Library

Smrxtyara~thasaara Grantha 70

Dharaachaara~ya · 2005-11-19

PDF Proofread

Front matter

THE BOOK WAS
DRENCHED
TIGHT BINDING BOOK

UNIVERSAL
LIBRARY
OU_184049
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

आनन्दाश्रमसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ७०
श्रीधराचार्यविरचितः
स्मृत्यर्थसारः
वे. शा० सं० रा. रा. वैद्योपाद्वै रङ्गनाथशा-
स्त्रिभिः संशोधितः ।
स च
हरि नारायण आपटे
इत्यनेन
पुण्याख्यपत्तने
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा
प्रकाशितः ।
शालिवाहनशकाब्दाः १८३४
खिस्ताव्दाः १९१२
..
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)
मूल्यमाणकदशकाधिको रूपकः । (रू०१०१०)

No text on this page.

आदर्शपुस्तकोल्लेखपत्रिका।
अस्य स्मृत्यर्थसाराख्यग्रन्थस्य पुस्तकानि यैः परहितैकपरतया संशो-
धनार्थ दत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रद.
यन्ते-
(क.) इति संज्ञितम्-यवतमाळनिवासिना डाक्टर नरहरगोपाळ सरदे-
साई इत्येतेषाम् ।
ख.) इति संज्ञितम् ---पुण्यपत्तननिवासिनां रा०रा० गंगाधर कृष्ण आपटे
इत्येतेषाम् ।
(ग.) इति संज्ञितम्-नंदुरबारनिवासिनां वे० शा० बाळशास्त्री इत्येते.
षाम्।
(ध.) इति संज्ञितम् ..खेडनिवासिनां रा० रा० नागूमाऊ वकील इत्येते.
पाम् । अस्य लेखनकालः शके १७०९ प्लवङ्गनामसं-
बत्सरः।
समाप्नेयभादर्शपुस्तकोल्लेखपत्रिका ।

No text on this page.

अथ स्मृत्यर्थसारविषयानुक्रमणिका । " . 2, मूत्राझुत्सर्गविधिः " " • .. विषयाः। पृष्टाहाः। विषयाः पृष्ठादाः मङ्गलम् १ अथ गोत्रप्रवरनिर्णयः १४ परिभाषा ... विवाहे कन्यौ कर्तव्यम् युगधर्माः २ विवाहे सूतकाभावः तत्र संस्काराः ३ अथाऽऽह्निकम् १८ तत्कालातिक्रमे प्रायश्चित्तम. अथोपनयनम् अथ शौचविधिः पण्ढादिसंस्कारविधिः ४ अथाऽऽचमनविधिः २० गौणपुत्रपरिगणनम् अथाऽऽचमननिमित्तानि अथ यज्ञोपवीतविधिः यज्ञोपवीतनाशे कर्तव्यम् २२ अजिनादिविधिः ५ अथाऽऽचमनापवादः २३ बह्मचारिधर्माः ६ अथ दन्तधावनविधिः २४ उपाकर्म ॥ अथ मानविधिः २५ तत्कालविधिः मध्याहनाने विशेषः २८ अध्ययनप्रारम्भः अथ ब्रह्मयज्ञतर्पणविधिः ... २९ अभिवादनविधिः ७ तिलतर्पणनिषेधः अथानध्याया वक्ष्यन्ते ८ वृद्धी सत्यां तन्मासे तिलत- तत्र युगादिमन्वादिपरिंग पंणनिषेधः ३० णनम् ५ यमतर्पणम् .. अथोत्सर्जनम् ११ अथाभ्यङ्गस्नानविधिः ३२ तत्कालविधिः ,, भोजनादी तैलानुज्ञा सर्वदा अथ विवाहः अथ संध्याविधिः ३३ विवाहभेदाः १२ अथ होमविधिः दत्तकन्याहरणम् प्रतिनिधिविचार: परिवेदाद्यदूपणम् १३ हविष्यद्रव्यम् ३५ मूर्धावसिक्तादिसंज्ञा अथ समिधः विवाहात्परं गृहस्थस्याग्निहो. अथ दर्मविधिः प्रदर्शपौर्णमासादिविशे- अथ बर्हिः पधर्माः :: :: ... ३ ... :: ३ १४ अथेमः Ruw २ स्मृत्यर्थसारविषयानुक्रमणिका । पृष्टाङ्गा. पृष्ठाङ्काः .. ६१ .. ६२ • • • :: ६४ ६६ ६७ विषयाः अथ सुगादिः आपद्धोमपक्षाः अथ देवतार्चनविधिः अथ माध्यालिकम् अथ ब्रह्मयज्ञः अथ देवयज्ञः अथ बलिहरणम् अथ पितृयज्ञः अथ श्राद्धविधिः अथ श्राद्धकालः अथ भोज्यवाहाणाः अथ निषिद्धा ब्राह्मणाः पार्वणश्राद्धमुच्यते देवम् अथ पच्यम्.. अथ हविष्याणि अथाहविष्याणि काम्यश्राद्धम् अथ वृद्भिश्राद्धम् अर्थकोद्दिष्टम् अथ सपिण्डीकरणम् श्राद्धे मिथ: स्पर्शने मातृसपिण्डीकरणम् अन्वारोहणे तु विशेष: त्रिदण्डिश्राद्ध शूद्रप्रेतश्राद्धम् आहिताग्निश्राद्धम् पित्रोम॒ताहैक्ये श्राद्धक्रमः मृताहैक्ये सह दहने अपरपक्षश्राद्धम् नित्य श्राद्धम् :: विषयाः पिण्डदानविधिः ४२ आमश्राद्धम् ४४ संकल्पविधानम् ४५ हमश्राद्धम् .. ४६ अथ श्राद्धकालविधिः अथ खण्डतिथिघूच्यते ४७ मृताहाज्ञाने... युगादिमन्वादिनिर्णयः ४८ अथ संक्रान्तिनिर्णयः अथ पर्वनिर्णयः अथकादशीनिर्णयः ४९ अथ तिथ्यन्तरनिर्णयः अथ मलमासनिर्णयः ५० अथ भक्ष्याभक्ष्यविधिः ५१ अथ भोजनविधिः ५२ ग्रहणे भोजननिषेधः ५३ शयनविधिः... ५६ अथ द्रव्यशुद्धिः उपहतिकारणगणनम् सौवर्णरीप्यताम्राणां शुद्धिः ५७ कांस्यादिशुद्धिः ५८ सुक्खुवादिशुद्धिः मृन्मयपात्रशुद्धिः ... ... ,, वस्त्रशुद्धिः .. ५९ धान्यशुद्धिः मृच्चर्मातृणकाठादिशुद्धिः पुस्तकशुद्धिः , भूतलशुद्धिः प्रतिमाशुद्धिः जलशुद्धिः ६० अन्नशुद्धिः ... ur ७१ .. ७२ ७३ : " ... ::

स्मृत्यर्थसारविषयानुक्रमणिका । ३ विषयाः। .... . " .... .... " " " .... पृष्टाकाः। विषयाः। पृष्टाङ्काः। घृतादिशुद्धिः अथ महापातकिनः अथ शरीरशुद्धिः ७६ अथानुपातकानि १०१ अस्पृश्यस्पर्शने शुद्धिः ७७ अथ सुरापानसमानि अथाशीचविधिः ७९ अथ सुवर्णस्तयसमानि शिशुमृताशौचम् ८० अथ गुरुतल्पगसमानि जलदानम् ८३ अथोपपातकानि दुर्मरणे प्रायश्चित्तम् ८४ अथ जातिभ्रंशकराणि १०३ पाखण्ड्यादिसंस्कारः ८५ अथ संकरीकरणानि अथ नारायणबलिः अथापात्रीकरणानि सर्पहते विशेषः ८६ अथ मलिनीकरणानि चण्डालादिहतप्रायश्चित्तम्. अथ महापातकप्रायश्चित्तम्. आशीचे कर्मानुज्ञा.... अथ निदेशः ज्वरितरजस्वलाशुद्धिः ८९ अथ सुरापानप्रायश्चित्तम्.... आतुरनानम् अथ मद्यपानप्रायश्चित्तम् .... १०७ सूतिकादाहः अथ सुवर्णस्तेयप्रायश्चित्तम्. १०८ रजस्वलादाहः सुवर्णलक्षणम् अतीताशौचम् ९० अथ गुरुतल्पगप्रायश्चित्तम्. १०९ देशान्तरमृताशौचम् अथातिपातकानुपातकप्राय- देशान्तरनिर्णयः श्चित्तम् . १११ आशौचनिर्णयः ९१ अथ महापातकिसंसर्गिप्राय. एकदिनेऽनेकमृती श्चित्तम् अन्वारोहणविधिः... अथोपपातकप्रायश्चित्तान्युः, चितिभ्रष्टायाः प्रायश्चित्तम् ९४ च्यन्ते ११२ पिण्डादिदानेऽधिकारिण: गोहत्याप्रायश्चित्तम् अथ श्राद्धक्रमः ९५ अथ व्रात्यादी प्रायश्चित्तम्. ११४ अथ संन्यासविधिः ९६ अथ स्तेये प्रायश्चित्तम् :... परिव्राजकसंस्कार अथ ऋणानपाकरणे प्राय- विधिः ११५ अथ संन्यासिनां दहनविधिः अनाहिताग्निप्रायश्चित्तम् ... अथ प्रायश्चित्तान्युच्यन्ते.... ९९ पण्यापण्यविक्रयप्रायश्चित्तम् तत्र कर्मविपाकः... अथ परिवेदने प्रायश्चित्तम्. ११६ .. " " अथ श्चित्तम् ....... " ४ स्मृत्यर्थसारविषयानुक्रमणिका । पृष्ठाङ्काः। ११९ :: .... " .... " विषयाः। पृष्टाहाः।। विषयाः । मृतकाध्यापनादो प्रायश्चित्तम् मिथ्याभिशंसने प्रायश्चित्तम् पारदायें प्रायश्चित्तम् अथ रजस्वलानां परस्परस्प. परिवित्तः प्रायश्चित्तम् ११८ र्शने अथ स्त्रीशूद्रविक्षत्रवधे रजस्वलानां चण्डालस्पर्शने १२१ प्रायश्चित्तम रजस्वलाया: श्वादिस्पर्शने अन्य हिंसाप्रायश्चित्तम् प्रायश्चित्तम १२६ अथ स्त्रीवधे व्रतस्थाया रजोदृष्टी १२७ किंचिदादिलक्षणम् १२० रजस्वलाधाः मार्जारादिप्राणिवधे प्रायश्चि अथ सुतानां विक्रय त्तम् अथायाज्ययाजने .. अथ वृक्षच्छेदनप्रायश्चित्तम्. १२१ अनध्यायाध्ययने १२८ अथ श्वमार्जारादिदष्टेषु प्राय पितृमात्रादित्यागे श्चित्तम् ... कन्यादूषणे... श्वादिष्टरजस्वलाप्रायश्चि व्रतलोपे प्रायश्चित्तम् त्तम् व्रणे कृमिजनने प्रायश्चित्तम् अभोज्यान्नभोजने १२९ निन्दितार्थोपजीवने प्राय. हीनयोनिनिषेवणे श्चित्तम् अनामित्वे नास्तिक्ये प्रायश्चित्तम परपाकरुचित्वे अथ बह्मलोपे प्रायश्चित्तम. अथासत्पतिग्रह संन्यासिनःस्त्रीसले प्रायश्चि अभक्ष्यभक्षणे त्तम् १२३ भावदुष्टभक्षणे संन्यासिनो गृहस्थत्वे प्राय अथ जातिदुष्टेषु १३१ श्चित्तम् .... अथाशुचिसंस्पृष्टभक्षणे १३२ अनाशकनिवृत्तौ प्रायश्चित्तम् , अथाशुचिद्रव्यसंस्पृष्टभक्षणे १३३ उपनयनोत्तरं यज्ञोपवीतनाशे अथ भावदुष्टभक्षणे १३५ प्रायश्चित्तम १२४ अथ कालदुष्टभक्षणे कृष्णाजिनादिलोपे प्रायश्चि अथ गुणदुशशुक्तादिभक्षणे तम् अथ हस्तदानादिक्रियादुष्टा- विषमे प्रेषणाच्छिष्यमृती प्रा भोज्यभोजने १३६ यश्चित्तम् ... अथ श्राद्धभोजने ... .. १२२ अथानित्यागे :: .. " " स्मृत्यर्थसारविषयानुक्रमणिका । ५ विषयाः । पृष्टाहाः। विषयाः । पृष्ठाहाः। परिग्रहाशुचिदुष्टमोजने १३८ अथ चान्द्रायणसाधारण. जातमृताशौचान्नभोजने १३९ धर्माः १४८ अथ जातिभ्रंशकरादिप्राय. अथ प्रत्याम्नायो वक्ष्यते १४९ श्चित्तम् ... १४० अथ कृच्छस्थाने तीर्थप्रत्या- अथ प्रकीर्णप्रायश्चित्तम् म्रायो वक्ष्यते नीलीवस्त्रादिधारणे प्रायश्चि अन्या) तीर्थगन्तुः फलम् १५४ त्तम् १४२ कालविशेषेण नदीनामस्पृ. प्रायश्चित्ताकरणे त्यागः १४३ इयत्वम् कृते प्रायश्चित्ते ग्रहणविधिः १४४ कुल्यादिलक्षणम् रहस्यप्रायश्चित्तम् प्राजपत्यादयस्तत्प्रत्यानाया- ब्रह्महत्याप्रायश्चित्तम् श्वोच्यन्ते अथ सुरापाने प्रायश्चित्तम्... १४५ अथ सर्वप्रायश्चित्तानि वक्ष्यन्ते अथ सुवर्णस्तेये प्रायश्चित्तम् सर्वत्रानुक्तनिष्कृतौ प्रायश्चि- अथ गुरुतल्पगमने प्रायश्चि- त्तम् १५६ तम् १४६ ग्रन्थसमापनम् कृच्छ्रादिलक्षणम् " " मङ्गलम् इति स्मृत्यर्थसारविषयानुक्रमणिका समाप्ता ।

No text on this page.

No text on this page.

No text on this page.

ॐ तत्सद्ब्रह्मणे नमः। श्रीधराचार्यरुतः स्मृत्यर्थसारः। *गणेशब्रह्मविष्ण्वीशाम्बायोमा लोकपान्गुहम् । दुगाँ मन्वादिकान्वन्दे व्याख्यातूंश्च सदा गुरुन् ॥ १ ॥ श्रीकण्ठश्रीकराचार्यैः श्रुतिस्मृतिपुराणगैः । स्मृतिशास्त्रेष्वनेकेषु विप्रकीर्णेष्वनेकधा ॥ २ ॥ अनुष्ठात्रुपकारार्थं स्मृतिच्छिद्रं प्रयत्नतः । पुराणन्यायमीमांसासाङ्गवेदैः प्रपूरितम् ॥ ३॥ कामधेनौ प्रदीप्तेऽन्धौ कल्पवृक्षलतोसु च । शंभुद्रविडकेदारलोल्लटाद्यैश्च भाषितम् ॥ ४ ॥ मन्वायनेकस्मृतिषु व्याख्यातृप्रतिपादितम् । स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ॥ ५ ॥ प्राची दिशामनुक्तौ स्यादुदीचीशानदिक्तथा । तिष्ठत्त्वप्रहृतानुक्तावासीनत्वं च कर्मसु ॥६॥ करृङ्गाणामनुक्तौ तु दक्षिणाङ्गं भवेत्तदा । कुत्सिते वामहस्तः स्यादक्षिणः स्यादकुत्सिते ॥ ७ ॥ यज्ञोपवीतिना कार्य सर्व कर्म प्रदक्षिणम् । मनःप्रसादात्सत्योक्त्या तपसा मानकर्मणा ॥८॥ आचान्त्या चाऽऽत्मनः शुद्धिं कृत्वा कर्म समाचरेत् । कर्मायथाकृतं ज्ञात्वा तावदेव पुनश्चरेत् ॥ ९॥ प्रधानस्याक्रियायां तु साङ्गं तक्रियते पुनः । तदङ्गकरणे कुर्यात्मायश्चित्तं न कर्म तत् ॥ १० ॥ प्रभुः प्रथमकैल्पे तु योऽनुकल्पेन वर्तते । स नाऽऽप्नोति फलं तस्य परति श्रुतिः स्मृतिः ॥ ११ ॥ * श्लोकत्रयं ख. पुस्तके नास्ति । १ ख. तादिषु । २ ख. °शा त्वनु । ३ ख. ध समाचरेत् । ४ ख. कल्पस्य यो' ५ ख. 'ल्पेऽनुव ।

श्रीधराचार्यकृतः- कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् । अस्वयं लोकविद्विष्टं धर्ममप्याचरेन्न तु ॥ १२ ॥ बहल्पं वा स्वगृह्योक्तं यस्य कर्म प्रचोदितम् । तप्य तावति शास्त्रार्थे कृते सर्व कृतं भवेत् ॥ १३ ॥ श्रोतेषु सर्वशाखोक्तं सर्वस्यैव यथोचितम् । म्मात साधारण तेणु ग्राह्यं श्रौतेषु कर्मसु ॥ १४ ॥ समयाचरिता धर्मा जातिदेशकुलोद्भवाः । ग्रामाचाराः परिग्राह्या ये च विध्यविरोधिनः ॥ १५॥ ग्रुगधर्माः परिग्राह्याः सर्ववेव यथोचितम् । यत्कृते दशभिर्वस्त्रेतायां हायनेन तत् ॥ १६ ।। द्वापरे तच्च मासेन अहोरात्रेण तत्कली। देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः ॥ १७ ॥ दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च । समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ॥१८॥ महाप्रस्थानगमनं गोपशुश्च सुराग्रहः । अग्निहोत्रहवण्याश्च लेहो लीढापरिग्रहः ॥ १९ ।। असवर्णासु कन्यासु विवाहश्च द्विजातिषु । वृत्तं स्वाध्यायसापेक्षमघसंकोचनं तथा ॥ २० ।। अस्थिसंचयनादूर्ध्वमङ्गस्पर्शनमेव च । प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥ २१ ॥ संसर्गदोपः पापेषु मधुपर्के पशोर्वधः । दत्तौरसेतरे वा तु पुत्रत्वेन परिग्रहः ।। २३ ।। *सत्रदीक्षा च स्तेयान्यमहापातकिनिष्कृतिः । प्रतिमाभ्यर्चनार्थाय संकल्पश्च सधर्मकः ॥ २३ ॥ सवर्णान्याङ्गनादुष्टः संसर्गः शोधितैरपि । शामिनं व विप्राणां सोमविक्रयणं तथा ॥२४॥ दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको । कली युगे विमान्धर्मान्वानाहुर्मनीषिणः ॥२५॥ * इतः सार्ध लोकः ख पस्तके नास्ति । ग पुस्तके तु दत्तारसेति सार्ध श्लोकद्वयं नास्ति । १ ख. स्वार्थः कृते सर्गः कृता । २ व. शात्रो । ३ ख. ग. सामयाचारिक': । । ग. 'थोदिताः। ५ ग. 'न लहो । ६ ख. मथ ।

३ स्मृत्यर्थसारः। विप्रक्षत्रियविटशूद्राश्चत्वारो वर्णास्तत्र विवक्षत्रियविशो द्विजास्त्रि. जाश्च तेषां मातुः प्रथमं जन्म । उपनयनाहितीयं जन्म तृतीयं यज्ञदीक्षायामुत्तमं जन्म । स्त्रीणां विवाह उपनयनस्थाने । द्विजानां गर्भाधानादिकाः प्रेतेष्टेयन्ताः क्रिया मन्त्रतः कार्याः । तत्र संस्काराः --गर्भाधानसवनानवलोभनसीमन्तोन्नयनजातकर्मना- मकरणनिष्क्रमणान्नप्राशनचौलोपनयनसावित्रीवतवेदमहावतारण्यवता- नि गोदानिकस्नातकविवाहाश्चत्यावश्यकाः पोडश प्रधानाः संस्काराः । तत्रौ गर्भाधानं कार्यम् । रजःप्रभृतिपोडशरानान्त ऋतुकालः। गर्भचल- नात्पुरा तृतीये चतुर्थे मासे वा पुंसवनं कार्यम् । अनवलोभनं चतुर्थे । षष्ठेऽ- टमे वा सीमन्तोन्नयनम् । जाते पुत्रे पिता स्नात्वा रात्री संध्ययोऽहणे वा वृद्धिश्राद्धं हिरण्येन कृत्वाजातकर्मदानादि दुरितक्षयाय प्रजापतिप्रीत्य च कुर्यात् । जाताशौचान्तर्भध्ये च जाते जातकर्मादि कुर्यात् । मृताशौचमध्ये जाते तु तदाऽशौचान्ते वा कुर्यात् । नामकरणं जातकर्मानन्तरं वा द्वा- दशेऽह्नि वाऽन्यस्मिञ्शुभेऽह्नि वा कुर्यात् । निष्क्रमणं चन्द्रदर्शनं सूर्यदर्शनं देवनमस्कारंवा द्वादशेऽहनि तृतीये चतुर्थे मासे वा कुर्यात् । अन्नप्राशनं षष्ठेऽष्टमे वा दन्ते जाते कार्यम् । चौलं प्रथमे वर्षे तृतीये वा कार्य बहुम- तत्वाद्यथाकुलधर्म वा । एते संस्कारा बीजगर्भस्य दुरितक्षयाय यथास्वा- चार कार्याः । स्त्रीणामहोमकास्तूष्णीं स्युः । विवाहस्तु समन्त्रकः । एते कालातिक्रमे व्याहृतिहोमं कृत्वा कार्याः । एतेष्वेककलोपे पाद- कृच्छः कार्यः । चौले वर्धकृच्छः । मत्या लोपेऽनापदि च द्विगुणः । उपनयनात्याग्बाला उच्छिष्टादावप्रयता न स्युः । कामचारकामवाद- [काम]भक्षाः स्युर्महापातकवर्जम् । तेषां चण्डालादिस्पर्श सचैलं. स्नानम् । प्रागन्नप्राशनादभ्युक्षणम् । प्राक्चौलादाचमनम् । पश्चास्मानः मित्येके । पित्रोः स्वधानिनयनाते मन्त्रान्न ब्रूयुः । अथोपनयनम्-उपनयनं गर्भप्रभृति जन्मप्रभृति वाऽष्टमेऽब्द एकादशे द्वादशे विप्रादीनां क्रमात्कार्यम् । गुरुशुक्रादिशुभग्रहबलालाभे सति पश्चमान्दादारभ्याऽऽषोडशादाद्वाविंशादाचतुशाद्विप्रादीनां कमात्का- यम् । अत ऊर्ध्वं सावित्रीपतिता वात्याः स्युः । तेषामचीर्णप्रायश्चि- १ ख. ग. अन्त्येष्टया । २ ख. ग. क्रमगचन्द्र दर्शनस प्रदर्शनदेवनमस्कारानः ३ ख. ग. गोदा हा । ख. ग. घ. 'नानि दु । ५ ख. ग. 'भेकाले नि । ६ ख, ग. °क्षयार्थाय । घ. या य° । ७ ख. ग. नेते ४ श्रीधराचार्यकृतः- तानामुपनयनाध्यापनयाजनविवाहादिकं न कार्यम् । बात्यानां गुरु प्रायश्चित्तं वक्ष्यते। पण्डान्धबधिरस्तब्धजडगद्गदपङ्गुषु । कुब्जवामनरोगार्तशुष्काङ्गविकलाङ्गिघु ॥ मत्तोन्मत्तेषु मूकेषु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेऽपि चैतेषु संस्काराः स्युर्यथोचितम् ॥ मूकोन्मत्ती न संस्कार्यावित्येके कर्मस्वनाधिकारात्पातित्यं नास्तिः । सदपत्यं संस्कार्य बाह्मण्यां ब्राह्मणेनोत्पन्नो ब्राह्मण एवेतिश्रुतेः । अन्ये संस्कार्या इत्याहुः। होमं तावदाचार्यः करोति । उपनयनं च विधिनाss- चार्यसमीपनयनं वाऽग्निसमीपनयनं वा सावित्रीबाचनं वा । अन्यदङ्गं यथाशक्ति कार्यम् । विवाहश्च कन्यास्वीकारोऽन्यदमिति । औरसः क्षेत्रजश्चती संस्कार्यों भागहारिणौ। औरसः पुत्रिकापुत्रः क्षेत्रजो गूढजस्तथा ॥ कानीनश्च पुनर्भुजो दत्तः क्रीतश्च कृत्रिमः । दत्तात्मा च सहोढाजस्त्वपविद्धसुतस्ततः ॥ पिण्डदोंऽशहरस्तेषां पूर्वीमावे परः परः । एते द्वादश पुत्राश्च संस्कार्याः स्युर्द्विजातिषु ॥ केचिदाहुदिजै(ो)तौ संस्कार्यो कुण्डगोलको । *अमृते च मृते पत्यो जारजौ कुण्डगोलको । अथ यज्ञोपवीतविधिः- +कासक्षौमगोवालशणवल्कतृणादिकम् । यथासंभवतो धार्यमुपवीतं द्विजातिभिः॥ शुचौ देशे शुचिः सूत्रं संहताङ्गुलिमूलके । आलेख्य पण्णवत्या तत्रिगुणीकृत्य यत्ततः॥ अब्लिङ्गकैस्त्रिभिः सम्यक्प्रक्षाल्योवृतं तु तत् । अप्रदक्षिणमावृत्य सावित्र्या त्रिगुणीकृतम् ॥ अथ प्रदक्षिणावृत्तं समं स्यान्नवसूत्रकम् । त्रिरावेष्टय दृढं बद्ध्वा हरिब्रह्मेश्वरान्नमेत् ॥ * ख. ध पुस्तकयोरिदमर्धमधिकम् । + इदमध ग. पुस्तके नास्ति १ घ. °फाङ्गिवि । २ घ. 'ति श्रुतिस्मृती। अ° । ३ घ. लाभे प°। क. °लकम् । आ। ५ ख. ग. आवेश्य । घ आवृत्त्य । ६ ख. ग. नावृत्तं । ५ क. ख. ग. घ. अधःप्र ।

स्मृत्यथसारः । ५ यज्ञोपवीतं परमं पवित्रमितिमन्त्रेण धारयेत् । सूनं सलोमकं चेत्स्यात्ततः कृत्वा विलोमकम् ॥ सावित्र्या दशकृत्वोऽदिन्त्रिताभिस्तदुक्षिपेत् । विच्छिन्नं वाऽप्यधो यातं भुक्त्वा नितमुत्सृजेत् ॥ यद्वा-पृठवंशे च नाभ्यां व वनं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नादिलम्ब नचोच्छ्रितम् ।। स्तनादूर्ध्वमधो नाभेन धार्य कथंचन । ब्रह्मचारिण एकं म्यान्नाताय बहूनि च । *अहतं यन्त्र निर्मवासः स्वयंभुवा । तृतीयमुत्तरीयं वा वजाभावे त .... । ब्रह्मसूत्रेऽपसव्येऽसे स्थिते यज्ञोपतिता। प्राचीनावीतिता सव्ये कण्ठस्थे त निवतिता ॥ वस्त्रं यज्ञोपवीतार्थे त्रिवृत्सूत्रं ६ कर्मसु । कुशमुञवालतन्तुरज्जुर्वा सर्बजातिषु ।। इति यज्ञोपवीतविधिः । कार्णरौरवबास्तानि विप्रादेरजिनानि तु । अहतं वस्त्रयुग्मं तु श्वेतं वस्त्रमथापि वा। प्रधिग्रन्थिभि श्री त्रिवृत्स्याद्दक्षिणावृता । मुञ्जाभावे कर्तव्या कुशाश्मन्तबल्वजैः॥ पालाशाद्यास्तु सर्वेपां दण्डा याज्ञिकवृक्षजाः । +पालाशबैल्वप्नाक्षास्ते वटवेतसखादिराः॥ वणवोदुम्बराश्वत्थाः क्रमाद्विप्रादिषु स्मृताः । ते केशभालनासान्तप्रमाणाश्च क्रमाद्विजैः॥ धार्याः श्लक्ष्णाः सदा धार्य कौपीनं कटिसूत्रकम् । कौपीनमहतं धार्य खण्डं वा वस्त्रपार्श्वयुक् ॥ यज्ञोपवीतमजिनं मौजी दण्डं च धारयेत् । नष्ट भ्रष्टे नवं मन्त्राद्धृत्वा भ्रष्टं जले क्षिपेत् ।। तु * घ. पुस्तक इदमधे नास्ति । + इदमर्थ ख. ग. पुस्तकयो स्ति । १ ख. ग. घ. दुक्षयेत् । २ क. ध वा । । ख. ग. घ. स्यान्न तस्य द्वे । ४ ख ग. घ. सौजी त्रिवृत्समा श्लक्ष्णा दक्षिणावृतमेखला, । मु। ५ क. °कविल्व । ६ ख. ग.त्रात्कृत्वा ।

६ श्रीधराचार्यकृतः- उपनयनानन्तरं त्रिरात्रं द्वादशरात्रं वर्ष वाऽक्षारलवणाश्यधःशायी ब्रह्मचार्युपनयनवतं चरेत् । सर्वत्र व्रतान्ते नवानि यज्ञोपवीतानि धृत्वा पूर्वाणि त्यजेत् । वस्त्राणां त्यागानियमः । नित्यं स्वाध्यायाग्निकार्यब्रह्म- यज्ञतर्पणानि कुर्वीत । अनिन्द्ये विप्रगेहे भैक्ष्यं गुर्वनुज्ञयां चरन्भोजन- विधिना भुञ्जानो द्वादशाब्दं पञ्चाब्दं वेदग्रहणान्तं वा ब्रह्मचारी व्रत चरेत् । गुरुशुश्रूषां छन्दसां साधनाथं कुर्यात् । उपाकन्तिं सर्वेषां वेदा- ब्दवतम् । तत्र स्त्रीमधुमांसोच्छिष्टशुक्तपर्युपितताम्बूलदन्तधावनावस- क्थिकादिवास्वापच्छवपादुकागन्धमाल्योद्वर्तनानुलेपनाञ्जनजलक्रीडा- द्यूतनृत्यगीतवाद्यालापालीलपरिवादादीनासमावर्तनाद्वर्जयेत् । तदेका- पोह्ये व्याधौ मधुमांसभक्षणे गुरूच्छिष्टभक्षणम् । श्राद्धे तु वर्ण्यमेव । उपनयनवतानन्तरं सावित्रीवतमुपाकर्मान्तमारण्यकब्रतानि च तथैव । उपाकरणमोषधीजनने सति श्रावण्यां पौर्णमास्यां कार्यम् । श्रावणमा. सस्य अवणे वा पञ्चम्या हस्ते वा पश्चमीहस्तयोगे वा कार्यम् । भाद्र- पदस्य पौर्णमास्यां वा श्रवणे वा हस्ते वाऽऽपाढ्यां पौर्णमास्यां वा यथास्वाचारं कार्यभू । श्रवण आदी घटिकाचतुष्टयमभिजिन्नक्षत्रांश वय॑म् । तिथिगण्डे सति उदयव्यापिनी प्रयोगपर्याप्ता तिथिरुपाकरणे ग्राह्या । श्रवणे खण्डे सति धनिष्ठासंयुक्तं प्रयोगपर्याप्तं ग्राह्यं नोत्तराषा- ढायुतम् । हस्तादिप्वन्यनक्षत्रेषु शुक्लपक्ष उदयव्यापि कृष्णपक्षेऽस्तमय- व्यापि प्रयोगपर्याप्तं ग्राह्यम् । सूतकादिविघ्नसंभवे चौषध्युत्पत्त्यभावे च श्रावणभाद्रपदयोः कस्मिंश्चिदिने ग्रहणसंक्रान्तिवर्जिते कार्यम् । कर्मणो न लोपो नोत्कर्षः । मौनीयज्ञोपवीतादि नवं दद्याद्धारयेच्च । कटिसूत्रं नवं वस्त्रं तथैव । उपनयनादुपाकर्मान्तं सावित्रीवतं तत्संपूर्त्यर्थ विप्रसंबन्धिवान्धवभोजनं शक्त्या कार्यम् । ततो वेदाब्दवतं ततश्चाss- रण्यकेंव्रतानि प्रतिव्रतं वपनं च । व्रतान्त भोजने भक्ष्यमाहार्यम् । एतेषु बतेषु लोपे तारतम्येन बीन्पड़वा द्वादश वा प्राजापत्यांश्चरित्वा पुनश्च व्रतं प्रारभेत । ततोऽनन्तरं वोदगयने वा शुक्लपक्षे शुभेऽहनि स्वाध्यायं प्रारमेत । पूर्वाह्ने गणेशं सरस्वतीमिष्टदेवं च गुरुं गुरूत्तमं च संपूज्य ब्रह्मचारिणो विप्रसुवासिनीरभ्याऽऽशिपो गृहीत्वा ब्रह्मयज्ञवद्द- १ ख. °नि वि° । २ ख. ग. या याचित्वा मो. ३ घ. मानन्तरं स । । क. शुक्लप । घ. भरूप । ५ ख. ग. 'नवशक्रियादि । ६ ख. ग. 'तदेकवेद्यव्या । ७ क. श्रवणेन वा हस्तेन वा । ८ क. श्रवणादौ । ९ क. र्याप्तं । १० ख, ग, कवेदाब्दव । ११ रा ग, घ, गरुत्मन्तं - ।

७ स्मृत्यर्थसारः। न्धिारयमाणाः प्रणवव्याहृतिसावित्रीरुक्स्या प्रणवपूर्वं स्वाध्याय रिभ्य किंचिदधीत्य प्रणवेन समाप्य विरामोऽस्त्वित्युक्त्वा भूमिं स्पृष्ट्वा रुं वृद्धान्नमेयुः । ततोऽपरेशुप्रभृति गणेशादीन्नत्वा प्रणवेन प्रारम्भ माप्तिं च कुर्युः । जात्याचारसंशये माध्याप्याः । ब्रह्मचारी संध्यामु- स्याग्निकार्यं कृत्वा गुरूपसंग्रहणं वृद्धतरेष्वभिवादनं वृद्धेपु नमस्कार र्यात् । उपसंग्रहणं नाम अमुकगोत्रो देवदत्तशर्माऽहं भो अभिवादय युक्त्वा कणा स्पृष्ट्वा दक्षिणोत्तरपाणिभ्यां दक्षिणेन पाणिना गुरोर्व- रणपादं सव्येन सव्यं गृहीत्वा शिरोवनमनम् । अभिवादने पादसंग्र- गं नास्ति । पादस्पर्शनं काय न वा। आयुष्मान्भव सौम्य देवदत्त ते प्लुतान्तमुक्त्वाऽमुकशर्मन्निति प्रत्यभिवादः कार्यः । आयुष्मान्भव म्येति वा प्रत्यभिवादः कार्यः। अथं गुरवो माता स्तन्यदात्री च ता पितामहादयो माता मातामहादयश्चान्नदाता भयत्राताऽऽचार्य- पनेता मन्त्रविद्योपदेष्टा वा तेषां पत्न्यश्चोपसंग्राह्याः समावृत्तेन । ले समवयस्के वाऽध्यापके सति गुरुवञ्चरेत् । मातुलाश्च पितृव्याश्च शुराश्च मातृष्वसारः पितृष्वसारो यवीयांसोऽपि प्रत्युत्थायाभिवाद्याः। गध्यायत्विजो ज्येष्ठभ्रातरश्च सर्वेषां पत्न्यश्चैवं मातृप्वसा पितृष्वसा च वर्णा भ्रातृभार्या च नित्यमभिवाद्याः । विप्रोष्य तूपसंग्राह्या जातिसंबन्धियोपितः । विप्रोप्य विप्रं कुशलं पृच्छेन्नपमनामयम् ॥ वश्यं क्षेमं समागम्य शूदमारोग्यमेव च । न वाच्यो दीक्षितो नाम्ना यवीयानपि यो मधेत् । पूज्यस्तमभिभापेत भोभवत्कमनामभिः । परपत्नीमसंवृद्धा भगिन्यम्बेति भापयत् । विवर्षपूर्वः श्रोत्रियोऽभिवाद्यः । त्रिवत्संबन्धिनश्च स्वल्पेनापि योनिजा अन्ये च ज्ञानवृद्धाः सदाचाराश्चाभिवाद्याः । उदश्यां सूतिकां नारी भर्तृघ्नी गर्भपातिनीम् । पापण्डं पतितं वात्यं महापातकिनं शठम् ॥ नास्तिकं कितवं स्तनं कृतघ्नं नाभिवादयेत् । मत्तं प्रमत्तमुन्मत्तं धावन्तमशुचिं नरम् ॥ १ ख. ग पाणिदक्षि। २ क. ख. घ. अ । ३ क. ग. संबद्धां । क. वर्षश्रो' । व. ग. अत्रिवर्षात् । घ. अत्रिवर्षाः स ।

द श्रीधराचार्यकृतः- वमन्तं जम्भमाणं च कुर्वन्तं दन्तधावनम् । अभ्यक्तशिरसं स्नानं कुर्वन्तं नोभिवादयेत् ॥ जपयज्ञजलस्थांश्च समित्पुप्पकुशानलान् । उदपात्राय॑भक्ष्यान्नं वहन्तं नाभिवादयेत् । अभिवाद्य द्विजश्चतानहोरात्रेण शुध्यति ॥ क्षत्रवैश्याभिवादने विप्रस्यैवम् । शूद्राभिवादने विरात्रम् । कृच्छ्रे तु रजकादिषु । चाण्डालादिषु चान्दं स्यादिति संग्रहन्मतम् । देवताप्रतिमां दृष्ट्वा यतिं दृष्टा विदण्डिनम् ॥ नमस्कारं न कुर्याच्चेदुपवासेन शुध्यति । सर्वे चापि नमस्कार्याः सविस्थासु सर्वदा ॥ अभिवादो नमस्कारस्तथा प्रत्यभिवादनम् । आशीर्वाच्या नमस्कार्ययस्यस्तु पुनर्नमेत् ॥ स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः । ततोऽधीयीत वेदांश्च स्वाध्याये गुरुशिक्षितान् ।। अथानन्याया वक्ष्यन्ते- अनध्यारोनध्ययने प्रज्ञामायुः प्रजां श्रियम् । ब्रह्मचर्याथियं तेजा निकृन्तति यमः स्वयम् ।। मन्त्रवीयंशय भयादिन्द्रो बज्रेण हन्ति च । ब्रह्मराक्षसता चान्ते नरकश्च भवेद्धवम् ।। अटमीचतुर्दशीपर्वपतिपत्स नित्यमहोरात्रमनध्यायः । अष्टकासु च । ऐन्द्रश्रवणद्वादशीमघाभरण्योश्च सोपपदतिथौ च । ज्येष्ठे शुक्ल द्वितीया तु आश्विने दशमी सिता। चतुर्थी द्वादशी माव एताः सोपपदाः स्मृताः ।। शयनोत्थानद्वादशोश । आपाढीकार्तिकीफाल्गुनीसमीपस्थद्विती- यासु च । अपरपक्षान्ते प्रेतद्वितीयायां च सर्वाद्भुतेष्वकालिकोऽन ध्यायः । अत्युत्पाते च महानवम्यां च रथषप्तम्यां च युगादिषु । * अयं लोक ख. ग घ पुस्तकेषु नास्ति । १ क. ख. 'द्विजांश्चै । २ ग. घ कायं त । ३ ख. ग. घ. कृत्स्मृतम् । वस्थाश्च स°। ५ घ. क्षितः । ६ स. ग. ब्रह्मचर्याश्रयं । घ. ह्यवीयनि' । ७ ख. ग. घ. 'महाभ। ८ ब, ग, अग्न्युत्पाते चा कालवृष्टौ । ४ ख.ग.

९ स्मृत्यर्थसारः। शक्कतृतीया वैशाखे प्रेतपक्षे त्रयोदशी । कार्तिके नवमी शुक्ला माघे दर्शश्च पूर्णिमा ॥ एता युगादयः प्रोक्ता दत्तस्याक्षयकारकाः । मन्वन्तरादयः सर्वेऽनध्याया इति केचन ॥ आश्वयुक्शुकनवमी कातिके द्वादशी सिता। तृतीया चैत्रमासस्य सिता माद्रपदस्य च ॥ आपाढे शुक्दशमी माघे या शुक्सप्तमी। श्रावणस्याष्टमी कृष्णा तथा षष्ठी च पूर्णिमा । फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता । कार्तिकी फाल्गुनी चैत्री ज्यैष्ठी पश्चदशी तथा ।। मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः। शबानुगमनपरिचरणेषु चाऽऽकाशेशवदर्शनेषु चाहोरात्रम् । श्राद्धिक परिगृह्य चाऽऽरण्यकमधीत्य च मनुष्यप्रभृतीनां देवानां नागानांच स्थान. मुक्ती चाहोरात्रं स्वप्नान्तमित्येके । नवश्राद्धभुक्ती स्वन्नजरणान्तम् । सूतकान्नभोजने चैवम् । महकोद्दिष्टे त्रिरात्रं गन्धलेपक्षयान्तं वा । महागुरुमृती द्वादशरात्रम् । असपिण्डे गुरी त्रिरात्रम् । आचार्य चोपा- ध्याये पक्षिणी । समानविद्ये सब्रह्मचारिणि च । आचार्यभार्यापुत्रशि- ध्येष्वहोरात्रम् । अग्न्युत्पाते गोविप्रमृती त्रिरात्रम् । ऋत्विग्याज्यस्वयो- निसंबन्धिषु चैवम् । वेदसमापने प्रथम संस्थासु तदहोरात्रम् । परेयुश्चा- नध्यायः । ग्रहणे तु रात्री मोक्षे त्रिरात्रम् । दिवा मोक्षे व्यहम् । उपा. कर्मणि चोत्सर्गे व्यहम् । अयने विषुवे पक्षिणी। निर्यातभूकम्पोल्का- पातादिसर्वाद्भुतेष्वाकालिकोऽनध्यायः। अग्न्युत्पाते वाऽकाले वृष्टी वा। आदिज्येष्ठान्ता तात्कालिक्यन्यत्राऽऽकालिकी वृष्टिः । सायंसंध्याग- जित उदयान्तोऽनध्यायः। अर्धरात्रादूर्ध्व गर्जनेऽर्धरात्रे वाऽऽकालिकोऽन- ध्यायः । प्रातःसंध्यागर्जने त्वहोरात्रम् । काकोलूककुकुरमूषकमण्डूका- द्यन्तरागमने सति दिने चेदिनान्तं रात्री चेद्रात्यन्तमनध्यायः । गवा- श्वमहिषपशुस्त्रीशूद्रादावहोरात्रम् । श्वमारियोश्च । आरण्यमार्जारसर्प- नकुलपश्चनखादौ विरात्रम् । आरण्यश्वशृगालादिवानररजकादौ द्वाद- १५. शशब्दद । २ ख. ग. °वदहने । ३ क. द्विरात्रम् । प्रमृतौ त्रिरात्रम् । ऋत्विग्या. ज्यस्वयोनिसंबन्धिषु चैवम् । अग्न्युत्पाते गोविप्रग। ४ ख. ग. अश्रूत्पा । ५ ख. ग. 'मसंख्यास । ६ स. ग. °न्तात्कालादन्य'। ७ ख. ग. घ. काटम । ८ ख. ग. ‘पञ्चम जान्यादौ । २ १० श्रीधराचार्यकृत:- शराबम् । खरवराहोष्ट्रादिचण्डालादिसूतिकोदक्याशवादी मासम् । शशमेषश्वपाकादौ षण्मासम् । गजगण्डसारससिंहव्याघ्रमहापापिकृत- नादावब्दमनध्यायः। स्वाध्याये या प्रवचने वर्तमानेऽन्तरागते । आधिव्याधिविघ्नमृत्युपापानि गुरुशिष्ययोः ।। शोमनगृहे शोमनदिने चानध्यायः । विवाहमौञ्जीबन्धप्रतिष्ठोद्याप- नादिष्वामार्जनमाससमाप्तेः सपिण्डगोत्राणामनध्यायः । यज्ञे चानुबै- म्यान्तमृविजामाचार्याणां वा श्चोऽनध्याये सत्याद्यरात्रावनध्यायः । एकामध्याययुग्मे त्वन्त्यापररात्रमनध्यायः । अनध्याययुग्मे पूर्वदिना- पररात्राविश्यके। श्वकोटुगर्दभोलूकसामबाणार्तनिस्वने । अमेध्यशवशूद्वान्त्यश्मशानपतितान्तिके ।। देशे शुचावात्मनि च विद्युत्स्तनितसंप्लवे । मुक्खाऽऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते॥ पांसुवर्षे दिशा दाहे संध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षगिरिरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः॥ सर्वकुत्सितगन्धेपु परिवेषे सभासु च । अभ्यक्तमानकाले च महास्वेदेऽतिकम्पने ।। गोविप्ररोधने सर्वशब्देषु श्राद्धपतिषु । शाल्मलस्य मधकस्य कोविदारकपित्थयोः ॥ श्लेष्मातकस्य च्छायायामेतांस्तात्कालिकान्विदुः । चतुर्दश्यष्टमीपर्वप्रतिपत्सु च सर्वदा ॥ दुर्मेधसामनध्यायस्त्वन्तरागमनेषु च । तथा विस्मृतिशीलानां बहुवेदप्रपाठिनाम् ।। चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु तु । वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत् ।। उदयास्तमये वाऽपि मुहूर्तत्रयगामि यत् । तदिनं तदहोरात्रमनध्यायविदो विदुः ॥ १ क. पानां गु । २ घ. वध्यान्त । ३ क. 'संधानीहारभू ।

स्मृत्यर्थसारः। केचिदाहुः क्वचिद्देशे यावत्तदिननाडिकाः । तावदेव त्वनध्यायो न तस्मिंश्चेद्दिनान्तरे ॥ उपवासवतादीनां तिथिमाहुस्तथैव च । चतुथ्यां पूर्वरात्रे च नवनाडीपु दर्शने ।। नाध्येयं पूर्वराने स्यात्सप्तमी च त्रयोदशी । अर्धरात्रात्पुरा स्यान्चेन्नाध्येयं पूर्वरात्रके ॥ प्रणवव्याहृतीनां च सावित्र्याः शिरसस्तदा । नित्ये नैमित्तिके कार्ये व्रते यज्ञकतौ तथा ॥ प्रवृत्ते काम्यकार्ये च नानध्यायाः स्मृतास्तथा । देवतार्चनमन्त्राणां नानध्यायः स्मृतस्तथा ॥ अयोत्सर्जनम्-ततः सार्धचतुरो मासान्पपमासं वाऽधीत्य पोपमासस्य रोहिण्यामष्टकायां पौपे माघे फाल्गुने वा शुक्लपक्षे प्रतिपद्यन्यस्मि- न्वाऽह्नि पौर्णमास्यां वा सह शिष्यैामावहिर्जलान्त उत्सर्जनं कार्य तर्पणं च । वर्ष चाधीत्योपाकर्मदिन उत्सर्जनं कार्य न वा। तर्पणं कार्य- मेव । एवं वेदवतानि चोभयं वा पारं नीत्वाऽविप्लुतब्रह्मचर्यो विप्लवे कृतप्रायश्चित्तो गुरुं संपूज्य तदनुज्ञया समावृत्तो विवहेत् । इति ब्रह्मचारिप्रकरणम् । अथ विवाहः- मातृतः पितृतः शुद्धामनुरूपी गुणान्विताम् । अदीर्घरोगां संचारिरोगपातित्यवर्जिताम् ॥ असपिण्डां च पितृतः सप्तमात्पुरुषात्पराम् । मातृतः पश्चमादूर्ध्वमसमानार्पगोत्रजाम् ।। अनन्योढा भ्रातृमती स्त्रियं कन्यां यवीयसीम् । पुमान्धीमान्वरो धीरो द्विजो वर्णानुपूर्वशः ।। विवहेद्धर्ममार्गेण बाहमादिषु यथाविधि । मातुलस्य सुतां केचित्पितृष्वसृसुतादिकाम् ॥ विवहन्ति क्वचिद्देशे संकोच्यापि सपिण्डताम् । दद्याच्च प्रतिगृह्णीयात्नात्वैव सुसमाहितः॥ १ ख. ग. घ. तन्मिने दि २ ख. प्रेते। ३.ख, ग. घ. मा.सान्वा । ४.ग.भि. रू°।५ क. घ. 'रि गरा।

१२ श्रीधराचार्यकृत:- ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । देवो विवाहः कन्याया ऋत्विजे दानमुच्यते ॥ आर्को गोमिथुने दत्ते कन्यादानं यदा तदा । प्राजापत्यः सह धर्मं चरतामिति दानतः ।। आसुरो द्रविणादानाद्वान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ ब्राह्मदैवार्षप्राजापत्या धाः। आसुरगान्धर्वराक्षसपैशाचा अधाः। नेत्रान्तस्थाश्चत्वारो विप्रस्यैव । राक्षसः क्षत्रियस्यैव । इतरे त्रयः सर्वेषाम् । ब्राह्मादिपु पूर्वं होमः प्रशस्तः पश्चात्कन्यास्वीकारः । आसु- रादिपु पूर्व कन्यास्वीकारः पश्चाद्धोमः कार्यः । पिता पितामहो भ्राता संकुल्यो गोत्रजो गुरुः। मातामहो मातुलो वा कन्यादा बान्धवाः क्रमात् ॥ पित्रादिदात्रभावे तु कन्या कुर्यात्स्वयंवरम् । शुल्कं दत्त्वा वरे याते पञ्चसंप्रतीक्ष्य तु ॥ कन्याऽन्यस्मै प्रदातव्या वाग्दानेऽपि कृते सति । दशमासान् । * वरे देशान्तरगते त्रीनृतून्संप्रतीक्ष्य च ॥ कन्याऽन्यस्मै प्रदातव्या वाग्दानेऽपि कृते सति । मृतेऽन्यस्मै तथा देया वैरे सप्तपदात्पुरा ॥ पुरा पुरुषसंयोगान्मृते देयेति केचन । ऋतावदृष्टे कन्यैव पुनर्देयेति केचन ॥ आगर्भधारणात्कन्या पुनर्देयेति चापरे । देशकालादिमे धर्मा अनुष्ठेया विजानता ॥ कुलशीलविहीनस्य पण्डादेः पतितस्य च । अपस्मारिविकर्मस्थरोगिणां वेषधारिणाम् ॥ दत्तामपहरेत्कन्यां सगोत्रोढ़ां तथैव च । मन्त्रसंस्काररहिता देयाऽन्यस्मै वराय च ।। कन्या च दूषिता वा देयाऽन्यस्मै वराय सा। अन्यथा तु हरन्दण्ड्यो व्ययं दद्याच्च सोदयम् ।। * क. ख. पुस्तकयोः पद्यमिदं नास्ति। १ ख, ग, घ, °तत्राद्याश्च । २ ख. ग. घ. पितव्यो। ३ ख. ग. मृते ।

१३ स्मृत्यर्थसारः। पढान्धव्याधितादीनां विवाहस्तु यथोचितम् । विवाहासंभवे तेषां कनिष्ठो विवहेत्तदा ॥ पण्ढान्धवधिरस्तब्धजडगद्गदपङ्गुषु । कुब्जवामनरोगार्तशुष्काङ्गिविकलागिषु । ध्वस्तपुंस्त्वे च मत्ते च शयनस्थे निरिन्द्रिये । मूकोन्मत्तेषु सर्वेषु न दोपः परिवेदने । पितृव्यपुत्रे सापत्ने परदारसुतादिषु । विवाहाधानयज्ञादी परिवेदाद्यदूपणम् ॥ *ज्येष्ठभ्रात्रा त्वनुज्ञाते परिवेदाद्यदूषणम् । पितुः सत्यप्यनुज्ञाने नाऽऽदधीत कदाचन ॥ पाणि ह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् । वैश्या प्रतोदमादद्याद्विवाहे ब्राह्मणस्य तु । +वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ सवणेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्यां निषादो जातः पारशवोऽपि वा । वैश्याशूद्योस्तु राजन्यान्माहियोगी सुतौ स्मृतौ । वैश्यात्तु करणः शूद्यां विन्नास्वेष विधिः स्मृतः ।। एतेऽनुलोमजाः पुत्राः संस्कार्याः स्युर्द्विजातिजाः। तथा मूर्धावसिक्तादिजातिजाश्च द्विजातयः । ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राजातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥ क्षत्रिया मागधं वैश्याच्छुद्राक्षत्तारमेव च । शूद्वादायोगवं वैश्या जनयामास वै सुतम् ।। माहिष्येण करण्यां तु रथकारः प्रजायते । इत्याद्याः प्रतिलोमाः स्युद्धिजधर्मबहिष्कृताः॥ * ख. घ. पुस्तकयोरिदम नास्ति । + ख. ग. घ. पुस्तकेष्विदमर्ध नास्ति । १ ख. ग. घ. धबधिरादी । २ क. नाऽऽधीयीत । ३ ख. ग. जातोऽम्बष्टस्तु शूदायाँ निषादः पार्श्ववोऽपि वा । ४ क. 'देशक । ५ ख. स्युः सर्वध° ।

१५ श्रीधराचार्यकृतः- विवाहात्परमाधाय जुह्वदेवाग्निहोत्रकम् । दर्शपूर्णमासाग्रयणसोमयागाक्रमाचरेत् ॥ सर्वथा प्रथमः सोमयागः कार्यों द्विजातिभिः । यथासंमविनाऽनेन फलं दत्त्वाऽपि दक्षिणाम् ।। वात्यदुर्जाह्मणत्वादिमहादोषोपशान्तये । सूर्यग्रहे कुरुक्षेत्रे पीकृष्णाजिनादिकम् ।। चाण्डालात्प्रतिगृह्यापि यजेदावश्यकैमखैः। अथ चोपासनं कृत्वा जुह्वन्गाह्माणि वाऽऽचरेत् ॥ अर्धाधाने महाश्रेयो गार्झौतोमयात्मकम् । *एकत्वं स्त्री गता भर्तुः पिण्डे गोत्रे च सूतके । सत्यामन्यां सवर्णायां धर्मकायें न कारयेत् । सवर्णासु विधौ धर्ये ज्येष्ठया न विनेतरा ॥ आज्ञासंपादनी दक्षा पुत्रसूश्च प्रिया शुचिः। नियोज्या धर्मकार्येषु नाधिवेद्या कथंचन ॥ शक्त्या मक्त्या शुचिर्दक्षा नियोज्या धर्मकर्मसु । अशुद्धां जारिणी शूद्रां दूषितां तु विसर्जयेत् ॥ सुरापी व्याधिता धूर्ता वन्ध्याऽर्थन्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पतिद्विदच मृतप्रजा ॥ गृहस्थस्तु पडग्निः स्यात्पश्चाग्निश्चतुरनिकः । स्याड्विव्यग्निरथैकाग्निर्नाग्निहीनः कथंचन ॥ गा_मौपासने कुर्यात्सर्वाधानी तु लौकिके। स्मातं च लौकिके कार्य श्रीतं वैतानिकामिषु ।। अथ गोत्रप्रवरनिर्णयः- अथात्र गोत्रप्रवरनिर्णयो वर्ण्यतेऽञ्जसा । जमदग्रिमरद्वाजविश्वामित्रात्रिगौतमाः॥ वसिष्ठकश्यपागस्त्या मुनयो गोत्रकारिणः । एतेषां यान्यपत्यानि तानि गोत्राणि मन्यते ॥ * इदमध ख. ग. पुस्तकयो स्ति। ब, ग, महच्छेयो । २ ख. ग, घ, शक्का भफा शु° । ३ ख. ग. प्रियाशुचिः ।बी।

स्मृत्यर्थसार। वियमाणतया वाऽपि सत्तया वोऽनुवर्तनम् । एकस्य दृश्यते यत्र तद्वोत्रं तस्य कथ्यते ॥ समानमुनिभूयस्त्वमेकप्रवरतामपि । समानप्रवरत्वं च द्वेधा पौधायनोऽब्रवीत् ॥ मुनिप्रणीतप्रवरेसनपश्चाशता वयम् । अनन्तन्यिपि गोत्राणि वर्गीकृत्याऽभिधमहे ।। जामदग्न्या वत्सविदावार्टिषेणाः परस्परम् । नान्वियुः प्रवरैक्येण सगोत्रत्वेन चाऽऽदिमौ॥ यस्का मित्रयवो वैन्याः शुनकाः प्रवरैक्यतः । स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरी॥ उक्ताः सप्त भृगोवंशा वक्ष्यन्तेऽङ्गिरसो गणाः । गौतमाः सप्त चाऽऽयास्याः शारद्वतास्तथा परे ।। कीमण्डा दीर्घतमसस्ततः कारेणुपालयः । वामदेवा औशनसा गोत्र]क्याच्च नान्वियुः ।। भरद्वाजाः सकपयो गर्गा रोक्षायणा इति । चत्वारोऽपि भरद्वाजा गोत्रैक्यान्नान्वियुर्मिथः॥ केवलागिरसश्चैके विष्णुवृद्धाः सकण्वजाः । हारीता रथीतराश्च मुद्गलाः प्रवरैक्यतः ॥ स्वं स्वं हित्वा गणं सर्वे विवहेयुः परावरैः । षोडशानिरसस्त्रेधा प्रोक्ताः संकृतयस्तथा ।। संकृतीनां द्विवंश्यत्वाद्वसिष्ठश्च चतुर्विधैः । स्ववर्गीयैः सगोत्रत्वात्पवरक्याच नान्वियुः ।। चत्वारोऽत्रय आद्यांत्रिवाद्धतका गविष्ठिराः। मुद्गलाश्चेति गौत्रैक्यात्प्रवरक्याच नान्वियुः ।। त्रयश्च कश्यपगणा निध्रुवा रेभशाण्डिलाः । गोक्यात्प्रवरैक्याच्च नोद्वहेयुः परस्परम् ॥ वसिष्ठः काश्यपैनित्यं लौगाक्षीणामनन्वयः । अहर्वसिष्ठतोक्तिस्तु प्रयाजाप्त्यादिगोचरा ॥ ख. 'वा प्रव। ग. वाऽपि व । २ व. ग. °दग्न्यो । ३ ख. शरद्वतस्त। ग. घ. शर. द्वन्तस्त° । ४ ख. कामंदा दे । घ. को गण्डा । ग. कोमण्डा दैर्ध। ५ घ. नान्वयः । ६ घ, पाभिषाधृतकग।

१६ श्रीधराचार्यकृत:- पसिष्ठाः कुण्डिनश्चैवमुपमन्युपराशराः। वसिष्ठा इति चत्वारो गोत्रैक्यान्नान्वियुमिथः॥ कुशिका रोहितगणा रौक्षकाः कामकायनाः । कता धनंजया आजा अघमर्षणपूरणाः ॥ इन्द्रकौशिकमाश्चेति विश्वामित्रगणा दश । नोद्वहेयुः सगोत्रत्वावचिच्च प्रवरैक्यतः।। अगस्त्यतः साम्भवाहाः सोमवाहा इति त्रयः। गोक्यात्प्रवरैक्याच नोद्वहेयुः परस्परम् ॥ वर्गा एकोनपञ्चाशत्प्रसिद्धा मुनिभिः स्मृताः। अप्रसिद्धाः परे वंश्या अन्तर्भूता इहैव ते ॥ विश्वामित्रादिगोत्रेण नोदहेयुर्धनंजयाः। अवेस्तु पुत्रिकापुत्रा वामरथ्यादयस्तथा ॥ तथैव जातकाश्च वसिष्ठुरत्रिभिः सह । मरद्वाजेन शुङ्गेन विश्वामित्रस्य शैशिरे ॥ क्षेत्रे जातो द्विगोत्रर्पिः प्रोच्यते शीशशिरिः। विश्वामित्रभरद्वाजैस्तजानां तेन नान्वयः ॥ कपिलानां भरद्वाजैविश्वामित्रैश्च नान्वयः । गुरोः सगोत्रप्रवरा नोद्वाह्याः क्षत्रविडूजनैः ।। स्वगोत्राद्यनभिज्ञैश्च विप्रैराचार्यगोत्रजाः। दानादिनाऽन्यगोत्राः स्युरज्ञातगुरुगोत्रिणः ।। समानप्रवरोद्वाहनिषेधः क्षत्रवैश्ययोः । प्रवराननवेत्यास्मात्प्रवराच्चान्यगोत्रजाः॥ इत्थं सगोत्रसंबन्धविवाहविषये स्थिते । यदि कश्चिज्ज्ञानतस्तां कन्यामूहाऽपि गच्छति ।। गुरुतल्पबताच्छु ध्येद्गर्भस्तज्जोऽन्त्यतां व्रजेत् । भोगतस्ता परित्यज्य पालयेजननीमिव ।। अज्ञानादैन्दवैः शुध्येत्रिभिर्गर्भस्तु कश्यप । महद्भिर्महतो यत्नात्कृतः प्रवरनिर्णयः॥ १ ग. इन्द्रकाः कौशिकाचे । २ ग. सोमवा । ३ ख. ग. त्रात्रिगोत्रैथ नो । ४ ख. प्रवरात्मानवेत्यस्मा । ग. घ. प्रवरान्मान° । ५ ख. ग. घ. कश्यपः ।

स्मृत्यर्थसारः। जामदग्न्या वत्सबिदावार्टिषेणास्तथैव च । पञ्चावत्तिन एवान्ये सर्वे चतुरवत्तिनः ॥ विवाहे वितते तन्ने होमकाल उपस्थिते । कन्यामृतुमती दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः । स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युञ्जानामाहुति हुत्वा ततः कर्म प्रवर्तते ॥ बद्धा । विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला। त्रिरात्रं दंपती स्थातां पृथक्शय्यासनाशिनी ।। चतुर्थेऽहनि सुनातौ तस्मिन्नग्नौ यथाविधि। विवाहहोमं कुर्यातामित्यादिस्मृतिसंग्रहः ॥ विवाहे दंपती स्यातां त्रिरात्रं ब्रह्मचारिणी । अलंकृता वधूश्चैव सहशम्यासनाशनौ । अधर्येषु विवाहेषु ताम्बूलमनुमोदनम् । हवनं भोजनं चैव वर्जयेत्सर्वथा द्विजः ।। आसुरेघूपवासः स्याद्गान्धर्वेषु त्रिरात्रकम् । राक्षसे चैव पैशाचे कर्याच्चान्द्रायणं तथा । गर्भाधानादिसंस्कारेष्विष्टापूर्तकृषिष्वपि । वृद्धिश्राद्धं पुरा कार्य कर्मादौ स्वस्तिवाचनम् ॥ वृद्धमुख्यास्तु पितरो वृद्धिश्राद्धेषु मुञ्जते । चूडाहोमावसाने तु बालमुख्यास्तु मुञ्जते । वसवो रुद्रा आदित्यारूयवस्थाः कामरूपिणः बाला युवानो वृद्धाश्च पितॄणामाश्रयाः स्मृताः ।। प्रेतानामाश्रया रुद्रा यमश्चैवान्तकः स्मृतः । असंस्कृतप्रमीतानां ब्रह्मा विष्णुः समाश्रयः॥ अनाश्रितानां जीवानां दत्तं नैवोपतिष्ठति । प्रारम्भादूर्ध्वमाशीचे विवाहः कार्य एव तु ॥ प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीश्राद्धं विवाहादी श्राद्ध पाकपरिक्रिया ।। निमन्त्रणं वा श्राद्धे तु प्रारम्भः स्यादिति स्मृतिः । गणशः क्रियमाणानामेकं स्यान्मातृपूजनम् ॥ वृद्धिश्राद्धं च तन्त्रं स्याद्धोमास्तु स्युः पृथक्पृथक् । १ ग. आसुरादिवि । २ ग. श्रुतिः । - ६ ३ १८ श्रीधराचार्यकृतः- . २ अथाऽऽहिकमुच्यते-- तत्र प्रमात उत्थायष्टदेवतां मनसा नत्वा तदहःकृत्यं स्मृत्वां संध्यो- पासनादि कुर्यात् । तत्र मूत्रपुरीपोत्सर्गमेवं कुर्यात् । अवानस्पत्याया- ज्ञिकशुष्ककाठलोष्टतृणपर्णादिकं गृहीत्वा शिरः प्रावृत्य यज्ञोपवीतं निवीतं पृष्ठतः कण्ठलम्बितं धृत्वैकवस्त्रश्चेद्दक्षिणे कर्णे निधाय दिगन- पलोकनं च कृत्वा काष्ठाद्यन्तर्धानं कुर्यान्न वा मौनं वाग्यमं वो घ्राणस्य पिधानं च क्रमास्कृत्वा दिवा संध्ययोरुदङ्मुखो रात्री दक्षिणामुखो मूत्रपुरीपोत्सर्ग कुर्यात् । फालकृष्टे जले चित्यां वल्मीके गिरिमस्तके देवालये नदीतीरे दर्भपत्रेषु शावले ॥ सेव्यच्छायेषु वृक्षेषु मार्गे गोष्ठाम्बुभस्मसु । अग्नी च गच्छंस्तिष्ठंश्च विष्ठां मूत्रं च नोत्सृजेत् ॥ वाय्वग्न्यर्कक्षगोसोमसंध्याम्बुस्त्रीद्विजन्मनः । पश्यन्नभिमुखश्चैतान्विष्ठां मूत्रं च नोत्सृजेत् ॥ सर्वे निषेधा नैव स्युः प्राणबाधाभयेषु च । काठादिना त्वपानस्थममेध्यं निमजीत च ॥ रथ्याचत्वरतीर्थेषु श्मशाने गोमये जले । अङ्गारोद्यानसप्राणियज्ञभूमिपु नोत्सृजेत् ॥ कन्दमूलफलाङ्गारै मेध्यं निमृजीत च । इति मूत्रपुरीपोत्सर्गविधिः ॥ भष शौचविधि:--- शौचे यत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समग्रं कर्म निष्फलम् ॥ शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । सृजलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथाऽऽन्तरम् ॥ गृहीतशिश्नश्चोत्थाय सृद्भिरभ्युद्धृतैर्जलैः। गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ अन्तर्जलाद्देवगृहावल्मीकान्मूषकस्थलात् । कृतशौचापविद्धाश्च न ग्राह्याः पञ्च मृत्तिकाः॥ स. . °वा प्राणाय पि । २ ख. ग. प. भंपुष्पेषु। ३ क. स्तिथोत्तरम् । ष, रसपातरे।

१९ स्मृत्यर्थसारः। मार्गरथ्याश्मशानस्था: पांसुला मलिनास्त्यजेत् । कीटाङ्गारास्थिरहिता नाऽऽहरेच्छर्करान्विताः ॥ वापीकूपतडागेषु नाऽऽहरेदाह्यमृत्तिकाः । अन्तर्जलगता ग्राह्याः परतो मणिबन्धनात् ।। आरण्यकेषु त्वेवं स्याग्राम्येष्वाहरणं विदुः । मूत्रे- एका तु मृत्तिका लिङ्गे तिस्रः सव्येतरे मृदः । करद्वये मृवयं स्यान्मृत्प्रमाणमनेकधा । त्रिपर्वपूरमात्रा वा मृत्तिकाऽक्षप्रमाणिका । आमलकमात्रा वा मूत्रशौचे तु मृत्तिका। मूत्रात्तु द्विगुणं शुक्रे मैथुने त्रिगुणं स्मृतम् ॥ पुरीषे तु- पश्चापाने मृदः क्षेप्याः करे वामे दश स्मृताः। करयोः सप्त दातव्याः पुरीषे मृत्प्रमाणकम् ॥ अर्धप्रसृतिमात्राद्यास्तदर्धास्तितः स्मृताः । [*हस्तेऽर्धमात्रं प्रसृतेस्तदध पुनस्तदर्धं तु यथाक्रमेण । मृदोऽपि मानं कथयन्ति केचिद्दिवा गृहस्थस्य सुखस्थितस्य ॥] यद्वाऽपाने मृदस्तिस्रः प्रसृत्यर्धत्रिभागिकाः । यद्वा प्रमृतिमात्रास्त्रिः पादपाण्योः पृथक्पृथकः ।। एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं स्याद्वनस्थानां यतीनां तु चतुर्गुणम् ॥ यद्दिवा विहितं शौचं तदधं निशि कीर्तितम् । तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि ॥ स्त्रीशूद्रादेरशक्तानां बालानां चोपनीतितः । गन्धलेपक्षयकरं शौचं कुर्यान्न संख्यया ।। एकैकया मृदा पादौ हस्तौ प्रक्षालयेत्ततः। इति शौचविधिः॥ * धनुचिहान्तर्गतः श्लोकः ख. ग. पुस्तकयोर्वर्तते । १ ख. ग. मार्गोषरश्म। २ ख. घ. सव्ये करे । ३ ख. म, प. पायो पा ।

२१ श्रीधराचार्यकृतः- अथाऽऽचमनविधिः॥ तत्र हस्तौ पादौ प्रक्षाल्य यज्ञोपवीती शुद्धभूमी पादी प्रतिष्ठाप्य बद्धकच्छशिख: पुण्डरीकाक्षमिष्टदेवतां स्मृत्वा प्रकृतिस्थं फेनबुबुदर- हितं संहताङ्गुलिपाणिनाऽम्बु गृहीत्वाऽङ्गुष्ठकनिष्ठिके मुक्त्वा शेपं वीक्षितं ब्रह्मतीर्थन त्रिश्चतुर्वारं समाहितः पिबेत् । कायेन तीर्थन वा देवेन वा पिबेत् । न पियेण कदाचन । पीला हस्ती प्रक्षाल्य [ *ओष्ठान्ततः संकोच्य संहताड्डुलमूलेनालोमकेन मुख द्विः प्रमृज्य] संहताङ्गुलिभिर्मुखं सकृदवमृज्य हस्तौ प्रक्षाल्य पादौ शिरश्चाभ्युक्षेन्नवा संहताङ्गुलिभिरास्यं सलोमप्रदेशे स्पृष्ट्वा हस्तं प्रक्षाल्याङ्गुन्ठप्रदेशिनीभ्यां नाणे स्पृशेत् । अङ्गु- छानामिकाभ्यां चक्षुषी श्रोत्रे वा स्पृशेत् । अङ्गुष्ठकनिष्ठिकाभ्यां नामि हृदयं तलेन सर्वाङ्गुलिभिः शिरो बाहुमूले सर्वाङ्गुल्यग्रैः स्पृशेत् । सर्वत्र मध्ये मध्येऽपः स्पृशेत् । अत्यन्ताशक्तौ त्रिः पीत्वा हस्तं प्रोक्ष्य श्रोत्रं स्पृशेत् । हृत्कण्ठतालुगाभिः स्युरद्भिः शुद्धा द्विजाः क्रमात् । शूद्रादयोऽन्ततः सकृत्स्पृष्टाभिः शुद्धाः । न वर्षधारास्वाचामेत्तप्ताभिश्चाप्यकारणात् । कनिष्ठादेशिन्यङ्गुष्ठमूलेषु कायपियब्रह्मतीर्थानि । कराग्रे दैवं तीर्थ करमध्ये सौम्यं तीर्थमनितीर्थं च निर्वपणसंश्रयलाजहोमादिनित्यहोमा- न्कायेन तीर्थेन कुर्यात् । दैविकं चार्चनबलिप्रक्षेपपर्युक्षणमार्जनभोजन- नित्यहोमान्दैवेन दैविकं च पैतृकं पित्र्येण । कमण्डलुस्पर्शनं दधिप्राशने नवान्नप्राशनं सुराग्रहणं दैविकं च सौम्येन कुर्यात् । आग्नेयेन प्रतिग्रहं कुर्यात् । इत्याचमनविधिः। अथाऽऽचमननिमित्तानि—उच्छिष्टस्पर्शने पादावसेचने शिखामोक्षे यज्ञो. पवीतापगमे चोदकमुत्तीर्यावतीर्य च संदेहेषु सर्वेष्वाचामेत् । आस्यगत- श्मश्रुस्पर्शने च लोमकोष्ठस्पर्शने च दन्तसक्तस्य जिह्वया स्पर्शने च रथ्याप्रसर्पणे च स्नेहपञ्चनखस्पर्शने च रोदने च विषमवरेतःशौचान्ते च पीत्वा लीढे च [+ दन्तसक्तं निष्ठीव्य च देवताभिगमने च द्विराचामेत् । * धनुचिहान्तर्गलपाठो ग, पुस्तके । + धनश्चिद्वान्तर्गता पतिः क. पुस्तके नास्ति । १ ख. ग. ताभिस्तिम भरास्यमलो' । २ ख. ग. घ. °त् । स्त्रीशू । ३ ख. ग. °संश्रव. पला । घ. संस्रवण । ४ ख. ग. घ. °नं सुग्रह।

स्मृत्वर्थसारः। २१ स्नात्वा पीत्वा च लीढे च निष्ठीव्य सुप्त्वाऽधोवायौ वासो विपरिधाय चाभ्यङ्गे कृते च हविर्भक्षणे च कृते द्विराचामेत् । भोजने हवने दान उपहारे प्रतिग्रहे। संध्यात्रयाम्बुपानेषु पूर्व पश्चाद्विराचमेत् ॥ स्वाध्याये च वस्त्रसहित उच्छिष्टस्पर्शश्चेत्तदालभ्याङ्के निधाय वा तत्सहित आचान्तः शुध्येत् । निधाय वाऽऽचम्य वस्त्रादिकं प्रोक्षेत् । अन्नपानादिना सहित उच्छिष्टस्पृष्टश्चेन्निधायाऽऽचम्य प्रोक्षेत् । अन्ना. दिरक्षाशक्तौ तु तदालभ्यान्तिके निधाय वा शौचाचमनं कुर्यात् । परि- वेषणं कुर्वन्नुच्छिष्टं स्पृष्ट्वाऽन्नपात्रं निधायाऽऽचम्याभ्युक्ष्य परिविष्यात् । परिवेषणं कुर्वन्मूत्रााच्छिष्टश्चेदन्नादिकं निधाय शोचं कृत्वाऽन्नादिक मोक्ष्याग्निमक वा संस्पृश्य परिविष्यात् । परिवेपणे रजोदृष्टी तत्स्पृष्टा- नस्य त्यागः । अन्नागारे चाण्डालसूतिकोदक्यापतितादिस्पृष्टे चेत्त्याग एव । रजकादिस्पृष्टे तु जलेनाऽऽप्लच्याग्निमर्कंवा स्पर्शयेत् । उच्छिष्टोपहत- स्त्रीशूद्रसंभाषणे चास्पृश्यदर्शने च । पित्र्यमन्त्रानुबवणे चाऽऽत्मालम्भे च प्रोक्षणे । अधोवायुसमुत्सर्ग आक्रन्दे क्रोधने क्षुते ॥ [*मार्जारमूषिकास्पर्श प्रहासे ठीवनेऽनृते । अन्त्यसंभापणे दर्शने च कर्म कुर्वन्नाचामेत् ] । श्वकाकादिदर्शने १ चैवम् । चापः अकर्म कुर्वन्पूर्वेषु दक्षिणं श्रवणं स्पृशेत् । अनुष्ठानेऽग्निगोविप्रस्त्रीप्रच्युतकेशनखस्पर्शने नीवीसंसने स्पृशेत् । आर्द्रतृणं गोमयं भूमि वौषधीयं स्पृशेत् । कर्णं वा स्पृशेत् । सियाणिकारक्तपूयस्वेदस्पर्शने तु प्रक्षाल्याबादि स्पृशेत् । आपत्सु मैमित्तिककर्माङ्गाचमनस्थाने श्रवणस्पर्शनं स्यान्मनःशुद्धयर्थम् । अग्निस्तीर्थानि वेदाश्च वरुणार्केन्दुवायवः । विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ॥ जपहोमप्रदानेषु पितृपिण्डोदकाग्निषु । कृतेष्वाचमनं कार्यं पितृकार्येषु सर्वथा । * धनश्चिह्नातर्गतेयं पक्तिः कपुस्तके नास्ति । १ ख. ग. घ. 'नुद्रव । २ ग, तू । घ्राणमलर' । ३ खं. ग. वासवाः । वि° ।

२२ श्रीधराचार्यकृतः- नास्पृश्यं स्पृशन्नाचामेन्न फलकाद्यासनासीनो न त्रिपद्यां नान्यार्थ आसने मोजनार्थासने भुक्त्वाऽऽचामेद्वा । नान्यासने शयनयानपादुको- पस्थो न दुर्देशे पादायस्थो न प्रह्वो न तिष्ठन्न ब्रजन्नाप्रणतो नान्यमना न विलोकयन्न हसन्न रुदन्न जल्पन्न नग्नो नैकवस्त्रो नाअलिना न परं स्पृशन्वामहस्तेन न बहिर्जानुकरो न प्रौढपादो न प्रसारितपादो न बद्धासनो न गले बद्धो नाऽऽवेष्टितशिरा न यज्ञोपवीतमुत्तरीयं चान्यथा धृत्वाऽऽचामेत् । तत्र सम्यग्धृत्वा पुनराचामेत् । यज्ञोपवीते नटेऽन्य. सूत्रं वस्त्रं चोपवीत्याचामेत् । वामहस्ते कुशेऽन्यदर्भ वा स्थिते दक्षिणेन न पिबेत् । अपः करनखस्पृष्टा न पिबेत् । तत्सुरावदुष्टम् । आचमना. धुच्छिष्टे दूर्वां दूरतो वर्जयेत् । न चाङ्गुलिभिराचामेन्नातीर्थेन न शब्दवत् । नावीक्षितं नास्वभावं नोष्णं जलमकारणात् ॥ वामेन पात्रमुद्धृत्य न पिबेदक्षिणेन तु । सौवर्णरौप्यताम्रश्च वेणबिल्वाश्मचर्मभिः अलाबुदारुपात्रै पैश्च नारिकेलकपित्थकैः । तृणकार्जलाधाररन्यान्तस्तिमन्मयैः ॥ वामेनोद्धृत्य वाऽऽचामेदन्यदातुरसंभवे । तव मृन्मयपात्रस्थजलं नैवोपहन्यते ॥ तीर्थतोयं च शुध्येत करकादिस्थितं सदा । पादशौचं शिखाकच्छबन्धं धौतोपवीतकम् ।। विनाऽऽचान्तोऽशुचिनित्यं बद्धः कण्ठे शिरस्यपि.। पवित्रकर आचामेच्छचिः कर्मार्थमादरात् ।। कुशमात्रकरो वाऽपि दर्भमात्रकरोऽथ वा । तदोङ्कारेणाऽऽचमनं यदा व्याहृतिभिर्भवेत् ॥ साविया वाऽपि कर्तव्यं यद्वा कार्यममन्त्रकम् । तत्कुशं विधिवल्लूनं न त्यजेदन्यथा त्यजेत् ॥ अन्ये दर्भास्तु संत्याज्यास्त्यजेदूर्वाङ्कुरौ न तु । म पादप्रक्षालनशेषमाचामेत् । नान्याचमनशेषेण चाऽऽचामेयद्याचा मेमूमौ जलं नावयित्वाऽऽचामेत् । नात्राऽऽचमनशेषेण नाग्न्युदकशेषेण १ ग. °घोपनीयाऽऽचा । २ क. अलम्बु ।

स्मृत्यर्थसारः। कर्माणि कुर्यात् । यदि कुर्याद्भूमौ जलं सावयित्वा तत्रैवाम्भुपात्रं स्थापयित्वोद्धृत्य कर्माणि कुर्यात् । अथाऽऽचमनापवादः- अनेह औषधे जग्धे स्निग्ध बद्धे सलेपने । नाऽऽचामेद्धोजने वृत्ते शुद्ध्यर्थ क्रमुकादिषु ॥ अन्येषु चामभक्ष्येषु संमारेषु सुगन्धिषु । ताम्बूले क्रमुके होमे मुक्तस्नेहानुलेपने ॥ इक्षुदण्डे फले मूले पत्रपुष्पतिलेषु च । तथा त्वक्तृणकाष्ठेषु नाऽऽचामेदामभक्षणे ।। मधुपर्के च सोमेघु प्राणाहुतिषु चाप्सु च । आस्यहोमेषु सर्वेषु नोच्छिष्टो भवति द्विजः ।। दन्तवद्दन्तलग्नं रसाज्ञाने शुद्धम् । जिह्वया स्पर्शनेऽशुद्धम् । तत्र कर्णस्पर्शनम् । अन्यत्त्वास्यगतं शुद्धम् । अन्यत्त्वाचान्तेन तत्स्थाना- ऽच्युतेन निगिरंस्त्यजन्वा कर्णं स्पृशेत् । यद्वा निगीणे कर्णस्पर्शः। त्यक्ते वाचमनम् । रसज्ञाने त्वसंभावे द्विराचमनमिष्यते । अन्यत्त्वास्यगतं चैव त्वाचान्ते त्ववशिष्टकम् ।। आस्यं संशोधयेद्यनाद्दन्तांश्च मृदुयत्नतः। दन्तमेदे महत्पापं रक्तं मद्यसमं विदुः ।। एवं कृते यत्स्थितं स्यात्तन्न दोपाय सर्वदा । ओठश्मश्रुगतो लेपः शुद्धः प्रक्षालिते स्थितः ॥ मुखजा विपुषः सूक्ष्माः शुद्धाः स्वाश्च परस्य ताः। स्थूलाश्च विग्रुपः शुद्धा यद्यङ्गे न पतन्ति ताः ॥ अङ्गपाते तु प्रक्षाल्या आचामेच्च परस्य चेत् । बिन्दुष्वाचमनं कुर्युरनङ्गे पतितेष्वपि ॥ वेदाभ्यासे मुखाजाताः शुद्धा एव तु सर्वदा । श्मश्रु चाऽऽस्यगतं शुद्धं यद्यनेन तु संस्पृशेत् ॥ परस्य स्पर्शने शुद्धा भूस्पृष्टाचामबिन्दवः । जानुमात्रजले तिष्ठन्नाचामन्हि न दुष्यति ॥ १ ख. ग. घ, अस्निग्ध औ° । २ ख. ग. घ. पफलेषु ।

२४ श्रीधराचार्यकृतः- उपविष्टः समाचामेजानुमात्रादधोजले । जलाचान्तो जले शुद्धो बहिराचमनो बहिः ॥ बहिरम्भस्थ आचान्तः सर्वत्र शुचिरेव तु । जलस्थो जलकार्येषु स्थलस्थः स्थलकर्मसु ।। उभयोरुभयस्थस्तु स्थाचान्तः शुद्धिमानुयात् । न जले शुष्कवस्त्रेण न शुष्के चाऽऽवाससा ॥ आचमादिक्रियां कुर्याद्वहिर्जानुर्न कुत्रचित् । इत्याचमनप्रकरणम् । अथ दन्तधावनविधिः-- प्रातःकाले च कर्तव्यं शुद्धयर्थं दन्तधावनम् । प्राङ्मुख ऐशान्यभिमुखो वा दक्षिणं बाहुमुद्धृत्यान्तर्जानुकर उप० विश्य तिक्तकषायकदुकसुगन्धिकण्टकिक्षीरिवृक्षगुल्मलतादीनामेकेन मक्षालितेन वाग्यतो दन्तान्धावयेत् । तत्र वृक्षजकाष्ठं स्यादवणं मृदु कीटाग्न्युदकादूषितं द्वादशाङ्गुलमष्टाङ्गुलं वा । कनिष्ठाग्रसमस्थूलं पर्वार्धकृतपूर्वकम् । दन्तधावनसुद्दिष्टं जिह्वालेखनिका तथा ॥ क्षत्रियादिष्वगुलामुलह्रासः। स्त्रीणां चतुरडुलम् । सर्वेषां चैके। दन्तधावनमन्त्रः- आयुर्बलं यशों वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ प्रक्षाल्य मत्वा त्यजेत् । तत्र खदिरगराकेतकीकरवीरकुटजासना- सारिमेदापामार्गमालतीबिल्वाम्रकदम्बकरञ्जवजीवेणुप्लक्षमाषबद- रीशिरीषकोविदारपालाशशाकवृक्षशिखण्डिप्रियङ्गुतमालाः प्रशस्ताः । शाल्मल्यरिष्टभव्यकिंशुकपीलुबिभीतकगुग्गुल कपकुम्ब यष्टितिन्दुकमधूके. गुदद्धतरपारिभद्राम्लिकाश्च वाः । इष्टकाकाष्ठयापाणेर्न कुर्यादन्तधावनम् । दधिनीलधवामोचाकदम्बेगुदतिन्दुकाः ॥ बन्धूकमल्लिकाराजकासाः श्रीहरस्तथा । औदुम्बरवटकमुकशिंशिपाश्वत्थशगुभिः॥ १ ख. ग. रन्तस्थ। २ ख. ग. घ. प्रातर्भुक्त्वा च । ३ क. भुक्ता । ४ ख. ग. कबर शि°। ५ ख. घ. °कालोठपा।

स्मृत्यर्थसारः। २५ कुशकाशैर्दन्तशुद्धौ गां पश्येन्नान्यथा शुचिः कोविदारशमीकाचश्लेष्मातकपलाशकाः॥ निर्गुण्डीशिंशपाशोककदम्बकुटजा घटाः। विहिताः प्रतिपिद्धाः स्युरिमे तस्माद्विकल्पिताः ॥ पलाशं कुसुमं शाकं शिंशिपां कार्पासं दमयन्तीं शाल्मलीं शिरीष शमी लक्ष्मणां करञ्जवटार्कबकुलपारिजातनिर्गुण्डीसूचीमुखकण्टकिनश्च पूति- गन्धोपगन्धमधुरविदलवित्वग्विषदिग्धोद्धशुष्कांश्च वर्जयेदित्येके ॥ आसने शयने याने पादुकादन्तधावने । पालाशाश्वत्थको वयौ सर्वकुत्सितकर्मसु ॥ श्राद्धे यज्ञे च नियमे पत्यौ च प्रोपिते तथा । अजीर्णे च विवाहे च उपवासे व्रतेषु च ॥ प्रतिपदर्शषष्ठीषु नवम्यां च विशेषतः। दन्तधावनं वय॑म् । अष्टम्यां च चतुर्दश्यां पौर्णमास्यां स्त्रीतैलदन्त. काष्ठानि वानि । अर्कवारव्यतीपातजननदिनसंक्रान्तिनन्दादिषु विशेषतः । षष्ठीप्रतिपदोभूताष्टमीपर्वसु विशेषतो दर्शे नवम्यां च । तैलाभ्यङ्गं स्त्रियं मांसं दन्तकाष्ठं च वर्जयेत् । दन्तकाष्ठालामे प्रतिपिद्धदिने चापां द्वादशगण्डूपैर्मुखशुद्धिः । यद्धा तृणपर्णोदकेनाङ्गुल्या षा दन्तान्धावयेत् प्रदेशिनीवय॑म् । मध्यमानामिकाङ्गुष्ठर्दन्तदाढयं भवत्यपि । इति दन्तधावनविधिः। अथ मानविधिः। संशोध्य दन्तानाचम्य विधिवत्मानमाचरेत् । स्नानमूलाः क्रियाः सर्वाः श्रुतिस्मृत्युदिता नृणाम् ॥ अस्मातस्तु पुमान्ना) जपहोमादिकर्मसु । गुणा दश नानशीलस्य पुंसो रूपं च तेजश्च बलं च शीचम् ॥ आपुष्यमारोग्यमलोलुपत्वं दुःस्वप्नधातश्च तपश्च मेधा । मानेनाऽऽत्मप्रसादः स्याद्देवा अभिमुखाः सदा ॥ सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः । १ ख. ग. °मीप्लक्षश्ले । २ ख. न. 'म्बककुभा व । ३ ग. काकां । ४ ख. ग. "न्दासु वर्म. बेत् । ५ ख. ग. °मे मनः प्र ।

२६ श्रीधराचार्यकृतः- महापापान्यलक्ष्मीश्च दुरितं दुष्टचिन्तितम् ॥ शोकदुःखादिहरणं प्रातःस्नानं विशेषतः। प्रातमध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।। यतेस्त्रिषवणं स्नानं सकृत्तु ब्रह्मचारिणः । सर्वे वाऽपि सकृत्कुर्युरशक्ती चोदकं विना ॥ मानं च सर्ववर्णानां कार्य शौचपुरःसरम् । समन्त्रकं द्विजानां स्यात्स्त्रीशूद्राणामन्त्रकम् ।। नमस्कारेण मन्त्रेण शूद्राणां तु क्रिया स्मृता । न जले शुष्कवस्त्रेण स्थले चैवाऽऽर्द्रवाससा ॥ तर्पणाचमनं जाप्यं मार्जनादिकमाचरेत् । बाह्मनानेषु सूयिं जपोत्सर्जनतर्पणे ॥ जलेटिहोमाञ्शुष्केण जले कुर्वन्न दुष्यति । मानं च द्विविधं प्रोक्तं वारुणेतरभेदतः ॥ तत्रापि वारुणं मुख्यमितरद्गौणमेव तु । आग्नेयं वारुणं बाह्यं वायव्यं दिव्यमेव च । सारस्वतमिति स्नानं स्मृतं पोढव तत्र तु ।। आग्नेयं भस्मना मानमद्भिर्वारुणमुच्यते । आपोहिष्ठामयं ब्राह्म मन्त्रस्नानं च तत्स्मृतम् ।। पच्छोऽर्धर्चश ऋक्शश्च मार्जनं तन्मयं तृचे । बाझं हस्तस्थितं तोयं शिरसा धारयेदिति ॥ यत्स्मृतं तदपि बाझं वायव्यं रजसा गवाम् । [*दिव्यमातपवर्षाद्भिर्गङ्गास्नानसमं स्मृतम् ॥ विद्वत्सरस्वतीवाचा प्राप्तं सारस्वतं स्मृतम्।] दिव्यतीर्थमयं स्नानं गुर्वाचार्येरितं तथा ॥ सर्वतीर्थाभिषेकात्तु पवित्रा विदुषां हि वाक् । चाण्डालादिस्पर्शने च कार्य वारुणमेव तु ।। काम्यं मलापकर्षं च क्रियानानं च वारुणम् । इतराणि यथायोग्यं देशकालाद्यपेक्षया ॥ * धनुचिहान्तर्गतः श्लोकः ख. ग. पुस्तकयोर्विद्यते । १ ख. ग. णसच्छूद्राणां कि । २ ख. ग. णशुष्केचे । ३ ख. ग. 'यर्थेि ज°। ४ ख. ग. जने त' । प, जयंस्तन । ५ घ. ब्रह्मह' । ६ ख. ग. स्तच्युत°। ७ स. ग. घ. 'र्थभवं ।

स्मृत्यर्थसारः । स्रोतसोऽभिमुखः स्नायान्मार्जने चाघमर्षणे । अन्यत्रार्कमुखी रात्री प्राङ्मुखोदङ्मुखोऽपि वा ॥ संध्यामुखस्तु संध्यायां तथैवाऽऽद्यन्तयामयोः । नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ॥ क्रियानानं तथा पष्ठं पोढा स्नानं प्रकीर्तितम् ! नित्यमेव तु मध्याह्ने प्रातश्च क्वच कस्यचित् ।। यतिबतिब्रह्मचारिहोत्रध्येतृतपस्विनाम् । उच्छिष्टाापघातेषु चास्पृश्यस्पर्शनेषु च ॥ ग्रहसंक्रमणादी च स्नानं नैमित्तिकं भवेत् । पुष्यस्नानादिकं काम्यं दैवज्ञविधिचोदितम् ॥ इष्टापूर्तक्रियार्थं यत् क्रियाङ्गं स्नानमुच्यते । मलापकर्षणं यत्तत्मानमभ्यङ्गपूर्वकम् ॥ स्नानमेव फलं तीर्थ क्रियानानं तदुच्यते । अनहस्त्ववगावि स्वाचान्तः सानमाचरेत् ।। प्रक्षाल्योच्छिष्टमुच्छिष्टस्तथैव स्नानमाचरेत् । नाल्पाम्भसि शिरो मज्जेन्नावगाहेत्समुद्रके । क्रियानाने शिरो मजेदन्यत्रापि सरःसु च । उदयात्पूर्वमूवं वा सानं स्यात्संगवेऽपि वा ।। प्रातः संक्षेपतः स्नानं होमाद्यर्थं तदिष्यते । नदीसरिदेवखातगर्तप्रस्रवणेषु च ।। सरःमु चाकृत्रिमेषु शस्तं तीर्थ विशेषतः । वाप्यां कूपे तडागे वा पारक्ये वोष्णवारिणि । प्रातःस्रानं सदा कुर्यादुष्णेनैव सदाऽऽतुरः। तत्र पादौ मुखं प्रक्षाल्य प्रणवं सावित्री च स्मृत्वा शिखां बद्ध्वाऽऽ- चम्य तटं प्रक्षाल्य दर्भादीन्निधाय दर्भपाणिः कृतसंकल्पो जलं नत्वा प्रद- ताञ्जलिःप्राङ्मुखोऽवगाह्य कक्षादीन्निमृज्य स्नात्वा द्विराचम्य दर्भपाणि. रापोहिष्ठाद्यैरब्दैवतैर्मार्जनं कृत्वा जलालोडनं चाघमर्पणं (*कुर्वन्नेष पुनः सात्वा द्विराचम्य जलतर्पणं) कुर्यान्न वा ततो वस्त्रप्रान्तं निष्पीड्या. * धनुश्चिन्हान्तर्गतग्रन्थः क. पुस्तके नास्ति । १ ख. ग. 'खोऽग्निमु। २ ख. ग, घ. मानार्हस्त्वव । ३ ख. म. सरित्सु। ४ ख. परन्तै । ५ घ. कुर्यानवा ।

२८ श्रीधराचार्यकृतः- (पः स्पृष्ट्वा वस्त्रद्वयं परिधानोत्तरीये कृत्वा मानवस्त्रं निष्पीड्य ) आचम्य संध्यामुपासीत। मध्याहनाने त्वेवं विशेषः-- कार्य माध्याह्निकस्नानं संक्षिप्त वाऽपि विस्तृतम् । संक्षिप्तस्य प्रयोगोऽत्र वक्ष्यते स्मृतिसंग्रहात् ।। तत्र कृतशौचो द्विराचम्य विष्णुं शिवं सूर्यं चेष्टदेवतां नत्वा प्रक्षा- लिततटे मृत्तिकां दर्भानक्षतांस्तण्डुलांस्तिलान्संस्थाप्य मृत्तिकां विधा विभज्यैकेन भागेन नाभेरधः संलिप्य प्रक्षाल्य स्नात्वा द्विराचम्य भूर्भुवः स्वरिति मृत्तिका प्रोक्ष्य हस्ताभ्यां तत्सवितुर्वरेण्यमिति सूर्यस्य दर्श. यित्वा नाभेरधः स्योना पृथिवि भवेति द्यावापृथिवी शान्तेति वा लिप्त्वाऽन्यभागं सूर्यदर्शितं नामेरूचं गन्धद्वारामित्यालिप्य 'आपो अस्मान्मातरः' 'इदमापः प्रवहत' । 'सुमित्र्या न आप ओषधयः' इति शिरस्यभ्युक्ष्य 'दुर्मियास्तस्मै सन्तु' इति बहिः प्रसिच्य योऽस्मान्द्वेष्टि यं च धयं द्विप्मः' इति मृच्छेषं प्रक्षाल्यान्यतीर्थे गङ्गातीर्थ स्मृत्वा नत्वा 'हिरण्यवं वरुणं प्रपद्ये' इति वरुणं नत्वा तीर्थं चतुर्हस्तं प्रकल्प्य प्रद- क्षिणसुदकभावर्तयेत् । जानुमात्रसरिजले तिष्ठेदन्यत्रोपविशेत् । स्नात्वा देहं प्रक्षाल्य पुनः स्नात्वा द्विराचम्याब्दैवतैर्वारुणैः शुद्धशुचिपवित्रलि- ड्रैमर्जिनं कृत्वा 'इमं मे गङ्गे' इति जलं निरालोड्य मनोऽघमर्षणं कुर्यात् । तच्चाघमर्षणमङ्गुष्ठाङ्गुलिभिः श्रोत्रहङ्नासिकामुखं विधाय निमनस्त्रिपडष्टद्वादशवारमावर्तयेदघमर्षणम् । ऋतं चेति तृचं सूक्तं द्रुपदा वा जपेहचम् । ओंकारं वा जपेद्विष्णुं शिवं सूर्यं स्मरेत्तथा ॥ ततत्रिपञ्चसप्तदशद्वादशवारं वाऽऽप्लुत्य द्विराचम्यैवाऽऽर्द्रवासा जल- तर्पणं कुर्यात् । ततो जलादुत्तीर्य स्नानवस्त्रप्रान्तं तटे निप्पीडयेत्-ये के चास्मत्कुले जाता इति । ततः मानावस्त्रं त्यक्त्वा शुष्कं शुद्धमहतं कापसिं क्षौम वा श्वेत धातुरक्तं वा वस्त्रद्वयं धृत्वा जङ्घे पादौ प्रक्षाल्य द्विराचम्य गङ्गादिम- त्तिकयोर्ध्वपुण्ड्रं कुर्यात् । इति स्नानप्रकरणम् । * धनुश्चिह्नान्तर्गता पतिः क. पुस्तके नास्ति । १ ख. ग. त्यालेप्य । २ ग, सिञ्च्य। ३ ख. ग. प्रक्षाल्य । ४ ख. ग. शुक्लम। ५ क. जात्युकं ।

स्मृत्यर्थसारः। २९ अथ ब्रह्मयक्षतपणविधिः- अन्वारब्धेन सव्येन दक्षिणेन तु पाणिना। सव्योत्तराभ्यां पाणिभ्यामथवा तर्पणं भवेत् ॥ श्राद्ध पिण्डे विवाहे च दाने चैकेन दीयते। तर्पणे तभयेनैवं जलं देयं तु नान्यथा ॥ पामहस्ते तिलान्क्षिप्त्वा जलमध्ये तु तर्पयेत् । स्थले शाट्यां तटे पात्रे रोममूले न कुत्रचित् ।। असंस्कृतप्रमीतानां स्थले दद्याज्जलाञ्जलिम् । शुक्कैस्तिलैर्दभैर्देवानुपवीती देवेन तीर्थन प्राङ्मुखस्तर्पयेत् । शबलै- स्तिलैपीन्निवीती कायेनोदङ्मुखस्तर्पयेत् । आचार्यान्पितन्प्राची- नावीती पित्र्येण कृष्णैस्तिलदक्षिणाभिमुखस्तर्पयेत् । यद्वा शुद्धोदकै- देवानृषींश्च पिटुस्तिलः सर्वान्वा सर्वैस्तर्पयेत् । यद्वा देवानक्षतेस्तण्डुलै- ऋषींस्तिलैः पितॄन्देवानामेकैकमञ्जलिं दद्यात् । ऋषीणां द्वौ द्वौ पितॄणां त्रीस्त्रीन्दद्यात्स्वाचारप्राप्तैर्मन्त्रैः । यद्वा ब्रह्मादयो ये देवास्तान्देवांस्तपः यामि । भूर्देवांस्तर्पयामि । भुवर्देवांस्तर्पयामि । स्वर्देवांस्तर्पयामि । भूर्भुवः स्वर्देवांस्तर्पयामि । कृष्णद्वैपायनादयो य ऋषयस्तानृषीस्तर्प- यामि । भूकंपींस्तर्पयामि । भुवर्कपीस्तर्पयामि । स्वक्रीस्तर्पयामि । भूर्भुवःस्वपींस्तर्पयामि । सोमः पितृमान्यमोऽङ्गिरसोऽग्निष्वात्ताः कव्यवाहनादयो ये पितरस्तापितूंस्तर्पयामि । भूः पितॄस्तर्पयामि । मुवः पितॄस्तर्पयामि । स्वः पितृस्तर्पयामि । भूर्भुवः स्वः पितॄस्तर्पयामि । ततः पित्रादीन्प्रतिपुरुष तर्पयेत् । मात्रादीर्मातामहादीन्मातामहादी: पितृव्यांस्तत्पत्नीज्येष्ठभ्रातस्तत्पत्नीर्मातुलांस्तत्पनीर्मुर्वाचार्योपाध्याया- न्सुहृत्संबन्धिबान्धवांश्च द्रव्यदातृपोषकांश्च तत्पत्नीश्च तर्पयेत् । तिलाभावे स्वर्णरूप्यताम्रदर्भतिलोदकैः । खड्गमौक्तिकहस्तेन कार्य वा पितृतर्पणम् ॥ न केवलजलेनैव कर्तव्यं सति संभवे । न जीवत्पितृकः कृष्णस्तिलस्तर्पणमाचरेत् ॥ सप्तम्यां रविवारे च जन्मक्षदिवसेषु च । गृहे निषिद्धं सतिलं तर्पणं तद्वहिर्भवेत् ॥ १ रोमकूपे न।

३० श्रीधराचार्यकृतः- शोमनगृहे शोभनदिने न तिलतर्पणम् । विवाहे चोपनयने चौले सति यथाक्रमम् ॥ वर्षमर्धं तदर्धं च नेत्येके तिलतर्पणम् । * वृद्धौ सत्यां च तन्मासे नेत्येके तिलतर्पणम् ।। तिथितीर्थविशेषे तु कार्य प्रेते च सर्वदा । पिण्डान्सपिण्डा नो दाः प्रेतपिण्डं विनाऽत्र तु ॥ पितृयज्ञे च यज्ञे च गयायां दारेक ते ॥ गयासाम्यं मृताहस्य केचिदाहुः पुराणकाः। वसुरुद्रादित्यरूपाञ्छ्राद्धार्थे तर्पयेत्पितॄन् । नामगोत्रे समुच्चार्य तिलस्तीर्थेषु संयतः। दीपोत्सवश्चतुर्दश्यां कार्यं च यमतर्पणम् ॥ कृष्णाङ्गारचतुर्दश्यामपि कार्य सदैव तु । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने ॥ वृकोदराय चित्राय चित्रगुप्ताय वै नमः। चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोन्विताः ।। एकैकेन तिलैमिश्रान्दद्युस्त्रीनुदकाञ्जलीन् । यज्ञोपवीतिना कार्य प्राचीनावीतिनाऽथ वा॥ देवत्वं च पितृत्वं च यमस्यास्ति द्विरूपता । ततः मानवस्त्रं निष्पीडयेत् । न त्रिगुणीकृतं पीडयेत् । न जले पीतयेत् । न दक्षिणायं प्रसारयेत् । स्नात्वाऽऽर्द्रवस्त्रो विमूत्रे कृत्वा प्राणायामत्रयं कृत्वा पुनः स्नायात् । नोत्तरीयमधः कुर्यान्नोपर्यधस्थमम्बरम् । न सर्वकृष्णं रक्तं वा परिदध्यात्कदाचन ॥ कुतुपं शाणमजिनं योगपट्टोत्तरीयके । यज्ञोपवीतमन्यद्वा द्वितीयं तु भवेदिह ॥ सात्वा न पीडयेत्केशान्नाङ्गेभ्यस्तोयमुद्धरेत् । न वस्त्रं विधुनेच्छश्वन्न केशानवधनयेत् ॥ * इदमर्ष क. पुस्तके नास्ति ।

३१ स्मृत्यर्थसारः। स्नातो नाङ्गानि मृज्यात्तु मानवस्त्रेण सर्वथा । नान्योऽन्यं पृषतो मृज्यान्न लिम्पेत्पृपतो मिथः ॥ सात्वा न धाबयेद्दन्तान्न सृज्याद्वाससा मुखम् । न रात्री मृत्तिकास्त्रानं नैव भौमार्कवारयोः । संध्ययो व गोमूत्रं न शुध्येदोमयं निशि। दिवाऽम्बुगोशकृन्मूत्रैः शुद्धिर्निश्यम्बुमस्माभिः । पश्च पिडांस्त्रिपिण्डान्वाऽप्युद्धरेत्परवारिषु । मायादपत्युपहते नित्यार्थ न महानिशि ॥ महानिशा द्वे घटिके रात्री मध्यमयामयोः । न महानिशि नित्यार्थ काम्यं नैमित्तिकं भवेत् ।। स्नायात्तु पूर्वमनातो निश्युष्णेन जलेन च । नाम्बु हन्यान्न निन्देच तीर्थे तीर्थान्तरं स्मरेत् ॥ न मायादुत्सवेऽतीते माङ्गल्यं विनिवर्त्य च । अनुबज्य सुहृद्वन्धूनर्चयित्वेष्टदेवताम् ॥ मृते जन्मक्षदिवसे प्रतिपन्नवमीषु च । श्राद्ध कर्ता चान्यदिने संक्रान्तिग्रहणेषु च ॥ अर्कवारे च सप्तम्यां चतुर्दश्यष्टमीषु च । एकादश्यां पौर्णमास्यां पष्ठयां दर्शे विशेषतः॥ तैलाभ्यङ्गं रतिं मांसं दन्तकाष्ठं च वर्जयेत् । उष्णोदकेन न स्नायादन्यदा वाऽप्यकारणात् ॥ क्रियामानं च काम्यं च पारक्योष्णेन वर्जयेत् । नद्यां नास्तमिते माया(द्विशेषान्मध्ययामयोः । अग्निं प्रज्वाल्य वा स्नाया)द्वाप्यादिपु महाजले ।। राहुदर्शनसंक्रान्तिविवाहोत्क्रान्तिवृद्धिषु । स्नानदानादिकं कार्यं निशि काम्यवतेघु च ॥ नद्यां सात्वा नदीं चान्यां न प्रशस्येच्च धर्मवित् । अस्पृश्यस्पर्शने माने नाघमर्षणतर्पणे ॥ उभावप्यशुची स्यातां दंपती मिथुनं गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ * धनुश्विनान्तर्गतग्रन्थः क. पुस्तके नास्ति । A १ ख. न स्नायात्पू । २ ख. ग. घ. प्रशंसे । ३ ग. शयनं ।

१२ श्रीधराचार्यकृतः- ऋतौ तु मैथुने स्नायाद्गर्भधारणशङ्कया। अनृतौ तदभावाच्च शौचं मूत्रपुरीषवत् ॥ रोगेण यद्रजः स्त्रीणां न तेनाशुचयः स्मृताः। चाण्डालादिस्पर्शनादौ बिस्तरो वक्ष्यते पृथक् ॥ शवानुगमने स्नानं घृतप्राशो विकल्पितः । यत्र पुंसः सचेलं स्यात्मानं तत्र सुवासिनी॥ कुर्वती वा शिरः स्नानं शिरोरोगी जटी सदा । अशक्ती शोमनगृहे शोभनाहे च सर्वदा ।। न शीतलजलमान कार्य नघोष्णसेविना । उद्धृतजलनाने मार्जन कार्यम् । अघमर्पणजपोऽस्ति न वा । जल- तर्पणं तु कार्यं नवा । स्थलतर्पणं तु पावस्थे जलेऽक्षतादीक्षिप्त्वा पात्रान्तरे कार्य सोदके गर्ने वा । सबर्हिपि भूस्थले कार्य नाबर्हिपि नाशुचौ स्थले कार्यम् । अयाम्यङ्गस्नानविधिः- तैलाभ्यने निषिद्धाः स्युः सर्वाश्च तिथयः सदा । द्वितीयां वर्जयित्वैव दृष्टादृष्टद्विदोपतः । सार्पपं गन्धतलं च यतलं पुष्पवासितम् ।। अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन । तैलाभ्यङ्गनिपेधेषु तिलतैलं निषिध्यते ॥ अभ्यङ्गस्य निषेधस्तु सार्पपादेरपीप्यते । मेहेनाभ्यङ्गो भवति स स्नेहः सार्यपादिकः ॥ न मोजनाय तैलस्य निषेधोऽभ्यङ्ग एव सः । तैलशब्दस्तिलस्नेहे सुरुढो नैव यौगिकः ॥ अतस्तिलविकारेऽपि पिण्याकतिलमोदके। शएकुलीकृसरादौ च निषेधो नैव जायते ।। सार्षपादी तेलशब्दस्तकार्यसदृशत्वतः । संतापः कान्तिरल्पायुर्धनं निर्धनता तथा ॥ अनारोग्यं सर्वकामा वारेवभ्यङ्गकारिणः । असौभाग्यं च वैधव्यं वारयोर्गुरुशुक्रयोः । १ ख. कुर्वीत वा । ग. कुर्वीतैव । घ. कुरुतैवाशि । २ ख. रगत । ३ स. ग. अनारोग्य पर्धन्य।

स्मृत्यर्थसारः। ३३ निपिद्धदिवसे वारे रात्री च व्याधितस्य च । द्रव्यान्तरयुतं तैलं न दुष्यति कदाचन ॥ शिरःस्नातस्तु तैलेन नाङ्गं किंचिदुपस्पृशेत् । सर्वथा नित्यकर्मार्थ मायादेव कदाचन ॥ विना मृत्तिकया वाऽपि सकृदुष्णेन धारिणा। इति स्नानविधिः। अथ संध्याविधिः संध्याहीनोऽशुचिनित्यगनहः सर्वकर्मसु । यस्किंचित्कुरुते कम न तस्य फलमश्नुते ॥ तत्र पादौ हस्तौ प्रक्षाल्य द्विराचम्य दर्भपाणिरापो हिवाद्यैरम्देवतैर्म- वैर्द!ः शिरसि मार्जनं कृत्वाऽऽत्मानं परिषिच्य सूर्यश्चेस्यपः पीत्वा द्विराचामेत् । सायंकाले तु अग्निश्चेत्यपः पिबेत् । ततो द्विरायम्य पुनश्चा- दैवतैर्मार्जनं कृत्वाऽऽत्मानं परिपिय गायच्याऽभिमन्त्रितं तोयम- लिना सूर्यायाध्यं त्रिरुक्षिपेत् । अशुद्ध देशे धाराम्बुमार्जनं परिवर्जयेत् । पात्रस्थेनाम्बुना कुर्याद्वामहस्तस्थितेन वा। ततः प्राणायामवयं कृत्वाऽऽसूर्यदर्शनात्तिष्ठन्प्राइमुखो गायत्री जपेत् । आनक्षत्रदर्शनादासीनः सायं प्रत्यङ्मुखो जपेत् । ब्रह्मचारी गृहस्थश्च शतमष्टोत्तरं जपेत् ।। पानप्रस्थो यतिश्चैव सहस्राधिकं जपेत् । पद्वाऽऽपत्सु जपेद्देवीमष्टाविंशतिमष्ट वा ।। सदर्भपाणिराहोमादर्भस्थस्तूक्तसंख्यया । हस्तेनाऽऽवर्तयेद्देवीमक्षसूत्ररथापि वा ॥ सौवर्णराजतेस्ताम्रः स्फाटिक रत्नजैस्तथा । अरिष्टैः पुत्रजीवोत्थैरिन्द्राक्षः शङ्खसंमवैः ।। रुद्राक्षरपि पद्माक्षः कुशग्रन्थिभिरेव च । मणिभिस्त्वक्षसूत्रं स्यात्तदेष्टोत्तरसंख्यया ।। चतुष्पञ्चाशता वाऽपि सप्तविंशतिभिस्तु था। ओष्ठ्याजपादुपांशुः स्याच्छ्रेष्ठो वै मानसंस्ततः ॥ . ग. कद्वोष्णेन चाम्पना । २ ग मार्जयेत् । ३ के. रक्षजे । ४ ख. ग. जीनश्च ५ स्व. ग. दधशतसं । ष. 'दष्टजपसं° । ६ क. °सः स्मृतः ।

श्रीधराचार्यकृत:- स उपांशुजपोऽशब्दश्चलजिह्वारदच्छदः । मानसस्त्वचलज्जिबादशनच्छद ईरितः । नाधोरतिर्नान्यमना न च व्यत्यस्तपत्करः । जपेन्न प्रौढपादश्च नावष्टब्धोऽलसोऽशुचिः॥ न च क्रामन्न जल्पंश्च न पार्श्वमवलोकयन् । नासंख्यातमदर्भश्च नाशिखाकच्छबन्धनः ॥ मनःसंहरणं शौचं मौन मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतवः ।। जपान्ते प्रातः सौरैर्मन्त्रैः सूर्यमुपतिष्ठेत । सायं वारुणैः । यद्वोमयत्र जातवेदसेन वैष्णवै रौद्रैवोपतिष्ठेत । दिग्भ्यो दिग्देवताभ्यो नमस्कृत्य संध्याय गायध्ये सावित्र्य सरस्वत्यै सर्वाभ्यो देवताभ्यो नमस्कुर्याप्त । इत्यादि यथास्वाचारं कार्यम् । पुनः सूर्य नमस्कृत्य नामगोत्रेण वाग्यतः । गुप्तमग्न्यम्बु नीत्वाऽथ होमं कुर्याद्यथा विधिः ।। इति संध्योपासनविधिः। अथ होमविधिः-- होमे मुख्यो यजमानः पत्नी पुत्रश्च कन्यका । ऋत्विक शिष्यो गुरुभ्रता मागिनेयः सुतापतिः । एतैरेव हुतं वस्तु तद्धृतं स्वयमेव तु । पर्युक्षणवज्यं पत्नी जुहुयात्कुमारी च ।। असमक्षं तु दंपत्यो)तव्यं नविगादिना । द्वयोरप्यसमक्षं चेद्भवेद्भुतमनर्थकम् ।। संनिधौ यजमानः स्यादुद्देशत्यागकारकः । *असंनिधौ तु पत्नी स्यादुद्देशत्यागकारिका ।। असंनिधी तु पत्न्याः स्यादध्वर्युस्तदनुज्ञया । उन्मादे प्रसव चौ कुर्वताऽनुज्ञया विना ।। नोपवासी प्रवासे स्यात्पत्नी धारयते वतम् । सर्वदा यजमानो वा त्यजेत्तद्दिङ्मुखः शुचिः ॥ * इदमर्ध ख. ग. पुस्तकयो स्ति । । १ ख. ग, घ. यत्तु । २ ख. ग. पर्युहनवौं ।

३५ स्मृत्यर्थसारः। प्रात)मे संगवान्तः कालस्त्वनुदिते सायमस्तमिते होमकालस्तु नव नाडिकाः ।। बहुशुष्कन्धने वाऽनो सुसमिद्धे विधूमके । साङ्गारे लेलिहाने च होतव्यं नान्यथा क्वचित् ।। अग्निः प्रदक्षिणावर्तः कर्मदश्च शुमावहः । अग्निं परिसमुह्य परिस्तीर्य पर्युक्ष्य ततो गन्धपुष्पैरलंकृत्य समिधं क्षिप्त्वा प्रदीप्तां समिधं यङ्गुलमतिक्रम्य देवायतने संपूर्ण होम्यं देवती- र्थेन कायेन सौम्येन वा हुत्वा पुनः समिधं क्षिप्त्वोपस्थाय परिसमुह्य पर्युक्ष्य हुतशेषं ब्राह्मणाय दत्त्वा नमेत् । पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः। सोमो मांसं तेलमापो दशैतान्यग्निहोत्रके । स्यादग्निहोत्रवद्गृह्ये संस्कारो मन्त्रवर्जितः। यद्वा त्रिः प्रोक्षणं तेषां मांसमोपासने न च ॥ शालिश्यामाकनीवारा बीहिगोधूमयावकाः। एतेषां तण्डुला होम्या यावानलप्रियङ्गवः॥ प्रियङ्गर्वश्च गोधूमाः श्यामाका बीहयो यवाः । सारूप्येणापि होम्याः स्युः स्वरूपेणैव वै तिलाः ।। द्रव्यं सुवेण होतव्यं पाणिना कठिन हविः। बीहीणां च यवानां च शतमाहुतिरिप्यते ॥ तदन्नं द्विगुणो ग्रासो मयूराण्डाकृतिस्तथा । कुकुटाण्डकमात्रं तु पिण्ड इत्यभिधीयते ॥ अङ्गुष्ठपर्वमानं स्यादवदानं ततोऽपि वा। ज्यायः स्विष्टकृदाज्यं तु चरुरझुलसंमितः ॥ ग्रासमात्रा भवेद्भिक्षा अग्रं ग्रासचतुष्टयम् । अग्रं चतुर्गुणीकृत्य हन्तकारः स उच्यते ॥ भिक्षापुष्कलमयं वा पूर्व पूर्व चतुर्गुणम् । नृभोजनं तद्विगुणं शरावः पात्रमेव च ॥ पद्वा-प्रस्थं धान्यं चतुःषष्टेराहुतेः परिकीर्तितम् । तिलानां तु तदधं स्यात्तदर्धं स्याघृतस्य तु ॥ १ क. 'दिने त २ क. क्षिणीकृत्य की।३ क. जिते । य° ४ ख. ग. प. शालय गोधूमात्री । ५ ख. ग. घ. स्वरूपेणा। ६ क. द्रवं मु।

श्रीधराचार्यकृतः- - अथ समिधः- पलाशखदिराश्वत्थशम्युदुम्बरजा समित् । अपामार्गार्कदूर्वाश्च कुशाश्चेत्यपरे विदुः॥ सत्वचः समिधः कार्या ऋज्व्यः श्लक्ष्णाः समास्तथा । शस्ता दशाङ्गलास्तास्तु द्वादशाङ्गुलिकास्तथा ॥ आईपक्काः समच्छेदास्तर्जन्यमुलिवर्तुलाः । अपाटिता अद्विशाखाः कृमिदोषविवर्जिताः ।। दग्धाः कृशास्तथा स्थूला ह्रस्वा दीर्घास्तु वर्जयेत् । यद्वा-समित्पवित्रं वेदश्च त्रयः प्रादेशसंमिताः । इध्मस्तु द्विगुणः कार्यस्त्रिगुणः परिधिः स्मृतः ॥ स्माते प्रादेश इध्मो वा द्विगुणः परिधिः स्मृतः । अय दर्भविधिः कुशाः काशा यवा दूर्वा उशीराश्चैव कन्दुराः। गोधूमा बीहयो मुञ्जा दश दर्माः समुज्ज्वलाः॥ नभोमासस्य दर्शे तु शुचिर्दर्भान्समाहरेत् । अयातयामास्ते दर्मा नियोज्याः स्युः पुनः पुनः ॥ कुशदर्भोत्पाटने मन्त्रः- विरिश्चिना सहोत्पन्न परमेष्ठिनिसर्गज । नुद पापानि सर्वाणि दर्भ स्वस्तिकरो मम ॥ एवं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः। हुंफटकारेण मन्त्रेण सकृच्छित्वा समुद्धरेत् ॥ अच्छिन्नाया अशुष्कायाः पित्र्ये तु हरिताः शुभाः । अमूला देवकार्येषु प्रयोज्याश्च जपादिपु ॥ सप्तपत्राः कुशाः शस्ता देवे पित्र्ये च कर्मणि । अनन्ती तरुणी साग्री प्रादेशौ तु पवित्रके ।। चतुभिर्दर्भपिञ्जूलैाह्मणस्य पवित्रकम् । एकैकं न्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ १ क.र्यास्तक्ष्याः श्ल' । २ ख. ग. अर्धप°। ३ क. 'ता सद्वि । क. वाः कुशिरा ५ ख, ग, सबल्वजाः। घ. सबिल्वजाः ।

स्मृत्यर्थसारः। ३७ सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रन्थितं न वा। विभिस्तु शान्तिके कार्य पौष्टिके पश्चभिस्तथा ॥ चतुर्भिश्चाभिचारे स्यान्निष्कामैरिति केचन । सपवित्रः सदर्भो वा कर्माडाचमनं चरेत् ।। नोच्छिष्टं तद्भवेत्तस्य मुक्तोच्छिष्टं तु वर्जयेत् । यैः कृतः पिण्डनिर्वापः श्राद्धं वा पितृतर्पणम् ॥ विमूवादिषु ये दर्भास्तेषां त्यागो विधीयते । नीवीमध्ये स्थितांस्त्याज्या यज्ञभूमौ स्थिताः सदा॥ वामहस्ते स्थिते दर्भ न पिबेद्दक्षिणेन तु । चर्षकादिनोपग्रहणे न दोषः पिचतो मवेत् । न ब्रह्मग्रन्थिनाऽऽचामेन दूर्वाभिः कदाचन ॥ स्नाने दाने जपे होमे स्वाध्याये पितृतर्पणे । सपवित्री सदर्भो वा करी कुर्वीत नान्यथा ॥ कुशामावे तु काशाः स्युः काशाः कुशसमाः स्मृताः । काशाभावे ग्रहीतव्या अन्यदर्भा यथोचितम् ॥ नाल्लुनीयामात्रौ तु लुनीयाद्वाऽपि संध्ययोः । दर्माभावे स्वर्णरुप्यताम्नै रत्नः क्रियाश्चरेत् ॥ इति द चयविधिः॥ अथ बर्हिः बर्हिः काशमयं ग्राह्यं न लभ्येत कुशो यदि । शरोर्यनुजवाश्चैव बालमौञ्जार्जुनेक्षवः ॥ सुगन्धितेजना दावं दूर्वा क्षीरद्दुमा अपि । यदा सर्वतृणेभ्योऽपि ग्राह्यं बर्हिर्यथेप्सितम् ।। शूलशुण्डकृष्णमूलदुर्गन्धितृणवर्जितम् । शूकलानेरकांश्चापि वर्जयन्त्यपरे बुधाः ॥ कुशामावे परे प्राहुः पर्णवल्लसदोषधीः। बन्धूकशूकरेष्विष्टः परिव्याधकवर्जितः॥ मुरव्यान्दर्भान्विशेषेण केचित्काशान्कुशाञ्छरान् । बल्वजान्पुण्डरीकाणि यवव्रीहितृणान्यपि ॥ १ क. °ताः पूज्या य। २ ख. ग. घ. वस्त्रादि । ३ ख. ग. घ. शरशैर्यमुतवा । । ख. ग. दार। घ. दाखदू । ५ ख. ग, शुकशुण्ठ कृप्गतूलदु । घ. शूकमण्ठ । ६ ख. घ. पर्वपर्णवदो ।

श्रीधराचार्यकृतः- अध्मः- पालाशः खादिरश्मो मुख्यः स्यात्तदलामतः। शमीवटोदुम्बरेज आश्वत्थस्तदलामतः॥ वनस्पतीनां सर्वेषामिधमः कार्यो विशेषतः। तञ्चैतान्वर्जयेवृक्षान्कोविदारविभीतकान् ॥ कपित्थामलको राजवृक्षं शाकद्रुमं तथा । नीपं निम्बं करनं च तिलकं शाल्मलीमपि ॥ श्लेष्मातकमपि त्यक्त्वा ग्राह्योऽन्यः सकलो द्रुमः। अथ सुगादिः- धेकती वा पालाशी अग्निहोत्रहवण्यपि। जुहूः पालाश्युपभृदाश्वत्थी वैकती ध्रुवा ॥ यद्वा सर्वाः सुचः कार्या एतेषामन्यवृक्षतः। शमीमय्यः सुचः सर्वाः सर्वा वा भूर्जवृक्षजाः ।। सदमावे यथालाभमन्ययज्ञियवृक्षजाः । खादिरस्य सुचः स्यात्तु शम्याप्राशित्रमेक्षणे ॥ खादिरो मुसलः कार्यः पालाशः स्यादुलूखलः। यद्वोमी वारुणी कार्यों तदलामेऽन्यवृक्षजौ। पालाशाद्वा वटाद्वाऽन्यवृक्षाद्वा चमसाः स्मृताः । आश्वत्थं वारणं नोचेदिडापात्रमिहान्यजम् ॥ मुख्याभावे सहशं द्रव्यं प्रतिनिधीयते । यावद्यावत्तु सदृशं तत्तदेव तु गृह्यते ॥ काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके हि सः । काम्येऽप्युपक्रमादूर्ध्वमन्ये प्रतिनिधि विदुः ॥ न स्यात्प्रतिनिधिमन्त्रस्वामिदेवाग्निकर्मसु । स देशकालयो स्तैि अरण्योरग्निरेव सा॥ समारूढां च समिधमरणिं ब्रुवते बुधाः । नाभावस्य प्रतिनिधिरभावान्तरमिष्यते ॥ नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित् । श्रोत्रियाणामभोज्यं यद्रव्यं हि तदोषतः॥ तु १६. घ. रजा भाश्वत्थास्त । २ क. र्या यत्तेषा' । ३ ख. ग.स्ति नारण्यामि। 'स्ति नारणेर। ख. ग, घ °दशेष ।

स्मृत्यर्थसारः। याचं प्रतिनिधित्वेन होमकार्य न कुत्रचित् । द्रव्यं वैकल्पिक केचिद्यत्र संकल्पितं भवेत् ॥ तदभावे सदृग्ग्राह्यं न तु वैकल्पिकान्तरम् । मुख्यद्रव्यापचारे तु प्रतिनिध्यमिसंधिना ।। प्रयुञानस्य मुख्यार्थलाभे ग्राह्यः स एव हि । उपात्तेत प्रतिनिधौ मख्योऽर्थी लभ्यते यदि । तत्र मुख्यमनादृत्य गौणेनैव समापयेत् । उपात्ते यस्मिन्कस्मिन्वा मुख्योपचरिते सति ॥ अन्यष्ट्रव्यं सजातीयं विजातीयमथापि वा। उपादाय प्रयुञ्जानो यदि पूर्वमवाप्नुयात् ॥ उपात्तत्वाविशेपेऽपि पूर्व हित्वा परं श्रयेत् । मुख्याभावे यदा गौणमुपात्तं तद्विनश्यति ।। तत्र मुख्योपमं गौणं ग्राह्यं गौणोपमं न तु । संस्काराणामयोग्योऽपि मुख्य एव हि गृह्यते । न तु संस्कारयोग्योऽन्यो गृह्यते प्रतिरूपकः। मुख्य कार्यासमर्थे नु लब्धेऽप्येतस्य नाऽऽदरः ॥ प्रतिरूपमुपादाय शक्तं तेन प्रयुज्यते । घवत्तमात्रपर्याप्तमुख्यद्रव्यस्य संभवे ॥ पुरोडाशमहत्त्वार्थ न नीवारपरिग्रहः । कृष्णवीह्यादिके द्रव्ये शिष्टे यच्चरिते सति ॥ ग्राह्योऽकृष्णोऽपि सन्त्रीहिन बीहिः कृष्णगुण्यपि । कार्य रूपैस्तथा पर्णैः क्षीरैः पुष्पैः फलैरपि । गन्धै रसैः सदा ग्राह्यं पूर्वाभावे परं परम् । बीहिर्यवो वा श्यामाको नीवारो वा हविर्भवेत् ॥ घेणुर्यवाः स्वरसं वा कन्दमूलफलं जलम् । सत्यं वा हविरेतेषु यथासंभवमाचरेत् ॥ प्रतिनिध्यन्तरं सत्यं विज्ञेयं हविरत्यये । प्रधानदेवतोद्देशात्संत्यजेत्सत्यमात्मनः ।। १ ख. ग. सदा प्रा । घ. सकृद्ग्रा । २ ग. °पाकृत्वा विशेषेण पू । ३ ख. ग. °फ नैवो. 'युअन्ते। ५ ख. शिष्टोपचार' । ग शिष्ठेपच' । । क काये । क. प. वास्तरस।

श्रीधराचार्यकृत:- भतोऽन्यदपि वा ग्राह्यं सदृशं धान्यमात्रकम् । न ग्राह्य सर्वथा मापवरकोदारकोदवम् ॥ यद्वा ब्रीहियवाभावे तुषतण्डुलयोगिनीः । ओषधीः प्रतिगृह्णीयादाणुकोद्रववर्जिताः॥ ग्राम्याणां च भवेद्वाम्यमारण्यानामरण्यजम् । पवाभावे तु गोधूमास्ततो वेणुयवादयः॥ छन्दोगगृह्यवचनाज्जुहुयाद्धविरत्यये । फलं याज्ञिकवृक्षस्य पवित्रमथ वा जलम् ॥ यथाऽग्निहोत्रहोमाथं पयो न स्यात्कदाचन । तदा धीहियवी ग्राह्यावोषध्यन्तरमेवच ॥ आरण्यौषधयो वृक्षफलान्याप इति क्रमात् । होमं कर्तुमुपादेयं पूर्वाभावे परं परम् ॥ तेषामभावे जुहुयाच्छद्धया सत्यमात्मनः । हव्याथं गोधृतं ग्राह्यं तदभावे तु माहिषम् ।। आज वा तदलाभे तु साक्षात्तैलं ग्रहीष्यते । तैलाभाषे महीतव्यं तेल तिलसमवम् ॥ तदभावेऽतसीनेहः कौसुम्भः सर्षपोद्भवः । वृक्षस्नेहोऽथवा ग्राह्यः पूर्वाभावे परः परः ।। तदभावे यवव्रीहिश्यामाकान्यतरोद्भवः । पिष्टमालोड्य तोयेन घृतार्थे योजयेत्सुधीः ।। वृक्षतैलेषु पुनागनिम्बैरण्डोद्भवं त्यजेत् । यद्वा गव्यघृते छागमहिष्यादिघृतं क्रमात् ॥ सदलाभे गवादीनां क्रमाक्षीरं विधीयते । सदलामे दधि ग्राह्यमलामे तैलमिष्यते ॥ यत्राऽऽज्यमञ्जनाद्यर्थं न लभ्येत कदाचन । तत्र क्षीराद्यनादृत्य साक्षातैलं ग्रहीष्यते ॥ यत्र मुख्यं दधि क्षीरं तत्रापि तदभावतः । अजादेः क्षीरदध्यादि तदलामे तु गोघृतम् ।। , ग. ज्ञियवृ । २ ख. ग. °थवैप्राम्यमोष । ३ ख. ग. 'लाम्माषायति । ४ ख. ग. हवि. प्पार्थ । ५ स्व. ग. 'तैलं यत्ति । ६ ख. ग. "मशना ।

४१ स्मृत्यर्थसारः। मुख्यसंपादकं ग्राह्य कार्यकारणसंतती । अत एव घृताभावे पूर्व दधि ततः पयः ॥ येषां केषांचिदन्येषां हविषामथ संभवे । सर्वत्राऽऽज्यमुपादेयं भरद्वाजमुनेमतात् ।। मुख्यकाले यदावश्यं कर्म कतुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदशो मवेत् ॥ सायमाहुतिराप्रातरासायं प्रातराहुतिः । कर्तव्या नातिपद्येत पार्वणं पार्वणान्तरात् ।। श्यामाकैीहिभिश्चैव यवैर्वाऽन्योन्यकालतः । प्राग्यष्टुं युज्यतेऽवश्यं न स्वत्राऽऽग्रयणात्ययः ।। एबमागामिकार्यस्य मुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः ।। सर्वत्र गौणकालेषु कर्म चोदितमाचरेत् । प्रायश्चित्तं व्याहृतिभिर्हस्वा कर्म समाचरेत् ।। मुख्यकाले तु मुख्यं चेत्साधनं नैव लभ्यते । मुख्यकालमुपाश्रित्य गौणमप्यस्तु साधनम् ।। न मुख्यद्रव्यलोभेन गौणकालप्रतीक्षणम् । एकपक्षगतो यावद्धोमसंघोऽतिपद्यते ॥ पक्षहोमविधानात्तान्हुत्वा तन्तुमती यजेत् । स्वकालोकर्षतः कश्चिद्रीणः कालो निरूपितः॥ अपकर्षादथान्योऽपि गौणः कालो निरूप्यते । आमयव्याधिनानापढ़तो वाऽध्वगतोऽपि वा । राष्ट्रभ्रंशे धनाभावे गुरुगेहे वसन्नपि । अन्येष्वेवंप्रकारेषु निमित्तेष्वागतेषु च ॥ समासमग्निहोत्राणां यथासंभवमाचरेत् । निमित्तानामिहैतेषां निर्दिश्यकं यदुच्यते ।। तत्सर्वेषु निमित्तेषु जानीयात्प्रतिपादितम् । पक्षहोमानशेषान्वा पक्षहोमानथापि वा ।। १ ख. प्राप्तेषु पद्यतेऽव । ग. प्राप्तेषु यु । २ ग. द्धोमः सद्योति । ३ ख. धाने ताम्मरवा समुमतं य°। क. 'ट्रभऽयवा भा।

४२ श्रीधराचार्यकृतः- समस्य जुहुयात्तत्र प्रयोगोऽयं निरूप्यते । प्रतिपद्यन्नयेत्सायमापद्यन्यत्र वा दिने । यावन्त्यौपवसथ्याहात्याग्दिनानि भवन्ति हि । तावन्ति परिगृह्णीयाच्चतुरुन्नयनानि तु ॥ पात्रान्तरसहायायां नित्यायां प्रकृतौ सुचि । स्थूलं सुगन्तरं वाऽपि कृत्वा तत्र समुन्नयेत् ।। एका समित्सकृद्धोमः सकृदेव निमार्जनम् । उपस्थानं सकृत्कार्य शेषा प्रकृतिरिष्यते ॥ एवमेवोत्तरत्रापि प्रात.मात्समस्य तु । जुहोत्यौपवसथ्याहात्प्रातोमावधीन्सकृत् ॥ समारोपविधानेन समारोपयतेऽनलान् । एवं प्रतिपदोऽन्यत्र यत्राऽऽपदुपजायते ॥ तथैवोपवसथ्यात्प्राग्यवाह्नयापद्विनश्यति । आपदेवावधिोमसमासस्याभ्युपेयते ॥ तस्मात्कदाचिदारभ्य यावतस्तावतोऽपि वा। आपत्कालसमान्होमान्समस्येदेकपक्षगान् । एवमेकत्र पक्षे ये होमास्तेषामशेषतः। न्यूनानां वा समासः स्यान्न पक्षान्तरवर्तिनाम् ॥ सर्वथोपवसथ्याहे सायं होमः पृथग्भवेत् । तथैव यजनीयाहे प्रातोमो भवेत्पृथक् ॥ सर्वोपवासशून्यं चत्याप्तं केनापि हेतुना । तदा तत्सायहोमोऽपि पूर्वैः सह समस्यते ॥ तावता नापगच्छेच्चेदापत्पक्षान्तरऽपि च । पुनस्तत्रापि कर्तव्यः समासः पृथगेव हि ॥ न तु पक्षान्तरस्थानां समासश्चोद्यते मिथः । एवमापद्गत: पक्षे पक्षे चैवं समाचरेत् ॥ तृतीयेऽनन्तरे पक्षे समासं न समाचरेत् । आपञ्चेदनुवर्तत दीर्घकालं कथंचन ॥ यावजीवमविच्छिन्नं पक्षहीम समाचरेत् । आपदेवावधिस्तत्र न पक्षगणनावधि ॥ १ ग. °तुगवत्तना । २ ख. ग. मिडाया वा नि । ३ ख. ग. कृतम्'। स्व. ग. 'च्छिन्नाप । ५ ख. ग. होमान्स ।

४३ स्मृत्यर्थसारः। अथापरः समासस्य प्रकारः प्रतिपाद्यते । सायंप्रातस्तनौ होमावुभौ सायं समस्य तु ॥ आपत्ती जुहुयात्तत्र समिदेकाऽथवा द्वयम् । सायं होमस्य मुख्यत्वात्तदीयं तन्त्रमिप्यते ॥ चतस्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती। द्वे प्रातराहुती सायं होमेऽथैका समिद्यदि ॥ समित्कृता द्वितीया चत्सा भवेत्रातराहुती । द्विः सायं होमवन्मृज्यातिः प्रातोमवत्सु च ॥ उपस्थानं सकृकार्यं शेषं प्रकृतिवद्भवेत् । केचिद्दे आहुती हुत्वा संवश्य व निमील्य च ।। विच्छिद्यैतावता होमो कुर्याद्दे आहुती ततः । गुर्वापदि समस्यन्ते प्रातः सर्वे कथंचन ॥ दीर्घकालापदं मत्वा पक्षहोमे कृते सति । अत्रान्तराले यद्यापत्कदाचिदपगच्छति ।। काले काले पुन)मः कर्तव्यो विधिना न वा। यावन्तोऽत्र समस्यन्ते सर्वे सायमुपक्रमाः॥ प्रातःकालापवर्गाश्च न तु प्रातरुपक्रमाः। प्रात)मादिका यद्वा प्रातश्चेदापदागता । तथा पूर्वापराह्लादौ निमित्ते च समस्यति । पूर्वपक्षे तु रात्री चेन्मृतिशङ्काऽग्निहोत्रिणः॥ सायं हुत्वा तदैवाथ जुहुयात्प्रातराहुतीः । यदि त्वपरपक्षे स्यान्मृतिशङ्काऽग्निहोत्रिणः ॥ हुतावशिष्टाः पक्षेस्मिन्जुहुयात्सकलाहुतीः । दर्शष्टिं च तदा कुर्यादिष्टियदि न संभवेत् ॥ देवतानां प्रधानानामेकैकस्य पृथक्पृथक् । पुरोनुवाक्यायाज्याभ्यां चतुरात्तघृताहुप्तीः॥ जुहुयादेवमन्यत्र सर्वत्राऽऽपदि हूयते । अथेष्टययनमध्ये स्यात्पत्युर्मरणशङ्कनम् ॥ अवशिष्टेष्टिदेवेभ्यस्तत्संख्यानि घृतानि च । चतुर्गृहीतान्येकत्र गृहीत्वा चमसेः सह ॥ १५. °वत्युवम् । २ ख. ग. ते स च पश्यति। ३ क, ख, ग. °टेष्टदे।

श्रीधराचार्यकृतः- पुरोनुवाक्यायाज्याभिः पूर्ववज्जुहुयात्तथा। चातुर्मास्यान्तराले स्यात्स्वामिनो मृत्युशङ्कनम् ॥ तत्रान्तपर्वपर्यन्तमग्निहोत्राण्यशेषतः । तदैव कुरुते दर्शपूर्णमासान्बहूनपि ।। चातुर्मास्यावशिष्टानि पर्वाण्यत्र समोचरेत् । पश्वलाभे पुरोडाशं निर्वपेत्पशुदैवतम् ॥ आमिक्षामथवा कुर्यात्पूर्णाहुतिमथापि वा। आहिताग्निः कदाचित्तु कृष्णपक्षे मृतो यदि ॥ तदा शेषाहुतीः सर्वा जुहोतीत्याश्वलायनः । अन्ये तदेव दर्शेष्टिं कुर्युः कृष्णे मृतस्य तु ॥ शुक्लपक्षे निशि प्रेतस्येच्छन्ति प्रातराहुतिम् । य आहिताग्नेर्धर्मः स्यात्स ऑपासनिकस्य च ॥ इति शाट्यायनकमाचष्टे ब्राह्मणमन्त्र तु । संध्यामिष्टिं चलं होमं यावज्जी समाचरेत् ॥ म त्यजेत्सूतके वाऽपि त्यजनगच्छेदधो द्विजः। कुर्यात्पञ्चमहायज्ञान्नित्यशः सूतकं विना ॥ नित्यं नैमित्तिकं चान्यत्स्वकर्मापि न हापयेत् । स्वकर्महानौ पतनमब्देनैव त्वनापदि ॥ स्वकर्महानौ नास्तिक्यान्मासेन पतनं स्मृतम् । द्वादशाब्दव्रतेनैव तस्य शुद्धिस्तु नान्यथा ॥ तं निरीक्ष्यार्कमीक्षेत स्पर्श स्नायात्सचैलकम् । नेन संभाषणं हास्यं कुर्वन्नब्देन तत्समः ॥ तदन्नभुक्तौ सद्यस्तु सहशय्यासनेषु च । इति होमविधिः। अथ देवतार्चनविधिः- ब्रह्माणं विष्णुमीशानं सूर्यमग्निं गणाधिपम् । दुगाँ सरस्वती लक्ष्मी गौरी वा नित्यमर्चयेत् ॥ अप्स्वनौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । शालग्रामे च चकाङ्के पटे मुद्रासु देवताः ॥ १ ख. ग. °मापयेत् । ३ ख., मिष्यमध्ये वा। ग. 'मिष्टामध्ये वा।

स्मृत्यर्थसारः। ४५ नित्यं सन्ति हिरण्येषु रत्नगोब्राह्मणेषु च । पौरुषेणैव सूक्तेन गायत्र्या प्रणवेन वा॥ तल्लिङ्गैरेव वा मन्त्रैरर्चयेद्र्वनुज्ञया । देवतानामभिर्वा स्याच्चतुर्थ्यन्तैनमोन्वितैः ।। आवाहनासने पाद्यमय॑माचमनीयकम् । मानमाचमनं वस्त्रमौचामं चोपवीतकम् ॥ आचामं गन्धपुष्पं च धूपं दीपं प्रकल्पयेत् । नैवेद्यं पुनराचामं नत्वा स्तुत्वा विसर्जयेत् ।। शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्व वाऽऽगममार्गेण कुर्युर्वेदानुसारिणा ॥ गुरूक्तेन प्रकारेण वेदबाह्येन नार्चयेत् । यां कांचिद्देवतां कश्चिदाराधयितुमिच्छति ॥ स सर्वोपाययत्नेन ब्राह्मणान्गाश्च तोषयेत् । एवं देवार्चनं कृत्वा गुरून्संपूज्य यत्नतः ।। पुष्पं क्षिप्त्वा प्रणम्याथ नित्यदानं स्वशक्तितः। कृत्वा वृद्धान्नमस्कृत्य कर्तव्यं मङ्गलेक्षणम् ।। विप्राग्न्यर्काम्बुगोहेमनृपाज्यं मङ्गलं स्मृतम् । अग्निचित्कपिला सत्री यज्वा मृष्टान्नदोऽम्बुधिः ॥ ज्ञानसिद्धस्तपःसिद्धः शतायुर्धार्मिकः शुचिः । एते पापहराश्चैतान्सदा पश्यन्नमेदपि । रोचनां चन्दनं हेम मृदङ्ग दर्पणं मणिम् । धृतं चाकू गुरुं विप्रं प्रातः पश्येत्सदा बुधः ॥ कृष्णब्राह्मीं च दूर्वां च चन्दनं शङ्खपुष्पिकाम् । सिद्धार्थकान्प्रियङ्गश्च प्रातः शिरसि धारयेत् ।। पापिष्ठं दुर्भगं चान्धं नगमुत्कृत्तनासिकम् । प्रातर्न पश्येदेतांस्तु दृष्ट्वा पश्यदिवाकरम् ॥ इति देवतार्चनविधिः। अथ माध्याहिकम- मध्याह्नस्नानं कृत्वा नित्यं माध्याह्निकं कार्यम् । तत्र पादौ [वा प्रक्षाल्य १ ख. ग. °मासनं चो' । २ ख. ग, घ. स्त्रीरुद्राणां च भ° । ३ ख. ग. °ज्य भक्तितः ४ ख. ग. °दो बुधः ।

४६ श्रीधराचार्यकृत:- द्विरायम्याऽऽपो हिष्ठाद्यर्मार्जनं कृत्वाऽद्भिः परिमोक्ष्याऽऽपः पुनन्तु पृथिवीमिति जलं दर्भपाणिः पीत्वा द्विराचम्य पुनश्चापो हिष्ठाद्यैर्मार्जनं कृत्वाऽद्भिः परिप्रोक्ष्य गायत्र्या सकृत्सूर्यायायं दत्त्वा प्रदक्षिणमावृ. त्यापः स्पृष्ट्वा हंसः शुचिपदिति सूर्यमुपस्थायोदुत्यं चित्रमित्यायैश्चोप- स्थाय नत्वा भूमि स्पृष्ट्वा प्राणायामवयं कृत्वा गायत्री पूर्ववज्जपेत् । पुनः सूर्य नत्वा ब्रह्मयज्ञादिकानि कुर्यात् । ब्रह्मयज्ञो देवयज्ञो भूतयज्ञस्ततः परः। पितृयज्ञो नृयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ॥ स्वाध्यायो ब्रह्मयज्ञः स्याद्देवयज्ञोऽग्रिहोमकः । भूत यज्ञो बलिः प्रोक्तो हुतशेषान्नतस्ततः ॥ पितृयज्ञः स्वधा पितृभ्य इत्यन्नादिदानतः । मनुप्ययज्ञोऽतिथ्यादेर्मनुष्योद्देशदानतः । अथ ब्रह्मयज्ञः- तत्र पादौ प्रक्षाल्य द्विराचम्य प्रागग्रेषु दर्भेषु प्राङ्मुख आसीनो दर्भ- पाणिः पवित्रगर्भब्रह्माञ्जलिः प्रणवव्याहृतीरुक्त्वा सावित्री पच्छोऽ- धर्चशः सकुशो नवानां चोक्त्वा प्रणवमुक्त्वा, ऋचं सूक्तमनुवाकं वा यजुर्वा साम वा सावित्री वेतिहासं पुराणं च मन्द्रेण मध्यमेन वा स्वरेणाधीत्य नमो ब्रह्मण इति विरुक्त्वा उत्तरसंस्थां प्रारभ्योंतत्सदिति समापयेत् । ग्रामे मनसाऽधीयीत । ततः स्वशाखोक्तविधिना देवा- नृषीन्पितूंश्च तर्पयेत् । यद्वा ब्रह्मादयो ये देवा इत्याद्यैर्वा यथाचार कुर्यात्। ततो वस्त्रं निष्पीड्याऽऽचम्याग्याम्बु गृहीत्वा गृहं गत्वा वैश्वदेवं कुर्यात् । अथ देवयज्ञः- गृहस्थो वैश्वदेवाख्यं कर्म प्रारमते दिवा । अन्नस्य चाऽऽत्मनश्चैव सुसंस्कारार्थमिप्यते ॥ औपासनाग्निमन्यं वा समिध्य परिसमुह्य पर्युक्ष्याक्षतगन्धपुष्पाणि दिक्षु चानौ च क्षिप्त्वाऽलंकृत्य हविष्यं पक्कं घृतप्लुतं व्यञ्जनाक्तं वा यथास्वाचारं हुत्वा परिसमुह्य पर्युक्षेत् । १ ख. ग. °शो निष्पाद्यो म'। .

स्मृत्यर्थसारः ।
अयं बलिहरणम् -
देवयज्ञहुतशेषेण शुचिदेशमभ्युक्ष्य तत्र कुर्यात् ।
अथ पितृयज्ञः-तत्र भूतैबलिहरणशेपं सोदकं स्वधा पितृभ्य इति
प्राचीनावीती दद्यात् । ततस्तथैव बहिनिवेशनं सोदकमन्नं भूमी
श्वचण्डालपतितभूतवायसेभ्यश्च निक्षिपेत् । एते देवयज्ञभूत यज्ञपितृयज्ञा
वैश्वदेव इत्युच्यते।
अहविष्यं समस्तं च वैश्वदेवे विवर्जयेत् ।
यद्वा-कोद्रवं चणकं मापं मसूरं च कुलित्थकम् ।
क्षारं च लवणं सर्वं वैश्वदेवे विवर्जयेत् ॥
यद्वा न क्षारलवणहोमो वा विद्यते तथा ।
तथा परान्नसंस्पृष्टस्य हविष्यस्य होम उदीचीनमुप्णं भस्मापोह्येत.
स्मिञ्जुहुयात् । तद्धृतमहुतं चानो भवति । न स्त्री जुहुयात् ।
यद्वा सभस्माङ्गारेषु जुहुयादहविष्यकम् ।
अथाऽऽचम्य मनुष्ययज्ञं कुर्यात् । तत्रातिथ्यादिमर्चयित्वा निवीती
सनकादिमनुष्येभ्यो हन्तति दद्यात् । यद्वाऽयं हन्तकारं वा हन्तेति वाऽन्नं
स्यजेत् ।
सर्वथा- अन्नं पितृमनुष्येभ्यो देयं वाऽपि जलं तथा ।
स्वाहाकारवषटकारनमस्कारा दिवौकसाम् ।।
स्वधाकारः पितॄणां तु हन्तकारो नृणां स्मृतः ।
पक्काभावे प्रवासे च तण्डुलानोपधीस्तथा ॥
पयो दधि घृतं वाऽपि कन्दमूलफलादि वा।
योजयेद्देवयज्ञादी जलं वाऽऽपत्सु वा जले ॥
द्रवं सुवेण होतव्यं पाणिना कठिन हविः ।
स्नातको ब्रह्मचारी वा पृथक्पाकी वैश्वदेवं कुर्यात् । स्त्री बालश्च
कारयेत् ।
१ ख. ग. घ. °तयज्ञब । २ ख. ग. घ. शनान्ते तो। 3 घ. परास। । ख. ग. संसृष्ट।
५ म. ग होम उ । ६ ख. ग. अहयात् । ७ ख. ग. द्रव्य सु।

४८ श्रीधराचार्यकृतः- होमाग्रदानरहितं न भोक्तव्यं कदाचन । अविभक्तेषु संसृष्टेष्वेकेनापि कृतं तु यत् । देवयज्ञादि सर्वार्थ लौकिकानी कृतं यदि ।। इथूनपः फलं मूलं ताम्बूलं पय औषधम् । भक्षयित्वाऽपि कर्तव्याः शानदानादिकाः क्रियाः ।। कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा। पयोमूलफलैर्वाऽपि श्राद्धान्यन्यानि मक्तितः ॥ इति स्मृत्यर्थसार आचारप्रकरणं समाप्तम् । कामधेनी प्रदीप्तेऽब्धी कल्पदुमलतादिषु । शंभुद्रविड़केदारलोल्लटाद्यैश्च भापितम् ।। मन्वत्रियाज्ञवल्क्यादिव्याख्यातृप्रतिपादितम् । स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ।। अथ श्राद्धविधिरुच्यते- तत्र तावच्छाद्धं द्विविधम्-पार्वणमेकोद्दिष्टमिति । युद्देशेन पार्व- णम् । एकोद्देशेनकोद्दिष्टम् । तच्च त्रिविधम्-नित्यं नैमित्तिकं काम्यमिति। तत्र नित्यमहरहरमावास्याष्टकादिषु । नैमित्तिकं पुत्रजन्मादिपु । काम्यं फलाथिनां तिथिनक्षत्रादिपु । पुनश्च पञ्चविधम्-अहरहःप्राद्धं पार्वण. श्राद्धं वृद्धिश्राद्धमेकोद्दिष्टं सपिण्डीकरणं चेति। तत्र श्राद्धदेशः पुण्योऽ- स्थिकेशश्लेष्मादिरहितः शोधितो दक्षिणीप्रवणो गोमयेनोपलिप्तः । भय श्राद्धकालः----अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनं विषुवत्सं- कमो व्यतीपातो गजच्छायाग्रहणयुगादिमन्वादयश्च । तथा विशिष्ट- देशे गयादी विशिष्टे काले मुताहादी द्रव्यबाह्मणसंपत्सु वाऽऽत्मरुचिश्चे- त्याद्याः कालाः। अथ भोज्या ब्राह्मणा:-अनुवाधनज्ञातपूर्वः श्रुताध्ययनसंपन्नो वेदाध्ययन- विद्ब्रह्मवित्रिमधुस्त्रिसुपर्णस्त्रिनाचिकेतो ज्येष्ठसामऋत्विग्याज्यादिः । अथवा दौहित्रो भागिनेयो जामाता मातुलः श्वशुरः शिष्यसंबन्धिबा. न्धवाः कर्मनिष्ठस्तपोनिष्ठः पडग्निः । पञ्चाग्निश्चतुरग्निस्त्रेताग्निरेकाग्नि. दाध्यायी यतिब्रह्मचारीत्याद्याः प्रशस्ताः । १ ख, ग. णाप्लयो गो । २ ख. ग. यनद्वयं वि । ३ ख. ग, प. अनुचानः श्रुत° । ४ ख. ग. प. 'वार्थवि।

स्मृत्यर्थसारः। ४९ अथ निपिद्धाः--रोगी न्यूनाङ्गोऽतिरिक्ताङ्गः काणो बधिरो नपुंसकोऽ- पविद्धपुंस्त्वो जारो जारिणीपतिः खलतिनिजकृष्णदन्तः कुनखो दुश्चर्मा विकीर्णी पीनर्भवः कुण्डगोलौ निषिद्धान्नाशी मेट्रभगाशी भृता- ध्यायी भृताध्यापकः कन्यादूपी हाभिशस्तो मित्रध्रुपिशुनः सोम- विक्रयी परिवित्तिः परिवेत्ता तयोदतियाजको च वृथा मातापितृसुतभा. गुरुत्यागी पुनर्भूपतिः । स्तेनः कितयो देवल कः कर्मदुष्टो विहित- त्यागी निपिद्धग्राहीत्याद्या वाः । सर्वत्र प्रशस्तालामे निषिद्धरहित ग्राह्यम् । नित्यश्राद्धे वैश्वदेवो ग्रहवलिश्च पूर्वमेय । दर्शश्राद्धे वैश्वदेवः पूर्व पश्चाद्वा। ( * वृद्धावादी क्षयाहेऽन्ते दर्श मध्ये महालये ।) आचान्तेषु च कर्तव्यो वैश्वदेवश्चतुर्विधः॥ गृहबलिस्नु पश्चादेव । अन्यथाद्धेषु पश्चादेव कार्य सर्वम् । अथामावास्यापार्वणश्राद्धमच्यते ---तच्च पितृणां मातामहानां च कार्यम् । तत्र पूर्वास्तद्दिने वा नियतो नियतान्ब्राह्मणाश्राद्धे क्षणः क्रियतामिति निमन्त्र्य तानाहूय स्वागतं पृष्ट्वा सुस्वागतमित्युक्ते दाहनीलीछिद्रादि- वर्जिताहतशुक्ल द्विवस्त्रो द्विराचम्य प्राङ्मुखः कृतगोमयमण्डले कुशयव. गन्धाचिते वैश्वदेवब्राह्मणपादानुपबीती सूर्याभिमुखः प्रक्षाल्य कुशति- लगन्धाद्यचितमण्डले पित्र बाह्मणपादान्याचीनावीती प्रक्षाल्य स्वयं द्विराचान्तो द्विराचान्तानुपवेशयेत् । तत्र वैश्वदेवार्थं ब्राह्मणी प्राङ्ग- मुखौ द्वौ भेदणदाहायःसंवन्धवर्जितश्लक्ष्णचतुप्पाच्छुद्धपीठे नेपाल- कम्बले वा तासने वोपवेश्य त्रीन्बाह्मणानुदङ्मुखान्पित्रर्थे समुप- वेशयेत् । यद्वा, एकैकमुभयत्रोपवेशयेत् । मातामहादीनां चैवम् । तन्त्रं वा वैश्वदेवं स्यात् । ततो गृहाद्वहिः कुशास्तिलान्विकीर्य ब्राह्मणसमीपे कुशेषु प्राङ्मुख उपविश्येष्टदेवं गयां देवादीन्वस्वादीन्पितञ्जनार्दन च नत्वा कुतपादिकाले समन्त्रक प्राणायामद्वयं कृत्वा प्राचीनावीती पितॄणां पितामहानां प्रपितामहानां सपत्नीकानां मातामहानां मातुः पितामहानां मातुः प्रपितामहानां सपत्नीकानाममुकगोत्राणां वसुरुद्रा. * धनुविहान्तर्गत प्रन्थः क. ग. पुस्तकयो स्ति । १ ख. ग. घ. जाराप । २ ग. खल्वो निज । ३ ख. ग. तभोज । ४ ख. ग. घ. मन्त्र का बन्त्रकप्रा।

श्रीधराचार्यकृत:- दित्यस्वरूपाणामस्मिन्काले सदैवं पार्वणश्राद्धं युष्मदनुज्ञया करिष्य इति संकल्प्यापहता असुरा रक्षांसीति सर्वतस्तिलान्कीयोदीरतामित्यूचा प्रोक्षयेत् । देवं सर्वमुपवीती प्रदक्षिणं युग्मत्वपूर्वमुदगग्रमुदगपवर्ग- मुदङ्मुखः कुर्यात् । ततो वैश्वेदेवार्थ विप्रहस्तेऽपो दत्वा युग्मान्कुशा- नृजूनासनेष्वासनं दक्षिणतो विश्वेषां देवानामिदमासनमिति यवसहि- तान्क्षिपेत् । आसनेष्वासनं दद्याद्विजहस्ते न कुत्रचित् । ततः पुनरपो दत्त्वा पुननिमन्त्रयेद्देवे क्षणः क्रियतामिति । ॐ तथेति विप्रो ब्रूयात् । ततः प्राप्नोतु भवानिति कर्ता ब्रूयात् । ततः प्रामवानीति विप्रो ब्रूयादिति ग्रन्थसंग्रहकारस्मृतिः । अक्षय्यासनयोः पष्ठी द्वितीयाऽऽवाहने तथा । अन्नदाने चतुर्थी स्याच्छेपाः संबुद्धयः स्मृताः । इति श्लोकसंग्रहकारस्मृतिः । यद्वा सर्वत्र चतुर्युव प्रयोज्याऽऽवाहनबर्जम् । सर्वत्र पुनः पुनरपी दद्यात् । ततः पुरूरवाईवान्वैश्वदेवानावाहयिष्य इति यवहस्तः पृष्ट्वाऽऽ. वाहयेति तैरनुज्ञातो विश्वे देवास आगतेत्यचाऽऽवाह्य यवान्दक्षिणपादा दिमस्तकान्त समारोप्य विश्वे देवाः शृणुतेमं हवं मे । आगच्छन्तु महा भागा इत्याम्यामृग्भ्यामुपस्थाय तत्समीपे भूमी यवान्विकीर्य कुशावा स्तीर्य तत्र स्वर्णादितैजसाश्ममयमृन्मयपलाशपत्रादिप्वेकद्रव्यपानद्वरे द्विकुशकूर्चान्तर्हिते । शं नो देवीरभिष्टय इत्यूचाऽपो निषिच्य यवोऽसि धान्यराज इत्युचा यवान्क्षिप्त्वा गन्धपुप्पादि क्षिप्त्वा स्वाहाऽर्घ्य इति निवेद्य विग्रहस्ते कूचं प्रागग्रं क्षिप्त्वा या दिव्या आपः पयसैत्यूच विश्वे देवा इदं वोऽयमिति तद्धस्तेऽयं दद्यात् । ततो विश्वे देवा अर वो गन्ध इत्यादि प्रयोगैर्गन्धादि दद्यात् । श्रीखण्डकुङ्कुमकर्पूरागरुपद्म कादिगन्धानुलेपनं कर्ता कुर्यात् । गन्धं दत्त्वा कर्ता दर्भपाणिनाऽनुलि म्पन्न तु सदर्भण हस्तेन लिम्पेत् । ब्राह्मणः स्वयं लिम्पेन्नायं नियमः ततो जातीमल्लिकाश्वेतयूथिकाचम्पककुकमजात्यादीनि पुष्पाणि मरुब कादिसुगन्धिपत्राणि च देयानि । उग्रगन्धीन्यगन्धीनि वृक्षजरक्तान्ट शुक्लान्यसुगन्धिकण्टकिजानि चार्कधसूरशिरीषकाञ्चनारतुलसीबिल्व स्मृत्यर्थसारः। दीनि वानि । ततो घृतमधुसंयुक्तगुग्गुलश्रीखण्डागरुसरलादिसंभवे समस्तो वा धूपो देयः । प्राण्यङ्गहस्तवाताहतं च धूपं वर्जयेत् । ततो घृतेन तिलतैलेन वाऽनिषिद्धेन वाऽन्येन दीपं दद्यात् ।वसामेदोद्भवं वर्ज- येत् । ततः शुक्कं शुद्धमहतं सदशवस्त्रमाच्छादनं दद्यात्तन्मूल्यं वाऽलाभ उत्तरीयं यज्ञोपवीतं वाऽशक्ती दद्यात् । ततोऽर्चनं संपूर्णमस्त्विति बूयात् । अस्त्विति ते ब्रूयुः । संकल्पसिद्धिरस्त्विति भवन्तो बुवन्त्विति कर्ता ब्रूयात् । अस्तु संकल्पसिद्धिरिति विप्राः प्रतिबूयुः । आसनादिषु स्वासनम् । अस्त्वय॑म् । सुगन्धः । सुपुष्पाणि । सुमाल्यम् । सुधूपः । सुदीपः । सुज्योतिः। स्वाच्छादनमिति विप्रा बूयुरिति संग्रहकारस्मृतिः। अथ पित्र्यम्-प्राचीनावीत्यप्रदक्षिणमयुग्मत्वपूर्व दक्षिणापवगं दक्षि. णामुखः कुर्यात् । पिठ्युपचारप्वेकवचन बहुवचन वा प्रयोज्यम् । जय- न्येष्वेकवचनमेव पित्र्यविप्रहस्तेष्वपो दत्त्वाऽयुग्मकुशान्द्विगुणान्सति. लानासनेष्वासनं पितृणामिदमासनं पितामहानामिदं प्रपितामहानामि- दमिति वा पितुरिदं पितामहस्येदं प्रपितामहस्येदमासनमिति वा पित्रे पितामहाय प्रपितामहायेदमासनमिति वा । पितृभ्यः पितामहेभ्यः प्रपि- तामहेभ्य इदमासनमिति वा वामभागे दद्यात् ।मातामहेषु चैवम् । ततश्च श्राद्धे क्षणः क्रियतामित्यादिमिनिमन्त्र्य पितन्पितामहान्प्रपितामहा- नावाहयिष्य इति तिलहस्तो ब्राह्मणान्पृष्ट्वा पितरं पितामहं प्रपितामहमा- वाहयिष्य इति वा पृष्ट्वाऽऽवाहयेति विप्रैरनुज्ञात उशन्तस्त्वेत्यूचाऽऽवाह्य तिलान्मस्तकादिदक्षिणपादान्तमारोप्य, आयन्तु नः पितर इत्युपतिठेत । मातामहेषु चैवं कृत्वा पितृसमीपे भूमौ तिलान्विकीर्य कुशेषु राजता. दिपूर्वोक्तपात्रत्रये कुशकूर्चान्तहिते शं नो देवीरभिष्टय इत्यपो निपिच्य तिलोऽसि सोमदेवत्य इति तिलान्क्षिप्त्वा गन्धपुष्पादि च क्षिप्त्वा स्वधाऽर्थ्य इति निवेद्य विप्रहस्ते कूच क्षिप्त्वा या दिव्या आप इत्युक्त्वा पितरिदं तेऽयं पितामहेदं तेऽयं प्रपितामहेदं तेऽयमिति क्रमेणाध्य दत्त्वा चतुर्था वा दत्त्वा तद्धस्तनिःसृतार्योदकं पितृपात्रे प्रसिच्य दक्षिणाग्रेषु कुशेषु पितृभ्यः स्थानमसीति सपवित्रं न्युजं कुर्यात् । न्युजं कृत्वा च तस्योपर्यय॑पात्रपवित्राणि क्षिप्त्वा तिलपुष्पादि क्षिपेत् । तत्पात्रमा समाप्तेन चालयेत् । माताहेषु चैवम् । अलाभ एकपात्रं विपवित्रं कार्यम् । उशन्तस्त्वा, आयन्तु नः, तिलोऽसीति मन्त्राणामूहो न कार्यः । देवे पिये च पात्र निवेदनान्त आवाहनमिति केचित् । ततः १ ख. ग. °स्तो व्यस्तो वा घु' । २ ख. यः वैश्वे पि। - ५२ श्रीधराचार्यकृत:- पितरयं ते गन्धः पितरोऽयं वो गन्ध इत्यादिप्रयोगेण गन्धमाशु- लपुष्पाणि दद्यात् । ललाटे पुण्ड्राकारं स्कन्धे मालां च वर्जयेत् । धर्फ दीपं च ज्योतिराच्छादनानि च दद्यात् । देवे पित्र्ये चाऽऽसनक्षणावाह- नाक्षितगन्धधूपदीपाच्छादनानां पदार्थानुसमये सति संततिवृद्धिश्च । कोण्डानुसमये विधिसिद्धिरेव । ततः संकल्पसिद्धयन्तं कुर्यात् । अथ गोमयेन चतुरस्रं मण्डलं कृत्वोपरि यन्त्रं च कृत्वा देवे सौवर्णादीनि पात्राणि पित्र्ये रौप्यादीनि पात्राणि स्वर्णरोप्यावघष्टान्यन्यानि पात्राणि वा मृन्मयवर्जितानि मण्डले निधाय तत्रापो निपिच्य हस्तेन निमृज्य प्रक्षाल्य पुनर्जलेनैव क्षालयेत् । अथानों पाणी वा होमः । निरोः पाणावेव । तत्र घृताक्तमन्नं धृतं चाऽऽदायानो करिष्य इति पृष्ट्वा कुरुप्वेत्यभ्यनुज्ञात औपासनानिमुपवीती परिसमुह्य पर्युक्ष्य प्राचीनावीती तूणीमिध्ममनावाधाय मेक्षणं सुवेणोपस्तीर्यावदानद्वयं क्षिप्त्वा पञ्चा. वत्ती त्रयं क्षिप्त्वा युनः सुवेणाभिधार्यावदाय मेक्षणेन सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नम इत्याभ्यां मन्त्राभ्यामाहुति. द्वयं हुत्या मेक्षणमनावनुप्रहृत्य हुतशेष पितृपात्रेषु क्षिपेत् । आहि- साग्निः सर्वाधानी दक्षिणाशी जुहुयापित्र्यविप्रपाणी वा । अग्न्य- भावे पाणी होमः । पाणिहोम इध्ममेक्षणविप्राभ्यनुज्ञा न सन्ति । पिज्य- विप्रपाणि परिसमुह्य पर्युक्ष्य वामेनोपस्तीर्य दक्षिणेनावदाय प्रत्यभि- घार्य हुत्वा पर्युक्षणपरिसमूहने स्तः । मातामहादिषु चैवम् । तत्र साग्निना पाणिहुतं तदेव प्राश्याऽऽचम्योपविशेत । अथवा भाजने क्षिप्त्वाऽऽ- चम्योपविशेत् । अग्न्यभावे हुतं पूर्वं नाभीयात् । भोजनकाल एवा. नीयात् । प्रेतश्राद्धेषु तदग्नौ क्षिपेत् । इत्याद्याहुतिः । ततो देवपूर्वमुप- म्तीर्य स्वयं पत्नी वाऽन्ये वा नियुक्ताः प्रशस्तहविष्यान्नपूर्वपरिवेषणं कुर्युः । नापवित्रेण हस्तेन नाऽऽयसेन परिवेपणं कुर्युः । तृणपर्णान्त- र्धाने न दोपः। अथ हविष्याणि- बीहिशालियवगोधूमप्रियङ्गुमुद्गमाघश्यामाकनीवाराद्याः कालशाकं महाशाकं द्रोणशाकं मध्यमांसं महाशल्कादीशुकदलीपनसाम्लातका- १ ख. ग. °ल्यनकपु। २ ख. कालान। : ग. वयष्टानि । घ. 'वपृष्टानि । । ख. ५. त्यांडः । ५ क. निबृत प्र । ६ क. होमः ।

स्मृत्यर्थसारः। ५३ प्रखजूरजम्बूगोस्तनीद्राक्षाप्रियालामलकनारिकेरत्रपुशोरुकचिर्भटपा- लेयमधुरोत्तमफलानि बदर्यादीन्येला शुण्ठी चाऽऽकं हिअमरिचपिप्प- लीमधूकगुडशर्कराखण्डकपूरसैन्धवमानसलवणानि मधुगव्यपयोदधि. घृतानीत्यादीनि प्रशस्तानि । एतत्संभवमोदनसूपपायसापूपभक्ष्यपान नादिकं बहु परिवेप्यम् । हिङ्गुशुण्ठीपिप्पलीमरीचकानि द्रव्यसंस्कारा- थानि श्राद्धे स्यन प्रत्यक्षाणि। अथाहविष्याणि--कोद्रवचणकमसूरकुलित्थपुलकराजमापरक्तविदलमाषाः सत्वचश्चाऽऽढक्यः कृष्णयावनालाः कृष्णधान्यानि मुद्रमापतिलव्यतिरि- तानि वानि । उपोदकी तुलसी कृष्णातसी शिगुर्महासर्पपपत्रशाक- कृष्णसर्पपपूतिगन्धशाकानि कूष्माण्डपोलकाद्याश्च । विशेषतो वृन्ताक- बृहतीद्वयालाबुगान्धारिकामर्कटिककपित्थमूलबिल्वफलकाञ्चनालकक- पित्थकनककरा करवन्दकलिङ्गवंशानुराणि पित्रोक्त्या याचितं शुल्का- हृतं सर्वं कृष्णजीरकशतपुप्पीविडलवणाद्यारण्यमृगमहिपीपयोदधिघृत- मित्यादीन्यप्रशस्तानि । प्रशस्तालाभे त्वनिपिद्धं ग्राह्यम् । अथ पात्रे परिवेष्य दैवे पात्रे सकुशयवान्क्षिप्त्वा पात्रं पर्युक्ष्य पृथिवी ते पात्रमि- त्यभिमच्यातो देवा इत्युचमुक्त्वा विष्णो हव्यं रक्षस्वेत्यन्ने द्विजाङ्गुष्ठं निवेश्य पुरूरवाईवा विश्वे देवा देवता इदमन्नं हविब्रह्मणस्त्वाहवनी- यार्थ इयं भूयाऽन्नं च ब्रह्म भोक्ता च ब्राह्मणो गदाधरः। विश्वेभ्यो देवेभ्य इदमन्नं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेर्न ममेति यवोदकेन त्यक्त्वा ये देवास इत्यूचोपतिष्ठेत । अथ पित्र्यपात्रे तिलान्सकुशान्क्षिप्त्वा पात्रं पर्युक्ष्य पृथिवी ते पात्रमित्यभिमन्येदं विष्णुरित्यूचा विष्णो कव्यं रक्षस्वेत्यगुठं निवेश्य पितरो देवता इदमन्नं कव्यमित्युक्त्वा पित्रे घसुरूपाय पितामहाय रुद्ररूपाय प्रपितामहायाऽऽदित्यरूपाय पितृभ्यो वसुरूपेभ्य इति वोक्त्वेदमन्नं परिविष्टं परिवेक्ष्यमाणं चाऽऽ तृप्तेर्न ममेति वा तिलोदकेन त्यक्त्वा ये चेह पितर इत्युचोपतिष्ठेत । न चात्रोहः कार्यः । मातामहेषु चैवम् । अतिथिरस्ति चेत्तं देववदर्चयित्वा स्वेष्टदेव- तारूपाय शिवरूपाय वाऽन्नं त्यक्त्वा ये देवास इत्युपस्थाय देवताभ्यः पितृभ्यश्च सप्त व्याधा दशाणेप्वित्यादीअपित्वाऽऽपोशनं दत्त्वा प्रणव- १ ख. ग. 'पुष्यैर्वा । घ. पुसेर्वा । २ ख ग. ध. त्यक्षेण भक्ष्याणि । ३ ख. ग. प. 'पवमरीप।

श्रीधराचार्यकृतः- यत्री मधुमतीमुक्त्वा ॐतत्सद्यथासुखं जुपध्वमिति बूयात् । अथ बाह्मणाः प्राणाहुतेः पूर्वं मौनिनो भूतलात्पात्रमनुद्धरन्तो मुखशब्दपा- ण्यादिचापलं वर्जयन्तो भुञ्जीरन् । यद्वा मृदादिपालिकासु भिडिकासु वा प्राणाहुत्याः पूर्वमूवं वा पात्रं निधाय भुञ्जीरन् । उच्छिष्ट सेकपा- दरजःस्पर्शाक्रमणादिभयात्सर्वथा न यन्त्रिकादित्रिपाद्यादिपु निदध्युन बलि कुर्युस्ततो भोक्त्रे कर्ने च पित्रे च यद्रोचते हविस्तद्देयम् । आ तृप्ते रक्षोन्नपित्र्यपवित्रमन्त्रान्प्रणवादिपूर्वानुपवीती श्रावयित्वा प्रणवगा. यम्यो जपेत् । ततः सार्वर्णिकमन्नाद्यमादाय प्रणवमुक्त्वा प्राचीनावीती मधु वातेत्यृचमक्षन्नमीमदन्तेत्यूचं[च] श्रावयित्वा तृप्ताः स्थेति पृट्वा तृप्ताः स्मेति तैः प्रत्युक्ते देवपित्र्यबाह्मणसंनिधौ पुरत उच्छिष्टसमीपे दक्षिणाग्रेषु दभेपु तिलोदकं पितृतीर्थेन प्रसिच्य ये अग्निदग्धा ये अनग्नि- दग्धा जीवा इत्यनेन सतिलमन्नं क्षिप्त्वा तिलोदकं प्रसिच्याऽऽचमेत् । ततो गण्डूषं दत्त्वा सार्ववर्णमन्नायं पिण्डार्थमुद्धृत्यान्नशेषः किं क्रियतामिति पृष्ट्वेटैः सह भुज्यतामित्यभ्यनुज्ञाते तैर्गृहीते वाऽग्निहोमेऽग्निसमीपे पाणि. होमे विप्रसमीपे पिण्डपितृयज्ञवत्पिण्डान्निध्यात्तञ्चैवम्-गोमयेनोप- लिप्ते भूप्रदेशे स्फ्येन खादिरेण काष्ठेन वा दर्भेण वा, अपहता असुरा इत्यादिना लेखाद्वयं दक्षिणायमुल्लिख्याभ्युक्ष्य तत्र बर्हिरास्तीर्य पश्चिम- लेखायां पिण्डदेशेषु शुन्धन्तो पितर इत्यादिभिस्त्रिभिर्मस्तिलोदकं पितृतीर्थन निनीय पूर्वलेखायां शुन्धन्तां मातामहा इत्यादिभिनिनीयै- तत्ते देवदत्तशर्मन्ये च त्वामवान्वित्युक्त्वैतत्पिण्डरूपमन्नं पित्रे न ममे- त्यादितिलमिश्रान्पराचीनपाणिः पिण्डान्निधायात्र पितर इत्यादिना पद् पिण्डान्सकृदेवानुमा सव्यावृत्योदङावृत्य यथाशक्त्यनुच्छ्स- नासित्वाऽभिपर्यावृत्यामीमदन्त पितर इत्यादिनाऽनुमन्योच्छसेत् । ततः पिण्डशेषमवघ्राय हस्तं प्रक्षाल्य पिण्डेषु पूर्ववदुदकं निनीय देव. दत्तशर्मन्नभ्यङ्क्षवेति पिण्डेषु तैलं दत्त्वा देवदत्तशर्मन्नश्वेत्यञ्जनं दत्त्वै- तद्वः पितरो वास इत्यादिना वासो दशामूर्णास्तुकां वा दद्यात् । पश्चा. शद्वर्षताया अचं स्वहृत्स्थरोम वा दद्यात् । अथ पिण्डान्पितृरूपानुप- तिष्ठेत नमो वः पितर इत्यादिना मनोन्बाहुवामह इति च तिसृभिः । अथ पिण्डान्युगपत्यवाहयेत्परेतन पितर इत्युचा अग्ने तमद्येत्यूचा दक्षिणाग्निं प्रति गच्छेत् । यदन्तरिक्षमित्यूचा गार्हपत्यं प्रति गच्छेत् । औपासने १ क्र. दिपोलिका । २ ख. ग. घ, बृदुदडा ३ ख. ग. घ. स्वहस्तरो स्मृत्यर्थसारः। स्वमे तमद्येति गत्वा यदन्तरिक्षमिति जपेत् । तत्र गार्हपत्यपदस्य लोपः। पाणिहोमेऽमे तमद्येत्यादिकं नास्त्येव । ततः पिण्डेभ्योऽक्षतगन्धपुप्पधू- पदीपवस्त्रताम्बलानि दत्वा वीरं मे दत्त पितर इति मध्यम पिण्डमा दायाऽऽधत्त पितर इति पत्नी प्राशयेत्पुत्रायुरारोग्यैश्वर्यार्थम् । पिण्डास्तु गोऽजविप्रेभ्यो दद्यादयो जलेऽपि वा। अयनिनयनादन्यत्र पितृशब्दस्योहो न कार्यः । एवं वा स्वशाखो- तविधिना वा पिण्डान्निधायाऽऽचम्याऽऽचमनं दद्यात् । ततो विप्रह- स्तेऽपो दत्त्वा यास्तिलांश्च क्रमात्क्षिप्त्वा तान्निरस्य पुनः साक्षतपुष्पं क्षिप्त्वा गोत्रनाम्नाऽभिवाद्य गोत्रं वर्धतामिति याचयित्वा स्वस्ति वर्धतां गोत्रमिति प्रयुक्त प्रक्षिप्ताशिषो गृहीत्वा पात्राणि चालयि- स्वाऽऽचमेत् । अनुपनीतः स्त्री[वा]न चालयेत् । ततो विश्वेभ्यो देवेभ्यः पितृभ्यश्च स्वस्तीति ब्रूतेत्युक्त्वा तैरों स्वस्तीत्युक्त विश्वेषां देवानां पितॄणां चाक्षय्यमस्त्वित्युक्त्वाऽस्त्वक्षय्यमित्युक्ते भूहिरण्यरजतादि शक्त्या दक्षिणां दद्यात् । ततो दक्षिणाः पान्तु बहुदेयं चास्तु न इत्युक्ते तथैव प्रत्यूचुः । स्वधां वाचयिष्ये वाध्यतामित्यनुज्ञातः पितृभ्यः स्वधो- ध्यतामित्युक्त्वाऽस्तु स्वधेति प्रत्युक्ते भूमी जलं सिञ्चेत् । स्वधा संपद्यतामित्युक्ते संपद्यतां स्वधेति प्रत्यूचुः । विश्वे देवाः प्रीयन्तामि- त्युक्ते प्रीयन्तां विश्वे देवा इति प्रत्यूचुः । पितरः प्रीयन्तामित्युक्ते प्रीयन्तां पितर इति प्रत्यूचुः । ततो न्युजपात्रमुत्तानं कृत्वा पवित्राणि विन्यस्य विप्रहस्तेऽक्षतपुष्पाणि च क्षिप्त्वा बाजेबाजेवत इत्युक्त्वोत्तिष्ठत पितर इति दर्भेण विप्रापितृपूर्वान्विसर्जयेत् । ततः पादप्रक्षालनप्रदेश आमा- वाजस्येति प्रदक्षिणीकृत्य दक्षिणामुखो दातारो नोऽभिवर्धन्तामन्नं च नो बहु भवेदिति वरेषु याचितेषु तैश्चैताभ्यां श्लोकाभ्यां युष्मदाख्यातश- ब्देन वा तथैवास्त्विति वा प्रयुक्त आशिपो गृहीत्वा प्रणिपत्याद्य मे सफलं जन्मेति प्रसाय सर्व संपूर्णमस्त्विति वाचयित्वा क्षम्यतामि- स्युक्त्वा निवेशनान्तमनुव्रज्याऽऽस्यतामित्युक्ते प्रदक्षिणीकृत्याऽऽगत्य पाकान्तरेण वा श्राद्धशेषेण वा वैश्वदेवादिकं कृत्वेष्टैः सह श्राद्धशेषपूर्व भुञ्जीत । निमन्त्रणादि च तद्रात्रौ च ब्रह्मचारी स्याद्भोक्ता तु पुन - जनाध्वगमनाध्यापनाध्ययनमैथुनदानप्रतिग्रहहोमादीन्वर्जयेदिति पार्व- KALORL १ ख. ग. घ. °ले क्षिपेत् । १ घ. नाभ्यामन्य। : क. °यस्त्वाशि श्रीधराचार्यकृत:- णश्राद्धं सर्वसंग्रहकारकमताल्लिखितम् । अनुपनीतस्त्रीशूद्राः श्राद्धमृ- विजा कारयेयुः स्वयं वाऽमन्त्रकं नामगोत्राभ्यां कुर्युः । देवेभ्यो नमः पितृभ्यः स्वधा नम इति मन्त्राभ्यां वा । पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । *अविशेपेण कर्तव्यं विशेपान्नरकं व्रजेत् ।। एवं काम्यश्राद्धम् । तत्र धूरिलोचनौ विश्वे देवाः । अगौ पाणी वा होमः । नैमित्तिकं श्राद्धं तद्वत् । तत्र कामकाली विश्वे देवाः । इष्टिश्राद्धं रुचिश्राद्धं तद्वत् । तत्र क्रतुदक्षौ विश्वे देवाः। अथ वृद्धिश्राद्धम् - तत्र सत्यवसू विश्वे देवाः । वैश्वदेवार्थं मात्राद्यर्थ पित्राद्यर्थं सपत्नी- कमातामहाद्यर्थं च द्वौ हौ विधी युग्मा वा शक्तितो योज्याः । अमूला दर्भाः। यज्ञोपवीती प्राङ्मुख उदङ्मुखेभ्यो दद्यात् । प्राङ्मुखेभ्यो वोदङ्मुखः । सर्वथा दक्षिणामुखो न दद्यात् । तिलार्थे यवाः । नान्दी. देवानां नान्दीश्राद्धे क्षणः क्रियताम् । ॐ तथा प्राप्नुतां भवन्तौ प्राप्नवा. वेत्यादि । क्षणे पित्र्येऽपि द्विकुशकूचं पवित्रकम् । पित्र्ये नान्दीमुख. पूर्वकं युग्मत्वम् । यवोऽसि सोमदेवत्य इति यवावापः स्वधास्थाने पुष्टया । स्वधानमःस्थाने स्वाहानमःशब्दः । स्वाहाऽर्य इत्ययनिवे दनम् । नान्दीमुखाः पितरः प्रीयन्तामिति द्विर्गिन्धादि देयम् । प्रद. क्षिणमुपचारा उदगपवर्गम् । अग्नो पाणी वा होमः । अग्नये कव्य- वाहनाय स्वाहा । सोमाय पितृमते स्वाहेति व्युत्क्रमेण होमः । होमव- न्मेक्षणप्रक्षेपः । रक्षोलेन्द्रशान्तिमन्त्राश्रावयेत् । मधुवाते त्यूचः स्थान उपास्मै गायता नर इति पञ्चर्चः श्रावदन्यमधुमन्त्रान्वा । अक्षन्नमी. मदन्तेत्यन्ते श्रावयेत् । आचान्तेपु भुक्त्याश्रयान्गोमयेनोपलिप्य प्राग- यान्दर्भानास्तीर्य देव पृपदाज्यदधिवदरिमिश्रभुक्तशेपेणकैकस्य द्वौ द्वी पिण्डौ दद्यात् । आज्ये दधिप्रक्षेपा देवं पृपदाज्यम् । शेपं पार्वणवत् । अत्र पिण्डमात्रस्य लोपो वा पिण्डादिकस्य लोपो वा । अथैकोद्दिष्टं मिताक्षरायाम् ----प्रतिसंवत्सरं मृताहन्येकोद्दिष्टमुपदिष्टं योगे- श्वरेण । तथा च स्मृत्यन्तरे-- --- ARARL---- * इदम घ. पुस्तके वर्तते । १ ख. ग. 'धयाः स्था । २ स. ग. घ. त्वम् । ३ क, भुक्ताशया।

स्मृत्यर्थसारः। ५७ बर्षे वर्षे तु कर्तव्या मातापित्रोस्तु सक्रिया । अदेवं भोजयेच्छाद्धं पिण्डमेकं तु निर्वपेत् ॥ तत्र सर्वश्राद्धानि विविधानि-नवश्राद्धानि नवमिश्राणि पुराणा- नीति । तत्र मृताहायेकादशाहान्तं विहितानि नवश्राद्धानि । एकाद- शाहादिन्यूनान्दान्तं विहितानि नवमिश्राणि । ततः परं पुराणानी- त्युक्तम् । तत्र सर्वेकोद्दिष्टेषु दैवं नास्ति । एक उद्देश्यो ब्राह्मणश्चैकः । अयुग्मा वा ब्राह्मणाः । एकं पात्रं पवित्रं च । भुक्तशेपेणैकः पिण्डो देयः। पुराणकोद्दिष्टे पार्वणकदेशवत्सर्व देवहीनं समन्त्रकमेव । पाणी मन्नाभ्यां होमः । नवमिश्रेषु दिवा निमन्त्रणम् । निमन्त्रणादि न स्वाध्यायः । पितृशब्दस्वधानमःशब्दवता मन्त्राणां लोपः । तिला- वापादि सर्वं तूष्णीं कार्यम् । तूप्णीमध्यं निवेद्यानाबाह्य मन्त्रान्ते नाम्ना प्रेतोद्देशेनाध्यं दत्त्वा गन्धादि देयम् । पाणौ प्रेताय स्वाहेत्येका- हुतिः । नवश्राद्धेपु धूपं दीपं स्वधाशब्दं पितृशब्द पिण्डेऽनुशब्दं जपम- भिश्रवणं च वर्जयेत् । अक्षय्यस्थान उपतिष्ठतामिति घदेत् । प्रतिवचन तद्वत् । अभिरम्यतामिति विसर्जयेत् । अभिरताः स्म इति प्रत्युक्तिः। नवमिश्रे च सर्व समन्त्रकमित्येके । नवश्राद्धे सर्वममन्त्रकमेव कार्यम् । नामप्रेतशब्दं च न लोपयेत् । सद्य एव निमन्त्रणम्।धूपं दीपं श्राद्धशेष. भोजनं च वर्जयेत् । नवश्राद्धं कृत्वा मायात् । अन्यत्सर्वं पार्वणवत् । नवश्राद्धान्येकादशेऽह्नि वा कार्याणि । तवाऽऽयं महकोद्दिष्टम् । तत्र बहुदक्षिणा प्रेतवस्त्राभरणयानशय्यासनभोजनपादुकोपानच्छत्रादिकं देयम् । रुद्रगणे प्रेतोद्दिष्टपक्षे नवश्राद्धवत् । रुद्राद्देशपक्षे तु यज्ञोपवीती विप्रान्समभ्यर्थ भोजयेत् । रुद्ररूपप्रेतोदेशवच्छ्राद्धं सोदकुम्भं सतिलं सर्वत्र दक्षिणा देया प्रेतश्राद्धे विशेषेण । अथ सपिण्डीकरणम्-तत्र मण्डलवयम् । देवे द्वौ विप्रो प्रेतस्थाने त्वेकः, तत्पित्रादिषु त्रयः। अशक्ती देवे प्रेते पित्र्ये चकैको विप्रः। कामकाली विश्वे देवाः। देवार्चनं पूर्ववदेव । प्रेतार्थमेकपात्रं तत्पित्राद्यर्थं त्रीणि। प्रेते नवमिश्रकोद्दिष्टवरिपत्र्ये पार्वणवत्पात्रं पूरयित्वा गन्धादि क्षिपेत् । पात्राणि तत्रैव निवेद्य प्रेतपात्रं पितृपात्रेषु संयोजयिष्य इति पृष्ट्वा १ ख. ग. गादीनि । २ क. ‘त्र प्रस्तुसमृ । प. 'त्र प्रथमाह । ३ क. 'कमुदिश्य बा । 7 क. घ. सर्वममन्त्र । ५ क. 'चायमेकोद्दिष्टम् । ६ घ. 'त् । सूत्रोदेश ।

श्रीधराचायकृता- - संयोजयेत्यनुज्ञातः प्रेतपात्रकुशान्पितृपात्रेषु क्षिप्त्वा प्रेतपात्रे किंचिदेव जलं सकुशमवशेष्य ये समानाः समनस इति द्वाम्यां मन्त्राभ्यां पितृ. पात्रेषु सिश्चेत् । प्रेतपानावशेषेण प्रेताय॑म् । पित्र्ये तत्पात्राध्य दत्त्वाऽऽच्छादनान्तं कृत्वा पृथक्पृथगन्नं मूर्धन्यप्रेताय पाणावेकाहुतिं जुहुयान्न वा। पित्रर्थमनौ पाणौ वा मन्त्राभ्यां होमः । हुतशेष पितृपा- णिषु दद्यात् । तदन्नं भोजनात्माकनाश्नीयात् । भोजनार्थान्नेन सहा. श्रीयात्प्रेतोद्देशेनैकं पिण्ड दत्त्वा पित्र्ये त्रीन्पिडान्दत्त्वा प्रेतपिण्डं पितृपिण्डेपु संयोजयिष्यामीति पृष्ट्वा संयोजयेत्यनुज्ञातः प्रेतपिण्डं वेधा विभज्य पूर्वमन्त्राभ्यां पित्रादिपिण्डेषु निदध्यात् । अनुमन्त्रणादि सर्व पार्वणवत् । सर्वं तत्रैव समापयेत् । श्राद्धभोजने मिथः स्पृष्टौ- तदन्नमत्यजन्भुक्त्वा गायव्यष्टशतं जपेत् । उच्छिटेन सिक्ते तत्प्रक्षाल्य भुक्त्वा स्नात्वा द्विशतं जपेत् । उच्छि- भोजने द्विसहस्रं जपेत् । मातृणां चैवम् । तत्र विशेषः- अपुत्रायां मृतायां भर्ता स्वमात्रादिभिः सापिण्डयं कुर्यात् । मातृपि- ण्डदानादिकमासुरादिविवाहोत्पन्नपुत्रिकापुत्रश्चंत्तत्पितृगोत्रेणैव कुर्यात् । बाह्मादिविवाहोत्पन्नः पितृगोत्रेण मातृगोत्रेण वा कुर्यात् । अन्वारोहणे त्वेकचित्यारोहण एकदिनमरण स्त्रियाः पृधासपिण्डीकरणं न कार्यम् । भर्तुः कृते स्त्रियाश्च कृतं भवति । दिनान्तरमरण तु पुत्रः स्वपि- तृपितामहप्रपितामहपिण्डमध्ये कुशानन्तर्धाय पित्रैकेन मातुः सापिण्ड्यं कुर्यात् । सर्वत्र भर्ना पल्याः सापिण्डयमेकेनैव । श्वशुरेण निपि. द्धम् । केचिधिभिरेव सह सापिण्ड्यमाहुः । आसुरादिविवाहो- त्पन्नः पुत्रिकापुत्रश्च मातामहादिभिरेव । तथा सति मातामहश्राद्धं नित्यमेव मृताहादी । बाह्मादिविवाहोत्पन्नः पित्रकेन । पितरि स्थिते पितामहादिभिर्मातामहादिभिर्वा सापिण्ड्यं कुर्यात् । बाह्मणादिहतानां प्रायश्चित्ताकरणे ब्रह्मचारिणामनपत्यानां च सपिण्डीकरणं नास्ति तेषां सदैकोद्दिष्टमेव । व्युत्क्रममृतानां व्यवहितः सापिण्ड्यं कार्य न वा । केचित्सर्वेषां सपिण्डीकरणमाहुः । संवत्सरादाक्सपिण्डीकरणे १ ख. ग. तसपिण्डनादि । २ ख. ग. घ..ह्मादि । ३ ख.न, घ, मयादि ।

स्मृत्यर्थसारः। ५९ सति प्रतिदिनं प्रतिमासं वा सोदकुम्मश्राद्धं मृताहश्राद्धवत्कृत्वा सपिण्डीकरणमारभ्य वैकादशाहादिषु तान्येव षोडश श्राद्धानि मृता- हश्राद्धवत्कृत्वा वा संवत्सरविमोकार्थं पार्वणश्राद्धं भूरिब्राह्मणभोजनं च कुर्यात् । मृताहश्राद्धं प्रत्यब्दमेकोद्दिष्टं पार्वणं वा यथास्वाचार पुत्रैः कार्यम् । मरणक्षणे यन्मासे यत्पक्षे या तिथिस्तद्दिनं तस्य मृताहः । पतीनां सदा स्त्रीभिः पार्वणमेव कार्यम् । दर्शे मृतस्य प्रेतपक्षे मृतस्य च प्रत्यब्द पार्वणमेव । यतीनां त्रिदण्डिनां प्रेतत्वं नास्त्येव । एकादशेऽह्नि पार्वणमेव कार्यम् । दण्डग्रहणात्पूर्व मरणे स्वशाखोक्तविधिना दग्ध्वो- दकपिण्डप्रेतश्राद्धसापिण्ड्यादीनि कार्याण्येव । शूद्राणां तु प्रेतश्राद्धं सर्वममन्त्रकं द्वादशेऽह्नि कार्यम् । मासे गते वा कार्यम् । अनाहिताग्ने मरणदाहादि प्रेतकार्य मृताहश्राद्धं चाऽऽहिताग्नेः प्रेतकायं मृताहश्राद्धं च दहनादेः कार्य त्रिपक्षान्तम् । तस्मादृवं मृताह एव । सर्वेषां मृताह एव श्राद्धं कार्यम् । अष्टकासु गयायां च पृथड्यातणां पितॄणां च सोदकानां च सपत्नीकमेव । तत्र देवतन्त्रमेव पितृपूर्वत्वम् । अने- कमातरोऽप्येकत्र योज्या अन्यत्पूर्ववत् । वृद्धी चे न सपत्नीकं स्त्रीपू- वत्वं देवतन्त्रत्वं चोक्तमेव । मृताहश्राद्धं पितृमृताहे पितॄणामेव कार्य न च सपत्नीकम् । मातृमृताहे मातृणामेव कार्य पितॄणा तत्र श्राद्धे प्राप्तिरेव नास्ति । ( * वृद्धी मातृमुख्यं मातृणां सदैवमन्वष्टकायां मातृमध्यं सदैवं गयादिषु मावन्तं संदेवम् ) मातापित्रोद॒ताहैक्ये पितृमातृश्राद्धं पृथगेव न सपत्नीकम् । तत्र पूर्व पितुः श्राद्धं समाप्य ततो मातुः श्राद्धं कुर्यात् । पित्रोम॒ताहैक्ये सह दहने च मातृश्राद्धं पृथगेव । तत्र तु पितुः श्राद्धं मातुः श्राद्धं चैककालमेकपाकेन क्रमेण समापयेत् । मृताहैक्य एकचित्यारोहणे राति मातृश्राद्धं पृथगेव । तत्र देवं तन्त्रमेव । ततः पितरस्ततो मातरः । अनेकमातरः पृथगे क्रमेण । कालपाकबहिःप्रयोगैक्यम् । भिन्नचित्यारोहणे सर्वं पृथगेव । मृताह- श्राद्धस्यैकोद्दिष्टत्वेऽप्येप क्रमः । अष्टकागयावृद्धिमृताहादन्यत्र सप- लीकमेव । मातामहानामेतेप्दपि सपत्नीकमेव मृताहवर्जम् । तत्र पृथगेव सर्वेषाम् । पितृव्यरिक्थिभ्रातृमातुलगुर्वाचार्याणां च तद्वत् । अपरपक्षे महालये सर्वेषां पितृणां श्राद्धं कार्यम् । तत्र मातृश्राद्धं पृथ- * धनुश्चिद्वान्तर्गतपाठो ग. पुस्तके वर्तते । १ ख. ग. घ. तृणा न पृथक्श्राद्धं न मप नीकं मातामहाना पत्नीकमेव सो' । २ ख. क °वमक। स। ३ क.

श्रीधराचार्यकृतः- कप्रशस्तम् । मातामहानां सपत्नीकमेव। गुर्मचार्यपितृव्यमातुलश्वशुरोपा- ध्यायभ्रातृसखिप्रियपोषकद्रव्यदपुत्रशिष्यविगादीनां तत्स्त्रीणां च श्राद्धं कार्यम् । अपुत्राणां विशेषेण कार्यम् । तत्रैकः पाकः । वैश्वदेवं तन्त्रं पिण्डबहिश्चकम् । पक्षश्राद्धे च तथैव । तत्पक्षत्रयोदश्यामेकवर्गस्य श्राद्धं न कार्य पिण्डदानं च निपिद्धं मघायोगे विशेषतः । पुत्रकामस्य च पिण्डबर्हिः कुशा: काशा दूर्वाः प्रशस्ताः । बीहियवगोधूमोशीरेक्षुकन्दु- रुमुञ्जबल्बजाश्च भवन्ति । एकादश्यां त्रयोदश्यां मघायां कृत्तिकासु पिण्डदाने दूर्वा निषिद्धा । तत्पक्षचतुर्दश्यां शस्त्रहतस्यैव श्राद्धम् । तच्चैकोद्दिष्टमेव । त्रयाणामपि शस्त्रहतत्वे पार्वणमेव । सर्वेषां पापमृतानां चैव । तन्त्रं देवं पार्वर्णमेव । नित्यश्राद्धमदेवं पटपुरुषं च भवति । तत्राग्नदेशकालनियमाः कर्तृभोक्तृनियमाश्च न सन्ति । विप्रानुपवेश्याऽऽ. सनं दत्त्वाऽर्यहोमपिण्डवर्ज संकल्पसिद्ध्यन्तं कृत्वाऽन्नं त्यक्त्वा भुक्तौ प्रसादयेत् । विवाहमीञ्जीबन्धोवं वर्ष वर्षाधं कमात्सपिण्डीकरणवर्ज श्राद्धेषु सपिण्डाः पिण्डान्न दयः । शेपं सर्वं कुर्युः । पृथपिण्डानपि न दधुः। महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि प्रेतस्य सपिण्डीकरणे सति ॥ कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सदा । पितृयज्ञ च यज्ञे च गयायां दारेव ते ॥ सपिण्डीकरणवजं सर्वश्राद्धपु विस्तृतपार्वणविधिनाऽसंभवे संक- ल्पविधिनैव कार्यम् । संकल्पविधानं नामाऽऽवाहनार्यहोमपिण्डव पार्व- णोक्तं यथासंभवं भवति । अन्नाभावे द्विजाभावे प्रवासे पुत्रजन्मनि पत्न्यभायेऽग्न्यभावे पाककभावे सति पत्न्यां रजस्वलायामापदि तीर्थ ग्रहणसंनिधौ भोजननिषेधकाले मृताहे चान्यश्राद्धे च संग्रहे रात्रिसं- कान्तौ चावीरा स्त्री शूद्रश्च सर्वदाऽऽमश्राद्धं कुर्यात् । तत्राऽऽच्छादनान्तं कृत्वाऽऽमं चतुर्गुणं समं वा सोपस्करं त्यक्त्वा दक्षिणां दत्त्वा समापयेत् । आमेन होमपिण्डी न वा। स्वस्तिवाचनं न वाऽस्ति । अन्नाभावादि- निमित्तेषु हेमश्राद्धं वा कार्यम् । विशेषतः पुत्रजन्मापत्नीकप्रवासानग्नि- तीर्थापत्संग्रहेषु हेमश्राद्ध आवाहनायगृहपाकहोमपिण्डान्कुर्युर्न वा । १ ख. ग. °म् । तत्त्वदै । घ. °म् । न त्वदे । २ ख. ग. "पि द । ४ क. जे गयायां दद्युरेव । स । घ. गवत् । नि। ३ क. घ.

- स्मृत्यर्थसारः। आच्छादनान्ते हिरण्यमष्टगुणं चतुर्गुणं द्विगुणं समंवा सदक्षिणं त्यक्त्वा पूर्ववत्समापयेत् । अन्नाभावाद्यनेकनिमित्तेपु सत्सु संकल्पितं श्राद्धं कार्यम् । तत्र द्रव्ये विप्रे वाऽसंनिहिते वाऽऽमहेमभूवस्त्रधनधान्यादि- वस्तु यथाशक्त्या पित्रुदेशेन संकल्पं त्यजेत् । मासिकानि मृताहःसु संभवेऽन्नेनैव कार्याणि सपिण्डीकरणं तु सर्वथाऽनेनैव कार्यम् । अथ श्राद्धकालविधिः- तत्र तावद्यस्मिन्दिने यद्विहितं कर्म तद्घटिकासु तत्कर्मणः प्रारम्भ समाप्तिं च कुर्यात् । मृताहश्राद्धस्य विशेषेण । असंभवे प्रारम्भं समाप्ति वा कुर्यात् । अह्नि पञ्चदशधा विभक्तेऽष्टमो मुहूर्त: कुतुपः। कुतुपादिपश्चसु मुहूर्तेषु श्राद्धं कार्य न सायाह्ने न रात्री न प्रातः । अह्नः पञ्चधा विभा- गास्त्रिमुहूर्तकाः प्रातः पूर्वाह्नो मध्याह्नोऽपराह्नः सायाह्न इति । प्रातःकाले वृद्धिनिमित्तकं श्राद्धं प्रशस्तम् । पूर्वाह्न आमश्राद्धं हेमश्राद्धं च । मध्याह्न एकोद्दिष्टम् । अपराह्ने पार्वणम् । पिण्डपितृयज्ञदिने सायाह्नेऽपि पार्वणमनुज्ञायते । एवं पूर्वदिनेषु । अथ खण्डतिथिषूच्यते--अमावास्या दृष्टचन्दा सिनीवाली । नष्टचन्द्रा कुहूसंज्ञा । अमावास्या भूतविद्धा न चेदपराह्नव्यापिनी ग्राह्या । भूत- विद्धा चेत्तां त्यक्त्वाऽपरेारपराह्णव्यापिनी तिथि ह्यो । मध्याह्नात्पर- स्तादमावास्याप्रतीतो भूतविद्धा भवति। अत्यन्ततिथिक्षयविषयेऽपरेधुर- परालेमावास्याया अभावे भूतविद्धा सिनीवाली सायाह्नव्यापिनी ग्राह्या । ततोऽर्वाचीनक्षये भूतविद्धा सिनीवाल्यपराह्नव्यापिनी सर्वै. ग्राह्या । यद्वा साग्निकः सिनीवाली निरनिकैः स्त्रीशूद्रश्च कुहूः । अत्यन्ततिथिवृद्धौ भूतविद्धां सिनीवाली त्यक्त्वाऽपरालव्यापिनी कुहूर्णाह्या । ततोऽर्वाचीनवृद्धौ भूतविद्धां सिनीवालीं त्यक्त्वा मध्या- हव्यापिनी कुहूर्याह्या । द्वयोरपि मध्याह्नव्यापित्वे तिथिसाम्य इच्छ- याऽन्यतरा तिथि ह्या । यद्वा साग्निकः सिनीवाली निरग्निकः स्त्रीशूद्वैश्च कुहः । यद्वा सर्वैः कुहू ह्या । दर्शपूर्णमासयोः श्राद्ध- तिथिषु वृद्धिह्रासस्वीकारो नान्यत्र । मृताहे चापराह्नव्यापिन्येव तिथिह्या । अपराह्नः पितॄणां स्वयंभुवा दत्तः । नास्तमयः । १ ख. ग. ते संनिहिते वा । २ क. °श्चधा। ३ ख. ग. °पूर्णादे । ४ ख. ग. थिरुच्य । ५ ख. या अमध्या । ६ ख. ग. विद्वां मिनीवाली त्यक्वा पराव्यापिनी कह' । ७ क, मयति ।

६२ श्रीधराचार्यकृतः त्रिमुहूर्तमात्रव्यापिन्येव तिथिवृद्धौ परैव ग्राह्या तिथिसाम्ये तु पूर्वा परा वा तिथिक्षये त्वस्तमयत्रिमुहूर्तव्यापिन्येव ग्राह्यो । परदिने श्राद्ध- करणासंभवे सूतकादिविघ्नसंभवे पूर्वैवास्तमयमात्रव्यापिनी ग्राह्या । केचित्सर्वथा पूर्वविद्धा ग्राह्येत्याहुः। तत्तु बहुस्मृतिन्यायविदो नेच्छन्ति । पूर्वदिने श्राद्धकरणासंभवे सूतकादिविघ्नसंभवे च परैवोदयव्यापिनी प्रयोगपर्याप्तकाला तिथि ह्या । तत्रापि मृताहश्राद्धस्य द्रव्यासं- भवे चान्येन विघ्नेन वाऽनुपपत्तावुपपत्त्यनन्तरं कार्यम् । सूतकादि. विघ्ने च तच्छुद्धयनन्तरं कार्यम् । यद्वा कृष्णैकादश्याममावास्यायां वा कार्यम् । यद्वाऽनन्तरमासे तदिने वा कार्यम् । एकोद्दिष्टे संपाप्ते विघ्ने सत्यनन्तरमासे तद्दिने वा कार्यम् । यथाकालं पोडश श्राद्धानि कार्याणि अनुपपत्तिनिमित्ते विघ्ने सत्युपपत्त्यनन्तरं कार्याणि । विघ्नेनान्तरितं मासिकश्राद्धमुत्तरमासि तदिने कार्यम् । प्रोपितमरणे मृताहाज्ञाने मृत- मासपरिज्ञाने तन्मासदर्शी ग्राह्यः। मृतमासाज्ञाने मृताहपरिज्ञाने सति मार्गशीर्षमासे भाद्रपदमासे माघे वा तद्दिनं ग्राह्यम् । मरणदिनमासौ न विज्ञातौ चेत्पस्थानदिनमासौ ग्राह्यौ । प्रस्थानदिनमासी न विज्ञाती चेन्मरणदिनमासवार्ताश्रवणदिनमासी पूर्ववद्ाह्यौ । मरणवार्ताश्रवण- दिनमासौ न विज्ञातौ चेत्पुनर्दहनमासौ पूर्ववद्राह्यौ । यद्वा सर्वत्रापि कृष्णपक्षमरणे दर्शो ग्राह्यः । शुक्लपक्षमरणे पूर्णसासः । सर्वात्मना मृताहाज्ञाने माघमासस्य दर्शो ग्राह्यः । अपोषितस्यापि सर्वात्मना मरणदिनमासाज्ञान एवमेव कार्यम् । युगादिमन्वादिप्रभृतिविशेषवि. हितश्राद्धेषु शुक्लपक्ष उदयव्यापिनी तिथिर्गाह्या । कृष्णपक्षेऽस्तमयव्या- पिनी । शुक्लपक्षस्य पूर्वाह्न करणं प्रशस्तं कृष्णपक्षस्यापराहे नक्षत्रवि- हितश्राद्धेष्वपिशुकृपक्ष उदयव्यापि नक्षवदिनं ग्राह्यं कृष्णपक्षेऽस्त- मयव्यापि नक्षत्रदिनं ग्राह्यम् । अथ संक्रान्तिषूच्यते----(*संक्रान्तिपु सर्वतोमयतोऽष्टायटिकासु दृष्टमह- टफलमुच्यते ।) तत्र कर्कटसंक्रमो दक्षिणायनम् । दक्षिणायने पूर्व त्रिंश- द्घटिकाः स्नानदानश्राद्धादिषु पुण्याः । तथा विष्णुपदेषु च पूर्व षोडश * धनश्चिान्तर्गतपाठः ख. ग. पुस्तकयोनास्ति । १ क. नौ तिथिवृ । २ के. ह्या अप° । ३ क. २ प्रायम् । ४ घ, यतः षोडशपटिका। पुण्याः । अष्टा।

स्मृत्यर्थसारः। ६३ घटिकाः पुण्याः । वृषवृश्चिककुम्भसिंहसंक्रमा विष्णुपदाः । तुलामेषयो- विषुवैम् । तत्र पूर्व दश घटिकाः पश्चाच्चतुर्घटिकाः पुण्याः । षडशीति- मुखेषु पश्चात्योडश घटिकाः पुण्याः । मिथुनकन्याधनुर्मीनसंक्रमाः पडशीतिमुखाः । मकरसंक्रम उत्तरायणम् । उत्तरायणे पश्चाचत्वारिं- शद्घटिकाः पुण्याः । ( *पूर्व चत्वारिंशद्घटिकाः पुण्याः) प्राहुः । अर्धरात्रादक्सिंक्रमणेषु सत्सु पूर्वदिनं पुण्यम् । तत्र भोगः कार्यः । अर्धरात्रसंक्रमणेषु सत्सु दिनद्वयं महापुण्यम् । तत्र भोगः कार्यः । यद्वा ग्रहणसंक्रान्तिविवाहोत्क्रान्तिवृद्धिषु राबावपि स्नानदानादिकं कार्यम् । व्यतीपातादियोगः कुतुपादियोगी ग्राह्यो विष्ट्यादिकरणं च तथैव । इति स्मृत्यर्थसारे श्राद्धकालनिर्णयः । अथ पर्वनिर्णय उच्यते-संपूर्णे पर्वण्यन्वाधानम् । प्रतिपदि यागः । खण्डपर्वणि विशेष उच्यते । पूर्णमासी न्यूनचन्द्राऽनुमतिः पूर्णचन्द्रा राकेति द्विधा । अमावास्या च दृष्टचन्द्रा सिनीवाली नष्टनन्द्रा कुहू- रिति द्विधा । +राकानुमत्याविति पूर्णमास्यौ रात्रि दृष्टेन्दुवशाद्भवेताम् । कुहूः सिनीवाल्यपि नष्टदृष्टचन्द्रे स्मृते चासितपश्चदश्यो । प्रधानकर्मतिथेरुत्तरतिथौ वृद्धिह्रासयोरूध्वं पूर्वतिथी प्रक्षिप्य कालो विज्ञेयः । सूर्यस्याऽऽवर्तनात्पूर्वमावर्तने च प्रतिपत्संधो सति तस्मिन्नहनि यागः । आवर्तनादूर्व संधौ परेऽहनि यागः । पर्वणोऽन्त्यश्चतुर्थांशः प्रतिपद्याद्यास्त्रयोंऽशा यागकालः । प्रातःकालयोग्यपराहे संधौ सति परेऽहनि प्रतिपञ्चतुथांशो यागकालो न पूर्वाह्ने संधौ । अबाह्नो द्विधा विभागः पूर्वोक्तपर्वद्वये समानः । पौर्णमास्यां विशेषो वक्ष्यते । आव. तनात्पूर्वं पर्वसंधी सद्यस्कालो न वा । आवर्तनात्पूर्व संगवादूचं पर्व- संधी तु सद्यस्काल एव । सर्वां पौर्णमासी यजनीयदिनं पर्वणि वा सद्यस्कालं केचिदाहुः । प्रकृती सद्यस्कालत्वं कदाचिदपि नास्ति । विकृतावेव तदिति केचित् । किंच पौर्णमास्यामयं विशेषः । अहःस्व- त्यन्तदीर्घषु तिथिह्रासे सत्युदयसमीपे चतुर्थांशाभावेऽपि पूर्वाह्ने पर्व. संधिश्च संभवति । तत्रैव पूर्वाह्नसंधिदिने बाधेनान्यत्र परेऽहनि यागः । * धनुश्चिन्तर्गतपाठो घ. पुस्तके नास्ति । + धनुश्चिद्वान्तर्गतमिदं पद्यं ख. ग. पुस्तकयोर. धिकम् । १ क. घ. वत्संक्रमो । २ ख. ग. घ. °च्च दशप । ३ ख. ग. प. °ने यागबाधो ना।

६४ श्रीधराचार्यकृतः- अमावास्यायां स्वपराह्लादिपर्वसंधौ सति परेऽहनि दृष्टे चन्द्रेऽपि याग: कार्यः । पूर्वाह्न संधी सति प्रत्यक्चन्द्रदर्शनाहे यागे भूर्भुवः स्वः स्वाहे- त्याहुति हुत्वा विप्राय दण्डदानं प्रायश्चित्तम् । प्राच्यां चन्द्रदृष्टौ तदह- योगे तैत्तिरीयोक्ताभ्युदितेष्टिः। मनस्वत्याहुतिर्ध्याहृत्याहुतिर्वा । प्रतीच्या चन्द्रदृष्टावन्वाधाने सति परेऽहनीष्टिं समाप्य पथिकृदिष्टिं कुर्यात् । तत्राग्निः पथिकृदष्टाकपालः, इन्द्रो वृत्रहैकादशकपालः । अग्निर्वैश्वान- रोऽष्टाकपालः सशरं धमुर्दक्षिणा । एषा वाजसनेयोक्ता प्रकृतिदेवता पुनः कार्या मनस्वस्याहुतिर्वा व्याहृत्याहुतिर्वा । दिनद्वयं प्रातर्यागकाले सत्यपि पूर्वाह्नसंधिदिन एवं प्रातर्यागः । सर्वथा संधिरेव यागोत्कर्षा- पकर्षप्रयोजको न तिथिवृद्धिह्रासी प्रयोजको । सप्तदशी तिथिरन्या. धाने निपिध्यते न यागे । प्रारब्धप्रकृतीष्टेविकृतीष्टयः स्युः सद्यस्कालाः । आवर्तनात्पुरा संधी प्रकृति समाप्य विकृतिः कार्या । ऊर्ध्वसंधी विकृति समाप्य प्रकृतेः प्रारम्भः।आग्रयणं पर्वालामे शुकृपक्षे देवनक्षत्रे कार्यम् । कृत्तिकादिविशाखान्ते प्राच्यां चन्द्रादर्शने पिण्डपितृयज्ञकालः । इति पर्वनिर्णयः। अथैकादशीनिर्णयः- एकादश्यामुपवासः कार्य: । स च पुत्रवतां गृहिणां शुक्लैकादश्या. मेव न कृष्णकादश्याम् । कृष्णकादश्यामनशनमयाचितं नक्तमेकभक्त दानं पा शक्त्या कार्यम् । सर्वथा न निद्वादशिको भवेत् । उपवासाश- क्तश्चैवं कुर्यात् । पुत्ररहितानां गृहिणां यतिवनस्थब्रह्मचारिस्नातकवि- धवानामुभयैकादश्योनित्यमेव । य इच्छेद्विष्णुसायुज्यं श्रियमायुः प्रजां सुखम् । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।। इति वैष्णवव्रतत्वेनोपवासयतां कृष्णा न निपिद्धा। * उपवासो यदा नित्यः श्राद्धं नैमित्तिकं मवेत् । उपवासं तदा कुर्यादाघ्राय पितृसेवितम् । एकादश्यां श्राद्धे कृते श्राद्धशेपमाघायोपवसेत् । आदित्यवारसंका. * अयं लोकः क. पुस्तके वर्तते १ घ. °हेत्याज्याहु । २ स. ग. घ. त्याज्याहुतिव्याहत्याज्याई । ३ क. घ. मायान्या त्रिहवियेष्टिः कार्या।

स्मृत्यर्थसारः। ६५ त्यादिवेकादश्युपवासस्य निषेधो नास्ति । महापत्सु महोत्सधेषु च सूतके चाऽऽतये चाशक्ती च न त्याज्यं द्वादशीव्रतम् । तत्र नित्ये स्नात्वा देवार्चनरहितमुपवासं कुर्यात् । काम्ये तु स्नात्वा पत्नी पतिं पुत्रं भ्रातरं भगिनीमृस्विजमन्यं वाऽर्चनादिपु कारयेत् । सूतकार्तवान्ते दानं कुर्यात् । मध्ये चेत्पतिः पत्नी वा दानं कुर्यात् । सपत्न्योऽपि परस्परं कुर्युः । अन्यव्रतेषु चैवम् । एकादश्याः पूर्वोत्तरदिनयोरेकभक्तम् । कांस्यं मांसं मसूरं चातिघृतमतितुष्टिं पुनर्भोजनं मैथुनं च पूर्वेऽह्नि वर्जयेत् । अथ समाहित एकादश्यां प्रातः मात्वा संकल्पं कुर्यात् । एकादश्यां निराहारः स्थित्वाऽहनि परे ह्यहम् । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ इति संकल्प्य दिवा स्वाप भैथुनं ताम्बूलादिभक्षणमसकृज्जलपानं सर्व- मोगानुदक्यासूतिकापतितपापण्डिहीनजातिसंभापणं [च ] वर्जयेत् । पुण्यस्त्रीणां तु पुष्पालंकारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे न दुप्यन्ति दन्तधावनमञ्जनम् ।। वानियमलोपे वैष्णवमन्त्राअपेद्विष्णुं स्मरेद्वा । मनोवाक्कायनि- यमलोप शारीरमन्त० इत्याद्यां जपेत् । विष्णुं शुद्धः संपूज्य पुरतो जागरं निद्रां वा कुर्यात् । श्वोभृते पुन: संपूज्य- अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥ इति नत्वा पारणं कुर्यात् । कांस्यं मांसं मसूरं च क्षौद्रं लोभमसत्यं तैलं तिलपिष्टं व्यायाममञ्जनं च पुनर्मोजनमध्वगमनमायासं दिवा निद्रा मैथुनं च वर्जयेत् । [अन्यथा] उपवासफलं शक्तिं च हन्युः। यदैकादशी शुद्धा संपूर्णा द्वादश्यां नास्ति द्वादशी तुसमा न्यूनाऽधिका वा तदैकाद- श्यामुपवासः । यदा संपूर्ण कादशी द्वादश्यां कियन्मात्राऽस्ति द्वादशी च त्रयोदश्यामस्ति तदा द्वितीयैव सर्वैरुपोप्या । यदा संपूर्णेकादशी द्वादश्यां च कियन्मात्राऽस्ति तब रात्रिशेपे च त्रयोदशी ती गृहस्थैः पूर्वोपो- प्योत्तरा यतिभिः । ( * यदा दशमीविद्वैकादशी द्वादश्यां कियन्मात्रा * धनुश्चिातर्गतपाठः ख. ग. पुस्तकयो स्ति । १ ख. ग. हापशुम' । २ क. °वादौ कर्बलाभे तदन्ते दा। 3 घ. पण्य । ४ ख. ग. दिनक्षयेऽपि पुण्या द्वितीयवोपोध्या यतिभिर्न गृहस्थैः । य । ९ ६६ श्रीधराचार्यकृतः- विद्यते द्वादशी च त्रयोदश्यामस्ति वा न वा तदा सद्वितीयेवोपाध्या।) यदा दशमीविद्धैकादशी द्वादश्यां कियन्मात्राऽस्ति तत्र रात्रिशेषे प्रयोदशी तदा दिनक्षयेऽपि पुण्या द्वितीयैवोपोष्या यतिभिर्न गृहस्थैः प्रजार्थिभिः । गृहस्थैस्तु पूर्वोपोष्या यदा च दशमीविद्धैकादशी द्वादश्यां नास्ति द्वादशी च त्रयोदश्यामस्ति तदा द्वादश्यैवोपोया । यदा च दशमीविद्धकादशी द्वादशी च समा न्यूना वा तदा यतिव्यतिरिक्तानां दशीविद्धकाश्यामुपवासः । यतीनां तु शुद्धद्वादश्यामुपधासः । यदा च दशमीविद्वैकादशी रात्रिशेषे च त्रयोदश्यां चास्ति समा न्यूना वा तदा सर्वेषां दशमीविद्धकादश्यामुपवासः । इदमेकादशीवतं माहेश्वर- मपि भवति लिङ्गादिपुराणदृष्ट्या । अष्टमीचतुर्दश्योर्नक्तं च कार्यमेकभक्तं वा तत्पुरुपेण संकल्पः पारणं च नाम्ना वा । तथैकादशीव्रतं माहेश्वरब- तवत्सौरमपि भवति सौरपुराणाच्च । नित्यत्वं तु सर्वत्र समानमेव तत्रायं विशेषः-पठ्यामुपवासश्च कार्य आदित्यवार एकभक्तं च कार्य सावित्रनाम्ना संकल्पः। इति स्मृत्यर्थसार एकादशीनिर्णयः । अथ तिथ्यन्तरनिर्णयः- एकादश्यष्टमी पष्ठी पौर्णमासी चतुर्दशी । अमावास्या तृतीया च उपवासवतादिषु ॥ परविद्धाः पुण्याः शेषाः पूर्वविद्धाः कार्याः । कृष्णपक्षेऽष्टमी चतु. देशी च पूर्वविद्धा प्रशस्ता तृतीया नवमी चेत्येके । सर्वत्र बतदानादीनां कृष्णपक्षाच्छुक्लपक्षो विशिष्यते । अपराहाच पूर्वाह्नो विशिष्यते । तदसंभव उदयातिमुहूर्त ग्राह्यम् । उपवासे घटिकाऽपि ग्राह्या । अविद्धानामलाभे तु पयोदधिघृतानि च । सकृदेवाल्पमश्नीयादुपवासस्ततो भवेत् ॥ एकादशी तु पञ्चमुहूर्ताविद्धाऽप्युपोप्या । तदर्धविद्धान्यन्यानि दिनानि। प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तवते सदा । १ क नद्वये । २ ख. ग पोष्योत्तरा यतिभिर्वा नवा सद्वितीयेवोपोष्या । य° । ३ ख. ग. इयां च कियन्मात्रा विद्यते द्वा । ४ ख. ग. 'दश्यां स । ५ ख. ग. °च द्वादशी त्र । ६ क. 'श्यां नास्ति । ७ ख. °दयसंभवे उभयं द्विमु । ग. घ. दयद्विमु । ८ घ. टिकैकाऽपि ।

१ स्मृत्यर्थसारः। ६७ उपवासस्थानीयं नक्तं तूपवासतिथी कार्यम् । तिथिनक्षत्रसंयोगवि- हितव्रते च प्रदोषव्यापिनी तिथि ह्या। नक्षत्रविहितव्रतेऽर्धरात्रादर्वाङ नक्षत्रध्यापिनी तिथिह्या । ( * नक्षत्रसंयोगेन या तिथिः पुण्या तस्यां विहितवते सैव तिथि ह्या ) श्रवणद्वादशीव्रते तूदयव्यापिनी द्वादशी ग्राह्या । अत्रैकादशी द्वादश्यां रात्रिशेपे त्रयोदशी चेत् । द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम् । सर्वत्र तिथिनक्षत्रान्ते पारणं नियमाः पूर्वमेवोक्ताः । संक्रान्त्यां रविवारे च ग्रहणे व्यतीपाते कृष्णकादश्याम- पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही। इति संक्रान्त्यादिप्रयुक्तस्यायं निषेधो नान्यप्रयुक्तस्य । इति सामान्यतिथिनिर्णयः । अय मलमासे कार्याकार्यनिर्णय उच्यते-सूर्य संक्रान्तिरहितो मासो मल- मासः। तत्र मलमासेऽनन्यगतिकर्माकरणे पातित्यापादकं नित्यं नैमित्तिक च कर्म कर्तव्यम् । तत्र नित्यस्नानसंध्योपासनाग्निकार्यपश्चमहायज्ञाति- थिपूजाग्निहोत्रोपासनहोमदर्शपूर्णमासपार्वणेष्टिपार्वणस्थालीपाकपिण्ड- पितृयज्ञामावास्यापार्वणश्राद्धमासिकश्राद्धदेवार्चननित्यदानादिकं नित्यं मलमासेऽपि कार्यमनन्यगतिकं नित्यम् । अन्य गतिकं सोमयागपशुब- न्धाधानाग्रयणचातुर्मास्यादिकं मलमासे न कार्यम् । महालयाष्टकाक- र्मोपाकर्मोत्सर्जनश्रवणाकर्माश्वयुजकर्मप्रत्यवरोहणयज्ञादिकं यत्कर्म कर्तु- सिप्रयुक्त्या विहितं तच्च मलमासे न कार्यम् । उत्तरे मासि कार्यमेव । नैमित्तिकं च गर्भनिमित्तं गर्भमासप्रयक्त्या विहितं पुंसवनानवलोभन- सीमन्तजातकर्मादिकं तन्निमित्ताभ्युदयिकदानादिकं चन्द्रसूर्यग्रहे स्नान- तर्पणश्राद्धदानादिकं च मघात्रयोदशीश्राद्धं च तीर्थस्नानजलतर्पणश्रा- द्धपिण्डदानयवबीहितिलहोममरणकालशुद्ध्यादिकं दहनोदकपिण्ड- दानाद्याद्यश्राद्धनवश्राद्धषोडशश्राद्धानि प्रेतत्वविमोकार्थान्यन्यान्यपि सपिण्डीकरणादीनि नैमित्तिकान्यनन्यगतिकत्वेन मलमासे प्राप्ते कार्याणि । ततः संवत्सरविमोक्षान्तमनुमासिकानि कुर्वन्मलसासे नैव कुर्यात् । (+संवत्सरान्ते सपिण्डीकरणं संवत्सरविमोक्षं च यथाकालं * धनुचिह्नान्तर्गत पाठः क. पुस्तके नास्ति । + धनश्चिह्नान्तर्गत पाठः कः पुस्तके नास्ति । १ घ. त्रयोदशी द्वादशी ह। २ क. मोकान्त ६८ श्रीधराचार्यकृतः- मासिकानि कुर्वन्नपि मलमासे नैव कुर्यात् ) उत्तरत्र कुर्यादेव । मल- मासमृतानामाब्दिकं च श्राद्धं मलमासे कार्यम् । अन्येषामुत्तरमास्येव कार्यम् । वाधुषिके भृत्ये मृते चाधिमासं न वर्जयेत् । अत्र वषट्कार- होमा नित्यनैमित्तिकप्रवृत्तकाम्यार्थाः प्रायश्चित्तेष्टिस्थालीपाकहोमाद्याश्च मलमासेऽपि कार्याः । नैमित्तिक्यपि जातेष्टिर्मलमासे न कार्या । आधा. नानन्तरमन्वारम्भणीयेष्टिं चौऽऽयस्थालीपाकं च मलमासे न कुर्यात् । काम्यं यागहोमादिकं मलमासे न कार्यम् । मलमासात्प्राक्प्रवृत्तं काम्यं कर्म मलमास आगते कार्यम् । पुराणधान्याभावेन निर्वाहाभावे मल. मासेऽपि श्यामाकैराग्रयणमातुरः कृत्वा नवं भुक्त्वा यथाकालं ब्रीह्या. ग्रयणं कुर्यात् । वसन्तात्पर्वणः प्राग्दैवात्सोमयागो न कृतश्चेच्छिष्टं पर्वेकमेव तच्च मलदूपितं चेत्तत्र नित्योऽपि सोमयागो न कार्य: । तत्र लोप एव पत्नीरजोदर्शनवत् । इति मलमासनिर्णयः। अथ भक्ष्यामध्यविधिः---संस्कारदुष्टं कियादुष्टं स्वभावदुष्टं च नाद्यात् । संस्कारदुष्टं वैश्वदेवादिरहितं क्रियादुष्टमेकपडूतावन्यथात्वं स्वभावदुष्टं लशुनादिकालिन्दवोर्वारुककुम्भीतकवृत्तालाबुवन्यकण्टकिकुसुम्भरक्त- शिनकोविदारश्लेष्मातकनालिकाक्षुदश्वेतकण्टकिवृन्ताकानि दुर्गन्धि. कन्दमूलफलादि सर्वं यतिवतिनोः सर्वथा सर्वदा वय॑म् । शिरःकपाला- न्त्राणि नखचर्मतिलानि क्रमादष्टम्यादिषु वानि । सगोत्राभर्तुरन्नं कारुकान्नं वस्त्रेण पाणिनाऽवधूतमवघ्रातमवक्षुतमित्यादि प्रायश्चित्तवि- धावमक्ष्यं वक्ष्यते । इति भक्ष्यामक्ष्यविधिः। अथ भोजनविधिः-कृतनित्यविधिः पादौ प्रक्षाल्य बहिर्द्विराचम्य प्राङ्- मुख उदङ्मुखो वा यज्ञोपवीती सोत्तरवासा विभवे रत्नहिरण्यपाणिर्ग- न्धाक्षतमाल्यवाञ्छुचिः प्रशस्तश्रीपादिश्लक्ष्णे चतुष्पादपीठे सुखा- सीनो भूमी पादौ प्रतिष्ठाप्यान्तर्जानुकरो वाग्यतस्तञ्चित्तश्चतुरस्र गोम- यमण्डले सपैर्यान्ते विप्रो दीपसंनिधौ भुञ्जीत । त्रिकोणमण्डले नृपः । वर्तुले वैश्यः। अभ्युक्षिते शूद्रो भुञ्जीत । ततो मण्डले पालिकाय- १ ख. ग. °चाज्यस्था । २ ख. ग. घ. कालिङ्गकवक । ३ ग. घ. 'परियन्त्रे वि। ख. विप्रादिसं।

स्मृत्यर्थसारः। म्वादी शुद्धं पात्रं निधाय प्रक्षाल्य पश्चमहायज्ञावशिष्टं पूर्वं तु संस्कृतं विहितं मितं घृताापस्कृतं मातृभार्यादिदत्तमतिथ्यभ्यागतभृत्यपुत्रादि. परिवृत एकान्ते भुञ्जीत । तदन्नमकुत्सयन्ब्रह्मग्रन्थिरहितपवित्रदक्षि- णपाणिर्गायत्र्याऽभ्युक्ष्यान्नम् ॐ भूरित्यादिमन्त्रेणाभिमन्त्र्य सत्यं त्वतेन परिपिश्चामि ॐ चित्राय नमश्चित्रगुप्ताय नमो यमाय नमः सर्वभूतेभ्यो नम इति भूमौ बलिं दत्त्वा हस्तपादवदनाः करमध्येनान्नमलङ्घयन्नमू- तोपस्तरणमसीत्यापोशनं गृहीत्वा सर्वाङ्गुलिभिः सर्वग्रासं ग्रसन्प्राणाया- पानाय व्यानायोदानाय समानायेति स्वाहान्तः पश्चाऽऽहुतीः सघृताः सक्षीरावा हुत्वा बाक्पाणिपादचापल्यं वर्जयन्कृत्स्नं ग्रासं साङ्गुष्ठं ग्रसन्नरो भुक्त्वा, अमृतापिधानमसीति गण्डूपाधं पीत्वाऽधं भूमौ बहिःपाणिं निनीय पवित्रं विसृज्य भूमी पात्रे वा क्षिप्त्वा सम्यगुच्छिष्टं प्रक्षाल्य द्विराचामेत् । ततो हस्ती संमृज्य परिसाव्याङ्गुष्ठेन चक्षुपोनिपिञ्च्याक्षिणी स्पृष्ट्वाऽग्निमुपस्पृश्येष्टदेवतां स्मरेत् । भोजनगृहे चाऽऽसनस्थो नाऽऽचामे- नाञ्जलिना पिबेन्न पितृतीर्थेन । गोमयं मृन्मयं वाऽऽश्वत्थं पालाशमा युतकं भिन्नं दग्धमयोबद्धं च पीठं वर्जयेत् । ताम्ररौप्यसौवर्णाश्मवर्ज भिन्नभाजनं भग्नं वर्जयेत् । न शुष्कपाणिपादो भुञ्जीत न तिष्ठन्न गच्छन्न शयानो न प्रहो न खट्वायां न संध्यायां न शय्यास्थो न तत्र भाजनं निधाय न जानुनि नोत्सङ्गे न वामपाणितले वा निधाय भुञ्जीत । न शिशुभिः सह भुञ्जीत। न पश्यतामप्रदाय । नाभिजनबालवृद्धातुरेभ्योऽ. प्रदाय न भार्यया सहाश्नीयाद्विवाहवर्ज नाऽऽवस्त्रो वस्त्रादिपर्यङ्किका कृत्वा न प्रौढपादो नाऽऽसनारूढपादोन विदिङ्मुखो न दुटपट्टी।जल- तृणाग्निभस्मपथिस्तम्भः पतिभिद्यते । ग्रहणे नाश्नीयात् । तदाऽन्यसूत. कसूतकित्वं नास्ति। तदा स्नानतर्पणश्राद्धयागदानादि कृत्वा मोक्षनानं कृत्वाऽश्नीयात् । सूर्यग्रहे पूर्वं चतुर्याम नाश्नीयात् । चन्द्रग्रहे त्रियामम् । चन्द्रमसो ग्रस्तोदये न दिवा पूर्वमश्नीयात् । अभुक्तयोरस्तंगतयोर्दृष्ट्वा मात्वा परेऽहन्यद्यात् । ग्रस्तोदये विधोः पूर्वं नाहर्मोजनमारभेत् । न संध्ययो धरात्रे नाग्निपाकशून्यगृहेषु नायज्ञोपवीती न वामह- स्तेन न पाणिपृष्ठेन न केवलं पाणितलेन न वस्त्रे भुञ्जीत । नान्यसहा- १ घ. वर्हिःपाणिनि । २ ख. ग, °हे नास । घ. हे वास। ३ ख. ग. घ. व्य जामिजा ७० श्रीधराचार्यकृतः- सनो न यन्त्रिकादौ यतिब्रह्मचारी व्रती विधवा च मुञ्जीतेत्यादि सर्वं ज्ञेयम् । अथ काले सायंसंध्यामुपास्य होमं वैश्वदेवमतिथ्यर्चनं कृत्वा भृत्यैः परिवृतो भुञ्जीत । रात्री परिषेचने विशेष:-ऋतं त्वा सत्येन परिपिश्चामीति सायम् । ततः स्वस्त्रिया सह सुगन्धलेपनताम्बू- लादि सेवमानः स्वपेत् । न संध्यायां शून्यालये श्मशान एक- वृक्षे चतुष्पथे शिवमातृकायक्षनागस्कन्दभैरवााग्रदेवगृहेषु कूलेपु च स्वपेत् । धान्यगोदेवविप्रानिगुरूणां चोपरि चाशुचौ वाऽशुचिराईवस्त्र. पादो नग्नो न स्वपेत् । प्राक्शिरा दक्षिणतःशिरा वेष्टदेवतां नत्वा स्मर- न्वैणवं दण्डं शयनसमीपे निधाय स्वपेत् । प्रक्षालितपादः कृतरक्षःस्वपेत् । प्रदोपापरयामी विद्यया नयेत् । इति स्मृत्यर्थसार आह्निकं समाप्तम् । अथ द्रव्यशुद्धिरुच्यते-तत्र विण्मूत्रशुक्ररक्तवसांमजासुरामद्यान्यत्यन्तो- पहतिकारणानि । श्वविवराहबिडालौदीनि पुरीपादीनि च कर्णवि- एनखश्लेष्माश्रुदूषिकास्वेदादीन्यल्पोपहतिकारणानि । तथोच्छिष्टशूद्रेण सूतकिद्विजैरस्पृश्यकाकादिभिश्चास्पृश्यविडूवराहादिभिः पशुभिश्च स्पर्श- नमल्पोपहतिरुच्यते । तथाऽल्पप्रदेशाल्पकालमूत्रोच्छिष्टमृगादिस्पर्शनम. ल्पोपहतिरुच्यते । पञ्चमाद्यन्त्यजातिचाण्डालाद्यैः सूतिकाया रजस्व- लायाः पतितैः शुना शवेन च शवस्पृशां च स्पर्शेऽत्यन्तोपहतिर्भवति । अल्पकालेऽल्पप्रदेशे मद्यसंस्पर्श उच्छिष्टरुधिराद्यैर्बहुकालं वस्तुदोपेऽत्य. न्तोपहतिर्भवति। सौवर्णं राजतं तानं लौहं विण्मूत्रचाण्डालोदक्यादिदुष्टं पात्रं त्रिःसप्तमस्मभिरम्लोदकेन च शुध्येत् । सौवर्णं राजतं तानं लौहं विण्मूत्रचाण्डालोदक्यादिस्पृष्टमात्रं निर्लेपं जलप्रक्षालनाच्छुध्येत् । सले चेद्भस्मभिरम्लोदकेन शुध्येत् । कांस्यादेरावर्तनम् । बहूपधाते सर्वे. पामावर्तनमेव । तैजसानां गोमूत्रपरिवासेन लेपानपगम आवर्त- नम् । ताम्रस्य विण्मूत्रादिभिश्चण्डालादिभिश्च दूपितस्याम्लोदकाभ्यां शुद्धिः। कांस्यपित्तलयोविण्मूत्रादिगण्डूपपादप्रक्षालनचाण्डालादिस्पर्श तदेव त्रिःसप्तकृत्वो भस्मना परिमार्ण्य प्रक्षालनाच्छुद्धिः । अल्पकालो- पहतौ तापनपरिलेखाभ्यां शुद्धिः । बहुकालापहतावावर्तनम् । यद्वा भूमौ निखाय पण्मासं परिमार्जनमेव । तत्रं वृद्धे वृद्धमल्पेऽल्पमेवेति १ ख ग. °सामेदास' । २ ख ग °लादिपुरीषा । ३ ख. ग. °त्र चार्धमत्पेऽपेऽपि स्या। घ. तत्तदर्धमल्पे स्या।

स्मृत्यर्थसारः। ७१ स्यात् । एवं सर्वतेजसानामावर्तनं पुनःकरणम् । परिलेखनं तक्षणम् । कांस्यपित्तलयो!श्वकाकोच्छिष्टशूदस्पर्शे दशभस्मभिः प्रक्षालनम् । अल्पकालोपहती भस्मना सलवणतलावघर्षणः शुद्धिर्बहुकाले त्वाव. सनम् । त्रपुसीसायसानां भस्मजलाभ्यां शुद्धिः। सर्वतैजसेप्वल्पोपहती गोमूत्रगोमयमृद्भस्माम्लोदकैः शुद्धिर्यथाहं कार्या । शुक्तिशङ्खपाषाण- मणिरत्नानामब्जानां विषमूत्रादिचण्डालााच्छिष्टस्पर्शमात्रे जलक्षाल- नाच्छुद्धिः । सलेपानां भस्मजलाभ्यां मुज्जलाभ्यां वा शुद्धिः । अत्य- तोपहतानां सप्ताहं भूमौ निखाय प्रक्षालनाच्छुद्धिः। सौवर्णराजत- ताम्रशङ्खशुक्त्यश्मस्फटिकादिरत्नेषु भेदे न दोषः । शृङ्गदन्तास्थिमया- नामल्पोपहतौ बिल्वफलचूर्णौरसर्पपैदृद्भस्मगोमूत्रगोमयानामन्यतरेण प्रक्षालनाच्छुद्धिः । अत्युपहतौ तक्षणममेध्यरसवेधे त्यागः।दारुवेणुवेत्र- पात्राणामल्पोपहतो तक्षणमतिदुष्टानां त्यागः। कपित्थबिल्वालाबुना. रिकेलफलानां तत्कृतपात्राणां चाल्पोपहती प्रक्षाल्य गोपुच्छनिघर्षणा. च्छुद्धिः। अत्यन्तोपहती त्यागः। शृङ्गास्थिदन्तपात्राणामब्जानां च दुर्ल- मानामत्यन्तोपहतानां तक्षणप्रक्षालनाच्छुद्धिः । मृन्मयानां पात्राणामी- षदुष्टानां पुनर्दहनाच्छुद्धिः । विण्मूत्राद्युपहतानां शवसृतिकोदक्यास्पृ- प्टानां त्याग एव । महाभाजनभाण्डेपु बाह्यदोष आन्तरं न दुप्यति । तत्र चाह्यं प्रक्षाल्यम् । सुक्सुवादिपात्राणां जलप्रक्षालनाच्छुद्धिः । सस्नेहानां यज्ञियानामुष्णजलप्रक्षालनाच्छुद्धिः। सर्वेषां पात्राणां संहतानामेकस्यो- पहतौ तस्यैव शुद्धिः कार्यान तत्स्पृष्टानां च । कन्दमूलशाकानामपक्कानां वेणुपात्रवस्त्रकाष्ठानां चाशुचिस्पृष्टानां जलप्रक्षालनाच्छुद्धिः। वस्त्राणा- मेकपुरुषोद्धार्यमाराधिकानां स्थूलानां बहूनामन्येषां च चण्डालादि- स्पृष्टानामहतक्रीतानां प्रोक्षणाच्छुद्धिः । श्वेतवस्त्रसूत्रेषु पण्यस्थूलनूत. नेषु विंशतो बहुत्वम् । चित्रवस्त्रेष्वेकादशसु बहुत्वम् । कुसुम्भादिरक्तेषु त्रिषु बहुत्वम् । पण्येषु नूतनेषु च ततोऽल्पानामपि बहुत्वम् । सूच्या सूचितेऽल्पतमे बहुत्वम् । तदल्पानां प्रक्षालनाच्छुद्धिः । अधांतानां मलिनानां चाल्पानां बहूनां च वैदिके कार्ये नवानां च स्थिररङ्गाणा च प्रक्षालनम् । आविककम्बलस्याल्पदोपे सूर्यरश्मिभिः प्रोक्षणाद्वा शुद्धिः । विण्मूत्रादिदोपे वल्मीकमृत्तिकाभिः प्रक्षालनाच्छुद्धिः । १ ख. 'मशब्दानां वि । ग. मल्पानां वि । २ ख. ग. त्रे ज्वालनाच्छु । ३ स्व. ग. घ. °तसूक्ष्मवस्त्रेष्यपण्येषु ।

७२ श्रीधराचार्यकृत:- कौशेयवस्त्रस्याल्पदोषे प्रोक्षणाच्छुद्धिः । विण्मूत्रायुपहतस्य सृज. लाभ्यां प्रक्षालनाच्छुद्धिः । क्षीमवस्त्रस्याल्पदोषे प्रक्षालनाच्छुद्धिः । विण्मूत्राद्युपहती बिल्वचूर्णावधर्षणजलप्रक्षालनाच्छुद्धिः । नीलीसं- युक्तं वस्त्रं स्वरूपेण चतुर्वर्णैस्त्याज्यम् । कम्बले पट्टसूत्रे च नीलीदोपो न विद्यते । नेपालकम्बलेऽल्पोपहती प्रोक्षणम् । मूत्रादिदोपेऽरिष्टफलसंभवफेनै- विघृष्य जलप्रक्षालनाच्छुद्धिः । तूलशय्योपधानानां कुसुम्भादिरञ्जित- वस्त्राणां चाल्पोपहतावातपे किंचिच्छोषणम् । विवादिसंस्पृष्टे संस्पु- टांशं संशोध्य शोषणाच्छुद्धिः । ऊर्णाकासितूलकुसुम्भकुङ्कुमकुसुम- कर्पूरादिनिर्यासानां चैवम् । श्वेतवस्त्रं चण्डालादिस्पृष्टं प्रक्षालनाच्छुध्येत् । तस्य पुरीपादिदोपे गोमूत्रगोमयाभ्यां प्रक्षालनाच्छुद्धिः । शयनासन- यानसंबन्धानां बहुरोमवस्त्राणां च प्रोक्षणाच्छुद्धिः । चैलवञ्चर्मणां शुद्धिः। नवानां तु जम्बूवृक्षादितिक्तशुष्ककपायेण त्रिफलोदकेन वा गन्धक्षये शुद्धिः। ( * बृहचर्मपटे नव्ये संधितेऽत्र लघुन्यपि । उक्तद्रव्यः क्रमाच्छुद्धिः सद्यः प्रोक्ता मनीषिभिः॥ मृद्धस्मभिः कपायश्च त्रिफलाभिस्त्रिभिस्त्रिभिः । दिनैदशभिः प्रोक्ता चर्मणः शुद्धिरुत्तमा ॥ भस्मनः पलमेकं तु मृदस्तहि गुणं स्मृतम् । कपायास्त्रिगुणाः प्रोक्तास्त्रिगुणा त्रिफला स्मृता ॥) चर्मभाण्डेयु बहिर्दोष आन्तरं तु न दुप्यति । तत्र बाह्य सम्यक्पक्षाल्यम् । धान्यमेकपुरुपोद्धार्यभाराधिकं चण्डालादिस्पृष्टं प्रोक्ष- णाच्छुध्येत् । एकपुरुपभारं प्रक्षालनाच्छुध्येत् । धान्यमशुद्धं मृत्ति- कायुक्तं तण्डुलीकरणाच्छुद्धयेत् । धान्यराशी मूत्रादिलिप्ते लिप्तां- शमपसार्य शिष्टमभ्युक्षणाच्छुद्धयेत् । धान्ये गृहे स्थिते गृहदाहे सति तत्र नरपशुमरणे तद्धान्यं त्याज्यमेव । भूमिगर्भस्थं कुसूल गर्भस्थं च धान्यमभ्युक्षणाच्छुद्धयेत् । मुद्गमापादि (+ नरमारान्यूनमाई प्रक्षालनाच्छुद्धयेत् । शुष्कं चेदत्यन्तोपहतमिति प्रोक्ष्यमेव । मूत्राद्यै- * धनश्चिह्नान्तर्गतपाटः ख. ग. पुस्तकस्थः । + धनुचिह्नान्तर्गतपाटः ख. ग. पुस्तकस्थः । १ ख, ग, घ. 'षे प्रोक्षणाच्छु । २ ख. ग घ. 'शुक्तसप्तक ।

स्मृत्यर्थसारः। ७३ रभ्युपहतं त्याज्यमेव । पुस्तकं चण्डालादिम्पृष्टं प्रोक्षेत् । ) शिम्बिधा- न्यानामल्पोपहतौ प्रोक्षणाच्छुद्धिः । धान्यमशुद्धं धूलिस्पृष्टं निस्तुपी. करणाच्छुध्येत् । अत्युपहती त्याज्यमेव । दृढधान्येषु पुरुषभाराधिकेषु बहुत्वम् । शिथिलेषु द्रोणप्रमाणेषु बहुत्वम् । तण्डुलविदलादीनां तदर्थं बहुत्वम् । तत्र स्पर्शदोघे प्रोक्षणम् । सर्वत्र विभूत्रादिदोपे तावन्मानं त्यक्त्वा सर्व प्रोक्ष्यम् । शिथिलतण्डुलादि सर्वत्र प्रोक्ष्यम् । पुरुषाशनान्यून त्याज्यमेव । मृच्चमतृणकाधादिकं नरभाराधिकमल्पो. पहतो वातातपाच्छुध्येत् । भूतलं केशकीटतुपायैर्मलिनं मार्जनादभ्युक्ष- णाञ्च शुध्येत् । भूतलं श्वखरोष्ट्रविड़वराहादिसेवितं गोक्रमणमार्जना- दभ्युक्षणाच्छुध्येत् । भूतलं विण्मुत्राद्यैरत्यन्तोपहतं चेदुल्लेखनेन गोनि- पासमार्जनप्रोक्षणैः शुध्येत् । भूतलं नारीप्रसवदृषितं चाण्डालादिवा- सदूषितं चिरकालं विमूत्रादिपितं चिरकालं खरोष्ट्रविड्वराहदूषित तत्स्थानमृत्तिकामवधृत्यान्यां मृत्तिकामापूर्य गोक्रमणमार्जनप्रोक्षणा. च्छुध्येत् । एतदेव भूतलमत्यन्तोपहत चैत्खात्वा तृणाग्निना दग्ध्वाऽन्य- मृत्तिकामापूर्य गोक्रमणमार्जनमोक्षणैः शुध्येत् । गृहस्थाशुचित्वे कुड्यानां लेपनं भूमेः परिलेखनं मार्जनं च कार्यम् । भूतलस्य चिरकालं विण्मू- त्रादिवासितस्य श्मशानत्वं गतस्यापि वृष्टिप्रक्षालनात्पश्चात्पूर्वोक्तवि- धिना शुद्धिः । आरामे क्षेत्रे श्मशानत्वं गते विण्मूत्राद्यैरत्यन्त दूपिते वृष्टेरुवं हलकर्षणाच्छुद्धिः । गृहे विप्रक्षत्रियविशां मरणे तत्रस्थं मृन्मयं भाण्डं पक्कमन्नं च संत्यजेत् । मृतदेशं गोमयेनोपलिप्याजाघ्रातेन गवाक्रान्तेन वा वाचनैर्वा कुशसुवर्णमिश्रोदकैः प्रोक्षणाच्छुद्धिः । गहे कश्चिदाजादिनिगडबन्धनान्मृतश्चेभूभिं कुण्ड्यं च संप्रोक्ष्य तृणाग्निना तापनाद्गोकमात्सूर्यरश्मिप्रचारात्यागुक्तविधिना शुद्धिः । गृहे जनने मरणे वा जात आशौचादूर्वं मेध्यभूमिमृत्तिकाप्रक्षेपणात्पुण्याहवाचनाच्छुद्धिः। विप्रगृहे शूद्रादिमरणे गृहस्य दशाहमाशीचम् । असच्छूद्रमरणे मासमा- शौचम् । चण्डालपतितादिमरणे चतुर्मासमाशौचम् । रजकादिमरणे द्विमासमाशौचम् । सर्वत्राशौचान्तेऽमेध्यभूमिशुद्धिवच्छुद्धिःकार्या। विप्र- गृहे दग्धे तत्र मार्जारादी मते सति तद्वहस्य कर्पणात्योक्षणाच्छुद्धिः । श्वकाकादौ मृते चैवं कपणे विशेषः । प्रतिमा लोहजाऽल्पोपहतिदूषिता मस्मोद्घर्षणात्पश्चगव्यन शुध्येत् । प्रतिमा पाषाणजा चाल्पोपहतिदू- २ ख. ग. ध. °ते ग°। : ख. ग. घ. कान्ते वा ब्रह्मणपुण्याहवा ।

७४ श्रीधराचार्यकृतः- पिता चेद्वल्मीकमृत्तिकया जलैः प्रक्षालिता पश्चगव्येन शुध्येत् । प्रतिमा विण्मूत्रग्रामकर्दमादिना दूपिता चेत्पश्चगव्यैः पश्चाहमधिवास्याऽऽप्लाव्य गोमूत्रगोमयवल्मीकमृत्तिकाभिः सम्यक्प्रक्षाल्य पुनःप्रतिष्ठया शुध्येत् । रत्नजानां पञ्चगव्यैः प्रक्षाल्य पुनः प्रक्षालनं कार्यम् । जलं भूमिष्ठं गन्ध- वर्णरसान्वितं विण्मवादिदूषितं त्रिगवां पानसमर्थं शुद्धम् । ततोऽल्पं श्वकाकाापहतमेकगोपानसमर्थ तथैव शुद्धम् । जलं शुद्धं भाण्डाहृतं तस्मिन्नेवाहनि शुद्धम् । तेनान्यदिनेऽनुष्ठानं न कार्यम् । बृहद्भाण्डगतं चतुर्दोणाधिकं विण्मूत्रादिदूपितं जलं परित्यज्य भाण्डं प्रक्षाल्य कुश- संघर्षणात्पुनः प्रक्षाल्य पञ्चगव्येन प्रोक्ष्य पुनर्जलपूरणाच्छुध्येत् । वापी- कूपतडागादिष्वल्पजलेषु श्वमार्जारादिशवे किन्ने जीणे सति तज्जलं सर्वमुद्धृत्य मृत्तिकामुद्धृत्य पश्चगव्यप्रोक्षणाच्छुद्धिः। पापाणरिष्टिका. भिर्वा बद्धे तक्षणस्थाने दहनमन्यत्समानम् । दारुबद्धे प्रक्षालनमेव । बहुजले पष्टिकुम्भोद्धारः । मूपकादिक्षुद्रपाणिघाते त्रिंशत्कुम्भोद्धारो गोमूत्रादिप्रक्षेपः । जले जलपाणिशवे न दोषः । वापीकूपजले नरशवे स्थिते घटशतं जलमुद्धृत्य पश्चगव्यप्रक्षेपाच्छुद्धिः । पशुशवपातेऽप्येषा शुद्धिः । तत्र जलेन मरणे जलस्य त्रिरात्रमाशौचम् । आशीचान्ते पूर्वोक्ता शुद्धिः कार्या । वापीकूपजल उपानच्छलेप्मशुक्रविणमूत्र- रक्तवसामज्जास्थिदूपिते पष्टिकुम्भोद्धाराज्जलबाहुल्ये शतकुम्भोद्धारा- पञ्चगव्यप्रोक्षणाच्छुद्धिः। कूपादिजलेऽशुद्धरजसा दूपिते दिवा सूर्यर- श्मिवायुस्पर्शनाच्छुद्धिः । रात्री वायुचन्द्रनक्षत्ररश्मिस्पशर्माच्छुद्धिः संध्यायां वायुस्पर्शनाच्छुद्धिः। नदीस्रोतस्तडागजलेऽन्त्यजै पिते तत्स्वी. कृतजलस्थानादन्यत्र शुद्धमेव । शाणं पाणितलं मानं कुडवं प्रस्थमाढकम् । द्रोणं च खारिका चेति पूर्ववञ्च चतुर्गुणम् ।। द्रोणप्रमाणनिर्मितधान्यान्ने गवा धाते खरेण वा शुना वा विवरा- हग्रामकुक्कुटकाकैर्वा स्पृष्टे स्पृष्टमात्र मुद्धृत्य शेषमन्नं पर्यनीकृत्य सहस्र- गायच्याऽभिमन्त्रितर्जलैः पवमानः सुवर्जन इत्यनेनानुवाकेन सकृदभिम- न्त्रितैर्वा शुद्धवतीमिक्रग्भिर्वा शुचिलिर्जामन्त्रैर्वाऽभ्युक्ष्यतच्छुद्धमस्त्विति विप्रवचनं लब्ध्वा शुध्येत् । अजामुखेन वा घातं शुध्येत् । तदन्ने श्वकाका- १ ध. मूत्रारामरसादिदृ । २ ख. ग. 'दमरसादि । ३ ख. ग. मृद्भा। ख. ग. 'त्तिका परित्यजीद । घ. तिकां परितक्ष्योद्ध।

स्मृत्यर्थसारः। ७५ , दिलालया पिते तावन्मानं समुद्धृत्य शेष कनकवारिणा रौप्यवारिणा वाऽभ्युक्ष्योल्मुकेन स्पर्शयित्वा, आज्यकनकैः स्पृष्टं शुध्येत् । अन्नं पूर्वोक्तं नखलोमविण्मूत्रादिदुष्टं चेदुटमात्रमुद्धृत्य पूर्ववन्मन्त्रितोदकेनाभ्युक्ष्य भस्म क्षिप्त्वा घृतेनाभिधार्य शुद्धमस्त्विति विप्रवचनाच्छुध्येत् । घृतस्य नवनीतस्य वाऽऽढकप्रमाणस्य श्वकाकपिपीलिकादिदुष्टस्य दुष्टांशमुद्धृत्य वस्त्रेण परिशोध्य तज्जातीयेन तद्भाण्डं पूरयित्वा सर्वमग्नौ प्रताप्य गायच्याऽभिमन्त्रितजलाभ्युक्षणाच्छुध्येत् । तत्र नवनीत घृततैलक्षीर- दध्नां द्रोणप्रमाणानां काकाद्युपहतो घृतवच्छुद्धिः। तकदधिक्षीराणि शूद्रभाण्डस्थानि द्विजमाण्डे प्रक्षेपे शुद्धानि । नवनीतं घृतं क्षौदें चण्डालादिभाण्डस्थितं चेत्प्रताप्य विप्रभाण्डे क्षिप्तं बहु शुध्येत् । नवनीतं घृतं क्षौद्रं चण्डालेन प्रमादेन स्पृष्टं जले क्षिप्त्वोद्धृतं शुध्येत् । द्रोणप्रमाणान्यूनप्रमाणधान्यनिर्मितान्नानामाढकप्रमाणन्यूनघृतादीनां द्रोणप्रमाणान्यूनतकादीनां च पूर्वोक्तोपहतौ परित्यागोऽनापदि।आपदि तु पूर्वोक्तविधिभिः शुद्धिः । अतिक्षामे चतुप्पुरुपाशनसमर्थव्यञ्जने प्लावने शुद्धिः । अल्पात्मनस्त्यागः गुडलवणादीनां पर्यग्निकरणम् । भोजने केशकीटादिदर्शने तावन्मात्रमुद्धृत्य जलं भस्म मृदं वा क्षिप्त्वा शुध्येत् । मुखे स्पृष्टी निष्ठीव्य जलं प्राश्य निष्ठीव्य घृतं प्राश्याश्नीयात् । पाके केशादिस्थिती त्यागः । तच्च भुक्त्वोपवसेत् । यद्यद्वस्तु धर्मोपयो ग्यत्यन्तप्रियं देशकालतोऽत्यन्तदुर्लभं तदुपहतं चेदल्पमपि पूर्वोक्तवि- धिना शुध्येत् । अश्वमुखमजामुखं रतिकाले स्त्रीमुखं मृगव्ये शुनों मुखं प्रसवे वत्समुखं फलपाते पक्षिमुखं वा पण्यद्रव्यं च सदा शुद्धमेव । बाला उपनयनादीशुद्धाः । स्त्री विवाहादक । मूषकशलमम- शकपतङ्गमक्षिकाधान्यस्थकीटगोहस्त्यश्वच्छागशुकाश्च जलस्थाः सर्व- जीवाश्च स्वभावशुद्धा अशुद्धस्पर्शेऽपि न दुप्यन्ति । चन्द्रसूर्यरश्मयः स्वतः शुद्धाः । सूतिकोदक्यामेध्यपतितान्त्यजश्मशानसंश्रयं विनाऽनेः स्वभावतः शुद्धिः । रजो वाताहतं शुद्धं हस्त्यश्वरथजातं च शुद्धम् । गवां पादरजश्च धान्यसमुत्थं रजश्च प्रशस्तम् । श्व विड्वराहखरोष्ट्राजा. विकाकोलूकग्राम्यपक्षिवस्त्रमार्जनीसमुत्थं रजः स्पृष्टं चेदश्रीकरमनायु- करमपुण्यं च । अज्ञातदोपं यद्रव्यं तत्स्वत एव शुद्धम् । संदिग्धदोषं १ ख. ग. °द्रं दासादि । २ ख. ग. घ. ल्पानां त्यागः । ३ ख. ग. 'लं प्रोक्ष्य नि। - ७६ श्रीधराचार्यकृतः- यद्रव्यं च तद्विप्रवचनाच्छुद्धम् । शूर्पस्पर्शनमनायुष्यमपुण्यं च ( *वस्त्र- केशघटोदकं च निन्यपक्षधूलिवातस्पर्शनमनायुप्यमपुण्यं चेत्यादि सर्वम- श्रीकरं च ।) दधिक्षीराज्यमांसानि गन्धं पुप्पं च मत्स्यकान् । शय्याऽऽसनाशनं शाकं प्रत्याख्येयं न कुत्रचित् ।। कुशाः शाकं पयो मत्स्या गन्धाः पुप्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ।। मुखजा विग्रुपो मेध्या भूस्पृष्टाचामबिन्दवः । श्मश्रु चाऽऽस्यगतं शुद्धं दन्तस्थमथवा त्यजेत् ॥ निगिरेद्वा समाचामेदनुष्ठाने न चेन च । ताम्बूले तु स्थिते त्यक्ते निगीणे वाऽनुतिष्ठतः ।। नाऽऽचामेन्न त्यजेदन्त्यसूतिकादिप्रदर्शने । गावस्तु पृष्ठतो मेध्या अमेध्या नरजा मलाः ॥ पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतः। मार्गकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसः॥ मारुतेनैव शुध्यन्ति पक्केष्टकचितानि च । शुद्धा च सतता धारा शुद्धमेव वहजलम् ॥ वाक्शस्तमम्बु निर्मुक्तमज्ञातं च सदा शुचि । इति स्मृत्यर्थसारे द्रव्यशुद्धिः समाप्ता ।। अथ शरीरशुद्धिः - अमेध्याक्तस्य मृत्तान्धलेपापगमाच्छुद्धिः । चण्डालं पतितं च दूरतः परिवर्जयेत् । सतिकोदक्या च शक्यविषये वज्यैव । असंकटस्थाने चण्डालमतिकोदक्यापतितानां चतुस्त्रिोक- युगान्तरे संनिधाने सचैलं स्नानम् । संकटस्थाने गोवालव्यञ्जनाद. वाक् । तारतम्येन संनिधाने सचैलं स्नानं कार्यम् । श्वपाकादि- च्छायारोहणे च तथैव । चण्डालसूतिकोदक्यापतितानां मत्या स्पर्शने सचैलं स्नात्वाऽब्लिङ्गमन्त्रान्गायत्रीं वाऽष्टशतं पादोनमर्धपादं च क्रमाजपेत् । अत्र वस्त्रान्तरितस्पर्शः साक्षात्स्पर्श एव । चण्डा- लादिस्पृष्टस्पृष्टस्य द्वितीयस्य चण्डालादिस्पृष्टस्पृष्टस्पृष्टस्य च तृती. * धनुश्चिह्नान्तर्गत पाठःख. ग. पुस्तकयो स्ति । १ ख. ग. घ. वस्त्रवायस्य । २ ग. वाक्शनम । घ. प्रास्तम ।

७७ स्मृत्यर्थसारः। यस्य सचैलं नानं तत्तदर्धजपः सर्वत्र । मत्या स्पर्शने तु चतुर्थस्य स्मानमात्रम् । चण्डालसूतिकोदक्यापतितानाममत्या स्पर्शने सचेलं स्नात्वा चतुप्पश्चाशजपं तत्पादोनमर्धपादं च क्रमाकुर्यात् । अमत्या चण्डालादिस्पृष्टस्पृष्टस्पृष्टस्य सचैलं स्नानं तदर्धी जपः सर्वत्र चतुर्थस्याऽऽ- चमनम् । रजस्वलादिविषये द्वितीयादिदिनेषु नानपूर्व पादोनं जपं पाहुः । तत्स्पृष्टस्पृष्टादिषु च सात्वा तत्तदर्धं जपः कार्यः । अचेतनेन दण्डादिना चण्डालादिस्पर्शने स्नानमात्रं तृतीयस्याऽऽचमनं द्रव्याणां प्रोक्षणम् । मत्या रजकादिस्पर्शने संचलं स्नात्वा दशजपं कुर्यात् । मत्या तत्स्पृष्टस्पर्शने सचैलं स्नानम् । अमत्या रजकादिस्पर्शने सचैलं स्नानमेव । तत्स्पृष्टपर्शने सानमा तृतीये ज्योतिदर्शनम् । मत्या पञ्चम- जातिस्पर्शने सचैल स्नानं पञ्चजपस्तत्स्पष्टस्य सानम् । हीनशूद्रस्य स्पर्शने सचैल स्नानं सच्छूद्रस्पर्शने स्नानम् । निषादस्पर्शने सचलं स्नानं निषाद- स्पृष्टस्पर्शने स्मात्याचमनं कार्यम् । शवशावाशीचिप्रेतधूमदेवद्रव्योप- जीविग्रामयाजकसोमविक्रयियपचितिचितिकाष्ठश्मशानान्ततिमद्यमान ण्डसस्नेहमानुपास्थीनि स्पृष्ट्वा सचलं स्नात्वा गायत्र्यप्टशतं जपित्वा घृतं प्राश्य पुनः स्नात्वा विराचामेत् । अमत्या स्नानमेव सर्वत्र । स्त्रीणां जपहोमस्थानेऽन्नधान्योदकुम्भादिदान कार्यम् । वेदवाह्यशैव- शाक्तेयपाशुपतलोकायतिकनास्तिकदेवलकधिकर्मस्थद्विजानारूढपतितं विसृष्टाग्निमभिशस्तं शठं पण्डं शवदाहकं स्पृष्ट्वा सचैल स्नायात् । अमत्या स्नानमा कार्यम् । अजीण सुप्तेऽभ्युश्तेिऽस्तगिते विविक्त दुःस्वप्ने दुर्जनस्पर्शने क्षुरकर्मणि भुक्त्वा मुहूर्तापरिच्छदिते च स्नानम् । ऋतौ मैथुने स्नानम् । अनृती सम्यक शौचाचमनम् । दिवामैथुनेऽष्टम्यां च चतुर्दश्यां मैथुने सचैलं स्नानं स्मृतिप्रायश्चित्तं च कार्यम् । मूत्रपुरी- पादौ शौचाचमनं चाकृत्वा यामद्वयाद्वहुकालं स्थिती सबैलं स्नात्वा व्याहृतिभिहोमो जपश्च कार्यः । उदयास्तमययो रेतः स्कन्दयित्वा सचैलं स्नात्वा पुनमन इति जपित्वा सप्तव्याहृतिभिराज्याहुतीर्जुहुयाजपेद्वा । अमत्या सचैलं स्नानमेव । अक्षिस्पन्दने काँक्रोशे सचैलस्नानजप- होमाः कार्याः । श्वजम्बूकवृकादिक्रम्यादखरोष्ट्रविड्वराहमेषवानरस्प- *र्शने नाभेरूवं करौ मुक्त्वा सचलं स्नानम् । नाभेरधः स्पर्शने स्नान- * ख. ग. स्पर्शने तु प्रक्षाल्यावक्षाल्या.ऽच. य पुनराचम्य शुद्वथेत् । १ ख. ग. घ. व पादपा । २ ख, ग, घ, ने त्वा । -- ७८ श्रीधराचायकृतः- मात्रम् । रात्री चेन्नाभेरूवं स्नानमात्रम् । नाभेरधः स्पर्शने तु प्रक्षा• ल्यावज्वाल्य पुनराचम्य शुध्येत् । काकोलूकभासयूककपोतग्राम- कुक्कुटादिक्रव्यादपक्षिस्पर्शने नाभेरूध्वं करौ मुक्त्वा सचैलं स्नानम् । नाभेरधः स्पर्शने स्नानमात्रम् । रात्री चेन्नाभेरूवं स्नानमात्रम् । नाभेरधः प्रक्षालनम् । रथ्याकर्दमतोयनिष्ठीवनाचै भेरूचं स्पृष्टः सद्यः स्नायात् । नाभेरधः स्पर्शने प्रक्षालनम् । अमेध्यस्वजातीयपरकीयवि. पमूत्ररेतोरक्तार्तवास्थिमज्जावसाद्यैर्मलैः सुरामद्यैश्च नाभेरधः प्रबाहुषु च स्पृष्ट्वा मृजलैर्गन्धलेपं प्रक्षाल्य स्नानम् । नामेरूध्वं स्पर्श स्नात्वोपवासः । इन्द्रियेपूच्छिष्टेषु च स्पर्शने स्नात्वोपोप्य पञ्चगव्यं पिवेत् । स्वकीयमलस्पर्शने तु नाभेरुद्धमपि प्रक्षालनमेव । सस्नेहद्वि- जास्थिस्पर्शने विप्रस्य संचलस्नानम् । निस्नेहे स्नानमात्रम् । चिरंतने त्वाचम्य गां स्पृष्ट्वा सूर्य वा दृष्ट्वा शुध्येत् । अद्विजास्थिन सस्नेहे त्रिरात्रं निस्नेहे त्वेकरात्रममानुषे तु भक्ष्यं वर्ण्यम् । पश्चनखशवद- न्तास्थिन सस्नेहे स्नानं वस्त्रान्तरधारणं च । वृष्टी सकर्दमयामसंकरप्र- वेशे जघयोस्तिस्रो मृत्तिकाः पादयोः पटू क्षिप्त्वा प्रक्षालनम् । वायु- शुष्के कर्दमादी न दोपः । श्वपाकादिच्छायारोहणे सचैलं स्नात्वा घृतं वा हिरण्योदकं वा कुशोदकं वा पिबेत् । श्वैपाकादिस्पर्शने सचैल स्नात्वाऽष्टसहस्रजपः । मत्या चेदुपवासश्च तत्स्पृष्टादिषु तु तारतम्येन योज्यम् । दिवा रजःस्रावे जनने मरणे वा तद्दिनादिकमशुचित्वं स्यात् । रात्रौ रजःस्रावादी सत्यर्धरात्रादर्वापूर्वदिनमित्येकः पक्षः । रात्रि बेधा विभज्य पूर्वभागद्वये चेत्पूर्वदिनमित्यन्यः पक्षः। उदयात्पूर्व चेत्पूर्व- दिनमित्यपरः पक्षः । एपा पक्षाणां देशाचारतो व्यवस्था । अज्ञाते रजःस्रावे चतुर्दिनेषु ज्ञाते तु रजःस्रावादिकमशुचित्वं स्यात् । जननादौ ज्ञानादिकमशुचित्वम् । सर्वथाऽज्ञाते शुचित्वमेव । अतो ज्ञानात्पूर्व रजस्वलास्पृष्टमदुष्टमेव । सूतकं तु ज्ञानात् । एवं सर्वपापनिमित्तं स्वस- तादिना पापापादकं सूतकं तु ज्ञानादिकमेव । रजस्वला त्रिरात्रमशुचिः स्यात् । चतुर्थेऽहनि स्नात्वा शुध्येत् । भर्तुः स्पृश्या स्यात् । दैवे पिव्ये च कार्ये रजोनिवृत्तौ पञ्चमादिदिने शुद्धा । सूतिका स्वाशौचान्ते मलं प्रक्षाल्य दन्तान्धावयित्वा सचैल स्नायात् । रजस्वला चतुर्थेऽहनि पष्टिमृत्तिकाभिः शौचं कृत्वा क्षत्रादिस्त्री च पादपादन्यूनमृत्तिकाभि- १ क. श्वकाका । २ ख. ज्ञाने तु । घ. तेषुर। ।

स्मृत्यर्थसारः । विधवा द्विगुणमृत्तिकाभिः शौचं कृत्वा मलं प्रक्षाल्य दन्तधावनपूर्वकं संगवे सचैलं स्नायात् । रजस्वलायाः स्नातायाः पुनरपि रजोदृष्टावष्टा- दशदिनादर्वागशुचित्वं नास्ति । अष्टादशदिने रजोदृष्टावेकरात्रमशुचि- त्वम् । नवदशदिने द्विरात्रम् । विशादिदिने त्रिरात्रम् । प्रायो विशा- दिदिनादूर्ध्वं रजःस्राविणीनामेवं भवति । विंशतिदिनादर्वाक्प्रायशो रजोदर्शनवतीनामष्टादशदिनेऽपि त्रिरात्रमशुचित्वम् । किंच त्रयोदश- दिनादूर्ध्वं प्रायशो रजःस्राविणीनामेकादशदिनार्वागशुचिस्वं नास्ति । एकादशदिने रजोदृष्टावकरात्रमशुचित्वम् । द्वादशे द्विरात्रम् । त्रयो- दशादिदिनेषु विरात्रमेव । सचैल स्नानं वस्त्रं प्रक्षाल्य स्नात्वा पुन: सचैल स्नानम् । एकवस्त्रः स्पृष्टश्चेत्तथा स्नातेऽपि सचैल स्नानमेव । सङ्ग्रामे हट्टमार्गे च यात्रादेवगृहेषु च । उत्सवक्रतुतीर्थेषु विप्लवे ग्रामदेशयोः ॥ महाजलसमीपेषु महाजनवरेषु च । अग्न्युत्पाते महापत्सु स्पृष्टास्पृष्टिर्न दुप्यति ॥ प्राप्यकारीन्द्रियं स्पृष्टमस्पृष्टि वितरेन्द्रियम् । तयोश्च विषयं प्राहुः स्पृष्टास्पृष्टयभिधानतः ॥ इति स्पृष्टास्पृष्टविधिः। अथाशौचविधिः-चतुर्मासाभ्यन्तरे गर्भमात्रनाशः साव उच्यते । तत्र नाव आद्यमासंचतुष्टये मातुस्त्रिरात्रमाशीचम् । उपरि मातुर्गर्भमाससं. ख्यासमदिनमाशौचम् । सगोत्रसपिण्डानां मानेन सद्यः शुद्धिः । यतःप्रभृति संतानं भिद्यते स कूटस्थस्तमारभ्य गणिताः सप्त पुरुषाः सपिण्डाः । ऊवं समानोदकाः । पञ्चमपष्ठयोर्मासयोगमावनाशः पात इत्युच्यते । पाते मातुर्गर्भमाससमदिनमाशौचम् । पित्रादीनां सपिण्डानां त्रिरात्रम् । इदं तु गर्भनाशप्रयुक्ताशौचं सर्ववर्णेषु समम् । सप्तममासप्रभृति पूर्णगर्भनिर्गमः प्रसवस्तत्र प्रसवे जनननिमित्तमाशौचं पूर्णं दशाहादिकं सर्वेषां यथावर्णं भवति । सोदकानां विरात्रम् । जनननिमित्तास्पृश्यत्वं मातुरेव यावदाशीचं न पितुः । तम्य स्नानानन्तर- मस्पृश्यत्वं नास्ति । सपिण्डानामस्पृश्यत्वं सर्वदा नास्त्येव । सूतिका स्ववर्णाशीचे गते संव्यवहार्यैव । अदृष्टार्थेषु तु कर्मसु पुत्रप्रसूतिविंश- १ ख. ग. घ. विशदि । २ ख. ग. घ. सत्रये मा।

श्रीधराचार्यकृतः- तिरात्रमयोग्या स्त्रीप्रसूर्मासम् । पुत्रजननदिवसे हिरण्यभूगवावाज्यवा. सःशय्यागृहादि सर्व प्रतिग्राह्यम् । कृतान्नं वय॑म् । कृतान्नग्रहणे चान्द्रायणम् । पुत्रजननदिवसे दानं कुर्यात् । हिरण्याद्यभावे तदानी संकल्प्य पश्चात्समर्पयेत् । प्रथमे दिवसे हिरण्यादिदानं पष्ठे सप्तमे वा बलिदानं दशमदिनेऽन्नदानमित्यादि यथाचारं कार्यम् । सूतिकागृहरक्षा च कार्या रात्री विशेषेण । जन्माशीचमध्ये तच्छिशुमरणे तूच्यते । नाभिच्छेदनादूध शिशुमरणे निष्प्राणशिशुनिर्गमे च जनननिमित्ता- शौचं कृत्स्नं यथावणं सर्वपां सपिण्डानामस्त्येव । मरणनिमित्ते सद्यः शुद्धिः । नाभिच्छेदनात्पूर्वं शिशुमरणे तु जनननिमित्ताशौचं सपि- ण्डानां त्रिरात्रम् । मरणनिमित्ते सद्यः शुद्धिः। मातुर्जनननिमित्ता. शाचं सर्वं यथावर्णमस्ति । मरणनिमित्ते सद्यः शद्धिः । नामकरणा- त्पूर्व शिशुमरणे निखननमेव नानुगमनं नाग्न्युदकदानादिकम् । ज्ञातीनां सचैल स्नानात्सद्यः शुद्धिः । ततो दन्तजननात्पूर्व मरणे निखननं तूष्णीं दहनोदकादिदानं वा कार्यम् । अनुगमनं कृताकृतम् । खननपक्षे सद्यः शुद्धिः । दहने लेकाहम् । खननं च शवमलं प्रक्षाल्य घृतेनाभ्यज्य संत्राप्य नववस्त्रसूत्रगन्धमाल्यानुलेपनाद्यः शक्त्या ह्यलंकृत्य ग्रामादहिः शुचौ देशे कार्यम् । दहनं च तथा शवं संस्नाप्यालंकृत्य बान्धवज्येष्ठपूर्वाः श्मशानं नीत्वा लौकिकाग्निना तूष्णीं कुर्युः । तूष्णीमुदकदानादिदानं च । दहनेऽमेध्य चण्डालसूतकिंपतितचिताग्नीन्वर्जयेत् । दन्तजननादूचं प्रथमवर्षे कृतचूडस्यापि यावत्रिवर्षनेकाहः । प्रथमवर्षे जातदन्त- स्याकृतचूडस्याप्येकाह एव । इन्तजननादृय विवर्षपर्यन्तमकृतचू. डस्य मरणे खननं दहनं वा कार्यम् । खनन एकाहमाशौचम् । दहने त्रिरात्रम् । अत्रोनद्विवर्षान्तमनुगमनं कृताकृतम् । पश्चान्नित्यम् । दन्तजननादूर्ध्वं विवर्षपर्यन्तं कृतचौलस्य मरणे तूष्णीं दहनम् । तूष्णीमुदकादिदानम् । त्रिरात्राशौचं नित्यमेव । त्रिवर्षात्परं कृतचील. स्यापि मरणे यावदुपनयनं तावदनुगमनम् । तूष्णी दहनोदकदान- विरात्राशौचानि नियतानि कार्याणि । अनुपनीतमरणे मातापित्रोद- शाहाशीचपक्षोऽनाहतः । अनुपनीतमृताशाचे वर्णाः स्वाशौचकाल- विमागादूचं स्पृश्याः। अनुपनीतमरणे श्रुतेऽतीताशौचं नास्ति सानमेव । इदं वयःप्रयुक्ताशाचं सर्ववर्णसमम् । आशीचान्ते स्नात्वा स्वस्तिवाचन- पूर्वं ब्राह्मणभोजनं कार्यम् । कन्यामरणे तु त्रिपुरुपविषयज्ञातीनामा- चौलकरणादाचील कालाद्वा स्नानेन शुद्धिः । स्त्रीषु सापिण्ड्यं त्रिपुरु.

स्मृत्यर्थसारः। ८१ पमेवाप्रत्तासु । ततो वाग्दानादर्वागेकाहमाशीचम् । ततो विवाहादा. पतिपक्षे पितृपक्षे च त्रिपुरुषपर्यन्तं त्रिरात्रम् । वाग्दानामावे विषाह- निश्चयोऽवधिरित्येके । अत्रोनद्विवर्षे खननं पश्चादहनं पुरुषवद्वा । अस्पृश्यत्वादि सर्वं पूर्ववदेव । उपनयनादूवं पुरुषमरणे विवाहादूर्व स्त्रीमरणे शूदमरणे य विधिवद्दग्ध्वोदकपिण्डदानसहितं यथावर्ण पूर्णाशौचं कार्यम् । तच दहनं ब्रह्मचर्यादेरनग्निकस्य विधुरादेश्वापि कपालाग्निना स्वशाखोक्तविधिना कार्यम् । गृहस्थस्य गृह्याग्निना कार्यम् । आहिताग्नेस्त्रेताग्निनादहन कार्यम् । तच्चाशीचं ब्राह्मणानां दशा- हम् । क्षत्रियाणां द्वादशाहम् । वैश्यानां पश्चदशाहम् । शूद्राणां मासम् । वृत्तस्थानों द्विजशुश्रूषापञ्चमहायज्ञवतां शूद्राणां तु पञ्चदशाहम् । चतुर्थे दशरात्रं स्यादिति पक्षो दूषितः । एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः । इत्याद्या अनादृताः । तच्चाशीचमाहिताग्नेविधिवदहनं कृत्वा दहन- दिवसमारभ्यैव कार्यम् । विदेशस्थे मृते यावद्विधिना न संस्कारस्ताव- त्पुत्रादीनां संध्यादिकमलोपो नास्त्येव । अनाहितानेमरणदिवसमारभ्या- शौचं कार्यम् । अनाहिताग्नेविधिवदहनाभावे तदानीमाशौचग्रहणं कृता- कृतम् । आहिताग्नेविधिवदहनाभाव आशौचं नास्त्येव । अग्न्युदकदानं च पुत्राणां प्रथमदिने कार्य दशमे वा। यहाद्वा । दशमदिनादर्वाग्वा । आद्यश्राद्धात्प्राग्वा कस्मिंश्चिदिने ग्रामादहिः कार्य नखनिकृन्तनं च । गुरुमरणे चैवम् । मृतशरीराभावेऽस्थिसंस्कारं कुर्यात् । अस्भाममावे पलाशवृन्तैः कुशैर्वा शरीरप्रतिकृतिं कृत्वा पुनःसंस्कारं कुर्यात् । आहि- तानेः पुनःसंस्कारे प्रत्यक्षशववदाहादिकं संपूर्णाशौचं यथावण कार्यम् । अनाहिताग्नेः पुनःसंस्कारस्तत्सूतकमध्ये चेत्कृतस्तत्सूतकशेषेणैव शुद्धिः। अतीते सूतके पुनःसंस्कारे तु पूर्वमगृहीताशौचस्य पुत्रस्य पल्याश्च दशाहादिकं पूर्णाशीचम् । गृहीताशौचस्य पुत्रस्य पत्न्याश्च त्रिरात्रम् । पत्नीपुनःसंस्कारे पत्युश्चैवं सपत्न्योमिथश्चैवम् । अगृहीताशौचानां सपि- ण्डानां विरात्रम् । गृहीताशौचानां पुनराशौचं नास्त्येव । विदेशस्थज. नने मरणे वा प्रथमदिवसादूचं ज्ञाते स्वाशीचशेषेणैव शुद्धिः पुत्रादी- नाम् । हीनवर्णस्य ब्राह्मणाद्युत्कृष्टजातिसपिण्डत्व उत्कृष्टजात्याशौच. १ ख. ग. °मेव प्रसासु । २ घ. स्थस्यान हिताग्ने । ३ ग. °चं चास्ये । ४ ख. ग. प. अपनं च पु। ११ गत्वा श्रीधराचार्यकृतः मेव । दासी दासश्च प्रेष्यश्च स्वामिकार्य स्वाम्याशीचसमकाले गते स्पृश्याः । स्वकर्माधिकारस्तु स्वाशौचान्त एव । प्रतिलोमजानां नाशौचं तेषां तदन्ते मलक्षालनमेव । शवं दग्ध्वा पृष्ठतोऽनवेक्षमाणा आग- च्छन्तोऽस्फुटितं श्लक्ष्णं पाषाणं गृहीत्वा महाजलं तत्र महाजले शरीरमलं प्रक्षाल्य वस्त्रं संशोध्य स्नात्वा पुनः सचेलं सात्वा च वाग्यताः समाहिताः सगोत्राः सपिण्डाः समानोदकाश्च वृद्धपूर्वाः प्राचीनावीतिनो दक्षिणामुखाः प्रेतस्य नामगोत्रे उच्चार्य प्रेत- स्तृप्यत्विति जलपूर्णाञ्जलिं सतिलं सव्योत्तरपाणिकाः पाषाणे सकृत्य- मुश्चेयुः । एवमुदकं दत्त्वा जलात्समुत्तीर्णान्नवजाततृणके भूप्रदेशे सम्य- विस्थतान्कुलवृद्धाः पूर्वेतिहासैः शोको निष्फलः श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतास्ये पतति तस्मान्न रोदनं कार्य विहिताः क्रियाः कार्या इत्याश्वास- येयुः । एवमाश्वासिता वस्त्राणि निप्पीड्य शोषयित्वा बालपूर्व गृहं गत्वा द्वारि स्थित्वा समाहिता निम्बपत्राणि शनैर्भक्षयित्वाऽऽच- म्याग्न्युदकगोमयगौरसर्पपदूर्वानुरगोवृषभान्स्पृष्ट्वा मणिप्रवालादीन्स्व- शाखोक्तांश्च यथालामं स्पृष्ट्वाऽश्मनि पदं शनैर्निधाय गृहं प्रविशेयुः। तस्मिन्नहन्येकस्मिन्मृन्मये पात्रे जलं प्रेत नाहीत्याकाशे शिक्यादी स्थाप्यम् । अन्यस्मिन्मृन्मये क्षीरं प्रेत पिवेति तथैव स्थाप्यम् । निम्बपत्रमक्षणं पात्रस्थापनं वा कार्यम् । ततस्तस्मिन्दिवसे तस्मि- न्गृहेऽन्नं न पचेयुः । क्रीतान्नेन वाऽयाचिताहृतेन वाऽन्यगृहपक्वेन वा हविष्येण वर्तेरन्न स्वगृहपक्केन क्षारलवणमाषमांसापूपपायसव. र्जम् । अधःशयनं बालवृद्धातुरवज पृथक्पृथग्ब्रह्मचर्ययुक्ता भवेयुः । गुरौ मृत उपवसेयुः पुत्राः पत्नी च । जातमूतके सर्वे नियमा न स्युः। महागुरुमरणेऽक्षारालवणाशिनो द्वादशरात्रं दानाध्ययने वर्जयेरन् । पिता पुत्रमुत्पाद्य संस्कृत्य वेदं वेदार्थं च ग्राहयित्वा वृत्तिं कल्पयित्वा महागुरुर्भवति । ततो यावदाशीचं तावत्प्रत्यहमे कैकमञ्जलिं दद्युः। तथा सति दशदिनेषु दशाञ्जलयः स्युः । यद्वाऽशौचदिनेषु प्रत्यहं दिनसंख्य- याऽञ्जलीन्वृद्धया दत्त्वाऽतीतदिनसंख्यया च दद्यात् । तथा सति शताञ्ज. लयः स्युः । एवं मातामहानामाचार्याणां चोदकदानं कुर्यात् । सखीनां प्रत्तानों दुहितृभगिन्यादीनां भागिनेयश्वश्रूश्वशुरविजां चेच्छयोदक- दानं कुर्यात् । अस्थिसंचयनमाहिताग्नेरनाहिताग्नः संस्कारमारभ्य प्रथ- मेऽति द्वितीये तृतीये चतुर्थे सप्तमे नवमे वाऽविरुद्ध स्वशाखोक्तविधिना १ ख. ग. 'लेनेव स्पृ° । २ क. प्रेताना ।

स्मृत्यर्थसारः। ८३ कार्यम् । तत्र पिण्डनयं च देयम् । एकः पिण्डः श्मशानवासिभ्यः पूर्व- प्रेतेभ्यो मध्यम एक इदानींतनप्रेताय दक्षिणत एकस्तत्सखिभ्य इति दक्षिणसंस्थं दद्यात् । अस्थीनि गङ्गायां क्षिपेदन्यतीर्थे वा।शुद्धदेशे वा। संचयने कृते वर्णाः स्वाशौचकालविभागेन त्रिचतुःपञ्चदिनैः स्पृश्याः । दशद्वादशपश्चदर्शनिशद्दिनर्मोज्यान्नाः। ब्रह्मचारी पितृमातृमहागुर्वाचा- र्योपाध्यायव्यतिरिक्तानां देहनाशौचोदकदानादिकं न कुर्यादासमावर्तना. त् । पित्रादीनां तु कुर्यादेव । प्रक्रान्तप्रायश्चित्तवतश्चाऽऽवतसमाप्तेर्दहना. दिकं न कुर्यात् । स्वकर्मरहितश्च न कुर्यात् । कृतेऽपि नोपतिष्ठते । मातापितृ- गुर्वाचार्योपाध्यायानां प्रेतकार्ये व्रतचारिणो व्रतलोपो नास्ति । स सूतकानं नाश्नीयात् । न सूतकिभिः सह वसेत् । अन्यप्रेतालंकरणे तूपनयनं कार्यम् । समाप्तवतस्य शिष्यस्य दशाहाशौचं गुरुदहने । स्वकर्मपतिता महा- पातकपतिताः पुरुषाः स्त्रियश्च हीनजातिगामिन्यो ब्राह्मणगर्भपातिन्यो मर्तृघ्न्यश्च स्तेयस्वभावा विरुद्धधर्माणश्च लीबाश्च दहनोदकदानादिकं न कुर्युः । मोहात्कृतेऽपि नोपतिष्ठते । प्रेतस्य पुत्रो दिनत्रये ग्रामा(हिः पाषाणस्य पुरतः कुशेष्वमन्त्रकं नामगोत्रेण पिण्डपितृयज्ञप्रयोगेण बीपिण्डान्दद्यात् । पिण्डे पापाणे चाक्षतगन्धमाल्यधूपदीपान्दद्यात् । धूपदीपी न वा दद्यात् । यद्वा दशदिनेषु दश पिण्डान्दद्यात् । आशीच- हासेऽपि त्रयः पिण्डा दशैव वा । अनेकपुत्रत्वे वितरानुमतो ज्येष्ठ एव दद्यात् । द्रव्येण विमक्तेन वाऽविभक्तेन वा । पुत्रामावे पितृस- पिण्डा मातसपिण्डाः शिष्यास्तदर्थजीविनो वा संबन्धिनो बान्धवा दाः । असगोत्रः सगोत्रो वा पुरुपः स्त्री वा । प्रथमेऽहनि यो दद्यात्स- दशाहान्तम् । प्रथमेऽहनि यद्रव्यं दशाहान्तं तदेव । दशमेऽहन्यधिक पिण्डत्रयं देयम् । एकपिण्डस्तत्सखिभ्यः । इदानींतनप्रेताय मध्यमः । दक्षिणत एकः पिण्डो यमाय । ततः कर्ता प्रार्थिता बान्धवाः संबन्धि. नश्च त्रीस्त्रीन्धर्मोदकाञ्जलीन्दाः । न पाँपाणनियमः । ततः सुवासि. न्योऽभ्यङ्गस्नाताः शुभशुक्लवाससः कलशपूर्वाः स्वगृहं गत्वाऽन्नभोज- नादि स्वगृहपाकेन यथाचारं कुर्युः । विरात्राशौचे दशाञ्जलयः शताञ्जलयो वा । दशाञ्जलिपक्षे प्रथमेऽह्नि त्रयोऽञ्जलयः । द्वितीये चत्वारः । तृतीये त्रयः । शताञ्जलिपक्षे प्रथमेऽह्नि त्रिंशत् । १ ख. ग. घ. शविंशतिदिनै । २ ख. ग. दशाहाशी । ३ ख. ग. मात्रादी । ४ ख. ग. घ. 'णे पुनरुप । ५ क. °मावृत्तशि° । ६ ख. ग. शौचाहा । ७ स. पार्वणे नि ।

१ श्रीधराचार्यकृतः- द्वितीये च चत्वारिंशत् । तृतीये त्रिंशत् । पिण्डाश्च त्रयोदश वा । दशपक्षे प्रथमेऽह्नि त्रयः । द्वितीये चत्वारः । तृतीये त्रयः । संचयनं च । अनुपनीतस्य पिण्डं भूमौ दद्यान्न बर्हिषि । स्त्रीशू- द्रयोविवाहादागेव । अशौचदिनमध्ये पुनःसंस्कारे तु दृष्टबाध- मयादिनं संभवे शोध्यम् । कालान्तरे कर्तव्ये प्रेतकार्य नु दिन शोध्यमेव । संवत्सरादूचं प्रेतकार्ये तूत्तरायणकालः श्रेयान् । तत्रापि कृष्णपक्षः श्रेयान् । तत्रापि नन्दा त्रयोदशी चतुर्दशी दिनक्षयं च वर्जयेत् । शुक्रशनैश्चरवारौ वयौँ । नक्षत्रेषु भरणी कृत्तिकाऽऽर्दाऽs- श्लेषा मघा मूलं धनिष्ठादिपञ्चकं च त्रिपुष्कराणि चातिदुष्टानि सर्वथा बानि । व्यतीपाते परिघे वैधृतौ च योगे विष्टिकरणे चतुर्थाष्टमद्वाद- शस्थे चन्द्रे चातिदोपः । रोहिणीमृगशीर्षपुनर्वसुपूर्वोत्तराचित्राविशा- खानुराधापूर्वापाढोत्तराषाढा निषिद्धत्रिपुष्कराणि चेषदुष्टानि संमवे यानि । शेषाण्यदुष्टानि ग्राह्याणि । सर्वथा दिनशुद्धयसंभवेऽनतिदुष्ट- बाहनक्षत्रं ग्राह्यम् । पुनःसंस्कारेऽनन्तरनक्षत्रं ग्राह्यम् । नन्दायां शुक्र- यारे चतुर्दश्यां चिजन्मनक्षत्रेवेकोद्दिष्टमतिनिपिद्धम् । साक्षादेकाशाहे च प्राप्त एकोद्दिष्टं कार्यमेव । तत्र तिथिनक्षत्रवारादिकं नैव शोध्यम् । युगादिमन्वादिसंक्रान्त्यमावास्यासु प्रेतकार्ये किंचिदपि नैव शोध्यम् । (*अपरात्-ि- धनिष्ठापञ्चकमृते पञ्चरत्नानि तन्मुखे । न्यस्याऽऽहुतित्रयं कर्ता दद्याद्वहवपामिति ॥ ततो निहरणं कार्य मेष सानेविधिः स्मृतः। इतर निखनेदेव । त्रिपादर्भमृते तद्वद्धिरपयशकलं मुखे ।) प्रतिपादयेत् । प्रत्यक्षशवसंस्कारे पुनःपुनःसंस्कारे च कर्तव्य ऊोच्छिष्टाधरोच्छि- होमयोच्छिष्टास्पृश्यस्पृष्टमरणखट्वामरणबद्धमरणादिषु सत्सु त्रीन्कू- च्छ्रान्पटू कृच्छ्रान्द्वादश कृच्छ्रान्पश्चदश कृच्छ्रान्वा प्रायश्चित्तं निमि- तानुसारेण बाह्मणवचनाद्गृहीत्वाऽशक्तौ तदैव कृच्छ्रप्रत्याम्नायं धेनुगो. * धनश्चिह्नान्तर्गतपाठः क. पुस्तके वर्तते । १ ख. ग. ग. मेवम् । २ क. घ. नि दिपु । ३ क. ग. रे नान्त° ।

स्मृत्यर्थसारः। हिरण्यधनधान्यवस्त्रादि दत्त्वा तदानीं शुद्धिं संपाद्य दहनादिकं कार्यम् । शक्तो भक्तः पुत्रादिः पित्रादेः पापिनः सर्वात्मना शुद्धिमिच्छति चेत्प्रायश्चित्तप्रकरणोक्तसर्वप्रायश्चित्तानामन्यतमं योग्यं कृत्वा दहना- दिकं कुर्यात् । दहनादिकर्ताऽप्यधिकारित्वाभाव एवमेव शुद्धिमात्मनः संपाद्य दहनादिकं कुर्यात् । एवं प्रेतस्याऽऽत्मनश्च शुद्धिमनापाद्य लोभा- दिना दहनादिके कृते तत्सर्वं नोपतिष्ठते । अन्तरिक्षे विनश्यति । उभ. योश्च नरको ध्रुवम् । पापण्डिनां वेदबाह्यलिङ्गानां सत्यधिकारेऽनाश्र- मिणां स्वकर्महानिपतितानां महापातकिनां पुरुषाणां स्त्रीणां हीनजा. तिगामिनीनां ब्राह्मणगर्मभर्तृघ्नीनां कुलटानां च प्रायोनाशकशस्त्रा- निविपोद्वन्धनप्रपतनाद्यैर्बुद्धिपूर्वकमात्मघातकानां दहनादिकं न कुर्यात् । चण्डालजलसर्पबाह्मणवैद्युतदंष्ट्रिभृङ्गिपशुभिर्बुद्ध्या दर्यात्क्रोधादिना मृतानां च दहनाशीचोदकादिकं न कुर्यात् । मोहात्कृतेऽपि नोपतिष्ठते। अन्तरिक्ष विनश्यत्येव । तेषां शरीरं गङ्गायां क्षिपेत् । अन्यस्यां वा महानद्यां क्षिपेत् । त्रेताग्रीनप्सु क्षिपेत् । गृह्याग्निं च चतुष्पथे । यज्ञ- पात्राणि दहेत् । तेषां शवानां स्पर्शनस्नानालंकारवहनरज्जुच्छेदनदह- नाश्रुपातकथादीनज्ञानतः कृत्वा महासांतपनं कुर्यात् । ज्ञानात्तप्तकृत च्छम् । एतेप्वेकैककरणे त्वज्ञानादुपवासः । मत्याऽभ्यासे कृच्छातिकृत च्छ्रचान्द्रायणानि योग्यतया कुर्यात् । एतेषां पापण्ड्यादीनां सर्वेषां निष्कृतिर्नास्ति प्रायश्चित्ताकरणे । तदानीं प्रायश्चित्तकरणासंमबे वत्स- रान्ते लोकगर्हापरिहारार्थं शुद्धयर्थं च श्राद्धादौ योग्यत्वार्थं च नारायण, बलिं कृत्वा श्राद्धं कार्यम् । अथ तेषामतिविरक्ता भक्ताः प्रायश्चित्तस- मर्थाः पुत्रादयः सन्ति चेदात्मघातप्रायश्चित्तं चान्द्रद्वयं तप्तकृच्छचतुष्टयं च कृत्वा द्वात्रिंशत्कृच्छ्राणि कृत्वा पापण्ड्यादीनां सर्वेषां प्रायश्चित्तं योग्यं कृत्वा तदैव वा कालान्तरे वा संवत्सरादग्विा दहनादिक कृत्वा श्राद्धं कुर्युरनित्यत्वादायुपः । प्रायो महाप्रस्थानं प्रपतनं गिरिवृक्षादिभ्यः । अथ नारायणबलिरुच्यते-कस्यांचिच्छुक्लैकादश्यां विष्णुं वैवस्वतं यम च यथावदभ्यर्च्य तत्समीपे मधुघृतप्लुतांस्तिलमिश्रान्दश पिण्डान्वि- ष्णुरूपेण प्रेतमनुस्मरन्प्रेतनामगोत्रे उच्चार्य दक्षिणायेषु दर्भेषु दक्षि. णामुखो दत्त्वा गन्धाद्यैरभ्यर्च्य पिण्डप्रवहणान्तं कृत्वा नद्यां क्षिपेन्न ८६ श्रीधराचार्यकृतः- पन्यादिभ्यो दद्यात् । ततस्तस्यामेव राज्यामयुग्मान्ब्राह्मणानामन्त्र्यो. पोपितः श्वोभूते मध्याह्ने विष्णुमभ्यच्कोद्दिष्टेन विधिना ब्राह्मणपा- दप्रक्षालनादि तृप्तिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञवदुल्लेखनाद्यवनेज- नान्तं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च सपरिवाराय चतुष्पि- ण्डान्दत्त्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोर्नाम संकीर्य पञ्चमं पिण्डं दद्यात् । ततो विप्रानाचान्तान्दक्षिणादिभिस्तोपयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्याऽनुस्मरन्गोभूहिरण्यादिभिरतिशयेन तोप- यित्वा पवित्रपाणिभिविप्रैः प्रेताय तिलसहितमुदकं दापयित्वा स्वजनैः सहितो भुञ्जीत । सर्पहते त्वयं विशेषः-तस्य नागवतं कार्यम् । तत्र संवत्सरं भाद्रपद- शुक्लपञ्चमीमारभ्यान्यां वा शुक्लपञ्चम्यामुपवासः कार्यः । यद्वा चतु. .मेकमक्तं पञ्चम्यां नक्तं कुर्वन्दारुमयं मृन्मयं वा नागं पञ्चफणं कृत्वा गन्धैः करवीरैः शतपत्रैर्जातीपुष्पैबूंपादिभिरनन्तं वासुकिं शङ्ख पद्मं कम्बलं कर्कोटकमश्वतरं धृतराष्ट्र शङ्खपालं कालियं तक्षकं कपिलं च पञ्चम्यां संपूज्य पश्चाद्गाह्मणान्धृतपायसमोदकैर्भोजयेत् । संवत्स- रान्ते चैवं संपूज्य महन्द्राह्मणभोजनं सौवर्णनागदानं गोदानं च कुर्यात् । अथवोमयोः पक्षयोः पञ्चमीपु भूमी नागं पिटेन विलिख्य सितपुष्प- गन्धैः सितगन्धवासिततण्डुलैरभ्यर्च्य गव्यक्षीरमोदकं भूमी निवेद्योप- स्थायैवं वदेन्मुश्च मुश्चममिति । तद्दिने मधुरमन्नमश्नीयात् । एवमब्द विधिना नागमभ्यर्च्य पूर्णेऽब्दे नारायणबलिं कृत्वा सौवर्णं नागं गां च दद्यात् । ततः श्राद्धादिकं सर्वं कुर्यात् । चण्डालगोबा- ह्मणपशुदंष्ट्रिसग्न्युदकादिभिः प्रमादान्मरणे तु चान्द्रायणं तप्त- कृच्छ्रद्वयं च कृत्वा यद्वा पञ्चदश कृच्छ्रान्कृत्वा विधिना दहनाशीचो- दकं सर्वं कार्यमेव । अनुष्ठानासमर्थजीर्णवानप्रस्थादीनामचिकित्स्य- गुरुव्याधिपीडितानां चाग्न्युदकाशनगिरिप्रपतनादिभिर्बुद्धिपूर्वकमात्म- घातकत्वमभ्यनुज्ञायते । तेषां विधिवदाहं कृत्वा त्रिरात्राशीचं कार्य द्वितीयेऽह्नयस्थिसंचयनं तृतीय उदकपिण्डदानं चतुर्थेऽह्नि श्राद्धं कुर्यात् । एवमन्येषां विध्यनुगृहीतात्मघातकानां कार्यम् । अभि. पिक्तक्षत्रियादिहतानां गोविगैरन्त्यजैः पशुदंष्ट्रयादिभिर्युद्धे बुद्धिपूर्वा- स्मघातकानां पापण्ड्यनाश्रमिपतितानां सद्यः शौचम् । जाताशोचे मृताशीचे च त्रेताग्निसाध्याग्निहोत्रदर्शपूर्णमासाद्या नित्यनैमित्तिकाः क्रियाः कार्याः । औपासनाग्निसाध्याश्च सायंप्रातोमपार्वणस्थालीपा.

स्मृत्यर्थसारः। काधा नित्यनैमित्तिकाः श्रुतिचोदितत्वात्कार्या एव । असंभवे हापयेत् । सर्वथा न हापयेत् । स्मार्तत्वेऽपि पिण्डपितृयज्ञश्रवणाकर्माश्वयुजी- कर्मादिकमसगोत्रेण कारयेन्न हापयेत् । ( * ब्रह्मचर्यादिवतिनां च वृत्ते भाद्धकर्मणि कर्तृणां निमन्त्रितानां भोक्तृणां यत्किंचिनियमस्थानाम- प्रतिषिद्धयाहिनित्यदातूणामेतेषां यावदुपाधिस्तावदशीचं नास्त्येव । विगादीनां तदानीं मानमस्ति) यजमानस्तु मात्वाऽऽचम्योद्देशत्यागी कुर्यात् । सर्व काम्यं तु वर्त्यमेव । स्मार्तत्वेऽपि संध्यायां गायत्र्याऽञ्ज- लिदानं कार्यम् । मार्जनं कार्यं न वा । सूतके कर्मणां त्यागः । यद्वा प्राणान्नियम्य मनसा मन्त्रमुच्चारयन्मार्जनादिकं कृत्वा वाचा गायत्री- मुच्चार्याञ्जलिं दद्यात् । दानप्रतिग्रहपञ्चमहायज्ञनित्यश्राद्धस्वाध्याया- दीनां स्मार्तानां त्याग एव । नित्यस्नानशौचाचमनभोजननियमानस्पृश्य- स्पर्शनस्नानं च कुर्यादेव । सूतकान्नभोजनमस्वकुल्यानां न कार्यम् । स्वकुल्यानां न दोषः । दातृभोक्त्रोरन्यतरेणापि सूतके ज्ञाते न भोक्त- व्यम् । उभाभ्यामपरिज्ञाते न दोषः । विवाहोत्सवयज्ञेप्वन्तरा जननम- रणाशीचे पूर्वसंकल्पितद्रव्ये न दोपः । (+ तत्र कृतान्नेषु परैरन्नं प्रदातव्यम् । दातृभोक्तून्सूतकी न संस्पृशेत् । भुञ्जानेषु विप्रेष्वन्त- राऽऽशौचेऽन्यगेहोदकाचान्ताः शुद्धाः । सर्वत्राशीचे लवणे मधुनि मांसे च पुष्पमूलफलेषु शाककाष्ठतृणेष्वप्सु पयोदधिघृतेषु तैलोपधाजि- नेषु नास्त्याशौचम् । स्वाम्यनुज्ञया स्वयमेव गृह्णीयात् । अन्नसत्रप्रवृ. त्तानां तण्डुलादिष्वपक्वेषु च सर्वेषु पण्यद्रव्ये च नाशौचम्। शवसंसर्गनि- मित्ताशौचमनुगमनाशीचं च शवसंसर्गिण एव न तद्भार्यापुत्रादीनां द्रव्या. णां च । अतिक्रान्ताशौचं च तद्व्याणां नास्त्येव । कारुशिल्पिवैद्य- दासीदासराजप्रेष्यमूल्यकर्मकराणां सद्यः स्नातानां तत्तद्यापारे नाशीचम्। गत्यभावे क्वचित्स्पृश्यत्वं च स्यात् । स्वविहितकर्मस्वाशीचमस्त्येव । कारवः शिल्पकाराद्याः शिल्पिनश्चितकर्मचैलनिर्णजकाद्याः । वृतानामृ- विजां दीक्षणीयेष्ट्यादिदीक्षितानां यज्ञियकर्म कुर्वतामन्नसत्रकर्तणां कृच्छ्रचान्द्रायणादिवतिनां प्रायश्चित्तत्वेन प्रवृत्तवतिनां च ब्रह्मचर्यादि- * धनुचिहान्तर्गतपाटः ख. ग. पुस्तकस्थः । + धनश्चिहान्तर्गतपाठः ख. ग. पुस्तकयो- नास्ति । १ ख. ग. 'दन्यं शुद्धमेव । पूर्व' । २ घ. पु पुण्य । ३ क. °वः सूपका ।

श्रीधराचार्यकृत:- घतिनां च प्रवृत्ते श्राद्धकर्मणि कर्तृणां निमन्त्रितानां भोक्तृणां यत्किंचि. नियमस्थानामप्रतिषिद्धग्राहयितृदातृणामेतेषां यावदुपाधिस्तावदाशीचं नास्त्येव । ब्रह्मचारिणां यतीनां च सर्वदाऽशौचं नास्त्येव । ऋत्विगादीनां तदानीं स्नानमस्ति । ) पूर्वप्रवृत्तचौलोपनयनविवाहादिसंस्कारकर्मसु प्रवृत्तयज्ञेषु च प्रवृत्तप्रतिष्ठारामाद्युत्सवेषु च पूर्वप्रवृत्तवृपोत्सर्गादिपा- कयज्ञेषु च युद्धे युद्धार्थविहितेषु शान्तिकर्मसु च स्फोटका प. द्रवोपसर्गे राजमये देशविप्लवे च विवाहोत्सवदुर्गयज्ञयात्रादितीर्थयुद्ध- कर्मसु च सद्यः शौचं तत्तदर्थे शान्तिकमणि च सद्यः शौचम् । व्याध्या. दिना मुमूर्षावस्थायां तदुपशमनार्थे दाने च । तथा संकुचितवृत्तेः क्षुत्प- रिश्रान्तमातापित्रादिबहुकुटुम्बस्य तदक्षणयोग्ये प्रतिग्रहे च । अश्वस्त- निकस्य च सद्यः शौचम् । अतिकनिष्ठापदि विप्लवे च विशेषेण सद्यः शौचम् । एकाहसंचितधनस्यैकाहमाशौचम् । व्यहसंचितधनस्य यह- माशौचम्। चतुरहार्थं संचितधनस्य कुम्भीधान्यस्य च चतुरहम् । कुसूल- धान्यस्य दशाहम् । अशौचकालमध्येऽनुपपत्त्यपगमेऽवशिष्टाशीचमस्त्येव । एवं दशाहस्थाने त्रिरात्रपक्षिण्येकाहसद्यःशौचरूपाणि वाक्यान्याप. द्विषयाणि योज्यानि । समानोदकविषयाश्च संकुचिताशौचविषयकल्पा: पक्षिण्येकाहसद्यःशौचरूपा आपद्विषयाः । तेन प्रतिग्रहादिनाऽऽतिना- शस्तद्विषया न सर्वत्र । ब्रह्मोज्झतानिमित्तं बहुवेदस्य स्वाध्याये सद्यः शौचम् । जपो देवार्चनविधिः कार्यो दीक्षान्वितैनरैः । नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम् ।। आशौचानन्तरं सर्वे वर्णाः सचैलं स्नान्ति । ततो ब्राह्मणो दक्षिणह- स्तेनापः स्पृष्ट्वा शुध्येत् । क्षत्रियो वाहनमायुधं वा । वैश्यः प्रतोद रश्मीन्वा । शूद्रो यष्टिं स्पृष्ट्वा शुध्येत् । एवं सपिण्डाः समानोदका वस्त्रयुगादिभिर्भूषितं शचं श्मशानं नयेयुर्न गृहयामाभिमुखं प्रेतं नयेयुः । न शूद्राः पतिताश्च शवतृणकाष्ठहवींषि नयेयुः । न ननं शवं दहेयुः । धर्मार्थं ब्राह्मणशवनिर्हरणस्नानालंकरणवहनदहनादिके कृते द्विजानां सचैल स्नानात्सद्यः शुद्धिर्महापुण्यं शुभं चाऽऽयुर्भवति। तत्राप्यनाथप्रेतसं. १ ख. ग. घ. °कष्टाप । २ ख. ग. °च क°। ३ ख. म. नाऽऽतिस्तद्विषया नश्येत् । न। . ग. प्रमोज्छिताति कानि° । घ. ब्रह्मयज्ञानाप्तिनिमि । ५ ख. °उझनास्तिकनिनिमि ।

स्मृत्यर्थसारः। ८९ स्कारेऽनेकपुण्यमायुश्च वर्धते । धर्मार्थमुस्कृष्टजातिप्रेतनिहरणादिके कृते सचैलस्नानाच्छुद्धिः । धर्मार्थं सजातिप्रेतनिहरणादिके कृते सचैलना- मप्राणायामः शुध्येत् । धर्मार्थं हीनजातिप्रेतनिर्हरणादिके कृते सचेलं सात्वा निम्बपत्रभक्षणादिगृहप्रवेशनान्ते कृते कृच्छ्राच्छुद्धिः । स्रहा. दिना सजातिप्रेतनिहरणमात्रे कृते त्वेकाहाशीचेन शुद्धिः । स्नेहादिना सजातिं निहत्य तद्गृहे स्थिती विरात्राशीचम् । संहादिना सजाति निहत्य तद्गृहे स्थिती तदन्नाशने दशाहाशाचेन शुद्धिः। स्नेहादिना वन्य- जातिनिहरणे तजातीयमाशीचं कार्यम् । अनुगमने (तु सजातिध्वपि बाह्मणाद्यैर्न कार्यम् । स्नेहादिना सजातिषूत्कृष्ट)द्विजातिषु चानुगमने कृते सचैलं स्नात्वाऽग्नेि स्पृष्ट्वा घृतं प्राश्य शुध्येत् । घृतप्राशन शुद्धयः र्थमेव न भोजनस्थाने । सपिण्डेप्वनुगमनं विहितमेष । हीनजातिएं वेवम् । ब्राह्मणस्य क्षत्रियानुगमन एकाहमाशौचम् । वैश्यानुगमने पक्षिणी । शूद्रानुगमने त्रिरात्रमाशीचं कृत्वा समुद्रगायां नो सात्वा प्राणायामशतं कृत्वा घृतं प्राश्य शुध्येत् । क्षत्रियस्य वैश्वानुगमने खेकाहमाशोचम् । शूद्रानुगमने पक्षिणी। वैश्यस्य शूद्रातुगमने त्वेकाहम् । रोदने चैवम् । असपिण्डस्य दहनादिकरणे पादकृच्छ्रो दशरात्रं त्रिरात्र वाऽऽशौचं च । अशक्तस्य मरणभये सति शद्धिः कार्या यथायोग्यप्रा. श्चित्तः शौचनानपूर्वकम् । रजस्वलायां ज्वरितायां चतुर्थेऽहन्यन्या स्त्री रजस्वला स्पृष्ट्वा सचैलाऽवगाह्याऽऽचम्य दशकृत्वो द्वादशकृत्वो बा स्पृशेदन्ते वाससा त्यागः। ततः सा रजस्वला शुद्धा।शक्त्या दानं कृत्वा पुण्याहेन विशेषतः शुद्धिः । आतुरे नालप्राप्तावनातुरो दशकृत्वो वाद- शकृत्वो वा स्नात्वा स्नात्वाऽऽचम्याऽऽचम्याऽऽतुरं स्पृशेत् । ततः स आतुरः शुध्येत् । सूतिकायां मृतायां कुम्भे जलमादाय तत्र पञ्चगव्यं क्षिप्त्वाऽऽपो. हिष्ठीयवामदेव्यादिपुण्याभिरिभरभिमन्य ब्राह्मणवचनैः प्रायश्चित्तं लब्ध्वा तेनैव नापयित्वां विधिना दहेत् । रजस्वलां मृतां प्रक्षाल्य पश्च- गव्यैः स्नापयित्वा वस्त्रान्तरावृतां विधिना दहेत् । अत्रापि ब्राह्मणवचनं कार्य पूर्वोक्तम् । यद्वा सूतिका रजस्वलां च मलं प्रक्षाल्य सापयित्वा * धनुश्चिद्वान्तर्गतग्रन्थो घ. पुस्तके विद्यते । १ घ. तिषु चोत्कृष्टजातिषु च प्रे° २ क. °नं समातीयज तिष। ३ ख. ग. नात्वसजातिषु चा। ख. ग. 'षु न त्वे । ५ ख कृच्छन्त्रिरात्राशौ । ६ ख. ग. वा वनान्तारितं कृत्वा वि। - ९० श्रीधराचार्यकृतः- काष्ठवद्दग्ध्वा ब्राह्मणवचनं लब्ध्वाऽस्थीनि विधिना दहेत् । अतीता- शौचं तु स्वाशौचकालादूचं ब्राह्मणादीनां सर्वेषां वर्णानामुपनयनादूर्व स्त्रीणां शूद्राणां विवाहादूर्ध्वं भवति । तच्च मासत्रये त्रिरात्रम् । घण्मासे पक्षिणी । नवमासे त्वेकाहम् । ततः परं सचैलं स्नात्वोदकदाना- च्छुद्धिः । इदं सर्ववर्णसमम् । अतीताशीचे स्वाशौचकालविभागादूर्व स्पृश्याः । जन्मन्यतिकान्ताशौचं सपिण्डानां नास्त्येव । पुत्रजन्मनि पितुः स्नानमस्त्येव । देशान्तरार्वाक्तनदेशे मृते स्वाशौचकालादूवं श्रुते तद्देशे विंशतियोजनादिकं त्रेधा विमज्याऽऽद्य स्वसमीपे भागे त्रिरात्रम् । ततो दूरमागे पक्षिणी ततोऽपि दूरभागे त्वेकाहः स्यात् । एवं देशकालो पर्यालोच्य यत्राल्पाशीचं तदेव ग्राह्यम् । नात्राहानि वर्धयेत् । देशान्त- रस्थे मृते स्वाशौचकालादूवं श्रुते सपिण्डानां सचैलं स्नानं न विरा- वादि । मातापितृमरणे दशाहादूर्ध्वं दूरदेशेऽपि वत्सरादूर्ध्वमपि पुत्रः श्रुत्वा मरणश्रवणदिनमारभ्य दशाहाशौचादिकं कुर्यादुदकपिण्डादिकं च । महागुरुमरणे दूरदेशेऽप्यावस्त्रोपवासिना तथैवाशाचादिकं कार्यम् । स्त्रीपुंसयोः परस्परं चैवम् । सवर्णोत्तमवर्णसपत्नीपु चैवम् । देशान्तरे कालान्तरे च हीनवर्णाया मातुः सपत्न्या मरणे तु पुत्रस्य निरात्रम् । हीनवर्णसपत्नीषु चैवम् । संवत्सरेऽतीतेऽपि सपन्योः पर- स्परं चैवम् । इदं चाशौचं सर्ववर्णसमम् । देशान्तरमनेकधा स्मृतं स्मृति- पुराणतीर्थकल्पेषु । आशौचकालमध्ये यत्र मृतवार्ता न श्रूयते योजना- दहिस्तद्देशान्तरम् । तत्र योजनद्वयाधिकप्रयाणस्य निपिद्धत्वाद्विधिवि- रोधेन विप्रस्य दशाहाशीचिनो विंशतियोजनर्देशान्तरम् । क्षत्रियस्य द्वादशाहाशौचिनश्चतुर्विंशतियोजनेः । वैश्यस्य पञ्चदशाहाशाचिनश्च त्रिंशद्योजनैः । शूद्रस्य मासाशौचिनः पठियोजनर्देशान्तरम् । तथा पष्ठियोजनमेकै त्रिंशद्योजनमपरं ( * चतुर्विशतियोजनमन्यविंशतियोज- नमपर )मेतानि योग्यतया व्यवस्थितानीति केचित् । देशकालसुगम. दुर्गमपर्यालोचनया सर्वेपामविशेषेण भवन्तीत्यन्ये । तथाऽन्यानि योज- * धनुचिहितग्रन्थः क. पुस्तके वर्तते । । १ क. घ. प्रमाण । २ घ. 'धिवशेन वि। ३ ख. विशेषेण वि। ४ ख. जने देशा' । ५ ख. जने । । ६ ख. °जने । शू। ७ ख. जने देशा ८ ख. ग. कं चत्वारिशद्योजनश्चतुश्चत्वारिंशद्यो- घनमन्यत् । त्रि। घ. मेक चत्वारिशद्योजनमन्यत्रिशद्यो ।

स्मृत्यर्थसारः। ९१ नादहिरेव । पट्चतुर्दियोजनानि त्रीणि देशान्तराणि स्मृतानि । तानि विरात्रपक्षिण्यकाहाशौचविषयाणि । तथा भाषाभेददेशविशेपमहागि- रिव्यवधानमहानदीव्यवधानानि वीणि देशान्तराणि । द्वादशाष्टचतु- योजनानि त्रीणि देशान्तराणि तानि समान्युक्तानि ।तानि विरात्रादि. विषयाण्यपि भवन्ति । तानि भाषाभेदादीनि त्रीणि पूर्वोक्तचतुर्विध- देशान्तरेषु सन्ति चेत्क्रमेण (द्वादशाष्टचतुर्योजनन्यूनानि देशान्त- राणि भवन्ति । तथा भाषाभेदमात्रगिरिव्यवधाननदीव्यवधानानि च त्रीणि देशान्तराणि स्मृतानि । यानि पचतुद्धियोजनसमानि तानि च विरात्रादिविपयाणि भवन्ति । तानि च भापाभेदादीनि पूर्वोक्तचतु- विधानि देशान्तरेषु सन्ति चेत्क्रमेण ) पट्चतुर्दियोजनाधिकन्यूनानि देशान्तराणि प्राहुः। तिर्यग्यबोदराण्यष्टावूर्वा वा बीहयस्त्रयः । प्रमाणमझुलस्योक्तं वितस्तिदशाङ्गुला । वितस्तिदिगुणाऽरत्निस्ततः किप्कुस्ततो धनुः । धनुःसहस्रे द्वे कोशश्चतुष्कोशं तु योजनम् ।। मातापितृगृहे व्यूढायाः प्रसवे मातापित्रादिकानामेकाहमाशीचम् । तत्र तस्या मरणे विरात्रम् । गृहान्तरमरणे पित्रोरेवम् । ग्रामान्तरमरणे पक्षिणी । असपिण्डे गृहे मृते त्रिरात्रम् । अन्याश्रितासु पतिपत्न्यादिषु विरात्रम् । सपिण्डानामेकाहम् । असंनिधौ पितुरेकाहम् । सपिण्डानां स्नानमित्याद्यधिकाशीचं संनिधावसंनिधी न्यूनम् । इदं च सर्ववर्ण- समम् । मातापितृमरणे सर्ववर्णेषु व्यूढपुत्रिकायास्त्रिरात्रम् । जाताशीचे मृताशौचे सादेकानां त्रिरात्रम्। मातामहगुर्वाचार्यदाहिवश्वशुरसंबन्धि. श्रोत्रियबहुयज्ञक्रतुकृदृत्विग्याज्येषु गुणिप्वेकग्रामे मृतेषु त्रिरात्रम् । ग्रामान्तरे पक्षिणी । अगणिप्वेकग्रामे पक्षिणी। ग्रामान्तर एकाहम् । अनौरसेपु पुत्रेषु क्षेत्रजदत्तकादिप्वेकाहम् । याज्यविग्दौहित्रसहाध्यायि- सहोपनीतात्मबन्धुपितृबन्धुमातृबन्धुषु च श्वशुरशिष्योपाध्यायानूचान- गुरुपुत्राचार्यपुत्रस्वामिमित्रभागिनेये पु श्वश्रूभगिनीमातामहीषु च मातृ- * धनश्चिह्नान्तर्गतग्रन्यो घ. पुस्तके नास्ति । १ ख. ग. °णि तानि स । २ ख. ग. 'तुढ़ियोज। ३ ख. ग. घ °म् । सपिण्डामामे. काहम् । अ।

९२ श्रीधराचार्यकृत:- ध्वसृपितृष्वसृमातुलानीगुर्वाचार्यपत्नीषु मरण एकग्रामे पक्षिण्याशौचम् । ग्रामान्तरे त्वेकाहम् । अगुणवत्स्वेकग्रामेऽप्येकाहम् । नामान्तरे स्नानम् । उपनयनादर्वाचीनसंस्कारपूर्वकं वेदाध्यापको गुरुमन्त्रज्ञानोपदेशकश्च । उपयनपूर्वकं वेदाध्यापक आचार्यः स्मार्तकृदाचार्यश्च । वेदाध्यापक उपाध्यायो वेदैकदेशाध्यापक श्च । अनूचानो वेदाङ्गवक्ता सच्छात्रवक्ता स। श्रोत्रिय एकशाखाध्यायी। आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ॥ पितुः पितृप्वसुः पुत्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ।। मातुर्मातृष्वसुः पुत्रा मातुः पितृष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥ सब्रह्मचारिणि त्रिरात्रम् । एकाचार्योपनीतः सब्रह्मचारी । स्वदेश राजमरणे तु दिनमरणे दिनान्तमाशीचम् । रावी मरणे राज्यन्तमा- शौचम् । ग्राममध्ये शवे स्थिते ग्रामस्य तावदाशौचम् । क्षत्रियादीनां भूर- क्षार्थमभिषिक्तानामाशीचं नास्ति । भूरक्षार्थमनन्यसाध्ये व्यापारेऽभिचा. रादौ पुरोहितादे शौचम् । स्वविहितेषु भूपादेरनधिकार एव । स्त्रीविप्रार्थ गवार्थं च सङ्ग्रामे च विद्युता च हतानां सपिण्डानां नाशौचम् । युद्धक्षतेन कालान्तरमरणे ग्रामेश्वरे कुलपती मृते चैकाहम् । भगिन्यां संस्कृतायां भ्रातरि संस्कृते मित्रे जामातरि दौहित्रे भागिनेये शालके तत्सुते चैते. बसवर्णेषु मरणे सद्यः मानेन शुद्धिः । स्वल्पसंबन्धे सानं सचैल- मित्यादि सर्ववर्णसमम् । स्ववर्णोत्तमवर्णाभ्यां नष्टभार्यामरणे भर्तुरेका- हमाशौचम् । जारस्य विरात्रम् । प्रतिलोमजानां कृतप्रायश्चित्तानामाशी- चादिकं कार्यमेव । अकृतप्रायश्चित्तानामाशीचं नास्त्येव । स्वैरिण्याद्या- श्रयस्य त्रिरात्रम् । संनिधौ पितुस्त्रिरात्रम् । जाताशौचमध्ये तत्समे ततो न्यूने वा जाताशीचे सति ततो न्यूने वा मृताशाचे सत्यपि पूर्वशेषेणैव शुद्धिः । जाताशौचमध्ये मृताशौचे तेन जाताशौचेन तत्सम न समाप्यते । मुताशौचेनैव तत्र शुद्धिर्न जाताशीचेन । मृताशौचमध्ये तु तत्समे ततो न्यूने वा जाताशौचे मृताशीचे वा सति पूर्वेणैव शुद्धिः। जन्ममरणनिमित्तस्वल्पकालाशौचमध्ये दीर्घकालाशौचे सति दीर्घकाला- १ ख. ग. स्ववंश रा।

स्मृत्यर्थसारः। शीचेनैव शुद्धिर्न स्वल्पकालाशोचेन।मातृमृताशौचमध्ये पितृमृताशाचे सति पित्राशौचेनैव शुद्धिर्नमात्राशीचेन । पितृमृताशौचमध्ये मातृमृ. ताशीचे सति पित्राशौचं समाप्याधिकं पक्षिण्याशीचं कुर्यान्न पित्रा. शाचेनैव शुद्धिः । मृताशौचे रात्रिमात्रावशिष्टे मृताशाचान्तरे सति पूर्वाशीचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । तस्या रात्रे- श्चतुर्थे यामे मृताशौचान्तरे सति पश्चात्रिरात्रेणेव शुद्धिर्न पूर्वशे- पणैव शुद्धिः । जाताशौचमध्ये मृताशीचे सति प्रेतमुद्दिश्य दह- नोदकपिण्डदानादिकं कार्यमेव । मृताशौचमध्ये जाताशीचे सति जात- कर्मादिकं कार्यमेव । मृताशाचे गते कार्यमित्येके । मृताशौचयोः संनि- पाते प्रेतकृत्यं कार्यमेव । जाताशौचयोः संनिपाते जातकर्मादिकं कार्य- मेव । तत्र कर्तुस्तात्कालिकी शुद्धिरस्त्येव । स्त्रीपुरुपमरण एकस्मिन्द- हनकाले प्राप्त सवर्णानां समानधर्माणां पल्या सह दहनं कृत्वो- इकपिण्डादिकं पतिपूर्वं पृथक्कार्यम् । सपिण्डनं तु पत्युः पश्चा- मरणे च पत्युः पूर्वं कृत्वा पल्याः सापिण्ड्यं कार्यम् । असवर्णानां समानधर्माणां पत्नीनां दहनादिकं सर्व पृथगेव कार्यम् । सवर्णानां समानधर्माणां पत्नीनां च सह दाहः । उदकपिण्डादिकं ज्येष्ठपूर्व पृथ- गेव । असवर्णानामसमानधर्माण सपत्नीनां दहनादिकं पृथगेव । अस- मानधर्मतायां स पृथगेव । पितृपुत्रयोः समानधर्मयोः कपालाग्निना दाह्ययोर्दाहः सहैव । उदकदानादिकं पितृपूर्व पृथगेव । भातॄणां सव- गांनां समानधर्माणां कपालाग्निना दाह्यानां सह दाहः । उदकादिक ज्येष्ठपूर्वं पृथगेव । असमानानां सर्वं पृथगेव । पुंबालानां भातॄणां श्रीबालानां दहने खनने चैवम् । अन्वारोहणं सर्वजातिस्त्रीणां पतिव- तानां प्रशस्तमात्मनो भर्तुश्च सर्वपापक्षयदं नरकोत्तारणमनेकस्वर्गफ- उदं स्वर्गान्त आयुरारोग्यैश्वर्यपुत्रादिसर्वसंपत्पदं दुःखदारिद्यवैधव्या- दिनाशकरमित्यादि पुराणस्मृतिषु श्रूयते। तत्रान्वारोहणं गर्भिण्या निषि- द्धम् । बाह्मण्या गर्भिण्या ब्रह्महत्यासमम् । क्षत्रियादिजातिगर्भिण्या: क्षत्रियादिजातिवधसमम् । सवर्णया पत्या सहकचित्यारोहणं कार्यम् । ब्राह्मण्यैकचित्यारोहणमेव न पृथक्चित्यारोहणं कार्यम् । क्षत्रिया- दिस्त्रिया मर्तरि देशान्तरमृते पृथक्चित्यारोहणमेव । असवर्णया पृथ. विचत्यारोहणं कार्यम् । तच्चान्वारोहणमेवं कार्यम् । अन्वारोहणं करि- यामीति संकल्प्य पतिं नमस्कृत्य चितिमारुह्य सर्वं प्रयोगं कारयेत् । पदा संकल्प्य प्रयोगे कृते दह्यमाने भर्तरि तं नत्वाऽमिं प्रविशेत् । चिति- ९४ श्रीधराचार्यकृतः- भ्रष्टा नारी मोहाद्विचलिता च प्राजापत्यं चरेत् । सह दहने तु श्राद्धादी पिण्डपाकैक्यं कालैक्यं कर्बेक्यं च भवति । सर्वत्र पिण्डदानं योग्यः पुत्रो दद्यात् । पुत्राभावे मिथो दंपती सपत्न्यश्च । तदभावे भ्रातृपुत्रो भ्राता स्नुपा दुहिता दीहितोऽन्यः सगोत्रः सपिण्डः सब्रह्मचार्यपि मित्रं शिष्यो गुरुर्बान्धवो धनसंबन्धी वा दद्यात् । न पुत्रस्य पिता दद्यान्नानुजस्य तथाऽग्रजः । अपि स्नेहवशादद्यात्सपिडीकरणं विना । अदत्तानां कन्यकानां तु पितरौ दत्तः । अन्याभावे दत्तकन्या- मपि पितरौ दत्तः । दौहित्रमातामही परस्परं दत्तः । माताम- ह्याश्च दौहित्रः । जामातृश्वशुरौ मिथः । श्वश्वादेः स्नुषा । भ्रातरौ मिथो दत्तः । गुरुशिप्यौ परस्परम् । उक्तकर्वभावे यः कश्चित् । कुर्वतः सर्वसंपत्याप्तिरिति विज्ञायते । एकादशाहादी पुत्रो ज्येष्ठादियोग्यः कुर्यात् । नवश्राद्धानि पोडशश्राद्धानि च विभक्तो वाऽविमक्तो वैक एव कुर्यात् । सपिण्डीकरणं तु विभक्ताः पुत्राः सधनाश्चैकस्मिन्नेव दिने स्ववृद्धिक्रमात्पृथक्पृथक्कुर्युर्नान्यथा । अत ऊर्ध्वं पृथगेव कुर्युः । शूद्रस्यामन्त्रकं सर्वत्र द्विजवत्कार्यम् । सर्वत्र गोत्राज्ञाने नाम्नैव कार्यम् ।ब्रीह्यादिपिण्डद्रव्याभावे फलेन मूलेन पयसा शाकेन गुडेन वा तिलमिश्रेण कार्यम् । दशाहान्तं कृष्णायसपाणिः स्यात् । अनाहिताग्निं यजमानं लौकिकाग्निना दहेत् । पल्याः पतिपरोक्षे कपालाग्नेरप्यनुज्ञाऽस्ति । दहनकालेऽग्निनाशे दग्धकाष्ठेऽग्निं मथित्वा दहेत् । लौकिकानी भूर्भुवःस्वाहेत्याज्याहुतीर्तुत्वा वा दहेत् । तदेह भह्यां जले वा क्षिपेत् । दशाहप्रेतपिडं दत्त्वाऽस्नात्वा भुक्तावसपिण्डस्य त्रिरात्रं सपिण्डस्योपवासः । मत्या द्विगुणं प्रेतकृत्यं कुर्वतः । संचयना- दस्त्रिीणां संगमे चान्द्रमूवं कार्यम् । अन्येषां प्रेताशौचिनां पूर्व विरात्रं पश्चादुपवासः । प्रेतकार्यमकृत्वा तव्यं हरंस्तवर्णवधप्राय- श्चित्तं कुर्यात् । देशान्तरमरणे पराकद्वयमष्टों कृच्छ्रान्कृत्वा दहेत् । दूरदेशान्तरगते जीवद्वाता पुनः पर्यालोच्य जीवद्वार्तायामश्रूयमाणायां पूर्ववयस्के विंशत्यब्दादूवं मध्यमवयस्के पश्चदशाब्दादूर्ध्वं चान्द्रायण- त्रयं त्रिंशत्कृच्छ्राणि वा कृत्वा पालाशवृन्तैः कुशैर्वा प्रतिकृतिं कृत्वा १ ख, ग, घ, द्विकामाश्चेत्पृ । २ ख. ग. महाजले वा ।

स्मृत्यर्थसारः। दाहाशौचादिकं पिण्डश्राद्धानि च कार्याणि । एवं कृते स पुनराग- तश्चेद्धृतकुण्डे निमज्ज्य तस्य जातकर्मादिसंस्कारं कृत्वा पूर्वपत्न्या विवाहः कार्य:। अथ श्राद्धक्रमः ---तत्राऽऽदी नवश्राद्धं प्रथमेऽह्नि तृतीये पश्चमे सप्तमें नवम एकादशेऽह्नि विहितम् । तत्र प्रथममेकादशेऽति उत्कृप्यत न वा। उत्कर्षपक्षे तृतीयाहादिषु पश्चाहर्गणसंज्ञं नवश्राद्धं भवति । अनुत्कर्प- पक्षे चैकादशाहिकस्य विकल्पितत्वात् प्रथमादिपु पश्चाहर्गणसंज्ञं भवति । यद्वा प्रथमाहे तृतीये पञ्चमे सप्तमाहे चवं व्यहर्गणसंज्ञकं नवश्राद्धं कार्यम् । यद्वा तृतीयेऽह्नि पञ्चसप्तमयोरेकस्मिन्नवमेऽह्नि वेत्येवं ज्यहर्गणमेवं कार्यम् । अहर्युग्मत्वं न कार्यम् । एतन्नवश्राद्धमेकादशेऽह्नि वा कार्यम् । तथा पोडशश्राद्धानि नवमिश्रसंज्ञानि कार्याणि । तानि प्रतिमासं मृताह आसंवत्सरं विहितानि द्वादश द्वादशाहे त्रिपक्षे न्यून- पण्मासे न्यूनाब्दे चत्वारि । एवं पोडश । तत्राऽऽद्यमेकादशेऽह्नि उत्कृष्य विधीयते । तत्र क्रमः-एकादशाहे द्वादशाहे द्वितीयमासे त्रिपक्षे तृतीये चतुर्थे पञ्चमे पष्ठे मासे न्यूनपष्ठे सप्तमेऽष्टमे नवमे दशम एकादशे द्वादशे मासे न्यूनाब्दे चेति । ततोऽपरेयुः संवत्सरान्ते सपिण्डीकरणम् । ततः परेद्युद्धितीयसंवत्सरादावाब्दिकम् । तृतीयसंवत्सरादौ प्रत्याब्दिक- मिति क्रमः। यद्वा पिण्डपितृयज्ञपार्वणश्राद्धार्थमग्निमान्दशाहादूर्व द्वाद- शाहे त्रिपक्षे वा वृद्धिश्राद्ध उपस्थिते वाऽऽयुप्यस्यानियतत्वाचार्वाक्सं. वत्सरात्सपिण्डीकरणं कुर्यात् । तच्च पोडशैकोद्दिष्टानि कृत्वैव कार्यम् । तत्रैकादशेऽह्नि चत्वारि श्राद्धानि संभवन्ति । नवश्राद्धाचं नवश्राद्धा- न्त्यमाद्यमासिकं स्वतन्त्रकोद्दिष्टं चेति । स्वतन्त्रकोद्दिष्टे क्रियमाणेऽन्येपां तन्त्रानुष्ठानात्सिद्धिरिच्छतामस्ति अत आद्यकोद्दिष्टं नवमु मिश्रमित्यु- च्यते । नवश्राद्धधर्मकं नवमिश्रधर्मकमुभयदोषकं भवति । ततोऽवशिष्टं नवश्राद्धं ततोऽवशिष्टं मासिकं च । पृथगनुष्ठानपक्षे चाऽऽदी स्वतन्त्रकोद्दिष्टं कार्यम् । तच्चोभयदोपमेव । ततो नवश्राद्धं ततो मासिकमेकादशेऽहन्येका- दशबाह्मणभोजनं प्रतोद्देशेनैकादशरुद्रोद्देशेन वा। एकादशरुद्रोद्देशाबुद्र- गणमित्याहुः।वृपोत्सर्गश्च प्रशस्यते । द्वादशाहस्थाने न्यूनमासिकं क्षात्रा- १ ख. ग. न वा। यद्वा प्रथमाहे नवमे आ । २ ख. ग. तृतीयपञ्चमस ताहेष्वेकस्मिन्नव. माहे च । एवमर्ग° । ३ ख. ग श्राद्धमन्य।

१६ श्रीधराचार्यकृतः- दिषु भवति । संघयने कृते मनुष्यलोकात्प्रेतलोकं गच्छत आमेन पाथेयश्रा. द्धमेकोद्दिष्टविधिना कार्यम् । सपिण्डीकरणे कृते प्रेतलोकात्पितृलोकं गच्छत आमेन पाथेयश्राद्धं पार्वणविधिना कार्यम् । ततः पुण्याहवाचन कार्यम् । संवत्सरादर्वाक्सपिण्डीकरणेऽनुमासिकानि पृथक्कुर्यादेको- द्दिष्टवत्पार्वणवद्वा मृताहश्राद्धवत् । अनुमासिकान्ते संवत्सरविमोकान्त श्राद्धं पुण्याहवाचनं च कार्यमिति क्रमः । अथ संन्यासविधिः- संन्यासस्य विधिं कृत्स्नं प्रवक्ष्याभ्यनुपूर्वशः । गोविन्दराजस्य मतं बौधायनमतं यथा ॥ एकोद्दिष्टविधानेन कुर्याच्छ्राद्धानि षोडश । अग्निमान्पार्वणेनैव विधिना निर्वपेत्स्वयम् ॥ कृच्छ्रांस्तु चतुरः कृत्वा पावनार्थमनाश्रमी। आश्रमी चेत्तप्तकृच्छं तेनासौ योग्यतां व्रजेत् ।। दैविकं चाऽऽपिकं दिव्यं पित्र्यं मातृकमानुषे । भौतिकं चाऽऽत्मनश्चान्ते त्वष्टौ श्राद्धानि निर्वपेत् ॥ केशश्गश्रुलोमनखं वापयित्वोपकल्पयेत् । यष्टिं जलपवित्रं तु शिक्यं पात्रं कमण्डलुम् ॥ अनग्निमान्द्विजः कुर्यान्नित्येन विधिना ततः । स्वानावेवाग्निमान्कुर्यादपवर्गान्तमादृतः ॥ ग्रामान्ते ग्रामसीमान्ते अग्न्यगारे सुरालये । आज्यं पयो दधीत्येतत्रिवृत्पाश्योपवेशयेत् ॥ अमावेऽअपो वा । ॐ भूः सावित्री प्रविशामि ॐ तत्सवितुर्व- रेण्यं ॐ भुवः सावित्री प्रविशामि ॐ भर्गो देवस्य धीमहि ॐ स्वः सावित्रीं प्रविशामि ॐ धियो यो नः प्रचोदयात् । इति पच्छोऽर्धर्चशः समस्त या धा । ॐ भूर्भुवः स्वः सावित्रीं प्रविशामि ॐ तत्सवितुर्व- रेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । इत्यात्मानमा- मनाऽऽश्रमादाश्रममनुनीय ब्रह्मीभूतो भवतीति विज्ञायते । तत्तथाऽग्नि- मुपसमाधाय समित्पूर्वाम् ॐ स्वाहेति पूर्णाहुतिं जुहुयात् । तेन ब्रह्मा- न्वाधानमिति विज्ञायते । अनाहिताग्नेरिष्टिस्थाने वैश्वानरश्चरुः। १ : १ ख. ग. घ. अनमिरमिमुपाद्य नि° । २ क. °मस्ता वा । ३ ख. ग. घ. ब्रह्मभु। ग. धायान्वाधाय स।

स्मृत्यर्थसारः। ९७ अनग्नेश्चाग्निवर्ज तु ब्रह्मचारिण इप्यते । तथाऽग्रीन्समारोप्य गुरवे सर्वस्वं दत्त्वा ॐ भूर्भुवः स्वः संन्यस्तं मया, इति त्रिरुपांशु त्रिरुञ्चस्त्रिंशत्या हि देवा इति विज्ञायते । तथा च कात्यायन:- पञ्चायुधधरं सौम्यं सर्वाभरणभूषितम् । ध्यात्वा हृदि त्वनुज्ञातो गुरुणा प्रैपमीरयेत् ॥ ततोऽमन्त इति वाऽपां पूर्णमञ्जलिं निनयति । सखे मां गोपायेति दण्डं गृह्णाति । पंदस्य पारे रजस इति शिक्यम् । येन देवाः पवित्रे- णेति जलपवित्रम् । सावित्र्या कमण्डलुम् । सर्वाभिर्व्याहृतिभिर्ब्रह्मभा- जनम् । तत उदुत्यं चित्रं तच्चक्षुहंसः शुचिपन्नमो मित्रस्येति । नमः सवित्रे जगदेकचक्षुये जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरश्चिनारायणशंकरात्मने ।। इत्यादित्यमुपतिष्ठेत । तथा च व्यास:- कटिप्रक्षालनं कृत्वा प्रणवेन मृदा बहिः । ततः स्नानं प्रकुर्वीत मन्त्रवत्तु जलाशये ॥ तिसृप्वपि च संध्यास्वञ्जलीन्प्रदाय, ॐ भूस्तर्पयामि । ॐ भुव- स्तर्पयामि । ॐ स्वस्तर्पयामि । ॐ भूर्भुवःस्वस्तर्पयामि । इति तर्पणं कुर्यात् । अथोदित भानी ॐ भूर्भुवःस्वरित्यञ्जलिं प्रदाय उदुत्यं चित्रं तच्चक्षुहँसः शुचिपदिदं विष्णुर्विचक्रमे त्रेधा त्रिदिवो ब्रह्मजज्ञानमित्या- दित्यमुपतिष्ठते। सर्वभूतेभ्यो नम इत्यात्मानं प्रदक्षिणीकृत्य नमस्कुर्यात् । ॐ आदित्याय विद्महे सहस्राक्षाय धीमहि । तन्नः सूर्यः प्रचोदयात् । इति विर्जपत्रिकालम् । अथ भिक्षिष्यन्नुद्वयं तमसस्परीति चतसृभिरादि. त्यमुपस्थाय मौनी भूत्वा पञ्चागारं सप्तागारं वा प्रविशेत् । ततः पूर्णमसि पूर्णं मे भूयादिति जपित्वा पुनरावर्तते । शुची देशे शुचिर्भूत्वा चतुर: पिण्डान्निर्वपेत् । ॐभःस्वधा नमः । ॐ भुवःस्वधा नमः। ॐस्वःस्वधा नमः। इति सार्वभौतिकं चतुर्थम् । शेष भुक्त्वा प्राणायामान्पडाचरेत् । ब्रह्मभूयाय कल्पते । ब्रह्मभूयाय कल्पत इत्याह भगवान्बौधायनः । इति स्मृत्यर्थसारे संन्यासविधिः । १ ख. ग. °तो मत्त इ । घ. तो मात्र इ० । २ ख. घ. यदस्य । ग. त्वमस्य ३ ख. ग. घ. सप्तन्याह । ४ ख. °ह्मविज्ञा। १३ ९८ श्रीधराचार्यकृतः- अथ परित्राजकस्य संस्कारविधिः--ग्रामात्याचीमुदीची वा गत्वा ब्रह्मवृक्ष- स्याधस्तान्नदीतीरे वा शुचौ देशे वा दण्डप्रमाणं देवयजनं व्याहृ- तिभिः खात्वा त्रिसप्तव्याहृतिभिः प्रोक्ष्य दर्भान्संस्तीर्यालंकृत्य शवं निदधाति । श्वभ्रे विष्णो हव्यं रक्षस्वेति । इदं विष्णुर्विचक्रम इति दक्षि- णहस्ते दण्डं निदधाति । यदस्य पारे रजस इति सव्यहस्ते शिक्यम् । येन देवाः पवित्रेणेति मुखे जलपवित्रम् । सावित्र्या उदरे ब्रह्मभाजनम् । भूमिभूम्नेति गुह्ये कमण्डलुम् । चित्तिः मुगिति दशहोत्रिभिरनुमन्त्रयते। नात्र शेपसंस्काराः पूर्वमनुष्ठितत्वात् । सर्वसंगनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नाशीचं नोदकक्रिया ॥ अथ संन्यासिनां दहनविधिः- भूमिभागे खाते- संनिकृष्टस्तु संन्यस्ते पितर्युपरते सुतः । दहनं तस्य कर्तव्यं यच्चान्यच्छेपसंज्ञितम् ॥ तस्य समीपेऽग्निं प्रज्वाल्य यतेर्दक्षिणहस्ते उपावरोहत्यवरोह्य तस्याग्निं पुत्राः पितृविधानतः, अग्निहोत्रविधानेन सावित्र्या प्रणवेन वा दहेत् । यतीन्दहन्स्पृशन्वाऽपि जलावगाहनादेव सद्यः शुध्येत् । प्राप्नोत्यश्व. मेधफलम्। अहन्येकादशे प्राप्ते पार्वणं तु विधीयते । एकोद्दिष्टं न कुर्वीत त्रिदण्डानां कदाचन ॥ सपिण्डीकरणं तेषां न कर्तव्यं सुतेन तु । त्रिदण्डधारणात्पत्यं नष्टमाहोशना मुनिः ॥ कुटीचरं संप्रदहेत्पूरयेच्च बहूदकम् । हंसो जले विनिक्षेप्यः परहंसं प्रपूरयेत् ॥ इत्याह भगवान्बौधायनः । इति स्मृत्यर्थसारेऽशौचप्रकरणम् । कामधेनी प्रदीप्तेऽब्धा कल्पवृक्षलतादिषु । शंभुद्रविडकेदारलोलटाद्यैश्च भापितम् ॥ १ ख. भूभूमिमात्मनेति । ग. भृमिर्मगान्मातेति । घ. भूमिभूमिमगान्मातेति । २ ख. ग. वरुह्य।

स्मृत्यर्थसारः। मन्वत्रियाज्ञवल्क्यादिव्याख्यातृप्रतिपादितम् । स्मृत्यर्थसारं वक्ष्यामि सुखानुष्ठानसिद्धये ॥ अथ प्रायश्चित्तान्युच्यन्ते-तत्र पापानामचीर्णप्रायश्चित्तानां नरकभो- गान्ते कर्मविपाका उच्यन्ते । अज्ञानाद्ब्रह्महा क्रमात्सृगालश्वसूकरोष्ट्राणां योनिं याति । सुरापः खरपुल्कसवेनानां नागपक्षिचाण्डालपुल्कसानां योनि सुवर्णस्तेयी विवाह कृमिकीटपतङ्गत्वम् । गुरुतल्पगस्तृणगुल्म- लतात्वं क्रमाद्याति । ज्ञानाद्ब्रह्महा श्वसूकरखरोष्ट्रगोजाविमृगपक्षिच- ण्डालपुल्कसानां योनि याति । सुरापो विक्रिमिपतङ्गपक्षिहिंस्रसत्त्वा. नाम् । सुवर्णस्तेयी ऊर्णनाभिकृकलासतिरश्चामम्बुचारिणां हिंस्राणां पिशाचानां च सहस्रशो योनि याति । गुरुतल्पगस्तृणगुल्मलतानां क्रव्यादानां क्रूरकर्मणां च शतशो योनि याति । तत्संसर्गी च तद्वत् । ततो मनुष्यजन्मनि ब्रह्महा क्षयरोगी । सुरापो निजकृष्णदन्तः । सुवर्ण- स्तेयी कुनखी। गुरुतल्पगः कुष्ठी । तत्संयोगी च तद्वत् । परस्त्रियं द्रव्यं च हृत्वाऽरण्ये निर्जले देशे ब्रह्मराक्षसः स्यात् । अनध्यायेऽध्यायी सृगालो बहुप्रतिग्राही च । अन्नं रत्नं वा हृत्वाऽजीर्णव्याधिरत्यन्तदरिद्रो वा । ज्ञानवेदवाचकपुस्तकहारी मूकः । पत्रशाकं मयूरः । रत्नानि हेमकारी पक्ष्यत्यन्तदरिद्रो था । न्यासमनपत्यो दरिदो वा । शुभगन्धा- छुछुन्दरी । छुछुन्दरी राजमूपिका । धान्यं मूषकः । तैलं तैलपायी पक्षी । परस्वं हृत्वा नानातिर्यग्जातिः स्यात् । हुतं हविरश्नञ्छाऽति- दुःखी च । यानं हरन्नुष्टः । फलं कपिः । जलं जलप्लवः पतङ्गो वा पक्षी मत्स्यो वा । क्षीरं काको बको वा । गृहोपस्करं गृहहारी कीटः । मधु हरन्दंशः कीटः । मांसं गृध्रः । गां गांधा सो वा । अग्निं बकः । वस्त्रं कुष्ठी पतङ्गो वा । रसांश्च लवणचारी कीटः । तेजसं मण्डली । गोदेव- ब्राह्मणस्वं पाण्डुरोगी । न्यासं काणोऽनपत्यो वा। शय्यां क्षपणकः । शङ्ख शुक्तिं हरकपाली। दीपं कौशिकः । स्नेहं क्षयी। परस्वं परप्रेष्यः । यद्यदपहरन्ति तत्तप्रकाराः प्राणिनो जायन्ते तत्साध्यविकला वा। ब्राह्मणी गच्छन्निर्बीजः । मातरं सुषां वा गच्छन्वांतवृषणः । चण्डाली १ ख ग. पापिना । २ ख. ग. 'न्ते थे ये क°। ३ ख. ग. °काः स्युस्त उ° । ४ ख, ग. हा मृगव । ५ ख. ग. ज्ञानं देवं पुस्तकं वाचं च मृकः । ६ ख. ग. या कीटः । ७ ख. ग. 'हकारी । ८ ख. ग. कपिः । ९ ख. ग. वाऽजातवृ ।

१०० श्रीधराचार्यकृतः- पुल्कसीं वाऽजगरः । प्रबजितां नरः पिशाचः । शूद्रीं दीर्घकीटः सवर्णां दरिद्रः। राजस्त्रियं नपुंसकः । गां गच्छन्मण्डूकः । धान्यमिश्र. कोऽतिरिक्ताङ्गः । पिशुनो दुर्गन्धि(न्ध)नासिकः । सूचको दुर्गन्धास्यः। देवब्राह्मणक्रोशकः स्खलद्वाक् । गरदाग्निदावुन्मत्तौ । गुरुप्रतिकूलोऽप- स्मारी । गोनश्चान्धः । धर्मपत्नीमुत्सृज्यान्यत्र प्रवृत्तः शब्दवेधी प्राणी गुल्मी वा । मधुकुण्डाशी मधुभक्ष्यः । स्त्रीपण्यजीवी पण्डः । कौमार- दारत्यागी दुर्भगः । मृष्टकाशी वानरो वातगुल्मी वा । अभक्ष्य- भक्षको गण्डमाली । क्रूरकर्मा वामनः । मित्रध्रुक्क्षयी । माता- पित्रोराकोशी पण्डाकारः । अन्तवाक्संचलितवाक । कूटसाक्ष्यु. च्छिन्नजङ्घाचरणः । विवाहविघ्नकर्ता छिन्नोष्ठः । अवगोरणे छिन्न- हस्तः । चतुप्पथे विण्मूत्रविसर्गे मूत्रकृच्छी । कन्यादूषकः घण्ढः । ईर्ष्यालुमशकः । पित्रा विवदमानोऽपस्मारी । विद्याविक्रयी पुरुषमृगः । वेदविक्रयी द्वीपी । बहुयाँचको जलप्लवः । अयाज्ययाजको वराहः । अनिमन्त्रितभोजी वायसः । यतस्ततोऽश्नन्मार्जारः । कक्षवनदाही खद्योतः । अदत्तादायी बलीवर्दः । दारकाचार्यो मुखविगन्धः । पर्युषि- ताशी कृमि: । मत्सरी भ्रमरः । अग्न्युत्सादी मण्डलकुष्ठी । शूद्राचार्य: श्वपाकः । वाधुपिकोऽङ्गहीनः । अविक्रयविक्रयी गृध्रः । राजाक्रो- शको गर्दभः । अनध्यायेऽध्यायी शृगालः । मत्स्यवधे गर्भवासी। इत्यादीन्यनूर्ध्वगसमानि स्त्रियोऽप्येतेषु निमित्तेपु तजातिषु स्त्रियो जायन्ते । इदानींतनपापिनां प्रायश्चित्तोन्मुखत्वार्थं पूर्वजन्मकर्मविपाका दर्शिताः। अथ महापातकिनः—ब्रह्महा सुरापो ब्राह्मणसुवर्णस्तेयी गुरुतल्पग एते महापातकिनः । अब्दं तत्संसर्गी पञ्चमश्च तद्वत्साक्षात्कर्तुरनुग्राहक आज्ञापयितोपदेष्टा च । आज्ञापयिताऽभ्यर्थयिता । उपदेष्टा प्रयोज- यिता स्वार्थ परार्थं च । ( * आक्रुष्टस्ताडितो वाऽपि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणान्ब्रह्महा स निगद्यते ॥) * धनुश्चिह्नान्तर्गतश्लोकः क. पुस्तके वर्तते । १ ग, न्यश्रमिको। २ ख. ग. वा । कुण्दाशी भगभक्ष्यः । ३ ख. ग. क् स्खलद्वाक् । ४ ख. ग. प्याजको । ५ ख. ग. एवं तत्तत्पापि । ६ ख. ग. यिताऽभ्यर्थयितोप ।

स्मृत्यर्थसारः। १०१ अनुमन्ता सनिमित्तं मर्त्सनताडनार्थहरणादिना कोपं जनयन्निमित्त- कर्ता । तत्कर्तृषु साक्षात्कर्तुरनुग्राहकस्याल्पदोषः । तस्मात्प्रयोजकस्य । तस्माञ्चोपदेष्टुः । तस्मात्प्रयोजकानुमन्तुः । तस्मानिमित्तकर्तुरल्पदोषः प्रायश्चित्तं च तद्वत् । अथानुपातकानि-तत्र ब्रह्महत्यासमानि यागस्थनृपवैश्ययोर्वधः । शरणा- गतस्य च । रजस्वलाया गर्भिण्याश्चोनत्रिगोत्रायाश्चाविज्ञातगर्भस्य सुहृन्मात्रस्य च वधः । गुरुविप्रविषयेऽज्ञानान्मिथ्याभिशंसनं क्रोधो. त्पादनम् । अधिक्षेपोऽसकृन्मिथ्यानिर्बन्धश्च । राजगामि पशुन्यम् । गुरौ महाद्वेपः । नास्तिक्याद्वेदनिन्दोऽशास्त्राभ्यासाद्वेदनाशश्च । अथ सुरापानसमानि --लशुनविड्वराहच्छत्राकग्रामकुक्कुटपलाण्डुगञ्ज. नादीनां मत्या भक्षणम् । गुरुविषये मिथ्याभिशंसनेनान्यथावादित्वम- न्यथाकर्तृत्वं च । जैहम्यं कौटिल्यं च तद्वत् । आत्मोत्कथं राजकुला- दावनृतोक्तिरुदक्यावक्त्रास्वादो मित्रवधः कूटसाक्ष्यम् । वेदत्यागो वेद- निन्दा । तयोरन्नस्य भुक्तिः । अथ सुवर्णस्तेयसमानि-ब्राह्मणसंबन्ध्यश्वरत्नमनुष्यस्त्रीभूधेनुहरणम् । निक्षेपस्य चार्वाक्सुवर्णमानात् । अथ गुरुतल्यगसमानि-स्नुपाभगिनीचण्डालीसखिभार्यात्तमजातिकन्यासु रेतःसेकः । तथा पितृष्वसारं मातृवसारं मातुलानी मातुः सपत्नी स्नुपाभगिन्यो सकामे आचार्यपत्नी तनयां स्वसृपितृव्यमातामहमातुल- श्रोत्रियत्विग्गुरूपाध्यायशिष्यस्त्रियमुत्तमामुदक्यां निक्षिप्तां प्रबजितां व्रतस्थामुत्तमा बाह्मणी सगोत्रां शरणागतां मातुः सखी राजपत्नी स्तन्यधात्रीमन्यमातरं मातृप्वसुः सखीं मातुलानीसखीं गच्छन्गुरुतल्प. गवत्सद्यः पतति । तथा पितृमातृयोनिसंबन्धां गच्छन् । स्तेनना- स्तिकानिन्दितकर्मत्यागिनिन्दितकर्मात्यागिपतितात्याग्यपतितत्यागिनः पतिताः पातकसंयोजकाश्चेत्यनुपातकानि । अथोपपातकानि- तत्र याज्ञयल्क्य:- गोवधो व्रात्यता स्तेयमृणानां चानपक्रिया। अनाहिताग्निता पण्यविक्रयः परिवेदनम् ।। - १ क. श्वात्रि । २ ख. ग. °रुविषयेऽज्ञाता ज्ञातमि । ३ ख. ग. °न्दाकुशास्त्रीयस्वातन्त्रया. वेदनाशश्च । ४ ख. ग. तितपाकसंयो।

१०२ श्रीधराचार्यकृतः- भृताध्ययनादानं भृतकाध्यापनं तथा। पारदार्य पारिवित्त्यं वाधुष्यं लवणक्रिया ॥ स्त्रीशूद्रविक्षत्रवधा निन्दितार्थापजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः ।। कन्यासंदूपणं चैवं कौटिल्यं व्रतलोपनम् । आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ॥ स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च । इन्धनार्थं दुमच्छेदः स्त्रीहिंसौपधिजीवनम् ॥ हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः । शूद्रप्रैष्यं हीनसख्यं हीनयोनिनिषेवणम् ।। तथैवानाश्रमे वासः परान्नपरिपुष्टता। असच्छास्त्राभिगमनमाकरेप्वधिकारिता ।। भार्याया विक्रयश्चैषामेकैकमुपपातकम् । गोवधो गोपिण्डव्यापादनम् । कालेऽनुपनीतत्वं ब्रात्यता । ब्राह्मण- सुवर्णं तत्समार्वाक्परस्वहारणं स्तेयम् । गृहीतस्य सुवर्णादेरप्रदानमृ- णानपाकरणं देवर्षिपितृणामृणानपाकरणं च । सत्यप्यधिकारेऽनाहिता- मित्वम् । अपण्यस्य लवणादेविक्रयः । सोदरे ज्येष्ठे भ्रातरि स्थिते कनि- ठस्य दाराग्रिहोत्रग्रहणं परिवेदनम् । पणपूर्वाध्ययनं भृताध्ययनम् । गुरुतल्पव्यतिरिक्ततत्समस्त्रीगमनं पारदार्यम् । कनिष्ठस्य विवाहे ज्येष्ठ- स्य विवाहराहित्यं पारिवित्त्यम् । निषिद्धवृद्धयुपजीवित्वं वाधुष्यम् । लवणस्योत्पादनं लवणक्रिया। अनात्रेच्या अगर्भिण्या अपि स्त्रिया वधः। शूद्रवधः । अदीक्षितक्षत्रियवधो वैश्यवधश्च । अराजस्थापितार्थोपजी- वनम् । परलोकाभावबुद्धिर्नास्तिक्यम् । ब्रह्मचारिणः स्त्रीसंयोगो व्रत. लोपे देवताराधनार्थं गृहीतवतलोपश्च । अपत्यानां विक्रयो दासीभाँ- वार्थं तडागारामोपवनादेश्च विक्रयो द्रव्यग्रहणेन ब्रीह्यादिद्रव्याणामाह- रणं स्तेयमसारत्रपुसीसादिकुप्यस्य च । गवादेः पशोश्च । जातिदुष्टशूद्रा- १ ख. ग. °व परिविन्दकयाजनम् । कन्याप्रदानं तस्यैव कौ । २ ख. ग. °ल्पतत्समव्यति- रिकप । ३ क. घ. आत्रेय्या। ४ ख. ग. भावार्थमात्मनोभायाश्च त° ।

स्मृत्यर्थसारः। १०३ दीनां याजनं कर्मदुष्टवात्यादीनां च याजनम् । भोजनं चोभयत्र । अप- तितपितृमातृसुतानां गृहनिर्गमस्त्यागः । अगुल्यादिना योनिविदारणं कन्यादूषणम् । परिवेदकयाजनं तस्मै कन्याप्रदानं च । अगुरौ कौटि- ल्यम् । आत्मार्थं पाकादिक्रियारम्भो मद्यपायाः स्त्रियाश्चोपभोगः । कुटुम्बरक्षणार्थमसच्छास्त्राधिगमार्थं चाधीतस्वाध्यायत्यागः । श्रीतस्मा मीनां च संस्काराधकरणेन सुतस्य च शक्ती बान्धवानां च त्यागः। पाकादिष्टकार्यार्थमाईमाणां च च्छेदः । भायाँ पण्यभावेन प्रयोज्य तल्लुब्धोपजीवनं स्त्रीजीवनं स्त्रीधनोपजीवनं वा । प्राणिवधेन जीवनम् । यश्याद्यर्थीपधिजीवनम् । तिलेश्वादिपिण्डार्धं हिंस्रयन्त्रप्रवर्तनं महायन्त्र- प्रवर्तनं वा । व्यसनानि मृगयादीन्यष्टादश । आत्मविक्रय आत्मनो भार्यायाश्च विक्रयः । शूद्वपैयं शद्रसेवा । हीनेषु मैत्रं हीनसख्यम् । अकृतसवर्णविवाहेश्च हीनवर्णविवाहो हीनयोनिनिषेवणं साधारणस्त्री- संभोगश्च । अगृहीताश्रमित्वमनाश्रमित्वम् । परपाकरतित्वं परान्नपुष्टता। चार्वाकादिग्रन्थाभ्यासोऽसच्छास्त्राधिगमः । सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाऽधिकारित्वमाकरेप्वधिकारित्वमभिचारश्च । लशुनादेर्मत्या भक्षणमित्यादीन्युपपातकानि । अथ जातिभ्रंशकरसंज्ञकानि..... ब्राह्मणस्य रुजः कृत्यं घ्रातिर यमद्ययोः । जहम्यं पुंसि च मैथुन्यं जातिभ्रंशकरं हि तत् ॥ अथ संकरीकरणानि-खरोष्ट्रमृगहस्त्यजाविमीनाहिमहिषाणामन्येषां ग्राम्यारण्यानां पशूनां वधः । अथापात्रीकरणानि-निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । कुसीदजीवनमसत्यभाषणं च । अथ मलिनीकरणानि-बहुकृमिकीटजलस्थजलजवयोहत्या । मद्यानुग. तभोजनम् । बहुफलेन्धनपुष्पस्तेयमधैर्यं च । अतोऽन्यानि पापानि प्रकीर्णसंज्ञानि। अथ महापातकप्रायश्चित्तम्-अज्ञानाद्वाह्मणं हत्वा वालवल्कलचीरादि- वासा जटी वापितो वा स्वेन हतब्राह्मणस्य शिरःकपालं चिह्नार्थं तद- मावेऽन्यस्य वा तदन्यदेव शिरकपालं ध्वजदण्डौ धारयन्वन्यैरन्नायै- रेकवारं पात्रमात्रादिषु मिताशी संयतात्मा त्रिकालस्नायी संध्या- १ ख. ग, ङ, हस्य ही । २ ख. ग. घ. न्यस्यानाथब्राह्मणस्य वा त १०४ श्रीधराचार्यकृतः- मुपासनं च विधिवन्मन्त्रपूर्वं च कुर्वन्नध्ययनाध्यापनव्याख्याप्रवच- नयाजनदानप्रतिग्रहादि वर्जयन्ब्रह्मचारी स्त्रीमधुमांसगन्धमाल्यादि- दिवानिद्राञ्जनाभ्यञ्जनोपानच्छत्रकामक्रोधलोभमोहहर्षशोकविषादादि नृत्यगीतपरिवादादि वर्जयन्सर्वभूतहित आर्यभुवं यथोपक्रमस्थाना- सनाभ्यां विहरंस्तीर्थान्यनुवसन्वने वा पुण्याश्रमे वा कुटीं कृत्वा निवसन्यामान्ते गोबजे वा वृक्षमूले वा द्वादशाब्दमेवं व्रतं चरित्वा शुद्धः । यदि वन्यैर्न जीवति तदा भिक्षार्थं ग्राम प्रविशेत् । तत्र लोहि- तकेन मृन्मयखण्डेन शरावेण वा गृहद्वारि स्थित्वा ब्रह्महाऽस्मीति स्वपापं प्रख्याप्य सप्तागाराणि मृष्टामृष्टाविवेकेन चातुर्वण्यं वा भक्ष्यं याचयित्वैककालमेव मिताशी द्वादशाब्दं व्रतं चरित्वा शुद्धः । यद्वा द्वादशाब्दं नियतः प्राजापत्यं कृच्छ्रे निरन्तरमावर्त्य पट्यधिकं त्रिशतं चरित्वा शुध्यति । द्वितीये ब्रह्मवधे द्विगुणम् । तृतीये त्रिगुणम् । चतुर्थे न निष्कृतिः । यद्वा चतुर्थादिपु प्रतिपापेषु गोसहस्रम् । निर्ध- नोऽग्निं प्रविशेत् । यद्वा पूर्वोक्तं भिक्षाचर्याकृच्छाचरणादि व्रतं याव- न्मरणं कुर्यात्तेन शुध्यति । ( * तत्र बुद्धिपूर्वं साक्षादकर्तुर्बुद्धिपूर्वकम- नुग्राहकप्रयोजकानुमन्तृनिमित्तकर्तृप्रोत्साहकादीनां ब्रह्महत्यासमानम- र्धमधं तस्याप्यर्धमित्यायूह्यम् । यद्वा बुद्धिपूर्वमबुद्धिपूर्वं वा साक्षा- कर्तुरनुग्राहकः पादोनं चरित्वा शुध्यति । प्रयोजकस्य तदर्धमनु- मन्ता सार्धं पादं चरत् । निमित्तकर्तुः पादम् । प्रोत्साहकादीनां तार- तम्यविभागात्कल्प्यम् । यदि निनिमित्तं भर्सको गुणवान्भस्यों निर्गुणो मृतस्तदा त्वेकाब्दं व्रतं चरेत् । तदाऽपि मुख्यकर्तृणां ये त्वनुग्राहकाद- यस्तेषां तारतम्यात्कल्प्यम् । तथा दण्डोऽपि प्रोत्साहकाश्रयदानुमोदका- दीनां यथायोगं कल्प्यः । ऊनपोडशाब्दबालानामशीत्यधिकवृद्धानां च स्त्रीणां रोगिणां च सर्वप्रायश्चित्तम् । यद्वा द्वादशाब्दादुर्वागशीते- रूध्वं तु पादमेव । ऊनकादशाब्दान्तानां पुंसामर्धम् । स्त्रीणां पादमा- त्रमेव । अनुपनीतानां बालानां तु पादमेव प्रायश्चित्तं पिता भ्राता तत्समोऽन्यो वा मुहृत्सर्वं कल्पोक्तप्रायश्चित्तं चरेत् । ततः परमापो. डशाब्दादन्ये वा चरेयुः) ततः परमशीतिवर्षान्तं स्वयमेवाऽऽचरेयुः । गुरुप्रायश्चित्ते प्रायश्चित्तान्तराभावे प्रसङ्गादनुष्ठानसिद्धिः । सोमयाग- स्थबाह्मणवधे द्विगुणं व्रतम् । तदशक्तो गवां सहस्रद्वयं विधिवत्या- * धनुश्चिद्वान्तर्गतग्रन्थः क. पुस्तक वर्तते ।

१०५ स्मृत्यर्थसारः। वेभ्यो दद्यात् । आचार्यवधे द्वादशाब्दं व्रतं गोसहस्रं वा । उपाध्या- येऽङ्गवक्तरि चानूचानऋत्विग्वधे द्वादशाब्दवतादूर्व गोसहस्रं पादा- नमर्धपादं चरेदित्यान्यूह्यं तारतम्यकल्पनया । तथा ऋत्विग्गुरुवधे याव- जीवं व्रतं चरेत् । द्विगुणं त्रिगुणं चतुर्गणं वा । तदशक्ती व्रतं द्वाद शादं कृत्वा गोसहस्रं च कुर्यात् । अथ यदि द्वादशाब्दं चरन्मध्य चोरव्याधहन्यमानमेकं ब्राह्मणं गोद्वादशकं वाऽऽत्मानमन्तरा कृत्वा रक्षेत । असावसंपूर्ण द्वादशाब्दाऽपि तदेव शुध्यति । यदि तत्र प्रवृत्तम्त- दकृत्वैव म्रियत तथाऽपि तदेव शुध्यत । तथा पराश्वमेधादिमहायज्ञा- वभृथे यजमानसंनिधी वा स्वपापमृत्विजां प्रख्याप्य तैरनुज्ञातः सात्वा तदेव शुध्यति । यद्वा तमध्ये कुष्ठादिदीर्धतीवव्याधिग्रस्तं ब्राह्मणं गां चापधैः संरक्ष्य तदेव शुध्येत । यदा व्रतमध्ये विप्रस्य भूधेन्वादि सर्वस्व चारहृतं सर्वं दत्त्वा शुध्यत । तत्र प्रवृत्तस्तैर्हतो बहुक्षता मृतकल्पा जीवन्धाऽपि नदेव शुध्यत । ज्ञात्वा बाह्मणवधे चतुर्वणी भूगपतनम- निपतनं वा कुर्युः । तत्र ये वर्णिका इष्टप्रथमयज्ञास्तेऽग्निपतनं स्वर्जितं गोसबमभिजिद्विश्वजिता विवृदग्निष्टुतं वा क्रमेणाल्पदक्षिण कुर्युः । क्षत्रिय: मार्वभीमश्चेदश्वमेधं कुर्यात । यद्यज्ञानावणिकाः साग्निका महापापं कुर्युस्ताहि तत्पुत्रादयो ह्यादापक्षयात्तदनीम्रक्षयेयुः । ज्ञानाञ्चद्गृह्याग्नीन्वतानिकानप्सु प्रक्षिपत्तताऽग्निपतनादि प्रायश्चित्तं कुर्वतां मरण चवं मपरिच्छदानाम । विद्वांश्चन्निधना गुणी हन्ता हतो निर्गुणोऽय नियतत्रिवारं वदं जपेत । शतश्चद्द जप- न्योजनशतं बजेत । अविद्धान्निधना गुणी पाक्षप्रस्रवणादी पश्चि. मोदधेः प्रतिस्रोतःसरस्वती हविष्यमिताशी गच्छेत् । निर्गुणा धनी हन्ता चत्पाने गहभूम्यादि जीवनसभर्थ दद्यात । गृहं वा सोपस्कर जीवन समर्थमनपत्यवेत्सर्वस्वम् । एतत्रयेऽन्यतमं गृहीवाऽऽहितानिर्व- श्वानरेष्टिमनाहिताग्निवैश्यानरस्थालीपाकं कुर्यात । हन्ता मूखों निर्धनो विप्रमात्रवधेऽधःशायी विषवणी स्वकर्म वंदयभक्षाशी महानदीस. गमादिपुण्याश्रममोठपर्वतप्रस्रवणतपोवनविहारी स्थाने वीरासनी बत्सरं कृत्स्नं चरित्या रत्नहमगोधान्यतिलदधिसपीषि विप्रेभ्यो दद्यात । मनसा ब्रह्मवध्यव्यवसायं कृत्वा स्वयमवापरता द्वादशाहं जलाशी द्वादशाहमुपवसेदित्यादि । अन्यत्र समेषु विकल्पो विषमपु व्यवस्था कल्प्या । उक्तानि द्वादशाब्दादीनि ब्राह्मणस्य॑व । द्विगुणं क्षत्रियस्य १०६ श्रीधराचार्यकृत:- त्रिगुणं वैश्यस्य । शूद्रादेश्चतुर्गुणम् । तत्रापि हन्तृहन्यमानगुणविशे- पेण प्रायश्चित्तविशेषो ज्ञेयः । एवं क्षत्रियवैश्यादावपि । हीनोत्कृष्टवधे प्रायश्चित्ततारतम्यं दण्डगौरवात्कल्प्यम् । अनुलोमप्रतिलोमजानां तु दण्डवत्प्रायश्चित्तम् । गृहस्थाहिगुणं ब्रह्मचारिणो वानप्रस्थस्य त्रिगुणं यतेश्चतुर्गुणम् । ब्रह्मचारिणो द्वैगुण्यं पोडशाब्दादूर्ध्वमेव । सर्वत्र प्रकान्तप्रायश्चित्तस्य मध्ये मरणे तदेव शुद्धिः । अथ निदेशः--सोमयागस्थक्षत्रवैश्यवधे ब्रह्महत्यावतं द्वादशादं चरेत् । ज्ञानाद्वैगुण्यमेव न प्राणान्तिकम् । तत्र च जातिशक्तिगुणाद्यपेक्षया व्यव- स्था। सर्वत्र स्त्रीनपुंसकत्वेनाविज्ञातगर्भस्य वधे, ऋतुमत्यात्रेय्यत्रिगोत्रा चाऽऽत्रेयी तस्याश्च वधे पुरुषहत्यावद्यवहारे साक्षात्सत्योक्ती वर्णानां वधप्राप्ती साक्षित्वं गुरी क्रोधावेशी च ब्राह्मणनिक्षेपं हृत्वाऽऽहिताग्नि- ब्राह्मणभायाँ सगुणां सोमयागस्य विघातको ब्रह्महत्यानतं चरेत् । आतिदेशिकेपु पादोनं प्रायश्चित्तम् । प्रायश्चित्तस्यातिदेशो न पातित्यस्य च । बाह्मणादिवधार्थं शस्त्रप्रहारे केनचित्प्रतिबन्धेनासा न मृतस्तथापि ब्रह्महत्यादिवतं पादोनं चरेदागमनेऽधम् । प्रयत्ने पादः । ब्रह्महत्यास- मानार्थं प्रायश्चित्तं सर्वत्र साक्षात्कर्तुरनुग्राहकस्य पादोनं प्रयोजक स्यार्धमनुमन्तुः सार्धं पादं निमित्तकर्तुः पादं प्रोत्साहकादीनां च तार- तम्यं विद्यात् । सर्वत्र बालवृद्धस्त्रियों रोगिणश्च साक्षात्कर्तृत्वेऽपि प्राय- श्चित्तार्धमर्हन्ति । अशीतिवदूध वृद्धः पोडशाब्दात्प्राग्बालः । अनु- पनीतानां बालानां कन्यानां च पादं प्रायश्चित्तम् । तच्च पिता भ्राताऽन्यो या सुहृच्चरेत् । ततो द्वादशाब्दान्त एवं चारयेयुः । ऊ स्वयमेव चरेयुः। सर्वत्र जातिशक्तिगुणाद्यपेक्षया व्यवस्था । इति स्मृत्यर्थसारे ब्रह्महत्याप्रायश्चित्तम् । अथ सुरापानप्रायश्चित्तम्-तत्र मुख्यसुरा पैष्ठी गौडी माध्वी च । तन्मध्ये मुरां त्रैवर्णिकस्तथा शूद्रा स्त्री च चातुर्वर्ण्यविवाह उत्पत्त्यादि न पिबत् । यदि सुरां ज्ञानात्सकृत्पिबेत्सराम्बुगोमूत्रक्षीरघृतानामन्यतमम- निसंनिभं कृत्वाऽऽवासा लौहेन पात्रेणाऽऽयसेन ताम्रेण वा पीत्वा मरणाच्छुध्येत् । अज्ञानाजलबुद्ध्या सुरापाने तालुमात्रसंयोगे जटी बालचीरादिवासा ब्रह्महत्यावतं तच्चिह्नवर्जं द्वादशाब्दं संपूर्ण कुर्यान्न स्मृत्यर्थसारः। १०७ पादोनम् । सर्वत्र स्त्रीबालवृद्धानामर्धं पडब्दम् । अनुपनीतानां कन्यानां च पादं व्यब्दमेव कुर्यात् । ज्ञानाच्चेद्विगुणम् । यदि पीत्वा छर्देद्वा ध्यब्द रात्री सकृत्पिण्याकमेवाद्यान्नाश्नीयात् । सुरापाने तावन्मा. वसंयोगे वर्ष वा बालवासा जटी ध्वजी तथा कुर्यात् । सुरकोपधरो- गार्थ पाने त्वज्ञाने कृच्छ्राब्दपादं चान्द्रायणं वा कृत्वा पुनरुपनयनं च कार्यम् । बाल्ये तु तच्च माता भ्राता पिता वा कुर्यात् । ज्ञाने तु तप्त- कृच्छं पराकं चान्द्रायणं च क्रमाकुर्यात् । सुरासंस्पृष्टशुष्करसान्नस्य मूत्रविड्रेतःशवादीनां वा ज्ञानाद्भक्षणे कार्य पुनरुपनयनम् । शुष्कसु. राभाण्डोदकपान छर्दनमुपवासो घृतप्राशनं च । तज्जलं पर्युपितं पीत्वा शङ्गपुष्पीविपक्षीरं यह पिवेत् । अज्ञानाभ्यासे पञ्चरात्रं पिवेत् । ज्ञानात्तजलपाने सप्तरात्रं पिबेत् । ज्ञानाभ्यासे तु द्वादशरात्रं क्षीरेण ब्राह्मीसुवर्चलां पिबेत् । सुरापस्य मुखगन्धस्यामत्या घ्राणे सोमपश्चेदप्सु बीन्प्राणायामान्कृत्वा घृतं प्राश्नीयात् । मत्या चेहिगुणं सर्वत्र । असोमपश्चेदनप्सु प्राणायामान्कृत्वोक्तं प्राश्नीयात्कुशोदकं चाऽऽहुः । साक्षात्सुरागन्धघाती तु जातिभ्रंशकरेपूक्तं सांतपनम् । मत्या चेत्कार्य ज्ञेयमित्यादि। इति स्मृत्यर्थसारे सुरापानप्रायश्चित्तम् । अथ मद्यपानप्रायश्चित्तम्----तत्र गोडी माध्वी च सुरा मद्यम् । तालं पानसं द्राक्षं माधुकं खाजूंरं सैरमारिष्टं मैरेयं नालिकेरजमेतान्येकादश मद्यानि विद्यात् । एतानि मद्यान्युत्पत्त्यादि ब्राह्मणानां तत्स्त्रीणां चानु. पनीतानां कन्यायाश्चापेयानि । क्षत्र वैश्ययोर्न दुप्यति मद्यम् । अज्ञानाज. लादिबद्ध्या तालादिमद्यपाने तप्तकृच्छं पुनरुपनयनं च । मूत्रविड्रेत:- स्रावादिभक्ष्ये द्विजानां चैवम् । अज्ञानाद्गाडीमाध्व्योञ्जनात्तालादिमद्य- पाने च कृच्छ्रातिकृच्छ्रचान्द्रायणानि कृत्वा पुनरुपनयनं घृतप्राशनं च । गौडीमायोआनापाने पिण्याकेन कणर्वा वार्षिकम् । अभ्यासे पडब्दम् । अत्यन्ताभ्यासे निरन्तराभ्यासे च द्वादशाब्दम् । बहुकाला. भ्यासे चाग्निवर्ण मद्यं पीत्वा मृतः शुध्येत् । तालादिपु तदर्धं कल्प्यम् । सर्वत्र स्त्रीबालवृद्धादीनामर्धम् । अनुपनीतस्य कन्यायाश्च पादं माता १ ग. °त् । कणान्वा तयवाद्यात् । सु। २ ख. ग. अज्ञाने। ३ ख. ग °टपानं साईभक्षणं चा सुराभाप्डोदकादिपानं च सरापानसेत । सुरासंस्पृष्टशक र क. 'तः दावा । तु १०८ श्रीधराचार्यकृतः- पिता भ्राता वा कुर्यात् । तालादिमद्यापेक्षया लेह्याभक्ष्यमूत्रविड्रेत:- स्राबादीनां मुखमात्रप्रवेशे क्षीरोदुम्बरबिल्वपालाश कुशोदकं पात्रं पिबत । गोडीमाध्व्योस्तु द्विगुणम । अज्ञानादाडीमावीमद्यवासितशु. 'कभाण्डाम्बुपान कुशमूलविपक्कं क्षीरं यह पिचत । शानतोऽभ्यासे तु क्षीरोदुम्बरबिल्वपालाशैरूयहम । अज्ञानाभ्यान शखयी घृतं क्षीरं च पञ्चरात्रं पिचत । ज्ञानताऽभ्यास तु गोमूत्रयावकं सप्तरात्रं पिबेत् । अत्यन्ताभ्यास तु बाह्मीं सुबचलां पयसा द्वादशराम : तालादिमद्य- भाण्डोदकपाने वध कल्प्यम । सर्वत्र स्त्रीबालादीनां योग्यं कल्प्यम् । इति स्मृत्यर्थसारे मद्यपानपाश्चिलम: अथ प्रवणम्तयनार्याश्चत्तमच्यने -- स्तयशब्देन समक्षं परोक्षं चा बलाच्चा- यण वा क्रयादिस्वत्वहेतुत्वं विना ग्रहणमुच्यते । तत्राऽऽदी सुवर्णप्रमाणं निरूप्यते । गवाक्षगतसूर्यरश्मिमध्ये दृश्यमानं बसणाप्रमाणं रज इत्या- चक्षते । वसरण्यष्टकं तु लिक्षा । लिक्षात्रयं राजसर्पपः । गज. सर्पपत्रयं गौरसर्पपः । गौरसर्पपपटकं यवः । यवत्र कृष्णलः । कृष्णलपश्चकं मापः। पोडशमापकं सुवर्णम् । अमत्या बाहाणाम्य सुवर्ण हृत्वा द्वादश वर्षाणि ब्रह्महत्यावतं शशिरध्व जतत्कपालधारणरहित चरत । यम्य कस्यापि हिरण्यं यः कश्चिद्धरति स तस्यैकादशगुणं दत्त्वा प्रायश्चित्त समाचरत । गुरूणां यज्ञकर्तणां वा श्रोत्रियाणां वा धार्मि- कबाह्मणानां वा सुवर्णं हत्वाऽऽत्मनो मुण्डनं कृत्वाऽऽत्म शरीरं धृनना- भ्यज्य कारीपाच्छादिता दग्धः शुध्येत । निगुणविप्रसुवर्णहरणे नवा- ब्दमादृशमेव चरेतं । क्षामबहुकुटुम्बरक्षणार्थ हरणे कृच्छद्रं पड विश्व- जिदादिकं क्रतुं वा कुर्यात । मंत्या यः कश्रिद्धामणगुवर्णहार्यकसुवर्ण- मारभ्य स्वपापं भूपाय निवेद्याऽऽयसं दण्डं खादिरं वा प्रदाय मुक्त केशो भृशं राज्ञा दण्डेन ताडितो मृती पा जीवन्वा शुध्येत । स्वश- क्त्याऽताडने राज्ञस्तु दोप: स्यात् । सुवर्णम्तेयी ब्राह्मणो व्रतमेव चरेन्न दण्डेनाऽऽत्मानं घातयेत । न च विप्रं राजा हन्यात । हनने ब्रह्महत्या भवत्येव । अग्निहोत्री धार्मिकश्च विद्वान् क्षत्रियां ब्राह्मणमुवर्णहार्य- श्वमेधन शुध्यति । गोसवं यज्ञं वा कृत्वा शुध्येत् । आत्मसंमितं हेम वा दत्त्वा शुध्येत् । तावद्धनाभाव तपस्यशक्ती च विषस्य सकटम्बस्य १ क °त; शवा । २ घ. °त् । स्वक। २ ख. ग. अमत्या ।

स्मृत्यर्थसारः। १०९ रक्षणपर्याप्तं धनं दद्यात । अब्राह्मणश्चद्वाह्मणसुवर्णस्तेयी दण्डताड- नेनाऽऽत्ममरणमनिच्छन्सगपानवतं कृत्वा शुध्येत । यदा त्वपहारानन्तरं जातानुताप: प्रत्यर्पयति त्यजति वा तवाऽऽपस्तम्बोतं चतुर्थकालमिता- शनं व्यब्दम । मनसा सुवर्णम्तेये प्रवृत्तः स्वयमेवोपरतश्चद्वादशाहं वायु. भक्षः शुध्येत् । सुवर्णम्तयसभेष्वश्वरत्नमनुष्यस्त्रीभूधेनुहरणादिपु सुव- णस्तयप्रायश्चित्ताधैं कार्यम् । त्रसरणाप्रमाणस्तेय एकप्राणायामः । लिक्षाप्रमाणहेमस्तेये त्रय: । राजसर्पपप्रमाण हेमस्तये चत्वारः पड़ वा प्राणायामाः । गौर सर्पपप्रमाणस्तेयेऽष्ट सहस्रगायत्रीजपः । यवप्रमाण. हेमस्तेये प्रातरारभ्य सायंकालान्तं गायत्रीजपः । कृष्णलप्रमाणहेमस्तेय सांतपनम् । मापत्रमाणहमम्तय गोमूत्रपक्वयवभुङमासत्रयण शुध्येत । सुवर्णप्रमाणास्किंचिन्न्यनमस्ते य गामवपक्कयब भुगब्दन शुध्येत । संपू. प्रमाणब्राह्मणहेमम्तय द्वादशावतादिकं कायमित्युक्तम् । सुव प्रमाणन्यूनरजतम्तय सांतपनम् । निष्कचतुष्कप्रमाणादृधं दश- निष्कान्तरजतम्तेये चान्द्रायणं कार्यम । दशनिष्कप्रमाणादृवं शतनि- एकान्तरजतम्तेये चान्द्रद्वयम । शतनिष्कप्रमाणादृय सहयनिष्कान्तर- जतस्तये चान्द्रत्रयम् । सहस्रनिष्कप्रमाणादधिकरजतस्तर पादानं ब्रह्महत्यावतं चरेत । नागरगायसताम्रपित्तलकांस्यानां सहस्रनिष्का- माणस्तये पराकम् । एपां निष्कसहस्रादिमूल्यानां तय ब्रह्महत्यापाय. श्रितं द्वादशब्दवतादिकम् । चतुनिष्कमूल्यरत्नम्तय सांतपनम । चतु- निष्कमूल्यादृर्व दशनिष्कमल्यान्तरत्नम्तेये चान्द्रम । दशानिष्कादृष शतनिष्कमूल्यान्तरत्नम्तय चान्द्रद्वयम् । शतनिष्कमूल्यादृवं महसू. निष्कमूल्यान्तरत्नम्तये चान्द्रवयम । रत्नसहसनिक मूल्यादधिकरत्न- स्तये ब्रह्महत्याप्रायश्चित्तं पादानं नवादादिकम् । अत्राह्मणम्य निक्षेपं सुवर्ण हत्या पडई व्रतं चरेत् । नरभूमितुरङ्गहरणं च पडदकम । इति स्मृत्यर्थसार सुवणम्लेयप्रायश्चित्तम् । अन्य गातल्पगप्रायश्चित्तम जनको गरुम्तत्तल्पस्तम्य मार्याच्यते । अज्ञानेन मातरं गत्वा मातृसपत्नी सवर्णामुत्तमवर्णा वा तया प्रोत्साहितो ज्ञानाद्गत्वा लोहस्त्रियं सुतप्तामालिङग्य मृत: शुद्धः । तप्तेऽयःशयने सुप्त्वा वा मृतः शुद्धः । उभयोः प्रोत्साहनात्तु १ ग, °शाब्दिकं वा पादोनघृतगोमूत्रयावकाहारः । २ ग. करजतमा यर ।

११० श्रीधराचार्यकृतः- तप्तायःशयने सुप्तस्याऽऽलिङ्गने शुद्धिः । स्वयं प्रोत्साहितश्चेत्स्वस्य गुह्यनिक स्वहस्तच्छिन्नं स्वाञ्जलिना धृत्वा नैती दिशं गच्छ- नग्रतः स्थितमविचारयन्पृष्ठतोऽपश्यन्प्राणान्तं शुध्येत् । अमत्या सव. ोत्तमस्त्रीगमने द्वादशाब्दं ब्रह्महत्याव्रतम् । अमत्याऽभ्यासे घृताक्तो मुण्डितः करीपराशिमध्यस्थः पादादिसर्वाङ्गन्दाहान्मृतः शुध्येत् । जनन्यां मत्या चैवम् । जनन्यां मत्या प्रवृत्ती रेतःसेकात्पानि वृत्तस्य द्वादशाब्दम् । अमत्या पडन्दम् । मत्या मातुः सपत्नीं सवर्णा व्यभिचारिणी गत्वा बेदजपसहितं चान्द्रवयं कुर्यात् । अमत्याऽब्दं कृच्छ्रम् । क्षत्रियामपि पितृभायाँ मत्या विप्रः सकृद्गत्वां त्रैवार्पिकमष्ट- कालाशनम् । मत्याऽभ्यासे लिङ्गं विना वृषणच्छेदाच्छुद्धिः । क्षत्रि- यायां मत्या प्रवृत्तस्य रेत:सेकात्पानिवृत्ती तया प्रोत्साहितस्य त्रैमा- सिकं कार्यम् । उभयप्रोत्साहितस्यातिकृच्छं त्रैमासिकम् । स्वेन प्रोत्सा- हितायां कृच्छातिकृच्छं त्रैमासिकम् । तत्रैवामत्या प्रवृत्तस्य रेतःसेका- त्याप्रवृत्तस्य योपियात्मप्रोत्साहे तु क्रमात्कृच्छातिकृच्द्र चान्द्राय- णानि । वश्यायां तु गुरुपत्न्यां मत्या सकृद्गमन पडब्दं चरत् । मत्या, भ्यास लिङ्गार्धच्छेदन शुद्धिः । अमत्या सकृद्गमने व्यब्दम । अत्यन्ता- भ्यासे यावजी बती । वश्यायां मत्या प्रवृत्तस्य रेत सेकात्पूर्व निवृत्त स्याभयात्मयोपित्प्रोत्साहेषु कमात्तप्तकृच्छपराकसांतपनानि । अमत्या प्रवृत्तस्य योपिदुभयात्मप्रोत्साहपु कमात्पञ्चरात्रसप्तराबाष्टरावाणि । शूद्रां गुरुभायाँ मत्या विष: सकृद्गत्वा व्यब्दं चरेत् । मत्याऽभ्यासे द्वादशाब्दं कार्यम । अमत्याऽभ्यासे निरन्तरं चान्द्रायणम् । शूद्रायां मत्या प्रवृत्तस्य रेतसेकात्प्राङनिवृत्तस्य योपिदुभयात्मप्रोत्साहेपु क्रमादतिकृ. च्छ्रपराकाः । तत्रैवाऽमत्या प्रवृत्तस्य कायसांतपनसप्तरात्रोपवासाः । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि मत्या सकृद्गमनादिषु नवाब्दादीनि योज्यानि । दायां च नबाब्दादीनि योज्यानि । वैश्यापुत्रस्य च शूद्रायां नवाब्दादीनि योज्यानि । सर्वत्र गमनं चरमधातुविसर्गान्तमुच्यते । सर्वत्र रेत सेकापानिवृत्ती मरणान्तेषु द्वादशाब्दम् । अन्यत्रोक्तार्धं कार्यम् । पुरुपवत्स्त्रीणां महापातकानि सन्त्येव । अतस्तासां मत्या १ ख. ग. पशिखिम । २ ख. ग. घ. वा नवाब्दं चरेत् । मत्याऽभ्यासे तु वृषणी विना लिङ्गच्छेदाच्नुद्धि ! अमत्या सकृद्गमने त्रे ।

स्मृत्यर्थसारः । १११ प्रवृत्ती मरणान्तिकं प्रायश्चित्तम् । अमत्या प्रवृत्ती द्वादशाब्दादिप्वेव सर्वत्रार्धक्लप्त्या योग्यं पुरुषोक्तवत्कार्यम् । जात्युक्तं पारदार्यं च कन्यादूपणमेव च । साधारणं स्त्रियां नास्ति गुरुतल्पत्वमेव च ।। अथातिपातकानपपातकेयूच्यन्ते---मत्या समानगोत्रां समानप्रवरामूढां गत्वा गुरुतल्पव्रताच्छुध्येत् । तज्जो गर्भश्चाण्डालः स्यात् । सा पत्नी संभोगे त्याज्या रक्ष्यैव । अमत्योढां गत्वा विभिश्चान्द्रः शुध्येत । गर्भः कश्यपः स्यात् । सवर्णकन्यां मित्रस्त्रियं भगिनीं सगोत्रां चाण्डालीं मातङ्गीं वाऽऽत्मजस्त्रियं सकृदज्ञानाद्गत्वा चान्द्रद्वयाच्नुध्येत । ज्ञानात्सकृद्गमने कृच्छ्राब्दाच्छुद्धिः । आसामन्यतमामेकम्यां रात्री बहुवारं गत्वा ब्रह्म हत्याव्रतं वापिकं चरेत । आसामन्यतमामनेकदिनेषु गत्वा ब्रह्महत्या- व्रतं चरेत् । आसामेकां वुद्धिपूर्वं बहुदिनेषु गत्वाऽग्नि प्रविश्य मृतः शुध्येत् । मातृवसारं पितृप्वसारमाचार्य पुत्रीमाचार्यभार्यामनुजपत्नी चाऽऽत्ममुतां मातुलानीमज्ञानात्मकृगत्वाऽब्दकृच्द्रण शुध्येत । आसाम- कामेकस्मिन्दिने बहुवारं गत्वा त्रैवार्षिक ब्रह्महत्यानतं चरेत् । आसा- मेकां बहुदिनेव नुबन्धेन गत्वा ब्रह्महत्याप्रायश्चित्तं कुर्यात । आसामे. कामेकस्मिन्दिनेऽसकृज्ज्ञानाद्गत्वा पडन्दं ब्रह्महत्यावतं चरेत । आसा- मेकां बहुदिनंषु बुद्धिपूर्वं गत्वाऽग्निं प्रविश्य मृतः शुध्येत । चाण्डाली पुल्कसी व्याधस्त्रियं भगिनीं स्नुपां मातुःस्वसारं च सखीं विश्वस्तां प्रवाजितां मातुलानी शरणागतामन्न:पुरस्त्रियं च गत्वा शिप्यपत्नी पतितां सगोत्रां च गत्वा रेतोनिःसरणात्पूर्व निवृत्तम्य मासापवासेन शुद्धिश्चान्द्रेण वा । एतासु व्यभिचारिणी यदि मकृदन्छेच्चान्द्रेण शुध्येत् । अज्ञातां स्त्रियं सकृद्गत्वा तप्तकृच्छ्रेण शुध्येत । इति स्मृत्यर्थसारे गुरुतल्पगप्रायश्चित्तम । अब महापातकिसंसर्गिप्रायश्चित्तम् । एतश्चतुभिर्महापातकिभिरध्ययनाध्या- पनविवाहयज्ञयाजनसहवाससहभोजनानि कृत्वा सद्यः पानित्यमानाति । एतरेकासनस्थितिमेकपडिभोजनमेकशयने स्वापमकवाहनगतिं चक. वत्सरं कृत्वा पातित्यमाप्नोति । येन महापातकिना यः संसर्गी पतितः स तस्योक्तवताच्छुध्येत् । अस्य मरणापादकप्रायश्चित्तस्थाने ब्रह्महत्या. व्रतं द्वादशाब्दिकं स्यात् । अज्ञानाद्यस्य येन संसर्गो जातस्तस्य तदुक्त- व्रतार्धाच्छुद्धिः । अज्ञानाच्चतुभिर्महापातकिभिः पञ्चरात्रं संसर्गे विरा- ११२ श्रीधराचार्यकृतः- वं दशरात्रसंसर्गे कायकृच्छादि । द्वादशरात्रं संसर्गे सांतपनम् । पक्ष- संसर्गे दशोपवासाः । माससंसर्ग पराकाच्छुद्धिः । बिमाससंसर्गे चान्द्रम्। पण्माससंसर्ग चान्द्रद्वयम् । किंचिन्यूनान्दं नरन्तर्यसंसर्गे षण्मासं कृच्छ्राद्वा । किंचिन्यूनं संवत्सरं संसर्ग चाद्रायणाब्दम् । एतैश्चतुभिः संसर्ग स्त्रीबालवृद्धातुरास्तत्तदुक्तवतार्धं कुर्युः । महापाकिसंसर्गिसं- सर्गे तु तत्संसर्गिवतस्यार्धं कुर्यात् । इति स्मृत्यर्थसारे महापातकि संसर्गिप्रायश्चित्तं समाप्तम् । अथोपपातकप्रायश्चित्तान्युच्यन्ते अज्ञानाद्वाह्मणमात्रस्य गोमात्रं ब्राह्मणो हत्वा विरात्रमुपोध्य वृषभकादशगा दत्त्वा शुध्यति द्वादशप्रजाप- त्यैर्वा । प्रत्याम्नायद्वादशधनूवा दत्त्वा शुध्यति । ज्ञानाच्चेद्गोहितो गोर्ग- मनस्थानासनशयने पु स्वयं च तथा कुर्यात । भयव्याधिक्षुत्पिपासा- शीतातपादिभ्या रक्षन्नात्मीयपरकीयभक्ष्यपानववारयन्नवेदयत्रात्रौ गां नत्वा वीरासना वनशाकाद्याहागे मासनयान्त उपभैकादश गा दद्यात । अशक्तः सर्वस्वं दत्त्वा शुध्यति । प्राजापत्य प्रत्याम्नायपक्ष त्वज्ञानपक्षाद्विगुण म । अज्ञानातक्षत्रियम्य गोमात्रं हत्वा गोहितो गोन. गामी गोठशायी त्रिपवणनायी मयतः पञ्चगव्यमेव पिचन्मासान्त धनं दत्त्वा शुध्यति पटप्राजापत्यैा । प्रत्याम्नाय पड़ धेनवो देयाः । ज्ञानाच्चे. चतुर्थकाले हविप्यमक्षारलवणं मितमश्नन्गोमूत्रम्नायी वा मासौं नीत्वा शुध्यत । प्राजापत्यं प्रत्यान्नाये द्विगुणम् । अज्ञानाश्यस्य गोमात्रं हत्वा गोहितादिकृतिकृच्छं निरन्तर चरन्मासान्ते धनं दत्त्वा शुध्यति पञ्चप्राजापत्या प्रत्याम्नाये धेनुं दद्यात । ज्ञानाचेश्यस्य गोमात्रं हत्वा तद्दिगुणं सर्वं चरेत । अज्ञानाच्छुद्रस्य गोमात्रं हत्वा गोहितादिकृत्प्राजा- पत्यं निरन्तरं चरन्मासान्ते धेनं दत्त्वा शुध्यति । प्रत्याम्नाय धेनुचतु- कम् । ज्ञानाच्चत्कृतवान्गाचर्मणाऽऽण संवृता गाष्ठ वसनपण्मासं यवागू पिबशुध्यति । प्राजापत्यप्रत्याम्नायी चद्विगुणों । अकामात्सो- मयागस्थश्रोत्रियस्य गोमात्रं हत्वा गाहितादिकृच्छाकादिभुगब्दान्ते वृपभैकादशगा दद्यात् । गोग्रासभुक् षण्मासर्वा शुद्धः। कामाञ्चद्गोहि- तादिकृन्माण्डी शाकभुक व्यब्दं चतु । धनी वक्ष्यमाणवतं गोशतं चरेत् । ज्ञानात्सोमयागम्थश्रोत्रियातिदुर्गतकुटुम्बिब्राह्मणस्य कपिलां १ ख. ग. महासा । २ क. 'सन्मासं ।

स्मृत्यर्थसारः। ११३ होमार्था गमिणी बहुक्षीरां सुवृत्ततरुणादिगुणां निर्गुणो धनवान्पति- ज्ञया खड्गादिना हत्वा भ्रूणहा भवति । स ब्रह्महत्याद्विगुणं वतं चरेत् । यद्वा गोहितादिकृद्दण्डमौनीभूदक्षारलवणं रूक्षं पठे कालेऽश्न- न्गोमती प्रणवं वेदं वा जपन्द्विमासान्ते गोसहस्रं दद्यात् । अज्ञानाच्चेद्र- महत्यावतं त्रैवार्षिकम् । वृपभैकशतगोदानमगर्भिण्याः कामतश्चेद्वधः । अकामतश्चेद्दोहितादिकृन्मोझीशाकादिभुक्यब्दं चरेत् । यदि तां काष्ठेन हन्यात्सांतपनशतं गोसहस्रशतदानं व्यब्दादिषु । लोष्ठेन कायम् । पाषा- णेन तप्तकृच्छपूर्व व्रतान्ते विप्रान्संभोज्य तेभ्यस्त्रिंशद्गा वृषभं च दद्यात् । चालामतिवृद्धामतिकृशां रोगिणीं च हत्वा पूर्वप्रोक्तार्धधतं कृत्वा विप्रान्संभोज्य शक्त्या हेमतिलान्दद्यात । एकाब्दे गवि हते पादं द्वधब्देऽध व्यब्दे पादोन सतः कार्य चरेत् । गभिण्या वधे तूच्यते । उत्पन्ने गर्म पादं दाढर्येऽर्धमापूर्णे पादोनं चैतन्ये गोवतं द्विगुणम् । अज्ञानादेकां बहवो हत्वोक्तवतस्य पादं प्रत्येकं कुर्युः । द्वे हत्वाऽधं बह्वीः पादोनम् । ज्ञाना. प्रत्येकं कृच्छ्रमेव । एकेन रोधादिना बहूनां वधे द्विगुणं व्रतम् । अज्ञा- नाद्वैद्येन मिथ्यौषधेनेकस्या वधे द्विगुणम् । अज्ञानादवेद्येन हितबुध्द्या स्वौषधदाने पाद्वतम् ।रोधादी व्यवहितकर्तृपुरोधने पादबन्धनेऽ योजने पादोनं निपातने सर्वम् । अज्ञानाद्रोधादि कृत्वा तज्जन्यप्रमादपरिहा- रार्थमवेक्षमाणे मृते कायं कृत्वा विप्रान्संभोज्य गोमिथुनं दद्यात् । रोधनादिप्रमादरक्षणाकरणे क्रमात्पादा) त्रिपादं सर्वाणि त्रैमासिका- दीनि कार्याणि । चिह्नव्याधेरन्यत्र दाहेऽतिवाहे नासापुच्छादिच्छेदे नदीपर्वतादिरोधेऽतिदाहेऽतिदमने संघाते योजने शृङ्खलानालिकेरशण- वालमौादिदृढपाशबद्धे मृते पादोनम् । सर्वत्र घण्टाक्षिभूषणनिमि- तेऽर्धकृच्छम् । मृतकल्पवधे तु सक्तयावकभैक्षपयोदधिघृतानि मा- न्मासाधं भुक्त्वा विप्रान्संभोज्य गां दद्यात् । मरणहेतुव्याधिमुत्पाद्य द्वादशरात्रं पञ्चगव्यं पिबेत् । शृङ्गास्थिमने चर्मविमोचनादौ च गवि जीवति मासान्तं यवागू पिबेत् । अशक्तः पयो दधि घृतं वा दशरात्रं पिबेत् । अनुग्राहकप्रयोजकादीनां पूर्ववद्दोषतारतम्यम् । अरक्षोपेक्षानि- मित्तं जलेपङ्काच्च नीचादिविषमस्थाने दुर्गे च शून्यगृहबन्धने विद्यु- सर्पमृगव्याघ्रश्वापदायैरशीतवातायैरुद्भन्धनाद्येश्च मृते गोस्वामी कायं १ ख. ग. नमोभिति प्र° । २ क. कृशामरो' ३ क. °त्र व्यशादिभू । ख. घ. ° पा. दिभू । क. °सार्धे य° । ५ स. ग. ड. °लपातोच्च । १५ ११४ श्रीधराचार्यकृत:- कुर्यात् । कार्यान्तरव्यग्रत्वे त्वर्धम् । गूढगर्भनिर्गमनाथं सदंशदण्डाकु- शादिप्रवेशननिमित्ते वधे रक्षार्थ रोधबन्धने च न दोषः । औषधस्नेहाहारे दीयमाने हितार्थदाहच्छेदशिरोमेदेषु च ग्रामघाते शरौघे गृहभङ्गेऽति- वृष्टौ कुड्यादिपाते चान्यगृहग्रामादिदाहे दोषो नास्ति । बन्धे मृते पादं चरेत् । गवि स्त्रीत्वमविवक्षितम् । सर्वत्र हतगोसदृशं तन्मूल्यं वा गोस्वा- मिने दत्त्वैव प्रायश्चित्तम् । राजदण्डं च तत्समम् । एतत्सर्वं हन्तु - ह्मणस्यैव । क्षत्रियस्य सर्वत्र पादोनम् । वैश्यस्या, शूद्रादेः पाई विद्यात् । सर्वत्र स्त्रीबालवृद्धादीनां त्वर्धम् । अनुपनीतादीनां पादं तत्पित्रादिश्चरेत् । स्त्रीणां तु वपनमनुगमनं गोष्ठशयनं चर्मप्रावरणं च नास्ति तत्सर्वकेशान्समुद्धृत्य द्यगुलं छेदयेत् । सर्वत्रैवं तासाम् । पुंसां तु पापव्रत आकण्ठाल्लोम्नां वपनम् । अर्धे श्मश्रूणां च । त्रिपादे शिखावर्जम् । समस्ते सशिखं वपनम् । ज्ञात्वा चेत्सर्वत्र द्विगुणम् । इति स्मृत्यर्थसारे गोवधप्रायश्चित्तम् । अथ व्रात्यादौ प्रायश्चित्तम्----तत्र सर्वोपपातकार्थं चान्द्रं पश्चगव्यं मासं पयो मासं पराकं त्रैमासिकं कृच्छ्रे वा प्रतिपदोक्ताभावे कुर्यात् । व्रात्यत्वे तूपनेत्रायभावेनोपनयनकालातिक्रमे चान्द्रादिवतचतुकेऽन्य. तमं शक्त्या कारयित्वोपनयनं कार्यम् । अनापदि कालातिक्रमे त्रैमा- सिकं कारयित्वोपनयेत् । तत्रैव पञ्चदशवदूर्ध्वमपि कियत्कालातिक्रम औद्दालकं व्रतं चरेत् । तत्रैवम्-द्वी मासी यावकेन वर्तयेत् । मासं पयसा । पक्षमामिक्षया । अष्टरानं घृतेन । पात्रमयाचितेन । त्रिरात्र- मम्भक्षोऽहोरात्रमुपवसेदिति । बात्यस्तोमेन वा यजेत् । यस्य पिता पितामहो वाऽनुपनीती स्यातां तस्याव्दं विद्यकं ब्रह्मचर्यम् । यस्य प्रपितामहादेर्नानुस्मर्यत उपनयनं तस्य द्वादशाब्दविद्यकं ब्रह्मचर्यमि- त्यापस्तम्बोक्तं कृत्वोपनयनम् । अथ स्तेये प्रायश्चित्तम्-तत्र विप्रो विप्रस्य दशकुम्भ धान्यं वा तत्परि- मितं तण्डुलादि वा ताम्ररजतादिकममत्या हृत्वा त्रैमासिकं कुर्यात् । मत्याऽभ्यासे कृच्छ्राब्दम् । क्षत्रियादेहतुः पादपादह्रासः । क्षत्रियस्वं विप्रो हृत्वा पाण्मासिकम् । वैश्यस्वे त्रैमासिकं शूद्रस्वे चान्द्रम् । एव. मुत्तरत्राप्यूह्यम् । कुम्भः पञ्चसहस्रपलपरिमाणः । विप्रस्य गृहक्षेत्र भूमि- , ख.न. 'पदयंगपि।

स्मृत्यर्थसारः। ११५ निक्षेपरजतवज्रमणीनां नराश्वस्त्रीणां च सार्धशतद्वयपणलभ्यपानीयर- सवापीकूपजलानां च हतुर्विप्रस्य सुवर्णस्तेयसमवत् । क्षत्रादिस्वे चान्द्रतदर्धपादादि। पुसीसादिद्रव्याणामल्पप्रयोजनानां सार्धशतद्वयं पणपश्चदशार्धानां हर्तुः सांतपनम् । मक्ष्यभोज्याहारपानादीनामेकवार- भोजनपर्याप्तानां पानशय्यासनानां पुष्पमूलफलानां च हर्तुः पश्चगव्ये- नाहोरात्रम् । त्रिवारभोजनपर्याप्ते विरात्रम् । तृणकाष्ठद्रुमाणां त्रिवार- भोजनपर्याप्तमूल्यााणां शुष्कान्नगुडतैलचर्ममांसानां च हर्तुस्त्रिरात्रम् । मणिमुक्ताप्रवालताम्ररजताय:कांस्योपलानां च द्वादशाहारपर्याप्तमू- ल्यानां हर्तुदशाहकणान्नत्वम् । कार्पासकीटजोर्णानां द्विखुरैकखुरर- ज्जुपक्षिगन्धौषधीनां त्रिवारभोजनपर्याप्तमूल्यार्याणां हर्तुः पयरूयहम् । सर्वत्र ह्रियमाणद्रव्याल्पत्वबहुत्वाभ्यां प्रायश्चित्ताल्पत्वमहत्त्वे कल्प्ये । सर्वस्तेयप्रायश्चित्तद्रव्यं स्वामिने सति दत्त्वैव कार्यम् । इति स्तेयप्रायश्चित्तम् । अथ ऋणानपाकरणे-तत्र ऋणमात्मपितृपितामहादिकृतम् । तपोब्रह्म- चर्याद्यकरणे ऋषीणामृणम् । यज्ञाकरणे देवानामृणम् । प्रजोत्पत्त्यकरणे पितृणां ऋणम् । एपामृणानामनपाकरणे चान्द्रादिप्वेकं शक्त्या कार्यम् । सर्वथा तदसंभवेऽब्दान्ते वैश्वानरेष्टिः कार्या । अनाहिताग्नित्वे तु सत्य- धिकारित्वेऽग्न्याधानेऽब्दादर्वाक्प्रतिमासं त्रिरात्रम् । ततः प्रत्यब्दं चान्द्रा- दिप्वेकमनापदि त्रैमासिकम् । पितर्यनाहितानावाधातर्ययष्टरि यष्टुश्च सुतस्य व्रात्यपशुः कार्यः । औपासनाग्न्यसंनिधौ धब्दं प्रतिमासमुपवा- सोऽब्दे चान्द्रादिष्वेकम् । यद्वाऽऽद्याब्दे कृच्छो द्वितीयेऽतिकृच्छ्रस्तृतीये कृच्छातिकृच्छौ ततश्चान्द्रम् । अपण्यानां विक्रये गुडतिलपुप्पमूलफल- पक्वान्नविक्रये सौम्यकृच्छ्रम् । लाक्षालवणमधुमांसतलक्षीरदधिघृततक- गन्धचर्मवाससां विक्रये चान्द्रम् । ऊर्णाकेशकेसरिभूधेनुवेश्मशस्त्रविक्रये चान्द्रम् । अभक्ष्यमांसस्नाय्यस्थिशृङ्गनखविक्रये तप्तकृच्छ्रः। हिङगुग्गुल. हरितालमनःशिलाञ्जनगैरिकाक्षारलवणमणिमुक्ताप्रवालवैणववेणुमृन्म- येषु तप्तकृच्छः । आरामतडागोदपानपुष्करिणीसुकृतविक्रये त्रिपवण- नाय्यधाशायी चतुर्थकालाहारो दशसहस्रं जपन्नब्देन शुध्येत् । हीनमानोन्मानसंकीर्णविक्रये चैवम् । एवमन्यैः शङ्खलिखिताद्यैरुक्तं १ ख, ग. कि । २ ख. ग. घ. यद्वा ।

११६ श्रीधराचार्यकृतः- ज्ञेयम् । यत्र बायश्चित्तं नोक्तं तत्रापि चान्द्रादिकम् । अनापदि त्रैमासिकम् । इति पण्यविक्रयप्रायश्चितम् । अब परिवेदनम्-तत्रामत्या परिवेत्ता चान्द्रादिष्वेकं कृत्वा ज्येष्ठाय स्वोढां श्रियं दखा तेनानुज्ञातां तामेवोद्वहेत् । मत्या चेत्तत्रापि कन्या- पित्राद्यज्ञानेऽब्दं कार्यम् । ब्राह्मणगृहभैक्षाशनं च कृत्वैवं कुर्यात् । कन्यापित्रादिदत्तोद्वाहे त्रैमासिकम् । कृच्छ्रातितकृच्छ्रो वा कृत्वैव कुर्यात् । परिवेद्यस्य तु द्वे कृच्छ्रे कन्यायाः कृच्छ्रो दातुरतिकृच्छ्रो होनुश्चान्द्रम् । एवं परिवेद्यवत्पर्याहितपरीज्यपरिवित्तानां कायद्वयम् । परिवेत्तृपरिवित्तपर्याधातृपरियष्ट्रयेदिधिषूपरिदिधिपूपतीनां चाब्दं गौत- मोक्तं ब्रह्मचयं कृत्वा पश्चाद्विवाहः । अग्रेदिधिषूपतिः कृच्छं कृत्वा तामेवोद्वहेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा तस्मै दत्त्वाऽनु- ज्ञातः पुनस्तामेवोद्वहेत् । यद्वाऽग्रेदिधिषूपतिः कायं कृत्वा तामेव ज्येष्ठां पश्चादन्येनोढामुद्हेत् । दिधिषूपतिस्तु कृच्छ्रातिकृच्छ्रौ कृत्वा स्वोढा ज्येष्ठां कनीयस्याः पूर्ववोढ़े दत्त्वाऽन्यामुद्हेत् । ज्येष्ठे स्थिते कनिष्ठः कृतविवाहः परिवेत्ता परिविविदानश्च स ज्येष्ठः परिवित्ति: परिवेद्यश्च सः । परिविमागवेत्तृपरिविभागवित्त्यादेश्चैवम् । ज्येष्ठायां कन्यायामनूढायामनुजोढा चेत्साऽग्रेदिधिषः पूर्वा दिधिषूः । मृतकाध्या- पको मृतकाध्यापितश्च पयसा ब्राह्मी सुवर्चलांबीपक्षान्नियतः पिबेत् । चान्द्रादिध्वेकं वा कुर्यात् । अनुयोगप्रदाने चैवम् । उत्कर्षहेतोरधीया. नस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगोऽनुयोगप्रदानम् । अनुयो- गप्रदानाभ्यासे पातित्यमाहुः । अथ पारदार्ये-तत्र गुरुतल्पतत्समादिषु प्रायश्चित्तविशेष उक्तः । ऋतु. काले जातिमात्रब्राह्मणीगमने वार्षिकं प्राकृतं ब्रह्मचर्यम् । ऋतावेव धर्मक- भंसाधनत्वादिगुणवत्यां ब्राह्मण्यां गमने दिवार्पिकम् । तादृश्यामेव श्रोत्रि. यपन्यां वार्षिकम् । तादृश्यामेव क्षत्रियायां द्विवार्षिकं तादृश- वैश्यायां वार्षिकं शूद्रायां पाण्मासिकम् । एवं क्षत्रियस्यापि क्षत्रिया. दिपु द्विवार्षिकवार्षिकपाण्मासिकानि । वैश्यस्य च वैश्याशूयोर्वार्षिक १ ख. ग. 'यम् । एवमन्यैः शखलिखिताद्यैर्यत्र । २ ख. ग. घ. विभक्कानो । ३ ख. ग. घ. विभकप।

स्मृत्यर्थसारः। ११७ पाण्मासिके । शूद्रस्य च शूद्या परपल्या पाण्मासिकमेव । अनन्य- पूर्विकासु चाभ्यासे द्वादशाब्दम् । एकस्यामेव गमनाभ्यासे पादपाद- न्यूनं स्यात् । अमत्या सर्वत्राधं योज्यम् । अनृतौ जातिमात्रब्राह्मण्यां त्रैमासिकम् । क्षत्रियादिलीषु द्वैमासिकचान्द्रमासिकानि । क्षत्रियादीनां क्षत्रियादिषु द्वैमासिकान्येव । अमत्या ब्राह्मणाद्या वृषमैकादशगोदानं मासं पश्चगव्यं मासं कायं च क्रमाकुर्युः। शूद्रागमने तु मासं काया- र्धम् । बाह्मणश्चेदप्रेक्षापूर्वकं बाह्मणमायाँ शूदामधिगच्छेन्निवृत्तधर्म- कर्मणः कृच्छ्रम् । अनिवृत्तधर्मकर्मणोऽतिकृच्छ्रः। द्विजातिस्त्रीविप्रोढासु द्विस्त्रियभिचरितास्वमत्या गमने चैवम् । मत्या कृच्छ्रद्वयम् । वर्णस्त्रि- योऽपि चतुर्थे व्यभिचारे स्वैरिण्यः पश्चमे बन्धक्यः स्वैरिणीगमनेषु शूद्या सचैलनात उदकुम्मं विप्राय दद्यात् । वैश्यायां चतुर्थकालाहारो विप्रान्मोजयेत् । क्षत्रियायां त्रिरात्रोपोषितो यवाढकं दद्यात् । बन्ध. कीपु तु बाह्मण्यां किंचिद्दद्यात् । क्षत्रियायां चेद्धेनुः । वैश्यायां चैलकम् । शूद्रायामुदकुम्भं दद्याद्विप्रः । इदं च प्रायश्चित्तं गर्भानुत्पत्तिविषयम् । गर्भोत्पत्तौ यद्विशेषेण प्रायश्चित्तमुक्तं तदेव तत्र द्विगुणं कुर्यात् । प्राति- लोम्यगमने पुंसो वधः । स्त्रियाः कर्णादिकर्तनम् । स्वस्त्रीभ्रान्त्या प्राति- लोम्यगमने ब्राह्मण्यां शूद्रस्य द्वादशाब्दम् । वैश्यादेः पादपादासः। अत्यन्तव्यभिचारितबाह्मण्यां तु शूदस्य गोमूत्रयावकम् । वैश्यस्य क्षत्रियस्य च कृच्छं सांतपनम् । रजकचर्मकारभिल्लव्याधशैलूपनटबुरु- डकैवर्तमेदम्लेच्छाद्या एते रजकाद्याः कापालिकाश्च तहत् । रजका- धन्त्यजागमने त्वमत्या ब्राह्मणस्य पराकश्चान्द्रं वा । मत्या चान्द्रद्व- यम् । क्षत्रियादीनां पादपादह्रासः । अभ्यासे कृच्छ्राब्दम् । रेतःसेका- माङ् निवृत्ती कायम् । चाण्डालाद्यन्त्यावसायिस्त्रीसंगमने तु गुरुतरं प्रायश्चित्तं गुरुतल्पप्रकरणे दर्शितम् । चाण्डालादिषु गर्मोत्पत्तौ द्वादशा- ब्दार्धगुरुतल्पबतम् । स्त्रीणामपि सवर्णानुलोमगमने यत्पुरुषोक्तं त्रैवा- पिकादिकं तदेव कार्यम् । प्रतिलोमगमने तु शूद्रो बाह्मणी गच्छेचे- द्वीरणैर्वेष्टयित्वाऽनौ तं क्षिपेत् । ब्राह्मण्याः शिरो वापयित्वा सर्पि- पाऽभ्यज्य ननां खरमारोप्य महापथं गमयेत् । सा पूता भवति । वैश्यश्चेल्लोहितदर्वेष्टयित्वाऽना क्षिपेत् । ब्राह्मणी पूर्ववद्गमयेत् । १ क. अन्यपूर्वासु चतुरभ्या" । २ घ. °भु चतुर य°। ३ क, 'सं या च° । स. ग. यवोदकं द° । ५ ख. ग. घ. कमासः । वै । ६ ख, शाब्दं ग ।

११८ श्रीधराचार्यकृतः- क्षत्रियश्चेच्छरपष्टयित्वाऽग्नौ निक्षिपेत् । ब्राह्मणी पूर्ववद्गमयेत् । एवं क्षत्रियायां वैश्यशूद्रयोर्वेश्यायां शूदस्य चैवं स्त्रीपुंसयोः प्रायश्चि. त्तम् । यद्वा ब्राह्मण्याः क्षत्रियगमनेऽतिकृच्छ्रो वैश्ये कृच्छ्रातिकृच्छ्रः। क्षनियायां विप्रक्षत्रियवैश्यगमनेष्वर्धकायकायातिकृच्छ्राणि । वैश्यायां विप्रक्षत्रियवैश्येषु कृच्छ्रपादकृच्छार्धकायकायातिकृच्छ्राणि । शूद्रायाः शूद्रे कायम्। विप्रक्षत्रियवैश्येषु त्वहोरात्रविरावार्धकृच्छ्राणि । बाह्मण्या: प्रतिलोमगमने गर्भोत्पत्तौ विशेषः । ब्राह्मण्याः शूद्रसंगमे कृच्छ्रे चान्द्र- वयं च । वैश्ये कृच्छं चान्द्रद्वयं च । क्षत्रिये कृच्छं चान्द्रं च । क्षत्रि- यायाः शूद्रसंगमे कृच्छं चान्द्रद्वयं च । वैश्ये कृच्छं चान्द्रं च । वैश्यायाः शूद्रसंगमे कृच्छं चान्द्रं च । वैश्ये कृच्छ्रम् । गर्भे प्रसूते तु ब्राह्मण्या विप्रगर्भ तु पराकः । क्षत्रगर्भे चान्द्रम् । वैश्यगर्भे चान्द्रं पराकं च । शूदगर्भे तु चाण्डालत्वात्त्यागैः । ऋतुकालदोषैर्गर्भस्रावे चान्द्रत्रयम् । मत्यागमने तु पराकादि द्विगुणम् । द्विजमार्याः शूद्रेण संगता अनिसृत- गर्माः प्रसूयन्ते चेत्प्रायश्चित्ताभावः । गर्भधारणकाले शूद्रसंगमे तु प्रसवोत्तरकालमेव प्रायश्चितं कार्यमन्यथा गर्भबाधा स्यात् । तच्च मासं यावकम् । स गर्भो दोपाभावात्संस्कार्यः । औद्धत्यात्मायश्चित्ताकरणे स्त्रियाः कर्णादिकर्तनं कार्यम् । अन्त्यजगमनेऽपि स्त्रीणाम् । तत्र बाह्मण्या अमत्या रजकाद्यन्त्यजगमने चान्द्रत्रयम् । चाण्डालाद्यन्त्या. वसायिसंगमे त्वमत्या ब्राह्मण्याश्चान्द्रचतुष्कम् । मत्या द्विगुणम् । गर्भिण्याः पश्चादन्त्यसंगमेऽपि प्रसूताया एवं प्रायश्चित्तम् । सा गृहे न प्रचरेत् । न भर्ता सह शयीत । न बान्धवैः सह भुञ्जीत । न धर्मकर्म- साधनम् । सा कृच्छ्राब्दं चरेत् । हिरण्यं धेनुर्वा दक्षिणा । मत्याऽन्त्य- संपर्के तु सा प्रदीप्तेऽनो प्रविश्य मृता शुध्येत् । प्रायश्चित्तमकुर्वाणाः पुंलिङ्गेनाङ्कनीया वध्या वा स्युः । इति स्मृत्यर्थसारे पारदार्यप्रायश्चित्तम् । परिवित्तेरपि परिवेत्तृप्रायश्चित्तवत् । तत्र कृच्छ्रातिकृच्छ्रस्थानेऽत्र कायम् । वाधुंध्ये चान्द्रादिष्वेकं त्रैमासिकं जातिशक्तिगुणाद्यपेक्षया योज्यम् । लवणक्रियायां चैवम् । अथ स्त्रीशदविट्क्षत्रवधेषु-तत्रामत्या जातिमात्रस्त्रीक्षववैश्यशूद्रवधेषु क्रमेण ब्रह्महत्यावतं त्रैवार्षिकवार्पिकपाण्मासिकानि कुर्यात् । यद्वा वृष- १ ख. ग. च्छतप । २ ख. ग. प्रच्युते तु। 3 घ. °ग: । धातुदो । ४ ख. ग. °तु दोषै ।

स्मृत्यर्थसारः। भैकसहस्रा गा वृषभैकशता गा वृषभैकादश गाः सवत्सा धेनूर्दद्यात् । ईपवृत्तस्थक्षत्रादिवधेपु ब्रह्महत्यावतचतुर्थांशाष्टांशषोडशांशवतानि । सम्यग्वृत्तस्थवधेष्वेकांशाधिकानीमानि। सदाचारगुरुपूजाघृणाशौचेन्द्रि- यनिग्रहभूतहितादिगुणयुक्तत्वं वृत्तस्थत्वम् । मत्या पड्वार्षिकत्रैवार्षि- कवार्षिकाणि । श्रोत्रियक्षत्रादिवधेषु नवपद्विवर्षाणि व्रतानि । व्रत. स्थश्रोत्रियक्षत्रादिवधेषु दशवार्षिकम् । प्रारब्धसोमयागस्थश्रोत्रियक्ष- त्रादिवधे द्वादशाब्दम् । सोमयागस्थश्रोत्रियक्षत्रादिवधे पडूवार्षिक ब्रह्मचर्यमृषभैकसहस्रगोदानसहितं त्रैवार्षिकमृपभैकादशगोदानसहितं वार्षिकमृपभैकादशगोदानसहितं पाण्मासिकं च गौतमोक्तम् । दुर्वृत्तक्ष- त्रादिवधे मत्या त्रैमासिकद्वैमासिकचान्द्राणि । अमत्या त्रिरात्रोपवा- ससहितमृषभैकादशसहितगोदानं पश्चगव्यमासं पयोमासं च कुर्यात् । इदं प्रायश्चित्तजातं ब्राह्मणस्य कर्तुज्ञेयम् । क्षत्रियादेः कर्तुः पादपाद- न्यूनं ज्ञेयम् । मूर्धावसिक्तादीनां वधे चैवं प्रायश्चित्तं तत्र तत्रोह्यम् । सर्वत्र दण्डवृद्धिह्रासाभ्यां प्रायश्चित्तवृद्धिहासौ विज्ञेयो । अथ स्त्रीवधे-तत्र ब्राह्मण्यादिस्त्रीणां प्रातिलोम्येनान्त्यजातिप्रसूतानां ब्राह्मणादिमार्याणां स्वैरिणीनाममत्या वधे तु जलाधारचर्मकोशं दृति धनुश्छागमेषान्क्रमादद्यात् । मत्या पदचतुर्द्धकमासाः कार्याः । सुता- दीनां वधे चैवम् । वेश्याकर्मणा जीवन्तीनां बधे किंचिदेव जलं दद्यात् । प्रातिलोम्येन व्यभिचरितबाझगयादिखीवधकर्तृणां क्षत्रिया- दीनां गोवधोक्तमायश्चित्तं यथा योज्यम् । ब्राह्मणीनां वधे त्वमत्या पाण्मासिकं दशधेनुदानं वा। क्षत्रियादिवधे त्रैमासिकतत्तदर्धानि।मत्या ब्राह्मण्यादिषु द्विगुणम् । यद्वा वैश्यायां धेनुदानम् । शूद्रायां चान्द्रादि- प्वेकम् । धर्मकर्मसाधनबाह्मण्यादिवधे तु ब्राह्मण्यां पड्वर्षं प्राकृतं ब्रह्म चर्यम् । क्षत्रियायां वार्षिकं वैश्यायां सार्धं वर्षं शूद्रायां नवमासम् । अमत्या सर्वत्रार्धम् । आत्रेय्यां प्रायश्चित्तमुक्तम् । अथान्यहिंसायाम्-तत्रास्थिमतां कृकलासादीनामनुक्तनिष्कृतीनां सह- सवधे वाऽनस्थिमतां क्षोदिष्ठानां यूकामशकमत्कुणदेशादीनां शकटपू- वधे च पाण्मासिकं प्राकृतं ब्रह्मचर्य दशधेनुदानं वा । तत्प्रमाणाधि- केऽधिकं कल्प्यम् । ततो वा कृशास्थिप्राणिवधे किंचिद्देयम् । अष्टमु- १ ख. 'म् । श्रुतार्थयो । २ क. ति धेनुच्छा । ३ ख. ग. श्चित्तमर्धाधै यो ।

- १२० श्रीधराचार्यकृतः- ष्टिमितं धान्यं किंचित् । किंचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि पूर्णपात्रमाढकं च । चतुराढकं द्रोणं द्रोणात्मिका खारिका । हिरण्ये तु पणं किंचित् । अनस्थिके क्षोदिष्ठे प्राणायामः । स्थविष्ठानस्थिघुणादि- प्राणिवधे तु तप्तयावकं व्यहम् । फलपुष्पान्नरसजातप्राणिवधे घृताहा. रोऽहोरात्रम् । मार्जारगोधानकुलमण्डूकचापकाकोलूकादीनां प्रत्येक पयस्त्रिरात्रं पादकृच् योजनगमनं वा। सवन्त्या समुद्रगनद्यां स्नानं वा । अब्दैवतसूक्तजपो वा। एतानि प्रत्येकं विरानं कुर्यात् । एकवर्षवत्सो वा देयः । मत्या द्विगुणम् । अभ्यासे कायम् । एषां समुदितानां वधे कार्य पाण्मासिकम् । गजे पश्चनीलवृपा देयाः। हये बरवस्त्रयुग्मम् । उष्ट्रे गुञ्जा- मारः सुवर्णगुञ्जा वा । खरे वृप एकवर्षवत्सो वा देयः । अजेऽनड्वा- न्वृषो वा । मेषे चैवम् । हंससारसपारावतमयूरचक्रवाकबकबलाकावि- षज्ञकङ्कश्वाबिट्कारण्डवश्येनभासराजपक्षादिषु गौर्दया । गृध्रकाको- लूककपोतकुक्कुटबृहत्पक्षादिपु त्रिवर्षों वत्सः शुकचापखञ्जरीटलाब- कसारिकादिषु द्विवर्षों वत्सः । टिट्टिमतित्तिरमङ्ग्वाहिकादिक्षुद्रप- क्षिप्वेकवर्षो वत्सः । क्रव्यादव्याघ्रशगालादिमृगवधेषु वानरे च हंस- श्येनकङ्कगृधादिषु जलचरबलाकादिपक्षिषु स्थलचरकाकादिपु मासे मयूरे चैतेषां प्रत्येकवधे गौर्दया । अक्रव्यादहरिणादिमृगेषु खञ्ज- रीटादिपक्षिषु च वत्सतरी देया सरीसृपेप्वयोदण्डस्तीक्ष्णोमयागः । यद्वा शुके द्विवर्षो वत्सः । क्रौञ्चे त्रिवर्षः। मृगपक्षिषु नपुसंकवधे त्रपु सीसकं मापमानं देयं पलालमारो वा सूकरे घृतकुम्मः । तित्तिरी तिल- द्रोणः । एषु दानाशक्ती द्रव्यकल्पनया तत्समस्य कृच्छादि कार्यम् । यद्वा दानाशक्तौ गजगण्डमारसाश्वोटखरगौरगवयऋष्यमहिपमेषादि- स्वमत्या प्रत्येकवधे सार्धकृच्छ्रः । समस्तवधे चान्द्रम् । मत्या प्रत्येक- वधे चान्द्रम् । समस्तवधे त्वावृत्तिः । हरिणसारङ्गरुरुवराहसिंहगण्डके- सरिव्याघ्रमकरमहामत्स्यग्राहशिंशुमारादीनाममत्या प्रत्येकं कृच्छ्रः । समस्तवधे कृच्छ्रद्वयम् । मत्या प्रत्येकवधे चैवम् । समस्तवधे चान्द्रम् । श्ववृकवानरजम्बूकविड्वराहादिष्वमत्या प्रत्येकं त्रिरात्रम् । समस्तवधे कृच्छ्रः। मत्या प्रत्येकवधे चैवम् । समस्तवधे द्विगुणम् । मार्जारसजिग- रदुन्दुमनकुलमण्डूकमूषककर्कटशलमसेधागोधाशाल्मककूर्मशशादिष्व- मत्या प्रत्येकवधे पादकृच्छ्रः। समस्तवधे कृच्छ्रः । मत्या प्रत्येकं चैवम् । १ ख. क्षिषु त्रिव।

स्मृत्यर्थसारः। १२१ हंसादिष्वमत्या प्रत्येकवधे कृच्छ्रः । गृध्रादिपु पादन्यूनकृच्छ्रः । शुका- दिष्वर्धकृच्छः । मत्या प्रत्येकवधे चैवम् । टिट्टिभादिपु पादकृच्छ्रः । समस्तवधादी तच्च द्विगुणं सर्वत्र । एकहन्तृविषय एवम् । हन्तृद्वित्वे तु प्रत्येकं तत्र तत्रोक्तार्धं स्यात् । हन्तृबहुत्वे तु गजादिपु प्रत्येकं कृच्छ्रः। हरिणादिपु त्रिरात्रम् । श्वादिषु द्यहम् । मार्जारादिपवासः । टिट्टिमा- दिषु नक्तम् । मृतप्रायेष्वमत्या प्रत्येकवधे तु गजादिषु त्रिरात्रम् । हरिणादिषु द्यहम् । खरादिषु चतुर्थकालः । मार्जारादिपवासः । गृध्रादिषु नक्तम् । शुकादिप्वकभक्तम् । टिट्टिभादिषु जले प्राणायामः । अविज्ञातसर्वमृगपक्षिषु त्रिरात्रमित्या दिदेशकालजातिशक्तिगुणाद्यपे. क्षया गुरुविषये लघुविषये च योज्यम् । इति हिंसाप्रायश्चित्तम् । अथ वृक्षच्छेदनप्रायश्चित्तम्-वृक्षगुल्मलतावीरुधां फलपुष्पादिभिरुपयो. गिनां छेदने गायत्र्यादीनामृचां शतं जपितव्यम् । तावद्गायत्रीजपो वा । ओषधीनां ग्राम्यारण्यानां वृथैव च्छेदने दिवा गोपरिचयां कृत्वा रात्री क्षीरं पीत्वैव स्वपेत् । पञ्चमहाराहायरष्टार्थवच्छेदने न दोषः । कृष्याापकरणादिदृष्टार्थत्वे च न दोषः । चैत्यश्मशानसीमापुण्यस्था- नदेवालयस्थे वृक्षेऽन्यस्मिन्प्रख्याते वा वृक्षे छेदन ऋक्शतजपो द्विगुणं दण्डानुसारेण प्रायश्चित्तं कार्यम् । सर्वत्र शूद्रस्य जपस्थाने दण्डानुसा- रेण द्विराबादि कल्प्यम् । वृक्षच्छेदाभ्यासे चान्द्रादिप्वेकं कार्यम् । इति वृक्षच्छेदप्रायश्चित्तम् । अथ श्वमा रादिदष्टेपु-श्ववृकशृगालखरोष्ट्रविड्वराहकाककुक्कुटवानर- श्चलीक्रव्यादान्त्यजातिभिर्दष्टः शक्तोन्नामेरधः पयसा द्विरात्रम् । अग्निहोत्र्येकरात्रम् । ब्रह्मचारी त्रिरात्रम् । नाभेरूवं द्विगुणम् । वक्त्रे त्रिगुणम् । मस्तके चतुर्गुणम् । यद्वोत्तमाङ्ग समुद्रगनदीनानं प्राणा- यामशतं च कृत्वा घृतेनैकरात्रम् । अशक्तस्य जले प्राणायामवयं कृत्वा घृतेनैकरात्रम् । अत्यशक्ती गत्वा ब्राह्मणान्प्रणिपत्य तैनिरीक्षितः शुध्येत् । अत्यन्ताशक्तौ हिरण्योदकमिश्र घृतं प्राश्य शुध्येत् । ईषद्दष्टे तु नाभेरधश्चेदापो हिष्ठीयादिभिः स्नानं प्राणायामत्रयं च । नाभेरुवं द्विगुणादि । मार्जारमूषकवादिनकुलाश्वाजमहिपीहीनजात्यारण्यमृगै. र्दष्टे जले दश प्राणयामाः । ईपद्दष्टस्य पश्च । क्षत्रियादेः पादपादन्यू- नम्।शूद्रस्य तूपवासेन गोदानेन गोमिथुनदानेन वाऽमन्त्रकमाणापामेम १२२ श्रीधराचार्यकृतः- वाशुद्धिः । ब्राह्मणी दष्टा नात्वोदितं ग्रहनक्षत्रं दृष्ट्वा शुध्येत् । कृच्छ्रा. दिवतस्था दृष्टा त्रिरात्रमुपोप्य सघृतं यावकं भुक्त्वा व्रतशेष समापयेत् । ब्राह्मण्यनुसारेण क्षत्रियादिस्त्रीणां चैवम् । रजस्वला श्वादिदष्टा पश्च- दशरात्रं निराहारा पश्चगव्येन शुध्यति । नाभेरूज़ मस्तके च द्वित्रिच- तुर्गुणादि योज्यम् । श्वादिघातस्य चावलीढस्य च नखेविलिखितस्य चाद्भिः प्रक्षालनमग्निना चोपतापनम् । श्वादिदंशशस्त्रघातादिजनित- वणे कृमिजनने गवां मूत्रपुरीषेण त्रिसंध्यं स्नानमाचरेत् । नाभेरुवं चेत्रिरात्रं पञ्चगव्याशी स्यात् । तत आकण्ठात्पात्रम् । शिरो- वणे तु कायम् । तत्र श्वादिदंशवणे तदंशप्रायश्चित्तानन्तरमिदं कृमिजन- ननिमित्तं प्रायश्चित्तं कार्यम् । शस्त्रादिवणे त्वेवमेव व्यहं पञ्चगव्याशना- दिकम् । क्षत्रियादिषु पादपादह्रासः । अन्यत्रणे कृमिदोषे तूपवासो हिरण्यं च दत्त्वा कृच्छ्रेण शुद्धिः । निन्दितार्थोपजीवने चान्द्रादिप्वेक त्रैमासिकं वा । नास्तिक्यं वेदोक्तकर्मनिन्दनम् । तेन जीवनं नास्ति- क्यवृत्तित्वम् । नास्तिक्ये सकृत्कृते कृच्छ्रः। नास्तिक्यावृत्तावतिकृच्छ्रः। अभ्यासे चान्द्रादिष्वेकम् । अत्यन्ताभिनिवेशेन बहुकालाभ्यासे पश्चाब्दं ब्राह्मणगृहे भैक्षचर्या । अर्थ ब्रह्मलोपे प्रायश्चित्तम्-तत्रोपकुर्वाणो नैष्ठिकश्च त्रैवर्णिकब्रह्मचारी स्त्रियं गत्वाऽवकीणी भवति तत्र गुरुतल्पे तत्समे च गुरुप्रायश्चित्तमुक्तम् । ततोऽन्यस्त्रियं गत्वा स नैर्ऋतदैवतेन रक्षोदेवतेन चैकाक्षगर्दभेन पशुनाऽ. रण्ये चतुप्पथे रात्री लौकिकेऽनौ पाकयज्ञधर्मेणाऽऽश्वलायनादिपशुकल्प- तन्त्रेणेष्ट्वा तस्याजिनमूलवालं परिधाय विषवणस्नायी लोहितपात्रः स्वकर्माऽऽचक्षाणः सप्तगृहभेक्षाण्येकवाराशी वत्सरेण शुध्येत् । एवमशक्ती नैर्ऋतं च निरुप्य पक्त्वा कामाय स्वाहा निर्ऋत्यै स्वाहा रक्षोदेव- ताभ्यः स्वाहेति हुत्वा होमशेपं समापयेत् । अम्बुव्रतं चरित्वा शुध्येत् । इदं वार्षिकवतमश्रोत्रियपल्यां वैश्यायां श्रोत्रियपत्न्यां वा कार्यम् । गुणवत्यां च क्षत्रियायां श्रोत्रियपन्यां द्विवार्षिकम् । गुणवत्यां बाह्मण्यां त्रिवार्षिकम् । अमत्याऽवकीर्णी वार्षिकस्थाने ब्रह्महत्यावतं पण्मासं चीरवासाश्चरेत् । ईपद्यभिचारिण्यां चैवम् । द्विवार्षिकादिप्वम- त्याऽर्धम् । अत्यन्तव्यभिचरितासु स्त्रीषु शूद्यां सचैल स्नात्वोदकुम्भ दद्यात् । वैश्यायां चतुर्थकालाहारो ब्राह्मणान्मोजयेद्यवसभारं च तु १ ख. ग. भरधश्चेत्रि। २ ख. ग. घ. °थ व्रतलो : ख. ग. घ. भाप्याब्दव्रतं च स्मृत्यर्थसारः। १२३ गोभ्यो दद्यात् । क्षत्रियायां तु विरात्रोपोपितो घृतपात्रं दद्यात् । ब्राह्मण्यां पात्रोपोषितो गां दद्यात् । गोष्ववकीर्णः कायम् । षण्डायां पललभार सीसं मापं च दद्यात् । स्त्रीसंभोगं विना मत्या रेतो विसृज्य नैर्ऋतयागमात्रम् । दिवा स्वप्ने चैवम् । कृच्छ्रचान्द्रादिवतेप्वतिदिष्ट- ब्रह्मचर्येषु रेतःस्कन्दने चैतदेव यागमात्रम् । स्वप्ने रेतःस्कन्दने ब्रह्मचारी स्नात्वाऽर्कमर्चयित्वा पुनमित्विन्द्रियमित्यूचं बिर्जपेत् । वानप्रस्थो यतिश्च मत्या ब्रह्मचर्यलोपे पराकत्रययुक्तमवकीर्णिव्रतं चरेत् । अमत्या कृच्छ्रत्रयमुक्तम् । संन्यस्तस्य गार्हपत्यपरिग्रहे पाण्मासिकं कृच्छं कृत्वा पुनर्जातकर्मादिसर्वसंस्कारैः शुद्धिः पुनःसंन्यासेन । क्षत्रियस्य चान्द्र, द्वयम् । वैश्यस्य कृच्छ्रत्रयम् । यद्वैतानि ब्राह्मणस्यैव शक्तिसकृदभ्या- सापेक्षया योज्यानि । अनाशकनिवृत्तानां चैवम् । मरणसंन्यासिनां तु जलाग्न्युद्धन्धनभ्रष्टानां प्रवज्यानाशकच्युतानां विषप्रपनप्राप्तशस्त्राधा. तच्युतानां च चान्द्रं तप्तकृच्छद्वयं च शक्त्याद्यपेक्षया शेयम् । आत्म- त्यागाद्यशास्त्रीयमरणाध्यवसितस्य तावन्मात्रे त्रिरात्रम् । शस्त्रादिक्षते कृच्छ्रः । दृढक्षते चान्द्रम् । शस्त्रादिमृतस्य पुत्रादयश्चान्द्रं तप्तकृच्छ्रद्वयं च कुर्युः। इत्यवकीणिप्रायश्चित्तम् । ब्रह्मचारी त्वनातुरो गुरुशुश्रूपादिगुरुतरकार्यव्यग्रतया सप्तरानं भैक्ष्य- स्याग्निकार्यस्य वा लोपे कामाच्चावकीर्णोऽस्म्यवकीर्णोऽस्मि कामका- माय स्वाहा काममवपन्नोऽस्म्यवपन्नोऽस्मि कामकामाय स्वाहेत्याभ्या- माज्याहुती त्वा समासिञ्चन्तु मरुतः समिन्द्रः सं बृहस्पतिः । सं माऽयमग्निः सिञ्चत्वायुषा च बलेन च ॥ इत्यनेनोपतिठेत । अव्यग्रतया लोपेऽवकीणिवतम् । उपनयनानन्तरं वतमध्ये यज्ञोपवीतादीनां नाशे वस्त्रं सूत्रान्तरं वा धृत्वा मनोज्योतिरि- त्यादिभिमनोलिङ्गाभिस्त्वमग्ने व्रतपा असीत्यादिवतलिङ्गाभिश्चतस्र आज्याहुतीर्तुत्वा विधिना धारयेत् । असदे॒क्ष्यभोजनेऽभ्युदितेऽस्तमिते वान्ते दिवास्वप्ने नग्नस्त्रीदर्शने ननस्वापे श्मशानमाक्रम्य हयादींश्चाऽऽरुह्य स्वपूज्यानतिक्रम्याग्निकार्यलोपे चैतैर्जुहुयात् । मणिवासोगवादीनां प्रति. r . ख. ग. °पलाल°। २ ख. ग. 'श्चतां यशसा ब्रहावर्चसा । इ ।

१२४ श्रीधराचार्यकृतः- महे सावित्र्यष्टसहस्रं जपेत् । स्थावरजङ्गमवृक्षवल्मीकपशुसरीसृपादिप्रा. णिवधे कूष्माण्डीभिर्होमः । यज्ञोपवीतं विना यज्ञोपवीतमन्यथाकृत्वा वा भोजने विणमूत्रोत्सर्गे वा गायत्र्यष्टसहस्रेण सप्राणायामेन शुद्धिः । पाने त्रिः प्राणायामाः । ननभक्षणे पद् प्राणायामाः। भोजने मेहने चैवम् । यज्ञोपवीतमेखलाजिनदण्डानां लोपे व्याहृतिहोमं पटू प्राणायामा न्कृत्वा पुनर्धारयेत् । संध्याग्निकार्यलोपे सात्वाऽष्टसहस्रजपः । भिक्षाट- नमकृत्वा स्वस्थस्यैकान्नाशनेऽष्टशतजपः । मिक्षां याचित्वकान्नाशने न दोषः । गुरुशुश्रूषादिलोपेऽष्टशतजपः । मधुमक्षणे मेध्यमांसभक्षणे च कृच्छः । मत्या पराकः। अभ्यासे द्विगुणं पुन:संस्कारस्ततो वतसमाप- नम् । तदेव वैद्यकार्थे गुरूच्छिष्टं देयम् । ततो नीरुजो भूत्वा हंस: शुचिषदित्यादित्यमुपतिष्ठेत । आज्ञाविघातादि गुरुप्रतिकूलं कर्माऽऽचर- प्रणिपातादिना प्रसाद्यैव शुध्येत् । चोरव्याघ्रादिभयाकुलप्रदेशे महान्ध- कारे रात्री गुरुणा स्वकार्याथं प्रेपितः शिष्यो देवान्मृतश्चेत्स गुरुः कृच्छ्वयं कृत्वा शुध्येत् । सर्वत्राऽऽरोग्यार्थमौषधपथ्यानप्रदाने तदर्थ- यलेन मृते न कश्रिदोषः। अथ मिथ्यामिशंसने-यस्तु माहामो ब्राह्मणं महापातका_मिथ्याऽभि- शंसति स मासमम्बुमक्षो नियतेन्द्रियः शुद्धवतीमन्त्रजपशीलः शुध्येत् । क्षत्रियाद्यमिशंसनेऽर्धाहानेन कुर्यात् । क्षत्रियाद्या ब्राह्मणाभिशंसने द्वित्रिचतुर्गुणं कुर्युः । शूद्रस्य जपस्थानेऽमन्त्राः प्राणायामाः । भूताभि- शंसने तत्तदर्धम् । अतिपातकाभिशंसिना पाहोनम् । अनुपातकाभि- शंसिना तदर्धम् । उपपातकाभिशंसिनां ततो न्यूनम् । मिथ्याभिशस्तः कृच्छं चाऽऽग्नेयं पुरोडाशं वायव्यं पशुं दा कुर्यात् । अतिपातकादिषु पादपादह्रासः । ज्येष्ठभ्रातुः कनिष्ठभ्रातुर्वा भामिनियुक्तोऽमत्या गवा चान्द्रम् । मत्या संवत्सरं ब्राह्मणगृहे भक्ष्यं चरेत् । रजस्वलां स्वमार्या- ममत्या सकृद्गत्वा त्रिरात्रं घृतं प्राश्य विशुध्येत् । अभ्यासे सप्तरात्रम् । मत्या सकृच्चेत्सप्तरात्रम् । अभ्यासे कृच्छः । अन्त्यन्ताविच्छिन्नाभ्यासे त्रैवार्षिकम् । अथ रजस्वलानां परस्परस्पर्शने वक्ष्यते-रजस्वले द्वे सवर्णकमर्तृके अमत्या वा मत्या परस्परं स्पर्शे सद्यः नाते शुध्यतः । असपल्योस्तु सवर्णयो- १ क. ग. तदैवैद्यार्थग । क. तदेकवैद्यार्थ । २ ख. ग. मंसिना त°। ३ ख. ग. घ, सवर्णे वाऽसवणे चेक, स्मत्यर्थसारः। योनिगोत्रसंबन्धयोरमत्या स्पर्श मानमात्रम् । मत्या त्वेकरानं निराहा- रत्वं पञ्चगव्याशनत्वं च । असंबन्धयोः सवर्णयोः स्पर्शने त्वमत्या मात्वा दिनान्ते राज्यन्ते वा शुद्धिः । मत्या स्पर्श त्वा शुद्धेनश्निीयात् । भुक्तौ प्रतिदिनमुपवासस्तावद्दानं वा । असवर्णयोस्तु स्पर्शे ब्राह्मणी- शूद्रयोर्मत्या स्पर्शे ब्राह्मण्याः कृच्छ्रः । शूद्रायाः पादकृच्छ्रस्तावद्दानं था । ब्राह्मणीवैश्ययोः स्पर्शने बाह्मण्याः पादोनकृच्छः । वैश्यायाः पादकृच्छः । ब्राह्मणीक्षत्रिययोः स्पर्शे ब्राह्मण्याः कृच्छ्रार्धम् । क्षत्रि- यायाः पादच्द्रः । क्षत्रियाशूद्रयोः स्पर्श क्षत्रियायास्त्रिरात्रम् । शूद्राया. स्त्वहोरात्रम् । क्षत्रियावश्ययोः स्पर्शे क्षत्रियायात्रिरायम् । वैश्याया अहोरात्रम् । वैश्याशूद्रयोः स्पर्श च वैश्यायास्त्रिरात्रम् । शूद्राया- चतुर्थकाल आहारः । एषां वर्णस्त्रीणां मत्या स्पर्श शुद्धिः । अमत्या स्पर्शे तु सवर्णासधिकवर्णों वा बाता मायादेव । हीनवां स्पृष्ट्वा माल्याऽदन श्रीयात् । यदि सारे पश्चात्पतिमोजनमुपवासस्तावहानं पा। विश्मोजनं पा प्रत्याजायं वा कुर्यात् । चाण्डालाद्यन्तावसायिप- तितशवादीनां मत्या स्पर्शने तदाद्यहान्यमुनानाऽतिक्रम्य प्रायश्चित्तं कुर्यात् । तच्च प्रथमेऽह्नि स्पर्श त्रिरात्रम् । द्वितीये द्यहम् । तृतीये त्वहोरात्रम् । परतो मान । प्रथमादिदिने यदि मुझे पश्चाचान्वं पादपाइन्यूनं दिनानुसारेण कुर्यात् । अमत्या चाण्डालादिस्पर्श तु तदारामाहारा बालेनैव शुध्येत् । तत्र प्रथप्रादिदिने भुक्तो प्रत्या- शायः । अत्या रजमादिस्पर्शे तु चाण्डालादिस्पर्शवत्किंतु प्रथमादिदिने भुक्ती कृच्छ्रद्वयमर्धार्धन्यूनं कुर्यात् । अमत्या रजकादिस्पर्शे च तदाये भुजाना कालेनैव शुद्धा । भुक्तौ प्रत्याम्नायः । श्ववृकशृगालवानरख- रोष्ट्रविड्राहकाककुक्कुटपञ्चनखोच्छिष्टशूद्राणां मत्या स्पर्शने तदाद्य- हान्यमुजाना नीत्वा प्रायश्चित्तं कुर्यात् । प्रथमेऽह्नि स्पर्श द्यहम् । द्विती- येऽहोरात्रम् । तृतीये नक्तम् । तत एकमक्तम् । तत्र प्रथमादिदिने मुक्ती कायं पादपादन्यूनं कुर्यात् । अमत्या श्वादिस्पर्श तदाद्यभुजानकका. लेन शुध्येत् । भुक्तो प्रत्याम्नायः । चाण्डालरजकरजस्वलादिसंस्पृष्टानां मत्या स्पर्शने हीनामध्यादिमलोच्छिष्टस्पर्शने च तदाद्यहान्य मुजानाs- तिक्रम्य प्रथमेऽह्नि स्पर्श तूपवासम् । द्वितीये नक्तम् । तृतीये वेकमक्तम् । प्रथमादिदिने भुक्तौ त्रिव्येकरात्रोपवासनक्तकमक्तानि । अमत्या तत्स्पृ- १ घ. वहिनं । ३ क.°व कुर्यात् ।

१२६ श्रीधराचार्यकृतः टस्पर्शनेऽमुक्त्वा कालेन शुध्येत् । भुक्तौ प्रत्याम्नायः । अशक्तावमत्या चण्डालरजकश्वादिस्पर्शने सद्यः स्नात्वा शुचिराचन्द्रदर्शनात् । अत्य- शक्ती मात्वा दिववाद्यात् । उच्छिष्टयोरजस्वलयोरमत्या स्पर्शने ब्राह्मणी कृच्छ्रेण त्रिरात्रेण शुध्येत् । शूद्री दानरुपोषिता । अन्यवर्णस्त्रीणामनु- च्छिष्टानां मत्या परस्परस्पर्शने यत्प्रायश्चितं तदेवोच्छिष्टानाममत्या स्पर्शनेऽपि मत्योच्छिष्टयोः स्पर्शने तत्तहिगुणम् । उच्छिष्टान्द्विजानज- स्वला स्पृष्टा चेद्धस्तनोच्छिष्टेषूपवासः। ऊोच्छिष्टस्पर्शने त्रिरात्रम् । रजस्वला मुभानोच्छिष्टा च चण्डालादिस्पर्शने तदाद्यहान्यभुञ्जाना नीत्वा प्रथमेऽह्नि स्पर्श गोमूत्रयावकं पात्रं द्वितीये चतूरावं तृतीय द्विरात्रं चतुर्थे तूपवासं कुर्यात् । (*अत्र प्रथमादिदिने भुक्तौ कायोत्तरं चान्द्रम् । उच्छिष्टा रजस्वला रजकादीन्स्पृष्ट्वा तदाद्यभुञ्जानैव स्थित्वा प्रथमादिदिने स्पर्श पञ्चरात्रायेकैकदिनह्रासं कुर्यात्।) अत्र प्रथमादिदिने भुक्तौ त्रिरात्रोत्तरं कायम् । श्वादिस्पर्शे (+तदाद्यभुक्त्वा चतूरावादि। प्रथ- मादिदिने भुक्त्वोपवासोत्तरं त्रिरात्रम् । चण्डालरजकादिसंस्पृष्टस्पर्शने) तदाद्यमुक्तव त्रिरात्रादि । प्रथमादिदिने मुक्तौ प्रत्याम्नायः। सर्वत्राशक्ती काञ्चनं दद्यात् । विप्रेभ्यो भोजनं चान्यद्वा तत्समं कुर्यात् । ततः शुद्धा भवत्विति वाचयेत् । प्रायश्चित्ते समुत्पन्ने रजोदृष्टौ त्वेवम् । सपत्नी रजस्वलां स्पृष्ट्वा रजोदृष्टी सद्यः स्नात्वा शुध्येत् । सपत्नीं सवर्णामधिक- वर्णा वा स्पृष्ट्वा रजोदृष्टावेकरात्रं निराहारत्वम् । हीनवर्णां स्पृष्ट्वा रजोदृष्टावा शुद्धेरभुक्त्वाऽदृष्टी पश्चगव्याशनं च। चण्डालादिसूतिकाश- वतत्परिचारादिस्पर्शे रजोदृष्टावा शुद्धरमुक्त्वा पश्चाचान्द्रम् । रजकादि- स्पर्श रजोदृष्टावा शुद्धेरभुक्त्वा पश्चात्कायम् । श्वादिस्पर्शे रजोदृष्टी विरात्रम् । अन्यास्पृश्योपहतो रजो दृष्ट्वोपवासः । अप्रायत्ये समुत्पन्ने रजोदृष्टौ सर्वत्र बालापत्याया अभिषेके कृते मुक्तिः स्यात् । पश्चादश- नप्रत्याम्नायो वा । कृच्छचान्द्रादिवतस्थायाः माने नैमित्तिके प्राप्ते रजो- दृष्टौ पात्रान्तरिततोयेन सानं ततोऽद्धिःसिक्तगात्रा वस्त्रनिष्पीडनमन्य- वस्त्रधारणं वा कृत्वा व्रतं समाचरेत् । शावाशौचे प्रसवाशौचे वा मध्य * धनुचिह्नान्तर्गत प्रन्थः क. पुस्तके नास्ति । + धनुश्चिनान्तर्गत प्रन्थः क. पुस्तके नास्ति । १ क. ग. घ. त्वा तदेवा । २ ख. ग. ये त्रिरा'। ३ ख. ग. घ. 'तू । अप्रायसे स।

स्मृत्यर्थसारः। १२७ तुदर्शने त्वनात्वा भोजनं शुद्धावुपवासः । आर्तवमध्ये जातमृताशीचे तु स्नात्वा भोजनम् । रजस्वलाया व्रतस्थाया रजस्वलाभिभाषणे तूप- वासः। रजस्वलां स्पृष्ट्वा भुक्त्वा रजस्वलाऽऽस्नानकालं नाश्नीयात् ।वत. स्थायाः पश्चगव्यं च । रजस्वला श्वादिदष्टा पश्चरात्रं निराहारा पञ्च- गव्येन शुध्येत् । प्रारब्धे दीर्घवते रजोदृष्टौ व्रतलोपो नास्ति । हविष्य- भोजनादि कुर्यात् । दिवार्चनादिकं च कारयेत् । शुद्धिकाले त्वस्मात्वा मुक्ता कार्य मत्या चान्द्रम् । शेपं भक्ष्याभक्ष्यप्रायश्चित्तं वक्ष्यते । रज- स्वला त्वञ्जनाभ्यञ्जनस्नानप्रचारदन्तधावननखनिकृन्तनरज्जुस्पर्शव्यापा- रताम्बूलमधुमांसगन्धपुष्पदिवास्वापग्रहनक्षत्रनिरीक्षणादि वर्जयेत् । पाणौ मृन्मये वा खर्परे वा भुञ्जीतेत्यादिनियमस्था च । अत्र सर्वत्र सानं सचलम् । इति रजस्वलाविधिः। अथ सुतानां विक्रये-तत्र कन्याविक्रये देवगृहप्रतिश्रयोद्यानारामपुष्क- रिणीसभाप्रपापुण्यसेतुविक्रये च चान्द्रादिप्वेकम् । अथवा त्रैमासि- कम् । आपदि तप्तकृच्छ्रः । अत्यन्तापदि सांतपनम् । पुत्रवि- क्रये सर्वं द्विगुणम् । एकापत्यपुत्रविक्रये त्रिपवणस्नाय्यधःशायी चतुर्थकालाशी वत्सरेण शुध्येत् । कन्याविक्रये तदर्धेन शुद्धिः। अथायाज्ययानने-तत्र व्रात्ययाजकश्च व्रात्योपनेताऽध्यापक श्च हीनया. जकः शूद्रान्त्येष्टिकर्मयाजकश्च वेदविक्रयी तस्करव्यतिरिक्तशरणागत- घाती तस्करात्यागी चाभिचारी वा मत्या कायादिपु योग्यं कृच्छादि- वयं कुर्यात् । मत्या व्रात्यस्योपनयनाध्यापनयाजन उद्दालकवतं कुर्यात् । तञ्चोक्तं व्रात्यप्रायश्चित्तेषु । अतिक्रान्तोपनयनो व्रात्यः । द्यहादिद- शाहान्तोऽहर्गणो यज्ञोऽहीनः । औवताव्यभिचारे? दोषमाहुः। ब्राह्मणा- धन्त्येष्टिकर्मसु लोमाद्याजने कायातिकृच्छ्रतप्तकृच्छाः । अभ्यासे द्विगु- णम् । अत्यन्ताभ्यासे त्रिगुणम् । शूद्राद्ययाज्ययाजने त्वमत्या चान्द्रा- दिवेकम् । अशक्तौ कृच्छ्रः । मत्या त्रैमासिकम् । अभ्यासे द्विगुणादि । परिवेदकादियाजने चैवम् । पर्वचाण्डालादिश्रोत्रावकाशाधनध्यायेष्व. ध्ययनं वेदविप्लवः । उत्कर्षहेतोरधीयानस्य किं पठसि नाशितं त्वये- त्येवं पर्यनुयोगदानं च वेदविप्लवः । चाण्डालादिपतितश्रवणे वेदपाठ १ ख. ग. शेषमभक्ष्याप्रामाश्चित्ते व। २ क. घ. आतताय्यभिचारेण दो।

१२० श्रीधराचार्यकृतः- उपवासः । मत्या त्रिरात्रमभ्यासे कृच्छः । अत्यन्ताभ्यासे कृच्छ्रत्रयम् । स्मृतिधर्मशास्त्रव्याख्याने तु तदर्धम् । नित्यानध्यायेष्वध्ययने यावदधीतं तावज्जलेऽघमर्षणवत्स्वाध्याय जपेत् । अशक्ती जपेदनघमर्षणवत् । अत्यशक्ती स्थले जपेत् । तावदन्यमन्त्रं वा जपेत् । मत्या प्रत्यनध्याय. मुपवासः । अशुद्धयध्ययने चैवम् । नैमित्तिकानध्यायेऽध्ययने चैवम् । दुर्बोधस्य तदर्धम् । ग्रामकुक्कुटमूषकमण्डूकाद्यन्तरागमने नक्तम् । गवा- श्वमहिषादिपशुस्त्रीशूद्राद्यन्तरागमन उपवासः । मारिसर्पनकुलपञ्च- नखजात्यन्तरागमने त्रिरात्रं त्रिकालनानं च । श्ववृकशगालवानररज- कादीनामन्तरागमनेऽध्ययने कायम् । खरवराहोष्टादिचण्डालसूतिको- दक्याशवाद्यन्तरागमने कायत्रयम् । गौरगवयाजादिब्रह्मोद्गतनास्तिका- दीनां गमने त्रैमासिकम् । शशमेषत्रपाकादिगमने पाण्यासिकम् । गजगण्डसारसव्याघ्रमहापातकिकृतघ्नादिगमनेऽध्ययने कृच्छाब्द ताव- कालमनध्यायश्च । सर्वत्र मत्याऽर्धम् । अन्तरागमने तदानीमेव स्वाध्या- यविरमणे न प्रायश्चित्तमित्येक इत्यादि च ज्ञेयम् । पितृमातृगुरूणाम- कारणत्यागे चान्द्रादिप्वेकं त्रैमासिकं वा । अधिकं मासं षष्ठान्नकालत्वं संहिताजपो वाऽधिकः । सुतत्यागे चान्द्रादिष्वेकं त्रैमासिकं वा बान्ध- वत्यागे वैवम् । कन्यादूषणे सवर्णानां चान्द्रं त्रैमासिकम् । असवर्णा- नामानुलोम्ये पयोमासः कायं वा । प्रातिलोम्ये क्षत्रियवैश्ययोः कृच्छ्रा. ब्दम् । शूद्रस्य वध एवम् । अत्यन्ताभ्यासे सवर्णस्यापि कृच्छ्राब्दम् ।सोम- विक्रयी वृपलीपतिः कौमारदारपरित्यागी शूद्रयाजको गुरोः प्रतिहन्ता सुरामद्यपो ब्राह्मणवृत्तिघ्नः कृटव्यवहारी पवितव्यवहारी मित्रचक्षति- रूपकवृत्तिश्चामत्या त्रैमासिकवतं मत्या पाण्मासिकमभ्यासे कृच्छाब्द कुर्यात् । देवताद्याराधनार्थं गृहीतवतलोपेऽन्यस्मिन्वतलोपे वाऽऽत्मार्थ पाके च मद्यपस्त्रीनिषेवणे च चान्द्रादिप्वेकं त्रैमासिकम् । अधी- ताध्ययनत्यागे व्यसनासक्त्या कृते ब्रह्महत्यासमानवत् । सच्छास्त्रा- यभ्यासासक्त्या बहुकुटुम्बरक्षात्यागे चान्द्रादिवेकं त्रैमासिकं वा। अत्यन्तापदि ब्रह्मोज्झस्य कायम् । अथाग्नित्यागे-नास्तिक्यादग्नित्यागे मासद्वये कायं कृत्वा पुनःसंधा. नम् । मासचतुष्टयेऽतिकृच्छ्रः । पाण्मासके पराकः । पण्मासादूर्व चान्द्रादिष्वेकं संवत्सरादूर्व त्रैमासिकं द्वैमासिकं वा । आलस्यादिना स्मृत्यर्थसारः। १२९ त्यागे तु द्वादशाहातिकमे व्यहमुपवासः । मासातिक्रमे द्वादशोपवासाः पयोभक्षणं वा । प्रमादादिना त्यागे त्वात्रिरात्रं द्वादश लघुप्राणायामाः। आपडावाविंशतिः । आद्वादशरात्रात्पश्चाशत् । आविंशतिरावाच्छतं प्राणायामाः । आत्रिंशद्रात्रादुपवासः। आपष्टिरावात्रिरात्रम् । आसं. वत्सरात्कायम् । अतःपरं प्रत्यव्दं च कायम् । सर्वत्र यावत्कालमहोमी च तावद्व्यं दद्यादित्याहुः । संवत्सरादूर्ध्वमग्निहोत्रत्यागे चान्द्रं कृत्वा पुनराधानम् । द्विवर्पत्यागे चान्द्रं सोमायनं चान्द्रद्वयं वा। त्रिवर्षत्यागे कृच्द्राब्दं गोदानं पुनराधानं च । स्त्रीजीवने हिंसाजीवने वश्याद्यर्थोष- धिजीवने वा हिंसार्थयन्त्रविधाने च चान्द्रादिध्वेकं वा । द्यूतमृगयादि- व्यसनेषु चैवम् । अन्तवाक्तस्करो राजसेवको वृक्षारोपकवृत्तिर्गरदोऽ- ग्निदोऽश्वगजारोहणवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृष- लीपतिर्भाण्डको नक्षत्रोपजीवी श्ववृत्तिब्रह्मजीवी चिकित्सको देवलः पुरोहितः कितवो मद्यपः कूटकारकोऽपत्यनरपशुविक्रेता चेत्याचा अभो- ज्यान्नास्तेषामन्नाशने बाह्मण्यमिच्छन्तो द्रव्यं त्यक्त्वा त्रैमासिकं कुर्युः । बहुकाले द्रव्यं त्यक्त्वा चतुर्थकालाहारास्त्रिपवणनायिनोऽन्द चरि- वाऽन्ते देवपितृतर्पणं गवाह्निकं च दत्त्वा शुध्येयुः । श्वागणिकः श्वग. णजीवी । भाण्डकस्तूर्यादिजीवी बन्दी वा । श्ववृत्तिः सेवकः । बह्म- जीवी मौल्येन द्विजकर्मकर्ता । आत्मविक्रये शूद्रसेवायां च चान्द्रा- दिष्वेकं त्रैमासिकं वा । बहुकालं शूद्रसेवायां चतुर्थकाले मितमोजिन- स्त्रिकालस्नायिनः स्थानासनाभ्यां विहरन्तस्त्रिभिर्वर्षेः शुध्येयुः । समु. द्याने बाह्मणन्यासहरणे सर्वपण्यैर्व्यवहरणे भूम्यन्ते चैवम् । हीनसख्ये चान्द्रेवेकं त्रैमासिकं वा । अहीनसख्यभेद उपोप्य पयःपारणम् । हीनयोनिनिपेवणे चान्द्रादिप्वेकं त्रैमासिकं वाऽनुक्तौ । तत्र त्वमत्या ब्राह्मणो राजन्यां पूर्वोढां गत्वा कायम् । वैश्यां पूर्वोढां गत्वा कृच्छ्रम् । शूद्रां पूर्वोढां गत्वा त्वतिकृच्छम् । क्षत्रियो पैश्यां पूर्वोढां गत्वा कायम् । शूदां पूर्वोढां गत्वा कृच्छम् । वैश्यः शूद्रां पूर्वोढां गत्वा कायम् । मत्या चान्द्रादिष्वेकम् । ब्राह्मणादिषु योग्यं योज्यम् । साधारणस्त्रीगमने पशुवेश्याभिगमने त्वमत्या कायमभ्यासे चान्द्रादि- प्वेकम् । मत्या कुशतप्तमुदकं सप्तरात्रं सकृत्पिबेत् । अभ्यासे त्रैमा- सिकम् । अत्र प्रतिनिमित्तं नैमित्तिकप्रायश्चित्तस्याऽऽवृत्तिर्नास्ति किंतु १ ख. ग. °वकं त्रैमासिकं वा । १७ १३० श्रीधराचायकृतः मत्या गमनाभ्यासेऽहर्गुणवृद्धिर्मासादक । ततो मासगुणवृद्धिर्याव- दब्दम् । ततोऽब्दगुणवृद्धिावत्पापमेवमाचरेत् । अमत्या गमनेऽभ्यासे तु सकृत्कृते यत्प्रोक्तं विभिर्दिनस्तत्रिगुणं मासात्पश्चगुणम् । पण्मा- सात्तु दशगुणम् । अब्दात्पश्चदशगुणम्। व्यब्दादिशतिगुणम् । ततोऽप्येवं प्रकल्प्यम् । एवमुपपातकाभ्यासे । महापातकाभ्यासे तु सकृत्कृते यत्प्रो- तं तद्वितीये द्विगुणं तृतीये विगुणं चतुर्थे निष्कृतिर्नास्तीत्येवमादि- कम् । साधारणगमने तजन्मप्रभृत्यनुबन्धतोऽनवच्छिन्नाभ्यासे गुरुतल्प- व्रतम् । अनाश्रमी त्वाश्रमासंभवे संवत्सरे कायं कृत्वाऽऽश्रममुपेयात् । द्वितीयेऽब्देऽतिकृच्छ्रः । तृतीयेऽब्दे कृच्छ्रातिकृच्छ्रः । अत ऊवं चान्द्रम् । संभवेऽनाश्रमी प्रथमेऽन्दे चान्द्रादिप्वेकम् । यद्वा त्रैमासिकम् । ततोऽ- ब्दाच्चतुर्गुणं योज्यम् । परपाकरुचित्वेऽसच्छास्त्राधिगमन आकराधि- कारित्वे मार्याविक्रये च चान्द्रादिष्वेकं त्रैमासिकं वा । इति स्मृत्यर्थसार उपपातकप्रायश्चित्तम् ॥ अथासत्प्रतिग्रहे-तत्र प्रतिग्रहस्यासत्त्वं जातिदुष्टचाण्डालादेः कर्मदु- टपतितादेश्च भवति । कुरुक्षेत्रादिदेशे ग्रहणादिकाले च । स्वरूपतोऽपि सुरामद्यमहिषीकृष्णाजिनकालपुरुषमृतशय्योभयमुख्यादेरसत्त्वम् । तत्र पतितादेमध्यादिप्रतिग्रहे ब्रह्मचर्यवान्गोष्ठे वसन्प्रत्यहं सावित्रीविसहस्रं जपन्पयोवृत्तिर्मासेन शुध्येत् । न्यायवृत्तिबाह्मणादेः सकाशान्निपिद्ध- मेष्यादिप्रतिग्रहे पतितादेरनिषिद्धभूम्यादिप्रतिग्रहे च चान्द्रम् । पवि. त्रेष्टिा मित्रविन्दष्टिा । गायत्रीलक्षजपो वा । अभ्यासे मासमप्सु वसन्घष्ठे काले पयोभक्ष्यो मासान्ते विप्रान्संतर्घ्य शुध्येत् । पतितादेः कुरुक्षेत्रग्रहणादौ मेप्यादिप्रतिग्रहे चैवम् । सर्वत्रानुक्तौ दातृदेशकाल- द्रव्येप्वदुष्टेषु द्वादशनिष्कप्रमाणद्रव्यप्रतिग्रहे कायम् । एवं सर्वत्र द्रव्या- नुसारात्यायश्चित्तवृद्धिह्रासौ । दातृदेशकालद्रव्येप्वन्यतरदोषे प्रायश्चि- त्तस्यैकैकवृद्धिः । मणिवासोगवादीनामल्पद्रव्याणां प्रतिग्रहेऽष्टसहस्र- जपः । ततोऽल्पेऽल्पं भिक्षामात्रप्रतिग्रहे पुण्यमन्त्रमुच्चरेत् । प्राय- श्चित्तं सर्वं द्रव्यं त्यक्त्वैव कार्यम् । द्रव्ये विद्यमाने प्रायश्चित्ता- धिकारो नास्ति। अथाभक्ष्यभक्षणे प्रायश्चित्तम्--तत्र स्वभावदुष्टल शुनपलाण्डुगृञ्जनछत्रा- कविवराहग्रामकुकुटानाममत्या सकृद्भक्षणे सांतपनम् । अभ्यासे १ ख. ग. ° वा मृगाष्टिवा नि ।

स्मृत्यर्थसारः। १३१ यतिचान्द्रायणम् । मत्या सकृच्चेच्चान्द्रायणम् । अभ्यासे तु सुरापानस- मवत् । पलाण्डादिसमे पूलिभेदे दीर्घपत्रपिच्छगन्धमहौषधिपण्यवृन्ता. कपरारिकयवनेटेपु छत्राकभेदकबुकादौ चैवम् । अभ्यासे चान्द्रावृत्तिः। अत्यन्ताभ्यासे तु सुरापानसमवत् । एतेषु बलात्कारेण मक्षणे तदेकवेद्ये च साविन्यष्टसहस्रेण मूर्ध्नि संततजलबिन्दुपातेनोपवासेन च शुद्धिः। सर्वत्र च्छदितेपूक्तार्धम् । गन्धवर्णरसैल शुनादिसमेपु सांतपनम् । यति- वतिब्रह्मचारिणां तप्तकृच्छ्रादि । खट्वाख्यं पक्षिणं कुसुम्भं वार्ता कुम्भीतक शिगू भूतृणं खुखण्डकवकं कृष्णसर्प तन्दुलीयकं नालि- कानालिकेरीखराख्यशाकानि कालिन्दबाबककुम्भीकेषु वर्तुलालाब्बा- रकण्टकीकुसुम्भरक्तशिगुकोविदारश्लेष्मातकनालिकक्षुद्रश्वेतकञ्चुकिवृ. न्ताकानि पोतिकाकेतुकखट्वास्यकवकशणपुष्पशाल्मलीपु चान्येषु कन्दुदुर्गन्धविट्रकन्दमूलादिपु वचनोद्भवेषु लोहितवृक्षनिर्यासादिषु रेतो. विषमूत्रेषु करनिर्मथिते दनि च बहिर्वेदविजश्च पुरोडाशेपु मक्षणे स्वमत्या सकृच्चेदुपवासः । आवृत्तिरभ्यासे मत्या त्रिरात्रम् । अभ्यासे कायम् । अत्यन्ताभ्यासेऽतिकृच्छ्रोऽत्यन्तानवच्छिन्नाभ्यासे तप्तकृच्छ्र: पुनरुपनयनं च । अन्यथा पतेत् । पतेत् । नील्यास्त्वमत्या सकृद्भक्षणे चान्द्रम् । विप्रस्याभ्यासे चाऽऽवृत्तिरत्यभ्यासे पतनम् । शैवसौरनिर्मा- ल्यनैवेद्यभक्षणे चान्द्रम् । अभ्यासे द्विगुणम् । मत्याऽभ्यासे सांतपनम् । अन्यनिर्माल्ये त्वनापद्येवम् । अथ जातिदुष्टेषु-संधिनीयमसूस्पन्दिन्यनिर्दशामेध्यसेविमृतवत्सागवा- मनिर्दशाजामहियोश्च क्षीरेप्वेकशफेषु महिषीवर्जितारण्यमृगाणामजाव- जितद्विस्तनीनां च पाने दधितत्संभवजितशुक्तेषु चामत्योपवासो. मत्या त्रिरात्रम् । अविखरोष्ट्रवानरविडूवराहश्वापदक्षीरेष्वमत्या सांत- पनम् । मत्या तप्तकृच्छ्रः । अभ्यासे चान्द्रं पुनरुपनयनं च । वपनमेख. लादण्डभैक्ष्यव्रतानि सर्वत्र पुनःसंस्कारे निवर्तन्ते । अत्यभ्यासे पतनम् । ब्रह्मचार्यादेः कृच्छ्रस्तप्तकृच्छ्रो वा । शुक्ते दधि सविकारं भोज्यम् । द्विस्तनेष्वाजमारण्येषु माहिषं च । कपिलाक्षीरादिषु क्षत्रियादेस्तथैव सर्वत्र निपिद्धक्षीरविकारेपु चामत्या द्विरावं यावकम् । मत्या पात्रम. भ्यासे द्विगुणम् । विड्वराहग्रामकुक्कटसमानजातीयव्यतिरिक्तपक्षिमां. सादिष्वजामहिपमृगाणां मृल्लोप्टकेशनखकीटपतङ्गकृमिजलचरास्थिरक्त- १ क. ख ग. से' च मत्यासकृच'भ्यासे चा।

१३२ श्रीधराचार्यकृतः- मत्स्यकण्टकमत्स्यास्थिमक्षणे रक्तवमने चामत्योपवासो मत्या त्रिरात्रम्। मांसभाण्डपक्वान्नाशने कुशपक्वं पयरूयहम् । वतिनः केशादौ मुखमात्र- प्रविष्टे तप्तघृतं वा बाह्मीरसं वा पिबेत् । अन्ने भोजनकाले मक्षिकाके- शादिदूषितेऽनन्तरमपः स्पृशेत् । तच्चान्नं मस्मना वा मृदा वाऽम्बुना वा स्पर्शयेत् । अस्थना दूषिते स्नानं घृतप्राशनं च रक्तादिदृष्टी तूपवासो मुखे दृष्टौ त्रिरात्रम् । मुक्तौ ब्राह्मीरसो जले कुशोदकम् । सर्पसरीसृप- मूषकमार्जारकृकलासकुक्कुटनकुलमण्डूकशृङ्गिमयूरकव्यादविषभिदमुद्ग- रकुलीरशिशुमारमकरवक्त्रसर्पमुखमत्स्यविकृतमुखशृङ्गपक्षिणां मेध्यत्वेऽ- प्याममांसे च वृथामांसमक्षणे च नियुक्तमांसवर्जने चामत्या त्रिरात्रम् । मत्याऽतिकृच्छः । प्रमादे तूपवासो वमने सद्यः सानं पश्चगव्यं च । विडूवराहग्रामकुक्कुटसमानक्रव्यादनरवानरकपिश्चगोमायुकदंष्ट्रिपञ्च- नखसिंहव्याघ्रश्वापदगजाश्वोष्ट्रखरैकशफानामुभयतोदन्तानां काकबला- कामासगृघ्रजालपदचक्रविष्किरपुण्डरीककपिञ्जलचक्रपशुपादकुक्कुट- सारिकाकामचक्रहंस पवचक्रवाककारण्डवचटककपोतपारावतपाण्डुशुक- सारिकासारसटिट्टिमोलूकककरक्तपादतित्तिरचापकोकिलसलहिकुटचार- मनुकलविङ्कक्रौञ्चश्येनखञ्जरीटदार्वाघाटमूलिङ्गवागुलादीनां मत्स्यानां च मांसानो सौनस्थानं गतानां च शुष्कर्मासानां च तेषां विण्मूत्रशुक्ररक्त- वसामज्जानां च तदुच्छिष्टानां च मक्षणे वाऽमत्या कायमभ्यासे महा- सांतपनम् । मत्या तप्तकृच्छ्रोऽभ्यासे चान्द्रम् । अत्यन्ताभ्यासे पतनम् । तेषां कर्णविट्रप्रमृतिमलपट्केऽधं कल्प्यम् । ब्रह्मचार्यादेमधुमांसादि- भक्षणे लौकिकं त्रिरात्रं कायं पुनरुपनयनं वा ततो व्रतसमापनम् । तदेकवद्यार्थे गुरूच्छिष्टं मक्ष्यम् । गवां मूत्रादि मेध्यमजानामुच्छिष्टं च । अथाशुचिसंस्पृष्टमक्षणे-तत्रोच्छिष्टमक्षणे तावच्छ्वकाकादिपक्षिश्वाप- दाखुबिडालनकुलोच्छिष्टे भूयस्यन्नरसे जगधे केशाधवपन्ने च देवद्रो- ण्यादौ व्यसंस्काररहिते वाऽमत्या चेवामी सुवर्चलामे करात्रं पिबेत् । मत्या चेत्रिरात्रम् । अल्पद्रव्ये चेदमत्याऽभ्यासेऽतिकृच्छ्रः । मत्याऽभ्यासे पक्षं यावकं व्रतम् । ब्रह्मक्षत्रियवैश्यशूद्रोच्छिष्टे तु ब्राह्मण एकत्रिपञ्चसप्त- रात्राणि पश्चगव्यं पिबेत् । अभ्यासेऽप्येपामावृत्तिः । मत्या भोजने तु सान्येव शुद्धोपवासादीनि कुर्यात् । मत्याऽभ्यासे कायातिकृच्छ्रतप्तकृच्छ्र- चान्द्राणि।क्षत्रादौ पादं ह्रासयेत् । भाण्डस्थेऽन्ने केशपिपीलिकामध्यसे- विकीटैरुपहते तावन्मात्रमुद्धृत्य भस्मताम्रवैडूर्यहिरण्यरजतादिभिर्गो- वालदर्भयुक्तम बारिणा शेषं प्रोक्षयेत् । हस्तस्थमेवंभूतं त्यजेत् । मुखस्थं स्मृत्यर्थसारः। १३३ निष्ठीव्य घृतं प्राश्नीयात् । मनुष्यरेतोविण्मूत्र मक्षणे वर्णास्तप्तकृच्छ्रा- तिकृच्छ्रकायबिरात्राणि कुर्युः । मत्या चान्द्रतप्तकृच्छकायान्पुनः संस्कारं च । अलेह्यापेयचाण्डालाद्यन्त्याने चैवम् । चण्डालः श्वपाकः क्षत्ता सूत्रो वैदेहको मागध इत्याद्या अन्त्याः। तदन्नभोजने चैवम् । अन्त्यानां मक्तशेष मुक्त्वा वर्णा यतिचान्द्रं कायं तदर्धं पादं च कुर्युः। अन्त्योच्छिष्टमक्षणे तु चान्द्रं महासातपनं पात्रं त्रिरात्रं च कुर्युः । अभ्यासेऽत्यभ्यासे वा द्विगुणं त्रिगुणं निरन्तरे पतनम्। आमग्रहे वर्धम् । तदुच्छिष्टभोजने द्विगुणम् । सहमोजने च्चिगुणम् । मत्याऽभ्यासे पतनम् । दीपोच्छिष्टतैलं रात्री रथ्यादूपितं चाम्यङ्गशिष्टं च भुक्त्वा नक्तं चरेत् । पीतावशिष्टमुखनिर्गतपाने मत्याऽम्यासे चान्द्रं पराकं वा कुर्यात् । पीतावशिष्टमात्रपाने वामहस्तेन च पाने तदर्धम् । अथाशुचिद्रव्यसंस्पृष्टभक्षणे-तत्र केशकीटाधवपन्ने नीलीलाक्षानायवस्थि- चर्मरक्तमांसवसामज्जासुराशुक्रविण्मूत्रसंस्पृष्टे महापापावेक्षिते दुष्टपक्ष्यु. च्छिष्टे विडवराहायच्छिष्टे गवाघाते शुष्के पर्युषिते वृथापक्के देवपित्रर्थान्ने होमार्थेषु चामत्या भक्षणे पाने चोपवासः पश्चगव्यं च सर्वत्र । मत्या च पादार्धकृच्छ्रः । अविज्ञातजात्यस्ट्यादिदूषिते तदर्धम् । कर्णविडा- दिमलपटके त्वर्धमेतदल्पसंसर्गे । महासंसर्गे तु द्विगुणम् । तत्रापि दूषितसंज्ञाने तप्तकृच्छ्रः सर्वत्र पुनःसंस्कारश्च । संसर्गदुष्टे क्रियादुष्टे स्वभावदुष्टे च चण्डालाधन्त्यसूतिकारजस्वलापतितशवदाहकपण्डदे- वलकविसृष्टाग्न्यारूढपतिताभिशस्ताद्याश्चण्डालाद्याः श्वविवराहखरो- ट्राद्याः श्वापदाद्याः पञ्चनखा यूथपश्चाद्याः । चण्डालादीन्भुञ्जानो दृष्ट्वा ग्रासमुत्सृज्यान्तर्बाह्यमुखलेपान्प्रक्षाल्य सायात् । किंचिन्मात्र- निगरणेऽष्टशतं जपः । तदासभोजने पक्षिण्युपवासः । समस्तमो- जने त्रिरात्रं जलपाने तदर्धम् । श्वादिप्वाचमनं कार्यम् । मुक्त्वा पीत्वा तदर्धम् । चण्डालादिभिरेवं भुञ्जानः श्रुत्वा भोजनाद्विरम्यैव शुध्येत् । भुक्तौ स्नात्वाऽष्टशतं जप उपवासो वा । चण्डालायुच्छिष्ट- स्पृष्टे कांस्य भोजने कृच्छः । मृन्मयेऽतिकृच्छ्रः । रजकाझुच्छिष्टस्पृष्टे तदर्धम् । चण्डालादिस्पृष्टान्नभोजने विरानम् । चण्डालादिदृष्टान्ने तूपवासः पञ्चगव्यं च । चण्डालादिहस्तंभाजने चान्द्र कार्यम् । चाण्डा- १ ख. °मार्थाने होमार्थहविषि चा । २ ख. ग. गवक्रि या' । ३ ख ग. °स्तभोजने चान्द्र कार्य वा चा।

१३४ श्रीधराचार्यकृतः- लादिमोजने द्विगुणम् । चाण्डालााच्छिष्टान्न भोजने चतुर्गुणम् । चण्डालादिहस्तनिर्मुक्ताम्बुपाने तूपवासः । तत्स्पृष्टविषये तदर्धम् । चाण्डालादीनुच्छिष्टो दृष्ट्वोपवसेत् । स्पृष्ट्या विरात्रम् । रजस्वला हीनवणां रजस्वला स्पृष्ट्वा नाश्नीयादा शद्धः । सवर्णामधिकवणां वा स्पृट्वा तस्मिन्नेवाहनि स्नात्वाऽश्नीयात् । रजस्वला काकादिस्पृ- टाऽन्यया रजस्वलया च स्पृष्टा चेदुपवासः पञ्चगव्यं च । मत्या चेदा शुद्धरुपोष्य स्नात्वा घृतप्राशनाच्छुद्धिः । रजस्वला चण्डालाद्यन्त्यैः संस्पृष्टा नाश्नीयादा शुद्धेः । भुक्ता चेतावन्त्यहान्यतिक्रम्य शुद्धी प्रायश्चित्तं कुर्यात् । प्रथमेऽह्नि त्रिरात्रं द्वितीये द्यहं तृतीयेऽहोरात्रं परतो नक्तम् । अप्रायत्ये रजोदृष्टौ बालापत्याया अभिषेकाद्भुक्तिः। मृतसू- तकसंपर्क ऋतुं स्पृष्ट्वा स्नानकालान्नाश्नीयात् । मत्या भुक्त्वा चान्द्रम् । चण्डालादिसंकरे भुक्त्वा पक्षं गोमूत्रयावकं कृच्छ्रे वा। चाण्डालादिर्यस्य गृहे त्वज्ञातस्तिष्ठति तस्यामत्याऽन्नं भुक्त्वा कायम् । मत्या पराकः । चाण्डालादिस्वीकृततीर्थतडागनदीप्वमत्या पीत्वा पञ्चगव्यं पिबेत् । चण्डालाद्यम्बुपाने कायं तदर्धं वा। चण्डालादिसंस्पृष्टाम्बुपाने गोमूत्रया- वकं त्रिरात्रम् । भुक्त्वोच्छिष्टस्य चण्डालादिस्पर्शने कायम् । यद्वा गाय- व्य प्रशतं सहस्रमष्टशतं वा जपित्वा त्रिरावान्ते पश्चगव्यं पिबेत् । आम- भक्षोच्छिष्टे पादः। अधःस्थानोच्छिष्टश्चाण्डालादिस्पृष्टः पादम् । चाण्डा- लादिस्पृष्टौ मूत्रोत्सर्गे विरात्रमुपोष्य जातवेदसं वा जपेत् । अमत्याऽश- क्तस्य तूपवासः । भोजने पात्रम् । आमभक्षणे त्रिरात्रं प्राणायामशतं वा । रजकादिविषये चाण्डालायुक्तार्थ ज्ञेयम् । उच्छिष्टः श्वादीञ्छूद्र- मद्यामध्याद्यस्पृश्यान्स्पृष्ट्वोपोप्य पश्चगव्यं पिबेत् । रजस्वलासूतिका- मेध्यपतितचाण्डालपुल्कसावधूतकुण्ठहस्तकृमिकुष्ठिकुनख्यस्पृश्याशीचि. संस्पृष्टान्नं मत्या भुक्त्वा कायममत्याऽर्धम् । असव्ये केशाद्यवपन्ने च कुशशङ्खपुष्पादिकपायं ब्राह्मीं वा पिबेत् । शूद्रेण पक्कं वाऽमेध्यसेविकी टोपहतं च भुञ्जाने शूदस्पर्श चानहसहपती वा भुक्ताञ्जानेषु वा यत्रो. च्छिष्टं प्रयच्छेदाचामवा कुत्सित्वा वा यष्टान्नं दद्यादृच्छिष्टपती वा भुक्तावुपवासं पश्चगव्यं च कुर्यात् । मत्या सांतपनम् । वामहस्तनिर्मु- क्तपात्रान्नमुक्ती चैकपङ्क्तावेकस्मिन्नुत्थिते पश्चाद्भुक्तौ च सांतपनम् । मृतपञ्चनखखरविडाहादिशवयुक्तकूपादौ च विण्मूत्रादिभिरत्यन्तोपहते च पाने च वर्णास्त्रिोकोपवासनक्तानि कुर्यः पञ्चगव्याशनं च । तत्रैव क्लिन्नभिन्नशवयुक्तेऽम्बुपाने तु मत्याऽतिकृच्छ्रः । तादृङ्मानुषशवयुक्ते स्मृत्यथसारः। १३५ तु मत्या चान्द्रायणम् । चाण्डालादिसंबद्धकूपाद्यल्पजलाशयेष्वम्बु पीत्वा स्नात्वा तद्भाण्डस्थं वा मत्या वर्णाः सांतपनं कायं तदधं पादं क्रमाञ्चरेयुरमत्या तदर्धम् । अशक्तः पश्चगव्यं पिबेत् । महाजला- शये न दोषः । ह्रदपुष्करिण्यादिपु जानुदने न दोषः । ततोऽधस्तने त्वमत्या नक्तं मत्योपवासं विप्रः कुर्यात् । रजकाद्यन्त्यजकूपभाण्डस्था- म्बुपयोदधिपाने त्वमत्या द्विजा ब्रह्मकूर्चेन विद्येकोपवासान्कुयुः । शूद्र- स्तूपवासं शक्त्या दानं च । मत्या तहिगुणम् । अन्त्यजैः खानितवापी- कूपतडागादिषु स्नाने पाने चोपवासो मत्याऽभ्यासे कायम् । मध्यमपु पश्चगव्यम् । महत्सु न दोषः । प्रपास्वरण्ये मठके च सैरेयगोण्यां जलं कोशनिसृतं च पीत्वा पञ्चगव्येनाशक्तः शुद्धः । शक्त उपवासेन । अथ भावदुष्टभक्षणे-तत्र निजवर्णादिरहितं भावदुष्टम् । मावदुष्टेऽन्ने मावदुष्टे च भोजने मत्या विरात्रममत्याऽर्धम् । छर्दने घृतप्राशनम् । भक्ष्याभक्ष्यशसितमक्षणे त्वक्षारलवणे रूक्षां ब्राह्मीं सुवर्चलां पिबेत्रिरा. त्रम् । शङ्खपुष्पी वा पयसा सह कुशपद्मोदुम्बरपलाशबिल्वपत्राम्बुपक्कं वा पिबेत् । संवत्सरस्य बीन्द्रावकं कृच्छ्रे चरेत् । शङ्कायां विज्ञाने तड्विगुणं द्विजश्चरेत् । अथ कालदुष्टभक्षणे--कालदुष्टं पर्युपितं शुक्तमनिर्दशागोक्षीरादि । तत्रा- मत्योपवासो मत्या घिरावं कायवतम् । यवगोधूमपयोदधिपिष्टविकारने- हपक्वान्नस्नेहाक्तान्नमासादौ न दोषः । शृङ्गास्थिदन्तजैः पात्रैः कन्दशा- लूकशङ्खशुक्तिकपर्दकैश्च पीत्वा नवोदकं च पीत्वा स्वकाले यहादा- गकाले दशाहादाक्पीत्वा पञ्चगव्यं पिबेत् । मत्योपवासः। संग्रहे मोजने नवश्राद्धे च ग्रामयाजकान्ने च चान्द्रम् । ग्रहणादिनिमित्तनिषिद्धकाले च संधिकाले चातिप्रातरति सोयमित्यादौ धानादधिसक्तूनां रात्री तिल- संबद्धान्नभोजने चवमादिप्वनादिष्टप्रायश्चित्तेषु प्राणायामशतं मत्यो- पवासः। अथ गुणदुष्टशुक्तादिभक्षणे-तत्र गुणदुष्टशक्तानि कपायांश्चान्यान्यमे- ध्यान्यमत्या पीत्वा मुक्त्वोपवसेत् । मत्या त्रिरात्रं यावकम् । आमल- कादिफलयुक्तकाञिकायां न दोपोऽभिधारणे च । उद्धृतसारविलापित- पिण्याकमथितादिष्वन्नविकारे च मत्या त्रिरात्रं यावकममत्याऽर्धं छर्दित्वा १ ख. ग. सायं नित्या।

१३६ आपराचायत:- घृतं पिबेत् । प्राक्पश्चनखेभ्यः प्राणिषु चैवम् । वैश्वदेवाग्न्यादिरहितान्न. भोजने वृथा कृशरसंयावपायसापूपशप्कुलीमधुमांसानां चामत्योपवासो मत्या त्रिरात्रम् । आहितानिस्तु कायं त्रिरात्रं वा कुर्यात् । शूद्रभाजन- भिन्नभाजनभाण्डेषु मुक्त्वोपवासः पश्चगव्यं च । मत्या त्रिरात्रम् । भिन्नकांस्ये कायम् । भिन्नभाण्डादिभोजने पञ्चगव्यं घृतं वा ब्राह्मीं वा पिबेत् । वटाश्वित्थकुम्भीतिन्दुककोविदारकदम्बपत्रेषु भुक्त्वा चान्द्रम् । लतापलाशपद्मवृक्षपत्रे गृही भुक्त्वा चान्द्रं चरेत् । वानप्रस्थो यतिश्च भुक्त्वा चान्द्रफलं लभेत । अन्यः पद्मपलाशेषु । अथ हस्तदानादिक्रियादुष्टाभोज्यभोजने-तत्र हस्तदत्तभोजनेऽब्राह्मणसमीप- भोजने दुष्टपतौ बलादत्यपालेयशूद्रहस्तेन च भोजने पानीये वाऽमत्या नक्तम् । मत्योपवासः पश्चगव्यं च ।माक्षिकफाणितशाकगोरसलवणघृतेषु हस्तदाने तथैव । आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा। मुखेन धमितं भुक्त्वा कृच्छं सांतपनं चरेत् ॥ अथ श्राद्धभोजने-पित्रायुदेशेन त्यक्ताने तु तत्र श्राद्धानि त्रिवि- धानि । तत्रान्तर्दशाहे चकादशाहे च नव श्राद्धानि । एकादशाहान्यू- नादान्तानि पौडशैकोद्दिष्टानि नवमिश्राणि । सपिण्डीकरणं मिश्रम् । ततः पुराणानि । एकादशाहश्राद्धं नवभिश्रम् । तत्र प्रायश्चित्तगौरवा- दोषगौरवं चास्ति । आयैकोद्दिष्टं स्वतन्त्रमित्येके । तथाऽप्युभयधर्मप्राय- श्चित्तदोपदण्डाः स्युः। तत्रापि सूतकसंबद्धेषु नवश्राद्धेषु भोजने कायम् । एकादशाहकोद्दिष्टे कायं पादोनकायं वा । द्वादशाहे प्रथममासे वा पादोनं कायमेव कुर्यात् । द्विमासे त्रिपक्षे चोनपाण्मासिके चोना- ब्दिके चाधं कृच्छ्रम् । त्रिमासाद्यन्दमोक्षान्तेषु सपिण्डने चाऽऽद्या- ब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दं पुराणे च नक्तम् । गुरुविषये द्रव्यार्थे नवश्राद्धे विरात्रमाद्ये त्रिरात्रं द्विरात्रं च । द्वादशाहादी द्विरात्रम् । द्विमासादावुपवासस्त्रिमासादी नक्तं पश्चगव्यं वा । प्रत्यब्दं वाऽन्यपुराणे च षट्प्राणायामाः । वृद्धौ त्रयः प्राणा- यामाः । तत्रैव निःस्पृहभोक्तुर्जपशीलिनो वा तदर्धम् । क्षत्रिया- दिश्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात्कार्याणि । अनापदि तु नवश्राद्धे चान्द्रं कायं च । द्वादशाहादी कायमेव । द्विमासादौ पादोनम् । त्रिमा. १ ख. ग. तत्राप्यूहनाय धर्म । ३ खग. घ. ‘त्रापदि मू। ३ स. 'हे चौनमा ।

स्मृत्यर्थसारः। १३७ साद्यब्दान्ते सापिण्डये च त्रिरात्रमधं कायं वा । आब्दिके पादं कायम् । प्रत्याब्दिके तूपवासः । क्षत्रियस्य तु नवश्राद्धे चान्द्रम् । आद्यमासिके चान्द्रं पराकश्च । द्वादशाहादी पराकः । एकद्विमासत्रिप- क्षादौ महासांतपनम् । त्रिमासादी कायम् । आब्दिके पादोन प्रत्यदे त्वधं पुराणे पादम् । वैश्यस्य त्वेतान्येव व्रतानि सार्धानि । शूद्रस्य द्विगुणानि । यद्वा नवश्राद्धे चान्द्रद्वयं साधं चान्द्रं च । द्वादशाहादी सार्धचान्द्रमेव । द्विमासत्रिपक्षादौ चान्दं त्रिमासादो पराकः । अच्छे महासांतपनं प्रत्यब्दे सांतपनम् । चण्डालसर्पब्राह्मणपशुदंष्ट्रिवैद्युतप्र. पतनबिपोद्वन्धनानाशके तानां पापिनां च स्तेनपतितायोज्यान्नानां च श्राद्धेषु नवश्राद्धे चान्द्रम् । आदिमासिके चान्दं पराकश्च । द्वादशाहादी पराक एव । द्विमासत्रिपक्षादावतिकृच्दः । त्रिमा. सादी कायोऽन्दे पादः । प्रत्यब्दे तूपवासः । सम्यग्विषयेऽपि द्रव्यार्थभोजिनश्चैवम् । अपाङ्क्तेयानामेकादशाहश्राद्धे शिशुचान्द्रम् । यतिव्रती ब्रह्मचारी सूतक्यन्ननवश्राद्धमासिकादौ भुक्त्वोक्तं कृत्वाऽ- धिकं त्रिरात्रकोपवासं विप्राणायामान्घृतप्राशनं च कृत्वा व्रत- शेपं समापयेत् । अनापदि तु कार्य विरावमेकरात्रोपवासं षट् प्राणायामाः पश्चगव्यप्राशनमधिकम् । अभ्यासे कृच्छ्रादि द्विगुणम् । आमहेमसंकल्पितश्राद्धेपूक्तार्धतत्तदर्धानि । यद्वाऽनापदि चाऽऽमश्राद्ध कायं तप्तकृच्छं वाऽशक्तश्चरेत् । हेमश्राद्धे त्रिरात्रं कायं च । संकल्पित- श्राद्धे तूपवासस्त्रिरात्रं च । देवात्सूतकव्यवहितेषु तु ब्राह्मणक्षत्रियवैश्य- शूद्रश्राद्धेष्वेकोद्दिष्टेषु कृच्छातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । द्वादशाहा. दिषु पादं पादं ह्रासयेत् । अतिव्यवहितेषु तु त्रिरावादिकम् । गुरु- विषये तूपवासनक्तपत्रिप्राणायामाः । अनापदि सवं द्विगुणम् । अतिश्रोत्रियपुराणेष्वनुक्तनिष्कृतिषु च गायत्र्या दशकृत्वोऽपः पीत्वा शुध्यति । ततः संध्योपासनं होमं च यथोचितं कुर्यात् । निवृत्ते चूडा- होमे च प्राडूनामकरणे च जातकर्मणि चाङ्गश्राद्धे सूतकेऽप्यसूतके व नामश्राद्धे चूडाहोमान्ते चौलश्राद्धे च सीमन्ते सोमे चाऽऽधाने ब्राह्मौदने चामत्या चाऽऽपदि च भुक्त्वा सांतपनम् । मत्याऽनापदि च चान्द्रम् । अन्येषु संस्कारेषु तूपवासो नित्यं त्रिरात्रं चानापदि । अन्यदत्ता कन्याऽन्यस्मै अ १ ख. ग. घ. चण्डालोरकम । २ क. भोजनानां नवधा । ३ ख. ग. घ. से तप्तकृ' । ४ ख. ग. कवितेषु ।

१३८ श्रीधराचार्यकृत:- पुनर्दत्ता सा पुनर्भूः । असंस्कृते पूर्व गर्भे प्रसूते द्वितीये गर्ने संस्कारे या सा पुनारेताः । ऋतुषोडशाहात्पश्चादेव या गर्भिणी सा रेतोधाः । भर्तृ- शासनोलाधिनी कामचारिणी। आसां गर्भ पर्ववत्तांतपनं चान्द्र वा सर्वस्त्रीप्रथमगर्म च । अथ परिग्रहाचाशुचिदुष्टभोजने-तत्राश्रोत्रियंतते यज्ञे ग्रामयाजकहुते स्त्रीहुते कोबहुते वाऽन्नभोजने राजराजपुरोहितराजभृत्यवश्यशूद्राणां क्लीबा. जाविकमाहिपिकस्थानिकभूमिपालानां स्तेनगायकतक्षवाधुपिकदीक्षा वस्थितानां कदर्यबद्धनिगडाभिशस्तपुंश्चलीदाम्मिकवैद्यकुलिमसांवत्स- रिकाणां मत्ताद्धातुरगणिकानां श्वचक्रमद्यस्त्रीमृगजीविनां कूरोच्छि- टभोज्युग्रपतितपिशुनानां शैलुपतन्तुवायतुन्नवायकिराटिप्रव्रजितानां वात्यकारघोषतरुवाजिजीविकानां घृतक्षीरतैललवणगुडविक्रयिणाम- निदनित्यरोगिघाण्टिकविषज्ञ प्रकारविप्रगोदेववृत्तिघ्नानां वैणवातिपापि- वेश्यापाण्डिजीविसूतादिप्रतिलोमजानां कर्मारकृतघ्नानां पुण्यसोमक- मरिमविकयिणां विवादद्रुपरङ्गावतारसुवर्णकारवृत्तीनां शौण्डिकवस्त्रनि. ऐजकवेनश्ववतां कूटनटनर्तकवृषलीतत्पतीनां नृशंसोपपतिकापपतिमर्प- कस्त्रीजितकितवानां शूद्राध्यापकयाजकधर्मपतिस्त्रीणां ग्रामयाजिवृपली- जवणिक्काण्डपृष्ठमेवकानां पर्याहितपरीष्टपरिवित्तिपरिविविदानां पुनर्भू- जाग्रेदिधिषूपतिचक्रर्तलवधजीविनां भगवृत्तिपक्षिरक्षिसमुद्रतारकहीना- तिरिक्ताङ्गानां मातृपितृसुतगुर्वग्नित्यागिनां कूटमानकूटसुतकन्यास्त्रीसत्य- विक्रयिणां सीसकारगोधालोहकारसूचिकापुत्रब्रह्मचारिणां कुण्डाशि- वीरहगुरुगुप्तिकगरदसूपजीविनां सूतकसौनिकपीणिकुलालचित्रकर्मणां योनिसंकरिका श्रममंदकतस्करवृथाश्रमिवृधाहोतृणामित्यादिपापिनांमार्गे तिष्ठतां भिक्षान्ने चान्द्रम् । एपामकृतनिष्कृतीनामन्नमोजने याजने दाने प्रतिग्रह च तथा कुनखिकृष्णदन्ताबाह्मणान्नदशूद्रशूद्रान्नदब्राह्मणा. नामभोज्यानानां च प्रपासत्रे सोम एकादशाहश्राद्धे दुष्टान्नदुष्टविद्व. ज्जुगुप्सितमहापाप्यवेक्षितश्वस्पृष्टोदक्यादुष्टगवाघ्रातपक्ष्यालीढासदहुया. चितसरोपसविस्मयान्नं च पदा स्पृष्टमवज्ञातमनचितपर्यायान्नस्त्रीशूद्रो. च्छिष्टवृथामांसजातमृतसूतकसूतकिकाप्रेतान्नं चातुष्टिकरं चातोऽन्यतम- १ ख. यतातय । क. घ. 'यतने य°। २ ख. ग. श्ववक्रम । ३ ग. किरीटिन । ४ ख. ग. जरूावनश्चव । ५ ष, जक व । ६ ख. ग. घ. पीणिक कु । ७ ख. ग. 'खि पूर्वकृ° । ८ घ. दन्त कष्ठित्रा।

स्मृत्यर्थसारः। १३९ स्यान्नं भुक्त्वा पा रेतोविण्मूत्रमक्षणे वा मत्या त्रिरात्रम् । अभ्यासे कृच्छ्रः । मत्याऽतिकृच्छ्रोऽभ्यासे तप्तकृच्छ्रः । ब्रह्मचर्यादेः कार्याणि तप्त- कृच्छ्राणि चान्द्राणि पुनः संस्कारश्च । द्वित्रिषण्णवद्वादशरात्राणि पयसाऽत्यभ्यासे चान्द्रम् । अत्यन्ताभ्यासे चान्द्रवृद्धिः । आपद्येकदि. त्रिचतुरुपवासाः । अत्यन्तापदि विषण्णवद्वादश प्राणायामाः । आमेषु मानम् । विप्रान्न एकभक्तम् । अनाचारे दुराचारे नक्तम् । ब्राह्मणबुवे मानमष्टशतजपः । गुर्वाचार्याग्निधर्मशास्त्रगोब्राह्मणविडन्ने शाखारण्डान्ने चैवम् । पुंश्चल्यभिशस्तम्लेच्छचाण्डालदस्युभिर्बलाबासीकृतानां गवा- दिहिंसने तदुच्छिष्टमार्जने भोजने खरोष्टादिविडवराहभक्षणे तत्त्रीभिः संगमे भोजने च मासोपितद्विजाना कायम् । आहिताग्नेश्चान्द्रं पराको वा । संवत्सरोपितस्य चान्द्रं पराकश्च । अथ जातमृताशौचान्नभोनने-तत्र द्विजाशीचे सवर्णानामुपवासस्त्रिरात्रं वा । विप्रक्षत्रियवैश्याशीचेष्वमत्या विप्रो भुक्त्वा नक्तकद्वित्र्युपवासान्क- र्यात् । अभ्यास त्वेकत्रिपञ्चसप्तोपवासान् । यद्वाऽभ्यासे द्वात्रिंशवशत- प्राणायामयुक्तान् । मत्या चेत्सांतपनकायमहासांतपनचान्द्राणि सर्वत्र पञ्चगव्यं वा । एकद्विविचतुःकायानि वा। मत्याऽभ्यासे कायानि कृच्छ्र- तप्तकृच्छचान्द्राणि । यद्वाऽभ्यास एकद्वित्रिषण्मासानि यावकवनानि । अत्यन्तापदि द्वादशत्रिंशत्पटिशतप्राणायामाः । क्षत्रियस्य वैश्याशूद्रा. शौचयोश्यस्य शूद्राशीचे चैवम् । विप्राशीचे क्षत्रवैश्ययोरष्टशत- जपो नक्तं वा । क्षत्राशीचे वैश्यस्य चैवम् । द्विजाशीचे शूद्रस्य स्नानम् । शूद्राशीचे शूद्रस्य स्नानं पश्चगव्यं च । शूद्रं संस्पृ- श्याऽऽचमने स्नानं पाने पञ्चगव्यम् । ब्रह्मचादिरुपवासः शतजपः पञ्चगव्यं च । त्रिरात्रं सहस्रजपः । पञ्चगव्यं चाधिकम् । जाता- शीचे लधु योज्यमित्येके । आहिताग्न्याशीचे चैवम् । आशाचे भुक्तवन्तं न स्पृशेदापुरीपोत्सर्गात् । तत्मायश्चित्तं तदाशीचे गते कार्यम् । सकृद्भोजनमात्रेण भोक्तृणां च तावदशुचित्वादनधिकारात् । तद्गृहभोजने नतमुपवासो वा । कापालिके कापालिकान्ने पाने च कमात्कार्य तदर्धं च । अभ्यासे दिगुणम् । मत्या त्रिगुणम् । मत्याऽ- भ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे चान्द्रं तदर्धं च । तत्स्त्रीगमने चैवम् । १ ख. ग. क्या दत्वा वा ।

१४० श्रीधराचार्यकृत:- अत्यन्ताभ्यासेऽब्दकृच्छ्रम् । पतिताने द्रव्ये सति समवे च तत्समुत्सृज्या तिकृच्छ्रे कुर्यात् । अन्नसत्रप्रवृत्तस्याग्निहोत्रिणश्चाऽऽमे न दोषः । पक्वान्ने खेकरावं त्रिरात्रं वा यावकं द्वादश चतुविंशतिर्वा प्राणायामाः। गृही- त्वाऽग्निं समारोप्य पश्च यज्ञानकुर्वन्परपाकनिवृत्तः पश्च यज्ञान्कृत्वा नित्य- परान्नोपजीवी परपाकरतो दानवर्जितः पर्वपक्षे मासे वा देवपितृन्मोजयेत् । अश्राद्धदस्तेषामनभ्यासे चान्द्रम् । पूर्वपरगणितव्यतिरिक्तनिषिद्धाचरण- शीलान्नमोजने तूपवासो दिनम् । संवत्सराभ्यासे पराकः । अत्राऽऽदिष्टं विपस्यैव । तत्र क्षत्रस्य पादोनं वैश्यस्याधं शूद्रस्य पादः कल्प्यः । तत्तत्स्त्रीणामधं रजस्वलानां तत्रतत्रोक्तमेव कार्यम् । इत्यमक्षणप्राय- श्चित्तम् । अथ जातिभ्रंशकरादिप्रायश्चितम्-जातिभ्रंशकरेविच्छया महासांतपनमनि- च्छया कायम् । संकरीकरणेषु मासं यावकं कृच्छातिकृच्छं वा । अपा. त्रीकरणेषु कृच्छ्रमतिकृच्छ्रे वा । मलिनीकरणेषु महासांतपनं तप्तकृच्छं वा । ब्राह्मणजः कृत्वा रासभादिप्रयाणं निन्दिताद्धनादानं च कृत्वा कृच्छाधैं चरेत् । अत्र स्त्रीणामधैं रजस्वलानां तत्र तत्रोक्तं कार्यमेव । इत्युपपातकप्रायश्चित्तानि । अथ प्रकीर्णप्रायश्चित्तम्-तत्र खरयुक्तमुष्ट्रयुक्तं वा यानमारुह्याध्वानं गत्वा ननः सात्वा भुक्त्वा च स्वस्त्रियं दिवा गत्वा मत्या सवस्त्रोऽपोऽव- गाह्य प्राणायामेन शुध्येत् । अमत्या स्नानमात्रम् । साक्षात्खररोहणे तु द्विगुणम् । गुरुं हुंकृत्य त्वंकृत्य विप्रं छलवादेन निर्जित्य वाससा बद्ध्वा था शीघ्र प्रसाद्योपवसेत् । अभ्यासे त्रिरात्रम् । विप्रं हन्तुं दण्डोद्यमने कृच्छ्रः । ताडनेऽतिकृच्छ्रः । रक्तस्रावणे कृच्छ्रातिकृच्छ्रौ । आभ्यन्तर- रक्त त्वरभेदे कृच्छ्रः । अस्थिभेदेऽतिकृच्छ्रोऽङ्गकर्तने पराकः । पादेन प्रहार उपोष्य सात्वा प्रसादयेत् । पादेन स्पर्शे तु प्रसादनम् । असंनि- धावप्सु वाऽनी चाऽऽ” विण्मूत्रनिषेवणे संचलो जलमाप्लुत्य गां स्पृष्ट्वा शुध्येत् । मत्योपोष्य सचैलं सायात् । अभ्यासे चानार्तस्य च तप्तकृच्छ्रः। श्रीतस्मातलोपे तूपवासः । पश्चात्प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तमपि सूर्यो- दये स्वस्थो मत्या सुप्तोऽह्नि तिष्ठन्सावित्री जपन्नुपवसेत् । सूर्यास्तमये मुप्तो रात्रौ तिष्ठन्सावित्री जपन्नाद्यात् । स्नानादिकर्मलोपे तूपवासोऽष्ट- १ स. ग. षु तप्तक' । २ ख. ग, घ. णस्य नः क स्मृत्यर्थसारः। १४१ शतजपो वा । जीर्णमलवद्वस्त्रधारणादिस्नातकवतलोपे तूपवासोऽष्ट- शतजपो वा । पञ्चमहायज्ञेष्वन्यतमलोपे त्वनातुरस्योपवासो धनिनः कृच्छ्रार्धम् । आहिताग्नेः पर्वण्युपस्थानलोपे चैवम् । ऋतौ भार्यागम- नलोपे चैवम् । प्रथमायां मार्यायां जीवन्त्यां द्वितीयभाया वैतानिकै- दहने सुरापानसमवत् । स्वमायाँ क्रोधादगम्यति वदेच्चेद्वर्णानां कृच्छ्र- नवषद्विरात्राणि । अस्नात्वा भोजनादौ तूपवासो दिनजप्यं च । एक- पङ्क्त्योपविष्टानां स्नेहादिना विषमदाने दापने याचने कायम् । उद- कावरणमार्गहन्तुः कन्याविघ्नकस्य च समेषु विषमपूजादिकर्तुश्च भैक्षान्ने चान्द्रम् । सुरापस्य गन्धमाधाय सोमपो ब्राह्मणोऽप्सु निमग्नस्त्रीन्प्रा. णायामांस्त्रिरघमर्पणं वा कृत्वा धृतप्राशनं च कुर्यात् । असोमपोऽन- स्वितरस्यामन्त्रकप्राणायाम एव । मद्यगन्धे तदर्धम् । साक्षात्सुराघ्राणे सुरापानसमवत् । अमत्या घाणे त्रिप्राणायामा:।मद्यघ्राणे विण्मचक्रव्या. दपूतिगन्धघाणे त्रिः प्राणायामाः। दर्शने प्राणायामः । स्पर्शने तु नानं घृतप्राशनं च । सुरास्पर्शे स्नानं पश्चगव्यं च । शवघाणेऽप्सु विप्राणायामा:। असोमपस्यानप्सु । इतरस्यामन्त्रप्राणायामाः । शुप्कसुराभाण्डस्थापः पीत्वा पक्षयावकम् । सुराभाजनस्थाप्सु शङ्खपुष्पीपक्वं पयसविरात्रम् । पर्युपिताप्सु गन्धपुष्पीपयः षडहम् । शकमद्यभाण्डस्थाप्स सप्तरानं यावकम् । अन्यत्र पूर्वोक्तार्धम् । सुरामधरसोपलब्धी तारतम्यं कल्प्यम्। वमने चान्द्रं कायं वा । पुरीपादिदूपिता अपः पीत्वा सांतपनं द्यहम् । रसोपलब्धौ पादकृच्छ्रः । मद्यविण्मत्रविप्रडभिः संस्पृष्टे मुखमण्डले मृत्तिकागोमयैः प्रक्षाल्य पञ्चगव्यं पिबेत् । मदिरां दत्त्वा स्पृष्ट्वा प्रतिगृह्य च सात्वा कुशाम्बु व्यहम् । संक्रान्त्यादिनिमित्तस्मानार्थी जग्ध्वा पीत्वाऽ- सहस्रं जपेत् । शूद्रादिसंस्पर्शनिमित्ते तूपवास: चाण्डालादिस्पर्शनि- मित्ते त्रिरात्रं कायं वा । रजकादिस्पर्श तदधं वा। तत्स्पृष्टस्पर्श तूपवास- स्त्रिरात्रं वा । नित्यनानमकृत्वा मुक्ती चोपवासस्त्रिरात्रं वा । नैमित्तिके माने सर्वत्राष्टसहस्रजपो द्वादश प्राणायामा वाऽधिकाः । अमेध्यश्वाद्य- स्पृश्यस्पर्शने स्नात्वा भुक्तो गृहस्थादेस्त्रिरात्रं मत्या षड्रात्रम् । वतिनः कायं चान्द्रं वा । चण्डालादिस्पर्शन वनात्वा भुक्तौ चान्द्रम् । रजका- 5 ख. ग. सन्त्रिरात्र वा।।

१४२ श्रीधराचार्यकृत:- धन्तस्पर्शने सात्वा मुक्ती मत्या कायम् । श्वकाकादिस्पर्शनेऽनात्वा मुक्तो मत्या त्रिरात्रम् । उत्पन्ने माने भुक्त्वा पीत्वा त्रिरात्रं सांतपनम् । अनाचम्य मक्षणे वाऽष्टशतजपः । भोजने तपवासः । भोक्तुकामस्याss- पोशनात्पश्चादभ्यवहरणात्पूर्व पुरीपनिर्गमे सचैलो बहिराप्लवः पटू प्राणा- यामाः । भुञानस्य गुदनिस्रावे शौचं कृत्वोपोष्य पञ्चगव्यम् । मुञ्जा- नस्याशुचित्वे तदासं भूमौ क्षिप्त्वा मायात् । तदासाशने तूपवासः । सर्वान्नाशने त्रिरात्रम् । भुञानस्य मस्तके विष्ठादिपतनेऽन्नं त्यक्त्वा नद्यां स्नात्वा त्रिः प्राणायामाः । भुञानस्थ सगावस्पर्शनेऽन्नं त्यजत् । उदकं स्पृष्ट्वा शुद्धिः । भुञानस्यासगोत्रस्पर्शने भोजनं विरम्यैव शुद्धिः । (* मुखानयोः सवर्णयोः स्पर्शने च विरम्यैव शुद्धिः।) भुञानस्योच्छिष्टक्षत्रियस्पर्शने स्नानं जपं च कृत्वा दिनान्तरे घृतप्राश- नम् । भुञ्जानस्योच्छिष्टवैश्वस्पर्शन चैवम् । त्रिपवणस्नानादिकम् । भुक्तोच्छिष्टस्पृटौ सवर्णे स्नानं जपो बा । असवणे तूपवासः सहस्रजपो वा । भुक्तोच्छिष्टस्य शूद्रश्वादिस्पर्श तूपोष्य पञ्चगव्यम् । रजकादि- स्पर्श त्रिरात्रम् । ऊोच्छिष्टस्य चाण्डालादिस्पर्शे कायम् । अधरो- च्छिष्टे तूच्छिष्टो द्विज उच्छिष्टं दिजं स्पृष्ट्वा शूद्रवादीन्वोपोष्य पश्चगव्यं पिबेत् । उच्छिष्टो द्विजश्चाण्डालादिस्पृष्टस्त्रिरात्रं कुर्यात् । रजकादि- स्पर्श तदर्धम् । अनुच्छिष्टस्पृष्टौ यत्र सानं विहितं तत्रोच्छिष्टस्पृष्टी विरात्रं कायं वा । उच्छिष्टोच्छिष्टस्पृष्टावेक एव दुष्यति । तत्स्पृष्टिनो न दुष्यन्ति । येन केनचिदुच्छिष्टः परं स्पृष्टः सन्सद्य आप्लुत्य प्राय- श्चित्तं सर्वत्र कुर्यात् । विण्मूत्राद्युत्सर्गे भुक्त्वा पीत्वा विरात्रमुपवास. स्त्रिरात्रं वा गोमत्रयावकेन । अशक्ती यावकम् । जलपाने तूपवासः पश्चगव्यं च । काजिकादिना शौचं कृत्वा भुक्त्वा पुनर्जलेन शुद्धिं कृत्वोपोष्य पश्चगव्यं पिबेत् । नीलवस्त्रादिधारणे केशनिर्मितचेलधारणे चोपवासः पञ्चगव्यं हिरण्योदकं चाधिकम् । नीलीमध्यगमने स्नात्वा त्रिः प्राणायामाः । नीली विक्रीणयन्पालयन्नीलीवृत्त्या जीवंश्च पतति । विरक्तश्चेत्रिभिः कृच्छ्रः शुध्येत् । नीलीलवधारणेऽपि नानदानजपहो- मस्वाध्यायदेवतार्चनादि सर्व निप्फलम् । नीलीक्षेत्रोत्पन्नभुक्तो चान्द्रम् । नीलीक्षेत्रे नीलीमुत्पाद्य द्वादशाब्दात्परं शुध्येत् । नीली. * धनुश्विद्वान्तर्गतो ग्रन्थो घ. पुस्तके वर्तते । १ ख. ग. घ. नाधिक । २ क. टश्व वा । ३ ग.° नीलावसधा ।

स्मृत्यर्थसारः। १४३ जग्धो चान्द्रम् । नीली धृत्वा मैथुने गर्भश्चाण्डालो जायते । नीली धृत्वा मृतः पष्टिवर्षसहस्राणि विष्ठायां कृमि: स्यात् । मृते भर्तरि पत्नी नीली धृत्वाऽऽस्ते चेतावन्नरके भर्ता वसेत् । नीली धृत्वा यदन्नानि दीयन्ते तत्र दातुर्मोक्कुश्च सांतपनम् । नीलीदारुमेदे रक्तदर्शने [च ] चान्द्रम् । कम्बल पट्टसूत्रे नीलीदोपो नास्ति । ऐन्द्रं चापं पलाशाग्नि चान्यस्य प्रदोपोप्य क्रमाद्धनुर्दण्डं च दक्षिणां दद्यात् । पतितम्ले- छाशुद्धाधार्मिकसमापणे पुण्यकृतो ध्यायेगाह्मणेन वा सह संभाषेत । विना यज्ञोपवीतेनोच्छिष्टत्वे च मत्या भक्षणेऽम्बुपाने वा त्रिः प्राणा. यामाः । भोजन नक्तम् । विण्मूत्रे षट् प्राणायामाः । मत्या चेद्भक्ष्य- पानविण्मूत्रेष्वष्टशतजपः । भोजने तूपवासः । भुक्त्वाऽनाचम्योत्थाने सद्यः स्नानम् । दण्ड्य चौराद्युत्सर्गे राज्ञ उपवासः । पुरोहितस्य त्रिरात्रम् । अदण्ड्यदण्डने राज्ञस्त्रिरात्रम् । पुरोहितस्य कृच्छ्रः । स्तेनपतिताद्यपा- तेयपतिभोजने तूपवासः पश्चगव्यं च । पलाशखट्वाशयनासनपादुका- रोहणे त्रिरात्रं यावकम् । फलप्रदवृक्षच्छे ऽब्दव्रतम् । पलायमानस्य नृपस्यैवम् । विप्रयोरग्निविप्रयोर्गोविप्रयोदंपत्योश्च मध्ये गन्तुः सांत- पनम् । होमकाले गवां दोहे सांनायाद्यने स्वाध्याये विवाहे च मध्यग- मने चैवम् । अभ्यासे चान्द्रम् ।दुःस्वप्नदुरिष्टदर्शनादौ घृतं हिरण्यं च दद्यात्। अतीथिनः सिन्धुसौवीरसौराष्ट्राब्धिप्रत्यन्ताङ्गवङ्गकलिङ्गान्ध्रदेशगमने पुनः संस्कारः। तीर्थार्थ न दापः। प्रत्यादिमेहने चाऽत्मशकृदर्शने च सूर्यं विप्रं गांवा पश्येत् । वढेरधःकरणे पादप्रतापने च कुशैः पादमार्जने चोपवासो यावकं वा । क्षत्रवैश्ययोरभिवादने विप्रस्योपवासः । शूद्रा- भिवादने विरात्रम् । शय्यापादुकावानदासनारूढान्धकारस्थश्राद्धहोम. जपकृद्देवपूजाभिरतानां समित्पुप्पकुशाम्बुगन्धाक्षताम्बुपाणीनामेतेषां चाभिवादने चैतेऽप्यन्यानभिवाद्य स विरात्रं कुर्युः । अन्यत्र निम- त्रितस्यान्यत्र मोजनेऽप्येवम् । इत्यादि देशकालवयोर्थशक्त्यपेक्षं सर्वत्र प्रायश्चित्तं देयम् । अनुपदिष्टेषु दण्डार्थवादस्तुतिनिन्दाभिः कल्प्यम् । स्त्रीवृद्धबालातुराणां च योग्यं देयम् । इति प्रकीर्णप्रायश्चित्तम् । अथ यस्तूद्धतो महापापप्रायश्चित्तं न कुर्यात्तस्य पतितस्य सर्वे सपिण्डा बान्धवाश्च रिक्तातिथी सायाढ़े ग्रामाहिरपा पूर्ण दास्याऽऽहतं कुम्भ प्राचीनावीतिनो मुक्तशिखा गुरुसंनिधावस्माकं त्वं मृत इति निनयेयुः।

१४४ श्रीधराचार्यकृतः- ततोऽनिरीक्षमाणा अप उपस्पृश्य ग्रामं प्रविशेयुः । ततस्तं सर्वधर्म- बहिष्कृतं संभाषणादिषु वर्जयेत् । यदि प्रमादात्संभाषणादि कृतममत्या सावित्री जपन्नेकरावं तिष्ठेत् । मत्या त्रिरात्रम् । अभ्यासेऽब्दे पातित्यम् । अथ कृतप्रायश्चित्त आगते सपिण्डास्तेन सह पुण्ये जले स्नात्वाऽ पूर्णकुम्भं पुण्ये देशे काले च पुण्यदिङ्मुखास्त्वमस्माकमिति निनयेयुः । ततः स गोभ्यो यवसं दत्त्वा मक्षिते शुद्धः । नचेत्पुनः प्रायश्चितं चरत्स व्यवहार्यश्च । स्त्रीणां पतितानां चैवं त्यागः परिग्रहश्च किंतु प्रधानगृहस- मीपे कुटी कृत्वा प्राणधारणार्थमन्नं मलिनं वासश्च दत्त्वा भोगरहिता रक्षेत् । स्त्रीणामपि महापापातिपापानुपापान्यभ्यस्तानि चोपपापानि पतननिमित्तानि । विशेषतो हीनवर्णगमनं गर्भपातनमब्राह्मण्या अपि भर्तृहिंसनं तानि पतनहेतूनि । शिष्यगागुरुगाजुङ्गितोपगतानामप्येवं प्रायश्चित्तम् । क्षत्रियादेः प्रायश्चित्तं ब्राह्मणमन्तरे कृत्वा ब्रूयात् । स्त्रीशू- द्राणां जपहोमवर्ज वाच्यम् । अमन्त्रकाः प्राणायामाः सर्वत्र वाच्या एव । यागाद्यनुष्ठानशीलानुशीलानां जपादिकम् । इतरेषां तु तप. आदि । नामधारकमूर्खनिर्धनानां तप एवानधीतानां च । कर्तृव्यतिरि- क्तैर्विज्ञातदोषो विख्यातदोषः। स विद्वानपि शीघ्रं पर्षदनुमतं व्रतं प्राय: श्चित्तं कुर्यात् । तत्र वेदधर्मज्ञा विप्राः सहस्रायेकान्ता यावन्तो यथायोग्य पर्षयतिवर्जम् । पर्षदक्षिणा च लक्षगवादि किंचिदन्तं यथायोग्यं कृच्छ्र- संख्या वा । पर्पत्तुष्टिा । तत्र सकृदाप्लुत्य सचेलो वाग्यतः सात्वाऽऽ- धासाः पर्षदक्षिणां दत्त्वा पापं व्याख्याय प्रायश्चित्तं तद्वतमादाय पुनः सात्वा व्रतं चरेत् । पर्पञ्च ब्रूयात् । न चेत्तत्समा स्यात् । अज्ञात्वा वदे- चेत्तत्पापं सर्वमापतेत् । पर्षन्मतं विना कुर्वन्द्विगुणं कुर्यात् । केशरक्षार्थ च द्विगुणं चरेत् । विद्वद्विप्रस्त्रीणां वपनं नेष्यते । इति स्मृत्यर्थसारे प्रकाशप्रायश्चित्तम् । अथ रहस्यप्रायश्चित्तम्-तत्र कर्तृव्यतिरिक्तैरविज्ञातदोषो रहस्यप्रायश्चित्तं चरेत् । अविद्वांस्तु मुखान्तरेण रहस्यप्रायश्चित्तं ज्ञात्वा रहश्चरेत् । स्त्रीशूद्राश्चैवं जपहोमवर्जम् । तत्राऽऽहारविशेषानुक्तौ पयःप्रभृतयः । कालविशेषानुक्तो संवत्सरादयः । देशविशेषानुक्ती शिलोच्चयादयो गौत. मोक्ताः। तत्र जपेषु ऋपिदैवतच्छन्दोविनियोगा विज्ञेयाः । अमत्या बाह्मणवधेऽननंत्रिरात्रमन्तर्जले मग्न ऋतं च सत्यं चेत्यघमर्षणसूक्तं विरावर्त्य त्रिरात्रान्ते पयस्विनी गां दत्त्वा शुध्येत् । गोदानाशक्ती स्मृत्यर्थसारः। १४५ सध्याहृतिकान्षोउश प्राणायामान्प्रतिदिनं समावर्त्य शुध्येत् । अभ्यासेतु त्रिंशदावनतस्थः प्राणायामः श्रान्तोऽधमर्पणं जपेत् । महापापैः शुध्येत् । मत्या चेत्मारखोदग्बा निष्क्रम्य प्रातः शुचिवस्त्रो जलान्ते स्थण्डिलमुपलिप्य सकृक्लिन्नवासाः सकृत्पवित्रपाणिनाऽकाभिमुखोऽध- मर्पणं प्रातः शतं मध्याह्ने शतमपराह्ने शतमुदितनक्षत्रदर्शने चापरिमित जपेत् । प्रमृतिमानं यावकं पिबेत् । सप्तरात्रादुपपापैदशराबान्महापा- पसमैविंशतिरावान्महापापैः शुध्येत् । अन्यमहापापे मस्याऽभ्यासे चैवम् । निर्गुणस्य ब्राह्मणस्प बधे तु प्राग्वोदग्बा निष्कम्प प्रवृद्धामा- वष्टसहस्राहुतीर्जुहुयात् । अनुग्राहककर्तुश्चैवम् । निर्गुणवधे गुणवतो हन्तुस्बिराबोपोषणं विषवणसानं विरघमर्षणजपश्च । प्रयोजकानुमति- कर्तुश्चैवम् । निमित्तकर्तुरघमर्षणस्यैवं त्रिर्जपः । इति स्मृत्युक्तं ज्ञेयम् । इदं प्रायश्चित्तजातं यागस्थस्त्रीक्षत्रवैश्येष्वात्रेय्यामाहिताग्निपत्न्यां गर्मि- ण्यामविज्ञाते च गर्ने चतुर्थांशन्यूनं कार्यम् । यदाऽहोराधोपोषितो रात्रावुदवासं कृत्वोत्तीर्य लोमभ्यः स्वाहेत्यायैरटभिर्मन्त्रः प्रत्येक पत्र पश्चाऽऽज्याहुतीरेवं चत्वारिंशज्जुहुयात् । इति ब्रह्महत्यादिप्रायश्चित्तम् । अथ सुरापाने प्रायश्चित्तम्--तत्र मत्या पैष्टयाः सकृत्पाने गौडीमायोः पानावृत्तौ च त्रिरात्रोपोषितः कूष्माडीभित्रग्भिश्चत्वारिंशद्धृताहुतीर्जुहु- यात् । विरात्रोपवासाशक्तौ मासं प्रत्यहं षोडशकृत्वोऽपनः शोशुचदरम्। प्रति स्तोमेभिरुषसं वसिष्ठाः । महित्रीणामवोस्तु एतोविन्दं स्तवा- मेत्येषामन्यतमं जपेत् । मत्त्या चेन्महापापेऽब्द प्रत्यहम् । देवकृतस्यैनस इत्यादिभिर्मन्त्रैमः । नम इदुग्रं नम आविवासेत्यस्य वा जपं कुर्यात् । महापापाभ्यासे तु समाहितो गामनुगच्छेशान्दम् । भिक्षाशी पावमानी जपेत् । महापापसमुच्चये चैवम् । इति सुरापानप्रायश्चित्तम् । अथ सुवर्णस्तेये प्रायश्चित्तम्-तत्र ब्राह्मणसुवर्णहारी जले स्थित एका. 'दशरुद्रजापी त्रिरात्रोपोषितः शुध्येत् । यद्वा भस्मच्छन्नो मस्मशध्या- शयनो ब्रह्मवधात्सुरापानात्सुवर्णस्तेयाद्गुरुतल्पगमनाच शुध्येत् । अत्य- न्तनिर्गुणबाह्मणसुवर्णहरणे त्वस्य वामस्य पलितस्य होतुरिति सूक्तं सकृजपेत् । यज्जाग्रतो दूरमुर्देति दैवमित्यादि दैवषमचं शिवसंकल्प श्रीधराचार्यकृत:- , सूक्तं जपेत् । सुवर्णन्यूनपरिमाणस्तेये चैवम् । अनुग्राहकप्रयोजकानां चैवम् । इतिसुवर्णस्तेये प्रायश्चित्तम् । अथ गुरुतल्ये प्रायश्चित्तम्--तत्रामत्या गुरुपत्नीं गतस्विरात्रोपोषितः सह- सशीर्षा पुरुष इति षोडशचं सूक्तं चत्वारिंशत्संख्यया जपं होम चाऽऽवान्ते पयस्विनीं गां दत्त्वा शुध्येत् । सुरापानसुवर्णस्तेये चैवं वा। यद्वा गुरुतल्पगो हविष्पान्तमजरं स्वर्विदीति सूक्तं न तमंहो न दुरित- मिति सूक्तं वा, इति वा इति मे मन इति सूक्तं वा सहस्रशीर्षा पुरुष इति सूक्तं वा प्रत्यहं वा पोडशकृत्वो जपित्वा मासेन शुध्येत् । मत्या चेद्देव- कृतस्यैनस इत्याद्यैर्मन्त्रः शाकलहोमः । महापातकावृत्तौ व्याहृतिभिस्ति- लर्लक्षहोमः । व्यभिचारिणीगमने तु हविष्पान्तं वा पाबमानीर्वा जनापं वा वालखिल्यान्वा निवित्प्रैषान्वा वृषाकपि वा होतृत्रुद्रान्वा सकृ. जपित्वा शुध्येत् । गुरुतल्पातिदेशेष्वतिपातकेपु पादोनं योज्यम् । गुरु- तल्पसमेषु पातकेव?नं सर्वत्रैवम् । महापातकिसंसर्गे च यस्य येन सह संसर्गस्तस्यैव स प्रायश्चित्तं कुर्यादिति गुरुतल्पे । इति महापातकप्रायश्चित्तम् । उपपातकानां रहः प्राणायामशतम् । यद्वा महापातके प्राणायाम- चतुःशतम् । अतिपातके त्रिशतम् । अनुपात के द्विशतम् । उपपात के शतम् । सर्वत्राभ्यासे द्विगुणम् । मत्या त्रिगुणम् । मत्याऽभ्यासे चतुर्गु- णम् । प्रकीर्णकेपूपपापेषु चतुर्थांशप्राणायामाः । यद्दा प्रकाश उपपापे यत्र चान्द्रत्रयं तत्र तत्सहस्रप्राणायामाः । यद्वा गायत्र्या लक्षजपो महा- पापे । पादोनमतिपापे । अर्धमनुपापे । पादमुपपापे । तच्चतुर्थाशं प्रकी- र्णकेपु चरेत् । यद्वा गायत्र्या व्याहृतिभिर्वा तिललक्षहोमो महापापे । अतिपातकादिपु पादोनादिकम् । इति स्मृत्यर्थसारे रहस्यप्रायश्चित्तम् । अथ कृच्छ्राणां लक्षणम्-तत्र बताङ्गभूता धर्मा यमा नियमाश्च । ब्रह्म- चयं दया क्षान्तिनं सत्यमकौटिल्यमहिंसाऽस्तेयं माधुर्य दमश्चेति दश यमाः । नानमीनोपवासेज्यास्वाध्यायोपस्थनिग्रहगुरुशुश्रुषाशीचाक्रोधा. प्रमादा इति दश नियमाः । सांतपने कृच्छ्रे पूर्व युरनाहारो गोमूत्रगोमय- क्षीरदाधिसर्पिःकुशोदकान्येकीकृत्य पीत्वा परेारुपवसेत् । एष द्विरात्रः पूर्वेयुरुपोप्यापरेगुरिमानि समन्त्रकं स्वयं सांतपनः कृच्छ्रः . स्मृत्यर्थसारः। १४७ संपूज्य हुत्वा समन्त्रकं प्राशनं यदा तदा ब्रह्मकूर्चसंज्ञकम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं पञ्चगव्यसंज्ञकम् । तत्र ताम्रवर्णाया गोमूत्रम् । श्वेताया गोमयम् । पीतायाः क्षीरम् । नीलाया दधि । कृष्णायाः सर्पिाह्यम् । यद्वा सर्व कापिलमेव । अलाभे सर्ववर्णानां सर्वं ग्राह्यम् । गोमूत्रेऽष्ट माषाः प्रमाणम् । गोमये षोडश माषाः । क्षीरे द्वादश मापाः । दधि दश माषाः । सपिंप्यष्ट मापाः । कुशोदके तदर्धम् । गायत्र्या गोमूत्रम् । गन्धद्वारामिति गोमयम् । आप्यायस्वेति क्षीरम् । दधिक्राव्ण इति दधि । तेजोऽसि शुक्रमसीत्याज्यम् । देवस्यत्वेति कुशो- दकम् । एतत्पश्चगव्यं सप्तपत्रैरच्छिन्नाः शुकवर्णैः कुशैरिरावतीदं विष्णुर्मानस्तोके शंवतीत्यन्ताभिरग्नौ हुवा हुतशेषं प्रणवेनाऽऽलोड्य तेनाभिमन्य तेनोवृत्त्य तेनैव पिवेत् । मध्यमेन पलाशपत्रेण पद्मपत्रेण स्वर्णपात्रेण ताम्रपात्रेण वा ब्रह्मतीर्थन वा पिवेत् । एतद्ब्रह्मकर्चसंज्ञकं होमसहितं विज्ञेयम् । स्त्रीशूद्री तु विप्रैः कारयित्वा तूष्णी पिवेताम् । ब्रह्मकूर्चत्रिरात्राभ्यासे यतिसांतपनम् । गोमूत्रं गोमयं क्षीरं दधि सर्पि: कुशोदकम् । एकैकं प्रत्यहं पीत्वैकरात्रोपवासे सांतपनकृच्छ्रः साप्ता- हिकः । एपु शक्त्याद्यपेक्षया योज्यम् । एवमुत्तरत्रापि योज्यम् । महा. सांतपनं गोमत्रगोमयक्षीरदधिसपिपामेकैकं व्यहमावर्त्य पश्चदशा- हिकं स्यात् । यद्वा गोमूत्रगोमयक्षीरदधिसर्पि:कुशोदकानां पण्णामेक- काहं व्यहमावर्त्य व्यहमुपवास एकविंशतिरात्रकं महासांतपनम् । यतिमहासांतपनं तु गोमूत्रादीनां पण्णामकैकस्य यद्यहाभ्यासे स्यात् । तप्तकृच्छ्रश्च तप्तक्षीरघृतोदकानामेकैकं प्रत्यहं पीत्वैकरात्रोपवासे स्यात् । यद्बोष्णजलक्षीरघतोष्णोदकबाप्पमारुतानां चतुणां त्रिरभ्यासे द्वादशरात्रस्तप्तकृच्छः स्यात् । तत्र जलं त्रिपलं क्षीरं द्विपलं सपिः पल- मानं पिबेत् । उष्णोदकबापमानं त्रिरात्रस्य पूरणमात्रम् । पादकृच्छ एकभक्तेन नक्तेनायाचितेनोपवासेन चैवं स्यात् । तत्र ग्राससंख्यकमक्ते पञ्चदश पविशतिर्वा ग्रासाः । नक्ते द्वादश वा द्वाविंशतिर्वा । अयाचिते तु चतुर्विशतिरेव । सर्वे ग्रासाः कुक्कुटाण्डप्रमाणा आस्य- प्रवेशप्रमाणा वा ग्राह्याः । अनयोः पक्षयोः शक्त्या विकल्पः । यद्वैवं पादकृच्छ्रः । एकभक्तत्रयं पादकृच्छ्रः शूद्रस्य देयः। नक्तत्रयं पादकृच्छ्रो वैश्यस्य । अयाचितत्रयं पादकृच्छो राज्ञः । उपवासत्रयं पादकृच्छ्रो १ क. °नोद्धृतेन पि।

१४० श्रीधराचार्यकृतः- विप्रस्येति व्यवस्था च । अर्धकृच्छ्रस्त्वयाचितोपवासपादाम्यां स्यात् । पादोनकृन्छ एकभक्तायाचितोपवासपादैः स्यात् । प्राजापत्यकृच्छ्र एकमक्तनक्तायाचितोपवासैस्त्रिरावृत्तैः प्रातिलोम्येन त्रिरावृत्तैर्वा बाला- तुराथ स्यात् । एकमक्तत्रयनक्तत्रयायाचितत्रयोपवासत्रयः प्राजापत्यः स्याच्छक्तानामुपवासः प्रातिलोम्येन वा। अतिकृच्छ्रस्तु पाणिपूरणमा- बानमोजनयुक्तो न ग्राससंख्याकः । यद्वैकैकग्रासाशी मोजनदिने स्याच्छक्तस्यैषोऽतिकृच्छ्रः । शेषं पूर्ववत् । कृच्छातिकृच्छ्रः पयसैकविंश- तिरात्रैः स्यात् । यद्वा द्वादशरात्रमम्बुमक्षणे कृच्छ्रातिकृच्छंस्याच्छक्तस्य। पराके द्वादशाहोपवासी स्यात् । सौम्यकृच्छ्रस्तु पिण्याकमोदनाग्रनि. सावं तक्रमुक सक्तूश्च पश्चदिनेषु झमात्याश्य षष्ठे ह्युपवासः स्यात् । पिण्याकादीनां परिमाणं प्राणयात्रामात्रमेव स्यात् । पिण्याकसक्तुतक्र. रूयहं चतुर्थेऽह्नयुपवासो वा सौम्यकृच्छ्रः स्यात् । चान्द्रायणं तु शुक्ल- प्रतिपदादिदिनेषु मयूराण्डप्रमाणग्रासानामेकैकं वृद्धया पौर्णमास्या पञ्चदश ग्रासाः स्युः । ततः कृष्णप्रतिपदादिष्वेककग्रासद्वासोऽर्थादमा. पास्यायामुपवासश्चान्द्रायणं यवमध्यं स्यात् । पिपीलिकामध्यं तु कृष्ण- प्रतिपदादिप्रक्रमे पौर्णमास्यन्तं स्यात् । सर्वत्र तिथिवृद्धिह्रासे ग्रासवृ- द्विह्रासः । यद्वा चत्वारिंशदधिकशनद्वयग्रासानां यथाकथंचिदावृत्त्या मासेन चान्द्रायणं स्यात् । पञ्चविंशत्यधिकशतद्वयग्रासानामावृत्तौ मासेन चान्द्रायणं स्यात् । यतिचान्द्रायणं प्रत्यहं दिवाऽष्टाष्टग्रासैर्मासेन स्यात् । शिशुचान्द्रायणं तु प्रत्यहं दिवा चतुर्मासै रात्रौ चतुर्मासैर्मासेन स्यात् । ऋषिचान्द्रायणं तु प्रत्यहं त्रिभिस्त्रिभिर्मासैौसेनैव स्यात् । यतिचान्द्रा- यणादिषु यथाकथंचित्रिंशदिनमासो न चान्द्रगतिवत् । सोमायनं तु गोक्षीरं स्तनचतुष्टयज सप्तरात्रं पिबेत् । स्तनत्रयात्सप्तरात्रम् । स्तनद्व- यात्सप्तरात्रम् । स्तनैकेन पात्रम् । त्रिराव वायुभक्षिता चान्द्रायण- धर्मता च । इति कृच्छ्रचान्द्रायणादिलक्षणम् । अथ चान्द्रायणसाधारणधर्माः-त्रिकालं. द्विकालं वा सानम् । तप्तकृच्छ्रे मकृत्मानम् । सर्वत्र स्नाने मार्जनाद्यघमर्षणादि कृत्वोत्तीर्य सौरमन्त्रेण माविया वा सूर्योपस्थानम् । ततः पुण्यमन्नं गायत्रीं चाष्टसहस्रं शर्त १५. सानां वाऽऽवृ। २ क, सोमपान । ३ क. ° चाम्बम। । क. कृस्वा तार्थ सौ।

स्मृत्यर्थसारः। १४९ वा शक्त्या जपेत् । चतुर्भिक्षायावकपयोदधिघृतमूलफलकन्दादिहवि. प्यान्नमुच्यते । तद्धविष्यमाप्यायस्वेत्यभिमकय ग्रासान्गायच्याऽभि- मन्त्रयेत् । अथ प्रत्यानायो वक्ष्यते-प्राजापत्ये धेनुप्रदानं तन्मूल्यदानं गोदानं वा तन्मूल्यदानं वा । तच्च गोमूल्यं निष्कं निष्काधं निष्कपाद घा दद्यात् । अत्यशक्तौ तदधं तत्समभूधनधान्यवस्त्रादीन्वा दद्या- द्वादशबाह्मणभोजनं वा । तावद्धनधान्यवरादिदानं वा संहि- तापारायणं वा गायत्र्ययुतजपो वा । तिलहोमसहस्रं वा । प्राणायाम- शतद्वयं वा शक्त्या कुर्यात् । धेनुभोजनाद्यशक्त्यपेक्षया द्वित्रिचतुःपञ्चष- ड्गुणं वर्धते । उपवासस्थान एकविप्रभोजनं ताबद्धनधान्यवस्त्रादिदानं था । शक्त्या द्विगुणादिवृद्धिश्च । गायत्रीसहस्रजपो वा द्वादश प्राणायामा वा शक्त्या कार्याः । चान्द्रायणस्थानेऽष्टी प्राजापत्याः । तप्तकृच्छ्रे षट् । अतिकृच्छ्रे त्रयः कार्याः । सुखसाध्येषु तु चान्द्रायणे त्रयः कार्याः । तप्तकृच्छ्रे सार्धकायद्वयम् । अतिकृच्छ्रे महासांतपने च कायद- यम् । पराके पश्च त्रयो वा कायाः कार्याः। अथ कृच्छ्रस्थाने तीर्थप्रत्यम्नायो वक्ष्यते-- वेदे तीर्थे च देवे च यज्ञे चैवौपधे गुरौ । याहशीं भावनां कुर्यात्सिद्धिर्भवति ताशी ॥ क्षेत्राग्न्यापः सुरा विप्रा गोर्गुरुस्तीर्थमुच्यते । निवासहोमनाना_तोषपोषैः पुनाति तत् ।। अथ पुराणेभ्यः सर्वतीर्थप्रत्याम्नाये किंचिन्मूलमुच्यते ब्रह्मविष्णुशिवा देवा इन्द्रोऽग्निर्यमनिती। वरुणः श्वसनो यक्षः सोमः सूर्यो गुहो गणाः ।। एते स्वयं तीर्थभूतास्तीथैः सिद्धिमवाप्नुवन् । मनवो वसवो रुद्रा आदित्या मरुतोऽनिलाः ॥ विश्वे देवास्तुषाः साध्या नागा यक्षाश्च राक्षसाः। इत्याद्यनेकदेवाश्च तीथैः सिद्धिमवाप्नुवन् । भृगवोऽङ्गिरसोऽगस्त्यविश्वामित्रात्रिकश्यपाः । वसिष्ठाद्या महात्मानस्तीर्थः सामर्थ्यमाप्नुवन् ॥ - १ स्व. प. च. °च दैवज्ञे चौष । २ ख. 'सिद्धीरदर्शयन् । ३ घ. वास्तथा सा ।

१५० श्रीधराचार्यकृतः- हरिश्चन्द्रो नलो बैन्यः पुरुकुत्सः पुरूरवाः । सगरः कार्तवीर्याद्यास्तीर्थ राज्यमवाप्नुवन् । इन्द्रभैरवरामाद्या गौतमाद्या महर्षयः । ब्रह्महत्यादिपापानि तीर्थरेव व्यपोहयन् ।। विश्वामित्रः सपुत्रस्तु महापापं व्यपोहयत् । सुतीर्थतपसा बाह्मयं प्राप्य वासिष्ठशापतः ॥ त्रिशङ्खमपि चण्डालं विप्रं कृत्वाऽप्ययाजयत् । तं तु तेनैव देहेन स्वर्गलोकमवेशयत् ॥ अनुपोष्य विरात्रादि तीर्थान्यनुपगम्य च । अदत्त्वा काश्चनं गाश्च दरिद्रो नाम जायते ।। प्रतोपवासकृच्छ्रादीनकृत्वा तीर्थसेवनम् । अदत्त्वाऽन्नाश्ववस्त्रादि दरिद्रो जायते ध्रुवम् ॥ तथा देवीपुराणे-पाण्डवा राज्यलाभाय दुरितोपशमाय च । श्रीकृष्णनारदव्यासश्रीकण्ठेन्द्राजलोमशैः।। मार्कण्डेयपुलस्त्याजसप्तर्षिप्रमुखैस्तथा । द्वादशद्वादशाब्दानि कृच्छ्राण्यादाय भक्तितः ॥ तीर्थरकुर्वन्नित्यादि पुराणे श्रूयते कथा । विश्वनाथेन यतिना निर्बीजेन महात्मना । विंशत्यब्दाच्छताब्दान्तं सर्वदा तीर्थसेवनात् । बहुस्मृतिपुराणज्ञैर्बहुभिः सहचारिणा। कृत्स्नं तीर्थफलं प्रोक्तं यन्न साध्यमपार्यते ॥ मार्कण्डेयाजहनुमज्जाम्बवद्रोमशादिभिः। कृत्स्नं तीर्थफलं प्रोक्तं गोदानकतुसाम्यतः ।। द्वापरान्ते पुराणानि व्यासः स्वल्पायुषां नृणाम् । हिमान्ताद्दक्षिणे देशे संकोच्य व्यवहारयेत् ।। भूतप्रेतपिशाचाश्च पितरो ब्रह्मराक्षसाः। अद्यापि प्रवदन्त्येवं कृच्छ्रार्थे तीर्थमर्थवत् ॥ सूतः शद्रः पुराणवस्तीर्थविमोऽभवत्ततः। शिष्यानूचेऽक्षराङ्कानि तीर्थानि कुरुतेति वै॥ ते विश्वकर्मणे प्रोचुर्विश्वकर्मा च सर्ववित् । शिष्यैः कृच्छ्राक्षराङ्कानि सर्वतीर्थेष्वकारयत् ॥ १ घ. तथाऽऽदित्यपु।

स्मृत्यर्थसारः। १५१ अद्यापि कृच्छ्रवर्णाका दृश्यन्ते तत्र तत्र च । लिप्यानामविज्ञामे प्रकारान्तरमुच्यते ॥ पुराणस्मृतिविद्विष्णुप्रोक्ततीर्थफलाप्तये । उक्तं लोकोपकारार्थं यत्रासाध्यमपीयते ॥ पुराणस्मृतिषु तीर्थकल्पेषु च तीर्थफलं गोदानसमं दशधेनुसम शत- धेनुसमं गोसहस्रफलमग्निहोत्रफलं पुण्येष्टिफले यज्ञफलमश्वमेधफलमु. पपातकनाशनं पातकनाशनं महापातकनाशनमुपवासफल त्रिरात्रफलं कृच्छफलं चान्द्रायणफलं पक्षोपवासफलं मासोपवासफल षण्मासोप- पासफलं संवत्सरोपवास फलं लभेदित्यादिवचनेष्वर्थवादप्रशंसां विसऱ्या सर्वत्र योग्यतया कृच्छ्राणि परिकल्प्य तीर्थफलान्युक्तानि । तीर्थसंग्रह- कारैरपि तथैवोक्तानि । कायकृच्छाचरणाशक्तानां पातित्यपरिहारार्थ- मस्माभिस्तथैवोच्यन्ते । तत्र भागीरथ्यां स्नानं षष्टियोजनगतानां षडब्दकृच्छ्समम् । अत्र यात्रा योजनवृद्धौ। योजनस्यार्धकृच्छा वृद्धि। पूर्व सप्तमातृका राक्षसमयान्नद्योऽभूवन् । मये गते पुनर्देव्योऽभूषन् । ततो नदीशुष्कखातेषु भागीरथी सप्तवर्णा सप्तधाऽवहत् । तासु विष्णु. गङ्गादिसप्तमातृकाणां सकृत्सप्तगङ्गासु मानं पादकृच्छ्रसमम् । प्रयागे द्विगुणम् । गङ्गाद्वारे गङ्गासागरसंगमे चैवम् । वाराणस्यां गङ्गाऽतीव दुर्लभा । समुद्रान्ते पुण्यं न गण्यते । वाराणस्यां महापातकं न प्रवि- शति । तत्र मृतो मुक्त एव । सर्वयात्रा देशान्तरभाषाभेदविषये महाप- तिव्यवधाने महानदीव्यवधाने पट्चतुर्दियोजनन्यूना भवति । यमुनायां साने तु द्वादशकृच्छ्रसमं विंशतियोजनगतस्य । मथुरायां द्विगुणम् । सरस्वत्यां चतुरब्दकृच्छ्रसमं चत्वारिंशद्योजनगतस्य । प्रमासे द्वारवत्यांच द्विगुणम् । एतयोद्योर्योजनवृद्धौ पादकृच्छ्रवृद्धिः। दृपद्वतीशतद्रुविपा. शावितस्ताशरावतीमरुवृद्धासिक्कीमधुमतीपयस्वतीघृतवत्यादिदेवनदीषु मानं त्रिंशत्कृच्छ्रसमं पञ्चदशयोजनगतस्य । चन्द्रमागावेत्रवतीशरयूगो. मतीदेविकाकौशिकीनित्यजलामन्दाकिनीसहस्रवक्त्रापौनःपुन्यापूर्णपु. ण्याबाहुदावारुणीगण्डक्यादिदेवनदीपु स्नानं पोडशकृच्छ्रसमं द्वादश. योजनगतस्य । एतासु परस्परसंगमे त्रिनदीफलम् । अन्यासु समुद्रगासु महानदीपु पट्कृच्छ्रफलम् । महानदेषु महानद्यर्धफलम् । शोणमहा- mawat .ग. °यस्मिनी।

२५२ श्रीधराचार्यकृतः- नदे गजार्धफलम् । नदेषु नद्यर्धफलम् । वैरोचननदेषु महानद्यर्ध- फलम् । पुष्करतीर्थेषु प्रयागसमम् । संनिहत्यां तथैव । माहिष्मत्यादौ नित्यप्रत्यक्षानौ होमो दशगुणः । गयां महानदी सेतुरामेश्वरं सोमेश्वर मीमेश्वरं श्रीरङ्गं पद्मनाभं पुरुषोत्तमं नैमिषं घदर्याश्रमं पुण्यारण्यं धर्मा- रण्यं कुरुक्षेनं श्रीशलं महालयं केदारं पुष्कर रुद्रकोटिं नर्मदामाम्रातके. श्वरं कुब्जानं कोकामुखं प्रमासं विजयेशं पुरीन्द्रं पश्चनदं गोकर्ण शक- कर्ण मद्रकर्णमयोध्यां मथुरा द्वारवती मायामवन्ती गयां काञ्ची शाल- ग्रामं शंमलग्राम कम्बलग्राममेवमादिमुक्तिक्षेत्राणि संसेव्य लमते गया- स्नानम् । सर्वेभ्यो वाराणसी विशिष्टैव । महाप्रयागे मृतस्यापि मुक्तिरेव । अन्यप्रयागे मरणं मुक्तिबीजम् । नर्मदायां चतुर्विंशतियोजनगतस्य चतुर्विं. शतिकृच्छ्समम् । कुब्जिकासंगमे द्विगुणम् । मुक्तितीर्थे चतुर्गुणम् । ताप्यां दशकृच्छ्रसमं दशयोजनगतस्य । पयोष्ण्यामष्टयोजनगतस्याष्टक- च्छ्रसमम् । तत्र संगमे द्विगुणम् । गोदावयाँ पष्टियोजनगतस्य व्यब्द कृच्छ्रसम् । तन्न त्रिंशद्योजनगतस्यैकादशतीर्थेषु प्रतिलोमानुलोमनानं पष्टिकृच्छ्रसमम् । वञ्जरासंगमप्रयागे तहिगुणम् । सप्तगोदावयां भीमे. श्वरे त्रिगुणम् । कुशतपणे गयासमम् । वञ्जरायां द्वादशयोजनगतस्य द्वादशकृच्छ्रसमम् । गोदावयाँ विश्लेषे समुद्रान्तं षड्गुणम् । प्रणीतायां चतुःकृच्छ्रसमं चतुर्योजने । पूर्णायां तदर्धं तदर्धयोजने । कृष्णावेण्यायां पश्चदशयोजने पञ्चदशकृच्छ्रसमम् । तुङ्गभद्रायां विंशतियोजनगतस्य विंशतिकृच्छ्रसमम् । पंपायां तद्विगुणम् । हारेहरे त्रिगुणम् । भीमरथ्यां दशकृच्छ्रसमं दशयोजनगतस्य । ककुद्मतीसङ्गे पश्चदशकृच्छ्रसमम् । तुङ्गभद्रावरदासंगमे पञ्चविंशतिकृच्छ्रसमम् । मलापहारिण्यामष्टकृच्छ्र- सममष्टयोजनगतस्य । निवृत्या पट्रकृच्छ्रसमं पड्योजनगतस्य । गोदावयाँ यात्रावृद्धी योजने पादकृच्छ्रः। सिंहस्थे गुरो सर्वत्र जाह्नवीसमम् । कन्यास्थे गुरौ कृष्णावण्यां सर्वत्र जाह्नव्यधं च ग्राह्यम् । तुङ्गमद्रायां तुलास्थे गुरौ जाह्नव्यर्धम् । कर्कटे गुरौ च कृष्णावेण्यायां मलहारि- संगमे प्रयागे विंशयोजनगतस्प त्रिंशत्कृच्छ्रसमम् । भागीरथीसंगमे प्रयागे द्विगुणम् । तुङ्गमद्रासंगमे प्रयागे त्रिगुणम् । निवृत्तिसंगमे प्रयागे चतुर्गुणम् । ब्रह्मेश्वरे पश्चगुणम् । पातालगङ्गायां मल्लिकार्जुनदर्शने पड्गुणम् । ततः पूर्वं षष्टिकृच्छ्रसमम् । लिङ्गालये द्विगुणम् । समुद्रसंगमे १ ख. ग. भन्ते गहासमम् । स २ ख. ग. °म् । शुलती। ३ क ग. निकृत्यां ।

स्मृत्यर्थसारः। १५३ चैवम् । कावेयां प्रतीचीमहानद्यां पञ्चदशकृच्छफलं पञ्चदशयोजनगतस्य । ताम्रपर्णीकृतमालापयस्विनीषु द्वादशयोजनेदशकृच्छठसमम् । सह्यपा- दोद्भवा वेदाद्विपादोद्भवा नद्यः स्वदैानुसारेणैकद्वित्रिकृच्छ्रफलदाः । विन्ध्यश्रीशैलोद्भवा द्विगुणाः । हिमोद्भवास्त्रिगुणाः । स्मृतौ पुराणे च यथाकथंचिदनुक्ती कुल्यास्त्रिरात्रफलदाः । अल्पनद्यः कृच्छफलदाः । सर्वत्र यात्रानुक्ती कृच्छ्रसंख्यया योजनसंख्या स्यात् । एकयोजनगादि- पट्योजनगताः सरितः कुल्याः। ततो द्वादशयोजनगता अल्पनद्यः । ततश्चतुर्विंशतियोजनगता नद्यः । समुद्रगाश्च महानद्यः । महानदीस- माख्याश्रिताश्च महानद्यस्तत्रोपवाससहितं नदीनानं कृच्छ्रसमम् । योजनादयंगपि सूनीगर्दभीशनीचाण्डालीकटगादिनद्यः पापनद्यश्च वाः । सर्वत्र समुद्रस्नानं दर्शे कार्यम् । देवतसमीपे सर:सरिन्नदी- संगमेषु सदा च कार्यम । समुद्रस्नानं पञ्चदशकृच्छ्रसमं पञ्चदशयोजनग. तस्य । पग्यातदेवतासमीप तद्धिजगम् । तत्र सात्वा तदेवदर्शने स्थाणु. दर्शने च त्रिगुणम् । सेतो त्रिंशत्कृच्छ्रतमं त्रिंशद्योजनगतस्य । स्नात्वा रामेश्वरदर्शन पत्रिकृच्छ्रसमं विन्ध्यदेशीयानाम् । सेतुरामेश्वरे जाह्नव्यांच त्रिगुणं फलम् । जाह्नवीकेदारयोस्तथैव । दक्षिणाधिदेशीयानां जाह्नव्या घड्गुणम् । गङ्गादेशीयानां तु सेतुरामेश्वरे पड़गुणम् । स्कन्ददर्शने त्रिंशत्कृच्छ्समं त्रिंशद्योजनगतस्य च । यत्र गङ्गासंज्ञाऽस्ति तत्र चैवम् । सर्वत्र भापाभेदपर्वतादिना यात्राहासो भवत्येव । श्रीरङ्गपद्मना- भपुरुषोत्तमचक्रकोटमहालक्ष्मीदर्शन लबणार्णवसाने त्रिंशद्योजनग- तस्य त्रिंशत्कृच्छसमम् । केदारे त्रिगुणम् । सर्ववैष्णवमाहेश्वरसौर- शाक्तयज्येष्ठादिपीठदर्शने पञ्चदशकृच्छ्रसमम् । प्रख्याते द्विगुणम् । अहोबलेऽपि तथैव । श्रीशैलप्रदक्षिणं पष्टिकृच्छ्रसमम् । श्रीशैल एकैक- द्वारदर्शने द्वादशकृच्छ्र समम् । अन्येषु प्रख्याततीर्थदेवतादर्शनेषु पट्रकृ- च्छ्रफलम् । सिद्धक्षेत्रे स्वयंभुदर्शनमन्यक्षेत्रे स्वयंभुदर्शनं च त्रिकृच्छ समं त्रियोजनगतस्य । सर्वत्र कृच्छसंख्यया त्रयोदशयोजनसंख्या विज्ञेया। यत्र यत्र यद्विशेषतया दृटं तच्च ग्राह्यम । सर्वत्र देशकालविशेपेण फल- विशेषोऽस्त्येव । सर्वत्रोक्तदशांशफलं तीरस्थस्य योजनादर्वाग्भवति तत्रापि कोशसंख्यया तारतम्यमस्ति । सर्वत्र यात्रावृद्धी यात्राफलम् । १ क, नां जाहव्यां घगणम् ।

- १५४ श्रीधराचार्यकृतः- योजने योजन उपवासः । तथा सति पडुपवासाः प्राजापत्य इति कल्पना भवति । तिर्यग्यवोदराण्यष्टावूर्वा वा बीहयस्त्रयः। प्रमाणमङ्गलस्योक्तं वितस्तिादशाङ्गुला ॥ वितस्तिद्विगुणाऽरलिस्ततः किष्कुस्ततो धनुः । धनुःसहस्र द्वे कोशंश्चतुष्कोशं तु योजनम् ॥ सार्धगव्यूतिदेशं च योजनं परिचक्षते । गव्यूतिं पञ्चसाहस्रधनुभिः प्रमिते विदुः ॥ यात्रासु नियमाः । एकमक्ताधःशयने अनृती ब्रह्मचर्यमित्याद्याः। तीर्थे नानजपतर्पणादि कार्यम् । देवतेऽयपाद्याक्षतगन्धार्चनादि कार्यमित्यादि तीर्थप्रत्याम्नायो योज्यः । एवं स्थिते यथा मनः पूतं भवति तथा कार्यम् । परार्थे तु गन्ता पोडशांशं लभते । प्रसङ्गेन गन्ताऽर्धफलम् । अनुपडेण तीर्थं प्राप्य माने मानफलमेव न यात्रा फलम् । पितृपितृयपितामहप्रपितामहमातुलश्वशुरपोपकार्थदगुर्वाचार्यो- पाध्यायार्थं तेषां पत्न्यर्थं मातृष्वसृपितृष्वस्रथं च स्नात्वा स्वयमष्टमांशं लभते । साक्षापित्रोः कुर्वन्पुत्रश्चतुर्थांशं लमते । दंपती च सपल्यश्च लभन्तेऽधं मिथः फलम् । अर्थिनां तु फलह्रासः शुश्रूषाफलमीदृशम् ॥ कर्कटादी मासदये निरन्तरं रजस्वला महानद्यः समुद्रगाः। तास्वपि मागीरथी गोमती चन्द्रभागा सरस्वती सिन्धुमहानदी शरयूश्च विरात्रं रजस्वलाः। शुप्यन्ति याः कुसरितो ग्रीष्मकाले न चोदकैः । पूर्यन्ते चव वर्षासु दशाहान्ते रजस्वलाः ॥ कुल्या अल्पनद्यो नद्यश्च सप्ताहं पक्षं मासं ता रजस्वलाः।पापीकूपत- डागादिपु स्वल्पोदकेषु पुराणोदक जितेषु निरानं रजस्वलात्वम् । अत- स्तत्र स्नानतर्पणादिकमप्रशस्तत्वान्न कार्यम् । तीरवासिनां तु न निषेधः। सरस्वत्यन्यगङ्गा यमुना च सर्वे च नदाः कदाचिदपि न रजस्वलाः । स्मृतिपुराणेषु यत्र गङ्गायमुनासरस्वतीशब्दोऽस्ति तत्रापि रजोदोषो स्मृत्यर्थसारः। १५५ नास्तीत्याहुः । अतीरवासिनामपि उपाकर्मणि चोत्सर्जने व्रतनाने चन्द्रसूर्यग्रहे च रजोदोषो नास्ति । क्षुद्रनद्यः सर्वा न रजस्वलाः । इति तीर्थविधिः। अथ महापातकेषु द्वादशवार्पिकादिवतस्थानेषु प्राजापत्यादयस्तत्प्रत्याम्नायाश्चोव्यन्ते- तत्र द्वादशवार्षिके द्वादशदिनेष्वेकैकं प्राजापत्यं परिकल्प्यैवं कल्प्य- माने घट्यधिकशतत्रिंशत्पाजापत्या द्वादशवार्षिकेषु भवन्ति । तस्मा- न्महापातके त्वमत्या सकृत्करणे पष्टयधिकशतत्रयं कायांश्चरेत् । तदशक्ती षष्ट्यधिकत्रिंशद्धेनूर्दद्यात्तन्मूल्यं वा । गोमूल्यत्वेन पष्टयधि- कत्रिंशन्निष्कान्वा निष्कार्धानि चा निष्कपादान्वा शक्त्या दद्यात् । मूल्यदानेऽप्यशक्ती तावन्त उदवासाः कार्याः । तत्राप्यशक्तावेक- कस्य प्राजापत्यस्यायुतगायत्रीजपसंख्यया पटूशिल्लक्षसंख्याको गाय- बीजपः कार्यः । षष्टयधिकशतत्रयवेदपारायणानि वा कार्याणि । ताव- न्ति तिलहोमसहस्राणि वा। तावन्तः शतद्वयप्राणायामा वा । इत्यादि कृच्छ्रप्रत्याम्नायत्वेन पट्यधितशतत्रयसंख्यया महापातकेषु योज्यम् । अतिपातकेपु पादन्यूनद्वादशाब्दनववापिकवतस्थाने सप्तत्यधिकशतद्वयं कायाः कार्याः। तदशक्तौ धेनुदानादि कार्यम् । अनुपातकेषु षड्वार्षिकब- तस्थाने साशीतिशतकायाः। धेन्वादयश्च तत्संख्याकाः । उपपातकबहुत्वे त्रैवार्षिकं व्रतं कार्यम् । तत्स्थाने विवार्षिके नवतिसंख्याकाः कायाः कार्याः । धेन्वादयश्च तत्संख्याकाः । एकैकोपपातकेषु त्रैमासिकवतमु- तम् । तत्स्थाने सार्धसप्त कायाः प्रत्याम्नायश्च । धेन्वादयस्तत्संख्याकाः । वृषभैकादशगोदानसहितत्रिरात्रात्मका गोवधवते तु साधैंकादश काया उपवासादयश्च तत्संख्याकाः । मासपयोते सार्धकायद्वयं प्रत्याम्नायश्च तद्वत् । पश्चगव्यमासे चैवम् । पराके तु कायत्रयं प्रत्याम्नायश्च तद्वत् । सप्ताहं सांतपने त्वर्धकाया इत्यादि । प्रकीर्णकेषु प्राजापत्यं पादादि- क्लप्त्या कल्प्यम् । प्राजापत्यः पडुपवासा इति वा शक्त्या कल्प्यम् । अथ सर्वप्रायश्चित्तानि वक्ष्यन्ते तत्र महापातकादर्वाचीनपापेषु बहुपु विवि. धेष्वज्ञातादिष्वत्यन्तगुणवानत्यन्तविरक्तः प्रतिनिमित्तं कर्तुमशक्ती प्राय- श्चित्तं पडब्दकृच्छं साशीतिशतसंख्याकं प्राजापत्यं चरेत् । धेन्वादि. प्रत्यानायं वा तत्संख्यया कुर्यात् । अभ्यासे द्विगुणं मत्या त्रिगुणं मत्याऽ- १ क. रि' । २ ख. ग. उपवा । ३ क. उदा ।

श्रीधराचार्यकृतः- भ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे वा पञ्चगुणम् । बहुकालाभ्यासे पड़्गुणम् । प्रकीर्णकेषु क्षुद्रपापेषु चातिबहुध्वमत्या कृतेषु प्रतिनिमित्तं कर्तुमशक्ती प्रायश्चित्तमब्दकृच्छ्रे विंशत्संख्याकपाजा- पत्यं चरेत् । धेन्वादिप्रत्याम्नायं वा तत्संख्यया कुर्यात् । अभ्यासे द्विगुणं मत्या त्रिगुणम् । मत्याऽभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे वा पश्चगुणम् । तथा बहुकालाभ्यासे पडूगुणम् । क्षुद्रपापेप्वज्ञात- तेषु प्रतिनिमित्तं प्रायश्चित्ताशक्तौ कृच्छ्रातिकृच्छ्रचान्द्रायणानि कुर्यात् । तत्स्थाने द्वादश प्राजापत्यान्वा चरेत् । धेन्वादिप्रत्याम्नायं वा कृच्छ्र- स्थाने तत्संख्यया कुर्यात् । अभ्यासे द्विगुणं मत्या त्रिगुणं मत्याऽभ्यासे चतुर्गुणम् । अत्यन्ताभ्यासे निरन्तराभ्यासे च पञ्चगुणम् । तथा बहु. कालाभ्यासे पगुणम् । इदं प्रायश्चित्तचतुष्टयमुत्तमस्य । मध्यमस्य द्विगुणम् । जघन्यस्य त्रिगुणम् । इष्टापूर्तशुभाशुभमहाकर्मस्वनुपहताना- मपि बिगाचार्य यजमानादीनां कृच्छातिकृच्छ चान्द्रायणाख्यं सर्वप्रा- श्चित्तं भवेत् । तत्स्थाने द्वादश प्राजापत्यान्वा तदर्थं वा वदन्ति । इति स्मृत्यर्थसारे सर्वप्रायश्चित्तविधिः । सर्वत्रानुक्तनिष्कृती कृच्छातिकृच्छ्रचान्द्रायणानि समस्तव्यस्तरूपेण योग्यतया योज्यानि । क्षुद्रेपूपपापेप्पबासस्त्रिरात्रकाया वा योग्यतया योज्याः। अतिक्षुद्रेषु द्वादश पड़वा प्राणायामा योग्यतया योज्याः । स्त्रीशूद्राणाममन्त्रकाः प्राणायामाः । पुरुषाहारहन्तकाराग्रदानानि वा योज्यानि तावद्धनधान्यादिदानं वा कार्यम्। होमे भूर्भुवः स्वः स्वाहेत्या- हुतिः कार्या । कर्मण्यङ्गलोपे भूर्भुवः स्वरितिजपः १०८ । वाग्यमलोपे विष्णुस्मरणं शिवस्मरणं वा । अज्ञातन्यूनसंपूर्णतार्थमच्युतस्मरणं शंभु- स्मरणं वा कार्यम् । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यून संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ अज्ञानादथवा लोभात्प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः ॥ इति पद्मपुराणवचनम् । इति स्मृत्यर्थसारे सर्वप्रायश्चित्तविधिः समाप्तः ।

स्मस्पर्थसारः। १५७ निष्कपरिमाणम् । निष्कश्च लोकशास्त्रयोरेकवाक्यतया माषाः, चत्वा- रिंशत् ४० । तदर्ध २० तदर्थं १० सुवर्णं तदशती रजतं वा । अष्ट- प्राजापत्यैरेकं चान्द्रायणं पमिस्तम(भिर्वा)कृच्छ्रः। बिभिरतिकृच्छ्रः । एवमब्दवते त्रिंशत्संख्याकाः प्राजापत्याः। इति विश्वामित्रमहामहेश्वरनागमर्तृषिष्णुमट्टोपाध्यायमूनुना यज्वना श्रीधराचार्येण श्रुतिस्मृतिविदा कृते स्मृत्य- र्थसारे प्रायश्चित्तप्रकरणं समाप्तम् ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Smrxtyara~thasaara Grantha 70

Author
Dharaachaara~ya
Title
Smrxtyara~thasaara Grantha 70
File name
Smrxtyara~thasaara Grantha 70
Text
OCR done
Citation
1912
Published
2005-11-19
Publisher
Aanandaashramamudrand-aalaye
Language
Sanskrit
Pages
179
Classification
Religion. Theology
DLI number
369236
Barcode
2030020016052.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
7TaGOfCepJk
Download PDF

Smrxtyara~thasaara Grantha 70