Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )

Sanskrit - Sushama

Prabhat Shastri · 2010/07

PDF Proofread

Front matter

प्रकाशक
साहित्यकारसंघ
प्रयाग
051
ISUSU
3548/os.
मूल्य १)
मुद्रक
सरयूप्रसाद पांडेय 'विशारद
नागरी प्रेस, दारागंज,
प्रयाग

निवेदन इस पुस्तक के प्रथम सरकरण का प्रकाशन युनिवर्सल प्रेस प्रयाग के अध्यक्ष श्री जयराम भार्गव के यहाँ से हुआ था। किन्तु बड़ी विचित्र और श्राश्चर्य जनक परिस्थितियों में पड़कर मुझे इस पुस्तक के दूसरे संस्करण का अधिकार साहित्यकार सघ को देना पड़ा। अभी तक प्रकाशकों और लेखकों के मध्य आर्थिक प्रश्न को लेकर मतभेद सुना जाता है । पर भार्गव नी ने इस पुस्तक में से मेरा नाम ही निकाल दिया। सङ्कलनकर्ता को पैसा न देने की उनकी अनोखी सूझ ने ही इसके दूसरे संस्करण का प्रकाशनाधिकार साहित्यकार संघ को देने के लिए मुझे विवश किया। प्रस्तुत संस्करण के विषय में भी दो शब्द कह देना अनुचित न होगा। इसके प्रथम संस्करण का मुद्रण १६४८ में ज्योतिषप्रकाश प्रेस काशी में हुआ था। मेरी अनुपस्थिति के कारण प्रफ की भद्दी- भद्दी भूलें रद्द गीं। इससे कई स्थलों का अर्थ लगाने में विद्यार्थियों तथा अध्यापकों को बड़ी असुविधा होती थी। इस संस्करण में यथा- समय उन भूलों को दूर किया गया है। विद्यार्थियों के लाभार्थ संक्षिप्त टिप्पणी भी मोड़ दी गयी है। मुझे पूर्ण विश्वास है कि प्रस्तुत सस्करण से विद्यार्थियों का अधिकाधिक लाभ होगा।

( २ )
अन्त में, प्रफ देखकर मेरे मित्र श्री पण्डित दयानाथ झा ने प्रेस
सम्बन्धी सुविधा देकर नवस्थापक श्री पण्डित सरयूप्रसाद पाण्डेय
ने तथा इस पुस्तक के छपाने में दौड़धूप करके प्रेस के लिपिक
श्री पण्डित बैजनाथ तिवारी ने भो कृपा प्रदर्शित की है, उसके
लिए मैं उन्हें धन्यवाद देता हूँ।
प्रभात मिश्र
रक्षाबन्धन
कवि कुटीर
दारागंज, प्रयाग
२७, ८,५०

1 विषय-सूची पृष्ठ संख्या १ ३ .. १८ १-स्तुतिपद्यानि २-कम्बुमीवकथा ३-वणिकपुत्रकथा ४-विप्रमनोरथपूर्ति कथा ५-सिंहदिलीपयोः संवाद ६-शरवर्णनम् ७-रक्तमुखबानरकथा ८-पककर्कटकया ६-कर्णस्यवदान्यता १९-समस्त मस्यापूतिः ११-योगस्य चमत्कारः १२-नीतिरत्नमाला १३-अनन्तमट्टकथा १४-पुत्रोपदेशः १५-वनवासकाले १६-सोमदत्तोत्पत्तिकथा १७-अशरणा ब्राह्मणी १८-सुभद्रां प्रति २२ २३ २८ ३० ३२

.
::
३६
४१
४२
४५
५३
( २ )
१६-गुरुभक्तिः
२०-शुकस्य मनोदशा
२१-तपस्याप्रभावः
२२-भीमस्य दयालुता
२३-वेषस्यपूजा
२४-महादेवयशस्विसिंहसंवादः
२५-चाणक्यसूत्राणि
२६-हल्दीघाटी
२७-भासुरकसिहकथा
२८-आल्दा
२६-संक्षिप्तटिप्पणी
६१
६३
६५
६६
८३

संस्कृत-सुषमा

No text on this page.

स्तुतिपयानि सजयति सिन्धुरवदनो, देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां, राशिन्नाशयति विघ्नानाम् ।। करारविन्देन पदारविन्द, मुखारविन्दे विनिवेशयन्तम् । चटस्य पत्रस्य पुटे शयानं, बालं मुकुन्दं मनसा स्मरामि। त्रैलोक्यशल्योद्धरणाय सिन्धो- श्चकार बन्धं मरणं रिपूणाम् । पुण्यप्रणामं भुवनामिरास, रामं विरामं विपदामुपासे । . इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् चन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ।। जावधी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारि कामतातं वा कञ्चिद्दवं भजामहे ॥

( २ ) कम्बुग्रीवकथा अस्ति कस्मिंश्चिजलाशये कम्युग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनानी मित्रे हंसजातीये परमस्नेह- कोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेक- देवर्षिमहषीणां कथाः कृत्वा अस्तमयवेलायां स्वस्वनीड- संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टिवशात्सरः शनै:- शनैः शोषमगमत् । ततस्तद्दुःखदुःखितौ तावूचतुः भो मित्र ! जम्बालशेप मेतत्सरः सज्जातम् । तच्छु त्वा कम्बुग्रीव आह-भोः साम्प्रतं नास्त्यस्माकं जीवितव्य जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । तदानीयतां काचिदृढरज लघुकाष्ठं वा । अन्विष्यतां व प्रभूवजलसनाथं सरः, येन मया मध्यादेशे दन्तैगृहीते सति युवा कोटिभागयोस्तत्काष्ठं मया सहितं संगृह्य तत्सरो नयथः, तावूचतुः-मो मित्र ! एवं करिष्यावः । परं भवता मौनग्रतेन स्थातव्यम् । नो चेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते गच्छता कम्युग्रीवेण अधोभागव्यवस्थितं किञ्चि- त्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः--'अहो चक्राकारं किमपि पक्षिभ्यां नीयते पश्यत-पश्यत' अथ तेषां कोलाहलमाकर्ण्य कम्युग्रीव आह- 'भाः किमेष कोलाहलः' इति वक्तु मना अर्कोक्तिपनित: पोरे:खण्डशः कृतश्च । - ( ३ ) वणिकपुत्रकथा अस्ति कस्मिश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः स च विमवक्षया शान्तरगमनमना व्यचिन्तयत्- तस्य च गृहे लोहमारघटिता पूर्वपुरुषोपार्जिता तुलासीद ताच कस्यचिछष्ठिनो गृहे निक्षेपभृतां कृत्वा देशान्तर प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य श्रेष्ठिनमुवाच-भोःश्रेष्ठिन् । दीयतां में'सा निक्षेपतुला, स आह-'भो! नास्ति सा त्वदीया तुला मूषि- कैक्षितेति । जीणंधन आह-भोः श्रेष्ठिन् । नास्ति दोषस्ते यदि मूषिकैर्मक्षितेति । ईडगेवायं संसारः । न किश्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थ गमिष्यामि । तत्त्व- मात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरण- हस्तं प्रेषय' इति । सोऽपि चौर्यभयात्तस्य शङ्कितः स्व- पुत्रमुवाच 'वत्स ! पितृव्योऽयं तव स्नानार्थं यास्यति, तगम्यतामनेन सार्घ स्नानोपकरणमादाय' इति । अथासौ वणिशिशुः स्नानोपकरणमादाय प्रहृष्टमना- स्तेनाम्यागतेन सह प्रस्थितः । तथानुष्ठिते स वणिक् स्नात्वा तं शिशु नदीगुहायां प्रक्षिप्य तद्वारं बृहच्छिलयाच्छाध सत्वरं गृहमागतः पृष्ठश्च तेन वणिजा--भोः अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः' इति । स -- ( ४ ) आह-'नदीतटात् स श्येनेन हृतः' इति । श्रेष्ठयाह--मिथ्या- यादिन् ! किं कचिच्छय नो वालं हतु शक्नोति । तत्समर्पय मे सुतम् । अन्यथा राजकुले निवेदयिष्यामि' इति । स आह-'भोः सत्यवादिन् ! यथा श्येनो बालं न नयति तथा मूषिकोऽपि लोहमारघटितां तुलां न भक्षयति, तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम् ।' एवं तो विवदमाना द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच--भोः अब्रमण्यमब्रमण्यम् । मम शिशुरनेन चारेणापहतः, अथ धर्माधिकारिणस्तमूचुः-भोः ! समयतां श्रष्ठिसुतः ? स आह-किं करोमि । पश्यतो मे नदीतटाच्छथ नेनापहृतः शिशुः ।' तच्छृ त्वा ते प्रोचुः--भोः न सत्यमभिहितं भवता । किं श्येनः शिशु हतु समर्थो भवति ? स आह- भोः भोः श्रूयतां मद्वचः तुला लोहसहस्रस्य यत्र खादन्ति मूषिकाः । राजस्तत्र हरेच्छय नो वालकं नात्र संशयः ।। ते प्रोचु:--'कथमेतत् ततः श्रेष्ठी सम्यानामग्रे आदितः सर्ववृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तो परस्परं सम्बोव्य तुलाशिशुप्रदानेन सन्तोपितो।

(५) विप्रमनोरथपूर्तिकथा पुनरपि राजा यावत् अन्यपुत्तलिकामस्तके पादपा निदधाति, वावत् सा पुत्तलिका तथैव मनुष्यवाचा राजान- मब्रवीत्,---भो राजन् ! विक्रमस्य शौर्योदायंसवादिक- सादृश्यं यदि विद्यते, "तहि अस्मिन् सिंहासने समुपविश"। भोजराजो वदतिस्म भोः पुत्तलिके ! कथय तस्य विक्रमस्य शौर्योदा-दिकथा"। सा कथयति,-'भो राजन् ! श्रूयतार,-- विक्रमादित्यः राज्य पालयन् एकदा चारानाहूयाऽब्रवीत, भो दूताः ! भवन्तः पृथ्वीपरिभ्रमणं कुर्वन्तः, यत्र यत्र विस्मयकरदृश्यं तीर्थविशेषञ्च विलोकयन्तु, तन्मम निवे- दयन्तु । अहं तत्र गमिष्यामि'। एवं काले गते एकदा देशान्तरं परिभ्रमन्नागतः कश्चित् दूतो राजानमब्रवीत्.--- मो राजन् ! चित्रकूटपर्वतनिझटे तपोवनमध्ये अतिमनोहरी देवालयोऽस्ति । तत्र पर्वतोच्चस्थानात् विमला जलधासा पतति । तत्र स्नानं यदि क्रियते, सर्वेषां महापापानां क्षयो भवति, यस्तु महापापं करोति तस्याङ्गादतीवकृष्ण- मुदकं निःसरति । यस्तत्र स्नानं करोति, स पुण्यपुरुषः । अन्यच्च तत्रकश्चिद् ब्राह्मणः महति होमकुण्डे हवनं करोति, तस्य कियन्ति वोणि अतीतानि इति न ज्ञायते । प्रतिदिन - कुण्डाद् वहिः स्थापितं भस्म, पर्वताकारमस्ति । स ब्राह्मण केनाऽपि सह न सम्भाषते । एवमतिविचित्रतरं स्थानं दृष्टम् । तच्छु त्वा स राजा एकाकी तेन सह तत्तस्थानं गत्वा, परमानन्दं प्राप्तोऽवादीत,--अहो! अतिपवित्रमे तत्स्थानम् । अत्र साताजगदम्बिका निवसति । एतत्स्थानं दृष्ट्वा मनो मे विमलं जातम्" इत्युका तत्र निरजले स्नानं विधाय देवतां नमस्कृत्य, यत्र ब्राह्मणो हवनं करोति, तत्र गत्वा ब्राझणमवोचत्-"सो ब्राह्मण ! हवनमारभ्य कति वर्षाणि जातानि?" ब्राह्मणेनोक्त होमं कुर्वतो मे वर्षशतमभूत् तथापि देवता प्रसन्ना नाऽभवत्। तच्छु त्या राजा स्वयं देवतां स्मृत्वा होमकुण्डे आहुतिमक्षिपत् । तदाऽपि देवी प्रमन्ना नाऽभूत् । तदनन्तरं राजा स्वशिरः दास्यामि, इति बुद्ध्या यावत् कण्ठे खङ्ग सन्दवाति, तावदन्तराले देवता खङ्ग धृत्वा अवादीत-"भो राजन् । प्रसन्नाऽस्मि, वरं वृणीष्व"। राज्ञा उक्त,-भो देवी ! यद-ब्राह्मणोऽयं बहुकानं वनं करोति, नायराभ्यति कस्मैचित्, नचाऽपि नियमात स्खलितः,तथा- ऽपि अस्मिन् किमर्थन प्रसन्ना भरसि , मम एव वा कः तथाविधः अर्हणाप्रकारः, येन शीघ्र प्रसन्नाऽसि ?" तयोक्त भो राजन् ! अश्य चेतसि भावो नास्ति, अतः प्रमन्ना न भवामि । उक्तश्च । मन्त्रे तीर्थे द्विजे देवे दैवज्ञ भेषजे गुरौ । याशी भावना यस्य सिद्धिर्मवति ताश ॥ .

(७) न काष्ठे विद्यते देवो न पाषाणे न मृण्मये । मावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ।। राजा अवदत्-यदि मम प्रसन्ना जाताऽसि, तर्हि अस्य ब्राह्मणस्य "मनोरथान् पूरय" । साऽब्रवीद--भो राजन् ? परोपकारी महाद्रुम इव स्वदेहकष्टं सहित्या परिश्रमोच्छेदं करोषि १ उक्तच । छायामन्यस्य कुर्वन्ति स्वयं तिष्ठिन्ति चातपे । फलन्ति हि परार्थे च सत्यमेते परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः । परोपकाराय फलन्ति वृक्षाः परोपकाराय शरीरमेतत् ।। एवं राजानं स्तुचा ब्राह्मणस्य मनोरथं पूरयतिस्म । राजाऽपि स्वपुरीमगात्"। इमां कथा कथयित्वा पुत्चलिका भोजमवदत्-राजन् ? एवं विधं धैर्य विद्यते चेत् तय स्मिन् सिंहासने समुपविश राजा तूष्णीमासीत् । महद्रुमाः ॥ . सिंहदिलीपयोः : सम्बादः गुरोराज्ञां स्वीकृत्य, सम्राट दिलीपः, प्रातःकाले समुत्थाय, पीतप्रतिबद्धवत्साम्, वशिष्ठधेनु नन्दिनीं बनाय मुमोच । 'छायेव तां भूपतिरन्नगच्छत्' ( ८ ) एवं आस्वादवद्भिः तृणानां कवलेः कण्ड्यनैः दंश- निवारणैः स्वच्छन्दगमनैश्च स तां समाराधयामास । अन्येषु :-आत्मानुचरस्य भावं जिज्ञासमाना नन्दिनी गङ्गाप्रातान्तविरूदशष्यां हिमालय गुहां प्रविवेश । सा हिंस्र मनसाऽपि दुष्प्रर्षा इति नृपः पर्वतरय सुपमाविलो- कने संलीनोऽभवत् । अपरतश्च गुहाशयः सिंहो हठात् नन्दिनीमाक्रमत् । ततश्च धेन्वाः कातरं दीनदीनमाक्रन्दन- माकर्ण्य, राजा तत्र दृष्टिं निचिक्षेप, नन्दिन्या उपरिस्थितं सिंहमालोक्य विस्मयक्रोधाविष्टो राजा सत्वरं तूणीरात शरं निष्कासयितु प्रायतत, परं तस्य दक्षिणो हस्तः सायक- पुङ्ख एव चित्रलिखित इव तस्थे । ततो हस्तावरोधेन क्रोधाभिमृतं चकित-चकितं राजा- नमत्यन्तं विस्मापयन् सिंहो मनुष्यभाषायां तमुवाच- "हे राजन् ! परिश्रमं मा कुरु । मयि तव वाणप्रक्षेप- णप्रयासो व्यर्थ एव । अहं खलु कुम्भोदरनामा शिवम्य गणोऽस्मि । शिवो मत्पृष्ठे पादन्यासं कृत्वा वृपभमारोहति यं खलु पुरस्तात् देवदारूवृक्षमवलोकयसि, असौ शिवेन पुत्र इव स्वीकृतः, पार्वत्या स्वयं जलसेकेनाऽयं संवर्षितः एकदा कपोलं कण्ड्यमानेन बन्येन गजेन अम्य त्वक समुत्पाटिता । तदा पार्वती नितरामनं वपुत्रमिय शुशोच । तत एव कालादारभ्य शिवेन सिहत्वं विधाय अहमन्य, (६ ) रक्षायै पर्वतगुहायां नियुक्तः । अहमङ्कागतसत्ववृत्तिरस्मि । तदियं धेनुर्बहुकालानन्तरमत्र समागता मम पारणा भवि- प्यति। अतस्त्वं लज्जां विहाय निवर्तस्त्र । नात्र ते परिवादः। अंग दैवकार्ये शस्त्राणां पौरुषस्य च प्रभावो नास्ति ।" इति सिंहस्य वचनं श्रुत्वा राजा लज्जां तत्याज । जमाद च "हे सिंह ! यद्यपि मदुक्त हास्यं भवेत् तथापि वाच्यम् । यतो भवान् सर्वेषां हृदयस्याभिप्राय जानाति, अतो वदामि । सः खलु शिवो मे मान्यः, इदमपि च गुरोधनं नेत्रार्णा समक्षं विनश्यन्नोपेक्षणीयं भवति, अतस्त्व- मिमां बराकीं त्यज । मम शरीरेण स्वशरीरनि निर्वतयस्व । तत्स्थाने मामेव भुङव।" ततः सिंहः प्रत्युवाच- "हे तृप ! एकातपत्रं जगतः प्रभुत्वम् , नवं वयः, इदं सुन्दरं शरीरश्चेति, एकस्या धेनोः कृते एतत्सर्व' त्यक्त - मिच्छन् मवान् विवेकविकलोऽसीति प्रतीयते । त्वं हि कोटिशः घटोनीः गाः दत्वा अस्याः क्षति पूरयिष्यसि । परन्तु त्वं जगतामधीश्वरः । अतः तव विनाशे जगतः सर्वस्वं विनष्टं स्यात् । तत्स्वदेहं रक्ष । इमां जहीहि ।" ततो नन्दिन्या कातरतया निरीच्यमाणो दिलीप: पुनरुवाच- "अयि मृगाधिराज ! इयं खलु न सामान्या गाः ।

( १० ) न इयं कामधेनोः सुता कामधेनुरेव । साधारणा हिंता एनामाक्रमितु शक्नुवन्ति । त्वया तु शिव- प्रभावेणास्यां प्रहृतम् । तदहमस्या निष्क्रयेण स्वदेह ददामि । एवं तब पारणा विहता न स्यात्, मुनेश्व क्रियार्थो न लुप्तः स्यात् । भवानपि जानाति यत् रक्षकः स्वयमक्षतः स्वामिनोऽग्रे रक्ष्यं विनाश्य न स्थातुमर्हति । अतः स्वास्याः परित्यागे मम प्रार्थना स्वीकुरु । इत्युक्त्वा दिलीप आमिपस्य पिण्डमिव स्वदेहं हरये सम्पानयत् । ततश्च तस्य अवाङ मुखस्योपरि विद्याधर- हस्तमुक्ता पुष्प-वृष्टिः पपात । ततश्च "उत्तिष्ठ क्त्सेत्यमृतायमानं वचो निशम्योत्थितो भूपतिः जलनीमिव स्वां गामग्रतः ददर्श न सिंहम् ।" तदनन्तरं प्रीता नन्दिनी तस्मै वरप्रदानमकरोत् । कृतार्थों भूपतिः तया सह बनान्तादाश्रममागत्य गुरवे सुदक्षिणायै च वरप्रदानवृत्तान्तं निवेद्यामन्दानन्दमविन्दत । शरद्वर्णनम् काशांशुका विकचपद्ममनोज्ञवका सोन्मादहंसरवन् पुरनादरम्या । आपकशालिरुचिरा तनुगात्रयष्टिः प्राप्ता शरन्नववधरिव रूपरम्या ।।

( ११ ) काशैर्मही शिशिरदीधितिना रजन्यो हंसैलानि सरितां कुमुदैः सरांसि । सप्तच्छदैः कुसुमभारलतैर्वनान्ताः शुक्लीकृतान्युपवनानि चमालतीभिः ।। व्योम कचिद्रजतशङ्खमृणालगोरै- स्त्यक्ताम्बुमिलघुतया शतशः प्रयातेः । संलक्ष्यते पवनवेगचलैः पयादै राजेव जानवररुपवीज्यमानः भिनाजनप्रचयकान्ति नभो मनोज्ञ' बन्धक पुष्परचितारुणता च भूमिः । चारुकमलावृतभूमिभागाः प्रोत्कएठयन्ति न मनो भुवि कस्य युनः ।। मन्दानिलाकुलितचारुतरामशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः । मत्तद्विरेफपरिपीतमधुप्रसेक- श्चि विदारयति कस्य न कोविदारः ।। आकम्पयन्फलभरानतशालिजाला- नानर्तयंस्तरुवरान्कुसुमावनम्रान् । उत्फनपङ्कजवनां नलिनी विधुन्व- न्यूनां मनश्चलयवि प्रसमं नमस्वान् । वप्रा मोन्मादहंसमिथुनैरुपशोभितानि स्वच्छप्रफुल्लकमलोत्पलभूषितानि । मन्दप्रभातपवनोग्दतबीचिमाला-- न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ।। नष्टं धनुर्वलभिदो जलदोदरेषु सौदामिनी स्फुरति नाथ वियत्पताका । धुन्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयुराः नृत्यप्रयोगऽरहिताच्छिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । मुक्त्वा कदम्बकुटजार्जुनसर्जनीया-. न्सप्तच्छदानुपगता कुसुमाग्दमश्रीः ।। शेफालिकाकुसुमगन्धमनोहराणि स्वस्थस्थिताण्डजकुलपतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोतकण्ठयन्त्युपवनानि मनांसि पुंसाम् ।। कहारपत्रकुमुदानि मुहुर्विधुन्वं- स्तत्संगमादधिकशीतलतामुपेतः ! उकएठयत्यतितरां पवनः प्रभात पत्रान्तलग्नतुहिनाम्बुविधूयमानः ।।

१३ ) : । संपन्नशालिनिचयावृतभूतलानि स्वस्थस्थितप्रचुरगोकुलशोभितानि । हमै ससारसकुलैः प्रतिनादितानि सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥ स्फुटकुछुदचितानां राजहंसस्थितानां सरकतमणिभासा वारिणा भूपितानाम् । श्रियमतिशयरूपां व्योयनोयाशनानाम् वहति विगतमेधं चन्द्रतारावकीर्णम् ।। शरदि कुमुदसङ्गावायवो भान्ति शीता विगतजलदवृन्दा दिग्विभागा मनोज्ञाः विगतकलुपमम्भः श्येनपका धरित्री विमलकिरणचन्द्र व्योम ताराविचित्रम् ॥ रक्तमुखवानरकथा अस्ति कस्मिंश्चित् समुद्रोएकरने महान् जम्बूपादपः । तत्र च रक्तमुखो नाम वानरः प्रतिवसतिस्म । तत्र च तस्य तरोरधः कदाचित्करालमुखो नाम मकरः समुद्रसलिला- निष्क्रम्प तीरोपान्ते न्यविशत् । ततश्च रक्तसुखेन स प्रोक्तः भो भवान् समस्यागतोऽतिथिः । तद्भक्षयतु मया दत्तान्य- मृततुल्यानि जम्बफलानि । एवमुक्त्वा तस्मै जम्बूफलानि ददौ । सोऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठीसुखमनुभूय भूयोऽपि ( १४ ) स्वभवनमगमत् । एवं नित्यमेव तौ वानरमकरौ जम्बूच्छाया- स्थितौ सुभाषितगोष्ठया कालं नयन्तौ सुखेन तिष्ठतः । सोऽपि मकरो भक्षितशेषाणि जम्बूफलानि गृहं गत्वा स्व- पत्न्याः प्रयच्छति । अथान्यतमे दिवसे तया स पृष्ठः-नाथ ! क एवं विधान्यमृतफलानि प्राप्नोषि । स आह, भद्र ! ममास्ति परमसुहृद्रक्तमुखो नाम वानरः, स प्रीतिपूर्वमिमानि फलानि प्रयच्छति । अथ तयाभिहितं यः सदैवामृतप्रायाणी- शानि फलानि भक्षयति तस्य हृदयममृतमयं भविष्यति । तद्यदि मया मार्यया ते प्रयोजनं ततस्तस्य हृदयं मह्यं प्रयच्छ, येन तद्भक्षयित्वा जरामरणरहिता भवामि । स ाह भद्रमा मैवं वद, यतः स प्रतिपन्नोऽस्माकं भ्राता, अपर फलदाता, ततो व्यापादयितुं न शक्यते, तत्त्यजैनं मिथ्या- ग्रहम्। अथ मकर्याह त्वया कदाचिदपि मम बचन नान्यथा कृतम्, तदधुना किन्न करोषि ? तकि बहुना, यदि तस्य हृदयं न भक्षयामि तन्मया प्रायोपवेशन कृतं विद्धि । एवं तस्यास्तनिश्चय ज्ञाला चिन्ताज्याकुलितहृदयः किं करोमि कथं स मे वध्यो भवतीति विचिन्त्य वानरपार्श्वमगमत् । वानरोऽपि चिरायान्त तं सोद्वेगमवलोक्य प्रोवाच । भो मित्र ! किमद्य चिरवेलायां समायातोऽसि कम्मापाडा नालपगि, न सुभाषितानि पठसि । स आह, मित्र । अहं ( १५ ) तव भ्रातृजायया निष्ठ रतरैर्वाक्यैरभिहितः। “भो कृतन ? मा मे व स्वमुखं दर्शय, यतस्व प्रतिदिनं मित्रमुपजीवसि नच तस्य पुनः प्रत्युपकारं गृहदर्शनमात्रणाऽपि करोषि । तत्व सम देवरं गृहीत्वाद्य प्रत्युपकारार्थ गृहमानय । नो चेचया सह मे परलोके दर्शनम, तदह तयैव प्रोक्तस्तव सकासमागतः, तदद्य तया सह त्वदर्थे कलहायमानस्य ममेयती वेला विलग्ना । तदागच्छ मे गृह, तव भ्रातृपत्नी सोत्कएठा तिष्ठति । . मर्कट आह, भो मित्र ? वय वनचराः, युष्मदीया च जलान्ते गृह, तत्कथ शक्यते तत्र गन्तुम् , तस्माचामपि मे भ्रातृपत्नीमत्रानय । येन प्रणम्य तस्या आशीर्गदं गृह्णामि । स आह, भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिनप्रदेशे- ऽस्मद्गृहम् , तन्मम पृष्ठमारूढ़ः सुखेनाकृतभयो गच्छ । सोऽपि तच्छु त्वा सानन्दमाह । भद्र ! यद्येवं तकि विलम्ब्यते । त्वर्यताम् । एषोऽहं तव पृष्ठमारूढ़ः । तथानुष्ठितेऽगाधे जलधौ गच्छन्त मकरमवलोक्य भयत्रस्तमना वानरः प्रोवाच, भ्रातः शनैः शनैर्गम्यताम्, जलकल्लोलैः प्लाव्यते मे शरीरम् । तदाकण्य मकरश्चिन्तयामास, असावगाधं जलं प्राप्तो मे वश संजातः । मत्पृष्ठगतः तिलमात्रमपि चलितुं न शक्नोति, तस्मात्कथयाम्यस्य निजाभिप्रायम् । येनाभीष्टदेवतास्मरणं करोतु । आह च, मित्र ? त्वमया वधाय समानीतो मार्या- ( १६ ) चाक्येन विश्वास्य, तत्मयतामभीष्टदेवता । स आह, भ्रातः ! कि मया तस्यास्तवापि चापकृतं ? येन मे वधोपाय- श्चिन्तितः। मकर आह-भोः ? तस्यास्तावत्तव हृदय- स्यामृतमयफलरसास्वादनमृष्टस्य भक्षणे दोहदः संजातः । तेनैतदनुष्ठितम् । प्रत्युत्पन्नमतिर्वानर आह, यद्येव तक्ति त्वया मम तत्रैव न व्याहृतम् । येन स्वहृदयं जम्बुकोटरे सदैव स्या सुगुप्त कृतं तद्भातृपत्न्या अर्पयामि, त्वयाह शून्य- हृदयोऽत्र कस्मादानीतः १ तदाकर्ण्य मकरः सानन्दमाह भद्र ? यो तदर्पय मे हृदयं येन सा कुमायो तद्भक्ष- यित्वाऽनशनादुत्तिष्ठति । त्वामह तमेव जम्बूपादपं प्राप- यामि । एवमुक्त्वानिवत्य जम्बूतलमगात् । वानरोऽपि कथमपि जल्पितविविध देवतोपचारपूजस्तीरमासादितवान् । ततश्च दीर्घतरचङक्रमणेन तमेव जम्बूपादपमारूढश्चि- न्तयामास-अहो ? लब्धास्तावत् प्राणाः, तन्ममतदद्य पुनर्जन्मदिनमिव संजातम्, इति चिन्त्यमान मकर ग्राह- भो मित्र ! अर्पय तहृदयं यथा ते भ्रातपत्नी भक्ष- यित्वानशनादुत्तिष्ठति ! अथ विहस्य निर्भत्सयन् वानरस्त- माह-धिग्धिङ मूर्ख ! विश्वासघातक ? कि कस्य- चिद्धृदयद्वयं भवति । तदाशु गम्यतां जम्वृक्षस्याधम्नान्न भूयोऽपि त्वयाऽत्रागन्तव्यम् । समुत्पन्न कार्येषु बुद्विर्यस्य न हीयते । स एव दुर्ग तरति जलस्थो वानरो यथा ॥

( १७ ) बककर्कटकथा अस्ति मालवदेशे पद्मगर्भनामधेयं सरः। तत्र को वृद्धो बकः सामर्थ्यहीन उद्विग्नमिवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरेण दृष्टः पृष्टश्च किमिति भवानराहा- रत्यागेन तिष्ठति ? धकेनोक्तम्-'मत्स्या मम जीवन- हेतवः, ते कैरतैरागत्य व्यापादयितव्या इति वार्ता नगरो- पान्ते मया श्रुता । अतो जीविकाभावादेवास्मन्मरणमुप- स्थितमिति ज्ञात्वाऽऽहारेप्यनादरः कृतः । ततो मत्स्यैरालो- चितम -इह समये तावदुपकारक एवायं लक्ष्यते, तदयमेव यथाकर्तव्यं पृच्छयताम् । मत्स्या उचुः-भो व ! कोऽत्र रक्षणोपायः ? चको व्रते अस्ति रक्षणोपायो जलाशयान्तरा- श्रयणम्। तत्राऽहमेकैकशो युष्मान्नयामि । मत्स्या आहुः- एवमस्तु । ततोऽसौ वकः तान्मत्स्यानेकैकशो नीत्वा स्थले धृतवान् ।कुलीरोऽपि मत्स्यकएटकाकीर्ण तत्स्थलमालोक्या- चिन्तयत्-हा ! हतोऽसिल मन्दभाग्यः । भवतु । इदानीं समयोचितं व्यवहरिष्यामि यतः- तावद्भयेन भेतव्यं यावद्भयमनागतम् । आगतन्तु भयं दृष्ट्वा प्रहत्तव्यमभीतवत् ।। इत्यालोच्य स कुलीरकस्तस्य ग्रीवां चिच्छेद । स चकः पञ्चत्वं गतः। २ ( १८ ) कर्णस्य वदान्यता (ततः प्रविशति ब्राह्मणरूपेण शक्रः) शक्रः-भो मेघाः । सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । (कर्णमुपपगम्य) भो कर्ण ! महत्तरां भिक्षा याचे। कर्ण:--दृढ़ प्रीतोऽस्मि भगवन् ! यातः कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरजितपादपद्मः । विप्रेन्द्रपादरजसा तु पवित्रमौलिः कौँ भवन्तमहमेष नमस्करोसि ।। शक्र:--(आत्मगतम् )किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति वक्ष्ये दीर्घायुभविष्यति । यदि न वक्ष्येमूढ इति मां परिभवति । तस्मादुभयं परिहत्य किं नु खलु वक्ष्यामि ! भवतु दृष्टम् । (प्रकाशम् ) भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः। कर्णः-भगवन् ! किं न वक्तव्यं दीर्घायुभवेति । अथवा एतदेव शोभनम् । कुतः-- धर्मो हि यत्नैः पुरुषेण साध्यो भुजंगजिहाचपला नृपश्रियः । तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ भगवन् ! किमिच्छसि । किमहं ददामि ।

( १६ ) शक्रः-महत्तरां मिक्षां याचे । कर्णः-महत्तरां मिर्धा भवते प्रदास्ये । श्रूयन्तां मद्विभवाः । गुणवदमृतकल्पतीरधारामिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुयात्रम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्र' विहितकनकभृङ्ग गोसहस्र ददामि । शक्रः-गोसहस्रमिति । मूहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि। कर्ण:--किं नेच्छसि भवान् । इदमपि श्रूयताम् । रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्य मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहु सहस्र वाजिनां ते ददामि ॥ शक्रः अश्व इति मूहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि। कर्णः-कि नेच्छति भवान् । अन्यदपि श्रृयताम् । मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनियाभं मेघगम्भीरघोषम् । सितनखदशनानां वारणानामने रिपुसमरविमर्द वृन्दमेतद्ददामि ॥

श्रूयताम् । अपर्याप्त- --- ( २० ) शका-गज इति । मूहूतर्कमारोहामि । नेच्छामि कर्ण । नेच्छामि ! कर्णः-किं नेच्छति भवान् । अन्यदपि कनकं ददामि। शक्रः--(किञ्चिद् गत्वा ) गृहीत्वा, गच्छामि, नेच्छामि कर्णः ! नेच्छामि । कर्णः तेन हि जित्वा पृथिवीं ददामि । शक्रः--पृथिव्या किं करिष्यामि । कर्णः-तेन ह्यग्निष्टोमफलं ददामि । शक्रः अग्निष्टोमफलेन किं कायम् ! कणः-तेन हि मच्छिरो ददामि । शक्रः-अविहा अविहा । कर्णः-न भेतव्यं न भेतव्यम् । प्रसीदतु गवान् । अन्यदपि श्रूयताम । अङ्गः सहैव जनितं मम दहरक्षा देवासुरैरपि न भेद्यमिदं सहाव। देयं तथापि कवचं सह कुण्डलाम्यां प्रीत्या मया भगवते रुचितं यदि स्यात् ।। शक्रः-( सहर्षम् ) ददातु ददातु । कर्णः-(आत्मगतम्) एप एवास्य कामः । कि नु सन्वनेककपटबुद्धः कृष्णस्योपायः । सोऽपि ( २१ ) भवतु । धिगयुक्तमनुशोचितुम् । नास्ति 'संशयः (प्रकाशम् ) गृह्यताम् । शल्य:-अगराज । न दातव्यं न दातव्यम् । कर्णः-शल्यराज ! अलमलं वारयितुम् । पश्य शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः जलं जलस्थानगतं च शुष्यति ! हुतं च दत्तं च तथैव तिष्ठति ! तस्मात् गृह्यताम् । (निकृत्य ददाति ) शक्रः--- (गृहीत्वा आत्मगतस् ) हन्त ! गृहीते एते। (निष्क्रान्तः) शल्य-भो अङ्गराज ! वञ्चितः खलु भवान् । कर्णः-केन । शल्य:-शक्रण। कर्ण:----न खलु शक्रः खलु मया वञ्चितः । अनेकयज्ञाहुतितर्पितो द्विजैः किरीटमान् दानवसंघमर्दनः । सुरद्विपास्फालनकर्कशाङ्ग लि- मया कृतार्थः खलु पाकशासनः ।

( २२ ) समस्यापूर्तिः एकदा मृगया परवशो राजा अत्यन्तमातः कस्यचि- सरोवरस्य तीरे निविडच्छायस्य जम्बूवृक्षस्य मूलमुपाविशत् । तत्र शयाने राज्ञि जम्बोपरि बहुभिः कपिभिः जम्बूफलानि सर्वाण्यपि चालितानि । तानि सशब्दं पतितानि पश्यन् घटिकामानं स्थित्वा श्रमं परिहत्य उत्थाय तुरङ्गमारुह्य गतः। ततस्सभायां राजा पूर्वानुभूतकपिचलितफलपतनरवमनु-- कुर्वन् समस्यामाह-'गुलुगुग्गुलुगुग्गुलु' । तत आह कालि- दास:- जम्बूफलानि पक्वानि पतन्ति विमले जले । कपिकम्पितशाखातो गुलुगुग्गुलुगुग्गुलु ॥ राजा तुष्ट आह-सुकवे अष्टमपि परहृदयं कथं जानासि, साक्षाच्छारदाऽसीति मुहमुहुः पादयोः पततिस्म - योगस्य चमत्कारः अथ वेतालः पुनरपरां कथामकथयत् । कलिङ्गविपये यज्ञस्थलनामधेयं नगरमासीत् । तत्र यज्ञसोमनामा ब्रायण- स्तिष्ठति तस्य ब्राह्मणी सोमदत्ता। तयोगस्वामी नाम पुत्रो जातः । स सर्वशास्त्रज्ञो भूत्वा दैववशाद् पञ्चत्वमगात् । ततस्तत्पितरौ बहुविधं विलपन्दी बन्धुजनसहिती तमा- ( २३ ) , दाय श्मशाने संस्कारार्थमाजग्मतुः । इत्येवकाले श्मशान- वासी योगी तं द्विजकुमारशरीरं सर्वशास्त्रवेतारं मनोहर- फलेवरमालोक्य करुणस्वरेणोच्चैः क्रन्दितवान्, परमकौतुकेन नर्तितवांश्च । सहसोत्थाययोगेन जीर्णशरीरं परित्यज्य मृतस्य द्विजकुमारस्य शरीरे प्रविवेश । कुमारे सुप्तोत्थिते तत्पितरौ परां प्रीतिमासादितवन्तौ । सर्वे वन्धुवर्याश्च हर्षिता बभूवुः। ब्रह्मस्वामी प्राप्तजीवनः सर्वभोगं परित्यज्य योग ध्याय- स्तस्थौ । श्मशानवासी योगी कथं वा चक्रन्द कथं वा ननर्त तत्कारणं वदतु देवः । राजा वदति शृणु रे वेताल ! चिरकाल- मुपार्जितं जीर्णशरीरं त्यक्तव्यमिति चक्रन्द, जीर्णशरीरं विहाय सर्वगुणाधारं द्विजशरीरं प्राप्तव्यमिति ननर्त च । नीतिरत्नमाला पृथिव्यां त्रीणि रलानि जलमन्न सुभाषितम् । मूढः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। संसारकटुवृक्षस्य टू फले धमृतोपमे । सुभाषितरसास्वादः सङ्गतिः सुजने जने ॥ मातेव रक्षति पितेव हिते नियुक्त कान्तेव चाऽभिरमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीर्तिम् किं किं न साधयति कल्पलतेव विद्या ॥

( २४ ) विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।। अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रज्जयति ।। साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तृणन्न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ।। यः प्रीणयेत्सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं यत् एतत्त्रयं जगति पुण्यकृतो लभन्ते ।। खलः सर्षपसात्राणि परच्छिद्राणि पश्यति । आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यति ॥ दुर्जनः परिहर्तव्यो विद्ययाऽलङ कृतोऽपि सन् । मणिना भूपितः सर्पः किमसौ न भयङ्करः ।। यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः ! स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ।। वयोवृद्धास्तयोवृद्धाः ये च वृद्धाः बहुश्रुताः । सर्वे ते धनवृद्धानां द्वारि तिष्ठन्ति विङ्कराः ॥

( २५ ) द्वाविमावम्भसि क्षयौ गाढं बद्ध्वा गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं चात्तपस्विनम् ।। दरिद्वान्भर कौन्तेय ! मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ।। अयं निजः परो वेत्ति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ।। सत्यं ब्र या प्रियं ब्रूयात् न ब यात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।। उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः नहि सिंहस्य सुप्तस्य प्रविशन्ति सुखे मृगाः ।। उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- दैवं प्रधानमिति कापुरुषा वदन्ति । दैवं विहाय कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ।। अल्पानामपि वस्तूनां संहतिः कार्यसाधिका । तृणैर्गुण त्वमापन्नध्यन्ते मत्तदन्तिनः॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ एकेन शुष्कवृक्षण दह्यमानेन वह्निना । दह्यते तद्वनं सर्व दुष्पुत्र पकुलं- यथा ।।

( २६ ) कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्रयम् । कष्टादपि कष्टतरं परगृहवासः परान्नं च ॥ चलं वित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्व कीर्तिर्यस्य स जीवति । स जातो येन जातेन याति वंशसमुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ।। अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोविपिनेऽप्यरक्षितः कृतप्रयत्नोऽपि गृहे न जीवति ।। काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ जीवन्तोऽपि मृताः पञ्च व्यासेन परिकीर्तिताः । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ।। नरपतिहितकर्ता द्वष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन । इति महति विरोधे विद्यमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ अनन्तभट्टकथा मानसनः परकृतो मानिना मङ्गलावहः । अनन्तो मानभंगेन पाण्डित्यं परमं गतः ।। चोलेष्वनन्नमट्टोनाम कोऽपि कविरभूत् । स वाल्य सम्यगनभ्यस्त विद्यः । तस्य द्वित्रा मोदराः अधीतशास्त्रा आसन । तद्गृहे स्त्रियः पुमांसश्च सदा गीर्वाणभापया व्यवहरन्तिस्म । क्वचिद्दिवसे भ्रातृभिः सह मुजानः स भट्टः पत्नीमाह-दधिमानय इति प्रयोगं श्रुत्वा तद्भातर- स्तेषां पत्न्यश्च मन्दं जहसुः । साकूतः स हासस्तस्य तत्पत्याच नितरां लज्जावहोऽभवत् । परं धीमती तत्पनी पत्यः परिभवमसहमाना तान्याह--मोः, किमेवं युष्माभिर्वि- हस्यते १ मा दधिमानय इत्युक्तम् । तत्र दधि, मा, आनय, इति पदच्छेदः । तक्रमानयेति वाक्यार्थः इति । एवमभिधाय पत्युः तक पर्यवेपयत् ! सोऽपि स्वाज्ञानमूलं पराभवमसहमानोऽव्युत्पन्नमात्मानं गर्हयन्नन्तर्लज्जित- स्तेपां मुखमभिवीक्षितुमपारयन्मोजनानन्तरमेव देशान्तरं गतः। साधु चेदमुच्यते । प्राणं वाऽपि परित्यज्य मानमेवाभिरक्षतु । अनित्यो भवति प्राणो मानस्त्वाचन्द्रतारकम् । ततः तत्र च कमपि पण्डितमणिमुपास्य तत्प्रसादेन समधिगतसकलशास्त्रः काव्यनिर्माणधुरीणः कविरजायत । अथ च विद्वत्प्रियस्य कस्याऽपि महीपतेः समां गतः । स चास्य निरतिशयं पाण्डित्यं कवित्वं च परिज्ञाय परं संतुष्य बहुधा सामान्य स्वसभायाः प्रधानपण्डितमेनमकरोत् । इत्थं तेन भूपालेन पूजितः कञ्चित्कालमतिवाह्य बन्धुदर्शनलालसा ( २८ ) शजिगमिपां राज्ञ न्यवेदयत् । राजाऽपि त गजेन्द्रमधि- । विविधैर्विद्वद्विरुदैरलंकृत्य त जन्मभूमि प्रषयामास । च परमानन्दतुन्दिलः स्वगृहं प्राप्य वन्धुभिर्वहुमतः रा सह सुखमवसत् । .. पुत्रोपदेशः एवं च क्रमेणाधीताशेषविचं समारूढयौवनं चानुगम्या दितमाचार्यैश्चन्द्रापीडमानेतुं राजा तारापीड़ोवलाधिकृतं हकनामानमाहूय बहुतुरगपदातिपरिवृतमतिप्रशस्तेऽहनि णोत् । स गत्वा विद्यागृह द्वास्थैः समावेशितः त्य क्षितितलावलम्बितचूडामणिना शिरसा प्रणम्य स्यमासने राजपुत्रानुमतोन्यपीदत् । स्थित्वा मूहूर्तमानं हकश्चन्द्रापीड़मुपसृत्य दर्शितविनयोऽब्रवीत् । कुमार ! जिः समाज्ञापयति । पूर्णा नो मनारथाः । अधीतानि आणि । शिक्षिताः सकलाः कलाः । गतः सर्वास्वायुध- सु परां प्रतिष्ठाम् । अनुमतोऽसि विनिर्गमाय विद्या- सर्वाचायः। उपगृहीतशिक्षमवगतसकलकलाकलाप सीशशिनमिवोद्वतं पश्यतु त्वां जनः । ब्रजन्तुसफलता- चरदर्शनोत्कण्ठितानि लोकलोचनानि । अयमत्र भवतो : संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसिपष्टमनु- वर्षम् एवं सम्पिण्डितेनामुना पोडशन प्रवर्धसे । तदद्य ( २६ ) प्रभृति निर्गत्य दर्शनोत्सुकाम्यो दत्त्वा दर्शनमखिलामातृभ्यो- ऽभिवाद्य च गुरूनपगतनियन्त्रणो यथासुखमनुभवराज्य- सुखानि । सम्मानय राजलोकम् पूजय द्विजातीन् । परिपालय प्रजाः ।आनन्दय बन्धुवर्गमिति । वनवासकाले ततः सबालवृद्धा सा पुरी परमपीड़िता । राममेवामिदुद्राव धर्मार्गः सलिलं यथा ॥ संयच्छ वाजिनां रश्मीन्सूत ? याहि शनैः शनैः । मुखं द्रक्ष्याम रामस्य दुदर्श नो भविष्यति ॥ अथ राजा वृतः स्त्रीमिर्दी नाभिः दीनचेतनः । निर्जगाम प्रियं पुत्र द्रक्ष्यामीति व वन्गृहात् ।। दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम् । निपपातैव दुःखेन कृत्तमूल इव द्रुमः ॥ प्रत्यागारभिवायान्ती सवत्सा वत्सझारणात् । बद्धवसा यथा धेनू राममाताभ्यधावत तिष्ठेति राजा चुक्रोश याहि याहीति राघवः । सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ।। यमिच्छेत् पुनरायतं नैनं दुरेमनुव्रजेत् ।। इत्यमात्या महाराजसूचुर्दशरथं न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम् । मनसाप्याशुवेगेन न न्यवर्तत मानुषम् ॥ वचः ।।

(३०) सोमदचोत्त्पत्तिकथा ततः परस्मिन् दिवसे वामदेवान्तेवासी तदाश्रमवासी समराधितदेवकीर्ति निभर्सितमारमूर्ति कुसुमसुकुमारं कुमार- मेकसवगमय्य नरपतिमवादीत् । देव ? तीर्थयात्राभिलापेण कावेरीतीरमागतोऽहं विलोलालकं बालक निजोत्सङ्गतले निधाय रुदतीं स्थविराम एका निरीक्ष्य अवोचम् | 'स्थविरे ! का त्वम् १ अयमभक: कस्य नयनानन्दकरः कान्तारं किमर्थ मागता ! शोककारणं किम् ?" इति सा करयुगेन वाष्प- जलम् उत्सृज्य निजशोकशङ्क.त्पाटनक्षममिव मामवेक्ष्य शोकहेतुमवोचत् । द्विजोत्तम ? राजहंससचिवस्य सितवर्मणः कनीया- नात्मजः सत्यवर्मा तीर्थ यात्राप्रसङ्गन देशपेनमागच्छत स कस्मि श्चित् ग्रामे काली नाम एकस्य भूसुरस्य नन्दिनी विवाहा तस्या अनपत्यतया गौरीनाम तद्भगिनीं काञ्चनकान्ति परिणीय तस्यामेकं तनयमलमत । काली सासूयम् एकदा धाच्या मया सह चालमेनमेकेन मिपण आनीय तटिन्यामेतस्यामक्षिपत् । करेणैकेण वालम् उद्धृत्या- परेणाम्भसि प्लवमाना नदीवेगागतस्य कस्यचित्तरोःशाखाम् अवलम्ब्य तत्र शिशं निधाय नदीवेगेन उामाना केनचित ( ३१ ) तरुलग्नेन कालमोगिना अहम् अदंशि । मदवलन्धीभूतो भूरुहोऽयम् अस्मिन् देशे तीरमगमत् । गरलस्योद्दीपनतया मयि मृतायामरण्ये कश्चन शरण्यो नास्तीति मया शोच्यते इति । ततो विषमविषज्वालया सा घरणीतले न्यपतत् । दयाविष्टहृदयोऽहं मन्त्रबलेन विषविकारमपनेतुम- क्षमः समीपकुञ्ज औषधविशेषमन्विष्य प्रत्यागच्छन्न कान्त- जीवितां व्यलोकयम् । तदनु तस्याः पावकसंस्कार विरच्य शोकाकुलचेता बालमेनमगतिमादाय सत्यवर्मवृत्तान्तश्रवण- वेलायां तन्निवासानहारनामधेयस्य अश्रुततया तदन्वेषणमश- क्यम् इत्यालोच्य भवदमात्यनन्दनस्य भवानेव अभिरक्षितेति भवन्तमेनमानयमिति । तन्निशम्य सत्यवर्मस्थितेः सम्यगनि- श्चिततया खिन्नमना राजा सुमतये मन्त्रिणे सोमदत्तन्नाम- तदनुजतनयम् अर्पितवान् । सोऽपि सोदरमागतमिव मन्य- मानो विशेषेण पुपोष । एवं मिलितेन कुमारमण्डलेन सह वालकेलिमनुभवन्न- धिरूढानेकवाहनो राजवाहनोऽनुक्रमेण चूडोपनयनादि- संस्कारजातम् अलभत । ततः सकललिपिज्ञानं सकल- देशीयभाषापाण्डित्यं, षडङ्गसहितवेदसमुदायकोविदत्वं, काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथानैपुण्यं, धर्म- ज्योतिस्तकमीमांसादिसमस्तशास्त्रनिकरचातुर्य काटि- ल्यकामन्दकीयादिनीतिपटलकोशलं वीणावशेषवायदाय ( ३२ ) सङ्गीतसाहित्यहारित्वं, मणिमन्त्रौपधादिमायाप्रपञ्चप्राविण्यं, मातङ्गतुरङ्गादिवाहनारोहणपाटवं, विविधायुधप्रयोगचतुरत्वं तत्वदाचार्येभ्यः सम्यक् लब्ध्वा यौवनेन विलसन्तं कृत्येषु अनलसं तं कुमारनिकर निरीक्ष्य महीवल्लभः सोऽहं शत्र - जनदुर्लभ इति परमानन्दममन्दमविन्दत । अशरणा ब्राह्मणी अन्येधुरास्थानवर्तिनं वत्सराजमुपेत्य प्रतीहारो विज्ञा- ययामास । महाराज! देवदर्शनकाङ्क्षिणी कापि दुर्गा बाहाणी शिशुकद्वयसंयुक्ता द्वारि स्थितेति । तच्छु त्वा महीभृताम्यनु- ज्ञाते तत्प्रवेशे सा कशपाण्डधूसरा विशीर्णेन वाससा विधुरी- कृता दुःखदैन्यनिभौ बालकावङ्क विभ्रती प्रविवेश। कृतोचित- प्रणामा सा राजानं सप्रश्रयं सकरुणं प्रोवाच । हे देव ! अहं कुलजा ब्राह्मणी । विधिवशादीदृशीं दुर्गति प्राप्ता । देवाद्य - गपदेतो तनयौ जातो मम । साम्प्रतं दीनाऽस्मि । तेनेह शरणागतवत्सले देवं शरणं प्राप्ताऽस्मि । अधुना प्रभुः प्रमा- णम् तनिशम्य सदयो राजा इयं वासवदत्तायै देव्यै नीत्वार्य ताम्' इति प्रतीहारमादिशत् । ततश्च तेन सा देव्याःसमीपं नीता तस्यै प्रदत्ता च । राजा विसृष्टां प्रतीहारादुपागतां तां ब्रामणी राज्ञी श्रद्धतराम् । युग्मापत्यामेतां दीनां पश्यन्ती व्यचिन्तयत अहो किमेतत् प्रजापतेर्मिकवृतित्वम्' ततः ( ३३ ) स्नानकारिणी सा तस्या ब्रामण्याः स्नपनायचेटिका समा- दिशत् । वाभि झणी स्नापिता दत्तवस्त्रा स्त्रादुभोजिता च ! अथ स्वस्थमानसां तां ब्राह्मणी समापितस्नानां गृहीताहारा महिषी प्राह-कस्य त्वं मार्या ? को वा ते वृत्तान्त इति । तदा सा ब्राह्मणी प्रतिवक्त प्रचक्रमे-देवि! मालवेषु कोऽप्यग्निदत्त- नामा द्विज आसीत् । स श्रीसरस्वत्योनिलयो बभूव । तस्य शङ्करदत्तः शान्तिकरश्चेति स्वानुरूपौ द्वौ तनयौ बभूवतुः । तयोः शान्तिको विद्यार्थी स्वपितु हादकस्मानिर्गत्य काऽपि गतः। तस्य ज्येष्ठो भ्राता शङ्करदसो यज्ञार्थभृतसम्पदो यज्ञदत्तस्य तनयां परिणीतवान् । कालेन मम भर्तुः पिताऽग्नि- दत्तो वृद्धो भार्ययानुगतो लोकान्तरं गतः । तीर्थोद्देशाच ममवल्लमोधृतगर्भा मां विमुच्य पितृशोकेनाऽन्धः सरस्वतो- प्रवाहे तनुं जहौ । इमं वृत्तान्तं ज्ञात्वा दुःसहशोकवशं गताऽहम् ततोमय्याशोकायामकस्माइस्युमिरेत्यास्मन्निवास: सक- लोऽपि विलुण्ठितः । तत्क्षणं तिसृभि लणीमिःसार्ध शील- भ्रंशभयादात्तस्वल्पवस्त्रा पलायिता । विदूरं च गत्वा देशं तद- न्विता मासमा कृच्छूकर्मोपजीविनी स्थिता । ततो लोका- दनाथशरणं वत्सेश्वरं श्रुत्वा दुःखिताशीलैकपायेयाऽहमिहागता आगत्यैव युगपत्तनयावुभौ प्रस्तास्मि । शोको विदेशः द्रारियं प्रसवोऽप्ययं द्विगुणः दुःखकरः। अहो वेधसा द्वारमिदमपावृ. तमापदामेतयोलियोवर्धनाय मे गतिर्नास्ति इत्यालोच्य योषि- 3 ( ३४ । भूषणंलजामपहाय मया प्रविश्य वत्सेश्वरः सदसियाचितः। तदादेशेन मया त्वच्चरणान्तिकं प्राप्तम् । द्वारात्प्रतिहता इव मे विपदश्च निवृत्ताः इत्येप मम वृत्तान्तः । अहं नाम्ना पिङ्गलिका । हे देवि ! स शान्ति करो मे देवरो विदेशगः कुत्र देशे तिष्ठत्यथापि न बुध्यते । उक्तस्ववृत्तान्तां कुलीनामव- धार्य प्रीता देवी वितक्यवमन्त्रवीत् । इह शान्तिकरोनामा- स्माकं पुरोहितः स्थितः। स वैदेशिको वर्तते । देवरस्ते. भविष्यति । इत्युक्त्वा देवी झटिति शान्तिकरमानाय्य तमन्वयमपृच्छत् । उक्तान्वयाय तस्मै सा संजात निश्चया इयं ते भ्रातृजाया-इति तां ब्राह्मणी समदर्शयत् । जातायां परिज्ञप्तौ ज्ञातवन्धुक्षयः शान्तिकरः प्रजावतीं गृहं निन्ये । तत्र पितरं भ्रातरं चानुशोच्य बालकद्वितयान्वितां तां यथोचितमाश्या- सयामास । देवी वासवदत्ताऽपि मुदन्विता तयोवीलकयोः शान्तिसोमो वैश्वानरश्चेति नामनी कृत्वा ताभ्यामनल्प- द्रविणं वितीर्य तत्सकलं पुरोहितकुलं चिरसुखमाजमकरोत् । सुभद्रां प्रति अथार्जुनगृहं गत्वा वासुदेवः सुदुर्मना । भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ।। मा शोकं कुरु वाणेयि ! कुमारं प्रति सस्नुपा । सर्वेषा प्राणिनां भीरु । निष्ठपा कालनिर्मिता ।।

( ३५ ) कुले जातस्य वीरस्य. क्षत्रियस्य विशेषतः । सदृशं मरणं ह्यवत्तव पुत्रस्य मा शुचः ॥ दिष्ट्या महारथो वीरः पितुस्तुन्यपराक्रमः । चारेण विधिना प्राप्तो वीरामिलषितां गतिम् ।। जित्रा सुबहुशः शत्रन प्रेषयित्वा च मृत्यवे। गतः पुण्यकृतां लोकान् सर्वकामदुहोऽक्षयान् ।। तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयाऽपि च । सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः ॥ वीरसूवारपत्नी त्वं वीरजा वीरवान्धवा । मा शुचस्तनयो भद्रे । गतः स परमां गतिम् ।। प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः। अस्यावलेपस्य फल समुहद्गणवान्धवः॥ खः शिरः श्रोग्यसे तस्य सैन्धवस्य रणे हृतम् । समन्तपञ्चकाद् बास विशोका भव मा रुदः॥ चात्रधर्म पुरस्कृत्य गतः शूरः परां गतिम् । यां वयं प्राप्नुयामो हि ये चान्ये शखजीविनः ।। न्यूढोरस्को महावाहुरनिवर्ती रथप्रणुत् । गतस्तव वरारोहे ! पुत्रः स्वर्ग ज्वर जहि ।। अनुयातश्च पितरं मातृप च वीर्यवान् । सहस्रशो रिपन हत्वा हतः शूरो महारथः ॥ पाश्वासय स्नुषा राशि!माशुचा चत्रिये भृशम्।

( ६ ) श्वःप्रियंसुपहच्छ त्या विशोका भव नन्दिनि! ।। यत् पार्थेन प्रतिज्ञातं ननशा न तदन्यथा । चिकीर्षितं हि ते मनं भजातु तन्मृषा ॥ गुरुभक्ति -1 (RAVING.पाखाम पुरा कश्चित् धौम्यो नाम ऋ पेः आसीत्, तस्य शिष्यानयो पभूवुः-श्राणि:. उपमन्युः, वेदरचेति । स एक शिष्यमारुणि पाश्चात्य प्रेरमाम, "गच्छ वत्स ! केदारखएडं वधान" इति । स उपाध्यायेन मन्दिए: अरुण: पाश्चान्यस्तत्र गत्वा केदारखण्डं बन्धु नाश । म विनश्य पानोऽचिन्तयदुपायं- "मवतु एवं तावत् करिष्यामि" इति प तत्र संविवेश केदार- खण्डे, शयाने तथा नरिमन ता उदकं तस्थौ । ततः कदाचिदुप ध्यायः शिष्यान् अपृच्छत्- क आरुणिः पाश्चाल्यो गन: ?' इति । ते तं प्रत्यूचुः, भगवन् । त्वयैव प्रेषितः, T"छ. केदारखण्ड वधान' इति । स एवमुक्तः तान् प्रत्युवाच, नस्मात् तत्र सर्वे गच्छामः, यत्र स गतः इति। 'सवत्र गत्वा, तला नाय शब्दं चकार, भोः आरये ? पाशान्य ! काऽसि, पा, ३.त । स तद अत्वा पारुशि- ( १७ ) 1 रुपाध्यायवाक्यं, तम्मात् केदारखण्डात् महसा उत्थाय तमु पाध्यायमुपतस्थे, प्रोवाचनम्, अयमस्मि अत्र केदारखण्डे निःसरदुदकमवारणीय मंग मंविष्टः । भगवच्छन्दं श्रुत्वैव सहसा विदार्य केदारखण्ड. भगवन्तमुपस्थितः। तत् अभिवादये भगवन्तम प्राज्ञापयतु भवान,कमर्थ करवाणि' इति । तेन एवमुक्त उपाध्यायः इत्युवाच, यस्मात् त्वं केदार- खएडं विदार्य उत्यिनस्तस्माददानक इति नाम्ना भवि- प्यसि । यस्माच त्या दव पनुःष्ठतं तस्माच्छ्योऽवा पस्यमि इति । सर्वे च वेदाः पन पाम्यन्ति, सर्वाणि च धर्मशास्त्राणि इति । न गध्यायन अनुगृहीतः एवमुक्त प्रारुणियथेष्टं देशं जमा । (दिलीप रानम् ) अथापरः शिस्त या धान्यापमन्यु न । तमु- पाध्यायः पयामास. "7 ! उपन्यो गा रद' इति । स उपाध्यायवचनात् अरक्षन् गाः। स चाहनि गाः । इत्या दिवस नये गुरुगृहमायत्य उपाध्यायस्याग्रतः स्थिया नमश्रा । नम् उपाध्यायः स्थूलशरीरमपश्यत्, वार्चनं, वन्य ! उपमन्यो । केन वृत्ति कल्पयसि ? स्थलोऽमि भृरम्' त । स उपाध्यायं प्रत्यु- वाच, भो भक्ष्येण दृनि कल्पयामि' इति । तमुपाध्यायः रत्युराच, मह्यमनिवेद्य, भैच्यं नोपयोक्त- ( ३८ ) म्यम् इति । स तथा इत्युचा मैन्यं चरित्वा उपाध्यायाय न्यवेदयत् । स च तस्मात् उपाध्यायः सर्वमेव भैच्य- मगृहत् । स पुनः अरचत् गाः। अहनि रक्षित्वा निशामुखे गुरुकुलमागत्य गुरोरग्रतः स्थित्वा नमश्चक्र। तमुपाध्यायस्तथापिस्थूल दृष्ट्वोवाच, वत्स ! उपमन्यो। सर्वमशेषतस्ते भैवयं गृहामि, केनेदानी वृत्ति कल्पयसि ?' इति । स एवमुक्तस्तमुपाध्याय प्रत्युवाच, 'भगवते निवेद्य अपरं भक्ष्यं चरामि, तेन वृत्ति कल्पयामि' इति तमुपाध्यायः प्रत्युवाच, 'नैतत् न्याय्यं कार्यम्, यतः एवम् अन्येषामपि भैच्योपजीविनां वृत्तिरोधं करोपि, एवं वर्तमानो लुब्धोऽसि ?' इति । सः 'तथा' इत्युक्त्वा गा अरक्षत् । रचित्वा च पुनः उपाध्यायगृहमागत्य उपाध्याय- स्याग्रतः स्थित्वा नमश्चक्र। तभपाध्यायस्तथाऽपि स्थूलमेव दृष्ट्वा पुनरुवाच, वत्स! उपमन्यो ! अहं ते सर्व भैत्य गृहामि, न चान्यत् चरसि, स्थूलोऽसि भृशं, केन वृत्ति कल्पयसि ?' इति स एव- मुक्तस्तमुपाध्यायं प्रत्युवाच, भोः एतासां गवां पयसा पृत्ति कल्पयामि इति । तमुवाच उपाध्यायः, नैतत् पय उपयोक्तम, भवतां मया नाभ्यनुज्ञातम्' इति स तथा इति प्रतिवाय गा (६ ) रचित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चके । तमुपाध्यायः स्थूलमेव दृष्ट्वा उवाच, वत्स उपमन्यो! भैक्ष्यं नारनासि, न चान्यत् चरसि, पयो न पिवसि, भृशं स्थूलोऽसि, केनेदानीं धृत्ति कल्पयसि?" इति, स एवमुक्तस्त- मुपाध्याय प्रत्युवाच, 'भोः फेनं पियामि, यम् इमे मातृणां स्तनान् पिबन्तः उद्गीरन्ति । तमुपाध्यायः प्रत्युवाच, "एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गीरन्ति । तदेषामपि वत्सानां पृत्तिरोधं करोषि, एवं वर्तमानः फेनमपि त्वं न पातु- महसि" इति । स तथा इति प्रतिश्रुत्य पुनररचत् गाः । तथा प्रति- पिद्धो भैन्यं नाश्नाति, न चान्यत् चरति, पयो न पिवति, फेनं नोपयुक्त। अथ कदाचिदरण्ये क्षुधार्तोऽर्कपत्राणि अभक्षयत् । स सैरकपत्र चितैः क्षारतिक्तकटुमिश्चक्षुषि उपहतोऽन्धोबभूव । ततः सोऽन्योऽपि इतस्ततः श्रमन् कूपेऽयदत् । अथ तस्मिन् नागच्छति, सूर्ये चास्ताचलालम्बिनि, उपाध्यायः शिष्या- नुवाच "कथं नायाति उपमन्युः ?" | ते उचुः, "वनं गतो गा रक्षितुम्" इति । तानाह उपाध्यायः, मयोपमन्युः प्रति- षिद्धः, स नियत कुपितः, यतो नागच्छति चिरम्, अतोऽन्वे- न्य:---इति।

। (४०) एवमुक्त्वा, गुरुः शिष्यैःसार्द्धम् अरण्ये गत्वा, तस्याहा- नाय शब्दं चकार, भो उपमन्यो ! काऽसि वत्स ! एहि इति । स उपाध्यायवचनं श्रुत्वा प्रत्युवाच-उच्च अहमस्मिन् कृपे पतितोऽस्मि इति । तमुपाध्यायः प्रत्युवाच, कथं त्वमस्मिन् कूपे पतितः ?" स उपाध्यायं प्रत्युवाच-अर्कपत्राणि मक्षयित्वा अन्धीभृतोऽस्मि । अतः कूपे पतितः-इति । तमुषा- ध्यायः प्रत्युवाच--"अश्विनीकुमारौ स्तुहि, तौ देवभिपजौ त्वां चक्षुष्मन्तं करिष्यतः" इति । स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवों अश्विनीकुमारौ । तेन अभिष्टुतौ देववैद्यौ अाजग्मतुः, आहतु- चैनम्, 'प्रीतौ आवाम्' एष तेऽपूपः अश्नुहि एनस्” इति ।। स एवमुक्तः प्रत्युवाच, "देवो, नान्मेनमपूपमुपयोक्तु. मुत्सहे गुरवेऽनिवेद्य"--इति । ततस्तमश्विनीकुमारौ ऊचतुः, "आवाभ्यां पूर्व तव उपाध्यायेनैव अभिष्टुताभ्याम् अपूपो- दचः उपभुक्तः स तेन अनिवेद्य गुरवे; त्वमपि तथैव कुरुष्व, यथाकृतमुपाध्यायेन" इति । स एवमुक्तोऽश्विनीकुमाराभ्यां लब्धचक्षुः उपाध्याय- सकाशमागत्य उपाध्यायमभ्यवादयत्, पाचचक्षे च सर्व वृत्तान्तम् । स चास्य प्रीतिमान् वभूव, आह चैनं, "यथा देवी देवभिपजी पाहतुः तथा त्वं श्रेयोऽवाप्स्यसि" इति। ।

( ४१ ) सर्वे च ते वेदाः प्रतिभास्यन्ति, सर्वाणि अधर्मशाखागि इति । एषा तस्यापि परीक्षा उपमन्योः। तृतीयशिष्योपाख्यानम्) अथापरः शिष्यः तस्यैव धौम्यस्य वेदो नाम आसीत् । तमुपाध्यायः समादिदेश, 'वत्स वेद ! इहास्यतां तावन्मम गृहे कञ्चित् कालम्. शुश्रषुणा भवितव्यम्, मत्सेवा च कर्तव्या, श्रेयस्ते भविष्यति" इति । स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्,- नित्यं गुरुणा कार्यभारेषु नियोज्यमानः शीतोष्णक्षुत्तृष्णा- दुःखसहः सर्वत्राऽप्रतिकूलः। तस्य महता कालेन गुरुः परितोष जगाम । वत्परितो. पाच श्रेयः सर्वज्ञताञ्च स अवाप । एषा परीक्षा वेदस्य । शुकस्य मनोदशा "अतिकष्टास्वघ्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीवितादमिमततर- मिह जगति सर्वजन्तूनाम् । उपरतेऽपि ताते यदहमविक- लेन्द्रियः पुनरेव प्राणिमि | धिङ मामकरुणाकृतज्ञम् । अहो खलं खलु मे हृदयम्। मया हि लोकान्तरगतायामम्बायो नियम्य शोकावेगमाप्रसवदिवसात्परिणतवयसापि सता- मा. वर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता ( ४२ ) यत्तातेन परिपालितस्तत्सर्वमेकपदे विस्मृतम । अतिकुपण : हल्वमी प्राणाः । यदुपकारिणमपि तातं क्यापि गच्छन्त- मद्यापि नानुगच्छन्ति । सर्वथा न कश्चित् न खलीकरोति जीवितवृप्या । यदीगवस्थामपि मामायासयति जला- भिलाषः । अद्यापि दूर एव सरस्तीरम् । तथाहि—जल- देवतानपुररवानुकारि रेऽद्यापि कलहंसविरुतमेतत्, अस्फु- टानि भूयन्ते सारसरसितानि । विप्रकर्षात् सञ्चरति नलिनी- खण्डपरिमलः । दिवसस्येयं कष्टो दशा वर्तते । तथाहि- रविरम्बरवलमध्यवर्ती स्फुरन्तमातपमनवरतं करैर्विकिरति । अधिकांस उपजनयति तृषाम् । संतप्तपांसुपटला भूः । अति- प्रवलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुरपि । अपि नाम खलो विधिरनिच्छतोऽपि मे मरण- सुपपादयेत् । तपस्याप्रभाव धिग्धलं क्षत्रियवलं ब्रह्मतेजो चलं बलम् ब्राह्मण तेजसा पूर्व क्षात्रतेजः पराजितम् । पुरा किल महावत्रियो विश्वामित्रः सपुत्रदारः कदा- चित्पृथ्वीपर्यटनाय ससैन्यः प्रतस्थे । वहुन्देशान्परिक्रम्य पावनानि च चत्राणि बहूनि संसेव्य, क्रमेण ब्रह्मसिष्ठस्या- श्रममन्याजगाम भम्पागतं तं महाराजवसिष्ठोऽनामयं पृष्ट या (४३ ) फलमूलादिमिरुपहारैर्यथाईमुपचचार । अथ सपरिजनस्य तस्यातिथ्यं चिकीर्षुः कामदुधां शवला नन्दिनीमातिथ्यसं- भारसंभरणाय समादिदेश । सापिकामदोग्ध्री तत्क्षणमेव पड़- सोपेतंमोदकलड्डु कवटकपर्पटापूपातिरसादिभिर्विविधैरुपस्कार सहितं विस्पयनीय मानुषदुर्लभं चतुर्विधमन्न जनयामास । तदुपयुज्य लपरिवारो महाराजस्तृप्त विस्मयस्य परां काष्ठामारूढचिन्तयामास-सुनिरयं वनस्थः केवलं कन्दमूलफलाशनः । न च जानपदानि वस्तून्यस्य सुलभानि। तत्कथमसावेतादृशमसार्वमौमसुलभमातिथ्यमस्माकं कृतवान् । नूनमिदं स्वर्धेनोः प्रभावविलसितं स्यात्-इति । एवं विचिन्त्य सुरभि स्वीचिकीर्षु महर्षिमाह-"महर्षे, श्लाध्यत. मेनानेन अवदातिथ्येन सपरिवारोऽहमतितरां तृप्तिमागतः। परन्तु येयं स्वर्धेनुर्नन्दिनी धेनुरत्नं हि सा । रत्नहारी च पार्थिव इति सर्वजनविदितम्, तदिमांनन्दिनीं मह्यदातुमर्हसि" इति । तच्छ्रुत्वा स मुनिरग्निहोत्रादिनिखिलक्रियाकला- पनिर्वर्तनसाधनभूतां कामदुघां तां कामधेनुं तस्मै दातुं नानु मेने। अथ स राजा स्वधेनुविनिमयेन तां दातुंमुनि बहुधा निबन्धातदपिमुनि म्युपागमत् । प्रथायमभिमान्यवनिपालः स्वनिदेशलक्ष घनमसहमानः क्रोधमाविशन्सुरभि बलादाचकर्ष आकृष्टा च सोच्चैस्तरामाकोशन्ती, मुनिना प्रेरिता म्लेच्छा- दीनि विविधानि बलानि तत्वणमेव जनयामास । अथोभयोः ( ४४ ) सैन्ययोविबुधविस्मयावहं विभीषणं युद्ध प्रावर्तत। तत्र क्रमेण राजसैन्यं सुरभिसैन्येन निःशेष नाशितमभूत् । अथ शतं विश्वामित्रस्य पुत्राः सुसंक्रुद्धा आयुधपाणयो महात्मानं वसिष्ठमस्यधावन् । स च भगवान्हुँकारेणैव तान्सर्वान्भस्म- सादकरोत् । एवं ब्रमिष्ठेन वसिष्ठेन हतपुत्रो हनसैन्यश्च क्षत्रियप्रवरो भग्नदंष्ट्रो नाग इव सद्यो निष्प्रमतां गतः । अथ इतशेषमेकं पुत्रं राज्यभरणाय नगरं संप्रेष्य परं निर्वेदमा- पन्नो हिमवत्पार्श्व गत्वा महादेवप्रसादमभिकांचधोरं तप- श्वचार । गच्छता कालेन महादेवः प्रसन्नस्तस्मै साङ्गोपाङ्ग सरहस्यं धनुर्वेदं ब्राह्मादीनि च सर्वाणि दिव्यास्त्राणि प्रददौ । तानि लब्ध्वा परं दृप्तः स राजा ब्रह्मर्षि वसिष्ठं तमेव मन्धानः पुनस्तदाश्रनमागत्य दिव्यास्त्राणि मुमोच । तैश्च काला नलोपमैस्तत्तपोवनं कृत्स्नं निर्दग्धप्रभृत् । तपोवनवासिनो मुनयो मृगाः पक्षिणश्च भीता नानादिग्भ्यः पलायांबभूवुः । अथ शून्यमाश्रमं विलोक्य महाकोपसमाविटो चमिष्टो विधूममिक कालाग्नि यमदण्ड भिवापरं ब्रह्मदण्डयुधम्य कौशिकमुक्तानि माहेश्वराणि ब्रह्मास्त्रादीनि सर्वाणि दिव्या- स्त्राणि जग्राय। एवं ब्राहाण तेजपा ग्रसितसकलदिव्यास्त्रः कौशिको भग्नदंष्ट्रो नाग इव केवलं निःश्वसन्निवीयश्चिन्ता- फुलो भूत्वा ब्रह्मतेजः प्रशंसन्क्षत्रतेजश्च निन्दन्ब्रह्मत्वसंपाद- नाय तपस्तप्तुं सह महिष्या दक्षिण दिशं ययो।

(४५) भीमस्य दयालुता (ततः प्रविशति सुतत्रयशलत्रपरिवृतो ब्राह्मणः, पृष्ठतो घटोत्कटश्च ) ब्राह्मणः-भोः नु स्वल्वेयः ? ब्राह्मणी-आर्य ! क एपोऽस्मान् सन्तापयति ? घटोत्कचः -मो ब्राह्मण ? तिष्ठ विछ । न गन्तव्यम् 'न गन्तव्यम् । जाहणः-भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ? घटोत्कचः-मोतोऽस्ति. समयतः । नाह्मण:--का समयः ? घटोत्कचः-अस्ति मे तत्रभवतीं बननी । तयाऽहमाज्ञप्तः, पुत्र ! ममोपवास-निसर्थ अस्मिन् दनप्रदेशे कश्चिन् मानुपः प्रतिगृह्य नेतव्य इति । ततो मयाss- सादितो भवान् । पुत्र के विजय । ब्राह्मणः-ई भो राक्षसापसद ! किमहमब्राह्मणः ? घटोत्कचः-- यार्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि । सकुटुम्भः क्षणेनैव, विनाशमुपयास्यसि ॥ - (४६ ) ब्राह्मण-एष एव मे निश्चयः । कृतकृत्यं शरीरं मे, परिणायनजर्जरम् । राक्षसाग्नौ सुतापेक्षी, होष्यामि विधिसंस्कृतम् ॥ ब्राह्मणी--आर्य ! मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेण, आर्य कुलं च रक्षितु- मिच्छामि। घटोत्कचः--भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्य ब्राह्मणाः अनुगमिष्यामि भवन्तम् । घटोत्कचः--श्राः वृद्धस्त्वम्, अपसर । प्रथमः पुत्रः--भोस्तात ! ब्रवीमि खलु तावत् किञ्चित् । ब्राह्मणः--ब्राहि व्रहि शीघ्रम् । प्रथमः पुत्र:- मम प्राणैर्गुरुप्राणान् , इच्छामि परिरचितुम् । रक्षणार्थ कुलस्याऽस्प, मोक्तुमर्हति मां भवान् द्वितीयः पुत्रा- ज्येष्ठः श्रेष्ठः कुले लोके, पिलखां च सुसंप्रियः। ततोऽहमेव यास्यामि, गुरुवृत्तिमनुस्मरन् ।। तृतीयः पुत्रः--आयौं ! मा मैवम् । ज्येष्ठो भ्राता पित्समः, कथितो ब्रह्मवादिमिः । ततोऽहं कर्तुमसम्यों, गुरूणां प्राणरचसम् ॥

(४४) . प्रथमः-वत्स ! मा मैवम् । आपदं हि पिता प्राप्तो, ज्येष्ठपुत्र ण तार्यते । ततोऽहमेव यास्यामि, गुरूणां प्राणरक्षणात् ।। ब्राह्मणः-ज्येष्ठमिष्टतमम् न शक्नोमि परित्यक्तुम् । ब्राह्मणी-यथाऽऽर्योज्येष्ठमिच्छतितथाऽहमपि कनिष्ठमिच्छामि। द्वितीयः-पित्रोरनिष्टः कस्येदानीं प्रियः ? घटोत्कचः अहं प्रीतोऽस्मि । शीघमागच्छ । द्वितीयः- धन्योऽस्मि यद् गुरुप्राणाः, स्वैः प्राणैः परिरदितः । बन्धुस्नेहाद्धि महतः, कालस्नेहस्तु दुर्लभः ।। घटोत्कचः अहो ! स्वजनवात्सल्यमस्य वामपवटोः। द्वितीय:-भोस्तात ! अभिवादये । बामणः-एह्योहि पुत्र ! ब्रह्मलोकमवाप्नुहि । द्वितीयः-अनुगृहीतोऽस्मि । अम्ब ! अभिवादये। नामणः-जाव! चिरं जीव । द्वितीयः-अनुगृहीतोऽस्मि । भार्य । अभिवादये । प्रथमः--एह्योहि वत्स ! परिप्वजस्व गार्ड माम् । द्वितीयः-अनुगृहीतोऽस्मि । तृतीयः आर्य ! अभिवादये। द्वितीयः-स्वस्ति। तृतीय:-अनुगृहोतोऽस्मि ।

(४८) 'द्वितीयः-मोः पुरुष ! किचित् ब्रवीमि । घटोत्कचा अहि महि शीघ्रम् । द्वितीय:..एतस्मिन वनान्तरे जलाशय इव दृश्यते, तत्र मे प्रकन्धितपरलोकस्य पिपासाप्रतीकारं करिष्यामि। घटोत्कचः-दृढव्यवसायिन् ! गम्यताम्। अतिक्रामति मातुगहारकालः । शीघ्र गच्छ। द्वितीय:-मोस्ताव ! एष गच्छामि । ( निष्क्रान्तः) ब्राह्मणः-हा हा परिमुषिताः स्मः । हा पुत्रक ! कथं गत घटोत्कचः-चिरायते खलु ब्रामणवटुः। भो बासस । आइयतां तव पुत्रः। ब्राह्मणाः-आ! अतिराक्षसं खलु ते वचनम् । घटोत्कचः-मर्पयतु भवान् । किनामा तव पुत्रः ? ब्राह्मणः-एतदपि न शक्यं श्रीतुम् । घटोत्कचः-युक्त भोः । ब्राह्मणकुमार ? किन्नामा ते भ्राता? प्रथमः..तपस्वी मध्यमः। घटोत्कचः --अहमेवाहायामि। भो मध्यम ! मध्यम ! शीघ्रमागच्छ। (ततः प्रविशति भीमसेनः) भीमः-मोप्राप्तोस्मि ।

ve ) घटोत्कचा कि मवानपि मध्यमः ? भीमा--न चावदपरः । मध्यमः-( उपगम्प ) मोपुरुष ! प्रामोऽस्मि । घटोत्कचः-प्रामवानिदानी खन्वसि मध्यमः । मध्यम इत इतः । ब्राह्मयः-(भीमसेनमुपगम्य ) मो मध्यम ! परित्रायव जाहरणकुलम् । मीम:--न मेतव्यम् । न भेतव्यम् । मध्यमोऽहमभिवादये ब्राह्मणः--वायुरिव दीर्घायुभव । भीमः अनुगृहीतोऽस्मि । कुतो भयमार्यस्य ? नादाणी-श्रूयताम् । अहं खलु केशवदासो नाम ब्राह्मणा उत्तरस्यां दिशि मम मातुलो यज्ञबन्धुन मास्ति तस्य पुत्रोपनयनार्थ सकलत्रोऽस्मि अस्थितः । मीमा अरिष्टोऽस्तु पन्थाः। ततस्ततः । ब्राह्मणः ततः ससुतपरिजन सामेष राक्षसो हन्तुकामो. ऽभ्युपैति । भीमा-एवम् अनेन, ब्राह्मणजनस्य मार्गविघ्नः कृतः। मवतु । निग्रहिष्यामि तावदेनम् । मोः पुरुष । तिष्ठ तिष्ठ। घटोत्कचा एप स्थितोऽस्मि ! मीमा-किमर्थ ब्राह्माजनमपरायसिमुच्यता द्विजसत्तमः - - ( ५० ) घटोत्कचः-न मुच्यते । मुच्यतामिति विस्रब्धं, ब्रवीति यदि मे पिता । न मुच्यते तथा ह्यप, गृहीतो मातुराज्ञया ।। मीम:-[ आत्मगतम् ] कथं मातुराज्ञेति १ हो । गुरुशुश्रुषुः खल्वयं तपस्वी । साधूक्तम् । माता सिद्ध मनुष्याणां दैवतानां च दैनतम् । [ प्रकाशम् ] भो: पुरुष ! प्रष्टव्यं खलु तावदस्ति । घटोत्कचः-व्र हि ब्रहि शीघ्रम् । भीमा-का नाम भवतो माता ? घटोत्कचः-श्रूयतां, हिडिम्बा नाम राक्षसी । भीमः-( आत्मगतम् ) एवं हिडिम्बायाः पुत्रोऽयम् । प्रकाशम् ) भोः पुरुष! भोः पुरुष । मुच्यताम् । घटोत्कचान मुच्यते। भोमः-भो ! ब्राह्मण गृह्यतां तव पुत्रः । ययमेनमनु. गमिष्यामः। द्वितीयः-मा मा भवानेवम् । त्यक्ताः प्रागेव मे प्राणाः, गुरुप्राणेषपेक्षया । युवा रूपगुणोपेनो, भवांस्तिष्ठतु भूतले ॥६॥ भीमः -आर्य ! मा मैवम् । क्षत्रियकुलोत्पन्नोऽम् । पूज्यतमाः खलु ब्रामणाः । तस्माच्छरीरण प्रामणशरीर विनि- मातुमिच्छामि ।

( ५१ ) घटोत्कचा अथ केनायं वारितः ? भीमा-मया । घटोत्कचः -कि त्वया ? मोमः अथ झिम् ! घटोत्कचः-तेन हि भवानेवागच्छतु । (उभौ परिकामतः) इह विष्ठ । त्वदागमनमम्बा निवेदयामि। मीमा बाढम् । गच्छ। घटोत्कचः--( उपसृत्य) अच! अयामिशदये । चिरा- मिलपितो भवत्या आहारार्थमानीतो सानुषः । (प्रविश्य ) हिडिम्बा-जात चिरं जीव ! कीडशो मानुषः पानीत ? पश्यामि ताददेनम् । किमेष मानुष आनीतः ? घटोत्कचा अम्ब ! कोऽयम् ? हिडिम्बा-उन्मत्तक ! दैवत खन्वस्माकम् । घटोत्कचः का प्रत्ययः ? हिडिम्बा: अयं प्रत्ययः । जयत्वार्यपुत्रः । भीमः--(विलोक्य ) का पुनरियम् ? अये देवी हिडिम्बा ! हिडिम्बा: उन्मत्तक ! अभिवादयस्व पितरम् । घटोत्कचः-पात ! यसभिवादये।

( ५२ ) भीमा--पत्र ! अतिम्-लपराक्रमो भव । घटोत्कचा--अनुगृहीतोऽस्मि । ब्राह्मण एवं भीमसेनपत्रोऽयं घटोत्कचः । भीम:--पुत्र ! अभिवादयस्व भगवन्तं केशवदासम् । घटोत्कचः-भगवन्तमभिवादये । ब्राझणः-पितृसदृशगुणकीर्तिर्भव । घटोत्कचः-अनुगृहीतोऽस्मि । ब्राझणा-भो वृकोदर ! रक्षितमस्मत्कुलम् । गच्छामस्तावत् । भीमः-अदूरतोऽस्माकमाश्रमः । तत्र विश्रम्य गम्यताम् । ब्राह्मणः-कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद् गच्छामरतावत् । भीमा-गच्छतु भवान् सकुटुम्बः पुनदर्शनाय । ब्राक्षणा मादम् । प्रथमः कल्पः । भीमा-हिडिम्वे ! इतस्तावत् । वत्स घटोत्कच ! इतस्तावत् । स्त्रभवन्तं केशवदासम् अाश्रमपदद्वारमात्रमपि संभावयिष्यामः । (निष्क्रान्ताः सर्वे) ( ५३ ) वेषस्य पूजा वस्त्रेणैव पुमाँल्लोके पूजनीयतमो भवेत् । सुन्मवस्त्रधरो विद्वान्धनिकेनाम्यपूज्यत । दरिद्रः कोऽपि विद्वान्कस्यचिद्धनिकस्य गृहं भोजनायाऽ- गच्छत् । जीर्णवस्त्रधारिणं तमवलोक्य धनिको वाचापि नोपाचरत् । अथ स विद्वान्स्ववस्त्रमेव तत्र कारणं मन्यमाना परद्यः सूक्ष्म निर्मलं च वस्त्र परिधाय तस्यैव गृहं गतः धनिकस्तु प्रत्युत्याय करेण तस्य करं गृहीत्वा धन्यवादेन तं सम्मानितवान् । पाद्यमाचमनीयं च दया भोजनाय महानसमुपानयत् । विद्वांस्तु भोजनादी स्वोत्तरीय भूमौ प्रसार्य विनाकवला- स्तत्र न्यक्षिपत् । तदवलोक्य धनिकः निगेवं कियते । इति पण्डितमपृच्छत् । स तु बुद्धिमान् 'धनिक' पूर्वेधुजीर्ण- मालवस्त्रधारी समागतोऽहम् । तदा वाङ मात्रेणापि भवता न संमानित: । अद्य त्वस्य वासमः प्रभावेण बहूनां भव- दीयसत्काराणई पात्रमभयम् । अतः कृतज्ञोऽहं वस्त्रमादौ मोजयामि । पश्चादहं भोक्ष्ये' इति । सञ्छू कर निका किचिदिव रूजितोऽभवत् । साधु चेदमुच्यते-- वस्त्रेण यपुषा वाचा विधया विनयेन च। बदारीः पचमिहीनो नरो नायाति गोरचय।।

(१४) महादेवयशस्विसिंहसंबोदः राजपुनराजो यशस्तितिहः पुरुपनगरशिविरामपट- भवनेष्वन्यतमस्मिन् चिन्तानिमग्न श्रासीत् । तदा प्रतीहार: प्रविश्य सजयध्वनि करौ सम्पुटीकृत्य प्रावोचत्-'देव, शिववीरप्रेपितो यहादेवपण्डितो दिक्षतेऽत्रभवतः" । नदुर- रकृत्य च "पों प्रवेशय', इत्युक्तवति महाराजे प्रतीहाराऽपि तथाऽकरोत् । ततः प्रतीहारेण सह प्रविष्टमात्रे महापशिडते यशस्विसिंह प्रणम्य आसनस्थानमुपवेशार्थ दक्षकरेण निर्दिष्टवान् । कुशलादिप्रश्नानन्तरं तयोरेवमभूदालापः । यशस्विसिंहा-पण्डितवर ! महाराष्ट्रराजस्य पत्रं तु प्राप्तवानेवास्मि, सदाधिक भवतः कि प्रस्तोतव्यमिति निरूप्यताम् । महादेवः-सहाराज ! नाहं तत्रभवता किमपि प्रस्तोतुं प्रेषितोऽस्मि, अपि तु शोक प्रकाशयितुम् । यश०-तत् कि पुण्यनगरेण सह प्रधानश्चिक ग- दुर्गोऽपि हारित इति शोकः । महा०--तस्य हस्ते बहवो दुर्गाः सन्ति इति दुर्गाथ न खिद्यते। यश-अथ कि दिल्लीश्वरेण सह युद्धरूपा महती- विपदुपतिष्ठत इति शोकः महा.--इत्रियराज । विपत्समये धीरतात्याग: शिवेन नाम्परतः। यश०. नन्द क्रिमिति शोकः, कथ्यतां कभ्यताम् ।

। ५५ ) महा०--भगवन् ! यः क्षत्रियधूर्धरः येन राय- न्वतीयं भूः, योऽस्मादृशानाममिमानमाजनम्, यः सनातन- धर्मरक्षाया एकमात्र शरणम्, यच भारतीयवीर बुल- मुकुटमणिस्तमेवाद्य धर्मसिनामेतेषां यवनानां दानपद- लान्छनमालोक्य शोकाकुलो महाराष्ट्राजः । ततो यशस्विसिंहस्तु स्फुटमेव मां घिसगेतीति किश्चित् छुपितः, सतां तिरस्करणीयमेव भारतविद्रोहियवनवशवचिंताकार्य करोमीति ग्लानिः । तदा पुनरारभा तथैव वक्तुं महादेव:-- महाराज ! स्वातन्त्र्यपातकर्णधारस्य क्षत्रियकुलकमन्न- दिनेरास्य उदयपुराधीशश्रीप्रतापसिंहस्य कुलमस्त खीरत्नं यस्याङ्गिम् , सिंहसंहननैः परःशतवीरवरैः सजया. जयध्वनि त्रियमाणं मरुदेशराजसिंहामनं पदा समाक्रम्य यो विराजते । एष दिन्लो कलङ्कोऽवरमजीवोऽपि क्षिप्रालीरे यद्वा हुविक्रममवलोक्य क्षणमनिमेषो विस्मृतात्मदहो विस्मितस्तस्थौ, सदैव यतो विभेनि, साहाय्यं च समपेक्षते, अस्मिन विश्वस्मिन्नपि भारते वर्षे नगरे नगरे ग्रामे ग्राम गृहे गृहे मन्दिरे मन्दिरे च यस्य हेमाय विजयाय बाल त्रुघ्यै राजसमृदुवै च द्विजवरा हस्तावुनमय्य सनामसं: कीर्तनमाशीराशीनुच्चारयन्ति, स एव महावीरः, स एव भारतरत्नम्, म एव राजकुलभूषणं यवनानां पक्षमवलम्ब्य स्वनीयानामेव शिरांस्युच्छे सज्जितदानस्तीत्यवलो ज्य चुब्धं महाराष्ट्रराजस्य हृदयम् ।

( ६ ) यशस्विसिंहः किश्लिज्जया तियवदनं विमनायखान- मिवावलोक्य पुनः “दीरवर । साधारणोऽहं दतो, महाराजैः सह कथमालपनीयमिति भाषणपरिपाटीमार न जानानि, कश्चिदयराघो सच्चेवन्तव्यम् किन्तुनिरीक्ष्यताम् , किमर्थेयं एणसज्जा १ किमिति भयानकभल्ला भासन्ते ? कमाक्रमितु- मते सादिना ? कन्च भस्मसार कर्तु एष गवरकोपदावा- दलः ? कि ये भवन्तामाशिषो बदन्ति ये सपन्याहात्मश- माकर्णेन सोदन्ते, तेपासेक रुधिरेख मेदिन्न क्षालयित ? रे मवन्त निजकुलावतंसं मन्यन्ते तेषामेव वंशं सयितुम् ? ये निरर्थ दीनान लुण्ठन्ति, फुलीनकन्या अपहरन्ति, नन्दि- एणि निपातयन्ति, तालेव रैदिकमादाविलोपनद्रवितो रिहतकान् वा वर्धयितुम् ? श्रीमति यन्निरर्थ साता पपि प्रजा विजित्य केवलमविचारयभिचारात्याचार- प्रचाराय धूर्तानामेपो यदनानो हस्ते समय॑न्ते हो? शोभते १ क्षत्रियव्यान ! किमहं राधयासि स्ट्यान्ड विवेच्योऽयं विषयः । अथ झांभिक्षणान शिरः झण्डयनदेव यापरित्या किञ्चिद्धीणोऽपि लज्जासंबरपन्निव शनैरवादी सरुराजः । "दूतबर ! साधु ! तद भाषणशैलीमत्यन्त प्रसिदि। न खलु अस्मामी राजपुत्रदेशीयचत्रिययेदा लोगन । यवनहस्तेषु भारमा अपर्षियः । अस्मामिरेव पारसहन यवनाः खङ्गः खण्डशा कृताः, अस्माभिरेव दारं वारं ते आसिन्धुक्कल विद्रादिताः । - जानीमहे किमिवेहित भगवत्या महामायया यद्वयं अनिच्छन्नोऽपि आत्मनस्तद्ध- स्तगवानेव पश्यामः । अधुना सु विसस्मिन्नपि राजपुत्रदेशे वेषां तथाधिकारोऽस्ति यत् केवलमात्मोच्छेदायैव सैः मह विरोध: स्यात् । इति किमिव क्रियेत। भाग्यरेतेपा कदर्याणां परस्परमैक्यमपि नास्ति सार्क तद्यथोचित निहामः। महा.-महाराज ! मा स्म अद्राजपुत्रदेशे वादृशं यामाकीणं बलं परमलिंगन् देशे तु यवनानामधुनाऽपि हदा प्रबलोऽधिकारो न संवृत्तोऽस्ति । युष्मदा सोऽपि- बद्धकरसम्पुटः, राज्यमेतदखिलं भावत्व शिव- धीरोऽपि भवता स्वसेनापतिध्वेदान्धनमोऽङ्गीक्रियताम, दिल्लीश्वरेण च सह युद्धमारभ्यतास् ! था प्राप्तसिंहासनोऽपि विस्यादव श्रीमन्तामतस्ततो सहायुद्ध पु सम्प्रेष्य श्रीमदनिष्ट शुश्रूषते, स सर्वया दण्डेनैन शिक्षणीय भा। ऐक्य नास्ति इति मा स्म भूच्छोका, श्रीमतामुघोगेनैक्य- पारस्यताम् । शिवो भारतीयानां पारतयं नावलुलोक- यिपति । राज्यलोभस्तु तस्य नास्ति इति, विजये राज्य- मिदमपि अत्रभवतामेव भवेत, किन्तु पथा मारतद्रुहां पवनानां प्राबल्येन प्रत्यहं धर्मलरेपो न स्यात् तथैव शिवस्याभिप्रायः।

यश-राज्यं तु अस्माकमपि बहस्ति । श्यमपि लोभाभिभूता न स्मा। शिवस्योद्दश्यं चाखिलं प्रशस्य- मस्ति । किन्तु शिवस्य व्यापारेवेफमेवास्मभ्यं न रोचते, यदे चौराणां जुए उकानां च वृनमनुपरति ! महा.-महाराज ! मैवस् ! कि कुत्रापि छुनश्चिदपि समश्रौपीच्छ्रीमान् यद् निरपराधान् पथिकान लुण्ठति महाराष्ट्रराजः, श्राहोस्विद् कस्यापि मित्तिं मिया धनमप- जहार श्रीमान् । किन्तु लुएठकानामेपामत्याचारान पह- पानः लुएठकाः यथा न लुण्डेयुस्तथैतान दाउयति । धर्मो हि सर्वथा रक्षणीयः । सतीत्वध्वंमनमन्दि- रावणातादिरूपो घोरतरो दुराचारः सर्वथा प्रतिरोद्धव्यः इति । कचन परवशतया नीतिविशेषस्यापि आश्रयोऽपेचपत इति किमियं लुण्ठकता ? दिल्लोकलङ्कस्तु प्राधान्ये न श्रीमन्तमेव द्वोष्टि । श्रीमताऽपि शठे शाठयमिति मुद्रया कूटनीतिरङ्गीक्रियेत चेत् किमियं लुण्ठस्ता स्यात् । यश-( दीर्घमुष्णं न निश्वस्य ) अथ मां किम- मिदधाति शिवराजः । महा०- महाराज ! म श्रीमतः साहाय्यमभयं च वाञ्छति । यश-दुतकर ! दिल्लीश्वरेण सह कृतप्रतिज्ञः कथ- (6) मन्यथा विद्यास्यामि । (चिरं चिन्तयित्वा) दिन्लीश्वर "महाराष्ट्र: सह योत्स्ये" इति कथयित्वा समायातो ऽस्मि । तद् योत्स्ये। महा.-"सत्यं योत्स्यते, स्ववंशजातानामेव क्षत्रि- यबालकानां वक्षश्छुरिकाभिर्विदारयिष्यते, ब्रासरुधिर- प्रवाहैवसुमती लपयिष्यते, यवनहस्तेषु अधिकार समर्प- यिष्यते । भगवन ! ये हि रोद रोद पादयोबिलुठतामपि त्रायध्वं त्रायध्वमिति सहाहाकारचीत्कारै रोदसोरोदय- तामपि दारा अपहरन्ति, चालान वृद्धाश्च सकष्ट नन्ति, तेषामेपां दुर्विनीतानामाततायिनां बलेनापि छलेनापि च दण्डनं परम पुण्यमेवः न पापम् । धर्ममर्मज्ञ ! प्रार्थना- मात्रमेवास्माक्षाणां कार्यम्, स्वीकारे तिरस्कारे च प्रभव श्व प्रमाणम् । यश-पण्डित । मवाशा वा मवादृशानां मन्त्रणा वा तिरस्करणीयश न भवन्ति । शिवस्य सर्वोऽपि उद्देशो मह्यं रोचते, परं भवानेव विचारयतु भतिज्ञाविरुद्धा- चरणं महतां कार्यवा? महा०-सहाराज ! यं भवान् दिल्लीश्वर इति व्रते तस्यैव राक्षसोचितानि कर्माणि दृश्यताम् । आत्मनो जननपोपचहेतुभूतस्प इदम्प पितुः सावहेलं निगृह्य कारागारे स्थापन महता कार्य वा १ सोदर्यायां सच्छल ६० सक्रौर्य मारणमीश मिहत्याभिरपि सोदण्डमा लजाना- बहनं च महतां मार्य या । केवलमार्यस्वभावानामार्यज- नानामेक ग्लेशनार्थ गोहिंसनं प्रतिमासण्डनं हीनदीन सनातनवैदिकधर्मशरणानामेवात्माकं करग्रहणं महता कार्य वा, अन्तास्य किञ्चित्पुरातनं वैरं संस्मृत्य सरतरयुद्धोऽवत्रभवत एव प्रषणम्भवदनिष्टचिन्तनेच महता कार्यमा ! यशस्थि- शिवयोर्यतर एव महावीरी महाराष्ट्रयुद्धऽस्मिन् शयिष्यते ततर एव गिरिशुरुमहाभार व भारतमहावीर प्रशमसेष्यति हति विचाथैव श्रीमतोऽत्रपणं महत कार्य का ? यश० (किञ्चिद्विचिन्त्य ) दूतबर ! तब दाग्निवा मांबलेन पायमं विधत्त । किन्तु शिवस्य वचकना कर्ण- परदरयाऽस्मद शेऽपि प्रतिगृहं प्रस्ताऽस्ति, तत्कथमहमेठस्य परतायेपु विश्वसिमि । महा~(सकोधमिय) "महाराज, महाराज, रालु खा प्रज्वैवम् !! 'मास सनातन पर्फे शरण महाराष्ट्रराजमेदं मिथ्याकलङ्गपङ्कनासय । सो माह्मणः क्षत्रियो वैश्यः शुद्री या रोन इञ्चितः ? ब्लेच्छेनेव वा सजनः कोऽवमानितः । महह ! देव न शोभते युपाशाखा मुखादेवं फलकनम् " इत्युक्तयत एव महादेवपरिडतस्य चक्षपी दाप्पविन्दुद्वयम- गिरताम्, महादेवध पटान्तेन प्रामा। एश:-सदाकस्मादेव मराजस्यापि प्रेमपारावारपूसालव- मिव हृदयं मुदितमिव च मनो बभूव । "पण्डित ! क्षमता- मधावधि मित्रं मे महाराष्ट्र राजा । साम्प्रतमहं तमालिलिङ्ग- पामि। तत् सपदि दशय तं नशियकुलावतंसम्" इति भाषि- तवान् महराजः। महा०---अचिरादेव शिवः समुपस्थास्यते श्रीचरण- योरन्तिके। अथ महादेवस्तु नम्रीभूय को नानीते किमिव तस्य कर्णे अचकथत् । यशस्विमिहश्च तदाकये सचकित सप्रा. लनयनं महादेवं निपुणं निरीक्ष्य ससम्भ्रसमुत्थाय तथैवो- स्थित महादेवं बाहू प्रसार्य सानन्द परिषस्वजे। तदनन्तर महादेवेन सहोपविश्य चुकत यावत् सगोपनं शनैः शनै संललाफ । महादेवस्तदा प्रतिनिवृत्सुरिव उदतिष्ठन् । यश० -(द्वारसमीपं गत्वा ) द्रष्टव्यम्, युद्धविषये यथालापो जातस्तथैव निवेदनीयः शिववीरः । महादेवपण्डितो वाढमित्युक्त वा प्रचलितः । আঘাষি १. सुखस्य मूलं धर्मः । २. धर्मस्य मूलं अर्थः । ३. अर्थस्य मूलं राज्यम् । ४. राज्यमूलमिन्द्रियज्यः । ५. न कामासक्तस्य कार्यानुष्ठानम् । ६, अभिदाहादपि विशिष्ट वापाडव्यम् । ७. पूर्व निश्चित्य पश्चात कार्यमारमेत ( ६२ ) ८. कार्यान्तरे दीर्घसूत्रता न कर्तव्या। ६. न चलचित्तस्य कार्यावाशिः। १०. कदाचिदपि चारित्रं न लङ्घयेत् । ११. गुणवदाश्रयानिर्गुणोऽपि गुणवान् भवति । १२. कदापि पुरुष नावमत्येत । १३. न दुजनैः सह संसर्गः कर्तव्यः । १४. मितभोजनं स्वास्थ्यम् । १५. तृष्णया मतिश्चाद्यते। १६. मुर्खेषु विवादो न कर्तव्यः । १७. धर्मेण धार्यते लोकः । १८, दया धर्मस्य जन्मभूमिः १६. व्यसनं मनागपि बाधते । २०. परद्रव्य न हर्तव्यम् । २१. नास्त्यहंकारसमः शत्रुः । २२. म्लेच्छानामपि सुवृ ग्राह्यम् । २३. अत्युपचारः शङ्कितव्यः । २४. आत्मच्छिन्द्र न पश्यति, परच्छिद्रमेव पश्यति वालिशः । २५. श्वो मयू- रादय कपोतो वरः । २६. सर्व जयत्यक्रोधः । २७. तिल- मात्रमप्युपकारं शैलमात्र मन्यते साधुः । २८ परदारान् न गच्छेत् । २६. नास्ति सत्यात् परं तपः। ३०. अतिसूरो दानशूरः । ३१. यथा बीजं तथा निष्पत्तिः । ३२. आत्मा न स्तोतव्यः । ३३, न दिवा स्वप्नं कुर्यात् । ३४, अति- थिमम्यागतं पूजयेत् यथाविविः। ३५. सत्सङ्गः स्वर्ग- वासः । ३६. विश्वासघातिनो न निष्कृतिः । ३७ आश्रित- दुःखम् आत्मन इव मन्यते साधुः। ३८ वा कार्यमद्य कुवात ।

( ६३ ) हल्दीघाटी स्वाधीनताऽऽर्यभुवि भूर्तिमवी समाना, राणाप्रतापबलवीर्यविभासमाना आटीकते समुपमा नहि या सुशोचिा- शाटीवसा जयति काचन हल्दिघाटो । प्रास्ते प्रताप इह भारतभूमिवीरः, हे पान्थ ! हिन्दुरसि चेत्सकृदानतः स्याः । सम्प्रत्यपि प्रतिवदन्निव किन्नु घीरं- धीरं बधीरयति धीरजनं समीर ॥ मा कातराः ! स्पृशत मां प्रियपारतन्त्र्या, अद्यापि यन्न विहिता जननी स्वतन्त्रा। यत्रेदमेव गदतीव ततिस्तरूणां- शाखाकदम्मकृतमर्मरमातनोति "वीराग्रणीरमययुद्धकलाकलापी काऽऽस्तेऽद्य हा ! वनयासनया प्रतापी"। अत्रत्पनिर्जनवनेऽथ यदा कदाचित् मातेव रोदिति सखे कुररी नु काचित् ।। अद्यापि यत्र जननी मम हन्त राणा', शणा विरौति विकलानु 'कु'च्चलेन। अद्यापि धारयति नैव कदापि शोमा मना सदिरहिली प्रकृतिर्वघटी । ॥

, ॥ अद्यापि स्त्र सुमधुबनम कृतानि, लोलाइवजनजनाजितनर्तनानि सस्कूजितान्यनुदिनं शुकशानकानां, तौर्यत्रिक जयति किचन देवतानाम् ।। पुष्पं फलं तदनु गन्धवाः समीरः, खद्योत्पंक्तिरमला च पिकालिगीतिः । अद्यापि यत्र सरलप्रकृतिप्रणीत पञ्चोपचारमिव पूजनमस्ति मातुः ।। नीलेन पक्षनिवहेन खमाइसन्तः चकच्चा फलानि चिमलाति समश्चयन्तः । श्रीराम नाम मधुरं मधुरं कणन्तः, अद्यापि यत्र सुशुका विलसन्ति सन्तः ।। चुडामणिः सनालभारतभामिनीना, पत्नी प्रतापतृपतेरमलाऽत्र शैले। प्राणप्रदानमकरोत् पतिपादपद्म- किन्त्वेकवारमपि हारनधिहा'ऽकरोत्सा ।। श्रव वीरजनमौलिमाईरत्नं. घीराग्रणीरगणितवणवान स 'माला' । राक्षार्थमेव हहहा ! समरोऽमहायः प्राणाजहौ न तु मलस्यनतत्परोऽभूव ।। - (६५) लोकत्रयेऽतिविदिता बलिवेदिकेयं, यत्र प्रतापनृपतेरनुयायिवर्गः। सह क्रीतवान्, किल परश्शतमौलिदानात, स्वातन्त्र्यमायवरवीरवसुन्धराया: वीरायतुर्दशसहस्रमिवा इहैव मृत्यु यथा शयनतूलमथाऽऽलिलिङ्गः। किन्तु प्रशस्यतमशस्यमहीयसीं स्वां, सन्मातरं नहि मनाग विजहुर्धरित्रीम् ॥ अनव वीरजनशोणितशोणगङ्गा, भूत्वा सहस्रपथगा गतिमाततान । यद्दर्शनेन रसनेन च । मजनेन देवैः सहैव ऋषयः पितरोऽपि तृप्ताः । सैषा स्थली चकितचेतकचङ क्रमाणां, सैषा स्थली कुटिलकुन्तपराक्रमाणां . सैपा स्थली प्रियतमाऽप्यसुतोऽमराणां, सैषा स्थली ज्वरकरी. नरपामरायाम् ।। - L '. - भासुरकसिंहकथा कस्मिंश्रिङ्कने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्याविरेकानित्यमेवानेकान् मृगशशकादीन. व्यापादयन्नोपरराम । अथान्येद्यस्तद्वनजाः सर्वे सारङ्गवराह- -- ५ - ६६ ) महिषशशकादयो मिलित्वा वमभ्युपेत्य 'प्रोचुः । स्वामिन् ! किमनेन सकलमृगवधेन । नित्यमेव यतस्तवैकेनापि मृगेण वृप्तिर्भवति । तस्क्रियतामस्मामिः सह समयधर्मः । मद्य प्रभृति तवात्रोपविष्ट जातिक्रमेयः प्रतिदिनमेको मृगो भचणार्थ समेष्यति । एवं कृते तव तावत्प्रासयात्रा क्लेशं विनापि भविष्यति, अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयतामिति । अथ तेषां तद्वचनमाकर्य मासुरक माह । महो! सत्यमभिहितं भवद्भिः। परं यदि ममोपविष्टस्यात्र नित्यमेव नैको मृगः समागमिष्यति,तन्नूनं सर्वानपि भवयिष्यामि । अथ ते तथैव प्रतिज्ञाय नितिभाजः तत्रव वने निर्मयाः पर्यटन्ति । एकच प्रतिदिनं वारक्रमेण याति । वृद्धो वा वैराग्ययुक्तो वा शोकास्तो वा पुत्रकलत्रनाशभीतो वा तेषां मध्यात्तस्य भोजनार्थ मध्याह्नसमय उपतिष्ठते । अथ कदाचि- ज्जातिक्रमाच्छशकस्य वासरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् बेलातिक्रमं कृत्वा व्याकुलितहदयो यावद्गच्छवि तावन्मार्गे गच्छतातेन कूपः संदृष्टः । यावत् कूपोपरि याति, तावत् कृप- मध्य प्रात्मनः प्रतिविम्बं ददर्श । दृष्ट्वा चतेन हृदये चिन्तितम, यद्भग्य उपायोऽस्ति । भई मामुरकं प्रकोप्य स्वबुद्धयास्मिन पे पावयिष्यामि । मथायी दिनशेष भासुरकसमीचे प्राप्तः ।

( 4 ) सिंहोऽपि वेलातिकमेख चुदामकण्ठः कोपाविष्टा सुकणी परिलेलिहानः ब्यचिन्तयत् । अहो प्रातराशाय निस्सरव वनं मया कर्त्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्द मन्दं गत्वा प्रणम्य तस्याने स्थितः । अथ प्रज्वलितात्मा भासुर- कस्तं भर्सयन्नाह रे शशकाधम ! एकतस्वावत्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधाचान्निपात्य प्रातः सकलान्यपि मृगाकुलान्युच्छेदयिष्यामि । अथ शशका सविनयं प्रोवाच।। स्वामिन्नापराधो मम न च सवानां, तच्छ या कारणम् । सिंह शाह सत्वरं निवेदय । यावन्मम दंष्ट्रान्तर्गतो न भवान् भविष्यतीति । शशक माह । स्वामिन् ! समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्ताव विज्ञायाहं पञ्चशशकैः समं प्रेषितः । ततश्चाहमागच्छ- अन्तराले महता केनचिदयरेण सिंहेन विवरान्निर्गत्यामि- हितः । रेक प्रस्थिता यूयम् ? अभीष्टदेवता स्मरत । वतो मयामिहितं, वयं वनस्वामिनो भासुरकसिंहस्य सकाश- माहारार्थं समयधर्मेण गच्छामः । ततस्तेनाभिहितम् । यद्येवं तर्हि · मदीयमेतदनं मया सह समयधर्मेण समस्तैरपि मृगै- वर्तितव्यम्, चौरः स भासुरकः । अथ यदि सोऽत्र बने राजा तर्हि विश्वासस्थाने चतुरा शशकानत्र धृत्वा तमाय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेवान्भवयिष्यतीति । वतोऽहं (६८) तेनादिष्टःस्वामिसकारातम्यागतः। एतद्वेज्ञातिक्रमकारणम् । वदत्र स्वामी प्रमाणम् तच्छ्र वा भासुरक आह-भद्र ! यद्येवं तर्हि सत्वरं दर्शय से तं चौरसिंह येनाहं मृगको तस्योपरि क्षिप्त्वा स्वस्थो , भवामि । शशक आह । अस्त्येतत्तथापि बलवान् स मया दृष्टस्तन्न युज्यते स्वामिन- स्तस्य सामर्थ्यमविदित्वा गन्तुम् । भासुरक आह-भोः किं तवानेन व्यापारण, दर्शय मे तं दुर्गस्थमपि । अथ शशक आह । यद्येवं तागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः । ततश्च तेनागच्छता या कूपो दृष्टोऽभूत् तसेव कूश्मासाद्य मासुरकमाह । स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः, त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वदुर्ग, तदागच्छ येन दर्शयामि । , भासुरक आह दर्शय मे. दुर्ग, तदनु दर्शितस्तेन कूपः । ततस्सोऽपि मूर्ख- सिंहः क्षमध्य आत्मप्रतिविम्ब जलमध्यगतं दृष्ट्वा सिंहनगदं मुमोच । ततः प्रतिशब्देन कूपमध्याद् द्विगुणतरो नादा समुत्थितः । अथ वेन तं शत्रु मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽणि हृष्टमनाः सर्वमृगानानन्ध तैः सह प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । - .

( ६ ) पाल्हा चन्दलनृपाणामन्तिमः परमारदेवो नाम राजा बभूव । साम्प्रतं महोवानाम्ना प्रसिद्ध नगरे तस्य राजधानी सम- भवत् । दुर्बलः परमारदेव इति हस्तिनापुरकान्यकुब्जा- धीश्वराभ्यां स निकाम निपीड़ितोऽभवत् । 'आल्हाऊदलश्च तस्य राज्ञः सभासदावभवताम् । वाल्य एव मृतपितृकाविमौ राज्ञा परमारदेवेनैव पोषितावभवताम् । परमारदेवमहिषी मालहनदेवी पुत्रवदिमावपालयत् । अनयोः पितर्जसराज इति नामासीत् । स हि कस्मिन्नपि समरे वीरगति प्राप । वतः परमारदेवेनैवानयोः पितृकृत्यं निर्वर्तितमभवत् । क्रमेण वयस्थाविमौ सूर्यचन्द्रमसाविवात्मनाकीर्ति प्रसारयामासतुः । तदा महोवानगरं प्रसिद्धमभवद् वीर्यातिशयेन । अनयोः प्रतापसूर्यो नभो मध्यमारूढः प्रतपतिस्मारातीन् । अयोध्या- महोवाधीशवाहिनी,कोवाशक्तस्तत्सम्मुखे क्षणमपि स्थातुम् । आल्हा-ऊदलश्च समुपकृतौ राज्ञा, अनयोविवाहो राजैव स्वव्ययेन सम्पादितः, राज्ञी च पुत्रनिर्विशेषमिमौ पश्यतिस्म अंतश्चानयोरपिराजकुले महती' भक्तिरजायत । राजरक्षायै प्राणानपि सुखेन समुत्स्रष्टुं कृतप्रतिज्ञाविमाववर्तताम् । आल्हाऊदलप्रतिमो वीरो यस्य वशे तिष्ठति तं सर्वोऽपि- ( ७० ) प्राणरक्षार्थी जनः प्रणमेदेव । अतश्चापरे सर्वे राजोनः पर- मारदेवं श्रद्धया सम्मानयितुमपचक्रमुः। पुनः प्रवृद्धा प्रति पत्तिमहोवाराज्यस्य । तत्रत्यः चीणश्चन्द्रः कलामिः पूणों दिगन्दानुद्भासयितुं प्रवृत्तः। तयोः सर्वदा समरप्रवृत्तयोरेव समयोऽत्यवर्तत । तदा हि मारते सर्वतः प्रज्वलित आसीत्समराग्निः। ततः एव च वीराः सम्मान्यन्ते । तदा प्रत्यायणं खड्गझणत्कारोऽश्रूयत । तदा कन्याजन्म महदनिश्करमिवामन्यत ! यतः कन्याविवाहावसरे 'समरो दुर्निवार श्रासीत् । तस्मिन्नेव काले भान्हाऊदलौ व जन्माधिजग्मतुः । विलासप्रचुरे काले वीराणामादरो ननु स्वाभाविक एव । राजानो विलासपरा,प्रजाश्च तदनुगाः । को नाम न्यायःको नामसदाचार इति नकोऽपि विजानातिरम। एतादृशाणामाचाराणां यादृशः परिणामो भवति, तादृशो ननु जात एव । ( २ ) अान्हामातुलो माहलजी आसीत् । तस्य हि विलक्षणा प्रकृतिर्न कस्यापि योग्यस्य सम्यदुत्कर्ष मनसापि सोढं शक्नोति । महोवाप्रदेशे दिने दिने प्रसरन्तीमान्हाऊदलयो- यशोवन्लरी निरीक्ष्य माहलजीमहोदयस्ता मूलत उच्छेत्तुं प्रयलमारचयत् । परं माहलस्यायं प्रयत्न एव तयोर्यशो- वद्धनमन्वः संवृत्तः । माइलेन सर्वत्र आन्हाऊदलयोनिन्दा ( १ ) प्रचारिता कदाचिदयं राजसमामगच्छद । तत्र न सपिहिता- बमवतामान्हाऊदलरच । राजपमा प्रविष्टो माहलः शोका- क्रान्तमिवात्मनो मुखमएडलं व्यधात् । तथाविधं तं दृष्ट्वा राजा प्रोवाच-मातुल ! कथं शोकाक्रान्तमिवाध मान्तं लघ- यामि । राजावचनमाकरायव माहलस्य नेत्रेऽश्रालुतेऽ- भूताम् । कपटपबन्धकुशलानां स्वमनोवृत्तिष यावानधिकारो न तावान् योगाभ्यासवशीकृतेन्द्रियग्रामस्य मानवसिंहस्यापि। तेषां हृदयं शोकाकुलं वा भवेत, परमोष्ठस्मितरेखा विलो- क्यते । मनः प्रसन्नम् ,नेत्राभ्यामश्रप्रवाहो निर्गच्छति । मनसि- प्रज्वलति मत्सरानलः परं बाकसुचारससहोदरा विनिःसरति । माहलोनृपमवदत् । महाराज! भवत्पाणिपल्लवलालितस्य जनस्यास्य नावशिष्टाः केऽपि मनोरथाः। परं भवदाश्रयप्रवृद्धी जनः प्रत्यय निवापाजलि तेभ्यस्तेभ्यो भवदुपकारेभ्यः साम्प्रतं भवद्विषय एव कपट कर्तुमुद्यत इति ज्ञात्वा नितरां चिन्ताक्रान्तोऽस्मि सञ्जावः। परमारदेवोऽपृच्छन्, अपि ममानपुष्टेषु जनेष्वस्ति कश्चिदेवंविधः ? माहलोऽवददेव ! अहमेव । राजा चकितोऽपृच्छद--अपि भवान् ? माहला प्रत्यवोचद, महाराज ! किमिव ब्रवीमि, कृपापारावारे भववृदये कोऽपि निकः प्रविष्टा, मागिनेय माल्हा । तस्य ननु राजापचारो मदीय एव भवति । राजा किश्चित् विषण्ण इवावदत् । आन्हा पुत्रसमो मे । महता कष्ट न मया ।

54g/os गलितः । सकिमयमय्यपचारं रचयति । नात्र विषये कथमपि विश्वासमाधातुं शक्नोमि । माहलो महाराजसमीपमुपसृत्य किञ्चित् को कथयति । ( ३ ) आन्हाऊदलप्रभृतयो बहवो तुरगसञ्चालनशिवाम्यास- प्रवृत्ती साम्प्रतम्, उपस्थितास्तत्र बहवः प्रेक्षकाः । अत्रान्तरे कन्चुकिरागत्य राजाह्वानमश्रावयत् । महाराजस्याकाण्डाहानं श्रत्वा आल्हा किन्चिदिव भीतः सन्जातः किनिमित्तमद्य महा- राज आह्वयति । परित्यज्याश्वसञ्चालनं तौ राजसभा प्रस्थितौ । प्रेक्षकाश्च परस्परं समालपन्तः स्वस्त्रगृहं जग्मुः । राजानमुपसृत्य वीरसरण्या प्रणम्य च तौ यथास्थानं निपी- दतु । राजा प्रोवाच, मत्प्रार्थितं युवाम्यां प्रदास्यते । को नियोगोऽनुप्ठेय इति पान्हा सादरं सविनयञ्च प्रत्यभापत । महाराज ! आल्हा नकारप्रदानेऽसमर्थ सर्वथा । यतो नकार- प्रदान क्षात्रधर्मविरुद्धमित्युक्त्वा स्वमातुलं वक्रितग्रीवो न्यलोकयत् । अनेनैव कोऽपि कपटो विरचित इति निरधार- यच्च । आन्हा पुन पमुवाच । अयं महाराजस्य प्रश्नक्रमो निपातयतिजनमम सन्देहसागरे।अनभ्यस्तोऽयंजनएवं विधानां वाचां श्रवणे ययेच्छमाज्ञाप्यताम्। भवदाज्ञया अलज्जटाल- मग्निमप्यालिङ्गयितुमह भवितुं सत्रदः । राजा तमुवाच, ममापि त्वय्येवंविध एवं समुधुक्तः, मृत्योरपि प्रतिभटो ( ३ ) विश्वासः । आस्ताम्, नाहरनामकोऽश्वरत्वया प्रदेयो मह्यम्। श्रुत्वैतद्राजवचनं आल्हा परं विषएणोऽभवत् । कथमियं राजाज्ञा पालनीया। राजक्रोधो गणितश्चेत् क्षात्रधर्मो ननु कर्थ तिरस्करणीयो नकारप्रदानेन । महान् मयि राज्ञउपकारः परं धर्मविरुद्ध राजवचनं कथनाम मानयितव्यं भवेत् केनापि चत्रियवीरेण ? इदं शरीरं पालितं महाराजेन तत्सुखेन वक्त्वा तदानृण्यं गन्तुकामोऽस्मि धर्मस्तु सर्वात्मना परि- रक्ष्य एव । शस्त्रमश्वश्चेति द्वावेव क्षत्रियस्थ बाह्यप्राणभृतौ। इमावेवाधिष्ठाय क्षात्रधर्मस्तिष्ठति । तत् किमिदनी कर्तव्यम् । राज्ञामप्युपकृतमिति सत्यम्, परं मयापि राजसेवा कृतैव । कति वा नापदः सोढाः मया राजसेवाकृते । साम्प्रतं तत्सर्व- मेकपद एव विस्मृत्य राजा मां धर्मेच्युतं कर्तुमुद्यतः । अशक्यं साम्प्रतं राजाज्ञापालनम् ।पाल्हा इत्थं बहु विचिन्त्य निक्षिप्य च क्रोधारुणलोचनेमाहलदेवे धीरं वक्त मुपाक्रमत । असमर्थोस्मि राजाज्ञापालने । परमारदेवोऽवदव कि ममोप- काराणामियं प्रत्युपक्रिया । इयं पदवी मत्कृपयैव श्रीमद्भिः प्राप्ता। आल्हा प्रत्यवोचत्, महाराज ! जानामि, सर्वजानामि । परं प्रत्युपकारतोऽपि क्षात्रधर्मपालनं महद् विजानामि ।धर्म- विरुद्ध राजवचनं न कथमपि मान्यं भवति, शरीरं पालितं देवेन, तत्तु सज्जमेव देवकार्येषु, धर्मविरुद्ध चेष्टितुमपि नाहमात्मानं समर्थ भावये । माहलबचने राज्ञः परमो ( ४ ) विश्वासो जातः। प्रोन्हा च राजानं प्रणम्योवाच, पालि- शत्वान्मम येऽपराधाः सजातास्ते ननु श्रीमद्भिः घन्तम्या महाराजैः । साम्प्रतमत्र घसामपि स्थातुं न शक्नोमि । इत्य- मुक्त्वा राजसमातो सहोदलेन निष्क्रामन् पान्हा माहलदेव- मवदन, काले भवताप्ये त्फलमनुभवनीयमेव । आन्हाऊदलयोर्माता देवलदेवी । चात्रेण तेजसा समुद्भासितमासीदस्या हृदयम् । धर्मपालनाय राजानमपि तणाय मत्वा अनयोः पुत्रयोः शिरसि करं निधाय वाष्पव्याकुल- लोचनाऽवदत्-वत्सौ, युवाभ्यामद्याहं जननीकृता,पालितो- धर्म एव श्रेयः सूते । रुष्टो नृपो न किमष्यनिष्ट कतु शक्तः । तत्कृतोऽनिष्टो ननु प्रतिविधातुं शक्यः । मात्रा प्रशंसितावादाय च तां महोवानगरात् खड्गसहायौ तौ निष्क्रान्तौ । किमिवान्यदपेचितं वीरस्य । तदासीन वर्षा- समयः, नद्यः प्रवृद्धाः, राजसम्मानिताः खला इव कमप्युद्धग जनयामासुः। पथिकानाम् वारवधूचितमिव सुरेन्द्रचापं चणे- चणे वर्णान्तरमादधार । जलघरधागसिक्ताः पथिकाः कामपि चेदनामवमवन् । वारिवाइव्यतिकरशिशिरा वरच परितः प्रावृषेण्या समीराः । के किनां केकास्तरुशिखरेषु सम्मृचिंता कामप्युन्मादनामजनयन् जीवलोकस्य । कृषीवलकन्यका- स्तरुच्छायानिवादिन्यः सपरितोष जगुः । हरिन्मगि- (७५) मिरास्तीर्या पर्वतानामधित्यकार, स्फटिकसमानर्मासमानः पतद्भिर्निर्भर बणप्रभाभिर्विविधाभिर्वन्लीमिश्च कापि शोमा अलक्ष्यत प्रकृतिदेव्याः। साम्प्रतं सर्वे सुखिनः । स च गृहे निषण्णाः शोमा पश्यन्ति वर्षासमयस्य । ईदृशे समये न कोऽपि गृहादु बहिः पदमपिगन्तुमिच्छति । कालविडम्बित एव वर्षासु स्थानमेकं परित्यज्य स्थानान्तरमाश्रयितुं चेष्टते । अयं समयो मात्रासह आन्हाऊदलयोन्मभूमिपरित्यागस्य । तेषां तदानीन्तनी हृदयावस्थां वर्णयितुं को वा प्रभुर्भपति । यत्र वान्यं नीतं, यस्याः रचाय प्राणा अपि पणीकता,हा,अद्य सैव परित्यज्यते, के वा न दुःखीकरोति जनं मातृभूमिपरित्यागः । रुष्टा वयं- गच्छाम इति कदाविद्राजा परावर्तयितुमस्मान् प्रेषयेत् कमपी- त्याशया संयमिताः वल्गाः अश्वानां,येन तेषां वेगो मन्दीभूतः। प्रकृत्या प्रवृद्ध शोकावेगं कथनन हदि निरुध्य प्रचलितास्ते । गुणग्राहकाः सर्वत्र सदा समुपलभ्यन्ते, एकेन मुर्खेण दुर्दैवोपहतेन बहु तिरस्कृतो गुणी, अपरेण विचारवता सक्रियते । आन्हाऊदलौ महोवातो निर्वासितौ। देशान्तरं गन्तुं प्रवृत्ताविति समाचारमुपलभ्य बहवो नृपास्ता- वानेतुं स्वभृत्यान् प्रेषयामासुः। तेषु कान्यकुब्जाधीश्वरस्य जय- चन्द्रस्य कुमारोप्यासीत् । राजकुमारेण प्रेम्णा गृहीतौ तौ कान्यकुब्जनगरं प्रतीयतुः । चत्र महाराजेन सम्मानितौ कता- -- र्थनौ परां प्रीतिमीयतुः। राजा जयचन्द्रो हि तावात्मनः सेनापतित्वेऽभ्यषेचयत् । विरहितसूर्य मेरोः प्रदेशं चलीयसा अन्धकारेख समावृतं भवति ।आल्हाऊदलाभ्यां विरहित महोबानगरपरैमा- एडलिकराजभिराक्रान्तुं प्रयत्नोऽकारि । अस्मिन्न वावसरे पृथ्वीराजसेना कुतश्चित् परावर्तमाना मध्ये मार्ग महोवानग- रतोऽनतिरं विश्राम गृहीतवती। सैनिकानां कीदृशः स्वभाव इति नाविदितं कस्यापि । निष्कारणमेव चन्देलचौहान- सैनिकाः परस्परं न्ययुध्यन् । चौहानसैनिकाः स्वल्पाः इति दे पराजिता परमेण क्रोधेन जगज्जिपत्सितुषिवश्वृत्तारुथ कथ मपि राजधानी प्रापुः । निवेदयामासुश्च सकलं वृत्त यथा- बद्राक्षे पृथ्वीराजाय न कोऽपि वीरो महाराज! आत्मनः सनिकायमानं मृध्यति । पृथ्वीराजेन सेनांसजीकरणाय आज्ञप्ताः सेनापतयः ततश्च समये पृथ्वीराजः सेनासमेतो महोवाभिमुख प्रतस्थे । ग्रासाघ महोवासमीपस्थानं चौहानसेना- निवेशः स्थापितोऽभवद, प्रदेशवर्तिनो ग्रामाश्च तैलुण्ठिता निई यम् चन्देलसेना चौहानसेनाभिमुवनं प्रस्थिता । जात उभयोः प्रथमः सम्म । परं चन्देलसेना पराजिताभवत् । साम्प्रतं परमारदेवस्य चक्षुरुन्मीलितम् । आल्हाउदलयोरमानो नितरामतुदत्तम्। परंसाम्प्रतमनुचिताचिन्ता सा। उपायान्तराभावे ( ७७ ) सेनासजजीकरणायमासावसानोऽवधिश्चन्देलराजेन याचितः। पृथ्वीराजेन च तदीया प्रार्थना स्वीकृता । चौहानराजो निय- मान् प्रतिज्ञाश्च सम्यग् पालयति । एतेन प्रतिज्ञापालनदोषेण गुणेन वा कति वा दुःखानि नानुभूतवानयं तथापि प्रतिज्ञा- पालनं व्रतं नामुन्चत् । मासावविमयं पालयिष्यत्येवेति विगतसन्देहः संवृत्तश्चन्देलभूभुजः । मासावधिमधिगत्य चन्दे नभूपः परमारदेवो मन्त्रणाय समांसमाहूतवान् । तत्र राज्ञीअपि सन्निहिताऽभवत। ततः केना- प्युक्तम् । इतः स्थानान्तराश्रयणमेव साम्प्रतं युक्तम्, अपरेण केनचिदुक्तम्, नगरं परितो दृढा परिखा विधेया । राजा स्थाणुरिव तुष्णी तिष्ठति । अत्रावसरे राज्ञी प्रोवाच, हन्त वीराणां युष्माकमियं वाक यैः पूर्व समर्जिता पराक्रमेण विजयलक्ष्मीः साम्प्रतं त एव स्थानान्तराश्रयणं मन्त्रयन्ति । क गतं युष्माकमिदानीममन्दं तोजः । सर्वानेव वीरान साम्प्रतमपि पुरःस्थितान् पश्यामि, तथापि श्रीमन्तः पुरेव न विजयश्रिया प्रदीप्तमुखाः रिलोक्यन्ते । मन्ये, सा देवल-" देव्यपराभिधाना सा विजयश्री रुष्टा अस्मान् विहाय गतेति । ननु सैव प्रथम प्रसादनीया । आल्हाऊदलौ यथा भवेत्तथा- समानेतन्यौ। राज्ञा' कथितं स रेव सप्ताधुवादं स्वीकृतम- मवत ' , ( ७.) । जगन्नाथनामकरचारणः प्रेषितोऽभवत् कान्यहम्ज- नगरादान्हाऊदलयोरानयनाय । यथासमयं सम्प्राप्तो जगमायः कान्यकुञ्जनगरम्, सादाचकार च चन्देलवीरम् । विषयमा जगनाथं दृष्ट्वा आल्हा प्रोवाच-कवीश्वर, विस्मृतवानसिमार्ग- मिति प्रतीयते, कथमध किन्चनाविमौ स्मृतिपथमागतौ । श्रुत्वैतदाप्लुता समभवज्जगन्नाथस्य दृष्टिरश्रुपूरेण । अब- दच स आयुष्मन् न शुभेऽवसरे स्मर्यन्ते देवताः । अधुना महोबानगरं विधातरोषानलनिपतितं भस्मसाद्भवति, न कोऽपि रचिता साम्प्रतं तत्रच्यानाम् । पृथ्वीराजसेनया संरुद्ध नगरं महति दुःखे निमज्जति । साम्प्रतं चन्देलराष्ट्र नामशेषतां गन्तुमिव प्रवृत्तम् । विलीना नयनरमरणीया सा श्रीः कुत्रापि, दुष्प्रेन्यतामिदानीं यातं तन्नगरं प्रेवमाणाम् । विरलान्येव दृश्यन्ते विकृतदाराणि गृहाणि । "हा हताः स्मः, हा निरवलम्बाः स्मः, वत्स! पर शोकविह्वला मातरम्, नाथ ! त्वदेकजीवितां दासीमपहायक प्रयासि, चिरायान्तर्हितो मे सखा, एवंविधा आर्तनादास्तत्र प्रतिगृहं श्रूयन्ते । पृथ्वीराजेनेमा दशां गमितास्मः । भ्यो- भयो याच्यमानेन तेन मासावधिः प्रदत्तः। ततः परं युदः प्रचलिष्यति । महाराजेन श्रीमत्समीपं प्रोपितोऽभवम् । वीरः भवानेव शरणमिति कृत्वा महाराजेनाहमय प्रेषितः ।

(७६) अतस्त्वर्यता सहानुजेनायुष्मवा, रवषीया मर्यादा चन्देल- नृपाणां । भवदागमनान्तरं महती दुरवस्थामनुभवति राक्षा- परमारदेवेन सह चन्देलराष्ट्रम् । वाल्ये युवाम्यां य उपमोगा- स्तत्र भवद्भ्यां भुक्तास्ते ननु साम्प्रचं स्मरणीयाः अलता मनतु बारवालेन भवतो हस्तमुष्टिः। त्वरितमे ते मुखचन्द्रमाः समुदेतु महोबानमोमण्डले अन्यमा सर्वथान्धकारकवलितमेव लद्राष्टुं भविष्यतीत्यवधेहि। आन्हा किश्चिदिव पक्रिवग्रीवः प्रोवाच, जगनाथ ! भस्थानेऽयमनुरोधस्तव महाराजस्य च, अस्माकं यत्कर्तव्य वन्नित्तमेवेतिमन्ये । महाराजेनोपकृतावावामित्यत्र नास्ति- सन्देहः । परं मम जनकेन तस्यैव कृते प्राणा अपि परित्यक्ता इति न विस्मर्तव्यम् । मयैव वा महवा प्रयत्नेनाराधितोऽपि महाराजः पराड मुख. वृत्तः । मत्प्रतापात् बहवो नृपाः करदीभूताः संवृत्ता महाराजस्य, प्राणानपेचमाराधितो महाराज भावाम्याम्, तथापिमहाराजेनावां राजधानीतो निष्कासितौ। क्षत्रियोन द्विर्भापते अतश्चमहाराजस्थाहानं ममच तत्र गमन. मेतद्वयमप्यशोमनमिति मन्ये । जगन्नाथोऽभाषत, प्रयुक्त- मिदं क्षत्रियस्य तव वचनम् । नहि कोऽपि चत्रियः शत्रुसमा- फ्रान्तां मातमूमिमुपेक्षते । किश्श यस्यास्राणाय तव पिता सम्राकस्त्वमपि महान्तं परिश्रममनीकृतवान् । तस्या (८०) एवंद्योपेघवं नितरां खेदयत्यस्मान् । सङ्कटपतित मावभूमिमुपेक्ष्य यः क्षत्रियोऽन्यत्र पिण्डपालितो भवति तस्य नरकेऽपि नास्ति स्थानमिति वदन्ति पूर्वे । आयुष्मन्, भृते न भवति विश्वासो वीराणाम्, उद्धर मातृभूमिम् ।

No text on this page.

Sanskrit - Sushama

Author
Prabhat Shastri
Title
Sanskrit - Sushama
File name
Sanskrit - Sushama
Text
OCR done
Citation
1950
Published
2010/07
Publisher
Sahitya Sangh, Prayag
Language
Sanskrit
Pages
88
Library
Digamber Jain Atishay Kshetra, Jain Vidhya Sansthan Library, Shri Mahaveer Ji, (karauli )
DLI number
327362
Barcode
99999990002852.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
7Ra2lmCL8Gr
Download PDF

Sanskrit - Sushama