Sringeri Sharada Peetham

Sri Machankarakruta Vakyavritti

Hari Narayana Apte · 2005/03/10

PDF Proofread

Front matter

आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ८०
विश्वेश्वरविरचितटीकासमेता
श्रीमच्छंकराचार्यकता
वाक्यवृत्तिः ।
वे. शा. रा. वैद्योपाढे रंगनाथशास्तिभिः संशोधिता ।
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशिता ।
शालिवाहनशकाब्धाः १८३७
ख्रिस्ताब्दाः १९१५
( अस्याः सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )
मूल्यमाणकाष्टकम् (आ००८)

आदर्शपुस्तकोल्लेखपत्रिका ।
अस्या विश्वेश्वरविरचितटीकासमेतश्रीमच्छंकराचार्यकृतवाक्यवृत्तेः
पुस्तकं यैः परहितैकपरतया दत्तं तेषां नाम लिख्यते-
पुण्यपत्तननिवासिनां रा०रा० रामचन्द्रगोविन्द केळकर इत्येतेषाम् ।
-

ॐ तत्सब्रह्मणे नमः। विश्वेश्वरविरचितटीकासमेता श्रीमच्छंकराचार्यकता वाक्यवृत्तिः। ब्रह्माहमेतन्मयि माति विश्वं श्रीमाधवप्राज्ञगुरोः प्रसादात् । अन्वर्थविश्वेश्वरपण्डिताख्यस्तस्याट्रिपमं प्रणतोऽस्मि नित्यम् ॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादं शंकरं लोकशंकरम् ॥२॥ परमकृपानिधिः श्रीमच्छंकराचार्यमगवत्पादस्तापत्रयार्कसंतप्तानामप- रिमितजननादिसंसाराध्वश्रमपरिपीडितानामात्मज्ञानशिशिरमधुरजला. काजिणां विदूरशारीरकमीमांसाजलाशयगमनासमर्थानां वाक्यवृत्ति- संज्ञकोपदेशप्रकरणप्रपापरिकल्पनेनान्तःशीतलतां विगतक्केशतां [च च] संपादयंस्तत्राऽऽदौ प्रकरणश्रवणे प्रवृत्तानामधिकारिणामविघ्नेन ब्रह्मा- तिपत्तितादात्म्यसिद्धये प्रकरणपरिपाट्याऽद्वितीयबोधस्मरणपूर्वकं तन्न- मस्कारस्यावश्यकर्तव्यतां द्योतयन्स्वयं नमस्कुरुते- सर्गस्थितिप्रलयहेतुमचिन्त्यशक्ति विश्वेश्वरं विदितविश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुराशि श्रीवल्लभं विमलबोधघनं नमामि ॥१॥ विमलबोधघनं नमामीत्यन्वयः । विगतो मलो यस्मादसौ विमलो विमलश्चासौ बोधश्च विमलबोधः स एव धनं मूर्तिः स्वरूपमिति यावत् । परमात्मनोऽविद्यारहिततया तदविद्याकल्पितस्य घटादिदृश्यस्यामावेन तदालम्बनरूपो मलो न विद्यतेऽतो विमलो निर्विषयो निर्विकल्पोऽद्वि- तीयज्ञानमिति यावत् । नन्वद्वितीयबोधस्य मनसोऽप्यविषयत्वात्कथं नमस्कारविषयतेत्यत आह-विश्वेश्वरमिति।अद्वितीयबोधस्य विश्वस्वा:

२ विश्वेश्वरविरचितटीकासमेता- मित्वसंपादनाय शरीरस्वीकरणमेव नोपपद्यत इत्यत आह-अचि. न्त्यशक्तिमिति । शक्तिशब्देनात्र मायाऽभिधीयते । सा च बोधात्मनो बह्मणो भिन्नाभिन्नत्वादिरूपेण चिन्तितुं नाहतीत्यचिन्त्या । अचि- न्त्यत्वं मायायाः कथमिति चेदुच्यते । इयं तु स्वप्रबोधवाध्यत्वात्स्वप्नसदृशी भवति । युक्तिमिहींनप्रकाशत्वादस्या मायेति संज्ञा। इयमसती न भवति दृश्यमानत्वात् । न हि शशविषाणादिकमसदृश्यते। सती च न भवति कुतो बाध्यमानत्वात् । न हि सन्नात्मा कदाचिद्वाध्यते । आत्मनो न हि भिन्ना भवत्यधिका न सत्ताव्यतिरेकेण तस्या मायायाः पृथक्सत्तामा- वात् । न हि रज्ज्वामारोपितस्य सर्पस्य तद्भिन्नत्वं रज्ज्वाद्यभावे तददर्श- नात् । न तदभिन्ना च भवति कुतो जडत्वात् । न हि जडाजडयोरेक- रूपत्वं वस्तुनो द्वैरूप्यासंभवात् । तन्नोमयात्मिका विरुद्धत्वात् । नेयं सावयवाऽनादित्वेन स्वकारणावयवाभावात् । न स्वकारणं ब्रह्म सावयवं भवति । नापि निरवयवा स्वकार्येषु सावयवत्वदर्शनात् । न ह्यकुरादिकारणं बीजं निरवयवं भवति । तस्मादविचाररमणीया विला. सिनीतुल्याऽसत्यभूतैः स्वकार्यविभ्रमर्जीवं मोहयतीवातो मायाया अचिन्त्यत्वमिदं तु तस्या मायाया दूषणाय न भवति किं तु भूपणमेव । एवंभूताचिन्त्य शक्तिवशाद्विमलबोधस्य शरीरस्वीकारोऽभ्युपपद्यत इति मावः । अद्वितीयबोधस्याचिन्त्यशक्तिवशाच्छरीरस्वीकरणे किं प्रयो- जनमित्याकाङ्क्षायां सार्वभौमस्येव विश्वस्वामित्वेन लीलाप्रयोजन सूचितमपि लक्ष्मीकान्तत्वेन क्रीडाप्रयोजनं ज्ञापयंस्तस्य विष्णुरू- पेणावस्थानमाह-श्रीवल्लभमिति । लोके तस्याः सकलमुन्दरीज- नस्य दृष्टान्तभूतसौन्दर्यवत्या इन्दिरायाः प्रसादादेव सुकृतिनां योगि- नामाकाशगमनपरकायप्रवेशनबहुरूपस्वीकारादिक्रीडा संभवति तथाच सति तस्या भर्तृबहुशरीरस्वीकारादिक्रीडा संभवतीत्यत्र किमु वक्तव्यमिति । शरीरस्वीकरणे क्रीडेव प्रयोजनमिति श्रीवल्लभश- ब्देनावगम्यते । ततो विमलबोधस्य श्रीवल्लभरूपेणावस्थानादपि नमस्कारविषयत्वमुपपद्यत एवेत्यर्थालभ्यते । ननु विश्वसद्भावे विश्व. स्वामित्व क्रीडा च संभवतः । अतो विश्वं कुत उत्पन्नमित्याका- इक्षायां विभलबोधादेव विश्वोत्पत्तिरिति वक्तुमचिन्त्यशक्तिवशात्तस्य निमित्तकारणब्रह्मरूपेणावस्थानमाह-विदितविश्वमिति । विदितं विश्वं सर्वं येन स तोक्तः सर्वविदित्यर्थः । सर्वविदो जगन्निमित्तकारणत्वे

श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः ।
३
श्रुतिः- यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपस्तस्मादेतद्ब्रह्म
नाम रूपमन्नं च जायते"
[मु० १ ख. १ म० ९] इति ।
अनुमानमपि, इदं विश्वं विशिष्टविज्ञानवत्पूर्वकं कुतो विचित्रकार्य-
वाञ्चित्रादिवदिति । यदा विमलबोध एवाचिन्त्वशक्तिवशात्स्वयंभूर्भूत्वा
विविधाकाराकारितमायासाक्षी मवेत्तदा विश्वमुत्पन्नं स्यादिति वेदि-
तव्यम् । ननूपादानव्यतिरेकेण केवलं निमित्तं कार्योत्पादकं न भवत्यत्र
किमुपादानमित्यपेक्षायां विमलबोधस्यैवाचिन्त्यशक्तिवशाद्विश्वोपादा-
नत्वमाह-सर्गस्थितीति । यथा लोके कुडचादिकार्यस्य मृदाद्युपादाना-
दुत्पत्तिस्तत्रैव स्थितिस्तत्रैव प्रलयश्च दृश्यते । तथा-"जन्माद्यस्य
यतः"[ब० सू०१।१।२] इति सूत्रे " यतो वा इमानि भूतानि
जायन्ते [ तैत्ति० ३।१।१] इति तद्विषयवाक्ये च बह्मण एव
सर्वभूतानामुत्पत्तिस्तत्रैव स्थितिस्तत्रैव लयश्च श्रूयते । अतो विमलबोध-
स्यैव विश्वोपादानत्वं सिद्धमित्येवमर्थोऽवगम्यते । अत्र यथोर्णनाभि-
जन्तुविशेषस्तन्तूत्पादने स्वयमेव निमित्तमुपादानं च मवति तथा विम-
लबोधश्चेति कृत्वैकस्यैव निमित्तत्वमुपादानत्वं च नोपपद्यत इति शङ्का
न करणीया। यतो विश्वोपादानं विमलबोधस्ततस्तस्य तत्कार्यविश्वरू-
पेणावस्थानमाह-अनन्तमूर्तिमिति । अनता मूर्तयो देहा यस्य स
तथोक्तः, विमलबोधस्य प्राणिरूपेणावस्थाने बन्धनप्रसक्तौ तां परिहर-
नाह-निर्मुक्तबन्धनमिति । " ममैवांशो जीवलोके जीवभूतः सना-
तनः "[ गी० १५। ७] इति स्मृतरात्मांशस्य मायामूढस्य जीवस्यै-
वाविद्यातो बन्धो मवति न तु मायिकस्याद्वितीयस्य विमलबोधस्या-
विद्यारहितस्य स्वमायया प्राणिरूपेणावस्थितस्य वन्धोऽस्तीत्यर्थः ।
एवं विमल बोधोऽचिन्त्यशक्तिवशाद्विश्वेश्वराद्यनेकरूपेण क्रीडमानोऽपि
निर्मुक्तबन्धनश्चेत्तर्हि तस्यैवानेकरूपावस्थानमेव वरं तत्तत्सुखसमुद्भवा-
नतु केवलस्वरूपेणावस्थानमित्याशङ्कय तत्तत्सुखसद्भावस्य खण्डि-
तत्वान्न तथेत्याह-अपारसुखाम्बुराशिमिति । अम्बुराशिरिवाम्बु-
राशिः मुखमेवाम्बुराशिः सुखाम्बुराशिरपारश्चासौ सुखाम्बुराशि-
श्चेति स तथोक्तः। " आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते"
[ तैत्ति. ३-६-१] इत्यादिश्रुतिभ्यः आत्मन आनन्दरूपत्वावगमाद्वि-
मलबोधस्यापरिमितानन्दरूपेणावस्थानमेव वरं तथाऽप्यनिर्वचनीयमाया-
शक्तिवशात्स्वेच्छयैवानेकरूपेणावस्थानलक्षणा क्रीडा संमवत्येव ॥१॥

४ विश्वेश्वरविरचितटीकासमेता- एवं सर्वैर्वेदान्तै यत्वेनोपास्यत्वेन च निर्दिष्टं गुरूपदिष्टं सोपाधिक निरुपाधि च ब्रह्मरूपमभिधाय नमस्कृत्य प्रतिपत्तिसिद्धये स्वगुरुनम- स्कारं कुरुते- यस्य प्रसादादहमेव विष्णु- मय्येव सर्व परिकल्पितं च । इत्थं विजानामि सदाऽऽत्मरूपं तस्याधिपमं प्रणतोऽस्मि नित्यम् ॥ २॥ यस्य प्रसादादिति । आचार्यप्रसादादविद्यानिवृत्तौ तदविद्याप- रिकल्पितदेहेन्द्रियायुपाध्यवच्छेदापगमादुपाधिनिर्मुक्तघटाकाशवत्परिपू- र्णतां प्रतिपद्य ज्ञात्वा स्वयमेव विष्णुत्वं विदित्वाऽऽह-अहमेवेति । तहि विश्वभ्रमाधिष्ठानत्वं तवास्ति किमस्त्येवेत्याह-मय्येवेति । ननु जीवस्य विष्णुत्वमनुपपन्नं प्रत्यक्षविरोधादतो मावनामानं तदित्याश- क्य नहि जीवो नाम कश्चित्परमार्थतो ब्रह्मव्यतिरेकेणास्त्यतो ब्रह्मैव स्वस्मिन्परिकल्पितमायया जीवरूपेण विवर्तते । तथाच सति तस्य जीवस्य वेदान्तवाक्यश्रवणादिना ब्रह्मापरोक्षज्ञाने सत्यज्ञाननिवृत्त्या तत्कार्य मूताब्रह्मत्वनिवृत्तौ सत्यां ब्रह्मत्वमुपपन्नं स्यादितीममथं मनसि निधायाऽऽह-इत्थं विजानामीति । आत्मस्वरूपमहमित्थमहं ब्रह्मेत्य- परोक्षतया जानामीत्यर्थः । नच ब्रह्मणोऽप्यवाङ्मनसगोचरत्वात्कथं ज्ञानविषयत्वमिति वाच्यं फलव्याप्तित्वेन विषयत्वाभावेऽज्ञाननाशाय वृत्तिव्याप्तेरपेक्षितत्वेनाखण्डाकारान्तःकरणवृत्तिविषयत्वात् । जीवस्य ब्रह्मत्वे प्रत्यक्षविरोधः " अज्ञानेनाऽऽवृतं ज्ञानं-प्रकाशयति तत्परम् " [गी० ५-१५-१६ ] इत्यन्तेन भगवद्गीतायामज्ञानावृताद- यानन्दादिरूपस्यात एव जीवत्वदुःखित्वादियुक्तस्य ब्रह्मत्वानुपपत्तिः स्यात् । यस्य जीवस्य पुनर्ज्ञानेनाज्ञानं निवृत्तं भवति तस्याद्वयानन्दा- दिब्रह्मरूपप्रकाशसद्भावेन ब्रह्मत्वोपपत्तिः स्यादिति कर्तृमेदेन ब्रह्मत्वानु- पपत्त्युपपत्त्योः प्रतिपादितत्वात् । न ह्येकस्याज्ञानिनो ब्रह्मत्वानुपपत्त्याऽ- न्यस्यापि तदनुपपत्त्या भवितव्यमिति नियमोऽस्ति । तथा चोक्तं वाशिष्ठे- अज्ञस्य दुःखौघमयं ज्ञस्याऽऽनन्दमयं जगत् । अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषः न च - ॥ इति ।

५ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः। अस्यार्थः-यथैकमेव जगदन्धापेक्षया तमोरूपेणावभासते । अन- धापेक्षया प्रकाशरूपेणावमासते । एवमज्ञस्य दुःखराशिरूपेण जग- द्भासते, ज्ञस्य तु तदेव जगत्सच्चिदानन्दमयं प्रकाशत इत्यतोऽज्ञस्य दृष्ट्या ब्रह्मत्वमनुपपन्नमपि तत्त्वदृध्या ब्रह्मत्वमुपपन्नमिति भावः। तद्वि- ज्ञानस्य कादाचित्कत्वशङ्कां परिहरति-सदेति । मायिकदेहपातपर्यन्तं स्वरूपमनुमवामीत्यर्थः । अथ वा देहेन्द्रियादिपरिच्छिन्नत्वामिमानयु- तस्य जीवस्यापरिच्छिन्नब्रह्माकारत्वमनुपपन्नं स चामिमानो ब्रह्मापरो- झज्ञानदाढ्यदिव निवर्तते । तच्च ज्ञानदाय “ आवृत्तिरसकृदुपदेशात्" ब० सू० ४ । १ । १] इत्यधिकरणन्यायेन चिरकालकृतवेदान्तश्रवणम. नननिदिध्यासनाभ्यासादेव मवत्यतो देहादिपरिच्छिन्नत्वाभिमाननि- वर्तकब्रह्मापरोक्षज्ञानदायि सर्वदाऽऽत्मस्वरूपमनुभवामीत्याह-इत्थं विजानामि सदाऽऽत्मरूपमिति । सदा यावदज्ज्ञानदाढयमित्थमहं ब्रह्मैवे- त्यात्मरूपं स्वस्वरूपं विजानाम्यपरोक्षतयाऽनुभवामि। एतेन यस्य कस्य. चिदपरोक्षज्ञाने जातेऽप्यपरिच्छिन्नस्य परिच्छिन्नत्वविषयासंभावनावि. परीतमावनानिरासकतया ज्ञानदाढयाय शमादियुक्तः सन्विजातीय- प्रत्ययनिराकरणपुरःसरमहं ब्रह्मैवेति सर्वदाऽऽत्मचिन्तनं कुर्यादित्युक्तं मवति । अहमेव विष्णुर्मय्येव सर्वं परिकल्पितमित्यनेनापरोक्षज्ञानसद्भावः सूचितः । इत्थं विजानामि सदाऽऽत्मरूपमित्यनेनासंभावनानिवर्तका- परोक्षज्ञानदाढचं चास्तीति सूचितमतोऽस्य श्लोकस्यायमर्थः -यस्य गुरोः प्रसादादपरोक्षज्ञानं निःशेषदेहादिपरिच्छिन्नत्वाभिमाननिवर्त- कज्ञानदाढयं च निरन्तरानुमवेन सिद्धं तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्य- मिति । स्वस्य विष्णुत्वकथनं स्वकीयग्रन्थस्यानायासेन ब्रह्मापरोक्ष- ज्ञानजनकत्वप्रदर्शनार्थं गुरुत्कर्षार्थं च । नच स्तुत्यर्थं देहव्यतिरिक्तात्म- निष्ठस्य देहामिमानासंभवाद्देहनिबन्धनमूलकस्तुत्याद्यपेक्षानुपपत्तेः॥२॥ आचार्यवान्पुरुषो घेद [छा० ६-१४-२] इत्यादिश्रुतिभ्य आचा- पच्छिष्यस्य विद्यालामदर्शनाच्छिष्याचार्य प्रश्नोत्तररूपेणैव तत्त्वं निरू- पयितुं प्रथमं तावच्छिष्यस्य लक्षणमाह- तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ तापत्रयेति । तापत्रयशब्देनाऽऽध्यात्मिकाधिमौतिकाधिदेषिकस्ताप ६ विश्वेश्वरविरचितटीकासमेता- । उच्यते । आत्मानं देहमधिकृत्य प्रवर्तत इत्यध्यात्मम् । अध्यात्मशब्देन श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागादिकर्मेन्द्रियपश्चकं प्राणादिवायुपञ्चक मनआद्यन्तःकरणचतुष्टयं चोच्यते । तत्संबन्धी ताप आध्यात्मिको व्याध्यादिः कामादयश्च । मूतानि पृथिव्यादीन्यधिकृत्य भवतीत्यधि- मूतमधिमूतशब्देनेन्द्रियगोचर उच्यते । प्राणिहिंसकाचोरव्याघ्रनका- दयोऽभिप्रेतास्तत्संबन्धी ताप उपप्पक आधिभौतिकः । अधिदेव- शब्देन- दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः। चन्द्रो विष्णुश्चतुर्वक्त्रः शंभुश्च करणाधिपाः " इति निर्दिष्टा इन्द्रियाधिदेवता उच्यन्ते । तत्संबन्धी ताप उप- तव आधिदैविकोऽतिशीतोष्णवातवर्षादिः । अत्युग्रतापहेतुभूतग्रीष्मम- ध्यंदिनार्कवदसात्वात्तापत्रयमेवार्कस्तेन संतप्तः । उद्विग्नमानस इति । ध्याकुलितमना इहामुत्रार्थफल मोगाद्विरक्त इत्यर्थः । ननु विषयज- नितमुखस्यैव सर्वैः प्रार्थ्यमानत्वात्कथं तत्त्यागो घटत इतिचेन्न कर्म- साध्यस्य कुट्यादेरिवानित्यत्वेन विषयसुखानामपि साधनपारतन्त्र्यक्ष यिष्णुत्वदर्शनादल्पसुखापेक्षया बहुतरदुःखसंमवाञ्च विषयसुखामासेभ्यो युक्तिमतां विरक्तिरेव स्यात् । नच मिक्षुमिया पचनकरणाभाववन्मृगमि. या शाल्यादिकृष्यनारम्मकरणवन्मत्स्यग्रहे केशकण्टकादिसहितमत्स्या- दिकं गृहीत्वा हेयांशत्यागेनोपादेयांशग्रहणवद्विषयसुखस्य दुःखभूय. स्त्वेऽपि दुःखांशपरिहारेण च सुखपरिग्रहणमिति वाच्यम्। विषमिश्रितम- ध्वादिवदुःखपरिहारेण सुखग्रहणासंमवात्तत्याग एव युक्तः । तत्र विषयसुखस्यानित्यत्वेन दुःखमिश्रत्वेन च त्याज्यत्वेऽपि “ अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" " अपाम सोमममृता अमूम [अथर्व०शि०३] इत्यादिश्रुत्या स्वर्गादिमोगस्य नित्यत्वप्रतिपादनात् , यत्कृतकं तदनित्यमितियुक्त्यनुगृहीतदुःखमिश्रितत्वामावाच्च तत्त्यागः कथमितिचेन्न । " तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्य- जितो लोकःक्षीयते "(छायाश६) इत्याद्युक्त्यनुगृहीतश्रुत्या स्वर्गादि. मोगस्यानित्यत्वप्रतिपादनाक्षयिष्णुत्वानित्यत्वसातिशयत्वादिजनितदुः- खस्याप्यनिवार्यत्वात्तत्त्यागोऽपि युक्त एव । नित्यत्वप्रतिपादिकायाः श्रुतेः का गतिरिति चेत् "आमूतसंप्लवस्थानममृतत्वं हि माव्यते” इत्यापेक्षिक- ..

श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । नित्यत्वप्रतिपादनपरत्वात्तस्मादुमयविधमुखाद्विराग एव श्रेयान् । शमा- दिसाधनैर्युक्त इति । शमादिशब्देन शमदमक्षान्त्यार्जवसमचित्तत्वादयोऽ. भिप्रेताः । शमोऽन्तःकरणोपरमः । दमो बाह्यकरणस्याऽऽत्मज्ञानविरो- धिबहिर्यापारोपरमः।क्षान्तिः परापराधेऽप्यविक्रिया। आर्जवमृजुमाव: कायवाङानसामेकरूपता । समचित्तत्वं प्रियाप्रियप्राप्तिषु हर्षविषादरा- हित्यम् । सद्गुरुं सम्यग्दर्शनरूपसंपन्नं वेदान्तशास्त्रपरिज्ञानिनं मोक्षकामः सन्वेदान्तमहावाक्यतो विशेषतः स्वरूपजिज्ञासया परिपृच्छति । पृच्छ- तीति पदं प्रणिपातसेवयोरुपलक्षणम्। तद्विद्धि प्रणिपातेन [गी०४।३४] इति मगवद्वचनेन गुरुशिष्यलक्षणयोर्दर्शितत्वात् । ननु मोक्षसिद्धयर्थ- मात्मविचाराय गुरुमुपसृत्य प्रष्टुं शिष्यः प्रवर्तत इत्युक्तमिदमनुपपन्नम् । अविप्रतिपन्ने निश्चिते वा न्यायोविचारो न प्रवर्तते किंतु विप्रतिपन्ने संदि- ग्धे । अत्राऽऽत्मनि विप्रतिपत्ति स्त्यवाहं कर्ताऽहं मोक्ताऽहं गच्छाम्यहं तिष्ठामीति कर्तृत्वभोक्तृत्वाद्याकारणानवरतमनुभूयमानत्वात् । प्रयोजना- भावादपि न विचारमर्हति । न च तज्ज्ञानासंसारनिवृत्तिः प्रयोजनमिति वाच्यम् । कर्तृत्वादिरूपात्मज्ञानेन सह संसारावस्थानस्य दृष्टत्वेनोमयो- विरोधामावात् । न चानध्यस्तात्मविज्ञानात्तत्राध्यस्तस्य संसारस्य निवृत्तिः स्यादिति वाच्यम् । अध्यास एव दुनिरूपत्वेन तदसंभवात् । नहि कज्जलमुकुरयोरिव जडाजडयोरत्यन्तविलक्षणयोरात्मानात्मनोः परस्परं तादात्म्यं संभवति । तस्मादध्यासनिरूपणादात्मनि संदेहामावा- संसारनिवृत्तिरूपप्रयोजनामावाच्चाऽऽत्मविचाराय गुरूपसदनं न कर्तव्य- मिति चेन्न । वस्तुतस्त्वात्मानात्मनोः परस्परतादात्म्यामावेऽत्यन्तविल- क्षणयोर्दुर्घटकारिण्यचिन्त्यशक्त्यावृतत्वेन विवेकामावे सत्यन्यस्मिन्न- न्यारोपं कृत्वाऽहं मनुष्यो ब्राह्मणः क्षत्रियो ममायं पुत्रः पशुरित्याद्यना- दिमिथ्याव्यवहारः संभवतीदमेव प्रपञ्चस्याध्यस्तत्वम् ।[अध्यस्तत्वं] नाम यदुतान्यस्मिन्नन्यबुद्धिता। "अध्यासो नामातस्मिंस्तबुद्धिरित्यवो- चाम" इति भाष्यकारैरुक्तत्वादध्यासकारणभूतमायाया अनिर्वचनीयत्वेन तत्कार्यभूताहंकाराद्यध्यासस्याप्यनिर्वचनीयत्वं विस्तरमयादादीनामध्या- सान्तरचतुष्टयमत्रानूद्य न निरस्तमिति द्रष्टव्यम् । सर्वेषां मतेऽप्यन्य. स्यान्यधर्मावभासता न व्यभिचरति। नचान्यत्र सतः सादेरन्यत्राऽऽरोपो दृष्टोऽत्र कात्मव्यतिरिक्तस्य सर्वस्यासत्त्वेनान्यत्र सत्त्वाभावात्कथमध्यास इति वाच्यम् । पूर्वदृष्टावभासमात्रस्यैवाध्यारोपोपयोगित्वं न तत्सत्य.

विश्वेश्वरविरचितटीकासमेता- १ तायाः पूर्वदृष्टस्य सत्त्वाभावापराधेन भ्रमानुदयादर्शनात्स्मृतिरूपः परत्र पूर्वदृष्टावमास इत्यध्यासलक्षणं पूर्वदृष्टत्वमात्रस्यैवाध्यासोपयोगित्वे. नाङ्गीकारात्तस्मात्पूर्वभ्रमजनितसंस्कारस्योत्तरोत्तरभ्रमजनकत्वं स्यात् । पूर्वभ्रमस्यापि ततः पूर्वभ्रमसंस्कारजनिरित्यन्धपरम्परयाऽनाद्यनिर्वाच्या हंकाराद्यध्यासः संमवत्येव । मायिकस्याध्यासस्य दुर्निरूपत्वमलंकारा- यैव । किंच " सत्यं ज्ञाननमन्तं ब्रह्म"[तै० २।१।२]" आनन्दो ब्रह्म [ तै० ३।६।१]" एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्व- भूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ [श्वे०६।११] "निष्कलो निरञ्जनो निर्विकल्पो निराख्यः "" असङ्गो ह्ययं पुरुषः [बृह० ४ । ३ । १५ ] इत्यादिश्रुतयः कर्तृत्वमोक्तृत्वविवर्जितमद्वितीयजातिगुणक्रियाषडूमिष- ड्मावादिदोषानुषङ्गरहितं सत्यज्ञानानन्दस्वरूपं सर्वव्यापिनं सर्व. साक्षिणमात्मानं लक्षयन्त्यतस्ताहग्भूतात्मनः संदिग्धत्वात् । ब्रह्म वेद ब्रह्मैव भवति [मु. ३।२।९]" तरति शोकमात्मवित् ।" [छा० ७१। ३] "भिद्यते हृदयग्रन्थिः" [मु०२।२।८]" इत्याद्यनेकरूपश्रुत्या तदप- रोक्षज्ञानाद्विधिना कल्पितस्य मिथ्याभूतस्य संसारस्य निवृत्तिसंभवात्सा- धनचतुष्टयसंपत्त्यनन्तरं वेदान्तवाक्यतः स्वात्मविचाराय गुरुमुपसृत्य तं परिपृच्छतीत्येतदुपपन्नमेव । संसारिणां विषयलुब्धानां विषयानरक्षण- नाशेषु तापत्रयं संमवति । तेन तेन तापेन संतप्तानां तेषां मध्ये कश्चि- देतज्जन्मनि जन्मान्तरे वा काम्पनिपद्धवर्जनपुरःसरमीश्वरार्पणबुद्धयाऽ- नुष्ठितनित्यनैमित्तिकप्रायश्चित्तसगुणोपासनादिकर्मभिः प्रक्षालितान्त:- करणो विषयाणां सुखाधिकतरदुःखहेतुत्वदर्शनादनित्यत्वाच्चोद्विग्नमा- नसो मवति । ततः शमादिसाधनैर्युक्तः सन्बन्धनिवृत्त्यर्थमात्मविचाराय गुरुं पृच्छतीति मावः। तापत्रयोद्वेगशमादीनां पूर्वपूर्वस्योत्तरोत्तरं प्रति हेतुहेतुमद्भावो द्रष्टव्यः । तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानस इत्यनेन विरक्तिहेतुप्रतिपादकोऽतःशब्दार्थों निर्णीतः । शमादिसाधनैर्युक्त इत्यनेनाऽऽनन्तर्यार्थस्याथशब्दस्यार्थों निर्णीतः । सद्गुरुं स्वरूपविचाराय परिपृच्छतीत्यनेन ब्रह्मज्ञानाय वेदान्तमहावाक्यार्थविचारकर्तव्यता दर्शि- - श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । तातो ब्रह्मजिज्ञासाशब्दार्थो निर्णीतः । एवमनेन श्लोकेन " अथातो ब्रह्मजिज्ञासा"[० सू०१।१।१] इति प्राथमिकाधिकरणन्यायो निरूपित इति द्रष्टव्यम् ॥ ३ ॥ सद्गुरुं परिपृच्छतीत्युक्तं किं परिपृच्छतीत्याकाङ्क्षायां बन्धनिवृत्ति- साधनं परिपृच्छतीत्याह- अनायासेन येनास्मान्मुच्येयं भवबन्धनात् । तन्मे संक्षिप्य भगवन्केवलं कृपया वद ॥ ४ ॥ अनायासेनेति । न विद्यत आयासो यस्मिंस्तत्तथोक्तं येन मुक्तिसा- धनेन । अस्मादितिपदेन भवबन्धनस्य प्रत्यक्षसिद्धं दुःखभूयस्त्वमुच्यते । भवबन्धनाद्भवः संसारः स एव बन्धनमिव बन्धनं तस्मान्मुच्येयं मुक्तः स्यां तन्मुक्तिसाधनं संक्षिप्याविस्तीर्येदमिदमिति वदेत्यर्थः । येन संसा- रान्मुक्तः स्यां तद्वदेत्युक्तं तत्र वक्तव्यं किं शुद्धात्मनः संसार आहोस्वि- दहंकारात्मनः । नाऽऽद्यो द्वितीयाभावात्। न द्वितीयो लिङ्गभूताहंकारस्य कुड्यादिवदचेतनत्वेन प्रवृत्त्यसंभवाच्च । तर्हि न कस्यापि संसार इति न वाच्यं प्रत्यक्षापलापासंभवात् । तस्मात्प्रतीयमानः संसारः किंनिष्ठ इति चेदुच्यते । वस्तुतस्त्वहंकारात्मनस्त्वदुक्तरीत्या संसारासंभवेऽपि निर्विकारायस्कान्तसंनिधिवशादचेतनलोहप्रवृत्तिवत्केवलचैतन्यसांनि- ध्यवशादेव देहेन्द्रियादियुक्ताहकारस्य चिदाभासानुप्रवेशबलात्प्रवृत्ति- रूपः संसार: संभवति। स च साभासाहंकारगतसंसारो मिथ्याज्ञानेनाss- त्माहंकारयोर्भेदस्याऽऽवृतत्वेन तदविवेकात्साक्षिचैतन्ये रोप्यते । याव- त्स्वरूपसाक्षात्कारादज्ञाननिवृत्त्या तदावरणापायो न स्यात्तांवन्मिथ्या. भूतोऽपि संसारोऽज्ञानिनां सत्य इव भातः सत्पुत्रभार्यादिषु नष्टेषु पुष्टे- वहमेव नष्टः पुष्ट इति स्वस्मिन्बाह्यधर्माध्यासद्वारा सुखदुःखशोकमोहा- दिकं प्रयच्छत्येव । यथा मिथ्याभूतोऽपि रज्ज्वामारोपितः सर्पो धावनपादभञ्जनभय कम्पादिहेतुर्भवत्येवं मिथ्यासंसारस्याप्यनर्थकारि- त्वात्तन्निवृत्तिसाधनमन्वेषणीयमेवातः संसारस्यैवाभावाद्येन संसारान्मु. क्तः स्यां तद्वदेति प्रश्नाऽनुपपन्न इति शङ्का प्रत्युक्ता। एतत्सर्वं देहेन्द्रियायो मावा इत्यादिश्लोकत्रयेणाऽऽचार्यास्तु तत्पव्यक्ती करिष्यन्ति । बोधामासो बुद्धिगतः कर्ता स्यात्पुण्यपापयोः । स एव संसरेत्कर्मवशाल्लोकद्वये सदा ॥

१० विश्वेश्वरविरचितटीकासमेता- साक्षिणः पुरतो मातो लिङ्गं देहेन संयुतम् । चितिच्छायासमावेत्ता जीवः स्याद्यावहारिकः ॥ अस्य जीवत्वमारोपात्साक्षिण्यप्यवमासते । अवृत्तौ तु विनष्टायां भेदे माति प्रयाति तत् ॥ व्यापृतेष्विन्द्रियेष्वात्मा व्यापारीवाविवेकिनाम् । दृश्यतेऽभ्रेष्ठ धावत्सु धावन्निव यथा शशी ॥ आत्मचैतन्यमाश्रित्य देहेन्द्रियमनोधियः। स्वकीयार्थेषु वर्तन्ते सूर्यालोकं यथा जनाः ।। सुप्तेऽहमि प्रदृश्यन्ते दुःखदोषप्रवृत्तयः । अतस्तस्यैव संसारो न मे संसृतिसाक्षिणः ॥ इत्यादिपूर्वाचार्यैः प्रतिपादितबहुग्रन्थस्तस्मिन्नर्थे प्रमाणमतः कल्पि- तसंसारनिवृत्त्यर्थं साधनप्रश्न उपपन्न एवेति सिद्धम् । अनेनापि जिज्ञा. साक्षेपसमाधानं द्रष्टव्यम् । मुक्तिसाधनस्याप्यनायासविशेषणेन यज्ञदान. तपआदि ज्ञानोत्पत्तिसाधनं समस्तं निरस्तं स्यात् । “सर्वापेक्षा च यज्ञा- दिश्रुतेरश्ववत् "[ब० सू० ३।४ । २६ ] इत्यधिकरणन्यायेन यज्ञा- दीनामन्तःकरणशुद्धिद्वारा विविदिधोत्पादकत्वमन्तरेण साक्षान्मुक्ति- हेतुत्वासंभवाज्ज्ञानं त्वज्ञानविरोधित्वेन स्वतो मुक्तिसाधनमिति भावः । भगवच्छब्दप्रयोगेण "वेदान्तकृद्वेदविदेव चाहम् [म०गी०१५ । १५] इति वेदान्तार्थवित्पुरुषोऽहमेवेति भगवतोक्तत्वादाचार्यस्य भगवत्त्वं तात्विकमेवेति विदित्वाऽऽचार्यमुद्दिश्य हे भगवन्हे स्वामिन्हे महादेवेति परमेश्वरवाचकानि वचनानि शिष्येण वक्तव्यानीति ज्ञापयति । केवलं कृपया वदेत्यस्य गुरोः स्वरूपनिष्ठतया निरपेक्षत्वेन दृष्टप्रयोजनापेक्षा. भावादुपदेशकारणं कृपैवेति मत्वा शिष्येणाऽऽचार्यकृपोत्पादकानि वचनानि वक्तव्यानीति ज्ञापयति ॥ ४ ॥ तुच्छसुखतत्साधनप्रश्नानपेक्षया संसारतापतप्तानां मुमुक्षूणां सर्वेषां परमानन्दप्राप्तिसाधनस्य पृष्टत्वात्तं प्रश्नमभिनन्दति- साध्वी ते वचनव्यक्तिः प्रतिभाति बदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥ ५॥ स्वाध्वीति । विस्पष्टं वदामीत्यनेन स्पष्टत्वादित्थमाचार्य धर्म इत्यु- क्त । " सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ” [ ब्रह्मसू०] इति - श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ११ - तृतीयाध्यायचतुर्थपादस्थं पविंशं परमार्थ सूत्रम् । तदर्थ श्चैवं यथाs- श्वस्य मङ्गलादावयोग्यत्वेऽपि रथादा विनियोगो योग्यत्वात्तथा ब्रह्मवि- धाऽप्ययोग्यत्वात्स्वजन्य फले कर्मानपेक्षाऽपि स्वोत्पत्तौ तदपेक्षव पापक्ष. यादिद्वारा तदपेक्षया योग्यत्वात् । " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन [ बृह० ४ । ४ । २२] इति विविदिषां विद्यां चोदिश्य यज्ञाद्याश्रमधर्ममात्रविधानाच्च । कथं विधिरिति चेद्यज्ञादिनिष्ठविविदिधादिसाधनत्वस्यापूर्वत्वाद्विविदिषन्ती. त्यस्य लेडन्तत्वाच्च । वेदाध्ययनं वर्णिनो धर्मः । यज्ञदाने गृहस्थस्य । तपो वानप्रस्थस्य । यतिनोऽनाशकं कर्तव्य तयोत्तराविरोधि । यद्वाऽनाश- कमित्यत्रानुदरा कन्येतिवदल्पार्थको नत्र । तथाच हितमितमेध्याशन- मिति भिक्षुधर्मोऽयमित्येवं पूर्वैः क्षुण्णोऽयं पन्थाः । सावधानमनाः शृण्वित्यनेनै काग्रचित्तत्वं शिष्यधर्म इति सूचितम् । इदं तदिति । इदमेव मुक्तिसाधनमिति ॥५॥ तत्किमितिबुभुत्साभिमुखीभूताय शिष्याय तदेवाऽऽह- तत्त्वमस्यादिवाक्योत्थं यजीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥६॥ तत्त्वमस्पादिवाक्योत्थं वाक्यश्रवणजन्य जीवबह्मतादात्म्यविषयमुन. योरपि स एवाऽऽत्मा जीवस्य य आत्मा स्वरूपं स एव परमात्मनः परमात्मनो य आत्मा स्वरूपं स एव जीवस्येति तदात्मा तस्य मावस्ता- दाम्यमेकत्वमित्यर्थः । तदेव विषयो यस्य ज्ञानस्य तत्तथोक्तम् । तत्त्वम- स्यादिवक्येन जीवब्रह्मतादात्म्ये प्रतिपादिते सति तत्प्रतिपादकवाक्य श्रव- णजन्यं जीवब्रह्मतादात्म्यविषयं यज्ञानमस्ति तदिदं मुक्तिसाधनमिति भावः । तदिदमिति तस्यैव वाक्यज्ञानस्यैकत्वकरणजन्यत्वमुक्तम् । तत्त्व- मस्यादिवाक्यस्यैव व्याख्यातत्वादस्य ग्रन्थस्य तयोरेकार्थत्वोपपत्तेः पूर्व- मुक्तं मवबन्धनादित्यनेन बन्धनिवृत्तिकामोऽधिकारी सूचितः । इदानी प्रकरणस्य जीवपरमात्मतादात्म्पविषयः । तादात्म्यप्रकरणयोः प्रतिपाद्य. प्रतिपादकमावः संबन्धः । मुक्तिः प्रयोजनमिति । अतो विषयप्रयो- जनसंबन्धाधिकारिसद्भावात्प्रकरणानारम्मशङ्काऽपास्ता ॥ ६ ॥ एवं शिष्येण पृष्टमायासरहितमुक्तिसाधनं जीवपरमात्मनोस्तादात्म्य- - : १२ विश्वेश्वरविरचितटीकासमेता- विषयं ज्ञानमित्युक्तमिदानीं तत्रानुपपत्तिं शिष्यश्चोदयति- को जीवः कः परश्चाऽऽत्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत्पतिपादयेत् ॥ ७ जीवं परमात्मानं च न जानाम्यज्ञानतस्तयोस्तादात्म्यं कथं ज्ञायते परस्परविलक्षणयोर्जीवेश्वरयोः कथमैक्यं घटते । तत्त्वमस्यादिवाक्यं वा तदज्ञातपदार्थतादात्म्यं कथं प्रतिपादोदित्यर्थः ॥७॥ एतानाक्षेपान्क्रमेण समाधातुमाचार्य आह- अत्र ब्रूमः समाधानं कोऽन्यो जीवस्त्वमेव हि । यस्त्वं पृच्छसि कोऽहं मां ब्रह्मैवासि न संशयः ॥ ८ ॥ अत्र व्याक्षेपेषु प्राथमिकस्योत्तरत्वेन चैतन्यस्य जीवत्वं मत्वाऽऽह- अन्यो जीवः क इति चेञ्चेतनादन्यो जीवो नास्तीत्यर्थः। ननु तथाऽपि चेतनस्य ज्ञेयस्यामावादज्ञातत्वं तथैवावतिष्ठत इत्यत आह-त्वमेवेति।चेत- नस्य जीवत्वामावेऽपि स्वव्यतिरिक्तान्तःकरणादिसाक्षित्वेन स्वस्यैवानु. भवसिद्धत्वाज्ज्ञातत्वमस्तीति भावः । हिशब्दो हेत्वर्थे । वाच्ययोस्ता- दात्म्यं न संभवतीति यतस्ततः कारणाल्लक्ष्ययोस्तादात्म्यं संभवतीति कृत्वा नानुपपत्तिरित्यर्थः । तृतीयाक्षेपसमाधानेन चतुर्थाक्षेपस्यापि समा- धानं जातमिति द्रष्टव्यम् । चेतनो जीव इत्युक्तं चेतनस्य जीवत्व उपपत्ति- माह-यस्त्वं पृच्छसीति । अचेतनस्य पृष्टत्वानुपपत्ते वस्य चेतनत्वमुप. पन्नमित्यर्थः । देहेन्द्रियादीनामपि चेतनसांनिध्याच्चेतनवदवमासमान- त्वमेव नतु चेतनत्वमपि तु तत्साक्षिणः । “तत्त्वमसि'[छान्दो०६।८ ७] " अहं ब्रह्मास्मि ” [ बृह० १ । ४ । १० ]" अयमात्मा ब्रह्म [ माण्डु० ११२] इत्यादिश्रुतिभ्यो ब्रह्मत्वाभ्युपगमाञ्चेतनत्वं सिद्धमि. त्येतदर्थं हृदि निधायाऽऽचार्य आह-ब्रह्मैवासीति । प्रथमप्रश्ने जीव. परयोर्लक्षणस्य पृष्टत्वात्समाधानावसरे जीवस्यैव लक्षणमुक्तं न परस्येति न शङ्कनीयं ब्रह्मैवासीत्यनेन देहेन्द्रियादिसाक्षिणश्चेतनस्य जीवस्य ब्रह्म त्वामिधानात्सर्वसाक्षी चेतनः परमात्मेत्युक्तमेव ॥ ८॥ शिष्यो गुरुवाक्य श्रवणानन्तरं पदार्थद्वयं सामान्येन विदित्वा स्फुट विविदिषुराचार्यमाह-- - । श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १३ पदार्थमेव जानामि नायापि भगवन्स्फुटम् । अहं ब्रह्मेतिवाक्यार्थ प्रतिपये कथं वद ॥ ९ ॥ अद्यापि भगवत्येवमुक्तवत्यपि स्फुटं पदार्थमेव न जानाम्यतो वाक्याथ कथं प्रतिपद्येऽतस्तदर्थं पदार्थं स्फुटं वदेत्यन्वयः । अहं ब्रह्मैवेतिवाक्याथं कथं प्रतिपद्येऽतः पदार्थ वदेत्यनेन पदार्थज्ञानादा- चीनकाले वाक्यार्थज्ञानस्यासंभवात्पदार्थज्ञानमेव दृढी क्रियतामित्यय- मर्थोऽवगम्यते ॥ ९ ॥ मनुष्याणां सहस्रेषु' [भ०गी० ७।३] इति भगवद्वचनान्मुमुक्षोः पुरुषस्य दुर्ल मत्वात्प्रश्नानामात्मविषयत्वाञ्च पुनः पुनः शिष्यप्रश्नैर्गुरोर्नो- द्वेगः स्यात्किं त्वनुमोदनमेवातः शिष्यमात्मावगत्यर्थिनं बोधयितुं प्रथम तावच्छिष्यस्य प्रश्नमनुमोदते- सत्यमाह भवान। विगानं नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह॥१०॥ अत्रास्मिन्नर्थेऽविप्रतिपत्तिमाह । इह तत्त्वमस्यादिवाक्ये पदार्थ.. वाक्यार्थावगतिसाधनत्वभन्वयव्यतिरेकसिद्धमित्याह-हेतुः पदार्थेति । यत एवमतो विगानं नैव विद्यत इति योजना ॥ १० ॥ तस्मात्तत्त्वंपदार्थों निरूपयितुं प्रसिद्धानुवादेनाप्रसिद्धं निरूपणीय- मिति न्यायेन प्रसिद्धं त्वमर्थं तावनिरूपयति- अन्तःकरणतवृत्तिसाक्षी चैतन्यविग्रहः । आनन्दरूपः सत्यः सन्कि नाऽऽत्मानं प्रपद्यते ॥ ११ ॥ अन्तःकरणेति । अन्तःकरणं बुद्धिस्तवृत्तिर्मनः । 'अगमन्मे मनोऽ. न्यत्र' इति तत्र मनसो धीवृत्तित्वप्रतिपादनादाचार्येण तवृत्तिग्रहणे- नान्तःकरणस्यैव स्ववृत्तिसाक्षित्वं परिहृतम् । निरालम्बनज्ञानमेव तस्याविद्याकल्पितसाक्ष्यवलम्बनेनैव साक्षित्वं तथा सत्यादावेव निर्विक- ल्पकज्ञानरूपेणाऽऽत्मनि प्रतिपाद्यमाने न कस्यापि प्रतिपत्तिः स्यादतः स्थूलारुन्धतीदर्शनद्वारा मुख्यारुन्धतीदर्शनवदन्तःकरणसाक्षित्वेनाss- त्मानं प्रतिपाद्य तत्प्रतिपत्त्यनन्तरं साक्षित्वेनैव सिद्धमात्मानं निराल- म्बनतया दर्शयति-चैतन्यविग्रह इति । अथ वा देहेन्द्रियादिसाक्षीति १ ख. °द्यसे। ज्ञानस्य - विश्वेश्वरविरचितटीकासभेता- वक्तव्ये किमन्तःकरणतवृत्तिसाक्षीत्युक्तशङ्कायां बुद्ध्या सहैव देहेन्द्रि- यसाक्षी प्रत्यगात्मा बुद्धितवृत्तिसाक्षी तु स्वयमेवेत्यभिप्रेत्य शुद्धा- स्मानं दर्शयति-चैतन्यविग्रह इति । चैतन्यं ज्ञानं विग्रहः स्वरूपं यस्य स तथोक्तः स्वयंप्रकाश इत्यर्थः । इदानी ज्ञानरूपत्वेनाऽऽत्मनो भोगसा. धनावयवाभावात्सुखाभावशङ्कायामाह-आनन्दरूप इति । "को ह्येवा- न्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्थादेष ह्येवाऽऽनन्दयाति" [ तैत्ति० २।७।२] “ सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः । स्वस्वरूपं महानन्दं भुने विश्वविवर्जितः [ कैवल्यो० १३] इति । आनन्दो ब्रह्म"[तैत्ति० ३।६।१] इत्यादिश्रुतिभ्यश्च । सुषुप्तः पुरुषः प्रबोधकं द्वेष्टि । प्रबुद्धश्च सुखमहमस्वाप्समिति कथयति । अतो युक्त्यनुमवाभ्यां चाऽऽत्मन आनन्दरूपत्वं सिद्धमित्यर्थः । तर्हि लोके ज्ञानानन्दयोः क्षणिकत्वदर्शनादात्मनो ज्ञानानन्दरूपत्वे क्षणिक- त्वेनानित्यशङ्कायामाह-सत्य इति । अन्तःकरणवृत्तिप्रतिविम्बितज्ञाना- नन्दयोरेव क्षणिकत्वं न स्वरूपानन्दज्ञानस्य तस्यावस्थात्रयेऽपि सत्यत्वदर्शनात् । निरवयवत्वेन रूपरसादिरहितत्वाक्रियाश्रयत्वाभावात्ष- इभावविकाररहितत्वाञ्च तस्य सत्यत्वं सिद्धमित्यर्थः ॥१ उक्तस्वरूपे निःसंशयज्ञानोपायमुपदिशति- सत्यानन्दस्वरूपं धीसाक्षिणं ज्ञानविग्रहम् । चिन्तयाऽऽत्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥१२॥ सत्येति । विज्ञानरूपस्यैवाऽऽत्मनः सत्यत्वमानन्दत्वं साक्षित्वं चेत्ये- तत्प्रदर्शनार्थ पूर्वोक्तश्लोकोक्तान्येव पदान्यनयाऽपि रीत्या पुनरुच्यन्ते विशेषणविशेष्यरूपेणैव । यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धव्यमविकारितयाऽऽत्मनः" इंति ज्ञानस्यैव त्वंपदार्थत्वं वक्ष्यते । एवंभूतमात्मानमात्मतया चिन्तया- हमिति चिन्तयेत्यर्थः । नित्यं चिरम् । 'नित्यं चिदनुसंधिनः शोको न बाध्यते ' इति वशिष्ठवचनाच्चिन्तनीयमिति भावः । त्यक्त्वा देहादिगां ॥

- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १५ धियमिति । देहादावात्म बुद्धिं त्यक्त्वेत्यर्थः । धीसाक्षिणमित्यत्र धीश- ब्देन "कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर्विधृतिह्रीं( रि- त्येतत्सर्वं मन एव " बृ० १। ५। ३] इति श्रुतेः कामादि सर्वमपि गृह्यते ॥ १२॥ आत्मचिन्तनस्य देहाद्यात्मबुद्धित्यागपूर्वकत्वमुक्तं देहादावात्मबुद्धे- श्चिरं निरूढत्वात्तत्त्यागो न घटत इति शिष्यस्याऽऽशयमाशङ्कय देहादे- रनात्मत्वदर्शनेन तदात्मत्वबुद्धित्यागो घटत इति मत्वा तत्त्यागाय देहादेरनात्मत्वं शिष्यस्य दर्शयति- रूपादिमान्यतः पिण्डस्ततोऽनात्मा घटादिवत् । वियदादिमहाभूतविकारित्वाच्च कुम्भवत् ॥ १३ ॥ रूपेति । पिण्डो देहोऽनात्मा रूपरसादिमत्त्वात् । रूपादिमत्त्वं सर्वेषां वस्तूनां प्रत्यक्षसिद्धमिति घटादिष्टान्तः। महाभूतविकारत्वं कुम्मस्यैव प्रत्यक्षसिद्धमिति कुम्म दृष्टान्तः ॥ १३ ॥ केवलपिण्डस्यानात्मत्वदर्शनमात्रेणाऽऽत्मचिन्तनं न घटते किं त्वात्मनः स्फुटपरिज्ञानेनापि भवितव्यमिति मत्वाऽऽत्मानं स्फुटं परिज्ञातुं तत्स्वरूपं वदेत्याचार्यमाह- अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः । करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४ ॥ अनात्मेति । अयमितीदंशब्देन पिण्डस्य दृश्यत्वेनाप्यनात्मत्वमुच्यते। अयं देहः पूर्वोक्तहेतुनाऽनात्मेति संमतश्चेद्भवतु नामानात्मत्वं देहस्य नैतावताऽऽत्मचिन्ता सिध्येत् । अतः करस्थामल कस्तु यथा प्रत्यक्षदृष्ट एवं साक्षाव्यवधानेनैवंभूतस्वरूपोऽहमित्य परोक्षतया ज्ञातुमात्मानं प्रति- पादयेत्यर्थः ॥ १४ ॥ एवमन्तःकरणतवृत्तिसाक्षीत्यादिश्लोकोक्तमेवेदानी स्फुटं प्रतिपि. पादयिषुरादौ साक्षित्वेनाऽऽत्मानं प्रतिपादयति- घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहदष्टा तथा देहो नाहमित्यवधारय ॥ १५॥ घटदष्टेति । घटष्टा घटाद्भिन्नः सन्सर्वप्रकारेण यथा घटो न भवति १ ख. पृथिव्यादि। - १६ विश्वेश्वरविरचितटीकासमेता- तथा घटद्रष्टवदेहद्रष्टाऽपि नाहं देहः किं तु स्वदृश्यादेहाद्भिन्न इत्यर्थः । अवार्य प्रयोगः-देहद्रष्टा स्वदृश्यदेहाद्भिन्नो द्रष्टुत्वाद्घटद्रष्टुवदिति । श्रुतिरपि " स होवाचैतद्वै तदक्षरं गार्गि बाह्मणा अभिवदन्ति" [६० ३।८।८] “ अदृष्टं द्रष्टुश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ"[६० ३।८।११] इति ॥ १५ ॥ एवं घटद्रष्टवद्देहद्रष्टुत्वेनाऽऽत्मानं दर्शयित्वेदानीमिन्द्रियस्य देहष्कृत्वद- र्शनात्तस्यैवाऽऽत्मत्वशङ्कायामिन्द्रियस्य साक्षिण एवेन्द्रियद्वारा देहदृष्ट्टत्वं न साक्ष्यस्येन्द्रियस्येत्यमित्य देहोक्तानुमानेन क्रमादिन्द्रियद्रष्टुत्वेनाप्या- त्मानं दर्शयति- एवमिन्द्रियङ्नाहमिन्द्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो नाहमित्यवधारय ॥ १६ ॥ एवमिति । इन्द्रियहगह नेन्द्रियं किंतु स्वदृश्यादिन्द्रियाद्भिन्नः कुतो द्रष्टुत्वाद्देहद्रष्टवत् । एवं मनआदिघु व्याख्येयम् । स्वस्वार्थग्रहणस्फु- टाग्रहणादिरूपधर्माणामान्ध्यमान्द्यपटुत्वादीन्द्रियधर्माणां दृश्यत्वस्या- नुभवसिद्धत्वाद्धर्मिणोऽपि दृश्यत्वं सिद्धमिति भावः । तथाऽपि मनस एवेन्द्रियद्रष्टुत्वदर्शनात्तस्यैवाऽऽत्मत्वप्राप्तौ पूर्वाभिप्रायेण मनसो द्रष्टत्वमा- त्मनो दर्शयति-मन इति । तस्य संकल्पविकल्पसंशयात्मत्वेन दृश्यत्व- मनुभवसिद्धमित्यर्थः । एवं चेन्निश्चयात्मकबुद्धरात्मत्वं स्यादित्याश- क्याऽऽह-बुद्धिरिति । यथैक एव पुरुषः क्रियादिभेदेन पाचकादिसं- ज्ञक एवमन्तःकरणं संशयनिश्चयादिवृत्तिभेदान्मनोबुद्धिसंज्ञकं भवति । अतो बुद्धिसंज्ञकस्थान्तःकरणस्य निश्चयात्मकत्वेन क्षणिकत्वेन च दृश्यत्वं सिद्धमित्यर्थः । अन चेष्टायामित्यस्माद्धातोः प्राणशब्द उत्पन्नः। अतश्चेष्टायाश्चेतनधर्मत्वात्तस्यैव साक्षित्वोपपत्तौ स एवाऽऽत्मा स्यादि. त्यत आह-तथा प्राण इति । तथा देहेन्द्रियादिवदनात्मोच्छासात्म- कस्य दृश्यत्वेनानुभवसिद्धत्वात् । सुषुप्तौ प्राणे सत्यपि विज्ञानस्या मावादचेतनत्वमनुभवसिद्धमित्यर्थः ॥ १६ ॥ ननु देहेन्द्रियादिसंघात एवैकैकस्य साक्षीत्यत आह- संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् । दृष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ संघात इति । तथा देहेन्द्रियादिवत्संघातोऽपि साक्षी न मवति । - - श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १७ इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतयो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः [भ० गी. १२१ इति स्मृतेः संघातसाक्षित्वेन क्षेत्रज्ञस्य प्रतिपादितत्वात्संघातस्य दृश्यत्वं सिद्धमित्यर्थः । इत्थमुक्तमर्थं दृढीकुर्वन्सप्रमाणमुपसंहरति- इतीति । अत्रेदमनुमानं देहादिसंघातः स्वव्यतिरिक्तद्रष्ट्टको भवितुमर्हति कुतो दृश्यत्वात् । यो यो दृश्योऽसावसौ स्वव्यतिरिक्तद्रष्टको दृष्टः । यथा घटस्तथा चायं संघातो दृश्यस्तस्मात्स्वव्यतिरिक्तद्रक एवेति । एवं देहेन्द्रियादिसाक्षित्वेनाऽऽत्मा दर्शितः। देहेन्द्रियादीनामपि दृश्यत्वेनाना- स्मत्वमर्थादुक्तम् ॥ १७ ॥ इदानीं दृश्यत्वेनैवाचेतनत्वे सिद्धे सत्यपि देहेन्द्रियादीनां प्रकारा- न्तरत्वेनाचेतनत्वं ज्ञापयंस्तद्विलक्षणतया चैतन्यविग्रहत्वेनाऽऽत्मानं प्रति- पादयति- देहेन्द्रियादयो भावा हानादिव्यावृतिक्षमाः। यस्य संनिधिमात्रेण सोऽहमित्यवधारय ॥ १८ ॥ देहेति । अत्र मात्रशब्दोऽवधारणे । यस्य चैतन्यस्य संनिधिनैव देहादयो हानोपादानव्यापारक्षमाः समर्थाः स्युः सोऽहमित्यन्वयः। देहे- न्द्रियादीनां चैतन्य सांनिध्यादेव हानादिसंसारव्यापार इत्यनेन तेषां शकटादिबदचेतनत्वं दर्शितम् ॥ १८ ॥ नन्वविकृतिचेतनसंनिधिमात्रेण बुद्धयादिप्रत्यनुपपत्तेरचेतनबुध्या- दिप्रवृत्त्यनुकूलोविकारो वक्तव्यः। तथा सति “अव्यक्तोऽयमचिन्त्योऽय- मविकार्योऽयमुच्यते"[म० गी०५-२५] इति स्मृतिविरोधः स्यादित्या- शक्याऽऽह- अनापन्नविकारः सन्नयस्कान्तवदेव यः । बुध्यादींचालयत्येव सोऽहमित्यवधारय ॥ १९ ॥ अनापन्नेति । प्रवृत्त्यनुकूलविकारान्तरशुन्योऽपि यथाऽयस्कान्तोपल: स्वसंनिधिवशाल्लोहव्यापारहेतुस्तथा प्रत्यगास्माऽपि संनिधिवशाद- व्यापार एव सन्ध्यादिचलन हे चरित्यर्थः ।। १९ ।। TMain - .

१८ विश्वेश्वरविरचित टीकासमेता- - ननु शकटादेरचेतनत्वं चेतनस्य तद्भिन्नत्वं च दृष्टम् । कुतो देहादेरचे- तनत्वं चैतन्यस्य तद्भिनत्वं च दृष्टमित्याशयाऽऽह- अजडात्मवदाभान्ति यत्सांनिध्याज्जडा अपि । देहेन्द्रियमनःमाणाः सोऽहमित्यवधारय ॥ २० ॥ सुषुप्तिसूमिरणावसरे देहादौ चैतन्यस्य व्यभिचारित्वादृश्यत्वे. नाचेतनत्वानुमानाचाचेतनत्वं दृष्टमेव । तथाऽपि देहादयश्चेतनस्य मिथ्यातादात्म्यापत्त्या चेतनवदाभान्ति । आस्तयोश्चेतनाचेतनत्वं दृष्ट- मिति भावः ॥ २०॥ स्वप्ने देहेन्द्रियादेहत्वाभावाच्च दृश्यत्वेनाचेतनत्वं युक्तम् । कुतो मनसोऽचेतनत्वमित्याह- अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् । एवं यो वेद धीवृत्तिं सोऽहमित्यवधारय ।। २१ ।। अगमदिति । एतावन्तं कालं मे मनोऽन्यत्र गङ्गादौ गतं तत्स्मरणं त्यक्तम् । इदानीं स्थिरीकृतम् । संनिहितवस्तु विषयी करोतीति गमना- गमनादिधर्मिणो मनसो दृष्टत्वस्यानुभवसिद्धत्वान्मनसोऽचेतनत्वं सिद्ध- - मित्यर्थः ॥२१॥ मनसो धीवृत्तित्वादेव दृश्यत्वे सिद्धे सत्यपि वृत्तिमत्या धियो दृश्यत्वं नोपपद्यत इत्यत आह- स्वमजागरिते सुप्तिं भावाभावी धियां तथा । यो वेत्त्यबिक्रियः साक्षात्सोऽहमित्यवधारय ।। २२ ॥ स्वप्न इति । बुद्धिः स्वप्नजागरिते पेत्ति सुषुप्तिं तु न पत्ति तत्र बुद्धे. रभावात् । आत्मा तु त्रयं च वेत्ति तथा स्वप्नजागरितयोधियां भावं मुघप्तावमा च वेत्ति। अतो बुद्धिदृक्सद्भावाबुद्धेदृश्यत्वं सिद्ध- मित्यर्थः । धियामिति बहुवचनेन बहुत्वात्तु बुद्धीनां साक्षिकत्ववि- कारित्वादिदमुच्यते (?) । नचाऽऽत्मनः सुघुप्तावभाव एव तदा स्वसत्तापरि- ज्ञानाभावादित्याशय संकल्प विचिकित्साद्यनेकविकारित्वादनित्याया बुद्धेस्तत्रामावो युक्तस्तत्साक्षिणो निर्विकारत्वेन नित्यत्वादात्मनः सुषु.

श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । १९ प्त्यादावपि सत्त्वं सिद्धमित्यभिप्रेत्याऽऽह-अविक्रिोति । अविक्रियपदे. नैव सुषुप्तावात्मनः सत्व प्रतिपादनात्साक्षात्पदं किमर्थमिति नाऽऽशक- नीयम् । एतेनाविक्रियपदेनाऽऽत्मनोऽवस्थात्रये सत्त्वे प्रतिपादितेऽपि सु- घुप्तौ स्वसत्तापरिज्ञानाभावप्रयुक्तासाथमनिराकृतमितिकृत्वा तन्निवारणा- य साक्षात्पदम् । साक्षात्मकाशते स्वयमेव प्रकाशत इत्यर्थः । अयमाशयः- सुषुप्ती धीवृत्तेरभावेऽप्यात्मनः स्वयंप्रकाशकत्वेन वृत्त्यन्तरनिरपेक्षतया तस्य प्रकाशसद्भावात्सुषुप्तौ स्वसत्ताभावः सिद्ध इति । अथवा तत्र धीवृत्तेरभावेऽपि सुखमहमस्वाप्सं न किंचिदथेदिषमित्युत्थितस्य सुषुप्ति- गतसुखादिस्मरणदर्शनादननुभूते स्मरणाभावात् । कैवल्योपनिषदि मं. १३-सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति, इति । वेदान्तसारे "एतावीश्वरप्राज्ञी चैतन्यदीक्षामिरतिसूक्ष्मामिरज्ञानवृत्तिमि- रानन्दमनुभवतः" इति च । विवरणम्-सुषुप्तावज्ञानं तु स्वसत्ता- कारेण सुखाकारेण साक्षात्कारेण च परिणमत इति च स्वानुभवा. स्तित्वप्रतिपादनास्पताव ज्ञानं सुखसाक्षात्कारेण परिणताज्ञानवृत्ति- प्रतिबिम्बितचैतन्यविषयत्वेनाऽऽत्मनः स्वसत्तासाक्षात्कारस्य विद्यमान- त्वात्तत्र स्वसत्तापरिज्ञानाभावोऽसिद्ध इति वा साक्षात्कारपदार्थः। अथवा साक्षादित्यस्यायमर्थः । आत्मा वयं च वेत्तीत्युक्तमिदमनुपपन्नं जाग्रत्स्व- प्रयोबाह्याभ्यन्तस्करणवेद्यत्वादित्याशक्याऽऽह-साक्षादिति । इन्द्रिया- णां जडत्वेन स्वतःप्रकाशकत्वासंभवादात्मैव बाह्येन्द्रियान्तरिन्द्रियसा- पेक्षः सजाग्रवस्थां वेत्ति । स्वप्नमन्त करणवृत्तिद्वारा वेत्ति । सुघुप्तिमन्य- निरपेक्षतया साक्षाद्वोत्ति । तस्मादात्मैवावस्थात्रयेऽपि साक्षीति ॥ २२ ॥ एवं देहादेरचेतनत्वेनानात्मत्वमर्थादुक्तम् । तद्विलक्षणत्वेनार्थाच्चैत- न्यविग्रहमात्मानं प्रतिपद्य देहादेविलक्षणत्वेन सिद्धं चेतनत्वं सदृष्टान्त- मुदाहरति- घटावभासको दीपो घटादन्यो यथेष्यते । देहावभासको देही तथाऽहं बोधविग्रहः ॥२३ ॥ घटेति।अयमाशयः-यथादीप: स्वप्रकाशरूपत्वात्स्वावमास्याघटाद्वि- लक्षणत्वेन प्रकाशरूपो भवति एवं स्वावमास्यादचेतना हाद्विलक्षणत्वे. नाऽऽत्मा बोधविग्रहश्चैतन्य स्वरूप इति यावत्। एतेनानुमानद्वयं सूचितम् । विमतो देही स्वावभास्या देहाद्विलक्षण रतदवभास करवादीपरत् । आत्मा - T २० विश्वेश्वरविरचितटीकासमेता- । - - चैतन्यविग्रहो देहादिविलक्षणत्वाद्घटद्रष्टवदिति । आत्मनश्चतन्यवि- ग्रहत्वे श्रुतिरप्यस्ति । " सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति० २।१।१] विज्ञानमानन्दं ब्रह्म [बृह० ३ । १।२८] एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च [ श्वेता० ६ । ११] इत्याद्याः श्रुतयः । एतेन देहादेरचेतनत्वं चेतनस्य तद्भिन्नत्वं च कुतो दृष्टमित्येतदपि निरस्तम् । आत्मनो देहादिविलक्षणत्व प्रतिपादनात् ।।२३॥ इदानीं क्रमप्राप्तानन्दरूपत्वेनाऽऽत्मा प्रतिपाद्यते- पुत्रमित्रादयो भावा यस्य शेषतया प्रियाः । दृष्टा सर्वप्रियतमः सोऽहमित्यवधारय ॥ २४ ॥ पुत्रेति । आत्मनस्तु कामाय सर्व प्रियं भवति"[बृह० २।४५] इतिश्रुतिन्यायेन पुत्रवित्तादयो भावाः पदार्था यस्य द्रष्टुः शेषतया संबन्धितयाऽनुकूलत्वेन प्रियाः स द्रष्टा सर्वप्रियतमः । सर्वेभ्यः पुत्रादिभ्य उत्कृष्ट प्रेमास्पदः। अत आत्मनो निरुपाधिकतयाऽऽनन्दस्वरूपत्वमनुम- वसिद्धमित्यर्थः । द्रष्टा सर्वप्रियतम इति द्रष्टुः परप्रेमास्पदत्वेनाऽऽनन्दरूप- त्वमुक्तम् ॥ २४ ॥ इदानीं तस्यैव कालत्रयेऽपि परप्रेमास्पदत्येनैव हेतुनाऽऽत्मनः क्रमप्राप्त सत्यत्वं दर्शयति- परप्रेमास्पदतया मा न भूवमहं सदा । भयासमिति यो दृष्टा सोऽहमित्यवधारय ॥ २५ ॥ परेति । अहं भूतकाले मा भूवमिति न किंववश्यमभूवम् । कथं मम मृतेऽवस्थानं नास्त्यनादित्वादात्मनस्तत्राण्यवस्थानमस्तीत्यर्थः । न केवलं भूतकाल एव परप्रेमास्पदत्वं किंतु सदा भूयासमिति । सदेति कालत्रये विवक्षितमपि भूतकालावस्थानस्य प्रतिपादितत्वात्सदेत्यनेन वर्तमानमविष्यत्कालयोग्रहणम् । वर्तमानमविष्यत्काल योरहं स्यां काल- द्वयेऽपि ममावस्थानेन भवितव्यमित्यर्थः । देहादेरनित्यत्वेन सर्वदाव- स्थानाभावेऽप्यात्मनो नित्यत्वेन कदाचिदपि नाशासंमवादाद्यन्तशून्यस्य मम सर्वदावस्थानं भवतीत्यर्थः । एवं कालत्रयेऽपि परप्रेमास्पदतया श्रीमच्छंकराचार्यकृता वाक्य वृत्तिः । २१ - प्रसिद्धो यो द्रष्टा सोऽहमित्यवधारयेत्यर्थः । असतः प्रपञ्चस्य परप्रेमा- स्पदत्वामावात्तस्य कादाचित्कप्रतिभानमन्तरेण कालत्रयेऽप्यवस्थाना• संभवादात्मनः परप्रेमास्पदत्वात्कालत्रयेऽप्यवस्थानसंभवात्सत्यत्वं सिद्ध- मित्यर्थः । आत्मसत्तानुप्रवेशेन तत्कल्पितानां सर्वेषां सत्ताप्रतीतिश्च मवति न स्वत इत्यभिप्रायः । मा न भूवमित्यत्र मायोगादडागमप्रति- षेधः ॥ २५॥ एवमन्तःकरणतवृत्तिसाक्षीतिश्लोकोक्तमेवैतदनोः श्लोकैः क्रमा- साक्षित्वेन चैतन्यविग्रहत्वेनाऽऽनन्दत्वेन सत्यत्वेन च करामलकवत्स्फुटं प्रतिपाद्येदानी फलितार्थस्य साक्षिणो बोधस्य तत्त्वमस्यादिवाक्ये स्वमर्थमाह- यः साक्षिलक्षणो बोधस्त्वंपदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः ॥ २६ ॥ य इति । साक्षितया लक्ष्यत इति साक्षिलक्षणः। उच्यत इति । तत्त्व- मस्यादिवाक्य इति शेषः । नन्व विकारिण आत्मनः साक्षित्वामावाद्वि- कारं प्राप्तस्यैव तस्य साक्षित्वमित्याशझ्याऽऽह-साक्षित्वमपीति । स्वाध्यस्तं सर्व साक्षादन्यानपेक्षयेक्षते प्रकाशयतीति साक्षी । अधिष्ठान- भूतस्याऽऽत्मनः स्वयंप्रकाशत्वेन तत्र कल्पिताना तत्काशेनैव प्रकाशः सिद्धः। तदर्थमीक्षणक्रियाश्रयत्वप्रयासाभावाद्दीपवन्निर्विकारित्वेनैवाऽऽ- त्मनः साक्षित्वं ज्ञानरूपत्वाद्वोद्धृत्वं च घटत इत्यर्थः ॥ २६ ॥ उक्तमर्थमुपसंहरति- देहेन्द्रियमनःप्राणाहंकृतिभ्यो विलक्षणः । प्रोज्झिताशेषपडभावविकाररत्वं पदाभिधः ॥ २७ ॥ देहेति । त्वंपदेनाभिधीयत इति त्वंपदाभिधो यः साक्षिलक्षणो बोधः सोऽनृतजडदुःखात्मकेभ्यो देहेन्द्रियादिभ्यो विलक्षणो विसदृशोऽत एव प्रोज्झिताशेषषड्भावविकारः परित्यक्तो जायतेऽस्तीत्यादिषड्भाववि. कारः। अन्तःकरणद्वयविवक्षायां बुद्धिरेवाहंकारो मन एव चित्तम् । अ- तोऽत्राहंकृतिशब्देन बुद्धिरुच्यते । मनःशब्देन चित्तमुच्यते ॥ २७ ॥ यद्यपि सत्यानन्दस्वप्रकाशत्वं पदार्थप्रतिपायव पुरुषार्थसिद्धिस्तथाऽ- प्युमयपदार्थज्ञानस्य परमपुरु पार्थसाधनवाक्यार्थावगति हेतुत्वात्क्रमप्राप्त तत्पदार्थ प्रतिपादयति- . २२ विश्वेश्वविरचितटीकासमेता- - त्वमर्थमेवं निश्चित्य तदर्थ चिन्तयेत्युनः । अतव्द्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥ त्वमिति । एवं निश्चित्येत्यन्तःकरण तद्वत्तीत्यादिपूर्वोक्तत्वंपदार्थप्रति- पादकवाक्यश्रवणमननाभ्यासवशात्वमथं निःसंशयं ज्ञात्वेत्यर्थः। तदर्थ चिन्तयेदित्युक्त्वा पुनश्चिन्तयेदित्यत्रापि नि:संशयज्ञानपर्यन्तं पुनः पुन- स्तत्पदार्थप्रतिपादकवाक्य श्रवणमननाभ्यासं कुर्यादित्युक्तं भवति । ननु " यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" [ तैत्ति० २ । ४ । १ ] इति श्रुत्या वाङ्मनसयोरप्यविषयत्वश्रवणात्कथं चिन्तयेदित्यत आह-अतद्यावृत्तीति। तन्न भवतीत्यतदततो व्यावृत्तिरतद्वयावृत्तिस्तदू- पेण । अयमाशयः-इदं ब्रह्मेति शृङ्गग्राहिकया विषयीकृत्य चिन्तितुम. शक्यत्वेऽपि “अथात आदेशो नेति नेति' [बृह० २ । ३ । ९] इति श्रुत्या ब्रह्मणः कार्यकारणत्वादेः प्रतिषिद्धत्वात्कार्यकारणोपाधिप्रयुक्तं जीवत्वमीश्वरत्वं सर्वज्ञत्वादिकं पारमार्थिकं न भवति किंतु मायिकमेवेति विदित्वा कार्यत्वकारणत्वाहीह्रस्वादिपरित्यागेन निषेधावधिभूतं स्वरूपं चिन्तयेदिति । केवल मतद्यावृत्त्या स्वरूपपरिज्ञानासंभवात्तदर्थचिन्ता न घटत इत्यत आह-साक्षाद्विधिमुखेनेति । " सत्यं ज्ञानमनन्तं ब्रह्म [ तैत्ति० २। १ । १] इत्यादिब्रह्मस्वरूपप्रतिपादकवाक्य नेत्यर्थः अयमभिप्राय:-" सत्यं ज्ञानमनन्तं ब्रह्म [ तैत्ति० २।१।१] आनन्दो ब्रह्म [ तेत्ति० ३।६।१]" इत्युक्ते ज्ञानानन्दादीनां गुणत्वेन साक्षिकत्वेन प्रसिद्धत्वाद्ब्रह्मण एकरूपत्वात्कथं तेषां बहूनां गुणानां निर्गुणस्वरूपब्रह्मत्वमित्यनुपपत्तौ सत्यां लोके धृत्तिज्ञानानन्दा- दीनां गुणत्वेन क्षणिकत्वेन च ब्रह्मत्वानुपपत्तावपि निविकल्पकज्ञान- कस्वरूपब्रह्मणोऽनृतजडदुःखात्मकशङ्काव्यावर्तकत्वेन सत्यत्वानन्दत्वयो- रपि ब्रह्मस्वरूपेणैकीभूतत्वात्सत्य ज्ञानानन्दस्वरूपं वरतु ब्रह्मेति जहद्- जहल्लक्षणया वाऽनृतजडदुःखत्वादिविलक्षणं ब्रह्मेति वा । सत्यादिपद- वाच्यत्वामावेऽपि लक्ष्यत्वोपपत्तेः “सत्यं ज्ञानमनन्तं ब्रह्म [ते. २। १ । १ ) इत्यादि ब्रह्मस्वरूपलक्षणवाक्यविधिमुखेनेतरविषय त्वम- स्तरेणापि तदर्थं चिन्तयेदिति ॥ २८ ॥ एवं तदर्थचिन्तायामुपाय द्वय मुक्तमिदानीमत्तर द्यावृत्त्या चिन्तनार्थम- ततो व्यावर्तयरतदर्थ निरूपयति- " १ १ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । २३ निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः पराकततमोमलः ॥ २९ ॥ निरस्तेति । अविद्यमान भूततमोमल इति यावत् । तम इव तमोऽ. ज्ञानं प्रकाशविरोधित्वात्तदपनोद्यत्वाञ्च गुण तस्तमस्त्वमज्ञानस्य तदेव मल आदर्शादिगतमलबदाश्रय मलिनीकरणात्तद्घर्षणापनोद्यत्वाच्च गुण- तो मलः पराकृतस्तमोमलो यस्मिन्स तथोक्तः। अत एव निरस्ताशेषसंसा- रदोषः । संसारः प्रवृत्तिः । दोषशब्देन रागादय उच्यन्ते 'दोषा रागादयः स्मृताः' इति वचनानिरस्तोऽशेषः संसारो दोषश्च यस्मिन्स तथोक्तः । एतेन जीवाश्रयमिथ्याज्ञान तत्कार्यदोषप्रवृत्तिजन्मदुःखानि च ब्रह्मणो न सन्तीत्युक्तम् । किंचैतेन जीवस्यापि तदेकत्वज्ञाना. मिथ्याज्ञानापाये “ दुःख जन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः इति गौतमवचनाद्रागाद्यपायस्तस्मिन्सति प्रवृत्त्यपायस्तस्मिन्सति जन्मापायस्तस्मिन्सति दुःखापायः स्यादित्यर्था- त्सूचितं भवति । इदानीं प्रपञ्चान्तर्गतसर्ववस्तुवैलक्षण्येन निरूपयति- अस्थूलादिलक्षण इति । स्थूलसूक्ष्मत्व लक्षणहस्वत्वदीर्घत्वादिलक्षणानि लोके सर्ववस्तून्ययं तु न तथा अस्थूलमनण्वस्वमदीर्घम् "[ बृह. ३।८।८] इत्यादिश्रुतेः । पुनस्तमेव प्रपञ्च वैलक्षण्यन निरूपयति- अदृश्यत्वादिगुणक इति । दृश्यत्वपरिच्छिन्नत्वादिगुणकः कार्यप्रपञ्चोऽयं तु तद्रहित इत्यर्थः । “ अदृष्टं द्रष्ट" [बृह० ३।८।११] इत्यादि- श्रुतेः ॥ २९॥ एवमततो व्यावृत्त्या तदर्थ निरूप्येदानी विधिमुखेन चिन्तनाय श्रुति- निर्दिष्टं विधिस्वरूपं निरूपयति- निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रहः । सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥ ३० ॥ निरस्तेति । निरस्ता मनुष्याद्युत्तरोत्तरशतगुणातिशया आनन्दा यस्मिन्स तथोक्तोऽपरिमितानन्द इत्यर्थः । लोक आनन्दस्यानित्यत्वदर्श- नादात्मन आनन्दरूपत्वेनानित्यत्वशङ्कायामन्तःकरणवृत्त्यभिव्यक्तानन्द- स्यैवानित्यत्वं न स्वरूपानन्दस्यत्याह-सत्य इति नन्वानन्दस्य वेद्यत्वा. कथं सत्यतेत्यत आह-प्रज्ञानविग्रह इति । स्वरूपानन्दस्य ज्ञानरूप- वाज्ज्ञेयत्वानुपपत्तेः सत्यत्वं सिद्धमित्यर्थः । लोके ज्ञानस्यानित्यत्वद- .

२४
विश्वेश्वरविरचितटीकासमेता-
र्शनादात्मनो ज्ञानरूपत्वेऽनित्यत्वं स्थादित्याशङ्कायामाह-सत्तास्वलक्षण
इति । सत्तास्वलक्षणः सन्मात्रस्वरूपः । आत्मसत्ताया अपि घटादिव.
स्तुसत्तावत्परिच्छिन्नतेत्यत आह-पूर्ण इति । घटादीनां स्वतः सत्त्व
नास्ति किंवात्मसत्तासमवायात्सत्त्वमतः सर्वाधिष्ठानभूतायाः सत्ताया
अपरिच्छिन्नत्वान्न तस्मिन्मायाकल्पितघटादिसमतेत्यर्थः । ननु सत्या-
नन्दस्वरूपिणं धीसाक्षिणं ज्ञानविग्रहमित्यत्र सत्यानन्दस्वरूपस्य
प्रतिपादितत्वात्किमर्थं निरस्तातिशयानन्दः सत्यः प्रज्ञानविग्रह इत्यनेनापि
पुनः पुनः प्रतिपाद्यत इति न पौनरुक्त्यं शङ्कनीयं ममोभयत्र कथनस्य
प्रयोजनत्वात् । जीवपरयोरैक्यं तूमयोरेकरूपत्वे संभवत्यतस्तयोरेकरूप-
प्रतिपत्त्यर्थं पूर्व त्वंपदलक्ष्यत्वेन प्रतिपादितमिदानी तत्पवलक्ष्यखेनेति
न दोषः ॥ ३० ॥
एवं क्रमाच्लोकद्वयेनातद्यावृत्त्या विधिमुखत्वेन च चिन्त्यत्वेन निरु-
पाधिकं ब्रह्म निरूप्य तन्निःसंशयज्ञानाय मायोपाधिकमेव षभिः
श्लोकदर्शयति । तत्रोपादानात्सर्वज्ञस्य विचित्रकार्यजगन्निमित्तकारण-
त्वानुपपत्तेः सर्वज्ञत्वादिलक्षणकथनेन तस्यव जगन्निमित्तकारणत्वमर्था-
ज्ज्ञापयति-
सर्वज्ञत्वं परेशत्वं तथा संपूर्णशक्तिता।
वैदैः समीते यस्य तद्ब्रह्मेत्यवधारय ।। ३१ ।।
सर्वज्ञत्वमिति। यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेत.
ब्रह्म नाम रूपमन्नं च जायते' [ मु. १ । १।९] इत्यादिभिः
पराऽस्य शक्तिबिविधव श्रूयते” [ श्वेता०६ । ८] इत्यादिभिर्वे-
दैश्च यस्य सर्वज्ञत्वं परेशत्वं पूर्णशक्तित्वं च समर्थ्यते तद्ब्रह्मेत्यवधारयेत्य.
न्वयः ॥ ३१ ॥
बह्मणो निमित्तकारणत्व उपादानकारणं किमित्यपेक्षायां सर्वकार्या-
नुगतस्यैवोपादानत्वमिति दर्शयितुमात्मविज्ञानात्सर्वविज्ञानप्रतिपादने
नाऽऽत्मनः सर्वकार्यानुगममर्थादाह-
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ॥ ३२ ॥

श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । २५ यदिति । उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमवि. ज्ञातं विज्ञातमिति" [छा०६।१।३] इत्येकविज्ञानेन सर्वविज्ञाने प्रतिज्ञाते "कथं नु भगवः स आदेशो भवति".[छा०६।१।३] इत्याक्षेपमवतार्य " यथा सौम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्थावाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" | छा० ६।११४] "मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्" (बृह० ४।५।६) इत्यादिश्रुतौ । यद्विज्ञानात्सर्वविज्ञानं मृदाद्यनेकदृष्टान्तैः प्रतिपादितं तद्ब्रह्मेत्यवधारयेत्यन्वयः । अयमभिप्रायः-श्रुत्युक्तमात्मज्ञा. नात्सर्वविज्ञानमात्मनः सर्वानुस्यूतत्वमावेन संभवति । अतः सर्वविज्ञा- नान्यथानुपपत्त्याऽऽत्मनः सर्वानुस्यूतत्वं सिद्धम् । तच्चानुस्यूतत्वमुपादा- नत्वमन्तरेण न संभवतीत्युपादानत्वं ब्रह्मण आक्षिपतीति । तथा सत्येवं प्रयोगो विमतं कार्य स्वानुगतोपादानजन्यं भवितुमर्हति कुतः कार्य- त्वाद्घटवदित्यनुमानेन प्रपञ्चस्य ब्रह्मोपादानत्वमुक्तं भवति । “यतो वा इमानि भूतानि जायन्ते (तैत्ति० ३।१।१) इत्यादिश्रुतिरपि प्रपञ्चस्य ब्रह्मोपादानत्वे प्रमाणम् ॥ ३२ ॥ एवं प्रपञ्चब्रह्मणोः श्रुत्या कार्यकारणभाव उक्तः। किमर्थं तदुक्तमि- त्याकाङ्क्षायां तावत्मपश्चस्य ब्रह्मकार्यत्वोक्तौ प्रयोजनमाह- यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥ यदिति । परमार्थतो देशकालाधमावे विकल्पितदेशकालवस्तुपरि- च्छेदान्न ब्रह्मण आनन्त्यम्। ब्रह्मण आनन्त्यं नाम सर्वत्र सर्वदा सर्ववस्तु- ध्वधिष्ठानरूपेणानुस्यूतत्वमथवा ब्रह्मण आनन्त्यं नाम सजातीयविजा- तीयस्वगतनानात्वशून्य त्वम् । इदं जगत्प्रतीतिकालेऽपि विमुक्ताविव संभवति । जगतां मायामयत्वेन परमार्थतः कदाचिदप्यमावात् । एक- मेवाद्वितीयमित्यानन्त्यं प्रतिज्ञाय तस्याद्वितीयत्वसिद्धये प्रपश्चस्य ब्रह्म- कार्यत्वं श्रुतिर्जगौ तद्द्वानं कृतवती । प्रपञ्चस्य ब्रह्मकार्यत्वे श्रुतिसिद्धे सत्युपादानकारणकार्ययोर्भेदाभावाद्ब्रह्मण आनन्त्यं सिद्धमित्यर्थः । एतेन प्रपञ्चस्य ब्रह्मकार्यत्वकथनं ब्रह्मण आनन्त्यसिद्धयर्थमितिप्रयोजन. मुक्तं नतु ब्रह्मज्ञानात्प्रपञ्चे नष्टे सति स्वयमेव ब्रह्मण आनन्त्यं सिद्धं भवति । तथाच सति प्रपञ्चस्य ब्रह्मकार्यत्वोक्त्या किं क्रियत इति न ...

२६ विश्वेश्वरविरचितटीकासमेता-: शङ्कनीयम् । यद्यस्य प्रपञ्चस्य ब्रह्मणि कल्पितत्वेन रज्जुसर्पवदधिष्ठान- ज्ञानापनोद्यत्वात्प्रपञ्चामावे ब्रह्मण आनन्त्यं सिद्धमेव तथाऽपि प्रप- श्वाधिष्ठानब्रह्मविचारासमर्थान्मुमुक्षून्सेददृष्टीनुदिश्य भेदसूचके प्रपञ्चे प्रत्यक्षसिद्धे सत्यपि ब्रह्मण आनन्त्यं सिद्धं भवति । श्रुत्या तयोः कार्य- कारणभावस्य प्रतिपादितत्वात् । कार्यस्य कारणनित्यत्वादिति ब्रह्मा- नन्त्यस्य श्रुतिसिद्धस्य सिद्धत्वज्ञापनार्थत्वात्कार्यकारणत्वोक्तः । एवं ज्ञापिते प्रपञ्चे सत्यपि ब्रह्मण आनन्त्यसिद्धौ सत्यां ब्रह्मणः सर्वाकार- स्वान्मुमुक्षूणां ब्रह्मानन्यत्वेन स्वेषामेव सर्वाकारब्रह्मत्वं ज्ञातं स्यात् । ततस्तेषां प्रपञ्चाधिष्ठानब्रह्मविचारसामयं भवेत् । ततो विचारोत्पन्ना- परोक्षज्ञानेनाज्ञाततत्वार्थभूते देहादिप्रपञ्चे नष्टे सति मुमुक्षूणामपरि- च्छिन्नब्रह्माकारत्वसिद्धिः प्रयोजनमित्यर्थाज्ज्ञायते ॥ ३३ ॥ इदानी प्रपञ्चाधिष्ठान ब्रह्माविचारासमर्थान्मुमुक्षूनुद्दिश्य प्रपञ्चोपादा- नस्य ब्रह्मणो विचार्यत्वं श्रुतिमूलं दर्शयति- विजिज्ञास्यतया यत्र वेदान्तेषु मुमुक्षुभिः । समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥ विजिज्ञेति।“यतो वा इमानि भूतानि जायन्ते "[तै०३।१।१] इत्यादिवेदान्तवाक्येषु मुमुक्षुभिरतियलेन विचार्यत्वेन समर्थ्यते ब्रह्म विचारयितव्यमिति तद्ब्रह्मेत्यवधारयेत्यन्वयः । अथ जगत्कारणं ब्रह्म तद्विचारयितव्यमिति तटस्थलक्षणकथनार्थत्वेनापि कार्यकारणत्वोक्तेः प्रयोजनमुक्तमिति द्रष्टव्यम् ॥ ३४ ॥ यद्यपि कार्यत्वदृश्यत्वादिहेतुना वाऽधिष्ठानज्ञानापनोद्यत्वेन वा प्रप- चस्यासत्वे सति विजातीयभेदो ब्रह्मणि निरस्तः । तथाऽपि जीवानां प्रपञ्चविलक्षणत्वेन सजातीयत्वे सति तद्भेदनिरासः कथमित्यत आह- जीवात्मना प्रवेशश्च नियन्तृत्वं च तान्प्रति । श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५ ॥ जीवति । " तत्सृष्ट्वा तदेवानुमाविशत् , " [तै० २।६ । १ ] इत्यादिवेदान्तवाक्येषु ब्रह्मग एव जीवरूपेण कार्यकारणानुप्रवेशः श्रयते । तत्तदुपाधिभेदात्कल्पितभेदमन्तरेण स्वाभाविकभेदामावास:

. श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । जातीयभेदो नास्तीति भावः । आत्मनः स्वामाविक भेदोऽस्तीति वद- न्वादी देवानांप्रियः प्रष्टव्य आत्मभेदः किं दृश्यो वाऽदृश्यो वा । आये किमात्मना दृश्योऽन्येन वाऽन्यस्याचेतनत्वेन द्रष्टुत्वानुपपत्तेरा त्मनेति वक्तव्यं तथाच सत्यात्मदृश्यस्य श्वेतपीतत्वादेरात्मधर्मत्वमा न्तरेण तदृश्यभूतपटादिधर्मवदात्मदृश्यस्य भेदस्याप्यात्मदृश्यभूतदेहादि- धर्मत्वं वक्तव्यम् । नादृश्यात्मधर्मत्वमदृश्याश्रय धर्मस्तु द्रष्टबोधवदृश्य एव स्यात् । द्रबोधस्यापि दृश्यत्वाङ्गीकारे द्रष्टुष्टत्वमेव न स्यात् । इदं तु स्मर्तुमपि न शक्यम् । नोकस्य द्रष्टुत्वं दृश्यत्वं च संभवति । वस्तुनो द्वैरूप्यासंभवात्तस्मान्नाद्यः। तत्मिभेदस्त्वदृश्य इति चेद्बषे, अस्मत्सखो भवसि । आत्म भेदस्यादृश्यत्वे स एव नास्तीत्युक्तं भवति । ननु परं द्रष्टुर्भेदो दृश्यते तथाऽपि न प्रतीयत इति चेन्न । तत्सद्भावे प्रमाणामावादात्मभेद एषासत्यः स्यात् । तस्मान्न द्वितीयः किं चाऽऽत्म. भेदः किमात्मनोऽभिन्नो भिन्नो वा। अभिन्नश्चेदात्मव्यतिरेकेण पृथनि- रूपणासंभवादात्मन एकत्वमेष स्थान्नानेकत्वं भेदस्याऽऽत्मस्वरूपत्वात् । भिन्न इति चेत्तर्हि तद्भिन्नस्तत्त्वादिवदन्यधर्म एव स्यात् । न तद्रष्टभूता- त्मधर्मत्वं तस्मादात्मनि भेदगन्धो नास्त्येव । तथाऽपि निरवयवस्य निावै- कारस्य निर्मूलस्याऽऽकाशस्थैकत्वेऽपि घटमठाद्युपाधिभेदेन यथा घटा- काशो मठाकाश इत्यादिभेदभ्रान्तिः स्यादेवमुपाधिभेदाजीव ईश्वर इत्यादिभेदव्यवहारो भवतीत्यलं विस्तरेण । नच तस्याऽऽत्मन एकत्वे दाडिमादिफलवत्स्वान्तर्गतभेदः स्यादिति वाच्यम् । “स यथा सैन्धवः- नोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्तः प्रज्ञानघन एव । बृह० ४।५।१३ ]" एकमेवाद्वितीय ब्रह्म" [छा ० ६ । २।१)" नेह नानाऽस्ति किंचन" [बृह० ४ । ४ । १९] इत्यादिश्रुत्या सैन्धव घनशार्करखण्डादिवदेकरसत्वप्रतिपाद- नान्निरवयवत्वाञ्च स्वगतनानात्वमात्मनो नास्तीत्यर्थः । ननु तर्हि ब्रह्मण एव कार्यकारणानुप्रवेशाजीवरूपेणावस्थानेन तादात्म्याहुत्वं स्यादि- त्याशङ्कय कार्यकारणोपाधिसंहतस्यांशवत्प्रतीयमानस्य जीवस्यैवाऽऽवि- द्यको 'बन्धो भवति नासंहतस्येश्वरस्य " भीषाऽस्माद्वातः पवते" [ तैत्ति० २।८।१] इत्यादिना जीवनियन्तृत्वश्रवणादित्यभिप्रे- त्याऽऽह-नियन्तृत्वं चेति । अयमाशयः-यथा शरावादिप्रतिविम्बितस्य २८ विश्वेश्वरविरचितटीकासमेता- सूर्यस्य व्योमस्थस्य च भेदामावेऽपि प्रतिबिम्बगतचलनादिकं बिम्बे नाऽऽयाति एवं बुद्धिस्थचिदामासरूपजीवगतरागद्वेषसुखदुःखात्मकं बन्धनं बिम्बभूते ब्रह्माणि नाऽऽरोहति। एवंशरावादिषु प्रतिबिम्बितेषु सूर्येषु मध्य एकस्य चलनमन्यस्य यथा न संमवति तद्वज्जीवानामप्येकस्य बन्धनमन्यस्य नाऽऽयातीति । किं च बुद्धिस्थचिदामासस्य रागद्वेषसुख- दुःखात्मकबन्धनं स्वाभाविकं न भवतिः किंतु तप्तायःपिण्डे दग्धृत्वारो- पवबुद्धिगतमेव रागद्वेषादिकमविवेकाच्चिदामासे त्वारोप्यते। तथा सति केवलात्मनो नास्तीत्यत्र किमु वक्तव्यम् । न च नीरूपस्याऽऽत्मनः कथं प्रतिबिम्बमिति वाच्यम् । नीरूपस्याऽऽकाशस्य सनक्षत्रस्य जले प्रतिबि- म्बमावदर्शनादिति । अथवा ब्रह्मण एव जीवत्वे स्वस्यैव स्वयं नियन्तृ- त्वमनुपपन्नमतः को नियन्तेत्याकाङ्क्षायां सर्वज्ञत्वपरमेश्वरत्वादिलक्षण- रहितस्य जीवस्य नियन्तृत्वानुपपत्तेब्रह्मण एवोपाधिभेदान्नियन्तृत्वमुप- पद्यत इत्याह-नियन्तृत्वं चेति ॥ ३५॥ यत एवमतो जीवकृतपुण्यापुण्य मिश्रकर्मणां फलदातृत्वमपि तस्यै- वेति श्रुतिषु श्रूयत इत्याह- कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ । जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥ कर्मणामिति । फलमत उपपत्तेः । [ब० सू० ३।२ । ३८] इत्य- स्मिन्नधिकरणे कर्मण एव फलदातृत्वं कर्मणा पूजितस्य परमेश्वरस्य वेति संशयेऽपूर्वावान्तरद्वारा कर्मणः फलदातृत्वमिति पूर्वपक्षं कृत्वाऽचे- तनत्वादपूर्वस्य फलदातृत्वानुपपत्तेः कर्मणा पूजितस्य परमेश्वरस्य कालान्तरदेशान्तरदेहान्तरमाविफलदातृत्वोपपत्तेरपूर्वकल्पनं मुधेति रा- द्धान्तितम् । एवमेतदधिकरणे तद्विषयवाक्ये च तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । मवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ [म० मी०१२।७] 'नानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशुमानासुरीष्वेव योनिषु ॥” [म०गी०१६६१९] इत्यादिस्मृती चाद्वयस्य परमेश्वरस्य कर्मफलदातृत्वं श्रूयते तद्ब्रह्मेत्य- पधारयेत्यर्थः । न केवलं जीवानां कर्मफलदातृत्वं ब्रह्मणः किंतु कारयि- .

श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः। २९ तृत्वं च तस्यैवेत्याह-जीवानां हेतुकर्तृत्वमिति । हेतुकर्तृत्वं कारयितृत्वं तत्र श्रुतिः-"एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनी. पत एष एवासाधु कर्म कारयति तं यमधो निनीषते" [ कौषी० ३८] इति । उन्निनीषत ऊवं नेतुमिच्छति अधो निनीषतेऽधो नेतुमिच्छ- तीत्यादिश्रुत्या कारयितृत्वं श्रूयते तद्ब्रह्मेत्यवधारयेत्यर्थः । ननूपाधिभेदा- कारयितृत्वे सत्यपि ब्रह्मणः स्वांशजीवविषयोन्निनीषाऽधोनिनीषा च कथमुपपद्यत इत्याशङ्कय यथा पितुः स्वाज्ञामनुवर्तमाने तामुल्लध्य- वर्तमाने पुत्रे पुत्रत्वे समाने सत्यपि तयोर्व्यवहारतः प्रीतिर्दृषश्च संभवति 'तथाऽत्रापि परमेश्वरस्य स्वाज्ञारूपश्रुतिस्मृत्युक्तमार्गे श्रद्धावति द्वेषवति च जीवे व्यावहारिकी प्रीतिषश्च संभवति। ततस्तत्पीतिद्वेषमूला जीव- विषयोन्निनीषाऽधोनिनीषा च ब्रह्मण्युपपद्यत इति वेदितव्यम् । एवं मायोपाधिकब्रह्मणः सर्वज्ञत्वपरमेश्वरत्वादिलक्षणकथनेन निर्विकल्प- ब्रह्मणः परमेश्वरस्यैवौपाधिको भेदो विद्यत इति गम्यते । किंचैतच्छ्र- वणलक्षणब्रह्मतादात्म्यज्ञानाजीवस्यापि ब्रह्मत्वे सर्वज्ञत्वादिलक्षणं स्यादिति सूचितम् ॥ ३६ ॥ इदानीमुभयपदार्थप्रतिपादकवाक्यबलात्तत्त्वंपदार्थो चिन्तयित्वा तत्र संशयादिराहित्यमवाप्य ततो वाक्यार्थं चिन्तयेदितीममर्थ ज्ञापय- नाह- तत्त्वंपदार्थो निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना। तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः ॥ ३७ ॥ तत्त्वमिति । संसृष्टविशिष्टतादात्म्यवाक्यार्थेषु मध्ये निश्चितमर्थमाह- तादात्म्यमत्रेति ॥ ३७॥ अत्र वाक्ये तादात्म्यमेवेति निश्चितत्वं कुत इत्यत आह- संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखण्डकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥ संसर्ग इति । अत्रास्मिन्वाक्यवृत्तिग्रन्थे तत्वमसिवाक्ये च नीलोत्प- लमिति वाक्य इव मुख्यार्थस्वीकारेण विशेषणविशेष्यरूपसंसर्गवाक्या- र्थोऽन्यतररूपविशिष्टवाक्यार्थो वा न संमत इष्टो भवति तत्र तु नील- गुणस्योत्पल पदार्थोत्पलद्रव्यस्य शुक्लपटादिव्यावर्तकतयाऽन्योन्यविशे- - - . ३० विश्वेश्वरविरचितटीकासमेता- पणविशेष्यमावसंसर्गार्थस्य वाऽन्यतरस्वरूपविशिष्टार्थस्य वाक्यार्थत्वा- ङ्गीकारे प्रमाणान्तराविरोधान्मुख्यार्थयोरेव वाक्यार्थत्वं संगच्छत एक वस्तुनिष्ठत्वादुभयोरत्र तु तदर्थपरोक्षत्वादिविशिष्टचैतन्यस्य त्वमर्था- परोक्षत्वादिविशिष्टचैतन्यस्य वाऽन्योन्यभेदव्यावर्तकतया विशेषणवि- शेष्यमावसंसर्गस्य वा विशिष्टैक्यस्य वाक्यार्थत्वाङ्गीकारे प्रत्य- क्षादिप्रमाणविरोधाद्वाच्यार्थयोरैक्यं न संगच्छत इति तदुमयं न संमतमित्यर्थः । एतेनैव हेतुनाऽहं ब्रह्मास्मीति प्रतिपत्ति- वाक्येऽपि वाच्ययोरहं ब्रह्मास्मीत्यर्थयोरन्योन्यभेदव्यावर्तकतया विशे- षणविशेष्यमावसंसर्गवाक्यार्थो न संमतो विरुद्धत्वात् । किंच ब्रह्मणः सर्वगतत्वात्तदंशस्य जीवस्य तदन्तर्भूतत्वादपरोक्षत्वकिंचिज्ज्ञ- त्वादियुक्तोऽहं परोक्षत्वसर्वज्ञत्वादियुक्तं ब्रह्मास्मीति बह्मान्तःपातित्वेन भावनायां ब्रह्मविशिष्टो जीव इति विशिष्टैक्यब्रह्मस्वरूपत्व मिदमपि "त्वं सर्वत्र स्थितो यस्मादहं पूर्णे त्वयि स्थितः" इतिवदौपचारिकमेव स्यात् । अतो विशिष्टलक्षणवाक्याङ्गिीकारेऽपि तत्त्वंपदार्थयोर्भेद एव प्रतीयते नैकत्वं कथं यथा तटाकस्थमहाजलपातितघटस्थाल्पजलस्य तटाकजलान्तर्भूतत्वेन तद्विशिष्टत्वेऽपि तटाकस्थत्वाद्याकारेण भेद एव प्रतीयते नैकत्वं तद्वदित्यर्थः । संसर्गविशिष्टयोः को भेद इति चेद्यदा नीलमुत्पलमित्युक्त उत्पलद्रव्यं श्वेतपीतादिभ्यो व्यावर्तयन्नीलपदव्या- वर्तकत्वाद्विशेषणत्वेन संसृज्यते विशेष्येणोत्पलेन सह तद्वन्नीलगुणमपि वस्त्रादिभ्यो व्यावर्त यदुत्पलपदं विशेष्यं नीलपदेन विशेषणेन सह संसृ. ज्यते तदा विशेषणविशेष्यमावः संसर्गः। यदाऽन्योन्यव्यावृत्तिमनपेक्ष्यैव संसृष्टपदार्थः प्राधान्येन नीलविशिष्टमुत्पलं दण्डविशिष्टो देवदत्त इत्यन्य- तरविशिष्टोऽन्यतरार्थस्वीकारस्तदा विशिष्ट इति विशिष्टानुगुण्येन संसृष्टविशिष्टवाक्यार्थयोर्मेंदः । तदुभयमत्र विरुद्धत्वान्न संमतमित्यु- क्तम् । किं च तदर्थस्वीकारे-- " भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे"[मुण्ड० २।२।८] इति । स वा अयमात्मा ब्रह्म" [बृह० ४।४।५]" ब्रह्म वेद ब्रह्मैव भवति " [मुण्ड० ३।२।९]" तरति शोकमात्मवित् [छा०७ ।

- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ३] इत्यादिश्रुतयो नोपपद्येरन् । तस्माद्द्वौ विदुषां न संमती किंतु विरुद्धांशत्यागपुरःसरमविरुद्धवस्तुतादात्म्यरूपवाक्यार्थः संमत इत्याह- अखण्डैकरसत्वेनेति । अखण्डैकरसत्वं नामाहं ब्रह्मास्मि ब्रह्मैवाहमस्मीति व्यतिहारेणाखण्डैकरसवस्तुत्वप्रतिपत्तिः । अत्र श्रुतिः ॥ त्वं वाऽहमस्मि भगवो देवते, अहं वा त्वमसि ” इति वाशब्दद्वयमेवकारार्थे । कैवल्योपनिषदि "सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत्" [कै० १६] इति श्रुतिः। अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नाऽऽवयोः। दिष्ट्या मत्तामसि प्राप्तो दिष्टया त्वत्तामहं गतः ।। तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं शिवात्मने । नमो देवादिदेवाय पराय परमात्मने । इति वाशिष्ठे प्रह्लादवचनम् । पदयोः सामानाधिकरण्यं पदार्थयो- विशेषणविशेष्य भावः प्रत्यगात्मलक्षणयोर्लक्ष्यलक्षणभाव इति संबन्ध- त्रयेणाखण्डाथै बोधनीये किमिति विशेषणविशेष्यभावो निषिध्यत इति न शङ्कनीयम् । परम्परयाऽखण्डार्थोपकारत्वेनाङ्गीकारात् । कथं समाना• धिकरणविशेषणविशेष्याम्यामेकत्वे प्रतिपादिते सति तस्मिन्नर्थेऽनुपपत्तिं दृष्ट्वा पश्चाद्विरुद्धांशत्यागेनोभयानुगताविरुद्धचैतन्यमानांशस्वीकारे- णाखण्डैकरसवाक्यार्थस्वीकारात्संसर्गस्योपकारकत्वम् । नच तमुह ब्रह्मास्मि ब्रह्मैवाहमस्मीत्यखण्डार्थेऽङ्गीकृतेऽप्यहंशब्दार्थत्वेन च युष्मत्प-: क्षेऽपि भेदः प्रतीयत इति मन्तव्यम् । शिरोव्यतिरेकेण राहोरभावेऽपि राहोः शिर इत्यत्र षष्ठया स्वस्वामिभावप्रतीतिद्वारा यथा भेदः प्रतीयते घटः कलशः कुम्भ इत्यतो भेदाभावेऽपि शब्दमात्रेण भेदभ्रम इति संतोष्टव्यम् । विद्वच्छब्देनोपक्रमोपसंहारादिभिः षविधतात्पर्यलिङ्गः । उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्य निर्णये वेदान्तानां सजातीयविजातीयस्वगतभेदरहितस्वमानपरत्वं ज्ञात्वे- दशावलोकमन्तरेण स्वानुभवमात्रनिष्ठा न संभवत्यत एवोच्यते तेषाम- खण्डार्थ एव संमतो नान्य इत्यर्थः। अथवा संसों वेति श्लोकस्यैवमर्थ:- वर्णानां समूहः पदमिति हि पदलक्षणमाकाक्षासंनिधियोग्यतावतां ॥

00 १ ३२ विश्वेश्वरविरचितटीकासमेता- समूहो वा वाक्यमिति हि वाक्यलक्षणम् । तथा च सत्यभिहितान्वय- वादिनां वेदान्तिनां मते देवदत्त गामानय शुक्लदण्डेने पुत्रस्ते जात इति वाक्यात् "तत्त्वमसि' (छा०६।८।७)" अहं ब्रह्मास्मि "[बृ०१।- ४।१०]"अयमात्मा ब्रह्म" (बृह०२।५।१०) इत्यादिमहावाक्येष्वपि स्वस्ववाचकपदैरभिहितार्थानां पदार्थानामन्योन्याकाङ्क्षापूरणयोगत्वेन संसर्गोवाक्यार्थो वर्णनीयः। अतः कथं तादात्म्यमत्र वाक्यार्थ इत्युक्तमि- त्याशङ्कय तत्त्वमस्यादिपदानामखण्डैकरसचैतन्यपर्यवसायित्वेन पदार्थ- भेदाभावात्संसर्गो वाक्यार्थो न संभवति । संसर्गस्य पदार्थद्वयनिष्ठत्वात् । अतोऽन्यत्र वाक्यान्तरे पदार्थबाहुल्यसंभवात्संसर्गः संभवति । अत्र त्वे- कार्थपर्यवसानात्तादात्म्यमेव वाक्यार्थः संमतो विदुषां नान्यदित्यर्थाभि- प्रायेणोत्तरमाह-संसर्गो वेति श्लोकस्यावतारिकाव्याजेन श्लोकार्थः स्पष्टीकृतः । नच पदार्थानां संसर्गस्य वाक्यार्थत्वात्पदार्थभेदाभावे वाक्यार्थो न स्यादिति शङ्कनीयम् । किंचिज्ज्ञत्वसर्वज्ञत्वादिलक्षणवा. क्यार्थापेक्षया कल्पितभेदोपपत्तेः । तस्माद्धान्त्या संसर्गे प्रतीयमानेऽपि विरुद्धांशपरित्यागेनोमयानुगतचैतन्यमात्रपर्यवसानात्परमार्थतस्तादा- म्यमेव वाक्यार्थस्तथैव विशिष्टार्थोऽपि न संभवति पदार्थभेदाभावात् । दण्डी देवदत्तः शुक्लः पट इत्यादौ दण्डिदेवदत्तादिपदार्थभेदस्य विद्य- मानत्वादन्यतरविशिष्टान्यतरार्थस्वरूपविशिष्टवाक्यार्थः संभवति अत्र तु न तथेत्याह-विशिष्टो वेति । अतः संसर्गविशिष्टवाक्यार्थयोर- न्यतरन्न संमवति । किंतु तादात्म्यमेव वाक्यार्थ इत्यभिप्रायः । " एकमेवाद्वितीयं ब्रह्म" [छा०६।२ । १]" मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति" (बृह० ४ । ४ । १९)"यदा ह्येवैष एतस्मिन्नुद- रमन्तरं कुरुते अथ तस्य भयं भवति" [तैत्ति०२।७।३]" शिवमद्वैत चतुर्थ मन्यन्ते " [माण्डू० १ । ७] "द्वितीयाद्वै मयं भवति" [६० १।४।२]" तत्र को मोहः कः शोकः "[ईशा०७ ]" एक एव हि भूतात्मा भूते भूते व्यवस्थितः " [ ब्रह्मबिन्दू० १२] " एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा। कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च" [श्वेता०६।११] इत्याद्यनन्तश्रुतयः सत्याखण्डैकरसवाक्यार्थ एवोपपद्येरन् । अत इदमेव विदुषां मतम्॥३८॥ इदानीं विद्वत्संमतत्वेनोक्तमेव स्पष्टी करोति- N

श्रीमच्छ कराचार्यकृता वाक्यवृत्तिः ।
३३.
प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥
प्रत्यगिति। अन्तःकरणावच्छिन्नत्वेन प्रत्यक्त्वं प्राप्तो यो बोधस्त्वंपदल-
श्यत्वेनाऽऽभाति स्वयं प्रकाशते सोऽद्वयानन्दलक्षणोऽद्वयानन्दरूपस्तथाऽ.
द्वयानन्दरूपश्च तत्पदलक्ष्यत्वेन स्वयंप्रकाशमानोऽद्वयानन्दरूपः परमात्मा
च प्रत्यग्बोधैकलक्षणः । प्रत्यग्बोधेनैकमभिन्नं लक्षणं स्वरूपं यस्य स
तथोक्तः । नन्वानन्दबोधयोः कथं तादात्म्यमुपपद्यत इति चेन्न विरोधः ।
आत्मनो बोधानन्दस्वरूपत्वात् । अस्तु तद्वयानन्दबोधः प्रत्यगानन्दबोध
इति किमिति नोच्यत इति। तत्रायमभिप्राय:-बोधनरूप आत्माऽन्तःक.
रणावच्छिन्न आत्माद्वितीयत्वेन दुःखभयाद्यभावाद्वृत्त्यन्तराभावेन बोध-
स्फुरणामावे सत्यानन्दरूपेणावतिष्ठत इत्यत उभयोरेकरूपत्वादयं-
तैक्ये न कदाचिदनुपपत्तिः(?)। संसर्गविशिष्टपक्षे प्रत्यक्षविरोधाद्वाच्ययो-
रैक्यमौपचारिकमेव स्यात्तच श्रुतिविरुद्धमित्युक्तम् ॥ ३९ ॥
एवं लक्ष्यार्थयोरत्यन्तैक्यज्ञाने सति किं स्यादित्यत आह-
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।
अबह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ ४० ॥
इत्थमिति । अन्योन्यतादात्म्यं परस्परतादात्म्यं द्वयोरपि स आत्मा
तदात्मा तत्पदार्थस्य चाऽऽत्मा स्वरूपं स एव त्वंपदार्थस्य । एवं त्वंप.
दार्थस्य य आत्मा स्वरूपं स एव तत्पदार्थस्य तस्य भावस्तादात्म्य
तस्य प्रतिपत्तिानं तद्यदा भवेत्तदैवाब्रह्मत्वमहं मनुष्य इति सद्विती-
यत्वेन कर्तृत्वमोक्तृत्वादिलक्षणं संसारित्वं त्वमर्थस्य प्रत्यगात्मनो
व्यावर्तेत । हिशब्दो हेत्वर्थे ॥ ४० ॥
ब्रह्म तु स्वस्य स्वयं परोक्षं न भवति किंत्वब्रह्मत्वविशिष्टप्रत्यगात्मन
एवेति यतोऽतस्तस्याब्रह्मत्वव्यावृत्ती ब्रह्म परोक्षमपि व्यावर्तेतेत्याह-
तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥४१॥

३४ विश्वेश्वरविरचितटीकासमेता- तदर्थस्येति । तत्त्वमर्थयोरेकत्वज्ञानात्तदज्ञानसंभूतपारोक्ष्याबह्मत्वयो- व्यावृत्तिः स्यादित्यर्थः । किं तत इति । ततः परं किंरूपेणावतिष्ठत इति शिष्यप्रश्नः । पारोक्ष्याब्रह्मत्वव्यावृत्त्यनन्तरं पूर्णत्वं प्रत्यक्त्वं चोभयमपि व्यावर्तेत वा नो वेति प्रश्नाभिप्रायः । आचार्यस्तु शिष्या- मिप्रायं ज्ञात्वोत्तरं वक्तुमाह-गृण्विति । स्वभावत एव पूर्णस्याऽऽत्मनः स्वाविद्ययैव प्रत्यक्तमतः स्वविद्यया प्रत्यक्त्वस्यैव व्यावृत्तिर्न पूर्णत्व- स्येत्याह-पूर्णानन्देक रूपेणेति । पूर्णानन्देनै कमभिन्नं रूपं यस्य तथोक्तः प्रत्यग्बोध एव प्रत्यग्ज्यावृत्ती पूर्णानन्देनावतिष्ठत इत्यर्थः ॥४१॥ एवं स्वकीयग्रन्थस्य तस्वमर्थयोरेकत्वलक्षणो पाक्यार्थी निर्णीतः। इदानीं तत्वमस्यादिवाक्यं कथं प्रवर्तत इत्याशक्यैवमस्मदुक्तप्रका- रेण वर्तत इत्याह- तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थों द्वायुपादाय प्रवर्तते ॥ ४२ ॥ तस्वमस्येति । तस्वमस्यादिवाक्यमपि तदर्थप्रतिपादने तादात्म्यप्र- तिपादनार्थ लक्ष्यो लक्षणविषयौ द्वौ तत्त्वंपदार्थावद्वयानन्दप्रत्यग्बो- धावुपादायैक्ययोगस्वेन स्वीकृत्य प्रवर्तते । उभयोरेकत्वलक्षणवाक्यार्थ प्रतिपादयति लक्ष्यावुपादायोति । अनेन परोक्षत्वप्रत्यक्त्वविशिष्टवाक्या- र्थानी वाच्यार्थी त्यक्त्वेत्यर्थालभ्यते ॥ ४२ ॥ तत्त्वमस्यादिवाक्यं वाच्यार्थपरित्यागेन प्रवर्तमान प्रत्यग्बोधो य आभातीत्यादिश्लोकेन स्फुटीकृतमित्याह- हित्वा दो शबली वाच्यौ वाक्यं वाक्यार्थबोधने । यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३ ॥ हित्वेति । वाक्यं तत्त्वमस्यादिवाक्यं शबलो विशिष्टावत एव वाच्यौ वाग्विषयी हित्वा परित्यज्य वाक्यार्थबोधने यथा प्रवर्तते तथाऽस्माभिः प्रत्यग्बोध इत्यनेन व्याख्यातमित्यर्थः । शबलौ हित्वेत्यनेन लक्ष्यावुप'. दायेत्याल्लभ्यते । वाक्यं यथा प्रवर्तते तथाऽस्माभिर्व्याख्यातमित्यनेन व्याख्यानव्याख्येययोरेकस्वरूपत्वेनान्योन्यविरोधामावादस्मत्मणीतो ग्र- : श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । न्थो विद्वद्भिोंपेक्षणीय इत्यर्थादुक्तं भवति । आदरादेव व्याकृत एतच्छ्रोतूणां मुमुक्षूणां नि:संशयस्वरूपसाक्षात्कारो भविष्यतीति तात्पर्य नतु विजिगीषुत्वेन ॥ ४३॥ एवं वाच्यार्थं परित्यज्य लक्ष्योपादानेन वाक्यं प्रवर्तत इत्युक्तमि- दमनुपपन्नं शब्दस्य वाच्यार्थ एव मुख्यार्थः । वाक्यस्य पदयोमुख्यार्थपरि- ग्रहे विरोधे सति लक्ष्यार्थोपादानं युक्तं तत्र को विरोध इत्याकाङ्क्षायां विरोध दर्शयित्वा लक्षणावृत्तिं वक्तुं तत्त्वंपदयोर्मुख्यार्थं संक्षेपतो दर्शयति- आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः ॥ ४४ ॥ आलम्बनतयेति । योऽन्तःकरणसंभिन्नो बोधोऽस्मत्प्रत्ययशब्दयोराल- म्बनतया भाति स त्वंपदाभिध इत्यन्वयः । आलम्बनतया विषयतयाऽ- न्तःकरणसंमिन्नबोधोऽन्तःकरणेनावच्छिन्नबोधस्त्वंपदेनाभिधीयते वंप. दाभिधः । त्वंपदबाच्यो जीव इत्यर्थः॥४४ ॥ एतेनान्तःकरणावच्छिन्नत्वेन त्वंपदवाच्यत्वेन च प्रयुक्तं सद्वितीयत्वं चोक्तं परोक्षत्वपूर्णत्वप्रदर्शनार्थ तत्पदवाच्यार्थमाह- मायोपाधिगयोनिः सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलः सत्यायात्मकस्तत्पदाभिधः ॥ ४५ ॥ मायोपाधिरिति । मायोपाधिर्यत्नाश्रयादर्पणवत्समष्टयज्ञानाश्रयत्वेन मायोपहिताविद्याकल्पितजीवागोचरखेनाऽऽवृताहत्यानन्द इति या वत् । अतो जगद्योनिर्जगविक्षेपाधिष्ठानं विशेषांशावृतियुक्तस्य रज्ज्वादेः सादिभ्रमाधिष्ठानत्वदर्शनात् । सर्वज्ञत्वादिलक्षण इति । अत एव निमित्तकारणं स एवेतीत्युक्तं " यः सर्वज्ञः सर्ववित् यः सर्वज्ञः सर्ववित्" (मुण्ड०१। १।९) इति श्रुतेः । पारोक्ष्यशबल आवृतत्वाज्जीवापेक्षया परोक्षवि- शिष्टः सत्याद्यात्मकोऽपरिच्छिन्नज्ञानानन्दस्वरूप एवमुक्तलक्षणो यः स तत्पदाभिधस्तत्पदवाच्य ईश्वर इत्यर्थः । मायोपहितत्वादस्य परोक्षता सर्वजगदधिष्ठानत्वेन पूर्णता ॥ ४५ ॥ एवं वाच्यार्थाव भिधाय तयोरभेदप्रतिपादने विरोधं दर्शयन्लक्षणा-: वृत्तिमाह- विश्वेश्वरविरचितटीकासमेता- प्रत्यारोक्षतैकस्य सद्वितीयत्वपूर्णता । विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते ॥ ४६॥ प्रत्यगिति । वाच्ययोरेवाभेदे प्रतिपाद्यमान एकस्यैव प्रत्यक्त्वं परो- क्षत्वं द्वितीयत्वं पूर्णत्वं च विरुध्यत इति यतोऽतो लक्षणा प्रवर्तत इत्यन्वयः । विरुध्यत इत्यत्र मायोपाधिकत्वकार्योपाधिकत्वकिंचि- ज्ज्ञत्वसर्वज्ञत्वादिविरोधो द्रष्टव्यः ॥ ४६ ।। अस्मिन्वाक्य इयं लक्षणा संभवतीति वक्तुं लक्षणासामान्यल- क्षणमाह- मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७ ॥ मानान्तरेति । मुख्यार्थस्य वाच्यार्थस्यापरिग्रहे प्रत्यक्षादिप्रमाणवि. रोधे सति मुख्यार्थेनाविनामूतेऽर्थान्तरे प्रतीतिर्लक्षणोच्यते । अब प्रतीतिहेतु मूतशब्दप्रवृत्तिरल्लभ्यते । सा च त्रिविधा । जहल्लक्षणाऽज- लक्षणा जहदजहल्लक्षणा चेति । तासु गङ्गायां घोषः प्रतिवसतीत्यस्मि- न्वाक्ये 'गङ्गायां घोषवासानुपपत्तेर्गङ्गाशब्दस्य मुख्यार्थं प्रवाहं परि- त्यज्य तद्विनाभूतेऽर्थान्तरे तीरे वर्तमानता जहल्लक्षणा । एवं मनो ब्रह्मेत्यस्मिन्वाक्ये दृश्यत्वेनाचेतनस्य मनसश्चैतन्यैकरस ब्रह्मत्वानुपपत्ते- मनःशब्दस्य मुख्यार्थं धीवृत्तिमात्रं परित्यज्य तत्साक्षिचैतन्येऽर्थान्तरे वर्तमानता जहल्लक्षणा । श्वेतो धावतीत्यत्र श्वेतगुणमात्रस्य धावनानु- पपत्तेः श्वेतशब्दमुख्या) श्वेतगुणमपरित्यज्य तदाश्रयभूतेऽर्थान्तर श्वेतोऽश्वो धावतीति श्वेतशब्दस्य वर्तमानताऽजहल्लक्षणा । एवं " सत्यं ज्ञानमनन्तं ब्रह्म' [ तैत्ति० २।१।१] इति । " आनन्दो ब्रह्म [ तै० ३।६।१] इत्युक्ते लोके ज्ञानानन्दादीनां धर्मत्वेन प्रसिद्धत्वा- तेषां ब्रह्मत्वानुपपत्तौ सविषयज्ञानादीनां गुणत्वेन ब्रह्मत्वानुपपत्ता- वपि निर्विषयज्ञानानन्दादेरात्मरूपत्वेन गुणत्वाभावात्सत्यज्ञानानन्दादि- शब्दस्य मुख्यार्थमपरित्यज्य तत्स्वरूपत्वेऽपि तदाश्रयवत्प्रतीयमाने ब्रह्मव. स्तुनि सत्यज्ञानानन्दस्वरूपं वस्तु ब्रह्मेति। तत्र सत्यज्ञानानन्दादिशब्दस्य वर्तमानताऽजहल्लक्षणा । सोऽयं देवदत्त इत्युक्ते तत्कालतद्देशविशिष्टस्य . १ श्रीमच्छंकराचार्यकृता वाक्य वृत्तिः । ३७ देवदत्तस्यैतत्कालैतद्देशविशिष्टस्य देवदत्तस्य चोमयोरेकत्वानुपपत्ती तद्देशतत्कालैतद्देशतत्काल विशिष्टमेकमंशं त्यक्त्वोमयत्रानुगतदेवदत्तमा- त्रांशे शब्दस्य वर्तमानता भागलक्षणा सैव जहदजहल्लक्षणोच्यते ॥४७॥ एवं सति तत्त्वमस्यादिवाक्येषु का लक्षणेत्यत आह- तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ।। तत्त्वमस्येति । सोऽयं देवदत्त इत्यस्मिन्वाक्ये सोऽयंशब्दयोर्मुख्यार्थ- परिग्रहे तद्देशतत्कालविशिष्टस्यैतद्देशैतत्कालविशिष्टत्वाभावामुख्यार्थ- योरेकत्वासमवेऽपि सोऽयंपदे उमयत्र वैशिष्ट्यांशं त्यक्त्वा यथा देवदत्त- मात्रे प्रवर्तेते । तथा तस्वमस्यादिवाक्येऽपि तत्त्वंपदयोर्मुख्यार्थपरिग्रहे परोक्षस्य प्रत्यक्त्वामावादपरिच्छिन्नत्वेन पूर्णस्य द्वितीयत्वाभावाच्च वाक्यार्थयोरेकत्वासंभवे सति तत्त्वंपदे उभयत्र परोक्षत्वादिसद्वितीयत्वा. दिवशिष्ट्यांशं त्यक्त्वा क्रमात्पूर्णानन्दे प्रत्यक्बोधे च प्रवर्तेते। ननु तथाऽपि पूर्णानन्दप्रत्यग्बोधयोः कथं तादात्म्यमितिचेदसीतिपदेन प्रत्यग्बोधस्यैव ब्रह्मरूपत्वेन पूर्णानन्देकरवे कथिते सति वक्ष्यमाणोपायेन पूर्णानन्दत्वे प्राप्ते प्रत्यग्व्यावृत्तिः स्यात् । बोधस्यैवाऽऽनन्दरूपत्वं पूर्वमेवोक्तं प्रत्य- ग्बोधो य आमातीत्यस्य व्याख्यानावसरे । एवं तत्त्वं पदयो गलक्षणयैव तादात्म्यं स्वीकर्तव्यं न लक्षणान्तरेण तयोरत्रासंभवात् । केचिन्माया- मोहितधियः प्रकारान्तरेण वाक्यार्थ कल्पयन्ति । कथमितिचेत्त्वं तदसि तदंशोऽसि तद्विकारोऽसीति वा तत्स्मर्तुमपि न योग्यम् । कथमितिचेत्त- त्त्वमसिवाक्ये परस्यांशो जीव इति विकार इति वा नोच्यते तत्सृष्ट्वा तदेवानुप्राविशत् "[ तैत्ति० २ । ६।१] इत्यादि " अनेन जीवेन" [छा०६।३।२] इत्यादिश्रुत्या स्वमायासृष्ट. जगति परमात्मन एव जीवरूपेणावस्थितत्वात् । यथा घटाकाशो महा- काशस्यांशो वा विकारो वान भवत्येवमात्मनो निरवयवत्वेन निरंशत्वा- नोभयम् “ आदित्यो यूपो यजमानः प्रस्तर इतिवत्प्रशंसापरं न मवति यूपादेरादित्यस्वरूपासंभवात्प्रशंसापरत्वमत्र तु लक्ष्यार्थयोरत्य- न्तैक्ये विरोधाभावान्नार्थवादता । अग्निर्माणवक इत्यादिवन्न गौणार्थ- प्रतिपादकमात्मनो निर्गुणत्वात् । नापि तत्त्वतोऽस्य परमात्मनः कार्यत्व- विश्वेश्वरविरचितटीकासमेता- प्रतिपादकं वाक्यं मृद्घटः, बीजं वृक्ष इतिवदात्मनोऽनादित्वेन जन्मा. द्यभावात्तत्कार्यत्वानुपपत्तेः । नापि वाक्यं जातिव्यक्तिप्रतिपादकं दी?s. श्वो ह्रस्वोऽश्वः स्थूलो मनुष्यः कृशो मनुष्य इतिवदात्मन एकत्वेन व्यक्तिभेदाभावात् । नच नीलोत्पलं शुक्लः पट इत्यादिवाक्यवद्गुणगुण्या. त्मकत्वप्रतिपादकं निर्गुणत्वादात्मनः । नापि वैशिष्ट्यप्रतिपादकमात्मस्व- रूपनिर्विकल्पकज्ञानकरसत्वाद्वैशिष्टयानुपपत्तेः । नाप्युपासनापरं वाक्यं "वाचं धेनुमुपासीत [ बृह० ५। ८।१" आदित्यो ब्रह्मेत्युपा- सीत" [मैञ्यु०६।१५] इत्यादिवाक्यवदत्यन्तैक्यज्ञानार्थमेव तत्त्व- मसीति नवकृत्व उपदिष्टत्वात् । एतज्ज्ञानशेषत्वात्सर्वोपासनाया एतत्सर्व वैशिष्ट्यनिराकरणेनैव निराकृतप्रायं तथाऽपि स्पष्टार्थमनूद्य निरस्तम् । एवमात्मभेदाभावात्तदैक्यमेव वाश्यार्थ इति सिद्धम् । अतः सर्वेषां वेदान्तानां यथासंभवं लक्षणावृत्त्यैव ब्रह्मस्वरूपप्रतिपादकत्वम् । केषां. चिद्यावृत्त्या स्वरूपपर्यवसानम् । न गुणवृत्त्याऽऽत्मनो निर्गुणत्वात् । नापि मुख्यवृत्त्या स्वरूपप्रतिपादकत्वम् " यतो वाचो निवर्तन्ते" [ तै० २। ४।१] इति वाच्यत्वनिषेधात् । ननु तर्हि " ब्रह्मैक्यविषयां वाचं वदेत्संततमास्तिकः" अन्या वाचो विमुञ्चथ" [मुण्ड० २।२। ५] इत्यत्र ब्रह्मणो वाग्विषयत्वं कथं श्रूयत इति चेन्न । मुख्यवृत्तिगुण- वृत्तिविषयत्वाभावेऽपि लक्षणावृत्तिविषयत्वमानपरत्वात् । अतो "मनो ब्रह्म" [छा० ३।१८।१] इत्यादि सशानां वाक्यानां जहल्लक्ष णया वृत्तिः । सत्यं ज्ञानमनन्तं ब्रह्म [ तै० २।१।१ इत्यादि सह- शानां वाक्यानामजहल्लक्षणया वृत्तिः । " तत्त्वमसि " [छा०६।८७] इत्यादिवाक्यानां जहदजहल्लक्षणा वृत्तिः । अस्थूलमनण्वतस्वम् [बृह०३।८।८]इत्यादिसदृशानामतन्निरसनद्वारा प्रवृत्तिः। कर्मकाण्डोपा- सनाकाण्डयोर्ब्रह्मज्ञानार्थमन्तःकरणशुद्धिहेतुभूतशुद्धयाऽनुष्ठानप्रतिपा- दकत्वेन ब्रह्मपरत्वं " सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते "[ मः गी०४।३३] इति स्मृतेः। एवं यथासंमवं योजनीयम् । न यत्र कुत्रापि मुख्यतो गुणतो वा वृत्तिब्रह्मणः सर्वविषयत्वादिति सर्वमवदातं शोधि. तमित्यर्थः ।। ४८॥ पूर्व पूर्णानन्दैक रूपेणेत्यनेन जीवस्यैव ब्रह्मरूपत्वं वाक्या प्रतिपाद्य तं प्रतिपादितमर्थ " तत्त्वमस्या दिवाक्यं च तादात्म्यप्रतिपादने" इत्या.

१ श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । दिभिस्त्रिभिन्थैस्तत्त्वमस्यादिवाक्यस्याप्ययमेवार्थ इति स्पष्टीकृत्य तदा परोक्षदायि चोपायमाह- अहं ब्रह्मेति वाक्यार्थबोधो यावदृढी भवेत् । शमादिसहितस्तावदायसेच्छ्रवणादिकम् ॥ १९ ॥ अहमिति । अहं प्रश्लेति स्वस्य ब्रह्मापरोक्षज्ञानं यावद्यस्मिन्काले- निःशेषासंभावनाविपरीतमावनाराहित्यं यथा भवति तथा दृढी भवेत्त- हायस्य दुर्लभत्वसूचनार्थं प्रयोगः । तावत्कालपर्यन्तं शमादिसाधनयुक्तः सन् “ आवृत्तिरसकृदुपदेशात् " [बसू०४।२१] इत्यधिकरणन्यायेन पुनःपुनर्भनननिदिध्यासनाभ्यासं कुर्यादित्यर्थः । बझापरोक्षज्ञानदायाय शमादिसाधनानुष्ठानेन सहासकृच्छ्रवणान्यासस्य विधानादुक्तसाधना- नुष्ठानपुरःसरं द्वित्रिबाएं श्रवणादिकरणस्य ब्रह्मापरोक्षज्ञानहेतुत्वमर्था- दुक्तं भवति । एवं द्वित्रिधारं अषणाविनाऽपरोक्षज्ञाने समुत्पन्नेऽप्यति- दायाभावादहुकालकषितसंसारवासनालेशेन पुनःपुनश्चित्तविक्षेपसंम- वादष्टाङ्गयोगसद्वासनाभ्यासाभाषाद्धेतोमनोवासनाया निःशेषनाशा- भावाच्च ज्ञानदायाय मनोवासनाया निःशेषनाशाय च बहुकृत्वः श्रवणाद्यभ्यासमष्टाङ्गन्योगसद्वासनाम्यासं च कुर्यादित्युक्तं भवति । एवं कृते विदेहमुक्तता स्यात् । अन्यथा शमादियुक्तस्य द्वित्रिवारं श्रवणा• दिजनितापरोक्षज्ञानमात्रेण जीवन्मुक्तता न स्यात् । " इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य व्यावतेत तदैव हि ॥ तदर्थस्य च पारोक्ष्यं यधेपमित्यवापरोक्षज्ञानेनाब्रह्मत्वानिवृत्तेः प्रति- पादितत्वात् । इदमेव शङ्कोत्तरत्वेन समय॑ते । ननु ब्रह्मापरोक्षज्ञा- नार्थं शमादिसाधनयुक्तस्य श्रवणादिकरणं युक्तं ततः परं किं प्रयोजन- मितिचेन्न " अहं ब्रह्म इत्यपरोक्षज्ञाने समुत्पन्नेऽपि संसारवासनाया निःशेषं नाशो न स्यादपरोक्षज्ञानिनोऽपि संसारवासनानिवृत्तेः क्वचि. दष्टत्वात् । " संसारवासनादाब्य बन्ध इत्यभिधीयते। वासनातानवं राम मोक्ष इत्यभिधीयते" इति वाशिष्ठे निर्वासनस्यैव विदेहमुक्त्यभिधानात् । तस्माज्ज्ञानदा.

विश्वेश्वरविरचित टीकासमेता-.: -- ढर्याय निर्वासनत्वसिद्धये चासकृच्छ्रवणाभ्यासः कर्तव्यः । ननु एतावता वासनालेशन ब्रह्मापरोक्षज्ञानिनो जीवन्मुक्तस्य रागद्वेषात्मकः संसारवा- सनासद्भावो नोपपद्यत इतिचेन्न । अतिदाढयहीनस्य कोमलकण्ट- कस्य दाढयात्पूर्वं यथा सम्यकचोदनकार्यक्षमता नास्ति ब्रह्मापरो- क्षज्ञानदाढदिर्वाचीनकाले निरस्ताशेषसंसारनिदानत्वासंमवाज्जीव- न्मुक्तस्यापि दशामेदेन संसारवासनासंमवोपपत्तेः । रागद्वेषमयादीनामनुरूपं चरन्नपि । योऽन्तव्योमवदच्छः स्यारत जीवन्मुक्त उच्यते । वाशिष्ठे जीवन्मु- क्तस्य संसारवासनासद्भावदर्शनाश्च । किंच विदेहमुक्तिसमये जीवन्मु- क्तस्य वीतिहव्यस्य वचनम्- राग नीरागतां गच्छ द्वेष निःशेषतां ब्रज। भवद्भयां सुचिरं कालमिह प्रक्रीडितं मया इत्यतो ज्ञानदाढर्याय निःशेषसंसारवासनानिवृत्त्यर्थं च वेदान्तमहा- वाक्यश्रवणमनननिदिध्यासनाभ्यासमष्टाङ्ग योगसद्वासनाभ्यासं च बोध- दाढर्यपर्यन्तं पुनः पुनः कुर्यादित्यर्थः ॥ ४९ ।। इदानी ब्रह्मापरोक्षज्ञानदाढायोपायान्तरमाह- श्रुत्याऽऽचार्यप्रसादेन दृढो बोधो यदा भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥ श्रुत्येति । श्रुत्या गुरूपदिष्टवाक्यश्रवणादिनाऽऽचार्यप्रसादेन प्रणि- पातादिसंपादिताचार्यप्रसादेन च यदा बोधो दृढो मवेत्तत्कालपर्यन्तं गुरुक्तमहावाक्यश्रवणादिकं गुरुप्रसादं च संपादयेदित्यर्थः । तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः। [म० गी० १३ । २५ ] इति स्मृतेर्वेदान्तमहावाक्यश्रवणादिनैव मृत्योरतिक्रमणश्रवणादयमर्थोऽवग- म्यते । तार्ह वेदान्तवाक्यश्रवणाद्यभ्यासाद्वा गुरूपदिष्टमहावाक्य श्रवणा- भ्यासाद्वाऽपरोक्षज्ञानदाढर्ये सति तदा पुरुषः कथंभूतः स्यादित्या- काङ्क्षायामतिहढकण्टकन्यायेन दृढापरोक्षज्ञानस्य संसारवासनया सह निःशेषमज्ञानतत्कार्यनिवर्तकसामर्थे सति तदा पुरुषो निरस्ताखिलो- पाधिर्मवतीत्याह-निरस्ताशेषेति । कर्मणोऽपि संसारकारणत्वात् । तत्किं निदानशब्देनोच्यते तथाऽसति अज्ञाननिरासमन्तरेण कथं तत्कार्यस्य कर्मणो निरासः स्यादिति निदानशब्देनानादिकारणमवि- N श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ४१ धोच्यते । तस्याः संसारनिदानत्वं संसारादिकारणत्वं संसारकारणक- मणः कारणत्वमात्रमिति वाच्यम् । संसारस्य निदानं संसारनिदानमशेष च तत्संसारनिदानं चाशेषसंसारनिदानं निरस्तमशेषसंसारनिदानं सपरि- करमज्ञानं येन स तथोक्तः ॥ ५० ॥ इदानीं निरस्ताशेषसंसारनिदानवे सति किं स्यादित्याकाङ्क्षायां तस्य विदेहमुक्तिरित्युच्यते- विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥ ५१ ॥ विशीर्णेति । विशीर्णकार्यकरणः कार्य शरीरं करणानीन्द्रियाणि विशीर्णानि शिथिलीभूतानि कार्यकरणानि यस्य स तथोक्तः । ननु देहेन्द्रियादौ विद्यमाने तस्य विशीर्णत्वं कथमितिचेत्तस्यापरिच्छिन्नब-. ह्माकारभावनया देहेन्द्रियादिपरिच्छिन्नत्वामावान्मुक्तदृष्ट्या विशी- र्णत्वमत एव भूतसूक्ष्मैरनावृतः शब्दादिभिरनावृत इन्द्रियाविशीर्णत्वा- द्विषयसंनिधावप्यविकृतचित्त इत्यर्थः । अत एव विमुक्तकर्मनिगड इति विशेषणम् । संचितप्रारब्धागामिरूपं निगडं यस्य स तथोक्तः । अतः सद्य एव विमुच्यते तदेव निरस्ताशेसंसारनिदानत्वसमय एव विदेहमुक्तो भवतीत्यर्थः । कथं देहे स्थिते विदेहमुक्तिः स्यादिति न शङ्कनीयं लोकदृष्ट्या देहे सत्यपि निरस्ताशेषाज्ञानस्याज्ञानपरिकल्पि- तदेहाभावाद्विमुक्तिरेव भवति । अत्र श्रुतिः-" अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः " [ छा०८ । १२ । १ ] इति । नन्वेवं सति प्रवर्तकाभावाच्छरीरं कथं प्रवर्तत इति चेद्यत्र क्वापि चिन्तायुक्तस्य हस्तादिकं स्वतो यथा स्वकार्ये प्रवर्तते तथा वासनाधीनं चक्षुरादीन्द्रियं स्वतः प्रवर्तत एवं पथिगततृणादौ चक्षुरादिर्न रागतः पतति । मुक्तदेह- श्चापि पूर्ववद्भोजनादौ प्रवर्तते । यथाऽध्वगन पथा प्राप्तगिरिनदीविपि- नादिकं विलोक्यते तद्वन्मुक्तदेहनापि भोजनादिकमनुभूयतेऽतः पूर्व- संस्कारवशात्कुलालचक्रन्यायेन ऋषभजडमरतादिदेहवत्पुरावत्प्रवर्तत एवेति वेदितव्यम् । तस्य लोकदृष्ट्यैव शरीरपतनं तत्समये । श्रुति:- " तद्यथाऽहिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव" [वृ० ४।४।७] ६ ४२ विश्वेश्वरविरचितटीकासमेता-- इति । एवं ब्रह्मापरोक्षज्ञानदायान्निरस्ताशेषाज्ञानस्य पुरुषस्य वासना. लेशेन सहाज्ञानतत्कार्य सर्वकर्मक्षये विदेहमुक्तिरुक्ता । एवंभूतस्यापि लोकदृष्ट्या देहावस्थानमात्रेण जीवन्मुक्तत्वाङ्गीकारे ब्रह्मादीनामप्यन्य- दृष्ट्या देहसंमवाज्जीवन्मुक्तत्वमेव स्यात् । तच्चानिष्टं तेषामप्यपरिच्छिन्न- ब्रह्मस्वरूपत्वेन प्रसिद्धत्वात् ॥ ५१ ॥ एवं विदेहमुक्तिनिष्ठामुक्त्वेदानी ब्रह्मापरोक्षज्ञानमात्रात्पुरुषस्य निर- स्ताशेषाज्ञानत्वासंभवात्संचितकर्मण एव क्षये जीवन्मुक्तिमाह- प्रारब्धकर्मवेगेण जीवन्मुक्तो यदा भवेत् । कंचित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२ ॥ प्रारब्धेति । पुरुषो यदाऽनारब्धकर्मबन्धस्य संक्षये जीवन्मुक्तो मवे. त्तदाप्रभृति प्रारब्धकर्मवेगेण सह प्रारब्धकर्मफलहेतुभोगहेतुभूतरांगादि- संसारवासनालेशेन सह कंचित्कालमवतिष्ठत इत्यन्वयः । एतदुक्तं भवति ब्रह्मापरोक्षज्ञानादनारब्धकर्मबन्धस्य संचितकर्मणः क्षये सति जीवन्मुक्तस्य पुनः शमादिसाधनानुष्ठानेन सह वेदान्तश्रवणमनननिदि- ध्यासनाभ्यासस्य पौनःपुन्येन कृतत्वाद्बोधदाये सति निरस्ताशेषाज्ञान- त्वात्प्रारब्धकर्मवासनालेशानुवृत्तेरपि क्षये देहाद्यभिमानाभावात्स तु विदेहमुक्तो भवति । यस्य त्वज्ञानमात्रमेव स्यात्तस्यापरोक्षज्ञानमात्राद- नारब्धस्य संक्षये सति बोधदायहेतुभूतश्रवणाद्यभ्यासाकरणाद्बोधदा- यामावे प्रारब्धकर्मवासनालेशानुवृत्त्या सह कंचित्कालं स तु जीवन्मु- क्तरूपेणावतिष्ठते । तस्यापि कालान्तरे शमाद्यनुष्ठानेन सह श्रवणाद्य- भ्यासकारणज्ञानदाढ्यं संभवति चेत्प्रारब्धकर्मवासनानिवृत्तिद्वारा देहा- द्यभिमानाभावाद्विदेहमुक्तिः संभवति । यदि ज्ञानदाय न स्यात्तार्ह प्रा- रब्धकर्मवासनाभ्यासनिवृत्त्यमावादेहपातपर्यन्तं जीवन्मुक्तरूपेणावतिष्ठते प्रारब्धं नामेदानी प्रतीयमानदेहोत्पत्तिनाशादिहेतुभूतं कर्म । अनारब्धं नाम विष्वग्देहान्तरोत्पादकं संचितं कर्म । ज्ञानोत्पत्त्यनन्तरं देहावसान- समये कर्तृत्वमोक्तृत्वाद्यभिमानमन्तरेण क्रियमाणमागामि कर्म । तत्र -प्रारब्धं विविधम् । ऐच्छिकमनैच्छिकं परैच्छिकं चेति । तत्रानैच्छिक- परैच्छिकयोः स्वकीयप्रयत्नो नास्ति । ऐच्छिके स्वप्रयत्नं कृत्वा स्वाभी- श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ४३ टाननुभुङ्क्ते । किं चाऽऽकाशगमनादिसिद्धिजालानि वाञ्छन्ति चेतान्यपि क्रमात्साधयन्ति । तदुक्तम्- यस्तु वा बालिशोऽल्पोऽपि सिद्धिजालानि वाञ्छति । स तु तत्साधनैव्यैस्तानि साधयति कमात् ।। इति वाशिष्ठवचनम् ॥ ५२॥ इदानी संसारवासनानुवृत्तिवशात्कर्तृत्वभोक्तृत्वाभिमानमन्तरेण प्रार- ब्धकर्मफलभोगानुभवसमये हि क्रियमाणानामागामिकर्मणां बन्धहेतु- त्वशङ्कामवता(पसा )रयन्मारब्धकर्मान्ते विदेहमुक्तिमाह- निरस्तातिशयानन्दं वैष्णवं परमं पदम् । पुनरावृत्तिरहितं तकैवल्यं प्रतिपद्यते ॥ ५३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यशंकराचार्यकृता वाक्यवृत्तिः समाप्ता। । निरस्तेति । वैष्णवं परमं पदं प्रतिपद्यत इत्यन्वयः। विष्ल व्याप्तावि- त्यस्माद्धातोविष्णुशब्द उत्पन्नो विष्णोस्तदिदं वैष्णवम् । अतः सर्वदेश- कालवस्तुव्यापकत्वादेव परममुत्कृष्टं पद्यत इति पदं स्वरूपमित्यर्थः । वैष्णवमित्यनेनाङ्गाङ्गिमावो नाङ्गीकृतः शिलायाः पुत्रिका राहोः शिर इतिवत् । विष्णोरेव वैष्णवं पदं सर्वव्याप्तं पदं स्वरूपं प्रतिपद्यते प्राप्त इव मवति । कण्ठामरणस्येव नित्यं प्राप्तस्य स्वरूपस्याविद्ययाऽप्राप्ति- रिव विद्यया प्राप्तिरिवेत्यर्थः । तत्याप्तौ परमपुरुषार्थ ज्ञापयंस्तत्स्वरूप- मेवाऽऽह-निरस्तातिशयानन्द इति । एतत्पदं पूर्व व्याख्यातमपरिमिता- नन्दमित्यर्थः । लोके संयोगानां वियोगाना(2) तत्त्वदर्शनात्तत्प्राप्तौ कालान्तरे तद्वियोगेन पुनरावृत्तिशङ्कायाम् । ". अनावृत्तिः शब्दादना- वृत्तिः शब्दात् "[ब्रह्मसू० ४।४। २२] इत्यधिकरणन्यायेन पुन- जीवत्वप्राप्तिं वारयति-पुनरावृत्तिरहितमिति । अन्यस्यान्यप्राप्तावेव वियोगः तत्सृष्ट्वा तदेवानुप्राविशत् २।६।१] इति । अहमात्मा गुडाकेश सर्वभूताशयस्थितः [भ० गी० १०।२०] परमात्माऽद्वयानन्दः पूर्णः पूर्व स्वमायया। स्वयमेव जगभूत्वा प्राविशजीवरूपतः ।। अत्र तु [ तै० ४४ विश्वेश्वरविरचितटीकासमेता- तत्त्वमसि [छा०६।८1७] इत्यादिवचनाजीवपरयोर्वस्तुतो मेदा. मावाद्वियोगो नास्तीत्यर्थः। तथा चोक्तम् “ यद्गत्वा न निवर्तन्ते तद्धाम परमं मम"[मगी०१५।६] इति। ननु ताकाशवत्सर्वगतेन परमेश्वरेण तद्भिन्नस्य जीवस्य तत्माप्तिरयुक्तेत्याशक्य साक्षात्प्राप्त्यमावेऽप्युपाधि- निवृत्त्या तद्भावापत्तिरेव तत्प्राप्तिरित्याह-कैवल्यमिति । उपाधिवि. निर्मुक्तौ स्वयमखण्डः सच्चिदानन्दरूपेणावतिष्ठत इत्यर्थः । अयमाशय:- अपरोक्षज्ञानेनाज्ञाननिवृत्तिद्वारा संचितकर्मनाशे सति रागादिसंसार- घासनालेशानुवृत्या कर्तृत्वाधभिमानमन्तरेण प्रारब्धकर्मफलानुमवस- मय आमासरूपेण क्रियमाणेनाऽऽगामिकर्मणा सह जीवन्मुक्तस्य तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्यपदेशात् । [ब्रह्मसू०४ । १।१३] इत्यधिकरणन्यायन कर्तृत्वाद्यमिमानामावाद्वस्तुगत्या कर्तृ- खाद्यमावाच । यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवं. विदि पापं कर्म न श्लिष्यते "[ छा० ४।१४ । ३ ] इत्यादिश्रुत्या च संश्लेषो न स्यात् । प्रारब्धकर्मवेगस्यापि मुक्तेषोरिव वेगक्षया- 'निवृत्तिरतः संचितकर्मणो ज्ञानेन नष्टत्वादागामिकर्मणा संबन्धामावा- पारब्धकर्मणो मोगेन नष्टत्वात्कारणामावाकार्यामाव इति न्यायेन देहान्तरप्राप्स्यमावात्मारब्धकर्ममोगान्ते " न तस्य प्राणा उत्क्रामन्त्य- त्रैव समवलीयन्ते" [ नृसिं० उ० ख० ५] इत्यादिश्रुत्या तप्ता यस्थ- जलवन्मुक्तदेहे प्राणानां विलयः स्यात् । अत्र प्राणशब्देन ज्ञानेन्द्रिय- पञ्चकं कर्मेन्द्रियपञ्चकं प्राणादिपञ्चकं मनआद्यन्तःकरणचतुष्टयं लिङ्गश- रीरात्मकं सवं गृह्यते । प्राणादेरुत्क्रमणामावादेहान्तरसंमवोऽपि न स्यात् । अत्र देहे प्राणोऽस्य लीनः स्यात् । जीवस्य शरीरत्वमपि न स्यात् । यदा मुक्तस्य शरीरं मृतं सत्सद्यः पतति तदोपाधिविनिर्मुक्तघ- टाकाशमहाकाशवत्परिपूर्णचिदानन्दस्वरूपो भवतीति । अत्र श्रुतिः- तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये" इति [छा०- ६।१४।२]" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" [मु०२ । २८ । ]" ज्ञा- नानिः सर्वकर्माणि भस्मसात्कुरुते तथा [गी० ४ । ३७ ] " ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति" [गी०४। ३९] " तत्र को मोहः कः शोक एकत्वमनुपश्यतः।" [ ईशा० ७] ne श्रीमच्छंकराचार्यकृता वाक्यवृत्तिः । ४५ "तरति शोकमात्मवित् । [छा० ७।१।३ ] बह्म वेद ब्रह्मैव भवति" [ मु०३-२-९]" ब्रह्मविदाप्नोति परम् " [ ते. त्ति०२।१ । ५] इत्यादिश्रुतिस्मृतीतिहासपुराणेभ्योऽयमर्थोऽध्यक सीयते ॥ ५३॥ नमो ब्रह्मविद्भयो नमो ब्रह्मविद्यः । इति श्रीविश्वेश्वरपण्डितविरचिता वाक्यवृत्तिः समाप्ता ।

Sri Machankarakruta Vakyavritti

Author
Hari Narayana Apte
Title
Sri Machankarakruta Vakyavritti
File name
Sri Machankarakruta Vakyavritti
Text
OCR done
Published
2005/03/10
Publisher
Ananda Ashrama Press
Language
Sanskrit
Pages
47
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495695
Barcode
1990030070612.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
7NbCYpyrA6Q
Download PDF

Sri Machankarakruta Vakyavritti