Canegie Mellon Univeristy
Srinivasayatra Nakshtra Mala
Front matter
No text on this page.
॥ श्रीरस्तु॥
श्री वेंकटरायसूरेः कृतयः,
श्रीमद्भिः धर्माधिकारि-
रायपाब्य राघवेन्द्रा चाय : संशोधिताः,
कविसहोदर तनयन
श्रीमता को बरा य शम्मा
मैसूरुचर्ति नि
श्री जयालय यन्त्रे अङ्कयित्वा प्रकाशिताः ॥
१९२०
All Rigtits Reserved
No text on this page.
अत्र मुद्रिताः ग्रन्थाः.
पु.
५६
१. श्रीनिवासयात्रा नक्षत्रमाला दशकम्
२. श्रीनिवासमाला
३. वरदराजस्तवः
४. जयतीर्थाष्टकम्
६. अभीष्टाष्टकम्
२२
४
No text on this page.
॥ श्रीवेदव्यासाय नमः ॥
* हरि: ओम *
॥ श्रीनिवासयात्रा नक्षत्रमालादशक प्रारम्भः ॥
वेंकटाव्या द्विजः कश्चित्काञ्चीमण्डलमध्यगः ।
वेंकटायसुनः श्रीमान वराहार्यनशिप्यकः
वेंकोबाचार्यमच्छिप्यो मधमिद्धान्तमारवित ।
विष्णुभक्तिपरो नित्यं भारद्वाजकुलाग्रणीः
गृहधर्मे स्थितः शान्तः सदाचारोऽतिथिप्रियः ।
उवास पडरण्याख्ये क्षेत्रे क्षीरनदीनटे
॥३॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ ४ ॥
स कदाचिन्मनो दधे वेंकटाचलवासिनः ।
श्रीनिवासस्य यात्रार्थ पूर्वपुण्यप्रचोदितः
भक्तया विशुद्धया चासौ स्नातोऽभ्यर्च्य हरिं गुरुम् ।
निर्ययौ भवनात्सद्भिरनुज्ञातः स्वकैर्वृतः
स हि यात्राविधानज्ञः तत्र तत्रोषितो निशि ।
वेंकटाद्रिगतं देवं प्राप्य सेवापरोऽभवत्
स कृत्वा बहुधा सेवां काले काले निषेव्य तम् ।
तस्योत्सवांश्च विविधान् वृद्धभक्तिर्बभूव ह
तस्य भक्तचा प्रपन्नस्य मध्वशिष्यस्य धीमतः ।
सेवाप्रसन्नो भगवान् यथावदर्शनं ददौ
॥ ७ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक ३ नदाऽमौ वेंकटेशं तं दिव्यमङ्गलविग्रहम् । माष्टाङ्गं प्रणिपत्याग्रे हृष्टो वचनमब्रवीत अहो मे मौभाग्यं कलिमलमुपो दिव्यवपुपः नवाङ्ग्रिद्वन्द्वेऽस्मिन् ननजनपुषि श्रीवरमुषि । मनस्त्वादो पश्चान्नयनयुगलं मम्नकमथो वचश्चेदं सर्व कृतपदमभूढेंकटविभो नवेदं सौन्दर्य फणिपफणितीनामपि नथा हृदो वा धातुस्ते चरितगणना नेव विषयः । धियो वा पद्मायाश्चरणरजसस्ते च विभवो जनाः किं कर्तारस्त्वयि नतिमते वेंकटविभो ॥ १० ॥ ॥ १ १
श्रीनिवासयात्रा नक्षत्रमाला दशक
४
॥ १२ ॥
॥ १३ ॥
भो वेंकटविभो स्वामिन भो भक्तजनपोषण ।
भो दीनजनमन्दार भोभो भूरिगुणाकर
वार्यतां वाद्यवोषोऽयं क्षणमात्रं दयानिधे ।
श्रूयतां मम विज्ञाप्यं दासदासस्य मे प्रभो
देवदेव जगन्नाथ सर्वलोकेश्वरेश्वर ।
श्रीनिवास दयासिन्धो मानयस्व वचो मम
नारायण सदा भूमौ वैकुण्ठनिलयस्य ते ।
साधुसंरक्षणायैव वासः शेषाचलेऽत्र हि
सर्वं जगदिदं कृत्स्नं त्वत्त एव समुत्थितम् ।
संरक्ष्यते त्वयैवाद्य त्वय्येवान्ते विलीयते
॥ १४ ॥
॥ १६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
५
॥ १७॥
॥ १८॥
त्वया व्याप्तमिदं सर्व बहिरन्तश्च सर्वतः ।
सर्वदा साक्षिमात्रेण विष्णुना प्रभविष्णुना
नास्त्येवाविदितं किंचित्तस्य ते परमात्मनः ।
विज्ञाप्यते तदप्यद्य मया तत्त्वं क्षमस्व भोः
जन्म में पश्चिमे देशे नन्दिक्षेत्रसमीपतः ।
वामोऽद्य दक्षिणे देशे रम्ये दुग्धनदीतंटे
माता शेयाम्बिकानाम्नी वेंकटार्यः पिता मम ।
ययोराशीमिरेवाहमाप्तवान् श्रेय ईदृशम्
भारद्वाजकुलोद्भूत ऋक्छाखाध्ययनोचितः ।
दासो वेंकटशर्माऽहं देव त्वामभिवादये
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ २२ ॥
स्वामिनिवसनस्तस्य मम गेहे सुदुस्त्यजे ।
कारुण्यादेव ते जाता बुद्धिस्त्वदर्शनोत्सुका
ततो निर्गत्य सहसा त्वामेव मनसा स्मरन् ।
भक्तपुद्रेकाद्वदन् वाचा गोविन्देति पदे पदे
विलवन्य विविधान् देशान् वनराजिविराजितान् ।
सरोवराणि रम्याणि पुराणि नगराणिच
आगत्यागत्य शनकैरद्राक्षमहमुन्नतम् ।
मेरुमन्दरसङ्काशं वेंकटादिमिमं तव
यस्य दर्शनमात्रेण दूरतो यान्ति देहिनाम् ।
ब्रह्महत्यादिपापानि किं पुनः क्षुद्रदुग्रहाः
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
यस्य सन्दर्शनादेव प्रमोदाश्रुपरिप्लुताः ।
दण्डवत्पतिता देहँश्छादयन्ति महीं जनाः ॥ २७ ॥
पुनरुत्थाय ते हृष्टा भक्तया परवशीकृताः ।
रोदोन्तरंच रुन्धन्ति यान्तो गोविन्दर्गीजतैः ॥२८॥
साष्टांग प्रणिपत्याहं वेंकटादिमिमंपुनः ।
निर्गतोऽस्मि यथापूर्व त्वामेव मनसा स्मरन् ॥ २९ ॥
ततः स्वर्णमुखीं प्राप्य स्नात्वा तत्र यथाविधि ।
तवाभिपूजनं कृत्वा नत्वा तीर्वा च नां नदीम् ॥ ३० ॥
ततोऽद्राक्षमहं रम्यं दिव्यं पद्मसरः शुभम् ।
पद्मकरवसम्पूर्ण नानाविहगमण्डितम् ॥ ३१॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
८
विचित्रतरसोपानं मध्यस्थमणिमण्टपम् ।
दुरापमल्पपुण्यानां निर्मलापं सुविस्तृतम् ॥ ३२ ॥
नारीनरवरैर्जुष्टं नानाजनपदागनैः ।
ब्राह्मणावसथेश्चित्रैः समन्तादुपशोभितम्
मरुद्भिमन्दसञ्चारेः शैत्यसौरभ्यशालिभिः ।
भक्तयुद्रेककरैः पुण्यैलालिताश्रितमण्डलम् ॥ ३४ ॥
कार्तीकशुक्लपञ्चम्यामुत्सवान्ते दिवौकसाम् ।
देव्या चक्रेण च स्नानं यत्र मुख्यं नृणामपि ॥ ३५ ॥
दृष्ट्वा तदद्भुतं रम्यं सरोविपुलमुत्तमम् ।
त्वामेव मनसा ध्यायन बद्धाञ्जलिपुटोऽभवम् ॥३६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
९
ततः संकल्प्य विधिवत्सूक्तं जप्त्वाऽघमर्षणम् ।
स्नात्वा तत्र जले पुण्ये कृत्वा माध्याझिकक्रियाम् ॥ ३७ ॥
गत्वा प्रदक्षिणेनैव नत्तीरे दृष्टवानहम् ।
तव देवीं रमानाथ विचित्रालयसंस्थिताम् ॥ ३८॥
पद्मासनगतां देवीं पद्मपत्रनिभेक्षणाम् ।
पद्मालतहस्तान्जां पद्मसुन्दरपदद्वयाम् ॥ ३९ ॥
दिव्यचन्दनलिप्ताङ्गी दिव्यमालाविभूषिताम् ।
दिव्यश्वेताम्बरधरां दिव्यभूषणभूषिताम् ॥ ४० ॥
सर्वलोकैकजननी सर्वसौभाग्यदायिनीम् ।
सर्वलोकैकसंसेव्यां सर्वलोकेश्वरेश्वरीम् ॥ ४१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक १० नित्योत्सवां नित्यतृप्तां नित्यानन्दविनोदिनीम् । नित्यानित्यजगद्रूपां नित्यमुक्तां विमुक्तिदाम् ॥ ४२ ॥ सदा सुरनरस्त्रीभिः सेविताभिसरोरुहाम् । प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् स्वकटाक्षसुधासारै राप्यायितजगत्त्रयाम् । त्वत्कटाक्षान् प्रतीक्षन्तीं पद्मां पद्मालयां शुभाम् ॥ ४४ ॥ देवदेवस्य ते पत्नीं दृष्ट्वा नत्वा मुहुर्मुहुः । स्तुत्वा ध्यात्वा च तां देवीं लब्ध्वाऽनुज्ञां ततःक्षणात् ॥ ४५ ॥ निर्गत्य निलयात्तस्मा प्रदक्षिणपथेन वै । पुरस्तादहमद्राक्षं पुरं श्रीपतिसंज्ञिकम् श्रीनिवासयात्रा नक्षत्रमाला दशक ११ ॥४८॥ मन्यन्ते यत्र मनुजाः शक्र कापुरवासिनम् । करीषवदहो यत्र गेहे गेहे ऽनराशयः तत्तदापणवीथीषु तत्तद्वस्तूनि पार्श्वयोः । अक्षयाण्येव दृश्यन्ते यत्र नित्यं जनाकुले तरङ्गा इव सिन्धूनां वस्त्रभङ्गास्तदापणे । यत्र रत्नापणे भान्ति मणयोऽग्निकणा इव दिक्पाला लोकपालाश्च सेवार्थ तव सत्पते । गिरे।व मूलेऽपि यत्र सन्ति कृतालयाः पूजकाश्च सुराः सर्वे पूनासाधनसम्पदा । वसन्ति निधयो यत्र कुबेरवशवर्तिनः । ४९ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
१२
॥ १२ ॥
॥ १३ ॥
यत्र गोविन्दराजस्य वैशाखे सुमनोहरः ।
फाल्गुने रामचन्द्रस्य चैत्रेऽम्बाया महोत्सवः
चैत्रे मासि पुनर्यत्र धारान्तररथोत्सवः ।
गोविन्दराजदम्पत्योः पृथग्डोलोत्सवस्तटे
सप्रेमकलहः पूर्वमेकीभावस्तयोः पुनः ।
सन्धातृहिनसन्मानं यत्रतत्सर्वमद्भुतम्
तस्य गोविन्दराजस्य चैत्रे राकानिशामुखे ।
यत्र स्वर्णमुखीकुल्यातीरडोलोत्सवः परः
यदा मकरसंक्रान्तिस्तत्पूर्वदिवसोषसि ।
नवरात्रोत्सवान्तेऽस्मिन् जारचोरसुखावहे
॥ ५५ ॥
॥५६॥
श्रीनिवासयात्रा नक्षत्रमाला दशक रामचन्द्रसरस्तीररहःक्रीडार्थनिर्गमः । यत्र गोविन्दराजस्य देव्योः श्रीभूस्वरूपयोः ॥ ६७ ॥ एवं नानोत्सवाकीर्ण नानाजनसमाकुलम् । नानालङ्कारसंयुक्तगृहचत्वरतोरणम् ॥५८॥ तत्प्रविश्य पुरं रम्यं कस्मिंश्चित् द्विजसद्मनि । मया नीता निशा सर्वा त्वत्कथाश्रवणादिभिः ॥ १९ ॥ प्रातरुत्थाय तत्रत्यैस्तीर्थवासिभिराहतः । आनीतः कापिलं तीर्थ स्नातोऽत्र विधिवत्स्वकैः ॥६० ॥ कृताह्निकस्ततो वेगात त्वच्छैलपदवीं गतः । यात्राजनैर्निबिडितां गोविन्दरवनादिताम् श्रीनिवासयात्रा नक्षत्रमाला दशक १४ ॥ ६३ ॥ ततो वेंकटशैलेन्द्रं दृष्टवानस्मि ते प्रभो। संयुक्तं मणिसोपानैः छायावृक्षश्च पाश्वगैः सोपानमार्गमाश्रित्य यस्याग्रमधिरोहति । जनसङ्घ गच्छतीव गङ्गा स्वर्ग पुनर्भुवः अञ्जनादि वृषादि च शेषाद्रिं यं विदुर्जनाः । पुराणज्ञाः पृथग्रूपं क्रमात्पूर्वयुगत्रये तमद्रिं प्रणिपत्योामानन्दाश्रुपरिप्लुतः । बध्वा परिकरं सम्यक् सानुगः सह सज्जनैः सोपानपदवी प्राप्तो गोविन्देति पदे पदे । वदन्नामानि चान्यानि ह्यर्थस्मरणपूर्वकम्
श्रीनिवासयात्रा नक्षत्रमाला दशक
१५
तत्र तत्र कथां पुण्यां त्वदायां रोमहर्षिणीम् ।
विश्रान्तिमण्टपे तिष्टन् श्रुत्वा निमिषमादरात् ॥६७ ॥
पुनःपुनः प्रयातोऽहं तीर्खा शिखरनिर्झरान् ।
विमानदर्शने जाते विवशोऽस्मि क्षणं मुदा ॥ ६८ ॥
साष्टाडं प्रणिपत्योा विमानवरमद्भुतम् ।
स्थानमेतत्प्रविष्ठोऽस्मि ब्रह्मादिसुरसेवितम् ॥ ६९॥
उच्चैरुचरितैर्भक्तैः गोविन्दवरनिःस्वनैः ।
सिंहव्याघ्रवराहालि भीत्या यत्र विलीयने
परितः शिखराण्युच्चैरन्तभूमौ हि ते पुरी ।
तन्मध्ये चन्द्रसङ्काशो मणिप्राकार आलयः ॥ ७१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
१६
१
फुल्लपद्ममिवाभाति स्थानमेतन्नभोजुषाम् ।
पत्राणीवाद्रिशृङ्गाणि पुष्करिण्यो रसा इव
विमानमत्र किञ्जल्कसन्निभं तव शोभते ।
भृङ्गा इव हि गायन्ति गन्धर्वाद्याः सदा दिवि ॥ ७३ ॥
भूवैकुण्ठमिदं नूनं नेछन्त्यत्रागता जनाः ।
तव सेवां विना किञ्चिदन्यत्संसारकश्मलम् ॥ ७४ ॥
वराहक्षेत्रमेवैतत् त्वया क्रान्तं समन्ततः ।
ततोऽग्रपूजां त्वत्क्लप्तां नित्यं प्राप्नोति सोऽच्युत ॥ ७९ ॥
त्वया पञ्चामृतस्नानं नारिकेलफलार्पणम् ।
पूर्वसन्दर्शनं नृणां वराहाय समापतम् ॥ ७६ ॥
(२)
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ ७७ ॥
॥ ७८॥
स्थानमेतदनुप्राप्य स्वामिपुष्करिणीजले ।
स्नात्वा सञ्चिन्तयस्तंत्र त्वामेव विधिवत्स्वकैः
वराहदर्शनं लब्ध्वा लब्ध्वा पञ्चामृतं शुभम् ।
लब्ध्वाऽनुज्ञां हनुमतः प्रविष्टोऽस्म्यालयं तव
अहो तवालयो ह्येष विमानवरशीमिनः ।
सप्तावरणसंयुक्तः परिवारसुरैयुतेः
शेषाद्रिशिखरश्रेणीफणामणिगभस्तिभिः ।
सुव्यक्तवैभवो रम्यः पुरमध्ये प्रतिष्ठितः
मणिसोपानसंयुक्तो निर्मुष्टादर्शसन्निमः ।
स्वामिपुष्करिणीसंज्ञं सरः स्फुरति यद्बहिः
॥ ७९ ॥
॥८॥
॥ ८१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
१८
पुरं च शैलप्राकारं हायुनविचित्रिनम् ।
रथवाहनसञ्चारयोग्यरथ्यापणैर्युतम्
नित्योत्सवं नित्यसुखं नित्यमङ्गलनिःस्वनम् ।
नित्यपूर्ण सुरवर वैकुण्ठमित्र सुन्दरम्
आलये नव मेवार्थ विरजानेकरू पिगी।
स्वर्णकूपे बहिश्चैव सर्वतः मरनि स्वयम्
सुप्रभातं च पठतां द्विजानां मधुरखनैः ।
प्रानस्तूर्यरवैश्चैव देवर्षिनुतिनिःचनैः
योगनिद्राप्रबुद्धं त्वां नंदैव शयनोत्थितम् ।
अनुज्झितनिशावेषं निरीक्ष्य प्रणनोऽस्म्यहम्
॥ ८६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
१९
॥ ७ ॥
॥ ८॥
पुष्पाझ्या संवृतं सम्यगायतारुणलोचनम् ।
विस्रस्तमाल्याभरणं विश्वरूपं तवाद्भुतम्
श्रीनिवास तवास्थानसेवाऽप्यत्यद्भुता मया ।
लब्धा निवेदितं तत्र तिलपिष्टं निषेवितम्
तत्राध्यक्षाश्च पौराश्च परिवाराश्च सर्वशः ।
अगण्या इति गण्यन्ते धीमद्भिः किमुतापरैः
सर्वरत्नधनादीनामादायव्ययलेखनम् ।
सर्व संशोधितं तत्र पञ्चाङ्गश्रवणात्परम्
त्वया कृता तदा पूर्वदिनचर्याविचारणा ।
न राजसुलभा देव राज्ञः मर्वज्ञता कुतः
॥ ८९ ॥
॥ ९ ॥
॥ ९१ ॥
श्रीनिवासयात्रा नक्षत्रमालो दशक
२०
॥ २२ ॥
वेदशास्त्रपुराणादिपारायणपरायणैः ।
ब्राह्मणैरभितो देव सेव्यसे त्वं सदा मुदा
दण्डवत्पतितैर्भूमौ प्रसारितभुजद्वयः ।
सेव्यसे पुण्डरीकाक्ष बाहुर्नयकातिभिः ॥ १३ ॥
धनभारान् पुरो न्यस्य गरिव तवोरुनैः ।
सेव्यसे त्वं श्रियः कान्त प्रणमद्भिर्मुहुर्मुहुः
आप्रसादादनुत्थानं सङ्कल्प्य पतितैर्भुवि ।
सेव्यसे शेपशैलेन्द्र शूद्रैः क्षुद्रफलाप्तये ॥ ९५ ॥
भक्तैरुचरितान्युच्चैः प्रदक्षिणपदे पदे ।
सर्वाणि तव नामानि गोविदान्तानि भान्नि हि ॥९६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
गोविन्दत्येव हि सदा सर्ववाद्यस्वरूपिणी ।
घण्टा वदनि नादेन प्रणवार्थप्रकाशिनी
प्रातःसेवापराः पौराः समाप्य नियमं हरे ।
तव पूनां समालोक्य काले स्त्रीभिश्च बालकैः ॥९८ ॥
दध्योदनं च मुद्दान्न माद्यघण्टानिवेदितम् ।
भुक्त्वा कटाहतीर्थं च पीत्वा स्वैरं चरन्ति ते ॥ ९९ ॥
अहो सौख्यमहो सौख्यं गोविन्द नव सन्निधो ।
विस्मृताशेषदुःखानां नृणां स्वच्छन्दचारिणाम ॥ १० ॥
ततोऽभिपेकसम्भारेः महाध्यक्ष समागते ।
प्रविश्यान्तगृहं सम्यक सर्वमालोकिनं मया ॥ १०१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
२२
देवैर्महर्षिभिश्चैव मन्त्रघोषैर्मनोहरैः ।
दिव्यवादितनिधी रभिषेकोऽद्भुतस्तव ॥ १०२ ॥
पूर्वाङ्गरागरेणूणामङ्गेभ्यो हरणं शनैः ।
ततः शुद्धोदकस्नानं स्वर्णकूपोद्धृतैनलैः ॥ १०३ ॥
जलहारिजनश्रेण्यां स्कन्धात् स्कन्धं प्रधावताम् ।
रौप्योदपूर्णकुम्भानां सङ्ख्या न ज्ञायते तदा ॥ १०४ ॥
ततो गोक्षीरधाराभिरभिषेकस्तवाद्भुतः ।
रुक्मपात्रप्रमुक्ताभिरिन्द्रनीलमणिद्युतेः ॥ १०५ ॥
सिताभ्रवरकस्तूरीकेसरान्वितचन्दनैः ।
सर्वाङ्गेपु विलेपस्ते स्नानं शुद्धोदकैः पुनः ॥ १०६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
२३
।। १०७ ॥
॥ १०८॥
तदैव तीर्थग्रहणं स्वर्गपात्रेषु भूरिशः ।
शेषोदकस्य निक्षेपः कटाहे बहिरद्भुने
यत्तीर्थ सर्वसुलभमाधिव्याधिविनाशनम् ।
कुष्ठादिशमनं श्रीदं द्रष्टुं स्प्रष्टुं निषेवितुम्
ततोऽङ्गमार्जनं देव सम्यगापादमस्तकम् ।
दर्शनं लक्षणानां च नव देवादिदुर्लभम्
नतोऽनुलेपनं गात्रे चन्दनादिरमैस्तव ।
कस्तूरीवरकर्पूरपटवामममर्पणम्
पीताम्बरयुगस्यापि तनौ धारणमद्धनम् ।
कस्तूरीतिलकस्यापि लेखनं निटिले तव
॥ १०९ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
२४
नानाभरणविन्यासस्तत्तदङ्गे शनैः शनैः ।
रत्नकोटीरकटककाञ्चीनूपुरधारणम् ॥ ११२ ।।
तदैव कौस्तुभस्यान्ते तव वक्षसि दर्शनम् ।
श्रीनिवास श्रियो यद्वद्विद्युतोऽभ्रेऽर्कसन्निधौ ॥ ११३ ॥
नानाविधैः पुष्पमाल्यैरलङ्कारस्तवाद्भुतः ।
नक्षत्रगुच्छरत्युच्चैर्निशेशनभसोर्यथा
॥ ११४ ॥
वनमालानिवेशश्च कण्ठे तव महाद्रुतः ।
इन्द्रचापोदयो यहदिन्द्रनीलाद्रिकन्दरे ॥ ११ ॥
पूजनं तव गोविन्द पद्मादिकुसुमैस्ततः ।
धूपदीपप्रदानं च स्थलशुद्धिः पुरः क्षणात ॥ ११६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक . ॥ ११८॥ भश्यंभाज्यं च लेह्यं च चोष्यं चेनि अतुर्विधम् । आनीनं पुरनः सर्वं तत्रैकैकमनेकधा पोलिकाऽऽनन्दगुलिकानानापूपप्रधाननम् । भक्ष्यं बहुविधं चान्नं मूपशाकसमन्वितम्, पायसेन समायुक्तं पयोदध्याज्यसंयुनमः। युक्तं नानाविधैर्वन्य फलमूलजलाकः नानाफलरसोपेतं नानाफलसमन्वितम् । रुक्मपानीयकलशै युक्तं ताम्बूलभाननेः सर्व निवेदितं तुभ्यं सर्वसारभुने तदा । घण्टागोविन्दनादेन सर्वेऽपि बधिरीकताः ॥ ११९ ॥ ।। १२१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
२६
वेधावेद विदुर्नान्ये त्वद्भोजनगतिं सुराः ।
नराः किमु बहि नृणां उपचारस्तु दृश्यते ॥ १२२ ॥
ततः क्षणेन तत्सर्व नात्वा बहिरभूत्किल |
स्थलशुद्धिः पुरस्तात्ते पुनः पूज्योद्यमश्च सः ॥ १२३ ॥
अर्चनं धूपदानं च विविधार्तिसमर्पणम् ।
छत्रचामरसेवा च सर्ववाद्यरवैस्तव ।। १२४ ॥
सर्वोपचारपूजां तां शुक्रवारेऽह्नि दृष्टवान् ।
कृपया तव गोविन्द प्रणीतो द्वाररक्षिभिः ॥ १२५ ॥
तदैवाज्ञाधेरैर्देवा भूदेवाश्चापरे जनाः ।
प्रवेशिताः क्रमात्सर्वे सेवां कृत्वा विनिर्गताः ॥ १२६ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
२७
दत्तोपधा जानपदाः सकुटुम्बाः प्रवेशिताः ।
दृष्ट्वा त्वां निर्ययुस्तीवं लब्धसन्मानमङ्गलाः ॥ १२७ ॥
वैत्रकष्णाजिनधरैवारिता द्वाररक्षिभिः ।
ताडिताश्च विशन्तोऽन्ये त्वां दृष्ट्वा बहिरागताः ॥ १२८ ।।
अन्तर्गत्वाऽपि केचिच्वा मदृष्ट्वाऽन्योन्यमर्दिनाः ।
त्वयैव रक्षितप्राणाः बहिरायान्ति मङ्घशः
पुनः प्रवेशितास्तेऽपि वेत्रपाणिभिरादरात ।
तव सन्दर्शनं लब्ध्वा कृतकृत्या विनिर्गताः
अथ नैवेद्यशेषेण तोषिनेषु रमादिषु ।
देवेषु तारतम्येन ऋपिसङ्घ च मानिने ॥ १३१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ १३२ ॥
।। १३३ ॥
तीर्थौल्यैश्च नैवेद्यै दिव्यश्रीपादचन्दनैः ।
द्विविधाभयहस्तैश्च पूज्यैः श्रीपादरेणुभिः
आचार्यपुरुषाणां च साधूनामधिकारिणाम् ।
पौरजानपदनां च गजाश्वपशुपाक्षिणाम्
सर्वेषामपि सत्कारस्तारतम्ययुतोऽपि सन् ।
तृप्तिदोभूत्परं- नैतच्चित्रं त्वयि विमुक्तिदे
अत्र चित्रविचाराव्य पक्वान्नं पण्डितैरपि ।
फलवद्गृह्यते देव भुज्यते च त्वदर्पितम्
तव नैवेद्यशेषेण ज्ञानिनोऽप्यत्र निर्मलाः ।
यजन्ति निर्विचारेण देवानपि पितॄनप्ति
॥ १३४ ॥
॥ १३५ ॥
॥ १३६ ॥
श्रीनिवासयात्रा नक्षत्रमाल्न दशक
२९
नयान्त दूरदेशांश्च माषापूपान्मनोहरान् ।
नीर्थेन सह सर्वेऽपि पूजयन्ति च तैः स्वकान् ॥ १३७ ॥
तद्रात्रौ च पुन र्दीपदीपिकायुतकान्तिभिः ।
सुव्यक्तवैभवस्येश पूजारम्भस्तवाभवत् ॥ १३८॥
वेदवादिलनिर्घोषः सेवाजनसमागमः ।
घण्टानिनादो देवस्य पूर्ववत्तव पूजनम् ॥ १३९ ॥
दापरलतः सर्वो मणिप्राकारसंयुतः ।
आलयस्तव गोविन्दनक्षत्रगगनं यथा ॥ १४० ॥
सङ्घशी वणिकास्तत्र वीणामादाय सुस्वरम् ।
नव लीलां प्रगायन्ति मृत्यन्ति' च' मुहुर्मुहुः ॥ १४१ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
३०
केचिदन विमानं ने नामकीर्तनतत्पराः ।
प्रदक्षिणं प्रकुर्वन्तो गर्जन्तीत्थं मुहुर्मुहुः
श्रीनारायण जय गोविन्द
वैकुण्ठालय जय गोविन्द ।
लक्ष्मीनायक जय गोविन्द
ब्रह्मेशार्चित जय गोविन्द
सद्गुणसिन्धो गोविन्द आश्रितबन्धो गोविन्द ।
दोषविदूर गोविन्द मत्स्यशरीर गोविन्द
कच्छपरूप गोविन्द आदिवराह गोविन्द ।
श्रीनरसिंह गोविन्द वामनवेष गोविन्द
॥ १४३ ॥
॥ १४५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
३१
॥ १४६ ॥
॥ १४७ ॥
भार्गवराम गोविन्द रावणशत्रो गोविन्द ।
गोकुलचन्द्र गोविन्द सीरिसहाय गोविन्द
बुद्धशरीर गोविन्द म्लेंच्छकुठार गोविन्द ।
चिन्मयदेह गोविन्द मानुषलील गोविन्द
वेङ्कटनाथ गोविन्द वृद्धिविनोद गोविन्द ।
सप्तगिरीश गोविन्द अद्भुतचर्य गोविन्द
वेदवेद्य गोविन्द देववरेण्य गोविन्द ।
नारदगेय गोविन्द मारुतिसेव्य गोविन्द
केशव विष्णो कृष्ण मुकुन्द ।
वारिजनाभ श्रीवररूप
॥ १४८ ॥
॥ १४९ ॥
॥ १५० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ १५२ ॥
तायतुरङ्ग श्रीदशुभाङ्ग ।
सज्जनसङ्घ त्रञ्चपाङ्ग
दुर्जनभङ्गं सज्जनमङ्गस ।
देहि सदा मे देववरेण्य
कायाविरक्तिं कर्मसु रक्तिम् ।
देहि सदा मे देववरेण्य
पापविनाशं पुण्यसमृद्धिम् ।
देहि सदा मे देववरेण्य
पादयुगे ते पावनदास्यम् ।
देहि सदा मे देववरेण्य
॥ १५३ ॥
॥ १५४ ॥
(३) श्रीनिवासयात्रा नक्षत्रमाला दशक
३३
निर्मलभक्ति निश्चलबुद्धिम् ।
देहि सदा मे देववरेण्य
॥ १५६ ॥
निस्तुलसेवां देहि सदा मे ।
देव नमस्ते देव नमस्ते
॥ १५७ ॥
एवं स्तुवद्भिर्गायद्भिः प्रणमद्भिः पदे पदे ।
त्वद्भक्तिविवशदेव पूर्ण आसीत्तवालयः ॥ १५८ ।।
विचित्रगन्धमाल्याच्याः मारुतिप्रनिमोरसः ।
ये दीपसेवां कुर्वन्ति नृत्यन्तोऽग्रे तवाद्भुतम् ॥ ११९ ॥
लालयन्तीव ने दासाः स्वकरण हनूमनः ।
सज्वालवालमादाय चुम्बनालिङ्गनादिभिः ॥ १६० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक - अहो वानरवेषाणां विष्णुदीक्षाविनोदिनाम् । देवानां नृत्यवैचित्र्यं वैकुण्ठेऽपि सुदुर्लभम् अहो कटाहे कर्पूरदीपज्वालोऽग्रतस्तव । न शाम्यति क्षणं वाऽपि दिवानकमावण्डितः ॥ १६२ ॥ अंत्यद्भुतमिदं तेऽग्रे धनिका रजनीमुखे । दीपोत्सवं प्रकुर्वन्ति घृतधाराभिरम्बरः ।। १६३ ॥ आज्यानुरूपा धाराऽभूत् धारातुल्या हि दीपिका । दीपानुरूपा वर्तिश्च वर्तितुल्यं नवाम्बरम् ॥ १६४ ॥ आज्यं सङ्कल्पतस्तुल्यं सङ्कल्पः प्राप्यसम्पदा । पूर्वपुण्यानुरूपा सा तत्पुण्यं बहुधा नृणाम् ॥ १६५ ।।
श्रीनिवासयात्रा नक्षत्रमाला दशक
प्रज्जोल्य दीपमत्युञ्चैर्गोविन्देति मुहुर्मुहुः ।
गर्नतां नृत्यतां नृणां जगद्गोविन्दसादभूत्
ततस्ते देव पूजान्ते शयनोवत्समद्भुतम् ।
दृष्टवान् साधुभिः साकं शुल्कदैरपिवदुर्लभम् ॥ १६७ ।।
मुक्तादामवितानान्ये कृष्णागुरुविधूपिते ।
मल्लिकामालिकाभिश्च रम्ये शयनमण्टपे
स्वर्णशृङ्खलसम्बद्धरत्नपर्यककल्पिताम् ।
पयःफेननिभा शय्यां न्यस्तनानोपबहणाम् ॥ १६९ ।।
अग्रतो न्यस्तगोक्षीरफलताम्बूलभाजनाम् ।
स्फुरतां दीपधूपानां वृक्षरभित आवृताम् ॥ १७० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
३६
सर्वोपचारसम्पूर्णा रत्नचामरराजिताम् ।
सानन्दमहमद्राक्षं महालक्ष्म्यात्मिकां शुभाम् ॥१७१ ॥
श्रीनिवास श्रिया साध तामारोढुं दधन्मनः ।
तिरस्करिण्या छन्नोऽसि स्वर्णमय्या विना मुखम् ।। १७२ ॥
नैवेद्यशेषगोक्षीरफलताम्बूलचन्दनैः ।
सत्कृताशेषसाधूनां नयनालिनिषेवितम् ।। १७३ ॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीनलम् ।
ज्वलत्कोटीरसंयुक्तं चलत्कुण्डलशोभितम् ॥ १७४ ॥
मन्दस्मितसुधासिक्कसत्कृपाऽपाङ्गवीक्षणैः ।
आश्रिताखिलसाधूनां प्रतिश्रुतमहाफलम् ॥ १७५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
माणिक्यमुक्तापात्रान्तर्दीपनीराजितं तव ।
मुखाम्बुजं समालोक्य कृतकृत्योऽस्म्यहं प्रभो ॥ १७६ ।।
एवमेवान्यवरिष्वप्यभिषेकं विना तव ।
नित्योत्सवो भवत्यत्र सर्वदेवोपसेवितः ॥ १७७ ॥
यदा चाश्वयुने मासे तुलामासे महोत्सवः ।
तव वेङ्कटशैलोऽयं तदा सम्पूर्यते जनैः ॥ १७८ ॥
पौरस्त्या दाक्षिणात्याश्च पाश्चात्याश्च मिता जनाः ।
अमिता औत्तराहास्तु तव देव महोत्सवे ॥ १७९ ॥
सकिञ्चना यथाकामं गजोष्ट्रयवाहितः ।
धनैरलैरुपेत्य त्वामर्चयन्नि महोत्सवे ॥ १८० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
निष्किञ्चनाश्च ये भक्तास्त्वदर्शनममुत्सुकाः ।
पदे पदे प्रणामं ते कुर्वन्तो यान्नि तेऽन्तिकम् ॥ १८१ ॥
आधिव्याधिविमुक्ता ये प्रार्थनाभिस्नवाच्युत ।
उपदीकनसर्वस्वास्ते तस्थुर्देहमात्रतः ॥ १८२॥
पादकीला हस्तकीला मुखकीलाश्च ये जनाः ।
आगत्य पुरतः सर्वे श्लथकीला बभुहि ने । ।। १८३ ॥
विस्मृनप्रार्थना ये तु श्रीमदात्प्राप्तसङ्कटाः ।
स्मरन्नो द्विगुणं कृत्वा मुच्यन्ते नेऽत्र सङ्कटात् ॥ १८४ ॥
किञ्चिज्ज्ञो वा बहुज्ञो वा प्राज्ञो वा ऽज्ञोऽपि वा नरः ।
अपराधधनं किञ्चिद्दत्वैवान्तर्विशत्यहो ॥ १८५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
३९
॥ १८६ ॥
॥ १८७ ॥
महाकटाहे निक्षिप्तं किञ्चित्किञ्चिदपीढशम् ।
धनं दिनस्य द्विस्त्रिर्वा पात्रं तत्पूरयत्यही
कामितार्थप्रदं त्वां तु बहुकामा बहुप्रजाः ।
सेवां बहुविधां नित्यं कुर्वन्नीश तवान्तिके
सेवावैचित्र्यमवैव बोद्धव्यं तव सन्निधौं ।
एवं न ज्ञायते सम्यक् ग्रन्थेषु सुधियामपि
दिवं स्टशति गोविन्द उद्धृते गरुडध्वजे ।
महोत्सवे नौरिवाभूदालयस्ते जनार्णवे
वीथयो विपुला रम्याः द्रष्टारोऽनिमिषा दिवि ।
वाहनानि विचिवाणीहोत्सवस्ने महाद्रुतः
॥ १८८॥
॥ १८९॥
॥ १९ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
ताक्ष्योत्मवस्तवैकोऽपि रौप्यदण्डधराः पुरः ।
नदर्थमर्थदा भान्ति बहवो धर्मदाक्षिनाः ॥ १९ ॥
रथे मणिविमानं ने परिक्रामनि खेचराः ।
मेरुं प्रदक्षिणं यानि रविः किमिति विस्मिताः ॥ १९२ ॥
हाग्राणि ममारुह्य गिरिशृङ्गाणि चादरात ।
महोत्सवगतं त्वां तु सुखं पश्यन्ति मानवाः ॥ १९३ ॥
निवेदितान्नभक्ष्याणां राशयो बहुधा पुरः ।
महोत्मवे तवेश्यन्ते न सन्नि निमिषात्पुनः ॥ १९४ ॥
विजने गिरिदुर्गेऽस्मिन्विलीनमपि कामदम् ।
श्रयन्ति त्वां प्रजाः सर्वाः गुडं यद्वत्पिपीलिकाः ॥ १९५॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
४१
४
धनावरोहणं वीक्ष्य यान्त्यः स्वस्वपुरं प्रजाः ।
भारभूतं परित्यज्य सारभूतं नयन्ति हि ॥ १९६ ॥
धनाभरणरत्नाद्यमाद्यं तत्र प्रकीर्तितम् ।
आयुरारोग्यतेजःश्री जयश्रद्धाद्यमुत्तरम् ॥ १९७ ॥
सर्वस्वं मूर्धनं चैव दत्वा यस्तु तवान्तिकात् ।
दण्डी मुण्डी विनिर्याति सोऽयं ब्रह्माण्डतस्करः ।। १९८ ॥
धृतोर्धपुण्ड्राः सर्वाङ्गे तुलस्यन्नाक्षमालिनः ।
घण्टानादेन निर्यान्ति शूद्राः शुभ्राब्जपाणयः ॥ १९९ ॥
नीर्थप्रसादभारेण भक्तिभारेण चानताः ।
त्वर्पितेन्द्रियग्रामा यान्ति विप्राः शनैःशनैः ॥ २० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
४२
यथाविभवमन्येऽपि प्रयान्त्यान्दोलिकादिभिः ।
क्षीणभारैः परिजनैः पुरतः पृष्ठतो वृताः
॥ २९१ ॥
चैत्रादौ कटकादौ च द्वादश्यां च धनुस्मिते ।
पुण्यशीलाः प्रपश्यन्ति ह्यास्थानोत्सवमद्भुतम् ॥ २०२ ।।
उत्सवत्रिनयेऽप्यस्मिन् सवचकवचं तव ।
विस्मापयति गोविन्द वपुर्वैकुण्ठगानपि ॥ २०३ ॥
आदर्शमण्टपे चित्रे नबज्रकवचोज्ज्वलम् ।
रूपं नव सदा भातु श्रीश मे हृदयाम्बुने ॥ २०४ ॥
कटकादो किलास्थाने प्रवृद्धे तु तवोत्सवे ।
जनकोलाहलेनेश पूरिते च दिगन्तरे ॥ २०५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक ४३ कुबेरेणोतमणेन स्वस्मै देयधनं प्रनि । स्वर्णपाशः पुरो नीनः सस्वर्णाङ्गुलिमर्दनः ।। २०६ ॥ धनं ययाचे भगवान निष्किञ्चन इवापरान । दते तु तैऋणान्मुक्तः ऋणं कस्य न बाधकम् ॥ २०७ ॥ कदन्नं सेवते नित्य मृणभीत्या प्रभुः स्वयम् । तथाऽपि न अरुणान्मुक्तो देवो विश्वकुटुम्बकः ॥ २०८ ॥ कदन्नसेवनादीतः पलायनपरोऽभवत । कन्दमूठफलाहागे हनुमांश्च तदन्निकातू ॥२०९ ॥ निर्बध्य निगलेनाग्रे पलायनपरं हरिम् । सेव्यतेऽनेन म विभुः मेवाधर्मोऽनिमङ्कटः ।। २१० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
वस्त्रमाभरणं वाऽपि धतु दत्तं यदि स्वकैः ।
पृथक तन्मौल्यदानेन विना न स्पृशति प्रभुः ॥ २११ ॥
अर्थदानं विना सेवां नाददाति कदाचन ।
कीहशीमपि कस्यापि दृणभारानतो हरिः ॥२१२ ॥
ग्रीष्मकाले यदा वायुः शेषाद्रिशिखरान्तरात् ।
फूत्कार इव निर्यानि शिरोबाधा तदा हरेः
बहियाति तत्काले शेनेऽन्तः मर्वदा विभुः ।
तेन कस्तूरिकापङ्कलेपः शिरसि धार्यते ॥ २१४ ॥
शीतकाले तु संप्राप्ते श्रीनिवामः सदा निशि ।
घृतप्लुतं मरीच्यन्नं मितं भुङ्क्ते महाप्रभुः ॥ २१५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक वराहस्थानमहर न्नृसिंहकुलदैवतान् । न लालयति लक्ष्मीशः स्वजनानेव रक्षति इत्यादिजनवास्येन पारतन्त्रयमपूर्णता । अशक्तिश्चाप्यमूयादि दृश्यते ऽनध यत्वयि ॥ २१७ ॥ तत्सर्व मोहनायैव नररूपसुरद्विपाम् । नान्यथा विदुपामेतन्मयलीलाप्रदर्शनम् ॥ २१८ ॥ द्रव्यमाश्रित्य तिष्ठन्ति सर्वपापानि देहिनाम | नन्नाशे श्रेयसां प्रातिरिनि द्रव्या ।कर्षणम् ॥ २१९ ॥ वातशीनल दुर्गेऽस्मिन वन वेद्यैकभोनिनः । सन्तु मे नालना मका इति ने पथ्यभोजनम् ॥ २२० ।
श्रीनिवासयात्रा नक्षत्रमाला दशक
४६
॥ २२१ ॥
॥ २२२ ॥
सर्वकागि ने भूमन् भक्तानां संग्रहायच ।
चिन्ननाय विनोदाय पालनाय जयन्ति हि
भक्तानां सुलभोऽमि त्वं भक्कैरेव प्रगीयमे ।
भक्तेष्टदाननिपुणो भक्तबन्धुर्दयानिधिः
अहो गुरुप्रमादो मे बलवान् सर्वकामदम् ।
श्रीनिवामाव्हयं यखां कल्पवृक्षमदर्शयत
धन्योऽस्म्यनुगृहीतोऽस्मि मदिराचरितं मम ।
सर्व सफलमद्य त्वां पश्याम्यात्मानमद्वयम्
संमारसागरावर्तगत नन्भ्रान्तचेतसः ।
ममावलम्बनायाद्य लब्धं नव पदाम्बुजम्
॥ २२३ ॥
॥ २२४ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
पदद्वयमिदं देव हंसनूपुरशोभितम् ।
सुलक्षणनखाङ्गुष्ठनलकान्तिविचित्रितम् ॥ २२६ ॥
इन्दीवरदलश्याम मिन्दिराकरलालितम् ।
नमत्सुरकिरीटाग्र रत्नदीपालिराजितम् ॥ २२७ ॥
गङ्गाया लोकपावन्या जनकं पद्मसुन्दरम् ।
पातालमूलं सत्सेव्यं पङ्कनोवपूजितम् ॥ २२८॥
स्मरणात्सर्वपापघ्नं ज्ञानविज्ञानदं सनाम् ।
मोक्षदं ज्ञानिनां चैव मुक्तानां नित्यसौख्यदम् ॥ २२९ ।।
नहि ते पदगुल्फोऽयं पीताम्बरदशान्तिक ।
केतकीग्वहस्तस्य शतचन्द्रः सुतस्य ते ॥ २३०॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
४८
॥ २३१ ॥
॥ २३२ ॥
श्रीधरैते न ते जड्डे तटित्पीततटान्तरे ।
किन्तु मन्मथतूणीरौ मेघवर्णौ महाद्भुतौ
जानुद्वयमिदं देव न ते लक्षम्या दिने दिने ।
करश्रमहरं स्थूलमहानीलमणिद्वयम्
उरुद्वयमिदं देव न ते लक्ष्मीसुखासनम् ।
कान्तं करिकरद्वंद्वं खगेन्द्रभुजभूषणम्
अहो कटितटं भाति मणिकाञ्चीगुणोज्ज्वलम् ।
तव पीताम्बराधारं सुमेरुकटकं यथा
पद्मनाभ तवाभाति नाभीपमं जगन्मयम् ।
चराचरजगत्स्रष्टु विधेननभूरिदम्
॥ २३४ ॥
॥ २३५ ॥
(४)
श्रीनिवासयात्रा नक्षत्रमाला दशक
४९
४
हाराणां तरलश्रेणीमणीषु प्रतिविम्बितम् ।
विश्वमौदरवदेव दृश्यतेऽस्मिस्नवोदरे ॥ २३६ ॥
रत्नकङ्कणकेयूर वलयोज्वलमायतम् ।
रम्यकेसरकर्पूर शोभिचन्दनरूषितम् ॥ २३७ ॥
शङ्खचक्रवराभीति युक्तं बाहुचतुष्टयम्
भातीश ते ऽददत्सद्यः पुरुषार्थचतुष्टयम् ॥ २३८ ॥
धर्म रक्षसि चक्रेण शलेनाथ ददासि हि ।
वरेण सर्वकामांश्च सतां मुक्तिमभीतितः ॥ २३९ ॥
भुजान्तरमिदं भाति नभोन्तरमिवायनम् ।
तत्र मध्यगतो भाति कौस्तुभोऽर्क इव श्रिया ॥२४० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
तद्दक्षिणेऽभ्रखण्डाभं भाति श्रीवत्सलाञ्छनम् ।
अचञ्चलतटित्कान्निस्तत्र श्रीरपि ते प्रिया ॥ २४१ ।।
उद्यदादित्यरश्मीनां पुञ्जमात्मरुचा मुहुः ।
जयन्ती वैजयन्तीयं हृदये तव शोभते ॥ २४२ ॥
सालग्रामशिलामाला वैकुण्ठ तव विग्रहे ।
अन्तस्थाजाण्डबीजानां मालेव परिदृश्यते ॥ २४३ ॥
वनमाला विभात्येषा रत्नाभरणविग्रहे ।
रत्नसानुसमाक्रान्तशकचापोपमा तव ॥ २४४ ॥
दक्षिणोर्ध्वकरे भाति चक्रं मूर्यसमप्रभम् ।
तदधःकरपद्मे ते दृश्यते वरमुद्रिका ॥ २४५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
॥ २४६ ॥
॥ २४७ ॥
तव वामोर्ध्वहस्ते तु शङ्खो भानि शशिप्रभः ।
तदधस्तनहत्तेन सूच्यतेऽभयमुद्रिका
अभीतिस्ते मया दत्ता मुक्तोऽसि भवबन्धनात् ।
उत्तिष्ठोत्तिष्ठ वत्सेति वक्तीव स पदानतम्
विवित्रमणिहाराव्यः कण्ठस्ते कम्बुसुन्दरः ।
भाति कौस्तुभरत्नेन तच्चानेन जगत्पते
वदनं तव गोविन्द विभानीन्दुमनोहरम् ।
स्मिनचन्द्रसुधाधारविद्रुमाघरसम्पुटम्
गण्डस्थललसत्कर्ण कुण्डलश्रीविराजितम् ।
प्रफुल्लचम्पकाकार किश्चिनुन्नतनासिकम
॥ २४८॥
॥ २४९ ॥
॥ २५० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
५२
स्मरकोदण्डसङ्काश भूदण्डयुगलोज्ज्वलम् ।
कारुण्यामृतपाथोधि कल्लोलायितलोचनम् ॥ २५१ ॥
पुण्डरीकदला सक्त षट्पदोपमनारकम् ।
कटाक्षराहताजादि समस्तसुरसञ्चयम्
॥ २५२ ॥
विनिर्मलललाटस्थ कस्तूरीनिलकोज्ज्वलम् ।
देवमेव्यं रमाभोग्यं भाग्यं च हृदि पश्यताम् ॥ २५३ ॥
भाति कोट्यर्कसङ्काश रत्नकोटीरमच्युत ।
मस्तकं नेऽलिकस्रस्त प्रशस्तकाटलालकम्
एवम(नरूपं त्वां दिव्यमङ्गलविग्रहमू ।
अनन्तशीपादाक्षं प्रणतोऽस्मि मुहुर्मुहुः ॥ २५५ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक
५३
ब्राह्मणा मुखमासंस्ते क्षत्रिया बाहुनास्तव ।
वैश्यास्तवोरुना देव शुद्राः पद्यां प्रजज्ञिरे ॥२५६ ॥
मनसश्चन्द्रमा जातः चक्षुषः सूर्य एव च ।
मुखादिन्द्रश्च वन्हिश्च प्राणाद्वायुश्च ते प्रभो ॥ २५७ ॥
नाभितोऽभूदन्तरिक्षं शिरसो द्यौबभूव ह ।
पद्धयां भूमिस्नथा जज्ञे श्रोत्रावि दिशोऽभवन् ॥ २१८ ॥
सर्वलोकाश्रयोऽमि त्वं सर्वदेवाश्रयोऽपि च ।
सर्वयज्ञमयोऽसि त्वं सर्ववेदमयोऽपि च ॥ २५९॥
निमित्तमात्रं ब्रह्माद्याः सृष्टचादौ जगतोऽस्य हि ।
सर्व सृनसि पास्यत्ति स्वतन्त्रोऽसि रमापते ॥ २६० ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक ॥ २६१ ॥ धमाधर्मों सुखं दुःखं लाभालाभौ जयाजयौ । ज्ञानाज्ञाने बन्यमोक्षी सर्व त्वतः प्रवर्तते सर्वत्र परिपूर्णोऽसि निर्गुणोऽसि निरञ्जनः । सच्चिदानन्दरूपोऽमि गुणपूर्णोऽत्ति सत्पते कृपया तव गोविन्द जानामि त्वां सुरेश्वरम । यथामति यथायोग्यं भजामि च पुनःपुनः यत्र कुत्र प्रदशे वा वासो भवतु मे हरे । मानसं नव पादाब्जे सदा वसतु मामकम् तव रूपमिदं देव सर्वदेवैनमस्कृतम् । सदा वसतु मञ्चित्ते तथा कुरु दयां मयि ॥ २६३ ॥ ।। २६४ ॥
श्रीनिवासयात्रा नक्षामाला दशक भो श्रीनिवास करुणाम्बुनिधे विधेहि वासं ह्यमूषु रुचिरप्रतिमासु नित्यम् । मशनैरपि मया च गृहाण पूजा श्रीभूयुतो मम भवान् कुलदैवतं हि ॥ २६६ ॥ त्वामेव मनसा धयायन त्वामेव विधिनाऽर्चयन । कारुण्यातव गोविन्द नगमि भवसागरम ॥ २६७ ॥ कारुण्यातव गोविन्द वृद्धभाक्तः क्षणे क्षणे। कुम्भकारोऽप्यगान्मुक्ति ग्रन्थककिंवृथा भवेत् ।। २६८ ॥ इत्युक्तः श्रीपतिस्तस्मै पुप्पदानेन मूचयन् । स्वप्रमादं द्विजायागु पुनरन्नहितोऽभवत् ।। २६९ ॥
श्रीनिवासयात्रा नक्षत्रमाला दशक ५६ इत्युक्तः श्रीपतिस्तस्मै पुष्पदानेन सूचयन् । स्वप्रसाद द्विजायाशु पुनरन्तर्हितोऽभवतू ॥ २६९ ॥ सोऽपि लब्ध्वा प्रसादं तं खेछया सञ्चरन् महीम् । पूजयामास गोविन्दं तन्न्यस्ताखिलधीन्द्रियः ॥२७० ॥ वेङ्कटायरनं ह्येतन्नक्षत्रदशकं हरेः । श्रीनिवासस्य सेवार्थं तद्यशोरूपौक्तिकैः ॥ २७१ ॥ इतिश्रीवेङ्कटायघिरांचनं श्रीनिवासयात्रानक्षत्रमालादशकं समाप्तम् ॥ श्रीलक्ष्मी वेङ्ककठेशार्पणमस्तु ।
॥ श्रीगुरुभ्यो नमः ॥
॥ श्रीश्रीनिवासाय नमः ।।
-~-~* श्रीश्रीनिवासमालाप्रारम्भः * ----
श्रीश प्रमीद करुणाकर विश्वमूर्त
विष्णो प्रमन्नवदनाम्बुज पद्मनेत्र ।
पाहि प्रपन्नमिममाशु चतुर्भुजेति
नौ श्रीनिवामचरणो शरणं प्रपद्ये
कालः कलि: कलुषवन्निखिलं नपश्च
कायोऽपि दुर्बलनमश्चपलं मनश्च ।
श्रीनिवाममाला
२
॥ २ ॥
आशा परं स्पृशनि विष्णुपदं हि तस्मात
तो श्रीनिवासचरणौ शरणं प्रपद्ये
यन्नयामभाग्यभरिनासु वनस्थलीपु
वाञ्छन्ति वाममृषयः स्वतपोवनाय ।
सिध्यन्ति चात्र चरितानि तपांसि तेषां
तो श्रीनिवासचरणों शरणं प्रपचे
यत्पादुकायमभृन्मकुटं महाही
साकेतराज्यभरणे भरतस्य पूर्वम् ।
यच्चिन्तनं च तरणिस्तरणे शुगव्धेः
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ४ ॥
श्रीनिवासमाला
३
यत्पांसुलेशलवलेशकणाणुलेश-
संपर्कतः किल सती ह्यमती बभूव ।
सा गौतमस्य सुदती च शिला प्रभूता
तौ श्रीनिवासचरणी शरणं प्रपद्ये
यत्सेवनाय भुवि केवलमात्मरक्ताः
जाना हि ने विविधयोनिषु देववर्याः ।
जाते हराविह भवेत्किमु कार्य मेषां
नौ श्रीनिवासचरणो शरणं प्रपद्ये
यद्वर्णनाय कमला कमलं प्रगृह्य
पार्वस्थितैव गणयन्त्यपि तद्गुणोघम् ।
॥६॥
श्रीनिवासमालो.
आस्ते नथैव सतनं बत निप्प्रयत्ना
नो श्रीनिवासचरणौ शरणं प्रपद्ये
यवर्णनाय कृतनैकशिरःप्रकम्पः
शोषस्सहस्रवदनैर्विहितप्रयत्नः ।
नान्नं व्रजन्नपि ययोर्न जहानि मूलं
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
यहचानविस्फुरदशेषविशेषबुद्धिः
विश्वं सृजत्यनिशमेव चतुर्मुखोऽपि ।।
यत्पृजनाय स हरोऽपि हरत्यशेष
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीनिवासमाला
।। १० ॥
यञ्चिन्तनामृतमहार्णवमग्नचित्ताः
भक्तास्सदैव भवदावभयात्प्रमुक्ताः ।
सङ्गाय सत्सु विहरन्ति च नै रमन्ने
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
ब्रह्मादिका अपि पुरन्दरपूर्वसर्व-
दिक्पालका अगि ययोः परिपूजनेन
स्वं खं पदं निहतकण्टकमेवमापुः
नौ श्रीनिवासचरणौ शरणं प्रपद्ये
यत्संस्मृतेनहि परः परमो विधिर्वा
यद्विस्मृतेनहि वरोऽस्ति परो निषेधः ।
॥ ११ ॥
श्रीनिवासमाला
नृणां विशुद्धसुखदानचणौ विमुक्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्य ॥ १२ ॥
दोषान् विभिद्य मनसस्तदपि स्ववश्यं
कृत्वाऽऽत्मनिश्चयमतिं च रतिं च दातुम् ।
वजाङ्कुशध्वजसरोरुहशोभमानौ
तो श्रीनिवासचरणौ शरणं प्रपद्ये ॥ १३ ॥
सम्पद्ययोः स्मरणमेव हि सज्जनानां
आपच्च विस्मरणमाहुरसजनानाम् ।
याभ्यां द्वयोर्नियतमेव सुखं च दुःखं
तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥१४॥
श्रीनिवासमाला ॥ १५ ॥ यद्वन्दनं भवनि सम्पदवाप्तिहेतुः यत्संनुतिर्भवति भक्तिविवृद्धिहेतुः । यच्चिन्तनं भवति बन्धविमोक्षहेतुः तौ श्रीनिवासचरणौ शरणं प्रपद्य कर्मेन्द्रियाणि निखिलान्यपि यत्पराणि ज्ञानेन्द्रियाण्यपि सदैव हि यद्गतानि । चित्तं च धीश्च सकलं महतां यदर्थं तौ श्रीनिवासचरणौ शरणं प्रपद्ये नेत्रे सतां यदवलोकनजागरूके श्रोत्रे यदीनमहिमश्रवणोत्सुके च ।
श्रीनिवाममाला
८
॥ १७ ॥
गात्रं यदर्चकजनान परिरब्धुमेव
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
घ्राणं यदर्पितसरोजसुगन्धलुञ्चं
जिह्वा यदीयतुलमीस्पृहयालुरास्ने ।
धीर्यद्विचारचपला महतां सदैव
नौ श्रीनिवासचरणौ शरणं प्रपद्ये
हस्तौ यदर्चनरतौ महतां सदैव
पादौ प्रदक्षिणविधौ निरतौ ययोश्च ।
बाचोऽपि यत्र विहरन्ति यथाविनोदं
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥१८॥
॥ १९ ॥
श्रीनिवासमाला
॥ २० ॥
यत्रैव हंसकवरौ मणिनूपुराभ्या-
मागुल्फलम्बिकनकाम्बरमाश्लिपन्तौ ।
उच्चैः स्वसिञ्जितमिषात् स्तुवतस्सदैव
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
यावेव योगिहृदयान्तरवर्तमानौ
तत्रत्यमोहनिमिरं नखचन्द्रिकाभिः ।
दुर्वारमाशु परिहृत्य विभासमानौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
रक्तौ स्वयं ह्यपि पुनर्नखकान्तियुक्तो
लाक्षारसैरपि रमाकरपद्ममुक्तैः ।
॥ २१ ॥
श्रीनिवासमाला
१०
॥ २२ ॥
सिक्ती जपाकुसुमगुच्छसमच्छवी यौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
ताकपारसझरीपरिपूरितस्य
वक्त्राम्बुजोत्थदरहासरुचा युतस्य ।
ताडकटाक्षनिचयस्य सुयोगहेतू
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कण्ठस्थकौस्तुभमणिद्युमणिप्रकाश-
विद्योतमानवसनाभरणात्मरूपा ।
यन्नूपुरौ स्पृशति सा नववन्यमाला
तौ श्रीनिवासचरणी शरणं प्रपद्ये
॥ २३ ॥
॥ २४ ॥
श्रीनिवासमाला
११
॥ २५ ॥
भास्वकिरीटमणिकुण्डलहारकाञ्ची-
केयूरमुख्यवरभूषणभूषितस्य ।
रूपस्य तस्य बत यौ परमानुरूपौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
तस्यातपत्रयुगलस्य शशिप्रभस्य
यौ तस्य चामरयुगस्य महाद्भुतस्य ।
तस्य प्रसन्नवदनस्य च युक्तरूपो
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
यो पारिजातहरणाय रणाय बाण-
भौमादिभिर्झडिति खे जयति प्रयाणे ।
॥ २६ ॥
श्रीनिवासमाला
१२
॥ २७ ॥
स्कन्धे विरेजतुरलं विनतासुतस्य
तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥
भूमौ बलेन सह दिग्विजयोत्सवे च
ह्यन्तःपुरेण सह बन्धुगृहोत्सवे च ।
दिव्ये रथे ऽतिविभवैस्समलतौ यौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥
नक्रेण साधु चरणेऽम्भसि सगृहीतं
श्रान्तं गजेन्द्रमवितुं त्वरया प्रयातुम् ।
आरुह्य नार्यमपि न स्तिमितं हि याभ्यां
तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥
॥२८॥
॥ २९ ॥
श्रीनिवासमाला १३ प्रह्लादमार्तमुपलक्ष्य हिरण्यकेन व्याप्तया चराचरमये स्थितमत्र याभ्याम् । तद्रक्षणे क्षणविलम्बभिया दयाद्रौ तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥ ३० ॥ श्रान्तानिरीक्ष्य सहसा युधि पार्थरथ्यान् तेषां श्रमापनयनाय सुदूरमुाम् । याभ्यां प्रयातमरुणामलकोमलाभ्यां तौ श्रीनिवासचरणौ शरणं प्रपद्ये याभ्यां पितुर्वचसि गौरवमाप्य पूर्व पश्चाच्च गोषु कृपया किल दण्डकायाम् ।
१४ श्रीनिवासमाला ॥ ३२ ॥ वृन्दावने च चलितं सहजैन साकं तो श्रीनिवासचरणौ शरणं प्रपद्ये नीराजितौ निखिलराजकिरीटरन- रश्मिच्छटाभिरवनौ बहुवामिष्टौ । सद्रनचित्रितवरासनसन्निविष्टी तौ श्रीनिवासचरणौ शरणं प्रपद्ये मत्यैश्च मर्त्यविभवेन यथारखयोग्यं देवश्च देवविभवेन तथैव नित्यम् । लक्ष्म्या च पूर्णविभवेन सुपूज्यमानौ तौ श्रीनिवासचरणो शरणं प्रपद्ये ॥ ३३ ॥ ।। ३४ ॥
श्रीनिवासमाला १५ याभ्यां त्रिविक्रमतनौ भुवनत्रयं च । क्रान्तं सुखेन निमिषेण तदा यदेकः । उर्ध्वं प्रविश्य विधिवद्विधिनाऽर्चितोभूत तौ श्रीनिवासचरणौ शरणं प्रपद्ये पुण्या यदेकनखभिन्नसरोजनाण्ड- भाण्डोर्धरन्द्रनिमृता बहिरम्बुधारा । लोकान्विकम्पयति नित्यमनन्तरूपा तौ श्रीनिवासचरणौ शरणं प्रपद्ये नीराजितौ दिवि सदा विधिशर्वपूर्व- गीर्वाणवन्दमकुटीनवरत्नकान्त्या ।
१६
श्रीनिवासमाला
॥ ३७॥
सम्पूनितौ विविधमुक्तगणैः स्वलोके
नौ श्रीनिवासचरणौ शरणं प्रपद्ये
प्राणो हि वेद तदनुग्रहतोऽन्यदेवाः
वेदाश्चराचरगुरुभगवान्विधिश्च ।
श्रीश्च स्वयं च यदिमौ परमो क्रमेण
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीवेङ्कटोद्रियटिकाद्रिगजाद्रिभद्र-
तोताद्रिपुष्करमुखेपु महास्थलेषु ।
तहत्वभक्तहृदयेऽपि सदा चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रवद्ये
॥ ३८॥
or
श्रीनिवासमाला
१७
॥ ४० ॥
दिव्यौ चराचरजगहिरन्तरस्थौ
नित्यौ च निर्मलतरौ च गुणैश्च पूर्णौ ।
भव्यौ च भक्तिवशगौ च भवाब्धिपोतो
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
यौ पञ्चधाऽपि शतधाऽपि सहस्रवाऽपि
विश्वं प्रविश्य वहतः परतः परौ च ।
दूरेऽन्निके च निखिले च निरन्तरस्थौ
तौ श्रीनिवासचचरणौ शरणं प्रपद्ये
प्रहलादनारदपराशरपुण्डरीक-
व्यासाम्बरीपशुकशौनकभीष्मकायैः ।
॥ ४१ ॥
श्रीनिवासमाला
१८
॥ ४२ ॥
सम्पूजितौ सकलभागवतप्रधानः
तो श्रीनिवासचरणौ शरणं प्रपद्ये
गङ्गादितीर्थसलिलेषु वनेषु गोपु
गोवर्धनादिपु नगेषु मखेषु सत्सु ।
सर्वत्र सद्भिरनिशं प्रविचिन्त्यमानौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
सत्कर्मिणां त्रिदिवदौ चलसौख्यदौ च
दुष्कर्मिणां निरयदौ भृशदुःखदौ च ।
विज्ञानिनाममृतदौ निजसौख्यदौ च
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ४३ ॥
॥ ४४ ॥
श्रीनिवासमाला
१९
॥ ४५ ॥
तीर्थप्रसादमहिमैव ययोर्वचांसि
चेतांसि चातिमहतामतिवर्तते हि ।
किम्वात्मनोः सुरजसां महिमा तथेति
तो श्रीनिवासचरणौ शरणं प्रपद्ये
यत्पूर्णवर्णनविधौ कमलाऽपि नालं
ब्रह्मादयः किमु यदल्पनुतौ क्रमण ।
दक्षा नरषिवृषवीन्द्रविधिश्रियोऽमी
तौ श्रीनिवासचरणौ शरणं प्रपद्य
यत्रेन्दिरानयनभृङ्गमतीव रक्तं
सम्प्रेक्ष्य भूरपि तथाऽऽस दरस्मितश्रीः ।
॥ ४६॥
श्रीनिवासमाला
२०
॥ १७ ॥
तत्र त्रपैव निमिषं खलु सत्रपाऽभूत्
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
माकन्दपल्लवमनोज्ञतलप्रदेशौ
बालेन्दुसुन्दसुरक्तनखप्रकाशौ ।
श्रीभूकराम्बुजपुटोचितसन्निवेशौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कन्दर्पधौतशतचन्द्रसमानगुल्फो
तद्वाणराजिरमणीयनखाग्ररेखौ ।
तद्वीरवादसमनूपुरसिञ्जितौ यौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥४८॥
॥ ४९ ॥
श्रीनिवासमाला
२१
॥ ५० ॥
लीलागतेन विजिताः खलु राजहंसा
यत्रैव हंसकमिपेण सदा प्रसन्नाः ।
तन्मजसिञ्जितमिषेण जपन्ति मन्त्रान्
तो श्रीनिवासचरणों शरणं प्रपद्ये
वक्तेन्दुना विजित एष शशी निजाडैः-
राकाशशागकपणे गुळिकीभवद्भिः ।
यो सेवते नवमिषेण सुपण्यपूर्णः
तौ श्रीनिवासचरणो शरणं प्रपद्ये
दिव्यः सुवर्णकमलैः कमलैश्च रनैः
धातुः कराग्रपनितेस्तुलमीविमित्रैः ।
॥ ५१ ॥
श्रीनिवासमाला
२२
॥ १२ ॥
नित्यं त्रिवारमभितः स्फुरितवपीठौ
तौ श्रीनिवासचरणों शरणं प्रपद्ये
ताटङ्नखातिविशेषसुपूर्णसाम्यं
स्वायोग्यमाप्तुमनसो विधिनैव ताराः ।
बन्दीकृता इव ययोस्सविधे प्रदीप्ताः
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
यौ द्वौ सदा खननकाविति विष्णुपद्या
रूपद्वयेन वरचामरवेषभाना ।
पार्श्वद्वयेऽपि सततं परिसेव्यमानौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ५३ ॥
॥ ५४ ॥
श्रीनिवासमाला
२३
॥ ५५ ॥
चन्द्रो नखद्युतिजिताः स्वकलाश्च हुत्वा
वह्नयादिपु क्रमश एव रविं प्रविश्य ।
छत्रात्मनाऽऽस यदुपर्यमृताभिपूर्णः
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
सूर्योऽपि कौस्तुभमणिप्रभया प्रभग्नः
तत्तोऽधिकश्रियमपेक्ष्य सहस्ररूपः ।
यन्नूपुरौ शरणमाप मणीमिषेण
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
शुक्राोऽपि कर्णगतहारमणिप्रकाश-
मिच्छन् यदीयमणिनूपुरकिङ्किणीपु ।
॥ १६ ॥
श्रीनिवासमाला
२४
नृत्यं करोति हि मणीशकलच्छलेन
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
भौमोऽधरोष्टमणिकान्तिमभीप्समानो
यद्वक्त्रकोमलनलस्य करोति सेवाम् ।
भक्त्या ह्यलक्तकमिषेण सुरक्तरूपः
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
रेखामयानि रुचिराणि परिस्फुटानि
वज्राङ्कुशध्वजदरारिंगदाम्बुजानि ।
यद्रकोमलतले विमले जयन्ति
तो श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ५८॥
॥ ५९॥
श्रीनिवासमाला ॥ ६० ॥ भक्त्या सदैव भजतां महतां महाप मन्दोहशैलशकलीकरणाय वत्रम् । रेखामयं जयति यत्र तले नितान्नं तौ श्रीनिवासचरणौ शरणं प्रपद्ये मोक्षार्थिनां सुकृतिनां निजसेवकानां कामादिश्रुष्टभदवारणवारणाय । रेखामयोऽस्ति हि यदीयतले ऽङ्कुशश्च नौ श्रीनिवासचरणो शरण प्रपद्ये नित्यं निजाश्रितजनं ध्वजवत्करोमि ह्यत्युच्छ्रितं भुवि नृणामिति सूचनाय ।
श्रीनिवाममाला २६ ॥ १२ ॥ रेखाध्वजो जयति यत्तलगस्सदैव तौ श्रीनिवासचरणों शरणं प्रपद्ये संसारदावदहनातुरसज्जनानां तापच्छिदे जयति यतलशावरेखा । नामामृतं ह्यतिसुखेन मुखे प्रयोक्त तौ श्रीनिवासचरणौ शरणं प्रपद्ये छेत्तुं शिरांसि निजभक्तविरोधिनां द्राक् भेत्तुं तमो हृदयगं भुवि योगिनां च । चक्रं सदा स्फुरति यत्तलगं सुरेखं तौ श्रीनिवासचरणौ शरणं प्रपद्ये श्रीनिवासमाला संचूर्णनायसहसा शरणागतस्थ- हत्यादिदोषबहुकृत्रिमभूधराणाम् । रेखामयी जयति यतलगा गदाऽपि तौ श्रीनिवासचरणौ शरणं प्रपद्ये नित्यं ललन्तु सुखसारमयेर्मरन्दैः योगीशचित्तमथुपप्रकरा मुदनि । रेखाम्बुजं स्फुरति यत्तलग सदैव तो श्रीनिवासचरणों शरणं प्रपद्ये हन्तुं वियत्तलगतः शकटाक्षनामा दैत्यो महामृदुनरं शिशुलीलयव ।
श्रीनिवासमाला
२८
॥ ६७ ॥
याभ्यां हतो भुवि मृतोऽपनदेव पूर्व
नौ श्रीनिवासचरणौ शरणं प्रपद्ये
सा पूतना स्तनरसं गरलेन मिश्रं
दत्वाऽसुभिर्विरहिता बन यतलेन ।
शिप्ता बहिर्वनगताऽऽस सुगन्धदेहा
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कालीयपनगफणामणिपीठमध्ये
यद्यासुनबदनले सुरवाद्यचित्रम् ।
नृत्तं प्रवर्तितमभूत्तदिदं हि याभ्यां
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ६८ ॥
॥ ६९ ॥
श्रीनिवासमाला
॥ ७० ॥
कालीयनागमवलोक्य निसर्गवैरी
यल्लाञ्छितायतफणं फाणिराजमेनम् ।
तार्थ्यः करोति सततं बहुमानमेव
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
सन्मानसं विशति हंसवधूरिवाच्छं
यत्कीर्तिरन्जविमला स्मिततुल्यशीला 1
कान्तौ नखद्युतिभिरद्भुतनूपुराढ्यौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
व्याप्तया त्रयेऽपि जगनां स्वसुतायमाना
हृत्कर्णयोरपि सताममृतायमाना ।
॥ ७१ ॥
श्रीनिवासमाला
३०
॥ ७२ ॥
यत्कीतिरम्बुजभवाण्डमिदं पुनाति
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रोतुश्च वक्तरपि योगइतोनुभोगः
सा काकतालघटनैव ययोर्महिना ।
रम्यौ प्रवालसहशाङ्गुलिशोभमानौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
नीलो वयं वसनकान्तिबलेन पीतौ
श्वेतौ नखद्युतिभिरङ्गुलिभिः सुरक्तौ ।
सद्रत्नभूषणगणातिभिर्विचित्रौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ७४ ॥
श्रीनिवासमाला
३१
चेतः स्वभावतरलं विषयार्थि नित्यं
नानापथैर्द्रवति तस्य तथाविधैश्च ।
मार्गवंशीकरणमास्त्विति सर्वरूपौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीभूयुतौ सकललोकनमस्कृतौ च
सर्वार्चितौ सकलवैभवशोभितौ च ।
सर्वेष्टदौ च सकलार्तिहरौ शरण्यौ
तौ श्रीनिवसचरणौ शरणं प्रपद्ये
पुण्यौ पवित्रतरसद्गणकीर्तनौ च
तीर्थाश्रयौ विविधमुक्तजनाश्रयौ च ।
॥ ७६ ॥
श्रीनिवासमाला
३२
॥ ७७ ॥
पापापही च परमौ च तमः परौ च
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
सिन्धुर्यथा जयति सिन्धुरिवाभ्रचुम्बी
चन्द्रोयथा जयति चन्द्र इवातिकान्तः ।
यौ द्वौ तथैव बत याविव पूर्णकीर्ती
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कीर्तिर्ययोरमरसिन्धुरिवातिपुण्या
सा सिन्धुरप्यहह कीर्तिरिवातिपुण्या।
याभ्यां जगत्त्रयमिदं बहुधैव धन्यं
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ ७८॥
॥ ७९ ॥
श्रीनिवासमाला
३३
॥ ८० ॥
लक्ष्मीश केशव हरेच्युत पद्मनाभ
दामोदर क्रतुपते मधुसूदनेति ।
भक्तया सदैव वदनामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीमन्नधोक्षज जनार्दन वासुदेव
श्रीनारसिंह पुरुषोत्तम वामनेति ।
भक्तया सदेव वदतामभितश्चरन्नौ
तो श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीकृष्ण कृष्णसख वृष्णिकुलावतंस
नारायणामरगुरोऽजित माधवेनि ।
॥ ८१ ॥
श्रीनिवासमाला
॥ २ ॥
भक्तया सदैव वदतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
विष्णो त्रिविक्रम हृषीकपते मुरारे
गोविन्द गोकुलविहार परात्परेति ।
भक्तया सदैव वदतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
देवादिदेव गरुडध्वज हस्तशोभि-
शा सिचर्मदरचक्रगदाम्बुचेति ।
भक्तया सदैव वदताममितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
11८३ ॥
॥ ४ ॥
श्रीनिवासमाला
३५
॥ ८५ ॥
प्राणप्रिय प्रणतकल्पतरो कृपालो
श्रीवत्सशोभितभुजान्तर भूरिदेति
भक्तया सदैव वदतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीमत्स्यकूर्मवरसूकरनारसिंह
श्रीवामनात्तपरशो जय राघवेनि ।
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीकृष्ण बुद्ध वरकल्कितनो हयास्य
धन्वन्तरे कपिल दत्त हरे जयति ।
॥ ८६ ॥
श्रीनिवासमाला
३६
॥ ७ ॥
भक्तया सदैव वदतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रदद्ये
उद्यत्प्रभाकरशतायुतकोटिकोटि-
भ्राजकिरीटवरशोभितमस्तकेति ।
भक्तया सदैव वदतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कोटीरकान्तकुटिलालकशोभिफाल-
न्यस्तप्रशस्तमृगनाभिसुपुण्डकोनि ।
भक्तया सदैव वदनामभितश्चरन्तौ
तौ श्रीनिवासचरणो शरणं प्रपद्ये
॥ ८॥
श्रीनिवासमाला
३७
पार्श्वस्फुरत्कमलकैरवकान्तहस्त-
श्रीभूकटाक्षमधुपालिवृताननेति ।
भक्तया सदैव वदतामाभितश्चरन्नौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
कर्णप्रदीप्तमणिकुण्डलशोभिगण्ड
रक्ताधरोष्टपुटदीप्तदरस्मितेति ।
भक्तया सदैव भनतामनितश्चरन्ती
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
मााण्डकोटिसदृशद्युतिभासमान-
श्रीकौस्तुभाभरणशोभिनकन्धरेति ।
॥ ९१ ॥
श्रीनिवासमाला
३८
॥ ९२ ॥
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
केयूरकङ्कणसमुज्वलबाहुदण्ड-
संशोभिचक्रदरमुख्यवरायुधेति ।
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीवत्सलाञ्छन रमारमणीयवक्षः-
संशोभिहारतरलान्ततनूदरेति ।
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवसचरणौ शरणं प्रपद्ये
॥ १३ ॥
॥ ९४ ॥
श्रीनिवासमाला
३९
नानाचराचरविधायकजन्मदेश-
नाभीसरोज रमणीयसुभध्यमेति ।
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवाप्तचरणौ शरणं प्रपद्ये
विद्युत्सहस्रनिचयोपमरत्नकाञ्ची-
भावनितम्बजघनस्फुरितांशुकति ।
भक्तया सदैव भजतामभितश्चरन्तो
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
आगुल्फलंबिकनकाम्बरसंवृतोरु-
जान्वायतातुलसुवर्तुलजङ्घकेति ।
॥ ९६ ॥
श्रीनिवासमाला
॥ ९७ ॥
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
मात्रेप्रदर्शितनिजोदरविद्यमान-
नानाप्रपञ्च नरकार्णवतारणेति ।
भक्तया सदैव भजतामभितश्चरन्ती
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
जात्यन्धकेपि कृपया सुदृशं प्रदाय
खं विश्वरूपमुरु दर्शितवानसीति ।
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
।। ९८ ॥
॥ ९९ ॥
श्रीनिवासमाला कारुण्यसिन्धुरसि भक्तसुरद्रुमोऽसि सर्वोऽसि शर्वविनुनोऽसितरां जयेति । भक्तया सदैव भजतामभितश्चरन्तौ तौ श्रीनिवासचरणौ शरणं प्रपद्ये ।। १० ०० ॥ भक्तप्रियोऽसि भवबन्धविमोचकोऽसि ज्ञानप्रदोऽसि सुखदोऽसि हरे जयेति । भक्तया सदैव भजतामभितश्चरन्तौ तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥ १०१ ॥ पूर्णोऽसि पूर्णसुगुणोऽसि पुरातनाोऽसे मोक्षप्रदोऽसि भगवन् जय सर्वदेति ।
श्रीनिवासमाला
४२
॥ १०२ ॥
भक्तया सदैव भजतामभितश्चरन्तौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
श्रीवेङ्कटाचलतले बहुतीर्थसेव्ये
श्रीब्रह्मरुद्रमुखदेववरैकभाव्ये ।
व्यक्तौ सतामपि जगत्रितयप्रसक्तौ
तो श्रीनिवासचरणौ शरणं प्रपद्ये
छत्रध्वजव्यननचामरचर्मवेत्र-
पात्रप्रदीपशयनासनयानरूपैः ।
लक्ष्म्या सदैव परितः परिसेव्यमानौ
तौ श्रीनिवासचरणौ शरणं प्रपद्ये
॥ १०४ ॥
श्रीनिवासमाला ४३ पापोऽस्मि पापनिरतोऽस्मि सदाऽलसोऽस्मि हत्यादिदोषविषये निरपत्रपोऽस्मि । मूर्योऽस्मि मामवितुमन्यदितो नहीति तौ श्रीनिवासचरणौ शरणं प्रपद्ये पापं व्यपोहतुतरां जयतु स्वपुण्यं त्वदर्शके त्वयि च मे सुढाऽस्तु भक्तिः । दास्ये तवास्तु रातिरच्युत सर्वदेति तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥ १०६ ॥ त्वत्कीर्तके जगति माऽस्तु ममाभिमानः मत्स्वामिनि त्वयि सदैव ममारतु भक्तिः ।
श्रीनिवासमाला त्वत्प्रीतिरस्तु मयि मृत्यतमे सदेति तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥ १०७ ॥ जानामि नाहमहितञ्च हितञ्च सम्यक् सवज्ञमूर्तिरसि ते विदितं हि सर्वम् । मां सर्वदैव हित एव नियोजयेति तौ श्रीनिवासचरणौ शरणं प्रपद्ये ॥ १० ॥ योवेङ्कटार्यशरणागतिसारसानां तच्छ्रीनिवासचरणाब्नसमर्पितानाम्। अष्टोत्तरं शतमिदं हृदये सदैव मालाकृतं वहति भक्तियुतस्स धन्यः॥ ॥ इति श्रीवेङ्कटार्यविरचिता श्रीनिवासमाला समाप्ता ॥ जयालय यन्त्रे मुद्रिता, मैसूरु १९१४.
॥ श्री वरदराजाय नमः ॥
*श्री वरदराजस्तव प्रारम्भः
वेङ्कटाख्यो द्विजः कश्चित् षडरण्यकृतालयः।
भूपालप्रेष्यतां प्राप पोप्यपोषणतत्परः
काञ्चीमहोत्सवायासौ गन्तुमाज्ञां न लब्धवान् ।
बहुधा यतमानोऽपि राज्ञः कार्यकचेतसः
स तु काञ्ची रथाश्वादिवाहनैः प्रस्थितान् जनान् ।
आबालवृद्धमालोक्य भक्त्युद्रेकादिदं जगौ
॥२॥
श्री वरदराजस्तवः
२
अहो कष्टमहो कष्टं नराणां परवश्यता ।
यया वरदराजस्य न पश्यामि मुखाम्बुजम् ॥४॥
अहो सौख्यमहो सौख्यं नृणामपरवश्यता ।
यया वरदराजस्य पश्यन्त्येते महोत्सवम् ॥५॥
अहो वरदराजस्य ह्यतिरम्यो महोत्सवः ।
अहो सुजनसम्मर्दस्तत्र काञ्चयां महागुंणः
अहो सौभाग्यमेतेषां काञ्चयुत्सवनिषेविणाम् ।
अहो दौर्भाग्यमस्माकमद्य काञ्चीमपश्यताम् ॥७॥
भवेत्काञ्चीप्रदेशोऽद्य प्रजाश्रेणीभिरद्भुतः ।
सर्वतस्संपतन्तीभिर्नदीभिरिव सागरः ॥८॥
श्री वरदराजस्तवः
२.
अद्य काञ्ची महाधन्या धन्या वरदसेवया ।
मिलिता वैणिका यत्र गायन्ति नृहरेः कथाम् ॥९॥
अहो भाग्यमहो भाग्यं काञ्चयां निवसतां सताम् ।
येऽभ्यागतान् द्विजानस्मिन् भोजयन्ति महोत्सवे॥१०॥
अहो पुण्यमहो पुण्यमन्नदानां महोत्सवे ।
आहूयाहूय दास्यन्ति येऽन्नदानमनुत्तमम् ॥११॥
अहो धैर्यमहो धैर्य नृत्यतां सत्समागमे ।
दीनानां दानशौण्डानां काले मृष्टान्नदायिनाम् ॥ १२॥
अहो पुण्यमहो पुण्यं वदान्यानां महोत्सवे ।
पदेपदे प्रवर्षन्ति पात्रे देयानि येऽन्वहम् ॥ १३ ॥
श्री वरदराजस्तवः
अहो काञ्ची महाक्षेत्रं प्राप्यते यत्र दुर्गतैः ।
अल्पयत्नैर्महत्पुण्यमल्पपुण्यैर्महत्फलम् ॥१४॥
अहो काञ्ची महारम्या ह्युत्सवेऽत्र पुरस्त्रियः।
भूषयन्ति सदा हर्म्य श्रेणीवेणीमलताः
अद्य काञ्ची महारभ्या चन्द्रकान्त विनिर्मितैः ।
देवालयैस्सुबहुभिस्तीर्थोद्यानैः स्वलकृतैः ॥१६॥
अद्य काची माहारम्या वरदस्य महोत्सवे ।
स्वलतै राजमार्गहचत्वरतोरणैः ॥१७॥
अद्य काञ्ची महारम्या देवागमनकाङ्खिभिः ।
स्नातानुलिप्तैस्तद्भक्तैर्वस्त्राभरणशोभितैः ॥१८॥
श्री वरदराजस्तवः
५
अद्य काश्चयां प्रपश्यन्ति सन्तो वरदमन्दिरम् ।
परिवारसुरस्थानै इँकुण्ठमिव सुन्दरम् ॥ १९॥
पुण्यकोटिविमानाग्रदर्शनात्तेऽद्य दण्डवत् ।
पतन्ति परया भक्त्या प्रमोदाश्रुपरिप्लुताः ॥२०॥
अनन्तसरसि स्नाताः त्यक्तसर्वमनोमलाः ।
पश्यन्ति हस्तिशैलेऽद्य वरदस्य मुखाम्बुजम् ॥ २१ ॥
वरदस्याद्य पास्यन्ति वदनेन्दुसुधां सुखम् ।
तृषिता हृषितास्सन्तश्चकोरा इव चन्द्रिकाम् ॥ २२ ॥
ते धन्यास्ते पुनर्धन्यास्ते च धन्याः पुनःपुनः ।
येऽन्वहं वरदोपान्ते जीवन्ति जलवृत्तयः ॥ २३ ॥
श्री वरदराजस्तवः
aur
तेऽपि पुण्यतमा लोके वरदस्य मुखाम्बुजम् ।
महोत्सवेऽपि ये केचित्पश्यन्ति प्रतिवत्सरम् ॥ २४ ॥
धिङ्मामपुण्यं निर्लजं निजोदरनिषेविणम् ।
वसन्नपि न पश्यामि निकटेऽद्य महोत्सवम् ॥२५॥
ब्राह्मणानां वैष्णवानां सहस्राणां सहस्रकम् ।
अन्यत्र व नु पश्यामि विना काञ्चीमहोत्सवम् ॥२६॥
ताटङ्महोत्सवं द्रष्टुं तच्च सम्मेलनं सताम् ।
यातुं स्थातुमनीशोऽहमीश्वरेणैव वञ्चितः ॥ २७॥
अथवा स दयामूर्तिः करीन्द्रवरदोऽद्य माम् ।
सक्तं निजपदाम्भोजे भक्तं कथमुपेक्षते ॥ २८॥
श्री वरदराजस्तवः नैवोपेक्षा दयैवास्य मयि तत्पादलम्बिनि । स्वमुखं मनसा ध्यायन् कृतकृत्यो भवेदिति ॥ २९ ॥ अतस्तद्वदनाम्भोजं योगिध्येयमकल्मषम् । भावयाम्यद्य मनसा यथाशक्ति यथामति ॥३०॥ इति श्रीवरदराजस्तवे * पूर्वभागः समाप्तः *
श्री वरदराजस्तवः
८
* अथ उत्तरभागः
महति वेगवत्युत्तरे तटे करिगिरेरुपर्युत्तमासने ।
निवसतस्सतामर्थसिद्धये वरद तन्मुखं भावयामि ते
कमलजन्मना कञ्जनाभ य हृदयपञ्जरे धार्यते सदा ।
यदिह तन्मखे दृष्टिगोचरं वरद तन्मुखं भावयामि ते ॥२॥
वहति यद्दपागन्धमुत्तमं ह्यधरसंपुटे दिक्षु संततम् ।
स्मितमनोहरं पद्मसुन्दरं वरद तन्मुखं भावयामि ते ॥३॥
कलिमलापहं कामितार्थदं कुटिलकुन्तलं कोमलाधरम् ।
विपुललोचनं विश्वमोहनं वरद तन्मुखं भावयामि ते ॥ ४ ॥
श्री वरदराजस्तवः
प्रलयवारिधौ श्रीवटच्छदे पदनखत्विषा स्वोष्ठमीयुषा ।
यदतिसुन्दरं बालरूपिणो वरद तन्मुखं भावयामि ते ॥५॥
रहसि यच्छ्यिा प्रेमचुम्बितं सदसि वेधसा ह्यादरार्चितम् ।
मनसि योगिनां भावितं मुदा वरद तन्मुखं भावयामि ते ॥६॥
मनसि योगिनां ज्ञानसौख्यदं हृदि वियोगिनां शोकमोहदम् ।
अहह यस्मितं चन्द्रिकायने वरद तन्मुखं भावयामि ते ॥७॥
भुवनमोहनं सुभ्र सुन्दरं स्मितमनोहरं मजुभाषितम् ।
जलजलोचनं चारुनासिकं वरद तन्मुखं भावयामि ते ॥८॥
मलयमारुनानीनमल्लिकापरिमलोज्जले मासि माधवे ।
विजयतेतरां यन्महोत्सवे वरद तन्मुखं भावयामि ते ॥९॥
श्री वरदराजस्तवः
१०
विविधवाहनैर्दागहर्निशं बहुलवैभवैर्भूप्रदक्षिणम् ।
पुरि वितन्वतः श्रीमहोत्सवे वरद तन्मुखं भावयामि ते ॥१०॥
अलमलङ्कृतं छत्रचामरै रहह यद्दयुतिं स्वर्णमण्डपे ।
नयनकोटिभिर्नालमीक्षितुं वरद तन्मुखं भावयामि ते ॥११॥
मृगपतेर्निशि स्कन्धसीमनि झुडुपतेरिव श्रीतटित्वतः ।
भुवनतापनुज्जीवनास्पदं वरद तन्मुखं भावयामि ते ॥१२॥
हृदयरञ्जने हंसवाहने मणिविभूषणैश्शोभिताकतेः ।
जयति मन्मथोत्पादिनोऽद्य यद्वरद तन्मुखं भावयामि ते ॥१३॥
रविशशिप्रभामण्डलान्तरे स्फुरति यत्तटित्कोटिसुन्दरम् ।
सुरवरैर्मुदा सेव्यमद्भुतं वरद तन्मुखं भावयामि ते ॥१४॥
श्री वरदराजस्तवः
११
निशि समन्ततो दीपिकाऽयुतै रविशशिप्रभैर्व्यक्तवैभवम् ।
भुवि विमुक्तये भक्तसेवितं वरद तन्मुखं भावयामि ते ॥१५॥
खगपतौ मणीनूपुरस्फुरञ्चरणशोभया तत्करोरसोः ।
कलयतो नवां कामपि श्रियं वरद तन्मुखं भावयामि ते ॥१६॥
गरुडमस्तकन्यस्ततन्मणीमकुटकोटिसत्कौस्तुभश्रियः ।
विविधभूषणश्रीलसद्दिशो वरद तन्भुखं भावयामि ते ॥१७॥
निमिषमन्तरं दर्शनार्थिनां सदय काश्तश्चार्यमोदयम् ।
निलयगोपुरद्वारि तस्थुषो वरद तन्मुखं भावयामि ते ॥१८॥
क्षितिविशालयोश्चन्द्ररम्ययोः कनकदण्डयोश्छत्रयोरधः ।
उभयचामरैश्शोभतेऽद्य यद्वरद तन्मुखं भावयामि ते ॥१९॥
श्री वरदराजस्तवः
१२
जनमहार्णवे नाीनौकया सरसवीक्षणैः पौरयोषिताम् ।
विहरतो विभोश्चित्रिताङ्गया वरद तन्मुखं भावयामि ते ॥२०॥
नभसि खेचरैर्नारदादिभि (वि च भूसुरैर्वैणिकैर्मुहुः ।
मधुरया गिरा.गीतसौभगं वरद तन्मुखं भावयामि ते ॥२१॥
श्रुतिलसन्मणीकुण्डलत्विषा सततविस्फुरद्गण्डमण्डलम् ।
निटिलशोभितश्रीविशेषकं वरद तन्मुखं भावयामि ते ॥२२॥
रहसि पूतनास्तन्यपायिनो ह्यपि च गोपिकागव्यहारिणः ।
भवति यस्मिते संशयो नृणां वरद तन्मुखं भावयामि ते ॥२३॥
खरविघातिनो दण्डकावने विजयसुन्दरं यद्विलोचनम् ।
ऋषिजनानहो प्राग्व्यमोहय द्वरद तन्मुखं भावयामि ते ॥२४॥
श्री वरदराजस्तवः
१३
उभयपार्श्वगरापणै हैः ध्वजपताकिभिश्शोभिते पथि ।
निनजनाकुले न्यस्तचक्षुषो वरद तन्मुखं भावयामि ते ॥२५॥
निजकथानटद्दासमण्डलीसततसंगतापाङ्गया दशा ।
स्फुरति सस्मितं यत्कृपानिधे वरद तन्मुखं भावयामि ते ॥२६॥
गगनचुम्बितैर्वाद्यनिस्वनैः श्रवणमङ्गलैवेदनिस्वनैः ।
हृदयरञ्जकैर्गीतनिस्वनैः वरद तन्मुखं भावयामि .ते ॥२७॥
पथि जनार्पितैः पात्रसंस्थितैः सफलपुष्पकैरार्निदीपकैः ।
वियति सेव्यते यत्पदेपदे वरद तन्मुखं भावयामि ते ॥२८॥
प्रणमतां सतां दण्डवद्भुवि स्फुरति सादरं सर्वतो दिवि ।
कुशलटच्छकं यच्छचिस्मितं वरद तन्मुखं भावयामि ते ॥२९॥
श्री वरदराजस्तवः
१४
विधिपुरस्सरैः खस्थितैस्सुरैः यदिह सेव्यते निश्चलेक्षणैः ।
निटिलपाणिभिस्सच्चिदात्मकं वरद तन्मुखं भावयामि ते ॥३०॥
नयनरन्ध्रतो ह्यन्तरागतं हृदयवर्तिना चैक्यमागतम् ।
जयति यत्सतामद्य पश्यतां वरद तन्मुखं भावयामि ते ॥३१॥
युगपदद्य यत्पश्यतां सतां नयनबम्भरस्सेव्यते दिवि ।
वनजमद्वयं ह्येकमद्भुतं वरद तन्मुखं भावयामि ने ॥३२॥
त्रिपदसम्मितां याचितुं महीमहह योऽभवद्वामनो महान् ।
सपदि याचके भूरिदस्य भो वरद तन्मुखं भावयामि ते ॥३३॥
निगमहारिणं सोमकासुरं युधि निहत्य तान्वेधसे पुनः ।
अनघ यच्छतो मत्स्यरूपिणो वरद तन्मुखं भावयामि ते ॥३४॥
श्री वरदराजस्तवः
१५
अमृतमन्थने क्षीरवारिधेः पयसि मन्दरं भारविच्युतम् ।
सपदि बिभ्रतः कूर्मरूपिणो वरद तन्मुखं भावयामि ते ॥३५॥
प्रलयवारिधेरुद्धृता मही वियति लीलया येन दंष्ट्रया |
असुरघातिनः क्रोडरूपिणो वरद तन्मुग्वं भावयामि ते ॥३६॥
दुरितदूषणं दुष्टभीषणं विपुलवीक्षणं विश्वरक्षणम् |
नृमृगरूपिणो भक्ततोषणं वरद तन्मुखं भावयामि ते ॥३७॥
त्रिभुवनश्रियं नेतुमन्यतो बलिमुपेत्य यो गामयाचत ।
त्रिपदसम्मितां वामनाकृतेः वरद तन्मुखं भावयामि ते ॥३८॥
त्रिभुवनं पदाप्य तिष्ठतो बलिनितस्सतां विस्मयास्पदम् ।
विधिमुखार्चितैरद्भुतैस्त्रिभिः वरद तन्मुखं भावयामि ते ॥३९॥
श्री वरदराजस्तवः
१६
परशुना महीमर्जुनागसा विरहितां व्यधात् क्षत्रियैस्तु यः ।
अमितशौर्यधेर्भार्गवाकतेः वरद तन्मुखं भावयामि ते ॥४०॥
विरचितो महान् सेतुरम्बुधावपि हतो रणे रावणोऽनुगैः ।
अजित येन तद्रामरूपिणो वरद तन्मुखं भावयामि ते ॥४१॥
यदुकुलेन्दुना येन लालिता विधिमुखास्सुरा दुष्टशिक्षणैः ।
सुजनरक्षिणः कृष्णरूपिणो वरद तन्मुखं भावयामि ते ॥४२॥
कचन दुर्मतीन्मोहयन् जनान् सुभृशमद्भुतैः कर्मभिः स्वकैः ।
जगति योऽभवदुद्धरूपिणो वरद तन्मुखं भावयामि ते ॥४३॥
महति संकटे म्लेच्छसंगुते कलियुगेऽन्ततो यो भविष्यति ।
खलविदारिणः कल्किरूपिणो वरद तन्मुखं भावयामि ते ॥४४॥
२
श्री वरदराजस्तवः
१७
सुरनरोचितज्ञानसिद्धये श्रुतिगणान् बहूनेकराशिगान् ।
विभजतः पृथग्व्यासरूपिणो वरद तन्मुखं भावयामि ते ॥१५॥
विधिमुखार्चितो विश्वरक्षणं विविधवेषतस्साधु यो व्यधात् ।
विविधरूपिणोऽप्येकरूपिणो वरद तन्मुखं भावयामि ते ॥४६॥
क्वचन विश्रमायोपकल्पिते गगनचुम्बिते गाङ्गमण्डपे ।
विबुधसेवितं स्वर्गसन्निभे वरद नन्मुखं भावयामि ते ॥४७॥
उदयपर्वताकारशोभिनि स्फुरति भानुवद्यद्धनूमति ।
दिवसयन्निशां दीप्तिवैभवैः वरद तन्मुखं भावयामि ते ॥४८॥
विनयभूषितश्रीधराननातिविचित्रितापाङ्गवीक्षणम् ।
स्फुरति य दृशं शेषवाहने वरद तन्मुखं भावयामि ते ॥१९॥
श्रीवरदराजस्तवः
महितमोहिनीवेषधारिणो रुचिरभूषणैर्यानयायिनः ।
नवरसोज्जलं नाकिसेवितं वरद तन्मुखं भावयामि ते ॥१०॥
स्फुरति विद्रुमोदाममण्डपे मकुटसन्मणीमज़ुलातपे ।
यदतिसुन्दरं मोहनाकृतेः वरद तन्मुखं भावयामि ते ॥५१॥
गजतुरङ्गयोभूषिताङ्गयो रुपरि भास्वतस्सायुधैः करैः ।
असुरभीषणं भक्तहर्षणं वरद तन्मुखं भावयामि ते ॥५२॥
मिहिरशेखरे मेरुसुन्दरे भुवनभूषणे भूरिचक्रिणि ।
रथवरेऽद्य यत्सेव्यते बुधैः वरद तन्मुखं भावयामि ते ॥१३॥
उपवनान्तरे रङ्गमण्डपे द्विजकुलाकुले गीतनतनैः ।
शिशिरसेवया तुष्टचेतसो वरद तन्मुख भावयामि ते ॥५४॥
श्री वरदराजस्तवः
१९
परमशोभनं पुण्यकोटिगं परमयोगिनां ध्येयमद्भुतम् ।
द्यमणिभासुरं दिव्यरूपिणो वरद तन्मुखं भावयामि ते ॥१५॥
भुवनभासुरोशीरमण्डपे भुवनमोहनाकारशोभिनः ।
भवभयापहं भूरिसौख्यदं वरद तन्मुखं भावयामि ते ॥५६॥
विषयभावनालम्पटं मनो भवदवानले तप्तमञ्जसा ।
अमृतवारिधौ मजयनहं वरद नन्मुखं भावयामि ते ॥१७॥
असुरदुःखदं मोक्षदं सतां भवविनोदिनां मिश्रसौख्यदम् ।
तदपि यत्समं गीयते बुधैः वरद तन्मुखं भावयामि ते ॥१८॥
अथ विहारिणरतीर्थवारिणा निनमहोत्सवश्रान्तिहारिणा ।
परिजनैस्सह श्रीरमादिभिः वरद तन्मुग्वं भावयामि ते ॥१९॥
श्री वरदराजस्तवः
२०
स्फुरति यद्वरे रत्नमण्डपे कनकवाससा कान्तभूषणैः ।
वरकरायुधैर्वन्यमालया वरद तन्मुखं भावयामि ते ॥६॥
सुभृशमार्जितैर्जन्मकोटिभिः हृदि विभाव्यते पुण्यसञ्चयैः ।
यदिह साधुभिस्साधुसङ्गिभिः वरद तन्मुखं भावयामि ते ॥६१॥
शरदि वैभवैस्सत्सरोजले भुवमिवायतां मेरुभूषिताम् ।
रथयुतां नवां नावमीयुषो वरद तन्मुखं भावयामि ते ॥६२॥
सकलवैभवैस्तत्लवोत्सवे सरसि खेलतस्सर्वदैवतैः ।
नभसि शोभते यन्महेन्दुवत् वरद तन्मुखं भावयामि ते ॥६३॥
सह सुरैढिनैः पीतसद्रसैः सरसि सेव्यते यन्महेन्दुना ।
मलयमारुतेर्नक्तमप्यहो वरद तन्मुखं भावयामि ते ॥६४॥
श्री वरदराजस्तवः २१ निजगृहं पुनः प्राप्य शोभनं परिजनाहृतं श्रीकरार्चितम् । सरसभोजनं प्राप्य तुष्यतो वरद तन्मुखं भावयामि ते ॥६५॥ विकचमल्लिकादामशोभिते मगुरुधूपिनि श्रीकरार्पिते । शयनमण्डपे सन्निषीदतो वरद तन्मुखं भावयामि ते ॥६६॥ रहसि यत्पयःफेनसन्निभं शयनमद्भुतं प्राप्य पद्मया । व्यजनहस्तया सेव्यतेऽनिशं वरदतन्मुखं भावयामि ते ॥६॥ इत्थं वरदराजस्य मुखाम्बुजमनुत्तमम् । ध्यायन् परमया भक्त्या सोगात्तन्मयतां द्विजः ॥६८॥ इति वरदराजस्तवे उत्तरभागस्समाप्तः। इति श्री वेंकटसूरि विरचितो वरदराजस्तवस्समाप्तः ॥ -* श्रीकृष्णार्पणमस्तु *--- --
No text on this page.
॥ श्री गुरुभ्यो नमः ॥
-
* श्रीमज्जयतीर्थाष्टक प्रारम्भः *
श्रीमन्मध्वगुरूक्ततत्वमणिदीप्तयालोकनालोकदा
यहाणीमयबालभानुकिरणश्रेणी हृदन्तस्मताम्
मायावादमहान्धकूपपतितागम्या सदा भ्रानते
सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम ॥१॥
यस्यानुग्रहमन्तरा न मरुतो नापि श्रियो नो हरेः
कारुण्यं समुपैति जातु सुमनोऽप्यन्यप्रयत्नायुमैः ।
यद्योगे सुमतिं च भक्तिमतुलां मुक्तिं करे विन्दते
सोऽयं श्रीनयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम ॥२॥
श्रीमज्जयतीर्थाष्टकम् २ जाता यस्य वचोधुनी हरिपदाम्भोजादिवास्याम्बुजातू याता भर्गजटाटवीमिव गिरं व्याख्यामयीं धीमताम् । अन्तेवासिनि जन्हुनेव गुरुणा पीतोज्झिता पावनी सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम ॥३॥ वाणी व्योमतरङ्गिणीव विबुधश्रेणीमनोहारिणी वेणीवातुलपूर्णबोधकरुणासिन्धोस्सदकाश्रयः । क्षोणीवाद्भुतराजयुक्तिशरणा यस्यानवद्यात्मनः सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम तत्त्वानां ग्रहणे श्रुतिस्मृतिवचो नेत्रं निशा मुक्तता भाष्यं पार्वणमिन्दुबिम्बमुदधिस्तस्यास्पदं पूर्णधीः ।
श्रीमजयतीर्थाष्टकम्
३
सूक्तिर्यस्य शरद्विभाति विलसत्सद्यक्तिहंसावलिः
सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम
जीवाभेदमताहिदष्टमसुजनवातातिविच्छेदन-
प्रौढा गारुडमन्त्रराजिरकृतश्राद्धैर्दुरापा सदा ।
जाता न्यायसुधामिषेण महतां मोदाय यस्याननात्
सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम ॥६॥
पूर्णप्रज्ञसमक्षमुक्षजननो निष्णुर्वहन् भारती
तस्यैवादिगुरोर्मुखाद्यदपिबत्तद्भाप्यभावामृतम् ।
शेषावेशयुतो हिताय महतां वाचा ववर्षाद्य यः
सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम ॥ ७॥
श्रीमज्जयतीर्थाष्टकम्
४
॥८॥
श्रीमध्वेशपदाब्जमत्तमधुलिड् दोषाभ्रजञ्झानिलः
नानावादिकुतर्ककैरवरविः सतर्करत्नाकरः ।
यस्त्वक्षोभ्यकरामृताम्बुधिशशी सत्सेव्यभव्याकृतिः
सोऽयं श्रीजयतीर्थतीर्थचरणो भूयाद्विभूत्यै मम
एतद्वेङ्कटमूरिणा विरचितं टीकागुरोरष्टकं
भक्तानां शमदं मतिप्रचयदं मध्वेशकारुण्यदम् ।
यः प्रातः प्रयतः पठत्यनुदिनं सोऽभ्येति भूर्ति परा-
मत्रामुत्र च नात्र चित्रकलना प्रीतिर्गुरोहीदृशी
॥ इति श्रीमज्जयतीर्थाष्टकम्
-* श्री कृष्णार्पणमस्तु *-
॥९॥
॥ श्री गुरुभ्यो नमः ॥
-: श्रीमदभीष्टाष्टक प्रारम्भः :---
हरे मुरारे ऽच्युत दीनबन्धो रमेश लोकेश जगन्निवास ।
प्रसीद पादप्रणते मयि द्राक् दयानिधे त्वां शरणं गतोऽस्मि ॥१॥
पिता च माता च सखा च बन्धुः गृहं कलत्रं च सुतादिकं च ।
धर्मोऽर्थकामावमृतं च सर्व त्वमेव विष्णो मम सर्वकाले ॥२॥
न दारचिन्ता नहि भोगचिन्ता न भाग्यचिन्ता न च पुत्रचिन्ता।
न गेहचिन्ता नहि देहचिन्ता तवैव चिन्ताऽस्ति हरे ममाद्य ॥३॥
श्रीमदभीष्टाष्टकम्
२
धनं मनो वा स्वजनानुकूलचं दिनेदिने हीयत एव कालात् ।
अतोऽर्थयेऽद्यैव हरेऽर्चनं ते कपालवादेव सदाऽस्तु तन्मे ॥४॥
तवाच्युतोदारकथामृताब्धौ मनो विलीनं मम पुण्यपापे ।
यथा न गछेद्विषयाब्धिगम्ये तथा कुरुष्वाद्य हरे नमस्ते ॥५॥
हरौ चिदानन्दतनौ स्वबिम्बे विलग्नभावोऽन्यदतो न किंचित् ।
समीक्षमाणोऽचलदेहदण्डो यथा रमेऽहं नृहरे तथाऽस्तु
स्वबिम्बसंस्थं ह्यपुनर्बहिष्ठं प्रतीक्ष्य तं मां प्रकृतेर्गुणाद्याः ।
भवन्तु सर्वे शिथिला निराशा यदैव शून्यालयमत्कुणाद्याः ॥७॥
स्वकर्मनाशे गलिते च देहे स्वरूपभूतैर्निखिलेन्द्रियैश्च ।
कदा नु पूर्णात्मसुखानुभूतिश्चरामि मुक्तैस्सह विष्णुलोके ॥८॥
श्रीमदभीष्टाष्टकम् ३ पठेदभीष्टाष्टकमच्युताग्रे नटन्निदं वेङ्कटमूरिसूक्तम् । अहर्निशं यस्स हरेः प्रसादाद्विमुक्तसङ्गः स्वपदं प्रयाति ॥९॥ -- : इति श्रीवेङ्कटसूरिविरचित मभीष्टाष्टकं समाप्तम् : -* श्री कृष्णार्पणमस्तु *- ॥ श्रीमदभीष्टाष्टकं समाप्तम् ॥
No text on this page.