गः।. रे भ्रूणादिमहापापकारकोपि न मारितः। दर्शनव्याजतोऽस्माभिरित्यतयंत तैर्जनैः ॥६१शा मिक्षार्थ भविशन्ने ग्रामवेश्मसु.संयमी। कीटकैक्षितथैव लोष्टखण्डैरताच्यत ॥६१२।। विशेषतस्ताब्यमानस्तत्पापं संस्मरन्चसौ। नाभुङ्ग किमुत क्षान्ति विधचे स्म दिवानिशम् ॥६१।। यष्टिभिस्ताडयामासुस्त दुर्दान्तमहोक्षवत् । जघ्नुश्च मुष्टिभिः कामं वपुर्गुल्मविधायकम् ॥६५॥ कायोत्सर्गस्थित ग्राम्याः पिदधुः पांशुवृष्टिमिः । देशारिष्टसमुद्भूता उत्पाता इच. पत्तनम् ॥६१५॥ इत्यं कदर्थ्यमानोऽसौ ग्रामीणैः प्रतिवासरम् । एवं विभावयामास मुच्यमानरजोगुणः ॥६१६॥ यसे किमु रे ! जीवाऽनर्गलैः खलु जल्पितैः । प्रदत्तं लभ्यते नैवाप्रदत्तं हि कदाचन ॥६१७॥ शुभेतरपरीणामाष्टमेतत् तवागतम् ! तेनार्जितं खयं भोक्ता हेतुमात्रं परः पुमान् ॥६१८॥ यदुपातं त्वया पापं मोग्यं जननकोटिभिः । तदिहैव शुभखान्तो भोक्ष्यसे क्षणमात्रतः ॥६१९॥ यत:- अज्ञानी यत् कृतं कर्म क्षिपेद् वत्सरकोटिभिः । समानी गुमिसंपूर्णः क्षिपेदुच्छासमात्रतः ॥२०॥ जात्यरत्नमिषाप्राप्त प्राप्य चारित्रमद्धतम् । शमेन जयकर्माणि शर्माण्यपि तथाऽर्जय ॥६२।। प्रथम कटुकं पश्चात् पीयूषति यथौषधम् । तथा ग्राम्यवचो जीव ! विचिन्तय सचेतनः॥२२॥ कर्मक्षयसखा तेऽसौ जीव! मा क्लीवतां भज । एतत्साहाय्यतः सर्वकर्मनिर्मूलकोऽसि यत् ।।६२३|| ९४ मल्लिनाथमहाकाव्ये- चिरं सहित्वा दुःखानि त्वं चेद् नेदं सहिष्यसे । तद् वृथा प्राक्तन-सर्व मतिर्याऽन्ते हि सागतिः॥२४॥ यादृक् कर्म कृत जीव ! मज तागवेदनम् । न शालिलूयते कापि अपने कोद्रवस्य यत् ।। ६२५।। बदनच्छायया कर्म यया जीव ! त्वयार्जितम् । तामेव बिभृहींदानीमेकरूपां महत्तराः ॥६२६॥ एवं भावयतस्तस्य भावनाशुद्धचेतसः। उत्पन्न केवलज्ञानं लोकालोकप्रकाशकम् ॥६२७।। निःशेषक्षीणकीशोऽयोगिस्थो योगिनां वरः दृढमहारी भगवान् प्रपेदे परमं पदम् ।। ६२८ ।। भावनायाः फलं राजन् । न सम्यग् वक्तुमीश्वरः । यदीडशोपितमसः परं पदमवाप्तवान् ॥.६२९ ।। इत्यादितीर्थकद्धर्म श्रावं श्रावं महाबलः । रोमाञ्चैरश्चितो देहे भावनाऽम्भोदविन्दुभिः ॥६३०॥ अथाऽचलादयोऽप्यूचुर्नृपमित्रा मुनीन्धरम् । व्रतं वयमपि प्रीत्या ग्रहीष्यामो नरेन्द्रवत् ॥६३१॥ यावद् राज्येऽङ्गजं न्यस्य समागच्छामि.सत्वरम् । भवद्भिस्ताचदत्रैव स्थेयं मयि कृपापरैः॥६३२॥ अथ प्रोवाच भगवान् वरधर्मा मुनीश्वरः । देवानुपिय! मा कापीः प्रमादं श्रेयसः कृते ॥६३३॥ प्रभो ! प्रमादः सुतरां तदैवं तत्यजे मया.। यदैव भवतां वाणी सुश्रुवे तत्त्वसारिणी ॥६३४॥ अथ नत्वा गुरुं गत्वा पर्षदं जगतीपतिः । वलभद्रकुमारस्याभिषेकार्थं कृतोद्यमः ॥६३५॥ पप्रच्छाष्टाङ्गनिमित्ततत्त्वहं गणकोत्तमम् । ब्रूहि लग्नं यथा शुद्धं राज्यलक्ष्मीप्रवर्धकम् ॥६३६॥ , भवताहगवेदने.इति पाठान्तरम् ।
द्वितीयः सर्गः। ९५ अथो विचार्य संस्थाप्य लग्नं धरणिमण्डले । नैमित्तिक उवाचौच्चैयोतिशास्त्रमहोदधिः ॥६३७।। पातेन लत्तया वेधो प्रग्रहैकार्गलादिभिः । दोरेभिर्विनिर्मुक्तं रोगैरिव कलेबरम् ।।६३८॥ त्यक्तक्रूरग्रहग्राम क्रूरालिङ्गितमेव च । वारस्य जन्मभं यत्तु तस्माच्च दशमं परम् ॥६३९॥ अष्टादशं तथैकोनविंशकविंशमेव च । वर्जनीयं मया प्रोक्तं नक्षत्रं क्षितिवासव ! ॥६४०॥ (त्रिभिर्विशेपकम् ) संक्रूरा जन्मभूर्दग्या तारा साम्यवती तथा । त्रिदिनस्पर्शिनी चापि रिक्ता भद्रान्विता तथा॥६४१॥ संक्रान्तिग्रहणाभ्यां च हीनकालमुखी तिथिः । अद्यानेकगुणा राजन् ! पुण्या तिथिरिवागता ॥६४२।। राहुकेतुयमच्छाया क्रूरवारस्तथैव च। दिनवारारिहोरा च क्रूरवारस्य सा पुनः ॥६४३॥ यमघण्टकर्कयोगावुत्पातो मृत्युकाणकौं। संवर्तक इति दोंपा चारेऽस्मिन् सन्ति नैकचित।।६४४॥ विष्कम्भगण्डशूलाचातिगण्डो बजवैधृती व्याघातः परिपश्चापि व्यतीपातयुता नव ॥६४५॥ एतैर्योगैः परित्यक्तं शुभयोगैः परावृतम् । कुनामकालदण्डाद्युपयोगैरुज्झित दिनम् ॥६४६॥ मुहूर्त पावनं राजन् ! वववालवकौलवैः। त्रिसंख्यैः करणैडखिलोकांशत्वसूचकैः ॥६४७॥.. अजन्ममासि निर्मुक्तधनुर्मीनस्थभास्करम् । असिंहस्थमुराचार्य लग्नमेतद्.मनोहरम् ॥६४८॥... मघा पुनर्वसुः पुष्यो. हस्तः स्वातिश्च रेवती.। १-रिवाजनेति च पाठः ।
मल्लिनाथमहाकाव्ये-
रोहिणी श्रवणं चैव धनिष्ठा चोत्तरात्रयम् ॥६४९॥
मृगशीर्ष तथा मूलमनुराधा नराधिप ।।
पञ्चदशापि ऋक्षाणि प्रतिष्ठायां शुभान्यहो । ॥६५॥
शन्यर्कक्षितिजाः षष्ठतृतीयस्थाः शुभावहाः ।
द्वित्रिस्थश्चन्द्रमाः श्रेष्ठः सर्वकार्यप्रसाधकः ॥६५२॥
एकद्वित्रिचतुष्पञ्चदशमस्थो बुधो मतः ।
एकद्वित्रिचतुष्पश्चनवसप्तदशस्थितः ॥६५२।।
गुरुः शुभतरः मोक्त.एकपञ्चचतु:स्थितः ।
नवचतुर्दशस्थश्च शुक्रः प्रीतिकरः सताम् ॥६५३॥ .
केतुविधुन्तुदो नूनमेकादशगतौ शुभौ ।
प्रतिष्ठायां ग्रहा एते लग्नस्यातिशयप्रदाः ॥६५४॥
श्रुत्वेदमुचितं दत्त्वा तेभ्यः खं क्षितिवासवः ।
लग्नेऽस्मिन्नेव राज्ये श्रीवलभद्रं न्यवीविशत् ॥६५५||
अथाधिरूढशिविको नरेन्द्रः श्रीमहावलः ।
मुनिपादरजःपूर्व महोद्यानमुपेयिवान् ॥६५६॥
स्वपदन्यस्तसत्पुत्रोऽथाञ्चलो निश्चलाशयः।
गुणैः स्थैर्यादिकैर्वर्धरणो धरिणीयितः ॥६५७॥
सप्तक्षेत्र्यां धनं न्यस्य पूरणोऽप्यनृणो नृणाम् ।
वसुभिः पूरयन् विश्वं वसुर्वसुरिव श्रिया ॥६५८॥
वैश्रमणः श्रमणत्वे बद्धको महामतिः ।
अभिचन्द्रस्तु निस्तन्द्रो गुरुशुश्रूषणाशया ॥६५९॥
सर्वेऽप्यमी यथा वित्तं ददाना भावनोद्धताः ।
शिविकास्था गुरोः पार्चे व्रतमाप्तुमुपागमन् ॥६६०॥
(चतुर्मिः कलापकम् )
अथाऽवामान् वामपार्चे कृत्वैतान विधिपूर्वकम् ।
धर्मध्वनादि तत् सर्वमदादय मुनीश्वरः ॥६६१॥
द्वितीयः सर्गः। ९७ . पञ्चभिर्मुष्टिभिः केशान् मृतिमहिपयानित्र । स्वयमुत्पाटयामासुरते गुरुनिदेशतः ॥६६॥ सामायिकमहामन्त्रं पात्रं निःश्रेयसश्रियाम् । गुरोरुनारयामासुस्ते पीपकिरा गिरा।।६६३।। तत्कालमाप्तसाधुत्वलिनिनोऽपि तपोधनाः। संहनादाः समाधिस्याश्चिरंदीक्षितवद् वभुः ॥६६४॥ प्रदाक्षिणात्रयीं दत्वा प्रणिपत्य गुरुक्रमौ । उपाविक्षन् पुरस्तात् ते विनयाऽऽनम्रकन्धराः॥६६५॥ अयोपश्लोकयामास गुरुस्तद्भावद्धये । असारऽपि भवे प्राप्तं श्रामण्यं मुक्तिपूरथः ॥६६६॥. चक्रित्वं त्रिदशत्वं च नृपत्वमहमिन्द्रता । विदन्तु मुलभं चतद् दुर्लभं तु जिनव्रतम् ॥६६७|| यत:- एकाहमपि निर्मोहः प्रव्रज्यापरिपालकः। न चेद् मोक्षमवामोति तथापि वर्गभाग् भवेत्॥६६८॥ किं पुनस्ते महाभागास्त्यक्त्वा तुणमिव श्रियम् । आद्रियन्ते परिव्रज्यां सुचिरं पालयन्त्यपि १ ॥६७९।। इति विनयविनम्रा देशनां पावनां तां कुमततिमिरवीथीभाखदंशुपकाराम् । श्रुतिपथमुपनीय प्रीतिभाजो मुनीन्द्रा विदधति मुदमेते सप्त साम्यैकतानाः ॥ ६७० ॥ इति श्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते विन- याङ्के महाकाव्ये दान-शील-तपो-भावनासु जिनदत्त- वनमाला-श्रीविद्याविलासक्षितिपति-श्रीदृढप्रहारिमह- पिकथागर्मितः श्रीमहावलराजर्षि-अचल-धरण- पूरण-वसु-वैश्रमणा-ऽभिचन्द्रव्रतमहोत्सव- व्यावर्णनो नाम द्वितीयः सर्गः ।। . -- . :.. १३ अहम अथ तृतीयः सर्गः। अथ स्वगुरुणा साकमवियुक्ता.गुणा इव.। सत्त्वराशिहितोत्केष्टा विजास्ते तपोधनाः ॥ १ ॥.. गुर्वाज्ञामिव समिती रक्षन्तस्ते यथाविधि । भजन्ततरी साम्यं निःसीमाचरणप्रियाः ॥२॥ कायोत्सर्गजुषामेषां स्कन्धकण्डूयनं मृगाः । विदधुनिशितैः शृङ्गैस्तीक्ष्णैर्वासीमयैरिव । ३.॥ क्षुधार्ता अप्यमी धीराः कुर्वाणा दुस्तपं तपः । एषणा न व्यलंडन्त निजच्छाया इवाङ्गिनः ॥ ४॥ . अरण्यानीपथि भ्रान्ता बाद पिपासिता अपि । नो ववाछुर्जलं शीतं स्फीतं पीतामृता इव ॥ ५॥ शीतेन वाध्यमानास्ते तुषारकणवाहिना । ईषुन! ज्वलनज्वाला ग्रीष्मसन्तापिता इव ॥ ६॥ उष्णेन दह्यमानाङ्गा न च्छायां फलिनस्य ते । अमरन् कायमानस्थाः सुस्था इभ्यजना इव ॥ ७॥ मशकैरपि संदष्टा अयाशूचीमयैरिव । नोद्वेगं विदधुः कापि न द्वेषं च मनागपि ॥८॥ इत्यं परीपहचमूं जयन्तस्ते तपोधनाः । वीतशोका पुरी जग्मुर्गु देशवशंवदाः॥९॥ तदागमनकल्याणमुद्यानतरुरक्षकः। तत्क्षणात् कथयामास जयेत्याशीपुरःसरम् ॥ १० ॥ ततः प्रकृतिभद्रोऽसौ वलभद्रः क्षितीश्वरः। तान् वन्दितुमगाद् भक्त्या पौरलोकैरलङ्कृतः ॥११॥ -गुफा इतिच।
• तृतीयः सर्गः। : वन्दित्वा खोचित स्थाने निषण्णे पृथिवीमुनि । तेषां मुख्योऽवदद् वाग्मी महावलमहामुनिः॥ १२ ॥ अनादिमूलपर्यन्तः संसारो नाम पचनम् । विना केवलिनं यस्य स्वरूप न.निगद्यते ॥ १३॥ अस्मिन् देवकुलायन्ते सौधर्मायाः सुरालयाः। पण्याकुलापणायन्ते कर्माकर्मभुवोऽखिलाः ॥ १४ ॥ शैवा वैशेषिका बौद्धाः कापिला,नास्तिका अमी।. वाणिज्यकारकायन्ते यत्र चाटुविचक्षणाः॥१५॥ मोहो वमायते यत्र तृष्णोचैः परिवायते। . विशालविशिखायन्ते सुखासुखसमागमाः ॥१६॥ शब्दाचा विषया यत्र पञ्चामी पद्रदेवताः। विशालकाननायन्ते जन्तुदेहाः समन्ततः ॥.१७ ।। तत्र कर्मपरीणामो नाम भूपो महाबलः । यदाज्ञा माल्यवत् सर्वैरुह्यते नृसुरैरपि.॥ १८ ॥ सर्वत्रालय्यरचना वचनाऽगोचरोधमा । तस्याग्रमहिषी कालसङ्गतिर्गतिशोभना ।। १९ ।। देवपूजापरः शान्तः शोभनः स्वमसूचितः। अल्पक्रोधोऽल्पमानोऽल्पमायोऽल्पाहस्कृति कृती २० आस्तिकः साविकः प्राज्ञः शुभमार्गमरूपकः । भव्यो नाम तयोः पुत्रः पवित्राचरणप्रियः॥ २१ ॥ : (युग्मम् ) कलही क्लिष्टकर्मज्ञो महामोहसखा खलु । निगोदपृथ्वीकायादिस्थितितत्त्वकृतोत्सवः ॥ २२.।।. पुद्गलानां परावर्तक्षायसेवाधिरक्षक: अभव्यनामा समभूद् द्वितीयश्च तयोः सुतः ॥२३॥ (युग्मम् )... क्रमादुधौवनं भव्येतरं पुत्रं विलोक्य ।
मल्लिनाथमहाकाव्ये-- चिन्तासन्तानविधुरा समजायत जातचित् ॥२४॥ तामालोक्य महीपालो बभाषे सुभगोत्तमे ।। कथं चिन्तापराऽसि त्वं ब्रूहि वर्णैः सुकोमलैः ॥२५॥ देवाभन्यसुतः प्राप्तयौवनोऽपि कथं. त्वंया.। उत्तमकुलनन्दिन्या साकं नो परिणाय्यते ॥ २६ ॥ अथोवाच नृपः सुष्टु स्मारितोऽस्मि सुलोचने। अनेककार्यनिघ्रस्य विस्मृतिम गरीयसी ॥ २७ ॥ ततः क्लिष्टाशयं नाम दैवज्ञ कर्मभूपतिः। आजूहवत् प्रतीहारपेषणात् सर्वकार्यवित् ॥ २८॥ तस्मिन्नुपागते राजा बभाषे वदतां वरः। ज्ञानादभव्यपुत्रस्यं स्तुपा योग्यां निवेदय.॥ २९ ॥ ज्ञानात् सम्यम् विचार्योः क्षणं स्थित्वा जगाद सः। अस्ति कालप्रतिष्ठाख्यमव्यवहारपत्तनम् ॥ ३० ॥.. तत्रानादिवनस्पतिनामा राजति राजराद् । अनन्तकालचक्राख्या तस्य प्राणप्रिया मिया ॥३१॥ तीव्रमोहोदितिर्नाम तयोरेका तनूद्भवा । यस्या रूपमतिशायि न द्रष्टुमपि पार्यते ॥ ३२ ॥ अमुं भव्यतरं पुत्रं तया योजयसे यदि । खणे सुराभि जायेत रत्नं खर्गेन योज्यते ॥ ३३ ॥ श्रुत्वेदं नास्तिको नाम दूतो भूमीभुजा स्वयम् । प्रेषितस्तस्य सामीप्ये स प्रणयेत्यवोचत ॥ ३४॥ मन्मुखेन मम स्वामी स्वामिन् ! व्याहरते वचः। निनां मोहोदितिं पुत्री मत्पुत्राय प्रयच्छत ॥ ३५॥ युवयोर्यद्यपि स्नेहः कुलक्रमसमागतः । तथापि तं स्थिरीकर्तु संवन्धः क्रियतेऽधुना ॥३६॥ वनस्पतिरथोवाच विस्मिताननण्ङ्कजः । लुलोठ खर्धनीमध्ये नालस्योपहतस्य मे ॥ ३७॥ :
सुतीयः सर्गः। १०१ असंभाव्यमभाग्यानां मनोरधशतेऽपि यत् । तदेतन्मम संपन्नं पात्रज़ामालामतः ॥ ३८॥ श्रीमत्कर्ममहीपालसमादेशः सुदुर्लभः । सुचिरं विधृतो मौलौ हरिचन्दनदामवत् ॥ ३९ ॥ तान्बूलवस्त्रपात्रायः पूजयित्वा समुच्चकैः । मुख्यं संख्यावतां मध्ये आत्मानं मन्यते स्म समा४०॥ नास्तिकोऽथ समागत्य निःशेपं कर्मभूभुजः। तदुक्तं कथयामास संयोज्य करकुड्मलम् ॥ ४१॥ तद्वचःश्रवणादेव जातरोमाञ्चकञ्चुकः । आइवनिमित्त क्लिष्टं क्लिष्टाशयाभिधम् ॥ ४२ ॥ दैवज्ञ! वद सल्लग्नं परमोच्चग्रहान्वितम् । यत्मभावेण मत्पुत्रो जायतेऽनन्तसन्ततिः॥४३॥ दैवज्ञः पट्टके न्यस्य ग्रहचक्रं यथाविधि । देवामुष्मादिनाल्लग्नं पञ्चमेऽह्नि विमृश्यताम् ।। ४४ ॥ ततः शुभतरं लग्नं वत्सरान्ते महीपते। विलम्बः पुण्यकार्याणां न क्षोणीश! विधीयते ॥४५|| मिथ्यादर्शननामानं मन्त्रिणं पृथिवीश्वरः । तत्क्षणं प्रेषयामास समीपे श्रीवनस्पतेः ॥ ४६॥ वनस्पतिमहीभर्तुः पुरतः कर्ममन्त्रिराट् । नैकव्यं कथयामास लमस्योत्तमताजुषः ॥ ४७ ।। वनस्पतिरथ प्रोचे प्रमाणमिदमस्तु भोः।। सत्वरं कारयिष्यामि विवाहस्योचितं विधिम् ॥४८॥ यतः-देवानां मनसा साकं पार्थिवानां गिरा समम् । धनिनामर्थदानेन कार्य स्यात् क्षणमात्रतः॥४९॥ अथादिक्षद् नृपो भृत्यान् निगोदान् वादरानसौ। : क्रियन्तामिन्दुविशदाः पक्कानस्य हि.पर्वताः ॥ ५० ॥ १ महीपाल इत्यपि। .. ..
१०२ मल्लिनाथमहाकाव्ये- आज्यैः माज्यैः प्रपूर्यन्तां महावाप्यः पदे पदे । वररूपैः सुचित्राढ्यमण्डपा अपि वेश्मनाम् ॥ ५१ ॥ भवितव्यताप्रभृतिः सर्वः सुवासिनीजनः । पर्पटादिकृते भूयात् कलोललस्वरोत्तरम् ॥ ५२ ॥ लेख्यन्तां गोत्रिणां लेखा विवाहाहोनिवेदिनः। कुड्डमैः क्षुलकभवग्रहणाभिधलेखकैः ॥ ५३ ॥ अथ संप्रेषितो राज्ञा मन्त्री प्राप्य-पुरं निजम् । विवाहमगुणा स्वामिन् ! जज्ञेऽनन्तवनस्पतिः ॥५४॥ उन्मार्गदेशकाभिख्या वराकृष्टिविधायिनः । संसारपत्तन प्रापुर्वनस्पतिनिदेशतः ॥ ५५ ॥ प्रवेशिता महोत्साहपूर्वकं कर्मभूभुजा । नृत्लाभिधानमावासमास्थिताः समदेक्षणाः॥५६ ॥ मर्मोघट्टनया वध्वा कृतस्नानमहोत्सवाः । क्षारसूपकृता नीता दुर्वाक्रसवतीगृहे ॥ ५७॥ विन्यस्तमत्सरस्थाला अनार्याचरणादिकाः। द्राक् परिवेषयामासुः कुरङ्गार्भकलोचनाः ।।५८ ।। भोजनान्ते नृपस्यान्ते संस्थायोन्मार्गदेशिनः । अमुमामन्त्रयामासुः करग्रहणपर्वणि ॥ ५९ ॥ वस्त्रायैस्तान् स संपूज्य जन्ययात्राकृतोद्यमः । खावासान् दापयामास निघत्तस्तम्भवेश्मनि ॥६०॥ अभिगृहीतप्रभृतिभ्रातरः पञ्च दुर्जयाः । तत्राऽऽगच्छन् सशृङ्गारा भ्रातृव्यकरमङ्गले ॥६॥ द्वादशारकनामानः कालसङ्गतिसोदराः । उपाजग्मुर्ग्रहीत्वोचैर्मातृशालाविधिक्षणम् ।। ६२ ।। रतिमियरतिप्रीतिगीयमानोरुमङ्गलः । वरो भव्येतरोऽचारीद् रजःकालीकृताम्बरः ॥६॥ आपतन्तं बरं श्रुत्वा वनस्पतिमहीपतिः... .
तृतीय: सगे। (पुरं व्यधापयत् केतुलोलमालासमाकुलम् ॥६॥ बनस्पतिसमादिष्ट रामाख्यं जन्यमन्दिरम् ।...... इंसः सरोजवनवदलचक्रेतरां वरः।। ६५ ।। कुवासनामयं तत्र धूलीभक्तं वनस्पतिः । सोत्साह. प्रेषयामास कामेच्छाधवलोत्तरम् ।। ६६ ।। निकाचिताइये चारुवर्णके कर्मनन्दनः । विन्यस्तः स्वस्तिवचनरचनामिः पुरन्ध्रभिः॥ ६७ ।। नीरङ्गीपूर्वकं श्वेतपोतमावृतविग्रहः । उन्मादाख्यं वरो नागमारुरोह यथाविधि ॥ ६८ ॥ द्रव्यक्षेत्रकालभावस्थूलसूक्ष्मविभेदिभिः । धवलैः पुद्गलपरावतैः संगीतविक्रमः ॥ ६९ ॥ वित्रीन्द्रियादिमिर्जीवर्वन्दिवृन्दैरिवोच्चकैः । पुरस्थैर्वर्णिताशेषगुणग्रामः पदे पदे ॥ ७० ॥ कौतुकागारसामीप्यं पाप्य भव्येतरो वरः। उत्ततार द्विपादस्मात् प्रबोधादिव दुर्मतिः ॥७॥ (त्रिमिर्विशेषकम् ) अनन्तकालचक्राख्यखस्राकृष्टः खवाससा । संव्यानसंपुटस्फोटं चक्रे पादप्रहारतः ।। ७२ ।। यथाप्रवृत्तिनामाख्या कुलदेवीं प्रणम्य सः। मोहोदयवधूतारामेलकं विदधे तदा ।। ७३ ।। अनादिभवरूपेण कृतज्ञेन द्विजन्मना । कारितः करसंयोगोऽनयोर्मन्त्रपुरःसरम् ।। ७४ ॥ वनस्पतिमहीपालः करमोचनपर्वणि । भववेद्याभिषां विद्यां ददावक्षयकारिणीम् ।। ७५ ।। वृत्ते विवाहमङ्गल्ये दशाऽहानि महोत्सवात् । स्थित्वा वरः समागच्छद् निज संसारपत्तनम् ॥७६॥ भुञ्जानः पञ्चधा भोगान् तया साकं नरेन्द्रजः । 1.
. मल्लिनाथमहाकाव्ये- असूतं नन्दनान् पश्च विकारान् विदितान् भुवि ॥७॥ आसनदरसिद्धिकवेश्मान्येष दिवानिशम् । उपाद्रौषीत सुतैः साकं पञ्चभिर्वामचेष्टितैः ।। ७८ ॥ आसन्नदूरभव्याया मिलित्वा. तैरुपद्रुताः । आगमन् कर्मभूमीशसमीपे भाभृतोत्तराः ॥ ७९ ॥ प्रणम्य कर्मभूपालं तत्सर्वं ते व्यजिज्ञपन् । परैर्हि परिभूतानां सर्वेषां पार्थिवो गतिः ॥ ८ ॥ यदूचे- दुर्बलानामनाथाना बालवृद्धतपस्विनाम् । अन्यायैः परिभूतानां सर्वेषां पार्थिवो.गतिः ॥८॥ तं निशम्याऽवदद् भूमान् रे रे नगरवासिनः । मदल्लभसृतस्यायमन्यायः पूत्कृतः कथम् ॥ ८२॥ यद्यन्ममाङ्गमूर्लोकान् गृह्णाति गृहमध्यतः। तत्तस्य शेषमन्यस्य प्रसाद इति यत्कृतः ॥ ८३॥ :: यद्यत्र स्थातुमीशा न ततो गच्छत मे पुरात् । नगरस्य न कोणेऽपि ममायं कूणयिष्यति ॥ ८४ ॥.. ततः कलिः प्रतीहारः संज्ञितो नेत्रसंज्ञया । तानर्द्धचन्द्रयामासानाथानिव नृपाग्रतः ॥ ८५ ॥.. : ते खिन्नमानसा दीनवदना भ्रष्टवुद्धयः । विमृश्य सुचिरं चित्ते भव्यप्रासादमासदन ॥८६॥ तानायातश्चिरं दृष्ट्वा मुहुः स्नेहलचेतसा । अभ्युत्थानमलञ्चक्रे सर्वस्याभ्यागतो गुरुः ॥ ८७ ॥ किञ्चिदुच्छ्रसितास्तेऽय प्रदत्तद्रविणा इव । प्राणमन् कर्मभूपालकुमारं परया मुदा ॥८॥ कर्मणा विहितं यच्च तेऽजल्पन्नपमाननम् । सुहृदां कथितं दुःखं लघूभवति निश्चितम् ॥ ८९ ॥...
उनीयः सर्गः। समीपवनी नन्मित्रं सदागम इति श्रुतः। दिनीयं मानसमिव भव्यस्य नृपजन्मनः ॥ ९॥ निदथ्यो तन्मुखं भव्यः सोऽप्यूचे देव ! मदरः। मृण्वपीपां यथा वाणसामयं तव जायते ।। ९१ ॥ अमुप्पिन भवपायोधी विनसप्तकरज्जुके। ग्रन्थिमंदाभिधी द्वीपोऽप्राप्तोऽभव्यतरनहि ॥ १२ ॥ अपूवानिवृत्तिसंसकरणारक्षकान्वितः। कोटः सास्वादनो नामाऽतिक्रम्यो यः पडावलिः ॥१३॥ सम्यग्दृष्टिरिति ख्यातं तस्मिन्नस्ति महापुरम् । मुबोयो यत्र भूपालस्तार्या बुद्धिसुन्दरी ॥ ९४ ॥ त्रिपुञ्जीकरणो नाम तस्य चन्दी महामतिः । यः सदा वीनरागस्य पठेद् भोगावली किल ।। ९५ ॥ ततः परमविरतिनामाऽस्ति नगरी शुभा। त्रयस्त्रिंशदन्धिमानाऽनुत्तरमुरभामुरा ॥ ९६ ॥ 'तस्या देशविरत्याख्यो महाग्रामो विराजते । यस्मिन्नुपासको भव्यसंज्ञः खेलति धार्मिकः ॥१७॥ तनः सर्वविरत्याख्यं नामाऽस्ति नगरं महत् । यसिंचारित्रभूपालः पराक्रममहानिधिः ॥९८॥ तस्य क्षमाभिधा पट्टदेवी कोमलगी: सुधीः। मुनीन्द्ररपि यद्रूपं गीयते ज्ञानगीतिभिः ॥ ९९ ।। अस्ति तस्य महामात्यः सम्यग्दर्शनसंज्ञकः । मिश्राख्यः प्रणिधिर्यस्य सर्वगः पवनो यथा ॥१०॥ समीपे तस्य चेद् भव्यमहाभाग्येन गम्यते । अवश्यं कर्तुमस्योच्चैरपमानं हि शक्यते ॥१०॥ 'निःसहायैर्महाभाग! न किञ्चिदपि शक्यते । वायुना कृतसानिध्यो दहेद कक्षं हुताशनः ॥१०२॥ १ ममेति पाठान्तरम् । .. १४ ६ मल्लिनाथमहाकाव्ये- यतः- असहायः समर्थोऽपि तेजवी किं करिष्यति । निर्वात ज्वलितो वह्निः खयमेव प्रशाम्यति ।। १०३।। श्रुत्वेदं निशितैः सर्वैः समित्रः कर्मनन्दनः । चचाल शकुनैश्चारु प्रेरितः सुकृतैरिव ॥ १०४॥ मातस्तेषां गृहाण्येष शून्यान्यालोक्य सर्वतः । लोको विज्ञपयामास राजानं कोपनाऽशयम् ॥१०॥ तन्निशम्यं वचो राजा कोपवहिपभञ्जनम् । आजूहवद् महामात्यं. मिथ्यात्वं.वहुसंमतम् ॥१०६॥ अथावादीद् महाभाग ! सनीरजलदखरः । ममाग्रे मिश्रदूतेन जगदे जगदेकधीः ॥ १०७ ॥ भन्यो भव्यसमूहेन साकं स्वामिन् ! निशीथतः । उच्चल्य सर्वविरतौ नगरे गतवान् खलु ॥१०८॥ स च चारित्रभूपेन कृतसंमानपूर्वकम् । समीपे स्थापितः पुत्रवद् दृष्टश्च दिवानिशम् ॥१०९॥ चारित्रभूपतेः साधु धर्मपुत्रेण सङ्गतम् । नीलीरक्ताम्बरमिव जज्ञे तस्याऽविनश्वरम् ११०॥ सन्मार्गदेशनानाम्नी वारवेश्या सुलक्षणा । तस्या गेहे स्थितो भन्यो विरागी भवतः प्रति॥११॥ क्रमशः क्रमशस्तेन तत्पुरं कर्मभूपते ।। उद्वासितं सुवोधेन स्तोकलोकं भविष्यति ॥११२॥ श्रुत्वेति कर्मभूपालः क्रोधेनौष्ठदलं दशन् । ऊचे चारित्रभूपालं हनिष्यामि शृगालवत् ॥११॥ मया चारित्रनामापि श्रुतमय महत्तम ।। मां मुक्त्वाऽन्यो महीपालोन कापिश्रूयते क्षितौ ॥११॥ अथवा कल्पक्षेपि विद्यमानेर्थिनां प्रिये । स्नुहीमहावृक्ष इति किं मृट्ठों निगद्यते ? ॥ ११५ ।।
तृतीयः सर्गः। १०७ यस्तायपः पक्षालीचिकीर्मक्षु खसायके। दिग्दन्तिदन्तः प्रेयस्याः सत्कङ्कणचिकीर्नरः॥११६।। सिंहस्य केशरैलोक्षारसदिग्धैरिवारुणैः।। वेणीवन्धचिकीर्यश्च स मे पितृसपत्नति ॥११७॥ (युग्मस् ) दुर्नयस्य. फलं सद्यो दर्शयामि रणाङ्गणे । मद्विक्रमकथा सभ्याः! बीक्षन्तां पौनरुक्त्यतः॥११८॥ अथ कर्ममहीपाल प्रज्वलन् क्रोधवह्निना। कुवासनाभिधा वाद जैत्रढक्कामवीवदत् ॥ ११९ ॥ तस्या नादं समाकर्ण्य शौर्यगुमघनाघनम् । कामाद्या मण्डलाधीशाः सर्वे संनहनं व्यधुः ॥१२०॥ : आहारभयसंज्ञाश्च चतस्रो यानकाहलाः। चतुर्दिक्षु जयायेव ताडिताः कर्मभूभुजा ॥१२१॥ कदाग्रहमयास्तत्र निःखानाः संखनुस्तराम् । पञ्चेन्द्रियविकाराश्च पञ्च तूर्याण्यपि स्फुटम् ॥१२२॥ अथ कर्ममहीपालः कृतप्रस्थानमङ्गलः । आरुराहाभिमानाख्यं नाग नगमिवोन्नतम् ॥१२३॥ अभव्यैर्मण्डलाधीशैश्चलत्कर्मगुणैरिव । दूरभव्यैस्तथा वर्गपतिभिः परिवारितः ॥ १२४ ।। प्रभञ्जन इवोद्दामो नस्खलत्पौरुषोत्तर। ददौ योजनमानेन प्रयाण कर्मभूपतिः ।।१२।। इत्यं प्रयाणकं कुर्वन् सर्वगः कर्मभूपतिः । प्रन्थिभेदाभिधे द्वीपे कृतवासों व्यराजत. ॥१२६॥ मिश्रनामा महादूतः रितः कर्मभूभुजा। सम्यक्त्वमन्त्रिणो गेहमभ्यगाचित्तवद् द्रुतम् ॥१२७॥ खामिन् ! कर्ममहीपालो मन्मुखेन तवाग्रतः। ईदृशं कथयामासाऽवधार्य तन्मयोदितम् ॥ १२८ ।।. ... .. .
१०८ मल्लिनाथमहाकाव्ये- भव्यसान्वितो भव्यकुमारो यत्त्वया धृतः। तत् प्रसुप्तो.मृगाधीशो हतो हन्त ! चपेटया ।। १२९ ।। एतावताऽपि नो. नष्ट किमप्यस्ति महीपते।। गत्वा.क्षमय निःशेष नतिग्राह्या हि.साधवः ॥.१३०॥ इति ब्रुवाणं.तं दूतं श्रुत्वा चारित्रभूपतिः। सहास्यमवदत्.पाथःपूर्णपाथोदनिःस्खनः॥ १३१॥ त्वनाथनगरीलोकः सदागमविमोचितैः । मदीयं नगरं. भद्र ! वसदस्ति निरन्तरम् ॥ १३२॥ अमुमथ तव.खामी जाननपि निजे हृदि । कथमद्योधतो जज्ञे विग्रहाय समं मया ॥ १३३ ॥ अथवा विग्रहं मत्वा सर्वोऽपि परमण्डले । प्रवेशं कुरुते धीमान् कीर्तिहासोऽन्यथा भवेत् ॥१३४॥ न न्यूनं तव नाथेन तोलनीयं ममाधुना । इत्युक्त्वा व्यसृजद् दूतं ततश्चारित्रभूपतिः ॥ १३५॥ अथ प्रभावनां जैत्रढका चारित्रभूपतिः । तत्क्षणात् ताडयामास वैरिंगर्वगिरेः पविः ॥ १३६ ॥ शमसंवेगनिर्वेदप्रमुखास्तस्य भूपतेः । सर्वाभिसारप्रयता बभूवुर्मण्डलेश्वराः ॥ १३७ ॥ ज्ञानमौनक्रियाशीलसंपदो यानकाहलाः। समताड्यन्त भव्येन श्रवणप्रमदप्रदाः ॥ १३८ । अथ चारु मुहूर्वेऽह्नि कृतप्रस्थानमङ्गलः। आरुरोह व्रतक्ष्माभृत् संयमाभिधकुञ्जरम् ॥ १३९ ।। जैनधर्माभिधो वन्दी भावनातुरगीस्थितः । एवं वचोऽगद काममाशीर्वादपुरस्सरम् ॥ १४० ॥ जय चारित्रभूपाल ! प्रलीनाशेषकल्मष।। जय भव्यजनारामवसन्तसमयायित! ॥ १४१ ॥ १ -वर्ग-इति च पाठः।
1 . तृतीयः सर्गः। १०९ जय त्रलोक्यमाणिक्य! जय साम्यमहानिधे। जय दुर्जयदर्पोकन्दर्पपैवनाशन ! ॥ १४२ ॥ अहिंसा ध्यानयोगश्च रागादीनां विनिर्जयः। सार्मिकानुरागश्च सारमेतत् तवाऽऽगमे ॥ १४३ ॥ अर्हन् देवो गुरुः साधुस्तत्त्वं तीर्थकरोदितम् । • इति यस्य स्फुरत्यन्तः संसारोऽस्य करोति किम् ॥१४४। इत्याधर्वचनधारैः पूरयन् रोदसीतलम् । चारित्रभूपतेरने प्रासरद् वन्दिसुन्दरः ॥ १४५॥ शुक्लध्याननरो दधे मूर्ध्नि च्छत्रं समुज्ज्वलम् । केवलज्ञाननामाऽस्य लोकालोकमकाशकम् ।। १४६ ।। आरोहका समत्वाख्यः कुम्भिकुम्भे व्यवस्थितः । अन्येऽपि बलिनो योधाः सन्तोपशमसंज्ञकाः ॥१४७॥ प्रयाणकशमिश्रकोहदुर्गसमीपगः । वभूव व्रतभूपालो विहितावाससंहतिः ।। १४८ ॥ शमस्य मार्दवस्याऽप्यार्जवसंतोपयोरपि । रणपट्टा अवध्यन्त श्रीमच्चारित्रभूभुजा ॥ १४९ ॥ क्रोधाहारयोर्मायालोभयोरपि तत्क्षणम् । कर्मक्षोणीभुजा भालेऽवध्यन्त रणपट्टकाः ॥ १५ ॥ अथ सैन्यद्वयं तत्र डुढौके रणरङ्गतः। ब्रियन्ते सुभटा यत्र साभिज्ञानपुरस्सरम् ।। १५१ ।। रणतूयमानैर्वन्दिकोलाहलैस्तथा । वीराणां सिंहनादैश्च शब्दाद्वैतमभूत्तदा ॥ १५२ ॥ शरच्छन्नपतद्दण्डैरुच्छलनिर्मुहुर्मुहुः । तदा जज्ञे सितच्छत्रैः शतचन्द्रं नमस्तलम् ॥१५३॥ रणकृत्तशिरोभिश्च हुङ्काररवभीषणैः । परिव्यास नभो भाति वाचालैरिव राहुभिः ॥१५४॥ १ -प्रहपस्मर इति च पाठः । .
मल्लिनाथमहाकाव्ये-. नास्त्यात्मा नास्ति देवोऽपि नास्ति काचन नितिः। नास्ति पुण्यं तथा पापं किन्तु भूतमयं जगत् ॥१५५।। एकस्मिन् दृषदि न्यस्य पादद्वन्द्वमुपासकैः। अभ्यर्च्यते शिला त्वन्या.शवमण्डनलीलया ॥१५६॥ किं तया विहितं पापं यस्या उपरि संस्थितम् । स्थाप्यन्ते चरणा अन्याः पूज्यास्तत्कि कृतं शुभम् ११५७ यद् बुद्धयते न तत्वं तद् यत्तत्वं तन्न बुध्यते । अतत्त्वलोलुपो लोको धिम्मूविप्रतार्यते ॥ १५८॥ इत्यं वचनवीथीभिभल्लीभिरिव ताडिताः । द्रव्यश्राद्धा अभव्यस्तैः क्षणादेव विनिर्जिताः ॥१५९॥ (चतुर्भिः कलापकम् ) अत्र चारित्रभूपालं प्रणम्य परमाईताः । अभव्यस्तैः समं योढुं प्रवृत्ता रणरङ्गिणः ।। १६० ।। यदुच्यते भवद्भिश्च नास्तीति वचनं भृशम् । अस्तीत्युपेक्षया तच घटाकोटिमुपैति भो ! ॥ १६१॥ चरणस्थापनं भक्तिपूजनं यच्छिलाखलम् । तत्सतिष्ठाफलं नाऽऽभिः पुण्यापुण्यमुपार्जितम्॥१६२॥ इत्थं वाक्यैः सर्वलोहमयैरवैरिवोच्चकैः । पलायाश्चक्रिरे वेगादभव्यास्ताडितास्ततः॥ १६३ ॥ साकं संचारिभी राजपुत्रैः क्रमागतैरिव । सात्त्विकैरनुभावैश्च शान्तैः प्रहरणैरिव ॥ १६४ ॥ लीलाविलासविच्छित्तिविब्बोकादिमविभ्रमैः । इत्यायैः सहजैर्युक्ता रागवार्दिहिमांशुभिः ॥१६५॥ मण्डलाधिपकन्दर्पनिदेशाद् विषया भटाः। स्थायिभिर्मुर्ततेजोभिरिव योv डुढौकिरे ॥१६॥ (त्रिभिर्विशेषकम् ) तेषां दर्शनतः श्रीमद्वतरादपक्षवर्तिनः ।
तृतीयः सर्गः।.. द्रव्यतो यतयों नेशुः किंकर्तव्यविमोहिताः ॥१६७।। खवलं भग्नमुदीक्ष्य वलात्कर्ममहीभुजः...: अशिक्षतेति निर्ग्रन्थान् श्रीमच्चारित्रभूपतिः॥ १६८ ॥ यूयं धन्या महासत्वा आजन्मब्रह्मचारिणः । यथाख्यातव्रतास्तीर्णघोरसंसारसागराः॥१६९ ॥ युष्मदीयं व्रतं भद्राः पालितं सफलं. तदा । यदाऽमून् विषयान् घोरान् जेतारोब्रह्मविक्रमैः॥१७॥ अन्यथा विषयैरेभिब्रह्मचर्यमहानिधिः । अवश्यं गृह्यते सर्वो भवतां जीवतामपि ॥१७॥ अमुष्मिन् दुग्रहे दुर्गे निर्जिते विषयाभिधे। भवादशैनिज गोत्रमयैवाऽलं विभूयते ॥ १७२ ॥ एषामपि पतिः कामः प्रकामवलदुधरः । ब्रह्माद्यास्त्रिदशा येन लीलयैव वशीकृताः ॥ १७३ ॥ एतज्जयो विधातव्यः शुचिब्रह्मनिषेवणैः । वसतिखैणवार्तादिनवगुप्तिविशेषितैः ॥ १७४ ।। इत्युपबृंह्य भूपालो विजितेन्द्रियसंज्ञकम् । ताम्बूलं प्रददौ तेषां खहस्तेन प्रसादवत् ॥ १७५ ॥ अथ चारित्रभूपेन समादिष्टाः समन्ततः । सर्वाङ्गमलसन्नाहा ब्रह्मगुप्त्सनभासुराः॥१७६ ।। निरीहतातुरवस्था निशातशमसेल्लकाः। योद्धं ताभिः समं विष्वग दौकन्ते स्म महर्षिताम॥१७७॥ (युग्मस् ) तेषां दर्शनमात्रेण प्रणेशुर्विषया. भटाः। उदये तेजसां भर्तुः किमु खेलन्ति कौशिकाः ||१७८॥ शमः कोपमयो मानं मृदुता रणपट्टभृत् । मायामार्जववीरेशो लोभ तोषस्ततोऽजयत् ॥ १७९ ॥ अथ कर्ममहीपाल सार्क चारित्रभूभुजा।
..
..
११२
मल्लिनाथमहाकाव्य-
योधुं प्रवृतेऽत्येन्त बन्धसत्वाऽऽदिवर्मभृत् ॥१८गा
मतिश्रुताऽवधिमन केवलावरणैः समम् ।
ज्ञानावरणकर्माऽथाऽचलत् कर्मविपानुगम् ॥ १८१ ॥
चक्षुरचक्षुरवधिकेवलदर्शनावृतिः ।
आंचा निद्रा निद्रानिद्रा प्रचला च तृतीयका ॥१८२॥
प्रचलामचला स्त्यानधिरेवं नवभिस्ततः ।
दर्शनावरणं कर्म पाणिभागेऽभवत्तराम् ।। १८३ ।।
सातासातभिदाभ्यां तु वेदनीयं तदग्रतः ।
तिर्यग्नारक→स्वर्गिभेदादायुश्चतुर्विधम् ।। १८४ ॥
गतिजातितनूपाङ्गवन्धनादिविशेषतः ।
व्युत्तरशतेन नाम सनह्य प्रगुणं स्थितम् ॥ १८५ ॥
उच्चैर्नीचैर्द्विधा भिन्नं गोत्रं तस्य पुरस्सरम् ।
अन्तरायो दानलामवीर्यभोगोपभोगयुक् ।। १८६ ।।
कषायोंकषायैश्च योधैरिव महावलैः ।
रणकामी भवस्खामी रणक्षेत्रममण्डयत् ॥ १८७ ॥
ततो व्रतमहीपालः सत्क्रियाकवचोत्तरः।
अवर्षद् धर्मचापेन देशनानिर्मितैः खगैः ॥ १८८ ॥
पात्रस्यानुपघावेनानिहवेन गुरोरपि ।
जिगाय ज्ञानावरणदर्शनावरणे नृपः ।। १८९ ॥
जिनेन्द्रसिद्धचैत्यौघसंघस्य देषवर्जनः ।
अनन्तदुःखसंभारं सोऽजयद् दृष्टिमोहनम् ॥१९०॥
तीवक्रोघपरीहारैर्भवभ्रमणवारणैः।
चारित्रमोहं चारित्रभूपालो जितवांस्तदा ॥ १९१ ॥
महारम्भपरित्यागैस्तीत्ररागविवर्जनैः।
व्रतेशो नरकायुष्कं समूलमुदपाटयत् ॥ १९२ ।।
सन्मार्गदेशकत्वेन तिर्यगायुस्ततः परम् ।
विजयेन कपायाणां मनुप्यायुरथाज्जयत् ॥१९३॥
. तृतीयः सर्गः। ११३ तपोभिनिर्मलैः कामं निर्जराभिः पदे पदे । देवायुष्कं लीलयव जितवान् संयमाधिपः ।। १९४ ॥ गारवाणां परित्यागाद् नीचैर्गोत्रमधिक्षिपत् । उच्चैर्गोत्रं तु चारित्रव्रतायुःपरिपूरणैः ॥ १९५ ॥ अन्तरायं पराजिग्ये दानलाभाऽनिवारणैः। इत्यं कर्ममहीपालो मृलादुन्मूलितस्तदा ॥ १९६ ॥ जितकाशी ततः श्रीमच्चारित्रक्षितिनायकः । निर्वाणनगरी माप भासुरां शाश्ववैः सुखैः ।। १९७॥ तदाऽऽदेशेन भव्यानां प्रतिवोषपरायणः । वलभद्रमहीपाल! भ्रमीमि यथाविधि ॥ १९८॥ तत्त्वार्थरसिकामेनां देशनां कर्मनाशिनीम् । श्रुत्वा संसारभीतः सन् उवाच वलभद्रराद् ।। १९९ ।। तावदर्कभवस्तापो:यावच्छत्रं न वन्यते । तावद्भवस्य भीर्यावद् न श्रुता धर्मदेशना ॥२०॥ प्रभो! देशविरत्याख्ये यथा पुरि वसाम्यहम् । तथा कुरु गुरूपास्तेः सर्चमल्पमिदं मम ।। २०१॥ क्रमाचत्रोपितेनेशश्चारित्रो द्रक्ष्यते मया । तस्मादभीष्टसिद्धिर्मे भवितैव महामते ! ॥२०२॥. तवो देशविरत्याख्यगुणान् देहि महामुने। ततोऽप्युवाच निर्ग्रन्थः क्षमादिपुरुषोपमः ॥ २०३ ॥ सम्यक्त्वपूर्वकं पश्चाऽणुव्रतानि गुणास्त्रयः । शिक्षात्रतानि चत्वारि बतान्येतानि मेहिनाम् ।।२०४॥ श्रुत्वेदं स सम्यक्तेन पूर्वकं गृहमेधिनाम् । व्रतानि द्वादशागृह्णाद् महावलनिदेशतः ॥ २०५॥ तदन्येऽपि भावेन जनहुादशवतीम् । सम्यश्रद्धांनसंशुद्धा यथा राजा तथा प्रजा॥२०६॥ अतिज्ञेयमभूवं तेषां समानामपि धीमताम् । 4- . . ११४ मल्लिनाथमहाकाव्ये- अन्यैरपि हि तत्कार्य यधेकः कुरुते तपः ॥२०७॥ ते सर्वेऽथ चतुर्थादि कर्मग्रन्थविभेदकृत् । चतुर्थपुरुषार्थस्य कारणं तेपिरे तपः ॥ २०८ ।। अद्य दुष्यति मे मूर्धा दुष्यत्यय ममोदरम् । वर्ततेऽयाऽरुचिः प्राज्यरसवीर्यविपाकतः॥ २०९।। अंद्याहारस्य नामापि सर्वथा न सुखायते । अथोद्दारैर्मुखं वाऽपि कटुकै कटुकैरिच ॥२१॥ व्यपदिश्यति राजर्षिः स्वस्याधिकफलेच्छया। पारणाहेऽपि नाऽभुत मायया तान् ववश्च समा२११॥ भूयसा तपसा शश्वद् मायामिश्रेण सर्वतः स्त्रीवेदकर्म सोज्वध्नाद् महावलमहामुनिः ॥ २१२ ।। अंहद्भस्यादिभिः स्थानविंशत्या नृपसंयमी । तीर्थकुनामकर्मोच्चै/मानर्जितवानिति ॥ २१३ ॥ अर्हता प्रतिमाऽऽर्चाभिरहतां स्तवनादिभिः । एकमर्जितवान् स्थानमवर्णादिनिवारणैः ॥ २१४ ।। सिद्धिस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः। एकत्रिंशत्सिद्धगुणकीर्तनैश्च द्वितीयकम् ।। २१५॥ प्रवंचनोन्नतेः सम्यग् ग्लानवालादिसाधुषु । अनुग्रहमनोज्ञायाः स्थानमेतत् तृतीयकम् ॥ २१६ ॥ गुरूणामञ्जलेर्वन्धादनाहारादिदानतः। असमाधिनिषेधेन स्थानमेतत् तुरीयकम् ॥ २१७ ।। स्थविरा द्विविधा प्रोक्ता वयसा सुगुणैरपि । तेषां भक्तिविधानेन पञ्चमं स्थानकं विदुः ॥२१॥ बहुश्रुतानां ग्रन्थार्थवेदिनां तत्त्वशालिनाम् । पाशुकानादिदानेन पष्ठं स्थानमुदीरितम् ॥ २१९ ।। तपस्विनां सदोत्कृष्टतपःकर्मस्थिरात्मनाम् । विश्रामणादिवात्सल्यात् सप्तमं स्थानमिष्यते ॥२२०॥ .
तृतीयः सर्गः।- ११५ ज्ञानोपयोगसातत्यं द्वादशाङ्गाऽऽगमस्य च । मूत्रार्थोभयभेदेन स्थानं ननु तदष्टमम् ।। २२१॥ । शाविहीन स्थैर्यादिसहितं दर्शनं स्मृतम् । शमादिलक्षणं यत्तु स्थानकं नवमं मतम् ॥ २२२ ॥ विनयो यश्चतुर्भेदो ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच्च स्थानं तद् दशमं मतम् ।। २२३ ।। आवश्यकं भवेत् स्थानमेकादशमिदं पुनः । इच्छादिदशधा या सा सामाचारी जिनोदिता।।२२४॥ शीलवतं विशुद्धं यद् नवगुप्तिनियन्त्रितम् । तत्पाल्यं निरतीचारं स्थानं तद् द्वादशं भवेत् ॥२२५॥ त्रयोदशमिदं स्थानं क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं प्रमादपरिवर्जनात् ॥ २२६ ॥ तपो विधीयते शक्या वाह्याभ्यन्तरभेदतः । असमाधिपरित्यागात् स्थानमुक्तं चतुर्दशम् ।।२२७।। त्यागोतिथिसंविभागः शुद्धानोदकदानतः । तपखिनां स्वयं शक्त्या स्थानं पश्चदशं तु तत् ।।२२८।। वैयावत्यं तु गच्छस्य वालादिदशभेदतः । भक्तविश्रामणायैः स्यात् स्थानं षोडशकं किल ॥२२९॥ समाधिः सर्वलोकस्य पीडादिकनिवारणात् । मनःसमाधिजननं स्थानं सप्तदर्श भवेत् ॥२३०॥ अपूर्वज्ञानग्रहणात् सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं सर्वज्ञैः परिभाषितम् ।। २३.१ ।। श्रुतभक्तिः पुस्तकानां लेखनादिषु कर्मसु । व्याख्याव्याख्यापनैरेकोनविंशं स्थानकं भवेत् ॥२३२॥ प्रभावनाप्रवचने विद्यावादनिमित्ततः। शासनस्योन्नतेर्या स्यात् स्थानं विंशतिसंज्ञकम्।।२३३॥ : 'भेदिनः' इत्यपि !"
मल्लिनाथमहाकाग्ये- •. • - एकैकं तीर्थंकनामकर्मवन्धस्य कारणम् । सर्वैराराधितैरेभिस्तद् क्वन्ध स संयमी ।। २३४ ॥ पूर्वलक्षचतुरशीत्यायुष्को नृपसंयमी । पर्यन्तमात्मनो ज्ञात्वा व्यपादाराधनामिति ।।२३५॥ अकालविनयाधैर्यो ज्ञानाचारेऽष्टरूपिणि । अतींचारः कृतस्तत्र स्याद् मिथ्या दुष्कृतं मम ||२३६।। अष्टधादर्शनाचारे भेदैनिशङ्कितादिभिः। योऽतीचारः कृतस्तत्र भूयाद् मे दुष्कृतं खलु ॥२३७॥ समितिभिः पञ्चभिश्च गुप्तिभिस्तिमृभितम् । : ... पालितं यद् न चारित्रं तत्र मे दुष्कृतं तथा ॥२३८ti तपसि द्वादशभेदे वाह्याभ्यन्तरभेदतः । योऽतीचारः कृतस्तत्र मिथ्या मे दुष्कृतं भवेत् ॥२३९॥ निग्रहितं बलं यच्च धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ।। २४०।। त्रसानां स्थावराणां च या हिंसा प्राणिनां कृता । क्रोधादिमिः कषायैश्च यदलीकं मयोदितम् ।। २४१ ।। यत् कापि भूरि वाऽल्पं च परद्रविणमादृतम् । तैरश्चं दिव्यमानुष्ये यन्मैथुनमकारि च ।।२४२॥ लोभोद्रेकाद् मयाऽकारि बहुभेदपरिग्रहः । प्रत्यक्ष सर्वसिद्धानां सर्व निन्दामि तत् त्रिधा ॥२४॥ (युग्मम् ) प्राणिघातो मृषावादोऽदत्तादानं च मैथुनम् । परिग्रहस्तथा कोपो मानो माया च लोभकः ॥२४४॥ रागो देपो रत्यरत्याभ्याख्यानं कलहस्तथा । पैशुन्यं परिवादश्च माया सूनृतमेव च ॥ १४५ ॥ मिथ्यादर्शनशल्यं च भवसन्ततिकारणम् । अमून्यष्टादशाऽवयस्थानानि व्युत्सृजाम्यहम् ॥२४६।। -- तृतीयः सर्गः। ११७ एकेन्द्रियादिका जीवा ये केचन भवाम्बुधौ । भ्रमता पीडिताधं तान् क्षमयामि शुद्धहृत् ॥२४॥ यच्चक्रे पापशाखादि तद् निन्दामि समाहितः। शीलं यत् पालितं शुद्धं तदभिष्टौमि तत्त्वतः ।।२४८॥ ग्लानानां यत्समाचीणे वैयास्यादिक मया । पद्विधावश्यक शुद्धं यच्चके तत् स्तवीम्यहम् ।।२४९।। शरणं मम तीर्थेशाः सिद्धाश्च शरणं मम । साधवः शरणं सर्वे धर्मः शरणामाईतः ।। २५० ।। उपधि देहमाहारमुडासेनान्तिमेन च । त्रिविधं न्युत्सृजाम्युच्चैर्निर्ममत्व विभूषितः ।। २५१ ।। ये जानन्ति जिनाः सम्यगपराधान् मया कृतान् । तान् भूरिभावतः सर्वान् गर्थेऽहं सिद्धसाक्षिकम्।।२५२॥ एप जीवः कियत् पापं छगस्थः सरति खयम् । यदहं न स्मराम्यत्र मिथ्या दुष्कृतमस्तु तत् ॥२५३॥ वर्तमानजिनेन्द्राणां सिद्धानां च पुरस्सरम् । माक् कृतं दुष्कृतं सर्व निन्दामि व्युत्सृजामि च।।२५४॥ शुभध्यानपरो मृत्वा नमस्कारपरायणः। भासुरे वैजयन्त्याख्ये विमाने जातवान् सुरः ॥२५५।। अन्येऽपि मुनयः कृत्वाराधनां पावनाशयाः। तस्मिन्नेव विमानेगुः पूर्व सङ्केतिता इव ।। २५६ ।। : पडपि मुनय एते भावनापावनान्त:- करणकमलभाजो ज्ञातसिद्धान्ततस्याः- सुगुरुचरणसेवालन्धकीर्तिपचाराः सुरसदनमगच्छन् वैजयन्ताभिधानम् ॥२५७. इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिखामिचरिते. महाकाव्ये विनयाकेऽन्तरङ्गदेशनागर्मितः प्रथम- द्वितीयमवव्यावर्णनो नाम तृतीयः सर्गः ।। 3. . .. , अर्हन अथ चतुर्थः सर्गः। : . जिनानामिव नाभेयः सरसामिव मानसम् । तरूणामिव कल्पगुर्भरतश्चक्रिणामिवः ॥ १॥ देवानामिव सुत्रामा ग्रहाणामिव भास्करः । द्वीपानामादिमो द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥ २ ॥ (युग्मम्.) तत्रास्ति भरतक्षेत्र क्षेत्रवत् माज्यविस्तरम् । :- बहुधान्यायसामर्थ्य यतः प्रसरति शिवौ ॥ ३ ।। विदेहविषयस्तत्र ग्रामाकरपुराकुलः । नोपमानं नोपमेयमन्येषां दधते श्रिया ॥॥४॥ निधानानीव पुण्यानां कुण्डानीव यशोऽर्णसाम् । प्रतिग्राम प्रतिपुरं यत्र चैत्यानि रेजिरे ॥ ५ ॥ यत्र ग्रामाः पुरायन्ते स्वर्गायन्ते पुराण्यपि । . उपमानविहीनानि नगराणि गुरुणि तु ॥ ६ ॥ तत्रास्ति मिथिलानाम नगरी श्रीगरीयसी। . श्वस्तनीवचनानीव गुणिन्यो यत्र योषितः ॥ ७ ॥ यच्चैत्यधूपवेलोत्थधूमवल्लीभिरम्बरे । अयनपटवासत्वं खेचरीणां वितन्यते ।। ८ ॥ दधाना जगतीं श्लाघ्यास्तु रङ्गः शुभदर्शनैः । मासादा यत्र राजन्ते मत्तवारणभासुराः ॥९॥ यस्यां गणकृतं व्यर्थ शास्त्रेष्वेव निशम्यते । विद्वद्गणकृतं विष्वक प्रमाणं जिनवाक्यवत् ।। १० ।।
चतुर्थः सर्गः। कुम्भभूवैरिगर्वाब्धेः कुम्भः कीर्तिसुधाम्भसः। तत्राभूद् भूपतिः कुम्भः कामकुम्भ इवार्थिनाम् ॥११॥ सश्रीके यस्य खड्गाब्धौ शङ्खशीतांशुपुष्करे । कीर्तयः प्रत्यनीकानां निपेतुनिम्नंगा इव ॥ १२॥ भ्रमन्त्याः शेपकैलासविधुव्याजाद् जगत्त्रये । यत्कीर्तेश्चण्डिकाकान्तेर्वाऽसुकः स्थानभूरभूत् ॥ १३ ॥ यत्वगः समितौ स्वर्गिमुक्तामुभयतः स्वजम् । समासाद्य दधौ कक्षान्वितदन्तावलश्रियम् ॥ १४ ॥ वक्त्रमभापराभूतपार्वणेन्दुः प्रभावती । सतीमतल्लिका तस्य जज्ञे देवी प्रभावती ॥ १५॥. तस्याः शीलमनश्लीलं लोकंमीणा गुणा अपि । रूपं सुरूपमुर्वश्याः चाचोऽपि च सुधामुचः ॥ १६॥ सुविस्तीर्णनितम्बश्रीर्या चचार शनैः शनैः। मत्पते तभूपीठभारो मा भूद् महानिति ॥ १७ ॥ बुभुजे कुम्भभूपालो भोगसौख्यं तया समम् । लक्ष्येव लक्ष्मीरमणः शच्येव च शचीपतिः॥१८॥ इतो महावलस्याथ जीवः पूर्णनिजस्थितिः। प्रच्युत्याऽच्युतसत्कर्मा वैजयन्तविमानतः ॥ १९ ॥ अश्वयुसंस्थिते चन्द्रे क्रूरग्रहविवर्जिते । फाल्गुनन्धेतचतुर्थ्या दिवसे विजयाभिधे ॥२०॥ श्रीमत्कुम्भनृपागारे देव्याः कुक्षाववातरत् । कन्दरायां सुवर्णाद्रेः कल्पोपपदशाखिवत् ॥ २१ ॥ (त्रिभिर्विशेषकम्) तदावतारयामिन्यां सुखसुप्ता महासती । वीक्षाश्चक्रे क्रमादेतान् महास्वप्नान् प्रभावती ॥ २२॥ गोक्षीरधारागौराङ्गः ककुमान् मदमेदुरः । . उन्नदन मधुरध्वानमानन्दं मोद्विरनिवः ।।.२३॥
१२० मल्लिनाथमहाकाव्ये F चतुर्दिशनैः शुभैरुपायैरिव भूपतिः । करी मदरुचिः प्रेद्रोलम्बरबडम्बरी:॥.२४ ।। रज्यद्भिरिव काश्मीरः राजितः स्कन्धकेशरैः। केशरी सौम्यकामास्यः शरलीकृतवालधिः ॥२५॥ करीश्वरकरकोडस्वर्णकुम्भजलोमिभिः। : : संसिच्यमानपुण्यदुरिव लक्ष्मीः:पुरस्थिता.।।२६।। कल्पद्रुपारिजातादिप्रसूनस्तोमगुम्फितम् । दाम दामाऽच्छिन्नमिवं चञ्चलायाः सदा श्रियाः॥ २७ ॥ तन्वन् कुवलयोल्लासं दृक्चकोरमुदं दिशन् । ' राजमानः करैः राजा पुण्यपादपदोहद: ।।.२८ः।। भाभिरुयोतिताशेषदिक्चक्रश्चक्रवान्धवः । पूर्वाद्रिमौलिमाणिक्यपमिनीवनवल्लभः ॥ २९ ।। सुवर्णकिङ्किणीकाणैर्जगतोऽशेषसंपदः । व्याहरन्निव सदशभ्राजिष्णुश्चपलो ध्वजः॥३०॥ नीलाम्बरोऽम्बरेणेव रोचिष्णुः प्रबलैर्दलैः। कामकुम्भः श्रियो देव्याश्चित्रं लीलाविलासभूः ॥ ३१ ॥ आकण्ठं पूर्णमम्भोभिः सुधाकुण्डमिवापरम् । तापोपतापविध्वंसि पदरम्यं सरोवरम् ।। ३२ ।। मर्यादोदयरोचिष्णुर्कीजिष्णुर्वाहिनीशतैः । सार्वभौमभ्रम चिन्वन् गम्भीरः सरितांपविः॥ ३३ ॥ गर्भनीवस्फुरत्याज्यहर्पव्यतिकरादिव । विमानमनुगं स्फूर्जकिङ्किणीकाणभासुरम् ।। ३४ ॥ किं रोहणं करे कृत्वा किंवा रवाकरं पुनः । रनोचयः पुरः पुण्यसम्पदा प्राभृतीकृतः ॥ ३५॥ दधानो वैद्रुमी भ्रान्ति ज्वालामालाकरालितः । उद्यदिनेशसदृशो निघूमश्च विभावसुः ।। ३६ ।। F चतुर्थः सर्गः। १२१ इत्येतान् हर्पकल्पद्रोः सुमेरुगिरिकन्दरान् ।.. मभावती महादेवी दृष्ट्वा खप्तान् व्यबुध्यत ॥ ३७ ।। (पञ्चदशभिः कुलकम् ) इतस्तत्रं समागत्य सर्वेऽपि त्रिदशेश्वराः । चलत्कुण्डलमाणिक्यरचितेन्द्रधनुर्युतः ॥ ३८॥ किरीटस्पृष्टभूपीठा नेत्रीलोत्पलरिव । प्रभावतीं समभ्यर्च्य पेठुस्तवनमीदृशम् ।। ३९ ॥ प्रभावति ! नमस्तुभ्यं प्रभावातिशयान्विते ।। . सद्वृत्वाऽदोपवीर्येशरबरोहणचूलिके! ॥४०॥ प्रभावमहिमालास्यमौषर्ष सुदृशां परम् । अनूपेऽम्बुनिपानं च मरौनद्यवतारणम् ॥ ४१ ।। दरिद्राणां धनमिदं प्रपा.भवपये नृणाम् । यत्त्वया त्रिजगन्नाथोधियते कुक्षिकन्दरे॥४२॥ (युग्मम्) प्रभावतीमिति स्तुत्वा द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं स्वं स्वमीयुः सुरोत्तमाः॥४३॥ स्वमान्तादपि जाग्रत्या प्रभावत्या महीपतेः । कथयामासिरे पातर्यथादृष्टममृन्यथ ।। ४४॥ जुना मनसा स्वमान् विचार्य क्षोणिनायकः । आचख्याविवि वे देव्यपत्यरत्नं भविष्यति ॥ ४५ ॥ विशेषतस्त्वमीषां तु फलं ज्ञातुं घरेश्वरः । आजूहवत् मतीहारा स्वमशास्त्रविशारदान् ॥ ४६ ।। पार्वणेन्दुवदानन्दसम्पादनकृचोधमाः। वंशगोरोचनापुण्ड्रा आजग्मुः स्वमपाठकाः ॥४७॥ आर्यवेदोद्भवान् मन्त्रानुचार्योदामया गिरा। उपांत्रिक्षनासनेषु मराला नलिनेष्विव ।।.४८ ॥: आसयामास भूपालो जायां जवनिकान्तरे।। अषा न्यगदत्-स्वमानाऽऽप्ततत्त्वयुजा गिराः ॥४९॥ १६ १२२ मल्लिनाथमहाकाव्ये स्वमान् द्वासप्ततिं राजन् ! प्रशंस्तान कोविदा विदुः । तन्मध्यात् त्रिंशतं तेषु महास्वमांश्चतुर्दश ॥ ५९॥ अर्हतां चक्रिणां माता चतुर्दशैव पश्यति । हरेर्माता तथा सप्त चतुरः सीरिणोऽपि च ॥५१॥ अमुत्र भरतक्षेत्रे जिना अष्टादशाऽभवन् । चक्रिणोऽष्टौ भरतायाः षट्खण्डभरतेश्वराः ॥ ५२ ॥ एकोनविंशतीर्येशजनिरुद्भाव्यतेऽधुना। अथवा चक्रिणोराजन् ! नवमस्य हि साम्पतम् ॥५३॥ परितुष्टोऽथ भूनाथस्तद्वचाश्रवणादसौ। ददौ ग्रामाकराग्रुच्चैर्वासोऽलङ्करणादि च ॥ ५४॥ वस्त्रालङ्करणैरेते कल्पद्रुमदलैरिव । राजमाना ययुगेंहं श्रिया श्रीदविडम्विकाः ॥ ५५ ॥ देवानुभावसम्पूर्णमनोरथतया भृशम् । मुदितायाः सुखेनैव गर्भो देव्या व्यवर्धत ॥ ५६ ॥ . सार्धाष्टमदिने मासनवके गतवत्यथ । मार्गविशुदैकादश्यामश्विन्यां च निशाकरे ॥ ५७ ॥ ग्रहेषच्चस्थितेषूच्चैस्तजन्मौको दिक्षया । एकोनविंशमहन्तं नीलाम कुम्भलाञ्छनम् ॥ ५८ ॥ प्राग्जन्ममाययोपात्तस्त्रीकर्मत्वेन कन्यकाम् । प्रभावती प्रसूते स गङ्गेच स्वर्णपद्मिनीम् ॥ ५९॥ (त्रिमिविशेषकम् ) अनुकूला ववुर्वातास्वज्जन्मसुखिता इव । सुप्रसन्ना दिशोऽभूवन् कृतकृत्या इव प्रजाः॥ ६॥ अरिष्टानि क्षयं जग्मुः शुभशस्यमभूद् जगत् । नारकाणामपि सुखमाकस्सिकमभूत् क्षणम् ॥ ६१ ॥ दिकुमार्यो विदित्वाऽथ तज्जन्मासनकम्पतः । अधोलोकात् समाजग्मुरप्टौ देव्यः ससंभ्रमम् ।।६२॥
चतुर्थः सर्गः।... ताश्वता:- भोगङ्करा भोगवती सुभोगा भोगमालिनी। सुवत्सा वत्समित्रा च पुष्पमाला त्वनिन्दिता ।। ६३ ।। एकोनविंशतीर्थेशमम्बां च जगतां पतेः। अनुप्रदक्षिणीकृत्य नत्वा भक्येत्थमूचिरे ॥ ६४ ॥ समुयोतितमुवने ! जगनायकजन्मना । जगद्वन्धगुणाधारे ! जगन्मातर्नमोऽस्तु ते ॥ ६५ ॥ अधोलोकनिवासिन्यो वयमष्टौ जगनते ।। तीर्थकृज्जन्ममहिमा कर्जुकामा इहागताः ॥ ६६ ॥ अस्मत्तस्तद् न भेतच्पामुक्त्वा पूर्वोचरस्थिताः। प्राङ्मुखं सूतिकौकस्ताश्चक्रुः स्तम्भसहस्रयुक् ॥ ६७।। अभितः सूतिकाधाम ततः संवर्चवायुना । कण्टकतृणकाष्ठाद्यमायोजनमपाहरन् ॥ ६८॥ अथ संहृत्य पवनं प्रणम्य जिननायकम् । आसन्नाऽऽसनमासीना गायनत्योऽस्थुर्यथाविधिः ॥६९॥ सुवर्णादिकृतावासास्तद्वदासनकम्पतः । अवलोकात् समाजग्मुरष्टौ देव्यस्तथाऽपराः॥ ७० ॥ मेघरा मेघवती सुमेधा मेषमालिनी । तोयधारा विचित्राच. वारिषेणा बलाहिका ॥ ७१ ।। विकृत्य जलदं कृत्वा प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिं च तागायन्त्योऽवतस्थिरे।। ७२ ॥ पौरस्त्यरुचकादष्टौ पूर्वस्या दिश आगताः। .: हस्तस्थदर्पणा देव्यो जगुस्तत्राईतो गुणान् ॥ ७३ ।। ताश्च नन्दोत्तरानन्दे सुनन्दानन्दिवर्द्धने । विजया वैजयन्ती च जयन्वी चाऽपराजिता ।। ७४॥ अपाच्यरुचकाद्रिस्था दक्षिणस्या दिशोऽपराः। १ त्रिजगत्पतेः ! इत्यपि । . .
१२४ मल्लिनाथमहाकाव्ये- अष्टावेत्य खदिग्भागेगायन् भृङ्गारपाणयः।।७५॥ ताश्चेमा:- : समाहारा सुपदत्ता सुमवुद्धा यशोधरा। लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ ७६ ॥ ततस्तस्य गिरेरेव महण्या वारुणीदिशः। संस्थानं तत्र देव्योऽष्टौ च य॑जनपाणयः ॥ ७७ ॥ ताश्चेमा:- इलादेवी सुरादेवी पृथिवी पावत्यथ । एकनासाऽनवमिका भद्रशोकेति नामतः ।। ७८ ॥ एवमुत्तरदिग्भागादपि रुचकवर्तिनः । • समेत्याष्टौ स्थितिं चक्रुस्तत्र चामरपाणयः ।।-७९.॥ ताश्चमा:- अलम्बुशा मिश्रकेशी पुण्डरीका च वारुणी। हासा सर्वप्रभा चैच श्रीहरित्यभिधानकः ॥ ८० ॥ चतस्रो विदिग्रुचकात् सदीपा दिकुमारिकाः । चित्रा चित्रकनका सुतारा सौत्रामणी तथा ॥ ८१ ॥ प्रणिपत्य जगन्नायं जगन्नाथस्य मातरम् । ईशान्यादिविदिक्संस्था बभूवुदीपपाणयः ॥ ८२॥ देव्योन्या मध्यरुषकात् चतसः समुपस्थिताः। रूपारूपाञ्चिका चापि सुरुमा रूपकावती।। ८३॥ ताश्चतुरङ्गुलीवर्जे नालं छित्त्वा भुवोऽन्तरे । क्षिप्त्वा रत्नमयं रत्लापीठं विचक्रिरे ।। ८४ ॥ विहाय पश्चिमा जन्मगृहाद् दिक्षु तिसृप्वपि । रम्भागृहाणि चत्वारि देव्यस्ताश्च विचक्रिरे ।। ८५॥ तेपांमध्ये चतुशालं विशालं निजचितवत् । प्रत्येक रचयामासुः सिंहासनविक्रखरम् ॥ ८६ ॥ दाक्षिणाये चतुःशाले नीलामुं विनिवेश्य च ।
चतुर्थः सर्गः। १२५ मिहामने मुनलेनाऽभ्यानजुर्मद मर्दनम् ।। ८७ ॥ जनन्या सममभ्यर्च्य शीघ्रमुखं च प्रभुम् । निन्दिर निभृतं देव्यः पारस्त्यं कदलीगृह ।। ८८ ॥ नत्र गन्धाम्बुभिः पुष्पाम्बुभिः शुद्धाम्बुभिस्तथा । दावपि नपयित्वाय भूपयन्ति विभूपणः ।। ८९ ॥ नात्यांचरस्या रम्भापाः सदन हरिचन्दनः। मवाल्यारणिना पति ताथ भूर्ति विचक्रिरे ॥१०॥ रक्षाबन्धं व्यपुस्ताक्ष जननीस्वामिनोः करे। रक्षा दुरिनभिखां लभते सर्ववस्तुषु ।। ९१॥ पर्वतायुर्भवेत्युचरुक्त्वा फर्णान्तिक प्रभोः। अवादयस्तता रनपापाणी कांस्यतालवत् ।। ९२ ।। मृतिकाधाम ता निन्युर्जननीं जिनमप्यथ । पट्पश्चाशदिक्कुमार्यस्ता गायन्त्योऽवतस्थिर ।। ९३ ॥ इतकच- साधर्म प्रथम कल्प कल्पेशोऽनल्पवैभवः । अनकदेवंदवीनां कोटीभिः परिवारितः ॥ ९४ ॥ गीयमानगुणग्रामो गन्धः कोमलस्वनः । स्तूयमानयशाश्चारु चारणविरुदालिभिः ॥९५॥ दोधूयमानचमरो देवनारीभिरादरात् । • यावदास्ते हरिस्तावदासनं कम्पमासदत् ।। ९६ ।। (त्रिभिर्विशेषकम् ) तत्मकम्पादसा रुटस्तानीकुर्वन् दृशोर्युगम् । अन्तर्बलत्कोपवाहिज्वालाः प्रकटयन्निव ॥ ९७॥: वक्रीकुर्वन् भ्रुवोर्युग्मं कोदण्डमिव भीपणम् । ज्वलज्ज्वालाकुलं पाणी वर्ज बज्रधरोऽधरत् ।। ९८॥ तत्कोपाटोपमुवीक्ष्य नम्रमौलिः कृताञ्जलिः। प्राचीनबपिं पोचे नैगमेपी चमूपतिः ।। ९९.।। . .
१२६. मल्लिनाथमहाकाव्ये- कयङ्कारं प्रभो! कोपो मयि सत्यपि तन्यते । शृणु स्वाऽऽसनकम्पस्य कारणं श्रोत्रपारणम् ॥१०॥ द्वीपाये जम्बूद्वीपेऽस्मिन् वर्षे दक्षिणभारते । मिथिलायां महापुर्या श्रीमत्कुम्भमहीपतेः ॥ १०१॥ पट्टदेव्याः प्रभावत्या अद्यैव त्रिजगत्पतिः।. एकोनविंशतीर्थेशो भगवान् समजायत॥१०२॥(युग्मम्) तेनासनप्रकम्पोऽयं तीर्थजन्मसूचकः । दिव्यसौख्यप्रमत्तानां कथं वोऽवधिरन्यथा ॥१०॥ श्रुत्वेदं त्रिदशाधीशस्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवदन् निन्दनात्मप्रमादिताम् ॥१०४ ॥ अंथोत्थायाऽऽसनादिन्द्रः सप्ताष्टौ च पदान्यध्दात् । संमुखं जिननाथस्य ततःस्तोतुं प्रचक्रमे ॥ १०५॥ सम्पूर्णस्त्वं त्रिमिनैिर्गर्भवासादपि प्रभो। अतोऽपि योगुणोच्छायः स भवेत् कस्य गोचरः॥१०६॥ एवं जिनस्तुतिं कृत्वा सेनान्यं हरिणाननम् । आदिदेशेति सुत्रामा गिराधीरपशान्तया ॥ १०७ ।। जम्बूद्वीपे मिथिलायां श्रीमत्कुम्भस्य भूपतेः । एकोनविंशस्तीर्थेशः प्रभावत्यामजायत ॥ १०८ ॥ कर्तुं तस्या जनिस्नात्रमाहूयन्तां दिवौकसः। कल्याणिकोत्सवविधरधिकारो यतोऽस्ति नः ॥१०९॥ अवादयदसौ घण्टा परिमण्डलयोजनाम् । सुघोषां तन्निनादेन घोषः सर्वाखजायत ॥ ११०॥ द्वात्रिंशतीविमानानां घण्टालक्षेष्वथ खनः । समकालं समुत्तस्थे शब्दाद्वैतमभूत् तदा ॥ १११ ॥ संभ्रान्तान् रणनैस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मस्नात्रे जिनेन्द्रस्य सहेन्द्रेण प्रसर्पताम् ॥ ११२ ॥ केऽपि शक्राज्ञया चेलुः केचिद् भक्त्या जिनं प्रति ।
१२७ 'चतुर्थः सर्गः। विचित्रैर्वाहनै रूढानिदशाः शक्रसन्निधौ ॥ ११३।। 'पालको गुसदीशेनाऽऽभियोगिकशिरोमाणिः। आदिष्टो विदधे वेगाद्विमानं बहुमानतः॥११४॥ भुजैरिव ध्वजैर्नृत्यच्छत्रैर्हसदिवोज्ज्वलैः। वीक्षयमाणं यदुत्तुङ्गैर्गवासनयनैरिव ॥ ११५॥ ततः प्रदक्षिणीकृत्य प्रायसोपानवर्त्मना। युसन्नाथो विमानं तदारुरोह समं सुरैः॥११६॥(युग्मम्) गन्धर्वनाट्यांनीकाभ्यां कौतुकाक्षितमानसः। अभिवयम्भूरमणं तेनाचालीत् पुरन्दरः॥ ११७ ॥ हस्तिवाहन!मा गास्त्वं पुरः सिंहभृतो मम । अश्वसादिनितो याहि महिषो मम वाहनम् ॥११८॥ सर्पगामिन्नितो याहि न मे तायः सहिष्यते । मद्विमानं विमानाः किं घट्टसि सुधाशन !? ॥११९॥ इत्थं सौंधर्मकल्पस्य देवानां परिसर्पताम् । कोलाहलै भो व्यापि सरिद्वोपैरिवाम्बुषिः॥१२॥ अथाऽसंख्यातद्वीपाब्धीनतिक्रम्य क्षणादपि । संक्षिपन् संक्षिपन्नुच्चैस्तद्न्थवत् पुरन्दरः॥ १२१ ॥ भारते दक्षिणे पुर्या मघवा समुपागतः। तस्मादुत्तीर्य तीर्थेशं तदम्बा चाऽनमत्तराम् ॥१२२॥ प्रभावति ! प्रभायुक्ते । जिनकल्पद्रुमपदे ।। नमो दत्तजगद्दीपे ! नमश्चिन्तामणिप्रदे ॥ १२३ ।। इति प्रभावती स्तुत्वा दत्त्वा च स्वापिनीं हरिः।... प्रतिरूपं प्रभोर्मुक्ता चलितोऽभिमुराञ्चलम् ॥१२४॥ चक्रं छत्रं जिनं बिभ्रचामरे च पृथक् पृथक् । इतीन्द्रः पश्च रूपोऽभूद् मार्गे मेरं प्रति व्रजन ॥१२॥ ततो देवानादेवकोटिलक्षसमन्वितः पूरयन् गगनं तूर्यघोपैईर्षमयैरिव ॥ १२६ ॥ ..
(१२८ मल्लिनाथमहाकव्ये- निमेषार्थेनं गत्वाऽसौ सुवर्णाचलचूलिकाम् । अतिपाण्डुकम्बलायां शिलायांपाङ्मुख स्थितः॥१२७॥ एवमीशानकल्पेश: सनत्कुमारसंज्ञिकः ! माहेन्द्रो ब्रह्मलोकेशो लान्तकत्रिदशाधिपः ॥१२८ ॥ शुक्रशक्रः सहस्रार आनतः प्राणतेश्वरः। आरणाच्युतराजोऽपि.दुशेत्थं कल्पवासवाः ॥१२९॥ श्रेणिद्वयनिकायेषु दशसूभयतः क्रमात् । अमी विंशतिरिन्द्राः स्युर्भवनानामधीश्वराः॥१३०॥ पुयौं चमरचञ्चायां चमेरन्द्रो वलिस्तथा । धरणेन्द्रों भूतानन्दो हरिस्सहहरिस्वभौ ॥ १३१ ।। वेणुदेवो वेणुदारी त्वग्निशिखाग्निमाणवौ । वेलम्बप्रभञ्जनाख्यौ सुघोषों भवनेश्वरः ॥ १३२ ।। महाघोषो ज़लकान्तो जलपभ इति स्मृतः। पूर्णो विशिष्टशक्रश्च त्वमितामितवाहनौ ॥१३३॥ : एवं च व्यन्तरश्रेण्योदक्षिणोत्तरकोणयोः। अष्टावष्टनिकायाः स्युस्तेष्विन्द्राः षोड़श क्रमात्॥१३४॥ कालशको महाकालः सुरुपः प्रतिरूपकः। पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः॥ १३५ ॥ महाभीमः किन्नरच किंपुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाविमौ ।। १३६ ॥ अतिकायमहाकायौ महोरगप्रभाविमौ । गीतरतिीतयशा गन्धर्वाणामधीश्वराः ॥ १३७ ।। तद्वदापज्ञप्तिपञ्चज्ञप्त्यादीनां तु षोडश । व्यन्तराष्टनिकायाणां वासवाः समुपागताः॥१३॥ तथामज्ञप्तीनां शक्रः संनिहितः समानकः। धाता विधाता च हरी ऋषिश्च ऋषिपालकः ॥१३९।। ईघरो महेश्वरश्च सुबत्सकविशालकौ ।
चतुर्थः सर्गः। १२९ हासहासरती श्वेतमहावेतौ पुरन्दरो ।।.१४०.॥. पवकपाबकपती पवकानां तु वजिणौ । एवं पोडश देवेन्द्रा आययुर्मेरुमूर्द्धनि ।। १४१ ॥ ज्योतिष्काणामशेपाणां चन्द्रादित्यावधीश्वरौ । चतुःपष्टिरितीन्द्राणां मेरुमृर्द्धनमाययौ ॥ १४२ ।। आदिदेशाऽच्युतेन्द्रोऽथाऽऽभियोगिकदिवौकसः । क्षीरोदादि समानेतुं जिनसपनहेतवे ।। १४३ ।। क्षीरोदादिसमुद्रेषु गङ्गादिपु नदीपु च । , तीर्थेषु मागधायेपु ते गत्वा जगृहुर्जलम् ।। १४४ ॥ तद्वन्मृत्स्नापयोनादि लात्वा क्षीरोदवादितः । गोशीपचन्दनादीनि ते शक्रेभ्यो डुढौंकिरे ॥ १४५॥ सौवर्णान् राजतान् रावान् स्वर्णरूप्यविनिर्मितान् । रनवर्णमयान दिन्यान् रजतस्वर्णरत्नजान्॥१४६॥ रूप्यरनमयान् भीमान् विचक्रुः कलशांश्च ते । अष्टोत्तर सहस्र स्याचेपा प्रत्येकमेव च।।१४७||(युग्मम्) अतिपाण्डुशिलापीठरत्नसिंहासने खयम् । सौधर्मेन्द्रो निपयाऽङ्के दधौ त्रिजगतां पतिम्॥१८॥ अच्युतेन्द्रस्ततो भक्त्या कर्पूरागरुधूपितम् । मुमोच विश्वनाथस्य पुरतः कुसुमाञ्जलिम् ।। १४९॥ ताज्यमानासु भेरीपु मृदङ्गेपु वनस्वंथ । मुहुरास्फाल्यमानासु कांस्यतालासु निर्दयम्।। १५०॥ मयमानैरिव न्यस्तविसेरकुसुमोत्करै।। अधीयानैरिव स्नात्रश्लोकान् गुञ्जदलिच्छलात्।।१५१॥ अच्युतेन्द्रेण तैः कुम्भैयोजनाऽऽस्यैर्जगद्गुरोः । स्नात्र चक्रे महानन्दात् सुधामुग्भिः समं निजै॥१५२॥ (त्रिभिर्विशेषक) एवं द्वापष्टिरन्येऽपि स्मात्रं चकुर्जगत्पतेः । ..
. १३० मल्लिनाथमहाकाव्ये- भक्त्या महत्याऽनुज्येष्ठं सोदर्या इव हर्पतः॥१५३ ।। यदैका कुरुते स्नात्रं शक्रोन्ये हरयस्वदा । सर्वेऽर्हतः पुरः सन्ति धृतचामरपाणयः ॥ १५४ ॥ विकृत्य पञ्च रूपाणि तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने दधनाथमवस्थितः ॥ १५५ ॥ अथ. सौधर्मनाथोऽपि चतुर्दिक्षु व्यधात् क्रमात् । वृषाश्चतुरः स्फारस्फाटिकोपलंनिर्मितान् ॥ १५६ ॥ तेषामुत्तुङ्गशृङ्गाग्रप्रसूता गगनाङ्गणे । प्रससुरम्भसामष्टौ धाराश्चन्द्रकलोज्ज्वलाः ॥ १५७ ।। एकीभूय पतन्त्यस्ताश्चन्द्रकान्तसमुज्ज्वला । निम्नगा इव पायोधौ निपेतुः मभुमूर्द्धनि ।। १५८ ।। स्नपयित्वेति तीर्थेशं भाविनं त्रिदशाधिपः । रत्नदर्पणवद्वेगाद् ममार्जा विभोरथ ॥ १५९ ॥.. ततो रत्नमये पट्टे स लिलेखाअष्टमङ्गलीम् । निजपुण्यैरिवाखण्डैस्तण्डुलै रूप्यनिर्मितैः ॥ १६० ।। ततो विलेपयामास वासवोऽहं जगत्पतेः । भूषणानि च प्रत्यक्षं वासवः पर्यदीधपत् ॥ १६१॥ विनिद्रपारिजातायैः कुसुमैः परमेश्वरम् । मुखकोशमनोहारि पूजयामास त्रहा ॥ १६२ ॥ उत्तार्य लवणं त्रिश्च सर्वदोषविभेदकृत् । आरात्रिकमुपादत्त पुरोभूय हरिविभोः ॥१६३ ॥ इतश्च विस्मिताः केचिद् मैजु गुञ्जन्ति भृङ्गवत् । केचिच्च बृहितं चक्रुः कुञ्जरा इव निर्जराः॥१६॥ केचित्तकारधौकार वाद्यैरिव मुखैर्व्यधुः । सिंहनादं मुहुः केचिद् नटा इव वितेनिरे ॥१६॥ १ 'त्रिदिवाधिपः' इत्यपि । २ 'दीप्राणि' इति च । ३ 'संजगुर्जातिभृङ्गवत्' अयमपि पाठः ।
नतुर्थः सर्गः। १३१ चिन कांन्नाटलं चर्जितानपणा इव । आसयन सुरान फेचिद् विटवद् नर्मभापणः ॥१६॥ एवं जन्मोत्सव कोपि हो जनं दिवौकसाम् । वागीशोऽपि गिरां गुम्फर्य वर्णयितुमक्षमः ॥ १६७ ॥ वाम जानुमयाऽऽन्य शिरोन्यस्तकरो हरिः। परमानन्दनिर्मग्नः शस्तवनमुजगी ॥ १६८ ।। नमोहन भगवने आदिनीकृते नमः । स्वयंसंयुद्धनत्वाय नराणामुत्तमाय च ।। १६९ ।। नरसिंहाय पुरुषपुण्डरीकाय ते नमः । नृवरगन्धारिणे नमी लोकोत्तमाय च ।। १७० ॥ लोकनाथाय लोकानां कृतोत्तमाहिताय च । लोकानां तु मदीपाय लोकमद्योतकारिणे ॥१७१।। नमोऽस्वभयदाने व चक्षुर्दात्रे च सर्वदा । मार्गदाय शरण्याय बाधिदात्रे नमो नमः ॥ १७२ ।। धर्मदात्र धर्मदष्ट्र धर्माधिपतये नमः । धर्मसारथये धर्मचतुरन्तकचक्रिणे ॥ १७३ ।। नमः सदाऽअनिहतज्ञानदर्शनधारिणे । विगतच्छमने नित्यं जिनाय जापकाय च ॥ १७४ ॥ तीर्णाय तारकायोर्बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदर्शिने ॥ १७५ ॥ शिवाञ्चलाऽरुजाऽनन्ताऽक्षयाऽव्यावाधनिर्दृतौ । सम्पाप्ताय नमस्तुभ्यमिति शक्रः स्तवं व्यधात् ।।१७६।। कृतकृत्यमित्रात्मानं मन्यमानोईतो नतौ । रोमाश्चितत्रपुः शक्र इति स्तोतुं प्रचक्रमे ॥ १७७॥ नमस्तुभ्यं जिनाधीश ! परमानन्ददायिने । उल्लसत्करुणाक्षीरपाथोधिशशलक्ष्मणे ॥ १७८ ॥ त्वया त्रिजगतां नाथ.! फलिनीदलकान्तिना।
मल्लिनाथमहाकाव्ये- . वहेन्द्रनीलमुकुट इवाऽऽभाति सुराञ्चलः ॥ १७९ ॥ स्तुत्वैति. मिथिलां गत्वा. हत्वा च स्वापिनीमपि । भूत्वा मातुर्जिनं पार्थे मुक्त्वा शक्रोऽभ्यधादिदम्।।१८०॥ 'असिन् खामिन्यकल्याणं योऽधमश्चिन्तयिष्यति । . तस्यार्जमञ्जरीवाऽऽशु स्फुटिष्यति शिरःखयम्।।१८१॥ पूरयित्वा विभोर्वेश्म रत्नवर्णादिभिः स च । यात्रा नन्दीश्वरे कृत्वा खं स्थानं हरयों ययुः॥१८२।। प्रभावतीमथ ज्ञात्वा प्रसूतां सम्भ्रमान्विताः। स्त्रियः श्रीकुम्भभूपस्य सुतोत्पत्तिं वभाषिरे ॥१८॥ खकिरीटं विना ताभ्यः खाङ्गिक भूषणं ददौ । वृत्तिं च चक्रिरे यावद् वेणिकामपि सप्तमीम् ॥१८४॥ रत्नवर्णादिभिः पूर्ण गृह वीक्ष्य नरेश्वरः । अज्ञासीत् तनयोत्पत्तौ देवेन्द्राणां समागमम् ॥१८५॥ ततो मुमुचिरे राज्ञा कारागाराद् द्विषन्नृपाः । कारयाञ्चक्रिरे पूजा जैनचैत्येषु सर्वदा ॥ १८६॥ समाजग्मुरुपाध्यायाः पठन्तः सुतमातृकाम् । उच्चावच्चपदैश्छात्रैर्वग्लद्भिर्मर्कटैरिव ॥ १८७ ॥ चन्द्रार्कदर्शनं भर्तुस्तृतीयेऽह्नि प्रमोदतः । पष्ठीजागरणं षष्ठे पितृभ्यां च व्यरच्यत ॥ १८८ ॥ गर्भस्थेऽस्मिन् प्रभौ मातुर्माल्यशयनदोहदम् । वभूव तन्मल्लिरिति प्रभो म प्रतिष्ठितम् ।। १८९ ॥ अङ्गुष्ठस्था पपौ खामी शक्रसंक्रमिता सुधाम् । उदयेऽपि क्षुधः स्तन्यं न पिवन्ति जिनेश्वराः॥१९०॥ रेजे देहः शुचिर्भर्तुरपक्षालितनिर्मलः । निरामयः सुगन्धिश्च पूर्णकर्पूरपात्रवद् ॥ १९१ ॥ पद्मकिक्षल्कसुरभिर्वभौ श्वासो जगत्पते। गोक्षीरधारागौरे च रेजाते रुधिरामिपे ॥ १९२ ।।
नतुर्थः सर्गः । १३३ विभोराहारनीहारी चर्मचक्षुरगोचरौ । चत्वारोऽतिशया एते सहजोत्था गुणा इव ॥ १९३ ।। पजनस्तन्यनेपथ्यक्रीडालालनकर्मसु । कमठाः पञ्च धान्योऽध शक्रेण विनियोजिता|१९४॥ लाल्यमानः प्रभुस्ताभिर्दहोपचयमागमत् । पण यौवनं प्राप त्रलोक्पश्रीगोपधम् ॥ १९५ ।। पञ्चविंशनिधन्वोचो नीलोत्पलदलच्छविः । चवर्षभसंहननधारी कलशलाञ्छनः ॥ १९६ ॥ मल्लीमुरभिनिवासी निवासः सर्वसम्पदाम् । पाशो रतिप्रियन्यहोः श्रीमन्मल्लिरभातराम् ॥ १९७॥ (युग्मम् ) नमन्नृपतिशीपु कुन्दकान्तनखेन्दवः । विस्मरकेतकीपत्रशोभा भेजुर्जगत्पतेः ।। १९८ ।। एणीजोपमं जङ्गायुग्मं भाति जगत्पतेः । नाभिश्च सरितां भर्टकल्पो लवणिमाश्रयः ॥ १९९ ।। प्रभोक्त्रश्रियं प्राप्तुं मग्नमाकण्ठमम्बुजम् । रोलम्बरवजव्याजाद् मन्त्रनापं तनोत्यलम् ॥२०॥ प्रभोत्राब्जयोर्लक्ष्मीर्वाचि देवी सरस्वती । कलङ्कमित्र संमा? स्नेहादेकत्र तिष्ठतः ।। २०१ ।। नव्यः श्रियः पतिः स्वामी हिरण्यकशिपुपदः । यस्य वक्षास्थिता लक्ष्मीर्जगत्काम्या विराजते ॥२०२॥ विद्रुमैरिव किंकिलिपल्लवैः कोमलैरिव । कुरुविन्दैरिवालिप्तं प्रभोः पाणितलं वभौ । २०३ ।। अलीकत्वं प्रभोः केशे वक्रत्वं लटभभ्रुवोः। तुच्छत्त्वं मध्यदेशेऽपि नान्यत्र स्वामिनि स्थितम्।।२०४॥ अहंपूर्विकया सर्वैर्लक्षणैः पर्यलकृतः । १ 'तुमुल',इत्यपि।
. १३४ मल्लिनाथमहाकाव्ये- बभौ देहो जगद्भर्तुर्नयोधैरिव. वारिधिः ॥ २०५॥ को.भवेद् ज़िनरूपस्य निपुणो वर्णनं प्रति । देवदेहा अपि वभुर्यत्पुरोङ्गारका इव .।। २०६ ।। : अलिककलितपाणिद्वन्द्वविभ्राजमानो भवजलधिनिमज्जजन्तुपोतोपमस्य । जिनपरिवृढमल्लेः पुण्यवल्ले: स्वरूपं विनयविनतमृतिर्वर्णयामास रूपम् ।।२०७॥ इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनया३ च्यवनजन्मकल्याणिक- द्वितयन्यावर्णनो नाम चतुर्थः सर्गः ।। अहम् अथ पञ्चमः सर्गः। इतश्च वैजयन्ताख्यविमानात् स परिच्युतः। जीवोऽचलस्य साकेते प्रतिबुद्धिपोऽजनि ॥१॥ कामो वयसि पीयूपं यो वचसि महीयसि । गीष्पतिः सदसि त्वष्टा महसि क्षात्रसंम्भवे ॥२॥ देवी पद्मावती तस्य पद्मा पद्मापतेरिव । निश्छद्मसम निःशेषगुणानामनणीयसाम् ॥३॥ इतश्च तस्मिन्नगरे गरीयो नागवेश्मनि । ईशान्यां दिशि नागानां प्रतिमाश्चिन्तितपदाः॥४॥ आनचुस्ताः प्रतिदिनं नागरा भक्तिसागराः। उपयाचितसन्ताने सम्पूर्ण सति सर्वदा ॥ ५ ॥ आपृच्छय क्षितिपं तासां यात्रायै हर्पिताशया । अगात् पद्मावती देवी नागदेवतवेश्मनि ॥ ६ ॥ प्रतिबुद्धिर्महीपालः सभृङ्गारोऽसमः श्रिया।
पञ्चमः सर्गः।
१३५
इमामन्वगमद् देवीं केतकीमिव षट्पदः ॥७॥
पुष्पमण्डपिकां नागप्रतिमामनुनिर्मिताम् ।
विलोक्य मुद्गरं पौष्पं चाऽवदद् नृपपुङ्गवः ॥८॥
सुबुद्धे ! सचिवाधीश ! त्वमस्मत्तेपणोत्सवैः ।
ईक्वरूपं स्त्रीरत्नं जात्यरत्नमिवोज्ज्वलम् ॥९॥
राज्ञां वेश्मनि कुत्रापि दक्ष ! वीक्षितवानसि ।
कौसुम मुद्गरं विभ्रमद्भमरधोरणीम् ॥१०॥ (युग्मम्)
विहस्य सचिवाधीशः सुबुद्धियंगदद् नृपम् ।
त्वदादेशेन भूमीश ! गतोऽहं मिथिलां पुरीम् ॥११॥
कन्यका कुम्भभूपस्य नेत्रसारङ्गवागुराम् ।
मनोऽध्वनीनविश्रामद्रुमच्छायासहोदरीम् ।। १२ ।।
अनेकैर्लक्षणैः पुण्यैः पुण्यैरिव समन्विताम् ।
मल्लीमित्यहमद्राक्षमस्राक्षमपि संमदम् ॥ १३ ॥
तस्याः स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ महीपते ।
विधीयते सकोऽप्युच्चैनिस्सीमः पुष्पमुद्गरः॥ १४ ॥
तवैष पुरतो यस्य लक्षांशेनापि सर्वथा ।
न भाति किन्तु विच्छायदर्पणत्वं दधात्यहो । ॥१५॥
यद्येकदापि श्रीमल्लेर्ददृशे रूपवैभवम् ।
तदा भूमिस्थितेनापि प्राप्यतेऽनिमिषस्थितिः ॥१६॥
मल्लेः प्रतिकृतिः स्वामिन् ! दर्पणेष्वेव दृश्यते ।
उपमानं महाम्भोधेर्महाम्भोधिनिंगद्यते ॥ १७ ॥
न मेरोरधिकः शैलो मानसाद् न परं सरः ।
नाकाशादधिक किश्चित् तद्रूपादधिकं नु किम् ॥१८॥
मल्लीरूपं न दृष्टं यैः स्फारताविलोचनैः ।
स मन्ये नररूपेण कूपमण्डूकंसनिमः ॥ १९ ॥
सकर्णकर्णपीयूषं श्रुत्वेति प्रतिबुद्धिराद् ।
रोमाञ्चैरश्चितो देहे कदम्बः कुसुमैरिव ॥ २० ॥
..
१३६
मल्लिनाथमहाकव्ये-
स पूर्वजन्मनः स्नेहान् चीरीतुमथ कन्यकाम् ।
दूतं भैषीद् निसृष्टार्थ कुम्भभूपान्तिके निजम् ।। २१ ॥
इति मल्लिखामिपूर्वभवाचलप्रथमपरममित्रोत्पत्तिः ।
इतश्च-
च्युत्वा घरणजीवोऽपि वैजयन्तविमानतः ।
अभूत् चम्पामहापुर्या चन्द्रच्छायाभिधो नृपः ॥ २२ ॥
विज्ञातजीवाऽजीवादितत्त्वः सत्वकृपापरः।
चतुःपा कृततपाः समाधिश्रितपौषधः ॥ २३ ॥
लब्धगृहीतपृष्टार्थो पिहितद्वारवन्धुरः ।
वस्त्रपात्राऽऽसनावासपदः साधुजनेष्वलम् ॥ २४ ॥
कृतज्ञो विनयी धीरः परनारीसहोदरः।
तस्यामेव महापुर्या श्रावकोऽहन्नयाहयः ॥२५॥
(त्रिभिर्विशेषकम् )
सोऽन्यदा वादियात्रायै मनश्चक्रे महामतिः ।
क्षणमात्राद् दरिद्रप्नं सामुद्रं पर्युपासनम् ॥ २६ ॥
यत:-
इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च ।
प्रसादो भूभुजां चेति क्षणाद् घ्नन्ति दरिद्रताम् ॥२७॥
विविध वित्तमादाय समेतः सुहृदां गणैः ।
असो वारांनिघेस्तीरमचालीदचलाशयः ॥ २८ ॥
चारुवस्त्रपरधिानां गृहीताक्षतभाजनाम् ।
अर्थसिद्धिमिवादाक्षीदायान्ती पुरतः स्त्रियम् ॥ २९॥
शकुनः प्रेरितः पुण्यैरिव श्रेष्ठितनूद्भवः ।
माप वारांनिधेः कूलं मूलं वाणिज्यशाखिनः ॥३०॥
खनामेव महाम्भोधेरावादि विदन्ति ये ।
तेभ्यो निर्यामिकेभ्यः खंददौ सांयात्रिकाग्रणीः ॥३१॥
पभमः सर्गः। १३७ नीलीगुग्गुललानाथ निम्बनीवरसंहतीः । असा संग्राहयामास हरिद्रादि विशेषतः ।। ३२ ।। शुक्रवारऽय विस्फर्जनमवादिवमुन्दरम् । पोनं प्रपूरयामास समुद्रा_पुरस्सरम् ॥ ३३ ॥ ध्रुवनफममाणेन सिद्धान्नेनाऽय साधुवत् । संचरे सरितां नाय पोना वेगेन वायुवत् ।। ३४ ॥ भक्रः सभामुपामीन उपाइन्नयमाईताः । विदयानां पुरश्रकं वर्णनं कलया गिरा ॥ ३५ ॥ मनुप्यकीटको धर्मादचाल्यखिदशरपि । अवोचद् यदनः वस्तदयाऽलीकयाम्यहम् ।। ३६ ॥ इति ध्यात्वा मुरः कश्चिद् मत्सरामातमानसः । अधिवार्थि महामेचं विचक्रे व्योममण्डले ॥ ३७ ।। नालीरक्तंत्र सर्वत्र जजृम्भ घनमण्डली । पानस्थजनजीवानां ग्रसने राक्षसीयिता ॥ ३८॥ सत्चदम्नः परीक्षायां प्राणायन्ते चिरयुतः। गजितान्यपि जीवानां ठात्कारा इन निग्रहे ॥ ३९ ॥ यथा यथा प्रवहणं कम्पते चैत्यकेतुवत् । तयश तथा दिनां भीतिग्राहिलानि मनांस्यपि ॥ ४०॥ कम्पमान प्रवहणे चीचिभिः पूरिताम्बरे । स्पर्धया धीवरा वारि चिलिपुश्चटसर्वहिः ॥४१॥ विचक्रेऽधानिलं स्वर्गी झज्झावातभयङ्करम् । येनेक्षणानि पोतस्था मिमीलुः स्वधिया समम् ॥४२॥ हा मातस्ताव ! हा भ्रातर्दा वन्धो ! कुलदेवताः। अस्माकं कुरुताऽमुत्र साहाय्यं महदापदि ।। ४३ ॥ इत्यादिलोकसंलापैः कर्णाय सूचिकोपमैः । ब्यानशे रोदसीकूपो निर्भीमर्गजितैः समम् ॥ ४४ ॥ कुम्भलक्षः करिष्यामि स्नानं कुङ्कुमवाहिभिः । १८ • . . . १३८ मल्लिनाथमहाकाव्ये- अमुष्माद् विधुरादाशु देवि ! तारय तारयः ॥ ४५ ॥ एवंरूपा विदधिरे उपयाचितसंहतीः।: आर्ता हि देवतापादभक्तिं विदधतेतराम् ॥ ४६ ॥ इत्युपद्रवमालोक्य स्मृतपश्चनमस्कृतिः। पवित्रासनमासीनः प्रत्याख्यांनसमाहितः ॥४७॥ वीतराग मनोऽम्भोजे विदधानः शुभाशयः। श्रावकोऽहन्नयोऽस्मार्षीदनित्यादिकभावनांम् ॥४८॥ (युग्मम्) अमुमीदग्विधं वीक्ष्य क्षोभाय सुरपासनः। विचक्रे रक्षसो रूपं कालरात्रिसहोदरम् ॥४९॥ मुखज्वालास्फुलिङ्गोच्चै? खद्योतमयीमिव । कुर्वन् हास्यच्छटापातैः क्षमा फेनमयीमिव ॥ ५० ॥ पादद?रिकाघातैरधः क्षोणी क्षिपनिव । उच्चैः कलकलारावं तन्वन् प्रलयरुद्रवत् ॥ ५१॥ उद्वहन् कर्तिका पाणौ तभर्तुः पियामिव । ऊचे नक्तंचरः क्रूरो रे रे श्रावकपासन ॥५२॥ मुश्च धर्ममिमं मुश्च नो चेत् कर्तिकयामुया। पातयिष्यामि ते मुण्डमखण्डं फलवत्तरोः॥ ५३॥ वलाद् वलिं करिष्यामि यादसां त्वां दुराशय ! | नाज्यं धर्मोनलो भावी पततोऽम्भोधिपाथसि॥५४॥ आत्मानं श्रावकत्वेन भाषमाणः पदे पदे । कुरुषेबुनिधौ यात्रामहो ! निघृणधूर्वर । ॥५५॥ एवं विभाषमाणेऽस्मिन्नहन्नय उपासकः। खध्यानाद् नाञ्चलच्छैलः किं वातेन प्रकम्पते ॥५६॥ भद्र ! सौधर्मशक्रेण संस्तुतोऽसीति पर्पदि । त्रिदशैरपि स्वधर्मादचाल्योऽहन्नयः सुधीः ॥ ५७.॥ तत्पशंसामिमां श्रुत्वा परीक्षार्थमिहाऽऽगमम् ।
पत्रमः सर्गः। १३९ ममेहरु चेष्टिनं सर्व धमन्य करुणानिधे ॥ ५८ ॥ गिलांजय इवासि वं मनागपि न कम्पितः। मनस्य दन्निनो दन्तयातनेव मया ननु ।। ५९ ।। दिव्यं कुण्डन्योन्दं तस्स दत्वा स नाकसद् । संहत्य मेघवानादि तिरोऽभूभ्रगेन्दुवत् ।। ६० ।। क्षमणाऽनयो चाधि तीळ गोप्पदवत् क्रमान् । गृहीनाशेषभाण्डायो नगरी मिथिलां गतः ॥६॥ एकं श्रीकुम्भभूपस्य प्राभूने कुण्डलद्व्यम् । दददेऽहन्नयः पानवाहका सादग़शयः ॥ ६२॥ नदेवं पृथिवीनाथस्तां दिव्यां कुण्डलदयीम् । दुहिने नेत्रमित्रार्य श्रीमत्यै मल्लये ददी ।। ६३ ।। अईन्नयाय पात्रज्ञो दचोचः पारितोपिकम् । विसमर्न महीपेन्दुर्यथाऽम्बु जलधिनम् ।। ६४ ॥ क्रीतविक्रीननिःशेपभाण्डश्चम्पामुपागतः। चन्द्रच्छायनरेन्द्रस्य सभामण्डपमभ्यगात् ।। ६५ ।। चकार प्राभृने श्रेष्ठी द्विनीयां कुण्डलद्वयीम् । पदार्थाः खलु युज्यन्त उत्तमानामिहोत्तमाः ॥ ६६ ।। राजोचेऽईन्नय ! श्रेष्टिन् ! कुतोदःप्राप्तमीदृशम् । नेहा महँतले भावि कान्त्या जितदिवाकरम् ।।६७॥ आदी समुद्रकृत्तान्तं विधाय श्रेष्टिनन्दनः । अन्ते त्रितत्य चम्पाया आगमं सर्वमब्रवीत् ॥ ६८ ॥ केयं मल्लीति पप्रच्छ चन्द्रच्छायक्षितीश्वरः । अपूर्वश्रवणे यनः किं संकर्णस्य नो भवेत् ॥ ६९ ॥ अथाऽसी न्यगदच्छ्ठी देव ! श्रीमिथिलापुरि। विजयी श्रीकुम्भभूपाल इक्ष्वाकुकुलथूपणम् ॥ ७० ॥ तत्सुता जननेत्राणामध्वगानामिव प्रपा । मल्लिमल्लिस्मिता चारुगुणवल्लीव जङ्गमा ॥ ७१ ॥ . ।
१४० मल्लिनाथमहाकाव्ये- पुरो यस्या मुखस्योचनिर्माल्यमिव चन्द्रमा । यस्याश्च नेत्रयोलक्ष्मीरलक्ष्मीरम्वुजबजे ॥७२॥ इत्यमाकर्ण्य चन्द्रेशः माग्जन्मस्नेहमोहितः । मल्लीं वरीतुं माहेषीद् दूतं कुम्भमहीपतेः ।। ७३ ।। ॥ इति श्रीमल्लिखामिपूर्वभवद्वितीयमित्रोत्पतिः।। इतश्च पूरणप्राणी वैजयन्तं विहाय सः। श्रावस्त्यामभवन् पुर्यां रुक्मी नाम क्षितीवरः ॥७॥ तस्याऽभूद्धारिणी नाम खर्देवीच महीचरी। रूपातिशायिनी शान्ता कान्ताकारा सुलक्षणा.॥७५३ अजनिष्ट तयोः सौम्या सुबाहु म कन्यका। लक्ष्मीरिव सुरेन्द्रस्य समुद्रस्येव कार्घिना ॥ ७६ ॥ साऽतीव धरणीभर्तुः खमाणेभ्योऽपि वल्लभा। इतरेभ्योऽप्यपत्यानि किं पुन:पृथिवी जाम् ॥७७॥ साऽन्येनुः परिवारेण चतुर्मास्यां विशेषतः । अकार्यततरां स्नानक्षणं मङ्गल्यपूर्वकम् ।। ७८ ॥ अन्तःपुरवधृलोकैर्मुदितैः सपिताऽसको । लवणोत्तारणायुक्तवस्त्रालङ्कारपूर्वकम् ।। ७९ ।। अङ्गीचङ्गीप्रभृतिभिश्वेटीभिः परिवारिता । प्रणन्तुं जनकंप्राप सभामण्डपमुत्तमम् ।।८०॥(युग्मम् ) तामुत्सङ्गे समारोप्य वल्लकीमित्र सद्गुणाम् । सोविदल्लामभाषिष्ट नृपः प्रेमतरङ्गितम् ॥ ८१॥ कन्यायात्रोत्सवो भद्रमुखेदृग्वीक्षितः कचित् । अय स्मित्वाऽनददसौ राजन् ! भृणु गिरं मप ॥८॥ त्वदादेशेन भूमीश ! गतोऽई मिथिलापुरीम् । श्रीकुम्भखामिनः पुत्र्याः श्रीमल्ले प्रवरयुते ॥८॥ आपुन्यो भवत्युच्चैः स कोऽपि स्नपनक्षणः। १ 'कटाकलापकलिजा भाग्यशाया नहोत्पलन्' इलपि पाठ पञ्चमः सर्गः। १४१ . यः स्वर्गेऽपि न संभाव्यः किं पुनः पृथिवीतले॥८४॥ जलधेर्जलधिर्यत् सुधायाश्च सुधा यथा । मल्लिरूपस्य तादृप्यं मल्ले रूपे व्यवस्थितम् ॥ ८५.॥ मयमण्डलपाथोधेः स्त्रीरत्नं पृथिवीतले । तदेवोत्पन्नमाभाति जगन्नयनकार्मणम् ॥ ८६ ॥ श्रुत्वेति प्राग्भवम्तेहाद् भूमिनायेन रुक्मिणा। अप्रेष्यततरां दूतो निसृष्टार्थो धियां निधिः ।। ८७ ॥ ॥ इति श्रीमल्लिस्वामिपूर्वभवतृतीयमित्रपूरणोत्पत्तिः.॥ इतश्च वसुजीवोऽपि वैजयन्तविमानतः । च्युत्वा वाणारसीपुर्यां शवो नाम नृपोऽजनि ॥८॥ श्रीमल्ले: कुण्डलद्वन्द्वं तद्दिव्यं दैवयोगतः । तदा विजघटे कामं रामणीयकमन्दिरम् ॥ ८९ ॥ राज्ञा संघटनायाऽस्य मीलिताः स्वर्णकारकाः। तद्वीक्ष्य शून्यमनसोऽभूवन् संज्ञीतरा इच ॥ ९० ॥ देव! दिव्यमिदं दीप्य नो संघट्टयितुं क्षमाः दिव्यानां हि पदार्थानां दिव्या एव विधायिनमा९१॥ ततो निर्वासिता राज्ञा रुऐन स्वर्णकारकाः । नृपाप्रसादादीदृशं न दूरे पुरवासिनाम् ॥ ९२॥ तेच वाराणसी गत्वा प्रणेमुः शङ्खभूभुजम् । कौतस्कृता इति क्षमापः पप्रच्छ मधुराक्षरम् ।।१३।। देवाऽमी मिथिलापुर्यां वासिनः स्वर्णशिल्पिनः । विज्ञानवल्लरीजालपादकालघनाघनाः ॥ ९४ ॥ वसतां तत्र चास्माकं पूर्वजानां महीपते ।। वेणयः सप्त संभूताः वर्णताडनभाजिनाम् ।।९५ ।। मिथिलाखामिना कुम्भराज्ञा कुण्डलयोजने। अनीशा ईश! सर्वेऽमी पूर्या निर्वासिता हठात् ॥१६॥ कुण्डलमक्रममा श्रीमल्ले रूपमुत्तमम् ।
. १४२ मल्लिनाथमहाकाव्ये- सवर्णैर्वर्णयामासुहर्षोत्कर्षमुपागताः ॥ ९७ ॥ आस्यस्य पुरतो यस्याः शङ्के दासायते शशी । एतावतैव तद्रूपमसरूपं निरूप्यते ॥९८॥ पूर्वस्नेहातिरेकेण तद्रूपश्रवणादपि । श्रुत्वेति तां वरीतुं तु विशिष्टं विससर्ज सः॥ ९९ ॥ ॥ इति श्रीमल्लिखामिपूर्वभवचतुर्थवसुमित्रोत्पत्तिः ।। जीवो वैश्रमणस्याऽथ बैजयन्तात् परिच्युतः। अदीनशत्रुनामाऽभूद् भूपालो हस्तिनापुरे ॥१०॥ इतश्च- श्रीमल्लेरनुजो मल्लो नान्ना यौवनमागतः। आजूहवचित्रकरान् लेप्यकर्मविशारदान् ॥ १०१॥ भित्तिविभज्य तेभ्योऽसौ गोत्रिभ्य इव सम्पदः । सचित्रं कारयामासोन्मीलितं भागवर्तनैः ॥१०२ ॥ तेष्वेकश्चित्रकर्यो लब्धदैवतसद्वरः । एकाङ्गदर्शनेनाऽपि यथावस्थितरूपवित् ॥ १०३ ॥ अन्तर्जवनिकं पादाङ्गुष्ठं मल्लेनिरीक्ष्य सः । यथावद्रूपमलिखत् सर्वाङ्गोपाङ्गशोभनम् ॥ १०४॥ मल्लस्तत्राऽगमत् क्रीडारसिको मित्रसंयुतः । श्रीमल्लिखामिनीरूपं चित्रस्थमवलोकयत् ॥ १०५ ॥ साक्षात्वसारमूर्ध्वस्थां मन्यमानस्तथा पदैः । लज्जया प्रसरकुल्याजलवत् सेतुहेतुना ॥ १०६ ॥ (युग्मम् ) निवृत्तं वेगतो धात्री दृष्टिपात्रीचकार तम् । कथं पुत्र ! निवृत्तोऽसि त्वरितं त्वरितैः पदैः ॥१०७॥ कुमारोऽप्यनवीदेवं मातमें भगिनी पुरः। ऊर्खा समस्ति खेलामि कथं मित्रैरहं वृतः ॥१०८॥ सम्यग निरूप्य धाग्योचे नेयं मल्ली तव खंसा।
पञ्चमः सर्गः।
१४३
किन्तु चित्रकृता पुत्र ! कृता भ्रान्तिमदा मुदा॥१.०९॥
अथ क्रुद्धोऽनुजो मल्लेस्तस्य चित्रकृतो भृशम् ।
निकृत्य दक्षिणं पाणिं स्वदेशाद् निरवासयत्॥११०॥
विष्वग् भ्राम्यन् महीपीठं गतवान् हस्तिनापुरे ।
अदीनशत्रुभूपाय नमश्चक्रे कृताञ्जलिः॥१११॥
खत्तान्तं यथाभूतं मूलादारभ्य भूभुजः !
श्रीमल्लिस्वामिनीरूपमेवं वर्णितवानथ ॥ ११२ ।।
नदीनां स्वर्धनी यद्वत्सुमनस्खपि मालती। .
यद्वत् कामगवी गोषु तद्वद् रूपवतीपु सा॥११३॥
न दृष्टा येन सा मल्लिमन केकिघनायनः ।
तस्य नेत्रद्वयं डित्थडवित्थयुगमञ्चति ॥११॥
यदीयं लिह्यते रूपं लोचनैश्चुलुकैरिव ।
यदीयं वर्ण्यते चारुचरितं कविकुञ्जरैः॥११५।।
एवं तद्वर्णनां कृत्वा चित्रकृचित्रसंस्थिताम् ।
अर्चामदर्शय मल्लेशोरायुष्यकारिणीम् ॥१.१६।।
वीक्ष्येमा विस्मितः पूर्वस्नेहमोहितमानसः ।
तद्याचनाय दूतं खं गैपीदुपमहीपति ॥११७॥ .
॥ इति श्रीमल्लिखामिपूर्वभवपरममित्रपञ्चमवैश्रमणोत्पतिः ॥
इतश्च जम्बूद्वीपेऽस्मिन् काम्पिल्यनगरे बरे ।
अभिचन्द्रस्य जीवोऽपि च्युत्वा तस्माद्विमानतः॥११८॥
जितशत्रुर्यथार्थाख्या समभूत्पृथिवीपतिः।
यत्सतापाद् विलीयन्ते द्विपःस्त्यानाज्यपिण्डवत्।।११९॥
(युग्मम् )
धारिणीप्रमुखास्तस्य सहस्र प्राणवल्लभाः।
अगण्यपुण्यलावण्या भूचर्यो देवता इव ॥ १२०॥
इतोऽभूदू मिथिलापुर्यां चोक्षा नाम विचक्षणा!....
मन्त्रकामणरत्नानां रोहणाचलचूलिका ॥ १२१॥
:.. : १४४ मल्लिनाथमहाकाव्ये-- त्रिदण्डमण्डितकरकोडा कापायिताम्बरा-! शौचाय दधती दर्भसगर्भी जलकुण्डिकाम् ॥ १२२ ॥ (युग्मम्.). साऽन्यदां कुम्भभूपस्य कन्यान्तःपुरमुत्तमम् । अस्खलितगतिरगात् सा वात्येव निरत्यया ॥१२३॥ श्रीमल्लिस्वामिपादान्ते सोपाविक्षन् ययाविधि । निज दर्शयितुं धर्म दम्भसंरम्भया गिरा ॥ १२४॥ जलशौचमयो धर्मस्तयां ख्यातः सविस्तरः। तस्याः पुरः पुराणस्य वाक्यैर्वाक्यविधिज्ञया ॥१२५॥ अथ प्रोवाच श्रीमल्लिधर्मोऽस्ति जलसङ्गमात् । जितं वर्हि अधैर्लोके जलस्थाननिवासिमिः ॥१२६॥ सैवं शैवं निराचक्रे शौचधर्म सुयुक्तिभिः । मुखमर्कटिकां दत्त्वा तां चेव्यो निरवासयन् ॥१२७॥ भवेद् यथेयं दुःखार्ता सपनीजनमध्यगा। तथा वेगात् करिष्यामि सा यान्तीति व्यचिन्तयत् ।।. एवं विचिन्त्य दर्पणाध्माता निर्गत्य पूर्वरात् । काम्पिल्यनगरं प्राप पञ्चालमुखमण्डनम् ॥ १२९ ।। जितशत्रुः सभामाप्तां तां वीक्ष्य सितचक्षुषा । विष्टरं दापयामास पूजनीया हि लिङ्गिनी ॥ १३० ॥. महत्या प्रतिपत्त्या सा पूजिता जगतीभुजा । औचित्याचरणं सन्तः शिक्ष्यन्ते किमु तादृशाः ॥१३॥ सा प्रोदिताशीर्वचना तदासनमशिश्रियत् । आशीर्मूलधनं यस्मादक्षयं लिङ्गधारिणाम् ।। १३२ ।। सावायत महीमा महाभक्तितरङ्गितम् । नृपमाणप्रियाभिश्च, पतिमार्गानुगाः स्त्रियः॥१३॥ जलशोचपरो धर्मो राजन् ! राजीवलोचने !। न भूतो न च संभात्री प्रेत्यामुत्र प्रियङ्करः ॥१३४॥ : .
- पञ्चमः सर्ग १४५ एवमाख्याय विरता तामेदीय पोऽवदत् । भगवत्यखिला. दृष्टा मही सागरमेखला ॥ १३५ ॥ ईदृगन्तःपुरं मातः कार्पि दृष्ट कचिच्छुतम् ।। त्वीदृशी दूरधानों यद्भवन्ति व्रतस्थिताः ।। १३६।। विलक्षं विस्मितं कृत्वा चोक्षोचे भूभुज मति । कूपर्मण्वकसकांशो राजन् ! त्वमसि भूतले ॥१३७|| या श्रीममिथिलापुर्यां कुम्भराजस्य पुत्रिका । श्रीमल्लिस्वामिनी देवललनालालिताकृतिः ।। १३८ ।। तस्याः पादद्वयागुष्ठसंपदः पुरतस्तव। इदमन्तःपुरं सर्वमङ्गारादपि हीयते ॥ १३९ ॥ शरीरलक्ष्मी सा क्राषि'यस्या उपमितिः कचित् । न विद्यते त्रिभुवने किमन्यत्परिगवते ॥ १४ ॥ जितशत्रुरिति श्रुत्वा माग्जन्मस्नेहमोहितः । उपकुम्भमयुक्ताऽसौ तत्कृते दूतमनिमम् ॥ १४१ ॥ ॥ इति श्रीमल्लिखामिप्राग्भवषष्ठमित्राऽभिचन्द्रोत्पत्तिः ।। इत्यं प्राग्जन्ममित्राणां षण्णामपि महाधियाम् । समागुर्युगपद् दूता मिथिलायां महापुरि ॥ १४२ ॥ ज्ञानत्रयधरः खामी मल्लिस्तेषु कृपापरः। एक विनिर्ममौ यस्मात्मतिबोषोद्यता जिनाः ॥१४३॥ अशोकवनिकायां तु वर्णमित्तिविकखरे । सौधमध्यापवरके रत्नपीठमनोहरे ।। १४४ ॥ आत्मनः सदृशीं हैमी प्रतिमा सदलकृताम् । इन्द्रनीलदृशं सोमा विद्रुमाघरपल्लवाम् ॥ १४५ ॥ कज्जलश्यामलकचा प्रवालारुणपाणिकाम् । सवर्णा कलशाकारंशिरसं लटभक्षुवम् ॥ १४६ ॥ आजानुदोर्युगां मध्यतुच्छां खच्छतनुश्रुतिम् । . : .
, १४६: मल्लिनाथमहाकाव्ये- गूढगुल्फा वृत्तजवां त्रिवलीभिस्तरङ्गिताम् ॥१४७॥ (पञ्चभिः कुलकम्) तस्यापवरकस्योचैः पुरों भित्तावकारयत् ।' : षड् द्वाराणि कपाटाभ्यां पिहितानि बृहन्ति च॥१४॥ द्वाराणा.पुरतस्तेषां लघ्वपवरिकास्तु षद् ।: प्रतिमापृष्ठभागेऽपि द्वारमेकमकारयत् ॥:१४९.॥ आतालुशुपिरोदर्यामर्चायां त्रिजगद्गुरुः । सकलाहारपिण्डी तु प्रक्षिप्य चुभुजेऽन्वहम् ॥१५०।- इतश्चैषां समं दूताः श्रीकुम्भनृपवेश्मानि... आगत्य प्रणिपत्येदं क्रमेणाऽथ बभाषिरे ॥१५१॥ देव ! साकेतपूयिशवन्माषप्रतापवान् । प्रतिबुद्धिः सुबुद्धीनां रवानामिव सेवधिः॥ १५२.॥.. वीरभोगीणदोर्दण्डो महाबाहुर्महाबलः । रूपन्यकृतकन्दर्पः सदर्पपरिविग्रहः ।। १५३॥. खेष्टसोदरवद् मेने यो धर्म धर्मवत्सलः। गुरुवाक्यमिवाऽमस्त वचनं मन्त्रिां शुचि ॥१५४॥ असौ मल्ली तव सुतां परिणेतुं महीपतिः । याचते हि सतां याच्या विफलापि नहीकरी॥१५५॥ यस्य कस्याऽपि देयेयं कन्या परधनं यतः। जामाता त्वीदृशः प्राप्यो न कुत्रापि गवेषितः॥१५६॥ अथ द्वितीयदूतोऽपि जगाद वदतां वरः। देव! चम्पापुरीखामी पीनस्कन्धो महाभुजः॥१५७॥ कुल्यः कलङ्कविकल: सत्यगीः सत्यसगरः । सङ्गरार्जितसत्कीर्तिः कीर्तनीयगुणोत्करः ॥ १५८ ॥ पूर्णेन्दुवदनच्छायश्चन्द्रच्छायक्षितीश्वरः । मार्गयति तव सुता मल्लीमुद्वाहपणि ।। १५९ ॥. तृतीयेनाऽपि वभणे श्रावस्तीनगरीश्वरः । . ..
पञ्चमः सर्गः। १४७ अग्रणीभेटकोटीनां कृतज्ञः प्राजपुङ्गवः ॥ १६०.॥ निकपः शूरताहेम्नः शरण्यः शरणार्थिनाम् । उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ।। १६१ ॥ रुक्मी नाम महीपाला पालितक्षत्रियव्रतः । परिणेतुं महानन्दात् कन्यका तव वाञ्छति ।।१६२।। (त्रिभिर्विशेषकम् ) चतुर्थोऽप्यप्रवीदेवं देव ! काशीपुरीश्वरः । निशाकरोज्ज्वलयशाः कल्पद्रुरनुजीविनाम् ।। १६३ ।। नयकन्दलिनीमेघोऽमोघगीरघहानिकृत् । दानशीण्डः प्रतापेन दुनिरीक्षः खरांशुवत् ।। १६४ ॥ सदा सदाचारपथमवीणः क्षितिनायकः। शबभूमानिमा पाणिगृहीती कर्तुमीप्सति ।। १६५ ।। (त्रिभिर्विशेषकम् ) इतश्च पञ्चमोऽप्यूचे यदास्तिनपुरेश्वरः । स्मररूपोपमः संख्यनियूंढप्रौढविक्रमः ॥१६६॥ सालमांशुमहास्कन्धो गुणज्ञो गुणिनां परः । अदीनशत्रुभूपालस्त्वत्कन्यां इन्त ! याचते ॥ १६७॥ (युग्मम् ) षष्ठोऽपीत्थमथोवाच देव! काम्पील्यभूपतिः । अमेयसेनो निर्मायः शुनासीरपराक्रमः ॥ १६८.।। जितान्तरारिषड्वर्गों जिवदुर्दान्तशात्रवः । जितशत्रुस्तव सुतां मदाचा याचतेतरास् ।। १६९ ।। (युग्मम्) 'श्रुत्वेदं कुम्भराजोऽपिं जगादेवं कृतक्रुधः । ईदगाशापराः किं वः स्वामिनो नेह लज्जिताः॥१०॥ त्रैलोक्यजनतारनं.कन्यारत्नमनुत्तरम् । 'शत्रैरपि,नमस्कार्य विवाहाय कथं भवेत् ॥ १७१ ॥ .
..९४८ मल्लिनायमहाकाव्ये- . अस्या जन्मनि देवाद्रौ मिमीलत्रिदशेश्वरः अस्याः शरीरद्धिश्च बभूव सुधयान्वहम् ॥ १७२ ॥ येनाऽचिन्ति विरूपं भो एनां प्रति दुराशया... तस्यार्जमञ्जरीवोच्चैरस्फुटन खण्डशः शिरः ॥१७३॥ बधार्हा अपि भो ! नूनं विमुक्ता दौत्यकर्मणा...' स्त्रीवालदतमूकादीन् न नन्ति न्यायवेदिनः ॥१७॥ भ्रूसंज्ञाप्रेरिता राजपुरुषाः परंषाक्षरम् । शीघ्र निष्काशयामासुरेतांस्ताउनपूर्वकम् ।। १७५ ।। एवं ते न्यक्कृताः कामं गत्वाऽख्यन् खामिनोऽखिलम् । अथ तेषां मन कुण्ड क्रोधवहिरदीप्यत ॥ १७६ ।। प्रयाणभेरीमाङ्कारैर दूर प्रसपिभिः । . व्यानशे रोदसीकूपो नदीपोपैरिवार्णवः ॥ १७७.।। तेषां बलजलैलोलैराच्छायत समन्ततः। प्रलयक्षुभिताम्भोधिवीचीभिरिव भूतलम् ॥ १७८ ॥ चेला घडपि मानार्वा मूर्ता वर्षधरा इव । . वितवैर्ध्वजिनीपः क्षोभयन्तः क्षितेस्तलम् ॥१७९।। : रथै रथमयीवाभूद् गजैगज़मयीव भू। अश्वैरवमयीवाऽपि भटैर्भटमयीव नु ॥ १८ ॥ धातुमचामिव कुथान विकिरन्तो विकखराम् । गण्डशैलश्रियं भेजुर्जङ्गमा गन्धहस्तिनः ॥ १८१॥ कुर्वाणाः स्थलवद् धूलीपटलीभिः सरांस्यपि । स्थलान्यपि हयखुरपुटैश्च कमलाफरान् ॥ १८२ ॥ स्फारस्फारस्फटावन्तश्चन्दनदुलताभिव । देहयष्टिमिव श्वासनिरोधाद् योगदिनः ॥ १८३ ॥ प्रवेशनिर्गमद्वार निषेधन्तः पदे पदे । अरुन्धन् मिथिलां वार्घिवीचयों द्वारकामिव ।।१८४॥ (त्रिभिर्विशेषकम् ) पसमः सर्गः। .१४९ तेन रोशन पुम्भोऽपि खिनाऽऽखिन्नः कदाचन । चिन्नासन्नानवान् जझे हृतपाणिस्थवित्तवत् ॥१८॥ उदिना इन किं तानपादास्तिष्ठन्ति साम्मतम् ।। इत्यून भगवान मल्लियोनिताअलिकृमलः॥१८६॥ डेगकारणं संपलसणं क्षितिनायकः। सर्वमाख्यत् पुरो मल्ल सद्गुरोरिवं भाविकः॥१८७|| मल्लिरप्यवदन नात ! युगपद् गूढपूरुषः । युप्मभ्यं दास्यते मल्लीत्युक्त्वा सर्वान प्रबोधया|१८८|| आकार्या मम ते सर्व ततोऽपवरकेवपि ।.. मनायाःसायमानयाःसल्पलोकपरिच्छदाः ॥१८९।। तयन विहित सायं राजानो मुदिताशयाः। उपागताः'पुरी मल्लः प्रतिमा वीक्ष्य विस्मितामा१९०॥ मल्टीति दश दिएचा ध्यायन्त इव चेतसि । कृतकृत्यममन्यन्त स्वात्मानं सिद्धमन्त्रवत् ॥१९॥ पृष्ठद्वारविभागेन प्रतिमाया नृपात्मजा । उदयाटयत् प्रतिमान्तास्थित तालुचीवरम् ।। १९२॥ निक्षिप्तकुधितग्रासगन्धः प्रासरदुच्चकैः । दुःसहो लशुनस्येव सर्वतोऽपसरज्जनः ॥ १९३ ॥ अहिगोधानमृतकदुर्गन्धादपि दुःसहः । गन्यः पण्णामपीशानां व्यानशे नासिकापुटीम् ।।१९४॥ तद्न्याच्छातकुन्ताग्रमहारादिव कातराः । अधोमुखा अजायन्त मृतप्रियसुता इव ॥ १९५॥ तानवाचो विलोक्योरूचे मलिर्जगद्गुरुः । किं यूयं न्यङ्मुखा जाता भारातशिरसो यथा॥१९॥ सोढुं न शक्नुमो नूनममुं दुर्गन्धमुचकैः । एवं वभापिरे वस्त्रमान्तैः पिहितनासिकाः॥१९७॥ तान् स्वामी प्रत्युवाचेदं प्रतिबोधपरायणः .......
':१५२ मल्लिनाथमहाकाव्ये- सौवर्णी प्रतिमा यद् दृश्यमाना मनोहरा ॥ १९८ ॥ तथा वराङ्गनाः स्मेरनीलेन्दीवरलोचनाः। विष्मूत्रश्लेष्ममज्जासम्मलधातुपपूरिताः ॥ १९९।। अकाम्यानपि रामाणां काम्यानिव-शरीरके। शरीरांशान् प्रपश्यन्त्यनुरागहतलोचनाः ।।२०।। पीतोन्मत्तो यथा-लोष्ठं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं.मोहान्धमानसः ॥२१॥ जटी मुण्डी शिखी मौनी वल्कली सुतपा अपि । ब्रह्माऽप्यब्रह्मशीलश्चेचदा मह्यं न रोचते ॥ २०२।। कण्डूयन् कच्छुरः कच् यथाः दुःखे सुखीयति । दुर्वारमन्मथावेशविवशो रतिनं तथा ॥ २०३।। :: नार्यों यैरुपमीयन्ते काञ्चनप्रतिमादिभिः । आलिङ्गथालिङ्गय तान्येव किमु कामीन तृप्यतिम२०४॥ यदेवाङ्गं गोपनीयं कुत्सनीयं च योषिताम् । तत्रैव हि जनो रज्यन् केनाऽन्येन विरज्यते?.॥२:५।। मोहादहह ! नारीणामङ्गैर्मासास्थिनिर्मितैः । चन्द्रेन्दीवरकुन्दादि सहक्षीकृत्य दूषितम् ।। २०६।। एवं संसारकाराया रामाया रूपवर्णनाम् । श्रुत्वा कुर्वन्तु मा रागमनाङ्गस्य सङ्गमे ॥ २०७ ॥ इतो भवात् तृतीये मे भवन्तः सुहृदोंऽभवन् । समानवयसस्तुल्यमुक्तवैषयिकक्षणाः ॥ २०८ ॥ युगपत् तुल्यनिर्मुक्तसावद्यावद्यचेष्टिताः । युगपत् तुल्यविहितचतुर्थादितपःपराः ॥.२०९।। स्मरतेति न किं यूयं प्राक्तनं भवचेष्टितम् ।। अहं वः सप्तमं मित्रं कथाख्यानाद् महाबलः।।२१०॥ श्रुत्वेदं वचनं वाणीदेवताहस्तपुस्तकम् । . जातिस्मरणमेतेपामुत्पेदे. कर्मलाघवात् ॥२११ ।। .
पश्चमः सर्गः। १५१ अर जालकपाटानि तीर्थेश उदघाटयत् । पतेऽभ्यागत्य सर्वेऽपि प्रमोदाचजलापिलाः ॥२१२॥ . प्रबोधोन्मुक्तकालुप्याः शारदीन घनाइव । भगवन्तं प्रणम्येदमाख्यन् पडपि भक्तितः ॥२१॥ स्मरामा माग्भवे पूज्यपादाः ! सप्ताऽपि सत्तपः । अहष्महि चतुर्थादि कर्मधर्मघनोदयम् ॥ २१४ ॥ वोधिता अधुना स्वामिपादर्देशनयाऽनया । आदिशन्तु विधेयं यद्भवन्तो गुरवो हि नः ॥२१५।।. अधोवाच जगनाथः पायःपूर्णपनखनः । अई संसारकान्तारं विमुच्याऽनिष्टगेहवत् ।। २१६ ॥ मुक्तिसंवननं कर्मनि शनकृतोद्यमम् । सत्तपस्या ग्रहीप्यामि भविष्यामि च निर्ममः॥२१७॥ (युग्मम्.) स्वामिममी वयं तावद् युप्मन्मार्गप्रवर्तनम् । करिष्यामो मुरोर्मा, प्रवृत्तानां शुभं नृणाम् ।।२१८॥ इत्युदीर्य पुनर्नायं नमस्कृत्य शुभाशयाः । पडपि क्ष्माभुजोऽगच्छन् स्वां पुरी खवलैः सह।।२१९॥ इतः पञ्चमकल्पस्य विमानेऽरिष्टनामनि । लोकान्तिकानां देवानामासनानि चकम्पिरे ॥२२॥ तत्कम्पादवधिज्ञानमयोगादपि ते सुराः । सारखतादयः सर्वेऽजानन् दीक्षाक्षणं प्रभो ॥२२॥ एत्य श्रीमल्लिनाथाने तेऽवोचनिति भक्तितः । सर्वजगजीवहितं स्वामिन् ! तीर्थ प्रवर्तय ।। २२२ ।।. स्वामी गार्हस्थ्यवासेऽपि वैराग्यैकनिकेतनम् । विज्ञप्तस्तैर्विशेषेण दीक्षायां सत्वरोजनि ।। २२३ ।। अथ वात्सरिक दान समारेमे जगत्पतिः। सर्वे येन महारम्भा दानपूर्वा महात्मनाम् ।। २२४॥
१५
मल्लिनाथमहाकाव्ये-
भृकाटकचतुष्कादिस्थानेषु प्रतिवासरम् ।
आरभ्य सूर्योदयतो घोषणां खाम्यकारयत् ।।२२५॥
यो येनार्थी स तद्वस्तु गृहातु निजयेच्छया।
एवं वर्षावधि मात: मातरुद्धोष्यते जनैः ॥ २२६॥
धनानि-धनदो यक्षः शेक्रादेशाद् दिने दिने ।
आहृत्य भ्रष्टनष्टानि पूरयत्यम्बुवद् धनः ।। २२७ ॥
सर्वत्रेच्छानुमानेन-दीयन्ते. कुञ्जरा हया:-
रथाभरणवस्त्राणि रबानी राशयस्तथा ॥२२८॥"
करमा वेसश्चिापि नगराणि गुरुण्यपिः।
ग्रामग्रामधिरारामा यथाकाम धनादयः ||२२९॥
- (युग्मम् )
खेच्छया याचमानेभ्यो यद् गृहावस्तु दीयते...
पल्यङ्कासनयानादि संख्यातुं शक्यते न तत् ।।२३०॥
कोटीमेकां सुवर्णस्य लक्षाण्यष्टौ दिने दिने ।
सूर्योदयात्मातराशकालं यावद् ददौ विभुः ॥ २३१ ॥
सर्वाङ्के दत्तवान् स्वामी हेमकोटित्रयीशतम् ।
अष्टाशीति च कोटीनां लक्षाशीति च सर्वतमा२३२॥
सांवत्सरिकदानान्ते सौधर्मादिपतिः खयम् ।
दीलोत्सर्व विधित्सुः सन् समागाचलितासना२३३॥
सलिलापूर्णसौवर्णकुम्भसम्भृतपाणिभिः। ...."
सुरैः शक्रः समें दीक्षाभिषेकं कृतवान् प्रभोः॥२३४॥
विलिलेप प्रभोरङ्ग दिव्यैर्गोशीर्षचन्दनैः।
मौलौ सन्तानपुष्पैश्वाऽवध्नाद्धम्मिलमद्रिभित् ।।२३५।।
वासांस्यलकृतीः शक्रः खामिनं पर्यधापयत् ।
जयन्तीनामशिविका रचयामास च स्वयम् ।।२३६॥
दचहस्तसुरेन्द्रेणारोहैनां जगद्गुरुः ।
पश्चादममयश्चाग्रभागे सा समुधृता ॥ २३७ ॥
. . . पञ्चमः . सर्गः। १५३ पार्वतो मल्लिनाथस्य चकाचे चामरद्वयम् ।। . ) धर्मशुक्लाभिधध्यानयुग्मं भूर्तमिवाऽमलम् ।। २३८ ।। वादित्राणां महाघोपानशे सकला.दिशः। अधर्मवाती सर्वत्र सर्वतस्तिरयनिव ।।.२३९ ॥ . वृन्दारकाणां वृन्देभ्यः स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य प्रवासपटहोपमः ।।.२४० ॥. क्षणमग्रे क्षणं पृष्ठे पौरास्तस्थुः प्रमोदतः। . . खामिनो विरह. सोदुमसौदा इव. सर्वतः॥२४१॥ केऽप्यारुरुहुरहाग्रं सौधाग्राणि च केचन । सन्मश्चाग्राणि केचिच्च प्रभोर्दर्शनकाम्यया ॥२४२ ।। हस्त्यश्वरथपादासपौरवृन्दपराठतः। श्रीमत्कुम्भमहीपालश्चचाल. जिनपृष्ठतः ।। २४३.३.; करिणीपृष्ठविन्यस्तमश्चिकासनमासिवा । प्रभावत्यपि. गोत्रस्त्रीसहत्या पर्यलकृता ।। २४४ ॥ स्वामिदीक्षाश्रुतेरुकैः प्रविजिपुभिः समम् । :- राजभित्रिशतीसंख्यैः सहपैरग्रतः स्थिवैः ॥ २४५.॥ स्त्रीणामप्यान्तरपरीवाराणां च त्रिभिः शनैः । दिक्षुभिः परं पौरैरुत्सर्व समुपागः ।।.२४६ ।। .. पूर्णपार्थो जगन्नाथो मिथिलामध्यवर्मना । वधूपाणिमिवादातुं दीक्षामुत्को वरो यथा ।। २४७ ॥ शिविकाचाहिनस्तत्र दिव्याभरणभासुराः । अदधुर्भूगतानेकाश्विनीनन्दनवैभवम् ।। २४८.॥ तदा श्रीमलिनाथस्य तरिसनिष्क्रमणोत्सवे.। गतरुणो दिक्षणां क्षोभः स्त्रीणां.क्षणादभूत्।।२४९।। अर्धपोतस्फुरत्काच्या प्रस्खलन्त्यः पदे पदे । तुङ्गजालकमध्यासुः काश्चित्. स्वामिदिक्षया ॥२५॥ काश्चिद्देशान्तरायावर्षियवार्ता अपास्य वा ।.. .. . २० १५४ मल्लिनाथमहाकाव्ये- खामिदीलोत्सर्व द्रष्टुं चेटुश्चपललोचनाः ।। २५१ ।। काश्चिदिभ्याङ्गनाः पौत्रजन्म श्रुत्वाऽपि पावनम् ।... न दत्त्वा हर्षदानान्यधावन्तोदामवल्गितम् ॥२५२॥ चेलाञ्चलांश्चलदृशश्चञ्चच्चामरवैभवात् । काश्चिच चालयामासुश्चलहाववपुलताः ॥ २५३ ॥ : पुण्याङ्कुरानिवाऽमोघान् लाजान् काश्चन चिक्षिपुः । काश्चन तन्दुलान्मौलौ शुक्लध्यानलवानिव ॥ २५४ ।। शीतांशुक्ररमित्राणि पूर्णपात्राणि काश्चन । विदधुः करराजीवे यासीच.जगद्गुरोः॥ २५५ ॥ खाम्यङ्कपूर्णकुम्भस्य स्पर्धिनः काश्चिदङ्गनाः । पूर्णकुम्मान करकोडे दधुः श्रेय फलोपमान ॥२५६॥ तत्र काश्वित् प्रनृत्यन्ति जातपुत्रोत्सवा इव । गोत्रद्धा इव जगुर्मगलान्यपि काश्चन. ।। २५७.॥ सुरेन्द्राणां चतुःषष्टिनाव्यानीकै प्रभोः पुरः।. नाव्यानि चक्रिरे व्योन्नि गन्धर्वनगराणि वा॥२५८॥ मरम0: पातालवासिभिस्तैरुपागतः । एकत्रैव कृतवती त्रिलोकी कौतुकादिव ॥ २५९ ॥ मिथिलामण्डनं राजगन्धर्वा नवगीतिमिः। अगायत्रिजगन्नाथगुणग्रामाननेकपा ॥२६० ॥ इभ्यसामन्तवर्गाणां संमर्दादू गलितच्युतैः। हारै रचितपूजेव पूरभूत सर्वतोमुखी ॥ २६१॥. निर्ममोऽपि जगन्नाथो मङ्गलानि पदे पदे, प्रतीयेषानुचराणां सेवास्थितिविदोजिनाः॥२६२॥ कांश्चिन्नमस्यतो देवानाकाशे भुवनाधिपः । कृतार्थान् विदधे स्मेरनयनाम्भोजवीक्षणैः ॥ २६३ ॥ एवं सुरासुरनरैः क्रियमाणमहोत्सवः । पुरीगोपुरमुल्लच्य भववासनिवासवत् ॥ २६४ ॥ .
पञ्चमः सर्गः। १५५ फुमुदामोदसंमत्तरोलम्बरवडम्बरः । अर्थरिव महाकाव्य मूचितसरकेतकः ।। २६५॥ एलालवङ्गकपोलनागरगादिभूरुहः । सदाशापमृतः पूर्णमिव साधुमनोरथैः ।। २६६ ॥ अभ्रंलिहानोकहपु बद्धदोलं कुमारकः । मुख़ासवाचः पारीभिः पूर्यमाणगुदोहदम् ।। २६७ ।। चाल्यमानलताचक्र क्रीडया पारवालक। उचीयमानसुमनोमालिनीभिः कराम्बुजः ॥ २६८ ।। मञ्जुगुञ्जस्पिकीनादरादिव जगद्गुरुम् । महोधानमय प्राप श्रीमन्मल्लिजिनेश्वरः ।। २६९ ।। अथान्याच्छिविकारनात्पीतांदिव महाभुजः । उत्ततार स्ववाहुभ्यां तरीतुं भववारिधिम् ।। २७० ॥ 'उज्झाञ्चकार निःशेष नेपथ्यादि जगद्गुरुः। . निर्योकमित्र नागेन्द्रो मिथ्यात्वमिव तत्त्वविद् ॥२७॥ अदूप्यं देवदूप्यं स्वाराजस्त्रिजगदीशितुः । स्कन्धे चिक्षेप सुज्ञानाध्यानमित्र मूर्तिमत् ॥२७२।। पञ्चविंशतिधन्वोच्चः कृतपठमहातपाः। मार्गशुक्लस्यैकादश्याः पूर्वाह्न भेऽश्वयुज्यय ॥२७३ ।। : श्रीमन्मल्लिनिनाधीशः पञ्चभिर्मुष्टिभिः स्त्रयम् । केशानुत्पाटयामास मूर्तिमद्विपयानिव ।। २७४ ॥ : प्रत्यैच्छत् त्रिदशाधीशः स्वामिदत्तप्रसादवत् । अन्दमुक्तोम्बुवत् पृथ्वी निजचेलाचलेन सः ॥२७॥ अंद्रिभित्स्वामिनः केशान् कजलश्यामलश्रियः । माक्षिपत् क्षीरपायोधौ निर्मलीकरणाय वा ।।२७६॥. वेगात् तत्रैत्य सद्भक्तिरूचीकृतकरद्वयः। तुमुलं वारयामास वासवो नटवद् नृणाम् ॥२७७॥ उच्चा सिद्धनमस्कारं सामायिकमथोचरन् । .. . .
•. . मल्लिनाथमहाकाव्ये- चारित्रं जगृहे स्वामी मुक्तिसंवननौषधम् ॥२७॥ मनापर्यायसनं च ज्ञानं भर्तुरभूत् तदा । केवलज्ञानलाभस्य सत्सङ्कार इवानघः ॥ २७९ ।। नारकाणामपि सुखमाकमिकमजायत । सौदामिन्या इव द्योतः क्षणं च नरकेऽजनि ॥२८॥ त्रिशतीप्रमिता भूपास्त्रिशतीप्रमिताः स्त्रियः। संवेगाम्भाकृतनानाः प्राव्रजननु तीर्थपम् ॥२८॥ ततः प्रदक्षिणीकृत्य श्रीमल्लिस्वामिनं जिनम् ।. वाचा पीयूषहारिण्याऽऽरेमें स्तोतुं पुरन्दरः ॥२८२॥ नमो मंल्लिजिनेशाय कुमारब्रह्मचारिणे । वैराग्यद्धपयोदाय केशावेशानिवारिणे ॥२८॥ कर्मभिस्त्वमसंस्पृष्टः पद्मपत्रमिवोदकैः। तव संसारवासोऽपि मुक्तिवास इवाऽजनि ॥२८४॥ मैत्र्यांदिवासनापूर्त दूतं शाश्वतशर्मणि । नाऽभिभूतं मदेनापि स्मरामि तक शासनम् ।।२८५॥ स्वामिन् ! विश्वोपकाराय तपस्यां प्राप्तवानसि । मार्गदुः पान्थसाय फलैः फलति पेशलैः ॥२८६॥ जितस्त्रिजगन्नाथाऽनङ्गत्वं दधते सरः। दग्धो दुग्धेन यो लोके स फूत्कृत्य पयः पिबेता२८७॥ इत्थं जगत्पति स्तुत्वा भक्तिमहः पुरन्दरः। अनुनाथं धरापीठं त्रिनमो विदघेतराम् ।। २८८ ।। अथ च्छत्राप्रमाणस्याऽशोकद्रोः प्रवरे तले। अतिष्ठत् प्रतिमायां श्रीजिनो लम्बिभुजद्वयः ॥२८९।। . अप्रमत्तः संयतादिगुणस्थानानि तत्क्षणम् । आश्रित्य घातिकर्माणि पुप्लोप ध्यानपावक॥२९॥ तस्मिन्नेव क्षणे विश्वभर्तुर्विश्वप्रकाशकम् । उत्पेदे केवलज्ञानं सर्वपर्यायतच्चवित् ।। २९१ ।। ..
पञ्चमः सर्गः। १५७ अथ लगात् सहवाक्षः प्रयुक्तावधिना स्वयम् । उत्पन्नं केवलज्ञानमज्ञासीदुक्तवत् तदा ॥ २९२ ॥ अपनिन्युहरराज्ञाविधेर्वायुमारकाः। योजनामिने क्षेत्रे तृणकाष्ठादि विस्वतम् ।। २९३ ।। तत्र गन्धाम्बुभिः शुद्धखातिज्योतिर्भवामित्र । रजापुञ्जमशमनी वृष्टिं चर्दिवाकसः ॥ २९४ ॥ स्वर्णरत्नशिलाजालस्तूद्रवन्धुर्महीतलम् । मुरास्नत्र मृतश्रेत्यमध्यवद् भैध्ययुद्धयः ।। २९५ ।। जानुनी पश्चवर्णामामोदाद् मत्तपट्पदाम् । विकृणिकां कृणयन्ती राष्टिं पाणी व्यधुः सुराः॥२९६।। कृत्वाऽन्तर्मणिमयस्तूरमभितस्तमधः सुराः । रकपिशीर्षक वर्ष व्यथुर्भुवनवासिनः ।। २९७ ।। ज्योतिप्कास्तद् द्वितीयं तु सदनकापिशीर्पकम् । चक्रिरे काश्चन: मूर्यरश्मिभिरिव पिण्डितम् ॥२९८॥ रन: प्राकारमुत्तुङ्ग रोहणाईतेरिव । मुरा वैमानिकाचकुर्माणिक्यकपिशीर्षकम् ।।२९९|| - वर्ष वर्ष प्रति कृता प्रतोलीनां चतुयी। चतुर्दिगन्तलोकानामाहातुमित्र दृतिकाः ॥३०॥ उपरिष्टात् प्रतोलीनां तोरणानि चकाशिरे। विलोकितुं दिगन्तानि स्थितानीबोर्ध्वमम्बरे ॥३०॥ मुखन्यस्ताम्बुनाः पूर्णकलशास्तोरणस्थिताः । रोजिरे मोइसंतप्तान् भन्यान् सेक्तुमियोंचताः ॥३०२॥ प्रतोलीनां पुरो दिव्या वाप्यः सौवर्णपङ्कजाः । क्रीडार्थमिव कैवल्यलक्ष्मया इव सुदीर्घिकाः ॥३०३॥ प्रतिद्वारं धूपयव्यः स्फुरद्पाः पदे पदे । विपद्देशविनाशाय निर्मितात्रिदशेश्वरैः ॥३०॥ देवच्छन्द जगद्भर्तुर्विश्रामाय दिवौकसः।
१५८ मल्लिनाथमहाकाव्ये- प्राकारे मध्यमे च पूर्वोदीच्या यथास्थिति ॥३०५।। धनुशतत्रयं मांशु चैत्यदु पत्रलं ततम् । तृतीयशालमध्योा विदधुर्व्यन्तरामराः ॥३०६।। (युग्मम् ततः सिंहासनं दिव्यं चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि शुभ्र छत्रत्रयं सुराः ॥३०७॥ सर्वाश्चमैरिव कृतं निर्मितं मङ्गलैरिव । संकीर्णामिव लक्ष्मीभिहप्तैरिवातम् ॥ ३०८ ॥ जगचित्ररिव व्याप्त निधानैरिव सेवितम् । 'चक्रे समवसरणं शरणं पर्वणामिव ॥३०॥ एकत्र दिव्यरम्भोरुकरताडितदुन्दुभी। एकत्र पञ्चसुग्रामप्रपश्चस्थिरकिवरम् ॥ ३१ ॥ एकत्र लेप्यललनाकरकुम्भगलज्जलम् । एकत्र रममाणख कुमारकतहुंकृति ॥ ३११ ॥ एकत्र खर्वधूलोकहल्लीसककृतोत्सवम् । एकत्र किन्नरीगानदत्तश्रवणकिन्नरम् ॥ ३१२ ॥ (पञ्चमिद्वितीयश्लोकमध्यक्रियाकुलकम् ) मुहुः संचार्यमाणेषु लक्ष्मीलीलाग्रहेष्विव । वर्णमयेषु पोषु न्यस्य पादौ सुकोमलौ ॥ ३१३ ॥ पुरस्ताद् वन्दिभिरिव त्रिर्जयेति विभापकैः। अमरैर्दयमानाऽध्वा देवीमिर्गीतमङ्गलः ॥ ३१४ ॥ पूर्वद्वारात् मविश्याच्चैथैत्यद्रोच प्रदक्षिणाम् । विदधेऽवश्यकार्याणि जिना अपि वितन्वते ॥ ३१५ ॥ नमस्तीर्यायेति बचो धीरधीरमुदीरयन् । दिव्यसिंहासने तस्थौ कुम्भाङ्कः कुम्भभूर्जिनः।।३१६॥ कन्दर्पजयनं नाथ ! त्वां दृष्ट्राऽशोकपादपः । अनृत्यति चलैः पत्र सलीलमिव पाणिभिः ॥३१७|| पसमः सर्गः। १५९ दिपन निरसास्वादलुब्धास्त्वत्पादपद्धनम् । तदेकनानदयाः सेवन्ते सततं मृगाः ।। ३१८ ।। म्यूने इव कररिन्दी फनरिच करम्बिते । नव पार्षे जगन्नाय ! रेजाते चामरे इमे ।। ३१९ ।। तब सिंहासनं नाथ । धत्तं सुरागिरिश्रियम् । अमकम्यं परः कामं चामकल्याणभाजनम् ।।३२०॥ भानि भामण्डलं पृष्ठ पिण्डीकृतमहः सुरे। उदयवादशादित्यनेजस्तोमविडम्बकम् ।। ३२१ ।। श्रीमल्ल वनाधीशदिवि दुन्दुभिवादनम् । विधत्त मोहनीयादिमालम्लुचपराभवम् ।। ३२२ ।। प्रये स्युखिजगन्नाथ ! जम्बूद्वीपे यदीन्दवः । तनोपमीयते छत्रत्रितयं मृर्षि भामुरम् ॥ ३२३ ॥ स्तुत्वेति विरते शक्रे श्रीकुम्भः पृथिवीपतिः । विरचच्याञ्जलीवन्ध स्तुतवानिति भक्तिभाक् ॥३२४॥ धन्य ईत्वाकुवंशोऽयं प्रसिद्धोऽजनि भारते । यस्मिन् भवाशा जाता: सुत्ता मौक्तिकोपमा॥३२५।। येन सरेण तीर्थेश ! कुम्भदासीकृतं जगत् । स त्वयोन्मूलितो जीर्णपादप इत्र वात्यया ॥३२६॥ स्तुलेति सत्यमहन्तं श्रीकुम्भो मुदिताशयः । अनुप्स इव तीर्थेशवक्त्रराजीवमैक्षत ॥३२७॥ सांवत्सरिकदानान्तं विज्ञाय वपुरी तदा । विहाय पडपि मासा भूभुजस्ते शमाहताः ।। ३२८ ।। स्पृष्ट्वा भूमीतट मूभी योजिताञ्जलयोऽखिलाः । एवमारेभिरे स्तोतुं गिरा धीरमशान्तया ।। ३२९ ।। पूर्वस्मिन् जन्मनि खामिन् । चारकोऽसिं.यथा भृशम् । तदेदानी विवाहस्य.क्षणं देशनयाज्नया ॥ ३३०॥ भवमतिभयं नष्टं तब मूर्तिविलोकनान् ।
.१६०
मल्लिनाथमहाकाव्ये-
खेलन्ति कौशिकास्तावद् यावन्नौदेत्यहपनि॥३३१।।
इति विनयविनम्रा भक्तिभाजो नरेन्द्रा-
त्रिभुवनगुरुमेनं मल्लिनाथं प्रणम्य ।
मरुदधिपतिपृष्ठे पृष्ठतामादधाना
जिनवचनवितानं श्रोतुपुत्का न्यषीदन् ॥३३२॥..
इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते-महाकाव्ये
विनयाके दीक्षाकेवलज्ञानोत्पत्तिसंकीर्तनो नाम पञ्चम सर्गः ।
अहम्
अथ षष्ठः सर्गः।
यो लङ्केशविलोपनव्रतधरो-रौद्रं च धर्म भजन
संप्राप्तः सकलत्र एव तपसे ताताऽनुमत्या-वने ।
राज्यमाज्यसुखोत्सवस्य विमुखो रामावतारो जिन:
स श्रीमल्लिरपौरुषेयचरितः पायादपायाज्जगत् ॥१॥
अथारभत विश्वेशः क्लेशनाशाय देशनाम् ।
गिरा संदेहहारिण्या पश्चत्रिंशद्गुणस्पृशा ॥२॥
भो भो भव्याः ! भवाम्भोधौ भ्रमद्भिनित्यमंङ्गिभिः।
दुष्पापमेव मानुष्यं समिलायुगयोगवत् ॥ ३॥
कथञ्चित् तत्र लब्धेऽपि सम्यक् तत्त्वं सुदुर्लभम् ।
देवतत्त्व-गुरुतत्त्व-सम्यक्तत्त्वखरूपभृत् ॥ ४ ॥
एवंखरूपं सम्यक्त्वं ये रक्षन्ति दिशन्ति च ।
परेषां, दवदन्तीव लभन्ते परमं पदम् ॥ ५ ॥
उपाष्टापदमस्त्यत्र भारते सङ्गरं पुरम् ।
मम्मणस्तत्र भूपोऽभूद् वीरमत्यस्य वल्लभा.॥६॥
'पंठः सर्गःग १६१ पाप सोऽन्यदाञ्चालीत्सकलत्रः पुराद् बहिः । मुनि वीक्ष्य समायान्तमशकुनममन्यत ।। ७!! पृथरकत्स दुनं सार्थाद नीत्वा रांजकुले ततः। घटिका द्वादश द्वाभ्यां ताभ्यामृपिरखेदि सेः ॥८॥ ताभ्यां कृपावशान् पृष्टः कुत आगाः फ यास्यसि । तेनानामष्टापदादी याता विम्बानि वन्दितुम् ॥९॥ विगाजिनो भवन्द्यां च मार्थादस्मि शुभाशयो ।। श्रुत्वेति लघुकर्मवान् ती कोपं जहनुः क्षणात् ॥१०॥ ततो जीवदयामूलं धर्ममाख्यद् महामुनिः। धर्माभिमुरुयं ती प्राप्ती प्रत्यलाभयतां च तम् ॥११॥ ताभ्यामनुमनः सोऽष्टापदं माप ततो मुनिः। आहेतं ती पुनर्धर्म पालयामासतुंश्चिरम् ॥ १२ ॥ निन्येऽन्यदा वीरमती धर्मस्थर्यप्रवृद्धये । देगा शासनवाहिन्याटापदे पुण्यसंपदे ॥१३॥ प्रतिमा पूजयन्ती सा परमानन्दमाप च । वन्दित्वा पुनरप्यागात् स्वपुरे देवतावशात् ।। १४ ।। सा विंशतिमाचाम्लानि चक्रे जिनं जिनं प्रति । चतुर्विशतिसंख्यानि तिलकान्यप्यकारयत् ।। १५ ।। अन्यदाश्टापदे गत्वा स्नात्रपूजापुरस्सरम् । प्रतिमाना ललाटेपु तिलकानि व्यवत्त सा ।। १६ ।। दत्वा दानं च साधूनां तपस्तदुददीपयत् । कृतार्थाऽथ मनृत्यन्ती चेतसागाद् निजं पुरम् ॥१७॥ पालयित्वाऽर्हतं धर्म समाधिमरणेन तौ। पूर्णकाले देवलोके दाम्पत्येन वभूवतुः ।। १८ ॥ प्रच्युत्य मम्मुणो जम्बूद्वीपे भरतमण्डने । वहलीसंज्ञके देशे पुरे पोतननामनि ॥ १९:।। धम्मिलाभाऽभीरपत्नीरेणुकाकुक्षिसम्भवः । २१ युग्मम् ).. १६२ मल्लिनाथमहाकाव्ये- धन्यो नाम सुतो जज्ञे धन्यमन्यः पिता यतः ॥२०॥ (ए वीरमत्या अपि पाणी प्रच्युत्स विबुधालयात् । धन्यस्य गृहिणी. जज्ञे धूसरी नामधेयतः ॥ २१ ॥. धन्योऽय चारयाशके.महिषीरनुवासरम् । वर्षाकालोऽन्यदा कालः मोषितानां समाययौ ॥२२॥ वर्षत्यपि घने हर्षाद् महिषीचारणोद्यतः। विनाणश्छत्रक मूर्मिधन्यो वन्यामथाऽभ्रमंत् ॥२॥ कायोत्सर्गस्थितं साधुमेकमेकपदे स्थितम् । वृष्टिशैत्येन सर्वात कम्पमानं ददर्श सः ॥ २४ ॥ . तं दृष्ट्वा संकंपश्छत्रं तस्य मूर्धन्यधारयत् । दृष्टिकष्टमज़ानानः सुखेन समुनिः स्थितः ॥२५॥ वृष्टेर्न व्यरमद् मेघः कायोत्सर्गाद् मुनिर्न च । छत्रधारणतो धन्यो, बद्धस्पर्धा इवात्र.ते ॥२६॥ मेघेऽथ विरते साधुः कायोत्सर्गमपारयत् । प्रणम्य चाहिसंवाहपूर्वकं तमुवाच.सः ॥ २७ ॥ महर्षे! कुत आयासीः किल कालेऽत्र पडिले । पाण्ड्डदेशादिहायातो. यास्यामि च गुरु प्रति ॥२८॥ प्रोचे धन्यो मुनि नत्वाऽध्यारोह महिषं मम । मुनिराह न जीवेषु समारोहन्ति साधवः ॥ २९॥ धन्योऽथ महिषी दुग्ध्वा दुग्धकुम्भमुपानयत् । पारणं कारयाञ्चके वक्रेतरमना मुनिः ॥३०॥ वर्षाकालमतिक्रम्य पोतनात् स मुनिर्ययौ । धन्योऽपि सह धूसर्या विशिष्टश्रावकोऽभवत् ॥३१॥ दीक्षां गृहीत्वा सप्ताब्दी पालायित्वा समाहितौ । विपद्य युग्मधर्माणी जाती हैमवतेभ्य तौ ॥ ३२॥ तवो मृत्वाऽनातरौद्रध्यानसन्धानबन्धुरौ ।
पछः सर्गः। १६३ अभूतां दम्पतीलेन क्षीरडिण्डीरनामको ॥ ३३ ॥ देवश्च्युवाच भरते देशे कोशलनामनि । फोशलायां महापुर्या निपधस्य महीभुजः ॥ ३४ ॥ सुन्दरायां महादेव्या नलो नामाऽभवत् सुतः । साचिको विपरीतस्तु तल्लघुः कूवराभिधः ॥ ३५ ॥ (युग्मम् ) इनो विदर्भदेशेषु नगरे कुण्डिनाभिधे । अभूद् भीमरयो राजा पुष्पदन्तीति तमिया ।। ३६ ।। अन्यदा क्षीरडिण्डीरा देवी प्रच्युत्य नाकतः । मुनालेनावनतार तस्याः कुक्षा शुभेक्षणे ।। ३७ ॥ मुखमनुमा सा खमं प्रेक्ष्य राज्ञे व्यजिज्ञपत् । जाने इस्ती दवत्रस्तस्तवाकसि समायया ॥ ३८ ॥ व्याजहार ततो राजा देवि ! राजश्रियाऽधिकम् । सन्पेषु मुख्यो दन्तीच गर्भस्तव भविष्यति ।। ३९ ।। एवं च कुर्वतो ती तयोर्दन्ती समागमत् । व्याकर्तुमिव तत्स्वमविचारं चारु संचरत् ॥ ४० ॥ सकलत्रं नृपं स्कन्धे समारोप्य परिभ्रमन् । नागरैः पूजितः सौधे तावानीयोदतारयत् ॥४१॥ आलाने च स्वयं लीनः सिन्धुरो गोत्रबन्धुरः। सुमनोभिः सुमनोभी रत्नश्च वधेऽधिकम् ॥ ४२ ॥ विलिप्य द्विपपर्चित्वा चक्रे नीराजनां नृपः । स्थितः स तत्र गर्भस्य पुण्येनेव स्थिरीकृतः ॥ ४३ ।। पूणे काले राजकान्ताऽजनयत् तनयां च सा । तद्भाले तिलको नित्योऽभवद् रविरिव द्यवि ॥४४॥ स्वयं तेजस्विनी तेन विशेपानिलकेन सा. दियुते विद्युतेंवोच्चैर्धारा वारिधरोद्भवा ।। ४५॥.: प्रभावाजन्मनस्तस्या भीमो भीमपराक्रमः।.
१६४ मल्लिनाथमहाकाव्ये- अधृष्यों भूभुजा. ज़ज्ञे वाडवेनेव वारिधिः॥४६॥ तस्यां स्वागत:प्रत्यक्षागतं चःमतगजम्........... वीक्ष्य भीमरथो नाम :दवदन्तीति:निर्ममौ ॥.४७॥ पद्मसुन्दरनिःश्वासा पद्मास्या.पद्मलोचना ।.., जितपद्मा पाणिपादैमूर्ता पोव सा वभौ.।। ४८ ।। तामष्टवर्षदेशीयां कलाज्ञापनहेतवे । कलाचार्यस्य धुर्यस्यार्पयामास: शुभे दिमे ॥ १९ ॥ तस्याः.प्रज्ञातिशायिन्याः साक्षिमात्रमभूद्गुरू स्याद्वादवादवादिन्याः प्रतिवादी न कश्चन ॥५०॥ ता. पारधरी वागीश्वरीमिव कलाम्बुधेः " राजा निरीक्ष्य दीनारलक्षं तद्गुरवे ददौ ।।.५१॥ तामुवाचाऽन्यदा साक्षाद्भूय नितिदेवता:। भाविनः शान्तिनाथस्य पूज्येयं प्रतिमा त्वया ॥५२॥ देवी तिरोऽभूदित्युक्त्वा प्रतिमां दवदन्त्यथ 1. '' अजस्र पूजयामास.निवेश्य सदने निजे ॥.५३ ॥.. समं सखीभिः क्रीडन्ती सा लताभिरिवालिनी... : अनगरतिविश्रामोपवनं पाप यौवनम् ॥ ५४ ॥.., दन्तीव दवदन्ती तामन्यूनकुचकृम्भिनीम् । निरीक्ष्य पितरौ चित्तं चक्रतुस्तद्विवाहने ॥ ५५॥ येता.पितरौ, चित्ते. तमोग्यवरचिन्तया। .. दवदन्ती वभूवोचैरष्टादशसमाश्मा ॥ ५६॥.. योषितां स्यादनूदानां प्रौटानां हि.स्वयंवरः। विचिन्त्येत्याऽऽदिशद् राज्ञामाहानाय नरान् नृपः॥५७॥ भूपा भूपालपुत्राथ तत्र लावण्यशालिनः ।.. एकैकशोऽधिका लक्ष्मया.त्वरितास्तत्र चाययुः॥५८॥ तत्र दूतसमाहूतो निषधोऽपि समाययौ । .. पुत्रावपि समं तेनाऽऽजग्मतुर्नलकूबरौ॥ ५९ ॥.५ . :
पठः सर्गः। १६५ - न सर्वेपामपि भूपानां स्वागतं कुण्डिनेश्वरः चकार युज्यते ह्येतदागतेभ्यागते जने ॥ ६०॥2 अचीकरदथो भीमः.स्वयंवरणमण्डपे । मञ्चास्तदन्तःसौवर्णसिंहासनमनोहरान् ॥ ६१ ॥ आययुस्तत्र राजानो दिव्यालङ्कारभासुराः। निपेदुरथ मश्चेषु कुर्वाणाः स्फुटचेष्टितम् ॥ ६२ ।। कश्चित् करसरोजेन लीलासरसिज जितम् । लीलयोल्लालयामास निरस्यनिव. दूरतः ।। ६३ ।।। कश्चिञ्च मल्लिकामाल्यमाजघ्रौ भृङ्गवद् युवा । यशसो मल्लिकायाश्चःपरीक्षितुमिवान्तरम् ।। ६४ ।।" कश्चिदुल्लालयाश्चक्रे करात् कुसुमकन्दुकम् । दधानो गोलकाभ्यासं पुष्पायुध इत्राधिकम् ॥ ६५ः।। पस्पर्श पाणिना कश्चिद् मासुरी खामनुक्षणम् । अहमेव पुमानेवमिव शंसितुमादरात् ॥६६॥.. अनर्तयच्छुरी कश्चिद् मुष्टिरले मुहुर्मुहुः । क्वणकङ्कणतालेन नाव्याचार्य इवोद्भटः ॥ ६७ ॥ दीपदीपप्रमेव द्रागाययौ वरमण्डपम् । .. द्योतयन्ती दवदन्ती पितुरादेशतस्तदा ॥ ६८ ॥ मौक्तिकमायसच्छायाऽलङ्कारसमलङ्कृताम् । जङ्गमामजहां खच्छा ताम्रपर्णीमिवाऽपराम् ।। ६९ ।। रवेरिवाग्रज-माले तिलकं विभ्रती सतीम् । निर्माणितमिवाऽदर्श भूपालप्रतिविम्बने ।। ७० ।। नीलोत्पलचलनेत्रां कजलोज्ज्वलकुन्तलाम् । दवदन्तीं नृपाः प्रेक्ष्य विश्राम चक्षुषोळधुः ॥७॥ (त्रिभिर्विशेषकम्) पुरोभूय प्रतीहारी श्रीभीमरथशासनात् ।। नामग्राहं महीपालानारेमे शंसितुंः ततः॥७२॥ .. . .
।.. मल्लिनाथमहाकाव्ये- मुकुटेशाभियो- भूपः कुसुमायुधनन्दनः उषेव पनी भवितुं चेदस्येच्छसि तद् वृणु ॥ ७३ ।। जयकेशरिपुत्रोऽयं शशलक्ष्मा क्षमापतिः । किमस्य रोहिणीव त्वं पत्नीत्वं प्रतिपद्यसे १ ॥७४॥ चम्पाधिपो भोगवंशो धरणेन्द्रनृपात्मजः । सुबाहुहुमस्य त्वं गृहाण यदि रोचते ॥ ७५.॥ . दधिपर्णनरेन्द्रोऽयं सुंसुमारपुरेश्वरः । कुशाङ्गिखशा- पश्य यद्याकर्षति ते.मनः ॥७६॥ कोशलाधिपतिश्चैष निषधोरिनिषेधकः। वृषभस्वामिकुलधूर्वृषभो विदितोऽस्ति ते ।। ७७ ।। तनयः सनयश्चास्य.नला प्रवलदोबलः। उन्नतोऽपि विनीतात्मा तवास्त्वभिमतः शुभे॥७८॥ दवदन्त्यपि तत्कालं माला नलगलेऽक्षिपत् । अहो ! सुष्ठु वृतं सुष्टु वृतमित्यभवद् ध्वनिः ॥७९॥ कृष्णराजः समाकृष्टखगोऽथ नलमाक्षिपत् । तं नलोऽपि तथाऽवादीदुचितं क्षत्रियेष्वदः॥८॥ द्वयोरपि ततोऽनीकं संवर्मितमभूत् तदा । दवदन्ती ततः सत्यश्रावणामीहशी व्यधात् ।। ८१ ।। अईन देवो गुरुः साधुओ मे, तत्सैन्ययोयो। क्षेमोऽस्तु विजयी चास्तु नलः परवलं द्विषन् ||८२॥ 'वद्वाक्यात् कृष्णराजस्य करात् खङ्गमथाऽपतत् । स ननाम नलं मूर्ना चिरेणाऽऽगतभृत्यवत् ॥८॥ उवाच च विनीताङ्गो मन्तुमेकं क्षमख मे। तं संभाष्य नलोऽमुश्चद् भीमोऽपि मुदितोऽजनि।।८॥ अन्यान् संभाष्य भूमीशान् भीमो व्यसंजदञ्जसा । पाणिग्रहोत्सवं चक्रे दबदन्त्या नंलस्य च ॥८५ ।। तद्विवाहोत्सवे वृत्चे हस्तमोचनपर्वणि ।
पष्ठः सर्गः।
१६७
ददौ नैपधये भीमभूमीशः सिन्धुरादिकम् ॥ ८६ ।।
वधूवरौ नवोदौ तौ सकङ्कणकराम्बुजौ ।
गृहबिम्बान्यवन्दतां भवदवलमलौ ॥ ८७॥
भीमः सपुत्रं निप, समान्याऽथ विसृष्टवान् ।
प्रयाणकानि कतिचित् समागत्य स्थितः खयम् ॥८॥
यान्तीमनुनलं भैमी पुष्पदन्त्यन्वशादिति ।
ध्वजे वंश हे वत्सेमा त्याक्षीर्व्यसने पतिम् ।।१९।।
मावशिक्षा गृहीत्वेति दवदन्तीमुपागताम् ।
न्यवेशयद् रथक्रोडे नल क्रोडेऽपि च प्रियाम् ॥१०॥
ततश्च कोशलाधीशो मार्गेऽखण्डप्रयाणकैः।
नव्यैः काम्यैरिव कविः शास्त्रवातिगच्छति ॥११॥
प्रयाणं कुर्वतस्तस्य ततोऽस्तमगमद् रविः ।
ब्रह्माण्डं तमसापूरि तद् दृष्ट्वोचे नलः प्रियाम् ॥१२॥
क्षणं देवि प्रबुध्य त्वं तिलकं प्रकटीकुरु ।
परिमाय ललाटं सा दीपवत् तमदीपयत् ।। ९३ ॥
निर्विघ्नं तेजसा तेन चचाल सकलं बलम् ।
नला पुर स्थितं कायोत्सर्गिणं मुनिमैक्षत ॥ ९४ ॥
उवाच निपधं नाथ ! श्यतां वन्द्यतां मुनिः।
अयं च घृष्टो मत्तेनेभेन यत्कलितोलिभिः ॥९५ ॥
न चालितः परं ध्यानात् तेन मत्तेन दन्तिना।
ततः सपुत्रो निषधः श्रद्धया तं न्यसेवत ॥९६॥
नलश्च दवदन्ती च निषधः कूवरोऽपि च ।
नन्वा नत्वा च निरुपद्रवं कृत्वा मुनि ययुः ॥ ९७॥
कोशलायां समाजग्मुर्महेन च महीयसा ।
दवदन्त्यालोक्यमानचैत्यायां हष्टचेतसा ।। ९८॥
कदाचिद् गीतवृत्ताभ्यां जलकेल्या कदाचन ।
कदापि दोलाखेलाभिः कदाचिदू धूतकर्मणा.॥९॥
." . १६८ मल्लिनाथमहाकाव्ये- नलच दवदन्ती च खेच्छयोयानवीथिषु ।. . .. गतं कालं न जानाति, खर्गिणामिवं दस्पती ॥१०॥ -(युग्मम् ) अन्यदा निषधो राज्ये स्थापयित्वा नलं सुतम् ! .. यौवराज्ये वरच खयं दीक्षामुपाददे ।।..१.०१ ॥ . न्यायधर्ममयं राज्यं नल प्रबलविक्रमः। पालयनन्यदाऽपृच्छदमात्यादीन् क्रमागतान् ॥१.०२॥ पित्रादीनां भुवं शास्म्यधिकां वा ते ततोऽवदन.। व्यशोनं भरतं भुक्तं त्वत्पित्रा, सकलं त्वया ॥१०॥ किन्तु तक्षशिला नाम पूर्योजनशतद्वये। तत्र राजा कदम्बोऽस्ति त्वदाज्ञां स न मन्यते॥१०४॥ तच्छ्रुत्वा नलभूपाल. कोपाटोपसमुद्भटः । दूतं व्यसृजदेतस्य स गत्वा तमवोचत ॥ १०५ ॥ मत्स्वामिनोज्नलस्फूर्तितेजसो नलभूपतेः । आत्मानं यमपूर्मध्ये आज्ञा मा नय मानय ॥१०६॥ कदम्बराजस्तच्छुत्वा भृकुटीभीषणाननः । वमर्धचन्द्रयाञ्चक्रे स्वकीयमिव जीवितम् ॥१०७ ॥ दूतोऽपि गत्वा तत्सर्वं नलायाऽथयत्तराम् । तं चाभिषेणयाश्चक्रे नंला सबलवाहनः ॥ १०८ ॥ सैन्येन वेष्टयामास भलस्तक्षशिला पुरीम् । कदम्बः सह सैन्येन संमुखस्तस्य चाभवत् ॥१०९॥ मिथः समरसंरम्भसमारम्भे तयोभृशम् । नलः कदम्ब निन्द्रो द्वन्द्वयुद्धमयाचत ॥ ११० ॥ तौ द्वावपि ततो द्वन्द्वैर्युदैरुद्धतदोर्युगौ। अयुध्येतां चिरं तत्र जङ्गमौ पर्वताविव ॥१११ ॥ सर्वेष्वपि हि युद्धेषु कदम्बमजयद् नलः । अपमृत्य स जग्राह व्रतं वैराग्यवासितः ॥ ११२॥ .
-- पष्टः सर्गः। १६९ नन्टरतगृने धन्यासि प्राज्यं राज्यं यदत्यजः। स नांगरपदाचस निरीहस्य नलो नलः ॥११॥ जयमति न नत्यूनुं नलो राज्ये न्यवेशयत् । नलस्य भरनार्धामिपेकवक व पार्थिवः ॥११४॥ कागलागामधायानी नगर्या कोगले चरः। . महन महना भैम्या सहाऽस्यात्पालयन भुगम् ॥१५॥ बाबरी राज्यलुब्धस्तु नलमछलगपणम् । पुग्ने प्रत्यहं दुष्यन्तरः शुभपात्रवत् ।।११६॥ नन्दय कवरथापि शनासक्तिजुपायुभा। जयं पराजयं चापि लेभाने पाशपातनात् ॥११॥ अन्यदा न नलस्याऽनुकुलोक्षः कात्तिोऽपनत् । कृवराज्यारयत् शारांस्तनस्तस्य गुहुर्मुहुः ॥११८|| ऋवरेण पराजिग्ये पुरग्रामादिकं नल। विपणो राजलोकोऽथ कवरो हर्षमाययौ ।।११९॥ दवदन्त्यवदद् धृतव्यसनाऽनलसं नलम् । स्वामिस्ते बन्धनार्यती पाशको पांशकाविव ॥१२०॥ कुवराय वरं राज्यं स्वयं दत्तं त्वया शुभम् । आलं ते पराजित्य प्रवादोऽयं न सुन्दरः ॥१२१॥ पश्यति स्म शृणोति स्म तां तद्वाचं च नो नलः। अवजाता ततः पत्या सुदती रुदती ययौं ॥१२२॥ कुलामात्यैरपि द्यूताद् निषिद्धो नैपधिस्ततः । तद्वचो नहि शुश्राव सधो भूताभिभूतवत् ॥१२३॥ पृथिवीं हारयामास सान्तःपुरपरिच्छदाम् । नलो मुमोचाऽथ सर्व गात्रादाभरणादिकम् ॥१२४॥ कूवरो नलमूचे च नल ! राज्यं परित्यज । राज्यं ममेदमभवत् पाशैर्वद्धमिवाधिकम् ॥१२५।। न दूरे दोष्मतां राज्यमिति जल्पनलोऽथ तम् । २२ मल्लिनाथमहाकाव्ये- संन्यानमात्रद्रविणः प्रचचाल कलानिधिः ॥१२६॥ अनुयान्ती नलं भैमी कूवरस्त्ववराशयः। उवाच त्वं जिता द्यूते मेऽन्तःपुरमलंकुरु ॥१२७॥ अमात्याः कूबरं प्रोचुर्मा कोपय सतीमिमाम् । ज्येष्ठो भ्राता पितेव स्यात् तदियं जननी तव।।१२८॥ बलादपि नलादेतां यद्याच्छिद्य ग्रहीष्यसि । त्वां कोपज्वलनेनेयं ततो भस्मीकरिष्यति ॥१२९॥ अनुयान्ती नलं तस्मादियं प्रोत्साह्यतां त्वया । नलं विसृज ततॊम्या सरथ्यरथसारथिम् ॥१३०॥ इत्युक्तः कूवरश्चक्रे तत्तथाऽमात्यभाषितम् । निषेध नैषधिश्चक्रे कूबरस्य रथार्पणे ॥१३॥ प्रधानपुरुषाः मोचुर्नलं नाथ ! त्वया समम् । कथं नु वयमायामः सेव्यः पट्टो यतोऽस्ति नः॥१३२॥ तेनाद्य जगतीनाथ! नागच्छामस्त्वया सह । तेऽधुना दवदन्ती च मित्रं मन्त्री मिया सखा ॥१३॥ तदियं पादचारेण कथं यास्यति वमनि । गृहाण तद्रयं नाथाऽनुगृहाण जनानमून् ॥१३४॥ अभ्यर्थनां प्रधानानामङ्गीकृत्य स कृत्यवित् । दवदन्त्या सहाऽऽरुह्य रथं राजपथेऽचलत् ॥१३५॥ नार्यों भैमीमेकवस्त्रां वीक्ष्याभ्यङ्गोयतामिव । वर्दुःखतश्चलकोपमश्रान्तमश्चभिः ॥१३॥ गच्छन् नगरमध्येन पञ्चहस्तशतीमितम् । नला स्तम्भ समुन्मूल्य पुनरारोपयत्तदा ॥१३७॥ तद् पृष्ठा मोचिरे पौरा अहो! सत्वमहो! वलम् । नलस्य वलिनोऽप्यस्य व्यसनं दैवतोऽभवत् ।।१३८॥ शानिना मुनिनैकेन पुराऽस्ति कथितं किल ।
षष्ठः सर्गः। भाज्ययं भरतार्धेशः क्षीरदानवशाद् मुनौ ॥१३९॥ स्तम्भमुन्मूल्य चारोप्य भाव्यधभरताधिपः । मिलितं तदिदं किन्तु राज्यभ्रंशोऽस्य दुःखकत्।।१४०॥ अस्यों पुर्यां पुना राजा भवेद्यदि पुनर्नला। खवान्धवं प्रति क्रूरो नन्दिष्यति न कूबरः ॥१४॥ इत्थं पौरवचः शृण्वन्त्रत्याक्षीत् कोशला नका। दवदन्त्या समं वाष्पैः कृतहारावतारया ॥१४२॥ दवदन्ती नलोऽवादीद् देवि! यामः क सम्मति । भैमी वभाषे मे तातोऽतिथीसूय पवित्र्यताम् ॥१४॥ हयान प्रेरयामास सारथिः कुण्डिनं पति । कर्मावलीभिवाऽलङ्घयां पर्याटदटवीं नलः ||१४४॥ भल्लीहताच्छभल्लादीन् भिल्लास्तत्र ददर्श सः । दधाविरे नलं दृष्टा ते शरासारवर्षिणः ॥ १४५॥ नलोऽप्याकष्टखनः सन् दधावे नाहलान् प्रति । सत्त्वशुद्धौ वदाकृष्टघटसर्प इवाधिकम् ॥ १४६ ॥ भैमी भुजे नलं धृत्वा वभाषे नाथ! कीदृशः । ईदृशेषु तवाक्षेपो गजस्य मशकविच ॥ १४७ ॥ भरताजयोसिक्तो निस्त्रिंशत्रपते हायम् । सुनियोगी कुनियोगे योजितः स्वामिना यथा ॥१४८॥ भैमी तानभि हुंकारान् सुमोच शरदारुणान् । तेषां प्रभावात् ते काकनाशं नेशुर्जनंगमाः ॥१४९॥ बभूवतू रथाद् दूरे तौ तु तानभिगामुकौ । वयोरथ रथो भिल्लैरपरैरपहारितः ॥१५०॥ करे भीमसुतां कृत्वा पर्याटीदटवीं नलः । तस्या विश्वासनायेव ददानो दक्षिणं. करम् ॥१५१|| वैदी दर्भसंदर्भगर्भकामत्पदद्वयी । सानुरागामिवारण्यं चक्रे रुधिरविन्दुभिः ॥१५२।। .
१७२ मल्लिनाथमहाकाव्ये- . ५६॥ .. पट्टबन्धं तदा पादद्वन्दे तस्या नलो व्यधात् । मार्गस्तावानतिक्रम्यो यतस्तस्य प्रभावतः ॥१५३॥ तरुमूलंसमासीनां भीमजा निरवापयत् । स्वकीयपरिधानस्य चालयनश्चलं नलः ॥१५४॥ त्रिपत्रपत्राण्यादाय पुटीकृत्य जलं नलः । समानीयाऽपाययत् ता प्रवृद्धं नेत्रवारिभिः ॥१५५॥ विनयाद् भीमतनयाऽपृच्छदेतद् कियढूनम् । नलोऽवादीदिदं देवि ! गव्यूंतीनां चतुःशती.॥१५६॥ क्रोशानां विंशतिश्वकाऽऽवाभ्यांमुल्लविताऽद्य तु . एवं वार्तयतोः सूर्योऽस्तमापाऽनित्यतां वदन् ॥१५७।। अशोकपत्राण्युञ्चित्य दवदन्त्याः कृते नलः । अनल्पं कल्पयाश्चक्रे तल्पमल्पेतराशयः ॥१५८॥ . उवाच दयितां देवि ! तल्पे निद्रासखी भव । स्थास्यामि जागरूकोऽहं यामिन्यायामिको यथा १५९।। संव्यानाध नलस्तल्पे निक्षिप्य प्रेयसीं ततः । असूघुपत् , सा सुष्वाप स्मृत्वा पश्चनमस्कृतिम् ॥१६॥ निद्राजुषि दवदन्यां ध्यायति साथ नैषधिः । व्यसने श्वशुरस्याथ घिग् मां शरणयायिनम् ॥१६१॥ तद्वल्लभायपि त्यक्त्वा विधाय हृदयं दृढम् । आत्यानमेकमादाय गच्छाम्यूर्ध्वमुखो वरम् ॥१६२॥ मन्ये न हि स्यादेतस्याः सुशीलाया उपद्रवः । सतीनामगरक्षाकृच्छीलमेकं यतो मतम् ॥ १६३ ॥ छुर्या चिच्छेद संन्यानं भैम्याः प्रेम्णा समं नलः । स्वरक्तेनालिखद्भीमसुतावनेऽक्षराणि च ॥१६॥ अयमध्वा विदर्भेषु याति न्यग्रोधरोधसा । कोशलेषु तु तद्वामस्तद्गच्छेस्त्वं यथारुचिं ॥१६५॥ लिखित्वेति नलः क्रोशनिभृतं निभृतक्रमः। . .
पछः सर्गः :॥ १७३ पटयन मिलिमशीन नतो गन्तुं समुधतः ॥१६६।। नागर गयो नन्दो यारश्या दवदन्त्यभूत् । बलिया पुनरप्पागान् पनिगद्रविणों यथा ॥ १६७ ।। दध्यापिनि नलो हप्ता भगी भूनलमायिनीम् । अधिनयनि मान्नं शुद्धान्न नपधेरहो । ॥१६८।। हा! गाविधा दुष्टकाणा मे युगकर्मणः । दमागेनामी मामा मुलीनयं कलानिधिः ॥१६९।। । शिग मागधर्मकाणं ममभापकरइ भृशम् । शुशीया धर्मशीय यदेवं मारिना दशाम् ॥१७॥ निनीयमा समीप मयि रात्लपि टीन। भूमी निगम्धिनी शेने क्षेत्रस्थेच कुटुम्बिनी ॥१७॥ एनामेकाकिनी मुक्त्वाऽन्यनो यास्याम्यहं यदि । मन्य जीविनगनस्या भविता मे पुरस्सरम् ।।१७२।। रक्ता भक्ता परित्यक्तुं युक्ता नेयं ततो मम । दुर्य वापि मुखं चापि तत् सहिप्ये सहतया ॥१७३।। अधया स्वपितुर्गेई बलाद् नेष्यति मामियम् । वरं पितृपतेर्गेई न तु पत्नीपितुहम् ।।१७४। तस्मादह गमिष्यामि गृहीत्वा नटरं निजम् । मान्यां यमाज्ञां विभ्राणा यात्वसौ सुजनालये ||१७५।। निश्चित्यति नलथिने तामुलइन्य विभावरीम् । प्रबोधकाल बंदर्यास्त्वरितस्त्वरितं ययौ ॥१७६।। प्रभाते मारुते वाति कमलामोदमेदुरे । भीमपुत्री निशाशेपे स्वप्नमीशमैक्षत ॥१७७|| यदहं सहकाराधिरूढाऽस्मि वनदन्तिना । भग्नः स तु समागत्य भ्रष्टा तस्मादई ततः ॥१७८॥ प्रबुद्धा भीमतनया नाऽपश्यद् नलमग्रतः । समाललोके ककुभः सा विक्रीता च शिष्टवत् ॥१७९॥ . - १७४ मल्लिनाथमहाकाव्ये- न अकारुण्यादरण्यान्तः कथं मां वल्लभोमुचत् । भविष्यति गतो मन्ये क्षालनाय मुखस्य वा ॥१८॥ यद्वा पलाशपालाशैरानेतुं विमलं जलम् । मन्मुखक्षालनायाऽयमुद्यतो नैति यद् नलः ॥१८॥ तदेव हि सरोरण्यसरिद्विरिगुहादिकम् । नलं विनाऽखिलं युक्तमनलं तनुते दृशोः ॥१८२॥ एवं चिन्ताचान्तचेतोवृत्तिदिंगवलोकिनी । खमाणेशमपश्यन्ती खप्नस्याऽर्थ व्यचारयत् ।।१८॥ सहकारो नलो राज्यं फलं परिजनो लयः । दवदन्ती परिभ्रष्टाऽस्म्यहं तद् दुर्लभो नलः ॥१८॥ स्वप्नार्थनिश्चयादेचं दध्यौ भीमसुता हृदि । भर्ता न च राज्यं मे दैवा भ्रष्टा द्वयोरपि ॥१८५॥ तारतारस्वरं तारलोचना विललाप सा । दुर्दशापतितानां वलानां रुदितं वलम् ॥१८॥ प्राणनाथ ! किमु त्यक्ता भक्तचित्ताऽपि हि त्वया । कथं भारं तवाकार्ष यद्वा चरणवन्धनम् १ ॥१८७॥ तिरोहितोऽथ वल्लीभिः परिहासेन यद्यसि । तद्देहि दर्शनं स्थातुं न चिरं रुचिरं यतः ॥१८८॥ याचते दवदन्त्येषा वनदेव्यः ! प्रसीदत । मियं भियस्य मार्ग वा मह्यं दर्शयताऽनघाः! ॥१८९॥ त्वं धरित्रि ! भव द्वैधं पवन ! त्वं गृहाण माम् । दूरं जीवित ! गच्छ त्वं प्राणास्त्यजत मां लघु।।१९०॥ इति भीमसुता वृक्षान् सिञ्चन्ती नयनोदकैः। स्वयं तेनेऽश्रुपुष्पाणि दुःखमेकं फलं परम् ।।१९१॥ न जले न स्थले नैव छायायामातपे न च । लवोऽपि हि सुखस्याऽभूचिन्तयन्त्या नलं नलम्॥१९२।। वं संस्थाप्य स्वयं वस्त्रान्तेन वक्त्रममार्जयत् ।
पष्ठः सर्गः।
१७५
तत्राक्षराणि संवीक्ष्य मुदिताऽवाचयत् ततः ॥१९३।।
अचिन्तयच्च तच्चेतोगंगनाङ्गणचन्द्रिका ।
ध्रुवमस्म्यन्ययाऽऽदेशमसादोऽयं कथं मम ॥ १९४ ॥
ततः स्वभर्तुरादेशं दधाना हृदयेऽधिकम् ।
ब्रजामि खपितुर्घाम पत्युनं तु पति विना ॥१९५||
मया सह पियेणाऽपि गन्तव्यं वाञ्छितं पुरा ।
विशेषेणाद्य तद् यामि पत्यादेशात् पितुहम्।।१९६॥
ध्यात्वेति गन्तुमारेभे दवदन्ती वटाध्वना ।
वीक्ष्यमाणाऽक्षराण्युच्चैमूत नलमिवाध्यतः॥१९७॥
व्याघ्रा व्यानमुखाः सर्योः सदर्या नगजा गजाः।
ज्वाला जागुलिका सिंहीवदस्या दूरतोऽभवन्||१९८॥
अन्येऽप्युपद्रवास्तस्या यान्त्या वर्मनि नाऽभवन् ।
पतिव्रताव्रतं स्त्रीणां क्षेमस्थेमावहं यतः॥ १९९ ॥
सा. लोलकुन्तला खेदजलाविलवपुर्लता।
समुत्सुकपदं यान्ती हृयमान्ती महाशुचा ॥२०॥
दर्भविद्धपदमोबद्रक्तसिक्तमहीतला ।
सार्थमेकमुदैशिष्ट विष्टपर्धिनिकेतनम् ॥ २०१ ॥
अचिन्तयच्च सार्थोऽयं मया लब्धस्तरण्डवत् ।
अरण्यार्णवनिस्तारस्तदनेन भविष्यति ॥ २०२॥
यावत् तस्थावसौ खस्था दवदन्ती महासती।
तावत् तं रुरुधुः साथै कचिदागत्य दस्यवः ॥२०॥
आयान्तीमिति च दृष्टा ततश्चौरचमूममूम् ।
चकारविभयां लोको यतः स्याद् भाजने भयम्।।२०४॥
मा मा यूयं भयं लोकाः ! कुरुध्वं सार्थवासिनः ।
तदीयगोत्रदेवीवावादीदिति नलपिया। २०५॥
तस्करानवद् रेरे। यात दूरं दुराशयाः ।।
अन्यथाऽनर्थसार्थो वः सार्यो यद् मया॥२०६॥
१७६ मल्लिनाथमहाकाव्ये- वदन्ती. दवदन्ती ते समाकर्पोऽपि तस्कराः। मन्यन्ते स्म तृणायाऽपि नैते दैवपराहताः ।।२०७॥. ततस्तदीयाहङ्कारतिरस्काराय भीमजा । क्षेमकाराय सार्थस्य हुंकारान् मुमुचे दृढान् ।।२०८॥ श्रुत्वा तदीयहुंकारांननश्यन्नथ दस्यवः।'. कोदण्डदण्डटकारात् कान्दिशीका द्विका इव ॥२०९॥ सार्थेशोऽथावदद् नत्वा तां निजा. जननीमिव.। .. कासि भामिनि क्रमाच्च परिभ्राम्यसि कानने१२१० सवाष्पलोचना.चामै वान्धवायेव भीमज़ा.! यथावस्थं स्ववृत्तान्तं सर्व कथितवत्यथ ।। २११.॥ अवोचत् सार्थनाथस्त्वं.खामिनी जननी.च मे । खामिनी नलपत्नीति जननी जीवदानतः ॥२१२॥ तनिष्कारणवन्धोस्ते किङ्करोऽस्मीति संलपन् । . . नीत्वा पटगृहे तस्या वरिवस्यापरोऽभवत् ॥२१॥ स्फूर्जथुध्वनिवगर्जन्नूर्जितं तर्जितोष्मकः । वृष्टिं चकार विस्तारिधारं धाराधरस्ततः ॥ २१४ ।। स्थाने स्थाने परीवाहाः प्रवहन्तो वभुस्तदा ।.. पान्थसार्थस्य रोधाय खातिका इव निर्मिताः॥२१५॥ तदा निरन्तरं वृष्टिरभवद् दिवसत्रयम् । दवदन्ती पुनस्तस्थौ सुखं सार्थेशमन्दिरे ॥२१६॥ विरते वारिदे वृष्टेर्दवदन्ती सती तदा । विहाय सार्थमेकाकिन्यपि यातवती ततः ॥२१७॥ प्रयान्ती पथि भैमी च कजलश्यामलद्युतिम् । कर्तिकानर्तनव्यग्रकर पिङ्गलकुन्तलम् ॥२१॥ ज्वालाकरालवदनं भयङ्करभयङ्करम् । मूर्ते यममिवाद्राक्षीद् राक्षसं क्षुद्रमानसम् ।।२१९॥ (युग्मम्) . : . पष्ठः सर्गः। १७७ उवाच भक्षयिष्यामि त्वामेवं राक्षसोऽवदत् । अभीता सावद् धैर्याद् मंदीयं वचनं शृणु ।।२२०॥ 'मृत्युभीरकृतार्थानां कृतार्थाया न में भयम् । मा मां संस्पृश, शापेन संस्पृशन न हि नन्दसि ॥२२॥ धीरां वाचमिति श्रुत्वा तस्याः स रजनीचरः । उवाच तुभ्यं तुष्टोऽस्मि किं करोमि ददामि किम्। २२२।। सोचे तुष्टस्तदाऽऽख्याहि कदा मे पतिसङ्गमा । रक्षोऽवादीद् द्वादशाब्दे प्रवासदिवसादिवः ॥२२३॥ समायातः खयं वेश्म पितुस्तव नलः किल । मिलिप्यति तवः खेदं हृदये मा कृथा वृथा ॥२२४॥ (युग्मम्) वंचे भणसि त्वचातसदनेऽथ नयाम्यहम् । सोचे सहान्यपुंसाऽहं न यामि खस्ति वेऽस्तु तत् २२५ आविष्कृत्य निजं रूपं यथागतमथागमत् । जग्राहाऽभिग्रहानित्यं भैमी द्वादशहायनीम् ।।२२६॥ विकृती रक्तवासांसि ताम्बूलं च विलेपनम् । भूपां च न ग्रहीष्यामि नलस्य मिलनावधेः ॥२२७॥ गिरिदयों तदाऽत्येतुं पाषं भैम्यवास्थित ! विम्वं श्रीशान्तिनाथस्य निर्ममे मृण्मयं खयम् ॥२२८॥ स्वयमानीय पुष्पाणि तत्पूजयति भीमजा। वपम्मान्ते च कुरुते पारणं माशुकैः फलैः ॥२२॥ भैमीमपश्यन् सार्थेशांऽप्यागादनुपदं तदाः। अहंदूचिम्बं पूजयन्तीं तां दृष्ट्रा मुमुद इदि ना२३॥ तानत्वा धरणीपृष्ठे निविष्टो. भीमज़ाऽपि तम्। विधाय स्वागतप्रश्न सार्थनावमवार्तयत् ।।२३१॥ तापसास्वत्रं चाऽऽजग्मुः: केऽपि वासनवासिनी .
१ ૭૮ मल्लिनाथमहाकाव्ये- . तस्थुस्तयोन्मुखा. अब्दशब्दं श्रुत्वेव केकिन ॥२३२।। अनवच्छिन्नमम्भोभिरम्भोऽम्भोदस्तथाऽमुचत् ।। तापसाच मिया मोचुः क वृष्टिर्वच्यतामसौ ॥२३॥ प्रस्तांस्तान् वीक्ष्य भैम्यूचे हो! मा भैष्ट तापसाः। कुण्डं तत्परिषौ कृत्वेत्युवाच च सतीतमा २३४॥ । सती यद्यसि तत्कुण्डादन्यतोऽब्द:-प्रवर्षतु।: तयेत्युक्ते तृणच्छन इव कुण्डेऽम्बु नाऽपतत् ॥२३५॥ . वर्षत्यब्दे तथा शैलः सर्वतो निर्जरोऽभवत् ।.. उपत्यका गिरनार पूरेणेव च निर्मिता ॥२३६।।... तेऽध्यायन् रूपशक्तिभ्यां भांत्यसौ देवतेव. ना... 'पप्रच्छ सार्थवाहस्तां को देवः पूज्यते त्वया ॥२३७।। तस्मै भैम्याऽऽख्यदहन्तं सर्वमं त्रिजगद्गुरुम् । पूजयन्त्यहमस्म्यत्र श्वापदेभ्यो बिभेमि न ॥२३६।। खरूपमहतो धर्ममाईतं च दयापरम् । सार्थवाहाय साऽऽचख्यौ स च तं प्रत्यपद्यत ॥२३९॥ निजधर्मनिरागेण तं धर्म तापसा अपि । प्रत्यपथन्त, को रबलामे काचं न हि त्यजेत् ॥२४॥ सार्थवाहः पुरं तत्र तापसानां प्रबोधतः । आख्ययां तापसपुरमिति ख्यातं विनिर्ममौ ॥२४॥ 'कृतार्थीकर्तुमर्थ ख स साथैशः समर्थधी। अर्हतः शान्तिनाथस्य तत्र चैत्यमचीकरत् ॥२४२।। सार्थतापसलोकोऽस्थात् तत्राऽहद्धर्मकर्मठः । निशीथे त्वन्यदा भैमी तेजोऽपश्यच्छिलोचये ॥२४॥ आगच्छतो गच्छतवादाक्षीद् देवासुरानपि. .. तत्तथाऽपश्यदुत्पश्यः सुरलोकोऽपि विस्मितः॥२४४॥ सवणिक्तापसा भैमी. समारूढाऽथ पर्वतम् ।। . मुनि केवलिनं. तत्रापश्यच्च सुरसेवितम् ॥२४५॥.' -- . .
'पष्टः सर्गः। १७९ सं चन्दित्वा तदीयांजहिले न्यपददादरात् । " यशोभद्रगुगस्तस्य ने नत्वा स्थितवान् पुरः ॥२४६॥ "सिंदकेसर्यपि ज्ञानी कारुण्यक्षीरसागरः । चकार देशनां संशनि शनमहापधीम् ॥२४७॥ दुष्मापं प्राप्य मानुष्यं कार्य सफलमादरात् । देवपूजादयादानधर्मकर्मविधानतः ॥२४॥ धर्ममाख्याय स ज्ञानी पोचे कुलपति ततः । भम्या यः कथितो धर्मः स विधेयः सदा हदि।।२४९॥ अनया हि तदा रेखाउण्डे वारिधरो धृतः। अस्याः सतीत्वात् सांनिध्यं कुर्वते देवता अपि।।२५०॥ साथैशस्याऽस्य सार्थश्च स्तेनेभ्यो रक्षितोऽनया । तदियं नान्यथी त दवदन्ती महासंती ।।२५१।। तदा च कश्चिदागत्य ततः केवलिन नतः। भमीमुवाच भद्रेऽस्मिन् वनेई नापसोऽभवम् ॥२५२।। कर्परी नामतः सोऽहं पञ्चामितपसोत्कटः । वचसाऽपि न सानन्दं तापंसाः किं नु मां व्यधुः १२५३ 'निर्गतोऽहमहंकारा तत्सत्यज्य तपोवनम् । गच्छन् समुत्सुको रात्री पतितोऽस्म्यद्रिकन्दरे ॥२५॥ गिरिदन्तास्फालितस्य दन्ताः सर्वेऽपि मेऽपतन् । ससरात्रं स्थितो वार्तामपि चक्रुर्न तापसाः ॥२५॥ गते मय्यभवत् तेपां सुखं प्रत्युत मे ततः । तेपामुपरि कोपोऽभूद् गिरिदाहसहोदरः ॥२५६।। ज्वलत्कोपेन मृत्वाऽहामिहारण्येऽभवं फंणी। त्वां दंष्टुं धांवितोऽपाठिं नमस्कारस्त्वयाऽनघे॥२५७॥ कर्णागतेन. तेनाऽहं जामुल्येवान्यतोऽगमम् । भेकादिजीवाहारेण जीवामि च त्रिले स्थितः ॥२५८|| अन्यदेत्य कथ्यमानं त्वयाऽश्रीपमहं शुभे। . -
१८०
मल्लिनाथमहाकाव्ये-
जीवहिंसांकराः पापा जायन्ते दुःखभाजनम् ।।२५९॥
तदाकाहमध्याय सर्वदा जीवघातकः।
पापाऽऽत्माहं द्विजिहोऽस्मि कागतिर्भविता ममा२६॥
एवं च ध्यायतो मेऽभूत्सान्तिरुद्वीक्ष्य ताफ्सान् !
जातिस्मरणतोमा भवं सस्कृतकार्यवत् ॥२६॥
ततो वैराग्यकल्लोलपरिप्लावितमानसः।
आहारस्य परीहारमात्मना कृतवानहम् ।। २६२.॥
सोऽहं विपद्याऽऽद्यकल्पे देवोऽस्मि कुसुमप्रभः।
नाम्ना विमाने कुसुमसमृद्धे स्वत्मसादतः ॥:२६३ ।।
अभविष्यद् न.ते धर्मवचनं चेच्छ्वोऽतिथिः।
कुत्रागमिष्यं पापात्मा. तदाऽहं.दुर्गतौ गतौ.॥२६॥
अवधिज्ञानतो देवि ज्ञात्वा त्वामुपकारिणीम् । .
समागम धर्मशीले धर्मपुत्रोऽस्म्यहं तव ॥ २६५ ॥
इत्युक्त्वा तापसानू.स तापसवरः सुरः।
मदीयकोपाऽऽचरणं क्षमध्वं परमाहताः। ॥२६६ ॥
'प्रोच्यति तदहेम॑ कृष्टा गिरिगुहागृहात् ।
उल्लम्ब्योवाच कोपी स्यात् सर्पोऽहं करो यथा २६७||
तदा परमवैराग्याद् नत्वा केवलिन मुनिम् ।
तापसानामधिपतिर्ययाचे व्रतमादरात् ॥ २६८ ॥
केवल्याख्यद् यशोभद्रमूरिर्दास्यति ते व्रतम् ।
गुरुर्ममाप्यपृच्छच्च ज्ञानिनं कुलपः पुनः॥२६९ ॥
किं तारुण्यभरे दीक्षा गृहीता भावतः प्रभो ! |
केवल्यूचे कौशलेशः कूवरोऽस्ति नलानुजः ॥२७०॥
तस्याऽस्म्यहं सुतः, सङ्गानगरीशश्च केशरी।
अदाद्मह्यं निजां-पुत्री वन्धुमत्यभिधानिकाम् ।।२७१॥
'पित्राऽऽदेशादहं तत्र गतस्तां परिणीय च ।
अनन्यागच्छता मरिष्टोऽयं मूर्तिमान शमः ॥२७२॥
पष्ठः सर्गः। .. १८१ देशनान्ते मया पृष्टः प्रमाणं निजकाऽऽयुपः। पश्व दिवसा इत्याचख्यौ च गुरुरेप मे ॥२७॥ : श्रुत्वेति मां विपण्णाऽऽस्य प्रेक्ष्य प्राह गुरुः पुनः। नाभहाण दीक्षा स्त्र संकाहमपि मुक्तिदा ॥२७४॥ पत्रव्याऽस्मादिहाऽऽयातः पर्वतेऽस्य निदेशतः । पातिकर्मक्षयादेव केवलज्ञानमासदम् ।।२७५॥ एवं चदन्नयोगिस्थः केवली सिंहकेसरी। हत्वा चत्वारि कर्माणिं जगाम परमं पदम् ॥२७६॥ चक्रे शरीरसंस्कारः मुरैस्तस्य शुभाशयः । यशोभद्रान्तिके दीक्षामग्रहीत् तापसाधिपः ॥२७७|| दवदन्त्यप्युवाचवं स्वामिन् । दीक्षा प्रदेहि मे। अवदच्छीयशोभद्रो भोग्यं कर्माऽस्ति भैमि ! |२७८॥ उत्तीर्य पर्वतात् तत्र नगरे पुरवासिनाम् । सम्यक्त्वाऽरोपणं चक्रे गुरुः श्रीशान्तिमन्दिरे॥२७९॥ धर्मध्यानपरा वस्त्रगात्रमालिन्यधारिणी। गुहागृहान्तरे निन्ये सप्ताब्दी भीमनन्दिनी ॥२८॥ कश्चित् पान्योऽन्यदा तस्य कथयामास ते पतिः। . मया दृष्टस्तदाऽऽकर्ण्य साऽभूद् रोमाञ्चदन्तुरा॥२८॥ कर्णयोरमृतं कोऽयं निपिञ्चति वदन्त्यदः । भैमी तमन्वधाविष्ट स तु कापि तिरोदधे ।।२८२॥ : पान्थस्य च गुहायाश्च सा भ्रष्टा कष्टपूरिता । खिन्ना खिन्ना महारण्ये निपपात नलप्रिया ॥२८३॥ बने निपतिता. तस्थौ ययौ भूयो रुरोद च । किं करोमि क.यामीति विमृश्य चलिता गुहाम् ।।२८४॥ दृष्ट्वा यान्ती च राक्षस्यां मृगी सिंहिकयेव सा। प्रसारितवदनया ग्रसिष्य इति चौच्यत.॥२८५ भैम्यूचे भव.भमाशा त्वं राक्षसि ! ममास्ति चेत् । । .. .
१९८२ मल्लिनाथमहाकाव्ये- अर्हन् देवो गुरु साधुनॅनों धर्मो नलः पतिः ॥२८६॥ तच्छुत्वाऽस्या महासत्या वचनं तां प्रणम्य च । क्षणादन्तर्दधे स्वमसमायातेव राक्षसी ॥२८७॥ यान्त्यग्रे निर्जलामेकां नदीमैक्षत भीमजा। तृषासंशुष्यचाल्वोष्ठी गतनिष्ठीवनाऽवदत् ।।२८८॥ मम चेद् मानसं सम्यक् सम्यग्दर्शनवासितम् । तदत्र लोलकल्लोलविमलं जलमस्त्विति ॥२८९॥ इत्युक्त्वा पाणिना हत्वा भूतलं तत्क्षणाज्जलम् । आचकर्ष पपौ तच्च पीयूषपरिपेशलम् ॥२९॥ ततो यान्ती परिश्रान्ता न्यग्रोधाऽधो न्यविक्षत । पान्थाः सार्थीऽऽगता दृष्ट्वा तामूचुः कासिसुन्दरि ॥२९१ सोचे सार्थात् परिभ्रष्टा निवसामि वने ननु। यास्यामि तापसपुरं तद्वदं मम कथ्यताम् ।।२९।। ते प्रोचुः शक्नुमो नैवं मार्ग दर्शयितुं वयम् । आयान्ती सह गृहीमस्त्वां कोपि हि पुरे पुनः॥२९३॥ तां तैः संहगतां सार्थे सार्थेशः करुणाम्बुधिः। धनदेवाधिपोऽपृच्छत् कासि किं वनवासिनी ॥२९४॥ भैम्याऽऽख्यद् वणिजः पुत्री पत्सा सह पितुहे। चलिता शयिता रात्रौ त्यक्ता तेंनाऽस्मि दैवतरि९५॥ खवन्धुभिरिवैभिश्च त्वदीयपुरुषैः समम् । ... समायातासि तत्कापि स्थाने वसति मा नय ।।२९६॥ सार्थनाथोऽवदंदई गन्ताऽचलपुरे वरे । वत्से ! सह मया गच्छ जनकेनेव निर्भया ॥२९७॥ इत्युक्त्वा तां सार्थनाथो यानस्थामनयत्यधि । एकस्मिन्नद्रिकुले च संनिवेशं न्यवीविशत् ॥२९८॥ भैमी तत्र स्थिता सुप्ता निशि शुश्राव केनचित् । पठ्यमानं नमस्कारं सार्थवाहमुवाच तु ॥२९९।। ...
पष्ठः सर्गः। १८३ .. नमस्कार पठन् कश्चिच्छ्राद्धः साधर्मिको ममः। पार्थेऽस्य सोदरस्येव गच्छामि भवदाज्ञया ।।३००॥ सार्थेशेन स्वपित्रेव सह भैमी तदाश्रयम् । ययौ श्राद्धमपश्यच्च कुर्वाणं चैत्यवन्दनम् ॥३०१॥ : आचैत्यवन्दनं तत्र तस्थुपी नलवल्लभा । ददर्श च ववन्दे च विनील विम्बमर्हतः ।।३०२॥ अपृच्छद् भीमजा भ्रातर्विम् कस्यैतदर्हतः। स आख्यद्यामे ! श्रीमल्लेस्तीर्थपस्य भविष्यतः॥३०॥ एतद्विम्बं पूजयामि यतस्तत्कारणं शृणु । काञ्चीपुर्या वणिगस्मि ज्ञानी तत्रैकदाऽऽगमत् ॥३०॥ धर्मगुप्ताभिधस्तत्रोद्याने स समवासरत् । नत्वाप्रच्छि मया कमिंस्तीर्थे मे नितिर्विभो॥३०५॥ सोचे च त्वं दिवश्च्युत्वा मिथिलानगरीश्वरः । प्रसन्नचन्द्रो भूत्वा श्रीमल्लितीर्थे हि सेत्स्यसि ॥३०६॥ ततः प्रभृत्यहं मल्लिनाथे भक्तिभरोद्धरः। पटस्थं पूजयाम्येतद्विम्बं धार्मिकसत्त्मे ! ॥३०७॥ , : इत्याऽऽख्यायाऽवदद् भैमी स्वसः! का त्वं कुतोऽसिवा तस्मै श्राद्धाय वृत्तान्तमस्याः सार्थाधिपोऽवदत् ॥३०॥ . श्रावकोऽपि हि तहुश्खदुःख्यूचे मा.कृथाः शुचम् ।.. साथैशस्ते पिता भ्राता चाहं तिष्ठ सुखेन तत् ॥३०९।। सार्थनाथोऽपि.हि तत्प्रातः प्राप्तोऽचलपुरे पुरे । मुक्त्वा भीमसुतां तत्र जगाम खयमन्यतः ॥३१०॥ तुपातुरा पुरद्वारवापीमध्यं विवेश. च। लक्ष्यमाणाऽम्बुहर्मभिः सा साक्षादिव देवता॥३१॥ वाम तस्या.क्रम. गोधा जग्राह जलमध्यगम् । त्रिनमस्कारपठनप्रभावेण मुमोच... ॥ ३१२॥ प्रक्षाल्याऽऽस्यक्रमकरं वारि हारि निपीय च। !
.
-
१८४.
मल्लिनाथमहाकाव्ये-
निर्गत्य वाप्यास्तत्मान्तवलभ्यां सी न्यविक्षत॥३१शा
-तंत्र राइ ऋतुपर्णोऽस्ति तस्य चन्द्रयशाः मिया ।
तत्कुम्भदास्य आनेतुं वारि वायां समागमन् ॥३१४॥
मियों हसन्यो विभ्रत्यः स्वमूर्धमुकुटान् कुटान् ।
तास्तां निरूपयामासू रूपतो देवतामिव ॥३१५।।
असंरूपं च रूपं च वीक्षमाणाः शनैः शनैः।
विविशुंश्च निरीयुश्च निनिमेषविलोचनाः ॥३१६॥
चेव्योंऽयं कथयाश्चक्रुर्गत्वा परमया मुदा ।
तां देव्यै चन्द्रयशसे प्राप्तां कल्पलतामिव ॥३१७॥
: ऊचे चन्द्रयशांश्चेटी.. समानयत तामिह ।
चन्द्रवत्याः सुंताया मे भविता भगिनीव सा॥३१८॥
वापीसमीपे यातास्ता नगराभिमुखी ततः।
वीक्षामासुभीमसुता मूर्तामब्धिमुतामिव ॥३१९॥
: ऊचुच, ऋतुपर्णस्य देवी चन्द्रयशोऽभिधा ।
त्वामाडयति पुत्रीत्वस्नेहमादधती हृदि ॥३२०॥
तद् देहि दुःखं दुःखेभ्यः खामिनीसविधे चल।
छलं ते शून्यचित्तायाभूतादिभ्योऽन्यथा भवेत् ॥३२१॥
: इति तद्वचसाऽचालीदालीढा लेहतन्तुभिः ।
ताभिविनीतवाक्याभिभूपावासमनीयत ॥३२२॥
:नं चन्द्रयशसं मातृष्वसारं वेत्ति भीमजा।
वाल्यदृष्टां भागिनेयीं देवी चन्द्रयशा अपि ॥३२३॥
दूरतोऽपि परं धर्मपुत्रीमेम्णा ददर्श ताम् ।
इटेनिष्टे च यद् रागविरागौ तनुते मनः ॥३२४॥
: गाद चन्द्रयशोदेव्या सखजे नलवल्लभा ।
वैदर्भी तु ववन्दे तत्पादौ विनयवामना ॥३२५॥
पृष्टा देव्या च काऽसि त्वं कथयामास भीमजा।
यत्पुरा सार्थनाथाय तदेव हि सवाप्पडक् ॥३२६॥
. . पाठः सर्गः। १८५ देवी भैमीमुवाचाऽथ भद्रे! मम.निकेतने। पुत्री चन्द्रवतीव त्वं सुखं तिष्ठ शुभाशये ! ॥३२७॥ देवी चन्द्रवतीमचेऽन्यदा भैमीच भात्यसौ। कथमीहगवस्था स्यात् तस्याः साहि नलमिया ॥३२८॥ योजनानां शते साईं तस्या आगमनं कुतः । ततो मदीयजामेयी नेयं, साश्यमस्ति तु ।। ३२९ ॥ सा च राज्ञी चन्द्रयशा ददौ दान निरन्तरम् । दीनदुःस्थितपात्रेभ्यो नगरस्य वहिर्सवि ॥ ३३० ॥ राझी व्यज्ञपि वैदाऽन्यदा दानं ददाम्यहम् । अत्र सत्रे कुतोऽप्येति पतिर्यदि पुनर्मम ॥ ३३१ ॥ तदाऽऽद्यपि तदादेशाद् दबदन्ती यथास्थिति । ददी दानं खेदसहा नलाऽऽगमनवाया || ३३२ ॥ सा प्रत्येकमपृच्छच्चाऽनुदिनं दानवाञ्छिनम् । ईगीहरु पुमान् कोऽपि भवद्भिः काऽप्यदृश्यत ॥३३३॥ सत्रस्था सान्यदा चौरमपश्यत् वलरक्षकैः । बद्धं पुरो नीयमानं रसद्विरसडिण्डिमम् ॥३३४॥ तलाध्यक्षानपृच्छञ्च भीमजाऽनेन कीहशः। अपराधोऽत्र विदधे वध एवं विधोऽस्य यत् ॥३३५॥ चन्द्रवत्या जहारैप पापो रत्नसमुद्रकम् । तेनासौ कर्मणा वध्यभूमिका देवि ! नीयते ॥३३६॥ चौरो भैमी प्रणम्योचे त्राणं स्वामिनि ! मे भव । भैम्यप्यभयदानेनाऽभ्यनन्दत् तं मलिम्लुचम् ॥३३७|| सतीत्वश्रावणापूर्व निर्जलाच्छोटनेन सा। तद्वन्यास्त्रोटयाश्चके तुमुलचोत्थितो महान् ॥३३८॥ तच्छ्रुत्वा ऋतुपर्णोऽय जगाम सपरिच्छदः । विमितः सस्मितं भैमीमवंदद् वदतां वरः ॥३३९॥ शुभाशयरित्यर्पि। . २४ .. मल्लिनाथमहाकाव्ये- सर्वत्र क्षत्रधर्मोऽयं नीतिमार्गप्रवर्तकः । कार्ये यद् भूभुजा दुष्टशिष्टनिग्रहपालने ॥३४०.. करं हि गृह्णता राज्ञा. रक्ष्यः.सर्वोऽप्युपद्रवः ।। . अन्यथा तेन पापेन लिप्यते भूपतिः स्वयम् ॥३४॥ पुत्रि ! चेदस्य चौरस्य निग्रहं न करोम्यहम् ।.. तनिर्भयो जनः सर्वः सर्वखं हरति द्रुतम् ॥३४२॥ भैम्यूचे तात ! मदृष्टौ चटितः सन् शरीरभृत् । ' मार्येत. परमाईत्यास्तन्मे की कृपालुता ॥३४३॥ तदयं क्षम्यतां मन्तुर्यन्मां शरणमाश्रितः। धर्मपुत्र्या वचनेन तं स्तेनममुचद् नृपः ॥३४॥ मुक्तमात्रः स तो मेने जननी नतमस्तकः। 'माणदानोपकारं तं सरभित्यं नमोऽकरोत् ॥३४५।। भैमी तमन्यदाऽपृच्छत् कोऽसि त्वं कुत आगतः । स ऊचे तापसपुरे वसन्तस्याऽमि कर्मकृत् ॥३४६॥ पिङ्गलो नामतः सोऽहं व्यसनस्यैकमन्दिरम् । जग्राह खात्रखननात्तस्य सर्वस्वमन्यदा ॥३४७॥ मार्गे गच्छन् सलोवश्च लुण्टाकै ण्टितोऽस्म्यहम् । स्वगुरुस्वामिमित्रस्त्रीद्रोहिणं कुशलं कियत् ॥३४८॥ अत्राऽऽगत्यर्तुपर्ण च सेवमानः कुधीरहम् । अपश्यमन्यदा रत्नसमुद्गमहरं ततः॥३४९।। स्वमाच्छायोत्तरीयेण निर्गच्छन् भूमुजा स्वयम् । विज्ञातोऽस्मि न हि प्रज्ञावतामज्ञातमस्ति किम् ॥३५०॥ नृपादेशातलाध्यक्षद्धोऽथ वधहेतवे । नीयमानस्त्वामपश्यं मोचितोऽस्मि त्वयाऽनघेमा३५१॥ किञ्च तापसनगराद्तायामीश्वरि ! त्वयि । ज्वरात इव तत्याज भोजनं सार्थनायकः ॥३५२॥ - १ मास्थितः इति च।
पष्ठः सर्गः १८७ संबोधितो यशोभद्रमूरिणा स कथंचन। :: सप्सरात्रोपवासान्ते बुभुजे सपरिच्छदः ॥ ३५३ ॥ चसन्तश्चान्यदा देवि ! गतः कूबरभूपतिम् । दोकनस्य ढोकनेन तुष्टोऽसै नरनिर्जरः ॥ ३५४ ॥ दत्त्वा छत्रादिकं चक्रे तं तापसपुरेश्वरम् । चसन्तः श्रीशेखर इत्यभिधां चापि भूपतिः ॥३५५॥ विसृष्टो भूभुजा भम्भापिकीस्वराविकखरः। वसन्तपुरमायासीजनचित्तद्रुतोषकत् ॥ ३५६ ।। भवदीयप्रसादेन दवदन्ति ! महासति ।। राज्यं प्रकुरुते माज्यं स तापसपुरेश्वरः ।। ३५७ ।। भैम्यूचे निजदुष्कर्ममर्मभेदनकर्मठम् । व्रतं गृहाण सोऽप्यूचे करिष्ये तब भाषितम् ।।३५८॥ तत्रायातं साधुयुग्मं प्रतिलभ्य च भीमजा। अवादीद्ययं योग्यस्तदस्मै दीयतां व्रतम् ।।३५९|| तेन योग्य इति मोक्ते ययाचे पिङ्गलो व्रतम् । सयो देवगृहे नीत्वा प्रव्रज्या ग्राहितश्च सः ॥३६० ॥ अन्यदा कुण्डिनेशेनाऽश्रावि यनलभूपतिम् । राज्यं छूते हारयित्वा कूवरो निरवासयत् ॥३६१ ॥ स विवेश महारण्ये दवदन्त्या सहैव हि । मृतो जीववि वा नैवं ज्ञायते काऽप्यसौ गतः ॥३६२।। पुष्पदन्त्यपि राजी तं श्रुत्वा भीमरथाद् नृपात् । अरोदीद्रोदयन्ती सा रोदसी प्रगुरुखरम् ।। ३६३ ।। ततो भीमरथो राजा हरिमित्राभिषं बहुम् । निदिदेश प्रतिदिशं तयोः शुद्धिनिबन्धनम् ॥३६४ ॥ सर्वत्र शोधयंस्तौ तु सोऽथाञ्चलपुरे ययौ। अपश्यद् भूपति चन्द्रयशसामच्छि चाऽऽदरात् ॥३६५।। कञ्चित् सपरिवारायाः कुशलं मामकखसुः।। . , .१८८ मल्लिनाथमहाकाव्ये- सोऽवोचत्कुशल देव्या नलभम्योस्तु चिन्त्यताम्।।३६क्षा किंववीषीति भंणितो देव्या वाक्यपटुवटुः । द्यूतमभृतिको कर्णव्यथिका न्यगदत् थाम् ॥३६७॥ ततश्चन्द्रयशा देवी रुदती तंत्र संसदि । नेत्रयोः कजलमिव प्रमोदं निरवासयत् ॥ ३६८ ॥ तत्सर्व दुःखितं प्रेक्ष्य बुमुक्षाक्षामकुक्षिकः । वटुः सत्रं ययौ यस्माद् भोज्यं हि प्रथम फलम् ॥३६९॥ निविष्टस्तत्र भोज्याय भोज्यशालाधिकारिणीम् । निजखामिसुतां वीक्ष्य तामुपालक्षयच सः ॥३७० वबन्दे चरणो देव्याः स्फुरद्रोमाञ्चकञ्चुकः। विकासिनयनाम्भोजो विस्मृतक्षुदुवाच च ॥३७१॥ केयं तव दशा देवि ! दवान्तव्रततेरिव । यत् सूत्रयसि सत्रेऽत्र कर्म कर्मकरोचितम् ॥३७२॥ दिष्टया दृष्टिपथं यांता जीवन्तीत्यभिधाय सः। उत्थायावर्धयच्चन्द्रयशोदेवीमवीतधीः ॥ ३७३ ।। अस्ति खस्तिमती दानशालायां देवि ! भीमजा । सत्रेऽकुण्ठसमुत्कण्ठाऽऽयाता चन्द्रयशास्ततः ॥३७॥ देवी चन्द्रयशा भीमनन्दिनी नेत्रनन्दिनीम् । आशिश्लेष चिरायातनलिनीमलिनी यथा ॥३७५॥ ऊचे च वत्से ! सुव्यक्तैर्लक्षणैर्लक्षिताऽपि हि। नैवोफ्लक्षिताऽसि त्वं विग्मामज्ञानवञ्चिताम्।।३७६।। त्वयापि हि कथङ्कारं वश्चितास्मि गतस्मये ।। दुर्दशायामागतायां का लज्जा मामन्दिरे ॥३७॥ वत्से ! नलस्त्वया मुक्तस्त्वं मुक्ताऽसि नलेन वा। तेन त्यक्ताऽसि, तं तु त्वं महासति न मुञ्चसि||३७८॥ त्वं चेत् त्यजसि दुर्दैवादवस्थापतितं पतिम् । ततः सुधारुचेविम्बात्कृशानुकणवर्षणम् ।। ३७९ ॥
पष्ठः सर्गः। १८९ किमेप नैपधेर्धर्मस्तत्कुले वा कुलीनता महासती प्रिया मार्गे त्यज्यतेऽलजचेतसा ॥३८०॥ तव दुःखानि गृहामि कुर्या भ्रामणकं तव । मम मन्तुं क्षमस्वैनं.यन्मया नोपलक्षिता ।। ३८१ ॥ तमोचिधुन्तुदच्छेदः कृष्णपक्षनिशाखपि । क वा विशेषको वाले! तव भाले सहोद्भवः ॥३८२।। इत्युक्त्वा स्वमुखाम्भोजनिष्ठीवनजलेन सा। भैम्या ललाट माटि स्म जनौ मूर्ध्नि पुनः पुनः।।३८३॥ शशीवाम्भोदनिर्मुक्तः प्रदीप इव पोधितः । विशेषको विशेषेण तत्क्षणं दियुते झुता ॥ ३८४ ॥ ततश्चन्द्रयशा देवी स्वपाणिभ्यां नलमियाम् । मन्धोदकैरनपयत् तां साक्षादिव देवताम् ॥३८५।। वसने श्वेतमसणे चन्द्रिकानिर्मिते इव । देव्या समर्पिते भैमी ततः परिदधे मुदा ॥ ३८६ ॥ देवी करे गृहीत्वा तां निषसाद सदस्यथ । ऋतुपर्णान्तिकेयासीत् तदा चास्तं गतो रविः॥३८७॥ तदा च तमसापूरि निःशेषमपि पुष्करम् । वर्षासु वारिपूरण वामलूर इवाधिकम् ॥३८८॥ सभायां भूपतेनैव प्रविवेश तमीतमः । वारितं भीमजापुण्ड्रतेजोभित्रिभिर्यथा ॥ ३८९ ॥ उवाच राजा यातेऽस्तं पद्मिनीमाणवल्लभे । दीपिकाया अभावेऽपि देवि! कौतस्कृती झुतिः ॥३९॥ राज्ञी जन्मोद्भवं भैम्यास्तिलकं तददर्शयत् । कौतुकात् तत् प्यधाद्राजा सदश्च तिमिरं तदा ॥३९१॥ दूरेकृत्य ततः पाणिमृतुपर्णनरेश्वरः। पप्रच्छ पितृवद्राज्यभ्रंशप्रभृतिका कथाम् ॥३९२॥ १ दिवाकर एतदपि। २ सदसि ध्वान्तमप्यभूत, दमपि । .
१९० मल्लिनाथमहाकाव्ये- दवदन्त्यपि हिं तादारभ्याऽकययत्कयाम् । निजनेत्रपयःपूरैस्तन्वन्ती पङ्किलामिलाम् ।।३९शा राजा निजोचरीयेण तस्याः समाऱ्या लोचने । उवाच वत्से!मा रोदीः कश्चिदेवादलीन हि ॥३९॥ अत्रान्तरे सुरः कश्चित् स्वर्गादागत्य संसदि । तत्रोचे भीमतनयां विनयाद् रचिताञ्जलिः ॥ ३९५॥ स्वामिन्यहं तबादेशातस्करः पिङ्गलाहयः। प्रवज्य विहरन् यातः श्रीतापसपुरेऽन्यदा ॥३९॥ श्मशानमध्ये माध्यस्थ्येनाऽस्यां प्रतिमया ततः। चितानलोऽनिलोट्तो महेहमदहत् तदा ॥ ३९७ ॥ तयापि धर्मध्यानस्यो विधायाऽऽराधनामहम् । पिडलो नामयेयेनाऽजनि स्वर्गे सुरोत्तमः ॥ ३९८ ।। वां नन्तुमागतो ज्ञात्वाऽवधिज्ञानाद् महासति ।। त्वयालि रक्षितः साक्षान् शिक्षितो दीक्षितोऽस्म्यहम् ॥ तत्र पाइप्रसादेनाऽसई खर्गसदां पदम् । इन्युक्त्वा स्वर्णकोटीः स सप्त दृष्ट्वा तिरोदये ॥४०॥ तच्छ्रुता चालुतं भूपः समत्सयमनत्ययम् । अधर्ममर्मव्ययकं प्रपेड़े धर्ममाहतम् ॥ ४०१ ।। हरिमित्रोऽन्यदा चन्द्रयशसा सहितं नृपम् । अनुज्ञाप्याऽनयद् भीमतनयां कुण्डिनं प्रति ॥४०॥ आगच्छन्ती सुतां श्रुत्वाऽभ्यागमद् भीमभूपतिः । वाजिना वायुबाजेन स्नेहन च पुरस्कृतः ।। ४०३।। आयान्तं पितरं वीक्ष्य भैमी चरणचारिणी । तत्पदाम्भोजयोःमेरमुखाम्भोजाऽपतत्ततः॥४०४॥ तयोमिलितयोर्नेत्रनीरैः असमरस्तदा । भूरिपशाऽभवद् भूमिः पयोदसमये यथा ॥ ४०५॥ पुष्पदन्ती तदायातां दवदन्ती निजागजाम् ।
पष्ठः सर्गः १९१ आश्लिष्यति स्म सुदृढ राजहंसीव पमिनीम् ॥४०६॥ मुक्तकण्ठं च तत्कण्ठे लगित्वाऽरुददुच्चकैः । नलपिया, भवेद् दुःखमिष्टे दृष्टे नवं यतः ॥ ४०७ ॥ पक्षाल्य नयनान्युच्चैारिणा विनिवारणम् । चक्रुः परस्परं दुःखसमुगिरणपूर्वकम् ।। ४०८॥ पुष्पदन्ती सुतामङ्कमधिरोप्य जगाद च । दिष्ट्या दृष्टाऽद्य जीवन्ती भाग्यं नोऽद्यापि वर्तते॥४०९॥ समयं गमयन्त्यास्ते सुखेन न चिरादपि। मिलिष्यति नलः सर्वं जीवो जीवल्लभेत हि॥४१०॥ हरिमित्राय भूपालो ग्रामपञ्चशतीं ददौ । पुरे तत्रोत्सवं चक्रे देवगुर्वर्चया समम् ॥ ४११ ॥ विदर्भाधिपतिः प्रोचे वैदर्भीमथ सादरम् । नलो मिलिष्यति यथा तथा वत्से विधास्यते॥४१२॥ तदा च भीमजा मुक्त्वा परिभ्राम्यन् वने नलः । कक्षात् समुत्थितं धूममपश्यद् गगनातिगम् ॥४१३॥ धूमो निमेषमात्रेणाप्यभूतु कीलाकरालितः। बने समुद्यस्कुसुमकिंशुकौघभ्रमप्रदः॥४१४ ॥ दह्यमानेषु वंशेषु क्रीडत्सु श्वापदेषु च । शब्दाद्वैतमभूत् तत्र कल्पान्तभ्रान्तिकृत्तदा ॥४१५ ॥ नलो दवानले दीप्तेऽथाऽौषीत् पुरुषखरम् । रक्ष मां नलभूपालेक्ष्वाकुवंशसमुद्भव ! ॥४१६ ।। अकारणोपकर्तारः सन्तो यदि तदाऽपि हि । उपकारं करिष्यामि तुभ्यमभ्यधिकं नृप। ॥४१७॥ मार्गणः शब्दवेधीव तं शब्दमभिजग्मिवान् । वदन्तं रक्षरक्षेत्यद्राक्षीद सपै तदन्तरे ॥ ४१८॥ नलोऽपृच्छत् कथं वेत्सि मम नामान्वयौ ननु । , विद्यते, इत्यपि।
'.
१९२
मल्लिनाथमहाकाव्ये-
कुतो वा मानुषी भाषा तवेयं नयनश्रवः! ॥४१९।।
स आख्यदवधिज्ञानात्सर्व विदितमेव मे ।
प्राग्भवे मनुजोऽभूवं तेन भाषा च मानुषी ।।४२०॥
नलोऽवलोक्य साकम्पं सकृपस्तं सरीसृपम् ।
समाक्रष्टुं निचिक्षेप निजां वल्लीवने पटीम् ।। ४२१॥
भूलग्नमञ्चलं प्राप्य पन्नगोऽवेष्टयद् भृशम् ।
पटीलनं परसुखोत्कर्षी राजा चकर्ष तम् ॥४२२॥
गत्वा दूरमदेशे तं दवस्याऽगोचरेऽमुचत् ।
मुच्यमानेन दष्टश्च पन्नगेन करे नलः॥ ४२३ ॥
नलोऽवदत्तमाच्छोट्य भवता स्वोचितं कृतम् ।
पयः पाययते योऽपि युष्माभिः सोऽपि दश्यते।।४२४॥
नलस्यैवं ब्रुवाणस्य प्रससर्प विषं तनौ ।
वपुः कुन्जमभूचेन वार्धकेनेव बाधितम् ॥ ४२५ ॥
सूक्ष्मक्रमकरग्रीवो कम्बोष्ठः पिङ्गकुन्तलः ।
अलिञ्जरोदरो मूल् वीभत्सोऽभूद्विषाद् नला४२६॥
अचिन्तयच्च रूपेणाऽनेन मे माणितं वृथा।
तद् गृहामि वरं दीक्षामप्यक्षयफलमदाम् ।।४२७॥ .
नलस्य ध्यायतश्चैवं मुक्त्वा सर्पः स सर्पताम् ।
दिव्यालङ्कारसम्भारधारकोऽभूत् क्षणात् सुरः ।।४२८॥
उचे च मा कृथाः खेदं पितासि निषधस्तव ।
दीक्षाग्रहणतो ब्रह्मलोके वृन्दारकोऽभवम् ॥ ४२९ ॥
ज्ञात्वा चावधिनाऽवस्थां तवेमां मायया मया ।
समस्ताङ्गेषु वैरूप्यं विहितं ते हितं ननु ॥ ४३० ।।.
दण्डिताः खण्डिता दासीकृताश्च भवता द्विषः ।
ते त्वामनुपलक्ष्यत्वात् पीडयिष्यन्ति नाधुना ॥४३१॥
अधुनापि विधेयो न त्वया दीक्षामनोरथः ।
अद्यापि भरतस्या भोक्तव्यं भवता यथा ॥४३२॥
- - घष्ठः सर्गः। १९३ ; . कथयिष्यामि ते दीक्षादिन दैवज्ञवद् दिनम् । अन्यच्च श्रीफलं रबकरण्डं च गृहाण भोः॥४३३॥ यदा.कार्य खरूपेण प्रस्फोठ्यं श्रीफलं तदा। दृष्ट्वा तदन्तरे देवदूध्ये रनकरण्डकम् ॥ ४३४ ॥ उद्धाव्याऽऽभरणान्यस्य मध्ये वीक्ष्य क्षणादपि । परिदध्या यथारूपं देवरूपनिभं भवेत् ।। ४३५ ।। । (युग्मम् ) अपृच्छत्तं नलस्तात ! कस्नुषा वेऽवदत् सुरः।।" ततः स्थानात् तदुदन्तं विदर्भागमनावधि ॥४३६|| अवोचच्च नलं वत्स! किं भ्राम्यसि बनान्तरे।. सियासवि भवान् यत्र तत्र स्थाने नयाम्यहम् ।।४३७॥ '(युग्मम् ) नलोऽवोचच्छंशुमारपुरं प्रापय मा प्रभो।। देव एवं विधायाऽऽशु सुधाशनपदं ययौ ॥ ४३८ ।। नलोऽपि तत्पुरोपान्तोद्याने चैत्यं व्यलोकयत् । तदन्तर्नमिनाथस्य प्रतिमां प्रणनाम च ॥ ४३९ ॥ . शुंशुमारपुरस्याऽन्तर्यावद् विशति कुब्जकः । दालानं समुन्मूल्य भ्राम्यति स्म मतङ्गजः ॥ ४४०॥ स्फुरन्तं नाघिसेहे स समीरमपि वीरगम् । आचकर्ष करेणोच्चैः सनीडनीडजानपि ॥४४१॥" गजाजीवा गजस्याऽस्य पृष्ठिं दूरेण वत्यजुः । उद्यानक्षानाक्षेपात् स वभञ्ज प्रभञ्जनः ॥ ४४२ ।। भूपतिर्दधिपर्णोऽथ शिमं वोपरि स्थितः । मतं मतङ्गजं कर्तुमसमर्थो वशवदम् ॥ ४४३ ॥ - अवादीदिति विस्पष्ट गर्ज यः कुरुते वशम् । ददामि वाञ्छितं तस्य कोऽप्यस्ति द्विपशिक्षक:४४४॥ कुंजस्वद्वाक्यमाकये करिणं प्रत्यधावत । .. २५
१९४
मल्लिनाथमहाकाव्ये-
गजश्च गर्जन् पर्जन्य इवाऽभ्यागाई नलं प्रति ॥ ४४५ ॥
नियते म्रियते कुब्ज इति लोके वदत्यपि ।
शिक्षावशेन खेदित्वा वशीचक्रे.नलो दिपम् ।।.४४६॥
वैनतेय इवोत्पत्य तमारूढो मतगजम् । :
आलोक्यमानो लोकेन तदाऽऽचर्यस्पृशा शा ॥ ४४७ ॥
सूपक्षिप्तस्वर्णमालाराजमानगलो नलः ।. . .
व्यालमालानसंलीनं चक्रे नाड्योचतार च ॥ ४४८.॥
अकृतमणिपातः सन्नुपान्ते नृपतेरसौ।
उपाविक्षदयामाक्षीदित्यं पृथ्वीपतिर्नलम् ॥ ४४९ ॥
गमशिक्षासुदक्षोसि बेत्स्यन्यदपि किञ्चन ।
'स आचख्ये वशि सूर्यपाका रसवतीं नृप ! ॥ ४५० ॥
राजा कुब्जाय साचर्य तन्दुलादि तदाऽऽर्पयत् ।
यत्राकृतिस्तत्र गुणा इति व्यय विचिन्तयन् ॥ ४५१॥
विद्या सौरी स्मरन् मुक्त्वा चरून सूर्यातपे नलः।
दिव्यां रसवतीं निष्पादयांचक्रे क्षणादपि ॥ ४५२ ॥
बुभुजे सपरीवारो रसवत्या तया नृपः ।
श्रमच्छिदाकृतानन्दा तामास्वाद्याऽवदच सः॥४५३ ।।
'नलं विना रसवतीमीशी वत्ति नापरः ।।
पुराऽप्यावादिता सेयं सेवमानन तं मया ॥४५४॥
तत्कि नलोऽसि नैताहग नलः क्रोशशताएकात् ।।
कास्याऽऽगमः क चैकत्वं क च रूपविपर्ययः ॥४५५||
अथ कुब्जाय भूपालोऽदाइ वस्त्राभरणादिकम् ।
टङ्कलक्षमपि ग्रामशतपञ्चकमादरात् ।। ४५६ ॥
ग्रामग्राम :विमुच्यान्यत् सर्व जग्राह कुब्जकः ।
राना जगाद किं कुन प्रयच्छामि तवापरम् १ ॥४५७॥
कुब्जोऽयोचद् निजाज्ञायां मद्याऽऽखेटौ निवारय ।
राजाऽपि तत्तया चक्रे तदभ्यर्थनया समुत् ॥ ४५८ ॥
पष्ठः सर्गः। १९५ : . अन्यदा कुन्जमेकान्तस्थितमूचे क्षितीश्वरः। कत्वं कुतः क वास्तव्यो निवेदय ममाग्रतः ॥४५९॥ कुन्जवाख्यत् कोशलायां नलभूपस्य सूपकृत् । हुण्डिकाख्या, समीपेऽस्य मयासंशिक्षिताः कला:४६॥ नलः पराजितो छूते कूवरेणाऽखिला भुवम् । बभूव भैमीमादाय वनवासी मुनिर्यथा ॥ ४६१ ॥ . व्यपवत नलस्तत्राऽहं तु त्वां समुपागमम् । कूवरं न तु शिवाय गुणहीनं च वञ्चकम् ॥ ४६२ ।। तया च वार्तया भूपः क्रन्दित्वा करुणखरम् । नलमेतक्रियां कुर्वन् कुब्जेनैक्ष्यत सस्मितम् ॥४६॥ दधिपर्णनृपोऽन्येार्दत केनापि हेतुना । प्रैपीद् मित्रत्वतत्वैपी कुण्डिनेश्वरसनिधौ ॥ ४६४ ।। दूतोऽन्यदाऽऽख्यद्-भीमाय मदीयवामिनोऽन्तिके। सूर्यपाकरसवतीविदस्ति नलसूपकृत् ।। ४६५ ॥ : तंदाकर्ण्य तदोत्कर्णा दवदन्त्यवदद् नृपम् । तात! प्रेष्य चरं विद्धि कीडग्रूपः स सूपकृत् ॥४६६॥ ततः स्वामिसमादेशकुशलं कुशलं द्विजम् । समाहूय समादिक्षद् नृपतिर्नलशुद्धये ॥ ४६७ ॥ स पृथु पृथिवीनाथाऽऽदेशं प्राप्याञ्चलद् द्विजः । शुंशुमारपुरं पाप शकुनैः सूचितप्रियः ॥ ४६८ ।। अवजत् कुब्जकाभ्यर्णे प्रच्छं प्रच्छमतुच्छधीः । निषण्णश्च विषण्णश्च तं प्रेक्ष्य विकृताकृतिम् ॥४६९॥ अध्यायत् क नल कैप क स्वर्ण क च पिचलम् १३ तबलभ्रान्तिरेतस्मिन् भीमपुच्या वृथैव हि नाना निश्चिनोमि तथाप्यनमिति चित्ते विचिन्त्य च । नलापश्लोकयुगलं स श्लोकयुगलं जगौ ॥४७! पापिष्ठानां निकृष्टानामसंत्वानां शिरोमणिः। ..
मल्लिनाथमहाकाव्ये- एक एव नलः पत्नी सती तत्यांज यो वने ॥४७२सा ऋजुमेकाकिनी सुप्तां मियामुत्सृज्य गच्छतः। विलीनौ भुवि लीनौ वा कयं पादौ न नेपः१॥४७॥ शुनः पुनरिति श्रुत्वा पठन्तं तं पियां स्मरन् । नलो रुरोद नेत्रोदविन्दुस्यन्दितभूतलः॥४७४ा : किरोदिषि द्विजेनेति प्रोक्त प्रोचेश्य कुब्जक: १). स्वगीतं करुणास्फीतं कर्ण्यमाकये रोदिमि ॥४७५॥ द्विजः कुब्जेन पृष्टश्च श्लोकार्थ, न्यगढ़त् कथाम् ।। द्यूतादारभ्य वैदर्भीगमनं कुण्डिनावधि ॥४७॥: . अन्यच्च शुशुमारेशदूतो भीमनृपाग्रतः। सूर्यपाकरसंवतीतच त्वामचीकयत् ॥ १७७ ॥ श्रुत्वेति त्वां नलं मन्यमाना भैमी व्यसर्जयत् । मामहं तु निरीक्ष्य त्वां गताशः खेदमासदम् ॥४७८|| नलो न त्वमिति व्यर्थो मेऽभूच्छकुनसंचयः । पदमेतद् मुघा मन्ये शकुनो दण्डनायकः ॥४७९॥ । मियां ध्यायन् रुदन् कुब्जो नीला घाम तमब्रवीत् । महासत्वकृयाख्यातुःस्वागतं किं करोमिते?॥४८॥ इत्युक्त्वा स्नपयित्वाऽय भोजयित्वा च तं द्विजम् । नेपथ्यं दधिपणेन दत्तं तस्मै ददौ ततः॥४८॥ कुशलस्तमनुज्ञाप्य कुण्डिनं पुरमाययो । ययानिरीक्षितं कुब्जमाख्यद् भीमरथाय च ॥४८२॥ कुन्जस्य गजशिक्षादिवृत्तं दानावधि द्विजः । . श्लोकश्रवणखदं च भीमभैम्योः पुरोऽवदत् ।।४८३॥ भैम्यूचे तात ! दोपेण कर्मणो भोजनस्य वा.! रूपं सस्पं न प्राप्तो निश्चित क्रियया नलः ॥४८४॥ नलं विनाऽस्ति नाऽन्यस्य गजशिक्षासु कौशलम् । मूर्यपाकपरिज्ञानंदानं वाऽद्भुतमीदृशम् ।।४८५।।
-: षष्ठः सर्गः। १९७ केनाऽपि-तदुपायेन ताताऽत्राऽऽनय कुजकेम् । यथा करोम्यहं तेन तं निरीक्ष्य परीक्षणम् ।।४८६|| भीमोऽवदत्तवालीकं समारभ्य स्वयंवरम् । विसृज्य दूतमाकार्यो:दधिपर्णः समुत्सुकः ॥४८७॥ ततस्तेज़ सहाऽशान्ता तव श्रुत्वा स्वयंवरम् । नारीनिकारंजान्योऽपि सहेत, किमु चेन्नला|४८८ अश्वविद्याविदा तेनाऽऽनेष्यते दधिपर्णराद् । महावलेन नः चिरात् तूलपूल इवात्र सः ॥ ४८९ ।।. उक्त्वेति प्रेषितो दूतः शुंशुमारेशमाहत । श्वो लग्नमिति श्रुत्वाऽभूद्दीनो जालगमीनवत् ।।४९०॥ तच्छ्रुत्वा कुब्जको दध्यौ. भैमी नैच्छत् परं पतिम् । यदीच्छेत् तर्हि गृह्णीयात् कस्तां मय्यपि जीवति ॥४२१॥ तद् द्रक्ष्यामीति समीतिविलक्षं स्वापराषतः । पुनः स्वयंवराक्रोधि तदाभूद् नलमानसम् ॥४९२॥ कुपिडने दधिपणं च पदभिर्यामर्नयाम्यहम् । यथा मासङ्गिक यानमनेन सह संभवेत् ।। ४९३ ॥ ध्यात्वेत्युवाच राजानं ब्रूहि खेदस्य कारणम् । स्थगितानां मौक्तिकानां नायः संजायते यतः ॥४९४|| नृपोत्रदद् यशम्शेपो नलोऽभूत्वा स्वयंवरः। :: वैदा भविताऽहूतः पयाम्या याम्यहं कथम् ।।४९५/ : कुब्जो जगाद भूपाल ! विषादं मा कृथा वृथा । अश्वान् समार्पय रथं कुण्डिनं त्वां नये लघु ॥४९६॥ 'गृहाण.स्वेच्छयेत्युक्त राज्ञा कुब्जोऽग्रहीद रथम् । सर्वलक्षणसंपूर्णी जात्यावधौ च स स्वयम् ।।४९७॥ सर्वत्र विज्ञं विज्ञाय ते दध्यौ दषिपर्णराद् । असावनन्यसापान्यो सुरो विद्याधरोऽथवा ॥४९८॥ रथं विधाय युक्ताऽश्वं कुमो नृपमयोचत । .
- . मल्लिनाथमहाकाव्ये- त्वां नेष्यामि रथारूढ निशान्ते कुण्डिनं पुरम् ॥४९॥ राजा स्थगीभृच्छत्री च कुजचामरधारिणौ । पडप्यमी. रयं सजं तमारुरुहुरुत्सुकाः ॥ ५००.॥ तं करण्ड.च बिल्वं च संनिबध्य कटीतटे। वाहानखेटयत् कुन्जः स्मृतपञ्चनमस्कृतिः ॥ ५०१ ।। .नलेन चावविद्याविदा स भाजितो रथः। जगाम मनसा सार्ध मनोरथ इवाङ्गवान् ॥५०२॥ दधिपोतरीयं च रथरहोऽनिलेरितम् । साक्षाद् भैमीसमायोगमनोरथ इवापतत् ॥ ५०३ ॥ कुब्ज बभाषे भूपालो विलम्बय रथं क्षणम् । उड्डीय यातां वातेन यथा गृहाम्यहं पटीम् ॥५०४॥ स्मित्वा कुब्जोऽवदत् कास्ति पटी तव घराधव ! १॥ पटीपातादतिक्रान्तं क्रोशानां हि शतं हयैः ॥५०५|| मध्यमौ तुरगावेती, भवेतां यदि तूत्तमौ । एतावता व्रजेता तौ ततः क्रोशशतद्वयीम् ॥५०६।। दधिपर्णोऽथ दूरादप्यक्षक्षमदैवत । कुन्जमूचे फलान्यस्य कथयाऽगणयनपि ॥ ५०७ ।। व्याहत्तो दर्शयिष्यामि कौतुकं ते, नलोऽवदत् । । मा भैर्मय्यश्वविद्याविदि कालविलम्वतः ।।५०८॥ एकमुष्टिमहारण नलः फलान्यपातयत् । अष्टादश सहस्राणि कथितानि तथाऽभवन् ॥ ५०९ ॥ ददौ कुन्जोऽश्वहृद्विद्या दधिपर्णाय वय॑धीः । विद्या च फलसंख्यायाः स तस्माद् विधिनाऽऽददा५१०॥ स रथः कुण्डिनाभ्यर्ण यातः मातनलेरितः। निशान्तेऽय निशान्तस्था भैमी स्वप्नं तदैवत ॥५११॥ तपित्रेकथयञ्चैवं जाने निर्वृतिदेवता । -कोशलोद्यानमानीयाऽदर्शयद् गगनाङ्गणे ।। ५१२ ।।
षष्ठः सर्गः..
१९९
आरूढा फलितं चूतं तदादेशात् तयाऽम्बुजम् ।
इस्तेर्पित च मे, पक्षी पुराऽऽरूढोऽपतत् ततः ।।५१३॥
भीमोऽवोचव सुते.! स्वप्नो मनोझोऽयं तथाासी।
देवता पुण्यराशिस्ते उद्यानं राज्यमद्भुतम् ॥५१४), :
चूतारोहः पतिसङ्गोऽपतत् पक्षीव कूवरः।
प्रातः स्वप्नेक्षणाद् मन्ये मिलिष्यत्यय ते नलमा५१५॥
(युग्मम्)
तदा पूरगं कश्चिद् दधिपर्णमजिज्ञपत् ।
भीमोऽभ्यागम्य चालिङ्गयातिथ्यं कृत्वा वमब्रवीत् ५१६
सूर्यपाको रसवीं सूदस्ते वेत्ति कुब्जकः ।
तद् दर्शय ममाश्चर्य पूर्यता वार्तयाऽनया ॥५१७॥
दधिपर्णोऽवदत् कुन्जं चक्रे रसवती स च ।
भीमोऽपि बुमुजे स्वादं विज्ञातुं सपरिच्छदः ॥५१॥
स्थालमोदनसंपूर्ण तदानाय्य नलपिया।
सुजेऽथ तदास्वादात् कुब्ज ज्ञातवती नलम् ॥५१९॥
पुरा मे ज्ञानिनाऽख्यातं भारते सूर्यपाकवित् ।
केवलं नल एवात्र तदर्य निश्चित नलः ।। ५२०॥
तदेष तिलकं कुर्वषिव मां स्पृशत द्रुतम् ।
नलाङ्गुल्या यतः स्पृष्टाऽहं स्यां पुलकमालिनी॥५२॥
भैमीवक्षो नलोस्पृक्षदगुल्या च क्षणादभूत् ।
वपुः सरोजिनीनालमिवात्युत्कटकण्टकम् ।। ५२२ ॥
निद्राणाऽहं तदाऽत्याजि यास्यसि काधुना पुनः।
भैमीत्युक्त्वा करे धृत्वानलं निन्ये गृहान्तरे ॥५२॥
नलो विल्वकरण्डाभ्यां बसनाभरणादिकम् ।
परिधायाऽभवत् सद्यः सुरवद् निजरूपमृत् ॥ ५२४ ॥
यथारूप नलं भैमी ताडयित्वा कटाक्षितैः ।
चित्तचौरं चिरात् मार्स सुजपाशवन्ध सा ॥५२५॥
. २०.०० मल्लिनाथमहाकाव्ये- पुनारि समायान्तं नलगालिङ्ग्य भीमराद् । निजे सिंहासनेऽध्यास्य स्मेरास्यकमलोऽवदत् ।।५२६॥ इदं देहमिदं गेहमियं लक्ष्मीरियं सुता ।। त्वदीयं सर्वमध्येतत्तद् ब्रूहि करवाणि किम् ॥५२७॥ दधिपर्णोऽवदद् नत्वा नलं, नाथोऽसि नाथ! मे।। तत्ससीद ममान्यायकार्य सर्व सहस्व तत् ॥५२८ ॥ अत्रान्तरे च सार्थेशो धनदेवः समागमत् । द्रष्टुं भीमरथं भैम्योपलक्ष्य बहुमानतः ॥ ५२९ ।। वसन्तमृतुपर्ण च तत्मियां तत्सुतामपि । सर्वानाऽनाययद् भैमी तत्मत्युपंचिकीर्षया ॥ ५३० ॥ कृतसत्कृतयस्तेऽथ बन्धुवद् भीमभूभुजा। तस्थुः प्रमनसो मासमातिथेयर्नवैर्नवैः ॥ ५३१ ।। अन्यदा तेषु सर्वेषु सत्सु भीमस्य संसदि । कश्चिदगाद् दिवो देवः स.भैमीमभ्यधादिति ॥५३२॥ भद्रे! कुलपतिः सोऽहं यस्त्वया बोषितः पुरा । विमाने केशरेऽभूवं नाम्ना श्रीकेशरः सुरः ॥५३३॥ त्वत्मसादादसौ प्राप्ता देवद्धि दिवैभवा । उक्लेति वृष्ट्वा स्वर्णस्य सप्तकोटीस्तिरोदधे ॥५३४॥ भीमर्तुदधिपर्णश्रीवसन्ताद्या नरेश्वराः । नलं राज्येऽभिषिषिचुः श्राद्धा विम्वमिवाहतम्॥५३५॥ खानि खानि नलादेशाद् बलानि सबलानि ते । हेलया मेलयामासुर्भूभुजो भुजशालिनः ॥ ५३६ ।। ततः परवलद्वेषी मृर्तिमान् मेघवाहनः । चचाल पृथिवीपालो नलः सवलवाहनः ।। ५३७ ॥ दिनैः कतिपयैः सैन्यमदैन्यः संन्यवेशयत् ।। अयोध्यावहिरुयाने नामतो रतिवल्लभे ॥५३८ ॥ . .
पष्टः सर्गः। २०.१ कृवरोऽय नलं ज्ञात्वा समायानं भयातुरः। बभूव गतसर्वखं इव संशून्यमानसः ॥ ५३९ ।। नलोऽय कुवरं प्रोचे पार्शः क्रीड मया समम् । द्वयोरपि थियोरेकः पतिः कोऽपि भवत्विति ।।५४०॥ मुदितः कुवरो घृतं मेने तत्र जिताहवः । क्रीडन् नलेन जिग्ये च भाग्येन विजयः करे।।५४१॥ नलंन कुबरः क्रूरो राज्यं जित्वा जितक्रुधा । अलंकृत्य निजं राज्यं यावराज्यमलम्भ्यत ॥ ५४२॥ नला प्राप्य निजं राज्यं तदा भीमसुतायुतः । मुद्दा हग्दत्तसन्यानि पुरीचैत्यान्यवन्दत ॥ ५४३ ।। कोशलिकान्युपादाय कुशलप्रश्नपूर्वकम् । सेवायां कुशला भूपाः कोशलाधीशमभ्ययुः ॥५४४॥ आखण्डल इवाखण्डशासनः खण्डयन रिपून् । त्रिखण्डं भरत रक्षन् सहस्राद्धीमलइयत् ।। ५४५ ॥ स्वर्गादागत्य निपधोऽन्यदा नलमबोधयत् । न युज्यते रतिः कर्तु विपयेषु विपेप्निव ॥ ५४६ ॥ मत्रज्याकालकथनं प्रतिपन्नं पुरा तव । गृहाण तदहो। दीक्षां जीवितव्यतरोः फलम् ॥५४७॥ भवे भवे भवेद् दुःखं यच्चतुतिके भवे । तद् द्विधाविषयग्रामत्यजनं भज नन्दन! ॥ ५४८ ॥ निपिद्धोः निपधेनैप नैपपिविषयान् प्रति । इयेप दीक्षामादातुं दातुं पात्रे धनानि च ॥५४९।।, अथ तत्राऽऽगमत् सुरिजिनसेनाभिधः सुधी। चित्रं यः सावधिनिः परं निरवधिर्गुणैः ।। ५५९ ॥ तत्र भैमीनलौ गत्वाऽवन्दिपातां तमाहती। पृष्टः प्राच्यभवावस्था कथयित्वाऽवदव पुनः ।। ५५१ ।। यशसुरभि सद्वर्ण खादजन्म क्षपान्तरे । . .
२०२ मल्लिनाथमहाकाव्ये- साधुमदत्चदुग्धात् ते राज्यमाज्यमिवाभवत् ॥ ५५२ ॥ यत्पुनादशघटीं खेदितो मुनिपुङ्गवः । तदेष विरहो जज्ञे युवयोदशाब्दिकः ॥ ५५३ ।।.: श्रुत्वेति तौ न्यस्य राज्यं तनये पुष्कलाभिषे । गुरोस्तस्माद् व्रतं लात्वा पालयांचक्रतुश्विरम् ॥५५४॥ भोगेच्छुरन्यदा भैम्यां नलोऽत्यज्यत सरिणा। सुरलोकात् समागत्य निषधेन प्रबोधितः॥ ५५५ ।। विदधेनशनं कर्तुमसमर्थो व्रतं नलः । नलानुरागतश्चके दवदन्त्यपि तद् तथा ॥ ५५६ ॥ नलो मृत्वा कुबेरोऽभूद् भीमजा दयिताऽस्य च । तत्रापि हि तयोः स्नेहो महानजनि पूर्ववत् ।। ५५७ ॥ च्युत्वाऽथ पेढालपुरे हरिश्चन्द्रनृपौकसि । भैमी लक्ष्मीवतीकुक्षौ सुता कनकवत्यभूत् ॥५५८॥ वयंवरे तां च वरेण्यमूर्तिरथोपयेमे दशमो दशाईः। सापार्मिकी धर्मकथासु लीना कलङ्कहीनासमयं निनाय॥ पौत्रे सागरचन्द्रनामनि बलस्योचैर्गते स्वर्गिा गेहस्थापि भवस्थितिं सविनया सा चिन्तयन्ती मुहुः । ज्ञानं केवलमाप्य नेमिनिकट संपाप्य मासं दिना- न्याधायानशनं च नितिमथ प्रक्षीणकर्माऽगमत् ॥५६॥ सम्यक्त्वं परिपाति रक्षति जगद् नैवाऽनृतं भाषते नादत्तेऽन्यधनं ह्यदत्तमिह यो ब्रह्मवत सेवते । यो घुम्नं प्रमितं दधाति विनयं धत्ते च साधुबजे : सिद्ध्यत्येषजनो यथेष दवदन्त्येभिर्गुणभूषिता ॥५६१॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाके सम्यक्त्वफले दवदन्ती- महासतीचरितव्यावर्णनो नाम षष्ठः सर्गः ।।
आम् सप्तमः सर्गः। সা না নানা সামাখনা । नान नागमम्पायरशन्नः गंध्रुनो मया ||१|| भामा नाथ पन्नाद गवान मोहविश्वः । मन शुदिमजान मेराग्गग्मभाचिनम् ॥२॥ इटानी धानुपियामि धानकाणां बनावलीम् । अपनगममागील निश्रिीणकामिन ।। ३॥ श्रीधम्मपनं मूलं च माणिरक्षणम् । यह बिना विफलं मयंमृगरक्षितीजवन् ॥४॥ नटी मुटी लपली न दिन्यासा अगणाम्बरः। भने न दगां मुराया जलहीनं यथा सरः ।।५।। हिंगा मनन्नना भीनानामभयमदा । हिंमा भवसनमाराजलदावली ॥६॥ हिमाया नमात्रणांपायन पानक महन् । फालटफर्णनाऽपि नरः किं न विनश्यनि ||७|| माणातिपानविरानि य कुर्वन्नि विवाफिनः । अन्य मश्रियः पात्रं ने भवन्ति मुदत्तवत् ।।८।। नशाहि मागधनम्ति स्वस्तिवल्लीपनापनम् । पुरं राजगृहं नाम गृहं सकलसंपदाम् ।।९।। विश्वविश्वम्भराधीशनिपविनपदद्वयः। विक्रमस्तत्र भूपालत्रिविक्रम इव श्रिया ।। १० ।। अन्याः सीमभूपालः प्रान्तो देशः कदार्थितः । वन्दिग्राइं च विधृतास्तत्रत्याः कोटिसंचयाः ॥ ११ ॥ संदशमथनं श्रुत्वा तानभिप्राहिणोद् बलम् । .
- . २०४ मल्लिनाथमहाकाव्ये- अध्यासामासुरेतेऽपि दुर्ग दुर्गहमाग्रहात् ॥ १२ ॥ विक्रमस्य वलैस्तेषां ग्रामंग्रामा उपद्रुताः । अत्युग्रकृतपापानामिह लोकेऽपि यत्फलम् ॥ १३ ॥ सुदत्तग्रामवास्तव्यः सुदत्तो वणिगात्मभूः । सप्तवर्षप्रमाणाङ्गो विधृतः केनचिद् हमत् ।।. १४ ॥ अथाऽऽनीतः पुरे राजगृहे. राजभटेन सः । धृतश्च पूलकं दत्त्वा मस्तकेऽसौ चतुष्पथे.॥ १५॥ अन्येन केनचित् तत्र सुदत्तस्य जनन्यपि । तदा विक्रेतुमारब्धा पुरस्तात्पुत्रनेत्रयोः ॥ १६ ॥ स तामुद्दीक्ष्य साप्येनं रुरोद करुणखरैः। महौषधं हि दुःखाते. रोदनादपरं नहि ॥ १७॥ भङ्गो निजकदेशस्य गोधनस्य परिक्षयः । दत्तलभ्यपरिभ्रंशः खजनानां परिच्युतिः॥१८॥ मत्सुत्रो गतभाग्यांशो विधृतो रोरबालवत् । एवं विचिन्तयामास सुदचजननी तदा ॥ १९ ॥ हा! निर्वीरेव मन्माता धृताऽनेन चतुष्पथे । अचिन्त्या हि गतिः पूर्वकर्मणां हतशर्मणाम् ॥ २० ॥ स्फुटत्यूर्वी यदि ततो विशामि क्षितिवेश्मवत् । अहं लभे विष सामि ततो मोदकलीलया ॥२१॥ तयोधिन्तयतोरेवं सुदत्तस्य जनन्यथ । तत्क्षणं हृदयस्फोटाद् व्यपद्यत चतुष्पथे ।।.२२ ॥ ततो विशेषतस्तारतरं तरललोचनः । सुदत्तो रोदिति सोचै रोदयनपरानपि ॥ २३ ॥ मूर्च्छया न्यपतत् पृथ्व्यां मूलकच इवांहिपः । एकं हि जननीमृत्युः परदेशागमः परम् ।। २४ ।। दयया नागरैः सिक्तो घनः शुष्यद्वनं यथा । १ वाऽधि, इत्यपि। २ क्षतः, इति च।
सप्तमः सर्गः। २०५ लब्धसंज्ञः समुत्तस्थौ सुंदत्तो दत्तलोचनः ।। २५॥ राजकीयभटेनाऽपि पृष्ठं मृ निवन्धनम् । दुःखं जगाद निःशेष जननीमरणांवधि ॥ २६ ॥ इतश्च सूद आगत्य मूल्यमेवस्य पृष्टवान् । सोचोचदेनं मूल्येन न विक्रीणामि सन्मते ! ॥ २७॥ एतस्य मूल्यवित्तेन न कर्तास्मि सुरालयम् । न न्यून पूरणं भावि दारिद्योपहतस्य मे ॥२८॥ दु:खितस्याऽस्य नो कर्तु भृतियुक्ता वपुत्रवत् । परं तुभ्यं प्रयच्छामि स्नेहेनेनं धनं चिना ॥ २९ ॥ मुधा संमाप्य हष्टः सन् सूदस्तस्माद् न्यवर्तत । अगादपि निजावासं भोजयामास तं खयम् ॥३०॥ गृहीतो राजसौधेऽप्तौ सूदेनौदनपक्तये । कारितच समादेशादिन्धनाऽऽनयनादिकम् ॥ ३१ ॥ प्रस्तावे जगदे तेन हो बालक ! लावकान् । वंशकम्बादिनिष्पन्नपञ्जराद् निरवासय ॥ ३२ ॥ विदधानो दयां चित्ते पञ्जराद् लावकानसौ। अशेपानमुश्चत् तेऽपि नभसा रभसा ययुः ॥ ३३ ॥ क्षणं स्थित्वा समागत्य पञ्जराद् लावका मया । तात! सर्वे विनिर्मुक्ता यौष्माकीणनिदेशतः ॥ ३४ ॥ इत्युक्तवन्तं तं सूदः कम्बया समताडयत् । मुग्धोऽमिति तं बालं विततर्क निजे हृदि ॥ ३५ ॥ द्वितीयेऽयमुनाऽऽदिष्टो लावकान् बालकाऽधुना। . वक्रां ग्रीवां विधायाऽऽशु पञ्जरेभ्यः समानय ॥३६॥ अथाऽसौ तत्र तांस्तेभ्य आकृष्य पूर्ववत्क्षणात् । मत्वमुश्चदशेषांश्च वक्रग्रीवोऽभवत् स्वयम् ॥.३७.॥ वक्रग्रीवममुं दृष्ट्रावादीत् सदः कुतो भवान् । वक्रग्रीवः समायातः सोऽवोचदय मन्दगीः ॥ ३८ ॥ ..
मल्लिनाथमहाकाव्ये- यौष्माकादेशतस्तात ! वक्रग्रीवोऽधुनाऽजनि... तच्छुत्वेदं दधौ चिचे डिगिरो डिगिरो ह्ययम् ॥ ३९.॥ वक्रताडनतः शिष्यो लोभी द्रविणदानतः। दुर्दान्तो दारपुत्रश्च मायी त्वावर्जनागुणैः ॥ ४०॥ विचिन्त्येति कशाघातपातैः शुकलवाजिवत् । ताडितः संयतश्चापि सुदृढं केशरज्जुना ॥४१॥ ताज्यमानममुं राजा गवाक्षस्थो विलोक्यं च । कथं खुद ! वराकोऽयं ताड्यते वनजोक्षवत् १.॥४२॥ तवृत्तमवदत् सूदः श्रुत्वा राजापि तत्तथा । कोपेन कम्पमानाङ्गो वातकम्पितवृक्षवत् ॥ ४३ ॥ बन्धयित्वा शिशुं राजा गजाने चर्मपुत्रवत् । निर्दयं मोचयांचके कृतान्त इव दारुणः ॥४४॥ (युग्मम्) करेणोत्पाटयामास करेणुस्तं च संज्ञितः। : : निघणं शिक्षिताः प्राइस्तियश्चः किं न कुर्वते ॥४५॥ इतश्च पृष्टो भूपेन जिजीविषति चेद्भवान् । जीवितं हर जीवानामन्यथा मरणं तव ४६॥ सुदत्तोऽथाऽगदद् देव ! भूयाद् मृत्युः करीधरांत् । नाहं प्राणात्ययेऽप्युच्चैः करिष्ये माणिनां वधम् ॥४७॥ तद्वचाश्रवणात् तुष्टः पृथ्वीशो वाणगात्मजम् । स्नेहस्मेरमुखाम्भोजोऽपृच्छद् गोत्रादिकं च सः॥४८॥ मुदत्तग्रामवास्तव्यो देवाऽहं वणिंगात्मभूः । सुदत्तः संज्ञया गर्भश्रावको मृतमातृकः ।।४९॥ देवाऽगलितमर्णश्च पीयते तृषितर्न हि । अशोधितमिन्धनादि लिप्यते नो हुताशने ॥५०॥ निशायां भुज्यते नापि पूज्यते भगवान् जिनः । वन्द्यन्ते गुरवः श्वेताम्बराः.क्षान्तिपरायणाः ॥५१॥ ..
सामः सर्गः। २०७ सर्वथा जीवरक्षार्थ यतन्ते कुलजा मम । इत्यतो नाधिकं वेदि वाल्यतः पृथिवीपते ! ॥५२॥ निशम्यति नृपोऽवाचद् धन्यं श्राद्धकुलं क्षियौ । यस्मिन् वाला अपि दयामा शिष्टताजुपः ॥५३॥ वालका अपि यत्रेहनीवरक्षापरायणाः। ये पुनर्जीतसिद्धान्तास्ते कीक्षाः क्षमातले ॥५४॥ प्रशस्येति श्राद्धकुलं सुदत्तं दत्तशासनम् । अगरक्षकनेतृत्वे चकार क्षोणिनायकः ।। ५५ ॥ कृपाइरक्षां कुर्वाणस्तीर्थनाथानीयतः। कुलीनललनोदाही दानशाण्डः प्रशान्तधीः ॥ ५६ ॥ श्रीचन्द्रप्रमतीर्थेशसमीपे श्रावकवतम् । आदाय विपिना शुद्धं सम्यक्त्वविधिवन्धुरम् ।।५७|| पर्यन्तेऽनशनं कृत्वा परमेष्ठिस्तवं स्मरन् । मृत्वा माहेन्द्रकल्पेऽभूत तमाद् निर्वाणमेष्यति ॥१८॥ सुदत्तस्य यथा जातमिहामुत्र श्रियां पदम् । तथान्येषामपि भवेत्माणिनां वधरक्षणात ।।५९॥ अथ नत्वा जिनं कुम्भो जगाद रचिताञ्जलिः। धन्यः सुदत्तो भगवान् यो वाल्येऽपि दयापरा ॥६०॥ राजन् । प्राणातिपातस्य विरते पणं सदा । मृपावाद परिहरेत् दैतीयीकमणुव्रतम् ॥६१॥ सत्यं कीर्तिलतामूलं सत्यं पुण्यनदीगिरिः । सत्यं विश्वाससौ च सत्यं लक्ष्मीनिकेतनम् ॥६॥ यथा पुण्ड्रेण रामाया वक्ताम्भोज विभूष्यते । यथा गङ्गापवाहेण पूयते भुवनत्रयम् ॥६३।। यथा च शोभते काव्यं सार्थया पदशय्यया । तथा सत्येन मनुज इहामुत्र विराजते ॥६॥ (युग्मम् ) प्रतिष्ठा लोकविश्वासप्रत्यया अतृवोदिते
२०८
मल्लिनाथमहाकाव्ये-
नदीपूरादिव ग्रामा: प्लान्यन्तें तटवासिनः ॥६५॥
सत्यवाक्यमभावेण भूपालैरपि पूज्यते।
वसुबन्धुर्यथा श्रेष्ठीं धर्मदेवकलौ किल ॥६६॥
तथाहि धरणीवासाभिधानं पुरमुत्तमम् ।
तत्रारविन्दभूपालो विशालो निलयं श्रियः ॥६॥
वसुबन्ध्याहयः श्रेष्ठी तत्र श्रेष्ठो गुणोत्करः।
यद्वित्तैर्व्यवहर्तुं वा कौवेरी धनदोऽगमत् ॥६८॥
वसुभद्रः सुतोऽमुष्य दुर्दान्तसुहृदां गणैः ।
समेतो नगरी भ्राम्यन् मदमत्त इव द्विपः ॥६९॥
न पितुर्मन्यते शिक्षा नाभ्यस्यति कलाः कचित् ।
पर्वण्यपि गुरोः पादौ न ननाम दुराशयः ।।७०॥
अन्येाः-श्रेष्ठिसूर्वीक्ष्योपक्ष्मापतिनिकेतनम् ।
गृहश्रोतःस्फुरद्भरिकृमिमोन्मत्तकर्दमम् ।।७१।।
देवष्यमिबाह्वायोत्तार्य मौलेबरी पटीम् ।
श्रोतोऽन्तः कुण्डलीकृत्य क्षिप्तवान् लेष्टुखण्डवत् ॥७२॥
(युग्मम् )
तस्योपरि क्रमौ न्यस्य विहाय चोत्तरच्छदम् ।
अग्रतः प्रससाराऽसौ मदोन्मत्तशिरोमणिः ॥ ७३ ॥
कोऽयमेष इति नरं कश्चित् पप्रच्छ भूपतिः ।
अवादीदेष निःशेषतदीयकुलवेदकः ॥ ७४ ।।
देवाज्यं वसुवन्धोश्च नन्दनो वसुभद्रकः ।
व्यसनोपहतस्त्यागी दुःशिक्षितमदाऽन्धलः ।। ७५ ॥
ततः कौतुक्रितो राजा वसुबन्धुमजूहवत् ।
श्रेष्ठिस्तवात्मजः कस्मात्कुलशिक्षाविवर्जितः ॥७६ ।।
स्वामिन् ! शिक्षोपदेशांस्तन्नाऽमंस्ताऽयं कथञ्चन ।
कुलक्षये भवन्त्युच्चैः सुता ईदृग्विचेष्टिताः ॥ ७७ ॥
सप्तमः सर्गः। २०९ अधृति मा कृथाः श्रेष्ठिन् ! विचारय वचो मम । .. भविष्यति कृतोद्वाहः शान्तात्मा तव नन्दनः ॥ ७८ ।। काचिद् वेत्रधराः! श्रेष्ठिपुत्रयोग्यास्ति दिकरी। परिणेतुं यद् भवन्तो नागरान्वयवेदिनः ॥७९॥ अथाऽऽख्यद् वेत्रभृच्चैकः स्वामिन्नत्र पुरे वरे । आसीत् श्रेष्ठी गुणी शान्तः पद्मः पद्मविलोचनः॥८॥ पद्मादेवीति तस्याऽऽसीत् प्रेयसी कटुभाषिणी। मर्मविद्वचसा खानिः जङ्गमः कलिपादपः॥८१॥ तयोः शुभकरः पुत्रः पवित्राचारभासुरः। अल्पकुदल्पवाही च गुणमाणिक्यरोहणः ।। ८२ ।। तस्याऽभूद् धारिणी नाम धरिणीव स्थिरा गिरा। नीरङ्गीसुभगा साध्वी श्वश्रूपादोपजीविनी ।।.८३ ।। पद्मातिकर्कशेर्वाक्यैः सर्वलोहमयैरिव । वधू निरागसमपि ताडयामास दुर्मुखी ।। ८४ ॥ तन्त्र स्थापयति स्थाले यत्मयाति गलात्परम् । कृतमासोपवासेव शुभङ्करमियाऽजनि ॥ ८५ ।। आदेशैः कर्मभिः प्राज्यै रोगैरिव कलेवरम् । तस्या दग्धमभूत् किं वा जातरोगेव साऽभवत् ॥८६॥ श्वशुरौकः स्वयं त्यक्त्वा स पित्रावासमासदत् । अतिपूर्ण स्फुटत्येव सत्यं लोकवचो यतः ।। ८७॥ वत्से ! श्वशुरवेश्माऽऽशु गम्यतां स्थीयतां तु न । तातवेश्मनि पुत्रीणां निवासे वचनीयता ॥८८|| यान्यक्षराणि रुष्टाऽपि भाषते श्वशुरप्रिया । तानि मन्त्रालराणीव शुभायेति विचिन्त्यताम् ।।८९॥ इत्यादितातशिक्षां च श्रुत्वा धारिण्युवाच तम् । प्रेतधामेवं यध्यक्तं श्वाशुरं वेश्म सर्वथा ॥ ९ ॥ वल्लरी दवदग्धाऽपि प्ररोहति. मुहुर्मुहुः । २७ २१० मल्लिनाथमहाकाव्ये- वाचा दग्धः पुनस्तात ! प्रादुर्भवति न कचित् ॥११॥ गृहवासो ममाऽभाग्याद् वनवास इवाजनि । क्लिष्टकर्मोदितेः श्वश्रूजज्ञे विषमुखी मम ॥ ९२ ॥ तात.! कूपे पतिष्यामि प्रवेक्ष्यामि हुताशने । न पुनः श्वाशुर वेश्म गमिष्यामि कदाचन ॥९३॥ : इत्थमाकर्ण्य तद्वाक्यं चक्रे मौनं मुनिर्यथा । अति हि व्याहृतं हन्त ! प्राणात्याय प्रजायते ॥१४॥ अथ देवरि संमाते तामाहातुं तदौकसि । ऊचेऽथ धरिणी तात ! न गन्तासि नियोकसि।।९५॥ शिकण्डूयनं कृत्वा ज्ञात्वा मातुर्विजृम्भितम् । यथागतस्तथाऽऽयातो मौन्यभूच्च गृहे गतः ॥ ९६ ॥ इतश्व- कस्यचिद्गतचित्तस्य वित्तं दत्त्वा यथारुचि । पद्मदेवी निनं पुत्रं पर्यणाययदासा ॥ ९७ ॥ पूर्ववत् ताडयामास तां वधूं कर्कशैः पदैः । खभावो यस्य यो लग्नः किं शक्यः कर्तुमन्यथा १९८॥ ततो वधूजनैर्देव ! वधूमारिरिति स्फुटम् । अंदीयताहयस्तस्याः सान्वयं खरवत् तदा ॥ ९९ ॥ देव ! तस्याः सुता तद्वत्कलिवल्लीव जङ्गमा । पुन्यो हि मातृवद् दृष्टाः पुत्राः पितृसमा यथा॥१०॥ अङ्गारशकटीत्युच्चस्तस्या नाम व्यजृम्भत । न कश्चिदुद्वहत्येनां विषकन्यामिवाञ्चनौ ॥ १०१॥ चेत्तया सह संयोगो वसुभद्रे भविष्यति । एकमेव गृहं स्वामिस्तद् विनश्यति नापरम् ॥ १०२ ॥ अथ स्वयं महीपालो वसुभद्रं स्वपुत्रवत् । सार्धमङ्गारशकव्या पर्यणाययदजसा ॥ १०३ ॥ भिन्नश्च विहितः श्रेष्टिगेहादक्षरपत्रकैः।
सप्तमः सर्गः।
२११
-
.
दुर्दान्तानां तनूजानां शिक्षा भवति नान्यथा ।।१०।।
निष्कलोऽसौ दिनैः स्तोकैरव्ययद् वित्तसंचयम् । .
निर्धनश्चापि संवृत्तो दुर्वृत्तानां हि तत्कियत् । ॥१०५॥
'साक्षात् शूलास्वरूपेण कलत्रेण कदार्थतः।
नाऽभुङ्ग समये नीरमपिवद् नापि सौख्यतः ॥१०६॥
गृहस्यान्तःप्रविष्टोऽसौ न ब्रूते कृतमौनवत् ।
कलिभीत्या मन्यते च तद्वाक्यं गुरुवाक्यवत् ॥१०७॥
अथ वसु सीरं स वाहयामास दुःखितः।
निष्कलानां हि कर्माणि कृष्यादि किल भुक्तये॥१०८॥
कदन्नमशनं साऽप्यपराह्ने रुक्षशीतलम् ।
प्रददौ प्रत्यहं पत्यै सोऽप्यमुक्त दिवानिशम् ॥१०९॥
सोऽपरेयुर्हलक्षेत्रे वाहमानः कृशाङ्गवान् ।
प्राजनेन वलीवर्दै खजं दुर्वलविग्रहम् ॥११०॥
ताडयन्नित्यमापिष्ट रे रे वृपभ ! सादरम् ।
शीघ्रं परिणाययिष्ये शान्तो मद् भवाऽन्यथा॥११॥
वाह्यालीविनिवृत्तोऽथ भूपः शुश्राव तद्वचः।
इंहो वत्स ! कदा तेज्गाद् दुर्दान्तत्वमनुत्तरम् ।।११।।
स प्रोवाच यदा देव! त्वयास्मि परिणायितः।
तदाऽभूद् मम शान्तत्वं तत्त्वं तत्त्वविदो यथा ॥११३।।
इतः प्रभृति यत्किश्चिद् गुरवो गौरवान्वितम् ।
निदेक्ष्यन्ति विधास्यामि तदहं निरहंकृतिः ॥११४॥
ततः सगौरवं राजा निनचन्द्रसमुद्भवाम् ।
सुताममृतमुख्याख्यां श्रेष्ठिजं पर्यणाययत् ॥११५।।
सर्वथा मुक्तदौर्गत्या सर्वथाकृतसक्रियः ।
सर्वथा रञ्जितजनः सर्वथाऽभूच्छमाहतः ॥११६॥
विषयान् सेवमानस्य समभूत् तस्य नन्दनः । .
सोमदेव इति ख्याता तस्याऽऽख्या भूभुजा कृता॥११७॥
२१२ मल्लिनाथमहाकाव्ये- . . . . 'अन्यदा पोतमारुह्य.सोमदेवोऽम्बुधौ गतः। परकूलाद् निवृत्तश्च मन्दिरद्वारमाययौ ॥११८॥ पौत्रोत्को गतवांस्तत्र वसुबन्धुर्महाधृतिः ।.. पोतस्थमालिलिङ्गाऽऽशु सुतं मूर्ध्नि चुचुम्व. च ॥११९॥ अप्रच्छि स्वस्थचित्तेन मार्गव्यतिकरोऽखिलः । चिराय मिलितानांस्याद् वार्ताभिर्यद् महाधृतिः॥१२०॥ पोते त्रैव वणिपुत्रं धर्मदेवाभिधाश्रुतम् । पप्रच्छ सोमदेवोऽथ किमिदं दृश्यते पुरः ॥ १२१ ॥ देवाऽयं पुरतो मत्स्यः साक्षाददिरिवापरः । कुतश्चिद् निश्चलः सम्यग्नायं शैलःशुभाशय !॥१२२॥ सोमदेव उवाचाऽथ झषो नायं महामते ।। किन्त्वयं पर्वतः कोऽपि यादस्तुल्यो महोदधौ ॥१२३॥ चेदयं भद्र ! मत्स्यः स्याद् मामकीनं धनं तव। चेदयं पर्वतो भावी तावकीनः पणश्च कः १ ॥ १२४ ॥ अयेत्थं धर्मदेवन जगदे प्रमिताक्षरम् । मामकीनं शिरस्तेऽस्तु तद्वशे लभ्यभागवत् ॥ १२५ ॥ उभाभ्यां वसुवन्धुश्च साक्षीचक्रे स्वजल्पयोः । ततो धर्मोऽक्षिपत् तत्र प्रज्वलत्तृणपूलकम् ॥ १२६ ॥ तत्पृष्ठं पतता तेन संजातं तापितं तिमः। ननाश काकनाशं च वराको लगुडादिव ॥ १२७ः।। धर्मदेवो धनं तस्य याचते पितृदत्तवत् । सोऽपि मौन्यभवत् काममन्यथाक्षिप्तचित्तवत् ॥१२८॥ ततस्तेन महीभर्तुर्गदित पुरतोऽखिलम् । परिभूतेषु भूपाला पितेव परिपालकः ॥ १२९ ॥ हंहो ! युष्मद्विवादेऽभूत् कः साक्षीत्यगदद् नृपः ।। अनयोरगदद् धर्मः साक्ष्यस्त्यस्य पितामहः ॥१३०॥ . भागतः, इत्यपि। ?
सतमः सर्गः। २१३ वसुबन्धुं समाहूयाऽपृच्छत् क्षितिपतिश्च तत् । असौ सत्यमभापिष्ट तं वृत्तान्तं सविस्तरम् ।। १३१ ।। अस्य सत्यवचः श्रुत्वाऽभ्यधादथ महीश्वरः । अहो! सूतृतगीः श्रेष्ठी अहो! व्रतविवेचनम् ॥१३२।। कौस्तुभेन यथा वक्षो भूष्यते केशिशासितुः । तथा सत्येन मनुजो वक्षःस्थेनाऽकलङ्किना ।। १३३ ।। जरामरणकल्लोला प्रत्यूहव्यूहवारिधिः । विष्वक्सवहणेनेव सत्यवाक्येन तीर्यते ॥ १३४ ॥ धर्मवानपि विज्ञोऽपि मूवृतेतरभापणात् । न नन्दति निरानन्दो मन्त्रपाठी यथाऽशुचौ ।। १३५ ।। असारे विभवेमुष्मिन् सारो सूनृतगीरहो।। क्षाराम्बुधाविव क्षीरकूपिका तर्पिकाऽधिकम् ॥१३६॥ प्रशस्येत्यवदद् धात्रीपुङ्गवः श्रेष्ठिपुङ्गवम् । पौत्रस्यार्थे कथं नोक्तं भवता सूवृतेतरत् १ ॥१३७॥ स्वामिन् ! श्वेताम्बराचार्यद्रुमघोपपदान्तिके । गृङ्गता भावतः सर्वव्रतानि बहुभेदतः ॥१३८॥ विशेषतो व्रतेऽप्यस्मिन् निश्चयो विदधे मया । असावेतर्हि यौष्माकादेशतः परिपालितः ।। १३९ ॥ अथ सत्कृत्य भूपालस्तद्भाले स्वर्णपट्टकम् । सत्यस्य सूचकं वद्ध्वा गृहे स्वयममोचयत् ॥१४॥ ततः प्रभृति स श्राद्धबतानि परिपालयन् । कल्पं लान्तकमासाध भरते मोक्षमेष्यति ॥१४१॥ . नृनाथोऽय जगन्नाथं नत्वा कुम्भोऽभणचराम् । वसुवन्धुः कृतार्थोऽयं यः सत्यवततत्परः ॥ १४२ ।। अथाऽप्रकाशय. नाथस्तार्तीयीकमणुव्रतम् । अदत्तादानविरतिलक्षणं शुभलक्षणम् ॥ १४३ ॥ परद्रव्यमतिः प्रायः प्राणी स्यात् कर्मगौरवात् । . .
२१४ मल्लिनाथमहाकाव्ये- पश्य सोमोऽपि पनिन्याः श्रियं हरति रात्रिषु॥१४४॥ परद्रव्याऽपहारः कर्तारः कर्मवैभवम् । हन्तारः प्राप्तकीर्तीनां यातारो नरकावनीम् ॥१४५॥ अदत्तादाननिरतास्ते लभन्ते शुभेतरद् । शृणु भव्य ! प्रबोधाय संगमकनिदर्शनम् ॥ १४६ ॥ तथायरावते क्षेत्र नगरे सोमपत्तने । अभूद् भूमीश्वरश्चन्द्रकेतुः केतुरिव द्विषाम् ॥ १४७ ॥ क्षत्रियायाः सुतस्तत्र वास्तव्यः संगमाभिधः । पञ्चवत्सरदेशीयः समभूद् घस्मरोनिशम् ॥ १४८ ॥ 'अन्येयुर्वभणे तेन देहि मातस्तिलान् मम । साऽप्याख्यत् खलतो गत्वा गृहाण निजयेच्छया॥१४९।। न मे तिलपतिस्तातो न वन्धुर्न च मातुलः । न पितृव्यः पतिर्वाऽपि कथं दास्यति सोऽवदत् ॥१५०॥ जनयिच्या ततः कण्ठस्नानं सैष विधापितः । सोऽप्याईविग्रहस्तत्र गतवान् प्रमितैः पदैः ॥ १५१ ॥ श्येनपा पपातोच्चस्तत्र तेष्वथ संगतः । लुठति स्म तरां श्रान्ततुरङ्गम इवाधिकम् ।। १५२ ।। आः पाप ! वालकक्रीडां कथमत्र विधास्यसि । जनस्ताड्यमान इति स मन्दं मासरत् ततः ॥ १५३ ।। धुत्वा धुत्वा शरीरं सोऽपातयद् भुवि तांस्तिलान् । जनन्याऽथ प्रमार्जिन्या तेच पुञ्जीकृताः क्षितौ॥१५४॥ जाता सुखादिका तस्य लब्धोपायस्तदर्जने । एवं दिवानिशं कुर्वन् जाताखादः प्रगल्भते ॥ १५५।। कालक इति पौरश्च मुच्यमानो दिवानिशम् । क्रमशस्तस्करो जातो दुर्ग्राह्यो भटकोटिभिः ॥१५६ ।। गर्तावत्परिखां जानन् सखीमपि महोदधेः। । मन्वन, इत्यपि।
सप्तमः सर्गः। २१५ सौधान्यपि क्षणालीपुञ्जानीच व्यलढन्यत् ॥१५७॥ कदाचिद् मौनभागेप कदाचिद् भिक्षुकक्रियः । कदाचिद्धनदः श्रीभिः कदाचिद् नाट्यकारकः॥१५८॥ सर्वरूपधरः सोऽभूद् विद्यासिद्ध इवावनौ । कृतहाानोऽम्बया रागात् मूर मूर इति स्फुटम्॥१५९॥ अन्याातुलस्तस्य यशानागोऽभिधानतः। एकान्त शिक्षयामास तं विनयं गुरुर्यथा ॥ १६० ॥ वत्स! स्वच्छाशय! त्यक्तुं चौर्य साम्पतमेव ते । परद्रव्यहरा नूनं छिद्यन्ते ऋजुक्षवत् ।। १६१ ।। मार्यन्ते विविधैारः क्रीडायां शारयो यथा । वाड्यन्ते च कशायातेस्तुरङ्गा इव सादिभिः ॥१६॥ एतावन्ति दिनान्युचर्यत्कृतं सुन्दरेशम् । तद् बालत्वाद् मया क्षान्तं वाला अज्ञा इति श्रुतिः॥१६॥ एतद्वचांस्यनाकर्ण्य प्रासरद् निजकर्मणि । किं विधत्ते यतोऽन्धानां प्रदीप्ता दीपकोट्यपि॥१६४॥ तत्रवास्तव्यभद्राख्यसार्थवाहमहोकसि । खात्रं पातयितुं सज्जो न मापौपायनं च स॥१६५॥ अवस्थाः सुभटा विष्वभित्तयः फलकाङ्किताः । खात्रदाने कुतो हेतुर्निर्हेतुः सोऽप्यजायत ।। १६६ ॥ अन्येद्य द्रवितेशो विपर्य चन्दनं गतः । पदातिरिव तत्पृष्ठे संगमोऽपि हि संगतः ॥ १६७ ॥ तत्र गत्वेशी चक्रे वार्ती कापि महामतिः । भद्रस्य मुपितं गेहं खात्रदानेन केनचित् ॥ १६८॥ किंवदन्ती च सा पौरपणाल्या भद्रसनिधौ। अगादाख्यत सोप्युच्चैनै ह्येतद् घटते कचित् ॥१६९॥ पर कोशस्य कोणोऽस्ति जर्जरो दक्षिणेतर। तत्र संभाज्यते खात्रसंभवोऽन्यत्र न कचित् ॥१७० ॥ - 1- २१६ मल्लिनाथमहाकाव्ये तद्वचो मन्त्रवच्छ्रुत्वाःववले नगरं प्रति । रात्रौ खात्रमदासीच्च तत्र मेराम्बुजाकृतिः॥१७१: ।। गृहीतभंद्रवित्तोऽसौ. तत्राऽस्थाद् निर्भयाशयः । इभ्योऽप्यगाच वेगेन तदैवादौ निरक्षत ॥ १७२ ॥ अद्यैव पातितं खात्रं निशायां नाथ! केनचित् । इत्यारक्षकवाक्यानि श्रुत्वोचे वणिजां पतिः॥ १७३॥ हस्तनेऽह्निमयाऽश्रावि यत् खात्रं ते महौकसि । पातितं तदध सत्यं जातं. भाग्येतरोदयात् ।। १७४।। ततक्रीडितं किञ्चिच्चिन्त्यते धीविलोकनात् । : यद् देवैरपि दुर्जेयं तत्साध्यं वुद्धिवैभवात् ॥ १७५ ।। अक्षतैरिव रनौषैः भृत्वा स्थालं महीपतेः । भाभृतीकृत्य तत्खात्रवृत्तमाख्यत वित्तवान् ।। १७६ ॥ तदाकर्ण्य नृपः कोपारुणदारुणलोचनः । समाकार्य तलारसं साक्षेपमिदमब्रवीत् ॥ १७७ ।। रे रे तलाधिपाऽशेषं त्वयि सत्यपि तस्करैः। अनाथमिव मे नूनं पत्तनं परिमोष्यते ॥ १७८ ॥ सोऽवदद् तद्ग्रहे नाथ! उपाया बहवः कृताः। परं न कापि संप्राप्तः समुद्रक्षिप्तचूर्णवत् ॥ १७९ ॥ सप्ताहाद् दैवपादानां पुरचौरमुपानये । अन्यथा तेन दण्डेन दण्डो मम विधीयताम् ॥१८॥ ततः प्रभृति सातत्याद् भ्राम्यन् नगररक्षकः । स्थूलाङ्ग पुरुषं कश्चिद् भ्रमन्तं दृष्टवान् पुरे ॥१८॥ तं दूरस्थस्तलाध्यक्षो वीक्षमाणः पदे पदे । मध्याहे द्विजवेषेण यान्तमिभ्यमहोकसि ॥१८२ ।। सन्ध्यायां कृतनेपथ्यं सामन्ततनयायितम् । निरीक्ष्य ज्ञातवानेप चौरबुद्धिर्हि सिद्धिकृत् ॥१८॥ (युग्मम् ) .
सप्तमः सर्गः। २१७ । स. बद्धो वहिबन्धेन ततो नीतो नृपान्तिके। पपात भद्रनामाङ्कमुद्रा तस्त्रमध्यतः॥ १८४ ।। नृपाऽऽदेशात् तलाध्यक्षः शूलायामेनमक्षिपत् । इतश्चाऽजानती तत्राऽऽगमत्तस्याम्विका पुरः॥१८५॥ शूलामोत सुतं दृष्ट्वा कालरक्षाकटाक्षितम् । चक्रेपलायांसा भीता पान्थो दुःशकुनादिव ॥१८६॥.. हंहो! तलाध्यक्षनराः ! इमां रण्डां मदन्तिके। समानयत, वेगेन कथयिष्ये धनं हि वः ॥१८७॥ कोकूयमाना खरवत्साऽऽनीताऽजा कैरिव । रे रण्ड ! तब दु:शिक्षाफलं मम विजृम्भितम् ॥१८॥ भक्षके यवरक्षिष्यस्तिलस्तैन्यपरं हि माम् । तदा नैवंविधोनों निरपत्स्यत मेऽधुना ॥१८९॥ दुस्त्यजो बाल्यसंस्कारो नीलीराग इवाम्बरे । अहं त्वयोपेक्षितश्च मारितश्च स्वयैव हि ॥१९॥ इत्युक्त्वा वाहुदण्डाभ्यां विधृत्याम्बा दुराशयः। घ्राणं चिच्छेद दन्ताः कर्णावपि च मूलतः ॥१९॥ इति कृत्वा स रौद्रात्मा रौद्रध्यानकदर्थितः । जगाम सङ्गमो धूमममाख्यां नरकावनीम् ॥१९२॥ अदचाहणे राजन् ! फलमीहग् विलोक्यते । तस्मात्परधनत्यागः कर्तव्यो हितमिच्छुना ॥१९॥ उवाचाऽय धरानाथः श्रुत्वामुष्य निदर्शनम् ।। अस्माकं कम्पते चित्र वाताऽऽन्दोलितकेतुवत् ।।१९४॥ केषाश्चिदाधिपतेन महेशानां निरागसाम् । सर्वखं जगृहेऽस्माभिः खानयित्वा गृहाण्यपि ॥१९५।। केचिद् वाला अपि च्छिनाः केचिदुन्मीलितास्ततान वृक्षा इव परोलक्षा.मया वार्धकिना यथा ॥१९६॥ : सर्वखं.हरता तेषां यत्कर्मोपार्जितं मया । . . २८
२१८
मल्लिनाथमहाकाव्ये-
तद्भस्मसात्करिष्यामि त्वत्पादरजसाञ्जसा ।।१९७॥
अथ व्याख्यानयद् विश्वनाथस्तुर्यमणुव्रतम् ।
अब्रह्मविरतिर्नाम माहात्म्यद्रुधनाधनः ॥१९८॥
केचिद् नवपि तारुण्ये वृद्धा.इव विवेकिनः ।
अनाचारे न वर्तन्ते शीलमालिन्यशया ॥१९९॥
वित्तापहारदुःखानि नानाकारकदर्थनाः ।
अङ्गप्रत्यङ्गविच्छेदालभन्ते पारदारिकाः ॥२०॥
विश्वासवसतिः शीलं शीलमुन्नतिकारणम् ।
सर्वसौख्यनिधिः शीलं शीलं कीर्तिनदीगिरिः ॥२०१॥
अहार्य मण्डनं शीलं शीलं सर्वाङ्गभूषणम् ।
शीलं सर्वज्ञधर्मद्रोर्मूलं शीलं श्रियः पदम् ।।२०२॥
शीलवतगुणाऽऽकृष्टा देवा अपि हि पत्तिवत् ।
आयान्ति स्मृतिमात्रेण प्रयान्ति च विसर्जनात् ।।२०३।।
स्वकीयदारसंतोषं ये भजन्ति दृढव्रताः ।
तेषां सुदर्शनस्येव शूला सिंहासनं भवेत् ॥२०४॥
तथाहि भरते वर्षे विषयेऽप्यङ्गनामनि ।
चम्पानाम पुरी तत्र भूपालो दधिवाहनः ॥२०५॥
देवी तस्याऽभया नाम धाम लावण्यसंपदाम् ।
धात्री पात्री च बुद्धीनाममुष्याः पण्डिताहया ॥२०६॥
श्रेष्ठी वृषभदासाख्यस्तत्रासीद् धाम संपदाम् ।
अहंदासीति सत्यार्था तस्य पत्नी पतिव्रता ।।२०७॥
अमुष्यर्पभदासस्य सदयः प्रियभाषकः ।
महिण्या रक्षकः शान्तः सुभगः सुभगाशयः ॥२०८।।
अन्येशुश्चारयित्वा स महिषीर्वलितस्तदा ।
अपश्यत् तपसा क्षामं मुनि शममिवाङ्गिनम् ॥२०९॥
यत्रास्तमितवासत्वात्कायोत्सर्गपरायणम् ।
सोऽपश्यञ्च महासत्त्वं पुरीपरिसरेऽपि हि.॥२१०॥
सप्तमः सर्गः । २१९ तं वीक्ष्याचिन्तयदसी धन्योऽयं पुण्यथागयम् । यः पूः पितृवनवात्सीदेकाको खनिशृङ्गवत् ।।२११॥ तपस्तजाऽस्य वीक्ष्येव दिनान्तऽप्यविनम्वरम् । ममज भानुमानन्धी, किन कुर्वीत लज्जितः ॥२१२॥ दृष्टिपचारं रुन्याना लुण्टाकी पदवे सताम् । कुमहीपतिसेवेच रुरोधाशां तमस्ततिः ।।२१।। विकाल इति विज्ञाय गृहीत्वा माहिपं ततः। स्मरन् मुनिपदाम्भोजमगमद् निजमन्दिरम् ॥२१॥ महिपादोहनाद्यानि स्वकर्माणि विधाय सः । अस्खाप्सीदुचित स्थाने पलालालीकरालिते ।।२१५।। अहो ! करालः शिशिरस्तुपारकणवर्षकः । दइन् कमलिनीखण्ड खण्डीफुल्लताततीः ।। २१६ ॥ निर्वातवासवेश्मस्था ऊरीकृतहसन्तिकाः । अमुं शीतमृर्नु सौख्याद् गमयन्ति धनेश्वराः ।।२१७॥ अस्मादृशास्तु तैलेन दिग्धाङ्गाः कन्धयाऽन्विताः । पलालशयनस्याऽन्तर्गमयन्ति महानिशाः ॥२१८|| स यतिः प्रातो नैव यथाजात इव स्थितः । साहिप्यते कथं शीतं दुःसहं सहसा कृतम् ।।२१९।। तदाऽहं निजया पटथा प्रावरिष्यं मुनि यदि । इदं शीतं महासत्त्वोऽलङ्कयिष्यदसंशयम् ॥ २२० ।। विमृशनिति कृत्यानि विनिर्माय स सादरम् । मुनिपादरजःपूतं तं प्रदेशमगादथ ॥ २२१ ।। अत्रान्तरे दिशां चक्रं द्योतयन् संहरंस्तमः । पूर्वभूधरमाणिक्यमुदियाय नभोमणिः ।। २२२ ।। नमोऽहद्भय इति मोच्य सोऽपि साधुः खगेन्द्रवत् । अमुष्य वीक्षमाणस्य विहायस्तलमासदत् ।।२२३।। अहो ! अभाग्यपात्रांणामय मुख्योऽस्मि निश्चितम् । .
:२२० मल्लिनाथमहाकाव्ये- येनाऽसौ वन्दितो नैव नास्मादोऽपि संश्रुतः॥२२४॥ अथवा येन मन्त्रेण नभोगादेष पावनः । स मया शुश्रुवे सम्यक् तस्मादस्मि कृतार्थहत् ।।२२५॥ ममाप्यम्बरचारित्वं भविता मुनिराजवत् । नमोईद्भय इतीयन्ति पठति स्माक्षराणि समा२२६॥ भोजनावसरे रात्रौ शयानो जाग्रदप्यथ । अमुमाघोषयामास प्रकृत्या भद्रकाशयः ।। २२७॥ अन्यदा श्रेष्ठिनः पत्नी भणन्तममुमुच्चकैः । श्रुत्वा रे पाप! मन्त्रं नो हससीति स्म भाषत।।२२८|| नाहं मातरमुं मन्त्रं हसामि शपथा मम । किन्त्वस्य लाभमङ्गल्यं प्रसद्य निखिलं शृणु ॥२२९॥ ततस्तापोधनं वृत्तं सुवृत्तस्तमचीकयत् । तत्तथेति तयाऽज्ञायि भाषितं तस्य सत्यतः ॥३०॥ आयोऽयं सर्वमन्त्राणां विद्यानां वसुसंपदाम् । मङ्गल्यानामशेषाणां निःश्रेयसश्रियामपि ॥२३॥ तदहो! शोभने स्थाने शुचिभूतेन भावतः । ध्यातव्योऽयं महामन्त्रः कल्पद्रुरिव जङ्गमः ॥२३२॥ मातर्मा कल्यसंपूर्णममुं शिक्षय सुन्दरम् । तयाऽथ पाठितः पञ्चपरमेष्ठिस्तवोऽखिलः ॥२३३॥ इतश्च ग्रीष्मवेतालसमुच्चाटनयन्त्रवत् । व्यानशे व्योम मेघानां पटलं गवलद्युति ॥२३४॥ श्रूयन्ते केकिनां केकाः कामं कर्णमुदां पदम् । पान्थानां गमनच्छेदकामाज्ञा इव सर्वगाः ॥२३५॥ धारावाणैरब्दयोधा यदविध्यन् धनुर्भूतः । तदश्रुमिषतः पान्थनेत्रयोर्लक्ष्यते जलम् ।।२३६॥ मृदां गन्धाद् भवन्ति स्म मातङ्गा उन्मदिष्णवः । किं चित्रं यत्ममोदन्ते मलिना मलिनोदये ॥२३७।।
सप्तमः सर्गः। २२१ विहाय पद्मिनी भृङ्गा निपेवन्ते स्म मालतीम् । संपूर्ण सेवते सर्वो रिक्तं त्यजति दूरतः ॥ २३८ ।। मन्दं वपति पर्जन्ये स समादाय माहिषम् । अर्वाक् चारयितुं व्यूह गङ्गायाः कूलमासदत् ।।२३९।। अथ पायाधरः पार्थीधाराभिधरणी तथा । अपूरयद् यथा निन्नस्थलाचं नाप्यलक्ष्यत ॥ २४० ॥ कुकाराकारविद्युद्भिदीपदीपायितं ततः । कजलश्यामलः कामं दुर्दिनः शर्वरीयितम् ।।२४।। नीडेपु नीडजा मृकीभूता विद्युद्भयादिव । लपन्ति चातका विष्वक् प्रत्यद्रं याचका इव ॥२४२॥ वाहा अपि नदीयन्ते सरिनाथन्ति निम्नगाः । अभूद् भूः पाथसां पात्रमेकं कल्पान्तवत् तदा ॥२४॥ कम्बलमाततनुः सुभगो नागवेश्मनि । चिरमस्थाद् महिष्यश्च नद्याः कूलं परं ययुः ॥२४४॥ कपिञ्जलकलकल रात्रि विज्ञाय भाविनीम् । तस्माद् निर्गत्य ता विष्वग्वीक्षमाणः स सैरभीः ॥२४५|| बुद्धया विज्ञाय गङ्गायाः परकूलं ममाधुना । महिप्यश्चरितुं प्राप्ताः सांपतं किं तु सांप्रतम् ॥२४६॥ विमृश्येति स्मरन्मत्रं नमोऽईद्भय इति श्रुतम् । अविक्षत् स्वधुनी वारिस्फारस्फूत्कारदारुणाम्।।२४७॥ यस्यां वृक्षा महान्तोऽपि मूलोन्मूलितसंपदः । शरारिवत् तरन्त्युचैः स्थानभ्रंशे कुतः स्थितिः ॥२४८|| तीरग्रामगृहाण्युच्चैर्वभुर्यत्र तरन्ति च । मुक्तानीव विमानानि मेघदेवैः सहोदकैः ॥ २४९॥ पयोमिह्यमाणानां जनानामार्तनिस्वनाः। श्रूयन्ते दण्डचण्डमङ्गलातोधनादवत् ॥ २५०॥ तत्माप्तरथप्रायः सुभगस्तारकोत्तमः ।
२२२
मल्लिनाथमहाकाव्ये-
विद्धोतितीक्ष्णकीलेन शूलापोत इवाजनि ॥२५१।
स्मरन् पश्चनमस्कारं सद्गतः शासनोपमम् ।
सुभगः पाप पश्चत्वं दुर्लङ्घया भवितव्यता ॥ २५२॥
वृषभश्रेष्ठिभार्याया अहंदास्यास्ततस्तदा ।
बभूव स सुतत्वेन सुभगः स्वप्नभूचितः ॥२५३॥ :
जिनानामर्चनां कुर्वे दीने दानं ददामि च ।
पात्रं वित्ते वितरामि गुप्तेर्मुश्चामि वन्दिनः ॥२५४॥
दोहदमिदमेतस्याः विज्ञाय खानुसारतः।
अमारिघोषणापूर्वं तत्सर्व श्रेष्ठयपूरयत् ।।२५५ :
अथ जाते सुते श्रेष्ठी महोत्सवमनोरमम् ।
सुदर्शन इति प्रीत्या सत्यार्थ नाम निर्ममौ ॥२५६॥
देहेन स कलाभिश्च वर्धमानो दिने दिने ।
नयनानन्दजननो रजनीश इवाजनि ॥२५७॥
पुरन्ध्रीणां मनःपनसमुल्लासनभास्करम् ।
वनं काममहे तस्य स यौवनमुपेयिवान् ॥.२५८ ।।
ततः सागरदत्ताख्यश्रेष्ठिनः कन्यकां शुभाम् ।
मनोरमाभियां हर्षाद् गुरुणा परिणायितः ॥२५९॥
अमुना गृह्णता दीक्षां न्यस्तो निजपदे सुतः।
सुदर्शनः सतां श्लाघ्यः सर्वदैव सुदर्शनः ॥२६०॥ :
झषध्वजति रूपेण घिया च धिषणायते ।
चरित्रेण पवित्रेण गृहस्थोऽपि मुनीयते ।। २६१ ।।
सत्यवाक्येन यस्यास्यं विवेकेन मनोऽम्वुजम् ।
रूपं लावण्यपूरेण युतं यस्य व्यराजत ।।२६२॥
सर्वज्ञशासने यस्य रागो नैव पुरन्ध्रिषु ।
यस्याऽभूद् व्यसनं शास्त्रे कामास्त्रे न मनागपि॥२६॥
असौ द्वादशधा श्राद्धधर्म सुगुरुसन्निधौ ।
प्रपद्य परमश्राद्धोऽजनिष्ट सुविशिष्टधीः ॥२६॥
सप्तमः सर्गः। २२३ राजादीनां स मान्योऽभूत् किं पुनः पौरसंहतो । यस्माद् मनोरम शोलं यस्य गीश्च मनोरमा ॥२६५ ।। बभूव तस्य सन्मित्रं कपिलो नाम सन्मतिः। पुरोधा भूमिपालस्य पदकर्मप्रगुणाशयः ॥२६६॥ कपिला नाम तत्पनी वारुण्यमदविहला । चतुःपष्टिकलापात्रं दक्षा पण्डितमानिनी ॥२६७॥ अन्येार्वर्णिता प्रेम्णा कपिलेन तदग्रतः। सुदर्शनगुणग्रामोऽभिरामस्त्रिदशेष्वपि ॥२६८॥ ततो न सा रतिं पाप विद्धवानङ्गमार्गणैः । ततः प्रभृति तत्रोत्कादिक्षत सुदर्शनम् ।।२६९।। अन्येयुः कपिलो राजकार्याद् ग्रामान्तरं गतः । प्रस्तावविज्ञा कपिला निजधानीमवोचत ।।२७०॥ श्रेष्टिस्तावकमित्रस्य जातं वपुरपाटवम् । देहवार्तामपि प्रष्टुं कस्माद् नागम्यते त्वया ॥२७१॥ इति शिक्षा मुहुर्दत्वा प्रेपिता निजधात्रिका । सा तद्देहं समासाद्य तत्तथाऽवददुच्चकैः ॥२७२॥ तच्छ्रुत्वा. वत्सलः श्रेष्ठी तत्रागत्येत्यवोचत । भ्रातृजाये! मम भ्राता भट्टः कुत्रावतिष्ठते ? ॥२७॥ तयोचे मन्दिरस्यान्तस्तव सुप्तोऽस्ति बान्धवः । भवानपि द्रुतं.तत्रयातु यातु सदाशयः ॥ २७४ ।। गृहस्यान्तः प्रविष्टो न. दृष्टवान् सुहृदं निजम् । भ्रातृजाये.! कथं मां तु विप्लावयसि वालवत्।।२७५॥ हृन्नाभिस्तननेत्राणि कामानाणीव विभ्रती। प्रकटानि चलनेत्रा. पुरस्तादस्य संस्थिता ।।२७६।। यदेवाऽमृणवं नाथ। तव.रूपादिवर्णनम् । तदा प्रभृति मे कामतप्तं वपुरजायत ।।. २७७ ।। संगमामृतरूपेण.गात्रं निवापय प्रिय!।
:
.
२२४
मल्लिनाथमहाकाव्ये-
यावत्कन्दपंदहनाद् भस्मसाद् न भवाम्यहम् ॥२७८॥
विहस्योचे ततः श्रेष्ठी मुग्धे! मुग्यासि निश्चितम् ।
पुंवेषण भ्रमाम्युच्चैरहमस्मि नपुंसकः ।। २७९ ।।
एवं कूटप्रयोगेण विमोच्य स्वं शुभाशयः।
निरगाच्छ्रेष्ठिपुन्नागो दध्याविति च मानसे ॥२८॥
परगेहे न गन्तव्यं खसादपि प्रयोजनान् ।
परगेहप्रविष्टानां व्यलीकानि भवन्ति यत् ॥२८॥
मानिनीमानलुण्टांका सरसञ्जीवनौषधम् ।
लासका पभिनीनां च वसन्तः समवातरत् ॥२८॥
भृङ्गीणां विरुतैर्यत्र कोकिलानां तु कूजितैः।
सरः सुप्तो व्यबोधिष्ट राजा वन्दिखरैरिव ॥२८॥
प्रतिक्षं विलोक्यन्ते दोलाः शाखासु लम्विताः ।
पान्थमाणाण्डजग्राहे पाशा इव मनोभुवा ॥२८॥
वसन्तश्रीसनाथानि काननानि निरीक्षितुम् ।
दधिवाहनभूपालश्चचाल सपरिच्छदः ॥२८५॥
सुदर्शनश्च रूपेण सुदर्शनघरायितः ।
गतः क्रीडितुमुद्याने नन्दनस्येव सोदरे ॥२८॥
कपिलश्च द्विजः प्रान्तिकम वेदवेदिभिः ।
अतिधीराक्षरोच्चारवपिरीकृतपुष्करैः ।।२८७॥
तदनु पस्थिता यातुं कपिला ब्राह्मणीता।
तत्पुरश्चाभया देवी वरयानसमाश्रिता ॥२८॥
मनोरमाऽपि सश्रीका सर्वालङ्कारशालिनी ।
साकं पुत्रैश्चतुर्भिश्च लक्ष्मीपतिभुजैरिव ।।२८९॥
दृष्ट्वा लीलायितं तस्या देवीनामपि दुर्लभम् ।
पप्रच्छ कपिला राज्ञी कस्यैषा वरवर्णिनी? ॥२९॥
पत्नी सुदर्शनस्येयं नामधेयाद् मनोरमा ।
एतयोनन्दना एते उपाया इव रूपिणः ॥२९॥
सप्तमः सर्गः। . २२५ एनं निगदिने व्या सहासं साऽप्यवोचत । अहो ! चणिकमियाणां हि कीदृशं किल कौशलम् ॥२९२॥ गन:- - . अस्या नपुंसक भर्ना परं जाताः सुताः कथम् १ । इत्यन्योन्यविरुद्धार्थी वणिक्षत्री पतिव्रता ।। २९३ ।। चपन संभवेद् व्याग्नि ग्रन्या चंदध्यतेऽनलः । तथापि श्रष्टिनाप्माद् न भवन्ति सुताः खलु ।।२९४॥ अथाऽन्यद्भया देवी मुग्धं ! ज्ञातमिदं कथम् । ननः सा पूर्वरनान्तमबदन नदग्रनः ॥ २९५॥ सहाम्ययभया प्राह कपिल ! मुग्धचंतन !। अजानकामशाखार्थे ! वृथा पण्डितमानिनि! ।। २९६ ॥ असकी परकीयासु गमासु भगिनीविव । सदा नपुंसक श्रेष्ठी न पुनर्निजयोपिति ॥ २९७ ॥ नद मुन्धे ! वञ्चिनाऽसि वं छलानेन सुघुद्धिना। अधा कपिलयाऽऽख्यायि सख्यई तावदीहशी ।। २९८ ।। कामशावए नपुण्यं भवतीपु विराजते । स्वामिन्या याशी ज्ञाता तादृश्येवाऽस्म्यहं पुनः ॥ २९९ ।। ज्ञास्यामि तव दक्षत्र कामार्थेषु विनिश्चितम् । यद्यमुं गजवद् देवि ! निर्जीड क्रीडयिष्यति ।। ३००॥ निशम्येदं वभाणपा सख्यमुं रमये न हि । तदा तव सतीर्थ्याऽहं वृथा विज्ञातकौशला ॥३०१ ॥ इत्यं विज्ञाय सा देवी प्रतिज्ञां तां गरीयसीम् । : गलोद्याने यथाकामं क्रीडित्वा सौधमागमत् ।। ३०२ ॥ अस्त्यस्याः पण्डिता नाम धात्री विश्वासभाजनम् । तदने विजने देवी कथयामास सादरम् ।। ३०३ ॥ सुदर्शनन सार्च मे यथा भवति सङ्गमः । तथा कुरु वितत्योचैः किश्चित्तवनाटकम् ॥ ३० ॥ -.
२२६ मल्लिनाथमहाकाव्ये- उवाच धात्रिका पुत्रिी धरित्रीधववल्लभे!। न सुन्दरं त्वया मोक्कमिहामुत्राप्रियङ्करम् ॥ ३०५॥ यस्मादेष महासत्त्वः परनारीसहोदरः। कामयिष्यति कस्मात् त्वां गृहस्थोऽपि महाव्रती ॥३०६॥ कथमंत्र संमानेय पारीन्द्र इच काननात् । आनीतोऽपि तव स्वार्थ न कर्तेति विचिन्तय ॥ ३०७ ॥ अथोवाचाऽभया देवी प्रतिज्ञेयं कृता मयों । साकं कपिलगेहिन्या सत्या कार्या यथा तथा ॥ ३०८ ॥ नान्यस्य पुरवो मातराख्यातुमपि पार्यते । अतिदुष्करकार्याणां भवत्येवं विचक्षणा ॥ ३०९ ॥ निश्वस्याऽथ क्षणं स्थित्वाऽवादीद्धात्री मया सुते ।। उपायो लब्ध ईदक्षः, कीदृक्ष इति साऽगदत् ॥ ३१० ॥ श्रेष्ठ्येष पौष, पूर्ण विधत्ते पर्ववासरे । चत्वरादिषु मौनेन कायोत्सर्गीव तिष्ठति ।। ३११ ।। तत्कृते तत्र गत्वा तं कायोत्सर्गपरायणम् । मूकीभावेन तिष्ठन्तं संवेष्ट्य वसनाञ्चलैः ॥ ३१२ ॥ कन्दर्पप्रतिमाव्याजाद् व्यामोह्य द्वाररक्षकान् । द्वित्रिर्वा नयनव्याजादानेष्यामि सुदर्शनम् ॥ ३१३ ।। एवंकृते त्वया कार्या स्वप्रतिज्ञा यथोदिता। ढक्का देया ढाकिकेन नात्र जेयं परं बलम् ॥ ३१४ ॥ एवं राज्ञी धात्रिकया गदिता मुदिताऽभवत् । प्रस्तावपण्डिता शश्वद्वीक्षमाणा चिरं स्थिता ॥ ३१५॥ अन्येयुरष्टमीरात्रौ धाच्या विज्ञातकार्यया । दृष्टः श्रेष्ठी महासत्त्वः पौषधागारमाश्रितः ॥ ३१६॥ 'पुष्पादिकसपर्याया नयनाऽऽनयनच्छलात् । कन्दर्पप्रतिविम्बस्य व्याजादेष प्रवेशितः ॥ ३१७ ।। असुं वीक्ष्याऽभयादेवी हृष्टा प्राप्तनिधानवत् ।
सप्तमः सर्गः। - २२५ क्षोभयितु:समारेभे कटाक्षविशिखैः शितैः ।। ३१८ ॥ निजसंगसुधास्वादकलनां ललनानिय ।। दयां विधाय संधेहि स्वर्गसौख्यमहाद्भुतम् ॥ ३१९ ॥ किमिति व्रतकप्टानि कुरुपे मूढमानस ! ।। या तैरपि दुपापा सा मासाऽहं त्वयाऽधुना ॥ ३२० ॥ अनाथामिव मां हन्यमानां मदनमार्गणैः । कस्मादुपेक्षसे नाथ ! सदयोऽस्यज्वलाजने ॥ ३२१ ।। त्वां सरन्त्या ममाभूवन दिनाः कल्पशतोपमाः। निशा अपि गुणाधार ! ब्राह्मथा मे दिवसा इव ॥३२२॥ निशाखमेषु वाासु दिगन्तेषु दृशोः पुरः। त्वामेकरूपिणमपि वीक्षे रूपसहस्रगम् ॥ ३२३ ॥ निशम्येत्यथ साकारं प्रत्याख्यानं समाहितः। धर्मध्यानरतः श्रेष्ठी विशेषेण चकार सः॥ ३२४ ॥ अभयापि यथावुद्धि भाषमाणा नवा गिरः । मुनीनामपि हि क्षोभकारिणी रूपसम्पदा ॥ ३२५ ॥ गायन्ती पञ्चमग्रामवन्धुरा नवगीतिकाम् । क्षोभयामास नैवामुं रजन्याऽपि समग्रया ॥ ३२६ ।। असु खदारसन्तापपवित्रमिव वीक्षितुम् । अजनिष्ट प्रभास्फोटस्तिमिरं संहरन् करैः ।। ३२७ ।। एतावत्यो मया वाचः सामभिः प्रतिपादिताः। तैः साध्यो यद्भवाव सनिपात इवोदकैः ।। ३२८ ॥ इदानी पाटितं देहं कृत्वाऽहं नखकोटिभिः। पूत्करिष्येतरां पाप ! नेदं भाव्यर्गला व्रतम् ॥ ३२९ ।। तथाप्यक्षुभ्यति श्रेष्ठिपुगवे नृपवल्लभा । अहो बंजमयो ोष न विलीनो मदन्तिके ॥ ३३० ।। चिन्तयित्वेति पूत्कर्तुं समारेभे महारवैः । सत्यं रक्का विरक्ताच मारयन्ति खियः खलु ।। ३३१ ॥
२२८ मल्लिनाथमहाकाव्ये- रे रक्षका: । बलादेष मां कामयितुमुद्यतः । दारयति नखैस्तीक्ष्णः शीघं धावत धावत ॥ ३३२ ।। श्रुत्वेदं सत्वरं तत्र समागात्पृथिवीपतिः । अमुं विश्वासभवनमपश्यञ्च खचित्तवत् ॥ ३३३ ।। अपृच्छच्च प्रयत्नेन वृत्तान्तस्तव चैष का । सोऽप्यस्थाद् मौनभाक् कामं विशेषेण समाहितः ॥३३४॥ नाऽदासीदुत्तरं किश्चिदेष क्रुद्धः क्षितीश्वरः । शूलामोतो विधातव्य एष इत्यादिशबरान् ।। ३३५ ॥ रे! पारदारिकेत्युप्रैः संदंशैरिव भाषितैः। तस्य श्रोत्रपुटीमन्तर्भेदयामासुराशु ते ॥ ३३६ ।। न्यस्तोऽसौ रासमे पृष्ठे कण्ठन्यस्तशराववान् । निम्बपत्रैः कृतोष्णीष: कज्जलैलिप्तविग्रहः ।। ३३७ ॥ गाढं विडम्बयित्वासौ भ्रामयित्वा महापुरे । नीतः पितृवने श्रेष्ठी सरन् पञ्चनमस्कृतिम् ।। ३३८ ॥ इतश्च श्रेष्ठिनः पत्नी महासती मनोरमा । अभृणोद् दुःश्रवां वार्ता तदीयां वज्रपातवत् ॥ ३३९ ।। सर्वज्ञशासनाभिज्ञः परदारपराङ्मुखः । पट्टदेवी महीभर्तुः श्रेष्ठी प्रार्थयते कथम् ॥ ३४० ॥ किश्चित्संभाव्यते देव्याः कूट कूटनिधिर्हि सा। असंपूर्णे निजार्थे हि किं न कुर्युमलीमसाः ॥ ३४१ ॥ अन्तःशून्या दहीरम्या नारी वारीच देहिनाम् । लौल्यादाखाद्यमानोचैनिर्मिमीत गलग्रहम् ।। ३४२ ।। लज्जाकोशविनिर्मुक्ता स्त्री शस्त्रीव भयङ्करा । किं न धत्ते महामोहहस्तन्यस्ता विवेकिनाम् ॥ ३४३ ॥ विचिन्त्येति कृतस्नाना वसाना श्वेतवाससी। पूजयित्वाहतो विम्ब निर्विलम्ब मनोरमा ॥ ३४४ ॥ यद्येप परदारेषु निर्विकारः सुदर्शनः । .
सप्तमः सर्गः। २२९ तदध कुरु सांनिध्य मातः! शासनदेवते -॥ ३४५ ॥ इति व्याकृत्य नासाग्रन्यस्तनेत्रा संदाहती। कायोत्सर्ग:विधत्ते स्म निश्चलाङ्गी शिला यथा ॥३४६॥ (त्रिभिर्विशेषकम् ) 'इतश्चाईत्मवचनदेवी तस्याः प्रभावतः । अगाद् वध्यभुवं तत्र यत्राऽतिष्ठत् सुदर्शनः ।। ३४७ ॥ इतः सुदर्शनः श्रेष्ठी शूलायां विनिवेशितः। शूला सिंहासनं जज्ञे देवतायाः प्रभावतः ॥ ३४८ ॥ ततश्च कृष्टाः कोशेभ्यो निस्त्रिंशा निस्त्रपैस्तदा । मुक्ताश्च श्रेष्ठिनः कण्ठपीठे नगररक्षकैः ॥ ३४९ ॥ देवतायाः प्रभावेण प्रहारास्ते समन्ततः । सग्माल्यरूपिणो जाता भ्रमभृङ्गमनोरमाः ॥ ३५० ।। ततो रक्षानिवद्धोऽसौ कण्ठपीठे तलाधिपः। हाररूपोऽभवत्सोऽपि चलत्तरलनायकः ॥ ३५१. ।। उपरिष्टात् ततः पुर्या विचके देवता शिलाम् । पुरीपिधानवत् कालचक्रवद्यमवक्त्रवत् ॥ ३५२ ।। तामालोक्य भयोभ्रान्तः सपौरोऽजनि. भूपतिः । सर्वासामेव भीतीनां मरणं हि महाभयम् ।। ३५३ ।। सागसं पृथिवीपालं सपोरं सपरिच्छदम् । एषा हन्मि शिलापातादिति शृण्वन्तु मे वचः॥ ३५४ ॥ स्मरन्तु देवतां पौरा युष्मज्यसनवारिणीम् । क्रुद्धाऽहं सर्वथा दोषरहितष्ठिनो वधात् ।। ३५५ ।। रेरे! धरेश! नो वेत्सि स्वभार्याया विजृम्भितम् । यदस्य चिन्तितं मूढ ! तत्ते पततु मस्तके ॥ ३५६ ।। इति दैवं वचः श्रुत्वा वज्रपातसहोदरम् । मृत्युभीतो नृपः प्राह खामिन्यागः सहख मे॥३५७।। अविमृश्य विधाताऽसि क्षन्तव्यो. दुर्नयो मम ।
२३०. मल्लिनाथमहाकाव्ये- :विनने सव्यलीकेपि महात्मानः कृपापराः ॥ ३५८ ॥ द्विपेन्द्रे चेदमुं मूढ! स्वयं धातासि सन्मतिम् । मौलौ दधासि चेच्छत्रं छत्रधारकवत्स्वयम् ॥ ३५९ ॥ तदा ते जीवितं राज्यं कृतरसं भविष्यति । अन्यथा ते शिलापातान्निपातो भविता द्रुतम् ।। ३६० ।। श्रुत्वेदं भीतभीतोऽसौ सपौरः पादचारतः । वध्यभूमीमनुप्राप्तो गृहीतमाभृतोत्करः ।। ३६१ ।।. श्रेष्ठिनिरपराधोऽपि खेदितो यद्विमानतः । तत् क्षमस्व भवाशेषजीवानां जीवितपदः ॥ ३६२ ॥ तत्मभावादिहाऽऽयान्ति देवता अपि पत्तिवत् । अस्मादृशाः कियन्मात्रा निर्विकारमतल्लिके!? ॥ ३६३ ॥ :. कुम्भिपृष्ठे समारोप्य श्रेष्ठिनं श्रेष्ठितायुतम् । वभार स स्वयं मूर्ध्नि विमलातपवारणम् ।। ३६४ ॥ पौरैः प्रमुदितः साकं गायमानावदानभृत् । वन्दिभिः स्तूयमानस्तु वर्ण्यमानः कवीश्वरैः ॥ ३६५ ।। उद्घोष्यमाणमङ्गल्यो वृद्धस्त्रीभिः पदे पदे । खगेहेऽगाद् वणिग्नेता भवरागविरागवान् ।। ३६६ ।। (युग्मम् ) भूमीपतिनिवृत्य स्खमावासमगमत् ततः । मनोरमामनुज्ञाप्य देवतापि तिरोदधे ॥ ३६७ ।। क्षणाद् बन्धः क्षणात् पूजा क्षणाद् दुःखं क्षणात् सुखम् । क्षणिकेऽस्मिन् भवे सर्व दृश्यते क्षणिकं किल ।। ३६८ ।। खातिप्रांता यथा मेघा द्विरदान्ता यथा श्रियः । तथा राजप्रसादाश्च विपदन्ता असंशयम् ॥ ३६९ ।। यकाभ्यामेव कर्णाभ्यां श्रुतं स्वगुणवर्णनम् । रे! पारदारिक! इति ताभ्यामेव हि शुश्रुवे ॥ ३७० ।। येरेव विनयोत्कर्षात पादा मे वन्दिताश्विरम् ।
सप्तमः सर्गः। २३१ . तैरेव ताडितः शातैः कृपाणैः निष्कृपाऽऽशयः ॥ ३७१ ।। इत्थं निध्यायतस्तस्य समागात्पावनाकृतिः। भूरिः कोऽपि श्रुताम्भोधिसमुल्लासनचन्द्रमाः ।। ३७२ ॥ राज्ञा स पोरलोकैश्च वार्यमाणोऽपि सन्मतिः। संवेगादाददे दीक्षामन्तिके तस्य भावतः ॥ ३७३ ॥ अभयाऽपि प्रभावं तं प्रभावन्तं निरीक्ष्य तम् । उदध्यात्मानमरोजीवितत्यागमञ्जसा ।। ३७४ ।। अथ पाटलिपुत्रस्य श्मशाने व्यन्तरामरी । अभूदुब्दन्धनायैहि व्यन्तरत्वं मजायते ॥ ३७५ ॥ यत:- उद्धन्धनाद् विपग्रासाद् रज्जुबन्धाद् हुताशनात् । सलिलस्य प्रवेशाच्च व्यन्तरत्वं प्रकीर्तितम् ॥ ३७६ ॥ चेद् विशुद्धं भवेचतो निधने कर्मलाघवात् । महादुःखनिधानेपु परथा नरकादिषु ।। ३७७ ॥ (युग्मम्) नरनाथभयोद्धान्ता तथा धान्यपि पण्डिता । चम्पापुर्या विनिःसृत्य पाटलीपुत्रमास्थिता ॥ ३७८ ॥ देवदत्ताभिधानाया वेश्याया गृहमागता । रूपं सुदर्शनस्योच्चैः सदा व्याख्यातवत्यऽसौ ।। ३७९ ॥ 'तद्गुणश्रवणादेपा जातरागा दिने दिने । कृष्णपक्षेन्दुलेखेव भजते स्म परिक्षयम् ।। ३८० ॥ "ततः सोऽपि महासत्त्वो गीतार्थः श्रुतपारगः । एकाकी प्रतिमां धीमान् भेजे गुरुनिदेशतः ॥ ३८१ ॥ विहरन्मेदिनीपीठे तपाशोषितविग्रहः । समस्खलब्धिसंपूर्णः समागात पाटलीपथे ।। ३८२ ।। सिद्धान्तोक्तविधानेन भिक्षायै पर्यटनसौ। निरक्ष्यत तयाघाच्या देवदत्तासमेतया ॥ ३८३॥ . . .
२३२ मल्लिनाथमहाकाव्ये- ऊचे सा भगवानेषःसाधुः सुदर्शनाभिधः । यद्वा मिः क्षणमिव दिन निर्गम्यते मया ॥ ३८४ ॥ : योष तपसा क्षीणस्तथाऽप्यद्भुतरूपभाक् । भनोऽपि कलशो हैमो न तुल्यः कलशैः परैः ॥ ३८५ ।। तदादेशात् ततः काचिद् गत्वा चेटी तदन्तिके । गर्भश्राद्ध्युपमानेन ववन्दे चरणौ सुनेः ।। ३८६ ।। उपोषिता मुनेऽस्माकं स्वामिनी श्वस्तनेऽहनि । इदानीं पारणां कर्त्ता तदायातु भवांस्ततः ॥ ३८७ ॥ ऋजुचेता महासत्त्वस्तया दर्शितवम॑ना । भ्राम्यन् वेश्यागृहं मापदपरिज्ञातचर्यया ॥ ३८८.॥ यथा यथा मुनिर्गहमविशन्मुनिचर्यया । तथा तथार्गलां चेटी ददाति म दुराशया ॥ ३८९ ।। चलनेत्राञ्चलैः साधोश्चारित्रं कज्जलध्वजम् । विध्यापयितुमारेभे सा रम्भेव मनोहरा ।। ३९० ॥ यद्यपि व्रतवानसि तथापि मम विग्रहः । विग्रहो मूर्तिमान् जज्ञे घिर मे सुन्दरमूर्त्तिताम् ।। ३९१ ।। ध्यात्वेति मौनमाधाय कायोत्सर्ग ददौ मुनिः । कायोत्सर्गाद् विलीयन्ते उपसर्गपरम्पराः ॥ ३९२ ।। सकलं वासरं साधुः खेदितः कामजल्पनैः । तथापि ध्यानतोऽचालीत्कचिन्नैवाऽश्मपुत्रवत् ।। ३९३ ॥ देवदत्तानिदेशेन रात्रौ साधुसुदर्शनः । परित्यक्तः पितृवने क्रीडत्कौशिकभीषणे ॥ ३९४ ॥ अथासौ व्यन्तरी तत्र क्रीडन्ती वीक्ष्य तं मुनिम् । पूर्ववैरं स्मृति मापावधिज्ञानप्रयोगतः ॥ ३९५ ॥ विचक्रे शीतलं वातं तुषारकणवर्षिणम् । येनामाभिर्विदीर्येत किं पुनस्तादृशां तनूः १ ॥३९६ ॥ ततः शकुनिकारूपं विकृत्य व्यन्तरामरी ।
सप्तमः सर्गः। २३३ ? भृत्वा पक्षी च नीरेण स्थित्वा तस्योपरि Qधा॥३९७॥ मोचयन्ती जलान्युच्चैः पक्षगाणि शनैः शनैः। विदधे पक्षपातं सा तालसन्ताऽनिलायितम् ॥३९८॥ (युग्मम् ) तपःक्षामो विवसनः कथं शीतं सहेद मुनिः।। तगात्रं कम्पितव्याजाच्छीत रेकरोदिव ॥३९९॥ रेरे! नीव ! कियन्मानं तव कष्टमुपस्थितम् ।। यत्सोई नरके तस्य वर्णिकामात्रमीक्ष्यताम् ।।४००|| पायितं त्रपु संतप्तं कुम्भीपाकेपु पाचितः। तारितः पूयसंपूर्णी वैतरिणीं तरङ्गिणीम् ।।४०१॥ संछिन्नः कुन्तचक्रायः परमाधार्मिक सुरैः। तत्कष्टं जीव ! हृदये दधतः किमिदं तव ॥४०२॥ तबोपकृतिकारिण्याः कर्पयन्त्यास्तनूमिमाम् । एतस्या नालमीशोऽसि कर्तुं प्रत्युपकारिताम् ।।४०३॥ एवं भावयतस्तस्य सहमानस्य तां व्यथाम् । सूर्योदये घरज्ञानमुत्पेदे विश्वदीपकम् ।।४०४॥ अथ भल्या समाकृष्टा आगतास्त्रिदशास्तदा। केवलज्ञानमहिमां चक्रिरे सुमहैः सह ।।४०५॥ ततो देवकृते पद्मासने मुनिमतगजः। उपाविक्षदथाऽऽनन्तुमापतन् पुरवासिनः ॥४०॥ ततो देशनया तस्य प्रबुद्धा व्यन्तरामरी । अन्येऽपि वहवो लोका भेजिरे धर्ममाईतम् ॥४०७॥ अथो विहृत्य सुचिरं केवली प्रतिवोषकत् । निर्वाणसंपदं भेजे सर्वक्लेशप्रणाशकम् ।।४०८॥ राजन्! यथाऽसुना चक्रे गृहस्थत्वेऽपि सद्धिया । व्रतं खदारसंतोषं तथा कार्य नरैरपि.॥४०९॥ अय प्रणम्य तीर्थसं.श्रीकुम्भोऽभिंद्र कृपा
२३४
मल्लिनायमहाकाव्ये-
'धन्य सुदर्शना श्रेष्ठी जिनदर्शनविश्रुतः ॥४१०॥
तावत्सर्वो जनो धीमांस्तावत्सर्वोऽपि पण्डितः ।
तावच्छुचिः कृतज्ञश्च यावद् न स्त्रीकटाक्षितः॥४१॥
विकारर्मान्मयैः काम्यैर्यद्धनेरिव ताडितम् ।
न भिन्न रनवज्जात्यं शीलं तद् नितेः पदम् ।।४१२॥
अय प्राकाशयद्विश्वनायः पाथोदनिखनः।
परिग्रहमिति माणुव्रत पञ्चमं व्रतम् ॥४१॥
पोतो यथाऽतिसंपूर्णो मन्जत्येव महोदधौ ।
तथा परिमितिभ्रष्टः संसारे दुस्तरे नरः ॥४१॥
धनधान्यक्षेत्रवस्तुरजतस्य चतुष्पदाम् ।
सुवर्णकुप्यद्विपदा प्रमाण पञ्चम व्रतम् ।।४१५॥
सचिचाचिचयोर्येन यावती विरतिः कृता।
तावती तेन पाल्यैव नोष्टया मूलमार्गवत् ।।४१६।।
परिग्रहमिति चर्ये ज्ञातजिनशासनाः ।
ते स्युर्भोगपदं शश्वद् भोगदचसुदत्तवत् ।। ४१७॥
समस्ति भारतेमुत्र पुरं रत्नाकराभिधम् ।
यद्वेष्टितमिवाम्भोधिवलयैः परिखामिषात् ॥४१८॥
सत्यमस्वत्र भूपाल: समतापः परन्तपः।
सद्गुणैयथिता कीर्तिपटी छादयते दिशः ४१९॥
तसिनेवास्ति वास्तव्यो भोगदत्ताभिधः सुधीः ।
इभ्यपुत्रः परं दैवाद् दारिद्यस्य निकेतनम् ॥४२०॥
लक्ष्मीः खलु सखी कीर्तेर्लक्ष्मीः कल्याणपारदः ।
लक्ष्मीर्विपल्लतादात्रं लक्ष्मी रक्षणमङ्गलम् ।।४२१॥
जातिः कुलं विवेकोपि सर्वे रूपादयो गुणाः ।
एकयैव श्रिया हीनास्तृणायन्ते शरीरिणाम् ।।४२२॥
धनुर्दण्डः सुवंशोऽपि सगुणः पर्ववानपि ।
सतवं लक्षलामाय यतते कोटिमानपि ॥४२३॥
सप्तमः सर्गः। २३५ लक्ष्म्या मुक्तस्य पाथोघेरपेयं जलमप्यभूत् । शाक्रीफलानि खानि भवन्ति श्रीमतो गृहे ॥४२४॥ गोपमुख्योऽपि कृष्णोऽपि हलिनो वन्धुरप्यहो।। लक्ष्म्या कक्षीकृतः शश्वद् भण्यते पुरुपोत्तमः॥४२५॥ एवं विचिन्त्य नगराद् निर्ययौ देवतासखः। अरण्ये योगिनं कंचिद् वीक्षामासच विमितः ॥४२६॥ वितन्त्रता तदादेश तन्वता शिष्यतां भृशम् अरञ्जि तेन योगीन्द्रो विनयाकिन सिध्यति ॥४२७॥ हंहो नर ! कथं शश्वत्सेवसे मां कृतादरः। तद् ब्रूहि चिन्तितं चित्ते पूरये ते समीहितम् ।।४२८॥ योगीन्द्र द्रविणार्थ्यस्मि तदुपाय निवेदय । वित्तजातविहीनोऽपि नरो गौरिव गण्यते ॥ ४२९.॥ वत्सास्त्र कूपिका कान्ता कोटीवेघरसाकुला। अस्यां प्रविश्य वेगेन तमाप निमेषतः ॥ ४३०॥ यथा ते जायते स्वर्णसिद्धिश्चिन्तितपूरदा । अचिन्यो हि रसादीनां महिमा कल्पवृक्षवत् ॥४३१॥ ततश्च लघुखवायां निवेश्याऽमुं सतुम्बकम् । गुणैः असमरैः क्षिप्तः कूपिकायां खनाविव ॥४३२॥ उपत्यकास्थितेनाऽथ कण्ठपीठागतासुना। कूपिका गतो यावत् तावद् दृष्टः स केनचित् ।।४३॥ हंहो !नर रसं कमादाक्रष्टुं त्वं समुद्यतः । तदवश्यं मृतिस्तेन न क्षेमो यमसंनिधौ ॥४३४॥ इत्याकर्ण्य वचस्तस्य भेरीभाइकारभासुरम् । उचे कस्त्वं कुतोऽप्यत्र संस्थिवस्तनिवेदय ॥४३५॥ भ्रातरस्मि धनग्रामवासी व्यवहृतिप्रियः। मुदत्तनामतो दत्तद्रव्यः कौडम्बिकबजे ॥ ४३६ ॥.. स ग्रामश्चौरपाटीभिर्भमा प्रज्वालितो भृशम् ।
मल्लिनाथमहाकाव्ये-
ततोऽहं काननेमुष्मिन् भ्राम्यन् योगीन्द्रमैक्षिषि॥४३७॥
सेवितश्च मया पाणिपादसंवाहनादिभिः ।
रञ्जितश्च धनोपायमित्यभाषिष्ट दुष्टधीः ॥.४३८ ॥
अमुष्या रसमाकृष्य कृत्वा हेमशतान्यहो ।
रसेन देखनेनैव दारिश्यस्य जलाञ्जलिम् ।। ४३९ ॥
ततोऽहं त्वामिवात्रैव क्षिप्तस्तेन दुरात्मना।.
मयाऽलाबु भृतं भद्र रसेनाऽऽनन्ददायिना ॥४४॥
कूपिकाकण्ठमानीतस्तेनाकृष्टो गुणोद्धृतेः ।
याचितं तुम्बकं भद्र ! मुग्धबुद्ध्या मयांर्पितम् ॥४४॥
'छित्त्वा छित्त्वा गुणं तेन पातितो दुष्टबुद्धिना ।
पततानं मया लब्धाऽधित्यका सुखवृत्तिका-४४२॥
अस्यां निवसतो भद्र ! दिनाष्टकमजायत ।
इतथागाद् भवानन महोत्रज इवाऽपरः ॥४४३॥
द्यूतं वेश्यानुरागश्च धातुवादश्च विभ्रमः ।
यौगिसेवा सदा रुष्टे दैवेऽमी स्युःशरीरिणाम् ॥४४४॥
.बहवो द्रविणोपायाः पाशुपाल्यादिकाः क्षिती।
योगिसेवा कथं चक्रे मतिः कर्मानुसारिणी॥४४५॥
पकराशिगतत्वेन योगिनश्चः यमस्य च ।
विभेमि स्वप्नमध्येऽपि किं पुना रूपदर्शनात् ॥४४६॥
: श्रुत्वेति भोगदत्तोऽथ स्थितो भीतस्तदन्तिके ।
मूकीभूत इवोडीनमाणः प्राणभयं महत् १४४७॥
इतश्च योगिनाऽप्यूचे वत्साऽलाबु रसेन मे ।
संपूर्णीकुरु वेगेन विघ्ननिघ्नः शुभक्षणः ।। १४८ ।।
नाऽवदद् भोगदत्तोऽथ भाषितोऽपि मुहुर्मुहुः ।
शुकवत्पञ्जरान्तस्थो मार्जारस्य निरीक्षणात् ॥४४९॥
सपा छित्त्वा विचेतस्को योग्यभूद् योग्यकर्माण ।
एतौ तु निर्गमोपायं ध्यायन्तौ गर्भगाविव ॥४५०॥
सप्तमः सर्गः २३७ ऊवस्थभोंगदत्तेन मलम्वीकृतवाहुनां । द्वितीयापित्यका दृष्टा प्रत्याशावीजभूमिका ।।४५१|| ततो द्वावपि तो तत्र वरत्रालम्बिताविव । द्वितीयोत्पत्यकामाप्ती निर्यातौ च बहिस्ततः४५२|| इतश्च चलितौ तस्मात् प्रेतेशसदनादिव । माप्तः शोणेक्षणों योगी मदिरामदमत्तवत् ॥४५३।। ततश्च दण्डमादाय डुढौके योगवित् वयो। तावपि प्रसृतप्राणौ चलतः स्म महाभुजौ ॥४५॥ भल्लामाल मुष्टामुष्टि दण्डादण्डि भुजाभुजि । अभूतेषां महायुद्ध प्रेक्षणीयमिवान्तकम् ।।४५५॥ बद्धस्ताभ्यां दृढं योगी कन्दलीजालरज्जुभिः। यक्रियेताऽस्य तद् न्यूनं, शठे हि शठता मता॥४५६॥ २।२। वत्सौ ! कर्यकारं हथो मां गलसंग्रहात् ।। युवयोविणं दास्ये वाञ्छाविच्छेदकोविदम् ॥४५७॥ अस्या रसं समाकृष्य कोटीवेषं प्रयच्छ नौ। तदा ते जीवितं भावि नान्यथा स्मर्यतां प्रभुः ॥४५८॥ आमित्युक्तेश्य तेनोच्चैः क्षिप्तोऽसौ कूपिकाजले । तेनैव च प्रयोगेण सोऽभूत् संभृततुम्बकः ।।४५९॥ न पूर्वमर्पयिष्यामि भवतस्तुम्बकं करे । पश्चान्मदीयमाचारं भवन्तौ कुरुतो यतः ॥ ४६॥ यथा ते योगवित् । प्राणा वल्लभा आवयोस्तथा। अयं न्यायः कयं क्षेपे विस्मृतो भवता भृशम् ॥४६१॥ ततस्ताभ्यां स योगीन्द्र आकृष्टस्तुम्बपात्रयुक् । एतेन रसकर्माणि कथितानि तयोः पुरः॥४६२ ।। अयोभौ वलितौ तस्मात् तूर्णं पूर्णमनोरंथौ । विभ्रतौ सुचिरं चित्ते योगिनः कूटनाटकम् ।।४६३।। मार्गे भिडै सहालोच्य गृहीता यद्यमुं कथम् ।।
11
..
२३८
मल्लिनाथमहाकाव्ये-
तदा प्रसारितशोहूतं वातेन कजलम् ॥ ४६४ ॥
ध्यात्वेति धरिणीपीठे निक्षिप्याला संभृतम् ।
चेलतुः सत्वरं भीतौ वीक्षमाणौ दिगन्तरान् ॥४६॥
इतश्च नाहलैर्वद्ध्वा गृहीत्वाऽलावु चापरम् ।
कयश्चिद् विमुमुचाते स्मृताभीप्सितदैवतौ ॥४६६॥
यद्ययं रसः समाप्तस्तथापि विधिवलिगतात् ।
प्रनष्टः किमभाग्यानां करस्थमपि याति न॥४६७||
उपाया वहवोऽस्माभिर्विहिता दुष्करा अपि ।
परं भाग्येतरं याति दूरतः पुरतः स्थितम् ।।४६८i:
ध्यात्वेति पर्यटन्तौ च धावित्वा नाहलैः पुनः ।
धृत्वा धृत्वा पदेच्या निक्षिप्तौ गर्भवेश्मनि ॥४६९॥
ऊचतुर्यामिकानावां कथंकारं धृतौ ननु ।
गृहीतरससर्वखौ गृहीतौषधसंचयौ ॥ ४७० ॥
ऊचिरे यामिका भद्रौ ! योगिना नाहलेशितुः ।
दत्त्वा हेन्नः सहस्रं च धारितौ मारणेच्छया ॥४७॥
कपाटच्छन्नगौंकोवासिनौ गतमानसौ।
श्रावं श्रावं गिरो जातौ किंकर्तव्यपरायणौ ॥४७२॥
भोगदत्तेन पाणिभ्यामादायाश्मानमुद्भटम् ।
अभि भट्टारिकां भक्तुं डुढौके निर्भयत्वतः ॥४७॥
रे चौरग्रामवास्तव्ये! पदरक्षाभिधायिनि ।।
नेयं भवसि निग्राह्ये ! ततः प्रोवाच देवता ।। ४७४ ॥
निरागसं कथं भक्तुमुद्यतोऽसि महामते ।
सोप्यूचेन समाचारो यधो हि निरागसाम् ॥४७॥
आवाभ्यां हन्त ! पान्थाभ्यां किमागो विहितं कचित् ।
येन क्षितौ तवागारद्वारि विन्यस्तयामिके! ॥४७६।।
यद् यूयं भणिताऽशेषं तत्कुवें पितृमावत् ।
सवेन विहिता अर्थाः संपद्यन्ते क्षणादपि ॥४७॥
सप्तमः सर्गः। २३९ पद्रदेवि ! परं तुम्वं भूमीमध्यनिवेशितम् । आनीयार्पय नी मुञ्च पल्लिदेशस्य दूरतः ।। ४७८ ॥ तत्तया विहिते देव्या चलिती मगधानमि। प्रापतुः कुशस्थलाख्यं पुरं प्रवरमंदिरम् ॥ ४७९ ।। तत्र मूत्रभृतः कुट्यां स्थित्वा मुक्त्वा च तुम्बकम् । रक्षाकृत निवेश्याऽमुं भोगदत्ता बहिर्ययो । ४८० ॥ मुदत्तऽप्यय निद्राणे गलितालायुकच्छटा । तया भूत्रभृतो वंशी संतप्ता हेममय्यभूत् ।। ७८१ ॥ तं वीक्ष्य मूत्रभृनुशे गृहीत्वा तुम्बकं करे। विमुच्याऽनलोऽधाक्षीत्कुटीं पूत्कारपूर्वकम् ।।४८२॥ निद्रायमाणं धृत्वाऽय सुदत्तं करकरवे । वहिविक्षेप वेगेन तन्वन् मायादयोदयम् ॥ ४८३ ॥ आखुनाऽलायुकगुणश्चिच्छेदे जीर्णगहगः। रसश्च पतितो भूमी निष्फलत्वमजायत ।। ४८४ ॥ यत:- येऽर्थाः विश्वस्तपातेन येऽर्था मित्रवधादपि । न तेोः सुचिरं सन्ति वदयालीढा गृहा इव ।।४८५॥ इतश्चेतो भोगदत्तो दग्यां सूत्रभृतः कुटीम् । हप्ता पमच्छ सुहृदं तुम्बकं तव संनिधौ ॥ ४८६ ॥ मित्रोकः संस्थितं तुम्बं भस्मराशिरजायत । अद्यापि भाग्यलेशोऽपि नावयोः क्रियतां कथम् । ४८७ अथो तो निर्गतौ तस्मात् प्राप्य वैभारपर्वतम् । स्मृतेष्टदेवतौ यावद् झम्पां दातुं समुद्यतौ ॥ ४८८ ॥ तावन्महीभृतः शृङ्गे कायोत्सर्गस्थितो मुनिः। उभाभ्यां समतां तन्वन् ददृशेऽसौ शोः पुर। ४८९॥ ततो मृत्युमति काश्चिच्छिथिलीकृत्य तावुभौ । आगत्य प्रणिपत्यार्षि ववन्दाते शुभाशयो । ४९॥
. २४० मल्लिनाथमहाकाव्ये- मुनिर्व्यानं विमुच्याथ दत्त्वा धर्माशिर्ष तयोः। अभाषिष्टेति लोभान्धौ विहतौ स्थश्चिरंक्षितौ.।।४९१६॥ योगिनस्तुम्बके प्राप्य पद्रदेव्याः प्रभावतः । लब्धायुष्को पुनतिमरणावत्र पर्वते ।। ४९२ ।।. लोभक्षोभमहाम्भोधेभ्रंमकल्लोलमालिनः।: इदं फेनायितं.भद्रौ ! जानीतां धीविमर्शनात् ।।४९३॥ जनाः पीतमहामोहकनकाः कनकाशया। लभन्ते प्राकृताः मायः खणे प्राकृतभाषया ॥४९४॥ तृष्णा खानिरंगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तभूयो भूयो विवर्धते ॥ ४९५ ।। च्युता दन्ताः सिताः केशा वाग्विरोध पदे पदे । पातसह्यममुं देहं तृष्णा साध्वी न शाम्यति ॥ ४९६.॥ प्रभूतैरपि समाप्तरस्तृष्णा न शाम्यति । हविषा कृष्णवर्मेव भूयो भूयः प्रवर्धते ॥ ४९७ ॥ पादसंवाहनादीनि वेश्यानामपि कुर्वते । अवन्धमपि वन्दन्ते उच्छिष्टमपि भुञ्जते ॥ ४९८॥ अकृत्यमपि कुर्वन्ति कृत्यमपि त्यजन्त्यलम् । लोभाभिभूता मनुजाः किं किं नाम न कुर्वते ॥४९९॥ परिग्रहस्य प्रमितिं कुर्वतां लोभशान्तये । सेतुवन्धमिवाऽपारमहामोहमहोदधेः ॥ ५००॥ अथ तौ द्वादशश्राद्धव्रतान्यप्यविशेषतः । त्रिंशत्कनकसहस्राश्चक्रतुः ममितिव्रते ॥ ५०१ ॥ इतो भ्रात्सुतः साधोर्विद्युन्मालीति खेचरः। नभसा विद्यया पाप वन्दितुं तं महामुनिम् ।। ५०२ ॥ नत्वा मुनिमिमौ दृष्ट्वा पृच्छति म नभश्वरः। काविमौ भद्रकाकारौ त्वन्मुखेक्षणतत्परौ ।। ५०३ ।। ..
सप्तमः सर्गः1 २४१ मुधीरिदानीमापनद्वादशश्रावकवती। . भोगदत्तमुदत्ताख्यो भद्रका भद्रकोविदौ । ५०४॥ मुने! युक्तं ततः कर्तु साधु साधर्मिकाईणम् । :: विधया वित्तदान; यतो राद्धान्तगीरिति ॥५०५॥ अन्योन्यदेशजन्मानस्त्वन्यान्याहारवर्द्रिताः । जिनशासनसंपन्नाः सर्वे ते वान्धवा मताः ।।५०६॥ : ततः कुष्टरुजाहन्त वलयं सन्महापधेः । अर्पयामास ताभ्यां स सत्ये मुदन्ति नोत्तमाः॥५०७॥ घन्यो स्तः कृतपुण्यो स्तः सुलब्धजन्मजीविती । यदयं तीर्थकद्धर्मः संप्राप्तो दिव्यरत्नवत् ।। ५०८ ॥ ती प्रशस्य मुनि नत्वा विद्युन्माली तिरोदधे । तावप्येनं नमस्कृत्येयतुः पुरं कुशस्थलम् ॥ ५०९ ॥ . तत्रत्यभूमिनाथस्प नरदेवस्य संशिनः । पुत्रः परन्तपो नाम गलकुष्टरुजान्वितः ।। ५१० ॥ यः कश्चिदनमुल्लापं विदधाति कथंचन । स वर्णलक्षं गृहातु घोपयामासिवानिति ।। ५११ ।। इमामाघोपणां श्रुत्वा डिण्डिमध्यानपूर्वकम् । धारयामासतुर्वाधमानं पटहमुद्भटम् ।। ५१२ ॥ गत्वोपभूपमालोक्य कुमारं वेदनातुरम् । विनष्टनासिकं कुष्टरोगस्यातिभरादिव ॥ ५१३ ॥ (त्रिभिर्विशेपकम् ) . सप्ताहात् कामसंकाशः कुमारो रूपसंपदा । क्रियते स ततस्ताभ्यां वैद्याभ्यामिव नाकिनः ॥५१४॥ अथ भूमीपतिस्तुष्टोऽवादीद् विकसिताननः । इदं राज्यमियं लक्ष्मीर्युवयोरिति गृह्यताम् ॥ ५१५ ॥ हेनस्त्रिंशत्सहस्त्रेभ्यः परं भूमिपते ! हि नौ। १ सिद्धान्त-इत्यपि।
मल्लिनाथमहाकाव्ये-
मुक्त्वाऽस्ति नियम साधुपादान्ते विहितोभृशम् ।।५१६
तच्छुत्वा
विस्सिंतों राजा-माह धन्याविमौ नरौ ।
ययोनियम ईदृक्षो लोभाब्धेः कुम्भसंभवः ।।५१७:
तावन्मात्रं वरं स्वर्ण गृहीत्वोभौ पुरस्थितौ ।
पालयामांसतुः श्राद्धधर्म शुद्धं यथाविधि ॥ ५१८ ।।
अस्माकं मागधे देशे विहारं कुर्चतां सताम् ।
गृहीतारौ मुनीन्द्रत्वं यातारौ च परं. पदम् ।।५१९ ।।
इत्याकाहतो वाक्यमभाषिष्ट क्षमापतिः
तौ धन्यौं यौ प्रमोः पार्चे गृहीतारौ महानवम्।।५२ना
एक महावतं तीर्थनाथादधिगतं परम् ।
कामधेनुपयःसिक्तकल्पद्रोः साम्यमश्चति ॥५२१ ॥
स्वामिन् ! पञ्चाणुव्रतानि श्रुतान्येकानचेतसा ।
गुणवतत्रयी श्रोतुमुत्कस्तिष्ठामि साम्प्रतम् ॥ ५२२.॥
तत्राचं दिग्वतं भोगोपभोगाख्यं द्वितीयकम् ।
ततश्चानर्थदण्डाख्यं शृणु कुम्भमहीपते ! ॥ ५२३ ।।
कर्मणा गन्धेिकनेव सूक्ष्मीकृत्य प्रवेशितैः ।
इदं व्याप्त जगजीवैर्वासैरिव समुद्कः ॥ ५२४ ।।
स्थावरजङ्गममेदा वादरा अपि जन्तवः ।
सन्ति तिर्यगंधश्चोर्व तेषां व्यापत्तिभीरुणा ।। ५२५॥
आदाय दिग्बतं सम्यक् पालनीयं प्रयत्नतः ।.
अयतोऽयं यतः प्राणी तप्ताऽयोगोलसंनिभः ॥५२६॥
नियन्त्रिते हि देहे खे गमनं प्रति देहिना।
अभयं सर्वसत्वेभ्यो दत्तं पुण्यफलप्रदम् ॥ ५२७ ॥
दिग्वतग्रहणात् पाणी प्रेत्याऽमुत्र श्रियः पदम् ।
संपद्यतेतरा मित्रानन्द ऐरवते यथा ॥ ५२८ ।।
तयाहि पुष्करद्वीपे क्षेत्रे ऐरावताभिधे ।
पुरं भोगपुरं तत्र मित्रानन्दक्षितीश्वरः ॥ ५२९ ॥
. . सप्तमः सर्गः। २४३ शृङ्गाररसवापीभिर्वनिताभिर्दिवानिशम् । . साकं चिक्रीड राज्यस्य चिन्ता नैव चकार स: ५३०॥ कदाचिच्चषकैमैरश्चितैः स्मेरपङ्कजैः। रामाभिः सह मैरेयं पिबति स्म सविस्मयम् ॥५३१॥ कदाचिदुद्यानगतः पुष्पावचयमुच्चकैः । योषिद्भिः सह कुर्वाणो वसन्ते खेलति स्म सः॥ ५३२ ॥ वर्षासु कृतहर्षासु सौधोत्सङ्गे नराधिपः । मेघरागं स रामाभिरगायत्तुम्बुरूपमः ।। ५३३ ।। कदाचित् क्रीडावापिषु भृङ्गीमिर्लोललोचनाः । असिञ्चन् कामतप्ताङ्गीः स करीव करेणुकाः ।। ५३४ ।। एवं विषयसेवा स वितन्यानो दिवानिशम् । दिवसान् गमयामास हर्षोत्कर्षमयानिव ॥ ५३५ ॥ अन्येयुमन्त्रिणो भूपमुपरुध्य महाग्रहात् । एवं विज्ञपयामासुम॒द्वीकारम्यया गिरा ॥ ५३६ ।। खमदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत् किश्चिदेवं विषयजं सुखम् ॥ ५३७ ।। शब्दादिविषयाऽऽसक्ता धर्ममार्गपराङ्मुखाः । अजरामरवद् मूढाश्चेष्टन्ते नष्टचेतनाः ॥ ५३८ ।। विषयेषु निषीदन्तो न जानन्ति हिताहितम् । शृण्वन्ति न हितं वाक्यमेडमूका इवानिशम् ।। ५३९ ।। आदी हृद्यरसाऽऽस्वादाः पर्यन्ते परितापिनः । विपया विषवत् त्याज्याः पुंसा स्वहितमिच्छता ॥५४०॥ एकवारं विषं हन्ति भुक्तमेव न चिन्तितम् । विषयाश्चिन्तनादेव बहुधा च विनाशकाः ।। ५४१ ॥ माता अपि नरैः कामा दुःखं ददति देहिनाम् । क्षणात्तुष्टाः क्षणाद् रुष्टा गन्धर्वनगरोपमाः ॥ ५४२ ॥ विपयेषु प्रसक्तानां कन्दर्पाशाविधायिनाम् ।
२४४ मल्लिनाथमहाकाव्ये- लोकदयविघांतिन्यों जायन्तेऽनर्थवीथयः॥५४३।। :एतेषामबलामूलं शूलं निर्वृतिसंपदः । पश्य धर्मधरो राजा स्त्रियः पञ्चत्वमासदत् ।।:५४४ ॥ तथा त्रैव स क्षेत्रे नगरे पुण्डवर्द्धने । राजा धर्मधरो नाम दुर्द्धरो वैरिभूभुनाम् ॥ ५४५ ॥ तत्रैव नगरेऽस्ति स ब्राह्मणो गोधनाभिधः। सावित्री प्रेयसी तस्य सावित्री ब्रह्मणो यथा ॥ ५४६ ।। साऽन्यदा भूभुजा दृष्टा निःसमानवपुलता। हठादन्तः पुरे क्षिप्ता कामिनां का विवेकता? ॥ ५४७ ॥ गृहीतां गृहिणी ज्ञात्वा ब्राह्मणो वेदपारगः। मुष्टो मुष्टं इति चिरं व्याजहार घृणाकरम् ॥ ५४८.॥ मिये प्राणप्रिय ! हा! हा! मेरपरुहानने । म्रियेऽहं त्वां विना कस्माद् गताऽसि नृपवेश्मनि ॥५४९॥ त्वां विना दिवसां जाता दीर्घा मासोपमा मम । सर्वगां त्वां निरीक्षेऽहं विष्णुमूर्तिमिवाऽपराम् ।। ५५० ।। खांही खधा कथंडारं करिष्ये त्वां विना मिये ।।: धर्मक्रियाणां मूलं हि गृहिण्यो गृहमधिनाम् ॥ ५५१ ।। विलंपनिति पदकर्मा भ्राम्यन् शून्यमनास्ततः । जगौ पञ्चपदीं तस्याः प्रेमपादपसारिणीम् ।। ५५२ ।। इतिश्च तनयस्तस्य पञ्चवर्षप्रमाणभृत् । वाणिज्यकारकैराचो ही दुष्कर्मविजृम्भितम् ।। ५५३ ॥ कालक्रमेण संपना त्तस्य तदेयजीविका । व्यतिक्रान्ते हि सप्ताहे दुःखं विस्मरति स्फुटम् ॥ ५५४ ।। सावित्र्यां सह भूपालों बुभुजे विषयान् सदा । साऽपि प्रेयःसुतस्नेहगेहादि व्यस्मरत्ततः ॥ ५५५ ॥ अन्यदा ब्राह्मणो राजसौधाग्रे.मधुरखरम् । तस्याः पंञ्चपदी गायन् ददृशे जगतीमुजा 1.५५६.॥
सप्तमः सर्गः। २४५ प्रियेऽमुं पश्य को न्वेप इति व्याकुरु सत्वरम् ।। :. · साऽप्यूचे देव ! नैवाऽमुं जानेऽहं कोऽयमित्यपि ॥५५७॥ आज्ञाऽत्र राजपादानां यदि जानामि किञ्चन । : उवाच भूपतिर्भद्रे ! परिणीतः पतिस्तव ।। ५५८ ॥ निशम्येतिःच सा दध्यौ परिणीतः पतिश्च यः। i. .तं न वेनि महाभाग ! घिग्.मां कामवशंवदाम् ॥ ५५९ ॥ अनेन भूभुजा शीलं मामकीनं विखण्डितम् । ; तदेन खण्डयिष्यामि कृते प्रतिकृतिः शुभा ॥ ५६० ॥ अवहित्थमधाऽऽहत्य दिनं निर्गम्य दुःखिता। । निशायां भूभुजं सुप्तं निजघान घनेया॥ ५६१ ।। इतश्च यामिकानां सा वञ्चयित्वा शो निशि। 1 . स्वकीयाऽऽवासमायासीदपश्यञ्च निजं प्रियम् ॥ ५६२ ॥ अङ्गुष्ठमोटनाचक्रे निद्राच्छेदममुष्य सा । यं देवीति निर्ध्यायन्नुपविष्टो द्विजोऽभवत् ॥ ५६३ ॥ प्राणप्रिय ! प्रिया तेसि सावित्रीति विचिन्तय । . : एतान्ति दिनान्यस्थामपश्यन्ती छलं कचित् ।। ५६४ ।। इदानीं तु छलं प्राप्य समागां तव संनिधौं। :: त्वत्पादौ शरणं मे.स्तां गुरुः स्त्रीणां पतिर्यतः ॥ ५६५ ॥ अकस्मादीर्घपृष्ठेन पृष्ठे दष्टोऽथ स द्विजः । । : भीतैरिव .विषावेगात् प्राणैश्च सुसुचे क्षणात् ॥ ५६६ ।। गतमाणं प्रियं प्रेक्ष्य विज्ञातनिजचोष्टिता । तस्यामेव निशीथिन्यां चलिता पश्चिमा प्रति ॥ ५६७ ॥ कतिभिर्दिवसैः पाप नगरं पाटलाभिधम् । :: : देवतामन्दिरं चैक निरैक्षिष्ट मनोहरम् ।। ५६८ ।।.. इतथाऽगात्कामदंष्ट्रा वेश्या वैशिकमन्दिरं ।.. बिलोललोचनामेनां विलोक्य ध्यातवत्यसौ.॥ ५६९ ।। १ पतिरेव गुरु::त्रियामित्यपि । . .
२४६ मल्लिनाथमहाकाव्ये- स्थानभ्रष्टा च रुष्टा च नष्टा कष्टादुपागता । अमदावासयोग्याऽसौ योग्या कुसुमधन्विनः ।। ५७० ॥ ध्यात्वेति पुत्रि ! जामेयि! कथं नागा गृहे मम ।। दैवादुपागते दुःखे का त्रया मातृमन्दिरे १ ॥ ५७१।। इत्युक्त्वा निजवाहुभ्यामुपगृह्य पणाङ्गना । दृशौ बाष्पाश्चिते कृत्वा तां निनाय निजालयम् ।।५७२।। नपयित्वा च तां पीत्या विलिप्तां चन्दनद्रवैः । गणिका. चन्द्रिकाशुभ्रे वाससी पर्यधापयत् ।। ५७३ ।। आगच्छद्भिश्च गच्छद्भिर्नरैः प्राभृतसंभृतैः । देवता सकलेवाऽसौ सेव्यते स दिवांनिशम् ॥ ५७४ ।। अन्येद्युग्रहणं दत्वा स्थितः कश्चिद्धनेश्वरः । रमयित्वा निशा सा प्रातः पृष्टेति तेन सा ॥ ५७५ ॥ कौतस्कुताऽसि रंभोरु ! किमाख्यासि सुलोचने!१। त्वां दृष्ट्रा मे मनोजातं प्रेमा तन्वतो वद ॥ ५७६ ॥ साऽप्याख्यद् मूलतो वृत्तं नामस्थानपुरस्सरम् । ततः शय्यातलं मुक्त्वा विदूरस्थो जगाद सः॥ ५७७ ।। तव सूनुरहं मातहतो वाणिज्यकारकैः। हा ! अकार्यमिदं वृत्तं चण्डालैरपि वर्जितम् ॥ ५७८ ॥ यद्यहं खण्डशः कृत्वा देहं वह्नौ दहाम्यहो।। तथाप्यमुष्य पापस्य पारं गच्छामि न कचित् ॥ ५७९ ॥ अदृष्टच्येष्वहं नूनमद्रष्टव्यशिरोमणिः । अग्राह्यनामकेभ्योऽपि प्रथमः पृथिवीतले ॥ ५८० ॥ त्वद्भुवनं प्रविष्टोऽहं निषिद्धः शकुनैनहि । अथवा तेऽपि भाव्यर्थ विहन्तुं शक्नुवन्ति न ।। ५८१ ।। पातक क्षालयिष्यामि तदहं वहिसाधनात् । अत्युग्रकृतपापस्य नाऽन्या काचिद् गतिर्मम ॥ ५८२ ॥ अथैनां स नमस्कृत्य गत्वा निजकुटीं प्रगे।
सप्तमः सर्गः। २४७ . दत्त्वा दानानि दीनेभ्यो भमसात्समजायत ॥ ५८३ ।। साऽपि तद् दुष्कृतं मोचे वेश्यायाः पुरतो निजम् । मातरनिं प्रवेक्ष्यामि सुवर्णमिव शुद्धये ॥ ५८४ ॥ पुत्रि ! चान्द्रायणादीनि ब्रतानि विविधान्यपि । विधाय दुष्कृतं सर्व प्रक्षालय शुभाशये ! ॥ ५८५ ॥ दत्त्वा दानानि तीर्थेषु पुत्रि ! पातकमुत्सृज । नेदं. तब वपुः सोढा हुताशं स्फुरदर्चिपम् ।। ५८६ ।। महातीर्थनमस्कारात् तिलस्वर्णादिदानतः । पुत्रसङ्गादिकं पापं प्रयाति क्षयमञ्जसा ।। ५८७ ॥ एवं स्मार्तानि वाक्यानि श्रावयन्ती द्विजाऽऽननात् । दिनयामत्रयं यावत् खेदिता सा पणाङ्गना ॥ ५८८॥ नवीनैर्दशनैर्मातः! करिष्ये भोजनं स्फुटम् । : इति मे निश्चयो धर्मकार्ये विघ्नक्रियेति किम् ? ॥५८९॥ इति निश्चयमेतस्याः परिज्ञायाऽथ कुहिनी । ऊचे द्रव्यमिदं सर्वं कृतार्थीकुरु दानतः ॥ ५९० ॥ ततः सा विहितस्नाना ददाना दानमद्भुतम् । चितापार्थे समागत्य पौरलोकसमाकुला ।। ५९१ ।। चितां प्रदक्षिणीकृत्य विवेशानौ पणाङ्गना। इतोऽभूद् डामरो वातो महावृष्टिरजायत ।। ५९२ ।। तदङ्गस्पर्शभीत्येव ज्वलनो ज्वलितोऽपि सन् । निर्वाणः, नागरो लोकः प्रनष्टो जलताडितः।। ५९३ ।। किंचिद् दग्ध्वा ततो वेश्या निर्गत्य चितिमध्यतः 1: सरयूसरितस्वीरे पपात चितिदारुवत् ।। ५९४ ॥ स्तोकाम्भसि शफरीव वेपमाना मुहुर्मुहुः । रोदयन्ती दिशां चक्रं चक्रन्द कुरुरीव सा ।। ५९५ ।। विरते वारिदे वृष्टः कोऽपि गोपः समापतत् । शुश्राव रुदितं तस्या निशीथे करुणापरः ॥ ५९६ ।।
२४८. मल्लिनाथमहाकाव्ये- कोचिंत्यविदग्धेति ज्ञात्वा गोपाधिपेन सा । गृहीता खौकसि प्रीत्या स्पृष्टाऽङ्गानि मृदूनि च ।। ५९७ ॥ एरण्डपत्रजीर्णायैरुत्तार्य ज्वलनं ततः। उल्लाघा विदधे कालंक्रमेण पणसुन्दरी ।। ५९८॥ : (युग्मम्) ततः कलंत्रमस्याऽभूदेषा विधिविजृम्भणात् । जन्मान्तरशतानि स्युरेकस्मिन्नपि जन्मनि ।। ५९९ ॥ स गोपाधिपतिर्धाम्यन् दुर्दख्दपुरेजगमत् । नैकत्र स्थितिरेतेषां शरत्पाथोमुचामिव ।। ६००॥ सा चूतपल्लवीच्छन्नविग्रहा गोपगेहिनी । मस्तकन्यस्तदध्याऽऽज्यनवनीतादिभाजना ।। ६०१ ।। तक्रं गृहीतं गृहीत वदन्ती सुदती भृशम् । इन्द्रकीले स्खलित्वाऽसौ पपात चललोचना ॥ ६०२ ।। पुस्फुटुस्तत्र भाण्डानि मूर्खनिर्दिष्टमन्त्रवत् । ततोज्ज्याभिरियं स्नेहाद् बभणे गोपकामिनी ॥ ६०३ ॥ सखि! भन्नानि भाण्डानि, करिष्यसि किंमुत्तरम् । निजस्य पुरतः पत्युनिकेतनगता सती ॥६०४ ॥ किंचिद् विहस्य साऽप्यूचे सख्यः ! शोचामि कि ननु । शोचनीयं मया प्राज्यमनृणं हि ऋणं बहु ॥६०५ ।। हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद् गणिकासि जाता। पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ६०६ ॥ एवं लोलेक्षणावृत्तं श्रुत्वा भोगपुरेश्वर! जीवितव्यव्ययकरी विपया श्लथीकुरु ॥ ६०७॥ मित्रानन्दस्ततोऽवोचद् युष्मदुक्तकथाश्रुतेः । १ गहिनीत्यपि।
सप्तमः सर्गः। २४९. विषयेभ्यो निवृत्तोऽपशकुनेभ्य इवाध्वगः ॥.६०८.॥ प्रसरत् सलिलं यदत्सेतुबन्धन वाध्यते । यद्वत् तुरग उन्मार्गप्रसक्तो वरसादिना ।।.६०९ ।। यथा कुलवधूः पत्या खैरिणी गणसङ्गिनी। अप्रतिमवृत्तौ राद् तथाऽऽचार्यः सुमन्त्रिभिः ॥ ६१० ।। (युग्मम् ) भवन्तो गुरवोऽस्माकं भवन्तः सुहृदोऽपि च । भवन्तो नयनमाया भवन्तश्च विपश्चितः ॥ ६११ ॥ अन्येयुश्चन्द्रशालायामास्थितः पृथिवीपतिः। अपश्यत् स्फारशृङ्गारं जनं यान्तं पुरोवहिः ॥६१२।। राजस्तव वरोधाने केवली सुत्रताभिधः । समांगादित्युवाचौथैः कश्चित् पृष्टो महीभुजा ॥६१३।। मित्रानन्दः कृतानन्दः सचिवैः सह वन्दितुम् । नत्वा गत्वा मुनि भन्या विनिविष्टः कृताञ्जलिः॥६१४॥ मुनिपतिमुद्दिश्य व्याजहारेति कोमलम् । आशापिशाची सुदृढा तया व्याप्तं जगत्रयम् ॥६१५॥ चिन्ताचक्रसमारूढो योगदण्डसमाहंतः। प्राच्यकर्मकुलालेन भ्राम्यते घटवद् नरः ॥ ६१६ ।। आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥ ६१७ ।। वाञ्छा चेन सुखं जन्तोस्तदभावे परं सुखम् । न भूतानि न भावीनि सुखानि सह वाञ्छया ॥६१८॥ जीवानिरागसो नन्ति मृषावादं वदन्ति च । कुर्वन्ति कूटदम्भादि वश्चयन्ति निजानपि ॥ ६१९ ।। पूज्येभ्योऽपि हि धन्ति निन्दन्ति खगुरूनपि । आरभन्ते महारम्भान् लुम्पन्ति यामनगमान् ॥६२०॥ गोहत्या भ्रूणहत्यां च ब्रह्महत्यां च नित्रपाः ।
.२५० मल्लिनाथमहाकाव्ये- लोभान्धाः किं न कुर्वन्ति परद्रव्यजिघृक्षवः ॥६२१।। लोभव्यालमहामन्त्रं दिग्प्रमाणाऽभिधं व्रतम् । संमाहितैः प्रपन्न यस्तैः कृता प्राणिनां कृपा॥६२२॥ श्रुत्वेति जंगतीनाथः काष्ठासु चतसृष्वपि । विशेषतो दिग्विरतौ योजनानां शतं व्यधात् ॥६२३॥ पुनः प्रणम्य निग्रन्थं ग्रन्थवद् वर्णभासुरः । आगत्याऽऽत्रासमुर्तीशः श्राद्धधर्ममपालयत् ।। ६२४ ॥ समभूदभ्यमित्रीणो मित्रानन्दो नृपोऽन्यदा । देशान्ते शत्रुभिः साकं संग्रामः समजायत ॥ ६२५ ॥ भूपेन निर्जिताः सर्वे बलीयांसोपि लीलया। तेषां प्रणश्यतां पृष्ठे गतो दूरं महीपतिः ॥ ६२६ ॥ स दूरातिक्रमं ज्ञात्वा राजा पप्रच्छ मन्त्रिणम् । कियन्मानां भुवं भद्र! समायाता वयं पुरात् ॥६२७॥ मन्त्री प्रोवाच नगराद् योजनशतमागताः । ततोऽसौ चिन्तयामास स्मृतदिग्विरतिव्रतः॥६२८॥ न गन्तव्यं मया कापि योजनानां शतात्परम् । ईदृक्षो नियमोध्याहि केवलज्ञानिनोऽन्तिके ।। ६२९ ॥ अथ मौनपरं भूपं दृष्ट्वा मन्त्री व्यजिज्ञपत् । क्रियतां सत्वरं देव ! प्रयाणकमभिद्विषः ।। ६३० ॥ यस्मात्सन्ति महीपाल ! शत्रवोऽभ्यर्णचारिणः । अथ प्रोवाच भूपालो नाऽहं गन्तास्म्यऽतः परम्॥६३१॥ दिग्विरतिव्रते मन्त्रिन् ! समस्ति मैम निश्चयः । नाऽतः प्रयाण कर्तासि श्रेयोनिश्चयपालनम् ॥६३२॥ सुस्थाऽवस्थासु भूपाल ! पाल्यतां नियमस्थितिः। विधुरे प्रोद्गते सर्व कार्य कार्य यथाविधि ।। ६३३ ।। विशेषाद् विधुरे मन्त्रिन् ! कार्य नियमपालनम् । १ -भासुरमित्यपि । २ मिति- इति च ।
सप्तमः सर्गः। २५१ धीराणां कातराणां च व्यसने लभ्यतेऽन्तरम् ॥६३४॥ अथाऽनापृच्छय भूपालं मन्त्री नीतिघटस्ततः । किञ्चित् सैन्यं समादाय प्रतस्थे द्विवजिगीषया॥६३५|| अतिश्रान्तं वलं ज्ञात्वा मन्त्रिणोऽरिमहीभुजः । विजिग्यिरे ततो नीतिघट जघ्नुश्च लीलया।। ६३६ ।। मन्त्रिणं नृपतिः श्रुत्वा कालधर्ममुपागतम् । आचार्यानेव तुष्टाव भवाम्भोधिघटोद्भवान् ॥ ६३७.॥ यैर्मे नियमदानेन प्रदत्तमिह जीवितम् । प्रणम्य तत्पदद्वन्द्वं ग्रहीष्यामि महाव्रतम् ।। ६३८ ॥ इति निश्चयमादाय ववले नगरं प्रति । मार्गस्याऽधं च तान् राजा दृष्टवान् मुनिपुङ्गवान्॥६३९॥ तेषां गुरूणामभ्यणे भवार्णवतिवीर्षया । अगृहाद् भूमिपालोऽथ व्रतं निर्ग्रन्थसेवितम् ॥६४.०॥ महावतं परिपाल्य यथोक्तं नृपसंयमी। जगामाऽप्यच्युतं कल्पं तस्मासिद्धिमवाप्स्यति ॥६४१।। कथान्ते न्यगदद् राजा.शिरम्मणतिपूर्वकम् । धन्योऽप्तौ दिग्मिती येन विशुद्धो नियमः कनसा६४२॥ भोगोपभोगयोः संख्या क्रियते या महीपते ।। भोगोपभोगनामाऽस्ति तद् द्वितीयं गुणव्रतम् ॥६४३॥ भोज्यभेदात् कर्मभेदादिदं संभवति द्विधा । भोज्येषु बहुबीजानि खरकर्माणि कर्मसु ॥:६४४.॥ भोज्यभेदे फलं सर्वमज्ञातं बहुचीजवत् । अनन्तकायमांसानि मद्यपानं निशाऽशनम् ।। ६४५॥ न्यग्रोधोदुम्बरप्लक्षकाष्ठोदुम्बरभूरुहाम् । श्रीवक्षस्य च नो भोज्यं श्राद्धैर्जीवाऽऽकुलं फलम्:६४६ अपकं गोरसोन्मिश्रपुष्पित द्विदलं तथा.I. १-पि महीभुजः, एवमपि । २ विदलमित्यपि. ... :
२५२ मल्लिनाथमहाकाव्ये- अयमतिक्रान्तं दध्यन्नं कथितं. त्यजेत् ॥ ६४७॥ इदं भोजनतः प्रोक्तं कर्मतोऽङ्गारकर्म च । वनच्छेदं शाकंट.च.भाटकं स्फोटकर्म च ॥६४८॥ रसकेशविषाणां तु वाणिज्यं दन्तलाक्षयोः । -यन्त्रपीडानिलाञ्छनदवदानानि कानने ॥ ६४९ ।। सर शोषविडालश्चकुक्कुटादिकपोषणम् । धर्मार्थी वर्जयेनित्यं जीवेषु करुणापरः ॥ ६५०.॥ भोगोपभोगविरतिं ये कुर्वन्ति मनीषिणः । से लभन्ते सुखं भीमभीमसेनौ यथानुतौ ॥६५१॥ संनिवेशे निवेशाख्ये व्रजवजविराजिनि । अभूतां भ्रातरौ भीमभीमसेनाऽभिधावुभौ ॥६५२।। पूर्वापरपयोराशिपयांसीव युगक्षये । सर्वदिग्संभवा: क्रूरा अमिलस्तस्करास्तयोः ॥६५२॥ धनान्यहरतां सार्दै तस्करैर्गोधनान्यपि। बभञ्जतुः पुराण्युचैरगृहीतां प्रवासिनः ॥६५॥ अन्येयुर्विमहासत्त्वाः पावयन्तो महीतलम् । तंत्राचार्याः समाजग्मुः शमश्रीपुरुषोत्तमाः ॥६५५|| अथाऽऽविरभवद् व्योम्नि प्रचण्डा घनमण्डली। •मण्डलीकृतसुत्रामाऽखण्डकोदण्डमण्डना ॥६५६॥ पदव्यस्तटिनीयन्ते वार्डीयन्ते सरिद्वराः। सरांसि.मानसायन्ते. वरीषति वारिदे ॥६५७॥.. जनानामपि संचारो निषिद्धः प्रसृतैर्जलैः । का पुनर्यमिना वार्ता मासुकाध्यविहारिणाम् ॥६५८॥ आचार्यैः प्रेषितं साधुयुगलं विपुलं घिया । : तत्तयोः.पार्षमागत्य वभाषे निपुणं वचः ॥६५९॥ आयुष्मन्तौ ! भवत्पार्थे प्रेपितौ गुरुणाऽधुना । १ कृथितमपि। .
सप्तमः सर्गः।
२५३
वर्षाकालः समायातो न गन्तुं युज्यते कचित् ॥६६०॥
मुनिवाचमिमां श्रुत्वा वभाषाते इति स्फुटम् ।
अत्र तिष्ठन्तु निष्ठां खां तन्वाना गुरुभिः समम्।।६६१॥
अन्नप्रभृति यत्किश्चिद् रोचतें वो निरन्तरम् ।।
तत्सर्वं भवद्भिावं लक्ष्मीनिफला ! यतः ॥६६२।।
अवोचतां मुनी भद्रौ ! न निग्रन्थानां कल्पते ।
एकस्मिन्नपिः संस्त्याये ग्रहीतुमशनादिकम् ॥६६॥
यतः-
यथा द्रुमस्य पुष्पेषु रसं पिबति षट्पदः ।
न च पुष्पं क्लामयति स खं प्रीणाति नित्यशः॥६६४॥
तथा सुसाघवो धीराः प्रविष्टा गोचरक्षणे।
गृहेषु गृहवे भिक्षामगृद्धा रससंपदि ॥६६५।।
भो । भो ! भद्रौ! परं शुद्ध स्त्रीषण्डपशुवर्जितम् ।
कुलीनजनगेहाऽन्तः संप्रदत्तामुपाश्रयम् ॥६६६।।
यो ददात्याऽऽश्रयं ज्ञानशालिनां तत्त्वमालिनाम् ।
वखानपानशय्यादि सर्व माऽदायि तेन यत् ॥६६७॥
परोपकारः खाध्यायो ज्ञानाऽभ्यासश्च संयमः।
एतनिर्मापितं तेन येन दत्त उपाश्रयः ॥६६८॥
पामोति राज्यचक्रित्वस्वर्गिशक्रश्रियं नरः ।
उत्पत्ति सुकुले कीर्ति स्फुत्तिं च जनपर्षदि ॥६६९॥
शय्यादानप्रभावेण भवाब्धि तरति क्षणात् ।
अतः शय्यातरस्तीर्थकरैः सर्वैरुदाहृतः ॥६७०॥
निशम्येति मुनिषोक्तमभ्यवत्तां मुनीन् प्रति ।
असावुपाश्रयः साधू ! गृह्यतां विधिपूर्वकम् !!६७१॥
तत्राऽस्थुः सूरयः श्रीमत्सिद्धान्तार्थस्य वाचनाम् ।
वितन्वानाः समाधानं सावधानखमानसाः ॥६७२॥
२५४.
मल्लिनाथमहाकाव्ये-
तात्रपि शृणुतः सोच्चैः सिद्धान्तध्वनिमुत्तमम् ।
अशृण्वानौ पदव्याख्यां दृष्टान्तस्थितिशालिनीम् ।।६७३॥
वर्षाराने व्यतिक्रान्त शोषमायाति कर्दमे ।
कूलमध्यमवाहासु कूलिनीषु समन्ततः ॥६६४॥
शरत्कालश्रियो हासे कामे पुष्यति सर्चतः ।
विहारं कर्तुमारब्धा आचार्याः साधुचर्यया ॥६७५।। (युग्म
द्वावपि भ्रातरौ सूरीननुगन्तुं शुभाशयो ।
गर्भश्राद्धोपमो भक्त्या प्रवृत्तौ सपरिच्छदौ ॥६७६।।
उचिते भूमिभागेधः सूरिः स्थित्वा प्रशान्तगीः ।
उवाच. भद्रको वाक्यमामाकीनं निशम्यताम् ।।६७७॥
शुद्धानपानदानेन सानिध्याद् भवतोरिह ।
सौख्येन संस्थिता वर्षारात्रमेकदिनं यथा ॥६७८॥
आज्ञया जिनराजस्य निर्ग्रन्थभटवेष्टिताः।
वयं मोहरिपुं जेतुं चलिताः सैन्यपा इव ॥६७९॥
धर्मश्रवणमस्माकं न जातं भवतोः कचित् ।
परमेकं वचश्चारु विधेयं शुभवृद्धये ॥६८०॥
अभिग्रहाणामन्येषां भवन्तो न सहिष्णवः ।
रात्रिमुक्तिपरीहारो भावशुद्ध्या विधीयताम् ॥६८१॥
यतः-
भ्रमन्ति सर्वतो भीमा रजन्यां रजनीचराः ।
अतो निशि न भोक्तव्यं दुष्टवेलेति दूषणात् ॥६८२॥
मक्षिका कुरुते वान्ति प्रज्ञा हन्ति पिपीलिका ।
कोलिकः कुष्ठरोगं तु विधत्ते निशि भोजनात् ।।६८३॥
स्वरभङ्गं कचः कुर्यादलिर्विध्यति तालु च ।
दोषानेवंविधान ज्ञात्वा रात्रौकोनाति कोविदः१६८४
आयुर्वर्षशतं लोके तदर्द स उपोषितः ।
करोति विरति धन्यो यः सदा निशि भोजनात् ॥६८५॥
सप्तमः सर्गः २५५ आचार्योक्तमिति श्रुत्वा संवेगरसरङ्गिती। प्रापयेतां व रात्रिभोजनप्रतिषेधकृत् ॥६८६॥ .. आचार्या अपि निम्रन्थैः सार्द्धमन्यत्र धीधनाः । विनदुः कोकिला भृङ्गा हंसा न नियता यतः॥६८७॥ अन्येास्तावपि प्रति ग्रामे धाटी विधायं च । अगृहीतां धनान्युच्चैर्गोधनानि विशेषतः ॥६८८॥ 'तयोः परिच्छदैः पापैनिवृत्तः प्रान्तरान्तरे। पीनाङ्गो महिषः कोऽपि हतो धौतैः परश्वधैः ।।६८९।। कैश्चित भविश्य प्रामान्तः क्रीतं मैरेयमुच्चकैः। पुंसां पापप्रवृत्तानां सर्वव्यसनसंभवः ॥६९०॥ अनयोः पत्तिभिश्चैवं चिन्तितं दुष्टमानसैः। मारयामो विषं दत्त्वा मदिराक्रांयिकान् यदि ॥६९१॥ एतत्सर्वं धनाधुररस्माकं भागवर्जितम् । सकलं जायते यस्मान्मारणीया विभागिनः ॥६९२॥ मैरेयनायिकैरेवं ध्यात्वेति गरलं क्षणात् । मदिष्ठायां ब्रदिष्ठायां चिक्षिपे गन्धधूलिवत् ॥६९३॥ तदीयविषदानस्य शङ्कया पादचारतः । अस्तपर्वतमारुह्य पपाताम्भोनिधौ रविः ॥६९४॥ प्रसस्ने तिमिरैर्विष्वग् नागपूगानुनैरिव । घूकैर्जुघुपिरे भीमै रक्षोमङ्गलतूर्यवत् ।।६९५॥ अयोभयेऽपि मिलितास्तस्कराः क्रूरचेष्टिताः । परस्परं निजं वस्तु प्रांभृतं विदधुस्तदा ॥६९६।। स्वामिनौ ! पश्यतामेतत्सुखादरसपेशलम् । अथोचतुर्महाभागौ निषेधो रात्रिभोजने ॥६९७॥ सुस्थाऽवस्थासु नेतारौ ! पाल्यतां नियमस्थितिः। शरीरमाचं सर्वत्र साधकं धर्मकर्मणि ॥६९८॥ हहो! भद्रमुखास्तेषां.गुरूणां पादसंनिधौ।
२५६
मल्लिनाथमहाकाव्ये-
विदधे नियमस्तस्य भङ्गः किं श्रेयसे खलु ॥६९९॥
शूरः स एव यः संख्ये भिनचीभरदद्वयंम् ।
वादी स एवं यो राजसभायां युक्तियुक्तंगीः॥७००॥
गुरुः स एव यस्तत्वं शास्तोपासकपर्षदि ।
भव्यः स एव यः सम्यक् परिपालयति व्रतम्।।७०१।।
एतयोगिरमाकर्ण्य ततस्तत्वार्थसाधिकाम् ।
अथान्ये तस्करास्तद्वदन्योन्यस्य ददुस्तराम् ।।७०२।।
ततो विषोत्थकीलाभिः कल्पकालानलैरिव ।
तेषामायुमो देहे सापार्य हन्त जीवितम् ॥७०३॥
एतान् पश्चत्वमापन्नान्वीक्ष्य तौ हृदि वभ्रतुः ।
गुरुणा बतदानेनऽऽवयोर्द हि जीवितम् ॥७०४॥
तेषां गुरूणां सातत्यं परोपकृतिकारिणाम् ।
भवावो भुवि जीवन्तावनृणत्वपरौ कथम् ॥७०५॥
तेषामेव गुरूणां तौ पार्षे जगृहतुव्रतम् ।
जग्मतुरच्युतं कल्पं तस्मानिर्वाणमेष्यतः ॥ ७०६ ।।
आकर्ण्यतां सकर्णेन वर्ण्यमानं मितैः पदैः।
अनर्थदण्डविरतिस्तार्तीयीकी गुणवतम् ॥ ७०७ ॥
आरौद्रे अपध्याने विना स्वार्थ परस्य च ।
पापोपदेशः सोऽनर्थदण्ड इत्यभिधीयते ॥ ७० ॥
येऽनर्थदण्डमीक्ष कुर्वते क्रूरचेष्टिवाः।
ते दुःखभागिनो लोके लोभनन्यादिको यथा ॥७०९॥
तथाहि समभूत् ख्यातं पुरं भोगपुराभिधम् ।
ताराचन्द्राभिधस्तत्र श्रेष्ठी श्रेष्ठगुणाकरः ।। ७१० ।।
संपूर्णसर्वसामग्यः प्रकृष्टीकृतनाविकः ।
गृहीतभूरिभाण्डौषः सुभटैरुद्भटैः समम् ॥ ७११ ॥
आशुगो वायुवत्पोतो लङ्गुयन्मकराकरम् ।
रत्नमेखलनामानं महाद्वीपमुपेयिवान् ॥ ७१२ ॥
सप्तमः सर्गः। २५७ तस्मादुत्तार्य भाण्डानि कूले कूलंकपापतेः। उत्करान कारयामास श्रियांक्रीडाञ्चलानिव।। ७१३॥ पुरन्दरपुरं प्राप्य श्रिया परिन्दरं पुरम् । तत्राऽभूटू भूपतिः स्फीतवाहनों मेघवाहनः ।। ७१४॥ लोभनन्दीति तत्राऽभूत सत्यायों वणिनां पतिः । पापकर्मरतो नित्यं महामोहनिकेतनम् ।। ७१५ ।। तत्रव नगरे मन्त्री काणको वञ्चनामतिः । युद्धया गृहीतद्रविणः परेषां पश्यतामपि ।। ७१६ ॥ तयोर्मन्प्रधियां पात्रं सत्रागारमिवनसाम् । मुशिल्पी चर्मकारोऽस्ति मायामय इतीरितः ॥ ७१७ ।। सवितुर्मन्दिरे शान्तो द्विजो होगविचक्षणः । अविद्यमाननेत्रोऽपि त्रिलोचन इति स्मृतः ॥ ७१८ ।। इतश्च लोभनन्येप श्रुत्वा पोतं समागतम् । ताराचन्द्रान्तिके पाप गृहीत्वा माभृतं निशि ॥७१९॥ संभाषमुचितं कृत्वा पप्रच्छाऽस्वच्छमानसः । पोतभाण्डं कियद् भद्र ! ममाऽशेष निगद्यताम् ||७२०॥ माजलत्वात्ततस्तेन सर्वमुक्तं यथास्थितम् । शिरो विधूय तेनापि सखेदमिव भापितम् ।। ७२१ ॥ प्रयास एवं जातस्ते कुभाण्डाऽऽनयनात् परम् । यस्मादमीषां न कापि विक्रयः कपिवद् भवेत् ॥ ७२२ ॥ हो । तथापि गृङ्गेऽहं पुरा कीर्तिभयात् परम् । दास्येऽहं प्रस्थमेकं ते निजमानसवाञ्छितम् ॥ ७२३ ॥ तथाऽऽहतमनेनापि सत्यकारः समर्पितः। लमका विहिताः पौरा भाण्डं दृष्ट्याहतं कृतम् ॥ ७२४ परकीयाsपि मेऽद्य श्रीरात्मीयेति विचिन्तयन् । गत्वा गृहं सुखं सुप्तः सुतोद्वाहक्षणादिव ॥ ७२५ ॥ . १ प्राप्तः, इत्याप ।
२५८ः मल्लिनाथमहाकाव्ये- द्वितीये यामिनीयामे सचिवो वञ्चनामतिः । ताराचन्द्रं छलयितुं हृष्टः प्राप तदन्तिके ॥ ७२६ ॥ उचितप्रतिप्रत्याऽसौ ताराचन्द्रेण विष्टरे। . उपविश्य पप्रच्छेऽथ स्वागतं मन्त्रिणोऽन्तिके ॥ ७२७॥ मन्त्रिणा वार्तावसरे भणितं क्रूरचेतसा । पुराऽहं चौरवत् क्षिप्तश्चारके जगतीभुजा ॥ ७२८ ॥ तस्मात् कथञ्चिद् नष्ट्रवाहं पोतादुत्तीर्य सागरम् । पुरं भोगपुरं प्राप त्वत्पितुः सदनं स्थितः॥ ७२९ ॥ मया समक्ष लोकानां चक्षुर्मुक्त्वाऽथ दक्षिणम् । जगृहे स्वर्णलक्षश्च ततोत्राऽऽगां नृपान्तिके ॥ ७३०॥ तन्मङ्गल्यपदे दत्वा क्षमयित्वा स्वदुर्नयं । पूर्ववत्सचिवो जातो द्रव्यात् किं न मजायते ॥ ७३१ ॥ मत्पुण्यस्त्वमिहायातः खर्णलक्षमिदं सखे । गृहाणार्पय मे चक्षुर्व्यवहार प्रवर्त्तय ॥ ७३२ ॥ दत्ते मे लोचने भद्र ! कर्त्तव्यो भाण्डविक्रयः । आहारे व्यवहारे च सज्जा लज्जा सतां न यत् ॥ ७३३ ।। इत्युक्त्वा सचिवे याते विमनाः पोतनायकः। चिन्तया रजनीयामयुगं युगमिवाऽनयत् ॥ ७३४ ॥ मायामयो महामायः पर्यटस्तत्कुटीतटे । आगात् सन्धापयाश्चक्रे वणिजो पादरक्षणम् ॥ ७३५ ॥ चर्मकारस्ततः प्राह किं मे दास्यथ वेतनम् । पोतनाथ उवाच त्वां तोषयिष्यामि सर्वथा ॥ ७३६ ॥ कृतकार्यममुं दृष्ट्वा सोऽथाऽवोचत रूपकम् । द्रम्मं द्रम्माष्टकं द्रम्मशतं वा त्वं गृहाण भोः॥७३७॥ ततो द्रम्मसहस्रेषु दीयमानेषु तेन तु । नायं सन्तोषवान् जातः किं पुनर्भूरिवाञ्छकः ॥ ७३८ ॥ अथोचे चर्मकृद् श्रेष्ठिन् ! पोतपण्यं ममाखिलम् ।
सप्तमः सर्गः। २५९ . यद्यर्पयसि तत्वोषो जायते मम नान्यथा ॥.७३९ ।। ममानुज्ञां विना पण्यं चेद्विक्रेष्यसि किश्चन । तद् भूपाज्ञाविभङ्गस्य कारयिष्यामि कारणम् ॥ ७४० ।। एवमुक्त्वाऽगमचर्मकारः कारुककूटधीः । जगाम नगरस्यान्तस्वाराचन्द्रोऽपि पर्यटन् ॥ ७४०॥ दृष्टो मदनमञ्जर्या वेश्यया शस्यरूपया । लक्षीकृतः कटाक्षाणां स साक्षादिवसात्यये ॥ ७४२ ॥ आनायितो गृहे श्रेष्ठी प्रेष्य चेटीं सुलोचनाम् । नपितो भोजितो भत्त्या परमानन्दमेदुराम् ॥ ७४३ ॥ एवं निवसतस्तस्य कियन्त्यपि दिनान्यगुः । अन्येयुः स तया पृष्टः कस्त्वं कस्मादिहागतः ॥ ७४४ ॥ ततस्तेन खवृत्तान्तः समीचीनो निवेदितः। साध्वोचद् विपदः प्राप्तौ खेदः कार्यों न कोविदैः ॥७४५|| आपदः संपदोऽप्यत्र समीपस्थाः शरीरिणाम् । न शोकहर्षयोस्तस्मादर्पणीयं मनो बुधैः॥ ७४६ ॥ एवमुक्ताऽथ सा गत्वा नत्वा भट्ट त्रिलोचनम् । एवं विज्ञपयामास रूपाजीवा सुकोमलम् ।। ७५७ ॥ मत्पतेस्तारचन्द्रस्य व्यसनं महदुत्थितम् । निस्तरिष्यति तत्सौख्यानवेति वद कोविद! ॥७४८ ॥ सोऽप्युवाच तव पतिर्व्यसनं निस्तरिष्यति । सुखेनाऽपि न खेदस्तत्त्वया कार्यो निजे हृदि ॥ ७४९ ।। श्रुत्वेत्युपश्रुतिप्रायं हृष्टा वेश्यागृहं गता। यामिन्यां प्रेषयामास तारेन्दु रविमन्दिरे ।। ७५०॥ प्रछन्नीभूय सूर्यस्य मन्दिरेऽस्थाद् वणिग्वरः । इतोऽभ्यागालोभनन्दी छात्रेण विनिवेदितः ॥ ७५१ ।। आख्याय पूर्ववृत्तान्तं श्रेष्ठिनोदितमीदृशम् । निरूपय निजी होरा निर्वाहों भविता नवा ॥ ७५२ ।। . .
२६० मल्लिनाथमहाकाव्ये- होरां विचार्य सोऽप्यूचे यदीदं पोतनायकः। वक्ष्यते वचनं प्राज्ञस्तदा तव किमुत्तरम् ।। ७५३ ।। न किंचित् शोभन भद्र! भविता प्रत्युताऽऽपदं । श्रुत्वेति शून्यधीः पाप मन्दिरं श्रेष्ठिसुन्दरः ।। ७५४ ।। अथाख्यत् तस्य पार्श्वस्थश्छात्रः पात्रं महाधियाम् । होराज्ञानस्य तत्त्वार्थ पुनः पाठय मां प्रभो। ।। ७५५ ॥ तत्र पाठयितुं भट्ट उपाक्रमत सत्वरम् ।. विनयविद्यादाने हि बुधाः स्युः सततोद्यमाः ॥ ७५६ ॥ वेदाध्ययनदानेषु देवार्चासु विषोद्धृतौ। पुरीधामप्रवेशेषु वामा होरा शुभा मता ॥ ७५७ ॥ संग्रामे भोजनस्नाने स्त्रीसंगे राजदर्शने । क्रूरकर्मसु शेषेषु दीसे वामेतरा मता ।। ७५८ ।। दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरे निजमन्दिरात् ॥७५९ ॥ गुरुबुधनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्ग खलु कर्त्तव्या कार्यसिद्धिमभीप्सता ।। ७६० ॥ आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः। वशीभवन्ति कामिन्यो न कार्मणमतः परम् ।। ७६१ ॥ यदा पृच्छति चन्द्रस्थस्तदा संधानमादिशेत् । पृच्छेद् यदा तु सूर्यस्थस्तदा जानिहि विग्रहम् ॥ ७६२ ।। चन्द्रस्थाने यदा वायुः सूर्यस्थाने च पृच्छति । तदा न रक्ष्यते रोगी मृत्योर्वैद्यशतैरपि ॥ ७६३ ।। रविस्थाने यदा प्राणः प्रष्टा पृच्छति चन्द्रगः । तदासौ म्रियते रोगी यदि त्राता सुरेश्वरः ॥७६४.॥ यस्मिन्नड़े चरेद् वायुस्तत्रस्थो यदि पृच्छति । पीडितोऽपि तदा रोगै रोगी जीवत्यसंशयम् ॥ ७६५॥ वहन्ती नासिकां वामां दक्षिणां चाभिसंस्थितः ।
सप्तमः सर्गः। भृत्वा शीघ्र ग्रहीष्यामि कुभाण्डान्यखिलान्यपि ॥७७।। २६१ यदि पृच्छेत् तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ ७६६ ॥ पार्थिवे जीवविज्ञानं मूलज्ञानं जलेऽनिले । आगये धातुविज्ञानं व्योन्नि शून्यं विनिर्दिशेत् ॥ ७६७ ॥ एवं तं पाठयन्नस्ति मन्व्यागाद् वञ्चनामतिः । पूर्ववत् कथयामास स पूर्ववदभापत ॥ ७६८ ॥ अथ चर्मकृति प्राप्त पूर्ववद् गदिते सति । मन्त्री कृष्णमुखो जातो मृतज्येष्ठसुतो यथा ॥ ७६९ ।। तच्छ्रुत्वा चर्मकारोऽपि निरानन्दो गतस्मयः । विमस्य कटुकर्वाक्यैः श्रेष्ठिवन्मानसे भृशम् ।। ७७० ॥ तारेन्दुर्भट्टवाक्यानि सुधारससमान्यथ । आकर्ण्य मुदितवान्तः सततं सुमना ययौ ।। ७७१ ॥ अथ मातड़पाभ्यर्णमागत्य सह वेश्यया । ताराचन्द्रेण सर्वोऽपि स्वत्तान्तो निवेदितः ॥ ७७२॥ अथ श्रेष्ठी समाहृतो भूमिपालेन कोपिना । आगतः सोऽपि साशझं नत्वा भूपमुपाविशत् ।। ७७३ ।। रोपरक्तेक्षणः क्षमापः साक्षेप स्मेति भापते । रे। श्रेष्ठिन्नीदृशं कर्म मर्माऽऽविष्कुरुपेन किम् ॥ ७७४॥ अराजकमिदं राज्यं किं वा न्यायो न विद्यते।। येन कार्याण्यनार्याणि क्रियन्ते निजयेच्छया ॥७७५ ।। श्रेष्ठी सधैर्यमूचे च गत्वाभ्यर्णेऽस्य साखसम् । संलापपूर्वकं राजन् । निविष्टोऽई यथाविधि ॥ ७७६ ॥ अनेनोचे सखेऽमीपां भाण्डानां मम विक्रयात् । संभाव्यते कचिल्लाभस्ततोऽजल्पमधीश्वर ! १ ॥ ७७७ ॥ त्वदीयपण्यराशीनां विक्रयो भविता न हि । ततोऽयमगदद्देव! निर्भाग्योऽहं महामते ! ॥ ७७८ ॥ यत् किश्चिद्रोचते तुभ्यं तद्भाण्डमस्थिकं सखे। ?
२६२ मल्लिनाथमहाकाव्ये- - अङ्गीकृतमनेनापि सत्यकारो मयार्पितः। अत्रार्थे साक्षिणो नाथ ! बहवो विहिता मया ॥ ७८०॥ अथाह भूपतिः श्रेष्ठी न्याययुक्तं वचोऽवदत् । अनेन लभ्यमेवैतद् यतस्तिष्ठन्ति साक्षिणः ॥ ७८१ ।। ताराचन्द्रस्ततः प्राह सस्मितं संमतं मम । यथेष ददते मह्यं प्रस्थमेकं समीहितम् ।। ७८२॥ लोभनन्दी ततः प्राह प्रस्थमेकं मनोगतम् । याचखेति विवादे हि कालक्षेपः क्षमेत किम् ॥ ७८३ ॥ ताराचन्द्रोऽप्यभाषिष्ट शृणु मे रुचिरं वचः। उत्तरानिलपूतानां खण्डितानामुखले ।। ७८४ ॥ रामाकरगृहीतानां समक्ष नृपपर्षदः। प्रदेहि मशकस्याऽस्थ्नां प्रस्थं स्वच्छ! ममाधुना ॥७८५।। (युग्मम् ) एवं तारेन्दुना मोक्के विलक्षोऽजन्यसौ वणिक् । असाध्यं न मतेः किश्चिजलानामिव धीमताम् ॥८७६॥ सचिवोऽपि समाहूतो नत्वा नृपमुपाविशत् । ऊचे नृपतिरेतस्य निषिद्धं किं क्रयाणकम् १ ॥७८७॥ सोऽप्यूचे दक्षिणं चक्षुरस्य ग्रहणकेऽस्ति में । स्वर्णलक्षं गृहीत्वाऽसौ तदर्पयतु साम्पतम् ।।७८८॥ राज्ञोक्तं शोभनं वक्ति मन्त्र्ययं नयकोविदः । ताराचन्द्रस्ततः प्राह युक्तमुक्तं विपश्चिता ||७८९॥ राजन् ! मे मन्दिरे नूनं सहस्राणि दृशां नृणाम् । वन्मध्यपतितं नेत्रं न जाने हन्त ! निश्चितम् ॥७९०।। त्वं वामलोचनं मन्विन् ! समुद्धृत्य समर्पय । येनोपलक्ष्यते पूर्ण विदधामि मनोरथम् ॥७९१॥ विहस्याऽय नृपोवादीद् युक्तियुक्तं वदत्ययम् । १ स्वच्छमते, एवमपि ।
सप्तमः सर्गः। २६३ उपलक्ष्य यतः कर्ता नेत्रार्पणविधि ननु ॥७९२॥ अहो ! मतिप्रपञ्चोऽस्य यच्चक्रेऽहं निरुत्तरः। विचिन्त्येति स मायावी मौनमाश्रित्य निर्गतः ॥७९३॥ चर्मकार समाहूर्त ताराचन्द्रोऽप्यभाषत । कैमर्थ्यक्येन पण्यं मे दीयमानं निषेधसि ॥७९४॥ चर्मकृत्वानुवाचेति यावदमि न तोषितः । त्वया ऋयाणकं नैव तावद् देयं हि कस्यचित् ॥७९५॥ ताराचन्द्रोऽथ न्यगददिदं चर्मकृतां वर । अमुष्य रत्नचन्द्रस्य नरेन्द्रस्य सुतोऽजनि ॥ ७९६॥ तस्य जन्मनि तुष्टस्त्वं नवेति वद कद्वद ।। सोऽप्युवाच सखे ! तुष्टः संजातोऽहं गिरा तव ॥७९७॥ ताराचन्द्रो नरेन्द्रस्य प्रणम्य क्रमपङ्कजम् । एतद्ग्रहत्रयीमुक्तो व्यवहारपरोऽजनि ॥ ७९८ ॥ इतश्च नगरे तत्र धूतकारो धनाहयः । क्षुधया पीडितः कामं तारेन्द्रं समुपागमत् ॥ ७९९ ॥ ताराचन्द्र क्षुधाोंऽहं देहि मे भोजनं वरम् । अन्यथा जीवितव्यद्गुः क्षुहवेन विनाश्यते ॥ ८००॥ यत:- क्षुधया परिभूतानां प्राणाः बुद्धिः पराक्रमः । एते. सर्वे विलीयन्ते कल्पान्तेनेव पर्वताः ॥८०१॥ क्षुधालीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनन्द्रियवलं धर्मकृत्यं रतिः स्मृतिः ॥८०२॥ सगौरवं कृतस्नेहं वाराचन्द्रेण भोजितः। अनदानात्परं दानं न भूतं न. भविष्यति ॥ ८०३॥ अथ चूतरतः सोऽपि लोभनन्दी गृहे निशि । पनाकारमदात् खात्रं किमसाध्यं हि तादृशाम् ॥८०४॥ आँगाहींनम इत्यादि मन्त्राक्षरपरायणम् ।
२६४ मल्लिनाथमहाकाव्ये- वारं वारं ताराचन्द्र इत्याख्या ग्राहक स्फुटम् ॥८०५।। प्रज्वलहिकुण्डस्य पुरस्थं कृष्णमासुरम् । ध्यानमापूरयन्तं च दाहयन्तं तिलादिकम् ।। ८०६ ॥ करवीरारुणपुष्पैः पूजयन्तं च देवताम् । अद्राक्षीदेष निभृतं श्रेष्ठिनं लोभनन्दिनम् ॥ ८०७ ॥ (त्रिमिर्विशेषकम् ) असमर्थ गदिष्यामि तारेन्दोः प्राणदायकम् । यतो मया गृहे भुक्तमेतस्य स्नेहगौरवात् ।। ८०८॥ तृणमुचारितं मूर्धा येन तस्याऽपि तन्यते । उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ ८०९ ।। ध्यात्वेति विनिवृत्तोऽसौ मातस्तारेन्दुमन्दिरम् । यावद्च्छति तावत्स मूकं लोकं विलोकते ॥ ८१०॥ अथाऽपृच्छत् कथं लोको गतासुरिव दृश्यते।। ततः कश्चिनरोऽवोचद् दाहोऽभूद् श्रेष्ठिनस्तनौ ॥११॥ तल्लोभनन्दिनो नूनं विस्पष्टं दुष्टचेष्टितम् । यतोऽभिचारमन्त्राणां माहात्म्यं हि निरर्गलम्।।८१२॥ तत् ज्ञात्वा रनचन्द्रस्य नरेन्द्रस्यान्तिके गतः । तत् सर्वं कथयामास तदीक्षामास भूपतिः ॥ ८१३ ॥ यथावदुक्तं तत्सर्वं तदागम्याऽधिगम्य च । अबन्धयद् श्रेष्ठिगलेऽश्मपिण्डं पापपिण्डवत् ॥८१४॥ तं चिक्षेप महाम्भोधौ दुष्टशिक्षापरो नृपः। ताराचन्द्रोऽपि संजज्ञे विहितौषधवत्पदुः॥८१५॥ योऽनर्थदण्डमीदक्षं कुरुते क्रूरधीः स हि । लोभनन्दिवदम्भोधौ भवाम्भोधौ निमजति ॥१६॥ प्रणम्याऽथ जिनं राजा राजमानो मुदा भृशम् । उवाचाऽनर्थदण्डस्य शुश्रुवे निखिलं वचः ॥८१७ ॥ १ रक्तपुष्पासनेत्यपि . सप्तमः सर्गः... २.६५ अनर्थदण्डमुज्झन्ति ये नराः शिववादिनः। .. तेषामर्थाः प्रसिद्ध्येयुरनर्थानामिवोज्झनात् ।। ८१८ ।। अथ मल्लिः प्रभुः प्राह शिक्षाबतचतुष्टयीम् । तत्र सामायिक देशावकाशिकं च पौषधम् ॥८१९ ॥ अतिथेः संविभागश्च शिक्षाबतचतुष्टयीम् ।। यः पालयति पुण्यात्मा तस्य सिद्धिरसंशयम् ॥८२०॥ अङ्गिनां समभावो यः सर्वभूतेषु भावतः। माहुः सामायिकं नज्ज्ञास्तत् शिक्षापदमादिमम् ॥८२१॥ आधशिक्षापदस्थस्य श्राद्धस्यापि यतेरिव । चन्द्रावतंसनृपतेरिव कर्मक्षयो भवेत् ।। ८२२ ।। नगरं नाम साकेतं सङ्केतगृहवत् श्रियाम् । चन्द्रावतंसकस्तत्र नृपतिः समजायत ।। ८२३ ॥ हिमवृष्टिं विकुर्वाणः स्तनयित्नुरिवाधिकम् । ... पधिनीमानलुण्टाकः शिशिरर्तुरवातरत् ॥.८२४.॥... शिशिरे वर्तमानेऽस्मिन् माघमासेऽनघाशयः। रजन्यामगमद् राजा वासवेश्म गतमयः॥ ८२५ ॥ विधिवद् भावनालीनो. राजचिरैर्विवर्जितः। दण्डकोचारसम्पूर्णमादात् सामायिकं व्रतम् ॥८२६॥ प्रज्वलिष्यति दीपोऽसौ.यावद् ध्वान्तविलोपका.। स्पर्धयेव मया तावत् स्थेयं ध्यानवता.सता ॥८२७॥ विचिन्त्येत्थं.महीनाथ::सामायिकपवित्रितः। अतिष्ठत् मतिमायां स रौद्राध्यानवर्जितः ॥८२८॥ तत् तल्पपालिका ध्वान्तं खामिनो मा सम भूदितिः। गते माग्यामिनीयामे प्रदीपे.तैलमक्षिपत् ॥८२९॥ अचिन्तयन्नृपो मेऽसौ.कर्मक्षयविधायिनी । 'संधास्यामि निज भावं प्राक्तनकर्मभेदनम् ।।८३०|| १ संध्यास्यामीत्सपि । .. ३४ २६६ मल्लिनाथमहाकाव्ये- गते द्वितीये यामेऽथ प्रदीपेऽत्र गृहस्थिते । अक्षिपद् जाग्रती तैलं सा शय्यापालिका पुनः ८३१ ततोऽप्यचिन्तयद् राजा रणादौ कष्टमुत्कटम् । सोढं मया कियञ्चेदं परम्परसुखपदम् १ ।। ८३२ ॥ व्यतीते रजनीयामे तृतीये तल्पपालिका । चिक्षेप मल्लिकायां तु तैलं सा भक्तमानिनी ॥८३२॥ पुनर्दध्यौ महीपालः क्षालयिष्याम्यहं निजम् । पापं तापविनिर्मुक्तः शरीरे खवशे सति ।। ८३४ ॥ सर्वोऽपि सहते कष्टं प्रायः परवशः पुमान् । कर्मक्षयाय तथैव, कर्मनिर्मूलनं त्विदम् ॥ ८३५ ॥ श्रमोत्पन्नव्यथाखिनः स प्रदीप इवाचिरात् । विभातायां विभावयाँ निर्वाणाभिमुखोऽभवत्।।८३६।। अतिमवृद्धभावोऽसौ विहिताऽऽलोचनादिकः। आयुक्षये विपद्याऽसौ महर्दिस्त्रिदशोऽजनि ॥८३७॥ सामायिकव्रतं चक्रे यथाऽनेन महीभुजा । तथान्यैरपि कर्तव्यमिदं सर्वसुखपदम् ।। ८३८ ।। दिगवते योऽवधिश्चके तत्संक्षेपो दिने दिने । देशावकाशिकं तत् स्यात् शिक्षाव्रतं द्वितीयकम् ।।८३९।। देशावकाशिकं यस्तु परिपालयति व्रतम् । स सुखी जायते धीमान् धनसेनधनेशवत् ।।८४०॥ तथाहि रत्नखेटाख्ये खेटे रत्नधनामिधः। श्रेष्ठी श्रेष्ठमतिस्तस्य धनसेनसुतोऽजनि ।। ८४१ ।। स.सर्वदा नीचसेवी खभावेन विदूषकः । परापवादतनिष्ठः साधूनामपि दूषकः ॥ ८४२॥ अन्येशुर्विजने श्रेष्ठी प्रेम्णा पुत्रमजूहवत् । परापवाद मा वत्स ! कार्षीः कीर्तिलताहिमम्।।८४३।। सम्यगिति परः पाठः।
मतमः सर्गः। २६७ मृल परापानीः कलिः, स्कन्धश्च दुर्वचः । धर्मभ्रंशः प्रमूनानि फलं दुर्गनिसंगतिः ।। ८४४ ॥ नीचसंगागिरं पुत्र मुदीर्घा भवसंततिः । शृणु चन्द्रयगानं वृत्तं नवभवावधि ।।८४५॥ तथाहि भरनक्षेत्र पुरं वामपुराभिधम् । बन्दसनी नृपस्तत्र जयसनो जिघांमुभिः ।।८४६॥ निशंपशायविद्ग विद्रोऽस्य पुरोहितः। पुरन्दरगशास्तस्य भार्या शीलधुरन्धरा ॥८४७॥ नयोश्रन्द्रयशाः पुत्री वल्लभा निजजीववत् । पतृक साऽहनी धर्मे नाऽकापीद् वासनां कचित् ।।८४८|| कलिकाननकन्दल्या पशून्याशून्यचित्तया । यशोदेववणिकपल्या ब्रह्ममुन्दरीसंज्ञया ।।८४९॥ गृद्धया कापभोगपु सदाचारपयद्विपा । तस्या अजायत प्रीतिः सख्यं तुल्ये स्मृतं यतः ॥८५०॥ (युग्मम् ) वत्संनया समं सख्यं न श्रेयांसि समाश्रयेत् । न तथाघोनकद रत्नं सर्पमूर्ति यथा भिये ।।८५१॥ इत्थं सा प्रतिपिदापि पितृभ्यां न निवर्त्तते । यद् यन्निवारितं प्रायः तत्तदाऽऽसेवते जनः ।। ८५२ ।। अन्येशुरुन्मनाश्चन्द्रयशाः सख्याऽनयोदिता। मूर्खचित्तमिवात्यन्तं किमु शून्येव लक्षसे ॥८५३॥ सखि ! प्रियो विरक्तो में रक्तो मदिरयेव सः। प्रकामं मदिरावत्या न मां दृष्ट्वापि वीक्षते ॥८५४|| अजातनन्दना कालं निर्गमिष्यामि कि सखि । न पुत्रो न पतिश्चापि केवलं जन्म हार्यते ॥८५५॥ अलं सखि ! विपादेनाऽऽकर्णयोपयिक वचः। नीलीरागनिभं राग यथा कुर्यात् त्वयि प्रिया २६८ मल्लिनाथमहाकाव्ये- .. . .. अत्रास्ति धर्मधी म पुरः प्रवाजिका वहिः । बहुश्रुता.समभावा चाऽस्मिन् कर्मणि कर्मठा ॥८५७॥ अथ द्वाभ्यां तत्र गत्वा पूजयित्वा धनादिभिः । पत्युत्तान्त आख्यातः साऽवादीन्मा विषीदतां ॥८५८॥ ब्रह्मसुन्दर्यथोवाचाऽनुगृहीता त्वयाऽम्बिके ।। युक्तं परोपकाराय प्रवर्त्तन्ते भवादृशाः ॥ ८५९ ॥ अयोचाटननामोच्चैश्चूर्ण ब्राजिका रहा। अदाश्च चन्द्रयशसे दुष्टकर्मेव मूर्तिमत् ॥ ८६० ॥ तयोगचूर्णमाहात्म्यात् शिरसि क्षेपणात् पतिः । विरक्तो मदिरावत्यां रक्तश्चन्द्रयशस्यभूत् ॥ ८६१ ॥ बई क्लिष्ट तया कर्म महादुःखनिवन्धनम् । विपाको यस्य संभावी बहुसंसारकारणम् ॥ ८६२ ॥ कालक्रमेण सा मृत्वा समभूत्पर्वते वशा । अभिया यूथनाथस्य तत्तत्कर्मविपाकतः ॥ ८६३ ॥ यत्र सा क्रीडति प्रीत्या तत्र एष न गच्छति । तां विलोक्य प्रजज्वाल नवेनेव दवेन सः ॥८६४॥ अथ मृत्वा गिरौ तत्र वानरीत्वेन साऽभवत् । अनिष्टा पूर्ववत् पत्युः खदुष्कृतवशंवदा ॥ ८६५ ।। अन्येयुथनाथेन ताडिता सा वलीमुखी । भ्राम्यन्ती शून्यहृद पुंसा केनचिद् विधृता इगत् ॥८६६॥ अथाय शृङ्खलावद्धा महादुःखमपीडिता । मृत्वाऽभूत् कुक्कुटीत्वेन कुत्रचित् कोलिकोंकसि ॥ ८६७ ॥ तथापि कुकूटस्याभूदनिष्टा पूर्वजन्मवत् । मृत्ला बिडालिकात्वेन जाता तत्रापि पूर्ववत् ॥ ८६८ ॥ अय मृत्वाऽभवत् पत्नी चाण्डालस्य सदाधियुक् । दुर्गन्धा दुर्भगा क्रूरा वामना पामनाऽपि च ॥ ८६९ ॥ ताडयित्वा श्वपाकेन गृहाद् निष्कासिता सती ।
सतमः सर्गः। २६० . भ्राम्यन्ती कानने घोरे निध्याता साधुपुल्चैः ।। ८७० ।। पन्था धर्मपरेऽस्माकं दर्यतां मुनयोऽवदन् । अनया दर्शितः पन्थाः साधवः प्रोचिरेऽथ ताम् ॥ ८७१ ॥ भद्रे ! भद्रकरो धर्मः कार्यः स्वस्य हितेच्छया । साऽवदकोशो धर्मोऽकथयस्ते यथाविधि ॥ ८७२ ।। ततः प्रभृति सा शुद्धं कुर्वाणा धर्ममाईतम् । तत्कर्मदोपशेषांशात् सुताऽभूत् श्वेतवीपतेः ।। ८७३ ।। कोशलस्वामिना साकं कृताबाहेयमप्यभूत् । तद्रूपं यक्षिणी काचिद् विकृत्याऽन्तापुरेगमत् ।। ८७४ ।। तद् वृत्तं श्वेतवीनाथपुत्री ज्ञात्वाऽतिदुःखिता। प्रवर्तिनी समीपेऽगाद् नत्वाऽविक्षद् यथासनम् ।।.८७५ ॥ ज्ञानादुक्तवती प्रवाजिकाचूर्णादि सा सती। ततोऽस्या गलितं मोहध्वान्तं बोधिरदीप्यत ॥ ८७६ ॥ जातिस्मरणमुत्पेदे संवेगः प्रासरद् हृदि । कियद्भगवति ! क्लिष्टं मम कर्माऽस्ति साम्पतम् ॥ ८७७ ॥ कचे प्रवर्तिनी वत्सेहोरात्रमिति कर्म ते । अथाऽख्यदेपा में प्राणनाथो सास्यति मां कथम् ? |८७८|| इदानी जातशङ्कस्तं पियों निशि कपश्चन । प्रतिमा तीर्थनाथस्य समीपस्यां करिष्यति ।। ८७१ ।। तां दृष्ट्या यक्षिणी दुरादपयास्यति दस्युबन्। जिनाचायाः पुरा यस्मान्न दुष्टाः स्थातुमीश्वराः ॥८८० ॥ प्रवर्तिनि ! न सा पत्युस्तद् विधास्यति खण्डनम् । साअध्यन् शुभाशय ! नव किंचित कनाशुभांदयात् ।।८८ तना प्रभूति ने मर्चा कर्ता स्त्रां माणवल्लभाम् । सर्चया पूनमंभूनः निमः कर्ममवा यनः ॥ ८. प्रवतिन्यहना धर्मे नत्र किमपि यन्मनम् । । प्रधानयपापि पाटा २७० मल्लिनाथमहाकाव्ये- तद् ब्रूहिं करुणां कृत्वा यतस्त्वं करुणानिधिः ।। ८८३ ।। प्रधान सर्वमन्त्रेषु भीतानां वज्रपञ्जरम् । साधकं मुक्तिमार्गस्य दीपकं ज्ञानसम्पदाम् ॥ ८८४ ।। जीववत् शाश्वतं साऽथ नमस्कारं यथाविधि । अशिक्षयलियां राज्ञः सा सम्यक् प्रत्यपद्यत ॥ ८८५॥ तत्रस्थैव नमस्कारतत्परा नृपवल्लभा । सकलां गमयामास क्षणवत्क्षणदां मुदा ॥ ८८६ ॥ ततस्तस्याः पतिवृत्तं यक्षिण्या अवगम्य च । तमुपाश्रयमागत्य देव्या अनुनयं व्यधातू ।। ८८७ ॥ आर्यपुत्र ! न ते किश्चित् कुप्यामः, कर्मणे भृशम् । निमित्तमात्र सर्वोऽप्यपराधगुणयोरपि ॥ ८८८ ।। अथोवाच नृपो देवि ! कर्मणे कुंप्यसि कथम् १ । साऽऽचख्यौ मूलतो वृत्तं प्रवर्तिन्या निवेदितम् ।।८८९॥ निशम्योचे नृपः प्राच्यकर्मणां फलमीदृशम् । अनुभूतमनुस्यूतमिव पल्या भवे भवे ॥ ८९० ॥ ततः प्रवर्तिनीं नत्वा धामाऽगात्सप्रियो नृपः। साऽपि द्वादशधा धर्म परिपाल्य दिवं ययौ ॥ ८९१ ॥ एतचन्द्रयशोवृत्तं श्रुत्वा पुत्र ! पवित्रधीः । नीचसंगं विमुञ्चाऽऽशु चेदिच्छसि समुन्नतिम् ॥ ८९२ ॥ नत्वा तातमसौ माह नीचसंगात् समन्ततः । निवृत्तोऽहं प्रवृत्तस्तु तवाऽध्वनि शुभाशयम् ॥ ८९३ ।। अहं ताताहतं धर्म श्रोतुमिच्छामि साम्पतम् । ततोऽसौ कथयामास श्रावकत्रतपद्धतिम् ॥ ८९४ ॥ उपादत्ताहतो धर्म सद्गुरोरिव भाविकम् । विशेषाच मनश्चक्रे व्रते देशावकाशिके ॥ ८९५ ॥ अन्येार्जनकादेशात् पण्यान्तरजिघृक्षया । १ किमु कुप्यसीत्सपि । २ स गुरोः सद्गुरोरिव, एवमपि।
सप्तमः सर्गः। २७१ चनिनः पूर्णगोणीकः वृपः पञ्चशतर्युतः ॥ ८९६ ।। कण्ठबद्धस्फुरदण्टानिर्योपाः मासरंस्तराम् । देशान्तरश्रियामाकारणदूता इबोद्भटाः ।। ८९७ ॥ वनाङ्गयोरन्तग़ले सार्थस्तस्योपितोऽखिलः। मिमिलुरपरे सार्थ सार्था वार्धाविवापगाः ।। ८९८ ॥ धनसेनाऽथ शर्वर्या कृतार्चनिजगद्गुरोः । आ सार्थाद् विदधे देशावकाशिकं व्रतं मुदा ।। ८९९ ।। इतश्च निशि कोऽप्येत्य जगाद वणिजां पतिम् । दव! नाहलसंघाताचलुः सार्थजिघृक्षया॥९००॥ इदं वृत्तं परेपां स देहानां जगाद तु । तेऽप्यूचुस्तहि वेगेन नश्यतां धनसेन ! भोः ! ।।९०१ ।। न्यगदद् धनसेनोऽय व्यूह कृत्वाव तिष्ठत । नाहलानीकिनीसंघाः किं करिष्यन्ति जाग्रताम् १ ॥९०२।। यष्टिभिर्मुष्टिभिश्चापैः प्रस्तरंगोलकादिभिः । व्यूहभेदं विधास्यन्ति धनसेनेति चिन्तय ॥ ९०३॥ अथाऽभ्यधाद् धनसेनो मया स्थातव्यमत्र यत् । आ सार्थात्परतो यस्मानिधो गमने निशि ॥ ९०४ ।। अहो! ते मूर्खता भद्रावादीद् यनियमो मम | खस्थावस्थासु कर्त्तव्यं व्रतस्य परिपालनम् ॥ ९०५ ॥ भद्र ! धर्मप्रभावाने भूयाद् रक्षा निशान्तरे । चयं नु सघना यामो नश्यतां नास्ति भीः कचित् ।।९०६॥ वैदेहा अपरे सार्थमादाय रजनीमुखे । भीत्या मृगा इवाऽनश्यन्नास्ति मृत्युसमं भयम् ॥ ९०७ ॥ तेषां प्रणश्यतामर्द्धमार्गे भिल्ला उदायुधाः । आययुः संमुखं मूर्ताः कालरात्रिसुता इव ॥ ९०८ ॥ अथ वेष्टितः सार्थः शरीरीवोनकर्मभिः। गृहीतसारश्च कृतः महतः प्रस्तरादिभिः ||९.०९.॥
•. . . “२७२ मल्लिनाथमहाकाव्ये- अथ प्राणान् समादाय नेशुः सार्थजना निशि। ..: धनसेनस्तु कुशली तत्रस्थो व्रतपालनात् ।। ९१० ॥ अवबुद्ध्य स्वरूपं तत् प्रनष्टा गतपौरुषात् । विशेषतोरतो जैने धर्मेऽभूत् सुसमाहितः ।। ९११ ।। अथ प्राप्य खकीयं तत् पुरं रबपुराभिधम् । समुपार्जितलक्ष्मीकः श्राद्धव्रतमपालयत् ।।.९१२ ।। पर्यन्तेऽनशनं कृत्वा समाधिध्यानतत्परः । मृत्वाऽभूत् प्रथमे कल्पे सुरो ललितसंज्ञकः ॥ ९१३ ।। देशावकाशिकं शुद्धं यथाऽनेन सुरक्षितम् । तथाऽन्यैरपि भूपाल ! पालनीयं विवेकिना ॥ ९१४ ॥ श्रीकुम्भो न्यगदद् नाथ ! धनसेनः कृतार्थधीः । यस्येदृक्ष मनो धर्म सुस्थितं परमार्थतः ॥ ९१५.।। - वरं पुरं शरीरं च द्रविणं च त्यजन्त्यपि । त्यजन्त्यभिग्रहं नैव जीवितव्यव्ययेऽपि हि ॥९१६ ॥ पौषधवतदृष्टान्तं स्वामिन् ! श्रोतुं समुत्सुकः । केषां तृप्यन्ति चेतांसि यौष्माकीणवाश्रुतौ ?॥९१७ ।। अथाऽभ्यधाद् जिनो मल्लिः संदेहध्वान्तभास्करः। माकन्दफलसप्रीत्या गिरा तत्त्वकिरा भृशम् ।।.९१८ ॥ पौष दत्ते क्रमाद् ध्यानधर्मस्य शुभदायिनः । इति निष्पत्तितः पाहुस्तत्त्वज्ञाः पौषधव्रतम् ॥ ९१९ ।। केचित् पौषधतनिष्ठा मृत्युदा अपि वेदनाः । सहन्तेऽन्यत्वभावेन राजन् ! शिखरसेनवत् ॥ ९२० ॥ तथाहि मिथिलापुर्यां विजयी विनयी नयी । राजा विजयधर्माख्यश्चन्द्रधर्माऽस्य बल्लभा ॥९२१ ।। अन्येशुरनवद्यागी खेलन्ती.सममालिभिः । विशिष्टलक्षणाधारा स्त्रीरत्नमिति कश्चन ॥ ९२२॥ व्यामोझ विद्यया लोकान् विद्यासाधनहेतवे ।
ससमः सर्गः २७३ जाहेऽन्तःपुरमासीनां चन्द्रधर्मी निशामुखे ॥९२३(युग्मम्) अस्या अपहृतिं ज्ञात्वा निधेरिव घराधवः । मूलच्छिन्नांहिप इव पपात पृथिवीतले ॥ ९२४ ।। · चन्दनद्रवनिष्यन्दितालवृन्तमहानिलैः । चिरं कृतप्रतीकारो मूर्छाविच्छेदमाप सः ॥ ९२५ ॥ हा ! पिये! हा! प्रिये ! राकाशशाङ्कवदनानघे । कुतोऽस्मान् त्वमनापृच्छय गताऽसि मुंगलोचने ! ॥९२६।। त्वां विना नगरं देवि ! शून्यमेतद् विलोक्यते । त्वदनु प्रस्थिताः प्राणाः शून्यमंस्थात् कलेवरम् ।।९२७॥ एवं दुःखपरे राज्ञि चतुर्थे दिवसे दिवः । जटाजूटघरो मन्त्रसिद्धः कश्चिदुपागतः ॥ ९२८ ॥ वयस्य ! मन्त्रसिद्ध्यर्थं तव कान्ता मया हुता। एष कल्पो यतोऽमुष्याऽऽराधने गुरुणोदितः ॥ ९२९ ।। तां जामिमिव मे विद्धि न तें पीडा भविष्यति। षण्मासान्ते त्वया साकं संगमः साधु सेत्स्यति ॥९३०॥ इत्युदित्वा गते तस्मिन् पुनः मूछोमवाप सः । आर्दीभूतं च तद् दुःखं पिटको घर्षणादिव ।। ९३१ ।। मूर्ध्वान्ते प्रेयसी स्मृत्वा ध्यानी मौनी च सोऽभवत् । पल्योपमोपमास्तस्य वभूवुर्दिवसाः कति ॥ ९३२ ॥ व्यामोहतिमिरे तस्य दूरीभूते कथञ्चन । जहषुः सचिवाः सर्वे लब्धापूर्वनिधानवत् ।। ९३३ ।। अत्रान्तरे समागत्योद्यानपालोऽप्यभाषत । विजयख महीपाल ! मङ्गलैरतुलै शम् ॥ ९३४ ।। तवोद्याने जिनखामी गजगामी समागतः । अनेकसंशयध्वान्तध्वंसकस्तिग्मभानुवत् ।। ९३५ ।। श्रुत्वेदं हर्षरोचिष्णुर्दाग पारितोषिकं नृपः । दत्वा व्यसृजदेनं तु स्वयमागाच्च वन्दितुम् ॥ ९३६ ।।
२७४ मल्लिनाथमहाकाव्ये- प्राकारंत्रितयं दृष्टा भ्राजमान जिनेशितुः । धाराकदम्बवद् धाराहतो रोमाञ्चितोऽभवत् ।।९३७|| ततः प्रदक्षिणीकृत्य तीर्थनाथं क्षमापतिः । स्तुत्वा स्तोत्रविचित्रैश्च यथास्थानमुपाविशत् ।। ९३८ ।। अनादिनिधनो जीवो वद्धः कर्मभिरुद्भटैः । दुर्वातभ्रामितः पोत इवाम्भोधौ भ्रमत्यलम् ।।९३९।। तत्रैव भ्राम्यतो द्वीपकल्पः कल्पद्रुमोपमः । जैनो धर्मः स च द्वेषा साधुश्राद्धविभेदतः ।।९४०॥ साधुधर्मों यथा प्रोक्तो व्रतपश्चकबन्धुरः। अदवीयानयं मार्गों लोकानमुपतिष्ठते ॥९४१॥ श्राद्धधर्मात् परं मोक्षो भवति द्वित्रिजन्मतः । अयं तु सुकरो ज्ञेयः प्रायशो विषयैषिणाम् ।। ९४२ ॥ कस्य धर्मस्य माहात्म्यादभूवं पृथिवीश्वरः । इत्युक्ते भूभुजा तेन प्रोचे वाचंयमाग्रणीः ॥९४३॥ आसीदिहैव भरते विन्ध्यसंज्ञो महीधरः। चतुर्विधगजोत्पत्तिभूमि मितिदण्डवत् ।।९४४॥ तस्मिन् शिविरसेनोऽभूत् पल्लीशः क्षत्रियाग्रणी। जन्तुजातवघे निष्ठो गरिष्ठः स्तेयसाहसः ॥९४५॥ इयं ते प्रेयसी प्रेमरत्नरोहणभूमिका । समभूत् श्रीमती नाम्ना पल्लिश्रीरिव गेहिनी ॥९४६॥ गुञ्जामुक्ताफलाहारा वल्कलाम्वरधारिणी। वर्हिपिच्छकृतोत्सा प्रियङ्गुश्रुतिभासुरा ॥९४७॥ त्वया सह सदुर्गादिनिकुञ्ज कृतचक्रमा । पिवन्ती नैरं वारि त्रासयन्ती मृगीरपि ॥९४८॥ यूथभ्रष्टमिव न्यदु सार्थच्युतमिवाध्वगम् । एक ददर्श सा साधु पर्यटन्तं महागिरौ ॥ ९४९ ॥ (त्रिभिर्विशेषकम् ) सप्तमः सर्गः :॥ २७५ अयोवान भवान साधा ! कस्माद् भ्राम्यनिहाऽऽगतः। सांडण्याख्यन्निनकाद् गच्छाद् भ्रष्टोऽहं दिवसात्यये।।९५०|| नाऽहं किश्चिद् चिद् वैधि दिग्मृह इव साम्प्रतम् । दर्शयतु भवान् मार्ग श्रेयस्ते भात्रि भाविकः ॥९५१॥ अर्थप स्वगृहे नीत्वा स्थापयित्वा वराश्रये । वखानपानशय्याभिर्भवद्भ्यां प्रतिलाभिनः ॥९५२॥ शृण्वनोराईनं धर्म दम्पत्योर्वासनाऽभवत् । अशिक्षेनां भवन्नी चाऽऽवश्यकादिविधि पुनः ।।९५३।। चतुप्पा ग्रहीप्यामि पापधं पातकापधम् । एवं निश्रयमाधत्त भवान् भवविरागधीः ॥१५॥ अन्याः शिखरसेनोऽमावास्यों शुद्धवासनः । अगृहात् पाप, तद्वत् श्रीमत्यपि शुभाशया ॥९५५॥ पुच्छेनाऽऽच्छोटयन पृथ्वी नार्दर्मुखरयन् दिशः । कोपागंरचिंपा रज्यल्लोचनद्वयदीपिकः ॥९५६।। मृों रोद्रो रसः प्रताधिपतेः मतिहस्तकः । इतवाऽगाद् निशीथिन्यां पारीन्द्रः पौपधालये ॥९५७॥ (युग्मम् ) तं दृष्ट्वा धन्य धन्वेति भापमाणं मुहुर्मुहुः । भवन्तं वीक्ष्य त्वत्पनी प्रोचे वाचं मिताक्षरम् ।।९५८।। नाथ! सन्यस्तशस्त्रस्य पौपधवतशालिनः । जन्तोतं न दातुं ते युज्यते जैनसाधुवत् ।। ९६९ ॥ सहस्त्रोपसर्गममुं कर्मेन्धनहुताशनम् । येन ते शिवशर्माणि भावीनि करगोचरे ॥ ९६० ॥ श्रुत्वैवं वचनं चारुगुरुवाक्यमिवापरम् । भवान् शान्तिवरागारे स्थितः साम्यमहाधनः ॥१६॥ १ प्रतिलाभ्यते, इत्यपि । २ अमावासीशब्दस्य सप्तम्यन्तमेतत् । ३-मानसः, एवमपि ।
२७६ मल्लिनाथमहाकाव्ये- ततः सिंहेन दुःसह्यं भवान् शिरसि ताडितः। अनित्यतादिभावज्ञ इत्याशु ध्यानवान् भवान् .॥९६२।। रे! जीव ! किमिदं कष्टं यत्सोढा नरकादरे। तदिदं वर्णिकामात्रं दयते तेन साम्पतम् ।।९६३॥ रे! जीव! शतशः प्राणत्यागस्तेऽजनि संसृतौ । पाण्डित्यमरणं नैव प्राप्तुं कर्मद्रुपावकम् ॥९६४॥ स्मरनिति भवान् मृत्वा भूत्वा नाकी च लान्तके । त्वमभूः पृथिवीपालस्तद्वदेषाऽपि ते प्रिंया ।।९६५॥ तत्पूर्वं पशवो भद्र ! निरागसो वियोजिताः । तद्विपाक विरहेण सहसे दुःसहं चिरम् ।। ९६६ ।। श्रुत्वेति तीर्थकृमोक्तं लघुकर्मा महीपतिः । राज्ये पुरन्दरपुत्रं न्यस्याऽभूत् श्रमणोत्तमः ॥९६७॥ ततस्तीर्थकरोपान्ते तपस्तप्त्वा सुदुष्करम् । अन्तकृत्केवलीभूय राजर्षिः प्राप नि:तिम् ।। ९६८ ॥ तेन विद्याभृता नीता तत्र सा वल्लभेशितुः । श्रुत्वा तीर्थकरमोक्तं प्रव्रज्याऽथ शिवं ययौ ।।९६९।। अथ नत्वाञ्चदत् कुम्भपृथ्वीशः प्राज्यविक्रमः। स्वामिन् ! पोषघदृष्टान्तो जातः कर्णावतंसताम् ।।९७०॥ कृतार्थः शिखरसेनः पौषधवततत्परः। न्येन प्राणात्ययेऽप्युच्चैः पालितं पौषधव्रतम् ॥ ९७१ ।। इदानीं श्रोतुमिच्छामि तुर्य शिक्षावतं प्रभो।। श्राद्धधर्मो भवेद् येन समग्रोऽथाह तीर्थकृत् ।। ९७२ ।। तुर्य शिक्षाव्रतं प्राहुरतिथेः संविभागतः । प्राप्ताय साधवे काले दानात् प्राशुकवस्तुनः ॥ ९७३ ।। अतिथेः संविभागः स्यादेतज्ञतनिपेत्रणात् । भाविनी चन्दना वीरतीर्थे निर्वाणगामिनी ॥ ९७४ ।। १ खगी, इनीनरपि ।
सप्तमः सर्गः। '२७७ तथाहि- इक्ष्वाकुवंशसिद्धार्थनन्दनः पावनाकृतिः । मुवर्णवर्णरुचिरः सिहायः सिंहविक्रमः ॥ ९७५ ॥ गृहीतचारुचारित्रामस्थः छावर्जितः । विहरन्नगरी प्राप कोशम्धी चरमो जिनः ॥ ९७६ ।। (युग्मम् ) तत्र राजा शतानीका शनानीकाजताहिनः । मुना चटकग़जस्य तस्य देवी मृगावती ।। ९७७ ॥ मुगुमः सचिवस्तस्य नन्दाख्या तस्य गेहिनी । मुवयस्या मृगावत्याः परमप्रीतिभूरभूत् ।। ९७८ ॥ श्रेष्ठी धनावहस्तत्र धननदसन्निभः । मूलाच्या प्रेयसी तस्य गृहकर्मधुरन्धरा ।। ९७९ ।। अंबाईन पीपमासस्य श्यामले प्रतिपदिने । जग्राहाऽभिग्रहममुं दुर्गाद्यमितरेजनैः ।। ९८० ।। मुण्डिना लोहनिगडबद्धपादा तपःपरा । रुदती मुदती किंचिन् मन्युना राजपुत्रिका ॥ ९८१॥ प्रेप्यभावं गता काचिद् देहल्यन्तस्थितक्रमा। वहिःक्षिप्ताऽपरपदा भिक्षुकेषु गतेष्वपि ॥ ९८२ ।। कुल्मापान मूर्पकोणेन यदि मह्यं प्रदास्यति । तदेवाऽहं विधास्यामि पारणामन्यथा न तु ॥९८३।। नीचोचेपु गृहेपूच्चैर्गोचराऽध्यानमागतः । अलक्ष्याभिग्रहो वीरः पर्यभ्राम्यत् दिने दिने ॥९८४॥ दीयमानां मुहुर्भिक्षामगृहति जिनेश्वरे ।. . अभिग्रहबशेनाऽथ पौराः खेदमुपागमन् ॥९८५॥ अहन्ननात्तभिक्षोऽसौ सहमानः परीपहान् । अनयंश्चतुरो मासान् दिवसानिव निर्ममः ॥९८६॥ अन्येाश्चरमस्वामी सुगुप्तौकसि भि ।
२७८ - मल्लिनाथमहाकाव्ये- प्रत्रिशक्षि तत्पल्या सुमेरुरिव जङ्गमः ॥९८७॥ नन्दयाऽऽनन्दसंपूर्ण वस्तुकल्पमढौक्यत | धन्या धन्येति भापिण्या यद् वीरो गृहमागतः ।।९८८॥ अनुकूलमभूत् दैवं सत्यार्थी आशिषोऽपि च । उज्जृम्भितं मुहुः पुण्यं तुष्टा मे कुलदेवता ।।९८९॥. एवं मनसि विभ्रत्यामभिग्रहवशाद् जिनः । अनात्तभिक्षस्तद्नेहाद निर्ययौ गजलीलया ॥९९०॥ अधन्या मन्दभाग्याऽहमसंपूर्णमनोरथा । यथागतः तथागच्छत्येष चिन्तामणिः श्रिया ।।९९१।। एवं खेदपरां नन्दां दास्यूचेऽयं दिने दिने । आयाति याति च खामी तद्धतुरवगम्यताम् ।।९९२॥ इत्थमाकर्ण्य नन्दापि सखेदा पत्युरग्रतः । वीरस्याऽनात्तभिक्षत्वं कथयामासुषी तदा ॥ ९९३ ।। परचित्तोपलक्षिण्या किं कार्य भवतां धिया। यदसौ जगतां नाथो गृहमायाति याति च ।। ९९४ ॥ जानात्वभिग्रहं प्रेयान् दुर्लक्षे धीप्रयोगतः । सर्वज्ञेनेव कार्याणि ज्ञायन्ते भवता धिया ।। ९९५ ।। अभुक्ते सुगुरौ नाथ ! भुज्यते किं विवेकिभिः । अन्यथा पशुवजन्म वयं मन्यामहे निजम् ।। ९९६ ॥ ततो मन्त्री जगादैवं तीर्थेशितुरभिग्रहम् । यथातथा करिष्यामि पूर्ण प्रातः मृगेक्षणे! ॥ ९९७ ॥ विजयाख्या प्रतीहारी मृगावत्यास्तदागता । तयोरालापमाकर्ण्य गत्वा देव्या उवाच च ॥ ९९८ ।। मृगावत्यपि तत्कालं विदधे खेदमुच्चकैः । जिनशासनभक्तानां किमिदं किल कौतुकम् ।। ९९९ ॥ संभ्रान्तस्तां शतानीकोऽपृच्छत् खेदनिवन्धनम् । १ भुवननाथे, इत्यपरम् ।
ससमः सर्गः।
२७९
तस्याः हृदयवासिन्याः संक्रान्तं हृदयादिव ।।१०००।
उच्चकैः खेदसंच्छन्ना मन्दध्वाना मृगावती ।
व्याजहार नृपस्याग्रे दीन दीनं महासती ॥१००१॥
चराचरं चरैर्विश्वं जानते जगतीमुजः।
खपुरीमपि नैव त्वमहो ! ते मतिकौशलम् ॥ १००२ ॥
त्रैलोक्याधिपतिं वीरं वसन्तं नात्र वेत्सि किम् ।
अथवा राज्यलुब्धा हि गुरुपूजाप्रमद्वराः ।। १००३ ॥
राजा बभाषे घिग घिग मां यदसौ परमेश्वरः ।
अलक्ष्याभिग्रहोऽप्युच्चैः संपूर्णाभिग्रहो न यत् ॥ १००४ ॥
साधु साधु पिये! वीराभिग्रहं प्रेरितः प्रति ।
मन्त्री मन्त्रं गुरुस्त्वं मे यदस्येवं प्रमादहृत् ॥ १००५ ॥
प्रभाते प्रेयसि! ज्ञात्वाऽभिग्रहं चरमेशितुः ।
पारणां कारयिष्यामि शरीरग्लानिहारिणीम् ॥१००६॥
राजा सचिवमाहूय वीरवृत्तं यथातथम् ।
सविस्तरमुवाचाऽईद्भक्तिकञ्चुकचञ्चुरः ॥.१००७॥
धिर धिग् नश्चतुरो मासान् वसंस्तपसि तत्परः ।
प्रभु! वन्दितो नैव ज्ञातोऽपि ज्ञातनन्दनः ॥ १००८॥
विज्ञेयोऽभिग्रहो भर्तुः कथंचिदपि धीधन! ।
पारणं कारणीयश्च नान्यथा श्राद्धताऽपि का? ॥१००९॥
सचिवोऽप्यब्रवीद् देव! वहवोऽभिग्रहाः श्रुताः ।
तथ्यवाभिधो वक्तोपाध्यायः सर्वशास्त्रवित् ॥ १०१० ॥
भूपोऽप्यथ समाहूयाऽध्यापकं तथ्यवादिनम् ।
वीरस्याभिग्रहं चारु विचारय यथामति ।। १०११ ॥
अर्थ्यन्ते सर्वधर्माणामाचारास्तव शासने ।
तन्मध्यात् केनचिद् भर्चा विधाता पारणाविधिम्॥१०१२॥
अध्यापकोऽप्यमापिष्ट भूयांसोऽभिग्रहाः खलु ।
द्रव्यक्षेत्रकालभावभेदात् संयमिनां मताः ॥ १.१३ ॥
२८०
मल्लिनाथमहाकाव्ये-
...
ते चामी-
महर्षिः कोऽपि कुन्तेन प्रोतैः संख्यातमण्डकैः।
सादिना दीयमानैश्च विधत्ते पारणाविधिम् ।। १०१४ ।।
कश्चिद् बालादिहस्तेनं पाशुकं चणकादिकम् ।
गृह्णाति पारणाकालेऽभिग्रहा विविधाः किलं ॥१०१५॥
आलानस्तम्भमुन्मूल्य पदृहस्ती मदान्धलः।
'गत्वा कान्दविकाहानि करेणाऽऽदाय मण्डकान् ॥१०१६॥
मह्यं ददाति चेत् काले तदा स्यात् पारंणांविधिः ।।
इत्याधभिग्रहा राजन् ! पूर्यन्ते देवतावशादं ॥१०१७॥
(युग्मम् )
विशिष्टज्ञानमाहात्म्यं विनाऽस्याभिग्रहः कथम् ।
माशैर्गदितुं शक्या, सर्वं हि महतां महत् । ॥१०१८॥
ईदृशोऽभिग्रहान् राजा पुर्यामाघोष्य डिण्डिमात् ।
बहुधाऽध्यापकेनोक्तान् कारयामास कार्यवित् ॥१०१९॥
केचित् नृपाज्ञया चक्रुः केचिद् भक्त्या जिनं प्रति ।
रनवृष्टीच्छया केचित् केचित् कीर्तिजिघृक्षया ॥१०२०॥
केचित् कुल्याशया स्पष्टं व्यधुरेवंविधं जनाः ।
तथापि तीर्थकृद् मिक्षां न जग्राह कथञ्चन ॥१०२१॥
अम्लानवदनच्छाया रजनीनीरजोपमाः।
वीडो खेदाकुलाः पौरा विदधुर्मुखिता इव ॥१०२२॥
इतश्च-
अखैश्चतुर्विधैः शान्तः कङ्कटैर्गनवाजिभिः ।
पूरयित्वा गणं नावां पूर्ववैरेण दूरतः ॥१०२३॥
नद्याः पथा शतानीको विक्रमादेकया निशा ।
एत्याऽरुषत् पुरी चम्पां तित्तिरीमिव पाशकः ॥१०२४॥
ज्ञात्वा तदागमं झम्पापातवद् भयविद्रुतः ।
चम्पाधिपः पलायिष्ट दस्युवद् दधिवाहनः ॥१०२५॥
.. सप्तमः सर्गः। २८१ यो यद् वस्तु समादत्ते तत् तस्येत्याऽऽदिशद् नृपः । मुमुपुः तद्भटाश्चम्पां निवारावेमवद्.भृशम् ।।१०२६।। दधिवाहनभूभर्तुर्धारिणीमहारिणीम् । श्रिया भूमीचरी देवीमिव देवीमवीतधीः ॥१०२७॥ वसुमत्या समं पुच्या राजलक्ष्म्येव मूर्तया कोऽप्यौष्ट्रिको ग्रहीद् राज्यसर्वस्वमिव संचितम् ।।१०२८॥ (युग्मम् ) शतानीका परान करनीक पर्यलकृतः। कृतकृत्यः पुरीं प्राप खविक्रमकथासखीम् ॥१०२९॥ मोहितस्तेन धारिण्या रूपेणाऽमतिमश्रिया । जनानां पुरतो गच्छन् जगादेति सुदुःसहम् ।। १०३० ।। इमां रूपवती प्रौढां भार्या कर्तास्मि निश्चितम् । पुर्याश्चतुष्पथे गत्वा विक्रेतामि कुमारिकाम् ॥१०३१॥ श्रुत्वेति धारिणी देवी कर्णयोः कटुकं वचः । मनस्येवं दधारोचैः सिञ्चन्त्यश्रुजलैर्महीम् ।। १०३२ ।। महाकुले प्रमूताऽहमिन्दोरपि सुनिर्मले । दधिवाहनराजस्य पदेव्यस्मि विश्रुता ॥ १०३३ ।। विज्ञाततीर्थकृद्धा शीलालङ्कारशालिनी। उल्लापानीदृशान् दैवाद् विशृणोम्ययकारकान् ॥१०३४।। नाऽद्यापि किमु रे ! जीव ! मत्तेभश्रुतिचञ्चलम् । देहं त्यक्त्वा यशोदेहं न रक्षसि सनातनम् ॥१०३५॥ वपुषोऽस्मात् स्वयं गच्छ विलतो मूषको यथा.। द्विजिह्वस्य प्रवेशे स्याच्छुभयो ! न शुभं तव ॥१०३६।। सोक्ता तद्भर्त्सनोयुक्तैरिव प्राणैर्विमुच्यते । अङ्गुलीदर्शनाद् शोषं याति कूष्माण्डकं यतः ॥१०३७॥ नृपपत्नी समालोक्य विपन्नां करभासनः। १ निर्वरा-इत्यपि । . २ शुभयुक्त! इत्यर्थः ।
२८२ मल्लिनाथमहाकाव्ये- यद्वदेषाऽभवत् तद्वदेषाऽपि भविता क्षणात् ॥१०३८॥ एवं विचिन्त्य साम्नैनां भाषमाणः पुरो नयन् । राजवर्त्मनि विक्रेतुं दधौ, मूर्ध्नि तृणं ददौ ॥१०३९॥ कसान्तःपुरभूः क्रीडा केयं विक्रयभूमिका । क मूर्ध्नि मुकुटश्रीश्च क चैतत् तृणमोचनम् १ ॥१०४०॥ अथवा प्राक्कृतानां हि कर्मणां फलमीदृशम् । परो निमित्तमात्रं स्याद्, कस्मै कुप्याम्यहं ततः ॥१०४१॥ एवं खेदपरां राजपुत्रीमालोक्य भास्करः । 'पश्चिमामगमत् , सन्तः परदुःखेन दुःखिताः ॥१०४२॥ नमोलक्ष्मीरिमां वीक्ष्य स्थितां विक्रयवमनिः । तिमिरच्छमना दधे कज्जलाश्रुजलश्रियम् ॥१०४।। श्रेष्ठी धनावहस्तत्राऽऽगतो दासजिघृक्षया । एनां श्रियमिवालोक्य दधाराऽऽनन्दसंपदम् ॥१०४४॥ असौ कन्या न सामान्याज्गाद् दैवादीशी दशाम् । संपदो विपदश्चाप्यरघट्टघटिका यतः ॥१०४५।। इमां क्रयक्षितौ क्षिप्तां वीक्षमाणाङ्गजामिव । हृदयं भविता द्वेषा वालुमिव पक्तिमम् ॥१०४६॥ यस्य कस्यापि हीनस्य करे यास्यति रत्नवत् । यतश्चतुष्पथे तेन विक्रेतुं विधृता ध्रुवम् !!१०४७॥ तिष्ठन्त्या मद्गृहस्यान्तः स्यादस्या वन्धुसंगमः। मूलद्रव्यं यतो नव्यं सतामुपकृतिर्मता ॥१०४८॥ धनावहो विचिन्त्येति तस्मै दवेप्सितं धनम निन्ये वसुमती वाला खवेश्म विगतमयः॥१०४९॥ पृष्टाऽथ श्रेष्ठिना वत्से ! का त्वं कस्याऽसि नन्दिनी । कि गोत्रं किमु ते नाम का नाम जननी तव ? ॥१०५०॥ महत्त्वेन कुलस्योच्चैः खकुलं वक्तुमक्षमा । . १ चिमिटीमवत्याशयः ।
सप्तमः सर्गः। २८३ .. . सा तस्थौ न्यग्मुखी वाला रजन्यामिव पद्मिनी ॥१०५१॥ उवाच श्रेष्ठिनी मूलामावयोर्दुहिताऽसको । लालनीया पालनीया नेत्रकैरवकौमुदी ।।१०५२।। तया श्रेष्ठिगिरावात्सीत् वत्सा वसुमती सुखम् । जङ्गमा कल्पवल्लीव नानाभरणभूषिता ॥१०५३।। प्रज्ञाविनयवाक्शीलैनिःशेपैश्चन्दनोपमैः । चन्दनेत्यभिधां चक्रे सत्यामस्या धनावहः ॥१०५४॥ आवाल्यविमलैर्वृत्ताला तारुण्यशालिनी। द्वितीयेन्दुवदानन्दं विदधे, पिदधे तमः ॥१०५५।। स्वभावेन खरूसेयं विशेषाद् यौवनश्रिया। अश्विनीपूर्णमासीवाऽशुभदिन्द्रमद्देन सा॥१०५६॥ वीक्ष्येमा यौवनोद्यानवशां गजवशामिव । विदध्यौ श्रेष्ठिनी मूला चिन्तयन्त्याऽऽयति हदि ॥१०५७॥ श्रेष्ठी संभाषते नित्यं यद्यप्येनां सुतामपि । चेद् दैवादुपयच्छेत जीवन्त्यपि मृताऽस्म्यहम् ॥१०५८॥ अथवा- नसा विद्या न तद् ज्ञानं न तद् ध्यानं न सा कलां। निवर्येत मनो येन स्मरापस्मारघरमरम् ॥१०५९॥ यदूचे- बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति । विश्वामित्रोपि सोत्कण्ठं कण्ठं जग्राह मेनकाम् ॥१०६०॥ पायोनिः निजां पुत्रीं न प्रियां कृतवान् किमु । तावत् शूरो भवेत् सर्वो यावद् न स्त्रीकटाक्षितः ॥१०६१॥ परं रामा सुलम्भेन तुच्छत्वेन मुहुर्मुहुः । कालं निनाय ताम्यन्ती शाकिनीव दुराशया ॥१०६२॥ इतश्च प्रासरद् ग्रीष्मो भ्राष्ट्रमिन्धनविद्युतिः । १'पद्मजन्मेत्यपि। .
.२८४ मल्लिनाथमहाकाव्ये- नखंपचरजालोकगायुःकर्मनाशनः ॥१०६३॥ सर्वत्र क्षिप्तकारीपपावकौपम्यमध्वसु । वहमानेषलकानां झलत्कारेषु सर्वतः ॥१.०६४॥ श्रेष्ठी धनावहो गेहमासाथ चिरपान्थवत् । हा हेति मन्त्रमुच्चार्य निविष्टो दृष्टविष्टरे ॥१०६५॥ तदंहितालकः कोऽपि नासीद् दासीमुखो जनः । विनयाचन्दनोत्थाय निषिद्धा श्रेष्ठिनाऽपि हि ॥१०६६॥ पादौ क्षालयितुं भक्त्या प्रावर्तिष्ट विशिष्टधीः । भवेत् कुलप्रसूतानां विनयो मण्डनं यतः ॥१०६७॥ सुभगः केशपाशोऽस्या निपतन् पङ्किलक्षितौ । लक्ष्यते स्म मुखैणाङ्कभयात्तम इव वजन् ॥१०६८॥ मा भूदेतर्हि वत्सायाः पङ्किलः कचसंचयः। इति यष्ट्या दधारोच्चैः पितृवत् प्रेमलालसः ॥१०६९॥ एतच्च श्रेष्ठिनी दूरजालकान्तरवर्तिनी । विलोक्य ध्यातवत्येवं तत्सत्यं चिन्तितं च यत् ॥१०७०॥ पत्नीत्वसत्यङ्कारोऽस्याः केशपाशनियन्त्रणम् । पितुः क्रियेदृशी नैव, दुर्जया भवितव्यता ॥१०७१॥ उच्छेद्या तदियं मूलाद् गरवल्लीव जङ्गमा । इति निश्चयमाधाय मौनं मूला चकार सा ॥१०७२॥ जगाम विपणिं श्रेष्ठी मूलाऽप्याऽऽहूय नापितम् । रोगा या इवामुष्याः केशपाशमनाशयत् ।।१०७३॥ ददौ च पादयोः कामं निगडानि दृढान्यपि । चन्दनां ताडयामास स्वकरैः करिणीमिव ॥१०७४|| गृहापवरके न्यस्य सा वन्दीमिव चन्दनाम् । कपाटसंपुटं दवा कोपाटोपादवोचत ||१०७५|| यः कश्चित् श्रेष्ठिनोऽप्यग्रे चन्दनां कथयिष्यति । स मे कोपहुनाशस्य होमद्रव्यं भविष्यति ॥१०७६।। .
सप्तमः सर्गः। २८५ एवं नियन्त्र्य लोकं खं भूला मूलगृहं ययौः। सायं श्रेष्ठी समायातोऽपृच्छत् काऽस्ति सुता मम ॥१०७७॥ कथन श्रेष्ठिनीभीतेः पृच्छतोऽप्यस्य नाऽवदत् । सर्वोऽपि गृहिणीहस्तगोचरो गृहमागतः ॥ १०७८ ॥ मत्सुता रमते काऽपि स्वच्छवान्ता परॊकसि । ध्यात्लेत्यगमयत्कालं मृदुधीः स्नेहलाशयः ॥ १०७९ ॥ अपश्यंचन्दनां कापि द्वितीयेऽद्यऽप्यमापन । मूकीभूत इव जना नाऽऽख्यत् किंचन सर्वथा ॥ १०८० ॥ ततः शोकाकुलः श्रेष्ठी प्रोवाच स परिच्छदम् । जानन्तश्चेन्नाऽऽख्यास्यथ ताडयिष्यामि वस्तदा ॥१०८१॥ श्रुत्वेत्यऽचिन्तयत् काचित् स्थविरा किंकरी हृदि । जीवेद् मे जीवितव्येन चन्दनाऽऽनन्ददा दृशाम् ॥१०८२॥ ममाऽस्त्यज्दुरतो मृत्युर्जरया जर्जरं वपुः । अदृरवीक्षिणी दृष्टिविस्मृतिश्च गरीयसी ॥ १.०८३ ।। इयं सुयौवना वत्सा महाकप्टेन पूरिता । विपत्स्यते, कियद् बल्लीच्छिन्नं पुष्पं हि नन्दति ॥१०८४॥ गदिते चन्दनावृत्ते किमेपा मे विधास्यति । उदस्ते शकटे हन्त ! किं विधाता गणाधिपः १ ॥१०८५॥ ध्यात्वेत्यदर्शयत् तस्य चन्दनारोधमन्दिरम् । मूलाया वीक्षमाणायाः कोपारुणदृशो भृशम् ॥१०८६॥ खयमुद्घाटयामास द्वारं श्रेष्ठो धनावहः । तत्रात सुतां तृष्णाक्षुधा म्लानविग्रहाम् ॥ १०८७ ।। पादयोर्निगडैर्वादं यन्त्रितां हस्तिनीमिव । भिक्षुकीमिव मुण्डां च चामुण्डावत्कृशोदरीम् ॥ १०४८ ॥ वहलेबहलैः क्षोणी सिचन्तीं लोचनाश्रुभिः ।। ..रुष्यन्ती कर्मणे खस्य विमृशन्ती निजस्थितिम् ॥१०८९॥ ...(त्रिभिर्विशेषकम् , .
२८६ मल्लिनाथमहाकाव्ये- मरौ गतां राजहंसीमिमां वीक्ष्य दुखितः। ' ' पुत्रिके! भव विश्वस्ता जल्पन् रसवतीं ययौ । १०९० ॥ दैवाद् भोज्यं विशिष्टं नो वीक्षमाणो धनावहः । एतस्याः सूर्पकोणस्थान् कुल्माषान् स समार्पयत् ॥१०९१॥ . अमून् सुक्ष्व सुते ! तावद् यावत् कर्मारमानये । भवनिगडविच्छेदे गदित्वेत्यऽगमद् धनी ।। १०९२ ॥ ऊर्ध्वस्था चन्दना चित्ते चिन्तयन्तीत्याखिद्यत । मम राजकुले जन्म केदं चेटीत्वचेष्टितम् १ ॥ १०९३ ॥ चेदागां-श्रेष्टिनो गेहे कुतोऽवस्थेशी मम। काकमांसं तदुच्छिष्टं स्वल्पं तदपि याचितम् ॥ १०९४ ॥ षष्ठपारणकालेऽमी कुल्माषा मम भुक्तये। यद्याऽऽयात्यतिथिः कोऽपि चारित्री समतानिधिः॥१०९५॥ अदर्स भुज्यते यच्च तत्पशूनां समञ्जसम् । अतिथेः संविभागेन भोजनं भाजनं श्रियाम् ।। १०९६ ।। विचिन्त्यैवं सुता राज्ञो द्वाराभिमुखमैक्षत । इक्षितैरतिथिं प्रेम्णाऽऽकारयन्तीव दूरतः ।। १०९७ ॥ इतश्च श्रीमहावीरो भिक्षायै पर्यटन् पुरि । पुण्यराशिरिर्वतस्या मूर्तिमान् समुपागमत् ॥ १०९८ ।। अहो ! अहो ! तपःपात्रं निश्रेयसश्रियां मुनिः। कोऽपि कोऽपि महासत्त्वः स्वशरीरेsपि निर्ममः ॥१०९९।। ईदृक्षाय तपःस्थाय पुरा जन्मनि नो मया । प्रदत्तं किंचन कापि तदवस्थाऽजनीशी ॥ ११०० ॥ अथवा मे महत्पुण्यं यदसावागतो मुनिः। उच्चसतीव मे चित्तममुष्मात् खेदभागपि ।। ११०१ ।। ध्यात्वेति चन्दनाऽचालीत् कुल्माषान्वितसूपिका । एक पादं ददावन्तस्तदेहल्याः परं वहिः ॥११०२।। देहली निगडेगाढमाक्रमितुमनीश्वरी ।
सप्तमः सर्गः। २८७ नवास्थाद् दृढभक्तिर्जिननाथमुवाच च ॥ ११०३ ।। कल्पन्ते यदि कुल्मापा भगवन् ! भवतारक!। गृह्यतां मूर्पकोणेन ममानुग्रहकाम्यया ॥ ११०४ ॥ द्रव्यक्षेत्रादिसम्पूर्ण विज्ञायाऽभिग्रहं जिनः । कर कुल्मापभिक्षार्य ततः प्रासारयद् वरम् ॥ ११०५ ॥ धन्याऽस्मि कृतपुण्याऽस्मि श्लाघ्याऽस्मि क्षमिणामपि । सुलब्धपात्रदानामि मनस्येवं विचिन्वती ॥ ११६० ॥ वीक्षमाणा जगदिदं स्वाभाविकमुदान्वितम् । विस्मरन्ती क्षुधाग्लानि जिनरूपविलोकनात् ॥ ११०७ ।। उल्लसत्मोतरोमाश्चा कुल्मापांस्तीर्थकृत्करे । अक्षिपत्सूर्पकोणेन कतिचिद् भक्तिवत्सला ॥ ११०८ ॥ (त्रिभिर्विशेपकम् ) 'अहो ! दानमहो ! दानं श्लाघमाना मुहुर्मुहुः । तत्र प्रीत्याऽऽययुर्देवा दीप्यमानास्तनुश्रुता ॥ ११०९ ॥ पञ्चदिव्याभिपेकश्च विदधुर्जयवन्धुरम् । तुत्रुटुर्निगडान्यस्या जीर्णरज्जुवदञ्जसा ॥१११० ।। पादयो पूरे तस्या जज्ञाते हेमनिर्मिते । तत्कालं केशपाशश्च पूर्वप्रेम्ण इवागतः ॥११११ ॥ सर्वाङ्गमपि नेपथ्यधारिणी धारिणीसुता । वीरभक्तैः सुरैश्चके देवीव क्षितिचारिणी ॥१११२ ।। दिव्यां भेरी नभोमार्गे ताडयन्तो मुहुर्मुहुः । जयनादं वितन्वन्तो नतुर्नाकवासिनः ॥ १११३ ॥ तं श्रुत्वा दुन्दुभिध्वानं शतानीको मृगावती । सुगुप्तो नन्दया सार्द्ध तत्रेयुर्जिनपारणे ॥१११४. ।। सम्पूर्णाभिग्रहं वीरं विज्ञायावधिना हरिः। उत्फुल्लचेता आगच्छत् द्योतयंस्तेजसा नमः ॥ ११.१५ ॥ 'दधिवाहनभूपालकञ्चुकी सम्पुलाभिषः।
२८८ मल्लिनाथमहाकाव्ये- शतानीकसमीपस्थश्चम्पावस्कन्द आगतः ॥.१११६ ।। तसिनेत्य वसुमती दृष्ट्वा तत्पादयोः स्थितः । अरोदीद् मुक्तकण्ठत्वाद् रोदयनितरानपि ॥१११७ ।। किमु रोदिषि राज्ञोक्तः कञ्चुकीति जगाद तम् । दधिवाहनभूरेषा धारिणीकुक्षिसम्भवा ॥१११८|| निजराज्यपरिभ्रष्टां चेटीवत् परवेश्मगाम् । मुक्तकण्ठं रोदिमि स्म वीक्ष्येमां स्वामिनन्दिनीम् ॥१११९॥ राजा माह न शोच्येयं ययाऽहन् प्रतिलाभितः। आ संसृतेरियं धन्या वीरं याऽपारयत् प्रभुम् ॥११२०।। मृगावत्युवाचेयं भगिनी मम धारिणी। नाथेयं मम यामयी नयनानन्ददायिनी ॥११२१॥ . पञ्चभिर्दिवसैन्यूंनषण्मासान् तपसो विधेः । विधाय पारणां वीरो धनगेहाद् विनिर्गतः ॥११२२॥ आदित्सुर्लोभतो रत्नदृष्टिं भूमीपतिस्ततः । निषिद्धो हरिणागृह्णाचन्दनाऽऽदेशतो धनी ॥११२३॥ उत्पन्न केवलज्ञानाञ्चन्दना ज्ञातिनन्दनात् । व्रतमादायनिर्वाणपदमेष्यति शाश्वतम् ॥११२४॥ सुपात्रदानमाहात्म्यात् तत्क्षणात् संपदः सताम् । घनाम्भःसिक्तवल्लीनां यथान्यायं वनश्रियः ॥११२५॥ इत्थं श्रावकधर्मस्य व्रतानि परिपालयन् । क्रमादुपासको मोक्षसौख्यभाग् द्वित्रिजन्मतः ॥११.२६॥ ततः श्रीकुम्भभूपालः प्रोवाच रुचिरं वचः । श्राद्धधर्माद् विरक्तोऽस्मि क्रमशो मोक्षदायकात् ॥११२७॥ अथोत्थाय पुरीमाप्तः श्रीकुम्भः पृथिवीपतिः । आहूय नन्दनं मलं नाम राज्ये न्यवीविशत् ॥११२८॥ पडपि स्वामिमित्राणि न्यस्य राज्ये तनूद्भवान् । अचलन् शिविकासीना विमानस्था इवः ॥११२९।। १ ऋभवा देवा इत्यर्थः ।
सप्तमः सर्गः २८९ .. -- ... महता विस्तरेणाऽय स्फीतसंगीतमङ्गलः। देवयोमस्थितीक्षमाणः कौतुकितेक्षणः ॥११३०॥ पवित्रजिपुभिश्चाऽन्यैर्यथाद्धपुरस्सरैः । प्रभावत्या समं देव्या पराभिश्च महीपतिः ॥११३१॥ महान्तमुत्सवं कृत्वा प्रदक्षिणिततीर्थकृत् । उवाच खामिनं भक्त्या मां तारय भवाम्बुधेः११३२।। प्रभोः पडपि मित्राणि परिच्छदयुतान्यथ । वभापिरे जगन्नाथ नाथ ! तारय संमृतेः ॥११३३॥ अथ श्रीकुम्भभूपालप्रमुखान् नरपुङ्गवान् । प्रभावतीमभृतिकाः पौरनारीरनेकशः ॥११३४॥. : ' सामायिकवतोच्चारपूर्व मल्लिजिनेश्वरः । खयं प्रव्राजयामास वासनिक्षेपपूर्वकम् ॥११३५॥ ! पडपि खामिमित्राणि प्रभोः वक्ताद् प्रवत्रजुः । क्रमाद् केवलमासाद्य नाथमाक् शिवगामिनः॥११३६॥ आयशिष्यो जिनेन्द्रस्य भिपगाख्यो गणाग्रणी। सप्ताविंशतिरन्येऽपि वभूवुर्भुवनोचमाः ।।११३७ ।। उत्पादविगमध्रौव्यत्रिपद्यास्तेऽनुसारतः। द्वादशाङ्गानि पूर्णानि रचयामासुरञ्जसा ।। ११३८ । दिव्यचूर्णभृते स्थाले विधृते वजिणा स्वयम् । खामिनोत्थाय तन्मौलौ वासाः क्षिप्ता यथाक्रमम् ११३९ गर्जत्सु सुरतूर्येषु अनृत्यत्स्वमरेषु च । गीयमानेषु देवीभिर्धवलेपूज्ज्वलेषु च ॥११४०॥ . सूत्रेणार्थेन सर्वेण तथा तदुभयेन च । द्रव्यैर्गुणैश्च पर्यायैर्नयैरपि च सप्तभिः ॥ ११४१॥ : अनुज्ञामनुयोगस्य गणानुज्ञां च सर्वतः । श्रीमल्लिदत्तवांस्तेपा प्रत्यक विधिपूर्वकम् ॥११४२) .:( त्रिभिर्विशेषकम् ) ३५ २९० मल्लिनाथमहाकाव्ये- प्राग्वत् पूर्वासने स्थित्वा श्रीमलिर्देशनां व्यधात् । अनुशास्तिमयीं तेऽपि श्रुत्वा तां बहु मेनिरे ॥११४३॥ पौरुष्यन्ते प्रभोता श्रीमल्लः क्षितिपालकः । तण्डुलानां चतुष्पस्थी चतुःस्थालस्थितामथ।।११४४॥ वजन्निहितर्गन्धैर्द्विगुणीकृतसौरमैः। सौधादाऽऽनाययामास तूर्यगीतपुरस्सरम् ॥११४५॥ (युग्मम् ) दौकित्वा खामिनोऽग्रेऽसौ दिव्यपूजापुरस्सरं । ऊर्ध्वमुक्षिप्य तरिक्षम तदर्दै जगृहुः सुराः ॥११४६॥ भूगताधं नृपेणात्तं परमानन्ददायिना । शेषमर्दै विभज्याऽन्यैर्गोत्रिवद् जगृहे जनैः ॥११४७॥ पूर्वोत्पन्ना रुजः सर्वा नवीना न भवन्ति यत् । षण्मासी यावदेतस्य स्थलेर्माहात्म्यतोऽङ्गिनाम्॥११४८ अथोत्तस्थौ जगन्नाथः श्रीमान् मल्लिर्निजासनात् । अन्तरद्वारमार्गेण निर्ययौ त्रिदशान्वितः ॥११४९॥ द्वितीयवप्रमध्यस्थेशानकाष्ठाविभागगे। देवच्छन्दे प्रभुमल्लिर्गतो विश्रामहेतवे ॥११५०॥ धियां निधिभिषक् श्रीमान् सरिर्गणमृद् गुणी। खामिनः पादपीठस्थो विदधे धर्मदेशनाम् ॥११५१॥ खेदच्छेदो जिनेन्द्रस्य शिष्यौपे गुणदीपनम् । सभायां प्रत्ययो द्वाभ्यां गणभृत्कथनं गुणाः॥११५२॥ गणमृद्देशनामान्ते प्रणम्य त्रिदशेश्वराः। स्थानं निजं निर्जजग्मुः स्मरन्तः खामिदेशनाम् ११५३ तीर्थे तसिनभू यक्षः कुवेरो नाम भक्तिमान् । इन्द्रायुधद्युतिःर्भिरष्टाभिश्च मनोहरः॥११५४॥ वरदेनाऽपि शूलेनाऽभयदेनाऽपि पशुना। चतुर्दिक्षिणैरित्यं भुजैर्भूपितविग्रहः ।। ११५५ ॥
अष्टमः सर्गः। २९१ चामैस्तु शक्तिमुद्रवीजपूराक्षित्रिभिः। चश्चचतुर्मुखाम्भोजः श्रीमल्लिक्रमसेवकः ॥११५६।। (त्रिभिर्विशेषकम् ) वैरोट्या नाम तत्तीर्थे समभूत् शासनेश्वरी। कृष्णाङ्गी कमलासीना सोमा-सोमाननाम्बुजा।।१९५७।। पुरः पुरस्थैर्विनयाभिननै- वन्दारुभिर्देवगणैरुपेतः। हेमाम्बुजन्यस्तपदारविन्दः श्रीमल्लिनाथो विजहार तस्मात् ॥११५८॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महा- काव्ये विनया सम्यक्त्वपूर्वकमाणातिपातादिवतेषु सुदत्त-सुबन्धु-सझमक-सुदर्शनं-भोगदत्त-मित्रानन्द- भीम-भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रा- वतंसक-धनसेन शिखरसेन-चन्दनबाला फलव्यावर्णनो नाम सप्तमः सर्गः । अहम् अष्टमः सर्गः। अथ श्रीभगवान् मल्लिनिदधानः क्रमद्वयीम् । दिव्यस्वर्णसराजेषु न्यस्यमानेषु नाकिभिः॥१॥ प्रभापूरितदिक्चक्रे धर्मचक्रे प्रसर्पति । पुरः स्थिते विराजिष्णो रविसब्रह्मचारिणि ॥२॥ ऋतुषु भ्राजमानेषु मेरैः पुष्पैनिजैनिजैः। कण्टकेषु च जातेषु नम्रेषु न्यग्मुखेषु च ॥ ३॥. प्रदक्षिणं च गच्छत्सु ततपक्षेषु पक्षिषु । .
२९२ मल्लिनाथमहाकाव्ये- . अनुकूलेऽनिले वाति जन्तुजातसुखावहम् ॥ ४ ॥ विहरखिजगन्नाथः सनायोऽतिशयश्रिया । पुरं चन्द्रपुरं माप कुशावर्त्तविभूषणम् ॥ ५ ॥ (पञ्चभिः कुलकम् ) तत्रांऽभूनास्तिको राजाऽभिधानादास्तिकः पुनः। अध्यक्षपमितिवादी पञ्चभूतस्थितौ रतः ॥ ६ ॥ सर्वज्ञः प्राप इत्युच्चैः श्रुत्वा कोपनमानसः। विवादायाऽऽस्तिको राजा गतवान् खामिसंनिधौ ॥७॥ उवाच जगतां स्वामी गिरा तत्त्वकिरा खयम् । जीवाजीवादितत्त्वानि सदृष्टान्तानि सप्तधा ॥ ८॥: अथ दध्याविति क्षोणीपालो हदि विमोहवान् । असदेतदिहाध्यक्षपमाणाविषयत्वतः ॥९॥ प्रभुरूचे महीपाल ! नास्तिता याऽस्ति ते हदि । तवैवाऽपेक्षया सेयपथवा सर्वदेहिनाम् ॥ १० ॥ प्रत्यक्षं चेत् तवाभीष्टं तदा वंश्यादिपुरुषान् । स्वमनुमन्यसे नो चेद् तदा सर्व विसंस्थुलम् ॥११॥ कचिदध्यक्षगम्योऽयं कचिद् परोक्षगोचरः। कचिच्चानुमतेर्गम्यस्तस्माद् जीवोऽस्ति सर्वथा ॥१२॥ तसिद्धौ च तवैवेह सर्वज्ञत्वं प्रसिद्ध्यति । सर्वज्ञत्वे च संसिद्धे जीवत्वं सर्वमेव हि ॥१३॥ जीवत्वेऽपि च संसिद्धे पुण्यपापादयोऽखिलाः। उद्धृते हि तरौ किं न भवेयुः पल्लवोदयाः ॥१४॥ अथाह भूपतिः खामिन् ! परलोकोऽस्ति चेद् कचित् । आसीद् धर्मरता मेऽम्बा सर्वदा सदयाङ्गिनाम् ॥१५॥ अथ युष्मन्मतेनाऽसौ भविष्यति दिवं गता। तातश्च कृतपापेन निश्चितं नरकं गतः ॥१६॥ मन्माना किं न मामेत्य प्रबोधयति सत्वरम् । - ..
अष्टमः सर्गः। २९३ पिता तु नरकादेत्य किन यच्छति दर्शनम् ॥१७॥ प्रेत्यामुत्रस्थितिः तस्मात् जगन्नाथ ! न विद्यते । प्रत्यये व्यत्यये दृष्टे किमु मुह्यति कोविदः १ ॥२८॥ प्रभुरूचे महीपाल! यत् ते माता समेति नो। दिवो मनुष्यलोकेऽस्मिंस्तदाऽऽकर्णय कारणम् ॥१९॥ देवा हि विषयासक्तां नानाक्रीडाविधायिनः । असमाप्तविधेयार्थी मनुष्येषु विनिस्पृहाः ॥२०॥ मनुष्यलोकदुर्गन्धैरिहाऽऽगच्छन्ति नैव ते । विना कल्याणकादीनि पूर्वस्नेहं च भूपते ! ॥२१॥ परमाधार्मिक कामं वाध्यमाना निरन्तरम् । नारकास्तु पराधीना आगच्छेयुः कथं किल १ ॥२२॥ भूयोऽपि भूपतिः मोचे भगवन् ! एकदा मया । एकचौरो महाकुम्भ्यां प्रक्षिप्तः खलु यत् ततः॥२३॥ पिघायोच्चैर्गुरुद्वारे निश्छिद्रे जतुसारिते। .. मृतश्चौरों मयाऽलोकि तत् जीवस्य न निर्गमः ॥२४॥ कुम्भीमध्येऽपि योन वीक्ष्यमाणैः मुहुर्मुहुः । जीवः कुत्रापि नो दृष्टो दृष्टास्तु कृमिराशयः ॥२५॥ तद्वदन्यो मया दस्युः सूक्ष्मखण्डानि कारितः। न तत्र वीक्षितः प्राणी तस्मानास्तीति चिन्त्यताम्॥२६॥ अथाईन् न्यगदद् वीरं कुम्भीमध्ये स्थितो नरः। निश्छिद्रे पिहितद्वारे शङ्खमादाय वादयेत् ॥२७॥ सं शङ्खनिखनो भद्र ! यथा वाह्ये प्रसर्पति । तथाऽप्यसुमान् गच्छन् दृश्यते न विलोकनात् ॥२८॥ ध्मायमाने लोहपिण्डे पुरुषेण निरन्तरम् । सर्वात्मना कुतस्तत्र प्रविवेश हुताशनः ।। २९ ।। तथायं प्रविशन्नात्मा निर्गच्छन् न च वीक्ष्यते । दृष्टकृमिगणो राजन् ! दृष्टान्तोऽयं मयोदितः ॥३०॥ , . ..
२९४ मल्लिनाथमहाकाव्ये- . अथो विहस्य भूपालोऽप्यूचे किञ्चिद् विमोहवान् । अईन् ! परेद्यविश्चौरो विधृतो विहितागसः ॥ ३१ ॥ जीवन्नेव तुलारूढो पौराध्यक्ष प्रतोलितः। उच्छ्वासस्य निरोधेन मारयित्वा तथैव सः ॥३२॥ . तोलितस्तक्षणं यावांस्तावानेव जिनेश्वरः। तस्माद् देहात् कथं पाणी व्यतिरिक्तो विचिन्त्यताम्१३३ प्रभुरूचेऽथ केनापि गोपालेन दृतिदृढम् । तोलितो वातसम्पूर्णो रिक्तोऽपि हि तथा नथा ॥३४॥ तस्मात् सर्वाङ्गसंस्पर्शे कथञ्चिद् देहतः पृथक् । स्वसंवेदनसंसिद्धो जीवः प्रत्यक्ष एव हि ॥३५॥ तथाहि- चैतन्यानुगतानेकचलनस्पन्दनादिभिः। चेष्टामिर्लक्ष्यते जीवो वातवद् ध्वजकम्पनात् ॥३६॥ यदचे- लोकाकाशसमप्रदेशनिचयः कर्तोपभोक्ता स्वयं- सङ्कोचाविकाशधर्मसदनं कायप्रमाणस्तथा । चैतन्यान्वितवीर्यलब्धिकलितो भोगोपभोगैर्युतो- भेदच्छेदवियुक्तसर्वगतिको जीवोऽत्र संसारगः॥३॥ राजाऽऽह भगवन्नध सद्यो मोहः पलायितः। स्फुरिते चेतसि स्फीतमास्तिकत्वं यथोदितम् ।।३८॥ परं कुलक्रमायातं नास्तिकत्वं सदा धृतम् । विमोक्तुं तत् कथं शक्तो भवेदात्मनि हीनता ॥३९॥ प्रभुः प्राह महाभाग! स्तोकमेतद् विवेकिनाम् । किञ्च व्याधिःक्रमायातोदारियं नाऽत्रमुच्यते ॥४॥ ययेह वणिजः केपि नानावाहनशालिनः । गता वाणिज्यकार्येण लोहकारं व्यलोकयन् ॥४१॥ ततो लोई गृहीला ते गच्छन्तः पुनरग्रतः।
अष्टमः सर्गः।
२९५
पुकाकरमालोक्य मुक्त्वाऽयो जगृहुस्खषु ॥४२॥
तानुवीक्ष्य महामोहादेको लोहं न मुञ्चति ।
सीसपत्रं ततस्तानं रूप्यं स्वर्ण महाद्युति ॥४३॥
दृष्टा विमुच्य पूर्वाप्तं वणिजो मुदिताशयाः।
लोभवन्तः स गृहन्तस्ते मणीननणीयसः ॥४४॥
एकस्तु भण्यमानोऽपि तैर्वणिग्भिः पदे पदे ।
तन्मोहं नैव तत्याज महामोहमित्रापरम् ॥४५॥
ततः सर्वे समायाताः स्खेषु स्खेषु गृहेषु ते ।
मणिविक्रयमाहात्म्याद् बभूवुर्धनदा इव ॥४६॥
लोहग्राही तदा तूचर्चाक्ष्य वीक्ष्य दिने दिने ।
सञ्जातराजयक्ष्मेव क्षीयते स्म प्रतिक्षणम् ||४७||
तथा तवापि भूमीश ! पश्चात्तापो भविष्यति ।
अथो विमुच्यतामेप कदाग्रहमहाग्रहः ॥४८॥
श्रुत्वेति स्वामिनोदीर्ण प्रभुं नत्वा क्षितीश्वरः ।
उवाच जगतीनाथ ! भवादुत्तारयाऽधुना -11४९॥
खामिन् ! मोहपिशाचो मे नष्टस्त्वमूर्तियन्त्रितः।
उद्भूतं च शुभं ज्ञानं ज्ञातं तत्वं प्रभूदितम् ॥५०॥
परमेतावता सद्भिः श्लाध्यतेऽयं भवो नृणाम् ।
निर्वाणान्तसुखप्राप्तवोऽत्रैव यद्गुणाः ॥५१॥
उक्त्वेति नगरी गत्वा राज्ये न्यस्य खनन्दनम् ।
सप्तशतमितै राजपुत्रैः पावित्र्यहेतवे ॥५२॥
दत्वा दानानि सर्वत्र यथार्थो नृप आस्तिकः।
प्रभूच्चारितसन्मन्त्राद् नाथस्यान्तेऽभवद् यतिः॥५३॥
इतश्च शाल्मलीग्रामेऽभिरामो गोधनोत्करैः।
वृपपोपपरः शश्वत् कठसंज्ञः कृषीवलः ॥५४॥
दारिद्रयभिक्षुकमठी कठीनासाऽस्य वल्लभा ।
आपनसत्त्वा समभूत् सा तुतोष खमानसे ॥१५॥
२९.६
मल्लिनाथमहाकाव्ये-
..
..
गर्भस्थजीवदुष्कर्मभारादिव कठो मृतः। :
संजातनन्दना सूतिव्यथार्चा साऽपि दैवतः ॥५६॥
ततः संवर्धितो मातृण्वस्त्रा स्नेहेन वालकः।
वृत्त्यर्थी ग्राम्यलोकानां वत्सरूपाण्यचारयत् ॥५७॥ :
यमदतैरिवोदयुर्वत्सरूपाणि गोचरे ।
चरन्ति वृकसङ्घातैर्ग्रस्यन्तेऽस्य पुरःस्थितैः ॥१८॥
तत्चत्वामिजनैर्वादं ताड्यमानः पदे पदे।
स सीरं वाहयामास परक्षेत्रेषु वृत्तये ॥५९||
क्षेत्रेषु येषां येषां स हलं वाहयति स्फुटम् ।
तेषां तेषां च धान्यस्य न स्यादेकः कणोऽपि हि॥६०॥
रे रे ! कपोतपोताम ! त्यज क्षेत्राणि नः क्षणात् ।
तय॑मान इति ग्राम्यैः स स्वग्रामाद् विनिर्ययौ ॥६॥
स बभ्राम महीपीठं भूतात इव शून्यधीः ।
उत्खातो रोहणस्तेन नातं किश्चिद् रजो विना ॥२॥
यत:-
यत्र वा तत्र वा यातु पाताले वा प्रगच्छतु ।
तथाऽपि पूर्वजीर्णानि कर्माणि पुर इयूति ॥ ॥६३॥
ततो निवृत्तो दीनास्यः सर्वथा पुण्यवर्जितः।
सर्वोपायपरिभ्रष्टो मुष्टो दुष्कर्मधर्मणा ॥ ६४ ॥
नैतस्य भोजनं दातुसुदयास्तमयान्तरे ।
प्रभुरस्मीति ध्यात्वेति ययावस्तं दिवाकरः ॥६५॥
इतश्च तेन संध्यायां सुरसम मनोहरम् ।
अरण्यानीमहाम्भोघेरन्तरीपमिक्षत् ।। ६६ ॥
मध्यस्थितः पुमान् कोऽपि भद्राकारः सुलक्षणः।
स्वर्णवर्णवपुस्तेन ददृशे दिवसात्यये ॥६७॥
ततश्चित्रघट पुष्पैरर्चयन् जिनविम्ववत् ।
घण्टानुरणनाकारं हुङ्कारं विदधेऽप्यसौ ॥ ६८॥
. अष्टमः सर्गः।. २९७ तस्य प्रभावतो भावान् प्रसादः समजायत । तत्र दिव्याङ्गनाकाराश्चिक्रीडुश्चपलेक्षणाः ॥ ६९ ॥ जलैरुष्णैः कवोष्णैश्च ताभिः स्नानमकारयत् । स्फूर्जज्जयजयोद्दामप्रथमोत्पन्नदेववत् ॥७॥ असावङ्गे नरः सिद्धश्चलत्कल्पद्रुमोपमः । आपादमस्तकं शस्ताऽऽभरणश्रेणिकां व्यधात् ॥७१॥ ततो रसवती दिव्यां भुजे सिद्धपुरुषः। विद्या प्रसाधिताः किं किंन कुर्वन्ति समीहितम् ।।७२।। त्रियामा सुखसम्भारैरेकयाममिवोज्ज्वलैः। अतिवाह्य प्रभातेऽसावुपजहेखिलं च तत् ॥ ७३ ॥ चित्रकुम्भं निवेश्याऽऽशु सुरमन्दिरकोणके। पुनः प्रभाते देवौकोमध्येऽस्थात् सिद्धमन्त्रभृत् ॥७४॥ एतत् सर्व विलोक्याऽथ स नरो प्रामसम्भवः । अमुं गुरुमिवात्यन्तं सिषेवे भक्तिवत्सलः:॥ ७५ ॥ पादसंवाहनायैस्तु ग्रामीणः सिद्धपुरुषम् । आराध्य प्रत्यहं सोऽथ तुतोष विनयादलम् ॥ ७६ ।। यतः- विनयः सम्पदा घाम विनयः कीर्तिकार्मणम् । विनयो धर्मवार्षीन्दुर्विनयो मूलमुनतेः ॥ ७७ ॥ हंहो ! तवाऽहं तुष्टोऽसि याचखेप्सितमात्मनः । अथ ग्राम्योऽवदत् सिद्धं कोशीकृतकरद्वयः ॥ ७८ ॥ सर्वथा हन्त ! निष्पुण्यो मृतखजनवान्धवः । मन्दप्रतिम एकाकी नभोमार्गादिव च्युतः ॥ ७९ ॥ युष्माकं शरणं प्राप्तो यद् युक्तं तत् समाचरे। ससवा हि महासत्त्वाः परोपकृतिकर्मणि ॥ ८॥ यत:- दयालुत्वमनौद्धत्यं दाक्षिण्यं प्रियभाषिता । .
२९८ माल्लिनाथमहाकाव्ये- परोपकारकारित्वं मण्डनानि महात्मनाम् ॥ ८१॥ अहो ! अयमपुण्यैकोऽहो ! दोर्गत्यदूषितः । अहो ! विनयवानप ध्यायति स्मेति सिद्धराट् ॥८२॥ एतस्य मन्दभाग्यस्य यत् क्रियेतोपकारकम् । तत् तत्स्याद् वहुपुण्यार्थ व्याधिवस्यौपधं यथा ॥८॥ यत:- संपदं प्राप्य कर्तव्या सर्वसत्त्वोपकारिता.! काकोऽपि पूरयत्युच्चैर्जठरं परितो भ्रमन् .।। ८४ ॥ विमृश्येत्यव्रवीदेवं प्रहृष्टः सिद्धपूरुपः । ददामि भद्र ! ते विद्यां कामितश्रीमहोदधिम् ॥ ८५ ।। विद्याभिमन्त्रितं किं वा चित्रं कुम्भमिमं शुभम् ।। एतद् विचिन्त्य सम्यक् त्वं वद वाञ्छितमात्मनः॥८६॥ ग्रामीणश्चिन्तयामास यदि विद्याक्षरं मम । एकं तु विस्मृतं दैवात् तदा का नाम मे गतिः ॥८७॥ अयं चित्रघटो मेऽस्तु सर्वामिष्टार्थसार्थदः । विमृश्येत्यवदद् गोधो देवार्पय घटं मम ॥ ८८ ॥ विद्यासिद्धेन स घटः प्रदत्तः कल्पवृक्षवत् । यत्मभावेन सर्वेर्थाः सम्पद्यन्ते समीहिताः ॥ ८९॥ असौ चित्रघटं प्राप्य शासनाप्सनिधानवत् । एवं विचिन्तयामास स्वग्रामाभिमुखं ब्रजन् ॥९०॥ किं तया क्रियते लक्ष्म्या या स्यादन्यत्र भूयसी । यां सुहृदो न वीक्ष्यन्ते प्रमोदोत्फुल्लचक्षुषः ॥९१ ॥ अथासौ ग्राममापन्नो दधानो मस्तके घटम् । चित्रकुम्भ इति नरैराहूतः संज्ञया मुदा ॥ ९२ ॥ तेषां विलोकमानानां घटमाहात्म्यतो न्वहम् । सौघं विरचयामास क्षणात् काव्यं कवीन्द्रवत् ॥१३॥ कुम्भभूरिमभावेण नेपथ्यादि विनिर्ममौ ।
अष्टमः सर्गः। २९९ अल्पैरपि दिनैः सोऽभूदामुयायण उच्चकैः ॥ ९४ ॥ अवन्धोरपि तस्याऽथ समजायन्त बान्धवाः । सोऽयं लक्ष्म्या महादेव्याः प्रभावः प्रेक्षति क्षितौ॥९५|| यतः- अनाथानामियं नेत्री निःसखानामियं सखी। अगुरुणामियं गुर्वी रत्नाकरतनूद्भवा ॥ ९६ ॥ अन्यदा सुजनास्तेन मीलिताः शुभपर्वणि । भोजिता विविधैर्भोज्यैर्वस्त्रैश्च प्रतिलाभिताः ॥ ९७ ॥ ततस्ते सुजना हर्षाद् नन्तुर्लयवन्धुरम् । सोऽपि चित्रपट मौलौ विधायाऽऽनन्दमन्दिरम् ॥१८॥ हस्ताभ्यां तेन तालायां प्रदत्चायां प्रमादतः। पपात मौलितः कुम्भो वभञ्जाऽप्याऽऽमपात्रवत् ।।९९।। (युग्म) एतत् सर्वं तिरीजज्ञे गन्धर्वनगरोपमम् । घटभङ्गादिवतस्य भङ्गं पुण्यानि लेभिरे ॥१०॥ पूर्वोपार्जितदारियं पुण्यधैर्दूरतो गतम् । पूर्वस्नेहादिवैतस्य बुढौके क्षणमात्रतः ॥ १०१ ॥ सवन्धुः शून्यचेतस्को भ्राम्यन् भूतार्तवद् भृशम् । पुरं चन्द्रपुरं पाप कुशाग्रमुखमण्डनम् ॥ १०२॥ गतस्तत्राऽमृणोदेष श्रीसर्वज्ञोऽत्र देवता । कोऽप्यस्ति यो ममोपायं घटस्य घटयिष्यति ॥१०॥ ध्यात्वेति स्वामिनं नत्वा भद्रको भद्रकाशयः। उपाविक्षत् सभामन्वक्षिमाणः प्रभुश्रियम् ॥१०४॥ चित्रकुम्भार्जनोपायं हृदये ध्यातवानसि। श्रुत्वेति तद्विरः सत्यमसौ सर्वज्ञदेवता । १०५॥ तस्मादेतस्य पार्थेऽहं चित्रकुम्भार्जनासुखम् । १ तिरोभूतमित्यपि।
मल्लिनाथमहाकाव्ये- अविनाशवशं याचे गोधोऽधादिति चेतसि ॥१०६|| अथोवाच प्रभुर्भद्र ! यदीच्छसि सुखं किल । अविनश्वरमुद्दामं तत् पत्रज्य समाजय ॥ १०७ ॥ ततो जगत्पते ! दीक्षां देहि नित्यसुखावहाम् । येन ध्यायामि नाथ! त्वां सिद्धपुरुषसन्निभम्॥१०८।। चित्रकुम्भनरः सोऽथ सवन्धुः सप्रियः प्रभोः। पार्थे दीक्षा स्म गृह्णाति किं न स्यालघुकर्मणाम् १०९ इतश्च भारते वर्षे गङ्गासिन्धुविराजिते । हस्तिनागपुरं नाम पुरं सुरपुरोपमम् ॥ ११० ॥ तत्र सिंहरथो नाम भूपतिः सिंहविक्रमः। अभूत काञ्चनमालेति तस्य प्राणप्रिया सती ॥११॥ गुरुपादाम्बुजद्वन्द्वसेवाहेवाकषट्पदः । तत्रासीजिनदत्ताख्यो धार्मिको वणिगग्रणीः ॥ ११२ ॥ तस्य गेहे प्रतिज्ञातकर्मनिर्वाहकर्मठः । अभवद् देवपालाख्यो गोपालः क्षत्रवंशभूः ॥ ११३ ।। दृष्ट्वा सद्धर्मनिष्ठं स श्रेष्ठिनं शुद्धमानसः । भद्रकत्वेन गोपालः चिन्तयामासिवानिति ॥ ११४ ॥ धर्मेण द्रविणं राज्यं धर्मेण विजयश्रियः । धर्मेण कामिता अर्था धर्मेण सुखकीर्तयः ॥ ११५ ॥ अतुलं मङ्गलं धर्मो धर्मः पापद्रुमाऽनलः । धर्मश्चतुर्गतिक्रोडनिपतज्जन्तुधारकः ॥ ११६ ॥ उत्तिष्ठन्तं शयानं च नमस्कारपरायणम् । दृष्टाऽथ श्रेष्ठिनं देवपालः पप्रच्छ भद्रकः ॥ ११७॥ श्रेष्ठिन्नहर्निशं मन्त्रकल्पं किमिदमुच्यते । असावाह महाभाग ! विद्यतेऽस्य महाफलम् ।। ११८ ।। अघनानां धनं रूपहीनानां रूपमुत्तमम् । रोगिणां रोगनिर्णाशं नमस्कारः करोत्यसौ ॥ ११९ ॥ .
अष्टमः सर्गः। ३०१ श्रुत्वेति श्रेष्ठिनो वाक्यं देवपालः शुभाशयः । परमेष्ठिमहामन्त्रमपाठीत् सर्वकामदम् ॥ १२० ॥ कतिपयेषु जातेषु वासरेपु समाययौ। वकालो महाभीष्मग्रीष्मद्मपरश्वधः ॥ १२१ ॥ धरा धाराधरं द्रष्टाऽभीष्टमागतमुन्नतम् । कदम्बकुटजोद्भूतैः पुष्पैरपमिवाऽतनोत् ॥ १२२ ॥ मेघराजागमं दृष्ट्वा दूराद् वैतालिका इव | चकुर्जयजयारावं केकाव्याजेन केकिनः ।। १२३ ।। समायान्ति महोत्कण्ठाः पथिकाः स्वगृहानमि। कः करोति जडैः साई संगम हि मनागपि ॥ १२४ ॥ पन्यानो गतसंचारा जाता दुईमकर्दमात् । जाड्योदये हि संहाचे सर्व दुःखाकरं नृणाम् ॥ १२५ ॥ उदकेनोदपूर्यन्त भूमिभागाः प्रतिक्षणम् । पुण्याधिकानां कमलासंचयेन गृहा इव ॥ १२६ ॥ नदीतीरेषु रच्यन्ते वालुकामिः कुमारकैः। देवागाराणि रम्याणि भूमीरोमाङ्कुरा इव ॥ १२७ ॥ अभियोगात्तकमला राजहंसा जिगीषवः । संचरुराश्रयं खीयं खपक्षवलशालिनः ॥ १२८ ॥ गवां वृन्दमथादाय वर्षत्यथ घनाघने । चारणार्थ गिरेः कुजे गतवान् धेनुपालकः ॥१२९ ।। करविन्यस्वदण्डोऽसौ कम्बलातविग्रहः । नदीरयक्षतक्षोण्यां जिनवक्तुं ददर्श सः ।। १३० ।। तदर्शनघनेनाऽऽशु संजातानन्दकन्दलः । विम्बमाकृष्टवानेष लब्धाद्भुतनिधानवत् ।। १३१ ॥ विधाय वेदिकां तत्र जिनबिम्ब न्यवीविशत् । मन्दिरं रचयाश्चके तृणभित्तिविभूषितम् ॥ १३२ ॥ १ प्रतीत्यपि। -- ०२ माल्लिनाथमहाकाव्य- धन्योऽहं कृतपुण्योऽहं यस्य मे वृपभो जिनः । प्रत्यक्षोऽभूत् खयं देवाधिदेवः परमेश्वरः ॥ १३३ ।। नदीतीरे कृतस्नानः प्राकृतश्वेतचीवरः। स स्नात्रं कृतवांस्तस्यै पवित्र स्खं तु निर्ममौ ॥ १३४.॥ सिन्दुबारैर्नवैर्गोप आनर्च त्रिजगद्गुरुम् । अथ तुष्टाव भावेन नम्रमौलिशुभाशयः ॥ १३५ ॥ नमः श्रीपभेशाय जगद्वन्याय तायिने । अनन्तज्ञानसौख्याय मुख्याय परमेष्ठिनाम् ॥ १३६ ॥ एवं स्तुत्वा जिनाधीशं प्रमोदोत्फुल्ललोचनः । मेने कृतार्थमात्मानं भक्तिव्यक्तिविकस्वरः ॥ १३७ ।। यावजी जिनाधीशं पूजयित्वाऽमुमुत्तमम् । भोक्तव्यमिति सोऽकाषीदिति निश्चयमञ्जसा ॥१३८॥ पुष्पैः कान्तारसंभूतैर्जिनं पूजयतः सतः । गोपालदेवपालस्य ययों कालः कियानपि ॥ १३९ ॥ इतश्च नृपसिंहरथस्याभूत पुत्री नाम्ना मनोरमा । काञ्चनप्रेयसीकुक्षिसरोमण्डनवारला ॥ १४० ॥ जाडुली ग्रीष्मसर्पस्य वर्षाकालोऽन्यदास्फुरत् । अधिकल्लोलबद् येन जाता मार्गाः सुदुर्गमाः ॥ १४१ ।। असौ गाढमतिज्ञत्वाद् भणितः श्रेष्ठिनाऽपि हि । नैवाकार्षीत् ततो जग्धं तदेकहृदयः सुधीः ॥ १४२ ।। पयःपूर्ण नदीतीरं गन्तुं नेशः कथञ्चन । उपवासान् वसन् गेहमकार्षीत् सप्त भक्तिभाक् ॥१४३|| (युग्मम् ) मन्दीभूते नदीतीरे कथञ्चिद् वासरेऽटमे । उत्तीर्य भुजदण्डाभ्यां निजं चैत्यमगादसौ ॥ १४४ ॥ २ हंसीति हृदयम् । १ तत्र, एवनपि ।
अष्टमः सर्गः। . सुखसागरफल्लोलैरिवार स्वं विचिन्तयन् । प्रणनाम जिनाधीशं पठितस्तोत्रपूर्वकम् ।। १४५ ॥ तद्भक्तितोषितेनोच्चैःस्थितेन गगनाणे । तदधिष्ठातृदेवेनेत्यूचेऽथ रुचिरं वचः॥ १४६ ॥ वरं वृणु महाभाग! यथेच्छ स्वच्छमानसः। गुरूणां क्रमसेवा हि सफलैव शरीरिणाम् ॥ १४७ ॥ यदि तुष्टोऽसि देवाऽऽशु देहि मे राजसम्पदम् । इत्युक्तवान् प्रहृष्टात्मा देवपाल: मुदाङ्कितः ॥ १४८ ॥ समुद्रपरिखारम्यां क्षोणीमेकपुरीमिव । अचिराल्लप्स्यसे नूनमित्युक्त्वा स तिरोऽभवत् ॥ १४९ ॥ तदाप्रभृति भावेन देवपालो महामतिः । प्रमोदभाक् विशेषेण जिनमानर्च सर्वदा ॥ १५०॥ अन्यदा बहिरुद्याने दमसारमहामुनेः । घातिकर्मक्षयाद् जज्ञे पञ्चमं ज्ञानमुत्तमम् ॥ १५१ ॥ ततः सुधाभुजो हृष्टा पुष्पवृष्टिमथ व्यधुः। सुवर्णकमलं चक्रुपैंक्रियं च मनोहरम् ।। १५२ ।। धर्ममाख्यातुमारेभे तत्रासीनो महामुनिः। देवागमं विलोक्याऽथ समागाद् वन्दितुं नृपः ॥ १५३ ॥ संसारः कदलीगर्भ इवाऽसारो विशी पते ।। निवास इव दुःखानां गृहावासः सदागिनाम् ॥१५॥ दम्भोलिनेव यन्मुष्ट्या चूर्ण्यन्ते पर्वतोत्कराः। कम्पमानकरास्तेऽपि भवन्ति निधनागमे ॥१५५।। मृत्योः काले समायाते शरणं नास्ति देहिनाम् । जिनोपर्श विना धर्म निर्वाणपदसाधकम् ॥१५६॥ इति श्रुत्वा महीपालो विधाय करकुड्मलम् । पप्रच्छ निजमायुष्कं भववासविरागवान् ।।१५७॥ ३ शुभाशय इति च। २ नराणामित्यर्थः।
३०४
मालेनाथमहाकाव्ये-
-
..
दिनानि त्रीणि ते राजन् ! आयुष्कमवशिष्यते ।
इत्युक्तवान् मुनिर्ज्ञानज्ञातसर्वजगस्थितिः ॥१५८||
शीता इव भूपालः कम्पमानकरद्वयः ।
स्तोकेनं जीवितव्येन किं करिष्यामि सम्प्रति ? ॥१५९॥
अथाह भगवानेवं मा विपीद रसापते ।
अणुनाऽप्यायुषा किं न क्रियते हि विवेकिभिः ॥१६॥
मुहूर्त्तमपि सावद्यत्यागः स्यात् शाश्वतश्रिये ।
हन्यन्ते विषकल्लोला एकस्मादपि मन्त्रतः ॥१६१।।
विन्यस्य पुरुष कञ्चिद् राज्ये प्रवलविक्रमम् ।
आगच्छामि प्रभो! यावत् तत् त्वं तिष्ठ दयानिधे ! ॥१६२।
महापुरुष ! मा कार्षीः प्रमादं मूलमापदाम् ।
सर्वेर्षामपि कार्याणां प्रमादः प्रथमो रिपुः ॥१६३॥
मणिपत्य गुरोः पादौ यथास्थानमगान्नृपः ।
तचिन्तयापि कृच्छ्रेण कृत्न दिनमवाहयत् ।। १६४ ॥
कोऽधिष्ठितस्य लोकस्य भावी विक्रमवारिधिः।
केनोपायेन निष्पुत्रो मोक्ष्यामि क्षितिपालनम् ॥ १६५ ॥
तस्य चिन्ता प्रपन्नस्य सिद्धाख्या कुल देवता ।
प्रत्यक्षाऽभूत् तपखिन्यां दीपिकेव तमोपहा ॥ १६६ ॥
मा कृथाः सर्वथा खेदं नरनाथ ! स्वमानसे ।
अभिषिञ्च प्रभाते त्वं दिव्यपञ्चकमुच्चकैः ॥ १६७ ॥
तत्कृतं पुरुषं राज्ये विन्यस्य निजपुत्रवत् ।
परलोकाय पश्चात्वं यतखोतवेति सागमत् ॥१६॥
प्रभातेऽथाभिषिक्तानि पञ्च दिव्यानि भूभुजा ।
भ्रमुस्तान्यथ सर्वत्र प्रतिरथ्यं प्रतित्रिकम् ॥१६९॥
मन्त्रिसामन्तपुत्राय भ्रमुस्तद्राज्यलिप्सया ।
पुरो दिपस्य शृङ्गारैरिन्दसामानिका इव ॥१७०॥
अष्टमः सर्गः। पुरे भ्रान्तानि तान्यापुर्नव राज्यधरं नरम् । मध्याह्नसमये जग्मु ह्योद्यानादिवीथिषु ॥१७॥ निद्रा देवपालोऽथ कस्यचित् शाखिनस्तले । यप्टिमुच्छीर्पके कृत्वा कम्बलाऽऽवृतविग्रहः ॥१७२।। देवपालं समालोक्य नवाम्बुकणवर्पकः । करी जगर्न गम्भीर तडित्वानिव सृर्तिमान् ॥१७॥ हपां चकार वाहीका कोकिला श्वानसुन्दरम् । विस्तृतं पाण्डर छत्रमुत्फुल्लकमलोपमम् ॥१७॥ जाबीलहरीश्वेते चामरे चेलतुः स्वयम् । अभिपिच्य करीन्द्रेण न्यस्तः स्कन्धे विभुर्गवाम् ॥१७५॥ ततः सिंहरथेनाऽसौ महोत्सवपुरस्सरम् । तत्रव वासरे पुत्र्याः कारितः पाणिपीडनम् ॥१७६॥ ततः सिंहरथो गत्वा नरेन्द्रो मुनिसन्निधौ । व्रत जग्राह भावेन पूर्वोपात्ततमोऽपहम् ॥१७७॥ कृत्वा चतुर्विधाहारपरित्यागं महामुनिः। चतुर्थे देवलोकेऽसौ पूर्णायुष्कः सुरोऽभवत् ॥१७८॥ तदुपानकम्बलाधं गोपालैः श्रेष्ठिनो गृहे । अन्यः समर्पित गावः स्वयमीयुर्दिनात्यये ॥१७९॥ गोपाल इति कृत्वा तं सामन्ता नन्तुमीय॑या । अहङ्काराद् न चाऽऽयान्ति जनाः पूजितपूजकाः ॥१८०॥ महाजनप्रधानोऽयमिति ध्यात्वा विशां पतिः । आजूहवजिनदत्तं नाऽऽययौ सोऽप्यविज्ञया ॥१८॥ कम्बलादि निशाप्रान्ते सिंहद्वारे नरेशितुः । अवज्ञोपायनानीव जिनदत्तोऽप्यऽमोचयत् ॥१८२॥ :: तान्याऽलोक्य निदध्यौ स हहा! पूर्वविजृम्भितम् । तृणायाऽपि न मन्यन्ते घिग् मां राज्यर्दिभूषितम् ॥१८३॥ अश्व इत्यभिधेयम् । ३९ ३०६ मल्लिनाथमहाकाव्ये- अहं खिये कथंकार येन दचमिदं पदम् । स करिष्यति निःशेपं जनमाज्ञाविधायिनम् ॥१८४॥ ततोऽर्चयित्वा विधिवजिनेन्द्रमिति सोऽवदत् । कथं दत्तं त्वया राज्यं खामिन् ! विप्लवकारणम् ॥१८५॥ अथोचे व्यन्तरो भद्र! गजेन्द्रं मृत्तिकामयम् ।। विनिर्माय समागच्छेः समारुह्याऽत्र वन्दितुम् ।।१८६।। द्विरदोऽस्मत्प्रभावेण त्वय्यारूढे चलिष्यति ।.. आज्ञां करिष्यते सर्वस्ततस्तव निरन्तरम् ॥१८७॥ श्रुत्वेति भूपतिः प्राप पासादं मुदिताशयः। कुम्भकारा नृपादेशाच्चक्रुमनामयं गजम् ॥१८८॥ इममारुह्य भूपालो वन्दितुं जिननायकम् । आगामीति ततो जज्ञे पुरे हास्यास्पदं महत् ॥ १८९ ॥ सामन्ता मन्त्रिणां पुत्राः पौरग्रामेयका अपि । तमवेक्षितुमाजग्मुः सर्वोऽप्यऽद्भुतकौतुकी ।। १९० ।। शुभेऽह्नि गजमारुह्याऽऽहूय तं श्रेष्ठिपुङ्गवम् । सशृङ्गारो महीपालः पश्वासने न्यवेशयत् ॥ १९१॥ व्यन्तरस्यानुभावेन करी मृत्स्नामयोऽचलत् । विसिष्मिये जनः सर्वः पश्यन् नवकुतूहलम् ।। १९२ ॥ पुरात् खे निर्मिते गत्वा चैत्ये नत्वा जगद्गुरुम् । तमेव गजमारूढो नृपोऽगाद् निजमन्दिरम् ॥ १९३॥ आलानस्तम्भसम्बद्धं श्रेष्ठिनेनं गजं कुरु । इत्यादेशं महीभतुर्लब्ध्वा सो हर्षितोऽभवत् ॥ १९४ ॥ श्रेष्ठिना राजवन् तेन दत्ता कुम्भे शृणिक्षितिः । न चचाल पदं हस्ती वारित इच केनचित् ॥ १९५ ॥ वीक्षापन्नोऽभवच्छ्रेष्ठी तस्मादुत्तीर्य सत्वरम् । नृपपादाम्बुजं भक्त्याऽनमन्निदमुवाच च ॥१९६॥ गोपाल इति यत्कृत्वाऽपराद्धं भवतः प्रतिः ।
.
अष्टमः सर्गः।
३०७
तत्क्षमखः महीपाल ! पुण्यलक्ष्मीनिकेतन ॥ १९७ ॥
ततो देवानुभावेन निःशेषाः पृथ्वीभुजः।
आज्ञा प्रपेदिरे तस्य शेपामिवं नरेशितुः ॥१९८॥
शाधताहद्भवनानां सदृशं पृथिवीपतिः ।
तचैत्यं कारयामास स्वर्णस्तम्भमनोहरम् ॥१९९।।
श्वेतवस्त्रे परिधाय भक्तिमान् पृथिवीपतिः ।
पुष्पैरानर्च वीर्थेशं त्रिसन्ध्यं श्रेणिको यथा ॥२०॥
खचैत्ये कारयामासाऽष्टाह्निकादिषु पर्वसु ।
शासनोनतये राजा नाट्य सूर्याभदेववत् ॥२०१॥
अन्यदा वन्दितुं देवमचलद् नगराद् नृपः ।
सार्दै मनोरमादेव्या शच्येव धनवाहनः ।।२०२॥
कौपीनवसनं क्षामं भारभुनशिरोधरम् ।
मनोरमा पुरोऽद्राक्षीद् व्रजन्तं काष्ठवाहकम् ।।२०३॥
तं विलोक्य मुमूर्छाऽऽशु देवी मोहपरायणा ।
अर्द्धविच्छिन्नशाखेव पपात पृथिवीतले ॥२०४॥
तथाविधापदि प्राप्तां दृष्ट्वा देवी मनोरमाम् ।
वजाहत इव.क्ष्मापः कृच्छ्राद् वक्तुं प्रचक्रमे ॥२०५॥
यो यद् वेत्ति जनः सर्वः स तच्च कुरुतामिह ।
सर्तव्या व्यसनमासे विद्या मन्त्राधिदेवताः ॥२०६॥
वैधाः प्राहुः पित्तमूर्छा दैवज्ञा प्रहपीडनम् ।
मान्त्रिका देवतादोषमाप्तां मुगलविनुवम् ॥२०७॥
प्रगुणं रचयामासुर्मिषजः शर्करादिकम्
दैवज्ञा विदधुः पूजां ग्रहाणां मन्त्रपूर्वकम् ॥२०॥
देवतानां समारेभे पूजनं मान्त्रिकैरथ ।
मन्यन्ते नितरामाता उपयाचितसंहतिम् ॥२०९॥'.
'एकंतश्च विरच्यन्ते शय्याः पङ्कजिनीदलैः।
एकतश्चापि चूर्ण्यन्वे स्थूलमौक्तिकराशयः ॥२१॥
मल्लिनाथमहाकाव्ये- मूर्तिमद्भिरिवाऽम्भोदैर्घनाम्भाणवर्षिभिः । वीज्यते तालवृन्तैः सा मृदुवातमनोहरैः ॥२१॥ उपचारशतैः कृत्वा मूर्छाव्यपगमे सति । एवं पपाठ भूपालवल्लभा मधुरखरम् ।। २१२ ॥ अडविहि पत्ती न इहि जलु तो वि न बूढा हत्थं । अव्यो! तहवि कवाडियह ! अज्ज विसा वि अवत्थ ॥२१॥ देवि! क एष वृत्तान्तो येन प्रोक्तं त्वयेदृशम्. । साऽऽख्यद् देवेमकं काष्ठवाहक द्रुतमानय ॥२१॥ सोऽथाऽऽहूतः समायातः साऽऽख्यद्देवी मनोरमा । देवायं काहलों नाम मत्पतिः पूर्वजन्मनि ॥ २१५ ॥ पूर्वजन्मनि पल्यऽस्याऽभवं सिंहलिकाहया । दुःखदौर्भाग्यदौर्गत्यपराभवनिकेतनम् ॥ २१६ ॥ अन्यदाऽनेन संयुक्ता गताऽहं काष्ठहेतवे । वनमध्ये महाकायतालशालमनोहरे ॥ २१७ ॥ मिथ्यात्वाने गते दूरं सूर्यवज्जिननायकः । दृष्टो दिष्टया जगन्नाथः सनाथोऽतिशयश्रिया ॥ २१८ ॥ पूजयाव इमं देवमावां मिय ! जगनतम् । मयोचेज्यमथ प्राह त्वमेव कुरु सर्वदा ॥ २१९ ॥ 'निर्द्धम वल्लभं ज्ञात्वा गत्वा शैवलिनीतटम् । सिन्दुवारैरिमं देवं भावतः पर्यपूजयम् ।। २२० ॥. अत्रान्तरे महीपाल ! त्वं दृष्टो गोपवेषभृत् । पूजयस्त्रिजगन्नाथं जटाजूटेन मण्डितम् ॥ २२१ ।। धन्योऽयं जगतां नाथं यः पूजयति भावतः । मत्पतिर्न पुननं देवपूजापराङ्मुखः ॥ २२२ ।। दधती भावनामेवं तस्मिन्नेव दिने नृप ।। कदनाशनयोगेन मृत्वा राज्ञः सुताऽभवम् ।। २२३ ॥ १ निधर्मयासनमित्यपि ।
अमः सर्गः। ३०९ विदारीतु भूपालो देवार्चाफलमुत्तमम् । पारत्रिक ममानन्तसौख्यलक्ष्मीविधायकम् ॥ २२४ ॥ इमं विलोक्य संपन्ना मम जातिस्मृतिः प्रिय।। इदं ततः पपाठाऽई मृाव्यपगमे सति ॥ २२५ ।। इदं श्रुत्वा नृपः प्रात्यजिनेशा फलं महत् । पारत्रिक ततस्या एहिकं मम वर्तते ॥ २२६ ॥ इतथ भगवान् धर्मो मूर्तिमानिव निर्ममः । मुनिचन्द्राभिधः मूरि भेयं नन्तुमागतः ॥ २२७ ।। मणिपत्य मुनेः पादौ श्रुतवान् देशनां नृपः । सपनीकस्तु सम्यक्त्वं भावतः प्रत्यपद्यत ॥ २२८ ॥ परमश्रावको राजा द्वादशवतपूर्वकम् । चकार जगतीं चयनिःशेपामपि भूपिताम् ॥ २२९ ।। देशे देशे महीपेन मारिव्यसनरक्षणम् । कारित जीर्णचैत्यानामुद्धृतिश्च पुरे पुरे ॥ २३० ॥ निपिमथ सम्यक्त्वं परिपाल्य मनोरमा । मृत्वा समाधिना माप पूर्णायुष्का सुरालयम् ॥ २३१ ।। इतश्व- अथाऽऽस्तिकमहीपर्पिसमेतः समतानिधिः। हस्तिनानगरं प्राप विहरन् जगतां पतिः ॥ २३२ ॥ स्वामिनं समवसृतं विज्ञाय जगतीपतिः । देवपालः समायातो वन्दितुं जगतां गुरुम् ॥ २३३॥ प्रदक्षिणिततीर्थेशः कृतस्तवनमङ्गलः। निपसाद यथास्थानं दत्तदृष्टिजिनेश्वरे ॥ २३४ ॥ ज्वाच जगतां नाथो मोहपङ्कमहाप्लवः । राजन् ! राजीवनेत्राया मरणाद् दुःखमासवान् ।। २३५॥ अनित्यं सर्वमप्येतत् पयःपूर्णामकुम्भवत् । .. १ प्राहेति च।
३१० मल्लिनाथमहाकाव्ये- तस्मिन् ममत्वमुच्चैर्यत्तद् मोहस्य विजृम्भितम् ॥ २३६ ।। जीवाः सर्वे सुतत्वेन भार्यात्वेनाऽपि जज्ञिरे । सवन्धः किं स कोऽप्यस्ति स्पृष्टः कर्मवशैर्न यः ॥२३७|| यस्यैव हर्पकार्याणि क्रियन्ते स्नेहगर्भितैः। तस्यैव प्रेतकर्माणि तन्यन्ते शोकसंकुलैः ॥२३८॥ अनित्यताकृतमतिः शुष्कमाल्यो न शोचति । नित्यताकृतबुद्धिस्तुं भनभाण्डोऽपि रोदिति ।।२३९॥ इत्यादिखामिवाक्यानि श्रावं श्रावं महीपतिः । विरक्तो भवपाशेभ्यो राज्ये पुत्रं निवेश्य च ।।२४०।। त्रिशतीप्रमितै राज्ञः पुत्रैर्वैराग्यरङ्गितैः । साकं श्रीमल्लिनाथान्ते श्रमणोऽजायतोच्चकैः ।।२४१॥ (युग्मम्) इतश्च कश्चिदागत्य द्विजः प्रकृतिमानभृत् । । स्तम्भ इव स्थिंरोऽतिष्ठत् श्रीमल्लिस्वामिनः पुरः ॥२४२॥ उवाच जगतां नाथो मा मानं कुरु मानव।। अयं चन्द्योऽप्ययं निन्ध इति चेतसि मा कृथाः ॥२४३॥ पुराऽपि मानमाहात्म्याद् यज्ञदत्ताभिधो द्विजः। निन्दनीयकुले जातो विजातः कर्मवन्धने ॥२४४॥ पुरे क्षितिप्रतिष्ठाख्ये महीमण्डलमण्डने । यज्ञदत्तो द्विजः क्रोधी प्रतियो मूर्तिमानिव ॥२४५|| सोऽनिन्दत् पण्डितंमन्यो जिननायकशासनम् । जृम्भते खल्पबुद्धीनामात्मनीना न हि क्रिया ॥२४६॥ तस्य निन्दामसहिष्णुः सहिष्णुरपि तत्क्षणात् । गुरुणा प्रनिषिद्धोऽपि चेल्लकः कोऽपि बुद्धिमान् ॥२४७॥ वादायाऽऽहाययामास यज्ञदत्तं द्विजं मुदा । यतः परवले दृष्टे नहि स्थातुमलं भटाः ।।२४८॥ (युग्मम् ) अष्टमः सर्गः। ३११ जेष्यते येन यस्तस्य सोऽन्तेवासी भविष्यति । तयोर्विवदतोरेषा प्रतिज्ञाऽभून्महीयसी ॥२४९॥ हेतुवादी विवादेन सोऽजयत् चेल्लको द्विजम् । उदयंस्तरणिः किन्तु तमसा परिसूयते ॥२५०॥ प्रतिज्ञातं व्रतं विप्रस्तस्य जग्राह सनिधौ । प्रतिज्ञापालने सन्तस्त्वरन्ते दुष्करेऽपि हि ॥२५१॥ वृथाऽप्याऽऽस्वादितो हन्त ! सुधाऽऽहारो जराहरः। प्रतिज्ञावशतोऽप्याऽऽत्तं व्रत सौख्याय जायते ॥२५२॥ एवं शासनदेव्याऽसौ वोधितोऽपि महामुनिः। अनिन्दद् वस्त्राङ्गमलम् दुस्त्यजा कुलवासना ॥२५॥ ज्ञातयस्तस्य संसर्गाद् भेजुः शान्ति क्षणादपि । प्रापेण्याच सम्पर्काद् दवदग्धा द्रुमा इव ॥२५४॥ तस्य.प्रणयिनी तत्रानुराग विभ्रती शठा । वश्याय पारणे तस्मै कदाचित् कार्मण ददौ ॥२५५॥ स राजयक्ष्मणेवोच्चैः क्षयं तेनाऽनिशं व्रजन् । स्मरन् पश्च नमस्कार देवलोकमगान्मुनिः ॥२५६॥ तस्याऽऽवसानं सा श्रुत्वा वैराग्यात् सहचारिणी । व्रतं जग्राह मानुष्यजन्मभूमीरुहः फलम् ।।२५७॥ पतिहत्यात्मकं घोरमनालोच्यैव पातकम् । तपः कृत्वा दिवं साऽऽप तपः सर्वाऽर्थसाधकम् ।।२५८।। यज्ञदत्तस्य जीवोऽथ च्युत्वा राजगृहे पुरे। धनसार्थपतेर्दास्याश्चिलात्या नन्दनोजनि ॥२५९॥ : चिलातीपुत्र इत्येष चिलात्याः पुत्र इत्यभूत् । को नामकरणादीनि गोपानां हि प्रकल्पयेत् ! ॥२६॥ यज्ञदत्तप्रियाजीवः पुत्रपश्चकपृष्ठतः । भद्राया धनभार्यायाः सुंसुमाख्या सुताऽभवत् ॥२६॥ वालधारककर्मत्वे सुसुमाया धनो धनी ।
३१२ मल्लिनाथमहाकाव्ये-- योजयामास दासेरं-युक्तेयं स्थितिरीहशाम् ।।२६२॥ भूयास्याऽऽगांस्यऽसौ चक्रे विभ्यत् श्रेष्ठीव राजतः । निरवासयदन्यायकृतं तं दन्दशूकवत् ॥.२६३ ॥. अन्यायपुंश्चलीक्रीडासङ्केतस्य निकेतनम् । पल्ली सिंहगुहाभिख्यामगाद् दासीसुतस्ततः ॥२६॥ अयो मलिम्लुचैः साकं प्रवीणैरनयाऽध्वनः । तस्याऽजायत सत्पीतिः सख्यं तुल्ये.प्रवर्धते ॥२६५।। मृते सिंहगुहेशेऽसौ तत्पदे तैनिवेशितः। नरेन्द्रेणाऽपि दुर्जेयः सपक्ष इव पन्नगः ।। २६६ ।।. इतश्च सुंसुमां कामो राजधानीमिवोत्तमाम् । कामिचित्तजनावासनिवेशाय विनिर्ममौ ।।२६७॥ अस्ति राजगृहे श्रेष्ठी पञ्चपुत्रो धनाभिधः । सुसुमाख्या सुता तस्य निःसीमा रूपसम्पदा ॥२६८॥ युष्माकं द्रविणं तस्य सुंसुमा मे कुमारिका । व्यवस्थायेति तैः सार्द्धमगाद् धनगृहं निशि।।२६९॥(युग्मम्) दवाखापिनी विद्यां श्रेष्ठिलोकस्य तत्क्षणम् । वेगेन लुण्टयामास निष्पुत्रस्येव तद् धनं ॥२७०॥ पद्मिनीमिव मातङ्गः पौलस्त्य इव जानकीम् । स सुंसुमामपाऽहार्षीत् प्रीतिवल्लीघनोदयाम् ।। २७१ ॥ तद्वासरोढजम्बूवद् मोघा विद्याऽभवद् धने । सपुत्रोऽपससाराऽथ नीतिनीतिमतामसौ ।।२७२।। लुण्टयित्वा धनं हत्वा सुसुमां च तथा खयम् । दुष्टबुद्धिः पलायिष्ट लुण्टाकैः सह दुर्नयैः ॥२७॥ धनः श्रेष्ठी समाहृय रक्षकानित्यभापत । समानयत भोः वित्तं निम्शेपं सुसमामपि ॥२७॥ आरक्षकजनैः साकं नन्दनैरपि पञ्चभिः । अनुवजन् धनः श्रेष्ठी सुतामयममन्यन ॥२७५|| अष्टमः सर्गः। ३१३ . इत इतः पलायन्त इतोऽपि श्रूयते रवः । इतोऽपि दृश्यते रेणुश्चौराणां चरणोद्भवः ॥२७६।। ब्रुवाणैः पदिकैरेवमनुस्यूता इव क्षणात् । सलोमांस्तस्करान् क्रूरान् ददृशुः पुररक्षकाः ॥२७७॥ इतो गृहीत गृहीत हत हतेति भापकै । रक्षकैस्तस्करा व्याप्ता मृगा वागुरिकरिव ॥२७८॥ आरक्षकजनवातघातवित्रस्तचेतसः। वित्तं मुक्त्वा प्रणेशुस्खे श्येनादिव विहङ्गमाः ॥२७९।। आरक्षपुरुषा विचं दुष्पापं प्राप्य पुष्कलम् । व्यावन्त, कृतार्था हि जनाः स्वस्थानगामिना२८०॥ सुसमामुदहनशे खड़यष्टिमिवाऽपराम् । अरण्यानीं प्रविष्टोऽसौ गुहामिव मृगाधिपः ॥२८॥ सहितः पञ्चभिः पुत्रैः पुत्रीं क्रष्टुं तदाननात् । खमनःस्पर्द्धयेवाऽऽशु धावति स धनोऽसुखी ।।२८२॥ समीपमागते तस्मिन् सुसमा माऽस्तु मेऽस्य सा। ध्यात्वेति कदलीलावमलावीत् सुसमाशिरः ॥२८३॥ पुरस्वाचकंवन्धस्य पुत्रयुक्तो धनो रुदन् । अरोदयत् तरुश्रेणी प्रतिध्वानः सुदुःश्रवैः ॥२८४॥ तस्याः कवन्धमुत्सृज्य निवृत्तोऽसौ सनन्दनः। नखंपचरजा जज्ञे मध्याह्नसमयस्ततः ॥२८५॥ श्रेष्ठिशोकेन विच्छायाः खजना इव शाखिनः। वाइमश्रूणि मुञ्चन्ति पतत्किञ्जल्ककैतवात् ॥२८॥ न जलं न फलं काऽपि ददृशुर्धननन्दनाः। पशृंश्च प्रत्युत हिंस्रांश्चौरेशप्रेरितानिव ॥२८७॥ पुत्रिकामरणं वित्तनाशो दुःखसमागमः । विचिन्त्येति धनो दैवमुपालभत भूरिशः ॥२८८॥ १ अपहृतद्रविणसहितानिति भावः । २ स्कन्ध इत्यर्थः ।। ३-सुधीरित्यपि । . ।
३१४ मल्लिनाथमहाकाव्ये- दैवमेवापदां कर्व हर्त सुमाप्तसम्पदाम् । विधात शुभवुद्धीनां दा निन्यधियामपि ।।२८९।। इत्थं ध्यायन् धनः श्रेष्ठी प्राप. राजगृहं पुरम् । सुसमायाश्चकाराऽऽशु प्रेतकार्य यथाविधि ॥२९॥ अथ वैराग्यमापनः श्रीवीरस्वामिसन्निधौ । व्रतं माप तपस्तप्त्वा धनर्षित्रिदिवं ययौ ॥२९॥ चैलातेयः सुंसमाया वीक्षमाणो मुखं ययौ। दिश याभ्यामुपगतां मियामनुव्रजभिव ।।२९२।।. कायोत्सर्गस्थितं ध्यानतत्परं कामविहिपम् । सोऽप्रकम्प मेरुमिव मुनिमेकमथैक्षत ॥२९॥ खकीयकर्मणा काम लज्जितस्तमुवाच सः। धर्म ब्रूहन्यथा तेऽपि छेत्स्याम्यस्याः शिरो यथा।।२९४॥ स ज्ञानी ज्ञानतो ज्ञात्वा भव्योऽयमिति चाब्रवीत् । उपशमो विवेकश्च संवरः कार्य इत्यपि ॥२९५॥ ततश्च चारणमुनि भोगमनविद्यया। उत्पपात महासत्त्वः सत्त्वराशिमवोधकत् ॥२९६॥ अथ भावयतस्तस्य वारं वारं पदत्रयीम् । उल्लेख ईदृशो जज्ञे दुष्टस्याऽपि शुभोदयात् ॥२९७॥ क्रोधादीनां कषायाणां कुर्यादुपशम सुधीः । तैरह हहहा!! क्रान्तः कुष्ठीव कृमिजालकैः ।।२९८॥ श्रद्धामकुष्टजं कुर्वन् पथ्यं सन्तोषचूर्णितम् । चिकित्साम्यद्य तान् सर्वान् शमभेषजयोगतः ॥२९९॥ धर्मरोहणमाणिक्यं लमकं शिवसम्पदः । कार्मणं-कीर्तिकान्ताया आवालं ज्ञानशाखिनः॥३०॥ अधिष्ठान माहात्म्यस्य क्रकचं मोहदोरुणः । विवेकं कुरुतां धीमान् सावत्रत्यागलक्षणम् ॥३०१॥ (युग्मम्) १ श्रद्धालमा मागोमेव पथ्यं कुर्वनित्यान्तरम् । २ मोहकाष्ठस्येति ज्ञानीयम् ।
अष्टमः सर्गः। ३१५ सुंसमायाः शिरः पाणौ सत्यकारमिवैनसः । दधानस्य मम काऽऽस्ते विवेक कारणं श्रियः ॥३०२॥ तच्छी दुर्गतिद्वारकपिशीर्ष विवेकतः। मुञ्चति स्म चिलातीसूर्मूर्तीभूतशिवेतरम् ॥३०॥ संवरो भणितोऽक्षाणां मनसश्च निवर्त्तनम् । स प्रपनो मया भाग्यात् कल्यकल्पः शिवश्रियः॥३०४॥ पदानामर्थमेवं स भावयन् भावनान्वितम् । समाधिमधिगम्योच्चैरभूत हन्मात्रचेतनः ॥३०५॥ अथ विस्राऽसृजा देहं व्याप्तं तस्य महात्मनः। क्षणात् पिपीलिकाचक्रुः सच्छिद्रं चालनीसमम्।।३०६॥ स तासामुपसर्गेऽपि चित्रन्यस्त इव स्थिरः। अहोरात्रद्वये साचे व्यतिक्रान्ते दिवं ययौ ।।३०७।। श्रुत्वेति यज्ञदत्तस्य दृष्टान्तं -मानसंभवम् । द्विजो मानं परित्यज्य खामिनं प्रणमस्तदा ॥३०८॥ अथाऽवोचत भगवन्नऽहमसि द्विजाग्रणीः । अयं क्षत्रकुलोत्पनो मया वन्यः कथं जिनः ॥३०९॥ इत्यादिर्मामकः स्वामिन् । विकल्पो भवकोटिकव क्षणमात्रादयं नष्टः किं न स्याद् गुरुसङ्गमात् ॥३१०॥ ततत्रिभुवनाधीशपादानत्वा द्विजाग्रणीः। कुतमानपरित्यागश्चारित्रं प्रत्यपद्यत ॥३११।। ततश्च विहरनाथः श्वेताम्वी नगरी ययौ। तत्रास्थुः तापसाः कोपमानसास्त्रिशतीमिताः ॥३१२॥ सर्वज्ञो भगवानेष श्रुत्वेति वचनं कटु । आगुः समवसरणं रणं दुष्कृतकर्मणाम् ॥३१३॥ तानुवाच जगन्नाथो भोः! भोः! मुनिमतङ्गजाः । सर्वज्ञवचनं श्रुत्वा कि कोपेन मलीमसाः १ ॥३१॥ १ भूषणसदृश इति हृदयम् ।
३१६ मल्लिनाथमहाकाव्ये- मनोगतपरिज्ञातादुत्कर्णास्तवदन्निति । प्रणय भगवत्पादो कोपाख्यानं प्रकाशय ॥३१५॥ अयं प्रबोधमुद्दिश्य श्रीमन्मल्लिजिनेश्वरः। एवं गदितुमारेभे प्रत्यूहबान्तभास्करः ॥३१॥ सिद्धान्तपारश्वाऽपि प्रकृत्या कोपनोऽधिकम् । चण्डलाभियः मारिरभूद् भुवनविश्रुतः॥ ३१७ ॥ अत्यल्पेऽपि क्रियालोपे प्रमावन्तं कदाचन । आचुक्रोश मुनिाम क्रोधावेशविसंस्थुलः ।।३१८॥ खोकमानं मुनीनां स स्खलितं सोदुमक्षमः । गच्छस्य दूरदेशेऽस्थाद् मुनिसंक्लेशभीलुकः ॥३१९॥ मासकल्पेन सातत्यं गच्छेन सह संयमी । बिहरन् मालवे देशेवन्त्युद्यानमुपेयिवान् ॥ ३२०॥ इतः कश्चिन्मद्देशस्य मूनुः कन्दर्पसुन्दरः। पर्यणयत वित्तशकन्यका रतिसन्निभाम् ।। ३२१ ॥ मित्रः समानशीलास्तपादाम्भोजपावितम् । स युवा क्रीडितुं रम्यं तदुद्यानं समागमत् ।।३२२।। नानाविधाभिः क्रीडामिः क्रीडन्तः प्रतिपादपम् । ददृशुः सुहृदस्तस्य धर्मध्यानरतान् मुनीन् ।।३२३ ॥ ययाचारं नमस्कृत्य गर्भश्रावकसन्निभाः। ववन्दिरे मुनीनवान् क्षमाश्रमणपूर्वकम् ॥ ३२४ ।। पूज्याः! सखाऽयमस्माकं वाल्याद् वैराग्यनिर्भरः। व्रतं गृहीतुकामोऽस्ति कुरुताऽस्य समीहितम् ॥३२५॥ शान् वण्ानिव ज्ञाला जजल्पुर्मुनिपुङ्गवाः । दीक्षायामरिकारोऽस्ति गुरोरस्माइयां नहि ।।३२६॥ काऽऽस्त गुरुस्तद्वापृष्टः कृतवनौष्टिकैश्च तैः । इत्यचिन्सन निग्रन्यवृष्यतां कलिना कलिः ॥३२७॥ १ दिया एषनपि । २ कृतहात्वरिलयंः।
अष्टमः सर्गः ३१७ दर्शितः सस्मित पाणिसंज्ञया.मुनिपुङ्गवः । नत्वा सूरिं ततस्तद्वत् सुहृद्वर्गोऽध्यवोचत ॥३२६॥ मया सह कथं मूर्खा एते हास्यं वितन्वते ।... तत्फलं दर्शयिष्यामि केशलुश्चनकैतवात्.॥३२९॥. ध्यात्वेति कोपनः मूरिः कम्पमानकराधरः। . . . तैर्भमाऽऽनाययद् वेगात् तेषां क्षेप्तुमिवानने ॥३३०॥ वीक्षामहे करोत्येष किमिदानी मुनीश्वरः । भस्मोपनिन्यिरे तेऽपि विचिन्त्येति कुतूहलात् ॥३३॥ लुलुश्च तत् शिरस्तूर्ण विधृत्योरुदयेन सः । गुरो! मा लुश्च मुश्चैनं तेषामारटतामिति ॥ ३३२॥ अचिन्तयद् नवोढोऽथ लुश्चितोऽहं यथा तथा । इदानी गर्हिताऽत्यन्तमीक्षस्य गृहस्थता ॥ ३३३ ॥ हास्येनाऽपिं मया प्राप्तं श्रामण्यं भवतारकम् । इदानीं भावतस्तावत् प्रपद्येऽर्हनिवेदितम् ॥ ३.३४ ॥ ऊर्ध्वस्थमित्रवर्गाणामश्चभिनिर्जरोपमैः । तस्य भस्माविले मूर्ध्नि पङ्कशङ्का व्यजृम्भत. ॥ ३३५ ।। अस्माभिर्यत् कृतं हास्यमपतद् मस्तकेऽस्य तत् । वराहात्तेक्षुदण्डेषु पिष्यते.माहिषं मुखम् ॥ ३३६ ॥ अविचारितमेवैतत् कृतममाभिरुच्चकैः । केशलुश्चनदम्भेन तदस्य. फलमुत्थितम् ॥३३७॥ सुहृदोऽसुहृदो जाता वयमस्य दुराशयाः। :अनाथस्येव यदियं दशा जज्ञे मनोऽतिगा ॥ ३३८ ॥ एतत्खजनलोकस्य विवाहक्षणशालिनः । कथं वार्ता महोद्वेगकारिणी कथयिष्यते ॥ ३३९ ॥ कुसङ्गाद्.जायते.नो चेद् मरणं गर्जनं भवेत् । कृत आहानकोऽस्माभिर्यथार्थकुटिलाशयः॥३४॥ १.तिरस्करणमिति मतम् । .
३१८ माल्लिनाथमहाकाव्ये- एवं खेदप्रपन्नेषु मित्रेषु निखिलेप्वध्य । उवाच स युवा नव्यदीक्षितः पूर्वसाधुवत् ॥ ३४१ ॥ विप्लवादपि समाप्तं श्रामण्यं जिनभापितम् । गृहीतं काचखण्डस्य शङ्कया रत्नसन्निभम् ॥३४२॥ अकामस्याऽपि दीक्षा में जज्ञे पुण्यप्रसाधिका । अनिच्छयाऽपि संभुक्ता मोदकाः किन तृप्तये॥३४३॥ यूयं मित्राणि मित्राणि भवार्णवनिमजनात् । यदहं तारितस्तूर्ण व्रतपोतप्रदापनात् ।। ३४४ ॥ इनि तस्य गिरः श्रुत्वा वाप्पपूर्णविलोचनाः । तदलङ्कारमादाय ययुस्ते खं निकेतनम् ।। ३४५ ॥ शैलोवादीद् गुरुं नत्वा मुखवासपुरःसरम् । मुनीन्द्र! स्वजना नूनं कारो मे व्रतक्षितिम्।।३४६॥ करणीयं तथा स्वामिन् ! यथा जैनेन्द्रदर्शने । नस्याद् हास्यास्पद किंचित् पाखण्डिपु निरन्तरम् ३४७ ऊचे मृरिदिवा वत्स ! वर्त्मनः प्रत्युपेक्षणम् । क्रियतां सत्वरं यस्मादावाभ्यां गम्यते निशि ॥३४८॥ तथेति प्रतिपद्याऽसा कृत्वाऽध्यप्रत्युपेक्षणम् । आगच्छद् मुनिवेषण बभौ गीतार्थवत् तदा ॥३४९॥ मरिणा सह शैक्षोऽयावश्यकं कृतवानऽसौ । व्यतीत रजनीयामे निशि तेन सहाऽचलत् ।।३५०॥ स्पष्टमग्रस्थिते मार्गमव्यग्रं कथयत्यपि । तस्मिन् जराभरक्रान्तः पदे पदेऽस्खलद् मुहुः॥३५१॥ कीदृशं प्रत्युपैतिष्ठा मार्ग रे! शैक्ष! दुर्जन!! इति वाक्य-विकल्पैः स्वशरीरे ददाह सः ॥ ३५२ ॥ शिष्यशीपं गुरुः क्रोधादवधीद् दण्डकाटिना । कोपारयखादकारविस्तारभ्रमसंनिभम् ॥३५३॥ विन्यः, इत्यपि । २ बननाशनिसाशयः ।
अष्टमः सर्गः। ३१९ क्षमावतां धुरीणोऽपी शक्षाऽथ ध्यातवानिति । अहं हा! गुरुसन्तापनिदान वतेतराम् ।। ३५४ ॥ विनीतशिप्यसङ्घाताद् मन्निदानेन साधुराद । निष्कान्तो लभते कष्ट स्खलति स्म पदे पदे ॥३५५॥ आचार्यसवितुः सर्वतपस्तोमापहारिणः । उपप्लवाय संजज्ञे मल्लाभो बुद्धयोगवत् ॥ ३५६ ॥ घ्नतोऽप्याऽऽक्रोशतोऽप्यस्य न दोपः कोऽपि वर्त्तते । यता ममाऽपराधोऽयं विहारः कारितो निशि ॥३५७॥ केचिद् निजगुरुन, भक्त्या शक्रा इव जिनेश्वरम् । बहुलाद्भिनरोमाश्चाः सेवन्ते प्रतिवासरम् ॥३५८॥ एवं भावयतस्तस्य क्षमासम्भृतचेतसः। उत्पन्न पञ्चमं ज्ञानं सर्वपर्यायतत्त्ववित् ॥ ३५९ ।। कराजमुक्तावल्लोकमखिलं पश्यतः सतः। मुखेन नयतः मूर्ति विभाति स्म विभावरी ॥३६०॥ मृत्तिमत्क्रोधसप्ताचे लां रुधिरधोरणीम् । क्षरन्ती मूरिरक्षिप्ट शिष्यमस्तकपर्वतात् ॥ ३६१ ॥ नवव्रतोप्यऽसौ धन्यो नैव पूर्वव्रतोऽप्यऽहम् । अक्षमाऽभूद् ममेक्षा क्षान्तिरस्येशी परम् ॥३६२॥ सच्चारित्रं मया मोक्तं कृताः सिद्धान्तवाचिकाः। परं क्षान्तिर्मया नैव चके साधुजनोचिता ॥ ३६३ ।। साधवस्तत्यजुर्मी ते क्रोधापस्मारपितम् । एकक्रोधावकाशेऽपि निष्प्रकाशमभूत् परम् ॥३६४॥ अन्ताक्षमावतां वासे वसन्नपि निरन्तरम् । अक्षम्यहं यतोऽम्बुस्थः कुलीरस्तरणे पटुः ॥ ३६५.॥ एवं सुतीव्रसंवेगवतिना कर्मपादपम् । दहतः केवलज्योतिरुद्भिनं पापघातकम् ॥३६६॥ भूयोऽप्यसौ परीवारसम्पदा समयुज्यत ।
-
..
३२०
मल्लिनाथमहाकाव्ये-
श्रीचण्डरुद्र आचार्यः शिष्यकेवलिना सह ॥३६७।
विहत्य सुचिरं धान्यां प्रतिवोधपरायणौ ।
शिवामचलस्वरूपां प्रापतुर्मोक्षसम्पदम् ॥३६८॥
तत्छुत्वा तापसाः सर्वे प्रशान्तहृदयास्ततः ।
अगृह्णन् खामिनः पार्थे दीक्षां सर्वज्ञभाषिताम् ।।३६९।।
ततश्च भगवस्तिस्माद् विहरन् मदिरावतीम् ।
पुरी शक्रपुरी लक्ष्म्या ययौ त्रिभुवनार्यमां ॥३७०॥
तत्र राजा यशश्चन्द्रः प्रकृत्या स्त्रैणलम्पटः ।
तदैव खर्वधूरूपं द्रष्टुं प्रापाऽन्तिके प्रभोः ॥३७१।।
तस्य प्रबोधमुद्दिश्य कुलध्वजनरेशितः।
कथां गदितुमारेभे धीरवाचा जगद्गुरुः ॥३७२॥
तथाहि-
जम्बूद्वीपाभिधे द्वीपे वर्षे दक्षिणभारते ।
अस्त्यऽयोध्येति नगरी चूडारनमिव क्षितेः॥३७३||
तत्राऽभूद् भूपतिः शङ्खो धुरीणः सर्वभूभृताम् ।
सधर्मचारिणी तस्य धारिणी धर्मचारिणी ॥३७४॥
तयोः कुलध्वजः पुत्रो ध्वजवद् वंशभूषणम् ।
द्वासप्ततिकलागारं द्वारं निःशेषसम्पदाम् ॥३७५॥
अन्येधुनगरोपान्ते वाखाली गतवानसौ।
अमात्यादिपरितः समानगुणशालिभिः ॥३७६॥ ..
अधः पद्मासनासीनं शतशाखस्य शाखिनः ।
सेवकैरिव राजानं मुनिबन्दैः परिवृतम् ।।३७७॥
वाचा मधुमुचा तत्र कुर्वाणं धर्मदेशनाम् ।
मृतं धर्ममिवापश्यद् मानतुङ्गाऽभिधं गुरुम् ॥३७८॥
(युग्मम् )
विनीतवेपस्तत्पाईं गत्वा नत्वा यथाविधि ।
उचितासनमासीनः श्रुतवान् धर्मदेशनाम् ॥३७९॥
अष्टमः सर्गः। ३२१ दुष्टाष्टकर्मविस्तीर्णनेपथ्यान्तरितः सदा । नटवद् भवनाव्येऽस्मिन् जन्तुर्विपरिवर्त्तते ॥३८०॥ वध्यते जीवसारङ्गः खेच्छया संचरनपि । पुरन्ध्रीरूपपाशायैः कामव्याधेन दुधिया ॥३८१॥ आदरः परदारेषु खदाराणां विवर्जनम् । यवेत् पिपतिषोः पुंसो नरके नर! केवलम् ।।३८२॥ गोत्राचारपरीहारः प्राणानां संशयागमः। साधुवादपरिभ्रंशः परस्त्रीगमनाद् ध्रुवम् ॥३८३।। एतद्वाक्यश्रुते राजपुत्रो वैराग्यमागतः। विरक्तः परदारेषु निषेधं प्रत्यपद्यत ॥३८४॥ प्रणिपत्य पुनः सुरेः पादाम्भोजं नृपाङ्गजः। निवर्चमानश्चाऽद्राक्षात्कलहं योपितां पथि ।।३८५।। किं वृथा कलहायेथे रोपोत्कर्षाद् मुहुर्मुहुः । इति पृष्टा कुमारेण चैका तन्मध्यतोऽवदत् ।।३८६॥ देवाहं लोहकारस्य पनी सौभाग्यकन्दली। पूर्णकुम्भयावाऽऽगां भारसुमशिरोधरा ॥३८७|| इयं रथकृतः पत्नी नाना कनकमञ्जरी । रिक्तकुम्भद्वया देव! समागान् मम संसुखं ॥३८८॥ रिक्तकुम्भद्यादेव मोच्यो मार्गोऽनया मम । एक कारणमेवेदमपरं च निशम्यताम् ॥३८९॥ यावन्मात्रं हि पत्युमें विज्ञानं जगतीतले । ताहग् न कस्यचिद् नूनं विद्यते वाग्मिनां वर! ॥३९०॥ कौतुकाऽऽक्षिप्तचेतस्कः कुमारः माह किं तव । पत्युः समस्ति विज्ञानं सर्वलोकप्रमोदकुन् ? ॥३९१॥ मत्पतिश्चन्द्रदेवाख्यो लोहकारशिरोमणिः । विज्ञानवल्लरीजालपाद्वालसमा प्रभो ॥३९२॥ स चेल्लोहमयं मीनं विधत्ते राजशासनात् ।
३२२
मल्लिनाथमहाकाव्ये-
उत्प्लुत्य व्योमयानेन स याति मकराकरम् ॥२९॥:
गिलित्वा गलरन्ध्रण तन्मध्यान् मौक्तिकावलीः।
पुनरायाति संस्थान खकीयं लोहनस्तिमिः ॥३९॥..
मुखमर्कटिकां दत्वा श्रुत्वेति तद्विरः पुरः।
आह स रथकृत्पनी तालिकावादनान्वितम् ॥३९५।।..
विज्ञानेनामुना लोके न हि किञ्चन लभ्यते ।..
मन्ये तदेव विज्ञानं यत्पत्यौ मे विजृम्भते ॥३९६॥..
अथोचे भूपतेः पुत्रः किं ते पत्युमनोहरम् ।
विज्ञानं विद्यते ब्रूहि त्वमशेष सुलोचने ! १॥३९७॥
अत्रास्ति. नगरे रम्ये मत्पतिः सूत्रद्वरः ।
कन्दर्पो नाम रूपेण कन्दर्प इव मूर्तिमान् ॥३९८॥
स.चेत् काष्ठमयं चारु निर्मिमीते तुरङ्गमम् ।
षण्मासान् यावदाकाशे स भ्राम्यति सपौरुषम्॥३९९॥
श्रुत्वेति वचनं तस्या राजपुत्रः सकौतुकः।
ताभ्यां सह सभां राज्ञो जगाम सपरिच्छदः ॥४०॥
वृत्तान्तः कथितस्तेन कुमारेण नृपाग्रतः।
ततो राज्ञा समाहूतौ लोहकृत्सूत्रधारकौ ॥४.१॥
लोहं लोहकृते भूमानर्पयामास समयम् ।
निर्माति स्म ततः सद्यः स मीनं लोहसूत्रितम्॥४०२॥
ततोऽपवरक पृष्ठे तस्य मीनस्य स व्यधात् ।
शुभेऽह्नि लोहकृत् तत्र माविशद् भूभुजा समम्॥४०३॥
पृष्ठेऽथ कीलिका तस्य निहिता वायुधारिणी।
उत्पपात नभोमार्ग मत्स्यः शकुनिराडिव ॥४०४॥
मीनस्थो जगतीपालो ग्रामाकुलपुराकुलाम् ।
विपुलां विपुलां वीक्षांचक्रे विद्याधरोपमः ॥४०५॥
वादिमध्य गते मीने छन्नेऽपवरके सति ।
गर्भस्थाविव रेजाते लोहकृत्पृथिवीश्वरौ ॥४०६॥
'अष्टमः सर्गः। ३२३ मुक्ताः स गलरन्ध्रेण गिलित्वाऽऽमिपवद् भृशम् । निरवर्तत पाथोधेः कार्मुकाद् मुक्तकाण्डवत् ।।४०७॥ आयाते स्वपुरं तस्मिन्नाऽऽकृष्टा कीलिका क्षणात् । निपेतुर्मौक्तिकश्रेण्यस्तन्मध्यात् सेवधेरिव ॥४०८।। ततः कौतुकितो राजा वभापे लोहकारिणम् । गतमत्यागतं चक्रे कथमेप सुलक्षणम् ॥४०९॥ सोपाख्यद् देव! सिद्धाख्या राधा देवी मया ततः । अर्पिते कीलिके तया युयानार्थमिमे शुभे ॥४१०॥ कीलिकायोगतो राजन् ! याम्यहं गगनाङ्गणे । अचिन्त्या देवताशक्तिः साधयति न किं नृणाम् ॥४११॥ सूत्रधारोऽथ भूपालादेशाद् दारुमयं हयम् । उच्चैरुचैःश्रवस्तुल्यं कृत्वाऽदर्शयदासा ॥४१२॥ देवाऽस्मिन् तुरगे यूयं कुमारो वा कुलध्वजः। आरोहत्वपरो नैव सोऽवादीदिनि कोमलम् ।।४१॥ अथोचे भूपनो देव ! युष्मदादेशतोऽधुना। कृत्रिमाश्वं समारुह्य वीक्ष्ये विश्वम्भरातलम् ॥४१४॥ आमेत्युक्त नरेन्द्रेण सूत्रकृत् कीलिकाद्वयीम् । गमनाऽऽगमनायाऽऽशु कुमारस्य समर्पयत् ॥४१५॥ तस्य पृष्ठेऽथ विन्यस्य कीलिकां नृपनन्दनः। अलञ्चकार दावश्वं नमस्कृत्य नरेश्वरम् ।।४१६॥ पश्यतां सर्वलोकानां मयषिसेरचक्षुपाम् । उत्पपात नभोमार्ग वांजी दारुविनिर्मितः॥४१७॥ . खर्गे किमगमत् किं वा सिद्धाऽदृश्याञ्जनोऽभवत् ? । अदृश्यः सोऽपि दाश्वो लोकैरेवं वितर्कितः ॥४१॥ पुर्याः कस्याश्विद्याने भ्रान्त्वा वाजी संमस्थितः । कृष्टायां कीलिकायां च रामपुत्रेणं तत्क्षणम् ।।४१९|| कुलध्वजकुमारोऽय पृथक् पृथक् विधाय स.. . .
३२४ मल्लिनाथमहाकाव्ये- काष्ठबात तुरङ्गस्य भाररूपं चकार सः॥४२०॥ विधायोच्छीर्षके काष्ठचक्रवालं कुलध्वजः । सुष्वाप श्रमखिन्नाङ्गः सहकारतरोरधः ॥४२॥ इतश्च नभसो मध्यं भेजे दिवसनायकः । कीलितेव स्थिरा वृक्षच्छाया तस्याऽभवत्तराम्॥४२२॥ इतश्चारामिकस्तमिन्नागात् पुष्पजिघृक्षया । स्थिरच्छायस्तरदृष्टो मध्याह्वेऽपि मनोहरः ।।४२ ॥ अल्पसुप्तनरस्याऽयं प्रभावश्चिन्तयनिति । अस्माक्षीत् तत्पदाङ्गुष्ठ जजागाराऽथ भूपनः ॥४२४॥ यूयं भवंथ सत्पुण्या मन्दिरेऽतिथयोऽध मे। एवं विज्ञपयामास मालिको भक्तिमालिकः ॥४२५॥ आमेत्युक्तं कुमारेण प्रार्थनाभङ्गभीरुणा। गेहे सो भोजितो नीत्वा तेन हर्षपुरस्सरम् ॥४२६॥ कोणे गृहस्य विन्यस्य तौरङ्ग काष्ठसञ्चयम् । अथाऽचालीत् पुरो मध्यं वीक्षितुं दिवसात्यये।।४२७॥ खर्णपश्चालिकाकीर्ण रूप्यतोरणभासुरम् । सङ्केतमन्दिरं श्रीणां नेत्रपान्थमपोपमम् ।।४२८॥ प्रमोदनृपतेः पर्षद् मोक्षाध्वपान्तरद्रुमम् । निधानमिव धर्मस्य दृष्टवान् जिनमन्दिरम् ।।४२९॥ (युग्मम् ) श्रीमन्तं सुव्रतं देवं दृष्ट्वा तत्र कुलध्वजः । प्रणनाम नमन्मौलिकिणावलिपचेलिमः ॥४३०॥ इतश्च वेत्रभृत् कश्चित् समागत्य भृशं जनान् । कोणस्थानपि प्रत्येक वेगतो निरवासयत् ।।४३१॥ किमेतदिति संभ्रान्तः कुमारस्तस्य कोणके । लीयते स यथा जीवः परमात्मनि योगिनः॥४३२॥ अद्वितीयवपुः काचिदेत्य कन्या जिनार्चनात् ।
अष्टमः सर्गः। ३२५ लास्यं प्रचक्रमे कर्तुं सखीभिः परिचारिता ।।४३३॥ नमस्कृत्याऽध देवेन्द्र स्त्रीराज्यमिव तन्वती । सखीभिः सह संप्राप कन्याऽन्तःपुरमुत्तमम् ।।४३४॥ कोणानिर्गत्य रात्री स तद्रूपेण विमोहितः । पप्रच्छ पुरुष कश्चित् केयं बाला मुलोचना ॥४३५॥ आख्यत् स श्रूयतां देव! श्रोत्रापेयः कथारसः। अस्य श्रवणमात्रेण संपद्यन्ते मुदोऽगिनाम् ।।४३६।। इदं रनपुरं नाम्ना वरप्राकारमण्डितम् । अस्ति श्रीमुव्रतस्वामिश्रावको विजयी नृपः ॥४३७॥ विस्तीर्णचारुसावर्णतुणतोरणमुन्दरम् । तेनेदं भूभुजाकारि चत्यं कुलगृह श्रियः ।।४३८॥ तस्येयं कन्यका देव ! जयमालासमुद्भवा । सर्वलक्षणसम्पूर्णा नाम्ना भुवनमञ्जरी ॥४३९॥ विलोक्य यौवनोद्याने कुमारी करिणीमिव । विजयी तद्विवाहार्थमैक्षिष्ट नृपकुञ्जरम् ॥४४०॥ कुमारान्वेपणं श्रुत्वा कुमारी निजचेतसि । अर्थत्यं चिन्तयामास विवाहो मे समागतः ॥४४॥ महीचरोऽपि यः कश्चित् स्वशत्या खचरो भवेत् । स भविष्यति मे भाऽन्यथा वहिर्वरो मम ॥४४२॥ गृढाभिप्रायमात्मीयं प्रियसख्य न्यवेदयत् । सा सम्यक् कथयामास विजने पृथिवीशितुः ॥४४३॥ विज्ञाय निश्चयं तस्याः खपुष्पमिव दुर्लभम् । तूष्णींशालो महीपालोऽभवद् चिन्ताभिरुचकैः ॥४४४॥ इति व्याहृत्य स पुमान् ययौ राजनिकेतनम् । कुलध्वजोऽपि संपाप प्रातिहारिकमन्दिरम् ॥४४५॥ तस्याऽथ कोणके कुत्ता सज्ज दारुमयं हयम् । कीलिकायाः प्रयोगेणाऽऽगच्छत् तद्बासमन्दिरम् ।
३२६ मल्लिनाथमहाकाव्ये- तत्तल्पस्य चतुर्भागे ताम्बूलं वर्षचर्वितम् । क्षिप्त्वा वेनैव मार्गेण पुनः स्वगृहमागमत् ॥४४७॥ प्रवुद्धा वीक्ष्य ताम्बूलं तत्र सर्वत्र विस्तृतम् । सा दध्याविति कोऽत्राऽऽगात् खेचरत्रिदशोऽथवा ॥४४८॥ : अनया चिन्तया सा तद् दिनं वर्षमिवाऽऽनयत् । अलीकनिद्रया रात्रौ सुष्वाप तृपकन्यका ॥४४९॥ द्वितीयेहि निशीथेऽथ दावश्वमधिरुह्य च । तेनैव विधिना तत्र समायातः कुलध्वजः ॥४५०॥ क्षिप्त्वा सर्वत्र ताम्बूलमचालीद् यावदुच्चकैः । तावद् चेलाचले वाढ हस्ताभ्यां विधृतस्तया ॥४५१॥ कुतस्त्योऽसि घियां धाम ! चलितोऽसि क सम्पति। कुमार्येति कुमारोऽसौ पृष्ट एवमवोचत ॥४५२॥ भूमीचरोऽपि जज्ञेऽहं खेचरः.काष्ठवाजिना। इत्युक्ते तेन साऽवादीत् पूर्णो मम मनोरथः ॥४५३॥ प्रदीपं साक्षिणं कृत्वा पुरोहितमिवाऽसकौ । उपायंस्त विवाहेन गान्धर्वेण कुमारिकाम् ॥४५॥ ततो भवनमञ्जर्या बुभुजे विषयानसौ । अदृश्यो वायुवत् कन्यान्तःपुररक्षकैनरः॥४५५|| दधुर्लावण्यपुण्यानि तदङ्गानि श्रियं पराम् । मुक्ताफलमनोज्ञानि तटानीव पयोनिधेः॥४५६॥ अङ्गानां वृद्धिमालोक्य मेने दक्षः सखीजनः। अकालफलसंवित्तिभूरुहामिव भीतिदाम् ॥४५७॥ : तद् देव्या जयमालायाः स्थिताया विजने सखी। कथयामास निःशेषं नीचीकृतमुखाम्बुजा ॥ ४५८ ।। दुःखाधीतगलद्वाक्यविद्यामिव नमश्वरीम् । अपश्यत् पृथिवीनाथो जयमाला रहास्थिताम् ॥ ४५९ ॥ अनात्मज्ञेन केनेह तवाज्ञाखण्डनं कृतम् ।
अष्टमः सर्गः। ३२७ अकाण्डे निजकान्ताया देवि! वैधव्यगिच्छता ॥४६०॥ त्वत्प्रसादान केनापि मदाज्ञाखण्डनं कृतम् । परं तु खण्डनं जातं कुमार्या वचनातिगम् ।। ४६१ ।। प्राणनाथ ! समागत्य रजन्यां कन्यकां तव । अदत्तामप्यलं भुङ्क्ते वीरः कोऽपि भयोज्झितः ।।४६२|| येनेदं मद्गृहे देवि! चेष्टितं दुष्टचतसा । तमाशु दक्षिणेशस्य करिष्ये प्राभृतोपमम् ।। ४६३ ॥ कोपाटोपोत्कटस्खेदविन्दुभृकुटीभीपणः । उपविष्टः सभां राजा तदन्वेपणलालसः॥४६४ ॥ विवेद पार्थिवाकूतं वारस्त्री भववागुरा । वेश्यानां हि स्वभावोऽयं परचित्तोपलक्षणम् ॥ ४६५॥ तया निर्वन्धतः पृष्टो भूपतिश्चिन्तयाऽऽकुलः । पुन्या वृत्तान्तमाचख्यावपंडक्षीणमञ्जसा ।। ४६६ ॥ तमन्यायकृतं वध्वा त्वत्पादान्तमुपानये । अगादिति प्रतिज्ञाय खगृहं भववागुरा ॥ ४६७॥ संध्यायां गणिका वुझ्या नानोपायविशारदा । सतैलनवसिन्दूरैः कन्यागारमलेपयत् ।। ४६८ ।। तुरङ्गमाधिरूढोऽसौ त्रियामायां कुलध्वजः । अगाद् वातायनं तस्याः सान्द्रसिन्दूरपङ्किलम् ॥४६९।। तया साकं चतुर्यामीमतिवाह्य घटीमिव । गतवान् मालिकागारमुदियायाऽथ भास्करः॥४७॥ आययौ गणिका प्रातः कन्याया भवनाङ्गणम् । पादयोः प्रतिविम्बानि पचानीव व्यलोकयत् ॥ ४७१ ।। प्रतिविम्वानुमानेन तयाऽज्ञायि महीधरः । काव्येनेव कवेर्भाव आचारेण कुलं यथा ॥ ४७२॥ १ यमस्येत्यर्थः। २ अविद्यमानानि षडक्षीणि यस्मिन् , तं गुप्तमिति यावत् :
३२८ मल्लिनाथमहाकाव्ये- तलाध्यक्षनरैः सार्दै भ्रमन्ती भववागुरां । धूतस्थानस्थितं भूपनन्दनं वीक्षते स्म सा ।। ४७३ ॥ सिन्दारुणपादाभ्यां तयाऽसावुपलक्षितः । तदादेशातलाध्यक्षपुरुषैः स धृतो हठात् ।। ४७४ ॥ तत्माप्तिश्रवणेनाऽऽशु मरुतेवं मुहुर्मुहुः । दिदीपे भूपतेः कोपो हव्यवाडिव तत्क्षणम् ॥ ४७५ ॥ पण्डवद् दर्शनं माऽस्य भूयात् तत्कर्मकारिणः । इत्युक्त्वा दीयतां वायोरित्यादेशं नृपो ददौ ।। ४७६ ॥ अथादेश समासाद्य वध्यभूम्युपरि द्रुतम् । तलाधिपनरैः क्रूरैहीतो नृपनन्दनः ॥ ४७७ ॥ जनास्तद्रूपमालोक्य विवंदन्ते परस्परम् । यत्कृतोऽयं वरः पुत्र्या व्यलीकं तदिदं नु किम् ? ॥४७८॥ पीयूषगुणसारस्य वियोगेऽस्य कलाभृतः । क्षयं राकानिशेवाऽऽशु राजपुत्री प्रपत्स्यते ॥ ४७९ ।। पुच्याश्चेदीदृशं चक्रे भूभुजा किं प्रकाशितम् । गृहे दुश्चरितं यस्माद् दक्षा रक्षन्ति सर्वथा ॥ ४८० ।। इत्यादिलोकसंलापान् शृण्वानो नृपनन्दनः । मालिकागारसामीप्यमगाद् राजभटादृतः॥ ४८१ ॥ ममान्वये समायातां मालिकागारवासिनीम् । कुलदेवीं नमश्चक्रे युष्मत्पादप्रसादतः ॥ ४८२॥ आमेत्युक्ते भटौघेन प्रविश्य मालिकालयम् । शरीरं रसवेदीव पुनः सज्ज हयं व्यधात् ।। ४८३ ॥ पश्यतां राजलोकानां काम विस्मेरचक्षुषाम् । उत्पपात पतत्रीव हयः काष्ठविनिर्मितः ॥ ४८४ ॥ गत्वा वातायनं वेगात् कुर्मायाः कृत्रिमो हयः । उत्ततार चिरं भ्रान्तिश्रान्ताङ्ग इव तत्क्षणम् ।।४८५॥ तत्राधिरोहतां पत्नी नवोढामिव हर्षितः।
अष्टमः सर्गः।
३२९
बारां निधेर्महादुर्गमन्तरीपमवाप सः ॥ ४८६ ।। .
यस्यान्ते रोजिरे नीलास्तमालवनराशयः। .
अवतीर्णा इवाम्भासि पातुमम्भोदराजयः ॥ ४८७ ।।
विभान्ति यत्र शीतांशुशुभ्रा डिण्डीरराशयः ।
हास्योद्वारा इवाम्भोधेः सवन्तीनां समागमे ।। ४८८ ।।
अधोत्तीर्य महीपालपुत्रः सुष्वाप निर्भयः ।
मृदुपल्लवपल्यथे मनसीब मनोभवः ।। ४८९ ।।
क्षुधाक्षामं प्रियं वीक्ष्य मोदकाऽऽनयनाशया ।
अध्यासामास दाश्च मूर्त्तवाऽऽकाशदेवता ॥ ४९० ॥
गत्वा वातायने मुक्तो तयाऽसौ नृपकन्यया ।
पादिशन् सा निजागारं सम्पूर्ण मोदकादिभिः ॥.४९१ ॥
इतश्च वात्यया कामं पातितस्तुरगः क्षितौ ।।
अभासीत् तटिनीनाथमध्यस्खलितपोतवत् ।। ४९२ ।।
यावदागाद् महीपालकन्यका मोदकान्विता ।
तावदक्षत दार्वश्वस्तया भग्नो भुवस्तले ॥ ४९३ ।।
प्रतिकूलमहो ! दैवं सर्वतो विपदावहम् । .
हहा ! पुरातनाऽऽचीर्ण कर्मोदनं ममाधुना ॥ ४९४ ॥
अनुकूलो विधिः पाति पितेव व्यसनेऽप्यलम् ।
प्रतिकूलः पुनायमार्गनिष्ठं जुगुप्सते ॥ ४९५॥
वारिधी गमनं पत्युभो मे दारुवाजिनः ।
सर्व कष्टावहं जातं मम भाग्यविपर्ययात् ॥ ४९६ ॥
दृष्टे प्रिये ममावश्यं भोक्तव्यं नान्यथा खलु ।
एवं नियममायत्त प्रेमपादपदोपदम् ॥ ४९७ ॥ ::
इतश्च भूपतेः सूनुन्द्रिया समुचे तदा ।
न चाद्राक्षीव प्रियां प्रेमवर्णवर्णाद्रिचूलिकाम् ॥ ४९८ ॥
किं श्रीभ्रान्त्या समाहूता पयसां निधिना प्रिया ।
उत श्रीपतिना जहे चिन्तयामासिवानिति. ॥ ४९९ ॥
३३० मल्लिनाथमहाकाव्ये- इतश्च व्योमयानेन काचिद् विद्याधरप्रिया । अगादप्सरसां वृन्द जयन्ती रूपवैभवात् ।। ५०० ।। कासि भामिनि ! कुत्रत्या करसादत्र समागता ।। तत्सर्वं श्रवणद्वन्दप्रमोदाय निवेद्यताम् ॥ ५०१ ॥ महाभाग-! शृणु श्रौत्रसुधारसनिषेचनम् । कथारसं महामीतिमेघपौरस्त्यमारुतम् ॥ ५०२ ।। चैताब्येऽभूद् मणिनाम्ना विद्याधरशिरोमणिः । तस्याऽहं पट्टदेव्यसि नाना कनकलोचना ॥ ५०३ ॥ सोऽध मे.वल्लभो हन्त ! वैरिणा विधृतो हठात् । त्वदूपान्तरमापन्नः स त्वं दृष्टोसि.धीनिधे !॥ ५०४॥ कामवाणेन देहस्य मिद्यमानस्य मेऽधुना । तव सङ्गमसबाहं विना न शरणं परम् ॥ ५०५ ॥ ऊचे कुलध्वजो मातः! परस्त्रीनियमो मम । भङ्ग नैतस्य कुर्वेऽहं सुसिक्तस्येव शाखिनः ॥ ५०६ ।। श्रुत्वेति वचनं तस्य विद्याभृत्माणवल्लभा । तं प्रति माहिणोत् पुष्पमभिमन्व्याऽथ विद्यया ॥ ५०७॥ तत्मभावान्ममूर्योच्चैर्विषादिव नृपाङ्गजः । अज्ञायत निर्मनस्कोऽसंज्ञिपञ्चेन्द्रियोपमः ॥ ५०८ ॥ काष्ठवत्तं समुदृत्य चिक्षिपै वारिधौ तया। निर्दयत्वमहो! स्त्रीणां घिर घिग् प्रेमातिचञ्चलम् ॥५०९॥ जलदेव्या पतन् दृष्टस्तेजःपुञ्ज इवाम्बरात् । गृहीतः पाणिपद्माभ्यां खामिदत्तप्रसादवत् ॥ ५१० ॥ तत्प्रभावाद् ननाशास्त्रपुष्पविद्या नृपात्मजात् । वस्थीभूतः क्षणादेष समुन्मीलितलोचनः ॥ ५११॥ तया पृष्टः कुमारोऽसौ तवृत्तान्तमचीकथत् । परकीयाङ्गनाभोगनियमेन पुरस्सरम् ॥ ५१२॥ १ स इति कर्माऽध्याहारः।
अष्टमः सर्गः। ३३१ वरं वृणु महाभाग ! तुष्टाऽहं नियमश्रुतेः। अमोघं दर्शनं दैवं शुविद्युदिव वृष्टिकृत् ॥ ५१३ ॥ सोऽप्याऽऽख्यत् प्रियया साकं यथा भोगो भवेद् मम। तथा कुरु पयोदेवि! परोपकृतिलालसे । ॥ ५१४ ॥ समुत्पाव्य करेणाऽथ तत्पनीभवनाङ्गणे । देव्याऽसौ मुमुचे वेगाद् लाजाञ्जलिरिवाऽपरः ॥५१५॥ भगो दृष्टः कुमारेण वाजी दारुविनिर्मितः । मिया च रुदती शोकशङ्खमूढविचेतना ॥ ५१६ ॥ देव्यूचे वत्स! तेऽभीष्टं साम्पतं करवाणि किम् । सोऽप्याऽऽख्यद् वाजिनं सज्नं कुरु पूज्ये! यशस्विनि ! ५१७ तत्क्षणं प्रगुणीचके देवशक्क्या तया हयः। अचिन्त्य किल देवीनां शक्तिविस्फूर्तिवैभवम् ।। ५१८ ॥ देव्यगाद् मन्दिरं स्वीयं कुमारोऽपि तुरङ्गमम् । अध्यासामास वेगेन प्रियया सह तत्क्षणम् ॥ ५१९ ॥ इतश्च शङ्खभूपेन सूत्रभृद् विधृतो हठात् । पूर्णेषु षट्स मासेषु नागते नन्दने सति ।। ५२० ॥ नृपः प्रगुणयाश्चक्रे सूत्रधारकृते चिताम् । भूभुजो यमवद् रुष्टास्तुष्टा धनदवद् यतः ॥ ५२९॥ रसद्विरसवादित्रमानीतः सचिवान्तिकम् । दृश्यमानो जनैः पौरैः पूर्णवाष्पविलोचनः ॥ ५२२ ॥ यावत् क्षिपन्ति तत्राऽनौ हव्यवत् सूत्रद्वरम् । तावद् दृष्टो महीपालनन्दनो व्योनि समियः ॥ ५२३ ॥ समुत्तीर्णस्ततो व्योम्नस्तुरगाद् नृपनन्दनः । पौरैरानन्दितो राजा पुत्रागमनशंसिभिः॥ ५२४ ॥ प्रवेशितो महीपेन सूनुः सूत्रभृता सह । रसत्सुस्वरवादित्रं महोत्सवपुरस्सरम् ॥ ५२५ ॥ देशानथ ददौ राजा. लोहसूत्रकृतोईयो ।
३३२ मल्लिनाथमहाकाव्ये- प्रसादिता महीपाला न भवन्ति निरर्थकाः ॥ ५२६ ॥ कालक्रमेण पश्चत्वमापने शङ्खभूभृति । पितुः पदमलचके नीतिविज्ञः कुलध्वजः ॥ ५२७ ॥ पट्टदेवीपदे चक्र राजा भवनमञ्जरीम् । अभुत विषयान् वान्छाऽनुरूपांश्च तया सह ॥ ५२८ ।। 'अन्यदा तत्पुराऽऽयातकेवलज्ञानिसन्निधौ । श्रुत्वा दुष्पारसंसारतारिणी धर्मदेशनाम् ।। ५२९ ॥ प्रबुद्धः कान्तया साकं राज्ये न्यस्य तनूद्भवम् । कुलध्वजमहीपालः प्रव्रज्यां विधिनाऽऽददे ।। ५३० ॥ (युग्मम् ) ततःप्रभृति संसारं कारागारमिवात्मनः । भावयन् भावनां सम्यक् भावयामास संयमी ॥५३१॥ यत:- लोला लक्ष्मीः सुखं खल्पं परिणामि शरीरकम् । निरुद्यमः किमत्राहमय श्वो वा प्रयाणकम् ? ॥ ५३२ ॥ पुनर्जन्म पुनर्मृत्युः पुनः क्लेशपरम्परा । अरघट्टघटीन्यायो न कदाचिदनीदृशः ॥ ५३३ ॥ मनस्तुरगवद् भ्राम्यत् विशृङ्खलमहर्निशम् । स वशं स्थापयामास विशिष्टज्ञानवलाया ॥५३४ ।। आनिनाय मुनिः शान्ति ज्वरं मनसिजोद्भवम् । सिद्धान्तार्थस्य चूर्णेन न कुर्वन् गुरुलङ्घनम् ॥ ५३५ ।। कुवासनाघनश्लेष्मा पावितस्तेन लीलया। निरन्तरं शुमध्याननस्यग्रहणयोगतः ॥ ५३६ ।। मायावात तमाःपित्तं मोहश्लेष्माणमुच्चकैः । ज्ञानदर्शनचारित्रौषधौघैरजयन्मुनिः ॥ ५३७ ।। जगाम मोहनीयाख्या भ्रमिस्तस्य महात्मनः । १ नासिकाया हितं नस्यम् , शुभध्यानमेव नस्यमिति समन्वितिः ।
अष्टमः सर्गः शर्कराकल्पया नित्यं भाखद्भावनयाऽजया ।। ५३८ ।। वशीचकार नित्यं स दुर्द्धराणीन्द्रियाण्यपि । अनल्पेतरसङ्कल्पविकल्पपरिहारतः ॥५३९॥ कपायाः शमितास्तेन दुर्जया अपि वैरिवत् । क्षमाप्रभृतिनिःशेपपतिपक्षपरिग्रहात् ॥५४०॥ एवं विशुद्धभावस्य कुलध्वजमहामुनेः । उत्पेदे केवलज्ञान क्रमाद् निर्वाणमाप च ॥५४१।। इत्युक्त्वाऽऽइ जगन्नाथो यशश्चन्द्रमहीपते ।। पाल्यः कुलध्वजेनेव नियमोऽन्यवधूजने ॥५४२।। यत:- दुर्गाद्या हि मनोवृत्तिः स्त्रीणामुत्कलिकोत्तरा। कि केनापि मिता कापि समुद्रजलपद्धतिः १ ॥ ५४३॥ मधुरा कोमलाङ्गी वा परस्त्री दुःखदायिनी । किं हिताय भवेत् स्पृष्टा कालकूटस्य कन्दली? ।। ५४४ ॥ श्रुत्वेति स्वामिनः प्रोक्तं यशचन्द्रः क्षमापतिः । पञ्चभी राजपुत्राणां सहस्त्रैर्बतमाहीत् ।। ५४५ ॥ एवं श्रीमल्लिनाथस्य पृथ्वीं विहरतः सतः। गणभृतोऽष्टाविंशतिरभूवन् भिषगादयः॥ ५४६.॥ चत्वारिंशत्सहस्राणि क्षमिणां तत्त्वधारिणाम् । साध्वीनां पञ्चपञ्चाशत्सहस्राणि तपोजुषाम् ॥ ५४७॥ अधिकानि तु षषष्टेः षट्शतानि महात्मनाम् । विज्ञातसर्वतत्वानां द्वित्रसप्तकपूर्विणाम् ।। ५४८॥ द्वाविंशतिशतान्यऽस्याऽवधिज्ञानविराजिनाम् । केवलज्ञानिनां सङ्ख्या पूर्वोदिता यथास्थिता ॥ ५४९ ॥ एकोनत्रिंशच्छतानि वैक्रियलब्धिकारिणाम् । सप्तदशशतान्यस्य सानि शमभृन्ति च ॥.५५० ॥ १ द्विगुणितसप्तकपूर्विणामित्याशयः ।
४ . ३३४ मल्लिनाथमहाकाव्ये- मनःपर्यायविज्ञानां धीज्ञातजगतामपि । चतुर्दशशतान्यासन वादिनां कीर्त्तिशालिनाम् ॥ ५५१ ॥ श्रावकाणां लक्षमेकं सत्र्यऽशीतिसहस्रयुक् । युता सहस्रसप्तत्या श्राविकाणां त्रिलक्ष्यभूत् ॥ ५५२ ॥ ज्ञात्वा निर्वाणकल्याणमासन्न त्रिजगत्पतिः। संक्रमं सिद्धिसौधस्य समेतगिरिमभ्यगात् ॥ ५५३ ॥ संवत्सरशताद् न्यूनं पञ्चपञ्चाशतं प्रभोः। समाः सहस्रान् विहर्तुः परिवारो ह्यसावभूत् ॥ ५५४ ॥ तत्रारुह्य पञ्चशतमहामुनिपरिच्छदः । मासमेकं च स न्यासं कृतवान् परमेश्वरः ॥ ५५५॥ फाल्गुनश्वेतद्वादश्यामश्वयुजि निशाकरे। त्रैलोक्यवन्धपादाब्जो भव्यलोकमवोधकृत् ।। ५५६ ॥ वाग्योग वादरं सम्यक् मनोयोगं च वादरम् । रुरोध द्वितयं खामी सारथिधुर्ययुग्मवत् ।। ५५७ ।। वादरं काययोगं च सूक्ष्मकायनिरोधनात् । अरौत्सीद् योगिवन्नाथः श्वासप्रश्वासवारणात् ॥ ५५८ ॥ अथ सूक्ष्माङ्गयोगस्थः सूक्ष्मवाचितरोधयोः । रोधं स्वामी वितन्वानः सूक्ष्मध्यानरतोऽभवत् ॥ ५५९ ॥ अथोच्छिन्नक्रियं नाम तुर्य ध्यानमशिश्रियत् । पञ्चहखाक्षरोचारममाणं परमेश्वरः ॥ ५६० ॥ क्षीणार्थो विगतकर्मा सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः केवलज्ञानदर्शनः ॥ ५६१ ।। ऊर्ध्वगामी जगन्नाथो लेपाभावादलावुचत् । खभावाजुमार्गेण लोकानमुपजग्मिवान् ॥ ५६२ ॥ (युग्गम् ) विनष्टशर्मणां शर्म नारकाणामपि क्षणम् । प्रभोर्निर्वाणकालेऽस्मिन् न पूर्व समजायत ।। ५६३ ॥
अष्टमः सर्गः। ३३५ मुनयोऽपि महासत्वा विहितानशनक्रिया। सर्वकर्मविनिर्मुक्ता लेभिरे पदमव्ययम् ॥ ५६४ ।। क्षीराम्भोधिजलैर्गात्रमिन्द्रोऽस्लपयदर्हतः । अङ्गरागेण दिव्येन विलिलेप सुगन्धिना ॥५६५।। परिधाय सिते वस्त्रे शिविकायां विमानवत् । खयं न्यधाद् प्रभोदेह वासवः साश्रुलोचनः ॥५६६॥ मूर्ध्नि मालामिवाऽधासीद् धुरि शक्रस्ततोऽथ ताम् । धूपमुद्गाहयामासुः पुरस्तस्या दिवौकसः ॥५६७॥ श्रावकश्राविकौघेषु शोकः कोकेष्विवाधिकम् । श्रीमल्लिभास्करे प्राप्ते नयनानामगोचरे ।।५६८॥ भणन्त्यो रासकान् देव्यः प्रस्खलन्ति पदे पदे । सरन्त्यः स्वामिनः सौम्यान् गुणग्रामाननेकपा ॥५६९॥ खामिनोऽङ्ग चितामध्ये विदधेऽथ पुरन्दरः। अमीनग्निकुमाराच विचक्रुस्तत्र वेगतः ॥५७०॥ . वायुं वायुकुमाराश्च तद्दीपनकृते व्यधुः। गोशीर्षचन्दनैघोभिालयामासुराशु ताम् ॥५७१॥ गन्धधूपान् बहून् प्राज्यघृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चित्यायां चिक्षिपुर्बहुमानतः ॥५७२।। मांसादिकेषु दग्धेषु जलैः क्षीरार्णवाहतैः । स्तनितत्रिदशा विध्यापयामासुश्चितां ततः ॥५७३॥ अन्येषामपि साधूनां शरीराणि सुरेश्वराः। प्रतीचीनचितामध्ये निदधुः प्रथमेन्द्रवत् ॥५७४॥ दक्षिणाऽदक्षिणे. ऊर्ध्वदंष्ट्रे त्रिजगतां पतेः । अगृहीतांतरां भक्त्या सौधर्मेशानवासवौ ।।५७५।। शकौ चमरवलाख्यावधोदंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराधान्ये दन्तानस्थीनि च खयम् ॥५७६॥ प्रभोश्चित्योद्भवं भस पुमांसो जगृहुस्ततः।
३३६ मल्लिनाथमहाकाव्ये- पवित्रं वन्धमय॑ च सर्वमेवाईतां शुचि ॥५७७॥ चितास्थाने प्रभोः स्तूपमकुर्वत दिवौकसः। नानारत्नमयं रत्नाचलशृङ्गमहोदयम् ।। ५७८ ।। निर्वाणमहिमामेवं कृत्वा मल्लिजिनेशितुः । ययुनन्दीश्वरद्वीपे कर्तुमष्टाह्निकोत्सवम् ॥५७९॥ गत्वा खमथ स्थानं तन्माणवस्तम्भमूर्धसु । खामिदंष्ट्रां न्यधुः शक्रा भक्तिं मूामिव प्रभोः५८०॥ कौमारबतपर्याय आयुर्मल्लिजिनेशितुः। वर्षाणां पञ्चपञ्चाशत् सहस्राण्यभवन् प्रभोः ।।५८१॥ अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननितिः। कोटीसहस्रे वर्षाणां समतिक्रान्तवत्यभूत् ॥५८२।। चरित्रं श्रीमल्ले: श्रवणयुगपीयूषसरसी रसीभूतात्मानो विनयविनता ये भवभृतः । विगाहन्ते सर्वं सकलकमलोभूतिजनक भवेत् तेषां सत्यं निजनिजमनश्चिन्तितमिदम्।।५८३॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महा- काव्ये विनयाके आस्तिकनृप-चित्रकुम्भ-नरदेवपाल-गो- पाल-यज्ञदत्त-चिलातीपुत्र-चण्डरुद्राचार्यशिष्य-कुलध्व- जमहर्षिकथानकगर्भितो निर्वाणव्यावर्णनो नामाष्टमः सर्गः ।
नित्यं यः समिती सन: कलयत सद्गुप्तिमा
रामः श्रीनगनिहारमयन विद्यात्रर्यापार
सातत्यं वनपञ्चवल्लभलसद्गन्धर्वगोरा
न
नादानंद
नि
नया
नमय
परवाना वन मनन्द्रा
ग्लागं न
यतया किल देवतः त्रि
पूर्वनिनाईक वनमा रोक
सौभाग्याद्भुनरमंत्री मनमा
श्रीमानत्र म
यस्यांचा परिणाम
व्याख्या: Art xixy
एनद ननमाणमा
श्रीमान :
दिधिग्रनिर्माण
योत्स्ट
रनमान कांचन .
श्रीमद्रवनतुदशलापट यानापा
स्वायुस्कमनप्रशानदान गनिम्नाविपी ।
भव्यत्रातमनारायणन नपाकगे
..
१
देवी।
श्रीमत्पूज्यरविमभाविकसत्पदृक्षमालङ्कृतिः साक्षादेष नरेन्द्र एवं जयति श्रीमनरेन्द्रप्रभः ॥ ७ ॥ दुर्वारप्रतिवादिविन्ध्यशमकृच्चान्द्रे कुले विश्रुतो देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्ट्रव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान् यः खव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोचकैः ॥ ८ ॥ तच्छिष्योजनि जागरूकमहिमा रत्नप्रभाख्यासुः पट्टे श्रीकनकमभः प्रतिमया वाचस्पतिर्मुर्विमान् । तत्पादाम्बुजचश्चरीकचरितः प्रद्युम्नसरिनव- प्रीतिः श्रीविनयेन्दुना तदाखिलं चाशोधयद् बोधये ॥९॥ पूज्यश्रीरन (१) सिंहसूरिसुगुरोः श्रीमनरेन्द्रमभो- रादेशाद् विनयात्रपार्थचरितस्रष्टाशया (१)। गच्छोत्तंसरविप्रभाभियगुरोः शिष्योऽल्पमेधा अपि सरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥१०॥ क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासन (१) शंस्यमिदं वृषव्रजपरीपोषक्षम वर्धते । एतद् नीरदन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोदाम रसपूरचारुचरितं तावचिरं नन्दतात् ॥ ११ ॥ ॥ इति प्रशस्तिः॥ १ (१) पुतधिह्वाङ्कितं यादृशमादर्शपुस्तके समुपलब्धं तादृशमेवाऽत्र न्य- "खम् , आसीधेयं प्रशस्तिरेकसिव पुस्तके । .
शुद्धिपत्रम् । 5. पी. भगुदम् । ३ ५ गुनम् नाइ १३ पगारागान .. शुन्छम् । मुने रूप जना पयांपूर्णील नक्षणं प्रधाद मनी गग क्षणं ५ प्राधान मनां 1. धर्मायन समाध्या याना- २ काम- पुरः स्थितः . ऽदाग नृपः . . १. पृथ:- २७ पित १२ 1. जमीनर- ४२ ३४ पुनार १४ चन् ती- 16 पिधन् ५८ १३ काश्रि •भागास्मि १४ सामा- २६ न्यस्यत् गु- २३ मुशीलापा- ६.२ २५ कालम्भो- २५ दुःखता ६९ १.४ -लकारा - ११. -श्रावकवती. १७ सम्यग् सं. ९३ . २३ जयकर्माणि ९४ २२. मुश्रुवे : ससाध्यः हयाद्ज्ञा- कानि- उदार नृपः पृथिवी- वित्त ऽऽमीन पुनार. -चस्ती- पिदधद् कांश्चित -भागास्ति सौरा- न्यस्यन् गु- सुशीला पा- कालाम्भो- दुःखिता कोपान्धा कोपान्धा: -लङ्काराऽरु- -श्रावकवता . सम्यक् सं- जयं कमाणि. शुश्रृंखें ( २ ) पृष्ठे, पङ्क्तो, अशुद्धम् । २४ -वर्तक्षय- १०० २६ -मनपङ्कजः ११३ १२ सन् उवाच ८. शरणामा- ९ मुछ्वासे- ११९ ६ -सुक- ११९ ११ कंत्रीणा ११० ३ काश्मीरैः १२१ ७ पेठस्तव- १२२ १२ -विडम्बिकाः १२२ २४ -मभूद् ज- १२३ ९ -तुका- १२४ १९ कात् च- १२७ २५ पञ्च रूपो- १२८ ९ चमेरन्द्रो १३२ १७ उच्चावच्चपदै- १३२ १७ बग्लनि- १३४ २ भवेद् जिन- १३६ , वीरीतु- १३६ ६ अभूत् च- १३६ ८ चतुःपर्यो ९ पृष्टार्थों १४० २१ सौविदल्ला- १४१ २६ पूर्या ११२ १३ सचित्रं १५४ ६ घान् ला- १५८ ११ रम्भोरुक- १६३ १ दम्पतीत्वेन १६५ ३ मण्डपे मशास्त- १६.७ २३ नन्वा १७८ १६ निजधर्मवि. शुद्धम्। -वर्ताक्षय- -ननपङ्कजम् सन्तुवाच शरणमा- मुच्छ्वासे- वासुकि- -कम्पृणा काश्मीर पेठः स्तव- -विडम्बकाः मभूज्ज- -सुका- -काच- पश्चरूपो- चमरेन्द्रो उच्चावचपदै- -वैलानि- भवेजिन- वरीतु- अभूख. चतुप्पयों पृष्टार्थः सौविदल- पुर्या स चित्रं -चांल्ला रम्भोरुक- दम्पतित्वेन मण्डपम् मांस्त- नवा निजधर्मवि- . भलम। गुल्ग। समय पदन दीपंग प 1. ना. ខ្ញុំ नराधा मागास ber: •मप्रा. Tanभू. गयांगा. देशलिंग गगन नृपातरक्षा प्रनिया मा:म. स्वर्ग रया- पम्पा नाम सरन्मन् गतम्या मानिसक -ऽभया देवी पन्धुरी स्वप्रभाया- कृपाणनि- चिन्ता मांडायापापु मठादन्तःपुरे दत्या तन्यतो मदष्टव्य- स्वनयनं धेयो नि तेपामायुमो दया वेश्या गृह न वा गायनाम .." १९ मन मना •प्रानिक " भयादेवी •पन्गुरा १. मायभाया. एपाणः नि. নিল মায়াবি ९ हठादन्नःपुर दन्या २४६ १५ तन्यता २१ अरष्टव्य- २३ ग्यजुयनं २३ अंयोनि- ३५६ ९ तपामायुद्रमो दत्वा २२ वेश्यागृहं २५९ २७ नया - ( ४ ) . . . ३ पृष्ठे, पडकी, अशुद्धम् ।...... “शुद्धम् ।। २६३ प्राणा: प्राणा २६४. .१.७ तत् तद् २६४.२० अबन्धयद् अबन्धयत् २६८ ४ विपीदता विपीदताम् .१ -गोणीकैः वृ-.. -गोणीक- २७२ १. विवेकिना विवकिभिः २७३ ..१६ पुनः मू. पुनर्मू- २७३ २६ -द्रोग् पा- द्रांक पा- २७५ ३ किञ्चिद् किञ्चित् २७५ सन्यस्तश- संन्यस्तश- २७७ ३ सिहाङ्कः सिंहाक: २७७ कौशम्बी कौशाम्बी २७७ ५.३ दुर्गाह्म दुस- २७७ २१ पर्यभ्राम्यत् पर्यभ्राम्यद् २७८ -मभूत् मभूद २७९ तस्याः तस्या २८० -१५ केचित् केचिद् २८०. २० मुखिता मपिता २८२ स्याद् स्यात् २८३ २२ -योनिः नि- योनिनि- २८५ २ कास्ति कास्ति २८७ २६ आगच्छत् आगच्छद् -२८९ . .१३ वकाद् चक्रात् २८९ १४ क्रमाद् क्रमात् २९० ८ -पुरस्सरं -पुरस्सरम् २९१ १२ सुदर्शनं सुदर्शन २९२ १७ कचिद् कचित् २९२ २३ चेद् चेत् २९३ तस्मात् ज- तस्माज २९३ १५ तत् जीवस्य तजीवस्य २९६ १५ चीक्ष्यमाणः मु- वक्ष्यिमाणैर्मुः २९३ २५ ..
( ५ ) पृष्ठे, पङ्क्तो, अशुद्धम् । २९५ २२ दत्वा २९८ २२ वीक्ष्यन्ते ३०..' १७ गोपालः चि. ३०३ ४ देवपाल: ३०३ १२ प्रमोदभाक् १२ सा- ३०४ १७ चिन्ता २७ प्रतिः २ पृथ्वीभुज, प्राप्ता मु. ३०८ १६ दिष्टया ३ सबन्धः १० वखाङ्गमलम् ३१२. १७ धनं २४ आवालं ३१५ रभूत् ३२५ . ६ श्रोत्रापेयः ३२५ २३ तूष्णींशालो ३२५ २३ •ऽभवद् तावद् ३२६ १८ -पुररक्षकर्नरः 6 -बिन्दुभृकुटी- २.७ तत्राधिरोखतां ७ मणिनामा ३३.० २० धिम् भ्राम्यत् ११ दुर्गाला ३३५ १३ सम्यक् २५ युगम् . ६ न्यवाद् ३१४ ८ शुद्धम्। दरवा वीक्षन्ते गोपालाच. देवपालो प्रमोदभाग सर्वपा चिन्ता प्रति पृथिवीभुजः प्राप्ताः पु. दिप्ट्या संयन्धः वस्त्राममलं घनम् भायालं रभूद श्रोत्राऽऽपेयः तृष्णांशीलो -ऽभवत् तावचे- -पुररक्षनरः -बिन्दुमृकुटि- तग्राधिरोह तां मणिनांना धिक् भ्राम्यद् दुमाग सम्या युग्मन् न्यधान् चे. ३२७ ३२८ ३३४