Banasthali University
Mukaundananda Bhana
Front matter
No text on this page.
KÂVYAMÂLÂ. 16.
THE
MUKUNDÂNANDA BHÂNA
OF
KÂS'ÎPATI.
EDITED BY
PANDIT DURGAPRASAD
AND
KÂS'INÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE “NIRNAYA-SÂGARA" PRESS
( Registereil according to act XIV of 1867.) ( All rights reserveil by the publisher. ) १६./6/05 काव्यमाला. श्रीकाशिपतिविरचितः मुकुन्दानन्दभाणः। जयपुरमहाराजाश्रितेन पण्डितब्रजलालसनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः । मम्बय्यां निर्णयसागराख्ययन्त्रालये तदभिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । १८८९ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।)
No text on this page.
काव्यमाला। श्रीकाशीपतिकविप्रणीतो मुकुन्दानन्दभाणः। वैन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसंदोहबन्धुरं सिन्धुराननम् ॥ १॥ कण्ठालिङ्गनमङ्गलं धनकुचाभोगोपभोगोत्सव श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तुं कोऽयमितीर्ण्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरढुकूलनिचयं कृष्णः स पुष्णातु नः ॥ २ ॥ अपि च । चन्द्रे शीतलयत्यलीकनयनं शंभोः सुधाशीकरै- विष्वग्व्याकुलयत्सु संयमधनान्कान्तादगन्तेषु च । लीलायै परमैक्षवं धनुरिषून्विभ्रत्प्रसूनात्मनः स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीरः स्मरः ॥३॥ (नान्द्यन्ते) सूत्रधारः-(पुरोऽवलोक्य । सप्रमोदम्।) अद्य खलु फलितमामूलचूडमस्म- दीयपुरातनपुण्यकल्पलताभिः । यतः, इत एव नूतनपुरपरिसरालंकारभद्र- १. कवेर्देशकालौ न ज्ञायेते. भाति चायं कश्चन द्रविडः, नातिप्राचीनश्च. २. एतद्भा- णमुद्रणावसरे पुस्तकत्रयमस्माभिरधिगतम्. तत्र प्रथमं पुण्यपत्तने 'काव्योतिहाससंग्रह'- नाम्नि मासिकपत्रे मुद्रितं क-संज्ञकम्, द्वितीयं जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुश्रीदत्त- भट्टानां संग्रहात्प्राप्तं १८५३ मिते विक्रमाब्दे काश्यां लिखितं ख-संज्ञकम्, तृतीयमपि तेषामेवासमाप्तमशुद्धं च ग-संज्ञकम्. ३. क-पुस्तके प्रारम्भे 'वन्दामहे महेशानचण्डको- दण्डखण्डनम् । जानकी हृदयानन्दचन्दनं रघुनन्दनम् ॥' अयं श्लोकोऽधिकोऽस्ति. ४. 'वः' ख. ५. 'अपि च' क-पुस्तके नास्ति. ६. 'तरुमूलचूडं' ख. ७. 'पुण्य' ख-ग- पुस्तकयो स्ति. ८. 'परिषदा' ख, 'परिसदा' ग.
२ काव्यमाला। गिरिन्डामणेर्भगवतश्रूडेश्वरस्य वसन्तोत्सवदर्शनसमुत्सुकाः सामानिकाः कल्याणमण्डपमध्यामते । तदेनानुपमृत्य चिरपरिचितलास्यकलाविलोक- नाय मविनयमभ्यर्थये । (पदान्तर गला सप्रश्रयम साल बड़ा ।) भो भोः सकलकलाविदः सभासदः, एष भरताचार्यपुत्रः कलाप्रवीणो निनविद्या- प्रदर्शनायोत्रभवतामनुग्रहमाकाङ्गते । (आकाशे । कणं दत्वा । कि बूथ- 'माशु भरताचार्यपुत्र. मात्र । वयमपि चिरात्कम्यापि मरमकवेः सूक्तिमु- कामणिग्रथितमभिनवं मिश्रभाणमवलोकयितुमुत्कण्ठिताः । तदधुना ताद. शमव कमपि भाणमभिनीय दर्शयतु भवान्' इति । अनुगृहीतोऽस्मि । (आत्मगतम् । अधुना विरल: बलु मिश्रभाणप्रनारः । विरलाश्च तथा- विधाः कवयः । अयं गरीयान्वलु मामानिकानामांदशः । तत्कामदमश- क्यमंटनमापतितम् । (म्माणमाभनीय ।। अहो, मया प्रणयकुपितगृहि- णीमनोविनोदव्यामक्तनित्तेन विस्मृतमपि मामानिकानुग्रहण पुनरनति- मिराभ्यस्तमिव तादृशमेव रूपकं स्मर्यत । भवत तावत् । गृहिणीमेवाहूय कथयामि । (प्रकाशम् ।) आर्य, इनस्तावत् । प्रका) नटी-एमसि । को णिओओ आणवेद अनो । (क) मूत्रधारः-आर्य, कौडिन्यवंशरत्नस्य कवेः काशीपतेः रुतिः । मुकुन्दानन्दनामायं मिश्रभाणः प्रयुज्यते ॥ ४ ॥ : तदत्र-हत्यधति ।) (क) एपास्मि । को नियोग आज्ञापयत्वार्यः । १. 'नत्रभवना' ख-ग. २. स्वारि गि' ख-ग. ३. नाय तार शर्माग' क. ४. 'मृत्रधार:-अन-' स्व. ५. 'मसान' स्व-ग.:. निम्मृतनम' स्व, 'नि. मृतनमः' ग. . 'नगंग' स्व-ग. ८. का' ख-ग. ९. 'आगदु अगा' ख-ग- पुस्तस्यानास्ति. १. गोवग्नस्य' स.
मुकुन्दानन्दभाणः । am नटी-अन्ज, अच्चरिअं अच्चरिअं । तके ककसवक्कोत्तिणिमुरा तस्स भारई । जादा महरसंदब्भे कव्वम्मि मिउला कहम् ॥ ५ ॥ (क) सूत्रधारः-(सपरिहासम् ।) त्वमेव तावत्कथय । क्षणं प्रणयकोपे त्वं निष्ठुरापि कथं पुनः । प्रेमाहृदया जाता मृदुलप्रकृतिः प्रिये ॥ ६ ॥ नटी-एक्कावि भारई कहं कक्कसा मिउला एत्ति पुच्छिदे कि अण्णं कहेहि अज्जो । (ख) सूत्रधारः--कोऽत्र विरोधः । उक्तं चैतेनैव कविना- तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला। या प्रायः प्रियविप्रयुक्तवनिताहत्तने कर्तरी प्रेयोलालितयौवैते न मृदुला सा किं प्रसूनावलिः ॥ ७ ॥ नटी-कुसुमसिरीविअ मिउला से कइणो भारई । (ग) सूत्रधारः-किमुच्यते कुसुमश्रीरिवेति । व्याकोचप्रसवश्रियोऽपि मृदुला वाचामियं प्रक्रिया मन्दस्यन्दिमरन्दतोऽपि मधुरस्तत्रायमर्थक्रमः । सौरम्यादपि संमतं पुनरिह व्यङ्गयं पिकेभ्योऽप्यमी मद्वर्या मधुरस्वराः कविरयं श्लाघ्यो वसन्तादपि ॥ ८ ॥ (क) आर्य, आश्चर्यमाश्चर्यम् । तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती । जाता मधुरसंदर्भे काव्येऽपि मृदुला कथम् ॥ (ख) एकापि भारती कथं कर्कशा मृदुला चेति पृष्टे किमन्यत्कथयत्यार्यः । (ग) कुसुमश्रीरिव मृदुलास्य कवर्भारती । १. 'कर्कशा' ख. २. 'चैतेन' ख, चैवैतेन' ग. ३. 'मधुरोक्ति' ख-ग. ४. 'कृ- न्तने' क. ५. 'यौवने' क-ग. ६. 'मिउला' ख-ग-पुस्तकयो स्ति. ७. 'संगतं' ८. 'काव्यऽस्मिन्' ख-ग. ख-ग.
४ काव्यमाला। नटी-(सर्वतोऽवलोक्य।) अज, एदं चूदवणं कहेहि वसन्दाअमणम् । ईदो पेक्ख पेक्ख । किसलयकरसंपुडेण वल्ली किरइ पुरो कुसुमञ्जलिं णडन्ती । पवणणिहदतालपत्ततालझुणिमणुगाअइ बम्भरावलीआ ॥ ९॥ (क) सूत्रधारः-आयें, साधु निरूपितम् । इतोऽपि मन्दानिलेरितमनोहरपल्लवा माकन्दवीरुदियमायतीव रागात् । प्रत्युत्तरं परभृतोऽपि दिशन्निवास्यै कूजन्कुहूरिति समेति सपक्षपातम् ॥ १० ॥ इतोऽपि पुनः श्रेणीभूय मदालसा मधुकराः पुष्णन्ति वेणीश्रियं प्राञ्चद्गुच्छभरोऽप्युरोजकलशप्रागल्भ्यमालम्बते । रागोल्लासि च पल्लवं कलयते रम्याधरप्रक्रियां वासन्तीलतिकापि तेन वहते वामालकाविभ्रमम् ॥ ११ ॥ (विमृश्य ।) आर्य, सर्वमपि सुघटितमस्मद्भाग्यवशात् । यतः । कालः कोकिलकोमलोक्तिमधुरः काव्यज्ञमान्यः कविः काव्यस्यापि स एव कामजनको राधाविटो नायकः । सारज्ञाश्च सभासदः पुनरमी नाट्ये प्रवीणा वयं किं चायं समदञ्चितो भगवतश्रुडेश्वरस्योत्सवः ॥ १२ ॥ तदत्र संगीतकमनुतिष्ठतु भवती । (क) आर्य, इदं चूतवनं कथयति वसन्तागमनम् । इतः पश्य पश्य । किसलयकरसंपुटेन-वल्ली किरति पुरः कुसुमाञ्जलिं नटन्ती। पवननिहततालपत्रतालध्वनिमनुगायति यम्भरावलीका ॥ १. सर्वतोऽवलोक्य' क-पस्तके नास्ति. २. 'अज्ज' ख-ग-पुस्तकयो स्ति. ३. 'गमणं' ख. ४. 'इदो पेक्ख इदो पेक्ख' क. ५. 'रमई' ख-ग. ६. 'ज्झणि' ख-ग. ७. 'बम्भ- गवलिः' ख-ग. ८. 'इमन्त्रयतीव' ख. ९. 'ग्मयति' ख. १०. 'बम्भरावलिः' ख-ग.
मुकुन्दानन्दभाणः। ५ नटी- पल्लइदचूदलदिअं कोइलतरुणा रमन्दि रमाणिजम् । उज्झन्दोवि मुहुत्तं काअउलकूरणिस्सणं सुणिअ ॥ १३ ॥ (क) मूत्रधार:-(सशिरःकम्पम् ।) अहो संगीतमाधुर्यम् । (नेपथ्ये ।) प्राप्य प्रबोधमधुना रटतीव नाथो हा हा हतास्मि विधिनेति विनिन्द्य दैवम् । निःश्वस्य मत्करधृतं निजमम्बरान्त- माकृष्य हन्त चलितैव कथं प्रिया मे ॥ १४ ॥ सूत्रधारः-(श्रुत्वा नेपथ्याभिमुखमवलोक्य ।। अयं किल मञ्जरीवियुक्त- स्य मन्दारोद्यानगतस्य भुजंगशेखरस्य भगवतो मुकुन्दस्य भूमिकामादाय इत एवाभिवर्तते मातुलपुत्रो मधुकरः । तदावामप्यनन्तरकरणीयाय सज्जी- भवावः । (इति निष्क्रान्तो।) प्रस्तावना। (ततः प्रविशति यथानिर्दिष्टो भुजंगशेखरः।) भुजंगशेखरः-('प्राप्य प्रबोधम्--' इति पठित्वा । विमृश्य ।) तदानीमेवाह तस्याः स्फुटघनपुलककदम्ब स्टष्ट्वा कुचकलशयुगलमविलम्बम् । मधुमधुराधरबिम्बं मदवत्याः किमिति मङ्क नाचुम्बम् ॥ १५ ॥ (क) पल्लवितचूतलतिकां कोकिलतरणा रमन्ते रमणीयाम् । उज्झन्तोऽपि मुहूर्त काककुलक्रूरनिस्वनं श्रुत्वा ॥ १. 'तरुणो रमई' ख-ग. २. 'संगीतस्य' क. ३. 'नटतीव' ख. ४. 'विधिनैव' ग. ५. 'मन्दारमसदनोद्यान' ख-ग. ६. लतायां' क. ७. 'रमन्ति' क, 'ग्मति' ख-ग. ८. 'उज्झन्नपि' क-ख.
aur काव्यमाला। (पुनर्विमृश्य।) कथमेतावतोऽपि तत्कालेऽवकाशः । यतः । कुले कोमलशाहले पदमिह द्रागर्पितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा । साकूतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ १६ ॥ इयं च पुनरभागधेयेन मया उत्सङ्गे विनिवेशयामि पुलकिन्याघ्राय वक्त्राम्बुजं वक्षोजौ परिरभ्य वारिजदृशश्चुम्बामि बिम्बाधरम् । जल्पन्त्याः श्रवणे रहः किमपि मे विश्लेषयामि च्छला- नीवीमित्यफलैमनोरथशतैर्नीता निशा केवलम् ॥ १७ ॥ अथवा तमनया व्यतीतचिन्तया। (निःश्वस्य ।) अत्रैवोद्याने पुनरप्येषा आरुह्योरुयुगं प्रसह्य रभसादुन्नीय नीवीं प्रिया काञ्चीकिङ्किणिकानिनादचकिता मन्दोच्चलन्मध्यमा । किंचित्कूजितकंधरा रतिपरिश्रान्ता च दष्टाधरा कामं मे परिपूरयिष्यति न किं श्वो वा परश्वोऽपि वा ॥ १८ ॥ (क्षणमात्र विचिन्त्य ।) अलमनयाप्यनागतावगाहिन्या वाञ्छावाहिन्या । कित्वेतावदाशासनीयम् । आनीलकुन्तलपरिष्कृतमायताक्ष- मापाटलाधरदलाश्चितमन्दहासम् । आपीनतुङ्गकुचमप्रतिमावलग्न- मङ्गं पुरः स्फुरतु मे पुनरङ्गनायाः ॥ १९ ॥ (स्मृतिमभिनीय ।) इदमपि मे दुर्लभं मन्दभाग्यस्य । यतः (आकाशे ।) या पत्युः प्रयासि सदनं मृत्योरिव सपदि भीषणं वदनम् । सा त्वं प्रिये कथं मे यास्यसि भयोऽपि नयनयोरयनम् ॥ २० ॥ १ ‘एतावता' ख. २. 'यतः' ख-ग-पुस्तकयो स्ति. ३. 'च' ख-ग-पुस्तकयो- स्ति. ४. 'कृतं कृतमनया' क. ५. 'व्यतीतगोचरया' ख-ग.
मुकुन्दानन्दभाणः । ७ (सास्त्रम् ।) लीलापाङ्गतरङ्गितं तव किमप्यालम्ब्य भूयश्चिरा- देतावत्कुपितं तृणाय यमहं मत्वा सधैर्य स्थितः तस्यैवाद्य करे त्वया विनिहितो मारस्य निःसंशयं कान्ते कि न करोमि को न शरणं का वा गतिः कथ्यताम्॥२१॥ (पुनः 'तस्यैव-' इत्यादि पठति ।) (नेपथ्ये ।) अयमयमुदयाद्रेर्नातिदूरे विवस्वा- नयमयममृतांशुः पातकी याति चास्तम् । इयमियमुपकण्ठे त्वद्वियोगामहत्वा- निवसति तरुणी ते कोक शोकं विमुद्र ।। २२ ॥ (श्रुतिमभिनीय सहर्षम्। नयनयोरस्रमपमृज्य ।) प्रियावियोगविक्लवं गृहदी- विकाचक्रवाकं शोकारवमुखरमुखं मन्दमन्दमाश्वासयता मन्दारेण मञ्जरी- वियुक्तोऽप्यहमाश्वासित इवास्मि । (हृदयं प्रति ।) हृदय, धैर्यमाकलय । इयमुपश्रुतिरवश्यं प्रियाप्समागमं फलिप्यति । (विचिन्त्य ।) अद्यैवाध्यवसि- तगमनो माधवो मञ्जरीधवः कथमेनामनादाय गच्छति । (सविमर्शम् ।) उ- पश्रुत्या तु पत्युरेव प्रस्थानं प्रियायाः पुनरिहैवावस्थानं सूचितम् । अतः सर्वथा प्रियासंमागमेन भवितव्यम् । (पुनः सोच्छवासम् ।) कथमिदमकृतसंक- तस्यासंभावनीयमेव मम संभावनां गोचरयति । उत्ताम्यतोरतिचिरादपि मन्मथाग्ने- रद्यावयोर्घटनमंत्र कथंचिदासीत् । तत्रान्तरे पतिरभत्पुनरन्तरायः संगृह्यते तदपि हन्त मनोरथो मे ॥ २३ ॥ निर्याति किं न पतिरेप कुतोऽपि हेतो- द्रक्ष्यामि वा किमहमिन्दुमुखी न भूयः १. 'भूयस्तरां' ख-ग. २. 'कुपिते' ख. ३. 'अहमप्याश्वासित' ख-ग. ४. 'सं- गममाफलिष्यति' क. ५. 'संगमेन' क. ६. 'पुण्यस्य' ग. ७. 'एव' ग. ८. 'संत्रायते सपदि' ख-ग.
काव्यमाला। (सगद्गदम् ।) हा हन्त किंतु मदनो मम तावदेव मर्माणि कृन्तति कृतान्त इवाततायी ॥ २४ ॥ (किंचिद्धेर्यमवलम्ब्य ।) पञ्चापि युगपदेवायं मयि अशोकपद्मोत्पल चूतमल्लिकाशराननङ्गो यदि संदधाति सः । तथाविधानेतत्समसंख्याकान् करास्यनेत्राधरहासमार्गणांस्तैदा प्रियाया अनुसंदधाम्यहम् ॥२५॥ इति तामेव तामरसलोचनां मनसा गोचरयन्कि करोमि प्रियामेर्वं चिन्त- यन्नपि न पारयामि विरहपारावारम् । यतः, मम सा प्रियतमापि मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ २६ ॥ (किंचिदिव स्मिंत्वा ।) अहो दुःशीलता मदीयहृदयस्य यदिदं तथापि तत्पादाम्बुरुहं तदूरुयुगलं तादृङ्कितम्बस्थलं तन्मध्यं स गभीरनाभिवलयस्तावानुरोजक्रमः । तहकं तदपाङ्गमुग्धवलनं ते नीलनीलालकाः सा तन्वीति तदङ्गकेषु हृदयं धावन्न विश्राम्यति ॥ २७ ॥ (स्पशेमभिनीय ।) कथमियं प्रभातप्राया रजनी संवृत्ता । पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराकुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ २८ ॥ १. 'संदधानः' ख-ग. २. 'तथाविधान्-' इत्यादि ख-ग-पुस्तकयो स्ति. ३. 'तथा' ख-ग. ४. 'एवं' क. ५. 'मम प्रिया दूतो' ख, 'मामतिप्रियायुवतिः' ग. ६. 'चपला मम चञ्चलाक्षि' ख-ग. ७. 'स्थित्वा' ख-ग.
मुकुन्दानन्दभाणः । ९ : (प्रनानीमवलोक्य ।) अयमिह जरठ इव मरालो जनरामयग्वैः सवलति शिशिरभानुः पश्चिमाम्भोधिपारे । (अध्वमवलोक्य ।) अत्र पुनः श्लयगरुत इवामुम्नत्र तत्रान्तरिक्ष विरलविरलभामः किन ताग लुठन्ति ॥ २९ ॥ कलङ्कदाशी गगनाम्गशौ प्रमाय नन्द्रातपतन्तुनालम् । लग्यो दुमीनांल्लशु मंनिक्षश्रन्द्रावस्थवरमाव्यिमति ॥ ३० ॥ नभोवनं नक्कममौ विगाहा नक्षत्रमेनामहितः गाङ्गः । करायलग्रान्कतिचित्प्रहत्य पानान्तमान प्रपरागतेऽद्य ॥ ३१ ॥ अपि न । आटोकैगतिपाटबैग्नम्मा विस्तारयद्रिर्दिश नक्षत्रगुतिमातिपदिनिगदाशङ्काय मयांदयम् । पुनीभय भयादिवान्धतममं मन्ये द्विरेफच्छला- न्मीलनीलमरोरुहादग्कुटीकोणान्तरे लीयते ॥ ३२ ॥ तदितो निकटवनावहिरद्यैव गन्तव्यम् । (इस बार वनप्राकारमय बाथी प्रनिय हभ्यालीमकोका । व्यामिश्रककबाह प्रवलितप्रथल ककनारुरुकाण्ड दष्टादष्टायगेष्टं दर्गशचिटतनश्लेपमालिङ्गय कान्ताः । शश्वन्निःश्वामवेगस्फुरितगुरुकुनहन्दसंवृष्टवक्षाः श्रान्तः शते रतान्ते मग्नमिह मुनी लीलया कामिलोकः॥३३॥ किं न काश्चन पुनरिहंव निःशेष व्यपनीय नीविवमनं मजकणन्मेग्वन कोडान्दोलनम्विन्नमध्यनिक किनित्प्रकम्प्रस्तनम् । १. 'भवन' क... ' ख-ग गम्तमानास्ति. ३. 'प्रयांत ग्व. ४. पक्षा ना' क.
१० काव्यमाला। - उद्यत्कुण्डलताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि कामिनां मुकुलितप्रोन्ताक्षिकं शेरते ॥ ३४ ॥ अन्यच्च । वीरौयितेषु मृगशावविलोचनानां कण्ठोदितान्यचरमं कलकूजितानि । आमेडयद्भिरथ सौधगतैः कपोतः शङ्के गृहीत ईव संप्रति शिष्यभावः ॥ ३५ ॥ (पदान्तरं गत्वा ।) कोऽयं कमलापीडसदनप्राकारादवतीर्य पर्यायस्खलितचर- णस्तरुण इत एवाभिवर्तते । (निपुणं निरूप्य स्वगतम् ।) कोऽन्यो वसन्तका- हतेऽस्मन्मित्रादेतादृशे चरित्रे प्रगल्भः । (प्रकाशम् ।) सखे वसन्तक, चिराय शीतलयसि मे लोचने । सत्रासगद्गदं किं ब्रवीषि—'यस्य, मन्दं मन्दं जल्प' इति । सखे, कुतस्ते भयमिदम् । किं ब्रवीषि-'कमला- पीडात्' इति । सखे, मा भैषीः । (हस्ते गृहीत्वा ।) तिष्ठतु कमलापीडानां शतं सहस्त्रमयुतं वा । जिष्णुर्वा विष्णुर्वा स्रष्टालिकदृष्टिरष्टमूर्तिर्वा । स्प्रष्टुं वा प्रष्टुं वा मत्सखमीप्टेऽपि नान्ततो द्रष्टुम् ॥ ३६ ॥ (कतिचित्पदान्यतिक्रम्य ।) कथमद्यापि विकम्पसे । किं ब्रवीषि- 'उद्यत्करालकरवालतडित्कराग्र- मुद्धान्तभीमतरशोणितशोणदृष्टिम् । उद्दण्डदण्डधरदुर्धरचण्डिमान- मुहीक्ष्य तं कथय हन्त न कम्पते कः ॥ ३७ ॥' इति । सत्यम् । तथाविध एव कमलापीडः । किंतु दूरप्रवासिनस्तस्यासंभावित- मालोकनम् । अथवा स्वप्नविजृम्भितमेतत्प्रियसखस्य भवितव्यम् । किं ब्र. १. 'विश्रम्य कान्ता परिक्लान्ता' ख-ग. २. 'प्रान्तेक्षणं शेरते' ख, 'प्रान्ताक्षि संशेरते' ग. ३. 'वीरायितेन' ख. ४. 'इति' क-ग. ५. 'पर्याय' ख-ग-पुस्तकयो- र्नास्ति. ६. 'चकोरतरुण इवायाति' ख-ग. ७. 'नयने' ख-ग. ८. 'वयस्य' क-पुस्तके नास्ति. ९. 'हस्तं' ख-ग. १०. 'वत्सबलिष्ठेऽपि' ख. ११. 'शोणितकोण' क.
मुकुन्दानन्दभाणः। ११ - वीषि-'वयस्य, नायं स्वप्नः' इति । कथं तर्हि तव पुनरागमनम् । किं तावत् 'अणुमात्रमपि नात्र मया मिथ्या वचः कथ्यते । सत्यं दूरप्रवासीति । अहमपि तथैव दृतीवचनलम्भितविस्तम्भतया तया सममसमशरसंभ्रमसंभृत- हृदयो यथापूर्व तैस्तैर्विलासैविलासगृहविद्रुमचरणपर्यङ्कपर्यन्त एव शयानो निःशको निशामनैषम् । अयं तु कमलापीडहतकः प्रच्छन्न एव कदा वागत्य निजकलत्रवृत्तपरिशोधनाय कुत्र वा निलीय स्थित इति नावेदिषम् । ततो निशावसाने निःशङ्कमेव तस्मान्निशान्तान्निर्गतः प्राङ्गणगतं तं धातुकमप- श्यम्' इति । वयस्य, कष्टं कष्टम् । कथं पुनर्निष्क्रान्तोऽसि । किं ब्रवीषि- 'स मां दृष्ट्वा हन्तुं करघृतकृपाणः प्रचलितो बहिर्वारं यावत्वरितमरुणज्जाल्महतकः । अहं दैवात्तावत्कथमपि चलन्निप्कुटपथा- दुदग्रप्राकारं लघु समतिलङ्घचागत' इति ॥ ३८ ॥ दिष्टया पुनरपि जातं वयस्येन । किं ब्रवीपि-'विशेषतः प्राणसंर- क्षकं प्रियसखमुपलभ्य' इति । भवतु तावत् । तिष्ठ । कोऽयं कमलापीडसदना- ङ्गणे कलकलः । (श्रुतिमपिनीय सगद्गदम् ।) किं ब्रवीषि—'सखे, नूनं कमला. पीडेन खड्गपाणिना सा मत्प्राणवल्लभा कलवाणी व्यापादिता । तत्कृतोऽय- ममन्दः परिजनाकन्दः । हा प्रिये कलवाणि, हा मदर्थत्यक्तजीविते, हा म- त्प्राणवल्लभे, कथं पत्यपदेशेन पापीयसा मृत्युना दुर्दशां नीतासि । अ- थवा किमिति पतिरिहोपालभ्यते । किंत्वहमेव तावदुपालब्धव्यः । कण्ठाश्लेषं शशिमुखि मया तन्वता दोरहिभ्यां प्राणान्पातुं प्रणयगरलं नूनमापरि गात्रे । नो चेत्पूर्व यदमृतमयं नेत्रयोगात्रमासी- तत्ते भर्तुः कथमिव भवेत्तादृशामर्षपात्रम् ॥ ३९॥' इति । वयस्य, कलकलमात्रेण कैथमेवमधीर इवासह्यशोकपावके पतितोऽसि । १. 'तिष्ठ तिष्ठ' ख. २. 'दोयुगाभ्यां' ख, दोरगाभ्यां' ग. ३. 'कथमापीतमदिर इव' ख, 'कमापीत हृदय इव' ग.
१२ काव्यमाला॥ नात्मनः प्राणान्गणयसि । किं ब्रवीषि--'सखे, किं ममापि प्राणेष्वभि- प्वङ्गः । येनैवं त्रैलोक्याद्भुतजीवरत्नमवलां स्वप्राणनाडी पतिः किं कुर्यात्कुपितोऽपि तामिति मया दुस्तकवेत्रात्मना । जाल्मेनानुपकारिणा जधिया भूयः कृतघ्नेन म- प्राणा एव निरीक्षिता न तु पुनः प्राणप्रिया रक्षिता ॥४०॥ इति । (स्वगतम् ।) कथमप्रतिकारशोकवेगः संवृत्तो वयस्यस्य । किमत्र क- तव्यम् । इत्थं तावत्कथयामि । (प्रकाशम् ।) वयस्य, तत्त्वतः कमलापी- इस्य तस्यां प्रवृत्तिमनवेक्ष्य केवलेन कलकलेन किमप्यमङ्गलमुत्प्रेक्ष्य ग- दितुमेवमनुभवितुं वा क्लेशमनुचितम् । तदेहि । कलवाणीवृत्तान्तं तत्त्वतो ज्ञास्यावः' इति । (कतिचित्पदानि गत्वा विलोक्य च ।) वयस्य, पश्य कोऽयं कक्षान्तरनिक्षिप्तरूपाणद्वितीयोऽर्धावगुण्ठितमूर्धा ईत एव सत्वरमायाति । (निर्वर्ण्य ।) किं ब्रवीपि-मखे, अयं मदनचरः कलकण्ठो मैंदवलोकनो- कण्ठो जवादभिपतति । यः किल निशीथे कलवाणीविलासगृह प्रवि- शता मया मदीयर पाणं प्रदाय बाह्य कक्षान्तरे मम रक्षणाय निक्षिप्तः' इति । भवतु । एनमेव पृच्छावः । 'अर कलकण्ट, इत इतः । खड्गमुत्तं- मयन्प्रणम्य किं ब्रवीपि-'सम्मकावु अणुहिदं देवस्स वअस्सेण मम सा- मिणा णि अंघातदिण्णजीविदंत्रि जणं परिहरिअ अत्ताणं रक्खअन्तेण ।। (क)इति । (स्वगतम् । कथमयं वयस्यमुपालभमानः कलवाणीगतं किंचिदंशभं (क) सम्यक्बल्बनष्टितं देवस्य वयस्येन मम स्वामिना निजघातदत्त- जीवितमपि जनं परिहयात्मानं रक्षता । १. 'अमलां' ख-ग. २. 'धौतात्मना' ख-ग. ३. 'केवलं' ख-ग. ४ 'इति' क-पुस्तके नास्ति ५. 'द्वितयः' ख-ग. ६. 'इत एव' ख-ग-पुस्तकयो स्ति. 'मदवलोकनकृतोत्कण्टो' ख-ग. ८. 'आदाय' ख. ९. 'ममैव' ख-ग. १०. 'अरे' ख-पुस्तके नास्ति. ११. 'अम्हे' ख १२. 'णिअपादविमण्ण' ख. 'निजपादविषण्ण' इति तन्द्राया. १: 'अरामं शुभं वा न' ख-ग मुकुन्दानन्दभाणः । १३ पिशुनयति । (प्रकाशम् ।) अरे मूर्ख, किं दुःखितमेव वैयस्यं पुनरेवमरुंतु- दैर्वचनैर्दुःखयसि । किं ब्रवीषि-'किंदि दुक्खिदो देवअस्सो।' (क) इति । केनापि न रक्षिता निजवल्लभा कमलापीडेन व्यापाद्यमाना कलवाणी । किं ब्रवीषि-'अह इं। केणावि ण रक्खिदा सा-' (ख) (इत्योक्ते ।) वयस्य, सास्त्रगद्गदं किं ब्रवीपि- 'द्वाभ्यामाभ्यां कुवलयमयी मालिका मत्कराभ्यां यस्मिन्क्रीडाविधिषु निहिता सस्टहं सानुकम्पम् । सोऽयं कण्ठः कनककदलीकन्दलीगर्भसारः कान्ते जातः कथमसिलताघोरपातस्य पात्रम् ॥ ४१ ॥ इति । (स्वगतम् ।) कथं वयस्यमाश्वासयामि । शोकं त्यजेति परुपं किमितः शुचेति निन्दानुशोचनविधिबहुशोकहेतुः । मौनं कृपाविधुरता कथमात्तशोक- माश्वासयन्ति सुहृदं सुहृदो न विद्मः ॥ ४२ ॥ (प्रकाशम् ।) वयस्य, निःशेषमसंबद्धप्रलापिनोऽस्य वचनमनाकर्ण्य न युक्त- मेवं विलपितुम् । अरे, किं ब्रवीपि—'एव्वं णेदम् । एसो मह वअणं सम- गंण सुणादि' (ग) इति । समग्रमेव तावत्कथय । किं ब्रवीषि-- 'सुणिअदु दाव । एदं कहिअदि । ण केणावि रक्खिदा सा अप्पणो बुद्धिमन्दरेण' (घ) इति । वयस्य, तव प्रियतमात्मनो बुङ्या रक्षितेत्युक्तं भवति । तदलममङ्गलेन शोकेन । तत्प्रकारमेव पृच्छावः । (इति पटाञ्चलेनाथणि परि (क) किमिति दुःखितस्ते वयस्यः । ख) अथ किम् । केनापि न रक्षिता सा । (ग) एवमिदम् । एप मम वचनं समग्रं न शृणोति । (घ) श्रूयतां तावत् । एतत्कथ्यते । न केनापि रक्षिता सात्मनो बुद्धिम- न्तरेण । १. 'मे वयस्यं' ख. २. 'कमलकदली' ख. ३. 'दग्घातस्य' ख-ग. ४. ४. 'आ- कर्ण्य' क.
१६ काव्यमाला। कार्य सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते माध्वीरप्यनुकुर्वती गुरुजनं श्वश्रू च शुश्रूपते । विम्बम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुन- निद्राणे निजभवन्धुनिवहे निर्याति रन्तुं विटैः ॥ ४६ ॥ कि ब्रवीपि- 'ए पैव योपितां धन्या शीलं च लभते मुग्वम् दिवा पतिव्रता भत्वा नक्तं च कुलटायते ॥ ४७ ॥' इति । वयस्य, सम्यगुक्तम् । (परिक्रम्य विलोक्य च ।) वयस्य, पश्य पश्य । इयमिह अङ्गुष्टतर्जनीभ्यामधरं धृत्वा विलोकयत्यवला । कुँचयुगमुइतमिचयं पश्यति भावयति परिमृशत्यपि च ॥ ४८ ॥ सम्वे, इतः पश्य । एक विश्लथकेशपाशनहने व्यापारयन्त्याः कर श्वामोत्कम्पिकचम्बलीपरिचलच्चेलाञ्चले चापरम् । अस्याः संमिनि लोलग्नरशनालग्ने शनैरंशके मन्दं मन्दमिवाविगम्ति नयनानन्दाय नाभीसरः ॥ ४१ ॥ इति । अन्यां निदिश्य ।) आलग्नैश्चरमाङ्गके त्रिचतुरैः शय्याप्रसनैरियं शङ्क रन्ध्रगवेषिणा निजशविद्वेति पञ्चेषुणा । मीलल्लोचनशोणकोणचपल प्रस्निग्धतारं मुखं शीत्कारस्फुरिताधरं च मृतनोरस्या यदुत्ताम्यति ॥ ५० ॥ (क्षणमात्रं विचिन्न्य ।) किं ब्रवीपि-'मग्वे, किंचित्पृच्छामि यदि सत्यमेव १. 'अनुकुवते' ख-ग. २. निग्विले जने शशिमुवी नियाति' ख-ग. ३. 'भूयो नक्तं च कुलटा यतः' ख-ग. ४. 'कुचकलशयुगलमु तमिचया पश्यति पगमृशयपि च' ख. ५. 'परिगलन्' ख-ग. ६. 'प्रेमति' ख, 'संमित' रा. ७. 'मन्ये ख.
मुकुन्दानन्दभाणः । १७ कथयसि, न वञ्चयसि' इति । वयस्य, किंचित्कदापि किं कथितपूर्वमसत्यम, येनाधुनाप्यसत्यकथनेन वञ्चयामि । किं ब्रवीषि- 'काय दधाति गात्रं गमयति निद्रालयं च नेत्रान्तः । विरहदहनातिरेकं विवृणोति श्वसितभारुतोऽपि तव ॥ ११ ॥ किमत्र कारणम्' इति । (स्वगतम् ।) कथं कृतावहित्थोऽप्यहमनन विदितोऽस्मि । (प्रकाशम् ।) अस्ति कारणम् । (कणे ।) एवमिदम् । किं ब्र वीप- 'अद्यैव पुरोहितपुत्रं वीतिहोत्रमाश्रयस्व' इति । किमद्याश्रयण मस्ति । स मे बालमित्रं पुरोहितपुत्रः । किं ब्रवीषि-'तर्हि से भवतो विदितवृत्तान्तः कार्तान्तिकशिरोमणिः स्वयं कंचिदन्तरायं पिशुनयंस्तस्याः पतिगृहगमनं निवारयति' इति । वयस्य, साधु मन्त्रितम् । क्व पुनरद्य पुरोहितपुत्रः । (सविमर्शम् ।) किं ब्रवीपि ----- 'तेन नियतमद्य देवतार्चनाय कुसु मान्यवचिन्वता पुरोद्याने स्थातव्यम्' इति । कलकण्ठ, कि ब्रवीषि-'चे डिआअच्चणायेत्ति भणिदव्यम्' (क) इति । आः दुर्मते, पूजा प्वपि यत्कि चित्प्रलपसि । कि ब्रवीषि-- 'कहं पूआअरिहो सो, सन्दिहोमबलिकम्म एमु जं दक्खिणेत्ति दविणं गहिअदि तप्पणीकदुअ मत्थएण जो चडिआणं चरणाई वन्दइ' (ख) इति । वयस्य, त्वमपि किं ब्रवीपि-'सते, एवमेतत् । विस्फूर्जत्तिमिरे कुटीरकुहरे दृमीलितोन्मीलिते- रायासेन पुरीपुरोहितमुतैस्तावन्निशा नीयते । मायं स्वीकृतदक्षिणावसुपणो यावन्निजस्वामिनी- प्रस्वापावधिकोपचारानरतो नाभ्येति दासीजनः ॥ १२ ॥ इति । (मापहासम् ।) वयस्य, न जानामि । (क) चटिकार्चनायेति भणितव्यम् । (ख) कथं पूजार्हः सः, शान्तिहोमबलिकर्मकपु यक्षिणेति द्रविणं गृह्यते तत्पणीकृत्य मस्तकेन यश्चेटिकानां चरणानि वन्दति । 1. 'असत्यवचनेन' ख-ग. २. 'एवमिति' ख-ग. ३. 'आश्रयणीयं' ख-ग. ४. 'म एव' ख-ग. ५. 'हा' ख. ३ १८ काव्यमाला। गणिकानिशान्तघटचेटिकाविटाः कतिचित्परे पुनरयं तु मे सखा । सफलीकरोति परयोषिदुन्नत- स्तनकुम्भिकुम्भपरिरम्भणैरुरः ॥ ५३ ॥ तदहमुद्यानं गत्वा पुरोहितपुत्रमन्वेषयामि । क्व पुनरितो गच्छति वयस्यः। किं ब्रवीषि–वेशवाटीम्' इति । सन्तु शुभास्ते पन्थानः । (कतिचित्पदान्यति- कन्य ।) इयं खलु विशृङ्खलमदावष्टम्भविजृम्भमाणमदनधनुष्टंकारशङ्कावह- मधुपझंकारमुखरशिखरा ललितरसालकिसलयास्वादसुहितपरभृतकुलबहुल- कोलाहला मन्दमन्दस्यन्दमानमकरन्दबिन्दुसंदोहपरिपूरितकुसुमपरागपर- परापरिकल्पितालवालरेखा विभाति वनरेखा। (वनप्रवेशं नाटयित्वा विलोक्य।) अत्र हि परागपालीघनसैकतासु मन्दं मिलिन्दा मधुवाहिनीषु । क्रीडन्ति मन्दानिलकर्णधारसंचार्यमाणप्रसवप्लवासु ॥ १४ ॥ (अन्यतो विलोक्य ।) आप्रभातमिहैव विहरन्ति पौरजारिण्यः । एतान्यङ्गजकेलिभमवलयान्येषा परिष्कारभू- रेतत्पल्लवतल्पमेष चिकुरस्रस्तःप्रसूनोच्चयः । एपा विस्मृतहारयष्टिरिदमालिप्तं पदं लक्तकै- रेताः कामुकलोकपादकमलन्यासैकधन्या भुवः ॥५५॥ (पदान्तरं गत्वा ।) कथमियमुद्यानपालिका मरालिका। सखि मरालिके, कि- मत्र कुसुमावचयार्थमागतो वयस्या मे वीतिहोत्रः । किं ब्रवीषि---'अह इं। दाणिं एव्व कुसुमपुडिआहत्थो दक्विणदो रुक्खवाडी पविट्टो' (क) इति । (क) अथ किम् । इदानीमव कुसुमपुटिकाहस्तो दक्षिणतो वृक्षवाटी प्रविष्टः । १. 'तथा सखा' ख. २. 'वेश्यावाटीम्' ख-ग. ३. 'सुखित' क. ४. 'हस्तकैः' क. ५. 'कामहोद्यान' ख-ग.
मुकुन्दानन्दभाणः । १२ तमेव पन्यानं दर्शय। किं ब्रवीपि-ईदा' (क) टति । (पदान्ना गया ।) मग्वि, पश्य । यथा यथायं मकरन्दपग परयन्यानतरुः प्रकामम् । तथा तथा मन्दमसत्पगर्गमद अयन्यन्न तमाल वाटभ ॥ ५ः । (निर्दिश्य । कसमरमविन्दपर वम्भरगम्भीर बीरझंकार । मलग्माल पुन मग्मा विहरन्ति मरममिह कवे ॥ ५ ॥ कि ब्रवीपि–णं आणामि । (ख) कसमरमविन्द परेका ११ पुनग्न्यतो विलोक्य मविपाटमित्र । अस्मिन्निप्पतिनाणावाटमटानादर कवर कृप्ता वल्लभविप्र रामदशा माना। कंदमिनिरुत्तगात्रपतितम्त्यानामि पच्चिय श्रेणीवेयमशोकपल्लवमयी गय्या दर्गदश्यते ।। ५८ ।। किं ब्रवीषि-'इदो पेकग्व, ईदो पेकाव । इमो दे व अम्मा (ग) इति । (दृष्ट्या महपम् ।) कथमग्रत एव वयम्यः । आलम्बि पुरा पुटकेन करेण शाग्वा- मालम्ब्य तत्क्षणसमञ्चलितादिजालाम् । उद्यम्य दक्षिणकगग्रमदीक्षमाणः पप्पाण्यमाववनिनोनि करण्टकम्य ॥ ५९ ।। ( 2 पमन्य ।। वयस्य-(त्यक्तेि । समं भ्रमं मामय क्षणमवारय ।। । वीपि-'मम्वे, मंप्रति दर्विज्ञानं नामिलानम् । यतः । । (क) दतः । (ग्व) नन जानामि । (ग) इतः पश्य, इतः पश्य । अयं ते वयम्यः । १. 'इदो इदो दति' ख-ग. २ 'मममम्मतप्रतम' । ग्य-मो ... 2. 'गुरशः' ग्व-ग. ४. 'इदो' म्व-ग-पान कयानाम्ति. .. . मिहान' खाग २० काव्यमाला ॥ कामं कशैरवयवैः परिपाण्डुरेण गण्डस्थलेन च भृशालसया दशा च । बिम्बाधरेण च मुहुर्मसणीकृतेन मन्ये भवन्तमधुना भवदन्यमेव ॥ ६ ॥ किंचान्यत् । आरक्तमर्धपरिमृष्टनवाश्रुपूरं पक्ष्मावपातभरदुप्प्रसरावलोकम् । एतत्तवाक्षियुगलं विकृणोति कान्ता- विश्लेषजं किमपि दुःखमसह्यवेगम् ॥ ६१ ॥ तत्किं प्रस्थिता मञ्जरी पतिभवनम्' इति । (स्वगतम् ।) कथमयं जानात्येव प्रथममकथितमपि रहस्यम् । अथवा दैवज्ञानां किमविज्ञातमस्ति । (प्र- काशम् ।) अपि नाम पश्यसि ज्योतिःशास्त्रेण चक्षुषा मे चरितम् । यन्न वेत्ति परः किंचिदेकां मुक्त्वा जटावतीम् । या निप्कुटवने तन्वी मया तां समयोजयत् ॥ ६२ ॥ विहस्य ।) किं ब्रवीपि--'किमेतत्परिज्ञानार्थमपि ज्योतिःशास्त्रं चक्षरपक्षि- तम् । यतः। क्रीडा परस्त्रीषु कियदिरेव दिनैनिगूढापि नै गृढिमेति । पड़े निग्वातापि गभीरतोये पाथोजिनी किं न समुजिहीते ॥६३॥ इति । यद्येवं तर्हि किमिति न परिहरन्ति न परिवदन्ति च पद्ममुखीम् । किं ब्रवीपि-'मा मैवं वादीः । सुचरितमीदृशमखिलं सर्वे जानन्ति सर्वेषाम् । न तु परिवदन्ति निपुणाः स्फुटतरमेते परस्परत्रासात् ॥ ६४ ॥ तत्कतिपयरेव दिवसैरियं स्वयं परिहरिप्यति सकलमपि बन्धुकुलम्' इति । (निःश्वस्य ।) वयस्य, अतः परमखिलमपि संभावयामि, यदि तावदिदानी शार्दूलवदनबिलादवगलति सा हरिणाक्षी । किं वदसि--'सखे, नक्तमेवोक्तं १. निरूटिमेति' ख-ग. २. 'वयम्य' ख-ग-पस्तकयो स्ति.
मुकुन्दानन्दभाणः । २१ भगवत्या जटावत्याः त्वयि स्नेहवत्या जटावत्या । वत्स, तथा प्रयतितव्यं यथा मन्दारदुहिता मञ्जरी पतिमन्दिरकन्दरभाजनं न भवेत् । तत्प्रथममुपदेशो भगवत्या नटावत्याः । तदुपरि प्रियसुहृदो निदेश इत्युभयथाप्यवश्यं करणीयमेव मे मञ्जरीगमनभञ्जनम्, तव च मनोरञ्जनम्' इति । (स्वगतम् ।) अहो मयि प्रसादातिशयः, यदेवमप्रार्थिताप्यननुयुक्ताप्या- त्मनैव कृतप्रयत्ना ममैव हितमातनोति । (प्रकाशम् ।) इत्थं कृतनिश्रये त्वयि तावदस्माकं सहजप्रेमसरसे स्वभावचतुरे जने । किमर्पितात्मभाराणां वक्तव्यमवशिष्यते ॥ १५ ॥ तदद्य सत्वरमेव त्वया गन्तव्यम् । कि ब्रवीएि.----. 'अहं गच्छामि' इति । (विलोक्य ।) कथमतिकान्त एव प्रियमित्रेण प्रमदवनपर्यन्तः । मरालिके, किं ब्रवीषि-'इदो कमलमित्तेण मित्तेण अकन्दो पुत्वगिरिपज्जन्तो' (क) इति । (प्राचीमवलोक्य ।) घटमानकोककुचमामृशन्करैविकसत्ययोजनयनावलोकितः । परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः ॥ ६६ ॥ अथवा ॥ भूयो निपीय लवणाम्बुधिमाप्रभातं पुञ्जीभवत्रुदयते तपनच्छलेन । और्वाग्निरम्बरपयोनिधिमद्य पातुं लीनो डबद्दकदम्बमिति प्रतीमः ॥ ६७ ।। (वामतोऽवलोक्य ।) उन्निद्रपद्मकोशादुद्गच्छन्ती शनैरविच्छिन्ना । इयमिह मधुपश्रेणी स्मरकरम्खड्गश्रियं वहति ॥ ६८ ॥ (क) इतः कमलमित्रेण मित्रेणाक्रान्तः पूर्वगिरिपर्यन्तः । १. 'मिके' ख-ग. २. 'अयं' स.
२२ काव्यमाला । मे किं ब्रवीपि-'तक्खु पुवदिणविअसिअं सरसिअम्, जदो उग्गयहि महुअरश्शेणी' (क) इति । यद्येवमद्यैव विकसितं कमलाविलसितं दर्शय कमलम् । (निर्दिश्य ।) किं ब्रवीपि--'एदं पेक्ख । जत्थ (ख) इन्दिरावरविहारमन्दिरे मन्दमन्दमरविन्दकंदरे । गन्धतुन्दिलमरन्दसुन्दरे बम्भरा इह चरन्ति बन्धुरे ॥ ६९ ॥ इति । (सशिरःकम्पं तदेव पठित्वा ।) सखि, कथमपूर्वमेव कथयसि स- मसंस्कृतप्रारूतं हृद्यं पद्यम् । कराग्रहादजिनि केवलं ते विभुर्विवत्वानिति लोकवादः । आप्रातरासायमपास्तशङ्कं भुङ्क्ते रसं भूरि मिलिन्द एव ॥ ७० ॥ किं च । जन्मारभ्य प्रतिकलमसावारजोदर्शनं ते भ्राम्यन्भृङ्गः क्षणगणनया वासरानत्यनैपीत् । त्वं तूद्भिन्ने रजसि मरुता दक्षिणेनासि भुक्ता सोढव्यं तत्कमलिनि कथं तेन लोकेन वापि ॥ ७१ ॥ (पुनर्विलोक्य ।) आलिप्ताः कुसुमपरागभस्मनामी कापालव्रतमिव काममाचरन्तः गायन्तः किमपि मधूनि भिक्षमाणा गाहन्ते कमलगृहाङ्गणानि भृङ्गाः ॥ ७२ ॥ (पदान्तरं गत्वा ।) अयि, पश्य तावत् । एप पौराणिको मुद्गलभट्ट इत एवा- भिवर्तते । किं ब्रवीषि-'जाणामि णं गूढपाल्लविअम् । अअं क्खु (क) तत्खलु पूर्वदिनविकसितं सरसिजम्, यत उद्गच्छति मधुकरश्रेणी । (ख) एतत्पश्य । यत्र । १ 'विकसितकमल' क. २. 'बन्धुरे' ख-ग. ३. 'सुन्दरे' ख-ग. ४.'कलयसि' क. ५. 'गृहान्तराणि' ख-ग.
मुकुन्दानन्दभाणः । २३ तह तह पढइ पुराणं तह तह वक्खाइं अत्थेवि । तह तह पेक्खइ किदवो जह जह रजन्दि बालविहवाओ ॥ ७३ ॥ एवं क्खु सुणिदं जं मुग्गलभट्टोत्ति । किंदु चिदम्बरभटोत्ति एव्व किल एदस्स णाम' (क) इति । सत्यं चिदम्बरभट्ट इति तातकृतं नाम । गुर्ज- रास्तु मुद्गलभट्ट इत्याह्वयन्ति । भवतु तावत् । एनमालापयामि । (उपसृत्य । एकं हस्तमुत्तंसयन् ।) पौराणिक, प्रणम्यसे भुजंगशेखरेण । किं ब्रवीषि- 'मकलरतिकलादेशिकेऽपि त्वयि कामाशिषमाशास्महे' इति । (सविनयम् । कथमलीकवचोभिरेव मेयि गौरवमारोपयसि । किं ब्रवीषि–'अपि नाम ममापि वचनमलीक संभावयसि । स्मरासि तावदिदानीं त्वमेव उत्ताने शयने ललन्नुपहमन्नव्यक्तमालापय- न्बाल्येऽपि व्रजसुध्रुवां रतिकलाः कि कृष्ण नोपादिशः । या दोलावलनच्छलादुपरि ते व्यातेनुरुत्कण्ठया यत्किचित्क्रममुच्चलत्कुचकचश्रेणीकमेणीदृशः ॥ ७४ ॥' इति । भवतु । कस्य गृहमद्य पवित्रीकर्तुमुद्यमः । किं ब्रवीषि—'गुर्जरस्य निर्जर- दासस्य गृहम्' इति । (स्वगतम् ।) एष नक्तंदिदं तस्य मन्दिरं न विमुञ्चति । कलावत्यक्षियुगलमलोहनिगडं यतः ॥ ७५ ॥ (प्रकाशम् ।) तर्हि गृहिणीमिति वक्तव्यम् । किं भणसि—'सा खलु विश्रु- तपुण्यचरिता शक्नोति जगदेव पवित्रीकर्तुम्' इति । (सकौतुकम् ।) कथय तम्याः पुण्यचरितम् । किं वदसि- (क) जानाम्येनं गूढपालविकम् । अयं खलु तथा तथा पठति पुराणं तथा तथा वक्ष्यत्यर्थानपि । तथा तथा प्रेक्षते कितवो यथा यथा रज्यन्ते बालविधवाः ॥ ७५॥ एतत्खलु श्रुतं यन्मुद्गलभट्ट इति । किंतु चिदम्बरभट्ट इत्येव किलैतस्य नाम । १. 'रति' ख-ग-पुस्तकयो स्ति. २. 'मम' ख-ग. ३. 'उत्तानं' ख-ग. ४. 'कस्य वा' ख-ग. ५. 'विश्वतः पुण्य' ख.
२४ काव्यमाला। 'मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं धम्मिल्लः सुमनःपदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपु- स्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निर्जरैः ॥७६॥' इति । (मबहुमानम् ।) तत एव तत्रभवान्महीयते । भवतु । तत्रभवति कीदृशी तस्या मनोवृत्तिः । किं ब्रवीषि-'किमपूर्वमिव पृच्छसि । पुरुषोत्तमाय भवते देवायेदमिति मे समर्पयति । सायंतननीराजनसमये वीटीशतं वधूटी सा ।। ७७ ॥' इति । सत्यं जानामि । धर्मापदेशगुरुरित्यखिलान्प्रतार्य वाह्योपचारशतमातनुते नतभूः । अभ्यन्तरे तु रतिदेशिक इत्यनङ्ग- तत्वं तदेव कुरुते गुरुदक्षिणां ते ॥ ७८ ॥ (अनादमिव ।) किं ब्रवीपि- 'सखे, किमेतावतैव मे साम्राज्यम् । कूपोसगूढकुचपङ्कजकुङ्मलानां को नाम शंसति रति भुवि गुर्जरीणाम् । अज्ञातचोलदुरुपद्रवचोलनारी- पीनस्तनस्तबकमण्डलदत्तहस्तः ॥ ७९ ॥' इति । (आत्मगतम् ।) सर्वोऽपि जनः सजातीयमेव प्रियं मन्यते । ये भुवि यजातीयास्तज्जातीयासु तेऽनुरज्यन्ते । शुकयोपिपिकयूनीरुदयति किं प्रीतिरन्योन्यम् ॥ ८ ॥ (प्रकाशम् ।) अये, कस्ते चोलनारीपु पक्षपातः । चोलच्छन्ना यदि कुचतटी दुर्लभा गुर्जरीणां कच्छाभावादलघुजयनं तर्हि शक्यावमर्शम् । तद्व्यत्यस्तं द्रविडसुदृशामन्ततः किं ततः स्या- देकत्रैकं भवति सुलभं तद्वदन्यत्र चान्यत् ॥ ८ १ ॥ १. 'सख, किम पूर्वमेव' ख-ग. २. 'अरे' क. ३. 'चोलीपु' ख-ग. .
मुकुन्दानन्दभाणः । २५ परंतु नक्तंदिवमपि पतिपार्श्ववर्तिनी सा कथमनुवर्तनीया तत्रभवतेति तरलं भवति मे चेतः । किं ब्रवीषि-'यत्किचिदेतत् । यतः । कथितसमये गत्वा गूढं मया लिखिता नखैः खपिति शयने पत्यौ पार्श्वेऽप्यहो परिश्त्य सा । तमपि निपुणालिङ्गन्यैवालं भुजालतयैकया चपलनयना मां च क्रोडीकरोति तदन्यया ॥ ८२॥ इति । (साश्चर्यम् ।) अहो श्रोत्रियस्य साहसम् । (मरालिका प्रति ।) विधत्तां संकेतं विशतु सदनं वा कथमपि क्रमात्तस्यां गूढ किमपि कुरुतां वा मृगदशी । प्रबुद्धे पत्यो चेदयमपि भवेत्कीदृशदशो वराकी वा सा तद्भुजबलयलग्ना सखि तदा ॥ ८३ ॥ पौराणिक, किं ब्रवीषि—'प्रबुद्धेन तेन वा किं कर्तव्यम् । गुर्जरीणां कुलाचारक्रमोऽयं यगृहे गृहे । पौराणिकः पुरोधा वा भृत्यो वा गूढवल्लभः ॥ ८४ ॥ तदलमतिप्रसङ्गेन । साधयामि' इति । साधय, साधय । अहमपि वेश- वाटिकां गच्छामि । (मरालिकामालोक्य ।) सखि, पुरोहितपुत्रस्य वीतिहो- त्रस्य प्रवृत्तिमचिरेण ज्ञातुमर्हसि । किं ब्रवीषि-'तस्स अ ताए तुह दइआए अ उत्तन्तं सम्मं ओलहिअ तुज्झ अज्ज एव णिवेदेमि' (क) इति । सखि, साधु । गन्तव्यम् । (परिक्रम्यावलोक्य च ।) एपा किल यो- पालभाषाजितरोषावृतकीरायुतकारायितमणिमञ्जुलरुचिपिञ्जरनवपञ्जरमा- लाशतलीलायुतप्रतिसदनप्रतिहारा पारावतवाराश्रितविटङ्का धारायन्त्रश- तसंतानितजेलबिन्दुकंकणा कुङ्कुमरसपकिलसदनाङ्गणा लङ्केव लक्ष्यमाणा- (क) तस्य च तस्यास्तव दयितायाश्च वृत्तान्तं सम्यगुपलभ्य तवाद्यैव निवेदयामि । १. 'स्वपतिशयने' क. २. 'मन्ना' ख-ग. ३. 'जन' ख-ग. ४. रोपाघृत' क रोघायित' ख. ५. 'जलबिन्दु' ख-ग-पुस्तकयो स्ति. , २६ काव्यमाला। क्षविहारा, अयोध्येव रामानुवृत्तभरतप्रचारा, हरमूर्तिरिव भुजंगविभूषिता, सरसीव पद्मिनीप्रचुरा, वनभूमिरिव हस्तिनीकरनमित'नागा, कादम्बरीव प्रकटितहेमकूटविस्तारा, नारायणतनुरिव भोगिभोगानुषक्ता, विप्रसभेव श्रु- तिमिलितविविधवाद्यारब्धकोलाहला हालामदतरलचेटिकाहस्तवित्रस्तपे- टिकागलितवीटिकाकलनचटुलचटिका वेशवाटिका । (प्रविशति नाटितकेन । किंचित्परिक्रम्य ।) इह हि चरन्तीनां सौधे चपलनयनानां तनुरुचो गवाक्षान्तर्वान्ताः कतिचन गृहीत्वा जलमुचः । क्षणं गोपायन्ति क्षणरुचिमिषेण क्षणमहो विवृण्वन्ति स्वर्ण करगतमिवाकिंचनजनाः ॥ ५ ॥ किं च । तारास्तामरसाञ्चलेषु कदलीकाण्डषु भूमण्डला- न्यावर्ता गगने शिरःसु फणिनां शैलास्तुषारत्विषाम् । बिम्बेष्वम्बुजपत्रचुम्बिषु तमस्तोमास्तदेतत्पुनः सर्व हेमलतासु ताः प्रतिगृहं चित्रं प्रतिप्राङ्गणम् ॥ ८६ ॥ (सर्वतोऽवलोक्य ।) अहो रमणीयता बालातपस्य । रञ्जयति लोकमखिलं ललितो बालातपप्रसरः । सरसयति सदनवापीसारससौरभ्यसंपदप्यभितः ॥ ८७ || (आकाशे ।) किं ब्रूथ- 'इह क्रीडावल्गत्कुवलयदृशामेतदधर- प्रभावीचीरोचिविलसति न बालातपरुचिः । असावप्येतासां वदनकमलामोदलहरी न तु क्रीडावापीसरसिजवनीसौरभझरी ॥८॥' इति । सत्यमीहशः किलात्र मृगीदृशः । यतः । लब्ध्वाम्भोजे मुखशयपदा दृक्तरङ्गैः सभृङ्गे दोर्वल्लीभ्यां बिसवति कचरात्तशैवालजाले । १. 'वेश्यावाटिका' ख. २. 'गोपायन्त:' क. ३. 'आप्त' ख-ग. .
मुकुन्दानन्दभाणः । २७ वक्षोबद्धस्तनधनलसत्कुम्भतुम्बीफलाभ्यां वारस्त्रैणं निजरुचिसरोमण्डले पोप्लवीति ॥ ८९ ।। (कतिचित्पदानि गत्वा । निर्वर्ण्य ।) कथमत्रैव बालातपमनुभवति लीलावती । अस्याः आमृश्य नीलकबरीमवसज्य कण्ठे गाढोपगढकठिनस्तनकुम्भभारः । नीवीमपि श्लथयितुं निभृतं कराये रागाद्रविः स्टशति नाभिपदं नताझ्याः ॥ ९० ॥ अपि च । बालातपमपमाष्टुं वाला पर्युपितकुङ्कुमभ्रान्त्या । स्तनतटमाईनवाई काषं कापं करेण मीन्कुरुते ॥ ९१ ॥ (उपमृत्य ।) सखि, तव सीत्कारसुधारमश्चिराय मे श्रवणयोरानन्दं कन्दल- यति । साभिमानावहित्यं किं ब्रवीषि-'का तव पुरतः पुरा पुनरद्य वा कृतवती सीत्कारम्' इति । तर्हि विस्मृतम् । वयं तु न विस्मरामः । यतः । कान्ते द्यूतजिते तवाधरदले दष्टे सरागं मया स्वैरत्रंसिदुकूलदृश्यजघना तत्रैव लोलेक्षणम् । मामुद्दीय सरोषल जमसकत्सीत्कारतारं वचो यत्त्वं जल्पितवत्यलं तदधुनाप्यानन्दयत्येव नः ॥ ९२ ॥ सरोष किं ब्रवीषि-'कथमेवमनृतभूषितं ते भाषितम् । अथवा । यस्या नखशिखमनृतालिङ्गितमङ्गं जनिप्वनेकासु । कथयसि कथमथ तत्वं स त्वं कृष्णानृतोज्झितो भूयः ॥९३॥ इति । (विहस्य ।) कुतोऽन्यत्राप्यनृतकथा । यत्किलात्र भुवनत्रयोदरे संकटेन समवस्थितं चिरात् । तत्समस्तमनृतं नताङ्गि ते कुक्षिलग्नमवलग्नकैतवात् ॥ ९४ ॥ किं ब्रवीषि-'गच्छ यथागतम्। किमनेन वाकलहेन' इति । तर्हि कायि- कमेव कुरु कलहम् ।
२८ काव्यमाला। बडा दोर्ध्यामभिमतगृहे मामधस्तान्निपात्य द्रागारुह्य स्तनगिरिहतोरस्कमास्कन्दयन्ती । तावत्कान्ते रचय सकलं साहसं हृद्गतं ते श्रान्ता यावत्कनकसुमनोमालिकेवासि तान्ता ।। ९५ ॥ किं ब्रवीपि-'अद्य दिनमुखे कस्य वा मुखमवलोकितमित्थमनेन विव- दितुम्' इति । (सस्मितम् ।) अयि मानिनि, तदपि में सुखावहं सं- भावयामि । शनैरुत्तिष्ठन्त्यास्तव करधृते हेमवसने हठादाकृष्ट सत्यतिभृशनमद्रात्रलतिका । सरोपं सनी सुमुखि मुखमालोकितवती प्रभाते यस्य त्वं स्मरमि कृतिनस्तस्य न कथम् ।। ९६ ॥ किं ब्रवीपि-'कुतः स्वमानमविज्ञाय सीमानमतिकामसि' इति । (स्वग- तम् ।) इयं सुलभकोपा सर्वथा परिहासवचोऽपि मे परमार्थं मन्यते । तद- न्यतो नयामि । (प्रकाशम् ।) अयि प्रिये, मा कृथा मयि स्रथा कोपाड- म्बरम् । अम्बरमाभरणानि वा यदभिलपितं तदाशु वृणीव । वितरिप्यामि । साञ्जलिंबन्धं किं ब्रवीपि--'अलं तावदतिवदान्यतया । याचामहे जातु न किंचन त्वां पुण्यप्रदानादधिकं तवेदम् । गोपाङ्गनाचारुदुकूलचोरो यत्कृष्ण मुप्णासि न विद्यमानम् ॥९७॥' इति । मुग्धे, न जानासि जाराणां चोरः खलु मुख्यः । मस्मितं किं ब्रवीषि- 'भाव, सत्वं चोर एवामि । यदेवं मोचारसमुचा वाचा मे चेतश्चोरयसि । (सानन्दम् ।) सखि, यदि प्रसन्नमुखी जातासि, तर्हि शृणु । आलिङ्गय गाढममलाङ्गि तवाङ्गमङ्गै- रापाटलं त्वदधरं मधुरं निपीय । १. 'आरुद्ध' क. २. 'किमहं न जानामि' ख. ३. 'कृत' ख-ग, ४. 'अविज्ञाय सीमानम्' ख-ग-पुस्तकयो स्ति. ५. यावदन्यतो' ख-ग. ६. 'मुधा' ख-ग. ७. 'अङ्गमङ्ग' ख-ग.
मुकुन्दानन्दभाणः। २९ नीवीमथ श्लथयितुं निभृतं करेण नीलोत्पलाक्षि यतते नितरां मनो मे ॥ ९८ ॥ किं ब्रवीपि-'भवतु नाम । याहि, सायमायाहि' इति । तहि गच्छामि । (देत्यन्यतो गत्वा विलोक्य ।) कथमत्रैत्र काञ्चनलतामंतानको । (निवण्ये ।) इयमिदानी विलोकयन्ती मुकुरे विलामान्मुखाम्बुजं मुग्धकुरङ्गनेत्रम् । कर्परपडून करोति वाला बालेन्दुलेखातिलक ललाटे ॥ ९९ ॥ (उपमृत्य ।) सखि, तप्त्वा तपो हरशिरतटिनी तटान्ते मुक्त्वा कलङ्कमाथि न मुखभावलीमा । बालेन्दुचारुतिलकेन चिगय वाले चन्द्रोऽन्वविन्ददिव नन्दनजन्मशर्म ॥ १० ॥ मविनयं किं ब्रवीषि--'चिराय स्मरणसरणीमधिगपितास्मि भावन' इति । सखि, मा मैवम् । अद्यापि वल्गत्कुचानि वलनामहमध्यमानि कण्ठोदयत्कलरुतानि गलत्कचानि । आस्वादिताधरदलान्यलसेक्षणानि तान्येव तन्वि सरतानि तव स्मरामि || १०१ ॥ , किं च । ध्वान्तप्रान्तपरीतशीतकिरणं निद्रालुनीलोत्पलं मन्दोदश्चिकपोतनादमधुरं शश्वद्गलत्तारकम् । चक्रद्वन्द्वविलासनाट्यचतुरं चञ्चत्तपारोदयं चेतो मे समयं तमेव मुइति प्राप्तुं पुनर्वाञ्छति ॥ १०२ ॥ १. 'नामाद्य' ख-ग. २. 'इति' क-पुस्तके नास्ति. ३. 'इन्यग्रतोऽवलोक्य' ख. 'रेखातिलकं निटाले' ख. ५. 'लोभात्' क. ६. 'रोहितास्म्यस्मद्भावेन' ख.
३० काव्यमाला। किं ब्रवीषि—'भाव, मुरलीवल्लभस्य कथं तव मादशीषु तेरलीभावः । तथाहि । संकेतानयनाय सारसदृशां सा कृष्ण ते दूतिका क्रीडालापकलापगानचतुरा केलीवयस्या च सा । त्वद्विम्बाधरचुम्बनादृतमुखी सैवान्ततः प्रेयसी या ते पाणिपरिग्रहेण मुरली नानामुखं जल्पति॥१०३॥ इति । (अपवार्य ।) वयस्य संतानक, सांप्रतं सफलतपःसंतान इव लक्ष्यसे । यतः । वक्षस्ते दृढलग्नकर्कशकुचद्वन्द्वावभुग्नान्तरं कण्ठः कंकणरत्नकोटिकलनासुव्यक्तमुद्राङ्कितः । व्यत्यासव्यतिपञ्जितश्च तिलकः फाले तवायं सख कस्याश्चित्प्रकटीकरोति सुरतप्रौढिं परां सुभ्रवः ॥ १०४ ॥ वयस्य, किं ब्रवीषि-'अस्या एव । अथ किं विविधकरणकल्पनातिशिल्पं सपुलकचुम्बन डम्बराभिरामम् । कलरवकलकृजितात्तकण्ठं निधुवनकौशलमद्भुतं नताङ्गयाः॥१०॥ इति । (सौत्सुक्यम् ।) का सा रसिका युवमनःकोसारसारसिका । किं ब्रवीषि- 'इयमेव' इति । (सबहुमानम् ।) कुसुमशरविधेयं कोमलं रूपधेयं तदनुगुणविकासस्त्वगुणानां विलासः । किमितरमिह लोकानन्दहेतुस्त्वमेका तव रतिसुखभाजः कामिनोऽपि धुराजः ॥ १०६ ॥ (सप्रश्रयम् ।) किं ब्रवीपि-'भाव, किमेवमनुचितं निजेऽपि जने कथयितु- चितम्' इति । सत्यमनुचितमेवेदं यत्त्वदनुभवरसिका धुराज इति । यतः । जम्भारेरपि पाशपादतरुणीजाराज्जयन्तादपि स्वैराश्लिष्टमुराङ्गनाकुचभराद्धन्यश्च मान्यश्च सः । १. 'तव' क-पुस्तके नास्ति. २. 'तरलभावः' ख-ग. ३. 'नानाविधं' ख-ग. ४. 'अस्या एव' ख-ग-पुस्तकयो स्ति. ५. 'कमलकासार' ख-ग. ६. 'कामिनां नामधेय' ख-ग. ७. 'इतरत्' ख-ग. ८. 'पश्यपाद' ख-ग. - मुकुन्दानन्दभाणः । रम्भाकेलिकुतूहलापहरतारम्भाधिकप्रौढया पुंभावं गतया त्वया जगति यो रम्भोरु संभाव्यते ॥ १०७ ॥ सखि, किं ब्रवीषि—'भाव, केवलं सुरतरङ्गिणीरिङ्गद्गुरतरङ्गसंगतव- चोभङ्गिभिरेव मामुत्तुङ्गयसि । न पुनरनङ्गविलासनटनरङ्गैरङ्गैः' इति । सखि, मा मैवं वादीः । तर्हि सायमायास्यामि । (पदान्तरं गत्वा सदृष्टिक्षेपम् ।) कथमग्रत एव मुदमुदञ्चयति चन्द्रमुखी । क्रीडोत्क्षिप्तभुजामृणाल लतिकापाशान्तराले बला- द्ववेन्दु विरचय्य वैरिणमिदं वक्षोजकोकद्वयम् । हर्षादुन्नमतीव वारिजदृशो वक्षःसरोमण्डला- निद्राभङ्गनिरूढ जम्भणजपो मुग्धाङ्गभङ्गोत्सवे ॥ १०८ ॥ (अन्यतो विलोक्य ।) वक्षोजी निबिडं निरुध्य मिचयनाकुच्य मध्यं शनैः कृत्वा चम्पकतैलसेकमवला संपीड्य मन्दं शिरः । पाणिभ्यां चलकंकणोद्यतझणकारोत्तराभ्यां करो- त्यभ्यङ्गं परिपश्यतोऽस्य चपलं दोरन्तरं प्रेयसः ॥ १०९ ।। (कतिचित्पदानि गत्वा । सानन्दम्।) इयमिह जानुभ्यामुपविश्य पाणिनिहितश्रोणीभरा प्रोन्नम- दोर्वल्ली नमदुन्नमत्कुचतटी दीव्यन्नखाकावलिः । पाणिभ्यां चलकंकणोद्यतझणत्कारावतारोत्तरं बाला नह्यति किं निजालकभरं किंवा मदीयं मनः ॥ ११०॥ मच्चेतसा सह भुजद्वयमुन्न मय्य धैर्येण मे ममममाव भयः । बध्नाति कुन्तलभरं कुटिलान्तकेशी साकं ममैव कथमद्य विलाचनाभ्याम् ॥ १११ ॥ उपमृत्य ।) कमलाक्षि विलम्व्यतां क्षणं कमनीये कचभारवन्धने । दृढलनमिदं दृशोर्युगं शनकरद्य समुद्धराम्यहम् ॥ ११२ ॥ १. 'वादीः' ख-ग-पुस्तकयो स्ति. २. पाणिभ्यामवध्य कंकणझणत्कारावतारो- त्तरं' ख-ग.
३२ काव्यमाला। । अनादरमिव किं ब्रवीषि-कात्र भवन्तमाकारितवती' इति । (सानुनयम् ।) कल्याणि, कथमनालोक्यैव मामधिक्षिपसि । पुनः किं ब्रवीषि-'किं त्वामालोक्य भाग्यमुपगन्तव्यम्' इति । अयि, नास्ति किमपि किं मयि । किं ब्रवीपि-'नास्त्येव । चौर्यणैव कृतं हि कुक्षिभरणं जन्मप्रभृत्यन्वहं गोपीनां पणदानशून्यमुरतक्रीडामणं चेत्पुनः । दुर्वारं तव जन्मकोटिभिरपि त्वं कृष्ण तत्तादृशः कि मे दास्यसि किं तवास्ति च वयं किं वा ग्रहीष्यामहे ११३' इति। मुग्धे, न जानासि । नित्यं श्रीरनपायिनी मम परं धामापि रत्नाकरः शक्रादीनतिशेरते च विभवैर्भूत्यास्तदास्तामिदम् । किं चान्यत् । ऐश्वर्य महदस्ति पगुणम् कि ब्रवीपि-क्क तद्दर्शय' इति । इह प्रख्याप्यतां तत्कथं पुनः किं ब्रवीपि-'किमिति न प्रख्यापनीयम्' इति । प्रच्छन्नोऽद्य किलास्मि तन्वि समये सर्वं त्वमेवैष्यसि ॥११४॥ (विहस्य ।) किं ब्रवीपि—'यां कांचिदेवं वञ्चय चञ्चलदृशम् । मम तु जातुचिदपि पुरो मैवं वादीः' इति । (स्मित्वा ।) अद्य यद्यपि मद्वचनं न रोचते तदा त्वमेव पुनः स्मरिप्यसि । (इत्यन्यतो गत्वा सस्पृहमालोक्य ।) कथमिहालंकरोति लवङ्गिका कनकाङ्गीम् । तथाहि । निविडानुपक्तकुचकोकदंपती मुखतारकापरिवृढेन शासितुम् । अवतारितव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥११५॥ (उपमृत्य ।) अनया तावदिदानीम् आत्मनैव विधूतापि मुग्धया हारयष्टिरधरांशुपाटला । विद्रुमावलिधिया विलोलया दृश्यतेऽपि परिमृश्यते मुहुः॥११६॥ १. स्थित्वा' ख-ग. २. पर:' ख-ग. ३. 'अग्रतो' ख-ग. ४. निबिडं निघक्त' ख-ग.
मुकुन्दानन्दभाणः। ३३ (लवलिकामालोक्य ।) कथं कनकाङ्गया अप्यङ्गेषु भूषणान्यर्पयसि । जेतुं कल्पलताशिल्पमा कल्पं सखि कल्पताम् । अकल्पा कल्पकल्पे ते वपुष्याकल्पकल्पनाम् ॥ ११७ ॥ (साकूतम् ।) किं ब्रवीषि--'देव, अदो ज्नेव आहरणाई अप्पयिस्सम् । अङ्गेसु लावण्णतरङ्गएषु णिसग्गसोहग्गसमग्गदेसे । देण लोअस्स अलोअणाईणं संकिदा भूसणमप्पइस्सम् (!) ११८'(क) इति। अयि, कुशलासि । यतस्त्वमस्याः अङ्गकान्यपिदधासि नताझ्या भूषणैर्जनदुरीक्षणभीत्या । चञ्चलाक्षि पथि चम्पकवल्लयाः पल्लवैरिव परं कुसुमानि ॥ ११९ ॥ (क्षणमात्रं निर्वर्ण्य ।) अयि, विफलोऽयं तवायामः । अङ्गानामपिधानमाकलयसे मुग्धे मुधा भूषणै- मजन्त्यत्र तु भूषणानि मुतनोरङ्गप्रभास्रोतसि । लीलासु श्रवणोत्पले नयनयोः स्मरे च हारावली लाक्षाश्रीः पदपाटलिम्नि तनुभा सीमासु हेमाम्बरम् ॥ १२० ॥ (पुननिर्वण्य ।) अस्याः कर्णान्ततान्तनयनान्तविलोकनश्री- संछादितश्रवणपूरसितेतराब्जम् । मन्दस्मितातितिरोहितचारुनासा- मुक्ताफलं वितनुते वदनं मुदं नः ॥ १२१ ॥ (मानुरागं सपुलकोद्भेदं च विभाव्य ।) अयि प्रेयसि, किं करोमि । पद्मेन्दीवरकुन्दचम्पकजपाजातीषु जातस्पृहं क्रीडाकाञ्चनशैलतुङ्गशिखरारोहावरोहालसम् । (क) देव, अत एवाभरणान्यर्पयिष्ये । अङ्गेषु लावण्यतरङ्गितेषु निसर्गसौभाग्यसमग्रदेशे । दृष्ट्वापि लोकस्य च लोचनानि ननु शङ्किता भूषणमर्पयिष्ये ॥ १. 'हारावलिः' ख.
४ काव्यमाला। , मार्ग प्रस्खलितं क्रमेण विषमे मग्नं सरोमण्डले पर्यन्ते पुलिनस्य कान्तकदलीमूले मनो मुह्यति ॥ १२२ ॥ लवङ्गिके, किं ब्रवीषि–'उइदं खु पिदुणो तणअस्स सअणाणुवत्तणम्' (क) इति । (स्वगतम्।) कथमनया निर्लज्जयेवाभिहितम् । (प्रकाशम् । सरोषलज्जं क्रीडाकमलेन लवनिका ताडयन्ती।) किं ब्रवीषि-'हजे, कथमपास्तलज्जा त्रासादुरक्षराणि प्रलपसि' इति । लवनिके, सधैर्य किं ब्रवीषि-'सामिणि, पढमप्पलाविण णं उज्झिअ कथं माय जेव्व कुप्पसि' (ख) इति । (सस्मितम् ।) अयि, मय्यपि कुप्यतु नाम तव स्वामिनी । किमत्र परिहीयते । प्रत्यासीदति रोषेतो यदि मुखामोदस्तदा लभ्यते वाहाबाहिरणे तु कर्कशकुचाश्लेषः स्वयं सिध्यति । मामुत्तानमधो निपात्य मयि चेदारोहतीयं ततो- ऽप्यन्यत्कि मम काङ्कितं तदधुनेवालं द्रुतं कुप्यतु ॥ १२३ ॥ (प्रवणमभिनीय ।) क एप कलकलः पौरबालकानाम् । (पुरस्तादवलोक्य । सोपहासम्।) सखि, पश्य पश्य, अयं किल कपटपुण्याहशान्तिबलि- होमविधिविलिप्तविविधचन्दनविकृतललाटतटघटितहरिद्राक्षतो वञ्चितदासी- जनदत्तपञ्चाङ्गुलनिकुचितपुरातनपरिधानकल्पितोप्णीषपरिलम्बमानदशास- हस्रपरिवेपदृषितवदनश्चञ्चलचेलाञ्चलकीलितमपि पञ्चाङ्गं पतनशङ्कया कु- शतृणाचितेन पाणिना पुनःपुनरामृशन्. सव्यांसगैतपटच्चरभस्त्रिकाविवरग- लितकतिपयमुद्गतिलतण्डुलग्रहणव्यग्राग्रकरः परिहासपरपौरबालकपरिवा- रमन्तरान्तरा दर्भमुष्टिना दण्डेन निवारयन्, चिन्तोपचितांश्चिरंतनानप्यात्म- सदनव्यापारानात्मनैव प्रकाशमालपन्वेशवाटिकापुरोहितो गणदत्तमातुलो वराहभश्चन्द्रिकागृहादायाति । (सहासम् ।) किं ब्रवीषि-'अहो, (क) उचितं खलु पितुस्तनयस्य सदनानुवर्तनम् । (ग्ब) स्वामिनि, प्रथमप्रलापिनमेनमुज्झित्वा कथं मय्येव कुप्यसि । १. 'क्रीडाकमलेन' क-पुस्तके नास्ति. २. रोषिता' ख. ३. 'पुरातनपटुदशास. हस्र' ख. ४. 'गतपटिकाविवर' ख. ५. 'व्यग्रकरः' ख. ६. 'परिहासी' क. का- .
मुकुन्दानन्दभाणः। लस्य वैचित्र्यम् । अयमिहैवैतावतो वासरांश्चेटीकुटीरकोटरकोण एव नक्तदि- वमप्यतिवाह्य पुनरद्य पलितपरिहते शिरसि वैदिकपद्यामनुरुध्य प्रत्यहं प्रातरुदकोपस्पर्शनमिव नित्यकर्मविधानमिव किमपि कुर्वन्ननतिचिरादेव सदवनीदेव इव संवृत्तो वराहभट्टः' इति । न केवलमयमेव । अस्य भार्यापि । प्रागतीतमिह किं विविच्यतां कामशासनबलेन कारितम् । यौवनापसरणादनन्तरं सर्वथा ननु पतिव्रतैव सा ॥ १२४ ॥ (पुनर्विलोक्य ।) कथमयं प्रत्यासन्नो भूत्वा पञ्चाङ्गं वाचयति । (श्रुत्वा सहासम् ।) सखि, पश्य । पञ्चाङ्गमञ्चितकुोन करेण धृत्वा पति प्रमृज्य किल पत्ररसेन भयः । आवर्तयन्नसकदक्षरमेकमक तारादि वाचयति तत्पुनरन्यदन्यत् ॥ १२५ ॥ तेदेनमसंबद्धप्रलापिनमालापयन्ती तिष्ठ । साधयामि । (परिक्रम्य पुरो- ऽवलोक्य च ।) कथमत्र मयूरकः । (उपसृत्य ।) अपि कुशलं प्रियसखस्य । किं ब्रवीषि-'कुतः कुशलं भग्नभागधेयानाम्' इति । (सोद्वेगमात्मगतम् ।) कथमयं किमप्यरंतुदं कथयिप्यति । अथवा परिहासशीलस्य वचोऽस्य न विश्वसनीयं भवति । (प्रकाशम् ।) कथमद्य तवाकुशलम् । किं ब्रवीपि- 'कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता' इति । ( विहस्य ।) सत्यमिदमकुशलं यदतिचिरनिवघोटक ब्रह्मचारिणस्तव कामि- नीरत्नं करतललग्नम्' इति । (सरोपविषादम् । ) किं ब्रवीपि-'कथमधोक्त एवाक्षिप्य परिदेवनावसरे परिहसति वयस्यः' इति । तर्हि कथय कथय । १. 'किमपि किमपि' क. २. 'तदेवमप्यसंबद्ध' ख. ३. 'आलपन्तो' ख. ४. 'अम्या ख-पुस्तके नास्ति.
काव्यमाला। किं ब्रवीषि-कराङ्कगता गता' इति । (विमृश्य ।) तर्हि । कठिनहृदयः कामम् । किं ब्रवीषि-'वयस्य, किं त्वया वक्तव्यमिदम् । कठिनहृदय एवाहं योऽयं प्राणवल्लभाप्रयाणेऽपि प्राणिमि' इति । (स्वगतम् । कथम यमन्यथा मन्यमानो मन्युमेव प्रविशति । (प्रकाशम् ।) सखे, किं त्वां कठिनहृदयं ब्रवीमि । किंतु । कठिनहृदयः कामं कामः कथं कुशलं तव ।। १२६ ॥ इति वक्तुं प्रवृत्तोऽस्मि । किं ब्रवीषि-'वयस्य, अहमप्येतदेव कुटिलचिकुरा कुन्दस्मेरा कुरङ्गविलोचना कमलवदना कम्बुग्रीवा कठोरपयोधरा । कनकलतिकाकान्ता कान्ता कराङ्कगता गता कठिनहृदयः कामं कामः कथं कुशलं मम ॥ १२७ ॥ इति वक्तुं प्रवृत्तोऽस्मि' इति । (सचमत्कारम् ।) तदावयोरेकमेवान्ततो विवक्षितं संवृत्तम् । उक्तिप्रत्युक्तिकया त्वन्ततोऽप्यतर्कितं संविधानवैचित्र्यं संपन्नं भवतु । कोऽत्र विरोधः। का सा कनकवर्णाङ्गी त्वत्कराङ्कगता गता । कि ब्रवीषि- 'सखे सौदामिनी नाम कान्ता कादम्बिनीस्नुषा॥१२८॥' इति । जानामि सकलजननयनहारिणी खलु तदीयतनुरुचिधोरणी । कथं सा करतलगता । कथं च पुनर्गता । किं ब्रवीषि-'सखे, चिरादपि तत्सं- गमायान्विप्यन्त एव तावदुपायाः । पुनरतीते निशीथे निबिडान्धकारम- गारपरिसरमधितिष्ठता मया बहिरागता सौदामिनी सरभसं करेण गृहीता' इति । धीरोऽसि । तदा तया किं व्यवसितम् । किं ब्रवीषि-'न कि- मपि । क्षणमात्रमवस्थिता 'धिङ् मूर्ख, मुञ्च मुच्च' इति मामवधूय पुनरगारं प्रविष्टा । अहमपि कुकुटकूजितावधि तदागमनाशयैव स्थित्वा तदनन्तर- १. 'प्रहाणे' ख. २. 'तु कुतोऽपि' ख. ३. 'अन्विष्यतैवोपायान्' ख.
मुकुन्दानन्दभाणः । ३७ 3 मागतोऽस्मि' इति । भवतु । वयस्य, यदा कदापि किं तथा कथितपूर्वमङ्गी- कारवचनम् । किं ब्रवीषि–'कथमपूर्व कथ्यते । यतः । सल्लापे सिचयग्रहे कुचतंटस्पर्शेऽधरास्वादने नीवीविश्लथने च किं नु बहुना काले च तस्मिन्नपि । जल्पन्त्यप्रकटं निषेधवचनान्येवासकृत्कर्णयो- रङ्गीकारवचः पराम्बुजदृशां केन श्रुतं कथ्यताम् ।। १२९॥ इति । सखे, न जानासि। पराङ्गनानां सुरताभ्यनुज्ञा मन्दोदिता एव निषेधवाचः । किं ब्रवीषि-'किमिदमहं न जानामि । क्रीडानिषेधोक्तिमयी यदामा निषेधगाथाप्यतएव शास्त्रे ॥१३०॥ परंतु न तेषामपि निषेधवचसामवसरो लब्धपूर्वः' इति । कथमविदिता- शयामनुवृत्तोऽसि । किं ब्रवीषि--'अस्ति किंचिदनुरागबीजम् । तथाहि । सव्याज सदनं समेयुषि मयि श्वश्रूसमक्षं तया व्रीडामीषदिवाभिनीय शनकैरुत्थाय यान्त्या बहिः । यत्किचियपदिश्य साभिवलितग्रीवं पुनर्वीक्षित तन्वङ्गया' इति । (सशिरःकम्पम् ।) । विश्वसनीयमिदमनुरागबीजं भवति । किं ब्रवीषि- 'तत एव तत्र सुदृशि स्निह्यामि मुह्यामि च १३१' इति । यद्येवमद्य श्वो वा भविष्यति युवयोरपि मन्दाकिनीमरालयोरिव विनैवायासं समागमः । किं ब्रवीषि 'कथमिव तयोर्व्यतिकरः संवृत्तः' इति । शृणु। अन्योन्यं ललितैरपाङ्गवलनैराविष्कृताकूतयो- रौत्सुक्याकुलयोः कथं कथमिव प्राप्तक्षपामध्ययोः । १. 'पूर्व' ख. २. 'तटी' ख. ३. 'किमिदमहं न जानामि' ख-पुस्तके नास्ति. ४. 'किंचन' ख. ५. 'चलितैः' ख.
३८ काव्यमाला। दैवादायतने क्वचिन्मिलितयोः साशङ्कमुत्ताम्यतो- चेष्टाद्यैरभिजानतोरथ तयोरासीदनङ्गोत्सवः ॥ १३२ ॥ तत्किचित्कालं सोढव्यो विरहवेगः । किं ब्रवीषि—'कथं सोढव्यो- ऽप्रतीकारोऽयं मदनशरसंतापः' इति । ननु प्रेयसीचिन्तयैव प्रतिक्रियताम् । किं ब्रवीषि—'सखे, प्रतिकलमपि चिन्तयामि । कथं कामेषुदलितमङ्गमङ्गावणं भवेत् । प्रिंयागुणानुसंधानसंधानकरणी न चेत् ॥ १३३ ।। तदपि संतापयत्येव संताप इति । वयस्य, अद्भुतमनङ्गहतकस्य चरितम् । निःसारं क्रमशो धनुः प्रतिपरुः किं मार्गणैः किं गुणै- मन्दं स्यन्दति वा न वा तरुलतागुल्माहतः स्यन्दनः । लीनं पाथासि यस्य लक्ष्म च परं निर्दग्धमूर्तिः पुनः सर्वाङ्गीणमहो तनोति स कथं संतापमद्य स्मरः ॥ १३४ ॥ (पदान्तरं गत्वा । अग्रतो दृष्ट्वा च ।) सखे, पश्य पश्य । किं ब्रवीषि-मया सांप्रतमालोकनीयानामतिरमणीयानामाकृतीनां परं पारमालोकितमेनामा- लोकयता । मन्ये च तावदित्थम् । अस्याः लावण्याम्बुनिधौ स्मरेण मथिते रोमावलीभोगिना निक्षिप्य स्तनमन्दरादिशिखरद्वन्दं कुरङ्गीदृशः । जातं लोचनवीचिकामु गरलं बिम्बाधरे चामृतं तेनाद्यं विदधाति तापमपरं तूज्जीवनं कामिनाम् ॥ १३५ ।। किं च । अधरे पल्लवरागो विटपसमाश्लेषविभ्रमो बाहोः । अस्या भुजंगभोगप्रागल्भ्यं स्फुरति किं च रोमाल्याम् १३६' इति । (घुनर्विलोक्य ।) स्तनाभोगो मध्यं तरलयति तावद्रुतया पृथुश्रोणभिारश्चलनमपि रुन्चे चरणयोः। १. 'प्रियानुगुणसंधानसंजीव' ख. २. 'संप्रति मया सांप्रतं' क. ३. 'विश्रमो' क. ४. 'पुनर्निर्वर्ण्य' ख.
मुकुन्दानन्दभाणः । ३९ करालम्बं दातुं तदपि बत नासीदति सखी कथं कल्याणीयं मदभिमुखमुत्तिष्ठति हठात् ॥ १३७ ॥ किं ब्रवीषि-'कथमियं वयस्यमालोक्य चिरपरिचयसमुचितप्रणयेव सविनयमुत्तिष्ठति' इति । अथ किम् । इयमङ्गराजामात्यस्य कलानिधेः क- लत्रं चन्द्रिका नाम । किं ब्रवीषि-'केन पुनरनवद्याङ्गी गणिकापद्यामव- तारिता' इति । ननु भगवता भावजेनैव । किं ब्रवीषि-'युक्तमाह वयस्यः। विसदृशघटनाकुटिलं पङ्कजयोनि चिराय परिभूय । करुणाशाली कामः कान्तानां कान्तमनुगुणं कुरुते ॥ १३८ ॥ भवतु । तदियं वयस्येन गणिका मती परिगृहीता, किं वा कुलाङ्गना सत्येव' इति । (सावज्ञम् ।) कि गणिकाजनं गणयति साधारणो भुजंग इव तव प्रियसखो भुजंगशेखरः । किं ब्रवीषि—'एवमेतत् । क्क पंणावधिकं प्रेमनटनं पण्ययोषिताम् । पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः ॥ १३९ ॥ किं च । शीलं नाद्रियते कुलं न मनुते नैवानुरुन्धे गुरू- नारीणां कुलदेवता किल पतिस्तं चाप्यहो मुञ्चति । किं ब्रूमः परयोपितः पुनरसावन्योऽनुरागक्रमः स्वप्राणानपि जातुचिन्न गणयत्येषा विटाथै यतः॥ १४०॥ इति । वयस्य, पणाशयैव परिभूयते गणिकाजनगौरवम् । न चेदेवं तदा अशङ्कितनखक्षतं पुनरलज्जमुक्ताम्बरं प्रवृत्तकरणक्रमं प्रचुरचुम्बनाडम्बरम् । सशब्दकरताडनं सपरिहाससंभाषणं न कस्य सुरतं मनो हरति वारवामभ्रुवाम् ॥ १४१ ॥ १. 'नासीदिति' क. २. 'भुजंगेश्वरः' क. ३. 'पणोपाधिक' ख. ४. 'मुक्ताम्बर. प्रवृत्त' क.
काव्यमाला । ४ (उपसृत्य । भुजं प्रसार्य।) आत्यतामास्यतां तावदुपचारैरलं प्रिये । कासौ गुरुकुचाभोगः क्वेदमुत्थानसाहसम् ॥ १४२ ॥ (इति हत्ते गृहीत्रोपवेश्य ।) सखि, चिराय रूपानुरूपमनुवृत्तं वारव- नितावृत्तम् । किं ब्रवीपि-'भाव, किमेतावता संवृत्तम् । विचारयतु भवानेव । वल्लरीपु मधुपेन वल्गता पद्मिनी न परिभुज्यते यदि । किं फलं कितव सौरभश्रियः कर्दमादपि कथंचिदुत्थितेः॥१४३॥ इति । सखि, त्वदेकायत्तचित्तमपि मामन्यासक्तं संभावयसि । ननु नदिनमपि यत्तावत्पतिवाहुपाशवलयं विश्लेप्य निश्यागतं यत्कणे कथितं रहस्यमितरावेद्यं च हृद्यं पुनः । यञ्चाप्यस्खलदिन्द्रनीलवलयं गाढं त्वयालिङ्गितं तन्मे तामरसायताक्षि नितरामावर्तते चेतसि ॥ १४४ ॥ किं चान्यदपि कथयामि । स्मरतु सखी । चिरं पत्या नक्तं मयि कृतकसल्लापिनि गृहे वहिाजाद्गत्वा सुमुखि निवसन्त्यां त्वयि पुनः । मया निर्यातेन स्मितरुचिनिरस्ते तमसि य- तदा वक्त्रं पीतं स्फुरति तदिदानीमिव तव ।। १४५ ॥ मयूरक, किं ब्रवीषि-'वयस्य, धन्यः खलु भवान्, यत एवमुदीरयन्ति पल्लवतल्लजाः । पति मुक्त्वा निद्राशिथिलभुजबन्धं चलितया कपाटं निःशब्द लघु विवृतवत्या मृगदशा । क्वचित्कोणे लीनो घनतमसि सांकेतिकगिरा समाहूतः स्वैरं विहरति तया कोऽपि सुकृती ॥ १४६ ॥ इति । १. 'वारवनितावृत्तम्' ख-पुस्तके नास्ति. २. 'विश्लेषयित्वा गतं' ख. ३. 'अपि' क.
मुकुन्दानन्दभाणः । ४१ सखि, सव्रीडविलक्षं किं ब्रवीषि-'अतएव भवता लघुतोमानीता- स्मि' इति । (स्वगतम् ।) कथामियमुपालम्भगर्भवचनसंदर्भेण मामधिक्षिपति । तदेनामन्यतो नयामि । (प्रकाशम् ।) सखि, का सा कन्दुकक्रीडाकलित- कौतुकाक्रान्ता कान्ता । किं ब्रवीषि-'इयं ममैव मातृष्वस्त्रेयी मल्लिका नाम । मत्कृतस्नेहानुबन्धा बन्धुजनमतिसंधाय मामनुसंगता वर्तते' इति । (सानन्दम् ।) इदमपि ममैव भागधेयम्, यत्करगलितामिव काञ्चनोमिकामे- कामेव त्वां विचिन्वता मौक्तिकमालिकेव पुनरियं मल्लिका मया त्वया समं समासादिता । तदधुना यदि न कुप्यसि, किंचित्ष्टच्छामि । कि ब्रवीषि-'पृच्छ' इति । (मानुरागम् ।) उन्मीलत्पुलकं कपोलनलगोमझान्तमीपदवी रालोलं नयनान्तयोमयि पिवत्यास्य प्रवालाधरम् । व्याधूतारुणपाणिकङ्कणरवव्यामृष्टमम्या वचो मा मा मुच्च विमुश्च मामिति मनः श्रोतुं समुत्कण्ठते ॥१४७॥ (मस्मितम् ।) किं ब्रवीषि—'त्वमेव तावदीप्सितमिमां एच्छ, स्वयमेव सा कथयति' इति । भवतु तावत् । इमामालापयामि । (मल्लिकामालोक्य ।) अयि, पतन्नपि पयोजाक्षि पादमूले तवासकत । कन्दुकः करलग्नोऽयमिति संताड्यते कॅथम् ॥ १४८ ॥ किं वीषि- 'पतितमपि पादमूले पश्चादुत्पतनशीलमविलम्बम् । कन्दुकमपि कापुरुपं करतललग्नं न ताइयेत्का वा ॥ १४९॥ इति । अयि, किमेतावता हीयते । तरुणीपदपल्लवप्रहारं तेरुणानां परमं वदन्ति भाग्यम् । परिपाटलतत्करप्रहारः परिभावः किमयं वरोरु तेषाम् ॥ १५० ॥ मयरक, किं ब्रवीषि–'सम्खे, कथमस्याः कुलक्रमागतगणिकाक्रमाया इव १. 'लक्ष्य' ख. २. 'आनीता: मम इति' ख. ३. 'कासौ' ख. ४. 'व्याख्यातं' स्व. ५. 'भये' ख. ६. 'कन्तुकः' ख. ७. 'पुन:' ग्व. ८, 'कन्तुक' ख. २. 'तरुणा ये' क. - , ४२ काव्यमाला। - , प्रत्यग्रगणिकाया अपि न लज्जाकणिका' इति । सुतनु, किं ब्रवीषि-'भाव, कुञ्जरमारुह्य किमिति कुटिलद्वारपथेन गन्तव्यम्' इति । (सबहुमानम् ।) साधु मल्लिके, साधु । सखे, किं ब्रवीषि-'नैवं खलु वक्तव्यम् । किंतु कथं वराहमारुह्य पुरीषं निषेद्धव्यम्' इति । मल्लिके, त्वमपि किं ब्रवीषि- 'अरे मयूरक, कुलत्थयूषार्थिनस्तव कुतो मन्दुरातुरगाधिकारः । गच्छ गच्छ । किं दाता किमदाता वा त्वम्' इति । सखे, किं ब्रवीषि-'कथमियं गणिकाया जननीव कथयति दुरक्षराणि । (अपवार्य ।) सखे, विरम वि- रम । कुटिलान्तरङ्गाः खलु कुरङ्गाक्ष्यः । किं ब्रवीषि–'कुटिलतरान्तरङ्गा इति वक्तव्यम् । किं च । किं बमहे कुटिलतीक्ष्णकठोरभावा नाङ्गेषु मान्ति सुदृशां किमुतान्तरङ्गे । यत्तावदाद्यमलकेषु दृशोईितीय- मुज्जम्भते तदितरत्कुचकुम्भयोश्च ॥ १५१ ॥ भवत । चन्द्रिकामालोक्य सोढव्यम्' इति । चन्द्रिके, किं ब्रवीषि- मयूरक, त्वयि किंचित्प्रथम,दितमविनीतं तदनु यौवनमददुर्ललितायाम- स्यामपि किंचिदुदश्चितम् । किमेतावता । पश्यतु कन्दुकक्रीडाचातुर्यमस्याः पल्लवपाणेः । अयि मल्लिके, मुधा मा कृथाः कलहं परिहासकुतुके मयू- रके । विहर तावत्कन्दुकेन' इति । (सहर्षमात्मगतम् ।) दिष्टया मालका- मयूरको समीकृतवती चन्द्रिका । (प्रकाशम् ।) सखे, पश्य पश्य । गुणिनमपि सुटत्तं कन्दुकमालोक्य ताडितं तन्व्या । परिनृत्यति कुचभारः किं ब्रवीपि- 'कर्कशतत्तस्य कुत्र कारुण्यम् १५२' इति । वयस्य, दीयतामितो दृष्टिः, यत्र शुकमालापयति शुकभाषिणी ( इति विलोक्य सकौतुकम् ।) १. 'श्वाङ्गेषु यान्ति' क. २. 'उदीरितं विनीतम्' क. ३. छन्दोभङ्गदूषितोऽयमार्या- प्रथमपाद:.
मुकुन्दानन्दभाणः । " आलापयन्त्याः शुकमायताक्ष्या मूर्ता मुखस्थाक्षरपतिरेव । विलोक्यतेऽस्या विमले कपोले ताटङ्गमुक्तामणिबिम्बदम्भात् ॥१५३॥ (श्रवणमभिनीय ।) कोऽयं कलकल: पौराणाम् । किं ब्रवीषि-'वयस्य, गत्वा निरूपयावः' इति । सखि, सावधानं तिष्ठ । (इति कतिचित्पदानि गत्वा पुरोऽवलोक्य सकौतुकम् ।) सखे, पश्य पश्य । अयमिह पौरानाकुलयत्यलं तत इतः पश्यन्पतत्यापणे व्यग्रानापणिकान्विवृत्य वदनं वित्रासयन्गजति । पाणिभ्यां युगपन्मुखेन च मुहुगृह्णाति मुद्गान्यवा- न्धावत्युत्पतति प्लवत्यपि कपिः प्रासादमारोहति ॥ १५४ ॥ (सहासम् ।) किं ब्रवीपि- प्रतिक्षणविलक्षणं बलु प्लवंगचेष्टालक्षणम् । पश्य । लीलाचक्रमणैविटङ्कशिखर श्रेणीषु लोलं चर- नासीनः क्वचि_जानु कलयञ्शेफःसमुज्जम्भणम् । बी डाकारिविचेष्टितैविनमयन्वक्त्राणि वामध्रुवां पौराणां पुरतश्चरन्प्रहसनं प्रस्तौति शाखामृगः ॥ १५५ ॥ (श्रवणमभिनीय ।) अयमिदानीम् नाडीभेदविभिन्नकालकलनाविज्ञानसंसिद्धये दैवज्ञाभिहतादमन्दघटिकाघण्टामणेरुत्थितः । लोकानां श्रवणोत्सवं विरचयन्रुन्धन्क्रमाद्रोदसी द्राधीयान्निनदः कदम्बमुकुलन्यायात्समुज्जृम्भते ॥ १५६ ॥ तदयं मध्याह्नसमयो वर्तते । (उर्ध्वमवलोक्य ।) सखे, पश्य परम । पादानुदग्रतरपर्वतमस्तका विन्यस्य सान्द्ररुचिरद्य सहन्त्रभानुः । अन्वेष्टुमन्धतममं गहनेषुलीन- मारोहतीति गगनाग्रमयं प्रतीमः ॥ १५७ ॥ १. उत्पति' ख. २. 'कुतः' क.
४४
काव्यमाला।
किं ब्रवीषि-'मम तु पुनरेवं प्रतिभाति ।
कान्तारलीनमिव सन्तमसं विचेतु-
माकाशपादपशिखामधिरुह्य भानुः ।
भूयोऽप्ययं पतनभीत इवाखिलाशा-
शाखावलि निजकरैर्युगपद्विभर्ति ।। १५८ ॥' इति ।
(समन्तादवलोक्य ।) अहो स्थावराणामपि शरणागतपरित्राणपरायणता ।
पश्य पश्य । (अङ्गुल्या दिनकरमण्डलं निर्दिश्य ।)
रोषादेष करान्प्रसार्य कुरुते संनाहमहांपति-
श्छायां नाशयितुं निजातपभयत्राणोद्यतामद्यताम् ।
(पादपावदिश्य ।)
एते भूमिरुहास्तु पल्लवकरैः संरुध्य भास्वत्करा-
न्गोपायन्ति
किं ब्रवीषि-
न को नु वा परपरित्राणोद्यतं त्रायते ॥ १५९ ।।
परंतु छायापरिपालन न पादपानां प्रशंसापदम् ।
ये पालयन्ति निरुपाधि फलादिभिः स्वैः
पान्थान्कुतोऽपि विषयात्क्वचन प्रयातान् ।
स्वाकारमेव दधतीं स्वशरीरजातां
छायां न पान्तु तरवः कथमातपात्ते ॥ १६० ॥' इति ।
(अन्यतो दृष्ट्वा ।।
कमलोदरमकरन्दं मपदि कदुणं विहाय सानन्दम् ।
मदशिशिरकरटपालीमिभकलभानामपति मधुपाली ।। १६१ ॥
(कतिचित्पदानि गया ।) इयमिह
मिक्तं वेदपयोभिः मक्तं करजव्रणेषु चाद्रेषु ।
सीत्कृतिसंकुचदधरं कभुकमबला शनैरुदश्चयति ॥ १६२ ॥
मुकुन्दानन्दभाणः । . किं ब्रवीषि-'एवमेतत् । उच्चैरुन्नमनादुजालतिकयोरुन्नम्रितौ पार्श्वयो- राद्रीनानखवणाङ्कवलयावादर्शयन्ती कुचौ । बिभ्राणा चुचुकाञ्चलेन सिचयं बिम्बाधरापाटलं कान्ता मुञ्चति निःसहातपपरिश्रान्ता शनैः कक्षुकीम् ॥१६३॥' इति । (पुनविलोक्य ।) कथमग्रत एव समुदग्रकनकदण्डकाण्डकलितपाण्डुरात- पत्रपुण्डरीकमण्डलच्छायान्तरितधनातपा कापि कमलमुखी सखीकरमव- लम्ब्य सलीलमभिमुखीभवति । (निर्वर्ण्य ।) करैहीरं हारं मुखपग्मिलं मोहनदृशो रुचां नेता नेता कमलममलं बान्धवमिति । रुषा छत्रछद्मा तिरयति रवि शीतकिरणों दुरालोकं लोके रि पुविभवमालोकयति कः ॥ १६४ ॥ मप्रत्यभिज्ञम् ।) कथमियमस्मदपहृतकौमारा नातिचिरादेव समग्रयौवना- वतारा तारा । यतः । उद्भगदं प्रतिपद्य पक्कबदरीभावं समेत्य क्रमा- 'नागारुतिमाप्य पुगपदवीमारुह्य विल्वश्रियम् । लब्ध्वा तालफलोपमां च ललितामासाद्य भूयोऽधुना चश्चत्काञ्चनकुम्भजम्भणमिमावस्याः स्तनौ भ्रितः ॥ १६५ ॥ (आलिङ्गय । आत्मगतम् ।। अलं क्रोडीकत यदपहृतमप्यमभव- दुजेनैकेनापि प्रथमपरिरम्भ मृगदृशः । तदेवाद्य प्रेम्णा गतपि मदककरमतां न माति प्रोत्तङ्गस्तनभरतथा बाहुयगले ॥ १६६ ॥ (प्रकाशम् ।) अयि, अपि नाम यदाकदाचन स्मरसि भजंगशेखरम् । (सोपालम्भम् ।) किं ब्रवीषि-'किमिति स्मरामि कितवाचारं भवन्तम् । १. 'कंचुलीम' क. २. 'लोको' क. ३. 'तारा' क-पुस्तके नास्ति. ४. 'अयि' ख-पुस्तके नास्ति. ५. 'कदा वा' ख.
४६ ४ काव्यमाला। मायाविन्यतिकर्कशात्मनि दयारे मृषाभाषणे मिथ्याबाह्यविडम्बनकचतुरे श्रीकृष्ण कि मे त्वयि । आस्ते कोऽपि वियोगभीरुरनिशं कृष्णो ममान्तर्बहि- र्य पश्यामि च संलपामि च मुहुः श्लिष्यामि हृष्यामि च॥१६७॥ इति। (सहर्षमात्मगतम् ।) कथं वारयुवतिजातेरपि प्रेमभावबन्धुरं हृदयम् । (प्रका- शम् ।) सखि, जानामि ते साहजिकरागरमणीयं चेतः । भवतु । केयं पार्श्ववर्तिनी । यस्याः किंचित्किचिदुदश्चतीव वलयाकारण वक्षःस्थली मन्दं मन्दमिवाधिरोहति वचोलीलाक्रमे वक्रिमा । स्तोकं स्तोकमिवाविरस्ति सरसव्रीडाविलासो दृशो- वारं वारमवेक्षते च मदनो वस्तुं वराङ्गचा वपुः ॥ १६८॥ किंच। पदमधरदले विधाय रागः प्रविशति संप्रति मानसं मृगाक्ष्याः । पतति कुटिलतापि कुन्तलेभ्यो विपुलविलोचनलोलवीचिकासु ॥१६॥ कि ब्रवीषि-'भाव, इयं ममैव कनीयसी शशिरेखा' इति । (सप्रत्यभि- ज्ञानाश्चर्यम् ।) कथमेतावतैवानेहसा तावदियमियतीमारुतिसंपदमधिगता । म- म त्विमामालोकयतः अव्यक्तवर्णमपि कर्णरसायनं य- प्रायः सवलत्पदमपि प्रियदर्शनं यत् । आभाषणं च गमनं च तदेव साक्षा- दद्यापि मे भवति शैशववृत्तमस्याः ॥ १७ ॥ तदस्या अपि कौमारमहमेवापहरिष्यामि । मयूरक, किं ब्रवीषि- 'विदग्धः खलु भवान्मुग्धाङ्गनाजनमनोरञ्जनकलासु' इति । यद्येवमङ्गीक- रोति प्रेयसी तारा, तार्ह सफलं मे वैदग्ध्यम् । सखि, किं ब्रवीषि-'यदु- पभुक्तशेपं किल तयापि भोक्तव्यम् । गच्छ गच्छ । कठोरातपेन पादनखंपचे १. 'प्रेमबन्धुरं' ख. २. सहजानुराग' ख.
मुकुन्दानन्दभाणः। पथि किं स्थालापेन' इति । तर्हि गच्छ । वयमपि पुरोद्यानवाटीं प्रविश्या- तपमपनेष्यामः । सखे, पुरोद्यानपद्यां प्रदर्शय । किं ब्रवीषि-'इत इतः' इति । (परिक्रम्यावलोक्य च सकौतुकम् ।) कथमत्र सरसि मध्याह्निकस्नानमा- चरन्ति महीसुराः । (विहस्य ।) किं ब्रवीपि-'अनवरतजडाशयपरिचयादेव नूनमेषां श्रोत्रियजडानां प्रतिदिनमतिशेते मतिजाड्यम् । किं च । सिता- सितसरित्प्रमुखमहातीर्थराशेरतिमहत्तरमिदं मरकतनामकं सरः पारलौकि- कसुखसाधनमिति पौराणिककथामनुधावतामवनिसुराणामनिवारणीयमम्भोव- गाहनव्रतम्' इति । ननु रहस्यविदामत्रैव सुखमस्ति । यतः । दरहासविलोकनापदेशानिमलिते यत्र सितासिते तटिन्यौ । सुदृशां पुरतो विगाह्य तम्मिन्सुग्वमत्रैव भजन्ति केऽपि धन्याः॥१७१।। अन्यच्च । भृङ्गोप्तलाम्बुरुहकम्बुमृणालकोक- शैवालवीचिसलिलभ्रममैकतानि । यत्रेभहस्तकमठस्फुरितानि भान्ति क्रीडन्ति तत्र रसिकाः सततं सरस्याम् ॥ १७२ ॥ किं ब्रवीपि-'ससे, दीयतामितो दृष्टिः । अम्बुसिक्तविमलाम्बरान्तराद्विम्ब्यमानजघनोरुमण्डलाः । उत्तरन्ति सरसोऽद्य बालिकाश्चित्तलोभकरसिद्धमूलिकाः॥१७३॥' इति । (दृष्ट्वा स्मरणमभिनीय । ) वयस्य, विमलसलिलासिक्तासक्ताम्बरप्रतिबिम्बितां मुहुरवयवश्रेणीमेणीदृशां मम पश्यतः । स्मरति तदलं चित्तं व्यक्तं यदारचयन्पुरा मुषितवसने मन्दं कुञ्ज गते मयि गोपिकाः ॥ १७४ ॥ पुनः किं ब्रवीषि-'इतोऽपि विततनलिनदलच्छायायां विकचरानीवराजी- विरंचितावतंसा राजहंसावली' इति । (निर्वर्ण्य ।) १. गच्छ गच्छ' क. २. 'श्रोत्रियजडानां' क-पुस्तके नास्ति. ३. 'गाथा' ख. ४. 'कमल' ख. ५. 'मन्दं' क. ६. 'अपि' क-पुस्तके नास्ति. ७. 'विरचितनिवासा' ख. ८. 'निर्वर्ण्य' क-पुस्तके नास्ति.
४८ काव्यमाला। छायामायतनालपत्रकपटच्छतोदितामाश्रिता कुर्वाणा निजपक्षपाति भुवनं कोशोदयामोदिनी । सानन्दं कविभाषितानि कलयन्त्याबद्धपद्मासना लक्ष्मी विन्दति राजहंसपरिषन्नामानुरूपामियम् ॥ १७५ ॥ (पदान्तरं गत्वा ।) इदमिदानीमविरलतरुनिकरनिवारितरविकरप्रवेशं रवि- करप्रकाशचकितगुरुतिमिरशरणीकरणीयलतागृहप्रवेशं वचन समुल्छसि- तशताङ्गमिव विकसदशोकशाखाभिः, क्वचिदुन्नतमातङ्गमिव निविडतम- तमालतरुभिः, क्वचिदुदारतुरंगमिव क्रीडाकुरङ्गैः, क्वचन वाचालबन्दिवृन्द- मिव कलकलायमानकोकिलकुलैः, क्वेचन पुरोत्तम्भितपताकमिव राजर- म्भाभिः, क्वचिदान्तकुन्तमिव केतकीप्रसूनैः, क्वचिदुद्यतकरवालमिव चूत- प्रवालैः, कचिदुहृतातपत्रमिव शतपत्रैः, क्वचिदुइतचामरमिव चपलकलहंसैः, क्वचिदुपनतगीतमिव मधुरमधुकरझंकारैः, क्वचिदुदञ्चितनटनचटुलवारनि- तम्बवतीनिकुरम्बमिव मलयानिल चलितललितलताभिः, क्वचिदुपरचितविता- नमिव कायमानैः, क्वचिदुच्छितपटमण्डपमिव कुसुमितलतानि'जैः समन्त- तश्च कुसुमशरनृपशिविरमिव पुनरनेन सकलेनापि स्फुरति पुरः पुरोद्यानम् । ५ अपि च । मधुराप्सरोविलासा मधुरसकलनाकुलालिसहकारा । अक्षतरूपश्लाघ्या वनिताजनतेव भाति पुरवन्या ॥ १७६ ॥ किंच। अलिकलसदगतिलका चलदलकान्ता सुवर्णकृतमाला । तरुणवयोरमणीया तरुणीलीलां दधाति वनरेखा ॥ १७७ ।। अन्यच्च । मृदुलवलिललितमध्यं पृथुलकुचं चारुविपुलभूजधनम् । पुंनागस्टहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ १७८ ।। १. 'दल' ख. २. 'क्वचिदुत्तम्भित' ख. ३. 'उपवन' क. ४. निकुरंबैः' क. ५. 'पुनः' क. ६. 'अपि च' ख.
मुकुन्दानन्दभाणः। ४९ (वनं प्रविश्य ।) सखे, पश्य पश्य । मन्दमन्दमुपगम्य मारुते मञ्जरीकुचकिशोरकस्टशि । रागवत्यपि रसालवल्लरी पल्लवेन पिदधाति पाणिना ॥ १७९ ॥ (पुनावलोक्य ।) कोऽयमपरिशीलितसंनिवेश इव, आविष्ट इव, मुक्तचैतन्य इव, मुषितेन्द्रिय इव, अनियतमितस्ततो विवशमेव कथंचन बलादात्मानं संचारयन्क्वचिदपि न विश्राम्यति । (निर्वर्ण्य ।) किं ब्रवीषि-'वयस्य, कलहंसको मदनविह्वलः परिभ्राम्यति' इति । (उपमृत्य ।) वयस्य, किमित- स्ततो भ्राम्यसि । किं ब्रवीषि-'किं करोमि । अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं पुन- स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तमुमनस्तल्पेषु वापीतट- क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि ताम्यामि च ॥ १८०॥ इति । कया गणिकया मुषितचेतनो मुह्यसि । किं ब्रवीषि-'आः, किमुच्यते गणिकयेति । नहि गणिकाजनकामुकस्तव वयस्यः । किंतु प्रभाकर- कलत्रस्य कॅमलिन्यः कैरपि विभ्रमविभ्रान्तस्वान्ततया मैनागपि नात्मनः प्रभवामि' इति । सखे, साधु साधु । उपरिप्लवस्वभावाः प्रायो गणिकाश्च ताणकणिकाश्च । कथय कथं गाहन्तां रसिकानां मनसि मरसि च स्वरसात् ॥ १८१ ॥ मयूरक, सशिरःकम्प किं ब्रवीपि- 'सदृश एवं कमलिन्यां कलहंसस्य रागानुबन्धः । अपि च तादृशमेव तदीयं सौन्दर्यम् । यतः । वीथीमुपैति यदि नाम विलामिनी सा देवात्मवादिदिवसेष यदाकदाचित् । व्याजात्कुतोऽपि विनिवृत्य पुरोजुपोऽपि पश्चाल्लगन्ति परिफुल्लदृशो युवानः ॥ १८२ ॥' इति । १. 'भृताविष्टः' ख. २. 'कथं ख. ३. 'ते' ख. ४. 'पद्मिन्याः कैरपि विलासः'ख. ''. 'मनार्गाप' ख-पुस्तके नास्ति.
५० काव्यमाला। सखे कलहंसक, कथय कथमनया सममनायासमत्रैवोद्याने मिलितोऽसि । कि बीपि-कथमनायासमासाद्यते परकलत्रम् । शृणु तावत् । वीक्षाविभ्रमचेष्टितैरपि मनो विज्ञातुमेवाक्षम ज्ञातेऽप्यालपितुं न शक्यमथवा संभाषितापि क्रमात् । नेतव्या स्ववशं कथं वशमथानीतापि कृच्छ्राक्वचि- निर्विघ्नं पुनरन्ततः परवधरासाद्यते वा न वा ॥ १८३ ॥' इति । (आत्मगतम् ।) एवमेतत् । अत्रायं सौदामिनीकामुको मयूरक एवोदाह- रणम् । अथवा मय्येव तिष्ठति भमभागधेये किमन्यगवेषणया । (प्रकाशम् ।) एवमेतत् । किमालापः स्वैरं क्षणमपि किमेकत्र वसतिः क्रिमाश्लेपो गाढं किमु ह्दयतृप्तिः किमथवा । रतान्ते विश्रान्तिः किमिह परकीयासु घटते तदप्याश्चर्य नः परिपतति तास्वेव हृदयम् ।। १८४ ॥ तत्कथमासादिता कमलिनी वयस्येन । किं ब्रवीपि-'तत्कृते मल्कता- यासा माममेकं नक्तदिनमपि कथ्यमानी न पार्यत एव । श्रुत्वा वा ततः किमस्ति प्रयोजनम् । फलितं तु कथयामि । सा खलु प्रथमावलोकनप्रभृति प्रकण वा प्राचीनपुण्यपरिपाक नाम्, अनुग्रहेण वा शुभग्रहाणाम्, आनु- कृल्येन वा कुलदेवतानाम्, अनुरोधेन वा मधुमासवासराणाम, दाक्षिण्येन वा दक्षिणानिलानाम, गौरवेण वा कोकिलगुरूपदेशानाम्, महिमातिशयेन वा मधुमदचपलमधव्रतविरुतमन्त्राक्षराणाम्, प्रभावेण वा प्रसवरजःसिद्धच- णीनाम्, महत्तया वा मदनमहाराजविभूतीनाम्, किंबहुना स्वकीयेनैव पर- तापासहिष्णुना स्वभावतरलेन रसिकसमाजहृदयरञ्जनेन परप्रार्थनाभङ्गभी- रुणा निसर्गसरसेन प्रकृतिविशेपेण वा क्रमेणास्य जनस्योपरि ग्राहित- रागानुबन्धा बन्धनपि श्वश्रमपि श्वशुरमपि पतिमपि परिजनमप्यतिसंधाय रुतममयबन्धा यदा यदा स्वयमेव मामभिगन्तुमुद्यतवती, तदा तदा नि- १. 'हृदयसाहित्यमथवा' ख. २. स्निग्ध' ख. ३. 'महाराजाज्ञा' ख. ४. 'सरसेन ख... 'उदात्तवती' ख.
मुकुन्दानन्दभाणः । ५१ कारणवैरिणा सदृशसमायोगविघटनकुटिलेन परश्रेयोविघातकारिणा प्रक- तिदारुणेन करुणागन्धविधुरेण वात्सल्यकथानभिज्ञेन दुर्विदग्धेन विधिना बहूनपि वासरान्न केवलं विफलमनोरथा कमलिनी कृता, कित्सावहमपि शोकमलिनीकृतः। ह्यस्तने तु पुनरहनि गभस्तिमालिनि शनैरस्तगिरिमस्त- कादवतीणे चरमार्णवमुपरि परिलग्नमयूखमञ्जरीभिरिव रविपतनपरिक्षुभित- जलधिजलोत्पतितवाडवशिखाभिरिव विरहिजनहृदयतार्णगृहवितीर्णपरि- शिष्टमदनविसृष्टदहनहेतिभिरिव संध्यारागरुचिभिरापाटलेषु पयोदपटलषु, दुर्विषहर्तंदुष्णवेगासहिष्णुतयेव तारतरविरावमुखरमुखमभीक्ष्णकृतपक्षपुट- विधूननं शिशिरकुसुमरसपरागपिहितनिजहितकुलायमहीरुहं गतेषु विहं- गमेषु, तदात्व एव तदालोकन भयादिव श्रिया बटिनदलकवाटेपु कमल- वाटेषु, तत्कृतदुरन्तसंतापादिव मनानविस्फोटेषु कुमुदमुक्तास्फोटेपु, समुत्तु- ङ्गतदङ्गारकणिकास्विव दर्शितावताराम तारासु, गगनतलगाढलग्नाभिरतिब- हुलतया पुनरवगलन्तीभिस्तदुज्ज्वलक जलधूलिभिरिव तिमिरपालिभिराक्रा- नतेषु दिगन्तेषु, विस्फारतदीयविस्फुलिङ्गेप्विव विद्योतितविपिनाङ्गणेषु ज्यो- तिरिङ्गणेषु, किंच विफलजनचक्षुपि विस्फुरितसकलतारकारोचिपि प्रचीय- मानकौशिकगायुषि दूर दृश्यानलाचिपि यमानचक्रवाकहृदय टुपि चञ्चरी- कपरिपीयमानकुवलयमकरन्दविपि उद्देलचकोरिकातृपि उन्मिपदोष- धिज्योतिषि उदग्रदीपिकात्विपि उद्बोधितकुमुमधनुपि शिशिरमरुदनुमीय- मानसरसि प्रनष्टसंध्यारागतेजसि अपरिदृष्टचन्द्रमसि अप्रविष्टचन्द्रिकाम- हमि तस्मिन्ननेहसि, प्रबलतमःपटलपटकृतावगुण्ठनतया केनचिदप्यल- क्ष्यमाणो निभूतपदक्रम क्रमात्प्रभाकरगृहप्राङ्गणं प्रविश्य तस्मिन्नेव पूर्वकृत- मंकते स्नानगृहे न्यवसम्' इति । तर्हि संप्रदायज्ञोऽसि ! १. 'संयोग' ख. २. 'सा विवाहाप' क. ३. 'जटरोत्पतित' ख. ४. 'ग्रह' क. ५. 'पयोधर' ख. ६. 'तदुत्य' ख. ७. गमे' क. ८. 'तदा तदाविलोकन' क. ९. 'विस्फोटासु कुमुदमुक्तास्फोटामु' क. १०. 'समुत्तरङ्गदुत्ता' ख. ११, “वि- प्मुषि' क. १२. 'नानिकेतने' ख.
५२ काव्यमाला। स्नानालये वा ततनिष्कुटे वा गोष्ठेऽपि वा पुष्पकुटीरके वा । पराङ्गनाभोगपरेण यूना वस्तव्यमालोक्य विलोकशून्ये ॥ १८५ ॥ ततस्ततः । किं ब्रवीषि–'ततस्तस्या देवरस्तदेव गृहं गृहीतधूमवतिरङ्गा- गर्थी प्रविश्य समुपविश्य चुल्लीसमीपभुवि तत्रत्येनैव केनचित्तुष्टावशिष्टेन काष्ठेन गाढावनमितमूर्धा किचिदुल्मुकमुज्ज्वलयन, उपार बद्धभस्मपरागमु- त्सारयन्, वदनमरुता यावदेव दरदृश्यमानाङ्गाररुचिभिरगारतिमिरनिकर मदीयधैर्यसारेणैव साकमपसारयति स्म' इति । हन्त, अत्याहितमत्याहितम् । ततस्ततः। किं ब्रवीषि-'तावदेव मदुपकण्ठगते सलिलकलशे मयैव निपाति- ते तदम्बुपरिवाहविगाहनसमसमयमेव संफूत्कारमुत्थितेन कदुष्णेन भस्मना युगपदेव नासानयनवदनविवरपातिना कमपि विकारमापादितः । तत्काल- मेव कलशपतनचकितपलायमानगृहविडालकं कलशपतनकारणं मन्यमानो मन्युना शपन्, काष्ठेन क्षिपन्, पक्ष्मपुटनामिकाधरश्मश्रूणि कराञ्चलेन परि- मार्जयन्, नष्टहुताशनतया निराशो निर्जगाम' इति । (सहर्षम् ।) दिष्टया पुनरुज्जीवितोऽसि । ततस्ततः । किं ब्रवीपि-'गत्वा च पञ्चषाणि पदानि पुनरेव निवृत्य वामकरण कवाटमाकृप्य बहिरायसकोलकेन बड्डा निर- गात्' इति । (सविषादम् ।) कष्टं कष्टम् । ततस्ततः । किं ब्रवीषि-'अथ कथंचन कंचिदिव समयं समवस्थितो मन्दं मन्दं कवाटपुटं विघटयितुमने- कधात्मानमायास्य नीरन्ध्रकृतबन्धनतया बहुभिरप्युपायैरशक्यविघटनमव- धारयन्नचिन्तयम् । तदा खल्विदं कवाटबन्धनमकिंचित्करं भवेत्, यदि ना- म सा प्रसीदति प्रेयसी कमलिनी । यदि च केनचिदन्तरायणोपहन्यमा- नया तया सदनान्निर्गन्तुमेव न पार्यते, तदा पुनरत्र गाढकवाटबन्धे घेने- एकारचितभित्ती अभेद्योपरिपरिच्छदे संप्रच्छद्मनि दारुपञ्जरे बुद्धिपूर्वमा- त्मनैव निपतितस्य मम प्रभाते गृहपतिकरपतनमवश्यमसंशयमेव भवि- प्यति । कोऽत्र प्रतीकारः । को वा निर्गमोपायः । का वा युक्तिः । किं वा १. 'कुस' ख. २. 'आलोकविलोक' ख. ३. 'उल्ललयन्' ख. ४. 'परिबद्ध' ख. ५. 'सह निःसारयति' ख. ६. 'सचूत्कारं' ख. ७. 'आस्थितो' ख. ८. 'भवति' ख. ९. 'दृटेष्टका' ख. १०. 'मानि दारुण' ख.
मुकुन्दानन्दभाणः । ५३ शरणम् । कस्मै कथयामि । कथं गौरवं प्रतिपालयामि । कथं वा जनोप- हासं परिहरामि । कथं वा बन्धुगृहेषु चरामि । कथमपनेतव्योऽपवादः । कथमवलोकनीया गुरवः । सर्वथा चोरं जारं वा व्यपदिशन्ति जनाः । किंच किमनुभूय महत्फलमेतावत्परिभवस्य भाजनतां नीतोऽस्मि, यद- नमंधाय सर्वमपि विस्मरामि । किं च । नालिङ्गितं घनपयोधरतुङ्गमङ्गं नास्वादितं मधुरमप्यधरप्रवालम् नाघ्रातमाननपयोरुहमप्यमुष्या हन्ताधुनैव कथमापतितोऽन्तरायः ॥ १८६ ॥ इत्यादिकमामीलितलोचनमेवाकलयन्कमपि पदशब्दमश्रौषम् । श्रुत्वा चो- न्मीलितनयनो द्वारसंधिविवर प्रविष्टैरायामिभिरिन्दुकान्तमयकुन्तानुकारि- भिरर्धावमथितगेहान्धकारैरपरिस्फुटाकारविशेषमर्थजातमुपदर्शयद्भिरनतिव- हुभिरिन्दुपादैरनुमितचन्द्रोदयसमयपरिमाणः साशं च साशङ्ख च कवाट- विवरदत्तचक्षुरतिप्रौढचन्द्रातपतया निःशेषपरिस्फुटारुति दरफुल्लमल्लिका- दामवलितकेशकलापं शशिकिरणपाशपरिवेष्टितमिव तिमिरपटलं शिरसा धारयन्तीम्, सदनवनविहारचैकोरकवलितचन्द्रिकातुच्छप्रदेशानच्छकपोल- कान्तिपूरैरापूरयन्तीम्, श्रुतिपथविलङ्घनजङ्घालविपुलविलोचनवसतिसीमावि- भागहेतुना सेतुनेव नासावंशेनालंकृताम्, गृहदीर्घिकाविकासिकुमुदकुवलया- वलेपसारमपसारयितुमिव तत इता दिक्षु कटाक्षान्विक्षिपन्तीम्, जाम्बूनदाम्ब- रपरिपिहितावयवतया सहोदरीमोहमिलितयेव सौदामिनीलतया कृताश्लेषां विमलनखमणिप्रतिबिम्बदम्भकृतपादपतनं वदनकमलपराजितं चन्द्रमसं प- दक्रमापदेशेन पदे पदे विधूयावधीरयन्तीम्, गुरुकुचकुसुममञ्जरीमञ्जुलतनुल- तापरिमलतरलपटीरपवमानमन्तरान्तरा पर्यस्तपटाञ्चलोच्चलनकपटेन पाणि- कमलेन परिहरन्तीम्, प्राटषमिव धनपयोधराम्, शरदमिव प्रसन्नसरसाश- याम्, चन्द्ररेखामिव चारुसुधाधराम, समुद्रसंपदमिव समकरस्फुरितकंकणा- १. 'लोचनः' ख. २. 'इन्दुकान्तमयकान्तानु' ख. ३. 'चकोरकिशोरककवलित- च्छन्नप्रदेशान्' ख.
५४ ४ काव्यमाला। भिरामाम, तारामिव मुग्रीवाधिरोपितहाराम्, सुयोधनसेनामिव कर्णावस- क्तगाङ्गेयाभरणाम, सुमेरुधरामिव सुवर्णमेखलाम्, सुरवनीमिव सुरतरुचि. रोपगूढस्वान्ताम्, समग्रसकलावयवामपि दरदर्शितानङ्गविभ्रमाम्, सेनाम- प्यबलाम्, संजातसाविकोदयामपि सान्द्रतमोविगाहनकुतूहलाम्, गुणानु- रागिणीमपि दोषागमोत्सुकाम, परलोकभीतामप्यङ्गीकृतस्वैरभावाम्, तामेव कान्तामपश्यम्' इति । सखे, खरकिरणसंतापितोऽपि शिशिरकरकलामा- लोकते न किं कुमुदाकरः । ततस्ततः । किं ब्रवीषि-'ततस्तदवलोकनसु- धारसाप्यायितसकलावयवतया कमपि प्रमोदभैरमन्तरासाद्य सद्य एव तया विवटितकवाटबन्धे प्रागेव दरविवृतकवाटपुटनिहितकरः पुरस्तात्प्रसार्य पूर्व- कायं कायजसाम्राज्यकलाम, कमलिनी करेण गृहीत्वा तमेव मज्जननिवेश प्रावेशयम् । प्रविश्य । धम्मिल्लं मम मुञ्च मुश्च किमिदं गृह्णासि चेलाञ्चलं हारस्वत्यति तिष्ठ तिष्ठ गुरवो निष्कारणाशकिनः । मन्दं जल्प गृहे पतिः खपिति मे धतीते संलापिनी मामालिङ्गितवत्यमुक्तवसना सा सत्वरं प्रेयसी ॥१८७॥' इति । मरखे, धन्योऽसि । यतः । वेश्या किं तव कचकी श्वथयितुं वेणीग्रहं मा कृथा राज्यं नेदमराजकं तव बलात्कारेऽधिकारः कुतः । नीवी मा स्टश ते स्टशामि चरणावित्यालपन्ती हठा- घेनालं परिरभ्यते परवधूः सोऽयं हि धन्यो युवा ॥ १८८ ॥ किं ब्रवीपि-ततः पादाग्रेण कथंचन स्थितवती बाहू निधायांसयो- रुन्नम्योरसि मे गुरुस्तनभरेणोल्लेखनं कुर्वती । बाला चुम्बनलम्पटेव चपलं स्पृष्ट्वा कपोलस्थली- मासिञ्चन्मम कामपि श्रवणयोरालापरूपां सुवाम् ॥ १८९॥ १. भरमतिमात्रमासाद्य' ख. २. 'निर्गत' ख. ३. 'अकायसाम्राज्यकमलां' ख. ४. 'मान्यो' ख. ५. 'वेश्या' क. ६. 'कबुली' क. ७. 'ततः' क-पुस्तके नास्ति. ८. 'लम्बितेव चपला' क.
मुकुन्दानन्दभाणः । यथा किल । अद्याहं शिरोवेदनापरिदूनेनार्यपुत्रेण श्वश्रूसमीप एव शयि- तुमादिष्टास्मि । श्वश्रूश्च मां प्रागेव शयनगृहं प्रस्थाप्य निद्रां प्रविश्य वर्तते । तदेहि तावत् । आवामशहू पुरोद्याने विहराव' इति । सखे, साधु मन्त्रितं तया । श्वश्रूसमीपशायिनी मन्यते पतिः । पतिसविधशायिनी च श्वश्रूः । तदुभयतोऽपि न शनीयम् । ततस्ततः । किं ब्रवीषि-'ततश्च विततनालिकेरतरुशाखादलवलयकायमानान्तरितचन्द्रकरधोरण्या सरण्या तया तरुण्या तावादेदमेवोद्यानमानीतोऽस्मि । आनीय च सा संलापकेलिकरताडनसोपहास- ताम्वलचुम्बनकचग्रहणविलामैः । उद्बोधिताइननया म्वयमेव नाव प्रावर्तत प्रथमता रतये नतभ्रूः ।। १९० ॥ कि च । कण्ठाश्लेषिणमुन्नतस्तनभर श्रोणीतटग्राहिण संमक्तोरुयुगं गृहीतजवनप्रावारमप्यन्ततः । प्रागेव श्लथवन्धमिन्दुवदना गाढावमर्दासह विज्ञायात्यजदाशु काञ्चनपटं ब्रीडाकुलापि क्षणम् ॥१९१॥' इति । मयूरक, सहासं किं ब्रवीषि-'काञ्चनपटमित्यभिधाय मामुज्जीवितवानसि । यंत आत्मानमेव तादृशमत्य जदिति कथयसीति भीतोऽस्मि' इति । (मस्मितम् ।) भवतु । ततस्ततः । किं ब्रवीपि- 'वयस्य, ततः परम् । प्रागल्भ्यं पुरुषायिते मम पुरः पश्यति संनद्धया तन्व्या ताम्यदरोजयापि सचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च पुनः सापत्र सस्मितं माकृतं च समीक्षितं मृगदृशा यत्तत्कथं कथ्यते ॥ १९२ ॥ एवमनेकविधविहारैरायामवतीमपि यामवती विरामवतीमाकलय्य यावदेव पुनरहमेकवारमालिङ्गितुमुद्यतोऽस्मि, तावदेव -- १. परिदयमानेन' ख. २. 'दागेव' क. ३. 'यत: किल' ख.
काव्यमाला। कराभ्यामाकृष्य क्वणितवलयाभ्यां सरभसं समासज्य स्वैरं कुचकलशयोरुत्पुलकयोः । गलत्काञ्चीदामन्यलघुनि समारोप्य जघने तया बद्धो गाढं तदनु सुकृती (इत्यक्तेि ।) वयस्य, सत्यमेव सुकृती भवान् । यतः । परिरम्भकेलिपरिहासभाषणैभृशमाहतोऽपि न वशं समेति यः । स वधूजनोऽपि यतते यदि स्वयं ग्रहणाय तत्पुरुषपुण्यगौरवम् ॥१९४ ॥ (मनिःश्वासम् ।) किं ब्रवीषि--'क्व वामेतादृशं सुकृतम्' इति । कस्तर्हि । किं ब्रवीषि। 'काञ्चनपटः ॥ १९३ ॥' इति । ततस्ततः । किं ब्रवीपि-'ततश्च प्रभातप्रायेयं जनिरजनि प्राग्गुरुजन- प्रबोधाद्गन्तव्यं विसृज विसृजेति द्रुतगतिः । पटान्ते लग्नं मां परिहृतवती पद्मनयना प्रयाता पश्यन्ती विवलितमुखेन्दुः प्रतिपदम् ॥ १९५ ॥ ततः प्रभृति अत्राकारितमत्र चुम्बितमिहाश्लिष्टं च हृष्टं पुन- स्तन्वङ्गयात्र विसृष्टमत्र शयितं चात्रैव संभाषितम् । इत्थं कुञ्जगृहेषु तान्तसुमनस्तल्पेषु वापीतट- क्रीडासैकतकेषु च प्रतिपदं भ्राम्यामि हृप्यामि च ॥ १९६ ॥ मयूरक, किं ब्रवीषि—'सखे, नक्तंदिवमपि तया किं तवाङ्गमारूढया भ- वितव्यम् । प्रयाता चेन्नक्तमागमिष्यति किमेतावता' इति । एवमेतत् । अतनुतापमपास्य निशि प्रभाकरकलत्रमसौ मुकुलस्तनीम् । कमलिनीमचिरान्कलहंसको रमयतीति वयस्य किमद्रुतम् ॥ १९७ ॥ किं ब्रवीषि-'यदि तावदनेहसं प्रसूनमार्गणो मार्गणार्नुपसंहरिष्यति ततः १. 'तथ्यं' ख. २. 'मम' ख. ३. 'भवति रजनी' ख. ४. 'तदा' ख. ५. 'किम तावता' ख. ६. 'उपसंहरति' ख.
मुकुन्दानन्दभाणः । ५७ शुभोदकै भविष्यति न भविष्यति वा' इति । मयूरक, किं ब्रवीषि- 'सखे, प्रमदवनपालिकां मरालिकामाहूय कलहंसकस्य शिशिरोपचारं का- रय' इति । (स्मरणमभिनीय स्वगतम् ।) प्रियाप्रस्थानत्तान्तावगमाय प्रेषिता किल मया वनपालिका मरालिका । भवतु । (प्रकाशम् ।) क्वेदानी मरा- लिका । कलहंसक, किं ब्रवीपि- 'वयस्य, मरालिकानामग्रहणेन स्मृत्वा कथयामि । सा खल्वितः पूर्वस्मिन्नेव मुहूर्ते वयस्यमेव सुचिरमितस्ततो- ऽन्विष्यान्विष्यानुपलभ्य क्वापि मत्सकाशमागत्य 'अये कलहंसक, तव प्रियसखो मुकुन्दश्चिरमन्विष्टोऽपि न दृष्टः । तदागते तस्मिन्निदं तस्य करे समर्पणीयम्' इति स्वकरकुसुमपुटिकान्तरादुहृत्य पत्रिकायुगलं मदुप- कण्ठे निधाय मया पुनरपि त्वमेव तदागमनपर्यन्तं स्थित्वा गच्छ' इति मुहुरुदीरितापि 'ननु तावदहं राजवल्लभेन मन्दारेण पुरावहिरद्य नक्तं का- लिकाया बल्युत्सवं कारयता कुसुमानयनायादिष्टास्मि । तत्क्षणमपि विल- म्बितुं बिभेमि' इत्युक्त्वा गतवती' इति । (सहर्ष स्वगतम् ।) विजहाति वक्रिमाणं विधिरधुना तावदीषदिव । शुभसूचकान्यमूनि श्रूयन्ते कतिचिदक्षराणि यतः ॥ १९८ ।। अद्योत्सवदिने नूनं कन्यकापत्यवत्सलः । प्रस्थापयति मन्दारो भतुगैहं न मञ्जरीम् ॥ १९९ ॥ ततस्तत्रैव मरालिका कालिकायतनोद्याने प्रियतमा पूरयिष्यति मे मनो- रथमिति तर्कयामि । (प्रकाशम् ।) सखे, एकां तावदुपनय पत्रिकाम् । किं ब्रवीपि-'इदं गृह्यताम्' इति । (गृहीत्वा विलोक्य ।) कथमिदं प्रियाकब- राभारपरिमिलितं केतकीदलमेव । तदेव निर्दिश्य प्रियावियोगविधुरं ममेवाकृतिनस्तव । परिम्लानमभूदङ्गं केतकच्छद तत्कथम् ॥ २०० ॥ अथवा । आनीय सस्मितमुखीभिरलं सखीभि- नहोऽसि मुग्ध इव वेणिकया नताङ्गयाः । १. 'समीपं' ख. २. 'मे' क-पुस्तक नास्ति. ३. 'कैतकदलं' ख.
६. काव्यमाला। हे केतकच्छद तयैव नखैलिखन्त्या भुक्तस्त्वमेव सुकृती पुनरेष नाहम् ॥ २०१ ॥ सखे, किं ब्रवीषि--'वाचय' इति । (प्राकृतमाश्रित्य वाचयति ।) सत्थि महा- भाअस्स । एसा गच्छम्हि मन्दभाइणी पइभवणम् (क) । (सास्रम् ।) व- यस्य, अतःपरं न शक्नोमि वाचयितुम् । कम्पः पाणेः श्लथयति बलात्केतकीबर्हमेत- चक्षुर्वाष्पं स्थगयति ततो नैव बध्नाति लक्ष्यम् । चेतो मोहप्रसरकलुपं बुद्ध्यते नापि किंचि- जातं शून्यं शिव शिव जगत्प्रस्थितेति प्रिया मे ॥ २०२ ॥ तत्त्वमेव वाचय । (गृहीत्वा ।) किं वाचयसि । ओहरइत्ति पई मं पिअ मा पजाउलो तुमं होहि । सो हरइ ताव अङ्गं अत्ताणं हरइ तुइ कहं लग्गम् ॥ २०३ ॥ अण्णं अ। सीसम्मि कदुअ पाणी सदवारं णाह विण्णवमि तुमम् । काऊण मइ सिणेहं मा णिअकाअम्मि णिद्दओ होहि ॥२०४॥ (ख (सोच्छासम् ।) अतिसाहसमारूढमियतैव प्रिये त्वया । असाविदमपि शृण्वन्हन्त प्राणिमि कर्कशः ॥ २०५ ॥ वयस्यौ, किं ब्रूथः-'सखे, सर्वथा नास्मिन्दिवसे तस्या प्रस्थानं भवति । (क) स्वस्ति महाभागस्य । एपा गच्छामि मन्दभाग्या पतिभवनम् । (ख) अपहरतीति पतिर्मा प्रिय मा पर्याकुलस्त्वं भव । स हरेत्तावदङ्गमात्मानं हरति त्वयि कथं लग्नम् ।। अन्यच्च । शीर्षे कृत्वा पाणी शतवारं नाथ विज्ञापयामि त्वाम् । कृत्वा मयि स्नेहं मा निजकाये निर्दयो भव ॥ १. 'लिखित्वा' ख. २. 'वाचयोत' क-पुस्तके नास्ति. ३. 'संभवति' ख.
मुकुन्दानन्दभाणः । ५९ परंतु श्वशुरकुलमाकुलयितुं तस्याः पतिहतकेन केवलं विचेष्टमानेन भ- वितव्यम् । तथाहि । मृष्टान्नेषु मृषारुचिः सुवसने दादिवानादरः सान्त्वोक्तौ कुटिलोक्तयः किल सुहृद्भावेऽपि सासूगता । प्राप्तेषत्सववासरेषु च पुनः मद्यः प्रयाणोद्यम- स्तजामातृपदाड़ितो न कुरुते किनाम दुश्चेष्टितम् ॥ २०६॥ इति । प्रकृतिरेवेयं मूर्खाणां यत्प्रस्तुतेषु प्रतीपाचरणम् । किं ब्रवीषि--'इमा- मपि पत्रिकां शृणोतु वयस्यः इति । (साशङ्कम् ।) सखे, विभेमि श्रोतुम् । (पुनः सधैर्यम् ।) किमितोऽधिकं दारुणं भविष्यति । वाचय वाचय । किं बांचयास-'स्वस्ति समस्तविलामिनीजनमस्तकमणिस्तोमनीराजितचरण- नखमण्डलाय विटमण्डलाखण्डलाय युवतिहृदयानन्दकन्दाय मुकुन्दाय । सादरमिदमाकलनीयं वयस्येन वचनं वालमित्रस्य वीतिहोत्रस्य । मा प्रस्थिता प्रियतमेति तथा विपादं प्रागेव सा पुनरुपैति गृहान्प्रदोपात् । मा भारती मम मृपेति च जातु शङ्का ज्योतिर्विदां व्यभिचरन्ति वचांसि नार्थात् ॥ २०७ ।। तत्कतिचिदेव कालं सोव्यः संतापः' इति । (विहस्य ।) सायमागन्तुमेव किल महोत्सवमप्यनादृत्य पत्या तामादाय प्रातर्गतम् । किं ब्रवीपि-'व- यस्य, मा मैवम् । न खलु दैवज्ञा मृपाभाषिणो भवन्ति । तदा प्रदोपं प्रतिपा- लनीयमेव' इति । किमेवमपि वक्तव्यम् । प्रतिपाल्यत एव यावत्प्राणधार- णम् । किं ब्रवीपि-'किं नाम करणीयम् । अकारणवैरिणा दैवेन दारुणम- स्मासु त्रिप्वपि प्रदर्शितम् । अत्र भवितव्यतैव भगवती प्रभवति' इति । भवतु । कश्चन कथाप्रसङ्गः प्रस्तुयतां वासरशेपमतिवाहयितुम् । (इतरेतरमव- लोक्य ।) किं ब्रूथः-'किमप्रस्तुतेनान्यकथाप्रस्तावेन । यदेव तावदाकर्ण- १. 'मिष्टानेपु' ख. २. 'किं वाचयसि' क-पुस्तके नास्ति. ३. 'बाल्य' ख. ४. 'वृथा' ख. ५. 'नार्थम्' ख. ६. 'सोढव्याः संतापाः' क. ७. 'मागतमेव' क. ८. 'तावत्' क. ९. 'त्रथःख.
६० काव्यमाला। यितुमावयोरद्भुतजलनिधिमन्नमन्तःकरणम्, तदेव मञ्जरीसमागमसंविधानमा- नुपूव्येण कथयतु वयस्यः' इति । (किंचिन्मुखमैवनम्य ।) किमनेन कथितेना- कथितेन वा विफलेन मनोरथेन । तथापि प्रियसहचरयोरनुयोगो न प्रत्या- देशमहतीति कथयामि तावत् । आकर्णयतं वयस्यौ । किं ब्रूथः---'इमावव- हितो स्वः' इति । अस्ति किल समस्तसुरमस्तकमणिस्तबकपालीदीपाली- नीराजितचरणनखस्य चरणानतचतुर्मुखस्य भगवतो भागवतहृदयमन्दिरा- भरणस्य श्रीमदिन्दिरारमणस्य निरन्तरतरङ्गदभङ्गुरोत्सवनटनरङ्गं निखि- लनगरोत्तमाङ्ग निशाकरपुष्करिणीपरिष्कृतोत्सङ्गं कवेरकन्यकाकृतपरिष्वङ्ग कनकगोपुरोत्तुङ्गं वन्दनमालिकावलदनेकभृङ्ग वन्दारुजनपापभङ्गं वैजयन्ति- काचुम्बितगगनगङ्गं गगनगङ्गाधौतसौधशृङ्ग शृङ्गाटकनटत्क्रीडाकुरङ्ग कुरङ्ग- लोचनापाङ्गतरङ्गितानङ्गमनङ्गमदचटुलवारकान्तावशीलतभुजंग जङ्गमगाङ्गे- यगिरिगुरुशताङ्गं शताङ्गचरणकरपरिचरणपरिणतमत्तमातङ्गं मातङ्गमदज- लासिक्तरथ्यानैटत्तुरंगं तुरंगखुरदलितकुटिमसमुत्थितपरागपरम्परापिहितप- तङ्गं पतङ्गमणिमण्डपमण्डनशुकसारिकाक्रियमाणहरिकथाप्रसङ्ग संगतनिग- महृदयान्तरङ्गं श्रीरङ्गम् । किं ब्रूथः-'अस्त्यसकदवलोकितमध्यासितं च । सह्यक्ष्माधरतुङ्गशृङ्गघटितप्रालम्बमानोल्लस- कावेरीपरिवाहरश्मियुगलीपर्यन्तपर्यतिका । मन्ये रङ्गपुरीति यत्र भगवान्वातूलतूलाञ्चिते तल्पे कल्पितकौतुकः कमलया दोलासुखं ढोकते ॥ २०८ ।। ततस्ततः' इति । कदाचन किल कमलाहृदयकमलभृङ्गराजस्य रङ्गराजस्य चैत्रोत्सवावलोकनप्रसङ्गाहसंतकसंतानकप्रमुखैः प्रियसखैः सह रङ्गनगरी गतः । तत्र तस्तैरुत्सवैरमन्दकन्दलितमानन्दमनुभवन्कतिचन दिनान्यनै- षम् । एकदा तु कलकलायमानकोकिलकुलकण्ठगर्जिततर्जितपथिकजनन- यनबाप्पधारापूरपूरितसरणीषु मधुमदचपलमधुकरतरलबकुलमुकुलगलित- मकरन्दधोरणीषु चन्दनमरुदान्दोलितलताकुसुमपरागपुलिनशबलितासु कु- सुमावचयकुतुकपौराङ्गनाचरणचक्रमणरणन्मणिमञ्जमीरमञ्जुलरवाकष्ट- १. निमग्नं' ख. २. 'अवनमय्य' ख. ३. 'चरत्' ख. ४. 'पराङ्गना' ख.
मुकुन्दानन्दभाणः । ६१ कलहंसधवलितासु क्रीडाकुरङ्गकिशोरककवलितदूर्वाङ्कुरासु वनदेवताकर- कलितबलिकुसुमकोरकितशशिकान्तमणिवेदिकासु कवेरजातटवनवीथिकासु कदाप्यदृष्टपूर्वतया निसर्गरमणीयतया च तस्य देशस्य चित्रीकतहृदय- स्तत्र तत्र संचरन्कंचन चञ्चलापुञ्जमिव जलदावतीर्ण पञ्चबाणकलितमिव काञ्चनलतालीलावनं कृतभृतलावतारमिव तारकानिकुरम्वं तरुणीकदम्ब- मालोकयम् । किं थः-'ततस्ततः' इति । वदनपरिमलाशावल्गदिन्दिन्दिराली- वलयशिखिशिखण्डच्छत्रशालिन्यधोधः । युवतिजनकदम्बे मञ्जरी तत्र दृष्टा नवकिसलयलेखामण्डले मञ्जरीव ॥ २०९ ॥ तया च । कालिन्दीपुलिनेषु मे विहरतश्चतोदुकले चिरं चित्रं गोपवधूमयं विरचितं चेतोभुवा यत्पुरा । तन्वङ्गया मम दृक्पथेन रभसादन्तः प्रविश्य क्षणा- तत्सर्व निजकान्तिकुङ्कुमरसैः कोपादिव क्षालितम् ॥२१० ॥ मयूरक, किं ब्रवीषि-'अपि नाम तादृशी रूपसंपत्तिः' इति । कलहं- सक, किं ब्रवीषि-'कथमन्यथा हृदयमवगाहतां वयस्यस्य' इति । अथ किम् । अमृतमयपयोधिमब्जयोनौ हरिणकिशोरदृशो मुखापदेशात् । कलयति गलितो य एकविन्दु गति बभूव स एव नूनमिन्दुः ॥२११॥ अपि च । कुन्ताः कुटिलहगन्ता दन्ता नवकुन्दकममसामन्ताः । (निःश्वस्य ।) चिन्ता मम तु दुरन्ता तथापि संग्रहेण कथयामि । वान्ता तडिदेव वारिदात्कान्ता ॥ २१२ ॥ १. 'जालान्यधोधः' ख. २. 'कुन्द' क-पुस्तके नास्ति. ३. संक्षेपेण' ख.
६२ काव्यमाला। किं ब्रूथः--'ततस्ततः' इति । ततश्च तासु यथाभिलषितं तत्र तत्र लता- कुलेषु कुसुमावचयं कुर्वतीषु स्वयमेकैव सा मञ्जरी मदनमदकुञ्जरीव तत इतश्चरन्ती वचन माकन्दलतामन्दिरद्वारवेदिकामधिरुह्य वसति मयि किं- चिदिव विवर्तितवदना मदनावेशतरङ्गितान्यपाङ्गानि व्यापारयति स्म । तथाहि । स्वच्छन्दमेत्य मयि न प्रसूतानि काम स्वावास एव निभृतं न पुनःस्थितानि । लक्ष्यान्तरेऽपि च न लब्धपदानि तस्याः पारिप्लवानि पथि केवलमीक्षितानि ॥ २१३ ॥ किंच। अन्यासु तासु कुसुमान्युपचिन्वतीपु कुलेषु मञ्जु मदकुञ्जरगामिनीषु । सा मञ्जरी तु मम सामिविलोकितेन चेतोमयं जलजमाहरदेकमेव ॥ २१४ ।। कि बहुना। पादाभ्यामुपरुद्धमूरुयुगलीयन्त्रेण निप्पीडितं मध्येनानृतमूर्तिना मृगदृशो नाभौ बलान्मज्जितम् । व्याकप्य त्रिवलीपु रोमलतया वक्षोजशैलाग्रयोः क्षिप्तं वीक्षितसायकैर्मम मनो विद्धं च बद्धं कचैः ॥ २१५ ॥ किंच। आयातं कचभारवन्धनगृहादास्यामृताम्भोनिधौ स्नातं दन्तपटीपटीपरिहितं नेत्रोत्पलालंकृतम् । चेतो मे विनिवेश्य चित्तजनुषा वक्षोजसिंहासने साम्राज्ये पुनरभ्यषेचि सुदृशः स्मेरापदेशामृतैः ॥ २१६ ॥ १. 'आनतमतिना' ख. २. 'कोमलतया' ख. ३. 'अस्या मुखाम्भो' क.
मुकुन्दानन्दभाणः । किं ब्रूथः---'स्थाने खलु मनोजन्मनो जनकसमाराधनानुरोधः' इति । वयस्यौ, मा मैवम् । अनियतमनङ्गहतकस्य सौहार्दम्, यतस्तेनैव पुनः अवचितकुसुमाभिस्ताभिरालीभिरेषा कथमपि पुरमारात्प्रस्थिता यावदेव । शिव शिव मम तावञ्चित्तजेनाशु चित्तं प्रमथितमवदीर्णं चूर्णित पूर्णितं च ॥ २१७ ॥ क्यस्यौ, किं ब्रूथः–'अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः इति सत्यमेव संरत्तम् । ततस्ततः' इति । ततश्चान्तरान्तरा सव्याजविवलित- मुखीं सुमुखीमारादिवानुसरंस्तदगारद्वारपर्यन्त गतोऽस्मि । तदेन्द्रजालसंरम्भं समजम्भयदङ्गजः । प्रविष्टामपि गेहं तां यन्ने प्रावेशयन्मनः ॥ २१८ ॥ अथ तावदशिथिलावयवसंधिवन्धमज्ञातकैतवकथागन्धं सिन्धुमिव जडाश- यम, जलदमिव पयोवाहम, जलदकालमिव घनमपीमलिनाम्बरम्, प्रल- यानलमिव दग्धकाष्ठावलिम्, हरमिवाग्निविकारलोचनम्, नारायणमिव भक्तानुकूलव्यापारम्, शेषमिवोदग्रदर्वीकरम्, गरुडमिवाधिगतमहानसम्, कृष्णमिव क्षालितकसमालिन्यम्, राममिव मारीचमथनम्, भीमसेनमिव दलितज्वलितकीचकशतम्, शक्रमिव पाकशासनम्, मत्तमातङ्गमिव करपि- टनागरम्, वैयाकरणमिव विदितस्वरसव्यंजनप्रक्रियम्, वैशेपिकमिव द्रव्य- गुणक्रियाजातिविशेषतत्समवायक्रमाभिज्ञम्, मीमांसकमिवार्थभावनास्वरू- पज्ञम्, मुकविमिव विज्ञातशिखरिणीभेदम, पण्डितमिव परिचितसकलर- मपरिपाकम्, कमपि कज्जलमेचकं पाचकमपश्यम् । स च वसन्तकमुखेन पृष्टः स्वभावसरलतया तस्याः सकलमपि नामकुलशीलादिकमकथयत् । तथा हि-यथा किल इयमस्मत्स्वामिनो मलयस्य स्नुपा माधवस्य कलत्रं मञ्जरी नाम्री मन्दारस्य नन्दिनी । इयमद्य श्वो वा बन्धुकुल- दिदृक्षया नवीननगरं गमिष्यति । यत्र पितुर्मन्दारस्य मन्दिरम्' इति । १. 'वयस्यौ' क-पुस्तके नास्ति. २. 'अपचित' क. ३. 'सकलावयव' ख. ४. 'प्र- दग्ध' ख. ५. 'नागरग' ख. ६. 'विक्रियं' ख. ७. 'तथा हि' क-पुस्तके नास्ति.
६४ काव्यमाला। . वयस्यौ, किं बूथः- 'अहो परमार्थवादिता याचकस्य । ततस्ततः' इति । ततः कतिपयदिनान्तर एव सा नवीननगरमिदमागता । पश्चादहमपि । अत्र च मयीव तस्यामप्यपक्षपातं दर्शितदपै कंदर्पे तत्र भगवत्या ज- टावत्या विदिततदभिप्रायया परमकारुणिकया स्वयमेव तीर्थयात्राप्रसङ्गेन कालिन्दीतीरवृन्दावने विज्ञातपूर्व मामुपगम्य कृतप्रणाममाशीभिरभिनन्द्य 'वत्स मुकुन्द, कथं कंदर्पसुन्दरायां कन्दलति तव तनाविन्दाविव तानवम् । किमेतदध्वश्रमाद्भवेत्, आहोस्विदिष्टबन्धुविप्रयोगात्, किंवा मदनधनुश्चे- ष्टितादित्यसकदनुवध्यानुयुक्तो मनस्येव किं मामुपहसितुम्. किमवधीरयि- तुम्, किं वा निग्रहीतुम्, किं वानुग्रहीतुं पृच्छति । किमस्यै संवरणीयं वि- वरणीयं वेति क्षणं विचिन्त्य पुनरेव कुतो महाभावानामनुग्रहादन्यत्राभिनि- वेशो भवेदिति कृताध्यवसायः सानुपूर्व्य भगवत्यै मदनवेदनां न्यरूप- यम् । वयस्यौ, किं ब्रूथः—'वयस्य, सम्यगध्यवसितम् । ततस्ततः' इति । सा च तदाकर्ण्य 'वत्स, एवमेव वत्सयापि बाल्यात्प्रभृति मन्दक- लालितया मञ्जर्याप्यभिधाय सप्रार्थनं वत्ससकाशं प्रहितास्मि । शृणु तस्याः समवस्थाम् । सूते बालरसालपल्लवततिः श्वासाहता मर्मरं पाणिस्पर्शनशोषिताः सुमनसो भ्रश्यन्ति यन्तैः समम् । म्लायन्ते नयनान्तवान्तसलिलैहीं हन्त दूर्वाङ्कुरा- दावस्टष्टमिवाद्य निष्कुटवनं तन्व्या दरीदृश्यते ॥ २१९ ॥ तन्द्र, नोपेक्षणीया बलवदस्वस्था बाला' इत्यभिहितवी भगवतीम् 'अयमहं प्रियायाः साहजिकानङ्गतरङ्गितैरपाङ्गैरेव प्रथमं क्रयविक्रयाहदशामासादि- तोऽस्मि । विशेषतश्चाद्य तत्रभवत्याः प्रसादेन । तद्यथाभिलषितं नियुज्यस्व' इत्यवोचम् । किं ब्रूथः-'सांप्रतं भगवत्यां न्यस्तभारोऽसि । ततस्ततः' इति । ततः सा भगवती दीर्घ निःश्वस्य । रूपलावण्यसौन्दर्यसंपदा समयोईयोः । प्रेम्णा च युवयोर्हन्त परिपन्थी वृथा विधिः ॥ २२० ॥ १. 'मदनदुश्चेष्टिता' ख. २. 'अन्यथा' ख. ३. 'सा तु' क. ४. 'विक्रयाहो' ख.
मुकुन्दानन्दभाणः। ६५ तदमुना निष्कारणवैरिणा विहन्यमानो मत्प्रयत्नः कथं शुभोदों भवि- प्यति । अथवा त्रिलोकविजयिनो मन्मथस्य व्यवसितुं कथं नाम विघट- यतु कुटिलधीरपि विधिः । भवतु । समयमन्विष्य योजयिष्यामीत्युक्त्वा तत्प्रभृति तया कृतो बहुविधोऽपि प्रयत्नो मदीयदुर्विधिपाकादेव प्रति- हतः । ह्यस्तु पुनर्मन्दाराराम सा मे भगवत्या जटावत्याः प्रसादात्प्रियतमा मञ्जरी करतललैंग्नेव । किं ब्रूथः-'चिराय फलितं प्रियसखस्य मनोर- थेन' इति । (सनिःश्वासम् ।) नहि नहि । किं तु फलोन्मुख एव भन्नः। वयस्यौ, किं ब्रूथः—'कथं कथम्' इति । (सविषादम् ।) कुञ्जे कोमलशाहले पदमिह द्रागपितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा। साकूतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः।।२२१॥ अद्यतनस्तु वृत्तान्तः प्रियवयस्ययोर्विदित एवास्ति । किं ब्रूथः-भवतु। किमेतावता । अस्मिन्दिवसे फलिप्यत्येव ते मनोरथः' इति । (विहस्य ।) नूनमद्यैव फैलिण्यति, यस्मात्प्रियतमा पत्या समं प्रस्थिता। किं ब्रूथः- 'सखे, अपि नाम विस्मृतं वीतिहोत्रप्रेषितं पत्रम्' इति । (दिशो विलोक्य ।) विस्मृतप्रायमेव, यदयं प्रदोषसमयोऽप्युपनतः । तथा हि । द्रागैन्द्रीमनुचुम्ब्य सस्मितमुखीमामोदिनी पद्मिनी कृत्वासौ परिरम्भसंभ्रमपरिश्रान्तां च वारश्रियम् । सरक्तोऽहिमभानुरद्य च समाश्लिप्यत्यहो रागिणी काश्मीरोपलसत्पयोधरभरां कान्तां दिशं वारुणीम् ॥२२२॥ किं च । पुराणरश्मिजालेषु स्वस्तेष्वस्तावलम्बनम् । बिम्बमम्बुरुहां नेतुरम्बरादवलम्बते ॥ २२३ ॥ १. 'निहन्यमानो' ख. २. 'अथवात्र' ख. ३. 'विपाकेनैव' ख. ४. 'लग्नव' क. ५. 'भविष्यति' ख. ६. 'ब्रवीषि' क. ७. 'स्त्रियम्' क. ८. 'चरमां श्लिष्यत्यहो' क.
६६ काव्यमाला। अपि च । जगदिव बहुलातपाभितप्तं जनयितुमद्य जलाभिषेकशीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधि दिनश्रीः ॥२२४॥ किं च । पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्ममूर्हताशः । प्रसरति च तमां तमःप्ररोहः प्रतिपदमस्य यथा मनोविमोहः ॥२२१॥ किं ब्रूथ:- 'अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथं जलधौ नावपतेदसौ रविः ॥ २२६ ॥' इति । (अन्यतोऽवलोक्य सकरुणम् ।) हन्त हन्त । चरमाचलपरभागं चक्षुर्जगतामगाद्यावत् । हा तावदेव कोकौ दैनावन्योन्यमगमतां दूरम् ॥ २२७ ॥ (पुनविलोक्य ।) कथमित एवागच्छति भगवती जटावती । (सप्रश्रयम् ।) भ- गवति, इत इतः । (किंचिदुत्थाय ।) भगवति, प्रणम्यसे । किं ब्रवीषि- 'वत्स, अचिरादेवाभिमतं लभस्व' इति । (सनिर्वेदम् ।) । कथं ममाप्यभि- मतलाभः । किं ब्रवीषि-'अद्यैवोपनतमित्यवधार्यताम्' इति । (सहर्षम् ।) कथमिव । किं ब्रवीषि-'अर्धपथात्पुनरागता मञ्जरी' इति । वयस्यौ, कि बूथः-'अहो सूनृतवादिता पुरोहितपुत्रस्य वीतिहोत्रस्य' इति । कथं नाम ज्योतिर्विदां वितथवादिता भवेत् । (सस्पृहं स्वगतम् ।) अन्तर्मनोजदहनोष्णशिखावलीढ- श्वासोपरोधपरिपाण्डुलसत्कपोलम् । महीक्षणक्षणभवन्नवकान्तिपूर द्रक्ष्यामि तद्वदनवारिरुहं कैदा नु ।। २२८ ॥ किं ब्रूथ:--'भगवति, किं पत्यैव पुनरानीता' इति । भगवति, किं वदसि नहि नहीति । (सप्रमोदं स्वगतम् ।) तर्हि कथमागता प्रियतमा। किं ब्रवीषि- 'शृणु । यावदेवैनामादाय क्रोशमात्रं गतो माधवस्तावदेव तत्पित्रा मलयेन १. 'चरमां' क. २. 'अद्य' क. ३. 'यूनां' क. ४. 'वत्स वत्स' क. ५. 'कथमिव कथमिव' क. ६. 'वयस्यो' क-पुस्तके नास्ति. ७. 'कदाहं' ख. ८. 'ब्रवीषि' ख.
मुकुन्दानन्दभाणः । ६७ प्रेषितं पत्रमुपनतम्' इति । किमिति प्रेषितं पत्रम् । किं ब्रवीषि-'इदानी राजोपप्लवाद्रङ्गनगरं विहाय मधुरां गताः स्मः । तद्वत्सा मञ्जरी कतिचन मासांस्तत्रैव मातृभवने स्थातुमर्हति । त्वं तावदेतत्पत्रिकावलोकनात्परं न क्षणमपि विलम्बितुमर्हसि' इति । वयस्यौ, किं ब्रूथः-'वयस्य, दि- ष्ट्या तव प्रसन्नाः कुलदेवताः' इति । (सौत्सुक्यम् ।) ततस्ततः । किं ब्रवी- पि-'ततस्ता मञ्जरी तत्सहोदरं स्वच्छगुच्छं च पुनर्निवलं तेन पत्रिका- नेत्रा सद्वितीयः प्रस्थितो माधवः' इति । (सविस्मयानन्दम् ।) हन्त पत्यपदेशेन मृत्युना हरिणेक्षणा । कला चान्द्रीव तमसा वियुक्ता सहसा कथम् ॥ २२९ ।। क्वेदानी प्रेयसी । किं ब्रवीपि-भद्र, भवहिरहवितलामध्वपरिश्रम- खिन्नां मन्यमानो मन्दारो मन्दिर एव मरालिकाद्वितीयां मञ्जरीमास्थाप्य सकलबन्धुकुलसमेतः कालिकामाराधयितुं बाह्योद्यानं गतः' इति । अन्य- दप्यनुकूलं भगवत्याः प्रसादेन । क्षणमात्रं ध्यानारूढा भगवती कलहंस- कमयूरको प्रति किं वदति-'वत्सौ, युवयोरपि दिष्टया फलिप्यात मनोरथः । तदवश्यं व्याप्रियतामभिमतविषयेषु' इति । मयूरक, किं ब्र- वीषि-'कलहंसकस्य कमलिनी करतलगतैव वर्तते । मम कथं मन्दभा- ग्यस्य प्रकृतिचपला सौदामिनी प्रसीदेत्' इति । (पुनरपि ध्यात्वा ।) किं ब्रवीति भगवती-'मयूरक, पूर्वेचुर्जाग्रतो गुरुजनागीता सौदामिनी प्र- तिनिवृत्ता । न खल्वस्यामपि रजन्यां तथा करिष्यति' इति । वयस्यौ, किं ब्रूथः-'न खलु ज्ञायते किं वा भविष्यति' इति । आः, कथं भग- वत्या वचनेऽपि विचिकित्सा । (श्रवणमभिनीय ।) कथं पदशब्द इव श्रू- यते । (विलोक्य ।) कथं सत्वरं मरालिका समापतति । भगवति, किं ब्र- वीषि-'भद्र, सांप्रतमसह्यवेदनया वत्सया प्रेषितेयं भविष्यति' इति । (पुनींवलोक्य ।) कथं प्रत्यासन्नैव । किं ब्रवीषि-'कहं विलम्बीअदि । १. 'राजकार्यो' क. २. 'त्वं तावत्' इत्यादि, 'अर्हसि' इत्यन्तं क-पुस्तके नास्ति. ३. 'स्वच्छं च' क. ४. 'मगलको ख, ५. 'प्रसीदतीति' ख. ६. 'विज्ञायते' ख.
६८ काव्यमाला॥ महुरसविसलित्तमग्गणेहिं कुसुमसरेण हैदाएँ हा सहीए। णिवइअ मैलआणिलो हदासो हर हर जीविदसंस करेदि॥२३०॥(क) (संस्कृतमाश्रित्य ।) किंबहुना । सेचं सेचं तुहिनसलिलैलॊचने वीक्षिता सा स्वादं स्वादं हिमकरघटे कां दशां ते वदामि । श्रोत्रे शश्वन्मलयजदलैः श्रूयतां वीजयित्वा प्राणास्तन्व्यास्तव करतले तत्र देवः प्रमाणम् ॥२३१॥ इति । भगवति, किं ब्रवीषि-वर्यताम् । यावदेव नोदयशिखरिशिखरमैधिरो- हति तुषारकरः' इति । एवमेतत् । तिमिरतिरोहित एव समये समुपसर्प- णीयाः स्वैरिण्यः । (सर्वतोऽवलोक्य ।) आपूरितमिदं श्यामतमसंतमसैरलम् । ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत् ॥ २३२ ॥ कलहंसक, किं ब्रवीपि- 'सर्वे ध्वान्तमिदं वदन्तु बहुधा सिद्धान्त एवं तु नः स्वाधारेषु करेषु पुष्करमणेः स्रस्तेषु नूनं शनैः । अस्तालम्बतयाम्बरेण पतता ग्रस्त समस्ते जग- त्युन्मीलत्करकन्दलैरेंच विधोस्तत्तावदुत्तार्यते ॥२३३॥' इति । वयस्य, सम्यगुक्तम् । मरालिके, किं ब्रवीषि- 'कंदप्पचन्दणसमीरणकोइलाली- कोलाहलाउलमणा मह दाव आली । (क) कथं विलम्ब्यते । मधुरसविपलिप्तमार्गणैः कसमशरेण हेताया हा सख्याः । निपत्य मलयानिलो हताशो हर हर जीवितसंशयं करोति ।। १. 'सित्त' ख. २. 'हदाइ हा सही ई' क. ३. 'मअआणलो' क. ४. 'वीक्षते' ख. ५. 'हिमकरघटि:' ख. ६. 'त्वर्यतां त्वर्यताम्' ख. ७. 'आरोहति' ख. ८. 'स- मुपसर्पणीया स्वैरिणी' ख. ९. अपि' क. १०. 'सिक्त' ख. ११. 'हता हि हा सखी मे' क. १२. 'निपतति मदनानलो' क.
मुकुन्दानन्दभाणः। ६९ चन्दोदए जदि पदे घणचन्दिआ वि णूणं भवे अहह दावहदा लदे व्व ॥ २३४ ॥ ता तुवरिज्जदु' (क) इति । अये कलहंसक, मयूरक, युवाभ्यामपि भग- वत्युपदेशक्रमेण व्याप्रियताम् । इयं भगवती मरालिका च मां त्वरयतः । किं ब्रूथ:--'अथ किम् । वयस्य, साधय साधय' इति । मरालिके, म- न्दारसदनमार्ग दर्शय । किं ब्रवीषि-'देव, इदो इदो' (ख) इति । (केतिचित्पदान्यतिक्रम्य ।) कथं क्षणेन मन्दारोद्यानमागतोऽस्मि । (विलोक्य सविस्मयम् ।) कथमिहानुदितेऽपि चन्द्रमसि चन्द्रिकाप्रसरः । मरालिके, किं ब्रवीषि-'ण क्खु चन्दिआपमारो एसो । देव तुह दसणादो तरुणीए हरिसणिभरङ्गीए । कन्दलइ मन्दहासो कन्दलिआणन्दकन्दलो व्व मुँहात् ।।२३५ ॥ ता पेक्ख पेक्ख । इमाए वाणी महुरसवेणी वेणी महुमत्तमहुअरीसेणी । खोणी विसालसोणी एणीणअणा वि मअणसरतूणी ॥२३६॥ (ग) (क) कंदर्पचन्दनसमीरणकोकिलालि- कोलाहलाकुलमना मम ताबदालिः । चन्द्रोदये यदि पतेदनचन्द्रिकापि नूनं भवेदहह दावहता लतेव ॥ तत्त्वर्यताम् । (ख) देव, इत इतः। (ग) न खलु चन्द्रिकाप्रसर एषः । देव तव दर्शनात्तरूण्या हर्षनिर्भराङ्गयाः । कन्दलति मन्दहासः कन्दलितानन्दकन्दल इव मुखात् ।। तत्पश्य पश्य । एतस्याः वाणी मधुरसवेणी वेणी मधुमत्तमधुकरीश्रेणी । क्षोणी विशालश्रोणी एणीनयनापि मदनशरतूणी ॥ १. 'पूर्ण' क. २. 'कतिचन' ख. ३. इयमार्या क-पुस्तके गद्यान्तः पातिता. ४. 'मुहादो' ख. ५. 'मला' क. ६. 'त्वर्यतां त्वयंतां' क. ७. 'तत्प्रेक्ष्य प्रेक्ष्य अस्याः' क. - .
७० काव्यमाला। भगवति, किं ब्रवीषि-'एवमेतत् । अमुष्या लावण्यं मृदुलमृदुलानप्यवयवा- न्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥ २३७ ।। तदुपसर्पतु वत्सः' इति । (उपसृत्य सचमत्कारम् ।) प्रणये प्रतार्यमाणे कृष्णभुजंगेन कोकदंपत्योः । चकित इव चित्रमेतत्पा— वर्तयति बहिणं चन्द्रः ॥ २३८ ।। कि च । कुचदुर्गराजधान्योर्मध्येमार्ग मृगीदृशो मदनः । किमकृत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ २३९ ।। मरालिके, लज्जया किंचिदिव संभ्रान्तां मञ्जरी प्रति किं ब्रवीषि- 'ओणेहि मुमुहि दूलं वीलां विस्सासघाइणी झत्ति । जा संमुहे वि दइए कितवा विमुहीकरेदि तुमम् ॥ २४० ॥'(क) प्रिये, किं ब्रवीषि–'सहि, इमो माआवी महाभाओ जदा मह दिहिपहं गतो तदो ज्ञव दूलं पलाइदं वीलाए अणुप ज्ञव कुलवुत्तेण अ' (ख) इति । (सस्मितम् ।) मरालिके, किं ब्रवीषि- 'अणुवटिअ सेरगई अम्बां अज्ज वि अणुसरिअ । सैरं चरमाणाए ण तुए लुत्तं सुवेणि कुलवुत्तम् ॥२४१॥' (ग) इति । (क) अपनय सुमुखि दूरं व्रीडां विश्वासघातिनी झटिति । या संमुखेऽपि दयिते कितवा विमुखीकरोति त्वाम् ॥ (ख) सखि, अयं मायावी महाभागो यदा मम दृष्टिपथं गतस्तदैव दुरं पलायितं वीडयानुपदमेव कुलवृत्तेन च । (ग) अनुवर्त्य स्वैरगतिमम्बामार्य चानुसृत्य । स्वैरं चरमाणाया न त्वया लुप्तं सुवोणि कुलवृत्तम् ॥ १. 'कठिनकरतां मे विमृशतः' ख. २. 'भवान्' ख. ३. 'प्रतीर्यमाणे' ख. ४. 'केकिनं' ख. ५. किं च' क-पुस्तके नास्ति.
मुकुन्दानन्दभाणः। ७१ प्रिये, मरालिका कर्णोत्पलेन ताडयन्ती सस्मितं किं ब्रवीषि-'हला म- रालिए, कहं अम्बं वि परिससि' (क) इति । भगवति, किं ब्रवीषि- 'आ शतसंवत्सरान्तमस्त्येव कुलवृत्तम् । अयं तु दुर्लभः स्वाभिमतविषयानु- भवः' इति । प्रिये, अपि नाम श्रुतो भगवतीनिदेशः । प्रिये, सस्मितं किं ब्रवीषि-'ण केवलं सुणीअदि अनुट्ठीआदि अ' (ख) इति । कथं भग- वत्युपदेशेनाकलङ्कहृदया प्रेयसी संवृत्ता । भगवती किं ब्रवीति- 'निसर्गादेव युवयोनिरूढप्रेमबन्धयोः । निशायितं मया जोपं कैरविण्यब्जयोरिव ॥ २४२ ॥' इति । प्रिये, किं ब्रवीपि-पक्ख पेक्ख । एदं कन्दलइ चन्दबिम्बम्' (ग) इति । अयि, इन्दुना मम किमब्धिबिन्दु ना सिन्धुना च पुनरस्य बन्धुना । आनने जयति ते वरानने चञ्चले च कलिते दृगञ्चले ॥ २४३ ॥ (प्राचीमवलोक्य ।) कथमुदितमेव विरहिजनप्राणजगत्प्राणफणिना हराशरो- मणिना । तथा हि। कलितमम्बरमाकलय करैर्मुदितपङ्कजकोशपयोधरः । विकसदुत्पलनेत्रविलोकितः सखि निशां सरसीकुरुते विधुः ॥ २४४ ।। किं च । आलोक्य चन्द्रमसमभ्युदितं समन्ता- दुद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः । विष्वग्विसारिपरमाणुपरम्परैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ॥ २४५ ॥ (क) सखि मरालिके, कथमम्बामपि स्पृशसि । (ख) न केवलं श्रूयतेऽनुष्टीयते च । (ग) प्रेक्षस्व प्रेक्षस्व । इदं कन्दलयति चन्द्रबिम्बम् । १. 'भगवति, किं ब्रवीषि' ख. २. 'विलसत्' ख.
७२ काव्यमाला। भगवति, किं ब्रवीषि-'एवमेतत् । भास्वत्कर्कशशाणचक्रकषणैराकाशकालायसा- द्यचूर्ण निबिडं निपत्य तम इत्याख्यां जगत्यामगात् । तेच्छेन्दुच्छलसिद्धपारदमहाबिन्दोः समायोगतो जातं रूप्यरजोमयं वयमिदं ज्योत्स्नां समाचक्ष्महे ॥२४६॥ इति । अहमेवं तर्कयामि । समयशबरो व्योमारण्ये सुधाशनमक्षिका- नुविहितसुधाबिम्बक्षौद्रस्फुरत्पटलं प्रति । कलयति कलङ्काख्यं धूमं निपीड्य पुनश्च त- किरति मधुरज्योत्स्नाक्षौद्रं महीतलभाजने ॥ २४७ ॥ अपि च । दष्टे जगढपुषि कालभुजंगमेन तत्रान्धकारमिषमाविरभूद्विषं यत् । संजातलक्ष्माणि तदिन्दुमणौ निपाय्य ज्योत्स्नामये पयसि तं क्षिपति स्म धाता ॥ २४८ ॥ अथवा। आयताग्रसितरश्मिनिबद्धं लाञ्छनछविमषीरसदिग्धम् । चन्द्रकैतवमरुत्पटचक्र क्रीडयोत्सृजति किं स्मरवालः ॥ २४९ ॥ किं च । दिग्यत्रतस्तिमिरचूर्णविशेषपूर्णा- दुद्गत्वरोडुमयरञ्जकविस्फुलिङ्गात् । कालेन पूर्वगिरिदुर्गजुषा प्रयुक्तो वृत्तोपलो विधुमिषात्पथिकान्हिनस्ति ॥ २५० ॥ अथवा नायं चन्द्रः । शम्बरारिरमृतं विषगर्भ चन्द्रबिम्बकपटात्प्रयुनक्ति । यद्वाहिः सितमथासितमन्तः प्रोषितान्दहति दर्शनमात्रात् ॥ २५१ ॥ १. 'शोणकोणकषणैः' ख. २. 'यश्चेन्दोश्चल' क.३. 'सुविहित' ख. ४. 'चन्द्रका. चनमषी' ख. ५. 'यन्त्र' ख. ६. 'मयरम्बुक' ख.
मुकुन्दानन्दभाणः। ७३ प्रिये, किं ब्रवीपि-'सच्चं कहेइ महाभाओ। णिसग्गवैरी क्खु एसो विर- हि जणस्स' (क) इति । मरालिके, किं बवीषि-'कहं विअ सहावसी- अलो संदावेइ चन्दमा' (ख) इति । सत्यम् । नेत्रमग्निमयमङ्गजशत्रोः संप्रतार्य सुचिराश्रयणेन । दाहशक्तिमपहृत्य तदीयां चन्द्रमा दहति नूनमयुक्तान् ॥ २५२ ।। (सविमर्शम् ।) हन्त, चिरादप्यनेन हताः स्मः । तदद्य प्रियासाहाय्यादसं- जातभीतिरेनमुपालभे । (चन्द्रं प्रति ।) खण्डशस्तव निकृन्तति कालो मण्डलं यदमृतस्य हिमांशो। अर्जितस्य हननात्पथिकानां पातकस्य सदृशः स हि दण्डः ॥२५॥ अथवा त्वच्चरितविलोकनेन दुमनायमानस्तवैव तातो नित्यमुपालभते । तथा हि। विप्रयोगिहननाय स्था में जातवानिति कथं जठरात्त्वम् । उद्यतोमि करताडितवक्षाः क्रन्दति त्वंदुदयेऽम्बुधिरिन्दो ॥ २५४ ॥ भगवति, किं ब्रवीषि-'मा मैवम् । लोकानुग्रह तत्पराः खलु चन्द्रमदन- मलयानिलादयः । अते. नोपालम्भमर्हन्ति । यतः । कामानलेन मलयानिलबोधितेन कारुः कलाद इव शीतकरः प्रताप्य । स्त्रीपुंसयोः प्रणयटङ्कणतो द्रवत्वं नीत्वा मनःकनकमेकरसीकरोति ॥ २५५ ॥ इति । (मप्रश्रयम् ।) तर्हि प्रणमामि । स्फुरदिन्दीवरानन्दनाधिमकराङ्करम् । वृन्दारजीवजीवातुं वन्दे शिवशिरोमणिम् ॥ २५६ ॥ (क) सत्यं कथयति महाभागः । निसर्गवैरी खल्वेष विरहिजनस्य । (ख) कथमिव स्वभावशीतल: संतापयति चन्द्रमाः । १. 'मन्दानिला' ख. २. 'काम' ख. १० ७४ काव्यमाला । .. (श्रवणमभिनीय ।) चञ्चूपुटचञ्चञ्चन्द्रिका मधुरविरावैश्चन्द्रादेशाच्चकोरिकाः कि वदन्ति- 'मुकुन्द मञ्जरीमेतां मुदा त्वं शरदां शतम् । आनन्दय यथानन्दमिन्दुरिन्दीवरश्रियम् ॥ २५७ ॥' इति । भगवति, किं ब्रवीषि-'तथास्तु' इति । (सविनयम् ।) अनुगृहीतोऽस्मि । पुनः किं ब्रवीषि-'किं ते भूयः प्रियमुपकरोमि' इति । (सविनयम् ।। किमितोऽपि प्रियमस्ति । तथापीदमस्तु भरतवाक्यम् । वर्षन्तु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि सन्तु । हृप्यन्तु सन्तः सुकविप्रबन्धैस्तेषां च शाम्यन्तु खलोपसर्गाः ॥२५८॥ मुकुन्दानन्दनाम्ना मे भाणेनानेन तोषितः । कमलाकामुकः कामं कल्लोलयतु मङ्गलम् ॥ २५९ ॥ कृति लसदलकति रसविदो बुधा ये मम प्रसन्नहृदया दयाजलधयो बहुकुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलि: सरोजमुकुलाकृतिः शिरसि संततं न्यस्यते ॥ २६० ।। इति श्रीमत्काशीपतिकविराविचितो मुकुन्दानन्दनामा भाणः सपूर्णः । १. 'चकोराः' ख. २. 'कमलैकमना:' ख. ३. 'धार्यते' ख.
No text on this page.